Shri Vidyarnava Tantra Sanskrit Devanagari Teil 1

Aus Yogawiki

Shri Vidyarnava Tantra – Sanskrit in Devanagari, Teil 1 enthält Śvāsa 1–9 des Pūrvārdha, der ersten Werkhälfte. Das „Meer der Sri Vidya“ lädt dazu ein, die Sprache einer vielgestaltigen spirituellen Überlieferung kennenzulernen: Mantra, Verehrung und die Beziehung zum Guru bilden wesentliche Zugänge.

Umfang dieser Seite: Kapitel 1–9. Die markierten Quellenprobleme und Auslassungen gehören zum Editionsbefund.

Diese Textseite ermöglicht das genaue Studium des Sanskrit. Historische Ritualvorschriften sind als Aussagen des Werkes zu lesen; ihre Wiedergabe ist keine persönliche Praxisempfehlung.

Navigation

Zur Ausgabe: Alle Textteile · 108 inspirierende Verse · Mantras und Formelregister

Deutsch: Teil 1 — IAST: Teil 1 — Devanagari: Teil 1

Devanagari: 1 (Kap. 1–9) · 2 (Kap. 10–14) · 3 (Kap. 15–19) · 4 (Kap. 20–23) · 5 (Kap. 24–27) · 6 (Kap. 28–31) · 7 (Kap. 32–35) · 8 (Kap. 36)

So nutzt du diese Textfassung

Die Devanagari-Fassung ermöglicht den unmittelbaren Vergleich mit der Sanskritschrift. Nutze Kapitel, Abschnitt und – wo angegeben – Druckseite gemeinsam zur Orientierung. Die IAST-Fassung hilft beim Abgleich einzelner Wörter; die deutsche Übersetzung erläutert ihren Zusammenhang. Wiederholte Verszahlen gehören häufig zu verschiedenen Zitatreihen und sind deshalb nicht stillschweigend zusammenzuziehen.

Für diesen Teil mit Kapitel 1–9 stehen die passenden Übersetzungs- und Sanskritteile unmittelbar in der Navigation. Wähle beim Wechsel der Fassung denselben Abschnitt; die Grenzen der Dateien sind aus Umfangsgründen unterschiedlich gesetzt.

Textgrundlage und Lesehinweise

Wiedergegeben wird der entsprechende Abschnitt des Muktabodha-E-Textes M00217, śrīvidyārṇavatantra, mit der Verfasserangabe Śrīvidyāraṇyayati. Der Dateikopf nennt Ram Chandra Kak und Harabhatta Shastri als Herausgeber sowie Varanasi Tantrika Text Series, Varanasi 1947. Diese Angaben sind aus dem E-Text übernommen; sie wurden nicht mit einem Titelblatt abgeglichen.

Elektronische Erfassung: Mitarbeitende des Muktabodha Indological Research Institute unter Leitung von Mark S. G. Dyczkowski. Der E-Text nennt Creative Commons BY-NC 4.0 als Lizenz. Die vorliegende Bearbeitung entfernt technische Kopf- und Seitenzeilen und ergänzt MediaWiki-Formatierung, Kapitelüberschriften und Leserführung. Die Sanskritlesungen werden nicht stillschweigend verbessert. Klammern, Fragezeichen, Sternchen und Varianten der Vorlage bleiben erhalten. Diese Fassung ist keine neue kritische Edition.

Verszählungen und unnummerierte Prosa folgen der Vorlage. In Zitaten kann die Verszählung neu beginnen; solche Nummern sind zusammen mit dem jeweiligen Abschnitt zu lesen. Die vier IAST- und acht Devanagari-Teilseiten umfassen zusammen Śvāsa 1–36 mit den jeweils gekennzeichneten Auslassungen. Die zweite Werkhälfte beruht auf der gesonderten Druckgrundlage des Uttarārdha.

Tripurasundari: die Göttin der Sri Vidya.

1. Śvāsa

उद्यत्सूर्यसहस्रभास्वरतनुः सूक्ष्मातिसूक्ष्मा परा विद्युत्पुञ्जनिभेन्दुकोटिसदृशी धामत्र्याध्यासिनी ।
तत्तेजस्त्रितयात्मकैक (मुनि ? मनु) भिर्वाक्कामशक्त्याख्ययुक्कूटैस्त्र्यब्धिशरर्तुभिः परिणता नित्यात्मिका पातु वः ॥ १-१ ॥

या श्रीमधुमती शक्तिर्जगच्चैतन्यरूपिणी ।
सा स्तान्मे पुरतो नित्यं मालिनी विश्वविग्रहा ॥ १-२ ॥

मतद्वयं समालोड्य तत्सङ्कीर्णभिया पृथक् ।
प्रकाश्यते परातन्त्रं मया विद्यार्णवाभिधम् ॥ १-३ ॥

मधुमत्या महादेव्यास्तादात्म्यं कादिसंज्ञकम् ।
कालीमतं तु मालिन्यास्तादात्म्यं तान्त्रिका विदुः ॥ १-४ ॥

षट्त्रिंशद्व्यञ्जनैर्मूलभूतैः शिवमयैः पृथक् ।
षोडशस्वरसंभिन्नैः पूर्णमण्डलसंज्ञकैः ॥ १-५ ॥

षट्त्रिंशद्गुणितैः सिद्धकालनित्यास्वरूपकैः ।
नवात्मकैर्व्याप्तिभेदाद् द्विगुणीकृतविग्रहैः ॥ १-६ ॥

तद्द्वैगुण्यमयैस्तत्त्वैर्यन्त्रैस्तद्द्विगुणीकृतैः ।
तत्तद्भेदैर्भिन्नमूर्तिः प्रोक्ता वेदप्रकारिका ॥ १-७ ॥

षट्त्रिंशत्तत्त्वसम्पूर्णा सर्वमन्त्रफलप्रदा ।
देवी मधुमती या तत्तादात्म्यं कादिसंज्ञकम् ॥ १-८ ॥

आम्नायसमयापञ्चपञ्चिकापीठदर्शनैः ।
उत्पत्तिस्थितिसंहारभेदैर्वृन्दमयैः स्तुता ॥ १-९ ॥

मालिनी कथ्यते या तत्तादात्म्यं कालिकामतम् ।
मतद्वयपरिज्ञानाच्छिवतुल्यो भवेन्नरः ॥ १-१० ॥

कालतत्त्वमतव्याप्तिसम्प्रदायाङ्गभावनाः ।
स्थूलसूक्ष्मपरोपाङ्गबीजशक्त्यर्णपल्लवान् ॥ १-११ ॥

तत्तत्क्रमं तदाचारं तदुत्पत्तिं तदर्चनम् ।
गुरुतः शास्त्रतो ज्ञात्वातत्तत्कर्मण्यतन्द्रितः ॥ १-१२ ॥

आद्यन्तमध्यरहित आदिमध्यान्तसंयुतः ।
अनादितत्त्वसंशोधी परतन्त्रस्वतन्त्रवित् ॥ १-१३ ॥

विदध्याद्यजनं देव्याः फलं स्यादन्यथान्यथा ।
गुरुक्रममविज्ञाय पूजयेद्यः परां शिवाम् ॥ १-१४ ॥

सा पूजा निष्फला ज्ञेया भस्मन्यर्पितहव्यवत् ।
तस्माद्यत्नेन विज्ञेया मूलाद् गुरुपरम्पराम् ॥ १-१५ ॥

ज्ञात्वा गुरुमुखान्नित्यं सम्प्रदायमतन्द्रितः ।
प्रत्यहं स्मरणं कुर्यान्मन्त्रवीर्यस्य सिद्धये ॥ १-१६ ॥

ऊर्ध्वाम्नायक्रमेणैव कामराजक्रमे तथा ।
लोपामुद्रा क्रमे चैव सामान्यक्रम एव च ॥ १-१७ ॥

विद्यावतारविद्याप्तिकुलानां गुरुसन्ततिम् ।
पञ्चायतनदीक्षायां पञ्चाम्नायमनुष्वपि ॥ १-१८ ॥

मतद्वयविधौ ज्ञात्वा तत्साङ्कर्यं च यत्नतः ।
कुरुते भजनं देव्याः सोऽभीष्टफलमश्नुते ॥ १-१९ ॥

अन्यथा कुरुते पूजां साभिचाराय कल्पते ।
पराप्रासादमन्त्रश्च श्रीविद्या षोडशाक्षरी ॥ १-२० ॥

कालिका दक्षिणा चैव मालिनी श्रीगुरोर्मनुः ।
चरणं नवनाथाश्च मूलविद्याश्च षोडश ॥ १-२१ ॥

आधारषट्कविद्याश्च संविद्देव्यस्तथैव च ।
चतुःषष्टिर्महामन्त्रा ऊर्ध्वाम्नाये व्यवस्थिताः ॥ १-२२ ॥

एतेषां स्मरणान्मर्त्यः शिवतुल्यो भवेत्क्षणात् ।
गुरुक्रमश्च ज्ञातव्यो मन्त्रसिद्धिमभीप्सुभिः ॥ १-२३ ॥

ईशानाख्यस्तत्पुरुषश्चाघोरश्च ततः परम् ।
चतुर्थो वामदेवश्च सद्योजातश्च पञ्चमः ॥ १-२४ ॥

एते पञ्चैव दिव्यौघाश्चादिनाथस्ततः परम् ।
अन्नदिनाथः परतोऽनामयश्च ततः परम् ॥ १-२५ ॥

अनन्तानन्दनाथश्च चिदाभासस्तथैव च ।
एते पञ्चैव सिद्धौघाः प्रथमस्तु परेश्वरः ॥ १-२६ ॥

विश्वेश्वरो द्वितीयश्चापरो हंसेश्वरस्ततः ।
सम्वर्त्तेश्वरसंज्ञश्च ततो द्वीपेश्वरस्ततः ॥ १-२७ ॥

नवात्मेश्वरसंज्ञश्च मानवौघाः षडीरिताः ।
एते कुलाभिधा ज्ञेया गुरवः कुलमार्गगाः ॥ १-२८ ॥

कुलशिष्यावताश्चैव कुलमन्त्रार्थवेदिनः ।
कुलासनोपविष्टाश्च कुलतन्त्रपरायणाः ॥ १-२९ ॥

कुलालिङ्गनसम्भिन्नमुञ्चिताशेषतामसाः ।
महारसरसोल्लासनिमग्नाः कुलसंयुताः ॥ १-३० ॥

दशहस्ताः पञ्चमुखा मुण्डमालाविभूषिताः ।
उद्यत्सूर्यसहस्राभाः पूर्णान्तःकरणोद्यताः ॥ १-३१ ॥

खड्गं खेटं कपालं च त्रिशूलं मुद्गरं तथा ।
खट्वाङ्गं शरचापौ च दधानाश्च वराभये ॥ १-३२ ॥

तुरीये यामिनीयामे कुण्डलिन्यां महौजसि ।
ते विसर्गादधोभागे लाक्षारससमप्रभे ॥ १-३३ ॥

चिन्तनीयाः प्रयत्नेन विद्यासंसिद्धिहेतवे ।
एतान् कुलगुरून् यत्नान्न चिन्तयति साधकः ॥ १-३४ ॥

तस्य पूजा जपश्चैव स्नानदानादिकं वृथा ।
एतान् कुलगुरून् ध्यायेदूर्ध्वाम्नाय उदीरितान् ॥ १-३५ ॥

प्रज्ञा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
इच्छा ज्ञाना क्रिया चैव कुण्डली मातृका परा ॥ १-३६ ॥

एकादशैते दिव्यौघा आदिनाथस्ततः परा ।
अचिन्त्यनाथोऽचिन्त्या च अव्यक्तोऽव्यक्तिका ततः ॥ १-३७ ॥

कुलेश्वरः कुलेशी च सिद्धौघा नागसंख्यकाः ।
तूष्णीशश्चैव सिद्धा च मित्रः कुब्जा ततः परम् ॥ १-३८ ॥

गगनश्चाटुली चैव चन्द्रगर्भस्ततः परम् ।
वालिभागी च मुक्तश्च महिला ललितस्ततः ॥ १-३९ ॥

शङ्खा श्रीकण्ठसंज्ञश्च श्रीकण्ठा च परेश्वरः ।
परेश्वरी कुमारश्च सहजा रत्न एव च ॥ १-४० ॥

ज्ञानदेवी ततो ब्रह्मा नादिनी चाप्यजेश्वरः ।
महिला च प्रतिष्ठश्च सहजा शिव एव च ॥ १-४१ ॥

प्रतिमा च चिदानन्दः सहजा च तथैव च ।
श्रीकण्ठानन्दविद्ये च शिवश्च सहजा ततः ॥ १-४२ ॥

सोमश्च सहजा चैव संविच्च सहजा ततः ।
विबुधो विबुधा चैव भैरवो भैरवी तथा ॥ १-४३ ॥

आनन्दो नन्दिनी चैव ततः कामेश्वराभिधः ।
कामेश्वरो च कमलः सहजा जिनयुग्मकाः ॥ १-४४ ॥

मानवौघाः स्मृता एते वराभयकराम्बुजाः ।
विद्यावतारगुरवो न्यस्तव्या गगनाम्बुजे ॥ १-४५ ॥

एते प्रोक्ताश्च गुरवो विद्यायाः शाम्भवक्रमे ।
व्योमातीता च व्योमेशी व्योमगा व्योमचारिणी ॥ १-४६ ॥

व्योमस्था चैव दिव्यौघाः पञ्चाम्बाः परिकीर्तिताः ।
उन्मनाः समनाश्चैव व्यापिका शक्तिरेव च ॥ १-४७ ॥

ध्वनिश्च ध्वनिमात्रानाहता बिन्दुस्ततः परम् ।
बिन्दुश्चाकाशशब्दान्तः सिद्धौघा नवसंख्यकाः ॥ १-४८ ॥

परमात्मा शाम्भवश्च चिन्मुद्रो वाग्भवस्ततः ।
लीलश्च सम्भ्रमश्चैव चित्प्रसन्नस्तथैव च ॥ १-४९ ॥

विश्वश्चैते मानवौघा नवसंख्या प्रकीर्तिताः ।
विद्याया गुरवश्चैव ऊर्ध्वाम्नायक्रमस्य च ॥ १-५० ॥

षोडश्युपासकश्चैतान् नवपंक्तिक्रमाद्यजेत् ।
देव्याः पृष्ठप्रदेशे तु विश्वान्ते स्वगुरुक्रमम् ॥ १-५१ ॥

कपिलोऽत्रिर्वसिष्ठश्च सनकश्च सनन्दनः ।
भृगुः सनत्सुजातश्च वामदेवश्च नारदः ॥ १-५२ ॥

गौतमः शुनकः शक्तिर्मार्कण्डेयश्च कौशिकः ।
पराशरः शुकश्चैवाङ्गिराः कण्वस्तथैव च ॥ १-५३ ॥

जाबालिश्च भरद्वाजो वेदव्यासस्तथैव च ।
ईशानो रमणश्चैव कपर्दी भूधरस्ततः ॥ १-५४ ॥

सुभटो जलजश्चैव भूतेशः परमस्ततः ।
विजयो भरतश्चैव पद्मेशः सुभगस्ततः ॥ १-५५ ॥

विशुद्धः समरश्चैव कैवल्यश्च गणेश्वरः ।
सुपाद्यो विबुधो योगो विज्ञानोऽनङ्गविभ्रमौ ॥ १-५६ ॥

दामोदरश्चिदाभासश्चिन्मयश्च कलाधरः ।
वीरेश्वरश्च मन्दारस्त्रिदशः सागरो मृडः ॥ १-५७ ॥

हर्षः सिंहश्च गौडश्च वीरोऽघोरो ध्रुवस्ततः ।
दिवाकरश्चक्रधरः प्रमथेशश्चतुर्भुजः ॥ १-५८ ॥

आनन्दभैरवो धीरो गौडः पावक एव च ।
पराशर्यः सत्यनिधी रामचन्द्रस्ततः परम् ॥ १-५९ ॥

गोविन्दः शङ्कराचार्य एकसप्ततिसंख्यकाः ।
शङ्कराचार्यशिष्याश्च चतुर्दश दृढव्रताः ॥ १-६० ॥

देव्यात्मनो दृढात्मानो निग्रहानुग्रहक्षमाः ।
शङ्करः पद्मपादाख्यो बोधो गीर्वाण एव च ॥ १-६१ ॥

आनन्दतीर्थानामा च पञ्चैते भिक्षवः स्मृताः ।
सुन्दरो विष्णुशर्मा च लक्ष्मणो मल्लिकार्जुनः ॥ १-६२ ॥

त्रिविक्रमः श्रीधरश्च कपर्दी केशवस्ततः ।
दामोदर इति ख्याता गृहिणो * *? संख्यकाः ॥ १-६३ ॥

मठपीठोपपीठाधिपत्ययुक्तान्त्यदीक्षिता ।
अन्त्येष्टिकृच्छङ्कराख्या * * * *? मसंयुता ॥ १-६४ ॥

देवात्मनः शङ्करस्य विख्याता शिष्यसन्ततिः ।
पद्मपादस्य षट् शि * *? ण्डलः परिपावकः ॥ १-६५ ॥

निर्वाणो गीर्धनश्चैव चिदानन्दः शिवोत्तमः ।
विविक्ताश्रमिणो धीरा मौनिनस्त्यक्तमत्सराः ॥ १-६६ ॥

विचरन्ति तथा लोके तत्तच्छिष्यपरम्पराः ।
बोधस्य बहवः शिष्या विविधा भुवि केरले ॥ १-६७ ॥

गीर्वाणेन्द्रस्य वै शिष्यो विद्वद्गीर्वाण एव च ।
तच्छिष्योः विबुधेन्द्रः स्यात्सुधीन्द्रो विबुधस्य च ॥ १-६८ ॥

तच्छिष्यो मन्त्रगीर्वाणस्ततः स्युर्विविधा नराः ।
आनन्दतीर्थनाम्नश्च शिष्याः स्युर्गृहिणो भुवि ॥ १-६९ ॥

आराध्यपादुकापीठसम्प्रदायविदो भुवि ।
सुन्दराचार्यशिष्यास्तु विविधाः पीठनायकाः ॥ १-७० ॥

भिक्षवो गृहिणः सर्वे सुन्दर एव पीठके ।
श्रीविष्णुशर्मणः शिष्यः प्रगल्भाचार्यपण्डितः ॥ १-७१ ॥

तच्छिष्येण मया प्रोक्ते ग्रन्थेऽस्मिन् पूर्णतां गते ।
आविरासीज्जगद्धात्री महामाया ममाग्रतः ॥ १-७२ ॥

इति प्रोवाच भो वत्स वृणीष्व वरमीप्सितम् ।
तदोक्तवानहं मातर्मत्कृतं ग्रन्थमुत्तमम् ॥ १-७३ ॥

दृष्ट्वा गुरुक्रमं मन्त्रान् गुरुत्वेन विभाव्य माम् ।
दीक्षां विनापि भक्त्या तु ये जपन्ति च साधकाः ॥ १-७४ ॥

तेषामतितरां सिद्धिर्भवत्विति ममेप्सितम् ।
सुप्रसन्ना तदा देवो तत्तथैव भवत्विति ॥ १-७५ ॥

वरं दत्त्वा मुदाप्यन्तर्हितातो गुरुसन्ततेः ।
ज्ञानामात्रेण सा देवी तुष्टा भवति निश्चयात् ॥ १-७६ ॥

जगद्गुरोः शङ्करस्य शिष्यो लक्ष्मणदेशिकः ।
लोके विख्यातिमारूढस्तपसा विद्यया श्रिया ॥ १-७७ ॥

प्राप्यावस्थां तुरीयां तु वीतरागो महीतले ।
विचरन् प्रौढदेवस्य राजधानीं समाश्रितः ॥ १-७८ ॥

प्रौढस्तस्मै ददौ वेश्मभूषान्नपरिचारकान् ।
एकदा तत्सभामध्ये तस्मिस्तिष्ठति लक्ष्मणे ॥ १-७९ ॥

नानावस्तूनि वस्त्राणि राज्ञे (दद्यु?ददु) रुपायनम् ।
द्वीपान्तरात् समानीय वाणिज्ये ये नियोजिताः ॥ १-८० ॥

राजा ददौ लक्ष्मणाय तानि वस्त्रण्यनेकशः ।
समादाय निजागारे लक्ष्मणो देशिकोत्तमः ॥ १-८१ ॥

कुण्डे विध्युक्तमार्गेण वह्निं संस्थाप्य यत्नतः ।
तानि वस्त्राणि हुतवान् देव्यात्मा भक्तिभावतः ॥ १-८२ ॥

तच्छुत्वा प्रौढदेवोऽपि वैपरीत्यं हृदि स्मरन् ।
पुनर्दास्यामि वासांसि मूल्यं कृत्वाद्य यत्नतः ॥ १-८३ ॥

इत्युक्त्वा प्रेरितो दूतो वस्त्रार्थं लक्ष्मणान्तिके ।
तदा स क्रोधचित्तः सन् राज्ञे शापं ददौ तदा ॥ १-८४ ॥

निर्वंशो भवतु प्रौढो ब्रह्मस्वस्यापहारकः ।
इति वासांसि देवीती याचयित्वा पुनर्ददौ ॥ १-८५ ॥

ततस्तन्नगरं त्यक्त्वा गतोऽसौ दक्षिणापथम् ।
तदोद्विग्नमनाः प्रौढः स देश लक्ष्मणस्य तु ॥ १-८६ ॥

प्राप्य तं प्रार्थयामास मयि देव कृपां कुरु ।
इति तुष्टमना विप्रः प्रोवाच वच उत्तमम् ॥ १-८७ ॥

राजन् मम वचो लोकेऽप्यमोघं तन्निबोधय ।
तथापि तव भक्त्याहं सन्तुष्टः सन् ब्रवीमि ते ॥ १-८८ ॥

भविष्यति तवापत्यं तत्सुखं न भविष्यति ।
तच्छ्रुत्वा प्रमना राजा गतो निजपुरं प्रति ॥ १-८९ ॥

ततः काले व्यतीते तु प्रौढदेवो महीपतिः ।
अन्तर्वत्न्यां स्वभार्यायामापन्नः पञ्चतां गतः ॥ १-९० ॥

ततस्तद्राज्यभारं तु (गृ ? ग्रा) हितोऽस्मि प्रजार्थितः ।
अर्ककोटिसहस्रेण द्रव्येण महदद्भुतं ॥ १-९१ ॥

श्रीविद्यानगरं नाम्ना श्रीचक्रा रसमुज्ज्वलम् ।
निर्माय प्रौढदेवस्य पुत्रे राज्यार्हतां गते ॥ १-९२ ॥

तमम्बदेवं भूपालमुपवेश्य नृपासने ।
तदाज्ञया तत्सदसि विद्वद्भिर्विमलार्थिभिः ॥ १-९३ ॥

सम्प्रार्थितोऽहमम्बाया आज्ञामासाद्य यत्नतः ।
नानातन्त्राणि संशोध्य यामलानि च सर्वशः ॥ १-९४ ॥

मतद्वयं समालोड्य ग्रन्थं विद्यार्णवाभिधम् ।
मुदा रचितवानस्मि लोकानामुपकारकम् ॥ १-९५ ॥

मल्लिकार्जुनसंज्ञस्य शिष्या विन्ध्यप्रदेशके ।
त्रिविक्रमस्य वै शिष्याः श्रीजगन्नाथदेशके ॥ १-९६ ॥

गौडमैथिलबङ्गालदेशे वै श्रीधरस्य तु ।
काश्ययोध्याप्रदेशेषु शिष्याः ख्याताः कपर्दिनः ॥ १-९७ ॥

सम्प्रदायो हि नान्योऽस्ति लोके श्रीशङ्कराद्बहिः कादिशक्तिमते तन्त्रं तन्त्रराजं सुदुर्लभम् ॥ १-९८ ॥

मातृकार्णवसंज्ञं तु त्रिपुरार्णवसंज्ञकम् ।
योगिनीहृदयं चैव ख्यातं ग्रन्थचतुष्टयम् ॥ १-९९ ॥

कालीशक्तिमतेऽप्यन्ये ग्रन्था ख्याता महीतले ।
मतद्वयपरिज्ञानाच्छिवोऽभून्मानवः स्वयम् ॥ १-१०० ॥

तस्माद्यत्नेन बोद्धव्यं गोप्तव्यं सिद्धिमिच्छता ।
मतद्वयस्य संमत्या चोर्ध्वाम्नाये व्यवस्थितिः ॥ १-१०१ ॥

मतस्य यस्य सम्मत्या गुरुणा यत्प्रदर्शितम् ।
साधयेत् साधकश्रेष्ठस्तन्मतस्यैव सम्मितम् ॥ १-१०२ ॥

न कुर्यान्मतसांकर्यमन्यथा सिद्धिरोधकृत् ।
कामराजाख्यविद्यायाः कालीमतविभेदतः ॥ १-१०३ ॥

गुरुक्रमं विजानीयात् तन्मतोपासको नरः ।
प्रह्लादानन्दनाथश्च सनकानन्द एव च ॥ १-१०४ ॥

वसिष्ठानन्दनाथश्च कुमारानन्द एव च ।
क्रोधानन्दः शुकानन्दो ध्यानानन्दस्ततः परम् ॥ १-१०५ ॥

बोधानन्दः सुरानन्दः कुलाख्या गुरवो नव ।
सर्वे द्विनेत्रा द्विभुजा वराभयकराम्बुजाः ॥ १-१०६ ॥

पूर्वोक्तसमये स्थाने ध्यातव्या मन्त्रवित्तमैः ।
चिद्रूपश्चिन्मयश्चैव चिच्छक्तिर्दिव्यसंज्ञकाः ॥ १-१०७ ॥

प्रबोधश्च सुबोधश्चाप्यनन्तः सिद्धसंज्ञकाः ।
सुधामश्च त्रिमूर्तिश्च झिण्टीशो मानवाः स्मृताः ॥ १-१०८ ॥

आनन्दनाथशब्दान्ता ध्रुवतारत्रयादिकाः ।
पादुकां पूजयामीति मन्त्राः सप्तदशार्णकाः ॥ १-१०९ ॥

शैवी सप्तदशीरूपा नित्या सप्तदशार्णकाः ।
आद्यः परप्रकाशश्चापरः परशिवस्ततः ॥ १-११० ॥

परशक्तिश्च कौलेशः शुक्रदेवी कुलेश्वरः ।
कामेश्वरी सप्तमी स्याद्दिव्यौघा मुनिसंख्यकाः ॥ १-१११ ॥

भोगः क्लिन्नस्तु समयः सहजो वेदसंख्यकाः ।
सिद्धा एते तु गगनो विश्वस्तु विमलस्ततः ॥ १-११२ ॥

मदनो भुवनो नीलः स्वात्मा प्रिय इतीरिताः ।
वसुसंख्याः स्मृता एते मानवा विश्वविग्रहाः ॥ १-११३ ॥

एतान् सम्पूजयेद्देव्याः पृष्ठदेशे नव क्रमात् ।
तदन्ते पूजयेद्धीमान् प्रियां तु गुरुसन्ततिम् ॥ १-११४ ॥

कपिलाद्व्यासपर्यन्तमेकविंशतिसंख्यकाम् ।
करुणो वरुणश्चैव विजयः समरो गुणः ॥ १-११५ ॥

बलो विश्वम्भरः सत्यः प्रियः श्रीधरशारदौ ।
सकलेशो विलासश्च नित्येशो विश्वपुरुषौ ॥ १-११६ ॥

गोविन्दो विबुधः सिंहो वीरः सोमो दिवाकरः ।
अचलो वाग्भवा नादो मोहनः सुलभः शिवः ॥ १-११७ ॥

मृत्युञ्जयो वासुदेवः शरणश्च सनन्दनः ।
आकाशो गोप्रियो हर्षो भर्गः कामो महीधरः ॥ १-११८ ॥

ईशानो गणपः श्रीमान् कपालो भैरवो दिवः ।
गौडादिशङ्करान्ताश्च सप्तसंख्याः समीरिताः ॥ १-११९ ॥

एकसप्ततिसंख्याश्च गुरवः शिवरूपिणः ।
तच्छिष्याणां क्रमं ज्ञात्वा स्वगुरूक्तविधानतः ॥ १-१२० ॥

पूजायां तर्पणे होमे जपे न्यासे विशेषतः ।
स्मरणात्सिद्धिमाप्नोति साधकस्तु न संशयः ॥ १-१२१ ॥

कालीमतानुसारेण लोपायाश्च गुरुक्रमः ।
ज्ञातव्यः सिद्धिमिच्छद्भिस्तथा तत्तदुपासकैः ॥ १-१२२ ॥

श्रीविद्यानन्दनाथश्च परशम्भुस्तथैव च ।
परमात्मा च दिव्यौघाः स्वप्रकाशो भगीरथः ॥ १-१२३ ॥

विरूपाक्षश्च सिद्धौघा ज्ञानानन्दस्ततः परम् ।
अचलानन्दनाथश्च योगानन्दश्च मानवाः ॥ १-१२४ ॥

एतान् कुलगुरून् स्थाने पूर्वोक्ते परिचिन्तयेत् ।
कुमुदः कमलश्चैव सुभोजो दिव्यसंज्ञकाः ॥ १-१२५ ॥

आत्रेयो भार्गवश्चैव गौतमः सिद्धसंज्ञकाः ।
शौनको वसुदश्चैव सुरथश्चैव मानवाः ॥ १-१२६ ॥

आनन्दनाथशब्दान्तास्तारत्रितयपूर्वकाः ।
पादुकां पूजयाम्यन्ते नमः शब्दं प्रयोजयेत् ॥ १-१२७ ॥

सर्व एकोनविंशार्णा वैष्णवाश्च स्वरूपिणः ।
विद्यावतारगुरवः शिवरूपा न संशयः ॥ १-१२८ ॥

आद्यः प्रोक्तस्तु परमशिवः कामेश्वरी ततः ।
दिव्यौघश्च महौघश्च सर्वः प्रज्ञा प्रकाशकः ॥ १-१२९ ॥

एते वै सप्त दिव्यौघा दिव्यश्चित्रस्ततः परम् ।
कैवल्योऽप्यनुदेवी च ततश्चापि महोदयः ॥ १-१३० ॥

एते पञ्चैव सिद्धौघाश्चिदानन्दस्ततः परम् ।
विश्वशक्त्यानन्दनाथो रमानन्दस्ततः परम् ॥ १-१३१ ॥

कमलानन्दनाथश्च ततश्चापि मनोहरः ।
स्वात्मानन्दश्च प्रतिभः सप्तसंख्यास्तु मानवाः ॥ १-१३२ ॥

एते च दीक्षागुरवो नव पंक्तिक्रमाद्यजेत् ।
प्रतिभान्ते च कपिलोऽप्यगस्त्यश्च ततः परम् ॥ १-१३३ ॥

अनसूया ततोऽप्यत्रिर्लोपामुद्रा ततः परम् ।
वसिष्ठाद्व्यासपर्यन्तमूनविंशतिसंख्यकाः ॥ १-१३४ ॥

आदित्यश्च महादेवो वागानन्दस्ततः परम् ।
वामदेवो रतीदेवोऽनन्तो योगो धराधवः ॥ १-१३५ ॥

सुहस्तः सत्यसङ्घश्च ब्रह्मानन्दश्च भैरवः ।
दत्तानन्दश्च कुन्तीशश्चिद्घनः सोमगौरवौ ॥ १-१३६ ॥

त्रिपुरेशो महाबाहुरक्रोधनशिवाम्बिकाः ।
विद्यानन्दगुणानन्दौ गौरीशो विबुधो हरः ॥ १-१३७ ॥

भूतेशः सोमनाथश्च सर्वज्ञः सरसो हरिः ।
गौडादिशङ्करान्ताश्च सप्तसंख्या उदाहृताः ॥ १-१३८ ॥

चतुष्षष्टिः स्मृता संख्या गुरूणां देशिकोत्तमैः ।
एतेषां स्मरणाद्देवी सुप्रसन्ना भवेद्ध्रुवम् ॥ १-१३९ ॥

मन्वाद्युपासितानां च विद्यानां च गुरुक्रमम् ।
ज्ञात्वा तत्तन्महाविद्या जप्तव्यास्तदुपासकैः ॥ १-१४० ॥

महादेवः पराम्बा च कूर्मेशो दिव्यरूपकाः ।
सद्योजातः कुमारश्च भूतेशः सिद्धसंज्ञकाः ॥ १-१४१ ॥

प्रियानन्दश्च लीनश्चाघोरश्चाप्यत्र मानवाः ।
प्रागुक्तसमये स्थाने स्मर्तव्याः कुलमार्गगाः ॥ १-१४२ ॥

पूर्णेशः शङ्करश्चैव प्रगल्भो दिव्यसंज्ञकाः ।
भौतिकस्त्रिदशश्चैव परमः सिद्धसंज्ञकाः ॥ १-१४३ ॥

विद्येशो वासवश्चैव यतीशश्चैव मानवाः ।
विद्यावतारगुरवः स्मर्तव्या गगनाम्बुजे ॥ १-१४४ ॥

परप्रकाशः प्रथमस्ततः परविमर्शकः ।
कामेश्वरी च मोक्षश्चाप्यमृतः पुरुषस्ततः ॥ १-१४५ ॥

अघोरश्चैव सप्तैते दिव्यौघाः शिवरूपिणः ।
प्रकामश्च सदानन्दस्ततः सिद्धौघ उत्तमः ॥ १-१४६ ॥

सिद्धौघाश्चैव चत्वार उत्तरः परमस्ततः ।
सर्वज्ञः सर्वसिद्धौ च गोविन्दः शङ्करस्ततः ॥ १-१४७ ॥

मानवौघश्च सप्तैते दीक्षायां गुरुसन्ततिः ।
देव्यास्तु पृष्ठभागे च नव पंक्तिक्रमाद्यजेत् ॥ १-१४८ ॥

शङ्करान्ते यजेद्भक्त्या स्वगुरुक्रममण्डलम् ।
कपिलाद्व्यासपर्यन्तमेकविंशतिसंख्यकाः ॥ १-१४९ ॥

ततः परेशो विद्येशस्त्रिपुरो विजयो हरः ।
कामेशस्त्रिपुरान्तश्च पुरुषः परमो हरिः ॥ १-१५० ॥

गालवो मुद्गरः शौरिः परमात्मा धनेश्वरः ।
धनञ्जयो भास्करश्च भल्लाटश्च विभावसुः ॥ १-१५१ ॥

जीवनाथश्च गोरक्षो मत्स्यनाथः सदाशिवः ।
गुरुभक्तो जितक्रोधो बोधानन्दः सुरेश्वरः ॥ १-१५२ ॥

भैरवः सच्चिदानन्दः कृतीशः करुणाकरः ।
श्रीकरो वेदमूर्तिश्च सर्वेशो दुर्लभो वशी ॥ १-१५३ ॥

नागदेवः क्षमानाथो भावेशः केशवस्ततः ।
नन्दीशो गणपो वीरो दुर्ज्ञेयोमिहिरः प्रियः ॥ १-१५४ ॥

गौडादिशङ्करान्ताश्च सप्तैते प्रागुदीरिताः ।
चतुःसप्ततिसंख्यास्ते गुरवः सिद्धिदायकाः ॥ १-१५५ ॥

स्मरणात् पूजनाच्चैवोपासकानां न संशयः ।
अथ त्रिविधविद्यानां मते वै कादिसंज्ञके ॥ १-१५६ ॥

कुलविद्यावतारार्णदीक्षाणां गुरुसन्ततौ ।
गुरुपंक्तित्रयं ज्ञात्वा विद्यासिद्ध्यै भजेत्सुधीः ॥ १-१५७ ॥

सर्वज्ञस्तत ईशानो भूतेशो दिव्यसंज्ञकाः ।
दिव्यः सर्वश्च भव्यश्च सिद्धाः श्रीपूर्वका इमे ॥ १-१५८ ॥

प्रशस्तश्च प्रकामश्च सुधामो मानवाः स्मृताः ।
चतुर्भुजास्त्रिनयना रक्तमाल्याम्बरावृताः ॥ १-१५९ ॥

अक्षस्रक्पुस्तकाभीतिवरोद्यत्करपङ्कजाः ।
कुलाख्या गुरवश्चैते स्मर्तव्यास्तत्र वै तथा ॥ १-१६० ॥

प्रकाश्च विमर्शश्चाप्यानन्दो दिव्यरूपिणः ।
ज्ञानः सत्यश्च पूर्णश्च सिद्धाः श्रीपूर्वका इमे ॥ १-१६१ ॥

स्वभावः प्रतिभश्चैव सुभगो मानवा मताः ।
विद्यावतारगुरवो ध्येयाः पूज्याश्च सिद्धये ॥ १-१६२ ॥

उद्द्योतश्च प्रभावश्च कुलेशो दिव्यरूपिणः ।
भैरवो गणपश्चैव कुमारः सिद्धसंज्ञकाः ॥ १-१६३ ॥

उद्भटो वाग्भटश्चैव कमनो मानवाः स्मृताः ।
सर्वे त्रित्र्यक्षरव्याप्ता मायाश्रीबीजपूर्वकाः ॥ १-१६४ ॥

आनन्दनाथशब्दान्ताः पादुकां पूजयामि च ।
पूजायां तर्पणे चैव पादुकां तर्पयामि च ॥ १-१६५ ॥

मार्जने मार्जयाम्यत्र तत्तच्छब्दं प्रयोजयेत् ।
पूजाङ्गहवने चैव पूजयाम्यग्निसुन्दरी ॥ १-१६६ ॥

तथैव तर्पणान्ते तु तर्पयाम्यग्निवल्लभा ।
मार्जने मार्जयाम्यग्निदयिता क्रम ईदृशः ॥ १-१६७ ॥

दीक्षाया गुरवश्चैते नव पंक्तिक्रमाद्यजेत् ।
कमनान्ते च कपिलाद्व्यासान्ते चैकविंशतिः ॥ १-१६८ ॥

अव्ययश्च विशेषश्च संग्रहो देवलस्तथा ।
प्रकाण्डो गहनश्चैव दुर्लभो दुर्जयस्तथा ॥ १-१६९ ॥

विश्वेश उदयश्चैव त्वरितः सुन्दरस्ततः ।
भरतो धिषणश्चैव श्रीकण्ठः शङ्करस्ततः ॥ १-१७० ॥

अनलो वासवश्चैव सुनेत्रः सुभगस्ततः ।
वीरेशो विरहश्चैव क्लिन्नेशो विजयस्ततः ॥ १-१७१ ॥

कर्षकश्च प्रगल्भश्च विनयो वरदस्तथा ।
शान्तनश्चित्रकश्चैवाद्भुतो निपुण एव च ॥ १-१७२ ॥

विपुलो विमलश्चैव सोमेशः कुशलस्ततः ।
सुमन्त्रश्च सुतन्त्रश्च विद्येशो विनतस्तथा ॥ १-१७३ ॥

विभवो वर्धनश्चैवानिन्द्यः सुप्रिय एव च ।
सारङ्गो वारुणश्चैव सत्येच्छुररिहा तथा ॥ १-१७४ ॥

वाग्यतः कामनश्चैव वाङ्मयः सुकृतस्ततः ।
विशाखो मंजुलश्चैव कामेशो वाग्भवस्ततः ॥ १-१७५ ॥

गौडादिशङ्करान्ताश्च सप्तसंख्याः समीरिताः ।
अशीतिसंख्यकाश्चैते गुरवश्चतुरुत्तराः ॥ १-१७६ ॥

एतेषां स्मरणान्मर्त्यः शिवतुल्यो भवेत्क्षणात् ।
कादिशक्तिमतेऽप्येते सर्वत्र गुरवः स्मृताः ॥ १-१७७ ॥

कालीमते मन्त्रभेदाद्गुरुभेदस्त्वनेकधा ।
पूर्वदक्षिणपाश्चात्यमध्यसिंहासनस्थिताः ॥ १-१७८ ॥

बालादिभैरवीभेदा द्वात्रिंशत्संख्यकाः स्मृताः ।
नित्याः षोडशिकाः षड्वा दर्शनाः पञ्चपञ्चिकाः ॥ १-१७९ ॥

चतुःसमयविद्याश्च नवावरणशक्तयः ।
मन्त्रपारायणे प्रोक्ता विद्याः श्रीचक्रशक्तयः ॥ १-१८० ॥

भजनीयाः प्रयत्नेन प्रतिपद्य गुरुक्रमम् ।
प्रह्लादानन्दनाथाद्याः कुलीना गुरवो नव ॥ १-१८१ ॥

समयः कक्कुटश्चैव प्रधानो दिव्यसंज्ञकाः ।
बुधेशः कुथरश्चैव भार्गवः सिद्धरूपिणः ॥ १-१८२ ॥

कन्दलस्तपनश्चैवाप्यदीनश्चैव मानवाः ।
एते विद्यावताराख्या गुरवो नवसंख्यकाः ॥ १-१८३ ॥

परप्रकाशः परमेशानः परशिवस्ततः ।
कामेश्वरी च मोक्षश्च कामश्चामृतसंज्ञकः ॥ १-१८४ ॥

एते दिव्यास्तु सप्तैव ईशानश्च ततः परम् ।
ज्ञेयस्तत्पुरुषश्चैव ह्यघोरस्तदनन्तरम् ॥ १-१८५ ॥

वामदेवस्ततः सद्योजातः सिद्धाः स्मृता अभी ।
पञ्चोत्तरश्च परमः सर्वज्ञः सर्व एव च ॥ १-१८६ ॥

सिद्धो गोविन्दनामा च शङ्करः सप्त मानवाः ।
दीक्षाया गुरश्चैते पूजनीया विशेषतः ॥ १-१८७ ॥

कपिलाद्व्यासपर्यन्तमेकविंशतिसंख्यकाः ।
गणेशश्च कुमारश्च विक्रमो विजयस्ततः ॥ १-१८८ ॥

रन्तिदेवः सुदेवश्च भोजो रामो गुणस्ततः ।
भैरवो भ्रमणश्चैव रमणो विमलस्ततः ॥ १-१८९ ॥

वैनतेयो वासवश्चानलः सङ्घर्षणस्ततः ।
वीरभद्रो विशालश्च विद्याधरविशारदौ ॥ १-१९० ॥

वैश्वानरश्च यज्ञेशो महीधरकुलान्तकौ ।
अनन्तो वरदश्चैव कामो जालन्धरस्ततः ॥ १-१९१ ॥

शैवः सदाशिवो भद्रो रुद्रः कन्दर्पसुव्रतौ ।
सत्यव्रतः सत्यनिधिर्बोधो मौद्गल्य एव च ॥ १-१९२ ॥

ईशानो गौडपादादिशङ्करात् सप्तसंख्यकाः ।
अष्टषष्टिः स्मृता एते मानवान्ते तु पूजने ॥ १-१९३ ॥

ततो गुरुक्रम ज्ञात्वा पूजयेद्भक्तिभावतः ।
पूर्वाम्नायादिदेवीनामयमेव गुरुक्रमः ॥ १-१९४ ॥

तथैव दक्षिणाम्नायदेवता ये ह्युपासते ।
तत्तत्सिद्ध्यै च तैर्ज्ञेयस्तत्तन्मन्त्रगुरुक्रमः ॥ १-१९५ ॥

तारको रुचकश्चैव भद्रको दिव्यरूपिणः ।
अमरः सत्यगश्चैव भास्वरः सिद्धसंज्ञकाः ॥ १-१९६ ॥

अमृतो बोधपूर्णो च मानवाः कुलरूपिणः ।
तत्तत्समयतत्स्थानतत्तेजसि विचिन्तयेत् ॥ १-१९७ ॥

प्रदीपश्च प्रभासश्च प्रगल्भो दिव्यसंज्ञकाः ।
प्रभावो विनयश्चैव कुमुदः सिद्धसंज्ञकाः ॥ १-१९८ ॥

चिदाभासश्च चिद्रूपः प्रकामो मानवाः स्मृताः ।
एते विद्यावताराख्या गुरवो भुवि दुर्लभाः ॥ १-१९९ ॥

प्रभावाश्चादिनाथश्च विमलः समयः शिवः ।
एते पञ्चैव दिव्यौघा निर्वाणो गणपो हरः ॥ १-२०० ॥

परशम्भुश्चिदंशश्च पञ्चैते सिद्धसंज्ञकाः ।
कुरुनाथो विशुद्धिश्च कुशलः कुन्तशेखरः ॥ १-२०१ ॥

सुडिम्भः सुन्दरः केशः सप्तैते मानवाः स्मृताः ।
दीक्षागुरुक्रमो देव्याः पृष्ठदेशे प्रयत्नतः ॥ १-२०२ ॥

पूजनीया विशेषेण स्वसिद्ध्यै नव पंक्तितः ।
वाङ्मायाकमलासिद्धगुरुशब्दमुखास्त्विमे ॥ १-२०३ ॥

कपिलाद्व्यासपर्यन्तमेकविंशतिसंख्यकाः ।
वीरभद्रो महासेनो गिरीशो गुणवर्धनः ॥ १-२०४ ॥

वाङ्मयो वरदो वीरः सुभव्यो नन्दिनायकौ ।
विजयो विश्वविनतौ वीरेशो गिरिनन्दनः ॥ १-२०५ ॥

प्रमदो व्यययोगौ च नित्यानन्दो गुणातिगः ।
गुणानन्दो गुणारामो निरोहो निर्मलो विभुः ॥ १-२०६ ॥

सुभगो निर्विकल्पश्च महाकारोऽचलोऽरुणः ।
तूणीशस्त्वरितो धर्मो निराकारो निरिन्द्रियः ॥ १-२०७ ॥

हंसेश्वरो रुचिग्रीवौ द्रोणो विश्वम्भरो बलः ।
सुदक्षिणो विरूपाक्षो गुरुभक्तो गुरुप्रियः ॥ १-२०८ ॥

गौडादिशङ्करान्ताश्च सप्तसंख्याः प्रकीर्तिताः ।
त्रिसप्ततिमिता एते मानवौघास्तु पूजने ॥ १-२०९ ॥

एतेषां पूजनाद्देव्यो दक्षिणाम्नायकीर्तिताः ।
प्रसन्नाः स्युरत पूज्या विद्यासिद्ध्यै गुरूत्तमाः ॥ १-२१० ॥

पश्चिमाम्नायदेवीनां प्रतिपद्य गुरुक्रमम् ।
विदध्याद्भजनं सिद्ध्यै गुरुतः शास्त्रतोऽपिवा ॥ १-२११ ॥

भैरवो भैरवी चैव महादेवो गणेश्वरः ।
विरूपाक्षो महासेनो वीरभद्रो धनाधिपः ॥ १-२१२ ॥

बोधश्चानन्दनाथान्ता गुरवः कुलसंज्ञकाः ।
अघोरो घोरसंज्ञश्च घोरघोरतरस्तथा ॥ १-२१३ ॥

दिव्यौघास्तत्परः शर्वः सर्वो रुद्रश्च सिद्धगाः ।
हांकारश्चैव हींकारो हूंकारश्चैव मानवाः ॥ १-२१४ ॥

एते विद्यावताराख्या गुरवः सिद्धिदायकाः ।
ईशस्तत्पुरुषाघोरवामदेवास्ततः परम् ॥ १-२१५ ॥

सद्योजातश्च पञ्चैते दिव्यौघाश्च समारसः ।
भूतेशो ललितः स्वस्थः कौलेशः सिद्धसंज्ञकाः ॥ १-२१६ ॥

आलस्यश्च प्रभानन्दो रागिणी वक्त्ररागिणी ।
अतीतः कुब्जसंज्ञश्च कुलकौलेश्वरस्ततः ॥ १-२१७ ॥

मानवौघाश्च सप्तैते दीक्षाया गुरवः स्मृताः ।
देव्याश्च पृष्ठभागे तु नव पंक्तिक्रमाद्यजेत् ॥ १-२१८ ॥

कुलकौलेश्वरस्यान्ते प्रयजेत् स्वगुरुक्रमम् ।
कपिलाद्व्यासपर्यन्तमेकविंशतिसंख्यकाः ॥ १-२१९ ॥

अनन्तः शङ्करश्चैव पिङ्गलश्च करालकः ।
सिद्धो रत्नः शिवो मेही समयश्च खगेश्वरः ॥ १-२२० ॥

भद्रः कूर्मश्च घोरश्च गोपो मीनश्च कौलिकः ।
तीव्रश्च डामरश्चैव रामः कामश्च शाकिनी ॥ १-२२१ ॥

महामायो महानन्द आधारेशश्च चक्रकः ।
कुरुरः समयः श्रीशः कुब्जिका कुलदीपिका ॥ १-२२२ ॥

शिवेशः शर्वरी धर्मी कामी कामकला शिवः ।
गीडादिशङ्करान्ताश्च सप्तसंख्याः समीरिताः ॥ १-२२३ ॥

चतुःषष्टिः स्मृताश्चैव गुरवः सिद्धिदायकाः ।
ततः सम्पूजयेद्भक्त्या ज्ञात्वा स्वगुरुसन्ततिम् ॥ १-२२४ ॥

उत्तराम्नायदेवीनां कुर्याद्भजनमादरात् ।
विशेषेण गुरूञ् ज्ञात्वा विद्यासिद्ध्यै प्रयत्नतः ॥ १-२२५ ॥

प्रह्लादानन्दनाथाद्याः प्राक्प्रोक्ता गुरवः कुले ।
उड्डीशश्च कुलेशश्च पूर्णेशो दिव्यसंज्ञकाः ॥ १-२२६ ॥

कामेश्वरश्च श्रीकण्ठः शङ्करः सिद्धसंज्ञकाः ।
अनन्तः पिङ्गलो नादो मानवौघाः स्मृता अमी ॥ १-२२७ ॥

विद्यावतारगुरवः सिद्धिदाः पूजिताश्च ते ।
महादेवो महादेवस्त्रिपुरश्चापि भैरवः ॥ १-२२८ ॥

दिव्यौघा गुरवः प्रोक्ता ब्रह्मानन्दस्ततः परम् ।
पूर्णदेवोऽद्वितीयश्च चलचित्तश्चलाचलः ॥ १-२२९ ॥

कुमारः क्रोधनश्चैव वरदः स्मरदीपनः ।
माया मायावती चैव सिद्धौघाः सम्प्रकीर्तिताः ॥ १-२३० ॥

विमलः कुशलश्चैव भीमसेनः सुधाकरः ।
मीनो गोरक्षकश्चैव भोजदेवः प्रजापतिः ॥ १-२३१ ॥

मूलदेवो रतीदेवो विघ्नेश्वरहुताशनौ ।
समयानन्दसन्तोषौ मानवौघाः स्मृता अमी ॥ १-२३२ ॥

देव्यास्तु पृष्ठभागे तु नव पंक्तिक्रमाद्यजेत् ।
सन्तोषानन्दपरतः प्रयजेद्गुरुसन्ततिम् ॥ १-२३३ ॥

कपिलाद्व्यासपर्यन्तमेकविंशतिसंख्यकाः ।
शम्बरो हृदयो भोगो नाभसः कौलिको धरः ॥ १-२३४ ॥

अभयः शम्बरो भद्रो महाऽघोरो मनोमयः ।
भैरवः शवरः कालो मतो ब्रह्मा महाकुलः ॥ १-२३५ ॥

वाहनः खेचरो व्योमः श्वसनो ज्वलनो ह्यजः ।
ईशस्तातः कुलातीतो वायुः संहारकौटिलौ ॥ १-२३६ ॥

विरोधः परमो गोप्ता षट्चक्रः परमः परः ।
मुक्तो ज्ञानः कुलः सत्यो वर्गाजो मन्त्रविग्रहः ॥ १-२३७ ॥

स्वच्छन्दो भैरवो भीमो वर्णाढ्यः शब्दशब्दजौ ।
गौडादिशङ्करान्तास्तु सप्तसंख्याः समीरिताः ॥ १-२३८ ॥

षट्सप्ततिमिता ह्येते गुरवः सिद्धिदायकाः ।
एतेषां स्मरणान्मर्त्यः शिवतुल्यो न संशयः ॥ १-२३९ ॥

शङ्करादिगुरूञ् ज्ञात्वा पूजयेद्भक्तिभावतः ।
पञ्चायतनपूजायां पृथग्यजनकेऽपिवा ॥ १-२४० ॥

गणेशादिमनूनां च ज्ञेयस्तत्तद्गुरुक्रमः ।
गुरूणांकुलमज्ञात्वा नष्टमार्गो भविष्यति ॥ १-२४१ ॥

नष्टमार्गान्मन्त्रविद्ये न तादृक्फलगोचरे ।
गुरूणां शिष्यभूतानां नास्ति चेत् सन्ततिक्रमः ॥ १-२४२ ॥

तत्र मन्त्राश्च विद्याश्च निष्फला नात्र संशयः ।
विंशतिः पुरुषा वापि नव सप्त त्रयोऽपिवा ॥ १-२४३ ॥

न ज्ञाता गुरुवंशानां शिष्यश्चेन्नष्टसन्ततिः ।
स्ववंशादधिको ज्ञेयो गुरुवंशो महाशुभः ॥ १-२४४ ॥

जनकादधिको ज्ञेयो मन्त्रदस्तु महेश्वरः ।
तस्मात्सर्वत्र विज्ञेयः पूजनीयो गुरुक्रमः ॥ १-२४५ ॥

आदौ सर्वत्र विज्ञेयो मन्त्रदः परमो गुरुः ।
परापरगुरुः शक्तिः परमेष्ठी गुरुः शिवः ॥ १-२४६ ॥

सर्वमन्त्रेषु विद्यासु स्वयं प्रकृतिरूपिणी ।
ततः पुरुषरूपश्च ततश्च गुरुसन्ततिः ॥ १-२४७ ॥

तेनैव हि शिवांशाश्च शिवभक्ता विशेषतः ।
सर्वमन्त्रेषु गुरवः सर्वज्ञाः सिद्धिदायकाः ॥ १-२४८ ॥

शिवाः शैव्यश्च या विद्यास्तासां सर्वत्र देशिकाः ।
गणेशो गाणपत्यानां गणदीक्षाप्रभुर्मतः ॥ १-२४९ ॥

वैष्णवानां स्वयं विष्णुः सौराणां सूर्य एव च ।
दिव्यौघा गुरवश्चैव सिद्धौघा गुरवस्तथा ॥ १-२५० ॥

मानवौघाश्च गुरवो ज्ञेयाः सर्वत्र देशिकैः ।
गणेश्वरो गणक्रीडो विकटो विघ्ननायकः ॥ १-२५१ ॥

दुर्मुखः सुमुखो बुद्धो विघ्नराजो गणाधिपः ।
एते कुलाख्या गुरवस्तत्तेजसि विभावयेत् ॥ १-२५२ ॥

सुरानन्दः प्रमोदश्च हेरम्बश्च महोत्कटः ।
शङ्करो लम्बकर्णश्च मेघनादो महाबलः ॥ १-२५३ ॥

गणंजयो नवैते तद्विद्यानामवतारकाः ।
विनायको विरूपाक्षो बुद्धः शूरो वरप्रदः ॥ १-२५४ ॥

एते पञ्चैव दिव्यौघा विजयो दुर्जयो जयः ।
कवीश्वरश्च ब्रह्मण्यो निधीशः सिद्धसंज्ञकाः ॥ १-२५५ ॥

गजाधिराजो दुःखारिः सद्योजातः मुखावहः ।
परमात्मा सर्वभूतात्मा महानादः शुभाननः ॥ १-२५६ ॥

बालचन्द्रो नवैते च मानवौघाः प्रकीर्तिताः ।
दीक्षाया गुरवः प्रोक्ता पूजिताः सिद्धिदायकाः ॥ १-२५७ ॥

ततश्च बालचन्द्रान्ते पूजयेत् गुरुसन्ततिम् ।
कपिलाद्व्यासपर्यन्तमेकविंशतिसंख्यकाः ॥ १-२५८ ॥

गणकः सुभगो नित्यो नित्यालम्बश्च शाश्वतः ।
पूर्णानन्दः परानन्दः सुभक्तः पद्मलोचनः ॥ १-२५९ ॥

कामपालो बुधः श्रेष्ठो गजवक्त्रो गणप्रियः ।
भूतेशो बाललीलश्च कुमारो बोधनो हरः ॥ १-२६० ॥

सत्यलीलः सुलीलश्च विकटो धूम्रवर्णकः ।
नन्दिप्रियो नन्दिहासो देवीपुत्रो धनेश्वरः ॥ १-२६१ ॥

विश्वम्भरो विशालाक्षो विघ्नहर्ता विनायकः ।
कूष्माण्डेशः कपर्दी च शिवः कालो महीधरः ॥ १-२६२ ॥

गौडादिशङ्करान्ताश्च सप्त प्रागीरिताश्च ते ।
त्रिषष्टिसम्मिता ह्येते गुरवः सिद्धिदायकाः ॥ १-२६३ ॥

पूजिताः संस्मृता नित्यं सर्वेप्सितफलप्रदाः ।
श्रीमायास्मरबीजाद्याः सिद्धाचार्यनमोन्तकाः ॥ १-२६४ ॥

वैष्णवेषु तथा ज्ञेया गुरवो मन्त्रसिद्धये ।
प्रह्लादश्च वसिष्ठश्च पुण्डरीकः पराशरः ॥ १-२६५ ॥

शुकश्च शौनकश्चैव नारदो दाल्भ्य एव च ।
व्यासश्चैव नव प्रोक्ता गुरवः कुलरूपिणः ॥ १-२६६ ॥

सरस्वती ततो ज्ञेयौ विनायकशुकौ ततः ।
सुमन्तुर्जैमिनिश्चैव वैशम्पायन एव च ॥ १-२६७ ॥

नारदः पुण्डरीकश्च सुचेलो नवसंख्यकाः ।
विद्यावतारगुरवो ध्येयाः पूज्याश्च सिद्धये ॥ १-२६८ ॥

महादेवो महादेवी परमेष्ठी समीरणः ।
वरुणो वामदेवश्च कश्यपश्चाङ्गिराः ऋतुः ॥ १-२६९ ॥

दीक्षाया गुरवश्चैते नव पंक्तिक्रमाद्यजेत् ।
कपिलाद्व्यासपर्यन्तमेकविंशतिसंख्यकाः ॥ १-२७० ॥

नृसिंहो वामनः सत्यो बलो बालो धनुर्धरः ।
शङ्खी चक्री हली खड्गी मुसली रमणोऽजितः ॥ १-२७१ ॥

पुरुषो भूधरो विश्वो गोविन्दो गोविवर्धनः ।
गोपीश्वरो जितक्रोधो मीनाख्यो मीनकेतनः ॥ १-२७२ ॥

मनोहरः सात्वतश्च केशवोऽच्युतवामनौ ।
नरसिंहोऽव्ययो विष्णुर्नारायणमहीधरौ ॥ १-२७३ ॥

चिदंशश्चित्प्रकाशश्च माधवो मधुसूदनः ।
पुरुषोत्तमपद्माक्षौ घनश्यामो धराधवः ॥ १-२७४ ॥

गौडादिशङ्करान्ताश्च सप्त प्रागुदिताश्च ते ।
अष्टषष्टिमिता ह्येते गुरवः सिद्धिदायकाः ॥ १-२७५ ॥

एतेषां स्मरणान्मन्त्राः सिध्यन्त्येव हि तत्क्षणात् ।
एते मन्मथबीजाद्याः श्रीपादेभ्यो नमोन्तकाः ॥ १-२७६ ॥

अथवाचार्यपादेभ्यो नमोन्ताः सम्प्रकीर्तिताः ।
शैवानां मन्त्रविद्यानां सिद्ध्यै तत्तद्गुरुक्रमम् ॥ १-२७७ ॥

ज्ञात्वा तद्भजनं कुर्यादन्यथा फलदा नहि ।
विश्वेश्वरश्च भगवान्महादेवस्त्रियम्बकः ॥ १-२७८ ॥

त्रिपुरान्तश्च कालाग्निरुद्रः कालस्ततः परम् ।
सर्वेश्वरो नीलकण्ठो दिक्पतिश्च सदाशिवः ॥ १-२७९ ॥

एकादश स्मृता ह्येते गुरवः कुलरूपिणः ।
वीरभद्रो गणाध्यक्षस्ततः शूलायुधः शिवः ॥ १-२८० ॥

ईशानः प्रमथाधीशो नन्दी भृङ्गिः प्रचण्डकः ।
महिषो मदनारातिर्विद्यानामवतारके ॥ १-२८१ ॥

गुरवो रुद्रसंख्याश्च स्मृताः सिद्धिप्रदायकाः ।
अघोरोऽप्यथघोरश्च घोरघोरतरस्ततः ॥ १-२८२ ॥

सर्वः सर्वश्च रुद्रश्च ततस्तत्पुरुषस्ततः ।
महादेवो विरूपाक्षः सद्योजातो भवस्तथा ॥ १-२८३ ॥

एकादशैते दिव्यौघा भवोद्भवविनायकौ ।
चण्डीशो वामदेवश्च शङ्करो विश्वनायकः ॥ १-२८४ ॥

ज्येष्ठः श्रेष्ठश्च कालश्च भूतेशः प्रमथेश्वरः ।
एकादशैते सिद्धौघाः कलविकरणस्ततः ॥ १-२८५ ॥

बलविकरणश्चैव बलप्रमथनस्तथा ।
ततश्च सर्वभूतान्ते दमनश्च मनोन्मनः ॥ १-२८६ ॥

उग्रो भीमः पशुपतिर्नीलग्रीवस्त्रिलोचनः ।
वीरेश्वरश्च सम्प्रोक्ता मानवा रुद्रसम्मिताः ॥ १-२८७ ॥

पूजनीयाः प्रयत्नेन विद्यासिद्ध्यै च देशिकैः ।
दीक्षाया गुरवश्चैते वीरेशान्ते गुरुक्रमः ॥ १-२८८ ॥

ज्ञातव्यः कपिलाद्व्यासपर्यन्तेऽप्येकविंशतिः ।
कामेशः कालकण्ठश्च कालघ्नः कालरूपधृक् ॥ १-२८९ ॥

कामान्तको विशालाक्षो वीरभद्रो विनायकः ।
शूलायुधो गिरीशश्च कैलासो वाङ्मयो हरः ॥ १-२९० ॥

बुधेशश्चामरेशश्च चण्डीश्वरकुमारकौ ।
महेश्वरो महादेवो विश्वनाथः प्रजापतिः ॥ १-२९१ ॥

आत्मेश्वरश्च सम्वर्तः क्रमेशश्च प्रकाशनः ।
ललितः स्पर्शभूतेशौ चानन्दश्च प्रभेश्वरः ॥ १-२९२ ॥

रागेशश्च करालेशः सिद्धेशसमयेश्वरौ ।
ज्ञानानन्दः प्रियानन्दः कलानन्दोऽमृतेश्वरः ॥ १-२९३ ॥

गुह्येश्वरश्चिदानन्दः कुलेशश्चण्डकौलिकौ ।
गौडादिशङ्करान्ताश्च सप्त प्रागीरिताश्च ते ॥ १-२९४ ॥

एकसप्ततिसंख्याश्च गुरवः सिद्धिदायकाः ।
प्रासादाद्याञ्च आराध्यचरणेभ्यो नमोन्तकाः ॥ १-२९५ ॥

पूजिताः संस्मृता नित्यं मन्त्रसिद्धिप्रदाश्च ते ।
सौरास्तथैव यष्टव्याः प्रतिपद्य गुरुक्रमम् ॥ १-२९६ ॥

मिहिरश्च सुगुप्तश्च प्रभेशो दिव्यसंज्ञकाः ।
अरुणश्च मरीचिश्च मयूखः सिद्धसंज्ञकाः ॥ १-२९७ ॥

कात्यायनो घृणीशश्च मार्तण्डो मानवाः स्मृताः ।
एते कुलाख्याः गुरवश्चिन्तनीया महौजसः ॥ १-२९८ ॥

वेदात्मा भास्करो ब्रध्नो दिव्या भास्वान् प्रभाकरः ।
नारायणः कपर्दी च सिद्धाश्चार्कस्त्रयीमयः ॥ १-२९९ ॥

ईशानो मानवाः प्रोक्ता विद्यानामवतारके ।
आनन्दः समयश्चैव विमलो ज्ञानदीपनः ॥ १-३०० ॥

चिद्घनः सोमनाथश्च सविता पोषणोऽरुणः ।
महेशो विजयश्चैव भूतेशो देवभागकः ॥ १-३०१ ॥

दीक्षाया गुरश्चैते त्रयोदश समीरिताः ।
पूजनीयाः प्रयत्नेन नव पक्तिक्रमाद्बुधैः ॥ १-३०२ ॥

ततश्च देवभागान्ते कपिलादेकविंशतिः ।
व्यासान्ते जैमिनिश्चैव सुमन्तुर्ज्ञानवर्धनः ॥ १-३०३ ॥

चिदानन्दश्चिदाभासश्चिन्मयो योगविद्गुरुः ।
सत्यव्रतश्च चिद्रूपो भैरवोऽम्बरनायकः ॥ १-३०४ ॥

विश्वेश्वरो मित्रकरः शुभंकरदिवाकरौ ।
गणेश्वरश्च मार्तण्डभैरवो द्युमणी रविः ॥ १-३०५ ॥

त्रिविक्रमो वासुदेवः शंकरो रविलोचनः ।
पुण्डरीको रमेशश्च गुणारामो धनेश्वरः ॥ १-३०६ ॥

देवेन्द्रो गोपनाथश्च पुरुषश्च महाशयः ।
आचार्यसिंहो गोविन्दो वेदज्ञो मित्रविन्दकः ॥ १-३०७ ॥

गौडादिशंकरान्ताश्च चतुष्षष्टिमिताः स्मृताः ।
एतेषां स्मरणात्सौरा मन्त्राः सिध्यन्ति तत्क्षणात् ॥ १-३०८ ॥

शंकरात् स्वगुरूञ्ज्ञात्वा पूजयेद्भक्तिभावतः ।
एते मायादिकाः सर्वे पादुकाभ्यो नमोन्तकाः ॥ १-३०९ ॥

ये प्रोक्ता उत्तराम्नाये गुरवः सिद्धिदायकाः ।
ते ज्ञातव्या अधःसंज्ञकाम्नाये भैरवान्तकाः ॥ १-३१० ॥

श्रीविद्या भेदसहिता बाला च त्रिपुरा च या ।
भगमाला तथा नित्यक्लिन्ना चैव स्वयंवरा ॥ १-३११ ॥

मधुमत्युन्मनी भेडा शारिका सुरसुन्दरी ।
अश्वारुढा महामाया कुरुकुल्ला सुरेश्वरी ॥ १-३१२ ॥

भुवनेश्यन्नपूर्णा च पूर्वाम्नायाधिदेवताः ।
बगला वशिनीभेदास्त्वरिता फलदा तथा ॥ १-३१३ ॥

वाराही भेदसहिता भोगिनी भेदसंयुता ।
कामेश्वरी च भेरुण्डा वज्रेशी वह्निवासिनी ॥ १-३१४ ॥

शिवदूती विचित्रा च विजया सर्वमङ्गला ।
महिषार्दी महालक्ष्मीर्दक्षिणाम्नायदेवताः ॥ १-३१५ ॥

महासरस्वती देवी तथा वाग्वादिनी मता ।
तथा नीलपताका च भैरवी भेदसंयुता ॥ १-३१६ ॥

चामुण्डा रक्तचामुण्डा ब्राह्म्यादिदशदेवताः ।
प्रत्यङ्गिरा भवानी च पश्चिमाम्नायदेवताः ॥ १-३१७ ॥

कालिका भेदसहिता तारा भेदैश्च संयुता ।
मातङ्गी भैरवी छिन्ना तथा धूमावती मता ॥ १-३१८ ॥

उत्तराम्नायकथिताः शीघ्रकाल फलप्रदाः ।
नागशक्त्यादयो विद्या अधा अम्नायदेवताः ॥ १-३१९ ॥

तत्तद्भेदांस्तथा ज्ञात्वा भजेत्तत्तद्गुरुक्रमम् ।
कालीशक्तिमते सम्यक् प्रोक्तपर्वसु चादरात् ॥ १-३२० ॥

गुरुणां मण्डलं भूमौ विधाय गुरुसंततिम् ।
पूजयेत् परया भक्त्या सम्प्रदायप्रसिद्धये ॥ १-३२१ ॥

असंप्रदायात् फलदा न भवन्ति हि देवताः ।
संप्रदायमविज्ञाय मोहादज्ञानतोऽपिवा ॥ १-३२२ ॥

मन्त्र दद्यात् प्रयत्नाद्यो देवतां वा समर्चयेत् ।
आचरेत् तर्पणं होमं पौरश्चरणकं विधिम् ॥ १-३२३ ॥

यद्यत्तत्तद् भवेन्नित्यमभिचाराया निश्चयात् ।
आद्यं गणपतेश्चक्रं तद्बहिर्भैरवं ततः ॥ १-३२४ ॥

तद्बहिर्वटुकं चक्रं सिद्धचक्रं च तद्बहिः ।
चरणाख्यं तदुपरि शांभवं तदनन्तरम् ॥ १-३२५ ॥

तदूर्ध्वं मालिनीचक्रं सप्तचक्रात्मकं भवेत् ।
आदौ त्रिकोणं विन्यस्य तद्बहिस्त्र्यस्रमुद्धरेत् ॥ १-३२६ ॥

त्रिकोणं तद्बहिर्न्यस्येन्नवकोणं च तद्बहिः ।
तद्बहिर्वसुपत्राब्जं तद्बहिर्वलयत्रयम् ॥ १-३२७ ॥

चतुरस्रत्रयं न्यस्य तद्बहिः पूजयेद् बुधः ।
प्रणवं वाग्भवं मायां कमलां खेचरीं ततः ॥ १-३२८ ॥

तत्प्रासादपराबीजमुद्धृत्य शिवशक्तिके ।
संवर्तश्च महाकालशक्राम्ब्वग्निसमीरणान् ॥ १-३२९ ॥

उद्धरेदन्त्यवर्णस्तु अर्घीशार्धेन्दुसंयुतः ।
ततश्च श्रीगुरोर्नामानन्दनाथान्तमुद्धरेत् ॥ १-३३० ॥

श्रीपादुकापदं चोक्त्वा पूजयामि नमो वदेत् ।
अनेन मन्त्रराजेन मध्ये श्रीगुरुमर्चयेत् ॥ १-३३१ ॥

अस्मिन्मन्त्रे पराद्यं तु कृत्वा सर्वत्र देशिकः ।
देशिकाख्यस्थले तस्य पत्न्या नाम नियोज्य च ॥ १-३३२ ॥

देव्यम्बाश्रीपदं चोक्त्वा पादुकां पूजयामि च ।
नमोन्तविद्यया नाथवामे तत्सुन्दरीं यजेत् ॥ १-३३३ ॥

स्वाग्राद्यस्रत्रये पूज्यं श्रीनाथादिगुरुत्रयम् ।
श्रीचक्रनाथपार्श्वे तु चक्राधिष्ठानदैवतम् ॥ १-३३४ ॥

गणनाथं सुसंपूज्य द्वितीयावरणं यजेत् ।
प्रथमं कामरूपाख्यं जालन्धरमतः परम् ॥ १-३३५ ॥

तृतीयं पूर्णगिर्याख्यं स्वाग्राद्यस्रत्रये यजेत् ।
वक्ष्यमाणविशिष्टं तु चोड्याणं मध्यदेशतः ॥ १-३३६ ॥

भैरवं पूजयेत् तस्या मनुना साधकोत्तमः ।
द्वितीयचक्राधिष्ठाता यतः कामाख्यदक्षिणे ॥ १-३३७ ॥

वटुकं योगिनीं चैव क्षेत्रपालं तु साधकः ।
तत्तन्मन्त्रेण संपूज्य स्वाग्रादित्र्यस्रके बुधः ॥ १-३३८ ॥

आद्यस्य दक्षिणे भागे वटुकं चक्रनायकम् ।
ततश्च नवकोणे तु स्वाग्रादेश्च प्रदक्षिणम् ॥ १-३३९ ॥

विद्यावतारगुरवो यष्टव्या निजसिद्धये ।
तत आद्यस्य दक्षे तु सिद्धेभ्यो नम उच्चरन् ॥ १-३४० ॥

सिद्धं सम्पूजयेद्भक्त्या चक्राधिष्ठानदैवतम् ।
ततश्चाष्टदले स्वाग्राद्यजेद्दूत्यष्टकं बुधः ॥ १-३४१ ॥

आद्याया दक्षवामे तु रक्तशुक्लपदद्वयम् ।
तत्तन्मन्त्रेण सम्पूज्य पूजयेद्वलयत्रये ॥ १-३४२ ॥

वामावर्तक्रमात् पंक्त्याकारेण निजसिद्धये ।
षट्सप्तत्युत्तरशतपञ्चवीरेशमण्डलम् ॥ १-३४३ ॥

प्रागुक्तबीजषट्कं च आदिवर्णं द्विरुच्चरेत् ।
रूपवीरेश चोच्चार्य पादुकां पूजयामि च ॥ १-३४४ ॥

एवं मन्त्रास्तु कथितास्तावत्संख्यास्तु पूजने ।
स्वराश्च प्रथमे वृत्ते स्पर्शवर्णा द्वितीयके ॥ १-३४५ ॥

तृतीये व्यापका वर्णा मध्यवृत्ते निजाग्रके ।
शाम्भवं पूजयेद्भक्त्या तन्मन्त्रेण प्रयत्नतः ॥ १-३४६ ॥

सप्तमे मालिनीचक्रे चतुरस्रत्रयात्मके ।
पूजयेदाद्यरेखायां ब्रह्माण्याद्यष्टमातृकाः ॥ १-३४७ ॥

ततो द्वितीयरेखायां कृतायां पञ्चभागशः ।
पूजयेत्पञ्च भूतानि तत्तन्मन्त्रेण साधकः ॥ १-३४८ ॥

तत्तच्चतुर्विंशतिभिर्वर्णदेवैः कृतावृतिः ।
ततस्तृतीयरेखायामिन्द्राद्यस्त्राणि तद्बहिः ॥ १-३४९ ॥

स्वाग्रे सम्पूजयेद्भक्त्या मालिनीं विश्वविग्रहाम् ।
तद्विद्यया साधकेन्द्रः पीठिका च ततो बहिः ॥ १-३५० ॥

एवं पूजयितुर्देवी प्रसन्ना भवति ध्रुवम् ।
समे तिथौ समर्क्षाणां भृगौ भौमस्य वा पुनः ॥ १-३५१ ॥

योगे रात्रौ यजेद्भक्त्या स्वसिद्ध्यै गुरुमण्डलम् ।
यस्तु सम्पूजयेद्भक्त्या कुलेषु गुरुमण्डलम् ॥ १-३५२ ॥

स देशिकवरः प्रोक्तस्तस्माद्दीक्षा ह्यनुत्तमा ।
स सम्प्रदायी स गुरुः स तु देवीस्वरूपधृत् ॥ १-३५३ ॥

तस्माद्दीक्षा शुभा प्रोक्ता चान्यथा निष्फला भवेत् ।
प्रत्युतैव गुरुः शिष्यं निहन्त्येव न चान्यथा ॥ १-३५४ ॥

तस्मात्कुलेषु तिथिषु पूजनीयं सुसाधकैः ।
सुन्दरी सुमुखी चैव विरूपा विमला तथा ॥ १-३५५ ॥

अन्तरी बदरी चैव दूतरी पुष्पभद्रिका ।
दूतीनामष्टकं प्रोक्तं गुरुमण्डलपूजने ॥ १-३५६ ॥

उपास्या या महाविद्या तत्रोक्ताः पीठशक्तयः ।
गुरुमण्डलपूजायां ज्ञेयाः पीठस्य शक्तयः ॥ १-३५७ ॥

वाङ्माया कमला चैव खेचरी ऋद्धिवर्जिता ।
ततः प्रेतं समालिख्य बीजं वै नादिनेन्दुयुक् ॥ १-३५८ ॥

रौद्र्यनन्तयुता सेन्दुरनन्तानलचन्द्रयुक् ।
नकुलीशोऽथ माया च विद्योक्ता मालिनी परा ॥ १-३५९ ॥

पूर्वोक्तगुरुविद्यायामाद्यं यद्बीजषट्ककम् ।
अन्ते दद्याद्विलोमेन प्रोक्तं शाम्भवमुत्तमम् ॥ १-३६० ॥

ज्ञातव्यं मन्त्रजालं तु वक्ष्यमाणेन वर्त्मना ।
अथ कादिमते ज्ञेयं गुरुमण्डलपूजनम् ॥ १-३६१ ॥

श्रीपर्णीसम्भवे पीठे फलकायां स्थलेऽपि वा ।
स्थले तु सुसमे शुद्धे दृढे तु सुमनोहरे ॥ १-३६२ ॥

प्राक्प्रत्यग्दक्षिणोदक् च दश सूत्राणि विन्यसेत् ।
एकाशीतिपदोपेतं मण्डलं तत्र जायते ॥ १-३६३ ॥

समसूत्रे मनोरम्ये पदे पञ्चांगुलान्तरे ।
प्राक्प्रत्यग्दक्षिणोदक् च सूत्रद्वयनिपातनात् ॥ १-३६४ ॥

नव कोष्ठानि जायन्ते सम्भूय च पदे पदे ।
मध्यस्थपदमध्यस्थनवकोष्ठेषु मध्यतः ॥ १-३६५ ॥

प्रागादि विलिखेद्वर्णान् प्रतिकोष्ठं नवैकशः ।
मायाश्रीबीजपूर्वं च प्रकाशानन्दसंज्ञकम् ॥ १-३६६ ॥

नाथं तत्र सुसम्बोध्य नवार्णान् नवकोष्ठके ।
एवं तत्पूर्वनवके द्वितीयं नाथनाम च ॥ १-३६७ ॥

प्रादक्षिण्यक्रमेणैव नवके नवके लिखेत् ।
एवं तु नवनाथानां मण्डलानि नवैव हि ॥ १-३६८ ॥

जायन्ते वर्णविन्यासात् तत्र पूजां तु कारयेत् ।
नाथावृत्तिक्रमेणैव नाथनाम तु यद्दिने ॥ १-३६९ ॥

तदारभ्य यजेद्धीमांस्तद्दिने तत्र तत्र च ।
गन्धैः पुष्पैश्च धूपैश्च दीपैर्नैवेद्यकैस्तथा ॥ १-३७० ॥

ताम्बूलैश्च नमस्कारैः स्तोत्रैश्चापि समाहितः ।
ऐक्यभावनया नाथान् सन्तोष्य च पुनः पुनः ॥ १-३७१ ॥

मध्यनाथस्य पुरतः श्रीगुरुं पूजयेद्बुधः ।
नामादिक्रमतो विद्वान्नवाग्रेषु यजेन्नव ॥ १-३७२ ॥

तद्बहिः पंक्तितो विद्वान् शिवादिगुरुमण्डलम् ।
प्रादक्षिण्यक्रमेणैव पूजयेद्भक्तिभावतः ॥ १-३७३ ॥

एवं पर्वस्ववहितः पूजां रात्रौ च कारयेत् ।
पादुकां पूजयामीति प्रोच्चार्य सुसमाहितः ॥ १-३७४ ॥

पूर्णापर्वसु तेष्वेव पदेषु षोडशैव हि ।
कोष्ठानि गुणसूत्राणां पातनाद्विदधीत वै ॥ १-३७५ ॥

षोडशार्णाल्लिखेत् प्राग्वत्पूजां प्राग्वत्समाचरेत् ।
एवं पूजा प्रकर्तव्या गुरौ जीवति साधकैः ॥ १-३७६ ॥

मृते नाथपदं हित्वा शिवेति पदमुन्नयेत् ।
एवं यः पूजयेन्नित्यं विशेषदिवसेषु तु ॥ १-३७७ ॥

तस्माद्दीक्षा शुभा प्रोक्ता चान्यथाप्यशुभा भवेत् ।
पूर्णाभिषेकयुक्तैस्तु पदेषु कमलानि वै ॥ १-३७८ ॥

कृत्वा पूजा विश्रातव्या पूर्णापर्वातिरिक्तके ।
पूर्णापर्वसु तेष्वेव षोडशीकृत्य पूर्ववत् ॥ १-३७९ ॥

चन्द्रचन्दनकाश्मीरैरुशीरैर्मृगनाभिकैः ।
सुगन्धपञ्चकेनैव विदध्याद्गुरुमण्डलम् ॥ १-३८० ॥

पूजान्ते लेपयेद्भाले तत्पङ्कं भक्तिभावतः ।
सम्पद्विजयसिद्ध्यर्थमायुरारोग्यसिद्धये ॥ १-३८१ ॥

पूजादौ च तदन्ते च गुरुस्तोत्रं पठेद्बुधः ।
सन्ध्यात्रये सुसिद्ध्यर्थं रात्रौ चैव समाहितः ॥ १-३८२ ॥

नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे ।
विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह ॥ १-३८३ ॥

नवाय नवरूपाय परमार्थैकरूपिणे ।
सर्वाज्ञानतमोभेदमानवे चिद्घनाय ते ॥ १-३८४ ॥

स्वतन्त्राय दयाकॢप्तविग्रहाय परात्मने ।
परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे ॥ १-३८५ ॥

विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ।
प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ॥ १-३८६ ॥

पुरस्तात्पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्यधः ।
सदा मच्चित्तरूपेण विधेहि भवदासनम् ॥ १-३८७ ॥

इदं स्तोत्रं पठेन्नित्यं विद्यासिद्ध्यै प्रयत्नतः ।
चक्रे देव्यास्तु शक्त्यन्ता नाथान्ता गुरुमण्डले ॥ १-३८८ ॥

गुरौ मृते शिवान्ताश्च गुरूणां त्रिविधाः स्थितिः ।
गुरुमण्डलमेतद्धि पारंपर्ययमिति स्मृतम् ॥ १-३८९ ॥

पारंपर्ययपरिज्ञानात् सम्प्रदायः स्थिरो भवेत् ।
सम्प्रदाये स्थिरे जाते सम्प्रदायवती भवेत् ॥ १-३९० ॥

देवता तेन विद्याश्च मन्त्राः सिद्ध्यन्ति तत्क्षणात् ।
पुरश्चर्यासु नित्यं हि पूजयेद्गुरुमण्डलम् ॥ १-३९१ ॥

सम्प्रदायपरिज्ञानं मन्त्रवीर्यस्य संस्मृतिः ।
एतद्द्वयं न जानाति साधकस्तु कथं भवेत् ॥ १-३९२ ॥

नित्यं नैमित्तिकं चैव चाद्यं काम्यं च तद्द्वयम् ।
प्राप्तं कालाच्च पर्यायात् प्रसिद्धं त्रीण्यनुक्रमात् ॥ १-३९३ ॥

नामानि साधकेन्द्रस्य सम्प्रदायप्रसिद्धये ।
भवेयुस्तानि यत्नेन ज्ञेयानि श्रीगुरोरपि ॥ १-३९४ ॥

पारंपर्ययं तथा ज्ञात्वा स्वशिष्येभ्यो निवेदयेत् ।
गुर्वात्मदेवताणूनामैक्यं सम्भावयन् सदा ॥ १-३९५ ॥

तदाज्ञापालनोद्यक्तश्चोत्तमः शिष्य उच्यते ॥

गुरुमण्डलपूजायां विशेषदिनानि तन्त्रराजे-

गुरोस्तु जन्मदिवसं विद्याप्राप्तिदिनं तथा ।
स्वजन्मदिवसं नाथव्याप्तिवासरमेव च ॥ १-१ ॥

अक्षरत्रयसंपातदिनं पूर्णादिनं तथा ।
षट् पर्वाणि विविष्टानि सदर्शं सप्तपर्वकम् ॥ १-२ ॥

मासतो वर्षतो वापि कुर्यादेतेषु पूजनम् ॥ १-इति ॥

अथ कादिमते प्रोक्तं लक्षणं गुरुशिष्ययोः ।
तत्तन्त्रस्थं वदिष्यामि साधकानां हिताय च ॥ १-३ ॥

सुन्दरः सुमुखः स्वच्छः सुलभो बहुमन्त्रवित् ।
असंशयः संशयच्छिन्निरपेक्षो गुरुर्मतः ॥ १-४ ॥

सौन्दर्यमनवद्यत्वं रूपे सौमुख्यता पुनः ।
स्मेरपूर्वाभिभाषित्वं स्वच्छताऽजिह्मचित्तता ॥ १-५ ॥

सौलभ्यमप्यगर्वित्वं संतोषो बहुतन्त्रता ।
असंशयस्तत्त्वबोधे तच्छिष्ये प्रतिपादनात् ॥ १-६ ॥

नैरपेक्ष्यमवित्तेच्छा गुरुत्वं हितवादिता ।
एवंविधो गुरुर्ज्ञेयस्त्वितरः शिष्यदुःखदः ॥ १-७ ॥

चतुर्भिराद्यैः संयुक्तः श्रद्धावान् सुस्थिराशयः ।
अलुब्धः स्थिरगात्रश्च प्रेक्षाकारी जितेन्द्रियः ॥ १-८ ॥

आस्तिको दृढबुद्धिश्च गुरौ मन्त्रे सदैवते ।
एवंविधो भवेच्छिष्यस्त्वितरो दुःखकृद् गुरोः ॥ १-९ ॥

गुरूच्यमाने वचने दद्यादित्थं वचस्तदा ।
प्रसीद नाथ देवेति तथेति च कृतादरम् ॥ १-१० ॥

प्रणम्योपविशेत् पार्श्वे तथा गच्छेदनुज्ञया ।
मुखावलोकी सेवेत कुर्यादादिष्टमादरात् ॥ १-११ ॥

असत्यं न वदेदग्रे न बहु प्रलपेदपि ।
कामं क्रोधं तथा लोभं मानं प्रहसनं स्तुतिम् ॥ १-१२ ॥

चापलानि च जिह्मानि कार्याणि परिदेवनम् ।
ऋणादानं तथा दानं वस्तूनां क्रयविक्रयम् ॥ १-१३ ॥

न कुर्याद्गुरुणासार्धं शिष्यो भूष्णुः कदाचन ।
यतो गुरुः शिवः साक्षात् तं स्तुवन् प्रणमन् भजेत् ॥ १-१४ ॥

यथा देवे तथा मन्त्रे यथा मन्त्रे तथा गुरौ ।
यथा गुरौ तथा स्वात्मन्येवं भक्तिक्रमः प्रिये ॥ १-१५ ॥

गुरोस्तु जन्मदिवसे कुर्यादुत्सवमादरात् ।
विशेषपूजां योगिभ्यो भोजनं तत्पदार्चनम् ॥ १-१६ ॥

व्याप्ते प्रेते दूरगते पूजयेदग्रजादिषु ।
एकदेशे नित्यपूजा दूरस्थे योजनक्रमात् ॥ १-१७ ॥

एकादि ऋतुसंवृद्ध्या वर्षे षट्योजनान्तरे ।
ततो दूरगते सेवा तदाज्ञापरिपालनम् ॥ १-१८ ॥

आसनं शयनं वस्त्रं भूषणं पादुकां तथा ।
छायां कलत्रमन्यच्च यत् स्प्र्ष्टं तत्तु पूजयेत् ॥ १-१९ ॥

एकग्रामे पृथक्पूजां न कुर्यादननुज्ञया ।
पूजामध्ये समायाते पूज्ये नत्वा स्थितिं वदेत् ॥ १-२० ॥

विदेहि शेषमित्यु (क्त्वा ? क्तः) कुर्यान्नो चेतदाज्ञया ।
वर्तेत सोऽपि तच्छेषं कुर्यान्निश्चलमानसः ॥ १-२१ ॥

पूजामध्ये गुरौ पूज्ये त्वन्ते वापि समागते ।
कृतमेवेति संभाषेन् मौनं तैर्न समाचरेत् ॥ १-२२ ॥

गुरुं न मर्त्यं बुध्येत यदि बुध्येत तस्य तु ।
न कदाचिद्भवेत् सिद्धिर्मन्त्रैर्वा देवतार्चनैः ॥ १-२३ ॥

मन्त्रेण तस्य नियतं पूजां कुर्याद्यथोदिताम् ।
तां च तत्पटले सम्यग् ज्ञात्वा भक्तिपरायणः ॥ १-२४ ॥

इति कालोमते प्रोक्तं लक्षणं गुरुशिष्ययोः ।
तत्तन्त्रोक्तविधानेन साधकानां हिताय च ॥ १-२५ ॥

तत्तन्त्रे कुलार्णवे ।

श्रीगुरुः परमेशानि शुद्धवेशो मनोहरः ।
सर्वलक्षणसंयुक्तः सर्वावयवशोभितः ॥ १-१ ॥

सर्वागमार्थतत्त्वज्ञः सर्वमन्त्रविधानवित् ।
लोकसम्मोहनाकारो देववत् प्रियदर्शनः ॥ १-२ ॥

सुमुखः सुलभः स्वच्छः शुद्धान्तश्छिन्नसंशयः ।
इङ्गिताकारचेष्टाविद् दूरतःकृतदुर्जनः ॥ १-३ ॥

अन्तर्मुखो बहिर्दृष्टिः सर्वज्ञो देशकालवित् ।
आज्ञासिद्धस्त्रिकालज्ञो निग्रहानुग्रहक्षमः ॥ १-४ ॥

वेदवेदाङ्गविच्छान्तः सर्वजीवदयापरः ।
स्वाधीनेन्द्रियसंचारः षट्वर्गविजयक्षमः ॥ १-५ ॥

अग्रगण्योऽतिगम्भीरः पात्रापात्रविशेषवित् ।
निर्ममो नित्यसंतुष्टो निर्द्वन्द्वोऽनन्तशक्तिमान् ॥ १-६ ॥

सद्भक्तवत्सलो धीरः कृपालुः स्मितपूर्ववाक् ।
भक्तप्रियः सर्वसमो दयालुः शिष्यशासिता ॥ १-७ ॥

श्रेष्ठनिष्ठो गुरुः प्राज्ञो वनितापूजनोत्सुकः ।
नित्ये नैमित्तिके काम्ये रतः कर्मण्यनिन्दिते ॥ १-८ ॥

अलोलुपोऽहिंसकश्च पक्षपाती विचक्षणः ।
वित्तविद्यादिभिः पूर्णो मन्त्रयन्त्रादिपारगः ॥ १-९ ॥

निःसंकल्पविकल्पश्च निर्णीतार्थविधायकः ।
तुल्यनिन्दास्तुतिर्मौनी निरपेक्षो नियामकः ॥ १-१० ॥

इत्यादिलक्षणोपेतः श्रीगुरुः कथितः प्रिये ॥

इति श्रीगुरुलक्षणानि ॥ अथ सच्छिष्यलक्षणानि-

सच्छिष्यं तं कुलेशानि सर्वलक्षणसंयुतम् ।
शमादिसाधनोपेतं गुणशीलसमन्वितम् ॥ १-१ ॥

शुद्धदेहानुबन्धाङ्गं धार्मिकं शुद्धमानसम् ।
दृढव्रतं सदाचारं श्रद्धाभक्तिसमन्वितम् ॥ १-२ ॥

कृतज्ञं पापभीतं च साधुसज्जनसंमतम् ।
आस्तिकं दानशीलं च सर्वभूतहिते रतम् ॥ १-३ ॥

विश्वासविनयोपेतं वित्तशाठ्यविवर्जितम् ।
असाध्यसाधकं शूरं बलकान्तिसमन्वितम् ॥ १-४ ॥

अनुकूलक्रियायुक्तमप्रमत्तं विचक्षणम् ।
हितसत्यमितस्निग्धभाषणं मुक्तदूषणम् ॥ १-५ ॥

सकृदुक्तगृहीतार्थं चतुरं बुद्धिविस्तरम् ।
गृहतल्पासनोच्छृङ्गनिर्विकारमसेवकम् ॥ १-६ ॥

विमृश्यकारिणं वीरं मनोदारिद्र्यवर्जितम् ।
सर्वकार्यातिकुशलं धीरं सर्वोपकारकम् ॥ १-७ ॥

स्वस्वार्थपरनिन्दायां विमुखं सुमुखं प्रिये ।
जितेन्द्रियं सुसन्तुष्टं धीमन्तं ब्रह्मचारिणम् ॥ १-८ ॥

त्यक्ताधिव्याधिचापल्यं दुःशङ्कातङ्कवर्जितम् ।
गुरुध्यानस्तुतिकथासेवनाभजनोत्सुकम् ॥ १-९ ॥

गुरुदैवतभक्तं च कामिनीभजनोत्सुकम् ।
नित्यं गुरुसमीपस्थं गुरुसंतोषकारिणम् ॥ १-१० ॥

वाङ्मनःकर्मभिर्नित्यं गुरुकार्यसमुत्सुकम् ।
गुर्वाज्ञापालकं देवि गुरुकीर्तिप्रकाशकम् ॥ १-११ ॥

गुरुवाक्यप्रमाणज्ञं गुरुशुश्रूषणे रतम् ।
चित्तानुवर्तिनं प्रेक्ष्यकारिणं कुलनायिके ॥ १-१२ ॥

लज्जाभिमानगर्वादिवर्जितं गुरुसंनिधौ ।
निरपेक्षं गुरुद्रव्ये तत्प्रसादादिकांक्षिणम् ॥ १-१३ ॥

कुलधर्मकथायोगियोगिनीकौलिकप्रियम् ।
कुलार्चनादिनिरतं मोक्षमार्गानुगामिनम् ॥ १-१४ ॥

इत्यादिलक्षणोपेतं गुरुः शिष्यं परिग्रहेत् ॥

अथासच्छिष्यलक्षणानि कुलार्णवे-

दुष्टान्ववायजं दुष्टं गुणहीनमरूपिणम् ।
परशिष्यं च पाषाणाण्डं धूर्तं पण्डितमानिनम् ॥ १-१ ॥

हीनाधिकविकाराङ्गं विकलावयवान्वितम् ।
पंगुमन्धं च बधिरं मलिनं व्याधिपीडितम् ॥ १-२ ॥

उच्छिष्टं दुर्मुखं चापि स्वेच्छावेशधरं विटम् ।
दुर्विदग्धं कुचेष्टं च कुटिलं भीमवीक्षणम् ॥ १-३ ॥

निद्रालस्ययुतं तन्द्राद्यूतादिव्यसनान्वितम् ।
कपाटकुड्यस्तम्भादौ तिरोहिततनुं सदा ॥ १-४ ॥

शून्ययुक्तकरं क्षुद्रं गुरुभक्तिविवर्जितम् ।
किमेकवादिनं स्तब्धं प्रेषकं चपलं शठम् ॥ १-५ ॥

धनस्त्रीशुद्धिरहितं निषेधविधिवर्जितम् ।
रहस्यभेदकं चापि देवीकार्यार्थघातकम् ॥ १-६ ॥

मार्जारबकवृत्ति च रन्ध्रान्वेषणतत्परम् ।
मायान्वितं कृतघ्नं च प्रच्छन्नान्तरदायकम् ॥ १-७ ॥

विश्वासघातकं देवद्रोहिणं पापकारिणम् ।
अविश्वासमवद्याङ्गमनर्थसिद्धिकांक्षिणम् ॥ १-८ ॥

आततायिनमादित्सुं कुत्सितं कूटसाक्षिकम् ।
सर्वत्र याचकं देवि सर्वाकृष्टाभिगामिनम् ॥ १-९ ॥

असत्यनिष्ठे चासक्तं ग्राम्यादिबहुभाषिणम् ।
दुर्विचारकुतर्कादिकारकं कलहप्रियम् ॥ १-१० ॥

वृथाक्षेपकरं भ्रान्तं भ्रामकं वाग्विडम्बकम् ।
परोक्षे दूषणकरं प्रत्यक्षे प्रियवादिनम् ॥ १-११ ॥

वाग्रूक्षवादिनं विद्याचौरमात्मप्रशंसकम् ।
गुणासहिष्णुं सद्भीतमार्तिक्रोधसमन्वितम् ॥ १-१२ ॥

चार्वाकं दुर्जनसखं सर्वलोकविगर्हितम् ।
पिशुनं परसन्तापं सर्वप्राणिभयङ्करम् ॥ १-१३ ॥

स्वक्लेशवादिनं मित्रद्रोहिणं भ्रातृवञ्चकम् ।
जिह्वोपस्थपरं देवि तस्करं पशुचेष्टितम् ॥ १-१४ ॥

अकारणद्वेषहासक्लेशक्रोधादिकारिणम् ।
अतिहास्यसुकर्माणं मर्मान्तःपरिहासकम् ॥ १-१५ ॥

कामुकं चापि निर्लज्जं मिथ्यादुश्चेष्टसूचकम् ।
असूयामदमात्सर्यदम्भाहङ्कारसंयुतम् ॥ १-१६ ॥

ईर्ष्यापैशुन्यपारुष्यकार्पण्यक्रोधमानिनम् ।
अधीरं दुःखितं द्वेष्यमशक्तं तत्त्ववर्जितम् ॥ १-१७ ॥

अप्रसन्नमतिं मूढं चिन्ताकुलितमानसम् ।
तृष्णालोभयुतं दीनमतुष्टं सर्वयाचकम् ॥ १-१८ ॥

बह्वाशिनं कपटिनं भ्रामकं कुटिलं प्रिये ।
भक्तिश्रद्धादयाशान्तिधर्माचारविवर्जितम् ॥ १-१९ ॥

मातापितृगुरुप्राज्ञमहतां हास्यकारकम् ।
कुलद्रव्यादिबीभत्सुं गुरुसेवाभिमानिनम् ॥ १-२० ॥

स्त्रीद्विष्टं समयभ्रष्टं गुरुशप्तं कुलेश्वरि ।
इत्यादिविगुणोपेतं गुरुः शिष्यं परित्यजेत् ॥ १-२१ ॥

स्नेहाद्वा लोभतो वापि यदि गृह्णाति दीक्षयेत् ।
तस्मिन् गुरौ सशिष्ये तु देवताशाप आपतेत् ॥ १-२२ ॥

तस्मादेवंविधं शिष्यं न गृह्णीयात्कथञ्चन ।
यदि गृह्णाति मोहेन तत्पापैर्व्याप्यते गुरुः ॥ १-२३ ॥

मन्त्रिपापं च राजानं पतिं जायाकृतं यथा ।
तथा शिष्यकृतं पापं प्रायो गुरुमपि स्पृशेत् ॥ १-२४ ॥

वर्णाश्रमाणां सर्वेषामाचारः सद्गतिप्रदः ।
गुरुस्त्रिवारमाचारं बोधयेत्कुलनायिके ॥ १-२५ ॥

न गृह्णाति हि शिष्यश्चेत्तदा पापं गुरोर्नहि ॥

इति गुरुशिष्यलक्षणानि ॥ अथ श्रीगुरुपादुकामाहात्म्यं कुलार्णवे-

वागुरा मूलवलये सूत्राद्याः कवलीकृताः ।
एवं कुलागमज्ञानं पादुकायां प्रतिष्ठितम् ॥ १-१ ॥

कोटिकोटिमहादानात्कोटिकोटिमहाव्रतात् ।
कोटिकोटि महायज्ञात्परा श्रीपादुकास्मृतिः ॥ १-२ ॥

कोटिमन्त्रजपात्कोटिपुन्यतीर्थावगाहनात् ।
कोटिदेवार्चनाद्देवि परा श्रीपादुकास्मृतिः ॥ १-३ ॥

महारोगे महोत्पाते महादुःखे महाभये ।
महापदि महापापे स्मृता रक्षति पादुका ॥ १-४ ॥

तेनाधीतं श्रुतं ज्ञातं दत्तमिष्टं च पूजितम् ।
जिह्वाग्रे वर्तते यस्य सदा श्रीपादुका प्रिये ॥ १-५ ॥

सकृच्छ्रीपादुकां देवि यो वा जपति भक्तितः ।
स सर्वपापरहितः प्राप्नोति परमां गतिम् ॥ १-६ ॥

शुचिर्वाप्यशुचिर्वा यो भक्त्या स्मरति पादुकाम् ।
अनायासेन धर्मार्थकाममोक्षांल्लभेत सः ॥ १-७ ॥

श्रीनाथचरणाम्भोजं यस्यां दिशि विराजते ।
तस्यां दिशि नमस्कुर्याद्भक्त्या प्रतिदिनं प्रिये ॥ १-८ ॥

न पादुकापरो मन्त्रो न देवः श्रीगुरोः परः ।
नहि शाक्तात्परो मार्गो न पुण्यं कुलपूजनात् ॥ १-९ ॥

ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् ।
शास्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ १-१० ॥

गुरुमूलाः क्रियाः सर्वाः लोकेऽस्मिन् कुलनायिके ।
तस्मात् सेव्यो गुरुर्नित्यं सिद्ध्यर्थं भक्तिसंयुतैः ॥ १-११ ॥

तावदार्तिर्भयं दुःखं मोहशोकभ्रमादयः ।
यावन्नायाति शरणं श्रीगुरुं भक्तवत्सलम् ॥ १-१२ ॥

तावद् भ्रमति संसारे सर्वदुःखमलीमसः ।
यावन्न भजते भक्त्या श्रीगुरुं शिवरूपिणम् ॥ १-१३ ॥

सर्वसिद्धिफलोपेतो मन्त्रस्कन्धोऽतिशोभनः ।
गुरुप्रसादमूलोऽयं परतत्त्वमहाद्रुमः ॥ १-१४ ॥

यथा ददाति सन्तुष्टः प्रसन्नो वरदो मनुम् ।
तथा भक्त्या धनैः प्राणैर्गुरुं यत्नेन तोषयेत् ॥ १-१५ ॥

यदा दद्याच्छिवाय स्वमात्मानं देशिकोत्तमः ।
तदा मुक्तो भवेच्छिष्यो न ततोऽस्ति पुनर्भवः ॥ १-१६ ॥

तावदाराधयेच्छिष्यः सुप्रसन्नो यथा भवेत् ।
गुरौ प्रसन्ने शिष्यस्य सद्यः पापक्षयो भवेत् ॥ १-१७ ॥

मनसापि न काङ्क्षन्ते भक्ता मानानुजीविकाः ।
सम्वादयन्ति तत्सर्वं स्वामिनो भक्तवत्सलाः ॥ १-१८ ॥

ब्रह्मविष्णुमहेशानदेवतामुनियोगिनः ।
कुर्वन्त्यनुग्रहं तुष्टा गुरौ तुष्टे न संशयः ॥ १-१९ ॥

भक्त्या सन्तुष्टगुरुणा योऽपदिष्टः कृपालुना ।
कर्ममुक्तो भवेच्छिष्यो भुक्तिमुक्त्योः स भाजनम् ॥ १-२० ॥

शिष्येणापि तदा ग्राह्यं यदा सन्तोषितो गुरुः ।
तस्माद्गुरोप्रियं कुर्यान्मनोवाक्कायकर्मभिः ॥ १-२१ ॥

यदि वा परितुष्टेन गुरुणा यत्र कुत्रचित् ।
मुक्तोऽसीति समादिष्टः सोऽपि मुक्तो भवेत्प्रिये ॥ १-२२ ॥

अथवा निष्प्रपञ्चेन धाम्ना केनचिदीश्वरि ।
करोमि गुरुरूपेण पशुपाशविमोचनम् ॥ १-२३ ॥

न मे प्रियश्चतुर्वेदी मद्भक्तः श्वपचोऽपि यः ।
तस्मै देयं ततो ग्राह्यं स तु पूज्यो ह्यहं यथा ॥ १-२४ ॥

विप्रोऽपि गुणयुक्तो वाप्यभक्तो न प्रशस्यते ।
म्लेक्षोऽपि गुणहीनो वा भक्तिमान् स विशिष्यते ॥ १-२५ ॥

गुरुभक्तिविहीनस्य तपो विद्या व्रतं कुलम् ।
निष्फलं हि कुलेशानि केवलं लोकरञ्जनम् ॥ १-२६ ॥

गुरुभक्त्याख्यदहनदग्धदुर्जातिकल्मषः ।
श्वपचोऽप्यमरैः पूज्यो न विद्वानपि नास्तिकः ॥ १-२७ ॥

धर्मार्थकामैः किं तस्य मोक्षस्तस्य करे स्थितः ।
सर्वार्थैः श्रीगुरौ देवि यस्य भक्तिः स्थिरा सदा ॥ १-२८ ॥

इति श्रीमहामहोपाध्यायभगवत्पूज्यपाद- श्रीगोविन्दाचार्यशिष्यश्रीभगवच्छङ्कराचार्यशिष्य- श्रीविष्णुशर्माचार्यशिष्य-श्रीप्रगल्भाचार्यशिष्य-श्रीविद्यारण्ययतिविरचिते विद्यार्णवाख्ये तन्त्रे प्रथमः श्वासः ॥ १ ॥

अथ

श्रीविद्यार्णवतन्त्रे

2. Śvāsa

तथा-

स शिवो गुरुरूपेण भुक्तिमुक्तिप्रदो मम ।
इति भक्त्या स्मरेद् यस्तु तस्य सिद्धिरदूरतः ॥ २-१ ॥

यस्य देवे परा भक्तिर्यथा तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते कुलेश्वरि ॥ २-२ ॥

नारायणे महादेवे मातापित्रोश्च राजनि ।
यथा भक्तिर्भवेत् देवि तथा कार्या निजे गुरौ ॥ २-३ ॥

लक्ष्मीनारायणौ वाणीधातारौ गिरिजाशिवौ ।
श्रीगुरुं गुरुपत्नीं च पितराविति चिन्तयेत् ॥ २-४ ॥

गुरुभक्त्या यथा देवि प्राप्यन्ते सर्वसिद्धयः ।
यज्ञदानतपस्तीर्थव्रताद्यैर्न तथा प्रिये ॥ २-५ ॥

श्रीगुरौ निश्चला भक्तिर्वर्द्धते हि यथा यथा ।
तथा तथास्य विज्ञानं वर्द्धते कुलनायिके ॥ २-६ ॥

किं तीर्थाद्यैर्महायासैः किं व्रतैः कायशोषणैः ।
निर्व्याजसेवा देवेशि भक्तिर्येषां हि सद्गुरौ ॥ २-७ ॥

कायक्लेशेन महता तपसा वापि यत्फलम् ।
तत्फलं लभते देवि सुखेन गुरुसेवया ॥ २-८ ॥

भोगमोक्षार्थिनां ब्रह्मविष्ण्वीशपदकाङ्क्षिणाम् ।
भक्तिरेव गुरौ देवि नान्यः पन्था इति श्रुतिः ॥ २-९ ॥

अशुभानि च सर्वाणि समहापातकानि च ।
भक्तिः क्षणेन दहति तूलराशिमिवानलः ॥ २-१० ॥

विश्वासाय नमस्तस्मै सर्वसिद्धिप्रदायिने ।
येन मृद्दारुदृषदः फलन्त्यविकलं फलम् ॥ २-११ ॥

न योगो न तपो नार्चाक्रमः कोऽपि निगद्यते ।
अमाये कुलमार्गेऽस्मिन् भक्तिरेका विशिष्यते ॥ २-१२ ॥

साक्षाद्गुरुमये देवि सर्वस्मिन् भुवनान्तरे ।
किं न भक्तिमतां क्षेत्रं मन्त्रः क्वैषां न सिद्ध्यति ॥ २-१३ ॥

गुरौ मनुष्यबुद्धिं च मन्त्रे चाक्षरबुद्धिकाम् ।
प्रतिमासु शिलाबुद्धिं कुर्वाणो नरकं व्रजेत् ॥ २-१४ ॥

गुरुं न मर्त्यं बुद्ध्येत यदि बुद्ध्येत तस्य तु ।
कदापि न भवेत् सिद्धिर्मन्त्रैर्वा देवतार्चनैः ॥ २-१५ ॥

श्रीगुरुं प्राकृतैः सार्धं ये स्मरन्ति वदन्ति वा ।
तेषां च सुकृतं सर्वं पातकं भवति प्रिये ॥ २-१६ ॥

जन्महेतू हि पितरौ पूजनीयौ प्रयत्नतः ।
गुरुर्विशेषतः पूज्यो धर्माधर्मप्रदर्शकः ॥ २-१७ ॥

गुरुः पिता गुरुर्माता गुरुर्दैवं गुरुर्गतिः ।
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥ २-१८ ॥

गुरौ हितं हि कर्तव्यं वाङ्मनःकायकर्मभिः ।
अहिताचरणाद् देवि विष्ठायां जायते क्रिमिः ॥ २-१९ ॥

शरीरवित्तप्राणैश्च श्रीगुरुं वञ्चयन्ति ये ।
क्रिमिकीटपतङ्गत्वं प्राप्नुवन्ति नराधमाः ॥ २-२० ॥

गुरुत्यागाद्भवेन्मृत्युर्मन्त्रत्यागाद् दरिद्रता ।
गुरुमन्त्रपरित्यागाद् रौरवं नरकं व्रजेत् ॥ २-२१ ॥

गुर्वर्थं धारयेद् देहं तदर्थं धनमर्जयेत् ।
निजप्राणान् परित्यज्य गुरुकार्यं समाचरेत् ॥ २-२२ ॥

गुरूक्तं परुषं वाक्यमाशिषं चिन्तयेत् प्रिये ।
तेन संताडितो वापि प्रसादमिति संस्मरेत् ॥ २-२३ ॥

भोगयोग्यानि वस्तूनि गुरवे सर्वमर्पयेत् ।
तच्छेषमिति संचिन्त्य चानुभूयात् कुलेश्वरि ॥ २-२४ ॥

गुर्वग्रे न तपः कुर्यात् नोपवासादिकम् व्रतम् ।
तीर्थयात्रां च नो कुर्यान्न स्नायादात्मशुद्धये ॥ २-२५ ॥

न नियोगं गुरोर्दद्याद् युष्मदा नैव भाषयेत् ।
ऋणादानं तथा दानं वस्तूनां क्रयविक्रयम् ॥ २-२६ ॥

न कुर्याद् गुरुभिः सार्धं शिष्यो भूष्णुः कदाचन ।
न कुर्यान्नास्तिकैर्वादं संभाषणमपीश्वरि ॥ २-२७ ॥

विलोक्य दूरतो गच्छेन्नासीत सह तैः क्वचित् ।
गुरौ संनिहिते यस्तु पूजयेदन्यमम्बिके ॥ २-२८ ॥

स याति नरकं घोरं सा पूजा निष्फला भवेत् ।
शिरसा न वहेद् भारं गुरुपादाब्जधारिणा ॥ २-२९ ॥

तदाज्ञया तत्कर्तव्यमाज्ञारूपो गुरुः स्मृतः ।
मन्त्रागमाद्यमन्यत्र श्रुतं तस्मै निवेदयेत् ॥ २-३० ॥

गुर्वाज्ञया तद् गृह्णीयात् तदनिष्टं विवर्जयेत् ।
स्वशास्त्रोक्तं रहस्यार्थ न वदेद्यस्य कस्यचित् ॥ २-३१ ॥

यदि ब्रूयात् स समयाच्च्युत एव न संशयः ।
अद्वैतं भावयेन्नित्यं नाद्वैतं गुरुणा सह ॥ २-३२ ॥

आत्मवत्सर्वभूतेषु हितं कुर्यात्कुलेश्वरि ।
आत्मस्थानाङ्गसद्भावैः शुश्रूषा स्याच्चतुर्विधा ॥ २-३३ ॥

शुश्रूषया तया देवि शिष्यः सन्तोषयेद् गुरुम् ।
पदे पदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् ॥ २-३४ ॥

शुश्रूषणपरो यस्तु गुरुदेवमहात्मनाम् ।
केवलं गुरुशुश्रूषा तत्कृपाकारिणी प्रिय ॥ २-३५ ॥

सभक्तिसहिता सा चेत् सर्वकामफलप्रदा ।
क्षीयन्ते सर्वपापानि वर्द्धन्ते पुण्यराशयः ॥ २-३६ ॥

सिद्ध्यन्ति सर्वकार्याणि गुरुशुश्रूषया प्रिये ।
यद्यदात्महितं वस्तु तत्तद्धितं न वञ्चयेत् ॥ २-३७ ॥

गुरुदेवार्चको यस्तु तस्य पुण्यं न गण्यते ।
भक्त्या वित्तानुसारेण गुरुमुद्दिश्य यत्कृतम् ॥ २-३८ ॥

स्वल्पं वा बहु वा पुण्यं तुल्यमाढ्यदरिद्रयोः ।
सर्वस्वमपि यो दद्याद् गुरुवे भक्तिवर्जितः ॥ २-३९ ॥

शिष्यो न फलमाप्नोति भक्तिरेव हि कारणम् ।
यस्मिन् द्रव्ये गुरोरस्ति स्पृहा नानुभवेच्च तत् ॥ २-४० ॥

अवश्यं यदि वाञ्छा स्यादनुभूयात्तदाज्ञया ।
यस्तिलार्धं तदर्धं वा गुरुस्वमुपजीवति ॥ २-४१ ॥

लोभान्मोहात् स पच्येत नरके च त्रिसप्तके ।
अल्पादल्पं गुरुद्रव्यमदत्तं स्वीकरोति यः ॥ २-४२ ॥

तिरश्चां योनिमापन्नः क्रव्यादैर्भक्ष्यते प्रिये ।
गुरुद्रव्याभिलाषी च गुरुस्त्रीगमनोत्सुकः ॥ २-४३ ॥

पतितस्य क्षुल्लकस्य प्रायश्चितं न विद्यते ।
आज्ञाभङ्गोऽर्थग्रहणं गुरोरप्रियवर्तनम् ॥ २-४४ ॥

गुरुद्रोहमिदं प्राहुर्यः करोति स पातकी ।
स्वद्रव्यविनियोगं च नानिवेद्य गुरोश्चरेत् ॥ २-४५ ॥

अनिवेद्य तु यः कुर्यात् स भवेद् ब्रह्मघातकः ।
गुरुस्थानं संप्रदायं तद्धर्म यो विनाशयेत् ॥ २-४६ ॥

गुरुभिः स बहिष्कार्यो दण्ड्यो वध्यश्च पातकी ।
गुरुकोपान्न नाशोऽन्यो गुरुद्रोहान्न पातकम् ॥ २-४७ ॥

न मृतिर्गुरुनिन्दाया गुर्वनिष्टान्नचापदः ।
जीवेदग्निप्रविष्टो वा नरः पीतविषोऽपि वा ॥ २-४८ ॥

मृत्युहस्तगतो वापि नापराधकरो गुरोः ।
यत्र श्रीगुरुनिन्दा स्यात्पिधाय श्रवणे स्वके ॥ २-४९ ॥

सद्यस्तस्मादपक्रामेद् दूरं न शृणुयाद्यथा ।
गुरोर्नाम जपेत्पश्चाच्श्रवणे सा प्रतिक्रिया ॥ २-५० ॥

गुरुमित्रसुहृद् दासीदासाद्यान् नापमानयेत् ।
न निन्देद् दृश्यसमयान् वेदशास्त्रागमादिकान् ॥ २-५१ ॥

श्रीगुरोः पादुका भूषागुरुनामस्मृतिर्जपः ।
गुर्वाज्ञाकरणं कृत्यं शुश्रूषा भजनं गुरोः ॥ २-५२ ॥

विविक्षुर्देशिकावासं शान्तचित्तोऽतिभक्तिमान् ।
व्यजनं पादुकां छत्रं चामरं वाहनादिकम् ॥ २-५३ ॥

ताम्बूलमुल्वणं वेशमुत्सृज्य प्रविशेच्छनैः ।
वाहनं पादुकां छत्रमासनं वासनादिकम् ॥ २-५४ ॥

दृष्ट्वा गुरोर्नमस्कुर्यान्नात्मभोगाय कारयेत् ।
पादप्रक्षालनं स्नानमभ्यङ्गं दन्तधावनम् ॥ २-५५ ॥

मूत्रं निष्ठीवनं क्षौरं शयनं स्त्रीनिषेवणम् ।
वीरासनं च दुर्वाक्यमासनं हास्यरोदने ॥ २-५६ ॥

केशमोचनमुष्णीषं कंचुकं नग्नतां तथा ।
पादप्रसारणं वादं कलहं दूषणं प्रिये ॥ २-५७ ॥

अङ्गभङ्गाङ्गवाद्यादि करास्फलानधूननम् ।
द्यूतकुक्कुटमल्लादियुद्धमित्यादि चाम्बिके ॥ २-५८ ॥

गुरुयोगिमहासिद्धपीठक्षेत्राश्रमेषु च ।
नाचरेदाचरन् मोहाद्देवताशापमाप्नुयात् ॥ २-५९ ॥

उपचारं विना तिष्ठेद् गुर्वग्रे नेच्छया विशेत् ।
मुखावलोकी सेवेत तदुक्तं च समाचरेत् ॥ २-६० ॥

गुरूक्तानुक्तकार्येषु नोपेक्षां कारयेत्प्रिये ।
सदसद्यद् गुरुर्ब्रूयात् तत्कार्यमविशङ्कया ॥ २-६१ ॥

निग्रहेऽनुग्रहे वापि गुरुः सर्वस्य कारणम् ।
निर्गतं यद् गुरोर्वक्त्रात् सर्वं शास्त्रं तदुच्यते ॥ २-६२ ॥

गुरुकाय स्वयं शक्तो नापरं प्रेषयेत्प्रिये ।
बहुत्वे तत्परैर्भृत्यैः सहितोऽप्यतिभक्तिमान् ॥ २-६३ ॥

गच्छंस्तिष्ठन् स्वपञ्जाग्रज्जल्पंजुह्वत् प्रपूजने ।
गुर्वाज्ञामेव कुर्वीत तद्गतेनान्तरात्मना ॥ २-६४ ॥

अभिमानो न कर्तव्यो जातिविद्याधनादिभिः ।
सर्वदा सेवयेन्नित्यं शिष्यः श्रीगुरुसन्निधौ ॥ २-६५ ॥

छायाभूमिपरीत्यागी विनीतस्त्वतिभक्तिमान् ।
देवि गुर्वग्रतस्तिष्ठेद् गुरुकार्यसमुत्सुकः ॥ २-६६ ॥

स्वकार्यमन्यकार्यं वा शिष्यः श्रीगुरुचित्तवित् ।
गुरुपार्श्वगतो नम्रः प्रच्छन्नास्यो मितं वदेत् ॥ २-६७ ॥

सामान्यतो निषेधञ्चेत् सद्गुरोर्यदि सन्निधौ ।
आचारे यदि मूढात्मा दोषं कोटिगुणं भवेत् ॥ २-६८ ॥

अनाहृत्य गुरोर्वाक्यं शृणुयाद्यः पराङ्मुखः ।
अहितं वा हितं वापि रौरवं नरकं व्रजेत् ॥ २-६९ ॥

गोब्राह्मणवधं कृत्वा यत्पापं समवाप्नुयात् ।
तत्पापं समवाप्नोति गुर्वग्रेऽनृतभाषणात् ॥ २-७० ॥

स्थानान्तरगतं चार्थव्यसने विषमे स्थितम् ।
श्रीगुरुं न त्यजेत् क्वापि तदादिष्टो व्रजेत्प्रिये ॥ २-७१ ॥

अधःस्थिते गुरावूर्ध्वे न तिष्ठेत कदाचन ।
न गच्छेदग्रतस्तस्य न विशेदुत्थिते गुरौ ॥ २-७२ ॥

शक्तिच्छायां गुरुच्छायां देवच्छायां न लङ्घयेत् ।
स्वच्छायां तेषु नो कुर्यान्न स्वपेद्गुरुसन्निधौ ॥ २-७३ ॥

भाषणं पठनं गानं भोजनं शयनादिकम् ।
अनादिष्टो न कुर्वीत नचावन्दनपूर्वकम् ॥ २-७४ ॥

ब्रह्महत्याशतं कुर्याद् गुर्वाज्ञां परिपालयन् ।
विना गुर्वाज्ञया शिष्यो निःश्वसेन्नातिशासनात् ॥ २-७५ ॥

सर्वं गुर्वाज्ञया कुर्यान्नालिङ्गेत्तत् स्त्रियं प्रिये ।
भक्त्या प्रणम्य चोत्तिष्ठेद्बद्धाञ्जलिपुतः प्रिये ॥ २-७६ ॥

पश्चात्पादेन निर्गच्छेन्नमस्कृत्य गुरोर्गहात् ।
एकासने नोपविशेद्गुरुणा तत्समैः सह ॥ २-७७ ॥

न विशेदासने देवि देवतागुरुसन्निधौ ।
गुरौ सिंहासनं देयं ज्येष्ठानामुत्तमासनम् ॥ २-७८ ॥

देश्यासनं कनिष्ठानामितरेषां समासनम् ।
जातिविद्याधनाढ्यो वा दूरे दृष्ट्वा गुरुं सदा ॥ २-७९ ॥

दण्डप्रणामं कुर्वीत त्रिःप्रदक्षिणमाचरेत् ।
ततस्त्रिः षट् द्वादश वा ज्येष्ठादिष्वेकमेव च ॥ २-८० ॥

गुरुतद्गुरुयोगे तु वन्देत परमं गुरुम् ।
ततो नमेद् गुरुं योऽपि गुर्वग्रे तं निवारयेत् ॥ २-८१ ॥

प्रगुरोः सन्निधौ शिष्यः स्वगुरुं मनसा नमेत् ।
गुरुबुद्ध्या नमेत्सर्वं दैवतं तृणमेव च ॥ २-८२ ॥

न नमेद्देवबुद्ध्या तु प्रतिमां लोहमृण्मयीम् ।
गुरोः प्रणामत्रितयं ज्येष्ठानामेकमेव च ॥ २-८३ ॥

पूज्यानामञ्जलिस्तद्वदन्येषां वाक्यवन्दनम् ।
देवान्गुरून् कुलाचार्याञ्ज्ञानवृद्धांस्तपोधनान् ॥ २-८४ ॥

विद्याधिकान् स्वकर्मस्थान् प्रणमेत्कुलनायिके ।
स्त्रीद्विष्टं गुरुभिः शप्तं पाखण्डं पतितं शठम् ॥ २-८५ ॥

विकर्माणं कृतघ्नं वा नाश्रमिणं च नोनमेत् ।
अनिवेद्य गुरुं भुंक्ते यस्त्वेकगृहसंस्थितः ॥ २-८६ ॥

अमेध्यं तेन भुक्तं स्यात्सूकरो जायते मृतः ।
एकग्रामस्थितः शिष्यस्त्रिसन्ध्यं प्रणमेद् गुरुम् ॥ २-८७ ॥

क्रोशमात्रस्थितो भक्त्या गुरुं प्रतिदिनं नमेत् ।
अर्धंयोजनतः शिष्यः प्रणमेत्पञ्चपर्वसु ॥ २-८८ ॥

एकयोजनमारभ्य योजनद्वादशावधि ।
तत्तद्योजनसंख्यातमासैर्गत्वा नमेद्गुरुम् ॥ २-८९ ॥

दूरदेशस्थितः शिष्यो भक्त्या तत्सन्निधिं गतः ।
अतिदूरस्थितः शिष्यो यदेच्छास्यात्तदा व्रजेत् ॥ २-९० ॥

रिक्तहस्तस्तु नोपेयाद्राजानं दैवतं गुरुम् ।
फलपुष्पाम्बरादीनि यथाशक्त्या समर्पयेत् ॥ २-९१ ॥

एवं यो नाचरेद्देवि ब्रह्मराक्षसतां व्रजेत् ।
गुरुशक्तिश्च तत्पुत्रो ज्येष्ठभ्राता गुरोः समः ॥ २-९२ ॥

आत्मवच्च कनीयांसः पुत्रवत्कुलपालकाः ।
लोकाचार्यस्य देवेशि गुरुज्येष्ठकनिष्ठयोः ॥ २-९३ ॥

गुरुकुल्यस्य कुर्वीत प्रणामं स्वगुरोर्यथा ।
स्वज्येष्ठश्च क्रमज्येष्ठः कुलज्येष्ठस्तृतीयकः ॥ २-९४ ॥

गुरोर्ज्येष्ठस्तु देवेशि इति ज्येष्ठचतुष्टयम् ।
यावज्ज्येष्ठाभिवादे तु क्रमज्येष्ठाङ्ग ईरितः ॥ २-९५ ॥

गुरोश्च कुलवृद्धस्य वन्दनादि विधानतः ।
पितृमात्रादिसर्वेषु पूज्यकोटिषु बन्धुषु ॥ २-९६ ॥

अभ्युत्थानप्रणामाद्यैरव्यक्तदोषलाघवः ।
यदा त्वाचार्यरूपेण स्वात्मानं सम्प्रकाशयेत् ॥ २-९७ ॥

अभ्युत्थानप्रणामाद्यैर्दोषदः स्यात्तदा प्रिये ।
पतिर्भूत्वा पशुभ्यस्तु प्रणामं यः करिष्यति ॥ २-९८ ॥

स महापशुरित्युक्तो देवताशापमाप्नुयात् ।
यो गुरुस्थानकं प्राप्तः पादुकापरिसंख्यया ॥ २-९९ ॥

गुरुवत्स तु मन्तव्यो ज्येष्ठैर्वन्द्यो नच प्रिये ।

इति पादुकामाहात्म्यतदाचारविधिः ।
अथ समयाचारः । तत्र श्रीकुलार्णवे-

श्रीगुरुं कुलशास्त्राणि पूज्यस्थानानि यानि तु ।
भक्त्या श्रीपूर्वकं देवि प्रणम्य परिकीर्तयेत् ॥ २-१ ॥

ब्रह्मादिस्तम्बपर्यन्तं यस्य मे गुरुसन्ततिः ।
तस्य मे सर्वशिष्यस्य को न पूज्यो महीतले ॥ २-२ ॥

गुरुं नम्ना न भाषेत जपकालादृते प्रिये ।
श्रीनाथदेवस्वामीति विवादे बोधने वदेत् ॥ २-३ ॥

श्रीगुरोः पादुकां मुद्रां मूलमन्त्रं स्वपादुकाम् ।
शिष्यादन्यत्र देवेशि न वदेद्यस्य कस्यचित् ॥ २-४ ॥

परंपर्ययागमाम्नायमन्त्राचारादिकं प्रिये ।
सर्वं गुरुमुखाल्लब्धं सफलं स्यान्नचान्यथा ॥ २-५ ॥

श्रीशास्त्राश्रयसम्भूतं पुस्तकं देववत्प्रिये ।
नित्यं समर्चयेद्भक्त्या पशुहस्ते निक्षिपेत् ॥ २-६ ॥

स्वदारवन्निवेषेत कुलशास्त्राणि पार्वति ।
पशुशास्त्राणि सर्वाणि वर्जयेत्परदारवत् ॥ २-७ ॥

श्वचर्मस्यं यथा क्षीरमपेयं स्याद् द्विजोत्तमैः ।
तथा पशुमुखाद्धर्मो न श्रोतव्यश्च कौलिकैः ॥ २-८ ॥

यः शृणोति कुलाचारं यथाशास्त्रं च यो वदेत् ।
तावुभौ गच्छतः साक्षाद्योगिनीवीरमेलनम् ॥ २-९ ॥

अश्रद्दधाना ये चात्र कुलधर्मान् कुलेश्वरि ।
नरकान्न निवर्तन्ते यावदाभूतसम्प्लवम् ॥ २-१० ॥

ऊढा धृता यथाप्रीता मू (ले ? ल्ये) न च समाहृता ।
सकृत्कामगता चापि पञ्चधा गुरुयोषितः ॥ २-११ ॥

अलंघ्याः पूजनीयाः स्युर्गुरुवद् गुरुयोषितः ।
कृष्णांशुकां कृष्णवर्णां कुमारीं च कृशोदरीम् ॥ २-१२ ॥

मनोहरां यौवनस्थामर्चयेद्देवताधिया ।
आममांसं सुराकुम्भं मत्तेभं सिद्धलिङ्गिनम् ॥ २-१३ ॥

सहकारमशोकं च क्रीडालोलां कुमारिकाम् ।
एकवृक्षं श्मशानं च समूहं योषितामपि ॥ २-१४ ॥

नारीं च रक्तवसनां दृष्ट्वा वन्देत भक्तितः ।
गुरुशक्तिसुतज्येष्ठकनिष्ठकुलदेशिकान् ॥ २-१५ ॥

कुलदर्शनशास्त्राणि कुलद्रव्याणि कौलिकान् ।
प्रेरकान् सूचकांश्चापि वाचकान्दर्शकांस्तथा ॥ २-१६ ॥

शिक्षकान् बोधिकान्योगियोगिनीसिद्धपूरुषान् ।
कन्याकुमारकान्नग्नानुन्मत्तामपि योषितम् ॥ २-१७ ॥

न निन्देत जुगुप्सेत न हसेन्नापमानयेत् ।
नाप्रियं नानृतं ब्रूयात्कस्यापि कुलयोगिनः ॥ २-१८ ॥

कुरूपेत्यतिकृष्णेति न वदेत्कुलयोषितम् ।
परीक्षयेन्न भक्तानां वीराणां च कृताकृतम् ॥ २-१९ ॥

न पश्येद्वनितां नग्नामुन्मत्तां प्रकटस्तनीम् ।
न दिवा सेवयेन्नारीं तद्योनिं न निरीक्षयेत् ॥ २-२० ॥

या काचिदङ्गना लोके सा मातृकुलसम्भवा ।
कुप्यन्ति कुलयोगिन्यो वनितानामतिक्रमात् ॥ २-२१ ॥

शतापराधां वनितां पुष्पेणापि न ताडयेत् ।
दोषान्न गणयेत् स्त्रीणां गुणानेव प्रकाशयेत् ॥ २-२२ ॥

तिष्ठन्ति कुलयोगिन्यः कुलवृक्षेषु सर्वदा ।
तत्पत्रेषु न भोक्तव्यमर्कपत्रे विशेषतः ॥ २-२३ ॥

न स्वपेत्कुलवृक्षाधो नचोपद्रवमाचरेत् ।
दृष्ट्वा भक्त्या नमस्कुर्याच्छेदयेन्न कदाचन ॥ २-२४ ॥

श्लेष्मान्तककरञ्जाक्षनिम्बाश्वत्थकदम्बकाः ।
बिल्वो वटोदुम्बरौ च कुलवृक्षा नव स्मृताः ॥ २-२५ ॥

देवतागुरुशास्त्रादिसिद्धाचारविडम्बकः ।
विद्याचौरो गुरुद्रोही ब्रह्मराक्षसतां व्रजेत् ॥ २-२६ ॥

गुरुं मोहादनावृत्य निर्मर्त्स्य वीरपूरुषान् ।
विकल्प्य कुलशास्त्राणि भवन्ति ब्रह्मराक्षसाः ॥ २-२७ ॥

एकाक्षरप्रदातारं यो गुरुं नैव मन्यते ।
शुनां योनिशतं गत्वा चण्डालत्वमवाप्नुयात् ॥ २-२८ ॥

गुरुं प्रकाशयेद्धीमान् मन्त्रं नैव प्रकाशयेत् ।
अप्रकाशप्रकाशाभ्यां क्षीयते सम्पदायुषी ॥ २-२९ ॥

कुलधर्मान् समाश्रित्य आचारं यो न पालयेत् ।
यथेष्टाचारिणस्तस्य महापातकिनः प्रिये ॥ २-३० ॥

आपदो दुरितं रोगा दारिद्र्यं कलहो भगम् ।
योगिनीनां प्रकोपश्च स्खलितं च पदे पदे ॥ २-३१ ॥

भ्रष्टमानः प्रनष्टश्च तेजोहीनोऽतिदुःखितः ।
निन्दितः सर्वविद्विष्टो विह्वलः सङ्गवर्जितः ॥ २-३२ ॥

देशाद्देशान्तरं याति कार्यहानिश्च सर्वदा ।
तत्रापि कुलमार्गस्थाः शाकिन्यः कुलपालिकाः ॥ २-३३ ॥

भक्षयन्ति पुरा तासां वरो दत्तो मयैव तु ।
तस्मादाचारवान् देवि योगिनीनां प्रियो भवेत् ॥ २-३४ ॥

सदाचारेण देवत्वं योगिनीवीरमेलनम् ।
संप्राप्नुवन्ति तिर्यक्त्वं कौलिकास्तद्विपर्ययात् ॥ २-३५ ॥

संस्कारेण विहीनत्वाद् गुरुवाक्यस्य लङ्घनात् ।
आचारलङ्घनाद् देवि कौलिकः पतितो भवेत् ॥ २-३६ ॥

नित्यं नैमित्तिकं काम्यं मन्त्रतन्त्रादिलोपजम् ।
अनर्हपशुदुःसङ्गमन्त्रसांकर्यसंभवम् ॥ २-३७ ॥

गुप्तप्रकटसंभूतं ज्ञानाज्ञानकृतं प्रिये ।
एवमादिषु दोषेषु पापस्य गुरुलाघवम् ॥ २-३८ ॥

देशं कालं वयो वित्तं सम्यग्ज्ञात्वा यथाविधि ।
प्रायश्चित्तं गुरुर्दद्यात्सर्वपापविशुद्धये ॥ २-३९ ॥

शिष्योऽपि च तथा प्रोक्तं प्रायश्चित्तं समाचरेत् ।
अथवा सर्वपापानां गुरुनामजपस्मृतिः ॥ २-४० ॥

जाम्बूनदस्य कालुष्यं परिशुद्धं यथाग्निना ।
अनाचारस्य मालिन्यं प्रायश्चित्ताग्निना दहेत् ॥ २-४१ ॥

बहुनात्र किमुक्तेन रहस्यं शृणु पार्वति ।
वर्णाश्रमाणां सर्वेषामाचारः सद्गतिप्रदः ॥ २-४२ ॥

गुरुस्त्रिवारमाचारं कथयेत्कुलनायिके ।
तन्न गृह्णाति शिष्यश्चेत्तदा पापं गुरोर्नहि ॥ २-४३ ॥

मन्त्रिदोषश्च राजानं भार्यादोषः पतिं यथा ।
तथा प्राप्नोत्यसंदेहं शिष्यपापं गुरुः प्रिये ॥ २-४४ ॥

इति प्रयोगसारे-

देवस्थाने गुरुस्थाने श्मशाने वा चतुष्पथे ।
पादुकासनविण्मूत्रमैथुनादि विवर्जयेत् ॥ २-१ ॥

देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताः ।
सिद्धं सिद्धाधिवासांश्च श्रीपूर्व समुदीरयेत् ॥ २-२ ॥

प्रमत्तागन्त्यजां कन्यां पुष्पितां पतितस्तनीम् ।
विरूपां मुक्तकेशीं च कामार्ता च न निन्दयेत् ॥ २-३ ॥

कन्यायोनिं पशुक्रीडां दिग्वस्त्रां प्रकटस्तनीम् ।
नालोकयेत्परद्रव्यं परदारांश्च वर्जयेत् ॥ २-४ ॥

धान्यगोगुरुविप्राग्निविद्याकोशगृहान् प्रति ।
नैव प्रसारयेत्पादौ नैतानपि च लङ्घयेत् ॥ २-५ ॥

आलस्यमदसंमोहशाठ्यपैशुन्यविग्रहान् ।
असूयामात्मसम्मानं परनिन्दां च वर्जयेत् ॥ २-६ ॥

लिङ्गिनं व्रतिनं विप्रं वेदवेदाङ्गसंहिताः ।
पुराणागमशास्त्राणि कल्पांश्चापि न दूषयेत् ॥ २-७ ॥

युगं मुसलमश्मानं दाम चुल्लीमुलूखलम् ।
शूर्प्पं संमार्जनीं दण्डं ध्वजं वैडूर्यमायुधम् ॥ २-८ ॥

कलशं चामरं छत्रं दर्पणं भूषणं तथा ।
भोगयोग्यानि चान्यानि योग द्रव्याणि यानि च ॥ २-९ ॥

महास्थानेषु वस्तूनि यानि वा देवतालये ।
दिव्योक्तानि पदार्थानि भूताविष्टानि यानि वै ॥ २-१० ॥

लङ्घयेञ्जातु नैतानि नैतानि च पदा स्पृशेत् ।
या गोष्ठी लोकविद्विष्टा या च स्वैरं विसर्पिणी ॥ २-११ ॥

परहिंसात्मिका या च न तामवतरेत् क्वचित् ।
प्रतिग्रहं न गृह्णीयादात्मभोगविधित्सया ॥ २-१२ ॥

देवतागुरुपूजार्थं यत्नतोऽप्यर्जयेद्धनम् ।
धारयेदार्जर्वं सत्यं सौशील्यं समतां धृतिम् ॥ २-१३ ॥

क्षान्तिं दयामनास्थां च दिव्यां शक्तिं च सर्वदा ।
विभीतकार्ककारञ्जस्नुहिच्छायां न संश्रयेत् ॥ २-१४ ॥

स्तम्भदीपमनुष्याणामन्येषां प्राणिनां तथा ।
नखाग्रकेशनिर्द्धूतस्नानवस्त्रघटोदकम् ॥ २-१५ ॥

एतत्स्पर्शं त्यजेद् दूरं खरश्वाजरजस्तथा ।
न निन्देत्कारणं देवं न शास्त्रं देवनिर्मितम् ॥ २-१६ ॥

न गुरुं साधकं चैव लिङ्गच्छायां न लङ्घयेत् ।
नाद्यान्न लङ्घेन्निर्माल्यं तदद्याच्छिवदीक्षितः ॥ २-१७ ॥

न लङ्घयेद् गुरोराज्ञामुत्तरं न वदेत्तथा ।
रात्रौ दिवा च तस्याज्ञां दासवत्परिपालयेत् ॥ २-१८ ॥

असत्यमशुभं तद्वद् बहुवादं परित्यजेत् ।
अप्रियं च तथालस्यं कामक्रोधौ विशेषतः ॥ २-१९ ॥

अप्रच्छन्नमुखो ब्रूयाद् गुरोरग्रे कदाचन ।
अभिमानं न कुर्वीत धनधान्याश्रमादिभिः ॥ २-२० ॥

गुरुद्रव्यं न भोक्तव्यं तेनादत्तं कदाचन ।
दत्तं प्रसादवद् ग्राह्यं लोभतो न कदाचन ॥ २-२१ ॥

अद्वैतं देवपूजां च गुरोरग्रे परित्यजेत् ।
पादुकायोगपट्टादिगुरुचिह्नानि सादरम् ॥ २-२२ ॥

न लङ्घयेत्स्पृशेन्नैव पादाभ्यां प्रणमेत्सदा ।
पर्यङ्कशयनं तद्वत्तथा पादप्रसारणम् ॥ २-२३ ॥

अङ्गभङ्गं च लीलां च न कुर्याद् गुरुसन्निधौ ।
गमनागमने कुर्यात्प्रणम्य गुरुपादुकाम् ॥ २-२४ ॥

छायां न लङ्घयेत्तद्वन्न गच्छेत्पुरतो गुरोः ।
पश्चात्पादेन निर्गच्छेत्प्रणम्य च गुरोर्गृहात् ॥ २-२५ ॥

गुरोरग्रे न कुर्वीत प्रभावं शिष्यसंग्रहम् ।
अहंकारं न कुर्वीत नोल्वणं धारयेद्वपुः ॥ २-२६ ॥

प्रगुरोः सन्निधौ नैव स्वगुरुं प्रणमेद् बुधः ।
नमस्काराय चोद्युक्तं गुरुर्दृष्ट्वा निवारयेत् ॥ २-२७ ॥

नाभियोगं गुरोर्दद्याद्युष्मदा नैव भाषयेत् ।
उपयुक्तं परेणैव यदि वा दीक्षितेन तु ॥ २-२८ ॥

छत्रोपानहवस्त्राद्यं नोपयुञ्जीत कर्हिचित् ।
असंपत्तावथापत्सु न दोषः क्षालिते सति ॥ २-२९ ॥

स्वकुले दीक्षितानां च आचार्याणां तथैव च ।
उपयुक्तौ न दोषः स्यात्तद्दत्तादाहृतादपि (?) ॥ २-३० ॥

मन्त्रोपभुक्तमन्नाद्यं तथा यन्मन्त्रसंस्कृतम् ।
प्राप्तमायतनाद् देव्याः शिरसा प्रणतो वहेत् ॥ २-३१ ॥

निक्षिपेदम्भसि ततो न पतेदवनौ यथा ।
जातायामापदि भ्रंशे शपथं (कु ? गु)रुसंज्ञकम् ॥ २-३२ ॥

न कुर्याद् भगवत्संज्ञं प्रमादेन क्रियेत चेत् ।
तदर्थं निर्वहेद्यत्नादन्ते पूजाजपाहुतीः ॥ २-३३ ॥

अनिर्वाहे तु कार्यस्य यदर्थं शपथः कृतः ।
प्रायश्चित्तजपो देवि सहस्रं स्वमनोस्ततः ॥ २-३४ ॥

लोकोद्वेगकरी या च या च मर्मनिकृन्तनी ।
स्थित्युद्वेगकरी या च तां गिरं नैव भाषयेत् ॥ २-३५ ॥

रम्यमप्युज्ज्वलमपि मनसोऽपि समीप्सितम् ।
लोकविद्वेषणं वेषं न गृह्णीयात्कथञ्चन । ३६ ॥

अत्रोक्तान् यः सदा ह्येतानैहिकामुष्मिकोचितान् ।
आचारानादृतः शान्तिं दीक्षितः सोऽधिगच्छति ॥ २-३७ ॥

स्त्रीणां विशेषतो दद्यात्समयांश्चामलाशयः ।
पालनात्समयानां तु सिद्धिरुत्पद्यतेऽचिरात् ॥ २-३८ ॥

मन्त्रः सांमुख्यमायाति समयस्थस्य सर्वदा ।
सिद्धयः समयस्थस्य सर्वाः स्युर्मोक्षपश्चिमाः ॥ २-३९ ॥

अयने विषुवे चैव ग्रहणे सूर्यचन्द्रयोः ।
अष्टम्यां पूर्णिमायां च तेषु नैमित्तिको जपः ॥ २-४० ॥

नित्यात्त्रिगुणितः सोऽथ पूजां चैव समाचरेत् ।
न्यायार्जितैः साधनैश्च दानहोमार्चनादिकम् ॥ २-४१ ॥

कुर्यान्न चेदधो याति भक्त्या कुर्वन्नपीश्वरि ।

इति समयाचारः ॥ नारदपञ्चरात्रे-

ब्राह्मणः सर्वकालज्ञः कुर्यात्सर्वेष्वनुग्रहम् ।
तदमावाद् द्विजश्रेष्ठ ! शान्तात्मा भगवन्मयः ॥ २-१ ॥

भावितात्मा च सर्वज्ञः शास्त्रज्ञः सत्क्रियापरः ।
सिद्धित्रयसमायुक्त आचार्यत्वेऽभिषेचितः ॥ २-२ ॥

क्षत्रविट्शूद्रजातीनां क्षत्रियोऽनुग्रहक्षमः ।
क्षत्रियस्यापि च गुरोरभावादीदृशो यदि ॥ २-३ ॥

वैश्यः स्या (त्तैः ? त्ते) न कार्यः स्याद्द्वये नित्यमनुग्रहः ।
सजातीयेन शूद्रेण तादृशेन महामते ॥ २-४ ॥

अनुग्रहाभिषेकौ च कार्यौ शूद्रस्य सर्वदा ।
वर्णोत्तमेऽथ च गुरौ सति वा विश्रुतेऽपि वा ॥ २-५ ॥

सदेशतोऽथवान्यत्र नेदं कार्यं शुभार्थिना ।
विद्यमाने तु यः कुर्याद्यत्र तत्र विपर्ययम् ॥ २-६ ॥

तस्येहामुत्र नाशः स्यात्तस्माच्छास्त्रोक्तमाचरेत् ।
क्षत्रविट्शूद्रजातीयः प्रातिलोम्येन दीक्षयेत् ॥ २-७ ॥

बह्वाशी दीर्घसूत्री च विषयादिषु लोलुपः ।
हेतुवादरतो दुष्टो वाग्वादी गुणनिन्दकः ॥ २-८ ॥

अरोमा बहुरोमा च निन्दिताश्रमसेवकः ।
कालदन्तोऽसितोष्ठश्च दुर्गन्धिश्वासवाहकः ॥ २-९ ॥

दुष्टलक्षणसम्पन्नो यद्यपि स्वयमीश्वरः ।
बहुप्रतिग्रहासक्त आचार्यः श्रीवहावहः ॥ २-१० ॥

इति । ज्ञानोन्नयने-

निर्वीर्यं च पितुर्मन्त्रं तथा मातामहस्य च ।
सोदरस्य कनिष्ठस्य वैरिपक्षाश्रितस्य च ॥ २-१ ॥

भिक्षुभ्यश्च वनस्थेभ्यो वर्णिभ्यश्च महेश्वरि ।
गृहस्थो भोगमोक्षार्थी मन्त्रदीक्षां नचाचरेत् ॥ २-२ ॥

त्यक्ताग्नयः क्रियाहीना यतयो ह्यपरिग्रहाः ।
वनस्थास्तादृशश्चैव वर्णीन्यूना अमी यतः ॥ २-३ ॥

अतस्तेषां नाधिकारो दीक्षादाने महेश्वरि ।

इति । भैरवीतन्त्रे-

तपस्वी सत्यवादी च गृहस्थः स्वस्थमानसः ।
दीक्षायां न गुरुत्वेन यतीन्वैखानसान् प्रिये ॥ २-१ ॥

वृणुयाद्भोगमोक्षार्थी गृहस्थो वर्णिनं तथा ।

इति । गुरुशिष्यपरीक्षा तु कुलार्णवे-

ज्ञानेन कृपयावापि गुरुः शिष्यं परीक्षयेत् ।
संवत्सरं तदर्धं वा तदर्धं वापि यत्नतः ॥ २-१ ॥

उत्तमानधमे कार्ये नीचानुत्तमकर्मणि ।
प्राणद्रव्यप्रदानाद्यैरादेशैश्च समासमैः ॥ २-२ ॥

तन्मर्मसूचनैर्वाक्यैर्मायाभिः क्रूरचेष्टितैः ।
पक्षपातैरुदासीनैरनेकैश्च मुहुर्मुहुः ॥ २-३ ॥

आकृष्टस्ताडितश्चापि यो विषादं न याति च ।
गुरुः कृपां करोतीति मुदा सञ्चिन्तयेत्सदा ॥ २-४ ॥

श्रीगुरोः स्मरणे वापि कीर्तने दर्शनेऽपि वा ।
वन्दने परिचर्ययायामाह्वाने प्रेषणे प्रिये ॥ २-५ ॥

आनन्दकम्परोमाञ्चस्वरनेत्रादिविक्रियाः ।
येषां स्युस्तेऽत्र योग्याः स्युः दीक्षासंस्कारकर्मसु ॥ २-६ ॥

शिष्योऽपि लक्षणैरेतैः कुर्याद् गुरुपरीक्षणम् ।
आनन्दाद्यैर्जपैः स्तोत्रैर्ध्यानहोमार्चनादिभिः ॥ २-७ ॥

ज्ञानोपदेशसामर्थ्यं मन्त्रसिद्धिमपीश्वरि ।
बोधकत्वं च विज्ञाय शिष्यो भूयान्न चान्यथा ॥ २-८ ॥

इति । अथ शिष्याणामधममध्यमोत्तमत्वं तत्रैव-

आदिमध्यावसानेषु योग्या भक्तिनिपाततः ।
अधमाः मध्यमाः श्रेष्ठाः शिष्या अपि प्रकीर्तिताः ॥ २-९ ॥

आदौ भक्तिर्भवेद्देवि दीक्षायां सम्वदन्ति ये ।
पुनर्विध्वस्तभक्तास्त आदिभक्ताः प्रकीर्तिताः ॥ २-१० ॥

दीक्षासमयसम्प्राप्ता ज्ञानविज्ञानवर्जिताः ।
भक्त्या प्रध्वस्तजाड्या ये मध्ययोग्याः प्रकीर्तिताः ॥ २-११ ॥

आदौ भक्तिविहीनो यो मध्ये भक्तोऽस्ति वा नवा ।
अन्ते प्रभूतभक्तश्चप्यन्तयोग्या भवन्ति ते ॥ २-१२ ॥

इति । अथ वर्णविभागेन योग्यताकालविशेषस्तत्र शारदायाम्-

एकाब्देन भेवेद्योग्यो ब्राह्मणस्तद्द्वयान्नृपः ।
वैश्यो वर्षैस्त्रिभिः शूद्रश्चतुर्भिर्वत्सरैर्गुरौ ॥ २-१ ॥

सुशुश्रूषुः परिग्राह्यो दीक्षायागव्रतादिषु ।

इति । अत्र शूद्राणां मन्त्रेष्वनधिकारः श्रूयते ।
यथा महाकपिलपञ्चरात्रे-

न वेदप्रणवं त्यक्त्वा मन्त्रो वेदसमुद्भवः ।
तस्माद् वेदः परो मन्त्रो वेदाङ्गश्चागमः स्मृतः ॥ २-१ ॥

वश्याकर्षादिकं कर्म दृष्टादृष्टफलप्रदम् ।
वेदेन साध्यते सर्वं ग्रहयज्ञादिभिः कलौ ॥ २-२ ॥

न वेदेन विना यज्ञा न वेदा यज्ञवर्जिताः ।
तस्माद्वेदः परो मन्त्रो न मन्त्रो वेद उज्झितः ॥ २-३ ॥

न मन्त्रे चाधिकारोऽस्ति शूद्राणां नियमं परम् ।
मन्त्राभावादमन्त्रेण भाषितं सर्वकर्म हि ॥ २-४ ॥

इति । तथा शातातपसंहितायाम्-

यावन्त्यर्णानि मन्त्राणां शूद्राय प्रतिपादयेत् ।
तावत्यो ब्रह्महत्याः स्युः स्वयमाह प्रजापतिः ॥ २-१ ॥

इति । कुत्रचिदनिषेधोऽपि श्रूयते भविष्ये-

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये शुचयोऽमलाः ।
तेषां मन्त्राः प्रदेया वै नतु सङ्कीर्णधर्मिणाम् ॥ २-१ ॥

ब्रह्मक्षत्रविशः शूद्रा अर्चायां शुद्धबुद्धयः ।
गुरुदेवद्विजार्चासु रताः स्युरधिकारिणः ॥ २-२ ॥

इति योगिनीतन्त्रवचनात् ॥

वैदिको मिश्रिको वापि विप्रादीनां विधीयते ।
तान्त्रिको विप्रभक्तस्य शूद्रस्यापि प्रकीर्तितः ॥ २-१ ॥

स्वागमोक्तेन विधिना शूद्रैश्चापि प्रपूजनम् ।
कर्तव्यं श्रद्ध्या विष्णोश्चिन्तयित्वा पतिं हृदि ॥ २-२ ॥

स्त्रीणामप्यधिकारोऽस्ति विष्णोराराधनादिषु ।
पतिप्रियरतानां च श्रुतिरेषा सनातनी ॥ २-३ ॥

इति पद्मपुराणात् । पतिप्रियेति सधवापरम् ।
चिन्तयित्वेति मृतभर्तृकापरमिति ज्ञेयम् । तथाचोक्तं तन्त्रराजे-

द्विजातीनां तु संस्कारं वेदोक्तं समुदाहृतम् ।
तेषां च तत्र तत्रापि विद्यया विधिमाचरेत् ॥ २-१ ॥

सविद्यास्मरणं कुर्यात्क्रियां सर्वत्र चोदिताम् ।
तेन तन्मयतासिद्धिः सर्वत्र भवति ध्रुवम् ॥ २-२ ॥

अन्येषामपि वर्णानां विद्यया समुपाचरेत् ।

इति । भविष्योत्तरे-

या स्त्री भर्ता वियुक्ता च शुभा स्वातन्त्र्यसंयुता ।
सा च मन्त्राणि गृह्णातु समर्त्री तद (व ? नु)ज्ञया ॥ २-१ ॥

विना स्वधर्मं यत्किञ्चिद्देवताराधनादिकम् ।
परिभ्रश्येत तद्यस्मात्क्षणात् सैकतहर्म्यवत् ॥ २-२ ॥

इति कुलार्णवे-

विधवायाः सुतादेशात्कन्यायाः पितुराज्ञया ।
नाधिकारः स्वतो नार्या भार्याया भर्तुराज्ञया ॥ २-१ ॥

स्त्रीशूद्राणामयं मन्त्रो नमोन्तश्च शुभावहः ।
एतज्ज्ञात्वा महासेन चण्डालानपि दीक्षयेत् ॥ २-२ ॥

इति रुद्रयामलात् । अयं प्रासादमन्त्रः । तथा च-

शुचिव्रततमाः शूद्रा धार्मिका द्विजसेवकाः ।
स्त्रियः पतिव्रताश्चान्ये प्रतिलोमानुलोमजाः ॥ २-१ ॥

लोकाश्चण्डालपर्यन्ताः सर्वेऽप्यत्राधिकारिणः ।
स्वजातिधर्मनिरताः भक्ताः सर्वेश्वरस्य च ॥ २-२ ॥

उपदेशमशेषाणां तत्तज्जात्यनुसारतः ।
न वैदिकं जपेच्छूद्रः स्त्रियश्चैव कदाचन ॥ २-३ ॥

नमोऽन्तं शिवमन्त्रं वा वैष्णवं चोच्यते बुधैः ।

इति । याज्ञवल्क्योऽपि-

स्वाहाप्रणवसंयुक्तं मन्त्रं शूद्रे ददद् द्विजः ।
शूद्रो निरयगामी स्याद्विप्रः शूद्रत्वमाप्नुयात् ॥ २-१ ॥

इति यामले-

एकद्वित्रिचतुष्पञ्चवर्षाण्यालोच्य योग्यताम् ।
भक्तियुक्तगुणांश्चापि क्रमाद्वर्णे ससङ्करे ॥ २-१ ॥

इति । अथ मन्त्राणां ब्रह्मक्षत्रादिभेदः कुलार्णवे-

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो भवति वै मनुः ।
अनुलोमेन देयः स्यात्प्रतिलोमेन वै क्वचित् ॥ २-१ ॥

इति वामकेश्वरे-

ब्राह्मणः क्षत्रिया वैश्याः शूद्राः पौरस्त्यजातयः ।
चतुर्विधास्ते मनवः क्रमाद्वर्णे ससङ्करे ॥ २-१ ॥

इति । सौत्रामणीतन्त्रे-

मायाबीजं ब्राह्मणः स्याच्छ्रीबीजं क्षत्रियः स्मृतः ।
कामबीजं भवेद् वैश्यो वाग्भवं शूद्र ईरितः ॥ २-१ ॥

चतुर्बीजपरित्यक्तो मन्त्रः पौरस्त्यसंज्ञकः ।
चतुर्बीजं ब्राह्मणानां क्षत्रियाणां त्रिबीजकम् ॥ २-२ ॥

बीजद्वयं तु वैश्यानां शूद्राणां त्वेकबीजकम् ।

इति । कुलमूलावतारे - श्रीदेव्युवाच

शाक्तशाम्भवसौराणां गाणेशे वैष्णवेषु च ।
ब्रह्मक्षत्रियवर्णानां सङ्कराणां विशेषतः ॥ २-१ ॥

प्रवृत्तिं श्रोतुमिच्छामि साधकानां हिताय च ।
येषु येषु च ये मन्त्रास्तद्भोदं ब्रूहि शङ्कर ॥ २-२ ॥

ईश्वर उवाच

उमामहेश्वरं चैव दक्षिणामूर्त्यघोरकम् ।
हयग्रीवं च वाराहमष्टाक्षरमतः परम् ॥ २-३ ॥

प्रणवाद्यं वासुदेवं लक्ष्मीनारायणं तथा ।
वर्णत्रये तु दातव्यं नान्यवर्णे कदाचन ॥ २-४ ॥

पाशुपतं नारसिंहं तथा चैव सुदर्शनम् ।
वर्णद्वये च दातव्यं नान्ययोश्चैव कर्हिचित् ॥ २-५ ॥

अग्निमन्त्राश्च ये केचित्सूर्यमन्त्राश्च ये तथा ।
तारादिघृणिमन्त्राश्च दातव्याश्च त्रिवर्णके ॥ २-६ ॥

आनुष्टुभं शक्तिमन्त्रास्तथा विन्ध्यनिवासिनी ।
नीलसारस्वतं चापि दातव्याश्चादिवर्णके ॥ २-७ ॥

मातङ्गीत्युग्रतारा च कालिका श्यामला तथा ।
छिन्नमस्ता च बाला च दातव्या सर्ववर्णके ॥ २-८ ॥

तारादिस्तु गणेशश्च हरिद्रासंज्ञकस्तथा ।
त्रिवर्णेष्वेव दातव्यः कथितः सर्वसिद्धिदः ॥ २-९ ॥

त्रिपुराया (ञ्च ? श्च) ये मन्त्रा ये मन्त्रा वटुकादयः ।
सर्ववर्णेषु दातव्याः पुरन्ध्रीणां विशेषतः ॥ २-१० ॥

मायां लक्ष्मीं च प्रणवं वाग्भवं चान्यबीजकम् ।
एतद्वीजेन संयुक्तं दातव्यं चादिवर्णके ॥ २-११ ॥

मायां लक्ष्मीं वाग्भवं च दातव्यं क्षत्रियेष्वपि ।
लक्ष्मी च वाग्भवं चैव कथितं वैश्यवर्णके ॥ २-१२ ॥

वाग्भवं चान्यबीजं च शूद्राणां समुदीरितम् ।
हृदादि हुंफट्कारादि संकराणां प्रशस्यते ॥ २-१३ ॥

इति । कुलप्रकाशतन्त्रे-

उत्पन्न मनवः सर्वे पञ्चाशद्वर्णभेदतः ।
द्विविधास्ते च संप्रोक्ता मन्त्रविद्याविभागतः ॥ २-१ ॥

स्त्रीमन्त्रा वह्निजायान्ता हृदयान्ता नपुंसकाः ।
शेषाः पुमांस इत्युक्ताः स्त्रीमन्त्राश्चापि शान्तिके ॥ २-२ ॥

नपुंसकाः स्मृता मन्त्रा विद्वेषे चाभिचारके ।
पुमांसः स्युः स्मृताः सर्वे वश्योच्चाटनकर्मसु ॥ २-३ ॥

अग्नीषोमस्वरूपाः स्युर्मनवः सर्व एव हि ।
रेफौङ्कारवियत्प्राया आग्नेयाः क्रूरकर्मणि ॥ २-४ ॥

सौम्याश्चन्द्रसुधाप्रायाः सौम्यकर्मणि ते स्मृताः ।

इति । नारायणीयेऽपि-

तारान्त्याग्निवियत्प्रायो मन्त्र आग्नेय इष्यते ।
शिष्टः सौम्यः प्रशस्येते कर्मणोः क्रूरसौम्ययोः ॥ २-१ ॥

आग्नेयमन्त्रः सौम्यः स्यात्प्रायशोऽन्ते नमोन्वितः ।
सौम्यमन्त्रस्तथा ज्ञेयः फट्कारेणान्वितस्ततः ॥ २-२ ॥

पिङ्गलायां गते वायौ प्रबुद्धा ह्यग्निरूपिणः ।
इडां गते तु पवने बुध्यन्ते सोमरूपिणः ॥ २-३ ॥

पिङ्गलेडागते वायौ प्रबुद्धाः सर्व एव हि ।
प्रबुद्धाः मनवः सर्वे साधकानां फलन्त्युमे ॥ २-४ ॥

इति वृहन्नारायणीयेऽपि-

सुप्तः प्रबुद्धमात्रो वा मन्त्रः सिद्धिं न यच्छति ।
स्वापकालो वामवहो जागरो दक्षिणावहः ॥ २-१ ॥

आग्नेयस्य मनोः सौम्यमन्त्रस्यैतद्विपर्ययः ।
प्रबोधकालं जानीयादुभयोरुभयावहः ॥ २-२ ॥

स्वाप काले तु तु मन्त्रस्य जपोऽनर्थफलप्रदः ।

इति । शिवयामले-

सम्पुटीकृत्य यत्नेन लान्तानाद्यान् सविन्दुकान् ।
पुनश्च सविसर्गास्तान् क्षकारं केवलं पठेत् ॥ २-१ ॥

एवं जप्तोपदिदृश्चेत्प्रबुद्धः शीघ्रसिद्धिदः । इति

अथ कालीमते प्रौक्तं मन्त्राणां दोषसञ्चयम् ।
तत्र तत्परिहारं च वाह्याभ्यन्तरभेदतः ॥ २-१ ॥

वक्ष्यामि तत्तत्तन्त्रोक्तं साधकानां हिताय च ।

इति । तत्र शारदायाम्-

छिन्नादिदुष्टमन्त्रास्ते पालयन्ति न साधकम् ।
छिन्नो रुद्धः शक्तिहीनः पराङ्मुख इतीरितः ॥ २-१ ॥

वधिरो नेत्रहीनश्च कीलितः स्तम्भितस्तथा ।
दग्धस्त्रस्तश्च भीतश्च मलिनश्च तिरस्कृतः ॥ २-२ ॥

भेदितश्च सुषुप्तश्च मदोन्मत्त उदाहृतः ।
मूर्च्छितो हृतवीर्यश्च हीनः प्रध्वस्तबालकौ ॥ २-३ ॥

कुमारस्तु युवा प्रौढो वृद्धो निस्त्रिंशकस्तथा ।
निर्वीजः सिद्धिहीनश्च म(न्त्रक्रूर?न्दः कूट)स्तथा पुनः ॥ २-४ ॥

निरंशकः सत्त्वहीनः केकरो बीजहीनकः ।
धूमितालिङ्गितौ स्यातां मोहितश्च क्षुधार्तकः ॥ २-५ ॥

अतिदृप्तोऽङ्गहीनश्चाप्यतिक्रुद्धः समीरितः ।
अतिक्रूरश्च सव्रीडः शान्तमानस एव च ॥ २-६ ॥

स्थानभ्रष्टश्च विकलश्चातिवृद्धः प्रकीर्तितः ।
निस्नेहः पीडितश्चापि वक्ष्याम्येषां च लक्षणम् ॥ २-७ ॥

इति । अथैतेषां दोषाणां लक्षणानि तत्रैव-

मनोर्यस्यादिमध्यान्तेष्वानिलं बीजमुच्यते ।
संयुक्तं वा वियुक्तं वा स्वराक्रान्तं त्रिधा पुनः ॥ २-८ ॥

चतुर्धा पञ्चधा वाथ स मन्त्रश्छिन्नसंज्ञकः ।
आदिमध्यावसानेषु भूबीजद्वन्द्वलाञ्छितम् ॥ २-९ ॥

रुद्धमन्त्रः स विज्ञेयो भुक्तिमुक्तिविवर्जितः ।
मायात्रितत्त्वश्रीबीजरावहीनस्तु यो मनुः ॥ २-१० ॥

शक्तिहीनस्तु कथितो यस्य मध्ये न विद्यते ।
कामबीजं मुखे माया शिरस्यंकुशमेव च ॥ २-११ ॥

असौ पराङ्मुखः प्रोक्ता हकारो विन्दुसंयुतः ।
आद्यन्तमध्येष्विन्दुर्वा न भवेद्वधिरः स्मृतः ॥ २-१२ ॥

पञ्चवर्णो मनुर्य (ः) स्याद्रेफार्केन्दुविवर्जितः ।
नेत्रहीनः स विज्ञेयो दुःखशोकामयप्रदः ॥ २-१३ ॥

आदिमध्यावसानेषु हंसः प्रासादवाग्भवौ ।
हकारो बिन्दुमाञ्जीवोरावश्चापि चतुष्कलः ॥ २-१४ ॥

माया नमामि च पदं नास्ति यस्मिन् स कीलितः ।
एकं मध्ये द्वयं मूर्ध्नि यस्मिन्नस्त्रपुरन्दरौ ॥ २-१५ ॥

विद्येते स तु मन्त्रः स्यात्स्तम्भितः सिद्धिरोधनः ।
वह्निर्वायुसमायुक्तो यस्य मन्त्रस्य मूर्धनि ॥ २-१६ ॥

सप्तधा दृश्यते तं तु दग्धं मन्येतमन्त्रवित् ।
अस्त्रं द्वाभ्यां त्रिभिः षडभिरष्टाभिर्दृश्यतेऽक्षरैः ॥ २-१७ ॥

त्रस्तः सोऽभिहितो यस्य मुखे न प्रणवः स्थितः ।
शिवो वा शक्तिरथवा भीताख्यः स प्रकीर्तितः ॥ २-१८ ॥

आदिमध्यावसानेषु भवेन्मार्णचतुष्टयम् ।
यस्य मन्त्रस्य मलिनो मन्त्रवित्तं विवर्जयेत् ॥ २-१९ ॥

यस्य मध्ये दकारो वा क्रोधो वा मूर्धनि द्विधा ।
अस्त्रं तिष्ठति मन्त्रस्य स तिरस्कृत ईरितः ॥ २-२० ॥

ओंद्वयं प्रमुखे शीर्षे वषडस्त्रं च मध्यतः ।
यस्यासौ भेदितो मन्त्रस्त्याज्यः सिद्धिषु सूरिभिः ॥ २-२१ ॥

त्रिवर्णो हंसहीनो यः सुषुप्तः स उदाहृतः ।
मन्त्रो वाप्यथवा विद्या सप्ताधिकदशाक्षरा ॥ २-२२ ॥

फट्कारपञ्चकादिर्यो मन्दोन्मत्त उदाहृतः ।
तद्वदस्त्रं स्थितं मध्ये यस्य मन्त्रः स मूर्छितः ॥ २-२३ ॥

विरामस्थानगं यस्य हृतवीर्यः स कथ्यते ।
आदौ मध्ये तथा मूर्ध्नि चतुरस्त्रयुतो मनुः ॥ २-२४ ॥

ज्ञातव्यो हीन इत्येष यः स्यादष्टादशाक्षरः ।
एकोनविंशत्यर्णो वा यो मन्त्रस्तारसंयुतः ॥ २-२५ ॥

हृल्लेखांकुशबीजाढ्यस्तं प्रध्वस्त्रं प्रचक्षते ।
सप्तवर्णो मनुर्बालः कुमारोऽष्टाक्षरः स्मृतः ॥ २-२६ ॥

षोडशार्णो युवा प्रौढश्चत्वारिंशल्लिपिर्मनुः ।
त्रिंशद्वर्णश्चतुःषष्टिवर्णो मन्त्रः शताक्षरः ॥ २-२७ ॥

चतुःशताक्षरश्चापि वृद्ध इत्यभिधीयते ।
नवाक्षरो ध्रुवयुतो मनुर्निस्त्रिंश ईरितः ॥ २-२८ ॥

यस्यावसाने हृदयं शिरोमन्त्रस्तु मध्यतः ।
शिखा वर्म च न स्यातां वौषट् फट्कार एव च ॥ २-२९ ॥

शिवशक्त्यर्णहीनो वा स निर्बीज इतीरितः ।
एषुस्थानेषु फट्कारः षोढा यस्मिन् प्रदृश्यते ॥ २-३० ॥

स मन्तः सिद्धिहीनः स्यान्मन्दः पंक्त्यक्षरो मनुः ।
कूट एकाक्षरो मन्त्रः स एवोक्तो निरंशकः ॥ २-३१ ॥

द्विवर्णः सत्त्वहीनः स्याच्चतुर्वर्णस्तु केकरः ।
षडक्षरो बीजहीनस्त्वर्धसप्ताक्षरो मनुः ॥ २-३२ ॥

सार्धद्वादशवर्णो वा धूमितः स तु निन्दितः ।
सार्धबीजत्रयस्तद्वदेकविंशतिवर्णकः ॥ २-३३ ॥

विंशत्यर्णस्त्रिंशद्वर्णो यः स्यादालिङ्गितस्तु सः ।
द्वाविंशत्यक्षरो मन्त्रा मोहितः परिकीर्तितः ॥ २-३४ ॥

चतुर्विंशतिवर्णो यः सप्तविंशतिवर्णकः ।
क्षुधार्तः स तु विज्ञेयश्चतुर्विंशतिवर्णकः ॥ २-३५ ॥

एकादशाक्षरो वापि पञ्चविंशतिवर्णकः ।
त्रयोविंशतिवर्णो वा मन्त्रो दृप्त उदाहृतः ॥ २-३६ ॥

षड्विंशत्यक्षरो मन्त्रः षट्त्रिंशद्वर्णकस्तथा ।
त्रिंशदेकोनवर्णो वाप्यङ्गहीनोऽभिधीयते ॥ २-३७ ॥

अष्टाविंशत्यक्षरो य एकत्रिंशदथापि वा ।
अतिक्रुद्धः स कथितो निन्दितः सर्वकर्मसु ॥ २-३८ ॥

त्रिशदक्षरको मन्त्रस्त्रयस्त्रिंशदथापि वा ।
अतिक्रूरः स गदितो निन्दितः सर्वकर्मसु ॥ २-३९ ॥

चत्वारिंशतमारभ्य त्रिषष्टिर्यावदक्षरम् ।
तावत्संख्या निगदिता मन्त्राः सव्रीडसंज्ञकाः ॥ २-४० ॥

पञ्चषष्ट्यक्षरा ये स्युर्मन्त्रास्ते शान्तमानसाः ।
एकोनशतपर्यन्तं पञ्चषष्ट्यक्षरादितः ॥ २-४१ ॥

ये मन्त्रास्ते निगदिताः स्थानभ्रष्टाह्वया बुधैः ।
त्रयोदशाक्षरा ये स्युर्मन्त्राः पञ्चदशाक्षराः ॥ २-४२ ॥

विकलास्तेऽभिधीयन्ते शतं सार्धशतं तथा ।
शतद्वयं द्विनवतिरेकहीनाथवापि सा ॥ २-४३ ॥

शतत्रयं वा यत्संख्यानिस्नेहास्ते समीरिताः ।
चतुःशतान्यथारभ्य यावद्वर्णसहस्रकम् ॥ २-४४ ॥

अतिवृद्धः प्रयोगेषु परित्याज्यः सदा बुधैः ।
सहस्रार्णाधिका मन्त्रा दण्डकाः पीडिताह्वयाः ॥ २-४५ ॥

द्विसहस्राक्षरा मन्त्राः खण्डशः शतधा कृताः ।
ज्ञातव्यास्तोत्ररूपास्ते मन्त्रा एते यथा स्थिताः ॥ २-४६ ॥

तथा विद्याश्च बोद्धव्या मन्त्रिभिः काम्यकर्मसु ।
दोषानिमानविज्ञाय यो मन्त्रं भजते जडः ॥ २-४७ ॥

सिद्धिर्नजायते तस्य कल्पकोटिशतैरपि ।

इति । अथैतेषां श्लोकानां श्रीमदाराध्यमुखादवगतोऽर्थो लिख्यते : तत्र मनोरिति - आदिमध्यान्तेष्विति समुक्तयः । अनिलं यकारबीजं मायाबीजमिति सम्प्रदायः ।
मायाबीजस्य नामानि मालिनी शिववल्लरी । वातावर्तिफला वाणीबीजं शक्तिश्च कुण्डली इति शैवागमोक्तेः । वायुबीजं संयुक्तमक्षरान्तरयुक्तं वियुक्तं तद्रहितं मायाबीजं तु दीर्घस्वराक्रान्तम् । उक्तं च लक्षसागरे : आदिमध्यावसानेषु यस्य मन्त्रस्य दृश्यते । चतुर्धा पञ्चधा द्वेधा चैकवीरं स्वरान्वितम् । वायुबीजमसौ मन्त्रो भेदितः परिकीर्तितः इति वायुबीजं यकार एकवीरः ह्रः स्वराक्रान्तो दीर्घस्वरयुक्तः ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति ।
तदुदाहरणं तु अघोरेभ्योऽथ ह्रां घोरेभ्यो ह्रीं घोरघोरतरेभ्यो ह्रूं सर्वतः सर्वशर्वेभ्यो ह्रैं नमस्ते रुद्ररूपेभ्यः ह्रौं इति ।
आदिमध्यावसानेष्विति : भूबीजं लकारः । अत्र तु स्थानत्रयेऽपि प्रतिस्थानं लकारद्वयमित्युक्तं तत्रान्तरदर्शनादाद्यन्तयोर्द्वयं मध्ये त्रयमिति ज्ञेयम् ।
तदुक्तं लक्षसागरे : द्विधा पूर्वे त्रिधा मध्ये द्विधान्ते च पुनः प्रिये ।
वज्रियुक्तस्तु यो मन्त्रः स निरुद्ध (ः) प्रकीर्तितः इति ॥ वज्री लकारः । पिङ्गलामते : आदौ द्विधा त्रिधा मध्ये पुनश्चान्ते द्विधा भवेत् । इन्द्रबीजमसौ मन्त्रो रुद्ध इत्यभिधीयते इति । मायेति माया भुवनेश्वरीबीजं त्रितत्त्वं प्रणवो हुंकारो वा रावः फ्रेंकारः एकत्रेति सर्वे नापेक्षिताः ।

मायाबीजं न यत्रास्ति त्रितत्त्वं रावमेव च ।
श्रीगृहं वापि मन्त्रोऽसौ शक्तिहीनः प्रकीर्तितः ॥

इति तन्त्रान्तरवचनात् ।

मायाबीजं त्रितत्त्वं वा श्रीगृहं यत्र नास्ति चेत् ।
शक्तिहीन इति ख्यातः सामर्थ्ये हन्ति मन्त्रिणःऽऽ ॥

इति पिङ्गलामताच्च ॥ यस्येति - मुखे आदौ शिरस्यान्ते । चकारः समुच्चये । उक्तं च लक्षसागरे -

यस्य कामकलाबीजं मध्यस्थाने न विद्यते ।
आदौ मायांकुशश्चान्ते विज्ञेयोऽसौ परांमुखः ॥

इति । पिङ्गलामतेऽपि-

कामबीजं न यन्मध्ये मायादावन्तिमोंऽकुशः ।
परांमुख इति प्रोक्तो गर्हितः सर्वकर्मसु ॥

इति । हकार इति - इन्दुः सकारः बिन्दुयुक्तत्वमस्यापि आद्यन्तमध्येष्विति स्थानत्रयेऽपि नापेक्षितः । उक्तं च लक्षसागरे :

शून्यबिन्दुसमायुक्तमाद्यन्ते चापि मध्यतः ।
न भवेज्जीवबीजं वा यस्यासौ बधिरः स्मृतः ॥

इति । पञ्चवर्ण इति - अर्को हकारः इ (न्द्रः ? न्दुः) सकारः वह्न्यर्केन्दूनां देवतानेत्रत्वेन मन्त्राणामपि नेत्रत्वात् । पिङ्गलामते :

पञ्चाक्षरस्तु यो मन्त्रः पावकेन्द्वर्कवर्जितः ।
नेत्रहीन इति ज्ञेयो दुःखशोकभयावहः ॥

इति । आदीति - हंसः स्वरूपं प्रासादो हौं वाग्भवः ऐं जीवः सकारः । स कीदृशो हकारोबिन्दुमान् हकारौकारबिन्दुभिर्युक्त इत्यर्थः । तेन च स्हौं इति बीजम् ।
तथा च पिङ्गलामते :

अष्टमस्वरसंयुक्तो जीवारूढः सबिन्दुकः ।
यस्यात्मा दृश्यते नैव किं वा एव चतुष्फलः ॥

प्रासादो वाग्भवो हंसं माया वा यत्र दृश्यते ।
आदिमध्यान्तदेशेषु कीलितं तत्प्रचक्षते ॥

इति । आत्मा हकारः अष्टमस्वरः ओकारस्याष्टमस्वरत्वं ह्रस्वदीर्घयोरेकत्वात् यथा अकडमचक्रे । रावः फ्रें चतुष्कलः हूं । एकमिति-मूर्ध्नि अन्ते । अत्र यथाश्रुतोऽर्थो न भवति किंतु मध्ये एको लकारोऽन्ते लद्वयम् । यद्वा मध्ये एकः फट्कारः, अन्ते द्विस्त्रिर्वा यत्र दृश्यते स स्तम्भित इत्यर्थः । तथा च पिङ्गलामते :

शकृन्मध्ये द्विधा प्रान्ते शक्तिबीजं भवेद्यदि ।
स्तम्भितं तं वदन्तीत्थं मन्त्रं मन्त्रविदो बुधाः

इति । अन्यत्रापि-

द्विधा त्रिधा वा षोढा वा मन्त्रान्ते यत्र दृश्यते ।
महास्त्रं स्तम्भितो मन्त्रः श्रीशिवेन प्रकीर्तितः

इति । अत्र मूलश्लोकादेव मध्येऽपीति ज्ञेयः । वह्निरिति - वह्नि रेफः वायुर्यकारः तद्युक्तः मूर्धनि आदौ । उक्तं च पिङ्गलामते :

आदिस्थैः सप्तभिर्बीजैर्मारुतैः पावकाक्षरम् ।
दीपितं यत्र तं मन्त्रं मायादग्धं प्रचक्षते ॥

इति । अस्त्रमिति - उक्तसंख्याक्षरैरन्तरितः फट्कारो दृश्यत् इत्यर्थः ॥ यस्येति - मुखे आदौ शिवो हकारः शक्तिः सकारः । एतादृशदोषयुक्तस्य मातृकाहीन इति नामान्तरं वदन्ति । तथा च पिङ्गलामतेः

शिवः शक्तिस्तथौङ्कारो यस्यादौ नास्ति तं मनुम् ।
वदन्ति मातृकाहीनं हीनसिद्धिप्रदायकम् ॥

इति । आदीति - स्थानत्रयेऽपि मिलित्वा मकारचतुष्कं यत्र दृश्यते इत्यर्थः ।

आदिमध्यान्तदेशे च चतुर्द्धा यत्र दृश्यते ।
मार्णो मन्त्रो महेशेन मलिनः स इतीरितः ॥

इति तन्त्रान्तरवचनात् । लक्षसागरेऽपि-

आदौ मध्ये च शिखरे त्रिधा यत्र तु दृश्यते ।
मकारो मलिनं विद्यात्तं मन्त्रं मन्त्रवित्सदा ॥

इति । एतयोर्विकल्पः । यस्येति - क्रोधो हुंबीजं मूर्धनि अन्ते क्रोधदकारयोर्विकल्पः ।
मूर्धनि द्विधास्त्रमित्यन्वयः । मध्ये दकारहुंकारयोरेकमन्ते फट्द्वयमित्यर्थः । तथा च पिङ्गलामते :

दकारः क्रोधबीजं वा यस्य मध्ये व्यवस्थितम् ।
फट्द्वयं च स्थितं प्रान्ते यस्यार्णः स तिरस्कृतः ॥

इति । अन्यत्रापि-

यस्य मध्ये दकारश्च क्रोधबीजं हृदि स्थितम् ।
द्विधा चान्ते च फट्कारः स्याद्यस्य स तिरस्कृतः ॥

इति । चकारो विकल्पार्थकः ॥ ओमितिः प्रमुखे आदौ ओंकारः शीर्षेऽन्ते वषट् मध्येऽस्त्रमिति चक्राराद् द्वयमित्यत्रापि संबध्यते । तथा च पिङ्गलामते :

अस्त्रमन्त्रद्वयं मध्ये वषडन्ते तथादितः ।
अ उमाः स्युरसौ मन्त्रो भेदितः परिकीर्तितः ॥

इति । अस्त्रं ह्रः अ उमाः ओंकरः ॥ त्रिवर्णं इति त्रिवर्ण एव हंस इति वर्णद्वयरहितः । तथा च भैरवीतन्त्रे ।

वर्णत्रयात्मको मन्त्रो यस्तु हंसविवर्जितः ।
सुषुप्तः स तु विज्ञेयः सर्वसिद्धिफलापहः ॥

इति । सप्त च अधिकं च दश अक्षराणि यस्य सः अष्टादशाक्षरस्येत्यर्थः ॥ फट्कारेति - फट्कारपञ्चकमादौ यस्मिन्निति । उक्तं च लक्षसागरे ।

विद्या वा यदि वा मन्त्रो यद्यष्टादशवर्णकः ।
पञ्चफट्कारपूर्वः स्यान्मदोन्मत्तः उच्यते ॥

इति पिङ्गलामतेऽपि-

विद्या वा मन्त्रराजो वा यः स्यात्सप्तदशाधिकः ।
फट्कारपञ्चपूर्वश्चेदुन्मत्तः स प्रकीर्तितः ॥

इति । अत्र विशेषणद्वयविशिष्ट एव दुष्टः ॥ तद्वदिति विरामे (ति) च विरामस्थानगं मन्त्रान्तर्गतम् । पञ्चेत्युभयत्र । उक्तं च पिङ्गलामते ।

अस्त्रमन्त्रो भवेद्यस्य मध्ये प्रान्ते च शम्भुना ।
हीनवीर्य इति ख्यातः स मन्त्रो नैव सिद्धिदः ॥

इति । आदाविति - स्थानत्रये मिलित्वास्त्रचतुष्टयमित्यर्थः । अष्टादशाक्षर इत्यनुवर्तते ।
तन्त्रान्तरेऽपि एतादृशो मन्त्रो भीत इति नाम्ना उक्तः । यथा ।

आदावन्ते तथा मध्ये चतुर्द्धास्त्रेण संयुतम् ।
अष्टादशाक्षरं मन्त्रं भीतं तं भैरवोऽब्रवीत् ॥

इति । यः स्यादिति - तारः प्रणवः केचित् तारः फ्रें इति वदन्ति तत्र ग्रन्थान्तरविरोधात् ।
तथा च भैरवीतन्त्रे ।

एकोनविंशत्यर्णो यो यो मन्त्रः प्रणवान्वितः ।
महामायांकुशैर्युक्तस्तं प्रध्वस्तं वदन्ति ह ॥

इति । पिङ्गलामतेऽपि - यदि सोऽष्टादशाक्षरः ।

विंशत्येकोनवर्णश्च मायौङ्कारांकुशान्वितः ।
प्रध्वस्त इत्यसौ मन्त्रः शम्भुदेवेन कीर्तितः ॥

इति । अत्र विशेषणद्वयम् ॥ सप्तवर्ण इति - चत्वारिंशल्लिपिश्चत्वारिंशद्वर्णः ।
भैरवीतन्त्रे-

सप्ताक्षरो भवेद्बालः कुमारश्चाष्टवर्णकः ।
चत्वारिंशाक्षरः प्रौढस्तरुणः षोडशाक्षरः ॥

इति । त्रिंशद्वर्ण इति - चतुःशताक्षरः चतुरधिकशताक्षरः । उक्तं च भैरवीतन्त्रे-

त्रिंशद्वर्णं शतार्णं वा चतुःषष्ठ्यक्षरं तथा ।
चतुरूर्ध्वशतार्णं वा वृद्ध इत्यभिधीयते ॥

इति । नवाक्षर इति ध्रुवयुतः प्रणवयुक्तो नवाक्षरो निस्त्रिंश इत्यर्थः ।
नवाक्षरोऽथ निस्त्रिंशो ध्रुवयुक्तोऽथ मृत्युदः इति भैरवीतन्त्रवचनात् ॥ यस्येति- हृदयं नमः शिरोमन्त्रः स्वाहाकारः एतद् द्वयमन्ते यस्य नास्ति शिखा वषट् वर्म हुङ्कार एतत् द्वयं च वौषट् फट्कारो वा शिवो हकारः शक्त्यर्णः सकारः एतद् द्वयं वा मध्ये नास्ति स निर्जीव इत्यर्थः । तदुक्तं भैरवीतन्त्रे ।

हृच्छिरोऽन्ते शिखा वर्म मध्ये नेत्रास्त्रकेऽथवा । शिवशक्त्यात्मकौ वर्णौ न स्तो यस्य स मन्त्रराट् । निर्बीज इति सम्प्रोक्तः सर्वकर्मसु गर्हितः ॥

इति । एष्विति - अत्र पूर्वश्लोके स्थानद्वयस्योक्तत्वादेष्विति बहुवचनप्रयोगः कथमिति चेत् सत्यम् । तन्त्रान्तरे निर्बीजलक्षणवचने आदावपि तद्दोषप्रतिपादकाक्षरमस्तीत्यभिप्रायेण बहुवचनप्रयोगः कृतो ग्रन्थकर्त्रा ।
तथा च लक्षसागरे - निर्वीजस्तु समाख्यात आदौ ओंकारवर्जितः । इति एषु आदिमध्यावसानेषु । अत्रापि स्थानत्रयेऽपि मिलित्वैव फट्कारषट्कं ज्ञेयम् ।
मन्द इति पंक्त्यक्षरो दशाक्षरः । उक्तं च भैरवीतन्त्रे - दशाक्षरो भवेत् मन्दः इति ॥ कूट इति - बह्वक्षरात्मकं बीजं कूटः । स बह्वक्षरोऽपि एकाक्षर- एवेति ज्ञेयो निरंशकः द्विवर्णः सत्त्वहीनो बलवर्जितः । चतुर्वर्णः केकरः ।
पिङ्गलामतेऽपि । ध्रुवहीनश्चतुर्बीजैः षड्भिर्वा केकरो मतः । इति विशेष उक्तः ॥ षडक्षर इति बीजहीन ओंकारादिरहितः । अत्रार्धसप्ताक्षरतार्धद्वादशाक्षरता वा अन्ते व्यंजनयोगेन ज्ञेयं सार्धबीजत्रयत्वं च एते धूमिताः इत्यर्थः ।
लक्षसागरे ॥

अर्धसप्ताक्षरो मन्त्रः सार्द्धद्वादशवर्णकः ।
धूमितः स समाख्यातः सार्धवर्णत्रयोऽथवा ॥

इति । एकविंशतीति स्पष्टार्थः ॥ द्वाविंशतीत्यपि स्पष्टार्थ ॥ चतुर्विंशतीति- क्षुधार्त - इति स्पष्टार्थः । पुनश्चतुर्विंशतीति दृप्तप्रतिपादकः स्पष्टः ।
षड्विंशत्यक्षर इत्यपि । त्रिंशदेकोनवर्णो वेति एकोनत्रिंशद्वर्णः एकोनत्रिंशद्वर्णश्चाप्यङ्गहीन उदाहृतः । इति ॥ भैरवीतन्त्रात् । लक्षसागरे तु अष्टत्रिंशाक्षरश्चेति चतुर्थः प्रकारोऽप्युक्तः । अष्टाविंशत्यक्षर इत्यादि च ॥ चत्वारिंशतमिति - चत्वारिंशद्वर्णमारभ्य त्रिषष्ट्यक्षरपर्यन्ता मन्त्रा एकैकाक्षरवृद्ध्या चतुर्विंशतिविधाः सव्रीडा इति ॥ पञ्चषष्ट्यक्षरा इति स्पष्टः । एकोनेति - पञ्चषष्ट्यक्षर आदिर्येषां पञ्चषष्ट्यक्षरादीनि स्थानभ्रष्टा इति ।
त्रयोदश इति स्पष्टार्थः । शतमिति शतद्वयं द्विनवतिश्चेत एक एव भेदः द्विनवत्यधिकं शतद्वयमित्यर्थः । सार्धशतद्वयं द्विनवतिरेकहीना एकनवत्यधिकशतद्वयमित्यर्थः । तेन शतसंख्यावर्णा सार्धशतवर्णा द्विनवतिशतवर्णा एकनवत्यधिकशतद्वयवर्णाः शतत्रयवर्णाश्चेति पञ्च प्रकारा निःस्नेहदोषेषु स्पष्टाः स्युरित्यर्थः । अत्र केचित् शतद्वयं त्वेकः प्रकारः द्विनवतिरन्या एकनवतिरपरः इति वदन्ति तदसङ्गतम् ।
षट्षष्ट्यक्षरमारभ्यैकोनशतवर्णपर्यन्तानां स्थानभ्रष्टा इत्युक्तेः । अत एव यत्संख्या इत्युक्तं येषां मन्त्राणां वर्णसंख्या शताधिका ते निःस्नेहा इत्यन्वयः ॥ चतुःशतानीति सुगमः । सहस्रार्णा इति ये दण्डकाः स्तोत्ररूपास्ते पीडिताह्वया ज्ञातव्याः ॥ तथेति - यथैते मन्त्रास्तद्दोषास्तथैव विद्या अपि सदोषा एव ज्ञेयाः । उक्तं च भैरवीतन्त्रे ।

यथा मन्त्रास्तथा विद्या भेदभिन्नास्ततः परम् ।
ज्ञातव्या देशिकेन्द्रैस्तु नानातन्त्रेषु भाषिताः ॥

इति । काम्यकर्मस्वित्युक्तेर्निष्कामानां नैते दोषा मन्त्रजपे बाधका इति भाति ॥

अथोक्तदोषदुष्टानां मन्त्राणां तद्दोषनिरसनोपायः शारदायाम्-

इत्यादिदोषदुष्टांस्तान्मन्त्रानात्मनि योजयेत् ।
शोधयेद्रुद्धपवनो बद्धया योनिमुद्रया ॥

इति । योनिमुद्रालक्षणं तूक्तं रुद्रयामले भैरवीपटले-

पश्चिमाभिमुखं लिङ्गं योनिस्थं परिकीर्तितम् ।
हृद्ग्रन्थि ब्रह्मसंस्थानं स्वयम्भूर्वामवाचकः ॥

इतरं चान्तरालस्यं चिद्ग्रन्थिस्थं तथा परम् ।
महापद्मवनं यत्तद्योगपीठं प्रकीर्तितम् ॥

कदम्बगोलकैवेषद्वक्त्रं ( ? ) तं बिन्दुरूपिणम् ।
ब्रह्मरूपं तु तत्रैव सुषुम्नाधारमण्डलम् ॥

पृथिव्यादीनि तत्त्वानि मन्त्राणां वाचकानि तु ।
पूर्णाख्यं वैन्दवं तत्त्वं कोदण्डद्वयमध्यगम् ॥

तदूर्ध्वं नादनाम्ना तु उड्यानं च भवेत्ततः ।
कामरूपं भवेच्छक्तिः शिवाख्यमकुलं प्रिये ॥

सहस्रारं महापद्मं रक्तकिञ्जल्कशोभितम् ।
तत्रस्थो लभते सम्यग् वर्षन्तं रक्तबिन्दुकान् ॥

तव व्यावकयोगेन स्वाधारे योजयेन्मनः ।
गुदमेढ्रान्तरे योनिस्तामाकुञ्चय प्रबन्धयेत् ॥

भ्रमद्योनिगतं ध्यात्वा कामं बन्धूकसन्निभम् ।
ज्वलत्कालानलप्रख्यं तडित्कोटिसमप्रभम् ॥

तस्योर्ध्वे तु शिखा सूक्ष्मा बिन्दुस्था परमा कला ।
तया सह तमात्मानमेकीभूतं विचिन्तयेत् ॥

गच्छन्तीं ब्रह्ममार्गेण लिङ्गभेदक्रमेण तु ।
अमृतं यद्विसर्गस्थं परमानन्दलक्षणम् ॥

रक्तांशु जायते तस्य धारापातप्रवर्षिणीम् ।
पीत्वा कुलामृतं दिव्यं पुनरेव विशेत् कुलम् ॥

पुनरेवाकुलं गच्छेत् मात्रायोगेन नान्यथा ।
सा च प्राणःसमाख्याता तन्त्रेऽस्मिन् परमेश्वरि ॥

उद्धातः प्रोच्यतेऽसौ हि प्राणोऽन्तर्विंशते यदा ।
एवमभ्यस्यतस्तस्य अहन्यहनि निश्चयात् ॥

जरामरणदुःखाद्यैर्मुच्मते भवबन्धनात् ।
उद्भिज्जादिश्च या सृष्टिरस्यां योनौ प्रवर्तते ॥

पुनः प्रलीयते तस्यां कालाग्न्यादिशिवान्तका ।
योनिमुद्रासमभ्यासात्तव बन्धः प्रकीर्तितः ॥

इति । अस्यार्थः । तत्र गुरुः सिद्धासनस्थो वामपार्ष्णिता गुडमेढ्रान्तरं निष्पीड्य तदुपरि दक्षिणापादांगुल्यग्रयोरन्योन्यसम्मर्दो यथा भवति तथा दक्षिणपार्ष्णिना लिङ्गमूलं निष्पीड्य स्थिरकायः समुपविश्य गुदमाकुञ्चथापानवायुमुत्थाप्य समवरुद्वप्राणापानयोः सङ्घट्टं कुर्वन् एकचितो मूलाधारगतचित्स्वरूपे कुण्डल्यात्मके परमात्मनि स्वसाध्यमन्त्रं ज्ञातदोषं सञ्चिन्त्य तन्मन्त्राक्षराण्येकैकशः सुषुम्नामार्गेण मूलाधारस्वाधिष्ठानमणिपूरकानाहतविशुद्धामाख्य- षट्चक्रभेदनक्रमेण ब्रह्मरन्ध्रं प्रापयय आज्ञाविशुद्धानाहतमणिपूरकस्वाधिष्ठानचक्रभेदक्रमेण मूलाधारं प्रापयेदिति तत्तन्मन्त्रमृष्यादिन्यासपूर्वकं यथोक्तभावनयाष्टोत्तरसहस्रं जपेदित्यान्तरो मन्त्रसंस्कारः ॥ अथ बाह्यक्रियारूपा मन्त्रदोषनिरासाय दशविधसंस्काराः । तत्र शारदायाम् ।

मन्त्राणां दश कथ्यन्ते संस्काराः सिद्धिदायिनः ।
जननं जीवनं पश्चात्ताडनं बोधनं तथा ॥

अथाभिषेको विमलीकारणाप्यायने पुनः ।
तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः ॥

मन्त्राणां मातृकामध्यादुद्धारो जननं स्मृतम् ।
प्रणवान्तरितान् कृत्वा मन्त्रवर्णाञ्जपेत् सुधीः ॥

एतज्जीवनमित्याहुर्मन्त्रतत्त्वविशारदाः ।
भूर्जे विलिख्य मन्त्रार्णांस्ताडयेच्चन्दनाम्भसा ॥

प्रत्येकं वायुना मन्त्री ताडनं तदुदाहृतम् ।
विलिख्य मन्त्रं तं मन्त्री प्रसूनैः करवीरजैः ॥

तन्मन्त्राक्षरसंख्यातैर्हन्याद्यान्तेन बोधनम् ।
स्वतन्त्रोक्तविधानेन मन्त्री मन्तार्णसंख्यया ॥

अश्वत्थपल्लवैर्मन्त्रमभिषिञ्चेद् विशुद्धये ।
सञ्चिन्त्य मनसा मन्त्रं ज्योतिर्मन्त्रेण निर्दहेत् ॥

मन्त्रे मलत्रयं मन्त्री विमलीकरणं त्विदम् ।
तारं व्योमाग्निमनुयुक् दण्डी ज्योतिर्मनुर्मतः ॥

कुशोदकेन जप्तेन प्रत्यर्णं प्रोक्षणं मनोः ।
तेन मन्त्रेण विधिवद् एतदाप्यायनं मतम् ॥

मन्त्रेण वारिणा पात्रे तर्पणं तर्पणं स्मृतम् ।
तारमायारमायोगे मनोर्दीपनमुच्यते ॥

जप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाशनम् ।
संस्कारा दश सम्प्रोक्ताः सर्वतन्त्रेषु गोपिताः ॥

यान् कृत्वा सम्प्रदायेन मन्त्री वांछितमश्नुते ॥

इति । अथाष्टश्लोकानामयमर्थः । मन्त्राणामिति तत्र क्वचित् श्रीपर्णे चन्दनादिपीठे कुंकुमादिना वक्ष्यमाणपाञ्चभौतिकचक्रं विलिख्य तत्र लिखितक्रमेणाकारादिक्षकारान्तां मातृकां विलिख्य तत्र मातृकासरस्वतीमावाह्य सम्पूज्याष्टोत्तरशतं मातृकां जपित्वा तन्मध्यात्स्वाभीष्टं मन्त्रं स्वरव्यंजनबिन्दुविसर्गसंयोगाक्षराणि पृथक्पृथगुद्धृत्यैकीकृत्य स्वगुरूपदेशेन ज्ञातं मन्त्रं जनयेदिति जननम् ॥ २- प्रणवेत्यादि - प्रागुद्धृतस्य मन्त्रस्य एकैकमक्षरं प्रणवान्तरितं कृत्वाष्टोत्तरशतं जपेत् यथा नमः शिवाये त्यत्र ओं नं ओं मंः ओंमित्यादि प्रत्यक्षरं योजयित्वा जपेदित्यर्थः इति जीवनम् ॥ भूर्जे इति - भूर्जपत्रे कुंकुमादिद्रव्यैस्तं मन्त्रं विलिख्य चन्दनमिश्रितजलेन यमिति वायुबीजमुच्चरन् प्रत्यक्ष शतवारं ताडयेदिति ताडनम् ॥ विलिख्येति - तत्र प्राग्वत्पीठे मन्त्रं विलिख्य तन्मन्त्राक्षरसंख्यातानि करवीरपुष्पाण्यादाय रमिति वह्निबीजमुच्चरन् प्रत्यक्षरं तैः पुष्पैः शतवारं हन्यादिति बोधनम् ॥ स्वतन्त्रेति - तत्र प्राग्वत् पीठे कुंकुमगोरोचनादिभिरष्टदलकमलं कृत्वा तत्कर्णिकां कुंकुमादिद्रव्यैर्मालतीकलिकाभिस्तन्मंत्राक्षरसंख्याभिरेकया कलिकया वा अमुकमन्त्रमाभिषिञ्चामि नमः इत्यभिषेकं सुगन्धिजलेनैकैकपल्लवेनाष्टोत्तरशतवारं कुर्यादित्यभिषेकाः ॥ संचिन्त्येति ।
तत्र स्वमूलाधारे वह्निमण्डले वक्ष्यमाणज्योतिर्मन्त्रं संचिन्त्य तदूर्ध्वे संस्कर्तव्यमन्त्रं विभाव्य ज्योतिर्मन्त्रस्य तेजसा संस्कर्तव्यं मन्त्रमाणवकार्ममायीयमलत्रयं सहजागन्तुकमायाख्यं मनसा पुनःपुनरेकमेकं निर्दह्य तं मन्त्रं विगतमलत्रयं ध्यायेदिति विमलीकरणम् ॥ ज्योतिर्मन्त्रमाह । तार इति । तारः प्रणवः व्योम हकारः अग्नी रेफः मनुरौकारः दण्डी अनुस्वारः ॥ कुशोदकेनेति । तत्र प्राग्वत्पीठादौ तन्मन्त्रं कुंकुमादिभिर्विलिख्य ताम्रादिपात्रे कर्पूरादिवासितं शुद्धजलमापूर्य लिखितमन्त्रेणैवाष्टोत्तरशतवारमभिमन्त्र्य तेनैव मन्त्रेण तज्जलबिन्दुभिः कुशैः प्रत्यक्षरं त्रिस्त्रिः प्रोक्षयेदित्याप्यायनम् ॥ मन्त्रेणेति । तत्र ताम्रादिपात्रे प्राग्वत् मन्त्रं विलिख्य पात्रान्तरे कर्पूरादिवासितं शुद्धजलमानीय तमेव मन्त्रं पठन् अन्ते अमुकमन्त्रं तर्पयामि नमः इति अष्टोत्तरशतवारं लिखितमन्त्रस्योपरि अञ्जलिदानेन तर्पयेदिति तर्पणम् । तारमिति - तारं प्रणवः माया भुवनेश्वरी रमा श्रीबीजम् । योगलक्षणं तु आदौ योगो भवेदि त्युक्तम् ।
अयमर्थः प्रणवभुवनेश्वरीश्रीबीजान्ते साध्यं मन्त्रं कृत्वाष्टोत्तरशतवारं जपेदिति दीपनम् ॥ तदनन्तरश्लोकस्यार्थः स्पष्टः इति दश संस्काराः ॥

अथ कादिमते प्रोक्तं मन्त्राणां दोषसञ्चयम् ।
वक्ष्ये तत्परिहाराय साधकानां हिताय च ॥

तत्र श्रीतन्त्रराजे-

मन्त्रदोषांस्तु विज्ञाय गुरुः परिहरेत् क्रमात् ।
अन्यथा स गुरुः शिष्यं निहन्त्येवाचिराद् ध्रुवम् ॥

तेन तत्परिहारं च शृणु देवि समाहिता ।
परिहारप्रकारं तु वक्ष्ये योगेषु तत्त्वतः ॥

दग्धः षट्कर्णको मन्त्रस्त्रस्तः स्यादधिकैर्जपात् ।
गर्जितस्त्वविधिप्राप्तः शत्रवो वैरिकोष्ठगाः ॥

बाला लध्वक्षरप्राया वृद्धा गुर्वक्षरान्विताः ।
निर्जिताः कर्मबाहुल्यादसहाः सत्त्ववर्जिताः ॥

अपूर्णरूपाश्छिन्नाः स्युः स्तम्भिताः सानुनासिकाः ।
अकालविनियोगेनाप्रबोधः स्वापगाज्जपात् ॥

मन्त्राः पदेषु पठनादन्यवर्णैस्तु कीलिताः ।
रुद्धा विसन्धिकाः प्राप्तदुःखा वैरिसमन्विताः ॥

खण्डीभूतास्त्वंशजपादङ्गहीनास्त्वसंवृताः ।
अपूर्णेनोपदिष्टा ये हीनवीर्यास्तु ते मताः ॥

सदा प्रयोगात् कुण्ठत्वं क्लिष्टतातिविलम्बनात् ।
रुष्टाः प्रलपनैर्जापादन्यमन्त्रैः सहाबिलाः ॥

उपेक्षावस्थया जापाद्वैषम्यादवमानिताः ।
पञ्चविंशतिरुद्दिष्टा दोषांस्तांशमयेद् गुरुः ॥

बन्धनं योनिमुद्राया मन्त्राणां वीर्ययोजनम् ।
उभयं बोधयन् शिष्यं संरक्षेद् गुरुरात्मवान् ॥

गुरोर्लक्षणमेतावदादिमान्त्यं तु वेदयेत् ।
आदिमान्तविहीनास्तु वर्णाः स्युः शरदभ्रवत् ॥

तस्मादादित एवासौ ब्रूयात्ततदहंकृतम् ।
यदहङ्कारविज्ञानान्मत्समो जायते नरः ॥

अनादिक्रमसंसिद्धमातृकाद्यन्तयोजनात् ।
तादात्म्यसिद्धिस्तां विद्धि सर्वमन्त्रार्थविग्रहाम् ॥

दग्ध इति स्पष्टोऽर्थः । अथवा यस्मिन् मन्त्रे आदिमध्यान्तेषु कूर्चबीजषट्कं दृश्यते स मन्त्रो दग्ध इत्यर्थः ॥

तदुक्तं त्रिपुरार्णवे ।

आदौ कूर्चद्वयं मध्ये कूर्चबीजद्वयं तथा ।
अन्ते कूर्चद्वयं यस्मिन् मन्त्रराजे प्रदृश्यते ॥ २-१ ॥

स तु षट्कर्णको मन्त्रो दग्ध इत्यभिधीयते ।
जपतां सिद्धिरोधः स्यात् त्याज्यः सर्वैः सदा बुधैः ॥ २-२ ॥

अत्र कर्णः कूर्चबीजम् । तदुक्तं तत्रैव-

हूङ्कारस्यैव नामानि कूर्चं माया सरस्वती ।
जलं नीरं तथा कर्णं तटं कूलं महेश्वरि ॥

इति । अधिकैर्जपात् त्रस्त इति । यस्मिन् मन्त्रेऽधिकाक्षरयोगः कृतः सः मन्त्रः त्रस्त इत्यर्थः ॥ तदुक्तं त्रिपुरार्णवे ।

आदावन्ते च मध्ये वाप्यधिकाक्षरयोगतः । त्रस्तः सोऽभिहितो मन्त्रो जपतामशुभप्रदः ॥ २-१ ॥

इति । यद्यपि-

वर्षत्रयं जपित्वा ( तु ) लोपामुद्रां शुभोदयाम् ।
ततश्च हंसं संयोज्य मन्त्राद्ये प्रजपेद् बुधः ॥ २-२ ॥

ततो वर्षत्रये जाते मध्यादावपि योजयेत् ।
ततो वर्षत्रये जाते शक्त्यादावपि योजयेत् ॥ २-३ ॥

एवं यो भजते विद्यां फलभागुत्तरोत्तरम् ।
अन्यथा हन्ति सा विद्या साधकं नात्र संशयः ॥ २-४ ॥

इति त्रिपुरार्णवोक्तविरुद्धं तथाप्यादावेवाधिकाक्षरयोगस्य निषेध्यत्वं बोध्यम् ॥ गर्जित इति । उपदेशस्य शास्त्रे यो विधिरभिहितस्तं विना प्राप्तो मन्त्रो गर्जित इत्यर्थः ॥ तदुक्तं त्रिपुरार्णवे ।

मोहाद्वा लोभतो वापि विधिमुत्सृज्य यो जडैः ।
दीयते स तु मन्त्रस्तु गर्जितो गर्हितः सदा ॥

इति । शत्रव इति । वैरिकोष्ठगा इति स्पष्टोऽर्थः ॥ बाला इति - वृद्धा इति - लघ्वक्षरप्राया बालाः गुर्वक्षरप्राया वृद्धा इत्यर्थः ॥ लघ्वक्षरलक्षणं गुर्वक्षरलक्षणं च मातृकाश्वासे ज्ञेयम् ॥ निर्जिता इति । कर्मबाहुल्यान्निर्जिता इत्यर्थः ॥ तदुक्तं त्रिपुरार्णवे ।

स्वतन्त्रोक्तं परित्यज्य ज्ञात्वा वाऽतृप्तितोऽपि वा ।
स्वगुरुप्रोक्ततो वापि मन्त्राः सिद्धिभ्रमादपि ॥ २-१ ॥

जपतर्पणहोमार्चामार्जनानि पुनःपुनः ।
कुर्वतो मन्त्रराजः स्यान्निर्जितो गर्हितः सदा ॥ २-२ ॥

न यच्छति फलं तस्मै कल्पकोटिशतैरपि ।
तस्मात् सर्वप्रयत्नेन स्वतन्त्रोक्तं समाचरेत् ॥ २-३ ॥

इति । असहा इति । अनियमेन जप्तो मन्त्रोऽसह इत्यर्थः । तदुक्तं त्रिपुरार्णवे । नियमस्य च भङ्गेन मन्त्रः स्यादसहः सदा इति ॥ सत्त्ववर्जिता इति । पुरश्चरणवर्जिता इत्यर्थः ।
तदुक्तं त्रिपुरार्णवे ।

वीर्यहीनो यथा देहि सर्वकर्मसु न क्षमः ।
पुरश्चरणहीनो यो तथा मन्त्रः प्रकीर्तितः ॥ २-१ ॥

नित्यनैमित्तिकाद्यैश्च पुरश्चर्यादिभिर्मनुः ।
भवेत् सत्त्वगुणोपेतः सेवया नृपतिर्यथा ॥ २-२ ॥

सत्त्वं गुणं समापन्नो मन्त्रः कल्पलतासमः ॥

इति । अपूर्णरूपा इति - स्वरवर्णपल्लवरहिता इत्यर्थः ॥ तदुक्तं त्रिपुरार्णवे-

पल्लवाद्यैर्विलोपेन स्वरवर्णविलोपतः ।
अपूर्णत्वं समापन्नः स मन्त्रश्छिन्नसंज्ञकः ॥ २-१ ॥

इति । त्रैलोक्यडामरतन्त्रे-

मन्त्राणां पल्लवो न्यासो मन्त्राणां प्रणवः शिरः ।
शिरःपल्लवसंयुक्तो मन्त्रः कामदुघाफलः ॥ २-१ ॥

न्यासं विना भवेन्मूकः सुप्तः स्यादासनं विना ।
पल्लवेन विन मन्त्रो नग्नः स परिकीर्तितः ॥ २-२ ॥

शिरोहीनो मृतः प्रोक्तो वृथा मन्त्रो गुरुं विना ।
हतो दुष्टाय दत्तो यो निर्वीर्यश्चाधिकाक्षरः ॥ २-३ ॥

अन्तरान्येन बीजेन व्याप्तः कीलित उच्यते ।
यस्य जाप्यं शृणोत्यन्यः स मन्तः शून्य उच्यते ॥ २-४ ॥

ऋषिदैवतच्छन्दोभिः परित्यक्तो भुजङ्गमः ।
मूकः सुप्तो मृतो नग्नो वीर्यहीनो वृथा हतः ॥ २-५ ॥

भुजङ्गः कीलितः शून्य ईदृङ्मन्त्रो वृथाफलः ।
यत्नाद् विवर्जयेन्मन्त्रं यदि तत्सिद्धिमिच्छति ॥ २-६ ॥

नमोन्तः शान्तिके पुष्टौ प्रणिपाते च कीर्तितः ।
वश्याकर्षणहोमेषु स्वाहान्तः सिद्धिदायकः ॥ २-७ ॥

वौषट्पल्लवसंयुक्तो मन्त्रः पुष्ट्यादिसाधकः ।
हुङ्कारपल्लवोपेतो मारणे ब्राह्मणं विना ॥ २-८ ॥

मन्त्रभजनकार्ये च सुघोरभयनाशने ।
वषडन्तो महाकालग्रहमालाविनाशकः ॥ २-९ ॥

खण्डनोच्चाटने वेधे मन्त्रः फटपल्लवान्वितः ।
ओंकारमुखरौ मन्त्रौ वेदागमसमुद्भवौ ॥ २-१० ॥

पल्लवोऽस्त्यागमे मन्त्रे वैदिके नास्ति पल्लवः ।
पल्लवेन विना जाप्यो मन्त्रो वेदसमुद्भ्वः ॥ २-११ ॥

न नग्नः कीर्त्यते यस्मादैश्वर्यपरिधानवान् ।

इति । स्तम्भिता इति - अनुनासिकाक्षरसहिता इत्यर्थः । सानुनासिकनिरनुनासिकलक्षणं तु मातृकाश्वासे ज्ञेयम् । त्रिपुरार्णवेऽपि । शानुनासिकवर्णेन संयुक्तः स्तम्भिता मताः । इति अकालविनियोगेनेति । प्रमत्ता ।

इति पूरणीयम् । तदुक्तं त्रिपुरार्णवे-

स्वरप्राप्ते ऋणप्राप्ते कालेषु विनियुज्यते ।
अन्यदा विनियुक्तश्चेन्मन्त्रो मत्त उदाहृतः ॥ २-१ ॥

इति काललक्षणं तु काम्याश्वासे बोद्धव्यम् । अप्रबोध इति स्वापकालजपादित्यर्थः ।
तदुक्तं त्रिपुरार्णवे-

स्वापकालो वामवहो जागरो दक्षिणावहः ।
स्वापकालजपान्मन्त्रोऽप्रबुद्धो हन्ति मन्त्रिणम् ॥ २-१ ॥

इति । मन्त्रा इति - पत्रेषु पठनाज्जपनात् क्रुद्धा इति पूरणीयम् । तदुक्तं त्रिपुरार्णवे-

पुस्तके लिखितं दृष्ट्वा जपेद् यः साधकाधमः ।
चत्वारि तस्य नश्यन्ति आयुः कीर्तिर्यशः श्रियः ॥ २-१ ॥

जपात्पत्रेषु मन्त्रः स्यात् क्रुद्धः सन् हन्ति साधकम् ॥

इति । यस्मिन्मन्त्रे यो वर्णः कीलत्वेनाभिमतस्तं विहायेत्यर्थः ॥ तदुक्तं योगिनीहृदये-

बीजं मन्त्रस्यादिमं स्यान्मन्त्रमध्यं तु कीलकम् ।
मन्त्रान्ते शक्तिरुद्दिष्टा बीजकीलकशक्तयः ॥ २-१ ॥

यद्वर्णः कीलकत्वेन विहितस्तं विहाय च ।
तत्पूर्वस्तत्परो वापि स्थाप्यते कीलकत्वतः ॥ २-२ ॥

समन्त्रस्त्वन्यवर्णेन कीलितः सिद्धिरोधकृत् ।

इति । रुद्धा इति । सन्धिरहिता रुद्धा इत्यर्थः । विसन्धिको भवेद् रुद्धः सर्वकर्मसु गर्हितः । इति योगिनीहृदयवचनात् ॥ दुःखा इति । वैर्यक्षरसमन्विता दुःखिता इत्यर्थः । तदुक्तं त्रिपुरार्णवे । दुःखितास्ते समुद्दिष्टा वैरिवर्णैश्च संयुताः । इति ।
खण्डीभूता इति । अंशजपात् खण्डीभूता इत्यर्थः । तदुक्तं त्रिपुरार्णवे ।
खण्डिता वर्णलोपेनेति ॥ अङ्गहीना इति । असंवृताः कवचादिरहिता इत्यर्थः तदुक्तं योगिनीहृदये ।

अङ्गप्रत्यङ्गकवचस्तोत्रपाठैर्विना मनुः ।
असंवृतः समाख्यातः सिद्धिं नैव प्रयच्छति ॥

इति । अपूर्णेनेति - अपूर्णेनोपदिष्टा हीनवीर्या इत्यर्थः । तथा च-

द्वितीयेनाभिषेकेन पूर्णत्वं याति तन्मनुः ।
अन्यथा हीनवीर्यः स्यात्सर्वकर्मबहिष्कृतः ॥

इति योगिनीतन्त्रवचनात् । सदा प्रयोगादिति । सर्वदा काम्यप्रयोगात् मन्त्रस्य कुण्ठता भवतीत्यर्थः । तदुक्तं त्रिपुरार्णवे ।

प्रयुज्यन्ते सदा मन्त्रास्तत्तच्छान्तिं विना नरैः ।
ते मन्त्राः कुण्ठतां यान्ति तस्माच्छान्तिं समाचरेत्

इति । अत्र शान्तिस्तदायुतसावित्रीजपसहितायुतमूलमन्त्रजपा । तद्विधिं प्रयोगपटले वक्ष्यामः ॥ क्लिष्टतेति । दीर्घाक्षरस्य प्लुस्तवेनोच्चारणेन ह्रस्वस्य दीर्घत्वेनोच्चारणेन च मन्त्रस्य क्लेशो भवतीत्यर्थः । तथा च तन्त्रान्तरे ।

प्. ३३

एकमात्रो लघुश्चैव द्विमात्रो दीर्घ उच्यते ।
त्रिमात्रस्तु प्लुतो ज्ञेय इत्येतत्स्वरलक्षणम् ॥ २-१ ॥

ह्रस्वत्वेन च दीर्घस्य दीर्घत्वेन प्लुतस्य च ।
प्लुतत्वेन च दीर्घस्य ह्रस्वे दीर्घतया पुनः ॥ २-२ ॥

उच्चारणवशान्मन्त्रः क्लिष्टो भवति नान्यथा ।
यो मन्त्रः क्लिष्टतां प्राप्तः स मन्त्रः सिद्धिरोधकृत् ॥ २-३ ॥

रुष्टा इति - प्रलपनजपाद् रुष्टा भवन्तीत्यर्थः तदुक्तं त्रिपुरार्णवे-

मौनं विना जपेन्मन्त्रं राक्षसैर्गृह्यते जपः ।
मन्त्रोऽपि रुष्टतां याति सिद्धिं नैव प्रयच्छति ॥

इति । अन्यमन्त्रैरिति - अन्यदेवतामन्त्रैः सह मूलमन्त्रजपादित्यर्थः । तदुक्तं योगिनीहृदये -

मन्त्रान्तरं न गृह्णीयाद् वर्जयेद् देवतान्तरम् ।
प्रयोजनान्तरं चैव वर्जयेत् साधनान्तरम् ॥

तदा मन्त्रो भवेन्नूनं क्षिप्रं कामदुघाफलः ।
चतुर्भिः संयुतो मन्त्रो भवेन्मलिनसंज्ञकः ॥

इति । उपेक्षेति । उपेक्षा देवतागुरुमन्त्रान्यतमेषु अवस्थातुरता वैषम्यं मन्त्रग्रहणोत्तरमदृष्टवशात् किञ्चित् दुःखं चेत्प्राप्यते तदायं मन्त्रः किमर्थं गृहीत इति मनसि निधाय जपोऽपि क्रियते स एव वैषम्यजपः इत्यर्थः ।
तदुक्तं त्रिपुरार्णवे ।

मन्त्रे गुरौ देवतायामुपेक्षा क्रियते यदि । अवस्थया वा वैषम्यान्मन्त्रः स्यादवमानितः

इति । बन्धनमिति । योनिमुद्राबन्धनेन सर्वे दोषा गच्छन्तीत्यर्थः ।
तत्प्रागुक्तमुभयमतसाधारणम् । वाह्यसंस्कारे विशेषः । अनादीति ।
मातृकाद्यन्तयोजनं प्रत्यर्णस्य ॥

अथ मन्त्रमेलनप्रकारः । तदुक्तं तन्त्रराजे-

नित्यानां त्रैपुराणां च नावेक्ष्यास्त्वंशकादयः ।
तथाप्यत्रोच्यते किञ्चिदाभिचारादिसिद्धये ॥ २-१ ॥

अश्विन्यादिषु ऋक्षेषु बिन्दुसर्गान्त्यवर्जितम् ।
चतुरो योजयेदाद्यान् बिन्दुसर्गौ तु सर्वगौ ॥ २-२ ॥

तेन मन्त्रादिवर्णेन नाम्नश्चाद्यक्षरेण च ।
गणयेद्यत्तु षष्ठं वाप्यष्टमं द्वादशं तु वा ॥ २-३ ॥

रिपोर्मन्त्रादिवर्णः स्यात्तं न तस्य हितं वदेत् ।
राशिष्वन्येषु ऋक्षेषु सप्तपञ्चतृतीयगैः ॥ २-४ ॥

साध्यनामापि विज्ञेयमंशकाद्यमनुग्रहे ।
यतस्ते तत्त्वविज्ञानरहितास्तेन चोदितम् ॥ २-५ ॥

इति । नित्यानामिति । यावन्तो नित्या मन्त्रा यावन्तस्त्रिपुरामन्त्रास्तेषामंशकादयो मंत्रमेलनप्रकारा नावेक्षणीया इत्यर्थः ॥ तथापीति - आभिचारादीति । अयमर्थः - नित्ये नैमित्तिके नावेक्षणीया इत्यर्थः । काम्येऽवेक्षणीया इत्यर्थः । अश्विन्यादिष्विति - ऋक्षेषु राशिचक्रेषु बिन्दुसर्गान्त्यवर्जितं कृत्वा चत्वारि चत्वार्थक्षराणि विलिखेत् अश्विन्यादिषु नक्षत्रचक्रेषु बिन्दुसर्गौ सर्वगौ कृत्वा त्रीणि त्रीण्यक्षराणि लिखेदित्यर्थः । तदुक्तं मातृकार्णवे ।

प्राक्प्रत्यग्दक्षिणोदक् च चतुःसूत्राणि पातयेत् ।
एकैकं कोणदेशेषु चतुःसूत्राणि विन्यसेत् ॥ २-१ ॥

तेन खण्डानि जायन्ते रविसंख्यानि नान्यथा ।
तेषु पूर्वादितो लेख्यं प्रादक्षिण्यक्रमेण तु ॥ २-२ ॥

बिन्दुसर्गौ सकारं च हित्वा वर्णचतुष्टयम् ।
तथाष्टचत्वारिंशानां वर्णानां परमेश्वरि ॥ २-३ ॥

तेन क्रमेण मेषादीन् राशींश्चैव प्रकल्पयेत् ।
जायते राशिचक्रं हि साधकोऽत्र विचारयेत् ॥ २-४ ॥

इति । नक्षत्रचक्रमपि तत्रैव-

रविखण्डात्मकं चक्रं प्रागुक्तविधिना लिखेत् ।
तेषु खण्डेषु पूर्वादि न्यसेद्वर्णांस्त्रिशः क्रमात् ॥ २-५ ॥

देवीं मधुमतीनाम्नीं षट्त्रिंशद्व्यञ्जनात्मिकाम् ।
तथैव विन्दुयुक्तां च सर्गयुक्तां तथैव च ॥ २-६ ॥

खण्डे खण्डे च जायन्ते वर्णा नव नव क्रमात् ।
सप्तविंशति ऋक्षाणामष्टोत्तरशतांघ्रिषु ॥ २-७ ॥

एकस्यैकस्य राशेस्तु नवांशक्रमभेदतः ।
विचारयेन्महाचक्रे साधक ऋक्षसंज्ञके ॥ २-८ ॥

इति । योगिनीहृदये-

षट्त्रिंशद्व्यञ्जनाकारा प्रोक्ता मधुमती च सा ।
पञ्चाशद्वर्णनिष्पन्ना मालिनी कादिकामते ॥ २-१ ॥

कालीमते तु पञ्चाशद्वर्णम(ययैव ? ययौ च)ते उभे ।
तत्तन्मते तथा प्रोक्तं तत्तदाद्यं सुरेश्वरि ॥ २-२ ॥

इति । तेनेति । द्वादशखण्डात्मके चक्रे राशिमये ऋक्षमये च प्रादक्षिण्यक्रमेण गणयेत् यस्मिन् खण्डे मन्त्राद्यवर्णस्तिष्ठति तमारभ्य नामाद्यक्षरं यस्मिन् खण्डं तिष्ठति तत्पर्यन्तम् । अथवा नामाक्षरमारभ्य मन्त्राद्यक्षरपर्यन्तं गणयेत् । तदा षष्ठं चाष्टमं द्वादशं तु वा मन्तादितो नामाद्यक्षरं वा नामादितो मन्त्राक्षरं वा भवति स मन्त्रो रिपोरहितं भवतीत्यर्थः । अभिचारेषु प्रशस्तः इत्यर्थः ॥ राशिष्विति । तथैव सप्तमपञ्चमतृतीयं चेद्भवति अनुग्रहे प्रशस्त इत्यर्थः ॥ सिद्धारिचक्रमाह ।

प्राक्प्रत्यग्दक्षिणोदक् च सूत्रपञ्चकयोगतः ।
कोष्ठानि षोडशात्र स्युस्तेषु वर्णान् क्रमाल्लिखेत् ॥ २-१ ॥

चतुश्चतुर्विभागेन कल्पयेत्तानि वै क्रमात् ।
प्रथमप्रथमे त्वाद्यं द्वितीयप्रथमे तथा ॥ २-२ ॥

द्वितीयमन्यतश्चान्यत् तथान्यदपि कल्पयेत् ।
तत्तत्कोष्ठेषु विलिखेत् तत्तत्पञ्चममक्षरम् ॥ २-३ ॥

एवं चतुर्षु कोष्ठेषु क्षान्तावधि समालिखेत् ।
स्वनामाद्यक्षरं यत्र कोष्ठे संदृश्यते ततः ॥ २-४ ॥

सिद्धादीन् गणयेद्यावन्मन्त्राद्यक्षरदर्शने ।
सिद्धसिद्धो जपात्सिध्येद् द्विगुणात्सिद्धसाध्यकः ॥ २-५ ॥

सिद्धे सुसिद्धे संप्राप्त्या सिद्धारिर्हन्ति गोत्रजान् ।
साध्यसिद्धोऽतिसंक्लेशात् साध्यासाध्योऽतिदुःखकृत् ॥ २-६ ॥

साध्ये सुसिद्धो भजनात् सिद्धो भवति शाङ्करि ।
साध्यारिः कन्यकां हन्ति तस्मात्तं परिवर्जयेत् ॥ २-७ ॥

सुसिद्धसिद्धोऽध्ययनात्फलं दद्याद्यथेप्सितम् ।
सुसिद्धसिद्धो जाप्याद्यैः सिद्धये स्याद्यतोऽन्यथा ॥ २-८ ॥

सुसिद्धे तु सुसिद्धस्तु पूर्वजन्मकृतश्रमः ।
तस्मात्तं सर्वसिद्धीनां साधने योजयेन्मनुम् ॥ २-९ ॥

आभिचारे रिपोरेवं यदि स्वात्मविपर्यये ।
सुसिद्धारिरशेषेण स्वकुल्यान् नाशयेद् ध्रुवम् ॥ २-१० ॥

अरिसिद्धः सुतं हन्यादरिसाध्यस्तु योषितम् ।
अरेः सुसिद्धो मन्त्रस्तु कुलोत्साधनकृद् भवेत् ॥ २-११ ॥

अर्यरिः स्वात्महा मन्त्रः सम्प्राप्त्यैव सुनिश्चयः ।

स्पष्टोऽर्थः ॥ ऋणधनशोधनप्रकारमाह श्रीतन्त्रराजे-

नामाद्यक्षरमारभ्य यावन्मन्त्रादिवर्णकम् ।
त्रिधा कृत्वा स्वैरर्भिन्द्यात्तदन्यद्विपरीतकम् ॥ २-१ ॥

कृत्याधिको ऋणी ज्ञेयो ऋणी चेन्मन्त्रः उत्तमः ।
स्वयं ऋणी चेत्तन्मन्त्रं त्यजेत् पूर्वं ऋणी यतः ॥ २-२ ॥

इति अत्र पञ्चाशद्वर्णात्ममातृकायां नामाद्यक्षरमारभ्येत्यादि विचारणीयम् । षट्त्रिंशद्व्यञ्जनेषु वा पूर्णमण्डलरूपमातृकायां वा ॥ तदुक्तं त्रिपुरार्णवे ।

मधुमत्यां महादेव्यां ऋणशोधो विशिष्यते ।
कालीमते तु मालिन्यामंशकाद्यं प्रशस्यते ॥

इति । अत्र मधुमती षट्त्रिंशद्व्यञ्जनात्मिका महामधुमती पूर्णमंडलवर्णरूपा मालिनी पञ्चाशद्वर्णरूपा । तथा च ।

कथं ऋणित्वं मन्त्राणां साधकानां च मे वद ।
पूर्वजन्मकृताभ्यासे पापादस्याफलाप्तिकृत् ॥ २-१ ॥

पापे नष्टे फलावाप्तिः काले देहक्षयादृणी ।
मन्त्रः सम्प्राप्तिमात्रेण प्राक्तनः सिद्धये भवेत् ॥ २-२ ॥

सिद्धमन्त्राद् गुरोर्लब्धमन्त्रो यः सिद्धिभाङ्नरः ।
लक्ष्मीमदादनादृत्य मन्त्रभोगमवाप्नुयात् ॥ २-३ ॥

स मन्त्रस्य ऋणी ज्ञेयो भजनं तस्य पूर्वगम् ।
तस्मादृणविशुद्धिस्तु कार्या सर्वैस्तु सर्वतः ॥ २-४ ॥

इति ॥ अथ कालीमते मन्त्रमेलनप्रकारः । तत्रादौ नक्षत्रचक्रं तत्र श्रीरुद्रयामले-

राज्यलाभोपकाराय प्रारभ्याविखरः कुरून् ।
गोपालान् कुकुटीप्रायान् फुल्लावित्युदिता लिपिः ॥

अथैतञ्चक्ररचनाप्रकारः । तत्र दक्षिणोत्तरायताश्चतस्रो रेखाः प्राक्प्रत्यगायताश्च दश रेखाश्च विलिख्य सप्तविंशतिकोष्ठानि कृत्वा कादि नव टादि नव पादि पञ्च याद्यष्टौ एतत्संज्ञवर्गाङ्क संख्याप्रकारेण सर्वोर्ध्वपंक्तेः । प्रथमकोष्ठमारभ्य पंक्तिपंक्तिक्रमेणाक्षराणि विलिख्य तथैवाश्विन्यादिनक्षत्राणि विलिख्य विचारयेत् । तत्र यस्मिन् कोष्ठे

साधकनामाद्यक्षरं तिष्ठति तत्रस्थमङ्कवर्णं च विज्ञाय तत्र यन्नक्षत्रमायाति तत्साधकस्य जन्मनक्षत्रं परिकल्प्य तदारभ्य यस्मिन् कोष्ठे मन्त्राद्यक्षरं तिष्ठति तावत्पर्यन्तं गणयित्वा तन्नक्षत्रं मन्त्रनक्षत्रं विज्ञाय साधकनक्षत्रमारभ्य मन्त्रनक्षत्रपर्यन्तम् ॥

नामाद्यक्षरमारभ्य यावन्मन्त्राद्यमक्षरम् ।
जन्म संपद्विपत्क्षेमं प्रयरिः साधको वधः ॥

मैत्रं परममैत्रं च जन्मादीनि पुनः पुनः ॥

इति कुलार्णवोक्तप्रकारेण जन्मादिनवकं पर्यायेण च विज्ञाय फलानि निर्दिशेत् ।
तत्र कुलार्णवे-

जनुषस्तारया मृत्युरायुर्नाशस्तृतीयया ।
मृत्युः पञ्चमतारायां सप्तमो घातको मतः ॥ २-१ ॥

द्विचतुःषष्ठनवमगतास्ताराः शुभा मताः ।
इति ताराफलं ज्ञात्वा मन्त्रं दद्याद् विशालधीः ॥ २-२ ॥

अथ नक्षत्राणां गणभेदः कुलमूलावतारे-

अश्विनी मृगशीर्षं च तथा पुष्यपुनर्वसू ।
हस्तः स्वातिरनूराधा रेवती विष्णु दैवतम् ॥ २-१ ॥

भरणी रोहिणी चैव आर्द्रा पूर्वोत्तरा तथा ।
पूर्वाषाढोत्तराषाढा पूर्वाभाद्रोत्तरा नृजः ॥ २-२ ॥

कृत्तिकाहिर्मघा चित्रा विशाखा ज्येष्ठका तथा ।
मूलं धनिष्ठा शतभिषा च रक्षोगणः प्रिये ॥ २-३ ॥

विष्णुः श्रवणनक्षत्रं दैवतं देवगणः । अत्र विसर्गलोपश्छान्दसः ।
रुद्रयामले ।

स्वगणे चोत्तमा प्रीतिर्मध्यमा दैवमानुषे ।
अधमा रक्षसा दैवे मृत्युर्मानवराक्षसे ॥

अथ राशिचक्रम् । तत्र श्रीकुलार्णवे-

वालं गौरं खुरं शोणं शमीशोभेति राशिषु ।
क्रमेण भेदिता वर्णाः कन्यायां शादयः स्मृताः ॥ २-१ ॥

अक्षरसङ्केतस्तु प्रागुक्त एव । चक्रं तु प्राक्प्रत्यगायतं रेखाद्वयं मध्ये चतुरस्रं यथा भवति तथा विलिख्य वहिश्चतुष्कोणेषु एकैकां रेखां कृत्वा द्वादश खण्डानि निष्पाद्य तेषु खण्डेषु प्रागादिप्रादक्षिण्येन वर्णाद् विलिख्य कन्यायां तु अंशःशषसहलक्षेति विलिखेत् । ततस्तेषु प्रागादिषु द्वादशखण्डेषु एकादिद्वादशाङ्कान् विलिख्य तेषु मेषादिद्वादशराशीन् परिकल्प्य विचारयेत् ॥

नामाद्यक्षरमारभ्य यावन्मन्त्रादिवर्णकम् ।
लग्नं धनं भ्रातृबन्धुपुत्रशत्रुकलत्रकाः ॥

मरणं धर्मकर्मायव्यया द्वादशराशयः ॥

अथ तेषां फलानि लक्षसागरे-

एको वाप्यथ पञ्चमोऽथ नवमो राशेस्तु सद्बान्धवो राशिः स्याद्दशमो द्वितीयसहितः षष्ठो भवेत् सेवकः ।
रुद्राग्निस्वरसंस्थया यदि मतो मन्त्रो भवेत् पोषकः स स्यात् द्वादशकोऽष्टकः श्रुतिमितो मन्त्रः स्मृतो घातकः ॥

इति ॥ २-अथ राशीनां वर्णभेदः-

स्युः कर्कटो वृश्चिकमीनराशिर्विप्रा नृपाः सिंहधनुश्च मेषः ।
तुला सकुम्भो मिथुनश्च वैश्याः कन्या वृषोऽजो मकरश्च शूद्राः ॥

इति ॥ अथ पाञ्चभौतिकचक्रं । तत्र दक्षिणामूर्तिसंहितायाम्-

उ ऊ ओ ग जडा वर्णा दबला लश्च पार्थिवाः ।
ऋ ॠ औघ झढा वर्णा धभवाः सस्तु नीरजाः ॥ २-१ ॥

इ ई ऐ ख छ ठा वर्णास्थफराः क्षश्च वह्निकाः ।
अ आ एक च टा वर्णास्तपयाः वस्तु वायुजाः ॥ २-२ ॥

ऌ ॡ अं ङ ञ णा वर्णा नमशा हस्तु नाभसाः ॥

इति । श्रीकुलार्णवे-

महीसलिलयोर्मैत्री अनिलानिलयोरपि । सामान्यमग्निभूम्योस्तु सलिलानिलयोस्तथा ॥ २-१ ॥

शात्रवं वैपरीत्येन मित्रं सर्वत्र चापरम् ।
परस्परविरुद्धानां मन्त्राणां यत्र सङ्गतिः ।

वर्जयेत्तादृशं मन्त्रं नाशकृत्तं कुलेश्वरि ॥ २-२ ॥

इति ॥ अथ सिद्धसाध्यादिशोधनप्रकारः । तत्रादौ द्वादशारचक्रम् तत्र कुलमूलावतारे-

द्वादशारे तथा चक्रे कूटषण्डविवर्जितान् ।
आदिहान्तांल्लिखेद् वर्णान् पूर्वतो यावदीश्वरम् ॥ २-१ ॥

अङ्कानेकादिभान्वन्तांल्लिखेत् पूर्वादितः क्रमात् ।
सिद्धः साध्यः सुसिद्धोऽरिश्चतुर्वर्गः स्फुटो भवेत् ॥ २-२ ॥

एतेषां फलानि कुलमूलावतारे-

नवैकपञ्चमः सिद्धः साध्यः षड्दशयुग्मकः ।
सुसिद्धो मुनिरुद्राग्नि स्तुर्याष्टद्वादशो रिपुः ॥

इति ज्ञात्वा वरारोहे मन्त्रं दद्याद्विशालधीः ॥

तेषां फलानि सिद्धारिचक्रोक्तानि ज्ञेयानि ॥

इति श्रीमहामहोपाध्यायवर्ययभगवत्पूज्यपाद श्रीगोविन्दाचार्यशिष्य श्रीभगवच्छङ्कराचार्यशिष्य श्रीविष्णुशर्माचार्यशिष्य श्रीप्रगल्भाचार्यशिष्य श्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे द्वितीयः श्वासः ॥ २ ॥

अथ

श्रीविद्यार्णवतन्त्रे

3. Śvāsa

अथ षोडशारचक्रम् । तत्र कुलमूलावतारे-

चतुरस्रां भुवं भित्त्वा कोष्ठानां षोडशालिखेत् ।
अकारादिक्षकरान्तां मातृकामपि विन्यसेत् ॥ ३-१ ॥

ईशानकोणादारभ्य वायव्यान्तं लिखेत् सुधीः । प्रादक्षिण्यक्रमेणैव ।

इति । तल्लेखनप्रकारमाह लक्ष्मीकुलार्णवे-

एकत्रिरुद्रनवनेत्रयुगार्कपंक्तिषणागषोडशचतुर्दशपञ्चकेषु ।

कोष्ठे लिखेत् मुनितिथिषु तथावशिष्टे वर्णान् हुताशनमितान् क्रमशोऽम्बिकायाः ॥ ३-१ ॥ इति ।

शिद्धः सिद्ध्यति कालेन साध्यः सिद्ध्यति वा नवा ।
सुसिद्धस्तत्क्षणादेव अरिर्मूलं निकृन्तति ॥ ३-२ ॥

इति भैरवीतन्त्रे-

दुष्टर्क्षराशिभूतादिवर्णप्रचुरमन्त्रकम् ।
सम्यक् परीक्ष्य तं यत्नाद् वर्जयेन्मतिमान्नरः ॥ ३-१ ॥

सिद्धसाध्यादियोगेषु मन्त्रदाने विशेषतः ।
प्रसिद्धं नाम गृह्णीयात् सुषुप्तो येन जागृयात् ॥ ३-२ ॥

आदौ सिद्धस्थान्ते च सर्वसिद्धिफलप्रदः ।
आदावन्ते भवेत्साध्यः कृच्छ्रसाध्य उदाहृतः ॥ ३-३ ॥

आदावन्ते सुसिद्धस्तु क्षिप्रमेव प्रसिद्ध्यति ।
आदावन्ते रिपुर्यस्तु साधकं स निकृन्तयेत् ॥ ३-४ ॥

आदौ सिद्धोऽन्त्यसाध्यो यो द्विगुणेन स सिद्ध्यति ।
आदौ साध्यः सुसिद्धोऽन्ते प्रोक्तमार्गेण सिध्यति ॥ ३-५ ॥

सुसिद्धादिस्तु साध्यान्तश्चतुर्गुणमपेक्षते ।
आद्यन्तयोर्यदा सिद्धो मध्ये साध्यः प्रजायते ॥ ३-६ ॥

आद्यन्तयोर्यदा साध्यो मध्ये सिद्धः प्रजायते ।
तावुभौ साध्यसिद्धौ हि जपाधिक्येन सिद्ध्यतः ॥ ३-७ ॥

आदौ सिद्धेन संयुक्तः सुसिद्धेन तथान्ततः ।
श्रवणादेव सिद्ध्येत साधकस्य न संशयः ॥ ३-८ ॥

सिद्धान्तरितसाध्यस्तु सुसिद्धान्तरितोऽथवा ।
श्रीघ्रं सिद्ध्यति मन्त्रो वै यच्चोक्तं मन्त्रवित्तमैः ॥ ३-९ ॥

सिद्धेनान्तरितः शत्रुः सुसिद्धेनापि चेद्भवेत् ।
नासौ रिपुर्भवेन्मन्त्रः किंतु कृच्छ्रेण सिद्ध्यति ॥ ३-१० ॥

साध्येनान्तरितः सिद्धः सुसिद्धोऽपि तथा यदि ।
सिद्ध्यत्यतीव कष्टेन साधकस्य नचान्यथा ॥ ३-११ ॥

रिपुणान्तरितं सिद्धं सुसिद्धं च तथा त्यजेत् ।
रिपुणा दूषितो मन्त्रो नैव ग्राह्यः कथञ्चन ॥ ३-१२ ॥

अल्पदोषा बहुगुणा मन्त्रा देया विचक्षणैः ।
सिद्धादिकोष्ठकं ज्ञात्वा ततः सिद्धिः प्रजायते ॥ ३-१३ ॥

एकाक्षरे तथा कूटे त्रैपुरे मन्त्रनायके ।
स्त्रीदत्ते स्वप्नदत्ते च सिद्धादीन्नैव शोधयेत् ॥ ३-१४ ॥

नृसिंहार्कवराहाणां प्रासादप्रणवस्य च ।
सपिण्डाक्षरमन्त्राणां सिद्धादीन्नैव शोधयेत् ॥ ३-१५ ॥

पाशाद्यं त्र्यक्षरं मन्त्रं त्रैपुरं चण्डनायकम् ।
सौरं मृत्युञ्जयं शाक्तं शाम्भवं विनतासुतम् ॥ ३-१६ ॥

सौरमन्त्रास्तु येऽपि स्युर्वैष्णवा नारसिंहकाः ।
सिद्धसाध्यसुसिद्धारिविचारपरिवर्जिताः ॥ ३-१७ ॥

प्रणवं त्र्यक्षरं मायां व्योमव्याप्यं षडक्षरम् ।
मालामन्त्रेषु सर्वेषु सिद्धादीन् नैव शोधयेत् ॥ ३-१८ ॥

इति । रत्नसागरे-

हंसस्याष्टाक्षरस्यापि तथा पञ्चाक्षरस्य च ।
एकद्वित्र्यादिबीजस्य सिद्धादीन्नैव शोधयेत् ॥ ३-१ ॥

नृसिंहार्कवराहाणां कालिका सिद्धकालिका ।
श्यामला च तथा चण्डी सिद्धादिपरिवर्जनम् ॥ ३-२ ॥

इति । रुद्रयामले-

अघोरमन्त्रे देवेशि मालामन्त्रस्य पार्वति ।
नपुंसकस्य मन्त्रस्य सिद्धादीन्नैव शोधयेत् ॥ ३-१ ॥

इति । कुलमूलावतारे-

स्वप्नोपदिष्टमन्त्रस्य न विधिर्नैव च क्रिया ।
उद्दिष्टदेवतां ध्यात्वा जपेच्छुभकरं भवेत् ॥ ३-१ ॥

इति । अगस्त्यसंहितायाम्-

राममन्त्रेषु सर्वेषु शृणुष्व मुनिपुङ्गव ।
तारकत्वान्मन्त्रराजे सिद्धादीन्नैव शोधयेत् ॥ ३-१ ॥

इति । सिद्धान्तशेखरे-

एकत्रिपञ्चसप्तार्णनवरुद्राक्षरान्विते ।
द्वात्रिंशदक्षरे मन्त्रे सिद्धादीन् नैव शोधयेत् ॥ ३-१ ॥

ये च बौद्धाश्च जैनाश्च गोपाला वैष्णवाश्च ये ।
सिद्धसाध्यसुसिद्धारिविचारपरिवर्जिताः ॥ ३-२ ॥

व्योमव्यापी षडर्णश्च मातृका हरवल्लभा ।
बहुरूपाह्वया मन्त्राः पञ्च साधारणा मताः ॥ ३-३ ॥

इति । अथ षड्दलचक्रम् । तत्र कुलमूलावतारे-

षड्दलं पद्ममालिख्य प्रागादिषु दलेषु च ।
अकाराद्यर्णानेकैकांल्लिखेत् विषण्डकूटकान् ॥ ३-१ ॥

स्वनामाद्यक्षरं यत्र तदारभ्य विचारयेत् ।
प्रथमे संपदुद्दिष्टा द्वितीये संपदः क्षयः ॥ ३-२ ॥

तृतीये तु धृति विद्याच्चतुर्थे बन्धुविग्रहम् ।
पञ्चमे संशयं विद्यात् षष्ठे सर्वविनाशनम् ॥ ३-३ ॥

इति ॥ ३-अथ ऋणधनशोधनचक्रम् । तत्र कुलामूलावतारे-

इन्द्रर्धनेत्ररविपञ्चदशर्तुवेदवह्व्यायुधाष्टनवभिर्गुणितांश्च साध्यान् ॥ दिग्भूगिरियुतिगजाग्निमुनीषुवेदषड् ह्विभिश्च गुणितानथ साधकार्णान् ॥ नामाञ्चरादकठवाद्गजभक्तशेषं ज्ञात्वोभयोरधिकशेषमृणं धनं स्यात् ॥

अथैतच्चक्रनिर्वाणप्रकारः । तत्र दक्षिणोत्तरायताः सप्त रेखाः प्राक्प्रत्यगायता द्वादश रेखाश्च विलिख्य षट्षष्टिकोष्ठानि कृत्वा तत्र सर्वोपरिगतैकादशकोष्ठात्मकप्रथमपंक्तौ स्ववामादिदक्षिणान्तं प्रथमकोष्ठे १४ द्वितीये २७ तृतीये २ चतुर्थे १२ पञ्चमे १५ षष्ठे ६ सप्तमे ४ अष्टमे ३ नवमे ५ दशमे ८ एकादशे ९ । इत्येका दशभेदानङ्कान् विलिख्य तदधो द्वितीयपंक्तौ स्ववामादिदक्षिणान्तं अ इ उ ऋ ऌ ए ऐ ओ औ अं अः इत्येकादश स्वरामेकादशकोष्ठेषु विलिख्य तदधःपंक्तौ ककारादिटकारान्तान् तदधःपंक्तौ उकारादिफकारान्तान् तदधःपंक्तौ वकारादिहकारान्तान् वर्णान् विलिख्य तदधःपंक्तौ १० । १ । ७ । ४ । ८ । ३ । ७ । ५ । ४ । ६ । ३ इत्येकादशविधानङ्कानेकादशसु कोष्ठेषु विलिख्य इति अकठवचक्रं निर्माय विचारयेत् । तत्र स्वेष्टमन्त्रस्थवर्णान् स्वरव्यञ्जनबिन्दुविसर्गान् पृथक्कृत्य सर्वोपरिगतस्थाङ्केन यस्य यस्य वर्णस्य यो योऽङ्कस्तं तं वर्णं तेन तेनाङ्केन (ग ? गु) णयित्वा सञ्जाताङ्कसमुदायमष्टभिराहृत्यावशिष्टमङ्कं पृथक्संस्थाप्य मन्त्रसाधकयोरवशिष्टाङ्कमध्ये योऽङ्कस्तदधिकसंख्याकः स ऋणी ज्ञेयः ।
मन्त्रश्चेदृणी तदा स मन्त्रो ग्राह्यः । यस्य मन्त्रस्य साधको ऋणी भवति स मन्त्रस्त्याज्य इति ॥

अथ श्रीविद्यामधिकृत्य मातृकानिरूपणम् ।

अथ वक्ष्ये जगद्धात्रीं मातृकां मन्त्रविग्रहाम् ।
सौकर्यार्थं हि मन्त्राणां न्यासपूजाजपस्य च ॥ ३-१ ॥

उद्धारे साधकानां च विशेषात् कालिकामते ।
तारस्य पञ्चभेदेभ्यः पञ्चाशद्वर्णगाः कलाः ॥ ३-२ ॥

विवृत्तिश्च प्रतिष्ठा च विद्या शान्तिरनन्तरम् ।
इन्धिका दीपिका चैव रेचिका मोचिका परा ॥ ३-३ ॥

सूक्ष्माऽसूक्ष्माऽमृता ज्ञाना मृता चाप्यायिनी तथा ।
व्यापिनी व्योमरूपा स्युरनन्ता स्वरजाः कलाः ॥ ३-४ ॥

सृष्टि ऋद्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीर्द्युतिः स्थिरा ।
स्थितिः सिद्धिरिति प्रोक्ताः क्रमाच्च कचवर्गजाः ॥ ३-५ ॥

ततश्चापि जरा चैव पालिनी शान्तिरेव च ।
ऐश्वर्या च रतिश्चैव कामिका वरदा तथा ॥ ३-६ ॥

ह्लादिनी प्रीतिर्दीर्घा च क्रमात् स्युः टतवर्गजाः ।
तीक्ष्णा रौद्री भया निद्रा तन्द्री क्षुत्क्रोधिनी क्रिया ॥ ३-७ ॥

उत्कारी मृत्युरेताः स्युः क्रमाच्च पयवर्गजाः ।
षवर्गोत्थकलाः प्रोक्ताः पीता श्वेतारुणाऽसिता ॥ ३-८ ॥

अनन्ता च तथा प्रोक्ताः पञ्चाशद्वर्णसम्भवाः ।
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ॥ ३-९ ॥

शशिनी चन्द्रिका ज्योत्स्ना कान्तिः श्रीः प्रीतिरङ्गदा ।
पूर्णा पूर्णामृता कामदायिन्यः स्वरजाः कलाः ॥ ३-१० ॥

तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी शुचिः ।
सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ ३-११ ॥

कभाद्या वसुदाः सौराष्ठडान्ता द्वादशेरिताः ।
धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ॥ ३-१२ ॥

सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि ।
यादीनां दशवर्णानां कला धर्मप्रदा इमाः ॥ ३-१३ ॥

सोमसूर्याग्निरूपिण्यः साधकानां फलप्रदाः ।
श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः ॥ ३-१४ ॥

अर्घीशो भारभूतिश्च तिथीशः स्थाणुको हरः ।
झिण्टीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः ॥ ३-१५ ॥

अक्रूरश्च महासेनः षोडश स्वरमूर्तयः ।
पश्चात् क्रोधीशचण्डीशपञ्चान्तकशिवोत्तमाः ॥ ३-१६ ॥

अथैकरुद्रकूर्मैकनेत्राह्वचतुराननाः ।
अजेशः सर्वसौमेशौ तथा लाङ्गलिदारुकौ ॥ ३-१७ ॥

अर्द्धनारीश्वरश्चोमाकान्तश्चाषाढिदण्डिनौ ।
स्युरद्रिमीनमेषाख्यलोहिताश्च शिखि तथा ॥ ३-१८ ॥

छगलाण्डद्विरण्डौ च महाकालकपालिनौ ।
भुजङ्गेशः पिनाकी च खड्गीशाख्यो बकस्तथा ॥ ३-१९ ॥

श्वेतो भृगुश्च नकुली शिवः सम्वर्तकः स्मृतः ।
पूर्णोदरी स्याद्विरजा शाल्मली तदनन्तरम् ॥ ३-२० ॥

लोलाक्षी वर्तुलाक्षी च दीर्घघोणा ततः परम् ।
सुदीर्घमुखिगोमुख्यौ दीर्घजिह्वा ततः परम् ॥ ३-२१ ॥

कुण्डोदर्यूर्ध्वकेशी च तथा विकृतमुख्यपि ।
ज्वालामुखी ततश्चोल्कामुखी च श्रीमुखी तथा ॥ ३-२२ ॥

विद्यामुखी च कथिताः रुद्राणां स्वरशक्तयः ।
महाकालीसरस्वत्यौ सर्वसिद्धिस्ततः परम् ॥ ३-२३ ॥

गौरी त्रैलोक्यविद्या स्यान्मन्त्रशक्तिस्ततः परम् ।
आत्मशक्तिर्भूतमाता ततो लम्बोदरी तथा ॥ ३-२४ ॥

द्राविणी नागरी भूयः खेचरी चापि मञ्जरी ।
रूपिणी वीरिणी पश्चात् काकोदर्यपि पूतना ॥ ३-२५ ॥

स्याद्भद्रका लीयोगिन्यौ शङ्खिनी गर्जिनी तथा ।
कालरात्रिश्च कुर्दिन्या कपर्दिन्यपि वज्रिका ॥ ३-२६ ॥

जया च सुमुखी चैव रेवती माधवी तथा ।
वारुणी वायवी चैव तथा रक्षोविदारिणी ॥ ३-२७ ॥

ततश्च सहजा लक्ष्मीर्व्यापिनी च ततः परम् ।
महामाया च कथिताः क्रमात्ताः रुद्रशक्तयः ॥ ३-२८ ॥

अत्र रुद्राः स्मृता रक्ता धृतशूलकपालकाः ।
शक्तयो रुद्रपीठस्थाः सिन्दूरारुणविग्रहाः ॥ ३-२९ ॥

रक्तोत्पलकपालाभ्यामलंकृतकराम्बुजाः ।
केशवो नारायणो माधवगोविन्दविष्णवः ॥ ३-३० ॥

मधुसूदनसंज्ञोऽन्यः स्यात् त्रिविक्रमवामनौ ।
श्रीधरश्च हृषीकेशः पद्मनाभस्ततः परम् ॥ ३-३१ ॥

दामोदरो वासुदेवः सङ्कर्षण इतीरितः ।
प्रद्युम्नश्चानिरुद्धश्च क्रमात् स्युः स्वरमूर्तयः ॥ ३-३२ ॥

पश्चाच्चक्री गदी शार्ङ्गी खड्गी शङ्खी हली पुनः ।
मुसली शूलधृत् पाशी अंकुशी च ततः परम् ॥ ३-३३ ॥

मुकुन्दो नन्दजो नन्दी नरो नरकजिद्धरिः ।
कृष्णः सत्यः सात्त्वताख्यः शौरिः शूरो जनार्दनः ॥ ३-३४ ॥

भूधरो विश्वमूर्तिश्च वैकुण्ठः पुरुषोत्तमः ।
बली बालानुजो बालो वृषघ्नो वृषभस्तथा ॥ ३-३५ ॥

हंसो वराहो विमलो नृसिंहो मूर्तयो हलाम् ।
कीर्तिः कान्तिस्तथा तुष्टिः पुष्टिश्चैव धृतिस्ततः ॥ ३-३६ ॥

शान्तिः क्रिया दया मेधा हर्षा श्रद्धा ततः परम् ।
लज्जा लक्ष्मीसरस्वत्यौ प्रीती रतिरिमाः क्रमात् ॥ ३-३७ ॥

जया दुर्गा प्रभा सत्या चण्डा वाणी विलासिनी ।
विजया विरजा विश्वा विनदा सुनदा स्मृतिः ॥ ३-३८ ॥

ऋद्धिः समृद्धिः शुद्धिश्च भुक्तिर्बुद्धिर्मतिः क्षमा ।
रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधा परा ॥ ३-३९ ॥

पारायणा च सूक्ष्मा च सन्ध्या प्रज्ञा प्रभा निशा ।
अमोघा विद्युता चेति कादीनां मूर्तयो हरेः ॥ ३-४० ॥

केशवाद्या इमे श्यामाः शङ्खचक्रलसत्कराः ।
शक्तयस्तु प्रियाङ्केषु निषाणाः सस्मिताननाः ॥ ३-४१ ॥

विद्युद्दामसमानाङ्ग्यः पङ्कजाभयबाहवः ।
रविः प्रभाकरो भास्वान् द्युमणिः पूषणो भगः ॥ ३-४२ ॥

आदित्योऽर्को वेदमूर्तिः कर्मसाक्षी दिवाकरः ।
मित्रोऽयंमोष्णरश्मिश्च द्वादशात्मा विभाकरः ॥ ३-४३ ॥

स्वराणां मूर्तयश्चैते सूरः सूर्यो विभावसुः ।
अहस्करोऽरुणो व्रध्नो भास्वान् सप्ततुरङ्गमः ॥ ३-४४ ॥

हरिदश्वो ग्रहाधीशो मार्तण्डो भानुरव्ययः ।
विकर्तनः सहस्रांशुर्मिहिरो मित्रमाठरौ ॥ ३-४५ ॥

कर्मसाक्षी जगन्नेत्रस्तरणिः पद्मिनीप्रियः ।
चण्डांशुः पिङ्गलो दण्डो गभस्ती घृणिरंशुमान् ॥ ३-४६ ॥

प्रद्योतनो जगच्चक्षुस्तपनो लोकबान्धवः ।
हंसस्तमोपहन्ता च त्रयीमूर्तिश्च मूर्तयः ॥ ३-४७ ॥

विद्याहोपुष्टयः प्रज्ञाः सिनीवाली कुहूः पुनः ।
रुद्रवीर्या प्रभानन्दा स्यात्पोषण्यृद्धिदा शुभा ॥ ३-४८ ॥

कालरात्रिर्महारात्रिर्भद्रकाली कपालिनी ।
विकृतिर्दण्डमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी ॥ ३-४९ ॥

निशुम्भशुम्भमथनी महिषासुरमर्दिनी ।
इन्द्राणी चैव शङ्करार्धशरीरिणी ॥ ३-५० ॥

नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ।
अम्बिका हारिणी चैव समृद्धिर्वृद्धिरेव च ॥ ३-५१ ॥

पिङ्गलाक्षी विशालाक्षी मायां संज्ञा वसुन्धरा ।
श्रद्धा स्वाहा सुधा भिक्षा देवकी कमलासना ॥ ३-५२ ॥

त्रिलोकधात्री सावित्री गायत्री त्रिदशेश्वरी ।
सुरूपा बहुरूपा च पञ्चाशच्छक्तयो रवेः ॥ ३-५३ ॥

इति । अथ काममातृका-

कामेशः कामदः कान्तः कान्तिमान् कामगस्तथा ।
कामाचारश्च कामी च कामुकः कामवर्द्धनः ॥ ३-५४ ॥

वामोरामश्च रमणो रतिनाथो रतिप्रियः ।
रात्रिनाथो रमाकान्तो रममाणो निशाचरः ॥ ३-५५ ॥

नन्दको नन्दनो नन्दी ततो नन्दयिता ततः ।
पञ्चबाणो रतिसखः पुष्पधन्वा महाधनुः ॥ ३-५६ ॥

भ्रामणो भ्रमणश्चैव भ्रममाणो भ्रमस्तथा ।
भ्रान्तो भ्रामकभृङ्गौ च भ्रान्तचारो भ्रमावहः ॥ ३-५७ ॥

मोहनो मोहको मोहो मोहवर्द्धन एव च ।
मदनो मन्मथश्चैव मातङ्गो भृङ्गनायकः ॥ ३-५८ ॥

गायकश्चैव गीती च नर्तकः खेलकस्ततः ।
उन्मत्तो मत्तकश्चैव विलासी लोभवर्द्धनः ॥ ३-५९ ॥

कामस्य मूर्तयः प्रोक्ता अकाराद्यर्णसञ्चये ।
रतिः प्रीतिश्च तदनु कामिनी मोहिनी ततः ॥ ३-६० ॥

कमलासुविलासिन्यौ ततः कल्पलता तथा ।
श्यामा शुचिस्मिता चैव विस्मिता तदनन्तरम् ॥ ३-६१ ॥

विशालाक्षी लेलिहाना ततश्चैव दिगम्बरा ।
वामा च कुब्जिका कान्ता नित्या कुल्या च भोगिनी ॥ ३-६२ ॥

कामदा चैव तत्पश्चात् प्रोच्यते च सुलोचना ।
सुलापिनी मर्दिनी च ततश्च कलहप्रिया ॥ ३-६३ ॥

वराक्षी सुमुखी चैव नलिनी जटिनी तथा ।
पालिनी च शिवा मुग्धा ततश्चैव रमा भ्रमा ॥ ३-६४ ॥

लोला च चञ्चला चैव दीर्घजिह्वा रतिप्रिया ।
लोलाक्षी भङ्गिनीचैव पाटला मदना तथा ॥ ३-६५ ॥

माला च हंसिनी चैव ततः स्याद्विश्वतोमुखी ।
जगदानन्दिनी चैव रमणी कान्तिरेव च ॥ ३-६६ ॥

ततः स्याच्च कलङ्कध्नी वृकोदर्यपि सा तथा ।
मेघश्यामा तथा लोभवर्द्धनी शक्तयस्तथा ॥ ३-६७ ॥

ततः कामान् स्मरेन्मर्त्यो दाडिमीकुसुमोपमान् ।
वामाङ्कशक्तिसहितान् पुष्पबाणेक्षुकार्मुकान् ॥ ३-६८ ॥

शक्तयः कुंकुमानिभाः सर्वाभरणभूषिताः ।
नीलोत्पलकरा ध्येयास्त्रैलोक्याकर्षणक्षमाः ॥ ३-६९ ॥

इति । अथ त्रिपुरामातृका-

कामिनी मोदिनी चैव मदनोन्मादिनी ततः ।
द्राविणी खेचरी चैव घण्टिका च कलावती ॥ ३-१ ॥

क्लेदिनी शिवदूती च ततश्च सुभगा भगा ।
विद्येशी च महालक्ष्मीः कौलिनी च सुरेश्वरी ॥ ३-२ ॥

स्वराणां शक्तयः प्रोक्तास्ततश्च कुलमालिनी ।
व्यापिनी च भगा चैव वागीशी तदनन्तरम् ॥ ३-३ ॥

वषट्कारी पिङ्गला च भगसर्पिण्यतः परम् ।
सुन्दरी च ततो नीलपताका त्रिपुरा ततः ॥ ३-४ ॥

सिद्धेश्वरी ह्यमोघा च रत्नमालिन्यतः परम् ।
मङ्गला भगमाला च नित्या रौद्री ततः परम् ॥ ३-५ ॥

व्योमेश्वरी अम्बिका चाप्यट्टहासा ततः परम् ।
आप्यायिनी च वज्रेशी क्षोभिणी शाम्भवी तथा ॥ ३-६ ॥

स्तम्भिनी चाप्यनामा च रक्ता शुक्लापराजिता ।
संवर्तिका च विमला अघोरा घोरया युता ॥ ३-७ ॥

बिम्बादिभैरवी चैव सर्वाकर्षिणिका तथा ।
एताः पञ्चाशदाख्याताः पञ्चाशद्वर्णविग्रहाः ॥ ३-८ ॥

इति । अथ गणेशमातृका-

विघ्नेश्वरो विघ्नराजो विनायकशिवोत्तमौ ।
विघ्नकृद्विघ्नहर्ता च विघ्नराड् गणनायकः ॥ ३-१ ॥

एकदन्तो द्विदन्तश्च गजवक्त्रो निरञ्जनः ।
कपर्दी दीर्घवक्त्रश्च शंकुकर्णो बृषध्वजः ॥ ३-२ ॥

गणनाथो गजेन्द्रश्च शूर्पकर्णस्त्रिलोचनः ।
लम्बोदरमहानादौ चतुर्मूर्तिः सदाशिवः ॥ ३-३ ॥

आमोदौ दुर्मुखश्चैव सुमुखश्च प्रमोदकः ।
एकपादो द्विजिह्वश्च शूरो वीरश्च षण्मुखः ॥ ३-४ ॥

वरदो वामदेवश्च वक्रतुण्डो द्विरण्डकः ।
सेनानीर्ग्रामणीर्मत्तो विमत्तो मत्तवाहनः ॥ ३-५ ॥

जटी मुण्डी च खड्गी च वरेण्यो वृषकेतनः ।
भक्ष्यप्रियो मेघनादो गणपश्च गणेश्वरः ॥ ३-६ ॥

एते पञ्चाशदाख्याता मूर्तयो गणपस्य तु ।
श्रीः ह्रीस्तुष्टिश्च शान्तिश्च पुष्टिश्चैव सरस्वती ॥ ३-७ ॥

रतिर्मेधा च कान्तिश्च कामिनी मोहिनी जटा ।
तीव्रा च ज्वालिनी नन्दा सुरसा कामरूपिणी ॥ ३-८ ॥

उग्रा च जयिनी सत्या विघ्नेशी च स्वरूपिणी ।
कामदा च ततः प्रोक्ता तथा च मद्विह्वला ॥ ३-९ ॥

विकटा च ततो धूम्रा भूतिर्भूमिः सती रमा ।
ततश्च मानुषी चैव ततश्च मकरध्वजा ॥ ३-१० ॥

विकर्णा भ्रुकुटी लज्जा घोणा चैव धनुर्धरा ।
ततश्च यामिनी रात्रिश्चन्द्रिका च शशिप्रभा ॥ ३-११ ॥

लोला च चञ्चलाक्षी च तथा ऋद्धिश्च दुर्भगा ।
सुभगा च शिवा दुर्गा कालिकालकजिह्विका ॥ ३-१२ ॥

विघ्नहारिणिका चैव शक्तयः स्युर्गणेशितुः ।

इति । अथ योगिनीमातृका-

अमृताकर्षिणीन्द्राणी चेशान्युमोर्ध्वकेशिनी ।
ऋद्धिदा च तथा ॠषा ऌकारा ॡषिका तथा ॥ ३-१ ॥

एकपादा तथैश्वर्या ओकारा चौषधात्मिका ।
अम्बिका चाक्षरात्मा च सुराणां शक्तयः क्रमात् ॥ ३-२ ॥

कालरात्रिश्च खातीता गायत्री तदनन्तरम् ।
घण्टाधारिणिका चैव ततो ङार्णात्मिका तथा ॥ ३-३ ॥

चामुण्डा चैव च्छाया च जया झङ्कारिणी तथा ।
ञार्णात्मिका टङ्कहस्ता ततष्ठङ्कारिणी तथा ॥ ३-४ ॥

डामरी चैव ढङ्कारी णङ्कारी तामसी ततः ।
स्थानदेवी च दाक्षायण्यथ धात्री च नन्दिका ॥ ३-५ ॥

पार्वती चैव फट्कारी बन्धिनी भद्रकालिका ।
महामायायशस्विन्यौ रमा लम्बोष्ठिका ततः ॥ ३-६ ॥

वरदा शशिनी षण्डा तथा चैव सरस्वती ।
ततो हंसवती चैव ततः प्रोक्ता क्षमावती ॥ ३-७ ॥

इति । अथ पीठमातृका-

कामरूपं च काशीकं नेपालं पौण्डवर्धनम् ।
पुरस्थिरं कान्यकुब्जं पूर्णगिर्यर्बुदे ततः ॥ ३-१ ॥

आम्रातकेश्वरं चैव एकाम्रं तदनन्तरम् ।
त्रिस्रोतः कामकोटं च कैलासं भृगुपत्तनम् ॥ ३-२ ॥

केदारं चन्द्रनगरं श्रीपुरोङ्कारके ततः ।
जालन्धरं मालवं च कुलान्तं देविकोटकम् ॥ ३-३ ॥

गोकर्णं मारुतेशं च अट्टहासं ततः परम् ।
विरजं राजगेहं च महापथमतः परम् ॥ ३-४ ॥

कोल्हमेलापुरं चैव कौलेश्वरमतः परम् ।
जयन्तिका चोञ्जयिनी चरित्रं क्षीरकं ततः ॥ ३-५ ॥

हस्तिनापुरमुड्डीशं प्रयागं तदनन्तरम् ।
पष्ठीशमायानगरे जलेश्वरमतः परम् ॥ ३-६ ॥

मलयं च महीपीठं श्रीशैलं मेरुपीठकम् ।
ततो गिरिवरं चैव महेन्द्रं वामनं ततः ॥ ३-७ ॥

हिरण्यकं महालक्ष्मीपुरमुड्यानमेव च ।
छायाच्छत्रं महापीठं पञ्चाशद्वर्णगान्यथ ॥ ३-८ ॥

इति । अथ कामाकर्षिण्यादिमातृका-

कामाकर्षिणिका चैव बुद्ध्याकर्षिणिका तथा ।
अहङ्काराकर्षिणी च शब्दाकर्षिणिका तथा ॥ ३-१ ॥

स्पर्शाकर्षिणिका चैव रूपाकर्षिणिका तथा ।
रसाकर्षिणिका चैव गन्धाकर्षिणिका ततः ॥ ३-२ ॥

चित्तधैर्याकर्षिणिके स्मृत्याकर्षिणिका तथा ।
नामाकर्षिणिका चैव बीजाकर्षिणिका ततः ॥ ३-३ ॥

आत्माकर्षिणिका चैवामृताकर्षिणिका तथा ।
शरीराकर्षिणी चैव षोडशस्वरगाः क्रमात् ॥ ३-४ ॥

सर्वसंक्षोभिणी शक्तिः सर्वविद्राविणी ततः ।
सर्वाकर्षिणिका चैव सर्वाह्लादिनिका ततः ॥ ३-५ ॥

सर्वसंमोहिनी सर्वस्तम्भिनी सर्वजृम्भिणी ।
ततः सर्ववशङ्कारी सर्वरञ्जनिका तथा ॥ ३-६ ॥

सर्वोन्मादनकारी च ततः सर्वार्थसाधिनी ।
सर्वसंपत्प्रपूरा च सर्वमन्त्रमयी तथा ॥ ३-७ ॥

सर्वद्वन्द्वक्षयङ्कारी सर्वसिद्धिप्रदा ततः ।
सर्वसंपत्प्रदा चैव सर्वप्रियकरी ततः ॥ ३-८ ॥

सर्वमङ्गलकारी च सर्वकामप्रदा ततः ।
सर्वदुःखविमोचिनी संप्रोक्ता तदनन्तरम् ॥ ३-९ ॥

सर्वमृत्युप्रशमनी सर्वविघ्ननिवारिणी ।
सर्वाङ्गसुन्दरी चैव सर्वसौभाग्यदा तथा ॥ ३-१० ॥

सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यफलप्रदा ।
सर्वज्ञानमयी चैव सर्वव्याधिविनाशिनी ॥ ३-११ ॥

सर्वाधारस्वरूपा च सर्वपापहरा तथा ।
सर्वानन्दमयी चैव सर्वरक्षास्वरूपिणी ॥ ३-१२ ॥

ततः संप्रोच्यते चैव सर्वेप्सितफलप्रदा ।

इति । अथ त्रिशक्ति (प्रपञ्च) मातृका प्रत्यक्षरं नामद्वयम्-

प्रपञ्चरूपा श्रीर्द्वीपरूपा मायाब्धिरूपिणी ।
कमला गिरिरूपा च ततो वै विष्णुवल्लभा ॥ ३-१ ॥

ततः पत्तनरूपा च ततो वै पद्मधारिणी ।
पीठरूपा समुद्रादितनया क्षेत्ररूपिणी ॥ ३-२ ॥

लोकमाता वनरूपा ततः कमलवासिनी ।
ततश्चाश्रम रूपा च इन्द्रिरा च ततः परम् ॥ ३-३ ॥

गुहारूपा ततो माया नदीरूपा रमा ततः ।
तथा चतुररूपा च पद्मोद्भिज्जस्वरूपिणी ॥ ३-४ ॥

नरायणप्रिया चैव ततः स्वेदजरूपिणी ।
सिद्धलक्ष्मीस्तथा प्रोक्ता ततश्चाण्डजरूपिणी ॥ ३-५ ॥

जरामृजस्वरूपा च महालक्ष्मीस्ततः परम् ।
ततश्च लवरूपार्या त्रुटिरूपा ह्युमा तथा ॥ ३-६ ॥

कलारूपा चण्डिका च काष्ठारूपा च दुर्गिका ।
निमेषरूपा च शिवा श्वासरूपा ततः परम् ॥ ३-७ ॥

अपर्णा घटिकारूपा ह्यम्बिका च ततः परम् ।
मुहूर्तरूपा च सती ततः प्रहररूपिणी ॥ ३-८ ॥

ईश्वरी दिनरूपा च शाम्भवी च ततः परम् ।
सन्ध्यारूपा तथेशानी रात्रिरूपा च पार्वती ॥ ३-९ ॥

तिथिरूपा मङ्गला च वाररूपा ततः परम् ।
दाक्षायणी च नक्षत्ररूपा हैमवती ततः ॥ ३-१० ॥

योगरूपा महामाया ततः करणरूपिणी ।
माहेश्वरी पक्षरूपा मृडानी मासरूपिणी ॥ ३-११ ॥

रुद्राणी शशिरूपा च शर्वाणी ऋतुरूपिणी ।
परमेश्वर्ययनरूपा काली वत्सररूपिणी ॥ ३-१२ ॥

कात्यायनी युगादिश्च रूपा गौरी तथैव च ।
ततः प्रलयरूपा च भवानी तदनन्तरम् ॥ ३-१३ ॥

पञ्चभूतस्वरूपा च ब्राह्मी च तदनन्तरम् ।
तथा च पञ्चतन्मात्ररूपा वागीश्वरी ततः ॥ ३-१४ ॥

कर्मेन्द्रियस्वरूपा च वाणी चैव ततः परम् ।
ज्ञानेन्द्रियस्वरूपा च सावित्री प्राणरूपिणी ॥ ३-१५ ॥

सरस्वती च तत्पश्चाद् गुणत्रयस्वरूपिणी ।
गायत्र्यन्तःकरणरूपा वाक्प्रदा च ततः परम् ॥ ३-१६ ॥

अवस्थात्रयरूपा च शारदा च ततः परम् ।
सप्तधातुस्वरूपा च भारती तदनन्तरम् ॥ ३-१७ ॥

दोषत्रयस्वरूपा च ततो विद्यात्मिका तथा ।
प्रपञ्चमातृका ख्याता सर्वसिद्धिप्रदा स्मृता ॥ ३-१८ ॥

इति प्रपञ्चमातृका ॥ अथ कालीमातृका-

काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ।
विप्रचित्ता तथोग्रोग्रप्रभा दीप्ता तथैव च ॥ ३-१ ॥

नीला घना बलाका च मात्रा मुद्रा मिता तथा ।
ब्राह्मी तथैव सम्प्रोक्ताः षोडश स्वरशक्तयः ॥ ३-२ ॥

नारायणी च माहेशी चामुण्डा च ततः परम् ।
कौमारी च तथैवोक्ता पञ्चमी चापराजिता ॥ ३-३ ॥

वाराही नारसिंही च भैरवी तदनन्तरम् ।
महदाद्या भैरवी च प्रोक्ता सा सिंहभैरवी ॥ ३-४ ॥

तथा धूम्राभैरवी च सम्प्रोक्ता भीमभैरवी ।
उन्मत्तभैरवी चैव वशीकरणभैरवी ॥ ३-५ ॥

मोहनाद्या भैरवी च ऐन्द्र्याग्नेयी ततः परम् ।
याम्या च राक्षसी चैव वारुणी वायवी तथा ॥ ३-६ ॥

कौवेरी च तथेशानी ब्रह्माणी वैष्णवी तथा ।
वज्रिणी शक्तिनी चैव दण्डिनी खड्गिनी तथा ॥ ३-७ ॥

पाशिन्यंकुशिनी चैव गदिनी शूलिनी तथा ।
मालिनी चक्रिणी चैव प्रोक्ता व्यञ्जनशक्तयः ॥ ३-८ ॥

इति । अथ तारामातृका त्रिषष्ट्यक्षराणाम्-

कुलेशी कुलनन्दा च वागीशी भैरवी तथा ।
उमा श्रीः शान्तिका चण्डा धूम्रा काली कपालिनी ॥ ३-१ ॥

* * * * * * * * * * * * करालिनी ।
वाग्वादिनी च नकुली भद्रकाली शशिप्रभा ॥ ३-२ ॥

प्रत्यङ्गिरा सिद्धलक्ष्मीरमृतेशी च चण्डिका ।
खेचरी भूचरी सिद्धा कामाक्षी हिंगुला वसा ॥ ३-३ ॥

जया च विजया चाथाजिता नित्यापराजिता ।
विलासिनी तथा घोरा चित्रा मुग्धा धनेश्वरी ॥ ३-४ ॥

सोमेश्वरी महाचण्डा विद्या हंसी विनायिका ।
वेदगर्भा तथा भीमा उग्रा वैद्या च सद्गतिः ॥ ३-५ ॥

उग्रेश्वरी चन्द्रगर्भा ज्योत्स्ना सत्या यशोवती ।
कुलिका कामिनी काम्या ज्ञानवत्यथ डाकिनी ॥ ३-६ ॥

राकिणी लाकिनी चाथ काकिनी शाकिनीत्यपि ।
हाकिनी च चतुःषष्टिः शक्तयः सिद्धिदायिकाः ॥ ३-७ ॥

इति तारामातृका ॥ अथ षोडशीमातृका-

कामेशी भगमाला च नित्यक्लिन्ना ततः परम् ।
भेरुण्डावह्निवासिन्यौ वज्रेशी तदनन्तरम् ॥ ३-१ ॥

शिवादूती च त्वरिता ततश्च कुलसुन्दरी ।
नित्या नीलपताका च विजया सर्वमङ्गला ॥ ३-२ ॥

ज्वालामालिनी चित्रे च महात्रिपुरसुन्दरी ।
षोडशीमातृकायाश्च सम्प्रोक्ताः स्वरशक्तयः ॥ ३-३ ॥

ग्रसिनी प्रियवादिन्यौ कराली च कपालिनी ।
शिवा घोषा च दंष्ट्रा च वीरोमा वाक्प्रदा तथा ॥ ३-४ ॥

नारायणी मोहिनी च प्रज्ञा च शिखिवाहिनी ।
भीषणा वायुवेगा च भीमा चैव विनायिका ॥ ३-५ ॥

पूर्णा शक्तिश्च कङ्काली कुर्दिनी कालिका तथा ।
दीपनी च जयन्तिन्या पाविनी लम्बिनी तथा ॥ ३-६ ॥

संहारिणी छागली च पूतना मोदिका तथा ।
परशक्तिस्तथाम्बा च इच्छाशक्तिस्ततः परम् ॥ ३-७ ॥

महाकाली च सम्प्रोक्ता व्यञ्जनानां च शक्तयः ।

इति षोडशीमातृका ॥ अथ भुवनेशीमातृका-

जया च विजया चैव अजिता चापराजिता ।
नित्या विलासिनी दोग्ध्री अघोरा मङ्गला तथा ॥ ३-१ ॥

डाकिनी राकिणी चैव लाकिनी काकिनी तथा ।
शाकिनी हाकिनी चैव याकिनी स्वरशक्तयः ॥ ३-२ ॥

मङ्गला च महाकाली कुण्डली कुलसुन्दरी ।
कपाली कमलावत्या चामुण्डा मेरुवासिनी ॥ ३-३ ॥

भुवनेशी सरस्वत्यौ कपिला कुलमालिनी ।
विनायिका जया नन्दा महालक्ष्मीश्च भैरवी ॥ ३-४ ॥

ब्रह्माणी च तथा ज्वालावली लिङ्गप्रभा तथा ।
मुण्डिनी च महावेगा उद्भवा वैष्णवी शिवा ॥ ३-५ ॥

महामाया तु चक्राङ्गी एकपादा सुरेश्वरि ।
कौवेरी मण्डली चैव वाराही च जलन्धरी ॥ ३-६ ॥

कामाख्या काममध्यस्था व्यञ्जनानां तु शक्तयः ।

इति भुवनेशीमातृका ॥ अथ भैरवीमातृका-

त्रिपुरा त्रिपुरेशी च तथा त्रिपुरसुन्दरी ।
त्रिपुराद्या वासिनी च त्रिपुराश्रीस्ततः परम् ॥ ३-१ ॥

त्रिपुरामालिनी चैव त्रिपुर सिद्धा ततः परम् ।
त्रिपुराम्बा ततश्चैव महात्रिपुरभैरवी ॥ ३-२ ॥

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही च तथेन्द्राणी चामुण्डा स्वरशक्तयः ॥ ३-३ ॥

विशाला च विशालाक्षी निर्मला मलवर्जिता ।
काली च कालकल्पा च कालरात्रिर्निशाचरी ॥ ३-४ ॥

ऊर्ध्वकेशी मुक्तकेशी वीराचैव महाभया ।
जयदा मानिनी माया प्रचण्डा बिन्दुमालिनी ॥ ३-५ ॥

विरूपा च विरूपाक्षी खट्वाङ्गी विश्वरूपिणी ।
रौद्री माया च प्रेताक्षी फेत्कारी भयनादिनी ॥ ३-६ ॥

धूम्राक्षी योगिनी घोरा विश्वरूपा भयङ्करी ।
भैरवी भीषणीया च लम्बोष्ठी च महाबला ॥ ३-७ ॥

व्यञ्जनानां विशेषेण संप्रोक्ताः शक्तयः क्रमात् ।

इति भैरवीमातृका ॥ अथ च्छिन्नमस्तामातृका :

लक्ष्मीर्लज्जा शिवा माया वाणी ब्राह्मी च वैष्णवी ।
रौद्रीश्वरी जया पद्मा वर्णिनी डाकिनी तथा ॥ ३-१ ॥

कराली विकराली च घोरा च स्वरशक्तयः ।
काली च खड्गिनी चण्डा भैरवी पिङ्गला तथा ॥ ३-२ ॥

इण्द्राणी चैव फट्कारी हारिणी योगिनी तथा ।
प्रकाशिनी वज्रिणी च सिता पीता रमा तथा ॥ ३-३ ॥

दिगम्बरी महाघोरा मुक्तकेशी चिदाश्रया ।
चामुण्डा छिन्नमस्ता च भीमा हूङ्कारिणी सिता ॥ ३-४ ॥

पद्मानना पद्मगर्भा पुष्पणी चारुहासिनी ।
विजया मङ्गला कान्तिर्मालिनी तारिणी तथा ॥ ३-५ ॥

महोदर्यस्थिमाला च नागयज्ञोपवीतिनी ।
व्यञ्जनानां च संप्रोक्ताः शक्तयः सर्वकामदाः ॥ ३-६ ॥

इति च्छिन्नमस्तामातृका ॥ अथ धूमावतीमातृका :

धूमावती धूमनेत्रा धर्मटी मर्कटी तथा ।
घोररूपा च लम्बोष्ठी श्यामा श्याममुखी शिवा ॥ ३-१ ॥

काकध्वजा कोटराक्षी धूमा धूमान्धकारिणी ।
मुक्तकेशी महाघोरा तथा लम्बपयोधरा ॥ ३-२ ॥

स्वराणां शक्तयः प्रोक्ताः सर्वसिद्धिप्रदायिकाः ।
कोटरा कोटराक्षी च ऊर्ध्वकेशी दिगम्बरी ॥ ३-३ ॥

तमिस्रा तामसी चोग्रा विवर्णा मलिनाम्बरा ।
लम्बस्तनी च विरलद्विजा दीर्घा कृशोदरी ॥ ३-४ ॥

विधवा शूर्पहस्ता च रूक्षा रूक्षशिरोधरा ।
चलहस्ता चञ्चलाक्षी जटिला कुटिलैक्षणा ॥ ३-५ ॥

क्षुधातुरा पिपासार्ता तीक्ष्णा रौद्रा भयानका ।
उत्कारी क्रोधिनी मृत्युः क्रिया रिपुविमर्दिनी ॥ ३-६ ॥

सत्वरा काकजङ्घा च श्मशानालयवासिनी ।
महाकाली च गदिताः सिद्धा व्यञ्जनशक्तयः ॥ ३-७ ॥

इति धूमावतीमातृकाः ॥ अथ बगलामातृका :

बगला स्तम्भिनी चैव जम्भिनी मोहिनी तथा ।
वश्या चलाचला चैव दुर्द्धरा कल्मग तथा ॥ ३-१ ॥

धीरा च कल्पना कालकर्षिणी भ्रामका तथा ।
ततश्च मन्दगमना भोगिनी योगिनी तथा ॥ ३-२ ॥

एतास्तु सिद्धिदायिन्यः षोडश स्वरमूर्तयः ।
भगाम्बा भगमाला च भगवाहा भगोदरी ॥ ३-३ ॥

भगिनी भगजिह्वा च भगस्था भगसर्पिणी ।
भगलोला भगाक्षी च शिवा भगनिपातिनी ॥ ३-४ ॥

जया च विजया धात्री अजिता चापराजिता ।
जम्भिनी स्तम्भिनी चैव मोहिन्याकर्षिणी ह्युम ॥ ३-५ ॥

रम्भिणी जृम्भणी चैव कीलिनी वशिनी तथा ।
रम्भा माहेश्वरी चैव मङ्गला रूपिणी तथा ॥ ३-६ ॥

पीता पीताम्बरा भव्या सुरूपा बहुभाषिणी ।
एतास्तु शक्तयः प्रोक्ता व्यञ्जनानां तु सिद्धिदाः ॥ ३-७ ॥

इति बगलामातृका ॥ अथ मातङ्गीमातृका :

वामा ज्येष्ठा च रौद्री च शान्तिः श्रद्धा तथैव च ।
वागीश्वरी क्रिया लक्ष्मीः सृष्टिश्चैव तु मोहिनी ॥ ३-१ ॥

प्रथमा भाविनी विद्युल्लता चिच्छक्तिरेव च ।
ततश्च सुन्दरानन्दा नागबुद्धिस्तथैव च ॥ ३-२ ॥

एताः संसिद्धिदायिन्यः षोडश स्वरशक्तयः ।
सरस्वती रतिः प्रीतिः कीर्तिः कान्तिस्तथैव च ॥ ३-३ ॥

पुष्टिस्तुष्टी रमा चैव मन्मथा मकरध्वजा ।
मदना पुष्पचापा च द्राविणी शोषिणी तथा ॥ ३-४ ॥

बन्धिनी मोहिनी वश्या ततश्चाकर्षिणी तथा ।
हृल्लेखा गगना रक्ता महोच्छुष्मा करालिका ॥ ३-५ ॥

अनङ्गकुसुमानङ्गमेखला च ततः परम् ।
अनङ्गमदना चैव अनङ्गमदनातुरा ॥ ३-६ ॥

अनङ्गमदनानङ्गवेगानङ्गादिसंभवा ।
अनङ्गभुवनपाला चानङ्गशशिरेखिका ॥ ३-७ ॥

मनोभवा च मातङ्गी कामा व्यञ्जनशक्तयः ।

इति मातङ्गीमातृका ॥ अथ लक्ष्मीमातृका :

प्रकृतिर्विकृतिर्विद्या सर्वभूतादिभावना ।
श्रद्धा विभूतिः सुरभिर्वाक्प्रदा कमलात्मिका ॥ ३-१ ॥

पद्मालया शची पद्मा शुद्धिः स्वाहा स्वधा तथा ।
धन्या चैव च संप्रोक्ताः षोडश स्वरशक्तयः ॥ ३-२ ॥

हिरण्या च तथा लक्ष्मीर्नित्यपुष्टा विभावरी ।
अदितिश्च दितिश्चैव दीप्ता च वसुधा तथा ॥ ३-३ ॥

करुणा धर्मनिलया पद्माक्षी भूतधारिणी ।
पद्मप्रभा वेदमाता पद्महस्ता ततः परम् ॥ ३-४ ॥

पद्मोद्बवा पद्ममुखी पद्मसुन्दरिका तथा ।
पद्मनाभप्रिया पद्मगन्धिनी पद्मिनी रमा ॥ ३-५ ॥

पद्ममालाधरा पद्मा सुप्रसन्ना प्रिया तथा ।
कान्तिः प्रिया च कमला अनघा हरिवल्लभा ॥ ३-६ ॥

अमोघा अमृता दिव्याशोका व्यञ्जनशक्तयः ।

इति लक्ष्मीमातृका ॥ अथ कामेश्वरीमातृका :

कामेश्वरी महामाया वागीशी ब्रह्मसंज्ञिता ।
अक्षरा च त्रिमात्रा च त्रिपदा त्रिगुणात्मिका ॥ ३-१ ॥

सुरसिद्धगणाध्यक्षा गणमाता गणेश्वरी ।
चण्डिका चण्डमुण्डा च चामुण्डी दंष्ट्रिणीष्टदा ॥ ३-२ ॥

स्वराणां शक्तयः प्रोक्ताः सर्वसिद्धिप्रदायिकाः ।
विश्वम्भरा विश्वयोनिर्विश्वमाता वसुप्रदा ॥ ३-३ ॥

स्वाहा स्वधा तुष्टि ऋद्धी गायत्री गोगणा खगा ।
वेदमाता वरिष्ठा च सुप्रभा सिद्धवाहिनी ॥ ३-४ ॥

आदित्यहृदया चन्द्रा चन्द्रभावानुमण्डला ।
ज्योत्स्ना हिरण्मयी भव्या भवदुःखभयापहा ॥ ३-५ ॥

शिवतत्त्वा शिवा शान्ता शान्तिदा शान्तरूपिणी ।
सौभाग्यदा शुभा गौरी उमा हैमवती प्रिया ॥ ३-६ ॥

दक्षा च व्यञ्जनानां तु गदिताः शक्तयः क्रमात् ।

इति कामेश्वरीमातृका ॥ अथ भगमालिनीमातृका :

भगमाली भगा भाग्या भगिनी च भगोदरी ।
गुह्या दाक्षायणी कन्या दक्षयज्ञविनाशिनी ॥ ३-१ ॥

जया च विजया चैव अजिता चापराजिता ।
सुदीप्ता लेलिहाना च कराला स्वरशक्तयः ॥ ३-२ ॥

आकाशनिलया ब्राह्मी बाला च ब्रह्मचारिणी ।
ब्रह्मास्यास्यरता प्रह्वी सावित्री ब्रह्मपूजिता ॥ ३-३ ॥

प्रज्ञा माता परा बुद्धिर्विश्वमाता च शाश्वती ।
मैत्री कात्यायनी दुर्गा दुर्गसन्तारिणी परा ॥ ३-४ ॥

मूलप्रकृतिरीशाना पुंस्प्रधानेश्वरेश्वरी ।
आप्यायनी पावनी च पवित्रा मङ्गला यमा ॥ ३-५ ॥

ज्योतिष्मिती संहरिणी सृष्टिस्थित्यन्तकारिणी ।
अघोरा घोररूपा च व्यञ्जनानां च शक्तयः ॥ ३-६ ॥

इति भगमालामातृका ॥ अथ नित्यक्लिन्नामातृका :

नित्यक्लिन्ना नित्यमदद्रवोमा विश्वरूपिणी ।
योगेश्वरी योगगम्या योगमाता वसुन्धरा ॥ ३-१ ॥

धन्या धनेश्वरी धान्या रत्नदा पशुवर्धिनी ।
कूष्माण्डी दारुणी चण्डी स्वराणां शक्तयः क्रमात् ॥ ३-२ ॥

घोरा घोरस्वरूपा च मातृका माधवी दशा ।
एकाक्षरा विश्वमूर्तिर्विश्वा विश्वेश्वरी ध्रुवा ॥ ३-३ ॥

शर्वा क्षमादिर्भूतात्मा भूतिदा भूतिवर्धिनी ।
भूतेश्वरप्रिया भूतिर्भूतमाला च यौवनी ॥ ३-४ ॥

वैदेही पूजिता सीता मायावी भववाहिनी ।
सत्त्वस्था सत्त्वनिलया सत्त्वासत्त्वचिकीर्षणा ॥ ३-५ ॥

विश्वस्था निश्वनिलया श्रीफला श्रीनिकेतना ।
श्रीःशशाङ्कधरा नन्दा व्यञ्जनानां च शक्तयः ॥ ३-६ ॥

इति नित्यक्लिन्नामातृका ॥ अथ भेरुण्डामातृका :

भेरुण्डा भैरवी साध्वी नताख्यानन्तसंभवा ।
त्रिगुणी घोषिणी घोषा लक्ष्मीः पुष्टा शुभालया ॥ ३-१ ॥

धर्मोदया धर्मबुद्धिर्धर्माधर्मपुटद्वया ।
ज्येष्ठा यमस्य भगिनी चैला कौशेयवासिनी ॥ ३-२ ॥

भ्रमणा भ्रामिणी भ्राम्या भ्रमा ज्ञानापहारिणी ।
माहेन्द्री वारुणी सौम्या कौवेरी हव्यवाहिनी ॥ ३-३ ॥

वायवी नैर्-ऋतीशानी लोकपालैकरूपिणी ।
मोहिनी मोहजननी स्मृतिवृत्तान्तबाधिनी ॥ ३-४ ॥

यक्षाणां जननी यक्षी सिद्धिर्वैश्रवणालया ।
मेधा श्रद्धा धृतिः प्रज्ञा सर्वदेवनमस्कृता ॥ ३-५ ॥

आशा वाञ्छा निरीहेच्छा तथा भूतानुवर्तिनी ।
शक्तयः कथिताश्चैकपञ्चाशद्वर्णगाः क्रमात् ॥ ३-६ ॥

इति भेरुण्डामातृका ॥ अथ वह्निवासिनीमातृका :

वह्निवासिनिका वह्निनिलया वह्निरूपिणी ।
यज्ञविद्या महाविद्या ब्रह्मविद्या गुहालया ॥ ३-१ ॥

भूतेश्वरी ब्रह्मधात्री विमला कनकप्रभा ।
विरूपाक्षा विशालाक्षी हिरण्याक्षी शतानना ॥ ३-२ ॥

त्र्यक्षा च कामला विद्या सिद्धविद्या धराधिपा ।
देवमाता दितिः पुण्या दनुः कद्रूः सुपर्णिका ॥ ३-३ ॥

अपांनिधिर्महावेगा महोर्मिवरुणालया ।
इष्टा तुष्टिकरी च्छाया सामगा रुचिरा परा ॥ ३-४ ॥

ऋग्यजुःसामविलया वेदोत्पत्तिः स्तुतिप्रिया ।
प्रद्युम्नदयिता साध्वी सुखसौभाग्यसिद्धिदा ॥ ३-५ ॥

सर्वकामप्रदा भद्रा सुभद्रा सर्वमङ्गला ।
धामिनी धमनी माध्वी मधुकैटभमर्दिनी ॥ ३-६ ॥

बाणप्रहरिणी बाणा प्रोक्ता व्यञ्जनशक्तयः ।

इति वह्निवासिनीमातृका ॥ अथ वज्रेश्वरीमातृका :

महावज्रेश्वरी नित्या विधिस्था चारुहासिनी ।
उषानिरुद्धपत्न्यौ च रेवती रैवतात्मजा ॥ ३-१ ॥

हलायुधप्रिया माया गोकुला गोकुलालया ।
कृष्णानुजा कृष्णरजा नन्दस्य दुहिता सुता ॥ ३-२ ॥

कंसविद्राविणी क्रुद्धा सिद्धचारणसेविता ।
गोक्षीराङ्गा धृतवती भव्या गोपजनप्रिया ॥ ३-३ ॥

शाकम्भरी सिद्धविद्या वृद्धा सिद्धिकरी क्रिया ।
दावाग्निर्विश्वरूपा च विश्वेशी दितिसंभवा ॥ ३-४ ॥

आधारचक्रनिलया द्वारशालावगाहिनी ।
सूक्ष्मा सूक्ष्मतरा स्थूला सप्रपञ्चा निरामया ॥ ३-५ ॥

निष्प्रपञ्चा क्रियातीता क्रियारूपा फलप्रदा ।
प्राणाख्या मन्त्रमाता च सोमसूर्यामृतप्रदा ॥ ३-६ ॥

छन्दःख्याता च चिद्रूपा परमानन्ददायिनी ।
निरानन्दा स्मृताश्चकपञ्चाशच्छक्तयः क्रमात् ॥ ३-७ ॥

इति वज्रेश्वरीमातृका ॥ अथ शिवादूतीमातृका :

शिवादूती सुनन्दा चानन्दिनी विषपद्मिनी ।
पातालखण्डमध्यस्था हृल्लेखा वनखेचरी ॥ ३-१ ॥

कला सप्तदशी शुद्धा पूर्णचन्द्रनिभानना ।
आत्मज्योतिः स्वयंज्योतिरग्निज्योतिरनाहता ॥ ३-२ ॥

प्राणशक्तिः क्रियाशक्तिरिच्छाशक्तिः सुखावहा ।
ज्ञानशक्तिः सुखानन्दा वेदिनी महिमा प्रभा ॥ ३-३ ॥

ऋजुर्यज्ञा यज्ञसाम्नी सामस्वरविनोदिनी ।
गीतिः सामध्वनिः स्रोता हुंकृतिः सामवेदिनी ॥ ३-४ ॥

अध्वरा गिरिजा क्षुद्रा निग्रहानुग्रहात्मिका ।
पुराणी शिल्पिजननी इतिहासावबोधिनी ॥ ३-५ ॥

वेदिका यज्ञजननी महावेदिः सदक्षिणा ।
आन्वीक्षिकी त्रयी वार्ता गोरक्षा गदिताः क्रमात् ॥ ३-६ ॥

शक्तयश्चैकपञ्चाशत् सर्वकामप्रदायिकाः ।

इति शिवादूतीमातृका ॥ अथ त्वरितामातृका :

त्वरिता तोतुला धात्री किराती कृषिवाणिजे ।
सर्वेश्वरी ध्रुवा सर्वा सर्वज्ञानसमुद्भवा ॥ ३-१ ॥

त्रिमात्री त्रिपुरा सर्वाकारा मेया ततः परम् ।
ब्रह्माणी शान्तिकरका संप्रोक्ताः स्वरशक्तयः ॥ ३-२ ॥

कौमारी विश्वजननी शूलहस्ता महेश्वरी ।
किङ्करी शक्तिहस्ता च दक्षयज्ञविनाशिनी ॥ ३-३ ॥

वरायुधा शंखरवा वैष्णव्यव्यक्तिरूपिणी ।
वराहमूर्तिर्वाराही नृसिंहा सिंहविक्रमा ॥ ३-४ ॥

सहस्राक्षी सुराढ्या च सर्वपापापहा शिवा ।
शिवदूती घोररवा क्षुरिपाशासिधारिणी ॥ ३-५ ॥

विकराली महाकाली कापाली पापहारिणी ।
महालक्ष्मीर्महाकुक्षिर्योगिनी वृन्दवन्दिनी ॥ ३-६ ॥

षट्चक्री चक्रनियला चक्रगा योनिरूपिणी ।
गदिताः शक्तयस्त्वेताः व्यञ्जनानां च शक्तयः ॥ ३-७ ॥

इति त्वरितामातृका । अथ कुलसुन्दरीमातृका :

बालोमा भैरवी शान्ता त्रिपुरा त्रिपुरेश्वरी ।
अहिंसा तिमिरघ्नी च भास्वरा सूर्यमण्डला ॥ ३-१ ॥

वरायुधा वरारोहा वरेण्या विष्णुवल्लभा ।
श्रुतिर्निरन्तरा वेद्या सिद्धिः सर्वार्थसाधिनी ॥ ३-२ ॥

पञ्चपञ्चात्मिका गुह्या गोनिवासा च गोधना ।
सांध्ययोगोद्भावा शक्तिर्मात्रा काष्ठा कलात्मिका ॥ ३-३ ॥

पीयूषा वाजिजिह्वा च रसाधारा इरंमदा ।
विद्युच्छतघ्नी सिंहाक्षी एकपिङ्गाङ्किता सदा ॥ ३-४ ॥

कपाली वेद्या वेताली भूतसंघनमस्कृता ।
स्पृष्टा स्पृष्टपदा भावा विभवा देशभाषिणी ॥ ३-५ ॥

सर्वारम्भा निरारम्भा आरम्भा भाववाहिनी ।
भारती भास्वरा चैव प्रोक्ता व्यञ्जनशक्तयः ॥ ३-६ ॥

इति कुलसुन्दरीमातृका ॥ अथ नित्यामातृका :

नित्या च भैरवी सूक्ष्मा प्रचण्डा सद्गतिप्रदा ।
प्रिया शुद्धा च शुष्का च रक्ताङ्गी रक्तलोचना ॥ ३-१ ॥

खट्वाङ्गधारिणी शङ्खा कङ्काला कालवर्हिणी ।
हिमघ्नयना वृत्ता सम्प्रोक्ताः स्वरशक्तयः ॥ ३-२ ॥

भूतनाथा भूतभाव्या दुर्वृत्तजनसम्पदा ।
पुण्योत्सवा पुण्यगन्धा पुण्यपापविवेकिनी ॥ ३-३ ॥

दिग्वासा क्षौमवसना एकवस्त्रो जटाधरा ।
कपालमालिनी घण्टाधरा चैव धनुर्धरा ॥ ३-४ ॥

टङ्कहस्ता चला ब्राह्मी हाकिनी शाकिनी रमा ।
ब्रह्माण्डपालितमुखा विष्णुमाया चतुर्भुजा ॥ ३-५ ॥

अष्टादशभुजा भीमा विचित्रा चित्ररूपिणी ।
पद्मासना पद्मवहा स्फुरत्कान्तिः शुभावहा ॥ ३-६ ॥

मौनिनी मौलिनी मान्या मानदा मानवर्द्धिनी ।
जगत्प्रिया विष्णुगर्भा मङ्गला मङ्गलप्रिया ॥ ३-७ ॥

भूतिर्भूतिकरी भाग्या भोगीन्द्रशयना मिता ।
तप्तवामीकरी कृत्या आर्या वंशविवर्द्धिनी ॥ ३-८ ॥

अघौघशोषणी श्रावी कृत्तान्ता शक्तयस्त्विमाः ।
एकपञ्चादशदर्णानां सर्वसिद्धिप्रदायिकाः ॥ ३-९ ॥

इति नित्यामातृका । अथ नीलपताकामातृका-

अथ नीलपताका च नीला माया जगत्प्रिया ।
सहस्रवज्रा पद्माक्षी पद्मिनी श्रीरनुत्तमा ॥ ३-१ ॥

दिव्यक्रमा दिव्यभोगा दिव्यमाल्यानुलेपिनी ।
शुक्लाच्छवसना सौम्या सर्वर्तुकुसुमोचिता ॥ ३-२ ॥

स्वराणां शक्रयस्त्वेताः साधकाभीष्टदायिकाः ।
सर्वैश्वर्यगुणोपेता प्रणवाग्राग्र सम्भवा ॥ ३-३ ॥

व्यञ्जना व्यञ्जका व्यक्ता सर्ववर्णानुवर्तिनी ।
जगन्माताभयकरी भूतधात्री सुदुर्लभा ॥ ३-४ ॥

कामिनी दण्डिनी दण्ड्या खड्गमुद्गरपाणिनी ।
शस्त्रास्त्रदर्शिनी बीजा विबीजा बीजिनी परा ॥ ३-५ ॥

वाचस्पतिप्रिया दीक्षा परीक्षा शिवसम्भवा ।
राजसी तामसी सत्या सत्त्वोद्रिक्ता विमोहिनी ॥ ३-६ ॥

अतीतानागतज्ञाना वर्तमानापदेशिनी ।
आप्तोपदेशिनी संवित्सत्त्वबोधा धराधरा ॥ ३-७ ॥

प्रकृतिर्विकृतिर्गङ्गा धूर्जटिर्विकृतानना ।
योगिप्रिया योगिगम्या योगिध्येया परापरा ॥ ३-८ ॥

वैष्णवी त्रिपदी दृष्टरक्षया कादिशक्तयः ।

इति नीलपताकामातृका ॥ अथ विजयामातृका-

विजया जयदा जैत्री अजिता वामलोचना ।
प्रतिष्ठान्तःस्थिता माता जिना माया कुलोद्भवा ॥ ३-१ ॥

कृशाङ्गी वायवी क्षामा क्षामखण्डा त्रिलोचना ।
स्वराणां शक्तयस्त्वेताः कामा कामेश्वरी रमा ॥ ३-२ ॥

काम्या कामप्रिया कामा कामचारविहारिणी ।
तुच्छराङ्गी निरालस्या नीरुजा रुजनाशिनी ॥ ३-३ ॥

विशल्यरकरणी श्रेष्ठा मृतसञ्जीवनी परा ।
सन्धिनी चक्रनमिता चन्द्ररेखा सुवर्णिका ॥ ३-४ ॥

रत्नमालाग्रिलोकस्था शशाङ्कावयवाङ्किता ।
तारातीता तारयन्ती भूरी भूरिप्रभा स्वरा ॥ ३-५ ॥

क्षेत्रज्ञा भूरिशुद्धा च मन्त्रहुङ्काररूपिणी ।
ज्योतिर्ज्ञाना ग्रहगतिः सर्वप्राणभृतां वरा ॥ ३-६ ॥

कादीनां शक्तयः प्रोक्ताः साधकाभीष्टसिद्धिदाः ।

इति विजयामातृका ॥ अथ सर्वमङ्गलामातृका-

सर्वमङ्गलिका भव्या मङ्गला मङ्गलप्रभा ।
कान्तिः श्रीः प्रीतिरचला ज्योत्स्ना चैव विलासिनी ॥ ३-१ ॥

वरदा वारिजा व्यग्रा चारवी वास्तुदेवता ।
अनन्तशक्तिः सम्प्रोक्ताः स्वराणां शक्तयः क्रमात् ॥ ३-२ ॥

कामिकाशक्तिरतुला सर्वज्ञा ज्ञानदायिनी ।
युक्तिः सुयुक्तिरान्यवीक्षी कुक्षिबोधा मदालसा ॥ ३-३ ॥

ब्रह्मविद्या प्रभा वेश्या महायन्त्रा प्रवाहिणी ।
ध्याना ध्येया ध्यानगम्या योगिनी योगसिद्धिदा ॥ ३-४ ॥

अक्षराक्षरसन्ताना ब्रह्मविद्या शिवप्रदा ।
पञ्चब्रह्मात्मिका रुद्रविद्या वेद्यस्वरूपिणी ॥ ३-५ ॥

पञ्चतत्त्वात्मिका विद्या त्रिपुरा बीजतत्त्वगा ।
सर्वबीजात्मिका सिद्धिरज्ञानोपाधिगामिनी ॥ ३-६ ॥

कल्पान्तदहनज्वाला सद्वृत्तिर्व्यालभूषणा ।
कादीनां शक्तयस्त्वेताः साधकाभीष्टदायिकाः ॥ ३-७ ॥

इति सर्वमङ्गलामातृका ॥ अथ ज्वालामालिनीमातृका-

ज्वालिनी च महाज्वाला ज्वालामाला महोज्ज्वला ।
द्विभुजा सौम्यवदना ज्ञानपुस्तकधारिणी ॥ ३-१ ॥

कपर्दिनी कृताभ्या सा ब्रह्माणी स्वात्मवेदिनी ।
आत्मज्ञानामृता नन्दा नन्दिनी रोमहर्षिणी ॥ ३-२ ॥

स्वराणां शक्तयस्त्वेताः कान्तिः काली द्युतिर्मतिः ।
विषयेच्छा विश्वगर्भा आधारी सर्वभाविनी ॥ ३-३ ॥

कात्यायनी कालयाता कुटिला चानिमेषिकी ।
नाडी मुहूर्ताहोरात्रिस्तुटिः कालविभेदिनी ॥ ३-४ ॥

सोमसूर्याग्निमध्यस्था मायातीता सुनिर्मला ।
केवला निष्कला शुद्धा व्यापिनी व्योमविग्रहा ॥ ३-५ ॥

स्वच्छन्दभैरवी व्योमा व्योमातीता परेस्थिता ।
स्तुतिः स्तव्या नुतिः पूज्या पूजार्हा पूजकप्रिया ॥ ३-६ ॥

कादीनां व्यञ्जनानां च सम्प्रोक्ताः शक्तयस्त्विमाः ।

इति ज्वालामालिनीमातृका ॥ अथ विचित्रामातृका-

विचित्रा चित्रवसना चित्रिणी चित्रभूषणा ।
अनुलोमापसन्धिश्च मध्यमानामिकात्मिक ॥ ३-१ ॥

तेजोवती पद्मगर्भा मन्दरेखा घृणावलिः ।
विदुषी मौलिनी व्यक्ता सुकेशी स्वरशक्तयः ॥ ३-२ ॥

सोमपा सोमसङ्काशा वेताली तालसंज्ञिका ।
सोमप्रिया सोमवती मन्त्रपूता यजिक्रिया ॥ ३-३ ॥

मृणाली ऋक्प्रदा शुक्तिर्विन्ध्याद्रिशिखरस्थिता ।
गदिनी चक्रिणी बिम्बा रक्तोष्ठी चारुहासिनी ॥ ३-४ ॥

वाग्भवा चारुजा रक्ता सुप्रसादा सुलोचना ।
कौशिकी कन्दरा घोणा ककुद्मी कामलोचना ॥ ३-५ ॥

कामोत्सवा कामचारा अकामा पूजिता परा ।
तत्त्वावलोका पुरजिद्राज्ञी स्युः कादिशक्तयः ॥ ३-६ ॥

इति विचित्रामातृका ॥ अथ दुर्गामातृका-

दुर्गा च कौशिकी चोग्रा चण्डा माहेश्वरी शिवा ।
विश्वेश्वरी जगद्धात्री स्थितिसंहारकारिणी ॥ ३-१ ॥

योगनिद्रा भगवती देवी स्वाहा स्वधा सुधा ।
सृष्टिराहुतिरेवोक्ताः स्वराणां शक्तयः क्रमात् ॥ ३-२ ॥

कला माया रमा ज्येष्ठा स्तुतिः पुष्टिः स्थितिर्गतिः ।
रतिः प्रीतिर्धृतिर्नीतिर्विभूतिर्भृतिरुन्नतिः ॥ ३-३ ॥

क्षितिः क्षान्तिः क्षतिः कान्तिः शान्तिः क्लान्तिर्महाद्युतिः ।
क्षुत्पिपासा स्पृहा लज्जा निद्रा मुद्राचिदात्मिका ॥ ३-४ ॥

गिरिजा भारतीर्लक्ष्मीः शची संज्ञा विभावरी ।
कादीनां शक्तयः प्रोक्ताः सर्वसिद्धिप्रदायिकाः ॥ ३-५ ॥

इति दुर्गामातृका ॥ अथ सरस्वतीमातृका :

सरस्वती मन्त्रशक्तिर्वेदमाता जगन्मयी ।
मानसी हंसगा हंसी सरागा क्षेमकारिणी ॥ ३-१ ॥

अक्षया विजया प्रीतिर्लोमशा लोमहारिणी ।
विज्ञानदेहा संमूढा स्वराणां शक्तयः क्रमात् ॥ ३-२ ॥

कामदा कामिनी कान्ता परमेष्ठी निभोतमा ।
पुण्यानुबन्धा श्रेयस्का दयासारानुकम्पिनी ॥ ३-३ ॥

चतुःस्तना पञ्चयज्ञा सुरभिः सुरपूजिता ।
विश्वासजीविनी विश्वा कामधेनुः स्वकामदा ॥ ३-४ ॥

अविद्या दुहिता कान्ता कपिला मलवर्जिता ।
सुशीला जीववत्सा च शीलवत्सा सुवत्सला ॥ ३-५ ॥

नन्दिनी जयदाऽजेया दुर्जया दुःखहारिणी ।
स्वस्तिदा स्वस्तिकृत् स्वस्तिस्वरूपा स्वस्तिदक्षिणा ॥ ३-६ ॥

शक्तयः शुभ्रवर्णाश्च व्यञ्जनानां शुभप्रदाः ।

इति सरस्वतीमातृका ॥ अथ वाराहीमातृका :

वाराही भद्रिणी भद्रा वाताली कोलवक्त्रका ।
जृम्भिणी स्तम्भिनी विश्वा जम्भिनी मोहिनी शुभा ॥ ३-१ ॥

रुन्धिनी वशिनी शक्ती रमोमा स्वरशक्तयः ।
खड्गिनी शूलिनी घोरा शङ्खिनी गदिनी तथा ॥ ३-२ ॥

चक्रिणी वज्रिणी चैव पाशिन्यंकुशिनी शिवा ।
चापिनी भवबन्धघ्नी जयदा जयदायिनी ॥ ३-३ ॥

महाघोरा महाभीमा भैरवी चारुहासिनी ।
पद्मिनी बाणिनी चोग्रा मुसलिन्यपराजिता ॥ ३-४ ॥

जयप्रदा जया जैत्री रिपुहा भयवर्जिता ।
अभया मानिनी पोत्री किटिनी दंष्ट्रिणी रमा ॥ ३-५ ॥

अक्षया कादिवर्णानां शक्तयः सिद्धिदायिकाः ।

इति वाराहीमातृका ॥ अथ त्रिमूर्तिमातृका :

केशवो नारायणो माधवगोविन्दविष्णवः ।
मधुसूदनसंज्ञोऽन्यः स्यात् त्रिविक्रमवामनौ ॥ ३-१ ॥

श्रीधरश्च हृषीकेशः पद्मनाभस्तथैव च ।
दामोदरो वासुदेवः संकर्षण इति स्मृतः ॥ ३-२ ॥

प्रद्युम्नश्चानिरुद्धश्च स्वराणां मूर्तयः क्रमात् ।
ततश्चाक्षरशक्तिश्च आद्या चैवेष्टदा पुनः ॥ ३-३ ॥

ईशानोग्रोर्ध्वनयना ऋद्धिः स्याद्रूपिणी तथा ।
लुप्ता च लूनदोषा च ततश्चैककलापिका ॥ ३-४ ॥

(ऐं) कारिण्योघवती चौर्वकन्या स्यादञ्जनप्रभा ।
अस्थितालाधरा चैव स्वराणां शक्तयः क्रमात् ॥ ३-५ ॥

भवः शर्वश्चरुद्रश्च ततः पशुपतिस्तथा ।
उग्रश्चैव महादेवो भीम ईशान एव च ॥ ३-६ ॥

ततस्तत्पुरुषोऽघोरः सद्योजातस्ततः परम् ।
वामदेवस्तु विज्ञेयाः कभादीनां च मूर्तयः ॥ ३-७ ॥

करभद्रा खगबला गरिमादिफलप्रदा ।
घोरपदा पङ्क्तिमासा ततश्चन्द्रार्धधारिणी ॥ ३-८ ॥

छन्दोमयी जगत्स्थाना (झां) कृतिर्ज्ञानप्रभा तथा ।
टङ्कढक्कधरा चैव ततश्च (ष्ठं) कृतिडामरी ॥ ३-९ ॥

कभादीनां च वर्णानां प्रोक्ता द्वादश शक्तयः ।
ब्रह्मा यज्ञपतिर्वेधाः परमेष्ठी पितामहः ॥ ३-१० ॥

विधाता च विरिञ्चिश्च स्रष्टा च चतुराननः ।
हिरण्यगर्भो विज्ञेया यादीनां दश मूर्तयः ॥ ३-११ ॥

यक्षिणी रञ्जिनी लक्ष्मीर्वज्रिणी शशिधारिणी ।
षडाधारालया सर्वनायिका हसितानना ॥ ३-१२ ॥

ललिता च क्षमा चैव यादीनां दश शक्तयः ।
त्रिमूर्तिमातृका प्रोक्ता सर्वसिद्धिप्रदा मता ॥ ३-१३ ॥

इति त्रिमूर्तिमातृका ॥ अथ कामकलामातृका स्वराणामेव :

श्रद्धा प्रीतीरतिश्चैव धृतिः कान्तिर्मनोरमा ।
मनोहरा ततश्चैव प्रोक्तां सात्र मनोरथा ॥ ३-१ ॥

मदनोन्मादिनी पश्चात् मोहिनी शंखिनी तथा ।
शोषिणी च वशङ्कारी शिञ्जिनी सुभगा ततः ॥ ३-२ ॥

कामस्यैताः कलाः प्रोक्ताः स्वराणां षोडशेष्टदाः ।

इति कामकलामातृका ॥ अथ सोमकलामातृका :

पूपा चेद्धा सुमनसा रतिः प्रीतिर्धृतिस्तथा ।
ऋद्धिः सौम्या मरीचिश्च परतस्त्वंशुमालिनी ॥ ३-१ ॥

शशिनी चाङ्गिराच्छाया ततः संपूर्णमण्डला ।
तुष्ट्य मृताख्या कथिता कलाः स्युः सस्वरा विधोः ॥ ३-२ ॥

इति सोमकलामातृका ॥ अथापराजितामातृका :

प्रत्यङ्गिरा सिंहमुखी तथा ज्वालामुखी शिवा ।
वैष्णवी नारसिंही च त्रिमात्रा शाङ्करी परा ॥ ३-१ ॥

अर्द्धमात्रा भगवती शूलिनी शुम्भमर्दिनी ।
शशाङ्कधारिणी चैव भीषिका च कपालिनी ॥ ३-२ ॥

स्वराणां शक्तयः प्रोक्ता धृतशूलकपालकाः ।
उग्रा वीरा महाज्वाला हाकिनी विश्वरूपिणी ॥ ३-३ ॥

स्तुत्या च ज्वलिनी लक्ष्मीस्तमिस्रा सर्वतोमुखी ।
वरेण्या तोतुला मुख्या वातीता च ततः परम् ॥ ३-४ ॥

नृमुण्डमाला सिंही च हन्त्री भीमा च खण्डिनी ।
तारिणी भयदा चैव द्राविणी मृत्युरूपिणी ॥ ३-५ ॥

त्युत्कारी मृत्युहरिणी त्युन्नता च नतिप्रिया ।
मालिनी ञार्णरूपा च हंसिनी च शिखण्डिनी ॥ ३-६ ॥

कुण्डिनी क्षान्तिरूपा च कादीनां शक्तयः क्रमात् ।

इति प्रत्यङ्गिरामातृका ॥ अथ भवानीमातृका :

भवान्यनन्ता शरभी चक्रिणी करुणाकरा ।
एकमात्रा द्विमात्रा च त्रिमात्रा चापरा जया ॥ ३-१ ॥

अर्धमात्रा परा सूक्ष्मा षट्पदा च मनस्विनी ।
निष्कला शक्तयः प्रोक्ताः स्वराणां वसुधर्मदाः ॥ ३-२ ॥

स्वच्छन्दानन्दसन्दोहा व्योमाकारा निरूपिता ।
गद्यपद्यात्मिका चैव सर्वालङ्कारसंयुता ॥ ३-३ ॥

साधुबन्धपदन्यासा सर्वोक्तिघटनावली ।
षट्तर्ककर्कशाकारा सर्वतर्कविवर्जिता ॥ ३-४ ॥

आदित्यवर्णाऽवर्णा च तामसी पररूपिणी ।
ब्रह्माणी ब्रह्मसन्ताना वेदवाग्वादिनीश्वरी ॥ ३-५ ॥

पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिता ।
वेदा वेदवती सर्वा हंसविद्याधिदेवता ॥ ३-६ ॥

विश्वेश्वरी जगद्धात्री विश्वनिर्माणकारिणी ।
वेदिका वेदरूपा च कालिका कालरूपिणी ॥ ३-७ ॥

नारायणी महादेवी सर्वसत्त्वप्रवर्तिका ।
हिरण्यवर्णरूपा च कादीनां शक्तयः क्रमात् ॥ ३-८ ॥

इति दुर्गा (भवानी) मातृका ॥ अथ खेचरीमातृका :

खेचरी शक्तिरतुला व्योमाम्बा व्योमरूपिणी ।
व्योमस्था व्योमरूपा च व्योमातीता जगन्मयी ॥ ३-१ ॥

शाम्भवी शम्भुवनिता शरणार्तिप्रभेदिनी ।
जगन्माता जगद्धात्री परविद्या सुमङ्गला ॥ ३-२ ॥

स्वराणां शक्तयस्त्वेता भवबन्धविमोचिकाः ।
परा परायणा भव्या मालिनी मदविह्वला ॥ ३-३ ॥

विद्या सूक्ष्मा प्रभा संध्या जगन्माया जगत्क्रिया ।
निशाचरी जया मायाऽमेया मोहविवर्धिनी ॥ ३-४ ॥

मोहनी रञ्जिनी वश्याऽवरा मातृस्वरूपिणी ।
वेदविद्या महाविद्या यज्ञविद्या यमान्तकी ॥ ३-५ ॥

सुखिनी सुखदा भोग्या भोगिनी दण्डिनी रमा ।
विशारदा विशालाक्षी ह्लादिनी चाक्षया तथा ॥ ३-६ ॥

कादीनां शक्तयः प्रोक्ताः साधकेष्टफलप्रदाः ।

इति खेचरीमातृका ॥ अथ चामुण्डामातृका :

चामुण्डा चण्डिका चण्डा चण्डमुण्डविनाशिनी ।
नारायणी भद्रकाली विरजा विश्वमातृका ॥ ३-१ ॥

अजिता भार्गवी सौम्या दुर्गा दुर्गतिनाशिनी ।
आप्यायनी चण्डघण्टा मायोक्ताः स्वरशक्तयः ॥ ३-२ ॥

कमला खङ्गिनी चैव गदिनी घण्टिका परा ।
चरित्रा च्छत्रिणी जङ्घा झङ्कारी जयदा ततः ॥ ३-३ ॥

टङ्कहस्ता च ठङ्कारी डामरी ढक्किका शिवा ।
तमोपहन्त्री स्थानेशी दयारूपा धनप्रदा ॥ ३-४ ॥

नव्या परा च फट्कारी बन्धिनी भयवर्जिता ।
महामाया च योगीषी रङ्किणी लम्बकेशिनी ॥ ३-५ ॥

वरदा शाकिनी षण्डा सर्वेशी हलिनी तथा ।
ललिता च तथा क्षामोदरी स्यात् कादिशक्तयः ॥ ३-६ ॥

केवलां मातृकां न्यस्य चण्डाभक्तो भवेद्यदि ।
चामुण्डाशक्तिसहितां मातृकां विन्यसेद्बुधः ॥ ३-७ ॥

इति चामुण्डामातृका ॥ अथ परामातृका :

परा परायणा सूक्ष्मा विश्वा दाक्षायणी जया ।
विजया मानदा दक्षा योगिनी मानदा रतिः ॥ ३-१ ॥

कौमारी पार्वती दुर्गा मानिनी स्वरशक्तयः ।
कलावती च करुणा कामिनी कान्तिदायिनी ॥ ३-२ ॥

खातीता खेचरी गम्या गारुडी घनगर्जिनी ।
चारुहासा च चपला जगद्धात्री जया रमा ॥ ३-३ ॥

विश्वोद्धारा विश्वमयी विशालाक्षी विशोकिनी ।
वरदा वासुकी बाला परमेष्ठिनुता धृतिः ॥ ३-४ ॥

भास्वरा भावगम्यार्या भानुमण्डलवर्तिनी ।
(फट्कारी लासिनी तारा हारिणी हव्यवाहिनी ॥ ३-५ ॥)

ह्लादिनी क्लेदिनी क्लिन्ना गदिताः कादिशक्तयः ।

इति परामातृका ॥ अथ कुरुकुल्लामातृका :

कुरुकुल्ला कुरङ्गाक्षी विषहन्त्री विषापहा ।
विश्वेश्वरी विशालाक्षी गारुडी गजगामिनी ॥ ३-१ ॥

विनता विश्वजननी विश्वाख्या विश्वमातृका ।
राजसी तामसी सत्त्वा रणत्काञ्चीविभूषणा ॥ ३-२ ॥

स्वराणां शक्तयस्त्वेता धनधर्मसुखप्रदाः ।
कल्याणी कमला कान्ता सौपर्णी तार्क्ष्यशक्तिनी ॥ ३-३ ॥

नागहन्त्री नागमाता नागिनी नगजा प्रिया ।
नलिनी नन्दिनी भव्या सदापुष्पवती शिवा ॥ ३-४ ॥

मदद्रवा मदवती मादिनी मन्मथालसा ।
मोहिनी मुरजप्रीता मुनिमानसवासिनी ॥ ३-५ ॥

पोतस्था पुरजित्कान्ता पोतशक्तिः पुरप्रिया ।
दिगम्बरा दितिः सौम्या दिनेशी दीनवल्लभा ॥ ३-६ ॥

दयावती दमप्रीता दारुणी लोकधारिणी ।
कादीनां शक्तयः प्रोक्ताः साधकेष्टफलप्रदाः ॥ ३-७ ॥

इति कुरुकुल्लामातृका ॥ अथ पञ्चदशीमातृका :

सुन्दरी सुभगा भव्या महामाया मनोन्मनी ।
त्रिपुरा वशिनी बाला महात्रिपुरदेवता ॥ ३-१ ॥

महाकामकला श्रेष्ठा नीला नीलसरस्वती ।
विश्वेशी विजया सौम्या संप्रोक्ताः स्वरशक्तयः ॥ ३-२ ॥

कौलिनी कुलमार्गस्था कुलान्तकनिवासिनी ।
सर्वविद्येश्वरी चैव सर्वमन्त्रेश्वरी तथा ॥ ३-३ ॥

सर्ववागीश्वरी सिद्धा सर्वसिद्धेश्वरी जया ।
सर्ववीरेश्वरी वीरा सर्वपीठेश्वरी शिवा ॥ ३-४ ॥

भैरवी भावनातीता भावगम्या महेश्वरी ।
महाविद्या महाजैत्री महात्रिपुरसुन्दरी ॥ ३-५ ॥

काली कात्यायनी दुर्गा वैष्णवी विष्णुवल्लभा ।
योगिनी योगमार्गस्था षट्चक्रपुरवासिनी ॥ ३-६ ॥

विमला विश्वनिलया विश्वाख्या विश्वविग्रहा ।
शशिनी शारदा चैव चन्द्रमण्डलमध्यगा ॥ ३-७ ॥

कादीनां शक्तयस्त्वेताः संप्रोक्ताः सिद्धिदायिकाः ।

इति सुन्दरीमातृका ॥ अथ मालिन्यादिमातृका :

मालिनी नादिनी चैव ग्रसिनी प्रियदर्शिनी ।
निवृत्तिः सुप्रतिष्ठा च विद्या शान्तिस्ततः परम् ॥ ३-१ ॥

चामुण्डा गुह्यशक्तिश्च वज्रिणी च करालिनी ।
कपालिनी शिवा चैव ज्ञानशक्तिः क्रिया तथा ॥ ३-२ ॥

स्वराणां शक्तयस्त्वेता ज्ञानमोक्षफलप्रदाः ।
गायत्रीच्छा च सावित्री देहिनी मुण्डमालिनी ॥ ३-३ ॥

फट्कारी च वषट्कारी स्वधा स्वाहाहुतिप्रिया ।
वामा ज्येष्ठा च रौद्री च ब्रह्माणी ब्रह्मवादिनी ॥ ३-४ ॥

जया वेदमयी दुर्गा जयन्ती रक्तदन्तिका ।
जगज्जैत्री च चैतन्यमयी विश्वप्रबोधिनी ॥ ३-५ ॥

क्षमा शान्तिर्दया निद्रा रुद्रशक्तिः परायणा ।
हुंकारी खेचरी माया विश्वयोनिस्त्रयीमयी ॥ ३-६ ॥

संसारभयहन्त्री च संप्रोक्ताः कादिशक्तयः ।
न्यस्तव्या मातृकास्त्वेता ऊर्ध्वाम्नायाणुदीक्षितैः ॥ ३-७ ॥

इति मालिन्यादिमातृका ॥ अथ पञ्चभूतमातृका । तत्र शारदायाम् :

वायवग्निभूजलाकाशाः पञ्चाशल्लिपयः क्रमात् ।
पञ्च ह्रस्वाः पञ्च दीर्घा बिन्द्वन्ताः सन्धिसंभवाः ॥ ३-१ ॥

पञ्चशः कादयः षक्षलसहान्तसमन्विताः ।

इति । तन्त्रराजे :

प्राणाग्नीलाम्बुखात्मानः पङ्क्तयः पञ्च कीर्तिताः ।
मायाशक्त्यभिधः सर्गः पञ्चभूतात्मकः प्रभुः ॥ ३-१ ॥

तस्मात्तस्यात्र विन्यासो नैकदेशः शिवात्मनः ।
वातो मरुच्चरः प्राणो वायुर्नादो रयो जवी ॥ ३-२ ॥

व्याप्तः स्पर्शश्च नामानि वर्णानां मरुतां क्रमात् ।
अग्निर्वह्निः शुचिस्तेजः प्रभा दावो शिखी द्युतिः ॥ ३-३ ॥

दाहो ग्रासश्च नामानि वर्णानां तेजसामपि ।
धरा क्ष्मा भूः स्थिरा ज्या कुर्गोत्रा भूमी रसा इला ॥ ३-४ ॥

नामान्येतानि वर्णानां भौमानां स्युः क्रमेण वै ॥ जलं वारि वनं वाः कं पाथस्तोयं रसोऽम्बु हृत् ॥ ३-५ ॥

नामान्येतानि वर्णानामाप्यानां स्युर्यथाक्रमम् ।
विभुः खं खं द्युरभ्रं च व्योम शून्यं नभो वियत् ॥ ३-६ ॥

हंसश्च नामान्येतानि क्रमेण व्योमरूपिणाम् ।

इति पञ्चभूतमातृका ॥ अथ भूतलिपिमातृका । तत्र सिद्धसारस्वते :

अथ वक्ष्ये महामन्त्रान् सरस्वत्याः सुकामदान् ।
तेष्वादौ भूतलिप्याख्यो मनुः संप्रोच्यते प्रिये ॥ ३-१ ॥

सारस्वते महातन्त्रे गोपितश्चातिदुर्लभः ।
विष्णोः सकाशाद्यं लब्ध्वा मुनयो वाञ्छितं फलम् ॥ ३-२ ॥

लेभिरे सकलं देवि किं बहूक्तेन सर्वदा ।
ह्रस्वानां पञ्चकं वर्ग आदितः परिकीर्तितः ॥ ३-३ ॥

द्वितीयः कथितो देवि शिवाद्याश्चतुरक्षराः ।
खं वायुवह्न्यम्बुधराः तृतीयः सम्प्रकीर्तितः ॥ ३-४ ॥

वर्गान्त्याद्यद्वितीयोपान्त्यतृतीयैः क्रमादमी ।
पञ्च वर्गा वान्तशान्तभृगुभिर्नवमो मतः ॥ ३-५ ॥

नववर्गात्मको मन्त्रो द्विचत्वारिंशदक्षरः ।
वर्गाणामादिमो वर्गः श्रीकण्ठोर्ध्वोष्ठखान्विताः ॥ ३-६ ॥

वर्गान्त्या वान्तसंयुक्ताः क्रमेण कथिता अमी ।
खं वायुवह्न्यम्बुधरा वर्गवर्णा मताः क्रमात् ॥ ३-७ ॥

वर्गो द्वितीयो भूहीनो वारिभूवियुतोऽन्तिमः ।
नवानामपि वर्गाणां देवताः कथिताः क्रमात् ॥ ३-८ ॥

विरिञ्चिविष्णुरुद्राह्वा अश्विनेयौ प्रजापतिः ।
लोकपालाः सक्रियादिशक्तयः परिकीर्तिताः ॥ ३-९ ॥

इति भूतलिपिमातृका ॥ अथ त्रिषष्ट्यक्षरमातृका मातृकार्णवे-

त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शम्भुमते मताः ।
प्राकृते संस्कृते वापि स्वयं प्रोक्ताः स्वयम्भुवा ॥ ३-१ ॥

स्वरा विशतिरेकश्च स्पर्शानां पञ्चविंशतिः ।
यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥ ३-२ ॥

अनुस्वारो विसर्गश्चकपौ चापि पराश्रयौ ।
दुःस्पृष्टश्चेति विज्ञेय ऌकारः प्लुत एव च ॥ ३-३ ॥

इति त्रिषष्ट्यक्षरमातृका ॥ अथ शाम्भवीमातृका-ऊर्ध्वाम्नायदीक्षितैर्न्यासः कर्तव्यः ।

शाम्भवी तामसी माया महामाया शिवोत्तमा ।
ऊर्ध्वकेशी विरूपाक्षी खेचरी शिववल्लभा ॥ ३-१ ॥

कुण्डोदरी च लोलाक्षी विष्णुमाया महोदरी ।
लम्बोष्ठी व्योमरूपा च विभ्वी च स्वरशक्तयः ॥ ३-२ ॥

कान्तिः श्रद्धा रतिः प्रीतिरम्बरा प्राणरूपिणी ।
शुचिः क्षितिश्च भुवना द्युतिः श्रीः परमा रमा ॥ ३-३ ॥

राजसी ग्रसिनी चण्डा राक्षसी च विशारदा ।
वाग्वादिनी जया भीमा शिवा शङ्करवल्लभा ॥ ३-४ ॥

सन्ध्या प्रज्ञा प्रभा ज्योत्स्ना विनदा विश्वरूपिणी ।
अस्थिमालाधरा पञ्चवक्त्रोग्रा क्षोभिणी मतिः ॥ ३-५ ॥

व्यापिनी च स्मृताः कादिवर्णानां शक्तयः क्रमात् ।
शाम्भवक्रमदीक्षायुक्साधकानां महेश्वरि ॥ ३-६ ॥

शाम्भवी मातृका प्रोक्ता सर्वाभीष्टफलप्रदा ।
एतां विन्यस्य चादौ तु ततो रश्मिक्रमं न्यसेत् ॥ ३-७ ॥

इति शाम्भवीमातृका ॥ अथ कालरात्रिमातृका-

कालरात्रिर्महारात्रिः कटुका सुभगा शिवा ।
मोहिनी मोहरात्रिश्च विद्या कटुकपत्रिका ॥ ३-१ ॥

आथर्वणस्य दुहिता रञ्जिनी विश्वमोहिनी ।
मोहनास्त्रा मोहरूपा सौभाग्या मोहवर्धिनी ॥ ३-२ ॥

स्वराणां शक्तयस्त्वेताः साधकाभीष्टहेतवः ।
कामिनी कमनप्रीता द्राविणी क्षोभिणी परा ॥ ३-३ ॥

मदनोन्मादिनी चैव मन्मथा च मनोन्मनी ।
मनस्विनी मनोवासिन्यरुणा मदनोत्सवा ॥ ३-४ ॥

मादिनी मदसन्ताना मंजुवाणी मनोहरा ।
मनोरमा प्रिया कान्ता मंजुघोषा मदप्रिया ॥ ३-५ ॥

कामवर्धनिका चैव दारुणा दमनप्रिया ।
दण्डिनी विश्वनटिनी नलिनी विश्वमालिनी ॥ ३-६ ॥

हावा भावा भावगम्या भावातीता विनोदिनी ।
पञ्चबाणा परोत्साहा कादीनां शक्तयः क्रमात् ॥ ३-७ ॥

इति कालरात्रिमातृका ॥

इति श्रीमहामहोपाध्यायभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्य- श्रीभगवच्छङ्कराचार्यशिष्य-श्रीविष्णुशर्माचार्यशिष्य- श्रीप्रगल्भाचार्यशिष्य-श्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे तृतीयः श्वासः ॥ ३ ॥

अथ

श्रीविद्यार्णवतन्त्रे

4. Śvāsa

(अथ कालीमते त्रैपुररश्मिक्रमस्त्रिपुरामधिकृत्य-)

मातृकावैभवं वक्ष्ये सर्वतन्त्रेषु गोपितम् ।
यं बुद्ध्वा सम्प्रदायेन साधको गतसंशयः ॥ ४-१ ॥

मन्त्रोद्धारं स्वयं कुर्यान्मातृकारश्मिबोधनात् ।
प्रथमं मातृकारश्मिक्रमो ज्ञेयः सदा बुधैः ॥ ४-२ ॥

रश्मिक्रममविज्ञाय मन्त्रोद्धारं करोति यः ।
अन्धकारे स्थितं वस्तु द्रष्टुमन्वेषयत्ययम् ॥ ४-३ ॥

तस्मात् सर्वप्रयत्नेन गुरुतः शास्त्रतोऽपि वा ।
सम्यग्ज्ञात्वा विधानेन साधको गतसंशयः ॥ ४-४ ॥

मन्त्रस्वरूपं जानीयान्मन्त्रवीर्यस्य सिद्धये ।
अनायासेन सिद्धिः स्यान्मन्त्रवीर्यप्रबोधनात् ॥ ४-५ ॥

मन्त्रवीर्यमविज्ञाय यो मन्त्रं भजते नरः ।
कल्पकोटिसहस्रैस्तु मन्त्रसिद्धिर्न जायते ॥ ४-६ ॥

वर्णानां रश्मयो ज्ञेयाः श्वासरूपा न संशयः ।
ते श्वासाः पूर्णरूपाः स्युः षट्शताधिकतोऽपि च ॥ ४-७ ॥

गुणसप्तसहस्राणि ह्यपूर्णा द्विगुणीकृताः ।
ते श्वासा द्विविधा प्रोक्ता बाह्याभ्यन्तरयोगतः ॥ ४-८ ॥

सूर्यचन्द्रविभेदेन क्रूरसौम्यप्रभेदतः ।
पिङ्गलेडाविभेदेन ये श्वासाश्चार्धरूपिणः ॥ ४-९ ॥

मूलाधारे नाभिपद्मे स्वाधिष्ठानेऽप्यनाहते ।
विशुद्धौ तु भ्रुवोर्मध्ये षट्चक्रेषु व्यवस्थिताः ॥ ४-१० ॥

प्रतिचक्रं त्रिसाहस्रं षट्शताधिकमेव च ।
मूलाधारं क्षितेः स्थानं स्वाधिष्ठानं तु तेजसः ॥ ४-११ ॥

मणिपूरमपां स्थानं वायोः स्थानमनाहतम् ।
विशुद्धं नभसः स्थानमाज्ञाचक्रं तु मानसम् ॥ ४-१२ ॥

मूलाधारे महापद्मं चतुर्दलसमन्वितम् ।
वादिसान्तचतुर्वणैर्दलमध्येषु संयुतम् ॥ ४-१३ ॥

एकस्यैकस्य वर्णस्य रश्मीनां नवशत्यपि ।
पार्थिवा रश्मयेस्तु चतुर्दश चतुर्दश ॥ ४-१४ ॥

प्रत्यक्षरं तु विज्ञेया वादिसान्ते यथाक्रमम् ।
मणिपूरे दशदले डादिफान्तसमन्विते ॥ ४-१५ ॥

तत्राप्या रश्मयो ज्ञेया द्विपञ्चाशद्विभागशः ।
स्वाधिष्ठाने रसदले बादिलान्ताक्षरान्विते ॥ ४-१६ ॥

द्वाषष्टी रश्मयो ज्ञेयास्तैजसाश्चात्र भागशः ।
अनाहते रविदले कादिठान्ताक्षरान्विते ॥ ४-१७ ॥

वायव्या रश्मयो ज्ञेयाश्चतुष्पञ्चाशदत्र वै ।
विशुद्धे षोडशदले षोडशस्वरसंयुते ॥ ४-१८ ॥

नाभसा रश्मयो ज्ञेया द्विसप्ततिर्विभागशः ।
आज्ञाचक्रे तु द्विदले हक्षाभ्यां संयुते परे ॥ ४-१९ ॥

मानसा रश्मयो ज्ञेयाश्चतुःषष्टिर्यथाक्रमम् ।
षडाधारेषु सम्भूय त्रिशतं षष्टिरश्मयः ॥ ४-२० ॥

एकस्यैकस्य वर्णस्य रश्मयो ये समाश्रिताः ।
तेषु रश्मिषु सम्प्रोक्ताः षड्विधाः पार्थिवादयः ॥ ४-२१ ॥

सङ्कीर्णा रश्मय इति तेषां नामानि च ब्रुवे ।
चतुर्दलात्मकाधारषट्पञ्चाशद्दलेषु च ॥ ४-२२ ॥

पूर्वादि पार्थिवा ज्ञेया मयूखाः शुभदायकाः ।
सुन्दरी त्रिपुराद्या च सुन्दरस्त्रिपुरादिकः ॥ ४-२३ ॥

ततो हृदयदेवी च देवोऽत्र हृदयादिकः ।
शिरोदेवी शिरोदेवः शिखादेवी ततः परम् ॥ ४-२४ ॥

शिखादिदेवः कवचदेवी कवचदेवकः ।
नेत्रदेवी नेत्रदेवोऽस्त्रदेव्यस्त्रादिदेवकः ॥ ४-२५ ॥

कामेश्वरी च कामेशस्ततश्च भगमालिनी ।
भगमाली ततो नित्यक्लिन्ना नित्यादिक्लिन्नकः ॥ ४-२६ ॥

भेरुण्डापि च भेरुण्डो वह्निवासिन्यतः परम् ।
वह्निवासी महावज्रेश्वरी वज्रेश्वरस्तथा ॥ ४-२७ ॥

शिवादूती शिवादूतस्त्वरिता त्वरितस्ततः ।
कुलादिसुन्दरी चैव ततश्च कुलसुन्दरः ॥ ४-२८ ॥

नित्या नित्यस्ततो नीलपताका तदनन्तरम् ।
नीलादिकपताकश्च विजया विजयस्ततः ॥ ४-२९ ॥

सर्वमङ्गलनाम्नी च सर्वमङ्गलनामकः ।
ज्वालामालिनिका चैव ज्वालामाली ततः परम् ॥ ४-३० ॥

चित्रा च चित्रः कथितो महानित्या ततः परम् ।
महानित्यस्ततश्चैव परमेशी ततः परम् ॥ ४-३१ ॥

परमेशस्तु मित्रेशमयी मित्रेशसंज्ञकः ।
ततस्तु षष्ठीशमयी तथा षष्ठीसंज्ञकः ॥ ४-३२ ॥

उड्डीशमययथोड्डीशमवश्चापि ततः परम् ।
चर्ययानाथमयी चैव चर्ययानाथमयस्तथा ॥ ४-३३ ॥

मयूखाः पार्थिवाः प्रोक्ताः साधकाभीष्टदायकाः ।
नाभिस्थाने द्विपञ्चाशद्दले दशदलात्मके ॥ ४-३४ ॥

तत्राप्या रश्मयो ज्ञेया द्विपञ्चाशत् क्रमेण वै ।
लोपामुद्रामयी चैव लोपामुद्रामयस्ततः ॥ ४-३५ ॥

तथागस्त्यमयी चैव तथागस्त्यमयस्तथा ।
कालतापनशब्दादिमयी कालादितापनः ॥ ४-३६ ॥

मयः षष्ठश्च विज्ञेयो धर्माचार्यमयी तथा ।
धर्माचार्यमयो मुक्तकेश्वरादिमयी ततः ॥ ४-३७ ॥

मुक्तकेश्वरनामादिमयो दीपकलादिकः ।
नाथमययपि दीपादिकलानाथमयस्ततः ॥ ४-३८ ॥

विष्णुदेवमयी चैव विष्णुदेवमयस्ततः ।
प्रभाकरादितो देवमयस्तेजोमयी ततः ॥ ४-३९ ॥

तेतोदेवमयश्चैव मनोदेवमयी तथा ।
मनोदेवमयश्चैव कल्याणपदपूर्वकम् ॥ ४-४० ॥

देवमययपि कल्याणदेवादिमयकस्तथा ।
रत्नदेवमयी चैव रत्नदेवमयस्ततः ॥ ४-४१ ॥

वासुदेवमयी चैव वासुदेवमयस्तथा ।
रामानन्दमयी चैव रामानन्दमयस्तथा ॥ ४-४२ ॥

अणिमासिद्धिरणिमासिद्धश्च लघिमादिका ।
सिद्धिश्च लघिमासिद्धो महिमासिद्धिरप्यथ ॥ ४-४३ ॥

महिमासिद्ध इत्येव ईशित्वादिस्ततः परम् ।
सिद्धिरीशित्वसिद्धः स्याद् वशित्वादिस्ततः परम् ॥ ४-४४ ॥

सिद्धिर्वशित्वसिद्धः स्यात् प्राकाम्यादिस्ततः परम् ।
सिद्धिः प्राकाम्यसिद्धः स्यात् भुक्तिसिद्धिस्ततः परम् ॥ ४-४५ ॥

भुक्तिसिद्धस्ततोऽपीच्छासिद्धिरिच्छादिसिद्धकः ।
प्राप्तिसिद्धिः प्राप्तिसिद्धः सर्वकामादिसिद्धिका ॥ ४-४६ ॥

सर्वकामादिसिद्धश्च ब्राह्मी ब्रह्मा अतः परम् ।
माहेश्वरी च माहेशो ज्ञेया वै जलरश्मयः ॥ ४-४७ ॥

द्वाषष्टिदलके पद्मे स्वाधिष्ठाने रसात्मके ।
पूर्वादिदलमारभ्य ज्ञेया तैजसरश्मयः ॥ ४-४८ ॥

कौमारी च कुमारश्च वैष्णवी विष्णुरेव च ।
वाराही च वराहश्च माहेन्द्री च महेन्द्रकः ॥ ४-४९ ॥

चामुण्डा चैव चामुण्डो महालक्ष्मीस्ततः परम् ।
महालक्ष्मस्ततश्चैव सर्वसंक्षोभणी ततः ॥ ४-५० ॥

सर्वसंक्षोभणश्चैव सर्वविद्रावणी ततः ।
सर्वविद्रावणश्चैव सर्वाकर्षणिका ततः ॥ ४-५१ ॥

सर्वाकर्षणकश्चैव सर्ववशंकरी ततः ।
सर्ववशंकरश्चैव सर्वोन्मादनिका ततः ॥ ४-५२ ॥

सर्वोन्मादनकश्चैव सर्वादिकमहांकुशा ।
तथा महांकुशः सर्वखेचरी सर्वखेचरः ॥ ४-५३ ॥

सर्वबीजा सर्वबीजः सर्वयोनिस्ततः परम् ।
सर्वयोनिस्त्रिखण्डा च त्रिखण्डस्तदनन्तरम् ॥ ४-५४ ॥

त्रैलोक्यमोहनादिश्च चक्रस्वामिनिका ततः ।
तथैव चक्रस्वामी च प्रकटयोगिनी तथा ॥ ४-५५ ॥

ततः प्रकटयोगी च कामाकर्षणिका ततः ।
कामाकर्षणकश्चैव बुद्ध्याकर्षर्णिका ततः ॥ ४-५६ ॥

बुद्ध्याकर्षणकश्चैवाहङ्काराकर्षणी तथा ।
अहङ्काराकर्षणश्च शब्दाकर्षणिका ततः ॥ ४-५७ ॥

शब्दाकर्षणकश्चैव स्पर्शाकर्षणिका ततः ।
स्पर्शाकर्षणकश्चैव रूपाकर्षणिका ततः ॥ ४-५८ ॥

रूपाकर्षणकश्चैव रसाकर्षणिका ततः ।
रसाकर्षणकश्चैव गन्धाकर्षणिका ततः ॥ ४-५९ ॥

गन्धाकर्षणकश्चैव चित्ताकर्षणिका ततः ।
चित्ताकर्षणकश्चैव धैर्याकर्षणिका ततः ॥ ४-६० ॥

धैर्याकर्षणकश्चैव स्मृत्याकर्षणिका ततः ।
स्मृत्याकर्षणकश्चैव नामाकर्षणिका ततः ॥ ४-६१ ॥

नामाकर्षणकश्चैव बीजाकर्षणिका ततः ।
बीजाकर्षणकश्चैव ततश्चानाहते तथा ॥ ४-६२ ॥

चतुरुत्तरपञ्चाशद्दले रविदलात्मके ।
वायव्या रश्मयो ज्ञेयाः पूर्वपत्रादितः क्रमात् ॥ ४-६३ ॥

आत्माकर्षणिका चैव आत्माकर्षणकस्तथा ।
अमृताकर्षणी शक्तिरमृताकर्षणस्तथा ॥ ४-६४ ॥

शरीराकर्षणी चैव शरीराकर्षणस्ततः ।
सर्वाशापरिपूरादिचक्रस्वामिन्यतः परम् ॥ ४-६५ ॥

तथैव चक्रस्वामीति गुप्तयोगिन्यतः परम् ।
गुप्तयोगी ततश्चैवानङ्गादिकुसुमा ततः ॥ ४-६६ ॥

अनङ्गकुसुमोऽनङ्गमेखलानङ्गमेखलः ।
अनङ्गमदनानङ्गमदनोऽनङ्गशब्दतः ॥ ४-६७ ।

मदनातुरातोऽनङ्गमदनातुर एव च ।
अनङ्गरेखानङ्गादिरेखोऽनङ्गादिवेगिनी ॥ ४-६८ ॥

अनङ्गवेग्यनङ्गांकुशानङ्गांकुश एव च ।
अनङ्गमालिनी चानङ्गादिमाली ततः परम् ॥ ४-६९ ॥

सर्वसंक्षोभणादिश्च चक्रस्वामिनिका ततः ।
तथैव चक्रस्वामीति गुप्तादितरयोगिनी ॥ ४-७० ॥

तथैव योगी सर्वादिसंक्षोभण्यथ तत्परम् ।
सर्वसंक्षोभणश्चैव सर्वविद्रावणी ततः ॥ ४-७१ ॥

सर्वविद्रावणश्चैव सर्वाकर्षणिका ततः ।
सर्वाकर्षणकश्चैव सर्वाह्लादनिका ततः ॥ ४-७२ ॥

सर्वाह्लादनकश्चैव सर्वसंमोहनी ततः ।
सर्वसंमोहनः सर्वस्तम्भनी च ततः परम् ॥ ४-७३ ॥

सर्वस्तम्भनकश्चैव सर्वजृम्भणिका ततः ।
सर्वजृम्भणकश्चैव सर्ववशंकरी ततः ॥ ४-७४ ॥

सर्ववशंकरः सर्वरञ्जनी सर्वरञ्जनः ।
सर्वोन्मादनिका सर्वोन्मादनश्च ततः परम् ॥ ४-७५ ॥

सर्वार्थसाधनी चैव ततः सर्वार्थसाधनः ।
सर्वसंपत्तिपूरण्या सर्वसंपत्तिपूरणः ॥ ४-७६ ॥

द्वासप्ततिदले कण्ठे षोडशच्छदकात्मके ।
नाभसा रश्मयो ज्ञेयाः पूर्वादिदलतः क्रमात् ॥ ४-७७ ॥

सर्वमन्त्रमयी चैव सर्वमन्त्रमयस्ततः ।
सर्वद्वन्द्वक्षयकरी सर्वद्वन्द्वक्षयङ्करः ॥ ४-७८ ॥

सर्वसौभाग्यदायादिकचक्रस्वामिनी ततः ।
तथैव चक्रस्वामीति संप्रदायादियोगिनी ॥ ४-७९ ॥

संप्रदायादियोगी च सर्वसिद्धिप्रदा तथा ।
सर्वसिद्धिप्रदश्चैव सर्वसंपत्प्रदा ततः ॥ ४-८० ॥

सर्वसंपत्प्रदश्चैव सर्वप्रियकरी ततः ।
सर्वप्रियकरश्चैव सर्वमङ्गलकारिणी ॥ ४-८१ ॥

सर्वमङ्गलकारी च सर्वकामप्रदा ततः ।
सर्वकामप्रदश्चैव सर्वदुःखविमोचनी ॥ ४-८२ ॥

तथैव मोचनः सर्वमृत्युप्रशमनी ततः ।
सर्वमृत्युप्रशमनः सर्वविघ्ननिवारणी ॥ ४-८३ ॥

तथा निवारणश्चैव तथा सर्वाङ्गसुन्दरी ।
सर्वाङ्गसुन्दरश्चैव सर्वसौभाग्यदायिनी ॥ ४-८४ ॥

तथैव दायकश्चैव सर्वार्थसाधकादितः ।
चक्रस्वामिनिका चैव ततः स्वामी कुलादिका ॥ ४-८५ ॥

उत्तीर्णयोगिनी चैव तथा योगी ततः परम् ।
सर्वज्ञा चाथ सर्वज्ञः सर्वशक्तिप्रदा परम् ॥ ४-८६ ॥

सर्वशक्तिप्रदश्चैव सर्वैश्वर्यप्रदा ततः ।
सर्वैश्वर्यप्रदश्चैव सर्वज्ञानमयी ततः ॥ ४-८७ ॥

सर्वज्ञानमयश्चैव सर्वव्याधिविनाशिनी ।
सर्वव्याधिविनाशश्च सर्वाधारस्वरूपिणी ॥ ४-८८ ॥

सर्वाधारस्वरूपश्च सर्वपापहरा तथा ।
सर्वपापहरश्चैव सर्वानन्दमयी तथा ॥ ४-८९ ॥

सर्वानन्दमयश्चैव सर्वरक्षास्वरूपिणी ।
सर्वरक्षास्वरूपश्च सर्वेप्सितफलप्रदा ॥ ४-९० ॥

तथा फलप्रदः सर्वरक्षाकरादितः परम् ।
चक्रस्वामिनिका चैव तथा स्वामी ततः परम् ॥ ४-९१ ॥

निगर्भयोगिनी चैव तथा योगी ततः परम् ।
वशिनी च वशी चैव ततः कामेश्वरी ततः ॥ ४-९२ ॥

कामेश्वरो मोदिनी च मोदी च विमला ततः ।
विमलश्चारुणा चैवारुणश्च जयिनी जयी ॥ ४-९३ ॥

सर्वेश्वरी च सर्वेशः कौलिनी कौलिकस्ततः ।
आज्ञाचक्रे द्विपत्रात्मचतुःषष्टिदलेऽब्जके ॥ ४-९४ ॥

मानसा रश्मयो ज्ञेयाः सर्वरागहरादितः ।
चक्रस्वामिनिका चैव तथा स्वामी ततः परम् ॥ ४-९५ ॥

रहस्ययोगिनी चैव तथा योगी च बाणिनी ।
बाणी च चापिनी चापी पाशिनी पाशिकस्ततः ॥ ४-९६ ॥

अंकुशिन्यंकुशी चैव महाकामेश्वरी ततः ।
महाकामेश्वरश्चैव महावज्रेश्वरी तथा ॥ ४-९७ ॥

महावज्रेश्वरश्चैव तथैव भगमालिनी ।
भगमाली तथैवात्र महात्रिपुरसुन्दरी ॥ ४-९८ ॥

तथैव सुन्दरः सर्वसिद्धिप्रदादितः परम् ।
चक्रस्वामिन्यथ तथा स्वामी चाप्यतिपूर्विका ॥ ४-९९ ॥

रहस्ययोगिनी चैव तथा योगी ततः परम् ।
श्रीभट्टारकसंज्ञा च श्रीभट्टारकसंज्ञकः ॥ ४-१०० ॥

सर्वानन्दमयादिश्च चक्रस्वामिन्यतः परम् ।
तथैव चक्रस्वामीति परापररहस्यतः ॥ ४-१०१ ॥

योगिनी च तथा योगी त्रिपुरा त्रिपुरस्तथा ।
(त्रिपुरादीश्वरी चैव ततश्च त्रिपुरेश्वरः) ॥ ४-१०२ ॥

त्रिपुरादिसुन्दरी च ततः त्रिपुरसुन्दरः ।
त्रिपुरादिर्वासिनी च तथा त्रिपुरवासकः ॥ ४-१०३ ॥

त्रिपुराश्रीस्तथा श्रीश्च ततस्त्रिपुरमालिनी ।
मालीत्रिपुरसिद्धा च तथा सिद्धस्ततः परम् ॥ ४-१०४ ॥

त्रिपुराम्बा तथैवाम्बो महात्रिपुरसुन्दरी ।
तथैव सुन्दरश्चाथ महामाहेश्वरी ततः ॥ ४-१०५ ॥

तथा माहेश्वरश्चैव महाराज्ञी ततः परम् ।
महाराजो महाशक्तिर्महाशक्तस्ततः परम् ॥ ४-१०६ ॥

महागुप्ता महागुप्तो महाज्ञप्ता ततः परम् ।
महाज्ञप्तो महादिश्च महानन्दा महादिकः ॥ ४-१०७ ॥

महानन्दस्तथैवात्र महास्पन्दा ततः परम् ।
महामहास्पन्द इति तथैवानुमहाशया ॥ ४-१०८ ॥

महामहाशयश्चैव विज्ञेया रश्मयोऽत्र च ।
आरोहणक्रमः प्रोक्तस्त्ववरोहक्रमं ब्रुवे ॥ ४-१०९ ॥

लोपापञ्चदशार्णानां मिथुनानि ततः परम् ।
नवात्मेश्वरवर्णानां षोडशस्वरयोगतः ॥ ४-११० ॥

चत्वारि चत्वारिंशच्च शतं तेषां तु युग्मकम् ।
पञ्चब्रह्मत्रिमूर्तीनां ज्योतिषां च कलाश्च ये ॥ ४-१११ ॥

मिथुनानि च (त्वा ? ता) रोत्थकलानां मिथुनानि वै ।
नवात्मेश्वरवर्णोत्थकलेतरकलाः पुनः ॥ ४-११२ ॥

षष्ट्युत्तरं गुणशतं विज्ञेया यत्र सन्धिषु ।
नवात्मेश्वरमन्त्रोत्थमिथुनानि गमागमे ॥ ४-११३ ॥

तथा सप्तशती विंशत्युत्तरा च ततः परम् ।
सषट्त्रिंशत्सप्तशतं सहस्राणि च विंशतिः ॥ ४-११४ ॥

कालानित्याश्च विज्ञेया मूलसंख्या समीरिता ।
षट्शतोत्तरयुक्तानि सहस्राण्येकविंशतिः ॥ ४-११५ ॥

श्वासरूपाः समाख्याता रश्मयोऽत्र कुलागमे ।
सूर्याचन्द्रमसौ ज्ञेयौ मूलाङ्काद् द्विगुणीकृतात् ॥ ४-११६ ॥

सङ्कीर्णरश्मयो ज्ञेया मूलाङ्काद्विन्दुहीनतः ।
मूलाधारादधस्ताच्च सहस्रदलकेषु च ॥ ४-११७ ॥

सहस्ररश्मयो भान्ति तथैव ब्रह्मरन्ध्रके ।
सन्धिषट्केऽध ऊर्ध्वे च त्रिंशद्विंशतिसंख्यया ॥ ४-११८ ॥

ऊनविंशतिसाहस्रं चत्वारिंशच्चतुःशतम् ।
सहजा रश्मयो ज्ञेयाः सङ्कीर्णा द्विसहस्रकम् ॥ ४-११९ ॥

शतं षष्टिः समाख्याता विज्ञेयास्तेषु भागशः ।
वर्णानां क्रमशो ज्ञेया पार्थिवाश्चैव पाथसाः ॥ ४-१२० ॥

तैजसाश्चानिलाश्चैव नाभसा मानसास्तथा ।
अवर्णस्य त्रयं सार्ध सपादत्रयमेव च ॥ ४-१२१ ॥

अष्टमांशविहीनं स्याच्चतुष्ट्यमतः परम् ।
अष्टमांशविहीनं स्यात् सार्धत्रयमतः परम् ॥ ४-१२२ ॥

सार्धवेदं वेदसंख्यं रश्मयः क्रमतः स्मृताः ।
इकारादिस्वराणां तु क्रम एष उदाहृतः ॥ ४-१२३ ॥

एकैकस्य स्वरस्यैव सार्धद्वाविंशतिक्रमः ।
सदलाब्धिः कवर्णस्य पादन्यूनं तु पञ्चकम् ॥ ४-१२४ ॥

पञ्चकं सार्धवेदं च षट् सपादं च पञ्चकम् ।
खवर्णस्याप्ययं ज्ञेयः क्रमः पञ्चान्तकस्य तु ॥ ४-१२५ ॥

भूतं सपादवेदं च पञ्चकं सार्धवारिधिः ।
षटकं सपादभूतं स्यादपि घाक्षरकस्य तु ॥ ४-१२६ ॥

सार्धाब्धिश्च सपादाब्धिः सार्धपञ्चकमेव च ।
सार्धाम्भोधी रसाश्चैव सपादं पञ्चकं ततः ॥ ४-१२७ ॥

डकारस्य चकारस्य छकारस्याप्ययं क्रमः ।
जकारस्य तु पञ्चैव सपादं वेदमेव च ॥ ४-१२८ ॥

पञ्चकं सार्धवेदं च षट्कं भूतं सपादकम् ।
झकारस्याम्बुधिसार्धं सपादाम्बुधिरेव च ॥ ४-१२९ ॥

पञ्चकं सार्धवेदं च षट्कं पादविहीनकम् ।
षट्कं ञार्णस्य तु तथा टठयोश्च जकारवत् ॥ ४-१३० ॥

डार्णस्य पादहीनं स्यात् षट्कं पञ्च सपादकाः ।
सार्धषट्कं पञ्चकं च सप्तकं सार्धषट्कम् ॥ ४-१३१ ॥

ढणतानामयं ज्ञेयः क्रमो देशिकसत्तमैः ।
थार्णस्य सार्धभूतं स्यात् सपादं भूतमेव च ॥ ४-१३२ ॥

रसाश्च पादहीनं स्यात् षट्कं सप्तकमेव च ।
सार्धषट्कं तथा ज्ञेया दधनानां च देशिकैः ॥ ४-१३३ ॥

पार्णस्य सार्धभूतं स्यात् पञ्चकं षट्कमेव च ।
सार्धभूतं गजाः षट्कं फकारस्याप्ययं क्रमः ॥ ४-१३४ ॥

बार्णस्य दशकं सार्द्धा गजा दशकमेव च ।
नवकं रविसंख्याकं सार्धपंक्तिर्यथाक्रमम् ॥ ४-१३५ ॥

भार्णस्य नवकं सार्धं नवकं पंक्तिरेव च ।
नवकं रविसंख्याकं सार्धपंक्ति क्रमेण वै ॥ ४-१३६ ॥

मार्णस्य नवकं सार्धं गजाश्चैकादशापि वा ।
नवकं रविसंख्याकं सार्धपंक्तिः क्रमेण च ॥ ४-१३७ ॥

यार्णस्य नवकं सार्धगजाः पंक्तिस्तथैव च ।
नवकं रविसंख्याकं सार्धैकादशकं ततः ॥ ४-१३८ ॥

रार्णस्य नवकं सार्धगजा एकादश ततः ।
नवकं रविसंख्याकं सार्धपंक्तिर्यथाक्रमम् ॥ ४-१३९ ॥

लार्णस्य दशकं सार्धगजा दशकमेव च ।
नवकं रविसंख्याकं सार्धपंक्तिस्तथैव च ॥ ४-१४० ॥

वार्णस्य मनुसंख्याकं विश्वेदेवास्तथैव च ।
सदलं तिथिसंख्याकं सदलं विश्वमेव च ॥ ४-१४१ ॥

अष्टादश षोडश च शषसानां सपंक्तयः ।
हार्णस्याष्टाविशतिश्च षड्विंशतिरतः परम् ॥ ४-१४२ ॥

एकत्रिंशत्सप्तत्रिंशत् षट्त्रिंशत्तदनन्तरम् ।
द्वात्रिंशच्च क्रमो ज्ञेयः क्षकारस्याप्ययं क्रमः ॥ ४-१४३ ॥

ततः सङ्कीर्णरश्मीनां सहजानामशेषतः ।
ज्ञानेन वर्णवृन्दस्य ज्ञातुं वैभवमुत्तमम् ॥ ४-१४४ ॥

शक्यतेऽत्र न सन्देहः सत्यं सत्यं नचान्यथा ।
ककाराद्यर्कवर्णानां त्रिंशत्त्रिंशत्तथैव च ॥ ४-१४५ ॥

डकारस्य दशार्णानां षट्त्रिंशत्क्रम ईरितः ।
बकारादि (दशा?रसा)र्णानां षष्टिसंख्या समीरिता ॥ ४-१४६ ॥

वादीनां वेदवर्णानां नवत्येवमुदाहृता ।
हक्षयोश्च शत प्रोक्तमशीत्युत्तरमेव च ॥ ४-१४७ ॥

अकारादिस्वराणां च प्रत्येकं च शतद्वयम् ।
पञ्चविंशतिरुद्दिष्टा मयूखा मूलतः क्रमात् ॥ ४-१४८ ॥

सार्द्धद्वाविंशतिर्ज्ञेयाः सङ्कीर्णास्तु पृथक् पृथक् ।
द्विशतं सार्धयुग्मं च सहजा रश्मयः पृथक् ॥ ४-१४९ ॥

कादिठान्तार्कवर्णानां मूलभूतास्तु रश्मयः ।
शतत्रयं तु प्रत्येकं ज्ञातव्या देशिकोत्तमैः ॥ ४-१५० ॥

त्रिंशत्त्रिंशत्क्रमेणैव सङ्कीर्णा रश्मयः स्मृताः ।
द्विशतं सप्ततिश्चैव सहजास्तु पृथक्पृथक् ॥ ४-१५१ ॥

डादीनां दशवर्णानां त्रिशतं षष्टिरेव च ।
मूलभूतास्तु सङ्कीर्णाः षट्त्रिंशच्च पृथक्पृथक् ॥ ४-१५२ ॥

सहजा द्विशतं षष्टिश्चतुरुत्तरमेव च ।
बादीनां रसवर्णानां मूलभूता हि रश्मयः ॥ ४-१५३ ॥

शतषटं तु सङ्कीर्णा विज्ञेयाः षष्टिसंख्यया ।
निजाः पञ्चशतं चत्वारिंशच्च क्रमतः पृथक् ॥ ४-१५४ ॥

वादीनां वेदवर्णानां नवशत्या पृथक् पृथक् ।
मूलभूतांशवो ज्ञेयाः सङ्कीर्णा नवतिः पृथक् ॥ ४-१५५ ॥

निजा दशोत्तराण्यष्टौ शतानि च ततः परम् ।
हक्षयोरष्टशत्यूर्ध्वसहस्रं मूलरश्मयः ॥ ४-१५६ ॥

अशीत्युत्तरतो ज्ञेयाः शतं सङ्कीर्णरश्मयः ।
सहस्रं षट्शतं त्रिंशत्सहजा रश्मयः क्रमात् ॥ ४-१५७ ॥

सर्वेषां पार्थिवा ज्ञेयाः सषट्त्रिंशच्छतत्रयम् ।
आप्याः सद्वादशं ज्ञेयास्त्रिशतं देशिकोत्तमैः ॥ ४-१५८ ॥

द्विसप्तत्युत्तरं ज्ञेयास्त्रिशतं तैजसांशवः ।
चतुर्विंशति ज्ञेयास्त्रिशतं वायुरश्मयः ॥ ४-१५९ ॥

चतुःशतं च द्वात्रिंशद्रश्मयो नाभसा मताः ।
त्रिशतं चाप्यशीतिश्च चत्वारो मानसाः स्मृताः ॥ ४-१६० ॥

एवं रश्मिक्रमज्ञानात् साक्षात्परशिवो भवेत् ।
नातः परतरं लोके मन्त्रवीर्यप्रकाशकम् ॥ ४-१६१ ॥

गुह्याद्गुह्यतरं चैव नादेयं यस्य कस्यचित् ।
दत्तं चेत्सिद्धिहानिः स्यादित्याज्ञा पारमेश्वरी ॥ ४-१६२ ॥

स्तम्भने पर्थिवप्रायाः विज्ञेया मनवोऽत्र च ।
आप्यप्रायाश्च मनवः शस्ताः स्युः शान्तिकर्मणि ॥ ४-१६३ ॥

तैजसास्तु वियत्प्रायाः कार्मणे वश्यकेऽपि च ।
उच्चाटने तु वायव्याः प्रशस्ता मनवोऽत्र च ॥ ४-१६४ ॥

मन्त्रास्तु मानसप्राया मुक्तिदा नात्र संशयः ।
प्रबुद्धा कुण्डलीशक्तिर्मन्त्रा बोधं प्रयान्ति च ॥ ४-१६५ ॥

ज्ञात्वा सम्यग्विधानेन गुरुतः शास्त्रतोऽपिवा ।
आरोहणक्रमेणैवाप्यवरोहक्रमेण च ॥ ४-१६६ ॥

रश्मिन्यासे कृते चैव मन्त्राः सिद्ध्यन्ति तत्क्षणात् ।
रश्मिन्यासं विना यस्तु मन्त्रवीर्यप्रयत्नवान् ॥ ४-१६७ ॥

सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ।
कालीमते समुद्दिष्टा रश्मयः सिद्धिदायकाः ॥ ४-१६८ ॥

इति कालीमते श्रीविद्यारश्मयः ॥

वक्ष्ये कादिमते सम्यग्रश्मयश्चक्रषट्कके ।
पार्थिवाः स्वरहीनाश्च सप्त ह्रस्वस्वरान्विताः ॥ ४-१ ॥

पञ्चत्रिंशत् समुद्दिष्टा दीर्घयुक्तास्तु सप्ततिः ।
ते पुनः शुद्धतो बिन्दुसर्गाभ्यां दशपञ्च च ॥ ४-२ ॥

शतत्रयं समुद्दिष्टाः पार्थिवाः पञ्च युक्स्वराः ।
उदात्ताश्चानुदात्ताश्च स्वरितास्तिथिसंज्ञकाः ॥ ४-३ ॥

ते पुनः शुद्धतो बिन्दुसर्गाभ्यां समुदाहृताः ।
पञ्चचत्वारिंशदिति त्रिशतं षष्टिसंख्यकाः ॥ ४-४ ॥

मूलाधारे महीस्थाने विज्ञेया देशिकोत्तमैः ।
सङ्कीर्णा रश्मयः ख्याता मणिपूरे जलाश्रये ॥ ४-५ ॥

स्वाधिष्ठानेऽनलावासेऽनाहतेऽनिलमन्दिरे ।
विशुद्धे व्योमनिलये तथा प्रोक्ताश्च रश्मयः ॥ ४-६ ॥

आज्ञाचक्रे मनःस्थाने हलक्षास्त्रय एव हि ।
ह्रस्वदीर्घस्वरैर्युक्ताः पञ्चोत्तरमतः परम् ॥ ४-७ ॥

चत्वारिंशत् समाख्यातास्ते पुनः सानुनासिकाः ।
ततस्तेऽननुनासाश्च तथा नवतिसंख्यकाः ॥ ४-८ ॥

ते पुनः शुद्धतो बिन्दुसर्गाभ्यामुभयात्मना ।
षष्ट्युत्तरं त्रिशतकं सम्यक्ख्याताः स्युरंशवः ॥ ४-९ ॥

स्वराणां भागशः प्रोक्ताः पार्थिवाद्याश्च षड्विधाः ।
एकस्यैकस्य वर्णस्य सार्द्धद्वाविंशतिः पृथक् ॥ ४-१० ॥

कादीनां रविवर्णानां पार्थिवाद्याश्च षड्विधाः ।
एकस्यैकस्य वर्णस्य त्रिंशत् त्रिंशत् पृथक् पृथक् ॥ ४-११ ॥

डादीनां दशवर्णानां पार्थिवाद्याश्च रश्मयः ।
एकस्यैकस्य वर्णस्य षट्त्रिंशत्क्रम ईरितः ॥ ४-१२ ॥

बादीनां रसवर्णानां पार्थिवांशादयः क्रमात् ।
एकस्यैकस्य वर्णस्य षष्टिः षष्टिरुदाहृताः ॥ ४-१३ ॥

वादीनां वेदवर्णानां पार्थिवाद्याश्च षड्विधाः ।
एकस्यैकस्य नवतिर्नवतिः प्रोक्तरूपतः ॥ ४-१४ ॥

हक्षयोः पार्थिवाद्याश्च षड्विधा रश्मयः क्रमात् ।
आशीत्युत्तरतो ज्ञेयाः शतमेकैकवर्णके ॥ ४-१५ ॥

एवं सहस्रद्वितयं शतं षष्टिश्च रश्मयः ।
चक्रे चक्रे विजृम्भन्ते सङ्कीर्णा रश्मयः पृथक् ॥ ४-१६ ॥

निखिला रश्मयो ज्ञेयाः सङ्कीर्णा द्वादशैव हि ।
सहस्राणि च षष्ट्यूर्ध्वनवशत्या युतानि वै ॥ ४-१७ ॥

सन्धिषटकेऽध ऊर्ध्वे च चत्वारिंशच्च षट्शतम् ।
अष्टौ सहस्राण्येवं हि संकीर्णा रश्मयोऽम्बिके ॥ ४-१८ ॥

षष्ट्युत्तरशतोर्ध्वं च द्विसहस्रमपास्य च ( ? ) ।
त्रिचत्वारिंशदेवात्र सहस्राणि शतद्वयम् ॥ ४-१९ ॥

रश्मयो मूलभूता हि समुद्दिष्टा ह्यशेषतः ।
निजाश्च भागशो ज्ञेयाः संकीर्णाः प्रागुदीरिताः ॥ ४-२० ॥

अर्धं सूर्यस्वरूपाश्च अर्धं सोमस्वरूपिणः ।

इति । तन्त्रान्तरे-

कण्ठदेशे स्वराणां च भूतवर्णत्रिके त्रिके ।
तत्तद्भूतांशवो ज्ञेयाः शतत्रयविभागतः ॥ ४-१ ॥

अन्येषां पञ्च पञ्चैव विसर्गस्य तु मानसाः ।
शतत्रयं समुद्दिष्टा अन्येषां तु चतुर्दश ॥ ४-२ ॥

कादिष्वनिलवर्णानां पञ्चोत्तरशतक्रमः ।
अन्येषां पञ्चपञ्चैव नवानां वायुरश्मयः ॥ ४-३ ॥

आग्नेयानां त्रयाणां च पञ्चोत्तरशतांशवः ।
अन्येषां पञ्चपञ्चैव नवानामग्निरश्मयः ॥ ४-४ ॥

धरार्णयोरेकशती पञ्चविंशतिरुत्तराः ।
अन्येषां रुद्रवर्णानां पार्थिवांशा दश क्रमात् ॥ ४-५ ॥

जलार्णयोरेकशती पञ्चविंशतिरुत्तराः ।
अन्येषां रुद्रवर्णानां क्रमाद् दश जलांशवः ॥ ४-६ ॥

आकाशार्णद्वयस्यापि शतं वै पञ्चविंशतिः ।
एकैकस्य तु विज्ञेया अन्येषां दश वै दश ॥ ४-७ ॥

डादिफान्तदशार्णेषु तत्तद्भूतार्णयोः पृथक् ।
तत्तद्भूतांशवो ज्ञेयाः सार्धं शतमिति स्फुटम् ॥ ४-८ ॥

अन्येषां वसुवर्णानां सार्धद्वादश रश्मयः ।
बादिलान्तार्णषट्केषु धरावर्णद्वये पृथक् ॥ ४-९ ॥

धरांशवस्तु विज्ञेयाः षष्ट्युत्तरशतं तथा ।
अन्येषां पंक्तिसंख्याका विज्ञेया वीरवन्दिते ॥ ४-१० ॥

तत्तद्भूतांशवो भादितत्तद्भूतार्णकेषु च ।
देशिकेन्द्रैः सुविज्ञेया एकैकस्य शतत्रयम् ॥ ४-११ ॥

अन्येषां तु त्रिवर्णानां प्रत्येकं विंशतिक्रमः ।
वार्णादिवेदवर्णानां जलयोर्जलरश्मयः ॥ ४-१२ ॥

सार्द्धं शतं तु विज्ञेया अन्येषां विंशक्तिक्रमः ।
द्वितीयस्य शतं सार्धमन्येषां सप्तत्रिक्रमः ॥ ४-१३ ॥

नाभसाश्चात्र विज्ञेयास्तृतीयस्य तथैव च ।
वायव्याः क्रमतो ज्ञेया हकारस्य शतत्रयम् ॥ ४-१४ ॥

क्षार्णस्य षष्टिसंख्या स्यान्नाभसा नाज्ञ संशय ।
अग्न्यंशवः क्षकारस्य विज्ञेया वै शतत्रयम् ॥ ४-१५ ॥

हार्णस्य षष्टिसंख्या स्यादन्ये तुल्या न संशयः ।
एवं रश्मिक्रमः प्रोक्तः साधकानां हिताय च ॥ ४-१६ ॥

गोपनीयः प्रयत्नेन स्वयोनिरिव पार्वति ।
नाशिष्याय प्रदातव्यं नाभक्ताय कदाचन ॥ ४-१७ ॥

दत्ते च सिद्धिहानिः स्यादित्याज्ञा पारमेश्वरी ।
गुरुतः शास्त्रतो ज्ञात्वा साक्षात्परशिवो भवेत् ॥ ४-१८ ॥

स्वराः षोडश विख्याताः स्पर्शास्ते पञ्चविंशतिः ।
व्यापका दश संप्रोक्ताः सोमसूर्याग्निरूपिणः ॥ ४-१९ ॥

गुणत्रयात्मकाः कामवसुधर्मप्रदाः क्रमात् ।
तत्त्वत्रयात्मकाश्चैव भूर्भुवःस्वःस्वरूपिणः ॥ ४-२० ॥

मूर्तित्रयात्मकाः सृष्टिस्थितिसंहारकारिणः ।
धामत्रयात्मकाश्चैव ह्यादिमध्यान्तरूपिणः ॥ ४-२१ ॥

एतेषां वैभवं वक्ष्ये शृणु देवि समाहिता ।
तिर्यगूर्ध्वमधःस्थानारोहणाद्यवरोहतः ॥ ४-२२ ॥

समस्तव्यस्तरूपेण प्रतिलोमानुलोमतः ।
अवस्थात्रयरूपेण व्याप्यव्यापकभेदतः ॥ ४-२३ ॥

तेजसां शक्तिमूर्तीनां वर्णगुम्फितयोगतः ।
सूत्रप्रायात्मकत्वेन कुण्डलिन्या विधानतः ॥ ४-२४ ॥

अष्टात्रिंशत्कला ज्ञेया मन्त्रवीर्यार्थकारिणः ।
स्वराणां षोडश प्रोक्ताः पृथक्सोमकलाः क्रमात् ॥ ४-२५ ॥

स्पर्शानां मार्णराहित्ये षट्षट् सूर्यकलाः पृथक् ।
व्यापकानां कलाः वह्नेः पृथग् दश दशैव हि ॥ ४-२६ ॥

आरोहणेऽर्घसंख्यास्तास्तथा स्युरवरोहणे ।
प्रकृतिस्था विजानीयाद्रवेरुभयथाकलाः ॥ ४-२७ ॥

अप्राकृताः सोमकला वह्नेश्चापि न संशयः ।
मार्णस्योभयथा प्रोक्ताः षट्सप्ततिकलाः क्रमात् ॥ ४-२८ ॥

अष्टाविंशत्तथारोहेऽप्यवरोहे तथैव च ।
एता निजकलाः प्रोक्ताः पूर्णमण्डलरूपिणः ॥ ४-२९ ॥

तत्स्वरूपानुसन्धानसिद्धेः सम्यक्त्वयोगतः ।
अष्टोत्तरसहस्रं वाप्यष्टोत्तरशतं तु वा ॥ ४-३० ॥

अष्टाविंशतिसंख्यातो जपेन्मन्त्रं समाहितः ।
वीर्ययुक्तो भवेन्मन्त्रस्त्वनायासेन सिद्ध्यति ॥ ४-३१ ॥

निजाः कलास्ते संप्रोक्ताः संकीर्णाश्च शृणु प्रिये ।
ततोऽष्टाविंशदर्णानामष्टात्रिंशत् पृथक्पृथक् ॥ ४-३२ ॥

कभादिकठडान्ताश्च द्वादशार्णा रवेः स्मृताः ।
स्वराः षोडश सोमस्य वह्नेर्यादि दशैव हि ॥ ४-३३ ॥

चतुश्चत्वारिंशदब्धिशतं सहस्रमेव च ।
सोमसूर्याग्निरूपिण्यः संकीर्णाः स्युः कलास्तथा ॥ ४-३४ ॥

असंकीर्णास्तथा प्रोक्ताः पूर्णमण्डलसंख्यकाः ।
सर्वाः कलास्ताः संप्रोक्ताः सहस्रे द्वे च विंशतिः ॥ ४-३५ ॥

कला मार्णस्य संकीर्णाः सहस्रं च चतुःशतम् ।
चतुश्चत्वारिंशदिति निःशेषं समुदाहृताः ॥ ४-३६ ॥

ह्रस्वस्वरास्तु पुंरूपा दीर्घाः स्त्रीरूपिणः सदा ।
स्वराणां मध्यगं यत्तच्चतुष्कं तु नपुंसकम् ॥ ४-३७ ॥

कादिवर्णाः स्मृताः केचिद् पुंरूपाः स्त्रीस्वरूपकाः ।
केचिन्नपुंसकाः केचित्सर्वे ते ह्यूभयात्मकाः ॥ ४-३८ ॥

मकारः केवलं प्रोक्तः पुरुषस्तु सदाशिवः ।
बिन्दुरूपी च सर्वात्मा साक्षी सर्वत्र सर्वदा ॥ ४-३९ ॥

तथा च व्योमवर्णानां स्वरूपं शृणु पार्वति ।
हकारः परमं व्योम बिन्दुरूपी सदाशिवः ॥ ४-४० ॥

निर्गुणो निर्मलः शुद्धो नित्यरूपी निरञ्जनः ।
पुरुषस्तु गुणातीतो मकारः सगुणः पुमान् ॥ ४-४१ ॥

शकारोऽम्ब्वात्मकं व्योम शब्दातीतं निरञ्जनम् ।
नकारः शून्यरूपी स्यादनिलात्मकखं शिवे ॥ ४-४२ ॥

णकारो धरणीयुक्तो व्योमरूपी च संस्फुटः ।
ञकारोऽपि तथैवोक्तो ङकारो मरुदात्मकः ॥ ४-४३ ॥

ऌॡकारौ व्योमवर्णौ पार्थिवानलसंभवौ ।
स्वरूपं वायुवर्णानां शृणुष्व परमेश्वरि ॥ ४-४४ ॥

यकारो निर्गुणो वायुरूपी प्राणमयः शिवः ।
षकारो जीवभूतश्च जीवनात्मा समीरणः ॥ ४-४५ ॥

पकारो वह्निरूपी स्याद्वायुः स्पर्शात्मकः परः ।
तकारो व्योमरूपी स्याद्वायुः सर्वार्थतत्त्वगः ॥ ४-४६ ॥

टकारः स्तम्भरूपी स्याद्वायुः क्षित्यात्मकः परः ।
चकारोऽग्न्यात्मको वायुः सौम्यरूपी महेश्वरः ॥ ४-४७ ॥

ककारः खात्मको वायुः सर्वलोकविमोहनः ।
एकारो रुद्ररूपी स्याद्वायुर्व्योमात्मकः परः ॥ ४-४८ ॥

आकारः शब्दरूपी स्याद्वायुरग्न्यात्मकः परः ।
अकारः सगुणो वायुस्तेजसां निधिरव्ययः ॥ ४-४९ ॥

स्वरूपमग्निवर्णानां वक्ष्येऽहं शृणु पार्वति ।
रेफस्तु सर्वबीजानां चैतन्यं निष्कलं परम् ॥ ४-५० ॥

आग्नेयमक्षरं शुद्ध निर्मलीकरणार्थकम् ।
क्षकारो मारुतव्यापी सगुणानिलवर्णकः ॥ ४-५१ ॥

फकारोऽग्न्यात्मको वर्णो व्योमरूपी परात्परः ।
थकारो व्योमरूपी स्यादाग्नेयो व्यक्तविग्रहः ॥ ४-५२ ॥

ठकारोऽग्निश्चन्द्ररूपी सलिलात्मकमक्षरम् ।
छकारोऽम्ब्वात्मकोऽग्निश्च सर्वस्तम्भनकारकः ॥ ४-५३ ॥

खवर्णो मारुतव्यापी तेजोवर्णः परात्परः ।
ऐकारोऽग्निर्वायुरूपी सर्वमन्त्रार्थजीवनः ॥ ४-५४ ॥

तेजस्त्रयात्मको वह्निरिकारः शाक्तमक्षरम् ।
ईकारोऽग्निर्वायुरूपी सर्वबीजात्मकः परः ॥ ४-५५ ॥

स्वरूपं भूमिवर्णानां शृणुष्वैकमनाः प्रिये ।
(स ? ल) कारः पृथिवीवर्णो निर्गुणः परमव्ययः ॥ ४-५६ ॥

(ल ? ल) कारः सगुणो भूमिवर्णो वायवात्मकः परः ।
बकारोऽमृतरूपी स्यात् क्षितिवर्णोऽव्ययः परः ॥ ४-५७ ॥

दकारोऽग्न्यात्मकः शम्भुर्भूमिवर्णो महान् प्रभुः ।
डकारः क्षितिवर्णःस्यात्............ ॥ ४-५८ ॥

जार्णोऽमृतात्मको ज्ञेयो भृमिवर्णोऽमृतप्रदः ।
गकारो वायुरूपी स्यात् क्षितिवर्णो निरोधकृत् ॥ ४-५९ ॥

ओकारो व्योमरूपी स्याद्धरावर्णः परात्परः ।
ऊकारोऽग्न्यात्मकः शम्भुर्विश्वरूपी धरार्णकः ॥ ४-६० ॥

उकारोऽनिलरूपी स्याद्धरर्णो व्यापकः परः ।
स्वरूपं जलवर्णानां वक्ष्ये शृणु महेश्वरि ॥ ४-६१ ॥

वकारोऽमृतबीजं स्यान्निर्गुणः परमः शिवः ।
सकारश्चन्द्ररूपी स्याच्छाक्तार्णो जलरूपधृत् ॥ ४-६२ ॥

धरात्मको भकारः स्याज्जलार्णः परमः शिवः ।
व्योमात्मको धकारः स्यात्पाथसार्णो महेश्वरः ॥ ४-६३ ॥

ढकारो जलवर्णः स्याद्विश्वव्यापी धरात्मकः ।
वायवात्मको झकारः स्याज्जलार्णः पुरुषोऽव्ययः ॥ ४-६४ ॥

घकारो वायुरूपी स्यात्सलिलार्णो महान् प्रभुः ।
औकारो व्योमरूपी स्याद्व्योमव्यापी जलार्णकः ॥ ४-६५ ॥

ऋ ॠ वह्न्यात्मकौ ज्ञेयौ जलार्णौ शिवरूपिणौ ।
वैभवं मातृकार्णानां प्रोक्तं ते परमेश्वरि ॥ ४-६६ ॥

तेजस्त्रयविधानं ते प्रोक्तं यद्वर्णरूपतः ।
तेन रूपेण मन्त्राणां भावनारूपतोऽनिशम् ॥ ४-६७ ॥

वीर्यप्रकाशनं विद्धि सर्वमन्त्रेषु गोपितम् ।
मन्त्रवीर्य स्मरन् मन्त्री जपेन्मन्त्रं समाहितः ॥ ४-६८ ॥

अचिरेणैव कालेन मन्त्रसिद्धिः प्रजायते ।

इति । श्रीतन्त्रराजे-

मन्त्रवीर्य शृणु प्राज्ञे कथयामि सुखास्पदम् ।
येन विज्ञानमात्रेण जीवन्मुक्तो भवेन्नरः ॥ ४-१ ॥

तेजसां शक्तिमूर्तीनां प्रपञ्चस्यापि कारणम् ।
गुणत्रयममीषां च यत्कारणमुदाहृतम् ॥ ४-२ ॥

तत्स्वरूपानुसंधानसिद्धिः सम्यक्त्वमीरितम् ।
तन्मन्त्रवीर्यमुद्दिष्टं मन्त्राणां जीव ईरितः ॥ ४-३ ॥

असम्यक्त्वं तु मन्त्राणामयोग्यकथनेन वै ।
सदा प्रयोगाद् भजनादकाले संशयाद् भवेत् ॥ ४-४ ॥

गुरोरवज्ञया पापान्निषिद्धाचारयोगतः ।
देवताद्रोहतः सर्वपरिवादानवस्थया ॥ ४-५ ॥

असंप्रदायादज्ञानादनेकभजनादपि ।
तत्सम्यक्त्वं येन भवेद्वीर्यं तत्पूर्वमीरितम् ॥ ४-६ ॥

इति । उत्तरतन्त्रे-

मन्त्रवीर्यं प्रवक्ष्यामि साधकानां हिताय च ।
यस्याज्ञानेन नियतं मन्त्रा निश्चेतनां गताः ॥ ४-१ ॥

मूलादिब्रह्मरन्ध्रान्तं सूर्यकोटिसमप्रभाम् ।
विद्युत्कोटिनिभां देवीं चन्द्रकोटिप्रभामयीम् ॥ ४-२ ॥

जगदुत्पत्तिरक्षान्तकारिणीं ज्ञानचित्कलाम् ।
अष्टात्रिंशत्कलारूपां सर्वमन्त्रमयीं पराम् ॥ ४-३ ॥

सर्वतेजोमयीं दिव्यां परमामृतजृम्भिणीम् ।
षट्चक्रमार्गनिलयां व्योमषट्कावलम्बिनीम् ॥ ४-४ ॥

चिरं ध्यात्वा साधकेन्द्रः षट् चक्राणि विभाव्य च ।
तदन्तरष्टत्रिंशाब्जनिचय च विभाव्य च ॥ ४-५ ॥

तत्तदब्जस्थितान् वर्णान् कुण्डलीसूत्रगुम्फितान् ।
तेजस्त्रयात्मकान् ध्यात्वा सूर्याग्नीन्दुकला स्मरेत् ॥ ४-६ ॥

गमागमविभेदेन तिर्यगूर्ध्वविभेदतः ।
अवस्थापञ्चकाङ्गेन ह्यध ऊर्ध्वविभेदतः ॥ ४-७ ॥

समस्तव्यस्तरूपेण सर्वावस्थां गता यतः ।
ग्रथनादिक्रमेणैव षट्कर्मसु विशेषतः ॥ ४-८ ॥

तेजस्त्रयात्मकैर्वर्णैर्मूलमन्त्रं सुयोज्य च ।
जपित्वा भावयेन्मन्त्री तत्तच्चक्रार्णकैः पृथक् ॥ ४-९ ॥

ततस्तु ब्रह्मकंकाले ध्यायेच्चक्रक्रमं सुधीः ।
आधारचक्रं प्रथमं कुलदीपमनन्तरम् ॥ ४-१० ॥

वज्रचक्रं ततः प्रोक्तं स्वाधिष्ठानात्मकं परम् ।
रौद्रं करालचक्रं च गह्वरात्मकमेव च ॥ ४-११ ॥

विद्यापदं च त्रिमुखं त्रिपदं कालदण्डकम् ।
झङ्कारचक्रं च ततः कालोङ्गारं करङ्ककम् ॥ ४-१२ ॥

दीपकं क्षोभकं झम्भकानन्दकलिकात्मकम् ।
मणिपूरकसंज्ञं च लाकुलं कालभेदनम् ॥ ४-१३ ॥

महोत्साहं च परमं मादकं पदमुच्यते ।
अनाहतान्तं चक्राणि छन्दःसंख्यात्मकानि वै ॥ ४-१४ ॥

ततस्तु वैष्णवं चक्रं षण्मुखं षट्पदं ततः ।
विशुद्धं लम्बिकान्तं च लम्बिकास्थानमेव च ॥ ४-१५ ॥

इन्दुचक्रं बिन्दुचक्रं नादं नादान्तमेव च ।
शक्तिचक्रं सहस्रारमेतानि द्वादशैव तु ॥ ४-१६ ॥

अष्टात्रिंशत्कलास्थानानीति चक्रक्रमः प्रिये ।
आधाराद्दश (चक्राणि) वह्निस्थानानि सुन्दरि ॥ ४-१७ ॥

ततो द्वादशचक्राणि रवेः स्थानानि वै प्रिये ।
तदूर्ध्वं षोडशान्यत्र चक्राणीन्दोः सुरेश्वरि ॥ ४-१८ ॥

कुण्डलिन्या महाशक्तेः सर्वावस्थासु सर्वदा ।
सर्वाः कलास्ताश्चाग्नेययः सर्वाः सौराः महेश्वरि । १९ ॥

सर्वाः सौम्याः प्रजायन्ते भावनामात्रतः शिवे ।
अग्नित्रयं तथा सूर्यत्रयं सोमत्रयं तथा ॥ ४-२० ॥

नवधा भिद्यते देवि द्वावग्नौ सूर्य एव च ।
तथा सोमः प्रातिलोम्याद्द्वयमिन्द्वर्कयोस्तथा ॥ ४-२१ ॥

एवं द्वादशधा देवि भिद्यते नात्र संशयः ।
अग्निसूर्येन्दवश्चैव इन्दुसूर्याग्नयस्ततः ॥ ४-२२ ॥

सूर्यसोमाग्नयश्चैव अग्नीन्द्वर्कास्तथैव च ।
सूर्यसोमाग्नयश्चैव अग्निसूर्येन्दवस्तथा (?) ॥ ४-२३ ॥

अष्टादश प्रभेदाः स्युः प्रतिलोमानुलोमतः ।
सांकर्यभेदाः सञ्जाता नवैव परमेश्वरि ॥ ४-२४ ॥

एवं भेदा भवन्त्यष्टचत्वारिंशत् क्रमेण वै ।
एतैर्भेदैर्मूलमन्त्रग्रथनादिरिहोच्यते ॥ ४-२५ ॥

मन्त्राः सर्वे महेशानि सकृदुच्चारमात्रतः ।
वीर्यवन्ती भवन्त्येव सत्यं सत्यं न संशयः ॥ ४-२६ ॥

अथवान्यप्रकारेण मन्त्रवीर्यं शृणु प्रिये ।
अष्टात्रिंशत्कलारूपा माला सर्वार्थसाधिनी ॥ ४-२७ ॥

मकारं मेरुरूपं तु कृत्वाष्टात्रिंशदेव हि ।
एकस्यैकस्य संख्याङ्कं (?) जप्त्वा मन्त्रं प्रासिद्ध्यति ॥ ४-२८ ॥

अथवान्यप्रकारेण मन्त्रवीर्यं शृणुष्व तत् ।
वाग्भवं ब्रह्मणो बीजं श्रीबीजं विष्णुबीजकम् ॥ ४-२९ ॥

मायाबीजं तु रुद्रस्य बीजत्रयमुदाहृतम् ।
तेजस्त्रयात्मकं चैव गुणत्रयमयं प्रिये ॥ ४-३० ॥

त्रिमूर्तीनां कलादौ तु त्रिबीजं योजयेत् पृथक् ।
पूर्ववत् प्रजपेन्मन्त्रं ग्रथनादिविभेदतः ॥ ४-३१ ॥

मन्त्रवीर्यं तदुद्दिष्टं सत्यं सत्यं नचान्यथा ।
अथवान्यप्रकारेण मन्त्रवीर्यं शृणु प्रिये ॥ ४-३२ ॥

हकारः सूर्य आख्यातः सूर्यो वह्न्यात्मकः प्रिये ।
सकारः सोम आख्यात औकारः सोमरूपधृत् ॥ ४-३३ ॥

बिन्दुस्तु गगनं देवि सर्वेषां समरूपधृत् ।
यो जपेत् प्राणदूतीनामादौ बीजं पृथक्पृथक् ॥ ४-३४ ॥

सहस्रं प्रजपेद् देवि ग्रथनादिविभेदतः ।
सर्वदोषानपास्यैवं वीर्यवाञ्जायते मनुः ॥ ४-३५ ॥

एवं चतुर्धा यत्प्रोक्तं मन्त्रवीर्यप्रकाशनम् ।
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ॥ ४-३६ ॥

मन्त्रवीर्यं शृणु प्राज्ञे प्रकारान्तरतो भृशम् ।
दीक्षाकाले तु यद्रूपं स्वस्यानुग्रहकर्मणि ॥ ४-३७ ॥

श्रीगुरोः सावधानेन तद्रूपं परमेश्वरि ।
भावयन् व्योमचक्रेऽस्मिन् परमामृतजृम्भिते ॥ ४-३८ ॥

सहस्रं प्रजपेन्मन्त्रं मातृकाक्षरमालया ।
श्रीगुरोः कृपया देवि वीर्यवाञ्जायते मनुः ॥ ४-३९ ॥

सुगमोऽयं प्रकारः स्याद् दुर्लभो भुवनत्रये ।

इति ॥ दक्षिणामूर्तिसंहितायाम्-

अथ वक्ष्ये महेशानि मातृकां लोकमातरम् ।
अकारादिक्षकारान्तवर्णावयवदेवताम् ॥ ४-१ ॥

इति उत्तरतन्त्रे-

अथ सम्यङ्मातृकाया विधानमभिधीयते ।
अशेषदुःखशमनं समस्तज्ञानदीपनम् ॥ ४-१ ॥

प्रोक्तो ब्रह्मा मुनिश्छन्दो गायत्रं देवता मता ।
सरस्वती सर्वदेववन्दिताऽनिन्दितप्रभा ॥ ४-२ ॥

समस्तमातृकायास्तु हलो बीजानि शक्तयः ।
स्वराः स्युः परमेशानि जात्या व्यक्तिस्तु कीलकम् ॥ ४-३ ॥

अनिर्वाच्यानां हलां स्वरसंयोगेन सुवाच्यत्वं व्यक्तिस्तत्कीलकमित्यर्थः ।
अनिर्वाच्या हलो वर्णाः शक्त्या व्यक्ता भवन्ति हि इति तत्रैवोक्तत्वात् ॥ सिद्धसारस्वततन्त्रे-

दक्षहस्ततले पृष्थे करभेंऽगुष्ठकादिषु ।
कनिष्ठान्तासु वामे च कनिष्ठादितलावधि ॥ ४-१ ॥

स्वरान् षोडश देवेशि केवलान् विन्यसेत् प्रिये ।
दक्षहस्ततलान्तं तु न्यसेत् संहार ईरितः ॥ ४-२ ॥

दक्षहस्ततलाद् देवि वामहस्ततलावधि ।
न्यसेद्विसर्गसंयुक्तान् सृष्टिरेषा प्रकीर्तिता ॥ ४-३ ॥

वामहस्तकनिष्ठादितत्तलावधि विन्यसेत् ।
बिन्दुसर्गयुतानष्टौ ऌकारादीन् स्वरान् पुनः ॥ ४-४ ॥

दक्षहस्ततलाद् देवि तत्कनिष्ठावधि प्रिये ।
अकारादि ॠकारान्तान् स्थितिन्यास उदाहृतः ॥ ४-५ ॥

वामहस्तकनिष्ठादिपञ्चस्वंगुलीषु क्रमात् ।
तकारादिशकारान्तान् पर्वस्वेकैकशो न्यसेत् ॥ ४-६ ॥

अंगुष्ठादिकनिष्ठान्तास्वंगुलीषु तथा न्यसेत् ।
दक्षहस्ते च देवेशि कादिणान्तान् स्थितिक्रमात् ॥ ४-७ ॥

हकारादीन् पञ्चवर्णान् युगपत् करयोर्न्यसेत् ।
अंगुष्ठादिष्वंगुलीषु व्यापकत्वेन सुन्दरि ॥ ४-८ ॥

करशुद्धिं विधायेत्थं मातृकार्णैर्महेश्वरि ।
षडङ्गानि न्यसेत् पश्चाद्वक्ष्यमाणेन वर्त्मना ॥ ४-९ ॥

इति । भैरवीतन्त्रे-

ततश्चास्याः षडङ्गानि विन्यसेद्देशिकोत्तमः ।
अमांमध्ये कवर्गः स्यादिमींमध्ये चवर्गकः ॥ ४-१ ॥

उमूंमध्ये टवर्गः स्यादेमैंमध्ये तवर्गकः ।
ओमौंमध्ये पवर्गः स्यादनुस्वारविसर्गयोः ॥ ४-२ ॥

यशवर्गौ सलक्षौ स्तो जातियुक्तानिमान् न्यसेत् ।

चन्द्रार्धाङ्कितशेखरां त्रिनयनां पञ्चाशदर्णैः क्रमाद् व्याप्ताङ्गीं शरदिन्दुकुन्दरुचिरां वक्षोजभारान्विताम् ।
दानं चाक्षवटीं सुधारसलसत्कुम्भं शुभं पुस्तकं विभ्राणां करपङ्कजैर्भगवतीं पद्मासनस्थां भजे ॥ ४-१ ॥

आदावभ्यन्तरे न्यस्य षडाधारेषु मन्त्रवित् ।
अकारादिक्षकारान्तां ततो देहे बहिर्न्यसेत् ॥ ४-२ ॥

इति । दक्षिणामूर्तौ-

कलापत्राम्बुजे कण्ठे स्वरान् सम्यक् प्रविन्यसेत् ।
हृद्यर्कपत्रे तद्वर्णान् नाभौ दशदले न्यसेत् ॥ ४-१ ॥

दशवर्णान् लिङ्गमूले षड्दले षट् तथेश्वरि ।
चतुर्दले तथाधारे चतुर्वर्णांस्तथेश्वरि ॥ ४-२ ॥

भ्रूमध्ये द्विदले हक्षावित्यन्तर्मातृकां न्यसेत् ।

इति । उत्तरतन्त्रे-

मस्तके मुखवृत्ते च नेत्रकर्णेषु विन्यसेत् ।
नासागण्डोष्ठदन्तेषु समूर्धास्येषु विन्यसेत् ॥ ४-१ ॥

पाणिपादयुगस्यापि सन्ध्यग्रेषु न्यसेत् क्रमात् ।
पार्श्वयोः पृष्ठसन्नाभिजठरेषु प्रविन्यसेत् ॥ ४-२ ॥

हृद्दोर्मूलककुद्वामदोर्मूलेषु हृदादिषु ।
करपद्युगले चैव जठराननयोर्न्यसेत् ॥ ४-३ ॥

व्योमान्तसौरसनया युतकर्णिकं तत् किञ्जल्कगं स्वरयुगं प्रविलिख्य पत्रे ।
वर्गाष्टकं तदनु भूमिपुरेण वीतमाशासु वाक्षरयुजाश्रिषु टान्तयुक्तम् ॥ ४-४ ॥

अस्मिन् पीठे यजेद्देवीं नवशक्तिसमन्विते ।
मेधा प्रज्ञा प्रभा विद्या धीर्धृतिस्मृतिबुद्धयः ॥ ४-५ ॥

विद्येश्वरीति गदिता भारत्याः पीठशक्तयः ।

इति । सिद्धसारस्वते-

बीजं च सर्वशक्त्यन्ते कमलासनमुच्चरेत् ।
ङेऽन्तं नमः पदं ब्रूयादयं पीठमनुर्मतः ॥ ४-१ ॥

बीजं यन्त्रमध्यस्थम् । तथा-

अङ्गादि संयजेदादौ स्वरद्वन्द्वं ततोऽर्चयेत् ।
अष्ट वर्गांस्ततोऽभ्यर्च्य तच्छक्तीरर्चयेत् क्रमात् ॥ ४-२ ॥

कुन्दाभाश्चापविद्यायुक्करयुग्मा दलेष्विमाः ।
व्यापिनी पालिनी युक्ता पावनी क्लेदिनी ततः ॥ ४-३ ॥

धारिणी मालिनी षष्ठी हंसिनी शान्तिनी तथा ।
ततः सम्पूजयेन्मन्त्री ब्राह्म्याद्यास्तदनन्तरम् ॥ ४-४ ॥

लोकपालांस्तदस्त्राणि पूजययेत् क्रमतः सुधीः ।
एवं कुर्यान्न्यासजालं जपेल्लक्षं च मन्त्रवित् ॥ ४-५ ॥

तद्दशांशेन जुहुयान्मधुरत्रयलोलितैः ।
तिलैः शुद्धैस्तर्पणादि ततः कुर्यात् समाहितः ॥ ४-६ ॥

एवं सिद्धे मनौ मन्त्री प्रयोगान्निजवांछितान् ।
साधयेत् सर्वसिद्ध्यर्थं गुर्वनुज्ञापुरःसरम् ॥ ४-७ ॥

स्वर्णं रूप्यं तथा ताम्रं वर्गषोडशदिङ्मितम् ।
एतैस्तु रचितं सम्यग्रुचकं सर्वकामदम् ॥ ४-८ ॥

वर्गः पञ्चविंशतिः दिग् दश रुचकमंगुलीयकम् ।

अष्टोत्तरसहस्रं तु जपित्वा जुहुयात्तथा ।
घृतेन तत्समादाय सिक्तं सम्पातसर्पिषा ॥ ४-९ ॥

अभिषेकप्रकारेण घटे विन्यस्य मुद्रिकाम् ।
मातृकां पूजयेत्तत्र साङ्गां सावरणां बुधः ॥ ४-१० ॥

अभिषिक्ताय शिष्याय मुद्रां तां वितरेद् गुरुः ।
मुद्राधारी ग्रहक्षुद्रदस्युमारीसरीसृपैः ॥ ४-११ ॥

विमुक्तः सुचिरं जीवेत् प्रथमं विजयी भवेत् ।

इति । मन्त्रतन्त्रप्रकाशे-

सोमसूर्याग्निरूपाः स्युर्वर्णा लोहत्रयं तथा ।
रूप्यमिन्दुः स्मृतो हेम सूर्यस्ताम्रं हुताशनः ॥ ४-१ ॥

लोहभागाः समुद्दिष्टाः स्वराद्यक्षरसंख्यया ।
तैर्लोहैः कारयेन्मुद्रामसङ्कलितसङ्गताम् ॥ ४-२ ॥

साग्रं सहस्रं सञ्जप्य स्पृष्ट्वा तां जुहुयात्ततः ।
तस्यां सम्पातयेन्मन्त्री सर्पिषा पूर्वसंख्यया ॥ ४-३ ॥

इति । उत्तरतन्त्रे-

तोयं पिबेद् दिनादौ यस्त्रिवारजप्तमेतया ।
वत्सराञ्जायते सम्यक् स मूकोऽपि कवित्वभाक् ॥ ४-१ ॥

इति । अस्यार्थः प्रातःसन्ध्यावन्दननान्तरं चुलुकेन जलमादाय तन्मध्ये वक्ष्यमाणमातृकायन्त्रं विभाव्याकारादिक्षकारान्तां मातृकां सञ्जप्य तज्जलममृतं भावयन् मूलाधारात् जिह्वाग्रान्तं सारस्वतीं नाडीं दीपशिखाकारां ध्यायंस्तस्यां होमधिपा पिबेत् । एवं प्रतिदिनं कुर्वतश्चतुर्विधं पाण्डित्यं वक्तृत्वव्याख्यातृत्ववादित्वकवित्वं चेति स्वात्मज्ञानं च भवतीति परमरहस्यार्थः । तथा - ब्राह्मीरसेन वचया पयसा पाचयेद् घृतम् । घृतं गोघृतम् अत्रौषधिंत्रयमपि समभागं ग्राह्यम् ॥

अयुतं जप्तमनया भक्षितं कविताप्रदम् ।
अक्षरौषधिसम्पर्कपयसा पूरयेत् घटम् ॥ ४-२ ॥

पयसा जलेन ।

सहस्रजप्तेन ततः साध्यं सिञ्चेत् सुमन्त्रवित् ।
स स्यान्मेधेन्दिरा कीर्तिदीर्घायुःकवितायुतः ॥ ४-३ ॥

बन्ध्या च लभते पुत्रं नानागुणगणालयम् ।

इति । तन्त्रराजे-

वृत्तद्वयावृतं चाष्टपत्रमब्जं महीपुरम् ।
विधाय विलिखेन्मध्ये हंसहृद्वनशक्तिकम् ॥ ४-१ ॥

कूटं स्वरान् केसरेषु वर्गान् पत्रेषु चालिखेत् ।
पञ्चपञ्चाक्षरोपेतान् दावाम्बु दिग्विदिक्षु च ॥ ४-२ ॥

स्वरेष्वपुनरुक्तानि पञ्चान्यानि तु पञ्च वै ।
सव्यञ्जनाव्यञ्जनत्वभेदतोऽभूद् द्विरन्वयः ॥ ४-३ ॥

सवाताग्निधरास्वेन शक्तिस्तत्पञ्चकं भवेत् ।

हंसो हकारः हृत् सकारः वनमौकारः शक्तिर्विसर्गः दावष्ठकारः अम्बु वकार । वातोऽकारः अग्निरिकारः धरा उकारः खमनुस्वारः शक्तिर्विसर्गः ।
अथैतद्यन्त्ररचनाप्रकारः - तत्र प्राग्वदेव मध्यस्थकूटादिसकलवर्णान्

विलिख्य षष्ठसप्तमाष्टदलेषु षष्ठे : यरलवश सप्तमे : षसहलक्ष इति वर्गद्वयं विलिख्याष्टमे : अ इ उ अं अः इति पञ्चाक्षराणि विलिख्य चतुरस्रेऽपि प्राग्वदेव वकारटकारो विलिखेत् । अत्था :

एतद्यन्त्रस्य मध्यस्थं नाम कृत्वा प्रयोजयेत् ।
प्रातर्मूर्ध्नि स्मरेदिन्दुबिम्बस्थं सर्वसम्पदम् ॥ ४-१ ॥

अभिषेकात् धारणाच्च पूजनाल्लोहकल्पिते ।
स्थापनाद् गृहदेशादौ यन्त्रं सर्वार्थसिद्धिदम् ॥ ४-२ ॥

एतद्यन्त्रस्य मध्यस्था देवताः सकला अपि ।
सन्निधि फलदानं च साधकानां वितन्वते ॥ ४-३ ॥

इति । अथ पूर्वोक्तश्लोकस्याप्ययमर्थ । उषःकाले ब्रह्मरन्ध्रस्थसहस्रदलकमलमध्यगतचन्द्रमण्डलमध्ये प्रोक्तयन्त्रं स्वाभीष्टसाध्यनामगर्भं भावयेत् तेन तत्फलप्राप्तिर्भवति । अथवा भूमावेवैतद्यन्त्रं सिन्दूरादिनोत्कीर्य तत्र प्रागुक्तविधिना कुम्भं संस्थाप्य वर्णौषधिक्वाथजलेनापूर्य तत्र देवीं सम्पूज्याभिषेकतः स्वाभिमतफलप्राप्तिर्भवति । यद्वा भूर्जादावालिख्य यथाविधि धारणात् स्वर्णादिकल्पिते यन्त्रे प्रागुक्तविधिना देव्याः पूजनात्ताम्रादौ कल्पितस्य गृहादौ यथात्रिधि भूम्यन्तःस्थापनाच्च स्वाभिमतफलसिद्धिर्भवति ॥ द्वितीयश्लोकस्यायमर्थः । तत्र सकलदेवताचक्रप्रतिष्ठासु सुवर्णरजतताम्राद्यन्यतमेन कृते पट्टे यन्त्रमुत्कीर्यं मध्ये सम्बुद्ध्यन्ततत्तद्देवतानामपूर्वकम् सन्निधेहीति विलिख्य प्राणप्रतिष्ठां विधाय तत्र देवीं समभ्यर्च्य मातृकया लक्षमात्रं तद्यन्त्रं स्पृशञ्जपित्वा तत्त्ववित् पूर्णात्मा सुपूजितं तच्चक्रं प्रथमं भूम्यन्तः संस्थाप्य तदुपरि निजवांछितदेवतामूर्ति यथाविधि स्थापयेत् । एवं कृते तस्यां मूर्तौ तस्या देवतायाः सान्निध्यं सविशेषं भवति स्थापयितुश्च सकलमभीप्सितं फलं भवतीति ॥ अथैतन्मातृकाया ये ये न्यासभेदा वर्तन्ते तेषामपि पूजोपासनादिकं सर्वं प्रोक्तविधिनैव विधेयम् ॥ उत्तरतन्त्रे ।

न्यसेद्बिन्द्वन्तिकामेनां संहारेण विलोकतः ।
पूर्वोक्ता एव मुन्याद्याः षडङ्गं च तथा भवेत् ॥ ४-१ ॥

संचिन्त्य सृष्टिमार्गेण विन्यसेत् सर्गसंयुताम् ।
बिन्दुसर्गस्थितां स्थित्यां डादिठार्णान्तिकां न्यसेत् ॥ ४-२ ॥

पूर्वोक्ता एव मुन्याद्याः षडङ्गं च तथा भवेत् ।

इति । श्रीकुलार्णवे-

यतिवैखानसैः कार्यः संहारान्तः कुलेश्वरि ।
न्यासो गृहस्थैः स्थित्यन्तः सृष्ट्यन्तो वर्णिनां भवेत् ॥ ४-१ ॥

इति । उत्तरतन्त्रे-

प्रणवोत्थकलायुक्तां मातृकां विन्यसेत् ततः ।
वर्णादिका नमोन्तास्ता न्यस्तव्या ध्रुवसंयुताः ॥ ४-१ ॥

ऋषिः प्रजापतिः प्रोक्तो गायत्रं छन्द ईरितम् ।
सरस्वती कलारूपा देवता परिकीर्तिता ॥ ४-२ ॥

ह्रस्वदीर्घस्वरद्वन्द्वगतैरङ्गं ध्रुवैर्भवेत् ।
केशवादिहृदायुक्तां न्यसेत्तां कामपूर्वकाम् ॥ ४-३ ॥

यादीन् धातुयुतान् न्यसेत् प्राणशक्त्यात्ममूर्तिभिः ।
साध्यनारायण ऋषिर्गायत्रं छन्द ईरितम् ॥ ४-४ ॥

लक्ष्मीनारायणो देवि देवता परिकीर्तिता ।
षड्दीर्घयुक्तकामान्तैः प्राग्वद्वर्गैः षडङ्गकम् ॥ ४-५ ॥

न्यसेत् तार्तीयसंयुक्तां हृदन्तां रुद्रपूर्वकाम् ।
यादीन् धातुसमायुक्तान् प्राणशक्त्यात्मभिः सह ॥ ४-६ ॥

मुनिस्तु दक्षिणामूर्तिश्छन्दो गायत्रमुच्यते ।
अर्धनारीश्वरो देवि देवता परिकीर्तिता ॥ ४-७ ॥

षड्दीर्घयुक्ततार्तीयप्रतिवर्गैः षडङ्गकम् ।
मायाद्यां मातृकां देवि न्यसेत् साधकत्तत्तमः ॥ ४-८ ॥

मुनिः शक्तिः समाख्यातो गायत्रं छन्द उच्यते ।
देवता जगतामादिर्मातृका भुवनेश्वरी ॥ ४-९ ॥

षड्दीर्घयुक्तमायान्तैर्वर्गैः प्राग्वत् षडङ्गकम् ।
श्रीयुतां मातृकां न्यसेद्विधिवत् परमेश्वरि ॥ ४-१० ॥

मुनिर्भृगुः समाख्यातो गायत्रं छन्द ईरितम् ।
षड्दीर्घयुक्तश्रीबीजयुतैर्वर्गैः षडङ्गकम् ॥ ४-११ ॥

कामबीजयुतां न्यसेन्मातृकां कमलेक्षणे ।
संमोहनो मुनिश्छन्दो गायत्री देवता प्रिये ॥ ४-१२ ॥

संमोहिनी समाख्याता देवता विश्वमोहिनी ।
दीर्घयुक्तेन कामेन युतैर्वर्गैः षडङ्गकम् ॥ ४-१३ ॥

मायालक्ष्मीस्मरारूढां मातृकां विन्यसेत् प्रिये ।
प्रपञ्चयागकर्माथ वक्ष्यते भुक्तिमुक्तिदम् ॥ ४-१४ ॥

पञ्चमन्त्रमयं सर्वसिद्धिसंपत्प्रदायकम् ।
महागणपतिं त्वादौ सऋषिच्छन्ददैवतम् ॥ ४-१५ ॥

साङ्गन्यासं सावरणं ध्यात्वा तन्मन्त्रमष्टधा ।
जपेद् गाणपतं बीजं सऋषिच्छन्ददैवतम् ॥ ४-१६ ॥

चत्वारिंशच्च चत्वारि तथैव प्रजपेत्ततः ।
सकृद्गाणपतं मन्त्रं जप्त्वा वैदिकमप्यथ ॥ ४-१७ ॥

मालामन्त्रं चतुर्वारं सऋण्यादिं जपेत्ततः ।
मातृकां विन्यसेद् प्राग्वद्दृष्यादिसहितां त्रिधा ॥ ४-१८ ॥

स्वरादिसप्तवर्गैस्तु ग्रहान् सप्त प्रविन्यसेत् ।
मुखे वाह्वोः पादयोश्च जठरे हृदये क्रमात् ॥ ४-१९ ॥

तारो माया च हंसश्च सोऽहं स्वाहेति वै मनुः ।
प्रपञ्चयागमन्त्रोऽयमष्टार्णः समुदीरितः ॥ ४-२० ॥

प्रपञ्चयागमन्त्रस्य मुनिर्ब्रह्मा समीरितः ।
परमाद्या समाख्याता गायत्री छन्द ईरितम् ॥ ४-२१ ॥

महः परं समाख्यातं देवता चिन्मयं प्रिये ।
त्रययन्ते बोधितं नित्यं सर्वव्यापि निरञ्जनम् ॥ ४-२२ ॥

विलोमगैः पञ्चमन्त्रैः सार्धं हरिहराक्षरैः ।
प्राग्वद् वर्गावसानस्थैस्तारमायादिकैः क्रमात् ॥ ४-२३ ॥

षडङ्गानि प्रकुर्वीत जातियुक्तानि मन्त्रवित् ।
वेदादिमाययोरन्ते दत्त्वादीन् क्रमतस्ततः ॥ ४-२४ ॥

मन्त्रशेषं समुच्चार्य होमं कुर्यात् समाहितः ।
प्रपञ्चयागनामायं होमः सर्वसमृद्धिदः ॥ ४-२५ ॥

अकारादिस्तु शान्तान्तः प्रथमोऽत्र मनुर्मतः ।
शान्तान्तं च हकाराद्यो द्वितीयो मन्त्र इष्यते ॥ ४-२६ ॥

तृतीयोऽपि समाख्यातः सकाराकारबिन्दुभिः ।
सकाराकारसर्गैश्चेन्द्रियषट्कात्मको भवेत् ॥ ४-२७ ॥

चतुर्थोऽपि च सोकारहकाराकारबिन्दुभिः ।
बृहत्प्रयोगात् ब्रह्मात्र मुनित्वेन निगद्यते ॥ ४-२८ ॥

श्रेष्ठार्थवाचकं प्रोक्तं परमाख्यं पदं बुधैः ।
गायन्तं त्रायते यस्माद् गायत्रं छन्द उच्यते ॥ ४-२९ ॥

यस्मादतिशयः क्वापि तेजसां नैव विद्यते ।
परंपदेन तत्प्रोक्तं परं ज्योतिश्च देवता ॥ ४-३० ॥

स्वर्गार्थैः स्वेतिशब्दोऽयमात्मार्थेऽपि तथा भवेत् ।
हा हानार्थोऽपि गत्यर्थः सर्वतो भावतस्ततः ॥ ४-३१ ॥

स्वर्गात्मनो स्वरूपं या व्याप्ततेजःपरंपरा ।
स्वाहाकारेण चाख्याता हुतिर्यस्यां समीरिता ॥ ४-३२ ॥

तेजोरूपं तु यद्व्याप्तं सशब्देन तदुच्यते ।
अहंपदेन चात्मापि द्वयोरैक्यं ततो भवेत् ॥ ४-३३ ॥

सोऽहं मन्त्रे विधानेन हकारेऽहं वदेत् ततः ।
स इत्यनेन चिद्रूप सर्वार्थस्यावभासकम् ॥ ४-३४ ॥

सत्यं व्याप्तं च निर्लेपं हंसमन्त्रं वदेत् ततः ।
चराचस्य जगतः सारभूतं गुणात्मकम् ॥ ४-३५ ॥

जनकं सर्वलोकानां मायाबींजेन चोच्यते ।
अकाराद्यैर्मकारान्तैस्त्रिभिर्वीजैर्गुणात्मकैः ॥ ४-३६ ॥

भावसत्यं तु यत्कुर्यात् प्रणवार्थः स उच्यते ।
हृद्धातुर्हरणार्थः स्यादनिष्टं मन्त्रिणस्तु यत् ॥ ४-३७ ॥

संहरेत् तन्महः प्रोक्तं वर्णैर्हरिहरैर्ध्रुवम् ।
प्रपञ्चयागमन्त्रोऽयं प्रपञ्चस्यादिकारणम् ॥ ४-३८ ॥

प्रपञ्चयाग आख्यातो न्यासो येन तु यः कृतः ।
अङ्गार्णैर्ज्वलने द्रव्यैर्होमोऽत्र द्विविधो मतः ॥ ४-३९ ॥

अकारादिषु संयोज्य यथापूर्वं विधानवित् ।
स्थानेषु मातृकोक्तेषु न्यसदष्टाक्षरेण तु ॥ ४-४० ॥

साधकेन्द्रः सुशुद्धात्मा पञ्चाशद्वारमन्वहम् ।
वर्णाः सर्वे तु विख्याता बाह्यज्ञानेन्द्रियात्मकाः ॥ ४-४१ ॥

प्रत्येकेन्द्रियसंग्राह्यं जगद् व्याप्तमतस्तु तैः ।
परात्परतरं लोके ज्योतिरैशं तु यद्भवेत् ॥ ४-४२ ॥

तस्मिन् ब्रह्मानले होमो ब्रह्मज्ञैर्मन्त्रिभिस्तु यः ।
कृतो ज्योतिर्मयैः सम्यङ्मनुभिस्तं प्रचक्षते ॥ ४-४३ ॥

ब्रह्मात्मकहविर्द्रव्यैस्तद्विदे ब्रह्मणेऽर्पणम् ।
वर्णानां भेदतो भिन्नमित्थं शिथिलतां गतम् ॥ ४-४४ ॥

शरीरं चर्मसन्नद्धं शोणितामित संभृतम् ।
मेदोमज्जास्थिसंयुक्तं गत्वरत्वेन संमतम् ॥ ४-४५ ॥

ब्रह्मानले महास्वच्छे सर्वव्याप्ते निरञ्जने ।
यो जुहोति कृती मन्त्री शुद्धात्मा महतां निधिः ॥ ४-४६ ॥

अशेषं मन्त्रसंजाप्ये ध्याने पूजनकर्मणि ।
अधिकारी स एव स्यान्नेतरः फलभाजनम् ॥ ४-४७ ॥

केवलोऽपि च विन्द्वन्तः कलादिकेशवादिकः ।
श्रीकण्ठाद्यैश्च संयुक्तो मायाबीजसमन्वितः ॥ ४-४८ ॥

लक्ष्म्याद्यः कामबीजाद्यो बीजत्रययुतोऽपि च ।
प्रपञ्चयागसंयुक्ता दश न्यासाः समीरिताः ॥ ४-४९ ॥

वाञ्छितार्थप्रदाः सर्वे सर्वमन्त्रेषु कल्पिताः ।
एतेषु श्रेष्ठ आख्यातः प्रपञ्चाह्वययागकः ॥ ४-५० ॥

ज्ञानदः पुष्टिदश्चाथ सर्वसंपत्करस्तथा ।
विशेषतो ग्रहक्षुद्रप्रपञ्चाज्ञाननाशकृत् ॥ ४-५१ ॥ इति ।

प्रपञ्चयागमात्रेण यथा होमो विधीयते ।
यद्यद्द्रव्यैस्तथा तानि यदा यल्लभ्यते बुधैः ॥ ४-५२ ॥

एतत्सर्वं विधानेन कथयामि यथातथम् ।
उक्तेनैव विधानेन गाणपत्यावसानकम् ॥ ४-५३ ॥

आज्येन जुहुयान्मन्त्री तद्वदेकाहुतिं हुनेत् ।
प्रपञ्चयागमन्त्रेण घृतेनैव ततः परम् ॥ ४-५४ ॥

बटोदुम्बरसंभूताः पर्प्पट्यः पिप्पलस्य च ।
समिधस्तिलसिद्धार्थहविराज्यानि च क्रमात् ॥ ४-५५ ॥

पर्पटी प्लक्षः ।

एतद्द्रव्याष्टकं प्रोक्तं हुनेदेतेन मन्त्रवित् ।
दशायुतं विधानेन तदर्द्धमथवा तु यः ॥ ४-५६ ॥

यथाभिलषितानत्र भोगान् भुक्त्वा सुखं हि सः ।
देहान्ते मुक्तिमाप्नोति मुनिभिः प्रार्थितां ततः ॥ ४-५७ ॥

चौरशत्रुग्रहव्याधिसर्पराक्षसदोषनुत् ।
चतुःशतं तदर्द्धं वा तदर्द्धं वा हुतं मतम् ॥ ४-५८ ॥

तत्तद्दोषानुसारेण होमसंख्यां प्रवर्धयेत् ।
रविसंख्यसहस्राणि हुनेद् द्रव्याष्टकेन यः ॥ ४-५९ ॥

एत्तद्द्विगुणतश्चाथ चतुर्गुणत एव वा ।
भूतावेशग्रहावेशजूर्त्यादीन् स विनाशयेत् ॥ ४-६० ॥

शास्त्रोक्तक्रमभङ्गेन जपपूजादिकृत्तु यः ।
स्मृतिभ्रंशो भवेत्तस्य होमं द्रव्याष्टकेन सः ॥ ४-६१ ॥

सहस्रसंख्यया कुर्यात् स्वस्थो भवति तत्क्षणात् ।
प्रत्येकं द्विसहस्रं यो हुनेद्द्रव्याष्टकेन तु ॥ ४-६२ ॥

अपस्मारं विस्मृतिं च शापदोषं स नाशयेत् ।
द्रव्याष्टकं त्रिमध्वक्तं लक्षमानं हुनेत् तु यः ॥ ४-६३ ॥

प्रादुर्भूतेन महता तस्यैश्वर्येण तत्क्षणात् ।
देवेन्द्रस्य महालक्ष्मीः स्थिरा तुच्छतरा भवेत् ॥ ४-६४ ॥

लक्षं लक्षार्द्धकं वाथ मधुरत्रयलोलितम् ।
द्रव्याष्टकं हुनेद्यो वै वत्सरत्रयमध्यतः ॥ ४-६५ ॥

त्रैलोक्यं सकलं तस्य वशे तिष्ठति नान्यथा ।
वश्यादिसाधनं प्रोक्तं हुनेद् द्रव्याष्टकेन यत् ॥ ४-६६ ॥

ह्रासवृद्ध्यादिकं होमे जानीयात् कार्यगौरवात् ।
शुद्धैस्तिलैस्तु यो लक्षं होमं कुर्याद्यथाविधि ॥ ४-६७ ॥

महापापानि तस्याशु प्रलयं यान्ति नान्यथा ।
लक्षं कमलहोमेन महालक्ष्मीः प्रजायते ॥ ४-६८ ॥

हविषा पुष्टिदो होमो यवहोमो यशस्करः ।
मालतीपुष्पहोमोऽपि सर्ववश्यप्रदो भवेत् ॥ ४-६९ ॥

सामुद्रलवणं हुत्वा तथा वश्यं प्रसाधयेत् ।
अथ शालिसमुद्भूतांस्तण्डुलान् सुष्ठु चूर्णयेत् ॥ ४-७० ॥

मधुरत्रयसंयुक्ततच्चूर्णेनैव साधकः ।
साध्यप्रतिकृतिं कृत्वा सम्यक् सम्पूज्य तां स्पृशन् ॥ ४-७१ ॥

प्राणस्थापनमन्त्रं तु जपेत्साष्टशतं तु तत् ।
बिभज्य जुहुयान्मन्त्री नान्यासक्तमना निशि ॥ ४-७२ ॥

सप्तरात्रं प्रकुर्वाणो नरं वा स्त्रियमेव वा ।
वशीकरोति झटिति नात्र कार्या विचारणा ॥ ४-७३ ॥

सामुद्रलवणस्यापि पुत्तल्याः फलमीदृशम् ।
वर्णौषधिविपक्वेन पञ्चगव्येन पूरिते ॥ ४-७४ ॥

चुल्ल्यां संस्थाप्य योऽधस्ताह्वह्निं कुम्भे प्रदीपयेत् ।
प्रादुर्भूते पुनस्तस्मिन् घटाग्नौ जुहुयाद् घृतम् ॥ ४-७५ ॥

अष्टोत्तरशतं मन्त्री भसितं पतितं च यत् ।
तावत्संख्यं च सञ्जप्य गृह्णीयात् सर्वसिद्धिदम् ॥ ४-७६ ॥

भक्षणाद् गात्रलेपाच्च तिलकक्रियया तथा ।
मस्तके धारणात् सद्यः सर्वे नश्यन्त्युपद्रवाः ॥ ४-७७ ॥

भूतप्रेतपिशाचादिविषरोगादिनाशनम् ।
सर्ववश्यकरं पुंसां श्रीसौभाग्यजयप्रदम् ॥ ४-७८ ॥

सहस्रसंख्यको होमो तदानीं गुरवे बुधः ।
पलं पलार्धकं वापि दद्याद्धेम्नो वरस्य च ॥ ४-७९ ॥

कल्पवृक्षाद्यथा देवा लभन्ते वाञ्छितं फलम् ।
प्रपञ्चयागतोऽप्येवं साधकोऽभीष्टमश्नुते ॥ ४-८० ॥

इति । अथैवं मातृकाविद्योपासकानामन्यविद्योपासकानां च

प्राणाग्निहोत्रविधिरुक्तः कालीमते तथा-

प्राणाग्निहोत्रं वक्ष्यामि सर्वसिद्धिप्रदायकम् ।
हितार्थं सर्वलोकस्य मन्त्रिणां च विशेषतः ॥ ४-१ ॥

कृतपद्मासनः पूर्वममलाङ्गः शुभासने ।
उपविष्टः प्रसन्नात्मा प्राङ्मुखः स्थिरमानसः ॥ ४-२ ॥

भुवनेशोहकारेण सत्त्वरूपेण लाञ्छितम् ।
मध्यमस्य तदीयेन वामाक्षिरजसा वृतम् ॥ ४-३ ॥

रेफेण तमसा चैव वेष्टितं च त्रिकोणकम् ।
पूर्वराक्षसवायवस्रि मूलाधारं विचिन्तयेत् ॥ ४-४ ॥

मध्ये प्राच्यां प्रतीच्यां च कौवेर्ययां दक्षिणे तथा ।
तस्मिन्नेव समे पञ्च स्मरेत् कुण्डानि मन्त्रवित् ॥ ४-५ ॥

सर्वदा ज्वलदग्नीनि स्वीयकार्यप्रसिद्धये ।
आवसर्थ्यं च सभ्यं च तथाचाहवनीयकम् ॥ ४-६ ॥

अन्वाहार्यं पुनः प्रोक्तं गार्हपत्यं भवेदिति ।
मध्यादिक्रमतस्त्वेवं नामतोऽमूनि चैव हि ॥ ४-७ ॥

प्रभाज्वालानिदानाद्धि ज्ञानरूपान्निरञ्जनात् ।
मूलप्रकृतिरूपाच्च कल्पादित्यान्निरञ्जनात् ॥ ४-८ ॥

द्वादशान्स्थितात् सर्ववर्णहोतुः परात्मनः ।
निर्गतां मातृकां मन्त्री सुधानिःष्यन्दरूपिणीम् ॥ ४-९ ॥

प्रतिलोमक्रमाद्भिन्नामेकैकाक्षरतो धिया ।
होमयेत् तेषु कुण्डेषु ज्वलदग्निषु देशिकः ॥ ४-१० ॥

स्युस्ते मारकतप्रख्याः क्षादयः पञ्चवर्णकाः ।
पञ्च यान्ता भवन्त्येव गोमेदाभाश्च शादिकाः ॥ ४-११ ॥

नीलवर्णाश्च माद्याः स्युर्नाद्या विद्रुमसन्निभाः ।
णादयो वज्रसंकाशास्तावन्तः परिकीर्तिताः ॥ ४-१२ ॥

पुष्परागत्विवश्चान्ताः कान्ता वैडूर्यवर्णकाः ।
अष्ट स्वरास्तु मुक्ताभा माणिक्याभास्ततः परम् ॥ ४-१३ ॥

नवरत्नमया ह्येते नववर्गाः प्रकीर्तिताः ।
केतुर्विधुन्तदो मन्दो वाक्पतिर्बुध एव च ॥ ४-१४ ॥

भार्गवो भौमचन्द्रौ च भास्करो नव कीर्तितः ।
नववर्गाधिपा ह्येते रत्नानामधिदेवताः ॥ ४-१५ ॥

होममेवं विधानेन कुर्युर्येऽनुदिनं बुधाः ।
पञ्चाशत्संख्यया ते स्युः संमताः भुवनत्रये ॥ ४-१६ ॥

स्वर्णवस्त्रादिकैराढ्या भाग्यवन्तः शुभोदयाः ।
ये वर्णा यत्र हूयन्ते तानहं वच्मि सांप्रतम् ॥ ४-१७ ॥

सम्वर्तकं च तत्षष्ठं पञ्चवर्गान्तिकास्तथा ।
षोडशस्वरझिण्टीशावर्घीशश्च ततः परम् ॥ ४-१८ ॥

दशैतान् विधिवत् कुण्ड आवसथ्याह्वये हुनेत् ।
धरा बालीतुरीयश्च वर्गाणां च तुरीयकान् ॥ ४-१९ ॥

मस्तकं च हराख्यं चाप्यमरेशं दशाप्यमून् ।
सभ्याख्ये जुहुयात् कुण्डे मन्त्रवित्तदनन्तरम् ॥ ४-२० ॥

नकुलीशं च तत्षष्ठं वर्गाणां च तृतीयकान् ।
सद्यान्तस्थाणुके चापि वामनेत्रं वशी क्रमात् ॥ ४-२१ ॥

संजुहोतु यथान्यासं कुण्ड आहवनीयके ।
यसप्तमद्वितीयौ च वर्गाणां च द्वितीयकान् ॥ ४-२२ ॥

भौतिकान्ततिथीशाख्यौ सूक्ष्मसंज्ञमनन्तरम् ।
अन्वाहार्याभिधे कुण्डे वर्णानेतान् हुनेत् क्रमात् ॥ ४-२३ ॥

वायुषष्ठं च वायुं च वर्गाद्यान् पञ्च पादिकान् ।
अधरं च क्रियां चापि नारायणमिमान् दश ॥ ४-२४ ॥

गार्हपत्याभिधे कुण्डे हुनेन्मन्त्री समाहितः ।
वर्णहोमः क्रमेणैवं यथावत् परिकीर्तितः ॥ ४-२५ ॥

आकाशेन समं सर्वं शब्दजातं तु मन्त्रवित् ।
आवसथ्याभिधे कुण्डे जुहुयात् तदनन्तरम् ॥ ४-२६ ॥

वायुना तद्गुणं पूर्वे वह्निना पश्चिमे मतः ।
रूपं कुण्डे हुनेन्मन्त्री पयसा रससञ्चयम् ॥ ४-२७ ॥

उत्तराख्ये हुनेत् कुण्डे दक्षिणे तदनन्तरम् ।
धरया सर्वगन्धं च मन्त्रविज्जुहुयाद् वशी ॥ ४-२८ ॥

प्रलयानलसङ्काशज्वलदग्निष्वहर्निशम् ।
होमं कुर्वीत कुण्डेषु मातृकावर्णसंयुतम् ॥ ४-२९ ॥

नित्यशुद्धपरानन्दचिद्रूपात्मा प्रजायते ।
ध्रुवमायादिकं होममजपान्तं तु पूर्ववत् ॥ ४-३० ॥

पञ्चाशत्संख्यया कृत्वा न्यस्य तावद्यथाविधि ।
जीवन्मुक्तो भवेन्मन्त्री चिरञ्जीवी च जायते ॥ ४-३१ ॥

तेजसा सूर्यकल्पोऽसौ कर्ता हर्ता च शम्भुवत् ।

इति । अस्यार्थः । तत्र बद्धपद्मासनः प्राङ्मुखो मृद्वासने समुपविश्य, प्रागुक्तलक्षणे स्वमूलाधारे भुवनेश्वरीबीजमन्त्रस्य सत्त्वगुणात्मकेन हकारेणाक्रान्तमध्यप्रदेशं तस्य रजोगुणात्मकेन वामाक्षणा ईकारेणावृतं तमोगुणात्मकेन तदीयरेफेण वेष्टितं त्रिकोणमग्निमण्डलं पूर्वनिर्-ऋतिवायव्यगतान्यस्राणि कोणानि यस्य तादृशं मूलाधारं विचिन्त्य तस्मिन्मध्ये पूर्वपश्चिमोत्तरदक्षेष्वावसथ्यसभ्याहवनीयान्वाहार्यगार्हपत्याख्यानि पञ्च कुण्डानि ज्वलदग्निशिखासमाकुलानि

वांछितार्थप्रदानि सञ्चिन्त्य सर्वतेजःप्रकाशप्रतिबिम्बहेतुभूतानवच्छिन्नचैतन्यात्मकान् सकलवर्णकारणशब्दब्रह्मात्मकमूलप्रकृत्यात्मनो द्वादशान्तस्थितान् कल्पान्ताग्निशिखास्फुरत्कुहरकेषु कुण्डेषु वक्ष्यमाणक्रमेण वर्णान् मनसा जुहुयात् । तत्र वर्णानां रत्नवर्णतामाह । स्युरिति । रत्नानामधिदैवतत्वेन ग्रहानुपदिशति । केतुरित्यादि । अमृतमयत्वेन ध्यातानां रत्नसवर्णवर्णानां होममाह होममिति । पञ्चकुण्डेषु पञ्चाशद्वर्णानामेकैकस्मिन् कुण्डे होतव्यान् वर्णान् दर्शयति : संवर्तकमित्यादिभिः । संवर्तकः क्षकारस्तस्य षष्ठः प्रतिलोमेन शकारः पञ्चवर्गान्तिकाः विलोमेन मनणञङाः षोडशस्वरः अः झिण्टीश एकारः अर्घीशो हकारः एतान् दशवर्णानावसथ्याख्यकुंडे जुहुयात् । धरा लकारः वालीतुरीयो वकारः वर्गतुरीयका विलोमेन भधढझघाः मस्तकं अं हरः ॡकारः अमरेश उकारः एतान्दश वर्णान् सभ्ये जुहुयात् । नकुलीशो हकारस्तत्षष्ठो लकारः वर्गाणां तृतीयकाः बदडजगाः सद्यान्त औकारः स्थाणुको ऌस्वरः वामनेत्रमीकारः एतान्दश वर्णान् आहवनीये जुहुयात् । (यसप्तमद्वितीयौ सकाररकारौ वर्गद्वितीयाः फथठछखाः भौतिकान्त ओकारः तिथीशः ॠ सूक्ष्म इकारः एतान् दश वर्णान् अन्वाहार्ये जुहुयात्) । वायुषष्ठः षकारः वायुर्यकारः वर्गाद्याः पतटचकाः अधर ऐकारः क्रिया ऋस्वरः नारायण आकारः एतान्दश वर्णान् गार्हपत्ये जुहुयात् । इति होमक्रिया ॥ होमप्रकारस्तु ओं ह्रीं क्षं हंसः सोऽहं स्वाहा इत्यादिक्रमेणैकैकस्मिन् कुण्डे प्रत्येकमक्षरं पुनःपुनर्जुहुयात् । तत्प्रकारस्तु - आवसथ्ये क्षकारं (सभ्ये लकार) माहवनीये हकारमन्वाहार्ये सकारं गार्हपत्ये षकारं पुनरेवं क्रमेण शकाराद्यकारान्तान् वर्णान् पञ्च पञ्च जुहुयात् । अथात्र अः इति ब्रह्मे ति श्रुतेः परिशिष्ठोःऽकारः सर्वथात्र ब्रह्मरूपेण ध्यातव्यः ॥

अथैवं कुर्वतां साधकानां भोजनकाले कर्तव्यप्राणाग्निहोत्रमाह- उत्तरतन्त्रे-

प्रत्यहं विधानानेन भोजनं कुरुते यदि ।
गार्हपत्यादिकुण्डानि तदा प्राणादिवायवः ॥ ४-१ ॥

उद्धरेत् कुण्डनामानि सप्तमीसहितानि तु ।
प्राणादीनां च नामानि सप्तम्यन्तं समुद्धरेत् ॥ ४-२ ॥

हिरण्यानन्तरं वर्णा गगनानन्तरं तथा ।
रक्तान्ते कृष्णशब्दान्ते सुप्रभान्ते तथा भवेत् ॥ ४-३ ॥

शुचयः पदमभाष्य पावका इति चोच्चरेत् ।
अग्नि विहृत्यशब्दान्त आत्मानं च ततो वदेत् ॥ ४-४ ॥

उपचर्यपदं पश्चादूर्ध्वाधस्तिर्यगुद्धरेत् ।
पुनरूर्ध्वपदं चाधस्तिर्यगूर्ध्वं समं वदेत् ॥ ४-५ ॥

गच्छन्तु वह्निजायान्तान् पञ्च मन्त्रान् समुद्धरेत् ।
अहं वैश्वापदं पश्चान्नरो भूत्वा पदं वदेत् ॥ ४-६ ॥

जुहोम्यन्नं पदं पश्चाच्चतुर्विधपदं चरेत् ।
पचाम्येवं पदं ब्रूयाद् विधानेन पदं वदेत् ॥ ४-७ ॥

स्वाहान्तं सर्वमुक्त्वा तु तृप्तिपर्यन्तमादरात् ।
तूष्णीं होमं विधायादौ संस्कृतान्नेन मन्त्रवित् ॥ ४-८ ॥

अमृतेत्यादिमन्त्रेण पीत्वा तु चुलुकोदकम् ।
आचम्यविधिना पश्चाच्छुद्धाचमनमाचरेत् ॥ ४-९ ॥

मूलाधारं समारभ्य द्वादशान्तावधि स्मरेत् ।
जीवात्मानं जगद्व्याप्तं नित्यमेवमनन्यगम् ॥ ४-१० ॥

प्रकृतिस्थं शुभं शान्तमाद्यन्तरहितं परम् ।
हवनीयेन शुद्धेन हुतेनापि सुतर्पितम् ॥ ४-११ ॥

एवं गलत्सुधान्नं च पञ्चाशद्वर्णसेचितम् ।
भुक्त्वा हविर्हुतं मन्त्री स ज्वलत्पञ्चवह्निकः ॥ ४-१२ ॥

प्रातः सायं च कुर्वाणो मन्त्री प्राणाग्निहोत्रकम् ।
गर्भस्थितिभवं क्लेशं विन्दति कदाचन ॥ ४-१३ ॥

अस्यार्थः तत्रादौ प्राणादिपञ्चमन्त्रा उद्ध्रीयन्ते गार्हपत्येत्यादिभिः ।
अयमर्थः - गार्हपत्ये प्राणे हिरण्यवर्णाः शुचयः पावका अग्निं विहृत्यात्मानमुपचर्योर्ध्वं गच्छन्तु स्वाहा । अन्वाहार्येऽपाने गगनवर्णाः शुचयः पावका अग्निं विहृत्यात्मानमुपचर्याधो गच्छन्तु स्वाहा । आहवनीये व्याने रक्तवर्णाः शुचयः पावका अग्निं विहृत्यात्मानमुपचर्य तिर्यग्गच्छन्तु स्वाहा । सभ्य उदाने कृष्णवर्णाः शुचयः पावका अग्निं विहृत्यात्मानमुपचर्योर्ध्वं गच्छन्तु स्वाहा । आवसथ्ये समाने सुप्रभावर्णाः शुचयः पावका अग्निं विहृत्यात्मानमुपचर्याधस्तिर्यग्गच्छन्तु स्वाहा ।
एभिर्मन्त्रैः पञ्चाहुतीः पञ्चकुण्डेषु हुत्वा गार्हपत्यान्वाहार्याहवनीयसभ्यावसथ्येषु प्राणापानव्यानोदानसमानेषु हिरण्यगगनरक्तकृष्णसुप्रभावर्णाः

शुचयः पावका अग्निं विहृत्यात्मानमुपचर्य अहं वैश्वानरो भूत्वा जुहोम्यन्नं चतुर्विधं पचाम्येवं विधानेनोर्ध्वाधस्तिर्यक् समं गच्छन्तु स्वाहेति गार्हपत्यान्वाहार्याहवनीयसभ्यावसथ्यानां यमशशिवरुणेन्द्रमध्यमानि स्थितानि सञ्चिन्त्य पूर्वावदानेभ्योऽधिकपरिमाणेनावदानेन हुत्वा पश्चात् तृप्तिपर्यन्तं होमधिया भुक्त्वा अमृतापिधानमसि मन्त्रेण चुलुकोदकं प्राश्य शुद्धाचमनं कुर्यात् ॥ एवं कुर्वतः फलमाह प्रातः सायमित्यादि ।
प्रपञ्चबिन्दुविनिर्गतामृतधारया समासिक्तमकारविनिर्गतचन्द्रमण्डलद्वयरूपेण विसर्गं ध्यात्वा ताभ्यां प्रथमतराग्नीन्दुतेजोविलसिताभ्याममृतपूर्णसकारविनिर्गतामृतधारया समासिक्तबिन्दुभ्यां नाडीमार्गेणात्मनः सकलशरीरमापूर्यावस्थिताभ्यां रोगाः सर्वे बाधिता भवन्तीति ॥ अथ कादिमते प्राणाग्निहोत्रविधिः । तत्र श्रीतन्त्रराजे :

ततः सूक्ष्मैः पराख्यैश्च होमैः सिद्धिं शृणु प्रिये ।
स्वमूलाधारके वह्नौ कुण्डलिन्यग्रगामिनि ॥ ४-१ ॥

वाच्यवाचकरूपं तु प्रपञ्चं जुहुयात्तथा ।
येनावयोः समो देवि जायते हवनेन च ॥ ४-२ ॥

तद्विधानं वद प्राज्ञ शम्भो सम्यङ्ममाधुना ।
आधारे वह्निसंस्थानं कुण्डलिन्याः स्थितिं ततः ॥ ४-३ ॥

तद्रूपं तत्क्रियां सर्वं वद मे विशदं प्रभो ।
शृणु वक्ष्ये विधानं ते सम्यग्विस्तरतोऽधुना ॥ ४-४ ॥

प्राणाग्निहोत्रविद्येति यत् त्रयां श्रूयते परम् ।
यज्ज्ञात्वा वनितागर्भं न प्रयाति नरो ध्रुवम् ॥ ४-५ ॥

यद्व्ययायासरहितमनन्यापेक्षनिर्वहम् ।
यन्मनःक्लेशविश्रान्तेः स्थानं निःशेषकल्मषम् ॥ ४-६ ॥

सुखास्पदं स्वगं विश्वमयं चिद्वेद्यवेदनात् ।
अत्रोक्तशेषमखिलं षट्त्रिंशे पटले स्फुटम् ॥ ४-७ ॥

प्रदर्श्यते ततस्त्वत्र वर्णयामि च किञ्चन ।
नित्यानित्योदिते मूलाधारमध्येऽस्ति पावकः ॥ ४-८ ॥

सर्वेषां प्राणिनां तद्वद् हृदये च प्रभाकरः ।
मूर्धनि ब्रह्मरन्ध्राधश्चन्द्रमाश्च व्यवस्थितः ॥ ४-९ ॥

तत्त्रयात्मकमेव स्यादाद्यानित्यात्रिखण्डकम् ।
तेषां त्रयाणामैक्यं तु मनसा भावयेत्तथा ॥ ४-१० ॥

गमागमाभ्यां तेजोभिस्तेषामन्योन्यजैः शिवे ।
तथा समिद्धं तत्तेजस्त्रयं बुद्ध्वाथ तन्मयम् ॥ ४-११ ॥

चित्तं विकल्पविधुरं भावयेदद्भुतं हुतम् ।
तेषां त्रयाणां वर्णानां प्रगुक्तानां क्रमेण वै ॥ ४-१२ ॥

द्वाभ्यामन्यतमं कृत्वा पुटितं जुहुयाच्च तैः ।
पुटितान् भानुहृद्वर्णैः स्वरांस्तारेण हुंकृतैः ॥ ४-१३ ॥

कुण्डलीमुखमार्गाग्नौ जुहुयान्निश्चलाशयः ।
वह्निभानुपुटान्तःस्थैश्चान्द्रैस्तद्वद् हुनेत् क्रमात् ॥ ४-१४ ॥

चन्द्रभानुपुटान्तःस्थैर्वह्न्यर्णैर्जुहुयात् तथा ।
भानुचन्द्रपुटान्तःस्थैर्वह्न्यर्णैर्जुहुयात् तथा ॥ ४-१५ ॥

चन्द्रवह्निपुटान्तःस्थर्भावर्णैर्जुहुयादपि ।
वह्निचन्द्रपुटान्तःस्थैरपि तद्वद् हुनेत्तु तैः ॥ ४-१६ ॥

तथा तेषां प्रातिलोम्यात् षोडशानां हुनेदपि ।
एवं द्वादशधा होममक्षरैः स्यादुदीरितैः ॥ ४-१७ ॥

कृत्वा तद्वाच्यमखिलमर्थरूपं च तैः समम् ।
तेजस्त्रयात्मरूपं स्यादावयोरपि तद्वपुः ॥ ४-१८ ॥

अन्यानि चावयोरिच्छागृहीतानि वपूंषि वै ।
तान्यन्यदेवतादेहसमानीच्छावशानि च ॥ ४-१९ ॥

इति श्रीमहामहोपाध्यायभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्य- श्रीभगवच्छङ्कराचार्यशिष्य-श्रीविष्णुशर्माचार्यशिष्य- श्रीप्रगल्भाचार्यशिष्य-श्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे चतुर्थः श्वासः ॥ ४ ॥

अथ

श्रीविद्यार्णवतन्त्रे

Kundalini und Bewusstsein in einer modernen Darstellung.

Video zur Vertiefung: Tripurasundari

Ein heutiger Yoga-Vidya-Vortrag zum Thema; keine Rezitation oder Übersetzung des historischen Textes.

5. Śvāsa

अथ कालीमते मन्त्रोद्धारः । तत्रादौ भूतलिपिः । तत्र सिद्धसारस्वततन्त्रे-

अथ भूतलिपिं वक्ष्ये सुगोप्यामतिदुर्लभाम् ।
सारस्वते महातन्त्रे गोपितां चातिसिद्धिदाम् ॥ ५-१ ॥

विष्णोः सकाशाद्यां लब्ध्वा मुनयो वांछितं फलम् ।
लेभिरे सकलं देवि किं बहूक्तेन सर्वदा ॥ ५-२ ॥

ह्रस्वानां पञ्चकं वर्ग आदितः परिकीर्तितः ।
द्वितीयः कथितो देवि शिवाद्याश्चतुरक्षराः ॥ ५-३ ॥

खं वायुवह्न्यम्बुधरास्तृतीयः सम्प्रकीर्तितः ।
वर्गान्त्यादिद्वितीयोपान्त्यतृतीयैः क्रमादमी ॥ ५-४ ॥

पञ्चवर्गा वान्तशान्तभृगुभिर्नवमो मतः ।
नववर्गात्मको मन्त्रो द्विचत्वारिंशदक्षरः ॥ ५-५ ॥

वर्गाणामादिमो वर्गः श्रीकण्ठोर्ध्वोष्ठखान्विताः ।
वर्गान्त्या वान्तसंयुक्ताः क्रमेण कथिता अमी ॥ ५-६ ॥

खं वायुवह्न्यम्बुधरा वर्गवर्णा मताः क्रमात् ।
वर्गो द्वितीयो भूहीनो वारिभूवियुतोऽन्तिमः ॥ ५-७ ॥

नवानामपि वर्गाणां देवताः कथिताः क्रमात् ।
विरिञ्चिविष्णुरुद्राह्वा आश्विनेयौ प्रजापतिः ॥ ५-८ ॥

लोकपालाः सक्रियादिशक्तयः परिकीर्तिताः ।
ऋषिस्तु दक्षिणामूर्तिर्गायत्रं छन्द ईरितम् ॥ ५-९ ॥

सरस्वती देवतास्य गदिता विश्ववन्दिता ।
व्योमादिवर्गषट्कैः स्याज्जातियुक्तैः षडङ्ग (कैः?कम्) ॥ ५-१० ॥

आद्यवर्गद्वयस्याथ नवार्णन्यासमुच्यते ।
आधाराधिष्ठाननाभिहृद्गलेषु सबैन्दवे ॥ ५-११ ॥

नादे शक्त्यां शिवे सम्यक्स्वरान् क्रमवशात् सुधीः ।
तृतीयवर्गहाद्यर्णान् न्यसेदूर्ध्वादि पञ्चसु ॥ ५-१२ ॥

मुखेषु पञ्चवर्गाणां स्थानेष्वेषु प्रविन्यसेत् ।
दोःपदग्रेषु मूलेषु चापमूलाग्रकेषु च ॥ ५-१३ ॥

मध्यदेशेषु जठरे पार्श्वद्वयसनाभिषु ।
पृष्ठेऽवशिष्टवर्गार्णान् गुह्यहृद्भ्रूषु विन्यसेत् ॥ ५-१४ ॥

सृष्टिन्यासे विसर्गान्तान् बिन्दुसर्गान्तिमान् स्थितौ ।
आदिद्वितीयकोपान्त्यप्रान्तमध्यक्रमान्न्यसेत् ॥ ५-१५ ॥

सृष्टिषु क्रमगान् न्यस्येत् संहृतौ बिन्दुसंयुतान् ।
ध्यानमस्य प्रवक्ष्यामि देवेशि मुनिपूजितम् ॥ ५-१६ ॥

शाश्वतं यं भूतमयं प्रवदन्ति मनीषिणः ।
चिद्बीजं विन्दुनादाह्वशिफं विश्वम्भराक्षरैः ॥ ५-१७ ॥

शाखासमूहैः सकलादिशासु सुविजृम्भितम् ।
जलवर्णदलव्रातेनाच्छादितजगत्त्रयम् ॥ ५-१८ ॥

कृशानुवर्णांकुरैश्च संदीप्तं सुरभूरुहम् ।
रत्नांकुरैरिव शुभं पवनाक्षरशोभितैः ॥ ५-१९ ॥

कुसुमैर्दीपयन्तं च स्वकीयतनुसच्छ्रियम् ।
वियदक्षरसद्रूपफलैरानम्रमम्बिके ॥ ५-२० ॥

सर्वभूताश्रयं नित्यं परामृतमधुद्रवैः ।
सिञ्चन्तं परमेशानि देवीं वागीश्वरीं पराम् ॥ ५-२१ ॥

निगमागमसंकॢप्तसमुन्नतिसुशोभितम् ।
शिवशक्त्यात्मकं छायासमाश्रितजगत्त्रयम् ॥ ५-२२ ॥

यमाश्रित्य मुनीन्द्रौघा वाञ्छितार्थान् प्रपेदिरे ।
एवंभूतार्णवृक्षस्य मूले त्वक्षरपङ्कजे ॥ ५-२३ ॥

वागीश्वरीं स्मरेद् देवीं सकलेष्टफलप्रदाम् ।

कुन्दाभासामुरुकुचघटां शोभिचन्द्रार्धमौलिं हस्ताम्भोजैर्वरजपवटीपुस्तकं पुंस्कपालम् ।
बिभ्राणां तां मधुमदलसद्विह्वलां युग्मनेत्रां देवीं ध्यायेल्लिपिमयततुं यौवनप्राप्तशोभाम् ॥ ५-२४ ॥

इति ध्यात्वा महेशानि हृदि देवीमनन्यधीः ।
मातृकोक्ते यजेत्पीठे प्रत्यहं साधकः शिवे ॥ ५-२५ ॥

वर्णपद्मे महेशानि मूर्तिं मूलेन कल्पयेत् ।
तस्यामावाह्य वागीशीं यजेदावरणैः सह ॥ ५-२६ ॥

पुराङ्गानि यजेन्मन्त्री केसरेषु पुरोक्तवत् ।
अम्बिकाद्या यजेत् पश्चाद्वक्ष्यमाणाश्चतुर्दले ॥ ५-२७ ॥

अम्बिका वाग्भवा दुर्गा श्रीश्च मातॄस्ततो यजेत् ।
अष्टपत्रे महेशानि तद्वहिः षोडशच्छदे ॥ ५-२८ ॥

कराल्याद्या यजेच्छक्तीर्वक्ष्यमाणास्तु षोडश ।
कराली विकराली च तृतीयोमा सरस्वती ॥ ५-२९ ॥

श्रीदुर्गेशा च लक्ष्मीश्च श्रुतिः स्मृतिरितीरिताः ।
धृतिः च श्रद्धा च मेधा च मतिः कान्तिरुदीरिताः ॥ ५-३० ॥

आर्या च षोडशी प्रोक्ताः खड्गखेटकरा इमाः ।
श्यामाश्च स्मेरवदनाः सर्वाभरणभूषिताः ॥ ५-३१ ॥

विद्याहीपुष्टयः प्रज्ञा सिनीवाली कुहूः पुनः ।
रुद्रवीर्या प्रभा नन्दा स्यात्पूषा ऋद्धिदा शुभा ॥ ५-३२ ॥

कालरात्रिर्महारात्रिर्भद्रकाली कपालिनी ।
विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी ॥ ५-३३ ॥

निशुम्भशुम्भमथिनी महिषासुरमर्दिनी ।
इन्द्राणी चैव रुद्राणी शङ्करार्धशरीरिणी ॥ ५-३४ ॥

नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ।
अम्बिका हारिणी चैव द्वात्रिंशच्छक्तयः सिताः ॥ ५-३५ ॥

पिशाचास्याश्चक्रहस्ताः सम्पूज्याश्चारुभूषणाः ।
पिङ्गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च ॥ ५-३६ ॥

श्रद्धा स्वाहा स्वधा भिक्षा माया संज्ञा वसुन्धरा ।
त्रिलोकधात्री सावित्री गायत्री त्रिदशेश्वरी ॥ ५-३७ ॥

सुरूपा बहुरूपा च स्कन्दमाता च तत्प्रिया ।
विमला विपुला पश्चादरुणी पुनरारुणी ॥ ५-३८ ॥

प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च ।
सन्ध्या मतिः सति हंसी मर्दिका परदेवता ॥ ५-३९ ॥

देवमाता भगवती देवकी कमलासना ।
त्रिमुखी सप्तमुख्यन्या सुरासुरविमर्दिनी ॥ ५-४० ॥

लम्बोष्ठी चोर्ध्वकेशी च बहुशीर्षा वृकोदरी ।
रथरेखाह्वया पश्चाच्छशिरेखाह्वया परा ॥ ५-४१ ॥

गगनरेखा च पवनवेगा च तदनन्तरम् ।
ततो भुवनपालाख्या ततः स्यान्मदनातुरा ॥ ५-४२ ॥

अनङ्गानङ्गमदना तथैवानङ्गमेखला ।
अनङ्गकुसुमा विश्वरूपासुरभयङ्करी ॥ ५-४३ ॥

अक्षोभ्यासत्यवादिन्यौ वज्ररूपा शुचिव्रता ।
वरदाख्या च वागीशा चतुष्षष्टिः समीरिताः ॥ ५-४४ ॥

चापबणधराः सर्वा ज्वालाजिह्वाः समीरिताः ।
दंष्ट्रिण्यश्चोर्ध्वकेश्यश्च युद्धोपक्रान्तमानसाः ॥ ५-४५ ॥

सर्वाभरणसंदीप्ताः पूजनीयाः प्रयत्नतः ।
ततोऽर्चयेल्लोकपालांस्तदस्त्राणि च तद्बहिः ॥ ५-४६ ॥

एवं भूतलिपिं सम्यग् जगद्धात्रीं यजेत्सुधीः ।
वागैश्वर्यसमृद्धः सन् वन्द्यते स सुरैरपि ॥ ५-४७ ॥

साधकः कृतदीक्षः सन् न्यसेल्लक्षं जपेत्सदा ।
तद्दशांशं तिलैः शुद्धैस्त्रिमध्वक्तैर्हुनेत् ततः ॥ ५-४८ ॥

तर्पणादिद्विजार्चान्तं प्राग्वत् कृत्वा तु मन्त्रवित् ।
काम्यकर्म ततः कुर्यात् स्वगुरूक्तविधानतः ॥ ५-४९ ॥

जुहुयादयुतं पद्मैर्वशगाः स्युर्नराधिपाः ।
महालक्ष्मीरुत्पलानां होमात् संजायतेऽचिरात् ॥ ५-५० ॥

ब्रह्मवृक्षप्रसूनैश्च जुहुयात् साधकः प्रिये ।
वत्सरेणैव महतां कवीनामग्रणीर्भवेत् ॥ ५-५१ ॥

राजिकालवणैर्हुत्वा वशयेद्योषितः सुधीः ।
अनया भूतलिप्या च संपुटीकृत्य यं मनुम् ॥ ५-५२ ॥

शतं क्रमाद्विलोमाच्च भजते तस्य सिद्ध्यति ।
सुप्ताशीर्विषरम्यां तां सम्यक् कुण्डलिनीं पराम् ॥ ५-५३ ॥

संगमयय च मध्येन वर्त्मना स्थानमुत्तमम् ।
परामृतैः प्लावयेत्तां मूर्ध्नि मूलावधि क्रमात् ॥ ५-५४ ॥

यौगिनां खल्वयं योगः संमतः सर्वसिद्धिदः ।
एतन्न्यस्तशरीरस्तु तेजसा भास्करोपमः ॥ ५-५५ ॥

ज्ञात्वा यन्त्रविशेषांश्च काम्यकर्माणि साधयेत् ।

बिन्द्वाढ्यं व्योम भूयस्तदपि च शिवयुग् ज्ञानिने स्याद् हृदन्तो मन्त्रोऽयं कर्णिकायां प्रणिगदित इतो व्योमवर्णान् दलेषु ।
साध्याख्याबन्धुवर्णांल्लिखतु खपुटितान् शिष्टमन्त्येऽथ पत्रे वृत्तावीतं खयन्त्रं मलयजजतुभिर्निर्मितं क्ष्वेडहर्तृ ॥ ५-५६ ॥

वायू नेत्रैयुतौ स्तो विरतिनतियुतो ङेन्तकोपेशशब्दो मध्ये वायव्यवर्णान् पवनसुपुटितान् पत्रमध्येऽन्त्यमन्त्ये ।
स्वात्यां मन्दोदये तत्पवनगृहगतं तालपत्रस्थयन्त्रं शत्रोरुच्चाटकृत् स्याद्रिपुमृतिफलदं द्वारि तस्यैव खातम् ॥ ५-५७ ॥

वह्नी क्रमाच्छ्रुतिरदेन्दुयुजौ स्वकान्तौ रौरोः सफलणतिरयं मनुरब्जमध्ये ।
पत्रेषु वह्निपुटितान्यनलाक्षराणि प्रान्तेऽन्तिमं च सह साध्यसुपोषकार्णैः ।
अग्निस्थितं भुजदले शुभवासरर्क्षे लाक्षासुकुंकुमकृतं प्रकरोति रक्षाम् ॥ ५-५८ ॥

नासामनुस्वरसबिन्दुयुताबुयुम्ग्मं ङेऽन्तो विधुर्विधुभुवे नतिरेष मध्ये ।
अब्वर्णकान् (सु?व) पुटितान् शिशुबन्धुवर्णैः पत्रेषु चाप्यपुरयुग्वरुणाह्वयन्त्रम् ॥ ५-५९ ॥

गण्डानन्ते सबिन्दू विलिखतु च जगौ गण्डयोर्मध्यसंस्थौ ल्वन्ते के हृत्तु मध्ये तदनु कुपुटितान् भूमिवर्णान् धरान्तान् ।
पत्रान्तः सेवकार्णैर्धरणिगृहयुतं चेन्द्रसौम्योदये तद् भूर्जस्थं भूमियन्त्रं सुमृदि विरचितं गैरिकैः स्तम्भकृत् स्यात् ॥ ५-५१ ॥

इति भूतलिपिप्रघट्टकम् । अथ कालीमते श्रीविद्याप्रकरणम्-

पञ्चसिंहासनोऽन्यत्र ततो वै पञ्चपञ्चिका ।
षडायतनविद्याश्च पञ्चाम्नायास्तथैव च ॥ ५-१ ॥

चतुःसमयविद्याश्च श्रीविद्यावृन्दमेव च ।
ज्ञातव्यास्तु विशेषेण देवताभावसिद्धये ॥ ५-२ ॥

सम्पत्प्रदाभैरवी च ततश्चैतन्यभैरवी ।
चैतन्यभैरवी चान्या द्वितीया सर्वसिद्धिदा ॥ ५-३ ॥

कामेश्वरीभैरवी च बालाद्याः पञ्च देवताः ।
पूर्वसिंहासनस्थाश्च स्मर्तव्याः सर्वसिद्धये ॥ ५-४ ॥

न्यासे होमे च पूजायां सर्वत्रैव तु साधकः ।
अघोरभैरवी चैव महाभैरव्यतः परम् ॥ ५-५ ॥

ललिताभैरवी चैव कामेशीभैरवी तथा ।
रक्तनेत्राभैरवी च दक्षसिंहासने स्थिताः ॥ ५-६ ॥

षट्कूटाभैरवी चैव ततो वै नित्यभैरवी ।
मृतसञ्जीवनी चैव मृत्युञ्जयपरा ततः ॥ ५-७ ॥

वज्रप्रस्तारिणी चैव प्रत्यक्सिंहासने स्थिताः ।
भुवनेशीभैरवी च कमलेशी च भैरवी ॥ ५-८ ॥

कौलेशी भैरवी चैव ततो डामरभैरवी ।
कामिनीभैरवी चैव सौम्यसिंहासने स्थिताः ॥ ५-९ ॥

प्रथमा सुन्दरी चैव द्वितीया सुन्दरी तथा ।
तृतीया सुन्दरी चैव चतुर्थी सुन्दरी तथा ॥ ५-१० ॥

पञ्चमी सुन्दरी चैव ऊर्ध्वसिंहासनस्थिताः ।
श्रीविद्या च तथा लक्ष्मीर्महालक्ष्मीस्तथैव च ॥ ५-११ ॥

त्रिशक्तिः सर्वसाम्राज्या लक्ष्म्यः पञ्च प्रकीर्तिताः ।
श्रीविद्या च परंज्योतिः परनिष्कलशाम्भवी ॥ ५-१२ ॥

अजपा मातृका चेति पञ्च कोशाः प्रकीर्तिताः ।
श्रीविद्या त्वरिता चैव पारिजातेश्वरी ततः ॥ ५-१३ ॥

त्रिकूटा पञ्चबाणेशी पञ्च कल्पलताः स्मृताः ।
श्रीविद्यामृतपीठेशी सुधासूरमृतेश्वरी ॥ ५-१४ ॥

अन्नपूर्णेति विख्याताः पञ्च कामदुघाः क्रमात् ।
श्रीविद्या सिद्धलक्ष्मीश्च मातङ्गी भुवनेश्वरी ॥ ५-१५ ॥

वाराहीति च संप्रोक्ताः पञ्चरत्नमिति ध्रुवम् ।

इति । अथ मन्त्रोद्धारः तत्रादौ गुरुपादुका-

शिवचन्द्रानलार्घीशबिन्दुभिः प्रथमाक्षरम् ।
आकाशचन्द्रसंवर्तमहाकालक्षमाम्बुभिः ॥ ५-१ ॥

वायवग्न्यनन्तबिन्द्वातैर्द्वितीयं बीजमुद्धृतम् ।
तदेव वामकर्णेन तृतीयं बीजमुद्धृतम् ॥ ५-२ ॥

तदेव तक्षनेत्रेण चतुर्थं बीजमीरितम् ।
श्रीपरेति तथा पावकेति सर्वपदं ततः ॥ ५-३ ॥

आराध्यसर्वगुरु च नाथसर्वगुरुगुरु ।
श्रीगुर्वथ तथा नाथ वह्निर्बीजं तृतीयकम् ॥ ५-४ ॥

आद्यबीजचतुष्कं च श्रीशंभुगुरुशब्दतः ।
प्रथमं तु द्विधा चोक्त्वा द्वितीयादित्रयं भवेत् ॥ ५-५ ॥

प्रथमं च तृतीयं च प्रोक्ता च स्थूलपादुका ।
तारपञ्चकमादौ तु देयं सर्वार्थसाधिका ॥ ५-६ ॥

खेचरीबीजमुक्तेयं प्रोक्ता स्यान्मध्यपादुका ।
तारत्रययुतेयं तु संप्रोक्ता लघुपादुका ॥ ५-७ ॥

तारत्रयं श्री-अमुकानन्दनाथपदं ततः ।
श्रीपादुकां पूजयामीत्युक्ता लघुतरापरा ॥ ५-८ ॥

ओं ऐं ह्रीं श्रीं हसखफ्रें हसौः हस्रूं हसक्षमलवयरां हसक्षमलवयरूं हसक्षमलवय [रीं ? रिं] श्रीपरपावक सर्वाराध्यसर्वगुरुनाथ सर्वगुरुगुरुश्रीगुरुनाथ रंहसक्षमलवयरूं । हस्रूं हसक्षमलवयरां हसक्षमलवयरूं हसक्षमलवय [रीं ? रिं] श्रीशम्भुगुरु हस्रूं हस्रूं हसक्षमलवयरां हसक्षमलवयरूं हसक्षमलवय [रीं ? रिं] हस्रूं हसक्षमलवयरूं इति स्थूलपादुका ॥

ओं ऐं ह्रीं श्रीं हसौं स्हक्षमलवयरूं स्हक्षमलवयरूं हस्रौः सहक्षमलवयरौः हस्रौः श्रीपरपावक सर्वाराध्यसर्वगुरुनाथ सर्वगुरुस्वयंगुरु श्रीगुरुनाथ रं हसक्षमलवयरूं हसौं सहक्षमलवयरीं सहक्षमलवयरूं सहलक्षमवयरां श्रीशम्भुगुरुहस्रौं सहक्षमलवयरूं श्री-अमुकानन्दनाथामुकशक्तिदेव्यम्बाश्रीपादुकां पूजयामि इति मध्यमपादुका ॥

ओं ऐं ह्रीं श्रीं हसखफ्रें हसौः हसक्षमलवरयूं श्री-अमुकानन्दनाथ ओं ऐं ह्रीं श्रीं सहखफ्रें स्हौः सहक्षमलवरयीं अमुकदेव्यम्बाश्रीपादुकां पूजयामि इति लघुपादुका ॥ ओं ऐं ह्रीं श्रीं अमुकानन्दनाथामुकशक्त्यम्बाश्रीपादुकां पूजयामि इति लघुतरपादुका ॥ ओं ऐं ह्रीं श्रीं श्री-अमुकानन्दनाथश्रीपादुकां पूजयामि - इति सामान्यपादुका ॥

ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेद्गुरुपादुकाम् ।
स्वस्थचित्तः स्थिरवपुर्योगमार्गविचक्षणः ॥ ५-१ ॥

श्रीगुरोः पादुकामन्त्रे ऋषिर्ब्रह्मा समीरितः ।
गायत्रं छन्द आख्यातं निचृदाद्यं महेश्वरि ॥ ५-२ ॥

बीजशक्ती तथाद्यन्तौ मध्यमं कीलकं भवेत् ।
मोक्षार्थे विनियोगः स्यादृषिन्यास उदीरितः ॥ ५-३ ॥

प्रातः शिरसि शुक्लेऽब्जे द्विनेत्रं द्विभुजं गुरुम् ।
वराभयकरं शान्तं स्मरेत् तन्नामपूर्वकम् ॥ ५-४ ॥

शशाङ्कायुतसङ्काशं सूर्यकोटिसमप्रभम् ।
शुक्लाम्बरधरं श्रीमच्छुक्लमाल्यानुलेपनम् ॥ ५-५ ॥

वामोरुस्थितया रक्तवर्णया पद्महस्तया ।
शक्त्यालिङ्गितमानन्दामोदमानं गुरुं स्मरेत् ॥ ५-६ ॥

अथौघत्रयगुरुध्यानम्-

कराभ्यां चिन्मुद्रां समधुनृकपालं च दधतीं द्रुतस्वर्णप्रख्यामरुणकुसुमालेपवसनाम् ।
कृपापूर्णापाङ्गामरुणनयनां कर्बुरजटामुपेतां सिद्धौघैर्भजतु गुरुपङ्क्ति कृतमतिः ॥ ५-१ ॥

अथ गुरुनमस्कारः-

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ५-१ ॥

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ५-२ ॥

गुरुर्ब्रह्मा गुरुर्विष्णुगुरुर्देवो महेश्वरः ।
गुरुः कर्ता च हर्ता च गुरवे वै नमो नमः ॥ ५-३ ॥

अथ कुण्डलिनीमन्त्रः-

वाग्भवं भुवनेशी च श्रीबीजं तु तथैव च ।
त्र्यक्षरो मन्त्र आख्यातः कुण्डलिन्याः सुसिद्धिदः ॥ ५-१ ॥

ऋषिः शक्तिः समाख्यातो गायत्री छन्द ईरितम् ।
चेतना कुण्डली शक्तिर्देवतात्र समीरिता ॥ ५-२ ॥

वाग्भवं बीजमाख्यातं शक्तिः श्रीबीजमुच्यते ।
हृल्लेखा कीलक प्रोक्तं कुण्डलिन्यास्तु चिन्तने ॥ ५-३ ॥

विनियोगः समाख्यातः सर्वागमविशारदैः ।
बीजत्रयद्विरावृत्त्या षडङ्गन्यास ईरितः ॥ ५-४ ॥

ध्यानं वक्ष्यामि कुण्डल्याः सावधानतया शृणु ।
मूलाधारे त्रिकोणे तु सूर्यकोटिसमत्विषि ॥ ५-५ ॥

प्रसुप्तभुजगाकारां सार्धत्रिवलयस्थिताम् ।
नीवारशूकवत् तन्वीं तडित्कोटिसमप्रभाम् ॥ ५-६ ॥

सूर्यकोटिप्रभां दीप्तां चन्द्रकोटिसुशीतलाम् ।
शिवशक्तिमयीं देवीं शङ्खावर्तक्रमात् स्थिताम् ॥ ५-७ ॥

सुषुम्नामध्यमार्गेण यान्तीं परशिवावधि ।
ह्रीङ्कारबीजरूपेण चिन्तयेद्योगवर्त्मना ॥ ५-८ ॥

सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुर- त्तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यां मणिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थसव्यचरणां ध्यायेत् परामम्बिकाम् ॥ ५-९ ॥

कुलगुरुध्यानं प्रागेवोक्तम् । अथ कुण्डलीस्तुतिः शारदायाम्-

मूलोन्निद्रभुजङ्गराजसदृशीं यान्तीं सुषुम्नान्तरं भित्त्वाधारसमूहमाशु विलसत्सौदामिनीसन्निभाम् ।
व्योमाम्भोजगतेन्दुमण्डलगलद्दिव्यामृतौघैः पतिं सम्भाव्य स्वगृहागतां पुनरिमां सञ्चिन्तयेत् कुण्डलीम् ॥ ५-१ ॥

हंसं नित्यमनन्तमद्वयगुणं स्वाधारतो निर्गता शक्तिः कुण्डलिनी समस्तजननी हस्ते गृहीत्वा च तम् ।
याता शम्बुनिकेतनं परसुखं तेनानुभूय स्वयं यान्ती स्वाश्रममर्ककोटिरुचिरा ध्येया जगन्मोहिनी ॥ ५-२ ॥

अव्यक्तं परबिम्बमञ्चितरुचिं नीत्वा शिवस्यालयं शक्तिः कुण्डलिनी गुणत्रयवपुर्विद्युल्लतासन्निभा ।
आनन्दामृतकन्दगं पुरभिदं चन्द्रार्ककोटिप्रभं संवीक्ष्य स्वगृहं गता भगवती ध्येयानवद्या गुणैः ॥ ५-३ ॥

मध्येवर्त्म समीरणद्वयमिथःसङ्घट्टसंक्षोभजं शब्दस्तोममतीत्य तेजसि तडित्कोटिप्रभाभास्वराम् ।
उद्यन्तीं समुपास्महे नवजपासिन्दूरसान्द्रारुणां सान्द्रानन्दसुधामयीं परशिवं प्राप्तां परां देवताम् ॥ ५-४ ॥

गमनागमनेषु जाङ्घिकी सा तनुयाद्योगफलानि कुण्डली ।
मुदिता कुलकामधेनुरेषा भजतां वांछितकल्पवल्लरी ॥ ५-५ ॥

आधारस्थितशक्तिबिन्दुनिलयां नीवारशूकोपमां नित्यानन्दमयीं गलत्परसुधावर्षैः प्रबोधप्रदैः ।
सिक्त्वा षट् सरसीरुहाणि विधिवत् कोदण्डमध्योदितां ध्यायेद् भास्वरबन्धुजीवरुचिरां संविन्मयीं देवताम् ॥ ५-६ ॥

हृत्पङ्केरुहभानुबिम्बनिलयां विद्युल्लतामन्थरां बालार्कारुणतेजसा भगवतीं निर्भर्त्सयन्तीं तमः ।
नादाख्यं परमर्धचन्द्रकुटिलं संविन्मयीं शाश्वतीं यान्तीमक्षररूपिणीं विमलधीर्ध्यायेद्विभुं तेजसाम् ॥ ५-७ ॥

भाले पूर्णनिशाकरप्रतिभटां नीहारहारत्विषा सिञ्चन्तीममृतेन देवममितेनानन्दयन्तीं तनुम् ।
वर्णानां जननीं तदीयवपुषा सम्वाप्य विश्वं स्थितां ध्यायेत् सम्यगनाकुलेन मनसा सम्विन्मयीमम्बिकाम् ॥ ५-८ ॥

मूले भाले हृदि च विलसद्वर्णरूपा सावित्री पीनोत्तुङ्गस्तनभरनमन्मध्यदेशा महेशी ।
चक्रे चक्रे गलितसुधया सिक्तगात्री प्रकामं दद्यादद्य श्रियमविकलां वाङ्मयी देवता नः ॥ ५-९ ॥

आधारबन्धप्रमुखक्रियाभिः समुत्थिता कुण्डलिनी सुधाभिः ।
त्रिधामबीजं शिवमर्चयन्ती शिवाङ्गना वः शिवमातनोतु ॥ ५-१० ॥

निजभुवननिवासादुच्चलन्ती विलासैः पथि पथि कमलानां चारुहासं विधाय ।
तरुणतपनकान्तिः कुण्डली देवता सा शिवसदनसुधाभिर्दीपयेदात्मतेजः ॥ ५-११ ॥

सिन्दूरपुञ्जनिभमिन्दुकलावतंसमानन्दपूर्णनयनत्रयशोभिवक्त्रम् ।
आपीनतुङ्गकुचनम्रमनङ्गतन्त्रं शम्भोः कलत्रममितां श्रियमातनोतु ॥ ५-१२ ॥

वर्णैरर्णवषट्दिशा रविकलाचक्षुर्विभक्तैः क्रमात् सान्तैरादिभिरावृतान् क्षहयुतैः षट्चक्रमध्यानिमान् ।
डाकिन्यादिभिराश्रितान् परिचितान् ब्रह्मादिभिर्दैवतै र्भिन्दाना परदेवता त्रिजगतां चित्तेषु दत्तां मुदम् ॥ ५-१३ ॥

आधाराद् गुणवृत्तशोभिततनुं निर्गत्वरीं सत्वरं भिन्दन्तीं कमलानि चिन्मयघनानन्दप्रबोधोद्धुराम् ।
संक्षुब्धध्रुवमण्डलामृतकरप्रस्यन्दमानामृत- स्रोतःकन्दलिताममन्दतडिदाकारां शिवां भावये ॥ ५-१४ ॥

मूलाधारे त्रिकोणे तरुणतरणिभाभास्वरे विभ्रमन्तं कामं बालार्ककालानलजरठकुरङ्गाङ्ककोटिप्रभाभम् ।
विद्युन्मालासहस्रद्युतिरुचिरलसद्बन्धुजीवाभिरामं त्रैगुण्याक्रान्तबिन्दुं जगदुदयलयैकान्तहेतुं विचिन्त्य ॥ ५-१५ ॥

तस्योर्ध्वे विस्फुरन्तीं स्फुटरुचिरतडित्पुञ्जभाभास्वराङ्गी- मुङ्गच्छन्तीं सुषुम्नामनु सरणिशिखामाललाटेन्दुबिम्बम् ।
चिन्मात्रां सूक्ष्मरूपां जगदुदयकरीं भावनामात्रगम्यां मूलं या सर्वधाम्नां स्फुरति निरुपमा हूंकृतोदञ्चितोरः ॥ ५-१६ ॥

नीता सा शनकैरधोमुखसहस्रारारुणाब्जोदरे च्योतत्पूर्णशशाङ्कबिम्बमधुतः पीयूषधारास्रुतिम् ।
रक्तो मन्त्रमयीं निपीय च सुधानिःष्यन्दरूपा विशे- द्भूयोऽप्यात्मनिकेतनं पुनरपि प्रोत्थाय पीत्वा विशेत् ॥ ५-१७ ॥

योऽभ्यस्यत्यनुदिनमेवात्मनोऽन्तर्बीजश दुरितजरापमृत्युरोगान् ।
जित्वासौ स्वयमिव मूर्तिमाननङ्गः सञ्जीवेच्चिरमतिनीलकेशजालः ॥ ५-१८ ॥

इति कुण्डलिनीस्तुतिः । अथ मूलविद्याचिन्तनम्-

पञ्चदश्या ऋषिः प्रोक्तो दक्षिणामूर्तिरव्ययः ।
पंक्तिश्छन्दः समाख्यातं परब्रह्मस्वरूपिणी ॥ ५-१ ॥

देवता ह्युदिता श्रीमन्महात्रिपुरसुन्दरी ।
वाग्भवं बीजमाख्यातं शक्तिस्तार्तोयमुच्यते ॥ ५-२ ॥

कीलकं मध्यकूटं स्यात् पुरुषार्थचतुष्टये ।
विनियोगः समाख्यातः सर्वागमविशारदैः ॥ ५-३ ॥

कूटत्रयद्विरावृत्त्या षडङ्गानि समाचरेत् ।

सिन्दूरपुञ्जनिभमिन्दुकलावतंसमानन्दपूर्णनयनत्रयशोभिवक्त्रम् ।
आपीनतुङ्गकुचनम्रमनङ्गतन्त्रं शम्भोः कलत्रममितां श्रियमातनोतु ॥ ५-४ ॥

अथ कूटत्रयचिन्तनम्-

मूलाधरे वाग्भवाख्यं कूटं संचिन्तयेद्बुधः ।
वाग्भवाख्यस्य कूटस्य ऋषिर्ब्रह्मा समीरितः ॥ ५-१ ॥

छन्दो गायत्रमाख्यातं देवता वागधीश्वरी ।
आद्यवर्णं तु बीजं स्यादन्त्यं शक्तिः समीरिता ॥ ५-२ ॥

मध्यत्रयं कीलकं स्याद्वाक्सिद्ध्यं विनियोगकम् ।
ब्रह्मवाग्रूपिणी ङेन्ता विष्णुवाग्रूपिणी तथा ॥ ५-३ ॥

रुद्रवाग्रूपिणी ङेन्ता परवाग्रूपिणी तथा ।
शिववाग्रूपिणी ङेन्ताखिलवाग्रूपिणी तथा ॥ ५-४ ॥

षडङ्गं विन्यसेदेतैर्वाग्भवाद्यैः सुसाधकः ।

शुक्लां स्वच्छविलेपमाल्यवसनां शीतांशुखण्डोज्ज्वलां व्याख्यामक्षगुणं सुधाढ्यकलशं विद्यां च हस्ताम्बुजैः ।
विभ्राणां कमलासनां कुचनतां वाग्देवतां सस्मितां वन्दे वाग्विभवप्रदां त्रिनयनां सौभाग्यसंपत्करीम् ॥ ५-५ ॥

हृदये कामराजाख्यं कूटं संचिन्तयेद् बुधः ।
कामराजाख्यकूटस्य ऋषिः सम्मोहनः स्मृतः ॥ ५-६ ॥

गायत्री छन्द आख्यातं कामेशी देवता स्मृता ।
आद्यं बीजं तथा शक्तिर्हृल्लेखा कीलकं स्मृतम् ॥ ५-७ ॥

मध्यवर्णचतुष्कं तु वशीकरणसिद्धये ।
विनियोगोऽत्र विख्यातः सर्वागमविशारदैः ॥ ५-८ ॥

द्रांसंक्षोभणबाणाय द्रींद्रावणपदं तथा ।
बाणाय च तथा क्लीं च आकर्षणपदं पुनः ॥ ५-९ ॥

बाणाय ब्लूं वशीकारबाणाय च ततः पुनः ।
सः उन्मादनबाणाय पञ्च बीजानि चोच्चरेत् ॥ ५-१० ॥

सर्वबाणेभ्य इत्युक्त्वा षडङ्गानि प्रविन्यसेत् ।
कामकूटादिभिर्मन्त्रैर्नमोन्तै रससंख्यकैः ॥ ५-११ ॥

बालार्ककोटिरुचिरां स्फटिकाक्षमालां कोदण्डमिक्षुजनितं स्मरपञ्चबाणान् ।
विद्यां च हस्तकमलैर्दधतीं त्रिनेत्रां ध्यायेत् समस्तजननीं नवचन्द्रचूडाम् ॥ ५-१२ ॥

आज्ञाचक्रे शक्तिकूटं चिन्तयेत् साधकाग्रणीः ।
अथास्य शक्तिकूटस्य ऋषिः शिव उदाहृतिः ॥ ५-१३ ॥

पङ्क्तिश्छन्दस्त्वादिशक्तिर्देवता बीजमत्र सः ।
हृल्लेखा शक्तिरुद्दिष्टा कीलकं मध्यवर्णकौ ॥ ५-१४ ॥

विनियोगस्तु विज्ञेयश्चतुर्वर्गाप्तये ध्रुवम् ।
ङेन्ता सर्वज्ञताशक्तिः शक्त्यन्ता नित्यतृप्तता ॥ ५-१५ ॥

चतुर्थ्यन्ता समुद्दिष्टा तथैवानादिबोधिनी ।
ङेन्ता स्वतन्त्रता शक्तिस्तथा नित्यमलुप्तता ॥ ५-१६ ॥

शक्तिर्ङेन्तानन्ततादिशक्तिर्ङेन्ता तथैव च ।
एतैर्मन्त्रैर्जातियुक्तैः शक्तिकूटादिकैः क्रमात् ॥ ५-१७ ॥

विन्यस्य च षडङ्गानि ध्यायेद् देवीमनन्यधीः ।

कदम्बवनमध्यगां कनकमण्डपान्तःस्थितां षडम्बुरुहवासिनीममरसिद्धसौदामिनीम् ।
बिजृम्भितजपारुचिं विमलचन्द्रचूडामणिं त्रियम्बककुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ५-१८ ॥

अथाभेदचिन्तनम्-

मूलादिब्रह्मरन्ध्रान्तं ब्रह्मविद्यां विभावयेत् ।
तत्प्रभापटलवाप्तं स्वशरीरं विचिन्तयेत् ॥ ५-१ ॥

अहं देवि न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् ।
सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान् ॥ ५-२ ॥

त्वमेवाहमहं त्वं च संविन्मात्रवपुस्तव ।
आवयोरन्तरं देवि नश्यत्वाज्ञाबलात् ततः ॥ ५-३ ॥

अहं तीर्णो भवं घोरं कृत्यं किञ्चिन्न मेऽस्ति वै ।
तथापि देहि मे मातराज्ञां तव सुसेवने ॥ ५-४ ॥

कृत्वा समाधिस्थितया धिया ते चिन्तां नवाधारनिवासभूताम् ।
प्रातः समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्तयिष्ये ॥ ५-५ ॥

मंजुशिञ्जितमञ्जीरं वाममर्धं महेशितुः ।
आश्रयामि जगन्मूलं यन्मूलं वचसामपि ॥ ५-६ ॥

अथ मूलदेवतास्तुतिः-

कल्याणवृष्टिभिरिवामृतपूरिताभिर्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः ।
सेवाभिरम्ब तव पादसरोजमूले नाकारि किं मनसि भक्तिमतां जनानाम् ॥ ५-१ ॥

एतावदेव जननि स्पृहणीयमास्ते त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे ।
सान्निध्यमुद्यदरुणाम्बुजसोदरस्य त्वद्विग्रहस्य सुधया परयाप्लुतस्य ॥ ५-२ ॥

ईशित्वभागकलुषाः कति नाम सन्ति ब्रह्मादयः प्रतियुगं प्रलयाभिभूताः ।
एकः स एव जननि स्थिरसिद्धिरास्ते यः पादयोस्तव सुकृत् प्रणतिं करोति ॥ ५-३ ॥

लब्ध्वा सकृत् त्रिपुरसुन्दरि तावकीनं कारुण्यकन्दलितकान्तिभरं कटाक्षम् ।
कन्दर्पभावसुभगास्त्वयि भक्तिभाजः सम्मोहयन्ति तरुणीर्भुवनत्रयेषु ॥ ५-४ ॥

ह्रीङ्कारमेव तव नाम गृणन्ति वेदा मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे ।
यत्संस्मृतौ यमभटादिभयं विहाय दिव्यन्ति नन्दनवने सह लोकपालैः ॥ ५-५ ॥

हन्तुः पुरामधिगलं परिपूर्यमाणः क्रूरः कथं नु भविता गरलस्य वेगः ।
आश्वासनाय किल मातरिदं तवार्धं देहस्य शश्वदमृताप्लुतशीतलस्य ॥ ५-६ ॥

सर्वज्ञतां सदसि वाक्पटुतां प्रसूते देवि त्वदंघ्रिसरसीरुहयोः प्रणामः ।
किञ्च स्फुरन्मुकुटमुज्ज्वलमातपत्रं द्वे चामरे च वसुधां महतीं ददाति ॥ ५- ७ ॥

कल्पद्रुमैरभिमतप्रतिपादनेषु कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः ।
आलोकयत्रिपुरसुन्दरि ममनाथं त्वययेव भक्तिभरितं त्वयि दत्तदृष्टिम् ॥ ५-८ ॥

हन्तेतरेष्वपि मनांसि निधाय चान्ये भक्तिं वहन्ति किल पामरदैवतेषु ।
त्वामेव देवि मनसाहमनुस्मरामि त्वामेव नौमि शरणं जगति त्वमेव ॥ ५-९ ॥

लक्ष्येषु सत्स्वपि तवाक्षिविलोकनानामालोकय त्रिपुरसुन्दरि मां कथञ्चित् ।
नूनं भयापि सदृशं करुणैकपात्रं जातो जनिष्यति जनो नच जायते च ॥ ५-१० ॥

ह्रींह्रीमिति प्रतिदिनं जपतां जनानां किंनाम दुर्लभमिह त्रिपुराधिवासे ।
मालाकिरीटमदवारणमाननीयांस्तान् सेवते मधुमती स्वयमेव लक्ष्मीः ॥ ५-११ ॥

सम्पतकराणि सकलेन्द्रियनन्दनानि साम्राज्यदानकुशलानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरितौघहरोद्यतानि मामेव मातरनिशं कलयन्तु नान्यम् ॥ ५-१२ ॥

कल्पोपसंहरणकल्पितताण्डवस्य देवस्य खण्डपरशोः परभैरवस्य ।
पाशांकुशैक्षवशरासनपुष्पबाणा सा साक्षिणी विजयते तव मूर्तिरेका ॥ ५-१३ ॥

लग्नं सदा भवतु मातरिदं त्वदीयं तेजःपरं बहुलकुंकुमपङ्कशोणम् ।
भास्वत्किरीटममृतांशुकलावतंसं मध्ये त्रिकोणमुदितं परमामृतार्द्रम् ॥ ५-१४ ॥

ह्रीङ्कारमेव तव धाम तदेवरूपं त्वन्नाम सुन्दरि सरोजनिवासशीले ।
त्वत्तेजसा परिणतं जगदादिमूलं सङ्गं तनोतु सरसीरुहसङ्गमस्य ॥ ५-१५ ॥

ह्रीङ्कारत्रयसम्पुटेन महता मन्त्रेण सन्दीपितं स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् ।
तस्य क्षोणिभुजो भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घ वपुः ॥

इति स्तुतिः ॥

समुद्रमेखले देवि पर्वतस्तनमण्डले । विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ ५-१७ ॥

इति भूमिप्रार्थना ॥

सन्ध्यासूदङ्मुखोऽहन्यपि निशि च पुनर्दक्षिणास्यो निवीतं कुर्यान्मूत्रादिशौचं बहिरथ सलिलात् तत्र लिङ्गे मृदेका ।
पञ्चापानेऽथ हस्ते दश पुनरुभयोः सप्त चैतद्गृहस्थे द्वैगुण्यादिक्रमात् तद्व्रतिवनियतिषु स्यात् तदर्धं निशायाम् ॥ ५-१ ॥

इति शौचम् ॥

ततः श्रीकाममन्त्रस्य सम्मोहन ऋषिः स्मृतः ।
गायत्रीच्छन्द आख्यातं श्रीकामो देवता स्मृता ॥ ५-१ ॥

बीजं तु कामराजः स्यान्नमः शक्तिरुदीरिता ।
सर्वजनप्रियायेति कीलकं समुदाहृतम् ॥ ५-२ ॥

षड्दीर्घकामराजेन षडङ्गानि प्रविन्यसेत् ।

जपारुणं रत्नविभूषणाढ्यं मीनध्वजं चारुकृताङ्गरागम् ।
कराम्बुजैरंकुशमिक्षुचापं पुष्पास्त्रपाशौ दधतं भजामि ॥ ५-३ ॥

ध्यात्वैवं कामबीजं च कामदेवाय सर्व च ।
जनप्रियाय हृदयं काममन्त्र उदाहृतः ॥ ५-४ ॥

अनेन दन्तकाष्ठं तु अभिमन्त्र्याष्टधा पुनः ।
दन्तान् विशोध्य मतिमान् मुखप्रक्षालनं चरेत् ॥ ५-५ ॥

इति दन्तधावनम् ॥

श्रीविद्यां ब्रह्मरन्ध्रे तु विचिन्त्य च ततः परम् ।
चतुर्लक्ष्मीमहामन्त्रैर्मुखक्षालनमाचरेत् ॥ ५-६ ॥

इति मुखप्रक्षालनम् ॥

तीरमागत्य चाचम्य कुर्यात् सङ्कल्पमादरात् ।
अतितीक्ष्ण महाकाय कल्पान्तदहनोपम् ॥ ५-७ ॥

भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ।
भैरवाज्ञामनुस्मृत्य स्नानं वैदिकमाचरेत् ॥ ५-८ ॥

तान्त्रिकं स्नानमनुतत् कुर्यान्मन्त्रोक्तवर्त्मना ।
जले श्रीचक्रमाभाव्य तीर्थान्याकृष्य मण्डलात् ॥ ५-९ ॥

ब्रह्माण्डोरदतीर्थानि करैः स्पृष्टानि ते रवे ।
तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥ ५-१० ॥

मुद्रयांकुशरूपिण्या तीर्थान्याकृष्य योज्य च ।
गङ्गास्वरूपिणीं देवीं ध्यात्वा मूलमनुं जपन् ॥ ५-११ ॥

जातवेदादि-ऋग्भिश्च समूलाभिः स्वमूर्धनि ।
अभिषिञ्चेत् सप्तकृत्वः कुम्भाख्यमुद्रया ततः ॥ ५-१२ ॥

देवीं स्वहृदि संयोज्य स्वस्थाने तीर्थसन्ततिम् ।
यन्मया दुष्कृतं तोयं शरीरमलसंयुतम् ॥ ५-१३ ॥

तस्य पापविशुद्ध्यर्थं यक्ष्माणं तर्पयाम्यहम् ।
इति तीरे तु सन्तर्प्य गृह्णीयाच्छुद्धवाससी ॥ ५-१४ ॥

इति स्नानम् । ततो विभूतिधारणम्-

हस्ते विभूतिं संस्थाप्य पञ्चतारैः प्रमन्त्रयेत् ।
अग्निरित्यादिमन्त्रैश्च ईशानाद्यैश्च मन्त्रयेत् ॥ ५-१५ ॥

ततस्तु धारयेन्मन्त्री केवलं मूलविद्यया ।

इति भस्मधारणम् । अथ वैदिकसन्ध्यानन्तरं तान्त्रिकसंध्यां कुर्यात्-

ततो मणिधरिण्यन्ते वज्रिण्यन्ते महाप्रति ।
सरे रक्षद्वयं हुंफट्स्वाहान्तो मनुरीरितः ॥ ५-१ ॥

अनेनैव तु मन्त्रेण शिखां बद्ध्वा विचक्षणः ।
त्रिभिः कूटैस्त्रिराचामेत् त्रितत्त्वान्तैः समाहितः ॥ ५-२ ॥

विद्यातत्त्वाय च तथा शिवतत्त्वाय चैव हि ।
मायातत्त्वाय च तथा स्वाहान्तैस्तदनन्तरम् ॥ ५-३ ॥

प्राणानायम्य सङ्कल्प्य पुरतो जलमध्यतः ।
श्रीचक्रं तु विभाव्यानु सूर्यात्तीर्थानिमुद्रया ॥ ५-४ ॥

प्राग्वदावाह्य विधिवदावाहन्यादिमुद्रिकाः ।
प्रदर्श्य दक्षहस्ते तु जलं संगृह्य यत्नतः ॥ ५-५ ॥

वामहस्तेन संछाद्य पञ्चभूताक्षरैः क्रमात् ।
अभिमन्त्र्य सकृत्तोयं वामहस्ते निधाय च ॥ ५-६ ॥

स्वरैः संमार्जयेन्मूर्ध्नि तत्पृष्ठस्रूतबिन्दुभिः ।
ततो दक्षे जलं ग्राह्यं सहितैर्मूलविद्यया ॥ ५-७ ॥

कादिमान्तैः स्पर्शवर्णैः स्वाहान्तैरभिमन्त्र्य च ।
पीत्वा तत्तोयमथ च पुनर्दक्षे जलं क्षिपेत् ॥ ५-८ ॥

अभिमन्त्र्य च तत्प्राग्वद्वामहस्ते निधाय तत् ।
विनिःसृतैश्च तत्पृष्ठाद्विन्दुभिर्मार्जयेत्तथा ॥ ५-९ ॥

यादिक्षान्तैर्व्यापकार्णैस्ततस्तज्जलमादरात् ।
इडयाकृष्य देहान्तः क्षालयेत् कल्मषं ततः ॥ ५-१० ॥

विरेच्य पिङ्गलामार्गात् कृष्णवर्णं तु तज्जलम् ।
ज्वलद्वज्रशिलायां तु स्फालयेदस्त्रमुच्चरन् ॥ ५-११ ॥

ततः प्रक्षाल्य च करावाचम्याञ्जलिना जलम् ।
गृहीत्वोत्थाय गायत्र्या सूर्याभिमुखमुत्क्षिपेत् ॥ ५-१२ ॥

एवमर्घ्यत्रयं दत्त्वा चोपविश्य प्रयत्नतः ।
श्रीचक्रावृतिदेवीश्च तर्पयेद्विधिवत् पुनः ॥ ५-१३ ॥

पञ्चविंशतिधा मूलमुच्चार्य स्वेष्टदेवताम् ।
संतर्प्याचम्य गायत्र्याप्राणायामत्रयं चरेत् ॥ ५-१४ ॥

गायत्र्याश्च ऋषिर्ब्रह्मा गायत्रं छन्द ईरितम् ।
गायत्री देवता प्रोक्ता द्विरावृत्त्या त्रिभिः पदैः ॥ ५-१५ ॥

षडङ्गानि प्रविन्यस्य ध्यायेद्देवीमनन्यधीः ।
भास्वद्रत्नौघमुकुटस्फुरच्चन्द्रकलाधराम् ॥ ५-१६ ॥

सद्यः संतप्तहेमाभां सूर्यमण्डलरूपिणीम् ।
पाशांकुशाभयवरान् धारयन्तीं स्मरन् बुधः ॥ ५-१७ ॥

इति । कुलार्णवे-

प्रातः संध्यामुपासीत धर्मकामार्थसिद्धये ।
मूलधारे वसाब्जे च ह्रीं बीजं रक्तसंनिभम् ॥ ५-१ ॥

ध्यात्वा प्रभापुटान्तःस्थं बहिर्निःसार्यय मण्डले ।
सौरे विभाव्य रक्ताभां त्रिनेत्रां च चतुर्भुजाम् ॥ ५-२ ॥

वह्निमण्डलमध्यस्थां कुमारीरूपधारिणीम् ।
बिभ्राणां पुस्तकं मालां वरदं चाभयं तथा ॥ ५-३ ॥

बालसूर्यसमामम्बां ध्यात्वैवं संजपेन्मनुम् ।
अथ माध्यन्दिने संध्यानाहते च कठाब्जके ॥ ५-४ ॥

ह्रीं बीजं शुक्लसंकाशं ध्यात्वा निःसार्य पूर्ववत् ।
सूर्यमण्डलमध्यस्थां त्रिनेत्रां शुक्लविग्रहाम् ॥ ५-५ ॥

आरूढयौवनां चक्रं शङ्खं पद्मं गदां तथा ।
विभ्राणां च तथा ज्येष्ठां ध्यात्वैवं संजपेन्मनुम् ॥ ५-६ ॥

अथ सायन्तनी सन्ध्या भ्रूमध्ये हक्षपद्मके ।
ह्रीं बीजं कृष्णवर्णं तु ध्यात्वा निःसार्य पूर्ववत् ॥ ५-७ ॥

सोममण्डलमध्यस्थां कृष्णवर्णां चतुर्भुजाम् ।
बिभ्राणामभयं शूलं कपालीं तर्जनीं तथा ॥ ५-८ ॥

वामे दक्षे च बिभ्राणां चित्रां नेत्रत्रयान्विताम् ।
विचित्राभरणां रौद्रीं ध्यात्वैवं संजपेन्मनुम् ॥ ५-९ ॥

अष्टबीजानि चोच्चार्य वाग्भवं कूटमुच्चरेत् ।
वागीश्वर्ये विद्महे च कामकूटं ततोच्चरेत् ॥ ५-१० ॥

कामेश्वर्यै धीमहीति शक्तिकूटं ततः परम् ।
तन्नः शक्तिःपदं प्रोक्त्वा व्याहरेच्च प्रचोदयात् ॥ ५-११ ॥

बीजपञ्चकमुच्चार्य गायत्र्येषा समीरिता मूलविद्यां ततो जप्त्वा गुह्यातीति निवेदयेत् ॥ ५-१२ ॥

इति सन्ध्याविधानम् । संक्षेपसन्ध्या तु तन्त्रान्तरे - सायं प्रातश्च मध्याह्ने देवीं ध्यात्वा मनुं जपेत् इति सन्ध्यात्रयमावश्यकम् । तथा कुलार्णवे-

सन्ध्यालोपो न कर्तव्यः शम्भोराज्ञैवमेव हि ।
दीक्षितः सन्ध्यया हीनो न दीक्षाफलमश्नुते ॥ ५-१ ॥

न कुर्याद्यदि तां सन्ध्यां पतितो दशधा जपेत् ।
अन्यसन्ध्यासमे काले सौत्रकण्टकिविद्यया ॥ ५-२ ॥

कृत्वा षडङ्गमन्त्रेण ध्यायेत् तां सौत्रकण्टकीम् ।
षड्वक्त्रां द्वादशभुजां त्रिनेत्रां परमेश्वरीम् ॥ ५-३ ॥

गलादूर्ध्वं श्वेतवर्णां पीतां गलतलादधः ।
कट्यादिपादपर्यन्तं नीलाभां च ततः स्मरेत् ॥ ५-४ ॥

द्विरष्टवर्षां रक्ताङ्गीं सर्वशृङ्गारचर्च्चिताम् ।
स्वर्णरत्नप्रभाभिश्च मण्डिताभिः (लि) सहस्रिकाम् ॥ ५-५ ॥

मोचिनीं सर्वपापानां रक्तसिंहासने स्थिताम् ।
तदूर्ध्वं श्वेतपद्मं च तदूर्ध्वं श्वेतकेसरम् ॥ ५-६ ॥

तत्पृष्ठे संस्थितां देवीं त्रिखण्डागुणमण्डिताम् ।
रत्नमुकुटोज्ज्वलां दिव्यां सन्ततां नादपूरिताम् ॥ ५-७ ॥

हसद्वक्त्रां महादेवीं दक्षिणोदयगामिनीम् ।
महासमययागाय नित्यनिष्कलगामिनीम् ॥ ५-८ ॥

पञ्चप्रणवमुच्चार्य वाग्भवं परदुष्करम् ।
कर्मच्छेदनकारीति अघोरे वरदे तथा ॥ ५-९ ॥

विच्चे मायापदं प्रोक्त्वा त्रैलोक्यपदमुद्धरेत् ।
रूपेति च पदं प्रोक्त्वा सहस्रपरिवर्तिनी ॥ ५-१० ॥

मातृगणे पदं चानु हस्रूं प्रणवपञ्चकम् ।
लुप्तसन्ध्यामहापापनिवृत्त्यर्थमिमं जपेत् ॥ ५-११ ॥

दशवारं ततो जप्यान्मूलमन्त्रं यथाविधि ।
स्वयं ज्योतिर्मयो भूत्वा मूलविद्यां हृदि स्मरन् ॥ ५-१२ ॥

पूजार्थं जलमादाय यागमण्डपमाविशेत् ।

इति । ज्ञानार्णवे-

सर्वशृङ्गारवेषाढ्यः कर्पूरघुसृणादिभिः ।
महामृगमदोद्दामलिप्ताङ्गः कुंकुमारु *?ः ॥ ५-१ ॥

नवरत्नविभूषाढ्यो रक्ताम्बरविराजितः ।
ताम्बूलरागवदनो मादनानन्दमानसः ॥ ५-२ ॥

यागमन्दिरमागत्य लाक्षारसविचित्रितम् ।
अनेकधूपबहुलं पुष्पसंभारपूरितम् ॥ ५-३ ॥

गोमयेन च संलिप्तं चारुपुष्पविराजितम् ।

इति । दक्षिणामूर्तिसंहितायाम्-

अथ यागगृहं यायादलङ्कारविभूषितम् ।
अनेकचित्रसुभगं भूमौ गोमयचर्चितम् ॥ ५-१ ॥

उपरिष्टाल्लसत्पुष्पवितानं धूपधूपितम् ।
दीपमालावलीरम्यविकीर्णकुसुमोज्ज्वलम् ॥ ५-२ ॥

इति यागमण्डपम् ।

तारं वज्रोदके हुंफट्स्वाहामन्त्रेण देशिकः ।
जलेनासनमभ्युक्ष्य तदुपर्युपविश्य च ॥ ५-३ ॥

तारं माया विशुद्धेति सर्वपापानि चोच्चरेत् ।
शमयाशेषेति ततो विकल्पमपनेति च ॥ ५-४ ॥

य हूमिति च मन्त्रेण हस्तौ पादौ च क्षालयेत् ।
ओं ह्रीं स्वाहेतिमन्त्रेण त्रिराचम्याङ्गने ततः ॥ ५-५ ॥

उपविश्य ततः सौरपूजां कुर्याद्यथाविधि ।

इति । कुलर्णवे - प्राङ्मुखः प्राङ्गणे पूर्वे यजेन्मार्तण्डभैरवम् । इति ।
शम्भुनिर्णये-

चतुरन्वयसिद्ध्यर्थं सौरपूजेयमीरिता ।
तद्विचार्य चिदादित्यपूजां कर्तुं सुखासने ॥ ५-१ ॥

प्राङ्मुखः प्रत्यगासीनः स्मस्निग्धमहीतले ।
सामान्यार्घ्यं च वामे स्यात् प्रणवान्पञ्च चोच्चरेत् ॥ ५-२ ॥

मण्डलोच्चा (द्धा) रणं कुर्यादिति साधारणं मतम् ।
भूतांगुलं च वेदास्रं षट्कोणं चौर्ध्वरेखिकम् ॥ ५-३ ॥

विलिख्य तस्मिन् साधारपात्रमस्त्रविशोधितम् ।
संस्थाप्य पयसापूर्याधारपात्रजलेषु च ॥ ५-४ ॥

वह्न्यर्कसोमबीजैस्तु तथा चात्मविभावितम् ।
एवं निष्पाद्य षट्दीर्घं द्वितीयप्रणवात्मकम् ॥ ५-५ ॥

अङ्गं तस्य विधायैवं शङ्खं संस्थाप्य देशिकः ।
वहच्छ्वासकराग्रेण पुरतः सौरमण्डलम् ॥ ५-६ ॥

वक्ष्यमाणेन मन्त्रेण कस्तूरीचन्दनादिभिः ।

इति । ऐंह्रींश्रीं हसखफ्रें हसौः चन्द्रसूर्याग्निगर्भं स्फुरस्फुर धर्मार्थकाममोक्षलाभं कुरुकुरु महाखेचरीमुद्रां प्रकटयप्रकटय शाम्भवाज्ञया चतुरन्वयानां सिद्धिसामर्थ्यादि दददद किचकिच किलकिल फ्रें मण्डलब्रह्माण्डमण्डल हस्रूं महाचण्डशिवे सहफ्रें ॥ ५-५ ॥

अनेन मन्त्रेणाभ्यर्च्यं वृत्ताष्टदलपद्मकम् ।
मण्डलं चतुरस्रं तु कृत्वा संस्थाप्य चाग्रत ॥ ५-७ ॥

सामान्यं च विशेषार्घ्यं मण्डलं विलिखेद् बुधः ।
दक्षे सौरार्घ्यपूजार्थे मण्डलं चतुरस्रकम् ॥ ५-८ ॥

कृत्वाधारं तु संस्थाप्य पूजयेदमुनाणुना ।

इति । ऐं पात्रासादनाय नमः ऐं । तत्रास्त्रक्षालितं पात्रं धूपितं स्थापयेद्बुधाः क्लीं ॥ ५-५ ॥

इति मन्त्रेण चार्घ्यं तु पूजयेच्छुद्धवारिणा ।
हौंबीजेन च षट्दीर्घस्वरसंभेदितेन च ॥ ५-९ ॥

अष्ट गन्धान्विनिक्षिप्य रक्तपुष्पैः समर्चयेत् ।
अस्त्रेण रक्षां संकल्प्य स्वात्मानमधिधारयेत् ॥ ५-१० ॥

अथाष्टपद्ममध्ये तु ध्यात्वा प्रेतस्वरूपिणम् ।
अनन्तमर्चयेत्तत्र शयानं मनुनामुना ॥ ५-११ ॥

अं अनन्ताय नमः अं ।

तल्पीकृतस्वयंदेहं छत्रीकृतफणात्रयम् ।
फणिनामीश्वरं श्वेतं ध्यात्वा सम्पूजयेत्ततः ॥ ५-१२ ॥

अग्रीशासुरवायव्येष्वस्रिषु क्रमतो यजेत् ।

हूंहूंफ्रें प्रबन्धनाथाय हूंहूंहं । यंरंलं त्रिमूर्तये । यं आराध्याय यं । हं परमसुखाय हं । हं

दहराकाशमध्यस्थं ह्रींबीजं रक्तसन्निभम् । वहत्पुटाद्विनिःसार्यानन्तं प्रेतात्मकासनम् ॥ ५-१३ ॥

आवाह्य तद्बीजमयं ध्यायेन्मार्तण्डभैरवम् । ध्यानम्-

रक्तवर्णं स्थूलदेहं षड्वक्त्रमूर्ध्वकेशिकम् ।
भुजद्वादशसंयुक्तं सर्पास्थिरत्नचर्चितम् ॥ ५-१४ ॥

क्रोधिनं चोर्ध्वलिङ्गं च ज्वलद्रश्मिसमाकुलम् ।
व्याघ्रचर्मपरीधानं मुण्डमालाविभूषितम् ॥ ५-१५ ॥

हुंहुंकारं प्रमुञ्चन्तं संहरन्तं महाशिनाम् ।
त्रिशूलासिचक्रखड्गसृणिवरदपाणिकम् ॥ ५-१६ ॥

तर्जाशोकगदाचापपाशाभयकरालिनम् ।
आवाहनादिमुद्राश्च संदर्श्याभ्यर्च्य साधकः ॥ ५-१७ ॥

ह्रामादिक्रमतश्चाङ्गं कृत्वा मार्तण्डभैरवे ।
ततः पुष्पाञ्जलिं सार्घ्यं समन्त्रं च निवेदयेत् ॥ ५-१८ ॥

ह्रौं हस्रौः श्रीकुलमार्तण्डभैरवाय ह्रौं हस्रौः ॥

पश्चात् सम्प्रोक्ष्य चात्मानं जपेन्मन्त्रमिमं पुनः ।
पुष्पाञ्जलिं क्षिपेत् सम्यक्सवित्रे सर्वसाक्षिणे ॥ ५-१९ ॥

हस्रौः क्ष्रौं हस्रौः फट् खफ्रें भां फट् हस्रौः क्षों हस्रौः फट् खफ्रेंभां । इति पुष्पाञ्जलिमन्त्रः ।

मुद्रे च शूलतर्जन्यौ त्रिधाङ्कां हरिणीमपि ।
कृत्वांगुलिप्रदरश्य तु पूर्वाद्यष्टदलेषु च ॥ ५-२० ॥

मध्ये च शूलतर्जन्यौ दधानं चण्डरोचिषम् ।
नव शक्तीर्यजेत्तत्र भैरवानपि पूजयेत् ॥ ५-२१ ॥

जूं ज्वालायै जूं । क्षां मित्रीशायै क्षां । हुंफट् चण्डालिन्यै हुंफट् । सौः भीषणायै सौः । ऐं नारसिंहायै ऐं । ह्रीं कमलादेव्यै ह्रीं । फ्रें मार्तण्डायै फ्रें । फ्रें कपालिन्यै फ्रें । सौः कौलिन्यै सौः ॥ ५-अथ भैरवमन्त्राः - फ्रें चण्डाय फ्रें एवं विश्वेशाय महादेवाय महाकालाय गभस्तीशाय चण्डेशाय तैजसाय मार्तण्डाय ।

मुद्रां च खेचरीं बद्ध्वा लयाङ्गं भोगमङ्गकम् ।
ह्रामादिकं विधायैव दूर्वारक्तप्रसूनकैः ॥ ५-२२ ॥

सम्पूज्य धूपदीपादिनैवेद्यन्तार्घमन्त्रकम् ।
यथाशक्ति जपित्वा तु अर्घ्यमन्त्रेण तज्जपम् ॥ ५-२३ ॥

पूर्वोक्तमर्घ्यमन्त्रे च चिदादित्य हृदम्बुजे ।
दहदह कहकहात्मानं तदा समुद्धरेत् ॥ ५-२४ ॥

निधायार्घ्यं च नैवेद्यं तेजोऽर्घ्यं च तथा बहिः ।
वामभागे लिखित्वा तु चतुरस्रं तु मण्डलम् ॥ ५-२५ ॥

तस्मिन् साधारपात्रे तु पशुमार्तण्डभैरवम् ।
अभ्यर्च्य च विधानेन तन्मन्त्रेणैव देशिकः ॥ ५-२६ ॥

समर्प्याशेषनिर्माल्यं तस्मै सर्वं निवेदयेत् ।

ह्रांह्रींसः पशुमार्तण्डभैरवाय । इति सौरपूजा ॥ अथ मण्डपपूजा । आदौ मण्डपध्यानम् ।

अमृताब्धौ मणिद्वीपे चिन्तयेन्नन्दनं वनम् ।
चम्पकाशोकपुन्नागपाटलैरुपशोभितम् ॥ ५-२७ ॥

लवङ्गमालतीबिल्वदेवदारुनमेरुभिः ।
मन्दारपारिजाताद्यैः कल्पवृक्षैः सुपुष्पितैः ॥ ५-२८ ॥

चन्दनैः कर्णिकारैश्च मातुलुङ्गैश्च वञ्जुलैः ।
दाडिमीलकुचाङ्कालैः पूगैः कुरुबकैरपि ॥ ५-२९ ॥

कदलीकुन्दमन्दारनारिकेलैरलंकृतम् ।
अन्यैः सुगन्धिपुष्पाढ्यैर्वृक्षपण्डैश्च मण्डितम् ॥ ५-३० ॥

मालतीमल्लिकाजातीकेतकैः शतपत्रकैः ।
पारन्तीतुलसीनन्द्यावर्तैर्दमनकैरपि ॥ ५-३१ ॥

सर्वर्तुकुसुमोपेतैर्लसद्भिरुपशोभितम् ।
मन्दमारुतसम्भिन्नकुसुमामोदिदिङ्मुखम् ॥ ५-३२ ॥

तस्य मध्ये परज्योतिःस्वरूपो मेरुपर्वतः ।
तस्य मध्ये सदा फुल्लेः कुमुदोत्पलपङ्कजैः ॥ ५-३३ ॥

सुगन्धिकैश्च कह्लारैर्नवैः कुबलयैरपि ।
हंससारसकारण्डभ्रमरैश्चक्रनामभिः ॥ ५-३४ ॥

अन्यैः कलकलारावविहङ्गैरुपशोभितम् ।
महासरसि तन्मध्ये पुलिनेऽतिमनोहरे ॥ ५-३५ ॥

परितः पारिजाताढ्यं महाकल्पतरुं स्मरेत् ।
नीपोपवनमध्यस्थं नानापुष्पसुपुष्पितम् ॥ ५-३६ ॥

नानारत्नफलाकीर्ण छायाश्रितजगत्त्रयम् ।
उद्भूतरत्नच्छायाभिररुणीकृतभूतलम् ॥ ५-३७ ॥

उद्यद्दिनकरेन्दुभ्यामुद्भासितदिगन्तरम् ।
ऋतुभिः सेवितं षड्भिरनिशं प्रीतिवर्द्धनम् ॥ ५-३८ ॥

परामृताख्यमधुभिः सिञ्चन्तं मण्डपं मुहुः ।
तस्याधस्तान्महावेदिर्माणिक्यैकविनिर्मिता ॥ ५-३९ ॥

वज्रप्राकारसन्दीप्ता शतयोजनविस्तृता ।
तन्मध्ये चिन्तयेद् दीप्तं मण्डपं मणिकुट्टिमम् ॥ ५-४० ॥

उद्यदादित्यसङ्काशं भास्वरं शशिशीतलम् ।
चतुर्द्वारसमायुक्तं हेमप्राकारशोभितम् ॥ ५-४१ ॥

रत्नोपकॢप्तसंशोभिकपाटाष्टकशोभितम् ।
नवरत्नसमाकॢप्ततुङ्गगोपुरतोरणम् ॥ ५-४२ ॥

हेमदण्डसमालम्बिध्वजावलिपरिष्कृतम् ।
नवरत्नसमाबद्धस्तम्भराजिविराजितम् ॥ ५-४३ ॥

सहस्रदीपसंयुक्तदीपमण्डलराजितम् ।
तप्तहाटकसंकॢप्तवातायनमनोहरम् ॥ ५-४४ ॥

नानावर्णांशुकाबद्धसुवर्णशतकोटिभिः ।
किङ्किणीमालिकायुक्तपताकाभिरलंकृतम् ॥ ५-४५ ॥

हेमकुम्भावलीरम्यनानाचित्रविचित्रितम् ।
जातरूपमयै रत्नखचितैरतिविस्तृतैः ॥ ५-४६ ॥

माणिक्यरत्नवैडूर्यस्वर्णमालावलीयुतैः ।
अन्तरान्तरसम्बद्धरत्नैर्दृष्टिमनोहरैः ॥ ५-४७ ॥

विचित्रैश्चित्रवर्णैश्च वितानैरुपशोभितम् ।
सर्वरत्नसमायुक्तहेमकुट्टिममुज्ज्वलम् ॥ ५-४८ ॥

केतकीमालतीजातीचम्पकोत्पलकेसरैः ।
मल्लिकातुलसीयूथींनन्द्यावर्तकदम्बकैः ॥ ५-४९ ॥

एतैरन्यैश्च कुसुमैरलंकृतमहीतलम् ।
रत्नसोपानसन्नद्धभूमिकाभिरुपस्कृतम् ॥ ५-५० ॥

चन्द्रकाश्मीरकस्तूरीमृगनाभितमालकैः ।
चन्दनागुरुकर्पूरैरादीपितदिगन्तरम् ॥ ५-५१ ॥

पुष्पमालावलीरम्यमुक्ताश्रेणिविराजितम् ।
कर्पूरदीपभास्वन्तं माणिक्यदीपमण्डितम् ॥ ५-५२ ॥

कल्पवृक्षतरुप्रान्तमन्तरारत्नवेदिकाम् ।
रत्नसिंहासने नद्धं श्रीमच्छ्रीचक्रमण्डितम् ॥ ५-५३ ॥

इन्द्रादिदेवतावृन्दैर्ब्रह्मविष्णुशिवादिभिः ।
अनेकयोगिनीवृन्दैरस्त्रदैवतकैरपि ॥ ५-५४ ॥

संसेव्यमानपादाब्जयुग्मया तत्स्वरूपया ।
महात्रिपुरसुन्दर्याधिष्ठितं सर्वकामदम् ॥ ५-५५ ॥

सुधासन्दोहकल्लोललोलितं मोक्षकामदम् ।
अनेकधूपबहुलं मण्डपं चिन्तयेत् सुधीः ॥ ५-५६ ॥

तन्मण्डपस्थमात्मानं ध्यायेन्नाकुलचेतसम् ।
भैरवोऽहमिति ज्ञात्वा सर्वज्ञादिगुणान्वितः ॥ ५-५७ ॥

इति श्रीमण्डपध्यानम् ॥ अथ द्वारपूजा-

तत्र स्वर्णप्राकारस्य पूर्वद्वारेणान्तः प्रविश्य प्रादक्षिण्येन मणिमण्डपस्य पश्चिमद्वारं गत्वा तदारभ्य मणिमण्डपं प्रदक्षिणीकृत्य पश्चिमद्वारेण मणिमण्डपान्तः प्रविश्य साधकः पूजयेद् देवीमिति क्रमस्तेनैव क्रमेण द्वारपूजनामित्यतो यागमण्डपस्य प्राकारसम्भवे तद्द्वाराश्रितः तदसम्भवे यागमण्डपस्य पश्चिमद्वारे मण्डपासम्भवे गोमयोपलिप्ताया यागभूमेः पश्चिमभागे क्वापि स्थित्वा सामान्यार्घ्यं विधायैवं कल्पयित्वा क्रमेण पूजयेत् । तत्र कोटियोजनविस्तीर्णसुधार्णवान्तर्गतं कोटियोजनविस्तीर्णायतं महाद्भुतम् नवरत्नमयं द्वीपं सहस्रादित्यतेजसं तन्मध्यतृतीयांशे मदनोन्मादनं नाम नानापुष्पलताकुलं कदम्बकाननगर्भकं नन्दनोद्यानं तन्मध्यतृतीयांशे कोटिसूर्यप्रतीकाशं ज्वलत्स्वर्णप्राकारवेष्टितं नानासुरभिशालितोरणद्वारं नानारत्नविमण्डितं परितः सेवायातेन्द्रादिगणसमाकुलं श्रीमण्डपं ध्यात्वा सामान्यार्घ्योदकेनाभ्युक्ष्य पुष्पतोयाभ्यां क्रमेण पूजयेत् ॥ ४ सुधार्णवाय नमः ४ नवरत्नमयद्वीपाय नमः ४ नन्दनोद्यानाय नमः ४ स्वर्णप्राकाराय नमः तद्द्वारस्य दक्षिणोत्तरशाखयोरुपर्यधश्च पूजयेत् । ४ गां गणेशपादुकां पूजयामि ४ क्षां क्षेत्रपालपादुकां पूजयामि ४ द्वां द्वारश्रीपादुकां पूजयामि ४ दें देहलीश्रीपादुकां पूजयामि ।

दक्षिणपादपुरःसरमन्तः प्रविश्याभ्यन्तरे प्रागाद्यष्टदिक्षु इन्द्रादिदिक्पालान् पूजयेत् । ततः पश्चिमभागे तिरस्करणीं पूजयेत् । वृत्तत्रिकोणचतुरस्रमण्डलं विधाय तत्र-

नीलं तुरङ्गमधिरुह्य सुशोभमाना नीलांशुकाभरणमाल्यविभूषणाढ्या ।
निद्रापटेन भुवनानि तिरोदधाना खङ्गायुधा भगवती परिपातु चास्मान् ॥

इति ध्यात्वा ४ ऐं नमो भगवति माहेश्वरि पशुजनमनुश्चक्षुस्तिरस्करणं कुरुकुरु स्वाहेति गन्धाक्षतकुसुमैः पूजयेत् । ततः ४ कदम्बवनाय नमः ४ श्रीरत्नमण्डपाय नमः इतिसम्पूज्य तस्य द्वारदेवताः पूजयेत् । सौः अस्त्राय फडित्यनेन पश्चिमद्वारमभ्युक्ष्योर्ध्वशाखायां ४ मां महालक्ष्मीपा० वामे ४ सां सरस्वतीपा० मध्ये ४ दुं दुर्गाश्रीपा० ४ द्वां द्वारश्रीपा० ।
दक्षवामशाखयोः ४ शं शङ्खनिधिवसुधाराभ्यां नमः ४ पद्मनिधिवसुमतीभ्यां नमः । ऊर्ध्वे दक्षे ४ गं विघ्नेशपा० वामे ४ क्षं क्षेत्रेशपादुकां० तदूर्ध्वे च दक्षे ४ गां गङ्गापा० वामे ४ यां यमुनापा० तदूर्ध्वे दक्षे ४ धां धात्रे नमः वामे ४ विं विधात्रे नमः अधोदेहल्यां ४ दें देहलीपा० ४ वां वरुणपा० इति पश्चिमद्वारपूजा ॥ ततः उत्तरद्वारं गत्वा तदूर्ध्वशाखायां ४ वं वटुकनाथपा० ४ द्वां द्वारश्रीपा० । ततः पूर्ववच्छङ्खनिधिवसुधारादिदेहल्यन्तं सम्पूज्य देहल्यग्रतः ४ कुंकुबेरपा० इति उत्तरद्वारपूजा ॥ ततः पूर्वद्वारं गत्वा तदूर्ध्वशाखायां ४ क्षौं क्षेत्रपालपा० दक्षिणे ४ विं विघ्ननाथपा० ततः स्वस्माद्वामतः क्षेत्रपालस्य दक्षिणवामाग्रेषु महालक्ष्मीसरस्वतीद्वारश्रियः पूजयित्वा शङ्खपद्ममिथुनादारभ्य देहल्यन्तं प्राग्वत् पूजयित्वा देहल्यग्रतः ४ लां इन्द्रनाथपा० इति पूर्वद्वारपूजा ॥ ततो दक्षिणद्वारं गत्वाभ्युक्ष्य तदूर्ध्वशाखायां ४ ग्लौं गणनाथपा० ४ द्वां द्वारशीपादुकां पू० । दक्षवामशाखयोः कामदेववसन्तमिथुने प्रथमं पूजयेत् । तदूर्ध्वे शङ्खपद्ममिथुनादिदेहल्यन्तं सम्पूज्य देहल्यग्रतः ४ यां यमनाथपा० इति दक्षिणद्वारपूजा ॥ ततः पुनः पश्चिमद्वारं गत्वा वामपादपुरःसरं तत्तोरणान्तः प्रविश्य मणिमण्डपाभिमुखस्था मञ्चस्थदेवताः पूजयेत् । ४ रं रत्नसोपानाय नमः इति रत्नसोपानं पूजयित्वा तदूर्ध्वे मञ्चस्थदेवता ध्यात्वा पूजयेत् । पश्चिमद्वारस्य पुरतो दक्षे ४ सां सरस्वतीपा० वामे ४ मां महालक्ष्मीपा० तयोर्मध्ये उपर्यधोऽग्रेषु गौर्यादयो मानवौघान्ताः पूज्याः । ४ गौं गौरीपा० ४ लों लोकधात्रीपा० ४ वां वागीश्वरीपा० ४ दिव्यौघश्रीपा० ४ सिद्धौघश्रीपा० ४ मानवौघश्रीपा० । ततः पुनरुत्तरद्वारे प्राग्वन्मायादुर्गे गौर्यादिमानवौघान्तं पूजयेत् । ततः पूर्वद्वारि प्राग्वद्भद्रकालीस्वस्तीगौर्यादिमानवौघान्तं पूजयेत् । ततो दक्षिणद्वारि स्वाहाशुभङ्करीदेव्यै गौर्यादिमानवौघान्तं पूजयेत् । ततः पुनः पश्चिमद्वारं गत्वा पालितं बहिरिन्द्राद्यैः परमैश्वर्यशोभितम् । प्रपद्ये पश्चिमद्वारं भवान्या मन्दिरं महत् ॥ इति ध्यात्वा । ४ पश्चिमद्वाराय रत्नमण्डपाय नमः इति मण्डपं सम्पूज्य तालत्रयपूर्वकं द्वारमुद्घाट्य सिद्धार्थाक्षतकुसुमानि नाराचास्त्रप्रयोगेन आं अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः । ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥ ५-ह्रः अस्त्राय फडित्यन्तेन मण्डपान्तः प्रक्षिप्य तस्मान्निर्गच्छतां विघ्नसङ्घानां वामाङ्गसङ्कोचनेन मार्गं दत्त्वा त्रिविधविघ्नानुत्सारयेत् देहल्यामेव मूलविद्यां वास्त्रमन्त्रं वा मनसा जपन् वामपार्ष्णिघातत्रयेण भौमान् तालत्रयेणान्तरिक्षगान् दिव्यदृष्ट्यवलोकनेन च दिव्यान् विघ्नानुत्सार्य ओं पाखण्डकारिणो भूता भूमौ ये चान्तरिक्षगाः । दिव्यलोके स्थिता ये च ते नश्यन्तु शिवाज्ञया ॥ इति पठित्वा वामपादपुरःसरं देहलीं लङ्घयन् मण्डपान्तः ततो मौनी विशुद्धात्मा हृदि देवीं परामृशम् । अवहिर्मानसो योगी यागभूमिमथाविशेत् ॥ इति द्वारपूजा ॥ अत्र प्रतिद्वारं गमनासम्भवे पश्चिमद्वार एव स्थित्वा तत्तद्द्वाराणि कल्पयित्वा पूजयेत् । पश्चिमद्वारमेवेति केचित् ।
अथ द्वारदेवतानां ध्यानानि :

पद्मद्वयवराभीतिभास्वत्पाणिचतुष्टयाम् ।
पद्मवर्णा भजेत्पद्मां पद्माक्षीं पद्मवासिनीम् ॥ ५-१ ॥

अक्षस्रक्पुस्तकधरा पूर्णचन्द्रसमद्युतिः ।
विश्वविद्यामयी देवी भारती भासतां मयि ॥ ५-२ ॥

शङ्खचक्राङ्कितकरा कुमारी कुटिलालका ।
मृगेन्द्रवाहना देवी दुर्गा दुर्गाणि हन्तु मे ॥ ५-३ ॥

तप्तकार्तस्वराभासा दिव्यरत्नविभूषिता ।
द्वारश्रीरूर्ध्वपद्मस्था वराभयकराम्बुजा ॥ ५-४ ॥

मुक्तामाणिक्यसङ्काशौ किञ्चित् स्मितमुखाम्बुजौ ।
अन्योन्यालिङ्गनपरौ शङ्खपङ्कजधारिणौ ॥ ५-५ ॥

विगलद्रत्नवर्षाभ्यां शङ्खाभ्यां मूर्ध्नि लांछितौ ।
शङ्खासनसमासीनौ विश्वसङ्कल्पकल्पकौ ॥ ५-६ ॥

तुन्दिलं कम्बुकनिधिं वसुधारां घनस्तनीम् ।
वामतः पङ्कजनिधिं प्रियया सहितं यजेत् ॥ ५-७ ॥

सिन्दूराभौ भुजाश्लिष्टौ रक्तपद्मोत्पलान्वितौ ।
निःसरद्रत्नवर्षाभ्यां पद्माभ्यां मूर्ध्नि लांछितौ ॥ ५-८ ॥

पद्मासनसमासीनौ विश्वसङ्कल्पकल्पकौ ।
तुन्दिलं पङ्कजनिधिं तन्वीं वसुमतीमपि ॥ ५-९ ॥

पलाशपाटलच्छायं रमणीयं रतिप्रियम् ।
पुण्ड्रेक्षुचापपुष्पेषुमन्तं वन्दे मनोभवम् ॥ ५-१० ॥

प्रपद्ये प्रीतिदयितं पूर्णेन्दुसदृशप्रभम् ।
वसन्तं नन्दनोद्याने वसन्तं सन्ततोत्सवम् ॥ ५-११ ॥

पाशांकुशारुणाम्भोजपाणिं पाटलतुन्दिलम् ।
वीरं विघ्नेश्वरं वन्दे गजवक्त्रं त्रिलोचनम् ॥ ५-१२ ॥

कपालशूले विभ्राणं कराभ्यां कृष्णविग्रहम् ।
तीक्ष्णं त्र्यक्षं समर्चामि क्षेत्रेशं क्षतविद्विषम् ॥ ५-१३ ॥

वराभयकरां सौम्यां सोमकोटिसमप्रभाम् ।
भजे गङ्गां महादेव्याः पादोदकतरङ्गिणीम् ॥ ५-१४ ॥

वामपादार्धसम्भूतां परदेव्यास्तरङ्गिणीम् ।
वराभयकरां वन्दे कालिन्दीं कालविग्रहाम् ॥ ५-१५ ॥

भर्तारं जगतां वन्दे शङ्खचक्रगदाम्बुजम् ।
विभ्राणं गरुडारूढं धातारं कृष्णविग्रहम् ॥ ५-१६ ॥

रक्तं रक्तारबिन्दस्थं वराभयकमण्डलुम् ।
हंसारूढं विधातारं वन्देऽक्षस्रक्समन्वितम् ॥ ५-१७ ॥

सिंहारूढां श्यामलाङ्गीं खड्गखेटकधारिणीम् ।
अधस्ताद्देहलीं वन्दे पश्चिमास्यां स्वरक्षिणीम् ॥ ५-१८ ॥

पाशाभयधरं वन्दे पूर्णेन्दुसदृशच्छविम् ।
वरुणं मकरारूढं द्वारे श्रीपाददैवतम् ॥ ५-१९ ॥

इति पश्चिमद्वारे ॥

करकलितकपालः कुण्डली दण्डपाणिस्तरुणतिमिरनीलो व्यालयज्ञोववीती ।
क्रतुसमयसपर्याविघ्नविच्छेदहेतुर्जयति वटुकनाथः सिद्धिदः साधकानाम् ॥ ५- २० ॥

धूम्रवर्णो गदाहस्तः कुबेरो नरवाहनः ।
सौम्यद्वाराधिपः पायात् परदेव्या धनेश्वरः ॥ ५-२१ ॥

व्यालव्यग्रजटाधरं त्रिनयनं नीलाञ्जनाद्रिप्रभं दोर्दण्डात्तकपालभालमरुणस्रग्वस्त्रगन्धोज्ज्वलम् ।
घण्टाघ्र्घुरमेखलध्वनिमिलद्धांकारभीमं विभुं वन्देऽहं सितसर्पकुण्डलधरं तं क्षेत्रपालं सदा ॥ ५-२२ ॥

सितो गजास्यः परशुं दन्तं पाशं त्रिशूलकम् ।
भुजैश्चतुर्भिर्बिभ्राणो मूषकोपरि संस्थितः ॥ ५-२३ ॥

पूर्वद्वाराधिपः शक्रः परदेव्याः सुपीतकः ।
वज्रहस्तः सहस्राक्षः पायादैरावतध्वजः ॥ ५-२४ ॥

गणेशं श्यामवर्णं च चतुर्बाहुं दिगम्बरम् ।
वामदक्षोर्ध्वबाहुभ्यां पाशांकुशधरं तथा ॥ ५-२५ ॥

दक्षिणाधःकरेणैव मधुपूर्णं कपालकम् ।
दधानं वामहस्तेन देव्या मदनमन्दिरम् ॥ ५-२६ ॥

स्पृशन् वामाङ्गसंस्थाया रक्ताया दक्षपाणिना ।
आत्मयोनौ न्यस्य लिङ्गं पद्मं वामेन पाणिना ॥ ५-२७ ॥

दधत्याः शुण्डया योनि जिघ्रन् ध्यात्वा प्रपूजयेत् ।
नीलाञ्जनचयप्रख्यं यमं महिषवाहनम् ॥ ५-२८ ॥

दण्डमण्डितदोर्दण्डं दक्षद्वाराधिपं स्मरेत् ।

इति । अथ मञ्चस्थदेवताध्यानम्-

अक्षस्रक्पुस्तकाभीतीर्दधानां बाहुभिर्वरम् ।
त्रिलोचनां स्मरेद्देवीं सर्वशुक्लां सरस्वतीम् ॥ ५-१ ॥

पद्मद्वयवराभीतिभास्वत्पाणिचतुष्टयाम् ।
निर्दग्धहेमगौराङ्गीं महालक्ष्मीं त्रिलोचनाम् ॥ ५-२ ॥

पाशांकुशवराभीतिर्बिभ्रतीमरुणप्रभाम् ।
त्रिनेत्रां मातरं वन्दे गौरीं रक्ताम्बरोज्ज्वलाम् ॥ ५-३ ॥

नत्युत्पलवराभीतीर्बिभ्रतीं काञ्चनप्रभाम् ।
मातरं दिव्यरत्नाङ्गीं लोकधात्रीं नमाम्यहम् ॥ ५-४ ॥

श्वेतां श्वेताम्बरां श्वेतभूषणस्रग्विलेपनाम् ।
पद्मद्वयवरादर्शकरां वागीश्वरीं भजे ॥ ५-५ ॥

वरांकुशौ पाशमभीतिशूलं करैर्दधानां भवभावमूलम् ।
घनाघनौघप्रभदेहकान्तिं मायां त्रिनेत्रामनिशं स्मरामि ॥ ५-६ ॥

शङ्खचक्रधनुर्बाणान् धारयन्तीं त्रिलोचनाम् ।
दूर्वादलनिभां वन्दे दुर्गां दुर्गतिहारिणीम् ॥ ५-७ ॥

कपालं खेटकं खड्गं त्रिशूलं बिभ्रतीं करैः ।
भिन्नाञ्जनचयप्रख्यां भद्रकालीं नमाम्यहम् ॥ ५-८ ॥

शक्तिस्वस्तिकमुद्राभीहस्तां चन्द्रसमप्रभाम् ।
त्रिनेत्रां संस्मरेद् देवीं स्वस्तिं स्वस्तिकरीं पराम् ॥ ५-९ ॥

रक्तोत्पलद्वन्द्ववराभयानि करैर्वहन्तीं स्मितशोभिवक्त्राम् ।
रक्तां त्रिनेत्रामरुणाम्बराढ्यां स्वाहां भजे देवगणकवन्द्याम् ॥ ५-१० ॥

शालिकल्पलताशार्ङ्गबाणपाणिचतुष्टया ।
ज्वलत्काञ्चनवर्णाभा शुभं कुर्याच्छुभङ्करी ॥ ५-११ ॥

इति ध्यानानि ॥ ततो मण्डलमध्ये ब्रह्मणे नमः गृहेशानाय नमः नैर्-ऋत्यां वास्तुपुरुषाय नमः इति सम्पूज्य ओं रक्षरक्ष हुंफट्स्वाहा इति भूमिमभ्युक्ष्य ओं पवित्रवज्रभूमे रक्षरक्ष हुंफट्स्वाहा इति भूमिमभिमन्त्र्य आः सुरेखे वज्ररेखे हुंफट्स्वाहा इति भूमौ विलिख्य तदुपर्यासनमास्तीर्य ब्रह्मविष्णुरुद्रेश्वरसदाशिवान् पूर्वादिचतुर्दिक्षु मध्ये च सम्पूज्य तदुपरि त्रिकोणं संचिन्त्य कोणत्रये मध्ये च कामरूपपूर्णगिरिजालन्धरोड्यानपीठानि सम्पूज्य ४ ह्रीं आधारशक्तिकमलासनाय नमः इति मन्त्रेणासनं सम्पूज्य तस्मिन् प्राङ्मुखो वोदङ्मुखो वोपविश्याथवा मातृकामण्डलं ध्यात्वा तदुपर्ययुपविश्य भूमिं प्रार्थयेत् । ओं पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारया मां देवि पवित्रं कुरु चासनम् । मां च पूतं कुरु धरे नमोऽस्मि त्वां सुरेश्वरि । ओं पृथिव्या मेरुपृष्ठ ऋषिः सुतलं छन्दः कृमों देवता आसने विनियोगः । ओं प्रणवस्य ब्रह्मा ऋषिर्गायत्री छन्दः परमात्मा देवता प्राणायामे विनियोगः । ततः प्राणायामत्रयं कृत्वा शिरसि दीपनाथाय नमः ।
दक्षभुजे गं गणपतये नमः गणानां त्वा० । वामे दुं दुर्गायै नमः ओं जातवेदसे० । दक्षजानुनि क्षं क्षेत्रपालाय नमः ओं क्षेत्रस्य पतिना वयं० ।
वामजानुनि सं सरस्वत्यै नमः प्रणो देवी सरस्वती० । ततः श्रीगुरुभ्यो नमः परमगुरुभ्यो नमः परमेष्ठिगुरुभ्यो नमः इति नमस्कृत्य । ततः पार्ष्णिघातकरास्फोटसमुदञ्चितवक्त्रकैः । पातालभूनभोलीनान् विघ्नानुत्सारयेद् बुधः । इति विघ्नानुत्सार्यं । उक्तपाशुपतास्त्रेण वामहस्ततलं द्विधा । मणिबन्धं समारभ्य संस्पृष्टं दक्षपाणिना ॥ प्रमृज्य दक्षिणं पाणिं सकृदेवोक्तमार्गतः । इति करशुद्धिं विधाय दिग्बन्धं कुर्यात् । तद्यथा- लं इन्द्राय नमः इन्द्रदिशं चक्रेण बध्नामि नमश्चक्राय स्वाहा । ओं सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्नश्चक्रं प्रचोदयात् ३ । उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ एवं दशदिग्बन्धनं कृत्वा रं अग्निप्राकाराय नमः । सहस्रार हुंफट् सुदर्शनाग्निप्राकाराय नमः । ओं ह्रीं स्फुर स्फुर प्रस्फुर प्रस्फुर घोर घोरतर तनुरूप चट चट प्रचटप्रचट कहकह वमवम बन्धयबन्धय घातयघातय हुंफट् अघोराग्निप्राकाराय नमः इदि जलेनाग्निप्राकारत्रयं कुर्यात् ।

त्रिरग्निवेष्टनं कृत्वा गणेशं पञ्चमीं ततः ।
दुर्गां विघ्नं च शरभमघोरं च सुदर्शनम् ॥ ५-१ ॥

एताः समयविद्याश्च जपेत् प्रत्यूहशान्तये ।
एवं रक्षां पुरा कृत्वा भूतशुद्धिमथाचरेत् ॥ ५-२ ॥

एते मन्त्रा उद्धारपटले बोद्धव्याः । तन्त्रान्तरे-

स्थापयेद् दक्षिणे भागे पूजाद्रव्याणि देशिकः ।
सुवासिताम्बुसम्पूर्णं सव्ये कुम्भं सुशोभनम् ॥ ५-१ ॥

प्रक्षालनाय करयोः पश्चात् पात्रं निवेशयेत् ।
घृतप्रज्वालितान् दीपान् स्थापयेत् परितः शुभान् ॥ ५-२ ॥

दर्पणं चामरं छत्रं तालवृन्तं मनोहरम् ।

इति । कुलचूडामणौ-

नानाविधानि पुष्पाणि गन्धानि विविधानि च ।
कर्पूरजातिधूपादिवासितं पटवासितम् ॥ ५-१ ॥

ताम्बूलं देवद्रव्याणि धूपदीपादिकं च यत् ।
सर्वालङ्कारभूषादि वस्त्रादीनि कुलेश्वरः ॥ ५-२ ॥

मूलमन्त्रजप्ततोयैः संशोध्य स्थापयेत्ततः ।
सर्वं स्वदक्षिणे स्थाप्यं वामे चार्घ्यं निवेशयेत् ॥ ५-३ ॥

पश्चिमे देवतायाश्च कुलद्रव्याणि धारयेत् ।

इति । तथैव - ओं पुष्पकेतुराजार्हते सर्वगताय सम्यक् संबद्धाय ओं पुष्पे पुष्पे महापुष्पे सुपुष्पे पुष्पसंभवे पुष्पावचायसंकीर्णं हुंफट् स्वाहा इति मन्त्रेण पुष्पादिशोधनम् । ओं रक्षरक्ष हुंफट्स्वाहा इति मन्त्रेण हृदि हस्तं दत्त्वात्मरक्षां कुर्यात् । ततः प्रणवेन प्राणायामत्रयं कृत्वा भूतशुद्धं कुर्यात् ।

शरीराकारभूतानां भूतानां यद्विशोधनम् ।
अव्ययब्रह्मसम्पर्काद् भूतशुद्धिरियं मता ॥ ५-४ ॥

सुषुम्नावर्त्मनात्मानं परमात्मनि योजयेत् ।
योगयुक्तेन विधिना चिन्मन्त्रेण समाहितः ॥ ५-५ ॥

इति । चिन्मन्त्रेण परमात्ममन्त्रेणेत्यर्थः । ओं ह्रीं हंसःसोहंस्वाहा इति मन्त्रेण पूर्वोक्तमूलाधारादिषट्चक्राणि विचिन्त्य हृदयचक्रस्थितं जीवात्मानं मनसा सह सुषुम्नावर्त्मना कुलकुण्डलिनीं जीवात्मना सह ब्रह्मरन्ध्रस्थपरमशिवपदे योजयामि स्वाहा इदं लिङ्गशरीरं शोधयामि स्वाहा इति जीवात्मना मनोदण्डेनाहत्य हुंबीजेनाकुञ्चिताधोवायुनाऽधोवह्नेर्विवृद्धोष्मणा तां जारयित्वा सुषुम्नान्तर्वर्तिचित्राख्यनाडीमध्यमार्गेण षट्चक्रभेदक्रमेण स्थानार्णदैवतैः सह संहारयोगतो ब्रह्मरन्ध्रस्थसहस्रदलकमलकर्णिकास्थचन्द्रमण्डलान्तरस्थिते परमशिवे लीनां चिन्तयेत् । ततः पादादिजानुपर्यन्तं पृथिवीस्थानं पीतवर्णं चतुरस्राकारं ब्रह्मदैवत्यं निवृत्तिकलात्मकं तन्मध्ये लंबीजं पञ्चोद्धातप्रयोगेण जले संलापयामि । जान्वादिलिङ्गपर्यन्तं जलस्थानं शुक्लवर्णं पद्मलाञ्छितार्द्धचन्द्राकारं विष्णुदैवत्यं प्रतिष्ठाकलात्मकं तन्मध्ये वंबीजं चतुरुद्धातप्रयोगेण तेजसि संलापयामि । लिङ्गादिनाभिपर्यन्तं तेजःस्थानं रक्तवर्णं त्रिकोणाकारं रुद्रदैत्वयं विद्याकलात्मकं तन्मध्ये रंबीजं त्रिरुद्धातप्रयोगेण वायौ संलापयामि ।
नाभ्यादिहृदयपर्यन्तं वायुस्थानं धूम्रवर्णं षट्कोणाकारं षड्बिन्दुलाञ्छितमीश्वरदैवत्यं शान्तिकलात्मकं तन्मध्ये यंबीजं द्विरुद्धातप्रयोगेणाकाशे संलापयामि ।
हृदयादिकण्ठपर्यन्तमाकाशस्थानं स्वच्छवर्णं वृत्ताकारं सदाशिवदैवत्यं शान्त्यतीताकलात्मकं तन्मध्ये हंबीजमेकोद्धातप्रयोगेणाहंकारे संलापयामि ।
कण्ठादिभ्रूमध्यपर्यन्तम् अहङ्कारस्थानं त्रिवर्णं दण्डाकारमादिशिवदैवत्यं सर्वकलात्मकं तन्मध्ये हंसःबीजं सर्वोद्धातप्रयोगेण महत्तत्त्वे संलापयामि । भ्रूमध्यादिभालपर्यन्तं महत्तत्त्वस्थानं श्वेतवर्णं अर्धचन्द्राकारमान्दशिवदैवत्यं कलास्वरूपं तन्मध्ये सोहंबीजमर्धोद्धातप्रयोगेण प्रकृतौ संलापयामि ।
भालादिसीमन्तपर्यन्तं प्रकृतिस्थानं बालार्कवर्णं योन्याकारमानन्दशिवदैवत्यं कलास्वरूपं तन्मध्ये हंबीजम् आद्योद्धातप्रयोगेण पुरुषे संलापयामि । सीमन्तादिब्रह्मरन्ध्रपर्यन्तं पुरुषस्थानमुद्दीप्तवर्णं लिङ्गाकारं चैतन्यदैवत्यं निष्कलं तन्मध्ये नादाक्षरं बीजं परबिन्दुस्वरूपं निरुद्धातप्रयोगेण चिच्छक्तौ संलापयामि । ब्रह्मरन्ध्रं चिच्छक्तिस्थानं कर्पूरवर्णं सहस्रारम् आनन्ददैवत्यं निराकारस्वरूपं तन्मध्ये ह्रीं बीजं संहारध्यानप्रयोगेण परब्रह्मशिवात्मकं चिदानन्दघनं चिन्तयामि इति विभाव्य ओं पृथिव्यप्तेजोवायवाकाशगन्धरसरूपस्पर्शशब्द- घ्राणरसनाचक्षुस्त्वक्श्रोत्रपादोपस्थपायुपाणिवाग्गमना- नन्दविसर्गादानवचनाहङ्कारमनोबुद्धिचित्त- विकल्पसंकल्पव्यवसानिश्चयजीवात्मपरमात्माभिधसमस्ततत्त्वात्मकं प्रपञ्चस्वरूपं स्थूलसूक्ष्मशरीरद्वयं संहारक्रमेण पृथिवीमप्स्वपस्तेजसि तेजो वायौ वायुमाकाशे आकाशमहङ्कारे अहङ्कारं महति महान्तं प्रकृतौ प्रकृतिं पुरुषे पुरुषं परमशिवे संयोजयामि स्वाहा इदं स्थूलशरीरं शोधयामि स्वाहा इति सस्थानानि साक्षराणि सकार्याणि सकारणानि सदैवतानि साङ्गोपाङ्गानि स्थूलानि सूक्ष्माणि च सर्वाणि तत्त्वानि स्वस्वकारणेषु संहारक्रमेण लीनानि कृत्वा सहस्रदलकमलपरमशिवे बीजभावेन लीनानि चिन्तयेत् । परमशिवं चिच्छक्त्यात्मकमानन्दघनं विनिवेश्य निर्मलधिया निर्लीनसर्वेन्द्रियो योगी यागफलं प्रयाति सततं नित्योदितं निष्क्रियमेवं क्रमेण सच्चिदानन्दमयः क्षणं तिष्ठेत् इति संहारक्रमः ॥ अथ पापपुरुषचिन्तनम्-

वामकुक्षिगतं पापपुरुषं कज्जलप्रभम् ।
ब्रह्महत्याशिरस्कं च स्वर्णस्तेयभुजद्वयम् ॥ ५-१ ॥

सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् ।
तत्संसर्गिपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् ॥ ५-२ ॥

उपपातकरोमाणं रक्तश्मश्रुविलोचनम् ।
खड्गचर्मधरं क्रूरं पापमेवं विचिन्तयेत् ॥ ५-३ ॥

इति ध्यात्वा यं पापशरीरं शोषय शोषय शोषयामि स्वाहा यंबीजं धूम्रवर्णं षोडशवारं जपन् वामनासया वायुमापूर्य तदेव चतुष्षष्टिवारं जपन् कुम्भकयोगेन हृदयादुद्गतेन षट्काणादागतेन महावायुना पापपुरुषं शुष्कं विचिन्त्य तदेव बीजं द्वाविंशद्वारं जपन् दक्षिणनातया? वायुं रेचयेत् रं शुष्कपापशरीरं दाहय दाहय दाहयामि स्वाहा रंबीजं रक्तवर्णं षोडशवारं जपन् पिङ्गलया वायुमापूर्य तदेव चतुःषष्टिवारं जपन् कुम्भकयोगेन नाभेरुदितेन त्रिकोणादागतेन महता वह्निना पापपुरुषं दग्धं विचिन्त्य तदेव द्वात्रिंशद्वारं जपन् इडया वायुं रेचयेत् । टं चन्द्रमण्डलं प्रेरय प्रेरय प्रेरयामि स्वाहा टमिति चन्द्रबीजं शुक्लवर्णं १६ वारं जपन् इडया वायुमापूर्य ६४ वारं जपन् कुम्भकयोगेन सहस्रारमध्ये महामृतौघपूरितं विश्वाह्लादकं चन्द्रबीजं विचिन्त्य ३२ वारं जपन् पिङ्गलया रेचयेत् । वं परमामृतं वर्षय वर्षय वर्षयामि स्वाहा वमिति वरुणबीजं शुक्लवर्णं १६ वारं जपन् पिङ्गलया वायुमापूर्य ६४ वारं जपन् कुम्भकयोगेन तस्माच्चन्द्रबिम्बान्मातृकामयों महावृष्टिमुत्पाद्य तदस्थिश्मशानादिकमाप्लावितं विचिन्त्य ३२ वारं जपन् इडया वायुं रेचयेत् । लं शरीरमुत्पादय उत्पादय उत्पादयामि स्वाहा लमिति पृथिवीबीजं पीतवर्णं १६ वारं जपन् इडया वायुमापूर्य ६४ वारं जपन् कुम्भकयोगेन ओं परमात्मजीवात्मचित्तबुद्धिमनोऽहङ्कार- निश्चयव्यवसायसंकल्पविकल्पवचनादानविसर्गानन्दगमनवाक्पाणि- पायूपस्थापादश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणशब्दस्पर्शरूपरसगन्धाकाश- वायुतेजोजलपृथिव्याख्यसमस्ततत्त्वात्मकं प्रपञ्चरूपं स्थूलसूक्ष्मशरीरद्वयं सृष्टिक्रमेण पृथग्भूताभ्यां परमशिवचिच्छक्तिभ्यां निरुत्पत्तिप्रयोगेण पुरुषं पुरुषादाद्योत्पत्तिप्रयोगेण प्रकृतिं प्रकृतेरर्द्धोत्पत्तिप्रयोगेण महान्तं महतः सर्वोत्पत्तिप्रयोगेणाकाशमाकाशाद् द्विरुत्पत्तिप्रयोगेण वायुं वायोस्त्रिरुत्पत्तिप्रयोगेण तेजस्तेजसश्चतुरुत्पत्तिप्रयोगेण जलं जलत्पञ्चोत्पत्तिप्रयोगेण पृथिवीं पृथिव्याः षडुत्पत्तिप्रयोगेणात्पादयामि स्वाहा- इति सस्थानानि साक्षराणि सकारणानि सकार्याणि सदैवतानि साङ्गोपाङ्गानि स्थूलानि सूक्ष्माणि च सर्वाणि तत्त्वानि सृष्टिक्रमेण परशिवचिच्छक्तिसकाशात् स्वस्वकारणेभ्य उत्पादितानि कृत्वा पादादुद्गतया चतुरस्रादागतया महत्या पृथिव्या उपष्टभ्य देवतापूजायोग्यं नवं पुण्यशरीरमुत्पादितं विचिन्त्य तत्त्वानि च निजस्थानेषु स्थितानि कृत्वा तदेव लंबीजं द्वात्रिंशद्वारं जपन् पिङ्गलया वायुमापूर्य ६४ वारं जपन् इडया वायुं रेचयेत् इति षट् प्राणायामा भवन्ति । आत्मानं हृदयाम्भोजादानयेत्परमात्मनः । मनुना हंसदेवस्य कुर्यान्न्यासादिकं ततः ॥ ओं हंसः सोऽहं अवतरावतर शिवपदात् जीवपदेन सुषुम्नावर्त्मना मूलशृङ्गाटमुल्लसोल्लस ज्वलज्वल प्रज्वलप्रज्वल ओं हंसः सोऽहं इति कुण्डलिनीरूपधारिणीं चिच्छक्तिं जीवात्मा सह सृष्टियोगेन स्थानार्णदैवतैः सह सुषुम्नान्तर्वर्तिचित्राख्यनाडीमध्यमार्गेण षट्चक्रभेदक्रमेण ब्रह्मरन्ध्रता मूलाधारमानीय स्थापयेत् मूलाधारात् जीवात्मानं हृदिस्थं चिन्तयेत् - इति भूतशुद्धिः ॥

अथ प्राणप्रतिष्ठा । ओं अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषयः ऋग्यजुःसामानि छन्दांसि चैतन्यरूपा प्राणशक्तिर्देवता ओं बीजं ह्रीं शक्तिः क्रों कीलकं प्राणस्थापने विनियोगः इति यथास्थानं विन्यस्य अं कं खं गं घं ङं आं आकाशवायुतेजोजलपृथिव्यात्मने अंगुष्ठाभ्यां नमः । इं चं छं जं झं ञं ईं शब्दस्पर्शरूपरसगन्धात्मने तर्जनीभ्यां नमः । उं टं ठं डं ढं णं ऊं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मने मध्यमाभ्यां नमः । एं तं थं दं धं नं ऐं वाक्पाणिपादपायूपस्थात्मने अनामिकाभ्यां नमः । ओं पं फं बं भं मं औं वचनादानविसर्गानन्दगमनात्मने कनिष्ठिकाभ्यां नमः । अं यं रं लं वं शं षं सं हं लं क्षं अः चित्तबुद्धिमनोऽहङ्कारात्मने करतलकरपृष्ठाभ्यां नमः । एभिरेव जातियुक्तैः षडङ्गानि । आं नमः नाभेश्चरणपर्यन्तं ह्रीं नमः हृदयान्नाभिपर्यन्तं क्रों नमः मूर्धादिहृदयपर्यन्तं । यं त्वगात्मने नमः रं असृगात्मने नमः । लं मांसात्मने नमः वं मेदा-आत्मने नमः शं अस्थ्यात्मने नमः षं मज्जात्मने नमः सं शुक्रात्मने नमः हं प्राणात्मने नमः लं जीवात्मने नमः क्षं परमात्मने नमः । एवं विन्यस्य प्राणशक्तिं ध्यायेत् ।

रक्ताब्धिपोतारुणपद्यसंस्थां पाशांकुशाविक्षुशरासबाणान् ।
शूलं कपालं दधतीं कराब्जै रक्तां त्रिनेत्रां प्रणमामि देवीम् ॥ ५-१ ॥

इति ध्यात्वा । ओं ऐं ह्रीं श्रीं ओं आं ह्रीं क्रों यं रं लं वं शं षं सं हों सोऽहं हंसः श्रीमन्महात्रिपुरसुन्दर्याः प्राणा इह प्राणाः ३० जीव इह स्थिता ३० सर्वेन्द्रियाणि ३० वाङ्मनश्चक्षुस्त्वक्श्रोत्रघ्राणप्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा इति ज्ञानमुद्रया हृदि हस्तं दत्त्वा वारत्रयं पठेत् । ओं आं हंसः इति सर्वानन्दमयं देहं दृढं चिन्तयेत् (अन्तर्बहिःस्थ) प्रधानदेवतात्मकमात्मानं चिन्तयेत् - इति प्राणप्रतिष्ठा ॥

इति श्रीमहामहोपाध्यायभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्य- श्रीभगवच्छङ्कराचार्यशिष्य - श्रीविष्णुशर्माचार्यशिष्य- श्रीप्रगल्भाचार्यशिष्य - श्रीविद्यारण्यतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे पञ्चमः श्वासः ॥ ५ ॥

अथ

श्रीविद्यार्णवतन्त्रे

6. Śvāsa

अथ मातृकान्यासः - ततो देहस्य संनाहं संम्यक्न्यासं समाचरेत् ।

अन्तर्वहिष्ठाश्च कलायुताश्च श्रीकण्ठविष्ण्वादिसमन्विताश्च ।
लज्जारमाकामपृथक्समोह प्रपञ्चयागो दश मातृकाः स्युः ॥ ६-१ ॥

गुदात्तु द्व्यंगुलादूर्ध्वं सुषुम्नासूक्ष्मरन्ध्रगम् ।
वादिवेदार्णलसितं पङ्कजं कनकप्रभम् ॥ ६-२ ॥

तत्स्थां विद्युल्लताकारां तेजोरूपामणीयसीम् ।
कुलकुण्डलिनीमूर्ध्वं नयेत् षट्चक्रभेदतः ॥ ६-३ ॥

द्वादशान्तेन्दुमध्यस्थं पूर्वोक्तं मातृकाव्रजम् ।
नवनीतनिभं ध्यात्वा द्रुतं कुण्डलिनीत्विषा ॥ ६-४ ॥

तेजोञ्जलौ विनिःसार्य मातृकान्यासमाचरेत् ।

ततोऽकारादिषट्स्वरान् करतलकरतत्पृष्ठव्याप्तिक्रमेण विन्यस्यावशिष्टदशस्वरान् दशस्वंगुलीषु विन्यस्य आदिक्षान्तमातृकामुच्चरन् करशुद्धिं कुर्यात् । यथा - प्रकोष्टे मणिबन्धे च कूर्परे करयोस्तले । तत्पृष्ठे च तदग्रे च करशुद्धिरुदाहृता ॥ इति मातृकाकरशुद्धिः । अथान्तर्मातृकान्यासः - तत्र स्वरैः पूरकं स्पर्शैः कुम्भकं व्यापकैः रेचकमिति क्रमेण प्राणायामत्रयं कृत्वा अस्या अन्तर्मातृकायाः ब्रह्मा ऋषिः गायत्री छन्दः श्रीमातृकासरस्वती देवता हलो बीजानि स्वराः शक्तयः जाताव्यक्तिः कीलकं मम शरीरशुद्ध्यर्थं न्यासे विनियोगः इति विन्यस्य अं कं खं गं घं ङं आं हृदयाय नमः इत्यादिना प्राग्वत् षडङ्गानि विन्यस्य ध्यायेत् । तथा संहितायाम्-

अथ वक्ष्ये महेशानि मातृकां लोकमातरम् ।
अकारादिक्षकारान्तवर्णावयवदेवताम् ॥ ६-१ ॥

ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्रं छन्द उच्यते ।
मातृका देवता देवि हलो बीजानि शक्तयः ॥ ६-२ ॥

स्वरास्तु परमेशानि जाताव्यक्तिस्तु कीलकम् ।
अनिर्वाच्या हलो वर्णाः शक्त्या व्यक्ता भवन्ति हि ॥ ६-३ ॥

शक्त्या विना शिवे सूक्ष्मे नाम धाम न विद्यते ।
असद्रूपा हलो वर्णाः शक्त्यासन्नाः पराङ्मुखाः ॥ ६-४ ॥

स्फुरन्मात्रास्तदोच्चार्ययाः सम्मुखा व्यक्तवर्णकाः ।
ऋ ॠ ऌ ॡ परित्यज्य षड्युग्मस्वरमध्यगाः ॥ ६-५ ॥

वर्गाः षट् च क्रमेणैव सप्तमः क्रोधसंयुतः ।
अन्ते निक्षिप्य देवेशि षडङ्गानि प्रविन्यसेत् ॥ ६-६ ॥

कलापत्राम्बुजे कण्ठे स्वरान् सम्यक् प्रविन्यसेत् ।
हृद्यर्कपत्रे तद्वर्णान्नाभौ दशदले न्यसेत् ॥ ६-७ ॥

दशवर्णांल्लिङ्गमध्ये षड्दले षडथेश्वरि ।
चतुर्दले तथाधारे चतुर्वर्णांस्ततो न्यसेत् ॥ ६-८ ॥

भ्रूमध्ये द्विदले हक्षौ इत्यन्तर्मातृकां न्यसेत् ।

इति । तन्त्रान्तरे-

आधारे लिङ्गनाभौ हृदयसरसिजे तालमूले ललाटे द्वे पत्रे षोडशारे द्विदशदशदले द्वादशार्धे चतुष्के ।
वासान्ते बालमध्ये डफकठसहिते कण्ठदेशे स्वराणां हंक्षंतत्त्वार्थयुक्तं सकलदलगतं वर्णरूपं नमामि ॥ ६-१ ॥

इति ध्यात्वा न्यसेदित्यन्तर्मातृका ॥ अथ बहिर्मातृका - ऋष्यादिन्यासं प्राग्वद् विन्यस्य ध्यायेत् ।

ध्यायेद्वर्णस्वरूपाढ्यां स्वरवक्त्रां क्रमेण हि ।
कचवर्गकरां रम्यां टतवर्गपदाम्बुजाम् ॥ ६-१ ॥

पवर्गचारुपार्श्वाङ्गलसच्छातोदरीं पराम् ।
यशवर्गाङ्गसुभगापीनोन्नतघनस्तनीम् ॥ ६-२ ॥

नितबिम्बगहनां शुक्लाक्षीं क्षाममध्यमाम् ।
शुक्लमाल्याङ्गरागाङ्गीं अक्षस्रक्कुम्भशोभिताम् ॥ ६-३ ॥

चिन्तालिखितसत्पाणिं समग्रवरदायिनीम् । इति ध्यात्वा ।

ब्रह्मरन्ध्रे तथा वक्त्रवेष्टने नयनद्वये ।
श्रुतिनासापुटद्वन्द्वगण्डोष्ठद्वयकेषु च ॥ ६-१ ॥

दन्तयुग्मे च मूर्धास्यद्वये षोडश विन्यसेत् ।
दोःपत्सन्धिषु साग्रेषु पार्श्वयुग्मे न्यसेत् क्रमात् ॥ ६-२ ॥

पृष्ठनाभिद्वये चैव जठरे विन्यसेदथ ।
त्वगसृङ्मांसमेदोऽस्थिमञ्जाशुक्राणि धातवः ॥ ६-३ ॥

प्राणजीवौ च परमौ यकारादिषु संस्थिताः ।
क्रमेण देवदेवेशि न्यस्तव्या एतदात्मकाः ॥ ६-४ ॥

हृद्दोर्मूलेषु सन्न्यस्य तथा परगले न्यसेत् ।
कक्षद्वये हृदारभ्य पाणिपादयुगे तथा ॥ ६-५ ॥

जठराननयोर्न्यसेदित्यन्तर्गात्ररूपिणी ।
अनेन न्यासयोगेन मन्त्री वर्णस्वरूपवान् ॥ ६-६ ॥

इति बहिर्मातृका । अथ सृष्टिमातृका - केवलां मातृकां न्यस्य ब्रह्मचारी भवेद्यदि । विसर्गसहितां तां च सृष्टिसंज्ञां न्यसेद्बुधः ॥ इति सृष्टिमातृका ।
अथ स्थिति मातृका : केवलां मातृकां न्यस्य गृहस्थः साधको यदि ।
विसर्गबिन्दुसहितां डकाराद्यां स्थितिं न्यसेत् ॥ ध्यानं तु :

सिन्दूरकान्तिममिताभरणां त्रिनेत्रां विद्याक्षसूत्रमृगपीतवरान् दधानाम् ।
पार्श्वस्थितां भगवतीमपि काञ्चनाभां ध्यायेत् कराब्जधृतपुस्तकवर्णमालाम् ॥ ६-१ ॥

इति ध्यात्वा डंः नमः इत्यादि बिन्दुविसर्गसहितान् ठकारावसानान् वर्णांस्तत्तत्स्थानेषु न्यसेदिति स्थितिमातृका ॥ अथ संहारमातृका : केवलां मातृकां न्यस्य वानप्रस्थोऽथवा यतिः । बिन्दुयुक्तां विलोमेन संहारमातृकां न्यसेत् ॥ ध्यानं तु ।

अक्षस्रजं हरिणपोतमुदग्रटङ्कं विद्यां करैरविरतं दधतीं त्रिनेत्राम् ।
अर्घेन्दुमौलिमरुणामरबिन्दवासां वर्णेश्वरीं प्रणमत स्तनभारनम्राम् ॥ ६-१ ॥

इति ध्यात्वा । क्षं नमः इत्यादिबिन्दुसहितान् विलोमतस्तत्तद्वर्णांस्तत्तत्स्थानेषु न्यसेदिति संहारमातृका ॥ अथ कलामातृका :

केवलां मातृकां न्यस्य तारभक्तो भवेद्यदि ।
प्रणवांशकलायुक्तां मातृकां विन्यसेत् सुधीः ॥ ६-१ ॥

प्रजापति-ऋषिः प्रोक्तो गायत्रं छन्द ईरितम् ।
कलासरस्वती देवी देवता परिकीर्तिता ॥ ६-२ ॥

ओं बीजं च नमः शक्तिः कीलकं तु कलाः स्मृताः ।
प्रणवद्वयमध्यस्थैर्विषण्ढैर्दीर्घसुस्वरैः ॥ ६-३ ॥

षडङ्गानि प्रविन्यस्य ध्यायेद् देवीं परां शिवाम् । अथ ध्यानम्-

हस्तैः पद्मं रथाङ्गं गुणमथ हरिणं पुस्तकं वर्णमालां टङ्कं टङ्कं कपालं दरममृतलसद्धेमकुम्भं वहन्तीम् ।
मुक्ताविद्युत्पयोदस्फटिकनवजपावन्धुरैः पञ्चवक्त्रैस्त्र्यक्षैर्वक्षोजनम्रां सकलशशिनिभां शारदां तां नमामि ॥ ६-१ ॥

इति ध्यात्वा ओं अंनिवृत्तिकलायै नमः इत्यादिमातृकास्थानेषु न्यसेदिति कलामातृका ॥ अथ श्रीकण्ठादिमातृका :

केवलां मातृकां न्यस्य शिवभक्तो भवेद्यदि ।
श्रीकण्ठादिशक्तियुक्तां मातृकां विन्यसेत् सुधीः ॥ ६-१ ॥

ऋषिस्तु दक्षिणामूर्तिश्छन्दो गायत्रमीरितम् ।
अर्धनारीश्वरो देवो देवता परिकीर्तिता ॥ ६-१ ॥

हसौं बीजं नमः शक्तिः शिवशक्तिस्तुः कीलकम् ।
षड्दीर्घयुक्तबीजेन षडङ्गानि प्रविन्यसेत् ॥ ६-३ ॥

बन्धूककाञ्चननिभं रुचिराक्षमालां पाशांकुशौ च वरदं निजबाहुदण्डैः ।
विभ्राणमिन्दुशकलाभरणं त्रिनेत्रमर्धाम्बिकेशमनिशं वपुराश्रयामः ॥ ६-४ ॥

इति ध्यात्वा हसौं अंश्रीकण्ठाय पूर्णोदर्यै नमः इत्यादि न्यसेदिति श्रीकण्ठादिमातृका ॥ अथ केशवादिमातृकान्यासः :

केवलां मातृकां न्यस्य विष्णुभक्तो भवेद्यदि ।
केशवादिशक्तियुक्तां मातृकां विन्यसेद् बुधः ॥ ६-१ ॥

प्रजापतिर्-ऋषिः प्रोक्तो गायत्रं छन्द ईरितम् ।
अर्द्धलक्ष्मीहरिः साक्षाद् देवता परिकीर्तिता ॥ ६-२ ॥

कामबीजं तु बीजं स्यान्नमः शक्तिरुदाहृता ।
विष्णुलक्ष्मीः कीलकं तु विनियोगस्तु पूर्ववत् ॥ ६-३ ॥

षड्दीर्घकामराजेन षडङ्गानि प्रविन्यसेत् ।

हस्तैर्बिभ्रत् सरसिजगदाशंखचक्राणि विद्यां पद्मादर्शौ कनककलशं मेघविद्युद्विलासम् वामोत्तुङ्गस्तनमविरलाकल्पमाश्लेषलोभादेकीभूतं वपुरवतुः वः पुण्डरीकाक्षलक्ष्म्योः ॥ ६-१ ॥

इति ध्यात्वा क्लीं श्रीं अं केशवाय कीर्त्यै नमः इत्यादि न्यसेदिति केशवमातृका ॥ अथ शक्तिमातृकान्यासाः ।

केवलां मातृकां न्यस्य भुवनेशीं भजेद्यदि ।
भुवनेशीबीजपूर्वां मातृकां विन्यसेत् सुधीः ॥ ६-१ ॥

ऋषिः शक्तिः समुद्दिष्टो गायत्रं छन्द ईरितम् ।
भुवनेशी मातृका स्याद् देवता देववन्दिता ॥ ६-२ ॥

ह्रीं बीजं तु नमः शक्तिर्मूलप्रकृतिः कीलकम् ।
मायाषड्दीर्घकेनैव षडङ्गानि समाचरेत् ॥ ६-३ ॥

उद्यत्कोटिदिवाकरप्रतिभटातुङ्गोरुपीनस्तनी मूर्धार्धेन्दुकिरीटहाररशनामञ्जीरसंशोभिता ।
बिभ्राणा करपङ्कजैर्जपवटीं पाशांकुशौ पुस्तकं दिश्याद्वो जगदीश्वरी त्रिनयना पद्मे निषण्णा सुखम् ॥ ६-४ ॥

इति ध्यात्वा ह्रीं अंनमः इत्यादि न्यसेदिति भुवनेश्वरीमातृका । अथ लक्ष्मीमातृका ।

केवलां मातृकां न्यस्य लक्ष्मीपूजारतो यदि ।
लक्ष्मीबीजसमायुक्तां मातृकां विन्यसेत् सुधीः ॥ ६-५ ॥

ऋषिर्भृगुस्तु गायत्रं छन्दो लक्ष्मीस्तु मातृका ।
देवता श्रीं नमो बीजं शक्तिः प्रकृतिः कीलकम् ॥ ६-६ ॥

षड्दीर्घलक्ष्मीबीजेन षडङ्गानि प्रविन्यसेत् ।

विद्युद्दामसमप्रभां हिमगिरिप्रख्यैश्चतुर्भिर्गजैः शुण्डादण्डसमुद्धृतामृतघटैरासिच्यमानामिमाम् ।
बिभ्राणां करपङ्कजैर्जपवटीं पद्मद्वयं पुस्तकं भास्वद्रत्नसमुज्ज्वलां कुचनतां ध्यायेज्जगत्स्वामिनीम् ॥ ६-७ ॥

इति ध्यात्वा श्रीं अं नमाः इत्यादि न्यसेदिति लक्ष्मीमातृका । अथ कामेश्वरीमातृका :

केवलां मातृकां न्यस्य कामेशीपूजको यदि ।
कामबीजेन संयुक्तां मातृकां विन्यसेत् सुधीः ॥ ६-१ ॥

ऋषिः सम्मोहनश्छन्दो गायत्रं देवता स्मृता ।
कामेश्वरी च क्लीं बीजं नमः शक्तिस्तु कीलकम् ॥ ६-२ ॥

षड्दीर्घकामबीजेन षडङ्गानि प्रकल्पयेत् ।

बालार्ककोटिरुचिरां स्फटिकाक्षमालां कोदण्डमिक्षुजनितं स्मरपञ्चबाणान् ।
विद्यां च हस्तकमलैर्दधतीं त्रिनेत्रां ध्यायेत् समस्तजननीं नवचन्द्रचूडाम् ॥ ६-३ ॥

इति ध्यात्वा क्लीं अंनमः इत्यादि न्यसेदिति कामबीजमातृका । अथ सम्मोहनीमातृका ।

केवलां मातृकां न्यस्य त्रिपुराराधको यदि ।
शक्तिश्रीकामसंयुक्तां मातृकां विन्यसेत्सुधीः ॥ ६-१ ॥

ऋषिः सम्मोहनश्छन्दो गायत्रं देवता मनोः ।
सम्मोहनी च क्लीं बीजं ह्रीं शक्तिः श्रीं च कीलकम् ॥ ६-२ ॥

बीजत्रयद्विरावृत्त्या षडङ्गानि समाचरेत् ।

ध्यायेयमक्षवलयेक्षुशरासपाशान् पद्मद्वयांकुशशरान् नवपुस्तकं च ।
आबिभ्रतीं निजकरैररुणां कुचार्तां सम्मोहनीं त्रिनयनां तरुणेन्दुचूडाम् ॥ ६-३ ॥

इति ध्यात्वा ह्रीं श्रीं क्लीं अं नमः इत्यादि न्यसेदिति सम्मोहनीमातृका ।
प्रपञ्चयागस्तु प्रागेव प्रपञ्चितः । इति दशविधमातृकाः । एते सामान्यतः प्रोक्ताः सर्वत्र दशमातृकाः इत्युक्तत्वात् । दुर्वासोवाक्यम् ।

न्यासं कृत्वा गणेशग्रहभगणमहायोगिनीराशिपीठैः षड्भिः श्रीमातृकार्णैः सहितबहुकलैरष्टवाग्देवताभिः ।
सश्रीकण्ठादियुग्मैर्विमलनिजतनौ केशवाद्यैश्च तत्त्वैः षट्त्रिंशद्भिर्धराद्यैर्भगवति भवतीं यः स्मरेत्स त्वमेव ॥ ६-१ ॥

इति । (सचवर्णमातृका - कलामातृका - मूर्तिमातृका - प्रपञ्चयागमातृकान्यासाख्यः सम्प्रदश्चतुर्विधः) तत्र वर्णमातृकान्यासो दशविधः श्रीविद्याङ्गभूतः । तथाचोक्तम् :

शुद्धं बिन्दुयुतं विसर्गसहितं हृल्लेखया संश्रितं बालासम्पुटितं तथा च परया श्रीविद्यालंकृतम् ।
आरोहादवरोहतश्च कुरुते न्यासं पुनर्हंसयोर्यो जानाति स एव सर्वजगतां सृष्टिस्थितिध्वंसकृत् ॥ ६-२ ॥

इति । अथ बालासम्पुटितमातृकान्यासः -

ऋषिस्तु दक्षिणामूर्तिः पंक्तिश्छन्द उदाहृतम् ।
तथा वर्णमयी बाला देवता परिकीर्तिता ॥ ६-१ ॥

वाग्भवं बीजमाख्यातं तार्तीयं शक्तिरुच्यते ।
कामराजं कीलकं स्याच्छ्रीविद्याङ्गतया पुनः ॥ ६-२ ॥

न्यासे तु विनियोगः स्याद्बालाबीजत्रयेण तु ।
द्विरावृत्त्या क्रमेणैव षडङ्गन्यासमाचरेत् ॥ ६-३ ॥

मुक्ताशेखरकुण्डलाङ्गदमणिग्रैवेयहारोर्मिकां विद्योतद्वलयादिकङ्कणकटीसूत्रां स्फुरन्नूपुराम् ।
माणिक्योदरबन्धुरस्तनभरामिन्दोः कलां बिभ्रतीं पाशं सांकुशपुस्तकाक्षवलयं दक्षोर्ध्ववाह्वादितः ॥ ६-४ ॥

पूर्णेन्दुप्रतिमप्रसन्नवदनां नेत्रत्रयोद्भासितामिन्दुक्षीरवलक्षगात्रविलसन्माल्यानुलेपाम्बराम् ।
पञ्चाशल्लिपिजृम्भिताखिलजगद्वाग्देवतादेवतां मूलाधारसमुद्गतां भगवतीं वर्णाम्बुजे चिन्तयेत् ॥ ६-५ ॥

ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः अं सौः क्लीं ऐं इत्यादि न्यसेदिति बालासम्पुटितमातृकान्यासः ॥ अथ परासम्पुटितमातृकान्यासः :

ऋषिर्ब्रह्मा समुद्दिष्टो गायत्रं छन्द ईरितम् ।
परासरस्वती देवी मातृका देवता स्मृता ॥ ६-१ ॥

षड्दीर्घपरया चैव षडङ्गानि समाचरेत् ।
अकलङ्कशशाङ्काभा त्र्यक्षां चन्द्रकलावतीम् ॥ ६-२ ॥

मुद्रापुस्तकलसद्बाहुं प्रणमामि परां कलाम् ।

सौ अं सौः इत्यादि न्यसेदिति परामातृका ॥ अथ श्रीविद्यामातृकान्यासः :

ऋषिस्तु दक्षिणामूर्तिश्छन्दः पंक्तिरुदाहृता ।
देवता मातृकारूपा महात्रिपुरसुन्दरी ॥ ६-१ ॥

कूटत्रयद्विरावृत्त्या षडङ्गानि समाचरेत् ।

आरक्ताभां त्रिनेत्रां मणिमुकुटवतीं रत्नताटङ्करम्यां हस्ताम्भोजैः सपाशांकुशमदनधनुःसायकैर्विस्फुरन्तीम् ।
आपीनोत्तुङ्गवक्षोरुहतटविलुठत्तारहारोज्ज्वलाङ्गीं ध्यायन्न्म्भोरुहस्थामरुणनिवसनामीश्वरीमाश्रयामि ॥ ६-१ ॥

इति ध्यात्वा ऽऽ४ मूलं अं नमाः शिरसीत्यादि न्यसेदिति श्रीविद्यामातृका । अथ हंसमातृका :

ऋषिस्तु दक्षिणामूर्तिश्छन्दो गायत्रमुच्यते ।
हरगौरीमहादेवी मातृका देवता स्मृता ॥ ६-१ ॥

हसा षड्दीर्घयुक्तेन षडङ्गन्यासमाचरेत् ।

उद्यद्भानुस्फुटितताडिदाकारमर्घाम्बिकेशं पाशाभीती वरदपरशू संसधानं कराब्जैः ।
दिव्याकल्पैर्नवमणिमयैः शोभितं विश्वमूलं सौम्याग्नेयं वपुरवतु वश्चन्द्रचूडं त्रिनेत्रम् ॥ ६-१ ॥

इति ध्यात्वा ४ हंसः अं नमः सिरसीत्यादि न्यसेदिति हंसमातृका ॥ अथ परमहंसमातृका :

ऋषिः परमहंसः स्याद्विराट् छन्द उदाहृतम् ।
चिन्मयी देवता प्रोक्ता परमात्मस्वरूपिणी ॥ ६-१ ॥

प्रणवद्वयमध्यस्थवर्गैः कुर्यात् षडङ्गकम् ।

श्रीमत्परात्ममनुजृम्भिदवर्णरूपां मानैरगम्यपदवीपरिचीयमानाम् ।
विद्याक्षसूत्रकलशान् दधतीं च मुद्रां ध्यायेत् समस्तजननीं विशदां त्रिनेत्राम् ॥ ६-२ ॥

इति ध्यात्वा ४ सोऽहं क्षं नमः इत्यादि विलोमेन तत्तत्स्थानेषु न्यसेदिति परमहंसमातृका ॥ अथ कलान्यासः स तु पञ्चविधः । तारोत्थकला० कामकला० सोमकला० त्रिमूर्तिकला० अष्टात्रिंशत्कलान्यासश्चेति । अष्टात्रिंशत्कलान्यासोऽपि द्विविधः ज्योतिरष्टात्रिंशत्कला० शिवाष्टात्रिंशत्कलान्यासश्चेति ।
तारोत्थकलान्यासस्तु प्रागेवोक्तः । विशेषस्तु-

ताराद्यवर्णसंयुक्ता न्यस्तव्यास्ता नमोन्विताः ।
स्थानेष्वेतेष्वथ पुनर्मातृकायाः कला न्यसेत् ॥ ६-१ ॥

तारस्य पञ्चभेदेभ्यः पञ्चाशद्वर्णगाः कलाः । स्वरकलान्यासोत्तरम्-

सदाशिवेन सञ्जाता नादादेताः सितत्विषः ।
अक्षस्रक्पुस्तकगुण कपालाढ्यकराम्बुजाः ॥ ६-१ ॥

इति ध्येयाः । कचवर्गकलान्यासोत्तरम्-

अकाराद् ब्रह्मणोत्पन्नस्तप्तचामीकरप्रभाः ।
कराम्बुजधृताक्षस्रक्पङ्कजाभयकुण्डिकाः ॥ ६-१ ॥

इति ध्येयाः । टतवर्गकलान्यासोत्तरम्-

उकाराद्विष्णुनोत्पन्नास्तमालदलसन्निभाः ।
अभीतिदरचक्रेष्टबाहवः परिकीर्तिताः ॥ ६-१ ॥

इति ध्येयाः । पयवर्गकलान्यासोत्तरम्-

रुद्रेण मार्णादुत्पन्ना शरच्चन्द्रसमप्रभाः ।
उद्बहन्त्योऽभयं शूलं कपालं बाहुभिर्वरम् ॥ ६-१ ॥

इति ध्येयाः । षवर्गकलान्यासोत्तरम्-

ईश्वरेणोदिता बिन्दोर्जपाकुसुमसन्निभाः ।
अभयं हरिणं टङ्कं दधाना बाहुभिर्वरम् ॥ ६-१ ॥

इति ध्येयाः इति । विशेषार्चा तु पात्रासादनप्रकरणे वेदितव्या । अथ ज्योतिरष्टात्रिंशत्कलान्यासः । ४ अं अमृतायै नमः शिरसि इत्यादिस्वरकलाः क्रमेण विन्यसेत् । ततो दक्षहस्तसन्ध्यग्रेषु ४ कंभं तपिन्यै नमः इत्यादि ङं नं ज्वालिन्यै नमः इत्यन्तं विन्यस्य वामहस्तसन्ध्यग्रेषु ४ चंधं रुच्यै नमः इत्यादि अं णं बोधिन्यै नमः इत्यन्तं विन्यस्य दक्षपादसन्ध्यग्रेषु ४ टं ढं धारिण्यै नमः इत्यादि ४ लं ज्वलिन्यै नमः इत्यन्तं विन्यसेत् । ततो वामपादसन्ध्यग्रेषु ४ वं ज्वालिन्यै नमः इत्यादि ४ हं कपिलायै नमः इत्यन्तं विन्यस्यावशिष्टकलाद्वयं मस्तके व्यापकं च कुर्यादित्यष्टात्रिंशत्तेजःकलान्यासः । अन्ये कलान्यासा अग्रे वक्ष्यन्ते । एतदुत्तरं प्रपञ्चयागः इति श्रीमदाचार्यमतं सतु प्रागुक्तरीत्यावगन्तव्यः । तस्य फलम् :

एवंवर्णमयं होमं कृत्वा दिव्यतनुर्नरः ।
प्रजपेत् सकलान् मन्त्रांस्ततः सिद्धिमवाप्नुयात् ॥ ६-१ ॥

प्रपञ्चयागस्य विधेर्विधाता भवेत्स मन्त्री कृतकृत्य एव ।
सर्वे स्फुरन्तः प्रभवन्ति मन्त्राः सदात्मयागीति निगद्यते सः ॥ ६-२ ॥

एतस्य होमस्य न कोटिभागभागेतेन तुल्यं ध्रुवमग्निहोत्रम् ।
एवं विधातुः खलु यत्र तत्र शरीरपातेऽपि भवेद्विमुक्तिः ॥ ६-३ ॥

तथा च प्रपञ्चसार्ः-(७ प० ५१ श्लो०)

शुद्धश्चापि सबिन्दुकस्त्वथ कलायुक्केशवाद्यैस्तथा श्रीकण्ठादियुतश्च शक्तिकमलामारैस्तथैकैकशः ।

न्यासास्ते दशधा पृथङ्निगदितः स्युर्ब्रह्मयागान्तिकाः सर्वे साधकसिद्धिसाधनविधौ संकल्पकल्पद्रुमाः ॥

प्रपञ्चयागस्तु विशेषतो विपत्प्रपञ्चसंसारविशेषपावकः ।
परं च नित्यं भजतामयत्नतः परस्य चार्थास्य निवेदकः सदा ॥ ६-२ ॥

न्यस्य मन्त्री यथान्यायं देहे विश्वस्य मातरम् ।
जपेमन्त्रान् भजेद्देवान् यजेदग्निमनन्यधीः ॥ ६-३ ॥

देवो भूत्वा यजेद्देवान्नादेवो देवमर्चयेत् ।
एवमाह श्रुतिः साक्षादतोऽग्रे विन्यसेद्बुधः ॥ ६-४ ॥

यो न्यासकवचच्छन्नो मन्त्रं जपति तं प्रिये ।
विघ्ना दृष्ट्वा पलायन्ते सिंहं दृष्ट्वा यथा गजाः ॥ ६-५ ॥

अकृत्वा न्यासजातं यो मूढात्मा प्रजपेन्मनुम् ।
बाध्यते सर्वविघ्नैश्च व्याघ्रैर्मृगशिशुर्यथा ॥ ६-६ ॥

इति सर्वे मातृकान्यासाः ॥ अथ षट्त्रिंशत्तत्त्वन्यासः : ४ क्षं पृथिवीतत्त्वव्यापिकायै श्रीमहात्रिपुरसुन्दर्यै नमः पादयोः । एवं लं अप्तत्त्व० लिङ्गे विलोमक्रमेण तेजो हृदि वायुः मुखे आकाशं शिरसि गन्धः पादयोः रसो लिङ्गे रूपं हृदि स्पर्शो मुखे शब्दः शिरसि उपस्थो लिङ्गे पायुः पायौ पादः पादयोः पाणिः पाण्योः वाक् मुखे घ्रार्णं घ्राणयोः जिह्वा जिह्वायां चक्षुः चक्षुषोः त्वक् सर्वाङ्गे श्रोत्रं श्रोत्रयोः मनो हृदि अहङ्कारो हृदि बुद्धिः हृदि प्रकृतिः सर्वगात्रे पुरुषः सर्वगात्रे रागो हृदि विद्या हृदि कला हृदि नियतिः सर्वगात्रे कालतत्त्वं सर्वगात्रे माया हृदि शुद्धविद्या हृदि ईश्वरो हृदि सदाशिवो ग्रीवायां शक्तिर्मूलाधारे शिवः सहस्रारे इति षट्त्रिंशत्तत्त्वन्यासः ॥ अथ प्राणायामः :

इतिकृतेऽधिकृतो भवति ध्रुवं परमदैवतमन्त्रजपादिषु ।
पवनसंयमनं त्वमुना चरेद्यमिह जप्तुमसौ मनुमिच्छति ॥ ६-१ ॥

इति वचनात् । प्राणायामं विधायेत्थं योगपीठं न्यसेत्तनौ इति वचनाच्च मूलविद्यया प्राणायामत्रयं कृत्वा योगपीठन्यासं कुर्यात् ॥ तत्र प्राणायामविधिर्विविच्यते - तत्र प्राणानां शरीरादपि द्वादशांगुलाधिकानामायामः । आयमनमायामः संकुचितभावः शरीरशाम्यं शरीरान्न्यूनभावापादनं वेति प्राणायाम इत्यर्थः अत एव पवनसंयमनमित्युक्तम् । त्रिपुरासारसमुच्चये :

अथेदं शरीरं स्वकीयांगुलीभिर्बुधैः षणवत्यंगुलायाममुक्तम् ।
दिनेशांगुलीभिः शरीरात् समीरोऽधिकः प्राणसंज्ञो मतो योगविद्भिः ॥ ६-२ ॥

इति प्राणवायुं सदाभ्यासतो यो नरो न्यूनभावं नयत्येनमङ्गात् ।
समत्वं शरीरेण वा भूतलेऽस्मिन् स पूज्यो बुधैरुत्तमौ योगवित्सु ॥ ६-३ ॥

इति । सतु पूरकाद्यङ्गत्रयात्मकः । तथाच अङ्गत्रयात्मकः प्रोक्तः पूरकुम्भकरेचकैरिति तत्र कुम्भक एव प्राणायामशब्दो मुख्यः इतरयोस्तदुपकारकत्वात् । ज्ञानार्णवे :

कनिष्ठानामिकांगुष्ठैर्यन्नासापुटधारणम् ।
प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ॥ ६-१ ॥

इति । स पुनर्द्विविधः सहितः केवलश्च । तत्र सहितोऽपि द्विविधो रेचकादिक्रमः पूरकादिक्रमश्चेति । तत्र रेचकादिक्रममाह योगशास्त्रे :

प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः ।
सहितः केवलश्चेति कुम्भको द्विविधो मतः ॥ ६-१ ॥

विरेच्य पूरकः कार्यः शनैः सहितकुम्भके ।
यावत्केवलसिद्धिः स्यात् तावत्सहितमभ्यसेत् ॥ ६-२ ॥

इति । तत्क्रममाह प्रपञ्चसारे-

रेचकपूरककुम्भकभेदात् त्रिविधः प्रभञ्जनायामः ।
मुञ्चेद्दक्षिणयानिलमन्तर्नयेद्वामया च मध्यमया संस्थापयेच्च नाड्येत्येवं प्रोक्तानि रेचकादीनि । षोडशतद्द्विगुणचतुःषष्ठिमात्रकाणि तानि च क्रमशः

इति । नाड्येत्यस्य दक्षिणयेत्यादिभिः सम्बन्धः । तथाच इडा वामे तनोर्मध्ये सुषुम्ना पिङ्गला परे । द्विगुण इति षोडशानां द्विगुण इत्यर्थः । अथ पूरकादिक्रममाह समुच्चये-

शीतांशुमार्गेण शनैः समीरमापूरयेत् सोदरमादरेण ।
विकारमात्राभिरपेततन्द्रः कालाग्निमूलार्पितचित्तवृत्तिः ॥ ६-१ ॥

ततो धारयेन्मारुतं धीरचेताः चतुःषष्ठिमात्रासमापूरितं तम् ।
बहिर्भास्वता रेचयेन्मन्दमेमं तदर्धाभिरन्तर्निरुद्धं तु ताभिः ॥ ६-२ ॥

तथा वामकेश्वरे-

पूरकं कुम्भकं चैव रेचकं च विचिन्तयेत् ।
मूलाधारे लयं कृत्वा पीत्वा वायुं शनैःशनैः ॥ ६-१ ॥

यथेष्टं पूरयेद् देहं तत्त्वज्ञो विजितेन्द्रियः ।
ततस्तु स्तम्भयेद्वायुं प्रकाशगतमानसः ॥ ६-२ ॥

कुम्भके चिन्तयेद्विद्वान् विद्यां मुक्तिकरीं शुभाम् ।
तदा तु रेचयेद् वायुं गम्यते यत्स्वभावतः ॥ ६-३ ॥

देहान्निःसारयेन्मन्त्री स्वदेहस्थं तमोगुणम् ।
वामेन पूरयेद् वायुं दक्षिणेन विरेचयेत् ॥ ६-४ ॥

माहेन्द्रेण समेनैव मन्त्री कुम्भकमभ्यसेत् ।
सदा कुम्भकयोगेन लभते सिद्धिरुत्तमा ॥ ६-५ ॥

अभ्यासी कारयेन्मात्रां यथेष्टं तत्त्वदर्शिनाम् ।
यथाशक्त्या पिबेद्वायुं यथाशक्त्या च कुम्भयेत् ॥ ६-६ ॥

स्वभावं च त्यजेद्वायुस्ततः सिद्धिः प्रजायते ।

इति । तस्यां विद्यायां पूरकादिक्रम एव नित्यातन्त्रोक्तः रेचकादिक्रमस्तु साधारणतया प्राप्तः । श्रुत्यनुसारेण प्रपञ्चसारादौ वैष्णवादिसामान्यतया प्रोक्तत्वात् । तथाच श्रुतिः - प्राणायामास्त्रयः प्रोक्ता रेचपूरककुम्भकाः इति । सुसाधितप्राणानां रेचकादिक्रम इति कश्चित् उभयथापि सामान्यत्वं तन्त्रान्तरेण पूरकादिक्रमोऽपि सामान्यतया वैष्णवादौ युज्यते ।
तस्मादस्मिन्नपि प्रकरणे सामान्यत्वेनोभयो प्राप्तो विशेषत्वेन पूरकादिक्रमस्यैव मुख्यत्वमाह महेश्वरः - पूरकं कुम्भकं चेत्यादि ।
तत्र वायोरादानकाले पूरकनामा प्राणायामः धारणकाले कुम्भकनामा त्यागकाले रेचकनामा । तदुक्तम् - बाह्यादापूरणं वायोरुदरे पूरको हि सः ।
सम्पूर्णकुम्भवद्वायोर्धारणं कुम्भको मतः ॥ बहिर्यद्रेचनं वायोरुदराद्रेचकः स्मृतः इति । तथाच दक्षिणामूर्तिः :

मूलमन्त्रेण देवेशि वामेनापूर्य चोदरम् ।
कुम्भकेन त्रिरावृत्त्या दक्षिणेनापसारयेत् ॥ ६-१ ॥

इति । ज्ञानार्णवे आसने सम्यगासीनो वामेनापूर्य चोदरम् इति । तन्त्रराजेऽपि- वामेन नासारन्ध्रेण पूरयेदमृतात्मना । स्मरन्नम्बु मरुत्पश्चाद्दक्षिणेनापसारयेत् ।
इति । तत्र क्रममाह- मूलाधार इत्यादि । लयमिति मनसो लयमित्यर्थः तेनैव वायोरपि लयभावित्वात् । तन्त्रराजे :

मूलाधारे मनः कृत्वा वायुमापूर्य मूलतः ।
नाडीचक्रान्तरं नीत्वा सर्वाङ्गानि च चारयेत् ॥ ६-१ ॥

इति । यथेष्टमिति सहजगतागतशीलं वायु यथाशक्यमाकर्षयेदित्यर्थः । प्रकाशे परमात्मनि गतं लीनं मानसं यस्य सः प्रकाशगतमानसः । तेन स्वप्रकाशसच्चिदाननन्दपरमात्मस्परूपः सन् कुम्भयेदित्यर्थः ।
अथाङ्गत्रयात्मके प्राणायामे क्वापि विद्याध्यानं भवति नवेत्यत आह- कुम्भके चिन्तयेदित्यादि । विद्यां - मोक्षोपयोगि ज्ञानं विद्या तां सा च श्रीविद्येत्यत आह - मुक्तिकरीं शुभामिति । तेन कुम्भककाले मूलादिब्रह्मरन्ध्रान्तं मूलविद्यां विभावयेदित्युक्तं श्रीविद्यायाः सूक्ष्मध्यानं कुर्यादिति तु सगर्भपक्षे पूरकादिषु प्रत्येकमशक्तौ केवलकुम्भके वेति ध्येयम् । रेचकप्रकारमाह - तदेत्यादि । गम्यते बहिरिति शेषः स्वभावतो नतु न्यूनाधिकत्वादन्यथा तु अयुक्ताभ्यासाद्दोषापत्तेः । तथा चोक्तं गोरक्षशतके :

युक्तं युक्तं पिबेद्वायुं युक्तं युक्तं च धारयेत् ।
युक्तं युक्तं त्यजेदेनमेवं सिद्धिमवाप्नुयात् ॥ ६-१ ॥

यथा सिंहो गजो व्याघ्रो भवेद्धार्यः शनैः शनैः ।
तथैव हि निजो वायुरन्यथा हन्ति साधकम् ॥ ६-२ ॥

प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् ।
अयुक्ताभ्यासयोगेन सर्वरोगसमुद्भवः ॥ ६-३ ॥

हिक्का श्वासश्व कासश्च शिरःकर्णाक्षिवेदनाः ।
भवन्ति विविधा रोगाः प्राणायामव्यतिक्रमात् ॥ ६-४ ॥

ततः शास्त्रोक्तमार्गेण प्राणायामान् समाचरेत् ।

इति । देहान्निःसारयेदिति । रेचकयोगवायुना सह देहस्थस्तमोगुणो बहिर्निःसृत इति भावयेदित्यर्थः । अथ पूरकादेर्नाडीनियममाह - वामेनेत्यादि ।
इत्येकप्राणायामे प्रथमे द्वितीयादियुग्मे तु दक्षिणेनैव पूरयेत् । तदुक्तम् । येनैव संत्यजेत्तेन पूरयेत् धारयेत् ततः । रेचयेच्च ततोऽन्येन शनैरेवं पुनःपुनः ॥ ६-१ ॥

इति । योगशास्त्रे-

अथासने दृढे योगी वशी हितमिताशनः ।
गुरूपदिष्टमार्गेण प्राणायामान् समभ्यसेत् ॥ ६-१ ॥

चले वाते चलं चित्तं निश्चले दृढबन्धनम् ।
योगी स्थानत्वमाप्नोति ततो वायुं निबन्धयेत् ॥ ६-२ ॥

यावद्वायुः स्थितो देहे तावज्जीवनमुच्यते ।
मरणं तस्य निष्क्रान्तिस्ततो वायुं निबन्धयेत् ॥ ६-३ ॥

मलाकुलासु नाडीषु मारुतो नैव मध्यगः ।
कथं स्यादुन्मनीभावः कार्यसिद्धि कथं भवेत् ॥ ६-४ ॥

शुद्धिमेति यदा सर्वं नाडीचक्रं मलाकुलम् ।
तदैव जायते योगी प्रणसंग्रहणे क्षमः ॥ ६-५ ॥

प्राणाभ्यासं ततः कुर्यान्नित्यं सात्त्विकया धिया ।
यथा सुषुम्नापार्श्वस्था मलाः शोषं प्रयान्ति च ॥ ६-६ ॥

बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् ।
धारयित्वा यथाशक्ति पुनः सूर्येण रेचयेत् ॥ ६-७ ॥

प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः ।
विधिवत् कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेद् ॥ ६-८ ॥

येन त्यजेत्तेन पीत्वा धारयेदनिरोधतः ।
रेचयेच्च ततोऽन्येन शनैरेवं न वेगतः ॥ ६-९ ॥

प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यया रेचयेत् पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद् वामया ।
सूर्याचन्द्रमसोरनेन विधिनाभ्यासं सदा तन्वतां शुद्धा नाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्वतः ॥ ६-१० ॥

इति तथा त्रिपुरासारे-

विपरीतमतो विदधीत पुनः पुनरप्यथ तद्विपरीतमिति ।
अमुना विधिना सुमनाः सततं मरुतो विदधीत सुसंयमनम् ॥ ६-१ ॥

इति । अथ कुम्भकफलमाह - सदेत्यादि केवलकुम्भकयोगेनेत्यर्थः । सुसाधिते वायौ मात्रासंख्यानमुक्तं प्रथमाभ्यासे तत्राप्ययं कामचारमाह - अभ्यासी इत्यादि । अभ्यासी प्रथमाभ्यासी तत्त्वदर्शिनां मात्रां यथेष्टं यथेच्छं कारयेदित्यर्थः । एतदेव स्पष्टयति यथाशक्त्येत्यादि । तथा च सति प्रथमाभ्यासी यथोक्तसंख्यामात्राया न्यूनमपि कुर्यात् मध्यमाभ्यासी यथोक्तसंख्यामेव उत्तमाभ्यासी ततोऽधिकसंख्यामपि कुर्यादिति यथेष्टपदतात्पर्यम् । अथ मात्रालक्षणमाह नारदः :

कालेन यावतात्मीयो हस्तः स्वं जानुमण्डलम् ।
पर्येति मात्रा स्यात् तुल्या स्वयैकश्वासमात्रया ॥ ६-१ ॥

इति । तथा फेत्कारिणीतन्त्रे-

जानुं प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ।
क्रियते चांगुलीस्फोटः सा मात्रा परिकीर्तिता ॥ ६-१ ॥

इति । अपि च कात्यायनीतन्त्रे-

मध्या मूलाद्यावदग्रमंगुष्ठेन च पीड्यते ।
मात्रा सा प्रोच्यते सद्भिर्योगेऽभीष्टं प्रयच्छति ॥ ६-१ ॥

इति । वस्तुतस्तु तत्तन्मन्त्रोच्चारणमेव मात्रा । तथा च गौतमीये-

रेचयेद्दक्षिणे वायुं पूरयेद्वामतस्ततः ।
द्वात्रिंशदभ्यसेन्मन्त्रं प्राणायामः स उच्यते ॥ ६-१ ॥

इति । ततः पूरकानन्तरं कुम्भकेऽभ्यसेदित्यर्थः । एतत्तु रेचकादिपक्षे अत एव कुम्भक एव जपादिकं नेतरयोः । दक्षिणामूर्तिकल्पे :

प्राणापानौ समौ कृत्वा सुविधाय च कुम्भकम् ।
हृत्पङ्कजे समासीनं मां ध्यायेद्यतमानसः ॥ ६-१ ॥

इति । अगस्त्यसंहितायाम्-

यावच्छक्यं नियम्यासून् मनसैव जपेन्मनुम् ।
रामं मुहुर्मुहुर्ध्यायन् पूर्वोक्तविधिना सुधीः ॥ ६-१ ॥

इति । असून् नियम्य कुम्भकं कृत्वा रामं ध्यायन् यावच्छक्यं मनुं जपेदिति सम्बन्धः । एतेन यत्र विशेषो नोक्तस्तत्र यथाशक्ति मन्त्रं जपेदिति वैष्णवाः ।
तथैव रीत्यैकत्र दृष्टन्यायेन सर्वत्रैवायं प्रकारः । अत एव श्रीविद्यायां वामकेश्वरतन्त्रे - कुम्भके चिन्तयेद्विद्वान् विद्यां मुक्तकरीं शुभाम् ।
इत्युक्तमिति वदन्ति । वस्तुतस्तु सगर्भके प्राणायामे केवलकुम्भके कुम्भक एव सहितकुम्भके शक्तावङ्गत्रयेऽप्यऽशक्तौ कुम्भके त्वावश्यकं जपध्यानमिति तु तेषां वचनानां निर्गलितार्थः । सच मूलया बालया वा तदशक्तौ प्रणवेन वा कार्यः । तदुक्तं फेत्कारीये : प्राणायामत्रयं कुर्यान्मूलेन प्रणवेन वा ।
इति । निषिद्धप्रणवोच्चारिणां प्रणवस्थाने सार्द्धत्रिमात्रिक औंकारो ज्ञेयः ।
कालिकापुराणे - चतुर्दशस्वरो यस्तु सार्द्धत्रिमात्रसंज्ञकः ।
नादबिन्दुसमायुक्तः शूद्राणां सेतुरुच्यते ॥ ६-१ ॥

इति । अत्र सुसाधितप्राणानां पूरकादौ त्रिपुरासारोक्तैव संख्या जपादौ तन्त्रराजे तदन्यथा । यदुक्तं तन्त्रराजे :

एवं सुसाधिते पश्चाद्द्वात्रिंशन्मात्रया हरेत् ।
धारयेत्तच्चतुष्षष्ट्या रेचयेत् तत्तुरीयतः ॥ ६-१ ॥

इति तु श्रीकादिमतम् तदेतयोर्मतयोर्विकल्पः । तत्राशक्तौ सामान्यपटले फेत्कारीयतन्त्रोक्तः कार्यः । तद्यथा :

तथा द्वादशमात्राभिः कुम्भकः क्रियते सदा ।
तस्माद्द्विगुणमात्राभी रेचकः क्रियते तथा ॥ ६-१ ॥

प्राणायामत्रयं त्वेवमेकैकं त्रितयात्मकम् ।

इति । अत्राप्यशक्तौ सुभगोदयोक्तः कार्यः । प्राणायामत्रयं कुर्यात् स्मरन् विद्यां हृदा पुनः । इति । तद्वचनं तत्पद्धतौ व्याख्यातं दक्षिणनाड्या एकवारं मूलमुच्चरन् वायुमापूर्य चतुर्वारं कुम्भकं कृत्वा वामनाड्या द्विवारं रेचयेदिति प्राणायामत्रयंकुर्यादित्यर्थः । अत्र दक्षिणेन पूरणं युग्मे बोद्धव्यमयुग्मे पूरकादौ वामस्यैवोक्तत्वादथवा तन्मतमेवेदमिति वयं न विद्मः । तत्राप्यशक्तौ ज्ञानार्णवदक्षिणामूर्तिभ्यामुक्तस्य कुम्भकेन त्रिरावृत्त्ये त्यस्यैव ग्रहणमिति संक्षेप इति सहितकुम्भकः ॥ अथ केवलकुम्भकः योगशास्त्रे :

रेचकं पूरकं मुक्त्वा मुखे यद्वायुधारणम् ।
प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः ॥ ६-१ ॥

केवले कुम्भके सिद्धे रेचपूरविवर्जिते ।
न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते ॥ ६-२ ॥

शक्तः केवलकुम्भेन यथेष्टं वायुधारणे ।
राजयोगपदं चैव लभते नात्र संशयः ॥ ६-३ ॥

हठं विना राजयोगो राजयोगं विना हठः ।
न सिध्यति ततो युग्ममानिष्पत्तेः समभ्यसेत् ॥ ६-४ ॥

कुम्भितप्राणरेचान्ते कुर्याच्चित्तं निराश्रयम् ।
एवमभ्यासयोगेन राजयोगपदं व्रजेत् ॥ ६-५ ॥

कुम्भकात् कुण्डलीबोधो कुण्डलीबोधतो भवेत् ।
अनर्गला सुषुम्ना च हठसिद्धिश्च जायते ॥ ६-६ ॥

इति । हः सूर्यो ठश्चन्द्रस्ताभ्यां सूर्यचन्द्राभ्यां दक्षिणवामाभ्यां पिङ्गलेडाभ्यां प्राणवायोर्मूलाधारादौ योगो हठयोग इत्यर्थः । सच प्राणायामो राजयोगः सच सुषुम्नामार्गेण षट्चक्रभेदक्रमेण शिवशक्तिसामरस्यलक्षणमाह तन्त्रराजे :

कम्पश्च पुलकानन्दो वैमल्यस्थैर्यलाघवाः ।
तद्वत् कान्तिप्रकाशौ च योगसिद्धस्य लक्षणम् ॥ ६-१ ॥

योगशास्त्रे-

वपुःकृशत्वं वदनप्रसन्नता नादस्फुटत्वं नयने सुनिर्मले ।
अरोगिता बिन्दुजयोऽग्निदीपनं नाडीविशुद्धेर्हठसिद्धिलक्षणम् ॥ ६-१ ॥

इति केवलकुम्भकः इत्युक्तः । प्राणायामः स गर्भो विगर्भश्चेति द्विविधः स्यात् ।
उक्तं च रुद्रयामले : सगर्भश्च विगर्भश्च प्राणायामो द्विधा मतः । इति । तथा च योगिनीतन्त्रे :

अयं प्राणायामः सकलदुरितर्ध्वसनकरो विगर्भः प्रोक्तोऽसौ शतगुणफलो गर्भकलितः ।
जपध्यानापेतः सतु निगदितो गर्भरहितः सगर्भस्तद्युक्तो मुनिपरिवृढैर्योगनिरतैः ॥ ६-१ ॥

इति । स पुनस्त्रिविधः उत्तमाधममध्यमभेदात् । तथा च तन्त्रराजे-

प्राणायामस्त्रिधा प्रोक्त उत्तमाधममध्यतः ।
लाघवो भूतलत्याग उत्तमे चित्तनिर्वृतिः ॥ ६-१ ॥

सर्वाङ्गस्वेदसंवृद्धिरधमे मध्यमे तथा ।
सर्वाङ्गकम्पनं प्रोक्तमभ्यासात् कालसंयुतात् ॥ ६-२ ॥

तेऽप्युत्तमगुणा भूयुरभ्यासात् कालयोगतः ।
तस्मात् समभ्यसेत् प्रातः सायं च नियमेन वै ॥ ६-३ ॥

इति । तथा त्रिपुरासारे-

शुचिः प्राणायामान् प्रणवसहितान् षोडश वशी प्रभाते सायं च प्रतिदिवसमेवं वितनुते ।
द्विजो यस्तं भ्रूणप्रहरणकृतांहोभिकलितं पुनन्त्येते मासादिह दुरिततूलौघदहनाः ॥ ६-१ ॥

त्रायन्त्यमी षड्भिरपीह मासैर्जन्मान्तरोपार्जितपापपुञ्जात् ।
संवत्सराद् ब्रह्मपदं तदेकं प्रकाशयत्येव यदच्युताख्यम् ॥ ६-२ ॥

इति । योगशास्त्रे तु-

प्रातर्मध्यन्दिने सायमर्द्धरात्रे च कुम्भकान् ।
शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥ ६-१ ॥

कनीयसि भवेत् स्पन्दः कम्पो भवति मध्यमे ।
उत्तिष्ठत्युत्तमे प्राणरोधे पद्मासने मुहुः ॥ ६-२ ॥

जलेन श्रमजातेन गात्रमर्दनमाचरेत् ।
दृढता लघुता चैव तेन गात्रस्य जायते ॥ ६-३ ॥

अभ्यासकाले प्रथमे शस्तं क्षीराज्यभोजनम् ।
ततोऽभ्यासे दृढे जाते न तादृङ्नियमग्रहः ॥ ६-४ ॥

इति । तत्र क्रमः - विहितपद्मासनः सन्निमीलितनयनयुगलो मूलाधारार्पितचित्तवृत्तिर्मूलमन्त्रादिकमुच्चरन् इडया वामनाड्या षोडशमात्रया वायुमापूर्य मूलाधारं प्रापययांगुष्ठकनिष्ठानामाभिर्नासापुटौ विधृत्य चतुःषष्टिमात्रया तं वायुं स्तम्भयित्वा द्वात्रिंशन्मात्रया पिङ्गलया दक्षिणनाड्या शनैःशनैस्तं वायुं रेचयेदित्येकः प्राणायामः । पुनस्तं पिङ्गलया वायुं शनैःशनैः समाकृष्य तथैवेडया रेचयेदित्यन्यः । एवं वैपरीत्येन विंशतिवारं षोडशवारं द्वादश षट् त्रिर्वा द्विर्वा यथाशक्ति कुर्यात् ततः सिद्धिमवाप्नुयादिति । शारदातिलके : मात्रावृद्धिक्रमेणैव सम्यग्द्वादश षोडश । इति संक्षेपः । अत्र सर्वत्र प्राणायामेनैव सर्वेषां कर्माधिकारः अकरणे निन्दाश्रवणात् । अगस्त्यसंहितायाम् :

प्राणायामैर्विना यद्यत् कृतं कर्म निरर्थकम् ।
अतो यत्नेन कर्तव्याः प्राणायामाः शुभार्थिभिः ॥ ६-१ ॥

इति । अत एवावश्यकोऽयं भूतशुद्धिरिव पूजयामिति । इति प्राणायामविधिर्मतद्वयसाधारणः ॥

अथ योगपीठन्यासः : तत्रांसद्वयोरुद्वयकल्पितपादचतुष्टयं मुखनाभिपार्श्वद्वयमध्योपकल्पितगात्रचतुष्टयं योगपीठं निजदेहं ध्यात्वा न्यसेत् । मूलाधारे ४ महाकायाय रक्तवर्णाय मण्डूकाय नमः ।
तदुपरि स्वाधिष्ठानपर्यन्तं ४ पञ्चवक्त्रदशभुजरक्तकृष्णवामदक्षिणपार्श्वाय कालाग्निरुद्राय नमः ।
तदुपरि नाभिपर्यन्तं बन्धूकरुचिरायै मूलप्रकृत्ये नमः । तदुपरि हृत्पर्यन्तं शरच्चन्द्रप्रभायै पङ्कजद्वयधारिण्यै आधरशक्तयै नमः । तदुपरि हृदय एव ४ कूर्माय नमः ४ अनन्ताय नमः ४ वराहाय० ४ पृथिव्यै० ४ अमृतार्णवाय० ४ समस्तमातृकामुच्चार्य नवखण्डविराजिताय नवरत्नमयद्वीपाय नमः । तत्रैव नवखण्डेषु ईशानादिमध्यान्तं ४ अं १६ पुष्परागरत्नाय नमः । ४ कं ५ नीलरत्नाय० ४ चं

५ वैडूर्यरत्नाय० ४ टं ५ विद्रुमरत्नाय० ४ तं ५ मौक्तिकरत्नाय० ४ पं ५ मरकतरत्नाय० ४ यं ४ वज्ररत्नाय० ४ शं ४ गोमेदरत्नाय० ४ लंक्षं पद्मरागरत्नाय नमः । तत्रैव स्वर्णपर्वताय नमः । तदुपरि ४ नन्दनोद्यानाय नमः । तन्मध्ये ४ कल्पकोद्यानाय नमः ४ वसन्तादि-ऋतुभ्यः । पश्चिमे ४ इन्द्रियाश्वेभ्य० पूर्वे ४ इन्द्रियार्थगजेभ्यो नमः ४ विचित्ररत्नभूमिकायै नमः ।
तत्र पश्चिमादिमध्यान्तं विलोमेन ४ कालचक्रेश्वरीश्रीपा० ४ मुद्राचक्रेश्वरीश्रीपा० ४ मातृकाचक्रेश्वरीश्रीपा० ४ रत्नचक्रेश्वरीश्री० ४ देशचक्रेश्वरीश्री० ४ गुरुचक्रेश्वरीश्री० ४ तत्त्वचक्रेश्वरीश्री० ४ ग्रहचक्रेश्वरीश्री० ४ मूर्तिचक्रेश्वरीश्री० ४ कारणतोयपरिधये० ४ माणिक्यमण्डपाय० । तस्य निर्-ऋत्यादिकोणेषु मध्ये च ४ देशरूपिणीशक्तिश्री० ४ कालरूपिणीशक्तिश्री० ४ आकाररूपिणीशक्तिश्री ४ शब्दरूपिणीशक्तिश्री० ४ मध्ये संगीतयोगिनीरूपिणीशक्तिश्री० ४ तन्मध्ये समस्तगुपुतप्रकटयोगिनीचक्ररूपिणीशक्तिश्री० ४ । ततस्तन्मध्ये ४ कल्पतरुभ्यो० तेषामधस्ततात् ४ रत्नवेदिकायै नमः । तदुपरि ४ श्वेतच्छत्राय० तस्याधः ४ रत्नसिंहासनाय नमः इत्येतत्सर्वं मानसपङ्कजे विन्यस्य यथायथं तत्तत्स्थानान्यध्यवस्य रत्नसिंहासनत्वेनात्मदेहं ध्यायेत् । तत्र सिंहासनदेवता न्यसेत् । दक्षांसे ४ रक्तवर्णाय ऋषभरूपाय धर्माय० ।
वामांसे ४ श्यामवर्णाय सिंहरूपाय ज्ञानाय० । वामोरौ ४ पीतवर्णाय भूताकाराय वैराग्याय० । दक्षोरौ ४ इन्द्रनीलप्रभाय गजरूपाय ऐश्वर्याय० ।
एते सिंहासनपादरूपिणः । मुखे ४ अधर्माय० । वामपार्श्वें ४ अज्ञानाय० ।
नाभौ ४ अवैराग्याय० । दक्षपार्श्वें ४ अनैश्वर्याय० । एते सिंहासनगात्ररूपिणीः । मध्ये ४ मायायै० ४ विद्यायै० । तदुपरि ४ आनन्दकन्दाय० ४ संविन्नालाय० ४ प्रकृतिमयपत्रेभ्यः० ४ विकारमयकेसरेभ्यः० ४ पञ्चाशद्वर्णवीजाढ्यसर्वतत्त्वरूपायै कर्णिकायै० तस्यां ४ अं सूर्यमण्डलाय० ४ उं सोममण्डलाय० ४ मं वह्निमण्डलाय० ४ सं सत्वाय० ४ रं रजसे० ४ तं तमसे० ४ आं आत्मेन० ४ अं अन्तरात्मने० ४ पं परमात्मने० ४ ह्रीं ज्ञानात्मने० । तदुपरि पूर्वादिचतुर्दिक्षु मध्ये च ४ ज्ञानतत्त्वात्मने नमः ४ मायातत्त्वात्मने० ४ कलातत्त्वात्मने० ४ विद्यातत्त्वात्मने० ४ परतत्त्वात्मने० । ततः केसरेषु पूर्वाद्यष्टदिक्षु मध्ये च श्रीचक्राधारपीठस्य नव शक्तीर्न्यसेत् ।
दूतर्यम्बाश्री० ४ सुन्दर्यम्बाश्री० ४ सुमुख्यम्बाश्री० ४ विरूपाम्बाश्री० ४ विमलाम्बाश्री० ४ अन्तर्यम्बाश्री० ४ वदर्यम्बाश्री० ४ पुरन्दर्यम्बाश्री० । मध्ये कर्णिकायां ४ पुष्पमर्दन्यम्बाश्री० । एता वराभयधारिण्यो रक्तवर्णा ध्येयाः । तदुपरि ४ क्लीं सर्वशक्तिकमलासनाय नमः इति सिंहासनमन्त्रं विन्यस्य तदुपरि श्रीचक्रं ध्यात्वा ४ मूलं समस्तप्रकटगुप्तगुप्ततरसंप्रदायकुलकौलनिगर्भरहस्यातिरहस्य- परापररहस्ययोगिनीश्रीचक्रपादुकाभ्यो नमः इति व्यापकेन विन्यस्य हृदि त्रिकोणं विभाव्य तन्मध्ये ४ मूलं ओं ह्रौं क्लीं भगवति ब्लूं नित्याकामेश्वरि स्त्रीं सर्वसत्त्ववशङ्करि सः त्रिपुरभैरवि ऐं विच्चे ह्रींश्रा श्रीमहात्रिपुरसुन्दर्यम्बाश्री० इति विन्यस्य प्रणवादिनमोऽन्तं मूलविद्यां च विन्यस्य श्रीचक्रं पुरत्रयात्मकं ध्यात्वा तत्रारोहणक्रमेण ४ वाग्भवमुच्चार्य चतुरस्रषोडशदलाष्टदलात्मने शरीरात्मकाय प्रथमपुराय नम इति व्यापकं न्यसेत् । ततः ४ कामराजमुच्चार्य चतुर्दशारद्विदशारात्मने बुध्यात्मकाय द्वितीयपुराय नम इत्यपि व्यापकम् । ४ शक्तिकूटमुच्चार्याष्टारत्रिकोणबिन्दुचक्रात्मने प्राणात्मकाय तृतीयपुराय नम इत्यपि व्यापकं विन्यस्य ४ इच्छाशक्तिज्ञानशक्तिक्रियाशक्त्यादिसमस्तत्रितयात्मने श्रीचक्रस्य पुरत्रयाय नमः इत्यपि व्यापकम् । ततो हृदयत्रिकोणस्याग्रादिकोणत्रयमपि पुरत्रयात्मकं वाग्भवादिपुरत्रयात्मकं च ध्यात्वा तत्र प्रणवादिनमोऽन्तं वाग्भवादिकूटत्रयं न्यसेत् । ततो नादबिन्दुकलाज्येष्ठारौद्रीवामाविषघ्नीदूतरीसर्वानन्दाभ्यः श्रीचक्रस्थत्रैलोक्यमोहनादिनवचक्रशक्तिभ्यो नमः इत्यनेन व्यापकं कुर्यात् ।
ततो हृदयकमलकेसरेषु कामेश्वरीपीठस्य नव शक्तीर्न्यसेत् । ४ मोहिन्यै नमः ४ क्षोभिण्यै० ४ वशिन्यै० ४ स्तम्भिन्यै० ४ आकर्षिण्यै० ४ द्राविण्यै० ४ आह्लादिन्यै० ४ क्लिन्नायै० मध्ये ४ क्लेदिन्यै० इति विचिन्त्य त्रिकोणमध्ये ४ बालामूलं पञ्चदशीं चोच्चार्य त्रिकोणरक्तवर्णोड्डियानपीठश्री० त्रिकोणाग्रे ४ बालामूलयोर्वाग्भवद्वयमुच्चार्य चतुरस्रपीतवर्णकामरूपपीठश्री० ।
दक्षिणकोणे ४ कामराजद्वयमर्धचन्द्रनिभश्वेतवर्णजालन्धरपीठश्री० ।
वामकोणे ४ शक्तिबीजद्वयं षड्बिन्दुलांछितवृत्तधूम्रवर्णपूर्णगिरिपीठश्री० इति

१००)

पीठचतुष्टयं विन्यस्य पुनर्वैन्दवे आग्नेयादिकोणेषु ४ लां ह्लां ब्रह्मणे पृथिव्यधिपतये नमो ब्रह्मप्रेतासनश्री० । ४ वां ह्रीं विष्णवेऽपामधिपतये नमो विष्णुप्रेतासनश्री० । रांहूं रुद्राय तेजोऽधिपतये नमो रुद्रप्रेतासन श्री० । ४ यां ह्रौं ईश्वराय वायवधिपतये नम ईश्वरप्रेतासनश्री० । ४ ह्सौं वियदधिपतये पञ्चवक्त्राय सदाशिवाय प्रेतपद्मासनाय नमः सदाशिवमहाप्रेतपद्मासनश्री० इति पञ्चप्रेतासनं न्यस्य तदुपरि रक्तपद्मकर्णिकायां चतुरस्रगर्भितषट्कोणपीठे षडासनानि विन्यसेत् । ४ अं आं सौः त्रिपुरासुधार्णवासनाय नमः । ४ ऐं क्लीं सौः त्रिपुरेश्वरीपोताम्बुजासनाय नमः । ४ ह्रीं क्लीं सौः त्रिपुरसुन्दरीदेव्यात्मासनाय नमः । ४ हैं ह्वलीं ह्सौः त्रिपुरवासिनीसर्वचक्रासनाय नमः । ह्सैं ह्सक्लीं हसौः त्रिपुराश्रीसर्वमन्त्रासनाय नमः । ४ ह्रीं क्लीं ब्लें त्रिपुरमालिनीसाध्यसिद्धासनाय नम इति विन्यस्य मध्ये चतुरस्रे चतुष्पीठचतुरासनं न्यसेत् । ऐशाने ४ वाग्भवद्वयमुच्चार्यं अग्निचक्रे कामगिर्यालये मित्रेशनाथात्मके जाग्रद्दशाधिष्ठायके इच्छाशक्त्यात्मकरुद्रात्मकशक्तिकामेश्वरीदेवी ह्रीं क्लीं सौः त्रिपुरसुन्दरीदेव्यात्मासनाय नमः । वायव्यकोणे ४ कामराजद्वयं सूर्यचक्रे जालन्धरपीठे षष्ठेशनाथात्मके स्वप्नदशाधिष्ठायके ज्ञानशक्त्यात्मविष्ण्वात्मकशक्तिश्रीवज्रेश्वरीदेवी हैं ह्क्लीं ह्सौः त्रिपुरवासिनीसर्वचक्रासनाय नमः । नैर्-ऋते ४ शक्तिद्वयमुच्चार्य सोमचक्रे पूर्णगिरिपीठे उड्डीशनाथात्मके सुषुप्तिदशाधिष्ठायके क्रियाशक्त्यात्मकब्रह्मात्मशक्तिश्रीभगमालिनीदेवी ह्सैं ह्सक्लीं ह्सौः त्रिपुराश्रीसर्वमन्त्रासनाय नमः । आग्नेये ४ समस्तद्वयमुच्चार्य ब्रह्मचक्रे महोड्यानपीठे श्रीचर्यानाथात्मकतुर्यतुर्यातीतदशाधिष्ठायके परब्रह्मशक्त्यात्मकश्रीत्रिपुरसुन्दरीदेवी ह्रीं क्लीं ब्लें त्रिपुरमालिनीसाध्यसिद्धासनाय नमः । मध्ये ४ ऐं क्लीं सौः क० १५ श्रीमहात्रिपुरसुन्दरीसर्वमन्त्रासनाय नम इति विन्यस्य ४ अं ५१ शिवशक्तिसदाशिवेश्वरशुद्धविद्यामायाकालनियतिकलाविद्यारागपुरुषप्रकृति- बुद्ध्यहङ्कारमनस्त्वक्चक्षुःश्रोत्रजिह्वाघ्राणवाक्पाणिपादपायूपस्थशब्द- स्पर्शरूपरसगन्धाकाशवायुवह्निसलिलपृथिव्यात्मने श्रीमहात्रिपुरसुन्दर्या योगपीठासनाय नमः इति व्यापकं कुर्यात् । ततो मूलमुच्चार्य श्रीमन्महात्रिपुरसुन्दरीश्री० इति षट्त्रिंशत्तत्वात्मके देहमये महायोगपीठे निजेष्टदेवता हृदि न्यसेत् । इति देहमये पीठे चिन्तयेत्परदेवताम् इति योगपीठन्यासः ।
शारदायाम् :

संहारसृष्टिमार्गेण मातृकान्यस्तविग्रहः ।
मन्त्रन्यासं ततः कुर्याद् देवताभावसिद्धये ॥ ६-१ ॥

इति । तत इति मन्त्रन्यासानन्तरमित्यर्थः । मन्त्रन्यास उपास्यमन्त्रसम्बन्धी न्यासः । वैशम्पायनसंहितायाम्-

तत उपास्यमन्त्रस्य न्यासामृष्यादिकांश्चरेत् ।
यस्य मन्त्रस्य ये नासाः कर्तव्याः सिद्धिमिच्छता ॥ ६-१ ॥

जपतर्पणहोमार्चाः सिद्धमन्त्रकृता अपि ।
अङ्गन्यासादिभिर्हीना न दास्यन्ति फलान्यमी ॥ ६-२ ॥

न्यासानशेषान् न्यसतः स्वदेहे त्रैलोक्यमेतद्वशमेति पुंसः ।
पापानि सद्यः प्रशमं प्रयान्ति त्रस्यन्ति रक्षांसि सपन्नगानि ॥ ६-३ ॥

आदावृष्यादि विन्यस्य कराङ्गन्यसनं ततः ।
ततो मन्त्राक्षरन्यासः पदन्यासस्ततः परम् ॥ ६-४ ॥

तत्तत्कल्पविशेषोक्तान् न्यासानन्यान् समाचरेत् ।
ततो मन्त्रपुटैर्वणैर्मातृकायाः सबिन्दुकैः ॥ ६-५ ॥

विन्यसेन्मन्त्रवित् सम्यक्शास्त्रदृष्टेन वर्त्मना ।
अथर्प्यङ्गकरन्यासस्ततो मुद्राः प्रदर्शयेत् ॥ ६-६ ॥

इति क्रमः । अन्यत्रापि श्रीविद्यामधिकृत्य-

अन्तः शुद्धा च सृष्टिस्थितिविलयमयी तारजाभिः कलाभिः श्रीकण्ठाद्यैश्च विष्णुप्रमुदिततनुभिर्शक्तिलक्ष्मीमनोजैः ।
बीजैर्व्यस्तैः समस्तैः कलितलिपिवरा चात्मयागश्च मौनी षोढा कामश्च षोढा नवविधभवना मन्त्रगुप्सर्वमन्त्राः ॥ ६-७ ॥

इति । स पुनरस्यां विद्यायां त्रिविधः षोढाश्रीचक्रकरशुद्ध्यादिभेदात् ।
तत्र षोढा द्विविधः पूर्वोत्तरभेदात् । तत्र पूर्वषोढान्यासः सर्वाम्नायविषयः उत्तरषोढान्यास ऊर्ध्वाम्नाय विषयः ।
श्रीचक्रन्यासस्त्रिविधः संहारसृष्टिस्थितिभेदात् ।

कररशुद्ध्यादिन्यासस्तु बहुततः श्रीकण्ठादिरतिकामादिन्यासादीनामपि तत्रैवान्तर्भावात् । तत्र षोढान्यासः संहारश्रीचक्रन्यासः सृष्टिश्रीचक्रन्यासः करशुद्ध्यादिन्यासश्चेति जपकाले स्थितिश्रीचक्रन्यासस्य करशुद्ध्यादावन्तर्भावात् पूजाकाले संहारश्रीचक्रन्यासस्योपलक्षणत्वेन तदन्तर्भावाच्च चतुर्विधो न्यासस्तदवसरे संक्षेपादावश्यकः इति योगिनीहृदयमतम् । योगिनीहृदये :

एवं चतुर्विधो न्यासः कर्तव्यो वीरवन्दिते ।
षोढान्यासोऽणिमाद्यश्च मूलदेव्यादिकः प्रिये ॥ ६-१ ॥

करशुद्ध्यादिकश्चैव साधकेनाशु सिद्धये ।
प्रातःकालेऽथवा पूजासमये होमकर्मणि ॥ ६-२ ॥

जपकालेऽथवा तेषां विनियोगः पृठक् पृथक् ।
पूजाकाले समस्तं वा कृत्वा साधकसत्तमः ॥ ६-३ ॥

इति । तत्रादौ पूर्वषोढान्यासो योगिनीहृदये-

न्यासान्निर्वर्तयेद्देवि षोढान्यासपुरःसरम् ।
गणेशैः प्रथमो न्यासो द्वितीयश्च ग्रहैर्मतः ॥ ६-१ ॥

नक्षत्रैश्च तृतीयः स्याद्योगिनीभिश्चतुर्थकः ।
राशिभिः पञ्चमो न्यासः षष्ठः पीठैर्निगद्यते ॥ ६-२ ॥

षोढान्यासस्त्वयं प्रोक्तः सर्वत्रैवापराजितः ।
एवं यो न्यस्तगात्रस्तु स पूज्यः सर्वयोगिभिः ॥ ६-३ ॥

नास्त्यस्य पूज्यो लोकेषु पितृमातृमुखो जनः ।
स एव पूज्यः सर्वेषां स स्वयं परमेश्वरः ॥ ६-४ ॥

षोढान्यासविहीनं यं प्रणमेदेष पार्वति ।
सोऽचिरान्मृत्युमाप्नोति नरकं च प्रपद्यते ॥ ६-५ ॥

इति । ज्ञानार्णवे-

षोढान्यासं ततः कुर्याद्येन ब्रह्माण्डरूपकः ।
विराट्स्वरूपो वर्णात्मा शिवः साक्षान्नसंशयः ॥ ६-१ ॥

गेणेशाः प्रथमो न्यासः सर्वविघ्नविनाशकः ।
तरुणादित्यसंकाशान् गजवक्त्रांस्त्रिलोचनान् ॥ ६-२ ॥

पाशांकुशवराभीतिकरांशक्तिसमन्वितान् ।
एतांस्तु विन्यसेद्देवि मातृकान्यासवत् प्रिये ॥ ६-३ ॥

इति । अत्र ४ अं श्रीविघ्नेश्वराभ्यां नम इत्यन्ते । विघ्नेश्वराय श्रियै नम इत्यपरे ।
विघ्नेश्वरश्रीभ्यां नम इति केचित् । गणेशाः शक्तयश्च मातृकाश्वासे बोद्धव्या इति गणेशन्यासः । अथ ग्रहन्यासः ज्ञानार्णवे : ग्रहन्यासं ततो न्यतेदिति ।

रक्तं श्वेतं तथा रक्तं श्यामं पीतं च पाण्डुरम् ।
धूम्रं कृष्णं च धूम्रं च धूम्रधूम्रं विचिन्तयेत् ॥ ६-१ ॥

रविमुख्यान् कामरूपान् सर्वाभरणभूषितान् ।
स्वरैरर्कं हृदि न्यस्य यवर्गेण शशी ततः ॥ ६-२ ॥

भ्रूमध्ये तु कवर्गेण भौमं नेत्रत्रये न्यसेत् ।
टवर्गेण बुधं हृदि तवर्गेण बृहस्पतिम् ॥ ६-३ ॥

हृदयोपरि देवेशि चवर्गेण गले भृगुम् ।
पवर्गेण शनिं नाभौ राहुं वक्त्रे शवर्गतः ॥ ६-४ ॥

लक्षाभ्यां पादयोः केतुं न्यसेदेवं वरानने ।
सूर्यश्च रेणुका चैव सोमश्चैवामृता तथा ॥ ६-५ ॥

मङ्गलो धामयायुक्तो बुधश्च ज्ञानरूपया ।
गुरुर्यशस्विनीयुक्तः शाङ्करीसहितो भृगुः ॥ ६-६ ॥

शनिः शक्तिसमायुक्तो राहुः कृष्णासमन्वितः ।
धूम्रया सहितः केतुः शक्तयोऽम्बान्तिकाः स्मृताः ॥ ६-७ ॥

इति पूर्ववत्प्रयोगः । अथ नक्षत्रन्यासः-

अथ नक्षत्रवृन्दस्य न्यासं कुर्यात् सुखप्रदम् ।
ज्वलत्कालाग्निसङ्काशाः सर्वाभरणभूषिताः ॥ ६-१ ॥

नतिपाण्योऽश्विनीपूर्वा वरदाभयपाणयः ।
युग्मं युग्मं तथा युग्मं युग्मयुग्मेन रोहिणी ॥ ६-२ ॥

एकमेकं तथा द्वन्द्वमेकं पुष्यान्तमुच्यते ।
ललाटे लोचने पश्चाद्वामदक्षिणकर्णयोः ॥ ६-३ ॥

नासाद्वये च देवेशि तथा कण्ठे न्यसेत् क्रमात् ।
पुष्यान्तं च प्रविन्यस्य खगाभ्यां चैव सर्पकम् ॥ ६-४ ॥

दक्षस्कन्धे घङाभ्यां च मघां स्कन्धे द्वितीयके ।
च पूर्वफाल्गुनीं दक्षे कूर्परे छजसंस्थिताम् ॥ ६-५ ॥

उत्तरां फाल्गुनीं वामे कूर्परे विन्यसेत्प्रिये ।
झञवर्णस्थितौ हस्ते मणिबन्धे न्यसेत्प्रिये ॥ ६-६ ॥

टठार्णेन युतां चित्रां वामे तु मणिबन्धके ।
डकारेण युतां स्वातीं दक्षहस्तेन विन्यसेत् ॥ ६-७ ॥

ढणयुक्तां विशाखां च वामहस्ते प्रविन्यसेत् ।
तथदस्थाऽनुराधां च नाभौ न्यसेत्तु पार्वति ॥ ६-८ ॥

धकारेण युतां ज्येष्ठां न्यसेद्दक्षकटौ प्रिये ।
नपफस्थं तथा मूलं न्यसेद्वामकटौ प्रिये ॥ ६-९ ॥

पूर्वाषाढां बकारेण दक्षोरौ विन्यसेत्ततः ।
भकारेणोत्तराषाढां वामोरौ तदनन्तरम् ॥ ६-१० ॥

मकारयुक्तं श्रवणं दक्षजानुनि विन्यसेत् ।
यरान्वितां धनिष्ठां च वामजानुनि विन्यसेत् ॥ ६-११ ॥

लकारेण युतां देवि शतभिषां न्यसेत् प्रिये ।
दक्षजङ्घागतां पश्चात् पूर्वभाद्रपदां ततः ॥ ६-१२ ॥

वशवर्णात्मिकां न्यसेद्वामजङ्घागतां क्रमात् ।
षसहस्थोत्तराभाद्रपदां दक्षिणपादके ॥ ६-१३ ॥

क्षकारेण तथा बिन्दुविसर्गाभ्यां च रेवतीम् ।
वामपादतले न्यस्य योगिनीन्यासमारभेत् ॥ ६-१४ ॥

इति । ध्यानमाह ज्वलदित्यादि पूर्ववत् । इति नक्षत्रन्यासः ॥ अथ योगिनीन्यासः- तन्त्रान्तरे - विशुद्धौ षोडशारे तु डाकिनीं भावयेत् सुधीः । त्वग्धातुदेवतां कण्ठे सर्वकामार्थसिद्धये ॥ ६-१ ॥

रक्तां रक्तत्रिनेत्रां पशुजनभयकृच्छूलखट्वाङ्गहस्तां वामे खेटं दधानां चषकमपि सुरापूरितं चैकवक्त्राम् ।
अत्युग्रामुग्रदंष्ट्रामरिकुलमथनीं पायसान्ने प्रसक्तां कण्ठस्थानेऽमृताद्यैः परिवृतवपुषं भावयेड्डाकिनीं ताम् ॥ ६-२ ॥

डांडींडूंडैं ततो डोंडौं डमलेति वरेति च ।
यूं डाकिनीपदं प्रोक्त्वा मां रक्षद्वितयं वदेत् ॥ ६-३ ॥

सर्वसत्त्ववशं प्रोक्त्वा करि देवि ततः परम् ।
आगच्छद्वितयं प्रोक्त्वा इमां पूजां तथैव च ॥ ६-४ ॥

गृह्णद्वयं वाग्भवं च घोरे देवि ततः परम् ।
मायाबीजं भृगुः सर्गी परमेति ततः परम् ॥ ६-५ ॥

घोरेहूं घोररूपे च एह्येहीति नमःपदम् ।
चामुण्डे डरलान्ते च कस हैं श्रीमहात्रि च ॥ ६-६ ॥

पुरसुन्दरि देवीति विच्चेन्तं वरदे पदम् ।
स्वरान् विशुद्धपीठस्थे विशुद्धान्ते तु डाकिनि ॥ ६-७ ॥

विशुद्धनाथदेवश्रीपादुकां पूजयामि च ।
अंगुष्ठानामिकाभ्यां च कर्णिकायामिमं न्यसेत् ॥ ६-८ ॥

तवः षोडशपत्रेषु पूर्वाद्यक्षरपूर्विकाः ।
अमृतादिशक्तीस्तु विन्यसेत् ता यथाक्रमम् ॥ ६-९ ॥

अमृताकर्षिणीन्द्राणीशान्युमा चोर्ध्वकेशिनी ।
ऋद्धिदा च ततो ॠषा ऌकारा च ततः परम् ॥ ६-१० ॥

ॡषा चैकपदा चैश्वर्यात्मिकौङ्कारिणी ततः ।
ततौषधात्मिका चैवाम्बिका चाप्यक्षरात्मिका ॥ ६-११ ॥

अमृतादिकशक्तीनां डाकिनीसदृशं वपुः ।
तत्समानायुधादीनि न्यासपूजनचिन्तने ॥ ६-१२ ॥

अनाहते द्वादशारे राकिणीं रक्तधातुगाम् ।
ध्यायेत् तत्कर्णिकामध्ये साधकः सर्वसिद्धये ॥ ६-१३ ॥

श्यामां शूलाब्जहस्तां डमरुकसहितां तीक्ष्णचक्रं वहन्तीं द्व्यास्यां रक्तत्रिनेत्रां भ्रुकुटिवलिलसद्दष्टदन्तप्रभाभिः ।
दीप्तां तां देवदेवीं हृदयकमलगां रक्तधात्वेकनाथां शुद्धान्नेषु प्रसक्तां मधुमदमुदितां भावयेद्राकिणी ताम् ॥ ६-१४ ॥

तत्तदक्षरतत्स्थानतदन्तपदयोजनात् ।
पूर्ववन्मन्त्रमुच्चार्य कर्णिकायां न्यसेद्बुधः ॥ ६-१५ ॥

परितः कालरात्र्यादिशक्तीस्तद्वर्णपूर्विकाः ।
न्यसेद्द्वादशपत्रेषु पूर्वादिषु यथाक्रमम् ॥ ६-१६ ॥

कालरात्रिश्च खातीता गायत्री च ततः परम् ।
घण्टाधारिणिका चैव ततो ङार्णात्मिका पुनः ॥ ६-१७ ॥

चामुण्डाच्छाया जया झङ्कारिणी ञार्णात्मिका पुनः ।
टङ्कहस्ता च ठङ्कारिण्येताः पूर्वादि विन्यसेत् ॥ ६-१८ ॥

कालरात्र्यादिशक्तीनां राकिणीसदृशं वपुः ।
तत्समानायुधादीनि न्यासपूजनचिन्तने ॥ ६-१९ ॥

मणिपूरे दशदले लाकिनीं मांसधातुगाम् ।
ध्यायेत् तत्कर्णिकामध्ये साधकः सर्वसिद्धये ॥ ६-२० ॥

कृष्णां देवीं त्रिवक्त्रां त्रिनयनसहितां दंष्ट्रिणीमुग्ररूपां वज्रं शक्तिं च दण्डाभयवरददरान् दक्षवामे दधानाम् ।

ध्यात्वा नाभिस्थपद्मे दशदलविलसत्कर्णिके लाकिनीं तां मांसस्थां गौडभक्तोत्सुकहृदयवतीं चिन्तयेत् साधकेन्द्रः ॥ ६-२१ ॥

मन्त्रं प्राग्वत् प्रविन्यस्य डामर्यादीन् प्रविन्यसेत् ।
डामरी ढङ्कारिणी च णकारिण्यथ तामसी ॥ ६-२२ ॥

स्थानदेवी च दाक्षायण्यथ धात्री तथैव च ।
नन्दा च पार्वती फट्कारिण्येता दशपत्रगाः ॥ ६-२३ ॥

डामर्यादिकशक्तीनां लाकिनीसदृशं वपुः ।
तत्समानायुधादीनि न्यासपूजनचिन्तने ॥ ६-२४ ॥

स्वाधिष्ठाने रसदले काकिनीं भावयेत्सुधीः ।
मेदोधातुस्थदेवेशीं परिवारसमन्विताम् ॥ ६-२५ ॥

स्वाधिष्ठानाख्यपद्मे रसदलललिते वेदवक्त्रां त्रिनेत्रां पीताभां धारयन्तीं त्रिशिखगुणकपालाभयान्यात्तवर्गाम् ।
मेदोधातुप्रतिष्ठामलिमदमुदितां बन्धिनीत्यादियुक्तां दध्यन्ने सक्तचित्तामभिमतफलदां काकिनीं भावयेत्ताम् ॥ ६-२६ ॥

बन्धिनी भद्रकाली च महामाया यशस्विनी ।
रमा तथा च लम्बोष्ठी षड्दले पूर्ववन्न्यसेत् ॥ ६-२७ ॥

बन्धिन्यादिकशक्तीनां काकिनीसदृशं वपुः ।
तत्समानायुधादीनि न्यासपूजनचिन्तने ॥ ६-२८ ॥

मूलाधारे वेददले शाकिनीमस्थिधातुगाम् ।
परिवारयुतां देवी कर्णिकायां तु भावयेत् ॥ ६-२९ ॥

देवीं ज्योतिःस्वरूपां त्रिनयनविलसत्पञ्चवक्त्रां सुदंष्ट्रां हस्ताम्भोजेषु चापं सृणिमपि दधतीं पुस्तकं ज्ञानमुद्राम् ।
मूलाधारस्थपद्मे निखिलपशुजनोन्मादिनीमस्थिसंस्थां मुद्गान्ने प्रीतियुक्तां मधुमदमुदितां चिन्तयेत् शाकिनीं ताम् ॥ ६-३० ॥

वरदा शशिनी षण्डा चतुर्थी स्यात्सरस्वती ।
चतुर्दलेषु पूर्वादि न्यसेदेतास्तु साधकः ॥ ६-३१ ॥

वरदादिकशक्तीनां शाकिनीसदृशं वपुः ।
तत्समानायुधादीनि न्यासपूजनचिन्तने ॥ ६-३२ ॥

आज्ञायां द्विदले पद्मे या मज्जाधातुदेवता ।
ध्यात्वा तां कर्णिकामध्ये तन्मन्त्रं तत्र विन्यसेत् ॥ ६-३३ ॥

भ्रूमध्ये बिन्दुपद्मे द्विदलसुललिते शुक्लवर्णां कराब्जै र्बिभ्राणां ज्ञानमुद्रां डमरुकसहितामक्षमालां कपालम् ।
षड्वक्त्रां मज्जसंस्थां त्रिनयनललितां हंसवत्यादियुक्तां हारिद्रान्ने प्रसक्तां सकलसुरनुता हाकिनीं भावयेत्ताम् ॥ ६-३४ ॥

हंसवत्यै क्षमावत्यै नम इत्यपि विन्यसेत् ।
दलद्वये क्रमाद्देवि तत्तदक्षरपूर्वकम् ॥ ६-३५ ॥

हंसवत्यादिशक्त्योस्तु हाकिनीसदृशं वपुः ।
तत्समानायुधादीनि न्यासपूजनचिन्तने ॥ ६-३६ ॥

ब्रह्मरन्ध्रे सहस्रारे कर्णिकायां तु याकिनीम् ।
तां शुक्रधातुगां देवीं ध्यायेत् सावरणां शुभाम् ॥ ६-३७ ॥

मुण्डव्योमस्थपद्मे सकलदलयुते याकिनीं भैरवीं तां यक्षिण्याढ्यां समस्तायुधकलितकरां सर्ववर्णां समष्टिम् ।
डादीनां सर्ववक्त्रां सकलसुखकरीं सर्वधातुस्वरूपां सर्वान्ने सक्तचित्तां परशिवरसिकां भावयेत् सर्वरूपाम् ॥ ६-३८ ॥

तन्मन्त्रं पूर्ववन्न्यस्य परितोऽप्यमृतादिकाः ।
अमृतादिकशक्तीनां याकिनीसदृशं वपुः ॥ ६-३९ ॥

तत्समानायुधादीनि न्यासपूजनचिन्तने ।

इति योगिनीन्यासः ॥ अथ राशिन्यासः-

प्राणानायम्य मूलेन राशीनां ध्यानमाचरेत् ।
रक्तं श्वेतं हरिद्वर्णं पाण्डुं चित्रं सितं स्मरेत् ॥ ६-१ ॥

पिशङ्गकपिलो कद्रुकर्बुरारुणधूमलान् ।
अकारादिचतुष्केण विन्यसेत् सुरवन्दिते ॥ ६-२ ॥

मेषं दक्षिणपदगुल्फे ततो द्वन्द्वेन वै वृषम् ।
न्यसेज्जानि वेदैस्तु मिथुनं वृषणे ततः ॥ ६-३ ॥

द्वाभ्यां ककंटकं कुक्षौ द्वाभ्यां स्कन्धे च सिंहकम् ।
अनुस्वारविसर्गाभ्यां शवर्गेण च कन्यकाम् ॥ ६-४ ॥

दक्षिणे तु शिरोभागे विन्यसेद्वीरवन्दिते ।
तथा वामे शिरोभागे कवर्गेण तुलाभृतम् ॥ ६-५ ॥

चवर्गेण तथा स्कन्धे वृश्चिकं विन्यसेत् प्रिये ।
टवर्गेण तथा कुक्षौ धन्विनं विन्यसेत् प्रिये ॥ ६-६ ॥

मकरं तु तवर्गेण वृषणे वामके न्यसेत् ।
पवर्गेण तथा कुम्भं वामजानुनि विन्यसेत् ॥ ६-७ ॥

यवर्गेण क्षकारेण मीनं गुल्फे तु वामके । तथा-

प्राणापानोदानव्यानसमानाःपञ्च वायवः ।
मेषाद्या राशयो ज्ञेयाः पञ्च सिंहावसानकाः ॥ ६-८ ॥

तथा नागश्च कूर्मश्च कृकलो देवदत्तकः ।
धनञ्जय इति प्रोक्ताः कन्याद्याः पञ्च राशयः ॥ ६-९ ॥

जीवात्मपरमात्मानौ कुम्भमीनौ प्रकीर्तितौ ।
न्यस्तव्या मन्त्रिभिः सिद्ध्यै तदाद्या रविराशयः ॥ ६-१० ॥

इति राशिन्यासः ॥ अथ पीठन्यासः-

अथ पीठानि विधिना न्यसेत् सर्वमयानि हि ।
सितासितारुणश्यामहरित्पीतान्यनुक्रमात् ॥ ६-१ ॥

पुनःपुनः क्रमाद्देवि पञ्चाशत्स्थानसंचये ।
पीठानि संस्मरेद्विद्वान् सर्वकामार्थसिद्धये ॥ ६-२ ॥

कामरूपं महापीठमित्यादिपीठमातृकोक्तक्रमो बोद्धव्य इति पीठन्यासः ॥ इति पूर्वषोढान्यासः समाप्तः ॥

अथ कामरतिन्यासः-

केवलां मातृकां न्यस्य कामभक्तो भवेद्यदि ।
कामशक्तिसमायुक्तां मातृकां विन्यसेत् सुधीः ॥ ६-१ ॥

सम्मोहन ऋषिश्चैव जगती छन्द उच्यते ।
श्रीकामशक्तयो देवि देवताः परिकीर्तिताः ॥ ६-२ ॥

क्लींबीजं च नमः शक्तिर्मातृका कीलकं स्मृतम् ।
षट्दीर्घकामबीजेन षडङ्गानि प्रविन्यसेत् ॥ ६-३ ॥

अथ कामा वरारोहे दाडिमीकुसुमप्रभाः ।
वामाङ्गशक्तिसहिताः पुष्पबाणेक्षुकार्मुकाः ॥ ६-४ ॥

शक्तयः कुंकुमनिभाः सर्वाभरणभूषिताः ।
नीलोत्पलकरा ध्येयास्त्रैलोक्याकर्षणक्षमाः ॥ ६-५ ॥

इति ध्यात्वा । ४ अं कामाय रत्यैः इत्यादि कामरतिमातृकोक्तक्रमेण न्यसेदिति कामरतिमातृकान्यासः ॥

अथ श्रीचक्रन्यासस्तदुक्तं तन्त्रान्तरे-

एवं षोढा पुरा कृत्वा कामरत्यादिकं न्यसेत् ।
ततः श्रीचक्रविन्यासः कर्तव्यः शिवताप्तये ॥ ६-१ ॥

श्रीमत्त्रिपुरसुन्दर्याश्चक्रन्यासं शृणु प्रिये ।
यन्न कस्यचिदाख्यातं तनुशुद्धिकरं परम् ॥ ६-२ ॥

श्रीरुद्रयामले-

शरीरं चिन्तयेदादौ निजं श्रीचक्ररूपकम् ।
त्वगाद्याकारनिर्मुक्तं ज्वलत्कालाग्निसत्प्रभम् ॥ ६-१ ॥ इति ।

ऋषिच्छन्दोदैवतानि स्मृत्वा न्यासं समाचरेत् ।
अनुलोमविलोमस्थबालया स्यात् षडङ्गकम् ॥ ६-१ ॥

द्वादशान्ते चिदाकाशे शिवशक्त्यात्मकं गुरुम् ।
परतेजोमयं ध्यायेद्भोगमोक्षफलाप्तये ॥ ६-२ ॥

आनन्दमानन्दकरं प्रसन्नं ज्ञानस्वरूपं निजभावयुक्तम् ।
योगीन्द्रमीढ्यं भवरोगवैद्यं श्रीमद्गुरुं नित्यमहं नमामि ॥ ६-३ ॥

वामजानौ गणेशानं वामांसे क्षेत्रपालकम् ।
योगिनीं दक्षिणे जानौ स्कन्धे वटुकभैरवम् ॥ ६-४ ॥

न्यसेद् दक्षपदाग्रेऽथ शक्रं वाथ हुताशनम् ।
दक्षजानौ यमं पश्चाद् दक्षपार्श्वे न्यसेद् बुधः ॥ ६-५ ॥

दक्षांसे निर्-ऋति पश्चाद्वामांसे वरुणं ततः ।
वामपार्श्वे समीरं च वामजानौ धनाधिपम् ॥ ६-६ ॥

ईशानं वामपादाग्रे ब्रह्माणं ब्रह्मरन्ध्रतः ।
अनन्तं विन्यसेन्मन्त्री मूलाधारे समाहितः ॥ ६-७ ॥

चतुरस्रादिरेखायै नम इत्यादितो न्यसेत् ।
दक्षांसपृष्ठ पाण्यग्र स्फिक् पादाग्रांगुलीष्वथ ॥ ६-८ ॥

वामपादांगुलि स्फिक्पाण्यग्रे चांसकूटके ।
सचूलीतल पृष्ठेषु व्यापकत्वेन सुन्दरि ॥ ६-९ ॥

सिद्धीस्तदन्तरालस्था व्यापकत्वेन विन्यसेत् ।
चतुरस्रमध्यरेखायै नम इत्यपि वल्लभे ॥ ६-१० ॥

विन्यस्य तस्याः स्थानेषु ब्रह्माण्याद्यास्तथाष्टसु ।

इति । श्रीरुद्रयामले-

कैलासशिखरासीनं शिवं पप्रच्छ पार्वती ।
श्रीचक्रन्यासकवचं ब्रूहि मे देव शङ्कर ॥ ६-१ ॥

शङ्कर उवाच-

साधु पृष्टं त्वया देवि लोकानां हितकाम्यया ।
श्रीचक्रन्यासकवचं प्रस्फुतं कथयामि ते ॥ ६-२ ॥

शरीरं चिन्तयेदादौ निजं श्रीचक्ररूपकम् ।
त्वगाद्याकारनिर्मुक्तं ज्वलत्कालाग्निसत्प्रभम् ॥ ६-३ ॥

द्वादशान्ते चिदाकाशे शिवशक्त्यात्मकं गुरुम् ।
परतेजोमयं ध्यायेद्भोगमोक्षफलाप्तये ॥ ६-४ ॥

गणेशो जानु (मे ? नी) पातु वामांसं क्षेत्रनायकः ।
योगिन्यो दक्षिणं (पान्तु) स्कन्धं वटुकभैरवः ॥ ६-५ ॥

दक्षपादाग्रमिन्द्रो मे पात्वग्निर्दक्षजानुकम् ।
दक्षपार्श्वं यमः पातु दक्षांसं निर्-ऋनिर्मम ॥ ६-६ ॥

वरुणः पातु वामांसं वामपार्श्वं समीरणः ।
वामजानु धनाध्यक्षो वामपादाग्रमीश्वरः ॥ ६-७ ॥

ब्रह्मरन्ध्रं विधिः पातु मूलाधारमनन्तकः ।
चतुरस्रादिरेखायै नम इत्याद्यनुक्रमात् ॥ ६-८ ॥

व्यापकत्वेन विन्यसेत् कुसुमाञ्जलिमीश्वरि ।
निधिवाहनमारूढा वराभयकराम्बुजाः ॥ ६-९ ॥

पद्मरागप्रतीकाशाः प्रसीदन्त्वणिमादयः ।
दक्षांसपृष्ठमणिमा कराग्रंलघिमावतु ॥ ६-१० ॥

दक्षस्फिचं तु महिमा ईशित्वं चरणाग्रकम् ।
वशित्वं वामपादेऽव्यात् प्राकाम्यं स्फिचकेतरे ॥ ६-११ ॥

इच्छासिद्धिस्तु वामांसं कराग्रं भुक्तिसिद्दिका ।
रससिद्धिः शिरो मेऽव्याच्छिरःपृष्ठं तु मोक्षदा ॥ ६-१२ ॥

चतुरस्रमध्यरेखायै नम इत्याद्यनुक्रमात् ।
व्यापकत्वेन विन्यसेत् कुसुमाञ्जलिमीश्वरि ॥ ६-१३ ॥

(पादांगुष्ठौ तु ब्रह्माणी माहेशी दक्षपार्श्वकम् ।
कौमारी च शिरः पातु वैष्णवी वामपार्श्वकम् ॥ ६-१४ ॥

वामजानुनि वाराही चेन्द्राणी दक्षजानुनि ।
चामुण्डा पातु दक्षांसे महालक्ष्मीस्तु वामके ॥ ६-१५ ॥

चतुरस्रान्तरेखायै नम इत्याद्यनुक्रमात् ।
व्यापकत्वेन विन्यसेत् कुसुमाञ्जलिमीश्वरि ॥ ६-१६ ॥

मुद्रादेव्यः प्रसीदन्तु वराभयकराम्बुजाः ।
भक्तानुग्रहसंधानदेवतामोदहेतवे ॥ ६-१७ ॥

पादांगुष्ठद्वयं मुद्रा सर्वसंक्षोभिणी मम ।
सर्वविद्राविणी मुद्रा पार्श्वं रक्षतु दक्षिणम् ॥ ६-१८ ॥

आकर्षिणी मूर्ध्नि देशं वामपार्श्वं वशङ्करी ।
उन्मादिनी वामजानुं दक्षजानुं महांकुशा ॥ ६-१९ ॥

सव्यांसं खेचरी पातु वामांसं बीजमुद्रिका ।
त्रिखण्डा द्वादशान्तं तु योन्यंगुष्ठद्वयं पदोः ॥ ६-२० ॥

हृन्मध्यं त्रिपुरा पातु सिद्धिमुद्रासमन्विता ।
सर्वाशापूरकं ङऽन्तं षोडशाराय वै नमः ॥ ६-२१ ॥

व्यापकत्वेन विन्यसेत् कुसुमाञ्जलिमीश्वरि ।
कालादेव्यः प्रसीदन्तु पाशांकुशकरोद्यताः ॥ ६-२२ ॥

रक्तांग्यो रक्तवसनाः सर्वाभरभूषिताः ।
कामाकर्षिणिका पातु कर्णपृष्ठं तु दक्षिणम् ॥ ६-२३ ॥

बुद्ध्याकर्षिणिका नित्या रक्षताद् दक्षिणांसकम् ।
अहङ्काराकर्षिणी मे कूर्परं पातु दक्षिणम् ॥ ६-२४ ॥

दक्षिणं पाणिपृष्ठं मे शब्दाकर्षिणिकावतु ।
स्पर्शाकर्षिणिका पायाद्दक्षिणोरुतटं मम ॥ ६-२५ ॥

रूपाकर्षिणिका जानु रसाकर्षी तु गुल्फकम् ।
गन्धाकर्षिणिका रक्षेद्दक्षपादतलं मम ॥ ६-२६ ॥

वामपादतलं देवी चित्ताकर्षिणिकावतु ।
पादाधोयावता गुल्फं धैर्याकर्षणिकावतु ॥ ६-२७ ॥

स्मृत्याकर्षिणिका जानुं वामोरुं नामकर्षिणी ।
बीजाकर्षिणिका पातु करपृष्ठमदक्षिणम् ॥ ६-२८ ॥

कूर्परं पातु मे सव्यमात्माकर्षणकारिणी ।
अमृताकर्षिणी वामांसं शरीराकर्षिणी श्रुतिम् ॥ ६-२९ ॥

सिद्धिमुद्रान्विता यावद् हृन्मध्यं त्रिपुरेश्वरी ।
सर्वसंक्षोभणं ङेऽन्तं चक्राय नम इत्यपि ॥ ६-३० ॥

व्यापकत्वेन विन्यसेत् कुसुमाञ्जलिमीश्वरि ।
अनङ्गकुसुमादेव्याः प्रसन्ना रक्तकंचुकाः ॥ ६-३१ ॥

वेणीकृतजगत्केशाः शरकार्मुकपाणयः ।
अनङ्गकुसुमा पातु दक्षशङ्खं सदा मम ॥ ६-३२ ॥

अनङ्गमेखलादेवी त्रायतां दक्षजानुकम् ।
अनङ्गमदनाशक्तिरूरुं पायात् सदा मम ॥ ६-३३ ॥

गुल्फमध्यान्तरं मेऽव्यादनङ्गमदनातुरा ।
अनङ्गरेखा वामाङ्गं रक्षतां गुल्फमन्तरम् ॥ ६-३४ ॥

अनङ्गवेगिनी पायादूरुप्रान्तं सदा मम ।
ममानङ्गांकुशा जानुदेशं रक्षतु वामकम् ॥ ६-३५ ॥

अनङ्गमालिनी शङ्खं वामे रक्षतु मेऽनिशम् ।
सुन्दरी सिद्धिमुद्राभ्यां पातु मे हृदयान्तरम् ॥ ६-३६ ॥

सर्वसौभाग्यदं ङेऽन्तं चक्राय नम इत्यपि ।
व्यापक्त्वेन विन्यसेत् कुसुमाञ्जलिमीश्वरि ॥ ६-३७ ॥

शक्तिदेव्यः प्रसीदन्तु बाणकार्मुकपाणयः ।
सर्वाभरणसम्पन्ना वैडूर्यमणिरोचिषः ॥ ६-३८ ॥

सर्वसंक्षोभिणी फालं तदन्तं द्राविणी मम ।
दक्षिणं पालयेद्गण्डं सर्वाकर्षिणिका सदा ॥ ६-३९ ॥

सर्वाह्लादकरी दक्षमंसान्तं पातु मे सदा ।
सर्वसम्मोहनीशक्तिः पार्श्वान्तं पातु दक्षिणम् ॥ ६-४० ॥

सर्वसंस्तम्भिनी रक्षेद्दक्षमूरुं तु पृष्ठकम् ।
जङ्घान्तं जृम्भिणी दक्षं वामं सर्ववशङ्करी ॥ ६-४१ ॥

रञ्जिनी वामपूर्वं तु पृष्ठं पालयतान्मम ।
पार्श्वान्तं सर्वमव्यान्मे सर्वोन्मादनकारिणी ॥ ६-४२ ॥

सर्वार्थसाधिनी पायादंसान्तं दक्षिणेतरम् ।
वामं पातु कपोलं मे सर्वसम्पत्प्रपूरणी ॥ ६-४३ ॥

सर्वमन्त्रमयी भालं वामभागं ममावतु ।
पालयेद्द्वारकूपं मे सर्वद्वन्द्वक्षयङ्करी ॥ ६-४४ ॥

त्रिपुरवासिनी सिद्धिमुद्राभ्यां पातु हृन्मम ।
सर्वार्थसाधकं ङेऽन्तं चक्राय नम इत्यपि ॥ ६-४५ ॥

व्यापकत्वेन विन्यसेत् कुसुमाञ्जलिमीश्वरि ।
दश देव्यः प्रसीदन्तु सर्वसिद्धिप्रदायिकाः ॥ ६-४६ ॥

कुन्दमन्दारहाराभा वराभयकराम्बुजाः ।
सर्वसिद्धिप्रदा मेऽव्याद्दक्षिणेक्षणकोणकम् ॥ ६-४७ ॥

पालयेन्नासिकामूलं सर्वसम्पत्प्रदा मम ।
नित्यं रक्षतु वामाक्षिकोणं सर्वप्रियङ्करी ॥ ६-४८ ॥

रक्षेत् कुक्षिं सकोणं मे सर्वमङ्गलकारिणी ।
तथैव कुक्षिवायव्यं सर्वकामप्रदावतु ॥ ६-४९ ॥

वामजान्वन्तरं पातु सर्वदुःखविमोचनी ।
सर्वमृत्युप्रशमनी दक्षिणं जानुकान्तरम् ॥ ६-५० ॥

सदा पायादपानं मे सर्वविघ्ननिवारिणी ।
सर्वाङ्गसुन्दरी देवी रक्षतात् कुक्षिनैर्-ऋतम् ॥ ६-५१ ॥

आग्नेयं पालयेत् कुक्षिं सर्वसौभाग्यदायिनी ।
हृन्मध्यं त्रिपुराश्रीर्मे सिद्धिमुद्रान्वितावतु ॥ ६-५२ ॥

सर्वरक्षाकरं ङेऽन्तं चक्राय नम इत्यपि ।
व्यापकत्वेन विन्यसेत् कुसुमाञ्जलिमीश्वरि ॥ ६-५३ ॥

अन्तर्दशारवासिन्यः प्रसीदन्तु ममानिशम् ।
देव्यः स्फटिकसङ्काशाः पुस्तकाक्षालिबाहवः ॥ ६-५४ ॥

सर्वज्ञा सर्वशक्तिश्च दक्षिणघ्राणसृक्त्रिणी ।
सर्वैश्वर्यप्रदा ज्ञानमयी च स्तनमुष्ककौ ॥ ६-५५ ॥

सीवनीमनिश पातु सर्वव्याधिविनाशिनी ।
वामं मे वृषणं पातु सर्वाधारस्वरूपिणी ॥ ६-५६ ॥

सर्वपापहरानन्दमयी च स्तनसृक्विणी ।
वामनासापुटं पातु सर्वरक्षास्वरूपिणी ॥ ६-५७ ॥

अग्रदेशं नासिकायाः सर्वेप्सितफलप्रदा ।
हृत्पद्मं सिद्धिमुद्राभ्यां पातु त्रिपुरमालिनी ॥ ६-५८ ॥

सर्वरोगहराष्टारचक्राय नम इत्यपि ।
व्यापकत्वेन विन्यसेत् कुसुमाञ्जलिमीश्वरि ॥ ६-५९ ॥

वाग्देव्यो नः प्रसीदन्तु सिन्दूरकनकाम्बराः ।
पुस्तकाक्षालिविलसद्वरदाभीतिबाहवः ॥ ६-६० ॥

दक्षिणं चिबुकस्यांशं वशिनी पातु सर्वदा ।
कण्ठं कामेश्वरी दक्षं हृदयं पातु मोदिनी ॥ ६-६१ ॥

विमला दक्षिणं नाभेस्तद्वाममरुणावतु ।
हृद्वामं जयिनी पातु कण्ठं सर्वेश्वरी तथा ॥ ६-६२ ॥

कौलिनी चिबुकं सिद्धा त्रिपुरा हृदयाम्बुजम् ।
सर्वसिद्धिप्रदान्तरालचक्राय नम इत्यपि ॥ ६-६३ ॥

व्यापकत्वेन विन्यसेत् कुसुमाञ्जलिमीश्वरि ।
कामकामेश्वरीबाणचापपाशांकुशाः क्रमात् ॥ ६-६४ ॥

परितो हृदि कोणस्य चतुरस्रं ममावतु ।
महामोक्षप्रदां योनिं हृदयोपरि राजिताम् ॥ ६-६५ ॥

कामेश्वर्यादिकं पातु नित्याषोडशकं मम ।
कामप्रदा रुद्रशक्तिः कामरूपनिवासिनी ॥ ६-६६ ॥

अग्रकोणं महायोनेः पातु कामेश्वरी मम ।
धर्मदा वैष्णवी शक्तिर्जालन्ध्रकृतमन्दिरा ॥ ६-६७ ॥

दक्षकोणान्तरं योनेः पायान्मे वैष्णवी सदा ।
अर्थदा ब्रह्मणः शक्तिः पूर्णशैलुकृतालया ॥ ६-६८ ॥

वामकोणान्तरं पातु सुभगा भगमालिनी ।
त्रिपुराम्बा योनिमध्यं सिद्धिमुद्रा ममावतु ॥ ६-६९ ॥

उड्यानपीठनिलया परब्रह्मस्वरूपिणी ।
पञ्चश्रीकोशकल्पद्रुकामधुग्रत्नदैवतैः ॥ ६-७० ॥

मण्डितासनसंस्थाना सर्वदर्शनसंस्थिता ।
स्तुता षडङ्गदेवीभिश्चतुःसमयपूजिता ॥ ६-७१ ॥

महासौभाग्यजननी महामोक्षप्रदायिनी ।
हृदि दोरन्तरं पात महात्रिपुरसुन्दरी ॥ ६-७२ ॥

सैव चक्रेश्वरी देवी सिद्धिमुद्रासमन्विता ।
आपादमस्तकं देवी पातु त्रिपुरभैरवी ॥ ६-७३ ॥

एतत्ते कवचं भद्रे रहस्यं सर्वकामदम् ।
तुरीयविद्यामुच्चार्य परब्रह्मस्वरूपिणी ॥ ६-७४ ॥

श्रीमहात्रिपुरशून्याशून्यवर्जितशक्तिपरबैन्दवचक्रवासिन्यनाख्याभासा- श्रीपादुकां पूजयामि तर्पयामि नमः । तत्रैव नवचक्रेश्वरीः पूजयेत् । क ए ई ल ह्रीं हसकहलह्रीं सकलह्रीं त्रिपुरशून्याशून्यपरबैन्दवचक्रवासिन्यनाख्याभासां श्रीपादुकां पूजयामि नमः । इति विन्यस्य स्वमुद्रां प्रदर्शयेत् ।

यन्न कस्यचिदाख्यातं तदद्य प्रकटीकृतम् ।
य इदं विन्यसेद्देहे साधकः स्थिरमानसः ॥ ६-७५ ॥

विमुच्य मानुष भावं स सद्यः शिवतां व्रजेत् ।
त्रिकालं भावयेद्यस्तु तस्य सर्वाङ्गसङ्गतम् ॥ ६-७६ ॥

आमस्तं योगिनीवृन्दं स्फुरद्रूपं प्रकाशते ।
भूतप्रेतपिशाचाद्यैर्बाधितुं नैव शक्यते ॥ ६-७७ ॥

सिद्धवद्विचरेल्लोके तापत्रयविवर्जितः ।
यत्र योगी स्मरेदेतत् तस्मादारभ्य सर्वतः ॥ ६-७८ ॥

धरणी क्षेत्रतां याति यावद् द्वादशयोजनम् ।

इति श्रीरुद्रयामले श्रीचक्रन्यासकवचम् । इति संहारश्रीचक्रन्यासः ॥ अथ सुष्टिचक्रन्यासः - सच मूलदेव्याद्यणिमान्तः । तत्र क्रममाह योगिनीहृदये ।

मूलदेव्यादिकं न्यासमणिमान्तं पुनर्न्यसेत् ।
शिरस्त्रिकोणे पूर्वादि कामेश्वर्यादिकं न्यसेत् ॥ ६-१ ॥

बाणा नेत्रे भ्रुवौ चापौ चर्णौ पाशद्वयं पुनः ।
सृणिद्वयं च नासाग्रं दक्षिणाद्यं च विन्यसेत् ॥ ६-२ ॥

मुण्डमालाक्रमेणैव न्यसेद्वाग्देवताष्टकम् ।
वैन्दवादीनि चक्राणि न्यस्तव्यानि वरानने ॥ ६-३ ॥

नेत्रमूले त्वपाङ्गे च कर्णपूर्वोत्तरे तथा ।
चूलिकायाश्च निम्नार्धे शेषार्धे कर्णपृष्ठके ॥ ६-४ ॥

कर्णमूले त्वपाङ्गे च तस्य मूले च विन्यसेत् ।
सर्वसिद्ध्यादिकं कण्ठे प्रादक्षिण्येन विन्यसेत् ॥ ६-५ ॥

हृदये मनुकोणस्थाः शक्तयोऽपि च पूर्ववत् ।
नाभौ त्वष्टदलं तत्र वंशे वामे च पार्श्वयोः ॥ ६-६ ॥

उदरे सव्यपार्श्वे च न्यसेदादिचतुष्टयम् ।
वंशवामान्तरालादि न्यसेदन्यचतुष्टयम् ॥ ६-७ ॥

स्वाधिष्ठाने न्यसेत् स्वस्य पूर्वाद्दक्षावसानकम् ।
मूलाधारे न्यसेन्मुद्रादशकं साधकोत्तमः ॥ ६-८ ॥

पुरः सव्ये च वंशे च वामे चैवान्तरालके ।
ऊर्ध्वाधो दश मुद्राश्च ऊर्ध्वाधोवर्जितं पुनः ॥ ६-९ ॥

ब्रह्माण्याद्यष्टकं दक्षजङ्घायां ताश्च पूर्ववत् ।
वामजङ्घां समारभ्य वामादिक्रमतोऽपि वा ॥ ६-१० ॥

सिद्ध्यष्टकं न्यसेच्छेषद्वयं पादतले न्यसेत् ।
कारणात् प्रसृतं न्यासं दीपाद्दीपमिवोदितम् ॥ ६-११ ॥

एवं विन्यस्य देवेशि स्वाभेदेन विचिन्तयेत् ।

इति समष्टिरूपेण महाचक्रस्य संहारक्रमन्यासमुक्त्वा सृष्टिक्रमेणाह- मूलदेव्यादिकमिति । एवं चेत् क्रियते तदा न्यासः सृष्टिक्रमेण भवति तं पुनर्न्यसेदित्यर्थः तत्र प्रकारमाह - शिर इत्यादि । शिरसि कल्पितत्रिकोणः शिरस्त्रिकोणस्तस्मिन् कामेश्वर्यादिकं बीजदेवीत्रयं न्यसेदित्यर्थः केन क्रमेणेत्यत आह - पूर्वादीति । पूर्वश्चात्र मस्तकाद्यभागस्तदादि यथा स्यात् ।
तेन ललाटाभिमुखस्त्रिकोणः कल्पनीय इत्यायातम् । सच श्रीचक्रनिर्माणक्रमेण यथा योग्यविन्यासरेखो भवति तथाष्टारपर्यन्तं कल्पनीय इति भावः । तथा च सति शिरोपेक्षया पूर्वाग्रं त्रिकोणं जातमिति पश्चिमकोणे आग्नेयकोणे ईशानकोणे इति वा भविष्यति । तत्राद्ये पूर्वादिति प्रादक्षिण्येनेत्यर्थः ।
अन्त्येऽप्रदक्षिणमित्यर्थः । तेन

पश्चिमाद्यप्रदक्षिणमिति तन्त्रराजमतमायातम् । तेन सह योगिनीहृदयस्यैकवाक्यतयैवमेव न्यासः कार्य इति कश्चित् । चतुःशत्येकवाक्यतया पूर्वमतद्वयेन न्यासः कार्य इति कश्चित् । वस्तुतस्त्वयं पक्षः समीचीनः पूर्वचतुःशत्या तात्पर्यग्राहकत्वादस्येति संक्षेपः । आयुधन्यासे स्थानविशेषमाह - बाणा इत्यादि । बाणाः पञ्चबाणाः शिवस्य शक्त्याश्चेति द्विविधाः नेत्रे नेत्रद्वयस्वरूपा इत्यर्थः । नेत्रे इति द्विवचनं तेन दक्षनेत्रं कामेश्वरबाणाः वामनेत्रं कामेश्वरीबाणाः एवं दक्षभ्रूः कामेश्वरचापः वामभ्रूः कामेश्वरीचापः दक्षकर्णः कामेश्वरपाशः वामकर्णः कामेश्वरीपाशः दक्षनासापुटाग्रं कामेश्वरांकुशः वामनासापुटाग्रं कामेश्वर्यंकुशः इति तत्र तत्रैव तान् न्यसेदित्यत आहदक्षिणाद्यमित्यादि । अत्र यद्यपि त्रिकोणाष्टारयोर्मध्यमायुधस्थानमिति पूर्ववदपि तत्रैव न्यास उपपद्यते तथापि सृष्टिक्रमेण स्वरमूर्तीनां सांनिध्यात् तत्रैवायुधानां न्यासो युक्त इतीश्वराज्ञा । एवं षोडशनित्यानामपि स्वरमूर्तित्वात् सृष्टिक्रमे तत्स्थानामपि संनिधानात् तेष्वेव तासां न्यासो युक्त इतीश्वरेच्छा मन्तव्या । श्रीविद्यान्यासस्थानस्य पृष्ठतः स्वस्थान एव गुरुपङ्क्तयो न्यस्तव्याः ततः षोडशनित्यामण्डल इति क्रमः सृष्टिक्रमन्यासे अन्यत्र तु पूर्वोक्तक्रम एवेति । ज्ञनार्णवे :

श्रीविद्यां ब्रह्मरन्ध्रे तु पृष्ठतो गुरवः क्रमात् ।
तिथिनित्यास्ततो देवि मातृकास्वरसंयुताः ॥ ६-१ ॥

मातृकावन्न्यसेद्वक्त्रे सर्वसौभाग्यदायिनी ।
अःस्वरे परमेशानि श्रीविद्यां विश्वमातृकाम् ॥ ६-२ ॥

स्वरवद्विन्यसेन्नित्यां नीरजायतलोचने ।

इत्ययं न्यासः सृष्टिश्रीचक्रन्यासान्तर्गतः स्वतोऽपीति मन्तव्यम् ॥ अथाष्टारन्यासक्रममाह - मुण्डमालेति । मुण्डो मस्तकः मुण्डे माला मुण्डमाला तस्याः क्रमेण प्रतिपाद्येत्यर्थः । तेन ललाटोर्ध्वकोणादितः पूर्वादिप्रादक्षिण्येन शिरोनवयोगिनीचक्ररीत्याष्टकोणेषु मालाक्रमेण वाग्देवताष्टकं न्यसेदिति भावः । ननु बिन्दुचक्रन्यासं कथं कुर्यादित्यत आह- बैन्दवादीनीति । बैन्दवं सर्वानन्दमयं महाबिन्दुचक्रं तदेवादिर्येषां तानि यथाचक्राणि त्रिकोणादीनि बैन्दवादीनि कृत्वा न्यस्तव्यानीति सम्बन्धः । आदौ बिन्दुचक्रं न्यस्य पश्चात् त्रिकोणादीनि न्यसेदिति भावः । तर्हि बिन्दुचक्रन्यासः कथं प्रथमं नोक्त इति चेत् न तस्यावच्छेदकत्वात् त्रिकोणस्य त्रिकोणमध्यं हि बिन्दुचक्रं तेन विना कथं तदुपपद्यताम् । तेनायं कलितार्थः परिपाटीविशेषः प्रथमं शिरसि त्रिकोणं विचिन्त्य तन्मध्ये शर्वानन्दमयचक्राय नमः इति व्यापकं कृत्वा तद्बिन्दुत्वेन विचिन्त्य तत्र यथाविधि मूलदेवीं न्यसेत् ।
ततस्त्रिकोणादौ न्यासः । अतः शिरस्त्रिकोणे इति सिद्धविभक्तिनिर्देशः । केचित्तु तटस्थमेव प्रथमं बिन्दुचक्रं विभाव्य विन्यस्य तद्बाह्यतस्त्रिकोणचक्रं विभाव्य विन्यसेदिति क्रममाहुः । सच नो योगिनीहृदयसम्मत इति चिन्त्यम् ॥ अथान्तर्दशारचक्रस्य न्यासस्थानान्याहनेत्रमूल इत्यादि । नेत्रस्य दक्षिणनेत्रस्य मूले पूर्वकण्ठे नासिकोपकण्ठ इति यावत् तस्यैवापाङ्ग अञ्चले कर्णोपकण्ठे इति यावत् कर्णस्य दक्षिणस्य पूर्वोत्तरे पूर्वे मध्ये उत्तरे पृष्ठे चूलिकायाः चूलाया निम्नार्धे पश्चादर्धे शेषार्धे पूर्वार्धशिरः पृष्ठार्धभागयोरित्यर्थः इति कश्चित् । चूलिकाया निम्नार्धे चूलिकाया अधस्ताद्निम्नस्थलं घाटासीवनी तस्यार्धे शेषार्धे वामार्धे तेन स्कन्धसीवन्या दक्षवामभागयोरित्यर्थः इति कश्चित् । अत्र प्रथमभङ्गप्रसङ्ग इति दिक् । कर्णपृष्ठे वामकर्णपृष्ठे कर्णमूले वामकर्णमध्ये अपाङ्गे वामनेत्रप्रान्ते तस्य वामनेत्रमूले पूर्वकण्ठे चेति दशसु स्थानेषु चक्रक्रमेण न्यसेत् सर्वज्ञाद्या दशशक्तीरिति शेषः ॥ अथ बाह्यदशारचक्रन्यासमाह- सर्वसिद्ध्यादिकमित्यादि । कण्ठे विशुद्धचक्रे अकारादिविसर्गान्तषोडशदले सर्वसिद्ध्यादिकं देवीदशकं पूर्वदलादिप्रादक्षिण्येन न्यसेदित्यर्थः पद्मस्योर्ध्वमुखत्वभावनापूर्वकमितिभावः । तदा कण्ठकूप एव पूर्वदलमत एवान्तः कण्ठवेष्टनरूप एवायं न्यासो बहिः कण्ठवेष्टनत्वेन न्यसेत् ॥ अथ चतुर्दशारन्यासमाह-हृदय इत्यादि । अनाहतचक्रे कण्ठान्तद्वादशदले मनुकोणस्थाश्चतुर्दशारस्थाः सर्वसंक्षोभिण्यादिचतुर्दशशक्तयोऽपि पूर्ववत् पूर्वदलादिप्रादक्षिण्येन न्यस्तव्या इत्यर्थः ॥ अथाष्टदलन्यासमाहनाभाविति । भिन्नप्रक्रमे अष्टदलपद्मं नाभौ न्यसेत् ततो बाह्याङ्गवेष्टनत्वेन पूर्ववदन्तर्वेष्टनेनेत्यर्थः । अतो न्यासस्थानविशेषमष्टदलात्मकमाह-वंशे वामे तदवच्छन्नमेरुदण्डे इत्यर्थः । तेन पृष्ठे पश्चिमदलं वामपार्श्वे उत्तरदलमुत्तरे पूर्वदलं दक्षपार्श्वे दक्षिणदलमिति

दिग्दलचतुष्टयेऽनङ्गकुसुमादिचतुष्टयं पश्चिमादप्रदक्षिणं विन्यसेदित्यर्थः । दिग्दलमाह-वंश इति । वामो वामपार्श्वः वंशश्च वामश्च वंशवामौ तयोरन्तरालं वंशवामान्तरालं वंशवामपार्श्वान्तरालमित्यर्थः । तेन वायव्यदलं जातं तदेवादिर्यत्र न्यसनक्रियायां तत्तथेति क्रियाविशेषणं तेन वंशवामान्तरालादिर्यथा स्यात् तथान्यदनङ्गरेखादिचतुष्टयं न्यसेदित्यर्थः । आदिपदेन वामपार्श्वोदरान्तरालमुदरदक्षपार्श्वान्तरालं दक्षपार्श्ववंशान्तरालमिति क्रमेण वायव्येशानाग्नेयनैर्- ऋतविदिग्दलचतुष्टयं जातमित्यष्टदलेष्वेवं न्यासः ॥ अथ षोडशदलचक्रन्यासमाह-श्वाधिष्ठाने इति स्वाधिष्ठाने लिङ्गमूले षड्दले स्वस्यात्मनो देहस्य पूर्वभाग्दलादारभ्याग्नेयदलपर्यन्तं कामाकर्षिण्यादिपञ्चशक्तीर्विन्यस्य षष्ठे दले शरीराकर्षिणीं षोडशीं शक्तिं न्यसेदिति लिङ्गवेष्टनत्वेन न्यासक्रमः ॥ अथ त्रैलोक्यमोहनचक्रस्यान्तश्चतुरस्ररेखाया न्यासमाह-मूलाधार इत्यादि ।
मूलाधारे चतुर्दले । तत्र प्रकारमाह-पुर इत्यादि । पुरः पूर्वे देहस्येति शेषः ।
स्वस्येति चानुवर्तते । सव्ये दक्षिणे सव्यं स्याद्दक्षवामयोरित्यभिधानात् । वंशे पृष्ठवंशे वामे वा दले एतद्दलचतुष्टये सर्वसंक्षोभण्यादिमुद्राचतुष्टयं प्रादक्षिण्येन विन्यस्यान्तरालके आग्नेयनैर्- ऋत्यवायव्येशानेति दलसंधिचतुष्टये उन्मादिन्यादिमुद्राचतुष्टयं च विन्यस्योर्ध्वमिन्द्रेशानयोर्मध्ये निर्-ऋतिवरुणयोर्मध्येऽधस्तयोर्यथाक्रमं खेचरीयोनिमुद्रे न्यसेदिति दश मुद्राश्चेति ॥ अथ मध्यमचतुरस्ररेखाया न्यासमाह-ऊर्ध्वाधोवर्जितं पुनरित्यादि । पूर्ववन्मूलाधार इव पूर्वादिप्रादक्षिण्येन चतुर्दिक्षु चतुर्मातॄर्विन्यस्याग्नेयादिचतुरन्तराले वाराह्यादिचतुर्मातृर्न्यसेदित्यर्थः । अत एवोर्ध्वाधोवर्जितमिति मातॄणामष्टत्वात् ॥ ६-अथ बाह्यचतुरस्ररेखान्यासमाह-वामजङ्घामित्यादि । वामादिक्रमतः प्रादक्षिण्येनेत्यर्थः । तेन पूर्वादिदिग्दलेषु चतुष्टयं न्यस्याग्नेयादिविदिग्दलेषु चतुष्टयमिति सिध्यष्टकं न्यसेत् । ततोऽवशिष्टसिद्धिद्वयं पादतले वामपादतले चेति न्यसेदित्यर्थः ॥ सृष्टित्वमस्य प्रतिपादयन्नाह-कारणात् सर्वानन्दमयादित्यर्थः । एवमिति स्वात्माभेदेन ध्यानं कुर्यादित्यर्थः ॥

भ्रूमध्ये हृदये नाभौ स्वाधिष्ठाने ततः परम् ।
मूलाधारे तथैवोरुयुगले जानुनोरपि ॥ ६-१ ॥

जङ्घयोः पादयोश्चैव क्रमाद्विन्द्वादिकेश्वरीः ।
विन्यसेत् साधकश्रेष्ठस्त्रिपुरान्तःसमाहितः ॥ ६-२ ॥

ततस्तु व्यापकं कुर्यात् तत्तच्चक्रार्पणाणुना ।

इति सृष्टिश्रीचक्रन्यासनिरूपणम् ॥ अथ स्थितिचक्रान्यासो निरूप्यते योगिनीहृदये-

ततस्तु करशुद्ध्यादिन्यासं कुर्याद्विचक्षणः ।
मूर्ध्नि गुह्ये च हृदये नेत्रत्रितय एव च ॥ ६-१ ॥

श्रोत्रयोर्युगले देवि मुखे च भुजयोः पुनः ।
पृष्ठे जानौ च नाभौ च विद्यान्यासं विधाय च ॥ ६-२ ॥

इति । मूर्धादिषु विद्यान्यासं विधाय करशुध्यादिविद्यान्यासं कुर्यादित्यर्थः ।
तत्राधेयाधारभावाच्चक्रचक्रेश्वरीणामपि न्यासो मन्तव्यः । प्रथमं चक्रेश्वरीविद्यादिन्यासं कुर्यादित्यर्थः तेन स्थितित्वमायातम् । तथा च :

सृष्टिः स्यान्नवयोन्यादिपृथ्व्यतं संहृतिः पुनः ।
पृथ्व्यादिनवयोन्यन्तमिति शास्त्रस्य निश्चयः ॥ ६-१ ॥

इति तत्रैवोक्तत्वात् । तथा-

करशुद्धिकरी त्वाद्या द्वितीया चात्मरक्षिका ।
आत्मासनगता देवी तृतीया तदनन्तरम् ॥ ६-१ ॥

चक्रासनगता पश्चाद् सर्वमन्त्रासनस्थिता ।
साध्यसिद्धासना षष्ठी मायालक्ष्मीमयी परा ॥ ६-२ ॥

मूर्तिविद्या च सा देवी सप्तमी परिकीर्तिता ।
अष्टम्यावाहनी मुद्रा नवमी भैरवी परा ॥ ६-३ ॥

मूलविद्या तथा ख्याता त्रैलोक्यवशकारिणी ।
एवं नवप्रकाराः स्युः पूजाकाले प्रयत्नतः ॥ ६-४ ॥

एताः क्रमेण न्यस्तव्याः साधकेन कुलेश्वरि ।
पादाग्रजङ्घाजानूरुगुदलिङ्गाग्रकेषु च ॥ ६-५ ॥

आधारे विन्यसेन्मूर्ति तस्यामावाहनीं न्यसेत् ।
मूलेन व्यापकन्यासः कर्तव्यः परमेश्वरि ॥ ६-६ ॥

अकुलादिषु पूर्वोक्तस्थानेषु परिचिन्तयेत् ।
चक्रेश्वरीसमायुक्तं नवचक्रं पुरोदितम् ॥ ६-७ ॥

आसां नामानि वक्ष्यामि यथानुक्रमयोगतः ।
तत्राद्या त्रिपुरादेवी द्वितीया त्रिपुरेश्वरी ॥ ६-८ ॥

तृतीया च तथा प्रोक्ता देवी त्रिपुरसुन्दरी ।
चतुर्थी च महादेवि देवी त्रिपुरवासिनी ॥ ६-९ ॥

पञ्चमी त्रिपुराश्रीः स्यात् षष्ठी त्रिपुरमालिनी ।
सप्तमी त्रिपुरासिद्धिरष्टमी त्रिपुराम्बिका ॥ ६-१० ॥

नवमी तु महादेवी महात्रिपुरसुन्दरी ।
पूजयेच्च क्रमादेता नवचक्रे पुरोदिते ॥ ६-११ ॥

एवं नवप्रकाराद्या पूजाकाले तु पार्वती ।
एकाकारा ह्यादिशक्तिरजरामरकारिणी ॥ ६-१२ ॥

इति । तत्र प्रथममकुलादिकं ध्यात्वा त्रैलोक्यमोहनादिकं तत्तन्मन्त्रोच्चारेण मनसा ध्यायंस्तदवच्छिन्नबाह्यान्तःस्पर्शेन विन्यस्य तत्र त्रैलोक्यमोहनादौ तथैव नवचक्रेश्वरीर्न्यसेत् ततस्तच्चक्रेश्वरीयुक्तं तत्तच्चक्रं पुनर्ध्यायेत् इत्यत उक्तं चक्रेश्वरीसमायुक्तमिति चक्रेश्वर्याधिष्ठितमित्यर्थः । तद्यथा-अकुले विषुसंज्ञे सुषुम्नामूलभागस्थसहस्रदलकमले त्रिपुराधिष्ठितं त्रैलोक्यमोहनं चक्रं वह्नौ आधारे चतुर्दलकमले त्रिपुरेश्वर्यधिष्ठितं सर्वाशापरिपूरणं चक्रं शाक्ते स्वाधिष्ठानस्थषड्दलकमले त्रिपुरसुन्दर्यधिष्ठितं सर्वसंक्षोभकं चक्रं नाभौ दशदलकमले त्रिपुरवासिन्यधिष्ठितं सर्वसौभाग्यदायकं चक्रं अनाहते द्वादशदले त्रिपुराश्रयधिष्ठितं सर्वार्थसाधकं चक्रं विशुद्धौ षोडशदले त्रिपुरमालिन्यधिष्ठितं सर्वरक्षाकरं चक्रं लम्बिकाग्रेऽष्टदलकमले त्रिपुरासिद्धाधिष्ठितं सर्वरोगहरं चक्रं भ्रुवोरन्तरे द्विदलकमले त्रिपुराम्बाधिष्ठितं सर्वसिद्धिप्रदायकं चक्रमिन्दौ ललाटे बिन्दौ महात्रिपुरसुन्दर्यधिष्ठितं सर्वानन्दकरं चक्रं भावयेदिति । तथा च योगिनीहृदये :

अकुले विषुसंज्ञे च शाक्ते वह्नौ तथा पुनः ।
नाभावनाहते शुद्धौ लम्बिकाग्रे भ्रुवोन्तरे ॥ ६-१ ॥

इन्दौ इति । कुलं मूलाधारादधः षड्दलपद्मं नाम तस्मादेकांगुलादधः पद्ममष्टदलपद्मं तस्मादेकांगुलादधः शोणसहस्रदलपङ्कजमिति क्रमः । कुलादन्यदकुलं सुषुम्नामूलस्थरक्तसहस्रदलकमलं तस्मिन्नित्यर्थः । ननु षड्दलस्यैव कुलत्वात्तदनुत्वेनाष्टदलस्याप्यकुलत्वमिति तत्र कथं न स्यादित्यत आह-विषुसंज्ञे चेति । विषुसंज्ञ एवाकुले न्यासो नत्वकुलमात्रे इत्यर्थः ।
विषुसंज्ञे व्यापकनाम्नि सहस्रदले इति यावत् यतस्तत्र स्थिता सुषुम्ना तदन्तर्भूतत्रिंशत्पङ्कजानि व्याप्नोतीति । अतो नाष्टदलकमलरूपमकुलं गृह्यते इत्यर्थः । शाक्ते वह्नाविति वह्नौ शाक्ते इति व्यत्ययेनान्वयश्चक्रक्रमानुरोधात् तद्व्यात्ययदेशस्तु महेश्वरस्य स्वतन्त्रेच्छत्वात् । तथा च वह्निर्मूलाधारो वह्निमण्डलाधारत्वात् शक्तिः हृल्लेखा तदूर्ध्वस्थित्वात् शाक्तं स्वाधिष्ठानमित्यर्थः । नाभौ मणिपूरके अनाहते हृदयपङ्कजे विशुद्धौ कण्ठपद्मे लम्बिकाग्रे कण्ठोर्ध्वे तालुमूले अष्टदलकमले भ्रुवोरन्तरे आज्ञायां द्विदलकमले इन्दौ ललाटबिन्दावित्यर्थः । दीपाकारोऽर्धमात्रं च ललाटे वृत्तमिष्यते इति स्वयमुक्तत्वात् । अर्धमात्रमिति ह्रस्वस्योच्चारणकालो मात्रेत्युच्यते मात्राया अर्धंमुच्चारणकालो यस्य तदर्धंमात्रं । ललाटे भ्रुवोपरिभागे वृत्तं वर्तुलाकारो बिन्दुरेवेन्दुरिष्यत इत्यर्थः । तेन बिन्दोः रूपमुच्चारणकालः स्थानं चोक्तम् दीपाकारोऽर्धमात्रोच्चारणकालो वृत्तसंनिवेशो बिन्दुरित्यर्थः । अधःसहस्रारादीनां प्रपञ्चमाह स्वच्छन्दसंग्रहे :

अधश्चोर्ध्वं सुषुम्नायाः सहस्रदलसंयुतम् ।
रक्तं श्वेतं च साहस्रदलस्थशक्तिभिर्युतम् ॥ ६-१ ॥

ऊर्ध्वाधोमुखमीशानि कर्णिकाकेसरान्वितम् ।
शक्तिरूपं महादेवि कुलाकुलमयं शुभम् ॥ ६-२ ॥

पङ्कजद्वयमीशानि स्थितं शाश्वतमव्ययम् ।
तयोर्मध्ये सुषुम्नान्तस्त्रिदशाधाराङ्कजम् ॥ ६-३ ॥

शक्तिरूपं शिवाकारं शर्वाण्याः सन्निजालयम् ।
तेषां रूपक्रमं चैव क्रमाद्वक्ष्येऽधुना शृणु ॥ ६-४ ॥

गुदमेढ्रान्तरं देवि पञ्चांगुलसमुच्छ्रितम् ।
गुदमेकांगुलं मध्ये द्वयांगुलविसारणम् ॥ ६-५ ॥

तस्य मूले महायोनिस्त्रिकोणाकाररूपिणी ।
सुषुम्ना योनिमध्यस्था तस्या मूले महेश्वरि ॥ ६-६ ॥

अधः पद्मं सहस्रारं कर्णिकाकेसरान्वितम् ।
तैजसं रक्तवद्दीप्तं तद्दलस्थितशक्तिभिः ॥ ६-७ ॥

प्रतिकिञ्जल्कसंस्थाभिः शक्तिभिः सहिता प्रिये ।
कर्णिकामध्यतो देवी कुलदेवी च संस्थिता ॥ ६-८ ॥

तत्पद्मोर्ध्वे सुषुम्नायां मध्ये त्वेकांगुलोपरि ।
पद्ममष्टदलैर्युक्तमष्टग्रन्थिसमन्वितम् ॥ ६-९ ॥

रक्तं स्वकर्णिकोपेतं रक्तकिञ्जल्कशोभितम् ।
ग्रन्थ्यग्रस्थं त्रिशृङ्गं च ब्रह्माण्याद्यष्टभैरवैः ॥ ६-१० ॥

अष्टपत्रस्थितग्रन्थिस्थितवर्गादिशक्तिभिः ।
तदन्यशक्तिभिश्चैव संगताभिः समावृतम् ॥ ६-११ ॥

तन्मध्ये कौलशक्त्या च सेवितं संस्मरेत् ततः ।
एकांगुलप्रमाणोर्ध्वे षड्दलं कुलपङ्कजम् ॥ ६-१२ ॥

आधारपङ्कजं पीतं चतुष्पत्रं सुकेसरम् ।
अधोमुखं च तन्मध्ये कुण्डली परमेश्वरि ॥ ६-१३ ॥

स्वयम्भूमध्यगा चिन्त्या वरदादिभिरावृता ।
पार्थिवं पङ्कजं ह्येतत् तस्याधः पङ्कजं परम् ॥ ६-१४ ॥

तैजसं परमेशानि तन्मध्यस्थितशक्तयः ।
निष्कलाः परमेशानि विद्युत्पुञ्जनिभाः स्मरेत् ॥ ६-१५ ॥

तदूर्ध्वे कर्णिकामध्ये वह्निबिम्बं तदूर्ध्वगम् ।
पूर्णपीठं च तस्योर्ध्वे शाकिनी संस्थिता शिवे ॥ ६-१६ ॥

आधारपङ्कजस्योर्ध्वे सार्धद्व्यंगुलकोपरि ।
तैजसं साष्टपत्रं च पीतकर्णिकया युतम् ॥ ६-१७ ॥

हृल्लेखा कर्णिकामध्ये स्थितानङ्गादिसेविता ।
एतस्माद्द्व्यंगुलादूर्ध्वे स्वाधिष्ठानं षडस्रकम् ॥ ६-१८ ॥

आप्यं च बन्धिनीशक्तिपूर्वाभिः शक्तिभिर्वृताम् ।
काकिनीमभिचिन्त्याथ नाभावष्टांगुलोपरि ॥ ६-१९ ॥

तत्पद्मं मणिपूरं च दशपत्रं सुशोभनम् ।
लाकिनीमध्यगं तच्च डामर्यादिभिरावृतम् ॥ ६-२० ॥

चतुर्दशांगुलादूर्ध्वे मणिपूराख्यपङ्कजात् ।
पङ्कजं राकिणीमध्यं द्वादशारमनाहतम् ॥ ६-२१ ॥

पत्रस्थकालरात्र्यादिशक्तिभिश्च समावृतम् ।
मध्यस्थसूर्यबिम्बे तु नादोड्यानाख्यपीठकम् ॥ ६-२२ ॥

तस्मादेकांगुलादूर्ध्वे विशुद्धं षोडशारकम् ।
मध्यगा डाकिनी बाह्यपत्रेषु परमेश्वरि ॥ ६-२३ ॥

अमृताद्यक्षरान्तःस्था चन्द्रबिम्बं तदूर्ध्वतः ।
कण्ठोर्ध्वं परमेशानि लम्बिका चतुरंगुले ॥ ६-२४ ॥

तस्मादष्टदलं पद्मं रसिकादिभिरावृतम् ।
आज्ञाचक्रं द्विपत्राब्जं हक्षद्विदलसंयुतम् ॥ ६-२५ ॥

हंसवतीक्षमापार्श्वद्वये मध्ये तु हाकिनी ।
ततो ललाटगं वृत्तं बिन्द्वावरणमूर्ध्वतः ॥ ६-२६ ॥

सूर्यकोटिप्रतीकाशमतिदीप्तं महद्गुणम् ।
तन्मध्ये दशकोटीनां संख्यायोजनपङ्कजम् ॥ ६-२७ ॥

तत्कर्णिका समासीनः शान्त्यतोतेश्वरः प्रभुः ।
पञ्चवक्त्रो दशभुजो विद्युत्पुञ्जनिभाकृतिः ॥ ६-२८ ॥

निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिरनुक्रमात् ।
परिवार्यय स्थिताश्चैताः शान्त्यतीतस्य सुन्दरि ॥ ६-२९ ॥

वामभागे समासीना शान्त्यतीता मनोन्मनी ।
पञ्चवक्त्रधराः सर्वाः दशबाह्विन्दुभूषणाः ॥ ६-३० ॥

बिन्दुतत्त्वं समाख्यातं कोट्यर्बुदशतैर्वृतम् ।

इति स्थितिश्रीचक्रन्यासनिरूपणम् ॥

इति श्रीमहामहोपाध्यायभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्य- श्रीभगवच्छङ्कराचार्यशिष्य-श्रीविष्णुशर्माचार्यशिष्य- श्रीप्रगल्भाचार्यशिष्य-श्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे षष्ठः श्वासः ॥ ६ ॥

अथ

श्रीविद्यार्णवतन्त्रे

7. Śvāsa

अथ स्थितिश्रीचक्रन्यासस्तु विद्याचक्रचक्रेश्वरीत्यङ्गत्रयात्मक इति सिद्धान्तः । तत्र प्रथमं सम्प्रदायात् करशुद्धिविद्यया करशुद्धिं विधायात्मरक्षाविद्ययात्मरक्षां कृत्वा देवीं स्वात्माभेदेन विभावयेत् । तथा श्रीतन्त्रराजे ।

अरुणां करुणातरङ्गिताक्षीं धृतपाशांकुशपुष्पबाणचापाम् ।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥ १ ॥

इति विभाव्य श्रीचक्रन्यासमारभेत् । तत्र विद्यान्यासस्तु-आदौ कूटाक्षरभेदेन व्यस्ताव्यस्तां मूलविद्यां न्यसेद्यथाक्रमेण :

मूर्ध्नि गुह्ये च हृदये नेत्रयोर्दक्षवामयोः ।
श्रोत्रयोर्भुजयोः पृष्ठे जान्वोर्नाभौ च विन्यसेत् ॥ १ ॥

इति कूटन्यासः ॥ अथाक्षरन्यासः - मूर्ध्नि गुह्ये च हृदये नेत्रेषु श्रोत्रयोर्मुखे । भुजयोः पृष्ठके जान्वोर्नाभौ पञ्चदश न्यसेत् इत्यक्षरन्यासः ॥ अथ समस्तविद्यान्यासः :

स्थानेषु पञ्चदशसु मूर्धादिषु विचक्षणः ।
मूलविद्यां पृथङ्न्यसेत् त्रितारादि यथाक्रमम् ॥ १ ॥

इति विद्यान्यासः । अथ नवचक्रेश्वरीविद्यान्यासः : -

पादयोर्जङ्घयोर्जान्वोरूर्वोश्च गुदपार्श्वयोः ।
स्फिचोर्ध्वजाग्रे चाधारे मूलाधारे च विन्यसेत् ॥ १ ॥

नवचक्रेश्वरीविद्यान्यासोऽयं परिकीर्तितः ।

इति नवचक्रेश्वरीविद्यान्यासः । अथ नवचक्रन्यासः -

ब्रह्मरन्ध्रे तथाधारे स्वाधिष्ठाने च नाभिके ।
अनाहते विशुद्धौ च लम्बिके भ्रूयुगान्तरे ॥ १ ॥

बिन्दुस्थाने क्रमेणैव नव चक्रणि विन्यसेत् ।

इति नवचक्रन्यासः । अथ चक्रेश्वरीन्यासः तत्र -

तत्र विद्याः समुच्चार्य त्रिपुरा त्रिपुरेश्वरी ।
सुन्दरी त्रिपुराद्या च तथा त्रिपुरवासिनी ॥ १ ॥

त्रिपुराश्रीः पञ्चमी स्यात्षष्ठी त्रिपुरमालिनी ।
सप्तमी त्रिपुरासिद्धा त्रिपुराम्बाष्टमी भवेत् ॥ २ ॥

नवमी तु महादेवी महात्रिपुरसुन्दरी ।
नवचक्रेषु विन्यसेदिति न्यासः समीरितः ॥ ३ ॥

इति चक्रेश्वरीन्यासः । इति स्थितिश्रीचक्रन्यासोद्धारः । अथ रक्षाषडङ्गन्यासः -

तारत्रयं ततो बाला नमस्त्रिपुरसुन्दरि ।
मां रक्षयुगलं प्रोक्त्वा षडङ्गान्यत्र विन्यसेत् ॥ १ ॥

इति रक्षाषडङ्गम् ।

बालाबीजत्रयेणैव द्विरावृत्त्या षडङ्गकम् ।
कुर्याच्च साधको बीजषडङ्गन्यास ईरितः ॥ १ ॥

कूटत्रयद्विरावृत्त्या षडङ्गानि समाचरेत् ।
विद्यापञ्चदशीमूलषडङ्गन्यास ईरितः ॥ २ ॥

पञ्चत्र्येकैककैकैस्तु पञ्चबीजैः षडङ्गकैः ।
श्रीविद्याषोडशार्णायाः षडङ्गोऽयमुदाहृतः ॥ ३ ॥

सर्वज्ञता नित्यतृप्ता तथैवानादिबोधिनी ।
स्वतन्त्रा च ततो नित्यालुप्तशक्तिस्ततः परम् ॥ ४ ॥

अनन्तशक्तिङन्तास्ता बालाबीजैकपूर्विकाः ।
षडङ्गयुवतीन्यासः प्रोक्तः सर्वार्थसिद्धये ॥ ५ ॥

एकैकं कूटमादौ श्रीमहात्रिपुरसुन्दरी ।
सर्वज्ञताशतिधाम्ने इत्यादि प्राग्वदीरितः ॥ ६ ॥

षडङ्गयुवतीन्यासो मूलविद्याप्रदीपकः ।

इति मूलषडङ्गयुवतीन्यासः । माया षडदीर्घकाद्यादि प्रकारान्तरमिष्यते ॥ इति अथ षडङ्ग युवतीनां ध्यानम् -

कुन्देन्दुनीलासितपीतरक्त्रप्रभा वराभीतिकराः वरांग्यः ।
लावण्यलीलाखिलयौवनाढ्याः श्रीदेवदेव्यास्तनवो युवत्यः ॥ १ ॥

इति ध्यानम् । अथ श्रीविद्यापूर्णन्यासः ज्ञानार्णवे -

अथ वक्ष्ये महेशानि श्रीविद्यान्यासमुत्तमम् ।
सम्पूर्णां चिन्तयेद्विद्यां ब्रह्मरन्ध्रेऽरुणप्रभाम् ॥ १ ॥

स्रवत्सुधाषोडशार्णां महासौभाग्यदां स्मरेत् ।
वामांसदेशे सौभाग्यदांगुलीं भ्रामयेत्ततः ॥ २ ॥

रिपुजिह्वाग्रहां मुद्रां पादमूले प्रविन्यसेत् ।
पुनः सम्पूर्णया देवि गलोर्ध्वे विन्यसेत्ततः ॥ ३ ॥

पुनः सम्पूर्णया देवि व्यापकत्वेन विन्यसेत् ।
व्यापकान्ते योनिमुद्रां मुखे क्षिप्त्वाभिवन्द्य च ॥ ४ ॥

श्रीविद्यापूर्णरूपोऽयं न्यासः सौभाग्यवर्धनः ।
ब्रह्मरन्ध्रे न्यसेद्देवि मणिबन्धे न्यसेत्ततः ॥ ५ ॥

ललाटेऽनामिकां कुर्यात् षोडशार्णां स्मरेद्बुधः ।
सम्मोहनाख्यो देवेशि न्यासोऽयं क्षोभकारकः ॥ ६ ॥

त्रैलोक्यमरुणं ध्यायन् श्रीविद्यां मनसि स्मरन् ।
पादयोर्जङ्घयोर्जान्वोः कट्योरन्धुनि पृष्ठके ॥ ७ ॥

नाभौ च पार्श्वयोश्चैव स्तनयोरसयोस्तथा ।
कर्णयोर्ब्रह्मरन्ध्रे च वदने चैव पार्वति ॥ ८ ॥

ततः कर्णप्रदेशे तु करे चैतदनुक्रमात् ।
संहारोऽयं महान्यासो बीजैः षोडशभिः क्रमात् ॥ ९ ॥

श्रीविद्याः षोडशार्णन्यासैर्विश्वेश्वरो भवेत् ।
सृष्ट्यर्थं विन्यसेद्देवि मातृकां पूर्ववत् प्रिये ॥ १० ॥

इति । अत्र षोडशार्णया बहुभेद्याद्येन भेदेन यो दीक्षितस्तस्य वर्णानेव न्यसेत् [अत्रास्मिन्ग्रन्थे श्रीतन्त्रराजविहितार्चाक्रमश्च, तत्र पञ्चदश्याः श्रीभगवता शम्भुना उद्धारः कृतस्तस्मात्पूर्वं पञ्चदश्या मन्त्रोद्धारः क्रियते । पूजा त्वेतस्या अग्रे विशेषतो लिख्यते । अस्याः श्रीविद्याया मुख्याम्नाय ऋग्वेदः । पञ्चममण्डले (५ । ४७ । ४) चत्वार ईं विभ्रति क्षेमयन्ते इति मन्त्रोद्धारः ऋग्वेदे प्रसिद्धः । अथर्वणे शौनकशाखायां चोपनिषदि उद्धृतोऽस्या मूलमनुः तदानुसारतां गमयति ] अथ षोडशार्णानामुद्धारक्रमः प्रदर्श्यते । तत्र श्रीज्ञानार्णवे -

श्रीदेव्युवाच :

त्रिपुरा विविधा देव भवता प्रकटीकृता ।
त्रिविधेति यदुक्तं तु प्रकटीकुरु शङ्कर ॥ १ ॥

ईश्वर उवाच

परब्रह्मस्वरूपं च नादबिन्दुकलान्वितम् ।
शिवशक्तिमयं तत्त्र कथयामि तवानघे ॥ २ ॥

व्याप्य तिष्ठति वै विश्वं स शिवः परमेश्वरि ।
पूर्वं गुणैस्तु कथिता शिवशक्त्यात्मिकां शृणु ॥ ३ ॥

अकारादिसकारान्ता मातॄकाशक्तिरव्यया ।
हकारः परमेशानि केवलं शिव उच्यते ॥ ४ ॥

आद्यन्ताक्षरभावेन तदाहंसकलार्थदः ।
यदुच्यते मातृकार्णैस्तत्सर्वमहमीश्वरः ॥ ५ ॥

हकारः परमेशानि शून्यरूपः सदाव्ययः ।
सकारः शक्तिरूपत्वात् परवाची च सर्गवान् ॥ ६ ॥

उत्पत्तेः कारणं यस्माच्छक्तिरित्यभिधीयते ।
आत्मानं दर्शयेद्योगः सोऽहंशब्देन सुन्दरि ॥ ७ ॥

बिन्दुत्रयसमायोगान्महात्रिपुरसुन्दरी ।
नादरूपेण सा देवी हकारार्धस्वरूपिणी ॥ ८ ॥

हकारः परमेशानि शिवरूपी यतस्तदा ।
तस्यार्धाङ्गं महाशक्तिर्हकारार्धस्वरूपिणी ॥ ९ ॥

अत एव महाविद्या महात्रिपुरसुन्दरी ।
नित्येति कथ्यते देवि चित्कला परदेवता ॥ १० ॥

श्रीगुरोः कृपया भद्रे सम्प्रदायकुलान्वितः ।
प्रातरुत्थाय देवेशि गुरुं स्मृत्वा स्वनामभिः ॥ ११ ॥

सन्ध्यास्नानादिकं देवि विधाय मनुवित्तमः ।
सर्वशृङ्गारवेषाढ्यः कर्पूरघुसृणादिभिः ॥ १२ ॥

श्रीवि० १५

महामृगमदोद्दामलिप्ताङ्गः कुंकुमारुणः ।
नवरत्नविभूषाढ्यो रक्ताम्बरविराजितः ॥ १३ ॥

ताम्बूलरागवदनो मादनानन्दमानसः ।
यागमण्डपमासाद्य लाक्षाचित्रविचित्रितम् ॥ १४ ॥

अनेकधूपबहुलं पुष्पप्रकरशोभितम् ।
गोमयेन च संलिप्तं चारुपुष्पवितानितम् ॥ १५ ॥

मनोहरे मृदौ सूक्ष्म आसने चोपविषय च ।
मन्त्रोद्धारं प्रकुर्वीत सर्वकार्यार्थसिद्धये ॥ १६ ॥

आद्यं वाग्भवमुचार्य कामबीजं द्वितीयकम् ।
कुमार्यास्तु तृतीयं तु त्रिपुरा परमेश्वरि ॥ १७ ॥

करशुद्धिकरी विद्या प्रथमा परमेश्वरि ।
कुमारी तु द्वितीया सा त्रिपुरेशी महेश्वरि ॥ १८ ॥

त्रिपुरेश्यादिमं त्यक्त्वा भुवनेशीं परिक्षिपेत् ।
अनया चासनं विद्यात् त्रिपुरेश्या षडङ्गकम् ॥ १९ ॥

त्रिपुरेशी महेशानि त्रिबीजा हस्थिता सदा ।
चक्रासनगताविद्धि देवि त्रिपुरवासिनी ॥ २० ॥

त्रिपुरेश्या महेशानि वाग्भवे कामराजके ।
शिवचन्द्रसमायुक्ता तार्तीये शिवरूपिणी ॥ २१ ॥

सर्वमन्त्रासनगता त्रिपुराश्रीरियं प्रिये ।
आत्मासनगतायास्तु हित्वा तार्तीयमद्रिजे ॥ २२ ॥

बलेमात्मकमारोप्य साध्यसिद्धासनस्थिता ।
साध्यसिद्धासनगता विद्धि त्रिपुरमालिनी ॥ २३ ॥

सम्पत्प्रदा भैरवी या ततस्तार्तीयबीजके ।
बिन्दुं हित्वा तत्र सर्गं निक्षिपेत् सुरसुन्दरि ॥ २४ ॥

मूलविद्यां शृणु प्रौढे सकलागमसेविताम् ।
सर्वदर्शनवन्द्यां च चित्कलामव्ययां शिवे ॥ २५ ॥

भूमिश्चन्द्रः शिवो माया शक्तिः कृष्णाध्वमादनम् ।
अर्धचन्द्रश्च बिन्दुश्च नवार्णो मेरुरुच्यते ॥ २६ ॥

महात्रिपुरसुन्दर्या मन्त्रा मेरुसमुद्भवा ।
लकारात् पृथिवी देवी सशैलंवनकानना ॥ २७ ॥

पञ्चाशन्पीठसम्पन्ना सर्वतीर्थमयी परा ।
सकाराचन्द्रतारादिग्रहराशिस्वरूपिणी ॥ २८ ॥

हकाराच्छिवसंयोगाद्व्योममण्डलसंस्थिता ।
ईकाराद्विश्वमूर्तिर्या महातुर्यात्मिका प्रिये ॥ २९ ॥

एकाराद्वैष्णवी शक्तिर्विश्वपालनतत्परा ।
रकारात् तेजसा युक्ता परज्योतिःस्वरूपिणी ॥ ३० ॥

ककारात् कामदा कामरूपिणी स्फुरदव्यया ।
अर्धचन्द्रेण देवेशि विश्वयोनिरितीरिता ॥ ३१ ॥

बिन्दुना शिवरूपेण शून्यरूपेण साक्षिणी ।
अनया सह सर्वत्र व्याप्तिर्निश्चलतात्मना ॥ ३२ ॥

एवं परब्रह्मरूपमेरुणानेन सुव्रते ।
एवं च नवभिर्वर्णैर्जायते त्रिपुरामनुः ॥ ३३ ॥

अन्यथा देवि निष्पत्तिर्नास्ति श्रीत्रिपुरामनोः ।
श्रीचक्रमपि देवेशि मेरुरूपं न संशयः ॥ ३४ ॥

लकारः पृथिवीबीजं तेन चोर्वी तदुच्यते ।
सकारश्चन्द्रमा भद्रे कलाषोडशकात्मकम् ॥ ३५ ॥

तस्मात् षोडषपत्रं तु हकारः शिव उच्यते ।
अष्टमूर्तिः सदा भद्रे तस्माद्वसुदलं भवेत् ॥ ३६ ॥

ईकारस्तु महामाया भुवनानि चतुर्दश ।
पालयन्ती परा तस्माच्छक्रकोणं भवेत् प्रिये ॥ ३७ ॥

शक्तिरेका दशस्थाने स्थित्वा सूते जगत्त्रयम् ।
विश्वयोनिरिति ख्याता सा विष्णोर्दशरूपका ॥ ३८ ॥

रकारात् परमेशानि चक्रं व्याप्य विजृम्भते ।
दशकोणपरा तस्माद्रकाराज्ज्योतिरव्ययः ॥ ३९ ॥

कलादशान्वितो वह्निर्दशकोणप्रवर्तकः ।
ककारान्मादनं देवि शिवं चाष्टस्वरूपकम् ॥ ४० ॥

योनीरस्य तदा चक्रे वसुयोन्यङ्कितं भवेत् ।
अर्धमात्रा गुणान् सूते भेदरूपा यतस्ततः ॥ ४१ ॥

त्रिकोणरूपा योनिस्तु बिन्दुना बैन्दवं भवेत् ।
कामेश्वरस्य रूपं तद्विश्वाधारस्वरूपकम् ॥ ४२ ॥

श्रीचक्रं तु वरारोहे श्रीविद्यावर्णसम्भवम् ।

इति । तन्त्रान्तरे -

मनुश्चन्द्र कुबेरश्च लोपामुद्रा च कामराट् ।
अगस्त्यनन्दिसूर्याश्च विष्णुस्कन्दशिवास्तथा ॥ १ ॥

दुर्वासाश्च महादेव्या द्वादशोपासकाः ।
स्मृताः शक्रश्च चोत्मनी चैव तथा च वरुणस्तथा ॥ २ ॥

धर्मराजोऽनलो नागराजो वायुर्बुधस्तथा ।
ईशानश्च रतिश्चैव तथा नारायणस्तथा ॥

प्. ११५) ब्रह्मा जीवो महादेव्यास्त्रयोदश उपासकाः ।
पञ्चविंशतिसंख्याकोपासकानां महेश्वरि ॥ ४ ॥

उपास्यमन्त्रभेदांस्ते प्रवक्ष्यामि समासतः ।

इति ज्ञानार्णवे -

शृणु देवि प्रवक्ष्यामि बीजं कामेश्वरीमतम् ।
सकला भुवनेशानी कामेशीबीजमुत्तमम् ॥ १ ॥

अनेन सकला विद्याः कथयामि विशेषतः ।
शक्त्यन्तस्तूर्यवर्णोऽयं कलामध्ये सुलोचने ॥ २ ॥

वाग्भवं पञ्चवर्णाढ्यं कामराजमथोच्यते ।
मादनं शिवचन्द्राद्यं शिवान्तं मीनलोचने ॥ ३ ॥

चतुरक्षररूपं तु त्र्यक्षरा त्रिपुरा परा ।

अत्र शक्तिकूटं प्रागुद्धृतकामेशीबीजरूपमित्यर्थः ।

सर्वतीर्थमयी देवी सर्वदेवस्वरूपिणी ।
सर्वसाक्षिमयी नित्या सर्वयोनिमयी परा ॥ ५ ॥

सर्वज्ञानमयी संवित्सर्वप्रज्ञानरूपिणी ।
सर्वदेवमयी साक्षात् सर्वसौभाग्यसुन्दरी ॥ ६ ॥

एतामुपास्य देवेशि कामः सर्वाङ्गसुन्दरः ।

इयं कामराजोपासिता श्रीविद्या । तथा -

देव्युवाच -

एतस्या देवदेवेश भेदान् कथय सुन्दर ।
केन केनोपासितेयं विशदीकुरु शङ्कर ॥ १ ॥

ईश्वर उवाच -

शृणु देवि प्रवक्ष्यामि लोपामुद्राभिधां पराम् ।
कामराजाख्यविद्यायाः शक्तिं तुर्यं च सुन्दरि ॥ २ ॥

हित्वा मुखे शिवेन्द्वाढ्या लोपामुद्रा प्रकाशिता ।

कामराजविद्याया वाग्भवे एकारमीकारं च हित्वादौ हकारं सकारं च दद्यादन्यत् समानम् । तथा :

अगस्त्योपासिता विद्या त्रैलोक्यक्षोभकारिणी ।
एषा विद्या कामराजपूजितैव न संशयः ॥ ३ ॥

हसकलह्रीं हसकहलह्रीं सकलह्रीं इति लोपामुद्रोपासिता श्रीविद्या ।
अनयोर्भेदमग्रे वक्ष्यामः ।

विद्याद्वयमिदं भद्र दुर्लभं भुवनत्रये ।
कामराजाख्यविद्याया वाग्भवेन वरानने ॥ ४ ॥

विद्योद्धारं प्रवक्ष्यामि शक्तिमादनमध्यगम् ।
शिवं कुर्याद्वाग्भवे तु शिवाद्यं कामराजकम् ॥ ५ ॥

चन्द्राद्यं तु तृतीयं स्याद्विद्येयं मनुपूजिता ।

कह-ए-ई-लह्रीं हक-ए-ई-लह्रीं सक-ए-ई-लह्रीं इति मनूपासिता श्रीविद्या ।

सहाद्यं वाग्भवं देवि चन्द्राद्यं शिवमध्यगम् ।
मादनं कामबीजं तु शक्तिबीजं हसाननम् ॥ ६ ॥

चन्द्राराधितविद्येयं भोगमोक्षफलप्रदा ।

सहक-ए-ई-लह्रीं सहकह-ए-ई-लह्रीं सहक-ए-ई-लह्रीं इति चन्द्रोपासिता श्रीविद्या । तथा :

हसाद्यं वाग्भवं विद्धि शिवाद्यं सहमध्यगम् ।
मादनं कामबीजे तु तार्तीयं ऋणु पार्वति ॥ ७ ॥

हसाद्यं शक्तिबीजं तु कुबेरेण प्रपूजिता ।

हसक-ए-ई-लह्रीं सहकह-ए-ई-लह्रीं सहक-ए-ई-लह्रीं इति कुबेरोपासिता विद्या तथा :

कामराजाख्यविद्यायास्तार्तीयं शृणु पार्वति ।
शक्तिबीजं सहाद्यं स्याद्विद्यागस्त्यप्रपूजिता ॥ ८ ॥

इति । क-ए-ई-लह्रीं हसकहलह्रीं हससकलह्रीं इत्यगस्त्योपासिता श्रीविद्या ।
तथा - लोपामुद्रा प्रभावेन साक्षाद्ब्रह्मस्वरूपिणी इतीयं विद्यालोपामुद्रयाप्युपासितेत्यर्थः । एतेनेयं द्वितीया लोपामुद्रोपासिता श्रीविद्येति । तथा :

कामराजाख्यविद्याया वाग्भवे मादनं त्यज ।
चन्द्रं तत्रैव संयोज्य कामराजे ततः परम् ॥ ९ ॥

हित्वा चन्द्रं मुखे कुर्याद्विद्येयं नन्दिपूजिता ।

स-ए-ई-लह्रीं सहकहलह्रीं सकलह्रीं इति नन्द्युपासिता श्रीविद्या । तथा :

प्. ११६) कामराजमिदं भद्रे षड्वर्णं सर्वमोहनम् ।
शक्तिबीजं वरारोहे चन्द्राद्यं सर्वसिद्धिदम् ॥ ४ ॥

कामराजाख्यविद्याया हित्वा भूमि तृतीयके ।
शक्तिबीजे स्थितां देवि चन्द्राधः कुरु तत्र च ॥ १० ॥

इन्द्राराधितविद्येयं भुक्तिमुक्तिफलप्रदा ।

इति । क-ए-ई-लह्रीं हसकहलह्रीं सलकह्रीं इतीन्द्रोपासिता श्रीविद्या । तथा :

लोपामुद्राख्यविद्याया द्वितीयाया महेश्वरि ।
कामराजे भृगुं हित्वा मुखे कुर्यात्तमेव हि ॥ ११ ॥

शिवं विना चतुर्थं तु तार्तीये शक्रगः शिवः ।
एषा विद्या वारारोहे त्रिपुरा सूर्यपूजिता ॥ १२ ॥

इति । क-ए-ई-लह्रीं सहकलह्रीं सहसकहह्रीं इति सूर्योपासिता श्रीविद्या । तथा

शृणु देवि प्रवक्ष्यामि चतुष्कूटां च शाङ्करीम् ।
लोपामुद्रा द्वितीयां तु विलिख्य सुरसुन्दरि ॥ १३ ॥

पुनर्विलिख्य तामेव चतुर्थे पञ्चमे स्थिताम् ।
हित्वा तु भुवनेशानीमेकोचारेण चोच्चरेत् ॥ १४ ॥

चतुष्कूटा महाविद्या शङ्करेण प्रपूजिता ।

इति । क-ए-ई-लह्रीं हसकहलह्रीं सहसकलह्रीं क-ए-ईल ह्सकहलसहसकलह्रीं इति शिवोपासिता श्रीविद्या । तथा :

लोपामुद्रां पुनर्देवि विलिखेत्तदनन्तरम् ।
नन्दिकेश्वरविद्यां च षट्कूटा वैष्णवी भवेत् ॥ १५ ॥

लोपामुद्रां द्वितीयामित्यर्थः । क-ए-ई-लह्रीं हसकहलह्रीं सहसकलह्रीं स-ए-ई-लह्रीं सहकहलह्रीं सकलह्रीं इति षट्कूटा विष्णूपासिता श्रीविद्या ।

कामराजाख्यविद्याया त्रिकूटेषु वरानने ।
या स्थिता भुवनेशानी द्विधा कुरु महेश्वरि ॥ १६ ॥

बिन्दुहीना नादहीना दुर्वासःपूजिता भवेत् ।
दुर्वाससा पुरा देवि निष्कला पूजिता परा ॥ १७ ॥

इति क-ए-ई-लह्रीं ह्रीं, हसकहलह्रींह्रीं, सकलह्रींह्रीं, इति दुर्वाससोपासिता श्रीविद्या । इति द्वादश भेदाः । अन्यास्त्रयोदश विद्या अग्रे उद्धरिष्यामः । अथ षोडशार्णविद्याया उद्धारक्रममाह, ज्ञानार्णवे :

चतुर्विधप्रकारेण शृणु देवेशि कथ्यते ।
त्वं मनोहारिणी यस्मात् कथ्यते भुवि दुर्लभा ॥ १ ॥

चन्द्रान्तं वारुणान्तं च शक्रादिसहितं पृथक् ।
वामाक्षिबिन्दुनादाढ्यं विश्वमातृकलान्वितम् ॥ २ ॥

विद्यादौ योजयेद्देवि साक्षाज्जाग्रत्स्वरूपिणी ।
उत्पत्तिर्जागरो बोधो व्यावृत्तिर्मनसस्तथा ॥ ३ ॥

कलाचतुष्टयं जाग्रदवस्थायां व्यवस्थितम् ।
जाग्रत् सत्त्वगुणा प्रोक्ता केवलं शक्तिरूपिणी ॥ ४ ॥

त्रिकूटाः सकला भद्रे पञ्चकूटा भवन्ति हि ।
वैष्णवी वसुकूटा स्यात् षट्कूटा शाङ्करी भवेत् ॥ ५ ॥

इति । अस्यार्थः :

चन्द्रान्तं हकारः, वारुणान्तं शकारः, शक्रादि रेफः, वामाक्षि ईकारः, बिन्दुनादाभ्यां ह्रीं श्रीं इति बीजद्वयं सिद्धम् ।
प्राक्प्रोक्तविद्या मायाबीजादिकाश्चेदुत्पत्तिरूपा भवन्ति कूटादिषु मायाबीजदानेन जागररूपा भवन्ति । कूटादिषु श्रीबीजदानेन मनोव्यावृत्तिरूपा । भवन्ति । विद्यादिषु श्रीबीजदानेन बोधरूपा भवन्ति ।
एते भेदा जाग्रत्स्वरूपाः । तदुक्तं स्वच्छन्दसंग्रहे :

लज्जाबीजादिका विद्याः प्रोक्ता उत्पत्तिरूपकाः ।
लज्जाबीजादिकूटैस्तु प्रोक्ता जागररूपकाः ॥ १ ॥

एवं श्रीबीजयोगेन बोधव्यावृत्तिरूपकाः ।
जाग्रत्स्वरूपा श्रीविद्या चतुर्द्धा सा प्रकीर्तिता ॥ २ ॥

तदा भेदास्तु सकलाश्चतुष्कूटा भवन्ति हि ।
वैष्णवी सप्तकूटा स्यात्पञ्चकूटा तु शाङ्करी ॥ ३ ॥

स्वप्नरूपा महाविद्याः प्रोक्ता बीजद्वयादिकः ।
मायालक्ष्म्यादिकाश्चैता अभिलाषस्वरूपकाः ॥ ४ ॥

बीजद्वयादिकूटाश्चेद्भ्रमरूपाः प्रकीर्तिताः ।
रमामायादिकाश्चिन्तारूपिण्यः कूटयोजिताः ॥ ५ ॥

स्मृतिरूपाश्च कथितास्था भेदा महेश्वरि ।
पश्चकूटा भवन्त्येते वसुकूटा तु वैष्णवी ॥ ६ ॥

षट्कूटा शाङ्करी प्रोक्ता स्वप्नावस्था समीरिता ।
वेदादिबीजयुगलयोगात् सर्वाः समीरिताः ॥ ७ ॥

सुषुप्तिरूपा जायन्ते सुषुप्तिः शिवरूपिणी ।
मरणं विस्मृतिर्मूर्च्छा निद्रा च तमसावृता ॥ ८ ॥

प्. ११७) सुषुप्तेस्तु कला ज्ञेयाश्चतस्रः परमेश्वरि ।
तारमायादिकाश्चैव मायातारादिकास्तथा ॥ ९ ॥

सुषुप्तिभेदाश्चत्वारः कलारूपा महेश्वरि ।

इति । अत्र तारमायारमादिका, मायाताररमादिका, ताररमामायादिका, रमातारमायादिका, इत्यर्थः । एवं क्रमेण द्वादशविधविद्यानां तु चतुश्चत्वारिंशदुत्तरशतं भेदा भवन्ति ॥ ज्ञानार्णवे :

वेदादिमण्डिता देवि शिवशक्तिमयी सदा ।
तदा भेदास्तु सकलाः षट्कूटाः परमेश्वरि ॥ १ ॥

वैष्णवी नवकूटा स्यात् सप्तकूटा तु शाङ्करी ।
अस्याः स्मरणमात्रेण जगदानन्दितं भवेत् ॥ २ ॥

भेदत्रयं तु कथितं महाविद्यां शृणु प्रिये ।
यस्य विज्ञानमात्रेण ब्रह्म साक्षान्न संशयः ॥ ३ ॥

सुषुप्त्यादौ जागरान्ते स्फुरत्तामात्रलक्षणा ।
अवस्थाशेषतां प्राप्ता तुर्या तु परमेश्वरि ॥ ४ ॥

भावाभावविनिर्मुक्ता गुणातीता निगद्यते ।
वैराग्यं च मुमुक्षुत्वं समाधिर्विमलं मनः ॥ ५ ॥

सदसद्वस्तुनिर्धारस्तुरीयायाः कला इमाः ।
आद्यबीजद्वयं भद्रे विपरीतक्रमेण तु ॥ ६ ॥

विलिख्य परमेशानि ततोऽन्यानि समुद्धरेत् ।
अन्तर्मुखी वारारोहे कुमारी त्रिपुरेश्वरी ॥ ७ ॥

एभिस्तु पञ्चसंख्याकैर्बीजैः संपुटितां यजेत् ।
षट्कूटां परमेशानि विद्येयं षोडशाक्षरी ॥ ८ ॥

त्रिकूटाः सकला भद्रे षोडशार्णा भवन्ति हि ।
वैष्णव्येकोनविंशार्णा शैवी सप्तदशाक्षरी ॥ ९ ॥

इति । अस्यार्थः आद्यबीजद्वयं मायारमात्मकं तस्य विपरीतक्रमः आदौ रमा पश्चान्मायेत्यर्थः । अन्तर्मध्ये स्थितं कामबीजं मुखे आदौ यस्याः कुमार्याः । एतैः पञ्चसंख्याकैर्बीजैः षट्कूटां नवकूटां वा सम्पुटितां सम्पुटवत्कृताम् तेनानुलोमविलोमतः सम्पुटितामित्यर्थः ।
गान्धर्वेऽपि :

रमाबीजं समुद्धृत्य मायाबीजं नियोजयेत् ।
कामबीजं समालिख्य वाग्बीजं तदनन्तरम् ॥ १ ॥

चतुर्दशस्वरोपेतं चन्द्रं बिन्दुयुगान्वितम् ।
प्रणवं भुवनेशानीं रमां चैव महेश्वरि ॥ २ ॥

उद्धरेत् परमेशानि ततः पञ्चदशाक्षरीम् ।
व्युत्क्रमात् परमेशानि पूर्वोक्तं बीजपञ्चकम् ॥ ३ ॥

आलिख्य संपुटंकुर्याद्विद्येयं द्व्यष्टकूटका ।

इति । तथा च योगिनीतन्त्रे -

श्रीबीजमायास्मरयोनिशक्तिस्तारं च माया कमलाथ विद्या ।
शक्त्यादिबीजैश्च विलोमतः सा श्रीषोडशीयं च शिवप्रदिष्टा ॥ १ ॥

इति । तथा रुद्रयामले -

श्रीर्माया मदनो वाणी परा तारं शिवप्रिया ।
हरिप्रिया त्रिकूटा सा परा वाणी मनोभवः ॥ १ ॥

माया लक्ष्मीर्महाविद्या श्रीविद्या षोडशाक्षरी ।

इति । दक्षिणामूर्तौ च -

द्वितीयस्यादियुग्मं तु विपरीतं लिखेत् सुधीः ।
बालां चान्तर्मुखीं कृत्वा विलिखेत्तदनन्तरम् ॥ १ ॥

तारं मायां ततओ लक्ष्मीं तथा कूटत्रयं लिखेत् ।
बालादि संपुटां कुर्याद्रमाख्यां परमेश्वरि ॥ २ ॥

इति । कलया पूर्वोक्त (शक्त्यादि) पञ्चकलया रमाख्यां प्रणवादिषट्कूटां, उमाख्यामिति पाठेऽयमेवार्थः । केचित्तु कलयास्थाने बालयापाठं कुर्वन्तस्तत्र परमेश्वरीमिति च बालयान्तर्मुख्या सम्पुटां वदन्ति । रमाख्यां श्रीं परमेश्वरीं ह्रीमिति च, तेनोत्तरदले क्लीं ऐं सौः श्रीं ह्रीमिति वदन्ति । तत्र सम्पुटशब्दार्थापरिज्ञानात् । नवरन्तेश्वरे :

मन्त्रमादौ वदेत् पूर्वं साध्यसंज्ञामनन्तरम् ।
विपरीतं पुनश्चान्ते मन्त्रं तत्संपुटं स्मृतम् ॥ १ ॥

इति संपुटलक्षणादनन्वयापत्तेः सर्वतन्त्रविरोधाच्च । तथा श्रीक्रमे -

श्रीर्माया मदनो योनिः परैतानि मुखे कुरु ।
वेदादिर्भुवनेशानी श्रीबीजं च त्रिकूटकम् ॥ १ ॥

प्. ११८) षट्कूटां संपूटां कुर्यादाद्यैः पञ्चभिरक्षरैः । इति ।
मायातन्त्रे -

लक्ष्मीः परा मदनयोनियुता च शक्तिस्तारं परा च कमलाप्यथ मूलविद्या ।
शक्त्यादिभिश्च विपरीततया प्रदिष्टं श्रीमन्त्रराजमुदितं परदेवतायाः ॥ १ ॥

इति । एतेनानुलोमतः पञ्चबीजैः सम्पुटितमिति मतं हेयम् । श्रुतौ च रमा माया तारः परा लक्ष्मीः कुमारिका । विद्या व्यस्ता बाला श्रीः परा तथा व्यस्ता विपरीता तथेति व्यस्तेत्यर्थः । कुमारी चान्तर्मुखी बोध्या । अत्र कुमारिकानन्तरं तारादित्रिबीजसम्बन्धस्तत्रैकवाक्यताबलात् (त्रैपुरीश्रुतिबलाच्च । तथा च श्रीमाये मध्यादिबालिका तारो माया श्रीर्विद्या परादिपञ्चबीजास्यन्ते चेति) श्रीपरा चेति पाठे न केवलं बाला व्यस्ता श्रीपरा चेति विद्यायां षोडशबीजानां स्वरूपकथनं वा क्रमोक्तत्वाभावात् । एतेन श्रीर्माया तारं माया बालात्रिकूटं व्यस्ता बाला रमा मायेति मतं हेयम् । कुलामृते :

श्रीबीजं शक्तिबीजं च कामबीजं च वाग्भवम् ।
बालान्तः संस्थितं बीजं प्रणवं च ततः परम् ॥ १ ॥

शक्तिबीजं रमां चैव विद्यां च परमेश्वरि ।
लोपां वा कामराजं वा त्रिकूटामथवा पराम् ॥ २ ॥

विन्यस्य पुनराद्यानि पञ्चबीजानि सुन्दरि ।
विपरीतक्रमेणैव विन्यसेत् षोडशी परा ॥ ३ ॥

इति । यामले च -

लक्ष्मीः परा मदनवाग्भवशक्तिबीजं तारं च भूतिकमले कथिता च विद्या ।
कूटत्रयं च विपरीततया नियुक्तं श्रीषोडशाक्षरमिहागमसुप्रसिद्धम् ॥ १ ॥

त्रिकूटं कामादि बालायाश्चकाराद्रमां मायां च निबन्धे -

सान्तान्तं शिवपूर्वसप्तमयुतं सूक्ष्मान्तमस्तान्वितं देवीं दक्षिणबाहुशक्रनयनं कामं कलालाञ्छितम् ।
दन्तान्तोर्ध्वमुखं सजीवदशनं शेषं मुखेनान्वितं बीजं पञ्चकमित्थमेवमुदितं सर्वार्थसिद्धिप्रदम् ॥ १ ॥

वेदाद्यं त्रिगुणं रमामथ वदेत् कामेन संसेवितां लोपां वा पुनरेव पञ्चक्रमधो पूर्वं विलोमक्रमैः ।
एषा श्रीपरमा परात्परतमा सर्वार्थसिद्धिप्रदा सारात्सारतरा समस्तजगतामुत्पत्तिभूता शिवा ॥ २ ॥

सेयं श्रीब्रह्मरूपा सकलगुणमयी निर्गुणा निष्प्रपञ्चा ।
साक्षात्कामदुधा सुरमुनिनिवहैर्वन्दितानन्दरूपा

इति ज्ञानार्णवे -

वक्त्रकोटिसहस्रस्तु जिह्वाकोटिशतैरपि ।
वर्णितुं नैव शक्येऽहं श्रीविद्यां षोडशाक्षरीम् ॥ १ ॥

वैखरी वाच्यभावत्वादशक्ता गुणवर्णने ।
यतो निरक्षरं वस्तु परा तत्रैव कारणम् ॥ २ ॥

मूकीभूता हि पश्यन्ती मध्यमा मध्यमा भवेत् ।
ब्रह्मविद्यास्वरूपा हि भुक्तिमुक्तिफलप्रदा ॥ ३ ॥

एकोच्चारेण देवेशि वाजपेयस्य कोटयः ।
अश्वमेधसहस्राणि प्रादक्षिण्यं भुवस्तथा ॥ ४ ॥

काश्यादितीर्थयात्राः स्युः सार्धकोटित्रयान्विताः ।
तुलां नार्हन्ति देवेशि नात्र कार्या विचारणा ॥ ५ ॥

एकोच्चारेण गिरिजे किं पुनर्ब्रह्म केवलम् ।
षोडशार्णा महाविद्या न प्रकाश्या कदाचन ॥ ६ ॥

गोपितव्या त्वया भद्रे स्वयोनिरिव पार्वति ।
षोडशीयं सुगोप्या हि स्नेहाद्देवि प्रकाशिता ॥ ७ ॥

अपि प्रियतमं देयं सुतदारधनादिकम् ।
राज्यं देयं शिरो देयं न देया षोडशाक्षरी ॥ ८ ॥

इति । सिद्धयामले - (प्रकारान्तरेण षोडशीमाह)

कामो माया रमा बाला त्रिकूटा स्त्री भगांकुशौ ।
काली कामकला कूर्चः सर्वादौ प्रणवः प्रिये ॥ १ ॥

श्रीमहाषोडशीयं च या ख्याता भुवनत्रये ।
ज्ञानेन मृत्युहा विद्या सर्वाम्नायैर्नमस्कृता ॥ २ ॥

सप्तलक्षा महाविद्यास्तन्त्रादौ कथिताः प्रिये ।
तासां सारतमा भूता या या विद्याः सुगोपिताः ॥ ३ ॥

बहुना किमिहोक्तेन तासां सारा तु षोडशी ।
प्रकाशिता महादेवि या पृष्टा ते पुनः पुनः ॥ ४ ॥

ओं क्लीं ह्रीं श्रीं ऐं क्लीं सौः क ए ई ल ह्रीं हसकहलह्रीं सकलह्रीं स्त्रीं ऐं क्रों क्रीं क्लीं हूं इति । रुद्रयामले :

प्. ११९) लोपायाः शक्तिकूटान्ते हंसबीजयुता यदि ।
तदा सप्तदशविद्या साक्षाज्ज्ञानस्वरूपिणी ॥ १ ॥

हसकलह्रीं सहकहलह्रीं सकलह्रीं हंसः इति ।

लोपामुद्रावाग्भवे तु पृथ्व्यन्ते शिवयोजनात् ।
सकारं कामराजादौ लोपा तु षोडशाक्षरी ॥ १ ॥

अनया दसृशी विद्या न विद्यार्णवगोचरे ।

हसकलहह्रीं, हसकहलह्रीं, सकलह्रीमिति । हसकलह्रीं, सहसकहलह्रीं, सकलह्रीं इति षोडशीद्वयम् । तत्रैव :

विद्याराज्ञोवाग्भवे तु कान्तेऽनन्तनियोजनात् ।
षोडशार्णा महाविद्या चिद्ब्रह्मक्यमयी शुभा ॥ १ ॥

हसक-आलह्रीं हसकहलह्रीं सकलह्रीमिति ।

लोपावाग्भवशक्रान्ते शिवबीजं नियोजयेत् ।
तथैव शक्तिबीजे तु लोपा सप्तदशाक्षरी ॥ १ ॥

अस्याः स्मरणमात्रेण शिवो भवति नान्यथा ।
अणिमाद्यष्टसिद्धीशः साक्षाद्भूमिपुरन्दरः ॥ २ ॥

हसकलहह्रीं, हसकहलह्रीं, सकलहह्रीं इति लोपा सप्तदशाक्षरी ।
तत्रैवाष्टादशाक्षरी :

अधरं बिन्दुनायुक्तं वाग्भवाद्ये नियोजयेत् ।
मादनं कामबीजाद्ये तर्तीयाद्ये महेश्वरि ॥ १ ॥

भृगुः सर्गान्वितो देवि मनुना च समन्वितः ।
अष्टादशाक्षरी ह्येषा श्रीविद्या भुवि दुर्लभा ॥ २ ॥

श्रीगुरोः कृपया देवि नित्या सिद्धिप्रदायिनी ।
नवलक्षं जपित्वा तु लोपामुद्रां महेश्वरि ॥ ३ ॥

अष्टादशाक्षरी विद्या पश्चाद्राध्या वरानने ।
अन्यथा शापमाप्नोति कुलं तस्य विनश्यति ॥ ४ ॥

सर्वकल्याणदा विद्या सर्वविघ्नविनाशिनी ।
सर्वसौभाग्यदा देवी सर्वमङ्गलकारिणी ॥ ५ ॥

अनया सदृशी विद्या त्रैलोक्ये चातिदुर्लभा ।

ऐंहसकलह्रीं, क्लींहसकहलह्रीं, सौःसकलह्रीं इति लोपाष्टादशाक्षरी ।
तथा :

कामराजाख्यविद्याया वाग्भवाद्ये तु वाग्भवन् ।
भुवनेशीं कामराजे श्रीबीजं शक्तिपूर्वतः ॥ १ ॥

एषाप्यष्टादशी प्रोक्ता सर्वसिद्धिप्रदायिका ।
भोगमोक्षप्रदा साक्षात् पुरुषार्थप्रदायिका ॥ २ ॥

अनया सदृशी विद्या न विद्यार्णवगोचरे ।
नास्ति नास्ति पुनर्नास्ति सत्यं सत्यं वदाम्यहम् ॥ ३ ॥

ऐं क-ए-ई-लह्रीं, ह्रीं हसकहलह्रीं, श्रींसकलह्रीं इति कामराजाष्टादशाक्षरी । तथा :

प्रणवं पूर्वमुद्धृत्य ततो वै कुलसुन्दरीम् ।
कामाक्षरं शक्तिवर्णं पुरन्दरहरौ ततः ॥ १ ॥

भुवनेशीं समुद्धृत्य विलोमां बालिकां ततः ।
प्रणवं सविसर्गं च पुनश्च कुलसुन्दरीं ॥ २ ॥

लोपावाग्भवमुद्धृत्य विलोमां बालिकां ततः ।
प्रणवं सविसर्गं तु ततो वै कुलसुन्दरीम् ॥ ३ ॥

शक्तिकूटमध्यभागे हकारं योजयेच्छिवे ।
विलोमां बालिकां तत्र ब्रह्मार्णः सविसर्गकः ॥ ४ ॥

इयं श्रीपरमाविद्या केवला मोक्षदायिनी ।
अस्या लक्षजपेनैव किं न सिद्ध्यति भूतले ॥ ५ ॥

अस्याः स्मरणमात्रेण शिवो भवति नान्यथा ।

ओं ऐं क्लीं सोः क-एलहह्रींसौः क्लीं ऐं ओंः ऐं क्लीं सौः हसकलह्रीं सौः क्लीं ऐं श्रोंः ऐं क्लीं सौः सकहलह्रीं सौः क्लीं ऐं ओंः इति परमाविद्या । श्रीक्रमे :

तां विद्यां शृणु देवेशि काममिन्द्रसमन्वितम् ।
नादबिन्दुकलाभेदात् तुरीयस्वरसंयुतम् ॥ १ ॥

महाश्रीसुन्दरीविद्या महात्रिपुरसुन्दरी ।
ककारे सर्वमुत्पन्नं कामकैवल्यदायकम् ॥ २ ॥

लकारे सकलैश्वर्यं ईकारे सर्वसौख्यदम् ।
एवं बीजत्रयं देवि विद्यानां सारसंग्रहम् ॥ ३ ॥

वाग्भवं कामराजं च शक्तिं तेन नियोजयेत् ।
एकाक्षरेण कथिता ब्रह्मविद्यैव केवलम् ॥ ४ ॥

कल-ईं इति ब्रह्मविद्या । कामराजलोपामुद्रयोर्विशेषमाह कुलोड्डीशे :

श्रीपरावाग्भवाख्यैश्च ईश्वरीतारमन्मथैः ।
आद्यभूतैर्विद्यमाना सुन्दरी षड्विधा स्मृता ॥ १ ॥

प्. १२०) अनयोराद्ये कामो माया श्रीबीजं, मायाश्रीकामबीजं, तथा त्रिविधा चाष्टादक्षाक्षरी तथाच -

काममायारमा पूर्वं माया लक्ष्मीः स्मरस्तथा ।
रमामाया तथा कामो वसुचन्द्राक्षरी त्रिधा ॥ १ ॥

स्मरं योनिं लक्ष्मीं त्रितयमिदमाद्ये तव मनौ इति भगवदाचार्येण प्रतिपादितम् । शक्तिकामराजस्तु श्रीक्रमे ।

मायाबीजं ततो झिण्ठिः कामः शक्रं वियत् क्रमात् ।
जातवेदोमृगाङ्केन लाञ्छितं परमेश्वरि ॥ १ ॥

एतद्वाग्भवकूटं च पूर्ववत् कामराजकम् ।
तथैव शक्तिबीजं तु सुन्दर्येषा प्रकीर्तिता ॥ २

सुन्दरी सिद्धिदा विद्या त्रैलोक्यवशकारिणी ।

अत्रापि पूर्ववद्बीजसंयोगः । माया ईकारः, झिण्ठिः एकारः । पुनः शक्तिमाह -

एतद्भगं ततो माया ब्रह्मा शक्रो हरोऽग्निना ।
वामनेत्रेण संयुक्तो नादबिन्दुविभूषितः ॥ १ ॥

एतद्वाग्भवमुद्दिष्टं पूर्ववत् कामशक्तिकम् ।

भगं एकारः । अत्रापि पूर्ववद्बीजसंयोगः । अत्र विशेषः -

ब्रह्मबीजं यदा दद्यात् त्रिकूटेषु वरानने ।
प्रथमा सुन्दरी देवी द्वितीया ब्रह्मसुन्दरी ॥ १ ॥

शक्तिकूटे महेशानि अनन्तसुन्दरी मता ।
एषा तु षोडशी विद्या मतभेदेन दर्शिता ॥ २ ॥

इति मन्त्रान्तरमाह -

त्रिकूटान्ते हंसबीजं बिन्दुसर्गविभूषितम् ।
एषा श्रीप्राणसंयुक्ता दारिद्र्यदुःखनाशिनी ॥ १ ॥

शक्तिलोपामुद्रा तु -

शक्तिर्महेशः कामश्च इन्द्रबीजं ततः परम् ।
महामाया ततः पश्चात्तवस्नेहात् प्रकीर्तितम् ॥ १ ॥

पूर्ववत् कामशक्त्याख्यौ वर्णौ निष्कीलितात्मकौ ।
इति शक्ती महाविद्या पश्चिमाम्नाययोजिता ॥ २ ॥

शक्तिः सकारः । पूर्ववत् कामराजविद्यावत् । अत्रापि पूर्ववद्बीजसंयोगः ।

शिवबीजं शक्तिसोमं मादनं च पुरन्दरम् ।
व्योमवह्निसमायुक्तं तुरीयस्वरबिन्दुकम् ॥ १ ॥

पूर्ववत् कामराजस्तु शक्तिबीजं समुद्धरेत् ।
एषा विद्या महेशानि वर्णितुं नैव शक्यते ॥ २ ॥

शक्तिः सकारः, सोमः सकारः पूर्ववत् कामराजविद्यावत् । अत्रापि पूर्ववत् बीजसंयोगः :

शिवशक्तिर्भुवनेशानी वाग्भवं बीजमुत्तमम् ।
कामं व्योम च देवेशि महामाया ततः परम् ॥ १ ॥

सोमं व्योम महामाया नवार्णा परिकीर्तिता ।
रुद्रशक्तिरियं देवि पूर्वाम्नाये हि योजिता ॥ २ ॥

इति । तन्त्रान्तरे -

मादनं गोत्रभित्सान्तो रेफवामाक्षिचन्द्रवान् ।
नादबिन्दुसमायुक्तः कथितः परमेश्वरि ॥ १ ॥

ब्रह्मा च गगनं शक्रो नकुलीशोऽनलस्तथा ।
मायाबिन्दुसनादेन कामराजं समुद्धरेत् ॥ २ ॥

शक्तिर्मादनशक्रश्च हरो वह्नीन्दुमायया ।
बिन्दुनादसमाक्रान्तः कथितः कामदो मनुः ॥ ३ ॥

एषा विद्या महेशानि कथितैकादशाक्षरी ।
अरिहा सिद्धिदा देवी महात्रिपुरसुन्दरी ॥ ४ ॥

मादनं पञ्चवक्त्रं च लोहिता रुद्रयोगिनी ।
पुरन्दरो महामाया वाग्भवं बीजमुत्तमम् ॥ ५ ॥

पूर्ववत् कामशक्त्याख्यमुद्धरेद् देवि सुन्दरीम् ।

लोहिता क्षकारः, रुद्रयोगिनी मकारः, पूर्ववत् कामराजविद्यावत् ।

भृग्वीशं गगनं हान्तं कालमिन्द्रं महेश्वरम् ।
वामाक्षिवह्निचन्द्राढ्यं वाग्भवं परमेश्वरि ॥ १ ॥

कामराजं शक्तिकूटं पूर्ववत्तु समुच्चरेत् ।

भृग्वीशं सकारः, हान्तः क्षकारः, कालो मकारः ।
पूर्ववत्कामराजविद्यावत् ।

प्. १२१) विष्णुरीशस्ततो हान्तः कालेशः पृथिवी ततः ।
भुवनेशी ततः पश्चाद्वाग्भवं कथितं त्वयि ॥ १ ॥

कामराजं शक्तिकूटं पूर्ववत् कथितं प्रिये ।

विष्णुरीशः अकारयुक्तो हकारः, कालेशो मकारः । सौभाग्यविद्यामाह श्रीक्रमे :

सौभाग्यं कथयिष्यामि शृणुष्वैकमनाः प्रिये ।
शक्तिः स्वयम्भूः शम्भुश्च शक्रश्च भुवनेश्वरी ॥ १ ॥

शिवो मादनरुद्रेन्द्रमहामाया ततः परम् ।
कामः शिवस्ततो ब्रह्मा इन्द्रश्च भुवनेश्वरी ॥ २ ॥

एषा तु परमा विद्या भक्तानां सुभगोदया ।
त्रिकूटान्ते हंसबीजं तदा सप्तदशी भवेत् ॥ ३ ॥

वाग्बीजं विजया माया ब्रह्मा शक्रस्तु पार्वती ।
मान्मथं शिवशक्ती च मादनो हर इन्द्रकः ॥ ४ ॥

महामाया ततः पश्चाच्छक्तिर्मनुससर्गिका ।
चन्द्रः प्रजापतिः शक्रो महामाया ततः परम् ॥ ५ ॥

अष्टादशाक्षरी विद्या महात्रिपुरसुन्दरी ।
सर्वान्ते हंससंयुक्ता विंशाक्षरी तदा भवेत् ॥ ६ ॥

श्रीदेव्युवाच :

भाषा सृष्टिः स्थितिः संहृन्निराख्या पञ्च सुन्दरीः ।
कथयस्व प्रभो देव यदि ते रोचते मयि ॥ १ ॥

ईश्वर उवाच :

शिवो मादन इन्द्रश्च शक्तिश्च भुवनेश्वरी ।
ब्रह्मा शिवेन्द्रौ शक्तिश्च महामाया ततः परा ॥ १ ॥

मादनेन्द्रौ शक्तिशिवौ महामाया तदन्तके ।

शक्तिः सकारः । एषा भाषा (हकलसह्रीं कहलसह्रीं कलसहह्रीं)

शिवश्चन्द्रस्तथा कामः शक्रश्च भुवनेश्वरी ।
शिवेन्द्रकामरुद्राश्च चन्द्रश्च परमेश्वरी ॥ १ ॥

शक्तिः कामश्च इन्द्रश्च महामाया ततः परा ।

(हसकलह्रीं हलकहसह्रीं सकलह्रीं) इयं सृष्टिः ।

शिवेन्द्रौ कामशक्ती च महामाया ततः परा ।
कामश्चन्द्रो महेशश्च इन्द्रः शक्तिश्च पार्वती ॥ १ ॥

ब्रह्मा महेश्वरः शक्तिः शक्रस्तु भुवनेश्वरी ।

(हलकसह्रीं कसहलसह्रीं कहसलह्रीं) इति स्थितिरेषा ।

शिवेन्द्रौ कामशक्ती च तत्परा भुवनेश्वरी ।
शिवशक्ती मादनेन्द्रौ शिवो वह्नीन्दुमायया ॥ १ ॥

शिवः शिवश्च कलहा वह्निमायेन्दुभुषिताः ।

(हलकसह्रीं हसकलह्रीं हहकलह्रीं) इति एषा संहृतिः ।

शक्रो ब्रह्मा चेन्दुबीजं महामाया ततः परा ।
वाग्भवं कथितं चैतत्कामराजं ततः शृणु ॥ १ ॥

शक्तिः शिवो मादनेन्द्रौ तत्परा परमेश्वरी ।
शिवः शक्तिश्च सोमश्च शून्यो ब्रह्मा महेश्वरी ॥ २ ॥

शून्यो हकारः । (लकसह्रीं सहकलह्रीं हससहकह्रीं) एषा निराख्या ।

देव्युवाच

स्वप्नावतीं मधुमतीं कथयस्व मयि प्रभो ।
इदानीं श्रोतुमिच्छामि यदि चास्ति कृपा मयि ॥ १ ॥

ईश्वर उवाच :

शिवो मादनशक्रौ च शक्तिश्च भुवनेश्वरी ।
महेशो ब्रह्म हंसश्च इन्द्रोऽपि भुवनेश्वरी ॥ १ ॥

महेशः शक्तिः कामश्च पुरन्दरो वियत्तथा ।
अग्निमायाकलायुक्तं नादबिन्दुविभूषितम् ॥ २ ॥

हंसो हकारः मायाकला ईकारः । (हकलसह्रीं, हकहसह्रीं, हसकलह्रीं)

एषा स्वप्नावती ख्याता कला पञ्चदशी यथा ।
ब्रह्मा महेश इन्द्रश्च शक्तिश्च भुवनेश्वरी ॥ १ ॥

ब्रह्मा वियन्मरुच्छक्रस्तत्परा भुवनेश्वरी ।
मादनं सोमचन्द्रौ च शक्रश्च भुवनेश्वरी ॥ २ ॥

श्रीवि० १६

प्. १२२) (मरुत् यकारः । कहलसह्रीं कहयलह्रीं कससलह्रीं इति ।)

एषा मधुमती ख्याता सर्वशास्त्रेषु गोपिता ।
वामकेश्वर विद्यैव त्रिकूटक्रमपाठिता ॥ १ ॥

सौभाग्यायाशास्त्रिकूटेन पञ्चम्याः पञ्चकूटकम् ।
त्रिपुराया महाविद्या कूटैकादशनिर्मिता ॥ २ ॥

सारात्सारतरा विद्या कथितैकादशाक्षरी ।

अथ पञ्चमी -

कामं विष्णुयुतं देवि शक्तिमायेन्द्रमेव च ।
महामायां ततः पश्चाद्वाग्भवं बीजमुद्धरेत् ॥ १ ॥

विष्णुरकारः, शक्तिरेकारः माया ईकारः ।

वियच्चन्द्रस्ततः पश्चात् कलौ नकुलिवह्नि च ।
मायास्वरेण संयुक्तं नादबिन्दुकलान्वितम् ॥ १ ॥

प्रथमं कामराजस्य कूटं परमदुर्लभम् ।
वियद्विष्णुयुतं कामो हंसः शक्रस्ततः परम् ॥ २ ॥

महामाया ततः पश्चात् स्वप्नावतीति कथ्यते ।

हंसो हकारः । एतत् द्वितीयं कामराजकूटकम् ।

मादनं शिवबीजं च वायुबीजं ततः परम् ।
इन्द्रबीजं ततः पश्चान्महामायां समुद्धरेत् ॥ १ ॥

इति तृतीयम् । इयं मधुमती ।

शिवबीजं तथा काममिन्द्रं देवीं नियोजयेत् ।
महामायां ततः पश्चाच्छक्तिकूटं समुद्धरेत् ॥ १ ॥

वाग्भवं प्रथमं देवि शक्तिकूटं च पञ्चमम् ।
मध्यकूटत्रयं देवि कामराजं मनोहरम् ॥ २ ॥

कथिता पञ्चमी विद्या त्रैलोक्यसुभगोदया ।

देवीं सकारम् ।

ईश्वर उवाच -

शृणु देवि महाभागे शक्तिकूटं सुदुर्लभम् ।
वाग्भवं प्रथमं कूटं कामराजं त्रिकूटकम् ॥ १ ॥

शक्तिकूटं प्रवक्ष्यामि तव स्नेहाद्विशेषतः ।
जीवप्राणौ महादेवि मादनं तदनन्तरम् ॥ २ ॥

इन्द्रबीजं ततः पश्चाद्भुवनेशी च पञ्चमम् ।

इति वा शक्तिकूटम् । जीवः सकारः, प्राणो हकारः ।

अथवा देवदेवेशि सौभाग्यायाश्च वाग्भवम् ।
कूटत्रयं कामराजं शक्तिबीजं (कूटं) च पूर्ववत् ॥ १ ॥

एषा शक्त्या (प्रोक्ता) महादेवि पञ्चमी परमेश्वरी ।

अस्यार्थस्तु : अस्य वाग्भवकूटं हित्वा सौभाग्यायाः प्रथमकूटं वाग्भवकूटे देयमित्यर्थः ।

वामनेत्रादिकूटं वा (ग्भवां?भगा)दिकूटमेव वा ।
अरिहा सिद्धिदा विद्या सर्वदोषविवर्जिता ॥ १ ॥

भग एकारः । एतेनाष्टधा पञ्चमी वाग्भवशक्तिकूटभेदेन । यामले :

द्विविधा पञ्चमी विद्या पञ्चपञ्चाक्षरी परा ।
मध्ये षडक्षरं चैव शक्तिश्च चतुरक्षरा ॥ १ ॥

षडिति कामराजविद्यामध्यकूटमित्यर्थः । शक्तिकूटमिति कामराजस्य शक्तिकूटमित्यर्थः एषा चतुर्धा वाग्भवकूटभेदात्, एतेन द्वादशधा भवति । तथा एतयोरष्टधा चतुर्धा व्यवस्थितयोः कामराजस्य तृतीयं कूटं तत्रैव :

कामबीजं महेशानि शिवबीजं ततः परम् ।
तदधो हंसबीजं तु इन्द्रबीजं विचिन्तयेत् ॥ १ ॥

महामायां ततः पश्चात् कूटं परमदुर्लभम् ।

एषापि पूर्ववदष्टधा, अन्या चतुर्धा । तथाच तत्त्वबोधे - कामाकाशपराशक्राः संस्थानकृतरूपिणी । परा सकारः ।
संस्थानकृतरूपिणी महामाया । तथाच तन्त्रे :

कामबीजं महेशानि शम्भुबीजं ततः परम् ।
तदधश्चन्द्रबीजं तु पृथ्वीबीजं ततो लिखेत् ॥ १ ॥

तदन्ते च महामाया कूटं परमदुर्लभम् ।

प्. १२३) एषा पूर्ववदष्टधा । अन्या चतुर्धा । तेन षट्त्रिंशद्रूपिणी पञ्चमी (श्रीक्रमे -)

एतासां चैव विद्यानां प्राणं शृणु वरानने ।
रमां मायां हंसबीजं वाग्भवाद्ये नियोजयेत् ॥ १ ॥

शक्त्यन्ते तु महादेवि हंसं मायां रमां तथा ।
एभिर्युक्तेन देवेशि विद्याजपनमाचरेत् ॥ २ ॥

जपश्च सप्तवारमेव दीपिन्यां तथा दर्शनात् । एतासामिति श्रीपूर्वोक्तश्रीक्रमोक्तविद्यानाम् । पञ्चम्यां तु विशषो यथा :

रमां मायां हंसबीजं वाग्भवाद्ये नियोजयेत् ।
शक्त्यन्ते तु महेशानि हंसं मायां रमां तथा ॥ १ ॥

कामराजत्रये देवि ककारं शक्रसंयुतम् ।
मायाबिन्द्वीश्वरयुतं सूर्यकोटिसमप्रभम् ॥ २ ॥

प्रथमं कामकूटस्य चाद्ये नियोजयेदिदम् ।
वान्तं वह्निसमायुक्तं वामनेत्रेण भूषितम् ॥ ३ ॥

नादबिन्दुसमायुक्तं श्रियो बीजमुदाहृतम् ।
द्वितीयं कामराजं तु जपेदुक्त्वा तु सुन्दरीम् ॥ ४ ॥

गगनं वह्निसंयुक्तं वामनेत्रसमन्वितम् ।
नादबिन्दुसमायुक्तं मायाबीजं प्रकीर्तितम् ॥ ५ ॥

ज्वलदग्निनिभं बीजं शुद्धहाटकगुञ्जनम् ।
कुलाकुलमये मध्ये ध्येयं साक्षान्महेश्वरि ॥ ६ ॥

मधुमतीं जपेच्चापि सर्वकामफलप्रदाम् ।

इति । अथ दीपिनी -

तारं लक्ष्मीं च वाग्बीजं मान्मथं भुवनेश्वरीम् ।
एतज्जप्त्वा ततः पश्चाद्वाग्भवाख्यं समुद्धरेत् ॥ १ ॥

प्रणवं भुवनेशानीं रमां कामं च वाग्भवम् ।
कामराजं ततो जप्त्वा त्रैलोक्यक्षोभकारकम् ॥ २ ॥

ओंकारं चैव वाग्बीजं रमां मन्मथमायया ।
स्वप्नावतीं महादेवि प्रजपेच्च समाहितः ॥ ३ ॥

प्रणवं चाधरं कामं रमां च भुवनेश्वरीम् ।
मधुमतीं ततो जप्त्वा मायां श्रीकूर्चबीजकम् ॥ ४ ॥

प्रणवाद्यं च देवेशि हंसबीजपुटीकृतम् ।
एतद्बीजं समुच्चार्य शक्तिकूटं ततो जपेत् ॥ ५ ॥

एषा तु दीपिनीविद्या अजपाप्राणरूपिणी ।

जपनियमस्तु -

जपेदादौ जपेत्पश्चात् सप्तवारमनुक्रमात् ।
कामराजादिविद्यानां दीपिनीं चैव कारयेत् ॥ १ ॥

वाग्भवे कामराजे तु शक्तिकूटे सुरेश्वरि ।

तत्र क्रमः - वाग्भवशक्तिकूटयोर्दीपिनी पञ्चमीवद्बोद्धव्या, कामराजकूटे पुनः प्रणवं भुवनेशानीं रमां कामं च वाग्भवम् । दीपिनीमिति सर्वकूटेषु सम्बन्धः । तथा सौभाग्यादिविद्यामधिकृत्य योगिनीहृदये :

स्वरव्यञ्जनभेदेन सप्तत्रिंशत्प्रभेदिनी ।
सप्तत्रिंशत्प्रभेदेन षट्त्रिंशत्तत्वरूपिणी ॥ १ ॥

तत्त्वातीतस्वभावा च विद्यैषा भाव्यते सदा ।
श्रीकण्ठदशकं तद्वदव्यक्तस्य हि वाचकम् ॥ २ ॥

प्राणभूतः स्थितो देवि तद्वदेकादशः परः ।

सौभाग्यादिविद्यायाः प्रथमकूटे अकारचतुष्टयमीकारश्चेति पञ्च स्वराः, षट् व्यञ्जनानि । द्वितीयकूटे स्वरव्यञ्जनभेदेन त्रयोदश, तृतीयकूटेऽपि नव, एवं तेन मिलित्वा त्रयस्त्रिंशदक्षराणि, कूटत्रये बिन्दुत्रयं नादत्वेनैक इति मिलित्वा सप्तत्रिंशत्, तेन नादं विहाय षट्त्रिंशत्तत्वरूपिणी, नादयुक्ता चेत्तत्त्वातीता, इति संज्ञा सदा च तत्त्वातीतस्वभावा ॥ अथ श्रीविद्याया भेदानामुद्धारः :

कामराजस्य विद्याया वाग्भवं तु विलिख्य च ।
शिवकामहरेन्द्रांश्च भुवनेशीमतः परम् ॥ १ ॥

लोपावाग्भवकूटं तु उन्मनी सकलेष्टदा ।

क-ए-ई-लह्रीं, हकहलह्रीं, हसकलह्रीं - इयमुन्मनी श्रीविद्या ।

कामराजस्य विद्याया वाग्भवं तु विलिख्य च ।
उन्मन्याः कामराजं तु चन्द्रहंसौ तु मादनम् ॥ १ ॥

भूमिश्च भुवनेशानी वरुणेन समर्चिता ।

प्. १२४) भूमिश्च लः ।

क-ए-ईलह्रीं, हकहलह्रीं, सहकलह्रीं - - इयं वरुणोपासिता श्रीविद्या ।

शक्तिर्मादनयोर्मध्ये इन्द्रश्च भुवनेश्वरी ।
शिवयोर्मादनं माया तार्तीयं वरुणस्य च ॥ १ ॥

धर्मराजोपासितेयं भोगमोक्षफलप्रदा ।

क-एकलह्रीं, हकहह्रीं, सहकलह्रीं -- इयं धर्मराजोपासिता श्रीविद्या ॥

चन्द्रो मादनयोर्मध्ये इन्द्रश्च भुवनेश्वरी ।
शिवचन्द्रेन्द्रमदना भूमिश्च भुवनेश्वरी ॥ १ ॥

चन्द्रमादनशक्राश्च वह्नीन्द्रौ भुवनेश्वरी ।
वह्नीनोपासिता विद्या भोगमोक्षफलप्रदा ॥ २ ॥

कसकलह्रीं, हसलकलह्रीं, सकलरलह्रीं - इयं वह्न्युपासिता श्रीविद्या ॥

लोपावाग्भवमुच्चार्य तस्या वै कामराजकम् ।
सकला वह्निभूमिश्च भुवनेशीं समुद्धरेत् ॥ १ ॥

नागराजोपासितेयं धर्मकामार्थमोक्षदा ।

हसकलह्रीं, हसकहलह्रीं, सकलरलह्रीं - इयं नागराजोपासिता श्रीविद्या ॥

मादर्न शक्तिवह्नी च भूमिर्वह्निः सुरेश्वरी ।
शिवमादनभूमिश्च रहला भुवनेश्वरी ॥ १ ॥

चन्द्रानलौ मादनेन्द्रवह्निश्च भुवनेश्वरी ।
वायूपासितविद्येयं चतुर्वर्गफलप्रदा ॥ २ ॥

क-एरलरह्रीं, हकलरहलह्रीं, सरकलरह्रीं - इयं वायूपासिता श्रीविद्या ॥

मादनं शक्तितुर्यौ च वह्नीन्द्रौ भुवनेश्वरी ।
शिवमादनसूर्येन्द्रवह्नयो भुवनेश्वरी ॥ १ ॥

चन्द्रसूर्यौ कलौ वह्निर्भुवनेशीं समुद्धरेत् ।
बुधोपासितविद्येयं भोगमोक्षफलप्रदा ॥ २ ॥

क-ए-ईरलह्रीं, हकहलरह्रीं, सलकलरह्रीं - इयं बोधोपासिता श्रीविद्या ॥

मादनं च शिवेन्द्रौ च भुवनेशीमतः परम् ।
शिवमादनभूमिश्च शिवेन्द्रेन्द्रानलास्तथा ॥ १ ॥

माया च कामराजस्य शक्तिकूटं समुद्धरेत् ।
ईशानोपासिता विद्या ह्यणिमाद्यष्टसिद्धिदा ॥ २ ॥

कहलह्रीं, हकलहललरह्रीं, सकलह्रीं - इममीशानोपासिता श्रीविद्या । ----- ? (क-ए-ईलह्रीं हसकहलह्रीं सकलह्रीं । इयं रत्युपासिता श्रीविद्या)

कामराजाख्यविद्याया अनुलोमविलोमतः ।
नारायणोपासितेयं षट्कूटा भुवि दुर्लभा ॥ १ ॥

क-ए-ईलह्रीं, हसकहलह्रीं, सकलह्रीं, सकलह्रीं, हसकहलह्रीं, क-ए- ईलह्रीं - इयं नारायनोपासिता श्रीविद्या ॥

कामराजाख्यविद्याया वाग्भवं तु समुद्धरेत् ।
शिवमादनसूर्येन्दुवह्निश्च भुवनेश्वरी ॥ १ ॥

लोपाया वाग्भवं चैव ब्रह्मणेयमुपासिता ।

क-ए-ईलह्रीं, हकहसरह्रीं, हसकलह्रीं - इयं ब्रह्मोपासिता श्रीविद्या ॥

लोपावाग्भवमुद्धृत्य ब्र्ह्मणः कामराजकम् ।
लोपावाग्भवकूटं तु जीवेनाराधितात्वियम् ॥ १ ॥

हसकलह्रीं, हकहसरह्रीं, हसकलह्रीं - इयं जीवोपासिता श्रीविद्या ॥

जाग्रत्स्वरूपा मायादिः पञ्चदश्युदितात्र तु ।
मायाश्रीबीजपूर्वा तु स्वप्नावस्यास्वरूपिणी ॥ १ ॥

तारमायारमादिः स्यात् सा सुषुप्तिस्वरूपिणी ।
श्रीमहाषोडशार्णा तु तुरीया सम्प्रकीर्तिता ॥ २ ॥

वैराग्यं च मुमुक्षुत्वं समाधिर्विमलं मनः ।
सदसद्वस्तुनिर्धारस्तुरीयाया इमाः कलाः ॥ ३ ॥

वैराग्यरूपा तारादिः षोडशी परिकीर्तिता ।
मायादिः षोडशार्णा तु मुमुक्षुत्वस्वरूपिणी ॥ ४ ॥

कामादिः षोडशार्णा स्यात् सा समाधिस्वरूपिणी ।
रमादिः षोडशी चित्तवैमल्यस्य स्वरूपिणी ॥ ५ ॥

सदसद्वस्तुनिर्धारस्वरूपा वाग्भवादिका ।
पञ्चधा षोडशार्णा तु दुर्लभा भुवनत्रये ॥ ६ ॥

परादिः षोडशीविद्या तुर्यातीता प्रकीर्तिता ।
भेदाः पूर्वोक्तरीत्या च ज्ञातव्यास्तन्त्रकोविदैः ॥ ७ ॥

शुद्धाशुद्धविभेदेन द्विविधाः परिकीर्तिता ।
उभयात्मकभेदाश्च शवलाश्च तथैव च ॥ ८ ॥

अनुलोमाश्च या विद्याः शुद्धाः स्युः प्रतिलोमजाः ।
अशुद्धा इति विज्ञेया उभयात्मान एव च ॥ ९ ॥

प्. १२५) शुद्धाशुद्धाश्च शवला व्यत्यस्तव्याकुलक्रमात् ।
एवं चतुर्विधा विद्या विज्ञेया देशिकोत्तमैः ॥ १० ॥

अशेषेण यहाविद्याभेदास्ते कथिताः शिवे ।

इति श्रीविद्याया भेदनिरूपणम् ॥ अथ पञ्चसिंहासनविद्याः । तत्र प्रथमं पूर्वसिंहासनविद्या, तत्राप्याद्या बाला ॥ श्रीज्ञानार्णवे -

ईश्वर उवाच

त्रिपुरा त्रिविधा देवि बालां तु प्रथमां शृणु ।
यया विज्ञातया देवि साक्षात् सुरगुरुप्रभः ॥ १ ॥

सूर्यस्वरं समुच्चार्य बिन्दुनादकलात्मकम् ।
स्वरान्तं पृथिवीस्थं तु तुर्यस्वरसमन्वितम् ॥ २ ॥

बिन्दुनादकलाक्रान्तं सर्गवान् भृगुरव्ययः ।
शक्रस्वरसमोपेतो विद्येयं त्र्यक्षरी मता ॥ ३ ॥

गङ्गातरङ्गकल्लोलवाग्गुम्फपददायिनी ।
महासौभाग्यजननी महासारस्वतप्रदा ॥ ४ ॥

इति । ऐं क्लीं सौः इति । तथा :

ऋषिरस्य महेशानि दक्षिणामूर्तिरव्ययः ।
न्यसेच्छिरसि पूज्यत्वात् पंक्तिश्छन्दो मुखे प्रिये ॥ ५ ॥

देवता हृदये बालात्रिपुरा परमेश्वरी ।
बीजं तु वाग्भवं शक्तिस्तार्तीयं कीलकं तथा ॥ ६ ॥

कामराजं महेशानि च्छन्दोन्यास उदाहृतः ।
नाभ्यादिपादपर्यन्तं गलादानाभि चापरम् ॥ ७ ॥

मुर्धादिगलपर्यन्तं त्र्यक्षरी विन्यसेत् क्रमात् ।
वामपाणितले चैकं दक्षपाणितले तथा ॥ ८ ॥

उभयोः सम्पुटे विद्यात्रिबीजं विन्यसेत् प्रिये ।
पञ्च बाणान् क्रमेणैव करांगुलिषु विन्यसेत् ॥ ९ ॥

अंगुष्ठादिकनिष्ठान्तं क्रमेण परमेश्वरि ।
थान्तद्वयं समालिख्य वह्निसंस्थं क्रमेण तु ॥ १० ॥

मुखवृत्तेन नेत्रेण वामेन परिमण्डितम् ।
बाणद्वयमिदं प्रोक्तं मादनं भूमिसंस्थितम् ॥ ११ ॥

चतुर्थस्वरबिन्द्वाढ्यं नादरूपं वरानने ।
फान्तं शक्रेण संयुक्तं वामकर्णविभूषितम् ॥ १२ ॥

बिन्दुनादसमायुक्तं सर्गवांश्चन्द्रमाः प्रिये ।
पञ्च बाणा महेशानि नामानि शृणु पार्वति ॥ १३ ॥

क्षोभणो द्रावणो देवि तथाकर्षणसंज्ञकः ।
वश्योन्मादौ क्रमेणैव नामानि परमेश्वरि ॥ १४ ॥

कामास्तत्रव विज्ञेयास्तेषां बीजानि संशृणु ।
पराबीजं मध्यबाणं वाग्भवं परमेश्वरि ॥ १५ ॥

तुर्यबाणं ततश्चैव स्त्रीबीजं तु क्रमात् प्रिये ।
पञ्च कामाः क्रमाद्देवि नामानि शृणु वल्लभे ॥ १६ ॥

काममन्मथकन्दर्पमकरध्वजसंज्ञकाः ।
मीनकेतुर्महेशानि पञ्चमः परिकीर्तितः ॥ १७ ॥

एतान् विन्यस्य देवेशि करन्यासस्ततः परम् ।
मूलविद्याद्विरावृत्त्या सर्वांगुलितलेष्वपि ॥ १८ ॥

षडङ्गक्रमयोगेषु मातृकां विन्यसेत् ततः ।

अत्र षडङ्गन्यासोत्तरं मातृकाषडङ्गमन्तर्मातृकान्यासं बहिर्मातृकान्यासं कुर्यादित्यर्थः । तथा -

एवं ध्यात्वा न्यसेत् पश्चाद्विद्यान्यासं सुरेश्वरि ।
कुर्वीत देहसन्नाहं त्रिभिर्बीजैः क्रमात् प्रिये ॥ १९ ॥

करयोर्विन्यसेदादौ मणिबन्धे तलेऽग्रके ।
दक्षे वामे च विन्यस्य दक्षकूर्परपाणिषु ॥ २० ॥

पुनर्दक्षे च वामे च पादयोश्च तथा न्यसेत् ।
नादान्ते हृदये लिङ्गे न्यसेद्देवि ततः परम् ॥ २१ ॥

एतेष्वङ्गेषु देवेशि संहारक्रमतो न्यसेत् ।
विद्यासृष्टिक्रमेणैव जानीहि परमेश्वरि ॥ २२ ॥

ततो न्यसेन्महेशानि नवयोन्यङ्कितं विधिम्।
कर्णयोश्चिबुके देवि शङ्खयोर्मुखमण्डले ॥ २३ ॥

न्तेत्रयोर्नासिकायां च बाहुयुग्मे हृदि प्रिये ।
तथा कर्पूरयोः कुक्षौ जान्वोर्जङ्घे च विन्यसेत् ॥ २४ ॥

पादयोर्देवि गुह्ये च पार्श्वहस्तस्तनद्वये ।
कण्ठे च नवयोन्याख्यं न्यसेद्बीजत्रयात्मकम् ॥ २५ ॥

षडङ्गमाचरेद्देवि द्विरावृत्त्या क्रमेण तु ।
त्रिद्व्येकदशकत्रिद्विसंख्यया शैलसम्भवे ॥ २६ ॥

अंगुलीषु पुनर्देवि बाणान् कामांश्च विन्यसेत् ।
ललाटगलहृन्नाभिमूलाधारेषु वै क्रमात् ॥

मूलेन व्यापकं कृत्वा प्राणायामं समाचरेत् ।

इति । अत्र प्राणायामत्रयं कृत्वा ऋष्यादिकरषडङ्गन्यासान् विधाय ध्यायेत् ।

प्. १२६) ध्यायेद्देवीं महेशानि कदम्बवनमध्यगाम् ।
रत्नमण्डपमध्ये तु महाकल्पवनान्तरे ॥ २८ ॥

मुक्तातपत्रच्छायायां रत्नसिंहासने स्थिताम् ।
अनर्घ्यरत्नघटितमुकुटां रत्नकुण्डलाम् ॥ २९ ॥

हारग्रैवेयसद्रत्नचित्रितां कङ्कणोज्ज्वलम् ।
पुस्तकं चाभयं वामे दक्षिणे चाक्षमालिकाम् ॥ ३० ॥

वरदानरतां दिव्यां महासारस्वतप्रदाम् ।

इति बाला ॥ अथ संपत्प्रदाभैरवी । श्रीज्ञानार्णवे -

ईश्वर उवाच

यथा श्रीत्रिपुरा बाला तथा त्रिपुरभैरवी ।
संपत्प्रदा नाम तस्याः शृणु निर्मलमानसे ॥ १ ॥

शिवचन्द्रौ वह्निसंस्थौ वाग्भवं तदनन्तरम् ।
कामराजं तथा देवि शिवचन्द्रान्वितं ततः ॥ २ ॥

पृथ्वीबीजान्तवह्न्याढ्यं तार्तीयं शृणु सुन्दरि ।
शक्तिबीजे महेशानि शिववह्नी नियोजयेत् ॥ ३ ॥

कुमार्यास्त्रिपुरेशानि हित्वा सर्गं तु बैन्दवम् ।
त्रिपुराभैरवी देवी महासंपत्प्रदा प्रिये ॥ ४ ॥

हस्रैं, हसकलरीं, हस्स्रौं इति ।

अनया सदृशी विद्या त्रिषुलोकेषु दुर्लभा ।
मूलमन्त्रद्विरावृत्त्या षडङ्गन्यास ईरितः ॥ ५ ॥

ध्यानम् -

उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् ।
हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारबिन्दश्रियम् ।
देवीं बद्धहिमांशुखण्डमुकुटां वन्दे सुमन्दस्मिताम् ॥ ६ ॥

इति संपत्प्रदा भैरवी ॥ अथ चैतन्यभैरवी, श्रीज्ञानार्णवे -

शृणु देवि प्रवक्ष्यामि पूर्वसिंहासनस्थिताम् ।
वाग्भवं बीजमुच्चार्यं जीवप्राणसमन्वितम् ॥ १ ॥

सकला भुवनेशानीं द्वितीयं बीजमुद्धृतम् ।
जीवप्राणं वह्निसंस्थं शक्रस्वरविभूषितम् ॥ २ ॥

विसर्गाढ्यं महादेवी विद्यात्रैलोक्यमातृका ।
त्रैलोक्यमोहनी देवी परब्रह्मचिदात्मिका ॥ ३ ॥

स्हैं, सकलह्रीं, स्ह्रौः - इयं सकारादिरिति । अस्या ऋष्यादिकं प्राग्वत् ।
ध्यानम् :

उद्यद्भानुसहस्राभां नानालङ्कारभूषिताम् ।
मुकुटोर्ध्वलसच्चन्द्रलेखां रक्ताम्बरान्विताम् ॥ १ ॥

पाशांकुशधरां नित्यां वामहस्ते कपालिनी ।
वरदाभयशोभाढ्यां पीनोन्नतघटस्तनीम् ॥ २ ॥

एवं ध्यात्वा यजेद्देवीं प्रेत(पूर्व)सिंहासनस्थिताम् ।

इति चैतन्यभैरवी ॥ अथ द्वितीया चैतन्यभैरवी श्रीज्ञानार्णवे -

एतस्या एव विद्याया बीजद्वयमुदाहृतम् ।
तदन्ते परमेशानि नित्यक्लिन्ने मदद्रवे ॥ १ ॥

एतस्या एव तार्तीयं रुद्राणा परमेश्वरि ।

स्हैं सकलह्रीं नित्यक्लिन्ने मदद्रवे स्ह्रौः इति । अस्या ऋष्यादिकं प्राग्वत् ॥ ध्यानम् :

चैतन्यभैरवी ध्यायेत् पाशांकुशकपालिनीम् ।
रक्तां मुण्डस्रजं पञ्चप्रेतसिंहासनस्थिताम् ॥ १ ॥

इति द्वितीया चैतन्यभैरवी ॥ अथ कामेश्वरी भैरवी श्रीज्ञानार्णवे -

शिवचन्द्रौ मादनान्तं पान्तं वह्नि समन्वितम् ।
शक्तिभिन्नं बिन्दुनादकलाढ्यं वाग्भवं प्रिये ॥ १ ॥

संपत्प्रदाया भैरव्याः कामराजं तथैव हि ।
सदाशिवस्य बीजं तु महासिंहासनस्य च ॥ २ ॥

हसखफ्रें, हसकलरीं, हसौं इति । ऋष्यादिकं पूर्ववत् ।

ध्यानमस्याः प्रवक्ष्यामि रिपुभारनिकृन्तनम् ।
उद्यत्सूर्यसहस्राभां चन्द्रचूडां त्रिलोचनाम् ॥ १ ॥

नानालङ्कारसुभगां सर्ववैरिनिकृन्तनीम् ।
वमद्रुधिरमुण्डालिकलितां रक्तवाससम् ॥ २ ॥

त्रिशूलं डमरुं खड्गं तथा खेटकमेव च ।
पिनाकं च शरान् देवि पाशांकुशयुगं क्रमात् ॥ ३ ॥

पुस्तकं चाक्षमालां च शवसिंहासनस्थिताम् ।

इति कामेश्वरी भैरवी ॥ इति पूर्वसिंहासनदेवताः । अथ दक्षिणसिंहासनदेवताः । तत्रादाथघोरभैरवी -

प्. १२७) अघोरविद्यारूपं तु महापापनिकृन्तनम् ।
अघोरे वाग्भवं पश्चाद्घोरे तु भुवनेश्वरी ॥ १ ॥

सर्वतः शर्वसर्वेभ्यो घोरघोरतरे रमाम् ।
नमस्तेऽस्तु रुद्ररूपेभ्यो देव्या बीजयुगं लिखेत् ॥ २ ॥

त्रिंशद्भिश्च त्रिभिर्वर्णैर्विद्येयं कथिता प्रिये ।

अघोरे ऐं घोरे ह्रीं सर्वतः शर्वसर्वेभ्यो घोरघोरतरे श्रीं नमस्तेऽस्तु रुद्ररूपेभ्यः क्लींसौः । अस्या ऋष्यादिषडङ्गन्यासध्यानानि प्राग्वत्, इत्यघोरभैरवी ॥ अथ महाभैरवी -

ईश्वर उवाच

शिवचन्द्रौ वह्निसंस्थौ वाग्भवेन समन्वितौ ।
नादबिन्दुसुसंयुक्तं प्रथमं बीजमुद्धृतम् ॥ १ ॥

लोपाया वाग्भवं कूटं द्वितीयं बीजमुद्धृतम् ।
शिवचन्द्रौ वह्निसंस्थौ मनुस्वरसमन्वितौ ॥ २ ॥

तृतीयं बीजमाख्यातं बिन्दुनादकलान्वितम् ।
हस्रैं हसकलह्रीं हस्रौं इति ।

पूर्ववत् परमेशानि ऋष्यादिन्यासमेव च ।
मध्यकूटेन षडदीर्घयुक्तेनाङ्गानि कल्पयेत् ॥ १ ॥

आताम्रार्कसहस्राभां लसच्चन्द्रजटास्फुरत् ।
किरीटरत्नविलसच्चित्रचित्रितमौक्तिकाम् ॥ २ ॥

स्फुरद्रुधिरपङ्काढ्यमुण्डमालाविराजिताम् ।
नयनत्रयशोभाढ्यां पूर्णेन्दुवदनान्विताम् ॥ ३ ॥

मुक्ताहारलताराजत्पीनोन्नतघटस्तनीम् ।
रक्ताम्बरपरीधानां यौवनोन्मत्तरूपिणीम् ॥ ४ ॥

पुस्तकं चाभयं वामे दक्षिणे चाक्षमालिकाम् ।
वरदानरतां नित्यां महाप्रेतासनस्थिताम् ॥ ५ ॥

इति महाभैरवी ॥ अथ ललिताभैरवी -

मायाबीजं समुद्धृत्य कामराजं तथोद्धरेत् ।
प्रेतबीजं समुद्धृत्य विद्येयं त्र्यक्षरी भवेत् ॥ १ ॥

ह्रीं क्लीं ह्स्रौं इति ।

पूर्वोक्ता एव मुन्याद्या आद्येनाङ्गक्रिया मता ।
उद्यत्सूर्यसहस्राभां माणिक्यमुकुटोज्ज्वलाम् ॥ १ ॥

रत्नकुण्डलमुक्तालिपदकाङ्गदभूषणाम् ।
रत्नमञ्जीरसुभगां रक्तवस्त्रानुलेपनाम् ॥ २ ॥

पाशांकुशौ पुस्तकं च दधतीमक्षमालिकाम् ।
बाल्यलीलापरां देवीं कुमारीरूपधारिणीम् ॥ ३ ॥

सर्वाङ्गसुन्दरीं ध्यायेत् सर्वसंपत्तिहेतवे ।

इति ललिताभैरवी । अथ कामेश्वरीभैरवी - कामेश्वरीभैरवी स्यात् कामराजेन सुन्दरी । क्लीं, इति ।

ऋषिरस्याः कामदेवी गायत्री छन्द उच्यते ।
कामेश्वरीदेवता स्याद्बीजेनाङ्गक्रिया मता ॥ १ ॥

जपाकुसुमसङ्काशां धनुर्बाणधरां स्मरेत् ।
नानालङ्कारसुभगां मोहयन्तीं जगत्त्रयम् ॥ २ ॥

इति कामेश्वरीभैरवी ॥ अथ रक्तनेत्राभैरवी -

चन्द्रवाग्भवसंयुक्तं बीजं प्रथममीरितम् ।
सकला वह्निमायाभ्यां द्वितीयं बीजमीरितम् ॥ १ ॥

बालायाश्चैव तार्तीयं तृतीयं बीजमुद्धृतम् ।
सैं, सकलरीं, सौः इति

कुमार्या एव ऋष्यादिरस्याश्च परमेश्वरि ।
षड्दीर्घचन्द्रबीजेन षडङ्गन्यास ईरितः ॥ १ ॥

उद्यत्सूर्यसहस्राभां माणिक्यमुकुटोज्ज्वलाम् ।
रत्नकुण्डलमुक्तालिपदकाङ्गदभूषणाम् ॥ २ ॥

रत्नमञ्जीरसुभगां रक्तवस्त्रानुलेपनाम् ।
पाशांकुशौ पुस्तकं च दधानां चाक्षमालिकाम् ॥ ३ ॥

उन्मत्तयौवनप्रौढां पीनोन्नतघनस्तनीम् ।
नितम्बिनीं क्षाममध्यां प्रान्तरक्तसुलोचनाम् ॥ ४ ॥

इति रक्तनेत्राभैरवी । इति दक्षिणसिंहासनदेवताः ॥ अथ पश्चिमसिंहासनदेवताः । तत्रादौ षट्कूटा भैरवी -

शिवचन्दौ मादनं च भूमिर्वह्निस्तु डामरम् ।
वाक्शान्तिमनुभिर्युक्तं बीजत्रयमुदाहृतम् ॥ १ ॥

हसकलरडैं, हसकलरडीं, हसकलरडौः - इति ॥

ऋष्यादीन् पूर्ववन्न्यस्य द्विरावृत्त्या षडङ्गकम् ।
बालसूर्यप्रभां देवीं जपाकुसुमसन्निभाम् ॥ १ ॥

प्. १२८) मुण्डमालावलीरम्यां बालसूर्यसमांशुकाम् ।
सुवर्णकलशाकारपीनोन्नतपयोधराम् ॥ २ ॥

पाशांकुशौ पुस्तकं च तथाच जपमालिकाम् ।
दधतीं भैरवीं ध्यायेत् प्रेतसिंहासनस्थिताम् ॥ ३ ॥

इति षट्कूटाभैरवी ॥ अथ नित्याभैरवी -

षट्कूटा भैरवी देवी प्रतिलोमतया भवेत् ।
नित्या च भैरवी प्रोक्ता चतुर्वर्गफलप्रदा ॥ १ ॥

डरलकसहैं, डरलकसहीं, डरलकसहौः - इति ॥

पूर्वोक्ता एव मुन्याद्या ध्यानमस्या वदामि ते ।
पञ्चमुण्डसमासीनां मुण्डमालाविभूषिताम् ॥ १ ॥

आताम्रार्कायुताभासां रत्नभूषणभुषिताम् ।
पाशांकुशाभयवरान् दधतीं भावयेच्छिवाम् ॥ २ ॥

इति नित्या भैरवी । अथ मृतसञ्जीवनी -

मायां हंसः पदं चोक्त्वा सञ्जीवनि ततः परम् ।
जूंजीवं प्राणपदं ग्रन्थिं कुरुयुगं ततः ॥ १ ॥

स्वाहान्ता कथिता विद्या मृतसञ्जीवनी परा ।

ह्रींहंसः संजीवनि सूंजीवं प्राणग्रन्थिं कुरु कुरु स्वाहा ।

ऋषिः शुक्रः समाख्यातो गायत्री छन्द ईरितम् ।
मृतसञ्जीवनी देवी देवता परिकीर्तिता ॥ १ ॥

मायाबीजं तु बीजं स्यात् स्वाहा शक्तिरुदाहृता ।
हंसस्तु कीलकं प्रोक्तं मृतसञ्जीवनाय च ॥ २ ॥

विनियोगः समाख्यातस्त्रिचतुश्चैककं पुनः ।
षट्चतुर्दिककेनैव षडङ्गानि समाचरेत् ॥ ३ ॥

दक्षिणामूर्तिसंहितायाम् -

ईश्वर उवाच :

देवी पश्चिमवक्त्रेण मयाद्यापि प्रजप्यते ।
विद्याचतुष्टयं साक्षादमृतानन्दविग्रहम् ॥ १ ॥

महासिंहासनगतं तत्र सञ्जीवनीं शृणु ।
शक्तिबीजं समालिख्य शिवचन्द्रौ समालिखेत् ॥ २ ॥

अनुस्वारविसर्गाभ्यां मण्डितौ क्रमतः प्रिये ।
सञ्जीवनि च जूं जीवं प्राणग्रन्थिस्थमालिखेत् ॥ ३ ॥

कुरुशब्दस्त्रिशः सौःसौः वह्निजायान्वितो मनुः ।

विंशत्यर्णेति ।

ह्रींहंसः संजीवनिजूं हंसः कुरुकुरुकुरु सौःसौः स्वाहा इति ।

ऋषिः शुक्रः समाख्यातो गायत्रं छन्द उच्यते ।
सञ्जीवनी देवता स्याच्छक्तिरस्यादिबीजकम् ॥ १ ॥

चतुष्कं त्रितयं पञ्च पञ्चकं चतुरेव हि ।
त्रिकं च क्रमतो देवि षडङ्गानि प्रविन्यसेत् ॥ २ ॥

कर्पूराभां हीरमुक्ताभूषणैर्भूषिताम्बराम् ।
ज्ञानमुद्रामक्षमालां दधतीं चिन्तयेत् पराम् ॥ ३ ॥

इति मृतसञ्जीवनी । अथ मृत्युञ्जय परा -

अथ वक्ष्ये महेशानि मृत्युञ्जयपरां पराम् ।
वदद्वन्द्वं वादनीति वाङ्मध्ये निक्षिपेत् प्रिये ॥ १ ॥

हस्राङ्कं वाग्भवं देवि क्लिन्ने क्लेदिनि चालिखेत् ।
महाक्षोभं कुरुद्वन्द्वं शिवचन्द्रकलानलाम् ॥ २ ॥

वामाक्षिबिन्दुनादाङ्कां तारबीजं ततो वदेत् ।
मोक्षं कुरुयुगं हंस्रं शक्रस्वरविसर्गवत् ॥ ३ ॥

वदवदवाग्वादिनि हसैं, क्लिन्ने क्लेदिनि महाक्षोभं कुरु कुरु हस्रीं, ओं मोक्षं कुरु कुरु हसौः इति ॥

इयं सञ्जीवनी देवी ऋषिरस्याः शिवः प्रिये ।
गायत्रं छन्द आख्यातं देवतेयं तु भैरवी ॥ १ ॥

आदिकूटं भवेद्बीजं मध्यकूटं तु कीलकम् ।
अन्त्यकूटं भवेच्छक्तिः साक्षान्मृत्युविनाशिनी ॥ २ ॥

नवशक्राष्टवर्णैस्तु षडङ्गानि प्रविन्यसेत् ।
ध्यात्वा चावाहयेद्देवीं कदम्बवनमध्यगाम् ॥ ३ ॥

पुस्तकं वामहतेस्न दक्षिणेनाक्षमालिकाम् ।
विभ्रतीं कुन्दधवलां कुमारीं चिन्तयेत् पराम् ॥ ४ ॥

इति मृत्युञ्जयपरा ॥ अथ वज्रप्रस्तारिणी -

ईश्वर उवाच :

परां क्लिन्ने वाग्भवं च तत्क्रोमात्मकमक्षरम् ।
ततो नित्यमदप्रान्ते द्रवे मायां च संलिखेत् ॥ १ ॥

ह्रींक्लिन्ने ऐंक्रों नित्यमदद्रवे ह्रीं - इति ॥

वज्रेशी रविवर्णेयं ऋषिर्ब्रह्मास्य सन्मनोः ।
छन्दो विराट् च वज्रेशी देवता परिकीर्तिता ॥ १ ॥

प्. १२९) पञ्चमं च चतुर्थं च बीजशक्ती क्रमेण तु ।
तार्तीयं कीलकं देव्यास्ततोऽङ्गानि प्रविन्यसेत् ॥ २ ॥

आद्यन्तबीजं संत्यज्य द्विकं चैकैकरूपकम् ।
द्विकं द्विकं त्रिकंचैव षडङ्गानि प्रकल्पयेत् ॥ ३ ॥

ध्यात्वा चावाहयेद्देवीं कदम्बवनमध्यगाम् ।
रक्तां चन्द्रकलाचारुमुकुटां वरभूषणाम् ॥ ४ ॥

महातारुण्यगर्वाढ्यलोचनत्रयशोभिताम् ।
शोणिताब्धितरत्पोतमहायन्त्रोपरिस्थिताम् ॥ ५ ॥

दाडिमं सायकांश्चैव पाशं चैव सृणि तथा ।
चापं कपालं दधतीं शोणमाल्यानुलेपनाम् ॥ ६ ॥

स्मरेद्रक्ततरां देवीमुपचारैः समर्चयेत् ।

इति वज्रपस्तारिणी ॥ इति पश्चिमसिंहासनदेवताः ॥ अथोत्तरसिंहासनदेवताः ।
तत्रादौ भुवनेश्वरीभैरवी -


। (?)

लोपावाग्भवमुच्चार्य प्रेतबीजं समुद्धरेत् ।
रेफं शिवाधो निःक्षिप्य भुवनेशी च भैरवी ॥ १ ॥

हस्रैं, हसकलह्रीं, ह्रसौं इति ।

अकुमार्या एव ऋष्याद्या आद्येनाङ्गक्रिया मता ।
जपाकुसुमसङ्काशां दाडिमीकुसुमप्रभाम् ॥ २ ॥

चन्द्रलेखाजटाजूटां त्रिनेत्रां रक्तवाससम् ।
नानालङ्कारसुभगां पीनोन्नतघनस्तनीम् ॥ ३ ॥

प्रेतासनसमासीनां मुण्डमालाविभूषिताम् ।
पाशांकुशवराभीतीर्धारयन्तीं शिवां श्रये ॥ ४ ॥

इति भुवनेशीभैरवी ॥ अथ कमलेश्वरीभैरवी - भुवनेशी च चन्द्राद्या कमलेशी तथा भवेत् सहैं, सहकलह्रीं, सहौं इति । अन्यत्सर्वं भुवनेशीभैरवीवत् । इति कमलेशीभैरवी ॥ अथ सिद्धकौलेशभैरवी:

हस्रैं हस्रीं च हस्रौः च सिद्धकौलेशभैरवी ।
कुमार्या एव मुन्याद्या ध्यानमस्या वदामि ते ॥ १ ॥

आताम्रार्कसहस्राभां त्रिनेत्रां चन्द्रसन्मुखीम् ।
चन्द्रखण्डस्फुरद्रत्नमुकुटां क्षाममध्यमाम् ॥ २ ॥

नितम्बिनीं स्फुरद्रत्नवसनां रक्तभूषणाम् ।
उन्मत्तयौवनप्रौढां पीनोन्नतघनस्तनीम् ॥ ३ ॥

असृक्पङ्काढ्यमुण्डस्रङ्मण्डिताङ्गी सुभूषणाम् ।
पुस्तकं चाभयं वामे दक्षिणे चाक्षमालिकाम् ॥ ४ ॥

वरदं दधतीं ध्यायेत् प्रेतसिंहासनस्थिताम् ।

इति सिद्धकौलेशभैरवी ॥ अथ डामरभैरवी -

ईश्वर उवाच

उत्तरास्येन देवेशि मयाद्यापि प्रजप्यते ।
महासिंहासनगता भैरवी डामरेश्वरी ॥ १ ॥

पूर्वोक्तभैरवीदेव्याः कामकूटे परां शिवाम् ।
हित्वोच्चरेत् तदा विद्यां महासिंहासनेश्वरीम् ॥ २ ॥

हसैं, हक्लीं, हसौः - इति ।

पूर्वोक्ता एव मुन्याद्या ध्यानमस्या वदामि ते ।
बन्धूककुसुमाभासां पञ्चमुण्डाधिवासिनीम् ॥ १ ॥

स्फुरच्चन्द्रकलारत्नमुकुटां मुण्डमालिनीम् ।
त्रिनेत्रां रक्तवसनां पीनोन्नतघनस्तनीम् ॥ २ ॥

पुस्तकं चाक्षमालां च वरदं चाभयं क्रमात् ।
दधतीं संस्मरेन्नित्यमुत्तराम्नायमानिताम् ॥ ३ ॥

इति डामरभैरवी ॥ अथ कामिनीभैरवी -

संपत्प्रदाया भैरव्या वह्निं त्यक्त्वा समुद्धरेत् ।
कामिनीभैरवी चेयं भयविध्वंसिनीति वा ॥ १ ॥

हसैं, हसक्लीं हसौं - इति ।

पूर्वोक्ता एव मुन्याद्या ध्यानमस्या वदामि ते ।
आताम्रार्कायुताभासां रत्नभूषणभूषिताम् ॥ १ ॥

पाशांकुशाभयवरान् धारयन्तीं शवासनाम् ।
मुण्डमालावलीरम्यां चिन्तयेद्भैरवीं पराम् ॥ २ ॥

इति कामिनीभैरवी । इत्युत्तरसिंहासनदेवताः ।
अथोर्ध्वसिंहासनदेवतास्तत्रादौ प्रथमसुन्दरी -

ईश्वर उवाच

श्रीवि० १७

प्. १३०) अथेशानेन वक्त्रेण मयाद्यापि प्रजप्यते ।
विद्यानां पञ्चकं देवि त्रिषु लोकेषु दुर्लभम् ॥ १ ॥

वाग्भवं शिवसंयुक्तं वाग्भवे मध्यमं शृणु ।
हकालान्ते महेशानि शिवबीजं तु संलिखेत् ॥ २ ॥

रेफवामाक्षिबिन्द्बिन्दुघटितं तु तृतीयकम् ।
हसानुग्रहसर्गाढ्यं विद्यैका सुन्दरी प्रिये ॥ ३ ॥

हैं, हकलह्रीं, हसौः - इति प्रथमसुन्दरी ॥ अथ द्वितीयसुन्दरी :

अहसाद्यैर्जपेन्मन्त्री रवितुर्यमनुस्वरैः ।
अन्त्यं ससर्गमाद्ये हि बिन्दुनादकलात्मिके ॥ १ ॥

इयं द्वितीया देवेशि सुन्दरी परिकीर्तिता ।

अहसैं, अहसीं, अहसौः इति द्वितीयसुन्दरी ॥ अथ तृतीयसुन्दरी :

केवलं वाग्भवं देवि वाग्भवे मध्यमं शृणु ।
हस-एहसहस्रांश्च वाग्भवेन च योजयेत् ॥ १ ॥

हत्रयं कलहृल्लेखां शक्तिकूटं शृणु प्रिये ।
चतुष्कं शिवबीजानां रेफोऽनुग्रहसर्गवान् ॥ २ ॥

एवं तृतीया देवेशि सुन्दरी चतुरक्षरा ।

ऐं, हस-एहसहस्रैं हहहकलह्रीं, हहहहरौः, इति तृतीयसुन्दरी ॥ अथ चतुर्थसुन्दरी :

कलान्ते शिवयुग्मं तु तथा जीवत्रयं शिवे ।
परया पिण्डितं कुर्यात् कूटमेतत् त्रिधेरयेत् ॥ १ ॥

वाग्भवे कामराजे च शक्तिबीजे च संलिखेत् ।
चतुर्थी सुन्दरी ख्याता भोगमोक्षप्रदायिनी ॥ २ ॥

कलहहसससह्रैं(ह्रीं), कलहहसससह्रीं, कलहहससससह्रौः (ह्रीं) - इति चतुर्थसुन्दरी । अथ पञ्चमसुन्दरी

जीवः शिवयुगं जीवः क्ष्माक्षकारशिवेन्दुमत् ।
एतदाद्यं च मध्यं च हसयुक्क्ष्माक्षहेन्दुमत् ॥ १ ॥

अन्त्यं तु हसलक्षेन्दुहेन्द्वाकाशविभूषितम् ।
त्रिपुरेशीमनोरेषा पञ्चमी सुन्दरी भवेत् ॥ २ ॥

सहहसलक्षहसैं, हसहसलक्षहसीं, हसलक्षसहसहौः - इति पञ्चमसुन्दरी ।

सम्पत्प्रदाभैरवीवद्ध्यायेत् पञ्चकमुत्तमम् ।
ऋष्यादिपूजा विज्ञेया त्रिपुरेशीव नान्यथा ॥ १ ॥

इत्यूधूर्वसिंहासनविद्याः । इति पञ्चसिंहासनविद्यानिरूपणम् ॥ अथ पञ्चपञ्चिकागणस्तत्रादौ पञ्चलक्ष्म्यः, तत्रादौ श्रीविद्यालक्ष्मीः :

षोडशार्णा महाविद्यां समुच्चार्य विधानवित् ।
महालक्ष्मीश्वरीवृन्दमण्डितासनसंस्थिता ॥ १ ॥

सर्वसौभाग्यजननीपादुकां पूजयामि च ।

इति श्रीविद्यालक्ष्मीः ॥ अथैकाक्षरलक्ष्मीः -

वरुणान्तं वह्निसंस्थं दीर्घनेत्रविभूषितम् ।
बिन्दुनादसमायुक्तं लक्ष्मीमन्त्र उदाहृतः ॥ १ ॥

श्रीं - इति

ऋषिर्भृगुनिचृच्छन्दस्तथा श्रीर्देवता प्रिये ।
शतुर्ये बीजशक्ती च कीलकं रेफ उच्यते ॥ २ ॥

षड्दीर्घयुक्स्वबीजेन षडङ्गानि समाचरेत् ।
ध्यायेत् ततः श्रियं रम्यां सर्वदेवनमस्कृताम् ॥ ३ ॥

तप्तकार्तस्वराभासां दिव्यरत्नविभूषिताम् ।
आसिच्यमानाममृतैर्मुक्तारत्नद्रवैरपि ॥ ४ ॥

शुभ्राभ्राभेभयुग्मेन मुहुर्मुहुरपि प्रिये ।
रत्नौघबद्धमुकुटां शुद्धक्षौमाङ्गरागिणीम् ॥ ५ ॥

पद्माक्षीं पद्मनाभेन हृदि चिन्त्यां स्मरेद्बुधः ।
एवं ध्यात्वा जपेद्देवीं पद्मयुग्मधरां सदा ॥ ६ ॥

वरदाभयशोभाढ्यां चतुर्बाहुं सुलोचनाम् ।

इति लक्ष्मीः ॥ अथ महालक्ष्मीः -

प्रणवं पूर्वमुच्चार्य हरीमात्मकमक्षरम् ।
श्रीपुटं चाथ कमले कमलाये प्रसीद च ॥ १ ॥

लायेमध्यगतां भूमिं रुद्रस्थाने तु योजयेत् ।
प्रसीद पूर्वबीजानि सम्पुटत्वेन योजयेत् ॥ २ ॥

महालक्ष्मीहृदन्तोऽणुरष्टाविंशतिवर्णवान् ।

ओं श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ओं महालक्ष्म्यै नमः - इति ।

प्. १३१) दक्षः प्रजापतिश्चास्य ऋषिश्छन्दस्तथैव च ।
गायत्री देवता लक्ष्मीर्हृदयं परिकीर्तितम् ॥ १ ॥

द्वितीयं च तृतीयं च बीजशक्ती क्रमेण तु ।
प्रणवः कीलकं देवि ततोऽङ्गानि प्रविन्यसेत् ॥ २ ॥

अङ्गानि पूर्ववद्देवि न्यसेन्मन्त्री समाहितः ।
रत्नोद्यद्वसुपात्रं च पद्मयुग्मं च हेमजम् ॥ ३ ॥

अग्ररत्नावलीराजदादर्श दधतीं पराम् ।
चतुर्भुजां स्फुरद्रत्ननूपुरां मुकुटोज्ज्वलाम् ॥ ४ ॥

ग्रैवेयाङ्गदहाराढ्यकङ्कणां रत्नकुण्डलाम् ।
पद्मासनसमासीनां दूतीभिर्मण्डितां सदा ॥ ५ ॥

शुक्लाङ्गरागवसनां महादिव्याङ्गनानताम् ।

एवं ध्यात्वार्चयेद्देवीमिति ।

इति महालक्ष्मीः ॥ अथ त्रिशक्तिलक्ष्मीः -

श्रीबीजं च पराबीजं कामबीजं समालिखेत् ।
इयं त्रिशक्तिर्देवेशि त्रिषु लोकेषु दुर्लभा ॥ १ ॥

श्रींह्रींक्लीं - इति ।

ऋषिर्ब्रह्मास्य गायत्री छन्दोऽपि कथितं प्रिये ।
त्रिशक्तिर्देवताङ्गानि द्विरावृत्त्या यजेत् प्रिये ॥ १ ॥

(?) * * * * * * * * ध्यायेत्सर्वसमृद्धिदाम् ।
नवहेमस्फुरद्भूमौ रत्नकुट्टिममण्डपे ॥ २ ॥

महाकल्पवनान्तःस्थे रत्नसिंहासने वरे ।
कमलासनशोभाढ्यां रत्नमञ्जीरमण्डिताम् ॥ ३ ॥

स्फुरद्रत्नलसन्मौलिं रत्नकुण्डलमण्डिताम् ।
अनर्घ्यरत्नघटितनानामण्डलभूषिताम् ॥ ४ ॥

दधतीं पद्मयुगलं पाशांकुशधनुःशरान् ।
षड्भुजामिन्दुवदनां दूतीभिः परिवारिताम् ॥ ५ ॥

चारुचामरहस्ताभी रत्नादर्शसुपाणिभिः ।
ताम्बूलस्वर्णपात्रीभिर्भूषापेटीसुपाणिभिः ॥ ६ ॥

तप्तकार्तस्वराभासाम् इति । इति त्रिशक्तिलक्ष्मीः ॥ अथ सर्वसाम्राज्यलक्ष्मीः -

अथ वक्ष्ये महेशानि सर्वसाम्राज्यदेवताम् ।
यस्या आराधने विष्णुरभूल्लक्ष्मीपतिः स्वयम् ॥ १ ॥

चन्द्रेशमादनक्ष्मेशवह्निदीर्घाक्षिमण्डितम् ।
विध्वक्रूरेश्वरीयुक्तं विद्येयं वैष्णवी प्रिये ॥ २ ॥

श्रीबीजसम्पुटं कुर्यात् सर्वसाम्राज्यदायिनी ।

श्रींसहकलह्रींश्रीं इति ।

ऋषिर्हरिस्तथा छन्दो गायत्री चास्य सन्मनोः ।
देवता मोहनी लक्ष्मीर्महासाम्राज्यदायिनी ॥ १ ॥

बीजं कूटं समाख्यातं शक्तिः श्रीबीजमुच्यते ।
षड्भिराद्यैः स्वरैर्भित्वा षडङ्गानि प्रविन्यसेत् ॥ २ ॥

अतसीपुष्पसङ्काशां रत्नभूषणभूषिताम् ।
शङ्खचक्रगदापद्मशार्ङ्गबाणधरां करैः ॥ ३ ॥

षड्भिः कराभ्यां देवेशि वरदाभयशोभिताम् ।
एवमष्टभुजां ध्यात्वेति ।

इति सर्वसाम्राज्यलक्ष्मीः । इति पञ्चलक्ष्म्यः ॥ अथ पञ्चकोशविद्याः - तत्र श्रीविद्याकोशेश्वरी - ओं ऐं ह्रीं श्रीं, मूलम् ।

महाकोशेश्वरीवृन्दमण्डितासनसंस्थिता ।
सर्वसौभाग्यजननीपादुकां पूजयामि च ॥ १ ॥

इति श्रीविद्याकोशेश्वरी ॥

अथ श्रीकोशविद्यानां चतुष्कं शृणु पार्वति ।
यस्य विज्ञानमात्रेण पुनर्जन्म न विद्यते ॥ १ ॥

श्रीविद्या च परज्योतिः परनिष्कलदेवता ।
अजपा मातृका चैव पञ्च कोशाः प्रकीर्तिताः ॥ २ ॥

प्रणवं पूर्वमुच्चार्य परां हंसःपदं लिखेत् ।
ततः सोऽहं शिरो देवि वसुवर्णयमीरिता ॥ ३ ॥

ओं ह्रीं हंसःसोऽहं स्वाहा इति ।

ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्रं छन्द उच्यते ।
परज्योतिर्मयी साक्षाद्देवता परिकीर्तिता ॥ ४ ॥

प्रणवान्त्यद्वयं बीजशक्ती शेषं तु कीलकम् ।
स्वाहा तु हृदयं सोऽहं शिरो हंसः शिखा भवेत् ॥ ५ ॥

मायया कवचं तारबीजेन नयनत्रयम् ।
सृष्ट्यान्मन्त्रेण देवेशि समग्रणास्त्रकं भवेत् ॥ ६ ॥

ध्यानं तु प्रपञ्चयागकरणे प्रपञ्चितमिति परज्योतिः कोशेश्वरी ॥ अथ परनिष्कलदेवता कोशेश्वरी -

प्. १३२) अथ वक्ष्ये महेशानि परनिष्कलदेवताम् ।
यस्याः स्मरणलात्रेण चिदानन्दायये तनुः ॥ १ ॥

अनुग्रहादिर्देवेशि बिन्दुनादकलात्मकः ।
परनिष्कलदेवीयं परब्रह्मस्वरूपिणी ॥ २ ॥

शुक्लाम्बरपरीधाना शुक्लमाल्यानुलेपना ।
ज्ञानमुद्राङ्किता योगिपतिवृन्देन सेविता ॥ ३ ॥

ध्येयेति शेषः ।

ऋषिर्ब्रह्मास्य गायत्रं मनोश्छन्दः क्रमाद्भवेत् ।
ब्रह्मैव देवता बीजशक्ती अ-ऊ क्रमेण तु ॥ ४ ॥

मकारः कीलकं मोक्षफलदा ज्ञानदायिनी ।
स्वरद्वन्द्वस्य मध्ये तु क्षिप्त्वा त्यक्त्वा चतुष्टयम् ॥ ५ ॥

ऋ ॠ ऌ ॡ च देवेशि षडङ्गानि प्रविन्यसेत् ।

इति परनिष्कलदेवता ॥ अथाजपाकोशेश्वरी -

अजपाराधनं देवि कथयामि तवानघे ।
यस्य विज्ञानमात्रेण परब्रह्मैव देशिकः ॥ १ ॥

हंसःपदं परेशानि प्रत्यहं जपते नरः ।
मोहबद्धो न जानाति मोक्षस्तस्य न विद्यते ॥ २ ॥

श्रीगुरोः कृपया देवि ज्ञायते जप्यते तदा ।
उच्छ्वासनिःश्वासतया तदा बन्धक्षयो भवेत् ॥ ३ ॥

उच्छ्वासे चैव निःश्वासे हंस इत्यक्षरद्वयम् ।
तस्मात् प्राणस्तु हंसाख्य आत्माकारेण संस्थितः ॥ ४ ॥

षष्टिश्वासैः भवेत् प्राणः षष्ट्या तैर्नाडिका मता (?) ।
षष्टिनाड्या अहोरात्रं जपसंख्याजपामनोः ॥ ५ ॥

एकविंशतिसाहस्रं षट्शताधिकमीश्वरि ।
जपते प्रत्यहं प्राणी स्पन्दानन्दमयीं पराम् ॥ ६ ॥

उत्पत्तिर्जप आरम्भो मृतिरस्य निवेदनम् ।
विना जपेन देवेशि जपो भवति मन्त्रिणः ॥ ७ ॥

अजपेयं ततः प्रोक्ता भवपाशनिकृन्तनी ।
श्रीगुरोः कृपया देवि लभते नान्यथा प्रिये ॥ ८ ॥

एवं जपं महेशानि प्रत्यहं विनिवेदयेत् ।
गणेशब्रह्मविष्णुभ्यो हराय परमेश्वरि ॥ ९ ॥

जीवात्मने क्रमेणैव तथा च परमात्मने ।
षट्शतानि सहस्राणि षडेव च तथा पुनः ॥ १० ॥

षट् सहस्राणि च पुनः सहस्रं च सहस्रकम् ।
पुनः सहस्रं गुरवे क्रमेण तु निवेदयेत् ॥ ११ ॥

जपं निवेदयित्वा तमहोरात्रभवं प्रिये ।
सहजं परमेशानि न्यासं कुरु विचक्षणे ॥ १२ ॥

ऋषिर्हंसोऽव्यक्तपूर्वं गायत्रं छन्द उच्यते ।
देवता परमादिस्तु हंसो हं बीजमुच्यते ॥ १३ ॥

सः शक्तिः कीलकं सोऽहं प्रणवस्तत्त्वमेव हि ।
नाद स्थानं तथा श्वेतो वर्णस्तु परमेश्वरि ॥ १४ ॥

उदात्तः स्वर इत्येवं मनोरस्य प्रकीर्तितम् ।
मोक्षार्थे विनियोगः स्यादेवं जानीहि पार्वति ॥ १५ ॥

ततः षडङ्गविन्यासं कुर्याद्देहस्य शुद्धये ।
सूर्यं सोमं तथा देवि निरञ्जनमतः परम् ॥ १६ ॥

निराभासं चतुर्थ्यन्तस्वाहान्तान् क्रमतो न्यसेत् ।
कवचान्तान् प्रविन्यस्य ततोऽनन्तपदं स्मरेत् ॥ १७ ॥

तनुसूक्ष्मचतुर्वर्णानुक्त्वा ङेऽन्तं प्रचोदयात् ।
स्वाहान्तेनैव नयनमव्यक्तपदपूर्वकः ॥ १८ ॥

प्रबोधात्मा चतुर्थ्यग्निजायान्तोऽस्त्रं निगद्यते ।
अस्य हंसस्य देवेशि निगमागमपक्षकौ ॥ १९ ॥

अग्नीषोमावथो वापि पक्षौ तारः शिरो भवेत् ।
बिन्दुत्रयं शिखा नेत्रे मुखे नादः प्रतिष्ठितः ॥ २० ॥

शिवशक्तिपदद्वन्द्वं कालाग्निपार्श्वयुग्मकम् ।
अयं परमहंसस्तु सर्वव्यापी प्रकाशवान् ॥ २१ ॥

सूर्यकोटिप्रतीकाशः स्वप्रकाशेन भासते ।
संहाररूपी हंसोऽयं विवेकं दर्शयत्यपि ॥ २२ ॥

अजपा नाम गायत्री त्रिषु लोकेषु दुर्लभा ।

इत्यजपाकोशेश्वरी ॥ मातृका प्रागेव प्रपञ्चिता । इति पञ्च कोशदेवताः । अथ पञ्च कल्पलताः -

अथ वक्ष्ये महेशानि विद्याः कल्पलताः प्रिये ।
यासां विज्ञानमात्रेण पलायन्ते महापदः ॥ १ ॥

श्रीविद्या पारिजातेशी पञ्चकामेश्वरी तथा ।
पञ्चबाणेश्वरी देवी कुमारी पञ्च कीर्तिताः ॥ २ ॥

ओं ऐं ह्रीं श्रीं मू० महाकल्पलतेश्वरीवृन्दमण्डितासनसंस्थितसर्व- सौभाग्यजननीश्रीविद्याकल्पलताश्रीपादुकां पूजयामि । इति श्रीविद्याकल्पलतेश्वरी ॥ अथ पारिजातेश्वरी :

प्. १३३) सम्पत्प्रदाया भैरव्या वाग्भवं बीजमालिखेत् ।
तारेण परया देवी सम्पुटीकृत्य मन्त्रवित् ॥ १ ॥

सरस्वत्यै हृदन्तोऽयं रुद्रार्णो मनुरीरितः ।

ओं ह्रीं ह्स्रैं ह्रीं ओं सरस्वत्यै नमः इति ।

ऋषिः स्याद्दक्षिणामूर्तिर्गायत्रं छन्द ईरितम् ।
पारिजातेश्वरी वाणी देवता परिकीर्तिता ॥ २ ॥

तृतीयं च द्वितीयं च बीजशक्ती च तारकम् ।
कीलकं परमेशानि महासारस्वतप्रदम् ॥ ३ ॥

षडदीर्घस्वरसंभिन्नबीजेनाङ्गानि विन्यसेत् ।
हंसारूढां लसन्मुक्ताधवलां शुभ्रवाससम् ॥ ४ ॥

शुचिस्मितां चन्द्रमौलिं वज्रमुक्ताविभूषणाम् ।
विद्यां वीणां सुधाकुम्भमक्षमालां च बिभ्रतीम् ॥ ५ ॥

इति पारिजातेश्वरी । अथ पञ्चबाणेश्वरी -

अथ वक्ष्ये महेशानि पञ्चबाणेश्वरीं शिवाम् ।
त्रिपुरेशीमन्त्रमध्ये बाणाः प्रोक्ता महेश्वरि ॥ १ ॥

तैरेव पञ्चभिर्बाणैर्विद्या पञ्चाक्षरी भवेत् ।
द्रांद्रींक्लींब्लूंसः । इति

ऋषिरस्यास्तु मदनो गायत्रं छन्द उच्यते ।
कामेश्वरीव बीजादि देवता चेयमीश्वरी ॥ २ ॥

व्यस्तैः समस्तैरङ्गानि बाणैः पञ्चभिराचरेत् ।
उद्यद्दिवाकराभासां नानालङ्कारभूषिताम् ॥ ३ ॥

बन्धूककुसुमाकाररक्तवस्त्राङ्गरागिणीम् ।
इक्षुकोदण्डपुष्पेषुविराजितभुजद्वयाम् ॥ ४ ॥

इति पञ्चबाणेश्वरी ॥ अथ पञ्चकामेश्वरी -

अथ वक्ष्ये पञ्चकामनायिकां विश्वमातरम् ।
पूर्वोक्तपञ्चकामैस्तु पञ्चकामेश्वरी भवेत् ॥ १ ॥

ऋषिः सम्मोहनो नाम गायत्रं छन्द उच्यते ।
देवतेयं कामदा च बीजशक्ती तु कीलकम् ॥ २ ॥

अन्त्यमेतैर्न्यसेन्मन्त्री व्यस्तैश्चैव समस्तकैः ।
अङ्गानि पूर्ववत् कामबाणन्यासद्वयं भवेत् ॥ ३ ॥

रक्तां रक्तदुगूलाङ्गलेपनां रक्तभूषणाम् ।
पाशांकुशौ धनुर्बाणान् पुस्तकं चाक्षमालिकाम् ॥ ४ ॥

वराभीती च दधतीं त्रैलोक्यवशकारिणीम् ।

इति पञ्चकामेश्वरी ॥ अथ कुमारी -

अथ वक्ष्ये महेशानि कुमारीं विश्वमातरम् ।
कामेश्वरीं भगवतीं त्रैलोक्याकर्षणक्षमाम् ॥ १ ॥

वाग्भवं त्रिपुरेशान्या हित्वा तत्र क्षिपेत् सुधीः ।
कामशक्तिद्वयान्तस्तु विद्येयं त्र्यक्षरी भवेत् ॥ २ ॥

क्लीं ऐं सौः इति ।

त्रिपुरेशीवदृश्यादि बीजशक्ती क्रमेण तु ।
आद्यन्ते कीलकं मध्यं महावश्यकरी भवेत् ॥ ३ ॥

द्विरावृत्त्या षडङ्गानि इति । तथा -

उद्यत्सूर्यसहस्राभां माणिक्यवरभूषणाम् ।
स्फुरद्रत्नदुकूलाढ्यां नानालङ्कारभूषिताम् ॥ ४ ॥

इक्षुकोदण्डबाणांश्च पुस्तकं चाक्षमालिकाम् ।
दधतीं चिन्तयेन्नित्यं सर्वराजवशङ्करीम् ॥ ५ ॥

इति पञ्चकल्पलताविद्याः ॥ अथ पञ्चकामदुघाः - ओं ऐं ह्रीं श्रीं मूलं महाकालदुघेश्वरीवृन्दमण्डितासनसंस्थित- सर्वसौभाग्यजननीश्रीविद्याकामदुघाश्रीपादुकां पूजयामि इति श्रीविद्याकामदुघा ॥ ह्रीं हंसः सञ्जीवनि जूंजीवं प्राणग्रन्थिस्थं कुरुकुरु सः स्वाहा । ऋष्यादिन्यासध्यानानि प्रागेवोक्तानि ।
इत्यमृतपीठेश्वरी ॥ अथ अमृतेश्वरी - ऐं ब्लूं ओं जूंसः अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतं स्रावय स्रावय स्वाहा ऋष्यादिच्छन्दोन्यासादि प्राग्वत् ।

अमृतामृतरश्म्योघसन्तर्पितचराचराम् ।
भवानि भवशान्त्यै त्वां भावयाम्यमृतेश्वरीम् ॥ १ ॥

इत्येवं सुधासूः ॥ अथान्नपूर्णा -

शिवाग्निवामनयनबिन्दुनादकलात्मकम् ।
श्रीकामयुगलं प्रोक्त्वा हृदन्ते भगवत्यपि ॥ १ ॥

प्. १३४) माहेश्वरी चतुर्वर्णमन्नपूर्णे तथा लिखेत् ।
चतुर्वर्णं वह्निजायाताराद्यो मनुरीरितः ॥ २ ॥

द्विदशार्णा महेशानि इति । ओं ह्रीं श्रीं क्लीं नमो भगवति माहेश्वरि अन्नपूर्णे स्वाहा । अयं मन्त्रः प्रणवादि ॥

ऋषिर्ब्रह्मास्य मन्त्रस्य उष्णिक्छन्दोऽभिधीयते ।
अन्नपूर्णेश्वरी देवी देवता परिकीर्तिता ॥ ३ ॥

बीजं शक्तिः कीलकं च हृल्लेखादिकमुच्यते ।
षड्दीर्घमायया कुर्यात् षडङ्गानि महेश्वरि ॥ ४ ॥

उद्यत्सूर्यसमाभासां विचित्रवसनोज्ज्वलाम् ।
चन्द्रचूडामन्नदाननिरतां रत्नभूषिताम् ॥ ५ ॥

सुवर्णकलाशाकारस्तनभारनतां पराम् ।
रुद्रताण्डवसानन्दां द्विभुजां परमेश्वरीम् ॥ ६ ॥

वरदाभयशोभाढ्यामन्नदानरतां सदा ।

इत्यन्नपूर्णेश्वरी । इति पञ्च कामदुघाविद्याः ॥ अथ पञ्च रत्नेश्वरीविद्याः । तत्रादौ श्रीविद्यारत्नेश्वरी - ४ मूलं महारत्नेश्वरीवृन्दमण्डितासनसंस्थितसर्वसौभाग्यजननीश्रीविद्यारत्ने श्वरीश्रीपादुकां पूजयामि । इति श्रीविद्यारत्नेश्वरी ॥ अथ सिद्धलक्ष्मीरत्नेश्वरी - ओं ऐं ह्रीं श्रीं फ्रें फ्रें ख्फ्रें ऐं क्षमरीं महाचण्डतेजः सङ्कर्षिणि कालिमन्थाने ह्रींसः स्वाहा ।
खफ्रें ह्रीं श्रीं सर्वसिद्धियोगिनि हसखफ्रें ह्रीं श्रीं नित्योदिताये सकलकुलचक्रनायिकायै भगवत्यै चण्डिकपालिन्यै ह्रीं श्रींहूं ख्फ्रें ह्रीं ह्रूं हफ्रेंक्ष्यै क्रों क्लींसः खफवयरें परमहंसि निवार्णमार्गदे देवि विषमोपप्लवप्रशमनि सकलदुरितारिष्टक्लेशदमनि सर्वापदम्भोधितारिणि सकलशत्रुप्रमथिनि देवि आगच्छ आगच्छ हस हस बल बल नररुधिरान्त्रवसाभक्षिणि मम शत्रून् मर्दय मर्दय खाहि खाहि त्रिशूलेन भिन्धि भिन्धि छिन्दि छिन्दि खड्गेन ताडय टाडय छेदय छेदय वदकवलह्रीं हसक्षमलवरयूं हसक्षमलवरयीं सहक्षमलवरयीं मम सकलमनोरथान् साधय साधय परम कारुणिके देवि भगवति महाभैरवरूपधारिणि त्रिदशवरनमिते महामन्त्रमातः प्रणतजनवत्सले देवि महातिकालनाशिनि ह्रीं प्रसीद मदनातुरां कुरु कुरु सुरासुरकन्यकां ह्रीं श्रीं क्रों फट् ठःठः सहखफ्रें फ्रेंफ्रें महारत्नेश्वरीवृन्दमण्डितासनसंस्थितसर्वसौभाग्यजननी- श्रीसिद्धमहालक्ष्मी-श्रीपादुकां पूजयामी । इति सिद्धलक्ष्मीः ॥ अथ मातङ्गी रत्नेश्वरी ।

अथातः सम्प्रवक्ष्यामि मातङ्गीं रत्नदेवताम् ।
वाग्भवं कामराजं च सर्गवान् भृगुरुत्तमे ॥ १ ॥

अनुग्रहेण संयुक्तः पुनराद्यं परां लिखेत् ।
श्रीबीजं तारकं चैव नमो भगवतीति च ॥ २ ॥

मातङ्गीश्वरि सर्वान्ते मनोहरि जनादिकम् ।
सर्वराजवशं चान्ते करि सर्वमुखान्तकम् ॥ ३ ॥

रञ्जिनीति ततः सर्वस्त्रीशब्दं च ततो वदेत् ।
पुरुषान्ते वशं चोक्त्वा कर्यन्ते सर्वदुष्टतः ॥ ४ ॥

मृगान्ते वशमालिख्य सर्वलोकपदं लिखेत् ।
शैलजे वशमालिख्य करिशब्दं ततो वदेत् ॥ ५ ॥

परां श्रीयं कामबीजं वाग्भवं च समालिखेत् ।
सप्ततिश्च त्रयो वर्णा मातङ्गीविग्रहाः प्रिये ॥ ६ ॥

ऐं क्लीं सौः ऐंह्रींश्रीं ओं नमो भगवति मातङ्गीश्वरि सर्वजनमनोहरि सर्वराजवशङ्करि सर्वमुखरञ्जिनि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वलोकवशङ्करि ह्रींश्रींक्लीं ऐं ॥

इयं मतङ्गविद्यानां राज्ञीमोक्षार्थसिद्धिदा ।
ऋषिर्मतङ्गो भगवान् गायत्री छन्द उच्यते ॥ ७ ॥

देवता नादमूर्तिस्तु मातङ्गी परमेश्वरी ।
कामबीजं वाग्भवं च बीजशक्ती च कीलकम् ॥ ८ ॥

तार्तीयं देवदेवेशि षडङ्गान्यथ विन्यसेत् ।
आद्यबीजत्रयेणैव द्विरावृत्त्या षडङ्गकम् ॥ ९ ॥

अम्भोजार्पितदक्षांघ्रिक्षौमां ध्यायेन्मतङ्गिनीम् ।
क्वणद्वीणालसन्नादश्लाघान्दोलितकुण्डलाम् ॥ १० ॥

दन्तपंक्तिप्रभारम्यां शिवां सर्वाङ्गसुन्दरीम् ।
कदम्बपुष्पदामाढ्यां वीणावादनतत्पराम् ॥ ११ ॥

श्यामाङ्गीं शङ्खवलयां ध्यायेत् सर्वार्थसिद्धये ।

इति मातङ्गीरत्नेश्वरी ॥ अथ भुवनेश्वरीरत्नेश्वरी सातु प्रागेव प्रपञ्चिता ।
अथ वाराहीरत्नेश्वरी दक्षिणामूर्तिसंहितायाम् -

प्. १३५) पञ्चमीं रत्नविद्येशीं कथयामि शृणु प्रिये ।
यस्याः स्मरणमात्रेण पवनोऽयं स्थिरो भवेत् ॥ १ ॥

वाग्भवं बीजमुच्चार्य गलानुग्रहबिन्दुभिः ।
नादेन भूषितं बीजं पार्थिवं चोच्चरेत्ततः ॥ २ ॥

पुनराद्यं नमोऽन्ते च भगवति समालिखेत् ।
वार्तालियुग्मं वाराहि पुनरेतद्द्वयं लिखेत् ॥ ३ ॥

वाराहमुखि च द्वन्द्वं सन्धिहीनं ततः परम् ।
अन्धे चान्धिनि सप्तार्णं हृदन्तेन भवेत्प्रिये ॥ ४ ॥

रुन्धे रुन्धिन्यतो हृच्च जम्भे जम्भिनि हृत्ततः ।
मोहे मोहिनि हृच्चापि स्तम्भे स्तम्भिनि हृत्ततः ॥ ५ ॥

एतदुक्त्वा महेशानि सर्वदुष्टप्रदुष्ट च ।
सानामन्तं च सर्वेषां सर्ववागिति चित्त च ॥ ६ ॥

चक्षुर्मुखगति प्रोक्त्वा जिह्वास्तम्भं कुरुद्वयम् ।
शीघ्रं वश्यं कुरुद्वन्द्वं वाग्भवं पार्थिवं पुनः ॥ ७ ॥

ठकारस्य चतुस्कान्ते कवचास्त्राग्निवल्लभा ।
चतुर्दशोत्तरशतं मन्त्रवर्णा भवन्ति हि ॥ ८ ॥

ऐं ग्लौं ऐं नमोभगवति वार्तालि वार्तालि वाराहि वाराहि वाराहमुखि वाराहमुखि अन्धे अन्धिनि नमः, रुन्धे रुन्धिनि नमः, जम्भे जम्भिनि नमः, मोहि मोहिनि नमः, स्तम्भे स्तम्भिनि नमः, सर्वदुष्टप्रदुष्टानां सर्वेषां सर्ववाक्चित्तचक्षुर्मुखगतिजिह्वास्तम्भं कुरु कुरु शीघ्रं वश्यं कुरु कुरु ऐं ग्लौं ठठठठ हुं फट् स्वाहा । ११४ वर्णाः ।

चतुश्चत्वारिंशतिभिर्पदैर्न्यासस्तु कीर्तितः ।
मातृकावन्न्यसेद्वक्त्रे पदानि दश मन्त्रवित् ॥ ९ ॥

दोःपत्सन्धिषु साग्रेषु न्यसेद्विंशतिसंख्यकान् ।
पदार्णान्यथ विन्यस्य पार्श्वयोरेकमुत्तमम् ॥ १० ॥

अनेनैव प्रकारेण मातृकावन्न्यसेत् सुधीः ।
ततः षडङ्गविन्यासं कुर्याद् देहविशुद्धये ॥ ११ ॥

वार्ताल्यास्तु पदद्वन्द्वं हृदयं च ततः परम् ।
वाराहियुगलं देवि शिरोमन्त्र उदाहृतः ॥ १२ ॥

वाराहमुखियुगलं शिखा सप्ताक्षरं ततः ।
कवचं च ततः सप्तवर्णैर्नेत्रं न्यसेत् क्रमात् ॥ १३ ॥

प्रत्यग्रारुणसङ्काशपद्मान्तर्गतवासिनीम् ।
इन्द्रनीलमहातेजःप्रकाशां विश्वमातरम् ॥ १४ ॥

कदम्ब मुण्डमालाढ्यनवरत्नविभूषिताम् ।
अनर्घ्यरत्नघटितमुकुटश्रीविराजिताम् ॥ १५ ॥

कौशेयार्धोरुकां चारुप्रवालमणिभूषणाम् ।
हलेन मुशलेनापि वरदेनाभयेन च ॥ १६ ॥

विराजितचतुर्बाहुं कपिलाक्षीं सुमध्यमाम् ।
नितम्बिनीमुत्पलाभां कठोरघनसत्कुचाम् ॥ १७ ॥

कोलाननाम् * * * * * * * * * * * * ।

इति वाराहीरन्तेश्वरी ॥ इति पञ्चपञ्चिकागणः ॥ अथ षोडशनित्याविवरणम् -

अथ वक्ष्ये महेशानि नित्याविवरणं महत् ।
कामेश्वरी महाभेदा बहवः सन्ति पार्वति ॥ १ ॥

तत्र कामेश्वरी नित्या कथ्यते भुवि दुर्लभा ।
त्रिपुरेशीं समुच्चार्य तारान्ते हृत्पदं ततः ॥ २ ॥

कामेश्वरिपदं चोक्त्वा त्विच्छाकामफलप्रदे ।
सर्वसत्त्ववशं प्रोक्त्वा करि सर्वजगत्पदम् ॥ ३ ॥

क्षोभान्ते तु करे हूं हूं बाणांश्च त्रिपुरेश्वरीम् ।
विपरीतां समालिख्य विद्या षट्त्रिंशदक्षरा (?) ॥ ४ ॥

ऐं क्लीं सौः ओं नमः (हृत्) कामेश्वरीच्छाकामफलप्रदे सर्वसत्त्ववशङ्करि सर्वजगत्क्षोभकरे हूं हूं द्रां द्रीं क्लीं ब्लूं सः सौः क्लीं ऐं ।

आद्यभागत्रयेणैव द्विरावृत्त्या सडङ्गकम् ।
कामेश्वरीवदृष्यादि ध्यानयन्त्रार्चनादिकम् ॥ ५ ॥

इति कामेश्वरीनित्या ॥ अथ भगमालिनीनित्या -

अथ वक्ष्ये महेशानि विद्यां श्रीभगमालिनीम् ।
वाग्भवं भगशब्दान्ते भुगे वाग्भवमेव च ॥ १ ॥

भगिन्यन्ते वाग्भवं च भगोदरि च वाग्भवम् ।
भगक्लिन्ने वाग्भवं च वाग्भवादौ भगावहे ॥ २ ॥

भगगुह्ये वाग्भवं च भगयोनि च वाग्भवम् ।
भगन्यन्ते पातनीति वाग्भवं भगसर्व च ॥ ३ ॥

वदि वाग्भवमालिख्य ततो भगवशङ्करि ।
वाग्भवं भगरूपे तद्भगनित्ये च वाग्भवम् ॥ ४ ॥

भगक्लिन्ने वाग्भवं च भगस्वान्ते समालिखेत् ।
रूपे सर्वभगानीति मे ह्यानय च वाग्भवम् ॥ ५ ॥

प्. १३६) भगक्लिन्नद्रवे चान्ते भगं क्लेदय चालिखेत् ।
भगं द्रावय चालिख्य भगामोघे भगेति च ॥ ६ ॥

विच्चे भगं क्षोभयेति सर्वसत्त्वान्भगेश्वरि ।
वाग्भवं च भगब्लूं च वाग्भवं भगजं लिखेत् ॥ ७ ॥

वाग्भवं च भगब्लूं च वाग्भवं भगर्भे लिखेत् ।
वाग्भवं च भगब्लूं च वाग्भवं भगमों लिखेत् ॥ ८ ॥

भगक्लिन्ने च सर्वाणि भगान्यथ च मे लिखेत् ।
वाग्भवं च भगब्लूं च वाग्भवं भगहें लिखेत् ॥ ९ ॥

वाग्भवं च भगब्लूं च वाग्भवं भगहें लिखेत् ।
भगक्लिन्ने च सर्वाणि भगान्यथ च मे लिखेत् ॥ १० ॥

वशमानय चालिख्य भगपञ्चममन्मथम् ।
भगान्तरे भगान्तेऽथ हरब्लेमात्मकमालिखेत् ॥ ११ ॥

भगान्ते(पञ्च?प्रथ)मं कामं ततो वै भगमालिनीम् ।
ङेऽन्तामुच्चार्य विद्येयं त्रैलोक्यवशकारिणी ॥ १२ ॥

चतुरधिकविंशत्या द्विशतेन च मण्डिता ।
वर्णानां भगमालेयं नित्या सा फलसिद्धिदा ॥ १३ ॥

मन्त्रोद्धारस्तु सुगमः ।

ऋषिरस्यास्तु सुभगो गायत्रं छन्द एव च ।
देवतेयं तु बीजं तु हरब्लेमात्मकं प्रिये ॥ १४ ॥

शक्तिः स्त्रीबीजकं ब्लूं तु कीलकं परमेश्वरि ।
षड्दीर्घस्वरभेदेन न्यसेदङ्गानि देशिकः ॥ १५ ॥

कामन्यासं तथा बाणन्यासं कुर्यात्तु पूर्ववत् ।
कदम्बवनमध्यस्थामुद्यत्सूर्यसमद्युतिम् ॥ १६ ॥

नानाभरणसम्पन्नां त्रैलोक्याकर्षणक्षमाम् ।
पाशांकुशौ पुस्तकं च तौलिकीनखलेखनीम् ॥ १७ ॥

वरदं चाभयं चैव दधतीं विश्वमातरम् ।

इति भगमालिनी ॥ अथ नित्यक्लिन्ना -

भुवनेशीं समुच्चार्य नित्यक्लिन्ने मदद्रवे ।
वह्निजाया च विद्येयं रुद्रवर्णा महोत्कटा ॥ १ ॥

ह्रीं नित्यक्लिन्ने मदद्रवे स्वाहा इति ।

एकेन च तथा द्वाभ्यां द्वाभ्यां द्वाभ्यां क्रमात्प्रिये ।
द्वाभ्यां द्वाभ्यां षडङ्गानिविन्यसेद्देशिकोत्तमः ॥ २ ॥

रक्तां रक्ताङ्गवसनां चन्द्रचूडां त्रिलोचनाम् ।
स्विद्यत्वक्त्रां महाघूर्णलोचनां रत्नभूषिताम् ॥ ३ ॥

पाशांकुशौ कपालं च महाभीतिहरं तथा ।
दधतीं संस्मरेन्नित्यां पद्मासनविराजिताम् ॥ ४ ॥

इति नित्यक्लिन्ना नित्या ॥ अथ भेरुण्डा -

अथ वक्ष्ये महेशानि भेरुण्डां परमेश्वरीम् ।
भेराकारं समुच्चार्यांकुशाभ्यां तं च वेष्टयेत् ॥ १ ॥

अन्त्यहीनं चवर्गं तु चतुर्धा रेफमण्डितम् ।
अनुग्रहेन्दुबिन्द्वाढ्यं तारस्वाहोदरस्थितः ॥ २ ॥

मनुर्दशार्णो देवेशि महाविषहरो भवेत् ।
ओं क्रोंभेःक्रों च्रौं छ्रौं ज्रौं झ्रौं स्वाहा ।

ऋषिरस्य महाविष्णुर्गायत्रं छन्द उच्यते ।
देवतेयं पराशक्तिस्तृतीयं बीजमुच्यते ॥ ३ ॥

वह्निजाया च शक्तिः स्यात् कीलकं सृणिरेव च ।
षड्दीर्घस्वरभेदेन बीजेनैव षडङ्गकम् ॥ ४ ॥

चन्द्रकोटिप्रतीकाशां स्रवन्तीममृतद्रवैः ।
नीलकण्ठां त्रिनेत्रां च नानाभरणभूषिताम् ॥ ५ ॥

इन्द्रनीलस्फुरत्कान्ति शिखिवाहनशोभिताम् ।
पाशांकुशौ कपालं च च्छुरिकां वरादाभये ॥ ६ ॥

बिभ्रतीं हेमसम्बद्धगारुडाङ्गदभूषिताम् ।

इति भेरुण्डा नित्या ॥ अथ वह्निवासिनी नित्या -

शृणु देवि प्रवक्ष्यामि नित्यां वै वह्निवासिनीम् ।
परां विलिख्य वह्न्यन्ते वासिन्यै नम इत्यपि ॥ १ ॥

अष्टार्णोऽयं महेशानि पुरुषार्थप्रदो मनुः ।
ह्रीं वह्निवासिन्यै नमः इति ।

ऋषिरस्य वसिष्ठः स्याद्गायत्री छन्द उच्यते ।
आद्यन्ते बीजशक्ती च कीलकं मध्य एव च ॥ २ ॥

देवि पदत्रयेणैव द्विरावृत्त्याङ्गकं न्यसेत् ।
ध्यायेत्तां च सुवर्णाभां नानालङ्कारभूषिताम् ॥ ३ ॥

पाशांकुशौ स्वस्तिकं च शक्तिं च वरदाभये ।
दधतीं रत्नमुकुटां त्रैलोक्यतिमिरापहाम् ॥ ४ ॥

प्. १३७) इति वह्निवासिनी नित्या ॥ अथ महा[विद्ये?वज्रे]श्वरी नित्या -

अथ वक्ष्ये महेशानि महा[विद्ये?वज्रे]श्वरीं पराम् ।
नित्यक्लिन्नां समालिख्य मुखे तारं समालिखेत् ॥ १ ॥

हृल्लेखान्ते करोमात्म चन्द्रबीजं विसर्गवत् ।
चतुर्दशाक्षरी विद्या * * * * * * * * ॥

ओं ह्रींक्रोंसः नित्यक्लिन्ने मदद्रवे स्वाहा इति ।

* * * * * * * * * ऋषिर्ब्रह्मा निगद्यते ।
गायत्रं छन्द आख्यातं देवता परमेश्वरी ॥ २ ॥

आद्यन्ते बीजशक्ती तु हृल्लेखा कीलकं भवेत् ।
चतुष्केण च युग्मेन युग्मेन युगलेन च ॥ ३ ॥

युगलेन च युग्मेन न्यसेदङ्गानि देशिकः ।
जपाकुसुमसङ्काशां रक्तांशुकविराजिताम् ॥ ४ ॥

माणिक्यभूषणां नित्यां नानाभूषाविभूषिताम् ।
पाशांकुशौ कपालस्थसुधापानविघूर्णिताम् ॥ ५ ॥

अभयं दधतीं ध्यायेत् । इति महा[विद्ये?वज्रे]श्वरी नित्या ॥ अथ शिवदूती नित्या -

अथ दूतीं प्रवक्ष्यामि त्रैलोक्याकर्षणक्षमाम् ।
भुवनेशीं समुच्चार्य शिवदूत्यै नमो लिखेत् ॥ १ ॥

सप्तार्णा शिवदूतीयं त्रैलोक्यस्वामिनी प्रिये । ह्रीं शिवदूत्यै नमः इति ।

ऋषी रुद्रस्तु गायती छन्दोऽस्या देवता शिवा ।
आद्यन्ते बीजशक्ती च मध्ये कीलकमुच्यते ॥ २ ॥

विद्याभागत्रयेणैव द्विरावृत्त्याङ्गकं न्यसेत् ।
दूर्वानिभां त्रिनेत्रां च महासिंहसमासनाम् ॥ ३ ॥

शङ्खारिबाणचापांश्च सृणिपाशौ वराभये ।
दधतीं चिन्तयेनित्याम् ॥

इति शिवदूती नित्या ॥ अथ त्वरिता नित्या -

अथ वक्ष्ये महेशानि त्वरितां सिद्धिदायिनीम् ।
तारं परान्ते कवचं खेचछेक्षः समालिखेत् ॥ १ ॥

स्त्रीं हूमात्मकमुच्चार्य क्षे परामस्त्रकं लिखेत् ।
त्वरिता रविवर्णेयं भोगमोक्षफलप्रदा ॥ २ ॥

ओं ह्रीं हूं खेचछेक्षः स्त्रीहूंक्षेह्रीं फट् इति ।

ऋषिरीशो विराट्छन्दो देवतेयं च पार्वति ।
कवच स्त्रीशक्तिबीजे कीलकं च प्रकीर्तितम् ॥ ३ ॥

चछेयुग्मं हृच्छिरस्तु छेक्षःयुग्मं शिखा ततः ।
क्षःस्त्रीयुग्मं च कवचं स्त्रींहूमात्मयुगं तथा ॥ ४ ॥

हूंक्षे नेत्राणि विन्यस्य क्षेफडस्त्रं प्रकीर्त्तम् ।
श्यामाङ्गीं रक्तसत्पाणिचरणाम्बुजशोभिताम् ॥ ५ ॥

वृषलाहिसुमञ्जीरां फटारन्तविभूषिताम् ।
स्वर्णांशुकां स्वर्णभूषां वैस्याहिद्वन्द्वमेखलाम् ॥ ६ ॥

तनुमध्यां पीनवृत्तकुचयुग्मां वराभये ।
दधतीं शिखिपिच्छानां वलयाङ्गदशोभिताम् ॥ ७ ॥

गुञ्जारुणां नृपाहीन्द्रकेयूरां रक्तभूषणाम् ।
द्विजनागस्फुरत्कर्णभूषां मत्तारुणेक्षणाम् ॥ ८ ॥

नीलकुञ्चितधम्मिल्लवनपुष्पकलापिनीम् ।
कैरातीं शिखिपत्राढ्यनिकेतनविराजिताम् ॥ ९ ॥

स्फुरत्सिंहासनप्रौढां स्मरेद्भयविनाशिनीम् ।
इति त्वरितानित्या ॥ अथ कुलसुन्दरी -

अथ वक्ष्ये महेशानि विद्यां श्रीकुलसुन्दरीम् ।
बालाख्या त्रिपुरेशानी पूर्वसिंहासने स्थिता ॥ १ ॥

ब्रह्मविष्णुमहेशाद्यैः पूज्या सा कुलसुन्दरी ।
इति कुलसुन्दरी अथ नित्यानित्या -

अथ वक्ष्ये परां नित्यां पुरुषार्थप्रदायिनीम् ।
त्रिपुरेशीं समुच्चार्यं नित्याख्यां भैरवीं तथा ॥ १ ॥

हुंकारत्रितयं बाणा विद्येयं वा नवाक्षरी ।

ऐंक्लींसौः हसकलरडैः हसकलरडीं हसकलरडौः हुंहुंहुंद्रांद्रींक्लींब्लूंसः इति । अन्यत् त्रिपुरेशीवत् । इति नित्या । अथ नीलपताका :

अथ वक्ष्ये महेशानि विद्यां नीलपताकिनीम् ।
तारं हृत्पदमाभाष्य कामेश्वरीपरं ततः ॥ १ ॥

कामांकुशे पदं चोक्त्वा ततः कामपताकिके ।
भगवत्यथ नीलान्ते पताके च भगान्तिके ॥ २ ॥

श्रीवि० १८

प्. १३८) वति हृन्मन्त्रमालिख्य ततोऽस्विति च मे लिखेत् ।
परमान्ते तथा गुह्ये ह्रीङ्कारत्रितयं लिखेत् ॥ ३ ॥

मदने मदनान्ते च देहे त्रैलोक्यमालिखेत् ।
आवेशय तथा लेख्यं कवचास्त्राग्निवल्लभा ॥ ४ ॥

षष्टवर्णा परमेशानि देवी नीलपताकिनी ।

ओं हृत्कामेश्वरि कामांकुशे कामपताकिके भगवति नीलपताके भगवति नमोऽस्तु मे परमगुह्ये ह्रींह्रींह्रीं मदने मदनदेहे त्रैलोक्यमावेशय हुंफट् स्वाहा ॥

रक्तां रक्तांशुकप्रौढां नानारत्नविभूषिताम् ।
इन्द्रनीलस्फुरन्नीलपताकां कमले स्थिताम् ॥ १ ॥

कामग्रवेयसंलग्नसृणी च वरदाभये ।
दधतीं परमेशानीं त्रैलोक्याकर्षणक्षमाम् ॥ २ ॥

इति नीलपताका नित्या ॥ अथ विजया नित्या -

अथ वक्ष्ये परां विद्यां जयदां विजयां सदा ।
शिवचन्द्रखपान्ताग्निरुद्रस्वरविभूषितम् ॥ १ ॥

बिन्दुनादकलाक्रान्तं विजयायै नमो लिखेत् ।
हसखफ्रें विजयायै नमः इति ।

ऋषिरस्याः शिवश्छन्दो गायत्रं देवता स्वयम् ।
बीजं हृन्मध्यवर्णास्तु बीजशक्ती तु कीलकम् ॥ २ ॥

षड्दीर्घस्वरसम्भिन्नबीजेनैव षडङ्गकम् ।
एकवक्त्रां दशभुजां सर्पयज्ञोपवीतिनीम् ॥ ३ ॥

दंष्ट्राकरालवदनां नरमालाविभूषिताम् ।
अस्थिचर्माविशेषां तां वह्निकूटसमप्रभाम् ॥ ४ ॥

व्याघ्राम्बरां महाप्रौढशवासनविराजिताम् ।
रणे स्मरणमात्रेण भक्तेभ्यो विजयप्रदाम् ॥ ५ ॥

शूलं सर्पं च टङ्कासिसृणिघण्टाशनिद्वयम् ।
पाशमग्निमभीतिं च दधानां विजयां स्मरेत् ॥ ६ ॥

इति विजया नित्या ॥ अत्र सर्वमङ्गला -

अथ वक्ष्ये महेशानि नित्तां वै सर्वमङ्गलाम् ।
जीवं वरुणताराढ्यं सर्वान्ते मङ्गलापदम् ॥ १ ॥

ङेऽन्तं हृदयमालिख्य नवार्णा सर्वमङ्गला ।
स्वों सर्वमङ्गलायै नमः इति ॥

ऋषिश्छन्दो महेशानि गायत्रं छन्द उच्यते ।
विद्याभागत्रयेणैव द्विरावृत्त्या षडङ्गकम् ॥ १ ॥

शुभ्रपद्मासनेरम्यां चन्द्रकुन्दसमद्युतिम् ।
सुप्रसन्नां शशिमुखीं नानारत्नविभूषिताम् ॥ २ ॥

अनन्तमुक्ताभरणां स्रवन्तीममृतद्रवम् ।
वरदाभयशोभाढ्यां स्मरेत् सौभाग्यवर्धिनीम् ॥ ३ ॥

इति सर्वमङ्गला ॥ अथ ज्वालामालिनी -

ज्वालामालां प्रवक्ष्यामि पुरुषार्थप्रदां सदा ।
ओंकारबीजमुच्चार्य नमो भगवतीति च ॥ १ ॥

ज्वालामालिनिदेव्यन्ते सर्वभूतान्तसं लिखेत् ।
हारकारि च के जातवेदसीति ज्वलन्ति च ॥ २ ॥

ज्वलयुग्मं प्रज्वलेति युगं हूमात्मकं त्रि(द्वि)धा ।
वह्नि द्विधा च कवचमस्त्रं चापि समालिखेत् ॥ ३ ॥

चत्वारिंशद्वर्णारूपा वस्वर्णा च क्रमाद्वदेत् ।

ओं नमो भगवति ज्वालामालिनी देवि सर्वभूतसंहारकारिके जातवेदसि ज्वलन्ति ज्वल ज्वल प्रज्वल प्रज्वल हुं हुं ररहुं फट् इति ॥

रेफास्त्रे बीजशक्ती तु कीलकं कवचं प्रिये ।
रविसूर्यशरागाष्टवेदैररङ्गानि विन्यसेत् ॥ १ ॥

द्वन्द्वशः परमेशानि वह्निवर्णेन वेष्टयेत् ।
उद्यद्विद्युल्लताकान्तिस्वर्णाभरणभूषिताम् ॥ २ ॥

महासिंहासनप्रौढां ज्वालामालां करालिनीम् ।
अरिशङ्खौ खड्गखेटे त्रिशूलं डमरुं तथा ॥ ३ ॥

पानपात्रं च वरदं दधतीं संस्मरेद् यजेत् ।
इति ज्वालामालिनी नित्या ॥ अथ विचित्रानित्या -

अथ वक्ष्ये महादेवि विचित्रां विश्वमातरम् ।
यस्याः स्मरणमात्रेण पलायन्ते महापदः ॥ १ ॥

चक्रानुग्रहबिन्द्विन्दुभूषितं मनुमालिखेत् । चकौं इति ।

ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते ।
विचित्रा देवता बीजं ककारः कीलकं च तु ॥ १ ॥

प्. १३९) तारराजस्तु शक्तिः स्यात् पुरुषार्थप्रदायिनी ।
षट्दीर्घस्वरभेदेन न्यसेदङ्गानि देशिकः ॥ २ ॥

शुभ्राङ्गी ज्ञानदा नित्यं विचित्रवसना सदा ।
विचित्रतिलका नित्यं विचित्रकुसुमोज्ज्वला ॥ ३ ॥

वरदाभयशोभाढ्या नानारत्नधरा क्वचित् ।
इति विचित्रा नित्या ॥ इति षोडश नित्याः ।

इति श्रीमहामहोपाध्यायभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्य- श्रीभगवच्छङ्कराचार्यशिष्य श्रीविष्णुशर्माचार्यशिष्य- श्रीप्रगल्भाचार्यशिष्य श्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे सप्तमः श्वासः ॥ ७ ॥

8. Śvāsa

अथायतनविद्या -

ब्राह्म्यं च वैष्णवं सौरं बौद्धं शैवं च दर्शनम् ।
पूर्वे च दक्षिणे पश्चादुदगूर्ध्वं क्रमेण च ॥ १ ॥

आयतनानि पञ्च स्युः पृष्ठे शाक्तं तदूर्ध्वतः ।

तत्र प्रथमं ब्राह्म्यदर्शनब्रह्मगायत्री पूर्वायतनविद्या -

अथो वदामि गायत्रीं तत्त्वरूपां त्रयीमयीम् ।
यया प्रकाश्यते ब्रह्मसच्चिदानन्दलक्षणम् ॥ १ ॥

प्रणवाद्या व्याहृतयः सप्त स्युस्तत्पदादिका ।
चतुर्विंशत्यक्षरात्मा गायत्री शिरसा सह ॥ २ ॥

सर्ववेदोद्घृतः सारो मन्त्रोऽयं समुदाहृतः ।

इति ब्राह्म्यदर्शनम् ॥ अथ वैष्णवदर्शनदक्षिणायतनविद्या - अस्य श्रीनारायणमन्त्रस्य साध्यनारायण ऋषिर्गायत्री छन्दः, श्रीमहाविष्णुर्देवता, ओं बीजं, नमः शक्तिः, नारायणायेति कीलकं श्रीविद्याङ्गत्वेन विनियोगः ॥

ओं क्रुद्धोल्काय नमः, महोल्काय०, वीरोल्काय०, द्युल्काय०, चण्डोल्काय०, सहस्रोल्काय०, इति षडङ्गन्यासः ॥ ध्यानम्:

उद्यत्कोटिदिवाकराभमनिशं शङ्खं गदां पङ्कजं चक्रं विभ्रतमिन्दिरावसुमतीसंशोभिपार्श्वद्वयम् ।
कोटीराङ्गदहारकुण्डलधरं पीताम्बरं कौस्तुभोद्- दीप्तं विश्वधरं स्ववक्षसि लसच्छ्रीवत्सचिह्नं भजे ॥ १ ॥

ओं नमो नारायणाय इति वैष्णवदर्शनदक्षिणायतनविद्या ॥

अथ सौरदर्शनपश्चिमायतनविद्या - अस्य श्रीसूर्यमन्त्रस्य देवभाग ऋषिर्गायत्री छन्दः श्री-आदित्यो देवता ओं बीजं, आदित्यः शक्तिः, घृणिः कीलकं, श्रीविद्याङ्गत्वेन विनियोगः ।

ओं सत्यतेजोज्वालामालिने हुंफट्स्वाहा, ब्रह्मतेजोज्वालामालिने हुंफट्स्वाहा, विष्णुतेजोज्वालामालिने हुंफट्स्वाहा, रुद्रतेजोज्वालामालिने हुंफट्स्वाहा, अग्नितेजोज्वालामालिने हुंफट्स्वाहा, सर्वतेजोज्वालामालिने हुंफट्स्वाहा, - इति षडङ्गमन्त्राः । ध्यानम्:

रक्ताब्जयुग्माभयदानहस्तं केयूरहाराङ्गदकुण्डलाढ्यम् ।
माणिक्यमौलिं दिननाथमीडे बन्धूककान्तिं विलसत्त्रिनेत्रम् ॥ २ ॥

ओं घृणिःसूर्य आदित्योम्, इति सौरदर्शनपश्चिमायतनविद्या ॥ अथ बौद्धदर्शनोत्तरायतनविद्या - अस्यश्रीबौद्धमन्त्रस्य बुद्ध ऋषिः, त्रिष्टुप्च्छन्दः, श्रीबौद्धोदेवता, ओं बीजं, स्वाहा शक्तिः, ह्रीं कीलकं, श्रीविद्याङ्गत्वेन विनियोगः ।

ओं, ह्रीं, तारय, तारय, स्वाहा - ओं ह्रीं तारय तारय स्वाहा इति षडङ्गन्यासः ॥ ध्यानम्:

पुरा पुराणानसुरान् विजेतुं संभावयन् पीठरचिह्नवेषम् ।
चकारः यः शास्त्रममोघकल्पं तं मूलभूतं प्रणमामि बुद्धम् ॥ १ ॥

ओं ह्रीं तारयतारय स्वाहा - इति बौद्धदर्शनोत्तरायतन*इद्या ॥ अथ शैवदर्शनोर्ध्वायतनविद्या - अस्य श्रीशिवमन्त्रस्य वामदेव ऋषिः, पंक्तिश्छन्दः, परमशिवां देवता, ओं बीजं, नमः शक्तिः, शिवाय कीलकं श्रीविद्याङ्गत्वेन विनियोगः ।

सर्वज्ञा० नित्यतृप्ताय० अनादिबोधाय० स्वतन्त्राय० नित्यमलुप्तशक्तये० नित्यमनन्तशक्तये - इति षडङ्गन्यासः । ध्यानम्:

प्. १४१) नमोऽस्तु स्थाणुभूताय ज्योतिर्लिङ्गामृतात्मने ।
चतुर्मूर्तिवपुष्काय भासिताङ्गाय शम्भवे ॥ १ ॥

इति शैवदर्शनोर्ध्वायतनविद्या ॥ अथ शक्तिदर्शनविद्या तु प्रधानविद्यैव, केचिद्भुवनेश्वरीं वदन्ति, तद्विधानं प्रागेवोक्तम् । इत्यायतनविद्याः ॥ अथ समयविद्याः ऐंक्लींसौः ओं नमः (हृत्) कामेश्वरि इच्छाकामफलप्रदे सर्वसत्त्ववशङ्करि सजर्वगत्क्षोभकरि (रं) हूंहूंहूंद्रांद्रींक्लींब्लूंसः सौः क्लीं ऐं ॥ १ ॥

ऐं ह्रीं सर्वकामार्थसाधिनि वज्रेश्वरि वज्रपदे वज्रपञ्जरमध्यगते ह्रीं क्लिन्ने ऐंक्रों नित्यमदद्रवे ह्रीं वज्रनित्यायै नमः ॥ २ ॥

ततो भगमालिनीविद्या ॥ ३ ॥

क्लीं भगवति ब्लूं नित्ये कामेश्वरि ह्रीं सर्वसत्त्ववशङ्करि सः त्रिपुरभैरवी ऐं विच्चे क्लीं महात्रिपुरसुन्दर्यै नमः ॥ ४ ॥

इति चतुःसमयविद्याः ॥ अथाम्नायविद्यान्यासः:

पूर्वदक्षिणपाश्चात्यैरुदगूर्ध्वक्रमेण च ।
पञ्चवक्त्रैः शिवप्रोक्ताः पञ्च चाम्नायदेवताः ॥ १ ॥

पञ्चसिंहासनप्रौढाः सर्वकामफलप्रदाः ।

इति । तत्रादौ पूर्वाम्नायविद्या उन्मनी - ओं अस्य श्री-उन्मनीमन्त्रस्य दक्षिणामूर्ति ऋषिः, पङ्क्तिश्छन्दः, श्री-उन्मनी देवता, ह्स्रीं बीजं, कलह्रीं शक्तिः, स्ह्रीं कीलकं, श्रीविद्याङ्गत्वेन विनियोगः ।

द्विरावृत्त्या षडङ्गानि । ध्यानं संपत्प्रदाभैरवीवत् । ह्स्रीं स्ह्रींश्रींकलह्रीं इयुत्न्मनी पूर्वाम्नायविद्या ॥ अथ दक्षिणाम्नायविद्या - अस्य श्रीभोगिनीमन्त्रस्य दक्षिणामूर्तिरृषिः, पङ्क्तिश्छन्दः, भोगिनी देवता, ऐं बीजं, स्रैं शक्तिः, क्लीं कीलकं, श्रीविद्याङ्गत्वेन विनियोगः ।

ऐं क्लिन्ने, क्लीं, मदद्रवे कुले ह्सौः - इति षडङ्गानि, ध्यानमघोरभैरवीवत् । ऐं क्लिन्ने क्लीं मदद्रवे कुले ह्सौः - इति दक्षिणाम्न्यायभोगिनी विद्या ॥

अथ पश्चिमाम्नायविद्या - अस्य श्रीकुब्जिकामन्त्रस्य रुद्रऋषिः, गायत्री छन्दः, कुब्जिका देवता, हसौः बीजं हसखफ्रें शक्तिः, हसूं कीलकं, श्रीविद्याङ्गत्वेन विनियोगः । ऐं ह्रीं श्रीं हसखफ्रें हसौः ओं नमो भगवति हसखफ्रें कुब्जिका हस्रांहस्रूं अघोरे घोरे अघोरमुखि छ्रां छ्रीं किणिकिणि विच्चे हसौः हसखफ्रें श्रीं ह्रीं ऐं - इति षडङ्गानि ।
ध्यानं षट्कूटाभैरवीवत् । इति पश्चिमाम्नायविद्या कुब्जिका ॥ अथोत्तराम्नायविद्या कालिका - अस्य श्रीकालिकामन्त्रस्य भैरव ऋषिः, उष्णिक् छन्दः, श्रीकालिका देवता खफ्रें बीजं ईश्वरि शक्तिः, महाचण्डयोग कीलकं, श्रीविद्याङ्गत्वेन विनियोगः ।

खफ्रां खफ्रीमिति षडङ्गन्यासः । ध्यानं भुवनेश्वरीभैरवीवत् ।
खफ्रें महाचण्डयोगेश्वरि इत्युत्तराम्नायविद्या कालिका ॥

अथोर्ध्वाम्नायक्रमः - तत्र पराप्रासादमन्त्र, तदङ्गत्वेन महाषोढान्यासं कुर्यात् महाषोढान्यासेऽपि कामरतिन्यास - अन्तःकामकला - बहिःकामकलामहाशक्तिन्यास मूलषोडशार्णविद्यान्यासाष्टात्रिंशत्कलान्यासानामकरणेऽधिकारो नास्ति, तान् न्यासानग्रे वदिष्यामः । इदानीं महाषोढान्यासो वक्ष्यते ।
तत्रादावष्टात्रिंशत्कलान्यासः - तद्यथा :

ईशानादीन् न्यसेन्मूर्ध्नि चांगुष्ठादिषु देशिकः ।
ईशानाख्यं तत्पुरुषमघोरं तदनन्तरम् ॥ १ ॥

वामदेवाह्वयं सद्यमासां बीजक्रमान् बिदुः ।
ओंकाराद्यैः पञ्चह्रस्वैर्विलोमात् सयुतं वियत् ॥ २ ॥

तत्तदंगुलिर्भूयस्तत्तद्बीजादिकान् न्यसेत् ।
शिरोवदनहृद्गुह्यपाददेशे यथाक्रमम् ॥ ३ ॥

ऊर्ध्वप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु ताः ।
ईशानाद्या ऋचः सम्यगंगुलीषु यथाक्रमम् ॥ ४ ॥

अंगुष्ठादिकनिष्ठान्तं न्यसेद्देशिकसत्तमः ।
मूर्धास्यहृदयाम्भोजगुह्यपादेषु वा पुनः ॥ ५ ॥

वक्त्रेषूर्ध्वादि विन्यसेद्भुयोऽङ्गानि प्रकल्पयेत् ।
तारपञ्चकमुच्चार्य सर्वज्ञाय हृदीरितम् ॥ ६ ॥

अमृतेतेजोमालिनी तृप्तायेति पदं पुनः ।
तदन्ते ब्रह्मशिरसे शिरोऽङ्गं ज्वलितान्ततः ॥ ७ ॥

शिखिशिखाय परतोऽनादिबोधाय तच्छिखा ।
वज्रिणे वज्रहस्ताय स्वतन्त्राय तनुच्छदः ॥ ८ ॥

प्. १४२) सौंबौंहौमिति संभाव्य परतोऽलुप्तशक्तये ।
नेत्रमुक्तं श्लींपशु हुं फडन्तोऽनन्तशक्तये ॥ ९ ॥

अस्त्रमुक्तं षडङ्गानि कुर्यादेवं समाहितः ।
ततः प्रविन्यसेद्विद्वानष्टात्रिंशत्कलास्तनौ ॥ १० ॥

पूर्वदक्षिणपाश्चात्यसौम्यमध्येषु पञ्चसु ।
वक्त्रेषु पञ्च विन्यसेदीशानस्य कलाः क्रमात् ॥ ११ ॥

ईशानः सर्वविद्यानां शशिनी प्रथमा कला ।
ईश्वरः सर्वभूतानामङ्गदा तदनन्तरम् ॥ १२ ॥

ब्रह्माधिपतिशब्दान्ते ब्रह्मणोऽधिपतिः पुनः ।
ब्रह्मेष्टदा तृतीया स्याच्छिवो मे अस्तु तत्परा ॥ १३ ॥

मरीचिः कथिता तन्त्रे चतुर्थी च सदाशिवोम् ।
अंशुमालिन्यथ परा प्रणवाद्या नमोन्तकाः ॥ १४ ॥

पूर्वपश्चिमयाम्योदग्वक्त्रेषु तदनन्तरम् ।
चतस्रो विन्यसेन्मन्त्री पुरुषस्य कलाः क्रमात् ॥ १५ ॥

आद्या तत्पुरुषायेति विद्महे शान्तिरीरिता ।
महादेवाय शब्दान्ते धीमहि स्यात् ततः परम् ॥ १६ ॥

विद्या द्वितीया कथिता तन्नो रुद्रः पदं ततः ।
प्रतिष्ठा कथिता पश्चात् तृतीया स्यात् प्रचोदयात् ॥ १७ ॥

निवृत्तिस्तत्पदाः सर्वाः प्रणवाद्या नमोन्तकाः ।
हृद्ग्रीवांसद्वये नाभौ कुक्षौ पृष्ठे च वक्षसि ॥ १८ ॥

अघोरस्य कला ह्येता अष्टौ मन्त्री यथाविधि ।
अघोरेभ्यस्तमा पूर्वमीरिता प्रथमा कला ॥ १९ ॥

अथ घोरेभ्य इत्यन्ते मोहा स्यात् तदनन्तरम् ।
घोरान्ते स्यात् क्षमा पश्चात् तृतीया परिकीर्तिता ॥ २० ॥

घोरतरेभ्यो निद्रा स्यात् सर्वतः शर्वतत्परा ।
व्याधिस्तु पञ्चमी प्रोक्ता सर्वेभ्यस्तदनन्तरम् ॥ २१ ॥

मृत्युर्निगदिता षष्ठी नमस्ते अस्तु तत्परा ।
क्षुधा स्यात् सप्तमी प्रोक्ता रुद्ररूपेभ्यस्तृष्णिका ॥ २२ ॥

गुह्यलिङ्गोरुयुगलजानुजङ्घास्फिचोर्युगे ।
कट्यां पार्श्वद्वये चैव वामदेवकला न्यसेत् ॥ २३ ॥

प्रथमा वामदेवाय नमोन्ता स्याद्रजा कला ।
स्याज्ज्येष्ठाय नमो रक्षा द्वितीया परिकीर्तिता ॥ २४ ॥

स्याद्रुद्राय नमः पश्चात् तृतीया रतिरीरिता ।
कालाय नम इत्यन्ते मालिनी परिकीर्तिता ॥ २५ ॥

कला काम्या पञ्चमी स्यात् ततो विकरणाय च ।
नमः संयमिनी षष्ठी कथिता तदनन्तरम् ॥ २६ ॥

बलक्रिया समादिष्टा बलविकरणाय च ।
नमो वृद्धिरष्टमी स्याद्बलान्ते च स्थिता कला ॥ २७ ॥

पश्चात् प्रमथनायान्ते नमो रात्रिरुदीरिता ।
सर्वभूतदमनाय नमोऽन्ते भ्रामिणी कला ॥ २८ ॥

मनोन्ते मोहिनी प्रोक्ता तन्त्रज्ञैर्द्वादशी कला ।
उन्मनाय नमः पश्चाज्ज्वरा प्रोक्ता त्रयोदशी ॥ २९ ॥

प्रणवाद्याश्चतुर्थ्यन्ता नमोन्ताः परिकीर्तिताः ।
पाददोस्तलनासासु मूर्ध्नि बाहुयुगे न्यसेत् ॥ ३० ॥

सद्योजातोद्भवाः सम्यगष्टौ मन्त्री कलाः क्रमात् ।
सद्योजातं प्रपद्यामि सिद्धिः स्यात् प्रथमा कला ॥ ३१ ॥

सद्योजाताय वै भूयो नमः स्यादृद्धिःरीरिता ।
भवे द्युतिस्तृतीया स्यादभवे तदनन्तरम् ॥ ३२ ॥

लक्ष्मीश्चतुर्थी कथिता ततोऽनादिभवे भवेत् ।
मेधा स्यात् पञ्चमी प्रोक्ता कला भूयो भवस्व माम् ॥ ३३ ॥

प्रज्ञा समाहिता षष्ठी भवान्ते तु प्रभा कला ।
उद्भवाय नमः पश्चात् सुधा स्यादष्टमी कला ॥ ३४ ॥

प्रणवाद्याश्चतुर्थ्यन्ताः कलाः सर्वा नमोऽन्तकाः ।
अष्टात्रिंशत्कलाः प्रोक्ताः पञ्चब्रह्मपदादिकाः ॥ ३५ ॥

इति विन्यस्तदेहोऽसौ भवेद्गङ्गाधरं स्वयम् ।
अनन्तचन्द्रभुवनो बिन्दुर्बिन्दुयुगान्वितः ॥ ३६ ॥

श्रीप्रासादपरामन्त्रो भुक्तिमुक्तिफलप्रदः ।
पराप्रासादमन्त्रस्तु सादिरुक्तः कुलेश्वरि ॥ ३७ ॥

प्रकाशानन्दरूपत्वात् प्रत्यक्षफलदो यतः ।

इति । अनन्तचन्द्रो नादबिन्दुः, भुवन औकारः, बिन्दुर्हकारः, बिन्दुयुगः सकारस्तेन हसौं इति सिद्धम् ॥

इदं सादिश्चेत् स्हौं इति सिद्धम् । इदं बीजद्वयं विसर्गयुक्तमिति क्वचिदुद्धारः ।

परशम्भुरृषिः प्रोक्तो गायत्री छन्द ईरितम् ।
अर्धनारीश्वरो देवो देवता परिकीर्तिता ॥ १ ॥

षट्दीर्घयुक्तबीजेन षडङ्गानि प्रविन्यसेत् ।
महाषोढाह्वयं न्यासमङ्गषोढापुरःसरम् ॥ २ ॥

एतदङ्गतया कुर्यात् सिद्धिकामः समाहितः ।

प्. १४३) इति । कुलार्णवे -

अङ्गषोढां कुलेशानि कुर्यात् पूर्वोक्तवर्त्मना ।
महाषोढाह्वयं न्यासं ततः कुर्यात् समाहितः ॥ १ ॥

इति अत्राङ्गषोढाष्टात्रिंशत्कलान्यासस्तदुद्धारः प्रागेवोक्तः ।
केवलपञ्चब्रह्मन्यास इत्यपरे ।

महाषोढाभिधस्यास्य ऋषिर्ब्रह्मा समीरितः ।
जगती छन्द आख्यातमर्धनारीश्वरः प्रभुः ॥ १ ॥

देवता च समुद्दिष्टा श्रीविद्याङ्गतया तथा ।
विनियोगः समाख्यातः सर्वागमविशारदैः ॥ २ ॥

अथाङ्गन्यासः । तत्रांगुष्ठयोः ओं ऐंह्रींश्रींहसौं स्हौं हौं ईशानाय नमः । तर्जन्योः ५ हें तत्पुरुषाय नमः । मध्यमयोः ५ हुं- अघोराय नमः । अनामिकयोः ५ हिं वामदेवाय नमः । कनिष्ठिकयोः ५ हं सद्योजाताय नमः । एवं मूर्धवदनहृद्गुह्यपाददेशेषु क्रमेण न्यसेत् ।
ऊर्ध्वप्राग्दक्षिणोदीच्यपश्चिममुखेषु च । पुनरंगुष्ठादिकनिष्ठान्तम् ।
पुनरपि मूर्धास्यहृदयाम्भोजगुह्यपादेषु । पुनरप्यूर्ध्वादिमुखादिषु विन्यस्य हसांहसींमित्यादिना षडङ्गन्यासः । ततः स्हांस्हीमित्यादिनापि षडङ्गन्यासः । ततः ५ सर्वज्ञाय, ५ अमृतेतेजोमालिनी नित्यतृप्ताय, ५ ब्रह्मशिरसे स्वाहा ज्वलितशिखिशिखायानादिबोधाय, ५ वज्रिणे वज्रहस्तायस्वतन्त्राय, ५ सौंबौंहौंनित्यमलुप्तशक्तये, ५ श्रींश्लींपशुहुंफट् नित्यमनन्तशक्तये, - इति षडङ्गमन्त्रानंगुष्ठादितलान्तं करयोर्विन्यस्य हृदयादिषडङ्गेष्वापि न्यसेत् । ततः प्रागुक्तरीत्या अष्टात्रिंशत्कला अपि विन्यस्य ध्यायेत् । ध्यानमग्रे वक्ष्यते । अथ महाषोढान्यासः :

प्रपञ्चो भुवनं मूर्तिर्मन्त्रदैवतमातरः ।
महाषोढाह्वयो न्यासः सर्वन्यासोत्तमोत्तमः ॥ १ ॥

तत्रादौ प्रपञ्चन्यासः - ओं ऐं ह्रीं श्रीं हसौःस्हौः अं प्रपञ्चरूपायै श्रिये नमः, इत्यादिप्रयोगः प्रागुक्तरीत्यावगन्तव्यः । इति प्रपञ्चन्यासः । कुलार्णवे :

त्रितारमूलसकलप्रपञ्चस्य स्वरूपतः ।
आयै पराम्बादेव्यै च नमोऽस्तु व्यापकं न्यसेत् ॥ १ ॥

इति । ५ मूलं० सकलप्रपञ्चस्वरूपायै पराम्बादेव्यै नमोऽस्तु इति व्यापकं न्यसेदित्यर्थः । तथा -

प्रपञ्चन्यास एवं स्याद्भुवनन्यास उच्यते ।
त्रितारमूलविद्यान्ते अमां-इमतलं भवेत् ॥ १ ॥

लोकं च निलयं चैव शतकोटिपदं ततः ।
गुह्याद्ययोगिनीमूलदेवान्तेऽयुतं वदेत् ॥ २ ॥

वदेदाधारशक्त्यम्बादेव्यै हृत्पादयोर्न्यसेत् ।

इति । ५ अं-आं-इं अतललोकनिलयशतकोटिगुह्याद्ययोगिनीमूलदेवतायुताधार- शक्त्यम्बादेव्यै नमः इति पादयोर्न्यसेदित्यर्थः ।

इमुमूं वितलं लोकगुह्यान्ते शतसंज्ञकम् ।
शेषं च पूर्ववत् प्रोक्त्वा गुल्फयोर्विन्यसेत्प्रिये ॥ ३ ॥

ऋं ऋं ऌं सुतलं परमगुह्यं वाचिन्त्यसंज्ञकम् ।
शेषं च पूर्ववत् प्रोक्त्वा जङ्घयोर्विन्यसेत् प्रिये ॥ ४ ॥

ॡं एं ऐं महातलं च महाघ्यादितन्त्रकम् ।
शेषं च पूर्ववत् प्रोक्त्वा देवि जान्वोः प्रविन्यसेत् ॥ ५ ॥

ओमौं तलातलपरमगुह्यं स्वाधिष्ठानकम् ।
शेषं च पूर्ववत् प्रोक्तमूर्वोर्देवेशि विन्यसेत् ॥ ६ ॥

अं अः रसातलं चैव रहस्यं ज्ञानसंज्ञकम् ।
शेषं च पूर्ववत् प्रोक्त्वा गुह्यदेशे प्रविन्यसेत् ॥ ७ ॥

कवर्गमपि पातालं सरहस्यतरं क्रियाम् ।
शेषं च पूर्ववत् प्रोक्त्वा मूलाधारे प्रविन्यसेत् ॥ ८ ॥

चवर्गं भूतिरहस्यं च श्रीडाकिनीमपि ।
शेषं च पूर्ववत् प्रोक्त्वा स्वाधिष्ठाने न्यसेत् प्रिये ॥ ९ ॥

टवर्गं भुवर्महारहस्यपदान्ते राकिणीमपि ।
शेषं च पूर्ववत् प्रोक्त्वा नाभिदेशे न्यसेत् प्रिये ॥ १० ॥

तवर्गं स्वर्गपरमरहस्यं लाकिनीमपि ।
शेषं च पूर्ववत् प्रोक्त्वा हृदये विन्यसेत् प्रिये ॥ ११ ॥

पवर्गं च महागुप्तं काकिनीमपि च क्रमात् ।
शेषं च पूर्ववत् प्रोक्त्वा तालुमूले न्यसेत् प्रिये ॥ १२ ॥

यवर्गं च जनं गुप्ततरं श्रीशाकिनीमपि ।
शेषं च पूर्ववत् प्रोक्त्वा आज्ञायां विन्यसेत् प्रिये ॥ १३ ॥

शवर्गं च तपश्चातिगुप्तं श्रीहाकिनीमपि ।
शेषं च पूर्ववत् प्रोक्त्वा ललाटे विन्यसेत् प्रिये ॥ १४ ॥

लंक्षः सत्यमहागुप्तं याकिनीमपि च प्रिये ।
शेषं च पूर्ववत् प्रोक्त्वा ब्रह्मरन्ध्रे न्यसेत् प्रिये ॥ १५ ॥

प्. १४४) त्रितारमूलमन्त्रान्ते चतुर्दशभुवं वदेत् ।
नाधिपायै श्रीपराम्बादेव्यै हृद् व्यापकं न्यसेत् ॥ १६ ॥

कृत्वैवं भुवनन्यासं मूर्तिन्यासमथाचरेत् ।
केशवो नारायणो माधवगोविन्दविष्णवः ॥ १७ ॥

मधुसूदनसंज्ञश्च स्यात् त्रिविक्रमवामनौ ।
श्रीधरस्तु हृषिकेशः पद्मनाभो दामोदरः ॥ १८ ॥

वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।
अक्षराद्येष्टदेशानो उग्रोर्ध्वनयना तथा ॥ १९ ॥

ऋद्धिश्च रुपिणी लुप्ता लूनदोषैकनायिका ।
ऐकारिणी चौघवती सर्वकामाञ्जनप्रभा ॥ २० ॥

अस्थिमालाधरा चेति सम्प्रोक्ताः स्वरदेवताः ।
भवः शर्वश्च रुद्रश्च पशुपतिश्चोग्र एव च ॥ २१ ॥

महादेवस्तथा भीम ईशानस्तत्पुरुषाह्वयः ।
अघोरसद्योजातौ च वामदेव इतीरिताः ॥ २२ ॥

करभद्रा खगबला गरिमादिफलप्रदा ।
धर्मप्रशमनी पंक्तिनासा चन्द्रार्धधारिणी ॥ २३ ॥

छन्दोमयी जगत्स्थाना झरत्तारा ततः परम् ।
ज्ञानानादाटङ्कढक्काधरा ठङ्कारडामरी ॥ २४ ॥

कभादीनां ठडान्तानां वर्णानां देवतास्त्विमाः ।
ब्रह्मा प्रजापतिर्वेधाः परमेष्ठी पितामहः ॥ २५ ॥

विधाता च विरिञ्चश्च स्रष्टा च चतुराननः ।
हिरण्यगर्भ इत्युक्ताः क्रमाद् ब्रह्मादयोऽप्यमी ॥ २६ ॥

यक्षिणी रञ्जनीलक्ष्मीर्वज्रिणी शक्तिधारिणी ।
षडाधारालया सर्वनायिका हसितानना ॥ २७ ॥

ललिता च क्षमा चेति प्रोक्ता यवर्गदेवताः ।
त्रितारमूलमन्त्रान्ते स्वराद्यक्षरशक्तिकान् ॥ २८ ॥

चतुर्थीनमसा युक्तान् मस्तके चानने न्यसेत् ।
स्वस्कन्धपार्श्वकुक्ष्यूरुजानुजङ्घापदेषु च ॥ २९ ॥

दक्षादिवामपर्यन्तं विन्यसेत् परमेश्वरि ।
कभाद्यर्णयुतान् मन्त्री ठडान्तान् शक्तिसंयुतान् ॥ ३० ॥

पादपार्श्वबाहुकण्ठपञ्चवक्त्रेषु विन्यसेत् ।
दशाधारेषु ब्रह्मादीन् यादीञ् शक्तियुतान् न्यसेत् ॥ ३१ ॥

त्रितारमूलमन्त्रान्ते श्रीत्रिमूर्त्यात्मिका न्यसेत् ।
आयै पराम्बादेव्यै च नमः स व्यापकं न्यसेत् ॥ ३२ ॥

त्रितारमूलं अं-आं-इं एकलक्षं च कोटि च ।
भेदश्च प्रणवाद्येकाक्षरात्माखिलमन्त्रतः ॥ ३३ ॥

ततोऽधिदेवतायै स्यात् सकलं च फलप्रदम् ।
आयै तथैककूटेश्वर्यम्बादेव्यै नमो वदेत् ॥ ३४ ॥

इति । अत्र मूर्तिन्यासोत्तरं मन्त्रन्यासोद्धारक्रमः प्रदर्शितः । ओं ऐं ह्रीं श्रीं ह्सौः स्हौः अं आं इं एकलक्षकोटिभेदप्रणवाद्येकाक्षरात्मका- खिलमन्त्राधिदेवतायै सकलफलप्रदायै एककूटेश्वर्यम्बादेव्यै नमः, इति मूलाधारे न्यसेदिति प्रयोगः ॥ तथा :

ईमुमूमादि हंसादिद्विकूटं पूर्ववत्परम् ।
ऋ ॠं ऌमादि वह्न्यादित्रिकूटं पूर्ववत्परम् ॥ ३५ ॥

ॡमेमैं च चतुर्लक्षं चन्द्रादि पूर्ववत्परम् ।
ओमौमंमःपञ्चलक्षं सूर्यादि पूर्ववत्परम् ॥ ३६ ॥

कंखंगं चैव षड्लक्षं स्कन्दादि पूर्ववत्परम् ।
घंङंचं सप्तलक्षं गणेशादि पूर्ववत्परम् ॥ ३७ ॥

छंजंझमष्टलक्षं वटुकादि पूर्ववत्परम् ।
ञं टंठं नवलक्षं च ब्रह्मादि पूर्ववत्परम् ॥ ३८ ॥

डंढंणं दशलक्षं च विष्ण्वादि पूर्ववत्परम् ।
तंथंदमेकादशलक्षं रुद्रादि पूर्ववत्परम् ॥ ३९ ॥

धंनंपं द्वादशलक्षं वाण्यादि पूर्ववत्परम् ।
(फंबंभं त्रयोदशलक्षं लक्ष्म्यादि पूर्ववत्परम्) ॥ ४० ॥

मंयंरं चतुर्दशलक्षं गौर्यादि पूर्ववत्परम् ।
लंवंशं पञ्चदशलक्षं दुर्गादि पूर्ववत्परम् ॥ ४१ ॥

षंसंहं षोडशलक्षं त्रैपुरादि च पूर्ववत् ।
त्रितारमूलमन्त्रान्ते सकलां मातृकां वदेत् ॥ ४२ ॥

सकलादि च मन्त्राधिदेवतायै पराम्बिका ।
देव्यै हृद्व्यापकं कुर्यान्मन्त्रन्यासे महेश्वरि ॥ ४३ ॥

आधारलिङ्गयोर्नाभिहृत्कण्ठाज्ञेन्दुतत्परः ।
निरोधिकायामर्धेन्दौ बिन्दौ चैव कलापदे ॥ ४४ ॥

उन्मन्यादिषु वक्त्रेषु नादनादान्तयोरपि ।
ध्रुवमण्डलदेशे च विन्यसेत् कुलनायिके ॥ ४५ ॥

त्रितारमूलमन्त्रान्ते सर्वमन्त्रात्मिकापदम् ।
आयै देव्यै परादि स्यात् पूर्ववद्व्यापकं न्यसेत् ॥ ४६ ॥

इति मन्त्रन्यासः । अथ देवतान्यासः -

मन्त्रन्यासं विधायेत्थं देवतान्यासमाचरेत् ।
त्रितारमूलमन्त्रान्ते अमां सहस्रकोटि च ॥ ४७ ॥

प्. १४५) योगिनीकुलशब्दान्ते सेवितायै पदं वदेत् ।
निवृत्त्यम्बापदं देव्यै नम इत्युच्चरेत् प्रिये ॥ ४८ ॥

प्रयोगस्तु ओं ऐंह्रींश्रींह्सौःस्हौः सहस्रकोटियोगिनीकुलसेवितायै निवृत्त्यम्बादेव्यै नमः इत्यादि ।

इं ईं योगिनीप्रतिष्ठां च शेषं पूर्ववदुच्चरेत् ।
उं ऊं तपस्विविद्यां च शेषं पूर्ववच्चरेत् ॥ ४९ ॥

ऋं ॠं शान्तं तथा शान्तिं शेषं पूर्ववदुच्चरेत् ।
ऌं ॡं मुनिं तथा शान्त्यतीतां शेषं च पूर्ववत् ॥ ५० ॥

एं ऐं देवं च हृल्लेखान्ते शेषं पूर्ववदुच्चरेत् ।
ओं औं रक्षःकुलान्ते च गगनां पूर्ववत् प्रिये ॥ ५१ ॥

अं अः विद्याधरं रक्तां शेषं पूर्ववदुच्चरेत् ।
कंखं सिद्धं महोच्छुष्मां शेषं पूर्ववदुच्चरेत् ॥ ५२ ॥

गंघं साध्यं करालां च शेषं पूर्ववदुच्चरेत् ।
ङंचं तथाप्सरोजयां शेषं पूर्ववदुच्चरेत् ॥ ५३ ॥

छंजं गन्धर्वविजयां शेषं पूर्ववदुच्चरेत् ।
झं ञं गुह्यकशब्दान्ते अजितां पूर्ववत्परम् ॥ ५४ ॥

टंठमपराजितायक्षा शेषं च पूर्ववत्परम् ।
डंढं किन्नरवामाम्बा शेषं च पूर्ववत्परम् ॥ ५५ ॥

णंतं च पन्नगं ज्येष्ठां शेषं च पूर्ववत्परम् ।
थंदं च पितृरौद्र्यम्बा शेषं च पूर्ववत् परम् ॥ ५६ ॥

धंनं गणेशमायां च शेषं च पूर्ववत्परम् ।
पंफं भैवरशब्दान्ते कुण्डली पूर्ववत् परम् ॥ ५७ ॥

बंभं वटुककाली च शेषं च पूर्ववत्परम् ।
मंयं च क्षेत्रशब्दान्ते कालरात्री च पूर्ववत् ॥ ५८ ॥

रंलं प्रमथभगवती शेषं च पूर्ववत्परम् ।
वंशं ब्रह्मापि सर्वेश्वर्यम्बा शेषं च पूर्ववत् ॥ ५९ ॥

षंसं विष्णुं च सर्वज्ञां शेष च पूर्ववत्परम् ।
हंलं रुद्रः सर्वकर्त्री शेषं च पूर्ववत्परम् ॥ ६० ॥

क्षं चराचरशक्तिं च शेषं च पूर्ववत्परम् ।
अंगुष्ठगुल्फजङ्घासु जानूरुकटिपार्श्वके ॥ ६१ ॥

स्तनकक्षकरस्कन्धकर्णमूर्धसु च क्रमात् ।
दक्षभागादिवामान्तं विन्यसेत् कुलनायिके ॥ ६२ ॥

त्रितारमूलमन्त्रान्ते सकलां मातृकां वदेत् ।
समस्तदेवताधिं च पायै श्री च पराम्बिकाम् ॥ ६३ ॥

देव्यै नम इति ब्रूयाद्व्यापकं विन्यसेत् प्रिये ।
देवतान्यास एवं स्यान्मातृन्यासस्तथोच्यते ॥ ६४ ॥

त्रितारमूलमन्त्रान्ते कवर्गानन्तकोटि च ।
भूचरीकुलशब्दान्ते सहितायैपदं वदेत् ॥ ६५ ॥

आंक्षामन्ते मङ्गलाम्बादेव्यै नम इतीरयेत् ।
आंक्षामन्ते तु ब्रह्माण्यम्बादेव्यै च पदं वदेत् ॥ ६६ ॥

अनन्तकोटिभूतेति कुलान्ते सहिताय च ।
अक्षं मङ्गलनाथाय अंक्षमन्तेऽसिताङ्ग च ॥ ६७ ॥

भैरवान्ते तु नाथाय नम इत्युच्चरेत् प्रिये ।
चवर्गं खेचरीमीलां चर्चिकां च महेश्वरीम् ॥ ६८ ॥

वेतालं चेति नाथाय नम इत्युच्चरेत् प्रिये ।
शेषं च पूर्ववत् प्रोक्त्वा ततो वक्ष्ये महेश्वरि ॥ ६९ ॥

टवर्गं पातालचरीमूंहां योगेश्वरीं वदेत् ।
कौमारीं पिशाचमूहां वदेद्योगेशचण्डकौ ॥ ७० ॥

तवर्गं दिक्चरीं ॠसां हरसिद्धां च वैष्णवीम् ।
अपस्मारं हरसिद्धिं क्रोध च पूर्ववत् परम् ॥ ७१ ॥

पवर्गं गिरिचरीमैंशां ततः किलिकिलेति च ।
इन्द्राणीं वटुक एंशं किलिकिलान्ते कपालिनम् ॥ ७३ ॥

शवर्गान्ते वनचरीमौंवां कालादिरात्रि च ।
चामुण्डां प्रेतमावं च कालरात्रश्च भीषणम् ॥ ७५ ॥

संहारभैरवं चैव शेषं पूर्ववदुच्चरेत् ।
त्रितारमूलमन्त्रान्ते मातृभैरवशब्दतः ॥ ७६ ॥

अधिपायै परादेव्यै नमोऽन्तं व्यापकं न्यसेत् ।
मातृन्यासं महेशानि अष्टाधारेषु विन्यसेत् ॥ ७७ ॥

एवं न्यस्ततनुर्देवि ध्यायेद्देवमनन्यधीः ।
अमृतार्णवमध्यस्थस्वर्णद्वीपे मनोरमे ॥ ७८ ॥

कल्पवृक्षवनान्तःस्थे नवमाणिक्यमण्डपे ।
नवरत्नमये श्रीमत्सिंहासनगताम्ब्जे ॥ ७९ ॥

त्रिकोणान्तःसमासीनं चन्द्रसूर्यसमप्रभम् ।
अर्धाम्बिकासमायुक्तं प्रविभक्तविभूषणम् ॥ ८० ॥

श्रीवि० १९

प्. १४६) कोटिकन्दर्पलावण्यं सदा षोडशवार्षिकम् ।
मन्दस्मितमुखाम्भोजं त्रिनेत्रं चन्द्रशेखरम् ॥ ८१ ॥

दिव्याम्बरस्रगालेपं दिव्याभरणभूषितम् ।
पानपात्रं च चिन्मुद्रां त्रिशूलं पुस्तकं करैः ॥ ८२ ॥

विद्यासंसिद्धिं बिभ्राणं सदानन्दमुखेक्षणम् ।
महाषोढोदिताशेषदेवतागणसेवितम् ॥ ८३ ॥

एवं चित्ताम्बुजे ध्यायेदर्धनारीश्वरं शिवम् ।
पुंरूपं वा स्मरेद्देवि स्त्रीरूपं वा विचिन्तयेत् ॥ ८४ ॥

अथवा निष्कलं ध्यायेत् सच्चिदानन्दलक्षणम् ।
सर्वतेजोमयं ध्यायेत् सचराचरविग्रहम् ॥ ८५ ॥

ततः संदर्शयेन्मुद्रादशकं परमेश्वरि ।
योनिं लिङ्गं च सुरभिं हेतिमुद्राचतुष्टयम् ॥ ८६ ॥

वनमालां नभोमुद्रां महामुद्रामिति क्रमात् ।

इति । ततः शिरसि श्रीगुरुं ध्यायेत् । यथा -

सहस्रदलपङ्कजे सकलशीतरश्मिप्रभं वराभयकराम्बुजं विमलगन्धपुष्पाम्बरम् ।
प्रसन्नवदनेक्षणं सकलदेवतारूपिणं स्मरेच्छिरसि हंसगं तदभिधानपूर्वं गुरुम् ॥ १ ॥

इति । अथ महाषोढान्यासफलं श्रीकुलार्णवे -

एवं न्यासे कृते देवि साक्षात् परशिवो भवेत् ।
मन्त्री नचात्र सन्देहो निग्रहानुग्रहक्षमः ॥ १ ॥

महाषोढाह्वयं न्यासं यः करोति दिने दिने ।
देवाः सर्वे नमस्यन्ति तं नमामि न संशयः ॥ २ ॥

महाषोढाह्वयं न्यासं यत्रमन्त्री न्यसेत्ततः ।
दिव्यक्षेत्रं समुद्दिष्टं समन्ताद् दशयोजनम् ॥ ३ ॥

कृत्वा न्यासमिमं देवि यत्र गच्छति मानवः ।
तत्र श्रीर्विजयो लाभः सन्मानं पौरुषं प्रिये ॥ ४ ॥

महाषोढाकृतन्यासं नोद्वीक्ष्य योऽभिवन्दते ।
समासान्मृत्युमाप्नोति यदि त्राता शिवः स्वयम् ॥ ५ ॥

वज्रपञ्जरनामानमेनं न्यासं करोति यः ।
दिव्यान्तरिक्षभूशैलजलारण्यनिवासिनः ॥ ६ ॥

उद्दण्डभूतवेतालदेवरक्षोग्रहादयः ।
भयग्रस्तेन मनसा नेक्षन्ते साधकं प्रिये ॥ ७ ॥

महाषोढाह्वयं न्यासं ब्रह्मविष्णुशिवादयः ।
देवाः सर्वे प्रकूर्वन्ति ऋषयश्च मुनीश्वराः ॥ ८ ॥

बहुनोक्तेन किं देवि सुशिष्याय प्रकाशयेत् ।
अक्षयां लभते सिद्धिं रहसि न्यासमाचरेत् ॥ ९ ॥

अस्मात्परतरः साक्षाद्देवताभावसिद्धये ।
लोके नास्ति न सन्देहः सत्यं सत्यं न संशयः ॥ १० ॥

ऊर्ध्वाम्नायप्रवेशश्च पराप्रासादचिन्तनम् ।
महाषोढापरिज्ञानं नाल्पस्य तपसः फलम् ॥ ११ ॥

इति महाषोढान्यासः ॥ अथ तुरीयविद्या - सा तु परा षोडशी ।
सौःश्रींह्रींक्लीं-ऐंसौः ओं ह्रींश्रीं क-ए-ईलहसकहलसकलह्रीं सौः- ऐंक्लींह्रींश्रींसौः इति तुरीयविद्या ॥ अथ चरणविद्याः -

प्रणवं च त्रितारं च हंसः शिवः ह्सौः पदम् ।
सोऽहं तुरीयविद्यां च चिदानन्दपदं ततः ॥ १२ ॥

तथा ज्योतिरहं चेति प्रथमं परिकीर्तितम् ।
प्राग्वत् सर्वं समुच्चार्य सच्चिदानन्दशब्दतः ॥ १३ ॥

ततो ज्योतिरहं चेति द्वितीयं परिकीर्तितम् ।
ततः प्राग्वत् समुच्चार्याहमेवास्मीति चोच्चरेत् ॥ १४ ॥

तृतीयं तु समुद्दिष्टं चरणत्रयमीरितम् ।
संघट्टमुद्रया मूर्ध्नि विन्यसेद् देशिकोत्तमः ॥ १५ ॥

इति चरणत्रयम् ॥ अथ शंभुचरणम् -

प्रणवं च त्रितारं च प्रणवं योऽहमस्म्यथ ।
अहमस्मीति ब्रह्माहमस्मि सोऽहं समीरयेत् ॥ १६ ॥

स्वच्छप्रकाशशब्दान्ते परिपूर्णपरापर ।
महाप्रकाशपर्यन्ते पूर्णानन्दपदं ततः ॥ १७ ॥

नाथश्रीपादुकामन्ते पूजयामीति मूर्धनि ।

न्यसेदिति शेषः । शम्भुचरणम् ॥ पञ्चाम्बास्तु प्रागेव प्रपञ्चिताः ।
उन्मनाकाशादिनवनाथाः आत्मानन्दादिनवनाथाः स्वपारम्पर्यादिक्रमश्च प्रागेवोक्ताः ॥ अथ षोडश मूलविद्याः:

(१) प्रणवादित्रितारं च स्वच्छेति पदमीरयेत् ।
प्रकाशपरिपूर्णेति परापरमहापि च ॥ १ ॥

प्. १४७) सिद्धिविद्याकुलं योगि मायाबीजं कुलेति च ।
योगिनीमूलविद्याश्रीपादुकां पूजयामि च ॥ २ ॥

(२)श्रीप्रासादपराबीजं स्वात्मानं बोधयद्वयम् ।
पराप्रासादबीजं च श्रीप्रासादपरेति च ॥ ३ ॥

अम्बेति मूलविद्याश्रीपादुकां पूजयामि च ।
(३)प्रणवादित्रितारं च वाग्भवं मकरध्वजः ॥ ४ ॥

क्लिन्ने क्लेदिनिशब्दान्ते महामदपदद्रवे ।
कामराजद्वयं मोहयद्वयं कामराजहृत् ॥ ५ ॥

वह्निजायामियं विद्यातिरहस्यातियोगिनी ।
(४)प्रणवादित्रितारं च हंसः स्वच्छेति वै वदेत् ॥ ६ ॥

आनन्दपरमं हंसःपदं च परमात्मने ।
स्वाहा ह्सौ ह्सौ विद्येयं शम्भवीमूल पूर्विका ॥ ७ ॥

(५)प्रणवादित्रितारं च माया नित्यं स्फुरत्तेति ।
त्मचैतन्यानन्दमयि महाबिन्दुपदं वदेत् ॥ ८ ॥

व्यापकान्ते मातृपदं स्वरूपिणिपदं वदेत् ।
प्रणवादित्रितारं मीमियं वै कथिता बुधैः ॥ ९ ॥

हृल्लेखामूलविद्येति (६)प्रणवादि त्रितारकम् ।
स्वच्छप्रकाशात्मिके च मायां कुलमहापदम् ॥ १० ॥

मालिनीवाक्कुलगर्भमातृके भुवनेश्वरीम् ।
समयान्ते च विमले श्रीबीजमियमीश्वरि ॥ ११ ॥

समयान्ते च विमलमूलविद्येति कथ्यते ।
(७)तारं तारत्रयं हंसस्ततो नित्यप्रकाश च ॥ १२ ॥

आत्मिके कुलकुण्डेति लिनि आज्ञापदं ततः ।
सिद्धे महाभैरवीति आत्मानं बोधयद्वयम् ॥ १३ ॥

अम्बे च भगवत्यन्ते माया हुमियमीश्वरि ।
परबोधिनी मूलान्ते विद्या स्यात् परमेश्वरि ॥ १४ ॥

(८)तारं तारत्रयं तारं मोक्षं इतीरयेत् ।
कुलपञ्चाक्षरीमूलविद्येति परिपठ्यते ॥ १५ ॥

(९)तारं तारत्रयं प्रोक्त्वा लोपा पञ्चदशाक्षरी ।
चैतन्यत्रिपुरामूलविद्येयं परमेश्वरि ॥ १६ ॥

(१०)तारं तारत्रयस्यान्ते वाग्भवं बीजमुद्धरेत् ।
शुद्धसूक्ष्म-निराकार-निर्विकल्पपदं ततः ॥ १७ ॥

परब्रह्मस्वरूप्यन्ते णिक्लीमन्ते परापदम् ।
नन्दशक्तिपदं बालातृतीयं बीजमुद्धरेत् ॥ १८ ॥

इयं तु शाम्भवानन्दनाथानुत्तरकौलिनी ।
मूलविद्येति कथिता सर्वागमविशारदैः ॥ १९ ॥

(११) तारं तारत्रयं हंसः सोऽहं स्वच्छान्तनन्द च ।
परमान्ते हंसपरमात्मने वह्निवल्लभा ॥ २० ॥

गुरूत्तमविमर्शिनी मूलविद्या समीरिता ।
(१२) तारं तारत्रयस्यान्तेऽप्नामाख्यपदं भवेत् ॥ २१ ॥

व्योमातीतपदं नाथपरापरपदं ततः ।
व्योमातीतपदं व्योमेश्वर्यम्बापदमुद्धरेत् ॥ २२ ॥

अनामाख्यामूलविद्या प्रोक्तेयं परमेश्वरी ।
(१३) तारं तारत्रयं वाणीं इं ईं उं बीजमुद्धरेत् ॥ २३ ॥

प्रोक्ता संकेतसाराख्या मूलविद्या महेश्वरि ।
(१४) तारं तारत्रयं मायां ततो भगवतीति च ॥ २४ ॥

विच्चे वाग्वादिनी चेति कामराजं महाह्रद ।
महामातङ्गिनि वाणीं क्लिन्ने ब्लूंस्त्रीं लिखेदियम् ॥ २५ ॥

अनुत्तरादिवाग्वादिनीविद्या परिकीर्तिता ।
(१५) तारं तारत्रयं प्रासादपरां खेचरीं ततः ॥ २६ ॥

सम्पत्प्रदाया मध्यं तु श्रीप्रासादपरां लिखेत् ।
इयं तु कथिता मूलविद्यानुत्तरशाङ्करी ॥ २७ ॥

(१६) तुरीयविद्यामुच्चार्य सर्वानन्दमयादिकम् ।
उद्धरेत् परमेशानि महात्रिपुरसुन्दरी ॥ २८ ॥

मूलविद्येयमीशानि प्रोक्ताभीष्टफलप्रदा ।

इति षोडश विद्याः ॥ अथ षडाधारविद्याः, तत्र परमेश्वरमन्त्रः -

तारपञ्चकमुद्धृत्य सरहस्रौं वाग्भवं ततः ।
फ्रेंबीजं च ततो लेख्यं परेश्वरमनुर्मतः ॥ १ ॥

आज्ञायां कर्णिकामध्ये परमेश्वरमनु न्यसेत् ।

इति परमेश्वरमन्त्रः ॥ अथ विश्वेश्वरमन्त्रः -

तारपञ्चकमुच्चार्य हस्रूं वाग्भवमुद्धरेत् ।
कुब्जिके फ्रें विशुद्धौ तु विच्चेश्वरमहामनुः ॥ १ ॥

इति विच्चेश्वरमन्त्रः । अथ हंसेश्वरमन्त्रः -

तारपञ्चकमुच्चार्य हस्रैं वाग्भवमुद्धरेत् ।
कुब्जिकायै पदं चैव ह्सफ्रं विच्चे तथैव च ॥ १ ॥

हंसेश्वरमहामन्त्रस्त्वनाहतपदे स्थितः ।

प्. १४८) इति हंसेश्वरमन्त्रः ॥ अथ संवर्तेशमन्त्रः -

तारपञ्चकमुद्धृत्य ह्रांह्रींह्रूंह्रीं तथैव च ।
हस्रोंक्ष्रांक्ष्रीं तथैवक्ष्रीं किणिद्वन्द्वमतः परम् ॥ १ ॥

हसफ्रां हसफ्रमतो हस्फ्रीं विच्चे ह्रौं च हसद्वयम् ।
हसफ्रें हसक्षमलवयरूं प्रणवमेव च ॥ २ ॥

हसक्षमलवान् प्रोच्य यरां हस तथैव च ।
क्षमलान् वयरूं चैव तद्बीजं वामनेत्रयुक् ॥ ३ ॥

वाग्भवं च ततो हस्रींहस्रूंहस्रां च ततः परम् ।
ह्रींह्रंह्रांह्लां ततो वाणीं नित्ये भगवतीति च ॥ ४ ॥

हसफ्रं कुलेश्वरि ह्रांह्रूंह्लींह्लांह्वींहुं ततः परम् ।
ह्येहौंङञणनान् मे च क्ष्रांक्ष्रींक्ष्रूंक्ष्रस्तथैव च ॥ ५ ॥

क्ष्रं श्रीफट् च ह्स्रौं फ्रें च अघोरमुखि चोच्चरेत् ।
कुब्जिकायै ततश्छ्रां छ्रंछ्रीं घोरे च ततः परम् ॥ ६ ॥

अघोरे वायुवह्नीन्द्रान् वंसंहं च किणिद्वयम् ।
महाकिणियुगं विच्चे संवर्तेशमहामनुः ॥ ७ ॥

स्वाधिष्ठाने महाचक्रे न्यस्तव्यः साधकोत्तमैः ।

इति संवर्तेश्वरमन्त्रः ॥ अथ द्वीपेश्वरमन्त्रः -

तारपञ्चकमुच्चार्य हसफ्रूं वाग्भवं ततः ।
रिगटिनि पदं चैव पिङ्गटिनि पदं ततः ॥ १ ॥

विच्चे मन्त्रोऽयमुदितो द्वीपेशस्य वरानने ।
मणिपूरकचक्रे तु न्यस्तव्यः साधकोत्तमैः ॥ २ ॥

इति द्वीपेश्वरमन्त्रः ॥ अथ नवात्मेश्वरमन्त्रः -

तारपञ्चकमुच्चार्य सहक्षमलवेति च ।
रयूं नमो भगवति हस्फ्रें बीजमतः परम् ॥ १ ॥

कुब्जिकायै ततो ह्रांह्रूंह्रीं चैव ड्ञणन्मे ।
अघोरमुखि छ्रांछ्रूंछ्रीं किणिद्वन्द्वं किणिद्वयम् ॥ २ ॥

विच्चे नवात्मेश्वरस्य मन्त्रः स्यान्मूलपङ्कजे ।

इति नवात्मेश्वरमन्त्रः ॥ इति षडन्वयशाम्भवमन्त्राः ॥ ततो ध्यानम् -

सहस्रसूर्यसङ्काशो महादीप्तिधरो गुरुः ।
षडन्वयेश्वरः श्रीमान् परशम्भुरजोऽव्ययः ॥ १ ॥

षडाननस्फुरन्नेत्रत्रयषट्कसमन्वितः ।
द्वीपिचर्मकटिस्फारमुण्डमालाविभूषणः ॥ २ ॥

नानास्थिरत्नपारिजातपुष्पमालासमावृतः ।
ब्रह्मनाभिकजांगुष्ठो दंष्ट्राविस्तृतलापनः ॥ ३ ॥

विचित्राभरणैर्युक्तः सर्ववित्पशुपाशहृत् ।
शूलासीषुशक्तिसृणिवरधारी महातनुः ॥ ४ ॥

कपालफलचापारिपाशाभयकराम्बुजः ।
देवावृतः पितृवने क्रीडाकृन्मानसोत्तरे ॥ ५ ॥

एवं परेश्वरीं ध्यायेत् स्तनभारविराजिताम् ।
इति ध्यात्वाभिसम्पूज्य मूलविद्याद्वयं पुनः ॥ ६ ॥

समभ्यस्य समर्प्याथ चरणद्वितयं स्मरेत् ।

रश्मिक्रमः प्रागेव प्रपञ्चितः ॥ अथोर्ध्वाम्नायमन्त्रभेदा अग्रे वक्ष्यन्ते । अथ तन्त्रान्तरे समयाविद्याः, यथा -

श्रीविद्या बगला चैव कालरात्रिस्तथैव च ।
जयदुर्गा च्छिन्नमस्ता समयाः पञ्च कीर्तिताः ॥ १ ॥

श्रीविद्या प्रागुक्ता । अथ बगला - अस्य श्रीबगलामुखीमन्त्रस्य नारद ऋषिः, जगती छन्दः, श्रीबगलामुखी देवता, ह्रींबीजं, स्वाहा शक्तिः, कीलय कीलकं, श्रीविद्याङ्गत्वेन विनियोगः, ओं ह्रीं, बगलामुखि, सर्वदुष्टानां, वाचं मुखं पदं स्तम्भय, जिह्वां कीलय, बुद्धिं विनाश्य ह्री ओं स्वाहा, इति षडङ्गमन्त्राः । ध्यानम्:

मध्ये सुधाब्धि मणिमण्डपरत्नवेद्यां सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविभूषिताङ्गीं देवीं भजामि धृतमुद्गरवैरिजिह्वाम् ॥ १ ॥

ओं ह्रीं बगलामुखि सर्वदुष्टानां वाचं मुखं पदं स्तम्भय जिह्वां कीलय बुद्धिं विनाशय ह्रीं ओं स्वाह, इति बगलामुखी ॥ अथ कालरात्रिः : अस्य श्रीकालरात्रिमन्त्रस्य भैरव ऋषिः अनुष्टुप्छन्दः श्रीकालरात्रिर्देवता, ह्रीं बीजं, स्वाहा शक्तिः, हूं कीलकं, श्रीविद्याङ्गत्वेन विनियोगः, षड्दीर्घयुक्तेन मायाबीजेन षडङ्गन्यासः ।
ध्यानम् -

प्. १४९) आरक्तभानुसदृशीं यौवनोन्मत्तविग्रहाम् ।
चतुर्भुजां त्रिनयनां भीषणां चन्द्रशेखराम् ॥ १ ॥

प्रेतासनसमासीनां भजतां सर्वकामदाम् ।
दक्षिणे चाभयं पाशं वामे भुवनमेव च ॥ २ ॥

रक्तदण्डधरां देवीं कालरात्रिं विचिन्तयेत् ।

ऐंह्रींक्लींश्रींकालेश्वरि सर्वजनमनोहारि सर्वमुखस्तम्भिनि सर्वराजवशङ्करि सर्वदुष्टनिर्दलिनि सर्वस्त्रीपुरुषाकर्षिणि बन्दिशृङ्खलांस्त्रोटयत्रोटय सर्वशत्रूञ्जम्भय जम्भय द्वेषं निर्दलय निर्दलय सर्वं स्तम्भय स्तम्भय उच्चाटय उच्चाटय सर्ववश्यं कुरु कुरु सर्वकालरात्रिकामिनि गणेश्वरि हुं फट् स्वाहा, इति कालरात्रिः ॥ अथ जयदुर्गा : अस्य जयदुर्गामन्त्रस्य नारद ऋषिर्गायत्री छन्दः जयदुर्गा देवता, ओं बीजं, स्वाहा शक्तिः, रक्षिणि कीलकं श्रीविद्याङ्गत्वेन विनियोगः । ओं, दुर्गे, दुर्गे, रक्षणि, स्वाहा, ओं दुर्गे दुर्गे रक्षिणि स्वाहा, इति षडङ्गमन्त्राः । ध्यानम् :

कीलालाभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुखण्डां शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥ १ ॥

इति । ओं दुर्गे दुर्गे रक्षिणि स्वाहा, इति जयदुर्गा ॥ अथ च्छिन्नमस्ताः: अस्य त्रिशक्तिमन्त्रस्य भैरव ऋषिः सम्राट् छन्दः श्रीवज्रवैरोचनीया देवता ह्रीं बीजं, स्वाहा शक्तिः, फट्कीलकं, श्रीविद्याङ्गत्वेन विनियोगः । ओं आं खड्गाय स्वाहा, ओं ईं सुखड्गाय स्वाहा, ओं ऊं श्रींविराजाय स्वाहा, ओं ऐं पाशाय स्वाहा, ओं औं अंकुशाय स्वाया, ओं अः असुरान्तकाय स्वाहा, - इति षडङ्गमन्त्राः । ध्यानम्:

स्वनाभौ नीरजं ध्यायेच्छुद्धं विकसितं सितम् ।
तत्पद्मकोशमध्ये तु मण्डलं चण्डरोचिषः ॥ १ ॥

जपाकुसुमसङ्काशं नवबन्धूकसन्निभम् ।
रजःसत्त्वतमोरेखायोनिमण्डलमण्डितम् ॥ २ ॥

मध्ये तु तां महादेवीं सूर्यकोटिसमप्रभाम् ।
छिन्नमस्तां करे वामे धारयन्तीं स्वमस्तकम् ॥ ३ ॥

प्रसारितमुखां भीमां लेलिहानोग्रजिह्विकाम् ।
पिबन्दीं रौधिरीं धरां निजकण्ठसमुद्भवाम् ॥ ४ ॥

विकीर्णकेशपाशां च नानापुष्पसमन्विताम् ।
दक्षिणे च करे कत्रीं मुण्डमालाविभूषिताम् ॥ ५ ॥

दिगम्बरां महाघोरां प्रत्यालीढपदस्थिताम् ।
अस्थिमालाधरां देवीं नागयज्ञोपवीतिनीम् ॥ ६ ॥

रतिकामोपविष्टां च केचिद् ध्यायन्ति मन्त्रिणः ।
सदा षोडशवर्षीयां पीनोन्नतपयोधराम् ॥ ७ ॥

विपरीतरतासक्तौ ध्यायेद्रतिमनोभवौ ।
योनिमुद्रासमारूढां विचित्रासनसंस्थिताम् ॥ ८ ॥

वर्णिनीडाकिनीयुक्तां वामदक्षिणयोगतः ।

इति ॥ श्रींक्लींह्रीं ऐं वज्रवैरोचनीये ह्रींह्रींफट्स्वाहा इति च्छिन्नमस्ता ॥ इति समयाविद्याः ॥

गायत्रीं तु समुच्चार्य तत्तदावृतिदेवताः ।
पूजनीयाः प्रयत्नेन सर्वकामार्थसिद्धये ॥ १ ॥

इति वचनाच्छ्रीचक्रावरणदेवीनां गायत्र्यः प्रोच्यन्ते -

ओं तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् : इति गणपतिगायत्री ॥ आपदुद्धरणाय विद्महे वटुकेश्वराय धीमहि तन्नो वीरः प्रचोदयात् : इति वटुकगायत्री ॥ ओं दिगम्बराय विद्महे कपालहस्ताय धीमहि तन्नः क्षेत्रपालः प्रचोदयात् : इति क्षेत्रपालगायत्री ।
ओं व्यापिकायै विद्महे नानारूपायै धीमहि तन्नो योगिनी प्रचोदयात् : इति योगिनीगायत्री ।
ओं देवराजाय विद्महे वज्रहस्ताय धीमहि तन्नः शक्रः प्रचोदयात् : इतीन्द्रगायत्री ।
रुद्रनेत्राय विद्महे शक्तिहस्ताय धीमहि तन्नों वह्निः प्रचोदयात् : इति वह्निगायत्री ।
ओं वैवस्वताय विद्महे दण्डहस्ताय धीमहि तन्नो यमः प्रचोदयात् : इति यमगायत्री ।
ओं निशाचराय विद्महे खड्गहस्ताय धीमहि तन्नो निरृतिः प्रचोदयात् : इति निरृतिगायत्री ।
प्. १५०) शुद्धहस्ताय विद्महे पाशहस्ताय धीमहि तन्नो वरुणः प्रचोदयात् इति वरुणगायत्री ।
सर्वप्राणाय विद्महे यष्टिहस्ताय धीमहि तन्नो वायुः प्रचोदयात् : इति वायुगायत्री ।
यक्षेश्वराय विद्महे गदाहस्ताय धीमहि तन्नो यक्षः प्रचोदयात् : इति कुबेरगायत्री ।
सर्वेश्वराय विद्महे शूलहस्ताय धीमहि तन्नो रुद्रः प्रचोदयात् : इति शिवगायत्री ।
चतुराननाय विद्महे वेदवक्त्राय धीमहि तन्नो ब्रह्मा प्रचोदयात् : इति ब्रह्मगायत्री ।
पातालवासिने विद्महे सहस्रवदनाय धीमहि तन्नोऽनन्तः प्रचोदयात् : इत्यनन्तगायत्री ।
शतकोटिने विद्महे महावज्राय धीमहि तन्नो वज्रं प्रचोदयात् : इति वज्रगायत्री ।
तीक्ष्णभल्लाय विद्महे दीर्घदण्डाय धीमहि तन्नः शक्तिः प्रचोदयात् : इति शक्तिगायत्री ।
शत्रुघ्नाय विद्महे दीर्घकायाय धीमहि तन्नो दण्डः प्रचोदयात् : इति दण्डगायत्री ।
तीक्ष्णधाराय विद्महे त्रिमूर्त्यात्मकाय धीमहि तन्नः खड्गः प्रचोदयात्

इति खड्गगायत्री ।

जगदाकर्षणाय विद्महे महापाशाय धीमहि तन्नः पाशः प्रचोदयात् : इति पाशगायत्री ।
वशीकरणाय विद्महे महांकुशाय धीमहि तन्नोऽंकुशः प्रचोदयात् : इत्यंकुशगायत्री ।
अयः सारायै विद्महे दीर्घगात्र्यै धीमहि तन्नो गदा प्रचोदयात् : इति गदागायत्री ।
तीक्ष्णशिखाय विद्महे महाकायाय धीमहि तन्नः शूलं प्रचोदयात् : इति शूलगायत्री ।
रमावासाय विद्महे सहस्रपत्राय धीमहि तन्नः, पद्मं प्रचोदयात् : इति पद्मगायत्री ।
सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्नश्चक्रं प्रचोदयात् : इति सुदर्शनगायत्री ।
अणिमासिद्ध्यै विद्महे वराभयहस्तायै धीमहि तन्नः सिद्धिः प्रचोदयात् : इत्यणिमागायत्री ।
लघिमासिद्ध्यैविद्महे निधिवाहनायै धीमहि तन्नो लघिमा प्रचोदयात् : इति लघिमागायत्री ।
महिमासिद्ध्यै विद्महे महासिद्ध्यै धीमहि तन्नो महिमा प्रचोदयात् : इति महिमागायत्री ।
ईशित्वसिद्ध्यै विद्महे जगद्व्यापिकायै धीमहि तन्नः सिद्धिः प्रचोदयात् : इतीशित्वगायत्री ।
वशित्वसिद्ध्यै विद्महे शोणवर्णायै धीमहि तन्नः सिद्धिः प्रचोदयात् : इति वशित्वगायत्री ।
प्राकाम्यसिद्ध्यि विद्महे निधिवाहनायै धीमहि तन्नः सिद्धिः प्रचोदयात् : इति प्राकाम्यगायत्री ।
इच्छासिद्ध्यै विद्महे पद्महस्तायै धीमहि तन्नः सिद्धिः प्रचोदयात् ३ ।
भुक्तिसिद्ध्यै विद्महे महासिद्ध्यै धीमहि तन्नः सिद्धिः प्रचोदयात् ३ ।
रससिद्ध्यै विद्महे भक्तवत्सलायै धीमहि तन्नः सिद्धिः प्रचोदयात् ३ ।
मोक्षसिद्ध्यै विद्महे महानिर्मलायै धीमहि तन्नः सिद्धिः प्रचोदयात् : इति सिद्धीनां गायत्र्यः ॥

ब्रह्मशक्त्यै विद्महे पीतवर्णायै धीमहि तन्नो ब्राह्मी प्रचोदयात् ३ ।
श्वेतवर्णायै विद्महे शूलहस्तायै धीमहि तन्नो माहेश्वरि प्रचोदयात् ३ ।
शिखिवाहनायै विद्महे शक्तिहस्तायै धीमहि तन्नः कौमारी प्रचोदयात् ३ ।
श्यामवर्णायै विद्महे चक्रहस्तायै धीमहि तन्नो वैष्णवी प्रचोदयात् ३ ।
श्यामलायै विद्महे हलहस्तायै धीमहि तन्नो वाराही प्रचोदयात् ३ ।
श्यामवर्णायै विद्महे वज्रहस्तायै धीमहि तन्न ऐन्द्री प्रचोदयात् ३ ।
कृष्णवर्णायै विद्महे शूलहस्तायै धीमहि तन्नश्चामुण्डा प्रचोदयात् ३ ।
पीतवर्णायै विद्महे पद्महस्तायै धीमहि तन्नो लक्ष्मीः प्रचोदयात् ३ - इति मातृगायत्र्यः ॥

सर्वसंक्षोभिण्यै विद्महे वरहस्तायै धीमहि तन्नो मुद्रा प्रचोदयात् ३ ।

सर्वविद्राविण्यै विद्महे महाद्रविण्यै धीमहि तन्नो मुद्रा प्रचोदयात् ३ ।

सर्वाकर्षिण्यै विद्महे महामुद्रायै धीमहि तन्नो मुद्रा प्रचोदयात् ३ ।

सर्ववशङ्कर्यै विद्महे महावश्यायै धीमहि तन्नो मुद्रा प्रचोदयात् ३ ।

सर्वोन्मादिन्यै विद्महे महामायायै धीमहि तन्नो मुद्रा प्रचोदयात् ३ ।

महांकुशायै विद्महे शोणवर्णायै धीमहि तन्नो मुद्रा प्रचोदयात् ३ ।

सर्वखेचर्यै विद्महे गगनवर्णायै धीमहि तन्नो मुद्रा प्रचोदयात् ६ ।

बीजरूपायै विद्महे महाबीजायै धीमहि तन्नो मुद्रा प्रचोदयात् ३ ।

महायोन्यै विद्महे विश्वजनन्यै धीमहि तन्नो मुद्रा प्रचोदयात् ३ ।

त्रिखण्डायै विद्महे त्रिकात्मिकायै धीमहि तन्नो मुद्रा प्रचोदयात् : इति मुद्रागायत्र्यः ॥

कामाकर्षिण्यै विद्महे रक्तवस्त्रायै धीमहि तन्नः कला प्रचोदयात् ३ ।

बुद्ध्याकर्षिण्यै विद्महे बुद्ध्यात्मिकायै धीमहि तन्नः कला प्रचोदयात् ३ ।

अहङ्काराकर्षिण्यै विद्महे तत्त्वात्मिकायै धीमहिः तन्नः कला प्रचोदयात् ३ ।

प्. १५१) शब्दाकर्षिण्यै विद्महे सर्वशब्दात्मिकायै धीमहि तन्नः कला प्रचोदयात् ३ ।

स्पर्शाकर्षिण्यै विद्महे स्पर्शात्मिकायै धीमहि तन्नः कला प्रचोदयात् ३ :

रूपाकर्षिण्यै विद्महे रूपात्मिकायै धीमहि तन्नः कला प्रचोदयात् ।

रसाकर्षिण्यै विद्महे रसात्मिकायै धीमहि तन्नः कला प्रचोदयात् ३ ।

गन्धाकर्षिण्यै विद्महे गन्धात्मिकायै धीमहि तन्नः कला प्रचोदयात् ३ ।

चिताकर्षिण्यै विद्महे चित्तात्मिकायै धीमहि तन्नः कला प्रचोदयात् ३ ।

धैर्याकर्षिण्यै विद्महे धैर्यात्मिकायै धीमहि तन्नः कला प्रचोदयात् ३ ।

स्मृत्याकर्षिण्यै विद्महे स्मृतिस्वरूपिण्यै धीमहि तन्नः कला प्रचोदयात् ३ ।

नामाकर्षिण्यै विद्महे नामात्मिकायै धीमहि तन्नः कला प्रचोदयात् ३ ।

बीजाकर्षिण्यै विद्महे बीजात्मिकायै धीमहि तन्नः कला प्रचोदयात् ३ ।

आत्माकर्षिण्यै विद्महे आत्मस्वरूपिण्यै धीमहि तन्नः कला प्रचोदयात् ३ ।

अमृताकर्षिण्यै विद्महे अमृतस्वरूपिण्यै धीमहि तन्नः कला प्रचोदयात् ३ ।

शरीराकर्षिण्यै विद्महे शरीरात्मिकायै धीमहि तन्नः कला प्रचोदयात्, ३ - इति कामकर्षिण्यादीनां गायत्र्यः ॥

अनङ्गकुसुमायै विद्महे रक्तकंचुकायै धीमहि तन्नो देवी प्रचोदयात्, ३ ।

अनङ्गमेखलायै विद्महे पाशहस्तायै धीमहि तन्नो देवी प्रचोदयात्, ३ ।

अनङ्गमदनायै विद्महे शरहस्तायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

अनङ्गमदनातुरायै विद्महे धनुर्हस्तायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

अनङ्गरेखायै विद्महे दीर्घकेशिन्यै धीमहि तन्नो देवीं प्रचोदयात् ३ ।

अनङ्गवेगिन्यै विद्महे सृणिहस्तायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

अनङ्गांकुशायै विद्महे नित्यक्लेदिन्यै धीमहि तन्नो देवी प्रचोदयात् ३ ।

अनङ्गमालिन्यै विद्महे सुप्रसन्नायै धीमहि तन्नो देवी प्रचोदयात् ३ - इत्यष्टदलदेवतानां गायत्र्यः ॥

सर्वसंक्षोभिण्यै विद्महे बाणहस्तायै धीमहि तन्नः शक्तिः प्रचोदयात् ३ ।

सर्वविद्राविण्यै विद्महे कार्मुकहस्तायै धीमहि तन्नः शक्तिः प्रचोदयात् ३ ।

सर्वविकर्षिण्यै विद्महे शोणवर्णायै धीमहि तन्नः शक्तिः प्रचोदयात् ३ ।

सर्वाह्लादिन्यै विद्महे जगद्व्यापिन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ३ ।

सर्वसम्मोहिन्यै विद्महे जगन्मोहिन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ३ ।

सर्वस्तम्भिन्यै विद्महे जगत्स्तम्भिन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ३ ।

सर्वजृम्भिण्यै विद्महे जगद्रञ्जिन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ३ ।

सर्ववशङ्कर्यै विद्महे -----(?) ।

सर्वरञ्जिन्यै विद्महे वैडूर्यवर्णायै धीमहि तन्नः शक्तिः प्रचोदयात् ३ ।

सर्वोन्मादिन्यै विद्महे जगन्मायायै धीमहि तन्नः शक्तिः प्रचोदयात् ३ ।

सर्वार्थसाधिन्यै विद्महे पुरुषार्थदायै धीमहि तन्नः शक्तिः प्रचोदयात् ३ ।

सर्वसम्पत्प्रपूरिण्यै विद्महे सम्पदात्मिकायै धीमहि तन्नः शक्तिः प्रचोदयात् ३ ।

सर्वमन्त्रमययै विद्महे मन्त्रमात्रे धीमहि तन्नः शक्तिः प्रचोदयात् ३ ।

सर्वद्वन्द्वक्षयंकर्यै विद्महे कलात्मिकायै धीमहि तन्नः शक्तिः प्रचोदयात् ३ - इति चतुर्दशारदेवतागायत्र्यः ॥

सर्वसिद्धिप्रदायै विद्महे श्वेतवर्णायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

सर्वसम्पत्प्रदायै विद्महे महालक्ष्म्यै धीमहि तन्नो देवी प्रचोदयात् । ३

सर्वाप्रियंकर्यै विद्महे कुन्दवर्णायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

सर्वमङ्गलकारिण्यै विद्महे मङ्गलात्मिकायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

सर्वकामप्रदायै विद्महे कल्पलतात्मिकायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

सर्वदुःखविमोचिन्यै विद्महे हर्षप्रदायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

सर्वमृत्युप्रशमन्यै विद्महे सर्वसञ्जीविन्यै धीमहि तन्नो देवी प्रचोदयात् ३ ।

सर्वविघ्ननिवारिण्यै विद्महे सर्वकामायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

सर्वाङ्गसुन्दर्यै विद्महे जगद्योन्यै धीमहि तन्नो देवी प्रचोदयात् ३ ।

सर्वसौभाग्यदायिन्यै विद्महे जगज्जनन्यै धीमहि तन्नो देवी प्रचोदयात् ३ - इति बहिर्दशारदेवतागायत्र्यः ॥

सर्वज्ञायै विद्महे महामायायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

सर्वशक्त्यै विद्महे महाशक्त्यै धीमहि तन्नो देवी प्रचोदयात् ३ ।

सर्वैश्वर्यप्रदायै विद्महे ऐश्वर्यात्मिकायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

सर्वज्ञानमययै विद्महे ज्ञानात्मिकायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

प्. १५२) सर्वव्याधिविनाशिन्यै विद्महे औषधात्मिकायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

सर्वाधारस्वरूपिण्यै विद्महे आधारात्मिकायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

सर्वपापहरायै विद्महे सर्वतीर्थस्वरूपिण्यै धीमहि तन्नो देवी प्रचोदयात् ३ ।

सर्वानन्दमययै विद्महे महानन्दायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

सर्वरक्षास्वरूपिण्यै विद्महे सर्वरक्षणायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

सर्वेप्सितफलप्रदायै विद्महे फलात्मिकायै धीमहि तन्नो देवी प्रचोदयात् ३ - इत्यन्तर्दशारदेवतागायत्र्यः ॥

वशिनीदेव्यै विद्महे पुस्तकहस्तायै धीमहि तन्नो वाचा प्रचोदयात् ।

कामेश्वर्यै विद्महे वाग्देव्यै धीमहि तन्नो वाचा प्रचोदयात् ३ ।

मोदिनीदेव्यै विद्महे महावाण्यै धीमहि तन्नो वाचा प्रचोदयात् ३ ।

विमलादेव्यै विद्महे माला धरायै धीमहि तन्नो वाचा प्रचोदयात् ३ ।

अरुणावाग्देव्यै विद्महे श्वेतवर्णायै धीमहि तन्नो वाचा प्रचोदयात् ३ ।

जयिनीदेव्यै विद्महे महावागीश्यै धीमहि तन्नो वाचा प्रचोदयात् ३ ।

सर्वेश्वर्यै विद्महे सर्ववागीश्यै धीमहि तन्नो वाचा प्रचोदयात् ३ ।

कौलिनीदेव्यै विद्महे कुलमार्गगायै धीमहि तन्नो वाचा प्रचोदयात् ३ - इत्यष्टारदेवतागायत्र्यः ॥

महावाणिन्यै विद्महे पुष्पात्मिकायै धीमहि तन्नो बाणा प्रचोदयात् ३ ।

पुष्पचापिन्यै विद्महे पुण्ड्रात्मिकायै धीमहि तन्नश्चापा प्रचोदयात् ३ ।

पुष्पपाशिन्यै विद्महे पाशच्छेदिन्यै धीमहि तन्नः पाशिनी प्रचोदयात् ३ ।

अंकुशिन्यै विद्महे पुष्पात्मिकायै धीमहि तन्नः सृणिः प्रचोदयात् ३ ।

इत्यष्टारान्तरालचक्रदेवतागायत्र्यः ॥

कामरूपवासिन्यै विद्महे रुद्रशक्त्यै धीमहि तन्नः कामेश्वरी प्रचोदयात् ३ ।

जालन्धरस्थायै विद्महे विष्णुशक्त्यै धीमहि तन्नो वज्रेश्वरी प्रचोदयात् ३ ।

पूर्णपीठस्थायै विद्महे ब्रह्मशक्त्यै धीमहि तन्नो भगमालिनी प्रचोदयात् ३ - इति त्रिकोणाग्रस्थदेवतागायत्र्यः ॥ अथ चक्रेश्वरीणां गायत्र्यः ।

त्रिपुरादेव्यै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् ३ ।

त्रिपुरेश्वर्यै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् ३ ।

त्रिपुरसुन्दर्यै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् ३ ।

त्रिपुराश्रियै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् ३ ।

त्रिपुरमालिन्यै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् ३ ।

त्रिपुरवासिन्यै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् ३ ।

त्रिपुरासिद्धायै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् ३ ।

त्रिपुराम्बायै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् ३ ।

महात्रिपुरसुन्दर्यै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् ३ - इति चक्रेश्वरीगायत्र्यः ॥ अथ षोडशनित्यानां गायत्र्यः :

कामेश्वर्यै विद्महे नित्यक्लिन्नायै धीमहि तन्नो नित्या प्रचोदयात् ३ ।

भगमालिन्यै विद्महे सर्ववशङ्कर्यै धीमहि तन्नो नित्या प्रचोदयात् ३ ।

नित्यक्लिन्नायै विद्महे नित्यमदद्रवायै धीमहि तन्नो नित्या प्रचोदयात् ३ ।

भेरुण्डायै विद्महे विषहरायै धीमहि तन्नो नित्या प्रचोदयात् ३ ।

वह्निवासिन्यै विद्महे सिद्धिप्रदायै धीमहि तन्नो नित्या प्रचोदयात् ३ ।

महावज्रेश्वर्यै विद्महे वज्रनित्यायै धीमहि तन्नो नित्या प्रचोदयात् ३ ।

शिवदूत्यै विद्महे शिवंकर्यै धीमहि तन्नो नित्या प्रचोदयात् ३ ।

त्वरितायै विद्महे महानित्यायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

वगीश्वर्यै(कुलसुन्दर्यै) विद्महे कामेश्वर्यै धीमहि तन्नः शक्तिः प्रचोदयात् ३ ।

नित्याभैरव्यै विद्महे नित्यानित्यायै धीमहि तन्नो योगिनी प्रचोदयात् ३ ।

नीलपताकायै विद्महे महानित्यायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

विजयादेव्यै विद्महे महानित्यायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

सर्वमङ्गलायै विद्महे चन्द्रात्मिकायै धीमहि तन्नो नित्या प्रचोदयात् ३ ।

ज्वालामालिन्यै विद्महे महाज्वालायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

विचित्रायै विद्महे महानित्यायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

(ललितागायत्री षोडशी) इति षोडशनित्यानां गायत्र्यः ॥ अथ षड्दर्शनगायत्र्यः :

ब्रह्मगायत्री स्पष्टैव ॥

नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ३ ।

आदित्याव विद्महे मार्तण्डाय धीमहि तन्नः सूर्यः प्रचोदयात् ३ ।

शिवगायत्री तु प्रागेव दर्शिता ।

महासिद्धाय विद्महे सर्वज्ञाय धीमहि तन्नो बुद्धः प्रचोदयात् ३ ।

सर्वसंमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ३ ।

इति षड्दर्शनगायत्र्यः ॥ अथ समयविद्यानां गायत्र्यः :

प्. १५३) सर्वोन्मन्यै विद्महे विश्वजनन्यै धीमहि तन्नो देवी प्रचोदयात् ३ ।

इति पूर्वसमया ॥

बगलाम्बायै विद्महे ब्रह्मास्त्रविद्यायै धीमहि तन्नः स्तम्भिनी प्रचोदयात् ३ ।

इति दक्षिणसमया ॥

कालरात्र्यै विद्महे कालेश्वर्यै धीमहि तन्नो मोहिनी प्रचोदयात् ३ ।

इति पश्चिमसमया ॥

तन्त्रान्तरेषु जयदुर्गा कुब्जिका प्रत्यङ्गिरा दुर्गाः पश्चिमसमये देवता इति ॥ तथा -

नारायण्यै विद्महे दुर्गायै धीमहि तन्नो गौरी प्रचोदयात् ३ ।

इति जयदुर्गागायत्री ॥

कुब्जिकायै विद्महे नरान्त्रमालायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

इति कुब्जिकागायत्री ॥

अपराजितायै विद्महे प्रत्यङ्गिरायै धीमहि तन्न उग्रा प्रचोदयात् ३ ।

इति प्रत्यङ्गिरागायत्री ॥

महादेव्यै विद्महे दुर्गायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

इति दुर्गागायत्री ॥ इति पश्चिमसमयदेवतानां गायत्र्यः ॥

अथोत्तरसमयानां गायत्र्यः -

वज्रवैरोचिन्यै विद्महे छिन्नमस्तायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

इति छिन्नमस्तागायत्री ॥

कालिकायै विद्महे श्मशानवासिन्यै धीमहि तन्नो घोरे प्रचोदयात् ३ ।

इति कालीगायत्री ॥

तारायै वद्महे छिन्नमस्तायै धीमहि तन्नो देवी प्रचोदयात् ३ ।

इति तारागायत्री ॥ आम्नायविद्यानां गायत्र्योऽत्रैवान्तर्भूता बोद्धव्याः ॥ अथ पञ्चपञ्चिकागणगायत्र्यः :

श्रीविद्यायै विद्महे महाश्रियै धीमहि तन्नः श्रीः प्रचोदयात् ३ ।

लक्ष्म्यै देव्यै विद्महे श्रीदेव्यै धीमहि तन्नः श्रीः प्रचोदयात् ३ ।

महालक्ष्म्यै विद्महे महाश्रियै धीमहि तन्नः श्रीः प्रचोदयात् ३ ।

त्रिशक्तिलक्ष्म्यै विद्महे महाभैरव्यै धीमहि तन्नः श्रीः प्रचोदयात् ३ ।

साम्राज्यलक्ष्म्यै विद्महे जयङ्कर्यै धीमहि तन्नः श्रीः प्रचोदयात् ३ ।

इति पञ्चलक्ष्म्यः ॥ अथ पञ्चकोशाः :

श्रीविद्यायै विद्महे महाकोशेश्वर्यै धीमहि तन्नः कोशा प्रचोदयात् ३ ।

परज्योतिषै विद्महे प्रणवात्मिकायै धीमहिः तन्नः कोशा प्रचोदयात् ३ ।

परनिष्कलायै विद्महे परशाम्भव्यै धीमहि तन्नः कोशा प्रचोदयात् ३ ।

अजपायै विद्महे हंसात्मिकायै धीमहि तन्नः कोशा प्रचोदयात् ३ ।

मातृकायै विद्महे वागीश्वर्यै धीमहि तन्नः कोशा प्रचोदयात् ३ ।

इति पञ्चकोशाः ॥ अथ पञ्चकल्पलताः :

श्रीविद्यायै विद्महे कल्पलतेश्वर्यै धीमहि तन्नः कल्पलता प्रचोदयात् ३ ।

त्वरितागायत्री प्रागेवोक्ता । स्वच्छन्दसंग्रहे ॥

त्वरितादेव्यै विद्महे महादेव्यै धीमहि तन्नः कल्पलता प्रचोदयत् ३ ।

पारिजातेश्वर्यै विद्महे कामप्रदायै धीमहि तन्नः कल्पलता प्रचोदयात् ३ ।

त्रिकूटायै विद्महे जगज्जनन्यै धीमहि तन्नः कल्पलता प्रचोदयात् ३ ।

पञ्चबाणेश्यै विद्महे सर्वसंक्षोभिण्यै धीमहि तन्नः कल्पलता प्रचोदयात् ३ ।

इति पञ्चकल्पलताः । अथ पञ्चकामदुघानां गायत्र्यः :

श्रीविद्यायै विद्महे कामदुघेश्वर्यै धीमहि तन्नः कामदुघा प्रचोदयात् ३ ।

अमृतपीठेश्यै विद्महे अमृतेश्वर्यै धीमहि तन्नः कामदुघा प्रचोदयात् ३ ।

सुधासूत्यै विद्महे सुधात्मिकायै धीमहि तन्नः कामदुघा प्रचोदयात् ३ ।

अमृतेश्वर्यै विद्महे विश्वदीपिन्यै धीमहि तन्नः कामदुघा प्रचोदयात् ३ ।

अन्नपूर्णायै विद्महे सर्वसंजीविन्यै धीमहि तन्नः कामदुघा प्रचोदयात् ३ ।

इति पञ्चकामदुघाः ॥ अथ पञ्चरत्नविद्यानां गायत्र्यः

श्रीविद्यायै विद्महे रत्नेश्वर्यै धीमहि तन्नो देवी प्रचोदयात् ३ ।

सिद्धलक्ष्म्यै विद्महे रत्नेश्वर्यै धीमहि तन्नो देवी प्रचोदयात् ३ ।

मातङ्गिन्यै विद्महे रत्नेश्वर्यै धीमहि तन्नो देवी प्रचोदयात् ३ ।

भुवनेश्वर्यै विद्महे रत्नेश्वर्यै धीमहि तन्नो देवी प्रचोदयात् ३ ।

वाराह्यै विद्महे रत्नेश्वर्यै धीमहि तन्नो देवी प्रचोदयात् ३ ।

इति पञ्चपञ्चिकागणगायत्र्यः ॥ अथ श्रीचक्रनिर्माणप्रकारोऽत्र प्रदर्श्यते :

श्रीवि० २०

प्. १५४) प्रस्तारोऽत्र त्रिधा प्रोक्तः श्रीचक्रस्य तथेश्वरि ।
मेरुकैलासभूसंज्ञा भेदास्तस्य त्रिधा भवेत् ॥ १ ॥

मेरुप्रस्तारकं यन्त्रं नित्यातादात्म्यकं स्मृतम् ।
मातृकायास्तु कैलासप्रस्ताराख्यं सुरेश्वरि ॥ २ ॥

भूप्रस्तारं महादेवी वशिन्यात्मकमुत्तमम् ।
सृष्टिक्रमं मेरुचक्रं कैलासं चार्द्धमेरुकम् ॥ ३ ॥

संहाराख्यं महेशानि भूप्रस्तारं स्थितिक्रमम् ।
एकैकस्व तु चक्रस्य त्रिभेदास्तु भवन्ति हि ॥ ४ ॥

सृष्ट्यादिभेदैर्देवेशि संहारं कौलिकं मतम् ।
सृष्टिक्रमं तु समयमतं स्यात् स्थितिसंज्ञकम् ॥ ५ ॥

शुद्धं तु कथितं देवि रहस्यातिरहस्यकम् ।
मेरुचक्रे तु संहारक्रमपूजा न विद्यते ॥ ६ ॥

सृष्टिक्रमेण देवेशि पूजनीयं प्रयत्नतः ।
संहारपूजा कैलासप्रस्तारेऽत्र विधीयते ॥ ७ ॥

भूप्रस्तारे महेशानि स्थितिपूजा सदोत्तमा ।
स्थितिक्रमो गृहस्थस्य संहारो वनिनोयतेः ॥ ८ ॥

ब्रह्मचारिण उत्पत्तिः स्त्रियाः शूद्रस्य चेष्टतः ।

इति । श्रीरुद्रयामले -

ततः कुंकुमसिन्दूरैः कार्यं यन्त्रं तु योगिना ।
सौवर्णे राजते ताम्रे स्फाटिके वैद्रुमे तथा ॥ १ ॥

चक्रे तथोक्तविधिना पूज्या देवी वरोत्तमैः ।

इति । श्रीतन्त्रराजे -

रत्ने हेमनिरूप्ये वा ताम्रे दृषदि च क्रमात् ।
कृत्वा चक्रस्य निर्माणं स्थापयेत् पूजयेदपि ॥ १ ॥

लक्ष्मीकान्तियशःपुत्रधनारोग्यादिसिद्धये ॥ इति ।

दृषदि गण्डकीशिलायाम् । दक्षिणामूर्तौ - गण्डकीभवपाषाणे स्वर्ण रजतताम्रयोः । इति ।

रत्नसागरे -

यावज्जीवं सुवर्णे स्याद्रूप्ये द्वाविंशतिः प्रिये ।
ताम्रे द्वादशकं वर्षं तदर्धं भूर्जपत्रके ॥ १ ॥ अन्यत्र -

ताम्रे द्वादशकं वर्षं स्फटिकादौ तु सर्वदा ।
तेषां मध्ये स्फाटिकं तु सर्वसिद्धिप्रदं भवेत् ॥ १ ॥

इति । लक्षसागरे -

भूमौ सिन्दूररजसा रचितं सर्वकामदम् ।
सुवर्णरचितं यन्त्रं सर्वराजवशङ्करम् ॥ १ ॥

रजतेन कृतं यन्त्रमायुरारोग्यकामदम् ।
ताम्रे तु रचितं यन्त्रं सर्वैश्वर्यप्रदं मतम् ॥ २ ॥

कॢप्तं मरकते यन्त्रं सर्वशत्रुविनाशनम् ।
लोहत्रयोद्भवं यन्त्रं सर्वसिद्धिकरं मतम् ॥ ३ ॥

देव्युवाच ।

लोहत्रयोद्भवं यन्त्रं कथं कार्यं महेश्वर ।
तन्मे वदस्व कृपया यद्यहं तव वल्लभा ॥ ४ ॥

ईश्वर उवाच ।

भागा दश सुवर्णस्य रजतस्य तु षोडश ।
ताम्रस्य रविभागेन पीठं कुर्यान्मनोहरम् ॥ ५ ॥

तस्मिन् पीठे तु निर्माणं श्रीचक्रस्य तु कारयेत् ।
शान्तिदं पुष्टिकं प्रोक्तं सर्वशत्रुनिवर्हणम् ॥ ६ ॥

आयुरारोग्यजनकं कान्तिदं पुष्टिदं मतम् ।
त्रैविध्यं शृणु चक्रस्य भूप्रस्तारोऽर्धमेरुकम् ॥ ७ ॥

पातालवासिनां देवि प्रस्तारो निम्नरेखकः ।
ऊर्ध्वरेखो महाशान्तिर्मर्त्यलोकनिवासिनाम् ॥ ८ ॥

स्वर्गलोकादिवासानां यन्त्राणां मेरुसंज्ञकः ।
भूपुरं तु समारभ्य वैन्दवान्तं महेश्वरि ॥ ९ ॥

क्रमात् समुन्नतं सर्वं मेरुरूपं मयोदितम् ।
समोर्ध्वरेखानवकमूर्ध्वरेखं प्रकीर्तितम् ॥ १० ॥

निम्नरेखासमायोगाद्भूप्रस्तारो मयोदितः ।
यन्त्रबीजस्वरूपं ते मया स्नेहात् प्रकाशितम् ॥ ११ ॥

गोपितव्यं त्वया भद्रे स्वयोनिरिव सन्ततम् ।

इति । श्रीतन्त्रराजे -

चतुरस्रं समारभ्य नवचक्राण्यनुक्रमात् ।
उन्नतोन्नतमामध्याच्चक्रं स्यान्निधनं धनम् ॥ १ ॥

प्. १५५) त्रित्रिक्रमादुन्नतं तदप्रजत्वं श्रियं लभेत् ।
एकद्विषट्क्रमोन्नामः श्रियै कीर्त्यै च कल्पते ॥ २ ॥

नवानि समरूपाणि सर्वाभीष्टार्थसिद्धये ।

इति कुलमूलावतारे -

उच्छ्रितं क्रमशो देवि वित्तप्राप्तिस्ततो मृतिः ।
भूचक्रे षोडशारं चाप्यष्टारं च समं भवेत् ॥ १ ॥

शेषमुन्नतमीशानि चार्थाप्त्यप्रजदं भवेत् ।
चतुरस्रं समं देवि षोडशारादिबिन्दुकम् ॥ २ ॥

मिथः समुन्नतं देवि श्रियै कीर्त्यै च कल्पते ।
चतुरस्रं समारभ्य विन्द्वन्तं समरेखकम् ॥ ३ ॥

तथा श्रीः कीर्तिरारोग्यममृतायोपकल्पते ।

इति । तन्त्रराजे -

सीसकांस्यादिषु पुनः पूर्वोक्तविपरीतकृत् ।
फलकायां पटे भित्तौ स्थापयेन्न कदाचन ॥ १ ॥

स्थापितं यदि मोहेन लोभादज्ञानतोऽपि वा ।
कुलं वित्तमपत्यं च निर्मूलयति सर्वथा ॥ २ ॥

इति । लक्षसागरे - वङ्गेऽथ सीसके लोहे न कर्तव्यं कदाचन । इति कुलमूलावतारे :

अग्निरंगुलविस्तारं प्राक्प्रत्यग्दक्षिणोत्तरम् ।
पलप्रमाणं कर्तव्यमर्च्चापीठं मनोहरम् ॥ १ ॥

यवार्धोच्चं प्रकुर्वीत चतुरस्रं समन्ततः ।
तस्मिन् पीठे च निर्माणं श्रीचक्रस्य तु कारयेत् ॥ २ ॥

इति । सौत्रामणीतन्त्रे -

ऋजुरेखा भवेल्लक्ष्मीर्वक्ररेखा दरिद्रता ।
अग्निरंगुलविस्तारो यवार्धेनोच्छ्रितिर्भवेत् ॥ १ ॥ इति ।

अग्निरंगुलं हेमस्य रजतस्य तथैव च ।
ताम्रस्य पूर्वसंख्यैव माणिक्यादौ यथेच्छया ॥ २ ॥

पलं तु विंशत्युत्तरत्रिशतगुञ्जापरिमितम् । अंगुलप्रमाणं तु महाकपिलपञ्चरात्रे -

विन्यस्तैस्तिर्यगष्टाभिर्यवैर्मानान्तरांगुलम् ।
शालिभिर्वा ऋजुन्यस्तैस्त्रिभिर्मानान्तरं भवेत् ॥ १ ॥

इति । वेदिकापीठशिविकारथादीनां विधिः पुनः । मानान्तरांगुलेनैव भवेन्नान्येन केनचित् ॥ इत्युक्तेः श्रीचक्रस्य पीठशब्दवाच्यत्वान्मानांगुलेनैव तत्प्रमाणं बोध्यम् । अत्र विन्द्वाद्यष्टारान्तं चक्रत्रयं संहारात्मकं, दशारद्वयं चतुर्दशारं चक्रत्रयं स्थित्यात्मकं, तदुपरि अष्टदलादिभूपुरान्तं चक्रत्रयं सृष्ट्यात्मकम् । रुद्रयामले :

बिन्दुत्रिकोणवसुकोणदशारयुग्ममन्वस्रनागदलसंयुतषोडशारम् ।
वृत्तत्रयं च धरणीसदनत्रयं च श्रीचक्रमेतदुदितं परदेवतायाः ॥ १ ॥

इति । सुभगोदये -

चतुर्भिः शिवचक्रैश्च शक्तिचक्रैश्च पञ्चभिः ।
शिवशक्त्यात्मकं ज्ञेयं श्रीचक्रं शिवयोर्वपुः ॥ १ ॥

इति । श्रीभूतभैरव -

योऽस्मिन् मन्वे महेशानि केसराणि प्रकल्पयेत् ।
योगिनीसहितास्तस्य हिंसां कुर्वन्ति भैरवाः ॥ १ ॥

इति वचनान्नात्र केसराणि । स्वच्छन्दसंग्रहे - कुर्याच्च स्थण्डिले यन्त्रं हस्तमात्रं सुसुन्दरम् ।

इति । तन्त्रराजे तु -

नवहस्तं त्रिहस्तं वा श्रीचक्रमभिषेचने ।
स्थण्डिले नित्यपूजायां हस्तमात्रं प्रशस्यते ॥ १ ॥

रत्नादिषु तु निर्माणे मानमिच्छावशाद्भवेत् । इति । तथा -

रक्तेन रजसापूर्य श्रीचक्रं भुवि पूरयेत् ।
नश्यन्ति सर्वविघ्नानि प्राप्स्यते च यथेप्सितम् ॥ १ ॥

दशभागं सुवर्णस्य ताम्रस्य द्विदशं तथा ।
षड्गुणं (षोडश) रजतस्यापि चैतल्लोहत्रयं शुभम् ॥ २ ॥

चक्रेऽस्मिन् पूजयेद्यो हि स सौभाग्यमवाप्नुयात् ।
अणिमाद्यष्टसिद्धीनामधिपो जायतेऽचिरात् ॥ ३ ॥

विद्रुमे रचिते यन्त्रे पद्मरागेऽथवा प्रिये ।
इन्द्रनीले च वैडूर्ये स्फटिके मरकतेऽपि वा ॥ ४ ॥

प्. १५६) धनं पुत्रं तथा दारान् यशांसि लभते ध्रुवम् ।
ताम्रं तु कान्तिदं यन्त्रं सुवर्णं शत्रुनाशनम् ॥ ५ ॥

राजतं क्षेमदं चैव स्फटिकं सर्वसिद्धिदम् ।
खण्डिते स्फुटिते भग्ने भ्रष्टे मानविवर्जिते ॥ ६ ॥

दग्धेऽनर्हपशुस्पृष्टे पतिते दुष्टभूमिषु ।
अन्यमन्त्रार्चिते चैव पतितस्पर्शदूषिते ॥ ७ ॥

दशम्वपि च नो कुर्युः सन्निधानं दिवौकसः ।
दग्धं च स्फुटितं यन्त्रं हृतं चौरेण वा प्रिये ॥ ८ ॥

उपवासं प्रकुर्वीत दिनमेकमतन्द्रितः ।
लक्षमात्रं जपेद्विद्यां होमतर्पणपूर्विकाम् ॥ ९ ॥

सद्भक्त्या च गुरुं तोष्य ब्राह्मणानपि भोजयेत् ।
लक्षमयुतमित्येके ॥

कदाचिल्लुप्तचिह्नं वा स्फुटतादिविदूषितम् ।
भग्नं करोति यो मूर्खो मृत्युस्तम्य ध्रुवं भवेत् ॥ १ ॥

तस्माच्च तीर्थराजे वा गङ्गादिसरितां वरे ।
समुद्रे वा क्षिपेद्देवि अन्यथा दुःखमाप्नुयात् ॥ २ ॥

इति । दक्षिणामूर्तिसंहितायाम् -

रक्तासनोपविष्टस्तु यन्त्रोद्धारं समाचरेत् ।
शक्त्योपविष्टां शक्तिं तु विलिखेद्विस्तृतां सकृत् ॥ १ ॥

वह्निना तां पुटीकुर्यात् सन्धिभेदक्रमेण तु ।
अग्नीशासुरवायव्यरेखा विस्तार्य योजयेत् ॥ २ ॥

दशकोणद्वयं देवि जायते तद्वदेव हि ।
मध्यकोणचतुष्कस्य रेखे आकृष्य बुद्धिमान् ॥ ३ ॥

कुर्यात् तत्सन्धिभेदेन मन्वस्रं जायते यथा ।
समत्रिकोणशक्त्यैक्यं सुखदं नेत्रयोर्यथा ॥ ४ ॥

सुश्रीकं सन्धिभेदेन ऋजुरेखाविजृम्भितम् ।
बहिरष्टदलं पद्ममकिञ्जल्कं समालिखेत् ॥ ५ ॥

तद्वत् षोडशपत्रं हि विलिखेत् पद्ममुत्तमम् ।
सुवृत्तं परमेशानि ततो भूबिम्बमालिखेत् ॥ ६ ॥

चतुर्द्वारं विशोभाढ्यं पुष्पं तत्र विनिक्षिपेत् । इति ।

काश्मीरे दर्पणे भूर्जे अर्चापीठ लिखेद्बुधः ।
शलाकया सुवर्णस्य मिश्रया घुसृणेन्दुभिः ॥ १ ॥

सिन्दूररजसा मिश्रः पट्टे धातुमये लिखेत् ।
अथवा भूतले देवि सुरेखं कुंकुमेन वा ॥ २ ॥

सिन्दूररजसा वापि लिखेत् सर्वार्थसिद्धये ।
एतच्चक्रं महेशानि मध्ये बिन्दुविराजितम् ॥ ३ ॥

ततस्त्रिकोणं चाष्टारं दशारं च दशारकम् ।
मनुकोणं महेशानि मध्यचक्रमिदं प्रिये ॥ ४ ॥

बैन्दवादष्टकोणान्तं सर्वमध्यं सुरेश्वरि ।
चत्वारिंशद्भगैर्युक्तं त्रिभगैरपि पार्वति ॥ ५ ॥

वसुपत्रं कलापत्रं चतुरस्रं क्रमात् प्रिये ।
नवात्मकमिदं भद्रे नवयोन्यङ्कितं भवेत् ॥ ६ ॥

इति । ज्ञानार्णवे -

श्रीचक्रमपि देवेशि मेरुरूपं न संशयः ।
लकारः पृथिवीबीजं तत्रोवापुरमुच्यते ॥ १ ॥

सकारश्चन्द्रमा भद्रे कलाषोडशकात्मकः ।
तस्मात् षोडशपत्रं तु हकारः शिव उच्यते ॥ २ ॥

अष्टमूर्तिस्तथा भद्रे तस्माद्वसुदलं भवेत् ।
ईकारस्तु महामाया भुवनानि चतुर्दश ॥ ३ ॥

पालयन्ती परा तस्माच्छक्रकोणं भवेत् प्रिये ।
शक्तिरेका दशस्थाने स्थित्वा सूते जगत्त्रयम् ॥ ४ ॥

विश्वयोनिरिति ख्याता सा विष्णोर्दशरूपका ।
रकारात् परमेशानि चक्रं व्याप्य विजृम्भते ॥ ५ ॥

दशकोणपरा तस्माद्रकाराज्ज्योतिरव्ययः ।
कलादशान्वितो वह्निर्दशकोणप्रवर्तकः ॥ ६ ॥

ककारान्मादनं देवि शिवं चाष्टस्वरूपकम् ।
योनिरस्य तदा चक्रे वसुयोन्यङ्कितं भवेत् ॥ ७ ॥

अर्धमात्रा गुणान् सूते भेदरूपा यतस्ततः ।
त्रिकोणरूपा योनिस्तु बिन्दुना बैन्दवं भवेत् ॥ ८ ॥

कामेश्वरस्य रूपं तद्विश्वाधारस्वरूपकम् ।
श्रीचक्रं तु वरारोहे श्रीविद्यावर्णसम्भवम् ॥ ९ ॥

तत्र प्राङ्मुख आसीनश्चक्रराजं समालिखेत् ।
भूप्रदेशे समे चाढ्ये सिन्दूररजसाऽथवा ॥ १० ॥

कुंकुमस्य रजोभिश्च भूमौ चक्रं समालिखेत् ।
ऋजुरेखं नेत्ररम्यं सन्धिभेदं सममृजु ॥ ११ ॥

अथवा हेमरूप्याभ्यां ताम्रेण रत्नधातुभिः ।
पट्टं विरच्य श्रीकाष्ठे रक्तचन्दनसम्भवे ॥ १२ ॥

प्. १५७) पट्टं संस्थाप्य विलिखेद्लेखन्या हेमया प्रिये ।
रोचनाकुंकुमाभ्यां च कस्तूरीचन्दनेन्दुभिः ॥ १३ ॥

ईशानादग्निपर्यन्तमृजुरेखां समालिखेत् ।
ईशादग्रेस्तदग्राभ्यां रेखे आकृष्य देशिकः ॥ १४ ॥

एकीकृत्य च वारुण्यां शक्तिरेका परा प्रिये ।
त्रिकोणाकाररूपेयं तस्या उपरि संलिखेत् ॥ १५ ॥

त्रिकोणाकाररूपं तु शक्तिद्वयमुदाहृतम् ।
पूर्वशक्त्यग्रभागे तु मानयष्टिवदालिखेत् ॥ १६ ॥

रेखां तु परमेशानि वायुराक्षसकोणगाम् ।
संधिभेदक्रमेणैव तयोः शक्त्योस्ततः परम् ॥ १७ ॥

रेखे आकृष्य कोणाभ्यां तदग्रात् पूर्वगे कुरु ।
वह्निमण्डलमेतत्तु पूर्वाग्रं वीरवन्दिते ॥ १८ ॥

तच्च त्रयमभूदन्ते ततः शृणु वरानने ।
पूर्वशक्तीशवह्निभ्यां कोणाभ्यां सुरवन्दिते ॥ १९ ॥

पूर्वरेखां तु विस्तार्य तथा पश्चिमवह्नितः ।
वायुराक्षसकोणाभ्यां रेखां पश्चिमगां तथा ॥ २० ॥

विस्तार्य योजयेद्देवि शक्तिभेदक्रमेण तु ।
योन्यग्रगां पूर्वदेशे दक्षिणोत्तरतः क्रमात् ॥ २१ ॥

तरा रेखे योनिसंस्थे पश्चिमस्यां दिशि क्रमात् ।
कोणाग्रगां योजयित्वा दशकोणं तदा भवेत् ॥ २२ ॥

तथैव देवदेवेशि द्वितीयं दशकोणगम् ।
ईशानवह्नितो रेखे पूर्वयोन्यग्रयोः क्रमात् ॥ २३ ॥

विस्तार्य योजयेत् पश्चात् पश्चिमायां दिशि क्रमात् ।
वायुराक्षसकोणाग्ररेखे विस्तार्य सुन्दरि ॥ २४ ॥

पश्चिमाग्रे तथा देवि योजयेदिन्द्रदिग्गते ।
एकाग्र पूर्वकोणाग्रचुम्बिनीं तु मनोहराम् ॥ २५ ॥

योजयेद् देवेदेवेशि यथाशक्त्युद्भवं भवेत् ।
दशकोणेषु देवेशि त्यक्त्वा कोणचतुष्टयम् ॥ २६ ॥

दशकोणान्तयोर्देवि मध्यरेखां प्रकाशयेत् ।
द्वे दक्षिणे विभागे तु तथा चोत्तरभागके ॥ २७ ॥

षट्कोणस्य ततो देवि सन्धिभेदक्रमेण तु ।
योनिं वह्निं च संयोज्य शक्रारं जायते तथा ॥ २८ ॥

कक्षामध्यगतां रेखां निजरूपां तु योजयेत् ।
ऋज्वाकृतिर्यथा देवि जायतेऽतिमनोहरा ॥ २९ ॥

सम्मुखं पञ्चशक्त्यग्रं प्रागग्रं चतुरग्निकम् ।
बिन्दुत्रिकोणवस्वारं चक्रभेदाद्वरानने ॥ ३० ॥

मध्यचक्रं तु जानीहि दशारयुगलं तथा ।
शक्रयोन्यङ्कितं देवि बाह्यमध्यगतं भवेत् ॥ ३१ ॥

एतच्चक्रं महेशानि सर्वसौभाग्यदं भवेत् ।
सर्वसाम्राज्यदं देवि सर्वोपद्रवनाशनम् ॥ ३२ ॥

अनेकहयमाणिक्यसुवर्णपरिपूरकम् ।
महामोक्षप्रदं देवि वाग्विलासकरं महत् ॥ ३३ ॥

एतद्बाह्यं महेशानि वृत्तं पूर्णन्दुसंनिभम् ।
तद्युतं कुरु पद्माक्षि वसुपत्रं मनोहरम् ॥ ३४ ॥

ततः षोडशपत्रं तु विलिखेत् सुरसुन्दरि ।
चतुरस्रं चतुर्द्वारसहितं परमेश्वरि ॥ ३५ ॥

चतुष्षष्टिर्यतः कोट्यो योगिनीनां महाप्रभम् ।
चक्रेऽस्मिन् सविशेषास्ताः साधकं मानयन्ति हि ॥ ३६ ॥

चतुरस्रं मातृकार्णैर्मण्डितं सिद्धिहेतवे ।
मुक्तामाणिक्यघटितसमुज्ज्वल विराजितम् ॥ ३७ ॥

त्रैलोक्यमोहनं नाम कल्पद्रुमफलप्रदम् ।
षोडशारं चन्द्रबिम्बरूपं तु स्वकलालयम् ॥ ३८ ॥

सर्वाशापूरकं देवि क्षरत्पीयुषवर्षवत् ।
अष्टपत्रं महेशानि जपाकुसुमसन्निभम् ॥ ३९ ॥

सर्वसंक्षोभणं नाम सर्वकामप्रपूरकम् ।
एतत् त्रयं वरारोहे सृष्टिचक्रं वसुप्रदम् ॥ ४० ॥

पूर्वाम्नायादिदेव्या तु मण्डितं सर्वसिद्धिदम् ।
चतुर्दशारं देवेशि दाडिमीकुसुमप्रभम् ॥ ४१ ॥

अनन्तफलदं भद्रे सर्वसौभाग्यदं सदा ।
दशारं तप्तहेमाभं सिन्दूरसदृशं प्रिये ॥ ४२ ॥

सर्वार्थसाधकं चक्रं मनश्चिन्तितदं सदा ।
द्वितीयमपि पंक्त्यस्रं जपाकुसुमसन्निभम् ॥ ४३ ॥

सर्वरक्षाकरं चक्रं महाज्ञानमयं शिवे ।
एतत् त्रयं महेशानि स्थितिचक्रं सुखप्रदम् ॥ ४४ ॥

दक्षिणाम्नायपूज्यं तु यथेप्सितफलप्रदम् ।
अष्टकोणं वरारोहे बालार्ककिरणारुणम् ॥ ४५ ॥

पद्मरागामलप्रख्यं सर्वरोगहरं सदा ।
उद्यत्सूर्यसहस्राभं बन्धूककुसुमप्रभम् ॥ ४६ ॥

सर्वसिद्धिप्रदं चक्रं स्वकलालयमीश्वरि ।
त्रिकोणं सर्वसम्भूतिकारणं भृतिदं सदा ॥ ४७ ॥

बिन्दुचक्रं वरारोहे सर्वानन्दमयं प्रिये ।
सदाशिवमयं चक्रनायकं परमेश्वरि ॥ ४८ ॥

प्. १५८) एतच्चक्रं तु संहाररूपं ब्रह्ममयं सदा ।
पश्चिमाम्नायसंसेव्यं त्रयमुत्तरसेवितम् ॥ ४९ ॥

अस्मिंश्चक्रे षडध्वानो वर्तन्ते वीरवन्दिते ।
चक्रपत्रेषु देवेशि पदाध्वा तु निगद्यते ॥ ५० ॥

पत्रसन्धिविभेदे तु भुवनाध्वा व्यवस्थितः ।
वर्णाध्वा मातृकारूपी कथयामि तवानघे ॥ ५१ ॥

वर्गाष्टकं मातृकाया दिक्षु सिद्धीर्यतः प्रिये ।
पार्थिवं तन्मयं विद्धि षोडशारं कलात्मकम् ॥ ५२ ॥

अष्टपत्रं कादिवर्गैः क्षान्तं दिक्षु विदिक्षु च ।
कादिढान्ताः शक्रवर्णाः शक्रकोणेषु संस्थिताः ॥ ५३ ॥

णकारादिभकारान्ता दशवर्णा दशारके ।
मकारादिक्षकारान्ता द्वितीये तु दशारके ॥ ५४ ॥

वर्गाष्टकं चाष्टकोणे त्रिकोणे कथयामि ते ।
अकथादित्रिकोणान्तं हक्षयुग्मं तु मध्यमम् ॥ ५५ ॥

वर्णाध्वा कथितो देवि मातृकापीठरूपकः ।
सट्त्रिंशत्तत्त्वभरितं चक्रमूलानुरूपतः ॥ ५६ ॥

पञ्चसिंहासनोन्नद्ध कलाध्वा चक्रपालनात् ।
सा बाला भैरवीयुक्ता महात्रिपुरभैरवी ॥ ५७ ॥

त्रिपुराद्यम्बिकाद्यान्ता चक्रं व्याप्य विजृम्भिते ।
मन्त्राध्वा च समाख्यातो निश्चयेन सदा प्रिये ॥ ५८ ॥

एवं षडध्वविमलं श्रीचक्रं परिचिन्तयेत् ।

इति सुभगोदये -

षणवत्यंगुलायामं चतुरस्रं महीतलम् ।
तच्चतुर्धा विभज्यादौ चतुर्विंशांगुलं क्रमात् ॥ १ ॥

गुहाननरसाङ्गाग्निवेदाग्नित्रिशरर्तुषु ।
तासां सम्मार्जयेद् भागानग्रयोरुभयोरिमान् ॥ २ ॥

सूर्ये गुणं निशानाथे वेदं सोमसुते कलाम् ।
जीवे पुराणं शुक्रे तु स्वरं राहौ शरं पुनः ॥ ३ ॥

केतो गुणं पञ्चशक्तिचतुर्वह्निक्रियान्तरे ।
रेखायुग्मं शनिं सूर्याद्धरावृत्ते नियोजयेत् ॥ ४ ॥

केतूर्ध्ववृत्तं भूपुत्रं राहोरादित्यमानयेत् ।
चन्द्रात् केतुं कवेः सोमं बुधाद्राहुं गुरोः कुजम् ॥ ५ ॥

केतोर्बुधं रवेः सौरिमेवं षट्चक्रसम्भवः ।
अष्टाष्टांगुलमानेन बहिश्चक्रत्रयं लिखेत् ॥ ६ ॥

वसुपत्रं कलापत्रं मेदिनीसदनत्रयम् ।
तत्र क्रमान्मध्ययोनिस्तिर्यग्रेखाः समन्ततः ॥ ७ ॥

सार्धं च द्विगुणं चेति कुर्याद्वारत्रयं बुधः ।
सम्प्रदायविशेषण क्षमा विश्वकलाश्रये ॥ ८ ॥

मध्ये गुणत्रयमयं विलिखेद्वर्तुलत्रयम् ।
चक्रराजमिदं प्रोक्तं मध्ये बिन्दुविभूषितम् ॥ ९ ॥

महासौभाग्यजननं भोगमोक्षफलप्रदम् ।
सिन्दूररजसा भूमौ लिखित्वा चक्रमर्चयेत् ॥ १० ॥

अथवा हेमरूप्यादिपट्टं पीठोपरि स्थितम् ।

इति । अयमुद्धारः स्थितिक्रमः दक्षिणामूर्तिज्ञानार्णवयोः सृष्टिक्रम उद्धारः प्रदर्शितः । संहारक्रमेणोद्धारस्तु श्रीतन्त्रराजे -

भ्रमेण वृत्तं निष्पाद्यं सुसमे चतुरस्रके ।
प्रमृज्य तिर्यङ्मध्यस्थं सूत्रं तिर्यङ् निपातयेत् ॥ १ ॥

सूत्राणि नव तेषु द्वे वृत्तस्पृष्टोभयान्तके ।
विधाय तद्द्वयोरन्तान्मध्यसूत्रान्ततः क्रमात् ॥ २ ॥

कृते सूत्रचतुष्के तु षट्कोणं स्यात् त्रिसप्तगम् ।
द्व्यष्टाग्रतः समारम्भान्नवमप्रथमान्तरा ॥ ३ ॥

कुर्यात् सूत्रचतुष्कं तु चतुर्मर्मानुगुण्यतः ।
नवमप्रथमाग्राभ्यां तुर्यसप्तमकावधि ॥ ४ ॥

कुर्यात् सूत्रचतुष्कं तु मर्माष्टकविभेदनात् ।
ततश्चतुर्थषष्ठान्तद्वयारम्भात् तथाष्टगम् ॥ ५ ॥

द्वितीयगं च सूत्राणां चतुष्कं पातयेत् तथा ।
चतुर्मर्मानुगुण्येन ततः पञ्चमकान्तयोः ॥ ६ ॥

तृतीयगं सूत्रयुगं कुर्यान्मर्मद्वयाश्रयम् ।
मार्जयेन्मध्यगं ब्रह्मसूत्रं स्याच्चक्रमुत्तमम् ॥ ७ ॥

बहिरष्टच्छदाम्भोजं तथा तद्द्विगुणच्छदम् ।
विधाय षड्भिर्वृत्तैश्च चतुरस्रं तथाष्टभिः ॥ ८ ॥

सूत्रैर्विधाय तस्यैव प्राक्प्रत्यग्द्वारसंयुतम् ।
दक्षिणोत्तरतो रेखात्रयात् स्थानद्वयं तथा ॥ ९ ॥

कोणेषु तिर्यक्सूत्रैश्च चतुर्भिस्तान्यनुक्रमात् ।
द्विधा कुर्याच्च चत्वारि पदानि परमेश्वरि ॥ १० ॥

ललितार्चाचक्रमिदं लभ्यं सद्गुरुतः क्रमात् । इति । आचार्यैरप्युक्तम् -

प्. १५९) चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः ।
चतुश्चत्वारिंशद्वसुदलकलास्रत्रिवलयत्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः ॥ १ ॥

इति । चतुर्भिश्चतुःसंख्यासंख्येयैः श्रीकण्ठैः शृणाति श्रीर्विषं कण्ठे यस्य सः श्रीकण्ठो हरस्ते कोणा अपि श्रीकण्ठास्तदात्मनः श्रीकण्ठात्मकैरित्यर्थः । शिवयुवतिभिः शक्तिभिः शक्त्यात्मकैरित्यर्थः ।
पञ्चभिः पञ्चसंख्यासंख्येयैः । अपिशब्दो भेदे । प्रभिन्नाभिः प्रकर्षेण भिन्नाभिः । प्रकर्षस्तु शिवशक्तिचक्रमध्ये वैन्दवमानवस्य विद्यमानत्वात् एतच्च समयिमतेन सृष्टिक्रमेण पञ्चचक्रलेखने ज्ञेयम् ।
कौलमतेन संहारक्रमेण नवयोनिचक्रलेखने ऊर्ध्वाधोमुखतयावस्थितेः प्रभिन्नत्वं ज्ञेयं तेनोभयं पृथक्पृथक् स्थितम् । शम्भोरिति पञ्चमी शंभुशब्देन चत्वारः श्रीकण्ठा उच्यन्ते ।
नवभिर्नवसंख्यैः । अपिशब्दो वक्ष्यमाणबाहुल्यं समुच्चिनोति ।
मूलप्रकृतिभिः प्रपञ्चस्य मूलकारणैरत एव तेषां योनिशब्दव्यवहारः । नवयोनयो नवधात्वात्मकाः । तथा चोक्तं कामिकायाम् - त्वगसृङ्मांसमेदोऽस्थिधातवः शक्तिमूलका ।
मज्जाशुक्रप्राणजीवधातवः शिवमूलकाः ॥ नवधातुरयं देहो नवयोनिसमुद्भवः ॥ जीवधातूनामजीवाधिष्ठानत्वादोजोधातुरेव जीवधातुरित्युच्यते । यथोक्तं वाग्भट्टेन रज-आदिशुक्रान्तानां धातूनां प्रसादश्रेष्ठो जीवाधारभूतो धातुरोजः इति (दशमो) धातुरेकैव परा शक्तिस्तदीश्वरी । दशमी योनिर्वैन्दवस्थानं दनीश्वरी तस्य देहस्येत्यर्थः ।

एवं पिण्डाण्डमुत्पन्नं तद्ब्रह्माण्डं समुद्बभौ ।
पञ्च तानि च शाक्तानि मायादीनि शिवस्य तु ॥ १ ॥

माया च शुद्धविद्यां च महेश्वरसदाशिवौ ।
पञ्चविंशतितत्वानि तत्रैवान्तर्भवन्ति ते ॥ २ ॥

एकादशेन्द्रियाणि शब्दादितन्मात्रास्तच्छब्देन परामृश्यन्ते ।
शिवशक्त्यात्मकं विद्धि जगदेतच्चराचरम् । चरं पिण्डाण्डमचरं ब्रह्माण्डमित्यर्थः । हे भगवति चतुर्भिः श्रीकण्ठैः शम्भोः सकाशात् प्रभिन्नाभिः पञ्चभिः शिवयुवतिभिर्नवभिरपि मूलप्रकृतिभिः सार्धं परिणताः सन्तश्चतुश्चत्वारिंशदिति । अत्रेदमनुसन्धेयम् अत्र चक्रे अष्टाविंशतिर्मर्मस्थानानि संधयस्तु चतुर्विंशतिः । ननु मर्माणि चतुर्विंशतिरेव कथमष्टाविंशतिः ।

द्विरेखासङ्गमस्थानं सन्धिरित्यभिधीयते ।
त्रिरेखासङ्गमस्थानं मर्ममर्मविदो विदुः ॥ १ ॥

इत्यष्टदलषोडशारमेखलात्रयभूपुरत्रयाणां शिवचक्राणां त्रिरेखासङ्गमस्थानत्वाभावेऽपि वाचनिकी मर्मसंज्ञा । यथोक्तं चन्द्रज्ञानविद्यायाम् :

मन्वस्रद्विदशाराष्टकोणवृत्तचतुष्टयम् ।
अष्टाविंशतिमर्माणि चतुर्विंशतिसन्धयः ॥ १ ॥

इति । रुद्रयामले -

पृश्नयो नाम मुन्याद्याः सर्वे चक्रसमाश्रयाः ।
सेवमानाश्चक्रकिद्यां देवगन्धर्वसेविताम् ॥ १ ॥

अग्नीषोमात्मकं चक्रमग्नीषोममयं जगत् ।
अग्नावन्तर्वभौ भानुरग्नीषोममयं स्मृतम् ॥ २ ॥

त्रिखण्डं मातृकाचक्रं सोमसूर्यानलात्मकम् ।
त्रिकोणं वैन्दवं सौम्यमष्टकोणं च मिश्रकम् ॥ ३ ॥

चतुर्दशारं वह्नेस्तु चतुरस्रं च भानुमत् ।
एतत् प्रसादादिन्द्राद्या वसवोऽष्टौ मरुद्गणाः ॥ ४ ॥

ये ये समृद्धा लोकेऽस्मिस्त्रिंपुराचक्रसेवकाः ।
पुरत्रयं च चक्रस्य सोमसूर्यानलात्मकम् ॥ ५ ॥

महालक्ष्म्याः पुरं चक्रं तत्रैवास्ते तया शिवः ।

इति । भैरवयामले चन्द्रज्ञानविद्यायां गौरीं प्रति महेश्वरेणोक्तम् -

साधु साधु महाभागे पृष्टं त्रैलोक्यसुन्दरि ।
गुह्याद्गुह्यतमं ज्ञानं न कुत्रापि प्रकाशितम् ॥ १ ॥

कलाविद्या पराशक्तिः श्रीचक्राकाररूपिणी ।
तन्मध्ये बैन्दवस्थानं तत्रास्ते परमेश्वरी ॥ २ ॥

सदाशिवेन संपृक्ता सर्वसत्त्वातिगा सती ।
चक्रं त्रिपुरसुरन्दर्या ब्रह्माण्डाकारमीश्वरि ॥ ३ ॥

पञ्चभूतात्मकं चैव तन्मात्रात्मकमेव च ।
इन्द्रियात्मकमेवं च मनस्तत्त्वात्मकं तथा ॥ ४ ॥

प्. १६०) मायादितत्त्वरूपं च तत्त्वातीतं च बैन्दवम् ।
बैन्दवे जगदुत्पत्तिस्थितिसंहारकारिणी ॥ ५ ॥

सदाशिवेन सम्पृक्ता तत्त्वातीता महेश्वरी ।
ज्योतीरूपा वराकारा यस्य देहोद्भवाः शिवे ॥ ६ ॥

किरणाश्च सहस्रं च द्विसहस्रं च लक्षकम् ।
कोदिरर्बुदमेतेषां परा संख्या न विद्यते ॥ ७ ॥

तमेवानुप्रविश्येव भाति लोकं चराचरम् ।
यस्या देव्या महेशानि भासा सर्वं विभासते ॥ ८ ॥

यद्भावरहितं किञ्चिन्न च यच्च प्रकाश्यते ।
तस्याश्च शिवशक्तेश्च चिद्रुपायाश्चितिं विना ॥ ९ ॥

आन्ध्यमापद्यते नूनं जगदेतच्चराचरम् ।
तेषामनन्तकोटीनां मयूखानां महेश्वरि ॥ १० ॥

मध्ये षष्ठ्युत्तरं ते मे त्रिशतं किरणाः शिवे ।
ब्रह्माण्डं व्यश्नुवानास्ते सोमसूर्यानलात्मना ॥ ११ ॥

अग्रेरष्टोत्तरशतं षोडशोत्तरकं रवेः ।
षट्त्रिंशदुत्तरशतं चन्द्रस्य किरणाः शिवे ॥ १२ ॥

ब्रह्माण्डं भासयन्तस्ते पिण्डाण्डमपि शाङ्करि ।
दिवा सूर्यस्तथा रात्रौ सोमो वह्निश्च सन्ध्ययोः ॥ १३ ॥

प्रकाशयन्तः कालं ते तस्मात् कालात्मकास्त्रयः ।
षष्ट्युत्तरं च त्रिशतं दिनान्येव तु हायनः ॥ १५ ॥

हायनात्मा महादेवः प्रजापतिरिति श्रुतः ।
प्रजापतिर्लोककर्ता मरीचिप्रमुखान् मुनीन् ॥ १६ ॥

सृजत्येतांल्लोकपालांस्ते सर्वे लोकरक्षकाः ।
संहारश्च हरायत्त उत्पतिर्भवनिर्मिता ॥ १६ ॥

रक्षा तु मृडसंलग्ना सृष्टिस्थितिलये शिवः ।
नियुक्तः परमेशान्या जगदेवं प्रवर्तते ॥ १७ ॥

इति । तमेवानुप्रावेश्येत्यादिना तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातीति श्रुत्यर्थं उक्तः ॥

इति श्रीमहामहोपाध्यायभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्यश्रीभगव च्छङ्कराचार्यशिष्य श्रीविष्णुशर्माचार्यशिष्य श्रीप्रगल्भाचार्यशिष्य श्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रेऽष्टमः श्वासः ॥ ८ ॥

अथ

श्रीविद्यार्णवतन्त्रे

9. Śvāsa

अत्र मेरुप्रस्तारकं यन्त्रं नित्यातादात्म्यकं स्मृतम् इत्यत्र मेरुयन्त्रे सृष्टिक्रमेण पूजने तु प्रमाणमुक्तम् । तत्रायमर्थः मध्याद्यणिमाद्यन्तपूजा सृष्टिपूजा तत्र मध्यादि षोडशनित्यादीत्यर्थः । अत एव सृष्टिचक्रं षोडशनित्या तादात्म्यम् तथा संहारचक्रं मातृकातादात्म्यं स्थितिचक्रं वशिन्यादितादात्म्यमिति भावः । एवं श्रीचक्रराजमुद्धृत्य समष्टिविद्यया पुष्पाञ्जलिं दद्यात् । अथवा लोहरत्नादिनिर्मितं वा श्रीपर्ण्यादिसम्भवे पीठे पुरतः संस्थाप्य पुष्पं दद्यात् । समष्टिविद्या तु प्रणवतारत्रयपूर्वकं मूलमन्त्रमुच्चार्यं समस्तप्रकटगुप्तगुप्ततरसम्प्रदायकुलकौलनिगर्भरहस्यातिरहस्यपरापर रहस्ययोगिनीयुतश्रीचक्रपादुकां पूजयामि नमः इति ।
प्रोक्तश्रीचक्रोद्धारस्तु उभयमतसाधारणः परं तु कादिमते चतुरस्रे पूर्वपश्चिमद्वारद्वयमुक्तमिति विशेषः । लोपामुद्रोपासकानां विशेषः भैरवयामले :

लोपामुद्रोपासकैस्तु प्रोक्तश्रीचक्रमध्यतः ।
बिन्दुमध्ये प्रेतबीजं विलिखेत् परमेश्वरि ॥ १ ॥

तद्बाह्यस्थत्रिकोणेषु पूर्वदक्षिणसौम्यके ।
द्वारत्रयं प्रकर्तव्यं यथा द्वाराणि भूपुरे ॥ २ ॥

मन्वस्रबाह्यतश्चाष्टदलाग्रेषु महेश्वरि ।
ग्रन्थयस्तु प्रकर्तव्यास्त्रिशूलाष्टकमेव च ॥ ३ ॥

ग्रन्थयः प्रणवाभ्यां च संपुटत्वेन योजिताः ।
पूर्वादिग्रन्थिषु तथा पूजयेदष्ट भैरवान् ॥ ४ ॥

तदग्रेषु दश प्रोक्तान् वटुकान् पूजयेत् क्रमात् ।
त्रिशूलेषु महादेवि पूजयेदष्ट भैरवीः ॥ ५ ॥

वृत्तत्रये तु देवेशि भूर्भुवःस्वर्निवासिकाः ।
योगिनीः पूजयेत् तासां मन्त्रास्तु परमेश्वरि ॥ ६ ॥

पातालवासिनीभ्यस्तु योगिनीभ्यो नमो नमः ।
भूर्लोकवासिनीभ्यस्तु योगिनीभ्यो नमो नमः ॥ ७ ॥

भुवर्लोकनिवासाभ्यो योगिनीभ्यो नमो नमः ।
(स्वर्लोकवासिनीभ्यस्तु योगिनीभ्यो नमो नमः) ॥ ८ ॥

इति वृत्तत्रये पूज्यमिति विशेषः । अत्र सृष्टिस्थितिसंहारभेदेन प्रस्तारभेदेन च श्रीचक्रभेदा बहवः सन्ति ते भेदा अग्रे वक्ष्यन्ते - इति तु संक्षेपः । अत्र पात्रासादनपद्धतिर्लिख्यते - तत्र ध्यानमानसपूजान्ते स्वर्णादि पट्टे कुंकुमादिना पूजायन्त्रं विलिख्य स्वपुरतः संस्थाप्याभ्यर्च्य पात्रासादनं कुर्यात् । अत्र पूजायां पात्राण्यतीव प्रशस्तानि । तदुक्तं रुद्रयामले :

विना पात्रेण यः कुर्यात् प्रतिष्ठां याज्ञिकी क्रिया ।
विफला जायते सर्वा वाहनादिधनापहा ॥ १ ॥

बलिहीने तु दुर्भिक्षं गन्धहीने त्वभाग्यता ।
धूपहीने तथोद्वेगं वस्त्रहीने धनक्षयम् ॥ २ ॥

छत्रहीने हरेच्छत्रं वितानेन बको भवेत् ।
वितानं विमानं तेन हीने ।

वेदिहीने तु नाशः स्यान्नगरस्य पुरस्य च ।
कलशैर्बन्धुनाशश्च भवेद्वै गिरिकन्यके ॥ ३ ॥

कलशैर्हीने इत्यनुषज्यते ।

तोरणानामभावे तु हन्याज्ज्ञातीन् सबान्धवान् ।
दक्षिणारहिते सर्वं व्यर्थं स्यान्नात्र संशयः ॥ ४ ॥

मन्त्रविद्याविहीने तु सम्पूर्णमपि नश्यति ।
पात्रमन्त्रसमायुक्तं सर्वदोषापहं भवेत् ॥ ५ ॥

इति । अन्यत्रापि -

एकपात्रं न कर्तव्यं यदि साक्षान्महेश्वरः ।
मन्त्राः पराङ्मुखा यान्ति आपदश्च पदे पदे ॥ १ ॥

प्. १६२) इह लोके दरिद्रः स्यात् परत्र नरकं व्रजेत् ।
आधारेण विना भ्रंशो न च तृप्यन्ति देवताः ॥ २ ॥

इति तन्त्रान्तरवचनाच्चात्र तावत्पात्रतदाधारतत्प्रमाणतच्छोधनादि- विचारः प्रदर्श्यते । तानि पात्राणि तन्त्रराजे -

त्रिलोहकाचमृत्पात्रे त्वेकस्मिन्नर्घ्यकल्पनम् इति त्रिलोहः स्वर्णरजतताम्राणि ।
भैरवीतन्त्रे -

पात्रं काञ्चनकाचरूप्यजनितं मुक्ताकपालोद्भवं विश्वामित्रभवं च कामफलदं हैमं श्रिये स्फाटिकम् ।

तारं प्रीतिदमिष्टसिद्धिजनकं श्रीनारिकेलोद्भवं कापालं स्फुटमत्र सिद्धिजनकं मुक्तिप्रदं मौक्तिकम् ॥ १ ॥

इति । कुलार्णवे -

हेमरौप्यशिलाताम्रकपालालाबुमृन्मयम् ।
नारिकेलं च शङ्खं च मुक्ताशुक्तिसमुद्भवम् ॥ १ ॥

पुण्यवृक्षकृतं रम्यं पात्रं संलोलितं शुभम् ।

इति । भैरवयामले -

तारपात्रं वरारोहे विज्ञेयं चोत्तमोत्तमम् ।
नारिकेलोद्भवं देवि ज्ञेयं चोत्तममध्ययम् ॥ १ ॥

काचपात्रं तु सुश्रोणि ज्ञेयं चोत्तमकन्यसम् ।
मध्यमोत्तमकं हैमं तारं मध्यममध्यमम् ॥ २ ॥

ताम्रपात्रादिकं चैव प्रोक्तं मध्यमकन्यसम् ।
कन्यसोत्तमकं बैल्वं ब्रह्मवृक्षजमेव च ॥ ३ ॥

कन्यसमध्यमं प्रोक्तं मृन्मयं कन्यसाधमम् ।

इति । महाहारकतन्त्रे -

शृणु देवि प्रवक्ष्यामि नारिकेलविधिं शुभम् ।
पुरा वै निर्मितं पात्रं विश्वामित्रेण धीमता ॥ १ ॥

विश्वामित्रकपालं तु सर्वपात्रोत्तमोत्तमम् ।
तस्मिन् सम्पूजयेच्चैव सिद्धयोऽष्टौ भवन्ति हि ॥ २ ॥

तस्य दर्शनमात्रेण चैकविंशतिकं कुलम् ।
उद्धरिष्यत्यसन्देहो गृहस्थो भवति प्रिये ॥ ३ ॥

ब्रह्महत्यादिपापानि तथा विश्वासघातकम् ।
दृष्ट्वा पात्रं नारिकेलं सर्वपापं प्रणश्यति ॥ ४ ॥

कन्याकोटिप्रदानानि तथा हेमशतानि च ।
यो ददाति महेशानि राहुग्रस्ते दिवाकरे ॥ ५ ॥

तत्फलं कोटिगुणितं नारिकेलार्घ्यदानतः ।
अलाभे तस्य पात्रस्य पात्रस्य चान्यपात्रैस्तु पूजयेत् ॥ ६ ॥

दृष्ट्वार्घ्यपात्रं देवेशि ब्रह्माद्या देवतागणाः ।
नृत्यन्ति सर्वयोगिन्यः प्रीताः सिद्धिं ददन्ति च ॥ ७ ॥

इति । देवीपुराणे -

हेमराजतपात्राणि काष्ठमृच्छैलजानि च ।
रत्नादीनि च पात्राणि शुभरेखाङ्कितानि च ॥ १ ॥

अर्घ्यनैवेद्यपूजार्थं बलिदाने न कल्पयेत् ।

इति । शिवरहस्ये -

हेमपात्रेण सर्वाणि ईहितानि भवन्त्युमे ।
अर्घ्यं दत्वा तु रौप्येण आयू राज्यं सुतांल्लभेत् ॥ १ ॥

ताम्रपात्रेण सौभाग्यं धर्मं मृन्मयसम्भवे ।
सर्वालाभे तु माहेयं स्वहस्तघटितं यदि ॥ २ ॥

आसनं चार्घ्यपात्रं च भग्नमासादयेन्न तु ।
सर्वत्र स्वर्णवत् ताम्रमर्घ्यपात्रे ततोऽधिकम् ॥ ३ ॥

पात्राधारास्तथा कार्याः पात्राणीवोत्तमानि च ।
बलिहोमक्रियार्थं हि विना पात्रं न सिद्ध्यति ॥ ४ ॥

षट्त्रिंशदंगुलं पात्रमुत्तमं परिकीर्तितम् ।
मध्यमं तु त्रिभागोनं कनिष्ठं द्वादशांगुलम् ॥ ५ ॥

वस्वंगुलविहीनं तु न पात्रं कारयेत् क्वचित् ।
नाभिविवररूपाणि पुण्डरीकाकृतीनि च ॥ ६ ॥

शङ्खनीलोत्पलाभानि पात्राणि परिकल्पयेत् ।
तत्तद्भूतसमानाभमण्डलाभानि कल्पयेत् ॥ ७ ॥

तदुक्तानि फलान्यत्र कारयेत् परमेश्वरि ।
यादृशं पात्ररूपं स्यादाधारं तादृगानयेत् ॥ ८ ॥

इति । देवीयामले -

वश्याकर्षणकर्माणि हेमपात्रे सुरेश्वरि ।
शान्तिके पौष्टिके चैव राजतं कारयेत् प्रिये ॥ १ ॥

प्. १६३) लोहपात्रे समुन्नेये मारणोच्चाटने तथा ।
स्तम्भकार्येषु सर्वेषु विशेषेण तु मृन्मयम् ॥ २ ॥

मन्त्रार्णौषधिचूर्णैश्च घटितं पात्रमुत्तमम् ।
तत्पात्रेण वरारोहे देवतां यस्तु तर्पयेत् ॥ ३ ॥

षण्मासाभ्यन्तरे तस्य मन्त्रसिद्धिः प्रजायते ।
तथा मन्त्रार्णनक्षत्रवृक्षोत्थं पात्रमुत्तमम् ॥ ४ ॥

तेनोत्तमेन पात्रेण तर्पयेत् परदेवताम् ।
तथैव मन्त्रसिद्धिः स्यान्नात्र कार्या विचारणा ॥ ५ ॥

एतत् पात्रद्वयं देवि न वक्तव्यं कदाचन ।
मन्त्रर्क्षयोनिसम्भूतपात्रं चैवोत्तमोत्तमम् ॥ ६ ॥

परसिद्ध्याह्वानकरं तत्पात्रेण च तर्पणम् ।
पराभिचारशमनं स्वमन्त्राणां च सिद्धिदम् ॥ ७ ॥

अक्षरौषधिनक्षत्रयोन्युत्थानि महेश्वरि ।
पात्राणि श्रीगुरुमुखाज्ज्ञात्वार्चनविधौ क्षिपेत् ॥ ८ ॥

सर्वकार्येषु कर्तव्यं वैश्वामित्रं च सुव्रते ।
काष्ठपात्रं विजानीयान्मन्त्राराधनकर्मणि ॥ ९ ॥

इति । कुलार्णवे -

आदौ कुम्भं तथा शङ्खं श्रीपात्रं शक्तिपात्रकम् ।
गुरुपात्रं भोगपात्रं बलिपात्रमनुक्रमात् ॥ १ ॥

स्ववामाग्रात् तथा स्थाप्यमित्येतत् पात्रपञ्चकम् ।
अङ्गं वीरं तथा गुह्यं योगिनीपात्रमेव च ॥ २ ॥

आत्मनो गणनाथस्य वटुकक्षेत्रपालयोः ।
प्रोक्षणीसहितानि स्युर्नव पात्राणि सुव्रते ॥ ३ ॥

स्थापयेत् पृष्ठतो देव्या दूतीपात्रचतुष्टयम् ।
पात्राण्यष्टादशैतानि देव्याः प्रीतिकराणि च ॥ ४ ॥

सामान्यार्घ्यविशेषार्घ्यावात्मश्रीवक्रमध्यतः ।
आद्यपंक्तेरधःस्थाप्यौ विधिवत् परमेश्वरि ॥ ५ ॥

इति । सामान्यार्घ्यलक्षणं भविष्यपुराणे -

रक्तबिल्वाक्षतैर्पुष्पैर्दधिदूर्वाकुशैस्तिलैः ।
सामान्यः सर्वदेवानामर्घ्योऽयं परिकीर्तितः ॥ १ ॥

रक्तमत्र कुंकुमम् ।

श्रीमत्त्रिपुरसुन्दर्याः शङ्खं सामान्यकं भवेत् ।
अन्येषां देवि देवानां सामान्यं चाच्यदीश्वरि ॥ २ ॥

अर्घ्यादिपञ्चपात्राणि तदधः स्थापयेद्बुधः ।
अर्घ्यपात्रं तु वायव्ये नैर्-ऋत्यां पाद्यपात्रकम् ॥ ३ ॥

आग्नेययां स्नानकलशमीशे त्वाचमनीयकम् ।
मध्ये तु मधुपर्कः स्यादित्येतत्पात्रलक्षणम् ॥ ४ ॥

आपः क्षीरं कुशाग्राणि अक्षता दधि तण्डुलाः ।
सहा सिद्धार्थका दूर्वा कुंकुमं रोचना निशा ॥ ५ ॥

अर्घ्योऽयं देवदेव्यास्तु द्वादशाङ्ग उदाहृतः ।
सिद्धार्थः कुंकुमं दूर्वा कुष्ठं लामञ्जकं शशी ॥ ६ ॥

अमूनि चात्र द्रव्याणि पाद्यस्य प्रवदन्ति षट् ।

इति । सारसंग्रहे - पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताद्भिरुत्तमम् । इति ।
तथा -

फलकच्चोरकर्पूरकुष्ठैलोशीरकाणि च ।
अमून्याचमनीयस्य द्रव्याणि प्रवदन्ति षट् ॥ १ ॥

मधुपर्के घृतं क्षौद्रं दधि प्रोक्तं मनीषिभिः ।
दघ्यभावे पयः कार्यं मघ्वभावे तथा गुडः ॥ २ ॥

घृते प्रतिनिधिर्नास्ति जलं तत्र समाचरेत् ।
अष्टगन्धं समालोड्य स्नानाम्भः साधु साधयेत् ॥ ३ ॥

पयोदधिघृतानां च शर्कराक्षौद्रयोस्तथा ।
पृथक् पात्राणि पञ्च स्युरेकं पञ्चामृतस्य च ॥ ४ ॥

षट् पात्राणि विशिष्टानि पुनराचमनीयकम् ।
सप्तमं कोष्ठ्यतोयस्य चाष्टमं नवमं तथा ॥ ५ ॥

उद्वर्तनस्य देवेशि दशमं शुद्धपाथसः ।
एतानि दश पात्राणि सौरे शैवे च वैष्णवे ॥ ६ ॥

गाणपत्ये च मुख्यानि उपपात्राणि शाक्तके ।
अर्घ्यादिपञ्चपात्राणि त्रिधा संस्थापयेद्बुधः ॥ ७ ॥

पुनराचमनीयस्य पात्रद्वयमुदाहृतम् ।
पञ्चायतनपूजायां पञ्चधार्घ्यादिपञ्चकम् ॥ ८ ॥

विशेषावरणं देवि विशेषार्घ्येण तर्पयेत् ।
सामान्यावरणं देवि सामान्यार्घ्येण सुन्दरि ॥ ९ ॥

श्रीपात्रस्थामृतेनैव देवीनां पूजनं भवेत् ।
शक्तीनां शक्तिपात्रेण गुरूणां गुरुपात्रतः ॥ १० ॥

योगिनीनां चतुष्षष्टिं नवावरणयोगिनीः ।
योगिनीपात्रतोयेन तर्पयेत् कुलनायिके ॥ ११ ॥

प्. १६४) अन्यानि भोग्यवस्तूनि भोगपात्रेण साधयेत् ।
भैरवस्य च पात्रेण भैरवांस्तर्पयेद्बुधः ॥ १२ ॥

वटुकस्य च पात्रेण वटुकांस्तर्पयेत् ततः ।
बलिपात्रेण देवेशि बल्युत्सर्जनमाचरेत् ॥ १३ ॥

वाराहीकुरुकुल्लादिबलिदेवीश्च तर्पयेत् ।
अत्रादिपदेन नवदुर्गाबलिः ।

पञ्चभूतबलिं चैव सर्वभूतबलिं तथा ।
राजराजेश्वरस्यापि बलिं तेनैव कारयेत् ॥ १४ ॥

वीराणां वीरपात्रेण तर्पणं समुदाहृतम् ।
गुह्यपात्रामृतेनैव तर्पयेद् गुह्ययोगिनीः ॥ १५ ॥

भोगाङ्गं भोगपात्रेण लयाङ्गं चाङ्गपात्रतः ।
ऊर्ध्वाम्नायक्रमं चैव श्रीविद्यावृन्दपूजनम् ॥ १६ ॥

विशेषार्घ्येण देवेशि तर्पयेद्भक्तिभावतः ।
अन्तर्यागं चात्मपूजां चान्तर्हवनमेव च ॥ १७ ॥

आत्मपात्रस्थतोयेन कुर्याद्देशिकसत्तमः ।
दूतीयागे प्रयोक्तव्यं दूतीपात्रचतुष्टयम् ॥ १८ ॥

कुलसद्भावभावाय शक्तिपात्राणि सुन्दरि ।
पञ्च वा षट् च सप्ताष्टौ नव वा स्थापयेद्बुधः ॥ १९ ॥

खण्डितं स्फुटितं दग्धं मानहीनमसुन्दरम् ।
अपवित्रं करोद्भ्रष्टं पशुस्पृष्टं विवर्जयेत् ॥ २० ॥

सदा शुद्धाम्लतोयेन प्रक्षाल्य स्थापयेद्बुधः ।
न कुर्यात् पात्रसांकर्यं द्रव्याणां च विशेषतः ॥ २१ ॥

ऊर्ध्वाम्नायगुरून् देवि विशेषार्घ्येण तर्पयेत् ।
रश्मिचक्रं च देवेशि नान्यपात्रेण तर्पयेत् ॥ २२ ॥

अन्यस्य गुरुवर्गस्य गुरुपात्रेण तर्पणम् ।
पात्रं यन्न भवेत् तत्र प्रोक्षण्यद्भिः समाचरेत् ॥ २३ ॥

समष्टिव्यष्टियजनं शङ्खतोयेन वै भवेत् ।
क्षेत्राधिपस्य पात्रेण क्षेत्रपालबलिर्भवेत् ॥ २४ ॥

गणनाथस्य पात्रेण गणेशस्य बलिर्भवेत् ।
मध्यदेव्या बलिं देवि श्रीपात्रेण विसर्जयेत् ॥ २५ ॥

श्रीविद्याया महेशानि पूजायां च विशेषतः ।
बल्याधाराणि पात्राणि शृणु वक्ष्ये समासतः ॥ २६ ॥

श्रीगुरोर्बलिपात्रं च वाराह्या बलिपात्रकम् ।
त्रीणि वै कुरुकुल्लाया वटुकादेश्चतुष्ट्यम् ॥ २७ ॥

पञ्च वै पञ्चभूतानामेकं भूतबलेस्ततः ।
राजराजेश्वरस्यैकमेकं देव्यास्ततः परम् ॥ २८ ॥

एकं तु नवदुर्गाया धूपदीपान्नसंयुतम् ।
इत्यष्टादश पात्राणि सर्वविघ्नहराणि च ॥ २९ ॥

पात्रपञ्चकमाख्यातं सिद्धद्रव्यस्य शोधने ।
पूजाद्रव्यस्य रचनद्रव्यार्थं चैकपात्रकम् ॥ ३० ॥

कस्तूरिकागरुसुधाकरकुण्डगोलोत्थजाङ्गलगुडैः सपटीरपङ्कैर्युक्तैः स्वयम्भूकुसुमेनेति योगिनीतन्त्रवचनात् ।

अन्यानि भोग्यवस्तूनां गन्धादीनां विशेषतः ।
मनोहराणि पात्राणि स्थापयेत् पूजयेदपि ॥ ३१ ॥

मार्तण्डस्यार्घ्यदाने तु बृहदर्घ्यं महेश्वरि ।
एकं प्रस्थजलाग्राहि एकं तर्पणपात्रकम् ॥ ३२ ॥

द्वारादिपूजने शस्तमेकं सामान्यपात्रकम् ।
तदेव रविपूजायां सामान्यार्घ्यं भवेत् प्रिये ॥ ३३ ॥

पिधानोद्धरणीयुक्तं कलशानां चतुष्टयम् ।
दुकूलवस्त्रसंवीतं बृहदाधारसंयुतम् ॥ ३४ ॥

शुद्धोदकामृतक्षीरसमयामृतपूरितम् ।
स्ववामाग्रात् ततः स्थाप्यं देव्या दक्षिणभागतः ॥ ३५ ॥

इति । शुद्धोदककलशलक्षणं तु मत्स्यपुराणे -


दध्यक्षतसमन्वितम् ।

पञ्चरत्नसमायुक्तं पञ्चभङ्गदलान्वितम् ॥ १ ॥

पञ्च भङ्गदलानि -

चूताश्वत्थवटप्लक्षोडुम्बराणां च पल्लवाः ।
स्थापयेदव्रणं कुम्भं वरुणं तत्र विन्यसेत् ॥ २ ॥

गङ्गाद्याः सरितः सर्वाः समुद्रांश्च सरांसि च ।
गजाश्वरथ्यावल्मीकसङ्गमह्रदगोकुलात् ॥ ३ ॥

मृदमानीय राजेन्द्र सर्वौषधिसमन्विताम् ।
स्नानार्थं विन्यसेत् तत्र यजमानश्च धर्मवित् ॥ ४ ॥

सर्वे समुद्राः सरितः सरांसि च नदा ह्रदाः ।
आयान्तु यजमानस्य दुरितक्षयकारकाः ॥ ५ ॥

इति । रुद्रयामले -

श्रीकामस्तु न्यसेत् सम्यग्देशवृत्तिकरं शुभम् ।
काञ्चनं घृतगोधूमान् दूर्वारोचनया सह ॥ १ ॥

प्. १६५) एतानि पञ्च द्रव्याणि सर्वेषु कलशेषु च ।
विशेषार्घ्यादिपात्रेषु श्रीपात्रेषु विशेषतः ॥ २ ॥

दद्याच्छ्रीकीर्तिसारोग्यपुत्रायुर्जयसिद्धये ।

इति । देवीपुराणे -

अग्निर्ब्रह्मा भवानी च गजवक्त्रो महोरगः ।
स्कन्दो भानुर्मातृगणा दिक्पालाश्च नवग्रहाः ॥ १ ॥

एषां घटेषु प्रत्येकं पूजयित्वा यथा विधि ।

इति गौतमीये -

हैमं रूप्यं तथा ताम्रं मार्तिक्यं वा स्वशक्तितः ।
षट्त्रिंशदंगुलं कुम्भं विस्तारोन्नतिशालिनम् ॥ १ ॥

षोडशं द्वादशं वापि ततो न्यूनं न कारयेत् ।
अर्घ्यस्य त्रीणि पात्राणि पाद्यस्यापि त्रयं भवेत् ॥ २ ॥

तथैवाचमनीयानि पात्राणि च विभागशः ।

इति । भैरवीतन्त्रे -

यो वाष्टाङ्गार्घ्यमापूर्य देव्या मूर्ध्नि निवेदयेत् ।
दशवर्षसहस्राणि दुर्गालोके महीयते ॥ १ ॥

आपः क्षीरं कुशाग्राणि दधि सर्पिः सतण्डुलाः ।
तिला सिद्धार्थकाश्चैव अष्टाङ्गार्घ्यः प्रकीर्तितः ॥ २ ॥

दारवेणार्घ्यपात्रेण दत्त्वार्घ्यं विधिवन्नरः ।
देव्यै तदा महाराज अग्निष्टोमफलं लभेत् ॥ ३ ॥

ताम्रपात्रार्घ्यदानेन पुण्डरीकफलं लभेत् ।
रौप्यपात्रेण दत्त्वा वै विष्णुयागफलं लभेत् ॥ ४ ॥

अर्घ्यं दत्त्वा तु रौप्येण आयू राज्यं शुभं लभेत् ।
दत्त्वा सौवर्णपात्रेण लभेद्बहुः सुवर्णकम् ॥ ५ ॥

हेमपात्रेण सर्वाणि ईहितानि लभेन्मुने ।

इति । भैरवयामले -

पात्रद्वयं तु निर्माल्यवसिन्याः शिवदिक्स्थितम् ।
पञ्चायतनपूजायां दश पात्राणि वै क्षिपेत् ॥ १ ॥

इति । भैरवीतन्त्रे -

छागादिबलिदाने तु नव पात्राणि स्थापयेत् ।
बलिपात्राणि पञ्च स्युः रुधिरस्यैकपात्रकम् ॥ १ ॥

अपरं मांसखण्डानां मस्तकाधारमेव च ।
एकं पक्वस्य मांसस्य -------------------------------- ॥ २ ॥

इति रुद्रयामले -

अर्घ्यादिपञ्चपात्राणि कुमारीपूजने पृथक् ।
स्थापनीयानि यत्नेन यदीच्छेत् सिद्धिमात्मनः ॥ १ ॥

इति । वाराही तन्त्रे -

दम्पतीयजने चैव सुवासिन्याः प्रपूजने ।
योगिनीनां समर्चायां पञ्चाशन्मिथुनार्चने ॥ १ ॥

यजने कालनित्याया धातुदैवतपूजने ।
गुरुमण्डलपूजायां दिनेशानां तथैव च ॥ २ ॥

वारेशार्चननक्षत्रदेवतार्चनयोस्तथा ।
अक्षरौषधिपूजायां जपमालाप्रपूजने ॥ ३ ॥

पुस्तकस्य च पूजायामग्निपूजाविधौ तथा ।
अर्घ्यादिपञ्चपात्राणि सम्पाद्यानि पृथक् पृथक् ॥ ४ ॥

इति । कुण्डप्रकाशे -

होमे तु दश पात्राणि आज्यास्थालीद्वयं तथा ।
चरुस्थालीद्वयं चैव प्रणीता प्रोक्षणी तथा ॥ १ ॥

स्रुक्स्रुवौ पूर्णपात्रं च होमद्रव्यस्य चापरम् ।
मुख्यान्येतानि पात्राणि ------------------------------- ॥ २ ॥

इति नारदीये -

देवाग्रतः स्ववामाग्रे त्रिकोणं चन्दनाम्भसा ।
वृत्तेन वेष्टितं बाह्ये चतुरस्रेण चैव हि ॥ १ ॥

विरच्य मुद्रया मत्स्यरूपया साधको भुवि ।

प्. १६६) इति । सारसंग्रहे -

त्रिकोणं वृत्तसंवीतं चतुरस्रेण वेष्टितम् ।
गन्धलिप्ते स्ववामाग्रे विदध्यान्मत्स्यमुद्रया ॥ १ ॥

सम्पूज्य गन्धैर्देवार्घ्यमण्डलाय नमोऽणुना ।
अङ्गानि चतुरस्रस्य कोणेषु पुरतस्तथा ॥ २ ॥

दिक्षु चास्त्रं समभ्यर्च्य शङ्खाधारं प्रविन्यसेत् ।
मूलेन क्षालितं शङ्खाधारं संस्थापयामि ॥ ३ ॥

कालं सबिन्दुकं तद्वद्भुजङ्गेशं समुद्धरेत् ।
वह्न्यन्ते मण्डलायेति तथा धर्मप्रदेति च ॥ ४ ॥

दशकलात्मने प्रोक्त्वा नमो गन्धादिभिर्यजेत् ।
वह्नेर्दश कलास्तत्र प्रादक्षिण्येन पूजयेत् ॥ ५ ॥

इति कुलार्णवे -

आधारेण विना भ्रंशो न च तृप्यन्ति मातरः ।
तस्माद् विधिवदाधारं कल्पयेत् कुलनायिके ॥ १ ॥

आधारं त्रिपदं प्राहुः षट्पदं वा चतुष्पदम् ।
अथवा वर्तुलाकारं कुर्याद् देवि मनोहरम् ॥ २ ॥

इत्येतानि सामान्यवचनानि विशेषस्तु प्रागेवाभिहितः । रुद्रयामले -

धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ।
सुश्रीः स्वरूपा कपिला हव्यकव्यवहे तथा ॥ २ ॥

वह्नेश्चैताः कला ज्ञेया दश धर्मप्रदाः मताः ।

इति । सारसंग्रहे -

अस्त्रेण क्षालितं शङ्खं तत्र संस्थाप्य पूजयेत् ।
शङ्खमानं तु प्रादेशं चतुरंगुलमुच्छ्रितम् ॥ १ ॥

अर्घ्यपात्रमिति प्रोक्त्वा स्थापयामीति मन्त्रतः ।
अहमर्थप्रदायेति वदेत द्वादशेत्यपि ॥ २ ॥

कलात्मने पदं प्रोक्त्वा अर्घ्यपात्राय हृन्मनुः ।
अनेन शङ्खमभ्यर्च्य कलाः सूर्यस्य पूजयेत् ॥ ३ ॥

इति । यामले -

तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः ।
सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ १ ॥

एता द्वादश सम्पूज्या रवेरर्थप्रदाः कलाः ।

इति । सारसंग्रहे -

ततः सुधामयैस्तोयैर्मूलान्ते मातृकां पठन् ।
विलोमां पूजयेत्तत्र पूजको मनुनामुना ॥ १ ॥

अर्घ्यपात्रं पूरयामित्युक्त्वा सम्पूरयेत् ततः

इति शारदातिलके -


बिन्दुस्रुतसुधामयै ।

तोयैः सुगन्धिपुष्पाढ्यै पूजयेत्तं यथाविधि ॥ १ ॥

बिन्दुर्भ्रूमध्यं तत्र चन्द्रमण्डलस्य विद्यमानत्वात् । सारसंग्रहे -

कर्णचन्द्रौ बिन्दुयुक्तौ कामप्रदपदं ततः ।
षोडशान्ते कलाशब्दमात्मने नम इत्यथ ॥ १ ॥

गन्धपुष्पैः समभ्यर्च्य कलाषोडशकं यजेत् ।

इति । कर्ण उकारः चन्द्रः सकारो बिन्दुरनुस्वारस्तेन उं सं इति । यामले -

अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ।
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ॥ १ ॥

पूर्णा पूर्णामृता कामदायिन्यः स्वरगाः कलाः ।
सोममण्डलमध्यस्थाः ----------------------------------- ॥ २ ॥

इति । सारसंग्रहे -

प्राग्वत्तीर्थ समावाह्य मूलमन्त्रेण तत्र च ।
संयोज्य नेत्रमन्त्रेण पुष्पं न्यस्य शिखाणुना ॥ १ ॥

प्रदर्श्य गालिनीमुद्रां मुद्रया धेनुसंज्ञया ।
अमृतीकृत्य विधिवत् सुधाबीजेन साधकः ॥ २ ॥

ध्यात्वेष्टदेवतां तत्र सकलीकृत्य देशिकः ।
अङ्गन्यासेन चास्त्रेण कलयेच्च दिशो दश ॥ ३ ॥

नेत्रमन्त्रेण संवीक्ष्य मुद्रया शङ्खसंज्ञया ।
अवष्टभ्य (गुण्ठ्य) तदुद्दिप्य मुद्रया योनिरूपया ॥ ४ ॥

प्. १६७) गन्धपुष्पादिभिस्तत्र पूजयेदिष्टदेवताम् ।
षडङ्गानि च सम्पूज्य मन्त्रयेन्मूलमन्त्रतः ॥ ५ ॥

अष्टकृत्वस्ततश्चार्घ्यं छादयेन्मत्स्यमुद्रया ।

इति । नारदीये - वीक्षणं नेत्रमन्त्रेण न चेन्मूलेन मन्त्रवित् । इति । मूलेनेति पञ्चाङ्गपरं तत्र नेत्रमन्त्राभावात् । अत्रापि सर्वत्र तत्तदङ्गमन्त्राणामेवोपादानं हृदयादिपदैरिति अङ्गरूपैः ।
कवचेनावगुण्ठ्येति तत्तन्मुद्रयेति शेषः । सारसंग्रहे - तच्छङ्खस्थं जलं किञ्चित् कुम्भतोये विनिक्षिपेत् इति । शारदातिलके :

अर्घ्यस्योत्तरतः कार्यं पाद्यं साचमनीयकम् ।
मधुपर्कं च संस्थाप्य त्रिकोणेषु यथाक्रमम् ॥ १ ॥

एकैकपात्रं मन्त्रेण ह्यष्टकृत्वोऽभिमन्त्रयेत् ।

इति । उत्तरतन्त्रे तद्दयात् कांस्यपात्रेण रौक्मश्वेतभवेन वा । इति । श्वेतं रूप्यम् । वाराहपुराणे -

परमं यत्परं धाम मधुसंज्ञं तदुच्यते ।
तदाप्यते यदा तेन मधुपर्कः सदा स्मृतः ॥ १ ॥

इति । शारदायाम् -

दक्षिणे प्रोक्षणीपात्रमाधायाद्भिः प्रपूरयेत् ।
किञ्चिदर्घ्याम्बु संगृह्य प्रोक्षण्यम्भसि निक्षिपेत् ॥ १ ॥

इति । नारदपञ्चरात्रे - पुनराचमनीयार्थं पात्रं संस्थापयेत्ततः । इति ।
प्रपञ्चसारे -

गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपाः ।
दूर्वा चेति क्रमादर्घ्यद्रव्याष्टकमुदीरितम् ॥ १ ॥

इति । अक्षतास्तण्डुलाः । नारदपञ्चरात्रे विष्णोरर्घ्यमुक्तम् -

सिद्धार्थकास्तिला दूर्वाः सयवास्तिलतण्डुलाः ।
तोयक्षीरघृतोपेतमिदमर्घ्यमुदाहृतम् ॥

इति । सिद्धार्थाः सर्षपाः । दूर्वाः पत्रत्रयान्विताः । पत्रत्रयान्विता दूर्वाः प्रशस्ता अर्घ्यकर्मणि । इति सोमशम्भुवचनात् । प्रपञ्चसारे :

पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरुच्यते ।
जातीलवङ्गकक्कोलैर्मतमाचमनीयकम् ॥

जाती जातीफलम् । तथाचमनपात्रेऽपि दद्याज्जातीफलं मुने ।
इत्यगस्त्यसंहितावचनात् । जातीफलादीनि चूर्णितानि देयानि । चूर्णयित्वा यथान्यायं दद्यादाचमनीयकम् । इति फेत्कारिणीतन्त्रवचनात् । लिङ्गपुराणे

कुशाग्राण्यक्षताश्चैव यवव्रीहितिलानि च ।
आज्यसिद्धार्थपुष्पाणि भसितं चार्घ्यपात्रके ॥ १ ॥

कुशपुष्पयवव्रीहिबहुमूलतमालकम् ।
दापयेत् प्रोक्षणीपात्रे भसितं प्रणवेन च ॥ २ ॥

उशीरं चन्दनं चैव पाद्ये चैव प्रकल्पयेत् ।
जातीकक्कोलकर्पूरबहुमूलतमालकम् ॥ ३ ॥

चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयकम् ।
बहुमूलं दूर्वा ।

सहस्रपरमा देवि शतमूला शतांकुरा ।
सर्वं हरतु मे पापं दूर्वा दुःस्वप्ननाशिनी ॥ १ ॥

शतशब्दस्य बहुत्ववाचकत्वात् । प्रपञ्चसारे - शुद्धाभिरद्भिर्विहितं पुनराचमनीयकम् । इत्यत्र शुद्धाभिरित्युक्तेर्जात्यादि न देयमित्यवगम्यते ।
अर्घ्यादिद्रव्यालाभे तु शौनकः एषामभावे पुष्पादि तत्तद्भावनया क्षिपेत् । इति । मन्त्रतन्त्रप्रकाशे - द्रव्याभावे प्रदातव्याः क्षालितास्तण्डुलाः शुभाः । इति । भासितं तु शिवपूजायामेव । आद्राचारे (आद्याभावे) तु अनुकल्पास्तत्प्रमाणवचनानि च तत्प्रयोगे प्रदर्श्यन्ते ॥

अथ पात्रासादनप्रयोगः :

तत्रादौ शुद्धोदककलशस्थापनमत्र कालीमते प्रथमतः शङ्खस्थापनं कृत्वा तदनन्तरं कलशस्थापनं विधेयम् । कुलार्णवे :

शङ्खस्य वामभागे तु कलशस्थापनं भवेत् ।
मण्डले स्थापयेत् कुम्भं सौवर्णं राजतं तथा ॥ १ ॥

ताम्रं भूमिमयं वापि यद्वा लोहजवर्जितम् ।

इति । कादिमते तु आदौ कुम्भं तथा शङ्खमित्यादिरीत्या विधेयम् इदं तु दीक्षायां वैपरीत्यं बोध्यम् ।

प्. १६८) अत्र यथागुरूपदेशं कार्यमिति । स्ववामभागे त्रिकोणषट्कोणवृत्तचतुरस्रमण्डलं विरच्य पाशुपतास्त्रेण तन्मण्डलं प्रोक्ष्य ओं ह्रीं आधारशक्तये नमः इति त्रिकोणे ओं अखण्डमण्डलाय नमः इति षट्कोणे ओं सूर्यमण्डलाय नम इति वृत्ते ओं सर्वतोव्यापकमण्डलाय नम इति चतुरस्रे इति । कोणेषु कामरूपपीठाय नम इति त्रिकोणे पूर्णगिरिपीठाय नम इति षट्कोणे ओं जालन्धरपीठाय नम इति वृत्ते ओं उडियानपीठाय नम इति चतुरस्रे - इति सम्पूज्य षट्कोणे मूलविद्यायाः षडङ्गानि त्रिकोणकोणेषु मूलविद्यायाः कूटत्रयं मध्ये सम्पूर्णमूलविद्यां पुनर्व्यस्तसमस्तकूटैर्मण्डलचतुष्टयं सर्वमेव पूजयेत् । ततः पाशुपतास्त्रेण सुवर्णादिनिर्मितमाधारं प्रक्षाल्य मण्डलोपरि संस्थाप्य ओं ऐं ह्रीं श्रीं मं धर्मप्रददशकलात्मने वह्निमण्डलाय श्रीपरदेवतायाः कलशाधाराय नमः इति तदुपरि सम्पूज्य तत्र वह्नेर्दश कला वृत्ताकारेण पूजयेत् । ४ यं धूम्रार्चिषे नमः ४ रं ऊष्मायै नमः ४ लं ज्वलिन्यै नमः ४ वं ज्वालिन्यै नमः ४ शं विस्फुलिङ्गिन्यै नमः ४ षं सुश्रियै नमः ४ सं सुरूपायै नमः ४ हं कपिलायै नमः ४ लं हव्यवहाये नमः ४ क्षं कव्यवहायै नमः इति सम्पूज्य अभयेष्टकरा रक्ता आग्नेयो धर्मदाः कलाः इति रीत्या ध्यात्वा वह्नेः कला इहागच्छतागच्छतेति क्रमेणावाह्य वह्निकलानां प्राणा इह प्राणा इत्याद्यमुष्यपदस्थानयोजितप्राणप्रतिष्ठाविद्यया तासां प्राणप्रतिष्ठां विधाय तदुपरि हेमादिनिर्मितं सुलक्षणं रक्तवस्त्रग्रीवं रक्तचन्दनचर्चितं पाशुपतास्त्रेण प्रक्षालितं कलशं संस्थाप्य तत्र ४ अं अर्थप्रदद्वादशकलात्मने सूर्यमण्डलाय श्रीपरदेवतायाः कलशाय नमः इति सम्पूज्य सूर्यस्य द्वादशकला वृत्ताकारेण पूजयेत् । ४ कंभं तपिन्यै नमः ४ खंबं तापिन्यै नमः ४ गंफं धूम्रायै नमः ४ घं पं मरीच्यै नमः ४ ङं नं ज्वालिन्यै नमः ४ चंधं रुच्यै नमः ४ छंदं सुषुम्नायै नमः ४ जंथं भोगदायै नमः ४ झंतं विश्वायै नमः अंणं बोधिन्यै नमः ४ टंढं धारिण्यै नमः ४ ठंडं क्षमायै नमः इति सम्पूज्य अभयेष्टकराः पीताः सौरा अर्थप्रदाः कलाः इति रीत्या ध्यात्वा प्राग्वत्तासां प्राणप्रतिष्ठां विधाय तन्मध्ये विलोममातृकासहितां मूलविद्यामुच्चरन् शुद्धोदकमापूर्यं ४ उं कामप्रदषोडशकलात्मने सोममण्डलाय श्रीपरदेवतायाः कलशामृताय नमः इति सम्पूज्य सोमस्य षोडश कला वृत्ताकारेण पूजयेत् । ४ अं अमृतायै नमः ४ आं मानदायै नमः ४ इं पूषायै नमः ४ ईं तुष्ट्यै नमः ४ उं पुष्ट्यै नमः ४ ऊं रत्यै नमः ४ ऋं धृत्यै नमः ४ ॠं शशिन्यै नमः ४ ऌं चन्द्रिकायै नमः ४ ॡं कान्त्यै नमः ४ एं ज्योत्स्नायै नमः ४ ऐं श्रीयै नमः ४ ओं प्रीत्यै नमः ४ औं अङ्गदायै नमः ४ अं पूर्णायै नमः ४ अः पूर्णामृतायै नमः इति सम्पूज्य अभयेष्टकराः श्वेताः सौम्याः कामप्रदाः कलाः इति क्रमेण ध्यात्वा प्राग्वत्तासां प्राणप्रतिष्ठां विधाय तन्मध्येऽधिबिन्द्वक्षतगजाश्वरथ्यावल्मीकसङ्गमह्रदगोकुलमृदः काञ्चनगोघृतगोधूमदूर्वारोचनसर्वौषधीः संस्थाप्य ४ अग्नये नमः ४ ब्रह्मणे नमः ४ भवान्यै नमः ४ गजवक्त्राय नमः ४ महोरगाय नमः ४ स्कन्दाय नमः ४ भानवे नमः ४ मातृगणेभ्यो नमः ४ दिक्पालेभ्यो नमः ४ नवग्रहेभ्यो नमः इति तज्जले सम्पूज्य तन्मध्ये गन्धाष्टकं निक्षिप्य तत्र ४ वं वरुणाय नमः इति वरुणं पञ्चोपचारैराराघ्य

सर्वे समुद्राः सरितः सरांसि च नदा ह्रदाः ।
आयान्तु यजमानस्य दुरितक्षयकारकाः ॥ १ ॥

इति । क्रोमित्यंकुशमुद्रया तीर्थान्याकृष्य ।

गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ १ ॥

इत्यावाह्यावाहनादिपरमीकरणान्ता मुद्राः प्रदर्श्य मूलमन्त्रेण वीक्ष्यास्त्रेण प्रोक्ष्य तेनैव कुशैस्त्रिः सन्ताड्य कवचेनावगुण्ठ्य वमिति धेनुमुद्रयामृतीकृत्य तन्मुखे पञ्च पल्लवान्निक्षिप्य

कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
मूले तस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्थिताः ॥ १ ॥

कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥ २ ॥

अङ्गैश्च सहिता सर्वे कलश तु समाश्रिताः ।

इति ध्यात्वा तदुपरि उद्धरणीसहितपिधानपात्रं संस्थाप्य सूक्ष्मवस्त्रेणाच्छादयेत् इति शुद्धोदककलशस्थापनविधिः ॥

प्. १६९) अत्र क्षीरकलशस्थापनविधिस्तु शुद्धोदककलशस्थापनवदेव बोध्यः ॥ ततो दूतीपात्रचतुष्टयं गृहीत्वा कुलगेहे गत्वा तत्र दूतीयजनं विधिवदाचर्यय तदुत्पन्नकुण्डगोलाख्यं द्रव्यं गोप्येनैकैकस्मिन्पात्रे कृत्वा तदानीय स्वाग्रे स्थापयित्वा तत्रैवाद्यादिचतुष्टयमपि पृथक्पृथक्पात्रचतुष्टये संस्थाप्य पञ्चपात्रस्थद्रव्यपञ्चकस्य संस्कारं कुर्यात् । तद्यथा -

तत्रादावाद्यस्य संस्कारः :

एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् ।
कचोद्भवां । ब्रह्महत्यां तेन ते नाशयाम्यहम् ॥ १ ॥

सूर्यमण्डलसम्भूते वरुणालयसम्भवे ।
अमाबीजमये देवि शुक्रशापाद्विमुच्यताम् ॥ २ ॥

वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि ।
तेन सत्येन मे देवि ब्रह्महत्यां व्यपोहतु ॥ ३ ॥

ओं ४ वांवींवूंवैंवौंवः ब्रह्मशापविमोचिकायै सुधादेव्यै नमः इति तदुपरि दशधा जपेत् । ४ ह्रींश्रींक्रांक्रींक्रूंक्रैंक्रौंक्रः ब्रह्मशापं विमोचय अमृतं (स्रावय स्रावय) स्वाहा इति दशधा जपेत् ।
ततो मूलविद्यां तदुपर्यष्टधा जपेदित्याद्यशुद्धिः ॥ अथ द्वितीयशोधनम् ४ ओं प्रातद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षयन्ति भुवनानि विश्वा ॥ ४ ओं तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् इति तदुपरि दशधा प्रजप्य मूलविद्यामपि दशधा जपेदिति द्वितीयशोधनम् ॥ अथ तृतीयशोधनम् ४ ओं त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् इति तदुपरि दशधा प्रजप्य मूलमन्त्रमपि दशधा जपेदिति तृतीयशोधनम् ॥ अथ चतुर्थशोधनम् :

कृसरं मण्डलाकारं चन्द्रबिम्बनिभं शुभम् ।
चरुकं च मनोहरि शर्कराद्यैश्च पूरितम् ॥ १ ॥

पूजाकाले देवताया मुद्रैषा परिकीर्तिता ।

तच्छोधनं तु ४ ओं तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥ तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।
विष्णोर्यतपरमं पदम् ॥ इति तदुपरि दशधा प्रजप्य मूलविद्यामपि दशधा जपेदिति चतुर्थशोधनम् ॥ अथ पञ्चमशोधनम् ४ ओं अमृते अमृतोद्भवे अमृतवर्षिणि शुक्रशापं प्रमोचय अमृतं स्रावय स्रावय अमृतं कुरु कुरु स्वाहा इति तदुपरि दशधा प्रजप्य मूलविद्यामपि दशधा जपेत् इति पञ्चमशुद्धिः ॥ एव सामान्यतः पञ्चद्रव्याणि संशोध्य घटादिपात्रेषु निक्षिप्य विशिष्य द्वितीयवारं शोधयेत् । ततो देवीपूजान्ते आत्मसमर्पणसमये तृतीयवारं शोधयित्वात्मसमर्पणं कुर्यात् । तच्च श्रीगुरुमुखादवगन्तव्यम् ।

तदुक्तं कुलार्णवे -

आसवं पललं मत्स्यं मुद्रा गोलोत्थमेव च ।
एतानि पञ्चद्रव्याणि त्रिधा संशोधयेत्ततः ॥ १ ॥

शुद्ध्यन्ति नान्यथा देवि न चेदुक्तं प्रयाति च ।

इति । त्रिप्रकारशोधनं न चेत् उक्तं श्रुतिस्मृतिपुराणादौ उक्तमेतत्पञ्चद्रव्यसंसर्गप्रयुक्तदोषं प्रयाति प्राप्नोतीत्यर्थः ।
दूतीयागविधिस्तु स्थूलपद्धत्यादौ बोद्धव्यः । स्वयम्भूशोधनं तु गोलोत्थशोधनवत् ज्ञेयम् ॥ अथ समयाशोधनं कुलार्णवे :

संविदासवयोर्मध्ये संविदेव गरीयसी ।
संवित्प्रयोगः कर्तव्यः पूजादौ साधकोत्तमैः ॥ १ ॥

कर्तव्या च महापूजा करणीयासुनिश्चितैः ।

इति । अयं प्रयोगः कुलीनैः सर्वत्र पूजादौ कर्तव्यः । अन्यत्रापि : आनन्देन विना भ्रंशो न च तृप्यन्ति देवताः । इति । सा च ब्राह्मणी क्षत्रिया वैश्या शूद्रा : इति चतुर्विधा शुक्लरक्तपीतकृष्णपुष्पभेदैः । तासां शुद्ध्यस्तु :

संविदे ब्रह्मसम्भूते ब्रह्मपुत्रि सदानघे ।
भैरवाणां च तृप्त्यर्थं पवित्रा भव सर्वदा ॥ १ ॥

ओं ब्राह्मयै नमः स्वाहा इति तदुपरि दशधा प्रजप्य मूलमन्त्रमप्यष्टधा जपेदिति ब्राह्मीशुद्धिः ॥

प्. १७०) सिद्धिमूलकरे देवि मूलबोधप्रबोधिनि ।
राजपुत्रवशङ्कारि शत्रुकण्ठत्रिशूलिनि ॥ १ ॥

ऐं क्षत्रियायै नमः स्वाहा इति दशधा प्रजप्य मूलमप्यष्टधा जपेत् : इति क्षत्रियाशुद्धिः ॥

अज्ञानेन्धनदीपाग्रे ज्ञानाग्रे ज्ञानरूपिणि ।
आनन्दाद्याहुतिं मत्वा सम्यज्ज्ञानं प्रयच्छ मे ॥ १ ॥

ह्रींवैश्यायै नमः स्वाहा इति दशधा प्रजप्य मूलमप्यष्टधा जपेदिति वैश्याशुद्धिः ॥

नमस्यामि नमस्यामि योगमार्गप्रदर्शिनि ।
त्रैलोक्यविजये मातः समाधिफलदा भव ॥ १ ॥

श्रीं शूद्रायै नमः स्वाहा इति दशधा प्रजप्य मूलमष्टधा जपेदिति शुद्द्धाशुद्धिः ॥ अथ सामान्यतः सर्वासां शोधनप्रकारस्तु मूलेन वीक्ष्यास्त्रेण प्रोक्ष्य तेनैव कुशदूर्वादिना त्रिः सन्ताड्य कवचेनावगुण्ठ्य वमिति अमृतीकृत्य ४ ओं अमृते अमृतोद्भवे अमृतवर्षिणि अमृतमाकर्षय त्वं सिद्धिं देहि स्वाहा इति तदुपरि दशधा प्रजप्य मूलमष्टधा जपेत् । तदुपर्यावाहनादिदशमुद्राः प्रदर्श्य शुद्धोदककलशस्थापनवत् कलशस्थापनं विधाय विजयामृतेनापूर्यं चक्रकलापूजादिकं सर्वं शुद्धोदककलशस्थापनवदेव विधाय दिग्बन्धच्छोटिकातालत्रयपूर्वकं पार्ष्णिघातकरास्फोटनसमुदञ्चितवक्त्रैः पातालभूनभोलीनान् विघ्नान्निरस्य मूलमन्त्रेण सप्तधा ब्रह्मरन्ध्रे तर्पयित्वा सहस्रदलकमलकर्णिकामध्यवर्तिनं श्रीगुरुं सङ्केतविद्यया श्रीगुरुपादुकाविद्यान्ते श्रीगुरुपादुकां तर्पयामीति त्रिधा संतर्प्य मूलान्ते श्रीपरदेवतां तर्पयामीति तत्त्वमुद्रया मूलदेवीं त्रिधा तर्पयित्वा ४ मूलं ऐंवदवद वाग्वादिनि मम जिह्वाग्रे स्थिरीभव सर्वसत्त्ववशङ्करि स्वाहा : इति मन्त्रमुच्चरन् कलशात् पात्रान्तरेण गृहीतं विजयामृतं स्वयं प्राश्य कलशोपर्युद्धरणीयुक्तपात्रेणाच्छाद्य तत्सर्वं सूक्ष्मवस्त्रेण च्छादयेदिति विजयाकलशस्थापनविधिः ॥ अथानुकल्पद्रव्याणि कुलार्णवे :

आद्याभावे तु वटकं जले संयोज्य पूजयेत् ।
सतक्रं वटकं वापि संगृह्य च विचक्षणः ॥ १ ॥

गुडमिश्रेण तक्रेण तेन वा मधुभाजिना ।
सौवीरेणाथवा कुर्यादेतत्कर्म न लोपयेत् ॥ २ ॥

द्वितीयाभावे लशुनमार्द्रकं नागरं तु वा ।
आधाय पूजयेद्देवीमन्यथा निष्फलं भवेत् ॥ ३ ॥

इति । वीरतन्त्रे -

लवणार्द्रकपिण्याकगोधूममाषपञ्चकम् ।
लशुनं च महेशानि द्वितीयप्रतिनिधौ स्मृतम् ॥ १ ॥

तृतीयादेरभावे तु योजयेदेतदेव हि ।

इति । चतुर्थाद्यनुकल्पस्तु नास्ति । पञ्चमाद्यनुकल्पस्त्वपराजितापुष्पं हयारिपुष्पं च समानीय चन्दनादिनापराजितापुष्पमापूर्य हयारिकुसुमं तत्र संयोज्योभयं शिवशक्तिसमायोगत्वेन परिचिन्त्य कुलद्रव्योत्पत्तिं विभाव्य तदुपरि यथाशक्त्या निजविद्यां जपित्वा तत्कुसुमद्वयं विशेषार्घ्यमध्ये निक्षिपेत् । अन्यान्यपि क्षीरादीन्यनुकल्पद्रव्याणि यथाधिकारमवधेयानि ॥ अथ कालीमतरीत्या सामान्यार्घ्यस्थापनम् :

तत्र स्ववामाग्रे त्रिकोणवृत्तचतुरस्रमण्डलं चन्दनादिना यथासंभवद्रव्येण रजोभिर्जलेन वा विरच्य पाशुपतास्त्रेण तन्मण्डलं संप्रोक्ष्य ओं ह्रीं आधारशक्तये नमः इति त्रिकोणमध्ये एवं कोणत्रये वृत्ते चतुरस्रे च ओं अखण्डमण्डलाय नमः । ओं पूर्णमण्डलाय नमः । ओं सर्वतोव्यापकमण्डलाय नम इति मण्डलं सम्पूज्य पाशुपतास्त्रेण सुवर्णादिनिर्मितमाधारं प्रक्षाल्य मण्डलोपरि संस्थाप्य मं धर्मप्रददशकलात्मने वह्निमण्डलाय श्रीपरदेवतायाः शङ्खाधाराय नमः इति शङ्खाधारं सम्पूज्य वह्निरूपमाधारं विचिन्त्य पुनः पाशुपतास्त्रेण शङ्ख प्रक्षाल्याधारोपरि संस्थाप्य अं अर्थप्रदद्वादशकलात्मने सूर्यमण्डलाय श्रीपरदेवतायाः शङ्खपात्राय नमः इति शङ्खं सम्पूज्य सूर्यरूपं शङ्खं संचिन्त्य विलोममातृकां मूलतद्दिननित्याविद्यासहितामुच्चरन् शुद्धतोयेन त्रिभागं शङ्खं पूरयेद्भागमेकं विशेषपूरणार्थमवशेषयेत् ।
ततः ओं कामप्रदषोडशकलात्मने सोममण्डलाय श्रीपरदेवतायाः शङ्खामृताय नमः इति जलमध्ये सम्पूज्य तज्जलं चन्द्ररूपं विचिन्त्य सुगन्धपुष्पाक्षतयवकुशाग्रतिलश्वेतसर्षपदधिदूर्वादीनि शङ्खजले विन्यस्य पृथिव्यां यानि तीर्थानि करस्पृष्टानि ते रवे । तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥ इति सूर्यमण्डलादंकुशमुद्रया

प्. १७१) तीर्थान्याकृष्य शङ्खजले विन्यस्य गङ्गे च यमुने चेति तीर्थान्यावाह्य आवाहनादिदशमुद्राः प्रदर्श्य पञ्चोपचारैस्तानि सम्पूज्य वषडिति गालिनीमुद्रां प्रदर्श्यं वौषडिति वीक्ष्य हुमित्यवगुण्ठ्य अग्नीशासुरवायव्यमध्ये दिक्षु च मूलविद्यायाः षडङ्गानि सम्पूज्य तथैव षडङ्गमुद्राः प्रदर्श्यं दक्षांगुष्ठं जले निक्षिप्य मत्स्यमुद्रयाच्छाद्य जलं स्पृशन् मूलविद्यामष्टधा प्रजप्य नाराचमुद्रया पाशुपतास्त्रेण संरक्ष्य वमिति धेनुमुद्रयामृतीकृत्य ऐमिति योनिमुद्रां प्रदर्श्य श्रीमिति शङ्खमुद्रां फट् इति चक्रमुद्रां ह्रीमिति परमीकरणमुद्रां च प्रदर्श्यं तज्जलं तेजोमयं विचिन्तयेत् इति शङ्खस्थापनम् ॥ अत्र कादिमतानुसारेण प्रधानकलशसामान्यविशेषपात्राणां स्थापनप्रकारमग्रे लेखिष्यामि श्रीपात्रस्थापनमपि वक्ष्यामि । शक्त्यादि पात्राणां स्थापनं तु सामान्यपात्रवदेव । विशेषस्तु विशेषार्घ्यबिन्दुं दत्त्वा तत्तन्मन्त्रेण दशधा दशधा प्रजपेत् । शक्तिपात्रं बालया गुरुपात्रं गुरुपादुकाविद्यया भोगपात्रं समष्टिविद्यया सर्वेषां बलिपात्राणामभिमन्त्रणं तत्तद्देवतामन्त्रैः अङ्गपात्रं षडङ्गयुवतीमन्त्रैर्वीरपात्रं कामराजेन गुह्यपात्रं वाग्भवेन योगिनीपात्रं नवचक्रेश्वरीविद्याभिः सकृत्सकृदात्मपात्रमात्माष्टाक्षरेण प्रोक्षणीपात्रं मूलषडङ्गमन्त्रैर्दूतीपात्रचतुष्टयं बालयैवाभिमन्त्रयेत् । तदुक्तं श्रीकुलार्णवे :

शक्तिपात्रं वरारोहे दशधा प्रजपेत् सुधीः ।
करेणाच्छाद्य दक्षेण कुमारीं त्रिपुरेश्वरीम् ॥ १ ॥

तथैव गुरुपात्रं च पादुकाविद्यया शिवे ।
समष्टिविद्यया देवि भोगपात्रेऽभिमन्त्रणम् ॥ २ ॥

मनुभिर्बलिदेवीनां तत्पात्राणां सुरेश्वरि ।
षडङ्गयुवतीमन्त्रैरङ्गपात्रं सकृत्सकृत् ॥ ३ ॥

वीरपात्रं महादेवि कामराजेन सुव्रते ।
गुह्यपात्रं तु कुण्डन्या बीजेन परमेश्वरि ॥ ४ ॥

नवचक्रेश्वरीभिश्च योगिनीपात्रमम्बिके ।
आत्माष्टाक्षरमन्त्रेण चात्मपात्रं महेश्वरि ॥ ५ ॥

विद्याषडङ्गमन्त्रैश्च प्रोक्षणीपात्रमद्रिजे ।
कूमार्यैव महेशानि दूतीपात्रचतुष्टयम् ॥ ६ ॥

इत्यादिप्रमाणवचनानि तत्तत्तन्त्रोक्तानि बोध्यानि ।
तथैवार्घ्यादिपञ्चपात्राणामपि तत्तद्देवतात्मकमन्त्रैरभिमन्त्रणं बोध्यम् । यत्तु अर्घ्यं षडङ्गमूलाभ्यां संसाध्य विधिवद्यजेत् ।
इत्यादिक्रमस्तु संक्षेपपूजायां ज्ञेयः । स क्रमस्तु प्राग्वन्मण्डलं विलिख्य तत्राक्षतैः सम्पूज्य तत्र क्षालितमाधारं संस्थाप्य तं वह्निरूपं विचिन्त्य तदुपरि अस्त्रक्षालितमर्घ्यादि संस्थाप्य पात्रं सूर्यरूपं विचिन्त्य सम्पूज्य तस्मिन् मूलविद्यासहितविलोममातृकामुच्चरन् जलेनापूर्यं तज्जलं चन्द्ररूपं विचिन्त्य सम्पूज्य तस्मिन् प्राग्वत् पात्रपञ्चके पृथक्पृथक् शोधितं द्रव्यपञ्चकं क्रमेण निक्षिप्य षडङ्गमन्त्रैर्दशधा अग्नीशासुरवायव्यमध्ये दिक्ष्वित्यादिक्रमेणाक्षतैः सम्पूज्य श्रीविद्यायां तार्तीयकूटमन्यत्र तत्तद्देवतामन्त्रै दशधा प्रजप्य तज्जलं तेजोरूपं विचिन्तयेत् । इति कादिमते संक्षेपतः पात्रासादनम् ॥

विद्यातार्तीयकूटेन मूलदेव्याः षडङ्गकैः ।
दशधा जपपूजाभ्यामर्घ्यं संसाध्यपूजयेत् ॥ १ ॥

इति कादिमतवचनात् । वस्तुतस्त्वयमापत्कल्पः मुख्यपूजायामापत्कल्पो गर्हितस्तत्र मुख्यकल्प एव साधीयान् ॥ कुमारीपूजनेऽर्घ्यादिपञ्चपात्राणामभिमन्त्रणं बालयैव मालापूजाविधौ तु प्रासादेन अक्षरौषधिपूजने पञ्चभूतमन्त्रैः पञ्चायतनपूजायामपि तत्तत्पात्राणि तत्तन्मन्त्रैरेव पञ्चाशन्मिथुनपूजायां च मातृकया धातुदैवतपूजायां भैरव्या कालनित्यायजने तत्तद्दिननित्याविद्यया पुस्तकपूजायां तु प्रासादेनैव अग्निपूजायां तन्मन्त्रेणैव दम्पतीसुवासिनीयोगिनीनां यजनादिषु बालयैवाभिमन्त्रणं कुर्यात् । उद्धरणोपिधानानामपि पाशुपतास्त्रेण क्षालनं तत्रैवाभिमन्त्रणम् । नैवेद्यपात्रादिभोग्यवस्तूनां पात्राणां तत्तद्देवतामूलमन्त्रषडङ्गमन्त्रेषूक्तास्त्रमन्त्रेण क्षालनं तेनैवाभिमन्त्रणं च । इदं सर्वं गुरुतः शास्त्रश्च ज्ञात्वा पूजायां योजनीयमिति ।
नारवैश्वामित्राक्षरौषधिचूर्णघटितमन्त्रनक्षत्रवृक्षोत्थतादृशयोन्यु त्थपात्राणां संस्कारः प्रागुक्तसंक्षेपकल्परीत्यैव ज्ञेयस्तेषु संस्कारबाहुल्ये प्रयोजनाभावात् । सिद्धद्रव्याणां संस्कारः प्रतिदिनं विधेयः । अन्यदिनसंस्कृतद्रव्यमन्यदिनपूजायां गर्हितं स्वयम्भूकुसुमस्य तु संस्कृतस्य पुनरन्यदिने संस्कारो नास्ति ॥ तदुक्तं कुलार्णवे :

स्वयम्भूकुसुमं सम्यक् शोधयित्वा तु देशिकः ।
निक्षिपेत्तेन पूजायां देव्याः संमीलनेन च ॥ १ ॥

प्. १७२) तेन प्रीता महादेवी सर्वसिद्धिं ददाति च ।
अन्यानि सिद्धद्रव्याणि प्रत्यहं शोधयेद्बुधः ॥ २ ॥

एकस्मिन् दिवसे शुद्धमन्यस्मिन् गर्हितं भवेत् ।

इत्येतेन सिद्धद्रव्याणि स्वयम्भूकुसुमरहितानि प्रत्यहं पूजायां नवीनान्येव प्रशस्तानीत्यर्थः । अथ यन्त्रलेखनद्रव्यस्य शोधनम् : तत्र कस्तूर्यगुरुकर्पूरकुण्डगोलोद्भवद्रव्यकेसरगुडचन्दनस्वयम्भू- कुसुमात्मकाष्टद्रव्याण्येकस्मिन् पात्रे संस्थाप्यामृतेश्वरीदीपिनीविद्याभ्यां सप्तवारमभिमन्त्रयेत् । तदुक्तं भैरवीतन्त्रे :

कस्तूर्यगुरुकर्पूरगोलोत्थं जाङ्गलं गुडम् ।
मलयोत्थं महादेवि स्वयम्भूकुसुमं तथा ॥ १ ॥

सर्वमेकत्र संयोज्य दीपिन्यामृतविद्यया ।
पृथक्पृथक् सप्तवारं हस्तं दत्त्वाभिमन्त्रयेत् ॥ २ ॥

तेन शुद्धं भवेद्द्रव्यं तेन द्रव्येण वै लिखेत् ।

इति । अत्र गोलोत्थं स्वयम्भूकुसुमं च प्राग्वत्पात्रान्तरेण शोधितमेव ग्राह्यम् ॥

अथ कालीमतरीत्या कलशादिस्थापनम् : तत्र स्ववामाग्रे वक्ष्यमाणविशेषार्घ्यमण्डलवत् मण्डलं विरच्य तथैव सम्पूज्य तत्र वक्ष्यमाणविधिना क्षालितमाधारं संस्थाप्य तथैव सम्पूज्य सुवर्णादिरचितं कलशं धूपवासितं हुं हुं ब्रह्माण्डचषकाय स्वाहा इति वामकरेण प्रक्षालितं ऐं सन्दीपिनि ज्वालामालिनि ह्रीं इति सन्दीपिनीविद्यया योनिमुद्रया सन्दीपितं कवचेनावगुण्ठितं ओं नमः ह्रीं नमः क्षं नमः हं नमः सः नमः - इति विन्यस्य पञ्चमन्त्रान् ओं ३ श्रीमहात्रिपुरसुन्दर्या महाकलशं स्थापयामि - इति तत्र कलशं संस्थाप्य तत्र वक्ष्यमाणविशेषार्घ्यपात्रवत् सूर्यकलान्तं सम्पूज्य तत्र वक्ष्यमाणविधिनैव कर्पूरादिसुवासिता पर्युषितपरिस्रुतापयः समापूर्य तत्राब्जादिकं निक्षिप्य तन्मध्ये विशेषार्घ्ये वक्ष्यमाणं मण्डलं विभाव्य वक्ष्यमाणविधिना सोमकलान्तं सम्पूज्य तच्चतुरस्रं परितः ओं ३ ह्सखप्रें पथिकदेवताभ्यो हुंफट् स्वाहा नमः ।
ओं ३ ह्सखफ्रें ग्रामचण्डालिनि हुंफट् स्वाहा नमः । ओं ३ हसखफ्रें क्रोधचण्डालिनि हुंफट् स्वाहा नमः । ओं ३ हसखफ्रें दृष्टिचण्डालिनि हुंफट् स्वाहा नमः । ओं ३ हसखफ्रें स्पर्शचण्डालिनि हुंफट् स्वाहा नमः । ओं ३ ह्सखफ्रें सृष्टिचण्डालिनि हुंफट् स्वाहा नमः । ओं ३ ह्सखफ्रें घटचण्डालिनि हुंफट् स्वाहा नमः । ओं ३ ह्सखफ्रें तपनवेधचण्डालिनि हुंफट् स्वाहा नमः । ओं ३ ह्सखफ्रें निन्दा (ष) चण्डालिनि हुंफट् स्वाहा नमः । ओं ३ ह्सखफ्रें सर्वजनदृष्टिस्पर्शचण्डालिनि हुंफट् स्वाहा नमः । ओं ३ ह्सखफ्रें पशुपाशचण्डालिनि हुंफट् स्वाहा नमः । इति स्वाग्रादिप्रादक्षिण्येन पूजयेत् । इत्येवं दश दोषान्निरस्य ओं ३ कांकींकूंकैंकौंकः विकारशोषिणि अस्य विकारान् हनहन स्वाहा - इति हेतुमध्ये सम्पूज्य

स्वादिष्ठयादिभिः पूर्वभृग्भिः पञ्चभिरायतः ।
विष्णुर्योनिं त्रयेणैव त्रिभिष्ट्वादित्रयेण च ॥ १ ॥

इमं म इति च द्वाभ्यां ता मन्देत्येकया तथा ।
श्रोणामेकेति चैकेन शुक्रशापं विमोचयेत् ॥ २ ॥

इति कुलार्णववचनादुक्तपञ्चदशमन्त्रैः सकृत्सकृदभिमन्त्रयेत् । मन्त्रास्तु ऋग्वेदे यथा स्वादिष्ठया मदिष्ठया पवस्य सोम धारया । इन्द्राय पातवे सुतः ॥ १ ॥

रक्षोहा विश्वचर्षणिरभि योनिमयोहतम् । द्रुणा सधस्थमासदत् ॥ २ ॥

वरिवोधातमो भव मंहिष्ठो वृत्रहन्तमः । पर्षि राधो मघोनाम् ॥ ३ ॥

अभ्यर्ष महानां देवानां वीतिमन्धसा । अभि वाजमुत श्रवः ॥ ४ ॥

त्वामच्छा चरामसि तदिदर्थं दिवेदिवे । इन्दो त्वे न आशसः ॥ ५ ॥ (९ । १ । १-५)

विष्णुर्योनिं कल्पयस्तु त्वष्टा रूपाणि पिंशतु ।
आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥ १ ॥

गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजा ॥ २ ॥

हिरण्ययी अरणी यं निर्मथतो अश्विना ।
तं ते गर्भं हवामहे दशमे मासि सूतवे ॥ ३ ॥ (१० । १८४ । १-३)

त्रिभिष्ट्वं देव सवितर्वर्षिष्ठैः सोम धामभिः ।
अग्ने दक्षैः पुनीहि नः ॥ १ ॥

पुनन्तु मां देवजनाः पुनन्तु वसवो धिया ।
विश्वेदेवाः पुनीत मां जातवेदः पुनीहि मा ॥ २ ॥

प्रप्यापयस्व प्रस्यन्दस्व सोम विश्वेभिरंशुभिः ।
देवेभ्य उत्तमं हविः ॥ ३ ॥ (९ । ६७ । ६-२८)

प्. १७३) इमं मे गङ्गे यमुने सरस्वति शुतुद्रिस्तोमं सचता परुष्ण्या ।
असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया ॥ १ ॥ (१० । ७५ । ५)

सितासिते सरिते यत्र सङ्गते तराप्लुतासो विवमुत्पतन्ति ।
ये वै तन्वं विसृजन्ति धीरास्ते जनासोऽमृतत्वं भजन्ते ॥ २ ॥ (१० । ४० । १३)

ता मन्दसाना मनुषो दुरोण आधत्तं रयिं सहवीरं ववस्यवे ।
कृतं तीर्थं सुप्रयाणं शुभस्पती स्थाणुं पथेष्ठामप दुर्मतिं हतम् ॥ ३ ॥

श्रोणामेकमुदकं गामवाजति मासमेकः पिंशति सूनयाभृतम् ।
आ निम्रचः शकृदेको अपाभरत् किंस्वित् पुत्रेभ्यः पितरा उपावतुः ॥ ४ ॥ (१ ।१६ ।
१ । १०)

इत्यभिमन्त्र्य ओं ३ ह्रांह्रींहूंवूं ह्रैं ह्रौं ह्रः अमृते अमृताद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतस्वरूपिणि अमृतं स्रावय स्रावय शुक्रशापात् सुधां मोचय मोचय मोचिकायै नमः । ओं ३ जूंसः स्वाहा इति विद्ययाष्टवारमभिमन्त्र्य ओं ३ सिद्धायै नमः ओं ३ रक्तायै नमः ओं ३ शुक्लायै नमः ओं ३ उत्पलायै नमः इति चतुरस्रस्य चतुर्दिक्षु प्रादक्षिण्येन स्वाग्रादितः सम्पूज्य मध्यत्रिकोणं विशेषार्घ्यं वक्ष्यमाणरूपं विभाव्य ओं ३ हसक्षमलवरयूं आनन्द भैरवाय वौषट् आनन्दभैरवश्रीपादुकां पूजयामि तर्पयामि नमः । ओं ३ सहक्षमलवरयीं आनन्दभैरव्यै वषट् आनन्दभैरवीश्रीपादुकां पूजयामि तर्पयामि नमः । एवं सर्वत्र । ओं ३ सुरानन्दभैरवाय वौषट्० ओं ३ सुरानन्दभैरव्यै वषट् सुरानन्दभैरवीश्री० । ओं ३ अमृतानन्दभैरवाय० ओं ३ अमृतानन्दभैरव्यै० ओं ३ तरुणानन्दभैरवाय० ओं ३ तरुणानन्दभैरव्यै० ओं ३ उन्मनानन्दभैरवाय० ओं ३ उन्मनानन्दभैरव्यै० ओं ३ ज्ञानानन्दभैरवाय० ओं ३ ज्ञानानन्दभैरव्यै० ओं ३ मुक्त्यानन्दभैरवाय० ओं ३ मुक्त्यानन्दभैरव्यै० ओं ३ परमानन्दभैरवाय० ओं ३ परमानन्दभैरव्यै० ओं ३ कालभैरवाय० ओं ३ कालभैरव्यै० - इति भैरवमिथुननवकं मध्ये दिक्षु च सम्पूज्य सन्तर्प्य मूलविद्यया वीक्षणमुद्रया संवीक्ष्यास्त्रमन्त्रेण प्रोक्ष्य अस्त्रमन्त्रेण कुशैस्त्रि संताड्य कवचमन्त्रेणाभ्युक्ष्याघ्राय वामनासारन्ध्रेण प्रविश्य ब्रह्मरन्ध्रं गत्वा तत्रस्थचिच्चन्द्रमण्डलमध्यगतपरमामृतवारिधौ मिलित्वातन्मयेन राजदन्तविवरात् नेत्रमार्गेण विनिर्गतं तज्जलं विभाव्य संरोधनमुद्रया संरुध्य कवचमन्त्रेणावगुण्थनमुद्रयावगुण्ठ्य वमिति धेनुमुद्रयामृतीकृत्य परमीकरणमुद्रया परमीकृत्य तत्र देवीं ध्यात्वा गन्धपुष्पादिभिः सम्पूज्य मूलविद्ययाष्टवारमभिमन्त्र्य ओं ३ नमो भगवति माहेश्वरि वारुणीजलमूर्तये ऊर्ध्वबिन्दुग्राहिणि महालक्ष्मीश्वरिपरमधाम्नि परमाकाशभासुरि सोमसूर्याग्निभक्षिणि आगच्छागच्छ विश विश स्वभोगद्रव्यं गृह्ण गृह्ण स्वाहा इति तत्कलशाद्बिन्दुं वामांगुष्ठानामिकाभ्यां धृतद्वितीयखण्डेनादायोर्द्ध्वमुत्क्षिपेत् । ततः कलशवदनं पात्रान्तरेणाच्छाद्योद्धरणपात्रमादाय वामकरे निधाय ओं ३ अमोघायै नमः ओं ३ सूक्ष्मायै० ओं ३ आनन्दायै० ओं ३ शान्त्यै नमः इति शक्तिचतुष्टयं वामकरस्थापात्रे सम्पूज्य कुम्भस्याच्छादनपात्रस्योपरि स्थापयेदिति कलशस्थापनं विधाय ततः कलशदक्षिणभागे शोद्धोदकेन चतुरस्रवृत्तत्रिकोणात्मकं मण्डलं चन्दनादिलिप्तभूमौ वहन्नासापुटाध्वना त्रितारमुच्चरन् निर्माय प्रणवत्रितारादिनमोन्तया मूलविद्यया त्रिकोणमध्ह्यं सम्पूज्य कूटत्रयेण त्रिषु कोणोषु स्वाग्रादिप्रादक्षिण्येन सम्पूज्य चतुरस्रे अग्नीशनिर्-ऋतिवायव्यकोणेषु हृदयाद्यङ्गचतुष्टयं मध्ये नेत्रं प्रागादिचतुर्दिक्षु अस्त्रमिति षडङ्गमन्त्रैः सम्पूज्य तत्र मूलेन क्षालितमाधारं संस्थाप्य ओं ऐं ह्रीं श्रीं प्रथमकूटमुच्चार्य रं वह्निमण्डलाय धर्मप्रददशकलात्मने श्रीपरदेवतायाः सामान्यार्घ्याधाराय नमः इति सम्पूज्य (तत्र वक्ष्यमाणप्रकारेण वह्नेर्दश कलाः सम्पूज्य तत्रास्त्रेण क्षालितं पात्रं संस्थाप्य ओं ऐं ह्रीं श्रीं द्वितीयकूटमुच्चार्य अं सूर्यमण्डलाय अर्थप्रदद्वादशकलात्मने श्रीपरदेवतायाः सामान्यार्घ्यपात्राय नमः इति पात्रं सम्पूज्य) तत्र वक्ष्यमाणप्रकारेण सूर्यस्य द्वादश कलाः सम्पूज्य गन्धादिसुवासितशुद्धतोयेन प्रणवत्रितारमूलविद्यान्ते विलोममातृकामुच्चरंस्तत्पात्रमापूर्य ओं ३ तृतीयकूटं ओं सोममण्डलाय

प्. १७४) कामप्रदषोडशकलात्मने श्रीपरदेवतायाः सामान्यार्घ्यामृताय नमः इति जलं सम्पूज्य वक्ष्यमाणप्रकारेण सोमस्य षोडश कलाः सम्पूज्य तत्र प्राग्वत् सवितृमण्डलात्तीर्थमावाह्य कलशामृतबिन्दुं दत्त्वा तत्र मूलेन गन्धपुष्पादिकं निक्षिप्य प्राग्वत् षडङ्गमन्त्रैः सम्पूज्य हसक्षमलवरयूं सहक्षमलवरयीं इति नवात्मकमिथूनमन्त्रेण त्रिरभिमन्त्र्य हसौं वरुणाय नमः स्हौं वारुणीदेव्यै नमः इति वरुणमिथूनमन्त्रेण च त्रिरभिमन्त्र्य मूलेनाष्टधाभिमन्त्र्य धेनुयोनिमुद्रे प्रदर्शयेदिति सामान्यार्घ्यं विधाय तत्समीपे सामान्यार्घजलेन यक्षकर्दमादिगन्धद्रव्यमिश्रितेन भूमिं विलिप्य तत्र वहच्छ्वासोर्ध्वपुटाभ्यां चतुरस्रवृत्तषट्कोणत्रिकोणात्मकं मण्डलं विधाय तन्मण्डलं शङ्खमुद्रामुद्रितवामकरेणावष्टभ्य तन्मध्यत्रिकोणमध्ये सबिन्दुतुर्यस्वरूपां कामकलां विलिख्य ओं ऐं ह्रींश्रीं श्रीपरदेवताया विशेषार्घ्याधारमण्डलाय नमः इति मण्डलं सम्पूज्य ४ नमोन्तमूलेन त्रिकोणमध्यं सम्पूज्य त्रिकोणाग्रकोणे ४ प्रथमंकूटं नमः वामे ४ द्वितीयं नमः दक्षिणे ४ तृतीयं नमः - इति त्रिकोणं प्रादक्षिण्येन सम्पूज्य षट्कोणकोणेषु प्रादक्षिण्येन स्वाग्रमारभ्य मूलकूटत्रयस्य द्विरावृत्त्या पूजयित्वा चतुरस्रे प्राग्वत् षडङ्गानि सम्पूज्य तच्चतुरस्रे स्वाग्रादिचतुर्दिक्षु मध्ये च प्रादक्षिण्येन ४ ग्लूं गगनरत्नाय नमः ४ स्लूं स्वर्गरत्नाय नमः ४ म्लूं मर्त्यरत्नाय नमः ४ प्लूं पातालरत्नाय नमः ४ न्लूं नागरत्नाय नमः इति पञ्चरत्नानि सम्पूज्य पुनः षट्कोणेषु स्वाग्रादिप्रादक्षिण्येन न्यासोक्तषडासनानि सम्पूज्य चतुरस्रवृत्तषट्कोणत्रिकोणेषु ४ कामरूपपीठाय नमः ४ जालन्धरपीठाय नमः ४ पूर्णगिरिपीठाय नमः ४ उड्यानपीठाय नमः इति पीठचतुष्टयं सम्पूज्य शाम्भवदीक्षावांश्चेच्चतुरस्रे स्वाग्रादिचतुर्दिक्षु मध्ये च पञ्चप्रणव पुटितैः प्रणवपञ्चकैः पूजयेत् । तद्यथा ऐं ह्रींश्रीं हसखफ्रें हसौः ऐं हसौः हसखफ्रें श्रींह्रीं ऐं नमः । एवं ५ ह्रीं ५ नमः ५ श्रीं ५ नमः ५ हसखफ्रें ५ नमः ५ हसौः ५ नमः इति सम्पूजयेत् । ततः मूलं० सर्वशक्तिमयीश्रीपरदेवतायाः पीठचतुष्टयात्मकार्घ्यमण्डलाय नमः - इति समस्तं मण्डलं सम्पूज्य तत्र मूलेन प्रक्षालितमाधारं गृहीत्वा ४ श्रीपरदेवताया विशेषार्घ्याधारं स्थापयामिति मण्डलोपरि संस्थाप्य ४ प्रथमकूटमुच्चार्य मं वह्निमण्डलाय धर्मप्रददशकलात्मने श्रीपरदेवताया विशेषार्घ्यपात्राधाराय नमः इत्याधारं सम्पूज्य तदुपरि धूम्रार्चिरादिदशकलाः इहागच्छतागच्छत इति वह्नेर्दशकलाः समावाह्य तासां प्राणप्रतिष्ठां कुर्यात् । तत्र पूर्वोक्तप्राणप्रतिष्ठामन्त्रेण ममपदस्थाने धूम्रार्चिरादीनामिति पदं निक्षिप्य प्राणप्रतिष्ठामन्त्रमाधारं स्पृशन् पठेदिति प्राणप्रतिष्ठां विधाय ४ यं धूम्रार्चिषै नमः ४ रं उष्मायै नमः ४ लं ज्वलिन्यै नमः ४ वं ज्वालिन्यै नमः ४ शं विस्फुलिङ्गिन्यै नमः ४ षं सुश्रिये नमः ४ सं सुरूपायै नमः ४ हं कपिलायै नमः ४ लं हव्यवाहायै नमः ४ क्षं कव्यवाहायै नमः इति ताः सम्पूज्य स्वर्णादिरचितं पात्रमस्त्रेण प्रक्षाल्य ४ श्रीपरदेवताया विशेषार्घ्यपात्रं संस्थापयामि नमः इति तत्र संस्थाप्य ४ द्वितीयकूटमुच्चार्य अं अर्कमण्डलायार्थप्रदद्वादशकलात्मने श्रीपरदेवताया विशेषार्घ्यपात्राय नमः - इति पात्रमध्ये सम्पूज्य पूर्वोक्तमण्डलं विभाव्य पूर्ववत् पञ्चरत्नान्तं सम्पूज्य तथैव पञ्चप्रणवैस्तमभ्यर्च्यं तत्र सूर्यस्य द्वादश कलाः प्राग्वत् समावाह्य प्राग्वत् तन्नामपुरःसरं तासां प्राणप्रतिष्ठां विधाय वृत्ताकारेण प्रादक्षिण्येन ताः पूजयेत् । तद्यथा - ४ कंभं तपिन्यै नमः ४ खंबं तापिन्यै नमः ४ गंफं धूम्रायै नमः ४ घंपं मरीच्यै नमः ४ ङंनं ज्वालिन्यै नमः ४ चंधं रुच्यै नमः छंदं सुषुम्नायै नमः ४ जंथं भोगदायै नमः ४ झंतं विश्वायै नमः ४ ञंण बोधिन्यै नमः ४ टढं धारिण्यै नमः ४ ठंडं क्षमायै नमः : इति सम्पूज्य कलशस्थं जलमुद्धरणपात्रेणोद्धृत्य मूलविद्यान्ते विलोममातृकामुच्चरन् तत्पात्रमापूर्य तत्राब्जादिकं निक्षिप्य ऐं इत्यंगुष्ठानामिकाभ्यां पुष्पेण तत्पात्रस्थं जलमालोड्य तत्पुष्पं निरस्य क्लीमिति चन्दनागुरुकर्पूरचोरकुंकुमरोचनाजटामांसीशिलारसात्मक- गन्धाष्टकपङ्कलोलितं चन्दनादिपङ्कलोलितं वा पुष्पं निक्षिप्य सौः इति गालिनीमुद्रया निरीक्ष्य ४ तृतीयकूटं ओं सोममण्डलाय कामप्रदाषोडशकलात्मने श्रीपरदेवताया विशेषार्घ्यामृताय नमः : इति पात्रस्थजलमध्ये सम्पूज्य तत्र पूर्वोक्तं मण्डलं विभाव्य पूर्ववत् पञ्चरत्नान्तं सम्पूज्य शाम्भवदीक्षायुक्तश्चेत्तथैव पञ्चप्रणवैः पूजयेत् : ततस्तत्र सोमस्य षोडषकलाः प्राग्वत् समावाह्य प्राग्वत्

प्. १७५) तान्नामपुरःसरं तासां प्राणप्रतिष्ठां विधाय वृत्ताकारेण स्वाग्रादिप्रादक्षिण्येन ताः पूजयेत् : तद्यथा : ४ अं अमृतायै नमः ४ आं मानदायै० ४ इं पूषायै ४ ईं तुष्ट्यै ४ उं पुष्ट्यै० ४ ऊं रत्यै० ४ ऋं धृत्यै० ४ ॠं शशिन्यै० ४ ऌं चन्द्रिकायै० ४ ॡं कान्त्यै० ४ एं ज्योत्स्नायै० ४ ऐं श्रीयै० ४ ओं प्रीत्यै० ४ औं अङ्गदायै० ४ अं पूर्णायै० ४ अः पूर्णामृतायै० : इति सम्पूज्य पूजितमण्डलमध्यत्रिकोणमकथादित्रिरेखं विभाव्य तत्कोणत्रये मूलविद्यायाः कूटत्रयं मध्यस्थबिन्दौ कामकलां तत्पार्श्वयोः सबिन्दू हक्षौ तत्पृष्ठे लकारं तत्पार्श्वयोः हंसःवर्णौं विभाव्य पुष्पाक्षतगर्भितां योनिमुद्रां बद्ध्वा गुरूपदिष्टप्रकारेण मूलाधारात् कुण्डलिनीमुत्थाप्य षट्चक्रभेदक्रमेण सुषुम्नावर्त्मना ब्रह्मरन्ध्रस्थचिच्चन्द्रमण्डलसम्भूतमशेषरससम्भृतमापूरितं महापात्रं पीयुषरसमावह ऐंप्लूंग्लौंजूंसः अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतं स्रावय स्रावय स्वाहा : इति तस्मिन्नर्घ्यामृते पुष्पाक्षतप्रक्षेपेण तदमृतधारां संयोज्य वमिति धेनुमुद्रां प्रदर्श्य ओं ह्रीं हंसः सोऽहं स्वाहा : इत्यात्माष्टाक्षरमन्त्रेण त्रिरभिमन्त्र्य पुनरुच्चार्यात्मशक्तिश्रीपादुकां पूजयामीति जलमध्ये सम्पूज्य पुनः प्रणवेन त्रिरभिमन्त्र्य हंसः अजपाशक्तिश्री० इति सम्पूज्य मातृकया बिन्दुरहितया त्रिरभिमन्त्र्य पुनस्तामुच्चार्य मातृकासरस्वतीश्री० इति जलमध्ये सम्पूज्य मूलतार्तीयकूटेन दशधाभिमन्त्र्य पुनस्तार्तीयकूटमुच्चार्य त्रिपुरामृतेश्वरीश्री० इति जलमध्ये सम्पूज्य ४ हसक्षमलवरयूं सहक्षमलवरयीं इत्यानंदभैरवमिथुनविद्याभ्यां त्रिरभिमन्त्र्य ४ हसक्षमलवरयूं आनन्दभैरवाय वौषट् आनन्दभैरवश्रीपादुकां पूजयामि तर्पयामि नमः इति त्रिः सम्पूज्य सन्तर्प्य ४ सहक्षमलवरयीं सुधादेव्यै वषट् सुधादेवीश्री० इति सम्पूज्य सन्तर्प्य हसौं वरुणाय नमः स्हौं वारुणोदेव्यै नमः : इति वरुणमिथुनविद्याभ्यां त्रिरभिमन्त्र्य ४ पुनः पृथगुच्चार्य वरुणश्रीपा० वारुणीदेवीश्रीपा० इति सम्पूज्य सन्तर्प्य ततो बालया वक्ष्यमाणषोडशनित्यामन्त्रैश्च सकृत्सकृदभिमन्त्र्य तद्दिननित्याविद्यया तत्तत्तिथिनित्याविद्यया च पृथक्पृथक् त्रिरभिमन्त्र्य प्रासादपरापराप्रसादमन्त्राभ्यामूर्ध्वाम्नायदीक्षितश्चेत् हसौः स्हौः इति मन्त्राभ्यां त्रिरभिमन्त्र्य ततश्चरणादिदीक्षितश्चेच्चरणकुलयोगिनीविद्याभ्यां त्रिस्त्रीरभिमन्त्र्य ततः सौः इत्यनुत्तरपराविद्यया दीक्षितश्चेत्तया त्रिरभिमन्त्र्य पूर्वाभिषिक्तश्चेत्कामकलाविद्यया त्रिरभिमन्त्र्य षडन्वयशाम्भवदीक्षायुक्तश्चेत् तद्विद्याभिस्त्रिरभिमन्त्र्य ततो वक्ष्यमाणपाञ्चभौतिकमन्त्रैस्त्रिरभिमन्त्र्य सृष्ट्यादिदशकला जलमध्ये समावाह्य प्राग्वत् तन्नामपुरःसरं तासां प्राणप्रतिष्ठां विधाय वामदेव ऋषिः जगती छन्दः सूर्यो देवता ओं हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।
नृपद्वरसद्दतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं वृहत् । इत्यनयर्चा सकृदभिमन्त्र्य पुनरुच्चार्यं ब्रह्मणे नमः इति जलमध्ये सम्पूज्य ४ कं सृष्ट्यै नमः इत्यादिप्रागुक्तकलामातृकान्यासोक्तप्रकारेण कचवर्गकला सम्पूज्य ततः टतवर्गोत्थजरादिदशकलाः समावाह्य प्राग्वत्तासां प्राणप्रतिष्ठां विधाय ओं प्रतद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा इत्यनया ऋचा सकृदभिमन्त्र्य पुनरुच्चार्य विष्णवे नमः इति सम्पूज्य टं जरायै नमः इत्यादि ताः सम्पूज्य पुनः पयवर्गोत्थकलास्तीक्ष्णाद्याः समावाह्य प्राग्वत् तासां प्राणप्रतिष्ठां विधाय त्र्यम्बकमित्यस्य वसिष्ठ ऋषिः अनुष्टुप्च्छन्दः त्र्यम्बकरुद्रो देवता ओं त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ इत्यभिमन्त्र्य पुनरुच्चार्य रुद्राय नमः इति सम्पूज्य पं तीक्ष्णायै नमः इत्यादिभिः सम्पूज्य पुनः सकारादिक्षकारान्तपञ्चवर्णोस्थाः पीतादिपञ्चकलाः समावाह्य प्राग्वत् तासां प्राणप्रतिष्ठां विधाय गायत्र्याभिमन्त्र्य पुनरुच्चार्य ईश्वराय नमः इति सम्पूज्य षं पातायै नमः इत्यादि ताः सम्पूज्य ततः स्वरोत्था निवृत्त्यादिकलाः समावाह्य प्राग्वत् तासां प्राणप्रतिष्ठां विधाय विष्णुर्योनिं कल्पयतु इति मन्त्रस्य त्वष्टा गर्भकर्ता ऋषिरनुष्टुप्च्छन्दः श्रीविष्णुर्देवता सदा शिवप्रीत्यर्थे विनियोगः । विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥ इत्यभिमन्त्र्य पुनरुच्चार्य सदाशिवाय नमः इति जलमध्ये सम्पूज्य अं निवृत्त्यै नमः इत्यादिना सम्पूज्य मातृकया द्विरभिमन्त्र्य पुनरुच्चार्य मातृकासरस्वतीश्री० इति सम्पूज्य ४ ऐं अखण्डैकरसानन्दकरे परसुधामयि । स्वच्छन्दस्फुरणामत्र विधेह्यकुलरूपिणि ॥

प्. १७६) इत्यनेन त्रिरभिमन्त्र्य । क्लीं अकुलस्थामृताकारे सिद्धिज्ञानकरे परे अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ॥ इति च त्रिरभिमन्त्र्य सौः त्वद्रूपेणैकरस्यत्वं दत्त्वा ह्ये तत्स्वरूपिणि । भूत्वा परा मृताकारे मयि चित्स्फुरणं कुरु ॥ इति च त्रिरभिमन्त्र्य । ऐंप्लूंह्रौं जूंसः अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतं स्रावय स्रावय स्वाहा इत्यमृतेश्वरीविद्यया चतुर्वारमभिमन्त्र्य पुनस्तामुच्चार्य अमृतेश्वरीश्री० इति सकृत् संपूज्य ततः ऐं वदवद वाग्वादिनि ऐंक्लीं क्लीन्नेक्लेदिनि क्लेदय क्लेदय महाक्षोभं कुरु कुरु क्लींसौः मोक्षं कुरु कुरु सौः ह्सौः इति दीपिनीविद्यया पञ्चवारमभिमन्त्र्य ततस्तत्र मूलविद्यामष्टधा जपित्वा तन्मध्ये चतुरस्रं पश्चिमद्वारं विचिन्त्य तद्द्वारपार्श्वयोः कुलवटुकनाथतद्वल्लभाम्बाश्री० इति दक्षिणवामयोः सम्पूज्य तदन्तः प्राग्वत् षडासनानि सम्पूज्य तन्मध्यत्रिकोणमध्यस्थबिन्दुमध्ये कामकलायां वक्ष्यमाणप्रकारेण देवीमावाह्य ध्यात्वा षडङ्गन्यासयोगेन सकलीकृत्यगन्धादिभिः सम्पूज्य वक्ष्यमाणविधिना देव्यङ्गे लयाङ्गं सम्पूज्य तिथिनित्यां षोडशनित्या गुरुपंक्तित्रयं षडङ्गयुवतीश्च सम्पूज्य वक्ष्यमाणसमष्टियोगिनीमन्त्रेण त्रिः सकृद्वा पुष्पाञ्जलिं दत्वा धूपदीपौ निवेद्य योनिधेनुमहायोनित्रिशिखा पद्मसंक्षोभद्रावणाकर्षवश्योन्मादमहांकुशाखेचरीबीजयोनि- पाशांकुशधनुर्बाणाख्या अष्टादश मुद्राः प्रदर्श्य नमस्कारमुद्रया प्रणमेत् ।
अत्रैतावत्कर्तुमशक्तश्चेदभिमन्त्रणपूजनयोरन्यतरत् कुर्यात् ।
अत्राप्यशक्तश्चेदात्माष्टाक्षरपूजान्तं कृत्वानन्दभैरवमिथूनं सम्पूज्य सन्तर्प्यं सृष्ट्यादिकलापूजामारभ्य शेषं प्राग्वत् समापयेत् इति विशेषार्घ्यस्थापनविधिः ॥ ततस्तत्परतस्तेनैव विधिना श्रीपात्राख्यं पात्रान्तरं स्थापयेत् । तेन मूलदेव्यतिरिक्तावरणदेवतास्तर्पयेत् ।
पूजासमर्पणादिकं मूलदेव्यास्तर्पणं च विशेषार्घ्येणैव ।
तत्रानङ्गकुसुमादिपर्यन्तमावरणत्रयपूजासमर्पणमर्घ्यदानं च सामान्यर्घ्यजलेनैव कुर्यात् - इति श्रीपात्रस्थापनविधिः ॥

ततस्तदनुक्रमेणैव तदधः पंक्त्याकारेण पाद्याचमनीयमधुपर्कार्थं पात्रद्वयं शुद्धजलेनापूर्यं तृतीयं मधुपर्कद्रव्येणापूर्वं तेषु विशेषार्घ्यजलं किञ्चित्किञ्चिद् दत्त्वा मूलविद्यया पृथक्पृथगष्टवारमभिमन्त्रयेत् । मधुपर्के तु कांस्यपात्रं प्रशस्तं ताम्रपात्रवर्जमन्यद्वा पात्रान्तरेणाछादितं कुर्यात् । गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपदूर्वाः सामान्यार्घ्ये निःक्षिपेत् । पाद्यपात्रे श्यामाकतण्डुलदूर्वाकमलापराजितापुष्पोशीररोचनाख्यद्रव्याष्टकं निःक्षिपेत् । आचमनीयपात्रे जातीफललवङ्गकक्कोलचूर्णानि निःक्षिपेत् ।
उक्तद्रव्याभावे तत्तद्वस्तुभावनया तण्डुलान् निःक्षिपेत् । मधुपर्कपात्रे दधिमधुघृतानि निःक्षिप्य विशेषार्घ्यबिन्दुना संस्कुर्यात् ।
दध्याद्यलाभे जलेनैव तद्भावनया पूरयेत् । ततः स्वदक्षिणाग्रे पाद्यादिपात्र विधानेनैव पुनराचमनीयपात्रमपि स्थापयेत् ।
अत्राप्यशक्तौ पाद्यादित्रयमेकस्मिन्नेव पात्रे दद्यात् । ततः स्वगुरुमुखादवगतविनियोगविधौ पात्रचतुष्टयं सामान्यार्घ्यविधिना प्रोक्षणीपात्रात् परतः स्थापयेत् । तेषां नामानि तु गुरुपात्रं शक्तिपात्रं वटुकपात्रं आत्मपात्रं चेति । गुरुपादुकाविद्यया गुरुपात्रं बालया शक्तिपात्रं वटुकपात्रं तन्मन्त्रेणात्मपात्रमात्माष्टाक्षरमन्त्रेण चेति तत्तन्मन्त्रेण तत्तत्पात्रमष्टधाभिमन्त्रयेत् । ततः प्रोक्षणीपात्रोदकेन पात्रान्तरोद्धृतेन ओं ऐं ह्रीं श्रीं ऐं प्रथमकूटमूच्चार्य आत्मतत्त्वात्मने नमः ॥ ४ क्लीं द्वितीयं विद्यातत्त्वात्मने नमः । ४ सौः तृतीयं शिवतत्त्वात्मने नमः । ४ ऐंक्लींसौः समस्तमूलमुच्चार्यं सर्वतत्त्वात्मने नमः इति स्वात्मानं प्रोक्ष्य पुनर्मूलेन यागभूमिं यागोपकरणानि च श्रीचक्रं च प्रोक्ष्य सर्ववस्तुषु धेनुमुद्रां प्रदर्शयेत् : इत्यर्घ्यादिपात्रस्थापनविधिः ॥ अत्र श्रीपात्रस्थापनाशक्तौ विशेषार्घ्येणैव प्रोक्तपूजादिकं कुर्यात् ॥

अथ संक्षेपतः पात्रासादनप्रयोगः : तत्र स्ववामभागे चन्दनादिना त्रिकोणषट्कोणवृत्तचतुरस्रात्मकं मण्डलं विलिख्य तत्र पीठचतुष्टयात्मकं सम्पूज्य ४ मं धर्मप्रददशकलात्मने वह्निमण्डलाय श्रीपरदेवतायाः कलशाधाराय नमः इति सम्पूज्य तदुपरि प्रागादिप्रादक्षिण्येन प्राग्वत् धूम्रार्चिरादिदशकलाः सम्पूज्य तत्रास्त्रक्षालितं सुधूपितं कलशं संस्थाप्य ४ अं अर्थप्रदद्वादशकलात्मने सूर्यमण्डलाय श्रीपरदेवतायाः कलशपात्राय नमः : इति सम्पूज्य कलशोपरि प्रागादिप्रादक्षिण्येन तपिन्यादिद्वादशकलाः सम्पूज्य तस्मिन्नधिकारिभेदेन विहितं क्षीराज्यमध्वासवान्यतमं साङ्गं पृथक्पात्रेषु प्राक्संस्कृत द्रव्यं मूलविद्यासहितविलोमानुलोममातृकामूच्चरन् समापूर्यं तत्र षडङ्गयुवतो गुरुपंक्तित्रयषोडशनित्या तद्दिननित्या रत्नेश्वरीः सम्पूज्य ४ ओं कामप्रदषोडशकलात्मने सोममण्डलाय श्रीपरदेवतायाः कलशामृताय नमः : इति च सम्पूज्य प्रागादिप्रादक्षिण्येनामृतादिषोडशकलाः सम्पूज्य तदमृतं परब्रह्ममयं सञ्चिन्त्योद्धरणीसहितपिधानपात्रेणाच्छाद्य सूक्ष्मवस्त्रेण समाच्छादयेदिति कलशस्थापनविधिः ॥ अन्यानि च पात्राणि एतदुक्तरीत्या तत्तन्मन्त्रैः स्थापयेदिति संक्षेपः ॥

इति श्रीमहामहोपाध्यायभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्य- श्रीभगवच्छङ्कराचार्यशिष्य श्रीविष्णुशर्माचार्यशिष्य- श्रीप्रगल्भाचार्यशिष्य श्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे नवमः श्वासः ॥ ९ ॥

अथ

श्रीविद्यार्णवतन्त्र्

Innere Sammlung und Meditation.

Video zur Vertiefung: Wie erwacht die Kundalini?

Ein heutiger Yoga-Vidya-Vortrag zum Thema; keine Rezitation oder Übersetzung des historischen Textes.

Siehe auch

Seminare

Kundalini Yoga

30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Arjuna Wingen
06.11.2026 - 08.11.2026 Kundalini Yoga Einführung

Gründliche Einführung in die Theorie und Praxis des Kundalini Yoga, Yoga der Energie. Die praktischen Übungen des Kundalini Yoga umfassen Pranayama (…
Arjuna Wingen

Bhakti Yoga

27.10.2026 - 27.10.2026 Mantra-Konzert mit Shamana OM

Konzert mit Shamana OM
Shamana OM
31.10.2026 - 31.10.2026 Mantra-Konzert mit Gruppe Mudita

Konzert mit der Gruppe Mudita
Gruppe Mudita

Indische Schriften

26.12.2026 - 02.01.2027 Indische Rituale Ausbildung

Du interessierst dich für indische Rituale? Du hast die einzigartige Gelegenheit, in dieser Rituale Ausbildung bei Yoga Vidya die kleine Puja, große P…
Sukadev Bretz, Shankari Winkelbauer
01.01.2027 - 10.01.2027 Yogalehrer Weiterbildung Intensiv A1 - Jnana Yoga und Vedanta

Kompakte, vielseitige Weiterbildung für Yogalehrer rund um Jnana Yoga und Vedanta.
Tauche tief ein ins Jnana Yoga und Vedanta, studiere die indischen S…
Vedamurti Dr Olaf Schönert

Chakras

20.11.2026 - 22.11.2026 Heilreise durch die Chakren

Tauche ein in eine transformative Reise durch die sieben Hauptchakren und erfahre, wie du deine Energiezentren aktivieren, ausbalancieren und für dein …
Nese Niekrens, Gajendra Sebastian Niekrens
26.12.2026 - 01.01.2027 Kundalini Yoga Intensiv Praxis - Live Online

Intensives Praktizieren der im Mittelstufen-Seminar gelernten Übungen für noch tiefere Erfahrung und Erweiterung des Bewusstseins ohne viel Theorie. L…
Sukadev Bretz, Shaktipriya Vogt, Radharani Birkner

Energiearbeit

30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Arjuna Wingen
04.11.2026 - 04.11.2026 Einführung in die Chakratherapie - Online Workshop

Uhrzeit: 18 - 21 Uhr
Ein Chakra ist ein feinstoffliches Kraftzentrum des Körpers, welches wichtige Körperfunktionen steuert und bestimmten Organen zug…
Beate Menkarski

Vom Lesen zur Sammlung

Das Studium eines umfangreichen Tantra darf langsam sein. Ein aufmerksam gelesener Abschnitt kann wertvoller sein als viele flüchtig gelesene Seiten. Nimm dir Zeit, einen Begriff zu verstehen, eine Frage zu klären und die eigene Ausrichtung zu erneuern. So können Schriftstudium, Hingabe und Meditation einander ergänzen.