Shri Vidyarnava Tantra Sanskrit Devanagari Teil 7

Aus Yogawiki

Shri Vidyarnava Tantra – Sanskrit in Devanagari, Teil 7 enthält die Kapitel 32 bis 35. Gaṇeśa, Mañjughoṣa und die weiteren Gottheitsformen führen von der Vielfalt der Verehrung zur Betrachtung des höchsten Lichts. Kapitel 36 steht im achten Devanagari-Teil.

Umfang dieser Seite: Kapitel 32–35. Die markierten Quellenprobleme und Auslassungen gehören zum Editionsbefund.

Navigation

Zur Ausgabe: Alle Textteile · 108 inspirierende Verse · Mantras und Formelregister

Deutsch: Teil 1 — IAST: Teil 1 — Devanagari: Teil 1

Devanagari: 1 (Kap. 1–9) · 2 (Kap. 10–14) · 3 (Kap. 15–19) · 4 (Kap. 20–23) · 5 (Kap. 24–27) · 6 (Kap. 28–31) · 7 (Kap. 32–35) · 8 (Kap. 36)

So nutzt du diese Textfassung

Die Devanagari-Fassung ermöglicht den unmittelbaren Vergleich mit der Sanskritschrift. Nutze Kapitel, Abschnitt und – wo angegeben – Druckseite gemeinsam zur Orientierung. Die IAST-Fassung hilft beim Abgleich einzelner Wörter; die deutsche Übersetzung erläutert ihren Zusammenhang. Wiederholte Verszahlen gehören häufig zu verschiedenen Zitatreihen und sind deshalb nicht stillschweigend zusammenzuziehen.

Für diesen Teil mit Kapitel 32–35 stehen die passenden Übersetzungs- und Sanskritteile unmittelbar in der Navigation. Wähle beim Wechsel der Fassung denselben Abschnitt; die Grenzen der Dateien sind aus Umfangsgründen unterschiedlich gesetzt.

Textgrundlage und Lesehinweise

Die Druckseiten 668–727 sind bis zum Kolophon des zweiunddreißigsten Śvāsa erfasst. Kapitel 33 folgt im selben Artikel von Seite 727 bis zum Kolophon auf Seite 776. Kapitel 32 unterscheidet 891 nummerierte Einträge, Kapitel 33 weitere 926 und Kapitel 34 weitere 657 und Kapitel 35 weitere 914; außerdem sind Prosa, Mantraformeln, Drucklücken und Kolophon berücksichtigt. Abschnittskürzel und Seitenangaben verbinden die Fassungen, ohne die originale Verszählung zu ersetzen.

Grundlage ist der Druckscan des Uttarārdha von 1937, herausgegeben von Ram Chandra Kak und Harabhatta Shastri. Die seitenweisen Transkriptionen wurden mit dem Druckbild abgeglichen. Unsichere Bījas und beschädigte Ausdrücke sind örtlich markiert. Die IAST-Fassung ist aus diesen Devanagari-Daten transliteriert. Die Hinweise und berücksichtigten Varianten bilden keine vollständige kritische Edition.

Giftige Zubereitungen zur Schädigung oder erzwungenen Unterwerfung werden durch eindeutig zugeordnete Inhaltsangaben in der deutschen Fassung und Auslassungsvermerke im Sanskrit ersetzt: 32.MGP.74–77a (S. 689), 32.HUC.8–16 und 32.HVD.3–12 samt Materialkommentar (S. 707), 32.HMR.6–15 samt Materialkommentar (S. 708), 32.UCS.43b–45 (S. 715), 32.CAY.26b–30 (S. 721) und 32.ASU.17a (S. 724). Für diese Stellen wird keine wörtlich ungekürzte Ausgabe behauptet. Sichere angrenzende Verse bleiben erhalten. Die fehlende Nummer 32.SGC.6 und der Sprung 32.HRI.27 auf 37 bleiben ebenfalls sichtbar.

Die historischen Erfolgs-, Heilungs- und Schädigungsbehauptungen werden als Textaussagen bewahrt. Die zeitgenössischen Bilder und Videos begleiten das Studium; sie geben keine Rezitation dieses Sanskrittextes wieder.

Das Shri Yantra als moderne Bildbegleitung zum Studium.

32. Śvāsa

अथ द्वात्रिंशः श्वासः |
अथ महागणपतिमन्त्राः प्रदर्श्यन्ते— अथ वक्ष्ये महादेवि मन्त्रमेकाक्षरं परम् |
शार्ङ्गी प्रीतियुतः प्रोक्तो गणेशस्यैकवर्णकः ॥ १ ॥ इति |
शार्ङ्गी गकारः |
प्रीतिरनुस्वारः |
नारायणीये त्वस्य मन्त्रस्य पञ्च भेदा उक्ताः |
यथा— “खान्तं सान्तविषं सबिन्दुसकलं विध्वायुतं केवलं पञ्चैतानि पृथक्फलं विदधते बीजानि विघ्नेशितुः” इति |
[Lesung unsicher: विध्वायुतम्.] अन्तो विसर्गः, विषं मकारः ताभ्यां सह वर्तमानः खान्तो गकारः, तेन गं गः इति सिद्धम् |
कला विसर्गः तद्युक्तोऽन्यस्तेन गंः |
बिन्दुश्चन्द्रो च ताभ्यां युत इत्यपरः |
केवलं बिन्द्वादिरहितः |
तथा— “गणकः स्यादृषिश्छन्दो निचृद्विघ्नोऽस्य देवता” इति |
प्रयोगसारे— आदौ गणञ्जयायोक्त्वा स्वाहा हृदयमुच्यते |
एकदंष्ट्राय चाभाष्य हुंफट् विद्याशिरस्तथा ॥ १ ॥ शिखाप्यचलशब्दादिकर्णिने हृत्ततो नमः |
कवचं गजवक्त्राय नमो नमः इतीरितम् ॥ २ ॥ महोदराय चण्डाय हुंफडित्यस्त्रमिष्यते |
एतान्यङ्गानि विन्यसेत् पञ्चाङ्गानि मनीषिभिः ॥ ३ ॥ इति पञ्चाङ्गानि उक्तानि |
सारसंग्रहे तु— “षड्दीर्घेण निजेनैव बीजेनाङ्गानि योजयेत्” इत्युक्तम् |
तदेतयोर्विकल्पः |
“सप्राणिना वा बीजेन षडङ्गानि नियोजयेत्” इति प्रयोगसारवचनात् |
एवं सप्राणिना सदीर्घेण षड्दीर्घयुक्तेनेति यावत् |
अत्र यथागुरूपदेशं कार्यमिति |
प्रयोगसारे— रक्तो रक्ताङ्गरागांशुककुसुमयुतस्तुन्दिलश्चन्द्रमौलि- नेत्रैर्युक्तस्त्रिभिर्वामनकरचरणो बीजपूरात्तनासः |
हस्ताग्रकॢप्तपाशाङ्कुशरदवरदो नागवक्त्रोऽहिभूषो देवः पद्मासनो वो भवतु नतसुरो भूतये विघ्नराजः ॥ १ ॥ वामाद्यूर्ध्वयोराद्ये तदाद्यधस्तनयोरन्ये, इत्यायुधध्यानम् |
सारसंग्रहे— रक्ताभः शशिमौलिरङ्कुशगुणौ दन्तं वरं धारयन् हस्ताब्जैर्द्विरदाननस्त्रिनयनो रक्ताङ्गरागायुतः |
बीजापूरबृहत्करोरुजठरो दानार्द्रगण्डस्थलो विघ्नेशः फणिभूषणो गणपतिर्भूयाद्भवद्भूतये ॥ १ ॥ [Fußnotenzitat aus dem Merutantra: तत्रादौ वैदिकानां च गकारः केवलो मतः |
दक्षिणानां बिन्दुयुक्तो द्विबिन्दुः पूर्वधर्मिणाम् ॥ एतद्द्वययुतः पश्चादूर्ध्वाम्नायेति गौं इति |
ग्लौं उत्तरे गोमिति च पातालाम्नाय ईरितम् ॥ Lesung unsicher: letzte Bīja-Schreibungen und Verknüpfung der Überlieferungsrichtungen. Variante zum ersten Meditationsvers: पद्मस्थः.]

अत्र दक्षोर्ध्वादि तदधोन्तमायुधध्यानम् |
बृहत्करः शुण्डादण्डः (इति ध्यात्वा गणेशानं मानसैरुपचारकैः |
पूजयेदिति शेषः |
तीव्रादिशक्तिसंयुक्तं पीठं त्वावाह्य पूजयेत् |
) प्रपञ्चसारे— तीव्रा ज्वालिनीनन्दे सभोगदा कामरूपिणी चोग्रा |
तेजोवती च सत्या संप्रोक्ता विघ्ननाशिनी नवमी ॥ १ ॥ बीजान्ते सर्वशक्ति-प्रोक्त्वा कमलासनाय नम इति च |
आसनमन्त्रः प्रोक्तो नवशक्त्यन्ते समर्चयेदमुना ॥ २ ॥ इति |
अत्र मण्डूकादिपरतत्त्वान्ता योगपीठदेवतानां पूजा प्रागेव पूजाप्रकरणे लिखितत्वाद् ग्रन्थगौरवभयाच्चात्र न लिखिता |
सारसंग्रहे— अष्टपत्रं सरोजं तु चतुरस्रत्रयावृतम् |
चतुर्द्वारसमायुक्तमर्चपीठं विधाय च ॥ १ ॥ तत्रावाह्य गणेशानमर्चयेदुपचारकैः |
कर्णिकायां तु पूर्वादिचतुर्दिक्षु गणाधिपम् ॥ २ ॥ पीतं गौरं गणेशानं रक्तं च गणनायकम् |
गणक्रीडं नीलवर्णं केसरेषु ततो यजेत् ॥ ३ ॥ अग्नीशासुरवायव्यमध्ये दिक्षु यथाक्रमम् |
षडङ्गानि मनोरस्य ध्यातव्याश्चाङ्गदेवताः ॥ ४ ॥ तुषारस्फटिकश्यामनीलकृष्णारुणार्चिषः |
वरदाभयधारिण्यः प्रधानतनवः स्त्रियः ॥ ५ ॥ वक्रतुण्डादिकानष्टौ वक्ष्यमाणान् दले यजेत् |
वक्रतुण्डैकदंष्ट्रौ च महोदरगजाननौ ॥ ६ ॥ लम्बोदराख्यविकटौ विघ्नराड्धूम्रवर्णकौ |
दलाग्रेषु ततः पूज्या ब्राह्म्याद्यास्त्वष्ट मातरः ॥ ७ ॥ ब्राह्मी स्वर्णसमा ध्येया मृगचर्मविभूषिता |
अक्षमालाभये दण्डकुण्डिके दधती करैः ॥ ८ ॥ त्रिशिखं परशुं हस्तैर्डमरुं नृकपालकम् |
बिभ्राणां चन्द्रगौराङ्गीं माहेशीं भावयेच्छुभाम् ॥ ९ ॥ गुणखट्वाङ्गदण्डाङ्कुशान् वहन्तीं कराम्बुजैः |
इन्द्रगोपारुणां ध्यायेत् कौमारीं करुणालयाम् ॥ १० ॥ अरिशङ्खकपालानि घण्टां च करपङ्कजैः |
बिभ्राणां वैष्णवीं ध्यायेन्नीलमेघसमप्रभाम् ॥ ११ ॥ हलं च मुसलं दोर्भिर्दधानां खड्गखेटकौ |
वाराहीं भावयेच्छक्तिमञ्जनाद्रिसमप्रभाम् ॥ १२ ॥ तोमराङ्कुशवज्राहिविद्युद्युङ्कराम्बुजाम् |
इन्द्राणीं भावयेन्मन्त्री नीलवर्णां सुभूषणाम् ॥ १३ ॥ [Lesung unsicher: आहि/अहि und विद्युद्युक्.] धारयन्तीं शूलखड्गं कपालं नृशिरः करैः |
चामुण्डां शोणवर्णां च मुण्डमालायुतां स्मरेत् ॥ १४ ॥ स्वर्णाभामक्षमालां च बीजपूरकपालके |
पद्मं च दधतीं हस्तैर्महालक्ष्मीं स्मरेत् सुधीः ॥ १५ ॥ दक्षाधःकरमारभ्य तदूर्ध्वकरपर्यन्तमायुधध्यानं ब्राह्म्याः |
दक्षाद्यधःस्थयोराद्ये तदाद्यूर्ध्वस्थयोरन्ये माहेश्याः |
कौमार्यास्तु वामोर्ध्वकरमारभ्य दक्षोर्ध्वकरपर्यन्तम् |
वैष्णव्यास्तु दक्षोर्ध्वकरमारभ्य दक्षाधःकरपर्यन्तम् |
अरिश्चक्रम् |
वाराह्यास्तु दक्षाद्यूर्ध्वयोराद्ये तदाद्यधःस्थयोरन्ये |
इन्द्राण्यास्तु वामोर्ध्वकरमारभ्य वामाधःकरपर्यन्तम् |
चामुण्डायास्तु दक्षोर्ध्वाधःकरयोराद्ये वामोर्ध्वाधःकरयोरन्ये |
महालक्ष्म्यास्तु दक्षाधःकरमारभ्य दक्षोर्ध्वकरपर्यन्तमायुधध्यानम् |
तथा— चतुरस्रत्रयेऽन्तःस्थवीथीद्वन्द्वे समर्चयेत् |
दिक्पालांश्च तदस्त्राणि गणेशार्चनमीरितम् ॥ १६ ॥ इन्द्रं सुराधिपं पीतं वज्रहस्तं सवाहनम् |
अग्निं तेजोधिपं रक्तं शक्तिहस्तं सुभूषितम् ॥ १७ ॥

यमं प्रेताधिपं कृष्णं दण्डहस्तं समर्चयेत् |
रक्षोऽधिपं च निरृतिं खड्गहस्तं सुधूम्रकम् ॥ १८ ॥ पाशहस्तं सुशुभ्राङ्गं वरुणं यादसां पतिम् |
वायुं प्राणाधिपं धूम्रमङ्कुशान्यकरं यजेत् ॥ १९ ॥ [Lesung unsicher: अङ्कुशान्यकरम्.] यक्षाधिपं कुबेरं च पक्वबिम्बं गदाकरम् |
विद्याधिपं तथेशानं स्वच्छं शूलकरं यजेत् ॥ २० ॥ नागाधिपं तथा रक्तं गौरं चक्रकरं यजेत् |
लोकाधिपं विधातारं रक्तं पद्मकरं यजेत् ॥ २१ ॥ [Lesung unsicher: रक्तं गौरम्, widersprüchliche Farbangabe.] ऐरावतं तथा मेषं महिषं मृतपूरुषम् |
मकरं मृगमत्स्यौ च वृषं च विषहंसकौ ॥ २२ ॥ [Lesung unsicher: मत्स्यौ und विषहंसकौ.] इन्द्रादिलोकपालानां वाहनानि विदुर्बुधाः |
ततो बहिस्तदस्त्राणि तत्पार्श्वे च समर्चयेत् ॥ २३ ॥ वज्रं पीतं सितां शक्तिं दण्डं कृष्णं समर्चयेत् |
खड्गमाकाशसंकाशं पाशं विद्युत्प्रभं यजेत् ॥ २४ ॥ अङ्कुशं रक्तवर्णं च शुक्लवर्णां गदां यजेत् |
त्रिशूलं नीलवर्णं च यजेत् साधकसत्तमः ॥ २५ ॥ रथाङ्गं रविबिम्बाभं पद्मं रक्तं समर्चयेत् |
लोकपालायुधान्येव कथितानि मनीषिभिः ॥ २६ ॥ य एवं पूजयेदेवं गणेशं भक्तिसंयुतः |
इह भुक्त्वाखिलान् भोगानन्ते शिवपदं व्रजेत् ॥ २७ ॥ इति ॥ अथ प्रयोगः— तत्र प्रातःकृत्यादियोगपीठन्यासान्ते गणेशमन्त्रेण प्राणायामत्रयं कृत्वा, शिरसि गणकाय ऋषये नमः |
मुखे निचृच्छन्दसे नमः |
हृदये श्रीविघ्नेश्वराय देवतायै नमः |
इति विन्यस्य मम सर्वाभीष्टसिद्धये जपे विनियोगः |
इति कृताञ्जलिरुक्त्वा मूलमन्त्रेण करशुद्धिं कृत्वा, अङ्गुष्ठयोः गणञ्जयाय स्वाहा, हृदयाय नमः |
तर्जन्योः एकदंष्ट्राय हुंफट्, शिरसे स्वाहा |
मध्यमयोः अचलकर्णिने नमोनमः, शिखायै वषट् |
अनामिकयोः गजवक्त्राय नमोनमः, कवचाय हुं |
कनिष्ठिकयोः महोदराय चण्डाय हुंफट्, अस्त्राय फट् |
इति मन्त्रानङ्गुष्ठादिकनिष्ठान्तं करयोर्विन्यस्य, नेत्रवर्जं हृदयादिपञ्चाङ्गेष्वपि न्यसेत् |
अथवा गां गीं इत्यादिना करषडङ्गन्यासं कृत्वा ध्यानाद्यात्मपूजान्तं प्रोक्तविधिना कृत्वा, एकदंष्ट्राय विद्महे वक्रतुण्डाय धीमहि तन्नो विघ्नः प्रचोदयात् |
इति गणेशगायत्र्या गणेशं पूजाद्रव्याणि पूजास्थानं च प्रोक्ष्य, देवताग्रे पूर्वं परिकल्प्य तदनुसारेण प्राग्नैर्ऋतिकोणे श्रीपर्ण्यादिपीठे कुङ्कुमादिना चतुर्द्वारयुक्तचतुरस्रत्रयवेष्टितमष्टदलकमलं पूजायन्त्रं निर्माय, तत्र प्रागुक्तविधिना मण्डूकादिपृथिव्यन्तं संपूज्य, सुधार्णवस्थाने इक्षुरससमुद्रं संपूज्य, रत्नद्वीपादिपरतत्त्वार्चान्तेऽष्टदलकेसरेषु स्वाग्रान्मध्यान्तं— ॐतीव्रायै नमः |
ज्वालिन्यै० |
नन्दायै० |
भोगदायै० |
कामरूपिण्यै० |
उग्रायै० |
तेजोवत्यै० |
सत्यायै० |
विघ्ननाशिन्यै नमः |
इति संपूज्य, गं सर्वशक्तिकमलासनाय नमः, इति समस्तं पीठमभ्यर्च्य, तत्र मूलमन्त्रमुच्चार्य श्रीगणेशमूर्तिं परिकल्पयामि नमः इति चक्रमध्ये मूर्तिं परिकल्प्य, मूर्त्यभावे पुष्पादिकं निक्षिप्य ध्यानोक्तां मूर्तिं भावयन् मूलमुच्चार्य “श्रीगणपतिमूर्तये नमः” इति मूर्तिं संपूज्य, तस्यां प्रागुक्तविधिना गणेशमावाह्यावाहनादिमुद्राः प्रदर्श्य, प्राणप्रतिष्ठान्ते दन्तपाशाङ्कुशविघ्नपरशुलड्डुकबीजापूराख्याः सप्त मुद्राः प्रदर्श्य, आसनादिपुष्पान्तानुपचारानुपचर्य, कर्णिकायां देवाग्रादिचतुर्दिक्षु— ॐगणाधिपाय नमः |
गणेशानाय० |
गणनायकाय० |
गणक्रीडाय नमः |
इति संपूज्य, अष्टदलकेसरेषु— आग्नेये ॐगणञ्जयाय स्वाहा हृदयाय नमः |
ईशाने ॐएकदंष्ट्राय हुंफट् शिरसे स्वाहा० |
नैर्ऋते ॐअचलकर्णिने नमोनमः शिखायै वषट्० |
वायव्ये गजवक्त्राय नमोनमः कवचाय हुं० |
ततो देवाग्रादिचतुर्दिक्षु— ॐमहोदराय चण्डाय हुंफट् अस्त्राय फट् नमः |
यद्वा, पूर्वोक्तस्थानेष्वेव— गां हृदयाय नमः |
गीं शिरसे स्वाहा इत्यादिषडङ्गानि पूजयेत् |
अत्र षडङ्गपक्षे तु देवस्याग्रे गौं नेत्रत्रयाय वौषट् |
इति नेत्रे संपूज्य पश्चादस्त्रं पूजये- [Lesung unsicher: Richtungsangabe प्राग्नैर्ऋतिकोणे und einzelne Oṃ-Zeichen in der Prosa; die Endsilbe setzt sich auf Seite 671 fort.]

दिति शेषः |
ततोऽष्टदलेषु देवाग्रदलमारभ्य— ॐवक्रतुण्डाय नमः |
एकदंष्ट्राय० |
महोदराय० |
गजाननाय० |
लम्बोदराय० |
विकटाय० |
विघ्नराज्ञाय० |
धूम्रवर्णाय नमः |
इति प्रादक्षिण्येन संपूज्य, दलाग्रेषु— आं ब्राह्म्यै नमः |
ईं माहेश्वर्यै० |
ऊं कौमार्यै० |
ऋं वैष्णव्यै० |
लृं वाराह्यै० |
ऐं इन्द्राण्यै० |
औं चामुण्डायै० |
अः महालक्ष्म्यै नमः |
इति संपूज्य, बहिश्चतुरस्रप्रथमवीथ्यां देवाग्रमारभ्य— ॐ लं इन्द्राय सुराधिपतये पीतवर्णाय वज्रहस्ताय ऐरावतवाहनाय नमः |
ॐ रं अग्नये तेजोधिपतये रक्तवर्णाय शक्तिहस्ताय मेषवाहनाय नमः |
ॐ टं यमाय प्रेताधिपतये कृष्णवर्णाय दण्डहस्ताय महिषवाहनाय नमः |
ॐ क्षं निरृतये रक्षोऽधिपतये धूम्रवर्णाय खड्गहस्ताय प्रेतवाहनाय नमः |
ॐ वं वरुणाय जलाधिपतये शुक्लवर्णाय पाशहस्ताय मकरवाहनाय नमः |
ॐ यं वायवे प्राणाधिपतये कृष्णवर्णायाङ्कुशहस्ताय मृगवाहनाय नमः |
ॐ सं कुबेराय यक्षाधिपतये मौक्तिकवर्णाय गदाहस्ताय नरवाहनाय नमः |
ॐ हं ईशानाय विद्याधिपतये स्फटिकवर्णाय शूलहस्ताय वृषवाहनाय नमः |
इति संपूज्य, इन्द्रेशानयोर्मध्ये ॐ आं ब्रह्मणे लोकाधिपतये रक्तवर्णाय पद्महस्ताय हंसवाहनाय नमः |
निरृतिवरुणयोर्मध्ये ॐ ह्रीं अनन्ताय नागाधिपतये गौरवर्णाय चक्रहस्ताय गरुडवाहनाय नमः |
इति संपूज्य, द्वितीयवीथ्यां— ॐ वज्राय नमः |
शक्तये० |
दण्डाय० |
खड्गाय० |
पाशाय० |
अङ्कुशाय० |
गदायै० |
त्रिशूलाय० |
पद्माय० |
चक्राय नमः |
इति लोकपालायुधानि देवाग्रमारभ्य प्रादक्षिण्येन संपूज्य, मूलमुच्चार्य साङ्गाय सपरिवाराय श्रीगणपतये नमः, इति त्रिःपुष्पाञ्जलिना संपूज्य धूपदीपादि पूर्वोक्तविधिना सर्वं कुर्यादिति ॥ सारसंग्रहे— एकलक्षं मनुं जप्त्वा जुहुयात् तद्दशांशतः |
अष्टद्रव्यैर्महेशानि तर्पणादि ततश्चरेत् ॥ १ ॥ मोदकैः पृथुकैर्लाजैः सक्तुभिः सेक्षुपर्वभिः |
नारिकेलैस्तिलैः शुद्धैः सुपक्वैः कदलीफलैः ॥ २ ॥ इति |
अत्रैकैकद्रव्येण सार्धद्वादशशतं जुहुयात् |
उक्तं च गणेश्वरपरामर्शिन्याम्— “अष्टद्रव्यैस्त्रिमध्वक्तैर्जुहुयाच्च पृथक्पृथक्” |
इति |
अत्र जपः कृतयुगपरः |
कलावेतच्चतुर्गुणं जपहोमादिकं कार्यमिति |
तथा सारसंग्रहे— दौग्धान्नेन घृताक्तेन होमोऽभीष्टफलप्रदः |
लक्ष्मीकामो नारिकेलैश्चतुर्थ्यां जुहुयाच्छिवे ॥ ३ ॥ तिललाजान्वितैः सक्तुनारिकेलैश्चतुःशतम् |
सितपक्षादिमारभ्य प्रत्यहं च हुनेत् क्रमात् ॥ ४ ॥ चतुर्थ्यन्तं ततः सर्वे प्राणिनो वशगा नृणाम् |
तिलैस्तण्डुलसंसिक्तैर्होमः श्रीवश्यकीर्तिदः ॥ ५ ॥ स्वादुत्रययुतैर्लाजैर्हुनेत् सप्तदिनावधि |
कन्यार्थी लभते कन्यां वरं कान्तं वरार्थिनी ॥ ६ ॥ दधिसंसिक्तलवणैर्जुहुयाच्च चतुर्दिनम् |
निशीथिन्यां च सर्वेषां भवेद्वश्यं तथेप्सितम् ॥ ७ ॥ इति |
अत्र सर्वत्र काम्यहोमेषु संख्यानुक्तौ कार्यस्य गुरुलाघवं ज्ञात्वा च सहस्रादिनियुतपर्यन्तं कार्यानुसारेण जुहुयात् |
उक्तं च कुलार्णवे— एकेन वाथ सर्वैर्वा तत्कार्यगुरुलाघवम् |
ज्ञात्वा देवि सहस्रं वा त्रिसहस्रं तु पञ्च वा ॥ १ ॥ अयुतं नियुतं वापि प्रयुतं वा कुलेश्वरि |
तत्तत्कर्मोदिते कुण्डे संस्कृते हव्यवाहने ॥ २ ॥ सितार्कद्रुममूलेन कुचन्दनसुदारुभिः |
गजत्रोटितनिम्बेन विषाणेनैव दन्तिनाम् ॥ ३ ॥ विधाय विघ्नं संपूज्य तं स्पृष्ट्वा प्रजपेन्मनुम् |
उपोषितः शुचिश्चन्द्रग्रहे तं च समुद्धरेत् ॥ ४ ॥ [Lesung unsicher: ऋं/लृं in den Mātṛkā-Bījas; die Zeichen sind im Druck klein und werden nicht als gesicherte Vokallängen ausgegeben.]

शिरसाधाय व्यवहारादौ समरे विजयो भवेत् |
रोचनां समदानेन संजप्त्वा मनुना ततः ॥ ५ ॥ समदा गजमदसरिता |
तिलकात् सर्वराजानो लोकाः स्युर्वशगाः प्रिये |
नवनीते नवे साध्यनामालिख्यानुलोमगम् ॥ ६ ॥ विलोमं विघ्नबीजं च तद्घृतं स्थापितानिलम् |
अष्टोत्तरशतं जप्त्वा तूष्णीं तद्भक्षयेत् ततः ॥ ७ ॥ सप्ताहाद्वशगः साध्यः साधकस्य भवेद् ध्रुवम् |
गणेशं तर्पयेत् तोयैः संख्यया वक्ष्यमाणया ॥ ८ ॥ एकोनपञ्चाशता च दिनैरिष्टमवाप्नुयात् |
प्रणवादिममुं मन्त्रं केचिदिच्छन्ति सूरयः ॥ ९ ॥ पूजायां च हृदन्तोऽयं होमे स्वाहान्त ईरितः |
[Punktreihe im Druck.] इति |
तथा सारसंग्रहे— मन्त्रान्तरम् |
स्मृतिभूमनुयुग्बिन्दुनादालंकृतमस्तकः |
एकाक्षरो गणेशस्य मन्त्र एष उदाहृतः ॥ १ ॥ इति |
स्मृतिर्गकारः, भूर्लकारः, मनुरौकारः, बिन्दुनादेन युतस्तेन ग्लौं इति |
तथा— शार्ङ्गी चतुर्दशाद्यस्वरयुग्बिन्दुभूषितः |
अयमेको गणपतेरेकार्णो मन्त्र उत्तमः ॥ १ ॥ इति |
शार्ङ्गी गकारः, चतुर्दशाद्यस्वर औकारः, बिन्दुरनुस्वारस्तेन गौं इति ॥ तथा— गणको मुनिरुक्तः स्यान्निचृच्छन्दश्च देवता |
बालो गणपतिः सर्वसुरासुरनमस्कृतः ॥ २ ॥ स्वेन षड्दीर्घयुक्तेन षडङ्गानि प्रकल्पयेत् |
[Punktreihe im Druck.] अत्राद्ये ग्लां ग्लीं इत्यादि, द्वितीये गां गीं इत्यादि करषडङ्गन्यासो ज्ञेयः ॥ तथा— ध्यानपूजाजपाद्यं स्याद् पूर्ववदेव तु |
ततः सिद्धे मनौ सम्यक् पूर्वमन्त्रोदितान् प्रिये ॥ ३ ॥ प्रयोगान् विधिवत् कुर्यात् साधकोऽभीष्टसिद्धये |
[Punktreihe im Druck.] इति ॥ इत्थमेकाक्षरः सप्तविधः |
काम्यहोममाह— दौग्धान्नेनेति तिललाजेत्यादिश्लोकस्यायमर्थः— शुक्लप्रतिपदमारभ्य तच्चतुर्थ्यन्तेषु चतुर्दिनेषु प्रत्यहं प्रथमतस्तिलैरेकशतं, तदनु लाजैस्तदनु सक्तुभिस्तदनु नारिकेलैस्त्रिमध्वक्तैः क्रमाच्चतुःशतं जुहुयात् इति |
नवनीत इत्यादि, नवे नवनीते परस्परविमुखगणेशबीजद्वयस्य मध्ये तद्बीजद्वयबिन्दुस्थाने मम, बीजाधः अमुकं, तयोर्मध्ये वशं कुरु कुरु, इति साध्यसाधकक्रमेण विलिख्य, तत्सर्वं गणेशबीजैरावेष्ट्य, तत्र साध्यप्राणस्थापनं विधायाष्टोत्तरशतं मूलमन्त्रं नवनीतं स्पृशन् जपित्वा पश्चात् तद्भक्षयेत् |
इत्थं सप्ताहप्रयोगेण साध्यो वश्यो भवति ॥ सारसंग्रहे— मन्त्रान्तरम् |
विरिशब्दद्वयं प्रोच्य वदेद्गणपतिं ततः |
वरेति च समुच्चार्य वरदेति वदेत् पुनः ॥ १ ॥ सर्वलोकाद्वितीयान्तमन्ते वशमथोच्चरेत् |
आनयाग्निवधूरन्तं मायाद्यं च समुद्धरेत् ॥ २ ॥ विरिविघ्नेशमन्त्रोऽयं षड्विंशत्यक्षरो भवेत् |
[Punktreihe im Druck.] इति |
विरिशब्दद्वयं विरिविरि इति |
गणपतिमिति लेखनं कर्मणि द्वितीया तेन गणपतिं इति |
द्वितीयान्तेन सर्वलोकमिति |
अग्निवधूः स्वाहा |
मायाद्यं भुवनेश्वरीबीजाद्यम् |
केचिच्चैनं मन्त्रमेकोनविंशत्यक्षरात्मकं वदन्ति |
तन्मते “वरवरद” इति पञ्चवर्णा लोकमिति वशंद्वयम् इति सप्तवर्णा न भवन्ति ॥ [Lesung unsicher: Prosa zur ausgelassenen Silbengruppe; Wortlaut und Zählung nicht eindeutig.] उक्तं च गणेश्वरपरामर्शिन्याम्— वकाररेफावपि लोचनाढ्यौ पुनस्तथोद्धृत्य गणात्पतीति |
सर्वं समुच्चार्य च मे वशं स्यान्माकारतश्चापि तथानयेति ॥ १ ॥

शब्दः शिरः स्यात्” इति |
अस्यार्थः— वकाररेफौ लोचनाढ्यौ प्रत्येकमिकारयुक्तौ, पुनरेतौ वर्णावुद्धृत्य तेन विरिविरि इति |
गणात्पति गणपति सर्वं मे वशमानय, शिरः स्वाहाकारः |
मायाद्यश्च पूर्वोद्धृतमन्त्रस्यैव मन्त्रान्तरत्वेनोक्तत्वात् |
अन्ये तु— वैपरीत्येनादौ महागणपतिमन्त्रस्य बीजषट्कं योजयित्वा षड्विंशत्यक्षरस्य द्वात्रिंशदक्षरत्वं वदन्ति |
बीजषट्कं तन्मन्त्रोद्धारप्रकरणे वक्ष्यते, वैपरीत्यं तु तत्रोक्तक्रमस्य |
तथा— मुनिर्गणक आख्यातश्छन्दो गायत्रमुच्यते |
देवता विरिविघ्नेशो दृष्टादृष्टफलप्रदः ॥ २ ॥ द्वितीयमन्त्रस्य निचृच्छन्दः |
वेदवेदेषुपञ्चार्णैः शरलोचनसंख्यकैः |
विभक्तैर्मूलमन्त्रार्णैः षडङ्गानि मनोरथ ॥ ३ ॥ मायाद्यानि विधेयानि जातियुक्तानि मन्त्रिणा |
[Punktreihe im Druck.] वेदाश्चत्वारः |
इषवः पञ्च |
शराः पञ्च |
लोचनं द्वयम् |
मायाद्यानीति प्रत्येकं मायाबीजयुक्तानि |
जातयो नमःस्वाहावषट् इत्यादयः |
एतल्लक्षणमुक्तं प्रागेव |
द्वितीयमन्त्रस्य तु मन्त्रपदैः षड्भिः षडङ्गानि |
सिन्दूराभमिभाननं त्रिनयनं हस्तेषु पाशाङ्कुशौ बिभ्राणं मधुमत्कपालमनिशं सार्धेन्दुमौलिं भजे |
पुष्ट्याश्लिष्टतनुं ध्वजाग्रकरया पद्मोल्लसद्धस्तया तद्योन्याहितपाणिमात्तवसुमत्पात्रोल्लसत्पुष्करम् ॥ ४ ॥ वामदक्षोर्ध्वकरयोर्वामाधःकरे च पाशादित्रयं, दक्षाधःकरं देव्या वराङ्गे, वामाङ्कनिविष्टया देव्या दक्षिणकरेण प्रियाश्लेषः |
वामाधःकरेण ध्वजाग्रं स्पृशन्त्या, वामदक्षिणयोः पद्ममित्यायुधध्यानम् |
पुष्करं शुण्डादण्डः |
द्वितीयेऽपि मन्त्रे इदमेव ध्यानम् |
तृतीये तु— [Lesung unsicher: Handzuordnung der Göttin im mittleren Prosasatz.] बीजापूरगदे शरासनमरिं मालां च वामैः करैर्दक्षैरुत्पलपाशमार्गणरदान् रत्नाढ्यकुम्भं दधत् |
सिन्दूरारुणविग्रहस्त्रिनयनो योन्यात्तशुण्डो गणस्तल्लिङ्गाहितपाणिमम्बुजकरां पुष्टिं वहन् वोऽवतात् ॥ ५ ॥ अत्र वामाधःकरादिदक्षाधःकरादिषु चायुधध्यानम् |
कुम्भस्य सर्वोर्ध्वकरे युक्तत्वात् |
तथा— यजेत् पीठे पुरा प्रोक्ते नवशक्तिसमन्विते |
मूलमन्त्रेण कॢप्तायां मूर्तावावाह्य पूजयेत् ॥ ६ ॥ मिथुनानि यजेदादावामोदादीन् दिगम्बरान् |
अङ्गानि पूजयेत् पश्चान्मातॄश्चैव ततः सुधीः ॥ ७ ॥ अर्चयेल्लोकपालांश्च तदस्त्राणि ततो बहिः |
षडावरणसंयुक्तं विरिविघ्नेश्वरं यजेत् ॥ ८ ॥ इति ॥ अथ प्रयोगः— तत्र प्राग्वद्योगपीठन्यासान्ते मूलमन्त्रेण प्राणायामत्रयं कृत्वा, शिरसि गणकाय ऋषये नमः |
मुखे गायत्रीच्छन्दसे नमः |
हृदि विरिविघ्नेश्वराय देवतायै नमः |
इति विन्यस्येष्टसिद्धये विनियोगः, इति कृताञ्जलिरुक्त्वा, चतुर्भिर्हृदयं, चतुर्भिः शिरः, पञ्चभिः शिखा, पञ्चभिः कवचं, पञ्चभिर्नेत्रं, द्वाभ्यामस्त्रमिति विभक्तैर्मन्त्रवर्णैः षडङ्गानि विन्यस्य, ध्यानादिपुष्पोपचारान्ते तत्त्रिकोणे वक्ष्यमाणमहागणपतिपूजोक्तमिथुनत्रयं षट्कोणेष्वामोदादिषट्कं अष्टदलकेसरेष्वङ्गषट्कं दलेषु लोकेशांस्तदस्त्राणि चतुरस्रवीथीद्वये संपूज्य प्राग्वत् शेषं समापयेदिति ॥ तथा— [Editorischer Hinweis: Aufzählung der Umkreise in Vers und Prosa nicht vollständig deckungsgleich; nicht stillschweigend ergänzt.]

वेदलक्षं जपेन्मन्त्रं जुहुयात् तद्दशांशतः |
मधुरत्रयसंयुक्तैर्द्रव्यैरष्टभिरीरितैः ॥ ९ ॥ एवं साधितमन्त्रस्तु प्रयोगान् कर्तुमर्हति |
विकचोत्पलहोमेन वशयेत् सकलं जगत् ॥ १० ॥ तिलतण्डुलहोमेन श्रियमाप्नोत्यनिन्दिताम् |
मोदकानाज्यसंयुक्तान् हुत्वा विजयमाप्नुयात् ॥ ११ ॥ मधुरत्रयहोमेन राजानं वशमाप्नुयात् |
अभीष्टसाधनो होमो भक्ष्यभोज्यादिभिः कृतः ॥ १२ ॥ इति ॥ सारसंग्रहे— मन्त्रान्तरम् |
वदेत् सौम्यं चतुर्थ्यन्तं महागणपतिं तथा |
वरान्ते वरदं प्रोक्त्वा वदेत् सर्वजनं ततः ॥ १ ॥ मे वशं च समाभाष्य वदेदानय ठद्वयम् |
लक्ष्मीगणेशबीजाढ्य एकोनत्रिंशदक्षरः ॥ २ ॥ लक्ष्मीगणेशमन्त्रोऽयं सर्वसंपत्प्रदायकः |
[Punktreihe im Druck.] चतुर्थ्यन्तं महागणपतिं महागणपतये इति |
ठद्वयं स्वाहाकारः |
लक्ष्मीबीजं श्रीं |
गणेशबीजं गं |
एतदाद्यः |
तथा— अन्तर्यामी मुनिः प्रोक्तो गायत्री निचृदन्विता |
छन्दो लक्ष्मीगणेशोऽत्र देवता समुदाहृता ॥ ३ ॥ षड्दीर्घयुक्तेनाद्येन द्वितीयेन च तद्वता |
षडङ्गानि विधेयानि जातियुक्तानि मन्त्रिणा ॥ ४ ॥ हेमाभः पीतवस्त्रः करतलकमलैः संदधच्चक्रशङ्खौ दन्ताभीती च नासाधृतकनकघटः पद्मसंस्थस्त्रिनेत्रः |
वामाङ्काविष्टलक्ष्म्या विधृतकमलया प्रोल्लसद्दक्षदोष्णा श्लिष्टः सौवर्णकान्त्या गणप इह महाश्रीकरो वः श्रियेऽस्तु ॥ ५ ॥ दक्षोर्ध्वकरमारभ्य दक्षाधःकरपर्यन्तमायुधध्यानम् |
नासा शुण्डादण्डः |
तथा— प्राक्प्रोक्ते पूजयेत् पीठे तीव्रादिनवशक्तिके |
अष्टपत्राम्बुजद्वन्द्वे कर्णिकाकेसरोज्ज्वले ॥ ६ ॥ चतुर्द्वारसमायुक्तचतुरस्रत्रयावृते |
मूलेन मूर्तिं सङ्कल्प्य तस्यामावाह्य पूजयेत् ॥ ७ ॥ प्रथमावृतिरङ्गैः स्याद्वक्रतुण्डादिभिः परा |
अणिमा महिमा चैव लघिमा गरिमा तथा ॥ ८ ॥ ईशित्वं च वशित्वं च प्राकाम्यं प्राप्तिरेव च |
एताः समर्चयेत् सम्यक् तृतीयावरणे क्रमात् ॥ ९ ॥ ततस्तु मातरः पूज्या लोकेशास्तदनन्तरम् |
तदायुधानि तद्वच्च भक्तियुक्तः समर्चयेत् ॥ १० ॥ इति ॥ अथ प्रयोगः— तत्र प्रातरुत्थानादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा, शिरसि अन्तर्यामिऋषये नमः |
मुखे निचृद्गायत्रीच्छन्दसे नमः |
हृदये श्रीलक्ष्मीगणेशाय देवतायै नमः |
इति विन्यस्य प्राग्वद्विनियोगमुक्त्वा, श्रां गां हृदयाय नमः |
श्रीं गीं शिरसे स्वाहा |
श्रूं गूं शिखायै वषट् |
श्रैं गैं कवचाय हुं |
श्रौं गौं नेत्रत्रयाय वौषट् |
श्रः गः अस्त्राय फट् |
इति करषडङ्गन्यासं विधाय ध्यानादिमानसपूजान्ते प्रोक्तमर्चापीठमुद्धृत्यार्घ्यस्थापनादिपुष्पोपचारान्ते प्रथमाष्टदलकेसरेषु प्राग्वत् षडङ्गानि संपूज्य दलाष्टके एकाक्षरपूजोक्तान् वक्रतुण्डादिकान् संपूज्य, द्वितीयाष्टदलेषु देवाग्रदलमारभ्य ॐ अणिमासिद्ध्यै नमः |
एवं महिमासि० |
लघिमासि० |
गरिमासि० |
ईशित्वसि० |
वशित्वसि० |
प्राकाम्यसि० |
प्राप्तिसिद्ध्यै नमः |
इति प्रादक्षिण्येन संपूज्य, दलाग्रेषु ब्राह्म्यादिकाः प्राग्वत् संपूज्य, चतुरस्रवीथीद्वये लोकपालांस्तदायुधानि

च संपूज्य धूपदीपादि सर्वं पूर्ववत् समापयेदिति |
तथा— लक्षमेकं जपेन्मन्त्रं दीक्षितो विजितेन्द्रियः |
दशांशं जुहुयाद्बिल्वसमिधो मधुरप्लुताः ॥ ११ ॥ (तर्पणादि ततः कुर्यात् पूर्वोक्तविधिना प्रिये |
एवं सिद्धमनुर्मन्त्री साधयेदिष्टमात्मनः ॥ १२ ॥ हुनेच्चतुःसहस्राणि श्रीफलैर्मधुरप्लुतैः |
) महालक्ष्मीकरो होमः पुत्रमित्रकलत्रदः ॥ १३ ॥ शुद्धतोयेन संतर्प्य चत्वारिंशच्चतुःशतम् |
चत्वारिंशद्दिनान्मन्त्री वाञ्छितां लभते श्रियम् ॥ १४ ॥ इति ॥ सारसंग्रहे— मन्त्रान्तरम् |
बिन्दुवामाक्ष्यग्नियुता स्मृतिर्मायासुमध्यगा |
त्र्यक्षरः शक्तिगणपः सर्वसिद्धिप्रदायकः ॥ १ ॥ स्मृतिर्गकारः |
अग्नी रेफः |
वामाक्षि ईकारः |
बिन्दुरनुस्वारः |
एतैः पिण्डितं बीजं मायासुमध्यगा मायाबीजद्वयस्य मध्ये कुर्यात् |
तथा— भार्गवोऽस्य मुनिश्छन्दो विराड्देवः समीरितः |
शक्त्यादिगणपस्तत्र देवदानववन्दितः ॥ २ ॥ षड्दीर्घभाजा बीजेन षडङ्गानि प्रकल्पयेत् |
गजेन्द्रवदनं साक्षाच्चलत्कर्णसुचामरम् ॥ ३ ॥ हेमवर्णं चतुर्बाहुं पाशाङ्कुशधरं विभुम् |
स्वदन्तं दक्षिणे हस्ते बीजापूरं च वामके ॥ ४ ॥ पुष्करे मोदकांश्चैव धारयन्तमनुस्मरेत् |
[Punktreihe im Druck.] वामोर्ध्वकरमारभ्य वामाधःकरपर्यन्तमायुधध्यानम् |
पूर्वोक्ते पूजयेत् पीठे तीव्रादिनवशक्तिके |
अष्टपत्राम्बुजे देवं चतुरस्रत्रयावृते ॥ ५ ॥ प्रथमाङ्गावृतिः प्रोक्ता द्वितीया मातृभिः स्मृता |
तृतीया लोकपालैः स्यादस्त्रैश्च चतुर्थ्यपि ॥ ६ ॥ (इति ॥ अथ प्रयोगः— तत्र प्राग्वद्योगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा, शिरसि भार्गवाय ऋषये नमः |
मुखे विराट्छन्दसे नमः |
हृदये श्रीशक्तिगणपतये देवतायै नमः |
इति विन्यस्य, ग्रां ग्रीं इत्यादिना करषडङ्गन्यासं विधाय, ध्यानादिमानसपूजान्ते पूजाचक्रमुद्धृत्यार्घ्यादिपुष्पोपचारान्ते केसरेषु षडङ्गानि दलेषु मातॄश्चतुरस्रे लोकेशान् तदायुधानि च प्राग्वत् संपूज्य शेषं प्राग्वत् समापयेदिति |
तथा— लक्षमेकं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः |
तद्दशांशं प्रजुहुयादपूपैर्घृतसंप्लुतैः ॥ ७ ॥ एवं सिद्धमनुर्मन्त्री काम्यकर्माणि साधयेत् |
[Punktreihe im Druck.] अत्रापि कलौ चतुर्गुणजपादिकं कार्यमिति |
शुक्लपक्षे चतुर्थ्यां तु पूजयित्वा विनायकम् |
अपूपैर्गुडसंमिश्रैः पक्वान्नैर्घृतसंप्लुतैः ॥ ८ ॥ मरिचैर्जीरेकैश्चैव सैन्धवेन विमिश्रितैः |
देवस्य सन्निधौ मन्त्री जुहुयात् त्रिसहस्रकम् ॥ ९ ॥ गद्यपद्यमयी वाणी सप्ताहाद्भवति ध्रुवम् |
वश्यार्थे मधुहोमेन राजानं वशमानयेत् ॥ १० ॥ कन्यार्थी जुहुयाल्लाजैस्तन्नामपुटमन्त्रतः |
एकां कन्यामथो सप्तधा जपेल्लभते वधूम् ॥ ११ ॥ [Lesung unsicher: zweiter Halbvers.] चन्द्रसूर्यग्रहे प्राप्ते पलं तु कपिलाघृतम् |
कर्षमात्रं वचाचूर्णं मिश्रीकृत्वाभिमन्त्रयेत् ॥ १२ ॥ पिबेत्तदानीं यो भूत्वा देवताध्यानतत्परः |
यावत्पानं भवेत्तावन्नाश्नीयात् किमपीह सः ॥ १३ ॥ सप्ताहाज्जायते शीघ्रमपरो वाक्पतिर्यथा |
वन्ध्यर्तुस्नानदिवसे पूजयित्वा विनायकम् ॥ १४ ॥

निष्कार्धपादभागेन हरिद्रां सैन्धवं वचाम् |
गोमूत्रकुडवे पिष्टं सहस्रमभिमन्त्रितम् ॥ १५ ॥ वध्वा कन्यां भक्ष्यभोज्यैर्भोजयित्वा च तत्क्रमात् |
गुरवे दक्षिणां दत्त्वा पिबेन्नारी तदौषधम् ॥ १६ ॥ [Lesung unsicher: वध्वा कन्याम्.] ततः सा लभते पुत्रं सर्वलक्षणसंयुतम् |
आयुष्मन्तं सुरूपं च बुद्धिमन्तं श्रिया युतम् ॥ १७ ॥ इति |
सूर्यचन्द्रग्रहे इत्यादिना एतदुक्तं भवति |
चन्द्रे सूर्यग्रहे वा कर्षमात्रमतिश्लक्ष्णं वचाचूर्णं पलमात्रेण कपिलागोघृतेन मिश्रीकृत्य मूलमन्त्रेणाष्टोत्तरसहस्रवारमभिमन्त्र्य तत्सप्तधा विभज्यैकं भागं देवताध्यानपूर्वकं तदानीं पिबेत् |
उर्वरितं भागषट्कं प्रत्यहमेकैकभागं प्रातःप्रातर्देवताध्यानपूर्वकं दिनषट्कं पिबेत् |
एवं कृते प्रोक्ता सिद्धिर्भवति |
वन्ध्या इत्यादिना एतदुक्तं भवति |
निष्कमात्रां हरिद्रां निष्कार्धं सैन्धवं निष्कचतुर्थांशं वचाचूर्णमेतत्त्रयं पोषितं ऋतुस्त्राने [Lesung unsicher: Wörter vor कुडवमात्रेण] कुडवमात्रेण गोमूत्रेण प्रोक्तसंख्यया मन्त्रार्कृत्य [Lesung unsicher: मन्त्रार्कृत्य] प्रोक्तविधिना पीतं प्रोक्तफलदं भवति ॥ तथा सारसंग्रहे— ताराद्यः पूर्वमन्त्रोऽसौ चतुर्वर्णः प्रकीर्तितः |
ऋषिः शुक्रो निगदितश्छन्दो गायत्रमुच्यते ॥ १ ॥ देवता शक्तिगणपः सर्वसिद्धिकरः परः |
पूर्ववत् षडङ्गानि कुर्याद् देशिकसत्तमः ॥ २ ॥ असौ पूर्वः शक्तिगणपतिमन्त्रश्चेत् प्रणवपूर्वस्तदा चतुर्वर्णो मन्त्रो भवति |
हेमाभं दिव्यवस्त्रं बृहदुदरतनुं चारुबाहुं त्रिनेत्रं दोर्भिः पाशाक्षसूत्रे निजरदनसृणी मोदकं पुष्करेण |
बिभ्राणं हेमभूषं तरुणतरणिरुक्चारुशक्त्या समेतं विघ्नेशं विश्ववन्द्यं त्रिभुवनशरणं चिन्तये श्रीगणेशम् ॥ ३ ॥ दक्षोर्ध्वकरमारभ्य वामोर्ध्वकरपर्यन्तमायुधध्यानम् |
तथा— ततः पूर्वोदिते पीठे देवमावाह्य पूजयेत् |
प्रथमावृतिरङ्गैः स्याद्वक्रतुण्डादिभिः परा ॥ ४ ॥ तृतीया मातृभिः प्रोक्ता लोकपालैस्ततो बहिः |
तदायुधैः पञ्चमी स्यादेवं संपूजयेत् क्रमात् ॥ ५ ॥) इति ॥ अथ प्रयोगः— तत्र प्राग्वद्योगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा, शिरसि शुक्राय ऋषये नमः |
मुखे गायत्रीच्छन्दसे नमः |
हृदि श्रीशक्तिगणपतये देवतायै नमः |
इति विन्यस्य, ग्रां ग्रीं इत्यादिना करषडङ्गन्यासं विधाय, ध्यानादिमानसपूजान्ते प्रोक्तत्र्यक्षरमन्त्रवत् पूजाचक्रमुद्धृत्यार्घ्यादिपुष्पोपचारान्ते केसरेषु षडङ्गानि दलेषु वक्रतुण्डादीन् दलाग्रेषु मातॄश्चतुरस्रे लोकपालांस्तदायुधानि च संपूज्य प्राग्वच्छेषं समापयेदिति |
कलावेष एव जपो ज्ञेयः ॥ तथा— लक्षत्रयं जपेन्मन्त्रं तद्दशांशं समाहितः |
जुहुयाद् घृतसंयुक्तैस्तिलैर्मन्त्रविदुत्तमः ॥ ७ ॥ तर्पणादि ततः कुर्यादेवं सिद्धो भवेन्मनुः |
काम्यकर्म ततः कुर्याद् देशिको यतमानसः ॥ ८ ॥ आज्याक्तैर्जुहुयान्नित्यमन्नवान् वत्सराद्भवेत् |
पायसान्नेन महतीं श्रियमाप्नोति मानवः ॥ ९ ॥ इति ॥ तथा सारसंग्रहे— मन्त्रान्तरम् |
खान्तो बिन्दुसमायुक्तः क्षकारोऽक्षिसमन्वितः |
लोहितो रेफसंयुक्तः पार्श्वो वह्निसमन्वितः ॥ १ ॥ सादनाय हृदन्तोऽयं मन्त्रः पङ्क्त्यक्षरो मतः |
[Punktreihe im Druck.] खान्तो ग, बिन्दुरनुस्वारस्तद्युक्तः |
क्ष स्वरूपं, अक्षि इकारस्तद्युक्तः |
लोहितः पकारः, रेफो रकारस्तद्युक्तः |
पार्श्वः पकारः, वह्नी रेफस्तद्युक्तः |
सादनाय स्वरूपं, हृन्नमः |
तथा—

ऋषिर्गणक आख्यातश्छन्दः प्रोक्तं विराडिति |
देवता गदितः क्षिप्रप्रसादनविनायकः ॥ २ ॥ दीर्घभाजा स्वबीजेन कुर्यादङ्गक्रियां मनोः |
[Punktreihe im Druck.] पाशाङ्कुशौ कल्पलतां विषाणं दधत् स्वशुण्डाहितबीजपूरः |
रक्तस्त्रिनेत्रस्तरुणेन्दुमौलिर्हारोज्ज्वलो हस्तिमुखोऽवतान्नः ॥ ३ ॥ वामोर्ध्वकरमारभ्य वामाधःकरपर्यन्तमायुधध्यानम् ॥ पूर्वोक्ते पूजयेत् पीठे नवशक्तिसमन्विते |
मूर्तिं मूलेन संकल्प्य तस्यां विघ्नेश्वरं यजेत् ॥ ४ ॥ प्रथमावृतिरङ्गैः स्याद् द्वितीया चाष्टभिर्गणैः |
विघ्नो विनायकाख्योऽन्यः शूराख्यो वीरसंज्ञकः ॥ ५ ॥ वरदश्चेभवक्त्रोऽन्य एकदन्ताह्वयोऽपरः |
लम्बोदरोऽष्टमः प्रोक्तो दलाग्रे मातृपूजनम् ॥ ६ ॥ बाह्ये लोकेश्वराः पूज्यास्तदस्त्राणि ततो बहिः |
[Punktreihe im Druck.] इति ॥ अथ प्रयोगः— तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा, शिरसि गणकाय ऋषये नमः |
मुखे विराट्छन्दसे नमः |
हृदये क्षिप्रप्रसादनाय गणपतये देवतायै नमः |
इति विन्यस्य गां गीं इत्यादिना करषडङ्गन्यासं विधाय ध्यानादिमानसपूजान्ते चतुर्द्वारयुक्तचतुरस्रत्रयान्वितमष्टदलकमलमर्चापीठं निर्माय, अर्घ्यादिपुष्पोपचारान्ते केसरेषु षडङ्गानि संपूज्य, अष्टदलेषु देवाग्रादि प्रादक्षिण्येन— ॐविघ्नाय नमः |
विघ्ननायकाय नमः |
शूराय० |
वीराय० |
वरदाय० |
इभवक्त्राय० |
एकदन्ताय० |
लम्बोदराय नमः |
इति संपूज्य, दलाग्रेषु मातॄः, चतुरस्रे लोकपालांस्तदस्त्राणि च संपूज्य प्राग्वच्छेषं समापयेदिति |
तथा— लक्षमेकं जपेन्मन्त्रं तदन्ते तद्दशांशतः |
त्रिस्वाद्वक्तैस्तिलैर्होमं कुर्यात् पूर्वोदिताष्टभिः ॥ ७ ॥ द्रव्यैर्वा तर्पणादीनि ततः पूर्ववदाचरेत् |
एवं सिद्धे मनौ मन्त्री कुर्यात् काम्यान्यशेषतः ॥ ८ ॥ कलावेतच्चतुर्गुणजपः |
शर्कराघृतयुक्तेन हविषा जुहुयात् सुधीः |
लक्ष्मीवान् केवलाज्येन होमो लोकवशंकरः ॥ ९ ॥ घृताक्तान्नं प्रजुहुयादन्नवान् साधको भवेत् |
चत्वारिंशद्दिनं मन्त्री नारिकेलं हुनेत् ततः ॥ १० ॥ सचर्म लोष्टपक्वं च प्रत्यहं साधकोत्तमः |
स वाञ्छितार्थमभ्येति नात्र कार्या विचारणा ॥ ११ ॥ सलाजकैः सक्तुभिश्च पृथुकैर्वाञ्छिताप्तये |
होमो भवेदष्टाभिश्च द्रव्यैस्त्रिमधुरान्वितैः ॥ १२ ॥ (हुनेत्ततश्च वशयेद्राज्ञस्तत्प्रमदा अपि |
) चतुश्चत्वारिंशदाद्यं चतुःशतमतन्द्रितः ॥ १३ ॥ प्रातःप्रातस्तु सलिलैर्विघ्नेशस्य च मस्तके |
तर्पयेच्छ्रीः समृद्धिश्च भवेत्तस्य न संशयः ॥ १४ ॥ पूर्वोदितं गणेशानमायान्तं रविबिम्बतः |
सोपानेनाम्बुजस्थं तं चिन्तयित्वा तु तर्पयेत् ॥ १५ ॥ पूर्वमन्त्रप्रयोगांश्च कुर्यादत्रापि साधकः |
[Punktreihe im Druck.] इति |
पूर्वमन्त्रोक्तान् त्र्यक्षरमन्त्रोक्तान् ॥ तथा सारसंग्रहे— मन्त्रान्तरम् |
बिन्द्वधीशयुतः शार्ङ्गी ताराद्यो नमसा युतः |
चतुर्वर्णो मनुः प्रोक्तो हेरम्बस्य महात्मनः ॥ १ ॥ शार्ङ्गी गकारः, बिन्दुरनुस्वारः, अधीशः षष्ठस्वरस्ताभ्यां युक्तः |
ताराद्यो, नमोऽन्तः |
तथा— [Apparat: zu 15 Variante „मध्यस्थः“.]

मुनिर्गणक आख्यातो गायत्रं छन्द ईरितम् |
पञ्चवक्त्रोऽस्य हेरम्बो देवता सिंहवाहनः ॥ २ ॥ षड्दीर्घयुक्बीजेन षडङ्गविधिरीरितः |
[Punktreihe im Druck.] मुक्ताविद्युत्पयोदामृतरुच्यर्णिनिभैः पञ्चभिर्नागवक्त्रैर्हेरम्बो भावनीयः शशधरमुकुटो दृप्तसिंहाधिरूढः |
हस्तैर्बिभ्रत् त्रिशूलाङ्कुशकजपवटीमुद्गरान् पुंस्कपालं टङ्काढ्यो मोदकं स्याद्रदलसदभये दानमर्कोददीप्तिः ॥ ३ ॥ [Lesung unsicher: mehrere Zusammensetzungen; der folgende Kommentar präzisiert die zehn Handattribute.] अधःस्थदक्षवामयोर्वराभये, तदुपरि मोदकरदौ, तदुपरि परशुकपाले, तदुपर्यक्षमालामुद्गरौ, तदुपर्यङ्कुशत्रिशूलौ |
तथा— पूर्वोक्त एव पीठे तु यजेद्धेरम्बमन्वहम् |
पद्ममष्टदलं कृत्वा चतुरस्रत्रयावृतम् ॥ ४ ॥ चतुर्द्वारसमायुक्तं तत्रादावासनं यजेत् |
ध्रुवान्ते हृदयं प्रोक्त्वा महासिंहं च ङेयुतम् ॥ ५ ॥ गां च हेरम्बशब्दः स्यादासनाय नमोन्ततः |
आसनाख्यो मनुः प्रोक्तो दत्त्वा तेनासनं विभोः ॥ ६ ॥ ध्रुवयुक्तेन बीजेन कुर्यान्मूर्तिप्रकल्पनम् |
तस्यामावाह्य विघ्नेशं यजेदावरणान्वितम् ॥ ७ ॥ आदावङ्गानि संपूज्य लोकपालान् यजेद् बुधः |
तेषामस्त्राणि तद्बाह्ये हेरम्बार्चा समीरिता ॥ ८ ॥ इति ॥ अथ प्रयोगः— तत्र प्राग्वद्योगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा, शिरसि गणकाय ऋषये नमः |
मुखे गायत्रीच्छन्दसे नमः |
हृदये श्रीहेरम्बाय देवतायै नमः |
इति विन्यस्य, गां गीं इत्यादिना करषडङ्गन्यासं विधाय, ध्यानादिमानसपूजान्ते प्रोक्तमष्टदलकमलं विलिख्य, प्रोक्तयोगपीठनवशक्तिपूजान्ते “ॐहुं महासिंहाय गां हेरम्बासनाय नमः” इत्यासनं संपूज्य, ॐगं गणपतिमूर्तिं कल्पयामि, इति तत्र मूर्तिं परिकल्प्यावाहनादिपुष्पोपचारान्ते केसरेषु षडङ्गानि संपूज्य लोकेशार्चादि प्राग्वत् समापयेदिति |
तथा— लक्षत्रयं जपित्वान्ते तिलैर्हुत्वा दशांशतः |
मधुरत्रयसंयुक्तैस्तर्पणादि समाचरेत् ॥ ९ ॥ एवं सिद्धमनुर्मन्त्री प्रयोगानाचरेत् ततः |
चतुर्दश्यष्टमीषष्ठीष्वेकैकं जुहुयाद् बुधः ॥ १० ॥ अत्रायमेव कलियुगजपः |
अपूपैः कृसरैर्मन्त्री मोदकैश्चेष्टसिद्धये |
पूर्वोक्तैर्जुहुयाद् द्रव्यैः पर्वस्वपि च मन्त्रवित् ॥ ११ ॥ यद्यदिच्छति तत् सर्वं साधकस्तेन साधयेत् |
अथ यन्त्रं प्रवक्ष्यामि हेरम्बस्य गणेशितुः ॥ १२ ॥ भूर्जे पद्मं लिखेत् तद्वज्रमधुसृणोर्मध्यबीजान्यसाध्यं किञ्जल्केष्वङ्गमन्त्रान् वसुदलविवरे सप्तधा संविभज्य |
मालां शिष्टपत्रे विलिखतु षडपि प्रोक्तगाणेशवर्णान् शक्त्या बीजं सकारावृतमपि तदनु श्वेतसूत्रावृतं स्यात् ॥ लोहैः संवेष्ट्य यन्त्रं त्रिभिरपि विधृतं बाहुनाभीष्टदं स्यात् ॥ १३ ॥ [Lesung unsicher: Materialangabe im ersten Versviertel; der folgende Kommentar ist klarer.] इति |
अयमर्थः— भूर्जपत्रे गजमदसहितकुङ्कुमेन अष्टदलकमलं विलिख्य तन्मध्ये हेरम्बबीजं विलिख्य, तस्य बिन्दुस्थाने अमुकस्य हुंकारस्थाने अमुकं, मध्ये वशं कुरु कुरु इत्यादि स्वेष्टं कर्मपदं विलिखे-

[दruckseite 679; द्वात्रिंशः श्वासः] दित्येवं साध्यसाधककर्माण्यालिख्य, तत्केसरेषु षडङ्गमन्त्रान् यथास्थानमालिख्याष्टसु पत्रेषु पूर्वादिप्रादक्षिण्येन ह्रींक्रोंगं नमः स, द्वितीयदले–र्व विघ्नाधिपाय स, तृतीयदले–र्वार्थसिद्धिदाय स, चतुर्थदले–र्वदुःखप्रशमना, पञ्चमदले–य पाहि भगवन्, षष्ठदले–सर्वान् खादय स्तम्भ, सप्तमदले–य स्तम्भय ह्रींगंगां, अष्टमदले–नमः स्वाहा क्रौं, इति विलिख्य, पद्माद्बहिर्वृत्तत्रयं कृत्वा वीथीद्वयं निष्पाद्य तत्र प्रथमवीथ्यां स्वाग्रमारभ्य प्रादक्षिण्येन निरन्तरं शक्तिबीजैरावेष्ट्य, द्वितीयवीथ्यां तथैव सबिन्दुसकारेणावेष्ट्य गुलिकीकृत्य श्वेतसूत्रेण संवेष्ट्य, पुनः स्वर्णरजतताम्रैरग्निसम्बन्धमकुर्वन्नावेष्ट्य यथाविधि धृतमुक्तफलदं भवति |
अत्र यन्त्रलिखितमालामन्त्रस्य पूजाजपादिकं सर्वं हेरम्बमन्त्रवत् कार्यम् |
अमितं छन्द इति विशेषः ॥ तथा सारसंग्रहे–मन्त्रान्तरम् प्रणवः पतृतीयं च ततो वामबाहुमूलकम् |
स्वरहीनस्तवर्गादिर्भुवे हृद् धातुवर्णकः ॥ १ ॥ सुब्रह्मण्यमनुः प्रोक्तो भजतां सर्वकामदः |
… ॥ इति |
पतृतीयो बकारः |
वामबाहुमूले चकारः |
तवर्गादिस्तकारः स च स्वररहितः |
भुवे स्वरूपं |
हृन्नमः |
धातुवर्णः सप्ताक्षरः |
शारदातिलके तु–अन्तःस्थो वकार उक्तः |
प्रयोगसारे तु–[Zitatzeile unsicher] |
अयमर्थः–प्रणवान्तश्चेदयं मन्त्रस्तदाष्टाक्षरो भवतीति |
प्रणवादौ शक्तेर्बीजं चेदुच्यते तदान्योऽयमष्टाक्षरो भवति |
एवं त्रिविधोऽयं मन्तव्य इति |
तथा– ऋषिरग्निः समाख्यातो गायत्री छन्द उच्यते |
सुब्रह्मण्योऽस्य मन्त्रस्य देवता परिकीर्तितः ॥ २ ॥ दीर्घभाजाग्निबीजेन षडङ्गानि समाचरेत् |
… ॥ पायाद्वोऽरुणविग्रहः शशिमुखः सम्यग् दधानो भुजैः पद्मं भीतिहरं रिपुक्षयकरीं शक्तिं शुभं कुक्कुटम् |
रक्तालेपनवस्त्रदामरुचिरो नानाविभूषान्वितः सुब्रह्मण्यगणाधिपः शुभकरो भक्तार्तिविध्वंसकः ॥ ३ ॥ दक्षाद्यधःकरयोराद्ये, तदाद्यूर्ध्वयोरन्ये, इत्यायुधध्यानम् |
तथा– वह्न्यन्ते पूजिते पीठे पूर्वोक्ते पूजयेद्विभुम् |
उक्तोपचारसहितं विधिना भक्तवत्सलम् ॥ ४ ॥ वह्न्यन्ते इत्यनेन सत्त्वादिपूजानिषेधः प्रतीयते अन्यथोक्तिवैयर्थ्यप्रसङ्गात् |
(पूर्वोदिते यजेत् पीठे सुब्रह्मण्यं गणाधिपम् |
केसरेषु षडङ्गानि पूर्वादिषु दलेषु च ॥ ५ ॥ जयन्तो ह्यग्निवेशश्च कृत्तिकापुत्र एव च |
) ततो भूतपतिः सेनान्यो गुहाख्यो हेमशूलकः ॥ ६ ॥ विशालाक्षश्च सम्प्रोक्ताः शूलशक्तिकरा इमे |
दलाग्रेषु च पूर्वादि यजेदेताननन्तरम् ॥ ७ ॥ देवसेनापतिं शक्तिं विद्यां कुक्कुटमेव च |
मेधां मयूरं वज्रं च द्विपं लोकेश्वरांस्ततः ॥ ८ ॥ वज्रादीनि ततो बाह्ये [Rest des Halbverses unsicher] |
… ॥ इति ॥ अथ प्रयोगः–तत्र प्रातरुत्थानादियोगपीठन्यासान्ते, शिरसि अग्नये ऋषये नमः |
मुखे गायत्रीच्छन्दसे नमः |
हृदि सुब्रह्मण्याय देवतायै नमः |
इति विन्यस्य विनियोगमुक्त्वा, रांरीं इत्यादिना करषडङ्गन्यासं विधाय, ध्यानादिमानसपूजान्ते प्रागुक्तमर्चापीठमुद्धृत्यार्घ्यादिपुष्पोपचारान्ते प्राग्वत् केसरेषु

[दruckseite 680] षडङ्गानि सम्पूज्याष्टदलेषु देवाग्रमारभ्य–ॐ जयन्ताय नमः |
एवं अग्निवेशाय० |
कृत्तिकापुत्राय० |
भूतपतये० |
सेनान्ये० |
गुहाय० |
हेमशूलाय० |
विशालाक्षाय नमः |
ततोऽष्टदलेषु देवाग्रमारभ्य–देवसेनापतये नमः |
एवं शक्त्यै० |
विद्यायै० |
कुक्कुटाय० |
मेधायै० |
मयूराय० |
वज्राय० |
द्विपाय नमः |
इति सम्पूज्य लोकेशार्चादि सर्वं प्राग्वत् समापयेदिति |
तथा– लक्षं जपेन्मन्त्रं सर्पिषा वा पयोन्धसा |
अयुतं जुहुयान्मन्त्री तर्पयेद् द्विजपुङ्गवान् ॥ ९ ॥ अयं जपः कृतयुगपरः, कलावेतच्चतुर्गुणमिति |
एवं सिद्धे मनौ मन्त्री कुर्यात् कामान्यथेप्सितान् |
षष्ठीदिने सुमधुरैर्भक्ष्यभोज्यैः प्रतोषयेत् ॥ १० ॥ देवं देवधिया सम्यगर्चयेद् ब्रह्मचारिणः |
सुब्रह्मण्यमनोः सम्यगुपास्तिं ये प्रकुर्वते ॥ ११ ॥ लक्ष्मीमायुश्च तेजश्च पुत्रपौत्रान्यशः पशून् |
ऐहिकामुष्मिकाँल्लोकान् लभन्ते नात्र संशयः ॥ १२ ॥ इति |
सारसंग्रहे– अथ प्रवक्ष्ये मनुवर्यमेनं महागणेशस्य समासतोऽत्र |
उपास्य सम्भूति[Lesung unsicher]योऽपि सिद्धिं प्रापुः सुरैरप्यभिवाञ्छितां ताम् ॥ १ ॥ सिद्धर्षिसङ्घैर्दिविषैरुपास्यं सुरासुरैः किन्नरयक्षनागैः |
गन्धर्वसिद्धव्रजचारणाद्यैः संसेवितं चापि गणैः समस्तैः ॥ २ ॥ नारीनराणां वशकारकं तद् भूपालसङ्घातवशे प्रशस्तम् |
तत्सुन्दरीवश्यकरं ह्यमात्यभृत्यौघवश्यप्रदमाशु लोके ॥ ३ ॥ व्याघ्रद्विपव्यालसमूहचोरवेतालभूतादिकदुष्टजन्तून् |
वशे विधातुं प्रथितः पृथिव्यां लोकैकजन्तुव्रजमोहकं च ॥ ४ ॥ तथा जनाकृष्टिकरं प्रसिद्धं पुष्टिप्रदं भक्तजनस्य नित्यम् |
उच्चाटकेर्मण्यपि शस्तमाद्यं लोके तथा मारणकर्मशक्तम् ॥ ५ ॥ कृशानुसंस्तम्भनकारकं च विद्वेषिवाणीगतिरोधकं च |
कृपाणधाराशरसञ्चयानां संस्तम्भकं विद्युदुपप्लुतानाम् ॥ ६ ॥ संस्तम्भकं वातसमूहवृष्टेः शुक्रादिसंस्तम्भकरं परं च |
पाताललोकेषु गतिप्रदं च रसायनाद्यञ्जनसिद्धिदं च ॥ ७ ॥ सुपादुकापारदबन्धसिद्धिखड्गादिसिद्धिप्रदमुत्तमं च |
सुयक्षिणीसाधनशक्तमुच्चैः सम्यग्जनावेशकरं प्रसिद्धम् ॥ ८ ॥ वेदादि पद्मनिलया भुवनेश्वरी सकामा क्ष्मा गणपमन्त्रवरानिहोक्त्वा |
कान्तान्ततादि पतये वरनीरवह्न्युक्त्वा दर्सर्वजनमर्कशिवौ वशं च ॥ ९ ॥ प्रोक्त्वानयेति दहनस्य वधूं समुक्त्वा सङ्कीर्तितो मनुरयं मनुयुग्मवर्णः |
[Fußnote:] अयं मन्त्र ऊर्ध्वाम्नायोक्त इति बोध्यम् |

[दruckseite 681] प्रोक्तोऽथ चिन्तितमनोरथकल्पशाखी भूतिप्रदश्च यततां वरसाधकानाम् ॥ १० ॥ इति |
वेदादि प्रणवः |
पद्मनिलया श्रीबीजं |
भुवनेशी तद्बीजं |
सकामा कामबीजसहिता, भुवनेशीबीजानन्तरं कामबीजमित्यर्थः |
क्ष्मा भूबीजं ग्लौं इति |
गणपमन्त्रो गं |
कान्तान्तो गकारः, तादिर्णकारः |
पतये स्वरूपं |
वर स्वरूपं |
नीरं वकारः |
वह्निः रेफः |
द सर्वजनं स्वरूपं |
अर्को मकारः, शिव एकारस्तेन मे |
वशं स्वरूपं |
आनय स्वरूपं |
अत्र सन्धिर्ज्ञेयः |
दहनस्य वधूः स्वाहाकारः |
मनुयुग्मवर्णोऽष्टाविंशत्यक्षरः ॥ तथा– ऋषिः समुक्तो गणको निचृच्च छन्दोऽस्य गायत्रमुदीरितं हि |
महागणेशो गदितोऽस्य देवः सुरासुरैः सेवितपादपद्मः ॥ ११ ॥ गं बीजं ह्रीं शक्तिरिति पद्मपादाचार्याः |
तारादिषड्बीजसमन्वितेन षड्दीर्घभाजा निजबीजकेन |
कुर्यात् षडङ्गानि मनोर्यथावत् स्वजातियुक्तान्यथ मन्त्रविज्ञः ॥ १२ ॥ सद्वादशान्तश्रुतिनेत्रनासाद्वन्द्वास्यदोष्पदद्वयसन्धिदेशे |
अनाहतेऽथो मणिपूरके स्वाधिष्ठान आधारपदेऽणुवर्णान् ॥ १३ ॥ विन्यस्य शीर्षाननहृत्सु गुह्यपद्वत्सु बीजानि परिन्यसेच्च |
ततोऽवशिष्टैः खलु मन्त्रवर्णैः स व्यापयेत् स्वे सकले शरीरे ॥ १४ ॥ ककण्ठहृद्गुह्यपदेषु पञ्चाभ्यसेत् स्वनाम्ना मिथुनानि मन्त्री |
तेष्वेव हृज्जानुयुतेषु भूयो न्यसेच्च षट् शक्तियुतान् गणेशान् ॥ १५ ॥ इत्थं प्रविन्यस्य निजे शरीरे ध्यायेद् गणेशं निजहृत्सरोजे |
ऐक्षवे जलधौ द्वीपे नवरत्नमये शुभे |
तत्तरङ्गोल्लसत्तोयैर्धौते शीततलेऽमले ॥ १६ ॥ तत्तोयकणसंपृक्तगन्धवाहनिषेविते |
कल्पपादपसंशोभिभूभागसमलङ्कृते ॥ १७ ॥ नानाकुसुमसंकीर्णे नानापक्षिविराजिते |
अनेकफलसंकीर्णे सेविते चाप्सरोगणैः ॥ १८ ॥ उद्यद्बालातपोद्योतिचन्द्रज्योत्स्नासमाकुले |
विलसत्पद्मरागौघद्युतीमरुणभूतले ॥ १९ ॥ कल्पपादपपुष्पस्थषट्पदस्वनमञ्जुले |
पारिजातं कल्पतरुं तस्य मध्ये विचिन्तयेत् ॥ २० ॥ युगपदृतुषट्केन सेवितं पुष्पशोभितम् |
नवरत्नमयं तस्याधस्तात् सिंहासनं स्मरेत् ॥ २१ ॥ तन्मध्ये लिपिपद्मं च षडरं तस्य मध्यतः |
कर्णिकायां त्रिकोणं च तत्संस्थं च महागणम् ॥ २२ ॥ नानारत्नविभूषाढ्यमेकदन्तं गजाननम् |
… ॥ चक्राब्जत्रिशिखान् गुणेक्षुचपनं रक्तोत्पलं सद्गदां व्रीह्यग्रान्वितबीजपूररदनं कुम्भं करैर्बिभ्रतम् |
[Fußnoten: 1 „मनोऽभिमित“ पाठः; Lesung unsicher. 2 „शीते महीतले“ पाठः.]

[Druckseite 682] पद्मोद्यत्करया निजप्रमदया श्लिष्टं जपासन्निभं सार्धेन्दुं प्रभजे महागणपतिं नेत्रत्रयोद्भासितम् ॥ २३ ॥ पुष्करोद्धृतरत्नौघमयकुम्भमुखस्रुतान् |
मणिमुक्ताप्रवालादीन् वर्षन्तं धारया मुहुः ॥ २४ ॥ सर्वतः साधकस्याग्रे स्वदानजललोलुपाम् |
षट्पदालीं कर्णतालैर्वारयन्तं मुहुर्मुहुः ॥ २५ ॥ अमरासुरसंसेव्यं सद्रत्नमुकुटोज्ज्वलम् |
उदरं [Lesung unsicher] गजमुखं नानाभरणभूषितम् ॥ २६ ॥ इति ध्यात्वा गणपतिं यजेत् सर्वोपचारकैः |
… ॥ ऊर्ध्ववामदक्षयोश्चक्राब्जं, तदधः शूलपाशौ, तदधो धनुरुत्पले, तदधो गदाव्रीह्यग्रे, तदधो बीजपूररदनौ, शुण्डाग्रे रत्नकुम्भः |
इत्यायुधध्यानम् |
अपरे तु वामोर्ध्वादिक्रमेण दक्षोर्ध्वान्तं वदन्तीति |
तदुक्तं प्रयोगसारे–“चक्रप्रासरसालकार्मुकगदासद्बीजपूराद्विजव्रीह्यग्रोत्पलपाशपङ्कजकरं शुण्डाग्रजाग्रद्घटम्” इति |
प्रासस्त्रिशूलम् |
रसालकार्मुक इक्षुकार्मुकः |
द्विजो दन्तः |
गणेश्वरपरामर्शिन्यां तु–“दक्षाधःकरमारभ्य वामाधःस्थकरावधि |
गदाशूलाब्जकह्लाराविषाणं दक्षिणैः करैः |
शाल्यग्रपाशचक्रेक्षुचापसद्बीजपूरकान् |
वामैर्दधान”मित्युक्तमत्र यथागुरूपदेशं कार्यमिति |
तथा– धर्मादिक्लृप्ते पूर्वोक्ते तीव्रादिनवशक्तिके |
पीठे विघ्नेशमभ्यर्च्य सम्यक् सर्वोपचारकैः ॥ २७ ॥ त्रिकोणाग्रस्थं बिल्वाधो विष्णुं लक्ष्म्यान्वितं यजेत् |
पद्मद्वयकरा पद्मा शङ्खचक्रधरो हरिः ॥ २८ ॥ दक्षकोणे बहिस्तद्रीरीं गौरीपतिं यजेत् [Bījas und Anschluss unsicher] |
(संस्थितौ च वटाधस्तात् सुवर्णरजतप्रभौ ॥ २९ ॥ पाशाङ्कुशधरा गौरी टङ्कशूलधरो हरः |
पृष्ठस्थपिप्पलाधस्ताद्रतिकामौ समर्चयेत्) ॥ ३० ॥ उत्पलद्वन्द्वकोदण्डपुष्पेषुसमलङ्कृतौ |
(देवपृष्ठे बहिस्तद्वद्रतिं रतिपतिं यजेत्) ॥ ३१ ॥ उत्तरेऽथ प्रियङ्गोस्तु महीकोलौ यजेत् ततः |
शुकव्रीह्यग्रकगदाचक्रालङ्कृतसद्भुजौ ॥ ३२ ॥ देवस्याग्रे यजेल्लक्ष्म्या सहितं गणनायकम् |
षट्कोणेषु यजेत् पश्चादामोदादींश्च षट् क्रमात् ॥ ३३ ॥ आमोदं सिद्धिसहितमग्रकोणे समर्चयेत् |
समृद्ध्या युतमभ्यर्चेत् प्रमोदं वह्निकोणतः ॥ ३४ ॥ सुमुखं कान्तिसंयुक्तमीशकोणे समर्चयेत् |
दुर्मुखं मदनावत्या यजेद् वरुणकोणके ॥ ३५ ॥ विघ्नं मदद्रवायुक्तं कोणे नैशाचरे यजेत् |
वायव्ये विघ्नकर्तारं द्राविण्या सहितं यजेत् ॥ ३६ ॥ पाशाङ्कुशधरा विघ्नाः शक्तयश्चाभयेष्टदाः |
रक्ताः रक्ताम्बरालेपभूषणा मदविह्वलाः ॥ ३७ ॥ (षट्कोणस्य बहिर्देवं दक्षिणे तु समर्चयेत्) |
तस्य सव्ये शङ्खनिधिं वसुधारान्वितं यजेत् ॥ ३८ ॥ तस्य महागणेशस्य |
अपसव्ये पद्मनिधिं वसुमत्या सहार्चयेत् |
तत्राद्यो मौक्तिकाभोऽन्यो माणिक्याभस्तु धारया ॥ ३९ ॥ वर्षन्तौ धनसम्पत्तिं लोकानां स्वेच्छया सदा |
केसरेष्वङ्गपूजा स्याद् ब्राह्म्याद्याः पत्रमध्यगाः ॥ ४० ॥ चतुरस्रे लोकपालास्तदस्त्राणि च पूर्ववत् |
षडावरणसंयुक्तमित्थं देवं प्रपूजयेत् ॥ ४१ ॥ [Fußnoten: 1 त्रिकोणान्त इत्यर्थः |
2 „मेघवत्“ पाठः |
]

[Druckseite 683] इति ॥ अथ प्रयोगः–तत्र प्रातरुत्थानादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा, शिरसि गणकाय ऋषये नमः |
मुखे निचृद्गायत्रीच्छन्दसे नमः |
हृदये श्रीमहागणपतये देवतायै नमः |
गुह्ये गं बीजाय नमः |
पादयोः ह्रीं शक्त्यै नमः |
इति विन्यस्य मम सर्वाभीष्टसिद्धये विनियोगः, इति कृताञ्जलिरुक्त्वा, ॐगां हृदयाय नमः |
श्रींगीं शिरसे स्वाहा |
ह्रींगूं शिखायै वषट् |
क्लींगैं कवचाय हुं |
ग्लौंगौं नेत्रत्रयाय वौषट् |
गंगः अस्त्राय फट् |
इति षडङ्गमन्त्रानङ्गुष्ठादितलान्तं करयोर्विन्यस्य हृदयादिषडङ्गेष्वपि न्यसेत् |
ततो ब्रह्मरन्ध्रे गं नमः |
दक्षनेत्रे णं नमः |
वामे पं नमः |
दक्षश्रोत्रे तं नमः |
वामे यं नमः |
दक्षनासायां वं नमः |
वामे रं नमः |
मुखे वं नमः |
दक्षबाहुमूले रं नमः |
मध्ये दं नमः |
मणिबन्धे सं नमः |
अङ्गुलिमूले वं नमः |
अङ्गुल्यग्रे जं नमः |
वामबाहुमूले नं नमः |
मध्ये में नमः |
मणिबन्धे वं नमः |
अङ्गुलिमूले शं नमः |
अङ्गुल्यग्रे मां नमः |
अनाहते नं नमः |
मणिपूरके यं नमः |
स्वाधिष्ठाने स्वां नमः |
मूलाधारे हां नमः ॥ शिरसि ॐनमः |
मुखे श्रीं० |
हृदये ह्रीं० |
गुह्ये क्लीं० |
पादयोः ग्लौं० |
हृदये गं नमः |
इति विन्यस्य, गणपतये इत्यादिद्वाविंशतिवर्णैर्मूर्धादिपादान्तं व्यापकं विन्यस्य, ध्यानादिमानसपूजान्ते प्रागुक्तं मातृकापद्मं चतुर्द्वारयुक्तचतुरस्रत्रयवेष्टितं कृत्वा तत्कर्णिकायां षट्कोणं तदन्तस्त्रिकोणं च कुर्यादिति पूजाचक्रमुद्धृत्य, अर्घ्यस्थापनादिपुष्पोपचारान्ते प्रोक्तविधिना त्रिकोणे विधाय त्रिकोणाद्बहिर्देवस्याग्रे ॐश्रीं लक्ष्मीनारायणाभ्यां नमः |
देवस्य दक्षिणे ॐह्रीं गौरीहराभ्यां नमः |
देवस्यपृष्ठे ॐक्लीं रतिकामाभ्यां नमः |
देवस्य वामे ॐग्लौं महीवराहाभ्यां नमः ॥ ततस्त्रिकोणान्तर्देवाग्र ॐगं लक्ष्मीगणनायकाभ्यां नमः |
इति प्रोक्तमिथुनानि तत्तद्वृक्षाधस्तत्तद्ध्यानोक्तरूपाणि सम्यग् ध्यात्वा गन्धादिभिः सम्पूज्य, ततः षट्कोणेषु देवाग्रमारभ्य–ॐगं आमोदसिद्धिभ्यां नमः |
ॐगं प्रमोदसमृद्धिभ्यां नमः |
सुमुखकान्तिभ्यां नमः |
दुर्मुखमदनावतीभ्यां नमः |
विघ्नमदद्रवाभ्यां नमः |
विघ्नकर्तृद्राविणीभ्यां नमः |
इति सम्पूज्य, षट्कोणाद्बहिर्देवस्य दक्षिणे शं शङ्खनिधिवसुधाराभ्यां नमः |
वामे पं पद्मनिधिवसुमतीभ्यां नमः |
इति सम्पूज्य अष्टदलकेसरेषु प्राग्वत् षडङ्गानि दलेषु ब्राह्म्याद्याश्चतुरस्रे लोकपालांस्तदायुधानि च सम्पूज्य धूपदीपादि सर्वं प्राग्वत् समापयेत् ॥ तथा– एकादशायुतं जप्त्वा सहस्रोत्तरमादरात् |
दशांशं जुहुयादष्टद्रव्यैरेकाक्षरोदितैः ॥ ४२ ॥ तर्पयित्वा दशांशेन चाभिषिञ्चोऽणुना ततः [Verbform unsicher] |
ब्राह्मणान् भोजयेत् सम्यक् षड्रसैर्भूरिदक्षिणाम् ॥ ४३ ॥ दत्त्वा प्रणम्य विसृजेदेवं सिद्धो भवेन्मनुः |
ततः प्रणम्य विधिवद्गुरुं सन्तोषयेत् ततः ॥ ४४ ॥ काम्यकर्माणि कुर्वीत सिद्धये स्युर्नचान्यथा |
… ॥ अयं पुरश्चरणजपः कृतयुगपरः |
कलावेतच्चतुर्गुण इति |
तथा– वक्ष्ये प्रयोगानधुना समासान्महागणेशाणुवरस्य सर्वान् |
रक्तप्रसूनैर्गणपं समर्च्य जपेन्मनुं चाष्टसहस्रमन्ते ॥ १ ॥ दशांशतो लोहितवाजिवैरिपुष्पैर्हुनेत् स्वादुपरिप्लुतैश्च |
अष्टसहस्रमष्टोत्तरसहस्रमित्यर्थः |
वाजिवैरी करवीरः |
स्वादूनि मधुराणि, तानि तु घृतमधुशर्कराः |
घृतमधुदुग्धानि वा |
राजा वशे तिष्ठति मन्त्रिणोऽस्य सामात्यभृत्यादिकसैन्ययुक्तः ॥ २ ॥

[Druckseite 684] ब्रह्मद्रुसूनैस्त्रिमधुप्लुतैश्च हुत्वा द्विजातीन् वशयेदवश्यान् |
ते चात्र मन्त्रिप्रवरस्य नित्यशुश्रूषं हि कुर्वन्ति न संशयोऽत्र ॥ ३ ॥ ब्रह्मद्रुसूनैः पलाशकुसुमैः |
सर्पिर्हुनेन्मन्त्रिवरो हि तावज्जितेन्द्रियः सन्ततमन्यचेताः [ananyacetāḥ möglich] |
चराचरेऽस्मिञ्जगति प्रसिद्धां कीर्तिं विशालाममलां लभेत सः ॥ ४ ॥ मन्त्री हुनेदाज्यपरिप्लुतं यो धनं स धान्यं विपुलं लभेत |
मधुप्लुतैर्लोहितपङ्कजैर्यो हुनेदथाष्टोत्तरकं सहस्रम् ॥ ५ ॥ पृथ्वीपतींस्तत्प्रमदाश्च नित्यं वशे करोत्येव तदात्मजांश्च |
हयारिवृक्षोत्थसमिद्धिरष्टाधिकं सहस्रं जुहुयान्मनुज्ञः ॥ ६ ॥ (भूदेववर्यान् ससुतान् सबन्धून् सपत्निकांश्च वशयेदवश्यम् |
) अष्टाधिकं मन्त्रिवरः सहस्रं जप्त्वा दशांशेन हुनेन्मनुज्ञः ॥ ७ ॥ विशुद्धया राजिकया च लोणैस्तद्भस्म संशोध्य करे गृहीत्वा |
साज्ययेति साम्प्रदायिकाः |
योषां निजेष्टां खलु ताडयेत् सा कन्दर्पतीक्ष्णेषुनिपीडिताङ्गी ॥ ८ ॥ स्वजीवितं यावदमुष्य वश्या भवेदवश्या किल किङ्करीव |
शिवालये लक्षमितं मनुं यो जपेद् दशांशेन हुनेच्च मन्त्री ॥ ९ ॥ पयोन्धसा साधुमधुप्लुतेन सोऽर्थानवश्यं विविधान् लभेत |
पयोन्धसा पायसेन |
जातीप्रसूनैर्विधिवत्तथाष्टाधिकं सहस्रं जुहुयान्मनुज्ञः ॥ १० ॥ मेधायुतो वेदसदर्थवेत्ता भवेदथासावचिरादवश्यम् |
दूर्वात्रिकैर्यो जुहुयान्मनुज्ञोऽयुतत्रयं तेन भवेदवश्यम् ॥ ११ ॥ मृत्युञ्जयः सर्वगदान् विजित्य लोके स धीमानिह दीर्घजीवी |
समाहितो मन्त्रिवरोऽयुतं यो हुनेद्विधानेन सुपीतपुष्पैः ॥ १२ ॥ संस्तम्भयेद्वैरिनृपस्य सेनां सभृत्यनागाश्वरथामवश्यम् |
लोहादिकैः सङ्घटितानि यानि दिव्यानि शस्त्राणि सितानि तेषाम् ॥ १३ ॥ धारां ध्रुवं स्तम्भयतीह शत्रोर्नागाश्वसंस्तम्भनमत्र कुर्यात् |
विभीतकद्रूत्थसमिद्धिरत्रायुतत्रयं यो जुहुयाद्विधिज्ञः ॥ १४ ॥ [Fußnote zu 10: „वाचश्च“ पाठः |
]

[Druckseite 685] उच्चाटयेदाशु च वैरिसङ्घान् स्वस्थानतो मन्दरसन्निभांश्च |
ग्रामं पुरं वा नगरं च देशं ध्यायंश्च यं यं जुहुयात् क्रमेण ॥ १५ ॥ तं तं तदोच्चाटयतीह मन्त्री तथा च कामं प्रतिमानवानाम् |
मन्त्री त्वपामार्गसमिद्धिरष्टाधिकं सहस्रं विधिवज्जुहोतु ॥ १६ ॥ स्वजीवितावध्यथ पण्ययोषा वश्या भवेयुर्न विचार्यमत्र |
एरण्डवृक्षोत्थसमिद्धिरष्टोत्तरं सहस्रं जुहुयाद्विधानात् ॥ १७ ॥ रण्डाः स्वजीवावधि तस्य वश्या अर्थप्रदाः कामदुघा भवन्ति |
आनीय निम्बद्रुदलानि तेषु स्वसाध्यनामानि विलिख्य मन्त्री ॥ १८ ॥ रक्तैश्च सम्यग् महिषाश्वजातेर्हुनेत् कटुस्नेहयुतै रहस्तैः |
विंशत्सहस्रं भवतीह तेन मर्त्यो हि विष्टुष्टतरः सदैव [Lesung unsicher] ॥ १९ ॥ अमुकममुकेन द्वेषयेति साध्यनामानि |
रह इति परिच्छेदः |
मत्ताख्यसम्भूतमयं हि कीलमष्टाङ्गुलं शावशिरोरुहैस्तम् |
संवेष्ट्य सम्यग् वसुयुक् सहस्रं सञ्जप्तमेनं कुलिकोदये च ॥ २० ॥ वसुयुक्सहस्रमष्टोत्तरसहस्रं |
कुलिकोदयस्तु ज्योतिःशास्त्रे |
शत्रोर्गृहे द्वारि खनेद्यथावत् सप्ताहतोऽसौ मृतिमेति मर्त्यः |
कुलिकोदयस्तु– “मन्वर्कदिग्वस्वृतुवेदपक्षैः कालैर्मुहूर्तैः कुलिका भवेयुः दिवा निरेकैः खलु यामिनीषु ते गर्हिताः कर्मसु शोभनेषु ॥” इति |
अर्कादर्कवारात् |
मनु १४ अर्क १२ दिक् १० वसु ८ ऋतु ६ वेद ४ पक्षाः २ इति दिवा |
रात्रौ तु निरेकैरेकहीनैरेभिर्मुहूर्तैः कुलिककालो ज्ञेयः |
अयमर्थः–रात्रौ तु त्रयोदशैकादशनवसप्तपञ्चतृतीयप्रथममुहूर्ताः अर्कादिवारषु यथाक्रमं कुलिककालो ज्ञेयः |
मन्त्री बिलद्वारसमीपवर्ती जपेन्मनुं लक्षमितं यथाच ॥ २१ ॥ तस्याग्रतश्चाभिपतन्ति नागकन्या विलज्जाः खलु सख्यदीनाः |
दिव्यानि सिद्धानि रसायनानि नानाप्रकारांश्च मणीन् प्रसिद्धान् ॥ २२ ॥ इष्टान्यनर्घ्याणि बहूनि सर्वास्ताः सम्प्रयच्छन्ति नचान्यथात्र |
जपेद्गिरेर्मूर्धनि लक्षमेकं दृढव्रतश्चैकमना नितान्तम् ॥ २३ ॥ भवेद्ध्रुवं तस्य कृपाणसिद्धिः सुरासुरैरप्यभिकाङ्क्षिता या |
लज्जालुकासद्घनसारनन्द्यावर्तानि शुक्रां गिरिकर्णिकां च ॥ २४ ॥ [Fußnoten: 1 „विद्विष्टतरः“ पाठः |
2 „मथो“ पाठः |
]

[Druckseite 686] अधःप्रसूनामथ मेलयित्वा सम्पिष्य जप्त्वा नियुतद्वयेन |
एभिः शुभैरञ्जितलोचनो यो मर्त्यो निधानानि स पश्यतीह ॥ २५ ॥ लज्जालुका प्रसिद्धा |
तस्या लक्षणं तु–“स्पर्शसङ्कुचत्पत्रत्वम् |
” घनसारः कर्पूरः |
शुक्रा गिरिकर्णिका श्वेतापराजिता |
अधःप्रसूना शङ्खपुष्पी, अधोमुखपुष्पवती |
भवेद्गणेशाणुशताष्टजप्तश्रीखण्डलेपात् खलु दुःखनाशः |
शताष्टजप्तेत्यष्टोत्तरशतमित्यर्थः |
एवं सर्वत्र |
लूतासविस्फोटकभूतकृत्याप्रेतोद्भवान् घोरतरांश्च ज्वरांश्च [Satz beschädigt] ॥ २६ ॥ मनोरथाष्टाष्टसहस्रजापाद् विनाशयेन्मन्त्रवरस्त्ववश्यम् [Zahlenglieder unsicher] |
विषद्वयं स्थावरजङ्गमं च ज्वरानथाष्टाविह शूलरोगान् ॥ २७ ॥ सुदारुणान्तान् ग्रहिणीं च रोगान् वातप्रभूतान् कफपित्तजातान् |
गलग्रहादीनपि रोगसङ्घान् शताष्टजापेन विनाशयीत ॥ २८ ॥ लक्षैकजापेन मनोरथानां सिद्धिर्भवेदस्य हि पादुकायाः |
मन्त्री ततो गच्छति दूरवर्त्म शतत्रयं योजनसंज्ञकानाम् ॥ २९ ॥ गुप्तप्रदेशे विजने मनोज्ञे विलेपिते गोमयतो विशुद्धे |
स्नातः शुचिर्मन्त्रिवरो जितात्मा कुम्भं नवं चर्चितचन्दनार्द्रम् ॥ ३० ॥ संस्थाप्य नीरेण सुगन्धिना तं प्रपूरयेत्तत्र शरावमेकम् |
कुम्भोपरिष्टात् कपिलाज्यपूर्णं विन्यस्य प्रज्वाल्य च दीपमेकम् ॥ ३१ ॥ प्रपूजयेच्चन्दनपुष्पधूपैः कुमारिकां चाथ कुमारकं च |
आनीय संस्पृश्य जपेदिमं च मनुं तथाष्टाढ्यशतं मनुज्ञः ॥ ३२ ॥ भूतं भविष्यं किल वर्तमानं शुभाशुभं वा कथयेदवश्यम् |
महागणेशं गदितस्वरूपं ध्यात्वा जपेद्रात्रिषु मन्त्रिवर्यः ॥ ३३ ॥ स्वप्ने गणेशः कथयत्यवश्यं शुभाशुभं नात्र विचारणीयम् |
चन्द्रग्रहे वाथ रविग्रहे वा मन्त्रं जपेत् साधुजलाशयस्थः ॥ ३४ ॥ आकृष्टिरस्यात्र भवेत् सुसिद्धा धान्यादिकानां पशुयोषितां च |
न्यग्रोधमूले ह्युपविश्य मन्त्री मन्त्रं जपेल्लक्षमिमं विधानात् ॥ ३५ ॥ सा यक्षिणी तस्य भवेत् सुसिद्धा यथार्थितं किञ्च ददाति नित्यम् |
उपोष्य रात्रौ विधिवद्रजस्वलां समानीय यत्नात् प्रयतो नितान्तम् ॥ ३६ ॥ स्नात्वार्चयेदत्र महागणेशं स्पृष्ट्वायुतं तां प्रजपेच्च मन्त्रम् |
[Fußnoten: 1 सा वटाख्या इत्यर्थः |
2 „कृषिश्च“ पाठः |
]

[Druckseite 687] कुलातिविषचं [Stoffwort unsicher] किल चूर्णमस्याः कर्षोन्मितं तत्कपिलाज्ययुक्तम् ॥ ३७ ॥ सम्प्राशयेत् प्रातरतीव शुद्धः कविर्भवत्येव हि सप्तरात्रात् |
अत्रापि प्राग्वत् सप्तधा विभज्यैकैकं भागं प्रातःप्रातः सघृतं भक्षयेदिति |
रसं समादाय च कामचारीरसेन संशोध्य च याममेकम् ॥ ३८ ॥ कार्पासपत्रोत्थरसेन तावत् प्रमर्द्य सम्यक् खलु मर्दयेच्च |
कुमारिकापत्ररसेन तावत् ततो भवेद्रूप्यसमानवर्णः ॥ ३९ ॥ भागा मताः षोडश पारदस्य शुल्वस्य भागत्रितयं तथैव |
भागत्रयं स्याद्गगनस्य चैकं हेम्नस्तथैकं किल लोहजातेः ॥ ४० ॥ एकत्र कृत्वा बहुधा प्रमर्द्य संस्थापयेत् सम्यगथारनाले |
शिवालये शुद्धमनाश्च गत्वा मनुं जपेल्लक्षमिमं मनुज्ञः ॥ ४१ ॥ महागणेशस्य ततः प्रसादात् सिद्धा हि नूनं गुटिका भवेत् सा |
रसं पारदम् |
कामचारी आकाशवल्लीति प्रसिद्धा |
शुल्वस्ताम्रम् |
गगनं स्वर्णमाक्षिकमभ्रकमिति केचित् |
आरनालं काञ्जिकः |
अत्र ताम्रादिकं चूर्णीकृत्य मेलयितव्यम् |
तां धारयेदानन एव मन्त्री सुदुर्जयः स्यात् सुरदानवौघैः ॥ ४२ ॥ समग्रभूतैश्च भवेदवध्यः शस्त्रास्त्रवृन्दैरपि भिद्यते न |
न दह्यते वह्निशतैश्च मर्त्यो विषद्वयेन म्रियते न वापि ॥ ४३ ॥ तस्याः प्रभावात् किल वज्रदेहो भवेद्गतिस्तस्य च खेचरी स्यात् |
धरामदृश्यः सकलां च नष्टच्छायो हि भूत्वा विचरेदवश्यम् ॥ ४४ ॥ सदा च सा तिष्ठति यस्य गेहे लक्ष्मीः स्थिरा तस्य गृहे भवेच्च |
सा दृष्टिबन्धं जगतः करोति महागणेशाणुवरप्रसादात् ॥ ४५ ॥ सब्रह्मदण्डीं वशिनीं गृहीत्वा पुष्यार्कवारेण ततोऽभियोज्य |
वज्राभ्रकेणाथ पुनस्त्रिलोहैः संवेष्ट्य सम्यग् गुलिकां च कुर्यात् ॥ ४६ ॥ महागणेशं परिपूज्य मन्त्रजप्तां गणेशस्य कराच्च लब्धाम् |
इत्थं विचिन्त्य स्वकरे नयेत्तां सिद्धां गणेशस्य मनुप्रभावात् ॥ ४७ ॥ वक्त्रे शिखायां च करेऽथ कण्ठे तां धारयेन्मन्त्रिवरः सदैव |
तस्याः प्रभावान्न भवेत् समीपे व्याघ्रादिचोरोरगविघ्नवृन्दः ॥ ४८ ॥ क्षोणीभुजः स्युर्वशगास्तथास्य लोके भवेदेव हि कामचारी |
स्त्रीणां प्रियोऽसौ मदनातुराणां भवेदवश्यं गुटिकाप्रसादात् ॥ ४९ ॥ [Fußnote: „प्रभावात्“ पाठः |
]

[Druckseite 688] ब्रह्मदण्डी भारङ्गी |
वशिनी लज्जालुका |
वज्राभ्रकोऽभ्रकविशेषः |
त्रिलौहैः स्वर्णरजतताम्रैः |
गोरोचनोन्मत्तसुशङ्खपुष्पे देवी सिता स्यादपराजिताह्वा |
सब्रह्मदण्डी मलयोद्भवं च कृष्णागुरुः स्युः समभागकानि ॥ ५० ॥ सम्पिष्य सम्यक् च रवौ सपुष्ये कुर्याद् विधानाद् गुटिकां मनुज्ञः |
कृत्वा च तामर्कसहस्रजप्तां विशेषकोऽस्या जनमोहकः स्यात् ॥ ५१ ॥ देवी सहदेवी |
विशेषकस्तिलकः ॥ ग्राह्यामृता मन्त्रिवरेण दीर्घतुण्डा ततस्तां किल पेषयित्वा |
तच्चूर्णमालिप्य करद्वयेन जपेन्मनुं ह्यष्टयुतं सहस्रम् ॥ ५२ ॥ प्रदर्शयेत्तौ गजसम्मुखं च दृष्ट्वा दिशस्ते दश विद्रवन्ति |
मदोत्कटा दानजलार्द्रगण्डा ऐरावतस्यापि कुले प्रसूताः ॥ ५३ ॥ सुदीर्घदन्तद्वयरोचमाना गच्छन्ति दूरं विवशा भयार्ताः |
वश्या भवेयुर्मनुवित्तमस्य ह्युक्तं च कुर्वन्ति न संशयोऽस्त्वम् [Schluss unsicher] ॥ ५४ ॥ गजान् ग्रहीतुकामो वै राजा गत्वा वनेषु सः |
ततश्च कारयेद्दृढां सम्यक् च गजबन्धनीम् ॥ ५५ ॥ चतुरस्रां विशालां च शालां तां निकटे ततः |
दृढावरणसंवीतां चतुर्द्वारां सुतोरणाम् ॥ ५६ ॥ कुर्यात्तत्र स्थलीं सम्यक् चतुरस्रां समुन्नताम् |
तस्याश्चोत्तरदिग्भागे विदध्यात् कुण्डमुत्तमम् ॥ ५७ ॥ सर्वलक्षणसंयुक्तं मेखलाद्यैरलङ्कृतम् |
पूर्वोदितः स्थलीमध्ये प्रोक्तलक्षणलक्षितम् ॥ ५८ ॥ मण्डलं कारयेत्तत्र समावाह्य गणेश्वरम् |
सम्पूज्य च निवेद्यान्तैरुपचारैः सुशोभनैः ॥ ५९ ॥ मण्डलं सर्वतोभद्रम् |
आधायाग्निं ततः कुण्डे स्वमन्त्रैः पूजयेच्च तम् |
पुरोक्तैरेव जुहुयादाज्यैर्वारत्रयं ततः ॥ ६० ॥ हुनेत् समृद्धिमन्त्रेण नव मूलाणुनाहुतीः |
… ॥ पुरोक्तैरेवेति दीक्षाप्रकरणोक्ताग्निमुखमन्त्रैः |
समृद्धिमन्त्रः भूर्भुवःस्वरग्निर्जातवेदा इत्यादिको वक्ष्यमाणः |
प्रणवः श्रीशक्तिमारभूविनायकबीजकैः |
अनुबद्धः क्रमादेभिर्नवधाविभक्तेन संहुनेत् ॥ ६१ ॥ पुरोक्तैः श्रीशक्तिमारविनायकबीजकैः |
प्रणवेत्यादिना प्राग्दीक्षाप्रकरणे अग्निमुखीकरणहोमे महागणपतिमन्त्रस्य यो दशधा विभाग उक्तस्तत्रान्तिमपदद्वयमेकीकृत्य जुहुयात्, तेन नवधा होमो भवति इत्यर्थः |
उक्तं तदाचार्यचरणैः–(प्र० सा०) तारेण लक्ष्म्यद्रिसुतास्मरक्ष्माविघ्नेशबीजैः क्रमशोऽनुबद्धैः |
पदत्रयेणापि च मन्त्रराजं विभज्य मन्त्री नवधा जुहोतु ॥ इति |
मूलाणुना समस्तेन हुनेन्मन्त्रार्णसंख्यया |
आज्येनैव तथाष्टद्रव्यैः स्वादुविलोलितैः ॥ ६२ ॥ चत्वारिंशत्सहस्राणि चतुर्भिरधिकानि च |
चतुश्शतं चतुश्चत्वारिंशः सहितं जुहोति [Endung unsicher] ॥ ६३ ॥ [Fußnoten: 1 „पुरश्चैव सदेविं“ पाठः, Lesung unsicher. 2 „कुम्भं“ पाठः |
3 „शोभमानाः“ पाठः |
]

[Druckseite 689] प्रत्यहं भोजयेद्विप्रांस्तदाशीर्भिर्विवर्धितः |
गुरवे दक्षिणां दद्यात् पञ्चाशद्दन्तिनोऽथवा ॥ ६४ ॥ तन्मूल्यं तद्दशांशं वा दत्त्वा सन्तोष्य सद्गुरुम् |
चतुर्णां मिथुनानां षड्गणेशनिधियुग्मयोः ॥ ६५ ॥ अङ्गमातृदिगीशानां तन्मन्त्रैः सर्पिषा हुनेत् |
एवं होमं समाप्याथ नैवेद्यं च समुद्धरेत् ॥ ६६ ॥ पुनरभ्यर्च्य विघ्नेशं साङ्गं सावरणं ततः |
निजे हृदि समुद्वास्य विहरेत् स यथासुखम् ॥ ६७ ॥ ततो दिनैश्चतुश्चत्वारिंशता निपतन्ति हि |
विनायकप्रभावेन कलभाः करिणस्तथा ॥ ६८ ॥ करिणीनां समूहाश्च पाल्यन्ते ह्यवटे ततः |
प्रोक्तरूपं प्रोक्तकुण्डे गणेशं सम्यगर्चयेत् ॥ ६९ ॥ अवटे गर्ते |
तत्र वह्निं समाधाय लक्षमेकं पृथग् हुनेत् |
पयोगृताभ्यामुन्मत्तपुष्पैः शर्करयापि च ॥ ७० ॥ नीवारेणान्नेन च ततो कुण्डमध्यात् समुज्ज्वला |
वेतालसंज्ञा गुटिका प्राप्यते मन्त्रिणा ततः ॥ ७१ ॥ अणिमाद्यष्टसिद्धीनां जायते भाजनं सुधीः |
… ॥ अत्राप्येकैकद्रव्येण सप्तषष्ट्युत्तरषट्शताधिकषोडशसहस्रसंख्यो जपः कार्यः |
अन्तिमद्रव्ये त्वाहुतिद्वयं न्यूनमिति |
ब्राह्मे काले समुत्थाय क्षीणचन्द्रेऽथ पर्वणि |
पद्मपत्रे कापिलं खे गोमयं प्रतिगृह्य च ॥ ७२ ॥ अयुतं मन्त्रसञ्जप्तं निखातं द्वारि वारयेत् |
व्याघ्रक्रोडादिचोरारीन् नात्र कार्या विचारणा ॥ ७३ ॥ क्षीणचन्द्रे पर्वणि अमावस्यायाम् |
खे अन्तरिक्षे |
[32.MGP.74–77a: Redaktionelle Auslassung einer Dhattūra-haltigen Einnahmemischung zur Fremdbeeinflussung einschließlich Dosierungen. Nichtgrafische Inhaltsangabe in der deutschen Fassung.] जितेन्द्रियः शुद्धतनुर्मनुज्ञो जपेन्मनुं त्वष्टयुतं सहस्रम् ॥ ७७ ॥ हुनेद्दशांशं करवीरलाजान् कन्यां लभेदुत्तमवंशजां सः |
पूर्वोक्तरूपं गणपं विचिन्त्य गन्धादिनाभ्यर्च्य जपेत्तु मन्त्री ॥ ७८ ॥ मन्त्रं हि लक्षपरिमितं विमुक्तो भवेदकस्मान्निगडादिबन्धात् |
बिल्वस्य पुष्पं तगरं प्रियङ्गुं सदेवदारं हरिचन्दनं च ॥ ७९ ॥ [Fußnote: „समाचरेत्“ पाठः |
]

[Druckseite 690] तथागुरुं नागसुकेसरं च समानि कृत्वा मधुसाधितानि |
स्पृष्ट्वा जपेत्तानि मनुं सहस्रमष्टाधिकं तैः खलु सिद्धधूपः ॥ ८० ॥ भवेदनेनाशु सुधूपितो ना विजित्य रोगान् किल दीर्घजीवी |
प्राप्नोति चार्थं जुहुयाच्च कोऽपि भवेन्नरः सर्वजनप्रियश्च ॥ ८१ ॥ अनेन धूपेन च धूपिता स्त्री सुदुर्भगाऽथो सुभगा भवेच्च |
कुमारिका धूपसुधूपिता च वरं लभेताशु कुलीनमग्र्यम् |
जलाशये लक्षमिताऽणुजापः समाहतो वृष्टिकरः प्रशस्तः ॥ ८२ ॥ स्वर्णाप्तौ मधुना च गव्यपयसा गोसिद्धये सर्पिषा लक्ष्म्यै शर्करया जुहोतु यशसे दध्ना च संवृद्धये |
अन्नैरन्नसमृद्धये च सतिलैर्द्रव्याप्तये तण्डुलै- र्लाजाभिर्यशसे कुसुम्भकुसुमैरश्वारिजैर्वाससे ॥ ८३ ॥ पद्मैर्भूपतिमुत्पलैर्नृपवधूं तन्मन्त्रिणः कैरवै- रश्वत्थादिसमिद्भिराज्यसहितान् वर्णान् वधूः पिष्टैः |
पुत्तल्यादिभिरन्वहं स वशयेज्जुह्वन्नवृष्टये लोणेष्टिसमृद्धये च जुहुयान्मन्त्री पुनर्वेतसैः ॥ ८४ ॥ इति |
अश्वत्थादीत्यादिशब्दैरुदुम्बरप्लक्षवटाद्या गृह्यन्ते |
पुत्तल्यादीत्यादिशब्देन पिष्टरचितवृषाद्यो गृह्यन्ते |
तथा सारसंग्रहे– “शार्ङ्गी शचीवल्लभमौलिमाजं सदान्तयुक्तं खलु भूमिबीजम्” [Zitat teilweise unsicher] ॥ इति पूर्वं मूलमन्त्रोद्धारप्रकरणेऽनुद्धृतं भूमिबीजं समुद्धरति |
शार्ङ्गी गकारः |
शचीवल्लभो लकारः |
उत्तमाङ्गं बिन्दुः |
सदान्त औकारः |
तथा– षट्कोणे कमलापुटं प्रविलिखेत् तारं ससाध्यं ततः कोणेष्वङ्गमनून् स्वरान् वसुदले (द्विद्विक्रमात् संलिखेत् |
कामं द्वादशपन्नगं स्वरदले)ष्वालिख्य भूमिमनुं पद्मे तद्दले महागणमनोर्वर्णांश्च शिष्टान् लिखेत् ॥ ८५ ॥ द्वात्रिंशदलपङ्कजे कखमुखान् वर्णान् लिखेत् सान्तगान् भूबिम्बं बहिरष्टवज्रविलसत्कोणस्थशक्तं लिखेत् |
बाह्ये वारुणमण्डले परिवृतं तेनैव शक्त्यावृतं रुद्रं तत्स्थशिना महागणपतेर्यन्त्रं समुक्तं महत् [Schlusszeile unsicher] ॥ ८६ ॥ [Fußnoten: 1 „भावितानि“ पाठः |
2 „वृत्ताः“ पाठः |
]

[Druckseite 691] षट्कोणेत्यादिमहदित्यन्तस्यायमर्थः–षट्कोणमध्ये श्रीबीजसम्पुटितं प्रणवं विलिख्य, तन्मध्ये साध्यनामालिख्य, षट्कोणेषु षडङ्गमन्त्रानालिख्य, तद्बहिरष्टदलकमलं कृत्वा तद्दलेषु प्रागादिक्रमेण षोडश स्वरान् द्वन्द्वशो विलिख्य, तद्बहिर्द्वादशदलकमलं कृत्वा तद्दलेषु प्राग्वत् कामबीजं विलिख्य, तद्बहिः षोडशपत्रेषु भूबीजमालिख्य, तद्बहिश्चतुर्विंशतिदलेषु प्रणवश्रीकामभूबीजातिरिक्तानि मूलमन्त्राक्षराण्येकैकशो विन्यस्य, तद्बहिर्द्वात्रिंशदलेषु कादिसान्तान् मातृकावर्णान् सबिन्दुकानालिख्य, तद्बहिर्वज्रोपेतं चतुरस्रं कृत्वा तत्कोणेषु लमिति विलिख्य, तद्बहिरर्धचन्द्राकारं वारुणं मण्डलं विलिख्य वंबीजेन संवेष्ट्य, तद्बहिर्वृत्तद्वयं कृत्वा, तत्तयोरन्तरालं ह्रींबीजैरावेष्ट्याङ्कुशबीजाभ्यां निरोधयेत्, निरोधनं त्वाद्यन्तयोर्लेखनम् |
तथा– भूर्जे धरायां वसने लिखेत्तद् गोरोचनाकुङ्कुमगोमयाद्भिः |
कस्तूरिकाभिः सुधया च हेमरूप्योद्भवा स्यादिह लेखनी च ॥ ८७ ॥ यन्त्रं धृतं येन स दुर्जयः स्याल्लोकैरशेषैर्गणपप्रसादात् |
न दह्यतेऽसौ दहनेन तस्य भीतिर्न च स्यान्नृपतस्करेभ्यः ॥ ८८ ॥ द्यूते रणे राजकुले च वादे सदा मनुज्ञो विजयी भवेच्च |
अनामिकारक्तविमिश्रितैस्तत् शोणैर्लिखेद् द्रव्यवरैर्यथावत् ॥ ८९ ॥ कुचन्दनाद्यैररुणैश्च पुष्पैः सम्पूज्य तन्मन्त्रिवरो निवेद्यैः |
कृत्वा मनोज्ञाङ्गवतीं च मूर्तिं विन्यस्य तस्या उदरे च यन्त्रम् ॥ ९० ॥ प्रतापयेद्दीपशिखाकृशानौ सप्ताहतो योषितमानयेत् सः |
जप्त्वा मनुं चाष्टशतं प्रताप्य बाहौ धृतं तद्वशयेन्मृगाक्षीम् ॥ ९१ ॥ स्वभावविद्वेषवतां हि रक्तैः श्मशानकाङ्गारयुतैर्लिखेत्तत् |
शावांशुके लेखनिका तु काकपक्षोत्थिता सम्यगथाभिपूज्य ॥ ९२ ॥ उच्चाटयेद्बद्धमिदं ध्वजाग्रे विद्वेषयत्येव हि वैरिसङ्घम् |
द्रव्यैः सुपीतैर्विलिखेच्छिलायां पीतप्रसूनै रुचिरार्कपुष्पैः ॥ ९३ ॥ सम्पूज्य संवेष्ट्य च पीतसूत्रैः साध्यानिलस्थापनमाचरेच्च |
तद्देहलीदेश इदं निखातं करोन्मिते स्तम्भनकारि यन्त्रम् ॥ ९४ ॥ दुष्टस्य वाक्स्तम्भमरिव्रजस्य गतेस्तु संस्तम्भनमाशु कुर्यात् |
सेनां परेषां गजवाजियुक्तां संस्तम्भयेन्नात्र विचारणीयम् ॥ ९५ ॥ श्मशानकाङ्गारवरोत्थमष्या श्मशानवस्त्रे कुपितेन मन्त्री |
चित्तेन संलिख्य नरास्थिजात्र लेखनी चन्दनपुष्पधूपैः ॥ ९६ ॥ सम्पूज्य तच्छावधरानिखातं स मारयेद्वैरिणमाशु नूनम् |
उत्खातमेतत् पयसा च धौतं यन्त्रं हि शान्तिं तनुते नराणाम् ॥ ९७ ॥ इति |
भूर्जेत्यादि, सुधया चूर्णेन |
मूर्तिर्देवस्य |
साध्यानिलस्थापनं साध्यप्राणप्रतिष्ठा |
करोन्मिते हस्त–

[Druckseite 692] मात्राधस्तात् |
शावधरा श्मशानभूमिः ॥ तथा– आलिख्याश्रिपुरे सतारविवरे बीजं बहिर्दिक्ष्वथ श्रीमायामदनं भुवं गृहयुगे बीजानि वह्नेस्ततः |
सन्धिष्वङ्गमनूनथाष्टदलके वर्णान् मनोरालिखेत् त्रींस्त्रीनन्त्यदले क्रमेण विधिवच्छिष्टं तथैकं कृती ॥ ९८ ॥ वेष्टितं मातृकावर्णैः क्रमोत्क्रमगतैरपि |
पाशाङ्कुशावृतं बाह्ये भूगेहद्वितयेन च ॥ ९९ ॥ महागणपतेर्यन्त्रं कृतं हेमशलाकया |
अलक्तकं च काश्मीरं कस्तूरीरोचनान्वितम् ॥ १०० ॥ मेलयित्वा विभागेन पिष्ट्वा चन्दनवारिणा |
स्वर्णपट्टेऽथ भूर्जे वा लिखितं विधिपूर्वकम् ॥ १०१ ॥ कृतप्राणप्रतिष्ठं तद् दोर्धृतं भुक्तिमुक्तिदम् |
आयुरारोग्यसम्पत्तिकीर्तिदं प्रीतिवर्धनम् ॥ १०२ ॥ इति |
अयमर्थः–षट्कोणमध्ये त्रिकोणमालिख्य त्रिकोणमध्ये प्रणवमध्यगतं ससाध्यं गंबीजमालिख्य, त्रिकोणषट्कोणयोरन्तराले पूर्वादिचतुर्दिक्षु श्रींह्रींक्लींग्लौं इति बीजचतुष्टयमेकेकशो विलिख्य, षट्कोणेषु पूर्वादिक्रमेण प्रणवादिषड्बीजान्यालिख्याष्टदलेषु गणपतये इत्याद्यवशिष्टमन्त्रगतद्वाविंशतिवर्णेषु त्रींस्त्रीन्वर्णान् सप्तदलेषु विलिख्यावशिष्टमेकमक्षरमष्टमदले विलिख्य, बहिर्वृत्तपञ्चकं विधाय तदन्तर्गतवीथीचतुष्टये सर्वाभ्यन्तरवीथ्यां सबिन्दूनकारादिक्षकारान्तान् वर्णानालिख्य, द्वितीयवीथ्यां क्षकाराद्यकारान्तान् वर्णान् विलिख्य, तृतीयवीथ्यां आं इति पाशबीजैरावेष्ट्य, सर्वबाह्यवीथ्यां क्रों इत्यङ्कुशबीजैरावेष्ट्य, तद्बहिश्चतुरस्रद्वयं कुर्यात् |
एतद्यन्त्रमुक्तफलदं भवति |
अत्र चतुरस्रद्वयवेष्टनं बाह्याभ्यन्तरभेदेनेति केचित् |
षट्कोणरूपैरित्यन्ये |
यथागुरूपदेशं कार्यमिति ॥ केरलीये यन्त्रसारे– आलिख्य कर्णिकामध्ये शाक्तं कोणेषु षट्स्वपि |
तारश्रीशक्तिकामेलाविघ्नबीजानि तद्बहिः ॥ १ ॥ आलिख्य चाष्टपत्रस्य पद्मस्य प्रथमे दले |
कएइत्यादि वाग्बीजं द्वितीये च दले ततः ॥ २ ॥ यदद्येत्याद्यृचो वर्णानष्टौ पत्रे तृतीयके |
कामबीजं हसइत्यादि पत्रे भूयश्चतुर्थके ॥ ३ ॥ उदगा इत्यष्टवर्णानालिख्याथ च पञ्चमे |
सकलेत्यादि शाक्तं च बीजं षष्ठे दले पुनः ॥ ४ ॥ सर्वं तदिन्द्र तेत्यादिवर्णानष्टौ च सप्तमे |
पत्रे गणपतयेत्यादिनववर्णान् दलेऽष्टमे ॥ ५ ॥ सर्वेत्यादिद्वादशार्णांस्तद्बाह्ये मातृकाक्षरैः |
संवेष्ट्य कुगृहाश्रिष्टः श्रींह्रींक्लींग्लौमिति क्रमात् ॥ ६ ॥ आलिखेद्धेमपट्टादौ हेमसूच्यातिरञ्जनम् |
… ॥ इति |
रञ्जनं वश्यकरम् |
अस्यार्थः–अष्टदलकमलकर्णिकायां षट्कोणमध्ये ससाध्यं शक्तिबीजं विलिख्य, षट्स्वपि कोणेषु ॐश्रींह्रींक्लींग्लौंगं इत्येकैकशो विलिख्य अष्टदलेषु प्रथमदले श्रीविद्यायाः प्रथमकूटं, द्वितीयदले “यदद्य कच्च वृत्रहन्” इति विलिख्य, तृतीयदले श्रीविद्याया द्वितीयकूटं, चतुर्थदले “उदगा अभि सूर्य” [Lesung dieser Formel unsicher] इति विलिख्य, पञ्चमे दले श्रीविद्यायास्तृतीयं कूटं, षष्ठे दले “सर्वं तदिन्द्र ते वशे” इति, सप्तमे दले “गणपतये वरवरदेति” अष्टमे “सर्वजनं मे वशमानय स्वाहा” इति विलिख्य, तद्बाह्यवृत्तयोरन्तराले मातृकाक्षरैरावेष्ट्य चतुरस्रचतुष्कोणेषु च महागणपतिमन्त्रस्य द्वितीयबीजादिबीजचतुष्टयं विलिखेत् |
एतद्यन्त्रमुक्तफलं भवति |
इदं यदद्येत्याद्यृचा श्रीविद्यया च सहितं महागणपतियन्त्रम् ॥ श्रीविद्या तु ज्ञानार्णवे–

[Druckseite 693; vedische Zitate ohne diplomatische Akzentwiedergabe] सकला भुवनेशानी कामेशीबीजमुत्तमम् |
अनेन सकला विद्याः कथयामि तवानघे ॥ १ ॥ शक्त्यन्तस्तुर्यवर्णोऽयं कलमध्ये सुलोचने |
वाग्भवं पञ्चवर्णं तु कामराजमथोच्यते ॥ २ ॥ मादनं शिवचन्द्राद्यं शिवान्तं मीनलोचने |
कामराजमिदं भद्रे षड्वर्णं सर्वमोहनम् ॥ ३ ॥ शक्तिबीजं वरारोहे चन्द्राद्यं सर्वसिद्धिदम् |
… ॥ इति |
शक्तिः एकारस्तस्यान्ते अधः तुर्यवर्ण ई, सकला भुवनेशानीत्यस्य कलाभ्यां सह वर्तमाना भुवनेशानीत्यर्थत्वात्तयोर्मध्ये एईति वर्णद्वये दत्ते कामराजविद्यायाः प्रथमकूटं भवति |
मादनं सकलेत्येवत्सम्बन्धात्ककारः, शिवचन्द्रौ हसौ आद्यो यस्य तत् |
शिवो हकारोऽन्ते यस्य तत्, चन्द्रः सकार आद्यो यस्य तत् |
एतत्सपर्या यथायोग्या प्रागुक्तविधिनावगन्तव्या ॥ श्रीयन्त्रसारे– कर्णिकायां साध्यगर्भं तारं पत्रेषु चाष्टसु |
ऋगृच्यभ्यग्निजलधित्रीणि त्रिद्व्यर्णाणि च [Zahlencode unsicher] ॥ १ ॥ आलिख्य मातृकार्णैर्भूपुरेण च वेष्टयेत् |
यदद्यकच्चेत्यृचो यन्त्रं वश्यसौभाग्यकान्तिदम् ॥ २ ॥ सुवर्णरत्नधान्यादिसर्वसम्पत्करं परम् |
… ॥ इति ॥ अस्यार्थः–अष्टदलकर्णिकामध्ये ससाध्यं तारं विलिख्य, तद्दलेषु त्रिद्वित्रित्रिचतुस्त्रित्रिद्विक्रमेण “यदद्यकच्चे”त्यृचो वर्णान् विभज्य विलिख्य, तद्बहिर्वृत्तयोरन्तराले मातृकाक्षरैर्वेष्ट्य बहिश्चतुरस्रेण वेष्टयेत् |
एतद्यन्त्रमुक्तफलदं भवति |
ऋक् तु महागणपतेर्यन्त्रे लिखिता, ऋच ऋष्याद्यः सक्त इन्द्रो गायत्री ॥ श्रीयन्त्रसारे– षट्कोणकर्णिकामध्ये तारं कोणेषु षट्स्वपि |
ॐश्रींह्रींक्लींग्लौंगमिति गणपतये च तद्बहिः ॥ १ ॥ शिष्टांश्चतुष्पञ्चषडर्णांश्चापि चतुर्दले |
बाह्ये संवादसूक्तस्याप्यर्धमर्धमृचां क्रमात् ॥ २ ॥ आलिख्य चाष्टपत्रेषु त्रिष्टुभावेष्ट्य तद्बहिः |
मातृकार्णैश्च भूबिम्बकोणेषु च यथाक्रमम् ॥ ३ ॥ आलिखेद्भद्र इत्यादि पादमन्त्रचतुष्टयम् |
एतत्संवादसूक्तस्य यन्त्रं लोकेषु दुर्लभम् ॥ ४ ॥ सङ्घातभेदेऽमात्यानां मैत्रीकरणमुत्तमम् |
जगत्सम्मोहनं वश्यं कान्तिसौभाग्यपुष्टिदम् ॥ ५ ॥ इति |
अस्यार्थः–चतुर्दलकमलकर्णिकायां षट्कोणमध्ये ससाध्यं प्रणवं विलिख्य, तत्कोणेषु प्रोक्तबीजषट्कमालिख्य, चतुर्दलेषु प्रथमे “गणपतये” इति, द्वितीये “वरवरद” इति, तृतीये “सर्वजनं मे” इति, चतुर्थे “वशमानय स्वाहा” इति विलिख्य, तद्बहिरष्टदलेषु वक्ष्यमाणसंवादसूक्तस्य ऋचामर्धमर्धं विलिख्य, तद्बहिर्वृत्तत्रयान्तःस्थान्तरालद्वयस्याभ्यन्तरान्तराले वक्ष्यमाणत्रिष्टुभावेष्ट्य, बहिःस्थान्तराले मातृकाक्षरैर्वेष्ट्य, तद्बहिश्चतुरस्रकोणेषु “भद्रं नो अपिवातय मनः, मरुतामोजसे स्वाहा, इन्द्रो विश्वस्य राजति, शन्नो भव द्विपदे शं चतुष्पदे” इति पादमन्त्रचतुष्टयं लिखेत् |
एतदुक्तफलदं भवति ॥ सं समिद्युवसे वृषन्नग्ने विश्वान्यर्य आ |
इळस्पदे समिध्यसे स नो वसून्या भर ॥ १ ॥ सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् |
देवा भागं यथा पूर्वे सञ्जानाना उपासते ॥ २ ॥ समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् |
समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि ॥ ३ ॥

[Druckseite 694; vedische Akzente nicht diplomatisch wiedergegeben] समानी व आकूतिः समाना हृदयानि वः |
समानमस्तु वो मनो यथा वः सुसहासति ॥ ४ ॥ इति ऋग्वेदोक्तं (१०|
१९१|
१) संवादसूक्तम् |
जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः |
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥ इति त्रिष्टुप्मन्त्रः |
संसमिदित्यस्य संवनन ऋषिः, संज्ञानं देवता, तिस्रोऽनुष्टुभः, तृतीया त्रिष्टुप्, आद्या आग्नेयी ॥ सारसंग्रहे– ध्यानं प्रवक्ष्ये ह्यथ कामनाया भेदेन भिन्नं बहुधातिरम्यम् |
भिन्नाञ्जनाद्रिप्रभदेहकान्तिं सुमेरुसन्मन्दरतुल्यसारम् ॥ १ ॥ नानामणिव्रातविभूषिताङ्गं रत्नोल्लसद्दिव्यकिरीटयुक्तम् |
भीमं महान्तं नयनत्रयाढ्यं कर्णद्वयोल्लासिसुचामरं च ॥ २ ॥ लम्बोष्ठमुद्यद्वरनागयज्ञोपवीतिनं चैकरदं गजास्यम् |
सत्काञ्चनोद्यत्कटिसूत्रयुक्तं रक्तांशुकं लोहितपुष्पभूषम् ॥ ३ ॥ पद्माङ्कुशौ पाशरदे च शक्तिं गदां वरं चाब्जमथेक्षुदण्डम् |
शालेस्तथाग्रं दधतं कराग्रे पद्मासनस्थं हृदि भावयेत्तम् ॥ ४ ॥ बाणं तथैवाच्युतबाणधन्वकमण्डलून् मोदकपात्रशक्ती |
सच्चामरं पाशमथेक्षुदण्डं स्वीयैः कराब्जैर्दधतं भजेत्तम् ॥ ५ ॥ सदाखिलोपद्रवनाशकारि ध्यानं गणेशस्य समीरितं हि |
पीतं स्मरेत् स्तम्भनकार्य एनं वश्याय मन्त्री ह्यरुणं स्मरेत्तम् ॥ ६ ॥ कृष्णं स्मरेन्मारणकर्मणीशमुच्चाटने धूम्रनिभं स्मरेत्तम् |
बन्धूकसूनाभनिभं च वृष्टौ स्मरेद्बलार्थं किल पुष्टिकार्ये ॥ ७ ॥ स्मरेद्धनार्थी च हरिन्निभं तं मुक्त्यै च शुक्लं मनुवित् स्मरेत्तम् |
एवं प्रकारेण गणं त्रिकालं ध्यायञ्जपन् सिद्धियुतो भवेत् सः ॥ ८ ॥ इति ॥ अथ काम्यतर्पणविधिस्तत्रैव– पूर्वं मनुं विंशतिधा गणेशं प्रतर्प्य वर्णानिह ठद्वयान्तान् |
प्रतर्पयेद्वारचतुष्टयं च प्रत्येकशो मूलमनुं च तद्वत् ॥ १ ॥ युग्मानि विघ्नान् निधिसंयुतान् षट् प्रतर्पयेच्छक्तियुतान् पृथक् च |
पुरोक्तवन्मूलमनुं चतुर्धा प्रतर्पयेन्मन्त्रिवरो यथावत् ॥ २ ॥ यथावदित्यनेन मिथुनचतुष्टयषड्गणेशनिधिद्वयानां स्वस्वबीजादित्वं सूचितम् |
तदुक्तं गणेश्वरपरामर्शिन्याम्– मिथुनानि च षड् विघ्नाञ्छङ्खपद्मनिधी अपि |
स्वस्वबीजादिकैर्मन्त्री स्वाहान्तैश्च चतुर्विभिः ॥ १ ॥ इति |
तथा– [Fußnote: „महोग्रं“ पाठः |
]

[Druckseite 695] सचतुश्चत्वारिंशच्चतुःशतानि तर्पणानि चैवं स्युः |
अथवा प्रकारभेदात् तर्पणमेतत् प्रवक्ष्येऽहम् ॥ २ ॥ मूलाणुना च दशधा विभक्तेनाथ तर्पयेत् |
प्रत्येकं मूलमन्त्रेण चतुरावृत्ति तर्पयेत् ॥ ३ ॥ तत्र ताररमामायामारभूविघ्नबीजकैः |
शरेषुदशयुग्मैश्च मन्त्रार्णैस्तर्पयेत् क्रमात् ॥ ४ ॥ शराः पञ्च, इषवः पञ्च, युग्मं द्वयम् |
अशीतिप्रमितान्येव तर्पणानि भवन्ति च |
एकादशभिरप्यत्र बीजपूरादिभिः क्रमात् ॥ ५ ॥ कलशान्तैश्चतुर्धा च मूलेनापि तथा सुधीः |
विघ्नभूमारमायाश्रीबीजानि व्युत्क्रमाणि च ॥ ६ ॥ समस्तान्येतदन्तैश्च बीजपूरैः प्रतर्पयेत् |
अष्टाशीतिमितान्येवं जायन्ते तर्पणान्यथ ॥ ७ ॥ अत्र बीजपूरादिमन्त्रेषु विशेषमाह, गणेश्वरपरामर्शिन्याम्– बीजपूरं गदा वच्चेक्षुकार्मुकं च त्रिशूलयुक् |
चक्राब्जपाशोत्पलानि कलमाग्रविषाणयुक् ॥ १ ॥ डन्ताश्च रत्नकलशो हृदन्ताः प्रणवादिकाः |
गंबीजाद्यादिकाः पञ्च श्रींबीजाद्यादिकाः पुनः ॥ २ ॥ षड्बीजाद्योऽन्तिमश्चैते वक्ष्यमाणपदादिकाः |
यथाक्रमं महाविघ्नायुधानां मनवः स्मृताः ॥ ३ ॥ मन्त्रफलं स्याच्छक्तिः समप्राणत्रिगुणकालचक्रमिति |
व्यापिरकं भूस्वरूपं विद्या त्रैलोक्यमात्मने–युक्तम् [mittlerer Wortteil unsicher] ॥ ४ ॥ गंॐमन्त्रफलात्मने बीजपूराय नमः इत्याद्याः प्रयोगे प्रदर्शयितव्याः |
षड्बीजाद्यैर्गणपतयेत्यादिमन्त्रादिकैः क्रमात् |
दशभिश्चतुर्वारं मूलेनापि च तर्पयेत् ॥ ५ ॥ विघ्नो विनायको वीरः शूरो वरद एव च |
इभवक्त्रश्चैकदन्तो लम्बोदरगणस्तथा ॥ ६ ॥ क्षिप्रप्रसादनश्चैव महागणपतिस्तथा |
तर्पणानि तथाशीतिमितान्येव भवन्ति हि ॥ ७ ॥ चत्वारि मिथुनान्यत्र तानि शक्त्यादिकानि च |
स्वविनायकबीजादिकानि सन्तर्प्य मन्त्रवित् ॥ ८ ॥ मूलाणुना चतुर्वारं मध्ये सन्तर्पयेत् क्रमात् |
चतुःषष्टिमितान्येवं जायन्ते तर्पणान्यथ ॥ ९ ॥ आमोदादीन् स्वशक्त्यन्तान् शक्त्याद्यांश्च प्रतर्पयेत् |
विघ्नेशबीजप्रथमं चतुर्मूलाणुना चतुः ॥ १० ॥ तर्पयेत् पञ्चषष्ट्येवं तर्पणानि भवन्त्यथ [gedruckte Zahl im Widerspruch zur Summe] |
शक्त्यादिकान् स्वशक्त्यन्तनिधिद्वयमथो चतुः ॥ ११ ॥ तर्पयेच्चतुर्मूलं द्वात्रिंशत्प्रमितानि च |
तर्पणानि भवन्त्येवं ततो मूलाणुना चतुः ॥ १२ ॥ तर्पयेत् सचतुश्चत्वारिंशच्चाथ चतुःशतम् |
तर्पणानि भवन्त्येभिः सर्वान् कामान् प्रसाधयेत् ॥ १३ ॥ इति ॥ अथ तर्पणप्रयोगः–तत्र प्रथमं श्रीगणेश्वरपरामर्शिन्युक्तपरिपाट्या तर्पणस्थाने तत्र देवं च ध्यात्वा तर्पणारम्भं कुर्यात् |
तद्यथा– सर्वाभीष्टप्रदं वक्ष्ये चतुरावृत्ति तर्पणम् |
एकान्ते विजने रम्ये सर्वोपद्रववर्जिते ॥ १ ॥ कृतस्नानादिको मन्त्री पूर्ववन्न्याससंयुतः |
तडागमध्ये सञ्चिन्त्य पुष्पितं नलिनीवनम् ॥ २ ॥ तस्य मध्ये महापद्मं तरुणादित्यसन्निभम् |
समुन्नतं सुगन्धाढ्यं रमणीयं मनोहरम् ॥ ३ ॥

[Druckseite 696] सद्यो विकसितं ध्यायेन्मन्त्री पूर्वोक्तमन्त्रवित् |
शुद्धं रजतसोपानपङ्क्त्या तं रविमण्डलात् ॥ ४ ॥ विनिर्गत्यावरुह्याथ कर्णिकामध्यसंस्थितम् |
इति ध्यात्वा सावरणं महागणपतिं सुधीः ॥ ५ ॥ प्रवरेर्गन्धकुसुमैः समभ्यर्च्याथ पूर्ववत् |
निधाय पुष्करमुखं साधकेन्द्रस्य मूर्धनि ॥ ६ ॥ वर्षन्तं रत्नधाराभिर्ध्यात्वा देवस्य मूर्धनि |
चन्द्रचन्दनकाश्मीरकस्तूरीलोलितैर्जलैः ॥ ७ ॥ तर्पयेत् परया भक्त्या देवदेवं प्रसन्नधीः |
… ॥ इत्येवं ध्यायन् मूलमन्त्रमुच्चार्य “श्रीमहागणपतिं तर्पयामि” इति देवस्य मूर्ध्नि विंशतिवारं सन्तर्प्य, ४ मू० ४ ॐ तर्पयामि स्वाहा |
४ मू० ४ श्रीं तर्पयामि स्वाहा |
४ मू० ४ ह्रीं तर्पयामि स्वाहा |
४ मू० ४ क्लीं तर्पयामि० |
४ मू० ४ ग्लौं तर्पयामि० |
४ मू० ४ गं तर्पयामि० |
४ मू० ४ गं तर्पयामि० |
४ मू० ४ णं तर्पयामि० |
४ मू० ४ पं तर्पयामि० |
४ मू० ४ तं तर्पयामि० |
४ मू० ४ यं तर्पयामि० |
४ मू० ४ वं तर्पयामि० |
४ मू० ४ रं तर्पयामि० |
४ मू० ४ वं तर्पयामि० |
४ मू० ४ रं तर्पयामि० |
४ मू० ४ दं तर्पयामि० |
४ मू० ४ सं तर्पयामि नमः |
४ मू० ४ र्वं तर्पयामि नमः |
४ मू० ४ जं तर्पयामि० |
४ मू० ४ नं तर्पयामि० |
४ मू० ४ में तर्पयामि० |
४ मू० ४ वं तर्पयामि० |
४ मू० ४ शं तर्पयामि० |
४ मू० ४ मां तर्पयामि० |
४ मू० ४ नं तर्पयामि० |
४ मू० ४ यं तर्पयामि० |
४ मू० ४ स्वां तर्पयामि० |
४ मू० ४ हां तर्पयामि स्वाहा |
४ मू० ४ श्रीं नारायणसहितां लक्ष्मीं तर्पयामि स्वाहा |
४ मू० ४ श्रीं लक्ष्मीसहितं नारायणं तर्पयामि० |
४ मू० ४ ह्रीं हरसहितां गौरीं तर्पयामि० |
४ मू० ४ ह्रीं गौरीसहितं हरं तर्पयामि० |
४ मू० ४ क्लीं कामदेवसहितां रतिं तर्पयामि० |
४ मू० ४ क्लीं रतिसहितं कामदेवं तर्पयामि० |
४ मू० ४ ग्लौं वराहसहितां महीं तर्पयामि० |
४ मू० ४ ग्लौं महीसहितं वराहं तर्पयामि० |
४ मू० ४ गं आमोदसहितां सिद्धिं तर्पयामि० |
४ मू० ४ गं सिद्धिसहितं आमोदं तर्पयामि० |
४ मू० ४ गं प्रमोदसहितां समृद्धिं तर्पयामि० |
४ मू० ४ गं समृद्धिसहितं प्रमोदं तर्पयामि० |
४ मू० ४ गं सुमुखसहितां कान्तिं तर्पयामि० |
४ मू० ४ गं कान्तिसहितं सुमुखं तर्पयामि० |
४ मू० ४ गं दुर्मुखसहितां मदनावतीं तर्पयामि० |
४ मू० ४ गं मदनावतीसहितं दुर्मुखं तर्पयामि० |
४ मू० ४ गं विघ्नसहितां मदद्रवां तर्पयामि० |
४ मू० ४ गं मदद्रवासहितं विघ्नं तर्पयामि० |
४ मू० ४ गं विघ्नकर्तृसहितां द्राविणीं तर्पयामि० |
४ मू० ४ गं द्राविणीसहितं विघ्नकर्तारं तर्पयामि० |
४ मू० ४ शं शङ्खनिधिसहितां वसुधारां तर्पयामि० |
४ मू० ४ शं वसुधारासहितं शङ्खनिधिं तर्पयामि० |
४ मू० ४ पं पद्मनिधिसहितां वसुमतीं तर्पयामि० |
४ मू० ४ पं वसुमतीसहितं पद्मनिधिं तर्पयामि स्वाहा |
४ मू० ४ ॐ तर्पयामि स्वाहा |
४ मू० ४ श्रीं तर्प० |
४ मू० ४ ह्रीं तर्प० |
४ मू० ४ क्लीं तर्प० |
४ मू० ४ ग्लौं तर्प० |
४ मू० ४ गं तर्प० |
४ मू० ४ गं तर्प० |
४ मू० ४ णं तर्प० |
४ मू० ४ पं तर्प० |
४ मू० ४ तं तर्प० |
४ मू० ४ यं तर्प० |
४ मू० ४ वं तर्प० |
४ मू० ४ रं तर्प० |
४ मू० ४ वं तर्प० |
४ मू० ४ रं तर्प० |
४ मू० ४ दं तर्प० |
४ मू० ४ सं तर्प० |
[Die Lautform des sechsten Bījas in dieser Wiederholung ist örtlich unsicher. Die Reihe setzt sich auf der Folgeseite fort.]

[Druckseite 697] तर्प० |
४ मू० ४ र्वं तर्प० |
४ मू० ४ जं तर्प० |
४ मू० ४ नं तर्प० |
४ मू० ४ में तर्प० |
४ मू० ४ वं तर्प० |
४ मू० ४ शं तर्प० |
४ मू० ४ मां तर्प० |
४ मू० ४ नं तर्प० |
४ मू० ४ यं तर्प० |
४ मू० ४ स्वां तर्प० |
४ मू० ४ हां तर्प० |
एवं ८० ॥ ४ मू० ४ गंॐ मन्त्रफलात्मने बीजपूराय नमः बीजपूरं तर्प० |
४ मू० ४ ग्लौंॐ शक्त्यात्मने गदायै नमः गदां तर्प० |
४ मू० ४ क्लींॐ प्राणात्मने इक्षुकार्मुकाय नमः इक्षुकार्मुकं तर्प० |
४ मू० ४ ह्रींॐ त्रिगुणात्मने त्रिशूलाय नमः त्रिशूलं तर्प० |
४ मू० ४ श्रींॐ कालात्मने चक्राय नमः चक्रं तर्प० |
४ मू० ४ श्रींॐ चक्रात्मने अब्जाय नमः अब्जं तर्प० |
४ मू० ४ ह्रींॐ व्याप्त्यात्मने पाशाय नमः पाशं तर्प० |
४ मू० ४ क्लींॐ रक्तात्मने उत्पलाय नमः उत्पलं तर्प० |
४ मू० ४ ग्लौंॐ भुवनात्मने कलमाग्राय नमः कलमाग्रं तर्प० |
४ मू० ४ गंॐ विद्यात्मने विषाणाय नमः विषाणं तर्प० |
४ मू० ४ ॐश्रींह्रींक्लींग्लौंगं ॐ त्रैलोक्यात्मने रत्नकलशाय नमः रत्नकलशं तर्प० |
एवं ८८ ॥ ४ मू० ४ ॐश्रींह्रींक्लींग्लौंगं विघ्नगणपतये वरवरद इत्यादि० |
४ मू० ४ ६ विनायकगणपतये इत्यादि० |
४ मू० ४ ६ वीरगणपतये इत्यादि० |
४ मू० ४ ६ शूरगणपतये इत्यादि० |
४ मू० ४ ६ वरदगणपतये इत्यादि० |
४ मू० ४ ६ इभवक्त्रगणपतये इत्यादि० |
४ मू० ४ ६ एकदन्तगणपतये इत्यादि० |
४ मू० ४ ६ लम्बोदरगणपतये इत्यादि० |
४ मू० ४ ६ क्षिप्रप्रसादगणपतये इत्यादि० |
४ मू० ४ ६ महागणपतिगणपतये इत्यादि० |
एवं ८० ॥ ४ मू० ४ श्रींगं लक्ष्मीसहितं नारायणं तर्प० |
४ मू० ४ गंश्रीं नारायणसहितां लक्ष्मीं तर्प० |
४ मू० ४ ह्रींगं गौरीसहितं हरं तर्प० |
४ मू० ४ गंह्रीं हरसहितां गौरीं तर्प० |
४ मू० ४ क्लींगं रतिसहितं कामं तर्प० |
४ मू० ४ गंक्लीं कामसहितां रतिं तर्प० |
४ मू० ४ ग्लौंगं महीसहितं वराहं तर्प० |
४ मू० ४ गंग्लौं वराहसहितां महीं तर्प० |
एवं ६४ ॥ ४ मू० ४ श्रींगं सिद्धिसहितमामोदं तर्प० |
४ मू० ४ गंश्रीं आमोदसहितां सिद्धिं तर्प० |
४ मू० ४ श्रींगं समृद्धिसहितं प्रमोदं तर्प० |
४ मू० ४ गंश्रीं प्रमोदसहितां समृद्धिं तर्प० |
४ मू० ४ श्रींगं कान्तिसहितं सुमुखं तर्प० |
४ मू० ४ गंश्रीं सुमुखसहितां कान्तिं तर्प० |
४ मू० ४ क्लींगं मदनावतीसहितं दुर्मुखं तर्प० |
४ मू० ४ गंक्लीं दुर्मुखसहितां मदनावतीं तर्प० |
४ मू० ४ क्लींगं मदद्रवासहितं विघ्नं तर्प० |
४ मू० ४ गंक्लीं विघ्नसहितां मदद्रवां तर्प० |
४ मू० ४ क्लींगं द्राविणीसहितं विघ्नकर्तारं तर्प० |
४ मू० ४ गंक्लीं विघ्नकर्तृसहितां द्राविणीं तर्प० |
एवं ९६ ॥ ४ मू० ४ ह्रींगं वसुधारासहितं शङ्खनिधिं तर्प० |
४ मू० ४ गंह्रीं शङ्खनिधिसहितां वसुधारां तर्प० |
४ मू० ४ ग्लौंगं वसुमतीसहितं पद्मनिधिं तर्प० |
४ मू० ४ गंग्लौं पद्मनिधिसहितां वसुमतीं तर्प० |
एवं ३२ ॥ ततः ४ मू० ४ |
एवं सम्भूय ४४४ ॥ प्रकारान्तरं तु गणेश्वरपरामर्शिन्याम्– प्रथमं मूलमन्त्रेण चतुर्वारं प्रतर्प्य च |
मिथुनानि च षड् विघ्नाञ्शङ्खपद्मनिधी अपि ॥ १ ॥ स्वस्वबीजादिकैर्मन्त्री स्वाहान्तैश्च चतुश्चतुः |
मूलमन्त्रं चतुर्वारं पूर्ववत् तर्पयेत् पृथक् ॥ २ ॥ सम्भूयाष्टोत्तरशतं कनिष्ठः स्यादयं क्रमः |
अथवा मूलमन्त्राद्यैस्तैस्तैरेव च पूर्ववत् ॥ ३ ॥ मन्त्रैर्वा तर्पयेद्विद्वानर्चनोक्तविधानतः |
मध्यमोऽयं सम्भूय द्विशतं षोडशोत्तरम् ॥ ४ ॥ अथवा मूलमन्त्रेण चतुर्वारं प्रतर्प्य च |
पूर्वमन्त्राक्षरैर्मन्त्रैः स्वाहान्तैश्च चतुश्चतुः ॥ ५ ॥ मूलमन्त्रचतुर्वारपूर्वकं सम्प्रतर्प्य च |
मिथुनादिस्ततः पश्चात् पूर्ववत् सम्प्रतर्पयेत् ॥ ६ ॥ भवेत् सम्भूय सचतुश्चत्वारिंशच्चतुःशतम् |
एवं ज्येष्ठक्रमः प्रोक्तो बुधैरागमपारगैः ॥ ७ ॥ [Fußnote: „सर्वैः“ पाठः |
]

[Druckseite 698] एवं सन्तोष्य तत्पश्चात् पूर्ववत् सोपचारकैः |
सर्वाभीष्टं च सम्प्रार्थ्य प्रणम्योद्वासयेत् सुधीः ॥ ८ ॥ य एवं तर्पयेन्नित्यं मण्डलात् स फलं लभेत् |
अनावृष्ट्यां भये घोरे राजचोराद्युपद्रवे ॥ ९ ॥ महत्तरे विवादे च महादारिद्र्यसङ्कटे |
विवाहादिषु कार्येषु सर्वेषु च विशेषतः ॥ १० ॥ एवं वै तर्पणं कुर्यात् मानवेन्द्रः प्रसन्नधीः |
महागणेश्वरः प्रीतो महासम्पत्करो भवेत् ॥ ११ ॥ इति ॥ अथ प्रयोगः–४ मू० ४ महागणपतिं तर्पयामि स्वाहा |
४ मू० ४ पुनः तर्प० |
४ मू० ४ श्रीं लक्ष्मीनारायणौ तर्प० |
४ मू० ४ ह्रीं गौरीहरौ तर्प० |
४ मू० ४ क्लीं रतिकन्दर्पौ तर्पया० |
४ मू० ४ ग्लौं महीवराहौ तर्पयामि० |
४ मू० ४ गं लक्ष्मीगणनायकौ तर्प० |
४ मू० ४ गं आमोदसिद्धी तर्प० |
४ मू० ४ गं प्रमोदसमृद्धी तर्प० |
४ मू० ४ गं सुमुखकान्ती तर्प० |
४ मू० ४ गं दुर्मुखमदनावत्यौ तर्प० |
४ मू० ४ गं विघ्नमदद्रवे तर्प० |
४ मू० ४ गं विघ्नकर्तृद्राविण्यौ० |
४ मू० ४ शं शङ्खनिधिवसुधारे० |
४ मू० ४ पं पद्मनिधिवसुमत्यौ तर्प० |
४ मू० ४ |
एवं १२४ ॥ इत्ययं कनिष्ठक्रमः ॥ ४ मू० ४ श्रीं नारायणसहितां लक्ष्मीं तर्प० |
४ मू० ४ श्रीं लक्ष्मीसहितं नारायणं तर्प० |
एवं मिथुनानि पञ्च, आमोदादिषट्, निधिद्वयं, तेषां त्रयोदशमिथुनान्तानां तर्पणसंख्याष्टोत्तरशतद्वयम् |
आद्यन्तयोर्मूलेन चतुश्चतुः |
एवं सम्भूय षोडशाधिकद्विशतमिति मध्यमप्रकारः ॥ आदौ मूलेन |
४ मू० ४ ॐ तर्प० |
४ मू० ४ श्रीं तर्प० |
४ मू० ४ ह्रीं तर्प० |
४ मू० ४ क्लीं तर्प० |
४ मू० ४ ग्लौं तर्प० |
४ मू० ४ गं तर्प० |
४ मू० ४ गं तर्प० |
४ मू० ४ णं तर्प० |
४ मू० ४ पं तर्प० |
४ मू० ४ तं तर्प० |
४ मू० ४ यं तर्प० |
४ मू० ४ वं तर्प० |
४ मू० ४ रं तर्प० |
४ मू० ४ वं तर्प० |
४ मू० ४ रं तर्प० |
४ मू० ४ दं तर्प० |
४ मू० ४ सं तर्प० |
४ मू० ४ र्वं तर्प० |
४ मू० ४ जं तर्प० |
४ मू० ४ नं तर्प० |
४ मू० ४ में तर्प० |
४ मू० ४ वं तर्प० |
४ मू० ४ शं तर्प० |
४ मू० ४ मां तर्प० |
४ मू० ४ नं तर्प० |
४ मू० ४ यं तर्प० |
४ मू० ४ स्वां तर्प० |
४ मू० ४ हां तर्प० |
एवं सम्भूयाष्टाविंशत्यधिकशतद्वयसंख्यं तर्पयित्वा पुनर्मध्यमप्रकारोक्तषोडशोत्तरशतद्वयं तर्पयेत् |
तेन सम्भूय चतुश्चत्वारिंशदधिकचतुःशतं तर्पणानि भवन्ति, इत्युत्तमप्रकारः |
इति काम्यतर्पणविधिः ॥ अथ श्रीमहागणपतेरङ्गविशेषे तु द्रव्यविशेषैस्तर्पणात् फलविशेषानाह सारसंग्रहे– शुण्डाकराग्रे गणपं जलेन प्रतर्पयेन्मुक्तिफलाय मन्त्री |
तथेन्दिराकामनया गणेशं प्रतर्पयेन्मूर्ध्नि पयोभिरत्र ॥ १ ॥ गुह्यप्रदेशे मधुना गणेशं प्रतर्पयेत् कामफलाय विद्वान् |
आकृष्टिवश्यादिनिमित्तमत्र प्रतर्पयेत्तं मधुभिश्च नेत्रे ॥ २ ॥ भूपालवश्याय महागणेशं प्रतर्पयेच्चारु घृतेन पृष्ठे |
ऊरुस्थले तैलसुतर्पणं च महागणेशप्रियमेतदुक्तम् ॥ ३ ॥ एरण्डतैलेन तथास्य रण्डावश्याय नाभौ किल तर्पणं स्यात् |
स्कन्धप्रदेशेऽस्य पयःपयोभिः प्रतर्पणं प्रीतिविवर्धनाय ॥ ४ ॥ क्षीरेण दध्ना मधुनास्य तुण्डे प्रतर्पणं धर्मविवृद्धिकृत् स्यात् |
एवं परिज्ञाय समस्तमेतत् कुर्यात् प्रयोगान् विधिना मनुज्ञः ॥ ५ ॥ [Fußnote: „पुत्रः“ पाठः |
]

[Druckseite 699] एवं मन्त्री य एवं गणपमनुवरं ह्यर्चनातर्पणाद्यै- र्होमैर्जापैश्च सम्यक् प्रभजति विधिना प्राप्नुयात् सोऽत्र लोके |
नानार्थानस्य भूपो भवति च वशगो मोहयेत् सर्वलोकान् भुक्त्वा भोगान् यथेष्टं व्रजति स विमलां मुक्तिमन्ते दुरापाम् ॥ ६ ॥ इति ॥ सारसंग्रहे–मन्त्रान्तरम् |
वक्रेत्युक्त्वा च तुण्डैकदंष्ट्राय तदनन्तरम् |
कामशक्तीन्दिराविघ्नबीजानि प्रवदेत् ततः ॥ १ ॥ वदेद्गणपतिं पश्चाद्वरान्ते वरदं पदम् |
ततः सर्वजनं मेऽन्ते वशमानय ठद्वयम् ॥ २ ॥ त्रैलोक्यमोहनो मन्त्रो गणेशस्येष्टदः शुभः |
… ॥ इति |
वक्र स्वरूपं |
तुण्डैकदंष्ट्राय स्वरूपं |
मे स्वरूपं |
वशमानय स्वरूपं |
ठद्वयं स्वाहा |
त्रयस्त्रिंशदक्षरोऽयं मन्त्रः ॥ तथा– ऋषिस्तु गणकः प्रोक्तो गायत्रं छन्द ईरितम् |
त्रैलोक्यमोहनो विघ्नो देवता परिकीर्तितः ॥ ३ ॥ हृदेकादशभिः प्रोक्तं पञ्चभिः शिर ईरितम् |
भूतार्णैश्च शिखा प्रोक्ता चतुर्भिः कवचं मतम् ॥ ४ ॥ नेत्रं षड्भिः समाख्यातं द्वाभ्यामस्त्रमुदीरितम् |
ध्यानपूजादिकं सर्वं महाविघ्नेशवद्भवेत् ॥ ५ ॥ वर्णैरिति शेषः |
ध्यानम्– त्रैलोक्यमोहनगणेशमिमं यथावदभ्यर्चनाजपहुतिस्तुतितर्पणाद्यैः |
सम्पूजयेद्य इह साधकसत्तमोऽसौ लोकेऽखिले भवति पूज्यतमोऽमराणाम् ॥ ६ ॥ इति ॥ अथ प्रयोगः–योगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा, शिरसि गणकाय ऋषये नमः |
मुखे गायत्रीच्छन्दसे नमः |
हृदये त्रैलोक्यमोहनाय गणपतये देवतायै नमः |
इति ऋष्यादिकं विन्यस्य ममाभीष्टसिद्धये विनियोगः, इति कृताञ्जलिरुक्त्वा, वक्रतुण्डैकदंष्ट्राय क्लींह्रींश्रीं हृदयाय नमः |
गं गणपतये शिरसे० |
वरवरद शिखायै० |
सर्वजनं कवचाय० |
मे वशमानय नेत्रेभ्यो० |
स्वाहा अस्त्राय० |
इति मन्त्रानङ्गुष्ठादितलान्तं करयोर्विन्यस्य, हृदयादिषडङ्गेष्वपि विन्यस्य ध्यानपूजादिकं सर्वं महागणपतिवत् कुर्यादिति |
सारसंग्रहे–मन्त्रान्तरम् |
शक्तिरुद्धा स्मृतिः प्रोक्ता चन्द्रखण्डेन संयुता |
महागणान्ते पतये स्वाहान्तो द्वादशाक्षरः ॥ १ ॥ स्मृतिर्गकारः |
चन्द्रखण्डेन संयुता बिन्दुयुक्ता |
शक्तिरुद्धा भुवनेशीबीजसम्पुटिता |
अन्यत्सुगमम् ॥ तथा– ऋषिर्गणक आख्यातो गायत्री निचृदन्विता |
छन्दः शक्तिगणेशोऽत्र देवता सर्वकामदः ॥ २ ॥ एकेनैकेन चैकेन सप्तभिर्द्वितयेन च |
समस्तेन च मन्त्रार्णैरङ्गक्लृप्तिरिहोदिता ॥ ३ ॥ मुक्ताचन्द्रोत्थदीप्तिं शशिशकलधरं भालनेत्रं मनोज्ञं हस्ताम्भोजैर्दधानं सरसिरुहसृणी रत्नपात्रं विशालम् |
स्वीयक्रोडस्थिताया ध्वजनिहितलसच्चारुपाशेः प्रियाया योनौ विन्यस्तहस्तं मणिगणमुकुटं संश्रयेन्नागवक्त्रम् ॥ ४ ॥ [Fußnoten: 1 „सन्तोषयेत्“ पाठः |
2 „चन्द्रौघः“ पाठः |
]

[Druckseite 700] दक्षाधःकरमारभ्य वामाधःकरपर्यन्तं सरसिजादिकध्यानम् |
एवं सञ्चिन्त्य विधिवत् साधकः सर्वसिद्धये |
यजेत् पूर्वोदिते पीठे विरिविघ्नेशवर्त्मना ॥ ५ ॥ इति ॥ अथ प्रयोगः–मूलेन प्राणायामत्रयं कृत्वा, शिरसि गणकाय ऋषये नमः |
मुखे निचृद्गायत्रीच्छन्दसे नमः |
हृदये श्रीशक्तिगणेशाय देवतायै नमः |
इति विन्यस्य, मम सर्वाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा, आद्यवर्णेन हृदयं, द्वितीयेन शिरः, तृतीयेन शिखा, सप्तभिः कवचं, द्वाभ्यां नेत्रं, समस्तमन्त्रेणास्त्रमिति मूलमन्त्रार्णैः करषडङ्गन्यासं विधाय ध्यानादिसर्वं विरिविघ्नेशवत् कुर्यादिति ॥ तथा– दशायुतं जपेन्मन्त्रमयुतं जुहुयात् ततः |
अपूपैर्घृतसंयुक्तैर्विधिवत् पूजितेऽनले ॥ ६ ॥ तर्पणं मार्जनं कृत्वा ब्राह्मणान् भोजयेत् ततः |
एवं सिद्धमनुर्मन्त्री प्रयोगान् विधिवच्चरेत् ॥ ७ ॥ इक्षुदण्डैः कृतो होमो राज्यलक्ष्मीं प्रयच्छति |
कदलैर्नारिकेलैश्च होमो लोकवशङ्करः ॥ ८ ॥ ससितैः पृथुकैर्होमो राजानं वशमानयेत् |
सक्तुभिश्च कृतो होमो ब्राह्मणानां वशङ्करः ॥ ९ ॥ सर्पिषा जुहुयात् सम्यग् धनधान्यादिसम्पदः |
… ॥ इति ॥ सारसंग्रहे–मन्त्रान्तरम् |
प्रणवो मायया रुद्धबीजं च वशमानय |
ठद्वयान्तो मनुः प्रोक्तः सम्यगेकादशाक्षरः ॥ १ ॥ मायया रुद्धबीजं भुवनेशीबीजद्वयमध्यस्थं गणेशबीजं |
ठद्वयं स्वाहाकारः |
तथा– पूर्वोदितास्तु मुन्याद्या मन्त्रार्णैरङ्गकल्पनम् |
हृदयं प्रणवेनाथ शिरो मायापुटेन च ॥ २ ॥ स्वबीजेन शिखा प्रोक्ता वशंशब्देन चानय |
अनेन कवचं नेत्रं स्वाहाशब्देन मन्त्रिभिः ॥ ३ ॥ समग्रेणास्त्रमाख्यातं सर्वागमविशारदैः |
… ॥ बन्धूकाभं त्रिनेत्रं शशधरमुकुटं भोगलोलं गणेशं नागास्यं धारयन्तं गुणसृणिवरदानिक्षुदण्डं कराग्रैः |
शुण्डासंस्पृष्टयोषामदनगृहममुं श्यामलाङ्ग्या तयापि श्लिष्टं लिङ्गस्पृशा तं विधृतकमलया भावयेद्देववन्द्यम् ॥ ४ ॥ (वामोर्ध्वकरमारभ्य वामाधःकरपर्यन्तमायुधध्यानम् |
पूर्वोक्ते पीठे पूर्वोक्ता पूजा कार्या |
) अत्र प्रयोगः सुगमः |
मुन्यादयस्तु द्वादशाक्षरोक्ताः |
तथा– लक्षत्रयं जपेन्मन्त्रमपूपैस्तद्दशांशतः |
घृताप्लुतैस्तु जुहुयात् तर्पणादि ततश्चरेत् ॥ ४ ॥ ततो निजगुरुं नत्वा धनधान्यैश्च तोषयेत् |
ततः काम्यप्रयोगांश्च तत्कल्पोक्तान् प्रसाधयेत् ॥ ५ ॥ स्वादुत्रयप्लुतापूपैर्होमो राजवशङ्करः |
नारिकेलफलैर्होमो राज्यश्रीवृद्धिदः परः ॥ ६ ॥ त्रिस्वादुसंयुतैर्लाजैर्होमो वै कान्तावशङ्करः |
… ॥ इति ॥ सारसंग्रहे–मन्त्रान्तरम् |
अथो वच्मि महामन्त्रं हरिद्रागणपस्य तु |
जगत्त्रयहितं भोगमोक्षदं कविताकरम् ॥ १ ॥ [Fußnote:] हरिद्रागणेश–सुब्रह्मण्यगणेश–हेरम्ब–क्षिप्रप्रसादन–शक्तिगणेश–लक्ष्मीगणेशा–एते मन्त्रा दक्षिणाम्नायोक्ता बोद्धव्याः |

[Druckseite 701] नानामन्त्रगणस्याशु सिद्धिदं भुवि दुर्लभम् |
गरिष्ठं सफलं चाथ कार्यमात्रप्रसाधने ॥ २ ॥ गोपनीयं प्रयत्नेन वाञ्छितार्थसुरद्रुमम् |
सौभाग्यपुष्टिलक्ष्मीदं दीर्घजीवितदं नृणाम् ॥ ३ ॥ नरनारीनरेन्द्राणां परं वश्यफलप्रदम् |
विघ्नौघध्वंसने दक्षं कृत्याद्रोहनिवारणम् ॥ ४ ॥ दैत्यगीर्वाणसङ्घानां नागगन्धर्वरक्षसाम् |
दन्तिनामश्वमुख्यानां श्वापदानां च पक्षिणाम् ॥ ५ ॥ स्वान्तसम्मोहनं सम्यक् प्राणाकृष्टिकरं क्षणात् |
रोधकं राजसैन्यस्य वायुवर्षणविद्युताम् ॥ ६ ॥ कृशानुजलशस्त्राणां स्तम्भकं परमं मतम् |
वादिनां जन्तुजातानां वाचां संस्तम्भनं द्विषाम् ॥ ७ ॥ सिंहेभमृगनागानां गमनस्तम्भकारकम् |
भूपस्य मन्त्रिणः शत्रोः क्रोधस्तम्भकरं हठात् ॥ ८ ॥ तरुणीनां कुमारीणां हृदयस्तम्भनं महत् |
स्निग्धानामपि शत्रूणां विद्वेषकरणक्षमम् ॥ ९ ॥ उन्मादोच्चाटने शत्रोर्मारणे छेदने क्षमम् |
बहुप्रयोगसंयुक्तं यन्त्रभेदसमन्वितम् ॥ १० ॥ तारः क्रोधसमन्वितं च खपरं चन्द्रार्धचूडं धरा- सद्बीजं हरि दाग्निविष्णुशयनान्याभाष्य पश्चाद्गणम् |
सम्ब्रूयात् पतये वरश्च वरदं सर्वजनान्ते हृद्- यं च स्तम्भययुग्ममग्निगृहिणी द्वात्रिंशदर्णो मनुः ॥ १ ॥ तारः प्रणवः |
क्रोधो हुं |
खपरं ग, चन्द्रार्धचूडं बिन्दुयुक्तं |
धरा ग्लौं |
हरि स्वरूपं, दाग्निविष्णुशयनानि द्रा इति |
गणपतये स्वरूपं |
वरवरद स्वरूपं |
सर्वजन स्वरूपं |
हृदयं स्वरूपं |
स्तम्भययुग्मं स्तम्भय स्तम्भय इति |
अग्निगृहिणी स्वाहा |
तथा– सेवितो मनुसङ्घातैरुद्धतः सर्वकामदः |
मुनिर्मदन आख्यातश्छन्दोऽनुष्टुप् समीरितम् ॥ २ ॥ हरिद्रागणपो देवो देवता मुनिभिः स्मृतः |
षड्दीर्घयुक्स्वबीजेन षडङ्गविधिरीरितः ॥ ३ ॥ इति |
विनायकसंहितायां सम्मोहनपञ्चरात्रे च–“षड्दीर्घयुक्स्वबीजेन भूमियुक्तेन बुद्धिमान् |
षडङ्गमाचरेद्” इत्युक्तं तत्र यथोपदेशं कार्यमिति |
स्वबीजेन महागणपतिबीजेन |
तथा– विधिना येन मन्त्रोऽयं गृह्यते तदहं ब्रुवे |
चतुर्थीदिवसे प्राप्ते शुक्लपक्षस्य मन्त्रवित् ॥ ४ ॥ शुद्धां हरिद्रामानीय कन्यया पेषितां शुभाम् |
सर्वाङ्गे तां समालिप्य स्नायाच्छुद्धजलैस्ततः ॥ ५ ॥ भक्त्या परमयोपेतः प्रसन्नेनान्तरात्मना |
प्रणम्य गुरुपादाब्जमर्चयित्वा विधानतः ॥ ६ ॥ स्वर्णाङ्गुलीयहाराद्यैर्भूषणैश्च शुभाम्बरैः |
पूर्वोक्तविधिना तस्मादधीयीत मनुं त्विमम् ॥ ७ ॥ सुगन्धैः सुमनोभिस्तं यजेद् देवधिया पुनः |
… ॥ स्थाने पूर्वसमीरिते मणिमये सिंहासने संस्थितं पीतं पीतविभूषणाम्बरलसन्माल्यादिसंशोभितम् |
विघ्नं दन्तिमुखं त्रिनेत्रलसितं हस्तैर्वहन्तं भजेत् पाशं सत्परशुं वरं सृणियुतं क्रोधाख्यमुद्राभये ॥ ८ ॥ [Fußnote: „इयं“ पाठः |
]

[Druckseite 702] वामोर्ध्वादिकरत्रये आद्यत्रयं दक्षोर्ध्वादित्रयेऽन्यत्त्रयमित्यायुधध्यानम् |
क्रोधमुद्रा मुष्टिः |
एवं सञ्चिन्त्य देवेशं गजाननमनन्यधीः |
एकाक्षरोदितेनात्र वर्त्मना देवमर्चयेत् ॥ ९ ॥ इति |
अथ प्रयोगः–तत्र प्रातरुत्थानादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा, शिरसि मदनाय ऋषये नमः |
मुखे अनुष्टुप्छन्दसे नमः |
हृदये हरिद्रागणपतये देवतायै नमः |
इति विन्यस्य मम सर्वाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा, गांगींगूंमित्यादिना करषडङ्गन्यासं विधाय ध्यात्वा, मानसपूजादिसर्वं प्रागुक्तैकाक्षरविधिना कृत्वा समापयेदिति |
तथा– साग्रं सहस्रं सञ्जप्य दशांशं हव्यवाहने |
सर्पिर्गुडयुतैः सम्यगपूपैर्जुहुयाद्धविः ॥ १० ॥ हरिद्रागणपं तावत् तर्पयेद्भक्तितत्परः |
कुमारीर्भोजयेत्तावद्ब्रह्मचारिण एव च ॥ ११ ॥ काम्यकर्म ततः कुर्याद्यदिष्टं विष्टपत्रये |
… ॥ साग्रं सहस्रमष्टोत्तरं सहस्रमित्यर्थः |
तावत् होमसंख्यासमसंख्यमित्यर्थः |
एतेन तर्पणसंख्ययैव कुमार्यो ब्रह्मचारिणश्च भोजयितव्याः |
ब्रह्मचारिणस्तु नैष्ठिकाः |
“स्वाश्रमस्थांस्त्वपेक्षन्ते” इति साम्प्रदायिकाः |
तथा– पद्मे नागदले सुधाकरगृहे साध्याख्यकर्मावृते वेदादौ वसुधाविनायकगतं वर्मालिखेन्मध्यतः |
दिक्पत्रेषु वसुन्धरामनुगतं क्रोधं विदिक्पत्रगं भूबीजं बहिरष्टकोणवसुधावर्मस्थितं वारुणम् ॥ १२ ॥ वसुकोणाग्रगानि स्युर्हस्तिनो मस्तकानि च |
मस्तकेषु लिखेत् पश्चादणान्तं बीजमुत्तमम् ॥ १३ ॥ चतुरस्रेण संवेष्ट्य दिक्षु वर्मान्तमालिखेत् |
विदिग्गतं च भूबीजमेवं यन्त्रमनुत्तमम् ॥ १४ ॥ अस्यार्थः–तत्र यथोक्ताधिकरणे यथोक्तद्रव्यैरष्टदलकमलं कृत्वा, तत्कर्णिकामध्ये वृत्तं कृत्वा, तन्मध्ये साध्यनामवेष्टितं प्रणवं विलिख्य, तस्योदरे भूबीजमालिख्य भूबीजस्योदरे गणेशबीजमालिख्य, तस्यान्तर्हुंकारमालिख्य, अष्टदलकमलस्य पूर्वदक्षिणपश्चिमोत्तरदलेषु भूबीजोदरगतं हुंकारमालिख्याग्नेयादिकोणदलेषु केवलं भूबीजं विलिख्य, कमलाद्बहिश्चतुरस्रद्वयसम्पुटरूपमष्टकोणं कृत्वा तत्कोणेषु भूबीजोदरे वकारं सबिन्दुं विलिख्य, अष्टकोणाग्रेषु गजमस्तकानि कृत्वा तेषु सबिन्दुं गकारं विलिख्य, तद्बहिश्चतुरस्रं कृत्वा तत्कोणेषु भूबीजं, तद्दिक्षु हुंकारं च विलिखेदिति |
तथा– आदित्यबुधशुक्राणामेकस्य दिवसे वशी |
निशीथे विजने देशे सुलिप्ते गोमयाम्भसा ॥ १५ ॥ प्रदीपैर्दीपिते तत्र दृषदं विन्यसेच्छुभाम् |
उपलं च समानीय हरिद्रां क्षालितां जलैः ॥ १६ ॥ तस्यां दृषदि संस्थाप्य कन्यया पेषयेत्ततः |
हरिद्रायाश्चतुर्थांशं वसुविप्रगृहान्मृदम् ॥ १७ ॥ समाहृत्य च सम्पिष्य मिश्रयित्वाथ शोधयेत् |
मन्त्रेणानेन मन्त्रज्ञः पञ्चविंशतिसंख्यया ॥ १८ ॥ तत्पश्चाल्लेपयेन्मन्त्री शुभे सूक्ष्मे नवाम्बरे |
अस्मिन् पटे लिखेद्यन्त्रमेतत् संस्तम्भनाह्वयम् ॥ १९ ॥ अत्र प्राणान् प्रतिष्ठाप्य पूजितं गुलिकीकृतम् |
गणेशप्रतिमां पश्चादङ्गप्रत्यङ्गशोभिताम् ॥ २० ॥ विनिर्माय त्रिभिर्भागैर्निशायास्तद्धृदि क्षिपेत् |
प्राणसंस्थापनं भूयः कुर्यान्मूर्तौ विचक्षणः ॥ २१ ॥ [Fußnote:] स्थानाष्टकात् इत्यर्थः |

[Druckseite 703; gedruckter Sprung von 27 auf 37] गन्धपुष्पादिनैवेद्यै(रभ्यर्च्य गणनायकम् |
शरावे क्षालितं न्यस्य सहस्रं साष्टकं मनुम् ॥ २२ ॥ सञ्जप्य पूजयेद्भक्त्या पीतवर्णैश्च पुष्पकैः |
सिद्धौदनेन नैवेद्यं) निवेद्यात्र बलिं हरेत् ॥ २३ ॥ तण्डुलान् शालिसम्भूतान् प्रस्थमानमिताञ्शुभान् |
द्विदलीकृतमुद्गान्नं तदर्धेन च मेलयेत् ॥ २४ ॥ गुडं वेदपलं भूयो नारिकेलं च तत्समम् |
मरिचं मुष्टिमानं च सैन्धवं च तदर्धकम् ॥ २५ ॥ तदर्धं जीरकं चाज्यं कुडवार्धसमं भवेत् |
एतत्सर्वं चतुष्प्रस्थं गोदुग्धे मन्दवह्निना ॥ २६ ॥ पचेत् सिद्धौदनं ह्येतद्गणेशस्य महाप्रियम् |
अधुना पायसेनाथ लड्डुकापूपकादिभिः ॥ २७ ॥ कर्पूरवासितैः पूगताम्बूलैश्चन्दनादिभिः |
तोषयित्वा विधानेन हरिद्रागणपं विभुम् ॥ ३७ ॥ बलिं दत्त्वा शरावेण च्छादयेदपरेण तम् |
प्रणमेद्दण्डवद्भूमौ स्तुत्वा स्तुतिभिरादरात् ॥ ३८ ॥ एवं यः कुरुते नित्यं पञ्चभिः सप्तभिर्दिनैः |
विघ्नेश्वरप्रभावेण त्रैलोक्यं सचराचरम् ॥ ३९ ॥ स्तम्भयेत् साधकेन्द्रस्तु सत्यमेतन्नचान्यथा |
युद्धभूमौ तमिस्रायां यद्येनं स्थापयेद्बुधः ॥ ४० ॥ वैरिणो वाहिनीं वीरैर्व्याकुलां स्तम्भयेत्तदा |
देशे ग्रामे पुरे गेहे सभायां स्थापितं यदि ॥ ४१ ॥ तत्तत्स्थानगतान् सर्वान् विविधान् स्तम्भयेज्जनान् |
शालिशाखाग्रगं सम्यक् स्तम्भयेद्वर्षणं महत् ॥ ४२ ॥ नगरे नगरान्तःस्थान् जलान्तःस्थापितं जलम् |
निवासे पथि वा दस्यून् सर्पादीन् वा समीरणान् ॥ ४३ ॥ हस्तिघोटकशालासु क्षणात् सर्वानुपद्रवान् |
आखून् शाल्यालये सर्पान् वल्मीके श्वापदान् वने ॥ ४४ ॥ क्षेत्रेषु शलभान् हेतीः पाषाणे स्तम्भयेत् स्थितम् |
स्मृतिं वाणीं च गानं च विद्यां शत्रोर्विभावसोः ॥ ४५ ॥ रेतसः स्तम्भनं कुर्यात् शय्यास्थाननिवेशितम् |
सम्यग्विन्यस्य चैतेषु स्थानेषु बलिमाहरेत् ॥ ४६ ॥ स्तम्भयेदखिलं विश्वं किं पुनर्वाञ्छितं जनम् |
सफलं सर्वथा ह्येतद्विधानं गोपयेत् सदा ॥ ४७ ॥ अथाकृष्टिकरं यन्त्रं विघ्नेशस्य वदाम्यहम् |
हरिद्रां शोधयेद्वेश्ममृदा प्रोक्तेन वर्त्मना ॥ ४८ ॥ उदितं यन्त्रमालिख्य मायां गं मध्यतो लिखेत् |
अवशिष्टैर्मन्त्रवर्णैर्मायया च प्रवेष्टयेत् ॥ ४९ ॥ लिखेत् पाशाङ्कुशावष्टपत्रेषु तदनन्तरम् |
वारुणं दिग्दलाग्रेषु टपरं कोणपत्रगम् ॥ ५० ॥ धरामण्डलयुग्मस्य कोणेष्वाशाविदिक्क्रमात् |
बाणबीजानि विलिखेद्वक्ष्यमाणानि मन्त्रवित् ॥ ५१ ॥ तदग्रेष्वष्टशूलेषु कवचं साधु संलिखेत् |
जलगेहद्वयेनापि मायाकोणेन वेष्टितम् ॥ ५२ ॥ यन्त्रमाकर्षणं ह्येतल्लिखितं पूर्ववर्त्मना |
कृतप्राणप्रतिष्ठं च निशाविघ्नेशकुक्षिगम् ॥ ५३ ॥ मुहुः सम्पूज्य यत्नेन समीरं स्थापयेद्बुधः |
चक्रिहस्तमृदायोज्य गणेशागारमृत्तिकाः ॥ ५४ ॥ शरावयुगलं रम्यं निर्मायान्यत्र चोभयोः |
विन्यस्य तं गणेशानं कुसुमैररुणैर्यजेत् ॥ ५५ ॥ सिद्धौदनादिनैवेद्यैर्बलिभिश्चोक्तवर्त्मना |
मनोः सर्वजनस्थाने दत्त्वा साध्याभिधां बुधः ॥ ५६ ॥ स्तम्भय–द्वितयं यत्र तत्राकर्षय–युग्मकम् |
साध्याशाभिमुखो भूत्वा सहस्रं साष्टकं जपेत् ॥ ५७ ॥ बलिं दत्त्वाथ सम्पूज्य विघ्नेशं चन्दनादिभिः |
द्वितीयेन शरावेण पिदधीत सुसाधकः ॥ ५८ ॥ [Fußnoten: 1 „काञ्चनैः कुसुमैर्नवैः“ पाठः |
2 „तदाद्य“ पाठः |
]

[Druckseite 704] प्रत्यहं कुर्वतस्तस्य सप्तभिर्दिवसैर्भुवि |
साधकस्य समायाति सन्निधौ वाञ्छितो जनः ॥ ५९ ॥ भूपालस्तत्सुतो वापि महिषी वा वराङ्गना |
अमात्यः पण्ययोषा वा सुरकन्यापि वा द्रुतम् ॥ ६० ॥ आगच्छति न सन्देहो मन्त्रिसङ्केन चेतसा [Wortform unsicher] |
यन्त्रमेतल्लिखित्वा तु तालपत्रे गुडाम्भसा ॥ ६१ ॥ पूजितं स्थापितप्राणमजादुग्धे निवेश्य तत् |
साध्याशाभिमुखो भूत्वा क्वाथयेत् प्रजपन् मनुम् ॥ ६२ ॥ तदानीमानयेत् कामविह्वलां सुरसुन्दरीम् |
सामुद्रं रामठं न्यस्य तस्यागारे हरिद्रया ॥ ६३ ॥ सिक्थेन मर्दयित्वा तु कृत्वा साध्याकृतिं शुभाम् |
श्वेतार्कच्छदयुग्मान्तः सप्राणां सन्निवेश्य ताम् ॥ ६४ ॥ दीप्ताग्नौ तापयन् मन्त्रं जपेदष्टसहस्रकम् |
क्षणादायाति कामार्ता वाञ्छिता वरवर्णिनी ॥ ६५ ॥ नागवल्लीदले क्षौद्रलिप्ते यन्त्रमिदं लिखेत् |
साध्यं संस्मृत्य सम्पूज्य सेरं जप्तं प्रभक्षयेत् ॥ ६६ ॥ सीमन्तिनी समायाति शीघ्रं यौवनगर्विता |
पत्रे पुष्पे सुवस्त्रादौ क्षौमे चालिख्य सेरणम् ॥ ६७ ॥ यन्त्रमेतत् प्रदातव्यं क्षणादाकृष्टिकारकम् |
प्रवाहाभिमुखो वापि सरित्सङ्गमतीरगः ॥ ६८ ॥ तर्पयेत् तज्जलैः शुद्धैः शुद्धैरष्टोत्तरसहस्रकम् [Wiederholung/Lesung örtlich unsicher] |
शतयोजनदूरस्थं साध्यमाकर्षयेद्ध्रुवम् ॥ ६९ ॥ बहूदितेन किं चात्र स्मृत्वा यं प्राणिनं जपेत् |
मन्त्रमेनं विधानेन हठादाकर्षयेद्धि तम् ॥ ७० ॥ इति ॥ अथाकृष्टिकरं यन्त्रमित्यादिपूर्ववर्त्मनेत्यन्तस्यायमर्थः–तत्र पूर्वोक्तं यन्त्रमालिख्य तन्मध्यस्थं भूबीजं हित्वा तत्स्थाने मायाबीजं विलिख्य तन्मध्ये प्राग्वद्गणपतिबीजमालिख्य हुंकारादिगंबीजरहितैरवशिष्टवर्णैः प्रागुक्तसाध्यनामवेष्टनस्थाने संवेष्ट्य मायाबीजैश्च वेष्टयेत् |
अत्र मायाबीजवेष्टनं वृत्तान्तराले ज्ञेयं, तेन कर्णिकाभ्यन्तरे वृत्तद्वयं ज्ञेयम् |
ततोऽष्टदलेषु प्रतिदले आंक्रों इति पाशाङ्कुशबीजे विलिख्य, दिग्दलाग्रेषु (वमिति, कोणपत्रेषु) ठमिति च विलिख्य, प्राग्वदष्टकोणं कृत्वा तस्य पूर्वदिग्गतकोणे द्रां, दक्षिणे द्रीं, पश्चिमे क्लीं, उत्तरे ब्लूं, इति |
विदिग्गतकोणेषु चतुर्ष्वपि सः इति विलिख्याष्टकोणाग्रेषु त्रिशूलानि कृत्वा तेषु शूलेषु हुंकारमालिख्य, तद्बहिरर्धचन्द्रद्वयेन सम्पुटितेन संवेष्ट्य तत्कोणेषु मायाबीजं विलिखेत् |
अत्र कोणशब्देनार्धचन्द्रद्वयस्याग्रचतुष्टयं गृह्यते, तस्याग्नेयादिकोणचतुष्टयस्थितत्वात् |
अत्र प्राग्वद्गुलिकीकृत्य हरिद्रारचितगणेशकुक्षिगते समीरं स्थापयेत् प्राणप्रतिष्ठां कुर्यान्मूर्तेरिति शेषः |
चक्रिहस्तमृदा कुलालहस्तमृत्तिकया |
अन्यत्रान्यतमे |
सामुद्रं लवणं |
रामठं हिङ्गुः |
तस्यागारे गणेशागारे |
सिक्थेन मधूच्छिष्टेन |
सेरं सप्राणं कृतप्राणप्रतिष्ठमित्यर्थः |
जप्तमभिमन्त्रितम् ॥ तथा– अथो वदामि वश्यार्थे यन्त्रसाधनमुत्तमम् |
यन्त्रं संलिख्य पूर्वोक्तं स्मरमध्ये गणाधिपम् ॥ १ ॥ बहिः शिष्टैर्मन्त्रवर्णैः कामेनापि प्रवेष्टयेत् |
शेषमाकृष्टयन्त्रेण समानं परिकल्पयेत् ॥ २ ॥ निशाशोधनमप्यत्र कुर्यादीरितवर्त्मना |
हरिद्रायाश्चतुर्थांशमितेनेक्षुरसेन हि ॥ ३ ॥ सामुद्रं रोचनां चौरं पिष्ट्वा संलिप्य सत्पटे |
लिखेद्वश्याभिधं यन्त्रं सम्यक्कृत्वा निवेशयेत् ॥ ४ ॥ इति ॥ अस्यार्थः–पूर्वोक्तं यन्त्रं विलिख्य तन्मध्यस्थं मायाबीजमपास्य तत्स्थाने कामबीजं तदुदरे गणपतिबीजं विलिख्य, तत्प्राग्वदवशिष्टमन्त्रवर्णैः कामबीजेन चावेष्ट्य शेषमाकर्षयन्त्रवत् कुर्यादिति ॥ तथा– पूर्ववत् कृतविघ्नेशकुक्षिमध्ये निवेश्य तत् |
विधिना स्थापितप्राणं शरावे न्यस्य तं यजेत् ॥ ५ ॥ [Fußnoten: 1 „वारसुन्दरीं“ पाठः |
2 „स्वरं“ पाठः |
]

[Druckseite 705] रक्तमाल्यानुलेपाद्यैर्नैवेद्यैः पूर्ववत् कृतैः |
मनोः साध्याभिधां दत्त्वा स्थाने पूर्वसमीरिते ॥ ६ ॥ वशमानययुग्मं च जपेदष्टसहस्रकम् |
साध्यदिक्सम्मुखो भूत्वा मन्त्रं मन्त्री समाहितः ॥ ७ ॥ अष्टसहस्रमष्टोत्तरसहस्रमित्यर्थः |
विघ्नेशाय बलिं दत्त्वा च्छादयेत्तं च पूर्ववत् |
एवं प्रतिदिनं कुर्वन् सप्तभिर्दिवसैर्बुधः ॥ ८ ॥ रक्षोभूतपिशाचाद्यान् देवदानवपन्नगान् |
राजानं मन्त्रिणं राज्ञां स्त्रीगणं चेष्टमानुषम् ॥ ९ ॥ वशयेत् साधकः शीघ्रं यावज्जीवं न संशयः |
निशांशेनावशिष्टेन निजदेहं विलिम्पयेत् ॥ १० ॥ अचलां कमलां लब्ध्वा वशयेद्विश्वमञ्जसा |
हरिद्रांशसमं चूर्णं शालितण्डुलसम्भवम् ॥ ११ ॥ तत्समेन गुडेनापि मधुना सैन्धवेन च |
सम्मिश्य मर्दयित्वा च पिण्डाकारं पचेद्घृते ॥ १२ ॥ निर्माय गणपं तेन यन्त्रं तद्धृदि निःक्षिपेत् |
समीरं च प्रतिष्ठाप्य गन्धाद्यैः पूर्ववद्यजेत् ॥ १३ ॥ त्रिदिनं पूजयित्वेत्थं यन्त्रं मध्यात् पृथङ्नयेत् |
प्रतिमां भक्षयेत् पश्चात् साध्यो वश्यो भवेद्ध्रुवम् ॥ १४ ॥ शालिपिष्टादिपिण्डेन कृत्वा साध्याकृतिं शुभाम् |
अष्टाधिकं शतं जप्त्वा पूजितां स्थापितानिलाम् ॥ १५ ॥ निवेद्य विघ्नराजाय साध्यं संस्मृत्य भक्षयेत् |
वशयेद्वाञ्छितं साध्यं सदा सर्वस्वदायिनम् ॥ १६ ॥ वश्ययन्त्रं लिखेन्मन्त्री खानपानादिवस्तुषु |
सेरं कृत्वा जपेन्मन्त्री सहस्रं साष्टकं बुधः ॥ १७ ॥ भक्षणाद्वशयेत् साध्यवस्तुमात्रस्य साधकः |
चन्दनागरुकर्पूरनिशाकुङ्कुमरोचनाः ॥ १८ ॥ मृगीनाभमदसंयुक्ता अष्टाङ्गं विघ्ननाशनम् [Stoffwort örtlich unsicher] |
सम्पिष्य तद्वशीकारयन्त्रमालिख्य पूर्ववत् ॥ १९ ॥ प्रतिमां पूर्ववत् कृत्वा जप्त्वा चाष्टोत्तरं शतम् |
लिम्पेदनेन गात्रं स्वं कुर्वीतास्य विशेषकम् ॥ २० ॥ ईक्षणात् स्पर्शनादेव त्रिलोकीं वशमानयेत् |
एवं कृते नरं नारी वशयेद्योषितं पुमान् ॥ २१ ॥ चन्दनेनैव वा कुर्याद्विधिमेनं फलाप्तये |
द्विरेफश्च सदामद्रा मुसली चेन्द्रवारुणी ॥ २२ ॥ भूपदं श्रीफलं विष्णुक्रान्ता हस्ती च वन्दिनी |
वाराही शतवीर्या च मायूरी चन्द्ररोचने ॥ २३ ॥ सर्वमिक्षुरसेनैव निशाभागार्धसंयुतम् |
पिष्ट्वा वश्याभिधं यन्त्रं निर्माय प्रतिमामपि ॥ २४ ॥ प्राणसंस्थापनं कृत्वा जपेदष्टसहस्रकम् |
शिष्टद्रव्येण तिलकं कुर्यात् प्रातस्तु यो नरः ॥ २५ ॥ त्रैलोक्यं सम्पदा लक्ष्म्या तिरस्कुर्याद्धनाधिपम् |
कपिलागोमयं व्योम्नि पद्मिनीदलसम्पुटे ॥ २६ ॥ आदाय ब्रह्मचर्येण भेषजैरुदितैः समम् |
पञ्चगव्येन सम्मर्द्य पिण्डाकारं प्रकल्पयेत् ॥ २७ ॥ शुष्कं दहेच्छतं हुत्वा बिल्वकाष्ठैधितेऽनले |
समुद्धृत्य च तद्भस्म तन्मध्ये यन्त्रमालिखेत् ॥ २८ ॥ समीरणं प्रतिष्ठाप्य गणपं तत्र पूजयेत् |
अष्टाधिकं शतं मन्त्रं जपित्वा श्रीफलान्तरे ॥ २९ ॥ काञ्चने रूप्यरचिते पात्रे कांस्येऽथवा |
निधाय धारयेद्भस्म ललाटादिषु साधकः ॥ ३० ॥ कान्तिपुष्टिधनारोग्यपुत्रपौत्रयशःपशून् |
लब्ध्वा लोकप्रियो भूत्वा दीर्घजीवी भवेद्ध्रुवम् ॥ ३१ ॥ पुरोधा नृपतेः रक्षां भस्मना प्रातरन्वहम् |
कुर्यादायुष्यवृद्ध्यर्थं यशोविजयसम्पदे ॥ ३२ ॥ [Fußnote: „हस्ता“ पाठः |
]

[Druckseite 706] तस्मै निष्कत्रयं नित्यं नृपो दद्यात् पुरोधसे |
रक्ताम्बरः सुवर्त्यन्तः प्रोक्तभेषजचूर्णकम् ॥ ३३ ॥ निधाय कपिलाज्येन तद्वर्त्या नृकपालके |
दीपं प्रज्वाल्य तेनैव जपेन्मन्त्रं सुसंयतः ॥ ३४ ॥ गृहीत्वा कज्जलं जप्तमष्टोत्तरशतं शुभम् |
नेत्रयोरन्वहं दद्यात् युवा वा युवती च वा ॥ ३५ ॥ दृष्टिमात्रेण वशयेन्निखिलं विश्वमञ्जसा |
उक्तौषधीनां गुटिकां पिष्ट्वा चन्दनवारिणा ॥ ३६ ॥ अभिमन्त्र्य तु या योषा तिलकं प्रकरोति सा |
सर्वलोकप्रिया भूत्वाङ्गस्पर्शान्निजं पतिम् ॥ ३७ ॥ आज्ञाप्रवर्तिनं कुर्याद्यावज्जीवं न संशयः |
शुद्धया निशया कृत्वा विघ्नेशं प्रोक्तलक्षणम् ॥ ३८ ॥ चन्द्रोपरागसमये सेरं जप्त्वा सहस्रकम् |
अष्टाधिकं समभ्यर्च्य चन्दनादिभिरादरात् ॥ ३९ ॥ शिखायां प्रोद्वहेन्नित्यं सर्वतो जयमाप्नुयात् |
सङ्ग्रामे विपिने दुष्टश्वापदोत्थभये परे ॥ ४० ॥ आपणे व्यवहारे च द्यूते वादे महार्णवे |
पाटच्चरसमूहेषु सभायां शत्रुसङ्कटे ॥ ४१ ॥ विजयी जायते धीरः कृतकृत्यो निवर्तते |
वराङ्गनावृन्दमध्ये शोभते मन्मथो यथा ॥ ४२ ॥ नागवल्लीदले यन्त्रं लिखित्वा रात्रिवारिणा |
समप्राणमर्चितं जप्तमष्टोत्तरसहस्रतः ॥ ४३ ॥ अशितं वाञ्छितं साध्यं वश्यं नयति तत्क्षणात् |
गोदुग्धे ससिते मन्त्री क्वथिते सुदृढीकृते ॥ ४४ ॥ यन्त्रं विलिख्य तेनैव निर्माय गणनायकम् |
अभिमन्त्र्य शतं साग्रं भक्षयेद्वशयेज्जगत् ॥ ४५ ॥ नारिकेलगुडोपेतं चूर्णितं त्रिफलं हुनेत् |
अन्वहं कृतसम्पातमष्टाधिकशतं बुधः ॥ ४६ ॥ सम्पातं भक्षयेच्चैव वशमायाति सोऽचिरात् |
किं बहूक्तेन मन्त्रज्ञः साध्यं सञ्चिन्तयन् मनुम् ॥ ४७ ॥ जपेत् स दासतां याति यावदायुर्न संशयः |
… ॥ इति ॥ अत्र विषमपदव्याख्या–पूर्वसमीरिते स्थाने सर्वजनमिति स्थाने |
मनोः सर्वजनपदस्थाने साध्याभिधां स्तम्भयेति पदस्थाने वशमानययुग्मं च दत्त्वा जपेदित्यर्थः |
तद्धृदि गणेशहृदि |
स्थापितानिलं कृतसाध्यप्राणप्रतिष्ठं |
साध्यप्राणप्रतिष्ठाप्रकारस्तु प्रागेवोक्तः |
अस्य द्रव्याष्टकस्य, विशेषकस्तिलकम् |
द्विरेफो भृङ्गराजः |
सदाभद्रा मुस्ता |
मुसली तालमूलिका |
वन्दिनी लज्जालुका |
शतवीर्या दूर्वा |
मायूरी अपामार्गः |
चन्द्रः कर्पूरः |
उदितभेषजैर्द्विरेफादिभिः |
रात्रिवारिणा हरिद्रोदकेनेति ॥ तथा– उच्चाटनं ततो यन्त्रं कथयामि समासतः |
उक्तरीत्या लिखेद्यन्त्रं ससाध्यं वर्ममध्यगम् ॥ १ ॥ तदन्तर्मारुतं बीजं गाणपत्यं तदन्तरे |
प्राणबीजं च पत्रेषु वामकर्णं तदग्रतः ॥ २ ॥ तद्बहिर्वसुकोणाग्रशूलेषु कवचं लिखेत् |
वायुना वेष्टितं पश्चात् षड्बिन्दुगतवायुना ॥ ३ ॥ प्रेतवस्त्रे तदालिख्य निशालेपनपूर्वकम् |
श्मशानाङ्गारसारेण ध्वाङ्क्षपक्षशलाकया ॥ ४ ॥ यन्त्रमेतत् समालिख्य स्थापयेदेरिणं ततः [Wortform unsicher] |
पिचुमन्दस्थितं ध्वाङ्क्षगृहकाष्ठद्वयं ततः ॥ ५ ॥ श्मशानवह्नौ सन्दह्य भस्मादाय तदुद्भवम् |
विघ्नाधीशगृहद्वाःस्थशर्करारजसा युतम् ॥ ६ ॥ यन्त्रमध्ये प्रविन्यस्य सेरं तद्गुलिकीकृतम् |
शवालिप्तनिशाभागं चिताभस्मास्थिनी सदा ॥ ७ ॥ [Fußnoten: 1 „सलिले“ पाठः |
2 „त्रयं“ पाठः |
]

[Druckseite 707] [32.HUC.8–16: Redaktionelle Auslassung. Die Passage verbindet eine im Kommentar ausdrücklich als Dhattūra-Saft bestimmte Zubereitung mit Vertreibungs- und Tötungsabsicht und dem Ausbringen an Personen oder deren Aufenthaltsorten. Statt anwendbarer Herstellungs- und Ausbringungsangaben stehen in der deutschen Fassung getrennte Inhaltsangaben zu jeder Versnummer.] इति ॥ अयमर्थः–पूर्वोक्तं यन्त्रमालिख्य तन्मध्ये हुंबीजं विलिख्य, तदन्तर्यमिति वायुबीजमालिख्य, तदन्तर्गमिति गणपतिबीजमालिख्य, तन्मध्ये साध्यनाम लिखित्वा, पत्रेषु यमित्यालिख्य, दलाग्रेषु ईमिति विलिख्य, तद्बहिरष्टकोणाग्रगतशूलेषु हुमित्यालिख्य, बहिः षड्बिन्दुलाञ्छितवृत्ताकारेण वायुमण्डलेन संवेष्ट्य तस्य षड्बिन्दुस्थानेषु यमिति वायुबीजं लिखेत् |
एतद्यन्त्रमुक्तफलं भवति ॥ प्रेतवस्त्रे प्रेतत्यक्तवस्त्रे |
[Stofferklärungen zum ausgelassenen Rezept nicht wiedergegeben.] ध्वाङ्क्षः काकः |
ईरणं प्राणः |
तुन्दः कुक्षिः |
आम्बिकेयं गणेशं |
उच्चाटयद्वन्द्वं स्तम्भयपदमपास्येति शेषः |
साप्तिकस्यः इति च [Wortform unsicher] ॥ तथा– अथ वक्ष्ये समासेन यन्त्रं विद्वेषणाह्वयम् |
यन्त्रे पूर्वोदिते वह्निवायुबीजं प्रविन्यसेत् ॥ १ ॥ वसुपत्रेषु रंवर्णं फट्कारं विलिखेत्ततः |
अष्टशूलेषु हुंकारं व्योम्ना बाह्ये प्रवेष्टयेत् ॥ २ ॥ [32.HVD.3–12 samt Anschluss: Redaktionelle Auslassung einer laut Folgekommentar Dhattūra-haltigen Zubereitung und ihrer schädigenden Ausbringung. Getrennte Inhaltsangaben in der deutschen Fassung.] [Fußnoten: 1 „ठद्वयं“ पाठः |
2 „निवेदितैः“ पाठः |
]

[Druckseite 708] इति ॥ अस्यार्थः–तत्र पूर्वोक्तं यन्त्रमालिख्य तन्मध्ये रं यं इति विलिख्याष्टसु दलेषु रकारं फट्कारं च विलिख्य, दलाग्रेषु ईकारं विलिख्याष्टकोणगतशूलाष्टके हुंकारमालिख्य बहिराकाशमण्डलेन वृत्ताकारेण वेष्टयेदिति ॥ [Stofferklärung zur vorangehenden Dhattūra-Zubereitung nicht als Rezept wiedergegeben.] संवृत्य गुलिकीकृत्य |
विद्वेषयद्वयमुच्चाटयस्थाने |
रात्रिर्हरिद्रा |
पूर्ववर्त्मना चिताग्निना इति ॥ तथा– साम्प्रतं मारणं यन्त्रं प्रवदामि यथाक्रमम् |
यन्त्रं विरच्य पूर्वोक्तं वर्म मध्ये निवेशयेत् ॥ १ ॥ मायाविघ्नेशबीजे द्वे तन्मध्येऽपि समालिखेत् |
तद्बाह्येऽप्युक्तरीत्यैव वर्णानग्निगताँल्लिखेत् ॥ २ ॥ आशुशुक्षणिबीजं च धरासम्पुटकोणगम् |
मस्तकेष्वस्त्रबीजानि वह्निं शूलेषु वर्मकम् ॥ ३ ॥ तद्बहिर्वह्निकोणेषु वह्निबीजं समालिखेत् |
निशां शुद्धां समालिप्य मृतकर्पटके शुभे ॥ ४ ॥ चिताङ्गारास्थिनिर्यासैः काकपक्षशलाकया |
यथोक्तं विलिखेद्यन्त्रमेतन्मारणनामकम् ॥ ५ ॥ [32.HMR.6–15: Redaktionelle Auslassung. Konkret verwendbare giftige Zubereitungen in einer auf Tötung gerichteten Handlung, einschließlich der im Kommentar genannten Giftbaum-Stoffe. Deutsche Fassung enthält getrennte Inhaltsangaben zu jeder Nummer.] अमोघवीर्यमेतद्धि विधानं भुवि दुर्लभम् |
भूदेवव्यतिरिक्तेषु राजवैरिषु योजयेत् ॥ १६ ॥ नृपोऽपि कारयेद्यः स कर्तारं तोषयेद्धनैः |
कर्तापि तद्दशांशेन प्रायश्चित्तं समाचरेत् ॥ १७ ॥ हरिद्राविघ्नमन्त्रस्य साङ्गोपाङ्गविधानकम् |
निरूपितं यथाशास्त्रं गोपनीयं सदा बुधैः ॥ १८ ॥ दातव्यं पुत्रकल्पाय शिष्याय स्थिरचेतसे |
चित्तवाक्कायवसुभिर्गुरुशुश्रूषकाय च ॥ १९ ॥ श्रद्धाहीनाय दुष्टाय नैव देयं कदाचन |
… ॥ इति ॥ अयमर्थः–तत्र पूर्वोक्तप्रकारेण यन्त्रं विलिख्य मध्ये हुंकारं विलिख्य, तस्योदरे शक्तिबीजं गणपतिबीजं च विलिख्य, दलेषु रमित्यालिख्य, बहिरष्टकोणं कृत्वा तत्कोणेषु रमित्यालिख्य, कोणाग्रेषु फट्कारमालिख्य तदग्रगतशूलेषु हुंकारं विलिख्य, तन्मध्ये रमिति वह्निबीजं विलिख्य तद्बहिस्त्रिकोणं विलिख्य तत्कोणेषु रमित्यालिखेत् |
एतद्यन्त्रमुक्तफलदं भवति ॥ [Material- und Ausbringungskommentar der ausgelassenen giftigen Tötungsrezeptur nicht wiedergegeben.] स्तम्भयपदस्थाने मारयेति च |
भूतवासरे चतुर्दश्याम् |
[Weitere Stoffidentifikation ausgelassen.] ॥ सारसंग्रहे–मन्त्रान्तरम् |

[Druckseite 709] वक्रतुण्डगणेशस्य मनुं वक्ष्ये यथाविधि |
सर्वपापक्षयकरं सर्वसौभाग्यदायकम् ॥ १ ॥ राज्यवश्यकरं पुंसां वन्ध्यानां पुत्रदायकम् |
अमृतं चतुरास्याग्निः कामिका श्रोत्रबिन्दुयुक् ॥ २ ॥ टतृतीयोऽनन्तयुक् पवनः कवचं तथा |
षडक्षरोऽयमादिष्टो भजतां कामदो मणिः ॥ ३ ॥ अमृतं व |
चतुरास्यः क अग्नी रेफस्तेन क्र |
कामिका त श्रोत्र उ बिन्दुरनुस्वारस्तैः तुं |
टतृतीयो ड अनन्त आ तेन डा |
पवनो य |
कवचं हुं |
अत्र केचिद्दीर्घकवचं वदन्ति |
“प्रादुर्बभूव मनसि मन्त्रराजः षडक्षरः |
तप्तचामीकरप्रख्यो वक्रतुण्डाय हूमिति ॥” इति वक्रतुण्डकल्पवचनात् |
“वक्रतुण्डाय कवचं दीर्घमेव षडक्षरः” |
इति गणेश्वरपरामर्शिनीवचनाच्च |
तथा– भार्गवो मुनिराख्यातश्छन्दोऽनुष्टुबुदाहृतम् |
देवता वक्रतुण्डोऽस्य सुरासुरनमस्कृतः ॥ ४ ॥ विधाय मूलमन्त्रेण करशुद्धिं जितेन्द्रियः |
षड्भिर्मन्त्रगतैर्वर्णैः षडङ्गानि प्रकल्पयेत् ॥ ५ ॥ भ्रूमध्यकण्ठहृदयनाभ्यन्ध्वाधारके क्रमात् [vorletzte Körperstelle unsicher] |
षडक्षराण्यथ न्यस्येत् साङ्गं व्यापकं ततः ॥ ६ ॥ विधाय देवं हृदये ध्यायेदेकाग्रचेतसा |
… ॥ रम्योद्भिन्नारुणतरमणिव्रातसंशोभिकान्तिं संविभ्राणं करकिसलयैः पाशमप्यङ्कुशार्हम् |
साभीतीष्टं त्रिनयनयुतं रक्तमाल्यांशुकाढ्य- मम्भोजोद्यत्पुटगतमथ संसमरेद्वक्रतुण्डम् ॥ ७ ॥ वामाद्यूर्ध्वयोराद्ये तदाद्यधःस्थयोरन्ये, इत्यायुधध्यानम् |
तथा– पूर्वोक्ते पूजयेत् पीठे वक्रतुण्डं गणेश्वरम् |
अष्टपत्राम्बुजद्वन्द्वचतुर्द्वारयुतेन च ॥ ८ ॥ चतुरस्रत्रयेणाथ वेष्टितं चक्रमालिखेत् |
मध्ये देवं समभ्यर्च्य पुष्पान्तैरुपचारकैः ॥ ९ ॥ आदावङ्गानि सम्पूज्य यथास्थानं विशालधीः |
पूर्वादिदलमूलेषु शक्तीरष्टौ क्रमाद्यजेत् ॥ १० ॥ विद्याख्या विश्वधात्री च भोगदा विघ्नघातिनी |
निधिप्रदा च पापघ्नी तथा पुण्या शशिप्रभा ॥ ११ ॥ दलेषु च यजेत्तद्वदणिमाद्याः पुरोदिताः |
द्वितीयेऽष्टदले तद्वद्वक्रतुण्डादिकान् यजेत् ॥ १२ ॥ चतुरस्रे लोकपालांस्तदस्त्राणि च पूजयेत् |
प्राग्वद्वीथीद्वये सम्यग्वक्रतुण्डार्चनेरिता ॥ १३ ॥ इति ॥ अथ प्रयोगः–तत्र प्राग्वत् प्रातरुत्थानादिषडङ्गपूजान्ते प्रथमाष्टदलेषु ॐ विद्यायै नमः |
विश्वधात्र्यै० |
भोगदायै० |
विघ्नघातिन्यै० |
निधिप्रदायै० |
पापघ्न्यै० |
पुण्यायै० |
शशिप्रभायै० |
ततोऽष्टदलमध्येषु प्राग्वल्लक्ष्मीगणेशप्रकरणोक्तसिद्ध्यष्टकं सम्पूज्य, द्वितीयेऽष्टदले प्राग्वदेकाक्षरप्रकरणोक्तवक्रतुण्डादिकान् सम्पूज्य, लोकपालपूजादि प्राग्वत् सर्वं कुर्यात् इति |
तथा– वर्णलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः |
अष्टद्रव्यैः पुरा प्रोक्तमधुराक्तैर्यथाविधि ॥ १४ ॥ तर्पणादि ततः कुर्याद्ब्राह्मणाराधनावधि |
एवं सिद्धे मनौ मन्त्री काम्यकर्माणि साधयेत् ॥ १५ ॥ तर्पयेत् पूर्वमार्गेण वक्रतुण्डगणेश्वरम् |
चतुरस्रं हस्तमात्रं कुण्डं कुर्यात्तदग्रतः ॥ १६ ॥ आदधीत मथित्वाग्निमनूचानगृहाद्धरेत् |
प्राणायामत्रयं कृत्वा मन्त्री कर्म समारभेत् ॥ १७ ॥ [Fußnoten: अयं पूर्वाम्नायोक्त इति बोध्यम् |
„कुशाङ्कम्“ पाठः |
]

[Druckseite 710] पूर्वमार्गेण महागणपतिप्रकरणोक्तप्रकारेण |
मथित्वा काष्ठादितः |
अनूचानः श्रोत्रियः |
ततः पूर्वोक्तवत् कृत्वा मन्त्रन्यासं षडङ्गकम् |
गन्धपुष्पादिकैरग्निं सम्पूज्य स्थापयेत्ततः ॥ १८ ॥ षडङ्गन्यासं कृत्वा मन्त्रन्यासं कुर्यात् |
स्थापयेद्दीक्षोक्तविधिना नित्यहोमविधिना वा |
ध्यानम्– कृशानुमध्ये तत्राथ नागयज्ञोपवीतिनम् |
लम्बोदरं भास्वरं तमेकदन्तं त्रिलोचनम् ॥ १९ ॥ पद्मासनसमारूढं चतुर्बाहुं सुवर्णभम् |
किरीटहारकेयूराङ्गदालङ्कारभूषितम् ॥ २० ॥ एवं सञ्चिन्त्य मनसा समावाह्य गणेश्वरम् |
गन्धादिभिः समभ्यर्च्य जलेनापि प्रसिच्य च ॥ २१ ॥ षडर्णेन द्विठान्तेन जुहुयाच्च घृताहुतीः |
अष्टाधिकं सहस्रं च ततः सिद्धो भवेन्मनुः ॥ २२ ॥ सहस्रार्धं चतुर्थीषु पक्षयोरुभयोरपि जपेत् [Satzform unsicher] |
शतं हुनेदपूपैश्च वत्सराल्लभते धनम् ॥ २३ ॥ सहस्रार्धं साष्टसहस्रमित्यर्थः |
मध्याह्नकाले नित्यं हि तदग्रे प्रजपेन्मनुम् |
सहस्रं त्रिशतं वाथ शतं चाष्टोत्तरं सुधीः ॥ २४ ॥ अष्टोत्तरमिति स्थानत्रयेऽप्यन्वेति |
अचिरेणैव महतीं लक्ष्मीं प्राप्नोत्ययत्नतः |
प्रसन्नतात्र मनसस्तुष्टिरल्पाशिता तथा ॥ २५ ॥ स्वापवैमुख्यता चापि स्वप्ने द्विरददर्शनम् |
एतानि मन्त्रसिद्धेर्हि चिह्नान्युक्तानि मन्त्रिभिः ॥ २६ ॥ पूर्वोक्तसिद्धौदनेन त्रिमासं त्रिशतं हुनेत् |
महानिधीनां भवनं भवेद्वैश्रवणोऽपरः ॥ २७ ॥ गुडाक्तैः पृथुकैर्नारिकेलमैर्चसंयुतैः [Zusammensetzung unsicher] |
अग्नौ सहस्रं जुहुयात् स मन्त्री धनवान् भवेत् ॥ २८ ॥ शुभशालिमयैश्चूर्णैः समरीचैः ससैन्धवैः |
सजीरकैर्बहुगुडैः शुभैरतिघृतप्लुतैः ॥ २९ ॥ शालिमयैः शालितण्डुलचूर्णैः |
अपूपैर्जुहुयान्मन्त्री गणेशस्य हि सन्निधौ |
सहस्रमात्रं स लभेन्महतीमचिराद्रमाम् ॥ ३० ॥ साध्यनामार्णपुटितमनुना जुहुयात् सुधीः |
अपामार्गसमिद्भिर्वा पक्वैः पनसजैः फलैः ॥ ३१ ॥ सहस्रं कदलैर्वाथ नरं नारीं वशं नयेत् |
लाजाभिर्जुहुयादग्नौ सहस्रं कन्यकाप्तये ॥ ३२ ॥ सहस्रमाज्याहुतीनां हुनेत् क्षीराहुतीरपि |
सहस्रं रोगशान्त्यर्थं मन्त्रशास्त्रविशारदः ॥ ३३ ॥ दूर्वाङ्कुराणां जुहुयाल्लक्षं मृत्युञ्जयो भवेत् |
ब्रह्मवृक्षोत्थसमिधो मधुरत्रयलोलिताः ॥ ३४ ॥ सहस्रं जुहुयान्मन्त्री मासाच्छत्रुञ्जयेद्ध्रुवम् |
विभीतकोत्थसमिधां सहस्रं साष्टकं निशि ॥ ३५ ॥ लोहिताक्तं श्मशानाग्नौ जुहुयान्मारयेद्रिपुम् |
भूमौ शत्रुस्वरूपं च विलिख्यास्योदरेऽनलम् ॥ ३६ ॥ प्रज्वाल्य सिद्धार्थवरैः सहस्रं जुहुयात् सुधीः |
तं मारयेत् सप्तदिनान्नात्र कार्या विचारणा ॥ ३७ ॥ कालमेघसमानाभं गणेशं निजशुण्डया |
रिपुं गृहीत्वा वडवामुखे वह्नौ महोत्कटे ॥ ३८ ॥ क्षिपन्तं गणपतिं ध्यात्वोग्रं प्रजपेन्मनुम् |
सहस्रं त्रिदिनेनासौ शत्रुमुच्चाटयेद्ध्रुवम् ॥ ३९ ॥ समुद्रगां नदीं प्राप्य गृहीत्वाञ्जलिना जलम् |
सहस्रकृत्वोऽभिमन्त्र्य चाभिषिञ्चेत् स्वमूर्धनि ॥ ४० ॥ अनेन विधिना मन्त्री पापौघं नाशयेद्ध्रुवम् |
शनैश्चरदिनेऽश्वत्थमालम्ब्य त्रिसहस्रकम् ॥ ४१ ॥ जपेन्मनुं गणं ध्यायन् दोषान् ग्रहभवान् हरेत् |
वेतसोत्थसमिद्धोमात् सहस्राद्वृष्टिमाप्नुयात् ॥ ४२ ॥

[Druckseite 711] धान्यार्थी जुहुयाद्धान्यैरन्नार्थ्यन्नैर्हुनेत् सुधीः |
कमलैरुत्पलैर्वापि होमो वस्त्रप्रदो मतः ॥ ४३ ॥ क्षेत्राभिकाङ्क्षी पललैर्गुडाभ्यक्तैर्हुनेत् सुधीः |
तमर्चयित्वा गणपं हरिद्रां सैन्धवं वचाम् ॥ ४४ ॥ निष्कार्धार्धप्रमाणेन सम्पिष्यैतानि निःक्षिपेत् |
प्रसृत्युन्मितगोमूत्रे सहस्रेणाभिमन्त्रयेत् ॥ ४५ ॥ स्नातामृतुस्नानदिने विशुद्धां शुक्लवाससम् |
पाययेत्तां च सा वन्ध्या धत्ते प्राग्वत्सरात् सुतम् ॥ ४६ ॥ उपोष्य सोमग्रहणे भास्करग्रहणेऽथवा |
कपिलाज्यं पलं चूर्णं वचायाश्च पलार्धकम् ॥ ४७ ॥ एतत् सहस्रसञ्जप्तं समस्तं प्रपिबेत् सुधीः |
अवाप्य मेधां महतीं कवित्वं लभते ध्रुवम् ॥ ४८ ॥ गोचर्ममात्रं भूदेशमुपलिप्यांशुकावृतम् |
तत्रैव स्थापयेत् कुम्भमर्चितं चन्दनादिभिः ॥ ४९ ॥ तस्योपरिष्टात् कपिलाघृतपूर्णं शरावकम् |
धृतं तत्र प्रतिष्ठाप्य ज्वालयेद्दीपमुत्तमम् ॥ ५० ॥ तत्र विघ्नेशमावाह्य पूजयेत् कुसुमादिभिः |
कुमारीं वा कुमारं वा दीपस्याग्रे निधाय च ॥ ५१ ॥ जपेत्तु मन्त्रप्रवरमष्टोत्तरसहस्रकम् |
ततः पृष्टा कुमारी वा कुमारो वा ब्रवीति तत् ॥ ५२ ॥ मनोगतं हि सकलं भविष्यं भूतमेव च |
वर्तमानं मनोरस्य प्रसादान्नात्र संशयः ॥ ५३ ॥ इति ॥ सारसंग्रहे–मन्त्रान्तरम् |
मन्त्रान्तरमथो वक्ष्ये वक्रतुण्डगणेशितुः |
यस्य स्मरणमात्रेण सर्वे नश्यन्त्युपद्रवाः ॥ १ ॥ किरिटीशेन समायुक्तो यपूर्वः कतुरीयकः |
सद्याक्रान्तो धरा ब्रह्मानन्तो वाली भृगुस्तथा ॥ २ ॥ खड्गीशो दीर्घसंयुक्तो वियन्नारायणान्वितम् |
षडक्षरोऽयमाख्यातः सर्ववश्यफलप्रदः ॥ ३ ॥ इति |
किरिटीश एकारः, तेन युक्तो यपूर्वो म तेन मे इति |
कतुरीयो ध, सद्य ओ, तेन धो |
धरा ल, ब्रह्मा क, अनन्त आ, तेन ल्का इति |
वाली य |
भृगुः स, खड्गी व, दीर्घ आ, तेन स्वा |
वियत् हकारः, नारायण आ, तेन हा इति |
तथा– भार्गवो मुनिरस्य स्यादनुष्टुप्छन्द ईरितम् |
वक्रतुण्डगणेशोऽस्य देवता देववन्दितः ॥ ४ ॥ मन्त्रवर्णैः षडङ्गानि षड्भिः कुर्याद्यथा पुरा |
ध्यानपूजादिकं सर्वं मन्त्री पूर्ववदाचरेत् ॥ ५ ॥ इति |
प्रयोगः सुगमः ॥ तथा–मन्त्रान्तरम् |
अथान्यत् सम्प्रवक्ष्यामि मन्त्रं द्वात्रिंशदर्णकम् |
रायस्पोषपदं प्रोक्त्वा वदेत् स्य दयिता नि च ॥ १ ॥ धिदो रत्नपदं चोक्त्वा दावर्दं च ततो वदेत् [Lautfolge unsicher] |
रक्षोहणो पदान्ते वो वलगेति पदं ततः ॥ २ ॥ हनो पदान्ते सम्प्रोक्तो मन्त्रराजः षडक्षरः |
द्वात्रिंशदक्षरो मन्त्र आथर्वणिक ईरितः ॥ ३ ॥ रायस्पोष इति स्वरूपं |
स्यदयितानि स्वरूपं |
धिदोरत्न स्वरूपं |
दावर्दं स्वरूपं [Lautfolge unsicher] |
रक्षोहणो स्वरूपं |
वो स्वरूपं |
वलगहनो स्वरूपं |
षडक्षरः पूर्वोक्तः |
तथा– संख्यादिकं पुरा प्रोक्तं ध्यानपूजादि पूर्ववत् |
जपेदर्कसहस्राणि जुहुयात्तद्दशांशतः ॥ ४ ॥ हविषा घृतसिक्तेन तदन्ते तोषयेद्गुरुम् |
एवं सिद्धमनुर्मन्त्री साधयेदिष्टमात्मनः ॥ ५ ॥ इष्टं काम्यं, तदपि षडक्षरोक्तवत् |
तथा– [Fußnoten: अयं पूर्वाम्नायोक्तः |
1 „मत्तं“ पाठः |
2 „दामतः“ पाठः |
]

[Druckseite 712] ङेन्तं तत्पुरुषं प्रोक्त्वा विद्महे पदमुच्चरेत् |
वक्रतुण्डं चतुर्थ्यन्तं धीमहीति ततो वदेत् ॥ ६ ॥ तन्नो दन्ती–पदं भाष्य वदेदन्ते प्रचोदयात् |
गायत्रीयं समाख्याता वक्रतुण्डगणेशितुः ॥ ७ ॥ स्नानकाले सदा जप्या मन्त्रिभिः कर्मसिद्धये |
… ॥ ङेन्तं तत्पुरुषं तत्पुरुषायेति |
सुगममन्यत् ॥ सारसंग्रहे–मन्त्रान्तरम् |
उच्छिष्टस्य गणेशस्य विधानमभिधीयते |
हस्तिशब्दं समुच्चार्य पिशाचीति ततो वदेत् ॥ १ ॥ लिखे–पदं समुच्चार्य वह्निजायान्तमुद्धरेत् |
नवाक्षरोऽयमाख्यात उच्छिष्टस्य गणेशितुः ॥ २ ॥ वह्निजाया स्वाहा |
अन्यत् स्वरूपम् |
तथा– ऋषिः कङ्कालनामास्य विराट् छन्द उदाहृतम् |
उच्छिष्टगणपो देवः सर्वसम्पत्प्रदायकः ॥ ३ ॥ द्वाभ्यां हृदयमाख्यातं त्रिभिः शिर उदाहृतम् |
द्वाभ्यां शिखा समाख्याता वर्मान्त्याभ्यां समीरितम् ॥ ४ ॥ समस्तेनास्त्रमाख्यातं पञ्चाङ्गविधिरीरितः |
ध्यानार्चनविधानं च मन्त्री पूर्ववदाचरेत् ॥ ५ ॥ अत्र तु चकारात् पुरश्चरणमपि पूर्वमन्त्रोक्तमेव प्राप्यते तेन वक्रतुण्डषडक्षरप्रकरणे “वर्णलक्षं जपेन्मन्त्रम्” इत्युक्तं तदत्रापि लभ्यते, तेनास्य मन्त्रस्य नवलक्षजपः पुरश्चरणमित्यवगम्यते इति |
प्रयोगादिकं सुगमम् |
तथा– काम्यकर्माणि वक्ष्यामि स्तम्भे द्वेषे च मोहने |
मारणे च वशीकारे तथाकर्षणकर्मणि ॥ ६ ॥ एतत्सर्वं करोत्येव सुप्रीतो गणनायकः |
प्रतिमां कारयेद्धीमान् निम्बकाष्ठमयीं शुभाम् ॥ ७ ॥ साध्याङ्गुष्ठप्रमाणां च गणेशस्य महात्मनः |
स्पृष्ट्वा तां प्रजपेन्मन्त्रं काम्यसिद्धिस्ततो भवेत् ॥ ८ ॥ अष्टम्यां च चतुर्दश्यां कृष्णपक्षस्य मन्त्रवित् |
उच्छिष्टो रात्रिमध्ये तु जपेन्मन्त्रमिमं शुभम् ॥ ९ ॥ वाञ्छितो वशमायाति साधकस्य न संशयः |
भूर्जपत्रे समालिख्य साध्यनाम यथाविधि ॥ १० ॥ मन्त्रेण वेष्टितं कृत्वा जपेन्मन्त्रमनन्यधीः |
पादेनाक्रम्य तत्पत्रं हठाकृष्टिरियं मता ॥ ११ ॥ लिखित्वा पूर्ववत् पत्रं पूजयित्वा विधानतः |
साध्यं स्मृत्वा जपेन्मन्त्रं सर्वलोकं वशं नयेत् ॥ १२ ॥ धारयेन्मस्तके यन्त्रं जपेन्मन्त्रमनन्यधीः |
राजानं राजपत्नीं वा कर्षयेत् तत्क्षणात् सुधीः ॥ १३ ॥ यन्त्रं मूलमन्त्रवेष्टितं साध्यनामगर्भं भूर्जपत्रम् |
ताम्बूलपत्रपुष्पाणि वस्त्राण्याभरणानि च |
फलमूलादिवस्तूनि समादाय जपेन्मनुम् ॥ १४ ॥ एकविंशतिवाराणि दद्यादिष्टाय नान्यथा |
सर्वलोके वशकरः प्रयोगोऽयमुदाहृतः ॥ १५ ॥ श्रीखण्डधूपदानेन राजानं वशमानयेत् |
समिधो निम्बकाष्ठस्य कटुतैलसमन्विताः ॥ १६ ॥ काकपक्षसमायुक्ता हुत्वा मन्त्री यथाविधि |
… ॥ यथाविधि चिताग्नौ |
रिपुं च परसेनां च समुच्चाटयति क्षणात् |
उलूककाकयोः पक्षांस्तत्तदासृक्समंयुतान् ॥ १७ ॥ श्मशानाग्नौ तु जुहुयाद्विद्वेषः स्निग्धयोः क्षणात् |
शत्रुपादरजोयुक्तां चक्रिहस्तमृदं बुधः ॥ १८ ॥ श्मशानभस्मसंयुक्तामुच्छिष्टतनुमलान्विताम् |
गृहीत्वा पुत्तलीं कुर्यात् सर्वावयवशोभिताम् ॥ १९ ॥ [Fußnote:] अयमुत्तराम्नायोक्तः |

[Druckseite 713] उच्छिष्टतनुमलं शत्रुशरीरस्य |
तस्या हृदि लिखेन्नाम मूलमन्त्रेण वेष्टितम् |
कृत्वा प्राणप्रतिष्ठां तु विषवृक्षकाष्ठाद्यपात्रके ॥ २० ॥ स्थापयित्वा जपन्मन्त्रं सम्यगेकाग्रमानसः |
म्रियतेऽरिर्न सन्देहो देवेनापि सुरक्षितः ॥ २१ ॥ चितायां दग्धदम्पत्योर्भस्मादाय यथाविधि |
रोचनाकुङ्कुमाभ्यां च भूर्जे नाम समालिखेत् ॥ २२ ॥ वेष्टितं मूलमन्त्रेण प्राणस्थापनमाचरेत् |
साध्यं स्मृत्वा जपेन्मन्त्रं सम्यगष्टोत्तरं शतम् ॥ २३ ॥ द्विष्टयोर्जनयोः सम्यक् स्नेहो भवति तत्क्षणात् |
… ॥ इति ॥ सारसंग्रहे–मन्त्रान्तरम् |
[erste doppelte Bīja-Gruppe unsicher] पदं समुच्चार्य [zweite doppelte Bīja-Gruppe unsicher] च पदमुच्चरेत् |
हुंकारं सम्यगुच्चार्य घेघेशब्दमथोच्चरेत् ॥ १ ॥ फट्कारं स्वाहया युक्तः प्रणवाद्योऽयमीरितः |
एकादशाक्षरः सम्यग्मूलमन्त्रो गणेशितुः ॥ २ ॥ ऋष्यादिकं पुरः प्रोक्तं ध्यानपूजादिकं तथा |
… ॥ इति ॥ तथा–मन्त्रान्तरम् |
एकदंष्ट्रं चतुर्थ्यन्तं वदेद्धस्तिमुखं ततः |
लम्बोदरपदं ङेन्तमुच्छिष्टेति पदं ततः ॥ १ ॥ आत्मनेऽङ्कुशबीजं च ग्लूंकारं भुवनेश्वरीम् |
घेघेपदमुच्चार्य स्वाहाकारं समुच्चरेत् ॥ २ ॥ सप्तविंशतिभिर्वर्णैर्मन्त्रः प्रोक्तो गणेशितुः |
ऋष्यादि ध्यानपूजादि यथापूर्वं समाचरेत् ॥ ३ ॥ तृतीयचतुर्थपदयोर्विसन्धिः |
अन्यत्सुगमम् |
यथापूर्वं वक्रतुण्डषडक्षरवत् ॥ तथा मन्त्रान्तरम्– ॐकारं विलिखेदादौ नमो भगवते पदम् |
एकदंष्ट्राय सम्भाष्य हस्त्यन्ते मुखशब्दतः ॥ १ ॥ लम्बोदरपदं ङेन्तमुच्छिष्टेति पदं ततः |
महात्मने पदं प्रोक्त्वा वदेदङ्कुशबीजकम् ॥ २ ॥ ग्लूंकारं मायया युक्तं हुंघेघे च समुच्चरेत् |
स्वाहान्तो मनुराख्यातः सम्यक् षट्त्रिंशदक्षरः ॥ ३ ॥ उच्छिष्टेत्यत्र विसन्धिः |
ऋष्यादिकं पुरा प्रोक्तं षड्बीजैरङ्गमीरितम् |
ध्यानपूजादिकं सर्वं मन्त्री पूर्वोक्तमाचरेत् ॥ ४ ॥ मन्त्रोद्धारः सुगमः |
षड्बीजैरिति, क्रों हृदयं, ग्लूं शिरः, ह्रीं शिखा, हुं कवचं, घे नेत्रं, घे अस्त्रम् |
अन्यत् सुगमम् |
तन्त्रान्तरे–बलिमन्त्रः |
“[Bīja-Anfang örtlich unsicher] समुच्चार्य ग्लौं उच्छिष्टगणे पदम् |
ततः शाय महायक्षायायं बलिरिति स्मृतः ॥ बलिमन्त्रस्तथोच्छिष्टगणेशस्य महामनुः |
अनेन मनुना मांसं फलं वापि बलिं हरेत् ॥” [Bīja-Anfang örtlich unsicher] उच्छिष्टगणेशाय महायक्षायायं बलिः |
ध्यानविशेषमाह– चतुर्भुजं त्रिनेत्रं च रक्तवर्णं कराम्बुजैः |
पाशाङ्कुशौ मोदकानां पात्रं दन्तं च बिभ्रतम् ॥ ५ ॥ कमलासनमासीनमुन्मत्तं गणनायकम् |
पुरश्चरणसिद्ध्यर्थं लक्षसंख्यं जपेद्बुधः ॥ ६ ॥ जुहुयात्तद्दशांशेन तिलैराज्यपरिप्लुतैः |
यजेत् पूर्वोदिते पीठे उच्छिष्टगणनायकम् ॥ ७ ॥ आदावङ्गानि सम्पूज्य मातृका दलसंस्थिताः |
दलाग्रेषु च सोर्ध्वाधो दशदिक्षु प्रपूजयेत् ॥ ८ ॥ [Fußnoten: Varianten der unsicheren Bījas „ह्रीं“/„क्लौं“, Lesung nicht abschließend; „मनुम्“ पाठः |
]

[Druckseite 714] वक्रतुण्डैकदन्तौ च लम्बोदरसमाह्वयः |
विकटो धूम्रवर्णश्च विघ्नश्चैव गजाननः ॥ ९ ॥ विनायको गणपतिर्हस्तिदन्तश्च वै दश |
चतुरस्रे लोकपालान् वज्रादीनि ततो बहिः ॥ १० ॥ एवं सम्पूज्य विघ्नेशं ततः काम्यानि साधयेत् |
श्वेतार्कमूलतो वापि मर्कटीकाष्ठकेन वा ॥ ११ ॥ स्वाङ्गुष्ठपरिमितां कुर्याद्गणेशप्रतिमां तथा |
प्रोक्तलक्षणसम्पन्नां प्रतिष्ठाप्य प्रयत्नतः ॥ १२ ॥ मधुना स्नापयेत्तां तु कृष्णप्रतिपदादितः |
शुक्ला चतुर्दशी यावत् सगुडं पायसं तथा ॥ १३ ॥ निवेद्य प्रजपेन्मन्त्रं सहस्रं नित्यमादरात् |
तिलैस्तावच्च जुहुयाद्घृताक्तैरेधितेऽनले ॥ १४ ॥ गणेशोऽहमिति ध्यायन्नुच्छिष्टेन दिगम्बरः |
पक्षाद्राज्यमवाप्नोति नृपो योऽन्यो नरोऽपि वा ॥ १५ ॥ कुलालमृत्प्रतिमां पूजितां राज्यमाप्नुयात् |
वल्मीकमृत्कृता वापि सर्वाभीष्टं प्रयच्छति ॥ १६ ॥ सौभाग्यदा गुडमयी लोणजा शत्रुनाशिनी |
रणे द्यूते विवादे च जपेन जयमाप्नुयात् ॥ १७ ॥ एतन्मन्त्रप्रभावेन कुबेरो धनदोऽभवत् |
विभीषणश्च सुग्रीवो लेभाते राज्यमञ्जसा ॥ १८ ॥ रक्तवस्त्रधरो रक्तस्ताम्बूलं निर्वदञ्जपेत् [Verbform unsicher] |
यद्वा नैवेद्यशेषं तु मोदकं भक्षयञ्जपेत् ॥ १९ ॥ इति ॥ तथा–मन्त्रान्तरम् |
प्रणवो भुवनेशी च स्मृतिर्बिन्दुसमन्विता |
ततो नवाक्षरश्चैव सम्प्रोक्तो द्वादशाक्षरः ॥ २० ॥ ॐह्रींगं हस्तिपिशाचि लिखे स्वाहा (१२) ॥ तथा– तारं हृदुच्छिष्टपदं गणेशाय नवाक्षरः |
एकोनविंशत्यर्णोऽयं मुन्याद्यः पूर्ववत् स्मृताः ॥ २१ ॥ (त्र्यग्निद्विद्विद्विभिश्च मन्त्रार्णैः स्यात् षडङ्गकम् |
) … ॥ ॐ नमः उच्छिष्टगणेशाय हस्तिपिशाचि लिखे स्वाहा |
१९ ॥ इति ॥ तथा– प्रणवं हृद्भगवते एकदंष्ट्राय वै वदेत् |
ततो हस्तिमुखं ङेन्तं तथा लम्बोदरं ततः ॥ २२ ॥ वदेदुच्छिष्टशब्दान्ते महात्मानं च ङेन्तगम् |
पाशमङ्कुशमाये च विघ्नबीजं च घेघयुक् ॥ २३ ॥ वह्निजायावधि सप्तत्रिंशदर्णो मनुर्मतः |
… ॥ ॐ नमो भगवते एकदंष्ट्राय हस्तिमुखाय लम्बोदराय उच्छिष्टमहात्मने आंक्रोंह्रींगंघेघे स्वाहा (३७) ॥ गणकोऽस्य ऋषिश्छन्दो गायत्री देवता ततः |
उच्छिष्टपदपूर्वश्च गणनाथः समीरितः ॥ २४ ॥ गिरिपङ्क्तिशराद्र्यब्धियुगार्णैरङ्गकल्पना |
… ॥ शरचापगुणाङ्कुशान् स्वहस्तैर्दधतं रक्तसरोरुहे निषण्णम् |
विगताम्बरजायया प्रवृत्तं सुरते सन्ततमाश्रये गणेशम् ॥ २५ ॥ लक्षमानं जपेन्मन्त्रं तद्दशांशं हुनेद्घृतैः |
तर्पणानि दशांशेन कुर्याद्ब्राह्मणभोजनम् ॥ २६ ॥ एवं संसिद्धमन्त्रस्तु प्रयोगानाचरेद्बुधः |
धनं धान्यं सुतान् पौत्रान् सौभाग्यमतुलं यशः ॥ २७ ॥ प्राप्नोति साधकश्रेष्ठो गणेशस्य प्रसादतः |
इभमग्नेन निम्बेन मूर्तिं कुर्यात्प्रयोजितः [Materialwort unsicher] ॥ २८ ॥ प्राणान् संस्थाप्य सम्पूज्य तदग्रे तु मनुं जपेत् |
ध्यात्वा यं दासवत् सोऽपि वश्यो भवति नान्यथा ॥ २९ ॥ [Fußnote:] प्रतिष्ठापयेदिति शेषः |

[Kapitel 32, Druckseite 715; UCS 30–45. Redaktionelle Auslassung UCS 43b–45: giftige Zwangszubereitung; deutsche Inhaltsangaben bewahren Zuordnung.] नदीजलं समादाय सप्तविंशतिसंख्यया |
अभिमन्त्र्य ततस्तेन मुखं प्रक्षालयेद्बुधः ॥ ३० ॥ तं दृष्ट्वा वशमायान्ति नरनारीनृपालकाः |
वामपादरजो गृह्य योषायाः प्रजपेन्मनुम् ॥ ३१ ॥ गणेशसन्निधाने हि रविसाहस्रकं स्मरन् |
सा समायाति नियतं हठादाकर्षणं विदम् ॥ ३२ ॥ इभभग्नेन निम्बेन श्वेतार्केणाथवा सुधीः |
गणेशप्रतिमां कृत्वा चतुर्थ्यां निशि पूजयेत् ॥ ३३ ॥ सर्वै रक्तोपचारैश्च सहस्रं प्रजपन्मनुम् |
सरित्तटे क्षिपेत्तां तु प्रतिमां निशि साधकः ॥ ३४ ॥ यत्कार्यमारभेत्तस्य स्वप्ने वक्ति फलाफलम् |
सहस्रनिम्बकाष्ठानां होमादुच्चाटयेदरीन् ॥ ३५ ॥ समिधां वज्रिणां होमान्मारयेच्छत्रुमात्मनः |
मर्कटास्थि सुजप्तं क्षिप्रमुच्चाटयेद् गृहे ॥ ३६ ॥ नरास्थि जप्तं कन्याया गृहे नित्यं तदावहेत् [Lesung des Schlusses unsicher] |
स्त्रीणां वामाङ्घ्रिरजसा कुलालस्य मृदा तदा ॥ ३७ ॥ कुर्यात् पुत्तलिकां तस्या हृदि स्त्रीनाम चालिखेत् |
निम्बपत्रैः सहैतां तां जप्तां भूमौ विनिक्षिपेत् ॥ ३८ ॥ उन्मत्ता जायते सा च प्रोद्धृतायां सुखीभवेत् |
लशुनेन सहैवारेः शरावद्वयसंपुटे ॥ ३९ ॥ क्षिप्त्वा तां प्रतिमां सम्यक् पूजितां द्वारि विद्विषः |
निखाय पक्षमात्रेण शत्रुमुच्चाटयेद् ध्रुवम् ॥ ४० ॥ सङ्कटे समनुप्राप्ते सितार्कोत्थदारुजम् [Materialkompositum unsicher] |
पूजितं गणपं सम्यग् रक्तगन्धोपचारकैः ॥ ४१ ॥ मद्यभाण्डे विनिक्षिप्य पूजास्थाने निखातयेत् |
तत्रोपविश्य प्रजपेन्मन्त्रं नक्तन्दिवं बुधः ॥ ४२ ॥ नश्यन्त्युपद्रवाः सर्वे सप्ताहान्नात्र संशयः |
[43b–45: redaktionelle Inhaltsangaben in der deutschen Fassung.] इति |
तथा—मन्त्रान्तरम् |
[UCD] तारो हस्तिमुखं दन्तं लम्बोदरपदं ततः |
तथोच्छिष्टमहात्मानं पाशाङ्कुशत्रपास्ततः ॥ १ ॥ कामत्रपावर्म घेघे उच्छिष्टायाग्निवल्लभा |
द्वात्रिंशदक्षरो मन्त्रो गणेशस्य महात्मनः ॥ २ ॥ रसैः सुतसायुगनेत्राग्न्यैः [Zahlwortfolge unsicher] षडङ्गकल्पना |
[Drucklücke] ॐ हस्तिमुखाय लम्बोदराय उच्छिष्टमहात्मने आं क्रों ह्रीं क्लीं ह्रीं हुं घेघे उच्छिष्टाय स्वाहा (३२) |
[Fußnote] उच्छिष्टगणनाथस्य मन्त्रेष्वेषु न शोधनम् |
सिद्धारिचक्रमासादि [Lesung unsicher] प्राप्तास्ते सिद्धिदा गुरोः ॥ मनवोऽमी सदा गोप्या न प्रकाश्या इतस्ततः |
वाममार्गाराधनं तु विनानेन न सिद्ध्यति |
जातिभ्रंशो निर्धनत्वं वंशच्छेदोऽन्यथा भवेत् ॥ (मेरुतन्त्रे १६ शे अध्याये |
) अथ मञ्जुघोषप्रकरणम्— [MJV] जाड्यौघतिमिरध्वंसः संसारार्णवतारकः |
श्रीमञ्जुघोषो जयतां साधकानां सुखावहः ॥ १ ॥ आगमोत्तरे— [MJA] मातृकादिं समुद्धृत्य वह्निबीजं समुद्धरेत् |
वामांसं कूर्मसंज्ञं च ततो मेषेशमुद्धरेत् ॥ १ ॥ मीनेशं च ततः कुर्याद्वामनेत्रेन्दुसंयुतम् |
षडक्षरो मनुः प्रोक्तो मञ्जुघोषस्य शम्भुना ॥ २ ॥ मातृकादिरकारः |
वामांसोऽन्तःस्थचतुर्थः |
कूर्मश्चकारः |
मेषेशो लकारः |
मीनेशो धकारः |

[Kapitel 32, Druckseite 716; MJA] इयं तु दीपनी प्रोक्ता मूलमन्त्रस्तु कथ्यते |
अङ्कुशं शक्तिबीजं च रमाबीजं ततः प्रिये ॥ ३ ॥ बीजत्रयात्मको मन्त्रो जाड्यौघध्वान्तनाशनः |
ततः शक्तिरमाबीजं कामबीजं तथा प्रिये ॥ ४ ॥ विद्या श्रुतिधरी प्रोक्ता एषा वर्णत्रयात्मिका |
हकारो वह्निमारूढो वामनेत्रेन्दुभूषितः ॥ ५ ॥ प्रोक्ता सार्वज्ञविद्येयमेकवर्णात्मिका प्रिये |
सिद्धः साध्यः सुसिद्धो वा साधकस्य रिपुः सदा ॥ ६ ॥ तदा मन्त्रो भवेद्भक्त्या शुभदो बुद्धिदो भवेत् |
मध्याह्ने सलिले चैव भोजने भाजने तथा ॥ ७ ॥ गोमये तु बहिर्देशे मैथुने रमणीकचे |
गोष्ठे च निशि गोमुण्डे यन्त्रं डमरुसन्निभम् ॥ ८ ॥ विलिख्य मन्त्रवर्णांश्च त्रिश ऊर्ध्वमधस्तथा |
लिखेच्चन्दनलेखिन्या प्रयत्नात् साधकोत्तमः ॥ ९ ॥ उच्चाटने लिखेद्यन्त्रं गोचर्मणि विशेषतः |
सलिले विजयो नित्यं भाजने च महेश्वरः ॥ १० ॥ गोमये वावदूकः स्याद्गोष्ठे सर्वज्ञतां व्रजेत् |
कचे श्रुतिधरो नित्यं गोमुण्डे च महाकविः ॥ ११ ॥ गोमूत्रं बदरीमूलं चन्दनं पांसुमेव च |
एकीकृत्याष्टधा जप्त्वा तिलकं धारयेत् सदा ॥ १२ ॥ नमस्कृत्य वरं श्रेष्ठं प्रार्थयेद् भक्तितत्परः |
वरं प्राप्य च तस्माद्वै विहरेद्यथासुखम् ॥ १३ ॥ नान्यदेवार्चनं स्नानं प्रणवोच्चारणं नतु |
वचामूलेन दन्तानां शोधनं लवणेन वा ॥ १४ ॥ रात्रिवासो न श्वेतं न शुचिः स्यात् कदाचन |
एवं कृते प्रयत्नेन ज्ञात्वा गुरुमुखात् सुधीः ॥ १५ ॥ मासैकेन कवीन्द्रः स्याद् द्विमासेनैव ईश्वरः |
त्रिभिर्मासैर्भवेन्मर्त्यः सर्वशास्त्रविशारदः ॥ १६ ॥ पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् |
आयुरारोग्यकामस्तु सर्वान् कामानवाप्नुयात् ॥ १७ ॥ तन्त्रान्तरे— संवर्तको वकेशश्च द्वौ वर्णौ कथितौ प्रिये |
षड्दीर्घमारभ्यामेताभ्यां षडङ्गानि समाचरेत् ॥ १८ ॥ संवर्तः क्ष |
वकेशः श |
इति |
अथ ध्यानम्— शशिधरमिव शुभ्रं खड्गपुस्ताङ्कपाणिं सुरुचिरमतिशान्तं पञ्चचूडं कुमारम् |
पृथुतरवरमुख्यं [Lesung unsicher] पद्मपत्रायताक्षं कुमतिदहनदक्षं मञ्जुघोषं नमामि ॥ १९ ॥ पीठपूजां ततः कुर्यादाधाराद्यादिशक्तितः |
भूतप्रेतादिभिः कुर्यात् पीठासनमनन्तरम् ॥ २० ॥ ज्ञानदात्रे नमः पाद्यं बुद्धिदात्रे तथाचमम् |
जाड्यनाशाय गन्धः स्यादर्घ्यं यक्षाधिपाय वै ॥ २१ ॥ सर्वसिद्धिप्रदायेति पुष्पं दद्याद्विशेषतः |
कुन्दपुष्पं समादाय भैरवान् पूजयेत् ततः ॥ २२ ॥ असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तसंज्ञकः |
कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः ॥ २३ ॥ ततो धूपादिकं दत्त्वा पुष्पाणि विसर्जयेत् |
तैः पुष्पैः पूजयेदष्टौ यक्षिणीश्च विशेषतः ॥ २४ ॥ सुरादिसुन्दरी चैव मनोहारिण्यनन्तरम् |
कनकावती तथा कामेश्वरी रतिकर्यथ ॥ २५ ॥ पद्मिनी च नटी चैव अनुरागिण्यनन्तरम् |
पूज्या एतास्तु योगिन्यो हृल्लेखाबीजपूर्विकाः ॥ २६ ॥ एवं संपूज्य देवेशं लक्षषट्कं जपेन्मनुम् |
घृताक्तकुन्दपुष्पैश्च एकादश शतानि च ॥ २७ ॥ [Fußnote zu 16:] विचक्षणः ख. पाठः |

[Kapitel 32, Druckseite 717; MJA] जुहुयादेधिते वह्नौ कान्तारे पितृवेश्मनि |
एवं सिद्धमनुर्मन्त्री महावागीश्वरो भवेत् ॥ २८ ॥ इति |
कुक्कुटेश्वरतन्त्रे— [MJK] मेरुपृष्ठे सुखासीनं देवदेवं जगद्गुरुम् |
शङ्करं परिपप्रच्छ पार्वती परमेश्वरम् ॥ १ ॥ श्रीपार्वत्युवाच |
भगवन् सर्वधर्मज्ञ सर्वशास्त्रागमादिषु |
वाञ्छितार्थप्रदं लोके मञ्जुघोषं ब्रवीहि मे ॥ २ ॥ विशेषतोऽपि जप्त्वा कं कवित्वपददं नृणाम् |
सर्वकर्मप्रदं साक्षान्मनःसिद्धिप्रदं तथा ॥ ३ ॥ भक्तानां कामदं मन्त्रं कल्पवृक्षमिवापरम् |
[Drucklücke] श्रीशङ्कर उवाच |
शृणु देवि महामन्त्रं साधकानां सुखावहम् |
यज्जप्त्वा जडधीः प्रायो वाचस्पतिसमो भवेत् ॥ ४ ॥ अङ्गन्यासकरन्यासबहिर्न्याससमन्वितम् |
जपात् सिद्धिप्रदं मन्त्रं विना होमार्चनादिभिः ॥ ५ ॥ जपेद्वा जापयेद्वापि साधको विधिपूर्वकम् |
सर्वज्ञत्वमवाप्नोति सत्यं सत्यं हि पार्वति ॥ ६ ॥ कार्तिकेययावत्तावन्नक्तं [unsichere Lesung] जपेन्मनुम् |
सर्वशास्त्रेषु सोऽप्यग्रे बृहस्पतिसमो भवेत् ॥ ७ ॥ श्रीपार्वत्युवाच |
कोऽप्यत्रापि ऋषिश्छन्दः पूज्यते कोऽत्र देवता |
ध्येयश्च को वा तत् सर्वं ब्रूहि मे भक्तवत्सल ॥ ८ ॥ श्रीईश्वर उवाच |
बृहदारण्यको नाम ऋषिर्विराडुदाहृतम् |
छन्दश्च मञ्जुघोषाख्यो भुक्तिदानेन मुक्तिदः ॥ ९ ॥ ध्यात्वा भैरवरूपेण जपेन्मन्त्रमनन्यधीः |
तदा भुक्तिप्रदो मन्त्रो नात्र कार्या विचारणा ॥ १० ॥ ध्यानं तत्र प्रवक्ष्यामि भैरवस्य महात्मनः |
यथा ध्यात्वा जपेन्मन्त्रं तन्मे निगदतः शृणु ॥ ११ ॥ सात्त्विकं राजसं चैव तामसं तदनन्तरम् |
ध्यानं वक्ष्ये महादेवि क्रमेण हितकाम्यया ॥ १२ ॥ सद्यः सिद्धिकरं रूपं ध्यात्वा जपेच्च सात्त्विकम् |
सिद्धिप्रदं साधकानां भक्तानां चिन्तितप्रदम् ॥ १३ ॥ मन्त्रोद्धारमिदं देवि त्रैलोक्यस्यातिदुर्लभम् |
अप्रकाश्यं परं गोप्यं न देयं यस्य कस्यचित् ॥ १४ ॥ मन्त्रोद्धारं प्रवक्ष्यामि गुह्याद्गुह्यतरं प्रिये |
विष्ण्वग्निवाश्च शशियुक् चलधीषडर्णा मन्त्रः समस्तजगतां सकलेष्टदश्च |
सर्वज्ञतां सदसि वाक्पटुतां प्रसूते वेदान्तवेदनिरतस्य वसुप्रदः स्यात् ॥ १५ ॥ आशु मन्त्रं जपेन्मन्त्री स्वमन्त्रं यदि साधकः |
बलिनैवेद्यभुक् साक्षाद् बृहस्पतिरिवापरः ॥ १६ ॥ मासमात्रेण यः कुर्यात् पुरश्चरणवान्नरः |
तस्यापि वदनाद्वाणी निःसरेदरविश्रान्ति [Schlusslesung unsicher] ॥ १७ ॥ [Fußnoten:] १ जडत्वा ग. पाठः |
२ सोऽप्यग्रे ख. पाठः |
३ तमं ख. पाठः |
४ धीस्वरूपं षड्वर्णमन्त्र उदितो जगतां सुखाय ख. पाठः |
विष्णुरकारः, अग्निः रेफः, व स्वरूपं, चलधी इति स्वरूपं तेन अरवचलधीः इति मन्त्रः |
५ अथ मन्त्रं जपेन्मन्त्री अयुतं ख. पाठः |
६ त्रयेण |
७ श्रयो परं नरः [unsicher] ख. पाठः |
८ सरस्वतीव [unsicher] ख. पाठः |

[Kapitel 32, Druckseite 718; MJK] मासमात्रेण सततं कविरेव न संशयः |
गोमुण्डे गवि पृष्ठे च चक्रे वापि च गोमये ॥ १८ ॥ यन्त्रे मन्त्रं लिखित्वादौ पश्चान्मन्त्रं जपेत्पुनः |
ध्यानमात्रं विधायादौ भावयित्वा चिरं सुधीः ॥ १९ ॥ निर्जनं स्थानमासाद्य जपेन्मन्त्रमधोमुखः |
पौर्णमासीं समासाद्य कुन्दस्य कुसुमैः शतैः ॥ २० ॥ अष्टाधिकैश्च संपूज्य जपेन्मन्त्रं चतुष्पथे |
त्रिमुण्डारोहणं कृत्वा निशीथे मुक्तकुन्तलः ॥ २१ ॥ षण्मासमात्रं जपति यदि मन्त्री विधानवित् |
बृहस्पतिसमो वक्ता नात्र कार्या विचारणा ॥ २२ ॥ कुक्कुरस्य च मुण्डैकं मुण्डं क्रोष्टुमृगस्य च |
त्रिमुण्डमेतद् विख्यातं साधकानां सुखावहम् ॥ २३ ॥ आसने चैव गोमुण्डं वामे कुक्कुरमुण्डकम् |
दक्षिणे च शिवामुण्डं कृत्वा पूजां समाचरेत् ॥ २४ ॥ अर्धचन्द्राकृति साक्षाद्बालचन्द्रोपमं स्फुटम् |
यन्त्रं लिखेत्तत्र पूजां कुन्दस्य कुसुमेन च ॥ २५ ॥ सव्येन पाणिकमलेन जपादिपूजा शृङ्गारशीलनविधिः खलु दक्षिणेन |
राकासुधाकरमरीचितुषारगौरं ध्यात्वा चतुष्पथतटे वृषमस्तके च ॥ २६ ॥ सञ्चिन्त्य कुक्कुरशिरः शिरसाधिरूढं कुन्देन साधकतमो जपति प्रकामम् |
गोचर्मणा विरचितं रसलचमग्रे [unsicher] चक्रं ततोऽपि नवकुङ्कुमरोचनाभिः ॥ २७ ॥ निर्माय सम्यग्विधिना विजने श्मशाने संपूजयेद्वनभवैश्च नवैः पलाशैः |
संपूर्णमण्डलतुषारमरीचिमध्ये बालं विचिन्त्य धवलं वरखड्गहस्तम् ॥ २८ ॥ (उद्दामकुङ्कण(केशनि)वहं [unsicher] वरपुस्तकाढ्यं नग्नो जपेत् कृतजपद्दलायताक्षम् [unsicher] ॥ २९ ॥ अरिष्टगेहे निशि तैलमेवमादाय यत्नात् करपल्लवेन |
तेनाञ्जितं काञ्चनपुष्पमेव निवेद्य तस्मै जपति प्रकामम्) ॥ ३० ॥ अशोकशाकोटतरोश्च मूले विलिप्य पादौ वदनामृतेन |
त्रिमुण्डमात्राश्रित एव रात्रौ जपेद्यथाशक्ति तु पौर्णमास्याम् ॥ ३१ ॥ लकुचतरुतलस्थो मुण्डमात्रैकरूढो हिमकरकरगौरं चिन्तयित्वा निशीथे |
यदि जपति जडात्मा मन्त्रमेनं त्रिलक्षं भवति जगति साक्षाद्गीष्पतिर्नात्र चित्रम् ॥ ३२ ॥ भुक्तान्नमेव कदलीतरुमूलसंस्थ आस्तीर्णपुष्परचितासनसंनिविष्टः ॥ ३३ ॥ राकाविधूर्ध्वमुपेत्य [unsicher] करोति पूजां यः सोऽप्यजेय इति वाक्पतिरीश्वरः स्यात् ॥ ३४ ॥ जिह्वां विमृज्य निजपाणिसरोरुहाभ्यां कुन्दप्रसूनशतकैः परिपूज्य गोष्ठे |
[Fußnoten:] १ त्रयेण ख. पाठः |
२ गोमुण्डपरिपृष्ठे च यत्नेनापि ख. पाठः |
३ समारभ्य ख. पाठः |
४ कृत्वा ग. पाठः |
५ मस्तकस्थः ख. पाठः |
६ गोचर्मरक्तचरितं रसकोणमात्रः ख. पाठः |
७ विलिख्य ख. पाठः |
८ विटपिमध्ये ख. पाठः |
९ जडो वा जडमेकं त्रिपक्षं ख. पाठः |
१० भुक्तान्नशेषकदलीतरुपुष्पजालमुण्डत्रयेविरचितो ख. पाठः |
११ ह्युपेत्य [unsicher] ख. पाठः |
१२ वाण ख. पाठः |
१३ परिषिच्य ख. पाठः |

[Kapitel 32, Druckseite 719; MJK] यो वै जपेदनुदिनं रसलक्षमात्रं शेषं जयेत् किमुत वाक्पतिमेकवक्त्रम् ॥ ३५ ॥ स्थित्वा निशीथसमये रजकस्य काष्ठे खड्गान्वितो जपति यद्यपि पौर्णमास्याम् |
संपूर्णमासमथ वा तदापि तस्य वक्त्राद्विनिःसरति गीरमृतायमाना ॥ ३६ ॥ यो दन्तधावनकृतैश्च करञ्जकाष्ठैस्तस्यापि गीष्पतिवचो नियतं सुलभ्यम् |
तिलतैलेन मतिमान् कुन्दकैरवपुष्पकैः |
यत्नतो जुहुयान्मन्त्री सर्वसिद्धिमुपालभेत् ॥ ३७ ॥ मञ्जिष्ठतोयसुवचासितभानुपुष्पैः स्वीयाङ्गशोणितयुतैः समकृष्टकैश्च |
कृत्वा ललाटफलके तिलकं जपं यो विद्याऽर्थबोधविषये नवगीष्पतिः स्यात् ॥ ३८ ॥ इति |
भैरवतन्त्रे—मञ्जुघोषमन्त्रः |
[MJB] मञ्जुघोषाख्यममलं मन्त्रमाकर्णय प्रिये |
धनवंशप्रदं रम्यं सार्वज्ञवाग्मिताप्रदम् ॥ १ ॥ अदोषकवितामूलममलं प्रतिभाप्रदम् |
[Drucklücke] श्रीदेव्युवाच |
भगवन् गिरिजानाथ कथयस्व यथोदितम् |
मञ्जुघोषः स कः कीदृक् तस्यानुष्ठानमेव हि ॥ २ ॥ श्रीईश्वर उवाच |
श्रूयतां देवि मे वाक्यं (नात्र कार्या विचारणा |
मञ्जुघोषस्तु यो देवः सोऽहं देवि न संशयः ॥ ३ ॥ एकोऽहं शङ्करो देवि नानारूपधरः स्वयम् |
तस्यानुष्ठानमधुना) श्रूयतां मम तत्त्वतः ॥ ४ ॥ मन्त्रः षडक्षरः सारः सद्यः कुमतिनाशकः |
रसलक्षावधिस्तस्य नाप्य एव सुरैरपि तत् [Schluss unsicher] ॥ ५ ॥ (मञ्जुलरीलरीमिति मन्त्रः [Lesung unsicher]) त्रिपक्षजपनाद् देवि वाग्मी भवति मानवः |
सुकवित्वं भवेत्तस्य प्रतिभा विश्वजित्वरी ॥ ६ ॥ मासत्रयं जपेद्यस्तु पण्डितोऽपण्डितो यदि |
षण्मासं यस्तु जपति स सर्वज्ञः कुशाग्रधीः ॥ ७ ॥ अब्देन सिद्धयः सर्वा भवन्ति सत्यमीश्वरि |
आहारोऽस्य नृणां वर्चो नैवेद्यं चक्षुषो मलम् ॥ ८ ॥ मूत्रैः पाद्यं ददेत् तस्मै गन्धो विट्खदिरोद्भवः |
अरण्यस्य च पत्राणि पुष्पाण्येव सुनिश्चितम् ॥ ९ ॥ एरण्डमूलैः कार्पासबीजमर्घं [Lesung unsicher] प्रचक्षते |
तुण्डकीलालदानेन भवेदाचमनीयकम् ॥ १० ॥ ध्यानं वक्ष्ये महादेवि सर्वसिद्धिप्रदायकम् |
[Drucklücke] शशिधरमिव शुभ्रमित्यादि प्रागुक्तं ध्यानम् |
मन्त्रोद्धारं प्रवक्ष्यामि नमस्कारोपदेशतः |
शृणु देवि महाभागे कलौ सद्यः फलप्रदम् ॥ ११ ॥ मन्त्रं सर्वार्थदं सारं वशीकरणमुत्तमम् |
अमलं निर्गुणं सारं गुप्तं सर्वकामदम् ॥ १२ ॥ तं नमामि हितं नाथं मञ्जुघोषं नमाम्यहम् |
वरेण्यं परमं सारं स्तुतं ब्रह्मादिभिः सुरैः ॥ १३ ॥ रक्तं रजोगुणैर्युक्तं मञ्जुघोषं नमाम्यहम् |
वचनेन न जानन्ति कायेन न च कोविदाः ॥ १४ ॥ [Fußnoten:] १ वचसा क. ग. पाठः |
२ भानुमूलं क. ग. पाठः |
३ व्रतस्थः ग. पाठः |
४ यथोचितम् ख. पाठः |
५ करे ख. पाठः |
६ आरण्यकस्य ख. पाठः |

[Kapitel 32, Druckseite 720; MJB] तं शान्तं तमसा युक्तं पीतवस्त्रं नमाम्यहम् |
चरणे पतिता यस्य दैत्यानां जयहेतवे ॥ १५ ॥ चरणे पतितो जीवो वृद्धये तं नमाम्यहम् |
न जानन्ति सुरा यस्य तत्त्वं सत्त्वगुणेन वै ॥ १६ ॥ कृष्णं समस्तसारं च मञ्जुघोषं नमाम्यहम् |
धीशं विश्वेश्वरं चैव प्रतिपत्त्यादिहेतुकम् ॥ १७ ॥ सकलं निष्कलं चैव तं नमामि हितप्रदम् |
(ऋषिः कण्वो भवेत् पङ्क्तिश्छन्दोऽङ्गानि षडक्षरैः) ॥ १८ ॥ दक्षिणां च ततो दद्याद् गुरुतुष्टिर्यथा भवेत् |
गुरुसन्तोषमात्रेण सिद्धिर्भवति निश्चितम् ॥ १९ ॥ (पिता गुरुर्न कार्यो वै दीक्षाकर्मणि पार्वति |
यावत्कालं सुतो दुःखी पिता तु नरकं व्रजेत् |
) ॥ २० ॥ इति मञ्जुघोषप्रकरणम् |
(अथ चरणायुधमन्त्रः—) [CAY] पाशबीजं ततस्तीक्ष्णं वामकर्णेन्दुसंयुतः |
सद्योजातयुतः क्रोधी पिनाकी वर्मसंयुतः ॥ १ ॥ पुनरेतत् त्रयं प्रोक्त्वा खड्गीशोऽनन्तसंयुतः |
मायाबीजं द्वितीयादित्रयं प्रोक्त्वा द्विधा ततः ॥ २ ॥ कूर्मः कर्णयुतः खड्गी युतोऽनन्तेन चाङ्कुशम् |
अष्टादशाक्षरो मन्त्रश्चरणायुधसंज्ञकः ॥ ३ ॥ आं [Bīja-Folge stellenweise unsicher] ... ह्रीं ... क्रों |
१८ |
महाराुद्रो [Druckform; gemeint महा‌रुद्र] मुनिः प्रोक्तो जगती छन्द उच्यते |
मायाबीजं सृणिः शक्तिः पाशबीजं तु कीलकम् ॥ ४ ॥ देवता कथितः सद्भिश्चरणायुधसंज्ञकः |
चतुर्भिश्च त्रिभिर्नेत्रैस्त्रिभिस्त्र्यर्णैः षडङ्गकम् ॥ ५ ॥ मूर्ध्नि भाले भ्रुवोऽक्ष्णोः कर्णयोर्घ्राणयोर्मुखे |
कण्ठे कुक्षौ च नाभौ च लिङ्गे चैव गुदे तथा ॥ ६ ॥ जानुनोः पादयोर्न्यस्येन्मन्त्रवर्णान् यथाविधि |
सर्वालङ्कारसन्दीप्तकण्ठपादद्वयान्वितम् ॥ ७ ॥ गलत्सुवर्णवर्णाभं चलत्पक्षद्वयान्वितम् |
गौरीकरसरोजस्थं सर्वामरसुपूजितम् ॥ ८ ॥ रक्तवर्णशिखायुक्तं रक्तचञ्चुपुटद्वयम् |
चलत्पादं समस्तार्तिनाशनं सर्वसिद्धिदम् ॥ ९ ॥ एवं ध्यायन् महादेवं कुक्कुटेश्वरसंज्ञितम् |
एवं ध्यात्वा यजेत् पीठे शैवे वै ताम्रशेखरम् ॥ १० ॥ अङ्गावृतिं यजेदादौ दलेष्वष्टसु वै यजेत् |
प्रादक्षिण्यक्रमाच्छम्भुं गौरीं गणपतिं तथा ॥ ११ ॥ कार्तिकेयं च मन्दारं पारिजातं ततः परम् |
महाकालं बर्हिणं च चतुरस्रे दिगीश्वरान् ॥ १२ ॥ तदायुधान्यपि बहिः पूजान्ते बलिमाहरेत् |
द्वितीयबीजं सत्त्वं सबिन्दुं भुवनेश्वरीम् ॥ १३ ॥ कुक्कुटेति द्विरुच्चार्य एह्येहीति च द्विधा वदेत् |
इमं बलिं गृह्ण गृह्ण गृह्णापययुगं ततः ॥ १४ ॥ सर्वान् कामांश्च देहि द्वे यं कृद्धी पूं नमः पदम् [Bījas unsicher] |
कुक्कुटायेति मन्त्रोऽयं जिनयुग्मार्णकः परः ॥ १५ ॥ मधुरत्रययुक्तैश्च लाजैर्दद्याद्बलिं निशि |
[Drucklücke] [Anfangsbīja unsicher] ह्रीं कुक्कुट २ एहि २ इमं बलिं गृह्ण २ गृह्णापय २ सर्वान् कामांश्च देहि २ यं [Bīja-Folge unsicher] नमः कुक्कुटाय (४८) |
अथ प्रयोगः—तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा |
शिरसि महारुद्राय ऋषये नमः |
मुखे अतिजगतीच्छन्दसे नमः |
हृदये श्रीकुक्कुटेश्वराय देवतायै नमः |
गुदे ह्रीं बीजाय नमः |
[Fußnoten:] १ देवाः ख. पाठः |
२ बुद्धाय ख. पाठः |
३ पूं क. पाठः |
४ पूं क. पाठः |

[Kapitel 32, Druckseite 721; CAY. CAY 26b–30: redaktionelle Inhaltsangaben wegen giftiger Schädigungszubereitungen.] पादयोः क्रों शक्तये नमः |
नाभौ पूं कीलकाय नमः |
इति विन्यस्य मम सर्वाभीष्टसिद्धये विनियोगः इति हस्ततालिकां कृत्वा |
आं पूं कों लिं हृदयाय नमः |
पूं कों लिं शिरसे० |
वां ह्रीं शिखायै० |
पूं कों लिं कवचाय० |
पूं कों लिं नेत्रत्रयाय० |
चुं वां क्रों अस्त्राय० |
इति करषडङ्गन्यासं विधाय |
मूर्ध्नि आं नमः |
भाले पूं० |
दक्षभ्रूप्रदेशे कों० |
वामे लिं० |
दक्षनेत्रे पूं० |
वामे कों० |
दक्षकर्णे लिं० |
वामे वां० |
दक्षनासिकायां ह्रीं० |
वामे पूं० |
वक्त्रे कों० |
कण्ठे लिं० |
कुक्षौ पूं० |
नाभौ कों० |
लिङ्गे लिं० |
गुदे चुं० |
जान्वोः वां० |
पादयोः क्रों नमः |
इति विन्यस्य |
ध्यानादिमानसपूजान्तेऽस्य पुरतः कुङ्कुमचन्दनादिनाष्टदलकमलं विलिख्य तद्बहिश्चतुर्द्वारयुक्तं चतुरस्रं कुर्यात् |
इति पूजायन्त्रं विलिख्य पुरतः संस्थाप्याभ्यर्च्यार्घ्यादिस्थापनाद्यात्मपूजान्ते शैवं पीठं समभ्यर्च्य मूलेन मूर्तिं परिकल्प्यावाहनादिपुष्पोपचारान्ते कर्णिकायामग्निरक्षोऽसुरवायव्यमध्ये दिक्षु च [Lesung unsicher] प्राग्वत् षडङ्गानि संपूज्य |
दलेषु देवाग्रादिप्रादक्षिण्येन शम्भवे नमः |
गौर्यै० |
गणपतये० |
कार्तिकेयाय० |
मन्दाराय० |
पारिजाताय० |
महाकालाय० |
बर्हिणे० |
इति संपूज्य लोकपालार्चादि सर्वं प्राग्वत् समाप्य प्रोक्तमन्त्रेण प्रोक्तद्रव्यैर्बलिं दद्यादिति |
तथा— जपेल्लक्षं दशांशेन त्रिमध्वक्तैस्तिलैर्हुनेत् |
तर्पणादि ततः कुर्याद्ब्राह्मणाराधनं ततः ॥ १६ ॥ एवं सिद्धमनुर्मन्त्री सर्वाभीष्टं च साधयेत् |
अयुतं द्विशताधिक्यात् प्रयोगादौ जपेन्मनुम् ॥ १७ ॥ द्विचितारिंशच्चात्री [Lesung unsicher] सदा मूलैस्तण्डुलपयस्तैः [unsicher] |
बलिं दद्यात् प्रयत्नेन भोजनादौ तदन्तिके ॥ १८ ॥ अनेन बलिदानेन कुबेरो धननायकः |
बभूव शान्तिके पुष्टौ बलिं दद्यात् प्रयत्नतः ॥ १९ ॥ बलिदानेन सन्तुष्टः कुक्कुटोऽभीष्टदायकः |
निशौदनैर्बलिं दत्त्वा त्रिदिनैर्वशयेज्जगत् ॥ २० ॥ गोधूमपिष्टवटितैरपूपैर्दुग्धमिश्रितैः |
साज्यकर्पूरकैर्दद्याद् बलिं निशि विशेषतः ॥ २१ ॥ त्रिदिनैर्वशमायाति सत्यं जगदशेषतः |
यमुद्दिश्य जपेन्मन्त्रं सहस्रं नियतो निशि ॥ २२ ॥ पीतैः पुष्पैर्बिल्वपत्रैः करवीरैः सहस्रशः |
पूजयन्नेव सप्ताहात् स नरो दासतां व्रजेत् ॥ २३ ॥ छागलावकमांसेन बलिं दत्त्वा निरन्तरम् |
समस्ताभीष्टसिद्धिः स्यात् सङ्कटान्मुच्यते ध्रुवम् ॥ २४ ॥ जपेद्वामहस्ते तु मुक्तकेश उदङ्मुखः |
निशीथेऽष्टदिनं यावद्यमुद्दिश्य स्मरन् धिया ॥ २५ ॥ तमाकर्षयति क्षिप्रं योजनानां शतैरपि |
[26b–30: redaktionelle Inhaltsangaben in der deutschen Fassung.] माधूच्छिष्टजां कृत्वा पुत्तलां स्थापयेद्रिपोः |
स्पृष्ट्वा सहस्रं प्रजपेन्मूलमन्त्रं हि साधकः ॥ ३१ ॥ चिताकाष्ठस्य कीलेन श्मशाने निशि संयुतः |
यदङ्गं छेदयेत् तस्यास्तदङ्गं तस्य नश्यति ॥ ३२ ॥ प्राक्प्रयोगप्रकरणे ये ये पुत्तलाप्रयोगास्ते ते सर्वेऽत्रापि ज्ञेयाः |
इति ताम्रचूडप्रकरणम् |
अथ शास्तृप्रकरणम्— [SAS] अथ वक्ष्ये मनुं शास्तुः सर्वाभीष्टप्रदायकम् |
शास्तारं मृगयाश्रान्तमश्वारूढं गणावृतम् ॥ १ ॥

[Kapitel 32, Druckseite 722; SAS] पानीयार्थं विना शास्त्रे ते नतो रेवते नमः |
द्वात्रिंशदक्षरो मन्त्रो रेवत ऋषिरुच्यते ॥ २ ॥ पङ्क्तिश्छन्दो महाशास्ता देवता सकलेष्टदः |
पादैश्चतुर्भिः सर्वेण पञ्चाङ्गन्यासमाचरेत् ॥ ३ ॥ अश्वारूढं त्रिनेत्रं च शास्तारं पाशकेन च |
बद्ध्वा साध्यं साधकाग्रे पातयन्तं भजाम्यहम् ॥ ४ ॥ ध्यात्वैवं पूजयेत् पीठे शैवे प्राग्वत् सुसाधकः |
आदावङ्गानि संपूज्य प्रादक्षिण्याद् दलेष्वथ ॥ ५ ॥ गोप्तारं पिङ्गलाक्षं च वीरसेनं च शाम्भवम् |
त्रिनेत्रं शूलिनं दत्तं भीमरूपं च पूजयेत् ॥ ६ ॥ चतुरस्रे लोकपालान् वज्राद्यायुधसंयुतान् |
[Drucklücke] इति |
अथ प्रयोगः—तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा |
शिरसि रेवताय ऋषये नमः |
मुखे पङ्क्तिच्छन्दसे नमः |
हृदये श्रीमहाशास्त्रे देवतायै नमः |
इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा |
शास्तारं मृगयाश्रान्तं हृदयाय० |
अश्वारूढं गणावृतं शिरसे० |
पानीयार्थं विना शास्त्रे शिखायै० |
ते नतो रेवते नमः कवचाय० |
समस्तेनास्त्रे० |
इति कराङ्गन्यासं विधाय |
ध्यानमानसपूजान्ते स्वपुरतः कुङ्कुमादिना चन्दनादिपीठे चतुर्द्वारयुक्तचतुरस्रावृतमष्टदलकमलं कृत्वा |
पुरतः संस्थाप्याभ्यर्च्यार्घ्यादिस्थापनाद्यात्मपूजान्ते शैवं पीठं समभ्यर्च्य |
मूलेन मूर्तिं परिकल्प्यावाहनादिपुष्पोपचारान्ते प्राग्वदङ्गपूजां विधायाष्टदलेषु देवाग्रे प्रादक्षिण्येन |
गोप्त्रे नमः |
पिङ्गलाक्षाय० |
वीरसेनाय० |
शाम्भवाय० |
त्रिनेत्राय० |
शूलिने० |
दत्ताय० |
भीमरूपाय० |
इति संपूज्य चतुरस्रे लोकपालांस्तदायुधानि च संपूज्य |
धूपदीपादिकं सर्वं प्राग्वत् कुर्यादिति |
तथा— तथा लक्षं जपेन्मन्त्रं तद्दशांशं हुनेत्तिलैः |
तर्पणादि ततः कुर्यादेवं सिद्धो भवेन्मनुः ॥ ७ ॥ तस्मै जलार्थिने दद्यान्मध्याह्ने तु जलाञ्जलिम् |
गणेभ्योऽपि तथा दद्याज्जलमञ्जलिना सुधीः ॥ ८ ॥ तेन सन्तर्पितः शास्ता स्वाभीष्टफलदो भवेत् |
अर्धरात्रे बलिं दद्याद्गायत्र्या चाभिमन्त्रितम् ॥ ९ ॥ अष्टोत्तरशतं जप्यान्मूलमन्त्रमनन्यधीः |
भूताधिपाय चाभाष्य विद्महे पदमीरयेत् ॥ १० ॥ महादेवाय शब्दान्ते धीमहीति पदं ततः |
तन्नः शास्ता पदं प्रोक्त्वा ततश्चैवं प्रचोदयात् ॥ ११ ॥ गायत्र्येषा समाख्याता सर्वाभीष्टप्रदा नृणाम् |
[Drucklücke] इति शास्तृप्रकरणम् |
अथ वैवस्वतमन्त्रः— [VAI] अथ वक्ष्ये समासेन वैवस्वतमहामनुम् |
यस्य विज्ञानमात्रेण नरकं नैव पश्यति ॥ १ ॥ प्रणवं चाङ्कुशं मायां पाशं वरुणबीजकम् |
ङेन्तं वैवस्वतपदं धर्मराजं तथा वदेत् ॥ २ ॥ भक्तानुग्रहकृद् ङेन्तं हृदन्तो जिनवर्णकः |
[Drucklücke] ॐ क्रों ह्रीं आं वं वैवस्वताय धर्मराजाय भक्तानुग्रहकृते नमः |
२४ |
वह्निनेत्रेषुबाणाद्रिनेत्रार्णैरङ्गकल्पना |
नीलजीमूतसङ्काशं तरुणं पुण्यवतां शुभम् ॥ ३ ॥ अशुभं पापकर्तॄणां नानाभरणभूषितम् |
दण्डहस्तं च महिषारूढं पितृगणैर्युतम् ॥ ४ ॥ दक्षिणाशाधिपं वीरं सूर्यपुत्रं सदा स्मरेत् |
एवं ध्यात्वा जपेन्मन्त्रमष्टोत्तरशतं सुधीः ॥ ५ ॥ प्रत्यहं सर्वदुःखार्तिनाशनं नरकापहम् |
सर्वसंपत्करं शत्रुनाशनं श्रीसुखावहम् ॥ ६ ॥ सिद्धमन्त्रत्वादृष्यादिकं नास्ति |
अथ चित्रगुप्तमन्त्रः—

[Kapitel 32, Druckseite 723; CIT] प्रणवो हृदयं चैव विचित्रं ङेन्तमेव च |
धर्मान्ते लेखकं ङेन्तं यमवान्ते दिकाधि च ॥ १ ॥ कारिणे यमलान्ते च वरयूं जन्म चेति च |
संपदन्ते च प्रलयं कथय द्वेऽग्निवल्लभा ॥ २ ॥ अष्टात्रिंशार्णको मन्त्रश्चित्रगुप्तस्य दुःखहा |
सप्ताङ्गनवनागाङ्गनेत्रार्णैरङ्गकल्पना ॥ ३ ॥ ॐ नमो विचित्राय धर्मलेखकाय यमवादिकाधिकारिणे यमलवरयूं जन्मसंपत्प्रलयं कथय २ स्वाहा (३८) |
किरीटिनं चित्रवस्त्रं चित्राभरणभूषितम् |
विचित्रासनमासीनं पूर्णेन्दुसदृशाननम् ॥ ४ ॥ पापपुण्यानि जीवानां लिखन्तं पितृसुहृत्तमम् |
[Drucklücke] ध्यायेदिति शेषः |
सिद्धमन्त्रं जपेन्मर्त्यः प्रत्यहं नियतः शुचिः |
चित्रगुप्तः प्रसन्नः सन् पुण्यमेव लिखेत् परम् ॥ ५ ॥ पापं न गणयेत्तस्य शुभं वितनुतेऽन्वहम् |
[Drucklücke] इति |
अथ आसुरीमन्त्रः— [ASU] प्रणवं कटुके कट्वन्ते कपत्रे सुभान्तगे |
आसुर्यन्ते तु रक्ते च ततो वै रक्तवाससे ॥ १ ॥ अथर्वणस्य दुहिते अघोरेऽघोरकर्म च |
कारिकेऽमुकशब्दान्ते स्यगतिं दहयुग्मकम् ॥ २ ॥ उपविष्टस्य तु गुदं दहयुग्मं च सुप्त च |
स्यमनो दहयुग्मं च प्रबुद्धस्य हृदन्तके ॥ ३ ॥ यं दह द्वे हन द्वन्द्वं पच द्वे तावदन्तके |
दह तावत्पचान्ते च यावन्मे वशमा पदम् ॥ ४ ॥ याति वर्मास्त्रयुग्वह्निवल्लभान्तो मनुर्मतः |
दशोत्तरशतार्णोऽयमासुर्या मन्त्रनायकः ॥ ५ ॥ ॐ कटुके कटुकपत्रे सुभगे आसुरि रक्ते रक्तवाससे अथर्वणस्य दुहिते अघोरे अघोरकर्मकारिके अमुकस्य गतिं दहदह उपविष्टस्य गुदं दहदह सुप्तस्य मनो दहदह प्रबुद्धस्य हृदयं दहदह हनहन पचपच तावद्दह तावत्पच यावन्मे वशमायाति हुंफट् स्वाहा |
११० |
अङ्गिरा मुनिराख्यातो विराट् छन्द उदाहृतम् |
देवता चासुरी दुर्गा प्रणवो बीजमुच्यते ॥ ६ ॥ स्वाहा शक्तिः समुद्दिष्टा दहयुग्मं तु कीलकम् |
नवार्णैर्हृदयं प्रोक्तं षड्वर्णैः शिर ईरितम् ॥ ७ ॥ सप्तवर्णैः शिखा वर्म वसुवर्णैस्ततः परम् |
रुद्रार्णं नेत्रमाख्यातं पञ्चषष्ट्या तथास्त्रकम् ॥ ८ ॥ वर्मास्त्रस्वाहयान्ते स्युरङ्गमन्त्राः षडेव हि |
सरोजनिलयां देवीं शरच्चन्द्रप्रभां शिवाम् ॥ ९ ॥ वरदं चाभयं शूलमङ्कुशं दधतीं करैः |
नागयज्ञोपवीतां च सर्वाभरणभूषिताम् ॥ १० ॥ अथर्वणसुतां घोरामासुरीं चिन्तयेद्बुधः |
अयुतं प्रजपेन्मन्त्रं जुहुयात् तद्दशांशतः ॥ ११ ॥ राजिकाभिर्घृताक्ताभिस्ततः सिद्धो भवेन्मनुः |
आसुर्याश्चैव पञ्चाङ्गं शतवाराभिमन्त्रितम् ॥ १२ ॥ तेन प्रधूपयेन्मन्त्री स्वात्मानं नियतो निशि |
तद्गन्धाघ्राणतः सर्वे लोका वश्या भवन्ति हि ॥ १३ ॥ मधुरत्रयसंयुक्तामासुरीं जुहुयान्निशि |
सहस्रसंख्यया सत्यं वशयेदखिलं जगत् ॥ १४ ॥ लवणदुर्गाप्रकरणे यावन्तः प्रयोगाः प्रोक्तास्तेऽत्रापि ज्ञेयाः |
राजिका निम्बपत्राणि कटुतैलसमन्वितम् |
नाम संयोज्य मन्त्रे तु जुहुयादेधितेऽनले ॥ १५ ॥ [Fußnote:] दक्षयोर्वरशूले वामयोरभयाङ्कुशावित्यायुधध्यानम् |

[Kapitel 32, Druckseite 724; ASU. 17a: giftige Blendungszubereitung ausgelassen, deutsche Inhaltsangabe.] ज्वराक्रान्तो रिपुः सद्यो म्रियते नात्र संशयः |
राजीं लवणसंयुक्तां हुत्वा स्फोटो भवेदरेः ॥ १६ ॥ [17a: redaktionelle Inhaltsangabe] |
पलाशेन्धनदीप्ताग्नौ घृताक्तां राजिकां हुनेत् ॥ १७ ॥ ब्राह्मणा वशमायान्ति क्षत्रिया गुडयोगतः |
दधियोगेन वैश्याः स्युः शूद्रा लवणयोगतः ॥ १८ ॥ आसुर्युपासकानां च नासाध्यं भुवनत्रये |
[Drucklücke] इत्यासुरीप्रयोगः |
अथ कुबेरमन्त्रः— [KUB] कुबेरस्य मनुं वक्ष्ये सर्वसंपत्प्रदायकम् |
यक्षं ङेन्तं कुबेरं च तथा वैश्रवणाय च ॥ १ ॥ धनधान्याधिपतये धनधान्यपदं ततः |
समृद्धिं मे देहि पदं दापयाग्निवधूर्मतः ॥ २ ॥ पञ्चत्रिंशार्णको मन्त्रः कुबेरस्य महात्मनः |
[Drucklücke] यक्षाय कुबेराय वैश्रवणाय धनधान्याधिपतये धनधान्यसमृद्धिं मे देहि दापय स्वाहा (३५) |
विश्रवा मुनिराख्यातो बृहती छन्द एव च |
कुबेरो देवता प्रोक्तो वह्न्यङ्घ्रिशरदन्तिभिः ॥ ३ ॥ नागाद्रिवर्णैर्मनुजैः षडङ्गविधिरीरितः |
गारुत्मतशिलाकूटसन्निभं निधिनायकम् ॥ ४ ॥ किरीटहारकेयूरवलयाङ्गदभूषणम् |
वरं गदां च दधतं नरवाहनसंवृतम् ॥ ५ ॥ अलकानगराधीशं शिवमित्रं विचिन्तयेत् |
जपेल्लक्षं दशांशेन तिलैराज्यपरिप्लुतैः ॥ ६ ॥ जुहुयात् पीठके शैवे पूजयेद्धननायकम् |
आदावङ्गानि संपूज्य दिगीशांश्च तदायुधैः ॥ ७ ॥ अयुतं धनवृद्ध्यर्थं प्रजपेच्छिवसन्निधौ |
तथा बिल्वतरोर्मूले जपेद् धनसमृद्धये ॥ ८ ॥ इति |
तथा—मन्त्रान्तरम् |
[KUM] तारसंपुटिता लक्ष्मीः मायया पुटिता रमा |
कामेन पुटिता लक्ष्मीर्ङेन्तं वित्तेश्वरं नतिः ॥ १ ॥ महादारिद्र्यसंहर्ता षोडशार्णो मनुर्मतः |
वह्निद्वियुगलद्वीषुयुग्मार्णैरङ्गकल्पना ॥ २ ॥ ध्यानपूजादिकं सर्वं प्राक्प्रोक्तविधिना चरेत् |
[Drucklücke] [Fußnote aus dem Merutantra:] तथा मेरुतन्त्रे—मन्त्रान्तरमथो वक्ष्ये कुबेरस्य वसवक्षरम् |
तारो वैश्रवणायेति स्वाहा पञ्चाङ्गमन्त्रं तु ॥ स्वाहान्तैः प्रणवाद्यैश्च पञ्चभिर्मन्त्रवर्णकैः |
धनपूर्णं स्वर्णकुम्भं तथा रत्नकरण्डकम् ॥ हस्ताभ्यां बिभ्रतं खर्वकरपादं च तुन्दिलम् |
वराधस्ताद्वटपटोपविष्टं [unsicher] सस्मिताननम् ॥ वर्णलक्षं जपेद्धोमः पूजा प्राग्वत् महाधनी |
सेवनादस्य भवति यक्षिण्याद्यास्तथा वशाः [Schluss teilweise unsicher] ॥ इति |
इति |
सारसंग्रहे—विश्वावसुमन्त्रः |
[VIS] अथ गन्धर्वराजस्य मन्त्रं विश्वावसोरहम् |
प्रवक्ष्यामि समासेन कन्याप्राप्तिकरं शुभम् ॥ १ ॥ तारं विश्वावसुपदं नाम गन्धर्व उच्चरेत् |
कन्यानामधिशब्दान्ते पतिर्यत इतीरयेत् ॥ २ ॥ लभामि ते देव कन्यां सुवर्णालङ्कृतां ततः |
अमुकनाम्नीं देहि शब्दं मे विश्वावसवे द्विठः ॥ ३ ॥ कन्याप्राप्तिकरो मन्त्रो गन्धर्वस्य त्विहेरितः |
दशभिर्हृदयं प्रोक्तं नवभिश्च शिरो मतम् ॥ ४ ॥ अष्टभिश्च शिखा प्रोक्ता षड्भिः कवचमीरितम् |
पञ्चभिर्नेत्रमाख्यातं दशभिश्चास्त्रमीरितम् ॥ ५ ॥ [Weitere Fußnoten:] १ प्लुतां ख. पाठः |
२ संस्थितम् ख. पाठः |

[Kapitel 32, Druckseite 725; VIS] एभिर्विभक्तैर्मन्त्रार्णैर्जातियुक्तैः षडङ्गकम् |
कराङ्गयोस्तु विन्यस्य ध्यायेद्गन्धर्वनायकम् ॥ ६ ॥ हस्ताब्जं विनिधाय पाणिकमले स्वीये तदीयं वरं कन्यां प्रार्थयते वराय ददते सद्वस्त्रभूषोज्ज्वलम् |
कन्याभिः परितो वृतं नतमुखाम्भोजाभिरानन्दितं नानाकल्पकलाकलापकलितं विश्वावसुं चिन्तयेत् ॥ ७ ॥ नाभिमात्रेऽम्भसि स्थित्वा जपेन्मन्त्रं समाहितः |
चत्वारिंशत्सहस्राणि तद्दशांशं हुनेत्ततः ॥ ८ ॥ इक्षुखण्डयुतैर्लाजैर्घृताक्तैरेधितेऽनले |
तर्पणं मार्जनं कृत्वा ब्राह्मणान् भोजयेत्ततः ॥ ९ ॥ एवं कृते मन्त्रसिद्धिर्भवत्येव न संशयः |
पश्चिमाभिमुखो मन्त्री जपेन्मन्त्रमिमं नरः ॥ १० ॥ यामुद्दिश्य जपेत् कन्यां तां प्राप्नोति न संशयः |
[Drucklücke] इति |
शारदातिलके—शताक्षरमन्त्रः |
(२३ |
३४) [SAT] गायत्रीत्रिष्टुबनुष्टुब्वर्णैः प्रोक्तः शताक्षरः |
पूर्वोक्ता एव मुन्याद्याः परं तेजोऽत्र देवता ॥ १ ॥ हृत् त्रयोदशभिः प्रोक्तं रुद्रार्णैः शिर ईरितम् |
द्वाविंशत्या शिखा प्रोक्ता तावद्भिः कवचं मतम् ॥ २ ॥ स्यात् पञ्चदशभिर्नेत्रमस्त्रं सप्तदशाक्षरैः |
वर्णन्यासादिकं सर्वं कुर्यात् पूर्वोक्तवर्त्मना ॥ ३ ॥ सत्यं मानविवर्जितं श्रुतिगिरामाद्यं जगत्कारणं व्याप्तं स्थावरजङ्गमं मुनिवरैर्ध्येयं निरुद्धेन्द्रियैः |
अर्काग्नीन्दुमयं शताक्षरवपुस्तारात्मकं सन्ततं नित्यानन्दगुणालयं परतरं वन्दामहे तन्महः ॥ ४ ॥ सौरे पीठे यजेत् सम्यग् वक्ष्यमाणविधानतः |
आद्यामावृतिमभ्यर्चेत् षडङ्गैर्देशिकोत्तमः ॥ ५ ॥ गायत्रीशक्तिभिस्तिस्रः पूजयेदावृतीः क्रमात् |
आवृतिः पञ्चमी प्रोक्ता त्रिष्टुबुद्धृतशक्तिभिः ॥ ६ ॥ अनुष्टुपशक्तिभिः प्रोक्तमावृतीनां चतुष्टयम् |
इन्द्राद्या दशमी प्रोक्ता वज्राद्यास्तत्परा मता ॥ ७ ॥ इति |
अथ प्रयोगः—तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा |
शिरसि विश्वामित्रकाश्यपवसिष्ठेभ्य ऋषिभ्यो नमः |
मुखे गायत्रीत्रिष्टुबनुष्टुप्छन्देभ्यो नमः |
हृदये परतेजसे देवतायै नमः |
इति ऋष्यादिकं विन्यस्य |
मम सर्वाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा |
तत्सवितुर्वरेण्यं भर्गो देवस्य हृदयाय नमः |
धीमहि धियो यो नः प्रचोदयात् शिरसे० |
जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः शिखायै० |
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः कवचाय० |
त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनं नेत्राभ्यां० |
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् अस्त्राय फट् |
इति मन्त्रैर्यथाविधि करषडङ्गन्यासं कृत्वा |
वामपादाङ्गुलिमूलयोः तत् नमः |
गुल्फयोः सं० |
जानुनोः विं० |
ऊरुमूलयोः तुं० |
लिङ्गे वं० |
नाभौ रें० |
हृदि णिं० |
कण्ठे यं० |
कराङ्गुलिमूलयोः भं० |
मणिबन्धयोः गों० |
कूर्परयोः दें० |
भुजमूलयोः वं० |
मुखे स्यं० |
नसोः धीं० |
कपोलयोः मं० |
नेत्रयोः हिं० |
कर्णयोः धिं० |
भ्रुवोः यों० |
मस्तके यों० |
चूडाधः पश्चिमवक्त्रे नः० |
वाम—

[Kapitel 32, Druckseite 726; SAT; Fortsetzung der Prosa] कर्णे उत्तरवक्त्रे प्रं० |
दक्षकर्णे दक्षवक्त्रे चों० |
मुखे पूर्ववक्त्रे दं० |
शिरसि ऊर्ध्ववक्त्रे यात् नमः |
दक्षपादाङ्गुष्ठे जां नमः |
वामे तं० |
दक्षगुल्फे वें० |
वामे दें० |
दक्षजङ्घायां सं० |
वामे सुं० |
दक्षजानुनि नं० |
वामे वां० |
दक्षोरो मं० |
वामे सों० |
दक्षकक्ष्यां मं० |
वामे मं० |
लिङ्गे रां० |
नाभौ तीं० |
हृदि यं० |
दक्षस्तने तों० |
वामे निं० |
दक्षपार्श्वे दं० |
वामे हां० |
पृष्ठे तिं० |
दक्षस्कन्धे वें० |
वामे दः० |
दक्षबाहुमूले सं० |
वामे नः० |
दक्षबाहुमध्ये पं० |
वामे रं० |
दक्षकूर्परे षं० |
वामे दं० |
दक्षप्रकोष्ठे तिं० |
वामे दुं० |
दक्षमणिबन्धे गां० |
वामे णिं० |
दक्षकरतले विं० |
वामे श्वां० |
मुखे नां० |
दक्षनसि वें० |
वामे वं० |
दक्षनेत्रे सिं० |
वामे न्धुं० |
दक्षकर्णे दुं० |
वामे रिं० |
ललाटे तां० |
ललाटोपरि त्यं० |
मूर्ध्नि ग्निः नमः |
मुखे त्र्यं० |
चूडाधः बं० |
दक्षकर्णे कं० |
वामे यं० |
उरसि जां० |
गले मं० |
मुखे हं० |
नाभौ सुं० |
हृदि गं० |
पृष्ठे न्धिं० |
कुक्षौ पुं० |
लिङ्गे ष्टिं० |
पायौ वं० |
दक्षोरुमूले र्धं० |
वामे नं० |
दक्षोरो उं० |
वामे वां० |
दक्षजानुनि रुं० |
वामे कं० |
दक्षजानुनि वृत्ते मिं० |
वामे वं० |
दक्षस्तने बं० |
वामे न्धं० |
दक्षपार्श्वे नां० |
वामे न्मृं० |
दक्षपादे त्यों० |
वामे मुं० |
दक्षपाणितले क्षीं० |
वामे यं० |
दक्षनसि मां० |
वामे मृं० |
शिरसि तात् नमः |
इत्यक्षरन्यासः |
अथ पदन्यासः |
शिरसि तत् नमः |
भ्रूमध्ये सवितुः० |
नेत्रयोः वरेण्यं० |
मुखे भर्गः० |
कण्ठे देवस्य० |
हृदि धीमहि० |
नाभौ धियः० |
गुह्ये यः० |
जानुनोः नः० |
पादयोः प्रचोदयात्० |
शिखायां जातवेदसे नमः |
ललाटे सुनवाम० |
दक्षनेत्रे सोमं० |
वामे अरातीयतः० |
दक्षकर्णे नि० |
वामे दहाति० |
ओष्ठे वेदः० |
अधरे सः० |
रसनायां नः० |
कण्ठे पर्षत्० |
बाह्वोः अति० |
हृदि दुर्गाणि० |
कुक्षौ विश्वा० |
कटौ नावा० |
गुह्ये इव० |
ऊरुद्वये सिन्धुं० |
जानुद्वये दुरिता० |
जङ्घयोः अति० |
पादयोः अग्निः० |
शिरसि त्र्यम्बकं नमः |
भ्रूयुगे यजामहे० |
नेत्रयोः सुगन्धिं० |
मुखे पुष्टिवर्धनं० |
गण्डयोः उर्वारुकं० |
हृदि इव० |
उदरे बन्धनात्० |
गुह्ये मृत्योः० |
ऊरुद्वये मुक्षीय० |
जानुनोः मा० |
पादयोः अमृतात् नमः |
इति विन्यस्य ध्यानाद्यात्मपूजान्ते प्रागुक्तं सौरपीठमभ्यर्च्य मूर्तिकल्पनाद्यङ्गपूजान्ते गायत्रीप्रकरणोक्ताः प्रह्लादिन्याद्याश्चतुर्विंशतिशक्तीरावरणत्रयस्थितास्त्रोक्तप्रकारैः [unsicher] शैवावरणवत्तद्बहिश्चतुश्चत्वारिंशद्दलेषु प्रागुक्तजागराद्याः शक्तीस्त्रिष्टुप्प्रकरणोक्ताः संपूज्य तद्बहिरष्टदलद्वये प्रागुक्तानुष्टुभमन्त्रप्रकरणोक्ता रमाद्या द्वात्रिंशच्छक्तीः प्रतिकमलमावरणद्वयक्रमेण दलमध्यदलाग्रेषु संपूज्य तद्बहिर्लोकेशार्चादि सर्वं प्राग्वत् कल्पयेदिति |
तथा— लक्षमात्रं जपेदेनमयुतं पायसान्धसा |
जुहुयाद् घृतसिक्तेन तर्पणादि ततश्चरेत् ॥ ८ ॥ एवं सिद्धे मनौ मन्त्री भवेद्भास्करसन्निभः |
सुधालतोद्भवैः खण्डैर्जुहुयात् क्षीरसंयुतैः ॥ ९ ॥ दीर्घमायुरवाप्नोति निराधिव्याधिवर्जितः |
दूर्वाभिर्घृतसिक्ताभिस्तदेव फलमाप्नुयात् ॥ १० ॥ मधुरत्रयसंयुक्तैर्जुहुयादरुणाम्बुजैः |
महालक्ष्मीमवाप्नोति षड्भिर्मासैर्विधानवित् ॥ ११ ॥ रक्तोत्पलैस्त्रिमध्वक्तैर्जुहुयात् सर्वसंपदे |
श्रीफलैः प्रजुहुयाद्रमाया वसतिर्भवेत् ॥ १२ ॥ सहस्रं जुहुयान्नित्यं मासमेकं तिलैः शुभैः |
भानुसंख्यान् द्विजान् नित्यं भोजयेन्मधुरान्वितैः ॥ १३ ॥ सर्वपापविनिर्मुक्तः सर्वरोगविवर्जितः |
कृत्याद्रौद्रग्रहान् रोगान् जित्वा दीर्घं स जीवति ॥ १४ ॥ प्रातः स्नातो जपेद्धीमाञ्छतं शतम् [Lesung unsicher] |
भानुमालोकयन् सम्यक् स जीवेच्छरदां शतम् ॥ १५ ॥ नित्यमष्टोत्तरशतं निःश्रेयसफलाप्तये |
गायत्र्याद्यं जपेन्मन्त्रं सर्वपापविमुक्तये ॥ १६ ॥

[Kapitel 32, Druckseite 727, oberer Teil; SAT] सर्वशत्रुविनाशाय त्रिष्टुबाद्यं जपेन्मनुम् |
अनुष्टुबाद्यं प्रजपेदायुरारोग्यसिद्धये ॥ १७ ॥ शताक्षरो मनुः प्रोक्तः समस्तपुरुषार्थदः |
इति श्रीमहामहोपाध्यायाचार्यवर्यभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्यश्रीभगवच्छङ्कराचार्यशिष्यश्रीविष्णुशर्माचार्यशिष्यश्रीप्रगल्भाचार्यशिष्यश्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे द्वात्रिंशः श्वासः ॥ ३२ ॥

33. Śvāsa

Die Druckseiten 727 (unterer Teil) bis 776 (oberer Teil) sind bis zum Kolophon erfasst. Die 926 nummerierten Einträge sowie Prosa und Mantras entsprechen Übersetzung Teil 6. Die Seitenüberschriften nennen die dort verwendeten Abschnittskürzel; innerhalb jeder Reihe bleiben die gedruckten Nummern bestehen. Unnummerierte Fortsetzungen werden über Seite und Reihenfolge zugeordnet.

Giftige Schadenszubereitungen sind an folgenden Stellen gekennzeichnet ausgelassen: 33.YWE.6 samt Materialglosse (S.734); 33.RGV.106a und 33.YJV.7b–8a (S.757); 33.ATV.24 (S.762); 33.HDT.47–50 (S.774–775), 66a und 68–69a (S.775), 76–77a und 78a (S.776). Die deutsche Fassung benennt Ziel und Umfang. Unsichere Bījas und beschädigte Lesungen bleiben örtlich markiert. Ein in der Vorlage gesetztes Fragezeichen oder eine Klammer wird bewahrt.

Druckseite 727

Zuordnung zur deutschen Fassung: 33.SYY, 33.SYR.

[Kapitel 33, Druckseite 727, unterer Teil. SYY; wiederholte Nummer 7 als SYR 7 zugeordnet; danach Drucknummer 9.] अथ त्रयस्त्रिंशः श्वासः |
श्रीयन्त्रसारे—(शताक्षरमनुयन्त्रम् |
) कर्णिकायां लिखेत् तारं व्याहृतिभिः समावृतम् |
कोणेषु षट्सु पञ्चार्णान् प्रणवाद्यान् दलेष्वथ ॥ १ ॥ पूर्वार्धमाद्ये गायत्र्यास्त्रैष्टुभार्धं द्वितीयके |
अनुष्टुबस्याद्यमर्धं तृतीये च चतुर्थके ॥ २ ॥ ॐ [Bīja-Folge teilweise unsicher] ... नमः शिवाय मां पालय ... [Schlusslautfolge unsicher] ॥ ३ ॥ आलिख्य पञ्चमेऽनुष्टुबपरार्धं च षष्ठके |
त्रिष्टुभश्चापरार्धं च गायत्र्या अपरार्धकम् ॥ ४ ॥ सप्तमे च दले तारमापो ज्योतीरसोऽमृतम् |
ब्रह्म भूर्भुवरित्यन्ते स्वरोमिति दलेऽष्टमे ॥ ५ ॥ आलिख्य मातृकार्णाढ्यवृत्तेनावेष्ट्य तद्बहिः |
चिन्तामणिलसत्कोणं भूपुरं च समालिखेत् ॥ ६ ॥ शताक्षरमनोयन्त्रमेतद्यो धारयेन्नरः |
पुत्रारोग्यधराधान्यधनकोशौघशालिनीम् ॥ ७ ॥ [SYR] लब्ध्वातिबहुलां लक्ष्मीं स जीवेच्छरदः शतम् |
ताम्रादिपट्टेष्वालिख्य जप्त्वा चाष्टोत्तरं शतम् ॥ ७ ॥ [SYY] हुत्वा घृतेन तावत्तु सिक्थसंपातमेव च |
भूयोऽपि तावज्जप्त्वा च पुरग्रामाकरादिषु ॥ ९ ॥ [Fußnote:] संभव ख. पाठः |

Druckseite 728

Zuordnung zur deutschen Fassung: 33.SYY, 33.VAR.

[Kapitel 33, Druckseite 728; SYY] स्थापितं यन्त्रमेतत्तु गोसस्यारोग्यपुष्टिदम् |
कुर्याच्च रक्षां तेनारिव्याघ्रादिभयतः सदा ॥ १० ॥ इति |
अस्यार्थः—तत्राष्टदलकमलमध्यगतषट्कोणमध्ये ससाध्यं तारं विलिख्य तत् सप्तव्याहृतिभिरावेष्ट्य |
षट्कोणेषु प्रणवादिशिवपञ्चाक्षरस्यैकैकमक्षरमालिख्याष्टदलेषु प्रथमदले गायत्र्याः पूर्वार्धं |
द्वितीयदले त्रिष्टुभः प्रथमं |
तृतीयेऽनुष्टुभः प्रथमं |
चतुर्थे ॐ [Bīja-Reihe unsicher] ... नमः शिवाय मां पालय ... [Schlussgruppe unsicher] इति मन्त्रं विलिख्य |
पञ्चमेऽनुष्टुब्मन्त्रस्योत्तरार्धं विलिख्य षष्ठे त्रिष्टुब्मन्त्रस्योत्तरार्धं सप्तमे गायत्र्युत्तरार्धं |
अष्टमे आपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवःस्वरोमिति विलिख्य |
तद्बहिर्वृत्तद्वयान्तरालं मातृकावर्णैरावेष्ट्य तद्बहिश्चतुरस्रकोणेषु पूर्वोक्तचिन्तामणिं विलिख्योक्तविधिना धारणादुक्तफलसिद्धिर्भवति |
इति |
तथा शारदातिलके—(२३–५२) वरुणऋग्विधानम् |
[VAR] ऋचो विधानं वारुण्या यथावदभिधीयते |
ऋग्वेदे सा समुद्दिष्टा ध्रुवास्वाद्या मनीषिभिः ॥ १ ॥ ध्रुवासु त्वासु क्षितिषु क्षियन्तो व्यस्मत्पाशं वरुणो मुमोचत् |
अवो वन्वाना अदितेरुपस्थाद्यूयं पात स्वस्तिभिः सदा नः ॥ (७–८८–७) [Die vedischen Akzentzeichen des Drucks sind hier nicht transkribiert.] वसिष्ठोऽस्य मुनिः प्रोक्तश्छन्दस्त्रिष्टुबुदाहृतम् |
वरुणो देवता प्रोक्तस्तद्वर्णैरङ्गकल्पना ॥ २ ॥ अष्टभिर्हृदयं प्रोक्तं सप्तभिः शिर ईरितम् |
शिखा षडर्णकैः प्रोक्ता वस्वर्णैः कवचं मतम् ॥ ३ ॥ सप्तभिर्नेत्रमाख्यातमस्त्रं षड्भिरुदाहृतम् |
साङ्गेषु सन्धिषु पदोर्गुदाङ्गाधारनाभिषु ॥ ४ ॥ कुक्षौ पृष्ठे हृदि कुचे गले बाह्वग्रसन्धिषु |
वक्त्रे कपोलनासाक्षिकर्णभ्रूमध्यमस्तके ॥ ५ ॥ शिरःसर्वाङ्गयोर्न्यस्येन्मन्त्रवर्णान् यथाविधि |
[Drucklücke] चन्द्रप्रभं पङ्कजसन्निषण्णं पाशाङ्कुशाभीतिवरं दधानम् |
मुक्ताविभूषाञ्चितसर्वगात्रं ध्यायेत् प्रसन्नं वरुणं विभूत्यै ॥ ६ ॥ धर्मादिकल्पिते पीठे वरुणं सम्यगर्चयेत् |
कृत्वाङ्गपूजनं शेषं वासुकिं तक्षकं पुनः ॥ ७ ॥ कर्कोटकं तथा पद्मं महापद्मं ततः परम् |
शङ्खपालाख्यकुलिकौ सम्यक् पत्रेषु पूजयेत् ॥ ८ ॥ इन्द्राद्यानायुधान्येषामर्चयेत् तदनन्तरम् |
[Drucklücke] इति |
अथ प्रयोगः—तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलमन्त्रेण प्राणायामत्रयं कृत्वा |
शिरसि वसिष्ठाय ऋषये नमः |
मुखे त्रिष्टुप्छन्दसे नमः |
हृदि वरुणाय देवतायै नमः |
इति विन्यस्य सर्वाभीष्टप्राप्तये विनियोगः इति कृताञ्जलिरुक्त्वा |
ध्रुवासु त्वासु क्षितिषु हृदयाय० |
क्षियन्तो व्यस्मत्पाशं शिरसे० |
वरुणो मुमोचत् शिखायै० |
अवो वन्वाना अदितेः कवचाय० |
उपस्थाद्यूयं पात नेत्रत्रयाय० |
स्वस्तिभिः सदा नः अस्त्राय० |
इति मन्त्रैः करषडङ्गन्यासं विधाय |
दक्षपादाग्रे ध्रुं नमः |
वामे वां० |
दक्षपादाङ्गुलिमूले सुं० |
वामे त्वां० |
दक्षगुल्फे सुं० |
वामे क्षिं० |
दक्षजानुनि तिं० |
वामे षुं० |
दक्षोरुमूले क्षिं० |
वामे यं० |
गुदे तों० |
लिङ्गे व्यं० |
मूलाधारे स्मत्० |
नाभौ पां० |
कुक्षौ शं० |
पृष्ठे वं० |
हृदि रुं० |
कुचयोः णों० |
गले मुं० |
दक्षकराग्रे मों० |
वामे चत्० |
दक्षकराङ्गुलिमूले अं० |
वामे वं० |
दक्षमणिबन्धे वं० |
वामे न्वां० |
दक्षबाहुमूले नां० |
वामे अं० |
दक्षकूर्परे दिं० |
वामे तें० |
मुखे रुं० [Druckform unsicher] |
दक्षकपोले पं० |
वामे स्थां० |
दक्षनासायां द्यूं० |
वामायां यं० |
दक्षनेत्रे पां० |

Druckseite 729

Zuordnung zur deutschen Fassung: 33.VAR, 33.RNA.

[Kapitel 33, Druckseite 729; VAR] वामे तं० |
दक्षकर्णे स्वं० |
वामे स्तिं० |
भ्रूमध्ये भिः० |
ललाटे सं० |
शिरसि दां० |
सर्वाङ्गे नः नमः |
इति विन्यस्य |
ध्यानाद्यात्मपूजान्ते मण्डूकादिपरतत्त्वान्तं पीठं संपूज्य |
वं वरुणपीठाय नमः इति समस्तं पीठं संपूज्य पीठशक्तिरहिते तस्मिन् पीठे च वरुणमावाह्य |
प्राणप्रतिष्ठान्ते पाशाङ्कुशवराभीतिमुद्राः प्रदर्श्य |
आसनाद्यङ्गपूजान्तेऽष्टदलेषु देवाग्रादिप्रादक्षिण्येन ॐ शेषाय नमः |
एवं वासुकये० |
तक्षकाय० |
कर्कोटकाय० |
पद्माय० |
महापद्माय० |
शङ्खपालाय० |
कुलिकाय० |
इति संपूज्य लोकेशार्चादि सर्वं कुर्यादिति |
तथा— लक्षमेकं जपेन्मन्त्रं पायसेन दशांशतः |
सर्पिःसिक्तेन जुहुयात् तर्पणादि ततश्चरेत् ॥ ९ ॥ ऋणमुक्त्यै जपेन्मन्त्रं प्रत्यहं साष्टकं शतम् |
जपेनानेन लभते महतीमव्ययां श्रियम् ॥ १० ॥ सितेक्षुशकलैर्मन्त्री जुहुयाद् घृतसंप्लुतैः |
चतुर्दिनं दशशतं ऋणमुक्त्यै महाश्रिये ॥ ११ ॥ समिद्भिर्वेतसोत्थाभिः क्षीराक्ताभिर्दिनत्रयम् |
जुहुयाद् वृष्टिसंसिद्ध्यै मन्त्रविद् विजितेन्द्रियः ॥ १२ ॥ अनेन विधिना मन्त्री सूर्ये शतभिषं गते |
चतुःशतं घृतयुतं पायसं जुहुयाद्वशौ [Schlusswort unsicher] ॥ १३ ॥ ऋणनाशाय संपत्त्यै वश्यारोग्याभिवृद्धये |
भृगुवारे कृतो होमः पायसेन ससर्पिषा ॥ १४ ॥ महतीं संपदं कुर्यान्नाशयेत् सकलापदः |
शालिभिर्घृतसंसिक्तैः संहिदन्तरितः [unsicher] सुधीः ॥ १५ ॥ त्र्यहं चतुःशतं हुत्वा स्तम्भयेत् परसैन्यकम् |
सायं प्रत्यङ्मुखो वह्निमाराध्य प्रजपेन्मनुम् ॥ १६ ॥ चतुःशतं विमुच्येत मन्त्री सर्वैरुपद्रवैः |
मन्त्री प्रत्यङ्मुखो भूत्वा तर्पयेद्विमलैर्जलैः ॥ १७ ॥ सर्वोपद्रवनाशाय समस्ताभ्युदयाप्तये |
बहुना किमिहोक्तेन मन्त्रेणानेन साधकः ॥ १८ ॥ साधयेत् सकलान् कामाञ्जपहोमादितत्परः |
ध्रुवासु त्वासु क्षितिषु जपन् बन्धात् प्रमुच्यते ॥ १९ ॥ तिष्ठन् रात्रौ जपेदेतां विकासः संप्रपद्यते [unsicher] |
अहोरात्रं स्थितश्चैवमनश्नन् स्याद्दिवोत्थितः [unsicher] ॥ २० ॥ अयःपाशाः स्फुटन्त्यस्य दारुपाशास्तथैव च |
[Drucklücke] श्रीयन्त्रसारे— [RNA] षट्कोणकर्णिकामध्ये तारं कोणेषु षट्स्वपि |
षडर्णमष्टपत्रे च केसरेषु स्वरांल्लिखेत् ॥ १ ॥ पञ्चषड्द्विषट्पञ्चषट्चतुःषट्क्रमान्मनोः |
ध्रुवास्वाद्यस्याक्षराणि बहिः पर ऋणेत्यृचा ॥ २ ॥ हल्भिश्चावेष्ट्य भूगेहे कोणे वंबीजमालिखेत् |
ऋणमोचनमेतत्तु यन्त्रं सर्वसमृद्धिदम् ॥ ३ ॥ सर्वरक्षाकरं वश्यं सर्वचोरविनाशनम् |
किमत्र बहुनोक्तेन वाञ्छितार्थप्रदं नृणाम् ॥ ४ ॥ इति |
अस्यार्थः—तत्राष्टदलस्थषट्कोणमध्ये ससाध्यं प्रणवं विलिख्य |
षट्कोणेषु वरुणाय नमः इति मन्त्रस्यैकैकमक्षरं विलिख्य |
केसरेषु द्वन्द्वशः स्वरान् विलिख्याष्टदलेषु ध्रुवास्वाद्यस्य मन्त्रस्य वर्णान् पञ्चषड्द्व्यादिप्रोक्तेन क्रमेण विभज्य विलिख्य |
बहिर्वृत्तयोरन्तराले पर ऋणेत्यृचा वेष्टयित्वा तद्बहिर्वृत्तवीथ्यां ककारादिक्षकारान्तैरावेष्ट्य तद्बहिश्चतुरस्रकोणेषु वंबीजं विलिखेत् |
एतच्च साधितं धृतमुक्तफलदं भवति |
[Fußnoten:] १ समिद् ख. पाठः |
२ निकामः ख. पाठः |
३ पिशाचस्तं न गच्छति ख. पाठः |
४ केसरोद्यत् ख. पाठः |
५ तद्वृत्तबहिर्वीथ्यां ख. पाठः |

Druckseite 730

Zuordnung zur deutschen Fassung: 33.RNA, 33.PRY.

[Kapitel 33, Druckseite 730; RNA; vedische Akzente nicht transkribiert.] पर ऋणा सावीरध मत्कृतानि माहं राजन्नन्यकृतेन भोजम् |
अव्युष्टा इन्नु भूयसीरुषास आ नो जीवान् वरुण तासु शाधि ॥ (२–२८–९) अस्या ऋष्यादिकं कूर्मो वरुणस्त्रिष्टुप् |
श्रीयन्त्रसारे— कर्णिकायां लिखेत्तारं क्रमात् पत्रेषु चाष्टसु |
पिशङ्गभृष्टिमन्त्रस्य त्रीणि त्रीण्यक्षराणि च ॥ ५ ॥ रक्षोहणं वाजिनमित्यृचा मातृकयापि च |
अया त इत्यृचा चैव भूपुरेण च वेष्टयेत् ॥ ६ ॥ एतद्यन्त्रं ज्वरोन्मादग्रहपीडादिनाशनम् |
इदमेव समालिख्य वसने गैरिकादिभिः ॥ ७ ॥ तेन प्रावृतदेहं च ज्वरः सद्यो विमुञ्चति |
[Drucklücke] अयमर्थः—अष्टदलकमलकर्णिकायां ससाध्यं तारं विलिख्याष्टसु दलेषु वक्ष्यमाण पिशङ्गभृष्टि मन्त्रस्य त्रीणि त्रीण्यक्षराणि विभज्य विलिख्य |
तद्बहिर्वृत्तचतुष्टयान्तरालस्थवीथीत्रये प्रथमवीथ्यां रक्षोहणं वाजिनमित्यृचा तद्बहिर्वीथ्यां मातृकार्णैस्तद्बहिर्वीथ्यां अया ते अग्ने इत्यृचा च संवेष्ट्य तद्बहिश्चतुरस्रं कुर्यात् |
एतद्यन्त्रमुक्तफलदं भवति |
ऋचस्तु— पिशङ्गभृष्टिमम्भृणं पिशाचिमिन्द्र संमृण |
सर्वं रक्षो नि बर्हय ॥ (१–१३३–५) रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म |
शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥ (१०–८७–१) अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमानं गृभाय |
दहाशसो रक्षसः पाह्यस्मान् द्रुहो निदो मित्रमहो अवद्यात् ॥ (४–४–१५) पिशङ्गभृष्टिमन्त्रस्य परुच्छेप ऋषिः गायत्री छन्दः इन्द्रो देवता |
रक्षोहणमित्यस्य पायुर्भरद्वाज ऋषिः त्रिष्टुप्छन्दः अग्निर्देवता रक्षोघ्नो हि |
अया ते मन्त्रस्य वामदेव ऋषिः त्रिष्टुप्छन्दः रक्षोहाग्निर्देवता |
तथा— अष्टपत्रस्य पद्मस्य कर्णिकायां विलिख्य च |
तारं पत्रेषु मन्त्रार्णांश्चतुरश्चतुरः क्रमात् ॥ ८ ॥ मातृकार्णैः समावेष्ट्य क्ष्रौं बीजं कुर्गृहाङ्घ्रिषु [Ortskompositum unsicher] |
आलिख्य यन्त्रमेतत्तु धारयेद्यो यथाविधि ॥ ९ ॥ कृत्याभिभवनिर्मुक्तः स जीवेच्छरदः शतम् |
[Drucklücke] अयमर्थः—अष्टदलकमलकर्णिकायां ससाध्यं प्रणवं विलिख्य |
अष्टदलेषु वक्ष्यमाणाया यां कल्पयन्तीत्यृचो वर्णान् प्रतिदलं चतुरश्चतुरो विभज्य विलिख्य |
तद्बहिर्वृत्तद्वयान्तराले मातृकार्णैः संवेष्ट्य बहिश्चतुरस्रकोणेषु क्ष्रौं इति नृसिंहबीजं विलिखेत् |
एतद्यन्त्रमुक्तफलदं भवति |
मन्त्रस्तु— [PRY] यां कल्पयन्ति नोऽरयः क्रूरां कृत्यां वधूमिव |
तां ब्रह्मणापनिर्णुद्मः प्रत्यक्कर्तारमृच्छतु [Schlusslesung unsicher] ॥ १ ॥ अस्य मन्त्रस्य प्रत्यङ्गिरा ऋषिः अनुष्टुप् छन्दः प्रत्यङ्गिरा देवता |
तथा— [RNA] कर्णिकायां साध्यगर्भं तारं पत्रेषु षट्स्वपि |
कृणुष्वेत्याद्यमर्धं च दधक्षीदन्तमालिखेत् ॥ १० ॥ [Fußnote:] अया ते अग्ने इत्यत्र कृणुष्व पाज इति सूक्तस्यैव ऋष्याद्या ज्ञेयाः ते अग्रे वक्ष्यन्ते |
[Lesarten:] १ वधूरिव ख. पाठः |
२ मिच्छतु ख. पाठः |
३ कृणुष्वेत्यर्धमर्धं च आदधक्ष्यन्त क. ख. पाठः |

Druckseite 731

Zuordnung zur deutschen Fassung: 33.RNA, 33.AGN.

[Kapitel 33, Druckseite 731; RNA] तद्बाह्येऽष्टसु पत्रेषु ह्युदग्नेत्याद्यृचां क्रमात् |
अर्धमर्धं सासदिष्टिरित्यन्तं षोडशस्वथ ॥ ११ ॥ पत्रेष्वर्चाम्याद्यवद्यादन्तं चर्चां [Lesung unsicher] यथाक्रमम् |
अर्धमर्धं समालिख्य बाह्ये रक्षोहणाद्यया ॥ १२ ॥ वि ज्योतिषेत्यृचा भूयस्तद्वदेव च वेष्टयेत् |
मातृकार्णैः समावेष्ट्य भूपुरेण च वेष्टयेत् ॥ १३ ॥ रुचकादिषु भूषासु सम्यक् संयोज्य धारणात् |
यन्त्रमेतद् ग्रहोन्मादज्वरकृत्याद्युपद्रवान् ॥ १४ ॥ नाशयेदथवा वस्त्रे कुङ्कुमाद्यैर्विलिख्य च |
जप्त्वा तत्प्रावृतो यस्तु ज्वरः सद्यो विनश्यति ॥ १५ ॥ इति |
अस्यार्थः—षड्दलकमलकर्णिकायां ससाध्यं तारं विलिख्य |
षड्दलेषु कृणुष्व पाज इत्यारभ्य व्यथिरादधर्षीदित्यन्तस्य ऋक्त्रयस्यार्धषट्कं विलिख्य |
तद्बाह्येऽष्टदलेषु उदग्ने तिष्ठेत्यादि सुदिना सासदिष्टिरित्यन्तस्य ऋक्चतुष्टयस्यार्धमर्धं विलिख्य |
तद्बहिः षोडशदलेषु अर्चामि ते इत्यादि मित्रमहो अवद्यादित्यन्तस्य ऋगष्टकस्यार्धमर्धं विलिख्य |
तद्बाह्यवृत्तचतुष्टयान्तर्गतान्तरालत्रये प्रथमे रक्षोहणं वाजिनमित्यृचा पूर्वोक्तया द्वितीये वि ज्योतिषा बृहतेत्याद्यया ऋचा तृतीये मातृकया च संवेष्ट्य तद्बहिश्चतुरस्रं कुर्यात् |
एतदुक्तफलदं भवतीति |
ऋचस्तु—(४ |
४ |
१) [AGN; vedische Akzente nicht transkribiert.] कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाँ इभेन |
तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्य रक्षसस्तपिष्ठैः ॥ १ ॥ तव भ्रमास आशुया पतन्त्यनु स्पृश धृषता शोशुचानः |
तपूंष्यग्ने जुह्वा पतंगानसंदितो वि सृज विष्वगुल्काः ॥ २ ॥ प्रति स्पशो वि सृज तूर्णितमो भवा पायुर्विशो अस्या अदब्धः |
यो नो दूरे अघशंसो यो अन्त्यग्ने माकिष्टे व्यथिरा दधर्षीत् ॥ ३ ॥ उदग्ने तिष्ठ प्रत्या तनुष्व न्यमित्राँ ओषतात्तिग्महेते |
यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्यतसं न शुष्कम् ॥ ४ ॥ ऊर्ध्वो भव प्रति विध्याध्यस्मदाविष्कृणुष्व दैव्यान्यग्ने |
अव स्थिरा तनुहि यातुजूनां जामिमजामिं प्र मृणीहि शत्रून् ॥ ५ ॥ स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुमैरत् |
विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यर्यो वि दुरो अभि द्यौत् ॥ ६ ॥ सेदग्ने अस्तु सुभगः सुदानुर्यस्त्वा नित्येन हविषा य उक्थैः |
पिप्रीषति स्व आयुषि दुरोणे विश्वेदस्मै सुदिना सासदिष्टिः ॥ ७ ॥ [Fußnote:] प्रावृताङ्ग ख. पाठः |

Druckseite 732

Zuordnung zur deutschen Fassung: 33.AGN, 33.IND.

[Kapitel 33, Druckseite 732; AGN; vedische Akzente nicht transkribiert.] अर्चामि ते सुमतिं घोष्यर्वाक्सं ते वावाता जरतामियं गीः |
स्वश्वास्त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेरनु द्यून् ॥ ८ ॥ इह त्वा भूर्या चरेदुप त्मन् दोषावस्तर्दीदिवांसमनु द्यून् |
क्रीळन्तस्त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवांसो जनानाम् ॥ ९ ॥ यस्त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन |
तस्य त्राता भवसि तस्य सखा यस्त आतिथ्यमानुषग्जुजोषत् ॥ १० ॥ महो रुजामि [unsicher] बन्धुता वचोभिस्तन्मा पितुर्गोतमादन्वियाय |
त्वं नो अस्य वचसश्चिकिद्धि होतर्विष्ठ [Druckform unsicher] सुक्रतो दमूनाः ॥ ११ ॥ अस्वप्नजस्तरणयः सुशेवा अतन्द्रासोऽवृका अश्रमिष्ठाः |
ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्वमूर ॥ १२ ॥ ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् |
ररक्ष तान् सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ॥ १३ ॥ त्वया वयं सधन्यस्त्वोतास्तव प्रणीत्यश्याम वाजान् |
उभा शंसा सूदय सत्यतातेऽनुष्ठुया कृणुह्यह्रयाण ॥ १४ ॥ अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमानं गृभाय |
दहाशसो रक्षसः पाह्यस्मान् द्रुहो निदो मित्रमहो अवद्यात् ॥ १५ ॥ इति |
रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म |
शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥ (१०–८७–१) वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा |
प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे ॥ (५–२–९) इति |
कृणुष्व पाज इत्यस्य पञ्चदशर्चस्य रक्षोघ्नस्य वामदेव ऋषिः त्रिष्टुप् छन्दः रक्षोहाग्निर्देवता |
वि ज्योतिषेत्यस्य कुमार ऋषिस्त्रिष्टुप् छन्दः अग्निर्देवता |
तथा— [IND] कर्णिकायां लिखेत् तारं मनोः पत्रेषु चाष्टसु |
पञ्चषट्पञ्चषट्पञ्चरस भूतषडर्णकान् ॥ १ ॥ (इन्द्र श्रेष्ठेत्यृचो वर्णान् विभज्य तु विलिख्य च) |
वयं त एभिर्मातृकया भूपुरेण च वेष्टयेत् ॥ २ ॥

Druckseite 733

Zuordnung zur deutschen Fassung: 33.IND, 33.IRS, 33.IRV, 33.YAN.

[Kapitel 33, Druckseite 733; IND; vedische Akzente nicht transkribiert.] इन्द्र श्रेष्ठानि मन्त्रस्य यन्त्रं सर्वसमृद्धिदम् |
आयुरारोग्यसौभाग्यधनधान्यसुतप्रदम् ॥ ३ ॥ सर्वरक्षाकरं वश्यं सुदिनत्वयशस्करम् |
किमत्र बहुनोक्तेन वाञ्छितार्थप्रदं परम् ॥ ४ ॥ अयमर्थः—अष्टदलमध्ये ससाध्यं प्रणवं विलिख्याष्टसु पत्रेषु पञ्च षट् पञ्च षट् पञ्च षट् पञ्च षट् इति क्रमेण इन्द्र श्रेष्ठानीत्यृचो वर्णान् विभज्य विलिख्य |
तद्बाहिर्वृत्तान्तरालयोः प्रथमे वयं त एभिरित्यृचा वक्ष्यमाणया द्वितीये मातृकया च संवेष्ट्य तद्बहिश्चतुरस्रं कुर्यात् |
एतदुक्तफलदं भवति |
ऋक् तु—(२ |
२१ |
६) [IRS] इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे |
पोषं रयीणामरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वमह्नाम् ॥ १ ॥ इन्द्र श्रेष्ठानि मन्त्रस्य गृत्समद ऋषिः त्रिष्टुप् छन्दः इन्द्रो देवता |
एतस्यैव यन्त्रान्तरमाह— [IND] प्रणवभास्वरमध्यमथो बहिर्वसुदले स्वरसंयुतकेसरे |
अयुजि पञ्चगुहाननशो युजि प्रविलिखेच्च मनोः क्रमशोऽर्णकान् ॥ ५ ॥ अभिवृतं खलु कादिभिरक्षरैर्धरणिगेहयुगाङ्घ्रिगमन्मथम् |
धनधरासुभगत्वमनोज्ञतां मधुरवाग्वररत्नयशःश्रियम् ॥ ६ ॥ सुदिनतां च तनोति परं नृणां बलनिषूदनयन्त्रमिदं धृतम् |
गुहाननशः षट्षट्संख्यया |
अस्यार्थः—प्रागुक्त एव यन्त्रे केसरेषु युगशः स्वरान् विलिखेत् कादिक्षान्तैरावेष्टयेत् |
अत्र पूर्वयन्त्रोक्तऋग्वेष्टनं नास्ति |
अष्टकोणेषु कामबीजं विलिखेत् |
वासोऽलङ्कारभूषणामिष्टभोजनस्वजनदर्शनप्राप्तिः सुदिनत्वम् |
तथा— विलिख्य कर्णिकान्तरे ध्रुवं दलाष्टके मनोः |
षडृतुवेदषट्शरत्रयीस्वरेन्द्रियाक्षरान् ॥ ७ ॥ लिखेच्च मातृकाक्षरैर्धरापुरेण चावृतम् |
वयं त एभिरित्यृचः सुयन्त्रमेतदिष्टदम् ॥ ८ ॥ विशिष्टरत्नगोधरासुवर्णधान्यशालिनीम् |
वितीर्य संपदं परां रिपुक्षयं च यच्छति ॥ ९ ॥ अस्यार्थः—अष्टदलकमलकर्णिकायां ससाध्यं प्रणवं विलिख्य तद्दलेषु वयं त एभिरित्यृचो वर्णान् षट् षट् चतुः षट् पञ्च चतुः सप्त पञ्च क्रमेण विभज्य विलिख्य |
तद्बहिर्वृत्तद्वयान्तराले मातृकार्णैरावेष्ट्य तद्बहिश्चतुरस्रं कुर्यात् |
एतदुक्तफलदं भवति |
मन्त्रस्तु—(६ |
४६ |
१३) [IRV; Druckstellenangabe] वयं त एभिः पुरुहूत सख्यैः शत्रोः शत्रोरुत्तर इत्स्याम |
घ्नन्तो वृत्राण्युभयानि शूर राया मदेम बृहता त्वोताः ॥ १ ॥ वयं त एभिरिति मन्त्रस्य भरद्वाज ऋषिस्त्रिष्टुप् छन्दः इन्द्रो देवता |
श्रीयन्त्रसारे— [YAN] आलिख्य वीप्सितं यन्त्रं बीजं तत्कर्णिकान्तरे |
तस्योदरे समिति च बीजं साध्यार्णवेष्टितम् ॥ १ ॥ बीजस्य पार्श्वयोः [Bīja-Reihe unsicher] इति च तत्पुरः |
[Lautgruppe unsicher] इति दिक्चैतान् सोऽहं हंसार्णकान् बहिः ॥ २ ॥ प्राणप्रतिष्ठामन्त्रं च गायत्रीं मन्त्रयन्त्रयोः |
यथावकाशं विलिखेत् स्वगुरूक्तेन वर्त्मना ॥ ३ ॥ [Fußnoten:] १ मुदिततां ख. पाठः |
२ मुदितत्वम् ख. पाठः |

Druckseite 734

Zuordnung zur deutschen Fassung: 33.YWE, 33.GRA.

[Kapitel 33, Druckseite 734; YWE. Vers 6 und Stoffglosse: Inhaltsangabe statt schädigender Giftmischung.] इति |
सारसंग्रहे— गुलिकीकृत्य यन्त्रं च लाक्षालोहत्रयावृतम् |
कृत्वा प्रतिष्ठितप्राणं सिक्तं संपातसर्पिषा ॥ १ ॥ विन्यस्य कलशे यन्त्रस्थापिते विधिवद्गुरुः |
तत्रावाह्य यजेत् सम्यक् तत्र यन्त्रस्य देवताम् ॥ २ ॥ तत्कुम्भोदकसिक्ताय वितरेद्यन्त्रमादरात् |
गृहीत्वा गुरुणा दत्तं यन्त्रं मर्त्यः प्रसन्नधीः ॥ ३ ॥ बिभृयादुक्तविधिना विश्वस्तः सर्वसिद्धये |
चन्दनागुरुकर्पूरकस्तूरीरोचनान्वितः ॥ ४ ॥ मदः करिभवो लाक्षारसकुङ्कुमसंयुतम् |
यन्त्रलेखनद्रव्याणि क्रूरेष्वष्टविषाणि च ॥ ५ ॥ [6 und folgende Stoffglosse: redaktionelle Inhaltsangabe in der deutschen Fassung.] त्रिलोहभूर्जपत्राणि क्षौमतालदलानि च |
तत्तत्कल्पोदितानि स्युर्यन्त्राधिकरणानि च ॥ ७ ॥ इति |
अथैतत्प्रयोगः—तत्र सुदिने शुभे मुहूर्ते चन्द्रताराद्यनुकूले साधकः कृतनित्यक्रियः श्रीगुरुं प्रणम्य विघ्नेश्वरं समभ्यर्च्य |
पूर्वोक्तवारेशाद्यतिथीशनक्षत्रग्रहान् संपूज्य स्वाभिमतं यन्त्रं वर्णविन्यासमन्तरेण विरच्य |
तन्मध्ये लेख्यं बीजं विपुलतरोदरं विलिख्य समितिं [Lesung unsicher] जीवबीजं विलिख्य तद्बीजं साध्यनामाक्षरैः संवेष्ट्य |
पूर्वलिखितबीजाद्बहिस्तद्दक्षवामपार्श्वयोः ईं ईं इति दृष्टिद्वयं विलिख्य |
तत्पुरतः क्ष्यूमिति [Lesung unsicher] जिह्वाबीजं विलिख्य |
तस्य प्रागादिदिक्षु सोहंहंस इति प्रादक्षिण्येनैकैकमक्षरं विलिख्य |
तदनु यथास्थानं साधककर्मादि तत्तत्कल्पोक्तं सर्वं विलिख्य सर्वान्ते प्राणप्रतिष्ठामन्त्रं मन्त्रगायत्रीं यन्त्रगायत्रीं च यथावकाशं लिखेत् |
तत्र प्राणप्रतिष्ठामन्त्रः प्रागेवोक्तः |
मन्त्रगायत्री तत्तत्कल्पोक्ता द्रष्टव्या |
यन्त्रगायत्री तु—ॐ यन्त्रराजाय विद्महे देवगृहाय धीमहि तन्नो यन्त्रं प्रचोदयात् |
इतीत्थं यन्त्रं विलिख्य लाक्षालोहत्रयवेष्टितं क्वचित् संस्थाप्य |
स्वासनपूजादिन्यासजालं विधाय यन्त्रस्य यन्त्रलिखितमन्त्रगणस्य साध्यस्य च पृथक्पृथक् प्राणप्रतिष्ठां कृत्वा |
तत्र तद्योगपीठपूजापूर्वकं यन्त्राधिदेवतामावाह्य साङ्गां सावरणां संपूज्य |
तद्यन्त्रं स्पृशन् मूलविद्यां देवताध्यानपूर्वकं लक्षाद्ययुतावधि कार्यस्य गौरवलाघवं विज्ञाय जपित्वा |
कुण्डादावग्निं संस्कृत्य गोघृतेनायुतादिसहस्रान्तं यन्त्रे हुतशेषं स्रुवलग्नं संपातयन् हुत्वा |
तत्तद्यन्त्रे सर्वतोभद्रमण्डले वा दीक्षोक्तविधिना कुम्भं संस्थाप्य |
यन्त्रदेवतां साङ्गां सावरणां संपूज्य तेन जलेनाभिषिक्ताय यन्त्रं दद्यात् |
सोऽपि प्रणामपूर्वकं यन्त्रमादायाचार्यतोषणं कृत्वा सुदृढविश्वासपूर्वकं धारयेत् |
तेन सर्वाभीष्टसिद्धयो भवन्तीति |
तथा— [GRA] आ कृष्णेनेत्यृचा तारं कर्णिकामध्यसंस्थितम् |
साध्यगर्भं समावेष्ट्य प्राग्दले विलिखेत् पुनः ॥ १ ॥ आप्यायस्वेत्यृचा याम्ये उद्बुध्यस्वेति पश्चिमे |
बृहस्पतेत्यृचा सौम्ये प्र वः शुक्राय इत्यपि ॥ २ ॥ आग्नेयकोणगे पत्रे अग्निमूर्धेति नैर्ऋते |
शन्नोदेवीत्यृचं पत्रे पत्रे वायव्यकोणगे ॥ ३ ॥ कया नेति तथैशाने केतुं कृण्वन्त्यृचं दले |
तद्बाह्ये मातृकार्णैः संवेष्ट्य कुर्गृहास्रिषु [Lesung unsicher] ॥ ४ ॥ ॐ [Lautgruppe unsicher] हंसाक्षरान् दिक्षु सोहंहंसाक्षरांल्लिखेत् |
स्वर्णादिपट्टेष्वालिख्य यन्त्रमेतद्यथाविधि ॥ ५ ॥ अभिषिक्तः शुभैस्तोयैः कृतपुण्याहमङ्गलः |
कर्णिकायां क्रमादर्च्याः प्रागाद्यष्टदलेषु च ॥ ६ ॥ सूर्यचन्द्रारसौम्यार्किजीवाहिभृगुकेतवः |
सुजप्तं सिक्तसंपातं स्वमन्त्रैश्च यथाविधि ॥ ७ ॥ [Fußnoten:] १ यन्त्रं स्थापितं क. ग. पाठः |
२ तत्तन्त्र ख. पाठः |
३ कयान इत्यृचं शैवे ख. पाठः |

Druckseite 735

Zuordnung zur deutschen Fassung: 33.GRA, 33.NAV.

[Kapitel 33, Druckseite 735; GRA] ग्रहपीडाप्रशमनं कृत्याज्वरविनाशनम् |
सर्वामयहरं दिव्यं समरे विजयप्रदम् ॥ ८ ॥ आयुष्करं पुत्रदं च परचक्रविनाशनम् |
किमत्र बहुनोक्तेन वाञ्छितार्थप्रदं नृणाम् ॥ ९ ॥ एतस्यायमर्थः—अष्टदलकमलकर्णिकायां ससाध्यं प्रणवं विलिख्य |
आ कृष्णेनेत्यृचा संवेष्ट्य पूर्वदले आप्यायस्वेति याम्ये उद्बुध्यस्वेति पश्चिमे बृहस्पते अतीति उत्तरदले प्र वः शुक्रायेति |
आग्नेयदले अग्निमूर्धेति नैर्ऋत्ये शन्नो देवीरिति वायव्ये कया नश्चित्र इति ईशानदले केतुं कृण्वन्निति मन्त्रान् विलिख्य |
तद्बाह्ये वृत्तद्वयान्तराले अकारादिक्षकारान्तमातृकावर्णैरावेष्ट्य |
तद्बहिर्भूपुरे आग्नेयादिकोणेषु ॐ ह्रीं हंसः इति प्रतिकोणं विलिख्य पूर्वादिचतुर्दिक्षु सोहंहंसः इति प्रतिदिशं विलिखेत् |
एतद्यन्त्रं प्रोक्तविधिना धारयेत् प्रोक्तफलदं भवतीति |
अथ वेदोक्तनवग्रहविधानम् |
तत्र स्मृतिसंग्रहे— [NAV] विधानं ग्रहमन्त्राणां वक्ष्ये सर्वसमृद्धिदम् |
आ कृष्णेन सहस्रांशोरिमं देवा तथेन्दवे ॥ १ ॥ अग्निमूर्धेति भौमाय उद्बुध्यस्व बुधाय च |
बृहस्पतेति च गुरोः शुक्रायान्नात्परिस्रुतः ॥ २ ॥ शनैश्चरस्य मन्त्रोऽयं शन्नो देवीरुदाहृतः |
कया न इति राहोश्च केतुं कृण्वंस्तु केतवे ॥ ३ ॥ आप्यायस्वेति चेन्दोश्च शुक्रं त इति वा भृगोः |
नव मन्त्राः समुद्दिष्टाः सर्वे व्याहृतिपूर्वकाः ॥ ४ ॥ (१) आ कृष्णेनेति मन्त्रस्य हिरण्यस्तूपसंज्ञकः |
ऋषिः प्रोक्तस्ततस्त्रिष्टुप् छन्दः सूर्यस्तु देवता ॥ ५ ॥ इष्टकामार्थसिद्ध्यर्थं विनियोग उदाहृतः |
व्याहृतित्रयमादौ स्यादाकृष्णेन हृदीरितम् ॥ ६ ॥ तथैव रजसा चेति शिरश्च समुदाहृतम् |
शिखायां च समुद्दिष्टं वर्तमानो निवेशयन् ॥ ७ ॥ कवचे चामृतं चैव मर्त्यं चेति समीरयेत् |
हिरण्ययेन सविता रथेनेति त्रिनेत्रके ॥ ८ ॥ शेषमस्त्रे समुद्दिष्टं षडङ्गन्यास ईरितः |
हृदयाय नमः प्रोक्तं शिरसे चाग्निवल्लभा ॥ ९ ॥ शिखायै वषडित्युक्तं कवचाय हुमीरितम् |
नेत्रत्रयाय वौषट्च अस्त्राय फडुदीरितम् ॥ १० ॥ एवं षडङ्गं विन्यस्य पदन्यासं समाचरेत् |
आ कृष्णेनेति शिरसि ललाटे रजसेति च ॥ ११ ॥ वर्तमानो निवेशयन् मुखेऽमृतमथो हृदि |
मर्त्यं चेति च नाभौ स्यात् कट्यां हिरण्ययेन तु ॥ १२ ॥ जङ्घयोः सवितेत्यूर्वोः रथेनेति च जानुनोः [Körperstellenfolge widersprüchlich] |
आ देवो याति पदयोर्भुवनानि ततः परम् ॥ १३ ॥ पश्यन्निति विधायैवं ध्यानं कुर्यात् समाहितः |
[Drucklücke] पद्मासनः पद्मकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गवाहः |
दिवाकरो लोकगुरुः किरीटी मयि प्रसादं विदधातु देवः ॥ १४ ॥ ध्यात्वैवं पूजयेत् सूर्यं वृत्तं षट्कोणकं तथा |
वृत्तमष्टदलं बाह्ये वृत्तं भूमिपुरं तथा ॥ १५ ॥ चतुर्द्वारसमायुक्तं मण्डलेऽस्मिन् प्रपूजयेत् |
मध्ये रविं सुसंपूज्य षट्कोणे तु षडङ्गकम् ॥ १६ ॥ तद्बहिर्वसुपत्रेषु पूर्वादौ तु प्रदक्षिणम् |
सोमं भौमं तथा सौम्यं गुरुशुक्रौ शनिं तथा ॥ १७ ॥ राहुं केतुं च संपूज्य स्वस्वमन्त्रैर्विशेषतः |
भूपुरे लोकपालांश्च पूर्वादिक्रमतो यजेत् ॥ १८ ॥ [Fußnote:] इष्टकाम्या ख. पाठः |

Druckseite 736

Zuordnung zur deutschen Fassung: 33.NAV.

[Kapitel 33, Druckseite 736; NAV] इन्द्रमग्निं यमं चैव निर्ऋतिं वरुणं तथा |
वायुं कुबेरमीशानं ब्रह्माणं शेषमेव च ॥ १९ ॥ वासवेशानयोर्मध्ये ब्रह्माणं पूजयेत् तथा |
रक्षोवरुणयोर्मध्ये ह्यनन्तमपि पूजयेत् ॥ २० ॥ तत्तल्लिङ्गकैश्च मन्त्रैर्वा नाममन्त्रैश्च पूजयेत् |
तदस्त्राणि ततो बाह्ये वज्रं शक्तिं च दण्डकम् ॥ २१ ॥ खड्गं पाशं सृणिं चैव शूलं पद्मं सुदर्शनम् |
एवं संपूज्य विधिवदुपचारैर्मनोरमैः ॥ २२ ॥ अष्टोत्तरसहस्रं वा शतमष्टाधिकं तु वा |
तदग्रे मन्त्रमावर्त्य स्तुत्वा देवं विसर्जयेत् ॥ २३ ॥ एवं यः पूजयेद्भक्त्या भास्करं ग्रहनायकम् |
ग्रहपीडां विजित्याशु सर्वान् कामानवाप्नुयात् ॥ २४ ॥ अरोगी दीर्घजीवी च पुत्रवान् धनवान् सुखी |
अन्ते सद्गतिमाप्नोति यत्र देवो दिवाकरः ॥ २५ ॥ (२) इमं देवेति मन्त्रस्य गौतम ऋषिरीरितः |
विराट् छन्दो देवतात्र सोमः सर्वार्थसिद्धये ॥ २६ ॥ विनियोगः समाख्यात इमं देवा तथैव च |
असपत्नं सुवत्वं च हृदयं महते ततः ॥ २७ ॥ क्षत्राय शिर आख्यातं महते च ततः परम् |
ज्यैष्ठ्यायेति शिखा प्रोक्ता महते च पुनर्वदेत् ॥ २८ ॥ जानराज्याय कवचमिममेमिति चामुष्य च [Lesung der Verbindung unsicher] |
पुत्रं नेत्रं ततोऽस्यै च विशेऽस्त्रं समुदाहृतम् ॥ २९ ॥ एवं न्यस्य षडङ्गानि पदन्यासं समाचरेत् |
इमं देवेति शिरस्यसपत्नमिति भालके ॥ ३० ॥ सुवत्वं मुखदेशे तु महते च ततः परम् |
क्षत्राय हृदयं प्रोक्तं महते च ततः परम् ॥ ३१ ॥ ज्यैष्ठ्याय ऊर्वोर्महते जानराज्याय जानुनोः |
इमममुष्य च पुत्रं गुल्फयोस्तदनन्तरम् ॥ ३२ ॥ अस्यै विशे पादयोश्च पदन्यास उदाहृतः |
[Drucklücke] श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिः दण्डधरो द्विबाहुः |
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः ॥ ३३ ॥ एवं ध्यात्वा स्वपुरतः पूजामण्डलमालिखेत् |
चतुरस्रं च षट्कोणं वसुपत्रं च भूपुरम् ॥ ३४ ॥ मध्ये देवं समावाह्य पूजयेदुपचारकैः |
षट्कोणे तु षडङ्गानि वसुपत्रे कुजादिकान् ॥ ३५ ॥ भूपुरे लोकपालांश्च बहिर्वज्रादिकान् यजेत् |
यथापूर्वं जपं कृत्वा समर्प्य विधिपूर्वकम् ॥ ३६ ॥ स्तुत्वा नत्वा च संप्रार्थ्य स्वात्मन्युद्वासयेत् सुधीः |
एवं यः पूजयेद्भक्त्या सुधांशुं ग्रहनायकम् ॥ ३७ ॥ ग्रहपीडां विजित्याशु सर्वान् कामानवाप्नुयात् |
अरोगी दीर्घजीवी च पुत्रवान् धनवान् सुखी ॥ ३८ ॥ अन्ते सद्गतिमाप्नोति यत्र देवः सुधाकरः |
(३) अग्निमूर्धेति मन्त्रस्य विरूपाक्ष ऋषिः स्मृतः ॥ ३९ ॥ गायत्रीच्छन्द आख्यातं देवता स्यान्महीसुतः |
इष्टकामार्थसिद्ध्यर्थं विनियोगः प्रकीर्तितः ॥ ४० ॥ वैदिकेषु च सर्वेषु न्यासे चैव जपे हुते |
व्याहृतित्रयसंयुक्तं साधकाभीष्टसिद्धिदम् ॥ ४१ ॥ व्याहृतित्रयसंयुक्तमग्निमूर्धा हृदि स्मृतम् |
दिवः ककुत् शिरः प्रोक्तं पतिः पृथिव्या अयं शिखा ॥ ४२ ॥ अपां वर्मणि रेतांसि नेत्रमस्त्रं च जिन्वति |
षडङ्गमेवं विन्यस्य पदन्यासं समाचरेत् ॥ ४३ ॥ अग्निमूर्धेति शिरसि ललाटे दिव इत्यपि |
मुखे ककुदिति पतिर्नाभौ कट्यां ततः परम् ॥ ४४ ॥ [Fußnoten:] १ तं परिपूजयेत् ख. पाठः |
२ कट्यां ख. पाठः |

Druckseite 737

Zuordnung zur deutschen Fassung: 33.NAV.

[Kapitel 33, Druckseite 737; NAV] पृथिव्या अयमपामूर्वोर्जानुनोः पदद्वयम् |
रेतांसि गुल्फयोर्न्यसेत् पादयोश्चैव जिन्वति ॥ ४५ ॥ एवं विन्यस्य विधिवत्ततो ध्यायेदनन्यधीः |
[Drucklücke] रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाधरः |
धरासुतः शक्तिधरश्च शूली सदा मम स्याद्वरदः प्रशान्तः ॥ ४६ ॥ एवं भौमं चिरं ध्यात्वा पूजामण्डलमालिखेत् |
त्रिकोणं चैव षट्कोणं वसुपत्रं च भूपुरम् ॥ ४७ ॥ मध्ये देवं समावाह्य पूजयेदुपचारकैः |
षट्कोणेषु षडङ्गानि वसुपत्रे बुधादिकान् ॥ ४८ ॥ चतुरस्रे लोकपालान् वज्रादींश्च ततो बहिः |
संपूज्यैवं यथापूर्वं जप्त्वा स्तुत्वा विसर्जयेत् ॥ ४९ ॥ एवं यः पूजयेद्भक्त्या भूमिपुत्रं दृढव्रतः |
ग्रहपीडां विजित्याशु सर्वान् कामानवाप्नुयात् ॥ ५० ॥ अरोगी दीर्घजीवी च पुत्रवान् धनवान् सुखी |
अन्ते सद्गतिमाप्नोति यत्र देवः सनातनः ॥ ५१ ॥ (४) उद्बुध्यस्वेति मन्त्रस्य परमेष्ठी ऋषिः स्मृतः |
त्रिष्टुप् छन्दो देवतात्र बुधोऽभीष्टार्थसिद्धये ॥ ५२ ॥ विनियोगः समाख्यात उद्बुध्यस्व ततः परम् |
अग्ने प्रतीति तत्पश्चाज्जागृहि त्वं हृदि स्मृतम् ॥ ५३ ॥ इष्टापूर्ते शिरः प्रोक्तं संसृजेथामयं च तु |
शिखा अस्मिन् सधस्थे तु कवचाय हुमीरयेत् ॥ ५४ ॥ अध्युत्तरस्मिन्विश्वे देवा नेत्रमन्त्र उदाहृतः |
ततोऽस्त्रे च प्रविन्यस्येद्यजमानश्च सीदत ॥ ५५ ॥ एवं षडङ्गं विन्यस्य पदन्यासं समाचरेत् |
उद्बुध्यस्वेति शिरसि अग्ने प्रति ललाटके ॥ ५६ ॥ जागृहि त्वं मुखे चैवमिष्टापूर्ते हृदि स्मृतम् |
संसृजेथामयं चेति नाभावस्मिंस्ततः परम् ॥ ५७ ॥ सधस्थे इति कट्यां वै अध्युत्तेति ततः परम् |
रस्मिन् ऊर्वोस्ततो विश्वे देवा इति च जानुनोः ॥ ५८ ॥ गुल्फयोर्यजमानश्च पादयोः सीदतेति च |
एवं न्यासविधिं कृत्वा ध्यायेद्देवमनन्यधीः ॥ ५९ ॥ पीताम्बरः पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च सौम्यः |
सिंहस्थितश्चन्द्रसुतो हरिप्रियः सदा मम स्याद्वरदस्तु सौम्यः ॥ ६० ॥ एवं ध्यात्वा स्वपुरतः पूजामण्डलमालिखेत् |
बाणाकारं लिखेन्मध्ये बहिः षट्कोणमालिखेत् ॥ ६१ ॥ बहिरष्टदलं पद्मं तद्बाहिर्भूपुरं लिखेत् |
मध्ये बुधं समावाह्य पूजयेदुपचारकैः ॥ ६२ ॥ षट्कोणे तु षडङ्गानि पद्मे गुर्वादिकान् यजेत् |
भूपुरे लोकपालांश्च बहिर्वज्रादिकान् यजेत् ॥ ६३ ॥ एवं यः पूजयेद्भक्त्या बुधं सोमसुतं बुधः |
ग्रहपीडां विजित्याशु सर्वान् कामानवाप्नुयात् ॥ ६४ ॥ अरोगी दीर्घजीवी च पुत्रवान् धनवान् सुखी |
अन्ते सद्गतिमाप्नोति यत्र देवो महेश्वरः ॥ ६५ ॥ (५) बृहस्पते अतीत्यस्य ऋषिर्गृत्समदः स्मृतः |
त्रिष्टुप् छन्दो देवता च बृहस्पतिरुदाहृतः ॥ ६६ ॥ इष्टकामार्थसिद्ध्यर्थं विनियोगः प्रकीर्तितः |
बृहस्पते अति यदर्यो हृदि प्रतिविन्यसेत् ॥ ६७ ॥ ततश्चार्हाद् द्युमदिति शिरः प्रोक्तं विभाति च |
क्रतुमच्च शिखा प्रोक्ता जनेषु कवचं मतम् ॥ ६८ ॥ यद्दीदयच्छवसर्तप्रजात इति नेत्रके |
तदस्मासु द्रविणमिति धेहि चित्रं तदस्त्रकम् ॥ ६९ ॥ [Fußnoten:] १ कं न्यसेत् ख. पाठः |
२ न्यसेत् ख. पाठः |
३ न्यसेत् ख. पाठः |
४ काम्या ख. पाठः |

Druckseite 738

Zuordnung zur deutschen Fassung: 33.NAV.

[Kapitel 33, Druckseite 738; NAV] षडङ्गमेवं विन्यस्य पदन्यासमथाचरेत् |
बृहस्पते इति शिरसि अति यदर्यो ललाटे ॥ ७० ॥ अर्हाद्द्युमदिति मुखे विभाति क्रतुमद् हृदि |
जनेषु नाभौ यद्दीदयत् कट्यां शवसर्त च ॥ ७१ ॥ प्रजात तदिति चोर्वोः अस्मासु द्रविणं तथा |
जान्वोर्धेहि तथा गुल्फे चित्रं चेति च पादयोः ॥ ७२ ॥ एवं न्यासविधिं कृत्वा ध्यायेद्देवमनन्यधीः |
[Drucklücke] पीताम्बरः पीतवपुः किरीटी चतुर्भुजो देवगुरुः प्रशान्तः |
तथाक्षसूत्रं च कमण्डलं चाभीतिं च [Gestenwort unsicher] बिभ्रद्वरदोऽस्तु मह्यम् ॥ ७३ ॥ एवं ध्यात्वा स्वपुरतो मण्डलं विलिखेत् सुधीः |
चतुरस्रं तथा दीर्घं बहिः षट्कोणमालिखेत् ॥ ७४ ॥ तद्बहिर्वसुपत्राढ्यं बहिर्भूबिम्बमालिखेत् |
मध्ये देवं समावाह्य पूजयेदुपचारकैः ॥ ७५ ॥ षट्कोणे तु षडङ्गानि शुक्रादीन् वसुपत्रके |
भूपुरे लोकपालांश्च वज्रादींस्तद्बहिर्यजेत् ॥ ७६ ॥ पूर्ववन्मन्त्रमाजप्य स्तुत्वा नत्वा विसर्जयेत् |
एवं यः पूजयेद्भक्त्या सर्वान् कामानवाप्नुयात् ॥ ७७ ॥ अरोगी दीर्घजीवी च पुत्रवान् धनवान् सुखी |
अन्ते सद्गतिमाप्नोति यत्र देवः सनातनः ॥ ७८ ॥ (६) अन्नात्परिस्रुत इति मन्त्रस्य ऋषयः स्मृताः |
प्रजापत्यश्विनौ चैव सरस्वती तथैव च ॥ ७९ ॥ इन्द्रश्चातिजगती च छन्दः शुक्रोऽत्र देवता |
इष्टकामार्थसिद्ध्यर्थं विनियोगः प्रकीर्तितः ॥ ८० ॥ अन्नात्परिस्रुतो हृदि रसं ब्रह्म तथैव च |
णा व्यपिबच्छिरश्चैव क्षत्रं पयस्तथा शिखा ॥ ८१ ॥ सोमं प्रजापतिर्वर्म ऋतेन सत्यमिन्द्रियम् |
नेत्रं विपानं शुक्रं चाप्यन्धसेत्यस्त्रमीरितम् ॥ ८२ ॥ इन्द्रस्येति च तत्पश्चात् पदन्यासमथाचरेत् |
अन्नात्परिस्रुतः शिरो रसं ब्रह्मणेति ललाटके ॥ ८३ ॥ व्यपिबत् क्षत्रं मुखं चैव पयः सोमं हृदि स्मृतम् |
प्रजापतिर्नाभिदेशे ऋतेन सत्यमित्यपि ॥ ८४ ॥ इन्द्रियं कटिदेशे विपानं गुह्यप्रदेशके |
शुक्रं वृषणयोरन्धसेत्यूर्वोस्तथैव च ॥ ८५ ॥ इन्द्रस्येन्द्रियमिदं पय इत्येव जानुनोः |
ततोऽमृतं मधु पदोः पदन्यास उदाहृतः ॥ ८६ ॥ श्वेताम्बरः श्वेतवपुः किरीटी चतुर्भुजो दैत्यगुरुः प्रशान्तः |
तथाक्षसूत्रं च कमण्डलं च दण्डं च बिभ्रद्वरदोऽस्तु मह्यम् ॥ ८७ ॥ एवं शुक्रं चिरं ध्यात्वा पूजामण्डलमालिखेत् |
पञ्चकोणं लिखेदादौ षट्कोणं वसुपत्रकम् ॥ ८८ ॥ भूपुरं तद्बहिर्लेख्यं चतुर्द्वारोपशोभितम् |
मध्ये देवं समावाह्य पूजयेदुपचारकैः ॥ ८९ ॥ षट्कोणे तु षडङ्गानि शन्यादीन् वसुपत्रके |
भूपुरे लोकपालांश्च वज्रादींस्तद्बहिर्यजेत् ॥ ९० ॥ प्राग्वन्मन्त्रं जपित्वा तु स्तुत्वा नत्वा विसर्जयेत् |
एवं यः पूजयेद्भक्त्या सर्वान् कामानवाप्नुयात् ॥ ९१ ॥ अरोगी दीर्घजीवी च पुत्रवान् धनवान् सुखी |
अन्ते सद्गतिमाप्नोति यत्र देवः सनातनः ॥ ९२ ॥ (७) शन्नो देवीति मन्त्रस्य दध्याङाथर्वण ऋषिः |
गायत्री छन्द आख्यातं देवता शनिरीरितः ॥ ९३ ॥ इष्टकामार्थसिद्ध्यर्थं विनियोगः प्रकीर्तितः |
शन्नो देवीति हृदयं रभिष्टये [Druckanschluss] शिरः स्मृतम् ॥ ९४ ॥ [Fußnoten:] १ काम्या ख. पाठः |
२ लिखेच्च ख. पाठः |
३ काम्या ख. पाठः |

Druckseite 739

Zuordnung zur deutschen Fassung: 33.NAV.

[Kapitel 33, Druckseite 739; NAV] आपो भवन्त्विति शिखा पीतये कवचं मतम् |
शं योरभि च नेत्रं स्यादपि स्रवन्तु नस्तथा ॥ ९५ ॥ अस्त्रमिति षडङ्गानि पदन्यासं समाचरेत् |
शन्नः शिरसि देवीश्च ललाटेऽभिष्टये मुखे ॥ ९६ ॥ आपो भवन्त्विति नाभौ पीतये कटिदेशके |
शं योरूर्वोरभि जान्वोः स्रवन्तु न इति पदोः ॥ ९७ ॥ नीलाम्बरः शूलधरः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् |
चतुर्भुजः सूर्यसुतोऽप्रशान्तः सदास्तु मह्यं वरदोऽल्पगामी ॥ ९८ ॥ एवं ध्यात्वा स्वपुरतः पूजामण्डलमालिखेत् |
लिखेद्धनुराकारं षट्कोणं तद्बहिर्न्यसेत् ॥ ९९ ॥ बहिरष्टदलं पद्मं तद्बहिर्भूपुरं न्यसेत् |
मध्ये देवं समावाह्य पूजयेदुपचारकैः ॥ १०० ॥ षट्कोणेषु षडङ्गानि मध्ये राह्वादिकान् यजेत् |
भूपुरे लोकपालांश्च तद्बहिर्हेतिपूजनम् ॥ १०१ ॥ एवं यः पूजयेद्भक्त्या सर्वान् कामानवाप्नुयात् |
अरोगी दीर्घजीवी च पुत्रवान् धनवान् सुखी ॥ १०२ ॥ ग्रहपीडां विजित्याशु सर्वसौख्यसमन्वितः |
अन्ते सद्गतिमाप्नोति यत्र देवः सनातनः ॥ १०३ ॥ (८) कया न इति मन्त्रस्य वामदेव ऋषिः स्मृतः |
गायत्री छन्द आख्यातं देवता राहुरीरितः ॥ १०४ ॥ कया नो हृदयं चित्र आभुवत् शिर ईरितम् |
ऊती सदावृधः शिखा सखा कवचमीरितम् ॥ १०५ ॥ कया नेत्रं तथास्त्रं च ततः शचिष्ठया वृता |
षडङ्गमेवं विन्यस्य पदन्यासमथाचरेत् ॥ १०६ ॥ कया शिरसि नो भाले चित्र इत्यास्यदेशके |
आभुवद् हृदये ऊती नाभौ कट्यां सदावृधः ॥ १०७ ॥ सखा ऊर्वोः कया जान्वोर्गुल्फयोश्च शचिष्ठया |
वृतेति पादयोर्न्यस्य ध्यानं कुर्यात् समाहितः ॥ १०८ ॥ नीलाम्बरो नीलवपुः किरीटी करालवक्त्रः करवालशूली |
चतुर्भुजश्चक्रधरश्च राहुः सिंहासनस्थो वरदोऽस्तु मह्यम् ॥ १०९ ॥ एवं ध्यात्वा स्वपुरतो मण्डलं तु समालिखेत् |
शूर्पाकारं लिखेन्मध्ये बहिः षट्कोणमालिखेत् ॥ ११० ॥ तद्बहिर्वसुपत्राङ्कं तद्बहिर्भूपुरं लिखेत् |
मध्ये देवं समावाह्य पूजयेदुपचारकैः ॥ १११ ॥ षट्कोणेषु षडङ्गानि पद्मे केत्वादिकान् ग्रहान् |
भूपुरे लोकपालांश्च वज्रादीनि ततो बहिः ॥ ११२ ॥ एवं यः पूजयेद्भक्त्या सर्वान् कामानवाप्नुयात् |
ग्रहपीडां विजित्याशु दीर्घमायुरवाप्नुयात् ॥ ११३ ॥ अरोगी दीर्घजीवी च पुत्रवान् धनवान् सुखी |
अन्ते सद्गतिमाप्नोति यत्र देवः सनातनः ॥ ११४ ॥ (९) केतुं कृण्वन्निति मनोर्मधुच्छन्दा इति स्मृतः |
गायत्री छन्द आख्यातं देवता केतुरीरितः ॥ ११५ ॥ सर्वाभीष्टार्थसिद्ध्यर्थं विनियोगः प्रकीर्तितः |
केतुं कृण्वन्निति ह्यङ्गकेतवे [Druckanschluss unsicher] शिर ईरितम् ॥ ११६ ॥ पेशो मर्या शिखा प्रोक्ता वर्म प्रोक्तमपेशसे |
समुषद्भिरिति नेत्रमजायथा इत्यस्त्रकम् ॥ ११७ ॥ षडङ्गमेवं विन्यस्य पदन्यासं समाचरेत् |
केतुं शिरसि कृण्वंश्च ललाटेऽकेतवे मुखे ॥ ११८ ॥ पेशो हृदि च मर्या चापेशसे कटिदेशके |
समूर्वोश्च उषद्भिश्च जान्वोश्चाजायथाः पदोः ॥ ११९ ॥ [Fußnoten:] १ तः प्रशान्तः ख. पाठः |
२ न्यसेत् ख. पाठः |

Druckseite 740

Zuordnung zur deutschen Fassung: 33.NAV, 33.SST.

[Kapitel 33, Druckseite 740; NAV] धूम्रो द्विबाहुर्वरदो गदाधरो गृध्रासनस्थो विकृताननश्च |
किरीटकेयूरविभूषितो यः स चास्तु मे केतुगणः प्रशान्त्यै ॥ १२० ॥ इति ध्यात्वा स्वपुरतो मण्डलं विलिखेत् सुधीः |
प्राग्वन्मण्डलमालिख्य ध्वजं मध्ये समालिखेत् ॥ १२१ ॥ पूजनादिविसर्गान्तं पूर्ववच्च समापयेत् |
आदित्याद्या दले पूज्या अन्यत् सर्वं च पूर्ववत् ॥ १२२ ॥ यो भक्त्या पूजयेद्देवं सर्वान् कामानवाप्नुयात् |
ग्रहपीडां विजित्याशु नीरोगी सुखमेधते ॥ १२३ ॥ पुत्रवान् धनवांश्चैव जायते हि मानवः |
अन्ते सद्गतिमाप्नोति यत्र देवो महेश्वरः ॥ १२४ ॥ इति |
अथैतेषामाकृष्णेनेत्यादिसूर्यादिनवग्रहमन्त्राणां प्रयोगविधिर्लिख्यते—तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा |
शिरसि हिरण्यस्तूपऋषये नमः |
मुखे त्रिष्टुप्छन्दसे नमः |
हृदये श्रीसूर्याय देवतायै नमः |
इति विन्यस्य ममेष्टकाम्यार्थं विनियोगः इति कृताञ्जलिरुक्त्वा |
ॐ भूर्भुवःस्वः आ कृष्णेन हृदयाय नमः |
एवं रजसा शिरसे स्वाहा |
वर्तमानो निवेशयन् शिखा० |
अमृतं मर्त्यं च कवचाय० |
हिरण्ययेन सविता रथेन नेत्रत्र० |
आ देवो याति भुवनानि पश्यन् अस्त्राय० |
एवमङ्गुष्ठादिकरतलान्तं करयोर्विन्यस्य हृदयादिषडङ्गेष्वपि न्यसेत् |
तत आ कृष्णेन शिरसि |
रजसा ललाटे |
वर्तमानो निवेशयन् मुखे |
अमृतं हृदये |
मर्त्यं च नाभौ |
हिरण्ययेन कट्यां |
सविता जङ्घयोः |
रथेन ऊर्वोः |
आ देवो याति जान्वोः |
भुवनानि पश्यन् पादयोः |
इति विन्यस्य ध्यानमानसपूजान्ते स्वर्णादिपट्टे कुङ्कुमादिना वृत्तं षट्कोणं तदुपरि वृत्तं तदुपर्यष्टदलं तदुपरि वृत्तं तदुपरि भूपुरं चतुर्द्वारोपशोभितमिति पूजायन्त्रं विलिख्य |
स्वपुरतः संस्थाप्याभ्यर्च्यार्घ्यादिस्थापनाद्यात्मपूजान्ते मण्डूकादिपरतत्त्वान्तं पीठमभ्यर्च्य जयादिपीठशक्तीः समभ्यर्च्य |
ह्रीं सर्वशक्तिकमलासनाय नमः इति समस्तं पीठं संपूज्य मूलेन मूर्तिं परिकल्प्य मध्ये सूर्यमावाहयेत् |
यथा— किरीटिनं पद्मासनं पद्मकरं पद्मगर्भसमाकृतिं सप्ताश्वं द्विभुजं कलिङ्गदेशजं काश्यपसगोत्रं विश्वामित्रार्षं त्रिष्टुप्छन्दसं रक्ताम्बरधरं रक्ताभरणभूषितं रक्तगन्धानुलेपिनं रक्तध्वजच्छत्रपताकिनं मुकुटकेयूरमणिभूषितमारुह्य रथं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टमधिदेवताग्निसहितं प्रत्यधिदेवतेश्वरसहितं रक्तवृत्तमण्डले पूर्वमुखमावाहयामि |
इत्यावाह्यावाहनादिमुद्राः प्रदर्श्य |
ॐ भूर्भुवःस्वः श्रीसूर्याय नमः इति मन्त्रेण षोडशोपचारपूजां कुर्यात् |
तत्रासनादिपुष्पोपचारान्ते षट्कोणे षडङ्गानि प्राग्वत् संपूज्य |
अष्टपत्रेषु देवाग्रादिप्रादक्षिण्येन सोमाय नमः |
भौमाय० |
बुधाय० |
बृहस्पतये० |
शुक्राय० |
शनैश्चराय० |
राहवे० |
केतुगणेभ्यो नमः |
इति संपूज्य चतुरस्रे लोकपालांस्तदायुधानि च संपूज्य पुनर्धूपदीपादिकं निवेद्य |
मूलमन्त्रं यथाशक्ति जपित्वा जपं समर्प्य स्तोत्रं पठेत् |
श्रीसूर्य उवाच— [SST] साधु साम्ब महाबाहो शृणु जाम्बवतीसुत |
जपन्नामसहस्रस्य [unsicher] पठस्वेमं स्तवं शुभम् ॥ १ ॥ यानि नामानि गुह्यानि पवित्राणि शुभानि च |
तानि ते कथयिष्यामि प्रयत्नादवधारय ॥ २ ॥ विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः |
लोकप्रकाशकः श्रीमान् लोकचक्षुर्ग्रहेश्वरः ॥ ३ ॥ लोकसाक्षी त्रिलोकेशः कर्ता हर्ता रविग्रहः |
तपनः पवनश्चैव शुचिः सप्ताश्ववाहनः ॥ ४ ॥ शुभदः कामदः पुण्यो वरेण्यो लोकपावनः |
सुभगो निर्भगो भानुः शुभाशुभनिदर्शनः ॥ ५ ॥ गभस्तिहस्तो ब्रह्मण्यः सर्वदेवनमस्कृतः |
एवं त्रिंशन्नामधेयः स्तव इष्टः सदा मम ॥ ६ ॥ [Fußnoten:] १ तमिस्रहा ख. पाठः |
२ पतनः ख. पाठः |
३ हृष्टः ख. पाठः |

Druckseite 741

Zuordnung zur deutschen Fassung: 33.SST, 33.CST.

[Kapitel 33, Druckseite 741; SST] आरोग्यश्रीकरश्चैव कुलवृद्धियशस्करः |
य एतेन महाबाहो मध्याह्नास्तमयोदये ॥ ७ ॥ स्तौति मां प्रयतो भूत्वा सर्वपापैः प्रमुच्यते |
मानसं वाचिकं वापि कर्मजं वापि दुष्कृतम् ॥ ८ ॥ एष जाप्यश्च होम्यश्च सन्ध्योपासनयोस्तथा |
धूपमन्त्रोऽर्घ्यमन्त्रश्च बलिमन्त्रस्तथैव च ॥ ९ ॥ अर्घ्यप्रदाने स्नाने च प्रणिपाते प्रदक्षिणे |
पूजितोऽयं महामन्त्रः सर्वकर्मणि साधकः ॥ १० ॥ एवमुक्त्वा तु भगवान् भास्करो जगदीश्वरः |
आमन्त्र्य कृष्णतनयं तत्रैवान्तरधीयत ॥ ११ ॥ साम्बोऽपि स्तवराजं च श्रुत्वा सप्ताश्ववाहनात् |
प्रीतात्मा विजयी श्रीमान् तस्माद्रोगात् प्रमुक्तवान् ॥ १२ ॥ पुत्रान् पौत्रान् धनं कामाँल्लभते नात्र संशयः |
सर्वशत्रून् निहन्त्याशु नीहारमिव भास्करः ॥ १३ ॥ इति हरिसुतरोगध्वंसनं स्तोत्रमेतत् पठति यदि हि भक्त्या प्रातरुत्थाय नित्यम् |
स भवति गतरोगः सर्वसंपत्तिवाप्तस्तपनसदृशतेजाः सूर्यलोकं प्रयाति ॥ १४ ॥ इति सूर्यस्तोत्रम् |
अथ चन्द्रमन्त्रप्रयोगः—तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा |
शिरसि गौतमाय ऋषये नमः |
मुखे विराट्छन्दसे नमः |
हृदये श्रीसोमाय देवतायै नमः |
इति विन्यस्य प्राग्वद्विनियोगमुक्त्वा |
व्याहृतित्रयपूर्वकं सर्वत्र इमं देवा असपत्नं सुवत्वं हृदयाय नमः |
महते क्षत्राय शिरसे० |
महते ज्यैष्ठ्याय शिखायै० |
महते जानराज्याय कवचाय० |
इमममुष्य पुत्रं नेत्रत्र० |
अस्यै विशे अस्त्रा० |
इति करषडङ्गन्यासं विधाय |
इमं देवा शिरसि |
असपत्नं ललाटे |
सुवत्वं मुखे |
महते क्षत्राय हृदये |
महते ज्यैष्ठ्याय ऊर्वोः |
महते जानराज्याय जान्वोः |
इमममुष्य पुत्रं गुल्फयोः |
अस्यै विशे पादयोः |
इति विन्यस्य ध्यानमानसपूजान्ते स्वर्णादिपट्टे कुङ्कुमादिना चतुरस्रगर्भं षट्कोणं तदुपरि वृत्तं तल्लग्नमष्टदलं तदुपरि वृत्तं तदुपरि भूपुरं चतुर्द्वारोपशोभितं पूजामण्डलं विलिख्य |
पुरतः संस्थाप्याभ्यर्च्यार्घ्यादिस्थापनाद्यात्मपूजान्ते प्राग्वत् पीठं संपूज्य |
मध्ये मूलेन मूर्तिं परिकल्प्य तत्र सोममावाहयेत् |
यथा— किरीटिनं श्वेताम्बरधरं दशाश्वं श्वेतभूषणं पाशपाणिं द्विबाहुं वनायुदेशजमत्रिगोत्रमात्रेयार्षमनुष्टुप्छन्दसं श्वेताभरणभूषितं श्वेतगन्धानुलेपनं श्वेतध्वजच्छत्रपताकिनं मुकुटकेयूरमणिभूषितमारुह्य रथं दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टमधिदेवता(वरुण)सहितं प्रत्यधिदेवतोमासहितं चतुरस्रमण्डले प्रत्यङ्मुखं सोममावाहयामि |
इत्यावाह्यावाहनादिमुद्राः प्रदर्श्य प्राग्वत् षोडशोपचारपूजां कुर्यात् |
तत्रासनादिपुष्पोपचारान्ते प्राग्वत् षट्कोणे षडङ्गानि पत्रेषु पूर्वादिभौमाद्यष्टौ ग्रहान् चतुरस्रे लोकपालांस्तद्बाह्ये वज्राद्यायुधानि च प्राग्वत् संपूज्य धूपदीपादिजपान्तं कर्म समाप्य स्तोत्रं पठेत् |
[CST] सोमो हिमांशुः सर्वात्मा सर्वज्ञश्च दयानिधिः |
श्रीमानत्र्यक्षिसंभूत [Namensverbindung unsicher] ओषधीशो निशाकरः ॥ १ ॥ दुग्धाब्धिनन्दनवचन्द्रः [Trennung unsicher] कुमुदाभः कलानिधिः |
इन्दुर्जाततारको [Lesung unsicher] नक्षत्रेशश्च मृगलाञ्छनः ॥ २ ॥ द्विजराजो विभुः श्रीमान् महादेवप्रियंकरः |
अमृतात्मा मनोजातश्चन्द्रमाश्च सुधाकरः ॥ ३ ॥ पञ्चविंशतिनामानि प्रातरुत्थाय यः पठेत् |
आयुरारोग्यमैश्वर्यं लभते नात्र संशयः ॥ ४ ॥ विपरीतोऽपि शीतांशुः प्रीतस्तस्य सदा भवेत् |
महादेव जातिमल्लीपुष्पगोक्षीरसन्निभ ॥ ५ ॥ [Fußnoten:] १ द्रुह्ये [unsicher] ख. पाठः |
२ ग्राजः [unsicher] क. पाठः |
३ पाण्डुर ख. पाठः |

Druckseite 742

Zuordnung zur deutschen Fassung: 33.MST.

[Kapitel 33, Druckseite 742; CST, unnummerierter Abschluss] सोम सौम्यो भवास्माकं सर्वदा ते नमो नमः |
[Drucklücke] इति चन्द्रस्तोत्रम् |
अथ भौममन्त्रप्रयोगः—तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा |
शिरसि विरूपाक्षाय ऋषये नमः |
मुखे गायत्रीच्छन्दसे नमः |
हृदये श्रीभौमाय देवतायै नमः |
इति विन्यस्य प्राग्वद्विनियोगमुक्त्वा |
अग्निमूर्धा हृदयाय नमः |
दिवः ककुत् शिरसे० |
पतिः पृथिव्या अयं शिखायै० |
अपां कवचाय० |
रेतांसि नेत्रत्र० |
जिन्वति अस्त्राय० |
इति करषडङ्गन्यासं विधाय |
अग्निः शिरसि |
मूर्धा ललाटे |
दिवः मुखे |
ककुत् हृदये |
पतिर्नाभौ |
पृथिव्याः कट्यां |
अयम् ऊर्वोः |
अपां जान्वोः |
रेतांसि गुल्फयोः |
जिन्वति पादयोः |
इति विन्यस्य ध्यानमानसपूजान्ते स्वर्णादिपट्टे कुङ्कुमादिना त्रिकोणषट्कोणाष्टदलभूपुरात्मकं पूजायन्त्रं विलिख्य |
पुरतः संस्थाप्याभ्यर्च्यार्घ्यादिस्थापनाद्यात्मपूजान्ते मण्डूकादिपरतत्त्वान्तं पीठं संपूज्य |
मूलेन मूर्तिं परिकल्प्य तत्र भौममावाहयेत् |
यथा— किरीटिनं रक्तमाल्याम्बरधरं रक्तशूलगदाधरं चतुर्भुजं मेषगमनमवन्तिदेशोद्भवं वासिष्ठगोत्रजं जमदग्न्यार्षं जगतीच्छन्दसं रक्ताम्बरधरं रक्ताभरणभूषितं रक्तमाल्यानुलेपनं रक्तच्छत्रध्वजपताकिनं मुकुटकेयूरमणिभूषितमारुह्य रथं दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टमधिदेवताभूमिसहितं प्रत्यधिदेवतास्कन्दसहितं त्रिकोणरक्तमण्डले दक्षिणमुखमङ्गारकमावाहयामि |
इत्यावाह्यावाहनादिमुद्राः प्रदर्श्य प्राग्वदासनादिपुष्पोपचारान्ते षट्कोणे षडङ्गानि पत्रेषु पूर्वादिबुधाद्यष्टौ ग्रहांश्चतुरस्रे लोकपालांस्तदायुधानि च संपूज्य |
धूपदीपादिजपान्तं कर्म समाप्य स्तोत्रं पठेत् |
[MST] मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः |
स्थिरासनो महाकायः सर्वकर्मावबोधकः ॥ १ ॥ लोहितो लोहिताङ्गश्च सामगानां कृपाकरः |
धरात्मजः कुजो भौमो भूतिदो भूतिदायकः ॥ २ ॥ अङ्गारको यमश्चैव सर्वरोगापहारकः |
सृष्टिकर्तापहर्ता च सर्वकामफलप्रदः ॥ ३ ॥ एतानि कुजनामानि प्रातरुत्थाय यः पठेत् |
आयुरारोग्यमैश्वर्यं लभते नात्र संशयः ॥ ४ ॥ यः शृणोति कुजस्तोत्रं चिरं जीयात् स मानवः |
गोसहस्रफलं तस्य विष्णुर्वचनमब्रवीत् ॥ ५ ॥ भौमपीडां विजित्याशु ग्रहपीडाश्च दारुणाः |
भौमप्रसादादिष्टं स्यात् सत्यं सत्यं न संशयः ॥ ६ ॥ कुज कुप्रभवो नित्यं मङ्गल्यः परिपूज्यसे |
अमङ्गलं निहत्याशु सर्वदा यच्छ मङ्गलम् ॥ ७ ॥ इति भौमस्तोत्रम् |
अथ बुधमन्त्रप्रयोगः—तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा |
शिरसि परमेष्ठिने ऋषये नमः |
मुखे त्रिष्टुप्छन्दसे नमः |
हृदये श्रीबुधाय देवतायै नमः |
इति विन्यस्य प्राग्वद्विनियोगमुक्त्वा |
उद्बुध्यस्वाग्ने प्रति जागृहि त्वं हृदयाय नमः |
इष्टापूर्ते शिरसे० |
संसृजेथामयं च शिखा० |
अस्मिन्सधस्थे कवचाय० |
अध्युत्तरस्मिन्विश्वेदेवा नेत्रत्र० |
यजमानश्च सीदत अस्त्राय० |
इति करषडङ्गन्यासं विधाय |
उद्बुध्यस्व शिरसि |
अग्ने प्रति ललाटे |
जागृहि त्वं मुखे |
इष्टापूर्ते हृदये |
संसृजेथामयं च नाभौ |
अस्मिन्सधस्थे कट्यां |
अध्युत्तरस्मिन् ऊर्वोः |
विश्वेदेवा जान्वोः |
यजमानश्च गुल्फयोः |
सीदत पादयोः |
इति विन्यस्य ध्यानादिमानसपूजान्ते स्वर्णादिपट्टे कुङ्कुमादिना बाणाकारमण्डलगर्भषट्कोणाष्टदलभूपुरात्मकं मण्डलं विलिख्याभ्यर्च्यार्घ्यादिस्थापनाद्यात्मपूजान्ते प्राग्वत् पीठपूजां विधाय मध्ये— [Fußnote:] सृष्टिः ख. पाठः |

Druckseite 743

Zuordnung zur deutschen Fassung: 33.BST, 33.JST.

[Kapitel 33, Druckseite 743; Fortsetzung der Prosa] मूलेन मूर्तिं परिकल्प्य बुधमावाहयेत् |
यथा—किरीटिनं पीतमाल्याम्बरधरं पीतवर्णकर्णिकारसमद्युतिं खड्गचर्मगदापाणिं सिंहस्थं वरदं मगधदेशजमत्रिगोत्रं भरद्वाजार्षं बृहतीच्छन्दसं पीताम्बरधरं पीताभरणभूषितं पीतगन्धानुलेपनं पीतच्छत्रध्वजपताकिनं मुकुटकेयूरमणिशोभितमारुह्य रथं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टमधिदेवताविष्णुसहितं प्रत्यधिदेवताविष्णुसहितं बाणाकारमण्डले दक्षिणमुखं बुधमावाहयामि |
इत्यावाह्यावाहनादिमुद्राः प्रदर्श्य प्राग्वदासनपूजादिपुष्पोपचारान्ते षट्कोणे तु षडङ्गानि अष्टदलेषु प्राग्वद्बृहस्पत्याद्यष्टौ ग्रहान् चतुरस्रे लोकपालांस्तदायुधानि च संपूज्य |
धूपदीपादिजपान्तं कर्म समाप्य स्तोत्रं पठेत् |
[BST] प्रियङ्गुकलिकाश्यामः पीतवर्णमहाद्युतिः |
बोधनः शशिपुत्रश्च सौम्यः सौम्यग्रहो बुधः ॥ १ ॥ परतन्त्रः स्वतन्त्रश्च भगवान् भक्तवत्सलः |
हरिप्रियश्च सिंहस्थो बुद्धिमान् बुद्धिवर्धनः ॥ २ ॥ खड्गचर्मगदापाणिः पीतभूषणभूषितः |
विद्यावान् सात्त्विकः शुद्धो निर्मलज्ञानदायकः ॥ ३ ॥ विश्वात्मा विश्वयोनिश्च विश्वो विश्वैकवन्दितः |
पञ्चविंशतिनामानि प्रातरुत्थाय यः पठेत् ॥ ४ ॥ आयुरारोग्यमैश्वर्यं ज्ञानं वित्तं महद्यशः |
लभते नात्र सन्देहो ग्रहपीडाविवर्जितः ॥ ५ ॥ इति बुधस्तोत्रम् |
अथ बृहस्पतिमन्त्रप्रयोगः—तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा |
शिरसि गृत्समदाय ऋषये नमः |
मुखे त्रिष्टुप्छन्दसे नमः |
हृदये श्रीबृहस्पतये देवतायै नमः |
इति विन्यस्य प्राग्वद्विनियोगमुक्त्वा |
बृहस्पते अति यदर्यो हृदयाय नमः |
अर्हाद् द्युमत् शिरसे० |
विभाति क्रतुमत् शिखायै० |
जनेषु कवचाय० |
यद्दीदयच्छवसर्तप्रजात नेत्रत्र० |
तदस्मासु द्रविणं धेहि चित्रम् अस्त्रा० |
इति करषडङ्गन्यासं विधाय |
बृहस्पते शिरसि |
अति यदर्यो ललाटे |
अर्हाद्द्युमत् मुखे |
विभाति क्रतुमद् हृदि |
जनेषु नाभौ |
यद्दीदयत् कट्यां |
शवसर्तप्रजात तत् ऊर्वोः |
अस्मासु जान्वोः |
द्रविणं गुल्फयोः |
धेहि चित्रं पादयोः |
इति विन्यस्य ध्यानमानसपूजान्ते स्वर्णादिपट्टे कुङ्कुमादिना दीर्घचतुरस्रगर्भषट्कोणाष्टदलभूपुरात्मकं यन्त्रं विलिख्य |
पुरतः संस्थाप्याभ्यर्च्य अर्घ्यादिस्थापनध्यानमानसपूजान्ते प्राग्वत् पीठपूजां विधाय मूर्तिं मूलेन परिकल्प्यावाहयेत् |
यथा— किरीटिनं पीतमाल्याम्बरधरं दण्डवरदसाक्षसूत्रकमण्डलुधरं सिन्धुदेशोद्भवमाङ्गिरसगोत्रं वसिष्ठार्षमनुष्टुप्छन्दसं पीताम्बरधरं पीताभरणभूषितं पीतगन्धानुलेपनं पीतच्छत्रध्वजपताकिनं मुकुटकेयूरमणिभूषितमारुह्य रथं दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टमधिदेवतेन्द्रसहितं प्रत्यधिदेवताब्रह्मसहितं पीतदीर्घचतुरस्रमण्डले उदङ्मुखं गुरुमावाहयामि |
इत्यावाह्यावाहनादिमुद्राः प्रदर्श्य आसनादिषडङ्गपूजान्ते अष्टदलेषु पूर्वादिशुक्राद्यष्टौ ग्रहान् भूपुरे लोकपालान् बहिर्वज्राद्यायुधानि च संपूज्य |
धूपदीपादिकं प्राग्वत् समाप्य स्तोत्रं पठेत् |
[JST] बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः |
लोकप्रियो गुरुः श्रीमान् सर्वज्ञः सर्वगो विभुः ॥ १ ॥ सर्वेशः सर्वदातुष्टः सर्वदः सर्वतोमुखः |
अक्रोधनो मुनिश्रेष्ठो नीतिकर्ता जगत्पतिः ॥ २ ॥ विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः |
भूर्भुवःस्वःपिता चैव भर्ता जीवो महाबलः ॥ ३ ॥ पञ्चविंशतिनामानि पुण्यानि शुभदानि च |
प्रातरुत्थाय यो नित्यं कीर्तयेत् सुसमाहितः ॥ ४ ॥ [Fußnote:] प्रभुः ख. पाठः |

Druckseite 744

Zuordnung zur deutschen Fassung: 33.JST, 33.VST.

[Kapitel 33, Druckseite 744; JST] अभीष्टफलदः श्रीमाञ्छुभग्रह नमोऽस्तु ते |
यः शृणोति गुरोः स्तोत्रं चिरं जीवेन्न संशयः ॥ ५ ॥ गोसहस्रफलं तस्य विष्णुर्वचनमब्रवीत् |
[Drucklücke] इति गुरुस्तोत्रम् |
अथ शुक्रमन्त्रप्रयोगः—तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा |
शिरसि प्रजापत्यश्विनसरस्वतीन्द्रेभ्य ऋषिभ्यो नमः |
मुखे अतिजगतीच्छन्दसे नमः |
हृदये श्रीशुक्राय देवतायै नमः |
इति विन्यस्य प्राग्वद्विनियोगमुक्त्वा |
अन्नात्परिस्रुतः हृदयाय नमः |
रसं ब्रह्मणा व्यपिबत् शिरसे० |
क्षत्रं पयः शिखा० |
सोमं प्रजापतिः कवचाय० |
ऋतेन सत्यमिन्द्रियं नेत्रत्र० |
विपानं शुक्रमन्धस अस्त्रा० |
इति करषडङ्गन्यासं विधाय |
अन्नात्परिस्रुतः शिरसि |
रसं ब्रह्मणा ललाटे |
व्यपिबत्क्षत्रं मुखे |
पयः सोमं हृदये |
प्रजापतिः नाभौ |
ऋतेन सत्यं कट्यां |
इन्द्रियं विपानं गुह्ये |
शुक्रं वृषणयोः |
अन्धस ऊर्वोः |
इन्द्रस्येन्द्रियं जान्वोः |
इदं पयः गुल्फयोः |
अमृतं मधु पादयोः |
इति विन्यस्य ध्यानमानसपूजान्ते स्वर्णादिपट्टे कुङ्कुमादिना पञ्चकोणगर्भषट्कोणाष्टदलभूपुरात्मकं पूजायन्त्रं विलिख्य |
पुरतः संस्थाप्याभ्यर्च्यार्घ्यादिस्थापनाद्यात्मपूजान्ते मण्डूकादिपीठमन्वन्तं संपूज्य मूलेन मूर्तिं परिकल्प्य शुक्रमावाहयेत् |
यथा— किरीटिनं श्वेतवर्णं चतुर्भुजं दण्डिनं वरदं काव्यं साक्षसूत्रकमण्डलुं कीकटदेशजं भार्गवसगोत्रं शौनकार्षं पाङ्क्तच्छन्दसं श्वेताम्बरधरं श्वेताभरणभूषितं श्वेतगन्धानुलेपनं श्वेतच्छत्रध्वजपताकिनं मुकुटकेयूरमणिशोभितमारुह्य रथं दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टमधिदेवतेन्द्राणीसहितं प्रत्यधिदेवतेन्द्रसहितं पञ्चकोणमण्डले प्राङ्मुखं भगवन्तं शुक्रमावाहयामि |
इत्यावाह्यावाहनादिमुद्राः प्रदर्श्य आसनादिपुष्पोपचारान्ते षट्कोणे षडङ्गानि दलेषु प्रागादिशन्याद्यष्टौ ग्रहान् भूपुरे लोकपालांस्तदायुधानि च संपूज्य |
धूपदीपादिकं प्राग्वत् समाप्य स्तोत्रं पठेत् |
[VST] दैत्य मन्त्री [Drucktrennung] दीर्घदर्शी उशना भार्गवः कविः |
शुक्रो भृगुर्भगुसुतः [Namensverbindung unsicher] काव्यजिद्दैत्यपूजितः ॥ १ ॥ श्वेतोऽर्धमण्डली काव्यो निधिमान्नैगमस्तथा |
सर्वज्ञः सर्वदः श्रीमान् नीतिज्ञो रक्षसां विभुः ॥ २ ॥ विश्वकर्ता च विश्वात्मा दैत्याचार्यः प्रतापवान् |
चतुर्विंशतिनामानि प्रातरुत्थाय यः पठेत् ॥ ३ ॥ आयुरारोग्यमैश्वर्यं लभते नात्र संशयः |
प्रतिशुक्रो न तस्यास्ति सर्वसौभाग्यमाप्नुयात् ॥ ४ ॥ दैत्यमन्त्रिन् महाप्राज्ञ सुरासुरनमस्कृत |
अभीष्टफलद श्रीमन् दैत्यग्रह नमोऽस्तु ते ॥ ५ ॥ इति शुक्रस्तोत्रम् |
अथ शनिमन्त्रप्रयोगः—तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा |
शिरसि दध्यङाथर्वणाय ऋषये नमः |
मुखे गायत्रीच्छन्दसे नमः |
हृदये शनैश्चराय देवतायै नमः |
इति विन्यस्य प्राग्वद्विनियोगमुक्त्वा |
शन्नो देवीः हृदयाय नमः |
अभिष्टये शिरसे० |
आपो भवन्तु शिखा० |
पीतये कवचाय० |
शंयोरभि नेत्रत्र० |
स्रवन्तु नः अस्त्रा० |
एवं करषडङ्गन्यासं विधाय |
शन्नः शिरसि |
देवीः ललाटे |
अभिष्टये मुखे |
आपो भवन्तु नाभौ |
पीतये कट्यां |
शंयो ऊर्वोः |
अभि जान्वोः |
स्रवन्तु नः पादयोः |
इति विन्यस्य ध्यानादिमानसपूजान्ते स्वर्णादिपट्टे कुङ्कुमादिना धनुराकारगर्भं षट्कोणाष्टदलभूपुरात्मकं पूजायन्त्रं विलिख्य |
पुरतः संस्थाप्याभ्यर्च्यार्घ्यादिस्थापनाद्यात्मपूजान्ते मण्डूकादिपीठमन्वन्तं— [Fußnoten:] १ शुक्रग्रह क. पाठः |
२ काशीर ख. पाठः |
३ शुभग्रह ख. पाठः |

Druckseite 745

Zuordnung zur deutschen Fassung: 33.SNI.

[Kapitel 33, Druckseite 745; Fortsetzung der Saturnprosa] संपूज्य मूलेन मूर्तिं परिकल्प्यावाहयेत् |
यथा—किरीटिनमिन्द्रनीलसमद्युतिं शूलधरं वरदं गृध्रवाहनं सशरबाणासनधरं सौराष्ट्रदेशजं काश्यपसगोत्रं भृग्वार्षं गायत्रीच्छन्दसं कृष्णाम्बरधरं कृष्णाभरणभूषितं कृष्णगन्धानुलेपनं कृष्णच्छत्रध्वजपताकिनं मुकुटकेयूरमणिशोभितमारुह्य रथं दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टमधिदेवताप्रजापतिसहितं प्रत्यधिदेवतायमसहितं कृष्णधनुर्मण्डले प्राङ्मुखं शनैश्चरमावाहयामि |
इत्यावाह्यावाहनादिमुद्राः प्रदर्श्य आसनादिपुष्पोपचारान्ते षट्कोणे षडङ्गानि अष्टदले पूर्वादितो राह्वाद्यष्टौ ग्रहान् भूपुरे लोकपालांस्तदायुधानि च संपूज्य |
धूपदीपादिसर्वं प्राग्वत् समाप्य स्तोत्रं पठेत्— [SNI] क्रूरावलोकनवशाद्भुवनं नाशयति यो ग्रहो रुष्टः |
तुष्टो धनकनकसुखं ददाति सोऽस्माञ्छनैश्वरः पातु ॥ १ ॥ यः पुनर्नष्टराज्याय नराय परितोषितः |
स्वप्ने ददौ निजं राज्यं स मे सौरिः प्रसीदतु ॥ २ ॥ कोणं नीलाञ्जनप्रख्यं मन्दचेष्टाप्रसारिणम् |
छायामार्तण्डसंभूतं नमस्यामि शनैश्चरम् ॥ ३ ॥ नमोऽर्कपुत्राय शनैश्चराय खञ्जाय नीलोत्पलमेचकाय |
श्रुत्वा रहस्यं भव कामदस्त्वं फलप्रदो मे भव सूर्यपुत्र ॥ ४ ॥ नमोऽस्तु प्रेतराजाय कृष्णदेहाय वै नमः |
शनैश्वराय क्रूराय शुद्धबुद्धिप्रदायिने ॥ ५ ॥ य एभिर्नामभिः स्तौति तस्य तुष्टिं ददात्यसौ |
तदीयं तु भयं तस्य स्वप्नेऽपि न भविष्यति ॥ ६ ॥ श्रावणे मासि संजाते शोभने शनिवासरे |
लोहरूपं शनिं कृत्वा स्नाप्य पञ्चामृतैर्नवैः ॥ ७ ॥ पुष्पैश्च विविधैर्धूपैः फलैश्चैव विशेषतः |
नामभिः पूजयेदेतैः क्रमेण ग्रहसत्तमम् ॥ ८ ॥ कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः |
सौरिः शनैश्वरो मन्दः पिप्पलादेन संस्तुतः ॥ ९ ॥ एतानि शनिनामानि प्रातरुत्थाय यः पठेत् |
शनैश्वरकृता पीडा न भवेत्तु कदाचन ॥ १० ॥ इति शनैश्चरस्तोत्रम् |
अथ राहुमन्त्रप्रयोगः—तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं विधाय |
शिरसि वामदेवाय ऋषये नमः |
मुखे गायत्रीच्छन्दसे नमः |
हृदये श्रीराहवे देवतायै नमः |
इति विन्यस्य विनियोगमुक्त्वा |
कया नः हृदयाय नमः |
चित्र आभुवत् शिरसे स्वाहा |
ऊती सदावृधः शिखायै० |
सखा कवचाय० |
कया नेत्रत्र० |
शचिष्ठया वृता अस्त्राय० |
एवं करषडङ्गन्यासं विधाय |
कया शिरसि |
नो भाले |
चित्र मुखे |
आभुवत् हृदये |
ऊती नाभौ |
सदावृधः कट्यां |
सखा ऊर्वोः |
कया जान्वोः |
शचिष्ठया गुल्फयोः |
वृता पादयोः |
इति विन्यस्य ध्यानादिमानसपूजान्ते स्वर्णादिपट्टे कुङ्कुमादिना शूर्पाकारगर्भषट्कोणाष्टदलभूपुरात्मकं मण्डलं विलिख्य |
पुरतः संस्थाप्याभ्यर्च्यार्घ्यस्थापनाद्यात्मपूजान्ते प्राग्वत् पीठपूजां विधाय |
मूलेन मूर्तिं परिकल्प्य तत्र राहुं ध्यायेत् |
यथा— किरीटिनं करालवक्त्रं खड्गचर्मशूलधरं सिंहासनस्थं पूर्वदेशजं पैठीनगोत्रम् [Lesung unsicher] आङ्गिरसार्षमनुष्टुप्छन्दसं कृष्णाम्बरधरं कृष्णाभरणभूषितं कृष्णगन्धानुलेपनं कृष्णच्छत्रध्वजपताकिनं मुकुटकेयूरमणिशोभितमारुह्य रथं दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टमधिदेवतासर्पसहितं प्रत्यधिदेवताकालसहितं कृष्णशूर्पमण्डले दक्षिणमुखं राहुमावाहयामि |
इत्यावाह्य आवा— [Fußnoten:] १ नीहारवर्णाञ्जनमेचकाय क. पाठः |
२ शुद्धिं ख. पाठः |

Druckseite 746

Zuordnung zur deutschen Fassung: 33.RST, 33.KST.

[द्रष्टव्यम्: पृष्ठ ७४५ तः अनुवृत्तिः|
] हनादिमुद्राः प्रदर्श्य, आसनादिपुष्पोपचारान्ते षट्कोणे षडङ्गानि, अष्टदले केत्वाद्यष्टौ ग्रहान्, भूपुरे लोकपालांस्तदायुधानि च संपूज्य, धूपदीपादिकं प्राग्वन्निवेद्य स्तोत्रं पठेत्— ॐ नमो राहवे महाग्रहाय ॐ नमः सत्त्वाय महाग्रहाय |
ॐ नमो रजसे महाग्रहाय ॐ नमस्तमसे महाग्रहाय ॥ ॐ नमो जैमिनये महाग्रहाय ॐ भूर्भुवःस्वःपालयित्रे महाग्रहाय |
ॐ नमः कृष्णवर्णाय महाग्रहाय ॐ नमः कुटिलभ्रुकुटये महाग्रहाय ॥ ॐ नमो विकटदंष्ट्राय महाग्रहाय ॐ नमश्चन्द्रादित्यभयप्रदाय महाग्रहाय |
सैंहिकेयः सुरारिश्च यमदंष्ट्रो महाबलः |
सुभानुभानुमर्दी च चन्द्रमर्द्यमृतप्रियः ॥ १ ॥ तमोग्रहः शिरस्केश्च तमोऽङ्गुश्चैव दुर्जयः |
विधुन्तुदो विधुग्रासी पौर्णमासीकुहूप्रियः ॥ २ ॥ पातः पातयिता विश्वं पाताङ्गश्चाष्टमो ग्रहः |
एकविंशतिनामानि राहोर्नित्यं पठेन्नरः ॥ ३ ॥ अष्टमे द्वादशे रन्ध्रे (रिष्फे) त्रिचतुष्के च सप्तमे |
पञ्चमे वाञ्छितं तस्य दद्यादेकादशात् फलम् ॥ ४ ॥ राहोः प्रसादात् कूष्माण्डा डाकिन्यो घातका ग्रहाः |
पीडां तस्य न कुर्वन्ति वाञ्छितार्थस्य सिद्धिदाः ॥ ५ ॥ धनापत्यकलत्राणां वृद्धिं प्राप्नोति मानवः |
इन्द्रियाणां पटुत्वं च वाञ्छितार्थस्य चागमः ॥ ६ ॥ बलिदानं जपं होमं कृत्वा तर्पणभोजनम् |
दानं दद्याद् गृहस्थाय रत्नं गोमेदकादिकम् ॥ ७ ॥ विषमस्थे नृणां राहावपि राज्ञां जयप्रदः |
एतत् स्तोत्रं तु राजानो जपन्तो जयकाङ्क्षिणः ॥ ८ ॥ रणे शत्रून् क्षणाज्जित्वा प्राप्नुवन्ति वसुन्धराम् |
प्रातः पठेन्नरो नित्यं पक्षं पक्षार्धमेव वा ॥ ९ ॥ त्यक्षः सर्वभयेभ्योऽपि सर्वान् कामानवाप्नुयात् |
[अत्र मुद्रिते बिन्दुपङ्क्तिः|
] इति राहुस्तोत्रम् ॥ अथ केतुमन्त्रप्रयोगः—तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा, शिरसि मधुच्छन्दस ऋषये नमः |
मुखे गायत्रीच्छन्दसे नमः |
हृदये श्रीकेतवे देवतायै नमः |
इति विन्यस्य भावादित्रयं योगमुक्त्वा, ॐ केतुं कृण्वन् हृदयाय नमः |
अकेतवे शिरसे० |
पेशोमर्या शिखायै० |
अपेशसे कवचाय० |
समुषद्भिः नेत्रत्र० |
अजायथा अस्त्राय० |
इति करषडङ्गन्यासं विधाय, केतुं शिरसि |
कृण्वन् ललाटे |
अकेतवे मुखे |
पेशः हृदये |
मर्या नाभौ |
अपेशसे कट्यां |
सं ऊर्वोः |
उषद्भिः जान्वोः |
अजायथाः पादयोः |
इति विन्यस्य, ध्यानादिमानसपूजान्ते स्वर्णादिपट्टे कुङ्कुमादिना ध्वजाकारगर्भषट्कोणाष्टदलभूपुरात्मकं पूजायन्त्रं विलिख्य, पुरतः संस्थाप्याभ्यर्च्यार्घ्यादिस्थापनाद्यात्मपूजान्ते प्राग्वत् पीठपूजां विधाय, मूलेन मूर्तिं परिकल्प्यावाहयेत् |
यथा—धूम्रान् द्विबाहून् पाशधरान् गृध्रवाहनान् किरीटिनो मध्यदेशौड्रजैमिनिगोत्रजान् गौतमर्षीन् नानाच्छन्दसश्चित्राम्बरधरांश्चित्राभरणभूषितान् चित्रगन्धानुलेपनान् कृष्णपिङ्गलध्वजपताकिनो मुकुटकेयूरमणिभूषितानारुह्य रथं दिव्यं मेरुं प्रदक्षिणीकुर्वाणान् ग्रहमण्डले प्रविष्टान् अधिदेवताब्रह्मसहितान् प्रत्यधिदेवताचित्रगुप्तसहितान् कृष्णपिङ्गलध्वजमण्डले दक्षिणमुखान् केतून् आवाहयामीत्यावाह्य, आवाहनादिमुद्राः प्रदर्श्य, आसनादिपुष्पोपचारान्ते षट्कोणे षडङ्गानि, अष्टदलेषु पूर्वादितो रव्यष्टौ ग्रहान्, भूपुरे लोकपालांस्तदायुधानि च संपूज्य, धूपदीपादिकं दत्वा समाप्य स्तोत्रं पठेत्— मृत्युपुत्रः शिखी केतुश्चानलोत्पातरूपधृक् |
बहुपुत्रोऽथ धूम्राभः श्वेतः कृष्णश्च पीतदृक् ॥ १ ॥ छायारूपी ध्वजः पुच्छो जगत्प्रलयकृत् सदा |
अदृष्टरूपो दृश्यश्च जन्तूनां भयकारकः ॥ २ ॥ [पाठभेदाः: २ स्केश्च ख.; ५ बाधकाः ख.; ७ पूजनम् ख.; केतुध्यानम् ध्यायेत् ख.|
स्थानीय अस्पष्टपाठाः: शिरस्केश्च, तमोऽङ्गुः, त्यक्षः; मध्यदेशौड्रजैमिनि|
]

Druckseite 747

Zuordnung zur deutschen Fassung: 33.KST, 33.NST, 33.MKL.

नामान्येतानि केतोश्च नित्यं यः प्रयतः पठेत् |
केतुपीडा न तस्यास्ति सर्पचौराग्निभिर्भयम् ॥ ३ ॥ दानं दद्याद् गृहस्थाय वैदूर्यं केतवे सदा |
यः पठेत् प्रयतो नित्यं पक्षं पक्षार्धमेव वा ॥ ४ ॥ त्यक्षः सर्वभयेभ्यो हि सर्वान् कामानवाप्नुयात् |
[अत्र मुद्रिते बिन्दुपङ्क्तिः|
] इति केतुस्तोत्रम् ॥ अथ नवग्रहसाधारणं स्तोत्रम् |
जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम् |
तमोरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ १ ॥ दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् |
नमामि सततं सोमं शम्भोर्मुकुटभूषणम् ॥ २ ॥ धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् |
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥ ३ ॥ प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् |
सौम्यं सौम्यगुणोपेतं नमामि शशिनः सुतम् ॥ ४ ॥ देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम् |
बन्धुभूतं त्रिलोकज्ञं प्रणमामि बृहस्पतिम् ॥ ५ ॥ हिमकुन्दतुषाराभं दैत्यानां परमं गुरुम् |
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ ६ ॥ नीलाञ्जनसमाभासं रविपुत्रं महाग्रहम् |
छायामार्तण्डसंभूतं प्रणमामि शनैश्चरम् ॥ ७ ॥ अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् |
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ॥ ८ ॥ तमालनालसङ्काशं तारकाग्रहमस्तकम् |
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥ ९ ॥ इदं व्यासमुखोत्पन्नं ये पठन्ति समाहिताः |
दिवा वा यदि वा रात्रौ शान्तिस्तेषां भविष्यति ॥ १० ॥ ऐश्वर्यमतुलं चैवमारोग्यं बुद्धिवर्धनम् |
नरनारीनृपाणां च भवेद् दुःस्वप्ननाशनम् ॥ ११ ॥ ग्रहनक्षत्रपीडाश्च राक्षसाग्निसमुद्भवाः |
ते सर्वे प्रशमं यान्ति सत्यं सत्यं न संशयः ॥ १२ ॥ नमः सूर्याय सोमाय मङ्गलाय बुधाय च |
गुरुशुक्रशनिभ्यश्च राहवे केतवे नमः ॥ १३ ॥ इति नवग्रहस्तोत्रम् ॥ अथ रुद्रयामले—मङ्गलकल्पः |
अथातः संप्रवक्ष्यामि कल्पं भौमस्य सुव्रते |
यज्ज्ञात्वा तु वरारोहे ऋणान्मुच्येत साधकः ॥ १ ॥ मन्त्रोद्धारं शृणु प्राज्ञे सर्वसिद्धिप्रदायकम् |
श्रीबीजं कामराजं तु भुवनेशीं समालिखेत् ॥ २ ॥ नमो भौमाय च ततो वह्निजायां च चोच्चरेत् |
दशाक्षरो महामन्त्रो भौमस्य कथितः प्रिये ॥ ३ ॥ श्रीमन्मङ्गलमन्त्रस्य विरूपाक्ष ऋषिः स्मृतः |
गायत्री छन्द आख्यातं देवता भूमिनन्दनः ॥ ४ ॥ श्रीबीजं च भवेच्छक्तिः कामबीजं च कीलकम् |
बीजं च मायाबीजं स्यात् सर्वकामार्थसिद्धये ॥ ५ ॥ विनियोगः समाख्यातो हृत्षडङ्गं च कथ्यते |
दीर्घषट्स्वरयोगेन स्वबीजेनाङ्गकं न्यसेत् ॥ ६ ॥ त्रिबीजाद्यं न्यसेद् देहे चाङ्गुलीषु तथा न्यसेत् |
दशरन्ध्रेषु देवेशि दशवर्णान् प्रविन्यसेत् ॥ ७ ॥ मूलेन व्यापकं न्यसेत् कुर्याच्च धनवृद्धये |
अथ ध्यानं प्रवक्ष्यामि मङ्गलस्य सुलोचने ॥ ८ ॥ [पाठभेदाः: केतुस्तोत्रान्ते अपि ख.; नवग्रहस्तोत्रे ४ कणिका ख.; ५ प्रियं ख.; ७ कृष्णाजिनं ख., छायामार्तं ख.; ९ माला ख.; मङ्गलकल्पे ६ हृत्तं ख.|
]

Druckseite 748

Zuordnung zur deutschen Fassung: 33.MKL.

रक्तमाल्याम्बरधरं रक्तगन्धानुलेपनम् |
कुमारं शक्तिहस्तं च भौमं वन्दे सदानघम् ॥ ९ ॥ अथ यन्त्रं शृणु प्राज्ञे सर्वसंपत्तिदायकम् |
वह्नीशवारुणाशाग्रं त्रिकोणं विलिखेत् सुधीः ॥ १० ॥ प्रतिरैखं पञ्चचिह्नं षडंशेन प्रकल्पयेत् |
मध्ये त्रिपञ्च वह्नेस्तु रेखाः संपातयेत् सुधीः ॥ ११ ॥ त्रिपञ्चसूत्रैर्देवेशि सम्यक् चिह्नयोगतः |
षट्त्रिंशत्कोणता साम्यात् कृतेयं वीरवन्दिते ॥ १२ ॥ वारुणाग्रेषु कोणेषु सैकविंशतिषु त्रिधा |
भौमनामानि विलिखेद्वह्निकोणादितः क्रमात् ॥ १३ ॥ ओंकारादिनमोन्तास्तु विलिखेत् सर्वदेवताः |
प्रादक्षिण्यक्रमेणैव तद्बहिर्वृत्तमुत्तमम् ॥ १४ ॥ नागपत्रं ततः पद्मं बहिर्वृत्तं मनोहरम् |
तद्बहिर्भूपुरं देवि चतुर्द्वारसमन्वितम् ॥ १५ ॥ न प्रकाश्यं सदा यन्त्रं ऋणघ्नं धनदायकम् |
तव स्नेहेन कथितं साधकानां हिताय च ॥ १६ ॥ गोपनीयं प्रयत्नेन निधानमिव चोरतः |
अथ पूजां प्रवक्ष्यामि मन्त्रराजस्य तत्त्वतः ॥ १७ ॥ रक्तालङ्कारसुभगो रक्तगन्धानुलेपनः |
रक्तवस्त्रपरीधानो गृहे रक्तारुणे स्थितः ॥ १८ ॥ गुरुं संस्थाप्य शिरसि भूतान् संत्रासयेत् सुधीः |
भूतशुद्धिं विधायादौ प्राणानायम्य देशिकः ॥ १९ ॥ विनियोगं पुरा कृत्वा करन्यासं षडङ्गकम् |
मन्त्रेण व्यापकं चैव ध्यानं पूर्वोदितं कुरु ॥ २० ॥ अर्घ्यं च वह्निमन्त्रेण पूजयेत् तदनन्तरम् |
शङ्खं तत्र तु संस्थाप्य पूजयेद्रक्तपुष्पकैः ॥ २१ ॥ सूर्यमन्त्रेण देवेशि जलैरापूरयेत् ततः |
चन्द्रमन्त्रेण देवेशि पूजयेत् तदनन्तरम् ॥ २२ ॥ मूलेन सप्तधा जप्त्वा धेनुमुद्रां प्रदर्शयेत् |
तेनोदकेन संसिच्य यन्त्रे पुष्पैस्तथात्मनि ॥ २३ ॥ पलत्रयसमग्राहि पात्रं ताम्रमयं कुरु |
त्रिकोणाकाररूपं च देवतापात्रमुत्तमम् ॥ २४ ॥ पूर्ववत् स्थापयेद्विप्रः प्रजपेदुपदेशतः |
ततः पुष्पैस्तथा गन्धैरक्षतैर्लोहितैस्तथा ॥ २५ ॥ दक्षभागे निधायाथ पूजयेत् सर्वदेवताः |
यन्त्रस्य दक्षवामस्थं गणपं यक्षनायकम् ॥ २६ ॥ आवाहयेद्धियं भौमं ध्यानोक्तं सर्वसिद्धिदम् |
आवाहनादिमुद्रास्तु क्रमेणैवात्र दर्शयेत् ॥ २७ ॥ ऊर्ध्वाञ्जलिमधः कुर्यादियमावाहनी भवेत् |
इयं तु विपरीता स्यात्तदा संस्थापनी मता ॥ २८ ॥ ऊर्ध्वाङ्गुष्ठं मुष्टियुगं तदेयं संनिधापनी |
अन्तराङ्गुष्ठमुष्टिभ्यां तदेयं संनिरोधनी ॥ २९ ॥ तर्जनीभ्यां परिभ्राम्य सकलीकरणं भवेत् |
परिवृत्तकरो मन्त्री तर्जनिके कनिष्ठिके ॥ ३० ॥ मध्यमेऽनामिकायुग्मे श्लेषयेच्च परस्परम् |
अमृतीकरणं देवि मुद्रेयं धेनुरूपिणी ॥ ३१ ॥ एताः सामान्यमुद्रास्तु दर्शयित्वा यजेत् प्रिये |
अग्नीशासुरवायव्यमध्ये दिक्ष्वङ्गपूजनम् ॥ ३२ ॥ केसरेषु प्रकर्तव्यं तथा वर्णैश्च देशिकः |
प्रथमावरणं देवि कथितं वीरवन्दिते ॥ ३३ ॥ मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः |
स्थिरासनो महाकायः सर्वकर्मावबोधकः ॥ ३४ ॥ लोहितो लोहिताङ्गश्च सामगानां कृपाकरः |
धरात्मजः कुजो भौमो भूमिदो भूमिनन्दनः ॥ ३५ ॥ अङ्गारको यमश्चैव सर्वरोगापहारकः |
वृष्टिकर्तापहर्ता च सर्वकामफलप्रदः ॥ ३६ ॥ [पाठभेदाः: ९ नायकम् ख.; १२ वतु ख.; २७ वदेत् ख.; ३० पूर्वं ख.; ३६ सृष्टि ख.|
११ प्रतिरैखम् मुद्रितरूपम्; २७ धियम् अस्पष्टम्|
]

Druckseite 749

Zuordnung zur deutschen Fassung: 33.MKL, 33.BMY.

एकविंशतिकोष्ठेषु प्रादक्षिण्येन तत्त्वतः |
अग्रत्रिकोणमारभ्य पूजयेत् सर्वदेवताः ॥ ३७ ॥ द्वितीयावरणे देवाः पूर्वोक्तास्त्वेकविंशतिः |
आदित्यादिग्रहानष्टौ पूजयेदष्टपत्रके ॥ ३८ ॥ तृतीयावरणे देवि पूजयेद् भौममर्चयेत् |
ब्राह्म्यादिभिश्चतुर्थी स्यादसिताङ्गादिभैरवैः ॥ ३९ ॥ पञ्चमी तु भवेद् देवि पत्राग्रेषु प्रपूजयेत् |
वामावर्तक्रमेणैव षष्ठी स्याल्लोकनायकैः ॥ ४० ॥ भूबिम्बे पूजयेद् देवि इन्द्रादीन् सर्वसिद्धये |
तदायुधैः सप्तमी स्याद् भूबिम्बे च बहिर्यजेत् ॥ ४१ ॥ मूलेन पूजयेन्मध्ये रक्तपुष्पाञ्जलित्रयैः |
उपचारैः षोडशभिः पूजयेत् परमेश्वरम् ॥ ४२ ॥ रक्तगन्धैश्च पुष्पैश्च धूपदीपादिभिस्तथा |
मङ्गलं पूजयेद् भक्त्या मङ्गलेऽहनि सर्वदा ॥ ४३ ॥ ऋणरेखाः प्रकर्तव्या अङ्गारेण तदग्रतः |
तास्तु प्रमार्जयेत् पश्चाद् वामपादेन बुद्धिमान् ॥ ४४ ॥ पूजयेन्मूलमन्त्रेण शतमष्टोत्तरं प्रिये |
दशांशं तर्पयेद् देवि होमं तस्य दशांशतः ॥ ४५ ॥ मार्जनं तद्दशांशेन मन्त्री मन्त्रस्य सिद्धये |
पूजादिमार्जनान्तं तु भौमाय तु निवेदयेत् ॥ ४६ ॥ स्तुत्वा स्तोत्रेण देवेशि साधकस्तु स्थिरासनः |
स्थिरासनाय नम इति वाचा मन्त्रं समुच्चरेत् ॥ ४७ ॥ शङ्खोदकैः परिभ्राम्य परिभ्रम्य स्वयं ततः |
नमस्कारं प्रकुर्वीत पञ्चाङ्गं प्रणवेन तु ॥ ४८ ॥ यन्त्रात् पुष्पं समाघ्राय शुचौ देशे च निःक्षिपेत् |
संहारमुद्रया देवि विसृजेत् परमेश्वरम् ॥ ४९ ॥ पूर्वक्रमान्न सन्देहः ऋणं हन्याद् धनं लभेत् |
नित्यार्चको जपेल्लक्षं दशांशं तर्पयेत् ततः ॥ ५० ॥ होमयेत् तद्दशांशेन जपापुष्पैश्च सुव्रते |
रक्ताश्वमारपुष्पैर्वा घृताक्तैर्वापि गुग्गुलैः ॥ ५१ ॥ त्रिमध्वक्तैर्हुनेद् देवि पुरश्चरणसिद्धये |
गुरवे दक्षिणां दद्यात् सालङ्कारां पयस्विनीम् ॥ ५२ ॥ आरक्तवस्त्रयुग्मेन धेनुं दद्यात् विधानतः |
[अत्र मुद्रिते बिन्दुपङ्क्तिः|
] इति रुद्रयामलोक्तमङ्गलपूजाविधानम् ॥ अथ भविष्योत्तरपुराणोक्तयन्त्रम्— अथ यन्त्रं प्रवक्ष्यामि येन संपद्यते धनम् |
येन विज्ञानमात्रेण ऋणत्रयं विमुञ्चति ॥ १ ॥ पूर्वेद्युः कर्ता हविष्यं भुक्त्वा ब्रह्मचारी अधःशयीत, नियमेन तिष्ठेत्, भौमवासरेऽरुणोदयसमये समुत्थायापामार्गेण दन्तधावनं विधायाचम्य पश्चात्तिलामलककल्केन नद्यादौ गृहे वा स्नात्वा धौतरक्तवाससी परिधाय प्रवालरक्तपुष्पादिकं बिभृयात् |
रक्तचन्दनमूर्तिं विधाय ताम्रे त्रिकोणमण्डलं च, ततः शुचौ देशे लोहिततण्डुलैस्त्रिकोणमण्डलं धनार्थी पुत्रार्थी वा सह पत्न्या पूजामारभेत |
ॐ नमो मङ्गलाय नमः |
अनेन मन्त्रेण द्वादश प्राणायामान् कृत्वा, अस्य मङ्गलमन्त्रस्य व्यास ऋषिरनुष्टुप् छन्दः मङ्गलो देवता मं बीजं नमः शक्तिः ऋणापमुक्त्यर्थं जपे विनियोगः |
ततो व्याहृतित्रिरावृत्त्या करषडङ्गन्यासं विधाय ध्यायेत्— रक्तमाल्याम्बरं देवं खड्गशूलगदाधरम् |
चतुर्भुजं मेषवाहं वरदं च धरासुतम् ॥ ध्यायेदिति शेषः |
इति ध्यात्वा यथाविधि जपं पूजां समारभेत् |
अद्येत्यादि० अमुकोऽहं धनार्थी पुत्रार्थी वा भौमपूजनं करिष्ये, इति संकल्प्य प्रार्थनां कुर्यात् |
[पाठभेदाः: ५० जय ख.; पुराणश्लोके १ सु क.ग.|
]

Druckseite 750

Zuordnung zur deutschen Fassung: unnummerierte Prosa und Formeln, Fortsetzung der vorausgehenden Reihe.

अथ देवेश ते भक्त्या करिष्ये व्रतमुत्तमम् |
दुःखव्याधिविनाशार्थमृणनाशाय भूमिज ॥ पुत्रसन्तानहेतवे यथाकामं वा इति |
ततस्ताम्रपात्रे त्रिकोणे भौमं संस्थाप्य ताम्रमयार्घ्यपात्रे रक्तचन्दनरक्ताक्षतरक्तपुष्पादि निःक्षिप्य “अग्निर्मूर्धे”ति मन्त्रेणाष्टोत्तरशतार्घ्याणि दद्यात् |
ततोऽङ्गन्यासः ॐ हां हृदयाय नमः |
ॐ शिरसे० |
ॐ हौं शिखायै० |
ॐ हां हौं कवचाय० |
ॐ हंसः नेत्रत्र० |
ॐ खं खः अस्त्राय० |
एवं करषडङ्गन्यासं विधाय पुष्पाञ्जलिं गृहीत्वा तमावाहयेत् |
सर्वग्रहेष्वतिबलं तीक्ष्णाङ्गारसमप्रभम् |
नित्यं मन्दारुणाभासं भौममावाहयाम्यहम् ॥ इत्यावाह्यावाहनमुद्राः प्रदर्श्य, ॐ हां इति मन्त्रेण पात्रं प्रक्षाल्योदकेनापूर्य कवचेनावगुण्ठ्यास्त्रेण संरक्ष्य धेनुमुद्रया वमित्यमृतीकृत्य, तेनोदकेनात्मानं पूजोपकरणानि च संप्रोक्ष्य, ॐ हां हं खं खः इति मन्त्रेण षोडशोपचारैः संपूज्यारात्रिकादर्शचामरादिकं प्रदर्श्य सफलार्घ्यं दद्यात् |
ॐ भूमिपुत्र महातेजः स्वेदोद्भव पिनाकिनः |
धनार्थी त्वां प्रपन्नोऽस्मि गृहाणार्घ्यं नमोऽस्तु ते ॥ रक्तप्रवालसङ्काश जपाकुसुमसन्निभ |
महीसुत महाबाहो गृहाणार्घ्यं नमोऽस्तु ते ॥ ततो मूलमन्त्रेण पुष्पाञ्जलित्रयं दत्वा एकविंशतिनामभिर्गायत्रीसहितैरेकविंशतिकोष्ठेषु पूजयेत् |
अङ्गारकाय विद्महे शक्तिहस्ताय धीमहि तन्नो भौमः प्रचोदयात् ॥ मङ्गलाय नमः |
एवं भूमिपुत्राय० |
ऋणहर्त्रे० |
धनप्रदाय० |
स्थिरासनाय० |
महाकायाय० |
सर्वकर्मावबोधकाय० |
लोहिताय० |
लोहिताङ्गाय० |
सामगानां कृपाकराय० |
धरात्मजाय० |
कुजाय० |
भौमाय० |
भूतिदाय० |
भूमिनन्दनाय० |
अङ्गारकाय० |
यमाय० |
सर्वशोकापहारकाय० |
वृष्टिकर्त्रे० |
वृष्ट्यपहर्त्रे० |
सर्वकामफलप्रदाय० |
एतैर्नामभिर्गायत्रीसहितैः पूजयेत् |
ततस्ताम्बूलं दत्वा प्रदक्षिणनमस्कारान् कुर्यात् |
“धरणीगर्भसंभूतं विद्युत्तेजःसमप्रभम् |
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥” खादिराङ्गारेण रेखात्रयं कृत्वा “दुःखदौर्भाग्यनाशाय पुत्रसन्तानहेतवे |
कृतं रेखात्रयं वामपदेन मार्जयाम्यहम् ॥” अथ प्रार्थनम्— ऋणहर्त्रे नमस्तेऽस्तु दुःखदारिद्र्यनाशन |
सौभाग्यसुखभाङ् नित्यं भवामि धरणीसुत ॥ तप्तकाञ्चनसंकाश तरुणार्कसमप्रभ |
सुखसौभाग्यधनद ऋणदारिद्र्यनाशक ॥ ग्रहराज नमस्तुभ्यं सर्वकल्याणकारक |
प्रसादात्तव देवेश सदा कल्याणभाजनम् ॥ देवदानवगन्धर्वयक्षराक्षसपन्नगाः |
प्राप्नुवन्ति शिवं सर्वे सदा पूर्णमनोरथाः ॥ प्रसादं कुरु मे देव प्रसादं मङ्गलप्रद |
बालः कुमारको यस्तु स भौमः प्रार्थितो मया ॥ एवं संप्रार्थ्य नामानि शरीरे तानि विन्यसेत् |
[अत्र मुद्रिते बिन्दुपङ्क्तिः|
] पादयोः मङ्गलाय नमः |
जान्वोः भूमिपुत्राय नमः |
ऊर्वोः ऋणहर्त्रे० |
कट्यां धनप्रदाय० |
गुह्ये स्थिरासनाय० |
हृदये महाकायाय० |
वामबाहौ सर्वकर्मावबोधकाय० |
दक्षबाहौ लोहिताय० |
कण्ठे लोहिताङ्गाय० |
आस्ये सामगानां कृपाकराय० |
नासिकयोः धरात्मजाय० |
नयनयोः कुजाय० |
ललाटे भौमाय० |
भ्रुवोः भूतिदाय० |
मूर्ध्नि भूमिनन्दनाय० |
शिखायां अङ्गारकाय० |
कवचे यमाय० |
अस्त्रे सर्वरोगापहारकाय० |
ऊर्ध्वं वृष्टिकर्त्रे० |
अधः वृष्ट्यपहर्त्रे० |
सर्वाङ्गेषु सर्वकामफलप्रदाय नमः |
ततो भौमपूजनविधेः पूर्णतां कृत्वा स्तोत्रं पठेत् |
[पाठभेदाः: शोकस्थाने रोग क.ग.; सृष्टिकर्त्रेऽपहर्त्रे ख.; प्रार्थनायां भौम ख., कालः ख.|
बीजाक्षरक्रमे शिरोन्यासस्य बीजं मुद्रिते न व्यक्तम्; मुख्यपूजामन्त्रस्य हां हं स्थानीयपाठः अनिश्चितः|
]

Druckseite 751

Zuordnung zur deutschen Fassung: 33.RMO, 33.MKA.

ऋणमोचनभौमस्य स्तोत्रं वक्ष्ये शृणुष्वथो |
ऋषिरस्य [नाम स्थानीयास्पष्टम्] छन्दोऽनुष्टुप् प्रकीर्तितम् ॥ १ ॥ अङ्गारको देवतात्र ऋणमोचनपूर्वकः |
विनियोगः समाख्यातो विशेषऋणमोचने ॥ २ ॥ रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः |
चतुर्भुजो मेषगमो वरदश्च धरासुतः ॥ ३ ॥ ऋणग्रस्तनराणां च ऋणमुक्तिप्रदायकः |
मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ॥ ४ ॥ स्थिरासनो महाकायः सर्वकर्मावबोधकः |
लोहितो लोहिताङ्गश्च सामगानां कृपाकरः ॥ ५ ॥ धरात्मजः कुजो भौमो भूमिदो भूमिनन्दनः |
अङ्गारको यमश्चैव सर्वरोगापहारकः ॥ ६ ॥ वृष्टिकर्तापहर्ता च सर्वकामफलप्रदः |
अङ्गारको महीपुत्रो भगवान् भक्तवत्सलः ॥ ७ ॥ नमोऽस्तु ते ममाशेषमृणमाशु विनाशय |
एतानि कुजनामानि नित्यं यः प्रयतः पठेत् ॥ ८ ॥ ऋणं न जायते तस्य धनप्राप्तिस्तु जायते |
भूमिपुत्र महातेजः स्वेदोद्भव पिनाकिनः ॥ ९ ॥ धनार्थी त्वां प्रपन्नोऽस्मि गृहाणार्घ्यं नमोऽस्तु ते |
रक्तगन्धैश्च पुष्पैश्च धूपदीपैर्गुडोदनैः ॥ १० ॥ मङ्गलं पूजयित्वा तु मङ्गलेऽहनि सर्वदा |
ऋणरेखाः प्रकर्तव्याः खादिराङ्गारकेण तु ॥ ११ ॥ अङ्गुष्ठाग्रेण वामाङ्घ्रेरानुपूर्वीकृताः पठेत् |
एकविंशतिनामानि पठित्वा तु तदन्तिके ॥ १२ ॥ तास्तु प्रमार्जयेत् पश्चाद्वामपादेन संस्पृशन् |
एवं स्तुतो महातेजा ऋणं मे नाशय प्रभो ॥ १३ ॥ एवं भक्तिः कुजे यस्य न ऋणासौ धनी भवेत् |
[अत्र मुद्रिते बिन्दुपङ्क्तिः|
] ॐ नमो भगवते अङ्गारकाय भूमिपुत्राय ऋणहर्त्रे धनप्रदाय भक्तवत्सलाय धनं मे देहि शीघ्रं हुं फट् स्वाहा |
ॐ [बीजाक्षरक्रमः स्थानीयास्पष्टः] मङ्गलाय मम ऋणविमोचनं कुरु २ स्वाहा धनं देहि २ स्वाहा |
गुडौदनोपहारं दत्वा पूजनान्ते गोधूमान्नं भुञ्जीयात् |
इति मङ्गलपूजनं व्रतं च ॥ अथ कथा—सूत उवाच |
पूजितो देवदेवेशो देवैस्तु मङ्गलप्रदः |
गौतमेन पुरा पृष्टो लोहिताङ्गो महीसुतः ॥ १ ॥ गौतम उवाच |
कथयस्व महाभाग गुह्यं पूजनमुत्तमम् |
मन्त्रमाराधनं सर्वं सर्वपापप्रणाशनम् ॥ २ ॥ रूपं सुवर्णसङ्काशं वाहनायुधसंयुतम् |
येन पूजितमात्रेण जायते सुखमुत्तमम् ॥ ३ ॥ धर्मार्थकाममोक्षाणां कालेनैव फलप्रदम् |
सर्वपापप्रशमनं सर्वव्याधिविनाशनम् ॥ ४ ॥ सर्वसौख्यप्रदं देवं हत्यापातकनाशनम् |
सर्वयज्ञफलं प्रोक्तं सर्वकामफलप्रदम् ॥ ५ ॥ तपसा जपदानानां फलं चैवं तु लभ्यते |
तद्व्रतं ब्रूहि मे देव लोहिताङ्ग महाग्रह ॥ ६ ॥ यस्मिन्नाराधिते मर्त्यः सर्वसौभाग्यवान् भवेत् |
[अत्र मुद्रिते बिन्दुपङ्क्तिः|
] श्रीमङ्गल उवाच |
शृणु विप्र महाभाग धर्मज्ञ ऋषिगौतम |
व्रतं च पूजनं दानं यत्कृते भुवनत्रये ॥ ७ ॥ [पाठभेदाः: ऋणस्तोत्रे ८ अशेष ख.; १२ ताश्च ख.; १३ ऋणं मे स्थाने त्वं क.ग.; कथायां ४ येन ख.; ६ त्वं ख., गोप्यं ख.|
१२ अन्वयः अनिश्चितः|
]

Druckseite 752

Zuordnung zur deutschen Fassung: 33.MKA.

आसीत् पूर्वं महाप्राज्ञो ब्राह्मणो वेदपारगः |
तस्य भार्या सुनन्दीका नाम्ना ख्याता सुलोचना ॥ ८ ॥ तस्यापत्यं न सञ्जातं वन्ध्यत्वान्न कदाचन |
तेनान्यस्य सुता जातु सुशीला रूपसंयुता ॥ ९ ॥ ब्राह्मणस्य कुले जाता गृहीता पोषिता ध्रुवम् |
सर्वलक्षणसंपन्ना मद्व्रतेनैव गौतम ॥ १० ॥ पुरा जन्मनि तेनाहं चैकभावेन पूजितः |
सा पुत्री स्वगृहे नीता ब्राह्मणेनैव पालिता ॥ ११ ॥ नित्यं हि पुष्पितं तस्या अष्टाङ्गं कनकेन वै |
तत्सुवर्णेन विप्रोऽसौ धनसौभाग्यगर्वितः ॥ १२ ॥ कोटीश्वरो महाविप्रस्तु जातोऽस्मिन् भूमिमण्डले |
दृष्ट्वा नन्दकविप्रेण दशवर्षां वरार्थिनीम् ॥ १३ ॥ विवाहार्थं च विप्रस्य दत्ता सोमेश्वरस्य च |
वेदोक्तविधिना तेन विवाहमकरोत् तदा ॥ १४ ॥ वर्षैः कतिपयैर्विप्रस्तां कन्यां प्रौढयौवनाम् |
आदाय श्वशुरगृहान्निर्गतः शुभवासरे ॥ १५ ॥ स्वदेशोपरि मार्गेण व्रजंश्चौरैः सहानिशम् |
निशान्ते गह्वरे घोरे अरण्ये पर्वतोत्तमे ॥ १६ ॥ सर्वशून्ये व्रजन् तस्मिन्महालोभेन भावितः |
मार्गं चलति विप्रोऽसौ चौरैश्च विनिपातितः ॥ १७ ॥ तं पतिं मृतमालोक्य सा नारी शोकपीडिता |
पतिना सह विप्रेण मरणे समकल्पयत् ॥ १८ ॥ स्वपतिं तन्मयं विश्वं चिन्तयन्ती पदे पदे |
पतिं प्रदक्षिणीकृत्य चितायाश्च समीपतः ॥ १९ ॥ तेनाहं तस्य तुष्टो हि वरार्थं च प्रणोदिता |
ब्राह्मण्युवाच |
यदि तुष्टोऽसि मे देव तदा जीवतु मे पतिः ॥ मङ्गल उवाच |
देव इवाजरामरस्तव भर्ता भविष्यति |
अन्यद्ब्रूहि मयाख्यातं वरं त्रिभुवनोत्तमम् ॥ २१ ॥ ब्राह्मण्युवाच |
यदि तुष्टोऽसि मे देव ग्रहाणामधीश्वर |
ये त्वां स्मरन्ति देवेश रक्तचन्दनचर्चितम् ॥ २२ ॥ रक्तपुष्पैश्च संपूज्य प्रत्युषे भौमवासरे |
बन्धनं व्याधिरोगाश्च कदाचिन्नोपजायते ॥ २३ ॥ न सर्पैर्भयं मित्रवियोगो ब्राह्मणस्य वै |
मा मा कुरुष्व महीपुत्र भक्तानां सौख्यदो भव ॥ २४ ॥ मङ्गल उवाच |
एकविंशति भौमाश्च मद्व्रता विजितेन्द्रियाः |
एकान्ते हर्षचित्ताश्च चतुर्दीप्ताङ्किते गृहे ॥ २५ ॥ अर्घ्यश्च सकलैर्मन्त्रैर्दंपतीरक्तिकैस्तथा |
स्वशक्त्या भोजयेद्विप्रान् दातव्यं च हिरण्यकम् ॥ २६ ॥ युवानं रक्तवृषभं सर्वोपस्करसंयुतम् |
दत्वा वै ग्रहपीडा तु न स्यात् तेषां कदाचन ॥ २७ ॥ भूतवेतालडाकिन्यो न भवन्तीह हिंसकाः |
एवमुक्त्वा तदा तत्र मङ्गलोऽपि दिवं गतः ॥ २८ ॥ इदं व्रतं तदाख्यातं सर्वसौख्यप्रदायकम् |
इदं व्रतं करिष्यन्ति तेषां पीडा न जायते ॥ २९ ॥ स्त्रीभिश्चैतत् प्रकर्तव्यं पुरुषैश्च विशेषतः |
तेषां भुक्तिश्च मुक्तिश्च भवत्येव न संशयः ॥ ३० ॥ इति भविष्योत्तरे भौमव्रतम् ॥ अथ भौमव्रतोद्यापनम्—पूर्वोक्तप्रकारैरेकविंशतिभौमाः कर्तव्याः द्वाविंशतितमे उद्यापनं कार्यम् |
तद्यथा—दन्तधावनादिकं पूर्ववत् कृत्वा गृहमागत्य शुद्धायां भूमौ गोमयैस्त्रिकोणमध्ये एकविंशतिभिः कोष्ठैर्विरचितं मण्डलं कृत्वा, तत्र नानावर्णैश्चूर्णैः पूर्यं प्रतिकोष्ठे च वक्ष्यमाणध्यानतत्तन्मूर्तीनाम् संस्थाप्य पूर्ववत् पूजां कुर्यात् |
केचित्—एतत् सर्वं प्रथमदिने सन्ध्याकालमागत्य कृत्वा रात्रौ जागरणं दीपदानं च कुर्वन्ति |
[पाठभेदाः: ८ सुनन्दीको ख.; १२ नित्यं प्रसूयते स्वर्णमष्टाङ्गात्कनकद्युतिः ख.|
२० इति संख्या मुद्रिते न दृश्यते|
२६ दंपतीरक्तिकैः स्थानीयास्पष्टम्|
]

Druckseite 753

Zuordnung zur deutschen Fassung: 33.UDY, 33.RGV.

कुङ्कुमं सोदकं दद्याद्वस्त्रं दीपं तथैव च |
रक्तचन्दनलिप्ताङ्गाः पञ्चरत्नविभूषिताः ॥ १ ॥ रक्तवस्त्रपरिच्छन्ना नानाविधफलान्विताः |
त्रिसप्तकलशाः कार्या रक्तवर्णाश्च निर्व्रणाः ॥ २ ॥ रक्तचन्दनगोरोचनैर्भौमं संपूज्य रक्तपुष्पैर्मालाभिः सर्जरसधूपेन गुडोदनेन नैवेद्येन च पूजयेत् |
फलार्घ्यं दद्यात् |
ततो भौमादिभिर्मन्त्रैः प्रतिकुम्भं पूजां कुर्यात् |
प्रदक्षिणनमस्काराश्च कर्तव्याः |
होमं घृततिलैः कुर्यात् |
अग्निर्मूर्धेति मन्त्रेण समिधोऽष्टोत्तरं शतम् |
अष्टोत्तरसहस्रं वा अष्टाविंशतिरेव वा ॥ ३ ॥ होतव्या मधुसर्पिर्भ्यां दध्ना चैव घृतेन च |
गृह्योक्तविधिना चैव होमं कुर्याज्जितेन्द्रियः ॥ ४ ॥ समिधः खादिरा ज्ञेया होमे चाष्टोत्तरं शतम् |
भौमप्रीत्यै च विप्रेभ्यः सवस्त्रान् कलशान् दिशेत् ॥ ५ ॥ प्रतिमां दक्षिणायुक्तामाचार्याय निवेदयेत् |
रथं रक्तमनुड्वाहं सर्वोपस्करसंयुतम् ॥ ६ ॥ दद्यात् व्रतसमाप्त्यै सहेम प्रतिपद्य च |
अन्येभ्योऽपि यथाशक्त्या दद्याद्विप्रांश्च भोजयेत् ॥ ७ ॥ ततोऽच्छिद्रव्रतवाचनम् |
इति भविष्योत्तरे भौमव्रतोद्यापनम् ॥ अथ ऋग्विधानम् |
अग्निरुवाच |
ऋग्यजुःसामकार्यविधानं पुष्करोदितम् |
भुक्तिमुक्तिकरं जप्याद्धोमाद्रामाय तद्वदे ॥ ८ ॥ पुष्कर उवाच |
प्रतिवेदं तु कर्माणि कार्याणि प्रवदामि ते |
प्रथमं ऋग्विधानं वै शृणु त्वं भुक्तिमुक्तिदम् ॥ ९ ॥ अन्तर्जले तथा होमे जपतो मनसेप्सितम् |
कामं करोति गायत्री प्राणायामाद्विशेषतः ॥ १० ॥ गायत्र्या दशसाहस्रो जपो नक्ताशिनो द्विज |
बहुह्रादस्य तत्रैव सर्वकल्मषनाशनः ॥ ११ ॥ दशायुतानि जप्त्वाथ हविष्याशी स मुक्तिभाक् |
प्रणवो हि परं ब्रह्म तज्जपः सर्वपापहा ॥ १२ ॥ ओंकारशतजप्तं तु नाभिमात्रोदके स्थितः |
जलं पिबेत् स सर्वैस्तु पापैर्वै विप्र मुच्यते ॥ १३ ॥ मात्रात्रयं त्रयो वेदास्त्रयो देवास्त्रयोऽग्नयः |
महाव्याहृतयः सप्त लोका होमोऽखिलाघहा ॥ १४ ॥ गायत्री परमा जाप्या महाव्याहृतयस्तथा |
अन्तर्जले तथा राम प्रोक्तश्चैवाघमर्षणः ॥ १५ ॥ अग्निमीळे पुरोहितं सूक्तोऽयं वह्निदेवतः |
शिरसा धारयन् वह्निं यो जपेत् परिवत्सरम् ॥ १६ ॥ होमं त्रिषवणं भैक्ष्यमनग्निज्वलनं चरेत् |
अतः परमृचः सप्त वायवायाह्याः प्रकीर्तिताः ॥ १७ ॥ ता जपन् प्रयतो नित्यमिष्टान् कामान् समश्नुते |
मेधाकामो जपेन्नित्यं सदसस्पतिमित्यृचम् ॥ १८ ॥ अश्वेयो यन्तीमाः प्रोक्ता नवर्चो मृत्युनाशनाः |
शुनः शेपमृचं बद्धः संनिरुद्धोऽथवा जपेत् ॥ १९ ॥ मुच्यते सर्वपापेभ्यो गदी वाप्यगदी भवेत् |
य इच्छेच्छाश्वतं कामं मित्रं प्रज्ञं पुरन्दरम् ॥ २० ॥ ऋग्भिः षोडशभिः कुर्यादिन्द्रस्येति दिने दिने |
हिरण्यस्तूपमित्येतज्जपञ्छत्रून् प्रबाधते ॥ २१ ॥ क्षेमी भवति चाध्वन्यो ये ते पन्थां जपन् नरः |
रौद्रीभिः षड्भिरीशानं स्तूयाद्यो वै दिने दिने ॥ २२ ॥ [मुद्रितऋग्वेदसन्दर्भाः: १६ (१ म० १ सू० १); १७ (१|
२|
१); १८ (१|
१८|
६); १९ (१|
२३|
१६), (१|
२४|
१३); २१ (१|
३२|
१); २२ (१|
३५|
११), (१|
४३|
१)|
स्थानीयास्पष्टपाठाः: ११ बहुह्रादस्य; १७ भैक्ष्यमनग्निज्वलनम्; १९ अश्वेयो; २० प्रज्ञम्|
]

Druckseite 754

Zuordnung zur deutschen Fassung: 33.RGV.

चरुं वा कल्पयेद्रौद्रं तस्य शान्तिः परा भवेत् |
उदित्युन्नतमादित्यमुपतिष्ठन् दिने दिने ॥ २३ ॥ क्षिपेज्जलाञ्जलीन् सप्त मनोदुःखविनाशनम् |
द्विषन्तमित्यथार्धर्चं यद्विप्र तं जपन् सहेत् ॥ २४ ॥ आगस्कृत् सप्तरात्रेण विद्वेषमधिगच्छति |
आरोग्यकामी रोगी वा प्रस्कण्वस्योत्तमं जपेत् ॥ २५ ॥ उत्तमस्तस्य चार्धर्चो जपेद् विविधासने |
उदयत्यायुरक्षय्यं तेजो मध्यन्दिने जपेत् ॥ २६ ॥ अस्तं प्रतिगते सूर्ये द्विषन्तं प्रतिबाधते |
उपं प्र चेति सूक्तानि जपञ्छत्रून् नियच्छति ॥ २७ ॥ एकादश सुपर्णस्य सर्वकामान् विनिर्दिशेत् |
आध्यात्मिकः क इत्येता जपन् मोक्षमवाप्नुयात् ॥ २८ ॥ आ नो भद्रा इत्यनेन दीर्घमायुरवाप्नुयात् |
त्वं सोमेति च सूक्तेन नवं पश्येन्निशाकरम् ॥ २९ ॥ उपतिष्ठेत् समित्पाणिर्वासांस्याप्नोत्यसंशयम् |
आयुरीप्सन्निममिति कौत्सं सूक्तं सदा जपेत् ॥ ३० ॥ अप नः शोशुचदिति स्तुत्वा मध्ये दिवाकरम् |
यथा मुञ्चति चेषीकां तथा पापं प्रमुञ्चति ॥ ३१ ॥ जातवेदस इत्येतज्जपेत् स्वस्त्ययनं पथि |
भयैर्विमुच्यते सर्वैः स्वस्तिमानाप्नुयात् गृहान् ॥ ३२ ॥ व्युष्टायाञ्च तथा रात्र्यामेतद् दुःस्वप्ननाशनम् |
प्रमन्दिनेति सूक्तान्तं जपेद्बन्धविमोचनम् ॥ ३३ ॥ जपेन्निन्द्रामिति स्नातो वैश्वदेवं तु सप्तकम् |
मुञ्चत्याज्यं तथा जुह्वत् सकलं किल्बिषं नरः ॥ ३४ ॥ इमां इति जपन् शश्वत् कामानाप्नोत्यमीप्सितान् |
मानस्तोकेति द्वाभ्यां त्रिरात्रोपोषितः शुचिः ॥ ३५ ॥ औडुम्बरीश्च जुहुयात् समिधश्चाज्यसंस्कृताः |
छित्त्वा सर्वान् मृत्युपाशाञ्जीवेद्रोगविवर्जितः ॥ ३६ ॥ ऊर्ध्वबाहुरनेनैव स्तुत्वा शम्युं तथैव च |
मानस्तोकेति च ऋचा शिखाबन्धे कृते नरः ॥ ३७ ॥ अधृष्यः सर्वभूतानां जायते संशयं विना |
चित्रमित्युपतिष्ठेत् त्रिसन्ध्यं भास्करं तथा ॥ ३८ ॥ समित्पाणिर्नरो नित्यमीप्सितं धनमाप्नुयात् |
अथ स्वप्नेति च जपन् प्रातर्मध्यन्दिने दिने ॥ ३९ ॥ दुःस्वप्नं चादते कृत्स्नं भोजनश्चाप्नुयाच्छुभम् |
उभे पुनामीति तथा रक्षोघ्नः परिकीर्तितः ॥ ४० ॥ ये देवास इति ऋचो जपन् कामानवाप्नुयात् |
न मा गरन्निति जपन् मुच्यते चाततायिनः ॥ ४१ ॥ कथा शुभेति च जपञ्जातिश्रैष्ठ्यमवाप्नुयात् |
इमं नः सोममित्येतत् सर्वान् कामानवाप्नुयात् ॥ ४२ ॥ पितुं न्वित्युपतिष्ठेत् नित्यमन्नमुपस्थितम् |
अग्ने नयेति सूक्तेन घृतहोमाच्च मार्गगः ॥ ४३ ॥ वीरानयमवाप्नोति सश्रीकं यो जपेत्सदा |
कङ्कतो नेति सूक्तेन विषान् सर्वान् व्यपोहति ॥ ४४ ॥ यो जात इति सूक्तेन सर्वान् कामानवाप्नुयात् |
गणानां त्वेति सूक्तेन सिद्धिमाप्नोत्यनुत्तमम् ॥ ४५ ॥ यो मे राजन्नितीमान्तु दुःस्वप्नशमनीमृचम् |
अध्वनि प्रथितो यस्तु पश्येच्छकुनमुत्थितम् ॥ ४६ ॥ [मुद्रितऋग्वेदसन्दर्भाः: १|
५०|
१; १|
५०|
१३; १|
७२|
१; १|
७४|
१; १|
८८|
१६; १|
८९|
१; १|
९१|
१; १|
९४|
१; १|
९७|
१; १|
९९|
१; १|
१०१|
१; १|
१०६|
१; १|
११४|
१; १|
११४|
८; १|
११५|
१; १|
१२०|
१२; १|
१३३|
१; १|
१३९|
११; १|
१५८|
५; १|
१६५|
१; १|
१७९|
५; १|
१८७|
१; १|
१८९|
१; १|
१९१|
१; २|
१२|
१; २|
२३|
१; २|
२८|
१०|
] [स्थानीयपाठदोषाः सम्भाव्याः: २३ उदित्युन्नतम्; २७ उपं; ३४ जपेन्निन्द्राम्; ४० भोजनः; ४४ वीरानयम्; ४६ प्रथितः|
सन्दर्भः १|
८८|
१६ मुद्रिते तथा|
]

Druckseite 755

Zuordnung zur deutschen Fassung: 33.RGV.

अप्रशान्तं प्रशान्तं वा कुविन्मां गो इमं जपेत् |
द्वाविंशकं जपन् सूक्तमाध्यात्मिकमनुत्तमम् ॥ ४७ ॥ पर्वसु प्रयतो नित्यमिष्टान् कामान् समश्नुते |
कृणुष्वेति जपन् सूक्तं जुहुयादाज्यं समाहितः ॥ ४८ ॥ अरातीनां हरेत् प्राणान् रक्षांस्यपि विनाशयेत् |
उपतिष्ठेत् स्वयं वह्निं परीति ऋचा दिने दिने ॥ ४९ ॥ तं रक्षति स्वयं वह्निर्विश्वतो विश्वतोमुखः |
हंसः शुचिषदित्येतच्छुचिरीक्षेद् दिवाकरम् ॥ ५० ॥ कृषिं प्रपद्यमानस्तु स्थालीपाकं यथाविधि |
जुहुयात् क्षेत्रमध्ये तु शुनं वाहास्ति पञ्चभिः ॥ ५१ ॥ इन्द्राय च मरुद्भ्यस्तु पर्जन्याय भगाय च |
यथालिङ्गं तु विहरेल्लाङ्गलं तु कृषीवलः ॥ ५२ ॥ युक्तो धान्याय सीतायै सुनासीरावथोत्तरम् (४|
५७|
५) |
गन्धमाल्यैर्नमस्कारैर्यजदेताश्च देवताः ॥ ५३ ॥ प्रवापने प्रलवने खलसीतापहारयोः |
अमोघं कर्म भवति वर्धते सर्वदा कृषिः ॥ ५४ ॥ समुद्रादिति सूक्तेन कामानाप्नोति पावकात् |
विश्वानि न इति द्वाभ्यां य ऋग्भ्यां वह्निमर्हति ॥ ५५ ॥ स तरत्यापदः सर्वा यशः प्राप्नोति चाव्ययम् |
विपुलां श्रियमाप्नोति जयं प्राप्नोत्यनुत्तमम् ॥ ५६ ॥ अग्ने तमिति च स्तुत्वा धनमाप्नोति वाञ्छितम् |
प्रजाकामो जपेन्नित्यं वरुणदैवतत्रयम् ॥ ५७ ॥ स्वस्त्यात्रेयं जपेत् प्रातः सदा स्वस्त्ययनं महत् |
स्वस्ति पन्था इति प्रोच्य स्वस्तिमान् व्रजतेऽध्वनि ॥ ५८ ॥ विजिहीष्व वनस्पते शत्रूणां व्याधितं भवेत् |
स्त्रिया गर्भप्रमूढाया गर्भमोक्षणमुत्तमम् ॥ ५९ ॥ अच्छावदेति सूक्तं च वृष्टिकामः प्रयोजयेत् |
निराहारः क्लिन्नवासा न चिरेण प्रवर्षति ॥ ६० ॥ मनसः काममित्येतां पशुकामो नरो जपेत् |
कर्दमेनेति स्नायात् प्रजाकामः शुचिव्रतः ॥ ६१ ॥ अश्वपूर्वामिति स्नायाद्राज्यकामस्तु मानवः |
रोहिते चर्मणि स्नायाद्ब्राह्मणस्तु यथाविधि ॥ ६२ ॥ राजा चर्मणि वैयाघ्रे छागे वैश्यस्तथैव च |
दशसाहस्रिको होमः प्रत्येकं परिकीर्तितः ॥ ६३ ॥ गाव इति सूक्तेन गोष्ठे गां लोकमातरम् |
उपतिष्ठेद् व्रजेच्चैव यदीच्छेत्ताः सदाक्षयाः ॥ ६४ ॥ उपेति तिसृभी राजा दुन्दुभिमभिमन्त्रयेत् |
तेजो बलं च प्राप्नोति शत्रुं चैव नियच्छति ॥ ६५ ॥ तृणपाणिर्जपेत् सूक्तं रक्षोहं दस्यूमिःखतः |
ये के चे मेत्यृचं जप्त्वा दीर्घमायुरवाप्नुयात् ॥ ६६ ॥ जीमूतसूक्तेन तथा सेनाङ्गान्यभिमन्त्रयेत् |
यथालिङ्गं ततो राजा विनिहन्ति रणे रिपून् ॥ ६७ ॥ अग्नेयेति त्रिभिः सूक्तैर्धनमाप्नोति चाक्षयम् |
अमीवहेति सूक्तेन भूतानि स्वापयेन्निशि ॥ ६८ ॥ संवासे विषमे दुर्गे बन्धो (द्धो) वा निर्गतः क्वचित् |
पलायन् वा गृहीतो वा सूक्तमेतत्तथा जपेत् ॥ ६९ ॥ त्रिरात्रं नियतोपोष्य श्रपयेत् पायसं चरुम् |
तेनाहुतिशतं पूर्णं जुहुयात् त्र्यम्बकेत्यृचा ॥ ७० ॥ समुद्दिश्य महादेवं जीवेदब्दशतं सुखम् |
तच्चक्षुरित्यृचा स्नात उपतिष्ठेद् दिवाकरम् ॥ ७१ ॥ उद्यन्तं मध्यगं चैव दीर्घमायुर्जिजीविषुः |
(सूक्ताभ्यां पर एताभ्यां महतीं भूतिमाप्नुयात्) ॥ ७२ ॥ [मुद्रितऋग्वेदसन्दर्भाः: ३|
४३|
५; ३|
५५|
१; ४|
४|
१; ४|
१०|
१; ४|
४०|
५; ४|
५७|
४; ४|
५८|
१; ५|
४|
९; ५|
२३|
१; ५|
५१|
११; ५|
५१|
१५; ५|
७८|
५; ५|
७८|
७; ५|
८२|
१; ६|
२८|
१; ६|
४७|
२९; ४|
४|
१; ६|
५२|
१५; ६|
७५|
१; ७|
१|
१; ७|
५५|
१; ७|
५९|
१२; ७|
६६|
१६|
स्थानीयास्पष्टपाठाः: ५१ शुनं वाहास्ति; ६६ रक्षोहं दस्यूमिःखतः|
]

Druckseite 756

Zuordnung zur deutschen Fassung: 33.RGV.

इन्द्रासोमेति सूक्तं तु कथितं शत्रुनाशनम् |
यस्य लुप्तं व्रतं मोहाद् व्रात्यैर्वा संसृजेत् सह ॥ ७३ ॥ उपोष्याज्यं स जुहुयात् त्वमग्ने व्रतपा इति |
अदितीत्यृक् च साम्राजं जप्त्वा वादे जयी भवेत् ॥ ७४ ॥ नहीति च चतुष्केण मुच्यते महतो भयात् |
ऋचं जप्त्वा यदीत्येतत् सर्वान् कामानवाप्नुयात् ॥ ७५ ॥ द्वाचत्वारिंशतं चैन्द्रं जप्त्वा नाशयते रिपून् |
ऋचं महीति जप्त्वा च प्राप्नोत्यारोग्यमेव च ॥ ७६ ॥ शंनो भवेति द्वाभ्यां तु भुक्तवांश्च प्रयतः शुचिः |
हृदयं पाणिना स्पृष्ट्वा व्याधिभिर्नाभिभूयते ॥ ७७ ॥ उत्वा मन्दन्त्विति स्नातो हुत्वा शत्रुं प्रमापयेत् |
त्वंनोऽग्ने इति सूक्तेन हुतेनान्नमवाप्नुयात् ॥ ७८ ॥ कन्या वारिति सूक्तेन त्वग्दोषाद्विप्र मुच्यते |
यदद्य केच्चवृत्रहन्निति जप्ते वश्यं जगद्भवेत् ॥ ७९ ॥ यद्वागिति च जप्तेन वाणी भवति संस्कृता |
वर्चोविदमिति त्वेता जपन् वाचं समश्नुते ॥ ८० ॥ पवित्राणां पवित्रं तु पावमान्यो ह्यृचो मताः |
वैखानसा ऋचस्त्रिंशत् पवित्राः परमा मताः ॥ ८१ ॥ ऋचो द्विषष्टिः प्रोक्ताश्च पवस्वेत्यृषिसत्तम |
सर्वकल्मषनाशाय पावनाय शिवाय च ॥ ८२ ॥ स्वादिष्ठयेति सूक्तानां सप्तषष्टिरुदाहृता |
दशोत्तरा ऋचां चैता पावमान्यः शतानि षट् ॥ ८३ ॥ एतज्जपंश्च जुह्वच्च घोरं मृत्युभयं जयेत् |
आपो हि ष्ठेति वारिस्थो जपेत् पापभयार्दने ॥ ८४ ॥ प्र देवत्रेति नियतो जपेच्च मरुधन्वसु |
प्राणान्तिके भये प्राप्ते चिरमायुस्तु विन्दति ॥ ८५ ॥ प्रावेपा मेत्यृचमेकां जपेच्च मनसा निशि |
व्युष्टायामुदिते सूर्ये द्यूते जयमवाप्नुयात् ॥ ८६ ॥ मा प्र गामेति मूढश्च पन्थानं पथि विन्दति |
क्षीणायुरिति मन्येत यं कंचित् सुहृदं प्रियम् ॥ ८७ ॥ यत्ते यममिति स्नातस्तस्य मूर्धानमालभेत् |
सहस्रकृत्वः पञ्चाहं तेनायुर्विन्दते महत् ॥ ८८ ॥ उदीमित्येति जुहुयाद् घृतं प्राज्ञः सहस्रशः |
पशुकामो गवां गोष्ठे अन्नकामश्चतुष्पथे ॥ ८९ ॥ वयः सुपर्णा इत्येतां जपन्ने विन्दते श्रियम् |
हविष्पान्तीयमभ्यस्य सर्वपापैः प्रमुच्यते ॥ ९० ॥ तस्य रोगा विनश्यन्ति कायाग्निर्वर्धते तथा |
या ओषधीः स्वस्त्ययनं सर्वव्याधिविनाशनम् ॥ ९१ ॥ बृहस्पते प्रतीत्येतद् वृष्टिकामः प्रयोजयेत् |
सर्वत्रेति परा शान्तिर्ज्ञेयाऽप्रतिरथं तथा ॥ ९२ ॥ भूतांशं काश्यपं नित्यं प्रजाकामस्य कीर्तितम् |
अहं रुद्रेति च जपेद्वाग्मी भवति मानवः ॥ ९३ ॥ न योनौ जायते विद्वान् जपन्नात्रीति रात्रिषु |
रात्रिसूक्तं जपन् रात्रौ रात्रिं क्षेमी नयेन्नरः ॥ ९४ ॥ कल्पयन्तीति च जपेन्नित्यं कृत्यारिनाशनम् |
(आयुष्यं चैव वर्चस्यं सूक्तं दाक्षायणं महत्) ॥ ९५ ॥ [मुद्रितऋग्वेदसन्दर्भाः: ७|
१०४|
१; ८|
११|
१; ८|
१८|
६; ८|
३०|
१; ८|
३२|
६; ८|
४५|
१; ८|
४७|
१; ८|
४८|
४; ८|
६४|
१; ८|
७१|
१; ८|
९१|
१; ८|
९३|
४; ८|
१००|
१०; ८|
१०२|
१६; ९|
६६|
१; ९|
२५|
१; ९|
१|
१; १०|
९|
१; १०|
३०|
१; १०|
३४|
१; १०|
५७|
१; १०|
५८|
१; १०|
६१|
१; १०|
७३|
१६; १०|
८८|
१; १०|
९७|
१; १०|
९८|
१; १०|
१०३|
१; १०|
१०६|
१; १०|
१२५|
१; १०|
१२७|
१; १०|
१३०|
४६|
अन्तिमसंख्या स्थानीयास्पष्टा; असामान्यसन्दर्भाः न संशोधिताः|
]

Druckseite 757

Zuordnung zur deutschen Fassung: 33.RGV, 33.YJV.

उत देवा इति जपेदामयघ्नं धृतव्रतः |
अयमग्ने जरित्येतज्जपेदग्निभये सति ॥ ९६ ॥ अरण्यानीत्यरण्येषु जपेत्तद्भयनाशनम् |
ब्राह्मीमासाद्य सूक्ते द्वे वचां ब्राह्मीं शतावरीम् ॥ ९७ ॥ पृथग्गव्यैर्घृतैर्वाद्य मेधां लक्ष्मीं च विन्दति |
शासं इत्यसपत्नं संग्रामं विजिगीषतः ॥ ९८ ॥ ब्रह्मणाग्निः संविदानं गर्भमृत्युनिवारणम् |
अपेहीति जपेत् सूक्तं शुचिर्दुःस्वप्ननाशनम् ॥ ९९ ॥ तुभ्येदमिति वै जप्त्वा समाधिं विन्दते परम् |
मयोभूर्वात इत्येतद्गवां स्वस्त्ययने महत् ॥ १०० ॥ शाम्बरीमिन्द्रजालं वा मायामेतेन वारयेत् |
महि त्रीणामवोऽस्त्विति पथि स्वस्त्ययनं जपेत् ॥ १०१ ॥ प्राग्नयेति द्विषन्नेवं जपेच्च रिपुनाशनम् |
वास्तोष्पत्येन मन्त्रेण यजेत गृहदेवताः ॥ १०२ ॥ जपस्यैष विधिः प्रोक्तो हुते ज्ञेयो विशेषतः |
होमान्ते दक्षिणा देया पापशान्तिर्हुतेन तु ॥ १०३ ॥ हुतं शाम्यति चान्नेन अन्नं हेमप्रदानतः |
विप्राशिषस्त्वमोघाः स्युर्वेदिः स्नानं तु सर्वतः ॥ १०४ ॥ सिद्धार्थका यवा धान्यं पयो दधि घृतं तथा |
क्षीरवृक्षास्तथेध्मं तु होमा वै सर्वकामदाः ॥ १०५ ॥ [१०६ पूर्वार्धः: अभिचाराय विषद्रव्यसूची सम्पादकीयतया वर्जिता|
] अभिचारे तथा शैलमशनं सक्तवः पयः ॥ १०६ ॥ दधि भैक्ष्यं फलं मूलमाराम्यधान्यमुदाहृतम् |
[अत्र मुद्रिते बिन्दुपङ्क्तिः|
] इति ऋग्विधानम् ॥ अथ यजुर्विधानम्— यजुर्विधानं वक्ष्यामि भुक्तिमुक्तिप्रदं शृणु |
ओंकारपूर्विका राम महाव्याहृतयो मताः ॥ १ ॥ सर्वकल्मषनाशिन्यः सर्वकामप्रदास्तथा |
आज्याहुतिसहस्रेण देवानाराधयेद् बुधः ॥ २ ॥ मनसः काङ्क्षितं राम मनसेप्सितकामदम् |
शान्तिकामो यवैः कुर्यात्तिलैः पापापनुत्तये ॥ ३ ॥ धान्यैः सिद्धार्थकैश्चैव सर्वकामकरैस्तथा |
औडुम्बरीभिरिध्माभिः पशुकामस्य शस्यते ॥ ४ ॥ दध्ना चैवान्नकामस्य पयसा शान्तिमिच्छतः |
अपामार्गसमिद्भिस्तु कामयन् कनकं बहु ॥ ५ ॥ कन्याकामो घृताक्तानि युग्मशो ग्रथितानि तु |
जातीपुष्पाणि जुहुयाद् ग्रामार्थं तिलतण्डुलान् ॥ ६ ॥ वश्यकर्मणि शाखोटं वासापामार्गमेव च |
[७ उत्तरार्धः: व्याधिजननाय विषमिश्रणम् सम्पादकीयतया वर्जितम्|
] ॥ ७ ॥ [८ पूर्वार्धः: शत्रुवधाय विषवनस्पतिप्रयोगः सम्पादकीयतया वर्जितः|
] सर्वव्रीहिमयीं कृत्वा राज्ञः प्रतिकृतिं द्विज ॥ ८ ॥ सहस्रशस्तु जुहुयाद्राजा वशगतो भवेत् |
धनकामस्य पुष्पाणि दूर्वा व्याधिविनाशिनी ॥ ९ ॥ ब्रह्मवर्चसकामस्य वासांश्च विधीयते |
प्रत्यङ्मुखेषु जुहुयात् तुषकण्टकभस्मभिः ॥ १० ॥ विद्वेषणे च पक्षाणि काककौशिकयोस्तथा |
कापिलं च घृतं हुत्वा तथा चन्द्रोदये द्विज ॥ ११ ॥ वचाचूर्णेन संपातान् समानीय च तां वचाम् |
सहस्रमन्त्रितां भुक्त्वा मेधावी जायते नरः ॥ १२ ॥ एकादशाङ्गुलं शङ्कुं लौहं खादिरमेव च |
द्विषतो वधोऽसीति जपाच्चखननाद्रिपुवेश्मनि ॥ १३ ॥ [मुद्रितऋग्वेदसन्दर्भाः: १०|
१३७|
१; १०|
१४२|
१; १०|
१४६|
१; १०|
१५२|
१; १०|
१६२|
१; १०|
१६४|
१; १०|
१६७|
१; १०|
१६९|
१; १०|
१८५|
१; १०|
१८७|
१; ७|
५४|
१|
यजुर्विधाने ९ वसुकामस्य ग.; १० वाससं ग.; १२ वचाघृतं ग.|
ऋग्विधाने १०४ वेदिः स्नानम् स्थानीयास्पष्टम्; यजुर्विधाने १० वासांश्च स्थानीयास्पष्टम्|
]

Druckseite 758

Zuordnung zur deutschen Fassung: 33.YJV.

उच्चाटनमिदं कर्म शत्रूणां कथितं तव |
चक्षुष्या इति जप्त्वा च विनष्टं चक्षुराप्नुयात् ॥ १४ ॥ उपयुञ्जत इत्येतदनुवाकं तथान्नदम् |
तनूपा अग्ने सदिति (३|
१७) दूर्वां हुत्वार्तिवर्जितः ॥ १५ ॥ भेषजमसीति दध्याज्यैर्होमः पशूपसर्गनुत् |
त्रियम्बकं यजामहे होमः सौभाग्यवर्धनः ॥ १६ ॥ कन्यानाम गृहीत्वा तु कन्यालाभकरः परः |
भयेषु तु जपन्नित्यं भयेभ्यो विप्र मुच्यते ॥ १७ ॥ धत्तूरपुष्पं सघृतं हुत्वा स्यात् सर्वकामभाक् |
हुत्वा तु गुग्गुलं राम स्वप्ने पश्यति शङ्करम् ॥ १८ ॥ युञ्जते मनोऽनुवाकं जप्त्वा दीर्घायुराप्नुयात् |
विष्णो रराटमित्येतत् सर्वबाधाविनाशनम् ॥ १९ ॥ रक्षोघ्नं च यशस्यं च तथैव विजयप्रदम् |
अयनो अग्निरित्येतत् सङ्ग्रामे विजयप्रदम् ॥ २० ॥ इदमापः प्रवहत स्नाने पापापनोदनम् |
विश्वकर्मन् हविषेति सूचीं लौहीं दशाङ्गुलाम् ॥ २१ ॥ कन्याया निखनेद् द्वारि साऽन्यस्मै न प्रदीयते |
देव सवितरतेन हुतेनानेन चान्नवान् ॥ २२ ॥ अग्रे क्षोदिति जुहुयाद्बलकामो द्विजोत्तम |
तिलैर्यवैश्च धर्मज्ञ तथापामार्गतण्डुलैः ॥ २३ ॥ सहस्रमन्त्रितां कृत्वा तथा गोरोचनां द्विज |
तिलकं च तया कृत्वा जनस्य प्रियतामियात् ॥ २४ ॥ रुद्राणां च तथा जप्यं सर्वाघविनिषूदनम् |
सर्वकर्मकरो होमस्तथा सर्वत्र शान्तिदः ॥ २५ ॥ अजाविकानामश्वानां कुञ्जराणां तथा गवाम् |
मनुष्याणां नरेन्द्राणां बालानां योषितामपि ॥ २६ ॥ ग्रामाणां नगराणां च देशानामपि भार्गव |
उपद्रुतानां धर्मज्ञ व्याधितानां तथैव च ॥ २७ ॥ मरके समनुप्राप्ते रिपुजे च तथा भये |
रुद्रहोमः परा शान्तिः पायसेन घृतेन च ॥ २८ ॥ कूष्माण्डघृतहोमेन सर्वान् पापान् व्यपोहति |
सक्तुयावकभैक्षाशी नक्तं मनुजसत्तम ॥ २९ ॥ बहिः स्नानरतो मासान्मुच्यते ब्रह्महत्यया |
मधु वातेति मन्त्रेण होमादिष्टोऽखिलं लभेत् ॥ ३० ॥ दधि क्राव्णेति हुत्वा तु पुत्रान् प्राप्नोत्यसंशयम् |
तथा घृतवतीत्येतदायुष्यं स्याद् घृतेन तु ॥ ३१ ॥ स्वस्ति न इन्द्र इत्येतत् सर्वबाधाविनाशनम् |
इह गावः प्रजायध्वमिति पुष्टेविवर्धनम् ॥ ३२ ॥ घृताहुतिसहस्रेण तथालक्ष्मीविनाशनम् |
सर्वेण देवस्य वेति हुत्वापामार्गतण्डुलम् ॥ ३३ ॥ मुच्यते विकृताच्छीघ्रमभिचारान्न संशयः |
रुद्र यत्ते पलाशस्य समिद्भिः कनकं लभेत् ॥ ३४ ॥ शिवो भवेत्यग्न्युत्पाते व्रीहिभिर्जुहुयान्नरः |
याः सेना इति चैवैतत् तस्करेभ्यो भयापहम् ॥ ३५ ॥ योऽस्मभ्यमरातीयाद् हुत्वा कृष्णतिलान्नरः |
सहस्रशोऽभिचाराच्च मुच्यते विकृताद् द्विज ॥ ३६ ॥ अन्नेनान्नवतेत्येवं हुत्वा चान्नमवाप्नुयात् |
हंसः शुचिषदित्येतज्जप्तं तोयेऽघनाशनम् ॥ ३७ ॥ चत्वारि शृङ्गेत्येतत्तु सर्वपापहरं जले |
देवा यज्ञेति जप्त्वा तु ब्रह्मलोके महीयते ॥ ३८ ॥ वसन्तेति च हुत्वाज्यमादित्याद्वरमाप्नुयात् |
सुपर्णोऽसीति चैत्यस्य कर्म व्याहृतिवद्भवेत् ॥ ३९ ॥ [मुद्रितयजुर्वेदसन्दर्भाः: ३|
५६; ३|
६०; ५|
१४; ५|
२१; ५|
२७; ६|
१७; ८|
६; ८|
३६; २७|
२२; १३|
२७; २३|
२२; ३४|
४५; २५|
२९; ५|
२२; ११|
४५; १९|
७७; ११|
८०; १९|
८३; १०|
२३; १७|
६१; १९|
१२; २४|
२०; १२|
४|
पाठभेदाः: १६ होमोऽयमुपसर्गहा क.; २३ धनकामो क.|
स्थानीयास्पष्टपाठाः: १४ चक्षुष्या; १९ रराटम्; २० अयनो अग्निः; २३ अग्रे क्षोदिति|
]

Druckseite 759

Zuordnung zur deutschen Fassung: 33.YJV.

नमः सूतेति त्रिर्जप्त्वा बन्धनान्मोक्षमाप्नुयात् |
अन्तर्जले त्रिरावर्त्यं द्रुपदां सर्वपापनुत् ॥ ४० ॥ इह गावः प्रजायध्वं मन्त्रोऽयं बुद्धिवर्धनः |
हुतस्तु सर्पिषा दध्ना पयसा पायसेन वा ॥ ४१ ॥ शतं व इति (१२|
७६) वैतेन हुत्वा पर्णफलानि च |
आरोग्यं श्रियमाप्नोति जीवितञ्च चिरं तथा ॥ ४२ ॥ ओषधीः प्रतिमोदध्वं वपने लवनेऽर्थकृत् |
अश्वावतीं पायसेन होमाच्छान्तिमवाप्नुयात् ॥ ४३ ॥ उच्छुष्मा इति मन्त्रेण बन्धनस्थो विमुच्यते |
युवा सुवासा इत्येव वासांस्याप्नोत्यनुत्तमम् ॥ ४४ ॥ मुञ्चन्तु मा शपथ्येति सर्वान्तकविनाशनम् |
मा मां हिंसीरित्याज्येन हुतं रिपुविनाशनम् ॥ ४५ ॥ नमोऽस्तु सर्वसर्पेभ्यो घृतेन पायसेन च |
कृणुष्व पाज इत्येतदभिचारविनाशनम् ॥ ४६ ॥ दूर्वाकाण्डायुतं हुत्वा काण्डात्काण्डेति मानवः |
ग्रामे जनपदे वापि मरकं तु शमं नयेत् ॥ ४७ ॥ रोगार्तो मुच्यते रोगात् तथा दुःखात्तु दुःखितः |
औडुम्बरीश्च समिधो मधुमन्नो वनस्पतिः ॥ ४८ ॥ हुत्वा सहस्रशो राम धनमाप्नोति मानवः |
सौभाग्यं महदाप्नोति व्यवहारे तथा जयम् ॥ ४९ ॥ अपां गर्भमिति हुत्वा देवं वर्षापयेद्ध्रुवम् |
अपां त्वेमेति (१३|
५३) च तथा हुत्वा दधि घृतं मधु ॥ ५० ॥ प्रवर्तयति धर्मज्ञ महावृष्टिमनन्तरम् |
नमस्ते रुद्र इत्येतत् सर्वोपद्रवनाशनम् ॥ ५१ ॥ सर्वशान्तिकरं प्रोक्तं महापातकनाशनम् |
अध्यवोचदित्यनेन रक्षणं व्याधितस्य तु ॥ ५२ ॥ रक्षोघ्नं च यशस्यं चिरायुःपुष्टिवर्धनम् |
सिद्धार्थकानां क्षेपेण पथि चैतज्जपन् सुखी ॥ ५३ ॥ असौ यस्ताम्रो इत्येतत् पश्यन्नित्यं दिवाकरम् |
उपतिष्ठेत धर्मज्ञ सायं प्रातरतन्द्रितः ॥ ५४ ॥ अन्नमक्षयमाप्नोति दीर्घमायुश्च विन्दति |
प्र मुञ्च धन्वनेत्येतत् षड्भिरायुधमन्त्रणम् ॥ ५५ ॥ रिपूणां भयदं युद्धे नात्र कार्या विचारणा |
मा नो महान्तं इत्येवं बालानां शान्तिकारकम् ॥ ५६ ॥ नमो हिरण्यबाहवे इत्यनुवाकसप्तकम् |
राजिकां कटुतैलाक्तां जुहुयाच्छत्रुनाशिनीम् ॥ ५७ ॥ नमो वः किरिकेभ्यश्च पद्मलक्षाहुतेर्नरः |
राज्यलक्ष्मीमवाप्नोति तथा बिल्वैः सुवर्णकम् ॥ ५८ ॥ इमा रुद्रायेति तिलैर्होमाच्च धनमाप्यते |
दूर्वाहोमेन चान्येन सर्वव्याधिविवर्जितः ॥ ५९ ॥ आशुः शिशान इत्येतदायुधानां च रक्षणे |
संग्रामे कथितं राम सर्वशत्रुनिबर्हणम् ॥ ६० ॥ वाजश्च मेति जुहुयात् सहस्रं पञ्चभिर्द्विज |
आज्याहुतीनां धर्मज्ञ चक्षुरोगाद्विमुच्यते ॥ ६१ ॥ शन्नो वनस्पते गेहे होमः स्याद्वास्तुदोषनुत् |
अग्न आयूंषि दूर्वाज्यं द्वेषं नाप्नोति केनचित् ॥ ६२ ॥ अपां फेनेति (१९|
७१) लाजाभिर्हुत्वा जयमवाप्नुयात् |
भद्रो इतीन्द्रियैर्हीनो जपन् स्यात् सकलेन्द्रियः ॥ अग्निश्च पृथिवी चेति वशीकरणमुत्तमम् |
अध्वनेति जपन्मन्त्रं व्यवहारे जयी भवेत् ॥ ६४ ॥ ब्रह्म राजन्यमिति च कर्मारम्भे तु सिद्धिकृत् |
संवत्सरोऽसीति घृततैलैर्होमादरोगवान् ॥ ६५ ॥ [मुद्रितयजुर्वेदसन्दर्भाः: १२|
६३; २०|
२०; १२|
७७; १२|
८१; १२|
८२; १२|
९०; १२|
१०२; १३|
६; १३|
६; १३|
२०; १३|
२९; १३|
३०; १६|
१; १६|
५; १६|
६; १६|
९; १६|
१५; १६|
१७; १६|
४६; १६|
४८; १७|
३३; १८|
१; १९|
३८; १५|
२९; २६|
१; २६|
१; २६|
२; २७|
४५|
६३ इति संख्या मुद्रिते न दृश्यते|
]

Druckseite 760

Zuordnung zur deutschen Fassung: 33.YJV, 33.SMV.

केतुं कृण्वन्नित्येतच्च संग्रामे जयवर्धनम् |
इन्द्रोऽसिर्मे इत्येतद्रणे वर्मनिबन्धनम् ॥ ६६ ॥ धन्वना गेति मन्त्रश्च धनुर्ग्रहणकः परः |
ऋजीतेति तथा मन्त्रो विज्ञेयो बाणिमन्त्रणे ॥ ६७ ॥ मर्मश्च हिरीवेत्येतच्छराणां मन्त्रणे भवेत् |
बह्वीनां पिता इत्येतत्तूणमन्त्रः प्रकीर्तितः ॥ ६८ ॥ युञ्जन्तीति तथाश्वानां योजने मन्त्र उच्यते |
आशुः शिशान इत्येतद्यात्रारम्भणमुच्यते ॥ ६९ ॥ विष्णोः क्रमोति मन्त्रश्च रथारोहणिकः परः |
आजङ्घन्तीति चाश्वानां ताडनीयमुदाहृतम् ॥ ७० ॥ याः सेना अभीत्वरीति परसैन्यमुखे जपेत् |
दुन्दुभ्य इति चाप्येतद् दुन्दुभीताडनं भवेत् ॥ ७१ ॥ एतेः पूर्वैर्हुतैर्मन्त्रैः कृत्वैवं विजयी भवेत् |
यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः ॥ ७२ ॥ रथमुत्पादयेच्छीघ्रं संग्रामे विजयप्रदम् |
आ कृष्णेने तथैतस्य कर्म व्याहृतिवद्भवेत् ॥ ७३ ॥ शिवसंकल्पजापेन समाधिं मनसो लभेत् |
पञ्चनद्यः पञ्चलक्षं हुत्वा लक्ष्मीमवाप्नुयात् ॥ ७४ ॥ यदाबध्नन् दाक्षायणा मन्त्रेणानेन मन्त्रितम् |
सहस्रकृत्वः कनकं धारयेद्रिपुवारकम् ॥ ७५ ॥ इमं जीवेभ्य इति च शिलां लोष्टं चतुर्दिशम् |
क्षिपेद् गृहे तदा तस्य न स्याच्चोरभयं निशि ॥ ७६ ॥ परी मे गामिनेषेति वशीकरणमुत्तमम् |
हन्तुमभ्यागतस्तत्र(स्य) वशी भवति मानवः ॥ ७७ ॥ भक्ष्यताम्बूलपुष्पाणां मन्त्रितं तु प्रयच्छति |
यस्य धर्मज्ञ वशगः सोऽस्य शीघ्रं भविष्यति ॥ ७८ ॥ शन्नो मित्रः शमित्येतत्सदा सर्वत्र शान्तिदम् |
गणानां त्वा गणपतिं कृत्वा होमं चतुष्पथे ॥ ७९ ॥ वशीकुर्याज्जगत्सर्वं सर्वधान्यैरसंशयम् |
हिरण्यवर्णाः शुचयो मन्त्रोऽयमाभिषेचने ॥ ८० ॥ शन्नो देवीरभिष्टये तथा शान्तिकरः परः |
एकचक्रेति मन्त्रेण हुतेनाज्येन भागशः ॥ ८१ ॥ ग्रहेभ्यः शान्तिमाप्नोति प्रसादं च न संशयः |
गावो भग इति द्वाभ्यां हुत्वाज्यं गा अवाप्नुयात् ॥ ८२ ॥ प्रवादांशः सोम इति ग्रहयज्ञे विधीयते |
देवो वनस्पतिरिति द्रुमयज्ञे विधीयते ॥ ८३ ॥ गायत्री वैष्णवी ज्ञेया तद्विष्णोः परमं पदम् |
सर्वपापप्रशमनं सर्वकामकरं तथा ॥ ८४ ॥ इति यजुर्विधानम् ॥ अथ सामविधानम्— यजुर्विधानं कथितं वक्ष्ये साम्नां विधानकम् |
संहितां वैष्णवीं जप्त्वा हुत्वा स्यात्सर्वकामभाक् ॥ १ ॥ संहितां छान्दसीं साधु जप्त्वा प्रीणाति शङ्करम् |
स्कान्दं पैत्र्यां संहितां च जप्त्वा स्यात्तु प्रसादवान् ॥ यत इन्द्र भयामहे हिंसादोषविनाशनम् |
अवकीर्णी मुच्यते च अग्निस्तिग्मेति वै जपन् ॥ ३ ॥ सर्वपापहरं ज्ञेयं परितोषिञ्चता सुतम् |
अविक्रेयं च विक्रीय जपेद् घृतवतीति च ॥ ४ ॥ अद्या नो देव सवितर्ज्ञेयं दुःस्वप्ननाशनम् |
अबोध्यग्निरिति मन्त्रेण घृतं राम यथाविधि ॥ ५ ॥ अभ्युक्ष्य घृतशेषेण मेखलाबन्ध इष्यते |
स्त्रीणां यासां तु गर्भाणि पतन्ति भृगुसत्तम ॥ ६ ॥ मणिं जातस्य बालस्य बध्नीयात्तदनन्तरम् |
सोमं राजानमेतने व्याधिभिर्विप्र मुच्यते ॥ ७ ॥ [मुद्रितयजुर्वेदसन्दर्भाः: २९|
३७; २९|
३९; २९|
४६; २९|
५१; २९|
४२; २३|
४; १२|
५; २९|
५०; ११|
७७; २९|
१३; ३३|
४३; ३५|
१; ३४|
११; ३४|
५२; ३५|
१५; ३५|
१८; ३६|
९; ३६|
१२; २८|
७३; ९|
५|
सामविधाने २ इति संख्या मुद्रिते न दृश्यते|
स्थानीयास्पष्टमन्त्रारम्भाः यथामुद्रितं रक्षिताः|
]

Druckseite 761

Zuordnung zur deutschen Fassung: 33.SMV, 33.ATV.

सर्पसाम प्रयुञ्जानो नाप्नुयात् सर्पजं भयम् |
माद्य वा वाद्यतेत्येतद् हुत्वा विप्र सहस्रशः ॥ ८ ॥ शतावरिमणिं बद्ध्वा नाप्नुयाच्छत्रुतो भयम् |
दीर्घतमसोऽर्क इति हुत्वान्नं प्राप्नुयाद् वसु ॥ ९ ॥ समिन्यायन्तीति जपन् न म्रियेत पिपासया |
त्वमिमा ओषधी रेतज्जप्त्वा व्याधिं न चाप्नुयात् ॥ १० ॥ पथि देवव्रतं जप्त्वा भयेभ्यो विप्र मुच्यते |
यदिन्द्रो अनयदिति हुतं सौभाग्यवर्धनम् ॥ ११ ॥ भगो न चित्र इत्येवं नेत्रयोरञ्जनं हितम् |
सौभाग्यवर्धनं राम नात्र कार्या विचारणा ॥ १२ ॥ जपेदिन्द्रेति वर्गं च तथा सौभाग्यवर्धनम् |
परि प्रिया दिवः कविः काम्यां संश्रावयेत् स्त्रियम् ॥ १३ ॥ सा तं कामयते राम नात्र कार्या विचारणा |
रथन्तरं वामदेव्यं ब्रह्मवर्चसवर्धनम् ॥ १४ ॥ प्राशयेद्बालकं नित्यं वचाचूर्णं घृतप्लुतम् |
इन्द्रमिहासिनं जप्त्वा भवेच्छ्रुतिधरस्त्वसौ ॥ १५ ॥ हुत्वा रथन्तरं जप्त्वा पुत्रमाप्नोत्यसंशयम् |
मयि श्रीरिति मन्त्रोऽयं जप्तव्यः श्रीविवर्धनः ॥ १६ ॥ वैरूप्यस्याष्टकं नित्यं प्रयुञ्जानः श्रियं लभेत् |
सप्तार्कं प्रयुञ्जानः सर्वान् कामानवाप्नुयात् ॥ १७ ॥ गव्येषु शेति यो नित्यं सायं प्रातरतन्द्रितः |
उपस्थानं गवां कुर्यात्तस्य स्युस्ताः सदा गृहे ॥ १८ ॥ घृताक्तं तु यवद्रोणं वात आवातु भेषजम् |
अनेन हुत्वा विधिवत् सर्वां मायां व्यपोहति ॥ १९ ॥ प्रदेवो दासेन तिलान् हुत्वा कामेणकृन्तनम् |
अभि त्वा पूर्वपीतये वषट्कारसमन्वितम् ॥ २० ॥ वासकेध्मसहस्रं तु हुतं युद्धे जयप्रदम् |
हस्त्यश्वपुरुषान् कुर्याद्बुधः पिष्टमयान् शुभान् ॥ २१ ॥ परकीयानेथोद्देश्य प्रधानपुरुषांस्तथा |
सुखिन्नान् पिष्टकवरान् दुरोगौकृत्य भागशः ॥ २२ ॥ अभि त्वा शूर नो नुमो मन्त्रेणानेन मन्त्रवित् |
कृत्वा सर्षपतैलाक्तान् प्रोक्तेन जुहुयात्ततः ॥ २३ ॥ एतत् कृत्वा बुधः कर्म संग्रामे जयमाप्नुयात् |
गारुडं वामदेव्यं च रथन्तरबृहद्रथौ ॥ २४ ॥ सर्वपापप्रशमनः कथितः संशयं विना |
[अत्र मुद्रिते बिन्दुपङ्क्तिः|
] इति सामविधानम् ॥ अथाथर्वविधानम्— साम्नां विधानं कथितं वक्ष्ये चाथर्वणमथ |
शान्तातीयं गणं हुत्वा शान्तिमाप्नोति मानवः ॥ १ ॥ भैषज्यं च गणं हुत्वा सर्वान् रोगान् व्यपोहति |
त्रिसप्तीयं गणं हुत्वा सर्वपापैः प्रमुच्यते ॥ २ ॥ क्वचिन्नाप्नोति च भयं हुत्वा चैवाभयं गणम् |
न क्वचिज्जायते राम गणं हुत्वापराजितम् ॥ ३ ॥ आयुष्यं च गणं हुत्वा अल्पमृत्युं व्यपोहति |
स्वस्तिमाप्नोति सर्वत्र हुत्वा स्वस्त्ययनं गणम् ॥ ४ ॥ श्रेयसा योगमाप्नोति हुत्वाथर्वगणं तथा |
वास्तोष्पत्यं गणं हुत्वा वास्तुदोषान् व्यपोहति ॥ ५ ॥ तथा रौद्रगणं हुत्वा सर्वान् दोषान् व्यपोहति |
एतैर्दशगणैर्होमो ह्यष्टादशसु शान्तिषु ॥ ६ ॥ वैष्णवी शान्तिरैन्द्री तु ब्राह्मी रौद्री तथैव च |
वायव्या वारुणी चैव कौबेरी भार्गवी तथा ॥ ७ ॥ प्राजापत्या तथा त्वाष्ट्री कौमारी वह्निदेवता |
मारुद्गणा च गान्धर्वी शान्तिर्नैरृतकी तथा ॥ ८ ॥ शान्तिराङ्गिरसी याम्या पार्थिवी सर्वकामदा |
यस्त्वां मृत्युरीति ह्येतज्जप्तं मृत्युविनाशनम् ॥ ९ ॥ [मुद्रितसन्दर्भाः: ५|
१|
१०; २०|
७|
४|
१; १६|
१|
१|
१; ८|
१|
१|
पाठभेदाः: सामविधाने ९ शस्त्रतः ख.; २४ तावेभ्यः ग.; अथर्वविधाने ९ यत् त्वां ख.|
स्थानीयास्पष्टपाठाः: सामविधाने ८ माद्य वा वाद्यते; १० समिन्यायन्ति; २० कामेणकृन्तनम्; २२ सुखिन्नान्…दुरोगौकृत्य; अथर्वविधाने ३ न क्वचिज्जायते|
]

Druckseite 762

Zuordnung zur deutschen Fassung: 33.ATV, 33.MRJ.

सुपर्णस्त्वेति हुत्वा च भुजङ्गैर्नैव बाध्यते |
इन्द्रेण दत्तमित्येतत् सर्वबाधाविनाशनम् ॥ १० ॥ इमां देवीति मन्त्रश्च सर्वशान्तिकरः परः |
देवा मरुत इत्येतत् सर्वकामकरं भवेत् ॥ ११ ॥ अमुष्य लोकादित्येतद् दुःस्वप्नशमनं परम् |
इन्द्रं वयं वणिजेति पण्यलाभकरं परम् ॥ १२ ॥ कामो मे राजेति हुतं स्त्रीणां सौभाग्यवर्धनम् |
तुभ्यमेव जरिमन्नित्ययुतं तु हुतं भवेत् ॥ १३ ॥ अग्ने गोभिर्न इत्येतत् मेधावृद्धिकरं परम् |
ध्रुवं ध्रुवेणेति हुतं स्थानलाभकरं भवेत् ॥ १४ ॥ युनक्तिसीरा वियुगा कृषिलाभकरं भवेत् |
अयं ते योनिरित्येतत् पुत्रलाभकरं भवेत् ॥ १५ ॥ अहन्ते भग इत्येतद्भवेत् सौभाग्यवर्धनम् |
ये मे पाशास्तथाप्येतद् बन्धनान्मोक्षकारणम् ॥ १६ ॥ अहन्नहन्निति रिपून्नाशयेद्धोमजाप्यतः |
त्वमुत्तममिति चैतद् यशोबुद्धिविवर्धनम् ॥ १७ ॥ यथा मृगवतीत्येतत् स्त्रीणां सौभाग्यवर्धनम् |
येन देही स्तिदं चैव गर्भलाभकरं भवेत् ॥ १८ ॥ शिवः शिवाभिरित्येतत् क्रुद्धं भूपं प्रसादयेत् |
बृहस्पतिर्नः परिपातु पथि स्वस्त्ययनं भवेत् ॥ १९ ॥ मुञ्चामि त्वेति च जपादपमृत्युनिवारणम् |
अथर्वशिरसोऽध्येता सर्वपापैः प्रमुच्यते ॥ २० ॥ प्राधान्येन तु मन्त्राणां किञ्चित्कर्म तवेरितम् |
वृक्षाणां यज्ञियानां तु समिधः प्रथमं हविः ॥ २१ ॥ आज्यं च व्रीहयश्चैव तथा वै गौरसर्षपाः |
अक्षतानि तिलाश्चैव दधिक्षीरे च भार्गव ॥ २२ ॥ दर्भास्तथैव दूर्वाश्च बिल्वानि कमलानि च |
शान्तिपुष्टिकराण्याहुर्द्रव्याण्येतानि सर्वतः ॥ २३ ॥ [२४: अभिचाराय विषद्रव्यसूची सम्पादकीयतया वर्जिता; संख्या रक्षिता|
] आर्षं च दैवतं छन्दो विनियोगश्च आचरेत् |
[अत्र मुद्रिते बिन्दुपङ्क्तिः|
] इत्यथर्वविधानम् ॥ अथ मृत्युञ्जयप्रयोगो ग्रन्थान्तरे— चतुरस्रं चतुर्द्वारं त्रिरेखं पद्मगर्भितम् |
हस्तत्रयप्रमाणं तु तण्डुलैर्मण्डलं लिखेत् ॥ १ ॥ भैरवीर्भैरवान् सिद्धीर्दिशो नागानुपग्रहान् |
पीठोपपीठसंयुक्तदिक्पालादिसमन्वितम् ॥ २ ॥ देवतानां चतुष्षष्टिं लिखेत् पद्मे सुशोभने |
एकैकपद्मपत्रेषु वसुसंख्या दलेदले ॥ ३ ॥ प्रणवादिनमोन्तैस्तु नाममन्त्रैः प्रपूजयेत् |
गन्धपुष्पाक्षतैर्धूपदीपनैवेदनादिकैः ॥ ४ ॥ अर्चयेत् पद्मपत्रेषु सर्वकार्यप्रसादकान् |
सौवर्णं त्र्यम्बकं कुर्यात् पलेनार्धपलेन वा ॥ ५ ॥ गोमयेन गुडेनापि तथा वित्तानुसारतः |
मृत्युञ्जयेन मन्त्रेण पूजयेदुपचारकैः ॥ ६ ॥ सौम्यद्वारे महाभाग देवदेवं घटे न्यसेत् |
जपेन्मृत्युञ्जयं मन्त्रं तदग्रे तु सहस्रकम् ॥ ७ ॥ दैवसाहस्रं जपेत् तावद्रुद्राध्यायं विशेषतः |
अथवा बहुभिर्विप्रैः कोटिलक्षायुतादिकम् ॥ ८ ॥ जप्त्वा पूर्वं विघ्नराजं सर्वकार्यप्रसाधनम् |
षण्मासं राज्यकामस्तु पुत्रकामस्तथैव च ॥ ९ ॥ शत्रुनाशनकामस्तु वर्षान्तमपि कारयेत् |
षण्मासं पूजयेद्विद्वान् महारोगैः प्रपीडितः ॥ १० ॥ मासमेकं तु मासार्धं कुर्याद्रोगाकुलीकृतः |
बन्दीवेश्मनि दुर्गे वा बद्धो मुच्यते बन्धनात् ॥ ११ ॥ [स्थानीयास्पष्टपाठाः: अथर्वविधाने १८ येन देही स्तिदम्; मृत्युञ्जयप्रयोगे ८ दैवसाहस्रम्|
पादटिप्पणी वर्णविकृतेः निश्चयेन न पठ्यते|
]

Druckseite 763

Zuordnung zur deutschen Fassung: 33.MRJ, 33.PAR.

पारमासिकप्रयोगाच्च द्विगुणान्नात्र संशयः |
महारिष्टभयग्रस्तः प्रयोगमिममाचरेत् ॥ १२ ॥ नचारिष्टभयं घोरं प्राप्नुयादातिमेव च |
महापापसमुद्भूतं दुष्टकर्मसमार्जितम् ॥ १३ ॥ प्रयोगात् त्र्यम्बकाख्याच्च नत्तमारिष्टभयं क्वचित् |
एतन्मण्डलमध्यस्थोऽभिषिक्तः पुरुषो यदा ॥ १४ ॥ ततः प्रभृति युद्धेषु शत्रूञ्जयति निश्चितम् |
राज्यभ्रष्टो लभेद्राज्यं क्षीणायुर्म्रियते नच ॥ १५ ॥ मुक्त्वा पीडां ग्रहाः सर्वे शान्तिं कुर्वन्ति नित्यशः |
प्रयोगस्य प्रभावेन नात्र कार्या विचारणा ॥ १६ ॥ प्रयोगमपरं वक्ष्ये रहस्यं त्र्यम्बकाभिधम् |
सर्वार्थसाधनं पुण्यं सर्वोपद्रवनाशनम् ॥ १७ ॥ यत्कृते सर्वराजानो राजपुत्राश्च मन्त्रिणः |
राष्ट्राण्याः सर्वलोकाश्च तत्क्षणात् तद्वशानुगाः ॥ १८ ॥ अवश्या वश्यतां यान्ति दुष्टस्त्रीशूद्रजन्तवः |
वैरिणो वशगास्तस्य प्रयोगस्य प्रभावतः ॥ १९ ॥ सिध्यन्त्यखिलकार्याणि दुर्लभान्यपि तस्य तु |
तत्रादौ पूजयेद् देवं गणेशं विधिवत् सुधीः ॥ २० ॥ लिङ्गानेकादशमितान् पूजयेद्गुडसंभवान् |
पार्थिवान् वा प्रयत्नेन तदलाभे प्रयोजयेत् ॥ २१ ॥ रक्तवस्त्रैस्तथा गन्धैरुपचारैः समन्त्रकैः |
पूजयेच्च तथा देवीं पठेच्चण्डीं विधानतः ॥ २२ ॥ कोटिलक्षार्धकं जप्त्वा मन्त्रं मृत्युञ्जयाभिधम् |
ॐ जुं सः इति वै मन्त्रं त्र्यम्बकाख्यं सनातनम् ॥ २३ ॥ कुण्डे षडस्रसंयुक्ते त्र्यस्रे वा विधिवत् कृते |
स्वगृह्योक्तविधानेन स्थाप्य तत्र हुताशनम् ॥ २४ ॥ होमयेत् तद्दशांशेन मध्वाज्यतिलसर्षपैः |
आलिखेन्मण्डलं तत्र तण्डुलैः शोभनं बुधः ॥ २५ ॥ चतुरस्रं चतुर्द्वारं त्रिरेखं पद्मगर्भितम् |
साधकस्य त्रिभिर्हस्तैर्मितं हीनाधिकं न तत् ॥ २६ ॥ तन्मध्ये शोभनं पद्मं कृत्वा चाष्टदलान्वितम् |
एकैकपद्मपत्रे तु वसुसंख्या दलेदले ॥ २७ ॥ भैरवीर्भैरवान् सिद्धीर्दिशो नागानुपग्रहान् |
पीठोपपीठसंयुक्तान् दिक्पालैरष्टभिर्युतान् ॥ २८ ॥ चतुष्षष्टिमितान् देवान् विधिना स्थाप्य तण्डुलैः |
गन्धपुष्पोपचारैश्च नैवेद्यैर्विविधैस्तथा ॥ २९ ॥ प्रणवादिनमोन्तैश्च नाममन्त्रैः प्रपूजयेत् |
पूर्वद्वारे गणेशेन्द्रौ शिवमुत्तरतस्तथा ॥ ३० ॥ वरुणं पश्चिमे देवं यमं याम्ये विभुं तथा |
ईशान्यां कलशं स्थाप्य तीर्थवारिसमन्वितम् ॥ ३१ ॥ मृत्युञ्जयेन मन्त्रेण शतवाराभिमन्त्रितम् |
संपूज्य विधिवद्राजा विसर्जनमथाचरेत् ॥ ३२ ॥ यान्तु देवगणाः सर्वे पूजामादाय मामकीम् |
इष्टकामफलार्थाय पुनरागमनाय च ॥ ३३ ॥ अभिषिञ्चेत् ततो वीरं संग्रामे विजयी भवेत् |
श्रद्धयापि कृते ह्यस्मिन् प्रयोगे त्र्यम्बकाभिधे ॥ ३४ ॥ यथेप्सितमवाप्नोति फलं रुद्रप्रभावतः |
अश्रद्धयाल्पकरणात् फलमल्पं प्रजायते ॥ ३५ ॥ यथाविभवतश्चापि महदैश्वर्यमाप्नुयात् |
ऋत्विग्भ्यो दक्षिणां दद्यात् प्रयोगस्य प्रसिद्धये ॥ ३६ ॥ यथाशक्त्या तथा दद्यादाचार्याय विशेषतः |
ब्राह्मणान् भोजयेच्छक्त्या स्वयं चाञ्जीत वाग्यतः ॥ ३७ ॥ इति मृत्युञ्जयप्रयोगविशेषः ॥ अथ पार्थिवपूजाविशेषो ग्रन्थान्तरे— कार्तिके मार्गशीर्षे वा माघे वैशाख एव च |
श्रावणे बहुले पक्षे व्रतस्याचरणं शुभम् ॥ १ ॥ [पाठभेदाः: १३ नचा ख.; ३३ सत्कामे ख.|
स्थानीयास्पष्टपाठाः: १२ पारमासिक; १३ आतिम्; १४ नत्तम्; १८ राष्ट्राण्याः; २३ कोटिलक्षार्धकम्|
]

Druckseite 764

Zuordnung zur deutschen Fassung: 33.PAR.

लिङ्गं पार्थिवसंज्ञं तु कुर्यात् संपत्प्रदायकम् |
शुभेऽह्नि प्रातरुत्थाय शिवं ध्यात्वा विधानतः ॥ २ ॥ गत्वा प्राचीदिशं तत्र पठित्वा मन्त्रमुत्तमम् |
नमो गणेभ्य इति च मृदं ग्राह्य प्रयत्नतः ॥ ३ ॥ ये पृथिव्यामित्येतच्च स्नात्वा पञ्चाक्षरं जपेत् |
ततस्तु तर्पणं कार्यं शिवमन्त्रैः पृथक्पृथक् ॥ ४ ॥ शिवं शर्वं तथा चोग्रं मृडं च भवमेव च |
शशिशेखरसंज्ञं च शङ्करं च महेश्वरम् ॥ ५ ॥ नवमं विश्वरूपं च दशमं च कपर्दिनम् |
त्रियम्बकं तर्पयामि प्रणवादांश्च तर्पयेत् ॥ ६ ॥ ततो नित्यक्रियां कृत्वा ध्यात्वा देवं महेश्वरम् |
लिङ्गान्येकादशाष्टौ वा पञ्च वा कारयेत् सुधीः ॥ ७ ॥ मन्त्रयेत् देवभ्यो ये दिवीति विधानतः |
मा नस्तोकेति मन्त्रेण तानि संप्रोक्ष्य वारिणा ॥ ८ ॥ ये पृथिव्यामिति पठन् आसनानि प्रकल्पयेत् |
ॐ नमो भगवत्यै च उमादेव्यै च शङ्कर- ॥ ९ ॥ प्रियायै नम इत्यम्बां वामदेशे नियोजयेत् |
ततश्च स्वशरीरे तु न्यासं कुर्यात् समाहितः ॥ १० ॥ ललाटे तु शिवं न्यस्येत् कण्ठे रुद्रं ततः परम् |
ईशानं नाभिदेशे तु जान्वोः शङ्करमेव च ॥ ११ ॥ गुह्ये सर्वव्यापिनं च पञ्चाङ्गेषु ततः परम् |
पञ्चब्रह्ममन्त्रैश्चैव तेषु लिङ्गेषु वै द्विजः ॥ १२ ॥ मङ्गलायतनं देवं युवानमतिसुन्दरम् |
ध्यायेत् कल्पतरोर्मूले समासीनं सहोमया ॥ १३ ॥ एवं ध्यात्वा सहस्राणि सहस्रश इतीरयन् |
हिरण्यबाहवे वस्त्रं भूषणं शम्भवाय च ॥ १४ ॥ धृष्णवे चोत्तरीयं किरिकेभ्य उपवीतकम् |
गन्धं दद्यान्नमः श्वभ्यः पुष्पं पार्याय मन्त्रतः ॥ १५ ॥ नमः कपर्दिने धूपं दीपं च नम आशवे |
बभ्लुशाय च नैवेद्यं पर्ण्याय चेति पर्णकम् ॥ १६ ॥ आरात्रिकं ते तेजांसि एष ते च प्रदक्षिणम् |
नमोऽस्त्विति नमस्कार एष रुद्रार्चनाविधिः ॥ १७ ॥ अथवा ह्यसमये ह्युपचाराष्टकं भवेत् |
पञ्चाक्षरेण मन्त्रेण दशाक्षरेण वा पुनः ॥ १८ ॥ नमः शिवायेति मन्त्रः पञ्चाक्षर इति स्मृतः |
ॐ नमो भगशब्दान्ते वते रुद्राय वै भवेत् ॥ १९ ॥ मन्त्रो दशाक्षरः प्रोक्तः सर्वाभीष्टफलप्रदः |
गन्धं पुष्पं च नैवेद्यं धूपं दीपं तथैव च ॥ २० ॥ ताम्बूलं च नमस्कारं प्रादक्षिण्यं तथैव च |
उपचारांस्ततो दत्वा गौरीशं वै क्षमापयेत् ॥ २१ ॥ अष्ट मूर्तीस्ततः पूज्याः शर्वाय चितिमूर्तये |
नमोन्तेन च संपूज्य भवाय जलमूर्तये ॥ २२ ॥ नमो रुद्राय तत्राग्निमूर्तये नम ईरितः |
उग्राय वायुमूर्तिं खे नमो भीमाय तत्परम् ॥ २३ ॥ आकाशमूर्तये पश्चान्नमः पशुपतिं तथा |
ङेन्तं च यजमानेति मूर्तये तदनन्तरम् ॥ २४ ॥ ततो नमो महादेवं ङेन्तं सोमादिमूर्तये |
नम ईशानाय सूर्यमूर्तये नम ईरितः ॥ २५ ॥ अष्ट मूर्तीः शङ्करस्य वामावर्तेन पूजयेत् |
लिङ्गस्तवं प्रवक्ष्यामि शृणु पापहरं परम् ॥ २६ ॥ सर्वज्ञ ज्ञानविज्ञानप्रदानैकमहात्मने |
नमस्ते देवदेवेश सर्वभूतहिते रत ॥ २७ ॥ अनन्तकीर्तिसंपन्न अनन्तासनसंस्थित |
अनन्तकान्तिसंभोग परमेश नमोऽस्तु ते ॥ २८ ॥ बहुरूप महारूप सर्वरूपोत्तमोत्तम |
पशुपाशार्णवासीम दृढव्रत नमोऽस्तु ते ॥ २९ ॥ [स्थानीयास्पष्टपाठाः: ८ मन्त्रयेत् देवभ्यो; २२ चितिमूर्तये; २९ पशुपाशार्णवासीम|
]

Druckseite 765

Zuordnung zur deutschen Fassung: 33.PAR, 33.BHN, 33.APD, 33.BRY, 33.KUB, 33.BHV.

परापर परातीत उत्पत्तिस्थितिकारक |
सर्वार्थसाधनोपाय विश्वेश्वर नमोऽस्तु ते ॥ ३० ॥ स्वभावनिर्मलाकारं सर्वव्याधिविनाशन |
योगियोगमहायोग योगीश्वर नमोऽस्तु ते ॥ ३१ ॥ कृत्वा लिङ्गप्रतिष्ठां तु स्तवमेनमुदीरयेत् |
लिङ्गस्तवं महापुण्यं यः शृणोति सदा नरः ॥ ३२ ॥ नोत्पद्यते हि संसारे स्थानं प्राप्नोति शाश्वतम् |
तस्मात् सर्वप्रयत्नेन शृणुयाल्लिङ्गसंस्तवम् ॥ ३३ ॥ पापकञ्चुकनिर्मुक्तः प्राप्नोति परमं पदम् |
इति स्तुत्वा चिरं प्रार्थ्य मन्त्रमेनमुदीरयेत् ॥ ३४ ॥ अङ्गहीनं क्रियाहीनं विधिहीनं महेश्वर |
पूजितोऽसि मया देव तत् क्षमस्व भ्रमात् कृतम् ॥ ३५ ॥ यद्यप्युपहतैः पुष्पैरपास्तैर्भावदूषितैः |
केशकीटादिविद्धैश्च पूजितोऽसि मया प्रभो ॥ ३६ ॥ अन्यत्रासक्तचित्तेन क्रियाहीनेन वा प्रभो |
मनोवाक्कायदुष्टेन पूजितोऽसि त्रिलोचन ॥ ३७ ॥ यच्चोपहतपात्रेण कृतमर्घ्यादिकं मया |
तामसेन च भावेन तत् क्षमस्व मम प्रभो ॥ ३८ ॥ मन्त्रेणाक्षरहीनेन पुष्पेण विह्वलेन च |
पूजितोऽसि महादेव तत् सर्वं क्षम्यतां मम ॥ ३९ ॥ व्रतं संपूर्णतां यातु फलं चाक्षयमस्तु मे |
[अत्र मुद्रिते बिन्दुपङ्क्तिः|
] इति ॥ अथ भयनाशनम्— गौरीवल्लभ कामारे कालकूटविषाशन |
मामुद्धरापदम्भोधेत्रिपुरघ्नान्तकान्तक ॥ १ ॥ पाहि पाहि महादेव भक्तवर्गैकपोषक |
भयं दूरीकुरुष्वाद्य किमेतदनुवर्तते ॥ २ ॥ इति स्मरणेन भयनाशनं भवति ॥ अथापद्विनाशनम्— सर्वार्थसाधनोपाय सर्वैश्वर्यप्रदायक |
समस्तापत्प्रतीकार चन्द्रशेखर ते नमः ॥ १ ॥ इत्यापद्विनाशनम् ॥ अथ बालरक्षायन्त्रम्— तारादिलद्वयजलद्विठवर्णवीता रा(ठा)न्तान्तरे विलिखिता विधिनैव माया |
साध्यावृता बहिरथो वदनार्धचन्द्रैर्यन्त्रं शिशो रुरुदिषां विनिहन्ति सद्यः ॥ १ ॥ इति बालरक्षायन्त्रम् ॥ अथ कुबेरयन्त्रम्— कर्णिकायां साध्यगर्भं तारं पत्रेषु चाष्टसु |
वर्णान् कुबेरमन्त्रस्य चतुरश्चतुरो बहिः ॥ १ ॥ अया ते अग्ने समिधा ४|
४|
२५ मातृकार्णैश्च वेष्टयेत् |
भूपुरास्रिषु ठंबीजं दिक्षु वंबीजमेव च ॥ २ ॥ एतद्यन्त्रं कुबेरस्य रक्षाकरमनुत्तमम् |
चातुर्थिकादिविषमज्वरानाशु निहन्ति च ॥ ३ ॥ इति कुबेरयन्त्रम् ॥ ॐ ह्रीं क्लीं कालिके अमुकस्य बन्दीमोक्षं कुरु २ स्वाहा |
“गौरीवल्लभ कामारे कालकूटनिषूदन |
त्रिपुरध्वान्तकर्त्रे च निगडध्वंसकारिणे ॥” इति मन्त्रद्वयं जपेत् बन्दीमोक्षो भवति ॥ अथ भूरिविजयमन्त्रः—भगं भगं क्षोभय मोहय खेदय क्लेदय क्लिन्नस्य शरीरे हुं फट् स्वाहा |
२६ वर्णाः |
एष मन्त्रवरः श्रीमान् त्रिषु लोकेषु विश्रुतः |
नाम्ना भूरिजय इति स्वयं देवेन भाषितः ॥ १ ॥ दुर्भगानां च लोकानां निर्द्रव्याणां वरानने |
बुद्धितेजोविहीनानां विद्यागुणविवर्जिताम् ॥ २ ॥ [पाठभेदाः: लिङ्गस्तवे ३० भोग ख.; ३१ योगयोगि महायोग योगेश्वर ख.; ३२ वा ख.; ३६ स्वभावेन ख.; ३९ विकलेन क.; अनन्तरं अश्नुते क.ग.; बालरक्षायन्त्रे रान्तान्तरे क., साध्ययन्त्रं ग.|
स्थानीयास्पष्टाक्षराः बालरक्षायन्त्रस्य पूर्वार्धे, भूरिविजयमन्त्रे खेदय क्लेदय|
]

Druckseite 766

Zuordnung zur deutschen Fassung: 33.BHV, 33.HND.

एतज्जपेन तत् सर्वं संप्राप्नोति च मानवः |
यद्यद्विहीनो जपते तत्तत् प्राप्नोति मानवः ॥ ३ ॥ इति ॥ अथ रत्नधारामन्त्रः—रत्नरत्नमहारत्नधाराय स्वाहा |
अस्य प्रजापतिर्ऋषिर्गायत्री छन्दः रत्नधाराख्यो देवता रत्नधारालाभे विनियोगः |
साधकाय रत्नधारावर्षन्तं हस्ताभ्यां हारमुकुटमणिभूषितं ध्यायन् जपेत्, महती रत्नसमृद्धिः ॥ अथ कुबेरमन्त्रः |
[होमप्रकारः] वैश्रवणाय स्वाहा, यक्षेशाय०, पिङ्गलाय०, वित्तेशाय०, कुबेराय०, धनदाय०, राजराजाय०, भूः स्वाहा, भुवः स्वाहा, स्वः स्वाहा, भूर्भुवः स्वाहा |
एते दशमन्त्रा धनप्रदाः |
हेमपीठे कनकवर्णं करपुटे करण्डविलसितकरद्वयबृहदुदररत्नमण्डितयक्षपश्चान्निधिवृतं कुबेरं वटवृक्षाधो ध्यात्वा, वैश्वदेवावसाने अग्निमावाह्य तन्मुखे आज्याक्तवटसमिद्दशभिर्दशभिर्मन्त्रैर्जुहुयात्, बहुतरधनलाभः |
घृताक्तपायसैर्घृताक्तबिल्वसमिद्भिर्वा जुहुयाद्धनलाभः |
“घण्टाकर्ण विरूपाक्ष व्यात्तानन भयङ्कर |
विस्फोटकसङ्घं हत्वा रक्ष रक्ष महाबल ॥” द्वात्रिंशद्वारं जलमभिमन्त्र्य पेयं विस्फोटकहरणं भवति ॥ अथ हनुमत्प्रकरणम् |
तत्र पञ्चमुखहनुमन्मन्त्रविधिस्तत्र हनुमद्रहस्ये—अस्य पञ्चमुखहनुमन्मन्त्रस्य, ब्रह्मा ऋषिः, गायत्री छन्दः, पञ्चमुखविराड्रूपी हनुमान् परमात्मा देवता, हां बीजं, ह्रीं शक्तिः, हूं कीलकम्, ममाभीष्टसिद्धये विनियोगः |
षड्दीर्घमायया षडङ्गं विधाय ध्यायेत् |
अथ ध्यानं प्रवक्ष्यामि शृणु सर्वाङ्गसुन्दरि |
मत्कृतं देवदेवस्य ध्यानं हनुमतः परम् ॥ १ ॥ पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् |
बाहुभिर्दशभिर्युक्तं सर्वकाम्यार्थसिद्धिदम् ॥ २ ॥ पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम् |
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम् ॥ ३ ॥ अत्रैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् |
अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥ ४ ॥ पश्चिमं गारुडं वक्त्रं वज्रतुण्डं महाबलम् |
सर्वरोगप्रशमनं विषरोगनिवारणम् ॥ ५ ॥ उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोनिभम् |
पातालानिलभेत्तारं ज्वररोगनिकृन्तनम् ॥ ६ ॥ ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् |
एकवक्त्रेण विप्रेन्द्र तारकाख्यं महाबलम् ॥ ७ ॥ कुर्वन्तं शरणं तस्य सर्वशत्रुहरं परम् |
खड्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम् ॥ ८ ॥ ध्रुवमुष्टिगदामुण्डं दशाभिर्मुनिपुङ्गव |
एतान्यायुधजातानि धारयन्तं यजामहे ॥ ९ ॥ प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् |
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ १० ॥ सर्वैश्वर्यमयं देवमनन्तं विश्वतो मुखम् |
[अत्र मुद्रिते बिन्दुपङ्क्तिः|
] पञ्चास्यमच्युतमनेकविचित्रवीर्यवक्त्रं सुशङ्खविधृतं कपिराजवर्यम् |
पीताम्बरादिमुकुटैरभिशोभिताङ्गं पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि ॥ ११ ॥ मर्कटेश महोत्साह सर्वलोकविनाशन |
शत्रुसंहार मां रक्ष श्रियं दापय देहि मे ॥ १२ ॥ इति प्रार्थ्य |
(१) ॐ नमः पञ्चवदनाय पूर्वकपिमुखेन सकलशत्रुसंहरणाय महाबलाय स्वाहा |
(२) ॐ नमः पञ्चवदनाय दक्षिणमुखेन करालनृसिंहाय सकलभूतप्रमथनाय स्वाहा |
(३) ॐ नमः पञ्चवदनाय पश्चिममुखेन [अनुवृत्तिः पृष्ठे ७६७|
] [पाठभेदाः: कुबेरविधौ सार्वदेवावाद ख.; हनुमद्ध्याने ५ सर्वनाग क.; ६ भूतातिनिकृन्तनम् क., लाभिम क.; ११ अनन्तमनेकवीर्य क.ग.|
स्थानीयास्पष्टपाठाः कुबेरध्यानसमासे करण्ड…निधिवृतम्; हनुमद्ध्याने ९ ध्रुवमुष्टि…|
]

Druckseite 767

Zuordnung zur deutschen Fassung: 33.HNR, 33.HNA, 33.HNB.

वीरगरुडाय सकलविषहराय स्वाहा |
(४) ॐ नमः पञ्चवदनाय उत्तरमुखेनादिवराहाय सकलवशङ्कराय स्वाहा |
(५) ॐ नमः पञ्चवदनाय ऊर्ध्वमुखेन हनुमदेवाय सकलजनवशीकराय महादेवाय स्वाहा |
इति पञ्च मन्त्राञ्जपेत्, सर्वकार्यसिद्धिर्भवति ॥ विभीषण उवाच |
भगवंस्तार्क्ष्य पक्षीन्द्र वद कल्पं हनूमतः |
साङ्गोपाङ्गस्य मन्त्रस्य श्रीमद्धनुमतः स्मृतम् ॥ १ ॥ तार्क्ष्य उवाच |
पवनात्मजमन्त्राणां वदामि गह्वरं परम् |
येन विज्ञानमात्रेण हनुमान् सुप्रसीदति ॥ २ ॥ प्रणवाद्यामर्ककलां बिन्दुनोर्ध्वविभूषिताम् |
रमां मायां च संमिश्र मनुतुर्यस्वरस्वरैः ॥ ३ ॥ सबिन्दुभिः पुनश्चाथ शिवाद्यमस्त्रवर्णकम् |
एतद्वृतं जयारूढं शिवस्वरेण संयुतम् ॥ ४ ॥ बिन्दुमद्वा तदग्रे च खमस्त्रेण युतं वदेत् |
वह्नियुक्तं शूलपाणिस्वरयुक्तं च बिन्दुमत् ॥ ५ ॥ ततो वदेच्छिवं चान्द्रसंयुतं वह्निसंस्थितम् |
मनुस्वरेण संयुक्तं भूषितं बिन्दुनोपरि ॥ ६ ॥ ततः साद्यं च शशिना संयुतं शून्यवर्णयुक् |
पान्त्यवह्निसमायुक्तं वागादिसंयुतं वदेत् ॥ ७ ॥ सबिन्दुकं ततः शैवं शशिसंस्थं च बिन्दुमत् |
शक्रस्वरयुतं वाच्यं रुद्रबीजादिको मनुः ॥ ८ ॥ ततो नतिं समुच्चार्य ङेन्तं हनुमतः पदम् |
अस्मच्छब्दं च षष्ठ्यन्तं परं षष्ठीयुतं ततः ॥ ९ ॥ चकारः क्षयकुष्ठेति गण्डमाला च स्फोटकः |
क्षतज्वरेति च ततः एकाहिकपदं ततः ॥ १० ॥ द्व्याहिकं त्र्याहिकं चेति चातुर्थिकं च सन्ततम् |
ज्वरेति च ततो वाच्यं सान्निपातिकमीरयेत् ॥ ११ ॥ ज्वरभूतज्वरमन्त्र-ज्वरशूल-भगन्दराः |
मूत्रकृच्छ्रकपालेति शूलकर्णेति शूलकम् ॥ १२ ॥ अक्षिशूलोदरशूल-हस्तशूलपदं ततः |
पादशूलादि प्रवदेत् सर्वव्याधीन् क्षणेन च ॥ १३ ॥ भिन्धियुग्मं छिन्धियुग्मं नाशयेति द्विधा वद |
निकृन्तययुगं चैव छेदयेति द्विधा वद ॥ १४ ॥ भेदयेति द्विधा वाच्यं महावीरपदं ततः |
हनूमन् हाक्षरं द्वेधा द्विधा तु कवचं द्विधा ॥ १५ ॥ प्रेषवद्युगलं चोक्त्वा बीजानि च ततो वदेत् |
द्वितीयपञ्चषष्ठैश्च कवचाग्निप्रियवल्लभा ॥ १६ ॥ पञ्चषष्ट्युत्तरशतवर्णा मन्त्रे प्रकीर्तिताः |
अयं रोगप्रशान्त्यर्थं जप्तव्यः सततं नृभिः ॥ १७ ॥ ॐ [आद्यबीजक्रमः स्थानीयास्पष्टः] नमो हनुमते मम परस्य च क्षयकुष्ठगण्डमालास्फोटकक्षतज्वरैकाहिकद्व्याहिकत्र्याहिकचातुर्थिकसन्ततज्वरसान्निपातिकज्वरभूतज्वरमन्त्रज्वरशूलभगन्दरमूत्रकृच्छ्रकपालशूलकर्णशूलाक्षिशूलोदरशूलहस्तशूलपादशूलादिसर्वव्याधीन् क्षणेन भिन्धि २ छिन्धि २ नाशय २ निकृन्तय २ छेदय २ भेदय २ महावीरहनूमन् हाहा हुं हुं [अनन्तरबीजक्रमः स्थानीयास्पष्टः] फट् स्वाहा, (१६५ वर्णाः) इत्युद्धारः |
भस्मादाय त्रिधा ह्येवं मन्त्रयित्वा ददेत् सुधीः |
मन्त्रे ये गदिता रोगास्ते नश्यन्त्यस्य चाज्ञया ॥ १ ॥ इति |
तथा मन्त्रान्तरम्— आनिलेयस्यान्यमन्त्रं प्रवदामि समासतः |
सर्वलोकहितार्थाय सद्यः प्रत्ययकारकम् ॥ १ ॥ वेदादि च ततो वाचं लक्ष्मीं मायां त्रिधोच्चरेत् |
द्वितीयतुर्यषष्ठैश्च स्वरैः समनुवर्तिनीम् ॥ २ ॥ [पाठभेदः: प्रथमसंवादे १ वद तस्य क.|
बीजोद्धारश्लोकानां स्थानीयदोषाः ३, ४, ७, १६; सर्वबीजानां निश्चयः न कृतः|
]

Druckseite 768

Zuordnung zur deutschen Fassung: 33.HNB, 33.HNC.

शशिपान्त्यं वह्निस्थमेकारेण विभूषितम् |
बिन्दुमच्च ततः शून्यं पान्त्ययुक्तं सवह्निकम् ॥ ३ ॥ एकादशकलाढ्यं च बिन्दुनोर्ध्वविभूषितम् |
शिवचन्द्राग्निसंरूढमौयुक्तं बिन्दुभूषितम् ॥ ४ ॥ भार्गं सोमं शून्यसंस्थमद्वर्णाग्निसमन्वितम् |
अर्कादिककलायुक्तं बिन्द्वाढ्यं विजयप्रदम् ॥ ५ ॥ हंसयुक्तं मनुकलायुक्तं बिन्दुविभूषितम् |
बीजकूटे त्विमे वर्णा एकादश निवेशिताः ॥ ६ ॥ हृदयं हनुमच्छब्दं चतुर्थ्यन्तं समुच्चरेत् |
महाबल ततश्चाथ पराक्रम ममेति च ॥ ७ ॥ परस्य च चतुर्वर्णान् भूतप्रेतपिशाचकान् |
शाकिनी डाकिनी चाथ यक्षिणी पूतनेति च ॥ ८ ॥ मारी ततो महामारी कृत्या यक्षेति राक्षस |
ततो भैरववेतालग्रहब्रह्मग्रहेति च ॥ ९ ॥ ब्रह्मराक्षसादिकेति जातक्रूरेति चोच्चरेत् |
बाधाः क्षणेन च हन द्विधा भञ्जययुग्मकम् ॥ १० ॥ विनाशय द्विधा वाच्यं वारयेति द्विधा वदेत् |
बन्धयेति युगं चैव नुदेति च तथोच्चरेत् ॥ ११ ॥ सुन्देति च द्विधा प्रोक्तं धुनेति च द्विधा वदेत् |
तथोच्चरेन्मोचयेति मामेनं च ततः परम् ॥ १२ ॥ रक्षेति युगलं वाच्यं महामहेश्वरं पदम् |
ततो रुद्रावतारेति हा त्रिधा कवचं त्रिधा ॥ १३ ॥ प्रेषङ्कं च त्रिवारं स्यात् कवचास्त्राग्निवल्लभा |
एकषष्ट्युत्तरशतं(?) वर्णा मन्त्रे प्रकीर्तिताः ॥ १४ ॥ अथोद्धारः—ॐ [आद्यबीजक्रमः स्थानीयास्पष्टः] नमो हनुमते महाबलपराक्रम मम परस्य च भूतप्रेतपिशाचकशाकिनीडाकिनीयक्षिणीपूतनामारीमहामारीकृत्यायक्षराक्षसभैरववेतालग्रहब्रह्मग्रहब्रह्मराक्षसादिकजातक्रूरबाधाः क्षणेन हन २ भञ्जय २ विनाशय २ वारय २ बन्धय २ नुद २ सुन्द २ धुन २ मोचय २ मामेनं च रक्ष २ महामहेश्वर रुद्रावतार हाहाहा हुं हुं हुं प्रे प्रे प्रे हुं फट् स्वाहा ॥ सर्वत्र सर्वभूतानां नाशको हनुमन्मनुः |
भस्म वारि सर्षपांश्च सिकताश्चाभिमन्त्रयेत् ॥ १५ ॥ यत्र क्वापि भयं शङ्का विकिरेत्तत्र तत्र तु |
एकैकं वा समूहं वा दशदिक्षु इतस्ततः ॥ १६ ॥ विकीर्य भस्म वारिभ्यां भीतस्य प्रक्षिपेत्तनौ |
पानार्थं वारि दातव्यं भस्म चाङ्गे निवेशयेत् ॥ १७ ॥ इति |
तथा मन्त्रान्तरम्— अपरं चाञ्जनेयस्य मन्त्रं वच्मि समासतः |
कलौ जप्तं तु सर्वत्राभयदं सर्वसिद्धिदम् ॥ १ ॥ ओंकारवाग्भवरमा ह्रां ह्रीं हूं च ततः परम् |
पूर्ववत् पञ्चकूटानि बीजानि च तथोच्चरेत् ॥ २ ॥ एकादशेति कूटानि प्रोच्चार्य च ततः परम् |
हनुमते चतुर्वर्णान् मम शब्दं परस्य च ॥ ३ ॥ महाभयानि पञ्चार्णान् सर्वव्याघ्रादितस्कर |
जलाग्निविषजङ्गमस्थावरसहेति च ॥ ४ ॥ कृत्रिमोपविषं चेति महासांग्रामिकं तथा |
अरण्यवादविवादशस्त्राण्यस्त्रादिकानि च ॥ ५ ॥ संहरेति द्विधोच्चार्य विनाशय तथा पुनः |
तथोच्चरेद् ग्रसयुगं ग्रासय त्रोटय द्विधा ॥ ६ ॥ भञ्ज द्विधा भञ्जयाथ द्विधा स्तम्भय वै द्विधा |
तुण्टयेति द्विधा वाच्यं मोहयेति द्विधोच्चरेत् ॥ ७ ॥ कवचं च त्रिधोच्चार्य प्रेषङ्कं च त्रिधा वद |
क्रोधमस्त्रं वह्निजायासंयुतो मनुरीरितः ॥ ८ ॥ [पाठभेदाः: द्वितीयमन्त्रे १३ मायेेश्वर ग.; तृतीयमन्त्रे ७ मोटय क.|
स्थानीयास्पष्टपाठाः: द्वितीयमन्त्रे बीजोद्धारः, १२ सुन्द; तृतीयमन्त्रे ४ स्थावरसहेति, ७ तुण्टय|
१६१(?) इत्यत्र प्रश्नचिह्नं मुद्रिते एव|
]

Druckseite 769

Zuordnung zur deutschen Fassung: 33.HNC, 33.HNM.

एकषष्ट्युत्तरशतं(?) मन्त्रे वर्णा निवेशिताः |
शस्त्रास्त्रविषसर्पादिव्यथाभयविनाशनः ॥ ९ ॥ मन्त्रोऽयं रामदूतस्य चिन्तितेप्सितसाधकः |
[अत्र मुद्रिते बिन्दुपङ्क्तिः|
] अथोद्धारः—ॐ [आद्यबीजक्रमः स्थानीयास्पष्टः] हनुमते मम परस्य च महाभयानि सर्पव्याघ्रतस्करजलाग्निविषजङ्गमस्थावरसहजकृत्रिमोपविषमहासांग्रामिकारण्यवादविवादशस्त्रास्त्रादिकानि संहर २ विनाशय २ ग्रस २ ग्रासय २ त्रोटय २ भञ्ज २ भञ्जय २ स्तम्भय २ कुण्टय २ मोहय २ हुं ३ प्रे ३ हुं फट् स्वाहा ॥ तथा—मन्त्रान्तरम् |
मारुतेर्मन्त्रमन्यं च ब्रुवे सर्वमनोहरम् |
सद्यः फलति भक्तानां कार्यप्रत्ययकारकम् ॥ १ ॥ तारं वागिन्दिरां देवीं हृल्लेखां च त्रिधा वद |
आद्यस्वरैस्त्रिभिश्चाथ बिन्दुनाङ्कितमस्तकाम् ॥ २ ॥ सपान्तं वह्निस्थं च ईशानस्वरसंयुतम् |
बिन्दुनादं ततः प्रोक्तमितरं कूटकं शृणु ॥ ३ ॥ द्वितीयं तु कवर्गस्य पवर्गस्य तदेव हि |
यवर्गस्य द्वितीयेन संयुक्तमैःयुतं कुरु ॥ ४ ॥ बिन्दुना भूषितं मूर्ध्नि ततोऽन्यच्छृणु बीजकम् |
शिवेन्दुवह्निमच्छक्रस्वराढ्यं बिन्दुभूषितम् ॥ ५ ॥ प्राणजीतरशून्यपान्तमनलेशस्वरान्वितम् |
बिन्द्वन्तिकशिरस्कं च कूटं पङ्क्त्यभिधं महत् ॥ ६ ॥ शिवशक्तियुतं चान्यदिन्द्रस्वरसमन्वितम् |
बिन्द्वन्तिकं विद्धि कूटमेकादशातिध्रुवम् ॥ ७ ॥ नतिर्हनुमते चेति पक्षराक्षसकुलेति वै |
दावानल द्वादशार्ककोटिसूर्यप्रभा-पदम् ॥ ८ ॥ ज्वलत्तनूरुह-पदं भीमनादं ममोच्चरेत् |
परस्य च दुष्टपदं दुर्जनस्य महा-पदम् ॥ ९ ॥ पकारक-पदं वादि-विवादद्वेषकारक |
ततः कार्यभञ्जकेति क्रूरप्रकृतिकं पदम् ॥ १० ॥ प्रवृद्धकोपावेशक हन्तु चेति ततः परम् |
कामुकादीन् पदं वाच्यं दूरस्थेति पदं ततः ॥ ११ ॥ समीपस्थान् भूतभविष्यद्वर्तमानानथोच्चरेत् |
पुंस्त्रीनपुंसकांश्चातुर्वर्णान् क्षणेन सत्वरम् ॥ १२ ॥ हन द्विधा दह द्विधा संहारय द्विधा वदेत् |
मोहयेति द्विधा वाच्यं मदयेति द्विधा वदेत् ॥ १३ ॥ द्वेषयेति पुनश्चोक्त्वा मार्जारमूषकेति च |
(तथा) वत्सखः प्राणैश्च वियोजय द्विधोच्चरेत् ॥ १४ ॥ विध्वंसय द्विधा भिन्धि द्विधा मूकय च द्विधा |
पौनरुक्त्यं जारयेति बन्धयेति द्विधा वदेत् ॥ १५ ॥ जृम्भयेति द्विधा प्रोक्त्वा पातयेति द्विधा वदेत् |
ततो ममपदं चोक्त्वा परस्य च ततः परम् ॥ १६ ॥ पादतलाक्रमितांश्च कुरुद्वन्द्वं ततो वदेत् |
दासीभूतान् संपादय द्विधा हा च त्रिधोच्चरेत् ॥ १७ ॥ त्रिः कोपं च त्रिधा प्रे च कवचास्त्राग्निवल्लभा |
वर्णानां द्विशतं प्रोक्तं पञ्चषष्ट्युत्तरं मनौ ॥ १८ ॥ विद्वेषे वैरिदुष्टानां क्रूरबुद्धिविनाशने |
मन्त्रोऽयं गदितः सत्यं मुनिभिर्मन्त्रपारगैः ॥ १९ ॥ विशेषतो कलौ सद्यःप्रत्ययश्चाल्पबुद्धिभिः |
महारुद्रावतारस्य जगत्प्राणात्मजस्य हि ॥ २० ॥ मनुं विद्धि वरिष्ठं च सर्वसिद्धिप्रदं नृणाम् |
वारि भस्माभिमन्त्र्याथ सिकताः सर्षपास्तथा ॥ २१ ॥ अभिमन्त्र्य प्रविकिरेत् सर्वत्र च इतस्ततः |
तद्ग्रहणाद्भवन्त्येव सर्वे दुष्टास्तु सेवकाः ॥ २२ ॥ [पाठभेदाः: चतुर्थमन्त्रे ५ वर्म ग.; १५ त्रिधि ख.ग.; १७ द्वयं ग.|
स्थानीयास्पष्टपाठाः: बीजोद्धारः ३–७; ८ पक्षराक्षसकुल; १० पकारक; ११ हन्तु; १४ वत्सखः|
]

Druckseite 770

Zuordnung zur deutschen Fassung: 33.HNV.

अथोद्धारः—ॐ [आद्यबीजक्रमः स्थानीयास्पष्टः] नमो हनुमते राक्षसकुलदावानल द्वादशार्ककोटिसूर्यप्रभाज्वलत्तनूरुह भीमनाद मम परस्य च दुष्टदुर्जनमहापकारकवादिविवादद्वेषकारककार्यभञ्जक क्रूरप्रकृतिकप्रवृद्धकोपावेशकहन्तुकामुकादीन् दूरस्थसमीपस्थान् भूतभविष्यद्वर्तमानान् पुंस्त्रीनपुंसकांश्चातुर्वर्णान् क्षणेन सत्वरं हन २ दह २ संहारय २ मोहय २ मर्दय २ द्वेषय २ मार्जारमूषिकवत् सद्यः प्राणैर्वियोजय २ विध्वंसय २ भिन्धि २ मूकय २ जारय २ बन्धय २ जृम्भय २ पातय २ मम परस्य च पादतलाक्रमितान् कुरु २ दासीभूतान् संपादय २ हा ३ हुं ३ प्रे ३ हुं फट् स्वाहा ॥ तथा—मन्त्रान्तरम् |
वेदमूर्धा तथा वाणी रमा बिन्दुविभूषिता |
माया सुखेन वामाक्षिवामश्रुतिविभेदिना ॥ १ ॥ बिन्दुना भूषितं मूर्ध्नि षड्बीजानि ततः परम् |
चान्द्रं चास्त्रवर्णयुक् हत्वा दहनारूढमेव च ॥ २ ॥ शिवस्वरेण संयुक्तमपरं कूटकं शृणु |
शून्यं पान्त्यसमायुक्तमग्निनाधोयुतं तथा ॥ ३ ॥ एकादशकलायुक्तं बिन्दुमत्तदनन्तरम् |
ततो वदेच्छिवं चान्द्रसंयुतं वह्निसंस्थितम् ॥ ४ ॥ मनुस्वरेण संयुक्तं बिन्दुनापि ततः शिवम् |
जीवं शून्यं पान्त्ययुक्तं वह्निनाधो युतं तथा ॥ ५ ॥ वागादिकेन संयुक्तं बिन्दुभूषितमस्तकम् |
शिवमिन्दुयुतं कुर्यात् शतमन्युकलान्वितम् ॥ ६ ॥ मस्तके बिन्दुसंयुक्तं तदेतद्बीजपञ्चकम् |
नतिर्हनुमते चोक्त्वा त्रैलोक्याक्रमणेति च ॥ ७ ॥ पराक्रमेति श्रीरामभक्त मम परस्य च |
सर्वशत्रुचतुर्वर्णसंभवानिति वै वदेत् ॥ ८ ॥ पुंस्त्रीनपुंसकान् भूतभविष्यद्वर्तमानकान् |
दूरस्थं च समीपस्थान् राज्ञो नाना ततो वदेत् ॥ ९ ॥ नामधेयास्ततो नाना सुकरेति च कीर्तिजान् |
कलत्रपुत्रमित्रेति भृत्यबन्धुसुहृज्जनान् ॥ १० ॥ समेतान् प्रभुशक्तीति सहितान् क्षित्यतः परम् |
धनधान्यादिसंपत्तियुक्तान् राज्ञस्ततः परम् ॥ ११ ॥ राजसेवकान् मन्त्रीति पदं मन्त्रिसखानिति |
आत्यन्तिकं क्षणेनेति वारयेति द्विधा वद ॥ १२ ॥ नानोपायैः पदं चैव ततो मारययुग्मकम् |
शस्त्रैश्छेदययुग्मं च अग्निना ज्वालय द्विधा ॥ १३ ॥ दाहयेति द्विधा वाच्यं घातयेति द्विधा वद |
कुमारवत् पादतलाक्रमणेन ततो वद ॥ १४ ॥ आत्रोटय द्विधा वाच्यं घातयेति द्विधा तथा |
बन्धयुग्मं भूतसङ्घैः सह भक्षययुग्मकम् ॥ १५ ॥ क्रुद्धचेतसेति नखैर्विदारय द्विधा वद |
देशादस्मादिति तत उच्चाटय द्विधा वद ॥ १६ ॥ पिशाचवद् भ्रंशयेति द्विधा भ्रामय च द्विधा |
भयातुरान् विसंज्ञांश्च सद्यः कुरुयुगं वद ॥ १७ ॥ भस्मीभूतान् द्विधा वाच्यमुन्मूलय पुनर्वद |
भक्तजनवत्सलेति सीताशोकापहारक ॥ १८ ॥ सर्वत्र मां तथैनं च रक्षयुग्मं च हात्रयम् |
क्रोधत्रयं प्रे-त्रयं च कवचास्त्राग्निवल्लभा ॥ १९ ॥ एकचत्वारिंशोत्तरत्रिशतान्यपि च स्फुटम् |
वर्णानां गणना ज्ञेया दुष्टारिद्वेषणे तथा ॥ २० ॥ हनुमन्मन्त्रसामर्थ्याद् दुर्जयो मन्त्रविद्भवेत् |
[अत्र मुद्रिते बिन्दुपङ्क्तिः|
] अथोद्धारः—ॐ [आद्यबीजक्रमः स्थानीयास्पष्टः] नमो हनुमते त्रैलोक्याक्रमणपराक्रम श्रीरामभक्त मम परस्य च सर्वशत्रुचतुर्वर्णसंभवान् पुंस्त्रीनपुंसकान् भूतभविष्यद्वर्तमानकान् दूरस्थसमीपस्थान् राज्ञो [अनुवृत्तिः पृष्ठे ७७१|
] [पाठभेदाः: पूर्वमन्त्रे भिन्धि स्थाने त्रिधि ग.; नूतनमन्त्रे १२ भञ्जनानिति क.|
स्थानीयास्पष्टपाठाः: बीजोद्धारः १–६; १० सुकरेति कीर्तिजान्; १४ कुमारवत्|
]

Druckseite 771

Zuordnung zur deutschen Fassung: 33.HNL.

नानानामधेयान् नानासुकरकीर्तिजान् कलत्रपुत्रमित्रभृत्यबन्धुसुहृज्जनसमेतान् प्रभुशक्तिसहितान् क्षितिधनधान्यादिसंपत्तियुक्तान् राज्ञो राजसेवकान् मन्त्रिमन्त्रिसखानात्यन्तिकं क्षणेन वारय २ नानोपायैर्मारय २ शस्त्रैश्छेदय २ अग्निना ज्वालय २ दाहय २ घातय २ कुमारवत् पादतलाक्रमणेन आत्रोटय २ घातय २ बन्ध २ भूतसङ्घैः सह भक्षय २ क्रुद्धचेतसा नखैर्विदारय २ देशादस्मादुच्चाटय २ पिशाचवद् भ्रंशय २ भ्रामय २ भयातुरान् विसंज्ञांश्च सद्यः कुरु २ भस्मीभूतानुन्मूलय २ भक्तजनवत्सल सीताशोकापहारक सर्वत्र मामेनं च रक्ष २ हा ३ हुं ३ प्रे ३ हुं फट् स्वाहा ॥ तथा मन्त्रान्तरम्— वेदमूर्धा ततो वाणी लक्ष्मीर्बीजत्रयं ततः |
द्वितुर्यषष्ठभिन्ना च हृल्लेखा समुदीरिता ॥ १ ॥ बीजान्येतानि षड्विद्धि सबिन्दूनि महान्त्यपि |
शिवः शशी पान्त्यवह्निबिन्दुयुक्तं ततः परम्(?) ॥ २ ॥ (स्फरेशादिसंयुक्तं बिन्दुमद्बिन्दवे ततः |
कान्त्यपान्त्यसमारूढं बृहद्भानुस्फुटं युतम् ॥ ३ ॥ ईश्वरेण समायुक्तं बिन्दुभूषितमस्तकम् |
शिवः शक्तिश्च वह्निश्च शतमन्युकलायुतम् ॥ ४ ॥) जीवान्त्यं चन्द्रसंयुक्तं गादिमेन तथा युतम् |
अस्त्रवर्णसमोपेतमैःशानलसंयुतम् ॥ ५ ॥ बिन्दुना भूषितं पूर्वं सहार्थं समुदीरितम् |
शक्त्यारूढः शिवो ज्ञेयो बिन्दुभूषितमस्तकः ॥ ६ ॥ चतुर्दशस्वरोपेतमेतत् कूटमनुक्रमात् |
पञ्चकूटानि बीजानि एकादश क्रमेण च ॥ ७ ॥ पुनर्वेदादि संप्रोक्तं नतिर्हनुमते ततः |
प्रकटेति तद्वान्ते पराक्रमपदं ततः ॥ ८ ॥ आक्रान्तदिङ्मण्डलेति यशोवितानधवलीकृत वै ततः |
जगत्त्रितय वज्रदेहेति ज्वलदग्निसूर्यकोटिसमप्रभ ॥ ९ ॥ तनूरुहपदं रुद्रावतार लङ्कापुरीदहनेति च |
उदधिलङ्घनपदं दशग्रीवशिरःकृतान्तकं ॥ १० ॥ सीतासमाश्वासनतस्ततो वायुसुतेति च |
अञ्जनीगर्भसंभूत श्रीरामेति पदं ततः ॥ ११ ॥ लक्ष्मणानन्दकरेति कपिसैन्यपदं ततः |
प्राकारपदमुच्चार्य ततो द्रोणपदं वदेत् ॥ १२ ॥ पर्वतोच्चाटनपदं सुग्रीवसख्यकारण |
वालिनिर्हरणकारण ततो द्रोणपदं वदेत् ॥ १३ ॥ पर्वतोत्पाटनाशोकवनमुक्तला विदारण |
अक्ष चेति कुमारेति च्छेदनेति पदं वदेत् ॥ १४ ॥ वनरक्षाकरसमूहविभञ्जन ब्रह्मास्त्रमुच्चरेत् |
ब्रह्मशक्तिपदस्यान्ते ग्रसनेति ततो वदेत् ॥ १५ ॥ तथोच्चरेल्लक्ष्मणेति शक्तिभेदनिवारण |
शल्यविशल्यौषधीति समानयन वै ततः ॥ १६ ॥ बालोदितभानुपदं मण्डलग्रसनेति च |
मेघनादहोमपदं विध्वंसन ततः परम् ॥ १७ ॥ इन्द्रजिद्वधकारणेति सीतारक्षक वै पदम् |
ततश्च राक्षसीवक्षुविदारणपदं ततः ॥ १८ ॥ कुम्भकर्णादिवधेति परायणपदं वदेत् |
श्रीरामभक्तितत्पर समुद्रेति पदं वदेत् ॥ १९ ॥ व्योमद्रुमलङ्घनेति महासामर्थ्य वै पदम् |
महातेजःपुञ्जपदं विराजमान वै पदम् ॥ २० ॥ स्वामिवचनसंपादिताञ्जनेति पदं वदेत् |
संयुगेति पदं चोक्त्वा सहायति पदं वदेत् ॥ २१ ॥ [पाठभेदाः: ३ बिन्दु च क.; ६ सहार्थं क.; ८ तद्वा क.; १३ निर्वर्ह ग.|
श्लोकौ ३–४ ख.ग.पुस्तकयोर्न स्तः इति मुद्रितटिप्पणी|
स्थानीयास्पष्टपाठाः: बीजोद्धारः २–६; १४ अशोकवनमुक्तला; १८ राक्षसीवक्षु; २१ संपादिताञ्जन|
]

Druckseite 772

Zuordnung zur deutschen Fassung: 33.HNL.

कुमारब्रह्मचारिंश्च गम्भीरशब्द वेति च |
उदयेति दक्षिणाशामार्तण्ड मेरुपर्वत ॥ २२ ॥ पीठिकार्चन सकलमन्त्रागमपदं तथा |
आचार्यपदमुच्चार्य मम सर्वग्रहेति च ॥ २३ ॥ विनाशनं सर्वपदं ज्वरोच्चाटन सर्व च |
विषविनाशनपदं सर्वापत्तिनिवारण ॥ २४ ॥ सर्वदुष्टादीति पदं निर्बर्हणपदं ततः |
सर्पव्याघ्रादिभयेति निवारणपदं ततः ॥ २५ ॥ सर्वशत्रुच्छेदनेति पदं मम परस्य च |
ततस्त्रिभुवनं पुंस्त्रीनपुंसकात्मकं पदम् ॥ २६ ॥ ततः सर्वजीवजातं वशयेति द्वयं वदेत् |
ममाज्ञाकारकं चेति संपादय द्विधा वद ॥ २७ ॥ ततो नानानामधेयान् सर्वराज्ञः पदं वद |
ततः सपरिवारांश्च तथैव मम सेवकान् ॥ २८ ॥ कुरुयुग्मपदं सर्वशत्र्वस्त्रेति विषाणि च |
विध्वंसय द्विधोच्चार्य मायां पूर्ववदुच्चरेत् ॥ २९ ॥ हा त्रिधा च समुच्चार्य तद्वदेव हि चोच्चरेत् |
पूर्वोदितं पञ्चकूटं वैपरीत्येन चोच्चरेत् ॥ ३० ॥ सर्वशत्रून् हनद्वन्द्वं परबलानि ततः परम् |
परसैन्यानि क्षोभय द्विधा ममपदं ततः ॥ ३१ ॥ ततः सर्वकार्यजातं साधयेति द्विधा वद |
सर्वदुष्टदुर्जनेति मुखानि कीलय द्विधा ॥ ३२ ॥ प्रे त्रिधोच्चर हाकारं त्रिधा कोपं त्रिधा ततः |
त्रिधा चास्त्रं वह्निजायासंयुतोऽयं मनुः स्मृतः ॥ ३३ ॥ मन्त्रे वर्णाः समाख्याता द्विनवत्युत्तराः खलु |
पञ्चशत्यर्णकाः सत्यं मन्त्रविद्भिः पुरातनैः ॥ ३४ ॥ मन्त्रेण वायुपुत्रस्य महाबलयशस्विनः |
एकादशोग्ररूपस्य रामचन्द्रपदात्मनः ॥ ३५ ॥ सर्वकार्यार्थसिद्धिश्च गदितः सर्वसिद्धिदः |
रक्षाविधौ प्रयोक्तव्यः क्षते शस्त्रामये तथा ॥ ३६ ॥ वश्ये च विजये वादे स्तम्भे सर्वत्र चोदितः |
राजगृहे च संग्रामे राजचोरभये क्षते ॥ ३७ ॥ विषबन्धविमोक्षे च क्रोधस्तम्भे विशेषतः |
रिपुदुर्जनदुष्टानां निग्रहोच्चाटने तथा ॥ ३८ ॥ प्रयोक्तव्यो विशेषेण सत्वरं फलते ध्रुवम् |
किमत्र बहुनोक्तेन भाषणेन पुनः पुनः ॥ ३९ ॥ यदीच्छेत् प्रत्ययं द्रष्टुं प्रोक्तोऽयं मनुरद्भुतः |
कार्ये संमोहनेऽत्यर्थं सत्यं सत्यं नचान्यतः ॥ ४० ॥ अथोद्धारः—ॐ [आद्यबीजक्रमः स्थानीयास्पष्टः] ॐ नमो हनुमते प्रकटपराक्रमाक्रान्तदिङ्मण्डलयशोवितानधवलीकृतजगत्त्रितय वज्रदेह ज्वलदग्निसूर्यकोटिसमप्रभतनूरुह रुद्रावतार लङ्कापुरीदहन उदधिलङ्घन दशग्रीव(शिरः)कृतान्तक सीतासमाश्वासन वायुसुताञ्जनीगर्भसंभूत श्रीरामलक्ष्मणानन्दकर कपिसैन्यप्राकार (द्रोणपर्वतोच्चाटन) सुग्रीवसख्यकारण वालिनिर्हरणकारण द्रोणपर्वतोत्पाटन अशोकवनविदारण अक्ष-कुमारकच्छेदन वनरक्षाकरसमूहविभञ्जन ब्रह्मास्त्रब्रह्मशक्तिग्रसन लक्ष्मणशक्तिभेदनिवारण शल्यविशल्यौषधिसमानयन बालोदितभानुमण्डलग्रसन मेघनादहोमविध्वंसन इन्द्रजिद्वधकारण सीतारक्षकराक्षसीसङ्घविदारण कुम्भकर्णादिवधपरायण श्रीरामभक्तितत्पर समुद्रव्योमद्रुमलङ्घन महासामर्थ्य महातेजःपुञ्जविराजमान स्वामिवचनसंपादितार्जुनसंयुगसहाय कुमारब्रह्मचारिन् गम्भीरशब्दोदय दक्षिणाशामार्तण्ड मेरुपर्वतपीठिकार्चन सकलमन्त्रागमाचार्य मम सर्वग्रहविनाशन सर्वज्वरोच्चाटन सर्वविषविनाशन सर्वापत्तिनिवारण सर्वदुष्टादिनिर्बर्हण सर्पव्याघ्रादिभयनिवारण सर्वशत्रुच्छेदन मम परस्य च त्रिभुवनं पुंस्त्रीनपुंसकात्मकं सर्वजीवजातं [अनुवृत्तिः पृष्ठे ७७३|
] [पाठभेदाः: २९ शक्र क.; ३१ भेदनेति क.|
स्थानीयास्पष्टपाठाः: २२ उदय; २३ पीठिकार्चन; ३० तद्वदेव हि; मन्त्रे संपादितार्जुनसंयुगसहाय|
]

Druckseite 773

Zuordnung zur deutschen Fassung: 33.HDT.

वशय २ ममाज्ञाकारकं संपादय २ नानानामधेयान् सर्वराज्ञः सपरिवारान् मम सेवकान् कुरु २ सर्वशस्त्रास्त्रविषाणि विध्वंसय २ [बीजक्रमः स्थानीयास्पष्टः] सर्वशत्रून् हन २ परबलानि परसैन्यानि क्षोभय २ मम सर्वकार्यजातं साधय २ सर्वदुष्टदुर्जनमुखानि कीलय २ प्रे ३ हा ३ हुं ३ फट् ३ स्वाहा ॥ अथ द्वादशाक्षरमन्त्रः— द्वादशाक्षरविद्याया उद्धारः क्रियतेऽधुना |
शैवं मनुस्वराक्रान्तं बिन्दुभूषितमस्तकम् ॥ १ ॥ पूर्वोदितं पञ्चकूटं बीजषट्कमिदं विदुः |
हनुमांश्चतुर्थ्या संयोज्य ततो नतिपुरःसरम् ॥ २ ॥ द्वादशार्णा महाविद्या यस्य कस्यापि मा वद |
रहस्यं ते मयाख्यातं वाल्मीकिमुनिनोदितम् ॥ ३ ॥ हां [पञ्चबीजक्रमः स्थानीयास्पष्टः] हनुमते नमः |
रामचन्द्र ऋषिः प्रोक्तो गायत्रं छन्द ईरितम् |
महावीरो हनुमांश्च देवतात्र समीरितः ॥ ४ ॥ मारुतात्मजशब्दादि [बीजपाठः स्थानीयास्पष्टः] तु बीजकम् |
अञ्जनीसूनुशब्दान्ते [बीजपाठः स्थानीयास्पष्टः] शक्तिरुच्यते ॥ ५ ॥ कीलकं हात्रयं प्रोक्तं श्रीरामभक्तिरादितः |
हांप्राणश्चापि श्रीरामलक्ष्मणानन्दकारि च ॥ ६ ॥ ह्रां ह्रीं ह्रूं मिति जीवः स्यात्तत्तत्कामे नियोजनम् |
एवं हि सर्वमन्त्राणां ज्ञातव्यो मुनिवित्तमैः ॥ ७ ॥ विशेषोऽत्र षडङ्गानि षट्कूटैः कुरुते बुधः |
कराङ्गुलीषु विन्यासं कुर्यादिष्टशुभोदयम् ॥ ८ ॥ एवमङ्गेषु विन्यस्य मन्त्रवर्णांस्ततो न्यसेत् |
मूर्ध्नि भाले दृशोरास्ये गले दोर्हृद्पङ्कजे ॥ ९ ॥ कुक्षौ नाभौ ध्वजे जानुद्वये पादद्वये न्यसेत् |
मन्त्रपादैरष्टभिश्च देहाङ्गेष्वेव संस्मृतः ॥ १० ॥ मूर्ध्नि भाले मुखे कण्ठे नाभौ चोर्वोस्तु जङ्घयोः |
पादयोश्चैव कर्तव्यो ध्यानं कुर्यात् समाहितः ॥ ११ ॥ ध्यायेद्बालदिवाकरप्रतिनिभं देवारिदर्पापहं देवेन्द्रप्रमुखैः प्रशस्तयशसं देदीप्यमानं रुचा |
सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥ १२ ॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् |
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ १३ ॥ वानरेया च मुद्रां तां शृणुष्व वदाम्यहम् |
करौ संपुटितौ कृत्वा समाश्लिष्टाङ्गुलि स्फुटम् ॥ १४ ॥ अङ्गुष्ठौ द्वौ प्रलुपितौ(?) अन्तर्गर्भे स्थिरीकुरु |
हृदयोपरि संस्थाप्य मुकुलाकारसंपुटम् ॥ १५ ॥ स्वामिपादे स्थिता दृष्टिर्भ्रुवोपरि समास्थिता |
ज्ञेयेयं वानरीमुद्रा चेतन्मन्त्रं जपेद् ध्रुवम् ॥ १६ ॥ तर्जन्यग्रेऽङ्गुष्ठमूले कृत्वा लङ्गुलयोरपि(?) |
तत् स्यात् पुटितयोः पाण्योर्मुद्रा वानरीसंज्ञिका ॥ १७ ॥ अरे मल्लवटजेत्युक्त्वा, वातोऽरेमल्लवटजेत्युक्त्वा कपिमुद्रां प्रदर्शयेत् |
पुरश्चर्यास्य मन्त्रस्य प्रोक्ता चार्कसहस्रिका |
भौमस्य वासरे पूजा कार्या हनुमतो ध्रुवम् ॥ १८ ॥ ततश्चार्कास्तमारभ्य यावत् सूर्योदयो भवेत् |
तावन्मन्त्रं जपेद्रात्रौ कार्यमुद्दिश्य मन्त्रवित् ॥ १९ ॥ [स्थानीयास्पष्टपाठाः: बीजक्रमाः, ७ ह्रां ह्रीं ह्रूं; १४ वानरेया; १५ प्रलुपितौ(?) तथा १७ लङ्गुलयोरपि(?) इति प्रश्नचिह्ने मुद्रिते एव; मुद्राप्रयोगस्य प्राकृतमन्त्रपाठः अनिश्चितः|
]

Druckseite 774

Zuordnung zur deutschen Fassung: 33.HDT.

प्रियङ्गवो व्रीहयोऽथ दध्याज्यक्षीरसंयुताः |
कदलीमातुलुङ्गाम्रफलैर्नानाविधैर्हुनेत् ॥ २० ॥ दशांशेन ततो ब्रह्मचारिणो भोजयेद् ध्रुवम् |
द्वाविंशतिं च संख्याभिर्हनुमत्प्रीतये सुधीः ॥ २१ ॥ अष्टोत्तरशतं मन्त्रमन्त्रयेद्भस्म वारि च |
ग्रहदोषे विषे चैव मार्जयेत् पयसा तनुम् ॥ २२ ॥ हनुमत्प्रतिमा कार्या ततो भूताङ्कुशस्य च |
पूर्वोत्तरगतेनैव मूलेनाङ्गुष्ठमात्रता(?) ॥ २३ ॥ सर्वावयवसंपूर्णा चित्तप्राशस्त्यकारिणी |
प्राणसंस्थापनं तस्याः कृत्वा वै मारुतेर्ध्रुवम् ॥ २४ ॥ सिन्दूरचर्चितां कृत्वा तथाभ्यर्च्योपचारकैः |
मन्त्रिता तेन मन्त्रेण ततस्तां द्वारदेशके ॥ २५ ॥ खनित्वा निक्षिपेद्भूमौ गृहस्याभिमुखं निशि |
भूतजा विषजा बाधा ग्रहा दुष्टमन्त्रजा ॥ २६ ॥ चेटका भयजा व्याधिज्वरजा चाभिचारजा |
चोराग्निबाधा च तथा न भवेत्तद्गृहेऽरिजा ॥ २७ ॥ तद्गृहं नन्दते सर्वसमृद्धिधनसंयुतम् |
रात्रौ रात्रौ जपेन्मन्त्रं षट्शतं त्रिशतं तथा ॥ २८ ॥ दशवासरपर्यन्तं राजशत्रुभयं हरेत् |
अभिचारज्वरे भूतज्वरे च भस्मना तनुम् ॥ २९ ॥ मन्त्रितेनाम्भसा वाथ ताडयेद्रोषपूर्वकम् |
त्रिदिनाज्ज्वरमुक्तिः स्यान्नात्र कार्या विचारणा ॥ ३० ॥ औषधे च रसे मन्त्रं दशवारं जपेद् बुधः |
तेनाभिमन्त्रितं दत्तं सर्वं सफलतां व्रजेत् ॥ ३१ ॥ शस्त्रधाराभिसंस्तम्भे दशवारं जपेद् बुधः |
तेनाभिमन्त्रितं तोयं भस्म तस्य प्रदापयेत् ॥ ३२ ॥ भस्मना चर्चितं देहं पयश्च प्राशयेद् ध्रुवम् |
शस्त्रस्तम्भो भवेत्तस्य सत्यं सत्यं न संशयः ॥ ३३ ॥ शस्त्रक्षतेषु लूतासु रक्तग्रन्थ्यादिसंभवे |
भस्मना पयसा तत्र त्रिवारं चाभिमन्त्रयेत् ॥ ३४ ॥ न व्यथा नच पूयं स्यात् संशोषयति तद्व्रणम् |
सप्तवासरपर्यन्तं विद्वेषोच्चाटने जपः ॥ ३५ ॥ सूर्यास्तं च समारभ्य कुर्यादित्थं बुधोत्तमः |
अरुणोदयपर्यन्तं भस्म कीलाभिमन्त्रितम् ॥ ३६ ॥ तद्द्वारे पूरितं गेहे रोपितं वापि तत्क्षणात् |
ततस्तस्योच्चाटनं स्यात् परिवारयुतस्य च ॥ ३७ ॥ पुत्रादिभिः सर्वलोकैः पौरैर्जानपदैस्तथा |
विद्वेषश्चप्राणघातः सत्यं सत्यं वचो मम ॥ ३८ ॥ भस्माम्बु मन्त्रितं यस्य देहे चन्दनमिश्रितम् |
चर्चितं यत्तु खाद्यादियोजितं यत्र दापितम् ॥ ३९ ॥ स वश्यो जायते नूनं प्राणैरपि धनैरपि |
दासतां याति देवोऽपि मनुष्येषु च का कथा ॥ ४० ॥ क्रूरसत्त्वानि सर्वाणि वशयेदमुना खलु |
प्रकारेण महावीर ज्वलनं शीततामियात् ॥ ४१ ॥ दिव्यस्थाने च कर्तव्यं निःशक्तिश्च हुताशनः |
भवत्येव न सन्देहो लोहतैलेषु संस्थितः ॥ ४२ ॥ मारणे क्रुद्धचित्तेन श्मशाने निशि भूतले |
रिपोः प्रतिकृतिं कृत्वा भस्मना वाथवा मृदा ॥ ४३ ॥ पूर्ववत् प्राणसंस्थां च कृत्वा येन मन्त्रवित् |
प्रतिमाहृदि तन्नाम लेख्यं चैव प्रयत्नतः ॥ ४४ ॥ शस्त्रेण छेदनं कुर्यान्मन्त्रोच्चारणपूर्वकम् |
छिन्धि भिन्धि मारयेति तन्नामान्तं समुच्चरेत् ॥ ४५ ॥ एवं सप्तदिनं कुर्याद् दन्तैरौष्ठं निपीड्य च |
कृत्वा प्रपीडितं पाणितलयोर्दृढमात्मनः ॥ ४६ ॥ [४७: मारणाय विषवनस्पतिमिश्रहोमविधिः सम्पादकीयतया वर्जितः; अनुवृत्तिः ४८–५० पृष्ठे ७७५|
] [पाठभेदाः: २१ संख्याकान् क.; २७ खेटकात्यय क., घातजा ग.|
२३ अङ्गुष्ठमात्रता(?) इति प्रश्नचिह्नं मुद्रिते एव|
]

Druckseite 775

Zuordnung zur deutschen Fassung: 33.HDT.

[४८–५०: पृष्ठ ७७४ श्लोक ४७ तः प्रवृत्तविषमिश्रमारणहोमस्य विधिः सम्पादकीयतया वर्जितः; संख्याः रक्षिताः|
] दिनत्रयं रात्रिभागे श्मशाने षट्शतं जपेत् |
प्रेतमुत्थापयेत् सत्यं वेतालः किंकरो भवेत् ॥ ५१ ॥ शुभाशुभं च वदति मन्त्रिणा सह निश्चयात् |
ददाति भाषां सत्यां च कारयेति करोति च ॥ ५२ ॥ भस्माम्बु मन्त्रितं रात्रौ सहस्रावृत्तिकं कुरु |
दिनत्रयं ततश्चैव निक्षिपेत् प्रतिमासु च ॥ ५३ ॥ यासु कासु च स्थूलासु लघुष्वपि विशेषतः |
मन्त्रप्रभावाच्चलनं भवत्येव न संशयः ॥ ५४ ॥ मन्त्रेणानेन सिद्धेन यदसाध्यं च साधयेत् |
विषे भये विवादे च शस्त्रसंग्रामसङ्कटे ॥ ५५ ॥ द्यूते दिव्यस्तम्भने च विशेषो मारणे तथा |
मृतकोत्थापने चैव प्रतिमाचलने तथा ॥ ५६ ॥ विषे ज्वरे भूतज्वरे ग्रहे कृत्यादिमोचने |
क्षते ग्रन्थौ महारण्ये दुर्गे व्याघ्रे च दन्तिनि ॥ ५७ ॥ क्रूरसत्त्वेषु सर्वेषु शस्त्रस्तम्भविमोक्षणे |
बन्धमोक्षे मारणे च मोहे शान्तौ नियोजयेत् ॥ ५८ ॥ मन्त्रमेनं हनुमतो नानाकार्यप्रसाधनम् |
बन्धमुक्तौ जपेन्मन्त्रं रात्रौ रात्रौ च निर्भयः ॥ ५९ ॥ लिखित्वा प्रतिमां भूमौ मारुतेरस्खलन् नरः |
स्वनामाक्षरसङ्घं तु द्वितीयान्तं समालिखेत् ॥ ६० ॥ मन्त्रस्यान्ते तथा मां च विमोचय विमोचय |
मार्जयेद्वामहस्तेन पुनस्तथैव लेखयेत् ॥ ६१ ॥ एवमष्टाधिकशतं लेखयेन्मार्जयेन्नरः |
एवं कुर्वन् सुबद्धोऽपि शृङ्खलाभिर्दृढं नरः ॥ ६२ ॥ महापराधसंयुक्तः प्राणहान्यर्थकारकः |
स सप्तदिनमध्ये तु बन्धनान्मुच्यते सुखम् ॥ ६३ ॥ हनुमांस्तु समागत्य स्वयं स मोचयेन्नरम् |
नतु दण्डयितुं शक्या राजानो विभवो जनाः ॥ ६४ ॥ हवनान्यपि सन्त्यत्र दशांशेन निबोधय |
स्तम्भने चणका माषा न्यग्रोधस्य फलानि च ॥ ६५ ॥ [६६ पूर्वार्धः: स्तम्भनाय विषद्रव्यसूची सम्पादकीयतया वर्जिता|
] शाल्मलीकुसुमान्याहुर्मधुत्रययुतानि च ॥ ६६ ॥ उच्चाटे गदितान्यत्र श्लेष्मान्तकविभीतकाः |
वश्यार्थे सर्षपा लाक्षा मधुकाण्डं च गुग्गुलम् ॥ ६७ ॥ [६८–६९ पूर्वार्धः: विद्वेषाय विषवनस्पतिमिश्रहोमविधिः सम्पादकीयतया वर्जितः|
] ज्वरे तापे च शूले च गण्डमालाभगन्दरे ॥ ६९ ॥ दूर्वागुडूचीखण्डानि साज्यक्षीरदधीनि च |
शूलेष्वेरण्डसमिधः कुबेराक्षस्तथैव च ॥ ७० ॥ निर्गुण्डीसमिधश्चैव तिलतैलसमन्विताः |
लक्ष्मीप्राप्तये सरोजानि बिल्वपत्राणि चैव हि ॥ ७१ ॥ समिधस्तस्य होतव्या मधुत्रयसमन्विताः |
पञ्च खाद्यं नारिकेलद्राक्षेक्षुकदलीफलम् ॥ ७२ ॥ सौभाग्यसर्वसंपत्तिसाधनं हवनं शृणु |
कर्पूरं केसरं नाभिं चन्दनं रोचनां तथा ॥ ७३ ॥ तजपत्रं वीरणं च लवङ्गैलागुरु तथा |
मांसीं नखं जातिपत्रं त्वक्फलं लोहवालुकाम् ॥ ७४ ॥ साज्यान्येतानि सर्वत्र विज्ञेयानि मनीषिभिः |
पुरुषः सुमनिधिभिःसः प्राप्यते चोत्तमोत्तमम् ॥ ७५ ॥ [पाठभेदः: ६४ रिपवो ग.|
स्थानीयास्पष्टपाठाः: ७२ पञ्च खाद्यम् (चत्वारि नामानि लिखितानि); ७५ सुमनिधिभिःसः|
]

Druckseite 776

Zuordnung zur deutschen Fassung: 33.HDT.

[७६–७७ पूर्वार्धः: द्रोहमारणयोर्विषमिश्रहोमद्रव्याणि सम्पादकीयतया वर्जितानि|
] पादपांशुस्तथा राजी लवणं कर्षणे स्मृतम् ॥ ७७ ॥ [७८ पूर्वार्धः: मोहनाय विषवनस्पतिप्रयोगः सम्पादकीयतया वर्जितः|
] धान्यैः संप्राप्यते धान्यमन्नैरन्नसमृद्धयः ॥ ७८ ॥ तिलाज्यक्षीरदधिभिर्महिषीगोसमृद्धयः |
एवं नानाप्रयोगांश्च साधयन्मन्त्रवित्तमः ॥ ७९ ॥ पुरश्चर्याजपेनेव हनुमन्तं च सेवयेत् |
[अत्र मुद्रिते बिन्दुपङ्क्तिः|
] इति श्रीमहामहोपाध्यायाचार्यवर्य—भगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्य—श्रीभगवच्छङ्कराचार्यशिष्य—श्रीविष्णुशर्माचार्यशिष्य—श्रीप्रगल्भाचार्यशिष्य—श्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे त्रयस्त्रिंशः श्वासः ॥ ३३ ॥

34. Śvāsa

Die Druckseiten 776 (unterer Teil) bis 818 (oberer Teil) sind bis zum Kolophon erfasst. Die 657 nummerierten Einträge, unnummerierte Prosa, Mantras und Namenslisten entsprechen Übersetzung Teil 6. Die Seitenüberschriften geben die Abschnittskürzel der deutschen Fassung an; unnummerierte Fortsetzungen werden über Seite und Reihenfolge zugeordnet.

Redaktionelle Ausnahme: 34.HPY.53–55 (S.778), konkrete giftige Schadenszubereitung, gekennzeichnet ausgelassen. Die gedruckte Zahl 49 nach HMU 38 bleibt im Sanskrit erhalten; die deutsche Stelle heißt 34.HMU.39. SBR 4 fehlt in der Vorlage. Unsichere Bījas, beschädigte Lesungen und bereits gedruckte Punktlücken sind örtlich ausgewiesen.

Druckseite 776

Zuordnung zur deutschen Fassung: 34.HPY.

अथ चतुस्त्रिंशः श्वासः |
अथ हनुमत्पूजायन्त्रम्— अथ पूजाविधानार्थं यन्त्रं वै कथ्यतेऽधुना |
षट्कोणं वसुपत्रं च चतुरस्रं च बाह्यतः ॥ १ ॥ बीजयुक्तं लिखेत् सम्यक् नाम लेख्यं हनूमतः |
षट्कोणेषु षडङ्गानि बीजयुक्तानि संलिखेत् ॥ २ ॥ बीजत्रयं च कोणाग्रे लिखेत् सम्यक् पुनस्ततः |
अञ्जनीपुत्राय तथा ततो वै रुद्रमूर्तये ॥ ३ ॥ तथा वायुसुतायेति जानकीजीवनाय च |
रामदूताय ब्रह्मास्त्रनिवारणाय ततः परम् ॥ ४ ॥ षट्कोणस्यान्तरालेषु संलेख्यं नामषट्कम् |
वसुकोणेषु बीजानि नामानि च समालिखेत् ॥ ५ ॥ सुग्रीवायाङ्गदायाथ सुशीलाय ततः परम् |
नलायाथ च नीलाय तथा जाम्बवते-पदम् ॥ ६ ॥ प्रहस्ताय सुषेणाय दलमध्येषु संलिखेत् |
रामभक्तो महातेजाः कपिराजो महाबलः ॥ ७ ॥ द्रोणाद्रिधारको मेरुपीठिकार्चनकारकः |
दक्षिणाशाभास्करश्च सर्वविघ्ननिवारकः ॥ ८ ॥ दलान्तरालेषु लिखेन्नामान्यष्टौ प्रयत्नतः |
लोकपालान् सायुधांश्च चतुरस्रे च संलिखेत् ॥ ९ ॥ रक्षोघ्नाय द्वि(वि)षघ्नाय रिपुघ्नाय तथैव च |
व्याधिघ्नाय ज्वरघ्नाय भूतघ्नाय ततः परम् ॥ १० ॥ पाशशस्त्रमन्त्रघ्नाय यन्त्रघ्नाय विशेषतः |
सर्पव्याघ्रमहोत्पातभयघ्नाय जितात्मने ॥ ११ ॥ [पाठभेदाः: ४ तथा क.; ७ महावीर क.|
१० द्वि(वि)षघ्नाय इति कोष्ठकपाठः मुद्रिते एव|
]

Druckseite 777

Zuordnung zur deutschen Fassung: 34.HPY.

ग्रहाग्रहमहाराजकोपघ्नाय तदुत्तरम् |
कृत्याचतग्रहघ्नाय बलघ्नाय च सर्वतः ॥ १२ ॥ रामप्रियाय रुद्राय रामभक्तिरताय च |
भक्तप्रियाय जगतीदुर्भिक्षार्तिविदारिणे ॥ १३ ॥ पार्थाग्रसङ्गरानन्तशक्तिविक्रमवर्धिने |
अनन्तनगरग्रामपुरपट्टनरक्षिणे ॥ १४ ॥ स्वामिभक्ताय शूराय वीरभद्राय योगिने |
स्वभक्तवादसंग्रामविजयादिविवर्धिने ॥ १५ ॥ इत्येतदिह संलेख्यं स्तुत्याख्यं नामसंघकम् |
एवं यन्त्रवरे सम्यक् पूजा कार्या हनूमतः ॥ १६ ॥ अप्राप्तं वाञ्छितं सर्वं प्रापयत्येव निश्चितम् |
अथ यन्त्रं प्रवक्ष्यामि धारणार्थं विशेषतः ॥ १७ ॥ भूर्जे ताम्रेऽथवा वस्त्रे भित्तौ पट्टे शिलातले |
तालपत्रेऽथवा लेख्यं रोचनानाभिकेसरैः ॥ १८ ॥ श्रीखण्डैश्चैव कर्पूरैः सर्वं यन्त्रं समालिखेत् |
वृत्तत्रयं समालेख्यं वलयेन सुपुच्छवत् ॥ १९ ॥ साध्यनाम लिखेन्मध्ये बहिरष्टदलं लिखेत् |
दलेष्वष्टसु संलेख्यं हंकारं संमुखं तथा ॥ २० ॥ बहिः संवेष्टयेत्तत्र वलयेन दृढं तथा |
तद्बहिश्चतुरस्रं स्याद् रेखात्रयैः सुविस्तृतः ॥ २१ ॥ तद्रेखासु त्रिशूलानि लेखयेच्छोभनानि च |
मूलमन्त्रेण तत् सर्वं वेष्टयेन्मण्डलक्रमैः ॥ २२ ॥ पुनर्बहिस्तथैवापि त्रिरेखाभिश्च वेष्टयेत् |
रेखान्ते च त्रिवलयं कारयेदेककोणकम् ॥ २३ ॥ तन्मध्ये वज्रं लेख्यं हसौंबीजं च समालिखेत् |
वज्राष्टकेषु संयोज्यं मूलबीजं तथाष्टधा ॥ २४ ॥ मर्कटस्य च तद्यन्त्रे प्राणारोपं च कारयेत् |
पाशादित्र्यक्षरस्यान्ते स्यादमुष्यपदं पुनः ॥ २५ ॥ क्रमात् प्राणा इह प्राणास्तथा जीव इहस्थितः |
अमुष्य सर्वेन्द्रियाणि भूयोऽमुष्य-पदं वदेत् ॥ २६ ॥ वाङ्मनोनयनश्रोत्रघ्राणप्राणपदान्यथ |
पश्चादिहागत्य सुखं चिरं तिष्ठन्तु ठद्वयम् ॥ २७ ॥ अयं प्राणमनुः प्रोक्तः सर्वजीवप्रदायकः |
षट्शतैस्त्रिशतैर्वापि तद्यन्त्रमभिमन्त्रयेत् ॥ २८ ॥ मर्कटेश्वरसंयोगं प्राणबुद्ध्या च कारयेत् |
निष्कल्मषब्रह्मचर्यव्रतधारी जितेन्द्रियः ॥ २९ ॥ त्यक्ताशनो महाभागो हनूमन्तं च पूजयेत् |
कदलीमातुलुङ्गादिफलैर्लौदिमनोहरैः ॥ ३० ॥ पुष्पैर्नानाविधैस्तं च सोपचारैः समाहितः |
ततो यन्त्रं सुधार्यं स्यात् सर्वबाधाविनाशकृत् ॥ ३१ ॥ सर्वरक्षाकरं नृणां बालानां योषितामपि |
पशूनां च मृगाणां च हयानां सर्वजीविनाम् ॥ ३२ ॥ ज्वरमारीस्फोटकादि चोररोगभयापहम् |
राजद्वारे वने घोरे संग्रामे रिपुसङ्कटे ॥ ३३ ॥ शस्त्रपाते महाभीमे दिव्याग्निजलसंशये |
जनवश्ये राजवश्ये रिपुविद्वेषणे वधे ॥ ३४ ॥ दधतामनिशं यन्त्रं प्राणस्थापनपूर्वकम् |
सर्वकार्यं सुसिद्धं स्यान्नात्र कार्या विचारणा ॥ ३५ ॥ अन्यद्यन्त्रं धारणाख्यं कथ्यते शृणु सुन्दरम् |
षट्कोणं विलिखेद्यन्त्रं भूर्जपत्रे च सुन्दरे ॥ ३६ ॥ वस्त्रे पट्टे कागदे वा भित्त्यां द्रव्यैः सुगन्धकैः |
हसौंमध्यगतं साध्यनाम लेख्यं विशेषतः ॥ ३७ ॥ ततस्तद्वेष्टयेत् तेन मायाबीजेन वै पुनः |
हनूमान् रक्षरक्षेति षट्कोणेषु लिखेत् ततः ॥ ३८ ॥ अन्तराले त्रिशूलानि मायाबीजान्तराणि च |
एतद्यन्त्रं महाश्रेष्ठं सर्वसिद्धिकरं नृणाम् ॥ ३९ ॥ [पाठसंदेहाः: १२ कृत्याचतग्रहघ्नाय, १९ सुपुच्छवत्, ३० लौदि इति मुद्रितपाठस्य स्थानीयास्पष्टता|
२४,३७ हसौं इति दृश्यते; बीजपाठो न निश्चितः|
पाठभेदाः: १७ समासतः ख.; १९ सपुच्छः क.; २४ रुद्राद्यः क.; ३५ जपताम् ग.; ३८ वेष्टनेऽनेन क.|
]

Druckseite 778

Zuordnung zur deutschen Fassung: 34.HPY.

साधयेत् सर्वकार्याणि नात्र कार्या विचारणा |
अधुना प्रतिमायन्त्रं कथ्यते तन्निशामय ॥ ४० ॥ कपीश्वरस्य रूपं च समालेख्यं प्रयत्नतः |
वस्त्रे वा कागदे वाथ मस्या चालक्तकेन वा ॥ ४१ ॥ हिङ्गुलेनाथवा चान्यैर्लेख्यं द्रव्यैः सुशोभनैः |
तत्रैव क्रमयोगेन साध्यनामाक्षराणि च ॥ ४२ ॥ प्रथमं हृदये लेख्यं द्वितीयं मस्तके तथा |
तृतीयं दक्षिणे बाहौ चतुर्थं वामके भुजे ॥ ४३ ॥ पञ्चमं च तथा षष्ठं पाण्योर्दक्षिणवामयोः |
उदरे सप्तमं चैव दक्षोरौ चाष्टमं तथा ॥ ४४ ॥ वामोरौ नवमं चैव दशमं दक्षपत्तले |
एकादशं च संलेख्यं वामपादतले तथा ॥ ४५ ॥ एवं क्रमेण संलेख्यं वर्णानां च समूहकम् |
वश्ये द्वेषे स्तम्भने च मारणे मोहने तथा ॥ ४६ ॥ आकर्षणे बन्धमुक्तौ विजये च विशेषतः |
द्वादशाक्षरविद्यायास्तदक्षरयुतं लिखेत् ॥ ४७ ॥ मन्त्राद्यं बीजषट्कं च चतुर्थ्यन्तं नमोन्तकम् |
तन्नाम कथिता विद्या द्वादशाक्षरवर्णिका ॥ ४८ ॥ वशमानय संलेख्यं वश्ये चाम्रेडितान्वितम् |
विद्वेषयाम्रेडितं च विद्वेषे समुदीरितम् ॥ ४९ ॥ आम्रेडितं स्तम्भयेति स्तम्भने समुदीरितम् |
आम्रेडितं मारयेति मारणे समुदीरितम् ॥ ५० ॥ आम्रेडितं मोहयेति मोहने समुदीरितम् |
आम्रेडितं मोचयेति बन्धमोक्षे समीरितम् ॥ ५१ ॥ एवंविधं तु संलेख्यं प्रतिमायन्त्रमुत्तमम् |
साध्याकृतिं बलमर्थी कृत्वा पूर्ववदुत्तमाम् ॥ ५२ ॥ [५३–५५: विषद्रव्यसम्बद्धस्य मारणप्रयोगस्य क्रियाविवरणं सम्पादकीयकारणादत्र न पुनर्मुद्रितम्|
] एवं कृत्वा रिपोः सत्यं मृत्युर्भवति नान्यथा |
प्राणप्रतिष्ठापूर्वं तु संपूज्य निक्षिपेद् भुवि ॥ ५६ ॥ साध्यस्य द्वारदेशे तु निखनेच्च महामतिः |
अथवा भूतले लेख्यं प्रतिमायन्त्रमुत्तमम् ॥ ५७ ॥ तत्रस्थं श्लोकसन्दर्भं साध्यनाम लिखेद् ध्रुवम् |
संमार्ज्य पुनरालेख्यं तथैव च पुनः पुनः ॥ ५८ ॥ एवमष्टोत्तरशतं लेखनावृत्तिपूर्वकम् |
यं तत्कामं समासाद्य तदा पल्लवयोजना ॥ ५९ ॥ कार्यस्य पूर्वयोगे तु ज्ञातव्या मन्त्रिणा ध्रुवम् |
[अत्र मुद्रिते द्वितीयार्धस्थाने बिन्दवः, संख्या नास्ति|
] हरिमर्कटमर्कट मन्त्रमिमं यदि लिखति लिखति भूमितले |
यदि नश्यति नश्यति वामकरात् परिमुञ्चति मुञ्चति शृंखलिका ॥ ६० ॥ इति लेखनप्रकारः ॥ अथ द्वादशाक्षरस्य प्रयोगः—तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा, शिरसि श्रीरामचन्द्राय ऋषये नमः |
मुखे गायत्रीच्छन्दसे नमः |
हृदये श्रीहनुमते देवतायै नमः |
गुह्ये मारुतात्मजबीजाय नमः |
पादयोः अञ्जनीहृदयानन्दशक्तये नमः |
कृपाक्षवङ्गमेति प्राणाः |
श्रीरघुवरकपिश्रेष्ठेति कीलकम् |
मत्कार्यकर्ता वानरो रामकिङ्करः, इति कवचम् |
हरिवज्राङ्गवान् इति शस्त्रम् |
धनुर्धरध्वजवासीति ध्यानम् |
ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा, ॐ मारुतात्मज [पाठसंदेहाः: कृपाक्षवङ्गमेति इत्यस्य पाठोऽस्पष्टः|
५९ यं तत्कामम् इत्यपि संदिग्धम्|
पाठभेदाः: ५९ यद्यत् क.; ६० लिख्यति लिख्यति ग. ख.|
]

Druckseite 779

Zuordnung zur deutschen Fassung: 34.HDM, 34.HMP.

हृदयाय नमः |
अञ्जनीहृदयानन्द शिरसे स्वाहा |
लक्ष्मणप्राणदात्रे अवङ्गमाय शिखायै° |
हनूमान् रामदूत कवचाय हुं |
श्रीरघुवरकपिश्रेष्ठ नेत्रत्रयाय° |
श्रीवानरो रामकिङ्करः अस्त्राय° |
एवं करषडङ्गं विधाय ॐ हरिवज्राङ्गवानिति मणिबन्धयोः |
ॐ [षड्बीजपाठोऽस्पष्टः] हनुमते नमः इति सर्वाङ्गे व्यापकम् |
[षड्बीजानि] हनुमते नमः हृदयाय° |
६ रामदूताय शिरसे° |
६ रामप्रियाय शिखायै° |
६ सीताशोकविनाशनाय कवचाय° |
६ अञ्जनीसूनवे नेत्राभ्यां° |
६ श्रीरामकिङ्करायास्त्राय° ॥ ॐ नमः शिखायां |
ऐं च श्रीं नेत्रयोः |
हां मुखे |
हीं कण्ठे |
हूं बाहोः |
हं हृदये |
नुं कुक्षौ |
मं नाभौ |
ते गुह्ये |
नं जान्वोः |
मः पादयोः |
इत्यक्षरन्यासः ॥ हौं नमो मूर्ध्नि |
ऐं ललाटे |
श्रीं मुखे |
हां कण्ठे |
हीं नाभौ |
हूं ऊर्वोः |
हनुमते जङ्घयोः |
नमः पादयोः ॥ ध्यानम्— वामे करे वैरिभिदं वहन्तं शूलं तदन्ये घनरन्ध्रटङ्कम् |
वभार ? (विशाल)पुच्छाग्रसुवर्णवर्णं ध्यायेज्ज्वलत्कुण्डलमाञ्जनेयम् ॥ १ ॥ अशोकवनपान्दोलं स्वामिमुद्राङ्किताधरम् |
जपन्तं रामचन्द्रं च क्रीडद्देवारिमर्दनम् ॥ २ ॥ ॐ [बीजपाठोऽस्पष्टः] हनुमते नमः, इत्येकः |
([बीजपाठोऽस्पष्टः] हनुमते नमः) इति द्वादशाक्षरोऽन्यः ॥ अथ हनुमन्मालामन्त्रः— ॐ [बीजपाठोऽस्पष्टः] नमो हनुमते प्रकटपराक्रमाक्रान्तदिङ्मण्डल-यशोवितानधवलीकृतजगत्त्रितयाय वज्रदेहज्वलदग्निसूर्यकोटिसमप्रभतनूरुह रुद्रावतार लङ्कापुरीदहन उदधिलङ्घन दशग्रीवशिरःकृतान्तक सीताश्वासन-वायुसुत अञ्जनागर्भसंभूत श्रीरामलक्ष्मणानन्दकर कपिसैन्यप्राकार द्रोणपर्वतोत्पाटन अशोकवनविदारण अक्षकुमारच्छेदन राक्षसेश्वरसमूलविभञ्जन ब्रह्मास्त्रब्रह्मशक्तिग्रसन लक्ष्मणशक्तिभेदनिवारण शल्यविशल्यौषधिसमानयन बालादित्यभानुमण्डलग्रसन मेघनादहोमविध्वंसन इन्द्रजिद्वधकारण सीतारक्षक राक्षसीसङ्घविदारण कुम्भकर्णवधपरायण श्रीरामभक्तितत्पर समुद्रव्योमद्रुमलङ्घन महासामर्थ्य महातेजःपुञ्जविराजमान स्वामिवचनसंपादितार्जुनसंयुगसहाय कुमारब्रह्मचारिन् गम्भीरशब्दोदय दक्षिणाशामार्तण्ड मेरुपर्वतपीठिकार्चन सर्वज्वरोच्चाटन सर्वविषविनाशन सर्वापत्तिनिवारण सर्वदुष्टनिबर्हण सर्वव्याघ्रादिभयनिवारण सर्वशत्रुच्छेदन मम परस्य च त्रिभुवनपुंस्त्रीनपुंसकात्मकं सर्वजीवजातं वशय २ ममाज्ञाकरं संपादय २ नानानामधेयान् सर्वराज्ञः सपरिवारान् कुरु २ सर्वशस्त्रास्त्रविषादि विध्वंसय २ ॐ [दीर्घबीजक्रमः कतिपयाक्षरेष्वस्पष्टः] सर्वशत्रून् हन २ परबलानि परसैन्यानि क्षोभय २ मम कार्यजातं साधय २ सर्वदुर्जनदुष्टमुखानि कीलय २ घघघ हुं फट् स्वाहा ॥ जपेन्मन्त्रमष्टवारं त्रिवारं वा दिने दिने |
जपेद् द्वादशसाहस्रं मन्त्रसिद्धिर्भवेद् ध्रुवम् ॥ १ ॥ अर्घ्यं दशांशतः कुर्याद् दशांशेनैव होमयेत् |
मार्जनं तद्दशांशेन तद्दशांशेन भोजनम् ॥ २ ॥ प्रियङ्गुतिलश्यामाकयवव्रीहिसमन्वितम् |
पुष्पफलविशेषैस्तु शर्करामधुसंयुतम् ॥ ३ ॥ सघृतं शुभखाद्यं च जुहुयाद् भक्तिसंयुतः |
करवीरैर्जातिपुष्पैर्बकुलैश्चम्पकैः शुभैः ॥ ४ ॥ शतपत्रैश्च कह्लारैः पङ्कजैश्च सुशोभनैः |
दाडमीमातुलुङ्गैश्च नारिकेलफलाम्बुना ॥ ५ ॥ पनसद्राक्षाखर्जूरैः शुभैर्वस्त्रैर्हविर्भुजे |
राजद्वारे सभामध्ये संवादे रिपुसंकटे ॥ ६ ॥ बन्धमोक्षे च संग्रामे विषयोगे विशेषतः |
असाध्यसाध्यकामे च विद्यारम्भे प्रयत्नतः ॥ ७ ॥ क्षुद्रप्रयोगनाशार्थे प्रभृतिनिग्रहस्थले |
भूतवेतालसर्पादिव्याघ्रचोरभयाकुले ॥ ८ ॥ [पाठसंदेहाः: अवङ्गमाय, ध्यानश्लोके घनरन्ध्रटङ्कम् तथा अशोकवनपान्दोलम् इत्यादयः स्थानीयास्पष्टपाठाः|
वभार ? (विशाल) इति प्रश्नचिह्नं कोष्ठकं च मुद्रिते एव|
बीजाक्षराणि अनुमानतः न पूरितानि|
]

Druckseite 780

Zuordnung zur deutschen Fassung: 34.HMP, 34.AJM, 34.HMU.

यात्राप्रयाणकाले च पठेन्मन्त्रं स्वमानसे |
नेत्रदुःखे च मोचे च शिरोदुःखे तथैव च ॥ ९ ॥ ज्वरादिसर्वव्याधिश्च ग्रहपीडा न जायते |
कानने जलमध्ये च जपेन्मन्त्रं स्वमानसे ॥ १० ॥ चिताभस्म वचा कुष्ठं तगरं कुङ्कुमं समम् |
चूर्णं स्त्रीशिरसि क्षिप्त्वा पुरुषाणां च पादयोः ॥ ११ ॥ अदासो दासतां याति यावज्जीवं न संशयः |
[अत्र द्वितीयार्धस्थाने बिन्दवः, संख्या नास्ति|
] इति विधिः ॥ अथ मन्त्रान्तरम्— आञ्जनेयमनुं वक्ष्ये भुक्तिमुक्त्येकसाधनम् |
प्रकाशितं शङ्करेण लोकानां हितकाम्यया ॥ १ ॥ भूतप्रेतपिशाचादिडाकिनीब्रह्मराक्षसाः |
दृष्ट्वा च प्रलयं यान्ति मन्त्रानुष्ठानतत्परम् ॥ २ ॥ प्रधानश्चाङ्गभूतोऽयं मन्त्रराजो ह्यनुत्तमः |
पूर्वं नमःपदं चोक्त्वा ततो भगवते-पदम् ॥ ३ ॥ आञ्जनेयपदं ङेन्तं महाबलपदं तथा |
वह्निजायान्त एव स्यान्मन्त्रो हनुमतः परः ॥ ४ ॥ नमो भगवते आञ्जनेयाय महाबलाय स्वाहा (१८) ॥ मूर्ध्नि भाले भ्रुवोर्मध्ये नेत्रयोः कर्णनासयोः |
आस्ये कण्ठे च दोर्मूले हृदयेऽप्यथ नाभिके ॥ ५ ॥ लिङ्गमूले तथाधारे कट्यां जान्वोश्च जङ्घयोः |
पादयोश्च समस्तेन व्यापकं विन्यसेन्मनोः ॥ ६ ॥ सर्वसिद्धिकरः प्रोक्तो मन्त्रश्चाष्टादशाक्षरः |
मालाख्योऽपरमन्त्रोऽपि मारुतेः सर्वसिद्धिदः ॥ ७ ॥ एतन्मन्त्रस्यर्ष्यादिध्यानपुरश्चरणप्रयोगादिविधिः पूर्वोक्तवत् ॥ अथापरो मालामन्त्रः—ॐ नमो हनुमते प्रकटपराक्रमाय आक्रान्तदिङ्मण्डलाय यशोवितानधवलीकृतजगत्त्रितयाय वज्रदेहाय रुद्रावताराय लङ्कापुरीदहन उदधिलङ्घन दशग्रीवकृतान्तक सीताश्वासन अञ्जनीगर्भसंभव रामलक्ष्मणानन्दकर कपिसैन्यप्राकार सुग्रीवसाधारण पर्वतोत्पाटन बालब्रह्मचारिन् गम्भीरशब्द सर्वग्रहविनाशन सर्वज्वरहर डाकिनीविध्वंसन ॐ ह्रीं ह्रीं ह्रीं भस्मन्येव सर्वविषहर परबलं क्षोभय २ मम सर्वकार्याणि साधय २ हुं फट् स्वाहा ॥ उद्धारस्तु— प्रणवं पूर्वमुच्चार्य नमो हनुमते पदम् |
ङेन्तं प्रकटसंयुक्तं पराक्रमपदं तथा ॥ १ ॥ तथाक्रान्तपदोपेतं दिङ्मण्डलमुदीरयेत् |
यशोवितानधवलीकृतजगत्त्रितयाय च ॥ २ ॥ वज्रदेहाय चेत्युक्त्वा रुद्रावतारपदं तथा |
संबुद्ध्यन्तं पदं लङ्कापुरीदहनमीरयेत् ॥ ३ ॥ उदधिलङ्घनपदं दशग्रीवकृतान्तक |
सीताश्वासनपदोपेतमञ्जनीगर्भसंभव ॥ ४ ॥ श्रीरामलक्ष्मणानन्दकर कपिसैन्यप्राकार च |
सुग्रीवसाधारणपदं पर्वतोत्पाटने तथा ॥ ५ ॥ तथा बालब्रह्मचारिंस्तथा गम्भीरशब्द च |
सर्वग्रहविनाशन सर्वज्वरहरं तथा ॥ ६ ॥ डाकिनीविध्वंसनपदं ततस्तारमुदीरयेत् |
मायात्रितयमुच्चार्य भस्मन्येव वदेत् ततः ॥ ७ ॥ सर्वविषहर परबलं क्षोभय क्षोभय |
मम च सर्वकार्याणि साधयेति द्विरुच्चरेत् ॥ ८ ॥ हुंफट् स्वाहेति मन्त्रोऽयं मालाख्यः सर्वकामधुक् |
ऋषिरीश्वर एव स्यादनुष्टुप् छन्द ईरितम् ॥ ९ ॥ [पाठसंदेहः: प्रथमश्लोके मोचे इति पाठः|
पाठभेदाः: अदासो इत्यत्र सर्वं क.; हितकाम्यया इत्यत्र मिच्छता क.; आक्रान्त इत्यत्र क्रमाक्रान्त क.; दशग्रीवकृतान्तक इत्यत्र दशग्रीवशिरःकृ° ग.; संभव इत्यत्र संभूत ग.; सर्वज्वरहर इत्यत्र ज्वरोत्सादन ग.; पूर्वमुच्चार्य इत्यत्र उद्धृत्य ग.|
]

Druckseite 781

Zuordnung zur deutschen Fassung: 34.HMU.

हनुमान् देवता प्रोक्तो हुंबीजं शक्तिरन्तजा |
कीलकं हात्रयं भ्रांशं वेधकं तु हसौं पुनः ॥ १० ॥ हनूमत्प्रीतये चैव फलमाद्यमुदीरितम् |
नमो भगवते चाञ्जनेयायाङ्गुष्ठयोर्न्यसेत् ॥ ११ ॥ रुद्रमूर्तये च तथा तर्जनीभ्यामनन्तरम् |
वायुसुतायेति तथा मध्यमाभ्यामपि स्फुटम् ॥ १२ ॥ अग्निगर्भाय च तथानामिकाभ्यां प्रविन्यसेत् |
रामदूताय च पुनः कनिष्ठाभ्यां विचक्षणः ॥ १३ ॥ ब्रह्मास्त्रनिवारणाय चास्त्रमन्त्रः समीरितः |
षडङ्गं चामुना कृत्वा ततो ध्यायेदनन्यधीः ॥ १४ ॥ स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिम् |
कुण्डलद्वयसंशोभिमुखाम्भोजं मुहुर्मुहुः ॥ १५ ॥ अयुतं तु पुरश्चर्या रामस्याग्रे शिवस्य वा |
पूजां तु वैष्णवे पीठे शैवे वा विदधीत वै ॥ १६ ॥ आवृतिभिर्विना नित्यं नियताशी जितेन्द्रियः |
क्षुद्ररोगनिवृत्त्यर्थमष्टोत्तरशतं मुने ॥ १७ ॥ पूजयेत् तद्भयान्मुक्तो भवत्येव न संशयः |
महारोगादिशान्त्यर्थमष्टोत्तरसहस्रकम् ॥ १८ ॥ जप्त्वा तस्मात् प्रमुच्येत निशीथे नियताशनः |
जयाभिकाङ्क्षिणो राज्ञस्तस्मादन्यन्न विद्यते ॥ १९ ॥ ध्यायेद्राक्षसहन्तारमयुतं नियताशनः |
जपन्नियमतश्चैव जयेदजेयमप्यरिम् ॥ २० ॥ संदधानं तु सुग्रीवं सन्धानाय स्मरन्नपि |
अयुतेनापि बलिना सन्धिमाप्नोत्यसंशयम् ॥ २१ ॥ लङ्काया दाहनं ध्यायन् जपन्नयुतमञ्जसा |
शात्रवं दहेदेव विभवेन सहारिणः ॥ २२ ॥ जयार्थे रिपुसंघानामस्मादन्यन्न विद्यते |
यस्तु गृहे हनुमन्तं सर्वदैव प्रपूजयेत् ॥ २३ ॥ सर्वदैतस्य मन्त्रेण तस्य लक्ष्मीरचञ्चला |
दीर्घमायुर्लभेदेव सर्वतो विजयी भवेत् ॥ २४ ॥ सर्पादिभूतसंत्राता तद्देशो चैव जायते |
सर्वतः सर्वदा मित्रं भवत्येव न संशयः ॥ २५ ॥ शैवानां वैष्णवानां च षट्कर्मात्र प्रदर्शितम् |
नान्यसाधनमस्त्येव मन्त्रादस्मादनुत्तमम् ॥ २६ ॥ वैरिव्याघ्रादिभीतीनामयमेव परायणः |
संनाहे भूरियुद्धेषु रुद्धानां परसैनिकैः ॥ २७ ॥ यात्राकाले हनूमन्तं स्मरन् यस्तु स्वकाद्गृहात् |
इच्छया याति वेगेन इष्टार्थमधिगच्छति ॥ २८ ॥ स्वापकाले स्मरेन्नित्यं चोरभूतादिकांस्त्यजेत् |
पदं च वासुदेवायं हनुमते पदं पुनः ॥ २९ ॥ कलद्वन्द्वं घघद्वन्द्वं खत्रयं वह्निवल्लभा |
चतुर्विंशतिवर्णोऽन्यः सप्लीहोदररोगहृत् ॥ ३० ॥ ॐ नमो भगवते हनुमते कल २ घघ २ खखख स्वाहा ॥ (२४) ॥ नागवल्लीदले चैवमष्टप्रगुणितं शुभम् |
वंशजं शङ्कुं स्थाप्य क्रमात् प्लीहोदरोपरि ॥ ३१ ॥ सप्तारण्योपलाग्रं वै बन्धयष्टिं प्रतापयेत् |
मन्त्रेणानेनाभिमन्त्र्य सप्तवारं तथा पुनः ॥ ३२ ॥ तथैव मन्त्रयेदेनं सप्तभिस्तु विचक्षणः (?) |
स्फोटद्वारा भवेत् प्लीहो भस्मीभूतो न संशयः ॥ ३३ ॥ कर्पूराद्यष्टगन्धेन पुच्छाकारं पटे लिखेत् |
कोकिलाक्षस्य लेखिन्या रूपं हनुमतो मनुम् ॥ ३४ ॥ उद्धृत्याष्टादशार्णं तु मन्त्रमध्ये निधारयेत् |
मूर्ध्नि बद्धेन तेनैव त्रैलोक्यं जयति ध्रुवम् ॥ ३५ ॥ महासैन्यपताकायां मन्त्रं यन्त्रं समालिखेत् |
चन्द्रसूर्यग्रहे जाप्यो मन्त्रस्तन्मोक्षणावधि ॥ ३६ ॥ [पाठसंदेहाः: १० हात्रयं भ्रांशं तथा हसौं इति बीजपाठोऽस्पष्टः|
२९ वासुदेवायम् इत्यस्य संधिः संदिग्धः|
३१–३३ चिकित्साक्रियावर्णने कतिपयपदानि संदिग्धानि; (?) इति मुद्रिते एव|
पाठभेदाः: १७ नियताशी विजितेन्द्रियः ग.; २१ सन्धानाय क.ग.; ३१ एवं ग.|
]

Druckseite 782

Zuordnung zur deutschen Fassung: 34.HMU.

होमयेच्च दशांशेन तिलसर्षपकादिभिः |
युद्धकाले पताकां तां गजाश्वोपरि संस्थिताम् ॥ ३७ ॥ दर्शयेत् परसैन्यस्य तद्भङ्गं स्यात् सुनिश्चितम् |
मालामन्त्रं जपेद्यस्तु हनुमन्तं स्मरन् रणे ॥ ३८ ॥ वज्राङ्गो जायते युद्धे हनूमत्समविक्रमः |
अथ रक्षां प्रवक्ष्यामि सर्वसिद्धिप्रदायिनीम् ॥ ४९ ॥ स्तम्भनीं परसैन्यानां भूतानां च वशङ्करीम् |
रोचनाकुङ्कुमाभ्यां च भूर्जपत्रे सुशोभने ॥ ४० ॥ सुवर्णस्य च लेखिन्या यन्त्रमष्टदलं लिखेत् |
साध्यनाम च तन्मध्ये मूलमन्त्रं दलाष्टके ॥ ४१ ॥ मालामन्त्रं च तन्मध्ये त्रिधा हुंकारवेष्टितम् |
त्रिलोहवेष्टितं कृत्वा कटिबाहुशिरःस्थितम् ॥ ४२ ॥ धारयेद्बाहुना विद्यां विघ्नस्तस्य न जायते |
रणे राजकुले द्यूते व्यवहारे पराभवे ॥ ४३ ॥ शस्त्रेण नाक्रम्यते तस्य सर्वेषां चातिवल्लभः |
तस्य पीडां न कुर्वन्ति ग्रहाश्चोराद्युपद्रवाः ॥ ४४ ॥ जलवह्निभयं नास्ति व्याघ्रतस्करजं तथा |
ज्वराः सर्वे विनश्यन्ति त्र्याहिकाद्या महाबलाः ॥ ४५ ॥ अक्षिजादिमहारोगा मन्त्रराजप्रभावतः |
तारो हकारोऽग्नियुतः षड्दीर्घस्वरबिन्दुना ॥ ४६ ॥ प्रणवान्तोऽष्टाक्षरको मूलमन्त्र उदाहृतः |
ॐ हां हीं हूं हैं हौं हः ॐ इति ॥ (८) ॥ चन्दनागुरुकर्पूरतमालजलङ्कुङ्कुमम् |
उशीरकुष्ठसंयुक्तमेतद् गन्धाष्टकं स्मृतम् ॥ ४७ ॥ ताराद्यं वज्रकायेति वज्रतुण्ड समुद्धरेत् |
कपिल पिङ्गल प्रोच्य ऊर्ध्वकेश महाबल ॥ ४८ ॥ रक्तमुख तडिज्जिह्वमहारौद्रपदं ततः |
दंष्ट्रोत्कट कहकह करालिन् पदमुद्धरेत् ॥ ४९ ॥ महादृढप्रहारिंश्च लङ्केश्वरवधोद्यत |
महासेतुबन्धपदं महाशैलप्रवाह च ॥ ५० ॥ गगनचर एह्येहि भगवंश्च महापदम् |
ततो बलपराक्रम भैरवाज्ञाजयेति च ॥ ५१ ॥ एह्येहि च महारौद्र दीर्घपुच्छेन वेष्टय |
वैरिणं भञ्जय-पदं द्विरुक्तं हुंफडन्तकम् ॥ ५२ ॥ स्वाहान्तकः शतं पञ्चविंशदक्षरको मनुः |
मालाख्योऽयं ज्वरादीनां रोगाणामन्तकः स्मृतः ॥ ५३ ॥ (१) ॐ वज्रकाय वज्रतुण्ड कपिलपिङ्गलोर्ध्वकेश महाबल रक्तमुख तडिज्जिह्वमहारौद्रदंष्ट्रोत्कट कह २ करालिन् महादृढप्रहारिन् लङ्केश्वरवधोद्यत महासेतुबन्धमहाशैलप्रवाह गगनचर एह्येहि भगवन् महाबलपराक्रम भैरवाज्ञाजय एह्येहि महारौद्रदीर्घपुच्छेन वेष्टय वैरिणं भञ्जय २ हुंफट् स्वाहा ॥ (२) ॐ [बीजक्रमे स्थानीयास्पष्टता] हनुमते नमः ॥ (३) ॐ नमो हनूमान् सर्वग्रहान् भूतभविष्यवर्तमानान् दूरस्थान् समीपस्थान् सर्वकालमुच्चाटय २ परबलानि क्षोभय २ सर्वकार्याणि साधय २ हां हीं हूं घेघे हुंफट् स्वाहा ॥ (४) ॐ शिव ॐ [स्थानीयास्पष्टाक्षराणि] स्वाहा परमन्त्रपरयन्त्रपराकारभूतप्रेतपिशाचसर्वज्वरपरदृष्टिसर्वदुर्जनचेटककरणसर्वविद्यासर्पाग्निनिवारण नाशय २ इलु २ वुवु २ खिलि २ विलय सर्वकुयन्त्राणि सर्वदुष्टवाचं हुंफट् स्वाहा ॥ (५) ॐ [षोडशाक्षरबीजक्रमे स्थानीयास्पष्टता] हनुमते नमः |
इति षोडशाक्षरमन्त्रः ॥ (६) ॐ [पञ्चाक्षरबीजक्रमे स्थानीयास्पष्टता] |
इति पञ्चाक्षरमन्त्रः ॥ सर्वेषां रामचन्द्र ऋषिः, नानाछन्दांसि, महावीरो हनुमान् देवता, मारुतात्मज हसौं बीजं |
अञ्जनीसूनु स्फ्रें इति शक्तिः, श्रीरामभद्र हां इति प्राणाः, ॐ हां इति कीलकम्, श्रीरामलक्ष्मणानन्दकर हां हीं हूं इति जीवः, मम इष्टसिद्धये विनियोगः |
द्वादशाक्षरवत् षडङ्गन्यासध्यानानि ज्ञेयानि |
[३८-अनन्तरं ४९ इति मुद्रिते, अनुक्रमे ३९|
बीजानां कतिपयाक्षराण्यस्पष्टानि, अनुमानतः न पूरितानि|
पाठभेदाः: ४४ शस्त्रं नाक्रमते क.; ४६ समुत्थानः क.; जलं बालकमित्यर्थः इति टिप्पणी; ५१ सिद्ध ग.; मन्त्रे २ हसख्फ्रें हसौं क.|
]

Druckseite 783

Zuordnung zur deutschen Fassung: 34.AGC, 34.AGF, 34.AMP.

इति हनूमत्प्रकरणम् ॥ प्रागुक्तानां काम्यहोमकर्मणां तत्तदुक्तप्रकारेणाग्निचक्रमविज्ञाय कृतानां नैष्फल्यं प्रत्यवायश्च भवतीति श्रुतस्तत्परिज्ञानस्यावश्यकत्वात् परिज्ञानं प्रकाश्यते |
श्रीरुद्रयामले— अथ वक्ष्ये महादेवि होमकर्मसु सिद्धिदम् |
अग्निचक्रं वरारोहे सर्वतन्त्रेषु गोपितम् ॥ १ ॥ नवग्रहमयो वह्निस्ते च वह्निमया ग्रहाः |
वह्नौ हुतं हविर्देवि ग्रहाणां प्रविशेन्मुखम् ॥ २ ॥ तृप्यन्ति देवताः सर्वास्तेषु तृप्तेषु पार्वति |
फलं वापि प्रयच्छन्ति सर्वदेवमया ग्रहाः ॥ ३ ॥ अतस्तेषां स्थितिं वह्नौ ज्ञात्वा होमं समाचरेत् |
शान्तिके पौष्टिके वह्नौ क्रूरेष्वपि च कर्मसु ॥ ४ ॥ तेषां स्थितिक्रमं वक्ष्ये नक्षत्रेषु यथा स्थिताः |
सूर्यो बुधो भृगुश्चैव शनिश्चन्द्रो महीसुतः ॥ ५ ॥ जीवो राहुश्च केतुश्च नवैते दिवि खेचराः |
त्रीणि त्रीणि च नक्षत्राणि सूर्यादीनि च दापयेत् ॥ ६ ॥ सूर्यभाच्चन्द्रभं यावद्गणयेच्च महेश्वरि |
सूर्यादीनां फलं देवि शृणु वक्ष्ये यथाक्रमम् ॥ ७ ॥ आदित्ये तु भवेच्छोको बुधे चैव धनागमः |
शुक्रे लाभं विजानीयाच्छनौ पीडा न संशयः ॥ ८ ॥ चन्द्रे लाभो महादेवि भौमे चैव तु बन्धनम् |
गुरुणा च धनप्राप्तिः राहौ हानिस्तथैव च ॥ ९ ॥ केतुना जायते मृत्युः फलमेवं महेश्वरि |
एवं ज्ञात्वा महेशानि होमकर्म समाचरेत् ॥ १० ॥ सौम्यग्रहमुखे यस्मिन् दिने विशति चाहुतिः |
आरम्भं सौम्यहोमस्य दिने तस्मिन् विधीयते ॥ ११ ॥ क्रूरहोमस्तथा देवि क्रूरग्रहमुखे भवेत् |
इति ज्ञात्वा महादेवि काम्यहोमं समाचरेत् ॥ १२ ॥ अन्यथा क्रियमाणे तु नैष्फल्यं चात्मनाशनम् |
[अत्र बिन्दवः, संख्या नास्ति|
] इति ॥ ब्रह्मयामले— अथ वह्नेः स्थितिं वक्ष्ये होमकर्मसु सिद्धये |
स्वर्गलोके च पाताले भूमौ तिष्ठति हव्यवाट् ॥ १ ॥ तत्प्रकारमहं वक्ष्ये साधकानां हिताय च |
धृतिं च तिथिवारांश्च सप्तद्वीपं चतुर्युगम् ॥ २ ॥ एकीकृत्य हरेद्भागं त्रिभिः शेषेण पावकः |
एकेन वसति स्वर्गे द्वये पाताल एव च ॥ ३ ॥ शून्ये च मर्त्यलोके स्यादेवं वसति पावकः |
उत्पातः स्वर्गलोकस्थे पातालस्थे धनक्षयः ॥ ४ ॥ मर्त्यलोकस्थिते वह्नौ होमोऽभीष्टफलप्रदः |
इत्थं विज्ञाय मन्त्रज्ञो होमकर्म समारभेत् ॥ ५ ॥ धृतिरष्टादश |
तिथयः पञ्चदश प्रतिपदादयः होमारम्भतिथिपर्यन्ताः, वाराः सूर्यवारादिहोमारम्भवारान्ताः |
अन्यत्सुगमम् ॥ अथारिमन्त्रपरित्यागविधिस्तत्र श्रीरुद्रयामले— अरिमन्त्रपरित्यागविधिं वक्ष्ये महेश्वरि |
यज्ज्ञात्वा मोचयेच्छिष्यं शत्रुमन्त्रभयाद् गुरुः ॥ १ ॥ अज्ञानाद्यत्र कुत्राप्यरिमन्त्रं महेश्वरि |
जप्त्वा मूढा महादुःखं प्राप्नुवन्तीह तत्कृतम् ॥ २ ॥ गुरुस्तद् रक्षयेद्येन विधिना तद्वदामि ते |
शुचिः समाहितो भूत्वा प्रारभेत् प्रवरे दिने ॥ ३ ॥ अशेषदुःखनाशाय देशिकप्रवरो विधिम् |
तत्रादौ रम्यभवने कुम्भं दीक्षाविधानतः ॥ ४ ॥ [पाठभेदः: अरिमन्त्रपरित्यागे ३ प्रारभेत् इत्यत्र समाचरेत् क.|
]

Druckseite 784

Zuordnung zur deutschen Fassung: 34.AMP, 34.GAD.

मण्डले स्थापयेद् देवि पूरयेत् तं शुभैर्जलैः |
विधिना मन्त्रपाठेन तत्रावाहयेद्देवताम् ॥ ५ ॥ सकलीकृत्य संपूज्यावरणानि प्रपूजयेत् |
एवं सावरणामिष्ट्वा देवि मन्त्रस्य देवताम् ॥ ६ ॥ हुत्वा विलोममन्त्रेण गोघृतेन महेश्वरि |
अष्टोत्तरसहस्रं वा शतं चाष्टोत्तरं प्रिये ॥ ७ ॥ ब्रह्मार्पणेन मनुना तथान्ते तर्पयेत् प्रभुम् |
ततो यवान्नदुग्धान्नैर्देवताभ्यो बलिं हरेत् ॥ ८ ॥ विदिक्षु दिक्षु च तथाधश्चोर्ध्वं मनुवित्तमः |
आयाहीन्द्र सुराधीश शतमन्यो शचीपते ॥ ९ ॥ नमस्तुभ्यं गृहाणेमं पुष्पधूपादिकं बलिम् |
आयाहि तेजसां नाथ हव्यवाह वरप्रद ॥ १० ॥ गृहाण पुष्पधूपादिबलिमेनं प्रयोजितम् |
प्रेतनाथ त्वमायाहि भिन्नाञ्जनसमायुधैः ॥ ११ ॥ बलिं दत्तं गृहीत्वेमं सुप्रीतो वरदो भव |
नमस्ते रक्षसां नाथ निरृते त्वमिहागतः ॥ १२ ॥ गृहाण बलिपूजादि मया भक्त्या निवेदितम् |
एहि पश्चिमदिक्पाल जलनाथ नमोऽस्तु ते ॥ १३ ॥ भक्त्या निवेदितां पूजां गृहीत्वा प्रीतिमाप्नुहि |
प्रभञ्जन प्राणपते त्वमेहि सपरिच्छद ॥ १४ ॥ मया प्रयुक्तं विधिवद्गृहाण बलिमादरात् |
कुबेरतारकाधीशावागच्छेतां सुरेश्वरौ ॥ १५ ॥ एष्यपूपादिभिः प्रीतौ भवेतां वरदौ मम |
ईश त्वमेहि भगवन् सर्वविद्याश्रय प्रभो ॥ १६ ॥ पूजितः पुष्पधूपादिप्रीतो भव विभूतये |
आयाहि सर्वलोकानां नाथ ब्रह्मन् समर्चनम् ॥ १७ ॥ गृहाण सर्वविघ्नान् मे निवर्तय नमोऽस्तु ते |
आगच्छ वरदाव्यग्र विष्णो विश्वस्य नायक ॥ १८ ॥ पूजितः परया भक्त्या भव त्वं सुखदो मम |
ततः सपरिवारं च पूजयेन्मन्त्रदेवताम् ॥ १९ ॥ मन्त्रेण विपरीतेन पुष्पधूपोपचारकैः |
ततस्तु प्रार्थयेद्विद्वान् पूजितां मन्त्रदेवताम् ॥ २० ॥ आनुकूल्यमनालोच्य मया तरलबुद्धिना |
यदुपात्तं विभ्रान्तमरिमन्त्रस्वरूपकम् ॥ २१ ॥ तेन मे मनसः क्षोभमशेषं विनिवर्तय |
पापं प्रतिहतं मेऽस्तु भूयाच्छ्रेयः सनातनम् ॥ २२ ॥ तनोतु मम कल्याणं पावनी भक्तिरेव च |
इति संप्रार्थ्य मन्त्रेण मन्त्रं यन्त्रे विलोमतः ॥ २३ ॥ विलिख्यामलकर्पूरचन्दनेन समर्चयेत् |
कलशोपरि संस्थाप्य भक्त्या परमया युतः ॥ २४ ॥ तद्यन्त्रं देवि मतिमान् बद्ध्वा निजशिरस्यथ |
स्नायात् पूजितकुम्भस्थैर्जलैर्मन्त्रमयैः शिवैः ॥ २५ ॥ पुनश्चान्येन तोयेन कुम्भमापूर्य संयतः |
तन्मध्ये मन्त्रं यन्त्रं च निक्षिप्याथ प्रपूजयेत् ॥ २६ ॥ तत्कुम्भं निम्नगातीरे शुद्धे वान्यजलाशये |
विसृजेदथ विप्रांश्च यथाशक्त्या प्रपूजयेत् ॥ २७ ॥ इत्थं कृतविधानस्य रिपुमन्त्रोद्भवा रुजः |
विनश्यन्ति न सन्देहः क्रमाच्चित्तप्रसन्नता ॥ २८ ॥ जायतेऽतीवसंपन्ना वर्धते तत्कृतं क्रमात् |
[अत्र बिन्दवः, संख्या नास्ति|
] इत्यरिमन्त्रपरित्यागविधिः ॥ अथ गुरोरभावे दीक्षाविधिस्तत्र श्रीरुद्रयामले— गुरोरभावे विप्रेन्द्र मन्त्रग्रहणमुच्यते |
कृष्णपक्षे त्रयोदश्यां दक्षिणामूर्तिसंनिधौ ॥ १ ॥ तालपत्रे मनुं लिख्य स्थापयेच्च तदग्रतः |
संपूज्य दक्षिणामूर्तिमुपचारैः प्रयत्नतः ॥ २ ॥ पायसं विनिवेद्याथ प्रणमेद् दण्डवत् ततः |
तालपत्रं समालोक्य पठेदष्टोत्तरं शतम् ॥ ३ ॥ [पाठसंदेहाः: ११ भिन्नाञ्जनसमायुधैः; १६ एष्यपूपादिभिः; २१ विभ्रान्तम् इत्यादयः स्थानीयास्पष्टाः|
२८-अनन्तरमर्धश्लोकस्य द्वितीयपादे अर्थसंबन्धोऽस्पष्टः|
]

Druckseite 785

Zuordnung zur deutschen Fassung: 34.GAD, 34.MAN, 34.MKU, 34.MAS, 34.NPN, 34.DMN, 34.SAM.

एवं गृहीतो मन्त्रः स्याद्गुरोरपि विशिष्यते |
गुरोः संभाविता दोषाः प्रायेण च कलौ युगे ॥ ४ ॥ एवं गृहीतमन्त्रः स्यात् सर्वसिद्धिप्रदो नृणाम् |
[अत्र बिन्दवः, संख्या नास्ति|
] इति ॥ अथ मुद्रालक्षणम् |
तन्त्रराजे— कनिष्ठानामयोः पृष्ठे स्यादङ्गुष्ठस्तु तर्जनी |
कुटिला ऋजुमध्यस्था मुद्रासावङ्कुशाभिधा ॥ १ ॥ इति |
नारदपञ्चरात्रे— दक्षाङ्गुष्ठे पराङ्गुष्ठं क्षिप्त्वा हस्तद्वयेन तु |
सावकाशं चैकमुष्टिं कुर्यांत् कुम्भाख्यमुद्रिका ॥ १ ॥ इति |
प्रयोगसारे— त्रिशूलाग्रौ करौ कृत्वा व्यत्यस्तावभितो नयेत् |
अस्त्रमुद्रेयमाख्याता वह्निप्राकारलक्षणा ॥ १ ॥ इति |
सारसंग्रहे—ऋषिच्छन्दोदेवतानां न्यासे त्वङ्गुलयः स्मृताः |
चतस्रोऽङ्गुष्ठरहिताः |
इति |
नारदपञ्चरात्रे— मन्त्राभिमृष्टयोः पाण्योः पञ्चस्वेऽङ्गानि विन्यसेत् |
अङ्गुष्ठेनाचरेन्न्यासमन्याङ्गुलिसमाश्रयम् ॥ १ ॥ अङ्गुष्ठविषयं न्यासं तर्जनीशिरसैव हि |
अङ्गुष्ठवर्जमङ्गुल्यश्चतस्रो हृदि विन्यसेत् ॥ २ ॥ शिखायां मुष्टिरेव स्यादङ्गुष्ठकृतनामिका |
सर्वाङ्गुलय आनाभेः पाण्योः कवचबन्धने ॥ ३ ॥ तर्जनीमध्यमानामाः प्रोक्ता नेत्रत्रये क्रमात् |
अङ्गुष्ठतर्जन्यग्राभ्यां हस्तयोरभिशब्दयेत् ॥ ४ ॥ इति |
चतस्रः प्रसारिताः |
प्रसारिततलेनैव पाणिना हृदयं शिरः |
इति |
दक्षिणामूर्तिसंहितायाम्— कनिष्ठाङ्गुष्ठरहितैस्त्रिभिस्तु हृदि विन्यसेत् |
मध्यमानामिकाभ्यां तु न्यसेच्छिरसि मन्त्रवित् ॥ १ ॥ शिखाङ्गुष्ठेन विन्यस्य दशभिः कवचं न्यसेत् |
हृद्वतेन्नेत्रविन्यासं विन्यसेत् परमेश्वरि ॥ २ ॥ तर्जनीमध्यमाभ्यां तु ततोऽस्त्रं विन्यसेत् प्रिये |
मुष्टिं कृत्वोच्चलेन्मन्त्री तर्जनीं दण्डवत्तदा ॥ ३ ॥ सौभाग्यदण्डिनी नाम रिपून् दण्डयतीक्षणात् |
अङ्गुष्ठं मुष्टिकं कुर्याद्रिपुजिह्वाग्रहा भवेत् ॥ ४ ॥ इति |
ज्ञानार्णवे—त्रिद्व्येकदशकत्रिद्विमिताङ्गुलिभिरीरिताः |
इति |
अस्यार्थः—कनिष्ठाङ्गुष्ठरहिताङ्गुलित्रयेण हृदयमुद्रा |
मध्यमानामाभ्यां शिरोमुद्रा |
अङ्गुष्ठेन शिखामुद्रा |
दशाङ्गुलिभिः कवचमुद्रा |
हृदयस्थाभिर्नेत्रमुद्रा |
तर्जनीमध्यमाभ्यां तालत्रयेणास्त्रमुद्रा |
आनाभेः स्कन्धान्ताधोभूताभ्यां पाणिभ्यां वर्म |
वर्म स्कन्धादिनाभिगम् इति तन्त्रराजवचनात् |
शैवमन्त्राणां तु शैवागमे षडङ्गमुद्राविशेष उक्तः— कृतमुष्टिपुटौ हस्तौ कृत्वाङ्गुष्ठौ हृदि न्यसेत् |
हृन्मुद्रेयं समाख्याता शिरोमुद्रा प्रकीर्त्यते ॥ १ ॥ ललाटाग्रे समाधाय कृतमुष्टिपुटौ करौ |
कुर्यादूर्ध्वप्रसक्ताग्रे तर्जन्यौ ज्येष्ठबाह्यतः ॥ २ ॥ करौ शिखायां संयोज्य कृतमुष्टिपुटाकृती |
ज्येष्ठावधः प्रसक्ताग्रौ कारयेदूर्ध्वतस्तथा ॥ ३ ॥ कुर्यात् सेयं तथा मुद्रा सर्वोपद्रवनाशिनी |
कृत्वाङ्गुष्ठौ प्रसक्ताग्रौ तर्जन्यौ च त्रिकोणवत् ॥ ४ ॥ मूर्ध्नि पश्चान्मुखं कृत्वा नयेदुभयपार्श्वतः |
करं हृदयमुद्रेयं कवचस्याभयप्रदा ॥ ५ ॥ कृत्वा नेत्रोन्मुखं हस्तं सक्ताङ्गुष्ठकनिष्ठिकम् |
प्रसार्य मध्यमाः किञ्चिन्नमयेदितराङ्गुलीः ॥ ६ ॥ नेत्रमुद्रेयमुद्दिष्टा रक्षोभूतार्तिभञ्जनी |
परस्परतलद्वन्द्वं पुनरास्फोटयेद् भृशम् ॥ ७ ॥ [पाठसंदेहाः: नारदपञ्चरात्रे ३ अङ्गुष्ठकृतनामिका, दक्षिणामूर्तिसंहितायां २ हृद्वतेत् इत्यादिषु स्थानीयास्पष्टता|
पाठभेदः: सौभाग्यदण्डिनीश्लोके दण्डयते क्षणात् क.|
]

Druckseite 786

Zuordnung zur deutschen Fassung: 34.MGA, 34.MSF, 34.AVM, 34.TRM.

तर्जन्या शब्दयेत् ताभ्यां ज्येष्ठाग्रवलिताग्रया |
[अत्र बिन्दवः, संख्या नास्ति|
] इति |
ताभ्यां कराभ्यां ॥ मन्त्रतन्त्रप्रकाशे— कनिष्ठाङ्गुष्ठकौ युग्मौ करयोरितरेतरम् |
तर्जनीमध्यमानामाः संहता भुग्नवर्जिताः ॥ १ ॥ मुद्रेषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता |
[अत्र बिन्दवः, संख्या नास्ति|
] संहताः परस्परसंयुक्ताः |
भुग्नवर्जिताः अकुटिलाः |
लक्षणसंग्रहे— वामाङ्गुष्ठं तु संगृह्य दक्षिणेन तु मुष्टिना |
कृत्वोत्तानं ततो मुष्टिमङ्गुष्ठं तु प्रसारयेत् ॥ १ ॥ वामाङ्गुल्यस्तथा शिष्टाः संयुक्ताः संप्रसारिताः |
दक्षिणाङ्गुष्ठसंस्पृष्टा ज्ञेयैषा शङ्खमुद्रिका ॥ २ ॥ अधोमुखं वामहस्तं तादृशं दक्षहस्तकम् |
विन्यस्याङ्गुष्ठयुग्मं तु पार्श्वयोः संप्रसार्य च ॥ ३ ॥ दर्शयेद्देवपात्रं तु मत्स्यमुद्रेयमीरिता |
[अत्र बिन्दवः, संख्या नास्ति|
] इति |
पद्मवाहिन्यां—अञ्जल्यनामातर्जन्यकनिष्ठाग्राख्ययोगतः |
मुद्रेयं त्रिशिखा प्रोक्ता |
इति |
अथावाहनादिमुद्राः लक्षणसंग्रहे— हस्ताभ्यामञ्जलिं बद्ध्वानामिकामूलपर्वणोः |
अङ्गुष्ठौ निक्षिपेत् सेयं मुद्रा त्वावाहनी स्मृता ॥ १ ॥ अधोमुखी तियं चेत् स्यात् स्थापनीति निगद्यते |
उच्छ्रिताङ्गुष्ठमुष्ट्योश्च संयोगात् संनिधापनी ॥ २ ॥ अन्तःप्रवेशिताङ्गुष्ठा सैव संरोधनी मता |
उत्तानमुष्टियुगला संमुखीकरणी भवेत् ॥ ३ ॥ देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिः |
सव्यहस्तकृता मुष्टिर्दीर्घाधोमुखतर्जनी ॥ ४ ॥ अवगुण्ठनमुद्रेयमभितो भ्रामिता मता |
अन्योन्याभिमुखा श्लिष्टाः कनिष्ठानामिका पुनः ॥ ५ ॥ तथैव तर्जनी मध्या धेनुमुद्रा प्रकीर्तिता |
अमृतीकरणं कुर्यात् तया साधकसत्तमः ॥ ६ ॥ अन्योन्यग्रथिताङ्गुष्ठा प्रसारितपराङ्गुली |
महामुद्रेयमुदिता परमीकरणे प्रिये ॥ ७ ॥ प्रयोजयेदिमा मुद्रा देवताह्वानकर्मणि |
अङ्गन्यासस्य मुद्राणां लक्षणं प्राक् समीरितम् ॥ ८ ॥ इति ॥ तन्त्रराजे—(४ प० २३;४१) कृताञ्जली करौ कृत्वा व्यत्यस्येत् तदनामिके |
तन्नखे तर्जनीग्रस्ते त्रिखण्डा ललितावहा ॥ १ ॥ कनिष्ठानामिकामध्या नखैरन्योन्यसङ्गताः |
कृत्वाङ्गुष्ठौ कनिष्ठास्थौ ऋजू कुर्याच्च तर्जनी ॥ २ ॥ सर्वसंक्षोभणी मुद्रा त्रैलोक्यक्षोभकारिणी |
एतस्या मध्यमे देवि तर्जनीवत्कृते सति ॥ ३ ॥ सर्वविद्राविणी मुद्रा सर्वासामपि योषिताम् |
ताभ्यामङ्कुशरूपाभ्यां संश्लिष्टाकर्षिणी मता ॥ ४ ॥ परिवृत्ताङ्गुली कृत्वा नखाश्लिष्टतलौ करौ |
अङ्गुष्ठौ तर्जनीश्लिष्टौ नखैरावेशकारिणी ॥ ५ ॥ कराग्रे प्रसृते कृत्वा व्यत्यस्येत् तत्कनिष्ठिके |
तदग्राश्लेषतो भुग्ने मध्यमेऽनामिके ऋजू ॥ ६ ॥ तन्नखस्थे तु तर्जन्यावङ्गुष्ठौ मध्यमापरि |
इयमुन्मादिनी मुद्रा सर्वोन्मादनकारिणी ॥ ७ ॥ अस्यास्त्वनामिके भुग्ने तर्जन्यावङ्कुशाकृती |
एषा महाङ्कुशामुद्रा स्तम्भनाकर्षकारिणी ॥ ८ ॥ सव्यदक्षकरौ सम्यग् व्यत्यस्येत् कूर्परोपरि |
मणिबन्धे च बध्नीयादञ्जलिं मध्यपृष्ठयोः ॥ ९ ॥ [पाठसंदेहाः: पद्मवाहिनीवाक्ये तर्जन्यकनिष्ठाग्राख्य° इति समासस्य पाठोऽस्पष्टः|
तन्त्रराजे ७ मध्यमापरि इति दृश्यते|
पाठभेदाः: प्रथमपादे चालयेत् ख.; गालिनी इत्यत्र मुद्रैषा शङ्खसंज्ञिता क.; चालिता इत्यत्र योजिता ग.; आवाहनादिषु ५ सुष्ठुश्लिष्टे क.; तन्त्रराजे १ व्यत्यस्ततदनामिके क.|
]

Druckseite 787

Zuordnung zur deutschen Fassung: 34.TRM, 34.VKM, 34.TMB, 34.GNM.

विधाय भुग्ने तर्जन्यावङ्गुष्ठौ कारयेदधः |
कनिष्ठानामिके कुर्याद् व्यत्यस्ते करपृष्ठगे ॥ १० ॥ इयं सा खेचरीमुद्रा ललिताप्रीतिकारिणी |
अस्या विरचनेनैव सर्वाः सिध्यन्ति देवताः ॥ ११ ॥ इति ॥ अस्यामुक्तमुद्रायामीषद्भेदउक्तो वामकेश्वरतन्त्रे— सव्यं दक्षिणदेशे तु दक्षिणं सव्यदेशके |
बाहुं कृत्वा महादेवि हस्तौ संपरिवर्त्य च ॥ १ ॥ कनिष्ठानामिके देवि युक्तानेन क्रमेण तु |
तर्जनीभ्यां समाक्रान्ते सर्वोर्ध्वमपि मध्यमे ॥ २ ॥ अङ्गुष्ठौ तु महेशानि कारयेत् सरलावपि |
इयं सा खेचरी नाम्ना मुद्रा सर्वोत्तमा प्रिये ॥ ३ ॥ रचितैव महेशानि सर्वतेजोपहारिणी |
बद्ध्वैवैतया देवि दृश्यते साधकोत्तमः ॥ ४ ॥ योगिनीसर्ववृन्दैस्तु ज्वलत्पावकसन्निभः |
डाकिनीराकिणीवृन्दैर्लाकिनीकाकिनीगणैः ॥ ५ ॥ साकिनीहाकिनीवृन्दैर्दृश्यते परमेश्वरि |
एतया ज्ञातया देवि योगिनीनां प्रियो भवेत् ॥ ६ ॥ अतः समयमुद्रेयं सर्वासां परिकीर्तिता |
प्रयतोऽप्रयतो वापि शुचौ देशेऽथवाऽशुचौ ॥ ७ ॥ उत्थितश्चोपविष्टश्च चङ्क्रमन् निश्चलोऽपि वा |
उच्छिष्टो वा शुचिर्भूत्वा भुञ्जानो मैथुने रतः ॥ ८ ॥ मुद्रया मध्यमाङ्गुल्यौ परिवर्त्य क्रमो मनुः |
पार्थिवस्थानके युक्तः सद्यः खेचरतां लभेत् ॥ ९ ॥ इति ॥ तन्त्रराजे—(४ प० ५२ श्लो०) मध्यमा मध्यपार्श्वाधः कनिष्ठाग्रे विपर्ययात् |
अनामिकेऽधो व्यत्यस्ते तर्जन्यावङ्कुशाकृती ॥ १ ॥ इतरे तन्नखाग्राग्रे बीजमुद्रेयमीरिता |
कनिष्ठाङ्गुष्ठसंश्लेषान्महायोनिस्त्रिखण्डिका ॥ २ ॥ कनिष्ठानामिकामध्या व्यत्यस्ताः पृष्ठतः क्रमात् |
वलितावूर्ध्वयोगेन ऋजुतर्जनिकौ करौ ॥ ३ ॥ शक्त्युत्थापनमुद्रेषा जपपूजासमाधिषु |
मूर्तीकरणमेतस्या रचनेन समीरितम् ॥ ४ ॥ बाणकोदण्डमुद्रा स्यादृज्वङ्गुष्ठेन मुष्टिना |
(४-३८) पाशमुद्रा तु तेनैव तर्जन्यङ्गुष्ठयोगतः ॥ ५ ॥ कनिष्ठानामयोः पृष्ठे स्यादङ्गुष्ठस्तु तर्जनी |
कुटिला ऋजुमध्यस्था मुद्रासावङ्कुशाभिधा ॥ ६ ॥ खेचर्या वक्ष्यमाणाया मध्यमे करपृष्ठगे |
तर्जन्यौ ऋजुसंश्लिष्टे मुद्रैषोक्ता नमस्कृतौ ॥ ७ ॥ इति ॥ अथ गणेशमुद्रा लक्षणसंग्रहे— ततो गणेशमुद्राणामुच्यन्ते लक्षणान्यथ |
उत्तानोर्ध्वमुखी मध्या सरला बद्धमुष्टिका ॥ १ ॥ दन्तमुद्रा समाख्याता सर्वागमविशारदैः |
वाममुष्टेस्तु तर्जन्या दक्षमुष्टेस्तु तर्जनीम् ॥ २ ॥ संयोज्याङ्गुष्ठकाग्राभ्यां तर्जन्यग्रे स्वके क्षिपेत् |
एषा पाशाह्वया मुद्रा विद्वद्भिः परिकीर्तिता ॥ ३ ॥ ऋज्वीं च मध्यमां कृत्वा तर्जनीं मध्यपर्वणि |
संयोज्याङ्कुशयेत् किञ्चिन्मुद्रैषाङ्कुशसंज्ञिका ॥ ४ ॥ तर्जनीमध्यमासन्धिनिर्गताङ्गुष्ठमुष्टिका |
अधोमुखी दीर्घरूपा मध्यमा विघ्नमुद्रिका ॥ ५ ॥ तले तलं तु करयोस्तिर्यक् संयोज्य चाङ्गुलीः |
संहताः प्रसृताः कुर्यान्मुद्रा परशुसंज्ञिता ॥ ६ ॥ ऊर्ध्वास्यं दक्षिणं हस्तमानम्रविरलाङ्गुलिम् |
किञ्चिन्निम्नतलं कुर्यान्मुद्रैषा लड्डुकाभिधा ॥ ७ ॥ [पाठसंदेहाः: वामकेश्वरतन्त्रे २ युक्तानेन, ९ क्रमो मनुः इति पाठौ वाक्यसंबन्धेन अस्पष्टौ|
तन्त्रराजे १ संक्षिप्तहस्तविन्यासोऽस्पष्टः|
पाठभेदाः: वामकेश्वरतन्त्रे २ तेन ग.; ८ भुञ्जानो इत्यत्र अज्ञोऽपि क.; गणेशमुद्रासु ६ प्रसृताः क.; ७ मुद्रैषा इत्यत्र का ग.|
]

Druckseite 788

Zuordnung zur deutschen Fassung: 34.GNM, 34.GYM.

उत्तानवाममुष्टिस्तु बीजपूराह्वया मता |
दन्तपाशाङ्कुशविघ्नपरशुलड्डुकाह्वयाः ॥ ८ ॥ बीजपूराह्वया चेति गणेशस्य प्रिया मताः |
शाक्तेयानां च मुद्राणां कथ्यन्ते लक्षणानि तु ॥ ९ ॥ पाशाङ्कुशवराभीतिखड्गवर्मधनुःशराः |
मौसली मुद्रिका दौर्गी मुद्राः शक्तिप्रिया मताः ॥ १० ॥ लक्ष्मीमुद्रार्चने लक्ष्म्या वाग्वादिन्यास्तु पूजने |
अक्षमाला तथा व्याख्या वीणा पुस्तकमुद्रिका ॥ ११ ॥ मातङ्गिन्यास्तु वीणाख्या मुद्रा चातिप्रिया भवेत् |
योनिमुद्रा तु सर्वासां शक्तीनां प्रीतिदा मता ॥ १२ ॥ पाशाङ्कुशाख्ये प्रोक्ते च कथ्यन्ते ता यथाक्रमम् |
उत्तानं दक्षिणं हस्तं कृत्वाधो नमयेच्छनैः ॥ १३ ॥ संहताङ्गुलिका मुद्रा वराख्या परिकीर्तिता |
पराङ्मुखं वामहस्तमुच्छ्रिताङ्गुलिकं भवेत् ॥ १४ ॥ अभयस्य तु मुद्रैषा कथिताभयदायिनी |
कनिष्ठानामिके बद्ध्वा स्वाङ्गुष्ठेनैव दक्षतः ॥ १५ ॥ शिष्टाङ्गुली तु प्रसृते संसृष्टे खड्गमुद्रिका |
वामहस्तं तथा तिर्यक् कृत्वा चैव प्रसार्य च ॥ १६ ॥ आकुञ्चिताङ्गुलिं कुर्याच्चर्ममुद्रेयमीरिता |
दक्षमुष्टेस्तु तर्जन्या दीर्घया बाणमुद्रिका ॥ १७ ॥ मुष्टिं कृत्वा तु हस्ताभ्यां वामस्योपरि दक्षिणम् |
कुर्यान्मुसलमुद्रेयं सर्वविघ्नविनाशनी ॥ १८ ॥ मुष्टिं कृत्वा कराभ्यां च वामस्योपरि दक्षिणम् |
कृत्वा शिरसि संयोज्य दुर्गामुद्रेयमीरिता ॥ १९ ॥ दक्षिणाङ्गुष्ठतर्जन्यौ वक्रलम्रे कराङ्गुलीः |
प्रसार्य दर्शयेदेषा मुद्रा स्यादक्षमालिका ॥ २० ॥ एषैव संहतोत्ताना व्याख्यामुद्रा समीरिता |
वीणावादनवद्धस्तौ कृत्वा संचालयेत् ततः ॥ २१ ॥ वीणामुद्रेयमाख्याता सरस्वत्याः प्रियङ्करी |
वाममुष्टिं स्वाभिमुखे कुर्यात् पुस्तकमुद्रिका ॥ २२ ॥ इति ॥ अथ गायत्र्या द्वात्रिंशन्मुद्रास्तत्रैव— सुमुखं संपुटं चैव विततं विस्तृतं तथा |
द्विमुखं त्रिमुखं चैव चतुष्पञ्चमुखं तथा ॥ १ ॥ षण्मुखोऽधोमुखं चैव व्यापकाञ्जलिकं तथा |
शकटं यमपाशं च ग्रथितं संमुखोन्मुखम् ॥ २ ॥ विलम्बं मुष्टिकं चैव मत्स्यः कूर्मवराहकौ |
सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा ॥ ३ ॥ एता मुद्राश्चतुर्विंशद् गायत्र्याः सुप्रतिष्ठिताः |
वृथा मन्त्रजपश्चैव स्नानं भोजनमेव च ॥ ४ ॥ तथा वै तीर्थयात्रा च मुद्राहीने वृथा हि सा |
यज्ञश्च निष्फलस्तेषां होमो देवार्चनं तथा ॥ ५ ॥ तस्मान्मुद्रा महाज्ञेया विद्वद्भिर्यत्नमास्थितैः |
आकुञ्चिताङ्गुलिकरौ संमुखौ सुमुखं भवेत् ॥ ६ ॥ कोशाकारौ तु साङ्गुष्ठौ तत् संपुटमुदाहृतम् |
विरलाङ्गुलिकौ तौ तु विततं परिकीर्तितम् ॥ ७ ॥ विस्तीर्णौ विस्तृतौ हस्तावन्योन्याञ्जलिसंयुतौ |
कनिष्ठेऽनामिके युक्ते चेति तद् द्विमुखं भवेत् ॥ ८ ॥ तदेव मध्यमायुक्तं त्रिमुखं परिकीर्तितम् |
तदेव तर्जनीयुक्तं चतुर्मुखमुदीरितम् ॥ ९ ॥ तदेव स्यात् पञ्चमुखं मिलिताङ्गुष्ठकं यदि |
तदेव षण्मुखं प्रोक्तं तथा व्यस्तकनिष्ठिकम् ॥ १० ॥ अधोमुखयुतौ हस्तावधोमुखमुदीरितम् |
व्यापकाञ्जलिका सा स्याद् व्यस्ताङ्गुलिकरौ युतौ ॥ ११ ॥ अङ्गुष्ठकद्वययुतं मुष्टिद्वयमधोमुखम् |
भवेद्यदि तदा प्रोक्तं शकटं मुनिसत्तमैः ॥ १२ ॥ [पाठसंदेहः: २० वक्रलम्रे इति संधिपाठः|
पाठभेदाः: १५ चाभयप्रदा क.; २१ संहतोत्ताना इत्यत्र संतोत्ताना क.; १९ शिरसि इत्यत्र शिरः ख.|
]

Druckseite 789

Zuordnung zur deutschen Fassung: 34.GYM, 34.VSM.

मुष्टिं कृत्वा करौ योज्य तर्जनीं च प्रसार्य च |
आकुञ्च्याग्रौ तु संयोज्य यमपाशं विदुर्बुधाः ॥ १३ ॥ अन्योन्यान्तरसाश्लिष्टदशाङ्गुलिकरावुभौ |
अन्योन्यमपि बध्नीयाद् ग्रथितं परिकीर्तितम् ॥ १४ ॥ चुलुकाग्रौ करौ कृत्वा चोर्ध्वे वामकरे सुधीः |
अधोमुखेन दक्षेण योजयेत् संमुखोन्मुखम् ॥ १५ ॥ अधःकोशाकृतिकरौ विलम्बं विदुषो विदुः |
युतं मुष्टिद्वयं चैव सम्यङ् मुष्टिकमीरितम् ॥ १६ ॥ अन्योन्यानामिकामध्यामन्योन्येन च संस्पृशेत् |
कनिष्ठिकायुग्मेनैव मत्स्यमुद्रा समीरिता ॥ १७ ॥ अधोमुखे करे वामे तादृशो दक्षिणः करः |
पृष्ठदेशसमाक्रान्तः कूर्ममुद्रा समीरिता ॥ १८ ॥ मुष्टिं कृत्वा वामहस्तं मध्यमां तां प्रसार्य च |
निवेशयेद् वामकक्षे वराहस्य समीरिता ॥ १९ ॥ प्रसारिताङ्गुलिकरौ समीपं कर्णयोर्नयेत् |
सिंहाक्रान्तं समुद्दिष्टं गायत्रीजपतत्परैः ॥ २० ॥ दर्शयेच्छ्रोत्रयोस्तौ च संयुक्ताङ्गुलिपञ्चकौ |
महाक्रान्तं भवेन्मुद्रा गायत्रीहृदयङ्गता ॥ २१ ॥ तर्जनीं दक्षहस्तस्य वामे करतले न्यसेत् |
बध्नीयाद्वामहस्तेन मुद्गरं समुदीरितम् ॥ २२ ॥ दक्षिणेन करेणैव चालिताङ्गुलिना शिरः |
वदनाभिमुखेनैव पल्लवं मुनिभिः स्मृतम् ॥ २३ ॥ सुरभिज्ञानसिंहौ च योनिः कूर्मोऽथ पङ्कजम् |
लिङ्गं निर्वाणमुद्रेति जपान्तेऽष्टौ प्रदर्शयेत् ॥ २४ ॥ निर्वाणं प्रयाणं तेन प्रयाणकाले दर्शनीया संहारमुद्रा लक्ष्यते |
अन्याः सप्त मुद्राः प्रसिद्धाः |
मिथः कनिष्ठिके बद्ध्वा तर्जनीभ्यामनामिके |
अनामिकोर्ध्वसंश्लिष्टदीर्घमध्यमयोरधः ॥ २५ ॥ अङ्गुष्ठाग्रद्वयं न्यस्य योनिमुद्रेयमीरिता |
[अत्र बिन्दवः, संख्या नास्ति|
] इति ॥ अथ वैष्णवमुद्रास्तत्रैव— एकोनविंशतिमुद्रा विष्णोरुक्ता मनीषिभिः |
शङ्खचक्रगदापद्मवेणुश्रीवत्सकौस्तुभाः ॥ १ ॥ वनमाला तथा ज्ञानमुद्रा बिल्वाह्वया तथा |
गरुडाख्या परा मुद्रा विष्णोः संतोषवर्धिनी ॥ २ ॥ नारसिंही च वाराही हायग्रीवी धनुस्तथा |
बाणमुद्रा च परशुर्जगन्मोहनिका परा ॥ ३ ॥ काममुद्रा समाख्याता तासां लक्षणमुच्यते |
वामाङ्गुष्ठं तु संगृह्य दक्षिणेन तु मुष्टिना ॥ ४ ॥ कृत्वोत्तानं ततो मुष्टिमङ्गुष्ठं तु प्रसारयेत् |
वामाङ्गुल्यस्तथा शिष्टाः संयुक्ताः संप्रसारिताः ॥ ५ ॥ दक्षिणाङ्गुष्ठसंस्पृष्टा मुद्रैषा शङ्खसंज्ञिता |
विपर्यस्ते तले कृत्वा वामदक्षिणहस्तयोः ॥ ६ ॥ अङ्गुष्ठौ ग्रथयेच्चैव कनिष्ठानामिकान्तरे |
चक्रमुद्रेयमुद्दिष्टा सर्वसिद्धिकरी शुभा ॥ ७ ॥ हस्तौ तु संमुखौ कृत्वा संलग्नौ संप्रसारितौ |
अङ्गुल्यौ मध्यमे भूयः संलग्ने संप्रसारिते ॥ ८ ॥ गदामुद्रेयमाख्याता विष्णोः संतोषकारिणी |
हस्तौ तु संमुखौ कृत्वा संनतप्रोन्नताङ्गुली ॥ ९ ॥ तलान्तर्मिलिताङ्गुष्ठौ मुद्रैषा पद्मसंज्ञिका |
ओष्ठे वामकराङ्गुष्ठो लग्नस्तस्य कनिष्ठिका ॥ १० ॥ दक्षिणाङ्गुष्ठसंलग्ना तत्कनिष्ठा प्रसारिता |
तर्जनीमध्यमानामाः किञ्चित् संकोच्य चालिताः ॥ ११ ॥ वेणुमुद्रा भवेदेषा सुगुप्ता प्रेयसी हरेः |
अन्योन्यपृष्ठकरयोर्मध्यमानामिकाङ्गुलौ ॥ १२ ॥ [पाठसंदेहाः: गायत्रीमुद्रासु १७ हस्तविन्यासस्य वाक्यसंबन्धोऽस्पष्टः; २३ शिरः इत्यस्य सम्बन्धोऽप्यस्पष्टः|
पाठभेदाः: १७ तत् ग.; २३ शिखा ग.; वैष्णवमुद्रासु २ स्युः ख.; ६ संज्ञिका क.; ९ संहतावुन्नता क.|
]

Druckseite 790

Zuordnung zur deutschen Fassung: 34.VSM, 34.SOM, 34.SHM.

अङ्गुष्ठेन तु बध्नीयात् कनिष्ठामूलसंश्रिते |
तर्जन्यौ कारयेदेषा मुद्रा श्रीवत्ससंज्ञिता ॥ १३ ॥ अनामापृष्ठसंलग्ना दक्षिणस्य कनिष्ठिका |
कनिष्ठयान्यया बद्धा तर्जन्या दक्षया तथा ॥ १४ ॥ वामानामां च बध्नीयाद् दक्षिणाङ्गुष्ठमूलके |
अङ्गुष्ठमध्यमे वामे संयोज्य सरलाः पराः ॥ १५ ॥ चतस्रोऽप्यग्रसंलग्ना मुद्रा कौस्तुभसंज्ञिका |
स्पृशेत् कण्ठादि पादान्तं तर्जन्यङ्गुष्ठनिष्ठया ॥ १६ ॥ करद्वयेन मालावन्मुद्रेयं वनमालिका |
उन्नतं वाममङ्गुष्ठं दक्षाङ्गुष्ठेन वेष्टयेत् ॥ १७ ॥ दक्षिणाङ्गुष्ठकं चैव तदीयाभिर्निपीड्य च |
अङ्गुलीभिर्वामहस्ताङ्गुलिभिस्ताश्च पीडयेत् ॥ १८ ॥ गाढं हृदि क्षिपेदेषा बिल्वाख्या मुद्रिका परा |
हस्तौ तु विमुखौ कृत्वा ग्रथयित्वा कनिष्ठिके ॥ १९ ॥ मिथस्तर्जनिके श्लिष्टे श्लिष्टावङ्गुष्ठकौ तथा |
मध्यमानामिके द्वे तु द्वौ पक्षाविव चालयेत् ॥ २० ॥ एषा गरुडमुद्रा स्याद्विष्णोः प्रीतिविवर्धिनी |
तर्जन्यङ्गुष्ठकौ सक्तावग्रतो हृदि विन्यसेत् ॥ २१ ॥ वामहस्ताम्बुजं चैव वामजानुनि विन्यसेत् |
ज्ञानमुद्रा भवेदेषा रामचन्द्रप्रियङ्करी ॥ २२ ॥ जानुमध्ये करौ कृत्वा चिबुकोष्ठौ समावुभौ |
हस्तौ तु भूमिसंलग्नौ कम्पमानः पुनः पुनः ॥ २३ ॥ मुखं च विततं कुर्याल्लेलिहानां च जिह्विकाम् |
नारसिंही भवेन्मुद्रा ह्येषा तत्प्रीतिवर्धिनी ॥ २४ ॥ दक्षोपरि करं वामं कृत्वोत्तानमधः सुधीः |
नमयेदिति संप्रोक्ता मुद्रा वाराहसंज्ञिता ॥ २५ ॥ वामहस्ततले कृत्वा दक्षाङ्गुलीरधोमुखीः |
संरोप्य मध्यमां तासामुन्नम्याधो विकुञ्चयेत् ॥ २६ ॥ हयग्रीवप्रिया मुद्रा तन्मूर्तेरनुकारिणी |
[अत्र बिन्दवः, संख्या नास्ति|
] धनुर्बाणमुद्रे प्रागेवोक्ते |
परशुमुद्रापि प्रागुक्ता |
मूर्ध्नि साङ्गुष्ठमुष्टी द्वे मुद्रा त्रैलोक्यमोहिनी |
हस्तौ तु संपुटौ कृत्वा प्रसृताङ्गुलिकौ तथा ॥ २७ ॥ तर्जन्यौ मध्यमापृष्ठे अङ्गुष्ठौ मध्यमाश्रितौ |
काममुद्रेयमुदिता सर्वदेवप्रियङ्करी ॥ २८ ॥ इति ॥ अथ सौरमुद्रे नारायणीये— पद्माकारौ करौ कृत्वा प्रतिश्लिष्टे तु मध्यमे |
अङ्गुल्यौ धारयेत्तस्मिन् बिम्बमुद्रेति सोच्यते ॥ १ ॥ दर्शयेदग्रतः पद्मबिम्बमुद्रे यथोदिते |
[अत्र बिन्दवः, संख्या नास्ति|
] इति ॥ अथ शैवमुद्रास्तत्र शिवरहस्ये— शैवीनामथ मुद्राणां दशानां षण्मुख शृणु |
महादेवप्रियाणां ते कथ्यन्ते लक्षणानि वै ॥ १ ॥ उच्छ्रितं दक्षिणाङ्गुष्ठं वामाङ्गुष्ठेन बन्धयेत् |
वामाङ्गुलीर्दक्षिणाभिरङ्गुलीभिश्च वेष्टयेत् ॥ २ ॥ लिङ्गमुद्रा समाख्याता शिवसांनिध्यकारिणी |
मिथः कनिष्ठिके बद्ध्वा तर्जनीभ्यामनामिके ॥ ३ ॥ अनामिकोर्ध्वाश्लिष्टदीर्घमध्यमयोरधः |
अङ्गुष्ठाग्रद्वयं न्यस्येद् योनिमुद्रेयमीरिता ॥ ४ ॥ अङ्गुष्ठेन कनिष्ठाग्रं बद्ध्वा शिष्टाङ्गुलित्रयम् |
प्रसारयेत् त्रिशूलाख्या मुद्रैषा परिकीर्तिता ॥ ५ ॥ [पाठभेदाः: १३ संश्रिते इत्यत्र संस्थिते ग.; १४ कनिष्ठिकां तथा बद्ध्वा ख.; २२ प्रिया ग.; नारायणीये १ अङ्गुल्यौ तु संयुक्ते ख.; २८ श्रितौ ख.; शैवमुद्रासु ४ °कोर्ध्वसंश्लिष्ट ख.|
]

Druckseite 791

Zuordnung zur deutschen Fassung: 34.SHM, 34.UPM, 34.PRM.

अङ्गुष्ठतर्जन्यग्रे तु ग्रथयित्वाङ्गुलित्रयम् |
प्रसारयेद् अक्षमालामुद्रेयं गुह कीर्तिता ॥ ६ ॥ अधःकृतो दक्षहस्तः प्रसृतो वरमुद्रिका |
ऊर्ध्वीकृतो वामहस्तः प्रसृतोऽभयमुद्रिका ॥ ७ ॥ मिलितानामिकाङ्गुष्ठमध्यमाग्राणि योजयेत् |
शेषाङ्गुल्यावुच्छ्रिताग्रे मृगमुद्रेयमीरिता ॥ ८ ॥ पञ्चाङ्गुल्यो दक्षिणास्तु मिलितास्तूर्ध्वमुच्छ्रिताः |
खट्वाङ्गमुद्रा षड्वक्त्र शिवस्यातिप्रिया मता ॥ ९ ॥ पात्रवद्वामहस्तं च कृत्वाङ्के वामके तथा |
निधायोच्छ्रितवत् कुर्यान्मुद्रा कपालिनी मता ॥ १० ॥ मुष्टिं च शिथिलां बद्ध्वा ईषदुच्छ्रितमध्यमाम् |
दक्षिणां तूर्ध्वमुन्नम्य कर्णदेशे प्रचालयेत् ॥ ११ ॥ एषा मुद्रा डमरुका सर्वविघ्नविनाशिनी |
लिङ्गयोनित्रिशूलाक्षमालेष्टाभीमृगात्मिकाः ॥ १२ ॥ खट्वाङ्गा च कपालाख्या डमरुः शिवतोषदाः |
[अत्र बिन्दवः, संख्या नास्ति|
] इति ॥ लक्षणसंग्रहे— आसने पद्ममुद्रा स्याद् हस्तद्वयमधोमुखम् |
मुद्रैषा कुशलप्रश्ने तदेवोर्ध्वमुखं पुनः ॥ १ ॥ मुद्रा स्यात् स्वागते पाद्यमुद्रा चाञ्जलिरुच्यते |
अनामाङ्गुष्ठसंयोगात् प्रोक्ता चार्घ्यस्य मुद्रिका ॥ २ ॥ उत्तानं दक्षहस्तं तु कृत्वा निम्नतलं सुधीः |
कनिष्ठिहीना संयुक्ताश्चतस्रोऽङ्गुलिकास्तथा ॥ ३ ॥ मुद्रैषाचमनी प्रोक्ताऽधोमुखी सा त्वनामया |
स्पृष्टाङ्गुष्ठा भवेन्मुद्रा मधुपर्के वरानने ॥ ४ ॥ अधोमुखी दक्षहस्तकृता मुष्टिः कनिष्ठया |
वियुक्ता स्नानमुद्रेषा गदिता परमेश्वरि ॥ ५ ॥ उत्तानं दक्षिणं हस्तं कृत्वा तन्मध्यमां पुनः |
अङ्गुष्ठेन स्पृशेदेषा मुद्रा वस्त्रस्य कीर्तिता ॥ ६ ॥ एषैवानामिकास्पर्शान्मुद्रा भूषणसंज्ञिता |
कनिष्ठास्पर्शतो चैषा उपवीतस्य मुद्रिका ॥ ७ ॥ ज्येष्ठाग्रेण कनिष्ठाग्रं स्पृशेद् गन्धस्य मुद्रिका |
अधोमुखं करं कृत्वा तर्जन्यग्रे तु योजयेत् ॥ ८ ॥ अङ्गुष्ठाग्रं तु मुद्रेयं पुष्पाख्या परमेश्वरि |
अङ्गुष्ठाग्रेण तर्जन्याः स्पृशेदग्रं महेश्वरि ॥ ९ ॥ धूपमुद्रेयमाख्याता सर्वदेवप्रियङ्करी |
ज्येष्ठाग्रेण स्पृशेदग्रं मध्यमायाः सुरार्चिते ॥ १० ॥ दीपमुद्रेयमुदिता सर्वदेवप्रिया शिवे |
अनामाग्रं स्पृशेद् देवि ज्येष्ठाग्रेण तु देशिकः ॥ ११ ॥ नैवेद्यमुद्रा कथिता देवानां तृप्तिदायिनी |
[अत्र बिन्दवः, संख्या नास्ति|
] इति |
नारदपञ्चरात्रे— ग्रासमुद्रां सव्यहस्ते प्रफुल्लकमलाकृतिम् |
दर्शयेत् पञ्चवायूनामन्यहस्तेन दर्शयेत् ॥ १ ॥ कनिष्ठानामिके सम्यगङ्गुष्ठाग्रेण योजयेत् |
प्राणमुद्रा समाख्याता प्रथमं दर्शयेदिमाम् ॥ २ ॥ योजयेत् तर्जनीमध्यामपानस्याथ मुद्रिका |
मध्यमानामिके तद्वद्व्यानमुद्रा प्रकीर्तिता ॥ ३ ॥ तर्जनीमध्यमानामा तद्वन्मुद्रा तुरीयका |
सर्वाभिरङ्गुलीभिश्च पञ्चमी मुद्रिका मता ॥ ४ ॥ स्वकीयैर्मनुभिर्युक्ताः पञ्च मुद्राः प्रकीर्तिताः |
प्राणसंज्ञस्तथापानो व्यानोदानमनुस्तथा ॥ ५ ॥ समानो ङेयुताः सर्वे प्रणवाद्या द्विठान्तकाः |
पञ्च मुद्रा भवन्तीह क्रमेणैव समीरिताः ॥ ६ ॥ [पाठभेदाः: शिवमुद्रासु ६ परा ख.; ९ संहताः ग.; उपचारमुद्रासु ४ विख्याता ग.; ८ तिलकं ख.; नैवेद्ये देवीनां ख.; प्राणादिषु ६ तिः क.ग.|
]

Druckseite 792

Zuordnung zur deutschen Fassung: 34.SJM, 34.NRM, 34.SCM, 34.ASN, 34.GTA, 34.SBR.

इति ॥ लक्षणसंग्रहे— मणिबन्धयुतौ कृत्वा प्रसृताङ्गुलिकौ करौ |
कनिष्ठाङ्गुष्ठयुगलं मिलित्वान्तः प्रसारयेत् ॥ १ ॥ सप्तजिह्वाख्यमुद्रेयं प्रिया वैश्वानरस्य हि |
[अत्र बिन्दवः, संख्या नास्ति|
] इति |
कुलार्णवे—सर्वाभिरङ्गुलीभिश्च दद्याद्भूतबलिं प्रिये |
इति |
पद्मवाहिन्याम्— वृद्धाभ्यामङ्गुलीर्बद्ध्वा तर्जन्यौ दण्डवत् सृजेत् |
अग्रं वामं ततः पृष्ठे दक्षमाकर्षयेच्छनैः ॥ १ ॥ नाराचमुद्रा संप्रोक्ता योज्या बलिविसर्जने |
[अत्र बिन्दवः, संख्या नास्ति|
] इति |
लक्षणसंग्रहे— अधोमुखे वामहस्ते ऊर्ध्वास्यं दक्षहस्तकम् |
क्षिप्त्वाङ्गुलीरङ्गुलीभिः संयोज्य परिवर्तयेत् ॥ १ ॥ एषा संहारमुद्रा स्याद्विसर्जनविधौ मता |
ऊर्ध्वास्यवामतर्जन्या मध्ये वक्रां परां न्यसेत् ॥ २ ॥ तिर्यग्बन्धं भवेदेषा खनिमुद्रारिमर्दिनी |
अङ्गुष्ठावुन्नतौ मुष्ट्योः कृत्वा संलग्नयोर्द्वयोः ॥ ३ ॥ तावेवाभिमुखे कुर्यान्मुद्रेषा कालकर्णिका |
दक्षिणा निबिडा मुष्टिर्नासिकार्पिततर्जनी ॥ ४ ॥ मुद्रा विस्मयसंज्ञा स्याद्विस्मयावेशकारिणी |
मुष्टिरूर्ध्वीकृताङ्गुष्ठा दक्षिणा नादमुद्रिका ॥ ५ ॥ तर्जन्यङ्गुष्ठसंयोगादधो बिन्दुमुद्रिका |
[अत्र बिन्दवः, संख्या नास्ति|
] इति ॥ अथ कालविहितासनानि गोरक्षसंहितायाम्— जानूर्वोरन्तरे सम्यक् कृत्वा पादतले उभे |
ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते ॥ १ ॥ गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् |
पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलः ॥ २ ॥ सिद्धासनं भवेदेतत् सर्वव्याधिविषापहम् |
एकपादमथैकस्मिन् विन्यस्योपरि संस्थितम् ॥ ३ ॥ इतरस्मिंस्तथा चोरौ वीरासनमुदाहृतम् |
वामपादमुपादाय दक्षिणोरौ प्रविन्यसेत् ॥ ४ ॥ तथैव दक्षिणं पादं सव्योरौ परिविन्यसेत् |
पद्मासनं भवेदेतत् सर्वेषामपि पूजितम् ॥ ५ ॥ स्वस्तिकं पद्मकं वीरं सिद्धं चेति चतुष्टयम् |
जपे प्रशस्तमन्येषां प्रसङ्गादेव कीर्तितम् ॥ ६ ॥ इति ॥ गौतमे तन्त्रे— प्राङ्मुखोदङ्मुखो वापि स्वस्तिकासनमास्थितः |
रात्रावुदङ्मुखः कुर्याद् देवकार्यं सदैव हि ॥ १ ॥ शिवार्चनं सदा कुर्याच्छुचिः कुर्यादुदङ्मुखः |
[अत्र बिन्दवः, संख्या नास्ति|
] इति |
दक्षिणामूर्तिपरमिदम् |
उदङ्मुखः प्राङ्मुखो वा भूत्वा प्रयतमानसः |
स्वस्तिकासनमासीनः पद्मासनमपि वा |
इति स्वयमेवोभयविधानादिति ॥ अथ (षट्शाम्भवपूजायाः श्रीचक्र आवरणत्वेनावश्यकत्वात्) षट्शाम्भवरश्मिपूजाक्रमः, लक्ष्मीकुलार्णवे— प्रातरुत्थाय शान्तात्मा सहस्रारवराटके |
षट् प्रेतान् ब्रह्मविष्ण्वादीन् हेमगर्भानिमान् स्मरेत् ॥ १ ॥ पद्मस्य कर्णिकामध्ये द्वादशान्ते गुरूक्तितः |
पदत्रयमनुस्मृत्य गुरुस्मृतिपुरःसरम् ॥ २ ॥ शुक्लं रक्तं च मिश्रं च प्रेतोपरि रहस्यवित् |
चरणद्वयसंभूतौ स्वेच्छाविग्रहधारिणौ ॥ ३ ॥ [पाठसंदेहः: खनिमुद्रा इति मुद्रितपाठः, संज्ञा संदिग्धा|
पाठभेदः: आसने १ तदुदीरितम् क.; षट्शाम्भवपूजायाः इत्यादि कुटबन्धान्तर्गतं क.पुस्तके नास्तीति टिप्पणी|
]

Druckseite 793

Zuordnung zur deutschen Fassung: 34.SBR.

[पूर्वपृष्ठे ३, अत्र ५ इति मुद्रितक्रमः; ४ न दृश्यते|
] प्रातःप्रभृति सायान्तं सायादि प्रातरन्ततः |
यत् करोमि जगन्नाथ तदस्तु तव पूजनम् ॥ ५ ॥ इति संप्रार्थनापूर्वं प्रणम्य गुरुपादुकाम् |
बहिर्निगत्य शुद्धात्मा पुण्यदेशं तु दूरतः ॥ ६ ॥ कृत्वावश्यकमास्थाय शौचाचमनपूर्वकम् |
गण्डूषं दन्तकाष्ठं च कृत्वा चाचम्य वाग्यतः ॥ ७ ॥ ॐ कामदेवाय स्वजनप्रियाय नमः इति |
चतुर्वारं मुखक्षालनम् |
स्नात्वा सन्ध्यामुपासीत यथाविधि विचक्षणः |
स्नानप्रकारं द्विविधं बाह्याभ्यन्तरभेदतः ॥ ८ ॥ आन्तरं स्नानमत्यन्तं रहस्यमपि पार्वति |
कथयामि भवध्वस्त्यै चतुर्वर्गाप्तयेऽपि च ॥ ९ ॥ इति |
अथाभ्यन्तरस्नानम्— सरित्त्रयमुपस्मृत्य चरणत्रयमध्यतः |
स्रवन्तं सच्चिदानन्दप्रभावं भावगोचरम् ॥ १० ॥ विमुक्तिसाधनं पुंसां स्मरणादेव योगिनाम् |
तेनाप्लावितमात्मानं भावयेद् भवशान्तये ॥ ११ ॥ तत्रैव— इडा गङ्गेति विख्याता पिङ्गला यमुनानदी |
मध्ये सरस्वती ज्ञेया प्रयाग इति संस्मृतः ॥ १२ ॥ बाह्यं पञ्चविधं स्नानं पञ्चभूतात्मकं यतः |
मन्त्रस्नाने कृते तस्मात् सर्वस्नानकृतो भवेत् ॥ १३ ॥ पञ्चभूतात्मबीजानि लवरयहेतीरिताः |
सबिन्दुकास्तैः संमन्त्र्य दक्षहस्ते स्थिते जले ॥ १४ ॥ वामाङ्गुलिच्छदायोगात् प्रोक्षेच्छिरसि त्रिधा |
वामनासिकयाऽऽपूर्य शिष्टं ज्योतिर्मयं जलम् ॥ १५ ॥ दक्षनासिकयान्तःस्थमलक्षालनपूर्वकम् |
विरेच्यास्त्रमनुं जप्त्वा प्रतिक्षिपेच्च शिलोपरि ॥ १६ ॥ अघमर्षणमेतद्धि सकलाघनिवारणम् |
इति स्नानं च सर्वापन्निवारणं निवेदितं च ॥ १७ ॥ ततः सन्ध्यामुपासीत यथाविधि विचक्षणः |
प्रातः सन्ध्यामुपासीत धर्मकामार्थसिद्धये ॥ १८ ॥ मूलाधारे वसाब्जे तु हांबीजं पीतसप्रभम् |
ध्यात्वा वह्निपुटान्तःस्थं बहिर्निस्सार्य मण्डले ॥ १९ ॥ सौरे विभाव्य पीताभां त्रिनेत्रां च चतुर्भुजाम् |
बिभ्राणामभयं शूलं कपालाही च बाहुभिः ॥ २० ॥ बालसूर्याननां ज्येष्ठां ध्यायेत् संजपेन्मनुम् |
[अत्र बिन्दवः, संख्या नास्ति|
] [पूर्वबीजक्रमे स्थानीयास्पष्टता] ज्येष्ठासन्ध्यायै [उत्तरबीजक्रमे स्थानीयास्पष्टता] श्रीपादुकां पूजयामि तर्पयामि नमः, इति त्रिरर्घ्यं दत्त्वा, आदित्याभिमुखस्तिष्ठन् गायत्रीं च शतं जपेत् |
गायत्र्यभिनियुक्तस्य ज्ञानमुत्पद्यतेऽचिरात् ॥ २१ ॥ ॐ षडाननाय विद्महे चित्रपादाय धीमहि तन्नो रुद्रः प्रचोदयात् ॐ |
अथ माध्यन्दिनी सन्ध्या मणिपूरे दशाब्जके |
ह्रींबीजं श्यामसंकाशं ध्यात्वा निःसार्य पूर्ववत् ॥ २२ ॥ सोममण्डलमध्यस्थां त्रिनेत्रां श्यामविग्रहाम् |
आरूढयौवनां जाप्यां पुस्तं वामे तथेतरे ॥ २३ ॥ विभ्राणां च तथा वामां ध्यायेत् संजपेन्मनुम् |
[अत्र बिन्दवः, संख्या नास्ति|
] ५ ह्रीं हसौं ह्रीं वामासन्ध्यायै ह्रीं हसौं ह्रीं ५ श्रीपादुकां पूजयामि तर्पयामि नमः |
इति त्रिरर्घ्यं दत्त्वा प्राग्वद्गायत्रीं जपेत् ॥ [पाठसंदेहाः: १९ वसाब्जे इत्यस्य अर्थोऽस्पष्टः, हां इति बीजपाठोऽपि सूक्ष्ममुद्रणे अनिश्चितः|
२३ जाप्याम् इत्यस्य पठनं संदिग्धम्|
पादुकामन्त्रे ५ इति संक्षेपचिह्नं मुद्रितवत्|
पाठभेदाः: १९ ह्रूं क.; २३ वामेतरे करे ग.; अनन्तरार्धश्लोके पूजयेत् क.|
]

Druckseite 794

Zuordnung zur deutschen Fassung: 34.SBR, 34.PSC, 34.SPU, 34.CAD.

अथ सायन्तनी सन्ध्या स्वाधिष्ठाने षडाब्जके |
ह्रौंबीजं रक्तवर्णं तु ध्यात्वा निःसार्य पूर्ववत् ॥ २४ ॥ वह्निमण्डलमध्यस्थां रक्तवर्णां चतुर्भुजाम् |
शूलाभये करे दक्षे कपालं तर्जनीं तथा ॥ २५ ॥ वामभागे च बिभ्राणां वृद्धां नेत्रत्रयान्विताम् |
विचित्राभरणां रौद्रीं ध्यात्वैवं संजपेन्मनुम् ॥ २६ ॥ ५ ह्रौं हसौं ह्रौं रौद्रीसन्ध्यायै ह्रौं हसौं ह्रौं ५ श्रीपादुकां पूजयामि तर्पयामि नमः, इति त्रिरर्घ्यं दत्त्वा तां देवीं तन्मनुं पश्चान्मूलतेजसि संयोजयेत् |
इति सन्ध्याविधिः ॥ अथ प्रायश्चित्तसङ्ग्रहः— संध्यालोपो न कर्तव्यः शम्भोराज्ञैवमेव हि |
दीक्षितः संध्यया हीनो न दीक्षितफलं लभेत् ॥ १ ॥ न कुर्यात् यदि तां सन्ध्यां पतितां दशधा जपेत् |
अन्यसंध्यासमे काले सौत्रकण्टकिविद्यया ॥ २ ॥ कृत्वा षडङ्गं मन्त्रेण ध्यायेत् तां सौत्रकण्टकीम् |
[अत्र बिन्दवः, संख्या नास्ति|
] अथ ध्यानम्— पञ्चवक्त्रां द्वादशभुजां त्रिनेत्रां परमेश्वरीम् |
गलादूर्ध्वं शुक्लवर्णां पीतां गलतलादधः ॥ ३ ॥ कट्यादिपादपर्यन्तं नीलाभां च ततः स्मरेत् |
द्विरष्टवर्षां रक्ताङ्गीं सर्वशृङ्गारचर्चिताम् ॥ ४ ॥ स्वर्णरक्तप्रभाभिश्च मण्डितालिसहस्रिकाम् |
मोचनीं सर्वपापानां रत्नसिंहासने स्थिताम् ॥ ५ ॥ तदूर्ध्वे श्वेतपद्मं च तदूर्ध्वे श्वेतकेसरम् |
तत्पृष्ठे संस्थितां देवीं त्रिखण्डां गुणमण्डिताम् ॥ ६ ॥ रत्नमुकुटोज्ज्वलां दिव्यां सन्ततानन्दपूरिताम् |
हसद्वक्त्रां महादेवीं दक्षिणोदयगामिनीम् ॥ ७ ॥ महासमययागाय नित्यनिष्कलगामिकाम् |
[अत्र बिन्दवः, संख्या नास्ति|
] अथ मन्त्रः—५ ऐंपरदुष्करकर्मच्छेदनकरि अघोरे वरदे विच्चे मायात्रैलोक्यरूपस्वरूपपरिवर्तिनि मातृगणे हस्रः ५ ॥ अथ सौरपूजा— उषस्युत्थाय यत् कर्म श्रीनाथस्मृतिपूर्वकम् |
बाह्यमावश्यकं कृत्वा शौचं दन्तविशोधनम् ॥ १ ॥ श्रौतागमात्मकं स्नानं संध्यातर्पणमेव च |
सर्वं निर्वर्त्य पूतात्मा निःशङ्कः शान्तमानसः ॥ २ ॥ यथा विभक्तिः स्वच्छाच्छो विशेत् पूजागृहं प्रति |
आगत्य तत्सपर्यार्थं साधनाशेषसंयुतम् ॥ ३ ॥ समीक्ष्य षट्क्रमावेच्छो (?) यदि तत्प्राङ्गणे यजेत् |
मार्तण्डं तदशक्तेन कुर्याच्चापरार्द्धयोः (?) ॥ ४ ॥ इति |
तथाचोक्तं शम्भुनिर्णये— चतुरन्वयिनामेव सौरपूजेत्थमीरिता |
तद्विचार्य चिदादित्यपूजां कर्तुं सुखासने ॥ १ ॥ प्राङ्मुखः प्रत्यगासीनः समस्निग्धमहीतले |
भूभूतशुद्धिश्वसनसंयमादि विचक्षणः ॥ २ ॥ सामान्यार्घ्यं स्वपुरतः प्रणवान् पञ्च चोच्चरेत् |
मण्डलोद्धा(द्वा)रणं कार्यमिति साधारणो मतः ॥ ३ ॥ भूताङ्गुलं च वेदाश्रं षट्कोणं चोर्ध्वरेखकम् |
विलिख्य तस्मिन् साधारपात्रमस्त्रविशोधितम् ॥ ४ ॥ संस्थाप्य पयसापूर्याधारपात्रजलेषु च |
वह्न्यर्कसोमबीजैस्तु तदात्मकविभावनम् ॥ ५ ॥ [पाठसंदेहाः: प्रायश्चित्ते सौत्रकण्टकी इति देवीनाम, ५ मण्डितालिसहस्रिकाम् तथा मन्त्रस्य आरम्भान्तबीजानि संदिग्धानि|
सौरपूजायां ४ प्रश्नचिह्नद्वयं तथा मण्डलोद्धा(द्वा)रणम् इति कोष्ठकपाठो मुद्रिते एव|
पाठभेदाः: प्रायश्चित्ते २ पतितां सन्ध्यां पतितो ग.; षडङ्गे पाखण्डमन्त्रेण ग.; सौरपूजायां ३ स्वय° ग.; शम्भुनिर्णये ४ षडङ्गुल° ग.; मन्त्रान्ते ह्रौं ख., ह्रं ग.|
]

Druckseite 795

Zuordnung zur deutschen Fassung: 34.CAD.

सर्वं निष्पाद्य षड्दीर्घद्वितीयप्रणवात्मकम् |
अङ्गं तस्य विधायेत्थं पात्रं संस्थाप्य दक्षिणे ॥ ६ ॥ कृत्वा सामान्यवत् पात्रस्थापनान्तं विधाय च |
सद्वितीयं निधानेन संपूज्याभ्यर्च्य (पूर्य) बिन्दुना ॥ ७ ॥ सामान्ये योजयेत्तत्र स्वदेहं यागमण्डपम् |
सौरं संभृत्य संभारान् सर्वं संप्रोक्षयेदथ ॥ ८ ॥ बहत्पुष्पकराग्रेण पुरतः सौरमण्डले |
वक्ष्यमाणेन मन्त्रेण कस्तूरीचन्दनादिभिः ॥ ९ ॥ ५ ठं चन्द्रसूर्याग्निगर्भ स्फुर २ धर्मार्थकाममोक्षलाभं कुरु २ महासमयखेचरीमुद्रां प्रकटय २ शाम्भवान्वयिनां सिद्धिं सामर्थ्यं दद २ [कतिपयबीजाक्षराण्यस्पष्टानि] मण्डलब्रह्माण्डमण्डल [बीजम्] महाचण्डशिवे हसख्फ्रें ५ |
अनेन मन्त्रेणाभ्यर्च्य वृत्ताष्टदलपद्मं लिखेत्, अथ मण्डलं चतुरस्रं कृत्वा संस्थाप्य तद्दक्षिणे, सामान्यवद् विशेषार्घ्यमण्डलं विलिखेद्बुधः |
मध्ये सौरार्घ्यपूजार्थं मण्डलं चतुरस्रकम् ॥ १० ॥ कृत्वाधारं तु संस्थाप्य पूजयेदमुनाणुना |
५ रं पात्रासनाय नमः रं ५ |
तत्रास्त्रक्षालितपात्रं प्रतिष्ठाप्य ५ [बीजम् अस्पष्टम्] ५ इति मन्त्रेण सामान्याद्यविशेषाख्यां सौः इत्यापूर्याथ षडङ्गकम् कुर्यात् प्राक्तद्वितीयेन षट्स्वरभेदितेन च |
अष्टगन्धान् विनिक्षिप्य रक्तपुष्पैः समर्चयेत् ॥ ११ ॥ अस्त्रेण रक्षां संकल्प्य स्वात्मानन्तादिभिर्यजेत् |
अथाष्टदलपद्मस्य मध्ये प्रेतस्वरूपिणम् ॥ १२ ॥ अनन्तकल्पपर्यन्तं शयानममुमञ्जसा |
[अत्र बिन्दवः, संख्या नास्ति|
] ५ अं अनन्ताय अं ५ |
तल्पीकृतस्वयंदेहं छत्रीकृतफणात्रयम् |
फणिनामीश्वरं श्वेतं ध्यात्वा संपूजयेदथ ॥ १३ ॥ मध्यादारभ्य वायव्यादिषु क्रमतो यजेत् |
५ [बीजाक्षराणि] प्रभूताय [बीजाक्षराणि] ५ श्रीपादु० |
मध्ये ५ रं विमलाय रं ५ |
५ लं साराय लं ५ |
५ यं आराध्याय यं ५ |
५ हं परमसुखाय हं ५ |
इति कोणपूजा |
मण्डले प्रावाहनम् |
दहराकाशमध्यस्थं हांबीजं रक्तसन्निभम् |
वह्निपुटाद्विनिःसार्यानन्तं प्रेतात्मकासनम् ॥ १४ ॥ आवाह्य तद्बीजमयं ध्यायेन्मार्तण्डभैरवम् |
रक्तवर्णं स्थूलदेहं षड्वक्त्रं चोर्ध्वकेशिकम् ॥ १५ ॥ भुजद्वादशसंयुक्तं सर्पास्थिरत्नचर्चितम् |
कोपिनं चोर्ध्वलिङ्गं च ज्वलद्दंष्ट्रासमाकुलम् ॥ १६ ॥ व्याघ्रचर्मपरीधानं मुण्डमालाविभूषणम् |
हुंहुंकारान् प्रमुञ्चन्तं संहरन्तं महाशिनम् ॥ १७ ॥ त्रिशूलासिचक्रघण्टाशृणीवरदपाणिकम् |
तर्जाशोकगदाचापपाशाभयकरालिनम् ॥ १८ ॥ आवाहनादिमुद्रांश्च संदर्श्याभ्यर्च्य साधकः |
ह्रामादिक्रमतोऽङ्गं कृत्वा मार्तण्डभैरवे ॥ १९ ॥ समन्त्रं सान्तं सर्वं वन्दनं च निवेदयेत् |
[अत्र बिन्दवः, संख्या नास्ति|
] ५ ह्रौं हसौं श्रीकुलमार्तण्डभैरवाय हसौं ह्रौं ५ श्रीपादुकां पूजयामि नमः |
पश्चात् संप्रोक्ष्य चात्मानं जपेन्मन्त्रमिमं पुनः |
पुष्पाञ्जलिं क्षिपेत् सम्यक् सवित्रे सर्वसाक्षिणे ॥ २० ॥ [पाठसंदेहाः: ९ बहत्पुष्प° इति दृश्यते|
दीर्घमन्त्रे कतिपयबीजाक्षराण्यस्पष्टानि; ७ पूर्य इति कोष्ठकं मुद्रिते|
१८ तर्जाशोक° इत्यस्य विभागः, १९-अनन्तरमर्धश्लोके सान्तम् इत्यर्थश्च संदिग्धौ|
पाठभेदाः: ६ स्वस्य ग.; ७ विधानेन ग.; १२ स्वात्मानमभिधारयेत् ख.; अनन्तबीजे आं क.|
]

Druckseite 796

Zuordnung zur deutschen Fassung: 34.CAD, 34.SBP.

५ [बीजक्रमः अस्पष्टः] फट् क्षिप्रभां फट् [बीजक्रमः अस्पष्टः] ५ श्रीपा० |
तथा द्वितीयमन्त्रः—५ [बीजक्रमः अस्पष्टः] फट् क्षिप्रभां फट् [बीजक्रमः अस्पष्टः] ५ श्रीपा० |
इति पुष्पाञ्जलिमन्त्रः |
मुद्रे च शूलतर्जन्यौ त्रिधाङ्कां हालिनीमपि |
कर्षाङ्गुलीः प्रदर्श्याथ पूर्वाद्यष्टदलेषु च ॥ २१ ॥ मध्ये च शूलतर्जन्यौ दधानाश्चण्डरोचिषः |
नव शक्तीर्यजेत तत्र भैरवानपि पूजयेत् ॥ २२ ॥ ५ जुं ज्वालायै जुं ५ श्रीपा० |
५ क्षं मिन्नायै क्षं ५ श्री० |
५ फट् चण्डमालिन्यै फट् ५ श्री० |
५ फौं भीषिण्यै फौं ५ श्री० |
५ हुं नारसिंह्यै हुं ५ श्री० |
५ ह्रीं कामदेव्यै ह्रीं ५ श्री० |
५ फ्रें मार्तण्डायै फ्रें ५ श्री० |
५ फ्रौं कापालिन्यै फ्रौं ५ श्री० |
५ हसौं कौलिन्यै हसौं ५ श्री० ॥ अथ भैरवमन्त्राः—५ फ्रें चण्डाय फ्रें ५ श्रीपा० |
५ फ्रें प्रचण्डाय फ्रें ५ श्री० |
५ फ्रें विश्वेशाय फ्रें ५ श्री० |
५ फ्रें महादेवाय फ्रें ५ श्री० |
५ फ्रें महाकालाय फ्रें ५ श्री० |
५ फ्रें गभस्तये फ्रें ५ श्री० |
५ फ्रें चण्डीशाय फ्रें ५ श्री० |
५ फ्रें तेजेशाय फ्रें ५ श्रीपादुकां पूजयामि नमः |
सर्वत्र खेचरीमुद्रा लयभोगाङ्गकल्पनाम् |
ह्रामादिना विधायाथ दूर्वार्ककुसुम्भकैः ॥ २३ ॥ संपूज्य धूपदीपादिनैवेद्यान्तेऽर्घ्यमन्त्रकम् |
यथाशक्ति जपित्वा तु अर्घ्यमन्त्रेण तर्पः ॥ २४ ॥ पूर्वोक्तमर्घ्यमन्त्रं च चिदादित्यं हृदम्बुजे |
दहराकाशकूटात्मा बिन्दावेव समुद्धरेत् ॥ २५ ॥ नाथायार्घ्यं निवेद्यान्ते जुहुयाच्च ततो बहिः |
वामभागे विलिख्यं च चतुरस्रं च शोभनम् ॥ २६ ॥ मण्डलं तु विधानेन तस्मिन् साधारपात्रके |
पशुमार्तण्डमभ्यर्च्य तन्मन्त्रैरेव देशिकः ॥ २७ ॥ ५ हां ह्रीं सः पशुमार्तण्डभैरवाय नमः ५ श्रीपादुकां पूजयामि |
सपर्याशेषनिर्माल्यं स तस्मै विनिवेदयेत् |
[अत्र बिन्दवः, संख्या नास्ति|
] इति सौरपूजा ॥ आरभ्य शाम्भवीपूजां मध्ये शङ्काकलङ्किता |
बहिर्निगत्य तत्त्रा सर्वेशस्य महात्मनः ॥ १ ॥ तस्मात् सौरसपर्यान्ते कृतसावश्यकः शुचिः |
ततः षडन्वयाधीशसाधकाधीश उत्सुकः (?) ॥ २ ॥ साधकः साधिताशेषसामग्रीपूर्णमन्दिरम् |
वहच्छ्वासपदा पूर्वं प्रविशेन्नतिमुद्रया ॥ ३ ॥ निजनाथान् गणपतिं दुर्गां चैव सरस्वतीम् |
क्षेत्रपं परमात्मानं स्वस्वबीजपुरःसरम् ॥ ४ ॥ शिरोदक्षांसवामांस ऊरुद्वयहृदि न्यसेत् |
अभ्यर्च्य पुण्डरीकत्वगाद्यासनवरं ततः ॥ ५ ॥ ईशानादिमुखो वाथ यथोचितदिशामुखः |
आसीन आसने सम्यगर्चयेदादिभैरवम् ॥ ६ ॥ आसनं कल्पयेत् स्वस्य मन्त्रेणानेन मन्त्रवित् |
मन्त्रासनविहीनस्तु नाधिकारी शिवार्चने ॥ ७ ॥ ५ ॐ नमो भगवति नीलवज्रासने मम बीजं रक्षरक्ष हुंफट् स्वाहा ५ |
इति मन्त्रेणासने उपविश्य, शिवशक्त्यात्मकौ हस्तौ भावयेद् दक्षवामगौ |
तयोः समरसीभावं तालत्रयमथाचरेत् ॥ ८ ॥ दिग्बन्धं कल्पयेत् पश्चात् तदुत्थेनैव वह्निना |
प्रागादीशान्तमूर्ध्वान्तः परिवेषं त्रिधाचरेत् ॥ ९ ॥ [पाठसंदेहाः: पुष्पाञ्जलिमन्त्रयोर्बीजाक्षराण्यस्पष्टानि; शक्तिभैरवमन्त्रेष्वपि कतिपयबीजसंयुक्ताक्षराणि सूक्ष्ममुद्रणे अनिश्चितानि|
नवशक्तिषु मिन्नायै इति दृश्यते|
सौरपूजोत्तरश्लोके १ तत्त्रा तथा २ प्रश्नचिह्नं मुद्रिते एव|
पाठभेदाः: पुष्पाञ्जलौ क्षिप्रमस्फुट क.ग., क्षिप्रमाश्रय क.ग.; मिन्नायै इत्यत्र भिन्नायै ग.; लयभोगादिषु वैकल्पिकपाठस्य कतिपयाक्षराण्यस्पष्टानि; २३ निधाया ख.; सौरपूजोत्तरे १ तत्क्षया क.|
]

Druckseite 797

Zuordnung zur deutschen Fassung: 34.SBP, 34.NYF.

पञ्चप्रणवमुच्चार्य पञ्चभूतांल्लयं नयेत् |
क्रमात् सर्वात्मके शाम्भवपदे शक्तिशिवात्मके ॥ १० ॥ योनिमुद्रां समाबध्य मूलात् कुण्डलिनीं पुनः |
उत्थाप्य शक्तिबीजेन हस्रींमिति न्यसेत् तदा ॥ ११ ॥ मूलाधारे वसाब्जं स्यान्मणिपूरे डफाब्जकम् |
स्वाधिष्ठाने सरेदलं वादिलान्ताक्षरावृतम् ॥ १२ ॥ कठात्मकं रविदलं षोडशारं स्वरात्मकम् |
विशुद्धिमाज्ञाद्विदलं हक्षरूपं क्रमेण तु ॥ १३ ॥ निर्भिद्य मात्रात्रितयं विभेदेन परे शिवे |
परिपूर्णे चिदानन्दे सत्तात्रितयरूपिणि ॥ १४ ॥ संयोज्य शोषयेद् देहं पवनायामपूर्वकम् |
दाहनक्षालने चैव कृत्वा नित्यं चरणे शिवे ॥ १५ ॥ विलीनचित्तवृत्तिस्तु प्रतिलोमक्रमेण तु |
द्वादशार्कसमायुक्तं सात्त्वं षट्सरोरुहम् ॥ १६ ॥ विभाव्य शाम्भवे देहे स्वात्मानं योजयेत् पुनः |
[अत्र बिन्दवः, संख्या नास्ति|
] अस्यायमर्थः |
योनिमुद्रां समाबध्य मूलात् कुण्डलिनीं शनैरुत्थाप्य, हस्रींमित्युच्चरन् अकुलात्मना शिवेन सह संयोज्य, तस्मात् हस्रींमिति स्मरन् मनसैवानीतानाहतस्थानाद्वायुना योनिमुद्रया सहैवाकृष्य मूलेन शक्त्या सह योजयेत् |
कुलाकुलानुसन्धानमित्येवं प्राणसंयमात् |
यः करोति स वै योगी स मुक्तः स च कौलिकः ॥ १७ ॥ षडन्वयमहारावे प्राणसंयमितस्ततः |
एवमेव त्रिशः पश्चान्न्यासजालं समाचरेत् ॥ १८ ॥ न्यासजालं प्रकर्तव्यं यथाशास्त्रं यथाक्रमम् |
पञ्चप्रणवमुच्चार्य पश्चान्मन्त्रं समुच्चरेत् ॥ १९ ॥ विलोमप्रणवं पश्चान्न्यासजालं समाचरेत् |
न्यासजालं प्रकर्तव्यमिति शास्त्रस्य निर्णयः ॥ २० ॥ इति |
तथाच— श्रीशासनेऽत्र ये सन्ति मन्त्रास्ते समुदीरिताः |
अनुलोमविलोमाभ्यामङ्गन्यासमतः परम् ॥ १ ॥ बीजन्यासं ततः कुर्याद्वक्त्रन्यासमनन्तरम् |
परादित्रिविधं न्यासं कृत्वा ध्यानं समाचरेत् ॥ २ ॥ अङ्गमन्त्रैः कनिष्ठादिष्वङ्गुलीषु यथाक्रमम् |
तलयोरपि विन्यस्य करन्यास उदाहृतः ॥ ३ ॥ हृदयादिष्वथो न्यस्य स्थानेष्वस्त्रान्तमादरात् |
चारुर्व्यूहे तथा वामे दक्षश्रुतिमुखेषु च ॥ ४ ॥ वक्त्रन्यासं तथा कुर्यात् स्वमूर्ध्नि द्वादशान्तकम् |
आज्ञाविशुद्धिहृन्नाभिस्वाधिष्ठानेषु देशिकः ॥ ५ ॥ विन्यस्य पूर्ववत् कृत्वा परादिन्यासमास्तिकः |
[अत्र बिन्दवः, संख्या नास्ति|
] तथा कनिष्ठाद्यङ्गुलीषु तारादिरत्नानि च विन्यस्य मूलेन व्यापकम् |
ऐं फ्रें हसौं हसख्फ्रें श्रीं ह्रीं ऐं इति मन्त्रः |
५ [षड्दीर्घबीजक्रमस्य आद्यक्षराण्यस्पष्टानि] ५ इत्यादिषड्दीर्घक्रमैः षडङ्गन्यासं कृत्वा, अथ बीजपीठन्यासः कर्तव्यः |
५ संजुं ५ चूलीमूले |
५ जं ५ ब्रह्मरन्ध्रे |
५ [बीजाक्षराण्यस्पष्टानि] ५ भाले |
५ [बीजाक्षराण्यस्पष्टानि] ५ दक्षशङ्खे |
५ [बीजाक्षराण्यस्पष्टानि] ५ वामशङ्खे |
५ सहफ्रें ५ दक्षभ्रूमध्ये |
५ सह्रीं ५ वामभ्रूमध्ये |
५ ख्रें ५ भ्रूमध्ये |
५ सह्रीं ५ तालुनि |
५ [बीजाक्षराण्यस्पष्टानि] ५ घण्टिकायां |
५ फट् ५ दक्षकर्णबिले |
५ सह ५ वामकर्णबिले |
५ लमयरूं ५ चारुकूपे |
५ हस्रें ५ गले |
५ [बीजाक्षराण्यस्पष्टानि] ५ गलाधः |
५ जयकस्रां ५ दक्षप्रस्फुरे |
५ उयर्ह ५ वामप्रस्फुरे |
[पाठसंदेहाः: ११ हस्रीं इति बीजपाठः, १२ वसाब्जम् तथा सरेदलम्, १६ सात्त्वम्, न्यासे ४ चारुर्व्यूहे इत्यादयः स्थानीयास्पष्टाः|
पीठन्यासस्य दीर्घबीजक्रमेषु कतिपयसंयुक्ताक्षराणि न निश्चितानि|
पाठभेदाः: १० षट्पदे ग.; ११ हस्रौं क.; न्यासे १ अनन्तरम् क.; चूलीमूले सर्वं ग.; मनवद् ग.; चारुकूपे चरां ग.; तालुनि जिह्वायां क.; घण्टिकायां तालुनि क.; उयर्ह इत्यत्र उपर्यं ग.|
]

Druckseite 798

Zuordnung zur deutschen Fassung: 34.PSD.

५ हसौं ५ दक्षप्रस्फुरवेष्टने |
५ जुं ५ वामप्रस्फुरवेष्टने |
५ सकौं ५ दक्षकक्षमूले |
५ ऐं ५ वामकक्षमूले |
५ हसौं ५ नाभौ |
५ फः ५ दक्षपाणितले |
५ फ्रौं ५ वामपाणितले |
५ सह्रीं ५ लिङ्गरन्ध्रे |
५ ह्रौं ५ लिङ्गमूले |
५ हसौं ५ मदने |
५ फ्रें ५ दक्षाण्डे |
५ सहक्षमलवर्यूं ५ वामाण्डे |
५ हं ५ ब्रह्मसूत्रे |
५ हसफरयूं ५ गुदे |
५ हसख्फ्रें ५ दक्षगुदफलकसन्धौ |
५ न्लौं ५ वामगुदफलकसन्धौ |
५ ह्रौं ५ गुदोर्ध्वं |
५ हसौं ५ दक्षजानुचक्रे |
५ हुं ५ वामजानुचक्रे |
५ हसश्रौं ५ दक्षचक्राधः |
५ ह्रुंक्ष्रौं ५ वामचक्राधः |
५ त्रें ५ दक्षगुल्फे |
५ भ्रं ५ वामगुल्फे |
५ हसक्षफट् ५ दक्षगुल्फाधः |
५ श्रं ५ वामगुल्फाधः |
५ नफयरीं ५ दक्षयमद्वारे |
५ जरुंक्ष्रौं ५ वामयमद्वारे |
५ हस्रूं ५ दक्षपादतले |
५ हुंफट् ५ वामपादतले |
५ वलमह्रीं ५ पृष्ठवंशे |
५ जसहसजुं ५ दक्षपार्श्वे |
५ क्षं ५ वामपार्श्वे |
५ हःफट् ५ दक्षकूर्परे |
५ सह्रीं ५ वामकूर्परे |
५ गलमपलं ५ दक्षमणिबन्धे |
५ लवरयहरूं ५ वाममणिबन्धे |
५ हसख्फ्रें ५ दक्षांसे |
५ क्षःफट् [अस्पष्टाक्षरम्] ५ वामांसे |
५ फ्रं ५ दक्षचूलके |
५ क्षमखलं ५ वामचूलके |
५ ह्फट् ५ दक्षनेत्रमध्ये |
५ ह्रींहसोंश्रं ५ वामनेत्रमध्ये |
५ हस्रूं ५ नासिकाग्रे |
५ ह्रीं ५ दक्षवृद्धतर्जनीमध्ये |
५ हसकलह्रीं ५ वामवृद्धतर्जनीमध्ये |
५ अकच्टुहस्कडलह्रीं ५ दक्षनासिकायां |
५ अकच्टुसकलह्रीं ५ वामनासिकायां |
५ आदिक्षान्तैमातृकाक्षरैर्मूर्धादिपादान्तं पुनः पादादिमूर्धान्तं व्यापकं कुर्यात्, हृदि सकलमातृकया |
इति बीजपीठन्यासः ॥ अथ पञ्चरत्नन्यासः—५ ग्लूं गगनरत्नगगनपीठगगनलोकवासिन्यम्बागगननाथगगनगर्भगामिनीचतुःषष्टिकोटियोगिनी ग्लूं ५ श्रीपा० आज्ञाचक्रे |
५ स्लूं स्वर्गरत्नस्वर्गपीठस्वर्गलोकगामिन्यम्बास्वर्गनाथस्वर्गलोक(गर्भ)व्यापिनी-द्वात्रिंशत्कोटियोगिनी स्लूं ५ श्रीपा० विशुद्धौ |
५ म्लूं मर्त्यरत्नमर्त्यपीठमर्त्यलोकवासिन्यम्बामर्त्यनाथमर्त्यलोकगर्भगामिनी-षोडशकोटियोगिनी म्लूं ५ श्रीपा० अनाहते |
५ प्लूं पातालरत्नपातालपीठपाताललोकवासिन्यम्बापातालनाथपाताललोकगर्भगामिनी-अष्टकोटियोगिनी प्लूं ५ श्रीपा० मणिपूरके |
५ न्लूं नागरत्ननागपीठनागलोकवासिन्यम्बानागनाथनागलोकगामिनी-चतुष्कोटियोगिनी न्लूं ५ श्रीपा० स्वाधिष्ठाने ॥ इति रत्नन्यासः ॥ अथ परादिन्यासः |
५ ऐं परायै ऐं ५ अङ्गुष्ठाभ्यां नमः |
५ ह्रीं इच्छायै ह्रीं ५ तर्जनी० |
५ ऐं ज्ञानायै ऐं ५ मध्यमा० |
५ श्रीं क्रियायै श्रीं ५ अनामिका० |
५ ह्रीं कुण्डलिन्यै ह्रीं ५ कनिष्ठिकाभ्यां० |
५ फ्रें मातृकायै फ्रें ५ करतलकरपृष्ठाभ्यां नमः ॥ एभिरेव षडङ्गन्यासक्रमः |
५ ऐं परायै ऐं ५ पश्चान्मुखे चूलीमूले |
५ ह्रीं इच्छायै ह्रीं ५ उत्तरमुखे वामकर्णे |
५ ऐं ज्ञानायै ऐं ५ दक्षमुखे दक्षकर्णे |
५ श्रीं क्रियायै श्रीं ५ पूर्ववक्त्रे मुखे |
५ ह्रीं कुण्डलिन्यै ह्रीं ५ ऊर्ध्ववक्त्रे ललाटे |
५ फ्रें मातृकायै फ्रें ५ अपरवक्त्रे ब्रह्मरन्ध्रे |
इति षड्वक्त्रन्यासः ॥ इमं न्यासं विधायेत्थं पश्चाद् ध्यानं समाचरेत् |
सहस्रसूर्यसंकाशो महादीप्तिधरो गुरुः ॥ १ ॥ षडन्वयेश्वरः श्रीमान् परशम्भुरजोऽव्ययः |
षडाननः स्फुरन्नेत्रैरष्टादशभिरन्वितः ॥ २ ॥ द्वीपिचर्मकटिस्फारो मुण्डमालाविभूषणः |
नरास्थिरत्नपारिजातपुष्पमालासमावृतः ॥ ३ ॥ ब्रह्मनाभिकजाङ्गुष्ठो दंष्ट्राविद्युतलापनः |
विचित्राभरणैर्युक्तः सर्वतः पशुपाशहृत् ॥ ४ ॥ [पाठसंदेहाः: पूर्वार्धस्य पीठन्यासबीजेषु संयुक्तव्यञ्जनानां पठनं बहुषु स्थानेषु अनिश्चितम्; दृश्याक्षराणि लिखितानि, न मानकीकृतानि|
दक्षवामप्रस्फुरवेष्टनं, मदने, यमद्वारं, चूलकं इत्यादीनां देहस्थानार्थोऽप्यनिश्चितः|
ध्यानश्लोके ४ ब्रह्मनाभिकजाङ्गुष्ठः तथा दंष्ट्राविद्युतलापनः इति पाठौ संदिग्धौ|
पाठभेदाः: दीर्घबीजेषु कतिपयाः अपठनीयाः; जानुचक्रे चक्रस्थः ग.; यमद्वारे जङ्घे क.; पादतले बीजे प्लूं क.; अकच्टु इत्यादि क.नास्ति; स्वर्गगामिन्याम् व्यापिन्यम्बा क.; नागगामिन्याम् निवासिनी क.; मातृकायै ऐं क.; अपरवक्त्रे परापर ग.; ध्यानश्लोके पापनः ग., लोपनः क.|
]

Druckseite 799

Zuordnung zur deutschen Fassung: 34.PSD.

शूलासीषुशक्तिसृणीवरधारी महातनुः |
कपालफलचापारिपाशाभयकरोद्यतः ॥ ५ ॥ देवावृतः पितृवने क्रीडाकृन्मानसोत्तरे |
एवं परेश्वरं ध्यायेत् कन्यागणसमावृतम् ॥ ६ ॥ वामोर्ध्वाद्वामाधःपर्यन्तमायुधध्यानम् |
इति ध्यात्वाभिसंजप्य मूलविद्याद्वयं पुनः |
समभ्यस्य विशेषार्घ्यं चरणद्वयमन्त्रितम् ॥ ७ ॥ तेन संतर्पयेद् धीमान् स्वशिरसि गुरुक्रमम् |
श्रीनाथपूर्वनिर्वाणचरणं परपावकम् ॥ ८ ॥ कुलकामगवीशुक्लरक्तौ निष्कलरूपकौ |
सकलौ च तदात्मानावुपचारपदौ ततः ॥ ९ ॥ सितरक्तैश्च कुसुमैः स्वमूर्ध्नि ब्रह्मरन्ध्रके |
सहस्रदलराजीवकर्णिकोदरसंस्थिताः ॥ १० ॥ ब्रह्मादिहेमगर्भान्ताधिष्ठिताः कुलनायिकाः |
स्वस्वमन्त्रैर्यजेत् पश्चाद्युगनाथचतुष्टयम् ॥ ११ ॥ निर्वाणचरणध्यानकरणैकपरायणः |
चर्यादिमानवौघं च यजेच्च परितः क्रमात् ॥ १२ ॥ तत्रैव हेमगर्भादिप्रेतनाभ्यम्बुजेष्वधः |
परेशादिनवेशान्तकूटान्तक्रममादरात् ॥ १३ ॥ स्मरंस्तत्तत्कूटभवं देवं देवीं समावृतीः |
आत्मनैक्यमनुध्यायन् पूजयेदथ साधकः ॥ १४ ॥ इति ॥ तद्यथा—ऐं ह्रीं श्रीं हस्रैं श्रीं ह्रीं ऐं श्रीपादुकां पूजयामि तर्पयामि नमः |
५ अः हंसः सोहं अः शौं सौः ज्योतिष्पराम्बानिर्वाणानन्दनाथ सौः शौं अः हंसः सोहं अः ५ निर्वाणचरणपादुकां पूजयामि० |
इति निर्वाणविद्येयं तुरीयातीतस्था ॥ ५ [दीर्घबीजक्रमे कतिपयसंयुक्ताक्षराण्यस्पष्टानि] श्रीपरपावक सर्वाराध्य सर्वगुरुनाथ सर्वगुरुगुरुश्रीनाथ गुरुनाथ [बीजक्रमः] एकशम्भु ५ श्रीपरमपावक शम्भु श्रीपा० ॥ श्रीशम्भुगुरु ५ [बीजक्रमः] ५ ॐ ह्रीं कामदुघे अमोघे वरदे विच्चे स्फुर २ श्रीं श्रीं श्रीं श्रीं अः ५ श्रीकामधेनुचरण श्रीपा० ॥ ५ हस्रूं शुक्लपाद हस्रूं ५ शुक्लनिष्कलपाद श्रीपा० ॥ ५ सहरूं रक्तपाद सहरूं ५ रक्तनिष्कलपाद श्रीपा० ॥ इति निष्कलपादौ ॥ ५ हस्रौं शान्तोर्ध्व वशं देहि हस्रौं ५ शुक्लसकलपाद श्री० |
५ सह्रौं सव्ये धियं देहि सह्रौं ५ रक्तसकलपाद श्रीपा० |
इति सकलपादौ ॥ ५ हस्रौं शुक्लविद्यामहापीठशुक्लपुष्पशुक्लमण्डलमहापीठ शुक्लचरुक शुक्लार्णवमहापीठ शुक्लनदी शुक्लमन्त्रमहापीठ शुक्लदीपमहापीठ शुक्लमुद्रामहापीठ शुक्लनति शुक्लमहाप्रकाशानन्दनाथपाद हस्रौं ५ शुक्लचरणश्रीपादुकां पू० ॥ ५ सह्रौं रक्तविद्यामहापीठ रक्तपुष्प रक्तमण्डलमहापीठ रक्तचरुक रक्तार्णवमहापीठ रक्तनदी रक्तमन्त्रमहापीठ रक्तदीपमहापीठ रक्तमुद्रामहापीठ रक्तनति श्रीरक्तमहाविमर्शपराम्बापाद सह्रौं ५ परापररक्तचरणश्रीपा० ॥ ५ हस्रौं सह्रौं मिश्रविद्यामहापीठ मिश्रपुष्प मिश्रमण्डलमहापीठ मिश्रचरुक मिश्रार्णवमहापीठ मिश्रनदीमिश्रमन्त्रमहापीठ मिश्रदीपमहापीठ मिश्रमुद्रामहापीठ मिश्रनति मिश्रमहाप्रकाशविमर्शानन्दनाथपराम्बापाद सह्रौं हस्रौं ५ श्रीपरापरमिश्राम्बाचरणश्रीपा० ॥ ५ लं ब्रह्ममहाप्रेतासनाय लं ५ श्रीपा० |
५ वं विष्णुमहाप्रेतासनाय वं ५ श्री० |
५ रं रुद्रमहाप्रेतासनाय रं ५ श्री० |
५ यं ईश्वरमहाप्रेतासनाय यं ५ श्री० |
[पाठसंदेहाः: ९ कुलकामगवी इति समासविभागः, निष्कलसकलबीजेषु कतिपयाक्षराणि, शान्तोर्ध्व तथा सव्ये इति सम्बोधनं, चरुकशब्दश्च अनिश्चिताः|
पाठभेदाः: ९ कुलयोगिनि ग.; ७ संपूज्य ख.; दीर्घबीजेषु हयं क., रां ग., हां ग.; रक्तनिष्कलबीजे हस्रूं ग., सहरूं क.; शान्तोर्ध्व इत्यत्र शतोर्ध्व ख.|
]

Druckseite 800

Zuordnung zur deutschen Fassung: unnummerierte Prosa und Formeln, Fortsetzung der vorausgehenden Reihe.

५ हं सदाशिवमहाप्रेतासनाय हं ५ श्री० |
५ हं हिरण्यगर्भमहाप्रेतपद्मासनाय हं ५ श्री० |
तच्छक्तयः— ५ ऐं परायै ऐं ५ श्रीपा० |
५ हुं इच्छायै हुं ५ श्री० |
५ ऐं ज्ञानायै ऐं ५ श्री० |
५ श्रीं क्रियायै श्रीं ५ श्री० |
५ ह्रीं कुण्डलिन्यै ह्रीं ५ श्री० |
५ फ्रें मातृकायै फ्रें ५ श्री० |
इति दिव्यौघाः ॥ ५ आं आदिगुरुनाथ आद्याम्बा आं ५ श्रीपा० |
५ अं अचिन्त्यगुरुनाथ अचिन्त्याम्बा अं ५ श्री० |
५ अं अव्यक्तगुरुनाथ अव्यक्ताम्बा अं ५ श्रीपा० |
५ कुं कुलेश्वरनाथ कुलेश्वर्यम्बा कुं ५ श्रीपा० |
इति युगनाथचतुष्टयं सिद्धौघाः ॥ बिन्दुमध्ये |
७ श्रीचर्यातृष्णीशानन्दनाथ सिद्धापराम्बा चामुण्डापराम्बा ७ श्रीपा० |
७ श्रीचिञ्चिणी मित्रेश कुब्जेशानन्दनाथ मेदनापराम्बा ७ श्री० |
७ श्रीगगनानन्दनाथ चाडुलीपराम्बा आडुलीपराम्बा ७ श्री० |
७ श्रीचन्द्रगर्भानन्दनाथ भर्गीयापराम्बा लालीयापराम्बा ७ श्री० |
७ श्रीमुक्तानन्दनाथ महिलापराम्बा ७ श्री० |
७ श्रीललितानन्दनाथ शङ्खापराम्बा श्रीकरुणापराम्बा ७ श्री० |
७ श्रीकण्ठानन्दनाथ श्रीकराटापराम्बा ७ श्री० |
७ श्रीपरेश्वरानन्दनाथ श्रीपरेश्वरीपराम्बा ७ श्री० |
७ श्रीकूर्मानन्दनाथ सहजापराम्बा श्रीरत्नदेवीपराम्बा ७ श्री० |
७ श्रीरत्नेशानन्दनाथ शान्तिपराम्बा ७ श्री० |
७ श्रीविमर्शानन्दनाथ सदाख्यापराम्बा अम्बिकापराम्बा ७ श्री० |
७ श्रीउमाकान्तेशानन्दनाथ योगापराम्बा योगीश्वरीपराम्बा ७ श्री० |
७ श्रीब्रह्मेशानन्दनाथ वज्रेश्वरीपराम्बा ७ श्रीपा० |
७ श्रीभुजङ्गेशानन्दनाथ सहजापराम्बा ७ श्री० |
७ श्रीक्रोधीशानन्दनाथ सहजापराम्बा ७ श्री० |
७ श्रीविश्वानन्दनाथ सहजापराम्बा ७ श्री० |
७ श्रीदिगीश्वरानन्दनाथ सहजापराम्बा श्रीपार्वतीपराम्बा ७ श्री० |
७ श्रीसर्वेश्वरानन्दनाथ सहजापराम्बा ७ श्री० |
७ श्रीअनन्तानन्दनाथ सहजापराम्बा ७ श्री० |
७ श्रीकपिलेशानन्दनाथ अचलापराम्बा ७ श्री० |
७ श्रीएकाम्बरानन्दनाथ सहजापराम्बा ७ श्री० |
ऐं ह्रीं श्रीं हसख्फ्रें हसौं हसौं हसख्फ्रें सख्फ्रें श्रीअमृतानन्दनाथ सहजापराम्बा ७ श्रीपा० ॥ इति मानवौघाः ॥ अथ मूलमन्त्राः—५ सहसख्फ्रें ऐं फ्रें ५ श्रीपरेश्वरानन्दनाथ श्रीपरेश्वरीपराम्बा ७ श्री० ॥ ५ हसं ऐं कुब्जिके फ्रें हसमईं कुब्जिकायै फ्रें ५ श्रीविच्चेश्वरानन्दनाथ श्रीविच्चेश्वरीपराम्बा ५ श्री० ॥ हसमऐंऐं कुब्जिकायै हसख्फ्रें विच्चे ५ श्रीहंसेश्वरानन्दनाथ श्रीहंसेश्वरीपराम्बा ५ श्रीपा० ॥ ५ [दीर्घबीजक्रमस्य कतिपयसंयुक्ताक्षराण्यस्पष्टानि] किणि किणि [बीजक्रमः] विच्चे [बीजक्रमः] ५ श्रीसंवर्तकेश्वरानन्दनाथ संवर्तकेश्वरीमहासमयापराम्बा ५ श्री० ॥ ५ हसं ऐं रिगिरि पिगिरि उक उक करटापि विच्चे ५ श्रीद्वीपेश्वरानन्दनाथ श्रीद्वीपेश्वरीपराम्बा ५ श्रीपा० ॥ ५ हसक्षमलवयरूं नमो भगवति हसख्फ्रें कुब्जिकायै हां हूं ह्रीं ङञणनमे अघोरमुखि छां छूं छौं किणि २ श्रीविच्चे ५ नवात्मकेश्वरानन्दनाथ श्रीनवात्मकेश्वरीपराम्बा ५ श्री० ॥ इति गुरुक्रमः ॥ अथ मानसरश्मिपूजा—शिरसि षट्कोणे ईशानादिवायव्यान्तकोणेषु क्रमशो द्वात्रिंशत्क्रमरश्मिकान् पूजयेत् |
५ ऐं परानन्दनाथ परापराम्बा ऐं ५ श्रीपा० |
५ ऐं भानन्दनाथ भापराम्बा ऐं ५ श्री० |
५ ऐं चिदानन्दनाथ चित्पराम्बा ऐं ५ श्री० |
५ ऐं महा- [पाठसंदेहाः: मानवौघे कतिपयगुरुनामानि विशेषतः चर्यातृष्णीशानन्दनाथ, मेदना, चाडुली, आडुली, भर्गीया, कराटा इत्यादीनि स्थानीयास्पष्टमुद्रणानि; स्थापितनामभेदैरनुमानतः न प्रतिस्थापितानि|
मूलमन्त्रेषु अपि कतिपयबीजाक्षराणि अनिश्चितानि|
पाठभेदाः: इच्छायै ह्रीं इच्छायै ह्रीं क.; परे° इत्यत्र परमे क.द्विः; संवर्तकमन्त्रे नीं क.|
]

Druckseite 801

Zuordnung zur deutschen Fassung: 34.RDH, 34.IVR.

मायानन्दनाथ महामायापराम्बा ऐं ५ श्री० ॥ (४) इतीशानकोणे ॥ ५ हुं इच्छानन्दनाथ इच्छापराम्बा हुं ५ श्री० |
५ हुं सृष्ट्यानन्दनाथ सृष्टिपराम्बा हुं ५ श्री० |
५ हुं स्थित्यानन्दनाथ स्थितिपराम्बा हुं ५ श्री० |
५ हुं तिरोधानन्दनाथ तिरोधापराम्बा हुं ५ श्री० |
५ हुं मुक्त्यानन्दनाथ मुक्तिपराम्बा हुं ५ श्री० ॥ (५) इति पूर्वाग्निरश्मयः ॥ ५ ऐं ज्ञानानन्दनाथ ज्ञानापराम्बा ऐं ५ श्री० |
५ ऐं सदानन्दनाथ सतीपराम्बा ऐं ५ श्री० |
५ ऐं असदानन्दनाथ असतीपराम्बा ऐं ५ श्री० |
५ ऐं सदसदानन्दनाथ सदसतीपराम्बा ऐं ५ श्री० ॥ (४) इत्यग्निकोणे ॥ ५ श्रीं क्रियानन्दनाथ क्रियापराम्बा श्रीं ५ श्री० |
५ श्रीं आत्मेश्वरानन्दनाथ आत्मेश्वरीपराम्बा श्रीं ५ श्री० |
५ श्रीं इन्द्रियानन्दनाथ इन्द्रियापराम्बा श्रीं ५ श्री० |
५ श्रीं गोचरानन्दनाथ गोचरापराम्बा श्रीं ५ श्री० |
५ श्रीं लोकमुख्यानन्दनाथ लोकमुख्यापराम्बा श्रीं ५ श्री० |
५ श्रीं वेदानन्दनाथ वेदापराम्बा श्रीं ५ श्री० |
५ श्रीं सच्चिदानन्दनाथ सच्चित्पराम्बा श्रीं ५ श्री० ॥ (७) इति नैर्ऋत्यकोणे ॥ ५ ह्रीं कुण्डल्यानन्दनाथ कुण्डलिनीपराम्बा ह्रीं ५ श्री० |
५ ह्रीं सौषुम्नानन्दनाथ सौषुम्नापराम्बा ह्रीं ५ श्री० |
५ ह्रीं प्राणसूत्रानन्दनाथ प्राणसूत्रापराम्बा ह्रीं ५ श्री० |
५ ह्रीं स्पन्दानन्दनाथ स्पन्दापराम्बा ह्रीं ५ श्री० ॥ (४) इति पश्चिमे ॥ ५ फ्रें मातृकानन्दनाथ मातृकापराम्बा फ्रें ५ श्री० |
५ फ्रें शब्दानन्दनाथ शब्दापराम्बा फ्रें ५ श्री० |
५ फ्रें वर्णानन्दनाथ वर्णापराम्बा फ्रें ५ श्री० |
५ फ्रें स्वरोद्भवानन्दनाथ स्वरोद्भवापराम्बा फ्रें ५ श्री० |
५ फ्रें वर्णजानन्दनाथ वर्णजापराम्बा फ्रें ५ श्री० |
५ फ्रें वर्गजानन्दनाथ वर्गजापराम्बा फ्रें ५ श्री० |
५ फ्रें संयोगानन्दनाथ संयोगापराम्बा फ्रें ५ श्री० |
५ फ्रें मन्त्रविग्रहानन्दनाथ मन्त्रविग्रहापराम्बा फ्रें ५ श्री० ॥ (८) इति वायव्यकोणे ॥ अथ रश्मिध्यानम्— चतुष्कं सूर्यसंकाशं पञ्चकं चन्द्रसन्निभम् |
तृतीयं च चतुष्कं च धूम्राभं सप्तकं पुनः ॥ १ ॥ अञ्जनाभं कुङ्कुमाभं चतुष्कं पञ्चमं पुनः |
षष्ठं तथाष्टकं चेति शुद्धतालकसन्निभम् ॥ २ ॥ वरदाभयहस्ताश्च सर्वे वामार्धविग्रहाः |
तेजोरूपाश्च वा ध्येयाः केवलं मोक्षकाङ्क्षिभिः ॥ ३ ॥ इति ध्यानम् |
इति रश्मि-आवरणम् |
हिरण्यगर्भनाभिस्थसरसीरुहमध्यतः |
कूटं परेशरथाय चिन्तयेदर्कसन्निभम् ॥ १ ॥ स्वगुरुं मूर्ध्नि संचिन्त्य मूलाधारे परेशरीम् |
तिथिसंख्याफणोद्धिनभोगिमध्यफणे स्थिताम् ॥ २ ॥ तेजोरूपां पुनर्देवीमामस्तकमनुस्मरेत् |
परेश्वरेण संयोज्य ध्यायन्नैक्येन मान्त्रिकः ॥ ३ ॥ देवं देवीं च संयोज्य पुनरेकीकृतेन च |
तन्मन्त्रेण च तावेव त्रिधा संपूज्य साधकः ॥ ४ ॥ नुत्वा स्तुत्वा मनुं जप्त्वा मानसक्रममाचरेत् |
[अत्र बिन्दवः, संख्या नास्ति|
] पुनः सहां फ्रां इत्याद्यङ्गन्यासः |
सहस्रसूर्यसंकाशः इत्यादि ध्यानं, मूलमन्त्रेण यथाशक्तिकं जपं कुर्यात् |
पञ्चाङ्गं नमस्कारं कुर्यात् |
वक्त्रशून्या हृदाशून्या कराङ्गुष्ठं हरस्त्रयम् |
पादाङ्गुष्ठे सर्वहानिस्तु मरणं वचनादृते |
इति लक्षणयुक्त्या नमस्कारं कृत्वा, [पाठसंदेहाः: पूर्वाग्निरश्मयः इति स्थाननिर्देशः, कूटं परेशरथाय इति वाक्यांशः, तिथिसंख्याफणोद्धिन° इति समासः, नमस्कारलक्षणस्य श्लोकांशाश्च स्थानीयास्पष्टाः|
अन्तिमश्लोकस्य निश्चितान्वयो न साध्यः|
पाठभेदाः: सच्चित्पराम्बा इत्यत्र सच्चिदापराम्बा क.; मान्त्रिकः इत्यत्र नम्रमानसः ग.|
]

Druckseite 802

Zuordnung zur deutschen Fassung: 34.IVR, 34.MDL.

नमो द्रुहिणवैकुण्ठशक्तिप्रसवधारिणे |
आधारस्वाधिष्ठानाग्निहृत्कण्ठबिन्दुवासिने ॥ ५ ॥ बिलषोडशपर्यन्तचारुसंचारवर्ष्मणे |
जन्मभोगलयव्याधिदुःखकर्मविनाशिने ॥ ६ ॥ भूतवर्तभविष्याख्य-जगज्जातकथाविदे |
षडूर्मिभेदिने सत्ताशून्यवादविनाशिने ॥ ७ ॥ षडीतित्राससंत्रस्तलोके भयक्षयात्मने |
पौनःपुन्यसलोकाख्यसत्ताविध्वंसकात्मने ॥ ८ ॥ वलीपलितनाशैकमूर्तयेऽमृतधारिणे |
सर्वज्ञस्फारणोपेतजीवन्मुक्तिप्रदायिने ॥ ९ ॥ इदं गुप्ततमं स्तोत्रं पावनं श्लोकपञ्चकम् |
पठेन्नित्यं भुक्तिमुक्ती साधकाय परेश्वरः ॥ १० ॥ संस्तूय मानसे भक्त्या पञ्चाङ्गं प्रणमेद्भुवि |
मन्त्रदेवगणैः सार्धं तं मण्डलगतं पुनः ॥ ११ ॥ देवं चरणमध्यस्थं ब्रह्मरन्ध्रे लयं नयेत् |
[अत्र बिन्दवः, संख्या नास्ति|
] इति मानसगुरुक्रमः ॥ तदनन्तरं गुरुक्रमं शिरसि विन्यस्य, सर्वतीर्थानि समुद्रसहितानि तीर्थमन्त्रेणाङ्कुशमुद्रयाकृष्य तस्मिन्नावाह्य तज्जले धेनुमुद्रां प्रदर्श्य, संस्कृतेनाभ्युक्ष्य तज्जलेनात्मानं पूजोपकरणानि च संप्रोक्ष्य सामान्यार्घ्यमाच्छादयेत् |
भूताङ्गुलं च वेदाश्रं षट्कोणं चोर्ध्वरेखकम् |
विलिख्य तस्मिन् साधारं पात्रमस्त्रविशोधितम् ॥ संस्थाप्य पयसापूर्याधारपात्रजलेषु च |
५ रं वह्निमण्डलाय धर्मप्रददशकलात्मने सामान्यार्घ्यपात्रासनाय नमः |
५ हं सूर्यमण्डलाय वसुप्रदद्वादशकलात्मने सामान्यार्घ्यपात्राय नमः |
५ सं सोममण्डलाय मोक्षप्रदषोडशकलात्मने सामान्यार्घ्यामृताय नमः |
५ श्रीविद्याखण्डत्रयेण त्रिरभिपूज्य परेश्वरेण त्रिवारं संपूज्य परेश्वर्या सप्तवारमभिमन्त्र्य गन्धपुष्पाक्षतैरभ्यर्च्य, इति सामान्यार्घ्यविधिः ॥ तद्दक्षिणे पात्रं प्रतिष्ठाप्य तदनु पञ्चभिर्वातोर्णयादिभिः कृतोत्पवनं रत्वा घटस्तवपठनं समुद्रे मथ्यमाने तु इत्यादि पठन् सामान्यार्घ्यवदर्चयेत् |
तद्बिन्दुं सामान्यार्घ्ये निक्षिप्यात्मानं पूजोपकरणानि संप्रोक्ष्य मण्डलोद्धारणं कुर्यात् |
चतुरस्रमर्धचन्द्रं त्र्यस्रं षट्कोणवृत्तके |
त्र्यस्रं पुनश्चन्द्रखण्डं नादबिन्दुनवात्मकम् ॥ १ ॥ श्रीभैरवीविशेषार्घ्यमण्डलानां यथा भवेत् |
अवकाशस्तथा साधु लिखेदेतन्नवात्मकम् ॥ २ ॥ शाम्भवागमपूजार्थं तत्रोर्ध्वे मण्डलं लिखेत् |
तस्मिन् प्रागादिदिङ्मध्ये ऊर्ध्वदेशे गुरूक्तितः ॥ ३ ॥ आद्यन्तप्रणवैर्युक्तं बीजषट्कं क्रमात् पठेत् |
लंवंरंयंहंसमित्यादि चतुरस्रार्धचन्द्रकम् ॥ ४ ॥ त्रिकोणमथ षट्कोणं वृत्तं नादं बहिः पुनः |
पञ्चप्रणवमुच्चार्य वृत्तत्रयमथो लिखेत् ॥ ५ ॥ श्रीमेरुसपर्यार्थं पद्मस्याधो विचक्षणः |
अथ भूजानुको भूत्वा षोडशाङ्गुलमानतः ॥ ६ ॥ चतुर्विंशाङ्गुलं वाथ द्वादशाङ्गुलमेव च |
चतुरस्रं समालिख्य मध्ये षट्कं विधाय च ॥ ७ ॥ राजतं स्वर्णमन्यद्वा तत्राष्टदलमालिखेत् |
पद्मं वृत्तत्रयोपेतं तन्मध्ये मण्डलत्रयम् ॥ ८ ॥ कर्पूरचन्दनादीनि कस्तूरीकुङ्कुमादयः |
सान्द्रश्लक्ष्णेन पङ्केन हेमपट्टादि लेखयेत् ॥ ९ ॥ प्रकृत्यष्टलसत्पत्रे परप्रकृतिकर्णिकम् |
पुण्डरीकवरं सम्यक् शलाक्या सौवर्णया लिखेत् ॥ १० ॥ हेमपट्टाद्यभावे तु वस्त्रोपर्यथवा भुवि |
पद्माधःप्रदेशे तु सामान्यार्घ्यस्य वा पुनः ॥ ११ ॥ [पाठसंदेहाः: स्तोत्रे ८ पौनःपुन्यसलोकाख्य° इति समासः, १० अपूर्णक्रियासंबन्धः; गद्ये वातोर्णयादिभिः तथा रत्वा इति पाठौ अस्पष्टौ|
पाठभेदः: मण्डले ६ पद्मस्याधः इत्यत्र वामतः ख.|
]

Druckseite 803

Zuordnung zur deutschen Fassung: 34.MDL.

सामान्यवद्विशेषार्घ्यमण्डलं विलिखेद्बुधः |
पद्मस्य पार्श्वयोः सौम्ययाम्ययोर्मण्डलद्वयम् ॥ १२ ॥ वेदाङ्गुलप्रमाणं स्याल्लिखेत् प्राक्प्रत्यगायतम् |
त्रयाणां द्वारपालानां गुरूणां पञ्चकस्य तु ॥ १३ ॥ क्रमात् सौम्ये च याम्ये च पञ्चमस्थानकल्पना |
द्वारपालोत्तरे कुर्याद् बलीनां मण्डलानि च ॥ १४ ॥ अथ पुष्पाक्षतैः सार्धं विशेषार्घ्यस्य पूजनम् |
कृत्वा सामान्यवत् पात्रस्थापनान्तं विधाय च ॥ १५ ॥ सद्वितीयं विधानेन संपूज्यापूर्य पूर्ववत् |
आबध्य कमलीमुद्रां कुसुमाक्षतगर्भिताम् ॥ १६ ॥ मूलकुण्डलिमुत्थाप्य उद्यच्चन्द्रसमप्रभाम् |
षट्चक्रमण्डलं भित्त्वा सुषुम्नाकाशवाहिनीम् ॥ १७ ॥ सोमसूर्यपदं भित्त्वा विश्रान्तां शाम्भवेन तु |
ध्यात्वा समरसोद्भूतमिश्ररक्तसितामृतैः ॥ १८ ॥ चरणत्रयसंभूतैर्नयनद्वयनिर्गतैः |
आपूरितं विशेषार्घ्यममृतीकृत्य वीक्षणैः ॥ १९ ॥ ज्वलदग्निनिभं ध्यात्वा धेनुमुद्रां प्रदर्शयेत् |
[अत्र बिन्दवः, संख्या नास्ति|
] ब्रह्माण्डखण्डसंभूतमित्यादि पठन् मयि विस्फुरणं कुरु इति संप्रार्थ्यैवं वक्ष्यमाणमन्त्रैरपि समर्चयेत् |
५ हस्रौं हसर अमृतेशोद्भवाय ह हस्रौं, ५ ऐं परामृतेशोद्भवायै ऐं, ५ आं जुं सः अमृतेशभैरवाय सः जुं आं अमृतेशभैरव्यै आं जुं सः ५ हसक्षमलवयरूं यं सहक्षमलवयरूं यौं सुरादेव्यै अर्धनारीश्वर्यै वौषट् ५ |
५ सहक्षमलवयरूं हसक्षमलवयरूं अं सः आनन्दभैरवानन्दनाथ नवात्मकापराम्बा ५ श्रीपा० |
आवाहनादिमुद्राः प्रदर्श्य, अकथादि पात्रमध्ये संचिन्त्य, त्रिकोणे षोडशस्वरान् विचिन्त्य, कोणेषु पीठमन्त्रैः संपूज्य मूलविद्यानित्याषोडशकं विचिन्त्य विन्यस्य, श्रीविद्यागुरुक्रमं विन्यस्य, ५ अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतं स्रावय श्रीं श्रीं श्रीं अमृते अमृतेश्वर्यै नमः ५ |
इत्य् अमृतेश्वरीं त्रिवारं पठित्वा, ५ आनन्दभैरवाय वषट् ५, इति संशोध्य, ततो गुरुमन्त्रः |
असिताङ्गाद्यष्टौ पात्राञ्चले संपूज्य नवात्मकविद्याभ्यां त्रिः संतर्पयेत् |
परेश्वरेण त्रिवारं परेश्वर्या सप्तवारमभिमन्त्र्याङ्गानि देव्योर्विन्यस्य रक्षामन्त्रेण संकल्पयेत् |
सौभाग्यविद्या श्रीमूर्त्यादिविद्याः निर्वाणविद्याः |
५ हंसः सोऽहं अः श्रीं ह्रौं सौः निर्वाणानन्दनाथ अहंस्वात्मप्रकाशानन्दनाथ ५ श्रीपा० |
तथा सप्तधोच्चारात् |
इति श्रीमूर्तिविधिः ॥ विशेषार्घ्यस्य तादात्म्यं भावयित्वा पञ्चोपचारान् परिकल्प्य विशेषदक्षिणे मण्डले चतुरस्रके भोगपात्राधारकं ऐंमिति संस्थाप्य, तत्र पात्रे क्लीमिति निक्षिप्य, आद्येन सौरित्यापूर्य, विशेषोदकेन संस्कृत्य श्रीनाथादिपराषट्कान्तं शिरसि गुरुमन्त्रं पूजयेत् |
कृत्वा पञ्चोपचारांश्च शेषं स्वात्मानले हुनेत् |
सुगन्धितिलकाद्यैश्च नानाभरणसंयुतैः ॥ २० ॥ स्वात्मानं समलंकृत्य यथाविभवविस्तरम् |
वक्ष्यमाणैस्तथा मन्त्रैर्यजेदागममण्डलम् ॥ २१ ॥ वहत्पुटनासिकया प्रणवैश्च समर्चयेत् |
[अत्र बिन्दवः, संख्या नास्ति|
] ५ अष्टाविंशतिक्रममण्डलेभ्यो नमः ५ हस्रौं महाप्रेतपद्मासनाय हस्रौं श्रीपा० |
५ ऐं ऐं प्रणवमण्डलव्यापिपादाय विच्चे ऐं श्री० |
एतान् साक्षतपुष्पैश्च यजेदर्घ्याम्बुबिन्दुभिः |
संस्थाप्य मण्डले तत्र यजेच्छाम्भवमण्डलम् ॥ २२ ॥ [पाठसंदेहाः: १४ पञ्चमस्थानकल्पना इति वाक्यांशः, दीर्घमन्त्रेषु हस्रौं-हसक्षमलवयरूं-आदीनां कतिपयसंयुक्ताक्षराणि, आद्येन सौरिति इत्यस्य छेदश्च अनिश्चिताः|
पाठभेदाः: १३ तु इत्यत्र पुनः ग.; १६ विधानेन इत्यत्र निदानेन क.; अमृतेशमन्त्रबीजे हुं ग.|
]

Druckseite 804

Zuordnung zur deutschen Fassung: 34.MDL.

दक्षिणोदग्दक्षिणोदङ्मध्यदेशे गुरूक्तितः |
तारसंपुटितैस्तारैर्यष्टव्या मन्त्रदेवताः ॥ २३ ॥ ५ ऐं मन्त्रदेवतायै ऐं |
५ ह्रीं मन्त्रदेवतायै ह्रीं |
५ श्रीं मन्त्रदेवतायै श्रीं |
५ हसख्फ्रें मन्त्रदेवतायै हसख्फ्रें |
५ हसौं मन्त्रदेवतायै हसौं |
मध्ये पद्मासने देव्यै पूजयेदेकयोगतः |
आवाहनादिमुद्राश्च योनिमुद्रां प्रदर्शयेत् ॥ २४ ॥ पुष्पं दीपं च नैवेद्यं दद्याच्चोक्तमन्त्रतः |
एवमागममभ्यर्च्य ततोऽष्टदलपङ्कजे ॥ २५ ॥ मण्डलत्रितयं चैव परितो देशमध्यतः |
वक्ष्यमाणैस्तथा मन्त्रैः पूजयेदुक्तमार्गतः ॥ २६ ॥ ५ हं सूर्यमण्डलाय हं नमः |
५ रं वह्निमण्डलाय रं नमः |
५ सं सोममण्डलाय सं नमः |
५ अष्टाविंशतिमण्डलेभ्यो नमः |
५ हस्रौं महाप्रेतपद्मासनाय हस्रौं नमः |
पद्ममध्ये प्रतिष्ठाप्य शिवलिङ्गं सुलक्षणम् |
सार्घ्यं पुष्पाक्षतैस्तस्मिन् दक्षिणपादोत्तराननम् ॥ २७ ॥ वह्निप्रेतं तथा स्वाहां दक्षे वामे समर्चयेत् |
[अत्र बिन्दवः, संख्या नास्ति|
] ५ ह्रीं जातवेदसे ह्रीं ५ |
५ ॐ ह्रीं स्वाहायै ह्रीं ॐ ५ नमः |
वरशक्तिधरौ ध्यात्वा तयोर्नाभ्यम्बुजे स्थिते |
एकारपरमं व्योम ध्यात्वा एमिति पूजयेत् ॥ २८ ॥ देवदेव्यौ च तन्मध्ये समावाह्य प्रपूजयेत् |
आवाहनादिकां मुद्रां ध्यात्वा षडङ्गं विधाय च ॥ २९ ॥ गन्धपुष्पाक्षतैरर्घ्याद्युपचारान् प्रकल्पयेत् |
पूर्वादिपद्मपत्रेषु मङ्गलाष्टकमर्चयेत् ॥ ३० ॥ ५ हूं मङ्गलमहाभैरवानन्दनाथ हूं ५ श्रीपा० |
५ ह्रीं ब्रह्माणीदेव्यम्बा ह्रीं ५ श्रीपा० |
५ सूं चर्चिकमहाभैरवानन्दनाथ सूं ५ श्रीपा० |
५ सीं माहेश्वरीदेव्यम्बा सीं ५ श्रीपा० |
५ चूं योगमहाभैरवानन्दनाथ चूं ५ श्रीपा० |
५ चीं कौमारीदेव्यम्बा चीं ५ श्रीपा० |
५ मूं हरसिद्धमहाभैरवानन्दनाथ मूं ५ श्रीपा० |
५ मीं वैष्णवीदेव्यम्बा मीं ५ श्रीपा० |
५ लूं भरमहाभैरवानन्दनाथ लूं ५ श्रीपा० |
५ लीं वाराहीदेव्यम्बा लीं ५ श्रीपा० |
५ वूं किलिकिलिभैरवानन्दनाथ वूं ५ श्रीपा० |
५ वीं इन्द्राणीदेव्यम्बा वीं ५ श्रीपा० |
५ यूं कालरात्रिमहाभैरवानन्दनाथ यूं ५ श्रीपा० |
५ यीं चामुण्डादेव्यम्बा यीं ५ श्रीपा० |
५ रूं भीषणमहाभैरवानन्दनाथ रूं ५ श्रीपा० |
५ रीं कमलादेव्यम्बा रीं ५ श्रीपा० |
अथ ध्यानम्— वरवैरकेशहस्ताश्च देव्यो ललितविग्रहाः |
कपालशूलहस्ताश्च देव्यो(व) वामाङ्गसंस्थिताः ॥ ३१ ॥ रक्तवर्णास्त्रिनेत्राश्च सर्वाभरणभूषिताः |
सर्वे षोडशवर्षाश्च मदघूर्णितलोचनाः ॥ ३२ ॥ अष्टौ बीजविभिन्नांश्च कृत्वा नवमयोजितान् |
सानुस्वारान् नवेशस्य कूटमेतत् पुरो यजेत् ॥ ३३ ॥ पञ्च तेषां शक्तयश्चानन्ताद्योऽनुग्रहात्मिकाः |
अध ऊर्ध्वमधोर्ध्वान्तःप्रदेशक्रमतोऽर्चयेत् ॥ ३४ ॥ यथा—(?) ५ आं आदिनाथगुरु आद्यम्बा आं ५ श्रीपा० |
५ अं अनादिगुरुनाथ अनाद्यम्बा अं ५ श्री० |
५ कुं कुलेश्वरगुरुनाथ कुलेश्वर्यम्बा कुं ५ श्री० |
५ अं अचिन्त्यगुरुनाथ अचिन्त्यम्बा अं ५ श्री० |
एवं गुरुक्रमं पश्चात् परितो देवयोर्यजेत् |
देवी श्रीगुरवो देवो यथा पीठे तथाविधाः ॥ ३५ ॥ [पाठसंदेहाः: चर्चिक, भर इति नामपाठौ; कतिपयबीजाक्षराण्यपि अनिश्चितानि|
३१ वरवैरकेश° इति समासः संदिग्धः; देव्यो(व) इति कोष्ठकं मुद्रिते|
३४-अनन्तरं (?) इति मुद्रिते एव|
पाठभेदाः: भर° इत्यत्र हर° क.; हरसिद्ध इत्यत्र रहासिद्ध क.; ३३ बीजान् ग.; ३५ चरेत् ग.|
]

Druckseite 805

Zuordnung zur deutschen Fassung: 34.MDL.

पुनर्देव्याः समभ्यर्च्य लयाङ्गं हृदयादिषु |
अङ्गषट्कं समभ्यर्च्य, वह्नीशासुरवायुषु ॥ ३६ ॥ कोणेषु नेत्रं मध्ये च दिक्षु चास्त्रमिति क्रमात् |
भोगाङ्गमिति धूपादि हृदयेन प्रकल्पयेत् ॥ ३७ ॥ यथाशक्ति जपं कुर्याद् विद्याद्वयमनन्यधीः |
नुत्वा स्तुत्वा नमो द्रुहिणवैकुण्ठ इत्यादिश्लोकपञ्चकैः स्तवीतं |
अथ पूर्ववत्तत्तेजो बाह्ये पूजयेन्मण्डलत्रये |
इन्दुं प्रलयप्रकन्दाभं शशपृष्ठसमावृतम् |
शूलासितर्जनीकार्मुकक्रमविभूषणम् ॥ ३८ ॥ साधकानुग्रहायान्तं त्र्यन्त्रमेतॆन पूजयेत् |
[अत्र बिन्दवः, संख्या नास्ति|
] ५ ह्रौं निशाटननाथाय ह्रौं ५ श्री० |
मण्डले प्राच्यां तपनं पूर्वोक्तायुधलक्षणम् |
अश्वपृष्ठे समासीनं पीतवर्णतनुं यजेत् ॥ ३९ ॥ ५ ह्रौं सौराय ह्रौं ५ श्री० |
मध्ये च मण्डले वह्निं पूर्वोक्तायुधलक्षणम् |
कुङ्कुमक्षोदसंकाशं यजेन्मेषाधिरोहणम् ॥ ४० ॥ ५ न्लौं कालानलाय न्लौं ५ श्री० |
श्रीनाथादिपराषट्कपर्यन्तं पूजयेत् |
ततो विघ्नविनाशाय हेरम्बं स्वस्य वामतः |
आवाहयेद् हृदि स्थितं मण्डले चतुरस्रके ॥ ४१ ॥ ग्लामित्यादिना षडङ्गं विधाय ध्यायेत् |
सितो गजास्यः परशुं दन्तकार्मुकं त्रिशूलकम् |
भुजैश्चतुर्भिर्बिभ्राणो मूषकोपरि संस्थितः ॥ ४२ ॥ लक्षैकाद्विघ्नसंघाते हरतीति राजवचः ? (गजाननः) |
५ ग्लौं हेरम्बाय ग्लौं ५ श्री० ॥ ततः परेश्वरं ध्यायेत् |
आद्यं मन्त्रं निवेदयेत् |
ततो गुरुक्रमं |
हेरम्बमण्डलाधःस्थत्रिकोणे मण्डले साधारं पात्रं प्रतिष्ठाप्य पञ्चप्रणवैर्गन्धपुष्पाक्षतैरभ्यर्च्य प्रथमद्वितीयसहितमर्घ्याम्बुपूरितसलिले बलिं ५ ॐ ह्रीं सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यो हुं फट् स्वाहा अनेन पङ्क्त्याकारेण बलिं दद्यात् |
खेचरीमुद्रां योनिमुद्रां प्रदर्श्याज्ञापुरःसरं भूतानि वेष्टितं पात्रं तर्जन्या संप्रदर्शयेत् |
हुंहुं तदीयं मन्त्रं तु हृद्याकलय्य बलिं क्षिपेत् |
ततोऽर्घ्यजलेनावाह्य च संप्रोक्ष्य तत् स्वात्मनि जुह्यात् ॥ लिङ्गागमात्मनामैक्यबुद्ध्या कुर्यात् यथेच्छया पुनः शिरसि गुरुक्रमम् |
महाश्मशानमभ्यर्च्य क्षेत्रं पीठमनन्तरम् |
वृक्षं वल्लीं समभ्यर्च्य पालकानपि मण्डले ॥ ४३ ॥ ततोऽर्चयेच्छिरीषादीन् वृक्षांश्चण्डादिभैरवान् |
अनन्ताद्यांस्तथा नागान् पूर्वादीशान्तमादरात् ॥ ४४ ॥ असिचर्मधरानष्टौ मानुषोत्तमविग्रहान् |
[अत्र बिन्दवः, संख्या नास्ति|
] तद्यथा—५ महाश्मशानाय नमः |
५ प्रयागक्षेत्राय नमः |
५ परापरपीठाय नमः |
५ कल्पवृक्षाय नमः |
५ ज्योतिष्मतीवल्ल्यै नमः |
५ पालकेभ्यो नमः |
अग्निकोणमारभ्य—५ शिरीषाय नमः |
५ करञ्जाय नमः |
५ अश्वत्थाय नमः |
५ प्लक्षाय नमः |
५ अशोकाय नमः |
५ रक्ताशोकाय नमः |
५ चूताय नमः |
५ वटकाय नमः |
५ चण्डभैरवाय नमः |
५ क्रोधभैरवाय नमः |
५ गं गह्वरभैरवाय नमः |
५ ज्वालामालाकुलभैरवाय नमः |
५ भीषणाट्टहासभैरवाय नमः |
५ घोरान्धकारभैरवाय नमः |
५ लक्ष्मी- [पाठसंदेहाः: ३८ प्रलयप्रकन्दाभम् इति वर्णनम्, अनन्तरार्धे त्र्यन्त्रमेतॆन, ४२ दन्तकार्मुकम् इति आयुधसंख्या, गजाननप्रशंसायाः वाक्यं च अस्पष्टानि|
(?) तथा (गजाननः) मुद्रिते एव|
पाठभेदाः: स्तवीतं इत्यत्र स्तवेत् ततः क.; लिङ्गागमात्मनाम् इत्यत्र लिङ्गङ्गमात्मतां ग.; ४३ वृक्षवल्लीं ग.; ज्वालामालाकुल इत्यत्र मालानुकूल क.|
]

Druckseite 806

Zuordnung zur deutschen Fassung: 34.SMP, 34.TID, 34.MAB, 34.NBD.

भैरवाय नमः |
५ करालभैरवाय नमः |
५ अनन्ताय नमः |
५ वासुकये नमः |
५ तक्षकाय नमः |
५ कर्कोटाय नमः |
५ शङ्खाय नमः |
५ महाशङ्खाय नमः |
५ पद्माय नमः |
५ महापद्माय नमः ॥ अथ ध्यानम्— दृश्योर्ध्वाङ्गान् भीषणाभान् वृक्षस्कन्धसमाश्रितान् |
त्रिशूलकर्तृमुण्डाग्रान् ध्वजं चासिकपालकम् ॥ १ ॥ विभ्राणांस्तर्जितकरान् जानुन्यस्तमुखाम्बुजान् |
विलम्बितैकचरणान् महाश्मशानपालकान् ॥ २ ॥ पीतरक्तनीलसितहरित्कृष्णारुणप्रभान् |
श्वेतोष्ठभान् हरिव्याघ्रशिवेभतुरगाननान् ॥ ३ ॥ भल्लूकवृषभव्याघ्रहरिवक्त्रांश्च भैरवान् |
असिचर्मधरान् नागान् मानुषोत्तमविग्रहान् ॥ ४ ॥ एवं सम्यक् समभ्यर्च्य क्षेत्ररक्षां विधाय च |
एतानेव स्वदेहस्थान् संचिन्त्यान्नं निवेदयेत् ॥ ५ ॥ अथ तिरस्करिणीं प्रपूजयेत् |
ततो गुरुक्रमम् |
हसक्ष्रीं नमः अङ्गुष्ठाभ्यां नमः |
भगवति तर्जनीभ्यां नमः |
माहेश्वरि मध्यमाभ्यां नमः |
सर्वपशुजनचक्षुस्तिरस्करणं अनामिकाभ्यां नमः |
कुरुकुरु कनिष्ठिकाभ्यां नमः |
स्वाहा करतलकरपृष्ठाभ्यां नमः |
एवमेव हृदयादि व्यापकं विन्यस्य ध्यायेत् |
मुक्तकेशीं विवस्त्राङ्गीं सर्वालङ्कारभूषिताम् |
स्वयोनिदर्शनान्मुह्यत्पशुवर्गामनुस्मरेत् ॥ १ ॥ ततो हृत्पद्ममध्यस्थां त्रिकोणान्तर्निवासिनीम् |
तिरस्करणिकां ध्यायेद्भक्तसंरक्षणोत्सुकाम् ॥ २ ॥ श्यामवर्णां मदाघूर्णरक्तनेत्रत्रयान्विताम् |
कृष्णाम्बरां गदां खड्गं दधतीं च भुजद्वये ॥ ३ ॥ दोर्भ्यां मनोहराभ्यां च खर्जूरीकुम्भधारिणीम् |
[अत्र बिन्दवः, संख्या नास्ति|
] नीलं तुरङ्गमधिरुह्य सुशोभमानां नीलांशुकाभरणमाल्यविभूषणाढ्याम् |
निद्रापटेन भुवनानि तिरोदधानां खड्गायुधा भगवती परिपातु चास्मान् ॥ ४ ॥ इति पञ्चोपचारान् परिकल्प्य हेतुपुष्पाक्षतादिभिः पूजागृहाद्बहिः परिपूज्यान्धो रक्षां विधाय, ५ हसक्ष्रीं नमो भगवति माहेश्वरि सर्वपशुजनचक्षुस्तिरस्करणं कुरु २ स्वाहा |
पुनः शिरसि गुरुक्रमम् |
मानसादिपृथिव्यन्तं षडन्वयसुधोदधेः |
मरीचिवीचिनिचये चचार चतुरान्तरः ॥ १ ॥ इति मानसक्रमपूजापद्धतिः ॥ श्रीशांभवगुरवे नमः |
अथ नाभसरश्मिक्रमः |
कूटं विच्चेश्वरस्याथ विशुद्धौ स्फटिकोपमम् |
तदुद्भवं तथा देवमात्मानं हृदि भावयेत् ॥ १ ॥ शुद्धस्फटिकसंकाशं षड्वक्त्रं द्वादशाङ्घ्रिकम् |
भैरवाभं शूलचक्राङ्कुशपाशशरान् वरम् ॥ २ ॥ दक्षे वामे तथा शङ्खध्वजादिनृमुखं दधत् |
चापाभये च बिभ्राणस्तद्वद् देवीं कुलेश्वरीम् ॥ ३ ॥ ध्यायेदिति शेषः |
दक्षोर्ध्ववामोर्ध्वक्रमत आयुधध्यानम् |
देवी च देववर्णाभा तत्प्रभावा तथास्थिता |
खड्गकार्मुकचापशरपाशाङ्कुशाभयवरान् ॥ ४ ॥ पुस्तजाप्यशूलकादीन् संदधत्यङ्गमण्डले |
[अत्र बिन्दवः, संख्या नास्ति|
] इति ध्यात्वा, ५ हस्रां फ्रां ५ इत्यादिनाङ्गन्यासं विधाय, शिरसि षट्कोणे पूर्वादीशान्तं षट्त्रिंशद्रश्मीन् भावयेत् |
५ हं हृदयानन्दनाथ कौलिनीपराम्बा हं ५ श्रीपा० |
५ चं चरानन्दनाथ चात्रीपराम्बा चं ५ श्री० |
५ भां भावानन्दनाथ विच्चात्मिकापराम्बा भां ५ श्री० |
५ भं भवानन्दनाथ योगिनीपराम्बा [पाठसंदेहाः: पालध्यानस्य १ आयुधसमासः तथा ३ श्वेतोष्ठभान्; तिरस्करिणीबीजे संयुक्ताक्षराणि, हेतुपुष्पाक्षत तथा अन्धो रक्षाम्; अन्तिमश्लोके चतुरान्तरः; नाभसध्यानस्य २ द्वादशाङ्घ्रिकम्, ३ ध्वजादिनृमुखम्, ४ कार्मुकचाप इति द्वित्वम् अनिश्चितम्|
रश्मिनामसु चात्री, विच्चात्मिका इति पाठावपि संदिग्धौ|
पाठभेदाः: तिरस्करिणी ४ परिभ्रमन्तीं नीलाम्बराभरणमाल्यविलेपनाढ्याम् क.; चास्मान् इत्यत्र भक्तान् क.; भावानन्दनाथ इत्यत्र भोगानन्द ख.|
]

Druckseite 807

Zuordnung zur deutschen Fassung: 34.NBR, 34.HSD.

भं ५ श्री० |
५ मं महानन्दनाथ ब्रह्मपराम्बा मं ५ श्री० |
५ सं सर्वानन्दनाथ शाम्भवीपराम्बा सं ५ श्री० |
(६) इति पूर्वकोणे ॥ ५ द्रं द्रवानन्दनाथ कालिकापराम्बा द्रं ५ श्री० |
५ रं रमणानन्दनाथ दुश्चाण्डालीपराम्बा रं ५ श्री० |
५ मं मोहानन्दनाथ अघोरापराम्बा मं ५ श्री० |
५ मं मनोभवानन्दनाथ हेलापराम्बा मं ५ श्री० |
५ सं सक्तानन्दनाथ महारक्तापराम्बा सं ५ श्री० |
५ जं ज्ञानानन्दनाथ कुब्जिकापराम्बा जं ५ श्री० |
(६) इत्याग्नेयकोणे ॥ ५ खं वेटानन्दनाथ डाकिनीपराम्बा खं ५ श्री० |
५ ज्वं ज्वालानन्दनाथ राकिणीपराम्बा ज्वं ५ श्री० |
५ मं महाङ्कुशानन्दनाथ लाकिनीपराम्बा मं ५ श्री० |
५ श्रौं श्रेयोज्वालानन्दनाथ काकिनीपराम्बा श्रौं ५ श्री० |
५ तं तेजसानन्दनाथ शाकिनीपराम्बा तं ५ श्री० |
५ मं मूर्धानन्दनाथ हाकिनीपराम्बा मं ५ श्री० |
(६) इति नैर्ऋत्यकोणे ॥ ५ वं वायव्यानन्दनाथ पद्मापराम्बा वं ५ श्री० |
५ कुं कुलानन्दनाथ सिंहापराम्बा कुं ५ श्री० |
५ सं संहारानन्दनाथ कुलाम्बिकापराम्बा सं ५ श्री० |
५ वं विश्वम्भरानन्दनाथ कामापराम्बा वं ५ श्री० |
५ कं कौटिकानन्दनाथ कूर्ममातापराम्बा कं ५ श्री० |
५ गं गालवानन्दनाथ कङ्कालीपराम्बा गं ५ श्री० |
(६) इति पश्चिमकोणे ॥ ५ वं व्योमानन्दनाथ व्योमापराम्बा वं ५ श्री० |
५ शं श्वासानन्दनाथ नादापराम्बा शं ५ श्री० |
५ खं खेचरानन्दनाथ महिमापराम्बा खं ५ श्री० |
५ बं बहुलानन्दनाथ महामायापराम्बा बं ५ श्री० |
५ ज्ञां ज्ञानानन्दनाथ कुण्डलीपराम्बा ज्ञां ५ श्री० |
५ वं विश्वानन्दनाथ उन्मनीपराम्बा वं ५ श्री० |
(६) इति वायव्यकोणे ॥ ५ आं आज्ञानन्दनाथ ईन्धिकापराम्बा आं ५ श्री० |
५ मं मदनानन्दनाथ दीपिकापराम्बा मं ५ श्री० |
५ यं यशानन्दनाथ रचिकापराम्बा यं ५ श्री० |
५ शं शेखोदयानन्दनाथ मोचिकापराम्बा शं ५ श्री० |
५ वं वरानन्दनाथ विचित्तिपराम्बा वं ५ श्री० |
५ पं परानन्दनाथ परापराम्बा पं ५ श्री० |
(६) इतीशानकोणे ॥ अथ रश्मिध्यानम्— शुक्लं रक्तं श्यामलं च धूम्राभं च रविप्रभम् |
षट्कं स्फटिकसंकाशं षट्कं षट्कं क्रमेण तु ॥ १ ॥ वराभययुताः सर्वा नाभसक्रमदेवताः |
नत्वा स्तुत्वा मनुं जप्त्वा नाभसक्रममाचरेत् ॥ २ ॥ इति विच्चेश्वरक्रमः |
हस्रीं हसरफ्रामित्यादिनाङ्गन्यासः |
कूटं हंसेश्वरस्याथ धूम्राभं हृदि भावयेत् |
तदुद्भवं तथा देवमात्मानं परिभावयेत् ॥ १ ॥ ध्यानं विच्चेश्वरवत् |
पुनर्गुरुक्रमम् |
शिरसि षट्कोणे पूर्वादीशान्तं सप्तविंशतिरश्मीन् भावयेत् |
५ लमयर्कें खगेश्वरानन्दनाथ भद्रापराम्बा लमयर्कें ५ श्री० |
५ लमयर्कें कूर्मानन्दनाथ माधवीपराम्बा लमयर्कें ५ श्री० |
५ लमयर्कें मेघानन्दनाथ केशापराम्बा लमयर्कें ५ श्री० |
५ लमयर्कें मीनानन्दनाथ मल्लीपराम्बा लमयर्कें ५ श्री० |
(४) इति पूर्वकोणे ॥ ५ वमयर्कें ज्ञानानन्दनाथ विमलापराम्बा वमयर्कें ५ श्री० |
५ वमयर्कें महानन्दनाथ शाम्बरीपराम्बा वमयर्कें ५ श्री० |
५ वमयर्कें तीव्रानन्दनाथ लीलापराम्बा वमयर्कें ५ श्री० |
५ वमयर्कें प्रियानन्दनाथ कुमुन्दापराम्बा वमयर्कें ५ श्री० |
५ वमयर्कें कौलि- [पाठसंदेहाः: दुश्चाण्डाली, वेटानन्द, श्रेयोज्वालानन्द, कौटिकानन्द, शेखोदयानन्द, विचित्ति इत्यादिनामानि स्थानीयास्पष्टानि|
हंसेश्वररश्मिबीजे अन्त्यसंयुक्ताक्षरं लमयर्कें/लमयरूं इति संदिग्धम्; न मानकीकृतम्|
पाठभेदाः: प्रथमे भं इत्यत्र भं भवानां क.; हेलायां लीला ख.; अघोरायां मोहिनी ख.; रचिकायां हरिचिका ग.; पराबीजे ऐं परा क.; हंसेश्वराङ्गन्यासे हस्रौं हस्रां क.; कुमुन्दायां मुकुटा ग.|
]

Druckseite 808

Zuordnung zur deutschen Fassung: 34.HSR, 34.SVD.

कानन्दनाथ मेनकापराम्बा वमयर्कें ५ श्री० |
(५) इत्यग्निकोणे ॥ ५ रमयर्कें डामरानन्दनाथ डाकिनीपराम्बा रमयर्कें ५ श्री० |
५ रमयर्कें रामरानन्दनाथ राकिणीपराम्बा रमयर्कें ५ श्री० |
५ रमयर्कें लामरानन्दनाथ लाकिनीपराम्बा रमयर्कें ५ श्री० |
५ रमयर्कें कामरानन्दनाथ काकिनीपराम्बा रमयरूं ५ श्री० |
५ रमयर्कें सामरानन्दनाथ शाकिनीपराम्बा रमयर्कें ५ श्री० |
५ रमयर्कें हामरानन्दनाथ हाकिनीपराम्बा रमयर्कें ५ श्री० |
(६) इति नैर्ऋत्यकोणे ॥ ५ यमयर्कें आधारेशानन्दनाथ रक्तापराम्बा यमयर्कें ५ श्री० |
५ यमयर्कें चक्रेशानन्दनाथ बिन्दुपराम्बा यमयर्कें ५ श्री० |
५ यमयर्कें कुरङ्गेशानन्दनाथ कुलापराम्बा यमयर्कें ५ श्री० |
५ यमयर्कें समुद्रेशानन्दनाथ कुब्जिकापराम्बा यमयर्कें ५ श्री० |
(४) इति पश्चिमकोणे ॥ ५ हमयर्कें हृदीशानन्दनाथ कमलापराम्बा हमयर्कें ५ श्री० |
५ हमयर्कें गिरीशानन्दनाथ कुटिकदीधितिकापराम्बा हमयर्कें ५ श्री० |
५ हमयर्कें शिखेशानन्दनाथ कर्बुरापराम्बा हमयर्कें ५ श्री० |
५ हमयर्कें वर्मीशानन्दनाथ बहुरूपापराम्बा हमयर्कें ५ श्री० |
५ हमयर्कें अस्त्रेशानन्दनाथ महत्तारीपराम्बा हमयर्कें ५ श्री० |
(५) इति वायव्यकोणे ॥ ५ समयर्कें परगुर्वानन्दनाथ मङ्गलापराम्बा समयर्कें ५ श्री० |
५ समयर्कें पराचिकारगुर्वानन्दनाथ कौलिनीपराम्बा समयर्कें ५ श्री० |
५ समयर्कें पूज्यगुर्वानन्दनाथ समानीपराम्बा समयर्कें ५ श्री० |
(३) इतीशानकोणे रश्मित्रयं पूजयेत् ॥ अथ रश्मिध्यानम्— पीतं चतुष्कं श्यामं तु पञ्चकं रक्तसन्निभम् |
षट्कं चतुष्कं श्यामं तु धूम्राभं पञ्चकं पुनः ॥ १ ॥ चन्द्रप्रभं त्रिकं सर्वे बालसूर्यसमप्रभाः |
वरदाभयहस्ताश्च मदघूर्णितलोचनाः ॥ २ ॥ नत्वा स्तुत्वा मनुं जप्त्वा वायव्यक्रममाचरेत् |
[अत्र बिन्दवः, संख्या नास्ति|
] पुनर्गुरुक्रममिति हंसेश्वरक्रमः ॥ अथ संवर्तकेश्वरक्रमः |
ध्यानम्— कूटं सप्तमकं ध्यात्वा संवर्तेशस्य सादरात् |
उदयार्कसमप्रख्यं स्वाधिष्ठाने तदुद्भवम् ॥ १ ॥ देवं विभावयेत् पश्चात् सम्यक् सूत्रोक्तमार्गतः |
भिन्ननीलाञ्जनप्रख्यं तिथिनेत्रं दशाङ्घ्रिकम् ॥ २ ॥ लसद्दंष्ट्राकरालास्यं बर्बरोर्ध्वशिरोरुहम् |
द्विरष्टवर्षदेशीयं रत्नसर्पाधिचर्चितम् ॥ ३ ॥ यावद्भूषणसंयुक्तमेकपादकजास्थितम् |
पञ्चासनासने वह्निनाभिपद्माङ्गुलीयकम् ॥ ४ ॥ मुण्डमालाचर्चिताङ्गं गन्धादिकुसुमाञ्चितम् |
आत्रालिबद्धकट्वारशर्करिकाश्रीपदाश्रितम् ॥ ५ ॥ अस्य दक्षिणदोर्दण्डे शस्त्राणि विविधानि च |
शूलं चक्रं ध्वजं दानं दधद्वामे परं शृणु ॥ ६ ॥ पारिजातं जाप्यमालां पुस्तकं चाभयं प्रिये |
शेषाभ्यां चैव बाहुभ्यां ब्रह्मचर्मविदारणे ॥ ७ ॥ ततो रक्तनिभं श्लोकं (कूटं) तुरीयं योनिमध्यतः |
ध्यात्वा तद्रश्मिसंभूतं देवीरूपमनन्यधीः ॥ ८ ॥ स्वात्मानं मूलसूत्रोक्तक्रमात् सम्यग् विभावयेत् |
सहस्रभेदसंभिन्ना नित्येयं श्रीमहाचितिः ॥ ९ ॥ तेभ्यः सारतरा मूर्तिः समयाख्या निगद्यते |
अतसीपुष्पसंकाशशरीरांशुधरा चितिः ॥ १० ॥ दशास्या वा षडास्या वा विंशत्यास्या शतान्मुखी |
सहस्ररश्मिसंघातसंपूर्णस्फुरदीक्षणा ॥ ११ ॥ [पाठसंदेहाः: रश्मिनामसु कुटिकदीधितिका, पराचिकारगुरु इत्यादयः; सामान्यबीजान्त्यसंयुक्ताक्षराण्यपि अनिश्चितानि|
संवर्तध्यानस्य ४ एकपादकजास्थितम्, ५ आत्रालिबद्धकट्वारशर्करिकाश्रीपदाश्रितम् अस्पष्टौ|
८ श्लोकं (कूटं) इति कोष्ठकं मुद्रिते|
पाठभेदाः: आधारेशे अग्रतः क.; रक्तायां रमा क.|
टिप्पण्यः: सप्तमकं क्लां इति; तुरीयं हस्फ्रूं इति; वह्निनाभिपद्माङ्गुलीयकम्—वह्निस्वरूपनाभिपद्मप्राक्षपादाङ्गुष्ठीयकमित्यर्थः इति, कतिपयाक्षराण्यस्पष्टानि; शर्करिका—करसंघातः; ब्रह्मचर्मविदारणे—ब्रह्मकपालं टङ्कं चेत्यर्थः|
]

Druckseite 809

Zuordnung zur deutschen Fassung: 34.SVD.

शूलकार्मुकचापशरखड्गवरधरा चितिः |
सृणिपाशचक्रशङ्खगदारत्नविभूषिता ॥ १२ ॥ डिण्डीडमरुवज्राख्यभुशुण्डीशूलपाणिनी |
शक्तिशल्यलसत्कुन्तसर्पजाप्यार्थ(ख्य)धारिणी ॥ १३ ॥ इति ध्यानम् ॥ अथ संवर्तेश्वरन्यासः—५ हं व्योमानन्दनाथ रजनीपराम्बा हं ५ करतलाभ्यां नमः |
५ सं चिदानन्दनाथ चितिपराम्बा सं ५ करपृष्ठाभ्यां नमः |
५ क्षं अहङ्कारानन्दनाथ कोचिनीपराम्बा क्षं ५ अङ्गुष्ठाभ्यां नमः |
५ मं बुद्ध्यानन्दनाथ कुलवागीश्वरीपराम्बा मं ५ तर्जनीभ्यां नमः |
५ लं ऋद्ध्यानन्दनाथ मातृकापराम्बा लं ५ मध्यमाभ्यां नमः |
५ वं अमृतानन्दनाथ देवद्रवीपराम्बा वं ५ अनामिकाभ्यां नमः |
५ यं अचलानन्दनाथ चलापराम्बा यं ५ कनिष्ठिकाभ्यां नमः |
५ रं दीप्तानन्दनाथ ज्वालिनीपराम्बा रं ५ करपृष्ठाभ्यां नमः |
५ ॐ प्रकृतीशानन्दनाथ प्रकृतीपराम्बा ॐ ५ करतलाभ्यां नमः |
इति करन्यासः ॥ ५ हंसं विशुद्धानन्दनाथ शङ्खिनीपराम्बा हंसं ५ हृदयाय नमः |
५ क्षंमं प्राणानन्दनाथ वागीश्वरीपराम्बा क्षंमं ५ शिरसे स्वाहा |
५ लंवं ज्ञानानन्दनाथ बिन्दुपराम्बा लंवं ५ शिखायै वषट् |
५ यंरं व्यापकानन्दनाथ इन्धिकापराम्बा यंरं ५ कवचाय हुं |
५ ॐ विस्तारानन्दनाथ विस्तारापराम्बा ॐ ५ नेत्रत्रयाय वौषट् |
५ अंअः शूरानन्दनाथ प्रीतवतीपराम्बा अंअः ५ अस्त्राय फट् |
इत्यङ्गन्यासः ॥ ५ हंसं कालवक्त्रानन्दनाथ योगीश्वरीपराम्बा संहं ५ पश्चिमवक्त्राय नमः |
५ क्षंमं रौद्रवक्त्रानन्दनाथ संहारिणीपराम्बा मंक्षं ५ उत्तरवक्त्राय नमः |
५ लंवं विश्वग्रसनानन्दनाथ दहनीपराम्बा वंलं ५ दक्षिणवक्त्राय नमः |
५ यंरं प्रकाशानन्दनाथ ज्योतिष्पराम्बा रंयं ५ पूर्ववक्त्राय नमः |
५ ॐ हर्षानन्दनाथ अमृतवाहिनीपराम्बा ॐ ५ ऊर्ध्ववक्त्राय नमः |
५ अंअः परानन्दनाथ परापराम्बा अःअं ५ परापरवक्त्राय नमः |
इति वक्त्रन्यासः ॥ अथ करन्यासः—५ ऐं नित्ये भगवति हसख्फ्रें कुलेश्वरि ५ कनिष्ठिकाभ्यां नमः |
५ [दीर्घबीजक्रमः अस्पष्टः] ङञणनमे ५ अनामिकाभ्यां नमः |
५ [बीजक्रमः] अघोरमुखि कुब्जिकायै ५ मध्यमाभ्यां नमः |
५ [बीजक्रमः] घोरे अघोरे ५ तर्जनीभ्यां नमः |
५ यंरंलंवंहंसं ५ अङ्गुष्ठाभ्यां नमः |
५ किणिकिणि महाकिणिकिणि विच्चे ५ करतलकरपृष्ठाभ्यां नमः |
एभिरेव हृदयाद्यङ्गन्यासः ॥ ५ ऐं नित्ये भगवति ५ पश्चिमवक्त्राय नमः |
५ हसख्फ्रें कुलेश्वरि ५ उत्तरवक्त्राय नमः |
५ [दीर्घबीजक्रमः अस्पष्टः] ५ दक्षिणवक्त्राय नमः |
५ ङञणनमे ५ पूर्ववक्त्राय नमः |
५ [बीजक्रमः] ५ वायव्यवक्त्राय नमः |
५ अघोरमुखि कुब्जिकायै ५ नैर्ऋत्यवक्त्राय नमः |
५ [बीजक्रमः] ५ ईशानवक्त्राय नमः |
५ घोरे अघोरे ५ आग्नेयवक्त्राय नमः |
५ यंरंलंवंहंसं ५ ऊर्ध्ववक्त्राय नमः |
५ किणिकिणि महाकिणिकिणि विच्चे ५ परापरवक्त्राय नमः |
इति महाशक्तिन्यासः ॥ शिरसि षट्कोणे नैर्ऋत्याद्याग्नेयान्तमेकत्रिंशद्रश्मीन् भावयेत् |
५ सहलां परापरानन्दनाथ चण्डीश्वरीपराम्बा सहलां ५ |
५ सहलां परानन्दनाथ गुह्यकालिकापराम्बा सहलां ५ |
५ सहलां अपरानन्दनाथ संवर्तापराम्बा सहलां ५ |
५ सहां परमानन्दनाथ उच्छुष्मापराम्बा सहां ५ |
५ सहलां पाचकानन्दनाथ नीलकुब्जिकापराम्बा [पाठसंदेहाः: १२ कार्मुकचाप इति द्वित्वम्, १३ जाप्यार्थ(ख्य) इति कोष्ठकपाठः मुद्रिते; कोचिनी, ऋद्ध्यानन्द, देवद्रवी इत्यादिनामानि; विस्तीर्णमन्त्रबीजेषु अनेकसंयुक्ताक्षराणि अनिश्चितानि|
पाठभेदाः: कोचिनी इत्यत्र चणा क.; ऋद्ध्यानन्द इत्यत्र कुम्म क.; कुलवागीश्वरी इत्यत्र वागीश्वरी ख.; महाशक्तिन्यासे दीर्घबीजपाठान्तरस्य कतिपयाक्षराण्यस्पष्टानि|
]

Druckseite 810

Zuordnung zur deutschen Fassung: 34.SVD, 34.DVD.

सहलां ५ |
(५) इति नैर्ऋत्यकोणे ॥ ५ सहवीं अघोरानन्दनाथ गन्धापराम्बा सहवीं ५ |
५ सहवीं डामराघोरानन्दनाथ रसापराम्बा सहवीं ५ |
५ सहवीं ललितानन्दनाथ रूपापराम्बा सहवीं ५ |
५ सहवीं स्वच्छानन्दनाथ स्पर्शापराम्बा सहवीं ५ |
५ सहवीं भूतेश्वरानन्दनाथ शब्दापराम्बा सहवीं ५ श्री० |
(५) इति पश्चिमकोणे ॥ ५ सहूं आनन्दानन्दनाथ डाकिनीपराम्बा सहूं ५ श्री० |
५ सहूं आलस्यानन्दनाथ रत्नडाकिनीपराम्बा सहूं ५ श्री० |
५ सहूं ब्रह्मानन्दनाथ चक्रडाकिनीपराम्बा सहूं ५ श्री० |
५ सहूं योग्यानन्दनाथ पद्मडाकिनीपराम्बा सहूं ५ |
५ सहूं अतीतानन्दनाथ कुब्जडाकिनीपराम्बा सहूं ५ |
५ सहूं पादेश्वरानन्दनाथ प्रचण्डडाकिनीपराम्बा सहूं ५ |
(६) इति वायव्यकोणे ॥ ५ सह्यैं योगेश्वरानन्दनाथ प्रचण्डापराम्बा सह्यैं ५ |
५ सह्यैं पीठेश्वरानन्दनाथ कौलिनीपराम्बा सह्यैं ५ |
५ सह्यैं कुलकौलेश्वरानन्दनाथ पावनीपराम्बा सह्यैं ५ |
५ सह्यैं कुब्जेश्वरानन्दनाथ महासमयापराम्बा सह्यैं ५ |
(४) इतीशानकोणे ॥ ५ सह्रौं श्रीकण्ठानन्दनाथ कामापराम्बा सह्रौं ५ |
५ सह्रौं अनन्तानन्दनाथ चर्चिकापराम्बा सह्रौं ५ |
५ सह्रौं शङ्करानन्दनाथ ज्वालापराम्बा सह्रौं ५ |
५ सह्रौं पिङ्गलानन्दनाथ कल्लारावापराम्बा सह्रौं |
५ सदाख्यानन्दनाथ नागापराम्बा सह्रौं ५ |
(५) इति पूर्वकोणे ॥ ५ स्हः कालगुर्वानन्दनाथ परापराम्बा स्हः ५ |
५ स्हः सिद्धगुर्वानन्दनाथ शान्त्यतीतापराम्बा स्हः ५ |
५ स्हः रत्नगुर्वानन्दनाथ शान्तिपराम्बा स्हः ५ |
५ स्हः शिवगुर्वानन्दनाथ विद्यापराम्बा स्हः ५ |
५ स्हः मेनाकगुर्वानन्दनाथ प्रतिष्ठापराम्बा स्हः ५ |
५ स्हः समयगुर्वानन्दनाथ निवृत्तिपराम्बा स्हः ५ |
(६) इत्यग्निकोणे ॥ पञ्चकाद्याः क्रमात् पीतश्यामकृष्णारुणप्रभाः |
शुक्लस्फटिकवर्णाभा वरदाभयसंयुताः ॥ १४ ॥ कार्यार्थाकारिताः सर्वा निराकारा निरामयाः |
पञ्चकं पञ्चकं षट्कं चतुष्कं पञ्चकं पुनः ॥ १५ ॥ षट्कमिति क्रमाद्भिन्नास्तैजसक्रमरश्मयः |
नत्वा स्तुत्वा मनुं जप्त्वा तैजसक्रममाचरेत् ॥ १६ ॥ पुनर्गुरुक्रमः ॥ इति संवर्तकेश्वरः ॥ अथ द्वीपेश्वरक्रमः |
ध्यानम्— कूटं द्वीपेश्वरस्याथ मणिपूरे सितप्रभम् |
ध्यात्वा तदुद्भवं देवमात्मानं परिभावयेत् ॥ १ ॥ श्यामवर्णो दशभुजो पञ्चैकाम्बकचर्चितः |
दंष्ट्राकरालवदनो भैरवाभरणो विभुः ॥ २ ॥ महाशवासनस्थोऽयं मातृमण्डलमध्यगः |
सर्वतन्त्रेश्वरः श्रीमान् सर्वाश्रमसुपूजितः ॥ ३ ॥ शूलं खड्गं तथा चक्रमङ्कुशं वरदं तथा |
बिभ्रद् दक्षे तथा वामे खट्वाङ्गं परशुं तथा ॥ ४ ॥ गदां पाशं चाभयाख्यं बाहुभ्यां गजचर्मकम् |
द्वीपेश्वरं विभाव्याथ ततस्तुर्याक्षरं स्मरेत् ॥ ५ ॥ देवीं च देववर्णाभां स्थितां च शयनोपरि |
शङ्खचक्रगदापद्मशूलं पाशं वराभये ॥ ६ ॥ दधतीमितिशेषः |
इति ध्यानम् ॥ भ्रां इत्यादि हंसख्रांहस्रीं ऐं इत्याद्यङ्गन्यासं विधाय, शिरसि षट्कोणे ईशानादिवायव्यान्तं षड्विंशतिरश्मीन् भावयेत् |
५ लं सद्यानन्दनाथ मायापराम्बा लं ५ |
५ लं वामानन्दनाथ श्रीपराम्बा लं ५ |
५ लं अघोरानन्दनाथ पद्मापराम्बा लं ५ |
५ लं तत्पुरुषानन्दनाथ अम्बिकापराम्बा लं ५ |
(४) इतीशानकोणे ॥ ५ वं अनन्तानन्दनाथ निवृत्तिपराम्बा वं ५ |
५ वं अनाथानन्दनाथ प्रतिष्ठाप- [पाठसंदेहाः: समूहबीजेषु सहवीं/सहीं, सह्यैं, सह्रौं, स्हः इत्यादीनां सूक्ष्मसंयुक्ताक्षराणि अनिश्चितानि; कल्लारावा, मेनाक इति नामपाठौ; द्वीपेश्वरे २ पञ्चैकाम्बकचर्चितः इति नेत्रसंख्या निश्चिता न|
पाठभेदाः: कल्लारावा इत्यत्र कराला ख.; द्वीपेश्वरे २ करालरात्रीभूः ख.; कूटस्य टिप्पणी हसख्फ्रें इति, ग. हसफ्रें|
]

Druckseite 811

Zuordnung zur deutschen Fassung: 34.DVD, 34.PTD.

राम्बा वं ५ श्री० |
५ वं अनाश्रितानन्दनाथ विद्यापराम्बा वं ५ श्री० |
५ वं अचिन्त्यानन्दनाथ शान्तिपराम्बा वं ५ |
(४) इति पूर्वकोणे ॥ ५ रं शेखरानन्दनाथ शान्त्यतीतापराम्बा रं ५ |
५ रं तीव्रानन्दनाथ गङ्गापराम्बा रं ५ |
५ रं मणिवाहानन्दनाथ सरस्वतीपराम्बा रं ५ |
५ रं अम्बुवाहानन्दनाथ कमलापराम्बा रं ५ |
५ रं जालन्धरानन्दनाथ यमुनापराम्बा रं ५ |
५ रं तेजोधीशानन्दनाथ पार्वतीपराम्बा रं ५ |
(६) इत्यग्निकोणे ॥ ५ यं विद्यावागीश्वरानन्दनाथ चित्रापराम्बा यं ५ |
५ यं चतुर्विद्येश्वरानन्दनाथ सुकमलापराम्बा यं ५ |
५ यं उमागङ्गेश्वरानन्दनाथ मन्मथापराम्बा यं ५ श्री |
५ यं कृष्णेश्वरानन्दनाथ श्रीपराम्बा यं ५ श्री |
(४) इति नैर्ऋत्यकोणे ॥ ५ हं श्रीकण्ठानन्दनाथ लयापराम्बा हं ५ श्री |
५ हं अनन्तानन्दनाथ वसन्तापराम्बा हं ५ |
५ हं शङ्करानन्दनाथ रत्नमेखलापराम्बा हं ५ |
५ हं पिङ्गलानन्दनाथ यशोवतीपराम्बा हं ५ |
५ हं सदाख्यानन्दनाथ कुब्जिकापराम्बा हं ५ |
(५) इति पश्चिमकोणे ॥ ५ सं सर्वदेवेशानन्दनाथ वामापराम्बा सं ५ |
५ सं परमदिव्यौघानन्दनाथ ज्येष्ठापराम्बा सं ५ |
५ सं पीठेश्वरानन्दनाथ रौद्रीपराम्बा सं ५ |
(३) इति वायव्यकोणे ॥ पीतं श्यामं रक्तकृष्णं शुक्लं भास्करसन्निभम् |
चतुष्कं च चतुष्कं च षट्कं भूयश्चतुष्ककम् ॥ ७ ॥ पञ्चकं त्रिकमित्येव भिन्ना जलमरीचयः |
नत्वा स्तुत्वा मनुं जप्त्वा ह्याप्य-क्रममाचरेत् ॥ ८ ॥ पुनर्गुरुक्रमः |
इति द्वीपेश्वरक्रमः ॥ अथ पार्थिवक्रमस्तत्र न्यासः |
५ हंसं अङ्गुष्ठाभ्यां नमः |
५ त्तमं तर्जनीभ्यां नमः |
५ लवं मध्यमाभ्यां नमः |
५ यरं अनामिकाभ्यां नमः |
५ ॐ कनिष्ठिकाभ्यां नमः |
५ अञ्जः करतलकरपृष्ठाभ्यां नमः |
एभिरेव हृदयाद्यङ्गन्यासः ॥ ५ हसखफ्रां नमो भगवति कमलायै हसखफ्रां ५ कनिष्ठिकाभ्यां नमः |
५ हसखफ्रीं कुब्जिकायै कुलदीपिकायै हसखफ्रीं ५ अनामिकाभ्यां नमः |
५ हसखफ्रूं हांहूंहीं [वज्ररूपायाः नाम अनिश्चितम्] हसखफ्रूं ५ मध्यमाभ्यां नमः |
५ हसखफ्रैं अधोमुखि बहुरूपायै हसखफ्रैं ५ तर्जनीभ्यां नमः |
५ हसखफ्रौं [बीजं अस्पष्टम्] महातीरायै हसखफ्रौं ५ अङ्गुष्ठाभ्यां नमः |
५ हसखफ्रः किणिकिणि विच्चे कोङ्कणायै हसखफ्रः ५ करतलकरपृष्ठाभ्यां नमः |
एवमेव हृदयादिन्यासः ॥ तथा वक्त्रन्यासः |
अथ ध्यानम्— विभाव्यं देवकूटं तु मूलाधारेऽरुणप्रभम् |
तदुद्भवं तथा देवमात्मानं परिभावयेत् ॥ १ ॥ संवर्तेश्वरतुल्यस्तु देवो ललितविग्रहः |
[मुद्रितग्रन्थे बिन्दुभिः सूचितः पाठलोपः] ॥ संवर्तेश्वरप्रथमध्यानम् |
अथ शक्तिध्यानम्— नीलाञ्जनचयप्रख्यां कुब्जरूपां महोदरीम् |
षड्वक्त्रां द्वादशभुजां रत्नसर्पोच्चयर्चिताम् ॥ २ ॥ मुण्डमालाधरां रौद्रीं दंष्ट्राकालानलाननाम् |
अष्टादशाम्बकां देवीं वन्देरोर्ध्वशिरोरुहाम् ॥ ३ ॥ व्याघ्रचर्मपरीधानां सिंहचर्मोत्तरच्छदाम् |
दिव्याभरणभूषाङ्गीं ध्यायेदट्टहासिनीम् ॥ ४ ॥ अस्याः पीतमाद्यवक्त्रमुत्तरं सोमसन्निभम् |
दक्षिणं कृष्णवर्णं च यत्प्राग् दर्शितमम्बिके ॥ ५ ॥ पूर्ववक्त्रं भवेद्रक्तमीशानं स्फटिकोपमम् |
सहस्रसूर्यसङ्काशमूर्ध्ववक्त्रं महाचितेः ॥ ६ ॥ [पाठसंदेहाः: द्वीपेश्वरे ७ षट्कं इति अनिश्चितम्; अनाश्रित, मणिवाह, जालन्धर इति नामानि; न्यासबीजानां सूक्ष्मसंयुक्ताक्षराणि; शक्तिध्याने २ रत्नसर्पोच्चयर्चिताम्, ३ वन्देरोर्ध्व इति मुद्रितपाठौ अस्पष्टौ|
टिप्पणी: “यदाधारायै” ख. पाठः|
]

Druckseite 812

Zuordnung zur deutschen Fassung: 34.PTD, 34.PTR.

दंष्ट्राकरालान्यखिलवक्त्राण्युक्तानि शम्भुना |
त्रिशूलचक्रवज्राणि अङ्कुशं शरकर्तरीः ॥ ७ ॥ दक्षिणे वामतो देवी नीलोत्पलशताकर(तच्छद)म् |
अन्यत्समुण्डखट्वाङ्गं घण्टा पुस्तकधनुस्तथा ॥ ८ ॥ कपालं वामके हस्ते सिंहासनमत्रासनम् |
[मुद्रितग्रन्थे बिन्दुभिः सूचितः पाठलोपः] ॥ इति ध्यात्वा, पार्थिवशाम्भवेनाङ्गन्यासं विधाय शिरसि षट्कोणे पश्चिमादिनैर्ऋत्यन्तमष्टाविंशतिरश्मीन् भावयेत् |
५ लमयरूं उड्ड्याणमहापीठ उड्ड्येश्वरानन्दनाथ उड्ड्येश्वरीपराम्बा लमयरूं ५ श्री |
५ वमयरूं जालन्धरमहापीठ जालेश्वरानन्दनाथ जालेश्वरीपराम्बा वमयरूं ५ |
५ रमयरूं पूर्णागिरिमहापीठ पूर्णागिरिजानन्दनाथ पूर्णेश्वरीपराम्बा रमयरूं ५ |
५ मयरूं कामेश्वरमहापीठ कामेश्वरानन्दनाथ कामेश्वरीपराम्बा मयरूं ५ |
(४) इति पश्चिमकोणे ॥ ५ ग्लूं श्रीकण्ठानन्दनाथ गगनापराम्बा ग्लूं ५ |
५ स्लूं अनन्तानन्दनाथ स्वर्गापराम्बा स्लूं ५ |
५ म्लूं शङ्करानन्दनाथ मर्त्यापराम्बा म्लूं ५ |
५ प्लूं पिङ्गलानन्दनाथ पातालापराम्बा प्लूं ५ |
५ न्लूं सद्योजानन्दनाथ नागापराम्बा न्लूं ५ |
५ (५) इति वायव्यकोणे ॥ ५ डमयरूं आनन्दानन्दनाथ डाकिनीपराम्बा डमयरूं ५ |
५ रमयरूं आवट्यानन्दनाथ राकिणीपराम्बा रमयरूं ५ |
५ लमयरूं पूजानन्दनाथ लाकिनीपराम्बा लमयरूं ५ |
५ कमयरूं योगानन्दनाथ काकिनीपराम्बा कमयरूं ५ |
५ शमयरूं अतीतानन्दनाथ शाकिनीपराम्बा शमयरूं ५ |
५ हमयरूं पादानन्दनाथ हाकिनीपराम्बा हमयरूं ५ |
५ (६) इतीशानकोणे ॥ ५ लं आधारेशानन्दनाथ रक्तापराम्बा लं ५ |
५ वं चक्रेशानन्दनाथ चण्डिकापराम्बा वं ५ |
५ रं कुरङ्गेशानन्दनाथ करालापराम्बा रं ५ |
५ यं मदघ्नेशानन्दनाथ महोच्छुष्मापराम्बा यं ५ |
(४) इति पूर्वकोणे ॥ ५ गं अनादिविमलानन्दनाथ शावरीपराम्बा गं |
५ सं सर्वज्ञविमलानन्दनाथ पुलिन्दिनीपराम्बा सं ५ |
५ यं योगविमलानन्दनाथ शवरीपराम्बा यं ५ |
५ यं सिद्धविमलानन्दनाथ पराम्बिकापराम्बा यं ५ |
५ नं समयविमलानन्दनाथ कुलिकापराम्बा नं ५ |
(५) इत्यग्निकोणे ॥ ५ लमयरूं मित्रेशानन्दनाथ कुब्जिकापराम्बा लमयरूं ५ श्री |
५ वमयरूं उड्डीशानन्दनाथ लघ्वीपराम्बा वमयरूं ५ |
५ रमयरूं षष्ठीशानन्दनाथ कुलेश्वरीपराम्बा रमयरूं ५ |
५ यमयरूं चर्यानन्दनाथ कुलकौलेश्वरीपराम्बा यमयरूं ५ |
(४) इति नैर्ऋत्यकोणे ॥ अथ ध्यानम्— पीतं श्यामं कृष्णरक्तं शुक्लं भास्करसन्निभम् |
चतुष्काद्याः क्रमात्सर्वे वरदाभयसंयुताः ॥ १ ॥ चतुष्कं पञ्चकं षट्कं चतुष्कं पञ्चकं पुनः |
चतुष्कमिति संभिन्नाः क्रमात् पार्थिवरश्मयः ॥ २ ॥ पुनर्देवदेव्योस्त्रिधा संपूज्य पुनर्गुरुक्रमं नत्वा स्तुत्वा मनुं च जप्त्वा पार्थिवक्रममाचरेत् |
इति नवात्मेश्वरक्रमः ॥ अथायुधपूजा—“आयुधानि यजेत् पश्चात् कराग्रेषु च मन्त्रवित् |
” ५ हं ब्रह्मकपालाय हं ५ नमः |
एवं ५ सं त्रिशूलाय सं० ५ |
त्तं चक्राय त्तं |
मं ध्वजाय मं |
लं वराय लं |
वं ब्रह्मपादाय वं |
यं पारिभद्रप्रसूनाय यं |
रं जाप्यमालायै रं |
उं पुस्तकाय उं |
अं अभयाय अं |
श्रीपादुकां पूजयामि तर्पयामि नमः सर्वत्र |
मानसादिपृथिव्यन्तं रश्मीन् भावयेत् पुंसः [पाठसंदेहाः: ८ नीलोत्पलशताकर(तच्छद)म् इति सकोष्ठकः पाठः; अनङ्कितार्धश्लोके सिंहासनमत्रासनम् अस्पष्टम्; लमयरूं इत्यादिबीजान्ताः संयुक्ताक्षररूपेण अस्पष्टाः, न निश्चिताः; उड्ड्येश्वर, पूर्णागिरिज, आवट्य, मदघ्नेश इति नामपाठाः|
टिप्पणी: “कालं” क. पाठः|
]

Druckseite 813

Zuordnung zur deutschen Fassung: 34.BHP, 34.NAP, 34.STP, 34.SHP.

स्त्रियस्तथा क्रमादानन्दनाथेति पराम्बेत्यादयुदीरिताः |
श्रीपादुकां तर्पयामि नमो वदेत्, अर्चयेदर्चकेन्द्रः पूजयामीति, निर्वाणगुरुसंप्रदायमवलम्ब्य कल्पिते ललितेश्वरविरचिते शिवषडन्वयार्चने |
श्रीनाथादिमुखाम्भोजात् पारम्पर्ययुतं जपेत् |
उपदिष्टं मन्त्रजातमूर्ध्वाम्नायादिगोचरम् ॥ १ ॥ तत् सर्वमस्मिन् समये पीठपूजादिकं विना |
पारम्पर्यगुरुनाथमूलविद्याङ्गसन्ततिः ॥ २ ॥ अङ्गपूजासमर्चान्ते बहिः पूजां तु बाह्यतः |
नवात्ममण्डले तत्र महापूर्वश्मशानके ॥ ३ ॥ अनेककोटियोगीन्द्रयोगिनीभैरवादिभिः |
सेव्यमाने द्वारपेन्द्रविधिब्रह्माभिमूर्तिभिः ॥ ४ ॥ त्रिभिर्निशाटनाद्यैश्च पालकैर्द्वारमण्डले |
प्रयागाख्ये शुचिक्षेत्रे षडङ्गज्योतिष्मतीयुते ॥ ५ ॥ परापरमहापीठं संश्रितं श्रीनवात्मकम् |
देवेशमर्चयेद्देवं गन्धपुष्पाक्षतादिभिः ॥ ६ ॥ श्रीमहार्थे तथान्यं च श्रीविद्यादिक्रमेण च |
एतत्सर्वं समानं स्याच्छ्रीशम्भोस्तु नवात्मकम् ॥ ७ ॥ धूपदीपौ प्रदर्श्याथ बहुव्यञ्जनसंयुतम् |
नैवेद्यं षड्रसोपेतं पुरतः स्थाप्य देशिकः ॥ ८ ॥ अन्नपूर्णेश्वरीन्यासं ध्यानं कुर्याद्यजेत् पुनः |
[मुद्रितग्रन्थे पाठलोपः] ॥ ह्रीं भुवनायै नमः |
श्रीं कमलायै नमः |
क्लीं सुभगायै नमः |
ॐ परविद्यायै नमः |
मूलाधारहृद्भ्रूमध्यब्रह्मरन्ध्रेषु विन्यसेत् |
ब्रह्मरन्ध्रादि ब्राह्म्यादिन्यासं कुर्यात् स्वदेहके |
नैवेद्ये भावयेत् पद्मं वसुपत्रं सकर्णिके ॥ १ ॥ त्रिकोणं चाथ तन्मध्ये परदेवीं विभावयेत् |
भुवनाद्यास्तथा कोणेष्वथ दक्षेतरेषु च ॥ २ ॥ ब्राह्म्याद्याश्चाष्टपत्रेषु न्यासवत् सर्वमर्चयेत् |
नैवेद्यं सपरिवाराय देवदेव्योः समर्पयेत् ॥ ३ ॥ सौभाग्यदेवतायास्तु स्वनैवेद्यं समर्चयेत् |
[मुद्रितग्रन्थे पाठलोपः] ॥ तदीयबलिं वृत्तचतुरस्रमण्डले, व्यापकमण्डलाय नम इत्यभ्यर्च्य, ॐ ह्रीं सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यो हुं फट् स्वाहा, अनेन बलिं दत्त्वा गण्डूषादिराजोपचारान् |
“तत्त्वत्रयविशुद्धात्मा स्वीकुर्याद्विधिपूर्वकम्” ॥ ५ ऐंह्रीं अघोरे हंसः ५ आत्मतत्त्वं शोधयामि स्वाहा |
५ ह्रीं परमघोरे हुं घोररूपे ह्रीं घोरमुखि भीमभीषणे वमपिब [बीजाक्षरमाला अस्पष्टा] विद्यातत्त्वं शोधयामि स्वाहा |
५ सर्वतत्त्वसमष्टिसंब (शिव) तत्त्वं शोधयामि स्वाहा |
तत्त्वत्रयविशुद्धात्मा पूर्णपात्रत्रयं पुनः |
गुरुभैरवशक्तिभ्यो निवेद्याथ स्वयं पुनः ॥ १ ॥ स्वकीयाना हृतान्यांश्च पूजयेच्च यथाविधि |
[मुद्रितग्रन्थे पाठलोपः] ॥ इति स्थूलपूजा ॥ अथ संहारपूजार्थं श्रीनाथं पूजयेत् त्रिशः |
तदनुज्ञामवाप्याथ पूर्ववत् पारिवारितः ॥ १ ॥ मानसान्तं क्रमान् कृत्वा तत्तत्क्रमफलं लभेत् |
आज्ञाद्याधारषट्पद्मेषु चतुष्कादिक्रमाचर्नम् ॥ २ ॥ तत्तत्स्थानेषु संपूज्य यतः पश्चक्रमात्ततः |
अर्चयेदुत्क्रमार्गेण श्रीगुरोरुपदेशतः ॥ ३ ॥ चूलीमूले परशम्भुः शाम्भवी योनिमध्यतः |
षोडशान्ते परा पूज्या भा पूज्या चूलिमूलके ॥ ४ ॥ [पाठसंदेहाः: बाह्यपूजा ४ द्वारपालनामानि, ५ षडङ्गज्योतिष्मतीयुते; शोधनमन्त्रेषु बीजानि; स्थूलपूजानन्तरम् स्वकीयाना हृतान्यांश्च इति आहूतान्यांश्च इत्यपि सम्भवति|
टिप्पणी: “सर्वतत्त्वं ५ शोधयामि” ग. पाठः|
]

Druckseite 814

Zuordnung zur deutschen Fassung: 34.SHP, 34.TAR, 34.SCA, 34.NDG.

चिन्मनोमन्दिरोद्देशे महा नाभितले स्मृता |
कन्दे चेच्छा मेढ्रे सृष्टिः स्थितिर्मेदसि संस्थिता ॥ ५ ॥ तिरोधा नासिकाग्रे तु मुक्तिं शूलपथे श्रयेत् |
ज्ञाना पृष्ठाग्रके पूज्या सती योनिबिले स्मृता ॥ ६ ॥ असती लम्बिकामूले सदसती नसाश्रये |
क्रियां च लिङ्गमूले तु अण्डे आत्मावतीं श्रयेत् ॥ ७ ॥ लिङ्गाधो विषयेच्छा तु गोचरी चर्ममालके |
लोका नेत्रान्तरे वेदा संचिन्त्योदरमध्यतः ॥ ८ ॥ कुण्डली नाभिमूले तु सौष्मणगुष्मणाविले (?) |
जीववायुप्राणसूत्रास्पदकोदहृदमध्यतः ॥ ९ ॥ मातृका कर्णिकाग्रे जिह्वायां स्यादनामिका |
वर्णावती च जिह्वाग्रे स्वरवर्णाश्च तालुके ॥ १० ॥ वर्गजा ओष्ठयोः पूज्याः संयोगा दन्ततालुके |
कण्ठोर्ध्वे मन्त्रवती नित्यं पूज्या प्रकीर्तिता ॥ ११ ॥ ततः परं वामभागे मण्डलं चतुरस्रकम् |
[मुद्रितग्रन्थे पाठलोपः] ॥ चतुर्दलपद्मं विभाव्य, तन्मध्ये चिन्तयेद्देवीं ललितां श्यामविग्रहाम् |
कराभ्यां दक्षवामाभ्यां पद्मं नीलोत्पलं तथा ॥ १२ ॥ बिभ्राणां कुलचण्डं च ध्यात्वानेन प्रपूजयेत् |
[मुद्रितग्रन्थे पाठलोपः] ॥ ५ श्रीं कुलचण्डाय श्रीं ५, इति चण्डबलिं दद्यात् |
तर्पयेन्मूलविद्याभ्यां प्रत्येकं सप्तसप्तधा |
श्रीगुरोः पादुकां स्मृत्वा सप्तवारं च तर्पयेत् ॥ १ ॥ ततः पात्रं समुद्धृत्य कराभ्यां मस्तकावधि |
अहन्तेदन्तयोरैक्यप्रतिपत्त्या निवेदयेत् ॥ २ ॥ स्वावरणमध्यस्थं ब्रह्मरन्ध्रे लयं नयेत् |
[मुद्रितग्रन्थे पाठलोपः] ॥ नानागोत्रजातिश्रीचर्याधिकार-श्रीपदाधिष्ठानाधिकार-एकद्विनवद्वादशषोडशपञ्चाशचतुरशीतिसिद्धभूतवर्तमानभविष्यतादिगुरुनाथपादुकाः, इत्यादिस्थाने लयः |
सर्वं व्याहृतिसंस्थानो भूदेव्याः शम्भुशक्तयः |
[मुद्रितग्रन्थे पाठलोपः] ॥ नमो मम मनसि स्थिताय नाथाय यत्कर्मकार्यपराय स्वाहा |
चरणं पवित्रमित्यादिवेदमागममेव च |
शाम्भवं चरणं ध्यात्वा सच्चिदानन्दलक्षणम् ॥ १ ॥ पवित्रं परमं साक्षात् पुराणं परमामृतम् |
येन पूता महात्मानः क्षणात् संसारसागरात् ॥ २ ॥ समुत्तीर्य परानन्दं भुञ्जते परशाम्भवम् |
तस्मिंश्चित्तलयं कृत्वा तद्रूपोऽहमिति स्मरन् ॥ ३ ॥ एतद्रहस्यमत्यन्तं वैदिके शाम्भवेऽपि च |
एतद्गुरुमुखाज्ज्ञात्वा न भूयो भुवि जायते ॥ ४ ॥ आबध्य कमटीमुद्रां पुनर्योगं समभ्यसेत् |
इत्यानन्दयतः पुंसः प्राणबुद्धिलयो भवेत् ॥ ५ ॥ इति श्रीषडन्वयशाम्भवरश्मिपूजाक्रमः ॥ अथ नवदुर्गाविधानं रुद्रयामले |
श्रीईश्वर उवाच |
अथ वक्ष्ये सुरेशानि नवदुर्गाविधानकम् |
यज्ज्ञात्वा साधकः सर्वः षट् कर्माणि प्रसाधयेत् ॥ १ ॥ शान्तिः पुष्टिस्तथा वश्यं मारणोच्चाटकर्मणी |
आकर्षणं तथा केचित् षट् कर्माणि नियोजयेत् ॥ २ ॥ मार्कण्डेयपुराणोक्तं देवीमाहात्म्यमुत्तमम् |
मूलमन्त्रेण पुटितं जपन् वाञ्छितमाप्नुयात् ॥ ३ ॥ अत्र मूलमन्त्रं प्राग्दुर्गाप्रकरणोक्तनवार्णकं श्रीविद्यासंवलितं यथा—ऐंह्रींश्रीं कएईलह्रीं चामुण्डायै हसकह- [पाठसंदेहाः: संहारपूजा ५ मेढ्रे/मेदे, ९ सौष्मणगुष्मणाविले (?) इति मुद्रितप्रश्नचिह्नयुक्तः पाठः, अनन्तरं जीववाय्वादिपाठः क्षतः; गुरुपादुकासमासस्य केचन सम्बन्धाः; ५ कमटीमुद्रा|
पाठभेदः: नसाश्रये इत्यत्र रसनाश्रये ग.|
]

Druckseite 815

Zuordnung zur deutschen Fassung: 34.NDG.

लह्रीं विच्चे सकलह्रीं |
एवं श्रीविद्यासंवलितनवार्णमन्त्रं देवीमाहात्म्यस्याद्यन्ते संपुटत्वेन संयोज्य देवीमाहात्म्यं पठेदित्यर्थः |
तथा— शतमादौ शतं चान्ते जपेन्मन्त्रं नवाक्षरम् |
चण्डीसप्तशतीजाप्ये संपुटोऽयमुदाहृतः ॥ ४ ॥ सकामं संपुटं जाप्यं निष्कामं संपुटं विना |
आश्विनस्य सिते पक्षे तृतीयायामुपक्रमेत् ॥ ५ ॥ आमध्यरात्रं भजयेत्तु भानोरुदयतः क्रमात् |
एवं मूलमनुं जप्त्वा ततः सप्तशतीं पठेत् ॥ ६ ॥ मूलमनुं विद्यायुक्तं, पाठोऽपि विद्यायुक्तनवार्णमन्त्रसंपुटितदेवीमाहात्म्यस्य |
संपुटक्रमस्तु प्रागुक्तः “शतमादौ शतं चान्ते” इत्यादि ज्ञेयम् |
तथा— अष्टम्यन्तं जपेन्नक्तं निराहारो जितेन्द्रियः |
संपूज्य दिनशो देवीं ततो होमं समाचरेत् ॥ ७ ॥ अत्र षड्दिनेषु यथा लक्षं पूर्णं भवेत्तथा जपेदिति |
दशांशतो भक्तियुतः पायसैः सर्पिषा तिलैः |
ब्राह्मणान् भोजयेत् पश्चात् कुमारीश्च प्रभोजयेत् ॥ ८ ॥ इष्टार्थं लभते मन्त्री नात्र कार्या विचारणा |
प्रथमं चरितं प्रोक्तं मधुकैटभनाशनम् ॥ ९ ॥ द्वितीयं चरितं प्रोक्तं महिषासुरघातनम् |
तृतीयं चरितं शुम्भनिशुम्भहरणं तथा ॥ १० ॥ प्रथमस्य चरित्रस्य मुनिर्ब्रह्मा समीरितः |
गायत्रं छन्द आख्यातं महाकाली तु देवता ॥ ११ ॥ वाग्भवं बीजमाख्यातमग्निस्तत्त्वं महेश्वरि |
धर्मार्थे विनियोगः स्याद्वाग्बीजोक्तं समाचरेत् ॥ १२ ॥ षडङ्गं ध्यानमिति शेषः |
द्वितीयस्य चरित्रस्य मुनिर्विष्णुरुदीरितः |
छन्द उष्णिग् महालक्ष्मीदेवतात्र समीरेता ॥ १३ ॥ हृल्लेखा बीजमुदितं वायुस्तत्त्वं महेश्वरि |
विनियोगोऽर्थसंप्राप्त्यै हृल्लेखोक्तं समाचरेत् ॥ १४ ॥ उत्तरस्य चरित्रस्य ऋषी रुद्रः समीरितः |
त्रिष्टुप् छन्दो महत्पूर्वा देवतात्र सरस्वती ॥ १५ ॥ बीजं तु कामराजं स्याद्रविस्तत्त्वं समीरितम् |
कामाप्त्यै विनियोगः स्यात् कामराजोक्तमाचरेत् ॥ १६ ॥ एवमृष्यादिकं स्मृत्वा प्राग्वद् ध्यात्वा समाहितः |
ध्यानपूर्वं पठेच्चण्डीं सुस्पष्टपदवर्णकाम् ॥ १७ ॥ एवं यः कुरुते देवि न दुःखं प्राप्नुयात् क्वचित् |
धनैर्धान्यैर्यशोभिश्च सुभगः पुत्रपौत्रकैः ॥ १८ ॥ संयुक्तः सुचिरं जीवेद्विद्यावान् स शतं समाः |
प्रथमं चरितं देवि सृष्टिरूपं न संशयः ॥ १९ ॥ द्वितीयं स्थितिरूपं स्यात् तृतीयं लयरूपकम् |
पूर्वोक्तविधिना साध्वि साधकस्तु सुबुद्धिमान् ॥ २० ॥ अत्र सृष्ट्यन्तता स्थित्यन्तता संहारान्तता |
तत्फलानि चाश्रमभेदेन प्राग्वद्बोध्यानि |
असाध्यं साधयेच्छीघ्रं यदि कार्यं न सिध्यति |
पाठमात्रेण सिध्यन्ति नात्र कार्या विचारणा ॥ २१ ॥ देव्यालये शिवागारे पठेद्देवि यजेत् तदा |
दीपं दत्त्वा घृतेनैव जपेन दशकेन च ॥ २२ ॥ धूपयेद्गुग्गुलैर्देवीं मनसा चिन्तयन् सदा |
दशावृत्त्या सदा नित्यं शुचिभूतो समाहितः ॥ २३ ॥ अधःशायी हविष्याशी पुरश्चरणरूपतः |
शतावर्तं जपेदादौ पुरश्चरणसिद्धये ॥ २४ ॥ तद्दशांशेन जुहुयान्मूलमन्त्रेण साधकः |
नमो देव्यै महादेव्यै शिवायै सततं नमः ॥ २५ ॥ नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् |
अनेन वा प्रजुहुयाद्द्रव्यैः प्राक् समुदीरितैः ॥ २६ ॥ [पाठसंदेहः: ६ भानोरुदयतः इति मुद्रिताक्षराणि अस्पष्टानि; सूर्योदयस्य अर्थः प्रसङ्गानुसारः|
]

Druckseite 816

Zuordnung zur deutschen Fassung: 34.NDG.

अत्र केचित् “जयन्ती मङ्गला काली” इति श्लोकरूपमन्त्रेण वा दशांशं जुहुयादिति |
अत्र शतचण्डीविधानस्य मूलमन्त्रेण श्लोकरूपमन्त्रेण वा, दशांशहोमस्तु अयुतसंख्याकः |
“प्रतिश्लोकेन जुहुयात् पायसं तिलसर्पिषा”, इति विधौ प्राग्वत् शतमादौ शतं चान्ते संपुटक्रमेण मूलमन्त्रहोम आवश्यकः |
अत्रापि तर्पणब्राह्मणसंतर्पणादिकं पूर्ववद्दशांशेन कृत्वा पुरश्चरणं समाप्य काम्यकर्माणि कुर्यात् ॥ तथा— अनुलोमेन यज्जाप्यं शुभकर्म प्रसिध्यति |
विलोमेन तदा देवि क्रूरकर्म प्रसिध्यति ॥ २७ ॥ चरित्रं प्रथमं देवि नित्यं जपति साधकः |
द्वितीयं वा तृतीयं वा संपूर्णं वापि पठ्यते ॥ २८ ॥ तस्य सिद्धिर्न सन्देहो ध्रुवं चेति वरानने |
अक्षराणां पदानां च पादानामर्धरूपिणाम् ॥ २९ ॥ श्लोकानां च तथा प्रोक्तमध्यायानां विलोमतः |
निधनोच्चाटने द्वेषः स्तम्भनं मोहनं तथा ॥ ३० ॥ वश्यादीनि च कर्माणि प्रसिध्यन्ति क्रमेण वै |
ग्रथनादिप्रभेदं तु प्राक् प्रोक्तविधिना चरेत् ॥ ३१ ॥ ग्रथनादि यथा मन्त्रे तथा श्लोकाः स्तवे शुम्भे |
[अर्धश्लोकः] ॥ शुम्भे स्तवे देवीमाहात्म्ये |
अत्रायमर्थः—मन्त्राणान्तरितसाध्यनामार्णं ग्रथनं मन्त्रेषु |
अत्र तु श्लोकान्तरितसाध्यनामाक्षरं ग्रथनमित्यर्थः |
श्लोकद्वयान्तरितसाध्यनामार्णो विदर्भः |
संपुटक्रमस्तु—देवीमाहात्म्यमनुलोमेन पठित्वा अमुकं स्तम्भय स्तम्भय इत्युच्चार्य पुनर्देवीमाहात्म्यमक्षरप्रतिलोमेन पठेदित्येकावृत्तिः |
एवमग्रेऽपि |
रोधनप्रकारस्तु |
अर्धं देवीमाहात्म्यस्य पठित्वाऽनुलोमेन अमुकामुकयोर्विद्वेषणं कुरुकुरु इत्युच्चार्योत्तरार्धमर्धप्रतिलोमेन पठेदित्येकावृत्तिः |
एवमग्रेऽपि ॥ “आदौ योगो भवेदन्ते पल्लवसंपुटयो”रित्यत्रोच्चाटने योगो मारणे पल्लवः इति संप्रदायः |
तेन “अमुकमुच्चाटय उच्चाटय फट्” |
ततः पादप्रतिलोमेन देवीमाहात्म्यं पठेदित्येकावृत्तिः |
एवमग्रेऽपि |
कार्मणे तु अक्षरप्रतिलोमेन देवीमाहात्म्यं पठित्वा अन्ते “अमुकं हनहन हुं फट्” इति पठेदित्येकावृत्तिरेवमग्रेऽपि |
ग्रथनक्रमरीत्या विदर्भक्रमो वश्ये |
तथा— संहारसृष्टिस्थित्यन्तं कार्मणोत्कीलनं स्मृतम् |
एतस्य वैपरीत्येन स्तम्भनोत्कीलनं भवेत् ॥ ३२ ॥ स्थितिसंहारसृष्ट्यन्तमुच्चाटोत्कीलनं स्मृतम् |
सृष्टिसंहारस्थित्यन्तं विद्वेषोत्कीलनं तथा ॥ ३३ ॥ उत्कीलनक्रमो देवि तवाग्रे कथितो ध्रुवम् |
येन ज्ञातेन देवेशि त्रैलोक्यविजयो भवेत् ॥ ३४ ॥ उत्कीलनं विना कान्ते स्थितिः कापि न जायते |
जपित्वोत्कीलनं चादौ त्रिखण्डं श्रांश्रितं जपेत् ॥ ३५ ॥ त्रिखण्डं चरितत्रयम् |
श्रांश्रितं प्राक्सृष्ट्यन्तता स्थित्यन्तता संहारान्तता |
अयमर्थः—चरितत्रयं क्रमेण सृष्टिस्थितिलयरूपं प्रोक्तक्रमेणोत्कीलनं नामपल्लवादिकं विना प्रथमतो जपित्वा ततः प्रयोगरूपेण जपेत् |
संपुटकर्मणादौ प्रयोगमध्येऽनुग्रहं कर्तुमिच्छति तदानुग्रहधोक्तनामपल्लवादिकं संयोज्य यावत् स्वास्थ्यं तावदुत्कीलनमेव जपेदित्यर्थः |
केचिदुत्कीलनादौ नामपल्लवादिकं न योज्यमिति वदन्ति, यथागुरूपदेशं कार्यमिति |
तथा— साध्यं कार्मणकर्मादौ वक्ष्येऽहं शृणु पार्वति |
सर्वभूतस्य चोरारिहिंसकाः पिशुनाः शठाः ॥ ३६ ॥ ते साध्याः कार्मणे प्रोक्ताः कर्मारम्भदिनं शृणु |
भूताष्टम्यां चतुर्दश्यां साधयेत् साधकोत्तमः ॥ ३७ ॥ दशधा पञ्चधा वापि सप्तधा वा त्रिधापि च |
देव्यालये पठेद्देवि विलयः सिध्यति क्षणात् ॥ ३८ ॥ विना न्यासं विना ध्यानं विना भूतविशोधनम् |
पाठमात्रेण सिध्यन्ति मन्त्रिणो नात्र संशयः ॥ ३९ ॥ [पाठसंदेहाः: ३५ श्रांश्रितं तथा व्याख्यायां तद्रूपं अस्पष्टम्; अनुग्रहधोक्त इति व्याख्यापाठः क्षतः|
पाठभेदः: निधनोच्चाटने इत्यत्र निधनं चाटने ग.|
]

Druckseite 817

Zuordnung zur deutschen Fassung: 34.VCF.

सिन्दूरैरपि देवि पूजां कुर्यात् समाहितः |
[मुद्रितग्रन्थे पाठलोपः] ॥ इति |
वाराहीतन्त्रे— चण्डीपाठफलं देवि शृणुष्व गदतो मम |
एकावृत्त्यादिपाठानां यथावत् कथयामि ते ॥ १ ॥ संकल्प्य पूर्वं संपूज्य न्यस्याङ्गेषु मनून् सकृत् |
पाठाद्बलिप्रदानाद्धि सिद्धिमाप्नोति मानवः ॥ २ ॥ उपसर्गोपशान्त्यर्थं त्रिरावर्तं पठेन्नरः |
ग्रहोपशान्तौ कर्तव्यं पञ्चावर्तं वरानने ॥ ३ ॥ महाभये समुत्पन्ने सप्तावर्तमुदीरयेत् |
नवावृत्त्या भवेच्छान्तिर्वाजपेयफलं भवेत् ॥ ४ ॥ राजवश्याय भूत्यै च रुद्रावृत्तिमुदीरयेत् |
अर्कावृत्त्या कार्यसिद्धिर्वैरिहानिश्च जायते ॥ ५ ॥ मन्वावृत्त्या रिपुर्वश्यस्तथा स्त्री वश्यतामियात् |
सौख्यं पञ्चदशावृत्त्या श्रियं चाप्नोति मानवः ॥ ६ ॥ कलावृत्त्या पुत्रपौत्रधनधान्यागमं विदुः |
राज्ञां भीतिविनाशाय वैरिप्रोच्चाटनाय च ॥ ७ ॥ कुर्यात् सप्तदशावृत्तिं तथाष्टादशकं प्रिये |
महाव्रणविनाशाय विंशावर्तं पठेत् सुधीः ॥ ८ ॥ पञ्चविंशावर्तनात्तु भवेद्बन्धविमोक्षणम् |
सङ्कटे समनुप्राप्ते दुश्चिकित्स्यामये तथा ॥ ९ ॥ जातिध्वंसे कुलोत्सादेऽप्यायुषो नाश आगते |
वैरिवृद्धौ व्याधिवृद्धौ धननाशे तथा क्षये ॥ १० ॥ तथैव त्रिविधोत्पाते तथा चैवातिपातके |
कुर्याद्यतात्मा शतावृत्तिं तया संपद्यते सुखम् ॥ ११ ॥ श्रियो वृद्धिः शतावृत्त्या राज्यवृद्धिस्तथा परा |
मनसा चिन्तितं देवि सिध्येदष्टोत्तराच्छतात् ॥ १२ ॥ शताश्वमेधयज्ञानां फलमाप्नोति सुव्रते |
सहस्रावर्तनाल्लक्ष्मीर्वृणोति स्वयं स्थिरा ॥ १३ ॥ भुक्त्वा मनोरमान् कामान् नरो मोक्षमवाप्नुयात् |
यथाश्वमेधः क्रतुराड् देवानां च यथा हरिः ॥ १४ ॥ स्तवानामपि सर्वेषां तथा सप्तशतीस्तवः |
(नातः परतरं किञ्चित् स्तोत्रमस्ति वरानने ॥ १५ ॥ भुक्तिमुक्तिप्रदं पुण्यं पावनानां च पावनम् |
) अथवा बहुनोक्तेन किमनेन वरानने ॥ १६ ॥ चण्ड्याः शतावृत्तिपाठात् सर्वाः सिद्ध्यन्ति सिद्धयः |
[मुद्रितग्रन्थे पाठलोपः] ॥ इति |
अत्र प्रयोगस्तु—क्वचिद्देव्यालये शिवालये वा प्रागुक्तक्रमेण स्वासनोपरि प्राङ्मुख उदङ्मुखो वा उपविश्याचम्य, श्रीविद्यासंवलितनवार्णमन्त्रेण प्राणानायम्य ऋष्यादिकरषडङ्गन्यासध्यानानि प्राक्प्रोक्तक्रमेण विधाय संकल्पं कुर्यात् |
अद्यामुके मासि अमुकपक्षे अमुकतिथौ अमुकगोत्रोऽमुकदेवशर्मा श्रीमहाकालीमहालक्ष्मीमहासरस्वतीप्रीतिपूर्वकामुककामनासिद्धिकामोऽद्यारभ्यामुकदिनं यावत् प्रत्यहं द्वादशावृत्त्या नवावृत्त्या त्रिरावृत्त्या वा नियमतः शतसहस्रावृत्तिसंख्याकं “सावर्णिः सूर्यतनयो” इत्यादि “सावर्णिर्भविता मनुः” इत्यन्तं मार्कण्डेयपुराणान्तर्गतदेवीमाहात्म्यपाठं नवार्णसंपुटत्वेन करिष्ये इति संकल्प्य, पुस्तकं संपूज्य पुस्तकं दृष्ट्वा हस्ते धृत्वा पाठं कुर्यात् |
प्राणायामर्ष्यादिकरषडङ्गन्यासध्यानपूर्वकं नवार्णमन्त्रमाद्यन्तेऽष्टोत्तरशतमष्टोत्तरशतं जपेत् |
मौनी ध्यानपरायणो मध्येऽन्यत्र वार्तालापमकुर्वन्नस्खलिताक्षरं स्पष्टपदोच्चारणं कुर्वन् यथासंख्यया नियमतः प्रत्यहं तावत्संख्याकपाठं कुर्यात् प्रोक्तसिद्धिर्भवेत् |
इति सप्तशतीपाठविधिः ॥ अत्र ग्रथनादिभेदक्रमेणानुलोमपाठादपि तत्तत्प्रयोगाः सिद्ध्यन्ति |
अथवा प्रोक्तक्रमेण वर्णप्रतिलोम-पद- [पाठसंदेहाः: आद्यर्धश्लोके सिन्दूरैरपि इति; १३ स्वयं स्थिरा; संकल्पे शतसहस्रावृत्ति इत्यस्य संख्याविभागः; पुस्तकं दृष्ट्वा हस्ते धृत्वा इत्यत्र मुद्रितपाठः अस्पष्टः|
पाठभेदाः: २ संकल्पपूर्वः, पठनाद्बलिदानात्; ३ साधकः, शान्त्यै; ५ काम°, वैरिनाशः; ७ विमोक्षाय; ८ नाशहेतवे; ११ कुर्याद्बलाच्छतावर्तं तया; १२ परे; १३–१४ रमा भुक्त्वा मनोरथान् दिव्यान्; १४ क्रतुषु; १६ बहुना किमिहोक्तेन|
]

Druckseite 818

Zuordnung zur deutschen Fassung: unnummerierte Prosa und Formeln, Fortsetzung der vorausgehenden Reihe.

प्रतिलोम-पादप्रतिलोमार्धश्लोकप्रतिलोम-श्लोकप्रतिलोमाध्यायप्रतिलोमानां च ग्रथनादियोगात् तत्तत्प्रयोगाः सिद्ध्यन्त्येव, ग्रथनादिकं विनापि सिद्ध्यन्त्येव |
एवमुभयथा विलोमक्रमाणां सिद्धिः |
अनुलोमक्रमस्य ग्रथनादिकं विना प्रयोगा न सिध्यन्ति, तत्र ग्रथनादिक्रम आवश्यकः |
विलोमपाठानामुभयथानुलोमपाठानामेकधा इति सर्वं गुरुतः शास्त्रतश्च सम्यग् ज्ञात्वा प्रयोगादिकं कुर्यात् |
प्रथमादिचरित्रत्रयस्य पृथक् पृथक् पाठस्य धर्मार्थकामा यथाक्रमं फलानि बोध्यानि |
चरितत्रयपाठस्य चतुर्वर्गफलसिद्धिः |
केवलं मोक्षकामस्य संपुटं विना पाठः |
“गृही ससंपुटं कुर्यान्मोक्षार्थं संपुटं विना” |
इति वाराहीतन्त्रोक्तत्वात् गृहस्थः संपुटं विना न पठेदिति |
अत्र “सावर्णिः सूर्यतनयः” इत्यादि सावर्णिर्भविता मनुरित्यन्तं पाठक्रमः ॥ इति श्रीमहामहोपाध्यायवर्यभगवत्पूज्यपाद-श्रीगोविन्दाचार्यशिष्य-श्रीभगवच्छङ्कराचार्यशिष्य-श्रीविष्णुशर्माचार्यशिष्य-श्रीप्रगल्भाचार्यशिष्य-श्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे चतुस्त्रिंशः श्वासः ॥ ३४ ॥

35. Śvāsa

Die Druckseiten 818 unten bis 868 oben sind bis zum Kolophon erfasst: 914 nummerierte Einträge sowie unnummerierte Prosa, Mantras, Meditationen und Listen. Die Zuordnung erfolgt über Kapitel, Abschnittskürzel und Druckseite zu Übersetzung Teil 6. Der fehlende Vers YAV8 und die wiederholte Zählung63–64 (neuer Abschnitt YAW) werden nicht geglättet.

Redaktionelle Ausnahmen: 35.YAW.106b–109 (S.846), 35.SAY.12 (S.848), 35.SAY.20b–21 sowie26–29 mit Schluss-Halbvers (S.849), 35.SAY.31 und39b (S.850): operative Giftanwendungen zur Schädigung gekennzeichnet ausgelassen. Lokale Lesungsunsicherheiten und Punktlücken bleiben sichtbar. Kurzzeichen und Wiederholungszahlen sind keine eigenständigen Mantralaute.

Druckseite 818

Zuordnung zur deutschen Fassung: 35.TRP.

अथ पञ्चत्रिंशः श्वासः |
तत्र श्रीतन्त्रराजे—(२७ शे पटले) अथ षोडशनित्यानां कालेन प्राणतोच्यते |
मातृकाभूतनाथाद्यैः श्रीचक्रेण च शक्तिभिः ॥ १ ॥ अत्र कालेनाहोरात्ररूपकालेन |
प्राणतः श्वासरूपतोच्यते इत्यर्थः |
क्रममाह—मातृकेति, मातृकया पञ्चभूतेनाथाद्येनैवनाथैरादिपदेन नवग्रहराश्यादीनां संग्रहः |
श्रीचक्रेण शक्तिभिरावरणदेवताभिः सहोच्यते इत्यन्वयः |
तथा— लवादीनां तु कालस्य दुर्लक्ष्यत्वात्तदीरितम् |
तेनैकश्वासमारभ्य तत्संख्याभिः क्रमेण वै ॥ २ ॥ अहोरात्रस्य तद्व्याप्तिमुक्त्वा तेनान्यदूहयेत् |
विशेषांश्चान्तराद् बाह्यात्तत्तत्सिद्ध्युपपादकान् ॥ ३ ॥ अत्र कालस्यातीन्द्रियत्वात् तत्रापि लवादीनां दुर्लक्ष्यत्वादनुमानेनापि निश्चेतुमशक्यत्वात् तदुदीरितं श्वासक्रम इत्यर्थः |
वक्ष्यमाणरीत्याहोरात्रस्य तद्व्याप्तिं श्वासक्रमे ज्ञात्वा, विशेषांश्चान्तरान् बाह्यान् तत्तत्सिद्ध्युपपादकांश्च वक्ष्यमाणदिशा ऊहयेदित्यर्थः |
मूलाधारोद्भवो वायुः प्राणाद्याख्यां समश्नुते |
स तु पञ्चविधो भूतभेदादुद्भवदेशतः ॥ ४ ॥ [पाठसंदेहः: व्याख्यायां नाथाद्येनैवनाथैः इति मुद्रिताक्षराणि अस्पष्टानि; नव नाथाः इत्यर्थः सम्भावितः|
पाठभेदः: “एकं श्वासं समारभ्य” ख.|
]

Druckseite 819

Zuordnung zur deutschen Fassung: 35.TRP.

एक एव वायुः प्राणापानव्यानोदानसमानसंज्ञां लभते |
उद्भवदेशमाह— नासायाः पुटयोः पार्श्वतुङ्गमध्याधरध्रगाः |
प्राणाग्नी लाम्बुखात्मानः पवनाः स्युर्यथाक्रमम् ॥ ५ ॥ अत्र नासायाः पुटयोः पार्श्वस्पर्शेन वायुतत्त्वोदयः, ऊर्ध्वभागस्पर्शेनाग्नितत्त्वोदयः, मध्ये दण्डे स्पर्शेन इलातत्त्वोदयः, अधःस्पर्शेनाम्बुतत्त्वोदयः, रन्ध्रयोः परितः स्पर्शेन खतत्त्वोदयः |
एवं यथाक्रमं बोद्धव्यमित्यर्थः |
तथा— गुरुकेतू भृगुकुजौ बुधार्कौ चन्द्रधर्मजौ |
क्रमाच्चतुर्षु भूतेषु व्योम सर्वात्मकं भवेत् ॥ ६ ॥ उभयस्थो भवेद्राहुश्चन्द्रसूर्यौ पुटौ क्रमात् |
वामदक्षौ तयोस्तस्य प्रवेशो निर्गमस्तथा ॥ ७ ॥ जीवश्चन्द्रो रविः शून्यो भागः स्त्रीपुरुषौ तथा |
पृथिवी सलिलं चन्द्रो रविरन्यत् त्रयं भवेत् ॥ ८ ॥ ग्रहेषु चन्द्रो भृग्विन्दुगुरुज्ञा भास्कराः परे |
मातृकां च तथा विद्यात् स्वरव्यञ्जनभेदतः ॥ ९ ॥ अधः पृष्ठं च चन्द्रः स्यादूर्ध्वाग्रे दिनकृद्भवेत् |
शरीरेऽपि कटेरूर्ध्वं चन्द्रोऽधो रविरीरितः ॥ १० ॥ अस्तीति वाक्यं चन्द्रः स्यान्नास्तीत्युक्तौ रविः स्मृतः |
शुक्लकृष्णौ तथा पक्षाविति चन्द्रा दशान्तराः ॥ ११ ॥ एवं त्वया दश प्रोक्ता बाह्याभ्याश्च यशस्विनि |
एकादशविधौ चन्द्रभास्करौ सम्यगीरितौ ॥ १२ ॥ एतेषां श्लोकानां स्पष्टोऽर्थः |
तथा— तयोश्चन्द्राः प्रीतिकरा भास्कराः क्लेशकारिणः |
राहुः शून्यं च सर्वत्र नाशाय भवति क्षणात् ॥ १३ ॥ सूर्येषु शस्तः सर्वत्र मृधभोजनमैथुनैः |
संग्रहश्चान्यदखिलं चन्द्रे सिद्ध्यत्ययत्नतः ॥ १४ ॥ जीवेषु कथितं तथ्यमेष्यदर्शश्च सिध्यति |
निश्चित्य भवतीत्थं चेत् अन्यथा चेत्तदन्यथा ॥ १५ ॥ अनिश्चिते विधौ कन्या गर्भप्रश्नेऽन्यतः पुमान् |
शून्ये गर्भविपत्तिः स्यादित्यागृह्य वदेद्दृढम् ॥ १६ ॥ शून्ये नभसि राहौ च शुभान्येवाशुभान्यपि |
शुभानि तत्र सर्वाणि नश्यन्ति परमेश्वरि ॥ १७ ॥ वामे वहति वायौ तु वदेद्देशिकशिष्ययोः |
तत्स्थाने स्थापयित्वा तं तत्कर्णे कथयेन्मनुम् ॥ १८ ॥ अथवा जीवगस्थाने तत्कर्णे मन्त्रमादिशेत् |
अन्यथा शून्यराहोस्तु नाशाय गुरुशिष्ययोः ॥ १९ ॥ षष्ट्या युतैस्तु त्रिशतैर्निःश्वासैर्नाडिका मता |
तासां षष्ट्या दिनं पूर्णं तद्दिनं स्यात् पुनः पुनः ॥ २० ॥ एकस्मिंस्तु दिने श्वासाः सहस्राण्येकविंशतिः |
षट्शतं च ततस्तेषां स्वरूपं शृणु सुन्दरि ॥ २१ ॥ आरभ्यार्कोदयं प्रातः सप्तत्या द्विशतं क्रमात् |
प्राणाग्नीलाम्बुखानि स्युर्नवत्यान्यत्र संक्रमः ॥ २२ ॥ तत्राप्येवमतोऽन्यत्राप्येवं पञ्चदश क्रमात् |
दिनमेकं व्रजेदादौ दर्शप्रतिपदं प्रति ॥ २३ ॥ एवं क्रमेण सर्वेषां प्राणोदय उदाहृतः |
एतत्क्रमविपर्यासादशुभानि भवन्ति हि ॥ २४ ॥ अस्यायमर्थः—शुक्लप्रतिपदमारभ्य दिनत्रयं सूर्योदयकाले वामनासापुटे वायुर्वहति, तदुत्तरं त्रीणि दिनानि दक्षिणे, ततस्त्रीणि दिनानि वामे, ततस्त्रीणि दिनानि दक्षिणे, पुनस्त्रीणि दिनानि वामे, ततः कृष्णपक्षे प्रतिपदमारभ्य त्रीणि दिनानि दक्षे, ततस्त्रीणि दिनानि वामे, तदुत्तरं दक्षे, ततस्त्रीणि दिनानि वामे, ततो दक्षे, एवं क्रमेण ज्ञातव्यानि |
तत्रापि प्रतिनाडं पञ्चघटिकास्थितिर्बोद्धव्येति |
तत्रैकैकघटिका- [पाठसंदेहाः: ५ पार्श्वतुङ्गमध्याधरध्रगाः इति अन्त्यपदं अस्पष्टम्; १२ बाह्याभ्याश्च, १५ निश्चित्य भवतीत्थं चेत् इति मुद्रितपाठौ|
टिप्पण्यः: ५ विसर्गलोपः स्वातन्त्र्यात्; ७ “पुटक्रमात्” ख.; १५ “जीवे तु” ख., “भेद्यदर्शः प्र” ख.|
]

Druckseite 820

Zuordnung zur deutschen Fassung: 35.TRP.

स्थितिरेकैकभूतस्य |
तत्र क्रमस्तु—प्राणाग्नीलाम्बुखात्मान इति |
एकघटिकायामपि सप्तत्युत्तरद्विशतश्वासकालस्थितिः, नवतिः श्वासाः संक्रमणं लगन्ति |
एवं पञ्चभूतेषु श्वासानां स्थितिसंक्रमौ ज्ञेयौ |
इत्थं दिवा एकैकनाड्यां वारत्रयं वारत्रयं रात्रावपि तथैव, वारत्रयस्य पञ्चदशघटिकाक्रमेणाहोरात्रमध्ये द्वादशावृत्त्या षष्टिघटिकाभिर्दिनमेकं व्रजेदित्यर्थः |
प्रागुक्तपक्षक्रमविपर्यासादभव्यानि भवन्तीत्यर्थः |
तथा— बलाधिकाश्चरा वामे बलिनो दक्षिणे स्थिराः |
उभयत्रोभयात्मानः शुभाशुभपरीक्षणे ॥ २५ ॥ सार्धद्वाविंशतिश्वासक्रमाद्द्वादश राशयः |
तत्र सार्धचतुष्केण भूतानि स्युरिति क्रमात् ॥ २६ ॥ घटिकार्णेषु सर्वत्र वाय्वाद्येकान्तरोदये |
तत्तदर्णभवाः श्वासाः षष्ट्या त्रिशतमीरितम् ॥ २७ ॥ तेषु तद्भूतवर्णानां दशानामादितो दश |
सप्तावृत्त्या ततः शेषाः प्राणाग्नीलाम्बुखाचरैः ॥ २८ ॥ अस्यार्थः—पञ्चभूतेषु पृथिवी जलं च सौम्यं, तेजो वायुराकाशं च क्रूरं |
वामनाड्यां पृथिवीतत्त्वं जलतत्त्वं च बलवच्चरं च |
दक्षनाड्यां तेजस्तत्त्वं वायुतत्त्वमाकाशतत्त्वं च बलवत् स्थिरं च |
उभयत्र साङ्कर्यश्वासेषु सर्वे उभयात्मानो द्विस्वभावा इत्यर्थः |
एकस्यां नाड्यां पञ्चघटिकात्मककालस्थितायां पञ्चघटिकासु पञ्चभूतोदयश्चेदेकैकस्य भूतस्यैकैकघटिकास्थितौ एकस्या घटिकायाः षष्ट्युत्तरत्रिशतं श्वासानां (३६०) नवतिश्वासाः संकराः |
एवमेकस्य भूतस्य सप्तत्युत्तरद्विशतश्वासा (२७०) निजास्तेषु श्वासेषु राशिक्रममाह सार्धद्वाविंशतिश्वासक्रमादिति |
अत्र राशिष्वपि बलाधिका इत्याद्यूह्यम् |
एकस्मिन् राशौ भूतक्रममाह—तत्र सार्धेत्यादिना |
घटिकार्णेष्विति अकारस्योदये अकारस्य प्रथमतः सप्तदश श्वासा अन्येषामक्षराणां सप्त सप्त श्वासाः |
एवमेकघटिकामध्ये सप्तावृत्तिर्मातृकाया भवतीत्यर्थः |
द्वितीयघटिकायामाकारस्याप्येवमूह्यम् |
तथा— संख्याभिर्वासनाव्याप्तिं श्वासानां शृणु सुन्दरि |
यया विहितया मन्त्री सदा भजनवान् भवेत् ॥ २९ ॥ नित्यातत्त्वादिविद्यानां संख्याः स्युः पूर्वमेकशः |
ततो दिनार्णाः संध्याः स्युस्ततस्त्वथ घटिकार्णकाः ॥ ३० ॥ राशयो द्वादश ततो ग्रहा भूतानि पञ्च वै |
मातृकाश्चापि पञ्चाशच्छ्रीचक्रस्थाश्च शक्तयः ॥ ३१ ॥ सैका नवतयः प्रोक्ता देवी सर्वात्मना स्थिता |
एवंविधां वासनां यो भावयेत् स महेश्वरः ॥ ३२ ॥ इति |
अस्यार्थः—नित्याः १६ तत्त्वाः ३६ आदिविद्याः युगत्वेन पर्यायत्वेन दिनत्वेन तिसृणां विद्यानां त्र्यक्षरत्वेन ९ दिनार्णाः ५७६ संध्यारूपाः ६१ घटिकार्णाः ६० राशयः १२ ग्रहाः ९ भूतानि ५ मातृकाः ५० श्रीचक्रशक्तयः ९१ कालनित्या २०७३६ सर्वं मिलित्वा २१६०० श्वासरूपा इत्यर्थः |
तथा— नाडीचक्रं च मर्माणि देहान्तर्मरुतां क्रियाम् |
योगाभ्यासं तदङ्गैश्च स्वेच्छोत्क्रान्तिविधानकम् ॥ ३३ ॥ परकायप्रवेशं च योगसिद्धस्य लक्षणम् |
[मुद्रितग्रन्थे पाठलोपः] ॥ अस्यार्थः—नाडीचक्रस्य ज्ञानं मर्माणि शरीरे यावन्ति तावतां ज्ञानं, देहान्तर्मरुतां प्राणादिदशवायूनां स्थितेः क्रियायाश्च ज्ञानं, अङ्गैः सह योगाभ्यासस्तज्ज्ञानं च, तदङ्गानि यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाधय इति |
स्वेच्छोत्क्रान्तिविधानकं स्वेच्छया मरणविधानम् |
परकायप्रवेशनं चैतत्सर्वं प्राक्प्रोक्तश्वासक्रमे गुरुतः शास्त्रतश्च सम्यग्विज्ञाय तदभ्यासदार्ढ्यादनुभूतस्य योगसिद्धस्य लक्षणमित्यर्थः ॥ मातृकार्णवे— [पाठसंदेहाः: प्रथमे व्याख्याभागे पञ्चदशघटिका-द्वादशावृत्ति-षष्टिघटिकासंख्यानां सम्बन्धः; २८ तद्भूतवर्णानां दशानाम् इति; संख्याव्याख्यायां संध्यारूपाः ६१ इति सह सर्वसंख्या २१६६१, मुद्रितफलम् २१६००|
पाठभेदाः: २९ दर्शनवान् ख.; ३० नित्याविद्यादितत्त्वानां ख.; विद्या ख.|
]

Druckseite 821

Zuordnung zur deutschen Fassung: 35.MSK.

नेच्छन्ति काम्यपूजां ये चक्रस्थाभिश्च शक्तिभिः |
तेषां काम्यविधिं वक्ष्ये पूर्णमण्डलशक्तिभिः ॥ १ ॥ चतुःषष्टिश्चतुःषष्टिः प्रत्यावरणदेवताः |
नित्यपूजां विधायादौ काम्यपूजां ततश्चरेत् ॥ २ ॥ तासां नामानि वक्ष्यामि पूर्णमण्डलवर्णकैः |
साध्यसाधककर्माणि प्रत्यावृति नियोजयेत् ॥ ३ ॥ अथवा प्रतिवर्णं च प्रतिशक्ति प्रयोजयेत् |
अमृता च तथानन्दा इच्छा चैव तथेश्वरी ॥ ४ ॥ उमोर्मिका तथा ऋद्धिर्वृद्धिरीषा तथैव च |
लृकारा चैव लॄकारा एकनाथा तथैव च ॥ ५ ॥ ऐश्वर्या च तथोङ्कारिण्यौषधात्मिकया तथा |
अम्बा अःकाररूपा च कमला कामिका तथा ॥ ६ ॥ किराता कीर्तिविभवा कुमारी कूर्मरूपिणी |
कृपावती च कॄकारा कॢप्ता कॣरूपिणी तथा ॥ ७ ॥ केशिनी कैतवा कोला कौमारी कम्बुवादिनी |
कःकारा च खरूपा च खातीता खिन्नपालिनी ॥ ८ ॥ खीरूपिणी खुरूपा च खूरूपा खृस्वरूपिणी |
खॄरूपा ख्लृस्वरूपा च ख्लॄरूपा खेचरप्रिया ॥ ९ ॥ खैरूपा खोस्वरूपा च खौरूपा खण्डितेन्दुधृक् |
खःस्वरूपा गणेशी च गायत्री गिरिनन्दना ॥ १० ॥ गीर्वाणवन्द्या गुणपा गूरणा गृञ्जनप्रिया |
गॄस्वरूपा ग्लृकारा च ग्लॄरूपा गेस्वरूपिणी ॥ ११ ॥ गैरूपा गोस्वरूपा च गौतमी गण्डकी तथा |
गःस्वरूपा घना घाता घिरूपा घीस्वरूपिणी ॥ १२ ॥ घुर्धुरा घूर्णरूपा च घृतामोदा च घॄकला |
घ्लृरूपा घ्लॄस्वरूपा च घेरूपा घैस्वरूपिणी ॥ १३ ॥ घोररूपा घौस्वरूपा घण्टानादा च घःस्वरी |
ङरूपा ङास्वरूपा च ङिरूपा ङीस्वरूपिणी ॥ १४ ॥ ङुरूपा ङूस्वरूपा च ङृरूपा ङॄस्वरूपिणी |
ङ्लृरूपा ङ्लॄस्वरूपा च ङेरूपा ङैस्वरूपिणी ॥ १५ ॥ ङोरूपा ङौस्वरूपा च ङंकारा ङःस्वरूपिणी |
चपला चारुचरिता चित्रिणी चीरधारिणी ॥ १६ ॥ चुचुरा चूर्णरूपा च चृरूपा चॄस्वरूपिणी |
च्लृस्वरूपा ततः प्रोक्ता च्लॄस्वरूपा ततः परम् ॥ १७ ॥ चेतना चैस्वरूपा च चोदयित्री च चौर्यहा |
चण्डा च चःस्वरूपा च छन्ना छाया छिरूपिणी ॥ १८ ॥ छीत्कारी छुरिकाहस्ता छूरूपा छृस्वरूपिणी |
छॄरूपा छ्लृस्वरूपा च छ्लॄकारा छेदिनी तथा ॥ १९ ॥ छैरूपिणी च छोरूपा छौरूपा छंस्वरूपिणी |
छःस्वरूपा जया जाड्या जिता जीर्णास्वरूपिणी ॥ २० ॥ जुरूपा जूर्तिहन्त्री च जृरूपा जॄस्वरूपिणी |
ज्लृरूपा ज्लॄस्वरूपा च जेरूपा जैत्ररूपिणी ॥ २१ ॥ जोरूपा जौस्वरूपा च जङ्गला जःस्वरूपिणी |
झरणा झास्वरूपा च झिरूपा झीस्वरूपिणी ॥ २२ ॥ झुरूपा झूस्वरूपा च झृकारा झॄस्वरूपिणी |
झ्लृरूपा झ्लॄस्वरूपा च झेरूपा झैस्वरूपिणी ॥ २३ ॥ झोरूपा झौस्वरूपा च झंरूपा झःस्वरूपिणी |
ञकारा ञाणरूपा च ञिरूपा ञीस्वरूपिणी ॥ २४ ॥ ञुरूपा ञूस्वरूपा च ञृरूपा ञॄस्वरूपिणी |
ञ्लृरूपा ञ्लॄस्वरूपा च ञेरूपा ञैस्वरूपिणी ॥ २५ ॥ ञोरूपा ञौस्वरूपा च ञंरूपा ञःस्वरूपिणी |
टकाररूपा टाकारा टिकारा टीस्वरूपिणी ॥ २६ ॥ टुकारा टूस्वरूपा च टृकारा टॄस्वरूपिणी |
ट्लृकारा ट्लॄरूपा च टेकारा टैस्वरूपिणी ॥ २७ ॥ टोकारा टौस्वरूपा च टंकारा टःस्वरूपिणी |
ठकारा ठास्वरूपा च ठिकारा ठीस्वरूपिणी ॥ २८ ॥ [पाठसंदेहाः: ऋॠऌॡचिह्नानां सूक्ष्मभेदाः बहुत्र अस्पष्टाः; ५ वृद्धिरीषा, ११ गूरणा गृञ्जनप्रिया, १३ घुर्धुरा, १४ घःस्वरी, १७ चुचुरा, २० जीर्णास्वरूपिणी, २१ जूर्तिहन्त्री, २४ ञाणरूपा इति पाठाः अनिश्चिताः|
पाठभेदाः: विद्या क.; जीर्णा क.|
]

Druckseite 822

Zuordnung zur deutschen Fassung: 35.MSK.

ठुकारा ठूस्वरूपा च ठृकारा ठॄस्वरूपिणी |
ठ्लृकारा ठ्लॄस्वरूपा च ठेकारा ठैस्वरूपिणी ॥ २९ ॥ ठोकारा ठौस्वरूपा च ठंकारा ठःस्वरूपिणी |
डकारा डास्वरूपा च डिकारा डीस्वरूपिणी ॥ ३० ॥ डुकारा डूस्वरूपा च डृकारा डॄस्वरूपिणी |
ड्लृकारा ड्लॄस्वरूपा च डेकारा डैस्वरूपिणी ॥ ३१ ॥ डोकारा डौस्वरूपा च डंकारा डःस्वरूपिणी |
ढकारा ढास्वरूपा च ढिकारा ढीस्वरूपिणी ॥ ३२ ॥ ढुकारा ढूस्वरूपा च ढृकारा ढॄस्वरूपिणी |
ढ्लृकारा ढ्लॄस्वरूपा च ढेकारा ढैस्वरूपिणी ॥ ३३ ॥ ढोकारा ढौस्वरूपा च ढंकारा ढःस्वरूपिणी |
णकारा णास्वरूपा च णिरूपा णीस्वरूपिणी ॥ ३४ ॥ णुरूपा णूस्वरूपा च णृरूपा णॄस्वरूपिणी |
ण्लृरूपा ण्लॄस्वरूपा च णेरूपा णैस्वरूपिणी ॥ ३५ ॥ णोरूपा णौस्वरूपा च णंरूपा णःस्वरूपिणी |
तरुणी तामसी चैव तिलनासा च तीरसा ॥ ३६ ॥ तुलसी तूर्णरूपा च तृष्णा तॄकाररूपिणी |
त्लृकारा त्लॄस्वरूपा च तेजोरूपा च तैतला ॥ ३७ ॥ तोमरा तौलिनी तन्द्रा तस्करान्तककारिणी |
थरूपा थानरूपा च थिरूपा थीस्वरूपिणी ॥ ३८ ॥ थुरूपा थूस्वरूपा च थृरूपा थॄस्वरूपिणी |
थ्लृरूपा थ्लॄस्वरूपा च थेरूपा थैस्वरूपिणी ॥ ३९ ॥ थोरूपा थौस्वरूपा च थंरूपा थःस्वरूपिणी |
दया च दानशीला च दिरूपा दीनपालिनी ॥ ४० ॥ दुर्मेदा दूनहन्त्री च (दृकारा दॄस्वरूपिणी |
द्लृकारा द्लॄस्वरूपा च) देवी दैत्यनिषूदिनी ॥ ४१ ॥ दोषहन्त्री च दौर्भाग्यनाशिनी दम्भवर्जिता |
दःस्वरूपा च धर्मज्ञा धारणा धिस्वरूपिणी ॥ ४२ ॥ धीरा धुरीणा धूमावत्यथ पश्चाद् धृतिस्तथा |
धॄरूपा ध्लृस्वरूपा च ध्लॄरूपा धेस्वरूपिणी ॥ ४३ ॥ धैर्या च धोरणी धौर्या धंरूपा धःस्वरूपिणी |
नदी नारायणी नित्या नीतिज्ञा च नुतिप्रिया ॥ ४४ ॥ नूतना नृपवन्द्या च नॄरूपा न्लृस्वरूपिणी |
न्लॄकाररूपिणी पश्चात् संप्रोक्ता नेत्रसुन्दरी ॥ ४५ ॥ नैमित्तिका नोदयित्री नौकास्था नन्दजा तथा |
नःस्वरूपा च परमा पाविनी पिलिपिच्छिका ॥ ४६ ॥ पीता पुण्या पूर्णरूपा पृथ्वी पॄकाररूपिणी |
प्लृकारा प्लॄस्वरूपा च पेशला पैस्वरूपिणी ॥ ४७ ॥ पोतरूपा पौरसेव्या पण्डिता पःस्वरूपिणी |
फट्कारिणी फालरूपा फिटिशब्दानिनादिनी ॥ ४८ ॥ फीरूपा फुस्वरूपा च फूत्कारा फृस्वरूपिणी |
फॄस्वरूपा फ्लृरूपा च फ्लॄरूपा फेत्कारीरवा ॥ ४९ ॥ फैरूपा फोस्वरूपा च फौरूपा फंस्वरूपिणी |
फःस्वरूपा च बगला बाला बिलनिवासिनी ॥ ५० ॥ बीजरूपा बुधाराध्या बूरूपा च बृहत्कुचा |
बॄरूपा ब्लृस्वरूपा च ब्लॄरूपा बेस्वरूपिणी ॥ ५१ ॥ बैरूपिणी बोधरूपा बौद्धवन्द्या च बन्धिनी |
बःस्वरूपा भवाराध्या भाग्यदा भिन्नरूपिणी ॥ ५२ ॥ भीतिहन्त्री भुजङ्गाढ्या भूषणा भूरिविक्रमा |
भृरूपा भॄस्वरूपा च भ्लृकारा भ्लॄस्वरूपिणी ॥ ५३ ॥ भेदाभेदविहीना च भैरवी भोगदायिनी |
भौमसेव्या भञ्जिका च भःस्वरूपा महादया ॥ ५४ ॥ मानिनी मित्रविम्बा च मीनाक्षी मुसलायुधा |
मूर्तिधृङ् मृत्युहारिणी मॄकाराक्षररूपिणी ॥ ५५ ॥ [पाठसंदेहाः: ऋॠऌॡचिह्नभेदाः बहुत्र सूक्ष्माः; ३६ तीरसा, ३७ तैतला, ४१ दुर्मेदा, ४६ पिलिपिच्छिका, ४८ फिटिशब्दानिनादिनी, ५५ मित्रविम्बा मॄकाराक्षररूपिणी इति पाठाः अनिश्चिताः|
पाठभेदाः: डमरुप्रिया डामरी च क.; दिरूपा क.; दुर्गा क.; दॄरूपा क.; मालिनी क.; निवासिनी क.; द्विविराजिता ग.|
]

Druckseite 823

Zuordnung zur deutschen Fassung: 35.MSK.

म्लृरूपा म्लॄस्वरूपा च मेनका मैथिली तथा |
मोदिनी मौढ्यरहिता मङ्गला मःस्वरूपिणी ॥ ५६ ॥ यमुना यादवप्रीता यिरूपा यीस्वरूपिणी |
युवती यूथिकाप्रीता यृकारा यॄस्वरूपिणी ॥ ५७ ॥ य्लृरूपा य्लॄस्वरूपा च येरूपा यैस्वरूपिणी |
योधना यौस्वरूपा च यंरूपा यःस्वरूपिणी ॥ ५८ ॥ रमणी रागशीला च रिरंसा रीतिदायिनी |
रुधिराक्ता च रुक्ता च रृरूपा रॄस्वरूपिणी ॥ ५९ ॥ र्लृरूपा र्लॄस्वरूपा च रेवती रैवतात्मजा |
रोगघ्नी रौरवघ्नी च रङ्किनी रःस्वरूपिणी ॥ ६० ॥ लज्जा च लाभदा लिङ्गा लीला लुभा च लूनहा |
लृरूपा लॄस्वरूपा च ल्लृरूपा ल्लॄस्वरूपिणी ॥ ६१ ॥ लेरूपा लैस्वरूपा च लोकधात्री च लौल्यहा |
लम्बोष्ठी लःस्वरूपा च वरदा वारिजानना ॥ ६२ ॥ विपुला वीतशोका च वुरूपा वूस्वरूपिणी |
वृकोदरी वॄस्वरूपा व्लृरूपा व्लॄस्वरूपिणी ॥ ६३ ॥ वेदगर्भा वैनतेया वोरूपा वौस्वरूपिणी |
वञ्जरा वःस्वरूपा च शशिखण्डावतंसिनी ॥ ६४ ॥ शाकम्भरी शिवा शीला शुष्कमांसा च शूलिनी |
शृरूपा शॄस्वरूपा च श्लृरूपा श्लॄस्वरूपिणी ॥ ६५ ॥ शेरूपा शैत्यरूपा च शोभना शौर्यसंपदा |
शङ्करी शःस्वरूपा च षडङ्गा षास्वरूपिणी ॥ ६६ ॥ षिङ्गा षीरूपिणी चैव षुरूपा षूस्वरूपिणी |
षृरूपा षॄस्वरूपा च ष्लृरूपा ष्लॄस्वरूपिणी ॥ ६७ ॥ षेरूपा षैस्वरूपा च षोरूपा षौस्वरूपिणी |
षण्डा च षःस्वरूपा च सर्वदा सामगप्रिया ॥ ६८ ॥ सिरास्सारतरा चैव सीरपाणिसमर्चिता |
सुभगा सूरशक्तिश्च सृष्टिदा सॄस्वरूपिणी ॥ ६९ ॥ स्लृरूपा स्लॄस्वरूपा च सेरूपा सैस्वरूपिणी |
सोरूपिणी च सौभाग्या संगता सःस्वरूपिणी ॥ ७० ॥ हव्यवाहा हारिणी च हिरण्या हीनवर्जिता |
हुरूपा हूस्वरूपा च हृद्या हॄकाररूपिणी ॥ ७१ ॥ ह्लृरूपा ह्लॄस्वरूपा च हेतुदा हैहयान्वया |
होरूपा हौस्वरूपा च हंरूपा हःस्वरूपिणी ॥ ७२ ॥ ळरूपिणी च ळारूपा ळिरूपा ळीस्वरूपिणी |
ळुरूपा ळूस्वरूपा च ळृरूपा ळॄस्वरूपिणी ॥ ७३ ॥ ळ्लृरूपा ळ्लॄस्वरूपा च ळेरूपा ळैस्वरूपिणी |
ळोरूपा ळौस्वरूपा च ळंरूपा ळःस्वरूपिणी ॥ ७४ ॥ क्षमारूपा तथा क्षामा क्षित्यादिपञ्चधारिणी |
क्षीणमध्या क्षुधारूपा क्षूरूपा क्षृस्वरूपिणी ॥ ७५ ॥ क्षॄरूपा क्ष्लृस्वरूपा च क्ष्लॄरूपा क्षेत्रपालिनी |
क्षैकाररूपा च तथा क्षोभिणी क्षौस्वरूपिणी ॥ ७६ ॥ क्षंकाररूपिणी चैव क्षःकाररूपिणी तथा |
इति ते कथितं भद्रे रहस्यातिरहस्यकम् ॥ ७७ ॥ प्रत्यावृत्ति चतुर्वर्गं पूजयेत् साधकोत्तमः |
सर्वान् कामानवाप्नोति पूजनात् साधकोत्तमः ॥ ७८ ॥ प्राणाग्नीलाम्बुखात्मानो वर्णशक्तय ईरिताः |
तत्तत्प्रयोगसिद्ध्यर्थं तत्तच्छक्तीः प्रपूजयेत् ॥ ७९ ॥ एकैकस्य च भूतस्य शतं पञ्चदशोत्तरम् |
शक्तयः पूजनीयास्ता नवावृतिभागशः ॥ ८० ॥ शेषास्तु बिन्दुचक्रे तु तत्तन्मण्डलके शुभे |
उच्चाटे वायुवर्णानां शक्तयः समुदीरिताः ॥ ८१ ॥ विद्वेषे निधने चैव प्रशस्ताः स्युः खशक्तयः |
वश्ये च मोहने चैव पावकाक्षरशक्तयः ॥ ८२ ॥ कार्मणे केचिदिच्छन्ति स्तम्भने लार्णशक्तयः |
शान्तिके पौष्टिके रोगनाशादिशुभकर्मसु ॥ ८३ ॥ [पाठसंदेहाः: ऋॠऌॡ तथा ळ इत्येषां संयुक्ताक्षरभेदाः सूक्ष्माः; ५९ रुक्ता, ६४ वञ्जरा, ६७ षिङ्गा, ६९ सिरास्सारतरा, ७६ क्षैकाररूपा इति अनिश्चितपाठाः|
पाठभेदाः: खण्डविराजिता क.; संहृदा संकटात्रया क.; हितदा क.; स्युः क.|
]

Druckseite 824

Zuordnung zur deutschen Fassung: 35.MSK, 35.NVK.

जलार्णशक्तयो ज्ञेयास्तत्तन्मण्डलसंयुताः |
अथ वक्ष्ये सुरेशानि षट्शाम्भवरश्मिक्रमम् ॥ ८४ ॥ श्रीचक्रक्रममभ्यर्च्य मोक्षार्थी रश्मिपूजनम् |
विदध्यात् तत्क्रमं ज्ञात्वा स्मृत्वा प्रागुक्तमार्गतः ॥ ८५ ॥ प्रत्यावरणपूजायां चतुस्त्रिंशच्च भागशः |
तदन्ते बिन्दुचक्रे तु यष्टव्याः सर्वरश्मयः ॥ ८६ ॥ सषट्त्रिंशत्सप्तशतं सहस्राणि च विंशतिः |
नाथावृत्तिक्रमेणैव नवावरणपूजनम् ॥ ८७ ॥ प्रत्यावृत्ति यजेन्नित्या द्विसहस्रं शतत्रयम् |
चत्वारि च समाख्याता देवताभावसिद्धये ॥ ८८ ॥ श्वासक्रमेण पूजायां पूर्वोक्तगणनाविधौ |
प्रत्यावृत्ति सहस्रे द्वे चतुःशतमुदीरितम् ॥ ८९ ॥ द्वयमात्माणुनित्यान्ते शक्तिसप्ताक्षरीयुतम् |
प्रतिश्वासं यजेदन्ते बिन्दुचक्रे समग्रकम् ॥ ९० ॥ नानया सदृशी पूजा त्रिषु लोकेषु विद्यते |
गुह्याद्गुह्यतरं ह्येतत् तवाग्रे प्रकटीकृतम् ॥ ९१ ॥ इति ॥ तन्त्रराजे—(२७ प० ३४ श्लो०) आसन्नमृत्युचिह्नानि कथयामि यथाक्रमम् |
प्राक्प्रोक्तमूलाधारस्य मध्यस्थत्र्यस्रमध्यतः ॥ १ ॥ सुषुम्णा पृष्ठवंशाख्यवीणादण्डस्य मध्यगा |
मूलादिब्रह्मरन्ध्रान्ता नासाग्राद्द्वादशाङ्गुले ॥ २ ॥ तदग्रात् पायुगा प्रोक्तालम्बुषाख्या तु नाडिका |
त्र्यस्राग्रादुत्थिता नाडी कुहूनाम ध्वजान्तिका ॥ ३ ॥ तद्वामदक्षपार्श्वाभ्यां सविश्वोदरवारणे |
जठरान्ता सर्वगा च प्रोक्ते तद्वदनन्तरे ॥ ४ ॥ हस्तिजिह्वायशस्विन्यौ तत्तदङ्गुष्ठगे पदोः |
तथैवेडापिङ्गले च नासारन्ध्रद्वयान्तगे ॥ ५ ॥ गान्धारी च तथा पूषा नेत्रद्वयगते क्रमात् |
तथा कर्णगते शङ्खयशस्विन्यौ क्रमेण वै ॥ ६ ॥ सरस्वती तु या नाडी सा तु जिह्वाग्रगामिनी |
एवं चतुर्दश प्रोक्ता नाड्यो देहे प्रधानकाः ॥ ७ ॥ तासां सन्धिषु तत्सन्धिष्वेवं नाड्यः स्थितास्तनोः |
तासां प्रधाननाडीनां संख्या सार्धत्रिलक्षकम् ॥ ८ ॥ अप्रधानाः शिरा देहे त्वसंख्या याभिरेव वै |
चेष्टतेऽङ्गैर्नरः सर्वैः स्वकीयैरिच्छयाऽनिशम् ॥ ९ ॥ नाड्यः सुषिरा रक्तमरुत्पूर्णाश्च सर्वगाः |
सुषुम्णामध्यगा वज्रनाडी तन्मध्यगा परा ॥ १० ॥ चित्राभिधाना तन्मध्ये स्थिता सा कुण्डली परा |
मर्माण्यङ्गुष्ठगुल्फाद्विषङ्जङ्घाख्यजानुषु ॥ ११ ॥ ऊरुसीवनिकायुष्कमेढ्रनाभिषु पार्श्वयोः |
हृदयस्तनकण्ठांसकृकाटीकर्णमूर्धसु ॥ १२ ॥ शङ्खयोः पक्ष्मनासादिमध्यान्तास्यकपोलतः |
अष्टात्रिंशदिति प्रोक्तान्येषु वायोस्तु धारणात् ॥ १३ ॥ परकायप्रवेशश्च स्वेच्छोत्क्रान्तिश्च सिध्यति |
दशानामपि वायूनां देहस्थानां क्रियाः शृणु ॥ १४ ॥ ऊर्ध्वाधोगमनासक्तौ प्राणापानौ सदा तनौ |
नाग उद्गारकृत् प्रोक्तः क्षुत्कृत् कृकरसंज्ञकः ॥ १५ ॥ देवदत्तो जृम्भणकृत् रवकृच्च धनञ्जयः |
कूर्म उन्मेषकृत् प्रोक्त उदानोऽपि तथा ध्रिकृत् ॥ १६ ॥ समानवायुः कायाग्निं संधुक्षयति पाचितुम् |
व्यानाख्यो रसमादाय व्यापयेदखिलां तनुम् ॥ १७ ॥ एषां दशानामंशास्तु मारुताः स्युरनन्तकाः |
तेषां प्रसाराद्देहस्य समीचीना स्थितिर्भवेत् ॥ १८ ॥ [पाठसंदेहाः: ९० द्वयमात्माणुनित्यान्ते इति मन्त्रसम्बन्धः; नाडीवर्णने ११–१२ मर्मस्थानसमासाः, १६ ध्रिकृत् इति मुद्रितपाठः अस्पष्टः|
पाठभेदाः: यजेदन्ते क.; मूर्धानं ग.; वज्रा ग.; स्थिता कुण्डलिनी ग.; फल्गु ख.; मस्तां ख.; प्रसादात् ग.|
]

Druckseite 825

Zuordnung zur deutschen Fassung: 35.NVK.

वैलोम्ये विकृताङ्गत्वाल्लोके नाशाय कल्प्यते |
जीवात्मा भेदरूपेण मनसा परमात्मनः ॥ १९ ॥ योगो योगस्तु विज्ञेयस्तस्याङ्गानि तथाष्ट वै |
यमोऽथ नियमः पश्चादासनं तदनन्तरम् ॥ २० ॥ प्राणायामस्तथा प्रत्याहारस्तदनु धारणा |
ध्यानं समाधिरित्यङ्गान्यष्टाङ्गानि यथाक्रमम् ॥ २१ ॥ कथयामि शृणु प्राज्ञे यैर्मर्त्यो मत्समो भवेत् |
आत्मापरोक्षप्रत्यूहकर्मणस्तु यमो यमः ॥ २२ ॥ तथैकादशरूपः स्यान्नियमः परिकीर्तितः |
अहिंसा सत्यमास्तिक्यमार्जवं समता धृतिः ॥ २३ ॥ क्षमा दया त्रिधा शौचं संतोषो गुरुसेवनम् |
तत्प्रत्यूहाः षडाख्याताः कामक्रोधौ ततस्तथा ॥ २४ ॥ लोभमोहौ मानमदौ वह्निवत् सर्वनाशकाः |
पद्मस्वस्तिकवीराख्यभद्राण्युक्तानि वै क्रमात् ॥ २५ ॥ आसनानि मनःस्थैर्यकरणे साधकानि वै |
ऊर्वोरुपरि विन्यस्येद्व्यत्यासात् पादयोस्तले ॥ २६ ॥ बाह्यपार्श्वद्वयस्पर्शात् तत्पद्मासनमीरितम् |
तथा तयोरधोभागे तदन्तःपार्श्वसङ्गमात् ॥ २७ ॥ स्वस्तिकाकारतः प्रोक्तं तद्भद्रासनमीश्वरि |
तलान्तः पार्श्वं कुर्यादेकमन्यत् तु बाह्यम् ॥ २८ ॥ ऊर्वोरधस्तथोर्ध्वं च द्विधा भद्रासनं स्मृतम् |
व्यत्यस्ततलयोरूर्ध्वसंस्पर्शादुभजङ्घयोः ॥ २९ ॥ पादयोर्जानुदेशे वै वीराख्यं योगपट्टतः |
प्राणायामस्त्रिधा प्रोक्त उत्तमाधममध्यतः ॥ ३० ॥ लाघवो भूतलत्याग उत्तमे चित्तनिर्वृतिः |
सर्वाङ्गे स्वेदसंवृद्धिरधमे मध्यमे तथा ॥ ३१ ॥ सर्वाङ्गकम्पनं प्रोक्तमभ्यासात् कालसंयुतात् |
तेऽप्युत्तमगुणा भूयुरभ्यासात् कालयोगतः ॥ ३२ ॥ तस्मात् समभ्यसेत् प्रातः सायं च नियमेन वै |
वामेन नासारन्ध्रेण पूरयेत्तु स्मृतात्मना ॥ ३३ ॥ स्मरन्नम्बु मरुत् पश्चाद्दक्षिणेनापसारयेत् |
एवं सुसाधिते पश्चाद्द्वात्रिंशन्मात्रयाहरेत् ॥ ३४ ॥ धारयेत् तच्चतुःषष्ट्या रेचयेत् तत्तुरीयतः |
कम्पश्च पुलकानन्दौ वैमल्यस्थैर्यलाघवाः ॥ ३५ ॥ तद्वत् कान्तिप्रकाशौ च योगसिद्धस्य लक्षणम् |
मूलाधारे मनः कृत्वा वायुमापूर्य मूलतः ॥ ३६ ॥ नाडीचक्रान्तरं नीत्वा सर्वाङ्गानि च धारयेत् |
एवं संसाधिते वायावष्टत्रिंशत्सु मर्मसु ॥ ३७ ॥ धारयेच्चारयेदिच्छावशेनाङ्गानि सर्वतः |
तथाधारगतं कृत्वा मनः पवनसंयुतम् ॥ ३८ ॥ रसाम्बुदाहव्याप्तखैः सहंसैर्व्यापयेत् तनुम् |
एवं तैरेक्येदेहे वायुना तन्मयीकृते ॥ ३९ ॥ त्रिकालज्ञो विशुद्धात्मा सुखी जीवेच्चिरं भुवि |
स्वेच्छाचारी व्योमगश्च व्रजेद्देवेशसङ्गमम् ॥ ४० ॥ स्वेच्छया देहमध्यस्थः क्रीडन् गृहगतो यथा |
एवं संसिद्धयोगस्तु स्वेच्छया देहमात्मनः ॥ ४१ ॥ प्राणानाकृष्य मध्यस्थसुषुम्णारन्ध्रतस्तथा |
ब्रह्मरन्ध्राद्विनिर्गत्य भूयात् सर्वात्मनात्मवान् ॥ ४२ ॥ अथवोत्तरसंप्रोक्तघृणा स्वादन्तो वशी |
विरक्तचित्तः स्वं देहं तेनोपायेन संत्यजेत् ॥ ४३ ॥ स्वेच्छोत्क्रान्तिरिति प्रोक्ता योगयुक्तात्मनां प्रिये |
परकायप्रवेशं तु वक्ष्ये देवि महाद्भुतम् ॥ ४४ ॥ कलौ तु दुष्करं प्रायो मर्त्यैः सर्वैरपीश्वरि |
अक्लेशतः परित्यज्य प्राणान् स्वकतनुं तथा ॥ ४५ ॥ [पाठसंदेहाः: १९ जीवात्मा भेदरूपेण इत्यस्य सम्बन्धः; २८–३० आसनवर्णने शब्दार्थसम्बन्धः; ३९ तैरेक्येदेहे इति; ४३ उत्तरसंप्रोक्तघृणा स्वादन्तो इति क्षतपाठः|
पाठभेदाः: १९ हासाय कल्पते ग.; २१ अष्ट वै क्रमात् ग.; २६ धारणम् ख.; ३७ चारयेत्, चालयेत् ख.; ३८ धारयन् चारयेत् ख.; ४२ अन्यथा ख.; ४५ सिद्धैः ख.; ४३ परित्यक्तघृणां ग.|
]

Druckseite 826

Zuordnung zur deutschen Fassung: 35.NVK, 35.NVS.

परिपूर्णाङ्गसंयुक्तामग्रतो वीक्ष्य योगतः |
प्रविशेत् तत्तनुं प्राणप्रतिष्ठोक्तविधानतः ॥ ४६ ॥ (स्वां तनुं गोपयेत्स्वीयैस्ततस्तां च तथा व्रजेत्) |
सिद्धस्य लक्षणान्यष्टौ योगाभ्यासेन सर्वदा ॥ ४७ ॥ शृणु तानि महादेवि यैरन्यैर्जायते गुणैः |
द्वन्द्वहानिः सुखावाप्तिरारोग्यं वश्यवृत्तिता ॥ ४८ ॥ जितेन्द्रियत्वमक्रोधः कृपया जनसेविता |
आसन्नमृत्योश्चिह्नानि कथयामि शृणु प्रिये ॥ ४९ ॥ यैः साध्यसाधकौ ज्ञात्वा देहत्यागमतन्द्रितौ |
देवतास्वात्मभजनपरौ स्यातां ततस्तु तौ ॥ ५० ॥ सुगतिं प्राप्य सिद्धौ तु भवतो जातमात्रतः |
(अकारणं निजां पूर्वां विमुच्य प्रकृतिं नरः ॥ ५१ ॥ समाश्रयेत् ततस्तद्वन्द्वान्मृतिस्तस्य सुनिश्चितम्) |
अरुन्धतीं ध्रुवं व्योम्नि नेक्षते चेत्तदर्धतः ॥ ५२ ॥ दृशौ नासान्तिकाक्रान्त्या चन्द्रकेऽपाङ्गयोर्न चेत् |
विलोकयति तस्यार्धान्मृतिस्तस्य सुनिश्चितम् ॥ ५३ ॥ (गुल्फाधः स्फुरणं नाड्योः पादयोश्चेन्न जायते) |
तस्याशु नाशो गदितो भानो रुण्डं च पश्यतः ॥ ५४ ॥ निरुद्धकर्णरन्ध्रस्य न चेत् कुण्डलिनीध्वनिः |
धूमो वा दृश्यते मूर्ध्नि गृहक्षेत्रादितोऽपि वा ॥ ५५ ॥ मूर्ध्नि वा विहगा लीनाः परासुं तं न को वदेत् |
पश्चात्कृतार्को गण्डूषे न पश्येच्छक्रचापकम् ॥ ५६ ॥ सद्यः परासुमात्मानं जानीयात् सर्वथा नरः |
मस्तकस्थकरः पश्येत् प्रकोष्ठं स्थूलमात्मनः ॥ ५७ ॥ अङ्गुल्योरन्तरा दृग्भ्यां पश्येन्न तौ विनश्यतः |
श्लेष्मशुक्रमलानि स्युरनिमग्नानि जले यदा ॥ ५८ ॥ तस्मिन् पक्षे प्रयात्येव यमं संत्यक्तजीवितः |
हाटकं प्रतिमां पश्यन् ध्रुवं याति यमालयम् ॥ ५९ ॥ भास्करं भगरूपीः पश्यन्नपि याति यमालयम् |
जलादिषु तनुच्छायां विकृतां वीक्ष्य मासतः ॥ ६० ॥ प्रयाति निधनं छिद्रं पश्यन् भानोश्च मण्डले |
स्नातानुलिप्तगात्रस्य पूर्वं शुष्यति चेदुरः ॥ ६१ ॥ स पक्षाद्याति निधनं सर्वैरपि सुरक्षितः |
गुरुमातृगणान् विप्रान् चन्द्रसूर्यौ च देवताः ॥ ६२ ॥ आस्तिकान् सततं निन्दन्नकारणत एव च |
स्वेष्ट्यावैरस्यं वलने परित्यागे स्वरोपरतः ॥ ६३ ॥ गुरुमन्त्रद्विजत्यागेऽप्यचिराज्जायते मृतिः |
गुरुं विद्यां च जनकं जननीं सर्वदेवताः ॥ ६४ ॥ सदाधिकेपरशापाभ्यां न्यक्कुर्वन्नाशु नश्यति |
पुस्तकं निजगेहं वा विष्टरं शयनं तु वा ॥ ६५ ॥ निष्कारणं निराकुर्वन्नाशु नश्यति मानवः |
दृग्देहचक्रवालानां वैवर्ण्ये मासतो मृतिः ॥ ६६ ॥ ध्याने स्वदेववैरूप्ये मासतो निधनं भवेत् |
[मुद्रितग्रन्थे पाठलोपः] ॥ इति ॥ वाराहीतन्त्रे—ईश्वर उवाच |
आश्विनस्य सिते पक्षे श्रीविद्योपासकैरिह |
प्रतिपत्तिथिमारभ्य नवम्यन्तं महेश्वरि ॥ १ ॥ श्रीचक्रपूजनं देवि कर्तव्यं विधिपूर्वकम् |
क्रमाचर्नं पुरा कृत्वा देवीमाहात्म्यशक्तयः ॥ २ ॥ यष्टव्या यततो देवि काम्यमिच्छद्भिरादरात् |
तच्छक्तीः संप्रवक्ष्यामि शृणु त्वं शैलसंभवे ॥ ३ ॥ [पाठसंदेहाः: ५२–५३ अर्धकालस्य मानं न निर्दिष्टम्; ५७–५९ निरीक्षणवाक्यानि, ६० भगरूपीः, ६३ स्वेष्ट्यावैरस्यं वलने, ६५ सदाधिकेपरशापाभ्याम्, ६६ चक्रवालानाम् इति अस्पष्टपाठाः|
पाठभेदाः: ४९ जनगोपिता ख.; ५१ सिद्ध्यै ख.; ५२ मृतिमेति ख.; ५७ स्थं करं पश्यन् ग.; ५८ पश्यन्नचिरतो विनश्यति ख.; ५९ संत्यज्य जीवितम् ख., हाटकम्भ ग.; ६१ पुरः ख.; ६३ श्वासवैरस्यं वदने ख.; ६५ परी ख.; ६६ वक्त्रवायानाम् ख.|
]

Druckseite 827

Zuordnung zur deutschen Fassung: 35.NVS.

बहानां (?) मन्दभाग्योऽपि भवेद्वैश्रवणोपमः |
नित्या चैव जगन्मूर्तिर्देवी भगवतीति च ॥ ४ ॥ महामाया प्रसन्नात्र वरदा मुक्तिदायिनी |
परमा हेतुभूता च तथैव च सनातनी ॥ ५ ॥ संसारबन्धहेतुश्च तथा सर्वेश्वरीश्वरी |
योगनिद्रा ततश्चैव हरिनेत्रकृतालया ॥ ६ ॥ विश्वेश्वरी जगद्धात्री स्थितिसंहारकारिणी |
निद्रा भगवती चैव ह्यतुला तेजसां निधिः ॥ ७ ॥ स्वाहा स्वधा वषट्कारा स्वरात्मा च स्वधाक्षरा |
त्रिधामात्रात्मिका चार्धमात्रा स्वरस्वरूपिणी ॥ ८ ॥ अनुच्चार्या ततः सन्ध्या सावित्री जननी परा |
सृष्टिरूपा जगद्योनिः स्थितिरूपा ततः परम् ॥ ९ ॥ तथा संहृतिरूपा च ततश्चैव जगन्मया |
महाविद्या महामाया महामेधा महास्मृतिः ॥ १० ॥ महामोहा च भवती महादेवी महासुरी |
प्रकृतिश्चैव सत्त्वादिगुणत्रयविभाविनी ॥ ११ ॥ कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा |
सुरेश्वरी तथा ह्रीश्च बुद्धिर्बोधसुलक्षणा ॥ १२ ॥ लज्जा पुष्टिस्ततस्तुष्टिः शान्तिः क्षान्तिस्तथैव च |
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ॥ १३ ॥ शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा |
सौम्या सौम्यतरा चैव सुन्दरी च परा तथा ॥ १४ ॥ परमा परमेशी च सदसच्चाखिलात्मिका |
नारी शिवा सिंहवाहिन्यम्बिका भद्रकालिका ॥ १५ ॥ चण्डिका च जगन्माता महिषासुरघातिनी |
आत्मशक्तिः सर्वदेवमयी श्रद्धा गुणात्मिका ॥ १६ ॥ सर्वाश्रयाऽव्याकृताऽऽद्या ततः शब्दात्मिका तथा |
वार्तार्तिहन्त्री मेधा च दुर्गा भवसमुद्रनौः ॥ १७ ॥ असङ्गा कैटभारातिहृदयैककृतालया |
गौरी सदाद्रचित्ता च गीर्वाणवरदायिनी ॥ १८ ॥ देवी चैव महादेवी शिवा भद्रा ततः परम् |
रौद्रा धात्री तथा ज्योत्स्ना तथा चैवेन्दुरूपिणी ॥ १९ ॥ सुखा चैव तु कल्याणी ऋद्धिः सिद्धिश्च कर्मिका |
नैर्ऋती भूभृतां लक्ष्मीः शर्वाणी च ततः परम् ॥ २० ॥ दुर्गा च दुर्गपारा च सारा च सर्वकारिणी |
कान्तिः कृत्स्ना च धूम्रा वै यातिसौम्यातिरौद्रिणी ॥ २१ ॥ जगत्प्रतिष्ठा कृष्णा च विष्णुमाया ततः परम् |
चेतना बुद्धिरूपा च निद्रारूपा क्षुधा तथा ॥ २२ ॥ छायारूपा शक्तिरूपा तृष्णारूपा ततः परम् |
क्षान्तिरूपा जातिरूपा लज्जारूपा तथैव च ॥ २३ ॥ शान्तिरूपा तथा श्रद्धारूपा कान्तिस्वरूपिणी |
लक्ष्मीरूपा वृत्तिरूपा धृतिरूपा ततः परम् ॥ २४ ॥ स्मृतिरूपा दयारूपा तुष्टिरूपा ततः परम् |
पुष्टिरूपा मातृरूपा भ्रान्तिरूपा तथैव च ॥ २५ ॥ शुभहेतुः पार्वती च कौशिकी कालिका तथा |
उग्रचण्डा च कृष्णा च हिमाचलकृतालया ॥ २६ ॥ धूम्रलोचनहन्त्री च असिनी पाशिनी तथा |
विचित्रखट्वाङ्गधरा नरमालाविभूषणा ॥ २७ ॥ द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा |
अतिविस्तारवदना जिह्वाललनभीषणा ॥ २८ ॥ निमग्नारक्तनयना नादापूरितदिङ्मुखा |
भीमाक्षी भीमरूपा च चण्डमुण्डविनाशिनी ॥ २९ ॥ चामुण्डा लोकविख्याता ब्रह्माणी ब्रह्मवादिनी |
माहेश्वरी वृषारूढा त्रिशूलवरधारिणी ॥ ३० ॥ महाहिवलया चैव चन्द्ररेखाविभूषणा |
कौमारी शक्तिहस्ता च मयूरवरवाहना ॥ ३१ ॥ [पाठसंदेहाः: ४ बहानां (?) इति मुद्रितप्रश्नचिह्नयुक्तम्; ८ स्वधाक्षरा इति पदविभागः; १८ सदाद्रचित्ता इति|
पाठभेदाः: श्रीरे क.; कृत्स्ना ग.; कौतिकी क.; प्राप्ता ग.|
]

Druckseite 828

Zuordnung zur deutschen Fassung: 35.NVS.

गुहरूपा वैष्णवी च गरुडोपरि संस्थिता |
शङ्खचक्रगदाशार्ङ्गखड्गहस्ता तथैव च ॥ ३२ ॥ वाराही नारसिंही च नृसिंहसदृशी तथा |
घोररावा सटाक्षेपक्षिप्रनक्षत्रसंहतिः ॥ ३३ ॥ वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता |
सहस्रनयना चैव शक्ररूपा तथैव च ॥ ३४ ॥ भीषणाशक्तिरत्युग्रा शिवाशतनिनादिनी |
तथापराजिता चैव शिवदूती तथैव च ॥ ३५ ॥ कात्यायनी रक्तबीजनाशिनी चण्डघण्टिका |
अष्टादशभुजा चोग्रा निशुम्भासुरघातिनी ॥ ३६ ॥ शुम्भहन्त्री प्रपन्नार्तिहरा विश्वेश्वरी तथा |
आधारभूता च तथा महीरूपा तथैव च ॥ ३७ ॥ अपां स्वरूपा च तथाप्यायिनी च ततः परम् |
अलङ्घ्यवीर्या चानन्तवीर्या बीजस्वरूपिणी ॥ ३८ ॥ संमोहिनी च विद्या च स्वर्गमुक्तिप्रदायिनी |
अशेषजनहृत्संस्था तथा नारायणी शिवा ॥ ३९ ॥ कलाकाष्ठादिरूपा च परिणामप्रदायिनी |
सर्वमङ्गलमाङ्गल्या शिवा सर्वार्थसाधिका ॥ ४० ॥ शरण्या त्र्यम्बिका गौरी सृष्टिस्थितिलयात्मिका |
शक्तिः सनातनी चैव तथा चैव गुणाश्रया ॥ ४१ ॥ ततो गुणमया चैव नारायणस्वरूपिणी |
शरणागतदीनार्तपरित्राणपरायणा ॥ ४२ ॥ सर्वस्यार्तिहरा देवी विष्णुरूपा परात्परा |
हंसयुक्तविमानस्था ब्रह्माणीरूपधारिणी ॥ ४३ ॥ कौशाम्भःछुरिकाशूलचन्द्राहिवरधारिणी |
महावृषभसंरूढा तथा माहेश्वरीति च ॥ ४४ ॥ त्रैलोक्यत्राणसहिता किरीटवरधारिणी |
वृत्रप्राणहरा चैव शिवदूतीस्वरूपिणी ॥ ४५ ॥ हतदैत्या महासत्त्वा घोररूपा महारवा |
दंष्ट्राकरालवदना शिरोमालाविभूषणा ॥ ४६ ॥ चामुण्डा मुण्डमथना लक्ष्मीर्लज्जा तथैव च |
महाविद्या तथा श्रद्धा पुष्टिश्चैव सदा ध्रुवा ॥ ४७ ॥ महारात्रिर्महाविद्या मेधा सरस्वती वरा |
भूतिदा तामसी चैव नियतेशा तथैव च ॥ ४८ ॥ सर्वतः पाणिपादान्ता सर्वतोऽक्षिशिरोमुखा |
सर्वतः श्रवणघ्राणा तथा सर्वस्वरूपिणी ॥ ४९ ॥ सर्वेशा सर्वरूपा च सर्वशक्तिसमन्विता |
समस्तरोगहन्त्री च समस्ताभीष्टदायिनी ॥ ५० ॥ विश्वात्मिका च विश्वेशवन्द्या पापापहारिणी |
उत्पातपाकजनितोपसर्गचयनाशिनी ॥ ५१ ॥ विश्वार्तिहारिणी चैव त्रैलोक्यवरदायिनी |
नन्दगोपगृहे जाता यशोदागर्भसंभवा ॥ ५२ ॥ विन्ध्याद्रिवासिनी रौद्ररूपिणी रक्तदन्तिका |
दाडिमीकुसुमप्रख्याऽयोनिजा शतलोचना ॥ ५३ ॥ भीमा शाकम्भरी दुर्गा दानवेन्द्रविनाशिनी |
महाकाल्या महाकाली महामारी ततस्त्वना ॥ ५४ ॥ लक्ष्मीर्वृद्धिप्रदा नित्या पुत्रपौत्रप्रवर्धिनी |
शैलपुत्री ततो ब्रह्मचारिणी च ततः परम् ॥ ५५ ॥ चण्डघण्टा विशालाक्षी कूष्माण्डा वेदमातृका |
स्कन्दमाता गणेशी च विरूपाक्षी ततोऽम्बिका ॥ ५६ ॥ महागौरी महावीर्या महाबलपराक्रमा |
षष्ट्युत्तरं च त्रिशतं शक्तयः संख्यया शिवे ॥ ५७ ॥ प्रत्यावरणपूजायां चत्वारिंशच्च शक्तयः |
संपूज्य बिन्दुचक्रे तु सर्वा एव प्रपूजयेत् ॥ ५८ ॥ गन्धैः पुष्पैस्तथा धूपैर्दीपनैवेद्यचन्दनैः |
कुमारीपूजनैर्योगियोगिनीपूजनैः शुभैः ॥ ५९ ॥ बलिप्रदानैर्होमैश्च तथा ब्राह्मणतर्पणैः |
तोषयेन्मूलविद्यां च जपेदुत्तरोत्तरवृद्धितः ॥ ६० ॥ [पाठसंदेहाः: ३३ क्षिप्रनक्षत्रसंहतिः इति, ४४ कौशाम्भःछुरिका इति सन्धिः, ५४ महाकाल्या तथा ततस्त्वना इति पाठौ अस्पष्टौ|
]

Druckseite 829

Zuordnung zur deutschen Fassung: 35.NVS, 35.NLK.

देवीमाहात्म्यपाठं तु कुर्यादेकोत्तरं शतम् |
एवं यः पूजयेद्भक्त्या प्रतिवर्षं निरन्तरम् ॥ ६१ ॥ भुक्त्वा भोगांस्ततश्चान्ते देवीसायुज्यमाप्नुयात् |
[मुद्रितग्रन्थे पाठलोपः] ॥ इति ॥ श्रीतन्त्रराजे—(२८ प०) अथ षोडशनित्यानां लोकात्मत्वं वदामि ते |
यन्मयं विश्वमखिलं वर्तते सचराचरम् ॥ १ ॥ कालमातृकयोर्व्याप्तिः प्रागेवोक्ता मया तव |
वाच्यवाचकयोगेन मातृकालोकयोरपि ॥ २ ॥ व्याप्तिमद्य प्रवक्ष्यामि सम्यक् ते काललोकयोः |
यदायत्तमिदं विश्वं नित्यास्तत्कालविग्रहाः ॥ ३ ॥ कालस्य षोडशाकारो रूपो दृश्यत एव हि |
वृद्धिक्षयाभ्यां चन्द्रस्य चाद्यया कलया तथा ॥ ४ ॥ लोकरूपं तत्प्रमाणं कालचक्रं च तादृशम् |
तयोरन्योन्यनित्यत्वं व्याप्तिं तद्वत् स्थितिं तयोः ॥ ५ ॥ नित्यालोकस्थितिं माने नित्यांकवचविग्रहम् |
ग्रहाणां मातृकारूपं शृणु प्रोक्तक्रमेण वै ॥ ६ ॥ हेमरूपो भुवो मध्ये मेरुस्तिष्ठति पर्वतः |
तस्याभितो मही पार्श्वे पञ्चाशच्छतयोजना ॥ ७ ॥ लवणेक्षुसुरासर्पिर्दधिक्षीरजलार्णवैः |
सिन्धुभिः सप्तभिर्द्वीपैस्तत्संख्यैर्द्विगुणोत्तरैः ॥ ८ ॥ आवृता बाह्यसलिलवलये बाह्यपार्श्वयोः |
मध्यविस्तारमानं तु बहिरावृत्य तत्पुनः ॥ ९ ॥ कालचक्रं पराशक्तिमारुतेन सदैव तु |
नूनं परिभ्रमत्येव पश्चिमाधोऽपसव्यतः ॥ १० ॥ तच्च तन्मानवीथीभिर्युतमष्टभिरद्भुतैः |
तेजोमयैर्द्वादशारैर्युक्तं मेषादिविग्रहैः ॥ ११ ॥ तेषु वीथिषु पूर्वाङ्मुखाः सप्त ग्रहाः स्थिताः |
राशिपूर्वोक्तेन कालेन प्रोक्तेनोपर्यधस्तथा ॥ १२ ॥ प्रयान्ति तेषां चारेण लोकानां भवति स्थितिः |
मध्यस्थमेरौ ललिता सदैवास्ते महाद्युतिः ॥ १३ ॥ तस्याभितो जलान्तःस्थाः शेषास्ताः स्युश्चतुर्दश |
तद्बहिः परमे व्योम्नि चान्त्या चित्रा तु संस्थिता ॥ १४ ॥ कृतादिवर्षादारभ्य प्रतिवर्षमिति स्थिताः |
द्वितीयादिषु वर्षेषु क्रमात् ताः परिवृत्तिभिः ॥ १५ ॥ षोडशाब्दे परे व्योम्नि ललिता सलिलाम्बुधौ |
चित्रा च भवतीत्थं हि भजन्ते परिवर्तनम् ॥ १६ ॥ एवं युगेषु चान्येषु वर्तन्ते प्रोक्तरूपतः |
कालिष्वपि च मध्यादिपरव्योमान्तमीश्वरि ॥ १७ ॥ परिवृत्तिं भजन्ते ता मध्यया स्वांशतश्चरेत् |
अन्याः सर्वास्तत्र तत्र चरन्ति स्वयमेव वै ॥ १८ ॥ तथा कालक्रमात् तास्तु भजन्ते परिवर्तनम् |
कालतो देशतश्चक्रादैक्यं संजायते यदा ॥ १९ ॥ तदा भवन्ति भूपाला धार्मिकाः कालवर्षतः |
प्रजाश्च सुखिनो भूयुररोगाः कालमृतवः ॥ २० ॥ कालचक्रस्य बाह्यस्थवीथ्यां तिष्ठन्ति तारकाः |
तद्बहिः परमव्योम स्थितिस्तत्र तदन्तिका ॥ २१ ॥ तासामपि च नित्यानां षोडशानां च तत्क्रमात् |
एवं देशं च कालं च तन्मयं समुदीरितम् ॥ २२ ॥ देशवर्षतिथीनां च संपातादैक्यमागताम् |
पूजयेत् सविशेषं तां प्रजपेच्चाखिलाप्तये ॥ २३ ॥ तेषु विद्योपदेशात्तु तस्यास्तत्संनिधिर्भवेत् |
महाशक्तिश्च जायेत त्रयाणामैक्यवैभवात् ॥ २४ ॥ कालप्राप्तां यजेत् स्वाब्दजन्मवासरके तु ताम् |
देशप्राप्तां तु तन्मासपूर्णायां पूजयेच्छिवे ॥ २५ ॥ [पाठसंदेहाः: ६ नित्यांकवचविग्रहम्; ९ विस्तारवाक्यस्य सम्बन्धः; १७ कालिष्वपि; १८ मध्यया स्वांशतश्चरेत् इति|
पाठभेदाः: कालरूपो क.; तासां ख.; देशे च काले ख.; तु ग.|
]

Druckseite 830

Zuordnung zur deutschen Fassung: 35.NLK.

प्रत्यब्दमेवं कुर्वाणं न मुञ्चति रमा यशः |
कदाचिदपि दीर्घायुररोगो ज्ञानवान् सुखी ॥ २६ ॥ राजभिर्मनुजैः स्त्रीभिरन्यैः प्राणिभिरप्यसौ |
मान्यते सर्वमन्त्राश्च सिद्धाः स्युस्तत्र पूजनात् ॥ २७ ॥ जम्बूः प्लक्षः शाल्मली च कुशक्रौञ्चौ यथाक्रमम् |
शाकश्च पुष्करश्चेति सप्तद्वीपेषु भूरुहाः ॥ २८ ॥ तेषां नामभिरेव स्युस्तत्तन्नामानि तन्मुखात् |
तत्तन्नामभिरभ्यर्च्य तद्द्वीपं तत्र पूजयेत् ॥ २९ ॥ तां तां नित्यां तत्र तत्र काले काले तु साधकः |
एवं पूजयितुर्लोके न समोऽस्ति न चाधिकः ॥ ३० ॥ मध्ये भूमिं तामभितः कालचक्रं ततो बहिः |
महाव्योम च निःसीम तत्रैतद्द्वयसंस्थितिः ॥ ३१ ॥ सुस्थिराया भुवो मध्ये चक्रस्य भ्रमतोऽनिशम् |
ग्रहाणामत्र संवासः प्रचारनियतात्मनाम् ॥ ३२ ॥ कारणं परमेशानि तवेच्छैव तु केवलम् |
नान्यदवलम्बाय तयोः क्वापि विद्यते ॥ ३३ ॥ तयोर्बहिः परे व्योम्नि क्वचिदब्धिचतुष्टयम् |
प्रागुक्तरूपां तत्तीरे कोलवक्त्रां तु पञ्चमीम् ॥ ३४ ॥ सलिले कुरुकुल्लां च पोतारूढां शुचिस्मिताम् |
तन्मध्ये नवरत्नात्ममहाद्वीपं च तत्र वै ॥ ३५ ॥ कल्पकोद्यानमृतुभिः षड्भिः सेवितविग्रहम् |
तन्मध्येऽसंख्यरूपाभिरर्चितां सङ्गीतशक्तिभिः ॥ ३६ ॥ गीतवादित्रनृत्यादिसंसक्ताभिरनारतम् |
विनोद्यमानां विलसन्मदमन्थरवीक्षणाम् ॥ ३७ ॥ रत्नमण्डपमध्यस्थरत्नसिंहासनोपरि |
शुचिस्मितां शक्तिवृन्दगीताकर्णनन्दिताम् ॥ ३८ ॥ सहजासवसंभोगैः संजातानन्दविग्रहाम् |
दयामदारुणापाङ्गविलोकितसुसाधकाम् ॥ ३९ ॥ परितो भूषणैश्चित्रैः कर्णचामरकादिभिः |
विराजमानान् द्विरदानश्वानपि तथाविधान् ॥ ४० ॥ शक्तिभिर्दर्शितानग्रे पश्यन्तीममितोत्सवाम् |
स्वसमानाभिरभितो नित्याभिः सेवितां तथा ॥ ४१ ॥ प्रयाति तत्पूजयिता तत्समाकारतां शनैः |
तद्विनोदस्तत्समीपनिवासी स्यात् सुनिश्चितम् ॥ ४२ ॥ कोटियोजनविस्तीर्णसमायामं महाद्भुतम् |
नवरत्नमयं द्वीपं तन्मानाब्धिभिरावृतम् ॥ ४३ ॥ तत्तृतीयांशमानस्य सहस्रादित्यतेजसः |
रत्नद्वीपस्य मध्यस्थतृतीयांशे तु मण्डपे ॥ ४४ ॥ कोट्यादित्यद्युतिप्रान्तेष्वभितोऽसंख्यशक्तिभिः |
तथा समन्वितां ध्यायन्नरो भवति सत्तमः ॥ ४५ ॥ एवं ध्यात्वार्चयेद्देवीं भक्त्या परमयोक्तया |
नरो निरस्तसंसारमूलाज्ञानो जितेन्द्रियः ॥ ४६ ॥ निपुणश्च कलावन्तः सुखी निःसङ्गचित्तवान् |
अपापः पुण्यशीलश्च सत्यार्जवसमन्वितः ॥ ४७ ॥ देशिकः स्वकुलोत्तङ्गः सर्वसंभावितात्मवान् |
जायते तस्य परितो योजने पावनं भवेत् ॥ ४८ ॥ तदालोकनसंलापसंस्पर्शादिकृतां नृणाम् |
पापकर्मक्षयात् तेन रहिताः स्युस्तत्समाः ॥ ४९ ॥ कालचक्रस्य नित्याया लोकस्य च बहिःस्थितम् |
व्योमरूपमनाद्यन्तं यच्चिन्मयमावयोः ॥ ५० ॥ यो वेत्त्येवमशेषं तु नित्यावैभवमीरितम् |
स जीवन्मुक्त एवेति प्रोक्तं तच्च मया च ते ॥ ५१ ॥ इति ॥ मातृकार्णवे— [पाठसंदेहाः: ४४ तत्तृतीयांशमानस्य इत्यस्य सम्बन्धः; ४८ स्वकुलोत्तङ्गः इति मुद्रितरूपम्; ५१ अन्त्यपादः अस्पष्टः|
पाठभेदाः: विद्यां क.; संवासप्रचार क.; रत्नानि ख.; कर्षण ख.; स्वर्ण ख.; अनन्त ग.; मत्समः ख.; स्थितिः ख.|
]

Druckseite 831

Zuordnung zur deutschen Fassung: 35.SPV.

शृणु देवि प्रवक्ष्यामि श्रीविद्यापूजनं महत् |
रमादिषोडशी विद्या तथा परादिषोडशी ॥ १ ॥ कामादिषोडशी चैव तथा वागादिषोडशी |
शक्त्यादिषोडशी प्रोक्ता पञ्चधा वै कुलागमे ॥ २ ॥ तत्तद्विद्योपासनायां तत्तत्पूजाविधिः स्मृतः |
[मुद्रितग्रन्थे पाठलोपः] ॥ अत्र यथोक्तषोडशीविद्यादौ तत्तद्बीजस्थापनेन तत्तत्षोडशीति सिद्धान्तः |
तथा— (१) रमादिषोडशीविद्यापूजने शक्तयः स्मृताः |
ताः शक्तीः संप्रवक्ष्यामि शृणु देवि यथाक्रमम् ॥ ३ ॥ अनन्ता चाप्रमेया च कमला कामिनी कला |
कान्ता च कामगा चैव कलिकल्मषनाशिनी ॥ ४ ॥ सिद्धलक्ष्मी राज्यलक्ष्मीः सिद्धिस्थाने यजेत् तु ताः |
क्षोभिणीं द्राविणीं चैवोन्मादिनीं वशिनीं तथा ॥ ५ ॥ आकर्षिणीं खेचरीं च ततश्च मदनातुराम् |
सर्वबीजमयीं सर्वयोनिरूपां मनोन्मनीम् ॥ ६ ॥ एताः शक्तीर्दशैवात्र मुद्रास्थानेषु पूजयेत् |
रञ्जनीं रागशीलां च राजसीं रतिरागिणीम् ॥ ७ ॥ तामसीं सात्त्विकीं सौम्यां क्रूरां चैवाष्टमातृकाः |
पूजयेन्मातृकास्थानेष्वेवमाद्यावृतिं यजेत् ॥ ८ ॥ षोडशारे यजेत् प्रोक्तकलाः सोमस्य षोडश |
अष्टारे तु मदोन्मत्तां मन्मथार्तां मनस्विनीम् ॥ ९ ॥ मातङ्गीं मदनां मत्तां पश्चान्मदविह्वलाम् |
मनोवेगां च संपूज्य ततश्चतुर्दशारके ॥ १० ॥ इन्द्राणीं चैव शर्वाणीं शाङ्करीं शशिशेखराम् |
इच्छावतीं कामचारां ततश्च गगनावतीम् ॥ ११ ॥ लास्यप्रियां ललामां च चन्द्रहासां ततः परम् |
चार्वङ्गीं चारुचरितां चपलां चारुभूषणाम् ॥ १२ ॥ यजेद्दशारयुग्मे तु जीवनां रतिसुन्दरीम् |
हावरूपां भावरूपां वीणापुस्तकधारिणीम् ॥ १३ ॥ खड्गिनीं बाणिनीं चैवाह्लादिनीं कुसुमप्रियाम् |
बालामम्बां विशालाक्षीं सुखाराध्यां सुखोत्सुकाम् ॥ १४ ॥ भक्तिप्रियां वेदगर्भां विचित्रां सुरसुन्दरीम् |
हंसिनीं कोलवक्त्रां च ततोऽष्टारे यजेदिमाः ॥ १५ ॥ ब्राह्मीं सरस्वतीं वाणीं तथा वाग्वादिनीं तथा |
भारतीं नकुलीं भाषां श्रुतिस्मृतिविबोधिनीम् ॥ १६ ॥ अन्तराले तु संपूज्याः प्राग्वदायुधदेवताः |
वामां ज्येष्ठां च रौद्रीं च त्रिकोणेषु पूजयेत् ॥ १७ ॥ एवं ते कथितं भद्रे श्रीचक्रार्चनमुत्तमम् |
क्रमपूजां विधायादौ प्रोक्तपूजां समाचरेत् ॥ १८ ॥ रमादिषोडशीविद्योपासकानामयं क्रमः |
य एवं कुरुते नित्यं श्रीचक्रक्रममुत्तमम् ॥ १९ ॥ भुङ्क्त्वेह भोगानखिलान् देवीसायुज्यमाप्नुयात् |
(२) अथ वक्ष्ये महेशानि पराद्यायाश्च पूजनम् ॥ २० ॥ माया लज्जा प्रभा ज्योत्स्ना महोच्छुष्मा महानिशा |
कमनीया कला कान्ता कम्बुकण्ठी कलावती ॥ २१ ॥ वरेण्या वरदा बाला पावनी च परात्परा |
भवानी भावुका भव्या भवबन्धविमोचिनी ॥ २२ ॥ पाशिनी पाशविच्छेदा वाणिनी शारदा शिवा |
अचिन्त्यानन्दचरिता तारिणी धर्मविक्रमा ॥ २३ ॥ ईश्वरी कौतुकप्रीता दुर्गा कात्यायनी परा |
उर्वशी दैत्यहन्त्री च पद्मा पद्मावती शिवा ॥ २४ ॥ स्वाहा स्वधा वषट्कारा श्रद्धा प्रीतिमनोरमा |
मनोहरा महामाया मानिनी मानपोषणा ॥ २५ ॥ अजिता चोर्जितानन्ता उङ्कारा सामगप्रिया |
अभेद्या नीतिरक्षा च ज्ञानदा भक्तवत्सला ॥ २६ ॥ निरवद्या विशोका च वरदा कामरूपिणी |
कौलिनी कौलिकप्रीता कुलीना कूर्मरूपिणी ॥ २७ ॥ [पाठसंदेहाः: २६ चोर्जितानन्ता इत्यस्य ऊर्जिता अनन्ता इति पदविभागः सम्भावितः; उङ्कारा इति रूपम्|
पाठभेदाः: निरविद्या क.; कौतुकं क.|
]

Druckseite 832

Zuordnung zur deutschen Fassung: 35.SPV.

आधाराधेयरूपा च कुलमार्गप्रबोधिनी |
लिङ्गत्रयस्थानगता लिङ्गिनी लिङ्गरूपिणी ॥ २८ ॥ अज्ञानहन्त्री घोरास्या मङ्गला मङ्गलप्रदा |
भावाभावविनिर्मुक्ता गुणातीता गुणात्मिका ॥ २९ ॥ धारणी धर्मतनया दानशीला दयापरा |
त्रिवर्णस्था च षट्कोणनिलया बिन्दुवासिनी ॥ ३० ॥ योगिनी योगगम्या च योगाङ्गा योगरूपिणी |
वेदान्तगोचरा वेद्या कालहन्त्री कुलान्तका ॥ ३१ ॥ वज्रेश्वरी च कामेशी महाविद्या महाभया |
त्रिपुरा त्रिपुरेशी च सुन्दरी भगमालिनी ॥ ३२ ॥ नवकोणालया नित्या त्रिगुणा त्रिगुणात्मिका |
प्राग्वत् प्रपूजयेदेता नवावरणगाः क्रमात् ॥ ३३ ॥ (३) कामादिषोडशीविद्याशक्तीराकर्णयाम्बिके |
कामेशी कामरूपा च कुलकान्ता कलावती ॥ ३४ ॥ कौमोदिनी रतिर्ज्येष्ठा श्रद्धा प्रीतिर्धृतिर्मतिः |
काली कलात्मिका काम्या काम्यदा कामगा सती ॥ ३५ ॥ सारा सर्वेश्वरी सौम्या साध्वी सत्या सनातनी |
ऋद्धिः सिद्धिस्ततः शुद्धिर्बुद्धिस्तन्द्रा क्षुधा जरा ॥ ३६ ॥ जलजा जातिशीला च जागरा रागवर्जिता |
जया च विजया चापराजिता कुसुमायुधा ॥ ३७ ॥ आद्या विद्या महाविद्या महावेगा मदोद्धता |
भुजङ्गभूषणा रौद्री नरमालाविभूषणा ॥ ३८ ॥ आर्या हिमाचलसुता विन्ध्यशैलनिवासिनी |
पीठगा पीठनिलया कामरूपकृतालया ॥ ३९ ॥ कौमारी कर्कशा क्रुद्धा गणेशी गणवन्दिता |
भद्रा भद्रावती भव्या भैरवी भैरवप्रिया ॥ ४० ॥ भावगम्या भवध्वंसिन्यचिन्त्याचिन्त्यवैभवा |
नारायणी भद्रकाली वैष्णवी विष्णुपूजिता ॥ ४१ ॥ वाराही नारसिंही च भीमा भीमाट्टहासिनी |
विशाला विमला बाला परा त्रैलोक्यमातृका ॥ ४२ ॥ भगवत्यप्रधृष्या च भगमाला भगोदरी |
मदिरा मदिरानन्दा महिषी महिषान्तकी ॥ ४३ ॥ कदम्बवनमध्यस्था किराती कीर्तिशालिनी |
अभङ्गुरा विश्वमूर्तिर्विश्वा विश्वैकवन्दिता ॥ ४४ ॥ वीरा वीरेश्वरी वीरवन्दिता विमलप्रभा |
कपालिनी कामचारा कामिनी कामदायिनी ॥ ४५ ॥ इच्छा ज्ञाना क्रिया चैव पूजनीयाः प्रयत्नतः |
(४) वागादिषोडशीशक्तीर्वक्ष्ये देवि यथाक्रमम् ॥ ४६ ॥ वाग्भवा वरदा वाणी शान्तिः क्षान्तिः क्रिया दया |
मरीचिरङ्गिरा प्रज्ञा सृष्टिः श्रद्धा च सन्नतिः ॥ ४७ ॥ गुणप्रिया गुणाराध्या वाणी भाषा सरस्वती |
ब्रह्माणी ब्रह्मवन्द्या च ब्राह्मी ब्रह्मवादिनी ॥ ४८ ॥ श्वेतमाल्याम्बरधरा सुश्वेता श्वेतभूषणा |
इन्दुमण्डलमध्यस्था चन्द्रखण्डविराजिता ॥ ४९ ॥ चन्द्रिका चारुभूषा च कौबेरी कालकल्यदा |
वाच्यवाचकरूपा च ज्ञानगम्या गुणोत्कटा ॥ ५० ॥ गेयाद्या गेयरूपा च गीर्वाणवरवन्दिता |
भोगिनी भोगिरूपा च भूतेशी भूतरूपिणी ॥ ५१ ॥ भुवनानन्दिनी भूमिर्भुवनव्यापिनी ह्यजा |
प्रगल्भा प्रौढचरिता वेदशास्त्रार्थगोचरा ॥ ५२ ॥ वेदान्तवेद्या सीमन्तिन्यङ्कुशिन्यखिलात्मिका |
शुकहस्ता शुकाराध्या श्यामला चण्डविक्रमा ॥ ५३ ॥ चामुण्डा चण्डिका दुर्गा भावनी भावगोचरा |
जृम्भिणी मोहिनी चण्डा रञ्जिनी वशिनी तथा ॥ ५४ ॥ बन्धिनी बुद्धिरक्षा च बुधरूपा बुधार्चिता |
सामगानरता नित्या चतुरा चतुरानना ॥ ५५ ॥ [पाठसंदेहाः: ५० कालकल्यदा, ५२ ह्यजा इति शब्दविभागः|
पाठभेदाः: दृकी क.; कामना ग.; रतिः क.; भवनी ग.; वासिनी क.; बोध ग.|
]

Druckseite 833

Zuordnung zur deutschen Fassung: 35.SPV.

जाड्यहन्त्री जनाराध्या तारा नीलसरस्वती |
कुरुकुल्ला च वाग्वादिन्यानन्दा नन्दगोपजा ॥ ५६ ॥ नन्दिनी नादरूपा च नलिनी नलिनप्रिया |
पाविनी परमाह्लादिन्यासुरी सुरपूजिता ॥ ५७ ॥ सुमना उन्मना गानप्रिया कल्याणदायिनी |
महनीयगुणा रत्नभूषणा जनरञ्जिनी ॥ ५८ ॥ मुनिसेव्या मोदमाना मानिनी मलवर्जिता |
मन्दारकुसुमप्रीता बन्धूककुसुमारुणा ॥ ५९ ॥ वृन्दा वृन्दारकनुता बृंहिताश्वमुखी तथा |
प्राग्वत्पूजा प्रकर्तव्या नवस्वावरणेषु च ॥ ६० ॥ (५) शक्त्यादिषोडशीशक्तीः प्रवक्ष्यामि समासतः |
याभिरेतज्जगद्व्याप्तं त्रैलोक्यं सचराचरम् ॥ ६१ ॥ शक्तिः परा वसुमती विश्वाद्या विश्वमातृका |
पञ्चभूतात्मिका प्राणदायिनी भूतदायिनी ॥ ६२ ॥ विश्वेश्वरी विश्वहन्त्री सृष्टिस्थित्यन्तकारिणी |
विश्वयोनिर्जगन्माता भावाभावविवर्जिता ॥ ६३ ॥ व्याप्तिर्देवी जगन्नेत्री विवेका वीर्यवर्धिनी |
मेयरूपा प्रमेया च प्रमागम्या प्रहेलिका ॥ ६४ ॥ ज्ञातृज्ञानज्ञेयरूपा ज्ञानविज्ञानदायिनी |
प्रतीता प्रकृतिः प्रज्ञा प्रामाण्यमतिसंस्थिता ॥ ६५ ॥ शून्यरूपाऽशून्यरूपा शून्याशून्यविवर्जिता |
चित्स्वरूपा चिदंशा च निर्विकल्पा निरीहिका ॥ ६६ ॥ निराधारा निराकारा गुणातीता गुणोदया |
सूर्यमण्डलमध्यस्था वह्निमण्डलवासिनी ॥ ६७ ॥ चन्द्रमण्डलमध्यस्था ह्याज्ञाचक्रनिवासिनी |
अत्यन्तगहनातीता दिव्यमार्गविबोधिनी ॥ ६८ ॥ सुधापानरता सौधी सुधासारा सुधात्मिका |
परमात्मस्वरूपा च कुण्डलिन्यमितप्रभा ॥ ६९ ॥ दिव्यस्थानत्रयातीता स्थानत्रयनिवासिनी |
स्थानदा स्थानगम्या च स्थानास्थानविवेकिनी ॥ ७० ॥ संभ्रमा भ्रमरूपा च विभ्रमा भ्रमवर्जिता |
विश्रान्तिरूपा शृङ्गाटनिलयाऽकथवादिनी ॥ ७१ ॥ निर्मला निर्मलज्ञेया मलत्रयविशोषिणी |
अव्यक्ता व्यक्तरूपा च व्यक्ताव्यक्तविवर्जिता ॥ ७२ ॥ तुरीया च स्वराकारा कुमारी पूजकप्रिया |
गिरिजा गिरिशाराध्या गीर्वाणगणसेविता ॥ ७३ ॥ जाग्रद्रूपा स्वप्नरूपा तथा सुषुप्तिरूपिणी |
अवस्थात्रयविनिर्मुक्ता चिदानन्दस्वरूपिणी ॥ ७४ ॥ हंसिनी हंसरूपा च मुण्डमालाविभूषणा |
आरक्तनयना रक्तभूषणा निरुपद्रवा ॥ ७५ ॥ भक्तप्रिया मुक्तिदात्री भुक्तिदा भुवनात्मिका |
जन्मसंसारबन्धघ्नी जननी जनकात्मिका ॥ ७६ ॥ जरामरणविध्वंसिन्यम्बुजाक्षी शिवप्रिया |
प्राणशक्तिर्भूतमाता सुकेशिन्यथ कौशिकी ॥ ७७ ॥ कोशरूपा भूरिभूषा पूर्णरूपा पुरातनी |
अकलङ्कशशाङ्काभा मुद्रापुस्तकधारिणी ॥ ७८ ॥ त्रिनेत्रा त्रिपुरा चैव त्रिस्थाना त्रिकविग्रहा |
त्रिमूर्तिस्त्रिपुराम्बा च महात्रिपुरसुन्दरी ॥ ७९ ॥ पञ्चप्रकारयजनं प्रोक्तं तेऽतिरहस्यगम् |
गोप्यं गोप्यं पुनर्गोप्यं गोपनीयं प्रयत्नतः ॥ ८० ॥ एवं पूजयिता मर्त्यो मत्समो भवति ध्रुवम् |
[मुद्रितग्रन्थे पाठलोपः] ॥ इति ॥ श्रीतन्त्रराजे—(३० प० ४३ श्लो०) [पाठसंदेहाः: ६० बृंहिताश्वमुखी इति पदविभागः, ६५ प्रामाण्यमतिसंस्थिता, ७१ अकथवादिनी|
पाठभेदाः: वाग्देवी च क.; निराहारा क.; सुधाधारा क.; विभ्रमा क.; वादिनी क.; कौलिकी क.|
]

Druckseite 834

Zuordnung zur deutschen Fassung: 35.PAH.

ततः परैः पराख्यैश्च होमैः सिद्धिं शृणु प्रिये |
स्वमूलाधारके वह्नौ कुण्डलिन्यग्रगामिनि ॥ १ ॥ वाच्यवाचकरूपं तु प्रपञ्चं जुहुयात् तथा |
येनावयोः समो देवि जायते हवनेन च ॥ २ ॥ तद्विधानं वद प्राज्ञ शम्भो सम्यङ्ममाधुना |
आधारे वह्निसंस्थानं कुण्डलिन्याः स्थितिं ततः ॥ ३ ॥ तद्रूपं तत्क्रियां सर्वं वद मे विशदं प्रभो |
शृणु वक्ष्ये विधानं ते सम्यग्विस्तरतोऽधुना ॥ ४ ॥ प्राणाग्निहोत्रविद्येति यद्यजुष्यां श्रूयते परम् |
यज्ज्ञात्वा वनितागर्भं न प्रयाति नरो ध्रुवम् ॥ ५ ॥ यद्व्ययायासरहितमनन्यापेक्षनिर्वहम् |
यन्मनःक्लेशविश्रान्तेः स्थानं निःशेषकल्मषम् ॥ ६ ॥ सुखास्पदं स्वर्गं विश्वमयं चिद्ज्ञेयवेदनात् |
अत्रोक्तशेषमखिलं षट्त्रिंशे पटले स्फुटम् ॥ ७ ॥ प्रदर्श्यते ततस्तत्र वर्णयामि च किञ्चन |
नित्यानित्योदिते मूलाधारमध्येऽस्ति पावकः ॥ ८ ॥ सर्वेषां प्राणिनां तद्वद् हृदये च प्रभाकरः |
मूर्ध्नि ब्रह्मरन्ध्राधश्चन्द्रमाश्च व्यवस्थितः ॥ ९ ॥ तत्त्रयात्मकमेव स्यादाद्यानित्यात्रिखण्डकम् |
तेषां त्रयाणामैक्यं तु मनसा भावयेत् तथा ॥ १० ॥ गमागमाभ्यां तेजोभिस्तेषामन्योन्यजैः शिवे |
तथा समिद्धं तत्तेजस्त्रयं बुद्ध्वाथ तन्मयम् ॥ ११ ॥ विश्वं विकल्पविधुरं भावयेदद्वयं च तम् |
तेषां त्रयाणां वर्णानां प्रागुक्तानां क्रमेण वै ॥ १२ ॥ द्वाभ्यामन्यतमं कृत्वा पुटितं जुहुयाच्च तैः |
* पुटितान् भानुदह्र्णैः स्वरांस्तारेण हंकृतेः ॥ १३ ॥ कुण्डलीमुखमार्गाग्नौ जुहुयान्निश्चलाशयः |
वह्निभानुपुटान्तःस्थैश्चान्द्रैस्तद्वद्धुनेत् क्रमात् ॥ १४ ॥ चन्द्रभानुपुटान्तःस्थैर्वह्न्यर्णैर्जुहुयात् तथा |
भानुचन्द्रपुटान्तःस्थैर्वह्न्यर्णैर्जुहुयात् तथा ॥ १५ ॥ चन्द्रवह्निपुटान्तःस्थैर्भान्वर्णैर्जुहुयादपि |
वह्निचन्द्रपुटान्तःस्थैरपि तद्वद्धुनेत्तथा ॥ १६ ॥ तथा तेषां प्रातिलोम्यात् षोडशानां हुनेदपि |
एवं द्वादशधा होममक्षरैः स्यादुदीरितैः ॥ १७ ॥ कृत्वा तद्वाच्यमखिलमर्थरूपं च तैः समम् |
तेजस्व्यात्मरूपं स्यादावयोरपि तद्वपुः ॥ १८ ॥ अन्यानि चावयोरिच्छागृहीतानि वपूंषि वै |
तान्यन्यदेवतादेहसमानीच्छावशानि च ॥ १९ ॥ मुक्तिश्च तन्मयीभावस्थैर्यमेव समीरितम् |
तत्र कुण्डलिनीं ब्रूहि स्फुटं मे परमेश्वर ॥ २० ॥ तां वदामि शृणु परे रहस्यं परमाद्भुतम् |
मूलाधारस्थवह्न्यात्मतेजोमध्ये व्यवस्थिता ॥ २१ ॥ जीवशक्तिः कुण्डलाख्या प्राणाकारेण तेन सा |
प्रसुप्तभुजगाकारा त्रिरावर्ता महाद्युतिः ॥ २२ ॥

  • पुटितान् इत्यादिभिः पञ्चभिः श्लोकैः प्राणाग्निहोत्रमन्त्रादिकमुपदिशति—ककारादितकारान्तैः षोडशभिर्भानुवर्णैः सकारादिथकारान्तैर्व्युत्क्रमात् अग्निवर्णैः स्वरानकारादीन् चन्द्रवर्णान् पुटितान् जुहुयात् |
    तन्मन्त्रायथा—कअसों, खआषों इत्यादयः तअःथों इत्यन्ताः षोडश |
    वह्निभानु—इति |
    तन्मन्त्रा यथा—थअतों, दआणों इत्यादयः सअःकों इत्यन्ताः ॥ चन्द्रभानु—इति |
    तन्मन्त्रा यथा—अथतों, आदणों इत्यादयः अःसकों इत्यन्ताः ॥ भानुचन्द्र—इति |
    तन्मन्त्रा यथा—कथअःओं, खदऔं, गधओं इत्यादयः तसअं इत्यन्ताः ॥ चन्द्रवह्नि इति |
    तन्मन्त्रा यथा—अकसों, आखषों इत्यादयः अःतथों इत्यन्ताः ॥ वह्निचन्द्रेति |
    तन्मन्त्रा यथा—थकअःओं, दखऔं इत्यादयः सतअं इत्यन्ताः ॥

[पाठसंदेहाः: १ परैः पराख्यैश्च, ७ चिद्ज्ञेयवेदनात्, ८ नित्यानित्योदिते, १३ भानुदह्र्णैः तथा हंकृतेः इति अस्पष्टाक्षराणि; टिप्पणीस्थमन्त्रदृष्टान्तानां संयुक्ताक्षरस्वरानुस्वाराः बहुत्र अनिश्चिताः—अत्र दत्तानि रूपाणि न निश्चितमन्त्रपाठाः|
पाठभेदाः: स्वास्यगामिनि ख.; चित्त ख.; हितं क., यत् ख.; अपि क.; तु तैः क.; सम्यगिच्छा ख.; राध क.|
]

Druckseite 835

Zuordnung zur deutschen Fassung: 35.PAH.

मायाशीर्षा नदन्ती त्रागुच्चरन्त्यनिशं स्वगे |
सुषुम्णामध्यदेशे सा यदा कर्णद्वयस्य तु ॥ २३ ॥ पिधाय न शृणोत्यस्या ध्वनिं तस्य तदा मृतिः |
एवं सा जीवशक्तिस्तु यदा कुण्डलिनीस्थितिम् ॥ २४ ॥ विहाय ऋजुतां याति स्वेच्छादण्डाहता सती |
तदा विश्वप्रतीतिः स्यात् प्राणिनामन्यदा पुनः ॥ २५ ॥ निशान्धकारे भुवनस्थितिवत्स्वात्मनः स्थितिः |
एवं तां वेत्ति यो देहे (देशिकादेशदर्शिताम् ॥ २६ ॥ स वेत्ति ब्रह्म परमं मां त्वामपि च साधकः |
जीवन्मुक्तः स विज्ञेयः शुद्धात्मासक्तमानसः ॥ २७ ॥ अस्पृष्टपुण्यपापश्च शोकहर्षातिभूमिगः |
रागद्वेषविनिर्मुक्त)स्त्यक्तसर्वक्रियाफलः ॥ २८ ॥ निरुपाधिकसन्तुष्टः स्वेच्छाधीनेच्छया युतः |
स्वदेहमात्रयात्रश्च समश्च स्तुतिनिन्दयोः ॥ २९ ॥ समारिमित्रः कल्याणगुणशीलदयान्वितः |
एवं स कथितो जीवन्मुक्तो लोकेषु साधकः ॥ ३० ॥ इतरः पूजने देव्या भजने च सकौतुकः |
कालेन सिद्धिभाग्भूयादितरो दुःखभाजनम् ॥ ३१ ॥ पूर्वप्रोक्तो जीवन्मुक्तः, द्वितीयः कालेन सिद्धिभाग्जीवन्मुक्तसदृशो भूयादित्यर्थः |
तदितरः प्रोक्तद्वयातिरिक्तो दुःखभाजनं भवतीति |
तथा— जन्मभिर्बहुभिः क्लिष्टो मूर्खो विद्याधनोद्भवैः |
मदैरुन्मदचित्तः सन्नधोऽधो याति योनिषु ॥ ३२ ॥ नित्यासु भक्तिर्भुवने प्रक्षीणे पापकर्मणि |
जायते यद्बलाल्लोके भवेत् प्रागुक्तलक्षणः ॥ ३३ ॥ नरो, भवन्ति तां भक्तिं प्राप्य लोकेषु देवताः |
दृश्यन्ते भानुचन्द्रारबुधजीवसितासिताः ॥ ३४ ॥ अन्ये च लोकपालाद्यास्तद्भक्तिप्राप्तसंपदः |
बहुना किं परं देवि नित्याभिः सदृशानघे ॥ ३५ ॥ न सन्ति देवता विद्यास्तस्मात्ता एव देवताः |
भावयाम्यहमद्यापि त्रिकाले विग्रहान्वितः ॥ ३६ ॥ तद्रश्मिव्याप्तचक्रस्था ग्रहाश्च तव दर्शिताः |
विधिविष्ण्वशेषात्मत्वं तासामेव निजेच्छया ॥ ३७ ॥ अन्याश्च देवता या यास्तास्तास्तन्मयविग्रहाः |
[मुद्रितग्रन्थे पाठलोपः] ॥ प्रागुक्तमन्त्रभेदा देवताभेदाश्च सर्वे नित्याभेदा एवेत्यर्थः |
तत्प्रदर्शनमेतज्ज्ञानार्थमिति |
तथा— पररूपे तु वक्ष्यामि होमं ते महदद्भुतम् |
यत्सिद्धिः सिद्धरूपाणां प्रागुक्तानां भवेत् सदा ॥ ३८ ॥ अन्येषां न भवेद्भावस्तथा सर्वाश्रयो महान् |
प्रक्षीणाशेषपापानां भक्तिः स्याद्भक्तसेविनाम् ॥ ३९ ॥ नित्याविद्यासु भक्तानां लक्षणं शृणु सुन्दरि |
आमुष्मिकासंशयत्वं सन्तोषो नित्यपूर्णता ॥ ४० ॥ सुखिता त्यागिता ज्ञानं कृतज्ञत्वमलुब्धता |
अकार्पण्यमदीनत्वं परचिन्तानियमनः ॥ ४१ ॥ दयालुता मनस्वित्वमवैषम्यं मनःस्थितौ |
लाभहान्योः प्रीतिरोषाभावः कल्याणशीलता ॥ ४२ ॥ कल्याणाभिनिवेशित्वं सदा कल्याणकीर्तनम् |
अकल्याणकथालापवैमुख्यं स्वेच्छया स्थितिः ॥ ४३ ॥ सदैश्वर्यं च भोक्तृत्वं नैष्ठिकत्वमजिह्मता |
सर्वानुकूल्यं सङ्गीतप्रियत्वं वाञ्छिताप्तयः ॥ ४४ ॥ राजयोषित्प्रभुप्राज्ञबहुमानममत्सरः |
सर्वोत्थित्ववाञ्छा च लक्षणानीरितानि ते ॥ ४५ ॥ यद्विकल्पस्वरूपं तु मनस्तन्निर्विकल्पके |
निधानं परहोमं तु स्थूलसूक्ष्मं च यन्मयम् ॥ ४६ ॥ उच्चावचविकल्पानां वस्तूनामग्निदाहतः |
तन्मयत्वादैकरूप्यं स्थूलहोममुदीरितम् ॥ ४७ ॥ [पाठसंदेहाः: २३ त्रागुच्चरन्ती इति त्रयस्य सम्बन्धः अनिश्चितः; २७ शुद्धात्मासक्तमानसः इति असक्तमानसः अर्थेन; ४५ सर्वोत्थित्ववाञ्छा इति अस्पष्टपाठः, सर्वहितवाञ्छा सम्भाविता|
२६–२८ मुद्रितकोष्ठकौ यथास्थानं रक्षितौ|
पाठभेदाः: तद् क.; नित्याः ग.; ३५ सदृशाः अनघे इति पदच्छेदः; तज्ज्ञसेविनाम् ख.; ऐक्यरूपः ख.|
]

Druckseite 836

Zuordnung zur deutschen Fassung: 35.PAH, 35.LSP.

सूक्ष्महोमं तथा शब्दैर्नानारूपैस्तु वाचकैः |
वाच्यार्थानामशेषेण वेद्यवेतृचिदात्मना ॥ ४८ ॥ स्थितिः परो भवेद्धोमः सर्वभेदविलापनात् |
स्वात्मरूपमहावह्निज्वालारूपिषु सर्वदा ॥ ४९ ॥ निरिन्धनेद्धरूपेषु परमार्थात्मनि स्थिरे |
निर्व्युत्थानविलापस्तु परहोमः समीरितः ॥ ५० ॥ इति ॥ लक्ष्मीकुलार्णवे |
श्रीदेव्युवाच— अतिदारिद्र्यसिन्धौ तु मग्नानां परमेश्वर |
उद्धारक्रमतो देव पूजां वद विधानतः ॥ १ ॥ दारिद्र्यध्वंसनीं पूजां ललितायाः सविस्तरम् |
शीघ्रसंपत्सिद्धिभूतां कृपया वद मे प्रभो ॥ २ ॥ श्रीईश्वर उवाच |
शीघ्रसंपत्प्रसिद्ध्यर्थं भार्गवेण कृता पुरा |
श्रीमत्त्रिपुरसुन्दर्याः सा पूजा कथ्यते मया ॥ ३ ॥ ययातिमन्दभाग्योऽपि कुबेरसदृशो भुवि |
जायते नात्र संदेहस्तां पूजां शृणु वल्लभे ॥ ४ ॥ चक्रपूजां विधायादौ नैमित्तिकमथाचरेत् |
तत्तदावरणस्थानेष्वियं पूजा विधीयते ॥ ५ ॥ ताः शक्तीः संप्रवक्ष्यामि राज्यसंपत्प्रदायिकाः |
हारनूपुरसंयुक्ता कमलद्वयधारिणी ॥ ६ ॥ लक्ष्मीः परशिवमयी शुद्धजाम्बूनदप्रभा |
तेजोरूपा च कमलवसतिर्विश्वमोहिनी ॥ ७ ॥ सर्वभूषोज्ज्वलाङ्गी च बीजापूरधरा तथा |
आद्या शक्तिश्च सकलजननी कलशधारिणी ॥ ८ ॥ विष्णुवामाङ्गसंस्था च ततश्च कमलालया |
श्रीमत्सौभाग्यजननी भार्गवी च सनातनी ॥ ९ ॥ सर्वकामफलावाप्तिसाधनैकसुखावहा |
हिरण्यवर्णा हरिणी सुवर्णललितस्रजा ॥ १० ॥ समस्तसंपत्सुखदाऽखिलसौभाग्यदायिनी |
समस्तकल्याणकरी ज्ञानदा च हरिप्रिया ॥ ११ ॥ विज्ञानसंपत्सुखदा ह्यश्वपूर्णा हिरण्मयी |
विचित्रवाङ्मूर्तिकरी रथमध्या मनोहरा ॥ १२ ॥ हस्तिनादप्रमोदा चानन्तसौभाग्यदायिनी |
सर्वभूतान्तरस्था च स्वर्णप्राकारमध्यगा ॥ १३ ॥ समस्तभूतेश्वरी च विश्वरूपा प्रभामयी |
दारिद्र्यदुःखौघतमोपहन्त्री पद्मिनी तथा ॥ १४ ॥ दीनार्तिविच्छेददन्ता कृपाकलितलोचना |
प्रणतस्वान्तशोकघ्नी शरणागतरक्षणा ॥ १५ ॥ शान्तिः कान्तिः पद्मसंस्था कमनीयगुणाश्रया |
क्षान्तिर्दान्तिश्च दुरितक्षयकारिण्यतः परम् ॥ १६ ॥ शशिशेखरसंस्था च धनधान्यसमृद्धिदा |
शक्ती रतिर्नित्यपुष्टा रजनीकरसादरा ॥ १७ ॥ करीषिणी च भक्तिश्च भवसागरतारिणी |
मतिः सिद्धिर्धृतिश्चैव मधुसूदनवल्लभा ॥ १८ ॥ पुष्टिर्हिरण्यमाला च शुभलक्षणलक्षिता |
अतिदुर्गतिहन्त्री च वरसद्गतिदायिनी ॥ १९ ॥ दिवि देवगणाराध्या भुवनार्तिविनाशिनी |
आर्द्रा पुष्करिणी पुष्टिर्धरणीधरवल्लभा ॥ २० ॥ दारिद्र्यदुःखहन्त्री च भयविध्वंसिनी तथा |
श्रीविष्णुवक्षःस्थलगा ह्यशेषविभूतिदा ॥ २१ ॥ लक्षणालक्षिताङ्गी च पद्मा पद्मासनार्चिता |
विद्या संपत्करी चैव देवसङ्घाभिपूजिता ॥ २२ ॥ भद्रा च भाग्यरूपा च नित्या निर्मलबुद्धिदा |
सत्या च सर्वभूतस्था रत्नगर्भान्तरस्थिता ॥ २३ ॥ [पाठसंदेहाः: १५ विच्छेददन्ता इति संयुक्तपदं; १७ रजनीकरसादरा इति|
पाठभेदाः: यष्टिः क.; ललिताङ्गी क.|
]

Druckseite 837

Zuordnung zur deutschen Fassung: 35.LSP.

रम्या शुद्धा च कान्ता च कान्तिमद्भासिताङ्गका |
सर्वसौख्यप्रदा देवी भक्तौघाभयदायिनी ॥ २४ ॥ श्वेतद्वीपकृतावासा जगन्माता जगन्मयी |
रत्नगर्भस्थिता सौम्या क्षीराम्बुधिकृतालया ॥ २५ ॥ प्रसन्नहृदया चैव परिपूर्णा हिरण्मयी |
वसुन्धरा श्रीधरा च वसुदोग्ध्री कृपामयी ॥ २६ ॥ विष्णुप्रिया रत्नगर्भा समस्तफलदा तथा |
रसातलगता चैव सुव्रता च हरिप्रिया ॥ २७ ॥ धरणीगर्भसंस्था च समुन्नतमुखी तथा |
समस्तपुरसंस्था च परिपूर्णमनोरथा ॥ २८ ॥ करुणारसनिःष्यन्दनेत्रद्वयविलासिनी |
सर्वराजगृहावासा महालक्ष्मीगुणान्विता ॥ २९ ॥ वैकुण्ठनगरस्था च क्षीरसागरकन्यका |
योगिहृत्पद्मसंस्था च कल्पवल्ली दयावती ॥ ३० ॥ भक्तचिन्तामणिश्चैव ह्यादिमायेन्दिरा रमा |
निराकारा च साकारा ब्रह्माण्डचयधारिणी ॥ ३१ ॥ एकनाथाद्यलक्ष्मीश्चाज्ञानहन्त्री गुणातिगा |
प्रज्ञानलोचनाशेषवाग्जाड्यमलहारिणी ॥ ३२ ॥ सुस्पष्टवाक्प्रदा चैव सर्वसंपद्विराजिता |
प्रभालावण्यसुभगा दोग्ध्री स्वर्णप्रदा तथा ॥ ३३ ॥ समस्तविघ्नोपहन्त्री भोगदा च विचक्षणा |
देवाधिनाथवन्द्या च दीनपोषणतत्परा ॥ ३४ ॥ माङ्गल्यबीजमहिमा निधिरूपिण्यनन्तगा |
आद्यादिलक्ष्मीश्च महासिद्धलक्ष्मीस्ततः परम् ॥ ३५ ॥ राज्यलक्ष्मीर्दिव्यलक्ष्मीः सुश्रीर्मङ्गलदेवता |
भक्तिदा मुक्तिदा चैव भुक्तिदा सद्गतिप्रदा ॥ ३६ ॥ कीर्तिदा धनदा चैव पुत्रपौत्रविवर्धिनी |
पद्मानना च पद्मोरुः पद्माक्षी पद्मसंभवा ॥ ३७ ॥ अश्वदायी च गोदायी धनदायी महाधना |
चन्द्रसूर्याप्तिसर्वाभा जातवेदान्तसंस्थिता ॥ ३८ ॥ दिग्गजेन्द्रसमाराध्या दिव्यभूषणभूषिता |
सर्वसंपत्प्रदा चैव तथा सर्वार्थसाधिनी ॥ ३९ ॥ एताश्च शक्तयो देव्याः पूजनीयाः प्रयत्नतः |
सर्वसंपत्समृद्धिः स्यादचिरेण न संशयः ॥ ४० ॥ सर्वदा पूजयेद्देवीं कृत्वा चक्रसमर्चनम् |
तस्य गेहे स्थिरा लक्ष्मीः पुत्रपौत्रानुगामिनी ॥ ४१ ॥ शक्तयः शतसंख्याताश्चाशीतिश्चतुरुत्तरम् |
आदौ संहृतिपूजां च कृत्वा सृष्टिक्रमं भजेत् ॥ ४२ ॥ स्थितिक्रमेण पूजां वै केचिदिच्छन्ति तान्त्रिकाः |
अथ वक्ष्ये महादेवि षट्सु चक्रेषु पूजनम् ॥ ४३ ॥ मूलाधारे यजेच्चक्रं वृतं पार्थिवरश्मिभिः |
रविवारे च सौभाग्यभाजनं जायते नरः ॥ ४४ ॥ इन्दुवारे च नाभिस्थमणिपूरकचक्रके |
पूजयेच्चक्रमध्यस्थां जलरश्मिभिरावृताम् ॥ ४५ ॥ भौमवारे लिङ्गदेशे स्वाधिष्ठाने तथा यजेत् |
तेजसां रश्मिभिर्वीतां बुधे हृत्पद्मसंस्थिते ॥ ४६ ॥ अनाहते वायुरश्मिवृतां तद्वद्यजेत् क्रमम् |
विशुद्धिचक्रके चैव गुरोर्वारे समाहितः ॥ ४७ ॥ आकाशांशुभिरावीतां यजेत् सर्वार्थसिद्धये |
आज्ञाचक्रे भृगोर्वारे मानसांशुभिरावृताम् ॥ ४८ ॥ यजेच्छ्रीचक्रमध्यस्थां यजेत् सौभाग्यसिद्धये |
ब्रह्मरन्ध्रे सहस्रारे शनिवारे विशेषतः ॥ ४९ ॥ पूजयेच्च जगद्धात्रीं सर्वरश्मिभिरावृताम् |
मनसा पूजयेदेवमन्वहं च समाहितः ॥ ५० ॥ [पाठसंदेहाः: ३२ एकनाथाद्यलक्ष्मी इति; ३८ चन्द्रसूर्याप्तिसर्वाभा जातवेदान्तसंस्थिता इति पदानामन्त्याक्षराणि अस्पष्टानि|
पाठभेदाः: कान्तिमुद्रा ग.; सुदया क.; तोषण ग.; भूतदा ग.; साधनी ग.; निगामिनी क.; क्रमात् ग.|
]

Druckseite 838

Zuordnung zur deutschen Fassung: 35.LSP, 35.KUP, 35.NTR, 35.TEQ.

न कदापि भवेद्रोगो दारिद्र्यं नोपजायते |
ग्रहपीडां विजित्याशु पुत्रपौत्रैः समेधते ॥ ५१ ॥ अत्र प्रोक्तचक्रेषु प्रोक्तवारेषु श्रीचक्रक्रममभ्यर्च्य, ततो लक्ष्मीशक्तीः समभ्यर्च्य तत्तद्रश्मीनां पूजनं तत्तन्नामकं कुर्यात् |
तत्तन्नामानि षट्शाम्भवरश्मिक्रमे ज्ञेयानि ॥ मातृकार्णवे— शक्तिकूटप्रभेदोत्थशक्तयोऽत्र प्रपूजिताः |
शक्तिकूटोपासनायाः फलं दास्यन्त्ययत्नतः ॥ १ ॥ तत्फलं तु प्रागेव दर्शितम् |
बीजद्वयं च तत्कूटरूपिणीशक्तिसंयुतम् |
सप्तार्णं समुच्चार्य पूजयेत् तत्र तत्र वै ॥ २ ॥ अत्र चतुरस्रेऽष्टादश, षोडशारे षोडश, अष्टदलेऽष्टौ, चतुर्दशारे चतुर्दश, दशारद्वये विंशतिः, अष्टारेऽष्टौ, अन्तरालिष्ठौ त्रिकोणे तिस्रः, शेषं बिन्दुचक्रे, एवं क्रमेण पूजयेत् |
पूजाक्रमस्तु—श्रीं सकलह्रीं रूपिणीशक्तिपादुकां पूजयामीति तत्तत्कूटमुच्चार्य पूजयेदित्यर्थः |
प्रथमतः क्रमपूजां विधाय तत एवं पूजयेत् |
केचित्तु क्रमपूजायामेव “अणिमासिद्धिपादुकां पूजयामि, [कूटबीजाक्षराणि अस्पष्टानि]कूटरूपिणीशक्तिपादुकां पूजयामि” इत्येकदैव पूजा कार्येति वदन्ति, तत्र यथागुरूपदेशं कार्यमिति |
तत्र लक्ष्मीशक्तिपूजायामपि पृथग्वा सहैव वा कर्तव्या |
एकदैव चेत् “हारनूपुरसंयुक्तारूपिणी अणिमासिद्धिपादुकां पूजयामि” इति क्रमं गुरुतः शास्त्रतश्च विज्ञायाचरेत् |
तथा— तथा वाग्भवकूटोत्थाः शक्तयः संप्रपूजिताः |
वाग्भवोपासनोक्तं हि फलं दास्यन्त्ययत्नतः ॥ ३ ॥ कामराजमहाकूटसंभवाः शक्तयः क्रमात् |
पूजिताः संप्रयच्छन्ति ह्यनायासेन तत्फलम् ॥ ४ ॥ इति |
त्रिपुरार्णवे— मध्यत्रिकोणे रेखासु नित्यानां मण्डलत्रयम् |
पञ्च पञ्च विभागेन मध्ये श्रीललितां यजेत् ॥ १ ॥ यद्दिने यां यजेत् तां तु सर्वावरणसंवृताम् |
पूजयेत् सर्वसौभाग्यहेतवे ज्ञानसिद्धये ॥ २ ॥ इति |
श्रीतन्त्रराजे (३६ प०)— अथ षोडशनित्यानां विधानानि त्वयाधुना |
कथितानि मया तानि श्रुतानि च महेश्वर ॥ १ ॥ तासां तव तथान्येषां देवतानां यथार्थतः |
स्वरूपं किं कथं विश्वं किमाकारं च दृश्यते ॥ २ ॥ प्राणिनां पुण्यपापानि किंरूपाणि च कैस्तथा |
तेषां जन्मानि केन स्युः का मुक्तिः संसृतिश्च का ॥ ३ ॥ कस्य मुक्तिः कथं बन्धः केन तस्य च मोचनम् |
किं मूलं संसृतेरस्याः कानि तत्त्वानि का च धीः ॥ ४ ॥ कानीन्द्रियाणि के प्राणाः को जीवः कः परस्तथा |
कः कालः के ग्रहाः सर्वं यथावन्मे वद प्रभो ॥ ५ ॥ येन वेदैश्च शास्त्रैश्च पुराणैरागमैरपि |
कथ्यते तत् स्फुटं ब्रूहि नातिसङ्कोचविस्तरम् ॥ ६ ॥ यत् त्वया विंशतिविधः कृतः प्रश्नः शिवेऽधुना |
तेषामुक्तक्रमेणैव कथयामि तवोत्तरम् ॥ ७ ॥ यैरुत्तरैः स्वस्वरूपं लभ्यते सम्यगञ्जसा |
यदितोऽन्यत्र सर्वत्र प्रोक्तं निह्नवचक्रतः ॥ ८ ॥ अत्राञ्जसा प्रोच्यते तद् दुर्बोधं तु निदर्शनैः |
तन्मयोक्तक्रमाज्ज्ञात्वा दुर्जयां वासनां शनैः ॥ ९ ॥ सत्यशुद्धस्फुटाशेषस्फुरत्तात्मा भवेद्ध्रुवम् |
गुह्यं रहस्यं परमं गोपयेत् सर्वतः सदा ॥ १० ॥ [पाठसंदेहाः: कूटपूजाव्याख्यायाम् अन्तरालिष्ठौ इति; तत्त्वप्रश्ने १ कथितानि मया इति वक्तृसम्बन्धः; ९ वासनाम् इत्यनन्तरं त्यागक्रिया अध्याहृता|
पाठभेदाः: तेषां ख.; सर्वं ग.; कथ्यन्ते ग.; ज्ञायते ख.|
]

Druckseite 839

Zuordnung zur deutschen Fassung: 35.TEQ.

यज्ज्ञानमिदमो ज्ञाने यज्ज्ञानमहमस्तथा |
द्वयोरपि च यज्ज्ञानं तज्ज्ञानं विद्धि मे वपुः ॥ ११ ॥ तासां तव तथान्येषां चैतन्यात्मा यथार्थतः |
लाभादेवं वासनाया विनाशादन्यथा तथा ॥ १२ ॥ स्थित आत्मप्रकाशः स्यान्नित्योऽप्रतिभटो महान् |
नित्याहृदयसंप्रोक्तस्फुटोपायेन वा भवेत् ॥ १३ ॥ सादृश्यबुद्धेर्द्वैरूप्यात् प्रपञ्चस्य च दृश्यते |
द्वैरूप्यमनयोरुक्तं सत्यासत्यमयततः ॥ १४ ॥ तेनैव प्राणिनां पुण्यपापकर्मसु वर्तनम् |
यथात्मज्ञानतोऽर्थेषु व्यापारः पुण्यसंज्ञकः ॥ १५ ॥ अनर्थेष्वर्थसंकल्पः पापाख्यो मनसा तथा |
जन्मानि नानारूपाणि यन्नित्यं क्लेशभाजनम् ॥ १६ ॥ यथार्थज्ञानमर्थानां मुक्तेस्तद्विपरीततः |
संसृतिर्मोचनं बुद्धेर्वासना बन्ध ईरितः ॥ १७ ॥ कर्मक्षयात् सद्गुरोस्तु कटाक्षोक्तिविमर्शतः |
मोचनं सर्वजन्तूनां नेतरेण कदाचन ॥ १८ ॥ संसृतेः कन्दमुदितमविवेकः परो महान् |
यदायत्तमिदं जीवभवनं परिकीर्तितम् ॥ १९ ॥ तत्त्वानि तत्त्वान्युक्तानि सर्वैः सर्वत्र सर्वदा |
ज्ञातृज्ञानज्ञेयमयान्यन्यथान्यानि सर्वदा ॥ २० ॥ का च धीरिति यत्पृष्टं तद्दुर्वचमपि स्फुटम् |
(कथयामि शृणु प्राज्ञे यदायत्ता च विंशतिः ॥ २१ ॥ मनो बुद्धिरहङ्कारश्चित्तमित्यादिनामभिः |
वस्तुभेदादभेदाच्च यदुक्तं सर्वतः सदा ॥ २२ ॥ तदेकमन्तर्यं स्थूलं सूक्ष्मं दुर्ज्ञेयमातिस्फुटम् |
) विषमं च समं विश्वं विश्वातीतमनामयम् ॥ २३ ॥ अरूपं सर्वरूपं च सर्वक्लेशकरं हरम् |
सर्वतृष्णाकरहरं सर्वेषां सर्वतः सदा ॥ २४ ॥ सत्त्वरूपं रजोरूपं तमोरूपमतन्मयम् |
संसाररूपमुक्तीशेविग्रहं सुस्थिरं चलम् ॥ २५ ॥ अपापं पापरूपं च जीवरूपं परात्मकम् |
अतीन्द्रियं चेन्द्रियात्मा निर्देवं सर्वदेवतम् ॥ २६ ॥ सर्वक्षोभात्मकं सर्वशान्तिरूपं च निर्दयम् |
सदयं चाविवेकात्मा विवेकपरमार्थकम् ॥ २७ ॥ उत्तारकं पातनकृद्भङ्गरूपं जयात्मकम् |
शोकात्मकं च निःशोकं सकौतुकमकौतुकम् ॥ २८ ॥ निर्यमं सदायुक्तं सावलेपमगर्वकम् |
अमर्षरूपमक्षोभ्यं सर्वक्षोभ्यं सुखासुखम् ॥ २९ ॥ क्रोधलोभमदद्रोहमत्सर्यकामविग्रहम् |
अस्पृष्टषड्गुणं षण्डं वनिता पुरुषस्तथा ॥ ३० ॥ अपकृष्टं तथोत्कृष्टं स्वच्छाकारं तथाविलम् |
अगाधमतिगम्भीरमुदारं कृपणं तथा ॥ ३१ ॥ भाग्यरूपमभाग्यात्म निर्भयं सभयं तथा |
अनिच्छमिच्छारूपं च कातरं वीरविग्रहम् ॥ ३२ ॥ निर्दोषं सर्वदोषात्म सर्वविन्मूढविग्रहः |
सङ्कोचरूपः सर्वेषां तथा सर्वप्रकाशकः ॥ ३३ ॥ अस्तेयरूपः स्तेयात्मा वश्योऽवश्यश्चरो मृदुः |
सरसं विरसं क्रूरं सौम्यं तैर्बहुभिस्तु किम् ॥ ३४ ॥ त्वन्मया धीः समाख्याता मन्मयी चिदुदीरिता |
उभयैक्यादविवेकात्मा जीवोऽन्यस्तद्विवेकवान् ॥ ३५ ॥ तस्यास्तु बुद्ध्या वेत्ति याथात्म्यं विकृतीरपि |
साम्यं स्वाविभेदित्वं सिद्धः प्राप्यफलानि च ॥ ३६ ॥ योगी स ब्रह्मविज्ज्ञानी शिवयोगी तथात्मवित् |
तेनैव विदितं सर्वं प्रपञ्चात्म्यैकविग्रहम् ॥ ३७ ॥ [पाठसंदेहाः: १२–१४ वाक्यसम्बन्धाः, १४ सादृश्यबुद्धेः, १७ मुक्तेः इति, २३ अन्तर्यं, २५ मुक्तीशेविग्रहम्, २९ सदायुक्तं, ३४ वश्योऽवश्यश्चरो इति क्रूरः सम्भावितः, ३६ स्वाविभेदित्वम्|
पाठभेदाः: ११ भानं क. (पुनः पुनः); १३ स्थिरः स्या ख.; १४ भवः क., शब्दस्य ख.; १५ परिवर्तते ख.; २३ तदेवं क.; अपि क.; ३२ स्तब्धवाचालविग्रहम् ग.; ३३ विनाशकः ग.; ३७ योगी ज्ञो ब्रह्मविज्ञानी ख.|
]

Druckseite 840

Zuordnung zur deutschen Fassung: 35.TEQ.

स्वात्मनस्तु मनोहेच्छया विषयग्रहणाय वै |
सृष्टानि भूतशक्त्यात्मविग्रहाणीन्द्रियाणि तु ॥ ३८ ॥ भूतात्मबुद्धिसंघातशक्तिचैतन्यजृम्भणम् |
प्राणास्तत्साक्षिभूतो हि जीवस्तत्त्वात्मकः परः ॥ ३९ ॥ कालस्तु पूर्वं बुद्धेर्यदुक्तं गुणसमस्तवान् |
काल इत्युत्तरं दत्त्वाहं यद्वाच्यं तद्वपुर्मम ॥ ४० ॥ न शक्यतेऽञ्जसा वक्तुं तथा दर्शयितुं तव |
तथापि तच्च यत्किञ्चिद्व्याकरोमि समञ्जसम् ॥ ४१ ॥ अहोरात्रादिभेदस्तु चन्द्रार्कादिसमन्वयात् |
तेन तन्मयतारूपकथनं नोचितं ततः ॥ ४२ ॥ लवत्रुट्यादयो यत्तद्भाष्यन्ते खण्डकास्तु तत् |
कालस्य रूपं तत्प्रोक्तं यदनाद्यन्तविग्रहम् ॥ ४३ ॥ लवत्रुट्यादिकं ब्रूहि यैः कालो ज्ञायते मया |
नलिन्याः पत्रनिचये सूचीविद्धेऽथ तस्य वै ॥ ४४ ॥ एकैकदलभेदोत्थावस्था लव उदाहृतः |
तत् त्रिंशद्गुणितं प्रोक्तं त्रुटीत्यादिशरीरवान् ॥ ४५ ॥ काल इत्युदितं तस्य स्वरूपं किं कथं भवेत् |
इति पृष्टेन तद्वक्तुं शक्यते सुस्फुटं मया ॥ ४६ ॥ स्वबुद्ध्या प्रोक्तमात्रस्य भावनाद्यत्तु लभ्यते |
तत्तस्य वपुरुद्दिष्टं नान्यास्ति गतिरस्य वै ॥ ४७ ॥ ग्रहास्तु चिन्मयाः काले क्वापि चक्रभ्रमात् पुनः |
भूतादीनि समस्तानि विकृतानि वितन्वते ॥ ४८ ॥ नानाविधास्तद्विकाराः प्रपञ्चो दृश्यते सदा |
तैरेव तेषां नाशश्च मरुतेव हविर्भुजः ॥ ४९ ॥ प्रश्नानामुत्तरं देव त्वया च कथितं विभो |
तथापि मे प्रपञ्चात्मविवेकोऽभून्न मेऽधुना ॥ ५० ॥ जननं मरणं चेति द्वयं कस्य कथं भवेत् |
अरूपस्य विभोस्तस्य जीवे तत्कथं स्थितिः ॥ ५१ ॥ कुतः स्थितिः कथं वा स्यात् तत्कालपरमात्मनोः |
मुक्तो वा जायते किन्तु परे वा संभवन्ति किम् ॥ ५२ ॥ कथं वा पञ्चभूतानां स्थितिर्देहेषु वान्यतः |
देहेषु जीवसंप्राप्तिः कीदृशीत्यादि मे वद ॥ ५३ ॥ येन श्रुतेन चित्ते मे शुश्रूषान्यस्य नो भवेत् |
तथा मे सर्वसन्देहांश्छिन्धि पूर्णोपदेशतः ॥ ५४ ॥ प्रागुक्तबुद्धिवैविध्यात्प्रारब्धकर्मविपाकतः |
जननं मरणं चेति द्वयं देहपरिग्रहात् ॥ ५५ ॥ प्रतप्तलोहपिण्डेऽग्निस्थितिवत् परविश्चयोः |
अवस्था कालपरयोस्तादात्म्यादेव वर्तनम् ॥ ५६ ॥ मुक्तास्तु जीवा न कदाप्याविर्भूयुः कुतश्चन |
न वाऽपूर्वाः संभवन्ति बुद्धेः कृत्यमशेषतः ॥ ५७ ॥ यादृक्काररूपेणैव मधूच्छिष्टादिविग्रहम् |
जीवादिरूपतो बुद्धिर्विशेषयति तत्परम् ॥ ५८ ॥ भूमेरवास्फुटं स्थानं कुतश्चित् सुस्थिरं सदा |
जलाग्न्योस्तत्र चान्यत्र व्यक्ताव्यक्ता स्थितिः सदा ॥ ५९ ॥ वायोः सर्वत्र सततमवस्थानं त्वनेकधा |
व्योम सर्वगमेव स्यात् कालताद्रूप्यतः सदा ॥ ६० ॥ देहेषु सुस्फुटं तेषामवस्थानं च पञ्चधा |
जीवानामागतिर्देहे मातापित्रोस्तु वीर्यतः ॥ ६१ ॥ तादात्म्यं सङ्गतं तत्र जृम्भते सा चिदात्मना |
तत्र प्रारब्धविरमान्मरणं निद्रया समम् ॥ ६२ ॥ सिद्धानां सर्वदा देहत्यागे भेदो न विद्यते |
प्रागेव तस्य देहात्मविवेकान्मनसि स्थिरे ॥ ६३ ॥ नेतरेषां तु साध्यानां साधकानां च कालतः |
पौषादिषु तु मासेषु षट्सु राकोपकण्ठतः ॥ ६४ ॥ मरणं सुगतेस्तस्य ज्ञापकं भवति स्फुटम् |
सिद्धस्तु सर्वतो मुक्तो देहेन्द्रियमनःस्थिरः ॥ ६५ ॥ [पाठसंदेहाः: ३८ मनोहेच्छया, ४० दत्त्वाहम्; ४६ शक्यते इति मुद्रितपाठः पूर्वोक्तनिषेधेन असंगतः, न शक्यते इति अनुवादे सम्भावितम्; ५६ परविश्चयोः, ५८ यादृक्काररूपेणैव, ५९ भूमेरवास्फुटम् इति|
पाठभेदाः: सा ख.; अत्र ख.; तथाकारः ख.; मे क.; वर्तते ग.; व्यक्त ख.; स ख.; पुष्यादि ख.ग.|
]

Druckseite 841

Zuordnung zur deutschen Fassung: 35.TEQ.

यतस्तन्वास्तु निधनं सर्वदा सर्वतस्तथा |
सुगतित्वं व्यनक्त्येवं जीवन्मुक्तो यतः स्वयम् ॥ ६६ ॥ देहवत्त्वे समानेऽपि प्राणिनां सर्वतः सदा |
बुद्धिवैविध्यरूपस्य कारणं किं वद प्रभो ॥ ६७ ॥ भूमिष्ठत्वे समानेऽपि तोयानां रसभेदवत् |
जायते तदाश्रयवशात् स च कर्मभिरेव वै ॥ ६८ ॥ यथाश्वत्थगतो वह्निरुपायैरितरैः क्वचित् |
नोपलभ्यो भवेच्छुष्कमथनव्यापृतिं विना ॥ ६९ ॥ तथात्मज्ञानसंप्राप्तिः सद्गुरुव्यापृतिं विना |
न कस्यापि भवेदेषा प्रतिज्ञा विश्वतोऽनिशम् ॥ ७० ॥ खननाद्भूगतं तोयं यथा समुपलभ्यते |
तथा सद्गुरुसंसेवां संप्राप्य स्वस्वरूपकम् ॥ ७१ ॥ सद्गुरोः पादसेवातः संप्राप्तात्मस्वरूपिणः |
विशेषः को भवेदन्यदुर्लभः सत्यविग्रहः ॥ ७२ ॥ आभिरूप्यमसन्देहः सन्तोषः परिपूर्णता |
दयार्द्रचित्तता रागद्वेषाविषयचित्तता ॥ ७३ ॥ सुलभत्वमगर्वित्वं सदा नियतशीलता |
कृतज्ञता सत्यता च परचिन्तानिवर्तनम् ॥ ७४ ॥ आर्जवं चावित्तलौल्यं विषयानतिसङ्गिता |
अदेध्येषञ्यमन्नोद्यं नातिगाढाशयात्मता ॥ ७५ ॥ वृथालापिष्वसक्तिश्च वृथाव्यापारवर्जनम् |
वृथाविनोदराहित्यं जिह्मचित्तैरसङ्गतिः ॥ ७६ ॥ पुरुषार्थार्थकथनचिन्ताकरणकौतुकम् |
अस्तेयशङ्किरास्तिक्यं परलोकानुचिन्तनम् ॥ ७७ ॥ देवतापूजनस्तोत्रवैभवालापशीलता |
पापानां वर्जनं पुण्यकरणे कौतुकं सदा ॥ ७८ ॥ परस्तवननिन्दासु विरतिर्वीतरागिता |
निःस्पृहत्वमलोलत्वमनाक्षेपोऽजडात्मता ॥ ७९ ॥ अगोपनं स्वभक्तानामभक्तानां च गोपनम् |
गुरुविद्यागमाचारस्तवनं तत्प्रवर्तनम् ॥ ८० ॥ सिद्धचिह्नानि चैतानि भवन्त्यात्मवतां ध्रुवम् |
न भवन्तीतरेषां तु प्रद्विषन्त्येव तांश्च ते ॥ ८१ ॥ तत्कृत्यं शृणु वक्ष्येऽहं यो लब्धस्वात्मवैभवः |
निरस्ताशेषसंसारमौढ्याज्ञानाविवेकवान् ॥ ८२ ॥ देशकालकुलाचारान् गुरुराजादिकल्पितान् |
पालयन् सुखितमुखः पूज्यपूजनकौतुकी ॥ ८३ ॥ देहास्थैर्यं तथाज्ञानव्यापारान् कालतः क्षणात् |
पतितान् बन्धुचित्ताज्ञादुर्लङ्घ्यान् स्ववयस्थितीन् ॥ ८४ ॥ स्वेन्द्रियाणां च सामर्थ्यं स्वकर्माणि कृतानि च |
मुहुर्मुहुर्विमृशेद्विरमेदशुभात्मनः ॥ ८५ ॥ वृथा न कालं गमयेद्द्यूतस्त्रीस्वापवादतः |
गमयेद्देवतापूजाजपयोगस्तवादिना ॥ ८६ ॥ गुरोः कृपाललापकथास्तोत्रागमविलोकनैः |
गमयेदनिशं कालं न वदेत् परदूषणम् ॥ ८७ ॥ प्रत्यक्षे च परोक्षे च स्तुवीत प्रणमेद्गुरुम् |
सद्गुरोस्तत्कृपाधिक्यैः पुण्यैः स्थैर्यैश्च सत्यतः ॥ ८८ ॥ रागलोभमदक्रौर्यपापपैशुन्यवर्जनैः |
सन्तोषैर्गाननियमशान्तिज्ञानादिभिस्तथा ॥ ८९ ॥ मिताहारो मितालापो विविक्तः सर्ववर्जितः |
नित्याचिन्ता स्वात्मशुद्धिः कृत्यमात्मवतां सदा ॥ ९० ॥ पूर्वोक्तद्वादशास्रस्य मध्ये कृत्वा यथाविधि |
योनिं तन्मध्यतो देवीं ललितां पृष्ठतो गुरून् ॥ ९१ ॥ पार्श्वयोरायुधान्यष्टौ कोणेषु परितः क्रमात् |
कामेश्वर्यादिकास्तिस्रस्तद्वद्द्वादशस्वपि ॥ ९२ ॥ [पाठसंदेहाः: ७५ अदेध्येषञ्यमन्नोद्यम् इति क्षतः पाठः; ८४ देहास्थैर्यम्, बन्धुचित्ताज्ञा, स्ववयस्थितीन्; ८९ क्रौर्य इति अस्पष्टम्; ९० विविक्तः सर्ववर्जितः|
पाठभेदाः: क्वेषु क.; तः स्वयं ग.; ज्ञाने ग.; षा ग.; तद् ख.; पुण्यैश्वर्यैः ख.; क्रोध ख.; षाचार ख.; भक्तसमवतारिता ख.; तत्र ख.|
]

Druckseite 842

Zuordnung zur deutschen Fassung: 35.TEQ, 35.YAV.

द्वादशान्या यजेत् तत्तन्नित्याविद्याभिरेव वा |
तन्नामविद्याभिर्वा ताः पूजयेत् साध्यकल्पनम् ॥ ९३ ॥ सन्ध्यात्रयं प्राक्संख्यं जपेत् तद्दिनविद्यया |
नान्यत् कृत्यं भवेत्तस्य नित्यनैमित्तिकादिकम् ॥ ९४ ॥ तन्मध्ये नवयोनिं वा विधायात्र स्वशक्तिभिः |
पूजयेत् प्राग्वदुभयप्रकारादैकयोगतः ॥ ९५ ॥ यावज्जीवं विधिस्त्वेष गदितः सिद्धये सदा |
सिद्धानामपि सर्वेषां येनासौ स्वात्मवानभूत् ॥ ९६ ॥

  • [समस्तमेतत्तन्त्रं ते कथितं परमेश्वरि |
    यत्परामर्शतो भावस्त्वावयोरैक्यमश्नुते ॥ ९७ ॥

तद्दद्यात् तन्त्रमेतत्तु नाभक्ताय कदाचन |
नाशिष्याय न दम्भाय प्रच्छन्नानयशीलिने ॥ ९८ ॥ नायाचते नास्तिकाय न लुब्धाय न मानिने |
न पापाय न वित्ताय नादक्षाय च भेदिने ॥ ९९ ॥ यस्तन्त्रमेतत् सकलं नित्याविद्यास्तु षोडश |
शक्त्या संगृह्य विधिवद्भजते स मदंशकः ॥ १०० ॥ शिवतत्त्वमयी व्याप्तिरिति सम्यक् समीरिता |
अस्या निफालनाच्चित्ते तत्त्वं स्वात्मसात्कृतम्] ॥ १०१ ॥ अत्र अस्यार्थतत्त्वं गुरुतो बोद्धव्यम् ॥ अथ यन्त्रविधिर्नानातन्त्रोक्तः प्रदर्श्यते |
तत्र श्रीमातृकार्णवे— अथ यन्त्रविधिं वक्ष्ये दृष्टादृष्टफलप्रदम् |
शुभेऽह्नि पूजयेद्देव स्वेष्टदेवं यतात्मवान् ॥ १ ॥ प्रत्यहं मन्त्रजपवान् हविष्याशी जितेन्द्रियः |
इदं यन्त्रं विलिख्य मे भवेदिष्टमिति स्फुटम् ॥ २ ॥ स्वप्ने मे कथय त्वमिति संप्रार्थ्य यत्नतः |
अधःशायी त्रिरात्रं तु स्वप्ने यद्वदति स्फुटम् ॥ ३ ॥ तद्यन्त्रं विलिखन्मन्त्री तत्कार्यं भवति ध्रुवम् |
सिद्धारिकोष्ठके सम्यग्विचार्य च पुनःपुनः ॥ ४ ॥ अरियन्त्रं परित्यज्य विलिखेत् सिद्धकोष्ठगम् |
तदा सिद्धिर्भवेन्नूनं नात्र कार्या विचारणा ॥ ५ ॥ प्रागुक्तयन्त्रमन्त्राणां विधिरेष प्रकीर्तितः |
[मुद्रितग्रन्थे पाठलोपः] ॥ इति |
अस्यार्थः—प्रथमतः शुभे दिने हविष्याशी जितेन्द्रियः स्वेष्टमन्त्रमष्टोत्तरसहस्रं जपित्वा रात्रौ शुचिर्भूत्वा अधःशायी स्वप्येत, स्वापसमये भो देवाऽमुककार्यमुद्दिश्यामुकदेवतायन्त्रं लेखिष्यामि तदिष्टं भवति वा न भवति स्वप्ने मे तथ्यं कथयेति प्रार्थयेत् |
ततः स्वप्ने यत्किञ्चित् यथा कथयति तथा विधेयम् |
अथवा सिद्धसाध्यादिकोष्ठं विचार्य सिद्धसुसिद्धस्थाने यदायाति तत्कर्तव्यं, अरिकोष्ठगं न कर्तव्यमित्यर्थः |
तथा— यन्त्रे यदुक्तं यद्द्रव्यं तत्संपाद्य प्रयत्नतः |
स्नातः शुक्लाम्बरधरो लिखेद्यन्त्रं रहस्यके ॥ ६ ॥ बीजस्योपरि षष्ठ्यन्तं साधकाख्यां समालिखेत् |
पार्श्वयोः कुरुयुग्मं च मध्ये कार्यमधस्तथा ॥ ७ ॥ साध्यस्याख्यां द्वितीयान्तां सर्वयन्त्रेष्वयं क्रमः |
[मुद्रितग्रन्थे पाठलोपः] ॥ अत्रायमर्थः—यद्देवतायन्त्रं मध्ये तद्देवताबीजं लेखनीयं, तद्बीजशिरसि षष्ठ्यन्तं साधकनाम अमुकस्येति, बीजाधः साध्यनाम द्वितीयान्तं अमुकमिति; बीजगर्भे वशमाकर्षणम् इत्यादिकर्म, बीजपार्श्वयोः कुरु २ एवं लिखेदित्यर्थः |
तथा— तत्प्रासादपराबीजं बीजस्याधो लिखेत् पुनः |
ईशान्यादिषु कोणेषु हंसः सोऽहमिति न्यसेत् ॥ ९ ॥ एतत्प्राणमयं बीजं नेत्रे श्रोत्रे च विन्यसेत् |
[मुद्रितग्रन्थे पाठलोपः] ॥ हंस इति ईशाने आग्नेये च, सोऽहमिति वायव्ये नैर्ऋत्ये च लिखेदित्यर्थः |
तथा— [पाठसंदेहाः: तत्त्वप्रश्ने ९९ वित्ताय नादक्षाय इति, १०१ निफालनात्; यन्त्रविधौ प्रासादपराबीजम्, प्राणमयम्|
यन्त्रविधेः मुद्रितसंख्या ७ अनन्तरम् अनङ्कितार्धश्लोकः, ततः ९; ८ न दृश्यते|
पाठभेदाः: दंभः क.; यन्त्रस्य ख.; देवं क.; कं ग.|
* कोष्ठकान्तर्गतं ९७–१०१ क. पुस्तके नास्ति|
]

Druckseite 843

Zuordnung zur deutschen Fassung: 35.YAV.

[35.YAV – Druckseite 843; Bildabgleich; lokale Lesungsunsicherheiten] लिखेद् दिक्पालबीजानि पूर्वादिदशदिक्षु च |
तास्वेव यन्त्रगायत्रीवर्णान् न्यस्येत् त्रिशः क्रमात् ॥१०॥ तद्बहिर्मन्त्रगायत्रीवर्णांस्तु क्रमतस्तथा |
यन्त्रराजाय शब्दान्ते विद्महे पदमीरयेत् ॥११॥ वरप्रदाय चाभाष्य धीमहीति पदं वदेत् |
तन्नो यन्त्रं समुच्चार्य ततश्चैव प्रचोदयात् ॥१२॥ प्रोक्ता तु यन्त्रगायत्री तत्तत्कल्पेषु मन्त्रिणा |
प्राणप्रतिष्ठामन्त्रं तु बहिः सर्वत्र वेष्टयेत् ॥१३॥ भूर्जपत्रे तथा क्षौमे तालपत्रेऽथवा लिखेत् |
स्वर्णपत्रे तारपत्रे ताम्रपत्रे च सुन्दरि ॥१४॥ यन्त्रं विलिख्य गुटिकां कृत्वा लोहत्रयेण च |
लाक्षया तु समावेष्ट्य जप्त्वा होमं समाचरेत् ॥१५॥ संपातसिक्तं संवेष्ट्य लाक्षया स्वर्णरूप्यके |
निक्षिप्य तत्तन्मन्त्रेण संपूज्य विधिवत् ततः ॥१६॥ गले वा मूर्ध्नि बाहौ वा धारयेदिष्टमाप्नुयात् |
अथ वश्यकरं यन्त्रं प्रोच्यते शैलसंभवे ॥१७॥ कांस्यपात्रे लिखेदष्टदलं कर्णिकया युतम् |
रोचनाचन्दनेनैव जातीकाष्ठसमुत्थया ॥१८॥ लेखन्या कर्णिकामध्ये साध्यनाम समालिखेत् |
अष्टपत्रेष्वष्टवर्गान् केसरेषु स्वरांल्लिखेत् ॥१९॥ वृत्तत्रयेण संवेष्ट्य चान्तरालद्वये तथा |
मातृकां विलिखेत् तद्वदनुलोमविलोमगाम् ॥२०॥ एवं विलिख्य यन्त्रं तु पूजयेदुपचारकैः |
सप्ताहाद्वशमायान्ति नरनारीनराधिपाः ॥२१॥ भूर्जपत्रे समालिख्य लोहत्रयसुवेष्टितम् |
धारयेद् बाहुमूले वै पूर्वोक्तफलभाग् भवेत् ॥२२॥ अथ वक्ष्येऽन्ययन्त्रं तु भूपुरं विलिखेद्बुधः |
रेखाद्वयेन मध्ये तु साध्यनाम समालिखेत् ॥२३॥ हृल्लेखापुटितं चाथ तदुपर्यध आलिखेत् |
मायाबीजचतुष्कं तु भूर्जे गन्धाष्टकेन च ॥२४॥ अनामारक्तयुक्तेन पूजयेद् वश्यकृद् भवेत् |
कुमारीपूजनं कृत्वा रक्तपुष्पान्नसंयुतम् ॥२५॥ बलिं दद्याच्छागमांसं ततः सिद्धिर्भवेद् ध्रुवम् |
यन्त्रधारणमात्रेण क्रोधस्तम्भं भवेत् क्षणात् ॥२६॥ अन्यद् यन्त्रं प्रवक्ष्यामि दक्षिणोत्तरगं तथा |
रेखाद्वयं समालिख्य तदुपर्यध आलिखेत् ॥२७॥ तथैव रेखायुग्मं तु मध्ये साध्यं समालिखेत् |
तारलक्ष्मीपुटं वामे दक्षिणे कोष्ठके तथा ॥२८॥ वैकारं सर्मसंयुक्तं विलिख्योपर्यधस्तथा |
कोष्ठत्रयं समालिख्य मध्यकोष्ठे चकारकम् ॥२९॥ सविसर्गं लिखेदेवं पार्श्वयोस्तु रमां लिखेत् |
भूर्जे रोचनयालिख्य शरावद्वयपुटे ॥३०॥ दग्ध्वा तद्भस्म चादाय पिबेद् दुग्धेन चैव हि |
स्वामी वश्यो भवेदस्य यावज्जीवं न संशयः ॥३१॥ अथान्यदपि वक्ष्यामि यन्त्रं परमदुर्लभम् |
षट्कोणं विलिखेन्मध्ये बहिर्भूबिम्बमालिखेत् ॥३२॥ मध्ये साध्यं च तत्कर्म मायागर्भं लिखेत् ततः |
मायाबीजं समालिख्य भूबिम्बे चाष्टदिक्षु च ॥३३॥ षट्कोणस्यान्तरालेषु कोणाग्रेष्वथ संलिखेत् |
भूर्जपत्रे लिखेदेवं रोचनाकुङ्कुमेन च ॥३४॥ शरावसंपुटे स्थित्वा पूजयित्वोपचारकैः |
तदग्रे तु जपेन्मायां सहस्रं यतमानसः ॥३५॥ तद्यन्त्रं धारयेन्मूर्ध्नि दिव्यस्तम्भनमुत्तमम् |
अथान्यदपि वक्ष्यामि यन्त्रं सुमहदद्भुतम् ॥३६॥ लिखेदष्टदलं पद्मं भूर्जपत्रे मनोहरे |
चतुरस्रेण संवेष्ट्य माया भृगुर्विसर्गवान् ॥३७॥ [Lesung 29 वैकारं सर्मसंयुक्तं unsicher. Fußnoten:16 रूपके ka;19 दलेष्व ka;26 क्रमात् ka;29 सकारं ka.]

Druckseite 844

Zuordnung zur deutschen Fassung: 35.YAV.

[35.YAV – Druckseite 844; Bildabgleich] एतद्बीजद्वयेनैव पुटितं साध्यमालिखेत् |
कर्णिकायां ततश्चाष्टदले च विलिखेत् पुनः ॥३८॥ मायासंपुटितां बालातार्तीयं तच्छरावयोः |
निक्षिप्य सर्वोपचारैः पूजयेत् प्रजपेत् तथा ॥३९॥ राजानं मोहयेत् सप्तरात्रादर्वाक् च साधकः |
मृत्युञ्जयाख्यं यन्त्रं तु वक्ष्ये रक्षाकरं परम् ॥४०॥ भूर्जपत्रद्वये चैव लिखेद्यन्त्रं पृथक्पृथक् |
प्रथमं विलिखेन्मध्ये कर्णिकायां समाहितः ॥४१॥ उपर्युपरिभागेन भूपुराणां च सप्तकम् |
वृत्तं तदुपरि न्यस्य तल्लग्नं रविपत्रकम् ॥४२॥ बहिर्भूपुरमालिख्य मध्ये साध्याख्यकर्म च |
विलिख्य द्वादशदले षण्ढस्वरविवर्जितान् ॥४३॥ द्वादशस्वरसंयुक्तान् लकारान् क्रमशो लिखेत् |
तद्बहिश्चतुरस्रस्य कोष्ठेषु त्रिशिखं न्यसेत् ॥४४॥ एतद्यन्त्रद्वयं योज्य क्वचित् संस्थाप्य यत्नतः |
उपरिष्टाच्छिलां स्थाप्य तदुपर्युपविश्य च ॥४५॥ उदङ्मुखो जपेद्विद्यां मातृकां लोकमातरम् |
एवमभ्यस्यतः पुंसो रोगमृत्युभयं कुतः ॥४६॥ अथ वक्ष्ये महायन्त्रं विवादे विजयप्रदम् |
रोचनाकुङ्कुमाभ्यां तु भूर्जपत्रे समालिखेत् ॥४७॥ चतुर्दलं कर्णिकायां साध्याख्यायुक्तकर्म च |
दलेषु मायां संलिख्य तद्यन्त्रं पयसि न्यसेत् ॥४८॥ विवादे जयमाप्नोति सर्वथा नात्र संशयः |
धनिकस्य वशीकृत्यै यन्त्रमन्यद्वदाम्यहम् ॥४९॥ रोचनाकुङ्कुमाभ्यां तु भूर्जपत्रे समालिखेत् |
षट्कोणं तु समालिख्य साध्याख्यां मध्यदेशके ॥५०॥ कोणान्तराले काम्यांश्च कोणाग्रेषु च संलिखेत् |
बहिर्वृत्तद्वयं कृत्वा मायया वेष्टयेद्बहिः ॥५१॥ पूजयेत् सप्तदिवसैर्देवीमाहात्म्यमुत्तमम् |
पठेत् तदग्रतो नित्यं कुमारीपूजनं चरेत् ॥५२॥ होमं कृत्वा तु तद्यन्त्रं धारयेद्बाहुमूलके |
यद्यद्धि याचते द्रव्यं तद् ददाति धनी पुनः ॥५३॥ न याचते पुनर्द्रव्यं यन्त्रराजप्रभावतः |
राजान्तिके स्थितो दुष्टः पैशुन्यं कुरुते यदा ॥५४॥ तदा तन्मोहनार्थं तु यन्त्रं कुर्वीत बुद्धिमान् |
भूर्जे लिखेद्वसुदलं रक्तेन भुजगस्य च ॥५५॥ कर्णिकायां साध्यनाम मायां वसुदलेष्वपि |
अर्धीशयुगभृगुं कोणचतुष्के संविलिख्य च ॥५६॥ बहिर्वृत्तद्वयं कृत्वा पूजयित्वा जले क्षिपेत् |
एकविंशतिदिनं यावद् दुष्टवश्यं भवेन्न ध्रुवम् ॥५७॥ अथाभिभाषे जयदं यन्त्रं मानप्रदं शिवे |
भूर्जपत्रे रोचनया चतुरस्रं तु मध्यके ॥५८॥ तल्लग्नमष्टपत्राणि तद्बहिर्भूपुरं लिखेत् |
मध्ये लिखेद्रमां हसौ दिग्दलेषु क्रमाल्लिखेत् ॥५९॥ रोधरोधस्तम्भयेति कोणेषु विलिखेत् सुधीः |
सविसर्गं च संवर्तं मध्ये मायाख्यया युतम् ॥६०॥ शरावद्वयमध्यस्थं पूजयेदुपचारकैः |
इन्द्रादिलोकपालेभ्यो बलिं दद्यात् समाहितः ॥६१॥ विवादे व्यवहारे च राजद्वारे भयापहम् |
मानदं तत् समाख्यातं यन्त्रमेतत् सुदुर्लभम् ॥६२॥ अन्यद्यन्त्रं प्रवक्ष्यामि यावज्जीववशप्रदम् |
अलक्तकैरनामासृग्रोचनैर्मन्मदैः सह ॥६३॥ भूर्जे च जातिलेखन्या चतुरस्रं तु संलिखेत् |
आद्यपङ्क्तौ सप्त लिखेद् बीजानि भुवनेशितुः ॥६४॥ मायाबीजानीत्यर्थः |
[Fußnoten:51 लिखेत् ga;57 शद्दिने ga (verkürztes Variantenwort);57 भवेन्न ध्रुवम् gedruckt, Sinn/Negation unsicher;56 Lautkompositum unsicher;63 मन्मदैः Lesung unsicher.]

Druckseite 845

Zuordnung zur deutschen Fassung: 35.YAW.

[35.YAW – Druckseite 845; Fortsetzung der Yantra-Regeln; Druckzählung springt von64 zurück auf63. Bildabgleich.] साध्यनामपुटत्वेन श्रीमायामनोभवैः |
द्वितीयपङ्क्त्यामथ च पुटिता रविबीजतः ॥६३॥ माया तत्पुटितानङ्गस्तृतीयायां ततः परम् |
मायाबीजचतुष्कं च चतुर्थ्यां विलिखेत् सुधीः ॥६४॥ चतुरस्राद्बहिर्दिक्षु त्यक्त्वा याम्यं गणेशितुः |
क्षिप्रप्रसादनस्यापि दशबीजानि संलिखेत् ॥६५॥ गं क्षिप्रप्रसादनाय नमः इति |
एवं यन्त्रं समालिख्य कृष्णमृन्निर्मितस्य च |
गणेशस्योदरे क्षेप्यं पूजयेदुपचारकैः ॥६६॥ तदग्रे पूजयेन्मन्त्रं सहस्रं यतमानसः |
देवदेव गणाध्यक्ष सुरासुरनमस्कृत ॥६७॥ देवदत्तं ममायत्तं यावज्जीवं कुरु प्रभो |
एवं मन्त्रं प्रजप्याथ हस्तमात्रेऽवटे तथा ॥६८॥ संस्थाप्य च गणाध्यक्षं गर्तं संपूरयेन्मृदा |
यावज्जीवं वशीभूयात् स नरो नात्र संशयः ॥६९॥ अथान्यदपि वक्ष्यामि यन्त्रं सुमहदद्भुतम् |
कर्पूररोचनाभ्यां च श्रीखण्डागुरुसंयुतम् ॥७०॥ चतुर्दलाब्जं विलिखेद् भूर्जपत्रे मनोहरे |
कर्णिकायां लिखेत् साध्यं ईकारं च ततः परम् ॥७१॥ ऊँनमश्च तथा लेख्यं पूर्वपश्चिमपत्रयोः |
अजिते इत्यपि लिखेद् दक्षिणोत्तरपत्रयोः ॥७२॥ त्रिदिनं पूजयेद्यन्त्रं चतुर्थेऽह्नि समाहितः |
ब्राह्मणं भोजयित्वैवं यन्त्रं बाहौ च धारयेत् ॥७३॥ दर्शनादेव साध्योऽस्य वश्यो भवति निश्चितः |
भृत्यवश्यकरं यन्त्रं भूर्जे रोचनया लिखेत् ॥७४॥ चतुर्दलं कर्णिकायां साध्यं मायोदरे लिखेत् |
हृल्लेखां तु दलेष्वेवं पूजयेद्विधिपूर्वकम् ॥७५॥ दधिमध्ये क्षिपेद्यन्त्रं भृत्यवश्यकरे भवेत् |
दुष्टं प्रभुं वशीकर्तुं चतुरस्रं विरच्य च ॥७६॥ साध्यनाम लिखेन्मायागर्भे मध्ये च यत्नतः |
लिखेद्रोचनया भूर्जे दुष्टप्रभुवशंकरम् ॥७७॥ राजिकासाध्यपांशूत्थप्रतिमाया हृदि क्षिपेत् |
उपचारैः सुसंपूज्य चुल्लीपार्श्वे निखातयेत् ॥७८॥ दिक्पालेभ्यो बलिं दद्यान्महाकालाय वै पुनः |
अजारक्तेन संमिश्रं दुष्टभूपं वशं नयेत् ॥७९॥ भर्तृवश्यकरं यन्त्रं स्त्रीणां दौर्भाग्यनाशनम् |
रोचनाकुङ्कुमाभ्यां च भूर्जपत्रे मनोरमे ॥८०॥ चतुरस्रं लिखेन्मध्ये तल्लग्नाष्टदलानि च |
कोणेषु विलिखेन्मायाबीजानां च त्रयं त्रयम् ॥८१॥ मध्ये नामार्णपुटितं मायाबीजत्रयं लिखेत् |
पत्रेषु विलिखेन्मायाबीजानां च त्रयं त्रयम् ॥८२॥ यजेच्छुक्लत्रयोदश्यामुपचारैरुदङ्मुखः |
निशि सप्ताहमेवं तु कृत्वान्ते भोजयेन्मुदा ॥८३॥ सुवासिनीः सप्तसंख्या ललिताप्रीतये पुनः |
यन्त्रं धातुगतं धार्यं नारीणां भाग्यदायकम् ॥८४॥ अथान्यदपि वक्ष्यामि भर्तृवश्यकरं परम् |
रोचनाकुङ्कुमाभ्यां तु भूर्जपत्रे सुशोभने ॥८५॥ लिखेदष्टदलं पद्मं साकारपुटितं तथा |
साध्यनाम च तन्मध्ये हृल्लेखां पत्रमध्यतः ॥८६॥ निशि संपूज्य यन्त्रं तु त्रिदिनं भोजयेत्ततः |
सुवासिनीत्रयं पश्चाद्धारयेद् गलदेशके ॥८७॥ भर्तृवश्यकरं स्त्रीणां क्षिप्रमेव न संशयः |
लिखेदष्टदलं पद्मं कर्णिकायां समालिखेत् ॥८८॥ हंसौं क्लीं भुवनेशी च बीजत्रयमतन्द्रितः |
दलेष्वपि लिखित्वैवं बीजानां च त्रयं त्रयम् ॥८९॥ [Lesungsunsicherheiten:63 erster Bījaname श्री;72 ऊँ;86 साकार;89 हंसौं. Fußnoten:79 व्यालाय ka;89 हसौं ka.]

Druckseite 846

Zuordnung zur deutschen Fassung: 35.YAW.

[35.YAW – Druckseite 846; Bildabgleich; redaktionelle Ausnahme106b–109] भूर्जे रोचनयालिख्य पूजयेच्च दिनत्रयम् |
हेममध्यगतं कृत्वा धारयेद्बाहुमूलके ॥९०॥ स्त्रीणां सौभाग्यदं प्रोक्तं भवेद् दौर्भाग्यनाशनम् |
निजरक्तकुशीताभ्यां लिखेद्भूर्जे चतुर्दले ॥९१॥ क्रोधबीजं साध्यनामयुतं मध्ये दलेष्वपि |
पूजयित्वा क्षिपेद्यन्त्रमाज्ये चाकृष्टिकारकम् ॥९२॥ अथाकृष्टिकरं यन्त्रं त्रिपुराया वदाम्यहम् |
भूर्जपत्रे रोचनया षट्कोणं विलिखेद् बुधः ॥९३॥ वाक्कामपुटितं साध्यनाम मध्ये समालिखेत् |
बालातृतीयबीजं च कोणमध्येषु संलिखेत् ॥९४॥ पूजयेदुपचारैश्च घृतमध्ये निवेशयेत् |
साध्यस्याकर्षणं भूयात् सप्ताहान्नात्र संशयः ॥९५॥ शिलायां विलिखेद्यन्त्रं हरिद्राया रसैः पुनः |
कर्णिकायां साध्यनाम भूबीजोदरगं लिखेत् ॥९६॥ दलेष्वष्टसु भूबीजं पूजयेदुपचारकैः |
पीतैरुपर्यधश्चापि शिलाभ्यां संपुटीकृतम् ॥९७॥ भूमौ खनित्वा संस्थाप्य शिलाभिः पूरयेन्मृदा |
मुखस्तम्भो वादिनां च भवेत् क्षिप्रं न संशयः ॥९८॥ अत्र भूबीजं ग्लौमिति पिण्डबीजम् |
गोरोचनाचन्दनाभ्यां भूर्जपत्रे समालिखेत् |
वृत्तं कृत्वा च तन्मध्ये साध्यनाम समर्चयेत् ॥९९॥ तद्बहिर्विलिखेद् दिक्षु वकाराणां चतुष्टयम् |
तद्बहिर्भूपुरं लेख्यं लोहत्रयसुवेष्टितम् ॥१००॥ पूजितं धारयेद्बाहौ भयादग्नो निवर्तते |
यस्मिन् गृहे स्थापयेत् तदग्निनाक्रम्यते नच ॥१०१॥ अथ विद्वेषणं यन्त्रं वक्ष्यामि शृणु शैलजे |
नक्षत्रयोनिचूर्णेन लेखन्या काकपक्षया ॥१०२॥ श्मशानखर्परे लेख्यं वृत्तं तन्मध्यतो न्यसेत् |
मायया पुटितं चैवमकारं बिन्दुसंयुतम् ॥१०३॥ तद्गर्भे विलिखेत् साध्यनाम कर्मसमन्वितम् |
चतुर्दलेष्वपि तथा लेख्यं निशि च पूजयेत् ॥१०४॥ छागरक्तेन संमिश्रमोदनं विनिवेद्य च |
सुवासिनीं प्रपूज्याथ श्मशाने वा शिवालये ॥१०५॥ निखातयेत् तदा शत्रोर्विद्वेषं जायते मिथः |
[106b–109: Redaktionelle Ausnahme; operative Vorschrift mit acht Giften und Erhitzen zur Tötung nicht wiedergegeben. Verszuordnung bleibt erhalten.] काककौशिकरक्तेन भौमाहे भूर्जपत्रके |
चतुर्दलं लिखेत् पद्मं कर्णिकागतसाध्यकम् ॥११०॥ मारुतं सर्गसंयुक्तं दलेषु विलिखेद् बुधः |
रक्तस्रग्गन्धभूषाभिर्निशि संपूज्य यत्नतः ॥१११॥ रक्तोपचारैराराध्य कुमारीं भोजयेत् तदा |
एवं विंशद्दिनं कृत्वा चरमेऽह्नि तु यन्त्रकम् ॥११२॥ उच्छिष्टभक्ते संक्षेप्य चूर्णीकृत्य प्रयत्नतः |
तदोदनं वायसेभ्यो दद्याद् विकिरणेन च ॥११३॥ उच्चाटो जायते शत्रोः क्षिप्रमेव न संशयः |
चन्द्रचन्दनकस्तूरीरोचनाकुङ्कुमैः शुभे ॥११४॥ दिने भूर्जे लिखेद्यन्त्रं जातीकाष्ठसमुत्थया |
लेखन्योदङ्मुखो भूत्वा प्राक्प्रत्यग्दक्षिणोत्तरम् ॥११५॥ रेखाष्टकेन चैकोनपञ्चाशत्कोष्ठकानि च |
बहिः प्राक्कोष्ठमारभ्य प्रादक्षिण्यक्रमेण तु ॥११६॥ [Lesung91 कुशीताभ्यां unsicher.102 नक्षत्रयोनिचूर्णेन unsicher. Fußnoten:102 वदामि ka;107 कषैर् ga (am ausgelassenen Abschnitt).]

Druckseite 847

Zuordnung zur deutschen Fassung: 35.YAW, 35.SAY.

[35.YAW – Druckseite847; Bildabgleich] अकारादिजकारान्तान् तदन्तःकोष्ठकादितः |
झकारादिभकारान्तान् तदन्तःकोष्ठकादितः ॥११७॥ मकारादिसकारान्तान् हकारं मध्यकोष्ठके |
प्रतिरेखं त्रिशूलानि प्रतिशूलमुपर्यधः ॥११८॥ अभ्यन्तरविभागेन हृल्लेखासप्तकं लिखेत् |
एवं विलिख्य यन्त्रं तु देवीमाहात्म्यमुत्तमम् ॥११९॥ पठन् यजेच्च त्रिदिनं ब्राह्मणान् भोजयेत् ततः |
लोहत्रयगतं कृत्वा बाहुमूले तु धारयेत् ॥१२०॥ उपसर्गादिका दोषा न भवन्ति कदाचन |
पूर्वोक्तैर्विलिखेद् द्रव्यैर्यन्त्रं भूर्जे मनोरमे ॥१२१॥ कर्णिकायां लिखेत् साध्यं दलेषु सर्गवान् भृगुः |
पूर्ववत् पूजयेद्यन्त्रं कण्ठे बद्धं भुजे शिशोः ॥१२२॥ ग्रहभूतपिशाचादिभयेभ्यो मुच्यते क्षणात् |
श्मशानखर्परे लेख्यं धत्तूरस्य रसेन च ॥१२३॥ कृष्णाष्टम्यां चतुर्दश्यामष्टकोणं मनोहरम् |
मध्ये साध्यं समालिख्य कोणाग्रेष्वन्तरालके ॥१२४॥ रेफान् षोडश चालिख्य चतुरस्रं लिखेद्बहिः |
दिक्षु कोणेषु विलिखेद्रेफांस्तत् पूजयेन्निशि ॥१२५॥ निखातं पितृभवने ज्वरः सद्यो विमुञ्चति |
सुगन्धैर्विलिखेद् भूर्जे पद्मं वसुदलं ततः ॥१२६॥ कर्णिकायां साध्यनाम दलेष्वजपया युतम् |
पूजितं विधृतं बाहौ सर्पभीतिः कदापि न ॥१२७॥ अष्टगन्धैर्लिखेद् भूर्जे षोडशच्छदकाम्बुजम् |
स्वरान् दलेषु संलिख्य द्वात्रिंशद्दलमम्बुजम् ॥१२८॥ बहिर्विलिख्य पत्रेषु द्वात्रिंशद्व्यञ्जनानि च |
विलिख्य भूपुरेणैव वेष्टयेद् दिग्विदिक्षु च ॥१२९॥ हक्षौ विलिख्य तन्मध्ये साध्यं मायोदरे लिखेत् |
अथवा कांस्यपात्रे तु लिखित्वा सप्तवासरान् ॥१३०॥ पूजयेद् धारयेद्वापि बन्धमोचप्रदं भवेत् |
.......... ॥ इति ॥ शारदातिलके—(२४ प०) [35.SAY – neue Zählung] अथ वक्ष्यामि यन्त्राणां भेदांस्तन्त्रेषु गोपितान् |
यैः साधयन्ति सततं मन्त्रिणो निजवाञ्छितम् ॥१॥ मार्णं लिखेत् सार्णयुतं स्वसाध्यं वर्गाष्टपत्रे स्वरकेसराब्जे |
बहिः सदीर्घैर्गगनैः प्रवीतं रक्षाकरं यन्त्रमिदं प्रदिष्टम् ॥२॥ अस्यार्थः—भूर्जपत्रे प्राग्द्रव्यैरष्टदलकमलं विलिख्य, तत्कर्णिकायां मकारोदरे सकारं विलिख्य, तद्गर्भे साध्यनाम विलिख्य, पत्रेष्वष्टवर्गान् केसरेषु द्वन्द्वशः स्वरान् विलिख्य, बहिर्वृत्तं कृत्वा हांकारेण वेष्टयेत् |
एतद्यन्त्रमुक्तफलदं भवति |
तथा— पुटीकृते भूमिपुरस्य युग्मे मायां लिखेन्मध्यगसाध्यसंज्ञाम् |
वकारकोणेन महीपुरेण संवेष्टितं वश्यकरं तदुच्चैः ॥३॥ अस्यार्थः—अष्टकोणं विलिख्य मध्ये मायोदरे साध्यनाम विलिख्य, कोणेषु वकारं विलिख्य तदुपरि भूपुरेणावेष्टयेत् उक्तफलदं भवति |
तथा— (मध्ये सार्णविदर्भितं प्रपुटितं मृत्युञ्जयत्र्यक्षरैः चान्तःस्थं निजसाध्यनाम विलिखेत् किञ्जल्कसंस्थान् स्वरान् |
[Vers4 beginnt hier, Fortsetzung auf848. Fußnoten:123 कर्पटे ga;SAY3 युक्ताम् kha.]

Druckseite 848

Zuordnung zur deutschen Fassung: 35.SAY.

[35.SAY – Druckseite848; Bildabgleich; Fortsetzung Vers4] पत्रेष्वष्टसु नाम मन्त्रपुटितं वर्गांस्तदग्रेष्वथो यन्त्रं पद्मपुटीकृतं निगदितं मृत्युञ्जयाख्यं परम् ॥४॥ विषज्वरशिरोरोगनाशनं श्रीजयप्रदम् |
कान्तिपुष्टिप्रदं वश्यं सर्वकामार्थसाधकम् ॥५॥) अस्यार्थः—अष्टदलकमलं विलिख्य तत्कर्णिकायां साध्यनाम सकारेण विदर्भितं कृत्वा मृत्युञ्जयत्र्यक्षरैः संपुटितं कृत्वा सर्वं लकारोदरे यथा भवति तथा विलिख्य, केसरेषु स्वरान् विलिख्य पत्रेषु पत्राग्रेषु च नाम मन्त्रपुटितं वर्गाष्टकं द्विधा विलिख्य, बहिर्वृत्तं कृत्वा पद्मद्वयपुटितं कुर्यादुक्तफलदं भवति |
तथा— साध्यादिचिन्तामणिमग्निगेहे विलिख्य बाह्येऽनलगेहवीतम् |
प्रवेष्टयेत् तद्बहिरष्टवर्णान् मन्त्रेण यन्त्रं ज्वरशान्तिदं स्यात् ॥६॥ संस्लवसः प्लावयेसा मन्त्रोऽष्टाक्षर ईरितः |
एष एव भवेद् दक्षो विषज्वरविनाशने ॥७॥ अस्यार्थस्तु सुगम एव |
तथा— ताररुद्रयुतं कुरुकुल्ले मन्त्रमत्र हुतभुग्गृहयुग्मे |
मध्यकोणविवरेषु लिखेत् तद्यन्त्रमाशु विनिहन्ति भुजङ्गान् ॥८॥ ओंकारमायादिकमेखलेऽग्निवधूमनुं वह्निगृहस्य युग्मे |
मध्यादिकोणेषु विलिख्य भूर्जे यन्त्रं विदध्याद् रिपुनागहारि ॥९॥ शूलाङ्किते वह्निगृहस्य युग्मे धूमावतीमत्र लिखेत् क्रमेण |
मध्यादिकोणेषु मरुद्गृहस्थं यन्त्रं हुताशानिलवर्णवीतम् ॥१०॥ दान्तो सार्धीशबिन्द्वन्तो बीजं धूमावती द्विठः |
धूमावतीमनुः प्रोक्तः शत्रुनिग्रहकारकः ॥११॥ [12: Redaktionelle Ausnahme – konkrete schädigende Anwendung mit Giftstoffen; nicht ausführbar wiedergegeben.] हुताशगेहद्वितये लिखित्वा वैवस्वताय द्विठमन्त्रवर्णान् |
मध्यान्तमाकल्पितमिन्दुबिम्बे यन्त्रं महाभूतपिशाचवैरि ॥१३॥ अत्र षट्कोणं विलिख्य मध्यादिषट्कोणेषु “वैवस्वताय स्वाहा” इति सप्ताक्षराणि विलिख्य, बहिरिन्दुबिम्बेन वृत्तेन वेष्टयेत् इति ॥ तथा— नामालिख्य मकारकोष्ठयुगले कोणेषु तस्यां लिखेत् मन्त्रज्ञो डुणान् नकारसहितान् धूमावतीपत्रगान् |
वीतं घर्मटिकादिना वरमिदं वायुत्रिगेहावृतं यन्त्रं प्रान्तपरेतभूमिनिहितं विद्वेषणं स्याद् द्विषाम् ॥१४॥ पूर्वं घर्मटिकेयुग्मं ततो मर्कटिके युगम् |
घोरे विद्वेषकारिणि विद्विषो द्वेषकारिणि ॥१५॥ अथ घोराघोरयोः खादयामुकयोस्ततः |
विद्वेषयद्वयं हुंफड् विद्या घर्मटिकेरिता ॥१६॥ [Lokale Unsicherheiten:7 Mantratext संस्लवसः प्लावयेसा, Variante संप्लवसं प्लावयेसा ka/ga;14 डुणान् unklar;15–16 घर्मटिके Lesung und Lautsegmentierung unsicher. Fußnoten:6 साध्याख्य ka;6 वर्गान् ka;9 तं वह्निगृहस्य मध्ये ka/ga;11 धान्तं सार्धीशबिन्द्वन्तं बीजं ga;12 द्रुतम् ga.]

Druckseite 849

Zuordnung zur deutschen Fassung: 35.SAY.

[35.SAY – Druckseite849; Bildabgleich; lokale Lesungsunsicherheiten; redaktionelle Ausnahmen20b–21,26–29 und anschließender Halbvers] मन्त्रोद्धारः सुगमः |
अत्र षट्कोणं विलिख्य तन्मध्ये पूर्वकोष्ठे चाग्नेयकोष्ठे च मकारमन्यकोष्ठचतुष्टये डुणान् विलिख्य, तद्बहिर्वृत्तं विरच्य तल्लग्नान्यष्टपत्राणि विलिख्य, पत्रेषु धूमावतीमन्त्रस्यैकैकमक्षरं प्रतिपत्रं विलिख्य तद्बहिर्वृत्तद्वयान्तराले घर्मटिकाविद्यया वेष्टयेत्, उक्तफलदं भवति ॥ तथा— प्राक्प्रत्यग्दक्षिणोदग्विधिवदभिलिखेत् स्पष्टरेखाचतुष्कं कोणोद्यच्छूलयुग्मं वलययुगयुतं मध्यपूर्वं तदन्तम् |
मन्त्रस्यार्णान् परस्ताद् वसुपदविवरेष्वष्टवर्णाल्लिखित्वा शूलोद्द्वादशार्णं विधिवदभिहितं प्रेतराजस्य यन्त्रम् ॥१७॥ यमराजसदामेय यमेदासजरामय |
यदयोनिरेपक्षेप पक्षेपरनियोदय ॥१८॥ उक्तो धूमान्धकाराय स्वाहितष्टाक्षरो मनुः |
प्रणवोग्रं ततो दंष्ट्रा तत्परं विकृतं ततः ॥१९॥ आननाय वधूर्वह्नेर्मन्त्रोऽयं द्वादशाक्षरः |
[20b–21: Redaktionelle Ausnahme – giftige Zubereitung zum Töten nicht wiedergegeben.] रिपुर्गच्छति पञ्चोष यमलोकं न संशयः |
.......... ॥ अस्यार्थः—तत्र प्राक्प्रत्यग्दक्षिणोदक् च चतुःसूत्रनिपातनेन नवकोष्ठात्मकं चक्रं निर्माय, मध्यकोष्ठे साध्यनामयुक्तं यमराजेति वर्णचतुष्टयं विलिख्य, प्रागाद्यष्टसु कोष्ठेषु यममन्त्रस्य वर्णचतुष्टयं क्रमशो विलिख्य, चतुष्कोणेषु चत्वारि शूलानि मध्यगतरेखाग्रद्वये शूलद्वयमिति संभूय द्वादश शूलानि निष्पाद्य, शूलाग्रेषु द्वादशाक्षरमन्त्रस्यैकैकं वर्णमालिख्य, तदुपरि वृत्तद्वयं निष्पाद्य तल्लग्नमष्टपत्राणि विरच्य, प्रतिदलमेकमेकं वर्णमष्टाक्षरमन्त्रस्य विलिखेत्, उक्तफलदं भवति ॥ तथा— एकाशीतिपदेषु मध्यदहने साध्यं लिखेत् हं पुनः क्लूं क्लूं भूमिति दिग्दलेषु विलिखेद् बीजानि पङ्क्तिष्वथ |
शिष्टेष्वीशनिशाचरादि विलिखेत् कालीमनुं पङ्क्तिश- स्तद्बाह्ये यमवीतमग्निपवनावीतं च यन्त्रं लिखेत् ॥२२॥ कालीमार रमालीका लीनमोक्ष क्षमोनली |
मामादंत तंदमामा रक्ततत्व ततक्तर ॥२३॥ कालीमनुरयं प्रोक्तः कालरात्रिः स्ववैरिणाम् |
यमवाट टवामाय माटमोट टमोटमा ॥२४॥ वामोभूरि रिभूमोवा टटरीव वरीटट |
यमात्मकोऽयमाख्यातः श्लोको वैरिविनाशनः ॥२५॥ [26–29 und nachfolgender unnummerierter Halbvers: Redaktionelle Ausnahme – operative Giftanwendungen für Tötung und schwere Schädigung. Inhalt in der deutschen Fassung abstrakt dokumentiert; keine rekonstruierte Sanskritfassung.] [Unsicher:Prosa डुणान्;17 शूलोद्द्वादशार्णं;18–19 Lauttext;22 Bījas;23–25 Mantras. Fußnote18 सदोमेय यमेदोऽस kha;22 मंत्रभं ka/ga, कुंभकुं kha;26 सगु ga (ausgelassener Abschnitt).]

Druckseite 850

Zuordnung zur deutschen Fassung: 35.SAY.

[35.SAY – Druckseite850; Bildabgleich] लिखेच्चतुःषष्टिपदेषु कालीमीशादिकान्यादि यमात्मकेन |
श्लोकेन संवेष्ट्य कृशानुवायुबीजावृतं यन्त्रमिदं विदध्यात् ॥३०॥ [31: Redaktionelle Ausnahme – operative Giftanwendung zur Vertreibung nicht wiedergegeben.] सस्यहानिमनावृष्टिं गवां नाशं करोति तत् |
एतद्यन्त्रद्वयोद्धारस्त्वरिताप्रकरणे (२१ ये श्वासे) द्रष्टव्यः ॥ तथा— आख्यां तुम्बुरुमध्यतः स्मरगतामालिख्य जृम्भादिकां विद्यां दिग्गतपत्रकेष्वथ लिखेद् देवीं दलेषु सरम् |
कोणस्थेषु सनामकं बहिरधः पाशाङ्कुशाभ्यां वृतं यन्त्रं वश्यकरं ग्रहादिभयहत् क्षुद्राभिचारापहम् ॥३२॥ जृम्भे जृम्भिनि ठद्वन्द्वं मोहे मोहिनि ठद्वयम् |
अन्धे अन्धिनि ठद्वन्द्वं रुन्धे रुन्धिनि ठद्वयम् ॥३३॥ हित्वा कामं लिखेच्छान्तिं यन्त्रेऽस्मिन् नृकपालके |
संध्यासु तापयेदेतदुच्चैः साध्यं वशं नयेत् ॥३४॥ हित्वा शान्तिं लिखेद्वर्म फट् च वा नरचर्मणि |
वह्निवायुगृहावीतं श्मशानस्थं रिपून् दहेत् ॥३५॥ त्यक्त्वा वर्मालिखेदस्त्रं फलके क्ष्वेलतरूद्भवे |
वह्निवायुयुतं नाम मेषोत्थरुधिरेण तत् ॥३६॥ चत्वरे निखनेज्जप्तं विद्वेषं कुरुते मिथः |
हित्वा रेफयकारौ हौ लकारं मध्यतो लिखेत् ॥३७॥ (धरापुरेण वीतं तदिष्टकान्तर्निवेशितम् |
सर्वेषां स्तम्भनं कुर्यान्नात्र कार्या विचारणा ॥३८॥ हित्वा लकारं तन्मध्ये वायुबीजं समालिखेत् |
) [39b: Redaktionelle Ausnahme – giftige Beschichtung zur schweren Schädigung.] श्मशाने निहितं कुर्यात् कुलोत्सादं स्ववैरिणाम् |
मुक्त्वा वायुमयं बीजं तत्र फट्कारमालिखेत् ॥४०॥ प्रेतवस्त्रे काकस्य रुधिरेण यथाविधि |
ईप्सिते निखनेत् स्थाने विद्वेषं कुरुते द्विषाम् ॥४१॥ अस्त्रबीजमपास्यास्मिन् लृकारं मार्णसंयुतम् |
विलिखेद् यन्त्रमेतत्तु लोहत्रयसमावृतम् ॥४२॥ सर्वरोगप्रशमनं कृत्याद्रोहादिशान्तिदम् |
विहाय बीजं लृकारं ग्लौंकारं तत्र संलिखेत् ॥४३॥ लकारेणावृतं बाह्ये पाशाङ्कुशवृतं पुनः |
ओंकारेणावृतं भूयो भूमिमण्डलमध्यगम् ॥४४॥ लैकारैर्बिन्दुसंयुक्तैर्वेष्टितं तद्बहिः क्रमात् |
सर्गान्तमातृकावीतं सर्वं वृत्तेन वेष्टितम् ॥४५॥ कौशेयकर्पटे क्लृप्तमिष्टकाद्वयमध्यगम् |
सेनाग्रे निखनेदेतत् स्तम्भनं कुरुते ध्रुवम् ॥४६॥ उद्धारः सुगमः |
तथा— मध्ये श्रीनरसिंहबीजमथ तद्बाह्ये स्वरान् केसरे वारीट्चन्द्रयमेन्द्रदिक्षु विलिखेन्मध्ये मनुं गारुडम् |
अन्तःस्थान् मरुदग्निनिऋतिशिवेष्वालिख्य वर्णावृतं यन्त्रं सर्गिभिरष्टभिः परिवृतं संवर्तकैर्गारुडम् ॥४७॥ [Lesungsunsicherheiten:30 ईशादिकान्यादि;32 सरम्;37 हौ;42–45 लृ/लै-Lautformen. Fußnoten:34 पटे kha;35 हरेत् kha;36 विषाढ्य kha;40 कुलोच्छेदं kha;41 नृणाम् kha;42 भूकारं सामं ga;43 भूकारं ga;44 ठकारेण kha;45 अकारैः ga;46 यन्त्रं kha;47 वर्गावृतं ga.]

Druckseite 851

Zuordnung zur deutschen Fassung: 35.SAY.

[35.SAY – Druckseite851; Bildabgleich] संवर्तको नेत्रयुतः पाशस्तारोऽग्निसुन्दरी |
गारुडो मनुराख्यातो विषद्रयविनाशनः ॥४८॥ स्मरन् गरुडमात्मानं मन्त्रमेनं जपेन्नरः |
विषमालोकनेनैव हन्यान्नागकुलोद्भवम् ॥४९॥ मध्ये वर्णान् भृगुस्थान् विलिखतु विधिवत् साध्यनाम्ना समेतान् किञ्जल्केषु स्वराः स्युर्वसुदलविवरेष्वालिखेन्मध्यबीजम् |
काद्यार्णान् केसरेषु द्विगुणवसुदलेषु द्वयं मध्यबीजं यन्त्रं सञ्जीवनाख्यं सलिलपुरगतं क्षुद्ररोगापहारि ॥५०॥ मध्ये पिण्डमथो दलादिषु लिखेद्वारीशताराधिप- प्रेताधीश्वरशक्रदिक्षु विवरे मध्ये च वर्णाल्लिखेत् |
यादीन् मारुतवह्निराक्षसशिवेष्वर्णान् बहिर्वेष्टयेत् काद्यैर्वामविलोचनेन कलितं पिण्डाख्ययन्त्रं परम् ॥५१॥ मनुस्वरेन्दुनेशाग्निसंयुतश्चतुराननः |
पिण्डबीजमिदं प्रोक्तं पुंसां सर्वार्थसाधनेषु ॥५२॥ बीजेनानेन संजप्तं यन्त्रं रक्षाकरं परम् |
आयुरारोग्यजननं लक्ष्मीसौभाग्यवश्यदम् ॥५३॥ चोरसर्पमृगव्याघ्रभूतामयनिकृन्तनम् |
गर्भरक्षाकरं स्त्रीणां पुत्रदं क्षुद्रनाशनम् ॥५४॥ धृतं मूर्ध्नि करोत्येव लोकवश्यमनुत्तमम् |
.......... ॥ मध्ये तोयगृहे लकारविवरे सार्णाङ्गसाध्यं लिखेत् पत्रेष्वष्टसु हंसमन्त्रमभितो हंसार्णसंवेष्टितम् |
यन्त्रं भूमिगृहेण वेष्टितमिदं मूर्ध्ना सदा धारितं हन्यात् क्षुद्रमहाज्वरामयरिपून् दद्याद्यशः संपदः ॥५५॥ ईकारगर्भे विलिखेत् स्वसाध्यं तमष्टपत्रेषु पुनर्विलिख्य |
संवेष्टयेत् तेन धरापुरस्थं यन्त्रं भवेद्वश्यकरं नराणाम् ॥५६॥ ताम्रपत्रे समालिख्य यन्त्रमेतत् प्रपूजयेत् |
वशयेत् सकलान् मर्त्यान् नात्र कार्या विचारणा ॥५७॥ मध्ये भान्तं भृगुविनिहितं नामवर्णैः प्रवीतं टान्तं लान्तान्वितमथ लिखेदष्टपत्रेषु भूयः |
भूबिम्बस्थं निगदितमिदं साधु सञ्जीवनाख्यं शस्त्रोद्भूतं भयमपहरेद्धार्यमाणं भुजेन ॥५८॥ वर्णावृतं साध्ययुतं जकारं टान्ते लिखेदष्टदलेषु हंसम् |
आवेष्टयेदम्बुगृहेण बाह्ये लान्तावृतं यन्त्रमिदं ज्वरघ्नम् ॥५९॥ [Unsicherheiten:48 विषद्रय;52 नेश;55 सार्णाङ्ग;Lautkomposita nicht stillschweigend aufgelöst. Fußnoten:50 त्वर्पयेत् kha;50 दिहारि ga;52 कं kha;56 एकार kha;58 साध्यवर्णैः ga;59 सकारं kha, ऋकारं ga.]

Druckseite 852

Zuordnung zur deutschen Fassung: 35.SAY.

[35.SAY – Druckseite852; Bildabgleich] टान्ते नाम लिखेत् क्षकारविवरे मृत्युञ्जयत्र्यक्षरैः रुद्धं तद्बहिरष्टपत्रविवरे साध्याह्वयं पूर्ववत् |
अच्किञ्जल्कयुते वसुद्वयदले पद्मे तथैवाह्वयं द्वात्रिंशद्दलपङ्कजेऽपि च तथा काद्यार्णयुक्तेसरे ॥६०॥ ईकारेण समावीतं यन्त्रं मृत्युञ्जयाह्वयम् |
सर्वरोगाभिचारघ्नं सर्वसौभाग्यसिद्धिदम् ॥६१॥ ग्लौंरुद्धं प्रणवद्वयं प्रविलिखेत् साध्यस्य नामान्वितं बाह्ये भूपुरमष्टवज्रविलसत्तारं लिखित्वा पुनः |
चं कोणेषु दिशासु लं प्रविलिखेत् पाशाङ्कुशत्र्यक्षरै- र्वीतं स्तम्भनयन्त्रमावृतिलसज्जृम्भादिविद्याष्टकैः ॥६२॥ जृम्भे वह्निवधूः पूर्वं पश्चाज्जृम्भिनि ठद्वयम् |
मोहे पावकजाया स्यात् पश्चान्मोहिनि ठद्वयम् ॥६३॥ अन्धे हुतभुजो जाया ततोऽप्यन्धिनि ठद्वयम् |
रुन्धे कृशानुपत्नी स्याद्रुन्धिनि द्विठसंयुतम् ॥६४॥ उद्धारः सुगमः |
तथा— लान्ते नाम विलिख्य दिक्षु विलिखेद् भूयस्तमेवाष्टसु तोणीबिम्बमथो नगेन्द्रभुजगावन्योन्यबद्धौ लिखेत् |
आख्यां तन्मुखयोर्विभीतफलके यन्त्रं समापादितं निर्माल्ये निहितं सदा वितनुते वाचां द्विषां स्तम्भनम् ॥६५॥ साध्याद्यं कवचं लिखेद् बहिरथो दिक्पत्रमध्येषु तद् ग्लौमन्येषु महीपुरस्य विलिखेत् कोणेषु रान्तान्वितम् |
वज्रेष्वष्टसु वर्म तोयपुरगं भूविम्बमध्यस्थितं यन्त्रं रात्रिविनायकान्तरगतं न्यसेच्छरावद्वये ॥६६॥ रहस्यस्थाननिक्षिप्तं पूजितं प्रतिवासरम् |
स्तम्भनं कुरुते वाचां सेनादीनां च वैरिणाम् ॥६७॥ कृत्वा रेखाष्टकमृजु पुनस्तिर्यगालिख्य षट्कं बाह्यावृत्या लिखतु विधिवद् बिन्दुयुक्कं क्षकारम् |
अन्तःपङ्क्तौ लिखतु धरणीं शिष्टकोष्ठत्रयान्तः कृत्वा नाम प्रथितमुदितं यन्त्रमेतज्ज्वरघ्नम् ॥६८॥ यन्त्रमेतत् समभ्यर्च्य दत्त्वा भूतबलिं ततः |
साध्यस्य मूर्ध्नि बध्नीयात् सर्वज्वरविमुक्तये ॥६९॥ तारं लिखेद् वह्निपुरस्य युग्मे तत्पार्श्वयोर्लाङ्गमथाग्निबीजम् |
कोणेषु पूर्वापरयोश्च यन्त्रं पाशाङ्कुशावीतमिदं ज्वरघ्नम् ॥७०॥ यन्त्रमभ्यर्च्य मन्त्रेण तारपाशाङ्कुशात्मना |
निबध्नीयाज्ज्वरार्तस्य हस्तादौ ज्वरशान्तये ॥७१॥ [Unsicherheiten:65 तोणीबिम्बम्;68 बिन्दुयुक्कं/प्रथितमुदितम्;70 लाङ्गम्. Fußnote66 पत्रे ga.]

Druckseite 853

Zuordnung zur deutschen Fassung: 35.SAY.

[35.SAY – Druckseite853; Bildabgleich] पिण्डे लिखेन्नाम ससर्गटान्तविदर्भितं सस्वरकेसराढ्यम् |
टान्ताष्टपत्रं वसुधापुरस्थं कान्तिप्रदं यन्त्रमिदं ज्वरघ्नम् ॥७२॥ तारादिहृदयजलद्विठवर्णवीता टान्तान्तरे विलिखिता विधिनैव माया |
साध्यावृता बहिरथो वदनार्धचन्द्रैर्यन्त्रं शिरोर्तिनिचयं विनिहन्ति सद्यः ॥७३॥ व्योमार्णमालिख्य सबिन्दुमाख्याविदर्भितं यन्त्रमयुग्मकोणे |
वसुन्धरागृहयुगे निबद्धं यन्त्रं समस्तज्वरनाशनं स्यात् ॥७४॥ सार्णं नामविदर्भितं परिलिखेद् बाह्येऽष्टपत्रे भृगुं पद्मं स्यादथ कादिषान्तलिपिमत् त्रिंशद्दलं बाह्यतः |
वीतं तोयपुरेण यन्त्रमुदितं भूर्जोदरे कल्पितं भूतव्याधिमहाज्वरप्रशमनं कृत्यापहं श्रीप्रदम् ॥७५॥ चक्रे चतुःषष्टिपदे सबिन्दूनन्तःस्थवर्णान् क्रमशो विलिख्य |
रेखाशिरःकल्पितशूलयुक्ते यन्त्रे शयीत ज्वरशान्तिहेतोः ॥७६॥ पुटितभूमिपुरद्वयमध्यतः प्रविलिखेद् वनितां गिरिजापतेः |
प्रणवमस्य लिखेद्वसुकोणगं ज्वरहरं परमेतदुदीरितम् ॥७७॥ वार्णे लिखेन्नाम शशाङ्कमध्ये टान्तं बहिर्भूमिपुरं परस्तात् |
वृत्तावृतं यन्त्रमिदं समुद्रं वश्याय नृणां सकलार्तिशान्त्यै ॥७८॥ सस्वस्तिके दहनगेहयुगे ससाध्यां मायां लिखेल्ललितनागलतादलान्तः |
पाशाङ्कुशावृतमिदं निशि तोयमध्ये मन्त्रं जपन् व्रजति तं स्वयमेव साध्यः ॥७९॥ षट्कोणे निजसाध्यनामसहितां मायां लिखेन्मध्यत- स्तत्कोणेषु विदर्भितामभिलिखेच्छक्तिं स्वसाध्याख्यया |
बाह्ये भूमिपुरं सकोणमदनं ताम्बूलपत्रे कृतं जप्तं खादयितुः प्रियां निशि भवेत् सा तस्य वश्या चिरम् ॥८०॥ शक्तौ नाम लिखेच्चतुर्भिरभितो बीजैः समावेष्टयेद् वीतं शक्तिमनोभवाङ्कुशमनुं ह्रींबीजकैः पिष्टजे |
रूपे साध्यनरस्य जपपवने त्रिस्वादुनामज्ज्य तत् खादेत् तस्य वशं प्रयाति नियतं साध्यः सदा दासवत् ॥८१॥ कामं लिखेत् साध्ययुतं सरोजे स्वरोल्लसत्केसरवर्गपत्रे |
उदीरितं मन्मथयन्त्रमेतत् सौभाग्यलक्ष्मीविजयप्रदायि ॥८२॥ [Unsicher:73 मंत्रische Komposita;78 समुद्रम्;80 Syntax खादयितुः प्रियां;81 ह्रींबीजकैः जपपवने. Fußnoten:73 शिशो रुदितं kha;76 यन्त्रं सुशीतज्वरशान्तिहेतुः ga;78 के ka/ga;79 तापयेद्यः kha;80 पत्रोदरे ka;81 प्रांबीजकैः kha;81 न ka.]

Druckseite 854

Zuordnung zur deutschen Fassung: 35.SAY, 35.KTY, 35.TRY, 35.MAY.

[35.SAY – Druckseite854; Bildabgleich] काश्मीररोचनालाक्षामृगेभमदचन्दनैः |
विलिखेद्धेमलेखन्या यन्त्राण्येतानि देशिकः ॥८३॥ भूमिस्पृष्टं शवस्पृष्टं दुग्धं निर्माल्यसङ्गतम् |
विशीर्णं लङ्घितं मन्त्री यन्त्रं जातु न धारयेत् ॥८४॥ इति ॥ मातृकार्णवे— [35.KTY – neue Zählung] विंशत्या शतखण्डानि शक्तिकूटोद्भवानि च |
तेषां तावन्ति यन्त्राणि जायन्ते तत्फलानि च ॥१॥ शृणु वक्ष्ये समासेन समाहितमनास्ततः |
रोगकृत्याग्रहादीनां निरासो वश्यकर्म च ॥२॥ जलार्णोद्भवखण्डानां फलं ज्ञेयं ततः पुनः |
द्वितीयार्णसमुत्थानामुच्चाटनफलं स्मृतम् ॥३॥ तृतीयार्णसमुत्थानां स्तम्भनं फलमीरितम् |
चतुर्थाक्षरसंभूतखण्डानां कामणं फलम् ॥४॥ पञ्चमार्णसमुत्थानां विद्वेषणमुदाहृतम् |
चतुर्विंशतिसंख्यानि खण्डानि स्युः पृथक्पृथक् ॥५॥ तन्त्रराजे तु—“नव षोडशकोष्ठानि संवर्ध्यं विषमं समम्” (३३, ६९) इति |
अत्र नव-पञ्चविंशति-ऊनपञ्चाशत्-एकाशीतिपदानि यन्त्राणि विषमाणि, अग्रेऽपि तथैव विषमरीत्या योजनीयानि, समानि तु षोडश-षट्त्रिंशच्चतुःषष्टिपदक्रमेण योजितानि समयन्त्राणि ज्ञेयानि |
अग्रेऽपि तथैवोपर्युपरि समरीत्या योजनीयानीत्यर्थः |
तथा तत्रैव— [35.TRY – neue Zählung] तेष्वङ्कानि समं कृत्वा पङ्क्तौ तेषु समालिखेत् |
विद्यातृतीयभेदोत्थांस्तत्तदङ्कानुगुण्यतः ॥१॥ मनीषितं च संलिख्य तेषां मध्यस्थकोष्ठतः |
विदध्यात् शान्तिकं सर्वं तैर्यन्त्रैः कल्पितैस्तथा ॥२॥ वश्याकर्षणविद्वेषस्तम्भनोच्चाटनादिकम् |
आयुरारोग्यविजयविभूत्याद्यं च सिध्यति ॥३॥ स्थापनाद्धारणाच्चान्यैरुपायैः साधकोऽनिशम् |
.......... ॥ तैः कल्पितैः संवर्ध्यं विषमं सममित्यादिरीत्या कल्पितैर्यन्त्रैरङ्कैश्च, अङ्कप्रकारस्तु “प्राणाग्नीलाम्बुखात्मानः” इत्यादिना प्रतिभूतं दशदशवर्णक्रमेण क्रमागतवर्णजनिताङ्को ज्ञेयः |
अङ्कवृद्धिक्रमस्तु मातृकार्णवे— [35.MAY – neue Zählung] नवकोष्ठात्मकं यन्त्रं वदाम्यङ्कक्रमं शृणु |
शक्तिकूटाद्यखण्डस्य प्रोक्तं व्यञ्जनपञ्चकम् ॥१॥ तस्याद्यादौ क्रमोक्तानि ज्ञातव्यानि मनीषिभिः |
प्राक्प्रत्यग्दक्षिणोदक् च चतुःसूत्रनिपातनात् ॥२॥ कोष्ठानि नव जायन्ते पङ्क्तित्रयविभेदतः |
द्विनवाब्धिगिरीषुत्रिषट्चन्द्रवसुकोष्ठकैः ॥३॥ एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टनव क्रमात् |
पदसंख्यां विजानीयाद्वर्णाङ्कानां तु योजने ॥४॥ आद्यार्णोत्थचतुर्विंशत्खण्डानां परमेश्वरि |
चतुर्विंशतिसंख्या स्यात् क्रमेणैकादितोऽम्बिके ॥५॥ एकाङ्कमाद्यकोष्ठे तु चाद्यखण्डस्य वै भवेत् |
तथा द्वितीयखण्डस्य द्वयमाद्यपदे भवेत् ॥६॥ एवं तृतीयखण्डादौ त्र्यङ्कादि विलिखेत् तथा |
चतुर्विंशतिकूटानां चतुर्विंशतिसंख्यया ॥७॥ यन्त्राणि देवि जायन्ते चाद्यवर्णोद्भवानि च |
एवं द्वितीयवर्णोत्थभेदानां परमेश्वरि ॥८॥ पञ्चविंशतितोऽप्यष्टाचत्वारिंशत्तमावधि |
ततोऽप्येवं क्रमेणैव तृतीयादिषु चोन्नयेत् ॥९॥ एवं प्रोक्तमहायन्त्रैर्नासाध्यं विद्यते भुवि |
अथ षोडशकोष्ठानां यन्त्राणां च विधिं शृणु ॥१०॥ प्राक्प्रत्यग्दक्षिणोदक् च पञ्चसूत्रनिपातनात् |
कोष्ठानि देवि जायन्ते षोडशात्र क्रमाल्लिखेत् ॥११॥ [Unsicherheiten:SAY84 दुग्धं (möglicherweise Druckfehler statt दग्धं);KTY4 कामणं;MAY3 Zahlwortfolge. FußnoteKTY2 हि ka.]

Druckseite 855

Zuordnung zur deutschen Fassung: 35.MAY.

[35.MAY – Druckseite855; Bildabgleich; gedrängte Zahlwortkomposita örtlich unsicher] व्यञ्जनेष्वन्त्यवर्णानां सप्त सप्त समीरिताः |
आदिमध्यस्थवर्णानां दश क्रमगताङ्ककम् ॥१२॥ विषमे विषमाङ्कं स्यात् समे चैव समाङ्ककम् |
प्रतिपङ्क्ति यथासाम्यमङ्कसंकलनं तथा ॥१३॥ सम्यग्विचार्य संलेख्यं चतुस्त्रिंशत्समन्ततः |
आद्यखण्डस्य विज्ञेयं षट्त्रिंशच्च ततः परम् ॥१४॥ अष्टत्रिंशत् ततश्चत्वारिंशदेव क्रमोत्तरम् |
द्विवृद्ध्या च द्वितीयादिखण्डानां योजयेत् प्रिये ॥१५॥ विंशोत्तरं शततमं खण्डं यावच्च वर्धयेत् |
एवं साम्येषु यन्त्रेषु सर्वेषु च समुन्नयेत् ॥१६॥ द्वित्र्यादिखण्डसंभूतवर्णाङ्कानां च मेलने |
स्थूलयन्त्राणि कल्प्यानि फलानि प्राग्वदुन्नयेत् ॥१७॥ चतुर्विंशतिसंख्यानि खण्डान्याद्यार्णजानि च |
शृणु वक्ष्ये क्रमेणैव यथावद्गिरिसंभवे ॥१८॥ एकद्वित्रिचतुष्पञ्च चैकत्रिद्विचतुःशराः |
एकाब्धिद्वित्रिबाणाश्च एकद्व्यब्धित्रिपञ्च च ॥१९॥ एकत्र्यब्धिद्विपञ्चैव एकवेदत्रियुक्शराः |
एकद्वित्रिशराब्धिश्च एकत्रिद्विशराब्धयः ॥२०॥ एकेषुत्रिद्विवेदाश्च एकत्रीषुद्विवेदकाः |
एकेषुद्वित्रिवेदाश्च एकद्वीषुगुणाब्धयः ॥२१॥ एकद्विवेदेषुगुणा एकाब्धिद्विशरत्रयः |
एकेषुद्व्यब्धिदोषाश्च एकद्वीषुश्रुतित्रयः ॥२२॥ एकाब्धीषुद्वित्रयश्च एकेष्वब्धिद्विकालकाः |
एकत्र्यब्धीषुयुगलमेकाब्धित्रीषुयुग्मकम् ॥२३॥ एकेषुत्र्यब्धियुगलमेकत्रीष्वब्धियुग्मकम् |
एकेष्वब्धित्रियुगलमेकाब्धीषुत्रियुग्मकम् ॥२४॥ एवं प्रोक्तानि खण्डानि चाद्यार्णोद्भवानि च |
द्वितीयार्णसमुत्थानि खण्डानि शृणु पार्वति ॥२५॥ द्व्येकत्र्यब्धिशराश्चैव द्वित्र्येकाब्धिशरास्तथा |
द्व्यब्धित्र्येकशराश्चैव द्वित्र्यब्ध्येकशरास्तथा ॥२६॥ द्व्येकाब्धित्रीषवश्चैव द्व्यब्ध्येकत्रिशरास्तथा |
द्विपञ्चैकत्रिवेदाश्च युग्मैकेषुत्रिसागराः ॥२७॥ द्वित्रीष्वेकाब्धयश्चैव द्विपञ्चत्र्येकसागराः |
द्विचन्द्रत्रीषुवेदाश्च द्विवक्त्र्यैकेषुसागराः ॥२८॥ द्व्येकाब्धीष्वनलाश्चैव द्व्यब्ध्येकेषुगुणास्तथा |
द्विपञ्चवेदैकगुणा द्व्यब्धीष्वेकत्रयस्तथा ॥२९॥ द्विपञ्चैकश्रुतिगुणा द्विचन्द्रेष्वब्धिवह्नयः |
द्वित्र्यब्धिशरचन्द्राश्च द्व्यब्धित्रीष्वेककास्तथा ॥३०॥ द्विपञ्चवेदवह्नीन्दु द्विवेदेषुगुणेन्दवः |
द्विद्वीष्वब्धिचन्द्राश्च द्वीषुत्र्यब्धिसुधांशवः ॥३१॥ एवं प्रोक्तानि खण्डानि द्वितीयार्णोद्भवानि च |
तृतीयार्णसमुत्थानि खण्डानि शृणु शैलजे ॥३२॥ त्रिचन्द्रद्व्यब्धिभूतानि त्रिद्व्येकाब्धिशरास्तथा |
त्रिवेदैकद्विभूतानि त्रिवेदद्व्येकसायकाः ॥३३॥ वह्निद्विवेदचन्द्रेषु वह्न्येकाब्धिद्विसायकाः |
त्रिद्विचन्द्रेषुवेदाश्च त्रिद्विभूतेन्दुसागराः ॥३४॥ त्रिपञ्चद्व्येकवेदाश्च त्रिपञ्चैकद्विसागराः |
वह्निचन्द्रेषुयुग्माब्धिर्वह्नीन्दुद्वीषुसागराः ॥३५॥ त्रिवेदेषुद्विचन्द्राश्च त्रिवेदद्विशरेन्दवः |
त्रिद्वीषुवेदचन्द्राश्च त्रिद्व्यब्धीषुधरास्तथा ॥३६॥ त्रिपञ्चाब्धिद्वीन्दवश्च त्रिपञ्चद्व्यब्धिचन्द्रकाः |
त्रिवेदेष्वेकयुग्मानि त्रिपञ्चाब्धीन्दुयुग्मकम् ॥३७॥ त्रिचन्द्रवेदेषुयुग्मं त्रिवेदेन्दुशरद्विकम् |
त्रिपञ्चेन्द्वब्धियुग्मानि त्र्येकेष्वब्धियुगं तथा ॥३८॥ एवं प्रोक्तानि खण्डानि तृतीयार्णोद्भवानि च |
चतुर्थार्णसमुत्थानि खण्डानि शृणु पार्वति ॥३९॥ वेदत्रिद्व्येकभूतानि वेदद्वित्रिन्दुसायकाः |
वेदैकद्वित्रिभूतानि वेदद्व्येकत्रिसायकाः ॥४०॥ [Zahlwortlesungen unsicher:19 vierte Reihe;22 dritte Reihe दोषा;28 vierte Reihe वदन/वक्त्रि;31 dritte Reihe द्विद्वीषु. Keine mathematische Glättung.]

Druckseite 856

Zuordnung zur deutschen Fassung: 35.MAY, 35.SVP.

[35.MAY – Druckseite856; Bildabgleich; örtlich unsichere Zahlkomposita] वेदैकत्रद्विभूतानि वेदत्र्येकद्विसायकाः |
वेदेष्विन्दुद्वयश्च वेदैकेषुद्विवह्नयः ॥४१॥ वेदद्व्येकेषुवह्निश्च वेदैकद्वीषुवह्नयः |
वेदद्विसायकेन्द्वग्निर्वेदेषुद्व्येकवह्नयः ॥४२॥ वेदेष्विन्दुत्रियुग्मं च वेदैकेषुत्रियुग्मकम् |
वेदेषुत्रीन्दुयुग्मं च वेदत्रीष्विन्दुयुग्मकम् ॥४३॥ वेदैकत्रीषुयुग्मं च वेदत्र्यैकेषुयुग्मकम् |
वेदद्वित्रेषुचन्द्राश्च वेदत्रिद्वीषुचन्द्रमाः ॥४४॥ वेदेषुत्रिद्विचन्द्राश्च वेदत्रीषुद्विचन्द्रमाः |
वेदद्वीषुत्रिचन्द्राश्च वेदेषुद्वित्रिचन्द्रमाः ॥४५॥ एवं प्रोक्तानि खण्डानि चतुर्थार्णोद्भवानि च |
पञ्चमार्णोत्थखण्डानि शृणु वक्ष्ये समासतः ॥४६॥ इषुवेदत्रियुग्मैकं भूतत्र्यब्धिद्विचन्द्रमाः |
भूताब्धिद्वित्रिचन्द्राश्च भूतद्व्यब्धित्रिचन्द्रमाः ॥४७॥ भूतत्रिद्व्यब्धिचन्द्राश्च भूतद्वित्र्यब्धिचन्द्रमाः |
भूताब्धित्र्येकयुग्मं च भूतत्र्यब्ध्येकयुग्मकम् ॥४८॥ भूताब्ध्येकत्रियुग्मं च भूतैकाब्धित्रियुग्मकम् |
भूतत्र्येकाब्धियुग्मं च भूतैकत्र्यब्धियुग्मकम् ॥४९॥ इष्वब्धीन्दुद्विवह्निश्च भूतैकाब्धिद्विवह्नयः |
भूताब्धिद्व्येकवह्निश्च भूतद्व्यब्धीन्दुवह्नयः ॥५०॥ भूतद्व्येकाब्धिवह्निश्च भूतैकद्व्यब्धिवह्नयः |
भूतैकद्वित्रिवेदाश्च भूतद्व्येकत्रिसागराः ॥५१॥ भूतत्रिद्व्येकवेदाश्च भूतद्वित्र्येकसागराः |
भूतत्रीन्दुद्विवेदाश्च भूतेन्दुत्रिद्विसागराः ॥५२॥ एवं प्रोक्तानि खण्डानि पञ्चमार्णोद्भवानि च |
.......... ॥ इति ॥ अत्र षोडशकोष्ठयन्त्रेष्वयं क्रमः—प्रथमार्णोत्थचतुर्विंशतिखण्डानामाद्यखण्डस्य चतुस्त्रिंशत्, द्वितीयस्य षट्त्रिंशत्, तृतीयस्याष्टात्रिंशत्, चतुर्थस्य चत्वारिंशत्, पञ्चमस्य द्विचत्वारिंशत्, षष्ठस्य चतुश्चत्वारिंशदेवं चतुर्विंशतियन्त्राणि द्व्यङ्कवृद्ध्याशीतिपर्यन्तमूह्यानि |
ततो द्वितीयार्णोत्थखण्डानामपि द्व्यशीतिमारभ्य द्व्यङ्कवृद्ध्या चतुर्विंशतियन्त्राणि ऊह्यानि |
एवमुत्तरोत्तरे फलान्यपि प्राक्प्रोक्तानि ज्ञेयानि |
तथा वाग्भवकामराजकूटोत्थखण्डानामपि प्राक्प्रोक्तरीत्याङ्कानि कृत्वा विषमसमयन्त्राणामुद्धारं कृत्वा तत्तत्फलेषु योज्यानि |
इति यन्त्रप्रकरणम् ॥ ॐ अथास्मदाराध्यचरणैरुपदिष्टा श्रीविद्यापद्धतिर्लिख्यते |
तत्र [35.SVP – neue Zählung: Śrīvidyāpaddhati] ब्राह्मे मुहूर्ते चोत्थाय ब्रह्मरन्ध्रे सिताम्बुजे |
चिच्चन्द्रमण्डले शुद्धस्फटिकाक्षवराभये ॥१॥ दधानं रक्तया शक्त्याश्लिष्टं वामाङ्कसंस्थया |
धारयन्त्योत्पलं दीर्घनेत्रत्रयविभूषितम् ॥२॥ प्रसन्नवदनं शान्तं स्मरेत् तन्नामपूर्वकम् |
रक्तशुक्लात्मकं तस्य संस्मृत्य चरणद्वयम् ॥३॥ गुरुं च गुरुपत्नीं च देवं देवीं विभावयेत् |
पादुकामन्त्रमुच्चार्य यथास्वस्वगुरूक्तितः ॥४॥ पादुकाविद्याः प्रागेवोक्ताः, तत्तद्विद्यायुक्तैर्गन्धाद्यैरुपचारैः संपूज्य प्रार्थयेत् ॥ प्रातः प्रभृति सायान्तं सायादि प्रातरन्ततः |
यत्करोमि जगद्योने तदस्तु तव पूजनम् ॥५॥ इति प्रार्थ्य स्वगुरुं तन्नामपूर्वकं प्रणम्य नमस्कृत्य मूलादिब्रह्मरन्ध्रपर्यन्तम्, सूर्यकोटिप्रतीकाशां चन्द्रकोटिसमप्रभाम् |
उद्यद्दिवाकरोद्द्योतां यावच्छ्वासं दृढासनः ॥६॥ ध्यात्वा तदैकरस्येन किंचित्कालं सुखी भवेत् |
.......... ॥ इत्युक्तरीत्या मूलविद्यां विभाव्य, तदाज्ञयाऽजपादिसंकल्पं कुर्यात् |
अस्य श्रीअजपानामगायत्रीमन्त्रस्य० शिरसि हंसऋषये नमः, मुखे अव्यक्तागायत्रीच्छन्दसे नमः, हृदि परमहंसाय देवतायै नमः, गुह्ये हंबीजाय नमः, पादयोः सः शक्तये नमः, नाभौ सोहं कीलकाय नमः, इति विन्यस्य मम समस्तपापक्षयार्थमद्याहोरात्र- [Unsicher:MAY41 dritte Reihe;SVP1 अक्ष/अक्षवराभये-Kompositum. FußnoteSVP-Prosa अव्यक्तगायत्री kha/ga. Fortsetzung Prosa857.]

Druckseite 857

Zuordnung zur deutschen Fassung: 35.SVP.

[35.SVP – Druckseite857; Bildabgleich; Prosa-Fortsetzung] मध्ये श्वासोच्छ्वासरूपेण षट्शताधिकैकविंशतिसहस्रसंख्याकमजपानामगायत्रीजपमहं करिष्ये, इति संकल्प्य मूलेन प्राणायामं करशुद्धिमङ्गुलीन्यासं च कुर्यात् |
हसां सूर्यात्मने हृदयाय नमः, हसीं सोमात्मने शिरसे स्वाहा, हसं निरञ्जनात्मने शिखायै वषट्, हसैं निराभासात्मने कवचाय हुम्, हसौं अतनुसूक्ष्मप्रबोधात्मने नेत्रत्रयाय वौषट्, हसः अव्यक्तप्रबोधात्मने अस्त्राय फट्, इति करषडङ्गन्यासं विधाय हंसरूपं विभावयेत् |
आत्मानमग्नीषोमाख्यपक्षयुग्मं शिवात्मकम् |
हकारेण बहिर्यान्तं विशन्तं च सकारतः ॥७॥ हंसः सोहमिति स्मृत्वा सोहं व्यञ्जनहीनतः |
पक्षौ संहृत्य चात्मानमण्डरूपं विभावयेत् ॥८॥ तारमभ्यस्य परेऽह्न्यप्येवं कुर्यात् |
ततः पूर्वद्युरहोरात्रमध्ये जातश्वासोच्छ्वासरूपषट्शताधिकैकविंशतिसहस्रसंख्याकमजपानामगायत्रीजपं ब्रह्मरन्ध्रे सहस्रदलकमलकर्णिकामध्यवर्तिने श्रीगुरवे निवेदयामीति निवेद्य, स्वस्थाने गुरुमुद्वास्य बहिर्गत्वा यथावच्च शौचाचमनदन्तधावनं च निर्वर्त्य, उत्तराभिमुखो भूत्वा भूमिं गुरुं चाभ्यां मन्त्राभ्यां प्रार्थयेत् |
“धारणं पोषणं त्वत्तो भूतानां देवि सर्वदा |
तेन सत्येन मां पाहि धारणीभव धारिणि ॥ अखण्डमण्डलाकारं व्याप्तं येन चराचरम् |
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥” एताभ्यां नमस्कृत्य वैदिकस्नानं विधाय मन्त्रस्नानं कुर्यात् |
नाभिमात्रे जले स्थित्वा तीर्थं सूर्यमण्डलादङ्कुशमुद्रया “ऐं हृदयाय नमः” इति मन्त्रेणाकृष्य तीर्थे क्षिप्त्वा, शक्तिबीजं समुच्चरन् योनिमुद्रया संस्पृश्य पाणिभ्यां संधायामृतेश्वरीं सप्तशो जपित्वा ध्यात्वा स्नायात् |
तद्यथा “ऐं ह्रीं श्रीं अमृते अमृतोद्भवे अमृतवर्षिणि अमृतं स्रावय २ सांजूंझूंसः अमृतेश्वर्यै स्वाहा” |
अमृतामृतरम्योधसंतर्पितचराचराम् |
भवानि भवशान्त्यै त्वां भावयाम्यमृतेश्वरीम् ॥९॥ अन्तः शक्तिमभिध्यायन्नाधाराद् ब्रह्मरन्ध्रगाम् |
तस्याः पीयूषवर्षेण स्नानमन्तः समाचरेत् ॥१०॥ इत्युक्तरीत्या ध्यात्वा निमज्ज्य मूलेन शिरसि पार्श्वयोः संप्रोक्ष्य मूलं सप्तवारमुच्चार्य, सप्तधातुस्थकल्मषं शोधयामीति धिया सप्तवारमुन्मज्ज्य, कुम्भमुद्रया शिरसि मूलेन त्रिवारमभिषिच्य वशिन्याद्याभिरभिषिच्य संपत्करीं चाभिषिच्य, तीरमागत्य बालया प्रोक्षिते धौते वाससी परिधायाचम्य, विभूतिं वामहस्ते निधाय दक्षहस्तेन पिधाय, जातवेदसेन० गायत्र्या० त्र्यम्बकेन० अग्निरिति० मानस्तोके० त्र्यायुषं जमदग्ने० इति षड्भिः |
“अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वं ह वा इदं भस्म मन एतानि चक्षूंषि भस्मानि भवन्ति” |
ततो मूलविद्यया सप्तवारमभिमन्त्र्य, ईशान इति शिरसि |
तत्पुरुषायेति वक्त्रे |
अघोरेभ्य इति हृदये |
वामदेवायेति गुह्ये |
सद्योजातमिति पादयोः |
श्रीविद्यया शिरसि |
“ऐं वद वद वाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय क्लेदय महाक्षोभं कुरु कुरु क्लीं सौः मोक्षं कुरु हसौः” अनया दीपिन्या मुखे |
“ॐ नमो भगवति ज्वालामालिनि देवदेवि सर्वभूतसंहारकारिके जातवेदसि ज्वलन्ति ज्वल ज्वल प्रज्वल प्रज्वल ह्रीं ह्रीं ह्रीं र र र र र र र ज्वालामालिनि हुं फट् स्वाहा” अनया वक्षसि |
“ॐ ह्रीं वह्निवासिन्यै नमः” इति नाभौ |
“ॐ सहस्रार हुं फट्” इत्यूर्वोः |
“आश्लिष्टपशु हुं फट्” इति जङ्घयोः |
“ॐ ह्रीं स्फुर स्फुर प्रस्फुर २ घोर घोरतर तनुरूप चट चट प्रचट २ कह २ वम २ बन्धय बन्धय [Fortsetzung858. Fußnote:] सुदर्शनध्यानं यथा सौभाग्यरत्नाकरे— कल्पान्तार्कप्रकाशं त्रिभुवनमखिलं तेजसा पूरयन्तं रक्ताङ्गं पिङ्गकेशं रिपुकुलभयदं भीमदंष्ट्राट्टहासम् |
चक्रं शङ्खं गदां च पृथुतरमुसलं चापपाशाङ्कुशान् वै बिभ्राणं दोर्भिराद्यं मनसि सुररिपुं भावयेच्चक्रसंज्ञम् ॥ [Lokale Unsicherheiten:7 पक्षयुग्मं;Erdgebet धारणीभव;Amṛteśvarī-Bījas सांजूंझूंसः;9 रम्योध;Dīpinī-Bīja k्लीं/ह्रीं;Jvālāmālinī Anzahl r;आश्लिष्टपशु. Fußnote letzter Ausdruck सुररिपुम् auffällig.]

Druckseite 858

Zuordnung zur deutschen Fassung: 35.SVP.

[35.SVP – Druckseite858; Bildabgleich; Fortsetzung Prosa] घातय २ हुं फट्” इति पादयोः, “ॐ ह्रीं वैष्णव्यै नमः” इति हृदये |
अघोरविद्यया पृष्ठे |
मातृकया सर्वसंधिषु |
“उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् |
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम्” इति बाह्वोः |
“ॐ ह्रीं नमो भगवते नृसिंहाय ज्वालामालिने दीप्तदंष्ट्रायाग्निनेत्राय सर्वरक्षोघ्नाय सर्वभूतविनाशाय सर्वज्वरविनाशाय दह दह रक्ष रक्ष हुं फट् स्वाहा” अनया ज्वालानृसिंहविद्यया च बाह्वोः |
“ॐ उत्तिष्ठ पुरुषाधार पिङ्गललोहिताक्ष देहि मे ददापय स्वाहा” अनया वडवानलभैरव्या सर्वाङ्गे (भस्म) स्नानमाचरेत् ॥ एता एव महाविद्या विभूतेरभिमन्त्रणे |
कथिताः सर्वरक्षार्थं सर्वापन्निवहापहाः ॥११॥ इति ज्ञात्वा विधानेन भस्मस्नानं समाचरेत् |
सर्वाङ्गेष्वथवा कुर्यात् केवलं मूलविद्यया ॥१२॥ एवं भस्मधारणं विधाय संध्यावन्दनं कुर्यात् |
तद्यथा—व्यस्तसमस्तमूलविद्यया बीजसहितैः स्वाहान्तैरात्मतत्त्वादिभिर्जलं पीत्वा द्विरुन्मृज्य स्रुतं स्पृष्ट्वा नासिके नयने शिरो हृदयं दक्षिणं करं संस्पृशेत्, अयमाचमः |
एवमाचम्य षोडशस्वरैः सबिन्दुभिर्मार्जयित्वा कादिमान्तैः स्पर्शवर्गैर्मूलविद्यासहितैर्जलं पीत्वा यादिक्षान्तार्णभिः पुनर्मार्जयित्वोत्थाय “ऐं त्रिपुरादेव्यै विद्महे क्लीं कामेश्वर्यै धीमहि सौः तन्नः क्लिन्ना प्रचोदयात्” इति गायत्र्या त्रिरर्घ्यमुत्क्षिप्याचम्य |
यथाशक्ति जपेदेनां गायत्रीं त्रैपुराह्वयाम् |
प्रातः संध्याविधिं वक्ष्ये मूलाधारस्थपङ्कजे ॥१३॥ वाग्भवं काञ्चनाकारं मध्ये बीजमनुस्मरेत् |
दक्षनासापुटपथा विनिःसार्यार्कमण्डले ॥१४॥ आवाह्य देवतां संध्यां कालरूपां विभावयेत् |
पीतालङ्कारवसनां पुस्तकाक्षस्रगुज्ज्वलाम् ॥१५॥ एवं ध्यात्वा जपित्वा च गायत्रीं प्रणमेद्गुरुम् |
वागीश्वरीं नमस्कृत्य संध्यां स्वस्थानेमानयेत् ॥१६॥ अथ मध्याह्नसंध्यायां मणिपूरे जपासमम् |
कामराजं हृदि ध्यात्वा बहिरेव सूर्यमण्डले ॥१७॥ वराभययुतां रक्तवर्णां यौवनमास्थिताम् |
कामेश्वरीं हृदि ध्यात्वा पुनः स्वस्थानेमानयेत् ॥१८॥ अथ सायन्तने काले भ्रूमध्ये चन्द्रसंनिभम् |
तार्तीयं भावयित्वाथ बाह्येऽप्यावाह्य पूर्ववत् ॥१९॥ भैरवीं श्वेतवर्णाभां वृद्धां मुकुटधारिणीम् |
पाशाङ्कुशधरां ध्यात्वा पुनः स्वस्थानेमानयेत् ॥२०॥ अथार्धरात्रसमये ब्रह्मरन्ध्रे महाप्रभम् |
तुरीयं बीजमुच्चार्य ध्यात्वाकाशे पराह्वये ॥२१॥ चिच्चन्द्रमण्डले देवीं ध्यात्वा त्रितयरूपिणीम् |
पाशाङ्कुशधनुर्बाणधारिणीं मूलविद्यया ॥२२॥ समाराध्य च चिद्रूपे स्वस्थाने च लयं नयेत् |
.......... ॥ एवमुक्तकालचतुष्टये मार्जनपूर्वकमर्घ्यदानादिगायत्रीजपं कुर्यात् |
संध्यालोपे द्विगुणं जपमाचरेत् |
जपेन दुरितं हन्ति सर्वं तत्परमास्तिकः |
इति संध्याविधिं कृत्वा ततस्तर्पणमाचरेत् ॥२३॥ [Fußnote:] अघोराख्यस्य—(सौ०र०) सजलघनसमानं भीमनम्रं त्रिनेत्रं भुजगधरमघोरं रक्तवस्त्राङ्गरागम् |
परशुडमरुखड्गं खेटकं बाणपाशौ त्रिशिखनरकपालं बिभ्रतं भावयामि ॥ वनदुर्गाया ध्यानम्—(सौ०र०) सौवर्णाम्बुजमध्यगां त्रिनयनां सौदामिनीसन्निभां शङ्खं चक्रवराभयानि दधतीमिन्दोः कलां बिभ्रतीम् |
ग्रैवेयाङ्गदहारकुण्डलधरामाखण्डलाद्यैः स्तुतां ध्यायेद्विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपञ्चाननाम् ॥ [Lokale Unsicherheiten:Prosa स्रुतं;Fußnote भीमनम्रं;क्लीं-Lesung der Gāyatrī. Fußnoten:नमः fehlt in ka;erste huṃ-Formelteil fehlt in ka.]

Druckseite 859

Zuordnung zur deutschen Fassung: 35.SVP.

[35.SVP – Druckseite859; Bildabgleich. Das im Druck wiederkehrende Kurzzeichen ist hier als४ bewahrt; keine eigenständige Mantrasilbe.] यथा—जलान्तिके समुपविश्य प्राङ्मुख उदङ्मुखो वाचम्योपस्थानसहस्राक्षर्योपस्थाय, उपस्थानसहस्राक्षरीमग्रे (३६श्वा०) वक्ष्यामः |
ॐऐंह्रींश्रीं वसुभ्यः स्वाहा नमः सूर्यायामितरुद्रेभ्यः, ४ रुद्रेभ्यः स्वाहा नमः सूर्यायामितरुद्रेभ्यः, ४ आदित्येभ्यः स्वाहा नमः सूर्यायामितरुद्रेभ्यः, ४ आङ्गिरसेभ्यः स्वाहा नमः सूर्यो०, ४ ब्रह्मणे स्वाहा नमः सू०, ४ विष्णवे स्वाहा नमः सूर्यो०, ४ रुद्राय स्वाहा नमः सूर्यो०, ४ ग्रहेभ्यः स्वाहा नमः सूर्यो०, ४ नक्षत्रेभ्यः स्वाहा नमः सूर्यायामितरुद्रेभ्यः, ४ राशिभ्यः स्वाहा नमः सू०, ४ योगेभ्यः स्वाहा नमः सू०, ४ करणेभ्यः स्वाहा नमः सू०, एतांश्चतुर्थ्यावह्निजायान्तान् देवतीर्थेन तर्पयेत् ॥ ४ ऋषिभ्यो नमः, ४ मरीचये नमः, ४ अत्रये०, ४ पुलहाय०, ४ पुलस्त्याय०, ४ क्रतवे०, ४ वसिष्ठाय०, ४ भरद्वाजाय०, ४ गौतमाय०, ४ अगस्त्याय०, ४ लोपामुद्रायै०, ४ अहल्यायै०, ४ अनुसूयायै०, चतुर्थ्यन्तं नमोन्तं च प्रत्येकं द्विरृषितर्पयेत् |
प्राचीनावीती |
४ अग्निष्वात्तेभ्यः स्वधा नमस्तर्पयामि, ४ बर्हिष्षद्भ्यः, ४ पितृभ्यः, पित्रादिस्वपितृक्रमं तर्पयेत् |
“त्रिः स्वधाहृदयान्तांश्च पितृतीर्थेन तर्पयेत्” |
ततः ४ भैरवास्तृप्यन्तु, ४ क्षेत्रपालास्तृप्यन्तु, ४ कुमार्यस्तृप्यन्तु, ४ योगिनीगणास्तृप्यन्तु, ४ सर्वभूतानि तृप्यन्तु, इति तर्पयित्वा, ॐहांहींसः सूर्याय नमः, इति सूर्यायार्घ्यत्रयं दत्त्वा मूलबीजचतुष्टयैः |
चतुस्तत्त्वान्तिकैः शोधयाम्यन्तैः सलिलं पिबेत् ॥२४॥ चतुर्विशेषाचमोऽयं देहतत्त्वविशोधकः |
.......... ॥ ततः श्रीचक्रावरणदेवतातर्पणं कुर्यात् |
तद्यथा— सकलीकृत्य तां देवीं चित्सुधारसरूपिणीम् |
पञ्चशक्तिचतुर्वह्निद्विपदत्रिमहीतले ॥२५॥ महाचक्रे सावरणां पूजामार्गेण वारिणि |
विभाव्य तर्पयेदद्भिः सुधारूपाभिरन्वहम् ॥२६॥ यद्वा भूगृहरेखादिनवयोन्यां प्रतर्पयेत् |
पीठदेवीं यथाशक्ति साङ्गां नीत्वा गुरुक्रमम् ॥२७॥ सकृत्समयविद्याश्च दत्त्वा पञ्चोपचारकम् |
ततः समाहितो विद्यां जपेत् तर्पणसंख्यया ॥२८॥ निष्कलीकृत्य हृदये देवीमुद्वास्य तत्कृताम् |
सकलीकृत्य संहृत्य तीर्थं मार्तण्डमण्डले ॥२९॥ कृत्वा षडङ्गमुत्तिष्ठेदस्त्रपञ्जरमध्यतः |
न बाह्यान् भावमानस्तु न स्पृशन् नावलोकयन् ॥३०॥ यागगृहं गच्छेदिति शेषः |
अत्र पञ्चशक्तीत्यादि सृष्टिक्रमेण स्थितिरूपेण च तर्पणमुक्तम् |
यद्वेत्यादिना संहारक्रमेणोक्तम् |
अत्र येन क्रमेण चक्रपूजा क्रियते तेनैव क्रमेण वक्ष्यमाणावरणदेवताः संतर्प्य यथोक्तसंख्यं मूलदेवीं तर्पयेत् |
इति संध्यावन्दनविधिः ॥ अथ शुचौ देशे विधिप्रोक्ते मृद्वासने ऐंबीजकर्णिकं स्वरयुग्मकिञ्जल्कं कचटतपयशान्तवर्गाष्टकदलं दिक्षु ठबीजसहितं मातृकामण्डलं ध्यात्वा, तत्र आधारशक्तिकमलासनाय नमः, इति पुष्पाक्षतादिभिरभ्यर्च्य, प्राङ्मुख उदङ्मुखो वोपविश्य भूमिं प्रार्थयेत् |
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता |
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥३१॥ इति भूमिं प्रार्थ्य स्वशिरसि मातृकाम्बुजं ध्यात्वा दीपनाथं पूजयेत् |
तद्यथा—वाराणस्यां ४ वं मेद आत्मककुलडीशाय वरशानन्दनाथायातिरक्तवर्णाय रक्तद्वादशशक्तियुक्तायास्मिन् क्षेत्रे इमां पूजां गृह्ण गृह्ण स्वाहा, इति [Lokale Unsicherheiten:29 तत्कृताम् (Variante यत्कृताम् ga);31 nachfolgende Nātha-Namen मेद आत्मककुलडीश/वरशानन्द;Variante मूलात्मने ka. Sonnenformelvariante ॐह्रींसः ka. Abkürzungenbewahrt.]

Druckseite 860

Zuordnung zur deutschen Fassung: 35.SVP, 35.LPB.

[35.SVP – Druckseite860; Bildabgleich; Kurzzeichen४ wie859] दीपनाथमभ्यर्च्य गुर्वादिवन्दनं कुर्यात् |
तद्यथा—हस्ताभ्यामञ्जलिं विधाय ४ शिवादिगुरुभ्यो नमः इति दक्षवामपार्श्वोर्ध्वाधोभागेषु विन्यस्य, अखण्डमण्डलाकारं० इति, चरणं पवित्रमित्यादिवैदिकैर्मन्त्रैः श्रीपादुकाविद्यामुच्चार्य, अमुकानन्दनाथपादुकां पूजयामीति श्रीगुरुं संपूज्य अपसर्पन्तु ये भूता ये भूता भुवि संस्थिताः |
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥३२॥ आश्लींपशु हुं फट् इति पाशुपतास्त्रेण नाराचमुद्रया विघ्नानुत्सार्य, सिद्धार्थाक्षतकुसुमैः पातालभूनभोलिनान् विघ्नान् क्रमेण वामपादपार्ष्णिघात-करास्फोट-समुदञ्चितवक्त्रैरुत्सार्य, उक्तपाशुपतास्त्रेण वामहस्ततलं द्विधा मणिबन्धं समारभ्य संस्पृष्टं दक्षपाणिना |
प्रमृज्य दक्षिणं पाणिं सकृदेवोक्तमार्गतः ॥३३॥ एवं षट् करशोधनं कृत्वा आनाभेरापादं हृदो नाभिपर्यन्तं शिरसो हृत्पर्यन्तं तेनैवास्त्रेण व्यापयित्वा अन्तस्तालत्रयं बहिस्तालत्रयं कृत्वा दशदिग्बन्धनं विधाय, रं अग्निप्राकाराय नमः सुदर्शनाघोरास्त्राभ्यां पूर्वोक्ताभ्यां बाहिरेवाग्निप्राकारत्रयं कृत्वात्मरक्षां कुर्यात् |
तदुक्तं लक्ष्मीकौलार्णवे— [35.LPB – neue Zählung] त्रिरग्निवेष्टनं कृत्वा गणेशं पञ्चमीं ततः |
दुर्गां विघ्नं च शरभमघोरं च सुदर्शनम् ॥१॥ एताः समयविद्याश्च जपेत् प्रत्यूहशान्तये |
एवं रक्षां पुरा कृत्वा भूतशुद्धिमथाचरेत् ॥२॥ इति |
ॐश्रींह्रींक्लींग्लौंगं गणपतये वरवरद सर्वजनं मे वश्यमानय स्वाहा, (१) |
ऐंग्लौंॐ नमो भगवति वार्तालि २ वाराहि २ वराहमुखि २ अन्धे अन्धिन्यै नमः रुन्धे रुन्धिन्यै नमः जम्भे जम्भिन्यै नमः मोहे मोहिन्यै नमः स्तम्भे स्तम्भिन्यै नमः सर्वदुष्टप्रदुष्टानां सर्वेषां सर्ववाक्चित्तचक्षुर्मुखगतिजिह्वास्तम्भं कुरु २ शीघ्रं वश्यं कुरु २ ठः ५ हुं फट् स्वाहा ग्लौं ऐं, (२) |
उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितं यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा, (३) |
ॐ ह्रीं वां वटुकाय आपदुद्धारणाय कुरु २ वटुकाय ह्रीं, (४) |
ॐ ह्रीं ह्रीं नमः शिवाय महाशरभाय, (५) |
ॐ ह्रीं ह्रीं नमः शिवायै महाशरभ्यै, (६) |
अघोरास्त्र-सुदर्शनास्त्रे प्रागुक्ते, (७|
८) |
समयविद्यास्तु प्रागेवोक्ता अग्रेऽपि वक्ष्यामः |
एता विद्याः शांभवपाठत्वेन पठित्वा आत्मरक्षां कृत्वा भूतशुद्धिं कुर्यात् |
तद्यथा—कुम्भकयोगेन प्रणवद्वादशावृत्त्या नाडीशुद्धिं विधाय हृदिस्थं चैतन्यं हंस इति मन्त्रेण संघट्टमुद्रयोर्ध्वमुन्नीय, द्वादशान्तस्थिते परे तेजसि संयोज्यास्त्रेण रक्षां कृत्वा भूतानि शोधयेत् |
पादादिजानुपर्यन्तं पृथिवीमण्डलं पीतवर्णं चतुष्कोणं वज्रलांछितं ब्रह्मदैवत्यं ध्यात्वा, लमिति बीजेन संशोध्याप्सु लयं नयेत् |
जान्वादिनाभिपर्यन्तं जलमण्डलं धवलवर्णं धनुराकारं महोत्पललांछितं विष्णुदैवत्यं ध्यात्वा, वमिति बीजेन संशोध्य तेजसि लयं नयेत् |
नाभ्यादिवक्षःपर्यन्तं तेजोमण्डलं रक्तवर्णं त्रिकोणाकारं स्वस्तिकलांछितं रुद्रदैवत्यं ध्यात्वा, रमिति बीजेन संशोध्य वायौ लयं नयेत् |
हृद्यादिभ्रूयुगान्तं वायुमण्डलं कृष्णवर्णं षट्कोणाकारं षड्बिन्दुलांछितमीश्वरदैवत्यं ध्यात्वा, यमिति बीजेन संशोध्याकाशे लयं नयेत् |
भ्रूयुगादिब्रह्मरन्ध्रान्तमाकाशमण्डलं नीलवर्णं वर्तुलाकारं नादरेखाङ्कितं सदाशिवदैवत्यं ध्यात्वा, हमिति बीजेन संशोध्य परशिवे लयं नयेत् ॥ षष्टिसंख्यां समारभ्य द्वादश द्वादश न्यसेत् |
पृथिव्यादीनि भूतानि क्रमेण स्वस्वकारणे ॥३॥ अस्यार्थः—भूतानां लयक्रमे पृथिवीशोधनं तद्बीजं षष्टिवारं जपेत्, तथोत्तरोत्तरं द्वादश द्वादश हित्वा जपेदित्यर्थः |
उत्पत्तिक्रमे तथैवाकाशबीजं षष्टिसंख्यं जपेत्, उत्तरोत्तरं द्वादश द्वादश हित्वा जपेत् |
अयं क्रमः प्राणायामयोगेनेति केचित् |
एवं पञ्चमहाभूतानि परे तत्त्वे एकीभूतानि विचिन्त्य, प्राणायाम- [Fortsetzung861. Lokale Unsicherheit:Pāśupatāstra-Anfang;vārtālī-Mantra Anfang und ठः5. Fußnoten:33 हृदयतो ka;Erdform चतुरस्राकार ga;Wassergrenze लिङ्गपर्यन्तं ga;Wasserform शुक्लवर्णं पद्मलाञ्छितमर्धचन्द्राकारं ga;Feuergrenze लिङ्गादिनाभिपर्यन्तं ga;Wind रेखालाञ्छितं ka.]

Druckseite 861

Zuordnung zur deutschen Fassung: 35.PPU, 35.BHO, 35.PRT.

[35.SVP/LPB-Prosa – Druckseite861; Bildabgleich] योगेन योनिमुद्रां बद्ध्वा कुलकुण्डलिनीमुत्थाप्य षट्सरोजानि भित्त्वा जीवचिद्रूपां तां मातृकासमुदायेन सह परे तेजसि संयोज्य शोषणादि समाचरेत् |
अत्र मातृकां तु संहारक्रमेण क्षकारं ळकारे, ळकारं हकारे, हकारं सकारे, एवमाकारमकारे विलाप्य तमकारं नवनीतनिभे कुण्डलिनीं ब्रह्मरन्ध्रे प्रापयेदित्यर्थः |
[35.PPU – neue Zählung: Pāpapuruṣa] वामकुक्षिस्थितं पापपुरुषं कज्जलप्रभम् |
ब्रह्महत्याशिरस्कं च स्वर्णस्तेयभुजद्वयम् ॥१॥ सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् |
तत्संसर्गिपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् ॥२॥ उपपातकरोमाणं रक्तश्मश्रुविलोचनम् |
खड्गचर्मधरं क्रुद्धं कुक्षौ पापं विचिन्तयेत् ॥३॥ ततो वामनासापुटे वायुमण्डलं तद्बीजयुक्तं कादिमान्तैः स्पर्शवर्गैः संवीतं धूम्रवर्णं ध्यात्वा मात्राषोडशकेन संपूर्य प्राणापानवायुभ्यां सह संयोज्य, तदुत्थितेनानिलेन च सह पापपुरुषं संशोष्य, चतुःषष्टिमात्राभिः कुम्भयित्वा द्वात्रिंशन्मात्राभिः रेचयेत् |
ततो दक्षनासापुटे वह्निमण्डलं तद्बीजयुक्तं यादिभिर्दशभिः संवीतं रक्तवर्णं संचिन्त्य, प्राणापानवायुभ्यां सह संयोज्य तदुत्थितेनानलेन पापपुरुषं संदह्य प्राग्वत् षोडशमात्राभिः पूरकं चतुःषष्टिमात्राभिः कुम्भकं द्वात्रिंशन्मात्राभी रेचनम् |
ततो वामनासापुटे आप्यमण्डलं तद्बीजयुक्तं षोडशस्वरैः संवीतं धवलवर्णं संचिन्त्य प्राग्वत् पूरकादिकं विधाय, मूलाधारगतेन वायुना वह्निकुण्डलिनीमुत्थाप्य तस्या ज्वालसमुदायेन विगलद्ब्रह्मरन्ध्रेन्दुमण्डलादमृतस्रावणं, पूर्ववत् पूरककुम्भकरेचकाः |
एवं शोषणदहनास्रावणानि कृत्वा, परस्मिन् शांभवे ब्रह्मणि स्वशरीरं तत्सारूप्यप्रतिबिम्बितं बुद्बुदाकारं ध्यात्वा, पार्थिवबीजेन कठिनींकृत्य, व्योमबीजेन विभेद्य भूतोल्पत्तिं विचिन्तयेत् |
[35.BHO – neue Zählung: Elemententstehung] अक्षरात् खं ततो वायुर्वायोस्तेजस्ततो जलम् |
जलात् प्रसूता जगती जगत्यां जायते जगत् ॥१॥ इति क्रमेण द्वादशसंख्यां समारभ्य षष्टिपर्यन्तं वर्धयन् सोऽहमित्युच्चार्य हंसोमिति शिवात्मानं बीजं षट्त्रिंशत्तत्त्वरूपं स्मरेत् |
“प्राणप्रतिष्ठां कुर्वीत वक्ष्यमाणप्रकारतः |
” अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य० शिरसि ब्रह्मविष्णुरुद्रेभ्य ऋषिभ्यो नमः, मुखे ऋग्यजुःसामाथर्वभ्यश्छन्दोभ्यो नमः, हृदि प्राणशक्तये देवतायै नमः, गुह्ये आं बीजाय नमः, पादयोः ह्रीं शक्तये नमः, नाभौ क्रों कीलकाय नमः इति विन्यस्य मम प्राणप्रतिष्ठापने विनियोगः इति कृताञ्जलिरुक्त्वा, अं कं ५ आं पृथिव्यप्तेजोवाय्वाकाशात्मने हृदयाय नमः |
इं चं ५ ईं शब्दस्पर्शरूपरसगन्धात्मने शिरसे स्वाहा |
उं टं ५ ऊं त्वक्चक्षुःश्रोत्रजिह्वाघ्राणात्मने शिखायै वषट् |
एं तं ५ ऐं वाक्पाणिपादपायूपस्थात्मने कवचाय हुं |
ओं पं ५ औं वचनादानगतिविसर्गानन्दात्मने नेत्रत्रयाय वौषट् |
अं यं १० अः बुद्धिमनोऽहंकारचित्तात्मनेऽस्त्राय फट्, इति हृदादिषडङ्गन्यासः |
एवं करषडङ्गन्यासं विधाय, यं त्वगात्मने नमः |
रं असृगात्मने नमः |
लं मांसात्मने नमः |
वं मेद आत्मने नमः |
शं अस्थ्यात्मने नमः |
षं मज्जात्मने नमः |
सं शुक्रात्मने नमः |
हं प्राणात्मने नमः |
ळं जीवात्मने नमः |
क्षं परमात्मने नमः |
इति व्यापकन्यासं कृत्वा, बीजत्रयेणैव व्यापकं कृत्वा ध्यायेत् |
[35.PRT – neue Zählung: Prāṇaśakti] रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराब्जैः पाशं कोदण्डमिक्षूद्भवमलिगुणमप्यङ्कुशं पञ्च बाणान् |
बिभ्राणासृक्कपालं त्रिनयनलसितापीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ॥१॥ [Lokale Unsicherheiten:Anfang जीवचिद्रूपाम् und Satzende नवनीतनिभे;Laut ळ in Rücknahme/Nyāsa;Hṛdnyāsa ersteVokale;vorletzte Prosa भूतोल्पत्ति Druckform. Wiederholungs-/Gruppenzahlen5,10 nicht als eigenständige Mantralaute.]

Druckseite 862

Zuordnung zur deutschen Fassung: 35.PRT, 35.MNY.

[35.PRT – Druckseite862; Bildabgleich] इति ध्यात्वा, ॐ आं ह्रीं क्रों हंसःसोहं यरलवशषसहों श्रीमहात्रिपुरसुन्दर्याः प्राणा इह प्राणाः २५ जीव इह स्थितः २५ सर्वेन्द्रियाणि २५ वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणप्राणा इहैवागत्य चिरं सुखं तिष्ठन्तु स्वाहा, इति हृदि हस्तं दत्त्वा त्रिवारं पठेत् |
इति प्राणप्रतिष्ठा |
अथ मातृकान्यासः— गुदात् अङ्गुलादूर्ध्वं सुषुम्नासूक्ष्मरन्ध्रगम् |
वादिवेदार्णलसितं पङ्कजं कनकप्रभम् ॥२॥ तत्स्थां विद्युल्लताकारां तेजोरूपामणीयसीम् |
कुलकुण्डलिनीमूर्ध्वं नयेत् षट्चक्रभेदतः ॥३॥ द्वादशान्तस्य मध्यस्थं पूर्वोक्तं मातृकाम्बुजम् |
नवनीतनिभं ध्यात्वा द्रुतं कुण्डलिनीत्विषा ॥४॥ तेजोऽञ्जलौ विनिःसार्य मातृकान्यासमाचरेत् |
.......... ॥ अंआंइंईंउंऊं इति षट् स्वरान् दक्षवामकरतलतत्पृष्ठतत्करभतद्व्यतिक्रमेण न्यसेत् |
अवशिष्टदशस्वरान् अङ्गुष्ठादिकनिष्ठान्तं दशस्वङ्गुलीषु न्यसेत् |
दक्षप्रदेशिनीमारभ्य वामकनिष्ठापर्यन्तं पर्वत्रयाग्रेषु चतुरश्चतुरः कादिसान्तान् वर्णान् हलावङ्गुष्ठयोरन्यमङ्गुल्यग्रेषु न्यसेदिति मातृकाकरशुद्धिं विधाय, अस्या अन्तर्मातृकायाः शिरसि दक्षिणामूर्तये ऋषये नमः |
मुखे गायत्र्यै छन्दसे नमः |
हृदये श्रीमातृकासरस्वत्यै देवतायै नमः |
गुह्ये हल्भ्यो बीजेभ्यो नमः |
पादयोः स्वरेभ्यः शक्तिभ्यो नमः |
नाभौ अव्यक्ताय कीलकाय नमः |
इति विन्यस्य मम शरीरशुद्ध्यर्थं विनियोगः इति कृताञ्जलिरुक्त्वा, अं कं ५ आं हृदयाय नमः |
इं चं ५ ईं शिरसे स्वाहा |
उं टं ५ ऊं शिखायै वषट् |
एं तं ५ ऐं कवचाय हुं |
ओं पं ५ औं नेत्रत्रयाय वौषट् |
अं यं १० अः अस्त्राय फट् |
इति करषडङ्गन्यासं विधाय, विशुद्धे षोडशदलेषु स्वरान्, हृदये द्वादशदलेषु कादिठान्तान्, नाभौ दशदलेषु डादिफान्तान्, स्वाधिष्ठाने षड्दलेषु बादिलान्तान्, मूलाधारे चतुर्दलेषु वादिसान्तान् विन्यस्य ध्यायेत् |
[35.MNY – neue Zählung: Mātṛkāmeditation] आधारे लिङ्गनाभौ हृदयसरसिजे तालुमूले ललाटे द्विपत्रे षोडशारे द्विदशदशदले द्वादशार्धे चतुष्के |
वासान्ते बालमध्ये डफकठसहिते कण्ठदेशे स्वराणां हंक्षं तत्त्वार्थयुक्तं सकलमुनिमतं वर्णरूपं नमामि ॥१॥ अथ बहिर्मातृकान्यासः |
तत्र प्राग्वदृष्यादिकं विन्यस्य ध्यायेत् |
पञ्चाशदर्णभेदैर्विहितवदनदोष्पादयुक्कुक्षिवक्षो- देशां भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् |
अन्तस्कुङ्कुम्भवचिन्तालिखितवरकरां त्रीक्षणां पद्मसंस्था- मच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि ॥२॥ दक्षोर्ध्वकरमारभ्य दक्षाधःकरपर्यन्तमायुधध्यानम् इति ध्यात्वा, काननवृत्तदृगक्षिश्रुतिनासागण्डोष्ठदन्तमूर्धास्ये |
दोष्पत्संध्यग्रेषु च पार्श्वद्वयपृष्ठनाभिजठरेषु ॥३॥ हृद्दोर्मूलापरगलकक्षेषु हृदादि पाणिपादयुगलेषु |
जठराननयोर्व्यापकसंज्ञान् न्यसेदक्षरान् क्रमशः ॥४॥ अत्र दशधातुषु यादीन् प्राग्वत् न्यसेत् |
अयं मातृकान्यासस्त्रिविधः—शुद्धमातृका बिन्दुयुक्ता विसर्गयुक्ता चेति |
[Lokale Unsicherheiten:PRT2 Zahl vor अङ्गुल/Abstand;MNY1 द्विदशदशदले und Reihenfolge der Chakras;MNY2 Handattribute-Kompositum stark beschädigt;MNY3 Anfang काननवृत्तदृगक्षि. Fußnoten:PRT2 ललित ka;Fingerprosa प्रदेशिन्या आरभ्य ka;MNY1 हृत् ga;MNY2 देहां ka;MNY2 खड्गा ka;MNY2 सुस्मितास्यां ka.]

Druckseite 863

Zuordnung zur deutschen Fassung: 35.MNY.

[35.MNY – Druckseite863; Bildabgleich] अन्तर्बहि(श्च?श्या)च कलायुता च श्रीकण्ठविष्ण्वादिसमन्विता च |
लज्जारमाकामपृथक्समूहा प्रपञ्चयागो दश मातृकाः स्युः ॥५॥ इति क्रमेण मातृकावैभवं प्रागेव वर्णितम्, सांप्रतमस्मदाराध्यचरणोपदिष्टक्रमेण संक्षेपतो भ्रमनिरासाय प्रोच्यते इति ॥ अथ कलामातृकान्यासः |
अस्य षडङ्गन्यासध्यानानि प्रागेवोक्तानि |
४ अं निवृत्तिकलायै नमः शिरसि |
आं प्रतिष्ठाकलायै नमः मुखे |
एवं इं विद्या० दक्षनेत्रे |
ईं शान्ति० वामनेत्रे |
उं इन्धिका० दक्षकर्णे |
ऊं दीपिका० वामकर्णे |
ऋं रेचिका० दक्षनसि |
ॠं मोचिका० वामनसि |
ऌं सूक्ष्मा० दक्षगण्डे |
ॡं सूक्ष्मातीता० वामगण्डे |
एं अमृता० ऊर्ध्वोष्ठे |
ऐं ज्ञाना० अधरोष्ठे |
ओं व्योमरूपा० ऊर्ध्वदन्तेषु |
औं आप्यायिनी० अधोदन्तेषु |
अं व्यापिनी० ललाटे |
अः अनन्तरूपा० जिह्वायाम् |
इति विन्यस्य “विष्णुर्योनि०” जपेत् |
ततः ४ अंआमित्यादि षोडशस्वरान् उच्चार्य भुक्तिमुक्तिप्रदनादजानन्तकलायै नमः इति मुखे व्यापकं न्यसेत् |
ततः ४ कं सृष्टि० दक्षबाहुमूले |
खं वृद्धि० कूर्परे |
गं स्मृति० मणिबन्धे |
घं मेधा० अङ्गुलिमूले |
ङं कान्ति० अङ्गुल्यग्रे |
चं लक्ष्मी० वामबाहुमूले |
छं धृति० कूर्परे |
जं स्थिरा० मणिबन्धे |
झं स्थिति० अङ्गुलिमूले |
ञं सिद्धि० अङ्गुल्यग्रे |
इति विन्यस्य हंसः शुचिषदिति जपेत् |
ततः कं १० सृष्टिप्रदाकारप्रभवब्रह्मकलायै नमः इति भुजयोर्व्यापकं न्यसेत् |
ततः ४ टं जरा० दक्षपादमूले |
ठं पालिनी० जानौ |
डं शान्ति० गुल्फे |
ढं ईश्वरी० अङ्गुलिमूले |
णं रति० अङ्गुल्यग्रे |
तं कामिका० वामपादमूले |
थं वरदा० जानौ |
दं ह्लादिनी० गुल्फे |
धं प्रीति० अङ्गुलिमूले |
नं दीर्घा० अङ्गुल्यग्रे |
इति विन्यस्य प्रतद्विष्णुरिति जपेत् |
ततः ४ टं १० स्थितिप्रदोकारप्रभवविष्णुकलाभ्यो नमः इति पादयोर्व्यापकं न्यसेत् |
ततः ४ पं तीक्ष्णा० दक्षपार्श्वे |
फं रौद्री० वामपार्श्वे |
बं भया० पृष्ठे |
भं निद्रा० नाभौ |
मं तन्द्री० जठरे |
यं क्षुधा० हृदि |
रं क्रोधिनी० दक्षांसे |
लं क्रिया० वामांसे |
वं उत्कारी० ककुदि |
शं मृत्यु० हृदादिदक्षपाण्यन्तम् |
इति विन्यस्य त्र्यम्बकं यजामहे इति जपेत् |
ततः पं १० संहृतिप्रदमकारप्रभवरुद्रकलाभ्यो नमः इति हृदयादिमध्ये व्यापकं न्यसेत् |
ततः ४ षं पीता० हृदादिवामपाण्यन्तम् |
सं श्वेता० हृदादिदक्षपादान्तम् |
हं अरुणा० हृदादिवामपादान्तम् |
ळं असिता० पादादिनाभ्यन्तम् |
क्षं सिता० नाभ्यादिमूर्धान्तम् |
इति विन्यस्य तत्सवितुरिति जपित्वा, ४ षं ५ तिरोधानप्रदबिन्दुप्रभवेश्वरकलाभ्यो नमः इति सर्वाङ्गे व्यापकं न्यसेत् |
इति प्रणवोत्थकलामातृकान्यासः ॥ अथ श्रीकण्ठादिन्यासः |
तत्रादौ तदङ्गशक्तिषडङ्गन्यासः—ॐह्रीं नमो भगवति ब्राह्मि रक्ष रक्ष पद्महस्तेन मां रक्ष रक्ष अं कं ५ आंहौंह्रींहसौं संजीवनि हृदयाय नमः |
ॐह्रीं नमो भगवति माहेश्वरि रक्ष रक्ष त्रिशूलहस्तेन मां रक्ष रक्ष इं चं ५ ईंहौंह्रींहसौं ऊर्ध्वकेशिनि शिरसे स्वाहा |
ॐह्रीं नमो भगवति कौमारि रक्ष रक्ष शक्तिहस्तेन मां रक्ष रक्ष उं टं ५ ऊंहौंह्रींहसौं जटिलिनि शिखायै वषट् |
ॐह्रीं नमो भगवति वैष्णवि रक्ष रक्ष चक्रहस्तेन मां रक्ष रक्ष एं तं ५ ऐंहौंह्रींहसौं मायात्रैलोक्यरूपसहस्रपरिवर्तिनि कवचाय हुम् |
ॐह्रीं नमो भगवति वाराहि रक्ष रक्ष दंष्ट्राहस्तेन मां रक्ष रक्ष ओं पं ५ औंहौंह्रींहसौं तारकाक्षिणि नेत्रत्रयाय वौषट् |
ॐह्रीं नमो भगवति ऐन्द्रि रक्ष रक्ष वज्रहस्तेन मां रक्ष रक्ष अं यं १० अःहौंह्रींहसौं मारय मारय अस्त्राय फट् |
ॐह्रीं नमो भगवति चामुण्डे रक्ष रक्ष पाशहस्तेन मां रक्ष रक्ष अंआं ५० अंअः [Fortsetzung864. Lokale Unsicherheiten:5 Anfang bereits im Druck mit Fragezeichen;Kalāname उत्कारी;Formelzahl50. Abkürzungen०und४ bewahrt. FußnoteBrahmakalā प्रभवेशाय ka.]

Druckseite 864

Zuordnung zur deutschen Fassung: unnummerierte Prosa und Formeln, Fortsetzung der vorausgehenden Reihe.

[35.MNY-Prosa – Druckseite864; Bildabgleich; Schluss Cāmuṇḍā-Formel und Namensnyāsas] ऐंक्रौं आंह्रींक्रौंॐअः हौंह्रींहसौं मम सर्वाङ्गं रक्ष रक्ष सर्वाङ्गव्यापिनि स्वाहा, इति व्यापकम् |
अस्य श्रीकण्ठादिमातृकान्यासस्य शिरसि अम्बरीष ऋषिः, मुखे अनुष्टुप् छन्दः, हृदि अर्धनारीश्वरो देवता, न्यासे विनियोगः |
ॐहौंह्रींहसौं मम सर्वाङ्गरक्षकाय अं श्रीकण्ठेशपूर्णोदरीभ्यां नमः, एवं सर्वत्र |
आं अनन्तेशविरजाभ्यां० |
इं सूक्ष्मेशशाल्मलीभ्यां० |
ईं त्रिमूर्तीशलोलाक्षीभ्यां० |
उं अमरेशवर्तुलाक्षीभ्यां० |
ऊं अर्धीशदीर्घघोणाभ्यां० |
ऋं भारभूतीशदीर्घमुखीभ्यां० |
ॠं अतिथीशगोमुखीभ्यां० |
ऌं स्थाण्वीशदीर्घजिह्वा० |
ॡं हरेशकुण्डोदरी० |
एं भिर्खीशोर्ध्वकेशी० |
ऐं भौतिकेशविकृतमुखी० |
ओं सद्योजातेशज्वालामुखी० |
औं अनुग्रहेशोल्कामुखी० |
अं अक्रूरेशश्रीमुखी० |
अः महासेनेशविद्यामुखी० |
कं क्रोधीशमहाकाली० |
खं चण्डीशसरस्वती० |
गं पञ्चान्तकेशसर्वसिद्धिगौरी० |
घं शिवोत्तमेशत्रैलोक्यविद्या० |
ङं एकरुद्रेशमन्त्रशक्ति० |
चं कूर्मेशात्मशक्ति० |
छं एकनेत्रेशभूतमातृ० |
जं चतुराननेशलम्बोदरी० |
झं अजेशविद्राविणी० |
ञं शर्वेशनागरी० |
टं सोमेशखेचरी० |
ठं लाङ्गलीशमञ्जरी० |
डं दारुकेशरूपिणी० |
ढं अर्धनारीश्वरेशवीरिणी० |
णं उमाकान्तेशकाकोदरी० |
तं आषाढीशपूतना० |
थं दण्डीशभद्रकाली० |
दं अद्रीशयोगिनी० |
धं मीनेशशङ्खिनी० |
नं मेषेशगर्जिनी० |
पं लोहितेशकालरात्री० |
फं शिखीशकुर्दिनी० |
बं छगलाण्डेशकपर्दिनी० |
भं द्विरण्डेशवज्रिणी० |
मं महाकालेशजया० |
यं त्वगात्मक-कापालीशसुमुखी० |
रं असृगात्मक-भुजङ्गीशरेवती० |
लं मांसात्मक-पिनाकीशमाधवी० |
वं मेदात्मक-खड्गीशवारुणी० |
शं अस्थ्यात्मक-बकेशवायवी० |
षं मज्जात्मक-श्वेतेशरक्तापधारिणी० |
सं शुक्रात्मक-भृङ्गीशसहजा० |
हं प्राणात्मक-नकुलीशमहालक्ष्मी० |
ळं शक्त्यात्मक-शिवेशव्यापिनीभ्यां नमः |
ॐह्रींहौं नमः शिवाय क्षं शिवात्मक-संवर्तेशमहामायाभ्यां नमः, इति विन्यस्य ध्यायेत् |
बन्धूककाञ्चननिभं रुचिराक्षमालां पाशाङ्कुशौ च वरदं निजबाहुदण्डैः |
बिभ्राणमिन्दुशकलाभरणं त्रिनेत्रमर्धाम्बिकेशमनिशं वपुराश्रयामि ॥ इति ध्यायेत् |
दक्षाधःकरमारभ्य वामाधःकरपर्यन्तमायुधध्यानम् |
इति श्रीकण्ठादिमातृकान्यासः ॥ अथ केशवादिमातृकान्यासः |
अस्याः केशवादिमातृकायाः शिरसि ब्रह्मा ऋषिः, मुखे गायत्री छन्दः, हृदये श्रीपरमात्मा केशवो देवता, न्यासे विनियोगः |
तत्र कामराजबीजेन षड्दीर्घयुतेन षडङ्गन्यासं कृत्वा ध्यायेत् |
हस्तैर्दधानां नवनीरदाभं शङ्खं च चक्रं च गदां च पद्मम् |
कीर्त्यादियुक्तामतिसुन्दरीं तां श्रीकेशवीं संततमाश्रयेऽहम् ॥ ॐऐंह्रींश्रीं क्लीं ॐ नमो नारायणाय अं केशवकीर्तिभ्यां नमः |
एवं सर्वत्र |
आं नारायणकान्ति० |
इं माधवतुष्टि० |
ईं गोविन्दपुष्टि० |
उं विष्णुधृति० |
ऊं मधुसूदनशान्ति० |
ऋं त्रिविक्रमक्रिया० |
ॠं वामनदया० |
ऌं श्रीधरमेधा० |
ॡं हृषीकेशहर्षा० |
एं पद्मनाभश्रद्धा० |
ऐं दामोदरलज्जा० |
ओं वासुदेवलक्ष्मी० |
औं संकर्षणसरस्वती० |
अं प्रद्युम्नप्रीति० |
अः अनिरुद्धरति० |
कं चक्रिजया० |
खं गदिदुर्गा० |
गं शार्ङ्गिप्रभा० |
घं खड्गिसत्या० |
ङं शङ्खिविरिडका० |
चं हलिवाणी० |
छं मुसलिविलासिनी० |
जं शूलिविजया० |
झं पाशिविरजा० |
ञं अङ्कुशिविश्वा० |
टं मुकुन्दविनदा० |
ठं नन्दजसुनन्दा० |
डं नन्दिस्मृति० |
ढं नरऋद्धि० |
णं नरकजित्समृद्धि० |
तं हरिशुद्धि० |
थं कृष्णभुक्ति० |
दं सत्यबुद्धि० |
धं सात्वतमति० |
नं शौरिक्षमा० |
पं शूररमा० |
फं जनार्दनोमा० |
बं भूधरक्लेदिनी० |
भं विश्वमूर्ति- [Fortsetzung865. Lesungen unsicher:erster Bījakomplex;भिर्खीश;फ कुर्दिनी;ष रक्तापधारिणी;Viṣṇu ङ विरिडका,ट विनदा. Fußnoten:Śiva इ सुमुखी ka;छ भूतधात्री ga;ज त्रिनेत्राननेश kha;ढ विरजा ka/महावज्रा kha;Viṣṇu ऊ कान्ति kha;ङ वीरा ka;ड वृद्धि ka;थ ऋद्धि ka;द शुक्लसत्या ka.]

Druckseite 865

Zuordnung zur deutschen Fassung: unnummerierte Prosa und Formeln, Fortsetzung der vorausgehenden Reihe.

[35.MNY-Prosa – Druckseite865; Bildabgleich; Fortsetzung Keśava-Nyāsa] क्लिन्ना० |
मं वैकुण्ठवसुदा० |
यं त्वगात्मक-पुरुषोत्तमवसुधा० |
रं असृगात्मक-बललिप्सा० |
लं मांसात्मक-बलानुजपरायणा० |
वं मेदात्मक-बालसूक्ष्मा० |
शं अस्थ्यात्मक-वृषघ्नसंध्या० |
षं मज्जात्मक-वृषभप्रज्ञा० |
सं शुक्रात्मक-हंसप्रभा० |
हं प्राणात्मक-वराहनिशा० |
ळं शिवशक्त्यात्मक-विमलामोघा० |
क्षं परात्मक-नृसिंहविद्युताभ्यां नमः |
इति केशवादिमातृकान्यासः ॥ अथ लज्जाबीजादिमातृकान्यासः |
तत्र शक्तिर्ऋषिः, देवीगायत्री छन्दः, सकलप्रपञ्चमूलरूपिणी शक्तिर्देवता न्यासे विनियोगः |
ततः षड्दीर्घयुतमायाबीजेन करषडङ्गं विधाय ध्यायेत् |
उद्यद्भास्वत्समाभां विजितनवजपामिन्दुखण्डावनद्ध- द्योतन्मौलिं त्रिनेत्रां विविधमणिलसत्कुण्डलां पद्मगां च |
हारग्रैवेयकाञ्चीगुणमणिवलयाद्यैर्विचित्राम्बराढ्या- मम्बां पाशाङ्कुशाद्याभयवरदकरामम्बिकां तां नमामि ॥ इति ध्यात्वा ह्रींअंह्रीमित्यादिक्रमेण न्यसेत् |
इति शक्तिमातृकान्यासः ॥ अथ रमाबीजादिमातृकान्यासः |
तत्र भार्गव ऋषिः, गायत्री छन्दः, रमा देवता न्यासे विनियोगः |
श्रांश्रीमित्यादिना करषडङ्गन्यासं विधाय ध्यायेत् |
वामे करे तदितरे च तथोपरिष्टात् पात्रं सुधारसयुतं वरमातुलुङ्गम् |
खेटं गदां च दधतीं भवतीं भवानीं ध्यायन्ति येऽरुणनिभां कृतिनस्त एव ॥ इति ध्यात्वा श्रींअंश्रीमित्यादि न्यसेत् |
इति लक्ष्मीमातृकान्यासः ॥ अथ कामबीजादिमातृकान्यासः |
तत्र संमोहन ऋषिः, गायत्री छन्दः, कामेश्वरी देवता न्यासे विनियोगः |
क्लांक्लीमित्यादिना करषडङ्गन्यासं विधाय ध्यायेत् |
त्रिनेत्रां सुस्मितमुखीमरुणाम्बरभूषणाम् |
पाशाङ्कुशधनुर्बाणधरां कामेश्वरीं भजे ॥ इति ध्यात्वा क्लींअंक्लीमित्यादि न्यसेत् |
इति काममातृकान्यासः ॥ अथ त्रिशक्तिमातृकान्यासः |
तत्र ब्रह्मा ऋषिः, गायत्री छन्दः, त्रिशक्तिर्देवता न्यासे विनियोगः |
लज्जारमाकामबीजत्रयद्विरावृत्त्या करषडङ्गन्यासं विधाय प्राग्वत् ध्यात्वा ह्रींश्रींक्लींअं नमः इत्यादि न्यसेत् |
इति त्रिशक्तिमातृकान्यासः ॥ अथ प्रपञ्चयागमातृकान्यासः |
अथ प्रपञ्चयागस्य विधानमभिधीयते |
येन निर्धूतकलुषो ब्रह्मभूयं समश्नुते ॥ अस्य परब्रह्म ऋषिः, परमा गायत्री छन्दः, परमात्मा देवता न्यासे विनियोगः |
स्वाहा हृदयाय नमः |
सोऽहं शिरसे स्वाहा |
हंसः शिखा० |
ह्रीं कवचा० |
ॐ नेत्रा० |
हरिहर अस्त्राय० |
मूलमन्त्रेण त्रिधा व्यापकं कृत्वा ध्यायेत् |
तारादिपञ्चमनुभिः परिचीयमानं मानैरगम्यमनिशं जगदेकमूलम् |
सच्चित्समस्तगमनश्वरमच्युतं तत्तेजः परं भजत सान्द्रसुधाम्बुराशिम् ॥ इति ध्यात्वा ॐह्रींअं हंसः सोहं स्वाहा, ॐह्रींआं हंसः सोहं स्वाहा, इत्यादि न्यसेत् |
इति प्रपञ्च- [Fortsetzung866. Lokale Unsicherheiten:NamenspaareLautwiedergabe;Mantrasegmentierung ॐह्रींअं. Fußnoten:ṚṣiLajjā कपिल ga;Ambā नद्धां ka;Ramā-Meditation लक्ष्मीं ka;Nyāsa ठः नेत्रा ka;Nyāsa सूर्यं ga;Schlussmeditation संवित् ka, नमत ga.]

Druckseite 866

Zuordnung zur deutschen Fassung: unnummerierte Prosa und Formeln, Fortsetzung der vorausgehenden Reihe.

[35.MNY-Prosa – Druckseite866; Bildabgleich] यागमातृकान्यासः ॥ इति साधारणतो दशविधमातृकान्यासः सर्वमन्त्रसाधारणः ॥ अथ मातृकाविशेषाः |
तत्रादौ बालामातृकान्यासः |
तत्र दक्षिणामूर्तिः ऋषिः, पङ्क्तिः छन्दः, बालावागीश्वरी देवता न्यासे विनियोगः |
ततो बालात्रिबीजद्विरावृत्त्या करषडङ्गन्यासं कृत्वा ध्यायेत् |
आधारे तरुणार्कबिम्बरुचिरं हेमप्रभं वाग्भवं बीजं मान्मथमिन्द्रगोपसदृशं हृत्पङ्कजे संस्थितम् |
चक्रे भालमये शशाङ्कसदृशं बीजं च तार्तीयकं ये ध्यायन्ति पदत्रयं तव शिवे ते यान्ति सौख्यास्पदम् ॥ इति ध्यात्वा ऐंक्लींसौःअं नमः इत्यादि न्यसेत् |
इति बालामातृकान्यासः ॥ अथ श्रीविद्यामातृकान्यासः |
तत्र शिरसि दक्षिणामूर्तिऋषिः, मुखे पङ्क्तिः छन्दः, हृदि महात्रिपुरसुन्दरी देवता न्यासे विनियोगः |
ऐंह्रींश्रीं सर्वज्ञताशक्त्यै हृदयाय नमः |
३ क्लीं नित्यतृप्तिताशक्त्यै शिरसे स्वाहा |
३ सौः अनादिबोधशक्त्यै शिखायै० |
३ ऐं स्वतन्त्रताशक्त्यै कवचाय० |
३ क्लीं नित्यमलुप्तताशक्त्यै नेत्र० |
३ सौः अनन्तशक्त्यै अस्त्रा० |
इति विन्यस्य ध्यायेत् |
अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापान् |
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥ इति ध्यात्वा मूलविद्यासंपुटितमातृकां न्यसेत् |
इति श्रीविद्यामातृकान्यासः ॥ अथ परामातृकान्यासः |
तत्र हंस ऋषिः, अव्यक्तगायत्री छन्दः, परा देवता न्यासे विनियोगः |
सौः हृदयाय नमः |
सौः शिरसे |
इत्यादि करषडङ्गन्यासं विधाय ध्यायेत् |
अकलङ्कशशाङ्काभां शुभ्रां चन्द्रकलावतीम् |
मुद्रापुस्तलसद्बाहुं प्रणमामि परां कलाम् ॥ इति ध्यात्वा सौःअंसौः इत्यादि न्यसेत् |
इति परामातृकान्यासः ॥ अथ कामरतिन्यासः |
अस्य ब्रह्म ऋषिः, गायत्रं छन्दः, परमात्मा देवता न्यासे विनियोगः |
बालया षडङ्गं विधाय ध्यायेत् |
श्यामाङ्गकान् वरान् सर्वान् सर्वाभरणभूषितान् |
सशक्तिकान् स्मरेत् कामान् पञ्चाशद्वर्णभावने ॥ इति ध्यात्वा ॐऐंह्रींश्रींक्लींअं कामेश्वररतिभ्यां नमः, एवं सर्वत्र |
आं कामदप्रीति० |
इं कान्तकामिनी० |
ईं कान्तिमन्मोदिनी० |
उं कामगकमला० |
ऊं कामचारविलासिनी० |
ऋं कामिकल्पलता० |
ॠं कामुकश्यामा० |
ऌं कामवर्धनशुचिस्मिता० |
ॡं वामविस्मिता० |
एं रामविशालाक्षी० |
ऐं रमणलेलिहाना० |
ओं रतिनाथदिगम्बरा० |
औं रतिप्रियवामाङ्गी० |
अं रात्रिनाथकुब्जिका० |
अः रमाकान्तकान्ता० |
कं रमणनित्या० |
खं निशाचरकुब्जा० |
गं नन्दकभोगिनी० |
घं नन्दनकामदा० |
ङं नन्दिसुलोचना० |
चं नन्दयितृसुलापिनी० |
छं पञ्चबाणमर्दिनी० |
जं रतिसखकलहप्रिया० |
झं पुष्पधन्ववराक्षी० |
ञं महाधनुःसुमुखी० |
टं भ्रमणनलिनी० |
ठं भ्रमणजटिनी० |
डं भ्रममाणपालिनी० |
ढं भ्रमशिवा० |
[Fortsetzung867. Lokale Unsicherheiten:कामिकल्पलता;राम/ईराम;लेलिहाना;भ्रमण-Varianten. Fußnoten:Ṛṣiform ऋषये नमः ka;Bālāmeditation सूक्ष्मां गतिम् ga;Parā पुस्तक ga;KāmaVokalइ कान्ति ka;उ कमलालया ga;ऊ रति ka;ॡ वामना ka;ओ रतिनायक ka;औ धरा ka;अः कल्याणी ga;क मोदिनी kha;ङ सुरोत्तमा ga;छ मत्तवाहनदमयन्ती ka;ज सरस ka;ट निलया ka;ठ रञ्जनी ka.]

Druckseite 867

Zuordnung zur deutschen Fassung: unnummerierte Prosa und Formeln, Fortsetzung der vorausgehenden Reihe.

[35.MNY-Prosa – Druckseite867; Bildabgleich; Kāmarati-Fortsetzung] णं भ्रान्तमुग्धा० |
तं भ्रान्तकमा० |
थं भ्रङ्गश्रमा० |
दं भ्रान्तचारलोला० |
धं भ्रमावहचञ्चला० |
नं मोहनदीर्घजिह्वा० |
पं मोहकररतिप्रिया० |
फं मोहलोलाक्षी० |
बं मोहवर्धनभृङ्गिणी० |
भं मदनपाटला० |
मं मन्मथमदना० |
यं मातङ्गमाला० |
रं भृङ्गनायकहंसिनी० |
लं गायकविश्वतोमुखी० |
वं गीतिजगदानन्दिनी० |
शं नर्तकरमणी० |
षं खेलककान्ति० |
सं उन्मत्तकलकण्ठी० |
हं मत्तकवरकोदरी० |
ळं विलासिमेघश्यामा० |
क्षं लोभवर्धनलोभवर्धिनीभ्यां नमः |
एतान् पौण्ड्रेक्षुकोदण्डपुष्पपञ्चकसायकान् |
रतिभिः स्वर्णवर्णाभिस्ताम्बूलं च कुशेशयम् ॥ धारयन्तीभिराश्लिष्टान् सर्वाभरणभूषितान् |
सहकारमशोकं च केतकी नवमल्लिका ॥ नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः |
.......... ॥ इति कामरतिन्यासः ॥ अथाष्टात्रिंशत्कलान्यासः |
तत्रेशानादिपञ्चब्रह्मणः ईशतत्पुरुषाग्निवामदेवहरा ऋषयः, अनुष्टुप्गायत्र्यनुष्टुप्बृहत्यनुष्टुभः छन्दांसि, ईशानादयो देवताः पञ्चब्रह्मन्यासे विनियोगः |
ऐंह्रींश्रीं हसक्ष्फ्रें हसौं सर्वज्ञाय हृदयाय नमः |
बीजपञ्चकं सर्वत्र |
५ अमृते तेजोज्वालामालिने नित्यतृप्ताय शिरसे० |
५ ज्वलिताग्निशिखिशिख अनादिबोधाय शिखायै० |
५ वज्रिणे वज्रधराय स्वतन्त्राय कवचाय० |
५ ॐ ह्रौं ह्सौं नित्यमलुप्तशक्तये नेत्रत्रयाय० |
५ आश्लींपशुहुं फट् अनन्तशक्तयेऽस्त्राय० |
ततः हौं ईशानाय नमः |
हें तत्पुरुषाय नमः |
हुं अघोराय नमः |
हिं वामदेवाय नमः |
हं सद्योजाताय नमः |
एवं पञ्चब्रह्ममन्त्रान् ऊर्ध्वपूर्वदक्षिणोत्तरपश्चिमवक्त्रेषु विन्यस्याष्टात्रिंशत् कला न्यसेत् |
तद्यथा—ॐ ईशानः सर्वविद्यानां शशिन्यै नमः ऊर्ध्ववक्त्रे |
ईश्वरः सर्वभूतानां अङ्गदायै नमः पूर्ववक्त्रे |
ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिः ब्रह्मेष्टदायै नमः दक्षवक्त्रे |
ब्रह्मा शिवो मे अस्तु मरीच्यै नमः उत्तरवक्त्रे |
सदाशिवो अंशुमालिन्यै नमः पश्चिमवक्त्रे |
इति समुष्ट्यङ्गुष्ठेन न्यसेत् ॥ तत्पुरुषाय विद्महे शान्त्यै नमः पूर्ववक्त्राधः |
महादेवाय धीमहि विद्यायै नमः दक्षिणवक्त्राधः |
तन्नो रुद्रः प्रतिष्ठायै नमः उत्तरवक्त्राधः |
प्रचोदयात् निवृत्त्यै नमः पश्चिमवक्त्राधः |
इत्यङ्गुष्ठतर्जनीयोगेन न्यस्तव्याः ॥ अघोरेभ्यस्तमाकलायै नमः हृदि |
अथघोरेभ्यो मोहायै नमो ग्रीवायाम् |
घोर-क्षमायै नमः दक्षांसे |
घोरतरेभ्यो निद्रायै नमो वामांसे |
सर्वतः शर्वं व्याधिकलायै नमः नाभौ |
सर्वेभ्यो मृत्युकलायै नमः कुक्षौ |
नमस्ते अस्तु क्षुधायै नमः पृष्ठे |
रुद्ररूपेभ्यस्तृष्णायै नमः वक्षसि |
इत्यङ्गुष्ठमध्यमायोगेन न्यस्तव्याः ॥ वामदेवाय नमो रजायै नमो गुह्ये |
ज्येष्ठाय नमः श्रेष्ठाय नमो रक्षायै नमः लिङ्गे |
रुद्राय नमो रत्यै नमः दक्षोरौ |
कालाय नमो मालिन्यै नमः वामोरौ |
कलविकरणाय नमः काम्यायै नमः दक्षजानुनि |
विकरणाय नमः शशिन्यै नमः वामजानुनि |
बलविकरणाय नमः क्रियायै नमः दक्षजङ्घायाम् |
विकरणाय नमः स्थित्यै नमः वामजङ्घायाम् |
बलाय नमः स्थिरायै नमः दक्षस्फिचि |
बलप्रमथनाय नमो रात्र्यै नमः वामस्फिचि |
सर्वभूतदमनाय नमो भ्रामिण्यै नमः कट्याम् |
मनोन्मनाय नमो मोहिन्यै नमः दक्षपार्श्वे |
उन्मनाय नमो जरायै नमः वामपार्श्वे |
इत्यङ्गुष्ठानामिकायोजने न्यस्तव्याः ॥ सद्योजातं प्रपद्यामि सिद्ध्यै नमः दक्षपादतले |
सद्योजाताय वै नमः ऋद्ध्यै नमः वामपादतले |
भवे लक्ष्म्यै नमः दक्षहस्ततले |
भवे धृत्यै नमः वामहस्ततले |
नातिभवे मेधायै नमः नासि- [Fortsetzung868. Unsichere Lesungen:त भ्रान्तकमा;थ भ्रङ्गश्रमा;ह वरकोदरी;anfänglichePañcabrahmaBījas;ब्रह्मेष्टदा. Fußnoten:ण मूर्छा ka;त भ्रमा ka;थ रमा ka;प मोचक ka;फ मुग्ध ka;भ कपटा ka;सं कलकङ्कणी ga;ळ विमल ka;क्ष कामवर्धनमदोन्मत्ता ka;वज्रहस्ताय ka;अनाति ga.]

Druckseite 868

Zuordnung zur deutschen Fassung: unnummerierte Prosa und Formeln, Fortsetzung der vorausgehenden Reihe.

[35.MNY-Prosa – Druckseite868 oben; Bildabgleich; Kapitelabschluss] कायाम् |
भवस्व मां प्रज्ञायै नमः शिरसि |
ॐ भव प्रभायै नमः दक्षबाहौ |
उद्भवाय नमः सुधायै नमः वामबाहौ |
इत्यङ्गुष्ठकनिष्ठिकायोगेन न्यस्तव्याः ॥ प्रणवाद्याश्चतुर्थ्यन्ताः कलाः सर्वा नमोन्तिकाः |
अष्टात्रिंशत्कलाः प्रोक्ताः पञ्चब्रह्मपुरादिकाः ॥ इति विन्यस्तदेहोऽसौ भवेदङ्गेश्वरः स्वयम् |
.......... ॥ इत्यष्टात्रिंशत्कलान्यासः |
एवं न्यासान् कृत्वा प्राणायामत्रयं कृत्वा गणेशपञ्चमीदुर्गावटुकक्षेत्रपालान्नपूर्णाश्वारूढामन्त्रान् क्रमेण पठेत् ॥ इति महामहोपाध्यायवर्यभगवत्पूज्यपाद-श्रीगोविन्दाचार्यशिष्य-श्रीभगवच्छङ्कराचार्यशिष्य-श्रीविष्णुशर्माचार्यशिष्य-श्रीप्रगल्भाचार्यशिष्य-श्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे पञ्चत्रिंशत्तमः श्वासः ॥३५॥ [Unsicher:अङ्गेश्वरः;Kolophon Namenslesung wie bisher. Kapitel36 beginnt auf derselben Druckseite; eigene Datei36_868_DEV.]

Das Gelesene vergegenwärtigen

Gaṇeśas vielgestaltige Verehrung, das Gebet um Eintracht, Mañjughoṣas Lob der Einsicht, Śivas Zuwendung zum Wohl aller Wesen und Hanumāns Verbindung von Kraft und Dienst eröffnen unterschiedliche Zugänge. Die deutsche Fassung erklärt die Zusammenhänge und trennt überlieferten Wortlaut von heutiger Betrachtung. Sorgfältiges Studium kann Klarheit und Hingabe miteinander verbinden.

Bildbegleitung zur Betrachtung von Gottheit und Śakti.
Meditation und aufmerksames Schriftstudium ergänzen einander.

Siehe auch

Seminare

Kundalini Yoga

30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Arjuna Wingen
06.11.2026 - 08.11.2026 Kundalini Yoga Einführung

Gründliche Einführung in die Theorie und Praxis des Kundalini Yoga, Yoga der Energie. Die praktischen Übungen des Kundalini Yoga umfassen Pranayama (…
Arjuna Wingen

Bhakti Yoga

27.10.2026 - 27.10.2026 Mantra-Konzert mit Shamana OM

Konzert mit Shamana OM
Shamana OM
31.10.2026 - 31.10.2026 Mantra-Konzert mit Gruppe Mudita

Konzert mit der Gruppe Mudita
Gruppe Mudita

Indische Schriften

26.12.2026 - 02.01.2027 Indische Rituale Ausbildung

Du interessierst dich für indische Rituale? Du hast die einzigartige Gelegenheit, in dieser Rituale Ausbildung bei Yoga Vidya die kleine Puja, große P…
Sukadev Bretz, Shankari Winkelbauer
01.01.2027 - 10.01.2027 Yogalehrer Weiterbildung Intensiv A1 - Jnana Yoga und Vedanta

Kompakte, vielseitige Weiterbildung für Yogalehrer rund um Jnana Yoga und Vedanta.
Tauche tief ein ins Jnana Yoga und Vedanta, studiere die indischen S…
Vedamurti Dr Olaf Schönert

Chakras

20.11.2026 - 22.11.2026 Heilreise durch die Chakren

Tauche ein in eine transformative Reise durch die sieben Hauptchakren und erfahre, wie du deine Energiezentren aktivieren, ausbalancieren und für dein …
Nese Niekrens, Gajendra Sebastian Niekrens
26.12.2026 - 01.01.2027 Kundalini Yoga Intensiv Praxis - Live Online

Intensives Praktizieren der im Mittelstufen-Seminar gelernten Übungen für noch tiefere Erfahrung und Erweiterung des Bewusstseins ohne viel Theorie. L…
Sukadev Bretz, Shaktipriya Vogt, Radharani Birkner

Energiearbeit

30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Arjuna Wingen
04.11.2026 - 04.11.2026 Einführung in die Chakratherapie - Online Workshop

Uhrzeit: 18 - 21 Uhr
Ein Chakra ist ein feinstoffliches Kraftzentrum des Körpers, welches wichtige Körperfunktionen steuert und bestimmten Organen zug…
Beate Menkarski

Mit Aufmerksamkeit weiterlesen

Laut, Bild und Bedeutung begegnen einander in diesem Kapitel. Eine klare Textstelle aufmerksam zu betrachten und unklare Lesungen offen zu lassen, gehört gleichermaßen zu einem wahrhaftigen Umgang mit der Überlieferung.

Navigation am Ende

Hauptartikel · Deutsche Übersetzung Kapitel 29–32 · Deutsche Übersetzung ab Kapitel 33 · IAST ab Kapitel 32 · Devanagari ab Kapitel 32 · Vorheriger Sanskritteil · Nächster Sanskritteil