Shri Vidyarnava Tantra Sanskrit Devanagari Teil 3

Aus Yogawiki

Shri Vidyarnava Tantra – Sanskrit in Devanagari, Teil 3 enthält Śvāsa 15–18 des Pūrvārdha und Śvāsa 19, den Beginn des Uttarārdha. Das „Meer der Sri Vidya“ lädt dazu ein, die Sprache einer vielgestaltigen spirituellen Überlieferung kennenzulernen: Mantra, Verehrung und die Beziehung zum Guru bilden wesentliche Zugänge.

Umfang dieser Seite: Kapitel 15–19. Die markierten Quellenprobleme und Auslassungen gehören zum Editionsbefund.

Diese Textseite ermöglicht das genaue Studium des Sanskrit. Historische Ritualvorschriften sind als Aussagen des Werkes zu lesen; ihre Wiedergabe ist keine persönliche Praxisempfehlung.

Navigation

Zur Ausgabe: Alle Textteile · 108 inspirierende Verse · Mantras und Formelregister

Deutsch: Teil 1 — IAST: Teil 1 — Devanagari: Teil 1

Devanagari: 1 (Kap. 1–9) · 2 (Kap. 10–14) · 3 (Kap. 15–19) · 4 (Kap. 20–23) · 5 (Kap. 24–27) · 6 (Kap. 28–31) · 7 (Kap. 32–35) · 8 (Kap. 36)

So nutzt du diese Textfassung

Die Devanagari-Fassung ermöglicht den unmittelbaren Vergleich mit der Sanskritschrift. Nutze Kapitel, Abschnitt und – wo angegeben – Druckseite gemeinsam zur Orientierung. Die IAST-Fassung hilft beim Abgleich einzelner Wörter; die deutsche Übersetzung erläutert ihren Zusammenhang. Wiederholte Verszahlen gehören häufig zu verschiedenen Zitatreihen und sind deshalb nicht stillschweigend zusammenzuziehen.

Für diesen Teil mit Kapitel 15–19 stehen die passenden Übersetzungs- und Sanskritteile unmittelbar in der Navigation. Wähle beim Wechsel der Fassung denselben Abschnitt; die Grenzen der Dateien sind aus Umfangsgründen unterschiedlich gesetzt.

Textgrundlage und Lesehinweise

Wiedergegeben wird der entsprechende Abschnitt des Muktabodha-E-Textes M00217, śrīvidyārṇavatantra, mit der Verfasserangabe Śrīvidyāraṇyayati. Der Dateikopf nennt Ram Chandra Kak und Harabhatta Shastri als Herausgeber sowie Varanasi Tantrika Text Series, Varanasi 1947. Diese Angaben sind aus dem E-Text übernommen; sie wurden nicht mit einem Titelblatt abgeglichen.

Elektronische Erfassung: Mitarbeitende des Muktabodha Indological Research Institute unter Leitung von Mark S. G. Dyczkowski. Der E-Text nennt Creative Commons BY-NC 4.0 als Lizenz. Die vorliegende Bearbeitung entfernt technische Kopf- und Seitenzeilen und ergänzt MediaWiki-Formatierung, Kapitelüberschriften und Leserführung. Die Sanskritlesungen werden nicht stillschweigend verbessert. Klammern, Fragezeichen, Sternchen und Varianten der Vorlage bleiben erhalten. Diese Fassung ist keine neue kritische Edition.

Verszählungen und unnummerierte Prosa folgen der Vorlage. In Zitaten kann die Verszählung neu beginnen; solche Nummern sind zusammen mit dem jeweiligen Abschnitt zu lesen. Die hier vorliegenden Sanskritseiten decken Śvāsa 1–19 ab, mit der ausdrücklich markierten Auslassung in Kapitel 18. Kapitel 19 beruht auf dem Druckscan des Uttarārdha von 1937; IAST wurde aus der am Druck überprüften Devanagari-Fassung erstellt. Die Kapitel 20–36 werden noch erschlossen.

Dreidimensionale Darstellung des Shri Yantra.

15. Śvāsa

अथ दैशिकवरः प्रातः प्रबोधकाले त्रिपुरात्मानमात्मानं भावयन् मूर्ध्नि रन्ध्रगम् । ज्योतीरूपं च नाथाङ्घ्रिमुत्तिष्ठेन्न्यस्तविग्रहः ॥ इति । (तन्त्रराजे - ५ । १७) न्यस्तविग्रहो वक्ष्यमाणन्यासैः करशुद्धिषडङ्गचतुरासनवाग्देवताष्टकाख्यैः कृतन्यासशरीरः । नमस्ते नाथ भगवन् इत्यादिश्लोकैः स्तुत्वा ह्रींश्रींहसक्षमलवयरूं अमुकानन्दनाथ ह्रिंश्रींसहक्षमलवयरीं अमुकदेव्यम्बापादुकां पूजयामिति गुरुमन्त्रं यथाशक्ति जपित्वा कुण्डलिन्या मूलादिमूर्धान्तं गमनानुसन्धानपुरःसरं त्रिपुरात्मानमात्मानं भावयित्वा त्रिपुरार्णवोक्तं स्तोत्रं पठेत् :

प्रातर्नमामि जगतां जनन्याश्चरणाम्बुजम् ।
श्रीमत्त्रिपुरसुन्दर्या जनन्या जगतां सदा ॥ १ ॥

प्रसन्नायाः स्वभक्तानां नमिताया हरादिभिः ।
प्रातस्त्रिपुरसुन्दर्या नमामि चरणाम्बुजम् ॥ २ ॥

हरिर्हरो विरिञ्चिश्च सृष्ट्यादीन् कुरुते यया ।
(प्रातस्त्रिपुरसुन्दर्या नमामि पदपङ्कजम्) ॥ ३ ॥

यत्पाद्यमम्बु शिरसि भाति गङ्गा महेशितुः ।
प्रातः पाशांकुशशरपाशहस्तां नमाम्यहम् ॥ ४ ॥

उद्यदादित्यसङ्काशां श्रीमत्त्रिपुरसुन्दरीम् ।
प्रातर्नमामि पादाब्जं ययेदं भासते जगत् ॥ ५ ॥

तस्यास्त्रिपुरसुन्दर्या यत्प्रासादान्निवर्तते ।
यः श्लोकपञ्चकमिदं प्रातर्नित्यं पठेन्नरः ॥ ६ ॥

तस्मै दद्यादात्मपदं श्रीमत्त्रिपुरसुन्दरी ।

इति स्तुत्वोद्वांस्य नानावर्णायुधाकारवाहनाभरणाः स्त्रियः ।
सर्वगाः सर्वदाः सर्वसिद्धिदा बलिदानतः ॥ (तं ५ । १८) स्युरिति विभ्राणात् (?) स्वपुरतः साधारेऽन्नव्यञ्जनपुष्पाम्बुपूर्णे ओं ह्रींसर्वविघ्नकृद्भ्यः सर्वभूतेभ्यो ह्रूं स्वाहा इति षोडशाक्षरमन्त्रेण करतलयोस्त्रिरास्फालनपूर्वं प्रसारिततर्जनीद्वयाभ्यामुभयकरमुष्तिभ्यामूर्ध्वाधः स्थितिरूपाभ्यां दैवतेभ्यो निवेदितबलिद्रव्यदर्शनरूपया मुद्रया बलिर्देयः । ततश्चावश्यकं कृत्वा क्लीं कामदेवाय सर्वजनप्रियाय नमः इति मन्त्रेण दन्तधावनं कृत्वा मूलदिननित्याभ्यां मुखप्रक्षालनं स्नानं तिलकं च कृत्वा वैदिकसन्ध्यां निर्वर्त्य तान्त्रिकसन्ध्यां कुर्यात् । ततस्त्रिराचम्य प्राणायामं कुर्यात् ।
आधारे हृदये रन्ध्रे विद्याखण्डत्रयं स्मरेत् । लोहितं तत्प्रभावेधाल्लोहितं च निजं वपुः ॥ (तं ५ । ३२ ) भावयन् वामेन नासारन्ध्रेण पूरयेद मृतात्मना । स्मरन्नम्बु मरुत् पश्चाद् दक्षिणेनापसारयेत् ॥ एवं सुसाधिते पश्चाद् द्वात्रिंशन्मात्रयाहरेत् । धारयेत्तच्चतुष्षष्ट्या रेचयेत्तत्तुरीयतः ॥ (तं २७ । ६८) एवं क्रमेण त्रीन् षट् द्वादश षोडश विंशति वा प्राणायामान् कृत्वा अं आं सौः इति करशुद्धिं विधाय । ऐंक्लींसौः हृदयाय नमः अंगुष्ठयोः । ३ शिरसे स्वाहा तर्जन्योः । ३ शिखायै वषट् मध्यमयोः । ३ कवचाय हुं अनामिकयोः । ३ नेत्रत्रयाय वौषट् कनिष्ठिकयोः । ३ अस्त्राय फट् करतलकरपृष्ठयोः ॥ ३ हृदयाय नमो हृदये । ३ शिरसे स्वाहा शिरसि । ३ शिखायै वषट् शिखायाम् । ३ कवचाय हुं कवचे । ३ नेत्रत्रयाय वौषट् नेत्रत्रये । ३ अस्त्राय फडिति प्रसारिततलाभ्यां पाणिभ्यां तालत्रयपूर्वकं सशब्दं तर्जनीज्येष्ठायोगाद् दिग्विदिक्षूपर्यधो मध्ये विघ्नहृदस्त्रं न्यसेदिति षडङ्गं कृत्वा सन्ध्यावन्दनं कुर्यात् । तदुक्तं तन्त्रराजे :

नाथैस्तत्त्वैश्च नित्याभिः कालनित्या तु विद्यया ।
आधारे हृदये शीर्षे वह्नौ सूर्ये निशाकरे ॥ १ ॥

ध्यायंस्त्रिसन्ध्यं प्रजपेत् सवर्ग व्यञ्जनस्वरम् ।
न्यसेच्च मातृकास्थाने तदा तद्देहशुद्धये ॥ २ ॥

इति । विशेषस्तु त्रिपुरार्णवे -

सन्ध्या चतुर्विधा ज्ञेया बाला कौमारयौवना ।
प्रौढा च निष्कलाचेति सन्ध्या देवि प्रकीर्तिता ॥ १ ॥

प्रातःकाले महादेवी विद्या वागीश्वरी मता ।
कामेश्वरी च मध्याह्ने सायाह्ने पुरभैरवी ॥ २ ॥

मध्यरात्रे महादेवी ज्ञेया त्रिपुरसुन्दरी ।

इति । ततः स्वपुरतो धेनुमुद्रया जलममृतीकृत्य मूलेनाष्टवारमभिमन्त्र्य तेन जलेन कुशैरकारादिक्षकारान्तैः सबिन्दुमातृकाक्षरैः प्रत्यक्षरं स्वशिरः प्रोक्ष्य मूलविद्यया त्रिःप्रोक्ष्य सूर्यमण्डले देवीं यथोक्तरूपां ध्यात्वा दक्षहस्तेन जलमादाय लंवंरंयंहं इति मन्त्रैः सप्तवारमभिमन्त्र्य मूलेन च त्रिवारमभिमन्त्र्य तज्जलबिन्दुभिरंगुष्ठानामिकाभ्यां मूलविद्यया स्वशिरः प्रोक्ष्यावशिष्टजलं वामहस्ते निधाय तेजोरूपं तज्जलमिडयाकृष्य स्वदेहान्तःस्थितं सकलकलुषं प्रक्षाल्य तज्जलं कृष्णवर्णं पिङ्गलया निर्गतं मत्वा तज्जलं पुनर्दक्षिणहस्ते कृत्वा स्ववामभागे ज्वलवद्वज्रशिलां ध्यात्वा ओं श्लीं पशुहुंफट् इति पाशुपतास्त्रेण तस्यां शिलायामास्फाल्य हस्तौ प्रक्षाल्य मूलविद्यया जलमादाय प्रवहन्नाड्या सहस्रदलकमलगतपरमामृतेनैकीभूतं विभाव्य राजदन्तविवरान्नेत्रमार्गेण निर्गमयय तज्जलं वामकरे निधाय तेन जलेन अमृतमालिनि स्वाहा इति मन्त्रेण स्वशिरस्त्रिःप्रोक्ष्य ह्रींश्रीं प्रथमकूटं आत्मतत्त्वं शोधयामि स्वाहा । २ द्वितीयकूटं विद्यातत्त्वं शोधयामि स्वाहा । २ तृतीयकूटं शिवतत्त्वं शोधयामि स्वाहा । समस्तविद्यामुच्चार्य सर्वतत्त्वं शोधयामि स्वाहा । एवमाचम्याञ्जलिना जलं गृहीत्वोथार २ प्रथमकूटं वागीश्वर्यै विद्महे द्वितीयकूटं कामेश्वर्यै धीमहि तृतीयकूटं तन्नः शक्तिः प्रचोदयात् इति त्रिरर्घ्यं दत्त्वा ह्रांह्रींसः सूर्य एष तेऽर्घः स्वाहा इति सूर्यायार्घ्यत्रयं दत्त्वा मूलविद्यया देवीं त्रिःसन्तर्प्य ह्रांह्रींसः सूर्यं तर्पयामि नमः इति त्रिःसन्तर्प्य मूलाधारे प्रथमकूटं तडित्कोटिसमप्रभं मूलादिब्रह्मरध्रान्तं सञ्चिन्त्य तत्तेजः सुषुम्नावर्त्मना ब्रह्मरन्ध्रं मीत्वा वहन्नासाध्वनाकाशस्थवह्निमण्डले समावाह्य तत्तेजस उद्भूतां वागीश्वरीं ध्यायेत् :

पीतां पीताम्बरां पीतस्रग्विभूषानुलेपनाम् ।
तडित्कोटिसमाभासां बालामक्षस्रगुज्ज्वलाम् ॥ १ ॥

पुस्तकाब्जकराम्भोजां वह्निपीठनिषेदुषीम् ।
वाग्भवां वाग्भवौद्भूतां त्रीक्षणां सस्मितां स्मरेत् ॥ २ ॥

इत्याकाशस्थवह्निमण्डलान्तर्ध्यात्वा प्रथमकूटं त्रिपुरावागीश्वरीपादुकां पूजयामि इति गन्धादिभिः सम्पूज्य वाग्भवगायत्रीमुच्चार्य त्रिपुरावागीश्वर्यै अर्घ्यं कल्पयामि स्वाहा इति त्रिरर्घ्याञ्जलिमुत्क्षिप्य पुनः प्रथमकुटं त्रिपुरावागीश्वरीपादुकां तर्पयामीति त्रिःसन्तर्प्यं श्रीगुरुं प्रणम्य पूर्ववत्करषडङ्गन्यासं विधाय मातृकान्यासस्थानेषु प्रणवत्रितारमूलविद्यातद्दिननित्याविद्या हंसः २ अं नमः इत्यादिमातृकां विन्यस्य पूर्वोक्तगायत्रीं यथाशक्ति जपित्वा वाग्भवगायत्रीं जपेत् । ऐं त्रिपुरादेव्यै विद्महे वागीश्वर्यै धीमहि तन्नः शक्तिः प्रचोदयात् इति जपित्वा मूलविद्यां प्रातरित्थं जपेत् ।
यथा :

प्रातर्मूलाधारगते कमले वह्निमण्डले ।
वाग्बीजरूपां नित्यां तां विद्युत्पटलभास्वराम् ॥ १ ॥

पुष्पबाणेक्षुकोदण्डपाशाङ्कुशलसत्कराम् ।
स्वेच्छागृहीतवपुषं युगनित्याक्षरात्मिकाम् ॥ २ ॥

घटिकावरणोपेतां परितः प्राञ्जलीनथ ।
ज्ञानमुद्रावरकरान् वाग्भवोपास्तितत्परान् ॥ ३ ॥

नवनाथान् स्मरेन्मूलपङ्कजे योनिमण्डले ।

इति ॥ इत्थ सन्ध्याचतुष्टये ह्रींश्रींमूलं तद्दिननित्याविद्या हंसः अं आं इं ईं उं ऊं ऋं ॠं ह्रीं श्रींप्रकाशानन्दरूपिणीश्रीमहात्रिपुरसुन्दरीपा० । प्राग्वत् हंसः इत्यन्तमुच्चार्य ऌं ॡं एं ऐं ओं औं अं अः ह्रींश्रीं विमर्शानन्दरूपि० । पुनर्हंस इत्यन्तमुच्चार्य कं खं गं घं ङं ह्रींश्रीं आनन्दानन्दरू० । पुनस्तथैवोच्चार्य चं छं जं झं ञं ह्रींश्रीं ज्ञाननन्दरू० । पुनस्तथैवोच्चार्य टं ठं डं ढं णं ह्रींश्रीं सत्यानन्दरू० । पुनस्तथैव तं थं दं धं नं ह्रींश्रीं पूर्णानन्दरू० । पुनस्तथैव पं फं बं भं मं ह्रींश्रीं स्वभावानन्दरू० । पुनस्तथैवोच्चार्य यं रं लं वं शं ह्रींश्रीं प्रतिभानन्दरू० । पुनरपि तथैव षंसंहंक्षं ह्रींश्रीं सुभगानन्दरू० । इति

इति नवनाथात्मकत्वेन मूलविद्यां जपेत् । ततस्तद्दिननित्याविद्यां यथाशक्ति जपेत् इति कालनित्याजपः ॥ ततो मूलादिब्रह्मरन्ध्रान्तं मूलविद्यामुद्यत्सूर्यसहस्रसमप्रभां ध्यान् मूलविद्यामष्टोत्तरशतं जप्त्वा बहिराकाशस्थवह्निमण्डले पूर्वोक्तरूपां वाग्भवेश्वरीं ध्यायन् प्रातर्वाग्भवकूटमष्टोत्तरशतं जपेत् । ततः प्राणायामादिपूर्वकं कृतं जपं देव्यै निवेद्य प्रणम्य स्तुत्वा सूर्यमण्डलाद्वह्निमण्डलाच्च मूलदेवीं वाग्भवेश्वरीं च हृदये मूलाधारे च विसृज्य श्रीगुरुं प्रणमेत् ॥ इति प्रातः सन्ध्याविधिः ॥ अथ कर्मकालेषु गुरुध्यानमुक्तं रुद्रयामले दीक्षाकाले यथारूपं स्वस्यानुग्रहकर्मणि । दृष्टं तत्तेन भावेन ध्यायन्नाह्निकमाचरेत् ॥ इति गुरोरिति शेषः । एतद्गुरुध्यानं प्रातःस्मरणातिरिक्तस्थलेषु ज्ञेयम् ।

प्रातःसन्ध्येयमीशानि सर्वकर्मसु सर्वदा ।
कर्तव्या मत्रिणा नित्यं मन्त्रसिद्धिसमृद्धये ॥ १ ॥

प्रातःसन्ध्यां परित्यज्य देवतापूजनं चरेत् ।
अशुद्धः स दुराचारः सर्वकर्मबहिष्कृतः ॥ २ ॥

प्रातःसन्ध्यां परित्यज्य देवपूजादिकं चरेत् ।
होमान् कृत्वा महेशानि नारकी जायते नरः ॥ ३ ॥

प्रातःसन्ध्यां परित्यज्य होमं वा तर्पणं शिवे ।
कुर्वन्नकारणं विप्रस्त्यजञ् श्वा च भवेद्ध्रुवम् ॥ ४ ॥

पिशाचो जायते देवी अपि वेदाङ्गपारगः ।
सन्ध्यानामपि सर्वासां प्रातःसन्ध्या गरीयसी ॥ ५ ॥

तस्मात्तां न त्यजेद्विप्रस्त्यजन्नरकमाप्नुयात् ।

इति त्रिपुरार्णववचनादियमवश्यं कर्तव्येति शिववचनम् । अथ घटिकापारायणत्वेन षष्टिजपं कुर्यात् । स च पञ्चभिर्दिवसैर्मातृकायाः षडावृत्तिरूपः ॥ तथा तन्त्रराजे - (२५ । १२)

आरभ्य भानोरुदयमेकशो घटिकाक्रमात् ।
एकैकं मातृकावर्णाः पञ्चाशद् परिवृत्तितः ॥ १ ॥

इति । सूर्योदयकालेऽकारः उदेति । ततो द्वितीयघटिकादिपञ्चाशद्घटिकापर्यन्तासु घटिकासु आकारादिक्षकारान्ता वर्णा विसर्गस्वररहिताः स्वस्वघटिकोदयकाले समुद्यन्ति । तत एकपञ्चाशत्तमघटिकामारभ्य शिष्टदशघटिकासु अकारादि-ॡकारान्ता दश वर्णाः स्वघटिकोदयकाले समुद्यन्ति ।
इत्थं द्वितीयदिवसे सूर्योदयकाले एकार उदेति ततः स्वघटिकोदयकाले ऐकाराद्या एकानचत्वारिंशद्वर्णाश्चाकाराद्याः विंशतिवर्गाश्च समुद्यन्ति । तृईयदिवसे सूर्योदये चकार उदेति ततः स्वस्वघटिकोदयकाले छकारादिक्षकारान्ता (अकारादिणकारान्ताश्च) एकोनषष्टिवर्णाः समुद्यन्ति । चतुर्थदिवसे सूर्योदयकाले तकार उदेति ततः (स्व) स्वघटिकोदयकाले थकारादिक्षकारान्ता अकारादिमकारान्ताश्च एकोनषष्टिवर्णाः समुद्यन्ति । पञ्चमदिवसे सूर्योदयकाले यकार उदेति ततः स्वस्वघटिकोदयकाले यादिक्षकारान्ता (अकारादिक्षकारान्ता)श्चैकोनषष्टिवर्णाः समुद्यन्ति । एवं पञ्चभिर्दिवसैर्मातृकायाः षडावृत्तिर्भवति ॥ एवं क्रमेणैभिर्वर्णैर्घटिकापारायणाख्याः षष्टिजपः कार्यः ॥ तत्प्रकारः प्रदर्श्यते - तत्राकारादिक्षान्ताः पञ्चाशद्वर्णा विसर्गरहिता दश दश भूत्वा पञ्च वर्गा अत एव तन्नामानो भवन्ति तैः षष्टिजपः कार्य । तत्प्रकारस्तु २ मूलं तद्दिननित्याविद्या हंसः अं नमः । (एवं क्षान्तान् पञ्च वर्गान् जप्त्वा पुनरकारादि ॡकारान्तं प्रथमं वर्गमावर्तयेत् । एवं षष्टिजपः । द्वितीयदिने) २ मूलं तद्दिननित्याविद्या हंसः एं० । एवं क्षान्तांश्चतुरो वर्गानावर्त्य पुनराद्यद्वितीयवर्गावावर्तयेत् । एवं षष्टिजपः ।
तृइतीयदिने २ मूलं तद्दिननित्याविद्या हंसः चं० । एवं क्षान्तास्त्रीन् वर्गान् (जप्त्वा पुनरकारादिणकारान्तान् त्रीन् वर्गा) नावर्तयेत् । एवं ६० । (चतुर्थदिने २ मूलं तद्दिननित्याविद्या हंसः टं० । एवं क्षान्तौ द्वौ वर्गौ जप्त्वा पुनः अकारादिमकारान्तान् चतुरो वर्गानावर्तयेत् । एव ६० ) पञ्चमदिने २ मूलं तद्दिननित्याविद्या हंसः यं० । एवं क्षान्तं वर्गं जपित्वा पुनरकारादिक्षकारान्तान् पञ्चाशद्वर्णानावर्तयेत् । एवं षष्टिजपः । एवं षडावृत्तयः । ततः सष्ठे षष्ठे दिने पुनरकारादित आरभ्योक्तरीत्या घटिकापारायणजपमनवरत कुर्यात् ॥ अत्राधुना वर्तमानसमये साधकैर्ज्योतिःशास्त्रोक्तप्रकारेणाहर्गणेन कलियुगस्य गतदिनानि ज्ञात्वा स्वक्रमारम्भदिनपर्यन्तं गणयित्वा पञ्चभिराहृत्योर्वरितदिनेनोदयाक्षरं ज्ञात्वा यस्मिन् दिने अकार उदयाक्षरं भवति तस्मिन् दिने आरभ्य घटिकापारायणं प्रोक्तक्रमेण कार्यमिति घटिकापारायणजपः प्रातरेव कार्यः ॥

अथ मध्यन्दिनसन्ध्या - तत्र प्राणायामादिसूर्यतर्पणपर्यन्तं प्रातःसन्ध्यावदेव विधाअय बीजसन्ध्यां कुर्यात् । तद्यथा - तत्र मध्याह्नेऽनाहतचक्रे मूलविद्यायाः कामराजकूतं रक्तवर्णं ध्यायेत् । तत्तेजः सुषुम्नामार्गेण वहन्नासापुटाध्वना निःसार्य सूर्यमण्डले समावाह्य तदुद्भूतां कामेश्वरीं ध्यायेत् । यथा

रक्तां सुरक्ताम्बरभूषणाढ्यां पाशांकुशाभीतिवरान् दधानाम् ।
शुचिस्मितामुद्भटयौवनाढ्यां कामेश्वरीं संस्मरत त्रिनेत्राम् ॥ १ ॥

इति ध्यात्वा २ कामराजकूटं श्रीत्रिपुराकामेश्वरीपा० इति त्रिः सम्पूज्य पुनः कामराजकूटगायत्रीमुच्चार्यं श्रीत्रिपुराकामेश्वर्यै अर्घ्यं कल्पयामि स्वाहा इति त्रिरर्घ्याञ्जलिमुत्क्षिप्य पुनः कामराजकूटमुच्चार्य श्रीत्रिपुराकामेश्वरी पादुकां तर्पयामि इति त्रिःसन्तर्प्य प्राणायामादिपुरःसरं पूर्ववन्मातृकां विन्यस्य प्राग्वत् तुरीयविद्यागायत्रीं जपित्वा कामकूटगायत्रीं जपेत् । सा यथा - क्लीं त्रीपुरादेव्यै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् । इति यथाशक्ति जपित्वा षट्त्रिंशत्तत्त्वात्मकत्वेन मूलविद्यां जपेत् ॥ तद्यथा :

मध्याह्ने हृदयाम्भोजकर्णिके सूर्यमण्डले ।
कामराजात्मिकां देवीमर्ककोटिसमप्रभाम् ॥ १ ॥

प्रसूनबाणपुण्ड्रेक्षुचापपाशाङ्कुशान्विताम् ।
परितश्चात्ममुख्याभिः षट्त्रिंशत्तत्त्वशक्तिभिः ॥ २ ॥

रक्तमाल्याम्बरालेपभूषाभिः परिवारिताम् ।
युगनित्याक्षरमयीं घटिकावरणां स्मरेत् ॥ ३ ॥

पुष्पबाणेक्षुकोदण्डधराः शोणवपुर्धराः ।
हृत्पङ्कजे च ताः कामराजोपास्तिपरायणाः ॥ ४ ॥

इति देवीं ध्यात्वा २ मूलविद्या तद्दिननित्याविद्या हंसः अं १६ शिवतत्त्वरूपिणी श्रीमहात्रिपुरसुन्दस्रीपादु० । २ मूलं दिननित्याविद्या हंसः कंशक्तितत्त्वं० । २ मूलं दिननित्याविद्या हंसः खंसदाशिवतत्त्वरू० । एवं गं ईश्वरतत्त्वरू० ।
घंशुद्धविद्यातत्त्वरू० । ङंमायातत्त्वरू० । चंकलातत्त्वरू० ।
छंविद्यातत्त्वरू० । जंरागतत्त्वरू० । झंकालतत्त्वरू० ।
अंनियतितत्त्वरू० । टंपुरुषतत्त्वरू० । ठंप्रकृतितत्त्वरू० । डं अहङ्कारतत्त्वरू० । ढंबुद्धितत्त्वरू० । णंमनस्तत्त्वरू० ।
तंश्रोत्रतत्त्वरू० । थंत्वक्तत्त्वरू० । दंचक्षुस्तत्त्वरू० ।
धंजिह्वातत्त्वरू० । नंघ्राणतत्त्वरू० । पंवाक्तत्त्वरू० ।
फंपाणितत्त्वरू० । बंपादतत्त्वरू० । भंपायुतत्त्वरू० । मं- उपस्थतत्त्वरू० । यंशब्दतत्त्वरू० । रंस्पर्शतत्त्वरू० ।
लंरूपतत्त्व० । वंरसतत्त्व० । शंगन्धतत्त्व० । षं-आकाशतत्त्व० ।
संवायुतत्त्व० । हंतेजस्तत्त्व । लंजलतत्त्व० । २ मूलं दिननित्याविद्या हंसः क्षंपृथिवीतत्त्वरू० । इति षट्त्रिंशतत्त्वयोगेन मूलविद्यां जपित्वा ततः कालनित्याविद्यामष्टोत्तरशतं जपित्वा हृदयकमलमध्ये कामराजकूटं बालार्ककोटिप्रभं हृदयादिमूलाधारान्तं व्याप्तरश्मिकदम्बकं च ध्यायन् कामराजकूटमष्टोत्तरशतवारं जपित्वा प्राणायामादिपूर्वकं जपं समर्प्य प्रणम्य मूलदेवीं कामेश्वरीं हृदये विसृजेत् ॥ इति मध्याह्नसन्ध्याविधिः ॥

अथ सायंसन्ध्याविधिः - तत्र प्राणायामादिसूर्यतर्पणान्तं प्राग्वद्विधाय बीजसन्ध्यां कुर्यात् । सायमाज्ञाचक्रे हक्षाख्ये चन्द्रमण्डले मूलविद्यायातृतीयकूटमुच्चार्य त्रिपुरामृतेश्वरीपा० इति गन्धादिभिस्त्रिः सम्पूज्य वक्ष्यमाणतार्तीयकूटगायत्रीमुच्चार्य श्रीत्रिपुरामृतेश्वर्यै अर्घ्य कल्पयामि स्वाहा इति त्रिरर्घ्यं दत्त्वा पुनस्तार्तीयकूटमुच्चार्य श्रीत्रिपुरामृतेश्वरीं तर्पयामि इति त्रिःसन्तर्प्य प्राणायामादिपूर्विकां तुरीयविद्यागायत्रीं प्राग्वज्जप्त्वा शक्तिकूटगायत्रीं जपेत् ॥ यथा- २ सौः त्रिपुरादेव्यै विद्महे शक्तिकामेश्वर्यै धीमहि तन्नोऽमृता प्रचोदयात् । इति शक्तिगायत्रीमष्टाविंशतिवारं जपित्वा सायाह्ने षोडशनित्यात्मकत्वेन मूलविद्यां जपेत् तद्यथा :

सायमाज्ञासरोजस्थचन्द्रे चन्द्रसमद्युतिम् ।
शक्तिबीजात्मिकां चापवाणपाशांकुशान्विताम् ॥ १ ॥

युगनित्याक्षरां देवीं घटिकावरणां पराम् ।
चिन्तयित्वा भगवतीं नित्याभिः परिवारिताम् ॥ २ ॥

पुस्तकं चाक्षसूत्रं च दधानां स्मेरवक्त्रकाः ।
नित्याः षोडश चाज्ञाया.ं सायंकाले तु संस्मरेत् ॥ ३ ॥

इति देवीं ध्यात्वा (१) २ मूलं दिननित्याविद्या हंसः कामेश्वरीविद्यामुच्चार्य अं कामेश्वरीनित्यारूपिणीश्रीमहात्रिपुरसुन्दरीपादुकां पूजयामि नमः ॥ (२ )

२ मूलं दिननित्याविद्या हंसः भगमालिनीविद्यामुच्चार्य आं भगमालिनीनित्यारूपिणीश्रीमहा० ॥ (३) २ मूलं दिननित्याविद्या हंसः नित्यक्लिन्नाविद्यामुच्चार्य इं नित्यक्लिन्नानित्यारूपिणी श्री० ॥ (४) २ मूलं दिननित्याविद्या हंसः भेरुण्डाविद्यामुच्चार्य ईं भेरुण्डानित्यारूपिणी० ॥ (५) २ मूलं दिननित्याविद्याहंसः वह्निवासिनीविद्यामुच्चार्य उं वह्निवासिनीनित्यारू० ॥ (६) २ मूलं दिननित्याविद्या हंसः वज्रेश्वरीविद्यामुच्चार्य ऊं वज्रेश्वरीनित्यारू० ॥ (७) २ मूलं निननित्याविद्या हंसः शिवादूतीविद्यामुच्चार्य ऋं शिवादूतीनित्यारू० ॥ (८) २ मूलं दिननित्याविद्या हंसः त्वरिताविद्यामुच्चार्य ॠं त्वरितानित्यारू० ॥ (९) २ मूलं दिननित्याविद्या हंसः कुलसुन्दरीविद्यामुच्चार्य ऌं कुलसुन्दरीनित्यारू० ॥ (१०) २ मूलं दिननित्याविद्या हंसः नित्यानित्याविद्यामुच्चार्य ॡं नित्यानित्यारू० ॥ (११) २ मूलं दिननित्याविद्या हंसः नीलपताकाविद्यामुच्चार्य एं नीलपताकानित्यारू० ॥ (१२) २ मूलं दिननित्याविद्या हंसः विजयाविद्यामुच्चार्य ऐं विजयानित्यारू० ॥ (१३) २ मूलं दिननित्याविद्या हंसः सर्वमङ्गलाविद्यामुच्चार्य ओं सर्वमङ्गलानित्यारू० ॥ (१४) २ मूलं दिननित्याविद्या हंसः ज्वालामालिनीविद्यामुच्चार्य औं ज्वालामालिनीनित्यारू० ॥ (१५) २ मूलं दिननित्याविद्या हंसः विचित्रानित्याविद्यामुच्चार्य अं विचित्रानित्यारू० ॥ (१६) २ मूलं दिननित्याविद्या हंसः पञ्चदशोविद्यामुच्चार्य अः श्रीमहात्रिपुरसुन्दरीनित्यारूपिणीश्री० इति षोडशनित्यात्मकत्वेन जपित्वा प्राग्वत् कालनित्याविद्यां च जपित्वा भ्रूमध्यादिब्रह्मरन्ध्रान्तं तृइतीयकूटं शरच्चन्द्रकोटिनिभं ध्यायन्नष्टोत्तरशतं तार्तीयकूटं जपेत् । ततः प्राणायामपूर्वकं जपं समर्प्य स्तुत्वा देवीं प्रणम्य सूर्यमण्डलस्थमूलदेवीममृतेश्वरीं हृदि भ्रूमध्ये च विसृजेत् ॥ इति सायंसन्ध्याविधिः ॥

ततोऽर्धरात्रे तुरीयसन्ध्यामुपासीत् । सायं यथार्कमण्डले देवीध्यानं विना प्राणायामाद्याचमनपर्यन्तं पूर्ववद्विधाय सहस्रारकमले तुरीयकूटं मूलविद्यात्रयोदशाक्षररूपं पद्मरागसमप्रभं ध्यात्वा वहन्नासापुटेन तारकमण्डलाद्वहिः परमाकाशे समावाह्य तदुद्भूतां भगवतीं यथोक्तरूपां ध्यायन् तुरीयकूटमुच्चार्य श्रीमहात्रिपुरसुन्दरीपादुकायै अर्घ्यं कल्पयामिस्वाहेति त्रिरर्घ्यं दत्वा पुनस्तुरीयकूटमुच्चार्य श्रीमहात्रिपुरसुन्दरीपादुकां सन्तर्पयामिति त्रिः सन्तर्प्य प्राणायामादिपूर्वकं प्रागुक्तां तुरीयगायत्रीं यथाशक्ति जपित्वा कालनित्याविद्यामष्टोत्तरशतवार जपित्वा प्राणायामादिपूर्वकं जपं समम्प्य देवीं स्तुत्वा परमाकाशात् सहस्रदलकमलकर्णिकायामुद्वास्य कामकलारूपमात्मानं ध्यायेत् ॥ इति तूरीयसन्ध्याविधिः ॥

एतत्सन्ध्याचतुष्टयोपासनमेतद्विद्योपासकानामावश्यकम् ।
तत्राप्यशक्तौ ध्यानरूपमेवार्धरात्रसन्ध्योपासनं कार्यमिति ।
अकृते द्वितीयदिने प्रायश्चित्तार्थमष्टोतरशतं मूलविद्यां जपित्वा पुनः कर्म कर्तुमधिकारी भवति इति शिवशासनम् ॥

स्नानसन्ध्यार्चनालोपे जपेदष्टोत्तरं शत मिति तन्त्रराजवचनात् ।
जपेन्मूलविद्यामिति शेषः । अत्र

सन्ध्यालोपो न कर्तव्यः शम्भोराज्ञैवमेव हि ।
दीक्षितः सन्ध्यया हीनो न दीक्षाफलमश्नुते ॥ १ ॥

इति वचनात् सन्ध्याचतुष्टयं साधकैरवश्यं कर्तव्यमिति । अत्र प्रमादात्सन्ध्यालोपो यदि भवति तदा त्वन्यसन्ध्यासमये प्रोक्तप्रायश्चित्तपूर्वकं पूर्वसन्ध्याक्रियां विधाय तत्कालसन्ध्यां कुर्यात् ॥ उक्तं च त्रिपुरार्णवे :

संध्याहीनोऽन्यसंध्यायां पूर्वसंध्याक्रियामथ ।
विधायोत्तरसंध्यायाः क्रियां कुर्यत् समाहितः ॥ १ ॥

इति । सन्ध्यावन्दनानन्तर पित्रादितर्पणं कुर्यात् । तत्र प्राणायामत्रमृष्यादिन्यासपूर्वकं स्वपुरतो जले पूर्ववत्तीर्थमावाह्य वमिति धेनुमुद्रयामृतीकृत्य मूलेनाष्टवारमभिमन्त्र्य तत्र श्रीचक्रं विभाव्य तन्मध्ये वक्ष्यमाणप्रकारेण पीठपूजापुरःसरं देवीमावाह्य षोडशोपचारैर्जले देवीं सम्पूज्य वक्ष्यमाणविधिनाङ्गावरणदेवता सम्पूज्य २ मूलविद्यामुच्चार्य श्रीमहात्रिपुरसुन्दरीपादुकां तर्पयामीत्यष्टोत्तरशतं तदर्धमष्टाविंशतिवारं वा यथाशक्ति तत्तीर्थजलैः परदेवतामुखकमले परमामृतबुद्ध्वा संतर्प्यावरणदेवता यथाक्रमं पूजोक्तमन्त्रैः पूजयामीति स्थाने तर्पयामीत्यन्तैरेकैकाञ्जलिना तर्पयेत् । तदशक्तौ वटुकादिचतुष्टयषडङ्गयुवती गुरुपंक्तित्रय सप्तदशनित्याभिः सहितां चतुरस्रवृट्तोपेतत्रिकोणमण्डलमध्यस्थां सायुधत्रिकोणावरणशक्तियुतां मूलदेवीं तर्पयेत् । तत्राप्यशक्तौ संस्कृते जले देवीं ध्यात्वा सम्पूज्य देवीमेव

तर्पयेत् इति नित्यतर्पणविधिः ॥ अथ - रक्तगन्धाम्बरः स्रग्वी रक्तभूषाविभूषितः । प्रसन्नचेताः कर्पूरवासितास्योऽङ्गरागवान् ॥ पद्मासनः प्राग्वदनः प्राणानायम्य संयतः । (तं० ५ ।१९) इति ।
एतादृशो देशिकवरः प्राग्वत् षोडशार्णमनुना विघ्नशान्तये सर्वभूतबलिं दत्त्वा मूर्ध्नि नाथान् गन्धपुष्पधूपदीपनैवेद्यताम्बूलार्चनास्तोत्रस्वात्मनिरूप (वेद) नमिति नवोपचारैरभ्यर्च्य स्वनाथं तन्मयीभूतमात्मानं तदात्मकं ध्यात्वा पश्चात् तदाज्ञया न्यासत्रयं शिष्यदेहे विधाय ध्यानमानसपूजान्ते मध्यस्थकलशाधारे दशकलात्मकं वह्निमण्डलं ध्यात्वा तत्तत्कलास्थानेषु प्राक्प्रोक्तप्रकारेण शैवाष्टत्रिंशत्कला महाषोढोक्तमूर्त्यष्टत्रिंशत्कलाश्च भावयित्वा सर्वासामैक्यं भावयन् कलशपात्रं शक्त्यष्टगन्धैः संलिप्यपट्टवस्त्रयुगेनाच्छाद्य तदुपरि फलं पञ्चपल्लवादिकं निःक्षिप्य पुष्पमालाभिः संवेष्ट्य तदुपरि श्रीचक्रं भावयित्वाभ्यर्च्यात्माष्टाक्षरमन्त्रेणात्मपूजां विधाय पीठपूजामारभेत् । तत्र तावत् पश्चिममिक्षुरससमुद्रं प्राप्य तदन्तरे पश्चिमकोणे तीरपालिकां पञ्चमीमुक्तप्रकारेण षोडशोपचारैराराध्य तदाज्ञया सागरे उत्तरपश्चिमकोणे रत्नपोतं प्राप्य ह्रीः रत्नपोताय नमः इत्यादि कुरुकुल्लापूजां विधाय तदाज्ञया रत्नद्वीपं परितो विलोमेन परीयमाणे पश्चिमे ह्रीं श्रीं इक्षुरससागराय नमः । दक्षिणे इरासागराय० । पूर्वे घृतसागराय० । उत्तरे दुग्धसागराय नमः । इति सम्पूज्य रत्नद्वीपस्य पश्चिमे पुष्पं दत्त्वा पुष्पदण्डमासाद्य तदाज्ञयावतरेत् । ततः कोटियोजनविस्तीर्णसमायामं महाद्भुतम् ।
नवरत्नमयं द्वीपं तन्मानाद्रिभिरावृतम् । सहस्रादित्यसङ्काशम् इति ध्यात्वा ह्रींश्रीं-अं ५१ नवखण्डविराजिताय नवरत्नमयद्वीपाय नमः । तत्रैव कल्पवृक्षोद्यानाय नमः । तत्रैव देव्यवेक्षणान् षडृतून् ध्यात्वा वसन्तादिषडृतुभ्यो नमः । पश्चिमे देव्यभिमुखान् इन्द्रियाश्वान् ध्यात्वा २ इन्द्रियाश्वेभ्यो नमः । पूर्वे देव्यभिमुखानिन्द्रियार्थगजान् ध्यात्वा २ इन्द्रियार्थगजेभ्यो नमः ।
ततः पश्चिमादिमध्यान्तं विलोमेन नवरत्नानि पूजयेत् । २ पुष्परत्नाय नमः । नैर्-ऋते २ नीलरत्नाय नमः । दक्षिणे २ वैदूर्यरत्नाय नमः । आग्नेये २ विद्रुमरत्नाय नमः । पूर्वे २ मौक्तिकरत्नाय नमः । ईशाने २ मरकतरत्नाय नमः । उत्तरे २ वज्ररत्नाय नमः । वायव्ये २ गोमेदरत्नाय नमः । मध्ये ह्रींश्रींपद्मरागरत्नाय नमः । ततस्तेनैव क्रमेण देव्यवेक्षिणीनवचक्रेश्वरीशक्तिपादुकां पूजयामि नमः । एवं २ कालमुद्रामातृकारत्नदेशगुरुतत्त्वग्रहमूर्तिस्वरूपिणीशक्ति- पादुकां पूजयामि । ततः करुणातोयपरिधये नमः । ततस्तन्मध्ये रत्नद्वीपस्य तृतीयाशं कोट्यादित्यसमत्विषं माणिक्यमण्डपं ध्यात्वा मण्डपाद्बहिः पश्चिमादिविलोमेन २ कालचक्रेश्वरीपा० । २ मुद्राचक्रेश्वरीपा० । २ मातृकाचक्रेश्वरीपा० । २ रत्नचक्रेश्वरीपा० ।
निर्-ऋत्यादिकोणेषु विलोमेन देव्यवेक्षिणीः शक्तीर्ध्यात्वा २ देशस्वरूपिणीशक्तिपा० । २ कालस्वरूपिणीशक्तिपा० । २ आकारस्वरूपिणीशक्तिपा० । २ शक्ति(ब्द)स्वरूपिणीशक्तिपा० । ततो मंडपान्तर्देव्यवेक्षिणीः पार्श्वयोः पंक्त्युपविष्टाः संगीतयोगिनीर्ध्यात्वा २ संगीतयोगिनीशक्तिपा० । ततः सिंहासनपरिसरे देव्यवेक्षिणीः शक्तीर्ध्यात्वा २ समस्तगुप्तप्रकटसिद्धयोगिनीचक्रश्रीपा० ॥ इति पीठपूजा ॥

अथार्घ्यस्थापनम् - तत्र त्रिलोहका च मृत्पात्रेभ्योऽन्यतमं पात्रं स्वपुरतः साधारं संस्थाप्याम्बुभिरापूर्याधारपात्राम्बुष्वग्निसूर्यसोमात्मक- त्वं सञ्चिन्त्य विद्याखण्डत्रयात्मकमष्टात्रिंशत्कलात्मकत्वं ज्ञात्वाम्बुनि रोचनाचन्द्रकाश्मीरलघुकस्तूरिकाः क्रमेण पृथिव्यादिभूतात्मिका मत्वा क्षिप्त्वा तार्तीयेन धेनुमुद्रां योनिमुद्रां च प्रदर्श्य तत्र श्रीचक्रं ध्यात्वार्घ्यस्य समीरनिर्-ऋति ईशानवह्निकोणेषु मध्ये पश्चिमाद्यनुलोमेन चतुर्दिक्षु षडङ्गमन्त्रैर्दशदशवारमध्यर्च्य षोडशविद्यानित्याभिश्चैकैकवारंतार्तीयेन दशवारं दिननित्यया च त्रिवारं जपित्वाभ्यर्च्य तेनार्घ्यवारिण विद्यया स्वात्मपूजोपकरणान्यशेषं प्रोक्षयेदित्यर्घ्यं विधाय न्यासान् कुर्यात् । तत उक्तरीत्या प्राणानायम्य अं आं सौः इति विद्यया वामदक्षिणकरपृष्ठयोरन्योन्यमार्जनात् करशुद्धिं क्र्त्वा पादयोः २ ह्रींक्लींसौः देव्यात्मासनाय नमः । जङ्घयोः २ हैंह्क्लींह्सौः । चक्रासनाय नमः । जान्वोः २ ह्सैं ह्सक्लीं ह्सौः सर्वमन्त्रासनाय नमः । लिङ्गे २ ह्रींक्लींब्लें साध्यसिद्धासनाय नमः इति चतुरासनन्यासं कृत्वा कुलसुन्दरीविद्यया द्विरावृत्या करषडङ्गन्यासं कृत्वा प्राग्वद्वशिन्यादि अष्टवाग्देवतान्यासं कुर्यात् । ततो मूलाद्यषडङ्गेन (द्येन) मूर्धादिहृदन्तं मूलापरेण हृदादिप्रपदान्तं मूलान्तेन प्रपदादिहृदन्तमञ्जलिना व्यापकं कुर्यात् । इति न्यासाः ॥

ततः कलशोपरि स्वतन्त्रोक्तश्रीयन्त्रं विभाव्य वैन्दवे ह्रींश्रींसौः इति शक्त्युत्थापनमुद्रया मूर्ति परिकल्प्य ह्स्रैं ह्सकलरीं ह्स्रौः (स्स्रौः) नमः इति पुष्पगर्भां त्रिखण्डां मुद्रां बद्ध्वा तस्यां मूलहृन्मूर्धसु (मूल?) वह्निसूर्यसोमात्मकत्वानुसन्धानरूपया त्रिपुरामुद्रया तत्तेजस्त्रयरूपिणीं देवतां वहन्नासापुटेन स्वान्तादानीय कल्पितमूर्तावावाह्य सावरणां ध्यायेत् :

लोहितां ललितां वाणचापपाशसृणीः करैः ।
दधानां कामराजाङ्के यन्त्रितां मुदितां स्मरेत् ॥ १ ॥

हारग्रैवेयरत्नादिमुद्रिकानूपुरान्विताम् ।
नवरत्नमयैश्चित्रैः स्तवकैश्चोपशोभिताम् ॥ २ ॥

वलयैरङ्गदै रत्नमयैरप्यंगुलीयकैः ।
विराजमानां तां दिव्यां दिव्यांशुकविधारिणीम् ॥ ३ ॥

शुचिस्मितां शक्तिवृन्दगीताकर्णननन्दिताम् ।
सहजासवसंभोगैः सञ्जातानन्दविग्रहाम् ॥ ४॥

दयामदात् प्रागपाङ्गपरिपालितसाधकाम् ।
परितो भूषणैश्चित्रैः कार्ष्णचामरकादिभिः ॥ ५ ॥

विराजमानान् द्विरदानश्वानपि तथाविधान् ।
शक्तिभिर्दर्शितानग्रे पश्यन्तीमभितोत्सवाम् ॥ ६ ॥

स्वसमानामितोदारनित्याभिः सेवितां पराम् ।
मध्यप्रधानदेव्यास्तु समुल्लासात्मकत्वतः ॥ ७ ॥

नवावरणशक्तीनां ध्यानं देव्या समं भवेत् ।
कामाङ्कयन्त्रादन्यत्र भूषावर्णायुधादिकम् ॥ ८ ॥

तत्समं परमेशानि चक्रस्थानामशेषतः । (तं ०४ । ६५)

इति । ततः स्थापनी सन्निरोधिनी अवगुण्ठनी सन्निधापनीति मुद्राचतुष्कं तार्तीयेन प्रदर्श्य सर्वसंक्षोभिन्यादिमुद्रानवकं हेतिमुद्राचतुष्कं च प्रदर्श्य देवीमुपचारैः समर्चयेत् ।
तार्तीयदिननित्याभ्यां पाद्यार्घ्याचमनस्नानवसनाभरणानि च ।
गन्धं पुष्पं धूपदीपौ नैवेद्याचमनं पुनः ।
ताम्बूलमर्चना स्तोत्रं तर्पणं च नमस्क्रियाम् ॥ (तं० ५ । ३) इति षोडशोपचारैः श्रीमहात्रिपुरसुन्दरीपादुकायै पाद्यं परिकल्पयामिति क्रमेण कुर्यात् । क्षौद्रदुग्धनारिकेलाम्बुफलादिभिः कुर्यात् । विशेषस्तु अर्घं स्वाहा आचमनीयं स्वधा इत्यादि । पुष्पाणि वौषडिति । ततोऽनुज्ञां लब्ध्वा परिवारार्चनं कुर्यात् । तत्र देवी पृष्ठभागे त्रिकोणाद्बहिरन्तराले देवीवामभागादिदक्षभागान्तं पंक्त्युपविष्टांस्त्रीन् देव्यवेक्षिणीदेवीरुपान् दिव्यसिद्धमानवाख्यान् नवनाथान् पूजयेत् । यथा ह्रींश्रीं प्रकाशानन्दशक्तिपादुकां पूजयामीत्यादिक्रमेण पूजयेत् । ततो देवीमूर्तौ तन्मयीस्तद्रूपाः पञ्चदशतिथिनित्याः पूजयेत् ।
ह्रींश्रीं कामेश्वरीनित्याविद्यामुच्चार्य कामेश्वरीनित्यापादुकां पूजयामीत्यादिक्रमेण तिथिनित्याः पूजयेत् ॥ अथावरणपूजा तत्र चतुरस्रे पश्चिमद्वारशाखायाम् २ अणिमासिद्धिपा० । २ लघिमासिद्धिपा० । २ महिमासिद्धिपा० । २ ईशित्वसिद्धिपा० । २ वशित्वसिद्धिपा० । २ प्राकाम्यासिद्धिपा० । २ भुक्तिसिद्धिपा० । २ इच्छासिद्धिपा० । २ रससिद्धिपा० । २ सर्वकामासिद्धिपा० । २ ब्राह्मीपा० ।
२ माहेश्वरीपा० । २ कौमारीपा० । २ वैष्णवीपा० । २ वाराहीपा० । २ इन्द्राणीपा० । २ चामुण्डापा० । २ महालक्ष्मीपा० । (२ द्रां सर्वसंक्षोभिणीमुद्रापा० । २ द्रीं सर्वविद्राविणीमुद्रापा० । २ क्लीं सर्वाकर्षिणीमु० । २ ब्लूं सर्ववशङ्करणीमु० । २ सः सर्वोन्मादिनीमु० । २ क्रों सर्वमहांकुशामु० । २ हस्रैं हसकलरीं हसरौः त्रिखण्डामु० । २ हसखफ्रें खेचरीमुद्रापा० । २ ह्सौं बीजमुद्रापा० । २ ऐं महायोनिमुद्रापा० ।) इति सम्पूज्य अणिमासिद्ध्यग्रे - २ मूलं त्रिपुराचक्रेश्वरीनित्यापा० इति सम्पूज्य एताः प्रकटयोगिन्यः त्रैलोक्यमोहने चक्रे पूजां गृह्णन्तु इति तस्या वामहस्ते पूजां निवेद्य द्रामिति सर्वसंक्षोभिणीमुद्रां प्रदर्शयेत् ॥ इति प्रथमावरणम् ॥ १ ॥

ततः षोडशदले देव्यग्रदलमारभ्य वामावर्तेन - २ अंकामाकर्षिणीनित्याकलापा० । २ आंबुद्ध्याकर्षिणीनित्याकलापा० । २ इं अहङ्काराकर्षिणीनित्याकलापा० । २ ईंशब्दाकर्षिणीनित्याकलापा० ।
२ उंस्पर्शाकर्षिणीनित्याकलापा० । २ ऊं रूपाकर्षिणीनित्याकलापा० ।
२ ऋंरसाकर्षिणीनित्याकलापा० । २ ॠंगन्धाकर्षिणीनित्याकलापा० । २ ऌंचित्ताकर्षिणीनित्याकलापा० । २ ॡंधैर्याकर्षिणीनित्याकलापा० । २ एंस्मृत्याकर्षिणीनित्याकलापा० । २ ऐं नामा कर्षिणीनित्याकलापा० ।

२ ओंबीजाकर्षिणीनित्याकलापा० । २ औं आत्माकर्षिणीनित्याकलापा० । २ अं अमृताकर्षिणीनित्याकलापा० । २ अःशरीराकर्षिणीनित्याकलापा० । इति सम्पूज्य २ मूलं त्रिपुरेश्वरीचक्रेश्वरीनित्यापा० इति कामाकर्षिण्यग्रे सम्पूज्य एता गुप्तयोगिन्यः सर्वाशापरिपूरके चक्रे पूजां गृह्णन्तु इति तस्या वामहस्ते निवेद्य द्रीमिति सर्वविद्राविणीमुद्रां प्रदर्शयेद् ॥ इति द्वितीयावरणपूजा ॥ २ ॥

ततोऽष्टदले प्रागादिदिक्षु - २ अनङ्गकुसुमापा० । २ अनङ्गमेखलापा० । २ अनङ्गमदनापा० । २ अनङ्गमदनातुरापा० । २ अनङ्गरेखापा० । २ अनऽऽगवेगिनीपा० । २ अनङ्गांकुशापा० । २ अनङ्गमालिनीपा० । इति सम्पूज्य अनङ्गकुसुमाग्रे : २ मूलं त्रिपुरसुन्दरीचक्रेश्वरीनित्यापा० इति चक्रेश्वरीं सम्पूज्य एता गुप्ततरयोगिन्यः सर्वसंक्षोभणे चक्रे पूजां गृह्णन्तु इति तस्या वामहस्ते निवेद्य क्लीमिति सर्वाकर्षिणीमुद्रां प्रदर्शयेत् । इति तृतीयावरणपूजा ॥ ३ ॥

ततश्चतुर्दशारे देव्यग्रादिवामावर्तेन : २ सर्वसंक्षोभिणीशक्तिपा० । २ सर्वविद्राविणीशक्तिपा० । २ सर्वाकर्षिणीशक्तिपा० । २ सर्वाह्लादिनीशक्तिपा० । २ सर्वसम्मोहिनीशक्तिपा० । २ सर्वस्तम्भिनीशक्तिपा० । २ सर्वजृम्भिनीशक्तिपा० । २ सर्ववशङ्करीशक्तिपा० । २ सर्वरञ्जिनीशक्तिपा० । २ सर्वोन्मादिनीशक्तिपा० । २ सर्वार्थसाधिनीशक्तिपा० । २ सर्वसम्पत्प्रपूरणीशक्तिपा० । २ सर्वमन्त्रमयीशक्तिपा० । २ सर्वद्वन्द्वक्षयङ्करीशक्तिपा० । इति सम्पूज्य सर्वसंक्षोभिण्यग्रे २ मूलं त्रिपुरवासिनीचक्रेश्वरीनित्यापा० इति चक्रेश्वरीं सम्पूज्य एताः सम्प्रदाययोगिन्यः सर्वसौभाग्यदे चक्रे पूजां गृह्णन्तु तस्या वामहस्ते निवेद्य ब्लूमिति सर्ववशङ्करणीमुद्रां प्रदर्शयेत् ॥ इति चतुर्थावरणपूजा ॥ ४ ॥

ततो बहिर्दशारे देव्यग्रादिवामावर्तेन : २ सर्वसिद्धिप्रदादेवीपा० । २ सर्वसम्पत्प्रदादेवीपा० । २ सर्वप्रियङ्करीदेवीपा० । २ सर्वमङ्गलकारिणीदेवीपा० । २ सर्वकामप्रदादेवीपा० । २ सर्वदुःखविमोचिनीदेवीपा० । २ सर्वमृत्युप्रशमनीदेवीपा० । २ सर्वविघ्ननिवारिणीदेवीपा० । २ सर्वाङ्गसुन्दरीदेवीपा० । २ सर्वसौभाग्यदायिनीदेवीपा० इति सम्पूज्य सर्वसिद्धिप्रदादेव्यग्रे २ मूलं त्रिपुराश्रीचक्रेश्वरीनित्यापा० इति चक्रेश्वरीं सम्पूज्य एताः कुलकौलयोगिन्यः सर्वार्थसाधके चक्रे पूजां गृह्णन्तु इति तस्या वामहस्ते निवेद्य सः इति सर्वोन्मादिनीमुद्रां प्रदर्शयेत् ॥ इति पञ्चमावरणपूजा ॥ ५ ॥

ततोऽन्तर्दशारे देव्यग्रादिवामावर्तेन : २ सर्वज्ञाशक्तिपा० । २ सर्वशक्तिशक्तिपा० । २ सर्वैश्वर्यप्रदाशक्तिपा० । २ सर्वज्ञानमयीशक्तिपा० । २ सर्वव्याधिविनाशिनीशक्तिपा० । २ सर्वाधारस्वरूपाशक्तिपा० । २ सर्वपापहराशक्तिपा० । २ सर्वानन्दमयीशक्तिपा० । २ सर्वरक्षास्वरूपिणीशक्तिपा० । २ सर्वेप्सितफलप्रदाशक्तिपा० । इति सम्पूज्य सर्वज्ञाशक्त्यग्रे २ मूलं त्रिपुरमालिनीचक्रेश्वरीनित्यापा० इति चक्रेश्वरीं सम्पूज्य एता निगर्भयोगिन्यः सर्वरक्षाकरे चक्रे पूजां गृह्णन्तु इति तस्या वामहस्ते निवेद्य क्रों इति महांकुशामुद्रां प्रदर्शयेत् ॥ इति षष्ठावरणपूजा ॥ ६ ॥

ततोऽष्टारे देव्यग्रादिवामावर्तेन : २ अं १६ ब्लूंवशिनीवाग्देवतापादुकां पूजयामि नमः । २ कलह्रीं कामेश्वरीवाग्देवतापा० । २ न्ब्लूं मोदिनीवाग्देवतापा० । २ ब्लूं विमलावाग्देवतापा० । २ ज्म्रीं अरुणावाग्देवतापा० । २ हसलवयूं जयिनीवाग्देवतापा० । २ झमरयूंसर्वेश्वरीवाग्देवतापा० । २ क्ष्म्रींकौलिनीवाग्देवतापा० । इति सम्पूज्य वशिन्यग्रे २ मूलं त्रिपुरसिद्धाचक्रेश्वरीनित्यापा० । इति चक्रेश्वरीं सम्पूज्य २ एता रहस्ययोगिन्यः सर्वरोगहरे चक्रे पूजां गृह्णन्तु इति तस्या वामहस्ते निवेद्य २ हसखफ्रें इति सर्वखेचरीमुद्रां प्रदर्शयेत् ॥ इति सप्तमावरणपूजा ॥ ७ ॥

ततोऽन्तराले देवीभुजान्तिके समीरराक्षसाग्नीशकोणेषु ह्रींश्रींयांरालांवांसांद्रांद्रींक्लींब्लूंसः सर्वजम्भनेभ्यः कामेश्वरकामेश्वरीबाणेभ्यो नमः ।
ह्रींश्रींथंघं सर्वमोहनकामेश्वरीधनुर्भ्यां नमः ।
ह्रींश्रींह्रीं आं सर्ववशङ्करकामेश्वरकामेश्वरीपाशाभ्यां नमः ।
ह्रींश्रींक्रोंक्रों सर्वस्तम्भनकामेश्वरकामेश्वर्यकुशाभ्यां नमः । ततस्त्रिकोणे देव्यग्रादिवामावर्तेन २ वाग्भवकूटं कामपीठे कामेश्वरीदेवीपा० ।

२ कामराजकूटं पूर्णगिरिपीठे वज्रेश्वरीदेवीपा० । शक्तिकूटं जालन्धरपीठे भगमालिनीदेवीपा० । इति सम्पूज्य कामेश्वर्यग्रे २ मूलं त्रिपुराम्बाचक्रेश्वरीनित्यापा० । इति चक्रेश्वरीं सम्पूज्य २ मूलं एताः परापररहस्ययोगिन्यः सर्वसिद्धिप्रदे चक्रे पूजां गृह्णन्तु इति तस्या वामहस्ते निवेद्य ह्सौं इति बीजमुद्रां प्रदर्शयेत् ॥ इत्यष्टमावरणपूजा ॥ ८ ॥

ततो बिन्दुस्थाने - २ मूलं उड्यानपीठे श्रीमहात्रिपुरसुन्दरीदेवीपा० इति सम्पूज्य २ महात्रिपुरसुन्दरीचक्रेश्वरीनित्यापा० इति चक्रेश्वरीं सम्पूज्य २ एषा अतिरहस्ययोगिनी सर्वानन्दमये चक्रे पूजां गृह्णातु इति तस्या वामहस्ते निवेद्य ऐमिति सर्वमहायोनिमुद्रां प्रदर्शयेत् ॥ इति नवमावरणपूजा ॥ ९ ॥

ततः पुनरपि प्रसन्नपूजात्वेन षोडशोपचारैः पुनराराध्य संक्षोभण्यादिमुद्राः प्रदर्श्य देवतागुरुस्वात्मनामैक्यसिद्धिकरणभावनायोगपूर्वकं मूलं दशधा जपेत् । तद्भावना तु - मूलखण्डत्रयमपि तुयस्वरावसानं कृत्वा तत्स्वरस्य च बिन्दुत्रयं मत्वा तदूर्ध्वे बिन्दुना देव्या वदनं भावयन् तदधःस्थबिन्दुद्वयेन देव्याः कुचयुगं भावयन् तच्छेषार्धमात्रयाशेषाङ्गानि देव्या भावयन् देवताया मन्त्रात्मकत्वं गुरोरपि मन्त्रात्मकत्वं भावयन्नात्मनश्च सर्वात्मकत्वम् । एतेन त्रयाणां मन्त्रात्मकत्वत्रितयात्मकत्वभावना फलितसर्वैक्यभावनारूपा ।
ततः स्वात्मानं देवतारूपं स्मरन् स्वात्मनि ताः पञ्चदशनित्यास्तत्तद्विद्याभिरभ्यर्च्य पञ्चभूतमन्त्रैरात्मानमभ्यर्चयेत् ।

यथा - २ अ आ एकचटतपयषप्राणशक्तिपादुकां पूजयामि । इ ई ऐखछठथफरक्ष अग्निशक्तिपा० । २ उ ऊ ओगजडदबलभूमिशक्तिपा० । २ ऋ-ॠ औघझढधभवस-अम्बुशक्तिपा० । २ ऌ ॡ अंङ ञणनमशहस्वशक्तिपा० । २ ततो ओं ह्रींहंसः सोऽहं स्वाहा इत्यात्माष्टाक्षरमन्त्रेणात्मानमभ्यर्च्यात्मनि प्रपञ्चेन यागभावनां कृत्वा स्वतन्त्रोक्तमाद्योपान्तं योनिमुद्राबन्धनं कृत्वा मन्त्रवीर्ययोजनं च कृत्वा पूर्वोक्तभावनापूर्वं स्वतन्त्रोक्तं मन्त्रार्थचिन्तनं कुर्वन् स्वतन्त्रोक्तमालया सहस्रं शतं वा तद्दिनजपसंख्यं वा मूलमन्त्रं जपेत् ॥ ततः किञ्चित्कालं शक्त्युत्थापनमुद्रां बद्ध्वा मूलेन पुष्पाञ्जलिं कृत्वाभ्यर्च्य नित्यहोमं कुर्यात् । तत आचार्यकुण्डे तत्रार्घ्याम्बुना तार्तीयदिननित्याभ्यां कुशैः रेखाश्चतस्रः प्रागग्रा उद्गग्राश्च संलिखेत् । तन्मध्येकोष्ठे ताभ्यां वह्निमाधाय क्रव्यादेभ्यो नमः इत्यङ्गारशकलं दक्षिणदिश्यपास्य ताभ्यां प्रादक्षिण्येन भ्रामयित्वाम्बुना परिषिच्य ताभ्यां चतुर्दिक्षु प्रागग्रैरुदगग्रैश्च कुशैः परिस्तीर्य वह्निं प्रज्वाल्य जवालिनीमुद्रां प्रदर्श्य देवीरूपं विभाव्य ह्रींश्रीं-अग्नये नमः इत्यभ्यर्च्य ह्रींश्रींहिरण्यायै नमः इत्यादिभिस्तदा जिह्वामन्त्रैरभ्यर्च्य हिरण्या कनका रक्ता इति दक्षिणवक्त्रस्थजिह्वानां सुप्रभातिरक्ता बहुरूपा इति तद्वामवक्त्रस्थजिह्वानां च स्मरणपूर्वकं प्रत्येकं तासु क्रमेण नवनव घृताहुतीर्हुत्वा तार्तीयदिननित्याभ्यां हुत्वा बहुरूपाजिह्वास्मरणपूर्वकं तस्यां मृगोहंसीसूकरोष्वन्यतमया मुद्रयान्नपायसतिलतण्डुलद्रव्येष्वन्यतमद्रव्येण पूजाक्र्मेणैव हुत्वा तद्दिननित्ययात्माष्टाक्षरेण भूतमन्त्रैश्च जुहुयात् । ततो मूलेन सहस्राहुतीर्हुत्वा हुतसंख्यं मूलं जपेत् । तत ऋत्विजः स्वस्वकुण्डेषु आचार्यकुण्डादग्निं गृहीत्वा संस्कृतेष्वष्टस्वग्निं प्रज्वाल्य प्रागुक्तमन्त्रैर्जुहुयुर्हुतसंख्याकजपं च कुर्युः ।
शान्तिपाठका द्वारपालकाश्च नित्याकचनं पठेयुः ।
मण्डपपूजा तु प्रागेवोक्ता । ततो गुरुर्मध्यत्रिकोणस्थषोडशकलशेषु सर्वमध्यस्थकलशे ललितां पञ्चदशकलशेषु पञ्चदश नित्याः तु (पूजयेत् ।) एवं षोडशीकृतस्थानस्थितषोडशकलशेषु पूजाक्रमो बोद्धव्यः । तानि स्थानानि चतुरस्ररेखात्रयान्तरालगतवीथिद्वये सिद्धिदशकस्थानेषु ब्राह्म्याद्यष्टकस्थानेषु षोडशदलेषु आयुधाष्टकपूजास्थानेषु चतुर्दशद्विदशाष्टारचक्रचतुष्टयगतद्विचत्वारिंशत्त्रिकोणेषु पञ्चनवतिसंख्येषु श्रीचक्रगताष्टारदेवतापूजास्थानत्रिकोणेषु प्रतित्रिकोणं रेखात्रयेऽपि प्रतिरेखं समान्तरालानि त्रीणि त्रीणि चिह्नानि कृत्वा तेषु चिह्नाच्चिह्नमिति क्रमेण नवतिर्यग्रेखाभिः षोडशीकृतत्रिकोणेषु षण्णवतित्रिकोणगर्भगतेषु पञ्चत्रिंशदधिकसार्धसहस्रसंख्याकेषु त्रिकोणेषु स्थापिततावत्संख्याककलशेषु जलपूर्णेषु वस्त्रयुग्मवेष्टितेषु पञ्चरत्नपञ्चपल्लव सप्तमृत्तिकाचन्दनपुष्पयुतेषु देवता आवाह्य सर्वोपचारैः सम्पूज्य मध्यमकुम्भं स्पृशन् वक्ष्यमाणषट्त्रिंशदुत्तरसप्तशताधिकविंशतिसहस्रसंख्याकाः कालनित्याविद्याः पूजयेत् ॥ तास्तु श्रीतन्त्रराजे - (२५ । १)

अथ षोडशनित्यानां षट्त्रिंशत्तत्त्वविग्रहैः ।
वर्णैस्तज्जनितैर्मन्त्रैर्यन्त्रैः कालात्मतां क्रमात् ॥ १ ॥

कथयामि प्रयोगांश्च नानाभीष्टाप्तिकारकान् ।
यज्ज्ञानोपास्तिभेदाभ्यां मन्त्राः सिद्ध्यन्ति वर्णिनः ॥ २ ॥

स्वराः षोडश नित्याः स्युः कादिक्षान्ताः स्वरान्विताः ।
ते तु तत्त्वानि षट्त्रिशद्वर्गा नाथा नवात्मकाः ॥

इति । अत्र षोडशस्वरात्मकत्वेन अकारस्त्वेकं व्यञ्जनं ककारादिपञ्चत्रिंशद्व्यञ्जनानि सम्भूय षट्त्रिंशद्व्यञ्जनानि षट्त्रिंशत्तत्त्वरूपाणीत्यर्थः ॥ अथैकपञ्चाशदक्षराणां तु वर्गविभागमाह

अष्टावष्टौ स्वरे वर्गः परतः पञ्च पञ्च च ।
मातॄणां तु स्वरैरेको वर्गः पूर्ववदुत्तरम् ॥ ४ ॥

इति । अत्र स्वराणां तु अष्टावष्टौ क्रमेण वर्गद्वयं ककारादिपञ्चत्रिंशद्वर्णाः पञ्चपञ्चविभागेन सप्त वर्गाः (एते नव वर्गा नवनाथानामित्यर्थः । ब्राह्म्याद्यष्टमातॄणां वर्गास्तु - षोडशस्वराणामेको वर्गः उत्तर पूर्ववत् । कादीनां सप्त वर्गाः ।) एतेऽष्टौ वर्गा अष्टमातृणामित्यर्थः ॥ पूर्णमण्डलवर्णक्रममाह :

नित्यानां तत्त्वसंयोगे वर्णसंख्या समीरिता ।
षट्सप्तत्या पञ्चशतं तावदब्दैस्तु पूर्णता ॥ ५ ॥

इति । नित्यानां षोडशस्वराणां तत्त्वसंयोगात् षट्त्रिंशद्व्यञ्जनसंयोगात् (५७६) । अत्र व्यञ्जनात्मकस्याकारस्य षोडशस्वरसंयोगेन अ-आ-इ-ई उ-ऊ-ऋ-ॠ ऌॡ ए-ऐ ओ औ अं अः इति षोडश जाताः । एवं ककारस्य षोडशस्वरसंयोगेन ककाकिकी कुकूकृकॄ कॢकॣ केकै कोकौकंकः । एवमन्येषामक्षराणां खकारादीनां क्षकारान्तानां षोडशस्वरयोगः कर्तव्य । तेन षट्सप्तत्युत्तरपञ्चशतवर्णाः (५७६) पूर्णमण्डलाख्या भवन्ति ॥ तथा :

पूर्णकालसमावृत्तिर्युगपर्यायनामभाक् ।
त्रिसहस्रसमावृत्त्या प्रोक्ता कृतयुगावधिः ॥ ६ ॥

तस्य तुर्यांशतुर्यांशहान्या त्रेतादिसंभवः ।
मायाधराग्निवातस्वैः कृताद्यर्णाः समीरिताः ॥ ७ ॥

तान् दिनाक्षरसंयुक्तान् मध्ययोनौ समालिखेत् ।
दिनार्णेषु स्वरा न्यासे बिन्दुरूपा अनुक्रमात् ॥ ८ ॥

वामोर्ध्वदक्षपार्श्वषु पञ्च पञ्च समीरिताः ।
तत्तद्युगार्णांस्तत्स्थाने स्वरूपेण व्यवस्थिताः ॥ ९ ॥

व्यञ्जनेषु तु सर्वत्र सुश्लिष्टाः स्वेन संयुताः ।
सर्वत्र यन्त्रविन्यासप्रतिष्ठार्चाद्यनुग्रहे ॥ १० ॥

निग्रहे वास्तुविन्यासे गर्भन्यासेष्टसिद्धिकृत् ।
आरभ्य भानोरुदयमेकशो घटिकाक्रमात् ॥ ११ ॥

एकैकं मातृकावर्णपञ्चाशत्परिवृत्तितः ।
दिवसैः पञ्चभिस्तस्याः षडावृत्तिरुदीरिता ॥ १२ ॥

एवं युगादिमारभ्य कालोऽर्णात्मा प्रवर्तते ।
योनौ त्रिकोणमालिख्य तस्मिन् योनिं समालिखेत् ॥ १३ ॥

तेषु पर्यायनित्यार्णवर्णानालिख्य वाह्यतः ।
युगार्णं घटिकार्णेन मध्ये विन्यस्य तत्र वै ॥ १४ ॥

नित्याः षोडश देवेशि पूजयेन्नित्यमर्चकः ।
उत्तमा नित्यनित्यं हि मध्यमा पर्वपर्वणि ॥ १५ ॥

अधमा मासमात्रेण मासादूर्ध्वमयोग्यता ॥ पूर्णमण्डलवर्णाः स्युः प्रथमे त्वादितः क्रमात् ॥ १६ ॥

षट्त्रिंशत्तत्त्ववर्णास्तद्द्वितीया मरुता क्रमात् ।
तृतीया सर्वतो वह्निरेवं विद्यास्तु त्र्यक्षराः ॥ १७ ॥

त्रैपुराः सर्वसिद्धीनामाकराः कथिताः क्रमात् ।
एताः पुस्तकमारोप्य पीठे संस्थाप्य पूजयेत् ॥ १८ ॥

यत्र तत्र गदालक्ष्मीग्रहदुर्भिक्षशत्रवः ।
भूतापमृत्युकृत्याद्या न भवन्ति पुरादिके ॥ १९ ॥

अभीप्सितानि सिद्ध्यन्ति तस्य योऽर्चति नित्यशः ।
सषट्त्रिंशत्सप्तशतं सहस्राणि च विंशतिः ॥ २० ॥

तासां संख्या समाख्याता तदावृत्तिस्तदाप्तिकृत् ।
स्तम्भनाद्येषु तद्वर्णास्तद्रूपा हेतिवाहनैः ॥ २१ ॥

एतैर्ग्रथितजापेन मन्त्राः सिध्यन्ति वर्णिनः ।
नाथावृत्तिर्मन्त्रराशौ द्विसहस्रं शतत्रयम् ॥ २२ ॥

चत्वारि चेति विज्ञेयास्तत्त्वावृत्तिरुदीरिता ।
पूर्णमण्डलसंख्ययैव नित्यावृत्तिः सहस्रतः ॥ २३ ॥

द्विशतं षणवत्यग्रा निःशेषं समुदीरिता ।
* * * * * * * * * * * * * * * * ॥

इति । एतदग्रे प्रपञ्चयिष्यामः । प्रकृते प्रख्यातघटस्य सषट्त्रिंशत्सप्तशतोत्तरविंशतिसहस्रसंख्याककालनित्याविद्याभिर भिमन्त्रणमुक्तं ताः कालनित्याविद्या त्रिपुरार्णवादिग्रन्थेषु प्रोक्तास्तास्तु श्रीतन्त्रराजेऽपि सूचितः ॥ तन्त्र राजोक्ता अत्र उद्ध्रियन्ते ।

यथा - अकारादिक्षकारान्ताः षट्त्रिंशत्तत्त्ववर्णाः षोडशनित्यात्मभिः षोडशस्वरैः प्रत्येकं संयोजिताः षट्सप्तत्युत्तरपञ्चशतसंख्याकाः पूर्णमण्डलाख्या भवन्ति ।
कालनित्याविद्यानां प्रागुक्तसंख्यानामेकैको वर्णः षट्त्रिंशद्विद्यानामादिवर्ण इति सर्वे वर्णा वाग्भवाख्या भवन्ति ॥ प्रागुक्तषट्त्रिंशत्तत्त्ववर्णास्तु सर्वासां विद्यानामाकारेण कृतसन्धिकाः पुनः पुनः क्रमेण कामराजाद्या द्वितीयवर्णा भवन्ति । ईकारस्तु सर्वासां विद्यानां शक्तिकूटाख्यस्तृतीयवर्णो भवन्ति ॥

अथैता विद्याः क्रमेण पारायणजपपरिपाट्यैव प्रदर्श्यन्ते । तत्र साधको मूलेन प्राणायामत्रयं कृत्वा अद्येहेत्यादि० करिष्यमाणपूर्णाभिषेकाख्ये कर्मणि षट्त्रिंशदुत्तरसप्तशताधिकविंशतिसहस्रसंख्याककालनित्या- विद्याभिः पूर्णकलशाभिमन्त्रणं करिष्ये इति संकल्प्य मस्तकदक्षबाहुमूलादिषट्त्रिंशत्स्थानेषु प्रतिस्थानं षोडशदलपद्मं विभाव्य तेष्वकारादिक्षकारान्तान् षट्त्रिंशत्तत्त्वर्णान् प्रत्येकं षोडशस्वरसंयुक्तान् विभाव्य मध्ये तत्प्रथमाक्षरं विन्यस्य पूर्वादिदलेषु तत्तदक्षरविकृतषोडशवर्णांस्तदादिकान् विन्यसेदिति । एवं पूर्णमण्डलवर्णान् विन्यस्य पुनः सहितनित्याविद्यया सहितमूलविद्यया प्राणायामत्रयं कृत्वा शिरसि दक्षिणामूर्तये ऋषये नमः । मुखे पंक्तिच्छन्दसे नमः । हृदये कालनित्या विद्यारूपिण्यै श्रीमहात्रिपुरसुन्दर्यै देवतायै नमः इति ऋष्यादिकं विन्यस्य पूर्णकलशाभिमन्त्रणे विनियोगः इति कृताञ्जलिरुक्त्वा तत्तद्दिननित्याविद्याक्षरैस्त्रिभिर्द्विरावृत्त्या यथाविधि करषडङ्गन्यासं प्राक्प्रोक्तचतुरासनन्यासं वाग्देवताष्टकन्यासं च विधाय रक्तां रक्ताम्बरां रक्तस्रग्विभूषानुलेपनाम् ।
पाशांकुशेक्षुकोदण्डप्रसूनविशिखां स्मरेत् इति कालनित्यां हृदये ध्यात्वा वक्ष्यमाणविधिना हृदये श्रीचक्रं कालचक्रमध्यगतं विभाव्य तत्र देवीं सावरणां कालनित्याविद्याभिश्च परिवृतां ध्यात्वा मानसैरुपचारैः सम्पूज्य कालनित्याजपमारभेत् ॥ तत्रादावङ्गविद्यास्त्रिपुराणवोक्ताः प्रोच्यन्ते ॥ तत्र - ओं मूलं दि० अह्सौः हंसः । मू० दि० आह्सौः हंसः । मू० दि० इह्सौः हंसः । मू० दि० ईह्सौः हंसः । मू० दि० उह्सौः हंसः । मू० दि० ऊह्सौः हंसः । मू० दि० ऋह्सौः हंसः । मू० दि० ॠह्सौः हंसः । मू० दि० ऌह्सौः हंसः । मू० दि० ॡह्सौः हंसः । मू० दि० एह्सौः हंसः । मू० दि० ऐह्सौः हंसः । मू० दि० ओह्सौः हंसः मू० दि० औह्सौः हंसः । मू० दि० अंह्सौः हंसः । मू० दि० अःहसौः हंसः । एवं कादिक्षान्तम् । एवमेकपञ्चाशद्विद्याभिः सह मूलविद्यां जपित्वा केवलमूलविद्या त्रिर्जपित्वा ऐं वदवद वाग्वादिनि ऐंक्लीं क्लिन्ने क्लेदिनि क्लेदय क्लेदय महाक्षोभं कुरुकुरु क्लीं सौः मोक्षं कुरुकुरु सौः : ह्सौः इति दीपिनीविद्यामेकवारं जपित्वा प्रागुक्तश्रीगुरुपादुकामेकवारं जपित्वा पुनश्चत्वारिंशद्विद्याभिः सह मूलविद्यां जपेत् ॥ यथा मूलं आक्षाहसा-ई हंसः ॥ मूलं ईलाहसा-ई हंसः ॥ मू० ऊहाहसा-ई हंसः । मू० ऋसाहसा-ई हंसः । मू० ॡपाहसा-ई हंसः । मूलं ऐशाहसा-ई हंसः । मूलं औवाहसा-ई हंसः । मूल आलाहसा-ई हंसः इत्यष्टधा जपित्वा पुनः मूलं आक्षा-ई हंसः । मूलं अक्षा-ई हंसः । मूलं ईला-ई हंसः । (मूलं इला-ई हंसः ।) मूलं ऊहा-ई हंसः । मूलं उहा-ई हंसः । मूलं ॠषा-ई हंसः । मूलं ऋषा-ई हंसः मूलं ॡसा-ई हंसः । मूलं ऌसा- ई हंसः । मूलं ऐशा-ई हंसः । मूलं एशा-ई हंसः । मूलं ओवा-ई हंसः । मूलं ओवा-ई हंसः । मूलं अःला-ई हंसः ।
मूलं अंला-ई हंसः इति षोडशधा जपित्वा पुनः मूलं अका-ई हंसः । एवं इवा-ई हंसः । उटा-ई हंसः । ऋता-ई हंसः । ऌपा-ई हंसः । इया-ई हंसः । ओशा-ई हंसः । अंला-ई हंसः इत्यष्टधा जपित्वा पुनः मूलं आक्षा-ई हंसः । ईला-ई हंसः । ऊहा-ई हंसः । ॠसा-ई हंसः । ॡषा-ई हंसः । ऐशा-ई हंसः । औवा-ई हंसः ।
अःला-ई हंसः इत्यष्टधा जपित्वा पश्चात् कालनित्याविद्याभिः सह मूलविद्यां जपेत् । अयमङ्गविद्याजपो वर्गद्वयस्यादौ प्रत्यहम् कार्यः ॥

अथ कालनित्याजपः । २ मू० अ-आ-ई हंसः । २ मू० अका-ई हंसः । २ मू० अखा-ई हंसः । २ मू० अगा-ई हंसः । २ मू० अघा-ई हंसः । २ मू० अङा-ई हंसः । २ मू० अचा-ई हंसः । २ मू० अछा-ई हंसः । २ मू० अजा-ई हंसः । २ मू० अझा-ई हंसः । २ मू० अञा-ई हंसः । २ मू० अटा-ई हंसः । २ मू० अठा-ई हंसः । २ मू० अडा-ई हंसः । २ मू० अढा-ई हंसः । २ मू० अणा-ई हंसः । २ मू० अता-ई हंसः । २ मू० अथा-ई हंसः । २ मू० अदा-ई हंसः । २ मू० अधा-ई हंसः । २ मू० अना-ई हंसः ।

२ मू० अपा-ई हंसः । २ मू० अफा-ई हंसः । २ मू० अबा-ई हंसः । २ मू० अभा-ई हंसः । २ मू० अमा-ई हंसः । २ मू० अया-ई हंसः । २ मू० अरा-ई हंसः । २ मू० अला-ई हंसः । २ मू० अवा-ई हंसः । २ मू० अशा-ई हंसः । २ मू० अषा-ई हंसः । २ मू० असा-ई हंसः । २ मू० अहा-ई हंसः । २ मू० अला-ई हंसः । २ मू० अक्षा-ई हंसः । इति जपित्वा पुनः २ मू० आ-आ-ई हंसः । २ मू० आका-ई हंसः । एवं बीजद्वयमूलविद्या सर्वत्र योज्या । आखा-ई । आगा-ई । आघा-ई । आङा-ई ।
आचा-ई । आछा-ई । आजा-ई । आझा-ई । आञा-ई । आटा-ई । आठा-ई । आडा-ई ।
आढा-ई । आणा-ई । आता-ई । आथा-ई । आदा-ई । आधा-ई । आना-ई । आपा-ई ।
आफा-ई । आबा-ई । आभा-ई । आमा-ई । आया-ई । आरा-ई । आला-ई । आवा-ई ।
आशा-ई । आषा-ई । आसा-ई । आहा-ई । आला-ई । आक्षा-ई इति जपित्वा पुनः- २ मूलं इ-आ-ई । इका-ई इखा-ई । इगा-ई । इघा-ई । इङा-ई । इचा-ई । इछा-ई ।
इजा-ई ॥ इझा-ई । इञा-ई । इटा-ई । इठा-ई । इडा-ई । इढा-ई । इणा-ई । इता-ई ।
इथा-ई । इदा-ई । इधा-ई । इना-ई । इपा-ई । इफा-ई । इबा-ई । इभा-ई । इमा-ई ।
इया-ई । इरा-ई । इला-ई । इवा-ई । इशा-ई । इषा-ई । ईसा-ई । इहा-ई । इला-ई । इक्षा-ई इति जपित्वा पुनः -२ मूलं ई-आ-ई । ईका-ई । ईखा-ई । ईगा-ई । ईघा-ई ।
ईङा-ई । ईचा-ई । ईछा-ई । ईजा-ई । ईझा-ई । ईञा-ई । ईटा-ई । ईठा-ई । ईडा- ई । ईढा-ई । ईणा-ई । ईता-ई । ईथा-ई । ईदा-ई । ईधा-ई । ईना-ई । ईपा-ई ।
ईफा-ई । ईबा-ई । ईभा-ई । ईमा-ई । ईया-ई । ईरा-ई । ईला-ई । ईवा-ई । ईशा-ई ।
ईषा-ई । ईसा-ई । ईहा-ई । ईला-ई । ईक्षा-ई इति जपित्वा पुनः -२ मूलं उ-आ-ई । उका-ई । उखा-ई । उगा-ई । उघा-ई । उङा-ई । उचा-ई । उछा-ई । उजा-ई । उझा-ई । उञा-ई । उटा-ई । उठा-ई । उडा-ई । उढा-ई । उणा-ई । उता-ई । उथा-ई । उदा- ई । उधा-ई । उना-ई । उपा-ई । उफा-ई । उबा-ई । उभा-ई । उमा-ई । उया-ई । उरा- ई । उला-ई । उवा-ई । उशा-ई । उषा-ई । उसा-ई । उहा-ई । उला-ई । उक्ष-ई इति जपित्वा पुनः -२ मूलं ऊ-आ-ई । ऊका-ई । ऊखा-ई । ऊगा-ई । ऊघा-ई ।
ऊङा-ई । ऊचा-ई । ऊछा-ई । ऊजा-ई । ऊझा-ई । ऊञा-ई । ऊटा-ई । ऊठा- ई । ऊडा-ई । ऊढा-ई । ऊणा-ई । ऊता-ई । ऊथा-ई । ऊदा-ई । ऊधा-ई ।
ऊना-ई । ऊपा-ई । ऊफा-ई । ऊबा-ई । ऊभा-ई । ऊमा-ई । ऊया-ई । ऊरा-ई ।
ऊला-ई । ऊवा-ई । ऊशा-ई । ऊषा-ई । ऊसा-ई । ऊहा-ई । ऊला-ई । ऊक्षा-ई इति पठित्वा पुनः -२ मूलं ऋ-आ-ई हंसः । ऋका-ई । ऋखा-ई । ऋगा-ई ।
ऋघा-ई । ऋङ्गा-ई । ऋचा-ई । ऋछा-ई । ऋजा-ई । ऋझा-ई । ऋञा-ई । ऋटा-ई ।
ऋठा-ई । ऋडा-ई । ऋढा-ई । ऋणा-ई । ऋता-ई । ऋथा-ई । ऋदा-ई । र्धा-ई । ऋना- ई । ऋपा-ई । ऋफा-ई । ऋबा-ई । ऋभा-ई । ऋमा-ई । ऋया-ई । ऋरा-ई । ऋला-ई । ऋवा- ई । ऋशा-ई । ऋषा-ई । ऋसा-ई । ऋहा-ई । ऋला-ई । ऋक्षा-ई इति पठित्वा पुनः -२ मुलं ॠ-आ-ई । ॠका-ई । ॠखा-ई । ॠगा-ई । ॠघा-ई । ॠङा-ई । ॠचा-ई ।
ॠछा-ई । ॠजा-ई । ॠझा-ई । ॠञा-ई । ॠटा-ई । ॠठा-ई । ॠडा-ई । ॠढा- ई । ॠणा-ई । ॠता-ई । ॠथा-ई । ॠदा-ई । ॠधा-ई । ॠना-ई । ॠपा-ई । ॠफा-ई । ॠबा-ई । ॠभा-ई । ॠमा-ई । ॠया-ई । ॠरा-ई । ॠला-ई । ॠवा-ई । ॠशा-ई ।
ॠषा-ई । ॠसा-ई । ॠहा-ई । ॠला-ई । ॠक्षा-ई इति जपित्वा पुनः ऌ-आ-ई । ऌ का-ई । ऌखा-ई । ऌगा-ई । ऌघा-ई । ऌङा-ई । ऌचा-ई । ऌछा-ई । ऌजा-ई ।
ऌझा-ई । ऌञा-ई । ऌटा-ई । ऌठा-ई । ऌडा-ई । ऌढा-ई । ऌणा-ई । ऌता-ई ।
ऌथा-ई । ऌदा-ई । ऌधा-ई । ऌना-ई । ऌपा-ई । ऌफा-ई । ऌबा-ई । ऌभा-ई ।
ऌमा-ई । ऌया-ई । ऌरा-ई । ऌला-ई । ऌवा-ई । ऌशा-ई । ऌषा-ई । ऌसा-ई ।
ऌहा-ई । ऌला-ई । ऌक्षा-ई इति पठित्वा पुनः -ॡ आ-ई । ॡका-ई । ॡखा-ई ।
ॡगा-ई । ॡघा-ई । ॡङा-ई । ॡचा-ई । ॡछा-ई । ॡजा-ई । ॡझा-ई ।
ॡञा-ई । ॡटा-ई । ॡठा-ई । ॡडा-ई । ॡढा-ई । ॡणा-ई । ॡता-ई ।
ॡथा-ई । ॡदा-ई । ॡधा-ई । ॡना-ई । ॡपा-ई । ॡफा-ई । ॡबा-ई ।
ॡभा-ई । ॡमा-ई । ॡया-ई । ॡरा-ई । ॡला-ई । ॡवा-ई । ॡशा-ई । ॡषा- ई । ॡसा-ई । ॡहा-ई । ॡला-ई । ॡक्षा-ई । इति जपित्वा पुनः - ए-आ-ई । एका-ई ।
एखा-ई । एगा-ई । एघा-ई । एङ्गा-ई । एचा-ई । एछा-ई । एजा-ई । एझा-ई । एञा-ई । एटा-ई । एठा-ई । एडा-ई । एढा-ई । एणा-ई । एता-ई । एथा-ई । एदा-ई । एधा-ई । एना-ई । एपा-ई । एफा-ई । एबा-ई । एभा-ई । एमा-ई । एया-ई । एरा-ई । एला-ई ।
एवा-ई । एशा-ई । एषा-ई । एसा-ई । एहा-ई । एला-ई । एक्षा-ई इति जपित्वा पुनः ऐ- आ-ई । ऐका-ई । ऐखा-ई । ऐगा-ई । ऐघा-ई । ऐङा-ई ।

ऐचा-ई । ऐछा-ई । ऐजा-ई । ऐझा-ई । ऐञा-ई । ऐटा-ई । ऐठा-ई । ऐडा-ई ।
ऐढा-ई । ऐणा-ई । ऐता-ई । ऐथा-ई । ऐदा-ई । ऐधा-ई । ऐना-ई । ऐपा-ई ।
ऐफा-ई । ऐबा-ई । ऐभा-ई । ऐमा-ई । ऐया-ई । ऐरा-ई । ऐला-ई । ऐवा-ई ।
ऐशा-ई । ऐषा-ई । ऐसा-ई । ऐहा-ई । ऐला-ई । ऐक्षा-ई इति जपित्वा पुनः- ओ-आ- ई । ओका-ई । ओखा-ई । ओगा-ई । ओघा-ई । ओङा-ई । ओचा-ई । ओछा-ई । ओजा-ई ।
ओझा-ई । ओञा-ई । ओटा-ई । ओठा-ई । ओडा-ई । ओढा-ई । ओणा-ई । ओता-ई । ओथा- ई । ओदाई । ओधा-ई । ओना-ई । ओपा-ई । ओफा-ई । ओबा-ई । ओभा-ई । ओमा-ई । ओया- ई । ओरा-ई । ओला-ई । ओवा-ई । ओशा-ई । ओषा-ई । ओसा-ई । ओहा-ई । ओला-ई । ओक्षा-ई इति जपित्वा पुनः - औ-आ-ई । औका-ई । औखा-ई । औगा-ई । औघा-ई । औङा-ई ।
औचा-ई । औछा-ई । औजा-ई । औञा-ई । औटा-ई । औठा-ई । औडा-ई । औढा-ई । औणा-ई । औता-ई । औथा-ई । औदा-ई । औधा-ई । औना-ई । औपा-ई । औफा-ई ।
औबा-ई । औभा-ई । औमा-ई । औया-ई । औरा-ई । औला-ई । औवा-ई । औशा-ई ।
औषा-ई । औसा-ई । औहा-ई । औला-ई । औक्षा-ई इति जपित्वा पुनः - अं-आ-ई ।
अंकाई । अंखा-ई अंगा-ई । अंघा-ई । अंङा-ई । अंचा-ई । अंछा-ई ।
अंजा-ई । अंझा-ई । अंञा-ई । अंटा-ई । अंठा-ई । अंडा-ई । अंढा-ई ।
अंणा-ई । अंता-ई । अंथा-ई । अंदाई । अंधा-ई । अंना-ई । अंपा-ई ।
अंफा-ई । अंबा-ई । अंभा-ई । अंमा-ई । अंया-ई । अंरा-ई । अंला-ई ।
अंबा-ई । अंशा-ई । अंषा-ई । अंसा-ई । अंहा-ई । अंला-ई । अंक्षा-ई इति जपित्वा पुनः - अः-आ-ई । अःका-ई । अःखा-ई । आगा-ई । अःघा-ई । अःङा-ई ।
अःचा-ई । अःछा-ई । अःजा-ई । अःझा-ई । अःञा-ई । अःटा-ई । अःठा-ई ।
अःडा-ई । अःढा-ई । अःणा-ई । अःता-ई । अःथा-ई । अःदा-ई । अःधा-ई ।
अःना-ई । अःपा-ई । अःफा-ई । अःबा-ई । अःभा-ई । अःमा-ई । अःया-ई ।
अःरा-ई । अःला-ई । अःवा-ई । अःशा-ई । अःषा-ई । अःसा-ई । अःहा-ई । अःला-ई ।
अःक्षा-ई हंसः इत्यन्तं जपेत् एवं षट्सप्तत्युत्तरपञ्चशतसंख्याको (५७६) जपो भवति । मूलविद्याया अत्र पारायणे प्रथमं तद्दिनयुगाक्षरात् षोडशस्वरभिन्नादुत्पन्नषट्सप्तत्युत्तरपञ्चशतविद्याभिः सह (५७६)मूलविद्यां जपित्वा पश्चात्तद्दिनाक्षरजनितविद्याभिस्तावत्संख्याभिः सह प्रोक्तक्रमेण मूलविद्यां जपेत् । युगाक्षरदिनाक्षरे तु तत्तद्दिनविद्यायाः प्रथमाक्षरं द्वितीयाक्षरं वा बोद्धव्यम् ।
युगाक्षरोत्थविद्याजपे विशेषस्तु यस्मिन् युगे यत्स्वरयुतं युगाक्षरं भवति तत्स्वरमारभ्य प्रतिस्वरं षट्त्रिंशत्क्रमेण तद्विसर्गान्तिमविद्यापर्यन्तं जपित्वा पुनस्तदक्षरस्य प्रथमस्वरमारभ्य आरब्धस्वरस्य पूर्वस्वरान्तिमविद्यावधि जपेत् ।
तदा मूलविद्यायाः षट्सप्तत्युत्तरपञ्चशतसंख्याको जपो भवति ।
अत्र युग ..... षट्त्रिंशद्दिनात्मको जपो भवति (?) ।
प्रागुक्तपूर्णमण्डलवर्णेषु षट्सप्तत्युत्तरपञ्चशतसंख्याकेष्वेकैकस्याक्षरस्यैकैकयुगं प्रति युगाक्षरत्वं भवति । एतत्सर्वं गुरुतः शास्त्रतश्च सम्यग्विज्ञाय पारायणजपः कार्यः । एवं द्विपञ्चाशदुत्तरैकादशशत (११५२) संख्याको जपो भवति ।
मूलविद्याया अङ्गविद्याजपस्त्वेकैकवर्गादावेकनवतिसंख्याकः तेन वर्गद्वयादौ जपाद् द्वशोत्युत्तरशत (१८२) संख्याको भवति ।
केवलमूलविद्याजपोऽपि वारचतुष्टयं त्रिस्त्रिरावृत्त्या द्वादशधा भवति सम्भूय षट्चत्वारिंशताधिकसहस्रसंख्याको (१०४६) जपो भवति । मूलविद्यायाः एवमुक्तसंख्याकं जपमुक्तविधिना कृत्वा पुनः केवलां मूलविद्यां त्रिर्जपित्वा प्रागुक्तदीपिनीविद्यां गुरुपादुकाविद्यां च सकृत् सकृज्जपित्वा डरलकसहैं हसकलडीं सहकलरडौ नमः इत्युत्तीर्णविद्यां सकृज्जपित्वा मम सकलमनोरथान् साधय साधय तुभ्यं नमः इति प्रार्थनीविद्यां सकृत् कृताञ्जलिर्जपेत् । इति वर्गद्वयस्याप्यन्ते बोद्धव्यम् ।
एवमङ्गविद्याजपमूलमन्त्रजपादिकं पारायणे प्रशस्तम् ।
कुम्भाभिमन्त्रणादौ तु केवलकालनित्या एवावर्तनीयाः दिनतो वारतः पक्षादित्यादिना तत्रैवोक्तत्वात् बहुदिनसाध्येऽप्यत्रापि प्राशस्त्यम् । दिनत्रयदिनचतुष्टयसाध्ये तु केवला एवेति तु सम्प्रदायः । ततो वर्गान्ते इदं स्तोत्रं पठित्वा द्वितीयवर्गारम्भा विधेयः ।
यथा त्रिपुरार्णवे

क्ष्माम्ब्वग्रीरणखार्केन्दुयष्ट्टप्राययुगस्वरैः ।
मातृभैरवगां वन्दे देवीं त्रिपुरभैरवीम् ॥ १ ॥

कादिवर्गाष्टकाकारसमस्ताष्टकविग्रहाम् ।
अष्टशक्त्यावृतां वन्दे देवीं त्रिपुरभैरवीम् ॥ २ ॥

स्वरषोडशकानां तु षट्त्रिंशद्भिः परापरैः ।
षट्त्रिंशत्तत्त्वगां वन्दे देवीं त्रिपुरभैरवीम् ॥ ३ ॥

षट्त्रिंशत्तत्त्वसंस्थाप्यशिवचन्द्रकलास्वपि ।
कादितत्त्वान्तरां वन्दे देवीं त्रिपुरभैरवीम् ॥ ४ ॥

आ-इमायाद्वयोपाधिविचित्रेन्दुकलावतीम् ।
सर्वात्मिकां परां वन्दे देवीं त्रिपुरभैरवीम् ॥ ५ ॥

षडध्वपिण्डयोनिस्थां मण्डलत्रयकुण्डलीम् ।
लिङ्गत्रयातिगां वन्दे देवीं त्रिपुरभैरवीम् ॥ ६ ॥

स्वयम्भूहृदयां बाणभ्रूकामान्तः स्थितेतराम् ।
प्राच्यां प्रत्यक्चितिं वन्दे देवीं त्रिपुरभैरवीम् ॥ ७ ॥

अक्षरान्तर्गताशिषनामरूपां क्रियां पराम् ।
शक्तिं विश्वेश्वरीं वन्दे देवीं त्रिपुरभैरवीम् ॥ ८ ॥

वर्गान्ते पठितव्यं स्यात् स्तोत्रमेतत्समाहितैः ।
* * * * * * * * * * * * * * * * ॥

इति स्तुत्वा प्राग्वत् प्राणायामत्रयं कृत्वा गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि त्वत्प्रसादात् त्वयि स्थिता ॥ इति देव्यै जपं समर्प्य द्वितीयवर्गजपस्यारम्भो विधेयः ॥ यथा मू० दि० क-आ-ई हंसः । एवं सर्वत्र । कका-ई । कखा-ई । कगा-ई ।
कघा-ई । कङा-ई । कचा-ई । कछा-ई । कजा-ई । कझा-ई । कञा-ई । कटा-ई ।
कठा-ई । कडा-ई । कढा-ई । कणा-ई । कता-ई । कथा-ई । कदा-ई । कधा-ई । कना-ई । कपा-ई । कफा-ई । कबा-ई । कभा-ई । कमा-ई । कया-ई । करा-ई ।
कला-ई । कवा-ई । कशा-ई । कषा-ई । कसा-ई । कहा-ई । कला-ई । कक्षा-ई ॥ इति जपित्वा पुनः - का-आ-ई हंसः इत्यादि काक्षा-ई हंसः इत्यन्तं जपित्वा एवं कि-आ-ई हंसः इत्यादि किक्षा-ई हंसः । इत्यन्तं जपित्वा की आ-ई हंसः इत्यादि किक्षा-ई इत्यन्तं जपित्वा कू आ-ई हंसः इत्यादि कुक्षा-ई इत्यन्तं जपित्वा पुनः - कू आ-ई हंसः इत्यादि कूक्षा-ई इत्यन्तं जपित्वा कृ आ-ई हंसः इत्यादि कृक्षा-ई इत्यन्तं जपित्वा कृ आ-ई हंसः इत्यादि कॄक्षा-ई इत्यन्तं जपित्वा कॢ आ-ई हंसः इत्यारभ्य कॢक्षा-ई इत्यन्तं जपित्वा पुनः कॢ आ-ई हंसः इत्यारभ्य कॣक्षा-ई इत्यन्तं जपित्वा एवं के आ-ई हंसः इत्यारभ्य केक्षा-ई हंस इत्यन्तं जपित्वा कै-आ-ई हंस इत्यारभ्य कैक्षा-ई हंस इत्यन्तं जपित्वा को-आ-ई हंस इत्यारभ्य कोक्षा-ई इत्यन्तं जपित्वा पुनः कौ आ- ई हंस इत्यादि कौक्षा-ई इत्यन्तं जपित्वा पुनः कं-आ-ई हंस इत्यादि कंक्षा-ई इत्यन्तं जपित्वा पुनः कः आ-ई हंस इत्यादि कःक्षा-ई इत्यन्तं जपेत् ॥ पुनः प्राग्वत् । ख आ-ई इत्यादि खःक्षा-ई इत्यन्तं ५७६ ॥ ग-आ-ई इत्यादि गःक्षा-ई इत्यन्तं ५७६ ॥ घ आ-ई इत्यादि घःक्षा-ई इत्यन्तं ५७६ ॥ ङ-आ-ई इत्यादि ङःक्षा-ई इत्यन्तं ५७६ ॥ च आ-ई इत्यादि चःक्षा-ई इत्यन्तं ५७६ ॥ छ-आ-ई इत्यादि छःक्षा-ई इत्यन्तं ५७६ ॥ ज आ- ई इत्यादि जःक्षा-ई इत्यन्तं ५७६ ॥ झ आ-ई इत्यादि झःक्षा-ई इत्यन्तं ५७६ ॥ अ आ-ई इत्यादि अःक्षा-ई इत्यन्तं ५७६ ॥ ट आ-ई इत्यादि टःक्षा-ई इत्यन्तं ५७६ ॥ ठ आ-ई इत्यादि ठःक्षा-ई इत्यन्तं ५७६ ॥ ड आ-ई इत्यादि डःक्षा-ई इत्यन्तं ५७६ ॥ ढ आ-ई इत्यादि ढःक्षा-ई इत्यन्तं ५७६ ॥ ण आ-ई इत्यादि णःक्षा-ई इत्यन्तं ५७६ ॥ त आ-ई इत्यादि तःक्षा-ई इत्यन्तं ५७६ ॥ थ आ-ई इत्यादि थःक्षा-ई इत्यन्तं ५७६ ॥ द आ-ई इत्यादि दःक्षा-ई इत्यन्तं ५७६ ॥ ध आ-ई इत्यादि धःक्षा-ई इत्यन्तं ५७६ ॥ न आ-ई इत्यादि नःक्षा-ई इत्यन्तं ५७६ ॥ प आ-ई इत्यादि पःक्षा-ई इत्यन्तं ५७६ ॥ फ आ-ई इत्यादि फःक्षा-ई इत्यन्तं ५७६ ॥ ब आ-ई इत्यादि बःक्षा-ई इत्यन्तं ५७६ ॥ भ आ-ई इत्यादि भःक्षा-ई इत्यन्तं ५७६ ॥ म आ-ई इत्यादि मःक्षा-ई इत्यन्तं ५७६ ॥ य आ-ई इत्यादि यःक्षा-ई इत्यन्तं ५७६ ॥ र आ-ई इत्यादि रःक्षा-ई इत्यन्तं ५७६ ॥ ल आ-ई इत्यादि लःक्षा-ई इत्यन्तं ५७६ ॥ व आ-ई इत्यादि वःक्षा-ई इत्यन्तं ५७६ ॥ श आ-ई इत्यादि शः क्षा-ई इत्यन्तं ५७६ ॥ ष आ-ई इत्यादि षःक्षा-ई इत्यन्तं ५७६ ॥ स आ-ई इत्यादि सःक्षा-ई इत्यन्तं ५७६ ॥ ह आ-ई इत्यादि हःक्षा-ई इत्यन्तं ५७६ ॥ ल आ-ई इत्यादि लःक्षा-ई इत्यन्तं ५७६ ॥ क्ष आ-ई इत्यादि क्षःक्षा-ई इत्यन्तं ५७६ ॥ अत्र पारायणे पर्यायभेदः पञ्चधा भवति । तन्त्रराजे (२५ । ९६)

दिनतो वारतः पक्षान्मासात् षट्त्रिंशता दिनैः ।
जपन्तो वारमेकं तु विद्या नित्यात्मिकास्तुताः ॥ १ ॥

आयुरारोग्यमैश्वर्यं विजयं वाञ्छितं क्रमात् ।
लभन्ते ललिता याभिः संप्रदायवती भवेत् ॥ २ ॥

एकस्मिन् दिवसे त्वेकवारावृत्तौ विधिस्त्वयम् ।
मध्याह्ने तु समारभ्य मध्यरात्रौ समापयेत् ॥ ३ ॥

वारेषु चैकदा जापे प्रथमै रविवारके ।
वशिन्याः प्रथमं वर्ग कामेश्वर्या द्वितीयम्कम् ॥ ४ ॥

जप्त्वा वर्गद्वयं मन्त्री सोमवारादिषट्स्वपि ।
दिनेषु मोदिनीवर्गादेकैकं प्रजपेत् सुधीः ॥ ५ ॥

पक्षेऽपि चैकदा जापे प्रथमादितिथिष्वथ ।
पंक्तिद्वयस्था विद्यास्तु प्रजपेत् प्रतिवासरम् ॥ ६ ॥

पञ्चमीदशमीपञ्चदशीषु तिथिषु क्रमात् ।
पूर्णासु प्रजपेद्विद्याश्चतुष्पंक्तिभवाः सुधिः ॥ ७ ॥

मासे प्रतिदिने विद्वानेवं पूर्णा भवन्ति ताः ।
नैताभिः सदृशी कापि विद्या लोकेषु विद्यते ॥ ८ ॥

तस्मादाभिरुपायैस्तैः साधयेत् सर्वमीप्सितम् ।
यद्यन्निजोप्सितं तत्तद्दुःकरं सुकरं भवेत् ॥ ९ ॥

जपतर्पणहोमार्चासेकैः संसाधयेत् स्थिरः ।
पञ्चाशद्वारमावर्त्य विद्या भक्तिसमन्वितः ॥ १० ॥

मुच्यते निगडैः कृच्छैर्वैरिरोधैः सुदारुणैः ।
शतवारं समावर्त्य विद्याविभववैभवाः ॥ ११ ॥

लभन्ते तनयान् वन्ध्या अपि सर्वगुणान्वितान् ।
अध्यर्धशतवारं तु विद्या आवर्त्य भक्तितः ॥ १२ ॥

गृणरूपादिसंपन्ना भार्यां विदन्त्ययत्नतः ।
तावदावर्त्य कन्या वा पतिं सर्वगुणान्वितम् ॥ १३ ॥

लभन्ते पुत्रपौत्राद्यैरेधन्तेसंपदान्विताः ।
द्विशतं ताः समावर्त्य दारिद्र्यान्मुच्यते ध्रुवम् ॥ १४ ॥

त्रिशतैर्भूमिशस्याढ्यश्चतुर्भिश्च शतैर्धनी ।
पञ्चभिश्च शतैर्भूपो भवेत् षड्भिः शतैर्नृपः ॥ १५ ॥

सप्तभिस्तु शतैस्तस्य न मुञ्चत्यन्वयं रमा ।
अष्टभिस्तु शतैस्तासां नृपाः सर्वेऽथ किंकराः ॥ १६ ॥

नवभिस्तु शतैरेवं कन्दर्पो वनिताजने ।
एवं नवशतं जप्त्वा सर्वान् कामानवाप्नुयात् ॥ १७ ॥

समस्तभजनं तासामुक्तं सर्वार्थसिद्धिद्म् ।
* * * * * * * * ॥

इति । एतेषां श्लोकानां विषमपदव्याख्या - दिनत इति सार्धद्वयश्लोकः स्पष्टः । एकवारावृतौ षट्त्रिंशदुत्तरसप्तशताधिकविंशति सहस्रसंख्याभिः कालनित्याविद्याभिः समूलविद्यायास्तावत्संख्याजपे प्रोक्तविधिना प्रत्यहं क्रियमाणे इत्यर्थः । वारेषु रविवारादिशनिवारान्तेषु सप्तसु वशिन्यादीनां वर्गाः प्राक्प्रोक्ताः वर्गः पंक्तिर्योनिः इति पर्यायः । सेकोऽभिषेकः । स्थिरो निश्चलभक्तिमान् ।
पञ्चाशदित्यादिभिः श्लोकैः प्रपञ्चितः काम्यजपः केवलकालनित्याविद्यानामेव अयं क्रमो गुरुतः शास्त्रतश्च बोद्धव्यः ॥ कालचक्ररचनाप्रकारस्त्वग्रे वक्ष्यते । प्रकृते कुम्भाभिमन्त्रणोत्तरं सर्वत्र षोडशीकृतकलशेषु प्रतिषोडशकं मध्ये ललितां पञ्चदशसु पञ्चदश नित्याश्चावाह्य षोडशोपचारैराराध्य पुनर्मध्यप्रधानकुम्भसमीपमागत्य प्रसन्नपूजां विधायारात्रिकां निवेद्य प्रागुक्तगुरुस्तुतिं नमस्ते नाथ भगवन् इत्यादि पठित्वा द्वादशश्लोकान् पठेत् । तद्यथा (तन्त्ररा० २ । ८८)

गणेशग्रहनक्षत्रयोगीनीराशिरूपिणीम् ।
देवीं मन्त्रमयीं नौमि मातृकां पीठरूपिणीम् ॥ १ ॥

प्रणमामि महादेवीं मातृकां परमेश्वरीम् ।
कालहल्लोहलोल्लोलकलनाशमकारिणीम् ॥ २ ॥

यदक्षरैकमात्रेऽपि संसिद्धे स्पर्धते नरः ।
रवितार्क्ष्यन्दुकन्दर्पशङ्करानलविष्णुभिः ॥ ३ ॥

यदक्षरशशिज्योत्स्नामण्डितं भुवनत्रयम् ।
वन्दे सर्वेश्वरीं देवीं महाश्रीसिद्धमातृकाम् ॥ ४ ॥

यदक्षरमहासूत्रप्रोतमेतज्जगत्त्रयम् ।
ब्रह्माण्डादिकटाहान्तं तां वन्दे सिद्धिमातृकाम् ॥ ५ ॥

यदेकादशमाधारबीजकोणत्रयोद्भवम् ।
ब्रह्माण्डादिकटाहान्तं जगदद्यापि दृश्यते ॥ ६ ॥

अकचादिटतोन्नद्धपयशाक्षरवर्गिणीम् ।
ज्येष्ठाङ्गबाहुहृत्पृष्ठकटिपादनिवासिनीम् ॥ ७ ॥

तामीकाराक्षरोद्धारसाराधारां परापराम् ।
प्रणमामि महादेवीं परमानन्दरूपिणीम् ॥ ८ ॥

अद्यापि यस्या जानन्ति न मनागपि देवताः ।
केयं कस्मात् क्व केनेति स्वरूपारूपभावनाम् ॥ ९ ॥

वन्दे तामहमक्षययक्षकाराक्षररूपिणीम् ।
देवीं कुलकलोल्लोलप्रोल्लसन्तीं परौलिजाम् ॥ १० ॥

वर्गानुक्रमयोगेन यस्यां मात्रष्टकं स्थितम् ।
वन्दे तामष्टवर्गोत्थमहासिद्ध्यष्टकेश्वरीम् ॥ ११ ॥

कामपूर्णजकाराख्यश्रीपीठान्तर्निवासिनीम् ।
चतुराज्ञाकोशभूतां नौमि श्रीत्रिपुरामहम् ॥ १२ ॥

इति द्वादशभिः श्लोकैः स्तवनं सर्वसिद्धिकृत् ।
देव्यास्त्वखण्डरूपायाः स्तवनं तव तद्यतः ॥ १३ ॥

इति स्तुत्वा नित्याकवचं पठेत् - (तन्त्रराजे २८ प० ५२ श्लो०)

समस्तापद्विमुक्त्यर्थं सर्वसंपदवाप्तये ।
भूतप्रेतपिशाचादिपीडाशान्त्यै सुखाप्तये ॥ १ ॥

समस्तरोगनाशाय समरे विजयाय च ।
चौरसिंहद्वीपिगजगवयादिभयानके ॥ २ ॥

अरण्ये शैलगहने मार्गे दुर्भिक्षके तथा ।
सलिलाग्निमरुत्पीडास्वब्धौ पोतादिसंकटे ॥ ३ ॥

प्रजप्य नित्याकवचं सकृत्सर्वं तरत्यसौ ।
सुखी जिवति निर्द्वन्द्वो निःसपत्नो जितेन्द्रियः ॥ ४ ॥

शृणु तत्कवचं देवि वक्ष्ये तव नवात्मकम् ।
येनाहमपि युद्धेषु देवासुरजयी सदा ॥ ५ ॥

सर्वतः सर्वदात्मानं ललिता पातु सर्वदा ।
कामेशी पुरतः पातु भगमाला त्वनन्तरम् ॥ ६ ॥

दिशं पातु तथा दक्षपार्श्वं मे पातु सर्वदा ।
नित्यक्लिन्ना तु भेरुण्डा दिशं पातु सदा मम ॥ ७ ॥

तथैवं पश्चिमं भागं रक्षेत्सा वह्निवासिनी ।
महावज्रेश्वरी रक्षेदनन्तरदिशं सदा ॥ ८ ॥

वामपार्श्वं सदा पातु दूती मे त्वरिता ततः ।
पालयेत्तु दिशं वात्यां रक्षेत्मां कुलसुन्दरी ॥ ९ ॥

नित्या मामूर्ध्वतः पातु साधो मे पातु सर्वदा ।
नित्या नीलपताकाख्या विजया सर्वतश्च माम् ॥ १० ॥

करोतु मे मङ्गलानि सर्वदा सर्वमङ्गला ।
देहेन्द्रियमनःप्राणान् ज्वालामालिनिविग्रहा ॥ ११ ॥

पालयेदनिशं चित्रा चित्तं मे पातु सर्वदा ।
कामात् क्रोधात् तथा लोभान्मोहान्मानान्मदादपि ॥ १२ ॥

पापान्मत्सरतः शोकात् संशयात् सर्वतः सदा ।
स्तैमित्याच्च समुद्योगादशुभेषु तु कर्मसु ॥ १३ ॥

असत्यात् क्रूरचिन्तातो हिंसातश्चोरतस्तथा ।
रक्षन्तु मां सर्वदा ताः कुर्वन्त्विच्छां शुभेषु च ॥ १४ ॥

नित्याः षोडश मां पान्तु गजारूढाः स्वशक्तिभिः ।
तथा हयसमारूढाः पान्तु मां सर्वतः सदा ॥ १५ ॥

सिंहारूढास्तथा पान्तु मां तरक्षुगता अपि ।
रथारूढाश्च मां पान्तु सर्वतः सर्वदा रणे ॥ १६ ॥

तार्क्ष्यारूढाश्च मां पान्तु तथा व्योमगतास्तु ताः ।
भूगताः सर्वदा पान्तु मां सर्वत्र च सर्वदा ॥ १७ ॥

भूतप्रेतपिशाचापस्मारकृत्यादिकान् गदान् ।
द्रावयन्तु स्वशक्तीनां भीषणैरायुधैर्मम ॥ १८ ॥

गजाश्वदीपिपञ्चास्यतार्क्ष्यारूढाखिलायुधाः ।
असंख्याःशक्तयो देव्यः पान्तु मां सर्वतः सदा ॥ १९ ॥

सायं प्रातर्जपन्नित्याकवचं सर्वरत्नकम् ।
कदाचिन्नाशुभं पश्येन्न शृणोति च तत्समः ॥ २० ॥

इति नित्याकवचं पठित्वा सम्यक् प्रार्थ्य वटुकयोगिनीक्षेत्रपालगणपतिभ्यः सर्वभूतेभ्यः कुरुकुल्लायै वाराह्यै च तन्मण्डलेषु तत्तन्मन्त्रैरन्नव्यञ्जनादिभिर्बलीनुत्सृज्य तत्रैव गुरुः सशिष्यर्त्विक्सामयिको महोत्सवैः सह तां रात्रिं नयेत् ॥ इति अधिवासनविधिः ॥

अत्रानुक्रमणिका तु - प्रथमदिने प्रोक्तमण्डपाद्वहिः क्वचिद्गोमयोपलिप्तशुभस्थाने स्वासनोपर्युपविश्य गणेशपूजामातृकापूजा वृद्धिश्राद्ध पुण्याहवाचन आचार्यर्त्विग्वरणान्तकर्म प्रागुक्तविधिना विधाय मण्डपे भूतापसारणं विधाय मध्ये श्रीचक्रं विपुलं सुन्दरं विरच्य पञ्चवाद्यघोषपुरःसरमृत्विक्सामयिकैः सार्धं मध्ये वेदिकापरितो गुरुमण्डलादिप्रोक्तमण्डलानि तत्तद्वेदिकासु विधाय मण्डपप्रतिष्ठां विधाय प्रथमतो वास्तुमण्डले बलिपूजां विधाय गुरुमण्डलसर्वतोभद्रादिमण्डलेषु देवताः संस्थाप्य पूजयित्वा श्रीचक्रे प्रोक्तस्थानेषु प्रोक्तकलशान् संस्थाप्य कलशालङ्करणान्यपि विधाय कुण्डेष्वग्निस्थापनान्तं कर्म समापयेत् ॥ इति प्रथमदिनकृत्यम् ॥

द्वितीयदिने प्रातरुत्थानादियोगपीठन्यासान्तं विधाय नित्यकर्म निर्वर्त्य पुनरपि तन्मण्डलदेवताः सम्पूज्य श्रीचक्रमस्थमध्यकलशे देवीं सपरिवारां समावाह्य षोडशोपचारैराराध्यान्यकलशेष्वपि ललितादिषोडशनित्याः समावाह्य सम्पूज्य नित्यहोमजपनीराजनान्तं कर्म प्रहरद्वयमध्ये समाप्य प्रहरद्वयोत्तरमारभ्य मध्यरात्रावधि षट्त्रिंशदुत्तरसप्तशताधिकविंशतिसहस्र (२०७३६) कालनित्याभिर्मूलविद्यारहिताभिः कुम्भाभिमन्त्रणं विधाय प्रोक्तविधिनाधिवसेत् ॥ इति द्वितीयदिनकृत्यम् ॥

तृतीयदिने प्राग्वन्नित्यकर्म निर्वर्त्य शिष्यस्य जन्मनक्षत्रे कुम्भे देवीं साङ्गावरणां सम्पूज्य मूलविद्यामष्टोत्तरसहस्रं

शतं वा जपित्वा कुण्डेषु नित्यहोमोक्तविधिना हुत्वा पूजाशेषं समाप्य शृङ्गककाहलादिनानावादित्रघोषपुरःसरं ब्राह्मणाशीर्वादैः सह गुरुः प्राङ्निमन्त्रितैर्देवतात्मभिः शक्तिसाधकैः सार्ध स्वयं प्रधानकुम्भं समुत्थाप्य प्रागुक्तविधिनाभिषिञ्चेत् । ततः शक्तयः सामयिकाश्च कलशानुत्थाप्याभिषेकं कुर्युः । शिष्याय सालंकृताय दिननित्यापर्यायनित्योदयाक्षरादिकं स्वक्रमं कथयेत् । शिष्योऽपि तु तदारभ्याविच्छिन्नपर्यायं यथा भवति तथा गुरूक्तक्रमभजनं कुर्यात् । पर्याये गुर्वाज्ञामते विच्छिन्ने शिष्यः साभिषेकं मूलमष्टोत्तरसहस्रं जपेत् प्रायश्चित्तार्थमिति विच्छिन्नदिनानां प्रत्येकं सन्ध्यात्रयं षष्टिजपं घटिकाजपं शतावृत्तिजपं च प्रायश्चित्तं कृत्वा तद्दिनादिक्रमभजनं च कुर्यादिति । ततो गुरवे सर्वस्वं वा तदर्धंवा इति प्रागुक्तरीत्या द्रव्यादिकं दत्त्वा ऋत्विक्सामयिकेभ्यो दीनानाथेभ्यश्च दक्षिणादानैः सन्तोषं सम्भाव्य चतुर्थदिने स्वगृहे श्रीगुरुसामयिकैः सार्धं महापूजां विधाय ब्राह्मणान् दीनान्धकृपणान् भोजयित्वा दक्षिणादिभिश्च सन्तोषयेदिति पूर्णाभिषेकविधिः ॥

अथ पूर्णाभिषेके प्रागुक्तषोडशत्रिकोणकरणादिविस्ताराशक्तौ विपुलं श्रीचक्रमुद्धृत्य तत्र प्रागुक्तषण्णवतित्रिकोणेषु मध्यत्रिकोणे वृहत्कुम्भमन्येषु कलशान् प्राग्वत् संस्थाप्यावरणपूजां विधायाभिषिञ्चेत् । अथवा मध्यत्रिकोणस्थबिन्दुस्थान एव खारितोयपूरितं कुम्भं संस्थाप्य सम्पूज्याभिषिञ्चेत् । अत्र षण्णवतिकलशस्थापनपक्षे त्वावरणशक्तीनां प्रतिकलशमेकैकदेवतापूजनं कुम्भे मूलदेव्याः पूजनमिति । अत्रोत्तरः पक्षस्त्वशक्तविषयः ॥ इति पूर्णाभिषेकविधिः ॥ खारीलक्षणं तु भविष्यपुराणे -

पलद्वयं तु प्रसृतं द्विगुणं कुडवं मतम् ।
चतुर्भिः कुडवैः प्रस्थः प्रस्थाश्चत्वार आढकः ॥ १ ॥

आढकैस्तैश्चतुर्भिश्च द्रोणस्तु कठितो बुधैः ।
कुम्भो द्रोणद्वयं शूर्पः खारी द्रोणास्तु षोडश ॥ २ ॥

इति ॥ अथ कालचक्ररचनाप्रकारः - तत्र प्रथमतः क्वचिद्विन्दुं कृत्वा तं परितः षडंगुलमानेन वृत्तं कृत्वा तद्बहिरप्येकैकांगुल (अन्तराल)मान्तः षोडश वृत्तानीति प्रथमकृतवृत्तेन सह सप्तदश वृत्तानि निष्पादितादितानि षट्त्रिंशद्रेखाभिर्विभज्य षोडशषोडशकोष्ठयुक्ताः षट्त्रिंशद्वीथीर्निष्पाद्य तासु स्वाग्रवीथ्यां सर्वबाह्यथकोष्ठमारभ्य प्रवेशगत्या षोडश स्वरान् विलिख्य ततः प्रादक्षिण्यक्रमप्राप्तद्वितीयवीथ्यां तथैव बाह्यकोष्ठमारभ्य ककाकिकी इत्यादि षोडशस्वरयुक्तं ककारं विलिख्य तृतीयवीथ्यां खखाखिखी इत्यादि षोडशस्वरयुक्तं खकारं विलिख्य चतुर्थवीथ्यां गगागिगी इत्यादि षोडश विलिख्य पञ्चमवीथ्यां घघाघिघी इत्यादि षोडश विलिख्य षष्ठवीथ्यां ङङाङिङी इत्यादि षोडशकं विलिख्यि सप्तमवीथ्यां चचाचिची इत्यादि षोडश विलिख्य अष्टमवीथ्यां छछाछिछी इत्यादि षोडश विलिख्य नवमवीथ्यां जजाजिजी इत्यादि षोडश विलिख्य दशमवीथ्यां झझाझिझी इत्यादि षोडश विलिख्य एकादशवीथ्यां ञञाञिञी इत्यादि षोडश विलिख्य द्वादशवीथ्यां टटाटिटी इत्यादि षोडश विलिख्य त्रयोदशवीथ्यां ठठाठिठी इत्यादि षोडश विलिख्य चतुर्दशवीथ्यां डडाडिडी इत्यादि षोडश विलिख्य पञ्चदशवीथ्यां ढढाढिढी इत्यादि षोडश विलिख्य षोडशवीथ्यां णणाणिणी इत्यादि षोडश विलिख्य सप्तदशवीथ्यां ततातिती इत्यादि षोडश विलिख्य अष्टादशवीथ्यां थथाथिथी इत्यादि षोडश विलिख्य एकोनविंशवीथ्यां ददादिदी इत्यादि षोडश विलिख्य विंशवीथ्यां धधाधिधी इत्यादि षोडश विलिख्य एकविंशवीथ्यां ननानिनी इत्यादि षोडश विलिख्य द्वाविंशवीथ्यां पपापिपी इत्यादि षोशश विलिख्य त्रयोविंशवीथ्यां फफाफिफी इत्यादि षोडश विलिख्य चतुर्विंशवीथ्यां बवर्ग २५ वीथ्यां भवर्गं २६ वीथ्यां मवर्गं २७ वीथ्यां यवर्गं २८ वीथ्यां रवर्गं २९ वीथ्यां लवर्गं ३० वीथ्यां ववर्गं ३१ वीथ्यां शवर्गं ३२ षवर्गं ३३ सवर्गं ३४ हवर्गं ३५ वीथ्यां लवर्गं ३६ वीथ्या क्षवर्गं विलिखेत् एषां षट्त्रिंशद्वीथिषु षट्सप्तत्युत्तरपञ्चशतसंख्याकान् पूर्णमण्डलवर्णानालिख्य कर्णिकायां आ-ई हंसः इति वर्णचतुष्टयं विलिख्य सर्वबाह्यवृत्ताद्बहिर्वृत्तत्रयं निष्पाद्य सकेसरमष्टदलकमलं विरच्य तद्बहिश्चतुरस्रं च कुर्यात् । अत्र वर्णविन्यासेन मध्यस्थदेवताभिमुखः सर्वे वर्णा यथा भवन्ति तथा लेख्याः ॥

इति कालचक्ररचनाप्रकारः ॥

एतच्चक्रस्य षट्सप्तत्युत्तरपञ्चशतभेदाः सन्ति ।
तथा तन्त्रराजे - (प० २५ श्लो० २९)

अथ यन्त्राणि वक्ष्यन्ते प्रोक्तसंख्यान्यनुक्रमात् ।
वृत्तं षट्त्रिंशदस्रं च तद्वदष्टादशास्रकम् ॥ १ ॥

द्वादशास्रं नवार्स्रं वा स्वरेऽष्टास्रं षडस्रकम् ।
चतुरस्रमथ त्र्यस्रमिति भेदा नव क्रमात् ॥ २ ॥

एतानि वर्णविन्यासभेदात् प्रत्येकमष्टधा ।
तेन द्वासप्ततिर्भेदास्तेषु नित्यार्णभेदतः ॥ ३ ॥

प्रत्येकमष्टधेत्येवमुक्तसंख्याः समीरिताः ।
एतेष्वाद्यस्य वृत्तस्य विन्यासेनान्यदुन्नयेत् ॥ ४ ॥

षडंगुलपरिभ्रान्त्या वृत्तमेकं तु वर्तयेत् ।
एवं पुनः पुनः कुर्यादेकैकांगुलतो बहिः ॥ ५ ॥

यदा सप्तदशाभूवंस्तदा तद्विभजेदरैः ।
षट्त्रिंशद्भिस्ततस्तेषु न्यसेद्वर्णास्तथादितः ॥ ६ ॥

अनुलोमविलोमौ च बाह्याभ्यन्तरसंपुटौ ।
बाह्यान्तरपरावृत्ती तथा व्याकीर्णमित्यपि ॥ ७ ॥

इति । अनुलोमः विलोमः बाह्यसम्पुटः आभ्यन्तरसम्पुटः बाह्यपरावृत्तिः आभ्यन्तरपरावृत्तिः बाह्यव्याकीर्णः आभ्यन्तरव्याकीर्णः एवमष्टौ भेदा वर्णविन्यासेन ।

यन्त्राणां पूर्वोक्तानां तु -

कर्णिकायां मरुद्वह्नी नाम्ना संलिख्य सर्वतः ।
योजयेद्वाह्यकोष्ठस्थैः प्रागुक्तविधिना क्रमात् ॥ ८ ॥

अन्येषामरविन्यासः षट्त्रिंशत्समुदीरितः ।
अष्टास्रे षोडशाराः स्युः षट्त्रिंशद्वृत्तमन्यवत् ॥ ९ ॥

एतत पटे समालिख्य बहिरष्टच्छदाम्बुजम् ।
कृत्वा दलेषु क्रमशो वाग्देव्यष्टकमालिखेत् ॥ १० ॥

प्रोक्तरूपां ततस्तस्य प्रतिष्ठां सम्यगीरिताम् ।
विधात पूजयेन्नित्यं पुस्तपूजोक्तसिद्धये ॥ ११ ॥

उभयं यः प्रकुरुते तस्य वंशे स्थिरा रमा ।
न कदाचिच्छ्रियो हानिर्भविष्यति च तत्कुले ॥ १२ ॥

वर्णौषधिक्वाथजलैरापूर्य कलशं महत् ।
तत्र देवीं समावाह्य संपूज्य विधिवन्निशि ॥ १३ ॥

नित्यानां तत्त्वविद्याश्च जपित्वान्येद्युरासने ।
संपूज्य शिष्यं संस्थाप्य भक्त्या तमभिषेचयेत् ॥ १४ ॥

इति । अत्र तत्त्वनित्याः षट्सप्तत्युत्तरपञ्चशतसंख्याकाः तत्त्वावृत्तिरुदीरिता पूर्णमण्डलसंख्यैव इति तत्रैवोक्तत्वात् ।

एवं जन्मानुजन्मादिपौर्णमासीषु साधकः ।
कुर्यात् कर्षसुवर्णस्य मुद्रिका गौश्च दक्षिणा ॥ १५ ॥

एवं निरन्तरं वर्ष योऽभिषिक्तः स साधकः ।
पार्थिवस्तस्य वन्द्यो वा भविष्यति न संशयः ॥ १६ ॥

वर्षद्वयाभिषेकेण तद्गेहे स्यात् स्थिरा रमा ।
वर्षत्रयाभिषेकेण सिद्ध्या विद्याधरो भवेत् ॥ १७ ॥

चतुर्वर्षाभिषेकेण खेचरीमेलनं भवेत् ।
पञ्चवर्षाभिषेकेण पञ्चत्वं नाधिगच्छति ॥ १८ ॥

षड्वर्षमभिषेकेण लोकपालसमो भवेत् ।
सप्तवर्षाभिषेकेण दिवाकरसमो भवेत् ॥ १९ ॥

अष्टवर्षाभिषेकेण चन्द्रमःसदृशो भवेत् ।
नववर्षाभिषेकेण देवीसारूप्यमाप्नुयात् ॥ २० ॥

जयाय विद्याः षट्त्रिंशदेकपञ्चाशदेव वा ।
आवृत्तिर्जपहोमार्चातर्पणैः साधु सधयेत् ॥ २१ ॥

तेन जित्वा रिपून् सर्वानेधते तपनो यथा ।
तथोत्पातेषु सर्वेषु तथा रोगाद्युपद्रवे ॥ २२ ॥

तथा वांछितसिद्ध्यर्थ तथा कृत्यानिवारणे ।
तथा कृत्यासमुत्पत्तावियं सर्वार्थसिद्धिदा ॥ २३ ॥

एतच्चक्रारमास्थाय ग्रहर्क्षादि प्रवर्तते ।
एतच्चक्रारविन्यासरूपा भूमिश्च दृश्यते ॥ २४ ॥

तस्तमादेतन्मयं सर्वमेतस्य भजनेन च ।
सर्वे मनोरथाः सिद्धा भजनैः संप्रदायतः ॥ २५ ॥

कालप्राप्तक्रमं पूर्वमावर्त्यान्यक्रमं भजेत् ।
जपतर्पणहोमार्चास्नपनेष्वप्ययं क्रमः ॥ २६ ॥

अमुं ज्ञात्वा विधातव्यमन्यथानर्थमावहेत् ।
कृत्योत्पत्तौ शत्रुभङ्गे निग्रहे प्रतिलोमकम् ॥ २७ ॥

कालेन प्राप्तमन्यत्र सर्वत्र समुदीरितम् ।
वशीकरणरक्षासु संपुटद्वितयं क्रमात् ॥ २८ ॥

राजशत्रुजये प्रोक्ते परावृत्तक्रमेण वै ।
गोभूहिरण्यवाहादिलाभेषु च समीरितः ॥ २९ ॥

उच्चाटनेषु व्याकीर्णं तेषु शान्त्यै क्रमं यजेत् ।
एतद्विधाननिष्णातं प्रणमन्ति सुरासुराः ॥ ३० ॥

तस्मिन्नरिकृताः पीडाः कृत्याद्या नैव संमुखाः ।
प्रत्युतैव परावृत्ताः कर्तारं नाशयन्ति वै ॥ ३१ ॥

यत्रासौ निवसत्येष तत्क्षेत्रं तत्तपोवनम् ।
श्मशाने पर्वते शून्ये विपिने क्षुद्रपीडने ॥ ३२ ॥

प्रतिष्ठिते यन्त्रराजे तत् स्याज्जनपदं महत् ।
सर्वव्याकीर्णचक्रेण स्थापितेनामरावती ॥ ३३ ॥

उच्चाटिता पुनर्देवि मयापि च न रक्ष्यते ।
शिलायां ताम्रपट्टे वा राजते हेमनिर्मिते ॥ ३४ ॥

विलिख्य भूमौ निखनेद् ग्रामराष्ट्रपुरादिषु ।
कृत्वा देवालयं तत्र चक्रं संस्थाप्य तस्य वै ॥ ३५ ॥

कर्णिकामध्यगे वेरं कुर्यात् सांनिध्यसिद्धये ।
ग्रामादिरक्षणे तत्र मध्ये चाष्टसु दिक्ष्वपि ॥ ३६ ॥

खात्वावटं पुनस्तेषु पाषाणैर्घट्टयेद्दृढम् ।
समावाह्याभिपूज्यान्तः स्थापयेन्मूलविद्यया ॥ ३७ ॥

पाषाणेन तदाच्छाद्य पीठं कृत्वोपरि स्थिरम् ।
नित्यशः पूजयेद्गन्धपुष्पधूपादिभिः समम् ॥ ३८ ॥

त्रिसन्ध्यमेवं कुर्वीत नान्यथा सिद्धिदायकम् ।
तत्कालोक्तानि कुण्डानि नव होमेषु सर्वतः ॥ ३९ ॥

होतॄणां दक्षिणावस्त्रभूभूषादासगोधनैः ।
यद्यन्निजेप्सितं तत्तद् दुष्करं सुकरं भवेत् ॥ ४० ॥

इत्यादि ॥ अत्र युगनित्यासु पूर्णमण्डलसंख्याकास्तत्त्वनित्या अपि तत्रैव । एतत्परिज्ञातं तु तद्दिननित्याविद्यायाः प्रथमाक्षरं युगाक्षरं भवति । द्वितीयाक्षरं तत्त्वाक्षरं भवति ।
तद्दिननित्याविद्याया अपि परिज्ञानं तु ज्योतिःशास्त्रोक्तनीत्या गतकल्पाद्यहर्गणं विधाय पूर्णमण्डलसंख्यया भागे कृते उर्वरिताक्षरं तद्दिननित्याविद्यायाः प्रथमाक्षरं (षट्त्रिंशताभागे द्वितीयाक्षरं ) भवति । एवं वाग्भवं कामराजमित्यक्षरद्वयं जातं । शक्तिकूटस्थाने ईकारः सर्वासु विद्यास्वन्ते योजनीयः । एवं तद्दिननित्याविद्यायाः परिज्ञाने जाते तद्दिननित्याविद्यायाः प्रथमाक्षरं यत्स्वरयुक्तं भवति तत्स्वरादितः पुनस्तत्स्वरपर्यन्तं प्राग्वदक्षरत्वेन संयोजिताः ५७६ संख्याका युगनित्याविद्या जायन्ते । एवं तद्दिननित्याविद्याया द्वितीयाक्षरं यद्भवति तद्गृहीत्वा प्राग्वदक्षरत्वेन योजिताः ५७६ संख्याकास्तत्त्वनित्याविद्या जायन्ते । तत्त्वनित्या दिननित्या इति पर्यायः ।
अत्र ५७६ वर्णा वाग्भवाख्याः ३६ वर्णाः कामराजाख्या बोद्धव्याः ॥ पर्यायनित्याक्रमस्तु - यस्मिन्दिने आचार्यचरणानां दीक्षा जाता तद्दिनमारभ्याहर्गणस्य पूर्णमण्डलसंख्यया भागे कृते प्रथमाक्षरं लभ्यते । तथैवाहर्गणस्य षट्त्रिंशता भागे कृते द्वितीयाक्षरं लभ्यते तृतीयबीजमोकारः ।
एवमक्षरत्रयात्मिका पर्यायनित्याविद्या भवति । एतस्या अपि प्राग्वत्प्रथमाक्षरं युगाक्षरं भवति तद्द्वितीयाक्षरं तत्त्वाक्षर भवति । एतेन युगनित्यादिननित्ये लभ्येते । अत्र कालनित्याविद्यास्तु २०७३६ ॥ युगनित्यास्तु ५७६ । तत्त्वनित्यास्तु ५७६ ।
तद्दिननित्याविद्यास्तु ५७६ । पर्यायनित्याविद्यास्तु ५७६ । कालनित्यानां जपे तु नाथावृत्तिः । प्रतिदिनं संख्या ज्ञातव्या । नित्यावृत्तिस्तु प्रतिदिनं १२९६ संख्या । एवं चेन्नाथावृत्तेनैव दिनानि । नित्यावृत्तेः १३ दिनानीति बोध्यम् ॥ इति कादिमते पूर्णाभिषेकप्रयोगः ॥

अथ नैमित्तिकपूजा - तत्र दीक्षितः प्राप्तपूर्णाभिषेकः कृतपुरश्चरणो नित्यार्चनानिरतो नैमित्तिकार्चनं कुर्यात् ।
पुरश्चरणविधिस्त्वग्रे वक्ष्यते ॥ श्रीतन्त्रराजे (६ प० २ श्लो०)

नित्यं नैमित्तिकं काम्यं सापेक्षं पूर्वपूर्वतः ।
अन्यथा भजनं चेच्छन् करोत्यापत्परम्पराम् ॥ १ ॥

नित्यार्चनरतैः सिद्धैः कार्यं नैमित्तिकार्चनम् ।
तद्विधानमतो वक्ष्ये चैत्राद्यं फाल्गुनावधि ॥ २ ॥

इति ॥ विशेषदिवसेषु क्रियमाणा महापूजा विशेषपूजेत्युच्यते ।
चैत्रादिफाल्गुनावधि वक्ष्यमाणा या पूजा सातु नैमित्तिकपूजा ।
केचित्तु विशेशपूजाया नैमित्तिकेऽन्तर्भाव इति वदन्ति । इमां नैमित्तिकपूजां रात्रावेव कुर्यात् ॥ तदुक्तं कुलार्णवे :

नित्यार्चनं दिवा कुर्याद्रात्रौ नैमित्तिकार्चनम् ।
उभयोः काम्यकर्माणि चेति शास्त्रस्य निर्णयः ॥ १ ॥

इति ॥ विशेषदिवसास्तु तन्त्रराजादिग्रन्थेषूक्तानि दिनानि । तानि तु गुरुपरमगुरुपरमेष्ठिगुरूणां जन्मवारतिथिनक्षत्राणि स्वजन्मवारतिथिनक्षत्राणि विद्याप्राप्तिदिनं गुरोः क्षयदिनम् अष्टमीचतुर्दशीपूर्णिमामावस्यारविसंक्रमणयुगादिदिनानि पुष्यनक्षत्र रविवार पीठोपपीठगमनदेशिकागमनवीरमहायोगिदर्शन तीर्थगमन व्रतदीक्षाद्युत्सवदिनानि विशेषक्षेत्रगमन देवतादर्शनाक्षरत्रयसम्पातदिनानि च ॥ अक्षरत्रय सम्पातदिनमित्येकस्याक्षरस्य दिनाक्षरत्वेनोदयाक्षरत्वेन युगाक्षरत्वेन च दर्शनं यस्मिन् दिने तद्दिनं विशेषपर्व । एतेषु दिनेषु नित्यपूजानन्तरं यथाबलं यथाश्रद्धं यथाकालं यथादेशं यथाविभवविस्तरं वित्तशाठ्यरहितो यथोक्तद्रव्यैर्यथागुरूपदेशं शक्तिसामयिकैः सार्द्धं विशेषपूजां कृत्वा यथाशास्त्रं गुरुं सामयिकाश्च तोषयेत् । अत्र गुरुपर्वदिनेषु गुरुपंक्तिपूजोक्तमानवौघगुरुसंख्याकान् साधकान् तत्तन्नाम्ना सर्वोपचारैः समभ्यर्च्य यथाशक्तिदक्षिणादानादिभिः परितोषयेत् । तेषु पर्वसु गुरुमण्डलपूजापि विधेया ॥ श्रीतन्त्रराजे - (६ प० ४ श्लो०)

चैत्रे दमनकैः कुर्यात् समूलैर्वाथ गुच्छकैः ।
पूर्वपक्षचतुर्दश्यां निशि संस्थाप्य विद्यया ॥ ३ ॥

परेद्युर्नित्यपूजान्ते कुर्यादेतैस्तु पूजनम् ।
अस्मिन् मासे च पूर्णायां वसन्तोत्सवपूजनम् ॥ ४ ॥

कुर्यात् तत्कालसंभूतैः प्रसूनैश्चन्द्रचन्दनैः ।
सौगन्धिकैः सकाश्मीरैः पूजां पूर्वदुवज्ज्वलाम् ॥ ५ ॥

इति । तत्र विधिस्तु - चैत्रे मासि पूर्णायां दमनैः सम्पूजयेत् । तद्यथा - चैत्रशुक्लत्रयोदश्यां साधकः कृतनित्यक्रियः साधकैः सार्ध दमनसमीपं गत्वा मूलमन्त्रेण दमनमामन्त्र्य कालीमते तु पूर्वोक्तचतुष्कल्पलताविद्याभिर्दमनमभिमन्त्र्य ओं शिवप्रसादसम्भूत अत्र सन्निहितो भव । शिवकार्ये समुत्क्षिद्य नेतव्योऽसि शिवाज्ञया ॥ इति दमनमामन्त्र्य तत्र कामदेवं रतिं च वक्ष्यमाणतन्मन्त्र(त्तत्प्र)प्रकारेण दमनकमूले ध्यात्वा सम्पूज्य गृहमागच्छेत् । ततश्चतुर्दश्यां कृतनित्यक्रियः साधकः साधकैः सार्धं पुनर्दमनसमीपं गत्वास्त्रमन्त्रेण दमनं समूलमुत्पाट्य शस्त्रेण गुच्छान् क्षिप्त्वा गृहमानीय अघोरे ऐं ओं घोरे ह्रीं घोरतरे श्रीं सर्वतः सर्वशर्वेभ्यो नमस्ते रुद्ररूपेभ्यः ह्रींश्रीं इति मन्त्रेण दमनमभ्युक्ष्य पूजास्थाने क्वचित्पात्रे दमनं नवधा विभज्य मध्येऽष्टसु दिक्षु च संस्थाप्य हृन्मन्त्रेण दमनमभ्युक्ष्य पूजास्थाने चन्दनागुरुकर्पूरकुंकुमादिपङ्कैः संलिप्य हंनमः संनमः क्षंनमः मंनमः लंनमः वंनमः रंनमः यंनमः ओं नमः इति नवधा विभक्तं दमनं मध्यादिप्रादक्षिण्येन सम्पूज्यास्त्रेण संरक्ष्य करद्वयेन त्रिशूलमुद्रां बद्ध्वा कवचमन्त्रेण दमनोपरि भ्रामयेत् । ततो नुतनवस्त्रेणाच्छाद्य रहसि दमनं स्थापयेदित्यधिवासनं चतुर्दश्यां रात्रौ कुर्यात् । ततः पौर्णमास्यां प्रातःस्नानादिनित्यपूजादिकं निर्वर्त्य सामयिकैः सार्धं स्वस्तिवाचनपुरःसरं दमनं पूजास्थानमानीय पूर्वेद्युरधिवासनाकरणे चतुर्दश्यां सायन्तने प्रोक्तविधिना दमनमामन्त्र्य पूर्णिमायां दमनमानीय यद्वा पूर्णिमायामेव दमनमामन्त्र्यानीय चोक्तविधिना सद्योधिवासनं वा विधाय पुरतः सिन्दूरेण चतुरस्रवृत्तद्वयवेष्टितं नवयोनिचक्रं विधाय तस्य नवयोनिषु स्वर्णादिरचितान्नव कलशान् यवपुञ्जोपरि दीक्षाप्रकरणवक्ष्यमाणविधिना मध्ययोनावेकं वा कुम्भं संस्थाप्य स्वासनपूजादिपीठपूजान्तं विधाय विस्तरतः संक्षेपतो वा कृत्वा पञ्चायतनी चेत् गणेशादीन् दमनैः सम्पूज्य स्वदक्षिणभागे सर्वतोभद्रमण्डलं प्रागुक्तं कृत्वा तदशक्तावष्टदलकमलं वा सिन्दूरादिना कृत्वा तन्मध्येऽशोकतरुं पञ्चवर्णरजोभिरारर्च्यय तस्याधस्त्रिकोणमण्डले कामदेवं तरुणमरुणवर्णं रक्तवस्त्राभरणमाल्यानुलेपनं वामदक्षिणयोः रतिप्रीतिभ्यां शोभितं पुष्पबाणेक्षुधनुर्धरं वसन्तसहितं ध्यात्वा ४ क्लीं कामाय नमः इति मन्त्रेण गन्धादिपञ्चोपचारैः कामदेवं सम्पूज्य तद्वामभागे रतिं गौरवर्णां सर्वालङ्कारभूषितां रक्तवस्त्रपरीधानां पद्मकरां ध्यात्वा ४ श्रींश्रींक्रों रत्यै नमः इति मन्त्रेण रतिं पञ्चोपचारैः सम्पूज्य कामस्य दक्षिणभागे प्रीतिं श्यामवर्णां (सर्वा)भरणभूषितां रक्तवस्त्रपरीधानां ताम्बूलकरां ध्यात्वा ४ श्रींश्रींश्रींक्षौं प्रीत्यै नमः इति प्रीतिं पञ्चोपचारैः सम्पूज्य ततः कामदेवस्याग्रे कदम्बवनमध्ये वसन्तं गौरवर्णं वामहस्तेन सुधाकुम्भं दक्षिणहस्तेन नानापुष्पसमुच्चयं दधानं रक्तवस्त्राभरणभूषितं रक्तमाल्यानुलेपनं ध्यात्वा वं वसन्ताय नमः इति मन्त्रेण पञ्चोपचारैर्वसन्तं सम्पूज्य पुनर्मध्ये कामदेवं पुष्पाञ्जलिना सम्पूज्याष्टदलकेसरेषु अग्नीशासुरवायव्यचतुर्दिक्षु च क्लां हृदयाय नमः इत्यादि षडङ्गानि सम्पूज्य अष्टदलेषु अग्रादिप्रादक्षिण्येन ओं कामाय नमः ।

ओं भस्मशरीराय नमः । ओं अनङ्गाय नमः । ओं मन्मथाय नमः । ओं वसन्तसखाय नमः । ओं स्मराय नमः । ओं इक्षुधनुर्धराय नमः ।
ओं पुष्पबाणाय नमः । इत्यष्टौ कामान् सम्पूज्य बहिश्चतुरस्रे लोकपालांस्तदायुधानि च पूजयेत् । पुनः कामदेवं तन्मन्त्रेण सम्पूज्य धूपदीपादिकं दत्वा प्रणम्य ओं कामदेवाय विद्महे पुष्पबाणाय धीमहि । तन्नोऽनङ्गः प्रचोदयात् ॥ इति कामगायत्रीं यथाशक्ति जपित्वा समर्प्य नमोऽस्तु पुष्पबाणाय जगदानन्दकारिणे ।
मन्मथाय जगज्जेत्रे रतिप्रीतिप्रियाय च ॥ इति कामदेवं प्रणम्य मूलविद्यया ऋष्यादिकरषडङ्गन्यासान् विधाय मध्यकुम्भे प्राग्वद् देवीमावाह्य षोडशोपचारैः सम्पूज्य प्राग्वत् तिथिनित्यादिलोकपालान्तान् उक्तक्रमेण दमनैः सम्पूज्य आवाहितासि देवेशि सद्यःकाले मया शिवे । कर्तव्यं तु यथाकालं पूर्वं सर्वं त्वदाज्ञया ॥ इति विज्ञाप्य देवीं गन्धपुष्पादिभिः पुनः सम्पूज्य प्राग्वद्धूपादिनैवेद्यानि समर्प्य नैमित्तिकहोमं नित्यहोमोक्तविधिना कृत्वा राजोपचारान् महदारार्तिकं कुमारीसुवासिनीवटुकादिपूजां विधाय सर्वान् भोजनवस्त्रालङ्कारदक्षिणाताम्बूलादिभिः परितोष्य स्वगुरुमपि तथा परितोष्य तदभावे तत्कुलीनमन्यं वा परितोष्य मूलविद्यां नित्यजपात् त्रिगुणां जपित्वा देव्यै जपं समर्प्य स्तुत्वा प्रणम्य षोडशार्णे जगन्मातर्वान्छितार्थफलप्रदे । कामान् पूरय भो देवि कामं कामेश्वरीश्वरि ॥ इति देवींप्रार्थ्य पुनः कामदेवं तन्मन्त्रेण दमनैः सम्पूज्य रतिप्रीतिवसन्तांश्च दमनैः सम्पूज्य धूपदीपादिकं निवेद्य कामदेवं वसन्तंविसृज्य पुष्पाञ्जलिमादाय समस्तचक्रचक्रेसि सर्वविद्याशरीरिणि । देवि मातर्ममैवं तु भवत्विष्टं त्वदाज्ञया ॥ इति पुष्पाञ्जलिं दत्त्वा विसृज्य श्रीपात्रोद्वासनादि सर्वं समाप्य शक्तिसामयिकानन्यान् ब्राह्मणानपि भूरिदक्षिणाभोजनादिभिः परितोषयेत् ॥ इति दमनारोपणविधिः ॥ इयं दमनपूजा यदि चैत्रपूर्णिमायां न सम्पद्यते तदा पक्षद्वयेऽष्टमीनवमीचतुर्दश्यन्यतमतिथौ कार्या । चैत्रे मासि चेन्न भवेत् तदा वैशाखे ज्यैष्ठे वा मासि प्रोक्ततिथिष्वन्यतमतिथौ कुर्यात् । अथ चैत्रे मासि पूर्णायामेव तत्कालसम्भवैः सचन्दनकर्पूरकुंकुमकह्लारैर्वसन्तोत्सवपूजां कुर्यात् । अत्रापि नैमित्तिकपूजयां पूजाद्रव्याणि निशि पूर्वेद्युः क्वचित्पात्रे निधाय मूलविद्ययाभ्युक्ष्य मूलमन्त्रदिननित्याभ्यां गन्धाद्युपचारैरभ्यर्च्याधिवासनम् विधाय परेद्युर्नित्यकर्मान्तेः तैः सविशेषपूजनं कृत्वा स्वगुरुपूजनं च कुर्यादित्यधिवासनं पूजनं च बोद्धव्यम् ॥ तथा :

वैशाखे मासि पूर्णायां पूजयेद्धिमपुष्करैः ।
अपि वा चन्द्रकस्तूरीचन्दनैः शिशिरोदकैः ॥ ६ ॥

इति ॥ एतस्यार्थः : वैशाखपूर्णायां हिमजलैः कर्पूरकस्तूरीचन्दनोन्मिश्रैः शीतलोदकैर्वा प्राग्वदधिवासनपूर्वकं विशेषपूजां कुर्यादित्यर्थः ॥ तथा :

ज्यैष्ठे मासि च पूर्णायां कदलीपनसाम्रजैः ।
फलैस्तु पूजयेद्देवीं पूर्ववत् सर्वसिद्धये ॥ ७ ॥

इति ॥ तत्र ज्यैष्ठे मासि पूर्णायां विशेषपूजां विधाय कदलीपनसाम्रफलैर्महानैवेद्यैर्देवीं परितोष्य गुर्वादिपूजनं कुर्यात् इति ॥ तथा :

आषाढे मासि पूर्णायां चन्दनैः कुंकुमान्वितैः ।
एलाकक्कोलजातीभिरुपेतैः पूजयेच्छिवाम् ॥ ८ ॥

इति । स्पष्ट एवैतस्यार्थः ॥ तथा -

श्रावणे मासि पूर्णायां पवित्रैः पूजयेच्छिवाम् ।
तद्विधानमिदं भद्रे शृणु सौभाग्यदायकम् ॥ ९ ॥

सौवर्णे राजतैर्वापि सूत्रैः पट्टसमुद्भवैः ।
कार्पाससंभवै रक्तैर्नवधा गुणितैः शुभैः ॥ १० ॥

कुर्यात् पवित्रं शक्तीनां सर्वासां षोडशांगुलैः ।
नवांगुलैर्वा तत्संख्यसरग्रन्थ्यादिसंयुतम् ॥ ११ ॥

अथवाऽवृतिशक्तीनां तत्तत्संख्यांगुलादिकम् ।
कृत्वाधिवासपूर्वं तु पूजयेत् तैर्यथाक्रमात् ॥ १२ ॥

होमे त्वेकसरग्रन्थि तन्मानं स्यात् पवित्रकम् ।
अष्टोत्तरशतैः सूत्रैः कुर्याच्छक्त्यवतारकम् ॥ १३ ॥

पूजाविष्टरमानेन वितानादवलम्बयेत् ।
वाराहीकुरुकुल्लादिशक्तीनां मूलशक्तिवत् ॥ १४ ॥

स्वमानेनात्मनः कुर्यात् पवित्रं तूक्तसंख्यया ।
क्रमागमज्ञशिष्याणामात्मवत् समुदीरितम् ॥ १५ ॥

अन्येषां योगिशक्तीनामेक ग्रन्थिसरान् नव ।
परिधानप्रमाणेन मण्डपस्यैकसूत्रतः ॥ १६ ॥

सरग्रन्थ्यंगुलैर्युक्तं षण्णवत्या तु संख्यया ।
कृत्वा पवित्रत्रितयं तानि देव्यै समर्पयेत् ॥ १७ ॥

उक्तमानत्रयेऽप्येकं ग्राह्यं भवति सर्वतः ।
न कुर्यान्मानसाङ्कर्य यदि कुर्याद्विनश्यति ॥ १८ ॥

इति ॥ अस्यार्थः : तत्र श्रावणे मासि पूर्णायां पवित्रारोपणं कर्म कुर्यात् । अत्र श्रावणे मासीत्युपलक्षणम् । मिथुनसंक्रमणमारभ्य तुलासंक्रमणपर्यन्तं पवित्रोत्सवस्य कालः । तिथयस्तु पक्षद्वयेऽपि चतुर्थ्यष्टमीनवमी चतुर्दशी पूर्णिमा चेति । अत्रोत्तरोत्तरं गौणः कालः । पवित्राणि तु सुवर्णरूप्यताम्रपट्टसूत्रत्रसरीपद्मसूत्रदर्भभुजशाणसूत्र- वत्कलकार्पाससूत्रेष्वन्यतमेव सूत्रेण कुर्यात् । कार्पाससूत्रं सुवासिनीभिः कर्तितं त्रिगुणं त्रिगुणीकृत्य नवसूत्रस्यैकसरत्वेन कल्पितैरुक्तसंख्यैः सूत्रैः पवित्राणि कुर्यात् । तत्र षोडशांगुलदैर्घ्याणि षोडशसूत्रैः षोडशग्रन्थियुक्तानि नवांगुलदैर्घ्याणि नवरसग्रन्थियुक्तानि वा कुर्यात् । यस्मिन्नावरण यावत्यः शक्तयस्तत्संख्यांगुलसरग्रन्थियुक्तानि वा पवित्राणि कुर्यात् । तत्रावरणशक्तिसंख्यांगुलादिपक्षे मूलदेव्याः षोडशांगुलायामादि पञ्चदशनित्यानां पञ्चदशांगुलादिकं वाराहीकुरुकुल्लयोश्च मूलदेव्या इव पवित्राणि कुर्यात् ।
आयुधानामष्टांगुलदैर्घ्यसरग्रन्थियुक्तानि गुरुपंक्तित्रयस्य तत्तदोधोक्तगुरुसंख्यांगुलादिकं नवांगुलादिकं वा पवित्राणि कुर्यात् । इत्थं श्रीचक्रे पूज्यदेवतावृन्दसमसंख्यातानि पवित्राणि उक्तपक्षेष्वेकपक्षानुसारीणि कृत्वाष्टोत्तरशतसरग्रन्थियुक्तमेकं वितानात् पूजाविष्टरमानदैर्घ्यं बृहत्पवित्रमात्मनः क्रमागमज्ञशिष्याणां च स्कन्धादिनाभिपर्यन्तदैर्घ्यमङ्गीकृतपक्षानुसारिसरग्रन्थि (युक्त) मन्येषां सामान्ययोगिशक्तीनामेकग्रन्थिनवसरयुक्तानि मण्डपस्यैकसूत्रेण वेष्टनप्रमाणं ग्रन्थिरहितं पवित्रं कुर्यात् । अत्रावरणशक्तिसमसंख्यांगुलादिपक्षे आत्मनः क्रमागमज्ञशिष्याणां च मूलदेवीवत् पवित्रेषु ग्रन्थयो मालामन्त्रेण कवचमन्त्रेण वा कार्याः । ग्रन्थिषु सूत्रवेष्टनसंख्या यथेष्टमेवेति । इत्थं पवित्राणि विधाय पवित्रारोपणदिनात् पूर्वदिने साधकः कृत्यनित्यक्रियो रात्रौ सामयिकैः सार्धं पवित्राणि पूजास्थानमानीय पवित्रस्थाने तु सिन्दूरादिना चतुरस्रवृत्तवेष्टितं नवयोनिचक्रं कृत्वा क्वचित्पात्रे तस्मिन् मण्डले पवित्राणि गोरोचनाकुंकुमरक्तचन्दनकस्तूरिकर्पूरपङ्कैर्लिप्तानि लाक्षागैरिकाद्यैर्ग्रन्थिस्थानेषु विचित्रितानि संस्थाप्य कार्पाससूत्ररचितपवित्राणि च एतेषां नवसूत्रेषु ओंकाराय नमः । ओं चन्द्रमसे नमः । ओं वह्नये नमः । ओंनागाय नमः । ओंब्रह्मणे नमः । ओंरवये नमः । ओंगुरवे नमः । ओंसदाशिवाय नमः ।
ओंसर्वदेवेभ्यो नमः । इति प्रतिसूत्रमेकां देवतां सम्पूज्य शिरोमन्त्रेणाभिमन्त्र्य हृन्मन्त्रेणाभ्युक्ष्यास्त्रमन्त्रेणावरुध्य पवित्रेषु मूलविद्याया षडङ्गैः सम्पूज्य सोडशनित्याश्च पूजयित्वा तेषु सुगन्धकुंकुमानि निःक्षिप्य पञ्चरत्नानि सर्वौषधीश्च निःक्षिपेत् । रत्नानि तु हीरकमुक्ताफलनील पद्मरागमरकताख्यानि । सर्षप कुष्ठ हरिद्रा दारुलोध्रमुस्तोशीरप्रियंगुमुराजटामांसी शिलीराख्याः सर्वौषधयः । ततो नववस्त्रयुगेनाच्छादयेदित्यधिवासनं विधाय परेद्युः साधकः कृतनित्यक्रियः समयिभिः सार्धं पूजास्थानं प्रविश्य पूजामण्डपं वितानादिभिरलंकृत्य पूजाविष्टरादूर्ध्वं वितानात् पूजाविष्टरपर्यन्तं शक्त्यवताराख्यं महापवित्रमालम्बयित्वा आसनपूजादिन्यासजातं विधाय प्राग्वत् कुम्भस्थापनं विधायार्घ्यस्थापनाद्यात्मपूजान्ते पीठपूजां विधाय पञ्चायतनी चेत् पञ्चायतनदेवताः सम्पूज्य पवित्रैः सम्भाव्य तस्मिन् कुम्भे देवीमावाह्य सर्वोपचारैरभ्यर्च्य नित्यपूजाक्रमेणैव रश्मिवृन्दं पवित्रैः सम्भाव्य तदङ्गहवनं नैमित्तिकं च कृत्वा गुरुं सन्तोष्य तस्मै पवित्रं समर्प्य पूर्णाहुतिं कृत्वा अग्नये पवित्रार्पणं विधाय गुर्वनुज्ञया स्वयमपि पवित्रधारणं कृत्वा दमनपूजावच्छक्तिसामयिकान् पवित्रदानादिभिर्भोजनताम्बूलदक्षिणादानादिभिश्च परितोष्य जपं नैमित्तिकत्वेन विधाय देवीं विसृज्य ब्राह्मणादीन् भोजनभूरिदक्षिणादिभिश्च परितोषयेत् । एतावत्कर्तुमशक्तश्चेत् षण्णवत्यंगुलावामसरग्रन्थियुक्तानि पवित्राणि त्रीणि कृत्वा प्राग्वत् कुम्भस्थापनादिपूर्वकं तानि देव्यै समर्प्य शेषं समापयेत् ॥ इति पवित्रारोपणविधिः ॥ कालीमते तु दक्षिणामूर्तिसंहितायाम् :

आषाढ उत्तमो मासः श्रावणो मध्यमः प्रिये ।
हीनो भाद्रपदो मासः पक्षौ सितसितेतरौ ॥ १ ॥

प्रथमं शुक्लपक्षस्तु तदलाभे सितेतरः ।
चतुर्दश्यष्टमीपूर्णमासीतिथिषु वै यजेत् ॥ २ ॥

इति ॥ तन्त्रराजे - (६ प० २० श्लो०)

अथ भाद्रपदे मासि पूर्णायां केतकोद्भवैः ।
प्रसूनैरर्चयैद् देवीं पूर्वोक्तविधिना युतम् ॥ १ ॥

इति । अस्यार्थः - भाद्रपदपूर्णायां केतकपुष्पैः साधिवासं विशेषपूजां कुर्यादित्यर्थः ॥ तथा -

आश्वयुज्यां विशेषस्तु दर्शान्तप्रतिपत्तिथिम् ।
आरभ्य पूजयेद् देवीं गन्धपुष्पोपहारकैः ॥ २ ॥

होमे शतादितद्वृद्ध्या पूर्णायां षट्शताधिकम् ।
सहस्रं जुहुयान्नित्यं जपं चैव समाचरेत् ॥ ३ ॥

कन्यकायां समावाह्य देवीं संपूज्य भक्तितः ।
हुत्वा भूषणवस्त्रादिदक्षिणां च समुद्वसेत् ॥ ४ ॥

एवमेकादितद्वृद्ध्या पूर्णान्तं पूजयेत् प्रिये ।
तेन विद्धान् भवेत् सिद्धो नृपतिं कुरुतेऽर्चकम् ॥ ५ ॥

इति ॥ अत्राश्वयुजे मासि शुक्लप्रतिपदमारभ्य पूर्णिमापर्यन्तं पञ्चदशतिथिषु प्रत्यहं नित्यपूजानन्तरं नैमिक्तिकत्वेन चक्रकमं सम्पूज्य प्रतिपत्तिथिमारभ्यैकादिवृद्ध्या प्रतिपदि द्विशतं द्वितीयायां त्रिशतं तृतीयायां चतुःशतमित्यादिजपहोमौ विधाय पूर्णिमायां षोडशशतानि जपित्वा षोडशशतानि होमं कुर्यात् । प्रतिपदादितिथिष्वेकादितद्वृद्ध्या पूर्णायां षोडश कन्या यथा भवन्ति तथा कन्यापूजनं च कुर्यात् । ततः प्रत्यहं प्रातः कन्यकानिमन्त्रणं कृत्वा पूजाजपहोमान्ते तां सुस्नातां समलंकृतां पूजास्थाने मृद्वासने समुपवेश्य तस्यां प्रागुक्तविधानाद्देवीमावाह्य सम्पूज्य वस्त्रालङ्करणभोजनताम्बूलदक्षिणादानादिभिः परितोष्य प्रणम्य विसृजेत् । एवं बहुकन्यापूजनेऽपि प्रत्येकं पूजनं कुर्यात् । अस्मिन्नेव मासि प्रतिपत्तिथिमारभ्य नवम्यन्तासु नवसु रात्रिषु विशेषपूजां कृत्वा एकादिवृद्ध्या जपादिकं च विधाय कुमारीपूजनं चैकादिवृद्ध्या कुर्यात् । तत्र नवरात्रे पूजने विशेषः ।
प्रतिपद्येकवर्षा द्वितीयायां द्विवर्षा एवं नवम्यां नववर्षा कन्या पूज्या ॥ तत्रापि तिथौ कुमारीः पूर्वदिनपूजिताश्च नवम्यां एकवर्षादिनववर्षान्ता नव कुमार्ययो यथा भवन्ति तथा पूजयेत् ।
तासां नामामि तु - प्रतिपदि शुद्धा । द्वितीयायां बाला । तृतीयायां ललिता । चतुर्थ्यां मालिनी । पञ्चम्यां वसुन्धरा । षष्ठ्यां सरस्वती । सप्तम्यां रमा । अष्टम्यां गौरी । नवम्याम् दूर्गा ॥ मन्त्रास्तु - ऐंह्रींश्रीं शुद्धायै नमः । ३ बालायै नमः । ३ ललितायै नमः इत्यादि नाममन्त्रैः पूजयेत् ॥ अत्र :

एकवर्षा तु या कन्या पूजार्थं तां विवर्जयेत् ।
गन्धपुष्पफलादीनां प्रीतिस्तस्या न विद्यते ॥ १ ॥

द्विवर्षकन्यामारभ्य दशवर्षान्तकन्यकाः ।
पूजयेदुक्तमाग्रेण तस्मात् साधकसत्तमः ॥ २ ॥

इति स्कन्दपूराणवचनाद् द्विवर्षकन्यामारभ्य दशवर्षान्तकन्यकाः पूजयेत् ॥ अथवा नवयौवनसंपन्ना यथोक्तलक्षणाः सुवासिनीर्वा नवरात्रिषु पूजयेत् । इति ॥ तासां नामानि तु - हृल्लेखा गगना रक्ता महोच्छुष्मा करालिका इच्छा ज्ञाना क्रिया दुर्गा चेति ॥ अत्रापि मन्त्रास्त्रितारान्त हृल्लेखायै नम इत्यादयः ॥

अथ पूज्यापूज्यकुमारीणां लक्षणानि । तत्र प्रथमं पूज्यानां लक्षणानि श्रीकुलार्णव -

अरोगिणीं सुपुष्टाङ्गीं सुरूपां व्रणवर्जिताम् ।
एकवंशसमुद्भूतां कन्यां सम्यक् प्रपूजयेत् ॥ १ ॥

इति ॥ अथापूज्यकुमारीलक्षणानि तत्रैव -

हीनाधिकाङ्गी दुष्टां च विशीलकुलसंभवाम् ।
ग्रन्थिस्फुटितशीर्णाङ्गीं रक्तपूयव्रणाङ्किताम् ॥ २ ॥

जात्यन्धां केकरां काणी कुरुपां तनुलोमशाम् ।
संत्यजेद् रोगिणीं कन्यां दासीगर्भसमुद्भवाम् ॥ ३ ॥

इति ॥ अथ फलविशेषे पूज्यकुमारीविशेषः । तत्र स्कान्दे -

ब्राह्मणीं सर्वकार्येषु जयार्थे नृपवंशजाम् ।
लाभार्थे वैश्ववंशोत्थां सुतार्थे शूद्रवंशजाम् ॥ १ ॥

दारुणे चान्त्यजातीयां पूजयेद्विधिना नरः ।

इति । अथ पूज्यसुवासिनीलक्षणानि श्रीकुलार्णवे -

सुरूपा तरुणी शान्तानुकूला मुदिता शुचिः ।
शङ्काहीना भक्तियुक्ता गूढशास्त्रोपयोगिनी ॥ १ ॥

अलोलुपा सुशीला च स्मितास्या प्रियवादिनी ।
गुरुदैवतसद्भक्ता सुचित्ता कौलिकप्रिया ॥ २ ॥

विमत्सरा विशेषज्ञा देवताराधनोत्सुका ।
मन्त्रतन्त्रसमायुक्ता समयाचारपालिका ॥ ३ ॥

मनोहरा सदाचारा शक्तिरेषा सुलक्षणा ।
* * * * * * * * * * * * * * * * ॥ ४ ॥

इति ॥ अथा पूज्यसुवासिनीलक्षणानि तत्रैव -

दुष्टोग्रा कर्कशा स्तब्धा कुत्सिता कुलदुषिता ।
दुराचारा पराधीना भावहीना दुरालसा ॥ १ ॥

निद्रासक्तातिदुर्मेधा हीनाङ्गी व्याधिपीडिता ।
दुर्गन्धा दुःखिता मूर्खा वृद्धोन्मत्ता रहस्यभित् ॥ २ ॥

कुतर्का कुत्सितालापा निर्लज्जा कलहप्रिया ।
विरूपोन्मार्गगा क्रुद्धा पङग्वन्धा विकृतानना ॥ ३ ॥

ईदृशीं मत्रयुक्तां च शक्तिं यागे विवर्जयेत् ।

इति ॥ इयं नवरात्रपूजा चैत्रादिफाल्गुनान्तेषु द्वादशमासेषु चैत्राषाढाश्विनपौषमासचतुष्टये चैत्राश्विनमासयोर्वान्यतमे वा शुक्लपक्षेषु यथाविभवविस्तरं कार्या । तत्रापि नवरात्रकरणाशक्तौ तृतीयादिनवम्यन्तं सप्तरात्रं पञ्चम्यादिपञ्चरात्रं सप्तम्यादित्रिरात्रं वोक्ततिथिषु कुमारीपूजनादिभिर्नवरात्रोत्सवं कुर्यात् । एवमन्येऽपि नैमित्तिकपूजाविशेषा बहवः सन्ति । ते तु गुरुतः शास्त्रतश्च ज्ञातव्याः ॥ श्रीतन्त्ररात्रे (६ प० २५ श्लो०)

कार्तिके मासि पूर्णायां कुंकुमेन समर्चयेत् ।
रात्रौ प्रदीपकैर्होमं कुर्याद् घृतसमेधितैः ॥ १ ॥

देव्यग्रे स्थापयेद् दीपान् विद्यया षोडश क्रमात् ।
शक्तीनामेकमेकं तु स्थापयेत् तत्तदग्रतः ॥ २ ॥

अथवा भाजने मध्ये त्वेकं तमभितो नव ।
कृत्वा निवेदयेन्मूलविद्यया सप्रसूनकम् ॥ ३ ॥

इति ॥ अयमर्थः - तत्र कार्तिकपूर्णायां कुंकुमेन देवीं सम्पूज्य रात्रौ कुण्डस्थण्डिलादौ अग्निस्थापनं कृत्वा पिष्टमयैर्घृतपूरितैः कर्पूरवर्तिदीपितैः प्रदीपैर्नित्यहोमक्रमेणैव हुत्वा साङ्गायै सावरणायै देव्यै दीपदानं च कुर्यात् । तत्र सुसमे भूतले सिन्दूरादिना विपुलं श्रीचक्रं विरच्य तत्र देवीमावाह्य सम्पूज्य मध्ये बिन्दुचक्रे षोडश दीपान् शर्करादुग्धमिश्रयवगोधूमादिपिष्टरचितान् कर्पूरगर्भवर्तिकान् घृतपूरितान् प्रज्वलितान् मूलविद्यया मूलेदेव्यग्रे स्थापयित्वोत्सृज्य नित्यादिश्रीचक्रपूज्यसमस्तदेवताभ्यस्तत्तत्पूजास्थाने तत्तदग्रे तत्तन्मन्त्रेण एकमेकं स्थापयित्वोत्सृजेत् । एतावत्करणाशक्तौ एकस्मिन् स्वर्णादिपात्रे नवयोनिचक्रमष्टदलं कमलं वा कुंकुमादिना निर्माय तस्मिन् यथोक्तरूपान् नव दीपान् मध्येऽष्टसु योनिषु दलेषु वा संस्थाप्य देवीमभ्यर्च्योत्सृज्य समर्पयेदित्यर्थः ॥ तथा :

मार्गशीर्षे च पूर्णायां नारिकेलाम्बुचन्द्रयुक् ।
निवेद्याभ्यर्चयेन्माषपिष्टापूपैर्यथाविधि ॥ ४ ॥

इति ॥ मार्गशीर्षपूर्णिमायां कर्पूरयुक्तनारिकेलजलैरर्घ्यस्थानं विधाय सुगन्धपुष्पादिभिः सम्पूज्य माषपिष्टनिर्मितापूर्पैर्नैवेद्यं च कुर्यात् । तथा :

पुष्ये मासि च पूर्णायां शर्कराभिर्गुडेन वा ।
पूजयेदिष्टसंसिद्ध्यै गव्यं दुग्धं निवेदयेत् ॥ ५ ॥

इति ॥ पौषपूर्णिमायां शर्कराभिस्तदभावे तु गुडेन सम्पूज्य गोसम्बन्धि दुग्धं काङ्क्षितावाप्तये निवेदयेत् । तथा :

माघे मासि च पूर्णायां तिलैः शुक्तैस्तथेतरैः ।
पूजयेद्दुग्धनैवेद्यैः सितापुपादिभिः सदा ॥ ६ ॥

इति ॥ तत्र माघे मासि पूर्णिमायां शुक्लैः कृष्णैर्वा तिलैर्देवीं सावरणां सम्पूज्य शर्करादुग्धापूपादिनैवेद्यं निवेदयेत् ॥ तथा :

फाल्गुने मासि पूर्णायां पङ्कजैः स्वर्णराजतैः ।
चूतसौगन्धिमधुकैः पूजयेदीप्सिताप्तये ॥ ७ ॥

इति ॥ तत्र फाल्गुने मासि पूर्णायां पङ्कजैः सुवर्णरजतपुष्पैश्च देवीं संपूजयेत् ॥ तथा -

विषुवायनदर्शासु युगादिषु समर्चनम् ।
कुर्याद्वैशेषिकं पुण्येष्वागमोक्तेषु तेष्वपि ॥ ८ ॥

इति नैमित्तिकपूजा ॥

अथ कालीमते पूर्णाभिषेकविधौ तु प्राग्वत् कुण्डमण्डपवेदिकादिकं च कुर्यात् । अत्र विशिषस्तु - सप्तविंशतिहस्तप्ररिमितं मण्डपं विधायाष्टदिक्षु कुण्डानि मध्ये नवहस्तपरिमितां वेदीं विधाय वेद्यां श्रीचक्रं निर्माय कलशस्थापनादिकं सर्वं प्राग्वत् विधाय गुरुः प्रातः कृत्यादिपीठन्यासान्तं कर्म विधाय महाशक्तिन्यासं कुर्यात् ॥ तत्र प्रथम जगच्छून्याकारं

निरालम्बं ध्यात्वा हूं पृथिव्यै नमः इति स्वासनाधः पृथिवीं सम्पूज्य स्वासनं वामहस्तेन स्पृशन् भुवनेश्वरीबीजं सप्तवारं जपित्वा ४ ओं जयायै नमः । ४ ओं विजयायै नमः । ४ ओं जयन्त्यै नमः । ४ ओं अजितायै नमः । ४ ओं अपराजितायै नमः । ४ ओं सङ्गमायै नमः । ४ ओं रम्भायै नमः इति स्वासने सप्तशक्तीः सम्पूजयेत् ।
मूलेन प्राणायामत्रयं कृत्वा ओं अस्य महाशक्तिन्यासस्य परशिव ऋषिः अतिजगती छन्दः श्रीपराशक्तिर्देवता ऐं बीजं श्रीं शक्तिः सौः कीलकं श्रीविद्याङ्गत्वेन महाशक्तिन्यासे विनियोगः ।
ऋष्यादिकं विन्यस्य द्विरावृत्त्या तारत्रयस्य करषडङ्गन्यासं विधाय न्यासं कुर्यात् । तत्र योनौ ओं ऐंह्रींश्रीं नमः । नाभौ ४ ह्रांहींह्रूं नमः । कराग्रयोः क्लांक्लींक्लूं नमः । हृदये ४ ह्रांह्रींह्लूं नमः । ललाटे ४ सांसींसूं नमः । कर्णयोः ४ हांहींहूं नमः । भुजमूले ४ द्रांद्रींद्रूं नमः ।
बिन्दु(चिबु)काग्रे ४ सौःश्रींक्षौं नमः । ब्रह्मरन्ध्रे ४ ऐं आंसौः अंनमः इति विन्यस्य अकारादिक्षकारान्तानां सर्वेषां वर्णानां मूलभूतमकारं दुग्धस्य सर्पिर्वत्सूक्ष्मरूपेण स्थितं विभावयन् तन्मयानन्यवर्णान् वक्ष्यमाणेषु स्थानेषु विन्यसेत् । तत्र तालुके ४ ऐं ईंसौः आं नमः । नासाग्रे ४ । ३ इं नमः ।
पश्चिमलिङ्गे सीवन्यां मूलाधारगतज्योतिर्लिङ्गे वा ४ । ३ ईं नमः ।
गुदे ४ । ३ उंनमः । पृष्ठे ४ । ३ ऊं नमः । कटिसन्धौ ४ । ३ ऋं नमः ।
वृषणान्ते ओं ३ । ३ ॠं नमः । पृष्ठमध्ये ओं ३ । ३ ऌं नमः ।
लम्बिकास्थाने ४ । ३ ॡं नमः । सर्वाङ्गे ओं ३ । ३ एं नमः ।
पुनर्बिन्दुपरिगतत्रिरेखायां योनौ न्यासभावनया सर्वाङ्गे ओं ३ । ३ ऐं नमः इति विन्यस्य

योनिरित्युच्यते शक्तिरेषा ब्रह्माण्डभेदिनी ।
लेपं विलीनयेद् देहे रेफो बिन्दुरिति स्मृतः ॥ १ ॥

द्वासप्ततिसहस्रेषु नाडीभेदेषु पञ्जरम् ।
व्याप्यमाना महाशक्तिः कामिनीनामृतुक्रमे ॥ २ ॥

नाडीचक्रागतं रक्तं योनिमार्गे निपातितम् ।
पुष्पीभूते भगे पुष्पं मासपक्षादिषु क्रमात् ॥ ३ ॥

ऐंकारोऽपि स्वयं योनिर्नात्र कार्या विचारणा ।
न्यस्तं वाप्यत्र देवेशि त्रैलोक्यं सचराचरम् ॥ ४ ॥

इत्यन्तं श्लोकसमुदायस्यार्थं चिन्तयन् महाकामकलायां ब्रह्मरन्ध्रस्थायां लयं भावयित्वा ब्रह्मरन्ध्रे ओं ३ । ३ ओं नमः ।
नादमध्ये ओं ३ । ३ ओं नमः । नादान्ते ओं ३ । ३ अं नमः । कण्ठे ओं ३ । ३ अः नमः । हृदि ओं ३ । ३ कं नमः । एवं मस्तके खं नमः ।
जङ्घयोः गं नमः । स्तनयोः घं नमः । नासिकान्ते ङं नमः ।
आज्ञायां चं नमः । वामकुक्षौ छं नमः । दक्षिणकुक्षौ जं नमः । ऊरुमूलयोः झं नमः । दन्तपंक्त्योः ञं नमः ।
जिह्वाग्रे टं नमः । मुखे ठं नमः । कक्षयोः डं नमः ।
अस्थिसन्धिषु ढं नमः । चित्ते णं नमः । नाभौ तं नमः । ललाटे थं नमः । कर्णरन्ध्रयोः दं नमः । कपोलयोः धं नमः ।
नयनयोः नं नमः । श्वेतसहस्रदलकमले पं नमः । हृत्पद्मे फं नमः । स्कन्धयोः वं नमः । भ्रूमध्ये भं नमः ।
हनुमूले मं नमः । तालुमुले यं नमः । लिङ्गगुदयोर्मध्ये रं नमः । जिह्वायां लं नमः । सर्वाङ्गे वं नमः ।
वामादिदक्षिणशिरःपर्यन्तमापादतलवेष्टनत्वेन शं नमः ।
तालुमूले षं नमः । सर्वाङ्गे सं नमः । ब्रह्मरन्ध्रे हं नमः ।
हस्तपादयोः सर्वांगुलीषु क्षं नमः ।
प्रागुक्तमूलाधारस्थितकुण्डलिन्यां ओं ३ । ३ इति विन्यस्य ओं ३ । ३ समस्तमातृकामुच्चरन् तां कुण्डलिनीं सुषुम्नावर्त्मना षट्चक्रभेदक्रमेण ब्रह्मरन्ध्र नीत्वा तत्रस्थाकुलसहस्रदलकमलकर्णिकामध्यस्थितपरमात्मनि शिवे विलीनां सम्भाव्य ओं ३ । ३ रक्षरक्ष शूलिनि त्रैलोक्यानन्ददायिनि त्रिपुरे देवि रक्ष मां त्रिपुरेश्वरि रक्षरक्ष महादेवि अस्मदीयमिदं वपुः ऐंह्रींश्रीं हसफ्रें ह्सौः २ हसफ्रें श्रींह्रीं-ऐंश्रीं समयिनि मदिरानन्दसुन्दरि समस्तसुरासुरवन्दिते भुजङ्गभूपालमौलिमालालंकृतचरणकमले विकटदन्तच्छटाटोपनिवारिणि मदीयं शरीरं रक्षरक्ष परमेश्वरि हूंफट् स्वाहा ओंभूःस्वाहा ओंभुवःस्वाहा ओं स्व स्वाहा ओंभूर्भुवःस्वःस्वाहा नरान्त्रमालाभरणभूषिते महाकौलिनि महाब्रह्मवादिनि महाधनोन्मादनकारिणि महाभोगप्रदे अस्मदीयं शरीरं वज्रमयं क्रुकुरु द्र्जनान् हनहन दुष्टमहीपालान् भक्षयभक्षय परचक्रं भञ्जयभञ्जय जयङ्करि गगनगामिनि त्रैलोक्यस्वामिनि यमलवरयूं भमलवरयूं वमलवरयूं शमलवरयूं श्रीभैरवि प्रसादय स्वाहा ।

कुलाङ्गनाकुलं सर्वं मदीयं त्रिपुरेश्वरि ।
देवी रक्षतु दिव्याङ्गी दिव्यात्मा भोगदायिनी ॥ १ ॥

रक्षरक्ष महादेवी शरीरं परमेश्वरि ।
मदीयं मदिरानन्दे आपादतलमस्तकम् ॥ २ ॥

इत्यात्मरक्षां कृत्वा

त्रिपुराख्या महादेवी भुक्तिमुक्तिफलप्रदा ।
न गुरोः सदृशं वस्तु न देवः शङ्करोपमः ॥ ३ ॥

नच कौलात्परो योगो न विद्या त्रैपुरीसमा ।
नच शान्तेः परं ज्ञानं नच क्षान्तेः परं सुखम् ॥ ४ ॥

नच शक्तिसमो न्यासो न विद्या त्रैपुरीसमा ।
दर्शनेषु समस्तेषु पाखण्डेषु विशेषतः ॥ ५ ॥

दिव्यरूपा महादेवी सर्वत्र परमेश्वरि ।

इति मन्त्रविद्ययोर्महिमानं स्मृत्वा पीठोपपीठशिरःस्था गगनगिरिभुवनगिरिभुवनगोकुलनिवासिनी जयति कुलसशक्तिमहीतलपातालनिवासिनी कुलकौलविभेदिनी सकलजनमन- आनन्दकारिणी करोतु मम चिन्तितं कार्यं भैरवीशतमेकं पुनातु परमेश्वरी मदनमण्डलालम्बिनी सप्तकोटिसहस्राणां मन्त्राणां परमेश्वरी । इति मन्त्रं सकृज्जपित्वा

ऐंनमो भगवति त्रिकोणे त्रिधावर्ते महालिङ्गालंकृते त्रैलोक्योत्पत्तिस्थितिप्रलयकारिणी सहलह्रीं कन्दर्पानन्ददायिनि सहह्रीं ब्रह्मदण्डरेखे सहह्रौं चित्स्वरूपेण पाशांकुशालंकृते वदवद वाग्वादिनि श्रीं मूष्टमहपालराज्यप्रदे ऐं वं वरदाशिवहस्ते समस्तजनानन्दकारिणि क्लीं क्लीं कामराजबीजाश्रये द्रांद्रींक्लींव्लूंसः क्षोभय क्षोभय क्षोभिणि हसौः हसः ह्सौः मथमथ अभयप्रदायिनि चतुर्भुजे त्रिनेत्रे प्रेतासनोच्चारिणि महाकपालमालालंकृते चन्द्रशेखरे त्रिपुरे भुक्तिमुक्तिफलप्रदे ओं ऐं ओंनमः सिद्धं अं ५१ क्षमित्यादिविलोमेनाकारान्तं ५१ द्धंसिमःन ओं ऐं ओं सर्वबीजमातः श्रीसमयिनि मम मनोरथं देहिदेहि स्वाहा ॥ एवं जपित्वा ऐं-ईंसौःश्रीमन्त्रराजाय नमः इति त्रैपुरमन्त्रस्य पूजां विधाय त्रिपुरादिमहानाम्ना त्रयोदशविद्याः पूजयेत् । (१) ओं ऐंसहौ सहलह्रीं सहह्रौः ऐंसहह्रीं सहहूं कामत्रिपुरायै नमः । (२) ओं ऐंह्रींक्लींहसौः त्रिपुरभैरव्यै नमः । (३ ) ओं ३ ऐंह्रींसः वाक्त्रिपुरायै नमः । (४) ओं ऐंह्रींश्रींसौः महालक्ष्म्यै त्रिपुरायै नमः । (५) ओं ऐंप्रेंक्लीं मोहिन्यै त्रिपुरायै नमः । (६) ओं ऐंक्लींब्लूंस्त्रीं भ्रामरीत्रिपुरायै नमः । (७) ओं ३ ऐंह्रींश्रींप्रेंहसौः त्रैलोक्यस्वामिन्यै त्रिपुरायै नमः । (८) ओं ऐंडांडींडूंडैंडौंडः हंस्यै त्रिपुरायै नमः । (९) ऐं ऐं ऐं सौः कौलिकायै त्रिपुरायै नमः । (१०) ऐं ऐं सौः षण्डिकायै त्रिपुरायै नमः । (११) ऐं ऐं सौः तालुमध्यमायै त्रिपुरायै नमः । (१२) ऐं ऐं सौः कपालांकुरवासिन्यै त्रिपुरायै नमः (१३) ठःठःठ ॥ यथाशक्ति जपित्वा रक्तपुष्पैः शिरसि ऐं ईं सौः आत्मदेहाय नमः इति गन्धाक्षतैश्च सप्तधा सम्पूज्य धूपदीपौ निवेद्य तस्मिन्नेव त्रैपुरे देहे ऐं ईं सौः इति वनिताक्षोभकरीं महाकामकलां ध्यायेत् ॥ ततः श्लोकशतकं न्यासानुसन्धानेन पठेत् । तत्र :

शक्तिरुद्रमयं देहं मदीयं त्रिपुरे कुरु ।
देहि मे देवदेवेशि (वरं नि)त्यमभीप्सितम् ॥ १ ॥

मस्तकं मङ्गलादेवी ललाटं कुलसुन्दरी ।
नेत्रयुग्मं महाकाली कर्णौ रक्षतु कुण्डली ॥ २ ॥

कपाली कर्णगर्भं तु कपोलो कमलावती ।
दन्तान् रक्षतु चामुण्डा चिबुके मेरुवासिनी ॥ ३ ॥

भ्रूमध्यं कण्ठदेशं च रक्षेन्मे भुवनेश्वरी ।
जिह्वां सरस्वती रक्षेत् तालुक तालुवासिनी ॥ ४ ॥

स्थातु मे कपिला स्कन्धे स्कन्धां(वामां)से कुलमालिनी ।
कुक्षौ विनायकी स्थातु जयानन्दा स्तनदये ॥ ५ ॥

कण्ठकूपे महालक्ष्मीर्हृदये चण्डभैरवी ।
ब्रह्माणी नाभिदेशे तु स्थातु ज्वालावती गुदे ॥ ६ ॥

लिङ्गे लिङ्गप्रभा चैव मुण्डिनि मेदमण्डले ।
नाडीचक्रे महायोगा उद्भटा दक्षिणे करे ॥ ७ ॥

वामहस्ते महामाया विद्या हस्तांगुलीषु च ।
वैष्णवी वामपादे च स्थातु चक्रायुधान्विता ॥ ८ ॥

तथा दक्षिणपादान्ते एकपादा सुरेश्वरी ।
पादांगुलीषु कौवेरी रोमकूपे महाद्भटा ॥ ९ ॥

मण्डली नस्यमूले तु वाराही मेदमण्डल ।
जालन्धरी जलस्थाने कामाक्षी काममध्यगा ॥ १० ॥

उद्भटा नाभिलिङ्गान्ते नासाग्रे पूर्णपीठगा ।
पृष्ठवंशे जयादेवी अस्थिसन्धिषु चर्चिका ॥ ११ ॥

चर्मधारी त्वचायां तु स्थातु नित्यं महायशाः ।
रक्तमध्ये मनोऽन्ते च स्थातु मे हिंसिनी शुभा ॥ १२ ॥

माहेश्वरी च कौमारी द्वै चैते स्थातु जङ्घयोः ।
वामदक्षिणयोश्चैव वीराली कटिसन्धिषु ॥ १३ ॥

देवी रक्षतु मे गात्रं मस्तकं कुलकामिनी ।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ १४ ॥

पञ्चभूतेषु भूतेशी सदा रक्षतु मे कुलम् ।
राज्यं ददातु मे चैन्द्री प्रजां चैव प्रजावती ॥ १५ ॥

माया ददातु मे नित्यं धनं धान्यं यशस्तथा ।
रणे राजकुले चैव शत्रुमध्ये महावने ॥ १६ ॥

रक्तनेत्रा महादेवी करोतु मम चिन्तितम् ।
समया समयं रक्षेद्विद्यां विद्या कुलागमे ॥ १७ ॥

साधकानां जगन्नाथा भुक्तिमुक्तिफलप्रदा ।
प्राणा करोतु मे सिद्धिं त्रैलोक्यविजया सुखम् ॥ १८ ॥

घण्टाली या महाविद्या सा मे यच्छतु मङ्गलम् ।
सप्तकोटिसहस्राणां मन्त्राणां नायिका तु या ॥ १९ ॥

सा मे सुरेश्वरी देवी सदा सिद्धिं प्रयच्छतु ।
उल्कामुखा मुखे स्थातु मार्जारी देहसन्धिषु ॥ २० ॥

भद्रकाली तु या विद्या सा मे स्थातु शिवामये ।
त्रिकोणं च त्रिधावर्तं त्रैपुरं चक्रमुत्तमम् ॥ २१ ॥

मस्तके स्थातु मे नित्यं तस्यान्ते बहुरूपिणी ।
पूर्वोक्ता त्रैपुरी शक्तिः स्थातु मे मन्मथोत्थिता ॥ २२ ॥

क्षोभवती जगत्सर्वं मदिरानन्दविह्वला ।
निवासं कुरु मे देहे सांप्रतं दिव्ययोगिनी ॥ २३ ॥

एह्येहि त्व महादेवी सिद्धयोगिनी मे कुले ।
शत्रूणां घातनार्थाय जेतॄणां भोगदायिनी ॥ २४ ॥

महायोगिनी दहेऽस्मिन् सर्वदा निलयं कुरु ।
माहेन्द्री च सिखां स्थातु योनिमध्ये गणेश्वरी ॥ २५ ॥

प्रेताशी नाम विख्याता करोतु कुशलं मम ।
डाकिनी पूर्वभागे च मम सौख्यं प्रयच्छतु ॥ २६ ॥

शाकिनी पश्चिमाङ्गेषु दक्षिणे चापि रा(क्षसी?किणी) ।
वामभागे महामाया करोतु कुशलं मम ॥ २७ ॥

सास्मदीयं शिरः पातु सदा तिष्ठतु भैरवी ।
या विशाला विशालाक्षी निर्मला मलवर्जिता ॥ २८ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
या कालकल्पिता काली कालरात्री तु कथ्यते ॥ २९ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
या निशाचरराजन्यपूजिता च निशाचरी ॥ ३० ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
या चोर्ध्वकेशिका नाम मुक्तकेशी महाभया ॥ ३१ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
या वीरेति समाख्याता वीराणां जयदायिनी ॥ ३२ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
या मालिनी समाख्याता नासाग्रे विद्रुमाजिनी ॥ ३३ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
या कङ्कालकरालाङ्गी चण्डकङ्कालकुण्डला ॥ ३४ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
प्रचण्डा च विरूपाक्षी विरूपा विश्वरूपिणी ॥ ३५ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
खट्वाङ्गी कथ्यते या च रौद्री रुद्रेण पूजिता ॥ ३६ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
कलियागिनी प्रसिद्धा च या लोके श्रूयते कलौ ॥ ३७ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
प्रेताक्षी कथ्यते या च फेत्कारोकटवर्जिता(?) ॥ ३८ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
धूम्राक्षी या समाख्याता शास्त्रेऽस्मिन् योगिनीमते ॥ ३९ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
घोररूपा महादेवी कथ्यते या कुलागमे ॥ ४० ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
विश्वरूपा विशेषेण करोति च जगत्त्रयम् ॥ ४१ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
भयङ्करी समादिष्टा या चोक्ता वै कुलागमे ॥ ४२ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
कपालमालिका प्रोक्ता या देवी मुण्डधारिणी ॥ ४३ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
भीषणा भैरवी नाम या देवी भीमविक्रमा ॥ ४४ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
न्यग्राधवासिनी या च कथ्यते च सुरार्चिता ॥ ४५ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
भैरवी भीषणी या च भैरवाष्टकवन्दिता ॥ ४६ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
प्रोच्यते दीर्घलम्बोष्ठी महामाया महाबला ॥ ४७ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
खट्वाङ्गी या महाशक्तिः संसारार्णवतारिणी ॥ ४८ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
समस्तेषु मन्त्रेषु प्रोच्यते मन्त्रवादिनी ॥ ४९ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
कालघ्नी कथ्यते या च युगान्ते परमेश्वरी ॥ ५० ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
ग्राहिणीति समाख्याता सुरासुरमहोरगैः ॥ ५१ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
चक्रिणी गद्यते या च एकपादा त्रिलोचना ॥ ५२ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
या विश्वबाहुका देवी विश्वनाथप्रिया सदा ॥ ५३ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
दर्शनेषु समस्तेषु विदिता परमेश्वरी ॥ ५४ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
कण्टकोच्छेदनार्थाय शास्त्रे या कण्टकी स्मृता ॥ ५५ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
कीलकी कथ्यते या च सप्तहस्ता महाबला ॥ ५६ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
संग्रामे या महादेवी महामारीति कथ्यते ॥ ५७ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
यमदूतीति विख्याता या सुरासुरपूजिता ॥ ५८ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
करालिनीति या देवी महाविद्या महाबला ॥ ५९ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
ललिताम्बा महाराज्ञी सर्वचक्रैकनायिका ॥ ६० ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
नासाग्रे कौलिका स्थातु मदनस्या तथा मुखे ॥ ६१ ॥

व्योमजङ्घे कपोले च गालके चापहारिणी ।
सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ॥ ६२ ॥

द्राविणी क्षोभिणी चैव स्तम्भिनी मोहिनी तथा ।
रौद्रकर्मा महाघण्टा चमरी त्वरिता मतैः ॥ ६३ ॥

रौद्री च कुलमाता च काकदृष्टिरधोमुखी ।
कपालकुण्डलो दीर्घा कपाली कुलगामिनी ॥ ६४ ॥

दैवी रक्षतु मे गात्रं मस्तकं कुलमालिनी ।
भुमिरापस्तथा तेजो वायुराकाशमेव च ॥ ६५ ॥

पञ्चभूतेषु भूतेशी सदा रक्षतु मे कुलम् ।
राज्यं ददातु मे चैन्द्री प्रजां चैव प्रजावती ॥ ६६ ॥

माया ददातु मे नित्यं धनं धान्यं यशस्तथा ।
रणे राजकुले चैव शत्रुमध्ये महावने ॥ ६७ ॥

रक्तनेत्रा महादेवी करोतु मम चिन्तितम् ।
समया समये रक्षेत् विद्यां विद्या कुलागमे ॥ ६८ ॥

साधकानां जगन्नाथा भुक्तिमुक्तिफलप्रदा ।
द्विजटी त्रिजटी प्रोक्ता कन्दली ललिताखिला ॥ ६९ ॥

गायत्री चाम्बिका तारा पार्वति कमलप्रभा ।
मादिनी मदनोन्मादा मन्दारी मदनातुरा ॥ ७० ॥

भीषणा भीषणी नाम प्रेतसिद्धा विभिषणा ।
क्षुधा तृष्णा तथा निद्रा कान्तिर्बुद्धिस्तथा द्युतिः ॥ ७१ ॥

सन्ध्या धृती रतिः क्षान्तिर्ह्यनिशं परिपठ्यते ।
सुरनाथेति विख्याता नगरेतरदेवता ॥ ७२ ॥

ग्रामदेवी ह्यधिष्ठात्री पीठे पीठेश्वरीं विदुः ।
कावेरी नर्मदा चैव गङ्गेति यमुनोच्यते ॥ ७३ ॥

गोदावरी महापुण्या प्रोच्यते चाप्यरुन्धती ।
त्रैलोक्येऽपि महादेवी स्त्रीनाम्नी या प्रकाशिता ॥ ७४ ॥

सा देवी रूपलक्षे तु स्थातु श्रीर्हृदये मम ।
सुवर्णरेखिणी प्रोक्ता विद्या या प्रोच्यते किल ॥ ७५ ॥

निर्मूलिनी भुजङ्गानां सा करोतु सुखं मम ।
कुरुकुल्लेति विख्याता पक्षिराजमुखोद्भवा ॥ ७६ ॥

या विद्या सा महारूपा जिह्वाग्रे स्थातु मे सदा ।
ओंकारिणीति विख्याता देहे स्थातु सदा मम ॥ ७७ ॥

विद्यापहारिणी नाम कलिरूपविदारिणी ।
भेरुण्डा स्थातु मे कण्ठे तोरला स्थातु मस्तके ॥ ७८ ॥

तथा शवलरेखापि मूले स्थातु सदा मम ।
जाङ्गली विषनाशाय वाचां सिद्धिं करोतु मे ॥ ७९ ॥

सर्वसिद्धिकरी विद्या भुक्तिमुक्तिफलप्रदा ।
अहं ब्रह्मा अहं विष्णुरहं देवो महेश्वरः ॥ ८० ॥

सर्वभूतनिवासोऽहं लोके श्रीशक्तिचिन्तकः ।
शक्तिन्यासेन पूतेन शरीरेण सुरासुराः ॥ ८१ ॥

प्रधानादेशमात्रेण आशां (ज्ञां) कुर्वन्तु मे सदा ।
यत्किञ्चिद्योगिनीरूपं त्रैलोक्ये चास्ति शङ्कर ॥ ८२ ॥

तत्सर्वं तिष्ठते देहे शक्तिन्यासे उपासिते ।
कामिनी कुरुते चापि या न्यासं भक्तिनिर्मितम् ॥ ८३ ॥

तां देवीं दिव्यरूपस्थां संसारे त्रिपुरां विदुः ।
नमोऽस्तु ते जगन्मातर्नमोऽस्तु भुवनेश्वरि ॥ ८४ ॥

नमो भोगप्रदे देवी (नमस्तुभ्यं) महेश्वरि ।
प्रकटा गोपिताः सर्वा निर्वाणा भैरवी शिवा ॥ ८५ ॥

सम्भ्रमा विजया हंसा शुभा सानलदेवता ।
यक्षिणी चूडकन्या च तथा चाकाशगामिनी ॥ ८६ ॥

भूचरी चरिता कुम्भी सर्वागमनिवासिनी ।
चतुःषष्ट्याश्रया देवी योगिन्यो येन चिन्तिताः ॥ ८७ ॥

आधारे लीयमानास्तु स योगी योगविद्भवेत् ।
ललाटे मण्डला स्थातु विरजा स्थातु मस्तके ॥ ८८ ॥

एकाक्षी दक्षिणस्कन्धे वामे चैव त्रिलोचना ।
जयन्ती स्थातु मे कुक्षौ कट्याम् कन्दर्पकुण्डली ॥ ८९ ॥

मालिनी लिङ्गसन्धौ च हृदि स्यातु समाधिनी ।
अम्बिका पृष्ठवंशे च पार्श्वयोः स्थातु मेदिनी ॥ ९० ॥

दिग्गजाङ्गी कराग्रे च नागेन्द्री नखसन्धिषु ।
व्याघ्री चक्री च जङ्घायां स्यातु पादतले मही ॥ ९१ ॥

अमृता शङ्खिनी रन्ध्रे लोचने च विलासिनी ।
कालिन्दी मूलजिह्वां च रक्तं रक्षतु रक्तिनी ॥ ९२ ॥

लाङ्गली जङ्गली रक्षेदस्थिनी चास्थिसन्धिषु ।
मञ्जिनी देहमञ्जां तु शुक्रं शुक्रेश्वरी तथा ॥ ९३ ॥

त्वचं रक्षतु वेताली मम रोगप्रणाशिनी ।
रुद्घटा कुरुते शान्तिं सदैव मम विग्रहे ॥ ९४ ॥

पादा पादतले स्थातु पथि रक्षतु पन्थिनी ।
चोराग्निराजसर्पेभ्यो भयाद्रक्षतु भैरवी ॥ ९५ ॥

दुष्टानां दृष्टिबन्धं तु सदा करोतु बन्धिनी ।
चापेटी नाम या विद्या सा मे करोतु मङ्गलम् ॥ ९६ ॥

मर्कटी घण्टकर्णी च हनुमन्ती च रावणी ।
घुर्घुरा कीर्तिविख्याता वन्दे विद्याचतुष्टयम् ॥ ९७ ॥

चेटका ज्ञानदा विद्या कौमारी चरणावली ।
विघ्नराजैस्ततो नाम तुष्टा सन्तानरूपिणी ॥ ९८ ॥

मूलाधारस्थिता हंसी पातकी दलनोद्धता ।
दशैता मन्त्रविद्यास्तु तिष्ठन्तु मम मस्तके ॥ ९९ ॥

शुभा मे चाग्रतः स्थातु लोहिता स्थातु दक्षिणे ।
वामाङ्गं रतिकाले च पश्चिमे स्थातु शृङ्खला ॥ १०० ॥

शिखायां शङ्खिनी रक्षेद्वस्त्रे वस्त्रवती शुभा ।
कवचे कवचाङ्गी च नेत्रे नेत्रकृतोत्सवा ॥ १०१ ॥

तिष्ठन्ति योगिनीरूपास्त्रैलोक्ये सचराचरे ।
योगिन्यो यास्तु ताः सर्वा देहं कुर्वन्तु मे वपुः ॥ १०२ ॥

पुत्राणां च तदा देयं भक्तानां तु विशेषतः ।
शक्तिन्यासमिदं देयं न देयं यस्य कस्यचित् ॥ १०३ ॥

मनुष्याणां महीलोके चिन्तितार्थफलप्रदम् ।
यः करोति महान्यासं षोढान्यासादिकं विभो ॥ १०४ ॥

स जीवन् शक्तिरूपो वै त्रैलोक्योन्मूलनक्षमः ।
शक्तिन्यासे कृते जीवेद् यः कश्चिच्छेदको भवेत् ॥ १०५ ॥

कर्मणा मनसा वाचा तस्य घातो भविष्यति ।

इति शक्तिन्यासः ॥ एवं महाशक्तिन्यासं स्वयं कृत्वा शिष्यस्य कारयित्वान्तर्यागं कुर्यात् । तद्यथा : मूलेन प्राणायामत्रयं कृत्वा सामान्यार्घ्योदकेन स्वपुरतश्चतुरस्रं कृत्वा ओंह्रींहंसः सोऽहं स्वाहा इत्यात्ममनुना साधारं सकलशोदकमात्मप्रात्रं संस्थाप्य स्वदेहं शिष्यदेहं च श्रीचक्ररूपं विचिन्त्य अंकं ३६ शिवशक्तिसदाशिवेश्वर शुद्धविद्यारागकालनियतिविद्यापुरुषप्रकृत्यहङ्कारश्रोत्रत्वक्नेत्र- जिह्वाघ्राणमनोबुद्धिवाक्पाणिपादपायूपस्थ शब्दस्पर्शरूपरसगन्धाकाशवायवग्निसलिलभूमिजीवसर्वात्मने षट्त्रिंशत्तत्त्वात्मकाय श्रीमहात्रिपुरसुन्दरीयोगपीठाय नमः । इति पीठसमष्टिविद्यया हृदि पुष्पाञ्जलिं प्रक्षिप्य गन्धमाल्यादिभिर्भूषयित्वा देवीं सम्मुखीं हृदि ध्यात्वावाहनादिमुद्राः प्रदर्श्यासनाद्युपचारान् समर्प्य ध्यानपूर्वकं हृदि साङ्गामित्यादिना त्रिः सम्पूज्य सन्तर्प्य मूलेन गन्धादिताम्बुलान्तानुपचारान् समर्प्य तत्त्वचतुष्टयशोधनं कुर्यात् । यथा : ऐं अं १६ अःभूमिजीवसर्वात्मने अं आं ऐं इदं विष्णुर्विचक्रमे० (१ । २२ । १७) इदन्तापात्रसम्भूतमहन्तापरमामृतम् । पराहन्तामये वह्नौ जुहामि शिवरूपतः ॥ मूलं० आत्मतत्त्वात्मने स्थूलदेहं शोधयामि स्वाहा इत्यात्मपात्रान्तरेण किञ्चित् स्वीकृत्य क्लींकंखं इत्यादि २५ शिवशक्तिसदाशिवेश्वरशुद्धविद्यारागकालनियतिविद्यापुरुषप्रकृत्य हङ्कारश्रोत्रत्वक्नेत्रजिह्वाघ्राणमनोबुद्धिवाक्पाण्यात्मने कं २५ क्लीं सुरावन्तं बर्हि पदं सुषीरं यज्ञं हिन्वन्ति महिषा नमोभिः । दधानाः सोमं देवि देवतासु मादेमेन्द्रं यजमानाः स्वर्काः । अन्तर्निरन्तरनिरिन्धनमेधमाने मोहान्धकारपरिपन्थिनि सम्विदग्नौ । कस्मिश्चिद्भुतमरीचिविकासभूमौ

विश्वं जुहोमि वसुधादिशिवावसानम् ॥ मूलं० विद्यातत्त्वात्मने सूक्ष्मदेहं शोधयामि स्वाहा इति । पूर्ववत् किञ्चित् स्वीकृत्य सौःयंरं १० पादपायुपस्थशब्दस्पर्शरूपरसगन्धाकाशवायवग्निसलिलात्मने यं १० वाममद्यसवितर्वामसु श्वो दिवे दिवे वाममस्मभ्यं सावीः । वामस्य हि क्षयस्य देव भूरे रया धिया वामभाजः स्याम (य० ८ ।
६) ॥ तृष्यन्तु मातरः सर्वाः भैरवाः सविनायकाः । क्षेत्रपालाश्च योगिन्यो मम देहे व्यवस्थिताः ॥ मूलं शिवतत्त्वात्मने कारणदेहं शोधयामि स्वाहा इति पूर्ववत् किञ्चित् स्वीकृत्य ऐंक्लींसौः-अं ५१ भूमिजीवसर्वा मशिवशक्तिसदाशिवेश्वरशुद्धविद्यारागकालनियतिविद्यापुरुषप्र- कृत्यहङ्कारश्रोत्रत्वक्नेत्रजिह्वामनोबुद्धिवाक्पाणिपादपायूपस्थ- शब्दस्पर्शाकाशवायवग्निसलिलात्मने अं ५१ ऐंक्लींसौः धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा । सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् ॥ मूलं० सर्वतत्त्वात्मने स्थूलसूक्ष्मकारणमहाकारणदेहं शोधयामि स्वाहा इति पूर्ववत् किञ्चित् स्वीकृत्य पुनराधारे (कुण्डे) अनादिवासनेन्धनज्वालिते आत्मचतुष्काकारचतुरस्रे कुण्डलिन्यधिष्ठितं चिदग्निं ध्यात्वा मूलं० हंसः चिदग्निमण्डलाय नमः इति मनसा सम्पूज्य मनसैव पुण्यं जुहोमि स्वाहा । एवं पापं० कृत्यं० अकृत्यं० सङ्कल्पं० विकल्पं० धर्मं० अधर्मं० चेति हुत्वा आत्मपात्रं हस्ते संगृह्य मूलं० हंसः इतः पूर्वं प्राणबुद्धिमनोऽहङ्कारदेहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत्सर्वं गुरुदेवतायै समर्पितमस्तु स्वाहा । इति सर्वं समर्प्य पात्रमाधारे संस्थाप्य आधारादिब्रह्मरन्ध्रगां विसतन्तुतनीयसीं विद्युत्कोटिप्रभामशेषजगदुत्पत्तिस्थितिसंहारकारिणीं कुण्डलिनीं देवीरूपां ध्यात्वा यथाशक्ति मूलमक्षमालया सञ्जप्य निवेद्य मायान्ततत्त्वे सदहं शिवोऽहं शक्त्यन्ततत्त्वे चिदहं शिवोऽहम् ।
शिवान्ततत्त्वे सुखदः शिवोऽहमतः परं पूर्णमनुत्तरोऽहम् ॥ दैशिकवागुपदेशविनश्यद्देहमरुन्मयशून्यविकल्प ।
अद्वयबोधविमर्शसुखः सन्नद्य शिवोस्मि शिवोस्मि शिवोऽस्मि इत्यनुसन्धाय प्रणम्य शिष्यस्यापि बालाबीजत्रयस्थाने कूटत्रयं संयोज्य संशोध्य तथैव षोडशार्णायाः खण्डत्रयं विधाय संशोध्य श्रीपर्ण्यादिपीठे संस्थाप्य प्रधानकलशं स्वयमुत्थाप्य ऋत्विक्सामयिकैरन्यान् कलशानुत्थाप्य तत्तन्मन्त्रोच्चारणपूर्वकं गुरुरभिषिञ्चेत् । अन्येऽप्यभिषेकां कुर्युः । ततो वस्त्रमाल्याद्यलंकृतं श्रीचक्रे समुपवेश्य पराप्रासादश्रीषोडशार्णविद्याभेदषट्शाम्भवक्रमचरणविद्या आम्नाय समया पञ्चसिंहासन षड्दर्शन पञ्चपञ्चिकागण पञ्चायतनविद्याः श्रीविद्यावृन्दभेदादिदशमहाविद्याः शैववैष्णवगाणपत्यसौरशाक्तविद्या गुरुपादुकाविद्याः षोडशनित्याविद्या महाषोढोक्तविद्याद्यूर्ध्वाम्नायक्रमं सम्पूर्णमुपदिशेत् । स्वक्रममपि चोपदिशेत् । शिष्योऽपि गोभूहिरण्यवस्त्रगजाश्वमहिषीदासीदासगृहाद्यैः श्रीगुरुं तोषयित्वा भूरिदक्षिणादानादिभिर्-ऋत्विक्सामयिकान् सन्तोष्य रात्रौ महापूजां विधायापरेऽहनि दीनान्धकृपणैः सह ब्राह्मणान् भोजयित्वा दक्षिणादानैस्तोषयित्वा श्रीगुरोराज्ञयानुग्रहादिकं तदा प्रभृति कुर्यात् ॥ इति कालीमतरीत्या पूर्णाभिषेकविधिः ॥

इति श्रीमहामहोपाध्यायभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्य- श्रीभगवच्छङ्कराचार्यशिष्य श्रीविस्णुशर्माचार्यशिष्य- श्रीप्रगल्भाचार्यशिष्य श्रीविद्यारण्ययति विरचिते श्रीविद्यार्णवाख्ये तन्त्रे पञ्चदशः श्वासः ॥ १५ ॥

अथ

श्रीविद्यार्णवतन्त्रे

16. Śvāsa

अथ कालीमतरीत्या पुरश्चरणविधिः । तत्र -

पुरश्चरणसम्पन्नो मन्त्रो हि फलदायकः ।
किं होमैः किं जपैश्चैव किं मन्त्रन्यासविस्तरैः ॥ १ ॥

रहस्यानां हि मन्त्राणां यदि न स्यात् पुरस्क्रिया ।
पुरस्क्रिया हि मन्त्राणां प्रधानं बीजमुच्यते ॥ २ ॥

वीर्यहीनो यथा देही सर्व(र्ग) कर्मसु न क्षमः ।
पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्तितः ॥ ३ ॥

इति वैशंपायनेन पुरश्चरणस्यावश्यकत्वाभिधानात् तस्य तु निर्- ऋतिर्विधिहिनानां फलं हन्ति तु कर्मणाम् । इति विधिहीनानुष्ठाने निन्दाश्रवणात् तदनुष्ठानविधिर्विविच्य लिख्यते । अत्र पुरश्चरणशब्दनिरुक्तिर्वायवीयसंहितायाम् :

साधनं मूलमन्त्रस्य पुरश्चरणमुच्यते ।
पुरतश्चरणीयत्वाद् विनियोगाख्यकर्मणाम् ॥ १ ॥

पुरतो विनियोगस्य चरणाद्वा तथोदितम् ।

इति ॥ विनियोगलक्षणमुक्तं मन्त्रतन्त्रप्रकाशे -

धर्मार्थकाममोक्षाणां शास्त्रमार्गेण योजनम् ।
सिद्धमन्त्रस्य सम्प्रोक्तो विनियोगो विचक्षणैः ॥ १ ॥

पुरश्चरणपूर्वोऽसौ विनियोगो विनिश्चितः ।
फलाय मन्त्रसेवाया राजसेवा यथा तथा ॥ २ ॥

चरणात् पूर्वमेवासौ पुरश्चरणमुच्यते ।
* * * * * * * * ॥

इति । एतेन विनियोगाख्यकर्मसामर्थ्यजनकक्रिया ऐहिकामुष्मिकमन्त्रात्मबुद्धिहेतुक्रिया वा पुरश्चरणमित्युक्तम् । अत्र केचित् - प्राप्यैनां जपविधिरादरेण कार्यो विद्वद्भिः सहुतविधिर्निजेष्टसिद्ध्यै ।
(प्रप० ६ प० १२३ श्लो०) इति दीक्षाप्रकरणेऽभिधाय मध्ये मध्येऽपि तत्प्रकरणे पूजाजपहोमानेवं विधाय मन्त्रैस्तद्देवताभिष्टुतिभिरपि जपध्यानहोमार्चनादिभिरित्युपसंहारे प्रपञ्चसारकारैः श्रीशङ्कराचार्यचरणैरभिधानात् । शारदातिलककृतापि सर्वत्र पूजाजपहोमानेवं विधाय प्रयोगाभिधानात् ॥

नाजपात् सिद्ध्यते मन्त्रो नाहुताच्च फलप्रदः ।
अनर्चितो हरेत्कामांस्तस्मात् त्रितयमाचरेत् ॥ १ ॥

इति ब्रह्मप्रकाशतन्त्रवचनाच्चाङ्गत्रयात्मकं पुरश्चरणं वदन्ति । अन्ये तु -

संसारे दुःखभूयिष्ठे यदीच्छेच्छ्रेय आत्मनः ।
पञ्चाङ्गोपासनेनैव पुरश्चारी सुखं व्रजेत् ॥ १ ॥ इति ॥

पञ्चाङ्गानि महादेवि जपो होमश्च तर्पणम् ।
स्वाभिषेकश्च विप्राणामाराधनमपीश्वरि ॥ २ ॥

पूर्वपूर्वदशांशेन पुरश्चरणमुच्यते ।
* * * * * * * * ॥

इति कुलमूलावतारवचनात् पञ्चाङ्गं वदन्ति । वैष्णवतन्त्रे -

जपो होमस्तर्पणं च सेको ब्राह्मणभोजनम् ।
पञ्चाङ्गोपासनं लोके पुरश्चरणमुच्यते ॥ १ ॥

इति ॥ अपरे तु - मूलमन्त्रदशांशं स्यादङ्गमन्त्रजपादिकम् इति कपिलवचनात् जपोऽङ्गानां दशांशेन कर्तव्यः सिद्धिमिच्छता इति वायवीयसंहितावचनात् षडङ्गं वदन्ति । इतरे तु :

जपो होमस्तर्पणं च स्वाभिषेकोऽघमर्षणम् ।
सूर्यार्घ्य जलपानं च प्रणामं देवपूजनम् ॥ १ ॥

ब्राह्मणानां भोजनं च पूर्वपूर्वदशांशतः ।
दशांशो (ङ्गो) पासनं भक्त्या पुरश्चरणमुच्यते ॥ २ ॥

इति तन्त्रान्तरवचनाद्दशाङ्गं वदन्ति । क्वचिज्जपसमसंख्यो होमः होमसममपि तर्पणम् । क्वचित्सर्वाणि समान्येव । शतांशेनापि क्वचित् होमयेज्जपसंख्यया इति प्रयोगान्तरेषु तर्पयेत्तावदेतेषां मनूनां हुतसंख्यया इति नर्तकगोपालविषये यावत्संख्यं मनुं जप्त्वा तावद्धोमादिकं चरेत् इति ग्रहणकालीनपुरश्चरणादौ न (?तु) क्वचिदुक्तेस्तत्र जपसंख्याया अल्पीयस्त्वात् अष्टलक्षं जपेन्मन्त्रं तत्सहस्रं तिलैः शुभैः इति महिषमर्दिनीविषये तत्र जपस्य भूयस्त्वात् यद्वा जपचतुर्थांशं स्वाहान्तं मन्त्रमुच्चरेत् इति वैशंपायनसंहितावचनात् वर्णलक्षं जपेन्मन्त्रं तत्सहस्रम् घृतप्लुतैः । पायसान्नैः प्रजुहुयात् इति शारदातिलकवचनात् क्षेत्रान्तरे जपस्याष्टभागेन सिद्ध्यति इति दक्षिणामूर्तिकल्पवचनात् जुहुयात्तद्दशांशेन सघृतैस्तिलतण्डुलैः इति सारसंग्रहवचनाच्च होमस्यानियतत्वात् तर्पयेत्तद्दशांशेन सघृतेन पयोन्धसा ।
कुर्याद्दशांशतो होमं ततः सिद्धो भवेन्मनुः इति सनत्कुमारवचनात् तर्पयेत्तावदन्येषां मनुनां हुतसंख्यया । तर्पणं विहितं नित्यम् इति शैवागमवचनाच्च तर्पणस्याप्यनियतत्वाच्च तत्तत्कल्पोक्तमेव पुरश्चरणं युक्तमित्यस्मत्सिद्धान्तः ॥ प्रकृते श्रीविद्याजपसंख्या च दक्षिणामूर्तिसंहितायाम् :

जप्ते लक्षैकमात्रे तु देव्यौ तौ(योषितो) विघ्नकारिकाः ।
तासामपि यदा नासौ क्षोभं याति मनागपि ॥ १ ॥

तदा लक्षत्रयं जप्यान्नियमेन शुचिर्बुधः ।
* * * * * * * * ॥

इति । वामकेश्वरे -

जप्ते लक्षकमात्रे तु क्षुभ्यन्ते भूतलेऽङ्गनाः ।
यदि न क्षुभ्यतीत्थं हि साधकस्य मनो मनाक् ॥ १ ॥

संक्षुभ्यन्ते ततः सर्वाः पाताले नागकन्यकाः ।
तासामपि यदा नासौ क्षोभं याति मनागपि ॥ २ ॥

ततः स्वर्गनिवासिन्यो विद्रवन्ति सुराङ्गनाः ।
एवं लक्षत्रयं जप्त्वा व्रतस्थः साधकोत्तमः ॥ ३ ॥

संक्षोभयति देवेशि त्रैलोक्यं सचराचरम् ।
* * * * * * * * ॥

इति । जगत्क्षोभकृतफलस्यान्तरायरूपत्वात् । ज्ञानार्णवे श्रीविद्यायाः पुरश्चरणमुक्तम् - (प० १७)

यत्र वा कुत्रचिद्भागे लिङ्गं स्यात्पश्चिमामुखम् ।
स्वयम्भूर्बाणलिङ्गं वा वृषशून्यं जलस्थितम् ॥ १ ॥

पश्चिमायतनं वापि इतरं चापि सुव्रते ।
शक्तिक्षेत्रेषु गङ्गायां नद्यां पर्वतमस्तके ॥ २ ॥

पवित्रे सुस्थले देवी जपेद्विद्यां प्रसन्नधीः ।
तत्र स्थित्वा जपेल्लक्षं साक्षाद्देवीस्वरूपवान् ॥ ३ ॥

ततो भवति विद्येयं त्रैलोक्यवशकारिणी ।
एवं जपं यथाशक्ति कृत्वादौ साधकोत्तमः ॥ ४ ॥

किंशुकैर्हवनं कुर्याद् दशांशेन वरानने ।
कुसुम्भकुसुमैर्वापि मधुरत्रयमिश्रितैः ॥ ५ ॥

विधिनोक्तप्रकारेण विघ्नौघं नाशयेत् क्षणात् ।
सर्वकामप्रदं राज्यभुक्तिमुक्तिफलप्रदम् ॥ ६ ॥

इति । इतरं पर्वतलिङ्गम् । एवं लक्षजपः श्रीविद्यायाः पुरश्चरणम् ।
दशांशहोमस्य तद्धर्मस्य कामप्रदत्वादिति फलस्य चाप्यभिधानात् अन्तस्तद् धर्मोपदेशादिति न्यायात् तत्त्वनिर्णयात् प्रयोगादौ विधानानुक्तानां प्रयोगानां कथं सिद्धिरित्याकांक्षायां पुरश्चरणपूर्वोऽसौ विनियोगो विनिर्मितः इति वचनात् तदभिधानस्यैव योग्यत्वाच्च । तथा श्रीक्रमसंहितायामपि लोपामुद्राविद्यामुद्धृत्योक्तं लक्षमेवं विधं जप्त्वा सर्वपापहरो भवेत् इति लक्षजपमात्रमेवोक्तमिति ।
वामकेश्वरतन्त्रेऽप्येवमेवोक्तमिति वदन्ति । वस्तुवस्तु विचार्यमाणदक्षिणामूर्तिसंहितैकवाक्यतया ज्ञानार्णवे श्रीचक्रसाधनप्रकरणोक्तत्रिलक्षजपः एव पुरश्चरणमिति भाति ।

यथा ज्ञानार्णवे (प० १४)

शृणु सर्वाङ्गसुभ्गे श्रीचक्रविधिमुत्तमम् ।
यस्य विज्ञानमात्रेण कर्ता हर्ता सदा शिवः ॥ १ ॥

अनेन विधिना यत्र श्रीचक्रं क्रमसंयुतम् ।
पूज्यते तत्र सकलं वशीकुर्यान्न संशयः ॥ २ ॥

नगरं वशमायाति देशं मण्डलमद्रिजे ।
योषितः सकला वश्या ज्वलत्कामाग्निपीडिताः ॥ ३ ॥

विद्याविमूढहृदयाः साधके न्यस्तमानसाः ।
तद्दर्शनेन देवेशि जायन्ते सर्वयोषितः ॥ ४ ॥

अक्षमालां समाश्रीत्य मातृकावर्णरूपिणीम् ।
अथ मुक्ताफलमयीं वाङ्मोक्षफलदायिनीम् ॥ ५ ॥

सर्वसिद्धिप्रदां नित्यं सर्वराजवशङ्करीम् ।
यथा मुक्ताफलमयीं तथा स्फटिकनिर्मिताम् ॥ ६ ॥

रुद्राक्षमालिका मोक्षे भवेत्सर्वसमृद्धिदा ।
प्रवालमाला वश्ये तु सर्वकार्यार्थसाधिका ॥ ७ ॥

माणिक्यमाला फलदा साम्राज्यफलदायिनी ।
पुत्रजीवकमाला तु वश्यदा भोगदा भवेत् ॥ ८ ॥

अक्षमालां प्रपूज्याथ चन्दनेन प्रपूजिताम् ।
समाश्रित्य जपेद्विद्यां लक्षमात्रं यदा शुचिः ॥ ९ ॥

योषितो भ्रामयन्त्येनं मनस्तस्य सुनिश्चलम् ।
तदा द्वितीयलक्षं तु प्रजपेत् साधकोत्तमः ॥ १० ॥

पातालतलनागेन्द्रकन्यकाः क्षोभयन्ति तम् ।
तासां कटाक्षजालैस्तु न मोहं याति साधकः ॥ ११ ॥

तदा लक्षत्रयं कुर्यात् साधकः स्थिरमानसः ।
तृतीयलक्षे सम्प्राप्ते ग्रावयन्ति सुराङ्गनाः ॥ १२ ॥

अभिमानेन सौन्दर्यसौभाग्यमदकारिणः ।
साधकं द्रावयन्त्येव ततश्चासौ मनःस्थिरः ॥ १३ ॥

तदा लक्षत्रयं साधुः सर्वपापनिकृन्तनम् ।
एवं लक्षत्रयं जप्त्वा व्रतस्थः स्वस्थमानसः ॥ १४ ॥

संक्षोभयति भूर्लोकस्वर्लोकतलवासिनः ।
पुरुषा योषितो वश्याश्चराचरमपि प्रिये ॥ १५ ॥

इति त्रिलक्षजपमुक्त्वा श्रीचक्रसाधनस्योक्तवात् श्रीचक्रसाधनस्य काम्यप्रयोगत्वात् काम्यप्रयोगस्य विद्यासिद्धेरपेक्षितत्वाद्विद्यासिद्धेः पुरश्चरणमूलकत्वात् पुरश्चरणमनुक्त्वा कम्यप्रयोगकथनानौचित्यादक्षमालाभेदनिरूपणादक्षमाला-याः पुरश्चरणप्रकरण एव वक्तव्यत्वाद्विघ्नबाहुल्यकथनादेवंविधानां विघ्नानां सिद्धिप्रतिबन्धकतया पुरश्चरणकाल एव निषिद्धत्वात् काम्यजपेषु तूक्तविघ्नानामेव फलत्वेनाभिधानात् व्रतस्थः स्थिरमानसः इति नियममनःस्थैर्ययोः पुरश्चरणकाल एवात्यन्तमावश्यकत्वेन तत्कथनस्यौचित्यात् । दक्षिणामूर्तिसंहितायामपि

शृणु देवि प्रवक्ष्यामि श्रीविद्यामन्त्रसाधनम् ।
शमीदूर्वांकुराश्वत्थपल्लवेरर्कसम्भवैः ॥ १ ॥

श्रीचक्रं पूजयेद् देवि मासमात्रं समाहितः ।
सहस्रजन्मजं पापं हन्ति मासेन देशिकः ॥ २ ॥

इत्यारभ्य प्रायश्चित्तपूर्वकं ज्ञानार्णवोक्तप्रकारेणैव स्थानाक्षमालोपांश्वादिजपलक्षणं प्रागुक्तप्रकारेण विघ्नत्रयकथनपूर्वकं च लक्षत्रयजपमुक्त्वा तद्दशांशेन होमः स्यात् कुसुमैर्ब्रह्मवृक्षजैः । कुसुम्भपुष्पैर्जुहुयान्मधुरत्रयलोलितैः इति तद्दशांशहोमकथनादेव लक्षत्रयजप एष पुरश्चरणमिति तत्त्वम् । यत्तु ज्ञानार्णवे यत्र वा कुत्रचिद्भागे लिङ्गं सत्पश्चिमामुखम् । इत्यारभ्य जपस्थानकथनपूर्वकं तत्र स्थित्वा जपेल्लक्षं साक्षाद्देवीस्वरूपवान् इत्युक्तं सतु लक्षशब्दः पूर्वोक्तलक्षत्रयस्मारको दक्षिणामूर्तिसंहितैकवाक्यत्वात् । अत एव श्रीचक्रसाधनप्रकरणात् तत्रानुक्तस्थानहोमावेवात्रोक्तौ अन्यथा त्वक्षमालादीनामप्यत्रैव वक्तुमुचितत्वात् । नवलक्षजपस्यापि पुरश्चरणं केचिद्वदन्ति ।
मार्गेऽस्मिन्नवलक्षमक्षयफलाप्राप्त्यै ततो लक्षयेत् इति क्वचित्फलाधिक्यार्थम् । तथा च वामकेश्वरे प्रत्येकलक्षफलस्मरणम् तथा : (प० ५)

लक्षमेकं जपेद्देवि महापापैः प्रमुच्यते ।
लक्षद्वयेन पापानि सप्तजन्मकृतानि च ॥ १ ॥

नाशयेत् त्रिपुरा देवी साधकस्य न संशयः ।
जप्त्वा लक्षत्रयं मन्त्री यन्त्रितो मन्त्रविग्रहः ॥ २ ॥

पातकं नाशयेदाशु यदि जन्मसहस्रकम् ।
जप्त्वा विद्यां चतुर्लक्षं महावागीश्वरो भवेत् ॥ ३ ॥

पञ्चलक्षाद् दरिद्रोऽपि साक्षाद्वैश्रवणो भवेत् ।
जप्त्वा षड्लक्षमेतस्या महाविद्याधरेश्वरः ॥ ४ ॥

जप्त्वैवं सप्त लक्षाणि खेचरीमेलनं भवेत् ।
अष्टलक्षप्रमाणं च जप्त्वा विद्यां महेश्वरि ॥ ५ ॥

अणिमाद्यष्टसिद्धीशो जायते देवपूजितः ।
नवलक्षप्रमाणं च जप्त्वा त्रिपुरसुन्दरीम् ॥ ६ ॥

विधिवत् जायते मन्त्री हरमूर्तिरिवापरः ।
कर्ता हर्ता स्वयं गौरि लोके चाप्रहतः प्रभुः ॥ ७ ॥

प्रसन्नो मुदितो धीरः स्वच्छन्दगतिरीश्वरः ।
* * * * * * * * ॥

इति । अन्यत्रापि : अथवा नवलक्षं तु जपेद्विद्यामनन्यधीः इति । जपेल्लक्षं मन्त्रं इत्यपि कुत्रचित् । तदसामर्थ्यपरं पक्षत्रयमध्ये गुरुसम्प्रदायः ।
दक्षिणामूर्तिसंहितायामपि :

अथवा नवलक्षं तु जपेद्विद्यां समाहितः ।
तद्दशांशेन होमं तु पूर्वोक्तविधिनाचरेत् ॥ १ ॥

साधयेत् स्वर्गभूलोकपातालतलवासिनः ।

इति । ज्ञानार्णवे तु नवलक्षजपो नोक्तः किंत्वेकलक्षमारभ्यैकलक्षस्येदं फलमित्यादि नवलक्षपर्यन्तस्य पृथक् पृथक् फलमुक्तं नतु द्वितीयलक्षस्य तृतीयलक्षस्येति । तस्मात्तत्र सम्भूय पञ्चचत्वारिंशल्लक्षजपो जायते तेन तत्र पुरश्चरणत्वशङ्कापि नास्ति सतु काम्यजप एवेति निश्चितम् । अन्यच्च : सिद्धमन्त्रतया नात्र युगसंख्यापरिश्रमः । इति ॥ अथ जपनिर्णयः ।

यस्मिश्च निगदेनैव मन्त्रसंख्या विधीयते ।
तत्र तु सर्वमन्त्राणां संख्यावृत्तिर्युगक्रमात् ॥ १ ॥

कल्पोक्तैव कृते संख्या त्रेतायां द्विगुणा भवेत् ।
द्वापरे त्रिगुणा प्रोक्ता कलौ संख्या चतुर्गुणा ॥ २ ॥

इति । रुद्रयामले : प्रजपेदुक्तसंख्यायाश्चतुर्गुणजपं कलौ इति । अत्र केचित् प्रपञ्चयागशारदातिलकायुक्तजपस्यापि चतुर्गुणादिना कलौ पुरश्चरणमिति वदन्ति तत्र नारदपञ्चरात्रादिदर्शनात् प्रपञ्चसाराद्युक्तजपश्चतुर्गुण एव । तथा नारदपञ्चरात्रे :

मार्गशीर्षस्य मासस्य त्रीण्यहान्येकमेव वा ।
उपोष्य शुक्लद्वादश्यामारभ्याष्टाक्षरं जपेत् ॥ १ ॥

अष्टलक्षमविच्छिन्नं पुरश्चरणकृद् द्विजः ।
शुक्लाचारः शुचिः स्नातो वाग्यतो विजितेन्द्रियः ॥ २ ॥

मन्त्रसिद्धिरदृष्टार्था लक्षद्वयजपाद्भवेत् ।
ततो हि द्विगुणाभ्यासादैहिक्यामूष्मिकी च सा ॥ ३ ॥

एवमेषात्मशुद्धिः स्यादेतावान् प्रथमे युगे ।
त्रेतायां द्विगुणः प्रोक्तो द्वापरे त्रिगुणस्तथा ॥ ४ ॥

कलौ चतुर्गुणः द्वात्रिंशल्लक्षलक्षणा ।
* * * * * * * * ॥ इति । अदृष्टार्था मन्त्रसायुज्यकरी । ऐहिकी इहलोकसुखदा । आमुष्मिकी स्वर्गादिलोकदा । आत्मशुद्धिस्तत्त्वज्ञानसधनभूतशुद्धिरिति । एवं द्वात्रिंशल्लक्षजपमत एव द्वात्रिंशल्लक्षमानेन सतु मन्त्रं जपेत्पुनः इत्याचार्यचरणैरप्युक्तम् । ज्ञानार्णवे बालाप्रकरणे वर्णलक्षं जपेन्मन्त्रं तद्दशांशं हुनेत्प्रिये इति बालायामभिधाय न्यासपूजादिकं सर्वमस्याः पूर्ववदाचरेत् इति भैरव्या मन्त्रे प्रदिष्टम् लक्षत्रयजपं चतुर्गुणीकृत्य दीक्षां प्राप्य जपेन्मन्त्रं तत्त्वलक्षं जितेन्द्रियः इति भैरव्यामभिधाय बालायां तावद् एषा बालेति विख्याता त्रैलोक्यवशकारिणी । जपपूजादिकं सर्वमस्याः पूर्ववदाचरेत् । इति शारदातिलककृतापि प्रदिष्टम् । तत्त्वार्धलक्षं द्वादशलक्षं अतो द्वादसमंत्राणि वदन्त्येके विपश्चितः इति प्रयोगसारवचनादिति । प्रपञ्चारे भैरवीप्रकरणे तु : (९ । ९) दीक्षां प्राप्य विशिष्टलक्षणयुजः सत्सम्प्रादायाद्गुरोर्लब्ध्वा मन्त्रममुं जपेत् सुनियतं तत्त्वार्धलक्षं वशी । इति द्वादशलक्षमुक्तम् । तथा : लक्षत्रयं जपेन्मन्त्रम् इति दक्षिणामूर्तिसंहितायामुक्तस्य त्रिपुटामन्त्रस्य जपेच्च मन्त्रमादित्यलक्षम् इति भानुलक्षं जपेदेनम् इति प्रपञ्चसारशारदातिलकयोश्चतुर्गुणजप एवाभिहितः । तेन एकत्र निर्णीतः इति न्यायेन सर्वत्र चतुर्गुण एवाभिहित इति निर्णीतम् । नच तदर्द्धसंख्यकं वापि विरोधाभावादिति प्रपञ्चसारे अर्धजपाभिधानविरोध इति वाच्यम् ।
उक्तनारदवचनेनैव ह्यैहिकसिद्धिपरत्वादामुष्मिकपरत्वाद्वापि विरोधाभावात् । इति समुद्रगानां सरितां च तीरे जपेद्विविक्ते निज एव गेहे ।
विष्णोर्गृहे वा पुरुषो मनस्वी । समुद्रगा साक्षादेव अन्यथा सर्वासामपि परम्परया तथात्वाद् विशेषणवैयर्थ्यादिति । मनस्वी श्रद्धावान् ॥ सनत्कुमारः :

नद्यां समुद्रगामिन्यां तीरे गोष्ठेऽथवा मुने ।
अश्वत्थबिल्वमूले वा सिन्धुतीरे जलाशये ॥ १ ॥

पश्चिमाभिमुखे देवगृहे वा शैलमस्तके ।

इति । देवः शिवः । प्रत्यङ्मुखे शिवस्थाने वृषभेण विवर्जिते इति कुम्भसम्भववचनाच्च । नारदपञ्चरात्रे

गिरिगोष्ठप्रविष्यन्दनद्यरण्याश्रमह्रदाः ।
देशाः पुण्या जपस्यैते यत्र वा जायते रुचिः ॥ १ ॥

इति । प्रविष्यन्दः प्रस्रवणम् । नदी पुण्यनदीतीरम् । अरण्यं पुण्यारण्यं पुष्करार्बुदादि । पावनं धनम् इति शारदातिलके । त्रैलोक्यसंमोहनतन्त्रे :

बिल्वच्छायां समाश्रित्य मूलेऽश्वत्थस्य वा प्रिये ।
गुरोर्वा संनिधौ गोष्ठे वृषशून्ये शिवालये ॥ १ ॥

नदीतीरेऽद्रिशृङ्गे वा तुलसीकाननेऽपि वा ।
अभीष्टदेवसांनिध्ये जपेन्मन्त्रं समाहितः ॥ २ ॥

इति । नदीतीरे पुण्यनदीतीरे अन्यनदीतीरस्य निषिद्धत्वात् । कपिलपञ्चरात्रे

तीर्थक्षेत्रवनारामदेवालयनदीह्रदाः ।
हरेर्विविक्त इत्येते देशाः स्युर्मन्त्रसिद्धिदाः ॥ १ ॥

इति । वायवीयसंहितायाम् -

सूर्यस्याग्नेर्गुरोरिन्दोर्दीपस्य ज्वलितस्य वा ।
विप्राणां च गवां चैव संनिधौ शस्यते जपः ॥ १ ॥

अथवा निवसेत्तत्र यत्र चित्तं प्रसीदति ।
गृहे जपः समः प्रोक्तो गोष्ठे दशगुणस्तु सः ॥ २ ॥

आरामे च तथारण्ये सहस्रगुण उच्यते ।
अयुतं पर्वते पुण्ये नद्यां लक्षगुणस्तु सः ॥ ३ ॥

कोटिर्देवालये प्राहुरनन्तं मम संनिधौ ।

इति । मम शिवस्य ॥ तथा शङ्खः अनन्तं विष्णुसंनिधौ । इति यामले

म्लेछदुष्टमृगव्याधशङ्कातङ्कविवर्जिते ।
एकान्ते पावने निन्दारहिते भक्तिसंयुते ॥ १ ॥

सुदेशे धार्मिके राष्ट्रे सुभिक्षे निरुपद्रवे ।
रम्ये भक्तजनस्थाने निवसेन्न पराश्रये ॥ २ ॥

राजानः सचिवा राजपुरुषाः प्रभवो जनाः ।
चरन्ति येन मार्गेण न वसेत्तत्र तत्त्ववित् ॥ ३ ॥

जीर्णदेवालयोद्यानगृहवृक्षतलेषु च ।
नदीकूलाद्रिकूलेषु भूछिद्रादिषु नो वसेत् ॥ ४ ॥

पुण्यक्षेत्रादिकं गत्वा कुर्याद्भूमिपरिग्रहम् ।
ब्रूयादमुकमन्त्रस्य पुरश्चरणसिद्धये ॥ ५ ॥

मयेयं गृह्यते भूमिर्मन्त्रो मे सिद्ध्यतामिति ।
भूमेः परिग्रहं कृत्वा परिमाणं च सर्वतः ॥ ६ ॥

नदीपर्वततीर्थादौ परिमाणेन खण्डितम् ।
ग्रामे क्रोशमितं स्थानं नगरे तद्द्वयं स्मृतम् ॥ ७ ॥

क्षीरवृक्षमयान् कीलान् अस्त्रमन्त्राभिमन्त्रितान् ।
निखनेद्दशदिग्भागे तेष्वस्त्रं च प्रपूजयेत् ॥ ८ ॥

क्षेत्रेशकीलितो मन्त्रो न विघ्नैः परिभूयते ।
क्षेत्रपालादिकांस्तत्र पूजयेद्विधिवित्तमः ॥ ९ ॥

दिक्पतिभ्यो बलिं दत्त्वा ततः क्षेत्रं समाश्रयेत् ।
कूर्मचक्रमविज्ञाय यः कुर्याज्जपयज्ञकम् ॥ १० ॥

तज्जपस्य फलं नास्ति सर्वानर्थाय कल्पते ।
* * * * * * * * ॥

इति । तन्त्रान्तरे

कूर्मचक्रं परिज्ञाय यो जपादिविधौ स्थितः ।
प्राप्नोति सकलान्युक्तान्यन्यथा नाशमेति च ॥ १ ॥

तस्मात् कूर्मविभागं तु विज्ञायाखिलमाचरेत् ।
स चतुर्धा स्थितो लोके तत्प्रकारस्तथोच्यते ॥ २ ॥

प्रथमस्तु परःकूर्मस्ततो देशगतस्तथा ।
ग्रामगो गृहगश्चेति चतुर्धा स व्यवस्थितः ॥ ३ ॥

देशं ग्रामं गृहं वास्तुं नवधा विभजेत्ततः ।
प्रागादिपश्चिमान्तं तु कादिमान्तानि विन्यसेत् ॥ ४ ॥

अक्षराण्यय यादीनि तथाष्टौ पदयोर्लिखेत् ।
ईशे द्वयमथो मध्ये स्वरान् प्रागादि विन्यसेत् ॥ ५ ॥

ईशान्तांस्तु द्विशः पश्चान्नामाद्यर्ण यतो भवेत् ।
तन्मुखं पार्श्वयोः पाणी कुक्षिः पादौ ततस्ततः ॥ ६ ॥

पुच्छमेकमथो मध्यं पृष्ठमेकं षडङ्गवत् ।
मुखे सर्वार्थसिद्धिः स्यात् करयोः सर्वसिद्धयः ॥ ७ ॥

कुक्षौ तु नित्यनैष्फल्यं पादयोर्नैव सिद्धयः ।
पुच्छे मृत्युस्तु नियतं सर्वार्थसिद्धयः ॥ ८ ॥

तस्मात् तत् साधु विज्ञाय कुर्यात्सर्वं जपादिकम् ।

इति । अथ कादिमतरीत्या श्रीविद्यामधिकृत्य कुलमूलावतारे -

ब्रह्मनाडीगतानादिक्षान्तवर्णान् विभाव्य च ।
अर्णं बिन्दुयुतं कृत्वा स्वेष्टमन्त्रं जपेत्सुधीः ॥ १ ॥

अकारादिषु संयोज्य तथा कादिषु च क्रमात् ।
क्षार्णं मेरुमथो तत्र कल्पयेज्जगदीश्वरि ॥ २ ॥

तदा लिपिर्भवेदक्षमालार्धशतसंख्यया ।
अनया सर्वमन्त्राणां जपः सर्वार्थसाधकः ॥ ३ ॥

क्षकारं मेरुसंस्थाने लकारादिविलोमतः ।
एकैकान्तरितं मन्त्रं जपेदेवं फलप्रदम् ॥ ४ ॥

इति । अत्राष्टोत्तरसहस्रं वाष्टोत्तरशतं वा यदा जपः कार्यः स्यात्तदा वर्गाष्टकविभेदेन भवेदष्टोत्तरं शतम् इति । अत्र वर्गाष्टकजपस्तद्दिष्टशतादिसंख्यावसान एव कर्तव्यः । एष कृतयुगजपः । कलावेतच्चतुर्गुणजपादिकं कार्यमिति । श्रीतन्त्रराजे (५ प० ६८ श्लो०)

विद्यायाः साधनं सिद्धिं तद्व्रतं बर्ज्यमेव च ।
तदाभिमुख्यचिह्नानि विघ्नानि प्राक्तनाद्यतः ॥ १ ॥

शृणु क्रमेण देवेशि सर्वदा प्रीतिकारकम् ।
येन मर्त्योऽपि सिद्ध्येत जीवन्मुक्तो भवन्मयः ॥ २ ॥

स्रातः सुगन्धसलिलैः प्राक्पूजाप्रोक्तरूपवान् ।
गुरुं वित्तेन संतोष्य रक्तागरे क्रमं भजेत् ॥ ३ ॥

सन्ध्यात्रयेऽपि जपवान् सहस्रं मौनसंयुतः ।
मोचागुडसितापेतं पयः पायसमर्पयेत् ॥ ४ ॥

नीराजनं च कर्पूरैः कुर्यात् सन्ध्यासु तास्वपि ।
होमं दशांशतः कुर्यात्तर्पणं चेन्दुमज्जलैः ॥ ५ ॥

स्वनित्यादूर्ध्वतो जाप्यं त्रिसहस्रं दिनं प्रति ।
कुर्यात्तेन भवेत् पूर्णं लक्षं पूर्णान्तमीश्वरि ॥ ६ ॥

एवं लक्षत्रयं प्रोक्तं प्रथमे तु कृते युगे ।
त्रेतायां द्विगुणं तद्वद्द्वापरे त्रिगुणम् स्मृतम् ॥ ७ ॥

कलौ चतुर्गुणं प्रोक्तमक्षराणां च संख्यया ।
तार्तीयसप्तसंख्या सा तेन स्यादेकविंशतिः ॥ ८ ॥

इति । तार्तीयकूटस्य स्वरव्यञ्जनबिन्दून् पृथक्कृत्य सप्ताक्षराणि भवन्ति तेषां सप्तानां वर्णानां प्रतिवर्णं त्रिलक्षमिति सम्भूयैकविंशतिलक्षजपः पुरश्चरणं कृतयुगे । कलावेतच्चतुर्गुणं जप इति पुरश्चरणमुक्तम् । पुरश्चरणं तु जपहोमतर्पण(स्वाभिषेक)ब्राह्मणभोजनात्मकं पञ्चाङ्गरूपं भवति । अत्रैतदङ्गपञ्चकं पूर्ववत् दशांशतः कार्यमिति (तन्त्रराजे तु होमसंख्यासमसंख्यं तर्पणमिति) विशेषः । तथा तत्रैव :

तेनान्येषु युगेषु स्यात् संख्यावृद्धिरुदीरिता ।
वनीताक्षोभतो भोगान्न विघ्न यदि जायते ॥ ९ ॥

तासु संख्यासु पूर्णासु संप्रार्थ्य स्वं श्रयेत् क्रमम् ।
वर्ज्यानि शृणु देवेशि तद्दिनेषु सदैव हि ॥ १० ॥

नास्तिकैः सह संलापो मैथुनं परिनिन्दितम् ।
चिन्ताशोकौ तथालापं देशान्तरपरिभ्रमम् ॥ ११ ॥

तद्वासरेषु वर्ज्यानि प्रोक्तान्यन्यानि शाङ्करि ।
शृणु सर्वत्र सर्वेषां सर्वदा नाशकानि च ॥ १२ ॥

परक्षेत्रगृहस्त्रीषु वाञ्छा तन्निन्दनानि च ।
स्त्रीषु रोषं प्रहारं च दुष्टास्वपि न योजयेत् ॥ १३ ॥

सिद्धिचिह्नानि चोक्तानि वासनाकथने मया ।
अनुकूल्यस्य चिह्नानि शृणु साधयतस्तदा ॥ १४ ॥

साधयतः पुरश्चरणे निविष्टस्य । तदा पुरश्चरणकाल ।

स्वप्ने पोतेषु वनितावृन्दैः संमेलनं निशि ।
गजाद्रिसौधशृङ्गेषु विहारो राजदर्शनम् ॥ १५ ॥

गजानामङ्गनानां च दर्शन नृत्यगीतयोः ।
उत्सवं ससुरामांसदर्शनं स्पर्शनं तथा ॥ १६ ॥

निन्द्यानि शृणु देवेशि विघ्नानर्थकराणि च ।
कुष्णवर्णैर्भटैः स्वप्ने प्रहारस्तैललेपनम् ॥ १७ ॥

मौथुनं परनारीभिरिन्द्रियच्यवनं तथा ।
राष्ट्रक्षोभो वह्निवायुज(ननी?लभी) बन्धुनाशनम् ॥ १८ ॥

गुरावुपेक्षासंपत्तिर्वस्तूनां व्याधिबाधनम् ।
अन्यमन्त्रार्चने श्रद्धा विघ्नो नित्यार्चनेऽनिशम् ॥ १९ ॥

नराणां बहुभिः पुण्यैः कृतैर्बहुषु जन्मसु ।
श्रद्धास्थैर्य संप्रदायसिद्धि नित्यार्चने भवेत् ॥ २० ॥

अथ कूर्मचक्रम् । तत्रैव - (५ प० ८८ श्लो०)

कूर्मस्थितिमविज्ञाय यो जपादिविधिस्थितः ।
स नाप्नोति फलान्युक्तान्यन्यथा नाशकानि च ॥ २१ ॥

तस्मात् कूर्मविभागं तु विज्ञायाखिलमाचरेत् ।
स चतुर्धा स्थितो लोके तत्प्रकारं शृणु प्रिये ॥ २२ ॥

प्रथमस्तु परः कूर्मस्ततो देशगतस्तथा ।
ग्रामगो गृहगश्चेति चतुर्धा तद्व्यवस्थितिः ॥ २३ ॥

देशं ग्रामं गृहं वास्तुं नवधा विभजेत्ततः ।
प्रागादिपश्चिमान्तं तु कादिमान्तानि विन्यसेत् ॥ २४ ॥

अक्षराणि समान्येव चत्वारि परयोर्न्यसेत् ।
ईशो द्वयमथो मध्ये स्वरान् प्रागादि विन्यसेत् ॥ २५ ॥

ईशान्तासु द्विशः पश्चान्नामाद्यर्ण यतो भवेत् ।
तन्मुखं पार्श्वयोः पाणी कुक्षिः पादौ ततस्ततः ॥ २६ ॥

पुच्छमेकमतो मध्यं पृष्ठमेकं षडङ्गवान् ।
मुखे सर्वार्थसिद्धिः स्यात् करयोरल्पसिद्धिकृत् ॥ २७ ॥

कुक्षौ तु नित्यनैष्फल्यं पादयोः सर्वहानिकृत् ।
पुच्छे मृतिस्तु नियता पृष्ठे सर्वार्थदायकम् ॥ २८ ॥

तस्मात् तत्साधु विज्ञाय कुर्यात् सर्व समाहितम् ।
व्यञ्जनं देशकूर्मे स्याद् गृहकूर्मे स्वरास्तथा ॥ २९ ॥

ग्रामादिकूर्म द्वितयं परकूर्मे नतु द्वयम् ।
नित्यं पूर्वमुखो यस्मात्तेन तत्सिद्धिरीरिता ॥ ३० ॥

एवं कूर्मविभागोऽयमीरितस्ते चतुर्विधः ।
मन्त्राणां येन सिद्धिः स्यात्सर्वेषां सर्वतस्तदा ॥ ३१ ॥

संवर्द्ध्यामविस्तारं हृत्वाष्टभिस्तु शेषतः ।
विज्ञाय वर्ग तेष्वेकं नामाद्यं नाम्नि कल्पयेत् ॥ ३२ ॥

तत्तत्स्थानेषु नियतमनर्थशून्यता तथा ।
वास्तुष्वज्ञातरूपेषु प्रसिद्धं नामतो भवेत् ॥ ३३ ॥

इति । अत्र व्यञ्जनयुक्तेऽपि देशनामनि व्यञ्जनस्य प्राधान्यं देशकूर्मे ज्ञेयम् तथैव ग्रामकूर्मे स्वरस्य ज्ञेयमिति । केवलस्वरयुक्ते तु सर्वत्र स्वरस्यारि(बहिः)कोष्ठं मुखं ज्ञेयम् । देवीयामले :

कुरुक्षेत्रे प्रयागे च गङ्गासागरसङ्गमे ।
महाकाले च काश्यां च दीपस्थानं न चिन्तयेत् ॥ १ ॥

इति । तत्र प्रयोगस्तु : तत्र समुद्रतीरनदीपर्वतशृङ्ग समुद्रगामिनीनदीतीर विष्णुगृहविविक्तनिजगृहगोष्ठाश्वत्थबिल्वमूलजलाशयपश्चिमाभिमुखवृ. सशून्यशिवालयगुरुसन्निधितुलसीवनस्वेष्ठदेवतासन्निधि- पुण्यक्षेत्रतीर्थवनोपवननदीह्रदस्वाभिमतस्थान म्लेच्छदुष्टमृगव्यालशङ्कावर्जितैकांतनिन्दारहितधार्मिक स्वेष्टदेवताभक्तजनाश्रयसुभिक्षनिरुपद्रव(राज)तत्सचिवादिगमनागमन रहितस्थानान्येषामन्यतमं स्थानं ग्रामे क्रोशमात्रं नगरे क्रोशद्वयमात्रं नदीपर्वततीर्थादौ परिमाणरहितं अमुकस्येह मन्त्रस्य पुरश्चरणसिद्धये । मयेयं गृह्यते भूमिर्मन्त्रो मे सिद्ध्यतामितिमन्त्रेण भूमिपरिग्रहं विधाय क्षीरवृक्षभवान्वितस्तिमितान् दश कीलान् कृत्वास्त्रमन्त्रेण पृथगष्टधाभिमन्त्र्य पूर्वाद्यष्टसु दिक्षु इन्द्रेशानयोर्मध्ये निर्-ऋतिवरुणयोर्मध्ये च निखनेत् । तेष्वस्त्रं च सम्पूज्य तेषु स्थानेष्विन्द्रादिदशदिक्पालेभ्यो माषभक्तबलिं दद्यात् । ततः क्षेत्रपालं गणेशं वास्तुपुरुषं सम्पूज्य प्राक्प्रत्यगायता दक्षिणोत्तरायताश्चतस्रश्चतस्रो रेखा विलिख्य नव कोष्ठानि कृत्वा तेषु पूर्वादिक्रमेण कचटतपयशाख्यान् सप्तवर्गान् सप्तकोष्ठेषु विलिख्येशानकोष्ठे लक्षौ विलिख्य मध्यकोष्ठं तथैव नवधा विभज्य पूर्वादिक्रमेण द्विशो द्विशः षोडशस्वरानष्टोष्ठेषु विलिखेदिति कूर्मचक्रं निर्माय तत्र मध्यनवके मध्ये पूर्वादिक्रमेणाष्टसु दिक्षु चामृतवृषभशौलराजवासुक्यार्थकृच्छक्तिपद्मयोनिमहाशङ्ख- च्छायाच्छत्रगणान् नवक्षेत्रपालान् प्रणवादिचतुर्थीनमोऽन्ततत्तन्नाम्ना सम्पूज्य ग्रामनामाद्यक्षरयुक्तकोष्ठदिशि कूर्ममुखे तदलाभे मध्ये कूर्मपृष्ठे वा मुखादधःकोष्ठद्वयान्यतमे कूर्महस्ते वा गृहं जपार्थं शीतवातातपनिवारणक्षमं कुर्यात् । कालिकोद्भवे :

स्थानसाधकयोर्नाम्नोररित्वं यत्र विद्यते ।
तदक्षशास्त्रतो ज्ञात्वा तत्र सम्यक् परित्यजेत् ॥ १ ॥

इति । अक्षशास्त्रे -

अरित्वमद्वयस्योक्तं गकारेण परस्परम् ।
ऋद्वयस्य ठकारेण ठकारस्यापि तेन च ॥ २ ॥

ऌद्वयस्य पकारेण पकारस्यापि ऌद्वयम् ।
ओद्वयस्य षकारेण षकारस्यौयुगेन च ॥ २ ॥

जकारस्य टकारेण झकारस्य खकारतः ।
डकारस्य तकारेण फकारस्य धकारतः ॥ ३ ॥

भकारस्य तु रेफेण यकारस्य सकारतः ।
अरित्वमेषां वर्णानामन्येषां मित्रभावना ॥ ४ ॥

कूर्मचक्रे रिपुस्थानं साधको यत्नतस्त्यजेत् ।
यथा गर्गस्य वैरी स्यादट्टहासं महत्पुरम् ॥ ५ ॥

गयामरेश्वरस्यैवमाकाराद्येषु योजयेत् ।
ऋजुभट्टस्य ठक्काख्यं ऌतकस्यारिः पद्मकम् ॥ ६ ॥

उड्डियाणं षण्मुखस्य रौद्रं षड्गुणकस्य च ।
ज्यन्ती टङ्कधारस्य खंधारं ऋंॠ(झंझ)णस्य च ॥ ७ ॥

डाकदेवस्य ताराख्यं धर्माख्यं फण्डिभट्टतः ।
भद्रस्य रम्यकं चैव यज्ञदत्तस्य सोमकः ॥ ८ ॥

एवं क्रमेण संशोध्य वैरिस्थानं त्यजेद्वुधः ।
* * * * * * * * * * * * * * ॥ ९ ॥

इति ॥ अथ माला - सातु द्विविधा मातृकाक्षरमयी रुद्राक्षादिमणिमयी चेति ।
तत्र प्रथमामाहोत्तरतन्त्रे -

अकारादिक्षकारान्तैर्बिन्दुमन्मातृकाक्षरैः ।
अनुलोमविलोमस्थैः कॢप्तया वर्णमालया ॥ १ ॥

प्रत्येकवर्णयुक्मन्त्रा जप्ताः स्युः सर्वसिद्धिदाः ।
वैरिमन्त्रा अपि नॄणां सुसिद्धाद्यास्तु किं पुनः ॥ २ ॥

इति । शारदातिलके -

आदिक्षान्तार्णयोगित्वादक्षमालेति कीर्तिता ।
तद्वर्णसंख्यमणिभिर्जपमालां प्रकल्पयेत् ॥ १ ॥

इति । ज्ञानार्णवे -

अकारः प्रथमो देवि क्षकारोऽन्त्यस्ततः परम् ।
अक्षमालेति विख्याता मातृकावर्णरूपिणी ॥

इति । अत्र वर्गाष्टकजपस्तु उद्दिष्टसंख्यावसाने कार्यः ।
तदुक्तं मातृकार्णवे -

आरभ्याकारमादौ मनसि परिजपेन्मातृकां सावसानां धृत्वा तच्चावसानं पुनरपि च पठेदाअन्तमेवावरोहे ।
लान्तानष्टौ च वर्णास्तदनु परिजपेद्भूय एवावसाने क्षान्तं संहारयुक्तं पशुपतिगदिता यामले मालिकेयम् ॥ १ ॥

इति । धृत्वा मेरुस्थाने । अवसानं क्षकारं । लान्तान् कचटतपयशलाख्यान् ।
तदनूद्दिष्टसंख्यासमाप्त्यनन्तरम् ॥ अवसाने उद्दिष्टशताद्यवसाने ।
एवोऽवधारणे ॥ द्वितीया तूत्तरतन्त्रे :

अथ वक्ष्येऽक्षमालाया विधानं मन्त्रिकाम्यया ।
पञ्चविंशतिभिः प्रोक्ता मणिभिर्भुक्तिदायिनी ॥ १ ॥

त्रिंशद्भिर्धनदा सप्तविंशत्याक्षैस्तु सर्वदा ।
अभिचारकरी पञ्चदशभिः परिकल्पिता ॥ २ ॥

चतुष्पञ्चाशदक्षैः सा काम्यकर्मसु सिद्धिदा ।
अष्टोत्तरशतैः कॢप्ता सर्वाभीष्टप्रदा मता ॥ ३ ॥

मणयः शङ्खसंभूताः प्रोक्ता लक्ष्मीप्रदा मताः ।
मुक्तिप्रदाः स्फटिकजाः पद्माक्षाः पुष्टिवर्धनाः ॥ ४ ॥

भुक्तिमुक्तिप्रदाः प्रोक्ता रुद्राक्षाः सर्वसिद्धिदाः ।
पुत्रजीवभवाः पुत्रपशुधान्यसमृद्धिदाः ॥ ५ ॥

विद्रुमोत्थास्तु मणयो धनसौभाग्यवश्यदाः ।
मौक्तिका मुक्तिदाः प्रोक्ताः सर्वसंपत्समृद्धिदाः ॥ ६ ॥

पापापहाः कुशमयाः कामदाः स्वर्णरूप्यजा ।
* * * * * * * * * * * * * * ।

इति । तथा शारदातिलके - (२३ प० ११८ श्लो०)

रुद्राक्षमालिका सूते जपे जापिमनोरथान् ।
पद्माक्षैर्विहिता माला शत्रूणां नाशिनी मता ॥ १ ॥

कुशग्रन्थिमयी माला सद्यः पापप्रणाशिनी ।
पुत्रजीवफलैः कॢप्ता कुरुते पुत्रसंपदम् ॥ २ ॥

निर्मिता रूप्यमणिभिर्जपमालेप्सितप्रदा ।
हिरण्मयैर्विरचिता माला कामान् प्रयच्छति ॥ ३ ॥

प्रवालैर्विहिता माला प्रयच्छेत् पुष्कलं धनम् ।
सौभाग्यं स्फाटिकी माला मौक्तिकैर्विहिता श्रियम् ॥ ४ ॥

निर्मिता शङ्खमणिभिः कुरुते कीर्तिमव्ययाम् ।
सर्वैरेतैर्विरचिता माला सा मुक्तये नृणाम् ॥ ५ ॥

इति ॥ सर्वैरिति एकेन पञ्चमिः पञ्चभिरिति केचित् । मिश्रणे तु निषेधमाह उत्तरतन्त्रे -

इन्द्राक्षैर्यदि जप्येत् रुद्राक्षैः स्फाटिकैस्तथा ॥ नान्यन्मध्ये प्रयोक्तव्यं पुत्रजीवादिकं च यत् ॥ १ ॥

यदन्यत्तु प्रयुञ्जीत मालायां जपकर्मणि ।
तस्य कामं च मोक्षं च न ददाति प्रियङ्करी ॥ २ ॥

जन्मान्तरे जायतेऽसौ वेदवेदाङ्गपारगः ।
मिश्रीभावं ततो याति चण्डालैः पापकर्मभिः ॥ ३ ॥

इति । ब्रह्मयामले -

खड्गशृङ्गस्य या माला पितृणां मोक्षदायिनी ।
निशादारुकृता वश्ये लाक्षया ज्वरकर्मणि ॥ १ ॥

अर्कस्योच्चाटने कार्या श्रीफलैर्ज्ञानसाधने ।
गजदन्तस्य मणिभिः कुर्यात् सर्वार्थदायिनी ॥ २ ॥

राजतो सर्ववश्येषु मोहने ताम्रजा स्मृता ।
मारणे चायसी प्रोक्ता श्रीफलैर्बिल्वकाष्ठजैः ॥ ३ ॥

सा पुनस्त्रिविधा प्रोक्ता सात्त्विकी राजसी तथा ।
तामसी चेति तास्वाद्या शतैरष्टोत्तरैः शुभैः ॥ ४ ॥

मणिभिः शङ्खसंभूतैः श्वेतपद्मसमुद्भवैः ।
मणिभिः सात्त्विको पुत्रजीवै रजतसंभवैः ॥ ५ ॥

श्वेतचन्दनसंभूतैरन्यैः श्वेततरूद्भवैः ।
कुशग्रन्थिभवैः कॢप्ता राजसी चतुरुत्तरैः ॥ ६ ॥

पञ्चाशद्भी रक्तपद्मबीजैश्च रक्तचन्दनैः ।
सौवर्णै रक्ततरुजैः पीतसारसमुद्भवैः ॥ ७ ॥

पद्मकाष्ठसमुद्भूतै रजनीकाष्ठसंभवैः ।
देवदारुसमुद्भूतैः कृष्णाकाष्ठसमुद्भवैः ॥ ८ ॥

मणिभिस्तामसी चाष्टाविंशद्भिर्मणिभिः कृता ।
सा शमीनिम्बबिम्वाक्षैरिन्द्रभद्रसमुद्भवैः ॥ ९ ॥

कपिशार्दूल-ऋक्षाणां जन्तूनामस्थिसंभवैः ।
नराश्वरासभेभानां स्नायुभिर्ग्रथितैरपि ॥ १० ॥

तत्तत्कार्यविभेदेन सा सा कार्या विपश्चिता ।
* * * * * * * * * * * * * * ॥ ११ ॥

इति । कुशग्रन्थिमाला तु ब्राह्मणानामेव । कुशग्रन्थ्या जपेद्विप्रः सुवर्णमणिभिर्नृपः । पुत्रजीवैर्जपेद्वैश्यः पद्माक्षैः सर्व एव च ॥ इति नारदवचनात् । गोपालस्य जपे तु पद्माक्षमालातीव प्रशस्ता गौतमेन तन्मात्रविधानात् । यथा : समाहितमना भूत्वा पद्मबीजाख्यमालया जपेत् इति । नारदपञ्चरात्रेऽपि : जपस्य गणानां प्राहुः पद्माक्षैर्भक्तिवर्द्धनैः इति । वैष्णवानामपि रुद्राक्षमालातीव प्रशस्ता । यस्तु भागवतो भूत्वे त्युपक्रम्य रुद्राक्षैश्चोत्तमाम् इति वराहवचनात् ॥

अथ जपमालासंस्कारकालः । तत्र योगिनीतन्त्रे -

द्वादश्यां वैष्णवी माला कर्तव्या साधकोत्तमैः ।
मन्त्रज्ञैर्विष्णुमन्त्रेण दिव्यभागे प्रयत्नतः ॥ १ ॥

इति । दिव्यभागे पूर्वाह्ने । शक्तीनामपि कर्तव्या भुक्त्वा रात्रौ यथाविधि ।
भोजनं तु दिवस एव ।

अष्टम्यां च नवम्यां च त्रयोदश्यां तथैव च ।
चतुर्दश्यां तथा कुर्याच्छिवस्यापि सुरेश्वरि ॥ १ ॥

चतुर्थ्यां गणनाथस्य मध्याह्ने भास्करस्य तु ।
पूर्वाह्ने देवि कर्तव्या सप्तम्यां जगदीश्वरि ॥ २ ॥

इति ॥ अथ सूत्राणि तत्रैव -

पट्टसूत्रकृता माला देव्याः प्रीतिकरी सदा ।
कार्पासैर्वैष्णवी माला पद्मसूत्रैरथापि वा ॥ १ ॥

ऊर्णाभिर्वाल्कलैर्वापि शैवी माला प्रकीर्तिता ।
कार्पाससूत्रैरन्येषां विदध्याञ्जपमालिकाम् ॥ २ ॥

इति । कार्पाससूत्रे विशेषस्तत्रैव । ततो द्विजेन्द्रपुण्यस्त्रीनिर्मितं ग्रन्थिवर्जितम् ।
विष्णुं त्रिगुणीकृत्य सूत्रं प्रक्षाल्य यत्नतः ॥ कालोत्तरे स्कन्द उवाच

देवदेव महादेव सृष्टिस्थितलयेश्वर ।
रुद्राक्षैर्जपमाला तु कथं कार्या महेश्वर ॥ १ ॥

संस्कारश्च कथं तात कर्तव्यः कीदृशं फलम् ।
* * * * * * * * * * * * * * * * ॥ २ ॥

ईश्वर उवाच

शृणु षण्मुख वक्ष्यामि रुद्राक्षैः क्रियते यथा ।
जपमाला विधानेन येन सा जपसिद्धिदा ॥ ३ ॥

एकवक्त्रैर्द्विवक्त्रैश्च चतुर्वक्त्रैश्च पञ्चभिः ।
षड्वक्त्रैर्वाथ कर्तव्या (निथो) मिश्रैस्तु वर्जयेत् ॥ ४ ॥

मुखे मुखं तु कर्तव्यं मुखे मूलं तु वर्जयेत् ।
रुद्राक्षस्योत्तमं प्रोक्तं मुखं पृष्ठं तु निम्नगम् ॥ ५ ॥

धात्रीफलप्रमाणेन श्रेष्टमेतदुदाहृतम् ।
बदरार्धप्रमाणेन चणकान्मध्यमाधये ॥ ६ ॥

ऊर्ध्ववक्त्रं तु मेर्वाख्यं कर्तव्यं तन्न लङ्घयेत् ।
नवेन तन्तुना चैतद् ग्रथनीयमसंस्पृशत् ॥ ७ ॥

इति । असंस्पृशत् त्वन्योन्यस्य । उत्तरतन्त्रे

एको मेरुस्तत्र देयः सर्वेभ्यः स्थूलसम्भवः ।
आद्यं स्थूलं ततस्तस्मात् न्यूनं न्यूनतरं तथा ॥ १ ॥

विन्यसेत् क्रमतस्तस्मात् सर्पाकारा च सा यतः ।
ब्रह्मग्रन्थियुतं कुर्यात् प्रतिबीजं यथाविधि ॥ २ ॥

अथवा ग्रन्थिरहितं दृढरज्जुसमन्वितम् ।
त्रिरावृत्त्याश्च मध्येन चार्धवृत्त्यान्तदेशतः ॥ ३ ॥

ग्रन्थिः प्रदक्षिणावर्तः स ब्रह्मग्रन्थिसंज्ञितः ।
* * * * * * * * * * * * * * * * ॥ ४ ॥

इति । तथा कालोत्तरे : एकभक्तं विधायाथ (दौ) साधको ग्रथयेत् स्वयम् ।
एकभक्तं तु पूर्वदिने नतु तद्दिने अन्यथा पूर्वाह्ने क्रियमाणायाः प्रतिष्ठायाः पूर्वं भोजनासम्भवादयुक्तत्वाच्च ।

कृतनित्यक्रियः शुद्धः उक्तेष्वक्षेषु मन्त्रवित् ।
यथाकामं यथालाभमक्षानानीय यत्नतः ॥ १ ॥

वक्त्रसाङ्कर्याकरणे यत्न उक्तः ।

अन्योन्यसमरूपाणि नातिस्थूलकृशानि च ।
कीटादिभिरदष्टानि न जीर्णानि नवानि च ॥ २ ॥

गव्यैस्तु पञ्चभिस्तानि प्रक्षाल्य च पृथक् पृथक् ।
* * * * * * * * * * * * * * * * ॥ ३ ॥

आदौ पूर्वदिने । अक्षान् रुद्राक्षान् । यथाकामं वक्त्रभेदे फलभेदश्रवणात् । शक्तिव्यतिरिक्तमेकभक्तं ज्ञेयम् ॥ पञ्चगव्यं तु नृसिंहपुराणे

दुग्धं काञ्चनवर्णायाः श्वेतायाश्चैव गोमयम् ।
गोमूत्रं ताम्रवर्णाया नीलायाश्च भवेद्दधि ॥ १ ॥

घृतं वै कृष्णवर्णाया इत्येतत्पञ्चगव्यकम् ।
गवां वर्णास्तु सुलभाः सन्ति देशेषु यत्र च ॥ २ ॥

तत्र वर्णविभागेन पञ्चगव्यानि चाहरेत् ।
वर्णालाभे न दोषोऽस्ति मात्राहीनं तु वर्जयेत् ॥ ३ ॥

गोशकृद्द्विगुणं मूत्रं सर्पिदद्याच्चतुर्गुणम् ।
क्षीरमष्टगुणं प्रोक्तं पञ्चगव्ये तथा दधि ॥ ४ ॥

गायव्यादाय गोमूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधिक्राब्णेत्यृच्या दधि ॥ ५ ॥

तेजोऽसि शुक्रभित्याज्यं देवस्य त्वा कुशोदकम् ।
सद्योजातेति मन्त्रेण क्षालयेत् पञ्चगव्यकैः ॥ ६ ॥

प्रक्षाल्येत्युक्तं कथं तदिति विवृणोति स्वयं । सद्य इति पञ्चगव्यैर्जलैश्च ।
क्षालयेत् पञ्चगव्येन सद्योजातेन सज्जलैः । इति तत्त्वसारवचनात् ।

चन्दनागुरुगन्धाद्यैर्वामदेवेन घर्षयेत् ।
धूपयेत् तामघोरेण कृष्णागुरुसुगुग्गुलैः ॥ १ ॥

तत्पुरुषाख्यमन्त्रेण लेपयेच्चन्दनादिभिः ।
* * * * * * * * * * * * * * * * ॥ २ ॥

आदिपदेन कर्पूरकस्तूरीकुंकुमादीनि गृह्यन्ते । मन्त्रयेत् पञ्चमेनैव प्रत्येकं तु शतं शतम् । मेरुं च पञ्चमेनैव तथाघोरेण मन्त्रयेत् ॥ इति ।
शैवागमे :

अश्वत्थपत्रनवकैः (कं) पद्माकारेण कल्पयेत् ।
सूत्रं मणींश्च गन्धाद्भिः क्षालितांस्तत्र निक्षिपेत् ॥ १ ॥

तारं शक्तिं मातृकां च सूत्रे रुद्राक्षके पृथक् ।
विन्यस्य पूजयेदाज्यैर्जुहुयाच्चैव शक्तितः ॥ २ ॥

मणिमेकैकमादाय सूत्रे तत्र तु योजयेत् ।
गोपुच्छसदृशी कार्या एकाग्रा वा समेरुका ॥ ३ ॥

मुद्राष्टकं दर्शयित्वा प्रत्येकं पूजयेत् क्रमात् ।
ग्रथितं पञ्चभिर्मन्त्रैः पूर्ववच्च सदा शिवे ॥ ४ ॥

इति । मन्त्रैः सद्योजातादिभिः पञ्चभिः । होमोऽप्येभिरेव मन्त्रैः ।
पूजाहोमयोरेकमन्त्रस्यावश्यकत्वात् । एकाग्रेति समरूपः । मुद्राष्टकं त्वावाहनादि अनन्तरं पूजाविधानात् । अन्यमणिष्वप्ययं संस्कार इति यत् वदन्ति तदज्ञानविजृम्भितम् । रुद्राक्षाणामयं प्रोक्तः संस्कारः श्रुतिचोदितः । इतरेषु तु तन्त्रोक्तः कर्तव्यो गुरुसाधकैः । इति कालोत्तरवचनादेव ॥ अथ रुद्राक्षमाहात्म्यं तदुत्पत्तिस्तन्मुखभेदास्तत्फलानि च । तत्र स्कन्दपुराणे :

त्रिपुरो नामदैत्यस्तु पुरासीदतिदूर्जयः ।
जितास्तेन सुराः सर्वे ब्रह्मविष्ण्वीन्द्रदेवताः ॥ १ ॥

त्रिपुरस्य वधार्थाय देवानां पालनाय च ।
लोकानां भयनाशाय ऋतुधर्मप्रवृत्तये ॥ २ ॥

सर्वदेवमयं दिव्यं ज्वलितं घोररूपकम् ।
चिन्तितं यन्मया पुत्र अघोरास्त्रमनुत्तमम् ॥ ३ ॥

निष्ठायास्तस्य भार्यायास्तावद्यावददृश्यत् ।
दिव्यवर्षसहस्राणि चक्षुरुन्मीलितं तया ॥ ४ ॥

पुटाभ्यामाकुलाक्षिभ्यां पतिता जलबिन्दवः ।
ते चास्रुबिन्दवो जाता महारुद्राक्षवृक्षकाः ॥ ५ ॥

स्थावरत्वमनुप्राप्ता मर्त्यानुग्रहकारणात् ।
फलन्ति सर्वकालं हि अविच्छिन्नफलप्रदाः ॥ ६ ॥

इति । वासिष्ठे लैङ्गए -

ब्रह्मेन्द्रमुख्यसकलामररक्षणार्थे शम्भोः पुरासुरविमर्दनकृत्यकाले ।
तत् त्रैपुरेक्षणनिरोधभवाद्धि वारि रुद्राक्षवृक्षनिकराणि तदा बभूवुः ॥ १ ॥

रुद्राक्षान् कण्ठदेशे दशनपरिमितान् मस्तके विंशती द्वे षट्षट् कर्णप्रदेशे करयुगलगतान् द्वादश द्वादशैव ।
बाह्वोरिन्दोः कलाभिः पृथगिति गदितं चैकमेकं शिखायां वक्षस्यष्टाधिकं यः कलयति च शतं स स्वयं नीलकण्ठः ॥ २ ॥

रुद्राक्षबीजमिति ये भुवि धारयन्ति हस्ते च मूर्धनि तथोरसि भूमिं (रि) भागे ॥

ते सम्वसन्ति सदृशाः यम(शत) पत्रनेत्रपद्मासनेन्द्रसुरकिन्नरपत्तनेषु ॥ ३ ॥

शिरो माला च षट्त्रिंशद् द्वादश कण्ठमालिका ।
कूर्परे षोडश प्रोक्ता द्वादश मणिबन्धयोः ॥ ४ ॥

अष्टोत्तरशतैर्युक्तमुपवीतं विधीयते ।
तदर्धमुरसो माला शिखायामेकमुच्यते ॥ ५ ॥

कर्णयोश्चापि षट्संख्या धारणक्रम ईरितः ।
संख्याहीनं न कर्तव्यमधिकं नैव दुष्यति ॥ ६ ॥

संख्याभेदे प्रवक्ष्यामि जपमाला तु या भवेत् ।
मोक्षार्थे पञ्चविंशत्या सप्तविंशतिः पौष्टिके ॥ ७ ॥

त्रिंशच्च धनसम्पत्त्यै पञ्चदशाभिचारके ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चेति चतुर्विधः ॥ ८ ॥

श्वेतो रक्तः सुवर्णाभः कृष्णवर्णः क्रमादमी ।
एतेषु ब्राह्मणः श्रेष्ठो जपमालाकृते भृशम् ॥ ९ ॥

अलाभे तु द्विजातीनामपि वा स्वस्वजातयः ।
अतिस्थूलोऽतिसूक्ष्मश्च स्फुटितो भंगुरो लघुः ॥ १० ॥

छिन्नः पुराधृतो जीर्णो रुद्राक्षो न वरः स्मृतः ।
मणौ यदुन्नतं स्थानं मुखं पृष्ठं तु निम्नकम् ॥ ११ ॥

घटयेदेकदिग् वत्स मणीन् सद्दन्तपंक्तिवत् ।
अन्योन्यघर्षणादेव जपहानिर्भवेद् ध्रुवम् ॥ १२ ॥

दृढेन रज्जुना तेन वर्तनत्रयरूपतः ।
अन्योन्यमध्यदेशे तु कर्तव्या ग्रन्थयः शुभाः ॥ १३ ॥

चतुर्दशान्तं वक्त्राणि रुद्राक्षाणां क्रमाद्भवेत् ।
धारणस्य फलं तेषां वक्ष्यते विधिवत् क्रमात् ॥ १४ ॥

एकवक्त्रः शिवः साक्षाद् ब्रह्महत्यां व्यपोहति ।
द्विवक्त्रं देवदेव्यौ तु गोवधं नाशयेद् ध्रुवम् ॥ १५ ॥

त्रिवक्त्रमनलः साक्षात् स्त्रीहत्यां हरति क्षणात् ।
चतुर्वक्त्रः स्वयं ब्रह्मा गुरुहत्यां व्यपोहति ॥ १६ ॥

पञ्चवक्त्रः शिवः साक्षात् सर्वपापैः प्रमुच्यते ।
षड्वक्त्रः कार्तिकेयस्तु धारयेद्दक्षिणे करे ॥ १७ ॥

ब्रह्महत्यादिभिर्पापैर्मुच्यते नात्र संशयः ।
सप्तवक्त्रो महानागो ह्यनन्तो नाम नामतः ॥ १८ ॥

गोवधस्वर्णचौर्याभ्यां मुच्यते सर्वदा नरः ।
अष्टवक्त्रो महासेन साक्षाद्देवो गणाधिपः ॥ १९ ॥

विघ्नास्तस्य प्रणश्यन्ति सोऽन्ते याति परां गतिम् ।
नववक्त्रो भैरवः स्याद् धारयेद्वामहस्तके ॥ २० ॥

भुक्तिदो मुक्तिदः प्रोक्तो मम तुल्यो बली भवेत् ।
दशवक्त्रो भवेद्वत्स साक्षाद्देवो जनार्दनः ॥ २१ ॥

पिशाचग्रहवेतालब्रह्मराक्षसपन्नगैः ।
सम्भवानि च दोषाणि क्षिप्रं नश्यन्ति धारणात् ॥ २२ ॥

वक्त्रैकादशरुद्राक्ष रुद्रा एकादश स्मृताः ।
शिखायां धारयेन्नित्यं तस्य पुण्यफलं शृणु ॥ २३ ॥

अश्वमेघसहस्रस्य वाजिपेयशतस्य च ।
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥ २४ ॥

तत्फलं समवाप्नोति वक्त्रैकादशधारणात् ।
वक्त्रद्वादशरुद्राक्षं भास्करद्वादशात्मकम् ॥ २५ ॥

बहुस्वर्णाश्वगोमेधफलं प्राप्नोति धारणात् ।
वक्त्रत्रयोदशं वत्स रुद्राक्षं यदि धारयेत् ॥ २६ ॥

पूज्यते सततं देवैः प्राप्यते पुण्यमुत्तमम् ।
चतुर्दशसुवक्त्रं वै रुद्राक्षं यदि धारयेत् ॥ २७ ॥

मूर्ध्नि स्थिते तु वै नित्यं तस्मिन् यो म्रियते नरः ।
पवित्रमयवक्त्रस्तु (?) शशिखण्डशिराः स्वयम् ॥ २८ ॥

वन्द्यते सततं देवैः सत्यं च शृणु षण्मुख ।
बहुलं प्राप्यते पुण्यं भाग्यवान् जायते नरः ॥ २९ ॥

स्नाने दाने जपे होमे वैश्वदेवे सुरार्चने ।
प्रायश्चित्ते तथा श्राद्धे दीक्षाकाले विशेषतः ॥ ३० ॥

रुद्राक्षधारी भूत्वा च यत्किञ्चित् कर्म वैदिकम् ।
यो विप्रः सततं कुर्यात् तत्कर्म सफलं भवेत् ॥ ३१ ॥

इति । पद्मपुराणे -

कण्ठे शिरसि हस्ते च कर्णयोरुपवीतके ।
रुद्राक्षधारणादेव रुद्रो भवति मानवः ॥ १ ॥

इति । शैवपूराणे -

रुद्राक्षान् धारयेद्विप्रः सन्ध्यादिषु च कर्मसु ।
तत्सर्वं सफलं प्रोक्तं लक्षकोटिगुणं ध्रुवम् ॥ १ ॥

लिङ्गदर्शनवत् पुण्यं भवेद्रुद्राक्षदर्शनात् ।
ततः कोटिशतं पुण्यं लभते धारणान्नरः ॥ २ ॥

शिरसा धारणाद् कोटिः कर्णयोर्दश कोटयः ।
गले बद्धवा कोटिशतं मूर्ध्नि कोटिसहस्रकम् ॥ ३ ॥

अयुतं चोपवीते च लक्षकोटिर्भुजद्वये ।
अप्रमेयफलं हस्ते सुरुद्राक्षधरो भवेत् ॥ ४ ॥

इति । लैङ्गे वासिष्ठे -

खादन्मांसं पिबन्मद्यं संगच्छन्नन्त्यजातिभिः ।
सद्यो भवति पूतात्मा रुद्राक्षे शिरसि स्थिते ॥ १ ॥

इति । स्कन्दपुराणे -

रुद्राक्षं कण्ठमाश्रित्य शुनोऽपि म्रियते यदि ।
सोऽपि रुद्रत्वमाप्नोति किं पुनर्मानुषादयः ॥ १ ॥

उच्छिष्टो वा विकर्मस्थो युक्तो वा सर्वपातकैः ।
मुच्यते सर्वपापेभ्यो नरो रुद्राक्षधारणात् ॥ २ ॥

रुद्राक्षमालिकां कण्ठे धारयन् भक्तिवर्जितः ।
पापकर्मापि यो नित्यं रुद्रलोके महीयते ॥ ३ ॥

इति । शैवपुराणे - अरुद्राक्षधरो भूत्वा यत्किञ्चित्कर्म वैदिकम् ।
कुर्याद्विप्रस्तु यो मोहान्न स प्राप्नोति तत्फलम् इति । वासिष्ठे लैङ्गे -

रुद्राक्षधारणे लज्ज येषामस्ति महमुने ।
संकीर्णा सा भवेद् ब्रह्मंस्तेषां वंशपरम्परा ॥ १ ॥

इति । अथान्येषामक्षविशेषाणां तु योगिनीतन्त्रे -

उक्तेष्वक्षेषूक्तसूत्रैर्ग्रथितां साधकोत्तमः ।
मालां विधाय वै पात्रे क्वचिद्गन्धादिचर्चिताम् ॥ १ ॥

भूतशुद्ध्यादिकां पूजां समाप्य तत्र पूजयेत् ।
गणेशसूर्यविष्ण्वीशदूर्गाश्चावाह्य पूजयेत् ॥ २ ॥

पञ्चगव्ये तु तां क्षिप्त्वा हौंमन्त्रेण च मन्त्रवित् ।
तस्मादुत्तोल्य तां मालां स्वर्णपात्रे निधाय च ॥ ३ ॥

पयोदधिधृतक्षौद्रशर्कराद्यैरनुक्रमात् ।
तयोधूपान्तिकैः कृत्वा पञ्चामृतविधिं बुधः ॥ ४ ॥

क्रमात्तत्रैव संस्थाप्य स्नापयेच्छीतलैर्जलैः ।
ततश्चन्दनसौगन्धिकस्तूरिकुंकुमादिभिः ॥ ५ ॥

तां संलिप्य ह्सौंबीजमष्टोत्तरशतं जपेत् ।
तस्यां नवग्रहांश्चापि दिक्पालांश्च प्रपूजयेत् ॥ ६ ॥

ततः सम्पूज्य च गुरुं गृह्णीयान्मालिकां शुभाम् ।
* * * * * * * * * * * * * * * * * ॥ ७ ॥

इति । भैरवीतन्त्रे

आदौ गणपतिं देवं सूर्यं विष्णुमुमापतिम् ।
दुर्गां च पूजयेद् विद्वान् मालायां सुसमाहितः ॥ १ ॥

पञ्चगव्ये क्षिपेन्मालां प्रासादेनाभिमन्त्रिताम् ।
ततस्तूत्तोल्य तां मालां स्थापयेद्धेमपात्रके ॥ २ ॥

अत्र प्रासादेन वक्ष्यमाणप्रासादमन्त्रेण ।

पञ्चामृतेन संस्नाप्य शीतलेन जलेन च ।
चन्दनेन सुगन्धेन कस्तूरीकुंकुमादिभिः ॥ ३ ॥

अभिषेकं ततः कृत्वा मन्त्रेनानेन मन्त्रवित् ।
प्रानं जीवसमारूढमौकारस्वरभूषितम् ॥ ४ ॥

बिन्दुनादसमायुक्तं मन्त्रराजं प्रविन्यसेत् ।
नव ग्रहान् पूजयित्वा ततो दिक्पालपूजनम् ॥ ५ ॥

तिलेन घृतयुक्तेन शक्तितो होमयेत्ततः ।
स्वर्णं तु दक्षिणां दद्याद् विप्रांस्तु परितोषयेत् ॥ ६ ॥

इति । अनेन प्रासादेन । प्रविन्यसेदष्टोत्तरशतं जपेदित्यर्थः । प्राणो हकारः जीवः सकारः ह्सों इति । दक्षिणा आचार्याय ।
स्वर्णपात्राभावेऽश्वत्थपात्रं ग्राह्यमुक्तयोगिनीतन्त्रवचनात् ।
प्रकारान्तरं तु कुब्जिकातन्त्रे

शिल्पिनं पूजयेदादौ वस्त्रगन्धानुलेपनैः ।
संहृष्टः कारयेन्मालां विशुद्धां स्वर्णरूप्यिणीम् ॥ १ ॥

यथायोग्यं वेधवतीं मालां कुर्याद्विचक्षणः ।
वर्णमानेन सा कार्या पञ्चगव्ये त्र्यहं क्षिपेत् ॥ २ ॥

वर्णमानेन मातृकावर्णमानेन तत्संख्ययेत्यर्थः । एतेन शतसंख्यैरक्षैर्माला कार्येति प्राप्यते ।

सूत्रं चापि चतुर्थेऽह्नि क्षालयेदस्त्रमन्त्रकैः ।
समानवर्णसूत्रेण मापयेद् हृदयाणुना ॥ ३ ॥

सुवर्णादिगुणैर्वापि ग्रन्थयेत् साधकोत्तमः ।
ब्रह्मग्रन्थिं ततो दद्यान्नागपाशमथापि वा ॥ ४ ॥

कवचेनाथ बध्नीयान्मालां ध्यानपरायणः ।
सर्वशेषे ततो मेरुं सूत्रद्वयसमन्वितम् ॥ ५ ॥

ग्रन्थयेत् तारयोगेन बध्नीयात् साधकोत्तमः ।
एवं निष्पाद्य देवेशि प्रतिस्ठां च समाचरेत् ॥ ६ ॥

स्थण्डिले मण्डलं कृत्वा यथाभागविधिक्रमात् ।
पूजयित्वा यथान्यायमिष्टदेवमनुक्रमात् ॥ ७ ॥

मण्डलं स्वेष्टदेवतापूजाचक्रम् ।

न्यासपूर्णं जपेन्मन्त्रमष्टोत्तरसहस्रकम् ।
जुहुयाच्च दशांशेन यस्य देवस्य यत्प्रियम् ॥ ८ ॥

यत्प्रियमित्यनेन पुरश्चरणाङ्गहोमे यद्द्रव्यं यस्य देवस्योक्तं तेन होमयेदित्युक्तम् ।

ततो मण्डलमध्ये तु तां मालां स्थापयेद् बुधः ।
अस्त्रमन्त्रं ततो न्यस्य मूलमन्त्रं ततो न्यसेत् ॥ ९ ॥

अङ्गानि तानि विन्यस्य देववत् परिचिन्तयेत् ।
अभेदरूपमासाद्य मालां कुर्यात् तदात्मिकाम् ॥ १० ॥

ततो बलिं यथान्यायं दद्यात् तैः साधकोत्तमः ।
एवं प्रतिष्ठामापाद्य मालायामिष्टदेवताम् ॥ ११ ॥

आचार्यं पूजयेन्मन्त्री शिल्पिनं च यथाविधि ।
नान्यमन्त्रं जपेत् तत्र यदीच्छेत् सिद्धिमात्मनः ॥ १२ ॥

इति । अस्त्रादिर्जप्तव्यमन्त्रस्य ग्राह्यः । बलिं मालायास्तैर्होमद्रव्यैः । तथा उत्तरतन्त्रे

दृढसूत्रं नियुञ्जीत जपे तु प्रीतितो यथा ।
जीर्ण सूत्रे पुनः सूत्रं ग्रन्थयित्वा शतं जपेत् ॥ १ ॥

इति । शैवागमे -

यदा संत्रुट्यते माला ग्रन्थयित्वा तु पूर्ववत् ।
प्रतिष्ठितायां तस्यां तु मन्त्रं जप्यादनन्यधीः ॥ १ ॥

इति । तथा (: तर्जन्या न स्पृशेत्सूत्रं कम्पयेन्नैव धूनयेत् । न स्पृशेद्वामहस्तेन करभ्रष्टं न कारयेत् ॥ अक्षाणां चालनेऽगुष्ठेनान्यमक्षं न संस्पृशेत् । जपकाले सदा विद्वान् मेरुं नैव विलङ्घयेत् ॥ परिवर्तनकाले तु शब्दं नैव च कारयेत् । कलहश्च भवेच्छब्दे चलन्त्यां च चलेन्मतिः ॥ चलिते चैव विद्वेषः स्फुटिते व्याधिसम्भवः ।
हस्तच्युते महाविघ्नः सूत्रच्छेदे विनश्यति ॥) इति केचित्तु करांगुलिभिरेव जपः कार्यः इति वदन्ति तत्र प्रमाणं चिन्त्यम् वस्तुतस्तु पुरश्चरणेऽपि ज्ञेयम् ।
जपमालाभावे करेणैव जपगणना कार्या । उक्तं च नारदपञ्चरात्रे : अथांगुलिभिरेवापि जपकर्म समारभेत् । प्रपञ्चसारेऽपि (२० । ४०)

पद्मासनः प्राग्वदनोऽप्रलापी तन्मानसस्तर्जनिवर्जिताभिः ।
अक्षस्रजा वांगुलिभिर्जपेत् तं नातिद्रुतं नातिविलम्बितं च ॥ १ ॥

इति । मन्त्रतन्त्रप्रकाशे - जपस्य गणानां कुर्यादथवांगुलिपर्वभिः । इति तत्प्रकारमाह श्रीभैरवीतन्त्रे -

अनामामध्यमारभ्य कनिष्ठानुक्रमेण तु ।
मध्यमामूलपर्यन्ता करमाला प्रकीर्तिता ॥ १ ॥

इति । गौतमोऽप्याह : कनिष्ठानामिकांगुष्ठमध्यमाभिर्जपेत् सदा इति ।
तदानामामध्यमूलकनिष्ठामूलमध्याग्रानामाग्रमध्यमा- ग्रमध्यमूलपर्यन्तमिति नवसु पर्वसु गणनायां कृतायां नववारं जपो भवति । एवं द्वादशवारं पुनः पुनरावर्तयित्वाष्टोत्तरशतजपो भवति । द्वादशोत्तरशतावृत्त्याष्टोत्तरसहस्रजपो भवति ।
इत्थमयुतादिष्वप्यूहनीयम् । वस्तुतस्तु तन्त्रान्तरदर्शनात् तर्जनीसहितांगुलिभिरेव जपः कार्यः । यदुक्तं कुलमूलावतारे :

अथ वक्ष्ये महेशानि जपस्य गणनाफलम् ।
अंगुलीजपसंख्याजं फलमेकगुणं स्मृतम् ॥ १ ॥

रेखयाष्टगुणं विद्यात् पुत्रजीवैर्दशाधिकम् ।
शतं स्याच्छेषमणिभिः प्रवालैस्तु सहस्रकम् ॥ २ ॥

स्फाटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ।
पद्माक्षैर्दशलक्षं तु सौवर्णैः कोटिरुच्यते ॥ ३ ॥

कुशग्रन्थ्या च रुद्राक्षैरनन्तगुणितं भवेत् ।
श्वेतपद्माक्षमालाभिर्जपे स्यादमितं फलम् ॥ ४ ॥

अंगुलीभिर्जपं कुर्वन् सांगुष्ठांगुलिभिर्जपेत् ।
अंगुष्ठेन विना जप्तं विफलं भवति प्रिये ॥ ५ ॥

पर्वभिर्वांगुलीनां तु जपेदनुदिनं प्रिये ।
मध्यमानामिकामध्यपर्वद्वयमिह प्रिये ॥ ६ ॥

मेरुप्रकल्पनं कुर्वन् प्रदक्षिणमनुक्रमात् ।
अनामामूलपर्वादिकनिष्ठानुक्रमेण तु ॥ ७ ॥

तर्जन्यग्रादितो देवि मध्यमूलावसानकम् ।
गणयेच्च क्रमेणैवं किञ्चित् संकोचयेत् तलम् ॥ ८ ॥

अंगुलीर्न वियुञ्जीत जपकाले महेश्वरि ।
अंगुलीनां वियोगे तु च्छिद्रेषु स्रवते जपः ॥ ९ ॥

उल्लंघ्य गणनां देवि न मन्त्रं प्रजपेत् क्वचित् ।
यतस्तज्जपमीशानि बलाद् गृह्णन्ति राक्षसाः ॥ १० ॥

अथवा मध्यमामध्यमूलपर्वद्ययं प्रिये ।
मेरुं कृत्वा जपेद् देवि तर्जनीमूलकावधि ॥ ११ ॥

अनामामध्यपर्वादिप्रादक्षिण्यक्रमेण वै ।
* * * * * * * * * * * * * * * * ॥ १२ ॥

इति । अत्रांगुलीजपो रेखाजपः पर्वजप (श्चेति त्रिविधः करमालाजपः तत्र कनिष्ठाद्यंगुष्ठपर्यन्तं पुनःपुनर्गणनांगुलिजपः कनिष्ठाद्यंगुलिगतरेखाभिर्जपो रेखाजपः पर्वजपश्चेति सतु) प्रोक्तलक्षण एवेति । मातृकार्णवे :

श्वेतमन्त्रस्य ये वर्णाः स्वरव्यञ्जनभेदतः ।
पृथक् कृतास्तैः कुर्वीत वर्णमालां विशेषतः ॥ १ ॥

मेरुं च प्रणवं कुर्यात् जपेत् तन्मालया बुधः ।
शीघ्रं सिद्धिर्भवत्येव सत्यं सत्यं न संशयः ॥ २ ॥

अंशाधिक्यं तु विज्ञाय प्रस्तारक्रमभेदतः ।
तद्भूतवर्णदेशके व्यञ्जनानां सुरेश्वरि ॥ ३ ॥

तत्तद्भूतस्वरैर्युक्तं कृत्वा योज्य स्वरत्रयम् ।
तत्तद्भूतप्रधानार्णं मेरुं कृत्वा विचक्षणः ॥ ४ ॥

तन्मन्त्रं प्रजपेत्तत्र मालया सिद्ध्यति ध्रुवम् ।
मन्त्रार्णौषधिचूर्णस्य गुटिकाकृतमालया ॥ ५ ॥

जपेत् सर्वार्थसिद्धिः स्यान्नात्र कार्या विचारणा ।
* * * * * * * * * * * * * * * * ॥ ६ ॥

इति ॥ अथ पुरश्चरणकाले विहितानि तत्र नारदः -

मनःसंहरणं शौचं मौनं मन्त्रार्थचिन्तनम् ।
अव्यग्रत्वमनिर्वेदो जपसम्पत्तिहेतवः ॥ १ ॥

इति त्रैलोक्यसम्मोहनतन्त्रे -

लोभमात्सर्यरहितः कामक्रोधविवर्जितः ।
सर्वथा लभते सिद्धिमन्यथा निष्फलं भवेत् ॥ १ ॥

इति । कुम्भसम्भवः -

नित्यं नैमित्तिकं यद्यत् कुर्वन् वर्णाश्रमोदितम् ।
तदेव कर्म कुर्वीत तन्मनास्तत्परायणः ॥ १ ॥

दान्तस्त्रिषवणस्नायो मौनी सम्मार्जितान्तरः ।
यजेत् वैष्णवं कर्मस्थिरधीर्नियतेन्द्रियः ॥ २ ॥

इति । गौतमः -

स्वकर्मणि रतिर्यस्य तस्य सिद्धिरदूरतः ।
दूरतोऽपि न सिद्धिः स्यादितरस्य द्विजोत्तमः ॥ १ ॥

क्रूरस्यापि न सिद्धिः स्यादिति सत्यं न संशयः ।
* * * * * * * * * * * * * * * * * ॥ २ ॥

इतरस्य स्वधर्मानिरतस्य दूरतो चिरकालेनापि ॥ मन्त्रार्णवे -

भूशयया ब्रह्मचारित्वं मौनं चाप्यनसूयता ।
नित्यं त्रिषवणस्नानं क्षुद्रकर्मविवर्जनम् ॥ १ ॥

नित्यपूजा नित्यदानं देवतास्तुतिकीर्तनम् ।
नैमित्तिकार्चनं चैव विश्वासो गुरुदेवयोः ॥ २ ॥

जपनिष्ठा द्वादशैते धर्माः स्युर्मन्त्रसिद्धिदाः ।
* * * * * * * * * * * * * * * * ॥ ३ ॥

इति । (ब्रह्मचारित्वमष्टविधमैथुननिवृत्तिः) तदुक्तं गोरक्षेण -

स्मरणं कीर्तनं कीलिः प्रेक्षणं गुह्यभाषणम् ।
सङ्कल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव च ॥ १ ॥

एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ।
विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥ २ ॥

इति । अभिलाषपूर्वकस्मरणकीर्तनप्रेक्षणानि निषिद्धानि । केलिः परिहासादिबाह्यचेष्टा । गुह्यभाषणं सम्भोगार्थ रहोमन्त्रणम् ।
संकल्पो मानसं कर्म । अध्यवसायः सम्भोगनिश्चयः । त्रिषवर्ण स्नानं शक्तपरम् । स्नानं त्रिषवणं प्रोक्तमशक्त्या द्विः सकृच्चरेत् । इति वै शंपायनवचनात् । क्षुद्रं कर्म तु : दम्भद्वेषौ तथोत्साद उच्चाटो भ्रममारणे । व्याधिश्च इति स्मृत्यन्तरमिति नारायणीयोक्तम् । नित्यपूजा नित्यं तर्पणपूर्वकमेव जपविधानात् नैमित्तिकार्चनमयनादौ विशेषपूजा । तदुक्तं मन्त्रतन्त्रप्रकाशे :

अष्टोत्तरसहस्रं तु कृत्वा तर्पणमादरात् ।
जपेत् प्रतिदिनं यत्तु नित्य एष जपः स्मृतः ॥ १ ॥

अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ।
द्वादश्यां पूर्णिमायां तु तेषु नैमित्तिको जपः ॥ २ ॥

नित्यात् त्रिगुणितः सोऽथ पूजा चैव हरेस्तथा ।

इति । कपिलपञ्चरात्रे - मन्त्रश्च देवतातारातिथिवारेषु जप्यताम् । इति तथा च गौतमः -

ततो गुरोः पादपद्मं पुष्पाञ्जलिभिरर्चयेत् ।
तस्मादाशीः सदा ग्राह्या ततः सन्तोषमाचरेत् ॥ १ ॥

सन्तुष्टे तु गुरौ देवः सन्तुष्टो नान्यथा भवेत् ।
* * * * * * * * * * * * * * * * * ॥ २ ॥

इति । तथा श्रीभगवद्वाक्यम् -

सन्तुष्टो हि गुरुर्यस्य तस्य तुष्टं जगत्त्रयम् ।
नास्त्यसाध्यं जगत्यत्र सुप्रसन्ने गुरो मुने ॥ १ ॥

हृदि न्यसेद् गुरोर्वाक्यं न कदाचिद्विलङ्घयेत् ।
* * * * * * * * * * * * * * * * ॥ २ ॥

इति । कुम्भसम्भवः -

स्नायाच्च पञ्चगव्येन केवलामलकेन वा ।
श्रुतिस्मृतिपुराणोक्तमन्त्रैः स्नायादनन्तरम् ॥ १ ॥

अनुतिष्ठेदनुष्ठेयं शुचिर्व्रततमोऽनिशम् ।
* * * * * * * * * * * * * * * * ॥ २ ॥

इति । प्रपञ्चसारे (१० । ४१) अथ तु हविष्यप्राशी नक्ताशी वा जपेन्मनुं चैवम् इति । वा शब्दः समुच्चये । फेत्कारिणीतन्त्रे -

भैक्षादिनियमाहारः सकृद्रात्रौ विधीयते ।
कन्दमूलफलैर्वापि कुर्यादशनमन्वहम् ॥ १ ॥

इति । त्रैलोक्यसम्मोहनतन्त्रे -

गुरुगोविप्रबालेषु दीनान्धकृपणेषु च ।
भवेच्छुद्धमतिर्मन्त्री नच द्रोहं समाचरेत् ॥ १ ॥

पश्चाद्गोभ्यः समभ्यर्च्य ग्रासं दद्यात् सुशोभनम् ।
* * * * * * * * * * * * * * * * ॥ २ ॥

इति ॥ गौतमः गोषु भक्तिः सदा कार्या गोषु शुश्रूषणं तथा ।
नित्यं गोषु प्रसन्नासु गोपालाऽपि प्रसीदति ॥ १ ॥

इति ॥ अथ निषिद्धानि त्रैलोक्यसम्मोहनतन्त्रे -

नाप्रियं कस्यचिद् ब्रूयान्नामृतं वा कदाचन ।
न च्छायामाक्रमेद्विद्वान् विभीतककरञ्जयोः ॥ १ ॥

न कुर्यात् कस्यचित् किञ्चिन्न गृह्णीयाज्जपान्तरे ।
तैलाभ्यङ्गं न कुर्वीत मधु मांसं च वर्जयेत् ॥ २ ॥

स्त्रीषु सम्भाषणं नैव कुर्याद् देवि विमोहितः ।
न नग्नो न सुगन्धाढ्यो गीतवाद्ये विवर्जयेत् ॥ ३ ॥

इति । न गृह्णीयादिति सति सम्भवे असम्भवे तु तद्दिनभैक्षमात्रं ग्राह्यमिति भक्षमानयुक्तेः । विमोहितः कामपरवशः । प्रयोगसारे : विभीतकार्ककारञ्जस्नुहीछायां न संश्रयेत् इति । कुम्भसम्भवः :

वाङ्मनः कर्मभिर्नित्यं निःस्पृहो वनितादिषु ।
स्त्रीशूद्रपतितव्रात्यनास्तिकोच्छिष्टभाषणम् ॥ १ ॥

असत्याश्लीलयोर्नित्यं भाषणं परिवर्जयेत् ।
सम्यैरपि न भाषेत् जपहोमार्चनादिषु ॥ २ ॥

वर्जयेद् गीतवाद्यादिश्रवणं नृत्यदर्शनम् ।
ताम्बूलं गन्धलेपं च पुष्पधारणमेव च ॥ ३ ॥

मैथुनं तत्कथालापं तद्गोष्ठीं च विवर्जयेत् ।
असद्भाषणमत्यर्थं वर्जयेदन्यपूजनम् ॥ ४ ॥

कौटिल्यं क्षौरमभ्यङ्गमनिवेदितभोजनम् ।
असङ्कल्पितकृत्यं च वर्जयेन्मर्दनादिकम् ॥ ५ ॥

त्यजेदुष्णोदकस्नानं सुगन्धामलकादिकम् ।
* * * * * * * * * * * * * * * * ॥ ६ ॥

लभ्यैरित्यत्र प्रायश्चित्तमाह नारदः -

सकृदुच्चारिते शब्दे प्रणवं समुदीरयेत् ।
प्रोक्ते पामरशब्देऽपि प्राणायामं सकृच्चरेत् ॥ १ ॥

बहुप्रलापे च चाम्य न्यस्याङ्गानि ततो जपेत् ।
क्षुते चैव तथास्पृश्यस्थानानां स्पर्शने तथा ॥ २ ॥

इति । योगियाज्ञवल्क्य -

यदि वाग्यमलोपः स्याज्जपादिषु कथञ्चन ।
व्याहरेद्वैष्णवं मन्त्रं स्मरेद्वा विष्णुमव्ययम् ॥ १ ॥

इति । वायवीयसंहितायाम् -

पतितानामन्त्याजानां दर्शने भाषिते श्रुते ।
क्षुतेऽधोवायुगमने जृम्भणे जपमुत्सृजेत् ॥ १ ॥

अप आचम्य चैतेषां प्राणायामं षडङ्गकम् ।
कृत्वा सम्यग्जपेच्छेषं यद्वा सूर्यादिदर्शनम् ॥ २ ॥

मार्जारं कुक्कुटं क्रौञ्चं श्वानं गृध्रं खरं कपिम् ।
दृष्ट्वाचम्य चरेत् कर्म स्पृष्ट्वा स्नानं विधीयते ॥ ३ ॥

एवमादींश्च नियमान् पुरश्चरणकृच्चरेत् ।
* * * * * * * * * * * * * * * * ॥ ४ ॥

इति । तथा श्रीशिववचनम्-

क्रोधं क्षुतं मदं त्रीणि निष्ठीवनविजृम्भणे ।
दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि ॥ १ ॥

आचान्तः सम्भवे तेषां स्मरेद्वा मां त्वया सह ।
ज्योतींषि च प्रपश्येद्वा कुर्याद्वा प्राणसंयमम् ॥ २ ॥

इति । मां महेश्वरम् । त्वया सह पार्वत्या सह । लिङ्गपुराणे-

सूर्योऽग्निश्चन्द्रमाश्चैव ग्रहनक्षत्रतारकाः ।
एते ज्योतींषि चोक्तानि विद्वद्भिर्ब्राह्मणस्तथा ॥ १ ॥

इति ॥ तथा -

क्रोधो मदः क्षुधा तन्द्रा निष्ठीवनविजृम्भणे ।
श्वनी च दर्शनं निद्रा प्रलापोऽमी जपद्विषः ॥ २ ॥

इति ॥ तथा विष्णुधर्मोत्तरे -

उपविष्टो जपेत् स्नातः क्षुतप्रस्खलितादिषु ।
पूजायां नाम कृष्णस्य सप्तवारं प्रकीर्तयेत् ॥ १ ॥

इति । फेत्कारिणीतन्त्रे-

जपकाले यदा पश्येदशुचि मन्त्रवित्तमः ।
प्राणायामं ततः कृत्वा ततः शेषं समापयेत् ॥ १ ॥

यदा चैवं भवेन्मन्त्री स्वयमप्यशुचिः पुनः ।
स्नात्वाचम्य यथान्यायं कृत्वा न्यासान् पुनर्जपेत् ॥ २ ॥

इति । न्यासमधिकारसम्पादकम् । एतेन मूत्रौत्सर्जनादावशुचिसम्भवे च स्नानमन्यथा प्राणायामषडङ्गन्यासान् कृत्वा शेषं समापयेदिति प्रतीयते वैशम्पायन् -

अस्नातस्य फलं नास्ति तथातर्पयतः पितॄन् ।
नाप्यतर्पयतो देवान् नासत्यमभिजल्पतः ॥ १ ॥

नैकवासा जपेन्मन्त्रं बहुवासाकुलोऽपि वा ।
* * * * * * * * * * * * * * * * ॥ २ ॥

इति योगिनीतन्त्रे -

अनास्थाजपमत्यन्तमश्रद्धा जपकर्मणि ।
आलस्यं भावनाशक्तिः सिद्धिनाशाय निश्चितम् ॥ १ ॥

त्यजेद् दुष्टप्रवादं च परीवादं च वर्जयेत् ।
त्यजेद् दुर्जनसंस्पर्शं साशङ्कादिभवं त्यजेत् ॥ २ ॥

इति । वायवीयसंहितायां -

उष्णीषी कञ्चुकी नग्नो मुक्तसेशो गलावृतः ।
अपवित्रकरोऽशुद्धः प्रलपन्न जपेत् क्वचित् ॥ १ ॥

असम्वृतौ करौ कृत्वा शिरसि प्रावृतोऽपि वा ।
चिन्ताव्याकुलचित्तो वा क्रुद्धो भ्रान्तः क्षुधान्वितः ॥ २ ॥

अनासनः शयानो वा गच्छन्नुत्थित एव वा ।
रथ्यायामशिवस्थाने जपेन्न तिमिरालये ॥ ३ ॥

उपानद्गूढपादो वा यानशययागतस्तथा ।
प्रसार्य न जपेत् पादावुत्कटासन एव वा ॥ ४ ॥

इति । कपिलपञ्चरात्रे -

विक्षेपादथवालस्याज्जपहोमार्चनान्तरे ।
उत्तिष्ठति तदा न्यासं षडङ्गं विन्यसेत् पुनः ॥ १ ॥

इति । अपवित्रकरः पवित्रं कुशः । अस्त्री कुशं कुशो दर्भपवित्रम् इति हि कोशः ।
विना दर्भेण यत्कर्म विना सूत्रेण वा पुनः । राक्षसं तद्भवेत्सर्वं नेहामुत्रफलप्रदम् । इति कूर्मपुराणवचनेन तस्यावश्यकत्वाभिधानात् ।
सूत्रं यज्ञोपवीतम् । विष्णुरपि : स्नातः सुप्रक्षालितपाणिपादः शुचिर्बद्धशिखो दर्भपाणिराचान्तः प्राङ्मुख उदङ्मुखो वोपविश्य मौनी ध्यानी देवताः पूजयेत् इति । तत्र वामे बहुकुशाः दक्षिणे पारिभाषिकं पवित्रम् । तथा सन्ध्योपक्रमे कात्यायनः :

सव्ये पाणौ कुशान् कृत्वा कुर्यादाचमनक्रियाम् ।
ह्रस्वाः प्रचरणीयाः स्युः कुशा दीर्घाश्च बर्हिषः ॥ १ ॥

दर्भाः पवित्रमित्युक्तमतः सन्ध्यादिकर्मसु ।
सव्यः सोपग्रहः कार्यो दक्षिणः सपवित्रकः ॥ २ ॥

इति । सव्ये वामे । ननु कीदृशा धार्या दक्षिने धार्या नवेत्यत आह : ह्रस्वाः पार्वणपञ्चयज्ञादिप्रचारार्थाः दीर्घा बर्हिःसज्ञकाः प्रस्तारपरिस्तरणार्थाः । प्रचारादन्येषु सन्ध्यादिषु दर्भा बहव एव धार्या विशेषरहिताः कर्मसु शुद्धिसाधनं नत्वेकः । कुशोपग्रहः इति कुशहस्तः समाहितः इति अशून्यं तु करं कुर्यात् सुवर्णरजतैः कुशैः इति पारस्कर गोभिलादिभिरप्युक्तम् । अतो विशेषाभावात् सन्ध्यादिषु सव्यः सकुशमुष्टिः दक्षिणस्तु अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेव च ।
प्रादेशमात्रं विज्ञेयं पवित्रं यत्रकुत्रचित् ॥ इत्युक्तलक्षणपवित्रयुक्तः ।
अन्तर्गर्भभिन्नं गर्भगर्भि द्वितीयमन्तर्गर्भि तृतीयं च विहाय चतुर्थं ग्राह्यम् । लघुहारीतः :

जपे होमे तथा दाने स्वाध्याये पितृतर्पणे ।
अशून्यं तु करं कुर्यात् सुवर्णरजतैः कुशैः ॥ १ ॥

इति । सुवर्णधारणं तु दक्षिणेऽनामिकायाम् । अनामिकायां तद्धार्यं दक्षिणस्य करस्य च इति हेमधारणप्रकरणे देवीपुराणवचनात् । रजतं तु तर्जन्यां धार्यम् यत्रोपदिश्यते कर्म कर्तुरङ्गं न तूच्यते । दक्षिणस्तत्र विज्ञेयः कर्मणामपरः करः इति कात्यायनवचनात् तर्जनीमूलस्य पितृतीर्थत्वेन देवतरजतधारणं तत्रैव न्याययमित्येतन्मूलमहाजनाचारेण निर्णीतप्रामाण्यात् तर्जन्यां रजतं धार्यम् इति स्मृतिसमुच्चयलिखितवचनाच्च । सव्यापसव्यवलितं ब्रह्मग्रन्थिसमन्वितम् । लङ्घयेत् पर्वमात्रं तु द्वितीयं नैव लङ्घयेत् (इति वचनादनामामध्यपर्वणि सग्रन्थि पवित्रं धार्यम् । कर्मकाले प्रकुर्वीत सपवित्रामनामिकाम् । लङ्घयेदेकपर्वास्या द्वितीयं नैव लङ्घयेत्) इति शङ्खवचनाच्च । सुवर्णरजतैरिति बहुवचनं बहुधारणस्य कर्माङ्गत्वं व्यनक्ति । तच्च दधित्ववत्सुवर्णत्वरजतत्वजात्योर्द्व्यणुकादारभ्य वृतेरेकधारणेऽप्युपपद्यते इति । वामनपुराणे :

उदकेन विना पूजा विना दर्भेण या क्रिया ।
आज्येन च विना होमः फलं दास्यन्ति नैव ते ॥ १ ॥

इति । स्मृत्यर्थसारे-

कुशाः काशा यवा दूर्वा उशीराश्च समं शरैः ।
गोधूमा व्रीहयो मुञ्जा दश दर्भाः सवल्वजाः ॥ १ ॥

नमोमासस्य दर्शे तु शुचिर्दर्भान् समाहरेत् ।
अयातयामास्ते दर्भा विनियोज्याः पुनः पुनः ॥ २ ॥

विरिञ्चिना सहोत्पन्न परमेष्ठिनिसर्गज ।
नुद पापानि सर्वाणि भव स्वस्तिकरो मम ॥ ३ ॥

इति मन्त्रं समुच्चार्य ततः पूर्वोत्तरामुखः ।
हुंफट्कारेण मन्त्रेण सकृच्छित्वा समुद्धरेत् ॥ ४ ॥

अच्छिन्नाश्चाप्यशुष्काग्राः पित्र्ये तु हरिताः शुभाः ।
अमूला देवकार्येषु प्रयोज्याश्च जपादिषु ॥ ५ ॥

सप्तपत्राः कुशाः शस्ता दैवे पित्र्ये च कर्मणि ।
अनन्तर्गर्भिणौ साग्रौ पादेशे तु पवित्रके ॥ ६ ॥

चतुर्भिर्दर्भपिञ्जूलैर्ब्राह्मणस्य पवित्रकम् ।
एकैकपर्णमुत्सृज्य वर्णे वर्णे यथाक्रमम् ॥ ७ ॥

सर्वेषां भवति द्वाभ्यां पवित्रं ग्रथितं तथा ।
त्रिभिस्तु शान्तिके कार्य पौष्टिके पञ्चभिस्तथा ॥ ८ ॥

चतुर्भिश्चाभिचारे स्याद्विनिष्कारौश्च (? द्वेषे चैक)केन च ।
सपवित्रः सदर्भो वा कर्माङ्गाचमनं चरेत् ॥ ९ ॥

नोच्छिष्टं तद्भवेत्तस्य भुक्तोच्छिष्टं तु वर्जयेत् ।
यैः कृतः पिण्डनिर्वापः श्राद्धं वा पितृतर्पणम् ॥ १० ॥

विण्मूत्रादिषु ये दर्भास्तेषां त्यागो विधीयते ।
नीवीमध्यस्थितास्त्याज्या यज्ञभूमौ स्थितास्तथा ॥ ११ ॥

वामहस्ते स्थिते दर्भेन पिबेद् दक्षिणेन तु ।
वस्त्रादितोयग्रहणे न दोषः पिवतो भवेत् ॥ १२ ॥

न ब्रह्मग्रन्थिनाचामेन्न दूर्वाभिः कदाचन ।
स्नाने होमे जपे दाने स्वाध्याये पितृतर्पणे ॥ १३ ॥

सपवित्रो सदर्भो वा करौ कूर्वीत नान्यथा ।
कुशाभावे तु काशाः स्युः काशाः कुशसमाः स्मृताः ॥ १४ ॥

काशाभावे ग्रहीतव्या अन्ये दर्भा यथोचिताः ।
नार्द्रो लुनीयाद्रात्रौ वा लुनीयाद्वा न सन्ध्ययोः ॥ १५ ॥

दर्भाभावे स्वर्णरौप्यताम्रैरपि क्रियाश्चरेत् ।
* * * * * * * * * * * * * * * * ॥ १६ ॥

इत्यास्तां विस्तरः । नारदपञ्चरात्रे -

अपवित्रकरो नग्नः शिरसि प्रावृतोऽपि वा ।
प्रलपन् वा जपेद्यावत् तावन्निष्फलमुच्यते ॥ १ ॥

इति । नग्नमाहात्रिः -

नग्नो मलिनवस्त्रः स्यान्नग्नश्चार्द्रपटस्तथा ।
नग्नो द्विगुणवस्त्रः स्यान्नग्नः स्निग्धपटस्तथा ॥ १ ॥

द्विकच्छोऽनुत्तरीयश्च नग्नश्चावस्त्र एव च ।
* * * * * * * * * * * * * * * * ॥ २ ॥

इति । भविष्यपुराणे

द्विकच्छः कच्छशेषश्च बहिःकच्छस्तथैव च ।
एककच्छः कच्छशून्यो नग्नः पञ्चविधः स्मृतः ॥ १ ॥

इति । देवलः - बहुवासा भवेन्नग्नो नग्नः कौपीनवाससा इति । कात्यायनः -

दानमाचमनं होमं भोजनं देवतार्चनम् ।
प्रोढपादो न कुर्वीत् स्वाध्यायं चैव तर्पणम् ॥ १ ॥

आसनारूढपादस्तु जानुनोर्जङ्घयोस्थथा ।
कृतावसक्थिको यस्तु प्रौढपादः स उच्यते ॥ २ ॥

इति । मन्त्रतन्त्रप्रकाशे तु : उक्तनियमानभिधाय शक्तावेवं सर्वमेतदशक्तः शक्तितो जपेत् इत्युक्तम् ॥

अथ जपस्तत्र कुम्भसम्भवः -

गुरोर्लब्धस्य मन्त्रस्य शश्वदावर्तनं हि यत् ।
अन्तरङ्गाक्षराणां च न्यासपूर्वो जपः स्मृतः ॥ १ ॥

इति । अङ्गेति सुतीक्ष्णसंबोधनम् । अक्षराणामन्तरावर्तनं जपः इति सम्बन्धः । तद्भेदानाह वायवीयसंहितायाम् -

जपः स्यादक्षरावृतीर्वाचिको पांशुमानसः ।
य उच्चनीचस्वरितैः शब्दैः स्पष्टपदाक्षरैः ॥ १ ॥

मन्त्रमुच्चारयेद्वाचा वाचिकः स जपः स्मृतः ।
शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ च चालयेत् ॥ २ ॥

किञ्चिच्छ्रवणयोग्यः स्यादुपांशुः स जपः स्मृतः ।
जिह्वाजपः स विज्ञेयः केवलं जिह्वया जपः ॥ ३ ॥

धिया यदक्षरश्रेणीं पदवर्णस्वरात्मिकाम् ।
उच्चरेदर्थसंस्मृत्या स उक्तो मानसो जपः ॥ ४ ॥

उच्चैर्जपो विशिष्टः स्याद्यज्ञादेर्दशभिर्गुणैः ।
उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः ॥ ५ ॥

इति । नारदपञ्चरात्रे -

वाचिकः सर्वकार्येषु उपांशुः सर्वसिद्धिषु ।
मानसः मोक्षकार्येषु ध्यायेदेव च सर्वतः ॥ १ ॥

इति । महाभारते -

सर्वेषामेव यज्ञानां जपयज्ञः प्रशस्यते ।
अहिंसया हि भूतानां जायते वा महाफलम् ॥ १ ॥

जपनिष्ठो द्विजश्रेष्ठः सर्वयज्ञफलं लभेत् ।
* * * * * * * * * * * * * * * * ॥ २ ॥

इति । श्रीभगवद्वचनं च यज्ञानां जपज्ञोऽस्मि इति । पाद्मनारदीययोः

यावन्तः कर्मयज्ञाः स्युः प्रदीप्तानि तपांसि च ।
ते सर्वे जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ १ ॥

जपेन देवता नित्यं स्तूयमाना प्रसीदति ।
प्रसन्ना विपुलान् भोगान् दद्यान्मुक्तिं च शास्वतीम् ॥ २ ॥

इति । भृगुसंहितायाम् -

ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः ।
ते सर्वे जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ १ ॥

इति ॥ अथासनानि तत्र नारदः -

कुशाजिनाम्बरैर्युक्तं चतुरंगुलमूर्ध्वतः ।
चतुर्हस्तं द्विहस्तं च सुदृढं मृदु निर्मलम् ॥ १ ॥

आसनं कल्पयित्वा तु जपकर्म समारभेत् ।
* * * * * * * * * * * * * * * * * ॥ २ ॥

इति । वैशम्पायनः -

सर्वसिद्ध्यै व्याघ्रचर्मज्ञानसिद्ध्यै मृगाजिनम् ।
वस्त्रासनं रोगहरं वेत्रजं श्रीविवर्धनम् ॥ १ ॥

कौशेयं पौष्टिकं ज्ञेयं कम्बलं दुःखमोचनम् ।

इति । वस्त्रमाविकम् । वक्ष्यमाणब्रह्मयामलवचनेन केवलवस्त्रासने दोषश्रवणात् । वस्त्रेषु कंबलं श्रेष्ठमासनं देवतुष्टये इत्युत्तरतन्त्रवचनात् । भृगुः -

काम्यार्थ कम्बलं चैवाभीष्टदं रक्तकम्बलम् ।
धर्मार्थकाममोक्षाप्तिश्चैलाजिनकुशोत्तरे ॥ १ ॥

इति । ब्रह्मयामले-

कम्बलौ श्वेतरक्तौ च विचित्रौ नीलपीतकौ ।
व्याघ्राजिनं च कौरङ्गमन्यैर्नानाविधासनैः ॥ १ ॥

इति ॥ अथ निषिद्धासनानि सारसंग्रहे -

वंशेष्टकाश्मधरणीतृणपल्लवनिर्मितम् ।
वर्जयेदासनं मन्त्री दारिद्र्यव्याधिदुःखदम् ॥ १ ॥

नादीक्षितो विशेज्जातु कृष्णसाराजिने गृही ।
विशेद्यतिर्वनस्थश्च ब्रह्मचारी च स्नातकः ॥ २ ॥

इति । ब्रह्मयामले -

तृणपल्लवकाष्ठानि पाषाणं मृण्मयं तथा ।
वंशासनं च वस्त्रं च केवलं क्षितिरासनम् ॥ १ ॥

एवमष्टविधं देवि चासनं परिवर्जयेत् ।
तृणासने भवेद्रोगः पल्लवे चित्तविभ्रमः ॥ २ ॥

पाषाणे च तथोच्चाटो ज्वरः स्यान्मृण्मयासने ।
क्षित्यासनं भवेत् पीडापापविस्फोटदुःखदम् ॥ ३ ॥

वंशासने दरिद्रः स्याद्वस्त्रे स्थानविनाशनम् ।
चिन्ता च प्रबला हानिरुच्चटो विविधो ज्वरः ॥ ४ ॥

शोकशूलादिका रोगा मृत्युः स्याद् दारुकासने ।
इत्थं चाष्टासनं देवि वर्जयेत् सर्वकर्मसु ॥ ५ ॥

इति ॥ थ जपपूर्वदिनकृत्यम् । तत्र त्रैलोक्यसम्मोहनतन्त्रे -

शुभे मुहूत्रे नक्षत्रे (शुद्धे काले यतव्रतः । गुरोराज्ञां समासाद्य ततः कर्म समारभेत् ॥ १ ॥

इति । सनत्कुमारः -

अथ वक्ष्यामि मन्त्रस्य पुरश्चरणमुत्तमम् ।
कृताभिषेको विधिवन्मन्त्रं लब्ध्वा गुरोर्मुखात् ॥ १ ॥

शुभे मुहूर्ते नक्षत्रे) निथौ स्नात्वा यथाविधि ।
भोजनाच्छादनाद्यैस्तु विप्रान् सन्तर्पयेद्यथा ॥ १ ॥

भूवित्तवस्त्रभूषाद्यैर्गुरुं सन्तोस्य चात्मनः ।
आरभेत जपं पश्चात् तदनुज्ञापुरःसरम् ॥ २ ॥

इति ॥ प्रथमतन्त्रे - क्षेत्रपालांश्च सम्पूज्य बलिं दद्याद्यथाविधि ।
बलिमन्त्रस्तु

पूर्वमेहिद्वयं पश्चाद्विदुषि स्यान्मुरुद्वयम् ।
मञ्जयद्वितयं भूयो तर्जयद्वितयं तथा ॥ १ ॥

ततो विघ्नपदद्वन्द्वं महाभैरवतत्परम् ।
क्षेत्रपाल बलिं गृह्णद्वयं पावकसुन्दरी ॥ २ ॥

बलिमन्त्रोऽयमाख्यातः सर्वकामफलप्रदः ।
तथैव परिवाराय बलिमेतेन चाहरेत् ॥ ३ ॥

इति । मन्त्रः प्रयोगे वक्ष्यते । ततश्चोपवासः कर्तव्यः । अथ जपारम्भस्तत्र महाकपिलपञ्चरात्रे -

एवं नक्षत्रतिथ्यादौ करणे योगवासरे ।
मन्त्रोपदेशो गुरुणा साधनं च शुभावहम् ॥ १ ॥

इति दीक्षापुरश्चरणयोः समाननक्षत्रादिकं ज्ञेयम् ।
तत्र प्रागुक्तविधिना विचार्य समीचीनसमयं ज्ञात्वा समारभेत् ।

तदुक्तं दक्षिणमूर्तिकल्पे :

साधयेत् प्रवरो विद्वान् पूर्वपक्षं समाश्रितः ।
पुण्ये मुहूर्ते नक्षत्रे तिथु स्नात्वा यथाविधि ॥ १ ॥

नत्वा गुरुं गणेशं च नत्वा दुर्गां च मातृकाः ।

इति । तथा कुम्भसम्भवः ततः संकल्प्य कुर्वीत पुरश्चरणमादरात् ।
नारदीये संकल्पं तु बुधः कुर्यात् स्वस्तिवाचनपूर्वकम् । तथा देवलः :

अभुक्त्वा प्रातरेवाथ (राहारं) स्नात्वाचम्य समाहितः ।
सूर्यादिदेवताभ्यश्च निवेद्य व्रतमाचरेत् ॥ १ ॥

प्रातर्व्रतमाचरेदिति सम्बन्धः । व्रतं स्वकर्तव्यविषयो नियमसङ्कल्पः ॥ तदुक्तं कुम्भसम्भवेन -

कर्तव्यस्य समस्तस्य नियमग्रहणं व्रतम् ।
नियमव्यतिरेकेण सर्वं भवति निष्फलम् ॥ १ ॥

इति । अभुक्त्वा प्रातराहारमित्येकवचनादर्थात्पूर्वदिन एकभक्तं कार्यम् ।
अतश्चोपवासाशक्तस्यैकभक्तं ज्ञेयम् । सूर्यादिदेवताभ्य इति सूर्यः सोम इत्यादिना मत्स्यपुराणोक्तपर्यायेण निवेद्येत्यर्थः । ते श्लोकास्तु प्रयोगे वक्ष्यन्ते । महाभारते :

गृहीत्वोदुम्बरं पात्रं वारिपूर्णमुदङ्मुखः ।
उपवासं तु गृह्णीयात् तथा संकल्पयेद् बुधः ॥ १ ॥

उदङ्मुख इति नियमग्रहणार्थम् । संकल्पयेत् मनसा नियमयेदिति । तथा गौतमः : अन्तर्जानुकरं कृत्वा सलिलं सकुशोदकम् । फलं समभिसन्धाय इति । तथा कुम्भसम्भवः : निष्कामानामनेनैव साक्षात्कारो भवेत् इति ।
साक्षात्कारः स्वेष्तदेवतादर्शनम् अनेन पुरश्चरणेनेति । अत्र यद्यपि मनसा संकल्पयति वा चाभिलपति कर्मणा चोपपादयति इति हारीतवचनात् तस्माद्यत्पुरुषो मनसाधिगच्छति तद्वाचा वदति तत्कर्मणा करोति इति श्रुतेश्च मनसाधिगतस्य वाचाभिलापे क्रियमाणे येन रूपेण मनसाधिगच्छति तेनैव वाचाप्यभिलापः कर्तव्यः इति प्राप्यते अतोऽमुककामेन मया इदं कर्तव्यमिति फलक्रियोल्लेख एव प्रतीयते तथापि मासादीनामप्युल्लेखः कर्तव्यः । तथा च ब्रह्माण्डपुराणे : मासपक्षतिथीनां च निमित्तानां च सर्वशः । उल्लेखनमकुर्वाणो न तस्य फलभाग्भवेत् ॥ इति मासपक्षतिथीनां च सर्वशः सर्वप्रकारेण सामान्यविशेषभावेन । तत्र सामान्येन (मासपक्षतिथिपदेन विशेषतः कार्तिकशुक्लप्रतिपदादिपदेन । दृश्यते च अस्मिन्मासि सिते पक्षे इत्यादिमुनीनां प्रयोगः । निमित्तानां च देशकालादीनां सर्वप्रकारेण तत्र सामान्येन) भारतवर्षपदेन तस्य सर्वकर्मफलहेतुत्वात् । तदुक्तं विष्णुपुराणे :

इतः सम्प्राप्यते स्वर्गो मुक्तिमस्मात्प्रयाति हि । तिर्यक्त्वं नारकत्वं च यात्यतः पुरुषो मुने ॥ न खल्वन्यत्र मर्त्यानां कर्मभूमिर्विधीयते । इति ।
विशेषेण काश्यादिपदेन कालस्यापि सामान्यत अद्येत्यनेन विशेषतः सूर्योपरागादिपदेन च । नचैवं मासादीनां निमित्ततायामुल्लेखद्वयप्रसङ्गः संयोगपृथक्त्वन्यायेन सकृदुल्लेखस्यैवोभयार्थत्वात् उल्लेखनं वचनप्रयोगमकुर्वतः फलाभावश्चाभिहितः । अत एव गरुडपुराणे श्राद्धप्रकरणे : ओं अद्यास्मिन्देशेऽमुकमासेऽमुकपक्षेऽमुकतिथावमुकराशिगते सवितरि इत्याद्यभिलापः । अग्निपुराणे : अद्य सोमार्कग्रहणे संक्रान्त्यादौ सुतीर्थके ।
इति तथा : मकरस्थे रवौ माघे प्रातःकाले तथामले । गोपदेऽपि जले स्नानं सवर्गदं पापिनामपि इति ॥ पद्मपुराणे विधिवाक्ये मकरस्थे रवौ माघे इत्युक्तम् । एवमन्येष्वपि विधिवाक्येषु श्रूयते । फलं चात्र : मन्त्रसिद्धिः सकामानां इत्युक्तवचनात् । नचैहिकी एव मन्त्रसिद्धिरित्यभिलपनीयम् उक्तनारदवचनेनोभयसिद्धेः पुरश्चरणफलत्वाभिधानादिति । तथा : पूजा त्रैकालिकी नित्यं जपस्तर्पणमेव च । होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते ॥ इति कुम्भसम्भवेन जपादीनामेव पुरश्चरणशब्दनाभिधानाच्च पुरश्चरणमहं करिष्ये इत्यभिलपनीयम् ।
नच पुरश्चरणस्य चिरसमयसध्यत्वेन अद्यामुकतिथौ पुरश्चरणं करिष्ये इत्यनुपपन्नं स्यादिति । सांप्रतं करिष्ये इति कृधातोः कृतिमात्रार्थत्वात् क्रियायाः कृतिसामान्यान्वितत्वेन वर्तमानतिथौ यया कयापि कृत्या संपादितया तत्तत्तिथो कृतेर्निर्वाहत्वोपपत्तेरिति । एवं जपमद्यारभ्य करिष्ये इत्यतः परमाशौचेऽपि न जपबाधः ।

तदुक्तं विष्णुना -

यज्ञव्रतविवाहेषु श्राद्धे होमार्चने जपे ।
प्रारब्धे सूतकं न स्यादनारब्धे च सूतकम् ॥ १ ॥

प्रारम्भो वरणं यज्ञे संकल्पो व्रतजापयोः ।
नान्दीमुखं विवाहादौ श्राद्धे पाकपरिष्क्रिया ॥ २ ॥

इति । वस्तुतस्तु तान्त्रिकदीक्षावतामाशौचादिसम्भवेऽपि नित्यार्चनबाधोपि नास्ति । जपो देवार्चनविधिः कार्यो दीक्षान्वितैर्नरैः । नास्ति पापं यतस्तेषां सूतकं वा यतात्मनाम् इति देवीयामलवचनात् ॥ सूतके मृतके चैव धूमोद्गारादिके तथा । जपार्चाद्यं तथा कुर्यान्मन्त्रन्यासपुरःसरम् इति मृडानीतन्त्रवचनात् । शिवविष्ण्वर्चने दीक्षा यस्य चाग्निपरिग्रहः । ब्रह्मचारियतीनां च शरीरे नास्ति सूतकम् इति विष्णुयामलवचनात् । सूतके मृतके चैव नित्यं विष्णुमयस्य च ।
सानुष्ठानस्य विप्रेन्द्र सद्यः शुद्धिः प्रजायते इति नारदपञ्चरात्रवचनात् उपासने तु विप्राणामङ्गशुद्धिः प्रजायते इति पाराशरवचनाच्च । तत्र विप्राणामित्युक्तैः क्षत्रियादीनामधिकारो नास्तीति प्रतीयते । ब्राह्मणस्यैव पूज्योऽहं शुचेरप्यशुचेरपि । स्त्रीशू-इत्यादि संस्पर्शो वज्रपातात् सुदुःसहः ॥ इति विष्णुवचनात् । विप्रस्य तु सदैवाहं शुचेरप्यशुचेरपि ।
पूजां गृह्णामि शूद्रस्य पुनः स्वचारवर्तिनः ॥ इति शिववचनात् ।
नैवाप्रपूज्य भुञ्जीत शिवलिङ्गं महेश्वरि । सूतके मृतके चापि न त्याज्यं शिवपूजनम् ॥ इति लिङ्गपुराणवचनाच्चेति । शूद्रस्येत्युपलक्षणं विप्रस्येत्युक्तत्वादिति एतत्तान्त्रिकपूजायामेव पञ्चयज्ञादौ तु नाधिकारः ।
(अग्निहोत्रादिकर्मार्थ शुद्धिस्तात्कालिकी स्मृता । पञ्चयज्ञान् प्रकुर्वीत ह्यशुचिः पुनरेव सः ॥ इति गौतमवचनात्) । तात्कालिकी यावतातत्कर्म सिद्ध्यति ।
नैमित्तिककाम्यपूजायां तु तान्त्रिकाणामपि नाधिकारः ।

सूतके मृतके चापि वर्तमाने तु नारद ।
कामतः पूजिते मन्त्रे शान्तिकादौ च कुत्रचित् ॥ १ ॥

जपेत् पञ्चशतं मन्त्री सिंहमन्त्रस्य भक्तितः ।
शतत्रयमकामाच्च प्रायश्चित्तविधौ जपेत् ॥ २ ॥

इति नारदपञ्चरात्रवचनात् । अकामात् नैमित्तिकार्चने । वायवीयसंहितायाम् -

एकभक्तविधानेन विलम्बत्वरितं विना ।
उक्तसंख्यं जपं कुर्यात् पुरश्चरणसिद्धये ॥ १ ॥

देवतागुरुमन्त्राणमैक्यं संभावयन् धिया ।
जपेदेकमनाः प्रातःकालान्मध्यन्दिनावधि ॥ २ ॥

यत्संख्यया समारब्धं तत्कर्तव्यं दिने दिने ।
यदि न्यूनाधिकं कुर्याद् व्रतभ्रष्टो भवेन्नरः ॥ ३ ॥

इति । अत्र दिवा चैव जपं कुर्यात्पौरश्चरणिको विधिः । इति फेत्कारिणीतन्त्रेऽपि दिवापदाभिधानात्तु जपं रात्रौ च वर्जयेत् इति कुम्भसम्भवेन रजनीजपनिषेधाच्च देशकालाद्युपद्रवसम्भावनायां चतुर्थमुहूर्तपर्यन्तमपि जप्तव्यम् । पञ्चममुहूर्तस्य तु : राक्षसीनाम सा वेला गर्हिता सर्वकर्मसु । इति मत्स्यपुराणे निन्दितत्वादिति । अत्र मुहूर्तशब्देन भाग उच्यते दिवसस्य पञ्चमभागो निषिद्ध इत्यर्थः । तथा पिङ्गलामते :

नाध्यातो नार्चितो मन्त्रः सुसिद्धोऽपि प्रसीदति ।
नाजप्तः सिद्धिदानेच्छुर्नाहुतः फलदो भवेत् ॥ १ ॥

पूजा ध्यानं जपं होमं तस्मात् कर्मचतुष्टयम् ।
प्रत्यहं साधकः कुर्यात् स्वयं चेत् सिद्धिमिच्छति ॥ २ ॥

जपस्यान्तः शिवं ध्यायेद् ध्यानस्यान्तः पुनर्जपेत् ।
जपध्यानसमायुक्तः शीघ्रं सिद्ध्यति मन्त्रवित् ॥ ३ ॥

नारदः -

संख्यापूर्तौ निजैर्द्रव्यैर्जपसंख्यादशांशतः ।
यथोक्तकुण्डे जुहुयाद्यथाविधि समाहितः ॥ १ ॥

अथवा प्रत्यहं जप्त्वा पूर्वस्मिंस्तावदेव हि । (जुहुयात्तद्दशांशतः)

इति । वैशम्पायनः -

नैरन्तर्ययविधिः प्रोक्तो न दिनं व्यतिलङ्घयेत् ।
दिवसातिक्रमात् पुंसो मन्त्रसिद्धिर्भवेत् नहि ॥ १ ॥

यावत्संख्यं जपेदह्नि पूर्वस्मिंस्तावदेव तु ।
दिनान्तरेऽपि प्रजपेदन्यथा सिद्धिरोधकृत् ॥ २ ॥

गौतमः -

ध्यानार्चनजपानां च प्राणायामास्त्रयस्त्रयः ।
आद्यन्तयोर्विधीयन्ते नासिकापुटचारिणः ॥ १ ॥

इति । उत्तरतन्त्रे -

जपादौ पूजयेन्मालां तोयैरभ्युक्ष्य यत्नतः ।
निधाय मण्डलस्यान्तः सव्यहस्तगतां च वा ॥ १ ॥

इष्टमन्त्रेण मालायाः प्रोक्षणं परिकीर्तितम् ।
* * * * * * * * * * * * * * * * ॥ २ ॥

ओं मां माले महामाये सर्वशक्तिस्वरूपिणि ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ १ ॥

पूजयित्वा ततो मालां गृह्णीयाद् दक्षिणे करे ।
बीजं गणपतेः पूर्वमुच्चार्य तदनन्तरम् ॥ २ ॥

अविघ्नं कुरु माले त्वं गृह्णीयादित्यनेन च ।
* * * * * * * * * * * * * * * * ॥ ३ ॥

इति । मण्डलस्यान्तर्निधाय वा सव्यहस्ते गतां वाभ्युक्ष्य पूजयेदिति संबन्धः । तथा -

जपं समारभेत् पश्चात् पूर्ववद्ध्यानमास्थितः ।
हस्तेन स्रजमादाय चिन्तयन् मनसा शिवाम् ॥ १ ॥

चिन्तयित्वा गुरुं मूर्ध्नि यथावर्णादिकं भवेत् ।
मन्त्रं च कण्ठतो ध्यात्वा पीतवर्णं हिरण्मयम् ॥ २ ॥

महामायां च हृदये आत्मानं गुरुपादयोः ।
आज्ञाचक्रे ततः पश्चाद् गुरोर्मन्त्रस्य चात्मनः ॥ ३ ॥

देव्याश्चाप्येकतां नित्वा सुषुम्नावर्त्मना ततः ।
तत्त्वस्वरूपमेकं तद्यच्चक्रं प्रतिलम्भयेत् ॥ ४ ॥

षट्चक्रेऽपि महामायां क्षणं ध्यात्वा प्रयत्नतः ।
लम्भयेन्मूलमन्त्रेण आदिषोडशचक्रकम् ॥ ५ ॥

आदिषोडशचक्रस्थां साधकानन्ददायिनीम् ।
चिन्तयन् साधको देवि जपकर्म समारभेत् ॥ ६ ॥

भ्रुवोरुपरि नाडीनां त्रयाणां प्रान्त उच्यते ।
तत्प्रान्ते त्रिपथस्थानं षट्कोणं चतुरंगुलम् ॥ ७ ॥

रक्तं च कूलयोगज्ञैराज्ञाचक्रमितीष्यते ।
कण्ठे त्रयाणां नाडीनां वेष्टनं विद्यते नृणाम् ॥ ८ ॥

सुषुम्नेडापिङ्गलानां षट्कोणं तत्षडंगुलम् ।
तत्षट्चक्रमिति प्रोक्तं शुक्लं कण्ठस्य मध्यगम् ॥ ९ ॥

त्रयाणामपि नाडीनां हृदये चैकता भवेत् ।
तत्स्थानं षोडशारं स्यात् सप्तांगुलप्रमाणतः ॥ १० ॥

तत्पीतमुक्तं योगज्ञैरादिषोडशचक्रकम् ।
ध्येयानामपि मन्त्राणां चिन्तनस्य जपस्य च ॥ ११ ॥

यस्मादाद्यं तु हृदयं तस्मादादीति गद्यते ।
* * * * * * * * * * * * * * * * ॥ १२ ॥

इति । तस्मात् प्रणवोच्चारात् । तदुक्तं तत्रैव

निःसेतु च यथा तोयं क्षणान्निम्नं प्रसर्पति ।
मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति यज्वनाम् ॥ १ ॥

तस्मात् सर्वत्र मन्त्रेषु चतुर्वर्णा द्विजातयः ।
पार्श्वयोः सेतुमादाय जपकर्म समारभेत् ॥ २ ॥

समारभेयुरित्यर्थः । छान्दसत्वादेकवचनम् । मन्त्राणां प्रणवः सेतुस्तत्सेतुः प्रणवः स्मृतः । चतुर्दशस्वरो योऽसौ शेष औकारसंज्ञकः ।
स चानुस्वारचन्द्राभ्यां शूद्राणां सेतुरुच्यते । अत्र शिवामित्युपलक्षणं तेन स्वेष्टदेवतामित्यर्थः । सर्वपूजासु संगतमिति स्वयमभिधानात् । तथा :

पूजयित्वा ततो मालां गृह्नीयाद्दक्षिणे करे ।
मध्यमाया मध्यभागे वर्जयित्वा तु तर्जनीम् ॥ १ ॥

अनामिकाकनिष्ठाभ्यां युताया नम्रभावतः ।
स्थापयित्वा तत्र मालामंगुष्ठाग्रेण तद्गतम् ॥ २ ॥

प्रत्येकं बीजमादाय अङ्कादूर्ध्वेन भैरव ।
प्रतिवारं पठेन्मन्त्रं शनैरोष्ठौ न चालयेत् ॥ ३ ॥

मालाबीजं तु जप्तव्यं स्पृशेन्न हि परस्परम् ।
पूर्वं जपप्रयुक्तन चांगुष्ठाग्रेण भैरव ॥ ४ ॥

पूर्वबीजं जपन्यस्तु परबीजं तु संस्पृशेत् ।
अंगुष्ठेन भवेत्तस्य निष्फलः स जपः सदा ॥ ५ ॥

मालां स्वहृदयासन्ने धृत्वा दक्षिणपाणिना ।
देवीं विचिन्तयन् जप्यं कुर्याद्वामेन न स्पृशेत् ॥ ६ ॥

इति । अङ्कादूर्ध्वेनांगुष्ठाग्रेणेत्यर्थः । मालाबीजं तत्सम्बन्धिमणिः ।
शैवागमे -

तर्जन्या न स्पृशेत् सूत्रं कम्पयेन्न विधूनयेत् ।
न स्पृशेद्वामहस्तेन करभ्रष्टं न कारयेत् ॥ १ ॥

अक्षाणां चालनेऽंगुष्ठेनान्यमक्षं न संस्पृशेत् ।
जपकाले सदा विद्वान् मेरुं नैव विलङ्घयेत् ॥ २ ॥

परिवर्तनकाले च संघट्टं नैव कारयेत् ।
कलिः खटखटाशब्दे दोलमाने चलन्मतिः ॥ ३ ॥

पतिते चैव विद्वेषः स्फुटिते व्याधिसम्भवः ।
हस्तच्युते महाविघ्नः सूत्रच्छेदे विनश्यति ॥ ४ ॥

पतिते मध्यमाया अंगुल्यन्तरगते । स्फुटिते मणौ । सूत्रच्छेदे गुणच्छेदेऽपीत्यर्थः । तथा -

कासे क्षुते च जृभायामेकमावर्तनं त्यजेत् ।
प्रमादात् तर्जनीस्पर्शे भवेदावर्तनं त्यजेत् ॥ १ ॥

जपे निषिद्धसंस्पर्शे क्षालयित्वा पुनर्जपेत् ।
* * * * * * * * * * * * * * * ॥ २ ॥

इति । आवर्तनं मन्त्रस्य । योगिनीतन्त्रे -

सर्वास्वपि च मालासु मेरुः पार्श्वे विधीयते ।
न स्पृशेतं कदाचित् तु स्पृष्ठे ह्यावर्तनं पुनः ॥ १ ॥

न स्पृशेत् तर्जन्येति सर्वत्र तर्जनीस्पर्शस्यैव निषेधात् अन्यांगुलीनामस्पर्शासम्भवाद्वेति । तथा महाकपिलपञ्चरात्रे -

एकचित्तः प्रशान्तात्माप्यक्षसूत्रकरः शुचिः ।
भुग्नग्रोवोन्नतः शान्तः कण्डून्मीलनवर्जितः ॥ १ ॥

सविसर्गं समात्रं च सविन्दुं साक्षरं स्फुटम् ।
नद्रुतं नापि विश्रान्तं क्रमान्मन्त्रं जपेत् सुधीः ॥ २ ॥

इति । नारदपञ्चरात्रे -

अक्षरादक्षरं यावत् सर्वदोषविवर्जितम् ।
विलम्बितं च नातीव तथा स्पष्टपदोद्भवम् ॥ १ ॥

चित्तविक्षेपरहितमत्युत्कृष्टधियान्वितम् ।
एवं कृत्वा जपं विप्र विनिवेद्यश्च यागवत् ॥ २ ॥

इति । योगिनीतन्त्रे -

अष्टोत्तरशतं वापि जपान्ते शिरसि क्षिपेत् ।
त्वं माले सर्वदेवानां प्रीतिदा शुभदा मम ॥ १ ॥

शिवं कुरुष्व मे भद्रे यशो वीर्य च सर्वदा ।
पुष्करं शिखिबीजस्थं सूक्ष्मसूक्ष्मान्वितं भवेत् ॥ २ ॥

आकाश शशिसंयुक्तं सिद्ध्यं हृदयसंयुतम् ।
एष पञ्चाक्षरो मन्त्रो मालायाः परिकीर्तितः ॥ ३ ॥

ग्रहणे स्थापने चैव पूजने विनियोजयेत् ।
* * * * * * * * * * * * * * * * ॥ ४ ॥

पुष्करं हकारः शिखी रेफः सूक्ष्मसूक्ष्मः ईकारः आकाशशशिभ्यां बिन्द्वर्धचन्द्राभ्यां युतं सिद्ध्यै स्वरूपं हृदयं नमः । फेत्कारिणीतन्त्रे यथाशक्ति जपं कृत्वा प्राणायामत्रयं चरेत् इति । नारदपञ्चरात्रे :

जपं तदनु कुर्वीत यथा शक्त्यायुतादिकम् ।
निवेदयेद् विभोस्तच्च वाक्कर्ममनसान्वितम् ॥ १ ॥

पुण्डरीकाक्ष विश्वात्मन् मन्त्रमूर्ते जनार्दन ।
गृहणिमं जपं नाथ मम दीनस्य शाश्वत ॥ २ ॥

इत्युक्त्वार्घ्यौदकं पुष्पे कृत्वा दक्षिणपाणिगम् ।
अग्रतो निक्षिपेद् विष्णोर्मूलमन्त्रेण नारद ॥ ३ ॥

मन्त्रात्मा भगवन् विष्णुरचिरात् सिद्धिदो भवेत् ।

इति । शिवादावाह सोमशम्भुः -

मानसोपांशुवाष्पाणां (च्यानां) कुर्यादेकतमं जपम् ।
मूलस्याष्टशतं जप्त्वा न द्रुतं न विलम्बितम् ॥ १ ॥

गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रासादात् त्वयि स्थिता ॥ २ ॥

भोगी श्लोकं पठित्वामुं दक्षहस्तेन शम्भवे ।
मूलमन्त्रार्घ्यतोयेन वरहस्ते निवेदयेत् ॥ ३ ॥

इति । नारदपञ्चरात्रे -

सम्पूज्याथ जपं कुर्याद् यावद्वै प्रहरद्वयम् ।
तदूर्ध्वे पूर्ववत् स्नात्वा विशेषेण विधानवित् ॥ १ ॥

न्यासावसानमखिलम् कर्मकुर्यात् पुरोदितम् ।
पूजाग्निहोमपर्यन्तं ततश्च जपमारभेत् ॥ २ ॥

यावद्दिनावसानं तु भूयः स्नात्वा ततो द्विजः ।
उपास्य पूर्ववत् सन्ध्यां देवं संपूजयेत् पुनः ॥ ३ ॥

विसृज्य भोजनं कुर्यात् सततं तारकोदये ।
* * * * * * * * ॥ ४ ॥

सन्ध्यामुपास्य देवं पूर्ववत् पूजयेदिति संबन्धः ॥ अथातो वर्ज्यावर्ज्यानि त्रैलोक्यसंमोहनतन्त्रे

भिक्षाशी वा हविप्याशी शाकमूलफलाशनः ।
पयोव्रती वा नियतो जपेदेकाग्रमानसः ॥ १ ॥

इति । भिक्षास्वरूपमाह कुम्भसंभवः -

वैदिकाचारयुक्तानां शुचीनां श्रीमतां सताम् ।
सत्कुलस्थानजातानां भिक्षाशी वाग्रजन्मनाम् ॥ १ ॥

इति । नारदः -

चरुमूलफलक्षीरदधिभिक्षान्नसक्तवः ।
एतत्सप्तविधं प्रोक्तं पवित्रं व्रतभोजनम् ॥ १ ॥

इति । कपिलः -

यावो यवागुः शाकं च पयो भैक्षं हविष्यकम् ।
पूर्वं पूर्वं प्रशस्तं स्यादशनं मन्त्रसाधने ॥ १ ॥

इति । हविरुक्तं कुम्भसंभवेन

सितैकविधहैमन्तं मुन्यन्नं स्वीयसंशृतम् ।
अशूद्रावहतं पद्भ्यामनुत्तोल्यहतं च यत् ॥ १ ॥

दधि क्षीरं घृतं गव्यमैक्षवं गुडवर्जितम् ।
तिलाश्चैव सिता मुद्गाः कन्दः केमुकवर्जितः ॥ २ ॥

नारिकेलफलं चैव कदली लवली तथा ।
आम्रमामलकं चैव पनसं च हरीतकी ॥ ३ ॥

व्रतान्तरप्रशस्तं च हविष्यं मन्यते बुधः ।
अवैष्णवमलभ्यं चाप्यप्रशस्तं व्रतान्तरे ॥ ४ ॥

त्याज्यमेवात्र तत्सर्वं यदीच्छेत् सिद्धिमात्मनः ।
लघुमिष्टहिताशी च विनीतः शान्तचेतनः ॥ ५ ॥

मुन्यन्नं नीवारः । शातातपः -

हैमन्तिकं सिता स्विन्नं शालि मुद्गास्तिला यवाः ।
कलायकंगुनीवारा वास्तूकं हिलमोचका ॥ १ ॥

षष्टिका कालशाकं च मूलकं केमुकेतरत् ।
कन्दं सैन्धवसामुद्रे गव्ये च दधिसर्पिषी ॥ २ ॥

पयोऽनुधृतसारं च पनसाम्रे हरीतकी ।
पिप्पली जीरकं चैव नागरङ्गकतिन्तिणी ॥ ३ ॥

कदली लवली धात्री फलान्यगुडमैक्षवम् ।
अतैलपक्वं मुनयो हविष्यान्नं प्रचक्षते ॥ ४ ॥

मूलकं हविरपि वैष्णवानां निषिद्धम् । तदुक्तं विष्णुयामले -

यत्र मांसं तथा मद्यं तथा वृन्ताकमूलके ।
निवेदयेन्नैव तत्र हरेरैकान्तिकी रतिः ॥ १ ॥

इति । अथ वर्ज्यानि । तत्र कुम्भसम्भवः -

लवणं च पलं चैव क्षारं क्षौद्रं रसान्तरम् ।
माषमुद्गमसूराद्यान् कोद्रवांश्चणकानपि ॥ १ ॥

क्षारं लवणमिति सम्बन्धः । मुद्गाः सिताः । उत्तरतन्त्रे -

स्विन्नं च लवणं मांसं गृञ्जनं कांस्यभोजनम् ।
माषाढकीमसूरांश्च कोद्रवांश्चणकानपि ॥ १ ॥

ताम्बूलं च द्विभुक्तं च दुस्संवादं प्रमत्तताम् ।
* * * * * * * * * * * * * * * * ॥ २ ॥

वर्जयेत् इति । ब्रह्मयामले

निश्चयोत्साहधैर्याच्च तत्त्वज्ञानस्य दर्शनात् ।
अल्पाशनादसङ्गाच्च षड्भिर्मन्त्रः प्रसिद्ध्यति ॥ १ ॥

प्रयासाद् बहुभक्ष्याच्च प्रजल्पान्नियमाग्रहात् ।
नीचसङ्गाच्च लौल्याच्च षड्भिर्मन्त्रो न सिद्ध्यति ॥ २ ॥

अशङ्कितमनाश्चैव शिवशक्तिमयत्वतः ।
देवी मन्त्रमयं साक्षाद् ध्यायेदात्मानमात्मनि ॥ ३ ॥

मनोऽन्यत्र शिवोऽन्यत्र शक्तिरन्यत्र मारुतः ।
न सिद्ध्यति वरारोहे कल्पकोटिशतैरपि ॥ ४ ॥

पर्युषं चारनालं च कोद्रवान्नं मसूरिकम् ।
कांस्यपात्रं च तैलं च मन्त्रवीर्यहराणि षट् ॥ ५ ॥

वीर्यविज्ञानयोर्हन्ता ज्ञानहर्ता च पर्युषः ।
तस्मात् सर्वप्रयत्नेन मन्त्री पर्युषितं त्यजेत् ॥ ६ ॥

आरनालं चान्यमग्नं मन्त्री दृष्ट्वा परित्यजेत् ।
फललोपो भवेन्नूनं मन्त्रवीर्यं हरेद् ध्रुवम् ॥ ७ ॥

तेन कारणभावेन मन्त्री क्षारांश्च वर्जयेत् ।
पित्तलं मृत्युदं नूनं क्षुद्रधान्यं च कोद्रवम् ॥ ८ ॥

कोद्रवान्नं परित्याज्यं सर्वथा जपकर्मणि ।
मसूरी मानहन्त्री च परित्याज्याथ सर्वदा ॥ ९ ॥

कांस्यपात्रंशुद्धं च तच्छप्तं विष्णुना पुरा ।
मन्त्रवीर्यं हरत्याशु यद्यपि स्यान्महेश्वरः ॥ १० ॥

तस्मात्सर्वप्रयत्नेन कांस्यं त्याज्यं तु साधकैः ।
तिलतैलं मन्त्रपूतं पावनं देवदुर्लभम् ॥ ११ ॥

मर्दयित्वा प्रयत्नेन स्नानं कार्यं हि सर्वदा ।
वर्जयेज्जपवेलायां भोज्यं नैव सदा बुधैः ॥ १२ ॥

न भोक्तव्यं न भोक्तव्यं मन्त्रिणा तत्कदाचन ।
* * * * * * * * * * * * * * * * ॥ १३ ॥

इति ॥ अथ भोजनपर्यायस्तत्र कुम्भसम्भवः -

उपस्तीर्याभिधार्यैत् संस्कृत्य प्रोक्षणादिभिः ।
पाचयेद्वैदिकैर्मन्त्रैः पुनर्मूलेन मन्त्रवित् ॥ १ ॥

वैदिकैः प्रोक्षणादिभिः पाचयेदिति सम्बन्धः । मूलेन मन्त्रयेदिति शेषः ।
तथा सोमशम्भूः हृदा सम्भोजयेन्मन्त्री पूतैराचामयेज्जलैः । हृदा हृदयमन्त्रेण जलं च मूलेनाभिमन्त्रितं पिबेदिति । पलाशपत्रेण मध्यपत्रवर्जितेन कृतपत्रावल्यामेव भुञ्जीतेति वदन्ति कांस्यभजननिषेधादयं नियम इति तत्त्वम् ॥ अथ शयनं विजयमालिनीतन्त्रे अधः शयानः शुद्धात्मा जितक्रोधो जितेन्द्रियः इति ।
नारदपञ्चरात्रे :

भुक्त्वा शयीत शयने सुशुद्धे च सुशीतले ।
अर्द्धरात्रे समुत्थाय पादशौचं चरेद् द्विजः ॥ १ ॥

आचम्य देवं संस्मृत्य शीघ्रं सम्पूज्य पूर्ववत् ।
जपं कुर्याद्यथाशक्ति अर्पयेच्च तथेश्वरि ॥ २ ॥

इति । तथा वैशम्पायनः -

शयनं कुशशययायां विन्यसेच्छुचिवस्त्रधृत् ।
तद्वासः क्षालयेन्नित्यमन्यथा विघ्नमावहेत् ॥ १ ॥

इति । तथा वायवीयसंहितायाम् -

अहतास्तरणास्तीर्णे सदर्भशयने शुचिः ।
मन्त्रिते च शिवं ध्यायन् प्राक्शिरस्को निशि स्वपेत् ॥ १ ॥

इति । मन्त्रिते स्वेष्टमन्त्रेण । शिवमित्युपलक्षणम् ॥ कपिलपञ्चरात्रे

गुरुपादार्चनं कृत्वा उपवासि जितेन्द्रियः ।
दर्भशययां गतो रात्रौ दृष्ट्वा स्वप्नं निवेदयेत् ॥ १ ॥

इति । योगिनीतन्त्रे -

यज्जाग्रतो दूरमुदेति दैवमावृत्य मन्त्रान् प्रयतस्त्रिरेतान् ।
लघ्वेकभुग् दक्षिणपार्श्वशायी स्वप्नं परीक्षेत् यथोपदेशम् ॥ १ ॥

मन्त्रानिति बहुचनेन सकलं सूक्तं गृह्यते । तथा

भगवन् देवदेवेश शूलभृद् वृषवाहन ।
इष्टानिष्टं समाचक्ष्व मम स्वप्नस्य शाश्वत ॥ १ ॥

एवं सुप्तः कुशास्तीर्णे ततः प्रयतमानसः । निशान्ते पश्यति स्वप्नं शुभं वा यदि वा शुभम् ॥ २ ॥

इति । पिङ्गलामते -

तारो हिलिद्वयं शूलपाणये द्विठ ईरितः ।
स्वप्नमाणवमन्त्रोऽयं शम्भुना परिकीर्तितः ॥ १ ॥

नमोऽजाय त्रिनेत्राय पिङ्गलाय महात्मने ।
वामाय विश्वरूपाय स्वप्नाधिपतये नमः ॥ २ ॥

स्वप्ने कथय मे तथ्यं सर्वकार्येष्वशेषतः ।
क्रियासिद्धिं विधास्यामि त्वत्प्रसादान्महेश्वर ॥ ३ ॥

इति । मन्त्रतन्त्र प्रकाशे -

ओं हृत् सकललोकाय विष्णवे प्रभविष्णवे ।
विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः ॥ १ ॥

स्वप्नमाणवमन्त्रोऽयं कथितो नारदादिभिः ।
* * * * * * * * * * * * * * * * ॥ २ ॥

इति ॥ अथ शुभसूचकस्वप्नास्तत्र योगिनीतन्त्रे

त्रिविधं दर्शनं तस्य यथार्थमयथार्थकम् ।
अपावकं यत्स्वस्थानामख्यातानां हि दर्शनम् ॥ १ ॥

यथार्थ तदयथार्थमस्वस्थानां विकारजम् ।
अपावकं मानसं च यथार्थफलमुच्यते ॥ २ ॥

एषां स्वरूपमाह - यदिति दर्शनं देवादीनां विकारजं पित्रादीनां मानसं मनोविकारजं ॥

आगमसिद्धान्ते -

आद्ये वर्षे वत्सरार्धे द्वितीये यामे पाको वर्षपादात् तृतीये ।
मासे पाकः शर्वरीतुर्ययामे सद्यः पाको यो विसर्गषु दृष्टः ॥ १ ॥

आद्ये यामे दृष्टस्य स्वप्नस्य वर्षे वर्षमात्रे पाकः फलम् । एवमग्रेऽपि ।
विसर्गे निशान्ते । तथा ज्य(दू)रेऽधमा मध्यमा स्याद्दृष्टेऽनुत्तमोत्तमे ।
न विद्यते उत्तमो यस्याः सा सिद्धिरुत्तमे स्वप्ने इत्यर्थः ॥ तानेवाह तत्रैव :

स्वप्ने पश्यति वै देवं निजेष्टं सर्वतोमुखम् ।
गुरुं प्रसादसुमुखं निर्मलं चन्द्रमण्डलम् ॥ १ ॥

गङ्गां गां भारतीं भानुं लिङ्गिनं लिङ्गमैश्वरम् ।
प्रसन्नं तत्र जानीयात् सिद्धिं स्वप्ननिदर्शने ॥ २ ॥

प्रसन्नं निजेष्टदेवमत एव सिद्धमपि ॥ नारदपञ्चरात्रे -

क्षितिलाभः क्षषजाब्धितरणं चाग्निपूजनम् ।
होमश्च ज्वलिते वह्नौ संग्रामविजयस्तथा ॥ १ ॥

हंसकोकमयूराणां रथारोहणमेव च ।
* * * * * * * * * * * * * * * * ॥ २ ॥

लोकश्चक्रवाकः ॥ कपिलपञ्चरात्रे -

कन्यां छत्रं रथं दीपं प्रासादं कमलं नदीम् ।
कुञ्जरं वृषभं माल्यं समुद्रं फलिनं द्रुमम् ॥ १ ॥

पर्वतं च हयं मेध्यमाममासं सुरासवम् ।
एवमादीनि सर्वाणि दृष्ट्वा सिद्धिमवाप्नुयात् ॥ २ ॥

इति ॥ श्रुतिरपि -

यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति ।
समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने ॥ १ ॥

इति ॥ भैरवीतन्त्रे -

नदीसमुद्रतरणमाकाशगमनं तथा ।
भास्करोदयनं चैव प्रज्वलन्तं हुताशनम् ॥ १ ॥

ग्रहनक्षत्रताराणां चन्द्रमण्डलदर्शनम् । नक्षत्राण्यश्विन्यादीनि ।
तारा अन्यानिति ।

हर्म्यस्यारोहणम् चैव प्रासादशिखरेऽपि वा ।
नागाश्ववृषभेन्द्राणां तरुशैलाग्ररोहणम् ॥ २ ॥

विमानगमनं चैव सिद्धमन्त्रस्य दर्शनम् ।
लाभः सिद्धतरोश्चैव देवीनां चैव दर्शनम् ॥ ३ ॥

एवमादीनि संदृष्ट्वा नरः सिद्धिमवाप्नुयात् ।
स्वप्ने तु मदिरापानमाममांसस्य भक्षणम् ॥ ४ ॥

क्रिमिविष्टानुलेपं च रुधिरेणाभिषेचनम् ।
भोजनं दधिभक्तस्य श्वेतवस्त्रानुलेपनम् ॥ ५ ॥

सिंहासनं रथं यानं ध्वजं राज्याभिषेचनम् ।
रत्नान्याभरणादीनि स्वप्ने दृष्ट्वा प्रसिद्ध्यति ॥ ६ ॥

इति । नारदपञ्चरात्रे -

गुरुर्देवो द्विजः कन्या गोगजाश्वाश्च केसरी ।
दर्पणं शङ्खभीर्ययौ च तन्त्रीवाद्यं च रोचनम् ॥ १ ॥

ताम्बूलभक्षणं चैव तथा दध्यभिव(न)न्दनम् ।
सिद्धान्नमाममांसं च मद्यस्त्रीमदिरासवाः ॥ २ ॥

छत्रं यानं सितं वस्त्रं तथान्यश्वेतचन्दनम् ।
माल्यमुक्ताफले हारः पूर्णः समुदितः शशी ॥ ३ ॥

प्रचण्डकिरणः खस्थो निम्नगाथ महोदधिः ।
प्रफुल्लपादपः शाली रोचना कुंकुमं मधु ॥ ४ ॥

लाजाः सिद्धार्थकाबीजं नवभाण्डं च पायसम् ।
उपपन्नोऽप्यथाचार्यो गायत्री वरसङ्गता ॥ ५ ॥

मनःप्रीतिकराश्चान्ये लोके शंसापदं गताः ।
सर्वे स्वप्नाः शुभाः प्रोक्ताः सिद्धिमोक्षफलप्रदाः ॥ ६ ॥

इति । अथाशुभसूचकाः नारदः -

अतोऽन्ये विपरीतास्तु मनसः खेददाश्च ये ।
गर्हिता लोकविद्विष्टाः स्वप्नास्ते ह्यशुभावहाः ॥ १ ॥

अत उक्तशुभसूचकात् । कपिलपञ्चरात्रे -

चण्डालं कलभं काकं गर्तं शून्यममङ्गलम् ।
तैलाभ्यक्तं नरं नग्नं शुष्कवृक्षं सकण्ठकम् ॥ १ ॥

प्रासादमतलं दृष्ट्वा नरो रोगमवाप्नुयात् ।
* * * * * * * * * * * * * * * * ॥ २ ॥

कलभं बालमुष्ट्रम् । तत्र प्रायश्चित्तमाह कपिलाः दृष्ट्वा दुःस्वप्नकं चैव होमात् सिद्धिमवाप्नुयात् । तथा पिङ्गलामते : शुभे शुभं भवेत्तस्य जुहुयादशुभे शतम् । अस्त्रेणेति क्रमाद्विद्वान् । इति । नारदपञ्चरात्रे

दृष्ट्वा समाचरेद्धोमं दन्तकाष्ठोदितं मुने ।
केवलेनाथवाज्येन सिंहमन्त्रेण शान्तये ॥ १ ॥

दन्तकाष्टप्रकरणे तावदाह स्वयमेव -

शतं सहस्रं साष्टं वा यथाशक्त्याथवा द्विजः ।
अस्त्रसंपुटितेनैषां नाम्ना स्वाहान्वितेन च ॥ १ ॥

दोषाञ्जहिजहीत्येवं पदं नामावसानगम् ।
* * * * * * * * * * * * * * * * ॥ २ ॥

अस्त्रसिंहमन्त्रयोर्विकल्पः । एषां दोषनिदानानाम् ॥ अथ स्वप्ननिवेदनं तत्रैव -

शिष्यस्तु शुचिराचान्तः पुष्पहस्तो गुरूत्तमम् ।
प्रणम्य शिरसा हृष्टस्तस्मै स्वप्नं निवेदयेत् ॥ १ ॥

स्वप्ने वाक्षिसमक्षं वा आश्चर्यमतिहर्षदम् ।
अकस्माद्यदि जायेत नाख्यातव्यं गुरोर्विना ॥ २ ॥

मन्त्रप्रसादजनितं लिङ्गं च न गुरोर्विना ।
प्रकाशनीयं विप्रेन्द्रं कस्यचित् सिद्धिमिच्छता ॥ ३ ॥

प्रकाशयति यो मोहादौत्सुक्यान्मन्त्रजं सुखम् ।
निकटस्थाश्च तास्तस्य सिद्धयो यान्ति दूरतः ॥ ५ ॥

आविर्भवन्ति दुःकानि शोकाश्च विविधा अपि ।
* * * * * * * * * * * * * * * * ॥ ६ ॥

इति । वक्रतुण्डकल्पे - चित्तप्रसादो मनसश्च तुष्टिरल्पाशिता स्पन्दपराङ्मुखत्वम् । इति । तथा भैरवीतन्त्रे -

ज्योतिः पश्यति सर्वत्र शरीरं वा प्रकाशयुक् ।
निजं शरीरमथवा देवतामयमेव हि ॥ १ ॥

इति । नारदपञ्चरात्रे -

मन्त्राराधनसक्तस्य प्रथमं वत्सरत्रयम् ।
जायन्ते बहवो विघ्ना नियमस्थस्य नारद ॥ १ ॥

नोद्वेगं साधको याति कर्मणा मनसा यदि ।
तृतीयवत्सरादूर्ध्वं राजानश्च महीभृतः ॥ २ ॥

प्रार्थयन्तेऽनुरोधेन गर्विता अपि मानिनः ।
प्रसादः क्रियतां नाथ ममोद्धरणकारणम् ॥ ३ ॥

प्रज्वलन्तं च पश्यन्ति तेजसा विभवेन च ।
अतस्ते मुनिशार्दूल निष्ठुरं वक्तुमक्षमाः ॥ ४ ॥

नवमाद्वत्सरादूर्ध्व स्वयं सिद्ध्यति मन्त्रराट् ।
नानाश्चर्याणि हृदये मन्त्रसिद्धिमयानि वै ॥ ५ ॥

अत्यानन्दप्रदान्याशु प्रत्यक्षेऽपि बहिस्तथा ।
जडधीस्तु क्षणं विप्रक्षणमस्ति प्रहर्षितः ॥ ६ ॥

क्षणं दुन्दुभिनिर्घोषं शृणोति त्वन्तरिक्षतः ।
क्षणं च मधुरं वाद्यंनानागीतसमन्वितम् ॥ ७ ॥

आजिघ्रति क्षणं गन्धान् कर्पूरमृगनाभिजान् ।
उत्पतन्तं क्षणं वापि पश्यत्यात्मानमात्मना ॥ ८ ॥

चन्द्रार्ककिरणाकीर्णं क्षणमालोकयेन्नभः ।
गजगोवृषनादांश्च शृणुयाच्च क्षणं द्विजः ॥ ९ ॥

निर्भराम्बुदसंक्षोभं क्षणमाकर्षयत्यपि ।
तारकाणि विचित्राणि योगिनो नभसि स्थितान् ॥ १० ॥

पश्यत्युद्ग्राहयतश्च क्षणं मन्त्रं व्रती सदा ।
क्षणं किलिकिलारावं हंसवर्हिरवं तथा ॥ ११ ॥

क्षणं मेघोदयं पश्येत् क्षणं रात्रि दिने सति ।
रात्रौ च दिवसालोकं ससूर्ययं क्षणमीक्षते ॥ १२ ॥

बलेन परिपूर्णश्च तेजसा भास्करोपमः ।
पूर्णेन्दुसदृशः कान्त्या गमने विहगोपमः ॥ १३ ॥

रयेण युक्तः प्रोच्येत (शोचेन) गाम्भीर्येण सुखेन च ।
स्वल्पाशनेनाकृशता बहुनापि न चीयते ॥ १४ ॥

विण्मूत्रयोरथाल्पत्वं भवेन्निद्राजयस्तथा ।
जपध्यानगतो मन्त्री न खेदमधिगच्छति ॥ १५ ॥

विना भोजनपानाभ्यां पक्षमासादिकं मुने ।
इत्येवमादिभिश्चिह्नर्महाविस्मयकारिभिः ॥ १६ ॥

प्रवृत्तेः संप्रबोद्धव्यं प्रसन्नो मन्त्रराडिति ।
* * * * * * * * * * * * * * * * ॥ १७ ॥

इति । तथा बौधायनः सिद्धेस्तु त्रीणि चिह्नानि दाता भोक्ता अयाचकः । दाता भोक्ताप्ययाचक इत्यर्थः । प्रपञ्चसारे : (१० प० । ४३ श्लो०)

ततोऽस्य प्रत्ययास्त्वेवं जायन्ते जपतो मनुम् ।
अधिष्ठितं निश्यदीपं निस्तमिस्रं गृहं भवेत् ॥ १ ॥

अर्काभस्तेजसासौ भवति नलिनजा सन्ततं किङ्करी स्या- द्रोगा नश्यन्ति दृष्ट्वा द्रुतमथ धनधान्याकुलं तत्समीपम् ।
देवा नित्यं नमोऽस्मै विदधति फणिनो नैव दंशन्ति पुत्राः पौत्रा मित्राणि ऋद्धास्तनुविपदि परं धाम विष्णोः स भूयात् ॥ (१० प० ४७ श्लो०)

इति । एवं कृतेऽपि न सिद्ध्यति चेत्तदा द्वयं त्रयं वा पुरश्चरणं कुर्यात् ।
तदुक्तं फेत्कारिणीतन्त्रे -

कर्मणा प्रबलेनैव प्रतिबन्धो विरोधिना ।
यदि सिद्धिं न लभते द्विस्त्रिर्वा पुनराचरेत् ॥ १ ॥

इति ॥ अय होमपर्यायो विचार्यते । तत्र वायवीयसंहितायाम् -

अथाग्निकार्यं वक्ष्यामि कुण्डे वा स्थण्डिलेऽपि वा ।
वेद्यामथायसे पात्रे मृण्मये वा नवे शुभे ॥ १ ॥

इति । ज्ञानार्णवे -

नित्यं नैमित्तिकं होमं स्थण्डिले वा समाचरेत् ।
गोमयेनोपलिप्तायां भूमौ सुस्थलरूपकम् ॥ १ ॥

हस्तमात्रं तु तत्कुर्याद्वालुकाभिः सुशोभनम् ।
अंगुलोत्सेधसंयुक्तं चतुरस्रं समन्ततः ॥ २ ॥

इति । क्रियासारे -

समोऽष्टदिक्षु प्राक्प्रह्वः प्रागुदक्प्रवणोऽपि वा ।
उदक्प्रह्वः प्रदेशो वा स्थण्डिलस्य स्थलं स्मृतम् ॥ १ ॥

इति । प्रह्वः प्रवणः । तथा च कपिलः : स्थण्डिलं बालुकाभिर्वा रक्तमृद्रजसाऽपि वा ॥ तथा वसिष्ठः हस्तमात्रं स्थण्डिलं वा संक्षिप्ते होमकर्मणि । अत्र संक्षिप्ते इत्यभिधानात् सहस्रादिसंख्यो होमः स्थण्डिले न कर्तव्यः इति केचित् । तत्र : होमं समारभेत् कुण्डे स्थण्डिले वाथ पूजिते ।
अग्निप्रणयनं कृत्वा ह्याचार्यः सर्ववेदवित् । तिलहोमं व्याहृतिभिरष्टोत्तरसहस्रकम् । इति वायुपुराणवचनात् : कुण्डे वा स्थण्डिले वाथ तत्र होमो विधीयते । अयुतं होम संख्या च पलाशसमिधस्तथा ॥ इति पद्मपुराणवचनाच्च । अत्र होमाशक्तौ तु जपोऽशक्तस्य सर्वत्र इति नारायणीयवचनात् जप एव कार्यः । तत्र ब्राह्मणैः पुरश्चरणजपसंख्याचतुर्गुणजपः कार्यः क्षत्रियैः षड्गुणः वैश्यैरष्टगुणः । होमकर्मणि शक्तानां त्रयाणं जपसाम्यता ।
होमकर्मण्यशक्तानां वेदर्तुवसुसम्मितम् । इति उत्तरतन्त्रवचनात् ।
तदशक्तौ तु विप्राणां द्विगुणः क्षत्रियाणां त्रिगुणः वैश्यानां चतुर्गुणः होमकर्मण्यशक्तानां विप्राणां द्विगुणो जपः । इतरेषां तु वर्णानां त्रिगुणादिर्विधीयते ॥ इति गौतमवचनात् । तत्राप्यशक्तौ होमसंख्याचतुर्गुणजपः कार्यः । होमाशक्तौ जपं कुर्याद्धोमसंख्याचतुर्गुणम् इति वसिष्ठवचनात् । एतदपि विप्रमात्रपरं क्षत्रियवैश्ययोः प्राग्वत् षड्गुणाष्टगुणजपो भवति प्रागुक्तवचनात् ।
तत्राप्यशक्तौ होमसंख्याद्विगुणजपो वा कार्यः । यद्यदङ्गं विहीयेत तत्संख्याद्विगुणो जपः । कर्तव्यः साङ्गसिद्ध्यर्थं तदशक्तेन भक्तितः ॥ इति कुम्भसम्भववचनात् । तदशक्तेन पुरश्चरणसंख्याचतुर्गुणादिकरणाशक्तेन । एतदपि विप्रमात्रपरं क्षत्रियवैश्ययोस्त्रिगुणचतुर्गुणजयो भवति प्रागुक्तगौतमवचनादेव द्विजभक्तेतरशूद्राणां तु चतुर्गुणपक्षे दशगुणजपो भवति द्विगुणपक्षे तु पञ्चगुणजपः इति । द्विजभक्तशूद्राणां तु यं वर्णमाश्रितो यः शूद्रस्तस्य तद्वर्णविहितजप एवेति । तदुक्तमुत्तरतन्त्रे :

द्विजानां होमविरहे यः प्रोक्तः सूरिभिर्जपः ।
तद्योषितां स एवोक्तः शूद्रो यं वर्णमाश्रितः ॥ १ ॥

तत् स्त्रीणां विहितं जापं कुर्याद्भक्तिपरायणः ।
* * * * * * * * * * * * * * * * ॥ २ ॥

इति । गौतमोऽप्याह -

होमाभावे द्विजानां तु जपः प्रोक्तः पुरा तु यः ।
तत्सुभ्रुवां च तद्भृत्य शूद्राणां च स एव हि ॥ १ ॥

इति । अतः स्त्रीशूद्रैर्होमनाधिकाराज्जप एव कार्यः । उत्तरतन्त्रे -

ततो होमदशांशेन जले सम्पूज्य देवताम् ।
तर्पयामीति मन्त्रान्ते प्रोक्ताद्भिर्मूर्ध्नि तर्पयेत् ॥ १ ॥

इति । वैशम्पायनः -

तर्पणस्य दशांशेन नमोऽन्तं मन्त्रमुच्चरन् ।
अभिषिञ्चेत् स्वमूर्धानं जलैः कुम्भाख्यमुद्रया ॥ १ ॥

इति । उत्तरतन्त्रे -

तदन्ते भोजयेद्विप्रान् सदाचारान् दशांशतः ।
नानाविधैर्भक्ष्यभोज्यैर्लेह्यैश्चोप्यैस्तथेतरैः ॥ १ ॥

सर्वथा भोजयेद्विप्रान् कृतसाङ्गत्वसिद्धये ।
विप्राराधनमात्रेण व्यङ्गं साङ्गत्वमाप्नुयात् ॥ २ ॥

एकमङ्गं विहीयेत ततो नेष्टमवाप्नुयात् ।
अङ्गहीनं भवेद्यद्यत् कर्म नेष्टार्थसाधकम् ॥ ३ ॥

न्यूनातिरिक्तकर्माणि न फलन्ति मनोरथान् ।
त एव पूर्णतां यान्ति समस्तानि भवन्ति चेत् ॥ ४ ॥

अतो यत्ने विदुषो भोजयेत् सर्वकर्मसु ।
यानि यान्यपि कर्माणि हीयन्ते द्विजभोजनैः ॥ ५ ॥

निरर्थकानि तानि स्युर्बीजान्यूषरगानिवत् ।
गुरुं सन्तोषयेत् पश्चाद्गोहिरण्याम्बरादिभिः ॥ ६ ॥

गुरौ तुष्टं हि संतुष्टो मन्त्रः सिद्ध्यति मन्त्रिणः ।
इत्थं पुरश्चरणतः प्रसन्ना देवता भवेत् ॥ ७ ॥

इति । श्रीकुलार्णवे -

यदृच्छया श्रुतं मन्त्रं छद्मनापि छलेन वा ।
परेरितं वा गाथां वा संजपेद्यद्यनर्थकृत् ॥ १ ॥

पुस्तके लिखितान् मन्त्रानालोक्य प्रजपन्ति ये ।
ब्रह्महत्यासमं तेषां पातकं परिकीर्तितम् ॥ २ ॥

अनेककोटिमन्त्राश्च चित्तव्याकुलकारणम् ।
मन्त्रं गुरुमुखात् प्राप्तमेकं स्यात् सर्वसिद्धिदम् ॥ ३ ॥

इति ॥ अथ प्रयोगः : तत्र जपमाला सातु द्विविधा मातृकाक्षरमयी चेति । तत्र मणयस्तु : पुत्रजीवशङ्खविद्रुमरत्नमुक्ताफलपद्मबीजसुवर्णरजतकुश- ग्रर्न्थिरुद्राक्षा इत्यक्षविशेषा । अक्षसंख्या तु सात्त्विकराजसतामसभेदेनाष्टोत्तरशतं चतुःपञ्चशत्सप्तविंशतिश्चेति ।
अथ मालायाः संस्कारकालः : तत्र विष्णोर्द्वादशोपूर्वाह्नः ।
शक्तेरष्टमीनवमीचतुर्दशीरात्रिः । गणेशस्य चतुर्थीमध्याह्नः । शिवस्य त्रयोदशी दिवा । सूर्यस्य सप्तमीपूर्वाह्न इति ॥ अथ मालायाः सूत्राणि ।
विष्णोः पद्मसूत्रं कार्पाससूत्रं वा देव्याः पट्टसूत्रं शिवस्योर्णाभवं वाल्कलं वा सूर्यगणेशयोः कर्पाससूत्रं पट्टसूत्रं वा कार्पाससूत्रं चेद्ब्राह्मणोकर्तितं स्वसमानवर्णयोषित्कर्तितं वा त्रिगुणं त्रिगुणीकृतं कुर्यात् । अन्येषु सूत्रेषु यथायोग्यमेव कार्यमिति ॥ अथ संस्कारः : तत्र प्रमाणोक्तपात्रया गोमूत्रगोमयदुग्धदधिवृतकुशजलात्मकं पञ्चगव्यं संपाद्य शक्तिव्यतिरिक्ते पूर्वदिने कृतैकभक्तः साधकः प्रातःकृतनित्यकृत्यः सूत्रं मणींश्च पृथक् पृथक् पञ्चगव्येन जलैश्च प्रक्षाल्य नवसु पिप्पलदलेषु पद्माकाररचितेषु सूत्रं मणींश्च संस्थाप्य तेषु प्रणवं भुवनेश्वरीबीजं मातृकाक्षराणि च सूत्रे प्रतिबीजं बीजेष्वपि विन्यस्य मणीन् सूत्रं च गन्धादिभिः सम्पूज्य कुण्डादौ नित्यहोमविधिनाग्निं संस्थाप्य यथाशक्ति सघृतैस्तिलैः केवलघृतैर्वा सद्यादिपञ्चमन्त्रैर्हुत्वा होमाशक्तौ जपं वा विधाय सूत्रे रुद्राक्षपुत्रजीवपद्माक्षाश्चेत् मुखेन मुखं संयोजयन् यथामुखमन्यमणीनित्यारोप्यैकैकमणिमध्ये गुरूक्तविधिना ब्रह्मग्रन्थिं विधाय गोपुच्छाकारेण ग्रन्थयित्वा सर्वतः स्थूलं सजातीयमेकं मणिमूर्ध्यमुखं सूत्रद्वयमेकीकृत्य मेरुं ग्रन्थयित्वा सम्पन्नां मालां ओं सद्योजातं प्रपद्यामि सद्योजाताय वै नमः । भवे भवे नातिभवे भवस्व मां भवोद्भवाय नमः ॥ इति मन्त्रेण पन्चगव्येन शीतलजलेन च प्रक्षाल्य ओं वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः इति मन्त्रेण चन्दनागरुकर्पूरकुंकुमैर्विघृष्य ओं अघोरेभ्योऽय घोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः इत्यगरुशीरकर्पूरशर्करागुग्गुलमधुचन्दनघृतैर्धूपयित्वा ओं तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् इति गन्धचन्दनकस्तूरीकुंकुमकर्पूरैर्लेपयेत् । ततः ओं ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मेऽस्तु सदाशिवाम् इति मन्त्रेण प्रतिबीजं शतं शतमभिमन्त्रयेत् (मेरुं चानेन अघोरेभ्योथ इत्यननेनापि शतं शतमभिमन्त्रयेत् । प्रत्येकं तु सकृत्सकृदिति वा) ततस्तत्र पूर्वोक्तवक्त्रभेदेन यस्य रुद्राक्षस्य या च देवता तामावाह्यावाहनस्थापनसंनिधापनसंनिरोधनसंमुखी- करणसकलीकरणावगुण्ठनामृतोकरणपरमीकरणानि तत्तन्मुद्रया विधाय प्रागुक्तैः पञ्चभिर्मन्त्रैः प्रतिबीजं पञ्चोपचारैस्तां देवतां स्वेष्टदेवतावत् पूजयित्वेत्थं संस्कृतमालया जपं कुर्यात् । इति जपमालासंस्कारविधिः ॥

इत्थं प्रतिष्ठितमालया जपं कुर्वन् यदा तत्सूत्रं जीर्णमिति जानाति तदैव दृढं सूत्रं ग्रन्थयित्वा तथा स्वेष्टमन्त्रमष्टोत्तरशतं प्रायश्चित्तार्थं जपित्वा पश्चात्तया मालया यथापूर्वं जपं कुर्यात् ।
अयं प्रतिष्ठाप्रकारस्तु रुद्राक्षस्यैव नान्येषाम् । अन्येषां पद्माक्षादीनां तु प्रतिष्ठाविधिः प्रदर्श्य : तत्र ग्रथितां मालां कुत्रचित्पात्रे संस्थाप्य तस्यां

गणेशसूर्यविष्णुशिवदूर्गाः पृथक् पृथगावाह्य सम्पूज्य हौमितिमन्त्रेण पञ्चगव्ये निक्षिप्य पुनस्तां तस्मादुद्धृत्य स्वर्णपात्रस्थ पिप्पलपत्रस्थे वा धूपवासिते पञ्चामृते निक्षिप्य पुनस्तामुधृत्य शीतलजले निक्षिप्य प्रक्षाल्य चन्दनागरुकस्तूरीकर्पूरकुंकुमसौगन्धिकपङ्कैरनुलिप्य तस्यां हौमिति मन्त्रमष्टोत्तरशतं जपित्वा नव ग्रहान् दश दिक्पालांश्च सम्पूज्य सघृतैस्तिलैर्यथाशक्ति स्वेष्टमन्त्रेण हुत्वा गुरवे यथाशक्ति काञ्चनं दक्षिणां दत्त्वा ब्राह्मणांश्चान्नादिभिः तोषयेदिति ॥

अथवा सूत्रं मणींश्च पञ्चगव्ये दिनत्रयं संस्थाप्य चतुर्थदिने समुद्धृत्यास्त्रमन्त्रेण प्रक्षाल्य हृन्मन्त्रेण ग्रन्थयित्वा स्थण्डिले स्वेष्टदेवतापूजामण्डलं विधाय तत्र स्वेष्टदेवतां सम्पूज्य मूलमन्त्रमष्टोत्तरशतं जपित्वा स्वेष्टदेवताकल्पोक्तपुरश्चरणहोमद्रव्येण घृतेन वा यथाशक्ति हुत्वा मण्डलमध्ये मालां संस्थाप्य तस्यामस्त्रमन्त्रं मूलमन्त्रं षडङ्गमन्त्रांश्च विन्यस्य स्वेष्टदेवतारूपां तां विचिन्त्य वक्ष्यमाणविधिना सर्वभूतबलिं दत्त्वा तस्यामिष्टदेवतां सम्पूज्याचार्य दक्षिणादिभिः परितोष्य प्रणम्य ब्राह्मणांश्चान्नादिभिस्तोषयेदितीत्थं प्रतिष्ठितया मालया नित्यं मन्त्रं जपेत् ॥

अथ पुरश्चरणकाले विहितानि : तत्र मनःसंहरणशौचमौनमन्त्रार्थचिन्तनाव्यग्रतानिर्वेदश्रद्धाजपोत्साह् अक्रोधत्यागस्ववर्णाश्रमधर्मानुष्ठानपरितुष्टतेन्द्रिय- निग्रहब्रह्मचर्यगुरुनति केवलामलकस्नानमंत्राभिमंत्रितजलाभिषेकाः त्रिषवर्णं द्विसवनमशक्तौ सकृद्वा स्नानं देवर्षिपितृस्वेष्टदेवतातर्पणं मध्यपत्ररहितपलाशपत्ररचितपत्रावल्यां रात्रौ मितभोजनं गोविप्रबालादिषु कृपा चेति ॥

अथ तत्कालनिषिद्धानि : अप्रियानृतभाषणकरञ्जविभीतकार्कस्नुहीच्छायाक्रमण प्रतिग्रहस्त्रीशूद्रपतितनास्तिकोच्छिष्टसम्भाषणस्नानतर्पणाद्यन- नुष्ठानबहुवस्त्रैकवस्त्रमलिनवस्त्रधारण काम्यकर्मासंकल्पितस्ववर्णाश्रमाविहितकर्माचरणकांस्य-भोजन दिवाभोजनासद्भाषणान्यपूजनकौटिल्यक्षौ- राभ्यङ्गासाधुसमागमोष्णजलस्नानोन्मर्दनगीतवाद्यादिश्रवण- नृत्यदर्शनाष्टविधमैथुनतत्कथालापक्षुद्रकर्मास्थानस्पर्श प्राणिहिंसाकञ्चुकोष्णीषधारणासम्वृतकराप्रावरणकेशमा- क्षणशिरःप्रावरणचिन्ताक्रोधभ्रमत्वरामनोरथ शयनोत्थानगमनान्धकारामङ्गलस्थानपादुकाधारणयान- शययाधिरोहण पादप्रसारणोत्कटासनक्षुतजृम्भाहिक्काविकलमनस्कानासनप्रौढपादन् अग्नकुशराहित्यादीनि ॥

अथासनानि तत्र : व्याघ्रचर्ममृगाजिनवेत्रनिर्मितकम्बलकुशकटरक्तपटवस्त्रात्म-कानि विहितानि ॥

अथ निषिद्धासनानि : वंशरचितदारुमयपाषाणतृणवस्त्रपल्लवेष्टकानिर्मितानि केवलभूतलं चेति ॥

अथ पुरश्चरणारम्भपूर्वदिनकृत्यम् : तत्र प्रातः स्नात्वा नित्यक्रियां निर्वर्त्य ब्राह्मणान् भोजनादिभिस्तोषयित्वा स्वगुरुमपि वस्त्राभरणधनधान्यादिभिः सन्तोष्य जपस्थाने त्रिकोणवृत्तचतुरस्रमण्डले क्षं क्षेत्रपालाय नमः । क्षेत्रपाल इहागच्छ इहागच्छ इति क्षेत्रपालमावाह्योक्तमन्त्रेण क्षेत्रपालं गन्धादिभिः सम्पूज्य तदग्रे त्रिकोणमण्डले साधारं सान्नव्यञ्जनोदकपूर्णं बलिपात्रं निधाय एह्येहि विद्वि (दु) पि मुरुमुरु भञ्जयभञ्जय तर्जयतर्जय विघ्नविघ्न महाभैरव क्षेत्रपाल बलिं गृह्णगृह्ण स्वाहा इति मन्त्रेण बलिं दत्त्वोपवसेत् ॥

अथ जपारम्भदिनकृत्यम् : तत्र शुभे मासि चन्द्रतारानुकूले तिथिवारनक्षत्रादिशोधिते सुदिवसे प्रातः स्नात्वा गुरुविप्राज्ञामादाय ब्राह्मणैः स्वस्तिवाचनं कारयित्वा कुशहस्तः ओं सूर्यः सोमो यमः कालः सन्ध्ये भूतान्यहः क्षपा । पवनो दिक्पतिर्भूमिराकाशं खेचरामराः ॥ ब्राह्मयं शासनमास्थाय कल्पध्वमिह सन्निधिम् । इति पठित्वा ताम्रपात्रे कुशतिलाक्षतजलान्यादायोदङ्मुखः ओं अद्यामुके मासि अमुकराशिगते सवितरि अमुकपक्षेऽमुकतिथौ भारतवर्षाख्यभूप्रदेशे विशेषक्षेत्रं चेदमुकक्षेत्रे अमुकशर्मा क्षत्रियश्चेदमुकवर्मा वैश्यश्चेदमुकगुप्तः शूद्रश्चेदमुकदासः अमुकमन्त्रसिद्धिकामोऽमुकमन्त्रस्येयत्संख्याजपात्मकंपुरश्च-रणं करिष्ये अद्यारभ्यैतावद्दिनैरहं करिष्ये इति वा संकल्पं विधाय गुरुगणपतिदुर्गामातॄर्नत्वा पूजां समाप्य जपमारभेत् । तत्र मूलमन्त्रेण प्राणायामत्रयं कृत्वा मूलमन्त्रस्य ऋष्यादिकरषडङ्गन्यासान् विन्यस्य हृदि देवं ध्यायन् जपमालां वामहस्ते कुत्रचित्पात्रे वा संस्थाप्यार्घ्योदकेन मूलमन्त्रेण सम्प्रोक्ष्य ओं मां माले महामाये सर्वशक्तिस्वरूपिणी । चतुवर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ इति गन्धपुष्पाक्षतैर्मालां सम्पूज्य

ओं अविघ्नं कुरु माले त्वं इति मन्त्रेण दक्षिणहस्तेन मालामादाय स्वशिरसि श्रीगुरुं कण्ठे पीतवर्णं मूलमन्त्रं हृदये स्वेष्टदेवतां गुरुपादयोः स्वात्मानं च ध्यात्वा भूमध्यस्थाज्ञाचक्रे गुरुदैवतमन्त्रात्मनामैक्यं विभाव्य कण्ठस्थविशुद्धिचक्रे तच्चतुष्टयमेकीभूतं सुषुम्नावर्त्मनानीय तत्र देवतां ध्यात्वा मूलमन्त्रेण हृदयस्थानाहतचक्रमानीय तत्रापि देवतां ध्यायन् हृदयसमीपे मालामानीये दक्षहस्तस्य मध्यमांगुलिमध्यपर्वणि संस्थाप्यैकचित्तौ भुग्नग्रीवोन्नतगात्रः कण्डून्मीलनरहितः खटखटादिशब्दमकुर्वन् मन्त्रार्थगतचित्तो मालायाः प्रतिबीजं मन्त्रमुच्चरन् पूर्वबीजजपसमयेऽपरं बीजमस्पृशन् प्रणवोच्चारणपूर्वकं मन्त्रमारभ्य प्रातःकालान्मध्यदिनावधि देशाद्युपद्रवसम्भावनायां त्वरया समापनीये वा सार्धप्रहरद्वयावधि जपित्वा सर्वशेषावृत्त्यन्ते पुनः प्रणवमुच्चार्य जपं समाप्य त्वं माले सर्वदेवान प्रीतिदा शुभदा भव । शिवं कुरुष्व मे भद्रे यशो वीर्यं च सर्वदा । इति मन्त्रेण मालां स्वशिरसि निधाय पुनः प्राणायामत्रयर्ष्यादिकरषडङ्गन्यासान् विधायार्ध्योदकेन प्रागुक्तमन्त्रेण जपं समर्प्य प्रागुक्तमालापूजनमन्त्रेण मालां सम्पूज्य रहसि स्थापयेत् । अत्र प्रणवोच्चारणं तु त्रैवर्णिकानामेव ।
शूद्रादीनां तु औकारस्त्वाद्यन्तयोः प्रणवत्वेन ग्राह्यः इति । ततो मध्याह्नस्नानादिकं विधाय पुनः पूजां विस्तरतः कृत्वा प्रतिदिनहोमपक्षे जपदशांशं कल्पोक्तद्रव्यैर्विधिना संस्कृते वह्नौ हुत्वा होमदशांशं तर्पणं तर्पणदशांशं मार्जनं मार्जनदसांशं ब्राह्मणभोजनं च प्रत्यहं कुर्यात् ।
प्रतिलक्षहोमपक्षे एकलक्षसंख्यं जपं समाप्य तद्दशांशहोमादिकं कृत्वाग्निमलक्षजपमारभेत् ।
कल्पोक्तसंख्याजपसमाप्त्यनन्तर होमपक्षे कल्पोक्तसंख्यं जपं समाप्य पश्चात् तद्दशांशहोमादिकं कुर्यात् इति पक्षत्रयेऽप्येकः पक्षः कार्यः । होमपर्यायस्तु प्रागेव दीक्षाप्रकरणे प्रोक्तः । होमाशक्तौ तु जप एव कार्यः । तत्र ब्राह्मणैः पुरश्चरणसंख्याचतुर्गुणः कार्यः क्षत्रियैः षड्गुणो वैश्यैरष्टगुणः कार्यः । अत्राशक्ती ब्राह्मणैः पुरश्चरणसंख्याद्विगुणा जपः कार्यः क्षत्रियैस्त्रिगुणा वैश्यैश्चतुर्गुण इति । तत्राप्यशक्तौ होमसंख्याचतुर्गुणजपः कार्यः ।
एतद्विप्रपरं क्षत्रियवैश्ययोः प्राग्वत् षड्गुणाष्टगुणजपो भवति ।
तत्राप्यशक्तौ होमसंख्याद्विगुणजपो वा कार्यः एतदपि विप्रमात्रपर क्षत्रियवैश्ययोस्तु त्रिगुणचतुर्गुणजपो भवति । द्विजभक्तेतरशूद्राणां दशगुणो जपो भवति । चतुर्गुणद्विगुणपक्षे तु पञ्चगुणजप इति ।
द्विजभक्तशूद्राणां तु यं वर्णमाश्रितो यः शूद्रस्तद्वर्णविहितजप एव द्विजस्त्रीणामपि तथैवेति । स्त्रीशूद्राणां होमानधिकारात् जप एव विहितः इति ।
इत्थं होमं विधाय चन्दनागरुकर्पूरादिवासितैर्जलैर्होमसंख्यादशांशतः प्रागुक्तविधिना जले देवं ध्यात्वा सम्पूज्य संतर्प्य स्वात्मानं देवतारूप ध्यायन् कुम्भमुद्रया मूलमन्त्रान्ते आत्मानमभिषिञ्चामि नमः इति तर्पणसंख्यादशांशतः स्वमूर्ध्नि अभिषिच्याभिषेकसंख्यादशांशसंख्यकान् स्वेष्टदेवताभक्तान् सदाचारान् ब्राह्मणान् प्रातर्निमन्त्र्याहूयाभ्यङ्गादिना स्नापयित्वा वस्त्रगन्धादिभिरलंकृत्य षड्रसैर्नानाविधैर्भक्ष्यैर्भोज्यैः स्वेष्टदेवताबुद्ध्या भोजयित्वा ताम्बूलदक्षिणादिभिः परितोष्य विसृजेदिति प्रत्यहं लक्षान्ते वा समस्तसंख्यासमाप्तौ वा भक्तिपूर्वकं कुर्यादिति । ततः प्रकृते मध्याह्नपूजानन्तरं वैश्वदेवादिकमाह्निकं विधाय स्वेष्टदेवतामन्त्रजपध्यानकीर्तनश्रवणादिना दिनशेषं नीत्वा शक्तौ सायन्तनस्नानं विधाय देवं सम्पूज्य भुञ्जीत । तत्र भोज्यानि भैक्षं शुक्लैकविधास्विन्नहैमन्तिकनीवारषष्टिकांकगुयवाः शूद्रानवहता बहुशः पादाभ्यामनुत्ताल्यावहताः गुडवर्जितमैक्षवं कृष्णतिलमुद्गकलायाः केमुकवर्जं कन्दविशेषाः नारिकेलकदलीफललवलीपनसाम्रामलकार्द्रकहरीतकीवास्तुककालशाकहिल मोचकाः सैन्धवसामुद्रे लवणेऽनुद्धृतसारादिगव्यानि पिप्पलीजीरकनारङ्गतिन्तिणीमूलकानि ॥

अथ वर्ज्यानि : गुडकृत्रिमलवणक्षारलवणस्विन्नपर्युषितनिःस्नेहकीटादिदूषित- काञ्जिकगृञ्जनबिल्वकरञ्जलशुनमृणालकोद्रवमण्डकतैलपक्व- माषमसूरचणकगोधूमदेवधान्यादीनि अतिभोजनं दिवाभोजनं च ॥

अथ भोजनपर्यायः : तत्र स्वेष्टदेवताप्रसादमन्नं मध्यपत्ररहितपलाशपत्रैः कल्पितपत्रावल्यां संस्थाप्य वैदिकमन्त्रैः संस्कृत्य मूलमन्त्रेण प्रोक्ष्य प्रतिद्रव्यं मूलमन्त्रेण सप्तवारमभिमन्त्र्य मितं मितं हृन्मन्त्रेणाश्नीयात् मूलमन्त्रेण द्वात्रिंशद्वारमभिमन्त्रितं जलं च पिवेत् ॥

अथ शयनम् : तत्र कुशनिर्मितायां शययायां प्रक्षालितायां क्षाराद्भिः प्रक्षालितं वस्त्रमास्तीर्य शययां मूलमन्त्रेण सप्तवारमभिमन्त्र्य यज्जाग्रत इति सूक्तस्य शिवसंकल्प-ऋषिः त्रिष्टुप्छन्दः मनो देवता सूक्तजपे विनियोगः ॥

यज्जाग्रतो दूरमुदेति दैवं तदु सुप्तस्य तथैवैति ।
दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ॥ १ ॥

येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ।
यदपूर्वं यक्ष्यमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ २ ॥

यत् प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु ।
यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३ ॥

येनेदं भूतं भुवनं भविष्यत् परिगृहीतममृतेन सर्वम् ।
येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु ॥ ४ ॥

यस्मिन्नृचः सामयजूंषि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः ।
यस्मिंश्चित्तं सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ ५ ॥

सुषारथिरश्वानिव यन्मनुष्यान्नेनीयतेऽमीशुभिर्वाजिन इव ।
हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसङ्कल्पमस्तु ॥ ६ ॥

इति मन्त्रांस्त्रिःपठित्वा ।

भगवन् देवदेवेश शूलभृद्वृषवाहन ।
इष्टानिष्टे समाचक्ष्व मम स्वप्नस्य शाश्वत ॥ १ ॥

इति । ओं हिलि हिलि शूलपाणये स्वाहा ।

नमोऽजाय त्रिनेत्राय पिङ्गलाय महात्मने ।
वामाय विश्वरूपाय स्वप्नाधिपतये नमः ॥ १ ॥

स्वप्ने कथय मे तथ्यं सर्वकार्येष्वशेषतः ।
क्रियासिद्धिं विधास्यामि त्वत्प्रसादान्महेश्वर ॥ २ ॥

नमः सकललोकाय विष्णवे प्रभविष्णवे ।
विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः ॥ ३ ॥

इति मन्त्रांश्च सकृज्जपित्वा प्राक्शिरा दक्षिणपार्श्वशायी स्वप्नं परीक्षेत् ।
तत्र स्वस्थानां प्रथमे प्रहरे दृष्टस्य स्वप्नस्य वर्षेण फलं द्वितीये षष्ठे मासि तृतीये मासत्रयेण चतुर्थे मासेन निशान्ते सद्यः फलं ज्ञेयमिति ॥

अथ सिद्धिसूचकस्वप्नाः : प्रसादसुमुखस्वेष्टदेवतागुरुनिर्मलचन्द्रसूर्यमण्डल गङ्गायासरस्वतीसंन्यासिशिवलिङ्गानां दर्शनं भूमिलाभः रक्तसमुद्रतरणं युद्धजयो होमवह्निपूजनं हंसचक्रवाकमयूरसारसदर्शनं रथारोहणकन्याच्छत्ररथदीपप्रासादगजवृषमाल्यसमुद्रसर्पकुलवृक्ष पर्वतपवित्राममांसतुरगसुरासवस्त्रीदर्शनं नदीतरणाकाशगमनग्रहनक्षत्रदर्शन हर्म्यप्रासादशिखरगजाश्ववृषमतरुपर्वतशिखरारोहणविमानगमनल अभदेवीदर्शनानि मदिरापानाममांसभक्षणपुरीषानुलेपनरक्ताभिषेकरत्ना- भरणादिदर्शनानि ॥

अथाशुभसूचकाः : चण्डालकलभकाकशून्यगर्तामङ्गमलद्रव्यतैलाभ्यक्तनरनग्न- शुष्कवृक्षकण्टकतरुतलरहित प्रासाददर्शनं रोगदम् । तत्र प्रायश्चित्तं नृसिंहमन्त्रं पठित्वा दुःस्वप्नसूचितान् दोषान् जहि २ पुनर्नसिंहमन्त्रं पठित्वा स्वाहा इत्यष्टोत्तरशतं घृतैजुहुयात् । अथवा एवमेवास्त्रमन्त्रेण वा होमः कार्यः । नृसिंहमन्त्रस्त्वेकाक्षरः सच क्ष्रौमिति । अस्त्रमन्त्रस्तु स्वोपास्यमूलविद्यायाः ॥

अथ स्वप्ननिवेदनम् : तत्र गुरुचरणारबिन्दयुगलं प्रणम्य पुष्पहस्तः स्वप्नं तस्मै निवेदयेत् । गुरोरन्यत्र न प्रकाशयेत् ॥

अथ सिद्धिचिह्नानि : चित्तप्रसादो मनस्तुष्टिः स्वल्पाशननिद्राजयज्योतिर्दर्शनाकस्मादतिहर्षान्तरिक्षस्थदुन्दुभिशब्दमद् हुरवाद्यनानागीतश्रवणं कर्पूरादिसुगन्धिपरिमलाघ्राणं चन्द्रार्ककिरणाकीर्णाकाशालोकानि । एवं कृतेऽपि न सिद्ध्यति चेद् द्विस्त्रिर्वा पुनः पुनः कुर्यात् ॥ अथ मन्त्रसिद्धेरन्यः पर्यायः । तत्र कुलप्रकाशतन्त्रे :

अथवान्यप्रकारेण पुरश्चरणमुच्यते ।
ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वमपोषितः ॥ १ ॥

नद्यां समुद्रगामिन्यां नाभिमात्रे जले स्थितः ।
स्पर्शाद्विमुक्तिपर्यन्तं जपेन्मन्त्रं समाहितः ॥ २ ॥

तावत्कालं जपित्वेत्थं ततो होमादिकं चरेत् ।
* * * * * * * * * * * * * * * * ॥ ३ ॥

इति । अयमर्थः : तत्र सूर्योपरागे पूर्वदिनमुपोषितश्चन्द्रग्रहणे तद्दिन एवोपोषितो ग्रहणं दृष्ट्वा स्नानं विधायाद्यामुके मासि अमुकराशिगते सूर्येऽमुकपक्षेऽमुकतिथौ अमुकतीर्थे सूर्यग्रहणे चन्द्रग्रहणे वामुकगोत्रोऽमुकशर्म्मेत्यादि अमुकमन्त्रसिद्धिकामोऽमुकग्रहणतत्समयमारभ्य विमुक्तिपर्यन्तममुकमन्त्रजपमहं करिष्ये इति सङ्कल्पं कृत्वा विमुक्तिपर्यन्तं जपेत् । ग्रहणकालीनजपदशांशहोम करिष्ये इति होमसङ्कल्पः । होमाशक्तौ प्रागुक्तवत् जपः कार्यः ॥ अपरस्तु मन्त्रसिद्धिपर्यायः । तत्र कुम्भसम्भवः :

कृष्णाष्टमीं समारभ्य यावत् कृष्णचतुर्दशी ।
देवं ध्यात्वा जपेन्मन्त्रमयुतानां चतुष्टयम् ॥ १ ॥

दशाशं होमयेत् पश्चात्तर्पयेदभिषेचयेत् ।
ततः सिद्धो भवेन्मन्त्रः * * * * * * * * ॥ २ ॥

इति । अयमर्थः : तत्राद्येत्याद्यमुकमन्त्रसिद्धिकामः कृष्णाष्टमीमारभ्य तच्चतुर्दशीपर्यन्तममुकमन्त्रस्यायुतचतुष्टयजपमहं करिष्ये इति सङ्कल्पं विधायायुतचतुष्टयजपं सप्तधा विभज्य चतुर्दशोत्तरसप्तशताधिकसहस्रपञ्चकं जपित्वा तद्दशांशहोमादिकं च कुर्यादिति ॥ अपरः प्रकारस्तु कालोत्तरे :

मन्त्री तु प्रजपेन्मन्त्रं मातृकाक्षरसम्पुटम् ।
अनुलोमविलोमेन मन्त्रसिद्धिः प्रजायते ॥ १ ॥

त्रिषष्ट्यक्षरसंयुक्तमातृकाक्षरसम्पूटम् ।
क्रमोत्क्रमात् शतावृत्त्या मासात् सिद्धो भवेन्मनुः ॥ २ ॥

मातृकाजपमात्रेण मन्त्राणां कोटिकोटयः ।
सिद्धाः स्युर्नैव सन्देहो यस्मात्सर्वं तदुद्भवम् ॥ ३ ॥

इति । अयमर्थः : क्रमोत्क्रमात् मातृकापुटितं मन्त्रं प्रतिदिनं शतं मासमात्रं जपेदिति । अत्राप्यद्येत्यादिक्रमोत्क्रममातृकापुटितमन्त्रस्य मासमात्रं प्रतिदिनं शतशतसंख्यजपमहं करिष्ये इति सङ्कल्पं विधाय प्राग्वत् जपेत् । अत्र शतशब्दो न्यूनसंख्याव्यवच्छेदकः तेनाष्टोत्तरशतसंख्यं जपेदित्यर्थः । मातृकासम्पुटप्रकारस्तु अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं लं क्षं मूलं क्षं लं हं सं षं शं वं लं रं यं मं भं बं फं पं नं धं दं थं तं णं ढं डं ठं टं ञं झं जं छं चं ङं घं गं खं कं अंः अं औं ओं ऐं एं ॡं ऌं ॠं ऋं ऊं उं ईं इं आं अं इति शतवारं मूलमन्त्रं जपेदिति । त्रिषष्ट्यर्णमातृका तु बह्वृचप्रातिशाख्ये त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शम्भुमते मताः इति प्रागेवोक्तम् (३ श्वा० ६४ पृ०) । एवं त्रिषष्ट्यर्णमातृकया प्रत्यक्षरबिन्दुयुक्तया प्राग्वत् स्वेष्टमन्त्र सम्पूटीकृत्य मासमात्रं प्रतिदिनमष्टोत्तरशतं जपेत् । सङ्कल्पोऽपि प्राग्वदेव ॥ अपरश्च प्रकारः कुलार्णवे :

मासमात्रं जपेन्मन्त्रं भूतलिप्या पुटीकृतम् ।
क्रमोत्क्रमात् सहस्रं तु मासात् सिद्धो भवेन्मनुः ॥ १ ॥

इति । अयमर्थः : तत्र क्रमोत्क्रमभूतलिप्या पुटिकृत्य मूलमन्त्रमष्टोत्तरसहस्रं मासमात्रं प्रतिदिनं जपेत् । सङ्कल्पस्तु पूर्ववदेव । भूतलिपयस्तु प्रागेवोक्ताः (३ श्वा० ६४ पृ०) । अष्टोत्तरशतमिति पाठे गुरुजप्तमन्त्रपरं ज्ञेयम् ॥ प्रकारान्तरं तु वायवीयसंहितायाम्

त्रिकालं गन्धपुष्पाद्यैर्योऽर्चयेद् देवतां निशि ।
पुरश्चरणकृत्येन विनैवासौ प्रसीदति ॥ १ ॥

इति । अस्यार्थः : अद्येहेत्यादि० अमुकमन्त्रसिद्धिकामो रात्रौ त्रिकालपूजनं करिष्ये इति सङ्कल्पं कृत्वा वत्सरमात्रं रात्रौ प्रतिदिनं त्रिकालं सर्वोपचारैर्देवीं साङ्गावरणां पूजयेत् । एवं षण्मासं त्रिमासं वा मासमात्रं वा पूजयेत् । पुरश्चरणमन्तरेणापि मन्त्रसिद्धिर्भवति इति ॥ अन्यप्रकारस्तु कादिमते :

यो मन्त्रस्तस्य (मन्त्रस्य) वर्णौषधिविनिर्मिताः ।
तत्तद्वर्णोक्तसंख्याभिर्गुटिकाः मन्त्रसिद्धिदाः ॥ १ ॥

तथाभिषेकस्तद्धारणं तत्खादस्तद्विलेपनम् ।
तत्पूजा च तथा सिद्धिदायकास्तु न संशयः ॥ २ ॥

इति । अयमर्थः : तत्र मन्त्रवर्णौषधिविनिर्मितमन्त्रवर्णसमसंख्यानां गुटिकानां धारणं तद्भक्षणं विलेपनं ताभिः पूजां तत्क्वाथजलैः स्नानं तद्भस्मधारणं च कुर्यात् । तेन मन्त्रसिद्धिर्भवति ।
वर्णौषधयस्तु प्रपञ्चसारे : (३ प० ५३ श्लो)

चन्दनकुचन्दनागरुकर्पूरोशीररोगजलघुसृणा ।
कक्कोलजातिमांसीमुराचोरग्रन्थिरोचनापत्राः ॥ १ ॥

पिप्पलबिल्व गुहारुण तृणक लवङ्गाह्वकुम्भिवन्दिन्यः ।
सोडुम्बरकाश्मरिकास्थिराब्जदरपुष्पिकामयूरशिखाः ॥ २ ॥

प्लक्षाग्निमन्थसिंहीकुशाह्वदर्भाश्च कृष्णदरपुष्पी ।
रोहिणटुण्टुकबृहती पाटलचित्रातुलस्यपामार्गाः ॥ ३ ॥

शतमूलिलताद्विरेफा विष्णुक्रान्ता मुषल्यथाञ्जलिनी ।
दूर्वा श्रीदेवीसहे तथैव लक्ष्मीसदाभद्रे ॥ ४ ॥

आदीनामिति कथिता वर्णानां क्रमवशादथौषधयः ।
गुटिकाकषायभसितप्रभेदतो निखिलसिद्धिदायिन्यः ॥ ५ ॥

इति । अथैतासां नामानि : यथा चन्दनं रक्तचन्दनं अगरु कर्पूर उशीर कुष्ठ वाल कुंकुम जातीफल जटामांसी मुरा चोर ग्रन्थि गोरोचना पत्रा पिप्पल बिल्व पृश्निपर्णी चित्रक लवङ्ग कत्तृण कट्फल वन्दि उदुम्बर पाषाणभेद पद्म शंखपुष्पी मयूरशिखा प्लक्ष अग्निमन्थ सिंहि कुश कृष्णशङ्खपुष्पी रोहिण स्योनाक बृहती पाटल मूषकपर्णी तुलसी अपमार्ग इन्द्रवल्ली भृङ्गराज अपराजिता तालमूली कृताञ्जलि दूर्वा श्रीदेवी कुमारी भारङ्गी भद्रमुस्ताः इत्येकपञ्चाशदौषधयः क्रमादकारादिक्षकारान्तैकपञ्चाशद्वर्णानामिति । अपरप्रकारश्च मन्त्रतन्त्रप्रकाशे :

संस्कृतं पूजितं मन्त्रं दत्त्वा शिष्याय देशिकः ।
कुर्यादथ तयोरैक्यं शास्त्रदृष्टेन वर्त्मना ॥ १ ॥

मन्त्रं विदर्भयित्वा तु नामवर्णैर्यथाक्रमम् ।
आद्यन्ते सकलं नाम ततः प्रणवमालिखेत् ॥ २ ॥

स्वराः पत्रेषु संलेख्या ध्यायेत् तानमृतात्मकान् ।
भूर्जे रोचनगन्धाद्यैः पद्ममध्ये सुशोभने ॥ ३ ॥

मृदा पवित्रयावेष्ट्य तत्पुनः सिक्थकेन तु ।
निक्षिपेन्मधुरे तत्तु मृण्मये लघुभाजने ॥ ४ ॥

क्षीरपूर्णे नवे कुम्भे तत् क्षिपेल्लघुभाजनम् ।
धारयेद् देशिकः कुम्भमग्निकुण्डसमीपतः ॥ ५ ॥

मन्त्रसाधकयोरैक्यसिद्ध्यर्थं जुहुयात् ततः ।
मूलमन्त्रेण मन्त्रज्ञः सहस्रं शतमेव वा ॥ ६ ॥

कुम्भे संपातयेच्चैव मधुराणां त्रयं शुभम् ।
होमं समाप्य तं कुम्भं विनिक्षिप्य जलाशये ॥ ७ ॥

स्वगुरुं ब्राह्मणान् स्वर्णैस्तोषयेद्दक्षिणादिभिः ।
एतद्यो न विजानाति नासौ साधक उच्यते ॥ ८ ॥

रहस्यं कथितं चैतन्न वदेद्यस्य कस्यचित् ।
उत्तमाय तु शिष्याय पुत्राय च वदेदिदम् ॥ ९ ॥

इति । अयमर्थः : भूर्जपत्रे गोरोचनागन्धादिभिरष्टदलपद्मं विरच्य तत्कर्णिकायां साधकनामवर्णविदर्भितं मन्त्रमाद्यन्ते सकलं नाम प्रणवं च विलिख्य पत्रेषु द्वन्द्वशः क्रमेण स्वरान् विलिख्य गुटिकीकृत्य पवित्रमृदा संवेष्ट्य तदपि सिक्थकेन सम्वेष्ट्य मधुरत्रयपूरिते स्वल्पमृत्पात्रे निक्षिप्य क्षीरपूर्णे नूतनकुम्भे सयन्त्रगुटिकमृत्पात्रं निक्षिप्य प्रागुक्तविधिनाग्निं कुण्डादौ संस्कृत्य तत्समीपे तत्कुम्भं संस्थाप्य ओं अद्येत्यादि० अमुकमन्त्रसिद्धिकामो विद्यासाधकयोरैक्यत्वसिद्ध्यर्थमष्टोत्तरसहस्रं शतं वा मधुरत्रयहोममहं करिष्ये इति सङ्कल्प्य उपास्यमन्त्रेण सङ्कल्पितसंख्यं प्रत्याहुति कुम्भे सम्पातं स्रुवलग्नं हुतशेषं निक्षिपन् हुत्वा तं कुम्भं जलाशये निक्षिप्य गुरुब्राह्मणादीन् स्वर्णादिभिस्तोषयेदिति । एवं कृतेऽपि नसिद्ध्यति तदा मन्त्रस्य द्रावणादिकं कुर्यात् । तदुक्तं महाहारकतन्त्रे :

द्रावणं बोधनं वश्यं पीडनं पोषशोषणे ।
दाहनं च बुधः कुर्यात्ततः सिद्धो भवेन्मनुः ॥ १ ॥

द्रावणं वारुणैर्बीजैर्ग्रथनक्रमयोगतः ।
तन्मन्त्रं यन्त्र आलिख्य शिलाकर्पूरकुङ्कुमैः ॥ २ ॥

उशीररोचनाभ्यां च मन्त्रं संग्रथितं लिखेत् ।
क्षीराज्यमधुतोयानां मध्ये तं लिखितं क्षिपेत् ॥ ३ ॥

पूजनाज्जपनाद्धोमाद् द्रावितः फलदो भवेत् ।
द्रावितोऽपि न सिद्धश्चेद्वोधनं तस्य कारयेत् ॥ ४ ॥

सारस्वतेन बीजेन सम्पूटीकृत्य तं जपेत् ।
एवं बुद्धो भवेत् सिद्धो नोचेत्तस्य वशं कुरु ॥ ५ ॥

कुचन्दनं तथा दारु हरिद्रा मदनं शिला ।
एतैस्तु लिखितो मन्त्रो भूर्जपत्रे सुशोभने ॥ ६ ॥

मदनं कस्तूरी शिला मनःशिला ।

कण्ठे धृतो भवेत् सिद्धो नोचेत् कुर्यात्तु पीडनम् ।
अधरोत्तररूपेण पदानि परिजप्य वै ॥ ७ ॥

ध्यायीत देवतां तद्वदधरोत्तररूपिणीम् ।
विद्यामादित्यदुग्धेन लिखित्वाक्रम्य चाङ्घ्रिणा ॥ ८ ॥

तथाभूतेन मन्त्रेण होमः कार्यो दिने दिने ।
पीडितो लज्जयाविष्टः सिद्धश्चेन्नहि पोषयेत् ॥ ९ ॥

बालातृतीयबीजेन पुटितं मधुदुग्धतः ।
धारयेल्लिखितं मन्त्रमथवा शोषणं चरेत् ॥ १० ॥

द्वाभ्यां च वायुबीजाभ्यां लिखेन्मन्त्रं विदर्भितम् ।
भस्मना धारयेत् कण्ठे नो चेद्दाह्योऽग्निबीजतः ॥ ११ ॥

मन्त्रार्णान् वह्निबीजेन चतुर्दिशि समावृतान् ।
लिखेत् पालाशतैलेन धारयेत् कण्ठदेशतः ॥ १२ ॥

सिद्ध्ः स्यान्नात्र सन्देहो मन्त्र इत्याह शङ्करः ।
* * * * * * * * * * * * * * * * ॥ १३ ॥

इति ॥ अथैतेषां प्रयोगाः । तत्रादौ द्रावणम्  : वमिति वरुणबीजेन ग्रथितं मूलमन्त्रं कर्पूरकुंकुमगोरोचनामनः शिलोशिरैः पूजाचक्ररूपयन्त्रमध्ये विलिख्य कस्मिंश्चित्पात्रे दुग्धमधुघृतजलमेकीकृत्य तत्र यन्त्रं निधाय पूजाजपहोमान् कुर्यात् इति ॥

अथ बोधनम् : तत्तु वाग्भवबीजसम्पूटितमन्त्रजपरूपम् ॥

अथ वशीकरणम् : तत्र भूर्जपत्रे रक्तचन्दनदारुहरिद्राकस्तूरीमनःशिलाभिर्मूलमन्त्रमालिख्य कण्ठे धारयेदिति ॥

अथ पीडनम् : तत्राधरोत्तरभावेन मन्त्रपदानि प्रजप्य देवतामप्यधरोत्तरभावेन ध्यात्वा अर्कपत्रे अर्कदुग्धेन तं मन्त्रमालिख्य तत्पादेनाक्रम्याधरोत्तरक्रमपठितमन्त्रेण होमं च कुर्यादिति ॥

अथ पोषणम् : तत्र बालातृतीयबीजपुटितं मन्त्रं गोदुग्धमधुभ्यां भूर्जादौ विलिख्य धारयेत् इति ॥

अथ षोषणम् : तत्र यज्ञभस्मना वायुबीजविदर्भितं मन्त्रं विलिख्य कण्ठे धारयेदिति ॥

अथ दाहनम् : पालाशबीजतैलेन वह्निबीजसम्पूटितं मन्त्रस्यैकैकमक्षरं विलिख्य प्रतिवर्णमधश्चोर्ध्वं च वह्निबीजमालिख्य कण्ठे धारयेदिति । विदर्भलक्षणं तु (शारदातिलके मन्त्रार्णद्वन्द्वमध्यस्थं साध्यनामाक्षरं लिखेत् । विदर्भं एष विज्ञेयः इति ) तन्त्रान्तरे : एकान्तरं तु ग्रथनं विदर्भो द्व्यन्तरीकृतः । इति च ॥ एकवीराकल्पे :

कर्माण्येतानि कुर्वीत प्रत्येकं मण्डलावधि ।
जपहोमादिकाङ्गानां संख्या चाष्टोत्तरं शतम् ॥ १ ॥

एवं यदि न सिद्धः स्यात्तदा मन्त्रं जपेत् सुधिः ।
अश्वत्थपत्रनवके मन्त्रं यन्त्रं च मालिकाम् ॥ २ ॥

विधानं पद्धतिं चैव संस्थाप्य सम्प्रपूज्य च ।
जले निक्षिप्य दीक्षार्थं शीघ्रं गुरुमथाश्रयेत् ॥ ३ ॥

इति । एतावत्सर्वं महाविद्याव्यतिरिक्तविषयं महाविद्यानां तु मोक्षैकप्रधानत्वाद् भोगानामनुपादेयत्वात् आर्थसमाज (?) इति न्यायाद्भवन्ति चेद्भोगास्तदा भवन्तु नाम नोचेत्मा भूवन् महाविद्यानां त्यक्तुमयोग्यत्वात् ॥ अथ प्रसङ्गतः सिद्धिलक्षणं तन्त्रान्तरे :

मनोरथानामक्लेशः सिद्धेरुत्तमलक्षणम् ।
मृत्यूनां हरणं तद्वद् देवतादर्शनं तथा ॥ १ ॥

प्रयोगाणां तथाक्लेशसिद्धिः सिद्धेस्तु लक्षणम् ।
परकायप्रवेशश्च पुरप्रवेशनं तथा ॥ २ ॥

ऊर्ध्वोत्क्रमणमेवं हि चराचरपुरे गतिः ।
खेचरीमेलनं चैव तत्कथाश्रवणादिकम् ॥ ३ ॥

भूच्छिद्राणि च सम्पश्येत् पातालादिषु सङ्गमः ।
आकर्षणं सुरस्त्रीणां नागस्त्रीणां तथैव च ॥ ४ ॥

पादुका गुटिकास्तद्वदञ्जनं विवरं तथा ।
अणिमादींश्च सम्प्राप्य केवलं मोक्षमाप्नुयात् ॥ ५ ॥

इत्येवं कथितं ब्रह्मन् प्रधानं सिद्धिलक्षणम् ।
ख्यातिर्वाहनभूषादिलाभः सुचिरजीवनम् ॥ ६ ॥

नृपाणामङ्गनानां च वशीकरणमुत्तमम् ।
सर्वत्र सर्वलोकेषु चमत्कारकरः सुखी ॥ ७ ॥

रोगापहरणं दृष्ट्या विषापहरणं तथा ।
पाण्डित्यं च कवित्वं च चतुर्विधमयत्नतः ॥ ८ ॥

वैराग्यं च मुमुक्षुत्वं त्यागिता सर्ववश्यता ।
अष्टाङ्गयोगाभ्यसनं भोगेच्छापरिवर्जनम् ॥ ९ ॥

सर्वभूतेष्वनुकम्पा सर्वज्ञादिगुणोदयः ।
इत्यादिगुणसम्पत्तिर्मध्यसिद्धेस्तु लक्षणम् ॥ १० ॥

ख्यातिर्वाहनभूषादिलाभः सुचिरजीवनम् ।
नृपाणामङ्गनानां च वात्सल्यं लोकवश्यता ॥ ११ ॥

महैश्वर्ययं धनित्वं च पुत्रदारादिसम्पदः ।
अधमाः सिद्धयः प्रोक्ता मन्त्रिणः प्रथमभूमिकाः ॥ १२ ॥

तीर्थे मन्त्रोपदेशश्च श्रद्धा च जपकर्मणि ।
फलिष्यतीति विश्वासस्तत् सत्सिद्धेस्तु लक्षणम् ॥ १३ ॥

निर्वीजा मनवो ये च तेषु बीजानि योजयेत् ।
कामं वा विष बीजं वा जपतां सिद्धिदो मनुः ॥ १४ ॥

स्थानस्था वरदा मन्त्रा ध्यानस्थाश्च फलप्रदाः ।
स्थानध्यानविहीनानां कोटिजापात् फलं नहि ॥ १५ ॥

मातृकापुटितं कृत्वा मूलमन्त्रं जपेत् सुधीः ।
क्रमोत्क्रमाच्छतावृत्त्या तदन्ते केवलं मनुम् ॥ १६ ॥

एवं तु प्रत्यहं जप्यात् यावन्मासं समाप्यते ।
निश्चितं मन्त्रसिद्धिः स्यादित्युक्तं तन्त्रवेदिभिः ॥ १७ ॥

गुरुं सन्तोषयेद्भक्त्या भूषणच्छादनादिभिः ।
गुरोः सन्तोषमात्रेण मन्त्रसिद्धिर्भवेद् ध्रुवम् ॥ १८ ॥

गुरुमूलमिदं सर्वमित्याहुस्तन्त्रवेदिनः ।
गुरुं विलङ्घ्य शास्त्रेऽस्मिन् नाधिकारः सुरेश्वरि ॥ १९ ॥

एतेषां मन्त्रतन्त्राणां प्रयोगः क्रियते यदि ।
गुरोराज्ञां विना देवि सिद्धिहानिः प्रजायते ॥ २० ॥

शिव रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ।
यस्य देवे च मन्त्रे च गुरौ च त्रिषु निश्चला ॥ २१ ॥

न व्यवच्छिद्यते भक्तिस्तस्य सिद्धिरदूरतः ।
भावनारहितानां च क्षुद्राणां क्षुद्रचेतसाम् ॥ २२ ॥

चतुर्गुणो जपः प्रोक्तः सिद्धये नान्यथा भवेत् ।
* * * * * * * * * * * * * * * * ॥ २३ ॥

इत्येकवीराकल्पवचनात् पशुभावनां (वनावतां) पुरश्चरणचतुष्टयान्मन्त्रसिद्धिः । अत एव चतुर्धानुष्ठितो मन्त्रः इति पूर्वमुक्तम् । क्षुद्राणां पशूनामित्यर्थः । भावना दिव्यवीरभावना ॥ अथ दिव्यपुरश्चरणं तन्त्रान्तरे

यदि विप्रः कुलश्रेष्ठः कुलद्रव्यपरायणः ।
तदानेन विधानेन कर्तव्यं कुलसाधानम् ॥ १ ॥

मद्यं मांसं च मत्स्यं च मुद्रां मैथुनमेव च ।
अन्योन्यं नित्यता ज्ञेया कुलदेव्याः प्रपूजने ॥ २ ॥

इति । कुलश्रेष्ठो दिव्यो वा वीरो वा अनेन विधानेन वक्ष्यमाणेन विधानेन विप्राणां पाशवमेवानुकल्पादिविधानमिति विप्रप्रदेन निरस्तम् । कुलार्णवे कुलक्रममुपक्रम्य :

ब्राह्मणैस्तु सदा कार्यं क्षत्रियैस्तु रणागमे ।
वैश्यैर्धनप्रयोगे च शूद्रैस्तु न कदाचन ॥ १ ॥

इति । अनुकल्पस्तु विप्राणाम् इत्यादिवचनानि पशुविप्रपराणि बाहुल्येन विप्राः पशव एव भवन्तीति । कुलचूडामणौ :

पुरश्चरणकाले च कुलशक्तिं प्रपूजयेत् ।
दीक्षितां गन्धपुष्पाद्यैर्भक्ष्यैः पायससम्भवैः ॥ १ ॥

आरम्भकाले वनितां स्वयं भक्ष्यान्नतेमनैः ।
शून्ये गेहे समानीय चार्घ्यादिकं विशोधयेत् ॥ २ ॥

अमृतीकरणं कृत्वा शक्तिं चाभिमुखिं नयेत् ।
आसनं प्रथमं दद्यात् स्वागत च वदेत् पुनः ॥ ३ ॥

पाद्यमर्घ्य च पानीयं मधुपर्कं जलं तथा ।
स्नापयेद् गन्धपुष्पाद्भिः केशसंस्कारमारभेत् ॥ ४ ॥

धूपयित्वा ततः केशान् कौशेयं च निवेदयेत् ।
ततः स्थानान्तरे पीठमास्तीर्य पादुकायुगम् ॥ ५ ॥

दत्त्वा तत्र समासीनां नानालङ्कारभूषणैः ।
भूषयित्वानुलेपं च गन्धं माल्यं निवेदयेत् ॥ ६ ॥

दद्यान्मण्डलमध्ये तु स्वर्णपात्रे सुशोभने ।
चर्व्यं चोष्यं लेह्यपेयं भोज्यं च पञ्चभक्षकम् ॥ ७ ॥

नानाविधं पिष्टकं च नानारससमन्वितम् ।
दुग्धं दधि घृतं तक्रं नवनीतं सशर्करम् ॥ ८ ॥

उपलाख्ण्डपूर्णं च नानाविधरसायनम् ।
नारिकेलं कपित्थं च नागरङ्गं सुदर्शनम् ॥ ९ ॥

लिम्पाकं बीजपूरं च दाडिमीफलमुत्तमम् ।
नानावन्यफलं चैव नानागन्धविलेपनम् ॥ १० ॥

चन्दनं मृगनाभिं च श्रीखण्डं नवपल्लवम् ।
टङ्कणं लोध्रकं चैव जलजं वनजं तथा ॥ ११ ॥

नानाशैलसमुद्भूतं नानालङ्कारबूषणम् ।
आदावन्ते च मध्ये च जपपूजाविशेषतः ॥ १२ ॥

न पूजयति चेत् कान्तां तदा विघ्नैर्विलिप्यते ।
पूर्वार्जिते फलं नास्ति का कथा परजन्मनि ॥ १३ ॥

तस्मात् सर्वप्रयत्नेन यदीच्छेदात्मनो हितम् ।
ममापि क्रोधसन्तापशमनं विघ्ननाशनम् ॥ १४ ॥

यत्नतः पूजनीयां स्युः कुला कुलजनाङ्गनाः ।
* * * * * * * * * * * * * * * * ॥ १५ ॥

इति । आदिमध्यावसानविधिस्त्वलाभेऽवधेयः अत्यन्तालाभेऽपि आद्यन्तयोरावश्यकविधिः आरम्भकाले चेति जपपूर्तौ विशेषत इति चोक्तेः ॥

इति श्रीमहामहोपाध्यायभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्य श्रीभगवच्छङ्कराचार्यशिष्य श्रीविष्णुशर्माचार्यशिष्य- श्रीप्रगल्भाचार्यशिष्य श्रीविद्यारण्ययति विरचिते श्रीविद्यार्णवाख्ये तन्त्रे षोडशः श्वासः ॥ १६ ॥

अथ

श्रीविद्यार्णवतन्त्रे

Swami Sivanandas Zimmer in Rishikesh: Erinnerung an einen spirituellen Lehrer.

Video zur Vertiefung: Der spirituelle Name Tripurasundari

Ein heutiger Yoga-Vidya-Vortrag zum Thema; keine Rezitation oder Übersetzung des historischen Textes.

17. Śvāsa

अथ रहस्यपुरश्चरणम् । तदुक्तं स्वतन्त्रतन्त्रे -

अथ वान्यप्रकारेण पुरश्चरणमिष्यते ।
कुजे वा शनिवारे वा नरमुण्डं समाहृतम् ॥ १ ॥

पञ्चगव्येन मिलितं चन्दनाद्यैर्विशेषतः ।
निक्षिप्य भूमौ हस्तार्धमानतः कानने वने ॥ २ ॥

तत्र तद्दिवसे रात्रौ सहस्रं यदि मानतः ।
एकाकी प्रजपेन्मन्त्रं स भवेत् कल्पपादपः ॥ ३ ॥

इति ।

अथवान्यप्रकारेण पुरश्चरणमिष्यते ।
शवमानीय तद्द्वारि तेनैव परिखन्य च ॥ ४ ॥

तद्दिनात् तद्दिनं यावत् तावदष्टोत्तरं शतम् ।
स भवेत् सर्वसिद्धिशो नात्र कार्या विचारणा ॥ ५ ॥

इति ।

अथ वान्यप्रकारेण पुरश्चरणमिष्यते ।
अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ॥ ६ ॥

सूर्योदयं समारभ्य यावत् सूर्योदयान्तरम् ।
तावज्जप्त्वा निरातङ्कः सर्वसिद्धीश्वरो भवेत् ॥ ७ ॥

इति । मुण्डमालातन्त्रे -

अथ वान्यप्रकारेण पुरश्चरणमिष्यते ।
शरत्काले चतुर्थ्यादिनवम्यन्तं विशेषतः ॥ १ ॥

भक्तितः पूजयित्वा तु रात्रौ तावत्सहस्रकम् ।
जपेदेकोऽपि विजने केवलं तिमिरालये ॥ २ ॥

अष्टम्यादिनवम्यन्तमुपवासपरो भवेत् ।
कृष्णाष्टमीं समारभ्य यावत् कृष्णाष्टमी भवेत् ॥ ३ ॥

सहस्रसंख्ये जप्ते तु पुरश्चरणमिष्यते ।
कृष्णां चतुर्दशीं प्राप्य नवम्यन्तं महोत्सवे ॥ ४ ॥

अष्टमीनवमीरात्रौ पूजां कुर्याद्विशेषतः ।
दशम्यां पारणं कुर्यान्मत्स्यमांसादिभिर्युतम् ॥ ५ ॥

षट्सहस्रं जपेन्मन्त्रं नित्यं भक्तिपरायणः ।
चतुर्दशीं समारभ्य यावदन्या चतुर्दशी ॥ ६ ॥

तावज्जप्ते महेशानि पुरश्चरणमिष्यते ।
केवलं जपमात्रेण मन्त्राः सिद्धाः भवन्ति हि ॥ ७ ॥

इति । स्वतन्त्रतन्त्रे -

रात्रौ मांसं रसं देवीं पूजयित्वा विधानतः ।
ततो नग्नां स्त्रियं नग्नो गच्छेत् क्लेदयुतोऽपि च ॥ १ ॥

जपेल्लक्षं ततो देवीं होमयेज्ज्वलितेऽनले ।
योनिकुण्डे स्थिरः सर्पिर्मांसमत्स्यायुतं तथा ॥ २ ॥

दशांशं तर्पयेन्मत्स्यैर्मांसमिश्रैस्तु साधकः ।
तर्पणस्य दशांशेन चाभिषिच्य जगन्मयीम् ॥ ३ ॥

दशांशं भोजयेत् स्वादु साधकं देवताप्रियम् ।
आद्यं मांसं च मत्स्यं च चर्वणं च निवेदयेत् ॥ ४ ॥

ततस्तु तोषयेद्भक्त्या गुरुं स्वर्णादिभिः प्रिये ।
* * * * * * * * * * * * * * * * ॥ ५ ॥

इति । दिव्यमतस्य श्रेष्ठत्वाल्लक्ष एव जपः सहस्रमात्रमेव प्रात्यहिकमत एव जपेल्लक्षमिति पूर्वदर्शितवचनैकवाक्यत्वात् ।
होमादौ च प्रथमादिपदार्थस्य प्राधान्यम् । कुण्डस्य योनिरूपतायां नियमः ॥ कुलसम्भवे -

रात्रो नग्नो मुक्तकेशो मैथुने चापि तत्त्वतः ।
प्रजप्तव्यं प्रयत्नेन सर्वकामार्थसिद्धये ॥ १ ॥

इति । तन्त्रान्तरे -

तावत्कालं जपेन्मन्त्रं यावच्छुक्रं न मुञ्चति ।
मुक्ते शुक्रे च देवेशि पुनर्मन्त्रं जपेत् सुधीः ॥ १ ॥

रात्रौ तम्बूलपूर्णास्यः शययायां लक्षमानतः ।
* * * * * * * * * * * * * * * * ॥ २ ॥

इति च । शवासनाधिकफलं लिङ्गगेहप्रवेशनम् इति च ।
योन्यभिमन्त्रणादिवत् दूतीयागवत् अत्र च साधनातिरिक्तसमये नग्नस्त्रीदर्शनं निषिद्धमिति पूर्वोक्तम् । यदि भाग्यवशाद्देवि कुलदृष्टिः प्रजायते । तदैव मानसीं पूजां स्वयं तासां प्रकल्पयेत् ॥ इति कुत्रचिदभिहितं विहितमपि । एवं विरोधे व्यवस्थाबलात्कारेण विडम्बना न कर्तव्या इति निषेधः ।
भावपूर्वकस्तु विधिः ॥ तथा च तन्त्रान्तरे -

तासां प्रहारं निन्दां च कौटिल्यमप्रियं तथा ।
सर्वथा नैव कर्तव्यमन्यथा सिधिरोधकृत् ॥ १ ॥

स्त्रियो देवाः स्त्रियः प्राणाः स्त्रिय एव हि जीवितम् ।
स्त्रीगणेषु सदा भाव्यमभावे स्वस्त्रियामपि ॥ २ ॥

तद्धस्तापचितं पुष्पं तद्धस्तापचितं जलम् ।
तद्धस्तापचितं भोज्यं देवताभ्यो निवेदयेत् ॥ ३ ॥

इति । दिव्यो वाप्यथ वीरो वा रात्रौ लक्षं जपं चरेत् इत्युक्तेर्दिव्यवीरयोः समानमेव विधानम् । दिव्ये कुलरूपसाधनमावश्यकं गान्धर्वेण क्रमेणैव पञ्चमी भुवि दुर्लभा इति वचनात् श्रीविद्याविषये दिव्य एव क्रमः अन्यत्रोभयोस्तुल्यत्वात् ॥ अथ वीरपुरश्चरणं कुलरूपं भावचूडामणौ -

वीरसाधनकार्यं च कर्तव्यं वीरपूरुषैः ।
दिव्यैरपि च कर्तव्यं पशुभिर्नच पामरैः ॥ १ ॥

वीरं दिव्यं च यत्कर्म तत् पशोर्नेति निश्चितम् ।
* * * * * * * * * * * * * * * * ॥ २ ॥

इति । अत्र दिव्यैरपीत्यनेन दिव्यानुष्ठेयता च प्रतिपाद्यते । एवं सति दिव्ये वीरकर्म गुप्तं वीरे दिव्यकर्म गुप्तं तदपि कादाचित्कम् ।
दिव्यवीरवेषौ तु प्रकटौ वस्तुतस्तु सर्वमेव गुप्तं गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति । प्रकाशनात् सिद्धिहानिर्नात्र कार्या विचारणा ॥ इत्यादितन्त्रान्तरवचनात् । गोपयेन्मातृजारवत् इति चोक्तेः वीराणां पुरश्चरणादौ परकीयनारीं दीक्षितां यथाशक्ति पूजयेत् । तदुक्तं कुलचूडामणौ ।

पुरश्चरणकाले तु परयोषां प्रपूजयेत् ।
दीक्षितां वस्त्रभूषाद्यैर्भोज्यैः पायससंभवैः ॥ १ ॥

आरम्भकाले नियतं स्वयं पक्वान्नतेमनम् ।
दुग्धं दधि घृतं तक्रं नवनीतं सशर्करम् ॥ २ ॥

उपलाखण्डमार्द्रं च नानाविधरसायनम् ।
नारिकेलं कपित्थं च नागरङ्गं सुदर्शनम् ॥ ३ ॥

लिम्पाकं बीजपूरं च दाडिमीफलमुत्तमम् ।
नानावन्यफलं चैव नानागन्धविलेपनम् ॥ ४ ॥

चन्दनं मृगनाभिं च श्रीखण्डं नवपल्लवम् ।
टङ्कणं लोध्रकं चैव जलजं वनजं तथा ॥ ५ ॥

नानाशैलसमुद्भूतं नानालङ्कारभूषितम् ।
शून्ये गेहे समानीय चार्घ्योदकविशोधितम् ॥ ६ ॥

अमृतीकरणं कृत्वा शक्तिं चाभिमुखीं नयेत् ।
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च कुलभूषणा ॥ ७ ॥

वेश्या नापितकन्या च रजकी नटकी तथा ।
विशेषवैदग्ध्ययुताः सर्वा एव कुलाङ्गनाः ॥ ८ ॥

इति । दीक्षिता अष्टौ शक्तीः क्रमेण संस्थाप्यार्घ्यपात्रं स्थापयित्वाऽर्घ्योदकेन ताः प्रोक्ष्य वमिति धेनुमुद्रयामृतीकृत्याष्टशक्तिरूपभेदं कृत्वा ब्राह्म्याद्यष्टशक्तीनां नामभिः कृतसंज्ञकाः ।

आसनं प्रथमं दत्त्वा स्वागतं च पुनः पुनः ।
अर्घ्यं पाद्यं च पानीयं मधुपर्कं जलं ततः ॥ ९ ॥

स्नापयेद्गन्धपुष्पादि केशसंस्कारमेव च ।
धूपयित्वा ततः केशान् कौशेयं च निवेदयेत् ॥ १० ॥

ततः स्थानान्तरे पीठमास्तीर्य पादुकाद्वयम् ।
दत्त्वा तत्र समानीय नानालङ्कारभूषणैः ॥ ११ ॥

धूपयित्वानुलेपेन गन्धं माल्यं निवेदयेत् ।
तां तां शक्ति समावाह्य मूर्ध्निं तासां समानयेत् ॥ १२ ॥

ततस्तां शक्तिं यथाक्रमेण ब्रह्माण्यादिरूपां समावाह्य जीवन्यासादिकं कुर्यात् । यथा पूर्वोक्तप्राणप्रतिष्ठामन्त्रेणाऽमुष्यस्थाने ब्रह्माण्याः प्राणा इह प्राणा इत्यादिक्रमेण प्राणप्रतिष्ठां कुर्यादित्यर्थः । एवं माहेश्वर्या इत्यादिकमूहनीयम् । ततो गन्धपुष्पदीपान्नव्यञ्जनादिकं दत्त्वा तासां सव्यकर्णे क्रमेण स्तोत्रं पठेत् । तदुक्तं तत्रैव -

भोज्यं मण्डलमध्ये तु स्वर्णपात्रे सुशोभने ।
चर्व्यं चोष्यं लेह्यपेयं भक्ष्यं भोज्यं निवेदयेत् ॥ १३ ॥

अदीक्षिता भवेद्या तु तदा मायां निवेदयेत् ।
तासां सव्येषु कर्णेषु ततस्तोत्रं समाचरेत् ॥ १४ ॥

मातर्देवि नमस्तेऽस्तु ब्रह्मरूपधरेऽनघे ।
कृपया हर मे विघ्नं मन्त्रसिद्धिं प्रयच्छ मे ॥ १५ ॥

माहेशि वरदे देवि परमानन्दरूपिणि ।
कृपया हर मे विघ्नं मन्त्रसिद्धिं प्रयच्छ मे ॥ १६ ॥

कौमारि सर्वविद्येशे कुमारक्रिडने परे ।
कृपया हर मे विघ्नं मन्त्रसिद्धिं प्रयच्छ मे ॥ १७ ॥

विष्णुरूपधरे देवि विनतासुतवाहिनि ।
कृपया हर मे विघ्नं मन्त्रसिद्धिं प्रयच्छ मे ॥ १८ ॥

वाराहि वरदे देवि दंष्ट्रोद्धृतवसुन्धरे ।
कृपया हर मे विघ्नं मन्त्रसिद्धिं प्रयच्छ मे ॥ १९ ॥

शक्ररूपधरे देवि शक्रादिसुरपूजिते ।
कृपया हर मे विघ्नं मन्त्रसिद्धिं प्रयच्छ मे ॥ २० ॥

चामुण्डे मुण्डमालासृक्चर्चिते विघ्ननाशिनि ।
कृपया हर मे विघ्नं मन्त्रसिद्धिं प्रयच्छ मे ॥ २१ ॥

महालक्ष्मि महोत्साहे क्षोभसन्तापनाशिनि ।
कृपया हर मे विघ्नं मन्त्रसिद्धिं प्रयच्छ मे ॥ २२ ॥

मितिमातृमये देवि मितिमातृवहिष्कृते ।
एके बहुविधे देवि विश्वरूपे नमोऽस्तु ते ॥ २३ ॥

एतत् स्तोत्रं पठेद्यस्तु कर्मारम्भेषु संयतः ।
विदग्धां वा समालोक्य तस्य विघ्नं न जायते ॥ २४ ॥

कुलीनस्य द्वारदेवाः कथितास्तव पुत्रक ।
दीक्षाकाले नित्यपूजासमये नार्चयेद्यदि ॥ २५ ॥

तस्य पूजाफलं वत्स नीयते यक्षराक्षसैः ।
यदि व्रीडापरा सा तु भोजने तद्गृहाद्वहिः ॥ २६ ॥

स्थितः पठेत् स्मरेत् स्तोत्रं यावत् तृप्तिः प्रजायते ।
आचम्य मुखवासादि ताम्बूलं च निवेदयेत् ॥ २७ ॥

ततो दद्यात् पुनर्माल्यं गन्धं चन्दनपङ्किलम् ।
विसृज्य प्रदक्षिणीकृत्य वरं प्रार्थ्य सुखी भवेत् ॥ २८ ॥

अन्या यदि न गच्छेत्तु निजकन्यां निजानुजाम् ।
अग्रजां मातुलानीं वा मातरं तत्सपत्निकाम् ॥ २९ ॥

पूर्वाभावे परा पूज्या मदंशा योषितो मतः ।
सर्वाभावे ह्येकतरा पूजनीया प्रयत्नतः ॥ ३० ॥

एकश्चेत् कुलशास्त्रज्ञः पूजार्हस्तत्र भैरव ।
सर्व एव सुराः पूज्याः सत्यं ब्रह्मशिवादयः ॥ ३१ ॥

एका चेद्युवती तत्र पूजिता चावलोकिता ।
सर्वा एव परादेव्यः पूजिताः कुलभैरव ॥ ३२ ॥

इति । वीरतन्त्रे

यः कश्चित् कुरुते वीरसाधनं सुसमाहितः ।
प्राप्नोति परमां सिद्धिं नात्र कार्या विचारणा ॥ १ ॥

तस्मात् सर्वप्रयत्नेन कर्तव्यं वीरसाधनम् ।
निर्भयेणेव शुचिना भूत्वा सर्वार्थसिद्धिदम् ॥ २ ॥

नातः परतरं किञ्चिद्विद्यते शीघ्रसिद्धिदम् ।
भैरवेण पुरा प्रोक्तं सर्वकामार्थसिद्धिदम् ॥ ३ ॥

घटी बन्धेन वस्त्रं वै मूलेन परिधाप्य च ।
तद्बाह्ये च पुनर्वस्त्रं मूलेनाङ्गविलेपनम् ॥ ४ ॥

धृतोष्णीषश्च मूलेन सिन्दूरेणौर्घ्वपुण्ड्रकम् ।
इष्टदेवं गुरुं नत्वा यात्रा प्रहरमध्यतः ॥ ५ ॥

कार्या च साधकैः सार्धं हृदि मन्त्रं परामृशन् ।
अक्षुब्धो भुक्तभोज्यस्तु भुक्त्वा साधनमाचरेत् ॥ ६ ॥

अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ।
भौमवारे तमिस्रायां साधयेत् सिद्धिमुत्तमाम् ॥ ७ ॥

उपचारं समादाय कुलामृतरसादिकम् ।
निशायां मृतहट्टे च उन्मत्तानन्दभैरवः ॥ ८ ॥

दिग्वासा विमलो भस्मभूषितो मुक्तकेशकः ।
* * * * * * * * * * * * * * * * ॥ ९ ॥

इति । दिग्वस्त्रत्वं च कुत्रचिद्विहितम् । अन्यत्र च -

भूमिपुत्रसमायुक्ता सामावास्या शुभोदया ।
भद्रे पुष्करसंयोगे तस्यां वीरवरोत्तमः ॥ १ ॥

इति । रुद्रयामले -

सत्यक्रमे चतुर्वर्णैः क्षीराज्यमधुपिष्टकैः ।
त्रेतायां पूजयेद् देवीं घृतेन सर्वजातिभिः ॥ १ ॥

मधुभिः सर्ववर्णैश्च पूजयेद् द्वापरे युगे ।
पूजनीया कलौ देवी केवलैरासवैश्च तैः ॥ २ ॥

इति । युगान्तरेष्वनुकल्पविधिः सर्ववर्णसाधारणः कलौ प्रधानकल्पोऽपि तादृश एव ।

गुडार्द्रकरसेनैव सुरा न ब्राह्मणस्य च ।
गौडी तु या क्षत्रियेण माध्वी वैश्येन तत्र वै ॥ ३ ॥

कदलीमधुसंमिश्रशालित्वक्केवलैः सुरा ।
सर्वा शूद्रस्य संप्रोक्ता यत्र वा तद्धविर्भवेत् ॥ ४ ॥

इति । कुत्रचित् । पूर्ववदेवास्य व्याख्यानं वस्तुतोऽनुकल्पः प्रधानालाभे सम्भवति नतु युगवर्णपरतया गौडीमाध्वीति

विशेषः कामनापरत्वेन । अथवा सुरा नेति भवतीत्याध्याहारस्तेन सुरा न भवति चेदित्यर्थः । गौडीमाध्वीत्यत्र गुडमधुचेति अण् प्रत्ययः । शूद्राणामपि प्रधानालाभे कदल्यादीन्येव सुरा सुरानुकल्पः । यद्वा तत्रेति पदं चितायामित्यर्थं बोधयति वीरसाधनप्रकरणत्वात् । यत्र चितागमनशवस्पर्शादिकमनवद्यं तत्र प्रधानमनवद्यमिति कानुपपतीः । तत् तदा शिरश्चालने प्रधानानुकल्पोभयविधानात् । गुडार्द्रकरसेनेति कदलीत्यादि च नारिकेलोदकं कांस्ये ताम्रे दद्यात्तथा मधु । दधि दुग्धं तथा ताम्रे गुडमिश्रं तथा दधि ॥ गुडार्द्रकमथो वापि पूजनार्थं प्रकल्पयेत् । इति तत्तदपि तादृशपात्रादिसंयोगेन प्रधानतुल्यतै(तयै)व भवतीति निषेधात् तादवस्थ्यमेव । तस्मात् प्रधानलाभेऽप्यनुकल्पपराण्येतानि वचनानि । अन्यच्च कुलागमक्रमेणैव पूजयेत् परमेश्वरीम् इति सकलतन्त्रस्वरसात् ।
कुलागमश्च कुलार्णवः । यथा (प० ५) -

शैवे वैशणवे शाक्ते सौरे सुगतदर्शने ।
बौद्धे पाशुपते सांख्ये मान्त्रे कालामुखे तथा ॥ १ ॥

दक्षिणे वामसिद्धान्ते वैदिकादिषु पार्वति ।
विनालिपिशताभ्यां च पूजनं निष्फलं भवेत् ॥ २ ॥

कुलद्रव्यैर्विना कुर्याज् जपं पूजां व्रतं तपः ।
निष्फलं तद्भवेद् देवि भस्ममन्येव यथा हुतम् ॥ ३ ॥

यथा क्रतुषु विप्राणां सोमपानमदूषितम् ।
अलिपानं तथा देवि सोमवद्भोगमोक्षदम् ॥ ४ ॥

इत्यादि सहस्रशो वचनैर्ज्योतिष्टोमादियागेषु विहितवत् अत्रापि स्मृत्यनुमितवेदविहितत्वात् नाधर्मसाधनं निषिद्धे तु जायत एवाधर्मः । श्रीधर्माचार्यकृते लघुस्तवे विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वासवैरिति । ज्ञानार्णवेः वर्णानुक्रमभेदेन वर्णभेदा भवन्ति वै । अपि च द्रवेण सात्विकेनेव ब्राह्मणः पूजयेच्छिवाम् । इति । तथा -

एवं दद्यात् क्षत्रियोऽपि पैष्टिकीं न कदाचन ।
नारिकेलोदकं कांस्ये ताम्रे दद्यात्तथा मधु ॥ ५ ॥

राजन्यवैश्ययोर्दानं न द्विजस्य कदाचन ।
एवं प्रदानमात्रेण हीनायुर्ब्राह्मणो भवेत् ॥ ६ ॥

इति । भैरवीतन्त्रे -

यत्रावश्यं विनिर्दिष्टं मदिरादानपूजनम् ।
ब्राह्मणस्ताम्रपात्रे तु मधु मद्यं प्रकल्पयेत् ॥ १ ॥

ब्राह्मणो मदिरां दत्त्वा ब्राह्मण्यादेव हीयते ।
स्वगात्ररुधिरं दत्त्वा स्वात्महत्यामवाप्नुयात् ॥ २ ॥

इति नानाशास्त्रविचारेण विप्राणामनुकल्पप्रकारेण पूजनम् ।
सात्त्विकेनैव भावेन ब्राह्मणस्तर्पयेच्छिवाम् । इति ।
श्रीक्रमसंहितायामपि -

आवाभ्यां पिशितं रक्तं सुरां वापि सुरेश्वरि ।
वर्णाश्रमोचितं धर्ममविचार्यापर्यन्ति ये ॥ १ ॥

भूतप्रेतपिशाचास्ते भवन्ति ब्रह्मराक्षसाः ।
* * * * * * * * * * * * * * * * ॥ २ ॥

इति । वस्तुतस्तु गुडार्द्रकरसेनैव सुरा न ब्राह्मणस्य च । इति वचनात् वामागमेऽपि विप्रे नाधिकारः । तथा च श्रुतिः नित्यं मद्यं ब्राह्मणो वर्जयेत् इति नित्यपदं कामतो यत्र कुत्रचित्प्राप्तिवचनम् तथा अकामतोऽपि नित्यं निषेधवचनं तन्निर्णयनिश्चितार्थं वेदेनैवोक्तत्वात् । ब्राह्मणस्य वामागमेऽपि निषेध एव बोध्यम् ।
तथा वचनेनाकारादिनाप्यर्थो बोध्यते । ब्राह्मणस्य सदाऽपेया क्षत्रियस्य रणागमे । वैश्यस्य धनसंयोगे शूद्रस्य न कदाचन ॥ इति । महाकालसंहितायाम् क्षीरेण ब्राह्मणैस्तर्प्या घृतेन नृपवंशजैः माक्षिकैर्वैश्यवर्णैस्तु सासवैः शूद्रजातिभिः इति ।
सारासारविचारस्त्वपेक्षित एव । तत्र विधिस्तु -

निःशङ्को निर्भयो वीरो निर्लज्जो निष्कुतूहलः ।
निर्णीतवेदशास्त्रार्थो वरदां वारुणीं पिबेत् ॥ १ ॥

तत्कर्म कुर्वतां पुंसां कर्मलोपो भवेद्यदि ।
तत् कथं तत् प्रकुर्वन्ति सप्तकोटिमुनीश्वराः ॥ २ ॥

इति । निषिद्धे निन्दा च -

आवृत्तिं गुरुपंक्तिं च वटुकादीनप्रपूज्य च ।
वीरोऽप्यत्र वृथापानाद् देवताशापमाप्नुयात् ॥ १ ॥

अयष्ट्वा भैरवं देवमकृत्वा मन्त्रतर्पणम् ।
पशुपानविधौ पीत्वा वीरोऽपि नरकं व्रजेत् ॥ २ ॥

अज्ञात्वा कौलिकाचारमयष्ट्वा गुरुपादुकाम् ।
योऽस्मिन् शास्त्रे प्रवर्तेत तं त्वं पीडयसे ध्रुवम् ॥ ३ ॥

कौलज्ञाने त्वप्रसिद्धो यो द्रव्यं भोक्तुमिच्छति ।
स महापातकी देवि सर्वधर्मबहिष्कृतः ॥ ४ ॥

समयाचारहीनस्य स्वैरवृतैर्दुरात्मनः ।
न सिद्धयः कुलभ्रंशस्तत् सर्व नरकाय च ॥ ५ ॥

यः शास्त्रविधिमुत्सृज्य वर्तते कामचारतः ।
स सिद्धिमिह नाप्नोति परत्र च परां गतिम् ॥ ६ ॥

स्वेच्छया वर्तमानो यो दीक्षासंस्कारवर्जितः ।
न तस्य सद्गतिः क्वापि तपस्तीर्थव्रतादिषु ॥ ७ ॥

असंस्कृतं पिवन् मद्यं बलात्कारेण मैथुनम् ।
स्वप्रीत्यै आहृतं मांसं रौरवं नरकं व्रजेत् ॥ ८ ॥

इत्यादिवचनानि शतशो विधिनिषेधपराणि । प्रतिप्रसवस्तु क्वचिद्यदृच्छया प्राप्तमलिद्रव्यं तु भक्तितः । गृहीत्वा मूलमन्त्रेण गुरुं स्मृत्वा च पादुकाम् ॥ तत्त्वत्रयेण संयुक्तं गृह्णीयान्मूलमुच्चरन् । इत्यपि संस्कृतपूजाविशेषद्रव्यपरम् ।
फलश्रुतिरपि -

सर्वसिद्धिकरी पैष्टी गौडी भोगप्रदायिनी ।
माध्वी मुक्तिकरी ज्ञेया सुराख्या त्रिविधा प्रिये ॥ ९ ॥

विद्याप्रदैक्षवी प्रोक्ता द्राक्षा राज्यप्रदायिनी ।
तालजा स्तम्भने शस्ता खार्जूरी रिपुनाशिनी ॥ १० ॥

नारिकेलभवा श्रीदा पानसाख्या शुभप्रदा ।
माधूकाख्या ज्ञानकरी दारिद्र्यरिपुहारिणी ॥ ११ ॥

मैरेयाख्या कुलेशानि सर्वपापप्रणाशिनी ।
क्षीरवृक्षसमुद्भूतं मद्यं वल्कलसम्भवम् ॥ १२ ॥

यस्यानन्दं निर्विशेषं सामोदं च मनोहरम् ।
द्रव्यं तदुत्तमं देवि देवताप्रीतिकारकम् ॥ १३ ॥

सुरासंदर्शनादेव तीर्थकोटिफलं लभेत् ।
तद्गन्धाघ्राणमात्रेण शतक्रतुफलं लभेत् ॥ १४ ॥

देवि तत्पानतः साक्षाल्लभेन्मुक्तिं चतुर्विधाम् ।
मांससंदर्शनादौ तु सुरादर्शनवत् फलम् ॥ १५ ॥

इति । तस्मात् कुलार्णवोक्तवचनान्येवादरणीयानीति सङ्गतं प्रतिभातीत्यलं जल्पितेन । नीलतन्त्रे (प० ११) -

देव्युवाच

माहानीलक्रमं देव सूचितं न प्रकाशितम् ।
कथयस्य महादेव सर्वसिद्धिप्रदं महत् ॥ १ ॥

भैरव उवाच

शृणु देवि वरारोहे वीरसाधनमुत्तमम् ।
सर्वसिद्धिप्रदं साक्षात् सर्वदेवनमस्कृतम् ॥ २ ॥

सर्वपापहरं देवि सर्वरोगविनाशनम् ।
ब्रह्मविष्णुशिवादीनां दिक्पालानां च भामिनि ॥ ३ ॥

भैरवाणां च सर्वेषां गन्धर्वाणां च योगिनाम् ।
स्वतः सिद्धिप्रदं देवि सर्वेषामालयं महत् ॥ ४ ॥

नान्यत् सिद्धिप्रदं देवि वीरसाधनवर्जितम् ।
महाबलो महाबुद्धिर्महासाहसिकः शुचिः ॥ ५ ॥

महास्वच्छो दयावांश्च सर्वभूतहिते रतः ।
तेषां कृते महादेवि कथितं नीलसाधनम् ॥ ६ ॥

(अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ।
कृष्णपक्षे विशेषेण यथाविधि च साधयेत् ॥ ७ ॥

भौमवारे तमिस्रायां यामे याते च बामिनि ।
तदर्धाभ्यन्तरे सम्यक् पूजोपकरणं बलिम्) ॥ ८ ॥

सामिषान्नं गुडं छागं सुरां पिष्टकमेव च ।
नानाफलं च नैवेद्यं स्वस्वकल्पोक्तसाधनम् ॥ ९ ॥

चितास्थानं समानीय सुहृद्भिः शस्त्रपाणिभिः ।
समानगुणसम्पन्नैः साधको वीतभीः स्वयम् ॥ १० ॥

न वीक्षेत चतुर्दिक्षु देवताध्यानतत्परः ।
भीतश्चेत् साधकस्तत्र चतुर्दिक्षु च साधकाः ॥ ११ ॥

नो चेत् स्वयं केवलोऽसौ भैरवः परिकीर्तितः ।
प्रक्षालितां चिताभूमिं गत्वा साधकसत्तमः ॥ १२ ॥

प्र(अ)क्षालिता यदि प्रायः कारयेदस्थिसञ्चयम् ।
अस्त्रान्तमूलमन्त्रेण प्रोक्षणं यागभूमिषु ॥ १३ ॥

गुरुपादरजो ध्यात्वा गणेषं वटुकं तथा ।
योगिनीर्मातृकाश्चैव वामपादपुरःसरम् ॥ १४ ॥

ये चात्र संस्थिता देवा राक्षसाश्च भयानकाः ।
पिशाचा यक्षसिद्धाश्च गन्धर्वाप्सरसां गणाः ॥ १५ ॥

योगिन्यो मातरो भूताः सर्वाश्च खेचरस्त्रियः ।
सिद्धिदास्ता भवन्त्वद्य तथा च मम रक्षकाः ॥ १६ ॥

प्रणम्य मनुनानेन पुष्पाञ्जलित्रयं क्षिपेत् ।
श्मशानाधिपतिं पश्चाद्भैरवं कालभैरवम् ॥ १७ ॥

महाकालं यजेद्यत्नात् पूर्वादिदिक्चतुष्टये ।
पाद्यादिभिश्च मन्त्रज्ञो बलिं पश्चान्निवेदयेत् ॥ १८ ॥

शवबीजं पुनः पश्चात् श्मशानाधिपते परम् ।
इममन्ते सामिषान्नं बलि गृह्न ततः परम् ॥ १९ ॥

गृह्णगृह्णापययुगं विघ्ननिवारणं ततः ।
कुरु सिद्धिं मे ततोऽन्ते प्रयच्छ स्वाहयान्वितम् ॥ २० ॥

तारादिमनुना देवि प्रथमो बलिरीरितः ।
मायान्ते भैरवं पश्चाद्भयानक ततः परम् ॥ २१ ॥

पूर्वन्मन्त्रामुद्धृत्य दक्षिणे बलिमाहरेत् ।
हूमन्ते च महाकालात् पश्चात् पूर्ववदुद्धरेत् ॥ २२ ॥

पश्चिमे कालदेवाय प्रणवाद्येन कल्पयेत् ।
शब्दा (वा)न्ते कालशब्दान्ते भैरवेति पदं ततः ॥ २३ ॥

श्मशानाधिप इत्येवं पूर्ववच्चोत्तरे हरेत् ।
चितामध्ये ततो दद्याद् बलित्रयमनुत्तमम् ॥ २४ ॥

कालरात्रि महाकालि कालिके घोरनिःस्वने ।
गृहाणेमं बलिं मातर्देहि सिद्धिमनुत्तमाम् ॥ २५ ॥

लालिकायै बलिं दत्त्वा भूतनाथाय दापयेत् ।
शब्दा(वा)न्ते भूतनाथान्ते श्मशानाधिप इत्यपि ॥ २६ ॥

प्रणवाद्येन मन्त्रेण दापयेद्बलिमुत्तमम् ।
हूं सर्वगणनाथान्ते धिप चैव तथा पुनः ॥ २७ ॥

श्मशानमस्तके दत्त्वा पूर्ववच्च समुच्चरेत् ।
ताराद्येन बलिं दत्त्वा पञ्चगव्येन सुन्दरि ॥ २८ ॥

अस्थिसम्प्रोक्षणं कृत्वा पीठमन्त्रं न्यसेत् ततः ।
भूर्जे वा वटपत्रे वा तत्र पीठमनुं न्यसेत् ॥ २९ ॥

पीठमास्तीर्य तस्मिन् वै बद्धवीरासनस्तदा ।
वीरार्चनेन देवेशि लोष्टान् दिक्षु परिक्षिपेत् ॥ ३० ॥

कूर्चबीजद्वयं देवि मायायुग्मं ततः परम् ।
कालिके घोरदंष्ट्रे च प्रचण्डे चण्डनायिके ॥ ३१ ॥

दानवान् दारयेत्युक्त्वा हनेति द्वितयं ततः ।
परबीजं (वीरं) महाविघ्नं छेदयेति युगं ततः ॥ ३२ ॥

द्विठान्तो वर्मशस्त्रान्तो वीरार्चनमनुर्मतः ।
अनेन मन्त्रितांल्लोष्टान् दशदिक्षु विनिक्षिपेत् ॥ ३३ ॥

तन्मध्ये भैरवो देवो न विघ्नैः परिभूयते ।
यदि प्रमादाद्देवेशि साधको भयविह्वलः ॥ ३४ ॥

तदा तैस्तैः सुहृद्वर्गै रक्षितो नाभिभूयते ।
अर्केन्दुसितवाट्यालतूलनिर्मितवर्तिकम् ॥ ३५ ॥

प्रदीपं तत्र संस्थाप्य यन्त्रं तत्र प्रपूजयेत् ।
हते तस्मिन् महादीपे विघ्नैश्च परिभूयते ॥ ३६ ॥

तदधश्चास्त्रमन्त्रेण निखनेत् कूलदीपकम् ।
तत्तत्कल्पविधानेन भूतशुद्ध्यादिकं चरेत् ॥ ३७ ॥

(मातृकाक्षरसंयुक्तां विद्यां षोढां न्यसेत्पुनः ।
क्रमाद्व्युत्क्रमयोगेन ताराषाढा प्रकीर्तिता ॥ ३८ ॥

षोढाविन्यस्तदेहस्तु साक्षाद्विश्वेश्वरो भवेत्) ।
षोढा वा तारकं वापि विन्यस्य प्रजपेत्ततः ॥ ३९ ॥

इति । तन्त्रान्तरे -

जपान्ते जपमध्ये च देहि देहीति भाषते ।
बलिं दद्यात् तदा देवि नो चेदन्ते भवेद्बलिः ॥ १ ॥

बलिस्तु छागादिः । सामिषान्नादि तु बलिपात्राणामर्थे ।
चितापश्चिमभागे च उपविश्य जपं चरेत् इति च क्वापि । गुरुर्वापि सतीर्थ्यो वा शिष्यो वा साधकोऽपि वा । स्थाप्यो दक्षिणदिग्भागे भवेच्चोत्तरसाधकः । काण्डप्रक्षेपभूभागे किंचिद्दूरे विचक्षणः इति च । रुद्रयामले -

ततः पञ्चोपचारेण पुरतो देवतां यजेत् ।
निमील्य चक्षुषी पश्चाद्देवीं ध्यात्वा मनुं जपेत् ॥ १ ॥

एकाक्षरीं दिक्सहस्रं त्र्यक्षरीमयुतं जपेत् ।
ततः परं तु मन्त्रज्ञो गजान्तकसहस्रकम् ॥ २ ॥

निशायां वा समारभ्य उदयान्तं समाचरेत् ।
यद्यसह्यं भयं कर्णे नेत्रे वस्त्रेण बन्धयेत् ॥ ३ ॥

ततोऽर्धरात्रपर्यन्तं यदि किञ्चिन्न लक्षयेत् ।
जयदूर्गाख्यमनुना चार्घ्यं तेनैव सर्षपान् ॥ ४ ॥

तिलोऽसि सोमदेवत्यो गोसवस्तृप्तिकारकः ।
पितॄणां स्वर्गदाता त्वं मर्त्यानामभयक्षमः ॥ ५ ॥

भूतप्रेतपिशाचानां विघ्नेषु शान्तिकारकः ।
इति क्षिप्त्वा तिलान् देवि चतुर्भागे शिवादितः ॥ ६ ॥

पुनः सप्तपदं गत्वा पुनस्तत्रैव संविशेत् ।
देवं तत्रापि सम्पूज्य प्रजपेन्मनुमुत्तमम् ॥ ७ ॥

निर्भयः प्रजपेत् तावद्यावत् सिद्धिः प्रजायते ।
भयेति (यादि) स्वप्नवज्ज्ञेयं परेऽह्नि शेषामाचरेत् ॥ ८ ॥

इति । शेषं ब्राह्मणभोजनादिकम् । तिलकी पूर्वद्रव्येण उत्थाय च मनुं जपेत् इति भयनिवारणं रक्षातिलकं च कुत्रचित् ।

कुंकुमागरुकस्तूरी रोचना रक्तचन्दनम् ।
कर्पूरं पद्मरागं च केसरं हरिचन्दनम् ॥ ९ ॥

प्रत्येकं साधितं कृत्वा एकत्र साधयेद्बुधः ।
जिह्वाग्ररुधिरं वीरः श्मशाने च समाहितः ॥ १० ॥

तेनैव गुटिकां कृत्वा भद्रकालीमनुं जपेत् ।
नीलां नीलपताकां च ललज्जिह्वां करालिकाम् ॥ ११ ॥

ललाटे तिलकं कृत्वा साधको वीतभीः स्वयम् ।
वियदस्त्रान्वितं देवि वामाक्षिचन्द्रभूषितम् ॥ १२ ॥

बीजं प्रत्येकवस्तूनां शृणु तासां च पार्वति ।
मूलमन्त्रं तु मन्त्रज्ञो जपेत् सार्धं शतत्रयम् ॥ १३ ॥

जिह्वाग्ररुधिरं गृह्ण चामुण्डे घोरनिःस्वने ।
बलिं भुक्त्वा वरं देहि रुधिरं गहने वने ॥ १४ ॥

कालि कालि प्रचण्डोग्रे ततोऽस्त्रं कवचं पुनः ।
कालिकेति समाख्याता जीवानां हितकाम्यया ॥ १५ ॥

कूर्चयुग्मं महादेवि नीलायाः कथितं तव ।
वियदग्नियुतं देवि बलमिन्द्रसमायुतम् ॥ १६ ॥

चन्द्रखण्डसमायुक्तं ततो नीलपदं पुनः ।
ततः पताके हूंफट् स्यात् पूर्वकूटमनुर्मतः ॥ १७ ॥

जयश्रीधरणी देवी पताके वरणस्खले ।
इति नीलपताकेयं योज्या वा नीलसाधने ॥ १८ ॥

या सा विद्या महातारा सा कालीति प्रकीर्तिता ।
पद्मरागं केसरं च गन्धद्रव्यं विशेषतः ॥ १९ ॥

इति । वियत् हकारः । अस्त्रान्वितं रेफान्वितं । वामाक्षि ईकारः ।
चन्द्रोऽनुस्वारः । तेन ह्रीं इति बीजं अस्त्रं कवचमिति क्रमेण तात्पर्यम् । किंत्वस्त्रं कवचमिति क्रमस्तेन हुंफट् कूर्चयुग्मं हूंहूं बल स्वरूपं इन्द्र ईकारः तेन हरबलीं इति कूटम् । जयो नकारः श्रीः ईकारः धरणी लकारस्तेन नील इति । वरणं कवचं तेन हुं स्खलं अस्त्रं तेन फट् । अञ्जनाञ्चितलोचनः इति च क्वापि । अन्यच्च -

स्वयं वै तत्र भगवान् भैरवो लगुडाङ्कितः ।
भ्रमतीतस्ततो वीरस्तं विलोक्य जपेन्मनुम् ॥ १ ॥

यदि भाग्यवशाद् देवि लगुडस्तत्र लभ्यते ।
तदा स्वयं भैरवोऽसौ स्वयं विश्वम्भरो भवेत् ॥ २ ॥

तत्र नत्वा महादेवं महाकालं च भामिनि ।
तद्भस्मतिलकं कृत्वा स्वयं वीरेश्वरो भवेत् ॥ ३ ॥

इति । तद्भस्म श्मशानभस्म तिलकं विभूतिधारणमित्यर्थः ॥ प्रयोगस्तु तत्र प्रथमं विहितभौमामावास्यादिपर्व संलक्ष्य रात्रौ प्रहरार्धे गते अभुक्तो भुक्तभोज्यो वा मूलमन्त्रेण घटीबन्धेन वस्त्र परिधाय उपरि सर्वाच्छादकवस्त्रान्तरेणाच्छाद्य धृतोष्णीषो मुक्तकेशो दिगम्बरो वा मूलेन पूर्वसाधिततिलकं कृत्वा अञ्जनाञ्चितनेत्रो रक्तचन्दनादिनाङ्ग विलिप्य मूलेनैव सिन्दूरेणोर्ध्वपुण्ड्रं कृत्वा हृदि देवीं मूर्ध्नि गुरुं ध्यात्वा नत्वा कुलामृतरससामिषान्नपिष्टकमत्स्यवटुकादिपूजाबलिपात्रसामग्रीं यथालाभं समादाय वल्यर्थं छागादि गन्धपुष्पाक्षतपञ्चगव्यं पञ्चामृतानि च ग्ःईत्वा खड्गपाणिभिः सुहृद्भिः रक्षकैः कृतरक्षोऽघोरास्त्रादिना वद्धशिखो मूलविद्यां हृदि स्मरन् अप्रक्षालितां सद्यञ्चितां प्रक्षालितां प्राचीनचितां वा गच्छेत् । प्रक्षालनपक्षे त्वस्थिसञ्चयं कुर्यात् । ततः काण्डप्रक्षेपमात्रभूम्यन्तरा चतुर्दिक्ष्ववेक्षकान् सुहृद उत्तरसाधकान् खड्गपाणीन किञ्चिद्दूरतः एकश्चेद्दक्षिणतस्तमुत्तरसाधकं काण्डान्तरा धृत्वा पश्चिमतः स्वयं सामान्ययार्घ्यं दत्वा मूलमन्त्रान्तेऽस्त्रमन्त्रेण पञ्चगव्येन यागभूमिं सम्प्रोक्ष्य गुरुगणेशवटुकयोगिनीर्ब्राह्मयाद्यष्टमातृकांश्च नमस्कृत्य वामपादमग्रे कृत्वा ओं ये चात्र संस्थिता देवा राक्षसाश्च भयानकाः । पिशाचा यक्षसिद्धाश्च गन्धर्वाप्सरसां गणाः ।
योगिन्यो मातरो भूताः सर्वाश्च खेचरस्त्रियः । सिद्धिदास्ता भयन्त्वद्य तथा च मम रक्षकाः ॥ इति मन्त्रेण नमस्कुर्वन् पुष्पाञ्जलित्रयं कवलत्रयं च चितामध्ये निक्षिपेत् । ततो बलिपात्राणि सप्तकृत्वा चतुर्दिक्षु चतुष्पात्राणि त्रीणि पात्राणि चितायां पश्चिममध्यपूर्वभागेषु त्रिकोणाकारतया वा संस्थापयेत् ।
पूर्वदिशि त्रिकोणोपरि श्मशानाधिपतिश्मशानस्तम्भं पाद्यादिभिरभ्यर्च्य ओं हूं श्मशानाधिपते इमं सामिषान्नं (सामृतं) बलिं गृह्ण गृह्ण गृह्णापय गृह्णापय विघ्ननिवारणं कुरु कुरु सिद्धिं मे प्रयच्छ स्वाहा इति बलिं समर्पयेत् । दुग्धेन पञ्चगव्येन वा सर्वत्र सङ्कल्पः । एवं दक्षिणदिशि भैरवं सम्पूज्य ओं श्मशानाधिप भैरव भयानक इम मित्यादि ।
पश्चिमदिशि महाकालं सम्पूज्य

ओं हूं श्मशानाधिप महाकाल इम मित्यादि । उत्तरदिशि कालभैरवं ओं हूं श्मशानाधिप कालभैरव इम मित्यादि । एवं चितायां प्रथमं श्मशानकालिकां सम्पूज्य ओं हूं श्मशानवासिनी महाभीमे कालरात्रि महाकालि कालिके घोरनिःस्वने ।
गृहाणेमं बलिं मातर्देहि सिद्धिमनुत्तमाम् ॥ (ओं ह्रीं) कालिकायै स्वाहा । एवं भूतनाथं सम्पूज्य ओं हूं श्मशानाधिप भूतनाथ इम मित्यादि । श्मशानामस्तके गणनाथं सम्पूज्य ओं हूं श्मशानाधिप सर्वगणनाथ इम मित्यादि ।
ततश्चितापश्चिमभागे दक्षिणभागे वा कियन्त्यस्थीनि एकत्र कृत्वा ओं ह्रीं आधारशक्तये नमः इति पञ्चगव्येन प्रोक्षयेत् । भूर्जे वा वटपत्रे वा पञ्चप्रेतपीठासनमन्त्रान् रक्तचन्दनादिना विलिख्य अस्थिषूपरि निधाय तदुपरि कम्बलाजिनाद्यन्यतममासनमास्तीर्य सम्पूज्य वीरासनेन तत्रोपविश्य हूंहूंह्रींह्रीं कालिके घोरदंष्ट्रे प्रचण्डे चण्डनायिके दानवान् दारय दारय हन हन परवीरं महाविघ्नं छेदय छेदय स्वाहा हुं फट् इति वीरार्चनमन्त्रेण दश लोष्टान्यभिमन्त्र्य दश दिक्षु क्षिपेत् ।
अर्कत्लकर्पूरश्वेतवाट्यालतूलैर्निर्मितवर्तिकं घृततैलादिकं चाघोरास्त्रमन्त्राभिमन्त्रितं रक्षार्थं दीपं मूलेन प्रज्वालयेत् ।
तत्र यन्त्रं प्रपूजयेत् । तथा यत्नेन भाव्यं यथा जपसमाप्तिपर्यन्तं ज्वलति । ततस्तत्तत्कल्पोक्तविधिना भूतशुद्ध्यादिषोढान्यासजालं यथोचित विन्यस्यार्घ्यादिकं संस्कृत्य चितामध्ये महाचक्रं परिचिन्त्य पीठपूजान्ते देवतां संस्थाप्य यथासाम्भवोपचारैः सम्पूज्यावरणपूजादि विधाय च यथोक्तसंख्यया विहितमालया देवताध्यानपूर्वकं जपेत् । एवं जप्ते यदि न किञ्चिल्लक्षयेत् तदा ओं दुर्गेदुर्गे रक्षणि स्वाहा इति जयदुर्गामन्त्रेण देव्यै अर्घ्यं दत्त्वा तिलोऽसि सोमदेवत्यो गोसवस्तृप्तिकारकः । पितॄणां स्वर्गदाता त्वं मर्त्यानामभयक्षमः । बूतप्रेतपिशाचानां विघ्नेषु शान्तिकारकः ॥ इति सर्वत्र तिलान् विकिरेत् । जयदूर्गामन्त्रेण सर्षपान् विकीर्य उत्थाय सप्त पदानि गत्वा पुनस्तत्रापविश्य देवीं सम्पूज्य निर्भया जपेत् । छागादिबलिविधानं यथोक्तक्रमसमये कर्तव्यम् ।
जपसमाप्तौ वरप्रार्थनां कृत्वा विसर्जनादि कृत्वा सामग्रीं जले निक्षिप्य स्नात्वा गृहमागच्छेत् । भाग्येन लगुडलाभश्चेत्तदा तमादायागच्छेत् । इति चितासाधनम् ॥ अथ शवसाधनं नीलतन्त्रे

पूर्वोक्तमुपहारादि समादाय तु साधकः ।
साधयेच्च तथा सिद्धिसाधनस्थानमाश्रयेत् ॥ १ ॥

गुरुध्यानादिकं सर्वं पूर्वोक्तं मनसा चरेत् ।
वीरार्चनाकृते भूमौ मायामोहो न विद्यते ॥ २ ॥

ये चात्रेत्यादिमन्त्रेण पुष्पाञ्जलित्रयं क्षिपेत् ।
श्मशानाधिपतीनां तु पूर्ववद्बलिमाहरेत् ॥ ३ ॥

अघोराख्येन मन्त्रेण शिखाबन्धनमाचरेत् ।
सुदर्शनेनात्मरक्षामुभाभ्यां वा प्रकल्पयेत् ॥ ४ ॥

मायास्फुरद्वयं भूयः प्रस्फुरद्वितयं पुनः ।
घोरघोरतरस्यान्ते तनुरूपपदं ततः ॥ ५ ॥

चटयुग्मं तदन्ते च प्रचटद्वितयं ततः ।
कहद्वन्द्वं वमद्वन्द्वं ततो बन्धयुगं पुनः ॥ ६ ॥

घातयद्वितयं वर्म फडन्तः समुदाहृतः ।
एकपञ्चाशदर्णोऽयमघोरास्त्रमयो मनुः ॥ ७ ॥

हालाहलं समुद्धृत्य सहस्रारस्वरूपकम् ।
वर्मास्त्रान्तो महामन्त्रः सुदर्शनस्य कीर्तितः ॥ ८ ॥

भूतशुद्धिं ततः कृत्वा न्यासजालं प्रविन्यसेत् ।
जयदूर्गाख्यमनुना सर्षपान् दिक्षु निक्षिपेत् ॥ ९ ॥

तिलोसीति च मन्त्रेण तिलान् दिक्षु विनिक्षिपेत् ।
यष्टिविद्धं शूलविद्धं खड्गविद्धं पयोमृतम् ॥ १० ॥

रज्जुबद्धं सर्पदष्टं चाण्डालं चाभिभूतकम् ।
तरुणं सुन्दरं शूरं बालं नष्टं समूज्ज्वलम् ॥ ११ ॥

पलायनविशून्यं तु सन्मुखे रणवर्तिनम् ।
स्वेच्छामृतं द्विवर्षं च बद्धस्त्रीगोद्विजं तथा ॥ १२ ॥

अन्नाभावमृतं क्लिष्टं सप्तार्धवर्षकं तथा ।
एवं चाष्टविधं त्यत्क्वा पूर्वोक्तान्यतमं शवम् ॥ १३ ॥

गृहीत्वा मूलमन्त्रेण पूजास्थानं समानयेत् ।
चाण्डालं चाभिभूतं तु शीघ्रसिद्धिफलप्रदम् ॥ १४ ॥

प्रणवाद्यस्त्रमन्त्रेण शवस्य प्रोक्षणं चरेत् ।
प्रणवं कूर्मबीजं च मृतकाय नमोऽस्तु फट् ॥ १५ ॥

पुष्पाञ्जलित्रयं दत्त्वा प्रणमेत् स्पर्शपूर्वकम् ।
रे वीर परमानन्द शिवानन्द कुलेश्वर ॥ १६ ॥

आनन्दभैरवाकार देवीपर्यङ्कशङ्कर ।
वीरोऽहं त्वां प्रपद्यामि उत्तिष्ठ चण्डिकार्चने ॥ १७ ॥

प्रणम्यानेन मन्त्रेण क्षालयेत् तदन्तरम् ।
तारं शक्तिर्मृतकाय नमोऽन्ते मन्त्रमुच्चरेत् ॥ १८ ॥

शवस्नपनमन्त्रेषु सर्वतन्त्रोऽयं देशितः ।
धूपेन धूपितं कृत्वा गन्धादिनाभिषिच्य(लिप्य) च ॥ १९ ॥

रक्ताक्षो यदि देवेशि भक्षयेत् कुलसाधनम् ।
गत्वा शवस्य सानिध्यं धारयेत् कटिदेशतः ॥ २० ॥

यद्युपद्रावयेदस्य दद्यान्निष्टीवनं शवे ।
पुनः प्रक्षालितं कृत्वा जपस्थानं समानयेत् ॥ २१ ॥

कुशशययां परिष्कृत्य तत्र संस्थापयेच्छवम् ।
एलालवङ्गकर्पूरजातीखदिरसारकैः ॥ २२ ॥

ताम्बूलं तन्मुखे दत्त्वा शवं कुर्यादधोमुखम् ।
स्थापयित्वा तस्य पृष्ठं चन्दनेन विलेपयेत् ॥ २३ ॥

बाहुमूलादिकट्यन्तं चतुरस्रं विभाव्य च ।
मध्ये पद्मं चतुर्द्वारं दलाष्टकसमन्वितम् ॥ २४ ॥

ततश्चैणेयमजिनं कम्बलान्तरितं न्यसेत् ।
द्वादशांगुलमानानि यज्ञकाष्ठानि दिक्षु च ॥ २५ ॥

संस्थाप्य पूजयेत् तत्र इन्द्रादिदश देवताः ।
विषमिन्द्राय संलिख्य सुराधिपतये ततः ॥ २६ ॥

इदं बलिं गृह्णद्वन्द्वं गृह्णापययुगं ततः ।
विघ्ननिवारणं कृत्वा सिद्धिं प्रयच्छ ठद्वयम् ॥ २७ ॥

अनेन मनुना पूर्वे बलिं दद्यात् तु सामिषम् ।
स्वस्वनामादिकं दत्त्वा पूर्ववद्बलिमाहरेत् ॥ २८ ॥

सर्वेषां लोकपालानां ततः साधकसत्तमः ।
शवाधिष्ठातृदेवेभ्यो बलिं दद्यात् सुरेश्वरि ॥ २९ ॥

सुरया सह चतुःषष्टियोगिनीभ्यो बलिं दिशेत् ।
पूजाद्रव्यं सन्निधौ च दूरे चोत्तरसाधकम् ॥ ३० ॥

संस्थाप्यासनमभ्यर्च्य स्वमन्त्रान्ते त्रपां ततः ।
फडित्यनेन मन्त्रेण तत्राश्वारोहणं विशेत् ॥ ३१ ॥

कुशान् पादतले दत्त्वा शवकेशान् प्रसार्य च ।
दृढं निबद्ध्य जुटिकां कृतसंकल्पसाधकः ॥ ३२ ॥

शवोपरि समारुह्य प्राणायामं विधाय च ।
वीरार्चनेन संमन्त्र्य दिक्षु लोष्टानि निक्षिपेत् ॥ ३३ ॥

ततो देवीं च सम्पूज्य उपचारैः सुविस्तरैः ।
शवास्ये विधिवद्देवि देवताप्यायनं चरेत् ॥ ३४ ॥

उत्थाय सन्मुखे स्थित्वा जपेद्भक्तिपरायणः ।
वशे मे भव देवेश ममामुकपदं ततः ॥ ३५ ॥

सिद्धिं देहि महाभाग कृताश्रमपदाम्बर ।
मूलं समुच्चरन् मन्त्री शवपादद्वयं पुनः ॥ ३६ ॥

पट्टसूत्रेण बध्नीयात् तदोत्थातुं न शक्नुयात् ।
भीमभीम महाभाव भव्यलोचन भावुक ॥ ३७ ॥

त्राहि मां देवदेवेश सवानामधिपाधिप ।
इति पादतले तस्य त्रिकोणं चक्रमुल्लिखेत् ॥ ३८ ॥

तदोत्थातुं न शक्नोति शवोऽपि निश्चलो भवेत् ।
उपविश्य पुनस्तस्य बाहू विस्तार्य पार्श्वयोः ॥ ३९ ॥

हस्तयोः कुशमास्तीर्य पादौ तत्र निधापयेत् ।
ओष्ठौ तु सम्पूटौ कृत्वा स्थिरचित्तः स्थिरेन्द्रियः ॥ ४० ॥

सदा देवीं हृदि ध्यात्वा मौनी जपमथाचरेत् ।
श्मशाने प्रोक्तसंख्याभिर्जपं कुर्यात् कुलेश्वरि ॥ ४१ ॥

अथवारम्भकालात्तु यावदुदयते रविः ।
यद्यर्धरात्रपर्यन्तं जप्ते किञ्चिन्न लक्ष्यते ॥ ४२ ॥

तदा पूर्ववदर्घ्यादि सप्तपादगतानि च ।
कृत्वोपविश्य तत्रैव जपं कुर्यादनन्यधीः ॥ ४३ ॥

चलाचलाद्भयं नास्ति भये जाते वदेत् पुनः ।
यत्प्रार्थयसि देवेश नरं वा कुञ्जरादिकम् ॥ ४४ ॥

दिनान्तरे तु दास्यामि स्व.ं नाम कथयस्व मे ।
इत्युक्ते संस्कृतेनैव निर्भयस्तु पुनर्जपेत् ॥ ४५ ॥

पुनश्चेन्मधुरं वक्ति वक्तव्यं मधुरं ततः ।
तदा सत्यवशं कार्यं वरं च प्रार्थयेत् ततः ॥ ४६ ॥

यदि सत्यं न कुर्याच्च वरं वा प्रयच्छेन्न च ।
तदा पुनर्जपेद् धीमान् एकाग्रमानसं स्मरन् ॥ ४७ ॥

नररूपं विना तत्र देवोऽपि नोपसर्पति ।
यन्त्रान्तरेण बोद्धव्यं नरो वा देवयोनयः ॥ ४८ ॥

माता वा तत्सुता वापि मातुलानी तथैव च ।
आगत्य विघ्नं चरते मायया रम्यविग्रहा ॥ ४९ ॥

उत्तिष्ठ वत्स ते कार्यं सर्व जातं न संशयः ।
प्रभातसमयो जातस्त्वत्पिता क्रोशते गृहे ॥ ५० ॥

प्रायशो मत्सरा लोका राजानो दण्डधारिणः ।
कदाचित् केनचित् शास्ति तदा किं ते करिष्यति ॥ ५१ ॥

इत्यादि विविधैर्वाक्यैर्नच जापं परित्यजेत् ।
मृतपितृगणास्तत्र परदेशनिवासिनः ॥ ५२ ॥

प्रयान्ति बान्धवास्तत्र देवरूपधरास्ततः ।
स्त्रीपुत्रसेवकाश्चैव गृहीत्वानीयते परैः ॥ ५३ ॥

रुदन्ति पुत्रकाः सर्वे भ्रातरोऽनुजशिष्यकाः ।
निजकान्ताङ्गसंस्पर्शवस्त्रमाभरणादिकम् ॥ ५४ ॥

गृहीत्वानीयते यत्तु पालकैस्तद्भयं त्यजेत् ।
यदि न क्षुभ्यते तत्र तदा किं वा न लभ्यते ॥ ५५ ॥

स्त्रीरूपधारिणी देवी द्विजरूपधरः पुमान् ।
ऊरूं (हुं हुं) गृह्णेति शब्दं वै त्रिवारान्ते वरं लभेत् ॥ ५६ ॥

साधुनासाधुना वापि योषित्त्वे वरदायिनी ।
तदा वीरपतेस्तस्य किं भूतेन न सिध्यति ॥ ५७ ॥

निष्पापपुरुषे चैव कुले चैव सुसंस्कृता ।
असंस्कृततरा देवि पापयुक्ते न संशयः ॥ ५८ ॥

सन्मुखेऽसन्मुखे वापि संस्कृतं वक्ति चापरम् ।
सैव देवीन संदेहः स देवो भैरवः स्वयम् ॥ ५९ ॥

नचेदेवं भवेच्चैव मायाकुटिलविग्रहा ।
न वरं वरयेत् तत्र न किञ्चिच्च वदेत् ततः ॥ ६० ॥

संष्कृतं च समाख्याति वक्ति वक्तव्यमीदृशः ।
न चेत् स्वयं लौकिकोक्त्या वरं ग्राह्यं निराकुलम् ॥ ६१ ॥

अथवा उत्कटं किञ्चित् लभ्येताप्यात्मनो हितम् ।
शब्दो वा जायते सम्यक् मृ (ऋ) तं वापि न लभ्यते ॥ ६२ ॥

सर्व विचार्य ज्ञातव्यमेवं विघ्नाः प्रकीर्तिताः ।
देवताकृतयो देवि भैरवाकृतबुद्धयः ॥ ६३ ॥

अवश्यं तत्र भेतव्यं न तत्र प्रत्ययः क्वचित् ।
भैरवो वटुकाद्याश्च कुलशास्त्रपरायणाः ॥ ६४ ॥

एतच्छास्त्रप्रसङ्गेन कृत्या कुटिलविग्रहा ।
पुत्रो भूत्वा हरेद्विद्यां नारी भूत्वा विमोहयेत् ॥ ६५ ॥

तस्मात् तत्त्वपरो वीरो विचारे यत्नमाचरेत् ।
सत्ये कृतं वरं लब्ध्वा सन्त्यजेच्च जपादिकम् ॥ ६६ ॥

फलं जातमिति ज्ञात्वा जूटिकां मोचयेत् ततः ।
शवं प्रक्षाल्य संस्थाप्य मोचयेत् पादबन्धनम् ॥ ६७ ॥

पदचक्रं मार्जयित्वा पूजाद्रव्यं जले क्षिपेत् ।
शवं जले वा गर्ते वा निक्षिप्य स्नानमाचरेत् ॥ ६८ ॥

ततस्तु स्वगृहं गत्वा बलिं दत्त्वा दिनान्तरे ।
अग्रिमे दिवसे रात्रौ येषां देवानां यजमानोऽहम् ॥ ६९ ॥

ते गृह्णन्तु मया दत्तं बलिमन्त्रोऽयमीरितः ।
अथ यैर्याचितश्चाश्वनरकुङ्जरशूकरान् ॥ ७० ॥

दत्त्वा पिष्टमयांस्तेन कर्तव्यं समुपोषणम् ।
यवक्षोदमयं वापि शालिक्षोदमयं च वा ॥ ७१ ॥

चन्द्रहासेन विधिवत् तन्मन्त्रेण च घातयेत् ।
परेऽह्नि नित्यमाचर्य पञ्चगव्यं पिबेत् ततः ॥ ७२ ॥

ब्राह्मणान् भोजयेत् तत्र पञ्चविंशतिसंख्यया ।
पञ्चपञ्चविहीनान् वा क्रमाच्चैव दशावधिः ॥ ७३ ॥

ततः स्नात्वा च भुक्त्वा च निवसेदुत्तमे स्थले ।
यदि न स्याद्विप्रभोज्यं तदा निर्धनतां व्रजेत् ॥ ७४ ॥

तेन चेन्निर्धनत्वं स्यात्तदा देवः प्रकुप्यति ।
त्रिरात्रं वाथ षड्रात्रं गोपयेत् कुलसाधनम् ॥ ७५ ॥

शययायां यदि गच्छेद्वै तदा व्याधिं विनिर्दिशेत् ।
गीतं श्रुत्वा च बधिरो निश्चक्षुर्नृत्यदर्शनात् ॥ ७६ ॥

यदि वक्ति दिने वाक्यं तदा स मूकतां व्रजेत् ।
पञ्चदशदिनान्ता हि देहे देवस्य संस्थितिः ॥ ७७ ॥

गोब्राह्मणदेवतानां निन्दां कुर्यान्न च क्वचित् ।
देवगोब्राह्मणादीइंश्च प्रत्यहं संस्पृशेच्छुचिः ॥ ७८ ॥

प्रातर्नित्यक्रियान्ते तु पञ्चगव्योदकं पिबेत् ।
ततः स्नायात् तु तीर्थादौ प्राप्ते षोडशवासरे ॥ ७९ ॥

स्वाहान्तं मूलमुच्चार्य तर्पयामि नमः पदम् ।
एवं शतत्रयादूर्ध्व देवतां तर्पयेज्जलैः ॥ ८० ॥

स्नानतर्पणशून्यस्य न स्याद् देवस्य तर्पणम् ।
इत्यनेन विधानेन सिद्धिं प्राप्नोति निश्चितम् ॥ ८१ ॥

भुक्त्वेहैव वरान् भोगानन्ते याति हरेः पदम् ।
असाङ्गं साङ्गमेवापि निष्फलं सफलं च वा ॥ ८२ ॥

कृत्वा साधनमेवैतच्छक्तेः प्रियतरो भवेत् ।
शवाभावे श्मशाने वा कार्या वीरस्य साधना ॥ ८३ ॥

ये भावा यस्य वै प्रोक्तास्तैर्भावैर्यदि नार्चयेत् ।
दशाहक्रमयोगेन भ्रष्टो भवति साधकः ॥ ८४ ॥

नोपदिशेद्वीरभावं न पूजां तत्र सन्दिशेत् ।
कुलान्मन्त्रं गृहीत्वा तु यावत् सिद्धिः प्रजायते ॥ ८५ ॥

इति । तन्त्रान्तरे -

सर्वेषां जीवहीनानां जन्तूनां वीरसाधने ।
ब्राह्मणं गोमयं कृत्वा साधयेद्वीरसाधनम् ॥ १ ॥

मृतासनं विना यस्तु पूजयेत् पार्वतीं शिवाम् ।
तावत्कालं वसेद्घोरे यावदाभूतसंप्लवम् ॥ २ ॥

महाशवाः प्रशस्ताः स्युर्देवतावीरसाधने ।
क्षुद्राः प्रयोगकर्तृणां प्रशस्ताः सर्वसिद्दिदाः ॥ ३ ॥

एवं नीलक्रमो देवि कथितश्च तवानघे ।
न कस्यचित् प्रवक्तव्यं मया प्रीत्या तवोदितम् ॥ ४ ॥

इति ॥ प्रयोगस्तु तत्र पूर्वोक्तपर्व संलक्ष्य यथोक्तसमये पूर्वोक्तलक्षणस्तथा सामग्रीं समादायोत्तरसाधकसहितो विहितस्थानमासाद्य सामान्यार्घ्य विधाय स्थानशोधनं कृत्वा गुरुगणेशादीन् नमस्कृत्य वीरार्चनमन्त्रं भूमौ लिखेत् । ये चात्रेत्यादिना पुष्पाञ्जलित्रयादि विधाय पूर्वोक्तसप्तबलिपात्राणि श्मशानाधिपतिभ्यो निवेद्य ओं ह्रींस्फुरस्फुर घोर घोरतर तनुरूप चटचट प्रचटप्रचट कहकह वमवम बन्धबन्ध घातयघातय हुंफट् इत्यघोरास्त्रेण शिखां बद्ध्वा ओं सहस्रार हुंफट् इति सुदर्शनास्त्रेणात्मरक्षां कृत्वा स्वस्वकल्पोक्तभूतशुद्ध्यादिन्यासजालं विधाय जयदुर्गामन्त्रेण सर्षपान् तिलोऽसीति तिलान् विकिरेत् । विहितशवनिकटे गत्वा मूलेन वीक्ष्य अस्त्रमन्त्रेण शवं सम्प्रोक्ष्य ओं हूं मृतकाय नमःऽस्तुफट् इति पुष्पाञ्जलित्रयं शवोपरि निक्षिपेत् । ओं हूं रे वीर परमानन्द शिवानन्द कुलेश्वर । आनन्दभैरवाकार देवीपर्यङ्कशङ्कर ।
वीरोऽहं त्वां प्रपद्यामि उत्तिष्ठ चण्डिकार्चने इति स्पर्शपूर्वकं प्रणम्य ओं ह्रींमृतकाय नमः इति पञ्चब्रह्ममन्त्रैश्च पञ्चगव्येन सुगन्धिजलेन च संस्नाप्य धूपेन धूपितं कृत्वा गन्धादिना विलिप्य कटिदेशे धृत्वा मूलमन्त्रं जपन् जपस्थानमानयेत् । आनीय वा संस्कारमाचरेत् । भूमौ कुशशययामास्तीर्य तदुपरि संस्थाप्य एलालवङ्गकर्पूरजातीखदिरसहितं ताम्बूलं तन्मुखे दत्त्वा शवमधोमुखं कुर्यात् । तत्पृष्ठे चन्दनेन बाहुमूलादिकट्यन्तं चतुरस्राकारतया विलिप्य तन्मध्ये चतुर्द्वारात्मकभूपुरसहितमष्टदलं विलिख्य तत्र कम्बलाद्यासनमास्तीर्य द्वादशांगुलप्रमाणान् यज्ञकाष्ठोद्भवान् दश कीलान् दशदिक्षु निखाय तेष्विन्द्रादिदशदिक्पालान् सम्पूज्य पूर्वोक्तमन्त्रैः समिषान्नबलिं दद्यात् । ओं हूंशवाधिष्ठातृदेवताभ्यो नमः ओं डांदकिनीभ्यो नमः ओं ह्रींचतुः षष्ठिकोटियोगिनीभ्यो नमः इति बलित्रयं कियद्दूरे दद्यात् । पूजोपहारसामग्रीं समीपे उत्तरसाधकं दूरे स्थापयित्वा मूलमन्त्रान्ते ह्रींफट् शवासनाय नमः इत्यासनमभ्यर्च्य मूलमन्त्रं स्मरन्नश्वारोहक्रमेण शवोपरि पूर्वमुखमुपविश्य स्वपादतले कुशान् दत्त्वा शवकेशान् प्रसार्य दृढजूटिकां बद्ध्वा स्ववामे अर्घ्यादिकं संस्कृत्य कृतसंकल्पः प्राणानायम्य वीरार्चनमन्त्रेण दशक्षिक्षु लोष्टानि निक्षिपेत् । पूर्वोक्तरक्षादीपं दक्षिणे संस्थाप्य बद्धजूटिकायां निजदेवतायाश्चक्रं परिचिन्त्य पीठपूजान्ते देवीमावाह्य सावरणां सर्वोपचारैः सम्पूज्य वटुकादिबलिविधिं च विधाय उत्थाय सम्मुखे स्थित्वा वशे मे भव देवेश मामामुकसिद्धिं देहि महाभाग कृताश्रमपदाम्बर इति भक्तियुक्तः पठेत् । मूलमन्त्रेण पट्टसूत्रेण शवपादद्वयं बध्नीयात् । ओं भीमबीम महाभाव भव्यलोचन भावुक । त्राहि मां देव देवेश शवानामधिपाधिप ॥ इति शवपादतले त्रिकोणचक्रं लिखेत् । पुनस्तथैव शवोपर्युपविश्य पार्श्वद्धये शवबाहू विस्तार्य हस्तयोः कुशमास्तीर्य निजपादद्वयं तत्र निधापयेत् । पुनः प्राणायामादि विधाय निर्भयः सन् देवताध्यानपूर्वकं श्मशानोक्तसंख्यया मौनी स्थिरकायवाङ्मना रहस्यमालया जपेत् । आरम्भादुदयपर्यन्तं वा जपेत् । कुत्रचित् शवस्योत्तानता श्रूयते तदा हृदयोपर्यासनम् । शवास्ये देवतापूजा जपमध्येऽर्घ्यादिकं पूर्ववत् । अतिभयं चेद्भवति तदा छागादिबलिस्तु आदौ मध्ये समाप्तौ वा । एवमुक्तभयादिकं परिहृत्य सावधानतया जप्त्वा सत्यवचनेन वरं सम्प्रार्थ्य जपं त्यक्त्वा फलं जातमित्यवधार्य देवतां विसर्जयित्वा शवजूटिकां मोचयित्वा सवं प्रक्षाल्य पादबन्धं विमुच्य पादचक्रं मार्जयित्वा पूजाद्रव्याणि जले निक्षिप्य जले गर्ते वा शवं निक्षिप्य स्नात्वा गृहं गछेत् । दिनान्तरे पूर्वसंकल्पितं बलिं पिष्टमयं रचयित्वा ओं अग्रिमे दिवसे रात्रौ येषां देवानां यजमानोऽहं । ते गृह्णन्तु मया दत्तं नरकुञ्जरशूकरम् इति खड्गेन पिष्टपुत्तलीं घातयेत् । दिनान्तरे नित्यं कृत्वा पञ्चगव्यं पीत्वा पञ्चविंशतिं विंशति पञ्चदश दश वा यथाशक्ति ब्राह्मणान् भोजयेत् । स्वयमपि स्नात्वा भुक्त्वा उत्तमे स्थले निवसेत् । एवं कुलसाधनं त्रिरात्रं षड्रात्रं वा गोपयेत् । पञ्चदशदिवसपर्यन्तं पञ्चगव्यप्राशनं दिवा मौनं स्त्रीनृत्यगीतवादित्रबहिर्गमनादिवर्जनं सत्यभाषणं संयतेन्द्रियता च गोब्राह्मणदेवताभक्तिर्विशेषात् । षोडशदिने तीर्थादौ स्नात्वा सार्धशतत्रयसंख्यया देवतां तर्पयेदिति शवसाधनम् । या या उग्रतरा देव्यस्तासामेवं विधिर्मतः इति वचनादुग्रदेवताविषयमेतत् । अनयोर्दिव्यवीरक्रमयोः रहस्यमित्यपि नामान्तरम् ॥

अथ संक्षेपपुरश्चरणं तन्त्रान्तरे -

ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः ।
नद्यां समुद्रगामिन्यां नाभिमात्रेऽभ्भसि स्थितः ॥ १ ॥

स्पर्शाद्विमुक्तिपर्यन्तं जपेन्मन्त्रमनन्यधिः ।
होमयेत्तद्दशांशेन तद्दशांशेन तर्पयेत् ॥ २ ॥

अभिषिञ्चेद् दशांशेन दशांशं विप्रभोजनम् ।
* * * * * * * * * * * * * * * * ॥ ३ ॥

इति । उपोषितोऽभुक्तः । समुद्रगामिन्यां साक्षात् परम्परया वा ।
असम्भवे तडागादौ जले स्थित्यसामर्थ्ये तीरे स्थितोऽपि । स्पर्शात् प्राणायाम-ऋष्यादिकरषडङ्गन्यासविलम्बितस्पर्शात् अङ्गवैगुण्येऽपि ग्रहणपुरश्चरणं कर्तव्यमेवमेव महाफलत्वात् । तथा -

अथवान्यप्रकारेण पुरश्चरणमिष्यते ।
अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ॥ १ ॥

सूर्योदयात् समारभ्य यावत् सूर्योदयान्तरम् ।
तावज्जप्त्वा निरातङ्कः सर्वसिद्धीश्वरो भवेत् ॥ २ ॥

इति । अत्र तिथिभेदेन पुरश्चरणभेदः । होमादिकं तु पूर्ववत् ।
निरातङ्कः शङ्कारहितः । तहा

अथवान्यप्रकारेण पुरश्चरणमिष्यते ।
शरत्काले चतुर्थ्यादिनवम्यन्तं विशेषतः ॥ १ ॥

भक्तितः पूजयित्वा तु रात्रौ तावत्सहस्रकम् ।
एकाकी विजने जप्यात् केवलं वा शिवालये ॥ २ ॥

अष्टम्यादिनवम्यन्तमुपवासपरो भवेत् ।
* * * * * * * * * * * * * * * * ॥ ३ ॥

इति । चतुर्थ्यादित्वमिति मतभेदेन । कृष्णपक्षनवम्यादि प्रतिपदादि षष्ठ्यादिपक्षा अपि कुत्रचिदुक्ताः । वस्तुतः प्रतिपदादिपक्षः सांप्रदायिकः । रात्रावित्युपलक्षणम् । तावत्सहस्रकं तिथिसहस्रकम् । सहस्रंप्रत्यहमित्येव वा । अल्पाक्षरमन्त्रेण संख्यावृद्धिक्रमः अन्यत्र सहस्रमेव । तदा तावदिति पादपूरणे । होमादिकं पूर्वोक्तमेव । पशुमतानु कल्पमेतत् । तथा -

अथवान्यप्रकारेण पुरश्चरणमिष्यते ।
अन्यत्र गुरुमार्गस्य लङ्घनं नैव कारयेत् ॥ १ ॥

अष्टमीसन्धिवेलायामष्टोत्तर (रं) लतागृहम् ।
प्रविश्य मन्त्री विधिवत्ताः समभ्यर्च्य यत्नतः ॥ २ ॥

पूर्वोक्तकल्पमासाद्य पूजादिकं समाचरेत् ।
केवलं कामदेवोऽसौ जपेदष्टोत्तरं शतम् ॥ ३ ॥

तासां तु पत्रमूले तु उग्रां सम्पूज्य कर्णके ।
मन्त्रसिद्धिर्भवेत्सद्यो लतादर्शनपूजनात् ॥ ४ ॥

इति । सन्धिवेला च शारदीयैव पूर्वक्रमादष्टोत्तरं शतमित्यर्थः ।
अष्टावेव वा उत्तरं तदा श्रेष्ठमित्यर्थः । लतागृहमिति लतासङ्केतः । प्रविश्य सङ्गतीभूय वेष्टितो वा । पूर्वोक्तकल्पं शक्तिपूजाकल्पं पत्रमूले मुद्रामुले उग्रां देवीं कर्णके पार्श्वत्रये विद्याभागत्रयं संलिख्येति शेषः । अष्टोत्तरशतजपस्तु प्रत्येकमवधेयः । कामदेवो दिव्यवेशधरः । तथा -

अथवान्यप्रकारेण पुरश्चरणमिष्यते ।
आकृष्टायाः कुलागारे भावेन मन्त्रमुत्तमम् ॥ १ ॥

कर्णाकृष्टिलतागात्रे लिखित्वा मन्त्रमेव च ।
विधाय तत्र संस्कारं कृत्वा तस्यै निवेद्य च ॥ २ ॥

किञ्चिज्जप्त्वा मनुं नीत्वा देवताभावतत्परः ।
तां विसृज्य नमस्कृत्य स्वयं जप्त्वा सुखं पुनः ॥ ३ ॥

प्रातः स्त्रीभ्यो बलिं दत्त्वा मन्त्रसिद्धिर्न संशयः ।
* * * * * * * * * * * * * * * * ॥ ४ ॥

इति । आकृष्टाया उपभुक्तायाः । कुलागारे मुद्रायां सम्पूर्णविद्याभावना । कर्णत्रये लेखनं भागत्रयस्य ।
संस्कारं शक्तिसंस्कारं । निवेद्य सन्तर्प्य किञ्चिदष्टोत्तरशतं जपः स्पर्शपूर्वकः स्वयं जप्त्वाष्टोत्तरसहस्रमित्यर्थः ।

अथवा विजने रम्ये स्थित्वा शययासने रतः ।
उदयान्तं दिवा जप्त्वा सर्वसिद्धिश्वरो भवेत् ॥ १ ॥

शययासने शक्तिसहिते इति शेषः । दिव्यमतानुकल्पमेतत् । तथा -

अथवान्यप्रकारेण पुरश्चरणमिष्यते ।
कुजे वा शनिवारे वा नरमुण्डं समाहृतम् ॥ १ ॥

पञ्चगव्येन मिलितं चन्दनाद्यैर्विशेषतः ।
निक्षिप्य भूमौ हस्तार्धमानतः कानने वने ॥ २ ॥

तत्र तद्विवरे रात्रौ सहस्रं यदि मानवः ।
एकाकी प्रजपेन्मन्त्रं स भवेत्कल्पपादपः ॥ ३ ॥

इति । कुजे मङ्गले नरमुण्डं सद्यः कृत्तं यथालाभं वा शववन्मुण्डेऽपि विहितनिषिद्धता हस्तार्धमानतो द्वादशांगुलमानतः कानने वनेऽतिगहने इत्यर्थः । तथा -

अथवान्यप्रकारेण पुरश्चरणमिष्यते ।
शवमानीय तद्वारे तेनैव परिखन्य तम् ॥ १ ॥

तद्दिनात्तद्दिनं यावत् तावदष्टोत्तरं शतम् ।
स भवेत् सर्वसिद्धीशो नात्र कार्या विचारणा ॥ २ ॥

इति । तद्वारे मङ्गलादिवारे । तेनैव मानेनेत्यर्थः ।
तद्दिनादारम्भदिनादष्टोत्तरशतं प्रतिदिनं जपेदिति शेषः ॥

अथवान्यप्रकारेण पुरश्चरणमिष्यते ।
निशायां मृतहट्टे च उन्मत्तानन्दभैरवः ॥ १ ॥

दिग्वासा विमली भस्मबूषणो मुक्तकेशकः ।
कपालखड्गहस्तश्च जपेन्मातृकाय यदि ॥ २ ॥

तदा तस्य महादेवि सर्वसिद्धिः प्रजायते ।
* * * * * * * * * * * * * * * * ॥ ३ ॥

इति । निशाभ्यामर्धरात्रे मृतहट्टे श्मशाने उन्मत्तानन्दभैरवः प्रौढोल्लाससहितः दिग्वासा दिगम्बरः । मातृकया मातृकामालया जपेदष्टोत्तरशतमित्यर्थः । वीरमतानुकल्पमेतत् । तथा -

अथवान्यप्रकारेण पुरश्चरणमिष्यते ।
गुरुमानीय संस्थाप्य देववत्पूजनं गुरोः ॥ १ ॥

वस्त्रालङ्कारहेमाद्यैः सन्तोष्य गुरुमेव च ।
तत्सुतं तत्सुतां चैव तस्य पत्नीं तथैव च ॥ २ ॥

पूजयित्वा मनुं जप्त्वा सर्वसिद्धीश्वरो भवेत् ।
* * * * * * * * * * * * * * * * ॥ ३ ॥

इति । मनुं जप्त्वा सहस्रमित्यर्थः । तथा -

अथवान्यप्रकारेण पुरश्चरणमुच्यते ।
सहस्रारे गुरोः पादपद्मं ध्यात्वा प्रजप्य च ॥ १ ॥

केवलं देवभावेन सर्वसिद्धीश्वरो भवेत् ।
* * * * * * * * * * * * * * * * ॥ २ ॥

इति । प्रजप्य स्वमन्त्रोक्तसंख्येति शेषः । इदं तु गुरोरसांनिध्ये ।
सर्वमतानुकल्पमेतत् । एतेषु होमादिनियभाभावः । इति संक्षेपपुरश्चरणानि ॥

नानातन्त्रविचारेन नानाभावानुमोदनात् ।
पुरश्चरणरूपेण संसिद्ध्यै यततां नरः ॥ १ ॥

अथ प्रयोगविशेषाः वैष्णवतन्त्रे -

एवं नित्यक्रमं कृत्वा नैमित्तिकमथाचरेत् ।
कृते नैमित्तिके विप्र नित्यस्य पूर्णता भवेत् ॥ १ ॥

लक्षकृत्वो जपेन्मन्त्रमणिमादिगुणांल्लभेत् ।
समुद्रगोदकाहारो जपेल्लक्षं समाहितः ॥ २ ॥

जन्मस्थे भास्करे पद्मैर्होमाद्दशसहस्रकम् ।
कोटिजन्मोद्भवं पापं नाशमायाति निश्चितम् ॥ ३ ॥

नाशयेत्सर्वपापानि वाक्सिद्धिं चापि विन्दति ।
पर्वताग्रे यजेद्देवं शाकमूलफलाशनः ॥ ४ ॥

पुण्डरीकवरैर्देवं मासमेकं समर्चयेत् ।
धर्मार्थकाममोक्षाश्च करस्थाश्च भवन्ति हि ॥ ५ ॥

लक्ष्मीः स्थिरा भवेत्तस्य पुत्रपौत्रानुयायिनी ।
श्रीपुष्पैर्जुहुयात् तद्वद्वैशाखे मासि दुग्धपः ॥ ६ ॥

सर्वाशुद्धिक्षयकरः सर्वसिद्धिविवर्धकः ।
देवाः सर्वे नमस्यन्ति भक्त्या तं पुरुषर्षभम् ॥ ७ ॥

श्रीजलैस्तर्पयेद्देवं मात्स्यण्डीचन्द्रसंयुतैः ।
अष्टोत्तरशतं कृत्वा पूजान्ते भक्तितत्परः ॥ ८ ॥

मण्डलात् स लभेत् सिद्धिं दुष्करं सुकरं तु वा ।
यद्यत् कामयते मन्त्री अनायासेन लभ्यते ॥ ९ ॥

दुग्धबुद्ध्या जलैर्नित्यमष्टोत्तरशतं शतम् ।
तर्पयन्नखिलान् कामांल्लभेन्मोक्षं च विन्दति ॥ १० ॥

कुशपुष्पैः समभ्यर्च्य मासमात्रं निरामयः ।
यशसे धर्मवृद्ध्यै च ब्रह्मचारिव्रते स्थितः ॥ ११ ॥

हयारिकुसुमैः शुभ्रैर्मण्डलात् ज्ञानवान् भवेत् ।
तथा रक्ताश्वमारेण अचलां भक्तिमाप्नुयात् ॥ १२ ॥

तथा द्वाभ्यां समभ्यर्च्य भुक्तिं मुक्तिं च विन्दति ।
ब्राह्मणानां क्षत्रियाणां वैश्यानां शेषजन्मनाम् ॥ १३ ॥

स्त्रीणां चैव विशेषेण नैमित्तिकमिदं भवेत् ।
एतेषां मासमात्रं तु कृत्वा काम्यानि साधयेत् ॥ १४ ॥

इति । एवं प्रणवपुटितमन्त्रमयुतसंख्यया त्रिरात्रजपेन बृहस्पतिसमः सर्वशास्त्रव्याख्याता भवति । रविवारे अश्वत्थवृक्षमालया अष्टोत्तरशतं भूयोभूयो जपेत् ।
शान्तिरष्टोत्तरशतवर्षजीवनम् । अंशुकैर्मासमात्रपूजया मलिनकृच्छ्र घोरतरपापविमुक्तिः ।

पट्टसूत्रैः पूजयातुलसम्पत्तिः । विद्रुमपूजया त्रैलोक्यवशीकारः ।
माणिक्यपूजया सार्वभौमत्वं पद्मरागेण पूजया राज्यत्वं गारुत्मतैः पूजया ज्ञानं हीरकेण पूजया सर्वसिद्धिः स्वर्णपुष्पैः पूजया कुबेरसमसम्पत्तिः देहान्ते निर्वाणपदं ।
मासमात्रेणेति सर्वत्र योजनीयम् । तन्त्रान्तरे एवं सिद्धमनुर्मन्त्री प्रयोगानथ साधयेदिति । शारदातिलके (प० २३ श्लो० १२३) -

अथाभिधास्ये तन्त्रेऽस्मिन् सम्यक् षट्कर्मलक्षणम् ।
सर्वतन्त्रानुसारेण प्रयोगफलसिद्धिदम् ॥ १ ॥

शान्तिवश्यस्तम्भनानि विद्वेषोच्चाटने ततः ।
मारणान्तानि शंसन्ति षट्कर्माणि मनीषिणः ॥ २ ॥

रोगकृत्याग्रहादीनां निरासः शान्तिरीरिता ।
वश्यं जनानां सर्वेषां विधेयत्वमुदीरितम् ॥ ३ ॥

प्रवृत्तिरोधः सर्वेषां स्तम्भनं समुदाहृतम् ।
स्निग्धानां द्वेषजननं मिथो विद्वेषणं मतम् ॥ ४ ॥

उच्चाटनं स्वदेशादेर्भ्रशनं परिकीर्तितम् ।
प्राणिनां प्राणहरणं मारणं समुदाहृतम् ॥ ५ ॥

स्वदेवतादिक्कालादीन् ज्ञात्वा कर्माणि साधयेत् ।
रतिर्वाणी रमा लक्ष्मीर्दुर्गा काली यथाक्रमम् ॥ ६ ॥

षट्कर्मदेवताः प्रोक्ताः कर्मादौ ताः प्रपूजयेत् ।
ईशचन्द्रेन्द्रनिर्-ऋतिवायवग्नीनां दिशो मताः ॥ ७ ॥

सूर्योदयात्समारभ्य घटिकादशकं क्रमात् ।
ऋतवः स्युर्वसन्ताद्या अहोरात्रं दिने दिने ॥ ८ ॥

वसन्तग्रीष्मवर्षाख्यशरद्धैमन्तशैशिराः ।
हेमन्तः शान्तिके प्रोक्तो वसन्तो वश्यकर्मणि ॥ ९ ॥

शिशिरः स्तम्भने ज्ञेयो विद्वेषे ग्रीष्म ईरितः ।
प्रावृडुच्चाटने ज्ञेया शरन्मारणकर्मणि ॥ १० ॥

पद्माख्यं स्वस्तिकं भूयो विकतं कुक्कुटं पुनः ।
वज्रं भद्रकमित्याहुरासनानि मनीषिणः ॥ ११ ॥

षणमुद्राः क्रमतो ज्ञेयाः पद्मपाशगदाह्वयाः ।
मुसलाशनिखड्गाख्याः शान्तिकादिषु कर्मसु ॥ १२ ॥

जलं शान्तिविधौ शस्तं वश्ये वह्निरुदाहृतः ।
स्तम्भने पृथिवी शस्ता विद्वेषे व्योम कीर्तितम् ॥ १३ ॥

उच्चाटने स्मृतो वायुर्भूयोऽग्निर्मारणे मतः ।
तत्तद्भूतोदये सम्यक् तत्तन्मण्डलसंयुतम् ॥ १४ ॥

तत्तत्कर्म विधातव्यं मन्त्रिणा निशितात्मना ।
शीतांशुसलिलक्षोणीव्यौमवायुहविर्भुजाम् ॥ १५ ॥

वर्णाः स्युर्यन्त्रबीजानि षट्कर्मसु यथाक्रमम् ।
ग्रथनं च विदर्भश्च सम्पुटो रोधनं तथा ॥ १६ ॥

योगः पल्लव इत्येते विन्यास्याः षट्सु कर्मसु ।
मन्त्रार्णान्तरितान् कुर्यान्नामवर्णान् यथाविधि ॥ १७ ॥

ग्रथनं तद्विजानीयात्प्रशस्तं शान्तिकर्मणि ।
मन्त्रार्णद्वन्द्वमध्यस्थं साध्यनामाक्षर लिखेत् ॥ १८ ॥

विदर्भ एष विज्ञेयो मन्त्रिभिर्वश्यकर्मणि ।
आदावन्ते च मन्त्रः स्यान्नाम्नोऽसौ संपुटो मतः ॥ १९ ॥

एष संस्तम्भने शस्त इत्युक्तो मन्त्रवेदिभिः ।
नाम्न आद्यन्तमध्येषु मन्त्रः स्याद्रोधनं मतम् ॥ २० ॥

विद्वेषणविधाने तु प्रशस्तमिदमुत्तमम् ।
मन्त्रस्यान्ते भवेन्नाम योगः प्रोच्चाटने मतः ॥ २१ ॥

अन्ते नाम्नो भवेन्मन्त्रो पल्लवो मारणे यतः ।
सितरक्तपीतमिश्रकृष्णधूम्राः प्रकीर्तिताः ॥ २२ ॥

वर्णतो मन्त्रतन्त्रोक्ता देवताः षट्सु कर्मसु ।
यन्त्राणां लेखनद्रव्यं चन्दनं रोचना निशा ॥ २३ ॥

गृहधूमश्चिताङ्गारो मारणेऽष्ट विषाणि च ।
श्येनाग्निलोणपिण्डानि धत्तूरकरसस्तथा ॥ २४ ॥

गृहधूमस्त्रिकटुकं विषाष्टकमुदीरितम् ।
देवताकालमुद्रादीन् सम्यग् ज्ञात्वा विचक्षणः ॥ २५ ॥

षट्कर्माणि प्रयुञ्जीत यथोक्तफलसिद्धये ।
* * * * * * * * * * * * * * * * ॥ २६ ॥

एवं प्राणप्रतिष्ठामन्त्रमुपक्रम्य ।
तत्रैव (प० २३ श्लो० ९१) -

इति संसाधितो मन्त्रः षट्कर्मफलदो भवेत् ।
स्थापयेन्मनुना तेन प्राणान् सर्वत्र देशिकः ॥ १ ॥

बीजान्तेऽमुष्यशब्दानामादौ दूतीः प्रयोजयेत् ।
मृता वैवस्वता भूयो जीवहा प्राणहा ततः ॥ २ ॥

आकृष्या ग्रथनी पश्चात्प्रमादा विस्फुलिङ्गिनी ।
क्षेत्रप्रतिहरीत्येताः प्राणदूत्यो नव स्मृताः ॥ ३ ॥

पाशेन बद्धचेष्टस्य शक्तया स्वीकृतचेतसः ।
अङ्कुशेनाहृतस्यापि साध्यस्यासून् समाहरेत् ॥ ४ ॥

द्वादशांगुलमानेन कृत्वा साध्यस्य पुत्तलीम् ।
तस्यां प्राणात्मकं यन्त्रं सकीटं हृदये न्यसेत् ॥ ५ ॥

निशीथसमये साध्ये सुप्ते तस्य हृदम्बुजे ।
दलेषु वायुवह्नीन्द्रवरुणानामतः परम् ॥ ६ ॥

ईशराक्षसशीतांशुयमानां कर्णिकान्तरे ।
यादीन् हंससमायुक्तान् भृङ्गाकाराननुस्मरेत् ॥ ७ ॥

शिरोवस्त्र (बिन्दु) समुद्भूततन्तुसंबद्धविग्रहान् ।
एवमात्महृदम्भोजे भृङ्गीरूपान् धिया स्मरेत् ॥ ८ ॥

आत्महृत्पद्मगा भृङ्गीः प्रस्थाप्य श्वासवर्त्मना ।
एकैकां साध्यहृत्पद्माद् भृङ्गानेकैकमानयेत् ॥ ९ ॥

पुत्तल्यां स्थापयेन्मन्त्री स्वचित्ते वा विधानवित् ।
तन्तुच्छेदं प्रकुर्वीत वह्निबीजेन संयतः ॥ १० ॥

आकृष्टान् साध्यहृद्भृङ्गांस्ततः संस्तम्भयेद्भुवा ।
एवमेकादशावृतीः कुर्यात् सर्वेषु कर्मसु ॥ ११ ॥

वश्याकर्षणयोर्यादीनरुणान् संस्मरेद् बुधः ।
मोहविद्वेषयोर्धूम्रान् कृष्णान् मारणकर्मणि ॥ १२ ॥

पीतान् संस्तम्भने ध्यायेत् प्राणाकर्षणकर्मणि ।
आकृष्य साध्यहृत्प्राणान् स्थापयेदात्मनो हृदि ॥ १३ ॥

क्रूरकर्मसु पुत्तल्यां तेषां स्थापनमीरितम् ।
प्राणान् साध्यस्य मण्डूकानात्मनस्तु भुजङ्गमान् ॥ १४ ॥

संस्मरेत् तत्र निपुणः सदा क्रूरेषु कर्मसु ।
* * * * * * * * * * * * * * * * ॥ १५ ॥

वायवग्निशक्रवरुणेश्वरराक्षसेन्दु प्रेतेशपत्रलिखितैरथ यादिवर्णैः ।
विन्द्वन्तिकैः क्षगतहंससमेतमध्यं प्राणात्मयन्त्रमथ वर्णवृतं धराढ्यम् ॥ १६ ॥

इत्थं प्रयोगकुशलो मनुनानेन मन्त्रवित् ।
वशयेत् सकलान् देवान् किं पुनः पार्थिवानपि ॥ १७ ॥

इति । तन्त्रान्तरे -

साध्यनामार्णमेकैकं मन्त्रार्णे संप्रयोजितम् ।
ग्रथितं तत्समाख्यातं वश्याकृष्टिकरं परम् ॥ १ ॥

मन्त्रमादौ वदेत्सर्व साध्यसंज्ञामनन्तरम् ।
विपरीतं पुनश्चान्ते मन्त्रं तत्सम्पुटं भवेत् ॥ २ ॥

शान्तिपुष्टिकरं ज्ञेयं त्रैलोक्यैश्वर्यदायकम् ।
अर्धमर्धं तदाद्यन्ते मन्त्रं कुर्याद्विचक्षणः ॥ ३ ॥

मध्ये वास्य भवेत्साध्यं ग्रस्तमित्यभिधीयते ।
अभिचारेषु सर्वेषु योजयेन्मारणेऽपि वा ॥ ४ ॥

अभिधानं वदेत्पूर्वं पश्चान्मन्त्रं तथा वदेत् ।
एतत् समस्तमित्युक्तं शत्रूच्चाटनकारकम् ॥ ५ ॥

द्वौ द्वौ मन्त्राक्षरौ यत्र एकैकं साध्यवर्णकम् ।
विदर्भितं तत्सम्प्रोक्तं दुष्टघ्नं वश्यलक्षणम् ॥ ६ ॥

मन्त्रार्णान्तरितं साध्यं समन्तात्तिष्ठते यदि ।
आक्रान्तं तद्विजानीयात्सद्यः सर्वार्थसाधनम् ॥ ७ ॥

स्तोभस्तम्भसमावेशवश्योच्चाटनकर्मसु ।
सकृत्पूर्वं वदेन्मन्त्रमन्ते चैव तथा पुनः ॥ ८ ॥

मध्ये चास्य भवेत्साध्यमाद्यन्तमिति तद्विदुः ।
अन्योन्यप्रीतियुक्तानां विद्वेषणकरं परम् ॥ ९ ॥

आदौ चान्ते तथा मन्त्रं द्विवारं सम्प्रयोजयेत् ।
साध्यनाम सकृन्मध्ये गर्भस्थं सम्प्रवक्षते ॥ १० ॥

मारणोच्चाटनं वश्यं प्रयुक्तं कारयेन्नृणाम् ।
हेतिनौसैन्यधीगर्भस्तम्भनं च गतेस्तथा ॥ ११ ॥

त्रिधा मन्त्रं वदेत्पूर्वं तथैवान्ते पुनस्त्रिधा ।
सकृत्साध्यं भवेन्मध्ये तद्विद्यात्सर्वतो वृतम् ॥ १२ ॥

सर्वोपसर्गशमनमपमृत्युनिवारणम् ।
सर्वसौभाग्यजननं मृतानाममृतप्रदम् ॥ १३ ॥

आदौ मन्त्रं ततो नाम पुनर्मन्त्रं समुच्चरेत् ।
एवमेव त्रिधा कुर्याद्भवेद्युक्तिविदर्भितम् ॥ १४ ॥

सर्वव्याधिहरं प्रोक्तं भूतापस्मारमर्दनम् ।
एकैकं साध्यवर्णम् तु कृत्वा मन्त्रविदर्भितम् ॥ १५ ॥

पूर्ववत्कथितं चान्यत्तस्याद्यन्ते प्रकल्पयेत् ।
विदर्भग्रथितं नाम मन्त्रलक्षणमुत्तमम् ॥ १६ ॥

सर्वकर्मकरं प्रोक्तं सर्वैश्वर्यफलप्रदम् ।
एवमेते प्रयोगाः स्युः सिद्ध मन्त्रस्य सिद्धिदाः ॥ १७ ॥

इति । एते ग्रथितादयस्तत्तत्कर्मसु यन्त्रलेखनादिविषये इति बोद्धव्यम् ।
तन्त्रान्तरे -

सर्वेषां मन्त्रव्रातानां प्रणवः शिर उच्यते ।
हुंफट्स्वाहावषट्वौषण्नमः पल्लवसंज्ञकाः ॥ ११ ॥

तत्तत्कर्मविधाने तु तत्तन्मन्त्रविचारणे ।
शिरः पल्लवसंयुक्तो मन्त्रो भवति सिद्धिदः ॥ २ ॥

इति । दक्षिणामूर्तिसंहितायाम् -

अथातः सम्प्रवक्ष्यामि चक्ररजस्य साधनम् ।
एवं संसिद्धविद्याया विनियोगक्रमं शृणु ॥ १ ॥

कृत्वा सिन्दूररजसा चक्रं तत्र विचिन्तयेत् ।
साध्यप्रतिकृतिं नाम लिखित्वा चिन्तयेत् ततः ॥ २ ॥

ज्वलन्ती तत्क्षणाद् देवि मोहिता भयवर्जिता ।
त्यक्त्वा लज्जां समायाति अथान्यत्कथ्यते प्रिये ॥ ३ ॥

तन्मध्ये संस्थितो मन्त्री चिन्तयेदरुणप्रभम् ।
आत्मानं च तथा साध्यं तदा सौभाग्यसुन्दरः ॥ ४ ॥

अरुणैरुपचारैस्तु पूजयेन्मुद्रयावृतः ।
यस्य नाम्ना युतः सम्यग् स भवेद् दास एव हि ॥ ५ ॥

अदृष्टस्त्रीनामवर्णांश्चक्रमध्ये विलिख्य तु ।
योनि मुद्राधरो भूत्वा वेगादाकर्षणं भवेत् ॥ ६ ॥

देवकन्यां राजकन्यां नागकन्यामथापि वा ।
गोरोचना कुंकुमाभ्यां समभागं च चन्दनम् ॥ ७ ॥

अष्टोत्तरशतावृत्त्या तिलकं सर्वमोहनम् ।
पुष्पं फलं जलं चान्नं गन्धं वस्त्रं च भूषणम् ॥ ८ ॥

ताम्बूलं पूर्वजप्तं च यस्मै सम्प्रेष्यते स तु ।
अङ्गना वा क्षणादेव दासीवास्य भवेत्प्रिये ॥ ९ ॥

करवीरै रक्तवर्णैस्त्रिमध्वक्तैः प्रपूजयेत् ।
चिन्तयन् मासमात्रं हि साध्याख्यां ललनां ततः ॥ १० ॥

इति कुर्वन् महेशानि पूजयेदरुणप्रभाम् ।
सुन्दूररचिते चक्रे राजानं मोहयेत् क्षणात् ॥ ११ ॥

त्रैलोक्यमोहनां वापि रम्भामाकर्षयेद् द्रुतम् ।
चिताङ्गारेण चक्रं तु लिखेद्रक्तद्रवेण हि ॥ १२ ॥

बाहौ बद्ध्वाथवा क्वापि ज्वरं नाशयति क्षणात् ।
अर्कनिम्बद्रवाभ्यां तु लेखन्यार्कस्य संलिखेत् ॥ १३ ॥

द्वयोर्नाम मध्यबाह्यदेशे चक्रस्य संलिखेत् ।
गोमूत्रे स्थापयेत् तच्च भवेद्विद्वेषणं क्षणात् ॥ १४ ॥

धूपयेच्चन्दनं रात्रौ वस्त्रं वा धारयेत्ततः ।
अष्टोत्तरशतावृत्त्या मोहयेद्भुवनत्रयम् ॥ १५ ॥

लिप्तगोमयभूमौ तु लिखेद्रोचनया ततः ।
सुरूपां प्रतिमां रम्यां भूषाढ्यां परिचिन्तयेत् ॥ १६ ॥

तद्भालगलहृन्नाभिजन्ममण्डलयोजिताम् ।
जन्मनाममहाविद्यामंकुशान्तर्विदर्भिताम् ॥ १७ ॥

सर्वाङ्गसन्धिसम्लीनं कामकूटं समालिखेत् ।
साध्याशाभिमुखो भूत्वा श्रीविद्यान्यासविग्रहः ॥ १८ ॥

क्षोभणीबीजमुद्राभ्यां विद्यामष्टशतं जपेत् ।
योजयेत्तां कामगेहे चन्द्रसूर्यकलात्मके ॥ १९ ॥

सानुरागातिविकला कामसायकपीडिता ।
त्रैलोक्यसुन्दरी नाम क्षणादायाति मोहिता ॥ २० ॥

अथवा मातृकां चक्रबाह्ये सम्वेष्ट्य मन्त्रवित् ।
चक्रं प्रपूजयेत्सम्यक् विद्यां पूर्णां च धारयेत् ॥ २१ ॥

अवध्यः सर्वदुष्टानां व्याघ्रादीनां न संशयः ।
श्रीखण्डागरुकस्तूरीकर्पूरैश्च सकुंकुमैः ॥ २२ ॥

स्वनाम क्रमतो लेख्यं पूर्ववन्मातृकां लिखेत् ।
तेनाजरामरत्वं तु साधकस्य न संशयः ॥ २३ ॥

अनेनैव प्रकारेण रोचनागरुकुंकुमैः ।
चक्रं विलिख्य साध्यार्णसाधकार्णविदर्भितम् ॥ २४ ॥

त्रैलोक्यमोहनो मन्त्री भवत्येव न संशयः ।
कामकूटेन देवेशि सन्दर्भ्य पृथगक्षरम् ॥ २५ ॥

साध्यनाम्नस्त्रिकोणान्तर्मातृकां वेष्टयेद् बहिः ।
स्वर्णमध्यगतं धार्यं शिखायां यत्र कुत्रचित् ॥ २६ ॥

लोकपालाश्च राजानोदुष्टास्त्रलोक्यसंस्थिताः ।
ते सर्वे वश्यमायान्ति सन्निपातादयो ज्वराः ॥ २७ ॥

अनेन विधिना नाम पुरं सन्दर्भ्यसंक्षिपेत् ।
चतुष्पथे मध्यदेशे दिक्षु पूर्वादितः क्रमात् ॥ २८ ॥

तस्य सौभाग्यमायाति राजानः किङ्कराः सदा ।
स्फुरत्तेजोमयीं पृथ्वीं प्रज्वलन्तीं चराचरम् ॥ २९ ॥

चक्रान्तश्चिन्तयेन्नित्यं मासषट्कं ततो नरः ।
तेन कन्दर्पसुभगो लोके भवति निश्चयात् ॥ ३० ॥

दृष्ट्याकर्षयते लोकान् विषं नाशयति ज्वरान् ।
तथा विषं च हरति दृष्ट्यावेशं करोति च ॥ ३१ ॥

रात्रौ सिन्दूरलिखितं पूजयेदेकचित्ततः ।
करोत्याकर्षणं दूराद्योजनानां शतादपि ॥ ३२ ॥

अखण्डं दिक्षु कोणेषु क्रमेण परिपूजयेत् ।
यदा तदैव लोकोऽयं वश्यो भवति नान्यथा ॥ ३३ ॥

भूर्जपत्रे लिखेच्चक्रं रोचनागरुकुंकुमैः ।
स्वनामदर्भितं कुर्याद् देशं वा पुटभेदनम् ॥ ३४ ॥

मण्डलं विषमस्थानं भूमौ चक्रं निधापयेत् ।
धारयेद्वा ततो मन्त्री पुरं क्षोभयतीक्षणात् ॥ ३५ ॥

उन्मत्तरसलाक्षार्कक्षीरकुंकुमरोचनाः ।
कस्तूर्यलक्तसहिता एकीकृत्य तु संलिखेत् ॥ ३६ ॥

यन्नाम्ना तस्य देवेशि चौरजं व्याघ्रजं भयम् ।
ग्रहजं व्याधिजं चैव रिपुजं सिंहजं तथा ॥ ३७ ॥

अहिजं वाजिजं नास्ति सर्वान् मोहयति क्षणात् ।
रोचनाकुंकुमाभ्यां तु मध्यगां संलिखेद् बुधः ॥ ३८ ॥

त्रिकोणोभयगां चैव साध्यनामाङ्कितामधः ।
तच्चक्रं धारयेत् तस्मात् सप्ताहाद्विज्वरो भवेत् ॥ ३९ ॥

पीतद्रव्येण चक्रान्तर्लिखेद्विद्यामधस्ततः ।
साध्यनाम विलिख्यैतत् पूर्वस्यां दिशि संक्षिपेत् ॥ ४० ॥

तस्माद्ब्रह्मापि जीवोऽपि सर्वज्ञो मूकतां व्रजेत् ।
अनेन विधिना नीलीरसेन विलिखेत् ततः ॥ ४१ ॥

दक्षिणाभिमुखो मन्त्री वह्नौ दग्ध्वा रिपून् दहेत् ।
महिषाश्वपुरीषेण गोमूत्रेण च संलिखेत् ॥ ४२ ॥

आरनालस्थितं कुर्याद् भवेद्विद्वेषणं क्षणात् ।
साध्यनाम लिखेन्मध्ये काकपक्षेण सञ्चयेत् ॥ ४३ ॥

संलिख्य रोचनाद्रव्यैराकाशे दृष्टिगं यथा ।
शत्रूनुच्चाटयेदाशु हठोच्चाटोऽयमीरितः ॥ ४४ ॥

महानीलीरसोद्भिन्नरोचनादुग्धमिश्रितैः ।
लाक्षारसैर्लिखेच्चक्रं चतुर्वर्णान् वशं नयेत् ॥ ४५ ॥

अनेन विधिना नीरे स्थापयेत्ततज्जलेन तु ।
सौभाग्यं महदाप्नोति स्नानपानान्न संशयः ॥ ४६ ॥

पीतं चक्रं यजेत्पूर्वे स्तम्भयेत्सर्ववादिनः ।
सिन्दूरलिखितं चक्रमुत्तरे लोकवश्यकृत् ॥ ४७ ॥

पश्चिमे पूजितं चक्रं गैरिकालिखितं ततः ।
मन्त्रिणो देवता वश्याः किं पुनर्योषितः प्रिये ॥ ४८ ॥

तथैव दक्षिणास्यस्तु कृष्णं चक्रं समर्चयेत् ।
साध्यस्य मन्त्रहानिः स्यान्मारणं च विशेषतः ॥ ४९ ॥

क्रमाद्दिगन्तरास्यः सन् वह्निकोणादिषु क्रमात् ।
स्तम्भं विद्वेषणं व्याधिमुच्चाटं कुरुते नरः ॥ ५० ॥

दुग्धे वश्यकरं क्षिप्रं रोचनालिखितं हठात् ।
दग्ध्वा तद्वह्निमध्यस्थं सर्वशत्रून् विनाशयेत् ॥ ५१ ॥

गोमूत्रमध्यगं चैतद् भवेदुच्चाटनं रिपोः ।
विद्वेषणं भवेच्चक्रे तेनैव परमेश्वरि ॥ ५२ ॥

सिन्दूरेण लिखेच्चक्रं निर्जने तु चतुष्पथे ।
सर्वसाध्यं समारभ्य मध्यान्तं मातृकां लिखेत् ॥ ५३ ॥

कुलाचारक्रमेणैव रात्रौ सम्पूजयेत् क्रमम् ।
साधकः खेचरी देवि जायते नात्र संशयः ॥ ५४ ॥

चतुर्दश्यां निशि स्वस्थो रुद्रभूमौ प्रपूजयेत् ।
षण्मासक्रमयोगेन साक्षाद्रुद्र इवापरः ॥ ५५ ॥

अञ्जनं विवरं सिद्धं गुलिकां पादुकाजयम् ।
खड्गं वेतालसौभाग्यं यक्षिणीं चेटकादिकम् ॥ ५६ ॥

सकलं सिद्धिजननं मन्त्री प्राप्नोति नान्यथा ।
चतुर्दश्यां चतुर्दश्यां प्रत्यष्टम्यां समाहितः ॥ ५७ ॥

एकविंशतिरात्रं तु निशि प्रेतशिलातले ।
श्रीचक्रं पूजयेत् तद्वत् सुरपूज्यस्तु साधकः ॥ ५८ ॥

पाशांकुशधनुर्बाणैः पौरुषेयैर्महेश्वरि ।
कामो भूत्वा स्वर्गभूस्थपातालतलयोषिताम् ॥ ५९ ॥

हर्ता कर्ता स्वयं चैव महदाकर्षणं भवेत् ।
तद्वत् कामेश्वरीशस्त्रैर्देव्यात्मा भुवनत्रये ॥ ६० ॥

पुरुषाकर्षणं चैतद्राजानः किङ्कराः प्रिये ।
एतत् कामकलाध्यानं कथितं बीजभेदतः ॥ ६१ ॥

वाग्भवाराधने देवि ज्ञानं सारस्वतं भवेत् ।
श्वेताभां श्वेतवस्त्राढ्यां श्वेतपुष्पैः समर्चयेत् ॥ ६२ ॥

अनेन विधिना देवि वाग्भवाराधनं भवेत् ।
अथ कामकला नाम सामर्थ्य शृणु पार्वति ॥ ६३ ॥

कामो मन्मथकन्दर्पो मकरध्वज एव हि ।
महाकामश्च पूर्वोक्ताः पञ्चकामाः क्रमेण तु ॥ ६४ ॥

कामं मन्मथमध्यस्थं देवि कन्दर्पवेश्मगम् ।
तत्पुटस्थं मीनकेतुं महाकामेशमस्तकम् ॥ ६५ ॥

अनेन कामतत्त्वेन मोहयेज्जगतीमिमाम् ।
मूलादिसृष्टिसंहारबिसतन्तुस्वरूपिणी ॥ ६६ ॥

तस्मात् कुण्डलिनीशक्तिः शक्तिकूटे महेश्वरि ।
त्रिकूटा त्रिपुरा देवि सर्वसिद्धिप्रदा भवेत् ॥ ६७ ॥

चतुःषष्टिर्यतः कोट्यो योगिनीनां महौजसाम् ।
चक्रमेतत् समाश्रीत्य सतां सिद्धिप्रदाः सदा ॥ ६८ ॥

इति । वामकेश्वरतन्त्रे च (२ प०) -

शृणु देवि प्रवक्ष्यामि मन्त्रयोगं यथाविधि ।
यत्रानेन विधानेन साधकेन प्रपूज्यते ॥ १॥

देशे वा नगरे ग्रामे जगत्क्षोभः प्रजायते ।
ज्वलत्कामाग्निसंतापप्रतापोत्तप्तमानसाः ॥ २ ॥

पिपीलिकास्थिन्यायेन दूरादायान्ति योषितः ।
मन्त्रसंमूढहृदयाः स्फुरज्जघनमण्डलाः ॥ ३ ॥

तद्दर्शनान्महादेवि जायन्ते सर्वयोषितः ।
जप्ते लक्षैकमात्रे तु क्षुभ्यन्ते भूतलेऽङ्गनाः ॥ ४ ॥

यदि न क्षुभ्यतीत्थं हि साधकस्य मनो मनाक् ।
संक्षुभ्यन्ते ततः सर्वाः पाताले नागकन्यकाः ॥ ५ ॥

तासामपि यदा नासौ क्षोभं याति मनागपि ।
ततः स्वर्गनिवासिन्यो विद्रवन्ति सुराङ्गनाः ॥ ६ ॥

एवं लक्षत्रयं जप्त्वा व्रतस्थः साधकोत्तमः ।
संक्षोभयति देवेशि त्रैलोक्यं सचरारम् ॥ ७ ॥

लिखित्वा विपुलं चक्रं तन्मध्ये प्रतिमां यदा ।
नाम्ना लिखति संयुक्ता ज्वलन्तीं चिन्तयेत् ततः ॥ ८ ॥

शतयोजनमात्रस्था त्वदृष्टापि च या भवेत् ।
भयलज्जाविनिर्मुक्ता साऽप्यायाति विमोहिता ॥ ९ ॥

तन्मध्यगोऽथवा भूत्वा मन्त्री चिन्तयते यदा ।
सर्वमात्मानमरुणं साध्यमप्यरुणीकृतम् ॥ १० ॥

ततः सञ्जायते देवि सर्वसौभाग्यसुन्दरः ।
वल्लभः सर्वलोकस्य साधकः परमेश्वरि ॥ ११ ॥

सर्वरक्तोपचारैस्तु पूजयेन्मुद्रयावृतः ।
यस्य नाम्नैव संयुक्तं स भवेद् दासवद्वशी ॥ १२ ॥

अदृष्टायस्तु संयोज्य नाम चक्रस्य मध्यगम् ।
विरच्य योनिमुद्रां च तामाकर्षयति क्षणात् ॥ १३ ॥

यक्षिणीं वाथ गन्धर्वी किन्नरीं वा सुरेश्वरि ।
सिद्धकन्यां नागकन्यां देवकन्यां च खेचरीम् ॥ १४ ॥

विद्याधरीमप्सरसमृषिकन्यामथोर्वशीम् ।
मदनोद्भवविक्षोभस्फुरज्जघनमण्डलाम् ॥ १५ ॥

महाकामकलाध्यानात् क्षोभयेत् सर्वयोषितः ।
रोचनाकुङ्कुमाभ्यां च समभागं च चन्दनम् ॥ १६ ॥

अष्टोत्तरशतं जप्तं तिलकं धारयेन्नरः ।
ततो यमीक्षते वक्ति स्पृशते चिन्तयत्यलम् ॥ १७ ॥

अर्थेन च शरीरेण स वश्यं याति दासवत् ।
तथा पुष्पं फलं गन्धं पानं वस्त्रं महेश्वरि ॥ १८ ॥

अष्टोत्तरशतं जत्प्वा यस्याः संप्रेषते स्त्रियाः ।
सद्य आकृष्यते सा तु विमूढहृदया सती ॥ १९ ॥

हठाकृष्टिरियं भद्रे न क्वचित् प्रतिहन्यते ।
लिखेद्रोचनयैकान्ते प्रतिमामवनीतले ॥ २० ॥

सुरूपां चारुशृङ्गारवेशाभरणभूषिताम् ।
तद्भालगलहृन्नाभिजन्ममण्डलयोजिताम् ॥ २१ ॥

जन्मनाममहाविद्यामङ्कुशान्त विदर्भिताम् ।
सर्वाङ्गसन्धिसंलीनमालिख्य मदनाक्षरम् ॥ २२ ॥

तदाशाभिमुखो भूत्वा त्रिपुरीकृतविग्रहः ।
बद्ध्वा तु क्षोभिणीमुद्रां विद्यामष्टोत्तरं जपेत् ॥ २३ ॥

नियोज्य दहनागारे चन्द्रसूर्यप्रभा(कला)कुले ।
ततो विचलिता पाङ्गामनङ्गशरपीडिताम् ॥ २४ ॥

प्रोज्ज्वलन्मदनोल्लोल प्रचलज्जघनस्थलाम् ।
सक्तिचक्रोज्ज्वलद्रश्मिकलना कवलीकृताम् ॥ २५ ॥

दूरीकृतस्वचारित्रभयलज्जात्रपाङ्कुशाम् ।
आकृष्टहृदयां नष्टधैर्यामुड्डीन जीविताम् ॥ २६ ॥

वप्रप्रासाद निगडनदीयन्त्रसुरक्षिताम् ।
नवानुरागसंधानवेषमानहृदम्बुजाम् ॥ २७ ॥

मनोऽधिकमहामन्त्रपवनापहृतांशुकाम् ।
विमूढामिव विक्षुब्धामिव श्रान्तामिव द्रुताम् ॥ २८ ॥

लिखितामिव निःसंज्ञामिव प्रमथितामिव ।
विहस्तामिव संकीर्णामिवाकुलितमानसाम् ॥ २९ ॥

निलीनामिव निश्चेष्टामिवान्यत्वं गतामिव ।
भ्रमन्मन्त्रानिलोद्धूतपत्राकारां नभस्तले ॥ ३० ॥

भ्रमन्तीमानयेन्नारीं योजनानां शतादपि ।
अथवा मातृकां सर्वां लिखित्वा चक्रबाह्यतः ॥ ३१ ॥

धारयेद्बाहूमूले यः सोऽवध्यः सर्वजन्तुषु ।
तथैव हि महेशानि स्वसंज्ञाक्रमयोगतः ॥ ३२ ॥

चन्दनागरुकर्पूरैरजरामरतां व्रजेत् ।
एवं देवि विधानेन रोचनागरुकुंकुमैः ॥ ३३ ॥

लिखित्वा चक्रयोगेन यस्मिन् कस्मिन्नपि स्थितम् ।
साध्यनाम्ना स्वनाम्ना तु चक्रस्यान्तर्विदर्भितम् ॥ ३४ ॥

करोति सकलान् लोकानचिरात् पादवर्तिनः ।
मध्यङ्गतेन बीजेन महाकामकलात्मना ॥ ३५ ॥

एकमेकवष्टभ्य साध्यनामाक्षरं प्रिये ।
बहिरपि लिखेदेव वेष्टयेन्मातृकाक्षरैः ॥ ३६ ॥

हेममध्यगतं कृत्वा धारयेद्वामके भुजे ।
शिखायामथवा वस्त्रे धारयेद्यत्र तत्र वा ॥ ३७ ॥

करोति दासभूतं हि त्रैलोक्यं सचराचरम् ।
सम्मोहयति राजानं वाजिनं दुष्टकुञ्जरम् ॥ ३८ ॥

चौरं केसरिणं सर्प परतन्त्रं महाबलम् ।
शत्रून् वज्रशतं शस्त्रं वेतालं राक्षसं तथा ॥ ३९ ॥

भूतप्रेतपिशाचांश्च धारिता चक्ररूपिणी ।
तेन मन्त्रेण सन्दर्भ्य पुराणां नाम सुन्दरि ॥ ४० ॥

मध्ये चतुष्पथे वापि चतुर्दिक्षु निधापयेत् ।
महान् कोलाहलस्तत्र ततो लोकस्य जायते ॥ ४१ ॥

योषितां च विशेषेण त्वदृष्टानामपीश्वरि ।
एतन्मध्यगतां पृथ्वीं सशैलवनकाननाम् ॥ ४२ ॥

चतुःसमुद्रपर्यन्तां ज्वलन्तीं चिन्तयेत् प्रिये ।
षण्मासध्यानयोगेन जायतेऽतिमनोहरः ॥ ४३ ॥

दृष्ट्यैवाकर्षयेल्लोकान् दृष्ट्यव कुरुते वशम् ।
दृष्ट्या संक्षोभयेन्नारीं दृष्ट्यैवापहरेद्विषम् ॥ ४४ ॥

दृष्ट्या करोति चावेशं दृष्ट्या सर्वं विमोहयेत् ।
दृष्ट्या चातुर्थिकादींश्च नाशयेद्विषमज्वरान् ॥ ४५ ॥

एतत् प्रपूजितं रात्रौ चक्रं सिन्दूररञ्जितं ।
करोति महदाकर्षं सुदूरादपि योषिताम् ॥ ४६ ॥

सदा दिक्षु विदिक्ष्वेवं यदा देवि प्रपूज्यते ।
दिगनुक्रमयोगेन तदा सर्व जगद्वशे ॥ ४७ ॥

भूर्जपत्रे विलिख्यैवं तरौ निर्विवरोदरे ।
रोचनागरुकाश्मीरैर्मध्ये सन्दर्भयेत् पुरम् ॥ ४८ ॥

विपुलं देशमथवा विषयं मण्डलं तथा ।
स्वनामसहितं देवि यदि भूमौ निधापयेत् ॥ ४९ ॥

धरयेदथवा हस्ते कण्ठे वा बाहुमूलतः ।
शिखायामथवा वस्त्र यत्र तत्र स्थितं च वा ॥ ५० ॥

चक्रमेतन्महाभागे पुरक्षोभणमुक्तमम् ।
अर्कक्षीरं कुङ्कुमं च धत्तूरकरसं तथा ॥ ५१ ॥

रोचनालक्तकं लाक्षारसं मृगमदोत्कटम् ।
एकीकृत्य चक्रमेतल्लिख्यते यस्य संज्ञया ॥ ५२ ॥

तस्य चौरग्रहव्याधिरिपुसिंहाहिवारिजम् ।
यक्षराक्षसवेतालभूतप्रेतपिशाचकात् ॥ ५३ ॥

लूतावृश्चिककीटादिकामलाशीतिकोद्भवम् ।
भयं न विद्यते तस्य परमन्राभिचारजम् ॥ ५४ ॥

नित्यं संधारणाद् देवि कालमृत्युयमादयः ।
न शक्ता हिंसितुं सम्यग्रोमैकमपि सर्वदा ॥ ५५ ॥

अथवा मध्यगां देवीं त्रिकोणोदर (भय) गां तथा ।
अधस्तान्नामसंयुक्तां रोचनाकुङ्कुमाङ्किताम् ॥ ५६ ॥

निधापयेच्च सप्ताहाद् दासवत् किङ्करो भवेत् ।
पीतद्रव्येण संलिख्य धारये(दिन्द्रदिग्गतां) ॥ ५७ ॥

नाम्ना सर्वज्ञभूतोऽपि मूको भवति तत्क्षणात् ।
महानीलीरसेनापि नाम संयोज्य पूर्ववत् ॥ ५८ ॥

दक्षिणाभिमुखो वह्नौ दग्ध्वा मारयते क्षणात् ।
एकं नीलपटं सम्यक् नीलसूत्रेण वेष्टयेत् ॥ ५९ ॥

लम्बमानं तदाकाशे उच्चाटयति तत्क्षणात् ।
महिषाश्वपुरीषाभ्यां गोमूत्रेणाङ्कितं लिखेत् ॥ ६० ॥

क्षिप्त्वारनालमध्यस्थं विद्विष्टः सर्वजन्तुषु ।
युक्त्वा रोचनया नाम काकपक्षेण संलिखेत् ॥ ६१ ॥

नीलीकर्पटके सम्यंनीलसूत्रेण वेष्टयेत् ।
लम्बमानं तदाकाशे परमुच्चाटनं भवेत् ॥ ६२ ॥

दुग्धलाक्षारोचनाभिर्महानीलीरसेन च ।
लिखित्वा धारयेच्चक्रं चातुर्वण्यं वशं नयेत् ॥ ६३ ॥

एतेनैव विधानेन जलमध्ये विनिक्षिपेत् ।
सौभाग्यमतुलं तस्य स्नानपानादिभिर्भवेत् ॥ ६४ ॥

एतन्मध्यगतां देवि नागरीं वा वराङ्गनाम् ।
सप्ताहात् क्षोभयेत्सत्यं ज्वलमानां विचिन्त्य ताम् ॥ ६५ ॥

महापातकयुक्तात्मा यदि देवीं प्रपूजयेत् ।
शमीदूर्वासहाश्वत्थपल्लवैरथवार्कजैः ॥ ६६ ॥

मासेन हन्ति कलुषं सप्तजन्मकृतं नरः ।
लिखित्वा पीतवर्णं तु चक्रमेतद्यदार्चयेत् ॥ ६७ ॥

पूर्वाशाभिमुखो भूत्वा स्तम्भयेत् सर्ववादिनः ।
सिन्दूररेणुलिखितं पूजयेदुत्तरामुखः ॥ ६८ ॥

यदा तदास्य वशगो लोको भवति सर्वथा ।
गौरिकेणतदालिख्य पूजयेत् पश्चिमामुखः ॥ ६९ ॥

यः स सर्वाङ्गनाकर्षवश्यक्षोभकरो भवेत् ।
दक्षिणाभिमुखो भूत्वा कृष्णं चक्रं समर्चयेत् ॥ ७० ॥

यस्य नाम्ना तस्य नित्यं मन्त्रहानिस्तु जायते ।
तद्वद् दिगन्तरालेषु पूजितं परमेश्वरि ॥ ७१ ॥

स्तम्भविद्वेषणव्याधिशत्रूच्चाटनकारकम् ।
रोचनालिखितं देवि दुग्धमध्ये वशङ्करम् ॥ ७२ ॥

क्षिप्तं गोमूत्रमध्ये तु शत्रूच्चाटनकारकम् ।
तैल मध्यगतं चक्रं विद्वेषणकरं परम् ॥ ७३ ॥

ज्वलज्ज्वलनमध्यस्थं सर्वशत्रुविनाशनम् ।
अथवा देवदेवेशि यदेकान्ते चतुष्पथे ॥ ७४ ॥

तत्समीपे लिखेच्चक्रं सिन्दूरेण महाप्रभम् ।
सर्वबाह्यत आरभ्य यावन्मध्यं महेश्वरि ॥ ७५ ॥

अकारादिक्षकारान्तां मातृकां तत्र विन्यसेत् ।
पूजयेद्रात्रिसमये कुलाचारक्रमेण यः ॥ ७६ ॥

स तत्क्षणान्महादेवि साधकः खेचरो भवेत् ।
पूजयित्वा महेशानि तद्वदेकतरौ गिरौ ॥ ७७ ॥

अजरामरतां सत्यं लभते नात्र संशयः ।
महाभूतदिने वापि श्मशाने यदि पूजयेत् ॥ ७८ ॥

पूर्ववन्निशि देवेशि साधकः स्थिरमानसः ।
पादुकाखड्गवेतालसिद्धद्रव्यमहोदयान् ॥ ७९ ॥

अञ्जनं विवरं चेटीं यक्षीं दूरगतिं तथा ।
यत्किञ्चित् सिद्धिसन्तानं विद्यते भुवनत्रये ॥ ८० ॥

तत्सर्वमेव सहसा साधयेत् साधकोत्तमः ।
* * * * * * * * * * * * * * * * ॥ ८१ ॥

इति । अत्र सर्वत्र मण्डलावधि कर्तव्यता । जपे वायुतसंख्या ज्ञेया ॥ अथ कूटत्रयसाधनं तत्रैव -

एतस्याः शृणु देविशि बीजत्रितयसाधनम् ।
धवलाम्बरसम्वीतो धवलाम्बरमध्यगः ॥ १ ॥

पूजयेद्धवलैः पुष्पैर्ब्रह्मचर्यधरो नरः ।
धवलैरेव नैवेद्यैर्दधिक्षीरौदनादिभिः ॥ २ ॥

सकल्पधवलैर्वापि यथाकामफलप्रदाम् ।
सम्पूज्य परमेशानि ध्यायेद्वागीश्वरीं पराम् ॥ ३ ॥

बीजरूपामुल्लसन्तीं ततोऽनङ्गपदावधि ।
ब्रह्मग्रन्थि विनिर्भिद्य जिह्वाग्रे बीज रूपिणीम् ॥ ४ ॥

चिन्तयेन्नष्टहृदयो ग्राम्यो मूर्खोऽतिपातकी ।
शठोऽपि यः पदं स्पष्टमक्षरं वक्तुमक्षमः ॥ ५ ॥

जडो मूकोऽपि दुर्मेधा गतप्रज्ञो विनष्टधीः ।
सोऽपि सञ्जायते वाग्मी वाचस्पतिरिवापरः ॥ ६ ॥

सत्पण्डितघटाटोपजेताऽप्रतिहतप्रभः ।
सत्तर्कपदवाक्यार्थशब्दालङ्कारसारवित् ॥ ७ ॥

वातोद्धत समुद्रोर्मिमालातुल्यैरुपन्यसेत् ।
सुकुमारतरस्फाररीत्यलङ्कारपूर्वकैः ॥ ८ ॥

पदगुम्फैर्महाकाव्यकर्ता देवेशि जायते ।
वेदवेदाङ्गवेदान्तसिद्धान्तज्ञानपारगः ॥ ९ ॥

ज्योतिःशास्त्रेतिहासादिमीमांसास्मृतिवाक्यवित् ।
प्राणरसवादादिगारुडानेकमन्त्रवित् ॥ १० ॥

पातालशास्त्रविज्ञानभूततन्त्रार्थतत्त्ववित् ।
विचित्रचित्रकर्मादिशिल्पानेकविचक्षणः ॥ ११ ॥

महाव्याकरणोदारशब्दसंस्कृतसर्वगीः ।
सर्वभाषारुतज्ञानी समस्तलिपिकर्मकृत् ॥ १२ ॥

नानाशास्त्रार्थशिक्षादिवेत्ता भुवनविश्रुतः ।
सर्ववाङ्मयवेत्ता च सर्वज्ञो देवि जायते ॥ १३ ॥

एवमेषा महादेवि वाग्भवस्य तु साधना ।
ततस्तु शृणु देवेशि कामराजस्य साधनम् ॥ १४ ॥

तथा कामकलारूपा मदनाङ्कुरगोचरा ।
उदयादित्यबिम्बाभा समुज्ज्वलवपुः प्रिये ॥ १५ ॥

स्फुरद्दीपशिखाकारा बिन्दुधाराप्रवर्षिणी ।
समस्तभुवनाभोगकवलीकृतजीविता ॥ १६ ॥

महास्वमहीमाक्रान्तस्वच्छा हंकृतिभूमिका ।
क्रमेण तु ततोऽनङ्गपर्यन्तं प्रोल्लसन्त्यपि ॥ १७ ॥

शरीरानङ्गपर्यन्तमेकैकमुभयात्मिका ।
ततो भवति देवेशि सर्वशृङ्गारमानिनाम् ॥ १८ ॥

रागिणां साधको देवि बाधको मदनाधिकः ।
तद्दृष्टिपथगा नारी सुरी वाप्यथवासुरी ॥ १९ ॥

विद्याधरी किन्नरी वा यक्षी नागाङ्गनाथवा ।
प्रचण्डतरभूपालकन्यका सिद्धकन्यका ॥ २० ॥

ज्वलन्मदनदुःप्रेक्ष्यदहनोत्तप्तमानसा ।
क्लिन्ना प्रचलितापाङ्गा विमूढा मदविह्वला ॥ २१ ॥

निवेदितात्मसर्वस्वा वशगा देवि जायते ।
चलज्जलेन्दुसदृशी बालार्ककिरणारुणा ॥ २२ ॥

चिन्तितां योषितां यनौ संक्षोभयति तत्क्षणात् ।
सैव सिन्दूरवर्णाभा हृदये चिन्तिता सती ॥ २३ ॥

संमोहोन्मादनाविष्टचित्ताकर्षकरी स्मृता ।
नियोजिताथवा मूर्ध्नि वर्षन्ती रक्तबिन्दुभिः ॥ २४ ॥

धारणासंप्रयोगेण करोति वशगं जगत् ।
अथान्यं सम्प्रवक्ष्यामि प्रयोगं भुवि दुर्लभम् ॥ २५ ॥

येन विज्ञातमात्रेण साधको मदनायते ।
कामस्थं काममध्यस्थं कामोदरपुटीकृतम् ॥ २६ ॥

कामेन कामयेत् कामं कामं कामेषु निक्षिपेत् ।
कामेन कामितं कृत्वा कामस्थं क्षोभयेद् ध्रुवम् ॥ २७ ॥

प्रवक्ष्यामि समासेन शक्तिबीजस्य साधनम् ।
शक्तिबीजस्वरूपा तु सृष्ट्वा संहरते यदा ॥ २८ ॥

सृष्टिसंहारपर्यन्तं शरीरे परिचिन्तयेत् ।
ततो भवति देवेशि वैनतेय इवापरः ॥ २९ ॥

नागानां दर्शनाद् देवि जडीकरणकारकः ।
दाहिनाममृतासारधीरधाराधरोपमः ॥ ३० ॥

स्थिरकृत्रिमशङ्काख्यविषोपविषनाशनः ।
दुष्टव्याधिग्रहानीकडाकिनीरूपिकागणैः ॥ ३१ ॥

भूतप्रेतपिशाचाद्यैस्त्रिनेत्र इव दृश्यते ।
अथवा येन विद्येयं परिपूर्णा विचिन्त्यते ॥ ३२ ॥

जन्ममण्डलहृत्पद्ममुखमण्डलमध्यगा ।
केवलैव महेशानि पद्मरागसमप्रभा ॥ ३३ ॥

तस्याष्टगुणमैश्वर्यमचिरात् संप्रवर्तते ।
मनसा संस्मरत्यस्या यदि नामापि साधकः ॥ ३४ ॥

तदैव मातृचक्रस्य विदितो भवति प्रिये ।
यदैव ज्ञायते विद्या महात्रिपुरसुन्दरी ॥ ३५ ॥

तदैव मातृचक्राज्ञा संक्रामत्यस्य विग्रहे ।
सर्वासां सर्वसंस्थानां योगिनीनां भवेत् प्रियः ॥ ३६ ॥

पुत्रवत् परमेशानि ध्यानादेव हि साधकः ।
यदा तु परमेशानि परिपूर्णां प्रपूजयेत् ॥ ३७ ॥

प्रयच्छन्ति तदैवास्य खेचरी सिद्धिमुत्तमाम् ।
चतुःषष्टिर्यतः कोट्यो योगिनीनां महौजसाम् ॥ ३८ ॥

चक्रमेतत्समाश्रित्य संस्थिता वीरवन्दिते ।
आदौ सम्बन्धिनि पदे मध्ये बीजाष्टकं बहिः ॥ ३९ ॥

कुलाङ्गनाभोगरङ्गे जायतेऽनङ्गवत्प्रिये ।
करशुद्ध्यादिविद्यानामेकैकं परमेश्वरि ॥ ४० ॥

रुद्रयामलतन्त्रे तु कर्म प्रोक्तं मया पुरा ।
तद्ध्यानैर्मदनो भूत्वा पाशाङ्कुशधनुःशरैः ॥ ४१ ॥

क्षोभयेत् सुरलोकस्थाः पातालतलयोषितः ।
तथैव शाक्तैर्देवेशि त्रिपुरीकृतविग्रहः ॥ ४२ ॥

साधयेत्सिद्धगन्धर्वदेवविद्याधरानपि ।
तत्र शाक्ता महावज्रप्रस्तारजनिताः शराः ॥ ४३ ॥

मादनास्त्वादि परतः सर्वाधस्तान्नियोजिताः ।
आद्यन्तगो महापाशः पोरुषेयः प्रकीर्तितः ॥ ४४ ॥

रुद्रशक्तिः कुण्डलाख्या माया स्त्रीपाश उच्यते ।
तुरीयमरुणावर्गाद् द्वितीयमपि पार्वति ॥ ४५ ॥

पुंस्त्रीकोदण्डयुगलं कामाग्निव्यापकोऽङ्कुशः ।
* * * * * * * * * * * * * * * * ॥ ४६ ॥

इति । ज्ञानार्णवे (१४ प०) -

गोरोचनादिभिर्द्रव्यैश्चक्रराजं समालिखेत् ।
अतीव सुन्दरीं रम्यां तन्मध्ये प्रतिमां शुभाम् ॥ १ ॥

ज्वलन्तीं नामसहितां कामबीजविदर्भिताम् ।
चिन्तयेत्तु ततो देवि योजनैस्तु सहस्रशः ॥ २ ॥

अदृष्टपूर्वा देवेशि श्रुतमात्रापि दुर्लभा ।
राजकन्याप्यदृश्या च भयलज्जाविवर्जिता ॥ ३ ॥

आयाति साधकं सम्यङ्मन्त्रमूढा सती प्रिया ।
चक्रमध्यगतो भूत्वा साधकश्चिन्तयेद्यदा ॥ ४ ॥

उद्यत्सूर्यसहस्राभमात्मानमरुणं तथा ।
साध्यमप्यरुणीभूतं चिन्तयेत् परमेश्वरि ॥ ५ ॥

अनेन क्रमयोगेन स्वयं कन्दर्पविग्रहः ।
सर्वसौन्दर्यसुभगः सर्वलोकवशंकरः ॥ ६ ॥

सर्वरक्तोपचारैश्च मुद्रासन्धितविग्रहः ।
चक्रं प्रपूजयेद् यस्य नामरूपविदर्भितम् ॥ ७ ॥

स भवेद्दासवद्देवि धनाढ्यो वापि भूपतिः ।
चक्रमध्यगतं कुर्यान्नाम यस्यास्तु योषितः ॥ ८ ॥

अदृष्ट वा महेशानि योनिमुद्राधरो बुधः ।
हठादानयते शीघ्रं यक्षिणीं राजकन्यकाम् ॥ ९ ॥

नागकन्यामप्सरसं खेचरीं वा सुराङ्गनाम् ।
विद्याधरीं दिव्यरूपामृषिकन्यां रिपुस्त्रियम् ॥ १० ॥

मदनोद्भयसन्तापां स्फुरज्जघनमण्डलाम् ।
कामवाणविभिन्नान्तःकरणां लोलचक्षुषम् ॥ ११ ॥

महाकामकलाध्यानयोगात्तु सुरवन्दिते ।
क्षोभयेत् स्वर्गभूर्लोकपातालतलयोषितः ॥ १२ ॥

रोचनाभागमेकं तु एकं भागं तु कुङ्कुमम् ।
अथ भागद्वयं देवि चन्दनं मर्दयेत्समम् ॥ १३ ॥

एकत्र तिलकं कुर्यात्त्रैलोक्यवशकारिणम् ।
अष्टोत्तरशतावृत्त्या मन्त्रयित्वा वशं नयेत् ॥ १४ ॥

इति । शारदायाम् (प० १२ श्लो० ६५) -

भागद्वयं मलयजं भागं कुङ्कुमकेसरम् ।
एकं गोरोचनायाश्च तानि पिष्ट्वा हिमाम्भसा ॥ १ ॥

विदध्यात्तिलकं भाले यान् पश्येद्यैर्विलोक्यते ।
यान् स्पृशेत् स्पृश्यते यैर्वा वश्याः स्युस्तस्य तेऽचिरात् ॥ २ ॥

कर्पूरकपिचोराणि समभागानि कारयेत् ।
चतुर्भागा जटामांसी तावती रोचना मता ॥ ३ ॥

कुङ्कुमं सप्तभागं स्याद् द्विभागं चन्दनं मतम् ।
अगरुर्नवभागः स्यादिति भागक्रमेण तु ॥ ४ ॥

हिमाद्भिः कन्यकापिष्टमेतत्सर्वं सुसाधितम् ।
विधाय तिलकं भाले कुर्याद्भूमिपतीन नरान् ॥ ५ ॥

वनितां मदगर्वाढ्यां मदोन्मत्तान्मतङ्गजान् ।
सिंहव्याघ्रान् महासर्पान् भूतवेतालराक्षसान् ॥ ६ ॥

दर्शनादेव वशयेत् तिलकं धारयन्नरः ।
* * * * * * * * * * * * * * * * ॥ ७ ॥

इति । अन्यत्र -

समस्तमन्त्रकल्पोक्तैर्ध्यानहोमजपादिभिः ।
ये प्रयोगास्तु कथिताः सिद्ध्यन्त्येव न संशयः ॥ १ ॥

इति वचनात्मन्त्रान्तरेषु उक्तप्रयोगा अपि श्रीविद्याविषये विज्ञेयाः । अपि च -

तावदग्नो न होतव्यं तत्र तन्त्रोदितं यथा ।
यावदात्ममहावह्नौ मनःपूर्णाहुतिं हुनेत् ॥ १ ॥

स्वयं हि त्रिपुरा देवी लौहित्यं तद्विमर्शनम् ।
पाशाङ्कुशौ तदीयौ तु रागद्वेषात्मकौ स्मृतौ ॥ २ ॥

शब्दस्पर्शादयो बाणा मनस्तस्या भवेद्धनुः ।
वश्यप्रतीतिजनिकाः शक्तयश्च क्रमेण याः ॥ ३ ॥

पूर्वपश्चिमकौ द्वारौ प्राणापानात्मकौ स्मृतौ ।
कालाद्दामाभिभूतानि नवचक्राण्यनुक्रमात् ॥ ४ ॥

कर्मघीन्द्रियचक्रस्थां देवीं संवित्स्वरूपिणीम् ।
विह्वासहस्त पूष्पैस्तु पूजयेत्सर्वसिद्धये ॥ ५ ॥

इत्यादिवचनैरान्तरोपासना श्रेष्ठेति बोध्यते ॥ होम इत्युपलक्षणं जपादिनामप्यान्तरत्वमुक्तमेव तन्त्रान्तरेषु । प्रयोगाणामानन्त्याद् ग्रन्थबाहुल्यं मन्यमानेन दिङ्मात्रमेतत् प्रदर्शितम् । एतादृशानि कर्माणि यः कुर्यात् साधकोत्तमः । आत्मसंरक्षणार्थाय मृत्युञ्जयजपं चरेत् इति प्रायश्चित्तश्रवणात् प्रयोगाणामनिष्टोत्पादत्वमवधार्यते ।
तस्माद्विद्वद्भिर्निष्कामोपासना कर्तव्येति सिद्धम् ॥

अथाधिकारिणः कुलार्णवे -

निरस्तदेह (हेय) कर्माणो मानवाः पुण्यकर्मिणः ।
समुत्पन्नकुलज्ञाना भजन्ते मां दृढव्रताः ॥ १ ॥

पूर्णाभिषेकसहिता वेदशास्त्रार्थतत्त्वगाः ।
देवतागुरुभक्ताश्च नियताश्चार्चनप्रियाः ॥ २ ॥

कुलागमरहस्यज्ञा देवताराधनोत्सुकाः ।
गुरूपदेशसंयुक्ताः पूजयेयुः कुलेश्वरीम् ॥ ३ ॥

शुद्धात्मा चातिसंहृष्टः क्रोधलौल्यविवर्जितः ।
पैशुन्यतादिविमुखः सुमुखस्तर्पयेच्छिवाम् ॥ ४ ॥

कौलाः पशुव्रतस्थाश्चेत् पक्षद्वयविडम्बकाः ।
केशसंख्या स्मृता यावत्तावत्तिष्ठान्त रौरवे ॥ ५ ॥

इति । अन्यच्च -

लिङ्गत्रयविशेषज्ञः षडाधारविभेदकः ।
पीठस्थानानि चागत्य महापद्मवनं व्रजेत् ॥ ६ ॥

आमूलाधारमागत्य ब्रह्मरन्ध्रं पुनः पुनः ।
चिच्चन्द्रमण्डले शक्तिसामरस्यसुखोदयः ॥ ७ ॥

व्योमपङ्कजनिःष्यन्दसुधापानरतो नरः ।
मधुपो मांससम्भोक्ता त्वितरे मद्यपायिनः ॥ ८ ॥

पुण्यापुण्यपशुं हत्वा ज्ञानखड्गेन योगवित् ।
परे शिवे लयेच्चित्तं पलाशीति निगद्यते ॥ ९ ॥

मनसा चेन्द्रियगणं नियम्यात्मनि योजयेत् ।
मत्स्याशी स भवेद्देवि शेषास्तु प्राणिघातकाः ॥ १० ॥

अथाहन्तां तथासत्यं पैशुन्यं क्रोधमेव च ।
अन्नं नानाविधं चैतदेतानग्नौ जुहोति यः ॥ ११ ॥

कुलीनशेषभोक्ता स्यात् तदन्ये त्वघभोजिनः ।
पराशक्त्यात्ममिथुनसंयोगानन्दनिर्भरः ॥ १२ ॥

य आस्ते मैथुनं तत् स्यादपरः स्त्रीनिषेवकः ।
अप्रबुद्धा पराशक्तिः प्रबुद्धः कौलिकस्य या ॥ १३ ॥

शक्तिं तां सेवयेद्यस्तु स भवेच्छक्तिसेवकः ।
इत्यादिपञ्चमुद्राणां वासनां कुलनायिके ॥ १४ ॥

ज्ञात्वा गुरुमुखाद्देवि सेवते यः स उच्यते ।
* * * * * * * * * * * * * * * * ॥ १५ ॥

इति । अपि च मध्यानां मुखमुद्रादिकल्पनापरिकल्पनम् । ध्यानं शक्तिसमावेशः सा महत्सामरस्यता इत्यादि वचनैरान्तरोपासनानिष्ठितस्यैव च बाह्यपूजादिष्वधिकारो द्योत्यते नान्यस्य । अयमधिकारश्चातुर्वर्ण्यसाधारण्येनेति वचनानि पूर्वं प्रदर्शितानि । दक्षिणामूर्तिसंहितायाम् (३१ प० ३५ श्लो०) -

दीक्षितस्याधिकारोऽत्र नान्यस्य परमेश्वरि ।
पुस्तके लिखितं दृष्ट्वा स्वयं ज्ञात्वा करोति यः ॥ १ ॥

ब्रह्महत्यासुरापानस्वर्णस्तेयादि पातकैः ।
लिप्यते नात्र सन्देहो नरके निवसत्यसौ ॥ २ ॥

इति । अन्यत्रापि गुरुं विलंघ्य शास्त्रेऽस्मिनाधिकारः सुरेष्वपि इति ॥ अथ काम्यहोमविधिः । तत्रादौ तन्त्रोक्तपरिपाट्याग्निचक्रं विचार्य सौम्यक्रूरग्रहमुखेष्वाहुतिप्रवेशं विज्ञाय शुभग्रहमुखप्रवेशदिने शुभहोममशुभग्रहमुखप्रवेशदिने वाशुभहोमारम्भं कुर्यात् । तत्परिज्ञानप्रकारस्तु सूर्यस्थितनक्षत्रमारभ्य चन्द्रस्थितनक्षत्रपर्यन्तं गणयित्वा प्रतिग्रहं त्रीणि त्रीणि नक्षत्राणि सूर्यादिनवग्रहेभ्यो विभज्य दद्यात् ।
तत्रादौ सूर्यस्ततो बुधस्तत्तः शुक्रस्ततः शनैश्चरस्ततश्चन्द्रस्ततो भौमस्ततो गुरुस्ततो राहुस्ततः केतुरिति ग्रहाणां क्रमो ज्ञेयः । अत्र यस्य त्रिके होमारम्भस्तन्मुखे तदाहुतिप्रवेशः इत्यग्निचक्रपरिज्ञानप्रकारः ॥ अत्र सौम्यहोमे सूर्ये शोकः बुधे धनागमः शुक्रेऽभीष्टफललाभः शनौ पीडा चन्द्रे सौख्यं भौमे बन्धनं गुरौ धप्राप्तिः राहौ रोगः केतौ मृत्युरिति ग्रहाणां फलानि ॥

अथ स्वर्गमर्त्यपातालेषु वह्नेः स्थितिं विज्ञाय तत्फलानि च ज्ञात्वा काम्यहोमारम्भं कुर्यात् । तत्परिज्ञानप्रकारस्तु ।
प्रतिपदादिहोमतिथिपर्यन्तं गणयित्वा तथा सूर्यवारादि होमारम्भवारपर्यन्तं च गणवित्वोभयत्र लब्धसंख्याकानङ्कानेकोनत्रिंशाङ्कैर्मेलयित्वा जाताङ्कसमुदायं त्रिभिर्हृत्वावशिष्टाङ्क एकश्चेदग्निः स्वर्गे वसति द्वयं चेत् पाताले शून्यश्चेत् मर्त्यलोके (इति पावकस्थितिं विज्ञाय तत्फलानि निर्दिशेत् । तत्र स्वर्गस्थिते वह्नावुत्पातः पाताले धनक्षयो मर्त्यलोक) स्थिते सकललोकप्राप्तिः । इत्थं वह्निचक्रं विज्ञाय प्रागुक्ते मण्डपे प्रागुक्तद्वादशराशिस्थानगतेषु नवसु कुण्डेषु प्रागुक्तमङ्गलामङ्गलरूपेषु प्रागुक्तविधिनाग्निस्थापनं कृत्वा प्रागुक्तजिह्वाभेदान् विज्ञाय यथोक्तद्रव्यैर्यथाविधि जुहुयात् ॥ तत्र सौम्यहोमद्रव्याणि ज्ञानार्णवे (१७।१५२) -

मालतीजातिकामल्लिकुसुमैर्मधुमिश्रितैः ।
घृतपूर्णैर्हुनेद् देवि वागीशत्वं प्रजायते ॥ १ ॥

मूकस्यापि हि मूढस्य शिलारूपस्य नान्यथा ।
जपापुष्पैराज्ययुक्तैः करवीरैस्तथाविधैः ॥ २ ॥

हवनान्मोहयेन्मन्त्री लोकत्रयनिवासिनः ।
कर्पूरं कुंकुमं देवि मिश्रं मृगमदेन हि ॥ ३ ॥

हवनान्मदनो देवि मन्त्रिणा विजितो भवेत् ।
सौभाग्येन विलासेन सामर्थ्येनापि सुव्रते ॥ ४ ॥

चम्पकैः पाटलैर्हुत्वा श्रियं प्रोल्लसिताम्बराम् ।
प्राप्नोति मन्त्री महतीं स्तम्भयेज्जगतीमिमाम् ॥ ५ ॥

श्रीखण्डं गुग्गुलं चन्द्रमगुरु होमयेत् ततः ।
राजनागेन्द्रदेवानां पुरन्ध्रीर्वशमानयेत् ॥ ६ ॥

सर्वलोका वशास्तस्य भवन्त्येव न संशयः ।
लाक्षाहोमाल्लभेद्राज्यं दारिद्र्यभयपीडितः ॥ ७ ॥

दुर्गोपसर्गशमनं पलत्रिमधुहोमतः ।
दूरस्थितानां देवेशि गुरुणा प्रोक्तमार्गतः ॥ ८ ॥

होमः कार्यो वश्यकामैरन्यथा निष्फलं भवेत् ।
रुधिराक्तेन छागस्य मांसेन निशि होमतः ॥ ९ ॥

मधुरत्रययुक्तेन गुरुणोक्तविधानतः ।
परराष्ट्रं महादुर्गं समस्तं स्ववशं नयेत् ॥ १० ॥

महापलेन देवेशि रिपोः सैन्यं विनाशयेत् ।
खेचरो जायते रात्रौ कृत्वा होमं चतुष्पथे ॥ ११ ॥

क्षीरं मधु दधि त्वाज्यं पृथग् हुत्वा वरानने ।
आयुर्धनमहारोग्यसमृद्धिर्जायते नृणाम् ॥ १२ ॥

क्रमेण शैलजे क्षीरमधुभ्यां मृत्युनाशनम् ।
दधिमाक्षिकहोमेन सौभाग्यं धनमाप्नुयात् ॥ १३ ॥

सितया केवलं होमो वैरिस्तम्भनकारकः ।
कमलैररुणैर्होमः सम्यक् सम्पत्तिदायकः ॥ १४ ॥

रक्तोत्पलैर्जगद्वश्यं राजानो वश्यगाः क्षणात् ।
नीलोत्पलैर्महादुष्टा वशमायान्ति नान्यथा ॥ १५ ॥

श्वेतोत्पलैः श्रियं वाचं लभते हवनात्पिर्ये ।
श्वेतैस्तु होमात्कमलैर्लक्ष्मीं सौभाग्यमाप्नुयात् ॥ १६ ॥

कह्लारहवनान्मन्त्री सौभाग्यं च धनं लभेत् ।
पूर्णबदरहोमेन वशीकुर्यान्महीसुरान् ॥ १७ ॥

मातुलिऽऽगफलोद्भूतहोमेन क्षत्रिया वशे ।
नारङ्गफलहोमेन वैश्या वश्ता भवन्ति हि ॥ १८ ॥

कूष्माण्डफलहोमेन शूद्रा वश्यास्तथा परे ।
द्राक्षाफलैः सिद्धयोऽष्टौ लक्षहोमान्न संशयः ॥ १९ ॥

कदलीफलहोमेन लक्षमात्रेण भूभृतः ।
वश्याः स्युर्दशसंख्याका भवन्त्येव न संशयः ॥ २० ॥

खर्जूरीफलहोमेन लक्षमात्रेण भूभृतः ।
वश्या विंशतिसंख्याका इत्याज्ञा पारमेश्वरी ॥ २१ ॥

नारिकेलफलैर्होमात्समृद्धिर्जायते प्रिये ।
लक्षमात्रेण मन्त्रज्ञो राजापर इव प्रिये ॥ २२ ॥

पस्वाम्रफलहोमेन लक्षमात्रेण सुन्दरि ।
चतुः समुद्रपर्यन्ता मेदिनीं वशमानयेत् ॥ २३ ॥

पनसस्य फलैर्होमाल्लक्षेण शतभूभुजः ।
वश्या भवन्ति देवेशि नात्र कार्या विचारणा ॥ २४ ॥

तिलाज्यहोमाद् देवेशि कार्यसिद्धिर्भवेत्प्रिये ।
राजिकालवणाभ्यां तु दुष्टलोकान् वशं नयेत् ॥ २५ ॥

कुंकुमेन हुतेदेवि त्रैलिक्यं वशमानयेत् ।
गुग्गुलस्य च होमेन सर्वदुःखानि नाशयेत् ॥ २६ ॥

वैरिणो वशगाः शीघ्रं चन्दनस्यापि होमतः ।
रक्तचन्दनहोमेन वश्या हि पुरुषाः स्त्रियः ॥ २७ ॥

कर्पूरस्य च होमेन वाग्वश्यं जायते नृणाम् ।
कस्तूरिहोमतो देवि राजानो राजमन्त्रिणः ॥ २८ ॥

वश्या भवन्ति सकलाः परिवारयुताः प्रिये ।
तिलतण्डुलहोमेन शान्तिर्भवति मन्दिरे ॥ २९ ॥

शर्करागुडहोमेन सितायुक्तेन मन्त्रिणः ।
त्रैलोक्यं वशमायाति धान्यसिद्धिमवाप्नुयात् ॥ ३० ॥

नानाविधास्रहोमेन धान्यसिद्धिर्भवेद् ध्रुवम् ।
सोपस्करैश्च वटकैरुपसर्गान् विनाशयेत् ॥ ३१ ॥

बन्धूककुसुमैर्होमात् सर्वसत्त्वान् वशं नयेत् ।
जपापुष्पैर्जगद्वश्यं बाणपुष्पैश्च मोहनम् ॥ ३२ ॥

वकुलस्य हुनेत् पुष्पैः सौभाग्यं जायते महत् ।
दशाङ्गधूपहोमेन सौभाग्यमतुलं लभेत् ॥ ३३ ॥

इति । कुलमूलावतारे -

मांसी शिवा कौशिकसर्जमज्जाभागाः समं वृक्षरुजः क्रमार्धम् ।
शैलेयमुस्ताकरजं च कुष्ठं सर्वार्थखण्डः कथितो दशाङ्गः ॥

इति । तथा -

जम्बूफलैः स्त्रीयो वश्याः कूष्माण्डैर्दैत्यकन्यकाः ।
श्रीफलैरतुला लक्ष्मीः पत्रैर्वा सुरवन्दिते ॥ ३४ ॥

इक्षुखण्डैः सुखावाप्तिस्तद्रसाद्राजकन्यकाः ।
वश्या भवन्ति देवेशि नारिकेलजलेन वा ॥ ३५ ॥

केवलं घृतहोमेन वरदाः सर्वशक्तयः ।
* * * * * * * * * * * * * * * * ॥

इति । तथा तन्त्रराजे - (३२ प०)

अथ होमं प्रवक्ष्यामि ललिताविद्या शिवे ।
येन मर्त्योऽपि भुवने प्रख्यातो देवतासमः ॥ १ ॥

तद्विधानं शृणु प्राज्ञे द्रव्यकालादिभेदतः ।
प्रोक्तेषु नवकुण्डेषु ततकर्मसु चोदिते ॥ २ ॥

जुहुयादुक्तमार्गेण तत्राग्निध्यानपूर्वकम् ।
शुक्लप्रतिपदारम्भात्पूर्णान्तं कमलैर्हुनेत् ॥ ३ ॥

कैरवैर्हवनात् तेषु दिनेषु श्रियमाप्नुयात् ।
मधुरत्रयसंसिक्तैः पुष्पैरप्यरुणैः शुभैः ॥ ४ ॥

अखण्डितैरब्दमात्रान्नरो नृपतिसन्निभः ।
तेष्वेव दिवसेष्वब्जैः सितैस्तद्धवनाद् घृतैः ॥ ५ ॥

कह्लारैर्हवनात्तेषु दिनेषु धनधान्यवान् ।
तथैवोत्पलहोमेन श्रियमाप्नोति पुष्कलाम् ॥ ६ ॥

अरुणैरुत्पलैर्होमात्कन्यकां समवाप्नुयात् ।
केतकैर्हवनात्तेषु दिनेषु श्रियमाप्नुयात् ॥ ७ ॥

सौभाग्यं कीर्तिमारोग्यमवामोत्यर्चनादपि ।
तैः षड्भिः कुंकुमक्षोदाप्लुतैस्तद्दिनहोमतः ॥ ८ ॥

अचलां च श्रियं प्राप्य सुखी जीवति भूतले ।
तैश्चन्दनाक्तैर्हवनात्तद्दिनेषु यथाविधि ॥ ९ ॥

पुत्रदासीदासयुतश्चिरं जीवति मानवः ।
तैरेवेन्दुद्रवाक्तैस्तु होमात्कन्दर्पसन्निभः ॥ १० ॥

नारीजनैः सह नरो दीर्घायुर्बहु जीवति ।
कृष्णप्रतिपदारम्भाद् दर्शान्तं जुहुयाच्च तैः ॥ ११ ॥

वृत्ताक्तैरब्दमात्रेण निःसपत्नां लभेच्छ्रियम् ।
तेष्वेव दिवसेष्वग्नो गुडैः क्षौद्राप्लुतैर्हुनेत् ॥ १२ ॥

कान्तिलक्ष्मीजयारोग्ययुतो जीवति भूतले ।
द्राक्षाभिर्दुग्धसिक्ताभिस्तद्दिनैर्हवनान्नरः ॥ १३ ॥

क्षीराहारी चिरं भूमौ जीवत्यकलुषाशयः ।
खर्जूरीफलहोमेन त्रिमध्वक्तेन तद्दिनैः ॥ १४ ॥

आयुरारोग्यविजयसम्पन्नां श्रियमश्नुते ।
कदलीफलहोमेन तथा तद्दिवसेषु च ॥ १५ ॥

पुण्यकीर्तिर्नृपैर्मान्यो जिवेद्वर्षशतं सुखी ।
नारिकेलफलक्षोदैः सिताक्षौद्रसमन्वितः ॥ १६ ॥

हवनात्तद्दिनैरिष्टमखिलं समवाप्नुयात् ।
तैरिक्षुवारिसंसिक्तैर्हवनात्तद्दिनेषु वै ॥ १७ ॥

वासांसि नानावर्णानि महार्हाणि लभेत् सः ।
सर्वैश्च तैस्त्रिमध्वक्तैर्हवनाच्छ्रियमाप्नुयात् ॥ १८ ॥

तैः सवत्ससितागव्यपयोक्तैर्हवनादपि ।
महिषीक्षीरसंसिक्तैर्होमादिष्टमवाप्नुयात् ॥ १९ ॥

अजाक्षीरप्लुतैस्तैश्च तथाविक्षीरसंप्लुतैः ।
नारिकेलफलक्षोदक्षीराक्तैरपि तैर्हुनेद् ॥ २० ॥

तथा द्वादशभिर्द्रव्यैरेकैकैः संहतैस्तथा ।
नित्यशो हवनाद् दुग्धक्षौद्रसर्पिः समन्वितैः ॥ २१ ॥

(सम्पन्नसस्यां पृथिवीमवाप्नोति स निश्चितम्) ।
गोभूहिरण्यवासोभिः समृद्धो जीवति क्षितौ ॥ २२ ॥

रविरारे सितान्नैस्तु क्षीराक्तैर्हवनात्तथा ।
अब्दादन्नसमृद्धिः स्याद् घृताक्तैर्वा मधुप्लुतैः ॥ २३ ॥

सोमवारे सितोपेतैर्नारिकेलफलैर्हुतैः ।
सम्पन्नशस्यां पृथिवीमवाप्नोति सुनिश्चितम् ॥ २४ ॥

अङ्गारवारे क्षौद्राक्तैरन्नैर्होमाच्छ्रियं लभेत् ।
तैरिष्टभूमृण्मिलितैर्हवनात्तां महीं लभेत् ॥ २५ ॥

बुधवारे घृताक्तैस्तु होमेन तिलतण्डुलैः ।
श्रियं सकलकल्याणनिलयां लभतेऽब्दतः ॥ २६ ॥

गुरुवारे दुग्धसिक्तैः पनसास्थिपरागकैः ।
जुहुयादब्दमात्रेण लभते गेहमुत्तमम् ॥ २७ ॥

सितवारे नारिकेलक्षोदैः सितसमन्वितैः ।
गुडान्वितैर्वा जुहुयात्श्रिया सुचिरमेधते ॥ २८ ॥

शनिवारे तैलसिक्तैस्तिलैः शुद्धैस्तथेतरैः ।
हवनाअल्लभते लक्ष्मीमब्दादतिमनोहराम् ॥ २९ ॥

तैः समस्तैः समस्ताक्तैर्जुहुयात्सप्तसु क्रमात् ।
तद्दिनैरिन्दिराढ्यः स्याद्विद्याहवनवैभवात् ॥ ३० ॥

तत्तद्दिनेषु तद्भक्त्या द्वौ द्वौ त्रींस्त्रीन् सुभोजयेत् ।
घृतक्षीरसिताक्षौद्रगुडापूपसमन्वितम् ॥ ३१ ॥

अश्विन्यादिषु ऋक्षेषु नवस्वपि हुनेत्क्रमात् ।
शालिभिस्तण्डुलैर्मुद्गैर्माषैर्गौरेतरैस्तिलैः ॥ ३२ ॥

तथाविधैः सर्षपैश्च कोद्रवैरिन्दिराप्तये ।
क्षौद्रसर्पिस्तिलैर्दुग्धकेरोन्देक्षुरसाप्लुतैः ॥ ३३ ॥

महिष्यजाविकाक्षीरप्लुतैस्तैर्नवसु क्रमात् ।
मघादिषु तथा होमं नवभिः स्यान्नवस्नपि ॥ ३४ ॥

चणकैश्चणकान्नैश्च मुदगान्नैः कृसरैस्तथा ।
माषान्नैश्च हरिद्रान्नैर्गुडान्नैः पायसैरपि ॥ ३५ ॥

सुसिद्धान्नैस्त्रिमध्वक्तैः कीर्तिलक्ष्मीजयाप्तये ।
तथा मूलादिनवके नवभिर्जुहुयात्तथा ॥ ३६ ॥

पृथुकैः सक्तुभिर्लाजैरिक्षुकाण्डैः पयः प्लुतैः ।
शालीचणकमुद्गोत्थैर्माषपिष्टतिलोद्भवैः ॥ ३७ ॥

अपूपैर्मधुराभ्यक्तैर्विजयं कीर्तिमिन्दिराम् ।
आरोग्यमायुः सौभाग्यं मान्यतां च लभेद् ध्रुवम् ॥ ३८ ॥

सिद्धयोगेषु यद्द्रव्यैर्जुर्हुयात्तत्समृद्धिमान् ।
तथामृताख्ययोगेषु जुहुयाद्रोगशान्तये ॥ ३९ ॥

गुडूचीतिलदूर्वाभिस्त्रिमध्वक्ताभिरादरात् ।
उच्चयोगेषु जुहुयादरुणैरुत्पलैरपि ॥ ४० ॥

उच्चैर्भवति सर्वेषां स्वकुलानां सुनिश्चितम् ।
पर्वताख्ये हुनेद्योगे यद्द्रव्यैस्तद्द्धि पर्वतम् ॥ ४१ ॥

भवेदस्याचिरेणैव कालेन परमेश्वरि ।
अथान्यमद्भुतं होममाकर्णय वदामि ते ॥ ४२ ॥

स्वक्षेत्रगे स्वोच्चगे वा जुहुयाद् ग्रहतृप्तये ।
पायसैर्घृतसिक्तैस्तु सितामिश्रैस्तु विद्यया ॥ ४३ ॥

सर्वदा यो हुतविधिमेनं कुर्याद्यथाविधि ।
तत्तत्प्रोक्तेषु कालेषु ग्रहार्तिः स्यान्न तत्कुले ॥ ४४ ॥

मसेषु जन्मत्रितये होमं कुर्याद्यथाविधि ।
दूर्वामृतातिलैर्नित्यं यावज्जीवं सुखी भवेत् ॥ ४५ ॥

तद्दिनेषु जपेद्विद्यां सहस्रं दिननित्यया ।
न तस्य कुत्रचित्कश्चित्कदाचित्क्लेशसम्भवः ॥ ४६ ॥

तर्पणं कारयेच्चन्द्रवासितैर्मधुरैर्जलैः ।
सौरभाढ्यैः प्रसूनैश्च पूजयेद्वापि तद्दिने ॥ ४७ ॥

(अवन्ध्यजन्मत्रितयं स्यात्कदाचिन्न मान्त्रिकः ?) ।
यदि स्यात्तस्य रोगादिपीडा भवति निश्चितम् ॥ ४८ ॥

उच्चस्थे वा स्वराशौ वा स्थिते चन्द्रे दिवाकरे ।
विद्यां जपेत्सहस्रं वा शतं वा पूजयेच्छिवाम् ॥ ४९ ॥

यस्तस्य रोगतो वाधा कदाचिन्न भवेद्ध्रुवम् ।
तस्मादुक्तेषु कालेषु तथा कुर्वन् सुखी भवेत् ॥ ५० ॥

ग्रहरोगादिदारिद्र्यक्लेशयुक्तस्य मन्त्रिणः ।
मान्त्रिकत्वं भवेल्लोके शोकहासास्पदं भवेत् ॥ ५१ ॥

पलाशपुष्पैश्च फलैः पत्रैः काण्डैश्च मूलकैः ।
हवनादब्दमात्रेण वाग्मी स्यात्कुण्ठवागपि ॥ ५२ ॥

अर्कपुष्पैस्त्रिमध्वक्तैर्होमादिष्टमवाप्नुयात् ।
मण्डलात्तस्य पत्रैश्च समिद्भिरपि मूलतः ॥ ५३ ॥

विल्वप्रसूनैस्तु फलैः पत्रैः काण्डैस्तथा हुनेत् ।
मूलैश्च लक्ष्मीसंसिद्ध्यै मा तदन्वयगा भवेत् ॥ ५४ ॥

पद्माक्षैर्मधुराभ्यक्तैर्होमात्तावद्दिनैर्नरः ।
इन्दिरां लभते रम्यां सर्वलोकचमत्कृताम् ॥ ५५ ॥

चम्पकैर्मधुसंमिश्रैर्जुहुयात्तद्दिनावधि ।
आढ्यः स्यादप्रजाः पुत्रानवाप्नोति गुणान्वितान् ॥ ५६ ॥

तैरेवाज्यप्लुतैर्होमान्मङ्गले तूच्चसंस्थिते ।
लभेत सर्वसस्याढ्यां भुवं भोक्ता च जायते ॥ ५७ ॥

तैः क्षीराक्तैर्हुतैश्चन्द्रे स्वोच्चगे तद्दिनैर्भवेत् ।
शतगुः साधकस्तद्वत्त्रिमध्वक्तैर्लभेत्त्रयम् ॥ ५८ ॥

पाटलैः क्षौद्रसंसिक्तैर्होमान्कन्यामवाप्नुयात् ।
तगरोत्थैरपि तथा लाजैश्च कुटजैरपि ॥ ५९ ॥

तैः क्षीरमिश्रैर्हवनाच्चतुर्भिर्लभते धनम् ।
अम्बराणि विचित्राणि महार्हाणि च तद्दिनैः ॥ ६० ॥

शतपत्रैस्त्रिमध्वक्तैर्होमाल्लक्ष्मीमवाप्नुयात् ।
केसरैश्च कदम्बैश्च कुन्दैर्विचकिलैरपि ॥ ६१ ॥

मल्लिका मालती जाती पुन्नागैश्च नमेरुभिः ।
जुहुयात्प्रथमारम्भे पञ्चम्यन्तं मधुप्लुतैः ॥ ६२ ॥

एकैकशः समस्तैश्च महालक्ष्मीमवाप्नुयात् ।
तैरेव क्षीरमिलितैर्होमात्स्वर्णमवाप्नुयात् ॥ ६३ ॥

तथाज्याक्तैश्च हवनाल्लभते भूषणैः श्रियम् ।
प्रसूनैः कर्णिकारोत्थैः क्षौद्राक्तैर्हवनाद्दिनैः ॥ ६४ ॥

उदितैरचलां लक्ष्मीमवाप्नोति सुनिश्चितम् ।
कह्लारै रक्तकुमुदैरुत्पलैः कमलद्वयैः ॥ ६५ ॥

प्राग्वन्नन्दादिपूर्णान्तमेकैकैर्वाथ पञ्चभिः ।
हवनाल्लभते लक्ष्मीं सभूभूषणवाहनाम् ॥ ६६ ॥

त्रिमध्वक्तेस्तथैकैकैः सर्वेर्वा साधकोत्तमः ।
केतकीकुसुमैः क्षौद्रप्लुतैर्होमाच्च तद्दिनैः ॥ ६७ ॥

वासांसि लभते चित्राण्यनर्घाणि बहून्यपि ।
सितैः प्रसूनैः क्षीराक्तैर्होमादाप्नोति तद्दिनैः ॥ ६८ ॥

सितानि वासांसि तथा मुक्तादामानि रूप्यकम् ।
हुनेन्मरुवकैः क्षौद्रप्लुतैर्वाञ्छितसिद्धये ॥ ६९ ॥

तथा दमनकैः पत्रैर्हवनाच्छ्रियमश्नुते ।
यद्वर्णानि प्रसूनानि जुहुयाद्विद्यया प्रिये ॥ ७० ॥

तद्वर्णान्येव वासांसि लभते साधको ध्रुवम् ।
मरिचैः सर्षपैस्तैलप्लुतैर्होमान्निशातु वै ॥ ७१ ॥

लज्जामानकुलत्यागलोलामिष्टां समानयेत् ।
पाटलीकुन्दमन्दारशेफालिकुसुमोद्भवैः ॥ ७२ ॥

चम्पकाशोकपुंनागनमेरुकुसुमैः शुभैः ।
हवनाद्वशयेत्सर्ववनिताः क्षौद्रसंप्लुतैः ॥ ७३ ॥

तैरेवाज्यप्लुतैर्होमाद् वशयेत्पुरुषानपि ।
ते राज्यलक्ष्मीं लभते घृताक्तैर्हवनान्निशि ॥ ७४ ॥

समस्तजीवभुवनं वशयेत्तैः सितान्वितैः ।
अनैर्घृताप्लुतैर्नित्यं हवनादन्नवान् भवेत् ॥ ७५ ॥

तथैव जुहुयान्नित्यमायुषे तिलतण्डुलैः ।
मध्यरात्रे तु लवणैः सुश्लिष्टपरिचूर्णितैः ॥ ७६ ॥

त्रिमध्वक्तैर्हुतैः सर्वान्वशयेदङ्गनाजनान् ।
तथा दध्यन्वितैर्लोणैर्होमाद् द्वेष्यं वशं नयेत् ॥ ७७ ॥

तथा पुण्ड्रेक्षुतोयाक्तैर्हुतैः स्युर्वशगा नृपाः ॥ आज्यैस्तु केवलैर्होमाद् दिनैरुक्तैर्धनी भवेत् ॥ ७८ ॥

नित्यशो घृतहोमेन श्रीमान् भोगो च जायते ।
स्नातोऽनुलिप्तः स्रग्वी च सितगन्धस्रगम्बरः ॥ ७९ ॥

सम्पूज्य देवीं तुष्टात्मा संस्कृते हव्यवाहने ।
सवत्सायाः सिताया गोः पयसि द्विगुणे पचेत् ॥ ८० ॥

प्रस्थमात्रं तण्डूलं तु शालिजं सितमेव च ।
सितदुग्धघृतोपेतं कृत्वा वैसिक्थकं महत् ॥ ८१ ॥

गृहीत्वा पाणिना विद्यां जपित्वा शतवारकम् ।
श्रियं मे देवि देहीति प्रोक्त्वा काष्ठोज्ज्वलेऽनले ॥ ८२ ॥

हुत्वा समाप्य पूजां तु तथा भुक्त्वा तु तद्दिनम् ।
मौनी तु गमयेदब्दात् श्रियं प्राप्नोति पुष्कलाम् ॥ ८३ ॥

निरन्तरं नित्यशश्च जुहुयाच्चेत्तदन्वयम् ।
न कदापि रमा मुञ्चत्यद्भुता मन्त्रशक्तयः ॥ ८४ ॥

पायसैर्जुहुयात् पूर्णास्वर्कवारेषु साधकः ।
निवेदयेच्च पूजायामब्दादाढ्यतमो भवेत् ॥ ८५ ॥

सवत्सारुणवर्णाया गोः क्षीरान्नवनीतकम् ।
तद्दिनान्नं तु कह्लारप्रसूने निक्षिपेत्ततः ॥ ८६ ॥

तदुद्धृत्य हुनेदग्नौ भौमवारे तदुच्चके(गे) ।
काले तावद्दिनैर्लक्ष्मीं भूषा(म्या)ढ्यां लभते ध्रुवम् ॥ ८७ ॥

तथा धवलरूपाया नवनीतं सिताम्बुजे ।
निधायादाय मौनेन हुनेदग्नौ भृगोर्दिने ॥ ८८ ॥

सप्तवारप्रयोगेण महतीमाप्नुयाच्छ्रियम् ।
नृपमान्यां सर्वहृद्यां नानाभोगान्वितां शुभाम् ॥ ८९ ॥

तथारुणासमुद्भूतनवनीतं रवेर्दिने ।
निधाय विकचे पद्मे कर्णिकायां ततस्तु तत् ॥ ९० ॥

जुहुयादष्टभिर्वारैराढ्यः स्यात् साधकः शिवे ।
कर्णिकारस्य पुष्पाणि तथा चम्पकजान्यपि ॥ ९१ ॥

जुहुयान्नवनीताक्तान्युच्चे स्वोच्चगते गुरौ ।
निरातङ्कामहार्ययां च राजचौरापहारकैः ॥ ९२ ॥

प्राप्नोति महतीं लक्ष्मीं ता तदन्वयगामिनी ।
केवलं नवनीतेन सितोपेतेन होमतः ॥ ९३ ॥

कीर्तिलक्ष्मीधनारोग्यविजयैरायुराप्नुयात् ।
बन्धूकैः किंशुकैश्चूतैस्त्रिमध्वक्तैर्हुतक्रिया ॥ ९४ ॥

सौभाग्यलक्ष्मीविजयकान्तिप्रज्ञावहा भवेत् ।
दध्यन्नहोमादन्नाढ्यः साधकः स्यात् त्रिमासतः ॥ ९५ ॥

आद्रेषु तालपत्रस्य खण्डेषु निजवांछितम् ।
विलिख्य नवनीतेन समेतं जुहुयान्निशि ॥ ९६ ॥

मण्डलान्मासतो वारात् प्राप्नोत्येव स्ववाञ्छितम् ।
तथा पलाशपर्णेषु विलिख्य दरदैर्हुनेत् ॥ ९७ ॥

कुंकुमैश्चूतपत्रेषु लिखित्वा वा हुनेन्निशि ।
चन्दनैः पानसे पत्रे विलिख्य जुहुयात्तथा ॥ ९८ ॥

पक्षक्षोदैर्विलिख्येष्टं नागवल्लीदलेषु तैः ।
हुतैरवाप्नोति निजवाञ्छितं प्रोक्तकालतः ॥ ९९ ॥

कस्तूरीलिखितं त्विष्टं पत्रे चम्पकभूरुहैः ।
तैर्हुतैस्तदवाप्नोति तद्दिनैस्तद्विधानतः ॥ १०० ॥

एलालवङ्गकक्कोलजातीफलसमन्वितैः ।
सितैरालिख्य च स्वेष्टं पत्रे पद्मसमुद्भवे ॥ १०१ ॥

जुहुयात्तस्य संसिद्ध्यैर्बहुभिः किमिहोदितैः ।
नासाध्यमस्ति भुवने विद्याहोमैरुदीरितैः ॥ १०२ ॥

इति । अथ क्रूरहोमः । तत्र तन्त्रराजे (३१ प०) -

सूक्ष्मं परं च होमं ते कथितं परमेश्वरि ।
इदानीं स्थूलहोमं तु कथयाम्यरिमर्दनम् ॥ १ ॥

तत्तत्कर्मोदिते कुण्डे कुर्यद्धोममुदीरितैः ।
विधानैर्द्वेषनिधनरोगनिग्रहचाटनम् ॥ २ ॥

आयुर्दायं रिपोर्ज्ञात्वा लग्नोक्तर्क्षानुकूलतः ।
तदात्मकग्रहाणां च स्थितिमष्टकवर्गकम् ॥ ३ ॥

त्रयाणामानुकूल्ये न कुर्यात्तदभिचारकम् ।
अन्यथा क्रूरकर्माणि कुर्वाणं नाशयन्ति हि ॥ ४ ॥

तान्येव कर्माणि ततस्तत्त्रयप्रातिकूल्यतः ।
कुर्यात् तद्देवताभक्तिमास्तिक्यं वर्तनं गुरुम् ॥ ५ ॥

तत्पार्श्ववर्तिमन्त्रज्ञानालोच्य रिपुनिग्रहम् ।
विदध्यादन्यथा शक्ति नैष्फल्यं वात्मनाशनम् ॥ ६ ॥

रिपोरष्टमलग्ने च काले त्वष्टमराशिगे ।
स्थाने कुर्यादनिष्टानि तद्विनाशाय साधकः ॥ ७ ॥

प्राच्यांमेषवृषौ वह्नौ मिथुनं दक्षिणे तथा ।
कुलीरसिंहमथ तन्निर्-ऋत्यां कन्यका स्थिता ॥ ८ ॥

तुलाकीटौ पश्चिमतो धनुर्वायौ तु संस्थितम् ।
नक्रकुम्भावुत्तरतो मीन ईशे तु सुस्थितम् ॥ ९ ॥

एवं राशिक्रमं ज्ञात्वा कुर्यात् कर्माणि देशितः ।
काले तु पञ्च पञ्चस्युर्घटिकाः क्रमयोगतः ॥ १० ॥

चैत्रादिषु च मासेषु द्वादशस्वपि भास्करः ।
मेषादिराशिगो याति तथान्यैर्ग्रहमण्डलैः ॥ ११ ॥

देहेषु प्राणिनां तद्वदष्टांगुलिविभेदतः ।
मूर्द्धांदिचरणान्तं तु तान् द्वादशसु लक्षयेत् ॥ १२ ॥

त्रयाणामानुगुण्येन कुर्यात् कर्माणि नान्यथा ।
शुभाशुभानि कर्माणि फलन्त्येवं कृते ध्रुवम् ॥ १३ ॥

तथाहनि विषस्थानान्यमृतस्थानकानि च ।
ज्ञात्वा विदध्यात्पुत्तल्याः प्रयोगं सर्वतस्तथा ॥ १४ ॥

सिते हृदिं स्तनगले नासाक्षिणि तथा श्रुतौ ।
भ्रूशङ्खमूर्धमध्येषु तत्र भ्रूशङ्खमध्यतः ॥ १५ ॥

कर्णे नेत्रे नासिकायां वर्तते पुरुषस्य तु ।
सव्यकण्ठे स्तनतटे हृदि नाभौ च गुह्यके ॥ १६ ॥

जानुसन्ध्यंघ्रिपार्श्वेषु तथांगुष्ठे च दक्षिणे ।
अङ्गौ सन्धौ जानुगुह्ये नाभौ चेति सितेतरे ॥ १७ ॥

तिष्ठेद्विकला पुंसि स्त्रियां वामादि वर्तते ।
विषनाड्यां विषस्थाने वेधयेत्कण्ठकेन तु ॥ १८ ॥

संकोचकाख्येन तथा तीव्रेणास्थिमयेन वै ।
बदरादिसमुत्थैर्वा तथायः सारसूचिभिः ॥ १९ ॥

पुत्तल्यां यत्र तद्विद्धं तदङ्गंशत्रुदेहजम् ।
व्याधिना पीडितं कालादविधेयं भवेद् ध्रुवम् ॥ २० ॥

तत्र तेनार्तिना क्लिष्टो जीवितेशपुरं व्रजेत् ।
पुत्तलीकरणं वक्ष्ये शृणु निग्रहसिद्धये ॥ २१ ॥

भौमशुक्रबुधाश्चन्द्रो भास्करः सौम्यभार्गवौ ।
मङ्गलो गुरुमन्दार्किगुरवोंऽशकराशिपाः ॥ २२ ॥

नक्षत्राणि चतुष्पादान्येवष्टोत्तरं शतम् ।
एतावत्यश्च पुत्तल्यस्त्वंशकक्रमयोगतः ॥ २३ ॥

प्रथमे नवके चन्द्रभास्करांशकयोः क्रमात् ।
षोडश द्वादश तथा मानमंगुलिसंख्यया ॥ २४ ॥

अन्यांशकेषु सर्वाश्च चतुर्दश समीरिताः ।
द्वितीये नवकेऽन्येषामध्यर्धाः स्युस्त्रयोदश ॥ २५ ॥

तृतीये नवकेऽन्येषां त्रयोदश समीरितम् ।
चन्द्रार्कयोरेकविधः प्रोक्तसंख्याक्रमस्तथा ॥ २६ ॥

पुत्तलीकरणे द्रव्यं चक्रिहस्तमृदान्वितम् ।
चितामृद्भस्मलवणं शुण्ठीपिप्पलिकायुतम् ॥ २७ ॥

मरिचं गृहधूमं च लशुनं हिंगुसैन्धवम् ।
गैरिकं चेति कथितं पुत्तलीद्रव्यमीश्वरि ॥ २८ ॥

साध्यक्षैः पिष्टैश्च माषचूर्णैश्च सिक्थकैः ।
वैरिदेहजरोमाद्यैरुपेतैः पुत्तलीक्रिया ॥ २९ ॥

पुत्तलीदैर्घ्यमानं तु कृत्वाष्टांशमथैकतः ।
शीर्षे त्रयात् कटेरूर्ध्वं त्रयात् पादद्वयं तथा ॥ ३० ॥

कटिप्रपदयोरेकर्मशमेवं तु पुत्तलीम् ।
विधाय तन्त्रे सर्वत्र प्रयोगानाचरेत्ततः ॥ ३१ ॥

पातालयोगे नीचाख्ये विषयोगे च मृत्युजे ।
नाशयोगे च दिनजमृत्यौ क्रकचयोगके ॥ ३२ ॥

चण्डीशचण्डायुधके महाशूले च काणके ।
रक्तस्थूणे कण्टकाख्ये स्थूणे पञ्चार्कसंज्ञके ॥ ३३ ॥

कुर्यात् प्रयोगान् प्रत्यर्थिभङ्गाय मरणाय च ।
निग्रहाय निरीक्ष्यैव कुर्यात् सिद्धिमवाप्नुयात् ॥ ३४ ॥

वश्याकर्षणविद्वेषस्तम्भनोच्चाटमारणे ।
विदध्यात् पुत्तलीः सम्यक् चतस्रः प्रोक्तयोगतः ॥ ३५ ॥

पिष्टेन सिक्थेन तथा चक्रिहस्तमृदापि च ।
साध्यनक्षत्रवृक्षेणाप्युक्तलक्षणसंयुताः ॥ ३६ ॥

आसने पादयोः स्थाने कुण्डमध्ये च साधकः ।
विष्टमृत्तरुजाः खात्वा स्थापयेत् सिक्थमम्बरे ॥ ३७ ॥

कुण्डमध्यादुपर्यूर्द्धपदां न्यच्छीर्षिकामपि ।
एवं साधारणं कृत्वा कुर्यात् कर्म समीरितम् ॥ ३८ ॥

इति । अथैतेषां विषमपदव्याख्या तत्र निग्रहशब्दो युद्धादिषु पराजयविषयः । आयुर्दायमित्यादिनाशनमित्यन्तानां चतुर्णां श्लोकानामयमर्थः रिपोरभिचारकाले ज्योतिःशास्त्रे होरास्कन्धोक्तप्रकारेण तस्य तात्कालिनायुर्दायं गोचराष्टकवर्गेषु ग्रहाणां स्थितिं च विचार्यैतत्त्रयानुकूल्ये सति तस्याभिचारकर्म कुर्यात् तत्प्रातिकूल्ये तु न कुर्यात् । तमनवेक्ष्य क्रियमाणानि क्रूरकर्माणि यतः कुर्वाणमेव नाशयन्ति अतः सर्वथा निरीइक्ष्यैवं कुर्यात् इति । अथ च शत्रोर्देवताभक्तिमास्तिक्यमाचारं गुरुं तत्पार्श्ववर्तिनो मान्त्रिकानपि ज्ञात्वा तेषामानुभावादिकं तद्विद्भिरालोच्य तत्प्राबल्ये सति तदभिचारादिकं न कुर्यादिति ॥

रिपोरित्यादिश्लोकस्यायमर्थः तत्र शत्रोर्जन्मर्क्षराशेश्चन्द्रलग्नराशेर्वाष्टमे लग्ने तदुदयकाले वक्ष्यमाणद्वादशराशिस्थानेषु रिपोरष्टमराशिगे स्थाने तद्विनाशाय कर्म कुर्यादिति ॥

प्राच्यामित्यादिश्लोकद्वयस्यायमेवार्थः ।
तत्राभिचारादिकर्मकरणार्थं रचिते मण्डपादौ चतुरस्त्रीभूते नवधा विभक्ते पूर्वदिग्गतखण्डे उत्तरदक्षिणे क्रमेण मेषवृषयोः स्थानद्वयम् आग्नेययां मिथुनस्य दक्षिणे पूर्वपश्चिमक्रमेण कर्कसिंहयोः नैर्-ऋत्यां कन्यायाः पश्चिमे दक्षिणोत्तरक्रमेण (तुलावृश्चिकयोः वायव्यां धनुषः उत्तरे पश्चिमपूर्वक्रमेण मकर) कुम्भयोः ईशाने मीनस्येति ।
सुस्थितमित्यनेन कालचक्रस्थराशिचक्रवन्न भ्रमतीत्युक्तम् ॥

एवमित्यादिश्लोकस्यायमर्थः उक्तक्रमेण देशेषु राशिस्थितिक्रमं ज्ञात्वा कालेऽपि सूर्याधिष्ठितराश्यादितः प्रतिराशि पञ्चपञ्चघटिका भ्रमयोगेन द्वादशराश्युदयकालेऽपि ज्ञात्वा क्रूरकर्माणि कुर्यादिति । राशीनां न्यूनाधिकभावस्तु देश (काल) योर्वैषम्याद् गणितशास्त्रेषूक्तः तदत्राप्रयोजकमिति ॥

चैत्रादिष्वित्यस्य श्लोकस्यायमर्थः चैत्रादिषु सौरमासेषु मेषाद्येकैकराशिभुक्तिक्रमेण ज्योतिःशास्त्रे तत्तद्ग्रहपरिवृत्ति प्रोक्तकालविशेषैश्चन्द्रादिग्रहमण्डलैः सह सूर्यो यातीति ॥

देहेष्वित्यादिश्लोकस्यायमर्थः समस्तप्राणिनां देहेषु मेषादिमीनान्तक्रमेण अष्टांगुलक्रमेण द्वादशस्थानेषु द्वादश राशीन् लक्षयेदिति ।

त्रयाणामित्याद्यस्यायमर्थः देशकालदेहात्मकानामानुकूल्येन वक्ष्यमाणकर्माणि कृतानि फलदानि भवन्तीत्यन्यथा न भवन्तीति ॥

तथेत्यादिश्लोकस्यायमर्थः तत्राहनि प्रयोगदिवसे तथेत्यमृतस्थानकानीत्यत्रान्वयः । तानि तु पादांगुष्ठपदगुल्फजानुलिङ्गनाभिहृत्स्तनगलनासाक्षिकर्ण- भ्रूशङ्खमूर्धाख्यानि एतेषु स्थानेषु शुक्लपक्षे पूर्वं (पुरुष) दक्षिणपादांगुष्ठमारभ्य मूर्धान्तं तत्पार्श्वस्थेषु पञ्चदक्षसु प्रोक्तेषु स्थानेषु तत्प्रथमादिपूर्णान्तं पञ्चदशसु तिथिषु प्रतितिथि एकस्मिन् स्थाने एका कलेति यथाक्रममारोहक्रमादमृतकलायाः स्थितिर्भवति । कृष्णपक्षे तु शिरोवामभागादिवामपादांगुष्ठान्तेषु प्रोक्तेषु पञ्चदशसु स्थानेषु पूर्णानन्तरं प्रतिपदमारभ्यामावास्यान्तं पञ्चदशसु तिथिषु प्रतितिथि यथाक्रममवरोहणक्रमेणामृतकलास्थितिर्भवति । स्त्रीणां तु शिरोदक्षिणभागादि दक्षिणांगुष्ठान्तं प्रोक्तेषु पञ्चदशसु स्थानेषु पूर्णानन्तरं प्रतिपदादिदर्शान्तं पञ्चदशसु तिथिषु प्रतितिथि यथाक्रममवरोहक्रमेण अमृतकलास्थितिर्भवति ।
दक्षपादांगुष्ठादिशिरोदक्षिणभागान्तेषु प्रोक्तेषु पञ्चदशसु स्थानेषु दर्शानन्तरं प्रतिपदमारभ्य पूर्णान्तपञ्चदशसु तिथिषु प्रतितिथि यथाक्रममारोहक्रमेणामृतकलायाः स्थितिर्भवति ॥ विषस्थानानि वक्ष्यमाणानि ।

सितेत्यादिसार्धत्रयश्लोकस्यार्थः तत्र शुक्लपक्षप्रथमा (तिपदा)दिदर्शान्तासु त्रिंशत्तिथिषु पुरुषाणां दक्षिणभागे हृदयादिमूर्धान्तेषु नवसु स्थानेषु पुनस्तद्वामपार्श्वे मूर्धादिपादांगुष्ठान्तं पञ्चदशसु स्थानेषु पुनर्दक्षिणपादांगुष्ठादिनाभ्यन्तं षट्सु स्थानेषु च सम्भूय त्रिंशत्स्थानेषु च स्त्रीणां तु तत्तत्तिथिषु तत्तत्स्थानेषुदक्षिणवामपार्श्वव्यत्ययक्रमेण विषपरिवृत्तिर्भवतीति ॥

विषनाड्यामित्यादिसार्धत्रयश्लोकस्यार्थः तत्र सप्तविंशतिनक्षत्रेषु प्रतिनक्षत्रं ज्योतिःशास्त्रे प्रोक्तविषात्मकनाडीचतुष्टयकाले शत्रुप्रतिकृतिरूपपुत्तल्या देहे प्रोक्तविषस्थाने सङ्कोचकाख्यमत्स्यविशेषस्य देहोत्थतीव्रास्थ्ना बदरादिकण्टकैर्वा वेधात् शत्रोस्तत्तदङ्गव्याधिपीडातः प्रयोगस्य गौरवलाघवादिना शीघ्रं विलम्बेन वा मृत्युर्भवतीति ॥

भौमेत्यादिश्लोकस्यायमर्थः तत्रार्किः शनैश्चरः । भौमादयो ग्रहा मेषादिद्वादशराशीनामश्विन्यादित्रिभिर्नक्षत्रोद्भव- द्वादशद्वादशांशकानां च क्रमेणाधिपतय इत्यर्थः ॥

नक्षत्राणीत्यस्य श्लोकस्यार्थः अश्विन्यादिसप्तविंशतिनक्षत्राणि प्रतिनक्षत्रं चतुश्चरणक्रमेणाष्टोत्तरशतचरणैरष्टोत्तरशतांशका भवन्ति तेषामष्टोत्तरशतपुत्तलिका भवन्ति ॥

प्रथमेत्यादिश्लोकत्रयस्यायमर्थः तत्राश्विन्याद्यश्लेषान्तनवनक्षत्रांशकेषु सूर्यसोमयोरंशकपुत्तलीनां क्रमेण द्वादशांगुलं षोडशांगुलं च मानं भवति । भौमादीनां चतुर्दशांगुलमानं मघादिज्येष्ठान्तद्वितीयनवकांशकानां सोमसूर्ययोः प्राग्वद्भौमादीनां सार्धत्रयोदशांगुलमानं मूलादिरेवत्यन्ततृतीयनवकांशकानां भौमादिनां त्रयोदशांगुलमानं सूर्यसोमयोः प्राग्वत् ॥

पुत्तलीकरणे इत्यादिश्लोकत्रयस्यार्थः तत्र चक्रिहस्तमृत् कुलालहस्तमृत् चितामृद्भस्मसहितं लवणं च शुण्ठ्यादिचूर्णितं लशुनं रसोनरस साध्यर्क्षवृक्षः साध्यनक्षत्रवृक्षः सिक्तकं मधूच्छिष्टं शत्रुदेहजरोमाद्यैरित्याद्यशब्देन तन्नखपादपर्शु च गृह्यते । अत्रायं निर्गलितार्थः ।
शत्रुनक्षत्रवृक्षेणैका पुत्तली कार्या कुलालहस्तमृत्तिकयेतरा माषपिष्टेनापरा मधूच्छिष्टेन चेतरा इति चतस्रः पुत्तल्यः सर्वकर्मसु कार्याः । तत्र क्रूरकर्मणि शुण्ट्यादिद्रव्याष्टकं चिताभस्मादिभस्म शत्रुदेहरोमादीनि च यथायोग्यं चूर्णीकृतानि मृत्तिकायां पिष्टे मधुच्छिष्टे च मेलयित्वा पश्चात् तत्तत्पुत्तलिका कार्येति ।

पुत्तलीदैर्घ्यमानमित्यादिश्लोकद्वयस्यार्थः तत्र तत्तदंशकोक्तपुत्तलीदैर्घ्यांगुलमानमष्टधा विभज्य तेष्वेकांशेन कण्ठादूर्ध्वमंशेन कटिप्रदेशमंशत्रयेण पार्ष्णिभागादूर्ध्वमर्धांशेन प्रपदादिशेषाङ्गं च कुर्यादिति ॥

सर्पशीर्षस्रुचा होमं कुर्यादशुभकर्मसु ।
वैरियोन्यसृजा कृत्वा चत्वरे जुहुयात् तथा ॥ ३९ ॥

त्रिकोणकुण्डे यमदिङ्मुखो भूत्वार्धरात्रके ।
श्मशाने निर्जने देशे विदध्यादभिचारकम् ॥ ४० ॥

यत्राभिचारहोमं तु करोति भुवि साधकः ।
तत्राभितो नृपो रक्षां कारयेदात्मसिद्ध्ये ॥ ४१ ॥

नचेदरातिर्नृपतिश्चारैर्ज्ञात्वा निहन्त्यमुम् ।
स्वराष्ट्रसन्धौ कुर्वीत न कुर्वीत स्वमण्डले ॥ ४२ ॥

यदि कुर्यात्प्रमादेन मान्त्रिकोऽज्ञानमोहितः ।
तद्राष्ट्रं पीडयन्त्येव शनकैर्वैरिभूभृतः ॥ ४३ ॥

अक्षद्रुमसमिद्धेऽग्नौ तत्फलैश्च करञ्जकैः ।
हैमीदलरसाक्तैस्तु होमाच्छत्रून् विनाशयेत् ॥ ४४ ॥

नक्तमालसमिद्धेऽग्नौ तत्फलैर्वा तथा हुनेत् ।
रिपुरुग्रोऽपि रोगार्तः प्रयाति यमसादनम् ॥ ४५ ॥

उन्मत्तकाष्ठैः प्रज्वाल्य वह्निं तद्वीजकैर्हुनेत् ।
तत्पत्राम्बुप्लुतैर्मासादरातिर्भ्रान्तिमाप्नुयात् ॥ ४६ ॥

आरग्वधसमिद्धेऽग्नौ तत्समिद्द्भिश्च तत्फलैः ।
वितस्तिमात्रैस्वैलाक्तैहैवनाद्वैरिणो मृतिः ॥ ४७ ॥

अरुष्करसमिद्धेऽग्नौ तद्वीजैस्तद्घृताप्लुतैः ।
होमादरातेस्तीव्रेण ज्वरेण स्यात्मृतिर्ध्रुवम् ॥ ४८ ॥

सौवीराक्तैश्च कार्पासवीजैर्होमात्तु मण्डलात् ।
अरातीनामथान्योन्यकलहान्निधनं भवेत् ॥ ४९ ॥

सर्षपाज्याप्लुतैः शुण्ठीमागधीमरिचाइर्हुनेत् ।
वैरिजन्मर्क्षवृक्षाग्नौ मण्डलात्तन्मृतिर्ज्वरात् ॥ ५० ॥

प्रागुक्तैः पुत्तलीं कृत्वा द्रव्यैरुक्तविधानतः ।
सर्षपारुस्करघृतसंसिक्तैर्जुहुयान्निशि ॥ ५१ ॥

प्राग्वद् हुत्वा तदङ्गैस्तु क्रुद्धचित्तोऽरुणाम्बरः ।
रक्तस्रग्गन्धपुष्पाक्तैर्होमाच्छत्रून् विनाशयेत् ॥ ५२ ॥

अरुष्करघृताभ्यक्तैस्तद्वीजैः सर्पशीर्षकैः ।
हवनाद्वैरिणो दाहज्वरप्राप्तिस्त्रिभिर्दिनैः ॥ ५३ ॥

वैरिनक्षत्रयोन्युत्थमांसैस्तद्रक्तसंप्लुतैः ।
हवनात्तत्तरूद्भूतसमिधा हवनादपि ॥ ५४ ॥

दिनैः कैश्चिद्रिपुः क्लिष्टो नाशमेति सुनिश्चितम् ।
द्रुमकुड्यनिपातेन निर्घातेनापि खड्गतः ॥ ५५ ॥

सलिले पावके सर्पदंशान्मत्तद्विपाद् गदात् ।
यक्षराक्षसगन्धर्वपिशाचैर्ब्रह्मराक्षसैः ॥ ५६ ॥

अन्यैर्वा कारणैः क्षिप्रं नाशमेति रिपुर्ध्रुवम् ।
निम्बपत्रैश्च कार्पासबीजैस्तत्काष्ठकाण्डजैः ॥ ५७ ॥

हवनात् सर्षपस्नेहसिक्तैर्विद्वेषणं भवेत् ।
नीचयोगे हुनेद्वह्नौ रिपुवृक्षसमेधिते ॥ ५८ ॥

तद्वृक्षखण्डैस्तैलाक्तैर्निशामध्ये रिपुर्दिनैः ।
उच्चाटितः प्रयात्येव मन्त्रशक्त्याभिताडितः ॥ ५९ ॥

मृत्युपत्रैश्च तत्काष्ठैस्तद्वीजैस्तच्छुचौ हुनेत् ।
अरातेर्दन्तिनो वाहा रोगैर्नश्यन्ति निश्चितम् ॥ ६० ॥

गैरिकैः पुत्तलीं कृत्वा रिपोरष्टराशिके ।
प्रागुक्तकण्टकाद्यैस्तु यदङ्गं विधयेच्छनैः ॥ ६१ ॥

विषनाड्यां विषस्थाने तथैव यमकण्टके ।
अर्धप्रहरके शीर्षे प्रहरे वा शनैः शनैः ॥ ६२ ॥

अरातेस्तत्तदङ्गे स्यान्निधनं प्रहरादिना ।
ग्रन्थिभिर्वा कण्टकादिक्षतवृद्धिविदारणैः ॥ ६३ ॥

तन्नक्षत्रोक्तवृक्षोत्थपुत्तलीं स्थापितेरकाम् ।
गर्दभीमेहसलिले संस्थाप्य क्वाथयेच्छनैः ॥ ६४ ॥

रिपुर्दाहज्वरग्रस्तः शनैर्याति यमालयम् ।
मधूच्छिष्टेन तां कृत्वा तापयेन्निशि तां शनैः ॥ ६५ ॥

तेनोन्मादज्वरग्रस्तः प्रयाति निधनं शनैः ।
तां तत्कण्टकविद्धाङ्गीं खनेत् पितृगृहे निशि ॥ ६६ ॥

क्षणात् पिशाचाविष्टश्च रिपुर्याति यमालयम् ।
प्रागुक्तैरेव तद्द्रव्यैरशेषैः पुत्तलीं तथा ॥ ६७ ॥

निर्माय कुण्डमध्ये तां खात्वा रातिमहोरुहैः ।
समिद्धेऽग्नौ तत्समिद्भिस्तैलाक्तैर्जुहुयान्निशि ॥ ६८ ॥

सन्निपातज्वरस्तस्य वक्रजिह्नोऽतिमूढधीः ।
प्रलपन् शनकैर्दैहं त्यजन् याति यमालयम् ॥ ६९ ॥

तथाविधां तां प्रतिमां निखनेत्कृष्णपक्षके ।
नवम्यङ्गारदिवसे मातृगेहेऽग्रपीठके ॥ ७० ॥

सप्ताहान्निधनं वैरी प्रयाति निशि ताडितः ।
भूताद्यैः शिरसि स्वीये निर्धातवदलक्षितम् ॥ ७१ ॥

सर्षपं माषचूर्णं च तिलं शालिजतण्डुलम् ।
पिष्ट्वा साध्यर्क्षवृक्षस्य शकलैरपि संयुतम् ॥ ७२ ॥

एरण्डबीजैर्मिलितं कृत्वा पुत्तलिकां ततः ।
तद्वक्षोऽन्तर्निधायारिनाम तालस्य पत्रगत् ॥ ७३ ॥

सञ्जप्य तां स्पृशन् विद्यां तार्तीयप्रतिलोमतः ।
सहस्रवारं साध्यस्य वधर्क्षेऽष्टमराशिगे ॥ ७४ ॥

निबध्य तां पादयोस्तु भानुवृक्षोत्थतन्तुना ।
गृहीत्वा जीवहस्तेन तां जपन्निक्षिपेच्छुचौ ॥ ७५ ॥

हुत्वाग्नौ तैः सहस्रं तु तामूर्ध्वांघ्रिमवाङ्मुखीम् ।
तद्दिने तापतृष्णादिविह्वलेन ज्वरेण सः ॥ ७६ ॥

ग्रस्तदेहो लुठन् भूमौ विसंज्ञः प्रलपन् मुहुः ।
प्रयाति निधनं तूर्णं प्रयोगबलतः शिवे ॥ ७७ ॥

साध्यर्क्षवृक्षसम्भृतां पुत्तलीमर्कदुग्धतः ।
वज्रीक्षीरेण वालिप्तां बद्धां प्राग्वदधोमुखीम् ॥ ७८ ॥

साध्यनामादिसंयुक्तां कुण्डादूर्ध्वं प्रलम्बयेत् ।
जुहुयात्तत्समिद्भिस्तु तत्क्षिराक्तैर्निशान्तरा ॥ ७९ ॥

ज्वरार्तिः स्यादरातेस्तु त्रिभिरेव दिनैस्ततः ।
यद्यस्ति तस्य रक्षेच्छा तां तडागोदरे खनेत् ॥ ८० ॥

जम्बालमध्ये तेनास्मात्सौख्यं तस्य शनैः शनैः ।
तथा यदि न कुर्वीत चिरं रोगात्मको भवेत् ॥ ८१ ॥

तथा तामामभाण्डे तु निवेश्याङ्गारवासरे ।
चण्डिकायतने खात्वा तद्योनिं पुरतो बलिम् ॥ ८२ ॥

निहत्य दत्त्वारातिं तु निहन्यादुपसर्गकैः ।
स्वगेहे चुल्यधः खात्वा तदुपर्यग्निवर्धनात् ॥ ८३ ॥

अविच्छिन्नमरातेः स्याज्ज्वरादिगदसम्भवः ।
तां तथा कॢप्तरूपां तु रुरुजङ्घास्थिसंयुताम् ॥ ८४ ॥

निबध्य पूर्वसूत्रेण द्विषद्गेहे खनेन्निशि ।
राशौ तदष्टमे मासात्प्रयात्युच्चाटितोऽन्यतः ॥ ८५ ॥

तथाविधं पुत्तलिकायुगं कृत्वोक्तमार्गतः ।
बिडालमूषिकाचर्मनद्धं साध्याख्यया युतम् ॥ ८६ ॥

निखनेत्तिरयोर्नद्याः पितृगेहेऽथवा ततः ।
मातृगेहे नदीपूर्त्यां विद्वेषः स्याद्द्वयोः सदा ॥ ८७ ॥

ता एव प्राग्वदुत्पाद्य साध्याख्यादिसमन्विताः ।
तद्विद्याजपसिद्धास्ताः खनेदरिगृहे पुनः ॥ ८८ ॥

मध्येऽष्टदिक्षु तु तथा तत्कुलोत्सादनं भवेत् ।
एवं निकटवर्तीनामभिचार उदीरितः ॥ ८९ ॥

दूरस्थितानां द्विषतां कथं स्यादभिचारकम् ।
वदामि ते शृणु प्राज्ञे सुदूरस्थस्य वैरिणः ॥ ९० ॥

विनाशने प्रयोगं तु क्षिप्रमप्यभिचारकम् ।
येनारिर्निकटस्थात्तु प्रागेव निधानं व्रजेत् ॥ ९१ ॥

साध्यर्क्षवृक्षै पुत्तलिका विधायाष्टौ शतं क्रमात् ।
ताः प्राग्वदिरितक्षीरद्वयासिक्ताः ससंज्ञकाः ॥ ९२ ॥

तत्तदंशकमानापधनास्ताः मध्यरात्रतः ।
एकमेकां हुनेर्द्वैरिदिङ्मुखस्ता अशेषतः ॥ ९३ ॥

तत्तदंशककाले वा सुदूरस्थोऽपि नाशभाक् ।
कथं वा मान्त्रिकबली निहन्तुं शक्यतां व्रजेत् ॥ ९४ ॥

तच्छृणु त्वं शिवे वच्मि प्रकारं तस्य निग्रहे ।
तैर्मान्त्रिकैस्तस्य पूर्वं विद्वेषं कारयेत्ततः ॥ ९५ ॥

तद्द्विष्टे निधनं तस्मिन् सुशक्यं स्यादनाश्रयात् ।
भाग्यादिकं महारक्षाकरं मान्त्रिकसंगतम् ॥ ९६ ॥

राजानं राजपुत्रं वा कथं हन्यात्प्रयोगतः ।
तन्मे कथय देवेश यद्युपायस्तु विद्यते ॥ ९७ ॥

वदामि ते शृणु प्राज्ञे त्वमोघं घोरविग्रहम् ।
अभिचारमरातीनामाशु नाशकरं परम् ॥ ९८ ॥

सिद्धमन्त्रानतिस्रिग्धान् षोडशातिस्थिराशयान् ।
तैरविच्छिन्नरूपं तु होमयेद्यामदिक्क्रमात् ॥ ९९ ॥

तेन तन्निधनं भूयाद्रक्षितस्याप्ययत्नतः ।
अरातिनिधनं कुर्यादेवमुक्तविधानतः ॥ १०० ॥

अथ काम्यहोमद्रव्याणां मानम् । ज्ञानार्णवे - ( १७ प०)

शृणु देवि प्रवक्ष्यामि मानं हवनसिद्धिदम् ।
पुष्पं समग्रं जुहुयात्कमलं चापि पुष्कलम् ॥ १ ॥

कुसुम्भबाणपुष्पाणि यथेष्टानि हुनेत्प्रिये ।
शतसंख्या राजिकाः स्युस्तिलाश्च शतसंख्यया ॥ २ ॥

लाजा मुष्टिप्रमाणाः स्युर्घृतं गान्धारमात्रकम् ।
(चुल्लकार्धं दधिक्षीरमन्नं ग्रासमितं भवेत् ॥ ३ ॥

स्थूलं फलं महेशानि कूष्माण्डं मातुलिङ्गकम् ।
मनः प्रियैश्च खण्डैश्च फलं भवति निश्चयात्) ॥ ४ ॥

रम्भाफलं चतुःखण्डं लघु चेत्खण्डितं नहि ।
नारिकेलस्य खण्डं हि स्थूलं कुर्यान्मनः प्रियम् ॥ ५ ॥

पर्वस्थाने चेक्षुदण्डं मनः सन्तोषकारकम् ।
द्राक्षाफलं समग्रं स्यान्नारङ्गं खार्जूरं तथा ॥ ६ ॥

गुग्गुलुः क्रमुकार्धं तु कुंकुमं च तथा भवेत् ।
गुञ्जासमं तु कर्पूरं कस्तूरी घुसृणं तथा ॥ ७ ॥

चन्दनं चागुरु देवि क्रमुकेण समं भवेत् ।
मनः प्रियाहुतीः कृत्वा होमं कुर्यात्सुलोचने ॥ ८ ॥

एतदाहुतिमानं ते कथितं सर्वसिद्धिदम् ।
यथेच्छया वरारोहे श्रीविद्यां परितोषयेत् ॥ ९ ॥

इति । तथा शारदातिलके - (५ प० १४१ श्लो०)

कर्षमात्रं घृतं होमे शुक्तिमात्रं पयः स्मृतम् ।
(उक्तानि पञ्चगव्यानि तत्समानि मनीषिभिः ॥ १ ॥

तत्समं मधु दुग्धान्नमक्षमात्रमुदाहृतम् ।) दधि प्रसृतिमात्रं स्याल्लाजाः स्युर्मुष्टिसम्मिताः ॥ २ ॥

पृथुकास्तत्प्रमाणाः स्युः सक्तवोऽपि तथोदिताः ।
गुडः पलार्धमानः स्याच्छर्करापि तथा मता ॥ ३ ॥

ग्रासार्धं चरुमानं स्यादिक्षुः पर्वमितः स्मृतः ।
एकैकं पत्रपुष्पाणि तथापूपानि कल्पयेत् ॥ ४ ॥

कदलीनागरङ्गाणां फलान्येकैकशो विदुः ।
मातुलिङ्गं चतुःखण्डं पनसं दशधाकृतम् ॥ ५ ॥

अष्टधा नारिकेलानि खण्डितानि विदुर्बुधाः ।
विधाकृतं बिल्वफलं कपित्थं खण्डितं त्रिधा ॥ ६ ॥

उर्वारुकफलं होमे कथितं खण्डितं त्रिधा ।
फलान्यन्यान्यखण्डानि समिधः स्युर्दशांगुलाः ॥ ७ ॥

दूर्वात्रयसमादिष्टं गुडूची चतुरंगुला ।
ब्रीहयो मुष्टिमात्राः स्युर्मुद्गा माषा यवा अपि ॥ ८ ॥

तण्डुलाः स्युस्तदर्धांशाः कोद्रवा मुष्टिसम्मिताः ।
गोधूमा रक्तकमला विहिता मुष्टिमानतः ॥ ९ ॥

तिलाश्चुलुकमात्राः स्युः सर्षपास्तत्प्रमाणकाः ।
शुक्तिप्रमाणं लवणं मरिचान्यपि त्रिंशतिः ॥ १० ॥

पुरं बदरमानं स्याद्रामठं तत्समं स्मृतम् ।
चन्दनागुरुकर्पूरकस्तूरीकुंकुमानि च ॥ ११ ॥

तिन्तिडीबीजमानानि समुद्दिष्टानि देशिकैः ।
* * * * * * * * * * * * * * * * ॥

इति । कर्षलक्षणमुक्तं सारसंग्रहे मासो दश गुञ्जाः स्यात् षोडशमाषो निगद्यते कर्षः । इति । तैलस्याप्येतदेव परिमाणम् । शुक्तिः कर्षद्वयं (प्रसृतिमात्रं) पलद्वयमात्रं मुष्टिः पलं पलार्धं कर्षद्वयम् ग्रासार्धमशीतिरक्तिकामितमिति । तदुक्तं पिङ्गलामते -

गुञ्जाभिर्दशभिर्माषः शाणो माषचतुष्टयम् ।
द्वौ शाणौ घटकः कोलो बदरं द्रक्षणश्च सः ॥ १ ॥

तौ द्वौ पाणितलं कर्षः सुवर्णं कवलग्रहः ।
पिचुबिंडालपदकं तिन्दुकोऽक्षश्च तद्द्वयम् ॥ २ ॥

शुक्तिरष्टात्मिका ते द्वे पलं बिल्वं चतुर्थिका ।
मुष्टिराम्रं प्रगुञ्जोऽथ द्वे पले प्रसृतिस्तथा ॥

इति मातुलुङ्गं बीजपूरं । उर्वारुकं कर्कटी । तदर्धांशाः शुक्तिमिताः । चुलुकमात्राः पाणितलप्रमाणाः कर्षमात्रा इत्यर्थः ।
पुरं गुग्गुलुः । बदरमानमशीतिगुञ्जामितं । रामठं हिंगुः ।
तथा नारदपञ्चरात्रे -

तृतीयं खण्डमूलानां ह्रस्वानि स्वप्रमाणतः । इति । शैवागमेऽपि -

खण्डत्रयं स्यान्मूलानां सूक्ष्माण्येवं च होमयेत् ।
कन्दानामष्टमं भागं लतानामंगुलद्वयम् ॥ १ ॥

इति । अय समिधः । नारदपञ्चरात्रे -

समित्प्रादेशमात्रेण समच्छेदान्विता तथा ।
विशीर्णा द्विदला ह्रस्वा वक्राः स्थूलाः कृशा द्विधा ॥ १ ॥

क्रिमिदष्टाश्च दीर्घाश्च निस्त्वचः परिवर्जिताः ।
विशीर्णायुःक्षयं कुर्याद् द्विदला व्याधिसम्भवम् ॥ २ ॥

ह्रस्वया मृत्युमाप्नोति वक्रा विघ्नकरी मता ।
स्थूलाभिहरते लक्ष्मीं कृशायां जायते क्षयः ॥ ३ ॥

द्विधायां नेत्रदोषाः स्युः कीटदष्टार्थनाशिनी ।
द्वेषं प्रकुरुते दीर्घा प्राणघ्न्यो निस्त्वचः स्मृताः ॥ ४ ॥

सक्षीरा नाधिकन्यूनाः समिधः सर्वकामदाः ।
आर्द्रत्वचा समच्छेदा तर्जन्यंगुलिवर्तुला ॥ ५ ॥

ईदृशीं होमयेत्प्राज्ञः प्राप्नोति विपुलां श्रियम् ।
श्रोते स्मार्ते च तन्त्रोक्ते समिधः परिकीर्तिताः ॥ ६ ॥

इति । तथा वायवीयसंहितायाम् -

ताः पालाश्यः परा वापि याज्ञीया द्वादशांगुलाः ।
अवक्राश्चाप्यशुष्काश्च सत्वचो निर्व्रणाः समाः ॥ १ ॥

दशांगुला वा विहिताः कनिष्ठांगुलिसम्मिता ।
प्रादेशमात्रा वालाभे होतव्याः सकला अपि ॥ २ ॥

इति ॥ अथ काम्यहोम(जप) विधिः । तत्र ज्ञानार्णवे - (१७ प०)

चक्रं समर्चयेद्देवि सकलं नियतव्रतः ।
बाह्यमध्यगतं वापि मध्यं वा चक्रमर्चयेत् ॥ १ ॥

उपचारैः समाराध्य सहस्रं प्रजपेच्छुचिः ।
तदग्रे संस्थितो मन्त्री ततोऽनन्तफलं लभेत् ॥ २ ॥

ध्यात्वाथवा चक्रराजमन्तः पूजासमन्वितम् ।
जपारम्भं सुधीः कुर्यान्महापातकहा भवेत् ॥ ३ ॥

निगदेनोपांशुना वा मानसेनाथ वा जपेत् ।
निगदः परमेशानि स्पष्टंवाचा निगद्यते ॥ ४ ॥

अव्यक्तस्तु स्फुरदोष्ट उपांशुः परिकीर्तितः ।
मानसस्तु वरारोहे चिन्तनान्तररूपवान् ॥ ५ ॥

निगदेन तु यज्जप्तं लक्षमात्रं वरानने ।
उपांशूचारितैकेन तुलं भवति शैलजे ॥ ६ ॥

उपांशुर्लक्षमात्रं तु यज्जप्तं कमलेक्षणे ।
मानसोच्चारणात्तुल्यमेकेन परमेश्वरि ॥ ७ ॥

मुद्रासन्नद्धयोगः सन् पूर्वोक्तध्यानयोगतः ।
लक्षमात्रं जपेद्यस्तु सर्वपापैः प्रमुच्यते ॥ ८ ॥

लक्षद्वयेन पापानि सप्तजन्मभवान्यपि ।
महापातकमुख्यानि नाशयेन्नात्र संशयः ॥ ९ ॥

ततो लक्षत्रयं जप्त्वा यन्त्रमात्रकलेवरः ।
महापातककोटीस्तु नाशयेन्नात्र संशयः ॥ १० ॥

चतुर्लक्षजपे देवि महावागीश्वरो भवेत् ।
कुबेर इव देवेशि पञ्चलक्षान्न संशयः ॥ ११ ॥

षड्लक्षजपमात्रेण महाविद्याधरो बह्वेत् ।
सप्तलक्षजपान्मन्त्री खेचरीमेलको भवेत् ॥ १२ ॥

अष्टलक्षजपान्मन्त्री देवपूज्यो भवेन्नरः ।
अणिमाद्यष्टसिद्धिनां नायको भवति प्रिये ॥ १३ ॥

वश्या भवन्ति राजानो योषितस्तु विशेषतः ।
नवलक्षप्रमाणं हि जपेत्त्रिपुरसुन्दरीम् ॥ १४ ॥

रुद्रमूर्तिः स्वयं कर्ता हर्ता साक्षान्न संशयः ।
सर्वैर्वन्द्यः सदा स्वस्थः सर्वसौभाग्यवान् भवेत् ॥ १५ ॥

इति ॥ अथ कूटत्रयस्य पृथक् साधनविधिः ज्ञानार्णवे (१९ प० २ श्लो०)

एषा विद्या वारारोहे पारम्पर्यक्रमागता ।
भवबन्धं नाशयन्ती संस्मृता पापहारिणी ॥ १ ॥

जपान्मृत्युजयं शान्तिं ध्यानात् सर्वार्थसाधनी ।
दुःखदौर्भाग्यदारिद्र्यभयघ्नी पूजिता भवेत् ॥ २ ॥

महाघौघप्रशमनी स्मरणान्नात्र संशयः ।
पृथग्बीजत्रयस्याहं साधनं कथयामि ते ॥ ३ ॥

शुक्लाम्बरधरो वीरो गन्धकस्तूरिमण्डितः ।
मुक्ताफलस्फुरद्भूषाभूषणः शुभ्रमाल्यधृक् ॥ ४ ॥

शुभ्रमन्दिरसम्विष्टो ब्रह्मचर्यसमन्वितः ।
पूजयेत् शुभकुसुमैर्नैवेद्यमपि चोज्ज्वलम् ॥ ५ ॥

पायसं दुग्धसम्पूर्णं तथामृत्फलौदनम् ।
घृतगोलकसम्पन्ननानाशुभ्रान्नपूरितम् ॥ ६ ॥

नैवेद्यं दर्शयेद् दैव्यै वागीश्वर्यै सुरेश्वरि ।
मनः संकल्पशुद्धो वा साधयेन्मोक्षवाङ्मयम् ॥ ७ ॥

वाग्भवाख्यां जपेद्विद्यां वागीषीं संस्मरन् बुधः ।
कर्पूरधवलां शुभ्रपुष्पाभरणभूषिताम् ॥ ८ ॥

अत्यन्तशुभ्रवदनां वज्रमौक्तिकभूषणाम् ।
मुक्ताफलामलमणिजपमालालसत्कराम् ॥ ९ ॥

पुस्तकं वरदानं च दधतीमभयप्रदाम् ।
एवं ध्यायेन्महेशानि सर्वविद्याधरो भवेत् ॥ १० ॥

मूलादि ब्रह्मरन्ध्रान्तं स्रवत्पीयूषवर्षिणीम् ।
तस्माज्ज्योतिर्मयीं ध्यायेज्जिह्वाग्रेऽमृतरूपिणीम् ॥ ११ ॥

पाषाणेन समो वापि मूर्खो जीवसमो भवेत् ।
अथ कामकलासक्तः साधकः परमेश्वरि ॥ १२ ॥

रक्तालङ्कारसुभगो रक्तगन्धानुलेपनः ।
रक्तवस्त्रावृतः सम्यङ्मध्ये कामकलात्मकम् ॥ १३ ॥

रक्तपुष्पैश्च विविधैः कुंकुमादिभिरर्चयेत् ।
मूलादिब्रह्मरन्ध्रान्तां स्फुरद्दीपस्वरूपिणीम् ॥ १४ ॥

बन्धूककुसुमारक्तकान्तिभूषणभूषिताम् ।
इक्षुकोदण्डपुष्पेषुवराभयलसत्कराम् ॥ १५ ॥

तदीयकान्तिसिन्दूरभरितभुवनत्रयाम् ।
चिन्तयेत् परमेशानि त्रैलोक्यं मोहयेत् क्षणात् ॥ १६ ॥

राजानो वशमायान्ति पन्नगा राक्षसाः सुराः ।
कन्दर्प इव देवेशि योषितां मानहारकः ॥ १७ ॥

मनश्चिन्तितयोषित्तु दासीव वशगा भवेत् ।
चलज्जलेन्दुसङ्काशां तरुणारुणविग्रहाम् ॥ १८ ॥

चिन्तयेद्योषितां योनौ क्षोभयेत् सुरसुन्दरीम् ।
किं पुनर्मानुषीं देवि त्रैलोक्यमपि मोहयेत् ॥ १९ ॥

एषा वै चिन्तिता देवि सिन्दूराभा हृदि क्षणात् ।
आकर्षयेत्तदा शीघ्रं रम्भां वापि तिलोत्तमाम् ॥ २० ॥

रक्तवर्णां स्त्रियं ध्यात्वा तदीयमहसा ततः ।
तस्या मूर्ध्नि स्मरेद् बीजं स्रवत्पीयूषवर्षिणीम् ॥ २१ ॥

ध्यायन् सम्मोहयेत्देवि मदनोत्तप्तमानसम् ।
क्षणमात्रेण देवेशि त्रैलोक्यं वशमानयेत् ॥ २२ ॥

एतत्कामकलाध्यानात् पञ्चकामा वरानने ।
मोहयन्ति जगत्सर्वं प्रयोगं शृणु पार्वति ॥ २३ ॥

पूर्वोक्तकामा देवेशि ज्ञातव्याः पञ्चसंख्यकाः ।
विदर्भ्याद्येन कामेन मन्मथान्तर्गतं कुरु ॥ २४ ॥

कन्दर्पसम्पुटं कृत्वा कोणगर्भगतं ततः ।
मकरध्वजसंज्ञं तु सर्वमेतद्वरानने ॥ २५ ॥

मीनकेतुगतं कुर्यान्मोहयेज्जगतोमिमाम् ।
त्रैलोक्यमोहनो नाम प्रयोगोऽयम् प्रकीर्तितः ॥ २६ ॥

इति ॥ अत्र विदर्भ्येत्यादि कुर्यादित्यन्तस्य पादोनश्लोकद्वयस्यायमर्थः प्रथमं मन्मथकूटं क्लींकारमालिख्य तत्र ककारस्योदरे कामराजकुटं ह्रींकारमालिख्य तस्य हकारोदरे मम रेफाधः अमुकं तयोर्मध्ये वशमानयेति साध्यनाम ह्रींकारविदर्भितं विलिख्य बीजद्वयाद्बहिस्तृतीयकन्दर्पकूटरूपेण ऐंकारद्वयेन त्रिकोणाकारेण (पुटितषट्कोणेनावेष्ट्य तस्य षट्सु कोणोदरेषु चतुर्थं मकरकेतनं कूटाक्षरं ब्ल्-ऊंकारमालिख्य षट्कोणान्तरर्बहिर्मीनकेतनकूटाक्षरेण) स्त्रींकारेण संवेष्ट्य वांछितार्थेषु विनियुञ्जयादिति । अत्र पञ्चमकूटाक्षरलेखनेन तदक्षरवह्निस्थानगं सकलं यन्त्रं यथा भवति तथा गुरूक्तक्रमतः समालेख्यमिति रहस्यार्थः ॥ तथा -

शृणु देवि प्रवक्ष्यामि शक्तिबीजस्य साधनम् ।
सृष्टिसंहारपर्यन्तं शरीरं चिन्तयेत् परम् ॥ १ ॥

स्रवत्पीयूषधाराभिर्वर्षन्तीं विषहारिणीम् ।
हेमप्रभाभासमानां विद्युन्निकरसुप्रभाम् ॥ २ ॥

स्फुरच्चन्द्रकलापूर्णकलशं वरदाभये ।
ज्ञानमुद्रां च दधतीं साक्षादमृतरूपिणीम् ॥ ३ ॥

ध्यायन् विषं हरेन्मन्त्री नानाकारव्यवस्थितम् ।
तस्य संस्मरणाद् देवि नीलकण्ठत्वमागतः ॥ ४ ॥

अहं मृत्युञ्जयो भूत्वा विचरामि जले स्थले ।
वैनतेयसमो मन्त्री विषभारसहस्रनुत् ॥ ५ ॥

भूतप्रेतपिशाचांश्च नाशयेद्रोगसंचयम् ।
चातुर्थिकज्वरान् सर्वानपस्मारांश्च नाशयेत् ॥ ६ ॥

अथ त्रिकूटा सम्पूर्णा महात्रिपुरसुन्दरी ।
चिन्तिता साधकस्याशु त्रैलोक्यवशकारिणी ॥ ७ ॥

क्रमेण नाभिहृद्वक्रमण्डलस्थारुणप्रभा ।
पद्मरागमणिस्वच्छा चिन्तिता सुरवन्दिते ॥ ८ ॥

तस्याष्टगुणमैश्वर्यं सौभाग्यं च प्रजायते ।
तन्नाम संस्मरन् मन्त्री योगिनीनां भवेत् प्रियः ॥ ९ ॥

मातृचक्रं तस्य काये तेन सार्धं सुखी भवेत् ।
पुत्रवान् देवदेवेशि मन्त्री ध्यानान्न संशयः ॥ १० ॥

इति । तथा -

यदा चक्रस्थिता पूर्णा खेचरीसिद्धिदायिनी ।
चतुष्षष्टिर्यतः कोट्यो योगिनीनां महौजसाम् ॥ ११ ॥

चक्रमेतत्समाश्रित्य संस्थिता वीरवन्दिते ।
आदौ सम्बोधनपदं मध्ये बीजाष्टकं बहिः ॥ १२ ॥

कलां ध्यात्वाङ्गनानङ्गे कामराज इवापरः ।
पाशाङ्कुशधनुर्बाणैर्मादनैर्मोहयेत् प्रिये ॥ १३ ॥

त्रैलोक्यसुन्दरीर्देवीः किं पुनर्मर्त्ययोषितः ।
तथैव शक्तिबन्धैश्च शस्त्रैस्तन्मयविग्रहः ॥ १४ ॥

सिद्धगन्धर्वदेवांश्च वशीकुर्यान्न संशयः ।
एतामाराध्य देवेशि काम्यसौभाग्यसुन्दरः ॥ १५ ॥

हरिश्च परमेशानि त्रिपुराराधनात् प्रिये ।
त्रैलोक्यमोहनो भूत्वा स्थितिकर्ताभवत् सदा ॥ १६ ॥

एतत्समाराधनात्तु ब्रह्मा सृष्टिकरोऽभवत् ।
चन्द्रसूर्यौ वरारोहे सृष्टिसंहारकारकौ ॥ १७ ॥

इति ॥ अथ श्रीचक्रसाधनविधिः तत्र ज्ञानार्णवे - (१४ प०)

शृणु सर्वाङ्गसुभगे श्रीचक्रविधिमुत्तमम् ।
यस्य विज्ञानमात्रेण कर्ता हर्ता सदाशिवः ॥ १ ॥

अनेन विधिना यत्र श्रिचक्रं क्रमसंयुतम् ।
पूज्यते तत्र सकलं वशीकुर्यान्न संशयः ॥ २ ॥

नगरं वशमायाति दशमण्डलमद्रिजे ।
योषितः सकलाः वश्या ज्वलत्कामाग्निपीडिताः ॥ ३ ॥

विद्याविमूढहृदयाः साधके न्यस्तमानसाः ।
तद्दर्शनेन देवेशि जायन्ते सर्वयोषितः ॥ ४ ॥

इति । तथा -

गोरोचनादिभिर्द्रव्यैश्चक्रराजं समालिखेत् ।
अतीव सुन्दरं रम्यं तन्मध्ये प्रतिमां वराम् ॥ ५ ॥

ज्वलन्तीं नामसहितां महाबीजविदर्भिताम् ।
* * * * * * * * * * * * * * * * ॥ ६ ॥

इति । महाबीजं मूलविद्यायाः द्वितीयकूटम् । विदर्भलक्षणं प्रागेवोक्तम् ।

चिन्तयेत्तु तदा देवि योजनानां सहस्रशः ।
अदृष्टपूर्वा देवेशि श्रुतमात्रापि दुर्लभा ॥ ७ ॥

राजकन्याथवा चान्या भयलज्जाविवर्जिता ।
आयाति साधकं सम्यङ्मन्त्रमूढा सती प्रिये ॥ ८ ॥

चक्रमध्यगतो भूत्वा साधकश्चिन्तयेद्यदा ।
उद्यत्सूर्यसहस्राभमात्मानमरुणं तथा ॥ ९ ॥

साध्यमप्यरुणीभूतं चिन्तयेद् परमेश्वरि ।
अनेन क्रमयोगेन स्वयं कन्दर्परूपवान् ॥ १० ॥

सर्वसौन्दर्यसुभगः सर्वलोकवशङ्करः ।
सर्वरक्तोपचारैश्च मुद्रासहित (सन्नद्ध) विग्रहः ॥ ११ ॥

चक्रं प्रपूजयेद्यस्तु यस्य नाम विदर्भितम् ।
स भवेद् दासवद् देवि धनाढ्यो वापि भूपतिः ॥ १२ ॥

चक्रमध्यगतं कुर्यान्नाम यस्यास्तु योषितः ।
अदृष्टाया महेशानि योनिमुद्राधरो बुधः ॥ १३ ॥

हठादानयते शीघ्रं यक्षिणीं राजकन्यकाम् ।
नागकन्यामप्सरसं खेचरीं वा सुराङ्गनाम् ॥ १४ ॥

विद्याधरीं दिव्यरूपामृषिकन्यामृषिस्त्रियम् ।
मदनोद्भवसन्तापस्फुरज्जघनमण्डलाम् ॥ १५ ॥

कामबाणप्रभिन्नान्तःकरणां लोलचक्षुषम् ।
महाकामकलाध्यानयोगात्तु सुरवन्दिते ॥ १६ ॥

क्षोभयेत् स्वर्गभूर्लोक पातालतलयोषितः ।
* * * * * * * * * * * * * * * * ॥ १७ ॥

इति । अथ तिलकादिवश्यप्रयोगः । तथा -

रोचनाभागमेकं तु भागमेकं तु कुङ्कुमम् ।
अथ भागद्वयं देवि चन्दनं मर्दयेत् समम् ॥ १८ ॥

एकत्र तिलकं कुर्यात् त्रैलोक्यवशकारिणम् ।
अष्टोत्तरशतावृत्त्या मन्त्रयित्वा वशं नयेत् ॥ १९ ॥

राजानं नगरं ग्रामं येन यद्यत्प्रदृश्यते ।
मन्त्रिणा परमेशानि तत्सर्व तस्य वश्यगम् ॥ २० ॥

ताम्बूलं धूपमुदकं पत्रं पुष्पं फलं दधि ।
दुग्धं घृतं चूर्णमात्रं वस्त्रं कर्पूरमेव च ॥ २१ ॥

कस्तूरी घुसृणं चैलालवङ्गं जातिपत्रकम् ।
फलं वा वस्तु यद्यत् तु सकलं परमेश्वरि ॥ २२ ॥

शतमष्टोत्तर जप्त्वा यस्मै यस्मै प्रयच्छति ।
स वश्यो जायते देवि नात्र कार्या विचारणा ॥ २३ ॥

स्त्रियस्तु सकला वश्या दासीभूता भवन्ति हि ।
हठाकर्षणमेतत् ते कथितं नान्यथा भवेत् ॥ २४ ॥

इति । अथाकर्षणप्रयोगः । तथा -

रहस्यस्थानके मन्त्री लिखेद्रोचनया भुवि ।
चारुशृङ्गारवेषाढ्यां सर्वाभरणभूषिताम् ॥ २५ ॥

प्रतिमां सुन्दराङ्गी तां विलिख्य सुमनोहराम् ।
तद्भालकण्ठहृन्नाभि तत्तन्मण्डल(जन्मभूमिषु)योजितम् ॥ २६ ॥

जन्मनाममहाविद्यामङ्कुशान्तर्विदर्भिताम् ।
सर्वसन्धिषु देहस्य मदनाक्षरमालिखेत् ॥ २७ ॥

लीनं दाडिमपुष्पाभं चिन्तयेद् देहसन्धिषु ।
तदाशाभिमुखी भूत्वा स्वयं देवीस्वरूपकः ॥ २२ ॥

मुद्रां तु क्षोभिणीं बद्ध्वा मन्तमष्टशतं जपेत् ।
नियोज्य मदनागारे चन्द्रसूर्यकलात्मके ॥ २३ ॥

ततो विकलसर्वाङ्गीं कामबाणैः प्रपीडिताम् ।
अनन्यमनसं प्रेमभ्रममाणां मदालसाम् ॥ २४ ॥

एवमाकर्षयेन्नारीं योजनानां शतादपि ।
* * * * * * * * * * * * * * * * ॥ २५ ॥

इति ॥ तथा -

मातृकां विलिखेच्चक्रबाह्यतः सकलां प्रिये ।
भूजपत्रे स्वर्णपत्रे रौप्यपत्रेऽथ ताम्रजे ॥ २६ ॥

सोऽवध्यः सर्वजन्तूनां व्याघ्रादीनां विशेषतः ।
तथैव मातृकायुक्तां स्वमाज्ञा चक्रमण्डिताम् ॥ २७ ॥

कर्पूरकुङ्कुमाद्यैस्तु अजरामरतां लभेत् ।
अएनैव विधानेन रोचनागुरुकुङ्कुमैः ॥ २८ ॥

लिखितं चक्रयोगेन साध्यनाम वरानने ।
विदर्भितं स्वनाम्ना तु यस्मिन् कस्मिन्नपि स्थितम् ॥ २९ ॥

स्थावरं जङ्गमंवापि सकलं जनमण्डलम् ।
वशीकुर्यान्महेशानि पादाक्रान्तं न संशयः ॥ ३० ॥

महात्रिपुरसुन्दर्याः कामकूटेन भास्वता ।
एकमेवमवष्टभ्य साध्यनामाक्षराणि हि ॥ ३१ ॥

बहिरप्यालिखेद्वर्णैर्मातृकायाः प्रवेष्टयेत् ।
हेममध्यगतं कुर्याच्छिखायां वामके भुजे ॥ ३२ ॥

धारयेद्यत्र कुत्रापि त्रैलोक्यवशकारिणम् ।
राजेन्द्रमपि देवेशि दासभूतं करोति हि ॥ ३३ ॥

राजानो वाजिनः सर्वे महादुष्टा मदोत्कटाः ।
व्याघ्राः केसरिणी मता वश्यास्तस्य भवन्ति हि ॥ ३४ ॥

पूर्वक्रमेण नगरं नाम सन्दर्भ्य शैलजे ।
मध्ये चतुष्पथे वापि चतुर्दिक्षु निधापयेत् ॥ ३५ ॥

महाक्षोभो योषितां तु जनानां महतामपि ।
तथैव सर्वदुष्टानां पुरस्थानां च जायते ॥ ३६ ॥

एतन्मध्यगतां पृथ्वीं सशैलवनकाननाम् ।
ज्वलन्तीं सर्वराजेन्द्रमण्डितां सागराम्बराम् ॥ ३७ ॥

मासषट्कं चिन्तयेद्यः स संक्षोभकरो भवेत् ।
कटाक्षक्षेपमात्रेण नायस्तस्य वशाः प्रिये ॥ ३८ ॥

राजानो ब्राह्मणा वैश्याः शूद्राश्च पशवो जगत् ।
दृष्ट्याकर्षयते देवि त्रैलोक्यं सचराचरम् ॥ ३९ ॥

दृष्ट्या विषं नाशयते नात्रकार्या विचारणा ।
भूतप्रेतपिशाचांश्च ज्वरांश्चातुर्थिकादिकान् ॥ ४० ॥

शूलगुल्मादिरोगांश्च दृष्ट्या नाशयति क्षणात् ।
एतत् सिन्दूरसुभगं रात्रौ सम्पूजितं प्रिये ॥ ४१ ॥

योजनानां शताद्देवि सम्यगाकर्षयेत् स्त्रियम् ।
यदा दिक्षु विदिक्ष्वेवं सम्यग् देवि प्रपूज्यते ॥ ४२ ॥

तत्तद्दिक्षु स्थितांल्लोकान् विदिक्स्थानपि सुन्दरि ।
वशमानयते शीघ्रं सपुत्रपशुबान्धवान् ॥ ४३ ॥

भूर्जपत्रे समाख्यि रोचनागरुकुङ्कुमैः ।
तन्मध्ये नगरं देशं मण्डलं खण्डमेव च ॥ ४४ ॥

नाग्ना विदर्भितं स्वस्य पूजयित्वा यथाविधि ।
भूमिमध्यगतं कृत्वा त्रैलोक्यं वशमानयेत् ॥ ४५ ॥

अथवा धारयेत् कण्ठे शिखायां बहुमूलके ।
यत्र कुत्र स्थितं भद्रे क्षोभयेन्नगरं महत् ॥ ४६ ॥

अर्कक्षीरेण संयुक्तं धत्तूरकरसं तथा ।
रोचनाकुंकुमैश्चैव लाक्षालक्तकसंयुतम् ॥ ४७॥

कस्तूरीद्रवसंयुक्तमेकीकृत्य ततः परम् ।
चक्रमेतत्समालिख्य यस्य नम्ना महेश्वरि ॥ ४८ ॥

तस्य व्याघ्रभयं व्याधिरिपुसर्पगजादिकम् ।
चौरग्रहजलारिष्टं शाकिनीडाकिनीभवम् ॥ ४९ ॥

भयं न विद्यते देवि परमन्त्राभिचारजम् ।
नित्यं समर्चयेद् देवि कालमृत्युं विनाशयेत् ॥ ५० ॥

अथवा मध्यगां देवि त्रिकोनोभयमध्यगाम् ।
अधस्तान्नामसंयुक्तां रोचनाकुंकुमान्वितम् ॥ ५१ ॥

निधापयेच्च सप्ताहाद् दासवत् किङ्करो भवेत् ।
पीतद्रव्यैः समालिख्य पीतपुष्पैः समर्चयेत् ॥ ५२ ॥

पूर्वाशाभिमुखो भूत्वा स्तम्भयेत् सर्ववादिनः ।
सहस्रवदनो देवि मूको भवति तत्क्षणात् ॥ ५३ ॥

नाम्ना यस्य स वाग्मी हि पाषाण इव निश्चलः ।
जायते देवदेवेशि महानीलीरसेन तु ॥ ५४ ॥

नाम संयोज्य विधिवद् दक्षिणाशामुखो बुधः ।
वह्नौ दग्ध्वा महेशानि मारयेद्वैरिणं प्रिये ॥ ५५ ॥

महिषाश्वपुरीषाभ्यां सारमाकृष्य शैलजे ।
गोमूत्रेण च संलिख्य नाम सन्दर्भ्य पूर्ववत् ॥ ५६ ॥

(क्षिप्त्वारनालमध्यस्थं विद्वेषणकरं परम् ।
कृत्वा रोचनया नाम काकपक्षस्य मध्यगम्) ॥ ५७ ॥

लम्बमानं तदाकाशे शत्रूच्चाटनकारकम् ।
महानीलीरोचनाभ्यां दुग्धलाक्षारसादिभिः ॥ ५८ ॥

विलिख्य धारयेन्मन्त्री सर्ववर्णान् वशं नयेत् ।
अनेनैव विधानेन स्थापयेत्तीरमध्यगम् ॥ ५९ ॥

तेनोदकेन संस्नातः पीतं तत्सर्ववश्यकृत् ।
सौभाग्यं जायते तेन पानीयेन न संशयः ॥ ६० ॥

एतन्मध्यगतां पृथ्वीं नगरं वामलोचने ।
सप्ताहात्क्षोभयेत् सत्यं ज्वलमानं विचिन्तयेत् ॥ ६१ ॥

अथ वक्ष्ये महेशानि महापातकनाशनम् ।
शिवां सम्पूजयेद् देवि सुगन्धैः कुसुमैः प्रिये ॥ ६२ ॥

महापातकयुक्तात्मा तत्क्षणात् पापहा भवेत् ।
शमीदूर्वांकुराश्वत्थपल्लवैरथवार्कजैः ॥ ६३ ॥

मासेन हन्ति कलुषं सप्तजन्मकृतं नरः ।
पूर्वाशाभिमुखो भूत्वा पीतद्रव्यैः समर्चयेत् ॥ ६४ ॥

पीतस्थानं समालिख्य स्तम्भयेत् सर्ववादिनः ।
उत्तराभिमुखो भूत्वा चन्दनेन समालिखेत् ॥ ६५ ॥

सम्पूज्य विधिवद्भक्त्या सर्वलोकं वशं नयेत् ।
पश्चिमाभिमुखो भूत्वा चन्दनेन समालिखेत् ॥ ६६ ॥

सम्पूज्य विधिवद्विद्वान् सर्वयोषिन्मनो हरेत् ।
वल्लभो जायते तासां दासीमिव वशं नयेत् ॥ ६७ ॥

यमाशाभिमुखो भूत्वा चक्रं कृष्णं यदार्चयेत् ।
यस्य नामाङ्कितं तत्र मन्त्रहानिः प्रजायते ॥ ६८ ॥

अग्निराक्षसवायव्यशम्भुकोणेषु पूजितम् ।
पूर्ववत् परमेशानि क्रमेण परितोषितम् ॥ ६९ ॥

स्तम्भविद्वेषव्याधिशत्रूच्चाटनकारकम् ।
रोचनालिखितं चक्रं क्षीरमध्ये क्सिपेद्बुधः ॥ ७० ॥

सर्ववश्यकरं देवि भवत्येव न संशयः ।
गोमूत्रमध्यगं सम्यक् शत्रूच्चाटकरं परम् ॥ ७१ ॥

तैलस्थं चक्रराजं तु विद्वेषणकरं परम् ।
ज्वलज्जवलनमध्यस्थं शत्रुनाशकरं भवेत् ॥ ७२ ॥

यद्येकान्ते चतुर्मार्गे सिन्दूररजसा लिखेत् ।
सर्वबाह्यत आरभ्य यावन्मध्यं महेश्वरि ॥ ७३ ॥

अकारादिक्षकारान्तां मातृकां तत्र विन्यसेत् ।
पूजयेद्रात्रिसमये कुलाचारक्रमेण तु ॥ ७४ ॥

साधकः खेचरो देवि जायते नात्र संशयः ।
गिरावेकतरस्तद्वदर्चयेत् कुलमार्गतः ॥ ७५ ॥

अजरामरतां लब्ध्वा सुखी भवति मान्त्रिकः ।
श्मशाने पूजयेच्चक्रं महाभूतदिने तु यः ॥ ७६ ॥

पूर्वक्रमेण विधिवत् साधकः स्थिरमानसः ।
खड्गसिद्धिं च वेतालसिद्धिं च गुटिकां लभेत् ॥ ७६ ॥

पादुकाञ्जनसिद्धिं च मनः सिद्धिं च धातुदाम् ।
समहावीरसिद्धिं तु यक्षिणीचेटकोद्भवाम् ॥ ७७ ॥

तत्सर्व लभते मन्त्री नात्रकार्या विचारण ।
* * * * * * * * * * * * * * * * ॥ ७८ ॥

इति श्रीमहामहोपाध्यायभगवत्पूज्यपाद श्रीगोविन्दाचार्यशिष्य श्रीभगवच्छङ्कराचार्यशिष्य श्रीविष्णुशर्माचार्यशिष्य श्रीप्रगल्भाचार्यशिष्य श्रीविद्यारण्ययति विरचिते श्रीविद्यार्णवाख्ये तन्त्रे सप्तदशः स्वासः ॥ १७ ॥

अथ

श्रीविद्यार्णवतन्त्रे

18. Śvāsa

अथ समयाचारः प्रयोगसारे -

देवस्थाने गुरुस्थाने श्मशाने वा चतुष्पथे ।
पादुकासनविण्मूत्रमैथुनानि विवर्जयेत् ॥ १ ॥

(देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताः ।
सिद्धं सिद्धाधिवासांश्च श्रीपूर्वं समुदीरयेत्) ॥ २ ॥

प्रमत्तामन्त्यजां कन्यां पुष्पितां पतितस्तनीम् ।
विरूपां मुक्तकेशीं च कामार्तां च न निन्दयेत् ॥ ३ ॥

(कन्यायोनिं पशुक्रीडां दिग्वस्त्रां प्रकटस्तनीम् ।
नालोकयेत् परद्रव्यं परदारांश्च वर्जयेत् ) ॥ ४ ॥

धान्यगोगुरुदेवाग्निविद्या कोशनरान् प्रति ।
नैव प्रसारयेत् पादौ नैतानपि च लङ्घयेत् ॥ ५ ॥

आलस्यमदसंमोहशाठ्यपैशुन्यविग्रहान् ।
असूयामात्मसम्मानं परनिन्दां च वर्जयेत् ॥ ६ ॥

इति । आलस्यं मन्दता । मदो विद्याधनाभिजात्यसम्पत्समुदितो मनस उल्लासः । मोहो मित्याभिनिवेशः । शाठ्यं शक्तिगूहणम् । पैशून्यं परोक्षे परदोषप्रकाशनम् । असूया गुणेषु दोषारोपः ।
आत्मसमानं आत्मनि सम्यक्पूज्यत्वबुद्धिः ।

लिङ्गिनं व्रतिनं विप्रं वेदवेदाङ्गसंहिताः ।
पुराणागमशास्त्राणि कल्पांश्चापि न दूषयेत् ॥ ७ ॥

वेदाङ्गानि प्रसिद्धानि । संहिता मन्वादिप्रणीतस्मृतिशास्त्राणि ।
आगमशास्त्राणि शिवाद्युक्तयामलादीनि । आगमं शिववक्त्रेभ्यो गतं वै गिरिजामुखे । मतं च वासुदेवस्य तस्मादागम उच्यते ।
इत्यागमशब्दनिरुक्तिः । कल्पान् नक्षत्रकल्पो विधानकल्पोऽभिचारकल्पः शान्तिकल्पश्चेत्यथर्ववेदविभागरूपान् श्राद्धकल्पादिकानन्यांश्च ॥

युगं मुसलमश्मानं दाम चुल्लीमुलूखलम् ।
शूर्पं सम्मार्जनीं दण्डं ध्वजं वैडूर्यमायुधम् ॥ ८ ॥

कलशं चामरं छत्रं दर्पणं भूसणं तथा ।
भोगयोग्यानि चान्यानि यागद्रव्याणि यानि च ॥ ९ ॥

महास्थानेषु वस्तूनि यानि वा देवतालये ।
दिव्योक्तानि पदार्थानि भूताविष्टानि यानि वै ॥ १० ॥

लङ्घयेज्जातु नैतानि यद्वा नच पदा स्पृशेत् ।
या गोष्ठीर्लोकविद्विष्टा या च स्वैरविसर्पिणी ॥ ११ ॥

परहिंसारता या च न तामवतरेद् क्वचित् ।
प्रतिग्रहं न गृह्णीयादात्मभोगविधित्सया ॥ १२ ॥

देवतागुरुपूजार्थं यत्नतोऽप्यर्जयेद्धनम् ।
धारयेदार्जवं सत्यं सौशील्यं समतां घृतिम् ॥ १३ ॥

क्षान्तिं दयामनास्थां च दिव्यां शक्तिं च सर्वदा ।
* * * * * * * * * * * * * * * * ॥ १४ ॥

आर्जवमवक्रता । सत्यं यथादृष्टार्थभाषणम् । सौशील्यं सुस्वभावावस्थानम् । समता रागद्वेषादिराहित्यम् । धृतिं दुःखादिभिरवसीदतश्चित्तस्य स्थिरीकरणं क्षान्तिः क्षमा परिभवादिषूत्पद्ममानक्रोधप्रतिबन्धः । दया परदुःखासहनम् ॥ मन्त्रतन्त्रप्रकाशे -

विभीतकार्ककारञ्जस्नुहीच्छायां न संश्रयेत् ।
स्तम्भदीपमनुष्याणामन्येषां प्राणिनां तथा ॥ १ ॥

नखाग्रकेशनिर्धूतस्नानवस्त्रघटोदकम् ।
एतत्स्पर्श त्यजेद् दूरे खरश्वाजरजस्तथा ॥ २ ॥

इति । लिङ्गपुराणे -

अजश्वानखरोष्ट्राणां मार्जनीभवरेणुकम् ।
संस्पृशेद्यदि मूढात्मा श्रियं हन्ति हरेरपि ॥ १ ॥

न निन्देत् कारणं देवं न शास्त्रं तेन निर्मितम् ।
न गुरुं साधकं चैव लिङ्गच्छायां न लङ्घयेत् ॥ २ ॥

नाद्याल्लङ्घेन्न निर्माल्यं तद्दद्याच्छिवदीक्षिते ।
* * * * * * * * * * * * * * * * ॥ ३ ॥

तदिति शिवनिर्माल्यम् । तथा नारदपञ्चरात्रे -

साधनस्य स्वभावेन केशश्मश्रूविलुञ्चितः ।
सम्भवे नववस्त्रश्च मलयूकाविवर्जितः ॥ १ ॥

सुविनीतः सदायश्च मन्त्रमाराधयेत् परम् ।
* * * * * * * * * * * * * * * * ॥ २ ॥

इति । साधनस्य स्वभावेनेत्यनेन पुरश्चरणमध्ये न वपनं कार्यमित्युक्तमपनीतकेशश्मश्रुरित्यर्थः । अत्र तु -

गङ्गायां भास्करे क्षेत्रे पित्रोश्च मरणं विना ।
वृथा च्छिनत्ति यः केशांस्तमाहुर्ब्रह्मघातकम् ॥ १ ॥

प्रयागतीर्थयात्रायां पितृमातॄवियोगतः ।
कचानां वपनं कुर्याद् वृथा न विकचो भवेत् ॥ २ ॥

इति । कालिकापुराणविष्णुभ्यां यद्वपनं निषिध्यते तददीक्षितपरम् ।
जटिला मुण्डिताश्चैव शुक्लयज्ञोपवीतिनः । ब्रह्मचर्यरताः शान्तावेदान्तज्ञानतत्पराः इति ॥ कूर्मपुराणे शैवानां मुण्डितत्वोक्तेः । तथा -

सामान्यसिद्ध्यै रक्षार्थं परेषां न कदाचन ।
प्रयोक्तव्यः स्वमन्त्रश्च आपद्यपि न चाचरेत् ॥ १५ ॥

गारुडं भूतवादं च भयात् स्वार्थे न चात्मनि ।
कृपया परया कुर्यादनाथेषु असंसदि ॥ १६ ॥

सोमसूर्यान्तरस्थं च गवां चाश्वा (वायव)ग्निमध्यगम् ।
भावयेद्दैवतं विष्णुं गुरुं विप्रशरीरगम् ॥ १७ ॥

मन्येत्मातापितरौ विष्णुं तद्वद् प्रियातिथिम् ।
ज्ञेयो विश्वाश्रयो विष्णुरात्मा ज्ञेयश्च विष्णुवत् ॥ १८ ॥

यत्र यत्र प्रीवादो मात्सर्याच्छ्रूयते गुरोः ।
तत्र तत्र न वस्तव्यं प्रयायात्संस्मरन् हरिम् ॥ १९ ॥

यैः कृता च गुरोर्निन्दा विभोः शास्त्रस्य नारद ।
नापि तैः सह वक्तव्यं वस्तव्वं वा कदाचन ॥ २० ॥

कर्मणा मनसा वाचा न कुर्यात् पारदारिकम् ।
न निन्द्या ब्राह्मणा देवा विष्णुर्धेनुस्तथैव च ॥ २१ ॥

रुद्राश्चादित्या अग्निश्च लोकपाला ग्रहास्तथा ।
गुरुर्वा वैष्णवश्चापि पुरुषः पूर्वदीक्षितः ॥ २२ ॥

न तेन कुत्रचित् कार्ये शापानुग्रहकर्मणी ।
न तेन मन्त्रो वक्तव्यो मुद्रा वा समया अपि ॥ २३ ॥

स्वानुष्ठानेऽपि यत्कर्म सर्वं सर्वस्य गोपयेत् ।
मन्त्रगुप्तिश्च कर्तव्या सततं मन्त्रसिद्धये ॥ २४ ॥

इति । तेन साधकेन तन्त्रान्तरे -

सर्वभूतेष्वनुकम्पा दानं चातिथिपूजनम् ।
पञ्चेज्या तीर्थसेवा च स्वाध्यायो गुरुसेवनम् ॥ १ ॥

सामान्यं सर्वलोकानामेष धर्मः सनातनः ।
ब्रह्मचारी दीक्षितश्चेत् त्रिसन्ध्यं देवमर्चयेत् ॥ २ ॥

स्नानं त्रिषवणं तस्य वेदाध्ययनमेव च ।
भैक्ष्यं सम्प्रार्थयेत् साक्षाद् ध्यायेद् देवं निरन्तरम् ॥ ३ ॥

गृहस्थो दीक्षया सिक्तः सर्वं पूर्ववदाचरेत् ।
न जपो नार्चनं नैव ध्यानं नापि विधिक्रमः ॥ ४ ॥

केवलं सततं श्रीमच्चरणाम्भोजभागिनाम् ।
सन्न्यासिनां मुमुक्षूणां मानसः कथितः क्रमः ॥ ५ ॥

परिव्राडविरक्तश्च विरक्तश्च गृही तथा ।
उभौ तौ नरके घोरे पच्येदाभूतसम्प्लवम् ॥ ६ ॥

गृहस्थो धर्मपत्न्या च पूजयेद्देवमन्वहम् ।
दया दानं महार्हं च येन देवः प्रसीदति ॥ ७ ॥

संन्यासिनां द्रव्यदाने नाधिकारोऽस्ति सुव्रत ।
वर्णिनां च वनस्थानां को वदेदनपेक्षितम् ॥ ८ ॥

इति । अन्यत्रापि -

अथाचारं प्रवक्ष्यामि यत् स्मृत्वामृतमश्नुते ।
सर्वभूतहिते युक्तः समयाचारपालकः ॥ १ ॥

अनित्यकर्मसंत्यागी नित्यानुष्ठानतत्परः ।
मन्त्राणां साधनद्वारे शिवभावनतत्परः ॥ २ ॥

परस्यां देवतायां तु सर्वकर्मनिवेदकः ।
अन्यमन्त्रार्चन श्रद्धामन्यमन्त्रप्रपूजनम् ॥ ३ ॥

कुलस्त्रीवीरनिन्दां च तद्द्रव्यस्यापहारणम् ।
स्त्रीषु रोषं प्रहारं च वर्जयेद्भक्तिमान् सदा ॥ ४ ॥

स्त्रीमयं च जगत्सर्वं स्वयं चैव तथा भवेत् ।
स्त्रीषु द्वेषो न कर्तव्यो विशेषात पूजनं स्त्रियाः ॥ ५ ॥

भक्ष्यं ताम्बूलमन्यच्च भक्ष्यद्रव्यं यथारुचि ।
पेयं चर्व्य तथा चोष्यं भक्ष्यं लेह्यं तथा सुखम् ॥ ६ ॥

सर्वं च युवतीरूपं भावयेद्यतमानसः ।
कुलजां युवतीं वीक्ष्य नमस्कुर्यात् समाहितः ॥ ७ ॥

बालां वा यौवनप्रौढां वृद्धा वा सुन्दरीं तथा ।
कुत्सितां वा महादुष्टां नमस्कृत्या विभावयेत् ॥ ८ ॥

कुमरीपूजनं कुर्यात् सर्वकार्येषु सर्वदा ।
कुमारीपूजनाद् देवि सर्वसिद्धिः प्रजायते ॥ ९ ॥

इति । कुमारीपूजनमग्रे वक्ष्यामः । अन्यच्च -

यस्मिन् मन्त्रे य आचारस्तत्र धर्मस्तु तादृशः ।
कृतार्थस्तेन जायेत स्वर्गो वा मोक्ष एव वा ॥ १० ॥

नाधर्मो जायते तेन किंच धर्मो महान् भवेत् ।
विस्मिता विलयं यान्ति पशवः शास्त्रमोहिताः ॥ ११ ॥

भ्रान्तिस्तत्र न कर्तव्या सिद्धिहानिः प्रजायते ।
विशुद्धचित्तस्तत्सिद्धिं लभते चापवर्गजाम् ॥ १२ ॥

निर्विकल्पस्तु मन्त्रज्ञो ब्रह्म साक्षान्न संशयः ।
भैरवी यदि सञ्जातः सिद्धिस्तत्र न संशयः ॥ १३ ॥

रात्रौ पूजा विशेषेण कर्तव्या सिद्धिमिच्छता ।
देव्यै निवेदितं यद्यत्तत् सर्वं भक्षयेन्नरः ॥ १४ ॥

यदन्ना देवता यस्य तदन्नः पुरुषोत्तमः ।
नैवेद्यनिन्दकं दृष्ट्वा नृत्यन्ते योगिनीगणाः ॥ १५ ॥

रक्तपानोद्यताः सर्वा मांसास्थिचर्वणोद्यताः ।
* * * * * * * * * * * * * * * * ॥ १६ ॥

इति । कुलार्णवे -

असंस्कृतं वृथापानं बलात्कारेण मैथुनम् ।
स्वप्रीत्यै आहृतं मांसं रौरवं नरकं व्रजेद् ॥ १ ॥

आत्मार्थं प्राणिनां हिंसा न कदाचिन्मयोदिता ।
बलिदानं विना देव्या हिंसा सर्वत्र वर्जयेत् ॥ २ ॥

अनिमित्तं तृणं वापि च्छेदयेन्न कदाचन ।
मामनादृत्य पुण्यं च पापं स्यात् प्रत्यवायतः ॥ ३ ॥

मन्निमित्तं कृतं पापं पुण्यं भवति शाम्भवि ।
यैरेवाप्यायनं द्रव्यैः सिद्धिस्तैरेव चोदिता ॥ ४ ॥

कुण्डीकुम्भकपालानि मधुपूर्णानि विभृतः ।
किं न पश्यति लोकोऽयं ब्रह्मविष्णुमहेश्वरान् ॥ ५ ॥

श्रीगुरोः कुलशास्त्रेभ्यः सम्यग्विज्ञाय वासनाम् ।
पञ्चमुद्रा निषेवेत चान्यथा नरकं व्रजेत् ॥ ६ ॥

कुलद्रव्याणि सेवन्ते येऽन्यदर्शनमाश्रिताः ।
तदङ्गरोमसंख्याभिर्जायन्ते भूतयोनिषु ॥ ७ ॥

इति । तथा (८।७) -

अदीक्षितैरनाचारैरतन्त्रज्ञैरदैवतैः ।
दूषकैः समयभ्रष्टैर्न कुर्याद् द्रव्यसंगतिम् ॥ १ ॥

अभिज्ञम्मन्यमानेश्च प्रपञ्चः व्रतधारिभिः ।
पशुभिक्षुद्रकर्मस्थैर्न कुर्याद् द्रव्यसङ्गतिम् ॥ २ ॥

स्त्रीद्विष्टैर्गुरुभिः शप्तैर्भक्तिहीनैर्दुरात्मभिः ।
कुलोपदेशहीनैश्च न कुर्याद् द्रव्यसङ्गतिम् ॥ ३ ॥

अनभिज्ञैरनर्हैश्च न कुर्याद् द्रव्यसङ्गतिम् ।
पदवाक्यप्रमाणज्ञाः श्रुतिस्मृत्यर्थवेदिनः ॥ ४ ॥

कुलधर्मानभिज्ञा ये तान् सर्वान् वर्जयेत् प्रिये ।
स्वकुलेऽपि प्रसूता ये वृद्धाचारप्रवर्तिनः ॥ ५ ॥

त्वत्पूजाविमुखाः स्युश्चेतैः सङ्गं वर्जयेत् प्रिये ।
स्त्रीपुत्रमित्रबन्धूनां स्निग्धानामपि पार्वति ॥ ६ ॥

कुलाचारानभिज्ञानां संगतिं वर्जयेत् प्रिये ।
अदृष्टपुरुषाणां च देशान्तरनिवासिनाम् ॥ ७ ॥

विना सङ्केतयोगेन न कुर्याद् द्रव्यसङ्गतिम् ।
कुलीनं नावमन्येत पूजयेत् तं विचक्षणः ॥ ८ ॥

कुलीनेषु प्रसन्नेषु प्रसन्ना देवता भवेत् ।
स्वपात्रस्थितशेषं च न दद्याद्भैरवाय च ॥ ९ ॥

यदि दद्यात् कुलेशानि देवताशापमाप्नुयात् ।
आसनं भोजनं पात्रमुपानच्छयनानि च ॥ १० ॥

अनभिज्ञैरनर्हैश्च सङ्करं नैव कारयेत् ।
कुलपूजान्तरायं तु यः करोति हि दुर्मतिः ॥ ११ ॥

स याति नरकं घोरमेकविंशतिभिः कुलैः ।
तस्मात् सर्व प्रयत्नेन कुलपूजारतो भवेत् ॥ १२ ॥

लभते सर्वसिद्धिं च नात्र कार्या विचारणा ।
आराधनासमर्थश्चेत् दद्यादर्चनसाधनम् ॥ १३ ॥

यो दातुं नैव शक्नोति कुर्यादर्चनदर्शनम् ।
सम्यक् शतक्रतून् कृत्वा यत्फलं समवाप्नुयात् ॥ १४ ॥

तत्फलं समवाप्नोति सकृत्कृत्वा क्रमार्चनम् ।
दत्त्वा षोडशदानानि यत्फलं लभते नरः ॥ १५ ॥

तत्फलं समवाप्नोति दत्त्वा श्रीचक्रसाधनम् ।
सार्धत्रिकोटितीर्षेषु स्नात्वा यत्फलमाप्नुयात् ॥ १६ ॥

तत्फलं लभते भक्त्या कृत्वा श्रीचक्रदर्शनम् ।
बहुनोक्तेन किं देवि यथाशक्त्या ददाति यः ॥ १७ ॥

कुलाचार्याय पूजार्थं कुलद्रयं स सर्ववित् ।
यथैवान्तश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः ॥ १८ ॥

तथान्तर्यागनिष्टा ये प्रिया मे देवि नापरे ।
समर्पयन्ति ते भक्त्या त्वावाभ्यां पिशितासवम् ॥ १९ ॥

उत्पादयति चानन्दं मत्प्रियः कौलिकः प्रिये ।
अनधीतोप्यशास्त्रज्ञो गुरुभक्तो दृढव्रतः ॥ २० ॥

कुलपूजारतो यस्तु स मे प्रियतमो भवेत् ।
* * * * * * * * * * * * * * * * ॥ २१ ॥

इति । तन्त्रान्तरे -

कुलजां युवतीं विक्ष्य नमस्कुर्यात् समाहितः ।
यदि भाग्यवशाद् देवि कुलदृष्टिः प्रजायते ॥ १ ॥

तदैव मानसीं पूजां तत्र तासां प्रकल्पयेत् ।
* * * * * * * * * * * * * * * * ॥ २ ॥

तासां भगादिदेवीम् । तथा -

भगिनीं भगजिह्वां च भगास्यां भगसाक्षिणीम् ।
भगदन्तां भगाक्षीं च भगकर्णां भगत्वचाम् ॥ ३ ॥

भगनासां भगस्तनीं भगस्थां भगसर्पिणीम् ।
सम्पूज्य ताभ्यो गन्धाद्यैर्मानसैर्गुरुमेव च ॥ ४ ॥

नमस्कृत्य विधानेन स्वयमक्षोभितः सुधीः ।
बालां वा यौवनोन्मतां वृद्धा वा सुन्दरीं तथा ॥ ५ ॥

कुत्सितां वा महादुष्टां नमस्कृत्या विभावयेत् ।
तासां प्रहारं निन्दां च कौटिल्यमप्रियं तथा ॥ ६ ॥

सर्वथा च न कर्तव्यमन्यथा सिद्धिरोधकृत् ।
स्त्रियो देवाः स्त्रियः प्राणाः स्त्रियश्चैव विभूषणम् ॥ ७ ॥

स्त्रीसङ्गिना सदा भाव्यमन्यथा सिद्धिहानिकृत् ।
जपस्थाने महाशङ्खं निवेश्योर्ध्व जपं चरेत् ॥ ८ ॥

स्त्रियं गच्छन् स्पृशन् पश्यन् विशेषात् कुलजां शुभाम् ।
भक्षंस्ताम्बूलमन्यानि भक्ष्यद्रव्यं यथारुचि ॥ ९ ॥

भुक्त्वा ह्यशेषभक्ष्याणि भुक्त्वा शेषं जपं चरेत् ।
* * * * * * * * * * * * * * * * ॥ १० ॥

इति । वीरतन्त्रे -

दिक्कालनियमो नात्र स्थित्यादिनियमो नच ।
न जपे कालनियमो चर्यादिषु बलिष्वपि ॥ १ ॥

स्वेच्छानियम उक्तश्च महामन्त्रस्य साधने ।
* * * * * * * * * * * * * * * * ॥ २ ॥

इति । महामन्त्रास्तु तत्रैव -

काली तारा महाविद्या षोडशी भुवनेश्वरी ।
भैरवी च्छिन्नमस्ता च विद्या धूमावती मता ॥ १ ॥

बगला सिद्धविद्या च मातङ्गी कमलात्मिका ।
एता एव महाविद्या दश विद्याः प्रकीर्तिताः ॥ २ ॥

नात्र शुद्ध्याद्यपेक्षास्ति नारिमित्रादिदूषणम् ।
नवा प्रयासबाहुल्यं समयासमयादिकम् ॥ ३ ॥

इति । अत्र काली दक्षिणाकालिकादिभेदाः । तारा ताराभेदाः । महाविद्या षोडशीश्रीमहात्रिपुरसुन्दर्याः । षोडशीपञ्चदशीभेदसहिता ।
भुवनेश्वरी तद्भेदसहिता । भैरवी बालादिभेदसहिता । छिन्नमस्ता तद्भेदसहिता । विद्या धूमावती तद्भेदा घर्मटीमर्कटी- आर्द्रपटीतद्भेदसहिता । बगला तद्भेदसहिता वाराह्यष्टभेदसहिता ।
सिद्धविद्या च मातङ्गी सुमुखीश्यामालघुमातङ्गीराजमातङ्गीभेदसहिता । कमलात्मिका महालक्ष्मी भेदसहिता । तथा -

वस्त्रासनस्थानगेहदेहस्पर्शादिवारिणः ।
शुद्धिं न चाचरेदत्र निर्विकल्पमनाश्चरेत् ॥ ४ ॥

इति । कुलार्णवे -

कुलाचारगृहं गत्वा भक्त्या पापं विशोधयेत् ।
याचयेदमृतं कौलं तदभावे कुलं भवेत् ॥ १ ॥

कुलाचारेण यत्कृत्वा दण्डपात्रं तु भक्तितः ।
नमस्कृत्य च गृह्णीयादन्यथा नरकं व्रजेत् ॥ २ ॥

इति । अन्यत्रापि -

वृथा न गमयेत्कालं द्यूतक्रीडादिना सुधीः ।
गमयेद् देवतापूजाजपयागस्तवादिना ॥ १ ॥

वीराणां जपयज्ञस्तु सर्वकाले प्रशस्यते ।
सर्वदेशे सर्वपीठे कर्तव्यो नात्र संशयः ॥ २ ॥

शक्तिः शिवः शिवः शक्तिः शक्तिर्ब्रह्मा जनार्दनः ।
शक्तिरिन्द्रो रविः शक्तिः शक्तिश्चन्द्रो ग्रहा द्रुवः ॥ ३ ॥

शक्तिरूपं जगत्सर्वं यो न जानाति नारकी ।
* * * * * * * * * * * * * * * * ॥ ४ ॥

इति । वीरतन्त्रे -

स्नानादि मानसं शौचं मानसः प्रवरो जपः ।
पूजनं मानसं दिव्यं मानसं तर्पणादिकम् ॥ १ ॥

सर्व एव शुभः कालो नाशुभो विद्यते क्वचित् ।
न विशेषो दिवा रात्रौ न सन्ध्यायां दिवानिशम् ॥ २ ॥

सर्वदा पूजयेद् देवीमास्नातः कृतभोजनः ।
महानिशि शुचौ देशे बलिं मन्त्रेण दापयेत् ॥ ३ ॥

रात्रावेव महापूजा कर्तव्या वीरवन्दिते ।
तद्दिने सर्वथा कार्या शासनान्मम सुव्रते ॥ ४ ॥

इति । महानिशा तु तत्रैव -

अर्धरात्रात् परं यच्च मुहूर्तद्वयमेव च ।
सा महारात्रिरुद्दिष्टा तद्गतं चाक्षयं भवेत् ॥ ५ ॥

इति । गन्धर्वतन्त्रे -

पृथ्वीमृतुमतीं वीक्ष्य सहस्रं यदि नित्यशः ।
तदा वादी स्वसिद्धान्तहतः क्षितितलं व्रजेत् ॥ १ ॥

पृथ्वीं । कुलम् । नित्यश इति शोडशदिनं यावत् ।

पर्वते हस्तमारोप्य निर्भयो यतमानसः ।
कवितां लभते सोऽपि अमृतत्वं च गच्छति ॥ २ ॥

तत्रापि सहस्रमिति सम्बन्धः । पर्वतः स्तनः । नीलतन्त्रे -

पद्मं दृष्ट्वा यथा बिम्बं खञ्जनं शिखरं तथा ।
चामरं रविबिम्बं च तिलपुष्पं सरोरुहम् ॥ १ ॥

त्रिशूल वीक्ष्य जप्त्वा च शतशः शुद्धभावतः ।
मुखप्रसादं सुमुखं सुलोचनं सुहास्यकम् ॥ २ ॥

सुकेशं सुगतिं चैव सुगन्धिं सुखमेव च ।
लभते च यथासंख्यं शृणु पार्वति सादरम् ॥ ३ ॥

पद्मं मुखं बिम्बमधरम् खञ्जनं चक्षुः शिखरं स्तनं चामरं केशं रविबिम्बं सिन्दूरं तिलपुष्पं नासिकां सरोरुहं नाभिं त्रिशूलं त्रिवलीमिति ॥ भावचूडामणौ -

एकाकी निर्जने देशे श्मशाने विजनं वने ।
शून्यागारे नदीतीरे निःशङ्को विहरेत् सदा ॥ १ ॥

महाचीनद्रुमे देवीं ध्यात्वा तत्र प्रपूजयेत् ।
तद्द्रूमोद्भवपुष्पेण पूजयेद्भक्तिभावतः ॥ २ ॥

स भवेत् कुलदेवश्च कुलक्रमगतः शुचिः ।
ब्रह्मतरोर्महापद्मे देवीं ध्यात्वा यथाविधिः ॥ ३ ॥

तत्सुधारससारेण तर्पयेन्मातृकानने ।
महाचीनद्रुमलतावेष्टितः साधकोत्तमः ॥ ४ ॥

रात्रौ यदि जपेन्मन्त्रं सैव कल्पलता भवेत् ।
तिथिक्रमेण संख्याभिर्लताभिर्वेष्टितो यदि ॥ ५ ॥

तदा मासेन सिद्धिः स्यात् सहस्रजपमानतः ।
अष्टम्यां च चतुर्दश्यां द्विगुणं यदि दृश्यते ॥ ६ ॥

तत्रैव महतीं सिद्धिं देवानामपि दुर्लभाम् ।
* * * * * * * * * * * * * * * * * ॥ ७ ॥

इति । कुलचूडामणौ -

शृणु पुत्र रहस्यं मे समयाचारसम्भवम् ।
येन हीना न सिध्यन्ति जन्मकोटिसहस्रशः ॥ १ ॥

मानवः कुलशास्त्राणां कुलाचार्यानुचारिणाम् ।
तदा चरेत् तु सर्वत्र वैष्णवाचारतत्परः ॥ २ ॥

परनिन्दासहिष्णुः स्यादुपकाररतः सदा ।
पर्वते विपिने वापि निर्जने शून्यमण्डपे ॥ ३ ॥

चतुष्पथे जनशून्ये यदि दैवाद्गतिर्भवेत् ।
क्षणं ध्यात्वा मनुं जप्त्वा नत्वा गच्छेद्यथासुखम् ॥ ४ ॥

गृध्रं वीक्ष्य महाकालीं नमस्कुर्यादलक्षितम् ।
क्षेमङ्करीं तथा वीक्ष्य जम्बुकीं यमदूतिकाम् ॥ ५ ॥

कुररं श्येनभूकाकौ कृष्णमार्जारमेव च ।
कृशोदरि महाचण्डे मुक्तकेशि बलिप्रिये ॥ ६ ॥

कुलाचारप्रसन्नास्ये नमस्ते शङ्करप्रिये ।
श्मशानं च शिवं दृष्ट्वा प्रदक्षिणमनुव्रजन् ॥ ७ ॥

प्रणम्यानेन मनुना मन्त्री सुखमवाप्नुयात् ।
घोरदंष्ट्रे करालास्ये फिटिशब्दप्रणादिनि ॥ ८ ॥

घोरघोररवास्फारे नमस्ते विन्द्यवासिनि ।
भाग्योदयसमुत्पन्ने नमस्ते वरवर्णिनि ॥ ९ ॥

कृष्णवर्णं तथा पुष्पं राजानं राजपूत्रकम् ।
हस्त्यश्वरथशस्त्राणि फलकान् वीरपूरुषान् ॥ १० ॥

महिषं कुलदेवं च दृष्ट्वा महिषमर्दिनीम् ।
प्रणम्य जयदुर्गां वा सर्वविघ्नैर्न लिप्यते ॥ ११ ॥

जय देवि जगद्धात्रि त्रिपुराद्ये त्रिदैवते ।
भक्तेभ्यो वरदे देवि महिषघ्नि नमोऽस्तु ते ॥ १२ ॥

मद्यभाण्डं सदालोक्य मत्स्यं मांसं वरस्त्रियम् ।
दृष्ट्वा च भैरवीं देवीं प्रणमेद्विमृशन् मनुम् ॥ १३ ॥

घोरविघ्नविनाशाय कुलाचारसमृद्धये ।
नमामि वरदे देवि मुण्डमालाविभूषिते ॥ १४ ॥

रक्तधारासमाकीर्णां वरदे त्वां नमाम्यहम् ।
सर्वविघ्नहरं देवि नमस्ते हरवल्लभे ॥ १५ ॥

एतेषां दर्शने चैव यदि नैवं प्रकुर्वते ।
शक्तिमन्त्रं पुरस्कृत्य तस्य सिद्धिर्न जायते ॥ १६ ॥

कुलाचारे कुलाष्टम्यां चतुर्दश्यां विशेषतः ।
योगिनीपूजनं तत्र प्रधानं कुलपूजनम् ॥ १७ ॥

यथा विष्णुतिथौ विष्णुः पूजितो वाञ्छितप्रदः ।
तथा कुलतिथौ दुर्गा पूजिता वरदायिनी ॥ १८ ॥

इति । कुलाचारनियमस्तु यामले -

रविश्चन्द्रो गुरुः सौरश्चत्वारश्चाकुला इमे ।
भौमशुक्रौ कुलाख्यौ तु बुधवारः कुलाकुलः ॥ १ ॥

द्वितीया दशमी षष्ठी कुलाकुलमुदाहृतम् ।
विषमाश्चाकुलाः सर्वाः शेषाश्च तिथयः कुलाः ॥ २ ॥

वारुणार्द्राभिजिन्मूलं कुलाकुलमुदाहृतम् ।
कुलानि समयुग्मानि शेषमान्यकुलानि च ॥ ३ ॥

तिथौ वारे च नक्षत्रे ह्यकुले स्थायिनो जयः ।
कुलाख्ये जयिनो नित्यं साम्यं चैव कुलाकुले ॥ ४ ॥

इति । एवं कुलाचारादिकं ज्ञात्वा साधकः कर्म कुर्यात् । अथ शिवाबलिः । कुलचूडामणौ -

बिल्वमूले प्रान्तरे वा श्मशाने वापि साधकः ।
मांसप्रधानं नैवेद्यं सन्ध्याकाले निवेदयेत् ॥ १ ॥

कालिकालालीति वक्तये तत्रोमा शिवरूपिणी ।
पशुरूपधरायाति परिवारगणैः सह ॥ २ ॥

भुक्त्वा रौति यदैशान्यां मुखमुत्तोल्य सस्वरम् ।
तदैव मङ्गलं तस्य नान्यथा कुलभूषणम् ॥ ३ ॥

अवश्यमन्नदानेन नियतं तोषयेच्छिवाम् ।
नित्यश्राद्धं तथा सन्ध्यावन्दनं पितृतर्पणम् ॥ ४ ॥

तथैव कुलसेव्यानां नित्यता कुलपूजने ।
पशुरूपां शिवां देवीं यो नार्चयति निर्जने ॥ ५ ॥

शिवारावेण तस्याशु सर्व नश्यति निश्चितम् ।
जपपूजाविधानानि यत्किञ्चित् सुकृतानि च ॥ ६ ॥

गृहीत्वा शापमादाय शिवा रोदिति निर्जने ।
एकया भुज्यते यत्र शिवया देव भैरव ॥ ७ ॥

तत्रैव सर्वशक्तीनां प्रितीः परमदुर्लभा ।
पशुशक्तिः पक्षिशक्तिर्नवशक्तिर्यथाक्रमात् ॥ ८ ॥

पूजनाद्विगुणं कर्म सगुणं साधयेत् ततः ।
तेन सर्वप्रयत्नेन कर्तव्यं पूजनं महत् ॥ ९ ॥

राजादिभयमापन्नै देशान्तरभयादिके ।
शुभाशुभानि कर्माणि विचिन्त्य बलिमाहरेत् ॥ १० ॥

गृह्ण देवि महाभागे शिवे कालाग्निरूपिणि ।
शुभाशुभफलं व्यक्तं ब्रूहि गृह्ण बलिं तव ॥ ११ ॥

एवमुच्चार्य दातव्यो बलिः कुलार्चनप्रियैः ।
यदि न भुज्यते वत्स तदा नैव शुभं भवेत् ॥ १२ ॥

शुभं यदि भवेत् त्वत्र भुज्यते तदशेषतः ।
एवं ज्ञात्वा महादेव शान्तिस्वस्त्ययनं चरेत् ॥ १३ ॥

इति । कुलवर्त्म सर्वत्र गोपनीयम् । तन्त्रान्तरे -

निर्जने चैव कर्तव्यं न चैवं जनसंनिधौ ।
किंवा पक्षिपतङ्गादिदर्शने नैव कारयेत् ॥ १ ॥

पातालमण्डपे वापि गह्वरेषु नियन्त्रिते ।
निश्छिद्रमण्डपे वापि कर्तव्यं नच सन्निधौ ॥ २ ॥

कुलपुष्पं कुलद्रव्यं कुलपूजां कुलं जपम् ।
कुलं कुलपतिं चैव कुलमालां कुलाकुलम् ॥ ३ ॥

कुलचक्रं कुलध्यानं सर्वथा न प्रकाशयेत् ।
प्रकाशात् कार्यहानिः स्यात् प्रकाशान्निधनादिकम् ॥ ४ ॥

प्रकाशान्मन्त्रनाशः स्यात् प्रकाशात् कुलहिंसनम् ।
प्रकाशान्मृत्युलाभः स्यान्न प्रकाश्यं कदाचन ॥ ५ ॥

पूजाकाले च देवेशि यदि कोऽप्यत्र गच्छति ।
दर्शयेद्वैष्णवीं मुद्रां विष्णुन्यासं तथा स्तवम् ॥ ६ ॥

प्रकाशाद्यदि गुप्तिः स्यात्तत्प्रकाशान्न दूषणम् ।
गोपनाद्यदि व्यक्तिः स्यान्न गुप्तिरभिधीयते ॥ ७ ॥

कदाचिद्देहहानिः स्यान्न च व्यक्तिः कदाचन ।
वरं पूजा न कर्तव्या व्यक्तिर्नैव कदाचन ॥ ८ ॥

इति । वीरतन्त्रे शिवाबलिमधिकृत्य -

नृपलं वैरिनाशाय समरे विजयाय च ।
छागलंपरसेन्यस्य स्तम्भनाय विशेषतः ॥ १ ॥

सर्वरोगोपशमनं सर्वापद्विनिवारणम् ।
परवादिमुखस्तम्भे माहिषं शस्यते पलम् ॥ २ ॥

मृगजं सर्वशत्रूणामुचाटनकरं परम् ।
शशोत्थं वश्यकर्मादावाविकं कृष्टिकारकम् ॥ ३ ॥

पशूत्थं मोहने शस्तं विद्वेषे तुरगोद्भवम् ।
उच्चाटे चोष्ट्रजं शस्तं खरोत्थं प्रीतिनाशनम् ॥ ४ ॥

महामांसाष्टकस्येह फलं शृणु क्रमेण च ।
आयुः कीर्तिधनारोग्यपुत्रश्रीजयकान्तिदम् ॥ ५ ॥

इति । महामांसाष्टकं तत्रैव -

गोनरेभाश्वमहिषवराहाजमृगोद्भवम् ।
महामांसाष्टकमिदं देवताप्रीतिकारकम् ॥ ६ ॥

खेचराणां विशेषेण खेचरीसिद्धिदं फलम् ।
सर्वमांस सुरायुक्तं दद्याद् देव्यै विशेषतः ॥ ७ ॥

मत्स्योत्थं मन्त्रसिद्धयै च कौक्कुटं कार्मणापहम् ।
* * * * * * * * * * * * * * * * ॥ ८ ॥

इति । अथैतस्य प्रयोगः बिल्वमूले प्रान्तरे वा इत्यादि विजनस्थले सन्ध्याकाले तत्र गत्वा बलिद्रव्यं क्वचित्संस्थाप्य स्वयमासने समुपविश्य पुरतः पाषाणदौ पूजायन्त्रमथवा त्रिकोणषट्कोणवृत्तचतुरस्रात्मकं वा मण्डलं चन्दनादिना विरच्य गुरुगणपतिक्षेत्रेशान् प्रणम्य मूलेन प्राणायामत्रयर्ष्यादिकरषडङ्गन्यासध्यानानि विधाय अद्येत्यादि अमुकदेवशर्मामुककामः श्रीपरदेवताप्रीत्यर्थं शिवाबलिविधिं करिष्ये इति सङ्कल्प्य बलिमण्डलाय नमः इति गन्धादिना मण्डलं सम्पूज्य तत्र बलिद्रव्यं निक्षिप्य बलिद्रव्याय नमः इति बलिद्रव्यं सम्पूज्य मूलविद्यामुच्चार्य कालि काल्युमे शिवरूपिणि पशुरूपधरे परिवारगणैः सहात्रायाहि धूपदीपादिसहितं बलिं गृह्ण गृह्ण स्वाहा पुनर्मूलं अमुकदेवतायै सायुधायै सशक्तिकायै पशुरूपधराये एष बलिर्नमः इत्युत्सृज्य गृह्ण देवि महाभागे शिवे कालाग्निरूपिणि । शुभाशुभफलं व्यक्तं ब्रूहि गृह्ण बलिं तव ॥ इति प्रार्थ्य क्वचिद्दूरे गत्वा एकान्ते स्वासनोपर्युपविश्य प्राणायामादिपूर्वकं मूलमन्त्रं जपेत् । यावदागत्य शिवाबलिं स्वीकृत्य रौति तावत्कालं जपित्वा जपं समर्प्य नद्यादौ पादौ प्रक्षाल्याचम्य देवी ध्यायन्मौनी पश्चादपश्यद् गृहमागच्छेदिति ॥

अथ दूतीयागः । देवीयामले - श्रीमहादेव उवाच

दूतीयागविधिं वक्ष्ये कौलधर्मोत्तमोत्तमम् ।
तस्यानुष्ठानमात्रेण स्वयं ब्रह्मत्वमाप्नुयात् ॥ १ ॥

सन्ति ननाविधा धर्मा ऐहिकायुष्मिकप्रदाः ।
तत्सारं तु समालोक्य तथान्यन्मन्त्रसंग्रहम् ॥ २ ॥

तन्मध्ये सारभूतं च सद्यः प्रत्ययकारकम् ।
न कस्यापि वरारोहे प्रोक्तवांस्त्रिदशेष्वपि ॥ ३ ॥

दूतीयागे कृते मन्त्री सर्वज्ञो जायते ध्रुवम् ।
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ॥ ४ ॥

देवा यक्षाश्च गन्धर्वा ऋषयश्च मुनीश्वराः ।
ब्रह्मविष्णुमहेशाद्यास्तथान्ये पितृदेवताः ॥ ५ ॥

दूतीयागविधिं कृत्वा तत्तत्पदमवाप्नुयुः ।
विधिवत् सुकृती कृत्वा दूतीयागं तु पार्वति ॥ ६ ॥

कृतकृत्यो न सन्देहः सुन्दरी सुप्रसीदति ।
येषां वंशे प्रजायेत दूतीयागो महेश्वरि ॥ ७ ॥

ते धन्याश्च समृद्धार्थारते वन्द्याः सुहृदः समाः ।
कायेन मनसा वाचा सर्वथा न प्रकाशयेत् ॥ ८ ॥

सुतं पत्नीं शिरो दद्यान्न देयमिदमुत्तमम् ।
कुर्यात् प्रयत्नतश्चैव दूतिकायजनं प्रिये ॥ ९ ॥

यैः कृतं यजनं दूत्यास्तैरिष्टाः क्रतवोऽखिलाः ।
सर्वतीर्थमयः प्रोक्तः सर्वदेवमयो भवेत् ॥ १० ॥

पुरश्चर्यादि सकलं कृतं तेन न संशयः ।
अश्वमेधसहस्राणि वाजपेयशतानि च ॥ ११ ॥

आसमुद्रा च धरणी दत्ता तेन सदक्षिणा ।
मेरुमन्दरतुल्यानि सुवर्णान्यर्पितानि वै ॥ १२ ॥

गोकोटिदानाद्यत् पुण्यं तत्पुण्यं जायते प्रिये ।
तस्मात् सर्वप्रयत्नेन दूतीयागं समाचरेत् ॥ १३ ॥

पूजासम्पूर्णदं भद्रे सर्वारिष्टप्रशामकम् ।
यदनुष्ठानमात्रेण सर्वमाचरितं भवेत् ॥ १४ ॥

शक्तिपूजा प्रकर्तव्या विधिवद्भक्तिसंयुतैः ।
अथ दूतीं प्रवक्ष्यामि लक्षणानि च सुन्दरि ॥ १५ ॥

अचञ्चला सलज्जा च कुलगा(जा)मृदुभाषिणी ।
पट्वी सुशीला प्रियवाग् गुरुशुश्रूषणे रता ॥ १६ ॥

दयाधर्मरता शान्ता हितदा सुखरूपिणी ।
रूपयौवनसम्पन्ना निश्चला मन्त्रतत्परा ॥ १७ ॥

सदा तुष्टा सुपुष्टाङ्गी सुन्दरी मानिनी शुचिः ।
नातिकुब्जा च ह्रस्वा च चारुसर्वाङ्गसंयुता ॥ १८ ॥

दीर्घकेशी विशालाक्षी सूत्रसुस्पष्टनासिका ।
पूर्णगण्डकपोला च रक्तोष्ठी च सुदन्तिका ॥ १९ ॥

वर्तुलाननगौरा च सुहनुः कम्बुकण्ठिनी ।
सुबाहुवल्लीसंयुक्ता वृत्तपीनपयोधरा ॥ २० ॥

कृशमध्या सुनाभिः स्यादूरुस्तम्भातिमांसला ।
सरलांगुलिकायुक्ता सर्वलक्षणसंयुता ॥ २१ ॥

कायेन मनसा वाचा स्वार्थलौल्यविवर्जिता ।
पूजनीया प्रयत्ने पञ्चविंशतिवार्षिका ॥ २२ ॥

अप्रसूता विशेषेण श्यामा चैवोत्तमा मता ।
* * * * * * * * * * * * * * * * ॥ २३ ॥

श्यामालक्षणं तु कामशास्त्रे स्निग्धनखनयनदशना निरनुशया मानिनी स्थिरस्नेहा । सुस्पर्शशिशिरवराङ्गविवराङ्गनाः श्यामेति ॥

अत ऊर्ध्वं न पूजा स्यादित्याज्ञा परमेश्वरी ।
पूजिताश्चेद्वरारोहे तर्पणं निष्फलं भवेत् ॥ २४ ॥

अर्चनेषु प्रयोक्तव्याः कामिन्यो भक्तिचेतसः ।
ता यदा रजसा युक्तास्ततः पूज्या महाफलाः ॥ २५ ॥

आत्मीयाश्च पराश्चैव पुष्पवतीः प्रपूजयेत् ।
तत्र द्वेषपरो मूर्खो दारिद्र्यं समवाप्नुयात् ॥ २६ ॥

इति । उत्तरतन्त्रे -

याममात्रे गते रात्रौ कुलगेहं ततः पुमान् ।
ताम्बूलापूरितमुखो धूपामोदसुगन्धितः ॥ १ ॥

रक्तचन्दनदिग्धाङ्गो रक्तमाल्यानुलेपनः ।
रक्तवस्त्रपरीधानो लाक्षारक्तगृहं गतः ॥ २ ॥

रक्तमान्येन संवीतो रक्तपुष्पविभूषितः ।
पञ्चीकरणसंकेतैः पूजयेत् कुलनायिकाम् ॥ ३ ॥

इति । कुलनायिका यथा तत्रैव -

नटी कापालिनो वेश्या पुक्कसी नापिताङ्गना ।
रजकी रञ्जकी चैव सैरन्ध्री च सुवासिनी ॥ ४ ॥

घटिका खटिका चैव तथा गोपालकन्यका ।
विशेषवैदग्ध्ययुताः सर्वा एव कुलाङ्गनाः ॥ ५ ॥

गुरुभक्ता देवभक्ता घृणालज्जाविवर्जिताः ।
संगोपनरताः प्रायस्तरुण्यः सर्वसिद्धिदाः ॥ ६ ॥

अक्षताचारसम्पन्नां शीलसौभाग्यशालिनीम् ।
सदापरिगृहीतां वा यद्वा सङ्केतमागताम् ॥ ७ ॥

अथवा तत्क्षणायातां मदनानलतापिताम् ।
विलिप्तां रक्तगन्धेन रक्ताम्बरविभूषिताम् ॥ ८ ॥

सुगन्धिरक्तकुसुमां सर्वाभरणभूषिताम् ।
सदानुष्ठाननिरतां सात्त्विकीं भक्तिसंयुताम् ॥ ९ ॥

कालुष्यरहितां कुर्यात् सभायां भक्तवत्सलाम् ।
चातुर्यौदार्यदाक्षिण्यकरणादिगुणाधिकाम् ॥ १० ॥

रूपयौवनसम्पन्नां शीलसौभाग्यशालिनीम् ।
सुधूपधूपितां तन्वीं दूतीकर्मसु योजयेद् ॥ ११ ॥

इति । कुमारीतन्त्रे -

नटी कापालिनी वेश्या रजकी नापिताङ्गना ।
ब्राह्मणी शूद्रकन्या च तथा गोपालकन्यका ॥ १ ॥

ब्राह्मणीति ब्रह्मणविषयम् ।

मालाकारस्य कन्यापि नव कन्याः प्रकीर्तिताः ।
एवं भूतां यजेत्तां तु प्रसूनतूलिकोपरि ॥ २ ॥

अर्थाद्वा कामतो वापि सौख्यादपि च यो नरः ।
लिङ्गयोनिरतो मन्त्री रौरवं नरकं व्रजेत् ॥ ३ ॥

इति । देवीयामले -

अथ पूजाफलं वक्ष्ये उतरोत्तरतोत्तरम् ।
स्वशक्त्या अयुतं पुण्यं परशक्तिप्रपूजने ॥ १ ॥

ततो वेश्याधिका ज्ञेया रजक्यपि ततोऽधिका ।
रजक्याः क्षुरिकी श्रेष्ठा क्षुरिक्याश्चर्मकारिणी ॥ २ ॥

ततोऽधिकतरा प्रोक्ता हेतुनारी वरानने ।
ततोऽधिकान्त्यसम्भूता चण्डाली च ततोऽधिका ॥ ३ ॥

ततो मातङ्गिनी श्रेष्ठा मातङ्गयाः पुक्कसी मता ।
पुक्कस्या अक्षता श्रेष्ठा ततोऽतिसुन्दरी स्मृता ॥ ४ ॥

सुन्दरीपरतः प्रोक्ता प्रीतिवत्यनुगामिनी ।
तत्परा परमेशानि तन्मनाः शुभलक्षणा ॥ ५ ॥

समयाचारसम्पन्ना मन्त्रज्ञा भयवर्जिता ।
विदग्धा त्वप्रसूता च धैर्यस्वातन्त्र्यसंयुता ॥ ६ ॥

एवं गुणसमायुक्ताः पूजयेत् सर्वयोषितः ।
आत्मीयाश्च पराश्चैव शक्तिमात्र्रं महेश्वरि ॥ ७ ॥

मन्त्राधिदेवताबुद्ध्या पूज्याः सर्वोपचारकैः ।
विविधैः फलताम्बूलैर्वस्त्रालङ्कारहेमभिः ॥ ८ ॥

सम्पूज्य विधिवद्भक्त्या बहुहेतुं प्रदापयेत् ।
सम्भोगवासनां धृत्वा यः कुर्याच्छक्तिपूजनम् ॥ ९ ॥

स दारिद्र्यमवाप्नोति नारकी च भवेद् ध्रुवम् ।
परमानन्दरूपेण देह भावविवर्जितः ॥ १० ॥

शक्त्या यदुक्तं देवेशि तदृचे शाम्भवी स्तवम् ।
तदाज्ञा तु प्रकर्तव्या तदा श्रेयः प्रवर्तते ॥ ११ ॥

शक्त्याज्ञां लङ्घयेन्मन्त्री तपस्तेपे निरर्थकम् ।
कृते तत्रोपहासादि कुष्ठी भवति नान्यथा ॥ १२ ॥

तस्मात् सर्वप्रयत्नेन तद्वाक्यं तु समाचरेत् ।
व्यङ्गा वा विकृताङ्गी च काणाक्षी बधिरा तथा ॥ १३ ॥

मुण्डिनी विधवा मूका प्रलापिन्यमृतभाषिणी ।
अदीक्षिता भक्तिहीना गुरुसेवाविवर्जिता ॥ १४ ॥

दूषकी समयाद्भ्रष्टा घोरा कैतवचारिणी ।
वृद्धातुरा वक्रमुखी क्रोधदुर्गन्धकश्मला ॥ १५ ॥

सदा निष्ठुरवाक्या च अनाचारा च काकवाक् ।
दीर्घदन्ता च लम्बोष्ठी शुष्कस्तननितम्बिनि ॥ १६ ॥

कृष्णवर्णातिमलिना कृशा विकलचेतना ।
महास्थूलातिरोगार्ता प्रलम्बितपयोधरा ॥ १७ ॥

ईषन्नासिकनेत्रा च शुष्काङ्गी चोर्ध्वकेशिनी ।
कनिष्ठा क्रोडदन्ता च सदा स्वार्थसमन्विता ॥ १८ ॥

कुष्ठी हीनाङ्गिनी चैव पंग्वन्धा चातुरालसा ।
श्वेतांङ्गिनी रौद्रबिम्बा च्छागयोनिः पिशाचिका ॥ १९ ॥

मतिभ्रष्टातिविकला अतिदीर्घातिकुब्जिका ।
एतल्लक्षणसम्पन्नाः शक्तीर्यत्नेन वर्जयेत् ॥ २० ॥

शक्तिपात्रं न दातव्यं विधवायै कदाचन ।
अज्ञानाल्लोभतो मोहाद् दत्ते पूजा तु निष्फला ॥ २१ ॥

तस्माद् दूती प्रकर्तव्या लक्षणोक्ता तु पार्वति ।
* * * * * * * * * * * * * * * * ॥ २२ ॥

इति । तथा ब्रह्मयामले नारद उवाच -

सर्वज्ञ जगतां नाथ शाक्तं चेच्छ्रुतिचोदितम् ।
मातङ्गीपूजनं तत्र कथं मुक्तिप्रदायकम् ॥ १ ॥

अर्चने प्रथिता वेश्या वेश्या सा तु रजस्वला ।
रजस्वला च मातङ्गी सा दूती सर्वमङ्गला ॥ २ ॥

इति प्रोक्तं त्वया पूर्वमिदानीं तद्विपर्ययः ।
तव वाक्यमभूत् ब्रह्मन्नेतद्वद पितामह ॥ ३ ॥

ब्रह्मोवाच -

मा कुरुष्वात्र सन्देहं वेदोक्तं शाक्तमुत्तमम् ।
अस्मिन् सर्वज्ञ कल्पोऽसौ मातङ्गी मुनिपुङ्गवः ॥ ४ ॥

वर्षाणामयुतं वत्स तप उग्रं चचार ह ।
तेन प्रीता महादेवी देवानां हितकारिणी ॥ ५ ॥

वरं वृणीष्व भगवन् दास्यामि तव वाञ्छितम् ।
तच्छ्रुत्वा द्विजवर्यस्तां ययाचे धर्मसाधनम् ॥ ६ ॥

हे देवि जगतां मातः प्रीता चेद्यदि साम्प्रतम् ।
अपत्यतां समासाद्य मत्कुलालम्बनं कुरु ॥ ७ ॥

इत्यभ्यर्थ्य मुनिश्रेष्ठो जनयामास तां सुताम् ।
श्यामलां चारुवदनां वीणाशुकसमन्विताम् ॥ ८ ॥

शारिकां ज्ञानसम्पन्नां जपमालां कराम्बुजैः ।
धारयन्तीं विशालाक्षीं शङ्खताटङ्कशोभिनीम् ॥ ९ ॥

सा वभूव महादेवी मातङ्गकुलनन्दिनी ।
मातङ्गीति तदा देवी विख्याता वरदायनी ॥ १० ॥

तां विलोक्य तदा शम्भुर्दूतीं चक्रे सुलक्षणाम् ।
त्रिपुराज्जेतुकामेन योनिपूजा तदा कृता ॥ ११ ॥

प्रत्यालीढास्थिता देवी पूजां स्वीकृत्य निश्चला ।
यदा दृष्टरजा भूत्वा तां वव्रे शङ्करः प्रियाम् ॥ १२ ॥

तदा प्रभृति सञ्जातो दूतीयागो मनोहरः ।
प्रणवेन तदा शम्भुस्तया सार्धं रतं भजन् ॥ १३ ॥

प्रणवान्तर्गतं मन्त्रं मातङ्गाख्यं च निर्गतम् ।
सर्वसौभाग्यजननं मालामन्त्रमभूत् तदा ॥ १४ ॥

रसावाप्तिपदं दिव्यमनिन्द्यं लोकरञ्जनम् ।
मातङ्गीमन्त्रमत्यर्थं मन्मथप्रतिपादकम् ॥ १५ ॥

आद्यन्तशून्या सा देवी तस्मात् ख्याता तदन्त्यजा ।
मातङ्गीचान्त्यवर्णस्था तदासा अन्त्यजाभवत् ॥ १६ ॥

अन्त्यजानां द्विजानां च चक्रे ऐक्यं प्रशस्यते ।
सा देवी सर्ववर्णानां वरं दत्त्वा निरुत्तरम् ॥ १७ ॥

कृत्वा सङ्केतसमयं चक्रे मातङ्गमुत्तमम् ।
न दोषः सर्ववर्णानामिति दत्त्वा वरं तदा ॥ १८ ॥

न दोषं तत्र विज्ञेयं सर्वतः श्रुतिचोदितम् ।
देवीमुद्दिश्य मोक्षार्थं कृतं यद् दोषवर्जितम् ॥ १९ ॥

एतच्छास्त्रमिदं दिव्यं न वाच्यं श्रुतिचोदितम् ।
अन्तर्यागमिदं ज्ञेयं बहिर्यागं च वैदिकम् ॥ २० ॥

मन्त्रतन्त्रसमायुक्तं तद्द्वयं ब्रह्मबोधकम् ।
चक्रसङ्केतसमयं सर्वं तुभ्यम् प्रकाशितम् ॥ २१ ॥

गोपनीयं प्रयत्नेन न वाच्यं पशुसन्निधौ ।
त्यज शङ्कां महाभाग सत्यमेतन्मयोदितम् ॥ २२ ॥

मातङ्गीपूजनं श्रेष्ठं दूतीयागे मनोहरे ।
योनिपूजां विना पूजा कृतापि ह्यकृता भवेत् ॥ २३ ॥

कृत्वा केनापि सर्वज्ञ स भवेद्विगतामयः ।
आयुरारोग्यविभवानमितांल्लभते नरः ॥ २४ ॥

अनेनैव विधानेन विषार्तो निर्विषो भवेत् ।
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ॥ २५ ॥

मातङ्गीशक्तिमभ्यर्च्य तया साकं समर्चयेत् ।
मातङ्गीमन्मथोपेता सर्वकामार्थसिद्धये ॥ २६ ॥

शक्त्या साकं तदा पूज्या मातङ्गी मन्त्रदेवता ।
सा देवी शक्तिहीना तु न ददाति मनोरथम् ॥ २७ ॥

निःशङ्कां निर्मलां तन्वीं श्यामां चारुपयोधराम् ।
कौलिकान्वयसम्भूतां दीक्षितां क्रोधवर्जिताम् ॥ २८ ॥

दीक्षितां कौलिके यागे सुशीलां च दृढव्रताम् ।
त्रिंशत्संवत्सराधःस्थां षोडशाब्दाधिकामपि ॥ २९ ॥

Redaktionelle Auslassung in Kapitel 18: Die vorausgehende Altersangabe schließt Minderjährige ein. Der anschließende sexualrituelle Abschnitt wird deshalb hier nicht wörtlich wiedergegeben. Eine nichtgrafische, nach Quellenabschnitten gekennzeichnete Darstellung findet sich in der deutschen Bearbeitung. Diese Ausgabe ist an dieser Stelle ausdrücklich keine vollständige Sanskrit-Wiedergabe.

इति । अत्र कुलयागोत्तरमन्तर्यजनं प्रशस्तम् । तदुक्तं तन्त्रान्तरे -

कुलयागं ततः कृत्वा ह्यन्तर्यजनमाचरेत् ।
अथान्तर्यजनं वक्ष्ये दृष्टादृष्टफलप्रदम् ॥ १ ॥

गुरोर्ध्यानं प्रकुर्वीत यथापूर्वं विशालधीः ।
स्नायाच्च विमले तीर्थे पुष्करे हृदयाश्रिते ॥ २ ॥

बिन्दुतीर्थेऽथवा स्नायात् पुनर्जन्म न विद्यते ।
* * * * * * * * * * * * * * * * ॥ ३ ॥

इति । अथवा -

इडा सुषुम्ना शिवतीर्थकेऽस्मिन् ज्ञानाम्बुपूर्णे वहतः शरीरे ।
ब्रह्माम्बुभिः स्नाति तयोः सदा यः किं तस्य गाङ्गैरपि पुष्करैर्वा ॥ ४ ॥

इति । स्नानम् ।

शिवशक्त्योः समावेशो यस्मिन् काले प्रजायते ।
सा सन्ध्या कुलनिष्ठानां समाधिस्थैः प्रतीयते ॥ ५ ॥

इति सन्ध्या ।

चन्द्रार्कानलसम्बन्धाद्गलितं यत्परामृतम् ।
तेनामृतेन दिव्येन तर्पयेत् परदेवताम् ॥ ६ ॥

इति तर्पणम् ।

ब्रह्मरन्द्रादधोबागे यच्चान्द्रं पात्रमुत्तमम् ।
कलासारेण सम्पूर्य तर्पयेत् तेन खेचरीम् ॥ ७ ॥

इत्यर्घ्यदानम् । आधारे लिङ्गनाभावित्याद्यन्तर्मातृकान्यासः ।

ईड्यमानहृदयोऽयं हृदये स्याच्चिदात्मकः ।
क्रियते तत्परत्वेन हृन्मन्त्रेण ततः परम् ॥ ८ ॥

सर्वाङ्गादिगुणोत्सङ्गे संविद्रूपे परात्मनि ।
क्रियते तत्परत्वेन शिरोमन्त्रेण देशिकैः ॥ ९ ॥

हृच्छिरोन्ते च चिद्धाम मनसा भावना दृढा ।
क्रियते निजदेहस्य शिखामन्त्रेण देशिकैः ॥ १० ॥

मन्त्रात्मकस्य देहस्य मन्त्रेणानेन तेजसा ।
सर्वतो वर्ममन्त्रेण क्रियते देहसंवृतिः ॥ ११ ॥

वौषडिति मनुं जप्त्वा क्रियते देहनेत्रकम् ।
ततोऽस्त्रेण च मन्त्रज्ञः करोत्यस्त्र चतुर्दिशः ॥ १२ ॥

इति षडङ्गं विधाय ध्यानं कुर्यात् ।

यद्ददाति परं ज्ञानं संविद्रूपे परात्मनि ।
हृदयादिमयं तेजः स्यादेतन्मन्त्रसंज्ञितम् ॥ १३ ॥

आध्यात्मिकादिरूपं सत्साधकस्य विनाशयेत् ।
अविद्यायाः स्वतन्त्रं यत्परं धाम समीरितम् ॥ १४ ॥

इति वा षडङ्गं विधाय ध्यानं कुर्यात् ।

शक्तिद्वयपुटान्तःस्थं कमलद्वयशोभितम् ।
ज्योतिस्तत्त्वमयं ध्यायेत् कुलाकुलनियोजनात् ॥ १५ ॥

अथवा -

शृङ्गाटद्वयमध्यस्थं शक्तिद्वयपुटीकृतम् ।
सदा समरसं ध्येयं ध्यानं तत्कुलयोगिनाम् ॥ १६ ॥

इति ध्यानम् ।

अर्चयन् विषयैः पुष्पैस्तत्क्षणात्तन्मयो भवेत् ।
न्यासस्तन्मयताबुद्धिः सोऽहंभावेन चिन्तयेत् ॥ १७ ॥

अमायमनहङ्कारमरागममदं तथा ।
अमोहकमकर्मत्वमद्वेषाक्षोभकौ ततः ॥ १८ ॥

अमात्सर्यमलोभं च दशपुष्पं विदुर्बुधाः ।
अहिंसा परमं पुष्पं पुष्पमिन्द्रियनिग्रहः ॥ १९ ॥

दयापुष्पं ज्ञानपुष्पं क्षमापुष्पं च पञ्चमम् ।
इत्यष्टसप्तभिः पुष्पैः पूजयेत् परदेवताम् ॥ २० ॥

इति पूजनम् ॥

माला पञ्चाशिका प्रोक्ता सूत्रं शक्तिशिवात्मकम् ।
ग्रथिता कुण्डलीशक्तिः कलान्ते मेरुसंस्थितिः ॥ २१ ॥

जप्त्वा जपं परं धाम्नि तेजोरूपे निवेदयेत् ।
* * * * * * * * * * * * * * * * ॥ २२ ॥

इति जपः ।

अमूलमपरिच्छिन्नं विभाव्यात्मान्तरात्मकम् ।
परमात्मस्वरूपं च तथा ज्ञानात्मरूपकम् ॥ २३ ॥

चतुरस्रं च चित्कुण्डमानन्दमेखलायुतम् ।
नाभौविभाव्य तन्मध्ये जुहुयात् साधकोत्तमः ॥ २४ ॥

मूलाग्नौ नाभिचैतन्यहविषा मनसा स्रुचा ।
ज्ञानप्रदीपिते नित्यमक्षवृत्तिर्जुहोम्यहं स्वाहा ॥ २५ ॥

इति प्रथमाहुति । ततो मुलान्ते -

धर्माधर्महविर्दीप्त आत्माग्नौ मनसा स्रुचा ।
सुषुम्नावर्त्मना नित्यमक्षवृतीर्जुहोम्यहं स्वाहा ॥ २६ ॥

इति द्वितीयाहुतिः । मूलान्ते -

प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीस्रुचम् ।
धर्माधर्मकलास्नेहपूर्णामग्नौ जुहोम्यहं स्वाहा ॥ २७ ॥

इति तृतीयाहुतिः । ततौ मूलान्ते -

अन्तर्निरन्तरनिरिन्धनमेधमाने मोहान्धकारपरिपन्थिनि संविदग्नौ ।
कस्मिंश्चिदद्भुतमरीचिविकासभूमौ विश्वं जुहोमि वसुधादिशिवावसानम् ॥ २८ ॥

इति चतुर्थ्याहुतिः ।

इत्यन्तर्यजनं कृत्वा साक्षाद्ब्रह्ममयो भवेत् ।
न तस्य पुण्यपापानि जीवन्मुक्तो भवेद् ध्रुवम् ॥ २९ ॥

इत्यन्तर्यागः ॥

अथ मधुपर्काङ्गच्छागादिपशुबलिविधानम् पशुं स्नपयित्वा ओं पशवे पाद्यं नमः एवमर्घ्याचमनगन्धान् दत्त्वा शृङ्गयोर्मध्ये सिन्दूरादिना तिलकं दापयित्वा पशुशिरसि पुष्पाणि दत्त्वा एतदधिपतयेऽग्नये नमः इति पशुपृष्ठे पुष्पं दत्त्वा मूलं० एतत्सम्प्रदानरूपायि साङ्गोपाङ्गायै श्रीमहात्रिपुरसुन्दर्यै नमः इति देव्यै पुष्पाञ्जलिं दत्त्वा वामहस्तेन पशुस्कन्धं धृत्वा पाशुपतास्त्रेण त्रिधा सम्प्रोक्ष्य वाङ्मनःश्रोत्रत्वक्चक्षूरसनाघ्राणप्राणहस्तपादपायुमेढ्र- मांसरुधिरमेदोस्थिमज्जाशुक्रनाडीचक्ररोमपुच्छसर्वशृङ्गाणि ते आप्यायन्ताम् । एवं सर्वाङ्गानि ते शुन्धामि । अग्निः पशुरासीत्तेनायजन्त स एतल्लोकमजयद्यस्मिन्नग्निः स ते लोको भविष्यति तं जेष्यसि पिबैता आपः । एवं ओं वायुः पशुरासीत्० । ओं सूर्यः पशुरासीत्० । ओं विष्णुः पशुरासीत्० । ओं रुद्रः पशुरासीत्० । ओं हंसः शुचिषत्० । ओं आपो हि ष्ठा मयोभुवः० । वरुणस्योत्तम्भनमसि० ।
पञ्चब्रह्ममन्त्रैर्गायत्र्या मूलमन्त्रेण च पशुं प्रोक्षयेत् । ततो गन्धाक्षतकुसुमैः श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाग्घस्तपादपायुपस्थशिरः स्कन्धपृष्ठपुच्छमुखकण्ठहृदयोदरवृषणरोमरुधिरमांस- वसाप्राणास्थिनाडीचक्रसर्वाङ्गेषु दिग्वाअतसूर्यप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रप्रजापतिचामुण्डा भद्रकालीगन्धर्ववीरभद्रसरस्वतीमहालक्ष्मीभैरवी समुद्रवाराही ओषधीवनस्पति ब्रह्मविष्णुरुद्रपरमात्मसदाशिवगङ्गायमुना जीवात्ममरुद्गणेभ्यो नमः इति पूजयेदिति पशुपूजा । ततः पशुकर्णे पशुपाशाय विद्महे पशुरूपाय धीमहि तन्नः पशुः प्रचोदयात् । ओं हिलिहिलि किलिकिलि पशुरूपधरायै ह्रींदूर्गायै वौषट् मूलविद्यां च जपेत् । ततः -

यज्ञार्थं पशवः सृष्टा यज्ञार्थं पशुघातनम् ।
अतस्त्वां घातयिष्यामि तस्माद्यज्ञे वधोऽवधः ॥ १ ॥

शिवाद्वृत्तमिदं पिण्डमतस्त्वं शिवतां गतः ।
आबुध्यस्व पशोत्वं हि नाशिवस्त्वं शिवोऽसि हि ॥ २ ॥

पशो त्वं बलिरूपेण मम भाग्यादुपस्थितः ।
चण्डिकाप्रीतिदानेन दातुरापद्विनाशय ॥ ३ ॥

पशुरूपं परित्यज्य त्वं गन्धर्वस्वरूपधृक् ।
गौरीरूपं समासाद्य मम कल्याणदो भव ॥ ४ ॥

पशुपाशविमोक्षाय हेतुकूटस्थिताय च ।
पशवे च नमस्तुभ्यं नमस्ते बलिरूपिणे ॥ ५ ॥

छेद्योऽसि बलिरूपस्त्वमाज्ञया परया गुरोः ।
छेदभेदोद्भवं दुःखं क्षमस्व पशुरूपधृत् ॥ ६ ॥

इति सम्प्रार्थ्य सङ्कल्पं कुर्यात् । ओं अद्यामुके मासि आमुकपक्षेऽमुकतिथौ अमुकगोत्रोऽमुकदेवशर्मा दशवर्षदेवीप्रीतिकामो मधुपर्काङ्गत्वेनेमं छागं वह्निदैवत्यं दक्षयज्ञविनाशिन्यै महाघोरायै योगिनीकोटिपरिवृतायै ह्रींदूर्गायै भद्रकाल्यै श्रीमहात्रिपुरसुन्दरीदेव्यै साङ्गायै सायुधायै सवाहनायै सपरिवारायै साङ्गोपाङ्गायै सशक्तिकायै तुभ्यमहं घातयिष्ये इति पशुशिरसि अक्षतयुक्तं जलं दद्यात् ॥ अथ खड्गपूजा खड्गमानीय पुरतः स्थापयित्वा पाशुपतास्त्रेण प्रोक्ष्य चक्रमुद्रया संरक्ष्य धेनुयोनिमुद्रे दर्शयित्वा सिन्दूरेणास्त्रमन्त्रं खड्गे विलिख्य मूलेनास्त्रेण वाभिमन्त्र्य प्रार्थयेत् । ओं अष्टबाहुर्महातेजाः श्याम आरक्तलोचनः । भीमदंष्ट्रः करालास्यो लोलजिह्वो भयानकः ॥ इति ध्यात्वा बाह्यप्राणप्रतिष्ठां कृत्वा पाद्यादिभिः सम्पूज्य ओं खड्ग तीक्ष्णच्छिन्दि छिन्दि कट्ठ कठ्ठ इति त्रिर्जपित्वा ओं असिविशसनः खड्ग तीक्ष्णधारो दुरासदः । श्रीगर्भो विजयश्चैव धर्मपालनमोऽस्तुते ॥ करवाल कृपाण त्वं चण्डिकायाः करे स्थितः । पशुरक्तप्रदानेन चामुण्डाप्रीतिमावह ॥ इति सम्प्रार्थ्य ओं कालिकालि करालि कालिके कालरात्रिकेच्छिन्धि छिन्धि फट् फट् हुंफट् रुधिरं पिब पिब मांसं भक्षय भक्षय अस्थीनि चर्वय चर्वय स्वाहा इति पशुस्कन्धे खड्गं स्पर्शयेत् । ततश्छेदयित्वा किञ्चिद्रक्तमाममांसखण्डं देव्या दक्षभागे स्थापयित्वा ओं रक्तदन्तिकायै स्वाहा इति समर्प्य तेन रुधिरेण देवीं त्रिस्तर्पयेत् । ततः सदीपं शिरो देव्या वामतस्त्रिकोणमण्डले स्थापयित्वा जलं गृहीत्वा ओं महिषघ्नि महामाये चामुण्डे मुण्डमालिनि ।
आयुरारोग्यमैश्वर्यं देहि देवि नमोऽस्तु ते ॥ ओं चामुण्डायै स्वाहा इति समर्पयेत् । इति पशुबलिविधिः । अथ कुमारीयजनविधिः । तत्र ज्ञानार्णवे -

होमादिकं तु सकलं कुमारीपूजनं विना ।
परिपूर्णफलं नैव सफलं पूजनाद्भवेत् ॥ १ ॥

पुष्पं कुमार्यै यद्दत्तं तन्मेरुसदृशं भवेत् ।
कुमारी भोजिता येन त्रैलोक्यं तेन भोजितम् ॥ २ ॥

कुमार्यै यज्जलं दत्तं तज्जलं सागरोपमम् ।
अन्नं तु मीननयने कुलाचलसमं भवेत् ॥ ३ ॥

एकाब्दात् षोडशाब्दान्ताः कुमार्यः पूजने शुभाः ।
विवाहरहिताः स्युश्चेदुत्तरोत्तरसिद्धिदाः ॥ ४ ॥

विवाहितास्तु देवेशि बाला एव कुमारिकाः ।
सुवासिन्यो महाप्रौढाः संशयं त्यज सुव्रते ॥ ५ ॥

कुमरीपूजनं देवि कुमारीमनुना भवेत् ।
* * * * * * * * * * * * * * * * * ॥ ६ ॥

इति । त्रैलोक्यडामरतन्त्रे -

सर्वयज्ञोत्तमं भूप कुमारीपूजनं शृणु ।
कृते यस्मिन् महालक्ष्मीरचिरेण प्रसीदति ॥ १ ॥

आमन्त्रयेद् दिने पूर्वे कुमारीमन्त्रपूर्वकम् ।
पूजादिने समाहूय कुमारीमाद्यदेवताम् ॥ २ ॥

मण्डले चरणौ तस्याः क्षालयेदुष्णवारिणा ।
अर्चयेद् हेमपात्रेण वारिपुष्पाक्षतैः समम् ॥ ३ ॥

सुविताने शुभे स्थाने पङ्कजोपरि पीठके ।
उपवेश्य कुमारीं तां स्वाङ्गे न्यासं समाचरेत् ॥ ४ ॥

तत्तन्मत्रोक्त-ऋष्यादिन्यासम् ।

आत्मानं विधिवत् पूज्य क्रोधदर्पविवर्जितः ।
अथ ध्यायेत् कुमारीं तां मलालक्ष्मीस्वरूपिणीम् ॥ ५ ॥

नवाक्षरेण मन्त्रेण सुसिद्धेन समाचरेत् ।
* * * * * * * * * * * * * * * * ॥ ६ ॥

महालक्ष्मीस्वरूपिणीमिति नवाक्षरेणेति च तत्प्रकरणात् तेन स्वेष्टदेवतास्वरूपिणीं स्वेष्टमन्त्रेण यजेदित्यर्थः ।

दद्यादाचमनं तस्यै दद्याद्वस्त्रं सकौतुकं ।
सकङ्कणांगुलीयानि कर्णालङ्करणे शुभे ॥ ७ ॥

ग्रैवेयकं प्रदायाथ चन्दनेन विलेपयेत् ।
पूजयेत् पुष्पमालाभिर्दिव्यैर्धूपैः सुधूपयेत् ॥ ८ ॥

कुर्यादारात्रिकं राजंस्तथोपचार्य तां मुहुः ।
भोजयेद्भक्तिभावेन पायसं शर्कराघृतम् ॥ ९ ॥

सुपक्वान्नानि चान्नानि सर्वक्षोभविवर्जितः ।
फलेक्षु स्वादु चान्यच्च दद्यात् तस्यै पुनः पुनः ॥ १० ॥

यावत् सा भोजनं कुर्यात् तावन्मौनी जपेत् सुधीः ।
दद्यादाचमनं तस्यै ताम्बूलं च समर्पयेत् ॥ ११ ॥

अनर्घ्येण च दानेन कुमारीं प्रणतोऽसकृत् ।
प्रदक्षिणनमस्कारान् कृत्वा मूर्ध्नि कृताञ्जलिः ॥ १२ ॥

विसर्जयेत् कुमारी तां स्वगृहं हर्ष निर्भरः ।
अनेन विधिना भक्त्या कुमारीपूजयाप्नुयात् ॥ १३ ॥

यं यं प्रार्थयते कामं देवानामपि दुर्लभम् ।
कुमारीपूजनं कृत्वा तं तं प्राप्नोत्यसंशयम् ॥ १४ ॥

ब्रह्मविष्णुमहेशानां कुमारी परमा कला ।
तत्पूजनेन राजेन्द्र त्रैलोक्यं स्याद् सुपूजितम् ॥ १५ ॥

सम्यक् ऋतु फलं तस्य यः कुमारीः प्रपूजयेत् ।
तस्मात् पूजय भूपाल कुमारीर्यतमानसः ॥ १६ ॥

स्वराज्यं प्राप्स्यसे विश्वं मा ते भूदत्र संशयः ।
* * * * * * * * * * * * * * * * * ॥ १७ ॥

इति ॥ अथ प्रयोगः तत्र साधकः कृतनित्यक्रियः पूजादिनात् पूर्वदिने कुमार्या गृहं गत्वा मूलविद्यां स्मरन् कुमारिके भगवति पूजार्थं मया निमन्त्रितासि मां कृतार्थं कुरु इति नारिकेलपूगीफलादिना निमन्त्र्य पूजादिने नित्यपूजानन्तरं कुमारीं सुगन्धतैलादिना सुस्नातामलंकृतामाहूय पूजागृहाद्बहिः क्वचिन्मण्डले तस्याश्चरणावूष्णजलेन स्वयं सम्यक्प्रक्षाल्य सूक्ष्मवस्त्रेण प्रोञ्छय पूजास्थानं नीत्वा अष्टदले सिन्दूरादिरचिते शुभ पीठे शुभास्तरणे पश्चिमाभिमुखीं समुपवेश्य स्वयं तत्सम्मुखः स्वासने समुपविश्य अद्येत्यादि० अमुककामः कुमारीपूजनं करिष्ये इति संकल्प्य गुर्वादिवन्दनपूर्वकं मूलविद्यया प्राणायामत्रयं कृत्वा ऋष्यादिसमस्तन्यासजातं कृत्वात्मपूजां विधाय पीठपूजापूर्वकं तस्यां देवीमावाह्य ध्यात्वा मूलविद्ययाचमनं दत्त्वा वस्त्रालङ्कारगन्धपुष्पधूपदीपान्तानुपचारान् समर्प्य पायसादिनानाविधान्नपानैर्भोजयन् यावत्सा भोजनं करोति तावत्कालं मौनी मूलविद्यां जपेत् । ततो भुक्तवत्यास्तस्याः करक्षालन गण्डूषाचमनानि दत्त्वा सकर्पूरं ताम्बूलं समर्प्यारात्रिकं कृत्वा छत्रचामरादिराजोपचारैराराध्य यथाशक्ति दक्षिणां दत्त्वा प्रणम्य विसृजेदिति ॥ अथात्र पूज्यापूज्यकुमारीलक्षणानि । तत्रादौ पूज्यकुमारीलक्षणानि स्कान्दे -

अरोगिणीं सुपुष्टाङ्गीं सुरूपां व्रणवर्जिताम् ।
एकवंशसमुद्भूतां कन्यां सम्यक् प्रपूजयेत् ॥ १ ॥

इति ॥ अथापूज्यलक्षणानि तत्रैव

हीनाधिकाङ्गीं कुष्ठाङ्गीं विशीलकुलसंभावाम् ।
ग्रन्थिस्फुटितशीर्णाङ्गीं रक्तपूयव्रणाङ्किताम् ॥ २ ॥

जात्यन्धां केकरां काणीं कुरूपां तनुलोमशाम् ।
संत्यजेद्रोगिणीं कन्यांदासीगर्भसमुद्भवाम् ॥ ३ ॥

इति । अथ फलविशेषे पूज्यविशेषश्च तत्रैव -

ब्राह्मणीं सर्वकार्येषु जयार्थे नृपवंशजाम् ।
लाभार्थे वैश्यसंभूतां सुतार्थे शूद्रवंशजाम् ॥ ४ ॥

दारुणे चान्त्यजातीनां पूजयेद्विधिना नरः ।
* * * * * * * * * * * * * * * * ॥ ५ ॥

इति कुमारीपूजनम् ॥

अथ वटुकादिबलिपञ्चक प्रयोगः तत्र पूजाचक्रस्येशानादिकोणचतुष्टये त्रिकोणवृत्तचतुरस्रात्मकानि बलिमण्डलानि विरच्य तेष्वीशानमण्डले वां वटुकभैरवाय नमः इति वटुकं गन्धादिभि सम्पूज्य तत्रान्नव्यञ्जनतोय पुष्पादिभरितं साधारं ताम्रादिपात्रं संस्थाप्य वटुकवलिद्रव्याय नमः इति वटुकबलिद्रव्यं सम्पूज्य ४ एह्येहि देवीपुत्र वटुकनाथ कपिलजटाभारभास्वर त्रिनेत्र ज्वालामुख सर्वविघ्नान्नाशय नाशय सर्वोपचारसहितं बलिं गृह्ण गृह्ण स्वाहा इति पूर्वस्थापितार्घ्यपात्रात् पात्रान्तरेणोद्धृतजलेन वासांगुष्ठानामिकाभ्यां बलिमूत्सृजेत् ।

एवमाग्नेयमण्डले यां योगिनीभ्यो नमः इति योगिनीः सम्पूज्य

ऊर्ध्वं ब्रह्माण्डतो वा दिवि गगनतले भूतले निस्तले वा पाताले वाऽनले वा पवनसलिलयोर्यत्र कुत्र स्थिता वा ।
क्षेत्रे पीठोपपीठादिषु च कृतपदा धूपदीपादिकेन प्रीता देव्यः सदा नः शुभबलिविधिना पान्तु वीरेन्द्रवन्द्याः ॥ १ ॥

यां योगिनीभ्यः स्वाहा सर्वयोगिनीभ्यो हुंफट्स्वाहेति वामांगुष्ठानामामध्याभिरर्घ्यजलधारया बलिमुत्सृजेत् ।

ततो निर्-ऋतिकोणगतमण्डले क्षां क्षेत्रपालाय नमः इति क्षेत्रपालं सम्पूज्य प्राग्वद् बलिपात्रं निधाय क्षांक्षींक्षूंक्षैक्षौंक्षः स्थानक्षेत्रपालधूपदीपादिसहितं बलिं गृह्ण गृह्ण स्वाहा इति वामांगुष्ठतर्जनीभ्यां तर्जन्यैकया वा प्राग्वद्बलिपात्रेऽर्घ्यजलधारां दद्यात् ।

ततो वायव्यमण्डले गां गणपतये नमः इति गणपतिं सम्पुज्य प्राग्वद् बलिपात्रं विधायाभ्यर्च्य गांगोंगूंगणपतये वरवरद सर्वजनं मे वशमानय बलिं गृह्ण गृह्ण स्वाहेति वामांगुष्ठमध्यमाभ्यां प्राग्वद्बलिमुत्सृजेत् इति वटुकादिबलिचतुष्टयविधिः ॥

अथ कुल्लिकादिलक्षणम् । तत्र श्रीरुद्रयामले ईश्वर उवाच

कुल्लुकां मूर्ध्निं सञ्जप्य हृदि सेतुं विचिन्तयेत् ।
महासेतुं विशुद्धं तु सहस्रारे तु चोद्धरेत् ॥ १ ॥

मणिपूरे तु निर्वाणं महाकुण्डलिनीमधः ।
स्वाधिष्ठाने कामराजं राकिणीं मूर्ध्निं संस्थिताम् ॥ २ ॥

विचिन्त्य विधिवद् देवि मूलाधारात् त्रिकं शिवे ।
विशुद्धान्तं स्मरेद् देवि विसतन्तुतनीयसीम् ॥ ३ ॥

वेदिस्थानं हि जिह्वान्तं मूलमन्त्रोवृतं मुहुः ।
इच्छाक्रियास्वमनिशं स्वेष्टदेवीं स्वरूपिणी ॥ ४ ॥

ज्ञातव्या परमेशानि जपेन्मन्त्रमनुत्तमम् ।
* * * * * * * * * * * * * * * * ॥

श्रीदेव्युवाच

कुल्लिका कीदृशी नाथ सेतुर्वा देव कीदृशः ।
कीदृशो वा महासेतुर्निर्वाणं नाथ कीदृशम् ॥ ५ ॥

अन्यद्वा कथितं यन्मे कीदृशं तद्वद प्रभो ।
* * * * * * * * * * * * * * * * ॥

ईश्वर उवाच

गुह्यद्गुह्यतमं देवि तव स्नेहेन कथ्यते ।
विना येन महेशानि निष्फलं परमेश्वरि ॥ ६ ॥

तारायाः कुल्लिका देवि महानीलसरस्वती ।
पञ्चाक्षरी कालिकायाः कुल्लिका परिकथ्यते ॥ ७ ॥

काली कूर्चं वधूर्माया फडर्णा परमेश्वरी ।
छिन्नायास्तु महेशानि कुल्लिकाष्टाक्षरी भवेत् ॥ ८ ॥

वज्रवैरोचन्यै च अन्ते हुंफट् प्रकीर्तितम् ।
संपत्प्रदायाः प्रथमं भैरव्याः कुल्लिका मता ॥ ९ ॥

श्रीमत्त्रिपुरसुन्दर्याः कुल्लिका द्वादशाक्षरी ।
वाग्भवं प्रथमं बीजं कामराजं ततः परम् ॥ १० ॥

लज्जाबीजं ततः पश्चात् त्रिपुरेशी ततः परम् ।
भगवतीपदं दद्यादन्ते ठद्वयमुद्धरेत् ॥ ११ ॥

कालिकायाः स्वबीजं तु कूर्चं वधूं नियोजयेत् ।
लज्जास्त्रमन्तके दद्यात्तारा नीलसरस्वती ॥ १२ ॥

अन्येषां तु महेशानि त्र्यक्षरी कुल्लिका भवेत् ।
तारं कूर्चं समुद्धृत्य पश्चादंकुशमुद्धरेत् ॥ १३ ॥

इति ते कथिता देवि संक्षेपात् कुल्लिका मया ।
अज्ञात्वा कुल्लिकामेनां जपते योऽधमः प्रिये ॥ १४ ॥

पञ्चत्वमाशु लभते सिद्धिहानिस्तु जायते ।
वृथा च तज्जपं सर्वं निष्फलं नात्र संशयः ॥ १५ ॥

तस्मात् सर्वप्रयत्नेन पूजयेन्मूर्ध्नि कुल्लिकाम् ।
अथातः सम्प्रवक्ष्यामि तच्छृणुष्व प्रियंवदे ॥ १६ ॥

यस्याज्ञानेन विफलं जपहोमादिकं भवेत् ।
विप्राणां प्रणवः सेतुः क्षत्त्रियाणां तथैव च ॥ १७ ॥

वैश्यजातेः फडन्तश्च माया शूद्रस्य कथ्यते ।
जप्त्वा त्विदं तु देवेशि सुन्दर्या भुवनेश्वरी ॥ १८ ॥

कालिकायाः स्वबीजं तु तारायाः कूर्चबीजकम् ।
अन्येषां तु वधूबीजं महासेतुर्वरानने ॥ १९ ॥

आदौ जप्त्वा महासेतुं जपेन्मन्त्रमनन्यधीः ।
धने धनेशतुल्योऽसौ वाचि वागीऽस्वरोपमः ॥ २० ॥

युद्धे कृतान्तसदृशो नारीणां मदनोपमः ।
जयकारं भवेत्तस्य सर्वकाले न संशयः ॥ २१ ॥

अथ वक्ष्यामि निर्वाणं शृणु देवि वरानने ।
प्रणवं पूर्वमुद्धृत्य मातृकाद्यं समुच्चरेत् ॥ २२ ॥

एवं पुटितमूलं तु प्रजपेन्मणि पूरके ।
एवं निर्वाणमीशानि यो न जानाति पामरः ॥ २३ ॥

वर्षकोटिशतेनापि सिद्धिस्तस्य कदापि न ।
तस्मात् सर्वप्रयत्नेन यद्यदुक्तं महेश्वरि ॥ २४ ॥

तत्तदाचर्य विधिवत् प्रजपेन्मन्त्रमुत्तमम् ।
ऋषिश्छन्दो देवता च तद्बीजं शक्तिकीलके ॥ २५ ॥

भावयेद्यत्नतो देवि ततः सेत्वादिकं जपेत् ।
एवं यदि जपेन्मन्त्री मन्त्रराजमनुत्तमम् ॥ २६ ॥

षण्मासात् सिद्धिमाप्नोति नात्र कार्या विचारण ।
साक्षात् स एव जगतामधिशो नात्र संशयः ॥ २७ ॥

स शरण्यं स वै ज्ञानी स एव मन्त्रतत्त्ववित् ।
स एव नृत्यते भूमौ विचरेच्च यथासुखम् ॥ २८ ॥

तस्य दर्शनमात्रेण पलायन्ते च वैरिणः ।
* * * * * * * * * * * * * * * * ॥

एवं कृत्वा सकलपुटितं यो जपेन्मन्त्रराजं तन्निर्वाणं भवनरुधितं कुल्लीकान्तानि जप्त्वा ।
तेषां तद्वन्निखिलभुवने सिद्धयोऽष्टौ च हस्ते तेषां तत्त्वं वचसि वचनं पद्मपद्मान्तरे च ॥ २९ ॥

इति । अत्र तु ह्रींस्त्रींहूं इति तारायाः सभेदायाः कुल्लिका भवति ।
क्रींह्रींस्त्रींह्रींफट् इति पञ्चाक्षरी दक्षिणकालिकायाः सभेदाया कुल्लिका भवति । वज्रवैरोचन्यै हुंफट् इति छिन्नायाः सभेदायाः कुल्लिका बह्वति । ऐंक्लींह्रीं ऐंक्लींसौः भगवति स्वाहा इति द्वादशाक्षरी श्रीमत्त्रिपुरसुन्दर्याः सभेदायाः सम्पत्प्रदायाः भैरव्याः सभेदायाश्च कुल्लिका भवति । ओं ह्रूंक्रों इति त्र्यक्षरी अन्येषां मन्त्राणां विद्यानां च सर्वत्र कुल्लिका भवतीत्यर्थः । ब्राह्मणानां च प्रणवः सेतुर्भवति ।
क्षत्रियाणामपि स एव वैश्यानां फडिति सेतुर्भवति । शूद्राणां तु मायाबीजं सेतुर्भवति । क्रीमिति कालिकाभेदानां महासेतुर्भवति ।
हूमिति ताराया महासेतुर्भवति । अन्येषां तु स्त्रीमिति महासेतुर्भवति ।
ओं अं मूलं० ऐं अं ओं ओं आं मूल० ऐं आं ओं ओं इं मूलं ऐं इं ओं इत्यादि प्रत्यक्षरसम्पुटितमूलं निर्वाणमित्युच्यते । केचित्तु ओं अं मूलं० ऐं अं समस्तमातृका अन्ते ओमिति मणिपूरके सप्तवारं जपेदिति वदन्ति । अत्र यथागुरूपदेशं कार्यमिति ।

अथैतस्य प्रयोगः मूलेन प्राणायामत्रयं कृत्वा अस्याः श्रीमहात्रिपुरसुन्दरीविद्यायाः शिरसि अमुकाय ऋषये नमः ।

मुखे अमुकच्छन्दसे नमः । हृदये श्रीमहात्रिपुरसुन्दर्यै देवतायै नमः । गुह्ये अमुकबीजाय नमः । पादयोः अमुकशक्तये नमः ।
नाभौ अमुककीलकाय नमः । इति विन्यस्य ऐंक्लींह्रीं ऐंक्लींसौः भगवति स्वाहा इति कुल्लिकां मूर्ध्नि सप्तधा त्रिधा वा जपेत् । ओमिति सेतुं हृदि तथैव स्मृत्वा ह्रीमिति महासेतुं सहस्रारे तथैव स्मृत्वा ओं अंमूलं० ओं ऐं अं ५१ ओं इति निर्वाणं मणिपूरके तथैव स्मरेत् ।
लिङ्गे क्लीमिति तथैव स्मरेत् । जिह्वायां मूलविद्यां तथैव स्मरेत् ।
मूर्ध्नि सहस्रारे ओं ऐं ह्रीं श्रीं रां रों रूं रैं रौं रः रमलवरयूं राकिणि मां रक्ष रक्ष सर्वसत्त्वशङ्करि देव्यागच्छ २ इमां पूजां गृह्ण गृह्ण ऐं घोरे देवि ह्रीं सः परमघोरे ह्रूं घोररूपे एह्येहि नमश्चामुण्डे डलरकसहैं श्रीमहात्रिपुरसुन्दरि देवि वरदे विच्चे इति राकिणीं मूर्ध्नि स्मरेदिति । इति कुल्लुकादिविधिः ॥ अथ प्राणप्रतिष्ठाविधानम् । कुलार्णवे -

तारं नारायणं सेन्दुं मायामंकुशमुद्धरेत् ।
याद्यान् सबिन्दून् सप्तार्णानुद्धृत्य वियदोयुतम् ॥ १ ॥

बिन्दुयुक्तं चाजपाख्यं परमात्ममनुं वदेत् ।
अमुष्य शब्दमुद्धृत्य प्राणा इह इतीरयेत् ॥ २ ॥

प्राणाः पाशादिकान् वर्णांस्तिथिसंख्यान् पुनर्वदेत् ।
अमुष्य जीव इह च स्थित इत्युद्धरेत् ततः ॥ ३ ॥

पुनः पञ्चदशार्णान्ते अमुष्येति पदं वदेत् ।
सर्वेन्द्रियाणि च ततः पुनः पञ्चदशार्णकान् ॥ ४ ॥

अमुष्य वाङ्मनश्चक्षुः श्रोत्रघ्राणपदादथ ।
प्राणा इहागत्य सुखं चिरं तिष्ठन्तु च द्विठः ॥ ५ ॥

इत्थं प्राणप्रतिष्ठाख्यमनुः प्रोक्तो मनीषिभिः ।
चतुर्दशोत्तरैर्वर्णैमन्त्रः सर्वार्थ सिद्धिदः ॥ ६ ॥

इति । तारः प्रणवः नारायण आकारः सेन्दुः सानुस्वारः माया भुवनेश्वरीबीजं अंकुशः क्रोंबीजं वियत् हकारः ओं स्वरूप बिन्दुरनुस्वारः तेन हों इति । अजपा हंस इति परमात्ममनुः सोऽहमिति द्विठः स्वाहाकारः अमुष्यपदस्थाने साध्यपद षष्ठ्यन्तं योज्यम् । स्वयं साध्यश्चेन्ममेति योज्यम् । अत्र केचित् पाशबीजादिपञ्चदशवर्णानामादावेवोच्चारणं न स्थानान्तरेषु काम्यप्रयोगकाले तेषां स्थानान्तरेषूच्चारो जपपूजादिषु नास्तीत्याहुः । प्रत्यमुष्यपदं पूर्णं पाशाद्यानि प्रयोजयेदिति शारदातिलकवचनात् । तत्र स्वगुरुमतं प्रमाणम् । तथा -

ऋषयो ब्रह्मविष्ण्वीशा मन्त्रस्यास्य समीरिताः ।
छन्दासि ऋग्यजुः सामान्याहुरागमपारगाः ॥ ७ ॥

प्राणशक्तिर्देवता स्यात् सर्वप्राणिहृदि स्थिता ।
पाशो बीजं शक्तिरेव शक्तिः कीलकमंकुशम् ॥ ८ ॥

विनियोगस्तु विज्ञेयः प्राणस्थापनकर्मणि ।
श्रीकण्ठं बिन्दुसंयुक्तं कवर्ग बिन्दुसंयुतम् ॥ ९ ॥

आकाशवायवग्निजलपृथिव्यात्म च ने वदेत् ।
सबिन्द्वनन्तो हृन्मन्त्रः सूक्ष्मं बिन्दुयुतं वदेत् ॥ १० ॥

बिन्दुयुक्तचवर्गान्ते शब्दस्पर्श च रूप च ।
रसगन्धात्मने त्वन्ते त्रिमूर्तीशं सबीन्दुकम् ॥ ११ ॥

वदेदयं शिरोमन्त्रस्त्वमरेशं सबिन्दुकम् ।
टवर्ग च तथोद्धृत्य श्रोत्रत्वक्चक्षुरित्यथ ॥ १२ ॥

जिह्वाघ्राणात्मनेऽर्घीशो बिन्दुयुक्तः शिखामनुः ।
झिण्टीश बिन्दुसंयुक्तं तवर्गं तादृश वदेत् ॥ १३ ॥

वाक्पाणिपादपायूपस्थात्मने बिन्दुभौतिके ।
वर्माणुबिन्दुयुक् सद्यः पवर्गो बिन्दुसंयुतः ॥ १४ ॥

वचनादानविसर्गगमनानन्द चात्मने ।
अनुग्रहो बिन्दुयुक्तो नेत्रमन्त्र उदाहृतः ॥ १५ ॥

तिथिस्वरान्ते याद्यर्णान् दश बिन्दुविभूषितान् ।
उक्त्वा मनोबुद्ध्यहङ्कारान्तचितात्मने पदम् ॥ १६ ॥

विसर्ग एष सम्प्रोक्तो मनुरस्त्राभिधानकः ।
एवं षडङ्गमनवस्तारबीजत्रयादिकाः ॥ १७ ॥

न्यस्तव्या जातियुक्ताश्च मन्त्रिभिः स्वकराङ्गयोः ।
नामितः पादयुग्मान्तं कण्ठदानाभिमस्तकात् ॥ १८ ॥

कण्ठान्तमिति बीजानि पाशादीनि प्रविन्यसेत् ।
ततो हृत्पद्ममध्ये तु ध्यात्वा वसुदलाम्बुजम् ॥ १९ ॥

तस्य वायवग्निपूर्वेषु पश्चिमेशानयोरपि ।
नैर्-ऋत्योत्तरयाम्येषु कर्णिकायां दलेषु च ॥ २० ॥

यादिक्षान्तान्यक्षराणि बिन्दुयुक्तानि विन्यसेत् ।
एकैकशो लवर्ज्यानि ततो देवीं हृदि स्मरेत् ॥ २१ ॥

इति ॥ अस्य प्रयोगस्तु अस्य प्राणप्रतिष्थामन्त्रस्य शिरसि ब्रह्मविष्णुशिवेभ्यः ऋषिभ्यो नमः । मुखे ऋग्यजुः सामभ्यश्छन्देभ्यो नमः । हृदये पराप्राणशक्त्यै देवतायै नमः । गुह्ये आंबीजाय नमः । पादयोः ह्रींशक्तये नमः । नाभौ क्रोंकीलकाय नमः । इति विन्यस्यामुष्य प्राणप्रतिष्ठार्थे विनियोगः इति कृताञ्जलिर्वदेत् । ततः ओं आंह्रींक्रों अंकं ५ आं आकाशवायवग्निसलिलपृथिव्यात्मने आंहृदयाय नमः ।

ओं आंह्रींक्रों इंचं ५ ईंशब्दस्पर्शरूपरसगन्धात्मने ईंशिरसे स्वाहा । ओं आं ह्रीं क्रों उं टं ५ ऊंश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मने ऊंशिखायै वषट् । ओं आंह्रींक्रों एं तं ५ ऐंवाक्पाणिपादपायूपस्थात्मने ऐंकवचाय हुं । ओं आंह्रींक्रों ओं पं ५ औंवचनादानविसर्गगमनानन्दात्मने औंनेत्रत्रयाय वौषट् । ओं आं ह्रींक्रों अं यं १० अःमनोबुद्ध्यहङ्कारचित्तात्मने अः अस्त्राय फट् । इति षडङ्गमन्त्रानंगुस्ठादिकरतलान्तं करयोर्विन्यस्य हृदयादिषडङ्गेष्वपि न्यसेत् । ततो नाभ्यादिपादद्वयाग्रान्तं आं नमः । कण्ठादिनाभ्यन्तं ह्रीं नमः । मुर्धादिकण्ठान्तं क्रों नमः । ततो हृदयकमले वायव्यदले यं नमः । आग्नेये रं नमः ।
पूर्वे लं नमः । पश्चिमे वं नमः । ईशाने शं नमः । नैर्-ऋत्ये षं नमः । उत्तरे सं नमः । दक्षिणे हं नमः । कर्णिकायां क्षं नमः । इति विन्यस्य ओं आं ह्रीं क्रों यं रं लं वं शं षं सं र्हो हंशः सोहं अमुष्य प्राणा इह प्रानाः १५ अमुष्य जीव इह स्थितः १५ अमुष्य सर्वेन्द्रियाणि १५ अमुष्य वाङ्मनस्त्वक्चक्षुः श्रोत्रजिह्वाघ्राणप्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा ओं इति मत्रेण सर्वाङ्गे व्यापकं त्रिधा विन्यस्य ध्यायेत् ।

रक्ताब्धिपोतारुणपद्मसंस्था पाशांकुशाविक्षुशरासबाणान् ।
शूलं कपालं दधतीं कराग्रै रक्तां त्रिनेत्रां प्रणमामि देवीम् ॥ २२ ॥

एवं ध्यात्वा जगद्धात्रीं लक्षमेकं जपन्मनुम् ।
जुहुयाद् तद्दशांशं च चरुभिर्धृतसंयुतैः ॥ २३ ॥

षट्कोणाढ्ये शक्तिपीठे विधिनानेन पूजयेत् ।
अर्चयेत् षट्सु कोणेषु ब्रह्माणं विष्णुमीश्वरम् ॥ २४ ॥

वाणीं लक्ष्मीं रमां पश्चात् षडङ्गानि प्रपूजयेत् ।
दलेषु मातरः पूज्यास्तद्बाह्ये लोकनायकाः ॥ २५ ॥

एवं सम्पूजयेद् देवीं सुगन्धिकुसुमादिभिः ।
इति संसाधितो मन्त्रः षट्कर्मफलदो भवेत् ॥ २६ ॥

स्थापयेन्मनुनानेन प्राणान् सर्वत्र देशिकः ।
* * * * * * * * * * * * * * * * * ॥

इति । अत्र तदुपासनाविधिस्तु प्राग्वत् प्रातः कृत्यादि योगपीठन्यासान्तं कृत्वा मूलेन प्राणायामत्रयर्ष्यादिकरषडङ्गन्यासान् विधायान्तर्यागोत्तरं स्वपुरतः सिन्दूरादिना षट्कोणाष्टदलभूपुरात्मकं पूजायन्त्रं विलिख्य पुरतः संस्थाप्याभ्यर्च्यार्घ्यादिस्थापनाद्यात्मपूजान्ते मण्डूकादिपरतत्त्वान्तं योगपीठं सम्पूज्य केसरेषु ओं जयायै नमः । विजयायै नमः । अजितायै नमः । अपराजितायै नमः । नित्यायै नमः । विलासिन्यै नमः । दोग्ध्र्यै नमः । अघोरायै नमः ।
मङ्गलायै नमः । इति सम्पूज्य ह्रींसर्वशक्तिकमलासनाय नमः इति समस्तं पीठं सम्पूज्य मूलमन्त्रेण मूर्तिं परिकल्प्यावाहनादिपुष्पोपचारान्ते षट्कोणेषु देव्यग्रे देवीपृष्ठदक्षिणवामकोणेषु ओं ब्रह्मणे नमः । ओं विष्णवे नमः ।
ओं रुद्रायै नमः । दक्षिणाग्रदेवीपृष्ठवामभागेषु सरस्वत्ये नमः । लक्ष्म्यै० । गौर्यै० । सट्कोणसन्धिषु प्रग्वदङ्गानि सम्पूज्याष्टसु पत्रेषु देव्यग्रादिप्रादक्षिणेन प्रागुक्तब्राह्मयाद्याः सम्पूज्य चतुरस्रे लोकपालांस्तदस्त्राणि च सम्पूज्य धूपदीपादिकं सर्वं प्राग्वत् समापयेदिति । तथा -

लक्षमेकं जपेन्मन्त्रं जुहुयात् तद्दशांशतः ।
साज्येन चरुणा पश्चात् तर्पणादि समाचरेत् ॥ १७ ॥

इति । शारदायाम् - (२३।६२)

बीजान्तेऽमुष्य शब्दानामादौ दूतीः प्रपूजयेत् ।
मृता वैवस्वता भूयो जीवहा प्राणहा पुनः ॥ १ ॥

आकृष्या ग्रसना पश्चाद्भ्रमदा विस्फुलिङ्गिनी ।
क्षेत्रप्रतिहरीत्येताः प्राणदूत्यो नव स्मृताः ॥ २ ॥

पाशेन बद्धचेष्टस्य शक्त्या स्वीकृतचेतसः ।
अंकुशेन हृतस्यापि साध्यस्यासून् समाहरेत् ॥ ३ ॥

द्वादशांगुलमानेन कृत्वा साध्यस्य पुत्तलीम् ।
तस्याः प्राणात्मकं यन्त्रं सकीटं हृदये न्यसेत् ॥ ४ ॥

निशीथसमये साध्ये सुप्ते तस्य हृदम्बुजे ।
दलेषु वायुवह्नीन्द्रवरुणानामतः परम् ॥ ५ ॥

ईशराक्षसशीतांशुयमानां कर्णिकान्तरे ।
यादीन् हंससमायुक्तान् भृङ्गाकाराननुस्मरेत् ॥ ६ ॥

शिरोबिन्दुसमुद्भूततन्तुसम्बद्धविग्रहान् ।
एवमात्महृदम्भोजे भृङ्गीरूपान् धिया स्मरेत् ॥ ७ ॥

आत्महृत्पद्मगा भृङ्गीः प्रस्थाप्य श्वासवर्त्मना ।
एकैकां साध्यहृत्पद्माद् भृङ्गानेकैकमानयेद् ॥ ८ ॥

पुत्तल्यां स्थापयेन्मन्त्री स्वचित्ते वा विधानवित् ।
तन्तुच्छेदं प्रकुर्वीत वह्निबीजेन सर्वतः ॥ ९ ॥

आकृष्टान् साध्यहृद्भृङ्गान् भुवा संस्तम्भयेत्ततः ।
एवमेकादशावृत्ति कुर्यात् सर्वेषु कर्मसु ॥ १० ॥

वश्याकर्षणयोर्यादीनरुणान् संस्मरेत् सुधीः ।
मोहविद्वेषयोर्धूम्रान् कृष्णान् मारणकर्मणि ॥ ११ ॥

पीतान् संस्तम्भने ध्यायेत् प्राणाकर्षणकर्मवित् ।
आकृष्टान् साध्यहृत्प्राणान् स्थापयेदात्मनो हृदि ॥ १२ ॥

क्रूरकर्मसु पुत्तल्यां तेषां स्थापनमीरितम् ।
प्राणान् साध्यस्य मण्डूकानात्मनस्तु भुजङ्गमान् ॥ १३ ॥

संस्मरेत् तत्र निपुणः सदा क्रूरेषु कर्मसु ।
* * * * * * * * * * * * * * * * ॥

वायवग्निशक्रवरुणेश्वरराक्षसेन्दुप्रेतेशपत्रलिखितैरथ यादिवर्णैः ।
विन्द्वन्तगैः क्षगतहंससमेतसाध्यं प्राणात्मयन्त्रमथ वर्णवृतं धरास्थम् ॥ १४ ॥

इत्थं प्रयोगकुशलो मनुनानेन मन्त्रवित् ।
वशयेत् सकलान् देवान् किं पुनः पार्थिवाञ्जनान् ॥ १ ॥

इति । अत्र पुरश्चरणविधिमुक्त्वा विशेषो ब्रह्मयामले -

अत्र नित्यं हुनेन्मन्त्री जपाकिंशुकसम्भवैः ।
पुष्पै रक्तोत्पलैर्वापि मूलेन च नवाहुतीः ॥ १ ॥

हुत्वा बीजत्रयेणाथ हुनेदेकैकशः क्रमात् ।
यादिहंसान्तवर्णोत्थाः प्राणदूत्यो नव स्मृताः ॥ २ ॥

मृता वैवस्वता चैव जीवहा प्राणहा तथा ।
आकर्षिणी च ग्रसना भ्रमदा विस्फुलिङ्गिनी ॥ ३ ॥

क्षेत्रज्ञहारिणी चेति सम्प्रोक्तास्ता यथाक्रमम् ।
तत्तद्वर्णादिना नाम्ना तासां चैव हुनेत् क्रमात् ॥ ४ ॥

आंह्रींक्रोंयं मृतायै स्वाहा इत्यादिप्रयोगः ।

ध्यानं वक्ष्ये प्रयोगेषु यथा ध्येया महेश्वरि ।
गत्वा साध्यं दृढं बद्ध्वा पाशबीजेन सुन्दरि ॥ ५ ॥

शक्तिबीजेन तच्छक्तिं गृहीत्वांकुशबीजतः ।
प्राणामाकृष्य साध्यस्य चानयन्तीं सदा स्मरेत् ॥ ६ ॥

निशीथसमये साध्ये सुप्ते तस्य हृदम्बुजे ।
दलेषु वायुवह्नीन्द्रवरुणानां सुरेश्वरि ॥ ७ ॥

ईशराक्षससौम्येषु दक्षिणे कर्णिकान्तरे ।
यादीन् हंससमायुक्तान् भृङ्गाकाराननुस्मरेत् ॥ ८ ॥

शिरोबिन्दुसमुद्भूततन्तुसंबद्धविग्रहान् ।
एवमात्महृदम्भोजे भृङ्गीरूपान् धिया स्मरेत् ॥ ९ ॥

आत्महृत्पद्मगा भृङ्गीः प्रस्थाप्य श्वासवर्त्मना ।
एकैकान् साध्यहृत्पद्माद् भृङ्गानेकैकमानयेत् ॥ १० ॥

पुत्तल्यां स्थापयेन्मन्त्री स्वचित्ते वा विधानवित् ।
तन्तुच्छेदं प्रकूर्वीत वह्निबीजेन पार्वति ॥ ११ ॥

आकृष्टान् साध्यहृद्भृङ्गान् स्तम्भयेद्भूमिबीजतः ।
एवमेकादशावृत्ति कुर्यात् सर्वेषु कर्मसु ॥ १२ ॥

वश्याकर्षणयोयादीनरुणान् संस्मरेत् प्रिये ।
मोहविद्वेषयोर्धूम्रान् कृष्णान् मारणकर्मणि ॥ १३ ॥

पीतान् संस्तम्भने देवि प्राणाकर्षणकर्मवित् ।
आकृष्टान् साध्यहृत्प्राणान् स्थापयेदात्मनो हृदि ॥ १४ ॥

क्रूरकर्मसु पुत्तल्यां तेषां स्थापनमीरितम् ।
प्राणान् साध्यस्य मण्डूकानात्मनस्तु भुजङ्गमान् ॥ १५ ॥

संस्मरेद् देवदेवेशि सदा क्रूरेषु कर्मसु ।
इत्थं प्रयोगकुशलो मनुनानेन सुन्दरि ॥ १६ ॥

वशयेत् सकलान् देवान् किं पुनः पार्थिवाञ्जनान् ।
वायवग्निशक्रवरुणशिवराक्षससोमगान् ॥ १७ ॥

दक्षिणान्तान् लिखेद्यादीन् हान्तानष्टसु पार्वति ।
दलेषु बिन्दुसंयुक्तान् क्षकारं कर्णिकान्तरे ॥ १८ ॥

विलिख्य तस्य मध्ये तु हंस इत्यक्षरद्वयम् ।
साध्यनामसमोपेतं विलिखेद्गिरिसंभवे ॥ १९ ॥

वेष्टयेच्चतुरस्रेण यन्त्रं प्राणमनोरिदम् ।
क्रूरकर्मसु सम्प्रोक्तद्रव्यैरष्टविषादिभिः ॥ २० ॥

कृतां पुत्तलिकां साध्यनरकेशसमन्विताम् ।
द्वादशांगुलमानेन स्पष्टाङ्गीमतिमञ्जुलाम् ॥ २१ ॥

तस्यास्तु हृदये देवि प्राणयन्त्रं विनिक्षिपेत् ।
लिखितं शववस्त्रे च सकीटं वरवर्णिनि ॥ २२ ॥

प्राणान् संस्थापयेत्तस्यां साध्यस्य प्रोक्तरूपतः ।
छित्वा ताञ्जुहुयाद्रात्रौ साध्यं स्मृत्वा चितानले ॥ २३ ॥

सप्तरात्रप्रयोगेण मारयेत् रिपुमात्मनः ।
* * * * * * * * * * * * * * * * ॥

सकीटं सजीवं संस्थापितसाध्यप्राणमिति यावत् । अष्टविषाणि तु -

श्येनाग्निलोणपिण्डानि धत्तूरकरसस्तथा ।
गृहधूमस्त्रिकटुकं विषाष्टकमुदाहृतम् ॥ २४ ॥

इत्युक्तानि । श्येनः श्येनविष्टा अग्निश्चित्रकं लोणपिण्डः कृत्रिमलवणं । अन्यत्सुगमम् । तथा -

कला आवाहयेत् कुम्भे प्रतिमादिषु मन्त्रवित् ।
शैवे च गाणपत्ये च षण्णवत्यः कलाः स्मृताः ॥ २५ ॥

पञ्चशीतिः कलाः सौरे चतुर्नवतिर्वैष्णवे ।
शाक्ते तु सप्ततिः प्रोक्ताः शैव्यश्चेति च केचन ॥ २६ ॥

शैव्यः षण्णवतिकलाः शाक्तेऽपि योज्या इति केचन वदन्तीत्यर्थः ।
शैवीः कला आह -

तत्र तत्त्वानि षट्त्रिंशद् द्वात्रिंशत् कामसोमयोः ।
दूत्यो नव दश प्राणा यादयो नव वर्णकाः ॥ २७ ॥

कलाः शैवा (वीः) वदाम्यत्र शिवशक्तिसदाशिवाः ।
ईश्वरः शुद्धविद्या च माया विद्या कला तथा ॥ २८ ॥

रागः कालश्च नियतिः पुरुषः प्रकृतिस्तथा ।
अहङ्कारश्च बुद्धिश्च मनःश्रोत्रत्वचस्ततः ॥ २९ ॥

जिह्वा घ्राणश्च वाक्पाणिपादाः पायुस्ततः परम् ।
उपस्थ शब्दौस्पर्शश्च रसो गन्धो वियन्मरुत् ॥ ३० ॥

वह्निः सलिलपृथ्व्यौ च श्वद्धा प्रीती रतिर्धृतिः ।
कान्तिर्मनोरमा चैव ततश्चैव मनोहरा ॥ ३१ ॥

मनोरथा च मदनोन्मादिनी मोहिनी तथा ।
शंखिनी शोषिणी चैव वशंकरी च शिञ्जिनी ॥ ३२ ॥

सुतगा सस्वराश्चैव षोडशात्र समीरिताः ।
पूषा चेद्धा सुमनसा रतिः प्रीतिर्धृतिस्तथा ॥ ३३ ॥

ऋद्धिः सौम्या मरीचिश्च ततश्चाप्यंशुमालिनी ।
शशिनी चाङ्गिराच्छाया ततः सम्पूर्णमण्डला ॥ ३४ ॥

तुष्टामृताख्याः कथिताः कलास्ताः सस्वरा विधोः ।
अमृताद्या दश प्राणा यादयो नव वर्णकाः ॥ ३५ ॥

षण्णवत्यः कलाः प्रोक्ताः शैवे शाक्ते च गाणपे ।
अथ वक्ष्ये वैष्णवाख्याः कलाः शृणु वरानने ॥ ३६ ॥

जीवप्राणौ बुद्धिमनः श्रोत्राद्या विंशतिस्तथा ।
हृत्पद्मं सूर्यसोमाग्निवासुदेवाह्वयास्ततः ॥ ३७ ॥

संकर्षणश्च प्रद्युम्नश्चानिरुद्धस्ततः परम् ।
श्रद्धादयोऽत्र विज्ञेयाः सौराः शृणु वदामि ते ॥ ३८ ॥

आकाशवायवग्निजलपृथिवीशब्द एव च ।
स्पर्शो रूपं रसो गन्धः श्रोत्रं त्वक् चक्षुरेव च ॥ ३९ ॥

जिह्वा घ्राणं च वाक्पाणी पादपायू तथैव च ।
उपस्थश्च मनो गर्वो बुद्धिर्धीः प्रकृतिस्ततः ॥ ४० ॥

श्रद्धादयोऽत्र विज्ञेयाः शाक्ताः शृणु वरानने ।
आत्मविद्याशिवाश्चैते प्रतिलोमक्रमात् पुनः ॥ ४१ ॥

अनुलोमेन ते भुयः सर्वतत्त्वं तथैव च ।
श्रद्धादयस्ततः प्रोक्ताः कलाः सर्वाः समीरिताः ॥ ४२ ॥

इति । अस्यार्थः सौम्यकर्मसु प्रतिमादिष्वावाहने तु साधकः कृतनित्यक्रियः यथोक्तलक्षणप्रतिमाग्रे स्वासने समुपविश्य दिनान्तरावाहितसमस्तकलापूर्णपूर्णकुम्भमात्मप्रतिमयोर्मध्ये साधारं संस्थाप्य प्राणानायम्य अद्येत्यादितिथ्युल्लेखनान्तेऽमुकाकृतिप्रतिमायाममुकदेवतासान्निध्य कारिण्योऽमुकसंख्याककला आवाहयिष्ये इति सङ्कल्प्य प्राणयन्त्रं प्राणप्रतिष्ठामन्त्रेण प्रतिष्ठितं प्रतिमाया गले बद्ध्वा आवाहयेत् ।

प्राणयन्त्ररचनाप्रकारस्तु भूर्जादावष्टगन्धेनाष्टदलकमल विलिख्य कर्णिकायां ससाध्यं क्षकारं विलिख्य हंस इत्यक्षरद्वयेन क्षकारं वेष्टयित्वा वायव्यदले यं आग्नेये रं पूर्वे लं पश्चिमे वं ईशाने शं नैर्-ऋत्ये षं उत्तरे सं याम्यदले हं इति वर्णाष्टकं विलिख्य बहिर्भूपुरं विलिख्य मातृकार्णैर्वेष्टयित्वा तत्तत्स्थानेषु दिक्पालबीजानि विलिखेदिति प्राणयन्त्रं विलिख्य होमसम्पातं कुर्यादिति । तत आहवनीयदेवतामन्त्रेण प्राणायामर्ष्यादिकरषडङ्गन्यासध्यानानि विधाय प्रतिमाया भूतशुद्धिमातृकान्यासान्तं विधाय प्रतिमाहृदये स्पृशन् प्राणप्रतिष्ठामन्त्रेण अमुष्यपदस्थाने आहवनीयदेवतानाम षष्ठ्यन्तं संस्थाप्य प्राणप्रतिष्ठामन्त्रमष्टोत्तरशतवारं जपित्वा कला आवाहयेत् । यथा सुगन्धजलपुष्पभरितपूर्णकुम्भमुखपिधानवस्त्रं निष्कास्य तन्मध्यस्थपुष्पमेकमुद्धृत्य ओं आं ह्रीं क्रों हंसः सोऽहं यरलवशषसहों अमुकदेवतायाः शिवतत्त्वरूपप्राणकला इह स्थिताः १५ अमुकदेवतायाः शिवतत्त्वरूपजीवकला इह १५ अमुकदेवतायाः शिवतत्त्वरूपसर्वेन्द्रियकलाः १५ अमुकदेवतायाः शिवतत्त्वरूपवाङ्मनश्चक्षुस्त्वक्श्रोत्रजिह्वाघ्राणप्राणकला इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा इत्युच्चार्य प्रतिमाशिरसि निक्षिपेत् । एवं शक्तितत्त्वरूप० ईश्वरतत्त्वरूप० इत्यादि क्रम ऊह्यः ।
अत्र सम्प्रदायस्तु प्रथमकलामेकवारमुच्चार्यावाहयेत् ।

द्वितीयाया वारद्वयं । तृतीयास्त्रिवारं । चतुर्थ्याश्चतुर्वारं एवं क्रमेणैकोत्तरवृद्ध्योच्चारणमिति ॥ तन्त्रान्तरे -

शुक्लप्रतिपदारम्भाद्यावत् पूर्णा तिथिर्भवेत् ।
कुर्यादावाहनं मन्त्री प्रतिमादौ शुभे तथा ॥ १ ॥

आकर्षणं कलानां तु कृष्णे प्रतिपदादितः ।
कलानां हासवृद्ध्येन्दोः कृष्णशुक्लप्रभेदतः ॥ २ ॥

तिथिक्रमेण जायते तथैवात्र दिनक्रमः ।
गुरुतः शास्त्रतः सम्यग्ज्ञात्वा कूर्वीत देशिकः ॥ ३ ॥

अज्ञात्वा कुरुते यस्तु म्रियते मूढधीः स्वयम् ।
* * * * * * * * * * * * * * * * * ॥ ४ ॥

इति ॥ अथ नित्यहोमेऽग्निस्थापनविधिः - पूजास्थानस्येशानभागे कृण्डस्थण्डिलाद्यन्यतमे गोमयेनोपलिप्ते मूलेन वीक्ष्यास्त्रेण संरक्ष्यास्त्रेणैव कुशैः संताड्य कवचमन्त्रेण प्रोक्ष्य हृन्मन्त्रेण विष्णुरुद्रेन्द्रदेवताकास्तिस्रो रेखाः प्रागग्रा ब्रह्मयमचन्द्रदेवताका उत्तराग्रास्तिस्रो रेखाः कुशमूलेन विलिख्य कुशाम्बुनास्त्रमन्त्रेण सम्प्रोक्ष्य ह्रींसर्वशक्तिकमलासनाय नमः इति तन्मध्ये योगपीठं सम्पूज्य तत्र बुवनेशीमृतुमतीं सञ्चिन्त्य तद्योनावावसथ्यस्थाने शिवबीजतया सूर्यकान्तादिभवमग्निं प्रनवेन संस्थाप्य ओं चित्पिङ्गल हनहन दहदह पचपच सर्वज्ञाज्ञापय स्वाहा इति मन्त्रेण कुशैर्मुखफूत्कृत्याग्निं प्रज्वाल्य काष्ठै पटूकृत्य ओं अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् । सुवर्णवर्णममलं समिद्धं सर्वतोमुखम् ॥ इति पठन् कृताञ्जलिरुपस्थायोपविश्य लिङ्गे सरयूं हिरण्यायै नमः । गुदे षरयूं कनकायै नमः । शिरसि शरयूं रक्तायै नमः । मुखे वरयूं कृष्णायै नमः ।
नासिकायां लरयूं । सुप्रभायै नमः । नेत्रयोः ररयूं अतिरक्तायै नमः । सर्वाङ्गे यरयूं बहुरूपायै नमः । इति सप्तजिह्वा विन्यस्य ओं सहस्रार्चिषे हृदयाय नमः । ओं स्वस्तिपूर्णाय शिरसे स्वाहा । ओं उत्तिष्ठपुरुषाय शिखायै वषट् । ओं धूमव्यापिने कवचाय हुं । ओं सप्तजिह्वाय नेत्रत्रयाय वौषट् । ओं धनुर्धरायास्त्राय फट् । इति षडङ्गानि विधाय शिरसि अग्नये जातवेदसे नमः । वामांसे अग्नये सप्तजिह्वाय नमः । वामपार्श्वे अग्नये हव्यवाहनाय नमः ।
वामकट्यां अग्नये अश्वोदराय नमः । लिङ्गे अग्नये वैश्वानराय नमः । दक्षिणकट्यां अग्नये कौमारतेजसे नमः । दक्षिणपार्श्वे अग्नये विश्वमुखाय नमः । दक्षांसे अग्नये देवमुखाय नमः ।
इत्यष्टौ मूर्तीर्विन्यस्य गर्भंरहितैर्दर्भैरग्निं प्रागादिक्रमेणोत्तराग्रैः पूर्वाग्रैश्च परिस्तीर्य वह्नेर्मुखे षट्कोणं विभाव्य तत्र (मध्ये षट्सु कोणेषु मध्यादिप्रादक्षिण्येन प्रागुक्ताः सप्तजिह्वाः सम्पूज्य तद्बहिरष्टकमलं विभाव्य तत्केसरेषु अग्नीशाननिर्-ऋतिवायुकोणेषु तदग्रादि प्रागादिचतुर्दिक्षु च) प्रागुक्तषडङ्गानि सम्पूज्य तद्बहिरष्टदलेषुप्रागादिप्रादक्षिण्येन प्रागुक्ता अष्टमूर्तीः सम्पूज्य तद्बहिश्चतुरस्रे दिक्पालांस्तदायुधानि च सम्पूज्य मध्ये ओं वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा इत्यग्निं गन्धादिभिः सम्पूज्यस्त्रमन्त्रेण क्षालितायामाज्यस्थाल्यामाज्यं निक्षिप्य मूलेनाष्टधाभिमन्त्र्य वमिति धेनुमुद्रयामृतीकृत्य कवचेन प्रदीप्तदर्भद्वयेन नीराज्य दर्भद्वयमग्नौ निक्षिप्य पुनर्दर्भान् प्रज्वाल्यास्त्रमन्त्रेण घृते प्रदर्श्याग्नौ तान् निक्षिप्य स्रुक्स्रुवौ तदभावे पलाशस्य मध्यपत्रद्वयमश्वत्थपत्रद्वयं वा गृहीत्वाग्नौ प्रताप्य कवचेन दर्भैः सम्मार्ज्यं पुनः प्रताप्यास्त्रेण प्रोक्ष्य दर्भेषु निधाय मार्जनदर्भानद्भिः रांस्पृश्याग्नौ निक्षिप्य स्रुवेणाज्यमादायाग्नेर्दक्षिणनेत्रे अग्नये स्वाहा इति हुत्वा अग्नये इदं न ममेत्युद्देशत्यागं कृत्वा पुनराज्यमादायाग्नेर्वामनेत्रे सोमाय स्वाहा इति हुत्वा सोमाय इदं न मम । पुनरग्नेर्भालनेत्रे अग्नीषोमाभ्यां स्वाहा । अग्नेर्वक्त्रे अग्नये स्विष्टकृते स्वाहा ततः ओं भूः स्वाहा अग्नये इदं न मम । ओं भुवः स्वाहा वायवे इदं न मम । ओं स्वः स्वाहा सूर्याय इदं न मम । ओं भूर्भुवः स्वाहा प्रजापतये इदं न मम इत्याहुति चतुष्टयं हुत्वा ओं वैश्वानर जातवेद इति मन्त्रेणाहुति त्रयं हुत्वा अग्नेर्गर्भाधानं सम्पादयामि स्वाहा इति गर्भाधानपुंसवन सीमन्तोन्नयन जातकर्मान्नप्राशनचूडाकरणोपनयनसमावर्तनविवाहाख्यान् संस्कारान् पृथाक्पृथगष्टावष्टावाज्याहुतीर्हुत्वा प्रागुक्तजिह्वादिमूर्त्यन्तदेवतानां सरयूं हिरण्यायै स्वाहा इत्यादितत्तन्नामभिश्चतुर्थीस्वाहान्तैरेकैकामाहुतिं हुत्वा ओं स्वाहा ।
ओं श्रीं स्वाहा ओं श्रीं ह्रीं स्वाहा ओं श्रीं ह्रीं क्लीं स्वाहा । ओं श्रीं ह्रीं क्लीं ग्लौं स्वाहा । ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वाहा । ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये स्वाहा । ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद स्वाहा ।

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे स्वाहा । ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा । इति गणपतिमन्त्रं दशधा विभज्य हुत्वा पुनः समस्तेन गणपतिमन्त्रेण (चतुर्धा जुहुयात् । इति संस्कृते वह्नौ देवं ध्यात्वा मूलमन्त्रेण गन्धादिभिः सम्पूज्य वह्निदेवतयोरैक्यं विभावयन् मूलमन्त्रेण स्वाहान्तेनाज्यपायसतिलतण्डुलव्रीहयवभक्तानामन्यतमेन घृतव्यतिरिक्तद्रव्येषु त्रिधा योगं केवलघृतयोगं च कृत्वा) पञ्चविंशत्याहुतीर्हुत्वा मूलमन्त्रस्य षडङ्गमन्त्रैः षडाहुतीर्मूलमन्त्रेण पञ्चविंशत्याहुतीर्हुत्वावरणदेवतानामेकैकामाज्याहुतिं हुत्वा ओं भूरग्नये च पृथिव्यै च महते च स्वाहा । ओं भुवो वायवे चान्तरिक्षाय च महते च स्वाहा । ओं स्वरादित्याय च दिवे च महते च स्वाहा । ओं भूर्भुवः स्वश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा । इति चतस्र आज्याहुतीर्हुत्वा ओं इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारजाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत्स्मृतं यदुक्तं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा इति मन्त्रेणाष्टावेकां वाज्याहुतिं हुत्वा वह्निं प्राग्वत् सम्पूज्य न्यूनातिरिक्तसिद्ध्यर्थं ददामि सघृतं तिलम् । ओं ह्वं साङ्गं कुरु कुरु स्वाहा इति तिलेरेकामाहुतिं हुत्वा । ओं सहस्रार्चिर्महातेजा नमस्ते बहुरूपधृक् । सर्वाशिने सर्वगत पावकाय नमोऽस्तु ते ॥ त्वं रौद्रघोरकर्मा च घोरहा त्वं नमोऽस्तु ते । विष्णुस्त्वं कोकपालोऽसि शान्तिमत्र प्रयच्छ मे । इत्यग्निं प्रार्थ्य घृतेन स्रुचमापूर्य तदुपरि पुष्पं दत्त्वा अधोमुखेन स्रुवेण तन्मुखं पिधाय शङ्खवत्सम्पूटाभ्यां गृहीत्वोत्थाय मूलमन्त्रेण वौषडन्तेनाहुतित्रयं हुत्वा प्रोक्षणीयजलेन वह्निं परिषिच्य मूलमन्त्रेण स्वेष्टदेवं तत्र सम्पूज्य संहारमुद्रया पूजाचक्रे विसृज्य स्वहृद्युद्वास्याग्निं सम्पूज्य भो भो वह्ने महाप्राज्ञ सर्वकर्मप्रसाधक । कर्मान्तरेऽपि सम्प्राप्ते सान्निध्यं कुरु सादरम् ॥ इत्यग्निं प्रार्थ्य संहारमुद्रया स्वहृद्युद्वासयेत् इति नियहोमे अग्निस्थापनविधिः ॥

अत्र नित्यपूजाविधिस्तु श्रीविद्यायाः प्रागेव (१८१ पृ० १० श्वा०) निरूपितः । साम्प्रतं सामान्यतः सर्वेषां मन्त्राणां नित्यपूजाविधिः प्रदर्श्यते । पूजा द्विविधा अनिर्माल्या सनिर्माल्या चेति । अनिर्माल्या मानसपूजा सनिर्माल्या बाह्यपूजा । तदुक्तं तत्त्वसारे -

अनिर्माल्यं सनिर्माल्यं सनिर्माल्यमर्चनं द्विविधं मतम् ।
दिव्यैर्मनोभवैर्द्रव्यैर्गन्धपुष्पैः स्रगादिभिः ॥ १ ॥

यदर्चनमनिर्माल्यं दिव्यभोगापवर्गदम् ।
ग्राम्यारण्यादिसंभूतैर्यागद्रव्यैर्मनोरमैः ॥ २ ॥

भक्तैर्यत् क्रियते सम्यक् सनिर्माल्यं तदर्चनम् ।
जातमात्राणि पुष्पाणि घ्रातान्येव निसर्गतः ॥ ३ ॥

पञ्चभिश्च महाभूतैर्भानुना शशिना तथा ।
प्राणिभिश्च द्विरेफाद्यैश्चोष्यन्ते च न संशयः ॥ ४ ॥

अतो निर्माल्यमित्युक्तम् इति । अत्र चाद्ये यतीनामधिकारः । यदाहागस्त्यः द्विविधं स्याल्लब्धमनोर्बाह्यान्तरमुपासनम् । न्यासिनामान्तरं प्रोक्तमिति ॥ यत्तु -

मनसा पूजयेद्योगी पुष्पैर्वारण्यसम्भवैः ।
शिवार्थं पुष्पहिंसायां न भवेत् स तु हिंसकः ॥ १ ॥

तत्तु जितेन्द्रिययतिपरम् ।

परिव्राड् ज्ञानमात्रेण होमदानादिभिर्विना ।
सर्वदुःखपिशाचेभ्यो मुक्तो भवति नान्यथा ॥ २ ॥

पुण्यस्त्रियो गृहस्थाश्च मङ्गलैर्मङ्गलार्थिनः ।
पूजोपकरणैः कुर्युर्दद्युर्धानानि चार्हणम् ॥ ३ ॥

वानप्रस्थाश्च यतयो यद्येवं कुर्युरन्वहम् ।
संस्कारान्न निवर्तन्ते विद्यातिक्रमदोषतः ॥ ४ ॥

आरुढपतिता ह्येते भवेयुर्दुखभाजनम् ।
* * * * * * * * * * * * * * * ॥ ५ ॥

इति कुम्भसम्भवोक्तेरेव यतीनामसंयतेन्द्रियत्वं दोषायैव अतस्तेषां मानसपूजनमेव विहितमिति । यद्वा सर्वेषामेवाधिकारः ।
यदुक्तं पद्मपुराणे -

स्मरणे पूजने विष्णोस्तथा मानसपूजने ।
सदाधिकारः सर्वेषां महापातकिनामपि ॥ १ ॥

इति । अन्यत्र तु गृहस्थानामेवाधिकारः । यदुक्तमगस्त्येन अन्येषामुभयं तथेति । अन्येषाम् गृहस्थानामुभयं बाह्यमारभ्यन्तरं च । अत्रान्तर्यजनं बाह्यार्चनस्याङ्गत्वेनोक्तं न केवलं मानसार्चने निषेधदर्शनात् । यदाह स्वयमेव

न गृही ज्ञानमात्रेण परत्रेह च मङ्गलम् ।
प्राप्नोति चन्द्रवदने दानहोमादिभिर्विना ॥ १ ॥

गृहस्थो यदि दानानि दद्यान्न जुहुयादपि ।
पूजयेद्विधिनानेन कः कुर्यादेतदन्वहम् ॥ २ ॥

न ब्रह्मचारिणो दातुमधिकारोऽस्ति भामिनि ।
नारण्यवासिनां शक्तिर्न ते सन्ति कलौ युगे ॥ ३ ॥

गुरुभ्योऽपि च सर्वेभ्यः को वा दातुमपिक्षते ।
* * * * * * * * * * * * * * * * ॥ ४ ॥

इति । अत्र

घ्रातं पुष्पफलं सिद्धेरलं नो मानसाद्यथ ।
तस्मादपरिहार्यत्वादन्यथा चानुपायतः ॥ ५ ॥

अल्पबुद्धित्वतो नृणां बाह्यपुष्पैर्भवेत् प्रिये ।
* * * * * * * * * * * * * * * * ॥ ६ ॥

इति यत्तत्त्वसाअरवचनं तत्तदङ्गभूतस्याभ्यन्तरयजनस्यात्यन्तमावश्यकत्वं गृहस्थानामुपपादयतीति । तस्माद्गृहस्थानां बाह्यपूजैव नित्या साच पञ्चविधा । उक्तं च मन्त्रतन्त्रप्रकाशे -

पूजा पञ्चविधा प्रोक्ता पञ्चरात्रादितन्त्रके ।
ताश्चाभिगमना चोपादानेज्याध्याययोगकाः ॥ १ ॥

तत्राभिगमना नाम मन्त्रिभिः परिकीर्त्यते ।
सम्मार्जनोपलेपादिसंस्कारो देवमन्दिरे ॥ २ ॥

उपादानं भवेद् देवपूजासाधनमेलनम् ।
ततश्चापि भवेदन्या गन्धपुष्पादिभिः पुनः ॥ ३ ॥

पीठपूजा च देवस्य साङ्गावरणपूजनम् ।
मन्त्रार्थभावनापूर्वं जपो मन्त्रस्य कीर्तनम् ॥ ४ ॥

तच्छास्त्राध्ययनं सम्यक् स्वाध्यायो मन्त्रिभिः स्मृतः ।
गुरुदेवात्मनामैक्यभावना योग उच्यते ॥ ५ ॥

सालोक्यमपि सारूप्यं सामीप्यं सार्ष्टिनामकम् ।
सायुज्यमपि पञ्चानां फलान्येवं विदुः क्रमात् ॥ ६ ॥

इति । तत्रादाविज्यानिरूपणेन सर्वासामपि निरूपणं स्यादित्यतः प्रधानभूतेज्या निरूप्यते । तत्र श्रीनारदपञ्चरात्रे -

निशावसाने शयनात् स्मृत्वा नारायणं प्रभुम् ।
उत्थाय दक्षिणाङ्गेन वामपादं न्यसेद्भुवि ॥ १ ॥

निशावसाने पश्चिमे यामे ।

केचिद्वा मध्यमौ यामौ रात्रौ सुप्त्वा विशांपते ।
सञ्चिन्तयन्ति धर्मार्थों याम उत्थाय पश्चिमे ॥ २ ॥

इति भारतोक्तेः । दक्षिणाङ्गेनोत्थाय नारायणं स्मृत्वेति सम्बन्धः ।
नारायणमित्युपलक्षणं तेन स्वेष्टदेवतां स्मृत्वेत्यर्थः ।
उत्तरतन्त्रे -

रात्रिशेषे समुत्थाय कृत्वावश्यकमादरात् ।
रात्रिवासः परित्यज्य वाससी परिधाय च ॥ १ ॥

आचम्य शुद्धदेहः सन् देवतायागमन्दिरम् ।
मार्जयित्वोपलिप्याथ भक्तियुक्तस्तु शक्तिभिः ॥ २ ॥

उपविश्य शुचौ देशे प्रङ्मुखः प्रोक्त आसने ।
प्राणायामत्रयं कृत्वा कृत्वा न्यासं विधानतः ॥ ३ ॥

न्यासमृष्यादिन्यासम् ।

निर्माल्यमपकृष्याथ दद्यात् पुष्पाञ्जलिं तथा ।
अर्घ्यपाद्ये निवेद्याथ दद्याद्वै दन्तधावनम् ॥ ४ ॥

मुखप्रक्षालनं दत्त्वा दद्यादाचमनीयकम् ।
करास्यप्रोञ्छनायाथ दद्याद्वासोऽमलं शुभम् ॥ ५ ॥

इति । दक्षिणामूर्तिसंहितायाम् - (२४ प०)

प्रातरुत्थाय शिरसि संस्मरेत् पद्ममुज्ज्वलम् ।
कर्पूराभं स्मरेत् तत्र श्रीगुरुं देवरूपिणम् ॥ १ ॥

सुप्रसन्नं लसद्भूषामण्डितं शान्तिभूषितम् ।
* * * * * * * * * * * * * * * * ॥ २ ॥

इति पद्मं शिरसि । गुरुपादाम्बुजद्वन्द्वं संस्मरेन्निजमूर्धनि ।
इत्युत्तरतन्त्रवचनात् । भैरवतन्त्रे -

व्योमाम्बुजे कर्णिकमध्यसंस्थे सिंहासने संस्थितदिव्यमूर्तिम् ।
ध्यायेद्गुरुं चन्द्रशिलाप्रकाशं सत्पुस्तकाभीतिवरान् दधानम् ॥ १ ॥

श्वेताम्बरं श्वेतविलेपपुष्पमुक्ताविभूषं मुदितं त्रिनेत्रम् ।
वामाङ्कपीठस्थितरक्तशक्तिं मन्दस्मितं सान्द्रकृपानिधानम् ॥ २ ॥

रक्ताङ्गरागाभरणाम्बराढ्यां स्मेराननां पीनकुचां प्रियाङ्के ।
वामे निषणातिरक्तकान्तिं वामेन लीलाकमलं करेण ॥ ३ ॥

ध्यायेद् दधानामपरेण नाथमाश्लिष्य गाढं द्विभुजां त्रिनेत्राम् ।

अर्चयेद्गन्धपुष्पाद्यैर्वहिष्ठैर्मानसैस्तु वा ।
नामभिस्तस्य संकेतसंसिद्धैर्गुरुकीर्तनैः ॥ ४ ॥

तदज्ञाने गुरुभ्योऽथ नमोऽन्ते वै समर्चयेत् ।
स्तुवीत स्तुतिभिः प्रीत आचार्य सर्वसिद्धये ॥ ५ ॥

इति । प्रातः स्मरणातिरिक्तकाले स्वगुरुध्यानमाह शैवागमे -

दीक्षाकाले यथारूपं स्वस्यानुग्रहकर्मणि ।
दृष्टं तत्तेन भावेन ध्यायन्नाह्निकमाचरेत् ॥ १ ॥

इति वैखानसपञ्चरात्रे तथैव रात्रिशेषं च कालं सूर्योदयावधि ।
अरुणोदयावधीत्यर्थः । तस्यैव स्नानकालत्वात् कर्तव्यं सजपं ध्यानं नित्यमाराधकेन वै । इति । कपिलपञ्चरात्रे -

विभज्य पञ्चधा रात्रिं शेषे देवार्चनादिकम् ।
जपं होमं तथा ध्यानं नित्यं कुर्वीत साधकः ॥ १ ॥

इति । उत्तरतन्त्रे -

इति स्तुत्वा हृदि स्वीये ध्यायेदिष्टां च देवताम् ।
गुरुदेवतयोरैक्यं भावयेच्च निराकुलः ॥ १ ॥

इष्टार्थप्रार्थनां कृत्वा ह्याज्ञां सम्प्रार्थयेत् ततः ।
इष्टदेवस्य भूमेश्च तस्यां श्वासानुसारतः ॥ २ ॥

विन्यस्य पादमुत्थाय कुर्यादावश्यकीं क्रियाम् ।
* * * * * * * * * * * * * * * * ॥ ३ ॥

प्रार्थनाश्लोकस्त्वग्रे वक्ष्यते । इत्थमुच्चार्यलब्धाज्ञो देशिकः शौचमाचरेत् । इति नारदपञ्चरात्रे -

पदे पदे स्मरेदस्त्रं दूरे यायाद् गृहालयात् ।
तत उद्वासयेद् देवान् मन्त्रेणानेन देशिकः ॥ १ ॥

तृणलोष्टप्रक्षेपेण दत्त्वा तालत्रयं पुनः ।
उत्तिष्ठन्त्वृषयोदेवा गन्धर्वा यक्षराक्षसाः ॥ २ ॥

परितस्त्यजतां स्थानं विण्मूत्रोत्सर्जनाय मे ।
कृत्वा मलच्युतिं तत्र वाससा कं प्रवेष्ट्य च ॥ ३ ॥

(कं मस्तकम् ।)

खं दिशश्चानवीक्षेत् ततो यायाज्जलाशयम् ।
शौचं कृत्वा यथाशास्त्रं विधिनाचमनं ततः ॥ ४ ॥

दन्तकाष्ठं ततो भुक्त्वा स्नायात्तदनु नारद ।
* * * * * * * * * * * * * * * * ॥ ५ ॥

द्विजेति नारदसम्बोधनम् । आलयाद् दूरे इषुक्षेपदूरमतीत्य । निर्- ऋत्यामिषुविक्षेपमतीत्याभ्यधिकां भुव मितिविष्णुवचनात् ।
शौचमाह नारदपञ्चरात्रे -

तिस्रो लिङ्गे मृदो देया एकैकान्तरमृत्तिकाः ।
पञ्च वामकरे देयास्तिस्रः पाण्योर्विशुद्धये ॥ १ ।

मूत्रोत्सर्गे विशुद्धिः स्यात् पुरीषस्याप्यनन्तरम् ।
पञ्चापाने मृत्तिकाः स्युरेकैकान्तरमृत्तिकाः ॥ २ ॥

दश वामकरे देयाः सप्त तूभयहस्तयोः ।
पादयोस्तिसृभिः शुद्धिर्जङ्घाशुद्धिस्तु पञ्चभिः ॥ ३ ॥

नियोजयेत् ततो विप्र कट्यां वै सप्त मृत्तिकाः ।
स्वदेहे स्वेददोषघ्न ब्राह्मणः कर्मसिद्धये ॥ ४ ॥

भक्तानां क्षत्रियाणां च वर्षास्वेवं निरूपितम् ।
प्रावृण्मुक्तावथैतस्मादेकमृदपनोदनम् ॥ ५ ॥

शरद्ग्रीष्मवसन्तेषु नित्यं कार्यं क्रियापरैः ।
एतस्मादपि चैकैकां मृत्तिकां परिलोपयेत् ॥ ६ ॥

हेमन्ते शिशिरे चैव श्रोत्रियः संयतः स्थितः ।
पथि शौचं विधातव्यं देशकालानुरोधतः ॥ ७ ॥

गन्धलेपंपास्यैव मनः शुद्ध्या विशुध्यति ।
* * * * * * * * * * * * * * * * ॥ ८ ॥

इति । एकैकान्तरमृत्तिका इत्ययमर्थः - प्रथममेकवारं मृत्ज्जलैर्लिङ्गं प्रक्षाल्य ततो वामकरं मृज्जलैः प्रक्षाल्य पुनर्लिङ्गमिति क्रमेणः ॥ कपिलपञ्चरात्रे -

यद् दिवा विहितं शौचं तदर्धं निशि कीर्तितम् ।
तदर्धमातुरे प्रोक्तमातुरस्यार्धमध्वनि ॥ १ ॥

इति । दन्तकाष्ठं मन्त्रमाह दक्षिणामूर्तिः -

क्लीमन्ते कामदेवाय सर्वान्ते जन चालिखेत् ।
प्रियायेति हृदन्तोऽयं स मनुर्दन्तशुद्धये ॥ १ ॥

इति । पञ्चमीश्वरतन्त्रे -

प्रत्यहं दन्तकाष्ठं तु प्लक्षकाष्ठं तु मारणे ।
मोहने खादिरं प्रोक्तं स्तम्भने चूतपल्लवम् ॥ १ ॥

वश्ये चाश्वत्थकाष्ठं तु रक्षार्थं वञ्जुलस्य हि ।
अयं क्रमो महादेवि त्रिलोकेषु न विद्यते ॥ २ ॥

इति । उत्तरतन्त्रे - वक्त्रं मूलाणुना नित्यं क्षालयेत् सिद्धिहेतवे । इति ॥ अथ स्नानं तच्च त्रिविधमौदकमन्त्रध्यानभेदात् । तत्रौदकं स्नानं नारदपञ्चरात्रे -

अयाधिकारसिद्ध्यर्थं स्नानं वक्ष्यामि पूर्वतः ।
येन भक्तोऽभिषिक्तस्तु यागहोमार्हतां व्रजेत् ॥ १ ॥

शंकुनास्याभिजप्तेन शुचिस्थानातु मृत्तिकाम् ।
गृहीत्वास्त्रेण संचिन्त्य यायाज्जलनिकेतनम् ॥ २ ॥

तत्रादौ जलकूलं तु क्षालयेदस्त्रवारिणा ।
मृदं कृत्वा द्विधा तत्र एकभागोपगं ततः ॥ ३ ॥

निधाय गोमयं दर्भांस्तिलांश्चाप्यभिमन्त्रितान् ।
लौकिकं गौणं मध्येन भागेनैकेन यत्नतः ॥ ४ ॥

मलस्नानं पुरा कृत्वा विधिस्नानं समाचरेत् ।
* * * * * * * * * * * * * * * * ॥ ५ ॥

इति । अभिमन्त्रितानस्त्रेण । विधिस्नानं वैदिकस्नानम् । स्मृतिसमुच्चये - न प्रातर्मृत्तिकास्नानं न कुर्यान्निशिगोमयैरिति । वसिष्ठसंहितायाम् -

कृत्वादौ वैदिकं स्नानं ततस्तान्त्रिकमाचरेत् ।
विन्यस्याङ्गे षडङ्गानि प्राणायामपुरःसरम् ॥ १ ॥

श्रीसूर्यमण्डलात् तीर्थमाकृष्यांकुशमुद्रया ।
आत्मरक्षां ततः कुर्याद्वारिक्षेपेण चास्त्रतः ॥ २ ॥

निमज्ज्य तत्र श्रीदेवं ध्यायन् शक्त्या मनुं जपेत् ।
उन्मज्ज्य कुम्भमुद्रां च बद्ध्वा सिञ्चेत् स्वमूर्धनि ॥ ३ ॥

तीर्थावाहनमन्त्रास्तु प्रयोगे वक्ष्यन्ते । एतत्तीर्थेऽपि फलातिशयार्थं सावाहनं स्नानमभिधाय वह्निपुराणे -

योऽनेन विधिना स्नायाद्यत्र कुत्र जले द्विजः ।
स तीर्थ फलमाप्नोति तीर्थे दशगुणं फलम् ॥ १ ॥

इति । सिञ्चेत् सप्तधा त्रिधा वा । सप्तकृत्वोऽभिषिच्याथ मनुना मन्त्रितैर्जलैरिति कपिलवचनात् । त्रिधाभिषिच्य मूलेनेति उत्तरतन्त्रात् । तथा - ततः संक्षेपतो देवान् मनुष्यांस्तर्पयेत् पितृन् । इति ॥

स्नाने वेशेषमाह त्रिपुरार्णवे -

विधाय वैदिकं स्नानं ततस्तान्त्रिकमाचरेत् ।
मृदमस्त्रेण चादाय तेन तामभिमन्त्र्य च ॥ १ ॥

शिखामन्त्रेण संशोध्य मन्त्रयेन्मूलमन्त्रतः ।
मूर्धादिपादपर्यन्तं विलिप्य च तया वपुः ॥ २ ॥

सम्मुखीकरणीं मुद्रां बद्ध्वा प्राणान् निरुध्य च ।
निमज्ज्य तूष्णीमुत्थाय नाभिमात्रजले स्थितः ॥ ३ ॥

प्राणायामं ततः कृत्वा मूलमन्त्रेण मन्त्रवित् ।
विन्यस्य च षडङ्गानि कल्पयेत्तीर्थमग्रतः ॥ ४ ॥

ततः सम्प्रार्थयेत् तीर्थं सूर्यात् तन्मण्डलं ततः ।
सृणीमन्त्रेण मन्त्रज्ञो भित्त्वा चांकुशमुद्रया ॥ ५ ॥

तीर्थावाहनमन्त्रेण तीर्थमावाहयेत् प्रिये ।
मूलमन्त्रेण संयोज्य कल्पिते तीर्थमण्डले ॥ ६ ॥

तीर्थशक्तिं च तत्रैव समावाह्यार्कमण्डलात् ।
ध्यात्वा तन्मनुनाभ्यर्च्य गङ्गामन्त्रेण मन्त्रयेत् ॥ ७ ॥

सप्तकृत्वः शिवे वच्मि शृणु मन्त्रद्वयं प्रिये ।
जलस्थं व्योम षट्दीर्घस्वरभिन्नं सबिन्दुकम् ॥ ८ ॥

सर्वानन्दमये तीर्थशक्ति चैहियुगं द्विठः ।
* * * * * * * * * * * * * * * * ॥

इति । जलं वकारः व्योम हकारः तेन ह्व एतत षड्दीर्घस्वरभिन्नं ह्वां ह्वीं ह्वूं ह्वैं ह्वौं ह्वः इति द्विठः स्वाहाकारः । तथा - एकविंशाक्षरः प्रोक्तस्तीर्थशक्तिमनुः प्रिये । अत्र शक्तीति सम्बोधनपदं दिव्यत्वात् । चकारो विसन्धिद्योतकः एकविंशाक्षर इत्युक्तेः ।

तारं नमो भगवति ब्रूयादम्बे ततोऽम्बिके ।
अम्बालिके महामालिन्येह्येहि भगवन्त्यथ ॥ ९ ॥

अशेषतीर्थालवाले मायाश्रीबीजयोरथ ।
शिवजटाधिरूढे च गङ्गे गङ्गाम्बिके द्विठः ॥ १० ॥

गङ्गाविद्येयमाख्याता त्रिपञ्चाशद्भिरक्षरैः ।
* * * * * * * * * * * * * * * * ॥

इति । तारः प्रणवः माया ह्रीं द्विठः स्वाहाकारः अम्बे इति दिव्यत्वात् । अन्यत्सुगमम् तथा -

भुवनेश्या समालेख्यामृतीकृत्य सुधाणुना ।
कवचेनावगुण्ठ्याथ संरक्ष्यास्त्रेण मन्त्रयेत् ॥ ११ ॥

मूलेन देवतां तत्र साङ्गां सावरणां प्रिये ।
समावाह्य जले ध्यात्वा तत्पदद्वयनिर्गतम् ॥ १२ ॥

ध्यात्वा तीर्थं स्मरन् मूलमन्त्रं मन्त्रेण तर्पयेत् ।
त्रिधा देवीं समुत्तीर्य जलाद् धौते सुवाससी ॥ १३ ॥

परिधायाथ तिलकं कृत्वा सन्ध्यां समाचरेत् ।
* * * * * * * * * * * * * * * * ॥

इति । तीर्थशक्तिध्यानं प्रयोगे वक्ष्यते ।
अथैतद्वारुणस्नानाशक्तानां मन्त्रस्नानविधिमाह - नारदपञ्चरात्रे -

* * * * * * * * * * * * अथ मान्त्रं शुभं शृणु ।
तोयाभावे तु यत्कार्यं दूर्गे काले तु शीतले ॥ १ ॥

गमने क्षिप्रसिद्द्यर्थं गुरुकार्येष्वतन्द्रितः ।
प्राप्तापद्यथ विप्रेन्द्र निशाभागे तथा मुने ॥ २ ॥

प्रक्षाल्य पादावाचम्य प्रोद्धृतेन तु वारिणा ।
स्थानं दश दिशः प्राग्वत् संशोध्योपविशेत्ततः ॥ ३ ॥

अस्त्रं हस्ततले न्यस्य क्रमान्न्यासांस्ततस्तु वै ।
मूलमन्त्रादितः कुर्यात् सर्वमन्त्रगणेन वै ॥ ३ ॥

केवलादुदकस्नानात् संस्कारपरिवर्जितात् ।
प्रभासादिषु तीर्थेषु यत्फलं स्नातकस्य तु ॥ ५ ॥

ज्ञेयं दशगुणं स्नानान्मन्त्रस्नानस्य नारद ।
ध्यानस्नानमथो वक्ष्ये द्वाभ्यामपि परं च यत् ॥ ६ ॥

खस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिप्रभुं स्मरेत् ।
तत्पादोदकजां धारां निपतन्तीं स्वमूर्धनि ॥ ७ ॥

चिन्तयेत् सूक्ष्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम् ।
तया संक्षालयेत् सर्वमन्तर्देहगतं मलम् ॥ ८ ॥

तत्क्षणाद्विरजा मन्त्री जायते स्फुटिकोपमः ।
इदं स्नानं वरं मन्त्रात् स्नानं शतगुणं स्मृतम् ॥ ९ ॥

तस्मादेकतमं स्नानं कार्यं श्रद्धापरेण तु ।
स्नानपूर्वाः क्रियाः सर्वा यतः सभ्यास्तु नारद ॥ १० ॥

तस्मात्स्नानं पुरा कुर्याद्यदीच्छेदात्मनो हितम् ।
* * * * * * * * * * * * * * * * ॥

इति । शैवागमे -

मनसा मूलमन्त्रेण प्राणायामपुरःसरम् ।
कूर्वीत मानसं स्नानं सर्वत्र विहितं च यत् ॥ १ ॥

इति । पुण्डरीकाषमित्युपलक्षणं तेन स्वेष्टदेवतां स्मरेदिति ।
मन्त्रस्तु स्वेष्टः शैवे तु ततः शिवात्मकैर्मन्त्रैः कृत्वा तीर्थं शिवात्मकम् । मार्जनं सहितामन्त्रैस्तत्तोयेन समाचरेत् ॥ इति शैवागमात् । संहिता तु - व्योमव्यापी च यो मन्त्रः पञ्चब्रह्माणि यानि च । ये मन्त्राः शिवगायत्र्या रुद्रं चेति यथाक्रमम् ।
सर्वपापहराः प्रोक्ता विद्येयं शिवसंहिता ॥ इति व्योमव्यापी तु आमीमूमाद्यतो व्योमव्यापी चैव प्रकीर्तयेत् ।
प्रणवाद्यन्तरुद्धोऽयं व्योमव्यापी प्रकीर्तितः ॥ इति नारदपञ्चरात्रे -

सुधौतं परिधायाथ वस्त्रयुग्ममखेदकम् ।
तदभावादधः शाटीयोगपट्टकसंयुतम् ॥ १ ॥

न चैकवाससा यस्माद् भवितव्यं कदाचन ।
* * * * * * * * * * * * * * * * ॥

इति । नृसिंहपुराणे -

जलान्तिकं समासाद्य शुक्ले धौते च वाससी ।
परिधायोत्तरीयं च न कुर्यात् केशधूननम् ॥ १ ॥

इति । स्मृतिसमुच्चये -

वहिःस्नातस्तु नद्यादौ स्नानवस्त्रमधस्त्यजेत् ।
ऊर्ध्वं त्यजेत् स्नानवस्त्रं गृहस्नातो यदा भवेत् ॥ १ ॥

ऊरू करौ मृदाद्भिश्च क्षालयेच्छुद्धिहेतवे ।
निष्पीड्य स्नानवस्त्रं तु प्रातःसन्ध्यां समाचरेत् ॥ २ ॥

मध्याह्ने तर्पणादूर्ध्वं वस्त्रनिष्पीडनं भवेत् ।
* * * * * * * * * * * * * * * * ॥

इति । यामले विभृयाद्वाससी शुद्धे तिलकं वर्णभेदतः । इति । वसिष्ठः - ऊर्ध्वपुण्ड्रं त्रिपुण्ड्रं वा कृत्वा सन्ध्यां समाचरेत् । अत्र वाशब्दस्तूर्ध्वपुण्ड्रत्रिपुण्ड्रयोर्वर्णपरत्वोपस्थापकः । अत एव नारदपञ्चरात्रे -

ब्राह्मणस्योर्ध्वपुण्ड्रं स्यात् क्षत्रियस्य त्रिपुण्ड्रकम् ।
वैश्यपुण्ड्रमर्धचन्द्रं शूद्राणां वर्तुलाकृति ॥ १ ॥

इति । ऊर्ध्वपुण्ड्रलक्षणं तु कूर्मपुराणे -

यस्तु नारायणं देवं प्रपन्नार्तिहरं परम् ।
धारयेत् सर्वदा शूलं ललाटे गन्धवारिभिः ॥ १ ॥

यत्तत्प्रधानं त्रिगुणं ब्रह्मविष्णुशिवात्मकम् ।
धृतं तच्छूलधरणाद् भवत्येव न संशयः ॥ २ ॥

इति । शैवशाक्तानां तु चातुर्वर्णिकानामपि त्रिपुण्ड्रधारणमावश्यकम् ।

विना भस्मत्रिपुण्ड्रेन जलं वा भोजनादिकम् ।
भक्षणात् सर्वपापानां भस्मेति परिकीर्तितम् ॥ ३ ॥

अप्यकार्यसहस्राणि कृत्वा यः स्नाति भस्मना ।
तत्सर्वं भवति भस्म यथाग्नितेजसा वनम् ॥ ४ ॥

इति लिङ्गपुराणवचनात् । भस्मत्रिपुण्ड्रधारणविधिस्तु वायवीयसंहितायाम् -

शिवाग्नेर्भस्म संग्राह्यमग्निहोत्रोद्भवं तु वा ।
वैवाहाग्न्युद्भवं वापि पक्वं शुचि सुगन्धि च ॥ १ ॥

कपिलायाः शकृच्छस्तं गुहीतं गगने पतत् ।
न लीनं नातिकठिनं न दुर्गन्धि नचोषितम् ॥ २ ॥

उपर्यधः परित्यज्य गृह्णीयात् पतितं यदि ।
खण्डीकृत्य शिवाग्नौ तु निक्षिपेन्मूलमन्त्रतः ॥ ३ ॥

अपक्वमतिपक्वं स संत्यज्य भसितं सितम् ।
आदाय वाससालोड्य भस्माधारे विनिक्षिपेत् ॥ ४ ॥

भस्मसंग्रहणं कुर्याद्वह्न्यनुद्वासिते सति ।
उद्वासने कृते यस्माच्चण्डभस्म प्रजायते ॥ ५ ॥

इति । गोमयापहरणादौ विशेषमाह तत्रैव -

यद्वा धरामसंस्पृष्टां सद्येनानीय गोमयम् ।
वामेन पात्रे संशोष्य अघोरेण विनिर्दहेत् ॥ ६ ॥

पुरुषेण समुद्धृत्य ईशानेन विशोधयेत् ।
इत्थं तु संस्कृतं भस्म अग्निरित्यादिमन्त्रतः ॥ ७ ॥

तस्माद्ब्रह्मेति यजुषां मन्त्रयेद् रुद्रसंख्यया ।
प्रणवाद्यैश्चतुर्थीहृदन्तैर्नामभिरीशकैः ॥ ८ ॥

पञ्चवर्णाद्यक्षराद्यैर्भालांसोदरहृत्सु च ।
त्रिपुण्ड्रधारणं कुर्यान्मूर्ध्नि पञ्चाक्षरेण च ॥ ९ ॥

त्रिपुण्ड्रं धारयेन्मन्त्री साक्षाच्छिव इवापरः ।
* * * * * * * * * * * * * * * * ॥

इति । नामभिः सद्योजातादिभिः अंसशब्दोंऽसद्वयवाचको नामपञ्चकत्वात् । अत्र त्रिपुण्ड्रधारणेंऽगुलिनियमोजाबालोपनिषद्ब्राह्मणे त्रिपुण्ड्रं धारयेत्पश्चाद् ब्रह्मविष्णुशिवात्मकम् । मध्यांगुलिभिरादाय तिसृभिर्मूलमन्त्रितम् अनामामध्यमांगुष्ठैरथवा स्यात् त्रिपुण्ड्रकमिति स्कन्दपुराणे सनत्कुमारं प्रति श्रीशिववचनम् -

सद्यादिभिर्ब्रह्ममयैर्महामन्त्रैश्च पञ्चभिः ।
परिगृह्याग्निरित्यादिमन्त्रैर्भस्माभिमन्त्रयेत् ॥ १ ॥

मा नस्तोकेन संमर्द्य शिरो लिम्पेत् त्रियम्बकम् ।
तिस्रो रेखा भवन्त्येषु स्थानेषु मुनिपुङ्गव ॥ २ ॥

भ्रुवोर्मध्ये समारभ्य यावदन्ता भवेद् ब्रुवोः ।
मध्यमानामिकांगुल्यो मध्ये तु प्रतिलोमतः ॥ ३ ॥

अंगुष्ठेन कृता रेखा त्रिपुण्ड्रस्याभिधीयते ।
तिसृणामपि रेखाणां प्रत्येकं नव देवताः ॥ ४ ॥

अकारो गार्हपत्योऽग्निर्भूश्चात्मा च रजोगुणः ।
ऋग्वेदश्च क्रियाश्क्तिः प्रातः सवनमेव च ॥ ५ ॥

महादेवश्च रेखायाः प्रथमायाः प्रकीर्तिताः ।
उकारो दक्षिणाग्निश्च नभः सत्त्वं यजुस्तथा ॥ ६ ॥

मध्यन्दिनं च सवनं इच्छाशक्त्यन्तरात्मकैः ।
महेश्वरश्च रेखाया द्वितीयायाश्च देवताः ॥ ७ ॥

मकाराहवनीयौ च परमात्मा तमोदिवौ ।
ज्ञानशक्तिः सामवेदस्तृतीयसवनं तथा ॥ ८ ॥

शिवश्चेति तृतीयाया रेखायास्त्वधिदेवताः ।
एता नित्यं नमस्कृत्य त्रिपुण्ड्रं धारयेच्छुचिः ॥ ९ ॥

महेश्वरव्रतमिदं सर्ववेदेषु कीर्तितम् ।
मुक्तिकामैर्जनैः सेव्यं पुनस्तेषां न सम्भवः ॥ १० ॥

त्रिपुण्ड्रं धारयेद्यस्तु भस्मना विधिपूर्वकम् ।
ब्रह्मचारी गृहस्थो वा वनस्थो यतिरेव च ॥ ११ ॥

महापातकसङ्घातैर्मुच्यते चोपपातकैः ।
तथान्यैः क्षत्रविट्शूद्रस्त्रीगोहत्यादिपातकैः ॥ १२ ॥

वीरहत्याश्वहत्याभ्यां मुच्यते नात्रसंशयः ।
* * * * * * * * * * * * * * * * ॥

इत्यादि ॥ अथ प्रकारान्तरेण तिलकप्रकारस्तु -

इत्थं तु संस्कृतं भस्म अग्निरित्यादिमन्त्रतः ।
विमृज्याङ्गानि संस्पृश्य पुनरादाय मन्त्रतः ॥ १ ॥

तस्माद् ब्रह्मेति यजुषा मन्त्रयेद् रुद्रसंख्यया ।
ललाटे ब्रह्म विज्ञेयं हृदये हव्यवाहनः ॥ २ ॥

नाभौ स्कन्दो गले पूषा रुद्रो दक्षिणबाहुके ।
आदित्यो बाहुमध्ये च शशी च मणिबन्धके ॥ ३ ॥

वामदेवो वामबाहौ बाहुमध्ये प्रभञ्जनः ।
मणिबन्धे च वसवः पृष्ठदेशे हरः स्मृतः ॥ ४ ॥

शम्भुः ककुदि सम्प्रोक्तः परमात्मा शिरः स्मृतः ।
* * * * * * * * * * * * * * * * ॥

इति । अमन्त्रकं वायवीय संहितायाम् - पुनर्न्यस्तकरो मन्त्री त्रिपुण्ड्रं भस्मना लिखेत् । इति एतच्छूद्रादिविषयं ज्ञेयम् । अत्र भस्मधारणे ये विशेषास्ते वक्ष्यन्ते । शाक्तानां वामकेश्वरतन्त्रषट्शत्यां श्रीविद्यायजनप्रकरणे - त्रिपुण्ड्रकविधारी चेति । एतत् त्रिपुण्ड्रधारणं चन्दनादिसुगन्धद्रव्येण कार्यम् । रम्यं त्रिपुण्ड्रं दधद् । भाले नन्दनचन्दनेन जननि ध्यायामि ते मङ्गलमिति भगवता श्रीदूर्वाससोक्तत्वात् ॥

अथ सन्ध्या । तत्र महाकपिलपञ्चरात्रे -

उपविश्य शुचौ देशे प्राणायामत्रयं क्रमात् ।
मूलमन्त्रेण कृत्वा तु देहे कुर्वीत् मार्जनम् ॥ १ ॥

इति । शैवागमे -

प्राणायामत्रयं कृत्वा मूलमन्त्रेण मन्त्रयेत् ।
अङ्गानि विन्यसेद् देहे करन्यासपुरःसरम् ॥ १ ॥

अमृतीकृत्य पुरतो जलं वं धेनुमुद्रया ।
अभिमन्त्र्य च मूलेन सप्तवारं च साधकः ॥ २ ॥

अकारदिक्षकारान्तैर्मातृकार्णैः सबिन्दुभिः ।
प्रत्यर्णं प्रोक्षयेन्मूर्ध्नि कुशैर्मूलेन च त्रिधा ॥ ३ ॥

देवं ध्यात्वाथ मनुविद् भानुमण्डलसंस्थितम् ।
आदाय तोयमामन्त्र्य बीजैर्भूतात्मकैस्तथा ॥ ४ ॥

लंवंरंयंहमिति च तान्युक्तानि सुरार्चिते ।
सप्तकृत्वस्ततो मूलमन्रेण त्रिः पुनश्च तत् ॥ ५ ॥

वामहस्ते निधायाथ गलितैर्जलबिन्दुभिः ।
सम्प्रोक्ष्य मूलमन्त्रेण दक्षहस्तेन मूर्धनि ॥ ६ ॥

नासयाश्लिष्य शिष्टेन तेजोरूपेण तेन तत् ।
प्रविश्यान्तर्गतं सर्वं मलं संशोध्य निर्गतम् ॥ ७ ॥

दक्षनासापुटेनैतत स्मृत्वा दक्षिणहस्तगम् ।
वामभागे वज्रशिलां ध्यात्वास्त्रेण च तत् क्षिपेत् ॥ ८ ॥

प्रक्षाल्य हस्तावाचम्य मूलमन्त्रेण मन्त्रवित् ।
गायत्र्या चाथ मूलेन दद्यादर्घ्यत्रयं सुधीः ॥ ९ ॥

शिवाय मण्डलस्थाय रवेर्मूलेन तर्पयेत् ।
त्रिधा जप्त्वा च गायत्रीमष्टाविंशतिवारकम् ॥ १० ॥

जपित्वा मूलमन्त्रं च शतमष्टोत्तरं ततः ।
समर्प्य तज्जपं मन्त्री देवमुद्वास्य मण्डलात् ॥ ११ ॥

निधाय स्वीयहृदये ततस्तर्पणमाचरेत् ।
* * * * * * * * * * * * * * * * ॥

इति । मूलेनार्घ्यदानं तु गायत्रीरहितमन्त्रपरं ज्ञेयम् । तथा शैवागमे -

सन्ध्यालोपो न कर्तव्यः शम्भोराज्ञैवमेव हि ।
दीक्षितः सन्ध्या हीनो न दीक्षाफलमश्नुते ॥ १ ॥

सन्ध्याहीनोऽन्यसन्ध्यायां पूर्वसन्ध्याक्रियामथ ।
विधायोत्तरसन्ध्यायाः क्रियां कुर्यादतन्द्रितः ॥ २ ॥

इति । अत्र प्रायश्चितमपि कार्यम् । यदुक्तं तन्त्रराजे - स्नानसन्ध्यार्चनालोपे जपेद्विद्यां शतं शिवे । इति । तथा -

ध्यात्वा देवं जले सम्यक् पूजयित्वाथ मूलतः ।
अष्टोत्तरशतावृत्त्या तर्पयेन्मूलमन्त्रतः ॥ १ ॥

तदर्धेन तदर्धेन दशधा वाथ तर्पयेत् ।
ततस्तदङ्गावरणदेवतास्तर्पयेत् क्रमात् ॥ २ ॥

एकैकाञ्जलिना तत्तन्नाममन्त्रेण मन्त्रवित् ।
पुनः सम्पूज्य देवेशं साङ्गावरणकं ततः ॥ ३ ॥

समुद्वास्य हृदि स्वीये स्वात्मानं तन्मयं स्मरेत् ।
* * * * * * * * * * * * * * * * ॥

इति । नारदपञ्चरात्रे -

ततश्चोदकसम्पूर्णं भाण्डमादाय पाणिना ।
एकान्तं निर्जनं यायान्मनोज्ञं दोषवर्जितम् ॥ १ ॥

हुन्मध्यस्थं स्मरन् विष्णुं प्रबुद्धानन्दविग्रहम् ।
दिगन्तरं न वीक्षेत (मौनी) संरुद्धलोचनः ॥ २ ॥

इति । महाकपिलपञ्चरात्रे -

मूलमन्त्रं जपन् गच्छेद् यावत् प्राप्नोति वै गृहम् ।
प्राप्य हस्तौ च पादौ च प्रक्षाल्याचम्य यत्नतः ॥ १ ॥

यागमण्डपमासाद्य विशेत् कृत्वा प्रदक्षिणम् ।
* * * * * * * * * * * * * * * * ॥

इति । उत्तरतन्त्रे -

आचान्तः शुचितां प्राप्तः सुस्नातो देवपूजने ।
पूजावेद्या बहिः स्थित्वा चुतुर्हस्तान्तरे धिया ॥ १ ॥

गृहे चेद् द्वारदेशस्थः प्रणम्य मनसा गुरुम् ।
प्रणमेदिष्टदेवं स्वं दिक्पालानपि चेतसा ॥ २ ॥

यत् पूर्वमर्जितं पापं तद्दिनेऽन्यदिनेऽपि वा ।
प्रायश्चित्तेर्नापनुदेत् तदा पापं स्मरेद् धिया ॥ ३ ॥

तत्पापस्यापनोदार्थं मन्त्रद्वयमुदीरयेत् ।
* * * * * * * * * * * * * * * * ॥

मन्त्रद्वयं तु प्रयोगे वक्ष्यते (२०।४२) । तथा -

एवं कृते पर्थमतः पापोत्सारणकर्मणि ।
यत् स्याद् दृढतरं पापं तद् दूरे चावतिष्ठते ॥ १ ॥

अतीते पूजने स्थानं स्वं प्रयाति पुनश्च तत् ।
यत् स्यादल्पतरं पापं तन्नाशमुपगच्छति ॥ २ ॥

पूजया त्यक्तपापस्य काममिष्टं क्षणाद् भवेत् ।
* * * * * * * * * * * * * * * * ॥

इति । तन्त्रान्तरे -

प्रातः प्रक्षाल्य पादौ च हस्तावाचम्य यत्नतः ।
दद्यादर्घ्यं दिनेशाय तत्प्रकारमिहोच्यते ॥ १ ॥

गोमयेनोपलिप्तायां भूमौ कृत्वा तु मण्डलम् ।
सिन्दूरेण ततः पश्चादुपविश्य निजासने ॥ २ ॥

प्राङ्मुखः प्रणमेदिष्टदेवतां भक्तितत्परः ।
प्राणायामत्रयं कृत्वा सूर्यमन्त्रेण मन्त्रवित् ॥ ३ ॥

विन्यस्य च तदृष्यादीन् ध्यात्वा सूर्यमनन्यधीः ।
तत्कल्पोक्तविधानेन पूजयेदुपचारकैः ॥ ४ ॥

पुरतो मण्डले कृत्वा जलेन चतुरस्रकम् ।
निधाय तत्र साधारं सजलं ताम्रपात्रकम् ॥ ५ ॥

गन्धपुष्पाक्षतान् दर्भान् दूर्वासर्षपसंयुतान् ।
सतिलान् रक्तपुष्पाणि दूर्वाश्चापि प्रविन्यसेत् ॥ ६ ॥

सूर्यमन्त्रेण तत्पात्रं स्पृशन्नष्टोत्तरं शतम् ।
अभिमन्त्र्य च तत्पात्रं समुत्थाप्य करद्वयात् ॥ ७ ॥

मूर्धान्त सूर्यमन्त्रेण दद्यादर्घ्यं विचक्षणः ।
जपेत् ततो यथाशक्ति सूर्यमन्त्रमनन्यधीः ॥ ८ ॥

तदर्घ्याम्बुप्लुतं सूर्यं ध्यायन् देशिकसत्तमः ।
स्मृत्वा प्रणम्य विसृजेन्मण्डलान्ते दिवाकरम् ॥ ९ ॥

सूर्यमन्त्रं त्र्यक्षरं तत्तु तत्प्रकरणे (२९ श्वा०) द्रष्टव्यम् ।

यावन्न दीयते चार्घ्यं भास्कराय दिने दिने ।
तावन्न पूजयेद्विष्णुं शङ्करं वा सुरेश्वरीम् ॥ १० ॥

अर्घ्यदानमिदं पुंसामायुरारोग्यवर्धनम् ।
धनधान्यपशुक्षेत्रपुत्रमित्रकलत्रदम् ॥ ११ ॥

तेजोवीर्ययशः शक्तिविद्याविभवभाग्यदम् ।
तत उत्थाय विधिवद् द्वारपूजां समाचरेत् ॥ १२ ॥

द्वारमर्घ्याम्बुना प्रोक्ष्य विघ्नं तूर्ध्वे समर्चयेत् ।
तद्दक्षिणे महालक्ष्मीं वामे चैव सरस्वतीम् ॥ १३ ॥

द्वारश्रियं च तन्मध्ये शाखयोर्दक्षिणान्ययोः ।
गणपं क्षेत्रपालं च शङ्खपद्मनिधी क्रमात् ॥ १४ ॥

मायाशक्तिं च चिच्छक्तिं गङ्गां च यमुनां ततः ।
धातारं च विधातारमूर्ध्वादिक्रमतो यजेत् ॥ १५ ॥

अधश्च देहलीमिष्ट्वा द्वारपालान् समर्चयेत् ।
पश्चिमद्वारमारभ्य द्वारपाला अमी क्रमात् ॥ १६ ॥

नन्दी चैव महाकालो गणेशो वृषभस्तथा ।
ततो भृङ्गिरिटिस्कन्दावुमाचण्डेश्वरौ ततः ॥ १७ ॥

एते चाष्टौ महेशस्य द्वारपालाः प्रकीर्तिताः ।
नन्दः सुनन्दचण्डो च प्रचण्डबलसंज्ञकौ ॥ १८ ॥

प्रबलो भद्रनामा च सुभद्रश्चाष्टमः स्मृतः ।
क्रमादमी समभ्यर्च्या वैष्णवद्वारपालकाः ॥ १९ ॥

वक्रतुण्डैकदंष्ट्रौ च महोदरगजाननौ ।
लम्बोदरश्च विकटो विघ्नराजस्ततः परम् ॥ २० ॥

धूम्रवर्णश्च सम्प्रोक्ता विघ्नेशद्वारपालकाः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ २१ ॥

वाराही च तथेन्द्राणी चामुण्डा च श्रिया सह ।
एता देव्याः क्रमादष्टौ शक्तयो द्वारपालिकाः ॥ २२ ॥

एता एव सौरद्वारपालिका अपि ज्ञेयाः । सौरं शक्तिमयमहो विजयते सौन्दर्यसीमास्पदमिति वामदेवतन्त्रवचनात् । आर्कमाश्वशिशिरं विश्वेशिकाया वपुः इति तन्त्रान्तरवचनात् । अत्र द्वारदेवताध्यानानि प्रागेवोक्तानि (५ श्वा० ८३ पृ०) । तथा -

पश्चिमद्वारमासाद्य तालत्रितयपूर्वकम् ।
द्वारमुद्घाट्य चास्त्रेण मन्त्रितान् सर्षपाक्षतान् ॥ १ ॥

पुष्पयुक्तांस्तु विकिरेन्मण्डपाभ्यन्तरे बुधः ।
नाराचमुद्रया सम्यगस्त्रमन्त्रेण देशिकः ॥ २ ॥

इति । तूर्णायागे -

सिद्धार्थाक्षतपुष्पाणि नाराचास्त्रधिया बुधः ।
अस्त्रमन्तं समुच्चार्य मण्डपान्तर्विनिक्षिपेत् ॥ १ ॥

इति । नारायणीये -

अपक्रामन्तु भूतानीत्येतन्मन्त्रद्वयं पुनः ।
पठित्वाक्षतसिधार्थपुष्पाणि विकिरेत् ततः ॥ १ ॥

अस्त्रमन्त्रेण मन्त्रज्ञो मण्डपाभ्यन्तरे बुधः ।
* * * * * * * * * * * * * * * * ॥

मन्त्रद्वयं प्रयोगे (२० श्वा०) वक्ष्यते । अस्त्रेण स्वोपास्यमन्त्राङ्गभूतेन । यदुक्तं पारिजाते -

हकाररेफौ च विसर्गवन्तावस्त्रायफट्कारवचस्तदन्ते ।
उक्त्वान्तरे सर्षपमक्षतांश्च पुष्पाणि मुञ्चेदिति ॥ १ ॥

तूर्णापद्धतौ - निर्गच्छतां तु विघानां वर्त्म दद्यात् स्ववामतः । इति । सोमशम्भुः -

मण्डपाभ्यान्तरे विद्वान् वामपादपुरःसरम् ।
प्रविश्य विघ्नान् त्रिविधान् पातालभ्वन्तरिक्षगान् ॥ १ ॥

उत्सार्यास्त्रं समुच्चार्य पार्ष्णिघातादिभिस्त्रिभिः ।
विघ्नानुत्सारयेत् । इति । तूर्णायागे -

पार्ष्णिघातैस्त्रिभिर्भौमांस्तालैस्तानन्तरिक्षगान् ।
विघ्नानुत्सारयेद् दिव्यानस्त्रतीक्ष्णावलोकनात् ॥ १ ॥

पार्ष्णिघातैर्वामपादस्य । वामपार्ष्णिना त्रिभिर्घातैर्भूमिष्ठानिति सोमशम्भुवचनात् । उत्तरतन्त्रे -

विघ्नानुत्सार्य विधिवद् द्वारमाच्छाद्य वाससा ।
पञ्चगव्यार्घ्यतोयाभ्यां प्रोक्षयेन्मण्डपान्तरम् ॥ १ ॥

इति । श्रीकुलार्णवे -

संमार्जनोपलेपाद्यैर्दर्पणोदरवत् कृतम् ।
वितानधूपदीपादि पुष्पदामादिशोभितम् ॥ १ ॥

पञ्चवर्णरजश्चित्रं स्थानशुद्धिरियं मता ।
नैर्-ऋत्यामर्चयेद्वास्तुपुरुषं चन्दनादिभिः ॥ २ ॥

ईशाने दीपनाथं च क्षेत्रपालाज्ञया ततः ।
संविशेदासनं मन्त्री इति ।

क्षेत्रपालप्रार्थनामन्त्रः प्रयोगे (२० श्वा०) वक्ष्यते । उत्तरतन्त्रे -

अः फडिति च मन्त्रेण पूजावेदीं ततो विशेत् ।
संस्कुर्यादासनस्थानं चतुर्भिर्वीक्षणादिभिः ॥ १ ॥

संस्कारैस्तत्र सम्पूज्य वेद्यन्तः पीठदेवताः ।
आधारशक्तिमारभ्य स्वासनं तत्र विन्यसेत् ॥ २ ॥

इति । आपस्तवः -

पूजासनमथानीय चेलाजिनकुशोत्तरम् ।
तत्रोपविश्य विधिवत् स्मरेद् विष्णुगुरु मुदा ॥ १ ॥

इति योगिनीतन्त्रे - पृथ्वीमन्त्रेणासने सन्निविष्टः इति । मन्त्रः प्रयोगे (२० श्वा०) वक्ष्यते ।

भैरवीतन्त्रे -

मेरुपृष्ठ ऋषिः प्रोक्तः सुतलं छन्द ईरितम् ।
पृथिवी देवता प्रोक्ता विनियोगो निजासने ॥ १ ॥

इति । उत्तरतन्त्रे -

आसने तु चतुष्कोणे गणेशं च सरस्वतीम् ।
दूर्गां क्षेत्रपतिं चापि वह्न्यादिषु समर्चयेत् ॥ १ ॥

इति । गौतमीतन्त्रे - प्राङ्मुखो वोदङ्मुखोऽपि स्वस्तिकासनमास्थितः । इति । उत्तरतन्त्रे -

उदङ्मुखः प्राङ्मुखो वा भूत्व प्रयतमानसः ।
स्वस्तिकासनमासीनः पद्मासनमथापि वा ॥ १ ॥

इति । तन्त्रान्तरे

स्वस्तिकादिक्रमेणैव ऋजुकायो विशेद् बुधः ।
स्थापयेद् दक्षिणे भागे पूजा द्रव्याणि चात्मनः ॥ १ ॥

सुवासिताम्बुसम्पूर्ण सव्ये कुम्भं सुशोभनम् ।
प्रक्षालनाय करयोः पात्रं पृष्ठे निधापयेत् ॥ २ ॥

घृतादिज्वलितान् दीपान् स्थापयेत् परितः शुभान् ।
दर्पणं चामरं छत्रं तालवृन्तं च पादुके ॥ ३ ॥

यथायथं तु संस्थाप्य संस्कुर्यात् तानि चात्मवान् ।

इति । उत्तरतन्त्रे -

पुष्पनैवेद्यगन्धादि हांहूंफडिति मन्त्रकैः ।
नाराचमुद्रया दृष्ट्या समया च विलोकयेत् ॥ १ ॥

यदात्मना न विज्ञातं सम्यक् पुष्पादिदूषणम् ।
अस्पृश्यस्पर्शनं वापि यदन्यायार्जितं च वा ॥ २ ॥

तथा निर्माल्य संस्पृष्ट कोटाध्यारोहणं च यत् ।
तत्सर्वं नाशमायाति नैवेद्याद्यवलोकनात् ॥ ३ ॥

ततो रमिति मन्त्रेण शिखां दीपस्य संस्पृशेत् ।
स तु स्याच्छूभदो वापि निष्क्रव्यादः सुखप्रदः ॥ ४ ॥

पतङ्गकेशकीटादिदाहात् क्रव्यादसंहतेः ।
वसामज्जादिसम्भूतैर्यज्ञादावुपयोजने ॥ ५ ॥

अज्ञातरूपं तत्सर्वं दोषः स्पर्शाद्विनश्यति ।
नारसिंहेन मन्त्रेण देवतीर्थेन संस्पृशेत् ॥ ६ ॥

पानीयं घटमध्यस्थं वीक्ष्य गुह्यं च याजकः ।
वामेन पाणिना धृत्वा वामपार्श्वस्थितं तदा ॥ ७ ॥

पात्रमाधारमन्त्रेण संस्कुर्वन् संस्पृशेज्जलम् ।
यदज्ञानादपेयादिसंसृष्टिरिह सङ्गता ॥ ८ ॥

यदन्यद् दूषणं पात्रे तोये वाज्ञानतो भवेत् ।
जलाशयशवस्पर्शाञ्जनस्नानाच्च सङ्गतम् ॥ ९ ॥

दूषणानि विनश्यन्ति तानि वै देवपूजने ।
* * * * * * * * * * * * * * * * ॥

नृसिंहमन्त्र एकाक्षरः स तत्प्रकरणे (२० श्वा०) ज्ञेयः ।
आधारमन्त्रस्तु - स्वसंज्ञाद्यक्षरं बिन्दुचन्द्रार्घपरियोजितमिति स्वयमुक्तः । संज्ञाद्यक्षरं नामाद्यक्षरमित्यर्थः । उत्तरतन्त्रे -

कृताञ्जलिपुटो भूत्वा वामदक्षिणपार्श्वयोः ।
नत्वा गुरुं गणेशानं पुरतः स्वेष्टदेवताम् ॥ १ ॥

सुगन्धपुष्पाण्यादाय चन्दनाक्तानि मन्त्रवित् ।
मर्दयित्वा करौ सम्यक् सुरभीकृत्य साधकः ॥ २ ॥

वामहस्ते समादाय निर्मथ्याघ्राय तत्पुनः ।
वक्ष्यमाणेन मन्त्रेण चैशान्यां दुरतस्त्यजेत् ॥ ३ ॥

नाराचमुद्रया त्यागः । क्षिपेदुत्तरतः पुष्पं मन्त्री नाराचमुद्रया । इति तन्त्रान्तरवचनात् । कालिकापुराणे -

कुसुमं विष्णुमन्त्रेण स्वांगुल्यग्रेण साधकः ।
विमर्दनार्थं गृह्णीयात् करशोधनकर्मणि ॥ १ ॥

निर्मन्थ्य रोमबीजेन जिघ्रन् घ्राणेन तत्पुनः ।
प्रसादेन परित्यागो दिश्यैशान्यां विशेषतः ॥ २ ॥

एवं कृते तु करयोर्विशुद्धिरतुला भवेत् ।
अंगुल्याग्राणि शुद्धानि पुष्पाणां ग्रहणाद्भवेत् ॥ ३ ॥

तलद्वयं मर्दनात्तु विशुद्धमपि जायते ।
निर्मन्थनात् पाणिपृष्ठं घ्राणान्नासाग्रमुत्तमम् ॥ ४ ॥

तीर्थानि च समायान्ति नासिकाग्रं करं प्रति ।
उपान्त्यः साग्निचन्द्रेण रञ्जितः शून्यसंयुतः ॥ ५ ॥

रुद्रान्तोपरिसंस्पृष्टो मन्त्रो अयं वैष्णवः स्मृतः ।
प्रान्तादिर्वासुदेवान्तवर्णेनापि च संहतः ॥ ६ ॥

शम्भुचूडाशिखाबिन्दुयुक्तः प्रसाद उच्यते ।
(अग्निः सद्यो बिन्दुयुता रोमबीजमुदाहृतम्) ॥ ७ ॥

उपान्त्यो हकारः । अत्र हकारस्योपान्त्यत्वं तु मातृकायाः पञ्चाशदक्षरत्वेन द्वितीयलकारस्याग्रहणात् । अग्नीरेफः चन्द्रः सकारः शून्यं बिन्दुः रुद्रान्त ऐकारः । एतेन भैरव्या वाग्भवबीजमुक्तं । प्रान्तादिर्हकारः वासुदेवान्त औकारः ।
शम्भुचूडाशिखार्धचन्द्रः बिन्दुरनुस्वारः । एतेन प्रासादबीजं सिद्धम् । रोमबीजं रों । अग्नीति मन्त्रः प्रयोगे वक्ष्यते । नृसिंहकल्पे -

करशुद्धिं समासाद्य कुर्यात् तालत्रयं ततः ।
ऊर्ध्वोर्ध्व मूलमन्त्रेण दिग्बन्धमपि देशिकः ॥ १ ॥

तेन सञ्जनितं तेजो रक्षां कुर्यात् समन्ततः ।
अस्त्रमन्त्रेण इति ।

करशुद्ध्यादिषु त्रिषु सम्बन्धात् पाणिं विशोधयेदस्त्रमन्त्रेण मनुवित्तमः इति दक्षिणामूर्तिकल्पवचनात् । अस्त्रमन्त्रस्तु तत्तदङ्गभूतः नतु केवलं फट्कारः । रः अस्त्राय फट् प्रोच्य भ्रामयेद्दक्षिणं करमिति कुम्भसम्भववचनात् । अत एव यत्र यत्रास्त्रादिपदेनाभिख्यानं तत्र तत्र तदङ्गभूतास्त्रादिमन्त्रा ऊह्याः । नतु फट्कारमात्रमुक्तवचनात् । नचैवं पाद्यं पादाम्बुजे दद्याद् देवस्य हृदयाणुना इत्यादावप्यङ्गमन्त्रदानप्रसङ्गः निराकांक्षत्वात् तत्र मन्त्रोद्धारेऽतिप्रसङ्गात् अङ्गमन्त्रग्राहकाभावात् ।
मन्त्रोद्धारानन्तरमेवाङ्गमन्त्रोद्धरात् । क्वचिदस्त्रपदेन क्वचित् फट्पदेनोद्धाराच्चेति । दिग्बन्धस्वरूपमुक्तं प्रयोगसारे - आच्छाद्यदिक्षु तर्जन्या ज्येष्ठाग्रस्खलिताग्रया । इति । उत्तरतन्त्रे - प्रकारत्रितयं वह्नेः कृत्वास्त्रेण स्वमुद्रया ।
स्वमुद्रयाग्निप्रकारमुद्रया । सात्वग्रे (२० श्वा०) वक्ष्यते ।
सनत्कुमारीय गोपालकल्पे -

सुखासनेनोपविश्य प्राणायामं विधाय वै ।
भूतशुद्धिं ततः कृत्वा न्यासं कुर्यादनन्तरम् ॥ १ ॥

न्यासं मातृकायाः । उत्तरतन्त्रे -

भूतशुद्धिं ततः कुर्यात् प्राणायामपुरःसरम् ।
पादतो जानुपर्यन्तं चतुरस्रं सवज्रकम् ॥ १ ॥

लंयुतं पीतवर्णं च भुवःस्थानं विचिन्तयेत् ।
जान्वोरानाभि चन्द्रार्धनिभं पद्मेन लाञ्छितम् ॥ २ ॥

शुक्लवर्णं स्वबीजेन युक्तं ध्यायेदपां स्थलम् ।
नाभितः कण्ठपर्यन्तं त्रिकोणं रक्तवर्णकम् ॥ ३ ॥

स्वस्तिकाभं स्वबीजेन युक्तं वह्नेस्तु मण्डलम् ।
कण्ठाद् भ्रूमध्यपर्यन्तं कृष्णं वायोस्तु मण्डलम् ॥ ४ ॥

षट्कोणं बिन्दुभिः षड्भिर्युक्तं बीजेन चिन्तयेत् ।
भ्रूमध्याद् ब्रह्मरन्ध्रान्तं वर्तुलं ध्वजलाञ्छितम् ॥ ५ ॥

धूम्रवर्णं स्वबीजेन युक्तं ध्यायेन्नभःस्थलम् ।
इति ध्यात्वा तु भूतानि स्वकीये देशिकोत्तमः ॥ ६ ॥

धर्मकन्दसमुद्भूतं ज्ञाननालं सुशोभनम् ।
ऐश्वर्याष्टदलं चैव परं वैराग्यकर्णिकम् ॥ ७ ॥

स्वीयहृत्कमलं ध्यायेत् प्रणवेन प्रकाशितम् ।
कृत्वा तत्कर्णिकासंस्थं प्रदीपकलिकानिभम् ॥ ८ ॥

सुषुम्नावर्त्मनात्मानं परमात्मनि योजयेत् ।
योगयुक्तेन विधिना सोऽहंमन्त्रेण साधकः ॥ ९ ॥

तत्रैव सर्वतत्वानि विलीनानि विचिन्तयेत् ।
* * * * * * * * * * * * * * * * ॥

इति । ततः पुरुषनिभं पापमित्यादि (५ श्वा० ८७ पृ०) प्रागेवोक्तम् ।

ततः संशोयेदेनं पूरकादिक्रमेण वै ।
विधाय प्राणसंरोधं वायुबीजेन वायुना ॥ ११ ॥

वह्नीबीजेन तेनैव संदहेत् सकलां तनुम् ।
भस्म तद्वातमार्गेण निर्गतं चिन्तयेत् सुधीः ॥ १२ ॥

ततो वमिति बीजेन प्लावयेत् सकलां तनुम् ।
सञ्जाते सकले देहे देवतोपासनक्षमे ॥ १३ ॥

आत्मलीनानि तत्त्वानि स्वस्थानं प्रापयेत् ततः ।
आत्मानं हृदयाम्भोजमानयेत् परमात्मनः ॥ १४ ॥

हंसमन्त्रेण विधिवत् तेजोरूपं कलेवरम् ।
देवताराधने योग्यमुत्पन्नमिति भावयेत् ॥ १५ ॥

इति । अत्र केचित् संयोज्य जीवमथ दुर्गममध्यनाडीमार्गेण पुष्करनिवेष्टशिवे सुसूक्ष्मे । हंसेन देहममरेन्द्रपुरोगमेनेति योगिनीतन्त्रवचनात् ।

सोऽहं -

मन्त्रेण तामाद्यां नादान्ते सिद्धिभाविताम् ।
ध्यात्वैवं ब्रह्मरन्ध्राच्च हृदि जीवकलां न्यसेत् ॥ १ ॥

इति वसिष्ठसंहितावचनाच्च हंसमन्त्रेण जीवस्योन्नयनं सोऽहंमन्त्रेण पुनरानयनं वदन्ति । यथागुरुपदेशमत्र विधेयमिति । अत्र वायुबीजादिजपे चतुःषष्ट्यादिसंख्यामाहुः । तत्र प्रमाणं चिन्त्यम् । वस्तुतस्तु तत्तत्कर्मभावनावधिरेव जपो वायुबीजादीनाम् । यदुक्तं कात्यायनीसंहितायाम् - ततो भूतात्मकं देवं वायुबीजेन वायुना । वायुमुत्तोल्य संशोष्य ज्ञात्वामुं दक्षया त्यजेत् । इति । तथा योगिनीतन्त्रे - दक्षिणे वह्निबीजेन प्राग्दग्धमिति भावयेत् । इति । कुम्भसम्भवः - भूतशुद्धिविहीनेन कृत्वा पूजाभिचारवत् । विपरीफलं दद्यादभक्त्यापूजनं यथा ।
इत्यत एवेयमावश्यकीति ।

केचित्तु श्रीमच्छङ्कराचार्यचरणैर्योगप्रकरणे प्रोक्तत्वाद्योगिपरमिति वदन्ति । तन्न प्रत्यवायश्रवणात् । श्रीकुलार्णवे -

आत्मस्थानमनुद्रव्यदेहशुद्धिश्च पञ्चमी ।
यावन्न कुरुते देवि तावद् देवार्चनं नहि ॥ १ ॥

सुस्नानभूतसंशुद्धिप्राणायामादिभिः प्रिये ।
षडङ्गाद्यखिलन्यासैर्देहशुद्धिरितीरिता ॥ २ ॥

इति । उत्तरतन्त्रे भूतशुद्धिं विधायेत्थं ततो वै स्थापयेदसून् । अदून् प्राणान् । प्राणप्रतिष्ठाविधानं तु (५ श्वा० ८८ पृ०) प्रागेवोक्तम् ।
तैलोक्यसम्मोहनतन्त्रे - प्राणायामं ततः कृत्वा मातृकान्यासमाचरेत् इति । प्राणायामलक्षणं तु (६ श्वा० ९४ पृ०) प्रागेवाभिहितम् अतः परं स्वोपास्यमन्त्रस्य ऋष्यादिकरषडङ्गन्यासान् कृत्वा योगपीठन्यासं कुर्यात् । तत्र ऋष्यादिपदार्थानां न्यासासम्भवात्तद्वाचकपदानामेव कार्यः ।
तथा दक्षिणामूर्तिसंहितायाम् -

ऋषिस्तु दक्षिणामूर्तिरहं शिरसि मां न्यसेत् ।
पंक्तिश्छन्दस्तु विज्ञेयं मुखे विन्यस्य पार्वति ॥ १ ॥

देवतां हृदये बालां विन्यसेत् परमेश्वरि ।
* * * * * * * * * * * * * * * ॥

इति । न्यासप्रकारस्तु योगिनीतन्त्रे - ऋष्यादीन् विन्यसेद्देवि चतुर्थिहृदयान्वितान् इति । ऋषयै नमः छन्दसे नमः । इत्यादि ॥ प्रपञ्चसारे - (६ प० २ श्लो०)

ऋषिर्गुरुत्वाच्छिरसैव धार्यश्छन्दोऽक्षरत्वाद्रसनागतं स्यात् ।
धियावगन्तव्यतया सदैव हृदि प्रतिष्ठा मनुदेवतायाः ॥ १ ॥

इति । ऋष्यादिपदार्थास्तूत्तरतन्त्रे -

ऋवर्णादिस्तु गत्यर्थो धातुः प्राप्त्यर्थकस्तथा ।
षिवर्णादिस्तु विज्ञानमतस्तद्व्यापकं च सः ॥ १ ॥

अनयो रूपसम्पत्तौ ऋषिर्गुरुरितोरितः ।
छादीति धातुरिच्छायां दादिर्दानार्थको भवेत् ॥ २ ॥

छन्दो वक्ति मनोर्वर्णान् द्वयोरिच्छाप्रदानतः ।
व्रीडार्थकाद्ददातीति सम्पन्नं देवतापदम् ॥ ३ ॥

साधकाय मनोर्भावं ददातीति जगुर्यतः ।
* * * * * * * * * * * * * * * * ॥

इति । ज्ञानार्णवे - (२ प० ११३ श्लो०)

षडङ्गन्यासमाचरेत् ।

हृदयं च शिरो देवि शिखा च कवचं ततः ॥ १ ॥

नेत्रमस्त्रं न्यसेन्ङेऽन्तं नमः स्वाहा क्रमेण तु ।
वषट् हुंवौषडन्तं तु फडेभिः सह विन्यसेत् ॥ २ ॥

इति । प्रपञ्चसारे - (६ प० ६ श्ल्०)

हृदयशिरसोः शिखायां कवचाक्ष्यस्त्रेषु सह चतुर्थीभिः ।
नत्या हुत्या च वषट् हुं वौषट् फडेभिरङ्गकविधिः ॥ १ ॥

इति । नत्या नमः पदेन । आहुत्या स्वाहाकारेण । शारदायाम् - (४ पं० ३३ श्लो०)

हृदयाय नमः प्रोक्तं शिरसे वह्निवल्लभा ।
शिखायै वषडित्युक्तं कवचाय हुमीरितम् ॥ १ ॥

नेत्राय वौषडित्युक्तं अस्त्राय फडुदीरितम् ।
* * * * * * * * * * * * * * * * ॥

इति । अयं षडङ्गन्यासः करन्यासपूर्वकः कार्यः । आदौ कृत्वा करन्यासं षडङ्गेषु ततो न्यसेदिति तन्त्रान्तरवचनात् । अत्र केचित् करन्यासे अंगुष्ठाभ्यां नमः इत्यादि न्यासान् वदन्ति । तत्र प्रमाणं चिन्त्यम् । वस्तुतस्तु ज्ञानार्णवादिनानातन्त्रदर्शनात् तदज्ञानविजृम्भितमिति भाति । यथा शारदातिलके - (४।३१) अंगुष्ठादिष्वंगुलीषु न्यसेदङ्गैः सजातिभिः । अस्त्रं तु तलयोर्न्यस्येदिति सजातिभिर्नमः स्वाहा इत्यादिसहितैः ।
अङ्गैस्तत्तन्मन्त्रोक्तैः तेन हृदयाय नमः शिरसे स्वाहा इत्यादिभिरित्यर्थः । जातिलक्षणं तु कारणागमे -

नमः स्वाहा वषट् हुं च वौषट् फट्कार एव च ।
जातिषट्कमिदं प्रोक्तं हृदाद्यस्त्रान्तसङ्गतम् ॥ १ ॥

इति । नारदपञ्चरात्रेऽपि अथचाङ्गानि योजयेत् । कनिष्ठाद्यासु च ततो हृदयादिक्रमेण तु ॥ इति ॥ हृदयादिक्रमेण हृदयाय नमः शिरसे स्वाहा इत्यादिक्रमेणेत्यर्थः । योगिनीतन्त्रे -

उच्चरेत् प्रणवं पूर्वं मारं बिन्दुसमन्वितम् ।
खड्गाय हृदयायेति नमोयुक्तं कनीयसी ॥ १ ॥

ईकारं प्रणवाद् देवि चन्द्रबिम्बसमायुतम् ।
सुखड्गाय ततो वाच्यं शिरसे तदनन्तरम् ॥ २ ॥

स्वाहायुक्तं प्रविन्यसेत् तर्जन्यानामिकांगुलौ ।
हुंकारं प्रणवाद् देवि बिन्दुलाञ्छितमस्तकम् ॥ ३ ॥

श्रीवज्राय ततो वाच्यं शिखायै च ततः परम् ।
वषडन्तं प्रविन्यस्येत् मध्यमामध्यमांगुलौ ॥ ४ ॥

मात्रा द्वादशका ताराद्विन्दुपाशायसंयुताः ।
कवचाय हुमित्येतत् तर्जन्यामप्यनामया ॥ ५ ॥

अकारादिविसर्गान्तं योजयेत् प्रणवात् परम् ।
अस्त्ररक्षयमाये चाप्यस्त्राय तदनन्तरम् ॥ ६ ॥

फडक्षरसमायुक्तं विन्यसेत् तलयोरिति ।
* * * * * * * * * * * * * * * * ॥

स्पष्ट उक्तः ।

इति श्रीमहामहोपाध्यायभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्य श्रीभगवच्छङ्कराचार्यशिष्य श्रीविष्णुशर्माचार्यशिष्य श्रीप्रगल्भाचार्यशिष्य श्रीविद्यारण्ययति विरचिते श्रीविद्यार्णवाख्ये तन्त्रे अष्टादशः श्वासः ॥ १८ ॥

समाप्तमिदं पूर्वार्धम् ।

19. Śvāsa

Der Beginn des Uttarārdha führt vom Nyasa über Shiva- und Vishnu-Verehrung zur inneren Puja. Dieser Sanskrittext wurde anhand der Druckseiten 1–37 von 1937 erfasst. Lokale Unsicherheiten und Textlücken bleiben markiert. Die gelegentlich angeführten Druckvarianten bilden keinen vollständigen kritischen Apparat.

अथ श्रीविद्यार्णवतन्त्रम् । श्रीविद्यारण्ययतिविरचितम् । एकोनविंशः श्वासः । श्रीं

नारदपञ्चरात्रे—

मन्त्राभिमृष्टयोः पाण्योः पल्लवेऽङ्गानि विन्यसेत् ।
मूलाद्युगपदग्रान्तं व्यापकत्वेन नारद ॥ १ ॥

अङ्गुष्ठेनाचरेन्न्यासमन्त्याङ्गुलिसमाश्रयम् ।
अङ्गुष्ठविषयन्यासं तर्जनीशिरसैव हि ॥ २ ॥

इति । षडङ्गमन्त्राणां वासना तु प्रथमतन्त्रे—

[Textlücke im Druck] बुद्धिगम्यं च हृन्मतम् ।

नत्या प्रणाम उक्तो हि हृदासौ क्रियतेऽधुना ॥ १ ॥

नमस्क्रिया बुद्धिगम्या ह्युच्चैरर्थः शिरो मतम् ।
स्वाहया च ततः स्वस्य विषयाहरणं मतम् ॥ २ ॥

ततः शिरोऽणुना सम्यक् प्रोक्तोर्ध्वविषयाहुतिः ।
शिखा महो वषट् चाङ्गं शिखयात्मतनुर्महः ॥ ३ ॥

प्रोक्तः कवः स्याद्ग्रहणे तद्युतं कवचं पदम् ।
हुं महः कवचेनास्य महसा गृह्यते ततः ॥ ४ ॥

शरीरं मन्त्रिणस्तद्वन्नेत्रं दृष्टिश्च दर्शनम् ।
वौषड्वाच्यं तच्च दृशि तेन स्यात्तन्महः स्फुरतम् [Lesung unsicher] ॥ ५ ॥

नेत्रं ह्यसुः क्षेपवाची तद्वत् त्रैः मुखत्राणार्थकः [Lesung unsicher] ।
फट्कोऽग्निस्तेन चानिष्टमाक्षिप्य परिपालयेत् ॥ ६ ॥

इति । गौतमीये—

इज्यमानो हृदात्मायं हृदये स्याच्चिदात्मनः ।
क्रियते तत्परत्वं तु हृन्मन्त्रेण ततः परम् ॥ १ ॥

सर्वज्ञादिगुणोपेतं संविद्रूपे चिदात्मनि ।
क्रियते विषयाहारः शिरोमन्त्रेण धीमता ॥ २ ॥

हृच्छिरोरूपचिद्धाममयताभावना दृढा ।
क्रियते निजदेहस्य शिखामन्त्रेण सादरम् ॥ ३ ॥

मन्त्रात्मकस्य देहस्य मन्त्रवाच्येन तेजसा ।
सर्वतो वर्ममन्त्रेण क्रियतेऽनन्यसंवृतिः ॥ ४ ॥

यद्ददाति परं ज्ञानं संविद्रूपे परात्मनि ।
हृदयादिमयं तेजः स्यादेतन्नेत्रसंज्ञकम् ॥ ५ ॥

आध्यात्मिकादिरूपं यत्साधकस्य विनाशयेत् ।
अविद्यामलजातं तत्परं धाम समीरितम् ॥ ६ ॥

इति । अत्र केचित् षडङ्गन्यासे “नेत्रत्रयाय वौषट्” इति प्रयोगं वदन्ति, तत्र प्रमाणं चिन्त्यम् । वस्तुतस्तु— “हृदयशिरसोः शिखायां कवचाक्ष्यस्त्रेषु सह चतुर्थीभिः” इति प्रपञ्चसारवचनात् । “षडङ्गं विन्यसेन्मन्त्री हृच्छिरश्च शिखा ततः । कवचं नेत्रमस्त्रं च” इति दक्षिणामूर्तिसंहितावचनात् । “हृदयं च शिरो देवि शिखा च कवचं ततः । नेत्रमस्त्रं न्यसेत् ङेन्त” मिति ज्ञानार्णववचनाच्चतुर्थ्येकवचनस्यैव दर्शनात् नेत्रायेति तत्त्वम् ॥

अत्र एव—

पवित्रमनलारूढं कमलं गोपनाङ्कितम् ।
केवलः शङ्करश्चान्ते सर्कं (सरेफं) पश्चिमामुखम् ॥ १ ॥

अजितं वामृताधारसंस्थितं प्रोद्धरेत्ततः ।
धरेशं केवलं दत्त्वा नेत्राय त्र्यक्षरं पदम् ॥ २ ॥

तदन्ते वौषडित्युक्तं नेत्रमन्त्रोऽप्ययं स्मृतः ।
इति नारदपञ्चरात्रे स्पष्ट एवोक्तः । अन्यथा द्विनेत्रदैवतपक्षे “नेत्राभ्यां” इत्यादिपदान्तरमन्त्रत्वापत्तिः ॥ प्रपञ्चसारे—

संदीक्षितो मनुमिमं प्रतिजप्तुमिच्छन् कुर्यान्निजेन वपुषैव सुयोगपीठम् ।
अंसोरुयुग्मपदसानननाभिमूलपार्श्वद्वयैर्विहितगात्रसमुज्ज्वलं च ॥ १ ॥

मध्येऽनन्ताद्यैरपि सज्ञानात्मान्तिकैर्यजेन्मन्त्री । पीठाख्यमन्वपश्चिमम् इति पद्मपादाचार्यः । ईशानशिवः—

“आधाराख्यां यजेच्छक्तिं हृदयेऽंसे च दक्षिणे । धर्मं ज्ञानं च सव्यांसे ऊर्वोर्वामान्ययोरपि ॥ वैराग्यसंज्ञमैश्वर्यम्” इति । अनन्ताद्यैरित्याद्यपदेन पद्मसूर्यसोमवह्निसत्त्वरजस्तमआत्मान्तरात्मपरमात्मज्ञानात्मज्ञानतत्त्वमायातत्त्वकलातत्त्वविद्यातत्त्वपरतत्त्वानां ग्रहणम् ॥ उत्तरतन्त्रे—

मूलाधारे तु मण्डूकं रुद्रं कालाग्निसंज्ञकम् ।
स्वाधिष्ठानेऽथ नाभ्यब्जे प्रकृतिं मूलपूर्विकाम् ॥ १ ॥

आधारशक्तिं हृदये विन्यस्य साधकोत्तमः ।
कूर्मानन्तौ वराहं च धरणीं च सुधार्णवम् ॥ २ ॥

रत्नद्वीपं च विन्यस्य तत्र स्वर्णमहीधरः ।
तदूर्ध्वे नन्दनोद्यानं तन्मध्ये मणिमण्डपम् ॥ ३ ॥

कोटिसूर्यप्रभं हेमप्राकारपरिवेष्टितम् ।
रत्नमण्डपमध्यस्थां वेदिकां हेमनिर्मिताम् ॥ ४ ॥

विन्यस्य तस्य मध्यस्थं रत्नसिंहासनं शुभम् ।
शरीरे स्वस्य धर्माद्यैः पीठकल्पनमाचरेत् ॥ ५ ॥

दक्षिणांसे न्यसेद्धर्मं ज्ञानं वामांसके न्यसेत् ।
वामोरुमूले वैराग्यमैश्वर्यं दक्षिणे न्यसेत् ॥ ६ ॥

मुखेऽधर्मं वामपार्श्वे चाज्ञानं नाभिमण्डले ।
अवैराग्यं दक्षपार्श्वे चानैश्वर्यं न्यसेत् क्रमात् ॥ ७ ॥

धर्मादीन् पीठपादांश्च गात्राण्यन्यान् प्रकल्पयेत् ।
हृद्यनन्तं न्यसेत् तस्मिन् पद्मं तत्कर्णिकापरि ॥ ८ ॥

अर्कं च केसरे सौमं पत्रे वाह्निं ततो न्यसेत् ।
तेषां कलाः न्यसेत्तन्मण्डले तत्र तत्र च ॥ ९ ॥

इति । तत्र तत्र तत्तन्मण्डलन्याससमय एवेत्यर्थः । चैवशब्दस्त्वेवकारार्थवाचकः ।
न्यसेद्गुणत्रयं पश्चात् सत्त्वादिकमतः परम् ।
आत्मान्तरात्मपरमात्मविज्ञानात्मकान् न्यसेत् ॥ १० ॥

ज्ञानमायाकलाविद्यापरतत्त्वानि च क्रमात् ।
पीठमन्त्रं प्रविन्यस्येततो देशिकसत्तमः ॥ ११ ॥

देहात्मके ततः पीठे ध्यायेदिष्टां च देवताम् ।
इति । अत्र पीठाख्यमपश्चिममिति, पीठमन्त्रमनन्तरमिति, पीठमन्त्रं प्रविन्यस्येदिति च प्रपञ्चसारशारदातिलकादित्रिग्रन्थवचनैः पीठशक्तिन्यासो नास्तीति प्रतीयते ॥ अथ मूलमन्त्रन्यासः । तत्र श्रीरुद्रयामले—

प्राणायामत्रयं कृत्वा मूलमन्त्रेण साधकः ।
विन्यसेत् तदृषिच्छन्दोदेवतानि यथाविधि ॥ १ ॥

कराङ्गन्यासमुख्यांस्तु न्यासानन्यान् समाचरेत् ।
तत्तत्कल्पोदितान् मन्त्री ततो मुद्राः प्रदर्शयेत् ॥ २ ॥

इति । नारदपञ्चरात्रे—

एवं न्यासं पुरा कृत्वा करयोर्विहरेत्ततः ।
मूलमन्त्रादिमन्त्रस्य न्यस्तमन्त्रगणस्य च ॥ १ ॥

यस्य मन्त्रस्य ये न्यासाः कर्तव्याः सिद्धिमिच्छता ।
ततो मन्त्रपुटैर्वर्णैर्मातृकायाः सबिन्दुभिः ॥ २ ॥

विन्यसेन्मन्त्रवित् सम्यक् शास्त्रदृष्टेन वर्त्मना ।
अथ वाङ्गकरन्यासांस्ततो मुद्राः प्रदर्शयेत् ॥ ३ ॥

इति । श्रीकुलार्णवे—

आगमोक्तेन मार्गेण न्यासान्नित्यं करोति यः ।
देवताभावमाप्नोति मन्त्रसिद्धिः प्रजायते ॥ १ ॥

यो न्यासकवचच्छन्नो मन्त्रं जपति तं प्रिये ।
दृष्ट्वा विघ्नाः पलायन्ते सिंहं दृष्ट्वा यथा गजाः ॥ २ ॥

अकृत्वा न्यासजातं यो मूढात्मा कुरुते जपम् ।
विघ्नैः स बाध्यते नूनं व्याघ्रैर्मृगशिशुर्यथा ॥ ३ ॥

इति । कालिकापुराणे—

न्यासानां प्रचुरत्वे हि फलानामपि भूरिता ।
उक्तन्यासो नहि त्याज्यस्त्वधिकं तु समाचरेत् ॥ १ ॥

इति । उत्तरतन्त्रे—

वाग्भवस्य द्वितीयेन कामराजेन भैरव ।
मुद्रया बन्धनं कार्यं मूलमन्त्रेण दर्शितम् ॥ १ ॥

परित्यागस्तु मुद्रायास्ताराबीजेन वाचरेत् ।
प्रान्तादिश्चन्द्रबिन्दुभ्यां षष्ठस्वरसमन्वितम् ॥ २ ॥

ताराबीजमिति प्रोक्तम् ।
इति । प्रान्तादिर्हकारः । अन्यत्सुगमम् । तथा—

ध्यानं कुर्यात्ततो मन्त्री तत्तत्कल्पोक्तवर्त्मना ।
ध्यानमात्मेष्टदेवस्य वेदनं मनसा मतम् ॥ १ ॥

तदेव द्विविधं प्रोक्तं सगुणं निर्गुणं तथा ।
आत्मनो हृदयाम्भोजं कर्णिकाकेसरोज्ज्वलम् ॥ २ ॥

प्रफुल्लं सोमसूर्याग्निमण्डलेन विराजितम् ।
स्वीयेष्टदेवतां तत्र ध्यायेदागमबोधिताम् ॥ ३ ॥

एवं यद्वेदनं तद्धि सगुणं ध्यानमुच्यते ।
यज्जीवब्रह्मणोरैक्यं सोऽहं स्यादिति वेदनम् ॥ ४ ॥

तदेव निर्गुणं ध्यानमिति ब्रह्मविदो विदुः ।
इति । ध्यानं तु तत्तत्कल्पेषु वक्ष्यते । योगिनीतन्त्रे—

अथान्तर्यजनं वक्ष्ये यथावदवधारय ।
वामनाडीं समाकृष्य किञ्चिदाकुञ्चयेद्धृदम् ॥

अन्तर्योगमिदं देवि कथितं गुरुभाषितम् ।
इति । फेत्कारिणीतन्त्रे— “आराध्य मनसा भक्त्या बाह्यपूजामथाचरेत्” इति । गौतमीये— “पूजां च मानसीं कुर्यात्ततोऽर्घ्यस्थापनं चरेत्” इति । उत्तरतन्त्रे—

ध्यात्वा ह्यन्तर्यजेत् पीठं न्यासमार्गेण मन्त्रवित् ।
तस्मिन् पीठे स्थितामिष्टदेवतां सुहृद्विग्रहाम् ॥ १ ॥

ध्यात्वा यजेच्चन्दनाद्यैर्मानसैर्भोजनान्तिकैः ।
भोजनावसरे चान्तर्वैश्वदेवं समाचरेत् ॥ २ ॥

मूलाधारे स्मरेत् कुण्डं कुण्डल्यग्निसमुद्भवम् ।
आत्मान्तरात्मपरमज्ञानात्मचतुरस्रकम् ॥ ३ ॥

धर्माधर्मान्वितं तत्र मूलमन्त्रपुरःसरम् ।
अमुं जुहोमि स्वाहेति प्रत्येकं जुहुयात्ततः ॥ ४ ॥

अहन्तास्तेयपैशुन्यकामक्रोधादिकं हविः ।
मन एव स्रुवः प्रोक्तः सुषुम्णा स्रुगुदीरिता ॥ ५ ॥

तदन्ते तन्मयो भूत्वा यथाशक्ति जपेन्मनुम् ।
तज्जपं सर्वसंपत्त्यै देवतायै समर्पयेत् ॥ ६ ॥

इति । जपनिवेदनमन्त्रस्तु “गुह्याती”ति प्रागेवोक्तः । ललितसागरे—

इत्थं जपं यथाशक्ति कृत्वा देवि समर्पयेत् ।
गुरुं प्रणम्य विधिवत्पूजाचक्रं समुद्धरेत् ॥ १ ॥

इति । सिद्धीश्वरतन्त्रे—

प्रणम्य श्रीगुरुं भक्त्या साधकः कुङ्कुमादिभिः ।
स्वर्णादिरचिते पीठे पूजाचक्रं समुद्धरेत् ॥ १ ॥

संस्थाप्य पुरतो देवि शुभे पीठे सुरेश्वरि ।
दद्यात् पुष्पाञ्जलिं तत्र मूलमन्त्रेण साधकः ॥ २ ॥

इति । अत्र पूजाचक्रविधिस्तु प्रागेव प्रदर्शितः ॥

अथ कादिमतरीत्या पूजायन्त्रप्रतिष्ठाविधिः । तत्र श्रीतन्त्रराजे—

चक्रे देव्यां तथा शिष्ये प्रतिष्ठा त्रिविधोच्यते ।
सा च तत्त्वविदा कार्या संप्रदायानुरोधिना ॥

इति । चक्रे पूजाचक्रे । देव्यां देवीमूर्तौ । देवीत्युपलक्षणं तेन स्वेष्टदेवतामूर्तौ । तत्त्वविदा चन्द्रसूर्यनाडीपथपृथिव्यादिपञ्चतत्त्वोदयकालतत्फलादिविदा, अथवा आत्मज्ञानविदा । संप्रदायानुरोधिना गुरुपारम्पर्यक्रमवेत्तृत्वगुरुमण्डलपूजकत्वनित्यनैमित्तिकोपास्तिनिरतत्वविशिष्टेनेत्यर्थः । तथा—

स्थिरे शुभग्रहौपेतेऽनुकूले गुणशालिनि ।
मुहूर्ते कारयेद्विद्वान् पूर्णायां वा शुभे दिने ॥

इति । स्थिरे स्थिरलग्ने । दुष्टग्रहाक्रान्तस्य निषिद्धत्वादाह—शुभग्रहौपेते इति । तथाप्येतादृशगुणविशिष्टस्याष्टमचतुर्थद्वादशस्थग्रहमतिकूलतादोषदुष्टत्वादाह—अनुकूले इति । तथापि निर्दिष्टमुहूर्तप्राप्त्यर्थव्यवधानादाह—गुणशालिनीति । तथा च स्वल्पदोषेऽधिकगुणे इत्यर्थः । मुहूर्ते कारयेदिति । तथा—

क्षौद्राज्यदुग्धैः प्रथमं नारिकेलाम्भसा ततः ।
अभिषिच्याथ तोयेन कथितेनाचरोषधेः [Lesung unsicher] ॥ १ ॥

आवाह्याभ्यर्च्य तन्मन्त्रे चक्रं संस्थाप्य पूजयेत् ।
नित्यास्तत्कालिकालोत्थाविद्ययाभ्यर्च्य [Lesung unsicher] ताः क्रमात् ॥ २ ॥

स्पृशञ्जपेत् कराग्रेण श्रीचक्रं पूजयेदपि ।
एवं दिनत्रयं कृत्वा ततो नित्यक्रमं भजेत् ॥ ३ ॥

गन्धैः पुष्पैर्नैवेद्यैर्दीपैर्नैवेद्यतर्पणैः ।
त्रिरात्रं पूजयेद्देवीं योगिनीयोगिभिः समम् ॥ ४ ॥

एवं देवीप्रतिष्ठायां क्रमः सांनिध्यकारकः ।
इति । ललितसागरे—

आदौ वेदोदितैर्मन्त्रैरग्न्युत्तारणमाचरेत् ।
धातुनिर्मितचक्राणां मूर्तीनां च विशेषतः ॥ १ ॥

इति । अग्न्युत्तारणप्रकारस्तु प्रयोगे वक्ष्यते ॥ अथ पात्रासादनं, तत्प्रकारस्तु प्रागेव प्रपञ्चितः । शारदातिलके—

आत्मानं यागवस्तूनि मण्डलं प्रोक्षयेद्गुरुः ।
प्रोक्षणीपात्रतोयेन मनुनान्यान्यपि क्रमात् ॥ १ ॥

इति । श्रीकुलार्णवे—

पूजाद्रव्याणि संप्रोक्ष्य मूलास्त्राभ्यां विधानवित् ।
दर्शयेद्धेनुमुद्रां च द्रव्यशुद्धिः प्रकीर्तिता ॥ १ ॥

इति । रुद्रयामले— “अप्रोक्षितं नैव दद्यान्नाप्रोक्षितः समर्चयेत्” इति । शारदातिलके—

न्यासक्रमेण देहे स्वे धर्मादीन् पूजयेत् ततः ।
पुष्पाद्यैः पीठमन्वन्तं तस्मिन्पद्मे च देवताम् ॥ १ ॥

पञ्चकृत्वः पुनः कुर्यात् पुष्पाञ्जलिमनन्यधीः ।
उत्तमाङ्गे हृदाधारे पादे सर्वाङ्गके क्रमात् ॥ २ ॥

विना निवेद्यं गन्धाद्यैरुपचारैः समर्चयेत् ।
गुरूपदिष्टविधिना शेषमन्यत् समापयेत् ॥ ३ ॥

सर्वमेतत् प्रयुञ्जीत प्रोक्षण्यद्भिः समाहितः ।
इति । धर्मादीनित्युपलक्षणम् । तेन मण्डूकादिपीठमन्वन्ता योगपीठदेवता योगपीठन्यासस्थानेषु पूज्या इत्यर्थः । शेषं जपादिकम् । उत्तरतन्त्रे—

मूलाधारगते कुण्डे पूर्वोक्ते चतुरस्रके ।
पूर्ववज्जुहुयान्मन्त्री धर्माधर्मादिकं हविः ॥ १ ॥

इति । प्रकाशोदये—

अथवाभ्यन्तरे कार्यमग्निकार्यं ब्रवीमि तत् ।
चिदग्निमण्डले दण्डमूले कुण्डलिरूपिणि ॥ १ ॥

त्र्यस्रकुण्डे हुनेदुद्यत्सूर्यमण्डलवर्चिषि ।
अत्र त्र्यस्रचतुरस्रयोः कुण्डयोर्विकल्पः ।

[Textlücke im Druck] वासनेन्धनसंदीप्ते पञ्चभिश्च समीरणैः ॥ २ ॥

संयुञ्जिते प्रजुहुयाद्वह्नौ रीरनन्तरम् [Lesung unsicher] ।
मूलविद्यां समुच्चार्य हुनेत् सप्ताहुतीस्ततः ॥ ३ ॥

मन्त्ररूपं पठेच्छ्लोकं परं गुरुतरं परात् ।
धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा ॥ ४ ॥

सुषुम्णावर्त्मणा नित्यमक्षवृत्तीर्जुहोम्यहम् ।
स्वाहान्तेनाहुतिं दत्त्वा हुनेत् पूर्णाहुतिं गुरुः ॥ ५ ॥

मूलविद्यां समुच्चार्य श्लोकमन्यं पठेदमुम् ।
प्रकाशामर्शहस्ताभ्यामवलम्ब्योन्मनीस्रुचम् ॥ ६ ॥

धर्माधर्मकलास्नेहपूर्णवह्नौ जुहोम्यहम् ।
स्वाहान्तेनाहुतिं हुत्वा प्राणायामनिरोधतः ॥ ७ ॥

निरस्तनिखिलोपाधिमात्मानं चिन्मयं स्मरेत् ।
इति ज्ञानार्णवे—

पुण्यपापे हविर्देवि कृत्याकृत्ये हविः प्रिये ।
संकल्पश्च विकल्पश्च धर्माधर्मौ हविः प्रिये ॥ १ ॥

इति । हवनप्रकारस्तु प्रयोगे वक्ष्यते । मन्त्रतन्त्रप्रकाशे— “अष्टोत्तरसहस्रं तु कृत्वान्तर्यागमादरात् । जपेत् प्रतिदिनं मन्त्री” इति । अन्तर्देहे, यागः पूजा । उत्तरतन्त्रे—

आत्मपूजां विधायेत्थं यथाशक्ति जपं चरेत् ।
स्वेष्टदेवतमात्मानं भावयन् यतमानसः ॥ १ ॥

एतेनाष्टोत्तरसहस्रं तु शक्तपरम् । तथा—

अर्घ्योदकेन संप्रोक्ष्य मूलमन्त्रेण मन्त्रवित् ।
पूजाचक्रं ततस्तत्र पीठपूजां समाचरेत् ॥ १ ॥

देवस्योत्तरतः पूजा गुरुपङ्क्तेस्ततः परम् ।
महागणपतिः पूज्यो दक्षिणे चन्दनादिभिः ॥ २ ॥

उत्तरतः उत्तरदिशि । तेन देवस्य दक्षिणभुजसमीप इति । आवाहनमुत्तरत्र तथा वक्ष्यते । रुद्रयामले—

सर्वाधो मण्डूकाधारे रुद्रः कालानलो विभुः ।
रक्षां करोतु या नित्यं मे मूलप्रकृतिस्तथा ॥ १ ॥

ततश्चाधारशक्तिर्या मम रक्षां करोतु सा ।
कूर्मस्तु सततं पायादनन्तो रक्षयेत् सदा ॥ २ ॥

तस्य मूर्ध्नि स्थितश्चक्री वराहः परिरक्षतु ।
दन्ते तस्य स्थिता पृथ्वी पातु नित्यं वसुन्धरा ॥ ३ ॥

समुद्रः सर्वदा पातु सुरनैरमृतैर्जलैः [Lesung unsicher] ।
रत्नद्वीपस्तु मे रक्षां करोतु स्वर्णपर्वतः ॥ ४ ॥

पातु मां नन्दनोद्यानं रक्षन्तु कल्पपादपाः ।
अधस्तेषां सदा पातु विचित्रा रत्नभूमिका ॥ ५ ॥

श्रीरत्नमन्दिरं पातु सततं पातु वेदिका ।
इति । भैरवयामले—

रक्तवर्णं महाकायं मण्डूकं प्रथमं यजेत् ।
तत्र कालाग्निरुद्रं च दशबाहुसमन्वितम् ॥ १ ॥

पञ्चवक्त्रं रक्तकृष्णवर्णदक्षापराङ्गकम् ।
तदूर्ध्वं मूलप्रकृतिं बन्धूकाभां वराभयाम् ॥ २ ॥

इति । उत्तरतन्त्रे—

अधः पीठस्य रक्ताभां पाशाङ्कुशवराभयान् ।
हस्ताब्जैर्दधतीं सम्यग्यजेदाधारशक्तिकाम् ॥ १ ॥

तस्या उपरि संपूज्य कूर्मः स्वर्णरुचिरच्छदः ।
सहस्रशिरसं तत्र शुक्लवर्णमलंकृतम् ॥ २ ॥

नीलवस्त्रं महाकायमनन्तं सम्यगर्चयेत् ।
पीताम्बरधरं तत्र नीलवर्णं सुभूषणम् ॥ ३ ॥

शङ्खचक्रगदापद्मधारिणं पोत्रिणं यजेत् ।
व्रीह्यग्रशुकहस्ताब्जां वराभयधरां शुभाम् ॥ ४ ॥

तद्दंष्ट्रोपरि नीलाभां धरां धीरः समर्चयेत् ।
इति । रत्नद्वीपो नवरत्नमयद्वीपः । उक्तं श्रीतन्त्रराजे— “नवरत्नमयं द्वीपं नवखण्डविराजितम् । पुष्पं नीलं च वैडूर्यम्” इति विलोमेन नव रत्नमयानि खण्डानि मध्यान्तानि ध्येयानीत्यर्थः । तत्रैव कुरुकुल्लापटले— “पश्चिमे पुष्परागं तु संप्राप्यावतरेत् ततः” इति उक्तत्वात् । रत्नमन्दिरं नवरत्नमयं माणिक्यमयं वा “स्वर्णप्राकारवेष्टितं विचित्रमण्डपम्” इति उत्तरतन्त्रवचनात् । “अमृताब्धौ मणिद्वीपे कल्पवृक्षवनोज्ज्वले । स्वर्णप्राकारसंवीतं स्मरेन्माणिक्यमण्डपम्” इति देवीयामलवचनाच्च । वेदिका स्वर्णमयी । “विचित्रमण्डपं तत्र पूजयेत् स्वर्णवेदिकम्” इत्युत्तरतन्त्रात् । उत्तरतन्त्रे— “रत्नसिंहासनं तत्र पूजयेन्मण्डलान्वितम्” इति । मण्डलान्वितं तत्तत्पूजाचक्ररूपमण्डलसमन्वितमित्यर्थः ।
तत्पादेषु यजेत् सम्यगाग्नेयादिशिवान्तकम् ।
धर्मं वृषतनुं रक्तवर्णमादौ समर्चयेत् ॥ १ ॥

सिंहाकारं ततो ज्ञानं श्यामवर्णं समाहितः ।
भूताकारं च वैराग्यं पीतवर्णं यजेत्ततः ॥ २ ॥

कृष्णवर्णं गजाकारमैश्वर्यं साधु पूजयेत् ।
अग्रदेशं समारभ्य चतुर्दिक्षु समर्चयेत् ॥ ३ ॥

अधर्मादींश्च पीठस्य चित्रगात्रधिया पुनः ।
इति । वामकेश्वरतन्त्रे— “मध्ये मायां तथा विद्यां पूजयेत् साधकोत्तमः” । उत्तरतन्त्रे—

तल्पाकारं ततोऽनन्तं पीठमध्ये समर्चयेत् ।
तस्य मूर्ध्नि यजेत् पद्मं सर्वलक्षणसंयुतम् ॥ १ ॥

आनन्दकन्दमभ्यर्च्य संविन्नालमनन्तरम् ।
प्रकृत्यात्मकपत्राणि विकारात्मककेसरान् ॥ २ ॥

तद्रूपां कर्णिकां च मातृकावर्णविग्रहाम् ।
इति । लिङ्गपुराणे—

तस्य पूर्वदलं साक्षादणिमामयमक्षरम् ।
लघिमा दक्षिणं चैव महिमा पश्चिमं तथा ॥ १ ॥

प्राप्तिश्चैवोत्तरं पत्रं प्राकाम्यं पावकस्य तु ।
ईशित्वं नैर्ऋतं पत्रं वशित्वं वायुगोचरम् ॥ २ ॥

सर्वज्ञत्वं तथैशानं कर्णिका सोम उच्यते ।
सोमस्याधस्तथा सूर्यस्तस्याधः पावकः स्वयम् ॥ ३ ॥

इति । उत्तरतन्त्रे—

पत्रकोशेषु पद्मस्य सत्त्वादीन् क्रमतो यजेत् ।
सत्त्वपूर्वान् गुणान् सूर्येन्द्वग्नीनां मण्डलानि च ॥ १ ॥

ब्रह्मविष्णुमहेशाख्यानात्मादींस्त्रीन्यथाक्रमम् ।
इति । संमोहनतन्त्रे—

विधिरूपः सत्त्वगुणो रजः प्रकृतिरूपकम् ।
तमोगुणो मोहरूपः प्रोक्तास्त्वेवं गुणास्त्रयः ॥ १ ॥

इति । वामकेश्वरतन्त्रे—

[Textlücke im Druck] ज्ञानतत्त्वात्मकं यजेत् ।

कालतत्त्वात्मकं चैव विद्यातत्त्वात्मकं तथा ॥ १ ॥

परतत्त्वात्मकं चैव क्रमेण परिपूजयेत् ।
चतुर्दिक्षु च मध्ये च ।
इति । प्रपञ्चसारे—

मध्येऽनन्तं पद्ममस्मिंश्च सूर्यं सोमं वह्निं तारवर्णैर्विभक्तैः ।
सत्त्वादींश्च त्रीन् गुणानात्मयुक्तान् शक्तीः किञ्जल्केषु मध्ये यजेच्च ॥ १९ ॥

इति । उत्तरतन्त्रे—

केसरेषु ततो मध्ये पूर्वादिषु यथाक्रमम् ।
तत्तन्मन्त्रोक्तपीठस्य नव शक्तीः प्रपूजयेत् ॥ १ ॥

पीठमन्त्रेण गन्धाद्यैः पीठमध्ये ततो यजेत् ।
इति । सनत्कुमारसंहितायाम्—

प्रागाद्यष्टसु पत्रेषु कर्णिकायां यजेन्मुने ।
चतुर्थ्या नमसा युक्तैः स्वैः स्वैरेव च नामभिः ॥ १ ॥

मध्ये पुष्पाञ्जलिं दद्यात् पीठमन्त्रेण मन्त्रवित् ।
इति । यजेत् प्रादक्षिण्येन । “एताः प्रदक्षिणं पूज्याः” इति मन्त्रतन्त्रप्रकाशवचनात् । पूर्वादिष्वित्यत्र पश्चिमस्यैव पूर्वत्वम् । “स्वराः षोडश देवेशि युग्मयुग्मप्रभेदतः । दलाष्टकेषु संलेख्याः पश्चिमादिप्रदक्षिणम्” इति ज्ञानार्णवे यन्त्रे वर्णविन्यासदर्शनात् । आवरणार्चनायां देवाग्रे प्राच्यभिधानाच्च अत्रापि तथा कल्पनात् । “दक्षिणे च तथा गुरुम्” इति सङ्कर्षणवचनाच्च ॥ नारदपञ्चरात्रे, गुर्वर्चायां— “मण्डले देवदेवस्य दक्षिणे मण्डलोपरि । गुरून् समर्चयेत्” इति । अत एव देवदेवस्योत्तरत इति पूर्वोक्तस्यापि पूजामण्डलस्योपरि पूजा ज्ञेया । धर्मादिपूजायामप्येवमेव देवाग्रे कल्पितप्राच्यनुसारेणैवाग्नेयादि कल्पयेत् । अत्र भाविनि भूतवदुपचारः । “आवाह्य मन्त्रेण मुने” इत्यनन्तरमावाहनोक्तेः । भूताकारमिति भूता देवयोनिः “भूतोऽमी देवयोनयः” इति कोशात् । तत्स्वरूपं तु— “रक्तवस्त्रधराः कृष्णा नखदंष्ट्रासुदंष्ट्रिका (?) । कर्त्रीखट्वाङ्गहस्ताश्च राक्षसा घोररूपिणः ॥ भूतास्तथैव दीनास्याः” इति भूतडामरोक्तस्वरूपाः पीठशक्तयः पीठमन्त्रास्तत्तत्कल्पे वक्ष्यन्ते । उत्तरतन्त्रे—

पीठशक्तीर्नवाभ्यर्च्य केसरेषु च मध्यतः ।
वरदाभयधारिण्यः पीठं पीठाणुना यजेत् ॥ १ ॥

मूलमन्त्रं समुच्चार्य षष्ठ्यन्तं देवनाम च ।
मूर्तिं च कल्पयामीति मूर्तिं मध्ये विनिक्षिपेत् ॥ २ ॥

पुनर्मूलं समुच्चार्य देवनाम च पूर्ववत् ।
मूर्तिं च पूजयामीति तां पुष्पेण समर्चयेत् ॥ ३ ॥

पूजामूर्तेः शिरः कुर्यात् कुसुमोपहितं सदा ।
पूजाकालं विना तस्या नोपरि भ्रामयेत् करम् ॥ ४ ॥

अथेष्टदेवताप्रीत्यै यजेदायतनान्यपि ।
इति । आयतनानि प्रागेवोक्तानि । प्रागेव शिवलिङ्गप्रमाणविधिरपि प्रदर्शितः ॥

अथेष्टदेवतायाः पूजाङ्गत्वेन पार्थिवविधानम् । नारद उवाच—

धर्मार्थकाममोक्षाणां साधनं परमं हितम् ।
तत्सर्वं कथयस्व त्वमनुग्राह्योऽस्मि ते विभो ॥ १ ॥

सर्वपापक्षयकरं सर्वारिष्टनिवारणम् ।
सर्ववश्यकरं चैव कलौ सर्वत्र सिद्धिदम् ॥ २ ॥

ईश्वर उवाच—

शृणु नारद वक्ष्यामि शिवपूजाविधानकम् ।
यस्यानुष्ठानमात्रेण कृतकृत्यो भवेन्नरः ॥ ३ ॥

अकृत्वा पार्थिवं लिङ्गं योऽन्यदेवं प्रपूजयेत् ।
वृथा भवति सा पूजा स्नानदानादिकं वृथा ॥ ४ ॥

शुद्धां मृदं समानीय पुनः शोध्य विशेषतः ।
लिङ्गाकारं ततः कुर्याद्यथोक्तविधिना पुमान् ॥ ५ ॥

पूजयेत् सविधानेन पार्थिवं लिङ्गमुत्तमम् ।
अखण्डं कारयेदाद्यहृद्यमाणैश्च नामभिः [Lesung unsicher] ॥ ६ ॥

मृदाहरणसंघट्टप्रतिष्ठाह्वानमेव च ।
स्नपनं पूजनं चैव क्षमस्वेति विसर्जनम् ॥ ७ ॥

हरो महेश्वरश्चैव शूलपाणिः पिनाकधृक् ।
पशुपतिः शिवश्चैव महादेव इति क्रमात् ॥ ८ ॥

द्विखण्डं यः करोत्येवं तस्य पूजापि निष्फला ।
पक्वजम्बूफलाकारं सर्वकामप्रदं शिवम् ॥ ९ ॥

विवरं यः करोत्येवं हानिपीडाकरं भवेत् ।
कुर्यात् साक्षात् स्वबीजेन मूलमन्त्रेण पूजनम् ॥ १० ॥

चतुर्दशस्वरोपेतो हकारो बिन्दुसंयुतः ।
शिवप्रसादजनकः शिवप्रणवसंज्ञकः ॥ ११ ॥

शर्वो भवश्च रुद्रोग्रौ भीम ईशानसंज्ञकः ।
महादेवः पशुपतिर्मूर्तिभिश्चैव पूजयेत् ॥ १२ ॥

क्षितिरापोऽनलो वायुराकाशः सोमसूर्यकौ ।
यजमान इति ह्यष्टौ मूर्तयः परिकीर्तिताः ॥ १३ ॥

नारद उवाच—

देव केन विधानेन कर्तव्यं सर्वकामदम् ।
यस्यानुष्ठानमात्रेण कृतकृत्यो भवेन्नरः ॥ १४ ॥

ईश्वर उवाच—

मुने सर्वप्रयत्नेन पार्थिवं लिङ्गमुत्तमम् ।
कर्तव्यं हि नृभिर्नित्यं काममुद्दिश्य यत्नतः ॥ १५ ॥

अखण्डं पार्थिवं लिङ्गं द्विखण्डं स्थावरं मतम् ।
पूर्वोक्तेन विधानेन पूज्यं लिङ्गं तु पार्थिवम् ॥ १६ ॥

संख्या पार्थिवलिङ्गानां यथाकामं निगद्यते ।
विद्यार्थी लिङ्गसाहस्रं धनार्थी शतपञ्चकम् ॥ १७ ॥

पुत्रार्थी सार्धसाहस्रं कान्तार्थी शतपञ्चकम् ।
मोक्षार्थी कोटिगुणितं भूकामस्तु सहस्रकम् ॥ १८ ॥

रूपार्थी त्रिसहस्रं च तीर्थार्थी द्विसहस्रकम् ।
सुहृत्कामी त्रिसाहस्रं वस्त्रार्थी च शताष्टकम् ॥ १९ ॥

मारणार्थी सप्तशतं मोहनार्थी शताष्टकम् ।
उच्चाटनपरश्चैव सहस्रं च यथोक्तितः ॥ २० ॥

स्तम्भनं तु सहस्रेण मारणं शतपञ्चकम् ।
निगडान्मुक्तिकामस्तु सहस्रं सार्धमीरितम् ॥ २१ ॥

महाराजभये पञ्चशतं चोरादिसङ्कटे ।
शतद्वयं तु डाकिन्या भये पञ्चशतं तु वा ॥ २२ ॥

दारिद्र्ये पञ्चसाहस्रमयुतं सर्वकामदम् ।
एकं पापहरं प्रोक्तं द्विलिङ्गं चार्थसिद्धिदम् ॥ २३ ॥

त्रिलिङ्गं सर्वकामानां कारणं परमीरितम् ।
उत्तरोत्तरमेव स्यात् पूर्वोक्तगणनावधि ॥ २४ ॥

इति । ग्रन्थान्तरे—

लिङ्गानामयुतं कृत्वा महाराजभयं हरेत् ।
सहस्राणि तथा पञ्च निगडान्मुक्तये ध्रुवम् ॥ १ ॥

कारागृहादिमुक्त्यर्थमयुतं कारयेद्बुधः ।
डाकिन्यादिभये सप्तसहस्रं कारयेत्ततः ॥ २ ॥

सहस्रं पञ्चपञ्चाशत्पुत्रार्थी हि प्रकारयेत् ।
लिङ्गानामयुतेनैव कन्यकां सततं लभेत् ॥ ३ ॥

एवं लिङ्गार्चनेनैवमतुलां श्रियमाप्नुयात् ।
लक्षमेकं तु लिङ्गानां यः करोति नरो भुवि ॥ ४ ॥

शिव एव भवेत् सोऽपि नात्र कार्या विचारणा ।
अर्चा पार्थिवलिङ्गानां कोटियज्ञफलप्रदा ॥ ५ ॥

मुक्तिदा भुक्तिदा नित्यं तत्तत्कामार्थदा नृणाम् ।
ब्रह्मस्वपरिहारार्थं सौवर्णं लिङ्गमर्चयेत् ॥ ६ ॥

लवणेन च सौभाग्यं पार्थिवं सार्वकामिकम् ।
अनेकगुणसंभूतं रेतोत्थं परिकीर्तितम् ॥ ७ ॥

ग्रामदं तिलपिष्टोत्थं तुषोत्थं मारणे स्मृतम् ।
अन्नोत्थमन्नदं प्रोक्तं गुडोत्थं प्रीतिवर्धनम् ॥ ८ ॥

गन्धोत्थं भोगदं चैव शर्करोत्थं सुखप्रदम् ।
यवपिष्टोद्भवं लिङ्गं वंशकामोऽर्चयेत् पुमान् ॥ ९ ॥

तण्डुलानां च पिष्टेन पुत्रबाहुल्यमाप्नुयात् ।
सर्वरोगविनाशाय गोमयोत्थं प्रपूजयेत् ॥ १० ॥

केशास्थिसंभवं लिङ्गं सर्वशत्रुविनाशनम् ।
आसुरं लवणोत्थं च सर्वलोकवशङ्करम् ॥ ११ ॥

स्तम्भने रजनीपिष्टसंभवं लिङ्गमुत्तमम् ।
तण्डुलोद्भवपिष्टानां लिङ्गं विद्याप्रदं स्मृतम् ॥ १२ ॥

दधिदुग्धोद्भवं लिङ्गं कीर्तिलक्ष्मीसुखप्रदम् ।
धान्यदं धान्यजं लिङ्गं फलोत्थं फलदं भवेत् ॥ १३ ॥

पुण्यार्थं सर्वसौभाग्ययुक्तमाधात्रीफलोद्भवम् [Lesung unsicher] ।
नवनीतोद्भवं लिङ्गं कीर्तिसाम्राज्यदायकम् ॥ १४ ॥

दूर्वागुडूचीसंभूतमपमृत्युनिवारणम् ।
इन्द्रदण्डोद्भवं लिङ्गं स्फुटमुच्चाटयेत् परम् ॥ १५ ॥

इन्द्रनीलमयं लिङ्गं बहुपोषणकामकृत् ।
स्फाटिकं बहुस्वामित्वफलदं मुनिभिः स्मृतम् ॥ १६ ॥

पितॄणां मुक्तये पूज्यं लिङ्गं रजतसंभवम् ।
हेमजं सत्यलोकस्य प्राप्तये पूजयेत् पुमान् ॥ १७ ॥

पूजयेत् ताम्रजं लिङ्गं पुष्टिकामो हि मानवः ।
कृषिकामस्तु सततं लिङ्गं पित्तलसंभवम् ॥ १८ ॥

कीर्तिकामोऽर्चयेल्लिङ्गं सदा कांस्यसमुद्भवम् ।
शत्रुमारणकामस्तु लिङ्गं लोहमयं सदा ॥ १९ ॥

ज्वरशान्त्यै चन्दनजमर्चयेद्विधिवत् सदा ।
कर्पूरसंभवं लिङ्गं शान्तिकामोऽर्चयेत् सदा ॥ २० ॥

कस्तूरीसंभवं लिङ्गं गन्धकामो हि पूजयेत् ।
लिङ्गं गोरोचनोत्थं च रूपकामस्तु पूजयेत् ॥ २१ ॥

कान्तिकामस्तु सततं लिङ्गं कुङ्कुमकेसरम् ।
श्वेतागुरुसमुद्भूतं महाबुद्धिविवर्धनम् ॥ २२ ॥

धारणाशक्तिदं लिङ्गं कृष्णागुरुसमुद्भवम् ।
यक्षकर्दमसंभूतं लिङ्गं प्रीतिविवर्धनम् ॥ २३ ॥

गोधूमपिष्टजं लिङ्गं गोकामो हि प्रपूजयेत् ।
मुद्रपिष्टमयं लिङ्गं पूजयन्मुक्तिमाप्नुयात् [Lesung मुद्ग/मुद्र unsicher] ॥ २४ ॥

माषपिष्टमयं लिङ्गं नित्याभीष्टार्थसिद्धिदम् ।
चणकोद्भवपिष्टेन लिङ्गं बुद्धिविवर्धनम् ॥ २५ ॥

लिङ्गं व्रीहिमयं पूज्यं धान्यकामेन नित्यशः ।
यवधान्यमयं लिङ्गं सर्वारिष्टनिवारणम् ॥ २६ ॥

यः करोति तिलैः धृतैस्तद्द्वीपे च महीयते [Lesung unsicher] ।
यः कृष्णैश्च तिलैः सम्यग्लिङ्गं कृत्वार्चयेन्नरः ॥ २७ ॥

कामेशश्च प्रियो नित्यं भवेत् स्त्रीणां हि मानवः ।
ग्रीष्मे च मल्लिकापुष्पसंभवं लिङ्गमुत्तमम् ॥ २८ ॥

पूजयित्वा नरो भक्त्या प्राप्नोति महतीं कृपिम् [Lesung unsicher] ।
वर्षासु पूजयेद्भक्त्या लिङ्गं कनकपुष्पजम् ॥ २९ ॥

इह चामुष्मिके लोके सुखीभवति चात्मनः ।
नीलोत्पलमयं लिङ्गं कृत्वा शरदि मानवः ॥ ३० ॥

पूजयेत् परमां सिद्धिं भक्त्या प्राप्नोति नित्यशः ।
हैमन्तीयैश्च कुसुमैर्लिङ्गं कृत्वा मनोरमम् ॥ ३१ ॥

भक्त्या चाभ्यर्च्य मतिमान् शिवेन सह मोदते ।
शिशिरे सर्वपुष्पोत्थं लिङ्गमभ्यर्च्य मानवः ॥ ३२ ॥

सर्वपापं विहायाशु ब्रह्मणा सह मोदते ।
येन केन प्रकारेण यस्य कस्यापि वस्तुनः ॥ ३३ ॥

कृत्वा लिङ्गं समभ्यर्च्य प्राजापत्यमवाप्नुयात् ।
विना लिङ्गार्चनं यस्य कालो गच्छति नित्यशः ॥ ३४ ॥

महाहानिर्भवेत्तस्य सर्वत्रास्य दुरात्मनः ।
कृत्वा सर्वाणि दानानि व्रतानि विविधानि च ॥ ३५ ॥

तीर्थानि नियमा यज्ञा लिङ्गार्चातः कृताः स्मृताः ।
कलौ लिङ्गार्चनं श्रेष्ठं यथा यथा लोके प्रदृश्यते ॥ ३६ ॥

ततोऽन्यन्नास्ति नास्तीति शास्त्राणामेष निश्चयः ।
भुक्तिमुक्तिप्रदं लिङ्गं विविधापन्निवारणम् ॥ ३७ ॥

पूजयित्वा नरो नित्यं शिवसायुज्यमाप्नुयात् ।
लिङ्गानामपि सर्वेषां पार्थिवं लिङ्गमुत्तमम् ॥ ३८ ॥

कृत्वा संपूज्य विधिवत् सर्वान्कामानवाप्नुयात् ।
पाषाणसंभवं लिङ्गं संपूज्य परया मुदा ॥ ३९ ॥

इह कामानवाप्नोति सदा चानुत्तमं सुखम् ।
पाषाणात् स्फाटिकं श्रेष्ठं स्फाटिकात् पद्मरागजम् ॥ ४० ॥

पद्मरागाच्च काश्मीरं काश्मीरात्पुष्परागजम् ।
पुष्परागादिन्द्रनीलमिन्द्रनीलाच्च गोमदम् ॥ ४१ ॥

ततो गारुत्मतं श्रेष्ठं तस्मान्माणिक्यसंभवम् ।
माणिक्याद्विद्रुमं श्रेष्ठं विद्रुमान्मौक्तिकं परम् ॥ ४२ ॥

मौक्तिकाद्रजतं श्रेष्ठं सौवर्णं राजतात्परम् ।
सौवर्णाद्धीरकं श्रेष्ठं हीरकात् पारदं स्मृतम् ॥ ४३ ॥

पारदाद्बाणजं श्रेष्ठं ततः श्रेष्ठं न विद्यते ।
नर्मदाजलमध्यस्थं बाणलिङ्गमिति स्मृतम् ॥ ४४ ॥

सर्वतीर्थानि यज्ञाश्च साङ्गदानव्रतानि च ।
त्रिसन्ध्यं योगसिद्ध्यादि बाणलिङ्गे च संस्थितम् ॥ ४५ ॥

बाणासुरार्चितं लिङ्गं बाणलिङ्गं तदुच्यते ।
अभ्यर्च्य विधिवद्भक्त्या शिवलोके महीयते ॥ ४६ ॥

बाणलिङ्गे न चण्डेशं न च निर्माल्यकल्पना ।
सर्वं बाणार्पितं ग्राह्यं शक्त्या भक्त्या न चान्यथा ॥ ४७ ॥

बाणलिङ्गे स्वयंभूते चन्द्रकान्ते हृदि स्थिते ।
चान्द्रायणशतं ज्ञेयं शम्भुनैवेद्यभक्षणम् ॥ ४८ ॥

ग्राह्याग्राह्यविभागोऽयं बाणलिङ्गे विधीयते ।
तदर्पितं तिलं चिह्नं ग्राह्यं प्रसादसंज्ञया [Lesung unsicher] ॥ ४९ ॥

बाणे च रजते रत्ने स्फाटिके हेमनिर्मिते ।
काश्मीरे चन्द्रकान्ते च लिङ्गे स्वायंभुवे तथा ॥ ५० ॥

सदा संनिहितो देवः सत्यं सत्यं न संशयः ।
शिवनाभिमयं लिङ्गं नित्यं पूज्यं महात्मभिः ॥ ५१ ॥

एतच्च सर्वलिङ्गेभ्यः शस्तं पूजाविधानकैः ।
उत्तमं मध्यमं नीचं त्रिविधं लिङ्गमीरितम् ॥ ५२ ॥

चतुरङ्गुलमुच्छ्रायं रम्यं वेदिकया शिवम् ।
उत्तमं लिङ्गमाख्यातं मुनिभिस्तन्त्रकोविदैः ॥ ५३ ॥

तदर्धं मध्यमं प्रोक्तं तस्यार्धं वाधमं स्मृतम् ।
एवं लिङ्गं समासाद्य श्रद्धाभक्तिसमन्वितः ॥ ५४ ॥

पूजयित्वा लभेत् कामान्मनसा चाभिलाषितान् ।
शास्त्राण्यालोच्य सर्वाणि तदर्थान्परिभाव्य च ॥ ५५ ॥

पुरुषार्थप्रदं तत्त्वं निश्चितं लिङ्गपूजनम् ।
सर्वमूर्तीः परित्यज्य कर्मजालं विशेषतः ॥ ५६ ॥

भक्त्या परमया विद्वाँल्लिङ्गमेवं प्रपूजयेत् ।
लिङ्गार्चनेऽर्चितं सर्वं जगत् स्थावरजङ्गमम् ॥ ५७ ॥

संसारार्णवमग्नानां नान्यत्तारणसाधनम् ।
अज्ञानतिमिरान्धानां विषयासक्तचेतसाम् ॥ ५८ ॥

तरो नान्योऽस्ति जगतां लिङ्गाराधनमन्तरा [Lesung unsicher] ।
ब्रह्मादयः सुराः सर्वे मुनयो यक्षराक्षसाः ॥ ५९ ॥

गन्धर्वाश्चारणाः सिद्धा दैतेया दानवास्तथा ।
पूजयित्वा महाभक्त्या लिङ्गं सर्वार्थसिद्धिदम् ॥ ६० ॥

अचिराल्लेभिरे नूनं सर्वान् कामान् समीहितान् ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्यनुलोमजः ॥ ६१ ॥

पूजयेत् सततं लिङ्गं तत्तन्मन्त्रेण साधकः ।
द्विजानां वैदिकेनापि मार्गेणाराधनं परम् ॥ ६२ ॥

अन्येषामपि जन्तूनां वैदिकेनापि मन्त्रतः ।
तन्त्रोक्तदीक्षितानां च तन्त्रेणापि विधानतः ॥ ६३ ॥

स्मृतमाराधनं शम्भोर्नैव वैदिकवर्त्मना ।
वैदिकानां च सर्वेषां पूजा वैदिकमार्गतः ॥ ६४ ॥

कर्तव्या नान्यमार्गेण चेत्याह भगवाञ्छिवः ।
दधीचिगौतमादीनां शतसंबद्धचेतसाम् ॥ ६५ ॥

न जायतेऽन्यवर्त्मापि धर्मो वैदिकवर्त्मना [Satzverbindung unsicher] ।
यो वैदिकमनादृत्य कर्म स्मार्तमथापि वा ॥ ६६ ॥

अन्यत् समाचरन्मर्त्यो न स कर्मफलं लभेत् ।
तत्रापि पार्थिवं लिङ्गं क्षिप्रसिद्धिप्रदं भवेत् ॥ ६७ ॥

पार्थिवेन तु लिङ्गेन बहुसिद्धिमवाप्नुयात् ।
कृते रत्नमयं लिङ्गं त्रेतायां हेमसंभवम् ॥ ६८ ॥

द्वापरे पारदं श्रेष्ठं पार्थिवं तु कलौ युगे ।
अष्टमूर्तिषु सर्वासु मूर्तिं पार्थिवीं परा [Grammatik der Drucklesung unsicher] ॥ ६९ ॥

एवं पार्थिवलिङ्गे तु नित्यं संनिहितः शिवः ।
यथा सर्वेषु देवेषु ज्येष्ठः श्रेष्ठो महेश्वरः ॥ ७० ॥

तथा सर्वेषु लिङ्गेषु पार्थिवं श्रेष्ठमुच्यते ।
यथा सर्वेषु वेदेषु प्रणवश्च महान् स्मृतः ॥ ७१ ॥

तथैव पार्थिवं श्रेष्ठं प्राराध्यं पूज्यमेव हि ।
पार्थिवाराधनं पुण्यमायुर्धनविवर्धनम् ॥ ७२ ॥

प्रसन्नं तुष्टिदं श्रीदं कार्यसाधनसिद्धिदम् ।
यथासर्वोपचारैश्च भक्तिश्रद्धासमन्वितः ॥ ७३ ॥

पूजयेत् पार्थिवं लिङ्गं शास्त्रोक्तविधिना नरः ।
पञ्चसूत्रविभागं च पार्थिवं न विचारयेत् ॥ ७४ ॥

आकारमात्रं रचयेत् सर्वसिद्धिप्रदायकम् ।
द्विखण्डमत्र कुर्वाणो नैव पूजाफलं लभेत् ॥ ७५ ॥

रत्नजं हेमजं लिङ्गं पारदं स्फाटिकं तथा ।
पार्थिवं पिष्टजं पौष्पं माषजं तु प्रकारयेत् ॥ ७६ ॥

अखण्डं तु चरं लिङ्गं द्विखण्डमचरं स्मृतम् ।
खण्डाखण्डविभागोऽयं चराचरतया स्मृतः ॥ ७७ ॥

वेदिका तु महाविष्णुर्लिङ्गं देवो महेश्वरः ।
अतोऽपि स्थावरं लिङ्गं स्मृतं शेषं द्विखण्डता [Satzverbindung unsicher] ॥ ७८ ॥

वेदिका तु महादेवी गिरिजा शिववल्लभा ।
पिण्डिका तु महेशानो द्वयोर्योगो द्विखण्डता ॥ ७९ ॥

द्विखण्डं स्थावरं लिङ्गं कर्तव्यं हि विधानतः ।
अखण्डं जङ्गमं प्रोक्तं शैवसिद्धान्तवेदिभिः ॥ ८० ॥

द्विखण्डं तु चरं लिङ्गं कुर्वन्नज्ञानमोहितः ।
नैव सिद्धान्तवेत्तारो मुनयः शास्त्रपारगाः (?) ॥ ८१ ॥

अखण्डं स्थावरं लिङ्गं द्विखण्डं चरमेव च ।
ये कुर्वन्ति नरा मूढा न पूजाफलमाप्नुयुः ॥ ८२ ॥

तस्माच्छास्त्रोक्तविधिना द्विखण्डं चरसंज्ञितम् ।
त्रिखण्डं स्थावरं लिङ्गं कर्तव्यं परया मुदा ॥ ८३ ॥

अखण्डे तु चरे पूजा संपूर्णफलदा स्मृता ।
द्विखण्डे स्थावरे पूजा संपूर्णफलदायिनी ॥ ८४ ॥

द्विखण्डे तु चरे पूजा महाहानिः प्रजायते ।
अखण्डे स्थावरे पूजा न पूजाफलदायिनी ॥ ८५ ॥

अथ वैदिकभावानां पार्थिवार्चा निगद्यते ।
वेदोक्तविधिना सम्यक् संपूर्णफलसिद्धये ॥ ८६ ॥

सूत्रोक्तविधिना स्नात्वा संध्यां कृत्वा यथाविधि ।
ब्रह्मयज्ञं विधायादौ ततस्तर्पणमेव च ॥ ८७ ॥

नैमित्तं सकलं कर्म विधायानन्तरं पुमान् ।
पूजयेत् परया भक्त्या पार्थिवं लिङ्गमुत्तमम् ॥ ८८ ॥

नदीतीरे तडागादौ पर्वते काननेऽपि वा ।
शिवालये शुचौ देशे पार्थिवार्चा विधीयते ॥ ८९ ॥

शुद्धप्रदेशसंभूतां मृदमाहृत्य यत्नतः ।
विप्रे गौरा स्मृता शोणा बाहुजे वैश्यजातिके ॥ ९० ॥

पीता शूद्रे तु कृष्णा स्यादथवा यत्र या भवेत् ।
संग्राह्या मृत्तिका लिङ्गनिर्माणार्थं प्रयत्नतः ॥ ९१ ॥

आनीय शुद्धदेशे तु संस्थाप्य मृदमुत्तमाम् ।
संशोध्य च जलैः शुद्धैः पिण्डीकृत्य शनैः शनैः ॥ ९२ ॥

पश्चाल्लिङ्गं विधायाथ क्रमेणानेन भक्तिमान् ।
प्रणवादिचतुर्थ्यन्तैः पूर्वोक्तैर्नामभिः क्रमात् ॥ ९३ ॥

कर्तव्या मन्त्रिणा पूजा भक्त्या परमया मुदा ।
प्राणायामत्रयं कुर्यात् मूलमन्त्रेण देशिकः ॥ ९४ ॥

भूतशुद्धिं विधायादौ विन्यसेन्मातृकामयम् ।
पञ्चब्रह्ममयं न्यासमष्टात्रिंशत्कलात्मकम् ॥ ९५ ॥

इति । अत्र दशविधमातृकान्यासकरणाशक्तौ अन्तर्मातृकाबहिर्मातृकाश्रीकण्ठादिमातृकाष्टात्रिंशत्कलान्यास इति न्यासचतुष्टयमावश्यकम् । तथा—

अर्घ्यादिपात्राण्यासाद्य शैवे पीठे शिवं यजेत् ।
उपचारैः प्रयत्नेन शैवमुद्राः प्रदर्शयेत् ॥ ९६ ॥

पुष्पाञ्जलित्रयं दत्त्वा प्राणायामत्रयं चरेत् ।
प्रणवं पूर्वमुच्चार्य महाप्रासादमुद्धरेत् ॥ ९७ ॥

चिन्तारत्नं समुद्धृत्य भुवनेशीमनन्तरम् ।
पञ्चाक्षरो महेशस्य मूलमन्त्रो नवाक्षरः ॥ ९८ ॥

“ॐ हौं क्ष्म्यूं [Lesung des Cintāmaṇi-Bīja unsicher] ह्रीं नमः शिवाय” इति नवाक्षरः ।
वामदेव ऋषिश्छन्दो गायत्रं निचृदन्वितम् ।
पार्थिवेश्वरनामादिचिन्तामणिरितीरिता ॥ ९९ ॥

देवता कथिता बीजं महाप्रासादसंज्ञितम् ।
शक्तिस्तु भुवनेशानी नतिः कीलकमुच्यते ॥ १०० ॥

विनियोगः समाख्यातः पुरुषार्थचतुष्टये ।
चत्वारि बीजान्युच्चार्य सर्वज्ञाय हृदीरितम् ॥ १०१ ॥

तथैव नित्यतृप्ताय शिरसे वह्निवल्लभा ।
वदेदनादिबोधाय शिखायै वषडित्यथ ॥ १०२ ॥

स्वतन्त्रशक्तये प्रोक्त्वा कवचाय हुमीरितम् ।
अलुप्तशक्तये नेत्रत्रयाय वौषडुच्चरेत् ॥ १०३ ॥

अनन्तशक्तये प्रोक्त्वा अस्त्राय फडिति क्रमात् ।
एवं षडङ्गं विन्यस्य ध्यायेदेवमतन्द्रितः ॥ १०४ ॥

कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।
सदा रमन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥ १०५ ॥

वन्दे महेशं सुरसिद्धसेवितं भक्तैः सदा पूजितपादपद्मम् ।
ब्रह्मेन्द्रविष्णुप्रमुखैश्च वन्दितं ध्यायेत् सदा कामदुघं प्रसन्नम् ॥ १०६ ॥

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं

रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं

विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ १०७ ॥

एवं ध्यात्वा महामन्त्रं जपेन्नियतमानसः ।
यथाशक्ति ततः कुर्यात् प्राणायामषडङ्गकम् ॥ १०८ ॥

गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादात् सुरेश्वर ॥ १०९ ॥

इत्युच्चार्य जपं हस्ते दक्षे देवस्य चार्पयेत् ।
प्रदक्षिणनमस्कारैः परितोष्य मुहुर्मुहुः ॥ ११० ॥

प्रार्थयेत् परया भक्त्या देवदेवं जगद्गुरुम् ।
जय देव जगन्नाथ जय शाश्वत शङ्कर ॥ १११ ॥

जय सर्वसुराध्यक्ष जय सर्वसुरार्चित ।
जय सर्वगुणातीत जय सर्ववरप्रद ॥ ११२ ॥

जय नित्यनिराधार जय विश्वंभराव्यय ।
जय विश्वैकवन्द्येश जय नागेन्द्रभूषण ॥ ११३ ॥

जय गौरीपते शम्भो जय चन्द्रार्धशेखर ।
जय कोट्यर्कसंकाश जयानन्तगुणालय ॥ ११४ ॥

जय रुद्र विरूपाक्ष जयाचिन्त्य निरञ्जन ।
जय नाथ कृपासिन्धो जय दुःखौघभञ्जन ॥ ११५ ॥

जय दुस्तरसंसारसागरोत्तारण प्रभो ।
प्रसीद मम देवेश संसारार्तस्य नित्यतः ॥ ११६ ॥

सर्वपापक्षयं कृत्वा रक्ष मां परमेश्वर ।
महादारिद्र्यमग्नस्य महापापहतौजसः ॥ ११७ ॥

महाशोकनिमग्नस्य महारोगातुरस्य च ।
ऋणभारपरीतस्य दह्यमानस्य कर्मभिः ॥ ११८ ॥

ग्रहैः प्रपीड्यमानस्य प्रसीद मम शङ्कर ।
दीर्घमायुः सदारोग्यं यशोवृद्धिर्बलोन्नतिः ॥ ११९ ॥

ममास्तु नित्यमानन्दः प्रसादात्तव शङ्कर ।
शत्रवः संक्षयं यान्तु प्रसीदन्तु नवग्रहाः ॥ १२० ॥

नश्यन्तु दस्यवो राष्ट्रे जनाः सन्तु निरापदः ।
दुर्भिक्षमारीसंतापाः शमं यान्तु महीतले ॥ १२१ ॥

वसुसस्यसमृद्धिं च ममानन्दं सदा दिश ।
प्रदोषे वापि पूजान्ते प्रार्थयेद्भक्तितत्परः ॥ १२२ ॥

प्रसन्नोऽभीप्सितं देवो ददाति गिरिजापतिः ।
एवं संप्रार्थ्य तत्तेजो वामनासापुटाध्वना ॥ १२३ ॥

समानीय स्वहृदये महासंहारमुद्रया ।
शिवलिङ्गं तु नद्यादौ संस्थाप्य विहरेत् सुखी ॥ १२४ ॥

इति । अत्र प्रागुक्तपार्थिवेश्वरचिन्तामणिमन्त्रो वा जप्तव्यः, कामदुघामन्त्रो वा, कामदुघामन्त्रस्तु—

षडक्षरं समुच्चार्य प्रपन्नेति पदं तथा ।
पारिजाताय चोच्चार्य वह्निजायां समुद्धरेत् ॥ १२५ ॥

षोडशार्णो महेशस्य मन्त्रः कामदुघाह्वयः ।
“ॐ नमः शिवाय प्रपन्नपारिजाताय स्वाहा” । एतस्य न्यासध्यानादिकं प्राग्वत् ॥

अथ वैदिकमार्गेण पूजां वक्ष्ये शिवस्य वै ।
सद्योजातेति मन्त्रेण मृत्तिकाग्रहणं भवेत् ॥ १२६ ॥

वामदेवेति मन्त्रेण जलैः संशोध्य यत्नतः ।
अघोरेण च मन्त्रेण लिङ्गीकरणमुत्तमम् ॥ १२७ ॥

ततस्तत्पुरुषायेति बाणं कुर्याद्विचक्षणः ।
ईशान इति मन्त्रेण वेदीबाणं समाचरेत् ॥ १२८ ॥

पञ्चाक्षरेण मन्त्रेण उपचारैः समर्चयेत् ।
भवाय भवनाशाय महादेवाय धीमहि ॥ १२९ ॥

उग्राय चोग्रनाशाय शर्वाय शशिमौलिने ।
एभिर्मन्त्रैश्च वा पूजा कर्तव्या शुभमिच्छता ॥ १३० ॥

यः कृत्वा पार्थिवं लिङ्गं पूजयेच्छुभवेदिकाम् ।
इहैव पुत्रवान्धीमांस्ततो रुद्रत्वमाप्नुयात् ॥ १३१ ॥

त्रिसन्ध्यं योऽर्चयेल्लिङ्गं कृत्वाभिज्ञस्तु पार्थिवम् ।
दशैकादशकं यावत्तस्य पुण्यफलं शृणु ॥ १३२ ॥

अनेनैव स्वदेहेन रुद्रतुल्यो भवेन्नरः ।
अथ पारदलिङ्गस्य विधानं वच्मि नारद ॥ १३३ ॥

नित्यसंपादनाशक्तौ प्रकारान्तरमुच्यते ।
निष्कत्रयं हेमपत्रं रसेन्द्रं नवनिष्ककम् ॥ १३४ ॥

अम्लेन मर्दयेद्यामं तेन लिङ्गं तु कारयेत् ।
दोलायन्त्रे सारनाले जम्बीरस्थं दिनं पचेत् ॥ १३५ ॥

तल्लिङ्गं पूजयेन्नित्यं सुशुभैरुपचारकैः ।
लिङ्गकोटिसहस्रस्य यत्फलं सम्यगर्चनात् ॥ १३६ ॥

तत्फलात् कोटिगुणितं रसलिङ्गार्चनाद्भवेत् ।
ब्रह्महत्यासहस्राणि गोहत्यानियुतानि च ॥ १३७ ॥

तत्क्षणाद्विलयं यान्ति रसलिङ्गस्य दर्शनात् ।
स्पर्शनात् प्राप्यते मुक्तिरिति सत्यं शिवोदितम् ॥ १३८ ॥

वाग्मायाश्रीअघोरेण मन्त्रराजेन चार्चयेत् ।
अष्टादशभुजं शुभ्रं पञ्चवक्त्रं त्रिलोचनम् ॥ १३९ ॥

प्रेतारूढं नीलकण्ठं रसलिङ्गं विचिन्तयेत् ।
तस्योत्सङ्गे महादेवीमेकवक्त्रां चतुर्भुजाम् ॥ १४० ॥

अक्षमालाङ्कुशौ दक्षे वामे पाशाभये शुभे ।
दधतीं तप्तहेमाभां पीतवस्त्रां विभावयेत् ॥ १४१ ॥

वाग्मायाश्रीकामराजशक्तिबीजरसाङ्कुशा ।
यै नमो द्वादशार्णेयं जयाविद्या रसाङ्कुशी [Wortteilung unsicher] ॥ १४२ ॥

अनया पूजयेद्देवीं गन्धपुष्पाक्षतादिभिः ।
नन्दिभृङ्गिमहाकालान् कुमारान्सर्वदिक्क्रमात् ॥ १४३ ॥

पूजयेन्नाममन्त्रैस्तु प्रणवादिनमोन्तकैः ।
सर्वान् कामानवाप्नोति पुत्रवान् धनवान् भवेत् ॥ १४४ ॥

पराप्रासाददीक्षा च पारदेश्वरपूजनम् ।
महिम्नःस्तुतिपाठश्च नाल्पस्य तपसः फलम् ॥ १४५ ॥

पराप्रासादमन्त्रेण रसलिङ्गं समर्चयेत् ।
षण्मासाभ्यन्तरेणैव सर्वसिद्धीश्वरो भवेत् ॥ १४६ ॥

इति । हयशीर्षपञ्चरात्रे—

आदिमूर्तिर्वासुदेवः सङ्कर्षणमथासृजत् ।
प्रद्युम्नं चानिरुद्धं च स्वयमेवासृजत्प्रभुः ॥ १ ॥

इति । तथा—

चतुर्मूर्तिः परः प्रोक्त एकैको भिद्यते त्रिधा ।
केशवादिप्रभेदेन मूर्तिद्वादशकं स्मृतम् ॥ १ ॥

पङ्कजं दक्षिणे दद्यात् पाञ्चजन्यं तथोपरि ।
वामोपरि गदा यस्य चक्रं चाधो व्यवस्थितम् ॥ २ ॥

आदिमूर्तेस्तु भेदोऽयं केशवेति प्रकीर्त्यते ।
अधरोत्तरभावेन कृतमेतत्तु यत्र वै ॥ ३ ॥

नारायणाख्या सा मूर्तिः स्थापिता भुक्तिमुक्तिदा ।
सव्याधः पङ्कजं यस्य पाञ्चजन्यं तथोपरि ॥ ४ ॥

दक्षिणोर्ध्वे गदा यस्य चक्रं चाधो व्यवस्थितम् ।
आदिमूर्तेस्तु भेदोऽयं माधवेति प्रकीर्तितः ॥ ५ ॥

दक्षिणाधः स्थितं चक्रं गदा यस्योपरि स्थिता ।
वामोर्ध्वे संस्थितं पद्मं शङ्खं चाधो व्यवस्थितम् ॥ ६ ॥

सङ्कर्षणस्य भेदोऽयं गोविन्देति प्रकीर्तितः ।
दक्षिणोपरि पद्मं तु गदा चाधो व्यवस्थिताः ॥ ७ ॥

वामोर्ध्वे पाञ्चजन्यं च चक्रं चाधो व्यवस्थितम् ।
सङ्कर्षणस्य भेदोऽयं विष्णुरित्यभिधीयते ॥ ८ ॥

दक्षिणोपरि शङ्खं च चक्रं चाधः प्रदर्शयेत् ।
वामोर्ध्वे पङ्कजं यस्य गदा चाधो व्यवस्थिता ॥ ९ ॥

मधुसूदननामायं भेदः सङ्कर्षणस्य तु ।
दक्षिणोर्ध्वे गदा यस्य पङ्कजं चाप्यधः स्थितम् ॥ १० ॥

वामोर्ध्वे संस्थितं चक्रमधः शङ्खः प्रदृश्यते ।
ब्रह्माण्डगं वामपादं दक्षिणं शेषपृष्ठगम् ॥ ११ ॥

बलिबन्धनसंसक्तं वामनं चाप्यधः स्थितम् ।
वामोर्ध्वे कौमुदी यस्य पुण्डरीकमधः स्थितम् ॥ १२ ॥

दक्षिणोर्ध्वे सहस्रारं पाञ्चजन्यमधः स्थितम् ।
सप्ततालप्रमाणेन वामनं कारयेत्सदा ॥ १३ ॥

ऊर्ध्वं दक्षिणतश्चक्रमधः पद्मं व्यवस्थितम् ।
वामोर्ध्वे कौमुदी यस्य पाञ्चजन्यमधः स्थितम् ॥ १४ ॥

पद्मा पद्मकरा वामपार्श्वे यस्य व्यवस्थिता ।
स्थितो वाप्युपविष्टो वा सानुरागो विलासवान् ॥ १५ ॥

प्रद्युम्नस्य तु भेदोऽयं श्रीधरेति प्रकीर्त्यते ।
दक्षिणोर्ध्वे महाचक्रं कौमुदी तदधः स्थिता ॥ १६ ॥

वामोर्ध्वे नलिनं यस्य ह्यधः शङ्खो विराजते ।
हृषीकेश इति ज्ञेयः स्थापितः सर्वकामदः ॥ १७ ॥

दक्षिणोर्ध्वे पुण्डरीकं पाञ्चजन्यमधस्तथा ।
वामोर्ध्वे संस्थितं चक्रं कौमोदी तदधः स्थिता ॥ १८ ॥

पद्मनाभेति सा मूर्तिः स्थापिता मोक्षदायिनी ।
दक्षिणोर्ध्वे पाञ्चजन्यमधस्तात् तु कुशेशयम् ॥ १९ ॥

सव्योर्ध्वे कौमुदी यस्य हेतिराजमधः स्थितम् ।
अनिरुद्धस्य भेदोऽयं दामोदर इति स्थितः ॥ २० ॥

एतेषां तु स्त्रियः कार्याः पद्मवीणाधराः शुभाः ।
इति । सिद्धार्थसंहितायां तु चतुर्विंशतिमूर्तयः उक्ताः—

वासुदेवो गदाशङ्खचक्रपद्मधरो मतः ।
पद्मं शङ्खं तथा चक्रं गदां वहति केशवः ॥ १ ॥

शङ्खं चक्रं गदापद्मं धत्ते नारायणः सदा ।
गदां चक्रं तथा शङ्खं पद्मं वहति माधवः ॥ २ ॥

चक्रं पद्मं तथा शङ्खं गदां च पुरुषोत्तमः ।
पद्मं कौमोदकीं शङ्खं चक्रं धत्ते ह्यधोक्षजः ॥ ३ ॥

सङ्कर्षणो गदाशङ्खपद्मचक्रधरः स्मृतः ।
चक्रं गदां पद्मशङ्खौ गोविन्दो धरते भुजैः ॥ ४ ॥

गदां पद्मं तथा शङ्खं चक्रं विष्णुर्बिभर्ति यः ।
चक्रं शङ्खं तथा पद्मं गदां च मधुसूदनः ॥ ५ ॥

गदां सरोजं चक्रं च शङ्खं धत्तेऽच्युतः सदा ।
शङ्खं कौमोदकीं चक्रमुपेन्द्रः पद्ममुद्वहेत् ॥ ६ ॥

चक्रशङ्खगदापद्मधरः प्रद्युम्न उच्यते ।
पद्मं कौमोदकीं चक्रं शङ्खं धत्ते त्रिविक्रमः ॥ ७ ॥

शङ्खं चक्रं गदां पद्मं वामनो वहते सदा ।
पद्मं चक्रं गदां शङ्खं श्रीधरो वहते भुजैः ॥ ८ ॥

चक्रं पद्मं गदां शङ्खं नरसिंहो बिभर्ति यः ।
पद्मं सुदर्शनं शङ्खं गदां धत्ते जनार्दनः ॥ ९ ॥

अनिरुद्धश्चक्रगदाशङ्खपद्मलसद्भुजः ।
हृषीकेशो गदां चक्रं पद्मं शङ्खं च धारयन् ॥ १० ॥

पद्मनाभो वहेच्छङ्खं पद्मं चक्रं गदां तथा ।
पद्मं चक्रं गदां शङ्खं धत्ते दामोदरः सदा ॥ ११ ॥

शङ्खं चक्रं सरोजं च गदां वहति यो हरिः ।
शङ्खं कौमोदकीं पद्मं चक्रं कृष्णो बिभर्ति यः ॥ १२ ॥

एताश्च मूर्तयो ज्ञेया दक्षिणाधःकरक्रमात् ।
इति । एवमेता विष्णुमूर्तयः शिवलिङ्गं वा शूद्रैः पूजिता ब्राह्मणादिभिर्न पूज्या न नमस्याश्च इत्याहुः । बृहन्नारदीये धर्मभगीरथसंवादे धर्मवाक्यानि—

प्रायश्चित्तविहीनानि पापानि शृणु भूपते ।
सर्वपापानि यान्यत्र तानि त्वं सर्वभूपते ॥ १ ॥

समस्तपापतुल्यानि महानरकदानि च ।
यः शूद्रेणार्चितं लिङ्गं विष्णुं वा प्रणमेद्द्विजः ॥ २ ॥

न तस्य निष्कृतिर्ह्यस्ति प्रायश्चित्तशतैरपि ।
नमेच्च शूद्रसंस्पृष्टलिङ्गं वा हरिमेव वा ॥ ३ ॥

स सर्वयातनाभोगी यावदाचन्द्रतारकम् ।
पाखण्डपूजितं लिङ्गं नत्वा पाखण्डतां व्रजेत् ॥ ४ ॥

सर्ववेदविदो वापि सर्वशास्त्रविदोऽपि वा ।
आभीरपूजितं लिङ्गं नत्वा नरकमश्नुते ॥ ५ ॥

योषिद्भिः पूजितं लिङ्गं विष्णुं वापि नमेत्तु यः ।
स कोटिकुलसंयुक्त आकल्पं रौरवं व्रजेत् ॥ ६ ॥

यदा प्रतिष्ठितं लिङ्गं मन्त्रविद्भिर्यथाविधि ।
तदा प्रभृति शूद्रश्च योषितो वा न संस्पृशेत् ॥ ७ ॥

स्त्रीणामनुपनीतानां शूद्राणां च नरेश्वर ।
स्थापने नाधिकारोऽस्ति विष्णोर्वा शङ्करस्य च ॥ ८ ॥

अर्चितं राजशार्दूल स्वप्ने वापि न पूजयेत् ।
यः शूद्रसंस्कृतं लिङ्गं विष्णुं वापि नमेद्द्विजः ॥ ९ ॥

इहैवात्यन्तदुःखानि पश्यत्यामुष्मिके किमु ।
शूद्रो वानुपनीतो वा स्त्रियो वा पतितोऽपि वा ॥ १० ॥

केशवं शङ्करं वापि स्पृष्ट्वा नरकमश्नुते ।
बौद्धालयं विशेद्यस्तु महापद्यपि च द्विजः ॥ ११ ॥

न तस्य निष्कृतिर्दृष्टा प्रायश्चित्तशतैरपि ।
बौद्धाः पाखण्डिनः प्रोक्ता यतो वेदविनिन्दकाः ॥ १२ ॥

तस्माद्द्विजस्तानेक्षेत यदि देवेषु भक्तिमान् ।
यस्तु संतप्तशङ्खारिलिङ्गाङ्किततनुं नरः ॥ १३ ॥

संभाष्य रौरवं याति यावदिन्द्राश्चतुर्दश ।
चक्राङ्किततनुर्यत्र न तत्र दिवसं वसेत् ॥ १४ ॥

यदि तिष्ठेन्महापापी सहस्रब्रह्महा भवेत् ।
गङ्गास्नानरतो वापि अश्वमेधरतौऽपि वा [Lesung unsicher] ॥ १५ ॥

चक्राङ्किततनुं दृष्ट्वा पश्येत्सूर्यं जपन्नरः ।
जपेत्स पौरुषं सूक्तमन्यथा रौरवं व्रजेत् ॥ १६ ॥

लिङ्गाङ्किततनुं दृष्ट्वा पश्येत्सूर्यं नरेश्वर ।
जपेच्च शतरुद्रियम् अन्यथा रौरवं व्रजेत् ॥ १७ ॥

ब्राह्मणस्य तनुर्ज्ञेया सर्वदेवसमाश्रया ।
सा चेत् संतापिता राजन् किं वक्ष्यामि तदेनसः ॥ १८ ॥

चक्राङ्किततनुर्वापि राजँल्लिङ्गाङ्कितोऽपि वा ।
नाधिकारी परिज्ञेयः श्रौतस्मार्तेषु कर्मसु ॥ १९ ॥

इति । अथ शालग्रामलक्षणानि स्कान्दे—

स्निग्धा कृष्णा पाण्डुरा च पीता नीला तथैव च ।
रक्ता रूक्षा च वक्रा च महास्थूलाप्यलाञ्छिता ॥ १ ॥

कपिला कर्बुरा भग्ना बहुचक्रैकचक्रिका ।
बृहन्मुखी बृहच्चक्रा लग्नचक्राथवा पुनः ॥ २ ॥

मग्नचक्राथवा काचिच्छिद्रचक्राप्यधोमुखी ।
इति । अथैतासां वर्णादिभेदेन गुणदोषौ तत्रैव—

स्निग्धा सिद्धिकरी मन्त्रे कृष्णा कीर्तिं ददाति च ।
पाण्डुरा पापदमनी पीता पुत्रफलप्रदा ॥ १ ॥

नीला संदिशते लक्ष्मीं रक्ता राज्यप्रदायिनी ।
रूक्षा चोद्वेगदा नित्यं वक्रा दारिद्र्यदायिनी ॥ २ ॥

स्थूला निहन्ति चैवायुर्निष्फला तु अलाञ्छिता ।
कपिला कर्बुरा भग्ना बहुचक्रैकचक्रिका ॥ ३ ॥

बृहन्मुखी बृहच्चक्रा लग्नचक्राथवा पुनः ।
मग्नचक्राथवा या स्याच्छिद्रचक्राप्यधोमुखी ॥ ४ ॥

पूजयेच्चेत् प्रमादेन दुःखमेव लभेत सः ।
इति । अग्निपुराणे—

तथा व्यालमुखी भग्ना विषमा बद्धचक्रिका ।
विकारावर्तनाभिश्च नारसिंही तथैव च ॥ १ ॥

कपिला च भ्रमावर्ता रेखावर्ता च या शिला ।
दुःखदा सा तु विज्ञेया सुखदा न कदाचन ॥ २ ॥

स्निग्धा श्यामा तथा शुक्ला पीता वा समचक्रिका ।
घोणीमूर्तिरनन्ताख्या गम्भीरा संपुटा तथा ॥ ३ ॥

सूक्ष्मा मूर्तिश्च सुमुखी पूजिता सिद्धिदायिका ।
धात्रीफलप्रमाणा या करेणोभयसंपुटा ॥ ४ ॥

पूजनीया प्रयत्नेन भक्त्या तां तु प्रपूजयेत् ।
पूजिते फलमाप्नोति इह लोके परत्र वै ॥ ५ ॥

इति । दोषाश्चैते सकामार्चनविषयाः । अत उक्तं श्रीभगवता स्कान्दे—

खण्डितं स्फुटितं भग्नं सालग्रामे न दोषभाक् ।
इष्टा तु यस्य या मूर्तिः स तां यत्नेन पूजयेत् ॥ १ ॥

चक्रं वा केवलं तत्र पद्मेन सह संयुतम् ।
केवला वनमाला वा हरिर्लक्ष्म्या सह स्थितः ॥ २ ॥

मुख्याः स्निग्धादयस्त्वत्र अमुख्या रक्तादयो मताः [Drucklesung मुख्याः am zweiten Satzglied unsicher] ।
मुख्याभावे त्वमुख्या हि पूज्या इत्युच्यते परैः ॥ ३ ॥

इति । अथैतासामेव लक्षणविशेषेण संज्ञाविशेषो ब्राह्मे श्रीभगवद्ब्रह्मसंवादे—

निवसामि सदा ब्रह्मन् सालग्रामाख्यवेश्मनि ।
तत्र च मुख्यचक्राङ्कभेदे नामानि मे शृणु ॥ १ ॥

द्वारदेशे समे चक्रे दृश्येते नान्तरायके ।
वासुदेवः स विज्ञेयः शुक्लाभश्चातिशोभनः ॥ २ ॥

प्रद्युम्नः सूक्ष्मचक्रस्तु पीतदीप्तिस्तथैव च ।
सुषिरं छिद्रबहुलं दीर्घाकारं तु तद्भवेत् ॥ ३ ॥

अनिरुद्धस्तु नीलाभो वर्तुलश्चातिशोभनः ।
रेखाद्वयं तु तद्द्वारि पृष्ठं पद्मेन लाञ्छितम् ॥ ४ ॥

सौभाग्यं केशवो दद्यात् चतुष्कोणो भवेत्तु यः ।
श्यामं नारायणं विद्यान्नाभिचक्रं तथोपरि ॥ ५ ॥

दीर्घरेखासमोपेतं दक्षिणे सुषिरं पृथु ।
ऊर्ध्वं मुखं विजानीयाद्द्वारे च हरिरूपिणम् ॥ ६ ॥

कामदं मोक्षदं चैव हर्षदं च विशेषतः ।
परमेष्ठी च शुक्लाभः पद्मचक्रसमन्वितः ॥ ७ ॥

बिल्वाकृतिस्तथा पृष्ठे सुषिरं वापि पुष्कलम् ।
कृष्णवर्णस्तथा विष्णुः स्थूले चक्रे सुशोभने ॥ ८ ॥

द्वारोपरि तथा रेखा दृश्यते मध्यदेशतः ।
कपिलो नारसिंहस्तु पृथुचक्रः सुशोभनः ॥ ९ ॥

ब्रह्मचर्यधिकारी स्यात् पूजनं नान्यथा भवेत् ।
ब्रह्मचर्येण पूज्योऽसावन्यथा विघ्नदो भवेत् ॥ १० ॥

इति । क्वचिच्च—

कपिलोऽधस्त्रिबिन्दुः स्यात् कपिलः पञ्चबिन्दुकः ।
ब्रह्मचर्येण पूज्यःस्यादन्यथा सर्वविघ्नदः ॥ १ ॥

स्थूलं चक्रद्वयं मध्ये गुडल्लाक्षासवर्णकम् [Lesung unsicher] ।
द्वारोपरि तथा रेखा पूजा कार्या सुशोभना ॥ २ ॥

स्फुटितं विषमं चक्रं नारसिंहं तु कापिलम् ।
संपूज्य मुक्तिमाप्नोति संग्रामे विजयी भवेत् ॥ ३ ॥

इति । पद्मपुराणे, कार्तिकमाहात्म्ये—

यस्य दीर्घं मुखं पूर्वकथितैर्लक्षणैर्युतम् ।
केसराकारिका रेखा नारसिंहो मतः स तु ॥ १ ॥

इति । ब्राह्मे—

वराहं शक्तिलिङ्गे च चक्रे च विषमे स्मृते ।
इन्द्रनीलनिभं स्थूलं त्रिरेखालाञ्छितस्थलम् ॥ १ ॥

इति । पाद्मे च—

वराहाकृतिराभुग्नश्चक्ररेखास्वलङ्कृतः [Lesung unsicher] ।
वाराह इति संप्रोक्तः ।
इति । ब्राह्मे—

दीर्घा काञ्चनवर्णाभा बिन्दुत्रयविभूषिता ।
मत्स्याख्या सा शिला ज्ञेया भुक्तिमुक्तिफलप्रदा ॥ १ ॥

कूर्मस्तथोन्नतः पृष्ठे वर्तुलः परिपूरितः ।
हरितं वर्णमाधत्ते कौस्तुभेन च चिह्नितः ॥ २ ॥

कूर्माकारा च चक्राङ्का शिला कूर्मः प्रकीर्तितः ।
इति । ब्राह्मे—

हयग्रीवोऽङ्कुशाकारो रेखाः पञ्च भवन्ति हि ।
बहुबिन्दुसमाकीर्णो दृश्यते नीलरूपकः ॥ १ ॥

इति । पाद्मे—

हयग्रीवा यथा लम्बरेखा वा या शिला भवेत् ।
तथा सौम्यो हयग्रीवः पूजितो ज्ञानदो भवेत् ॥ १ ॥

अश्वाकृति मुखं यस्य साक्षमालाशिरस्तथा ।
पद्माकृतिर्भवेदपि हयशीर्षस्त्वसौ मतः ॥ २ ॥

वैकुण्ठं नीलवर्णाभं चक्रमेकं तथा ध्वजा ।
द्वारोपरि तथा रेखा पूजा कार्या सुशोभना ॥ ३ ॥

श्रीधरस्तु तथा देवश्चिह्नितो वनमालया ।
कदम्बकुसुमाकारा रेखापञ्चकभूषितः ॥ ४ ॥

वर्तुलश्चातिह्रस्वश्च वामनः परिकीर्तितः ।
अतसीकुसुमप्रख्यो बिन्दुना परिशोभितः ॥ ५ ॥

इति । अन्यत्र च—

वामनाख्यो भवेद्देवो ह्रस्वो यः स्यान्महाद्युतिः ।
वामपार्श्वे गदाचक्रं रेखं चैव तु दक्षिणे ॥ १ ॥

इति । पाद्मे—

चक्राकारेण पङ्क्तिः सा यत्र रेखामयी भवेत् ।
स सुदर्शन इत्येवं ख्यातः पूजाफलप्रदः ॥ १ ॥

दामोदरस्तथा स्थूलो मध्ये चक्रं प्रतिष्ठितम् ।
द्वारोर्ध्वं द्वारि संकीर्णे पीता रेखा तथैव च ॥ २ ॥

उपर्यधश्च चक्रे द्वे नातिदीर्घं मुखे बिलम् ।
मध्ये च रेखा लम्बिका सा च दामोदरः स्मृतः ॥ ३ ॥

इति । अन्यत्र च—

स्थूलो दामोदरो ज्ञेयः सूक्ष्मरन्ध्रो भवेत्तु यः ।
चक्रे च मध्यदेशस्थे पूजितः सुमुखः सदा ॥ १ ॥

नानावर्णोऽनन्ताख्यो नागभोगेन चिह्नितः ।
अनेकचक्रसंभिन्नः सर्वकामफलप्रदः ॥ २ ॥

अनेकचक्रो बहुभिश्च रेखाभिरुपलक्षितः ।
अनन्तः स तु विज्ञेयः सर्वपूजाफलप्रदः ॥ ३ ॥

विद्धि दिक्षु सर्वासु यस्योर्ध्वे दृश्यते मुखम् ।
पुरुषोत्तमः स विज्ञेयो भुक्तिमुक्तिफलप्रदः ॥ ४ ॥

दृश्यते शिखरे लिङ्गं शालग्रामसमुद्भवम् ।
तस्य योगीश्वरो नाम ब्रह्महत्यां व्यपोहति ॥ ५ ॥

आ (रहस्यं ? राध्यं) पद्मनाभाख्यं पङ्कजच्छत्रसंयुतम् ।
तुलस्या पूजयेन्नित्यं दरिद्रस्त्वीश्वरो भवेत् ॥ ६ ॥

चन्द्राकृति हिरण्याख्यं रश्मिजालं विनिर्दिशेत् ।
सुवर्णरेखाबहुलं स्फाटिकद्युतिशोभितम् ॥ ७ ॥

इति । पाद्मे—

वज्रकीटोद्भवा रेखाः पङ्क्तिभूताश्च यत्र वै ।
सालग्रामशिला या सा विष्णुपञ्जरसंज्ञिता ॥ १ ॥

नागवत् कुण्डलीभूतरेखापङ्क्तिः स शेषकः ।
पद्माकारे तु पङ्क्ती द्वे मध्ये लम्बा च रेखिका ॥ २ ॥

गरुडः स तु विज्ञेयश्चतुश्चक्रो जनार्दनः ।
चतुश्चक्रः सूक्ष्मद्वारि वनमालाङ्कितोदरः ॥ ३ ॥

लक्ष्मीनारायणः श्रीमान् भुक्तिमुक्तिफलप्रदः ।
अर्धचन्द्राकृतिर्देवो हृषीकेश उदाहृतः ॥ ४ ॥

तमभ्यर्च्य लभेत् स्वर्गं विषयांश्च समीहितान् ।
वामपार्श्वे समे चक्रे कृष्णवर्णः सबिन्दुकः ॥ ५ ॥

लक्ष्मीनृसिंहो विख्यातो भुक्तिमुक्तिफलप्रदः ।
त्रिविक्रमस्तथा देवः श्यामवर्णो महाद्युतिः ॥ ६ ॥

वामपार्श्वे तथा चक्रे रेखा चैव तु दक्षिणे ।
प्रदक्षिणावर्तकृतवनमालाविभूषितः ॥ ७ ॥

या शिला कृष्णसंज्ञा सा धनधान्यसमृद्धिदा ।
चतस्रो यस्य दृश्यन्ते रेखाः पार्श्वे समीपगाः ॥ ८ ॥

द्वे चक्रे मध्यदेशे तु सा शिला तु चतुर्मुखा ।
इति । तथा—

एतल्लक्षणयुक्तास्तु सालग्रामशिलाः शुभाः ।
याश्च तास्वपि सूक्ष्माः स्युस्ताः प्रशस्ततराः स्मृताः ॥ १ ॥

इति । तथा च श्रीभगवद्ब्रह्मसंवादे तत्रैव—

यथा यथा शिला सूक्ष्मा महत्पुण्यं तथा तथा ।
तस्मात्तां पूजयेन्नित्यं धर्मकामार्थसिद्धये ॥ १ ॥

तत्राप्यामलकीतुल्या सूक्ष्मा चातीव या भवेत् ।
तस्यामेव सदा ब्रह्मन् श्रिया सह वसाम्यहम् ॥ २ ॥

इति । अथ सालग्रामशिलायां हरिपूजामाहात्म्यं पाद्मे माघमाहात्म्ये—

यः पूजयेद्धरिं चक्रे शालग्रामशिलोद्भवे ।
राजसूयसहस्रेण तेनेष्टं प्रतिवासरम् ॥ १ ॥

यदामनन्ति वेदान्ता ब्रह्म निर्गुणमच्युतम् ।
तत्प्रसादो भवेन्नृणां शालग्रामशिलार्चनात् ॥ २ ॥

महाकाष्ठस्थितो वह्निर्मथ्यमानः प्रकाशते ।
अपि पापसमाचाराः कर्मण्यनधिकारिणः ॥ ३ ॥

शालग्रामार्चका वैश्य नैव यान्ति यमालयम् ।
न तथा रमते लक्ष्म्या न तथा स्वपुरे हरिः ॥ ४ ॥

शालग्रामशिलाचक्रे यथा स रमते सदा ।
अग्निहोत्रं हुतं तेन दत्ता पृथ्वी ससागरा ॥ ५ ॥

येनार्चितो हरिश्चक्रे शालग्रामशिलोद्भवे ।
कामक्रोधमदलोभैर्व्याप्तो योऽत्र नराधमः ॥ ६ ॥

सोऽपि याति हरेर्लोकं सालग्रामशिलार्चनात् ।
यः पूजयति गोविन्दं शालग्रामे सदा नरः ॥ ७ ॥

आभूतसंप्लवं यावन्न स प्रच्यवते दिवः ।
विना तीर्थैर्विना दानैर्विना यज्ञैर्विना मखैः ॥ ८ ॥

मुक्तिं यान्ति नरा वैश्य शालग्रामशिलार्चनात् ।
नरकं गर्भवासं च न तिर्यक्कृमियोनिकम् ॥ ९ ॥

न याति वैश्य पापोऽपि शालग्रामेऽच्युतार्चकः ।
दीक्षाविधानमन्त्रज्ञश्चक्रे यो बलिमाहरेत् ॥ १० ॥

स याति वैष्णवं धाम सत्यं सत्यं मयोदितम् ।
नैवेद्यैर्विविधैः पुष्पैर्धूपदीपविलेपनैः ॥ ११ ॥

गीतवादित्रस्तोत्राद्यैः शालग्रामशिलार्चनम् ।
कुरुते मानवो यस्तु कलौ भक्तिपरायणः ॥ १२ ॥

कल्पकोटिसहस्राणि रमते संनिधौ हरेः ।
लिङ्गैस्तु कोटिभिर्दृष्टैर्यत्फलं पूजितैश्च तैः ॥ १३ ॥

सालग्रामशिलायास्तु एकेनापीह तत्फलम् ।
सालग्रामशिलारूपी यत्र तिष्ठति केशवः ॥ १४ ॥

तत्र देवासुरा यक्षा भुवनानि चतुर्दश ।
सालग्रामशिलायां तु यः श्राद्धं कुरुते नरः ॥ १५ ॥

पितरस्तत्र तिष्ठन्ति तृप्ताः कल्पशतं दिवि ।
सालग्रामसमीपे तु क्रोशमात्रं समन्ततः ॥ १६ ॥

कीटकोऽपि मृतो याति वैकुण्ठं किमु मानुषः ।
सालग्रामशिलाचक्रं यो दद्याद्दानमुत्तमम् ॥ १७ ॥

भूचक्रं तेन दत्तं स्यात् सशैलवनकाननम् ।
इति । स्कान्दे शिवस्कन्दसंवादे—

सालग्रामशिलायां तु त्रैलोक्यं सचराचरम् ।
मया सह महासेन लीनं तिष्ठति सर्वदा ॥ १ ॥

दृष्टा प्रणामिता येन स्नापिता पूजिता तथा ।
पुण्यकोटिसमं पुण्यं गवां कोटिफलं लभेत् ॥ २ ॥

कामासक्तोऽपि यो नित्यं भक्तिभावविवर्जितः ।
सालग्रामशिलां पुत्र संपूज्यैवाच्युतो भवेत् ॥ ३ ॥

सालग्रामशिलाबि(म्बे? म्बं) हत्याकोटिविनाशनम् ।
स्मृतं संकीर्तितं ध्यातं पूजितं च नमस्कृतम् ॥ ४ ॥

सालग्रामशिलां दृष्ट्वा यान्ति पापान्यनेकशः ।
सिंहं दृष्ट्वा यथा यान्ति वने मृगगणा भयात् ॥ ५ ॥

मनः करोति मनुजः शालग्रामशिलार्चने ।
पापानि विलयं यान्ति तमः सूर्योदये यथा ॥ ६ ॥

कामासक्तोऽथवा क्रुद्धः सालग्रामशिलार्चनम् ।
भक्त्या वा यदि वाभक्त्या कृत्वा मुक्तिमवाप्नुयात् ॥ ७ ॥

वैवस्वतभयं नास्ति तथा मरणजन्मनोः ।
यः कथां कुरुते विष्णोः सालग्रामशिलाग्रतः ॥ ८ ॥

गीतैर्वाद्यैस्तथा स्तोत्रैः सालग्रामशिलार्चनम् ।
कुरुते मानवो यस्तु कलौ भक्तिपरायणः ॥ ९ ॥

कल्पकोटिसहस्राणि रमते विष्णुसद्मनि ।
सालग्रामे नमस्कारो भवेनापि नरैः कृतः ॥ १० ॥

भयं नैव करिष्यन्ति मद्भक्ता ये नरा भुवि ।
मद्भक्तिबलदर्पिष्ठा मत्सखं न नमन्ति ये ॥ ११ ॥

वासुदेवं न ते ज्ञेया मद्भक्ताः पापिनो हि ते ।
सालग्रामशिलायां तु सदा पुत्र वसाम्यहम् ॥ १२ ॥

दत्तं देवेन तुष्टेन स्वस्थानं नाम भक्तितः ।
पद्मकोटिसहस्रैस्तु पूजिते मयि यत्फलम् ॥ १३ ॥

तत्फलं कोटिगुणितं सालग्रामशिलार्चने ।
पूजितोऽहं न तैर्मर्त्यैर्नमितोऽहं न तैर्नरैः ॥ १४ ॥

न कृतं मर्त्यलोके यैः सालग्रामशिलार्चनम् ।
सालग्रामशिलाग्रे तु यः करोति ममार्चनम् ॥ १५ ॥

तेनार्चितोऽहं सततं युगानामेकसप्ततिः ।
किमर्चितैर्लिङ्गशतैर्विष्णुभक्तिविवर्जितैः ॥ १६ ॥

सालग्रामशिलाबिम्बं नार्चितं यदि पुत्रक ।
अन्नं मम नैवेद्यं पत्रं पुष्पं फलं जलम् ॥ १७ ॥

सालग्रामशिलालग्नं सर्वं याति पवित्रताम् ।
यो हि माहेश्वरो भूत्वा वैष्णवं लिङ्गमुत्तमम् ॥ १८ ॥

द्वेष्टि वै याति नरकं यावदिन्द्राश्चतुर्दश ।
सकृदभ्यर्चिते विष्णौ सालग्रामसमुद्भवे ॥ १९ ॥

मुक्तिं प्रयान्ति मनुजा नूनं सांख्येन वर्जिताः ।
मल्लिङ्गैः कोटिभिर्दृष्टैर्यत्फलं पूजितैस्तु तैः ॥ २० ॥

सालग्रामशिलायां तु एकेनापीह तद्भवेत् ।
तस्माद्भक्त्या च मद्भक्तैः प्रीत्यर्थं मम पुत्रक ॥ २१ ॥

कर्तव्यं सततं भक्त्या सालग्रामशिलार्चनम् ।
सालग्रामशिलारूपी यत्र तिष्ठति केशवः ॥ २२ ॥

तत्र देवासुरा यक्षा भुवनानि चतुर्दश ।
सालग्रामशिलाग्रे तु सकृत्पिण्डेन तर्पिताः ॥ २३ ॥

वसन्ति पितरस्तस्य न संख्या तत्र विद्यते ।
प्रमाणमस्ति सर्वस्य सुकृतस्य हि पुत्रक ॥ २४ ॥

[पाठान्तराणि: १७ मानुषः—भवनं नरः इति ग.; स्कान्द १० सद्मनि—धामनि इति ग.]

फलं प्रमाणहीनं तु सालग्रामशिलार्चने ।
यो ददाति शिलां विष्णोः सालग्रामसमुद्भवाम् ॥ २५ ॥

विप्राय विष्णुभक्ताय तेनेष्टं बहुभिर्मखैः ।
मानुष्ये दुर्लभे लोके सालग्रामशिला नरैः ॥ २६ ॥

प्राप्यते न विना पुण्यैः कलिकाले विशेषतः ।
स धन्यः पुरुषो लोके सफलं तस्य जीवितम् ॥ २७ ॥

सालग्रामशिला शुद्धा गृहे यस्य च पूजिता ।
संनियम्येन्द्रियग्रामं सालग्रामशिलार्चनम् ॥ २८ ॥

यः कुर्यान्मानवो भक्त्या स याति परमं पदम् ।
भक्त्या वा यदि वाभक्त्या यः करोति स पुण्यभाक् ॥ २९ ॥

द्वेषेणापि च लोभेन दम्भेन कपटेन वा ।
सालग्रामोद्भवं देवं दृष्ट्वा पापात् प्रमुच्यते ॥ ३० ॥

अशुचिर्वा दुराचारः सत्यशौचविवर्जितः ।
सालग्रामशिलां स्पृष्ट्वा स एव शुचिर्भवेत् ॥ ३१ ॥

तिलप्रस्थशतं भक्त्या यो ददाति दिने दिने ।
तत्फलं स समाप्नोति सालग्रामशिलार्चने ॥ ३२ ॥

पत्रं पुष्पं फलं मूलं तोयं दूर्वाक्षताः सुत ।
जायते मेरुणा तुल्यं सालग्रामशिलार्पितम् ॥ ३३ ॥

विधिहीनोऽपि यः कुर्यात् क्रियामन्त्रविवर्जितः ।
चक्रपूजामवाप्नोति सम्यक् शास्त्रोदितं फलम् ॥ ३४ ॥

इति । तत्रैवान्यत्र—

स्कन्धे कृत्वा तु योऽध्वानं वहते शैलनायकम् ।
तेनोढं तु भवेत् सर्वं त्रैलोक्यं सचराचरम् ॥ १ ॥

ब्रह्महत्यादिकं पापं यत्किञ्चित् कुरुते नरः ।
तत्सर्वं निर्दहत्याशु सालग्रामशिलार्चनम् ॥ २ ॥

न पूजनं न मन्त्राश्च न जपो नच भावना ।
न स्तुतिर्नोपस्काराश्च सालग्रामशिलार्चने ॥ ३ ॥

सालग्रामशिला यत्र तत्तीर्थं योजनत्रयम् ।
तत्र दानं च होमश्च सर्वं कोटिगुणं भवेत् ॥ ४ ॥

सालग्रामशिलायां तु यः श्राद्धं कुरुते नरः ।
पितरस्तस्य तिष्ठन्ति तृप्ताः कल्पशतं दिवि ॥ ५ ॥

सालग्रामसमीपे तु क्रोशमात्रं समन्ततः ।
कीटकोऽपि मृतो याति वैकुण्ठभवनं नरः ॥ ६ ॥

शालग्रामशिलाचक्रं यो दद्याद्दानमुत्तमम् ।
भूचक्रं तेन दत्तं स्यात् सशैलवनकाननम् ॥ ७ ॥

इति । गरुडपुराणे—

तिष्ठन्ति नित्यं पितरो मनुष्यास्तीर्थाग्निगङ्गागयपुष्कराणि ।
यज्ञाश्वमेधाद्यपि पुण्यशैलाश्चक्राङ्किता यस्य वसन्ति गेहे ॥ १ ॥

इति । पाद्मे—

सालग्रामशिलायां तु यैर्नरैः पूजितो हरिः ।
संशोध्य तेषां पापानि मुक्त्यै बुद्धिदा भवेत् ॥ १ ॥

कार्तिके मथुरायां तु सारूप्यं दृश्यते हरिः ।
सालग्रामशिलायां वै पितॄनुद्दिश्य पूजितः ॥ २ ॥

कृष्णः समुद्धरेत्तस्य पितॄनेतान् सलोकताम् ।
इति । बृहन्नारदीये—

सालग्रामशिलारूपी यत्र तिष्ठति केशवः ।
न बाधन्तेऽसुरास्तत्र भूतवेतालकादयः ॥ १ ॥

सालग्रामशिला यत्र तत्तीर्थं तत्तपोवनम् ।
शतं वा पूजितं भक्त्या तदा स्यादधिकं फलम् ॥ २ ॥

इति । अथ तासां बाहुल्ये फलविशेषः पाद्मे—

[पाठान्तराणि: स्कान्द ३१ स एव—सर्व इति क.; बृहन्नारदीय २ शतं—नात् [Lesung der Variante unsicher] इति क.]

सालग्रामा युगाः पूज्या युगेषु द्वितयं नहि ।
अयुग्मा नैव पूज्यन्ते अयुग्मेष्वेक एव हि ॥ ३ ॥

शिला द्वादश भो वैश्य सालग्रामसमुद्भवाः ।
विधिवत् पूजिता येन तस्य पुण्यं वदामि ते ॥ ४ ॥

कोटिद्वादशलिङ्गैस्तु पूजितैः स्वर्णपङ्कजैः ।
यत् स्याद् द्वादशकल्पैस्तु दिनेनैकेन तद्भवेत् ॥ ५ ॥

यः पुनः पूजयेद्भक्त्या सालग्रामशिलाशतम् ।
तत्फलं नैव शक्नोऽहं वक्तुं कल्पशतैरपि ॥ ६ ॥

इत्याद्यास्तां विस्तरः । अत्र केचित् सालग्रामे विष्णोर्नावाहनं कार्यमिति वदन्ति, तत्र प्रमाणं चिन्त्यं वस्तुतस्तु स्कन्दपुराणादिदर्शनादावाहनमवश्यं कार्यमिति प्रतीयते । यथा स्कन्दपुराणे—

विप्रः पूर्वं निजे देहे स्मृत्युक्तेन न्यसेद्बुधः ।
ततस्तु प्रतिमायां च सालग्रामे विशेषतः ॥ १ ॥

क्रमेण च ततः पश्चात् कुर्यादावाहनादिकम् ।
आवाहयेच्च पुरतो ध्यानसेव्यं द्विजोत्तमः ॥ २ ॥

इति । अत एवावाहनाद्युद्वासनान्तमभिधायोक्तं बौधायनेन—“सालग्रामे प्रतिमास्वग्नावप्यावाहनादिविसर्जनं” मिति त्रैलोक्यसंमोहनतन्त्रे—‘सालग्राम’ इत्युपक्रम्य विसर्जनान्ता पूजोक्ता । अत्र—“सालग्रामशिलायां तु प्रतिष्ठां नैव कारयेत्” इति प्रतिष्ठामात्रनिषेधादावाहनमावश्यकं विष्णोरन्यदेवतानां चाविरुद्धमिति । “आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत्” ॥ इति भागवतेऽपि भगवता स्वयमभिधानात् । आदिपदेन मन्त्रादयो गृह्यन्ते । तथा मेरुतन्त्रेऽपि सालग्रामशिलालक्षणे—

विष्णोर्भेदा इमे प्रोक्ता अत्रैवावाहयेद्धरिम् ।
विसर्जयेत् तु पूजान्ते प्रतिष्ठां नात्र कारयेत् ॥ १ ॥

इति । आवाहनस्वरूपमुक्तं सिद्धान्तशेखरे—

स्वत एव प्रपूर्णस्य तत्तस्यैवार्चनादिषु ।
सादरं संमुखीभावस्तदावाहनमिष्यते ॥ १ ॥

इति । तत्पर्यायमाह शारदातिलके—

मूलमन्त्रं समुच्चार्य सुषुम्नावर्त्मना सुधीः ।
आनीय तेजः स्वस्थानान्नासिकारन्ध्रनिर्गतम् ॥ १ ॥

करस्थमातृकाम्भोजे चैतन्यं पुष्पसंचये ।
संयोज्य ब्रह्मरन्ध्रेण मूर्तावावाहयेत् सुधीः ॥ २ ॥

इति । सुषुम्नावर्त्मना ब्रह्मरन्ध्रेण दक्षिणनासारन्ध्रनिर्गतमिति । गरुडपुराणे—“आगच्छेति प्रयोगेण मूलमन्त्रेण शङ्कर” । आवाहनं प्रकर्तव्यमिति । नृसिंहपुराणे—“आगच्छ नरसिंहे”ति । तन्त्रान्तरे—

आवाहनं स्थापनं च संनिधापनमेव च ।
संनिरोधनमित्युक्तं संमुखीकरणं ततः ॥ १ ॥

अथावगुण्ठनं प्रोक्तं सकलीकरणं ततः ।
अमृतीकरणं चैव परमीकरणं तथा ॥ २ ॥

विधाय स्वस्वमुद्राभिः प्राणस्थापनमाचरेत् ।
इति । सकलीकरणस्वरूपं च सिद्धान्तशेखरे—

अविभिन्नस्वभावानां यदभिन्नप्रयोजनम् ।
अङ्गानामङ्गिना सार्धं सकलीकरणं विदुः ॥ १ ॥

इति । श्रीकुलार्णवे—

पीठे देवं प्रतिष्ठाप्य सकलीकृत्य मन्त्रवित् ।
मूलमन्त्रेण दीप्तिन्या मालिन्यार्घ्योदकेन च ॥ १ ॥

त्रिवारं प्रोक्षयेद्विद्वान् देवशुद्धिरियं प्रिये ।
पञ्चशुद्धिं विधायेत्थं पश्चाद्यजनमारभेत् ॥ २ ॥

सा पूजा सफला देवि चान्यथा निष्फला भवेत् ।

[पाठान्तरम्: पूज्या—ज्या इति क. (gedruckte Kurzangabe).]

इति । तथा—

वाग्भवं वदयुग्मान्ते वाग्वादिनि च वाग्भवम् ।
कामराजं ततः क्लिन्ने क्लेदिनि क्लेदयेति च ॥ १ ॥

महाक्षोभं कुरुयुगं कामराजमतः परम् ।
तार्तीयं मोक्षशब्दान्ते कुरुयुग्मं वदेत्ततः ॥ २ ॥

स्यात् प्रासादपराम्बान्ते सप्तत्रिंशदक्षरः ।
दीपिनीमनुरित्युक्तः सर्वसिद्धिकरः प्रिये ॥ ३ ॥

इति । चकारात् कुरुयुग्मान्ते तार्तीयं तदन्ते पराप्रासादबीजमित्यर्थः । सप्तत्रिंशदक्षर इत्युक्तेः । वाग्भवकामराजतार्तीयानि बालाविद्याया एव, सा त्वत्र वक्ष्यते । पराप्रासादबीजं तु पुरस्तात्प्रयोगे अस्यैव मन्त्रस्यान्ते द्रष्टव्यम् । तथा—

सकलीकृत्य तत्प्राणांस्तदीयानीन्द्रियाणि च ।
प्रतिष्ठाप्यार्चयेद् देवमन्यथा निष्फलं भवेत् ॥ १ ॥

इति । अत्र केचित्—“अस्मिन्प्राणप्रतिष्ठां तु प्रतिमापूजनादृते । न क्वचित्तु बुधः कुर्यात्कृत्वा मृत्युमवाप्नुयात्” ॥ इत्युत्तरतन्त्रवचनात्प्राणप्रतिष्ठा न कार्येत्याहुः । तन्न तस्य वचनस्यावाहनादिरहितस्य स्थण्डिलादेः पूजनविषयत्वात् । अत एवोक्तं तत्रैव—“प्रतिमापूजनादृते” इति । प्रतिमा मूर्तिस्तस्यां मन्त्रमय्यामपि तथात्वात् । अन्यथा कथं सकलीकरणमिति । उत्तरतन्त्रे—“मुद्रां प्रदर्श्य विधिवदुपचारान्प्रकल्पयेत्” ॥ मुद्रास्तत्तत्कल्पोक्तास्तास्त्वत्र वक्ष्यन्ते । कुलमूलावतारे—

मुदं स्वरूपलाभाख्यां देहद्वारेण वात्मनः ।
या दर्शयन्त्ययत्नेन मुद्रास्ताः परिकीर्तिताः ॥ १ ॥

मोचयन्ति ग्रहादिभ्यो पापौघं द्रावयन्ति च ।
मोचनं द्रावणं यस्मान्मुद्रा शास्त्रेषु वर्णिता ॥ २ ॥

इति मुद्राशब्दनिरुक्तिः । प्रपञ्चसारे—

आसने स्वागते चार्घ्ये पाद्ये साचमनीयके ।
मधुपर्काचमस्नानवसनाभरणान्यपि ॥ १ ॥

सुगन्धसुमनोधूपदीपनैवेद्यचन्दनम् ।
प्रयोजयेदर्चनायामुपचारास्तु षोडश ॥ २ ॥

अर्घ्यपाद्ये साचमने मधुपर्काचमान्यपि ।
गन्धादयो निवेद्यान्ता उपचारा दश क्रमात् ॥ ३ ॥

गन्धादयो निवेद्यान्ता पूजा पञ्चोपचारिका ।
सपर्यास्त्रिविधाः प्रोक्तास्तासामेकतमां श्रयेत् ॥ ४ ॥

इति । अत्र पञ्चोपचारपूजापक्षे अर्घ्यादिस्थापनं नास्ति प्रयोजनाभावात् । भैरवीतन्त्रे—“एकैकस्यां ततो मन्त्री प्रणम्य तु निवेदयेत् ।” तन्निवेदनप्रकारमाह नारदपञ्चरात्रे—

प्रणवान्ते त्रिधा कृत्वा प्राणं व्योमविभूषितम् ।
इदमिदमिदं पश्चात्पदं दद्यात्षडक्षरम् ॥ १ ॥

गृहाण च ततः स्वाहा मन्त्रः पञ्चदशाक्षरः ।
योज्यः सर्वोपचारेषु पाद्यादिषु सदैव हि ॥ २ ॥

इति । प्राणं हकारः । व्योम बिन्दुः । अत्र तृतीयहकारोपरिस्थितबिन्दोरिकारेण सह सन्धिः कार्यस्तदा तु भवति । उत्तरतन्त्रे—

मूलेनैवासनं दद्यात् तेन स्वागतमीरयेत् ।
ततोऽर्घ्यं मूर्ध्नि दद्यात् स्वाहामन्त्रेण मन्त्रवित् ॥ १ ॥

पादाब्जे देवतायास्तु हृदा पाद्यं प्रकल्पयेत् ।
दद्यादाचमनं वक्त्रे देवतायाः सुधाणुना ॥ २ ॥

सुधामन्त्रेण दद्याच्च मधुपर्कं मुखाम्बुजे ।
इति । अत्रार्घ्याचमनीयमधुपर्कमुख्येष्वपि शूद्रैर्नमःपदमेव स्वाहादिस्थाने प्रयोक्तव्यं प्रागुक्तयुक्तेः । अन्यत्र—“वैदिको मिश्रितो वापि विप्रादीनां विधीयते । तान्त्रिको विप्रभक्तस्य शूद्रस्यापि प्रकीर्तितः ॥” इति

पद्मपुराणवचनाद्ब्राह्मणक्षत्रियवैश्यैर्गणेशादिपञ्चदेवतानां तत्तद्वैदिकमन्त्रेण प्रथमं पूजां कृत्वा ततस्तत्तत्तान्त्रिकमन्त्रेण पूजा कार्या । केवलतान्त्रिकयजनस्य शूद्रविषयत्वादुक्तवचनात् ।
कदाचिदपि न त्याज्यो वेदमार्गो द्विजैः सदा ।
वेदच्युतानां विप्रत्वं देवत्वं चापि दुर्लभम् ॥ १ ॥

वेदः कर्तुं तु नो शक्यस्तन्त्राणि तु युगे युगे ।
कल्मषं संभवेधैर्येनात्रा [Lesung unsicher] कीर्तिताः सदा ॥ २ ॥

कलिना प्रेरिता विप्रास्तन्त्रपथगामिनः ।
कामलोभादिभिर्ग्रस्ता ब्राह्मण्येन विदारिताः ॥ ३ ॥

म्लेच्छास्ते ते भविष्यन्ति क्षीणपुण्याश्च रौरवे ।
पतिष्यन्तीति विज्ञाय न वै वैदिकमुत्सृजेत् ॥ ४ ॥

इति । तत्र वैदिकमन्त्रास्तु—“गणानां त्वा” इति गणपतेः । “गौरीर्मिमाय” इति भुवनेश्वर्यादिगौरीभेदानाम् । “यद्वाक्” इति भारत्याः । श्रीसूक्तं लक्ष्म्याः । “जातवेदसे सुनवाम” इति दुर्गायाः । विष्णोः पुरुषसूक्तम् । रवेः “आकृष्णेन” इति । शिवस्य “नमः शम्भवे” इति “त्र्यम्बकं यजामहे” इति वा । गणानां त्वेति गृत्समदो गणपतिर्जगती । गौरीर्मिमायेति जगती दीर्घतमाः । आकृष्णेनेति हिरण्यस्तूपः सविता त्रिष्टुप् ॥ अथोपचाराः, तत्रादावासनानि—

देवस्य वामभागे तु दद्यान्मूलेन चासनम् ।
पौष्पं दारुमयं वारं [Lesung unsicher] चार्मं कौशेयतैजसम् ॥ १ ॥

षड्विधमासनं प्रोक्तम् ।
इति । उत्तरतन्त्रे—

पौष्पं पुष्पादिरचितं कुशसूत्रादिसंयुतम् ।
अतिप्रीतिकरं देव्या ममाप्यन्यस्य भैरव ॥ १ ॥

यज्ञदारुसमुद्भूतमासनं चाव्रणं शुभम् ।
अन्यदारुभवं वापि दद्यादासनमुत्तमम् ॥ २ ॥

सकीटकक्षीरयुतं दारुसारविवर्जितम् ।
चैत्यश्मशानसंभूतं वर्जयित्वा विभीतकम् ॥ ३ ॥

इति । चैत्यो ग्रामप्रसिद्धिहेतुभूतो महान् वृक्षः । दारुमयासने विशेषमाह रुद्रयामले—

शाण्डिल्यभद्रसारस्य चासनं हस्तमात्रकम् ।
सप्ताङ्गुलोच्छ्रितं दद्याद्विष्टरं वा विचक्षणः ॥ १ ॥

शाण्डिल्यो बिल्वः । “बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि” इत्यमरः ॥ भद्रसारश्चन्दनः । “भद्रसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम्” मित्यमरः ॥ विष्टरो दर्भमुष्टिः । सप्तविंशतिदर्भाणां वेष्ट्यग्रे ग्रन्थिभूषितम् । विष्टरं सर्वयज्ञेषु लक्षणं परिकीर्तितम् ॥ इति । यद्वा विष्टरशब्दस्त्वासनमात्रवाची “विष्टरो विटपे दर्भमुष्टौ पीठाद्यमासने” मिति हि कोशः । उत्तरतन्त्रे—

कोशजं वाल्कलं शाणवस्त्रमेतत्त्रयं स्मृतम् ।
रोमजं कम्बलं चैव बादरं च चतुष्टयम् ॥ १ ॥

वासेषु कम्बलं श्रेष्ठमासनं देवतुष्टये ।
वासमासनचतुष्टयमित्यर्थः । बादरं कार्पासम् । “कार्पासं बादरं च त” दिति विश्वप्रकाशकोशाच्च । तथा—

सिंहव्याघ्रतरक्षूणां छागस्य महिषस्य च ।
गजानां च तुरङ्गाणां कृष्णसारस्य चर्मभिः ॥ १ ॥

राङ्कवं रोमजं श्रेष्ठं दारवं चन्दनोद्भवम् ।
राङ्कवं रङ्कुनामा मृगः काश्मीरदेशे प्रसिद्धः तद्रोमजं “पामरी” इति लोके प्रसिद्धा कम्बलविशेषः । तथा—

यच्चासनं कुशमयं तदासनमनुत्तमम् ।
योगपीठस्य सदृशमासनं कौशमुच्यते ॥ १ ॥

इति । तथा—

सर्वेषां तैजसानां चाप्यासनं श्रेष्ठमुच्यते ।
वर्जयित्वा लोहमयं कांस्यं सीसकमेव च ॥ १ ॥

इति । अतः परमार्घ्यदानं, तच्च देवस्य शिरोदेशायैव शिरसि देयम् । नैवं पित्रर्घ्येणाव्याप्तिर्विप्रकरे दानादिति वाच्यं, तस्य पितॄणां शिरोदेशायैव तत्र दानादिति सोमशम्भुः—

आगताय तथाचार्यां स्नातुमासनगाय च ।
पूजितागन्तुकामाय दद्यादर्घ्यं विचक्षणः ॥ १ ॥

आगते स्नानकाले च नैवेद्योपक्रमे तथा ।
पाद्यस्यापि सकृदिष्टः समयस्त्रिविधो बुधैः ॥ २ ॥

पाद्ये च मधुपर्के च स्नाने वस्त्रोपवीतयोः ।
भोजने चाचमं दद्यात् ।
इति । तृणोयागे [Werktitel unsicher]—

सुगन्धतैलैरभ्यर्च्य सुगन्धामलकादिभिः ।
उद्वर्तनं विधायाथ तर्पयित्वार्थ्य [Lesung unsicher] वारिणा ॥ १ ॥

गन्धोदकैश्च मूलेन यथाशक्त्याभिषेचयेत् ।
महाभिषेकं सर्वत्र शंखेनैव प्रकल्पयेत् ॥ २ ॥

सर्वमन्त्रे प्रशस्तोऽब्जः शिवसूर्यार्चनं विना ।
इति । अब्जः शंखः । अगस्त्यः—

स्नानं पुरुषसूक्तेन शुद्धशंखोदकेन च ।
क्षीरदध्याज्यमधुभिः खण्डेन च पृथक् पृथक् ॥ १ ॥

नारिकेलोदकेनापि तथा तालफलाम्बुना ।
गन्धद्रव्यैश्च मधुभिस्तथा गन्धोदकेन च ॥ २ ॥

ऐक्षवेणोदकेनापि सकर्पूरादिगन्धिना ।
कदलीपनसाम्रोत्थजलेनापि सुगन्धिना ॥ ३ ॥

शतं सहस्रमयुतं शक्त्या वाप्यभिषेचयेत् ।
शंखं संपूज्य तेनैव सपुष्पेण रघूत्तम ॥ ४ ॥

सकृष्णागुरुधूपेन धूपयेदन्तरान्तरम् ।
ततः शुद्धजलेनैव स्नापयेत् तमनन्यधीः ॥ ५ ॥

इति । अत्र शिवस्य शंखेन स्नपनं निषिद्धं, पुराणे तु शंखेन स्नपनं प्रशस्तं श्रूयते । स्कान्दे—

सुप्रतिष्ठितशंखस्थैस्तीर्थैः पञ्चामृतैरपि ।
अभिषिच्य महादेवं रुद्रसूक्तैः समाहितः ॥ १ ॥

इति । यामले—

पीतं कौशेयवसनं विष्णुप्रीत्यै प्रकीर्तितम् ।
रक्तं शक्त्यर्कविघ्नानां शिवस्य च सितं प्रिये ॥ १ ॥

मलहीनं तथाच्छिद्रं क्षौमं कार्पासमेव च ।
इति । मन्त्रतन्त्रप्रकाशे—

तैलादिदूषिताद्रोगः सच्छिद्राद् वाच्यता भवेत् ।
जीर्णाद् दरिद्रता कर्तुर्मलिनात् कान्तिहीनता ॥ १ ॥

इति । कालिकापुराणे—

निर्दशं मलिनं जीर्णं छिन्नं गात्रावलम्बितम् ।
परकीयं चाखुदष्टं सूचीविद्धं तथासितम् ॥ १ ॥

उपकेशमधौतं च श्लेष्ममूत्रादिदूषितम् ।
प्रदाने देवताभ्यश्च दैवे पित्र्ये च कर्मणि ॥ २ ॥

वर्जयेत् स्वोपयोग्यं च यज्ञादावुपयोजने ।
इति । उत्तरतन्त्रे—

यज्ञोपवीतं दत्त्वाथ भूषणानि समर्पयेत् ।
तानि नानाविधानि स्युर्मुकुटादिप्रभेदतः ॥ १ ॥

स्त्रीपुंसप्रभेदतश्चापि विज्ञेयानि विचक्षणैः ।
इति । योगिनीतन्त्रे—

[पाठान्तराणि: अगस्त्य ४ शक्त्या—त्वोष्णा [Lesung unsicher] इति क.; मन्त्रतन्त्रप्रकाश कर्तुर्—स्य इति क. ग.]

गन्धः पुष्पं तथा धूपो दीपो नैवेद्यमेव च ।
यस्य यद्दीयते वस्त्रमलंकारादिकाञ्चनम् ॥ १ ॥

तेषां दैवतमुच्चार्य कृत्वा प्रोक्षणपूजने ।
उत्सृज्य मूलमन्त्रेण प्रतिनाम्ना निवेदयेत् ॥ २ ॥

वरुणस्य तु बीजेन तेषां प्रोक्षणमाचरेत् ।
अन्नस्य देवता लक्ष्मीरथवापि प्रजापतिः ॥ ३ ॥

सुवर्णं चाग्निदैवत्यं रजतं चन्द्रदैवतम् ।
हेरकं वारुणं ज्ञेयं रसानां पृथिवी तथा ॥ ४ ॥

जलस्य वरुणो देवः पेयानां वरुणस्तथा ।
कृसरस्य रमा देवी परमान्नस्य चैव हि ॥ ५ ॥

घृतप्रदीपके विष्णुस्तैलयोगे वनस्पतिः ।
गान्धर्वश्च तथा धूपो व्यजनं चैवाग्निदैवतम् ॥ ६ ॥

मधु वै वारुणं ज्ञेयं दधि क्षीरं च वैष्णवम् ।
वानस्पत्यं तथा पुष्पं वैष्णवो गन्ध ईरितः ॥ ७ ॥

मालायाश्च तथा दुर्गा सर्वं वा विष्णुदैवतम् ।
इति । अत्र पूजन एव देवतोच्चारः “तेषां दैवतमुच्चार्य पूजयेच्च विचक्षणः” इति स्वयमभिधानात् । उत्सर्गस्तु मूलमन्त्रेण “तथोत्सर्गनिवेदने” इति स्वयमभिधानात् । कालिकापुराणे—

चूर्णीकृतो वा घृष्टो वा दाहाकर्षित एव च ।
रसः संमर्दजो वापि प्राण्यङ्गोद्भव एव च ॥ १ ॥

गन्धः पञ्चविधः प्रोक्तो देवानां प्रीतिकारकः ।
गन्धचूर्णं गन्धपत्रचूर्णं सुमनसस्तथा ॥ २ ॥

प्रशस्तगन्धयुक्तानां पत्रचूर्णानि यानि च ।
तानि गन्धाह्वयानि स्युश्चूर्णजः प्रथमः स्मृतः ॥ ३ ॥

घृष्टो मलयजो गन्धः सकलश्च नमेरुणा ।
अगरुप्रभृतिश्चैव यस्य पङ्कः प्रणीयते ॥ ४ ॥

घृष्टेन घृष्टो गन्धोऽयं द्वितीयः परिकीर्तितः ।
इति । शारदातिलके—

गन्धश्चन्दनकर्पूरकालागुरुभिरीरितः ।
देवदार्वगरुब्रह्मसारसारात् तु चन्दनात् ॥ १ ॥

प्रियादीनां च यो दग्ध्वा गृह्यते दारुजो रसः ।
स दाहाकर्षितो गन्धस्तृतीयः परिकीर्तितः ॥ २ ॥

सुगन्धकरवीराद्यं सुगन्धललिता तथा ।
सुगन्धात्परमो [Lesung unsicher] योऽसौ निष्पीड्य परिगृह्यते ॥ ३ ॥

स संमर्दोद्भवो गन्धः संमर्दज इतीष्यते ।
मृगनाभिसमुद्भूतस्तत्कोशोद्भव एव च ॥ ४ ॥

गन्धः प्राण्यङ्गजो ज्ञेयो मोददः स्वर्गवासिनाम् ।
इति । मन्त्रतन्त्रप्रकाशे—

पुष्पं पञ्चविधं प्रोक्तं मुनिभिर्नारदादिभिः ।
परापरोत्तमं चैव मध्यमं च तथाधमम् ॥ १ ॥

सौवर्णं परमित्युक्तमपरं चित्रवस्त्रजम् ।
वृक्षगुल्मलतापुष्पमुत्तमं परिकीर्तितम् ॥ २ ॥

अधमं पत्रतोयादि मध्यमं तु फलात्मकम् ।
उत्सृष्टं न क्रियायोग्यं सदा योग्यं परापरे ॥ ३ ॥

इति । एषु यदुत्सृष्टं देवेभ्यो दत्तं तत्पुनः क्रियायोग्यं न भवतीत्यर्थः । परापरे इति—परं सौवर्णम्, अपरं वस्त्रं, ते चानुत्सृष्टे चेत्सदा योग्ये भवेतां, देवतोपरि सदा धार्ये इत्यर्थः । तयोरेकतरमप्युत्सृष्टं यदि भवति तदा तत्पुनः क्रियायोग्यं देवपूजायोग्यं न भवतीत्यर्थः ॥ ज्ञानार्णवे—

पुष्पैः पर्युषितैर्देवि नार्चयेत् स्वर्णजैरपि ।
निर्माल्यभूतैः कुसुमैरुत्सृष्टैः परमेश्वरि ॥ १ ॥

इति । निर्माल्यभूतैरुत्सृष्टैर्दत्तैरिति यावत् । अथवोत्सृष्टैः पूजावशिष्टैः । उत्तमपुष्पाण्युत्तरतन्त्रे—

[पाठान्तराणि: रसानां—रजः इति ग.; परापरे—चरं इति ग. (Lesungsbezug der zweiten Kurzvariante unsicher).]

शुक्ला कृष्णा च तुलसी शुक्लं रक्तं च पङ्कजम् ।
केतकीयुगलं जातीद्वयं द्वन्द्वहयारिजम् ॥ १ ॥

पुष्पाणां दशकं ह्येतत् प्रशस्तं परिकीर्तितम् ।
रक्तनीलोत्पले शस्ते मल्लिकाकुमुदं तथा ॥ २ ॥

कुन्दं कह्लारकं चैव मन्दारं तगरं पुनः ।
अर्जुनं किंशुकं रक्तं मन्दारं नागचम्पकम् ॥ ३ ॥

अशोकं बिल्वपुष्पाणि पाटला नवमल्लिका ।
चम्पकं कर्णिकारं च पारिजाततरूद्भवम् ॥ ४ ॥

शतवर्गोद्भवं पुष्पं कोरण्टकुसुमानि च ।
इत्यादीनि सुपुष्पाणि गन्धवन्ति लसन्ति च ॥ ५ ॥

तत्तन्मन्त्रविधानेषु विहितानि समर्पयेत् ।
म्लानानि चाम्बुगान्येव शीर्णानि क्ष्मागतानि च ॥ ६ ॥

यानि पर्युषितानि स्युः क्रिमिभिर्भक्षितानि च ।
कोरकाणि च दुष्टानि समाघ्रातानि नार्पयेत् ॥ ७ ॥

इति । मन्त्रतन्त्रप्रकाशे—

पत्रेषु तुलसी श्रेष्ठा बिल्वं दामनकं शुभम् ।
मरुवो देवकह्लारि विष्णुक्रान्ता तथैव च ॥ १ ॥

अपामार्गोऽथ गान्धारी पत्री सुरभिसंज्ञिता ।
नागवल्लीदलं दूर्वा कुशपुष्पं तथा मतम् ॥ २ ॥

पत्रं चागस्त्यवृक्षस्य पुण्यं धात्रीफलं तथा ।
इति । ज्ञानमालायाम्—

नाक्षतैरर्चयेद्विष्णुं न तुलस्या गणाधिपम् ।
न दूर्वया यजेद् दुर्गां बिल्वपत्रैर्दिवाकरम् ॥ १ ॥

देवीनामर्कमन्दारावादित्ये तगरं तथा ।
गणेशाय च सूर्याय रक्तपुष्पमतिप्रियम् ॥ २ ॥

शिवे कुन्दं मदन्ती च यूथिं बन्धूककेतके ।
जपां रक्तां त्रिसन्ध्ये द्वे सिन्दूरं कुटकानि च ॥ ३ ॥

मालतीं घुसृणं रक्तहयारिं बर्बरीं त्यजेत् ।
उग्रगन्धमगन्धं च केशक्रिम्यादिदूषितम् ॥ ४ ॥

अशुद्धपात्रपाण्यङ्गवासोभिः कुत्सितात्मभिः ।
आनीतं नार्पयेच्छम्भोः प्रमादादपि दोषकृत् ॥ ५ ॥

कलिकाभिस्तथा नेज्यं विना पङ्कजचम्पकैः ।
शुष्कैर्न पूजयेच्छम्भुं पत्रैः पुष्पैः फलैरपि ॥ ६ ॥

स्नात्वानीतैः पर्युषितैर्याचितैः कृष्णवर्णकैः ।
स्वयं विकाशितैः पुष्पैः स्वयं च पतितैर्भुवि ॥ ७ ॥

वर्जयेद् बृहतीपुष्पं काञ्चनारं कुरण्टकम् ।
सर्वपुष्पैः सदा पूजा विहिताविहितैरपि ॥ ८ ॥

कर्तव्या सर्वदेवानां भक्तिरेवात्र कारणम् ।
इति । अत्र स्नात्वानीतैर्मध्याह्नस्नानोत्तरमाहृत्यानीतैरित्यर्थः । प्रातरुत्थानादिप्रातःकालीनपूजान्तं प्रथमप्रहरकृत्यमुक्त्वा “ततः पुष्पफलादीनामुत्थायार्चनमाचरे” दिति द्वितीयप्रहरकृत्यत्वेन नारदपञ्चरात्रे पुष्पाहरणस्योक्तत्वात् । तथा—

पत्रं वा यदि वा पुष्पं फलं नेष्टमधोमुखम् ।
दुःखदं तत्समाख्यातं यथोत्पन्नं तथार्पणम् ॥ १ ॥

चित्रपूजासु सर्वासु न विरुद्धस्य दूषणम् ।
अधोमुखार्पणं नेष्टं पुष्पाञ्जलिविधौ न तत् ॥ २ ॥

लक्षपूजासु सर्वासु पुष्पमेकेकमर्पयेत् ।
समुदायेन चेत्पूजा लक्षपूजाफलं न तत् ॥ ३ ॥

न पर्युषितदोषोऽस्ति जलजोत्पलचम्पके ।
तुलस्यगस्त्यबकुले बिल्वे गङ्गाजले तथा ॥ ४ ॥

इति । अत्र केचिदुत्पलपददर्शनात् जलजपदेन कमलमात्रं ग्राह्यमिति वदन्ति । तन्न “तुलस्यां बिल्वपत्रे च जलजेषु च सर्वशः । न पर्युषितदोषोऽस्ति मालाकारगृहेषु च” ॥ इति भविष्यपुराणवचनात् ॥ उत्तरतन्त्रे—

[पाठान्तराणि: २ कुमुदं—कुन्दम् इति क.; ज्ञानमाला ७ भुवि—रिवि [Lesung unsicher] इति क.; टिप्पणी आहृत्य—माहृत्या इति ग.]

परारोपितवृक्षेभ्यः पुष्पाण्यानीय चार्चयेत् ।
अविज्ञाय च तैस्तु निष्फलं तस्य पूजनम् ॥ १ ॥

इति । ज्ञानमालायाम्—

फलेष्वामलकं श्रेष्ठं बादरं तिन्तिणीफलम् ।
दाडिमं मातुलिङ्गं च जम्बीरं पनसोद्भवम् ॥ १ ॥

कदलीचूतसंभूतं श्रेष्ठं जम्बूफलं तथा ।
यजेदेतैः सदा विष्णुं पत्रैः पुष्पैः फलैरपि ॥ २ ॥

इति । विष्णुमित्युपलक्षणम् ।
दिवसे दिवसोत्पन्नैः पुष्पैः पूजा तथा निशि ।
पुष्पाभावे प्रवालैर्वा कारयेच्चूतकोरकैः ॥ १ ॥

इति । अतः परमावरणपूजा । तत्र पुष्पोपचारान्ते उत्तरतन्त्रे—

मन्त्रसंपुटितैर्वर्णैर्मातृकायाः सबिन्दुकैः ।
क्रमेण गन्धपुष्पाद्यैर्देवस्याङ्गं समर्चयेत् ॥ १ ॥

लयाङ्गमर्चयेद् देहे देवस्य मनुवित्तमः ।
इति । ज्ञानार्णवेऽपि—“लयाङ्गमर्चयेद् देहे न्यासस्थानेषु मन्त्रवित्” इति । शारदातिलके—

अङ्गादिलोकपालान्तं यजेदावरणान्यपि ।
केसरेष्वग्निकोणादि हृदयादीनि पूजयेत् ॥ १ ॥

नेत्रमग्रे दिशास्वस्त्रं ध्यातव्याश्चाङ्गदेवताः ।
तुषारस्फटिकश्यामनीलकृष्णारुणार्चिषः ॥ २ ॥

वरदाभयधारिण्यः प्रधानतनवः स्त्रियः ।
अङ्गादीति विशेषानभिधाने लोकपालशब्देन तदस्त्राणामप्यादानम् । तत्राग्निकोणादीत्यादिपदस्य क्रमग्राहित्वादग्निनैरृतवायव्येशानकोणेष्वङ्गचतुष्टयं यजेदिति वदन्ति । तन्न “अग्नीशासुरवायव्यमध्ये दिक्ष्वङ्गपूजन” मिति ज्ञानार्णवे दक्षिणामूर्तिसंहितावचनात् । “हृदयं चाग्निदिग्भागे ऐशान्यां च शिरो यजेत् । शिखां निरृतिदिग्भागे वायव्ये कवचं तथा ॥ अस्त्रमन्त्रं तथा दिक्षु नेत्रमग्रे प्रपूजयेत्” इति दक्षिणामूर्तिकल्पवचनात् ।
वह्नौ हृदयमैशान्यां शिरो रात्रिचरे शिखाम् ।
वायौ वर्म पुरो नेत्रमस्त्रं दिक्षु चतुर्ष्वपि ॥ १ ॥

इति । कपिलपञ्चरात्रवचनात् । चतुर्ष्वपीति दिक्चतुष्टयाच्चतुर्ष्वित्यर्थः । “हृद् हृदयमाग्नेय्यामैशान्यां च शिरो यजेत् । शिखा च नैरृत्यां पूज्या वायव्यां कवचं यजेत् ॥ अभ्यर्च्य पुरतो नेत्रमस्त्रं दिक्षु समर्चयेत्” इति सोमशम्भुवचनात् ।
पूर्वयाम्यान्तरे विष्णोर्हृदयं विनिवेशयेत् ।
शिरः पूर्वोत्तरे दद्याच्छिखां पश्चिमदक्षिणे ॥ १ ॥

पश्चिमोत्तरदिङ्मध्ये कवचं विन्यसेद्धरेः ।
अग्रतः केसरोद्देशे नेत्रं दिक्ष्वस्त्रराट् तथा ॥ २ ॥

इति नारदपञ्चरात्रवचनाच्चेति । अत्र “अथावरणपूजा स्यात्पुरः प्राचीं प्रकल्पयेत् । तदादि परिवाराणां प्रादक्षिण्येन पूजनम्” ॥ इति नृसिंहकल्पवचनात् ।
“यष्टुरभिमुखा देवा देवाभिमुखतो दिशः । प्राच्यादिदर्शितो ज्ञेयाः पूजाहोमादिकर्मसु” ॥ इत्युत्तरतन्त्रवचनात् ॥

“यत्रैव भास्वानुदयं प्रयाति प्राचीमिमां वेदविदो वदन्ति । मध्ये तु सा पूजकपूज्ययोश्च सदागमज्ञैः सततं विचिन्त्या” ॥ इति भैरवीतन्त्रवचनात् । देवाग्रे प्राचीं परिकल्प्य तदनुसारेणाग्नेय्यादिकं कल्पयित्वाङ्गानि पूजयेत् । आवरणदेवताश्चैवमेव प्रपूजयेदिति ॥ महाकपिलपञ्चरात्रे—

शिरःप्रभृतिमन्त्रेषु पूजायां च नमोन्तता ।
शिरोभिन्नेषु मन्त्रेषु होमे स्वाहान्तता भवेत् ॥ १ ॥

इति । आवरणदेवतास्तत्तत्कल्पेषु द्रष्टव्याः । मालिनीतन्त्रे—“स्वे स्वे स्थाने चाभिमुखान् पूजयेत्प्रोक्षणादिभिः ।” अभिमुखान् देवस्य । श्रीविद्यावरणपूजायां दक्षिणामूर्तिसंहितायां—“श्रीविद्यासंमुखीः स्मरे” दित्युक्तेः

[पाठान्तराणि: अङ्गवर्णे नील—डी इति ग. (Kurzangabe unsicher); तन्न—नस्येति इति क. ख.]

तथा सिद्धेश्वरीतन्त्रे—

अभ्युद्यश्च समर्ध्यश्च [Lesung unsicher] मार्तण्डः स्वमरीचिभिः ।
तद्वदङ्गनिर्देह्यो [Lesung unsicher] ध्यातव्याः स्वमरीचिभिः ॥ १ ॥

इति । तृणोयागे [Werktitel unsicher]—

देवीं ध्यात्वा तच्छरीरान्मयूखनिकरं बहिः ।
विनिःसृत्य स्थिरीभूतं परिवारं विचिन्तयेत् ॥ १ ॥

अभ्यर्च्यावरणं त्वाद्यं मूलमुच्चार्य मन्त्रवित् ।
संपूज्य देवीं संबोध्य वदेन्मन्त्रमिमं ततः ॥ २ ॥

अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ ३ ॥

इति पुष्पाञ्जलिं दत्त्वा प्रणमेदतिभक्तितः ।
प्रत्यावरणमेवं तु तत्तन्नाम्ना समर्पयेत् ॥ ४ ॥

इत्थमावरणं सम्यगभ्यर्च्य मनुवित्तमः ।
अन्ते यजेल्लोकपालांस्तत्तदस्त्राणि च क्रमात् ॥ ५ ॥

इन्द्रं सुराधिपं पीतं वज्रहस्तं सवाहनम् ।
अग्निं तेजोऽधिपं रक्तं शक्तिहस्तं सुभूषणम् ॥ ६ ॥

यमं प्रेताधिपं कृष्णं दण्डहस्तं समर्चयेत् ।
रक्षोऽधिपं निरृतिं च खड्गहस्तं सुधूम्रकम् ॥ ७ ॥

पाशहस्तं सुशुभ्राङ्गं वरुणं यादसांपतिम् ।
वायुं प्राणाधिपं धूम्रमङ्कुशाढ्यकरं यजेत् ॥ ८ ॥

यक्षाधिपं कुबेरं च गदाहस्तं सितं यजेत् ।
विद्याधिपं शूलहस्तं स्फटिकाभं शिवं यजेत् ॥ ९ ॥

नागाधिपमनन्तं च गौरं चक्रायुधं यजेत् ।
लोकाधिपं विधातारं रक्तं पद्मकरं यजेत् ॥ १० ॥

ऐरावतं तथा मेषं महिषं मृगपूरुषम् ।
मकरं मृगमश्वं च वृषं च विषहंसकौ ॥ ११ ॥

इन्द्रादिलोकपालानां वाहनानि विदुर्बुधाः ।
वज्रं पीतं सितां शक्तिं दण्डं कृष्णं समर्चयेत् ॥ १२ ॥

खड्गमाकाशसकाशं पाशं विद्युनिभं यजेत् ।
अङ्कुशं रक्तवर्णं च शुक्लवर्णां गदां यजेत् ॥ १३ ॥

त्रिशूलं नीलवर्णं च यजेन्मन्त्री ततः परम् ।
रथाङ्गं कुरुविन्दाभं पद्मं रक्तं समर्पयेत् ॥ १४ ॥

लोकपालायुधान्येवं क्रमेण परिपूजयेत् ।
इति । अत्र केचित्—“अन्ते यजेल्लोकपालान् भूत (मूल) पारिषदान्वितान् । हेतिजात्यधिपोपेतान् दिक्षु पूर्वादितः क्रमात्” इति शारदातिलकवचनाद्यथास्थितपूर्वादिदिक्षु इन्द्रादिपूजनमिति वदन्ति, तन्न चतुरायतनदेवतास्थापनप्रकारेणोक्तयुक्तेः सर्वेषामावरणानां देवाग्रत आरम्भाल्लोकपालावरणस्याप्यावरणत्वाच्च कल्पितप्राच्यनुसारेणैव पूजनं युक्तमिति विचारतः प्रतिभातीति ॥

पुनर्मूलं समुच्चार्य साङ्गायै सपरीति च ।
वारायै नाम देव्याश्च चतुर्थ्यन्तमुदीर्य च ॥ १ ॥

नम इत्यर्चयेद्गन्धपुष्पाद्यैः साधकस्त्रिधा ।
ततो यजेद् धूपदीपनैवेद्यैः सुमनोहरैः ॥ २ ॥

इति । प्रपञ्चसारे—

सगुग्गुल्वगरूशीरसिताज्यमधुचन्दनैः ।
साराङ्गारविनिक्षिप्तैर्मन्त्री नीचैः प्रधूपयेत् ॥ १ ॥

इति । कुलमूलावतारे—

प्रालेयं मलयोद्भवं जतुनखं सर्जं च कुष्ठं समं

सिल्हाख्यागरुयुग् जटी द्विगुणिता प्रत्येकसंचूर्णिता ।

[पाठान्तराणि: अभ्यर्च्य—र्चये इति ग.; प्रथमावरण ३ तुभ्यं—तेषाम् इति ग.; टिप्पणी पूर्व—पर्वे इति ग.; नैवेद्यपाठ २ धूप—प इति क. (Kurzvarianten wie gedruckt, Zuordnung teils unsicher).]

षड्भागा वरमाक्षिकस्य सुसिता चाष्टांशभागान्विता

धूपोऽयं भुवि शंकरेण कथितः श्रीसुन्दरीवल्लभः ॥ १ ॥

इति । शैवागमे—

धूपभाजनमस्त्रेण प्रोक्ष्याभ्यर्च्य हृदाणुना ।
अस्त्रेण पूजितां घण्टां वादयन् गुग्गुलं दहेत् ॥ १ ॥

इति । नारदपञ्चरात्रे—

आवाहनेऽर्घ्ये धूपे च स्नाने नैवेद्ययोजने ।
नित्यमेवं प्रयुञ्जीत तन्मन्त्रामन्त्रितामपि ॥ १ ॥

चकाराद्दीपेऽपि । तथा—

पूजाकालं विनान्यत्र हितं नास्याः प्रचालनम् ।
नानया च विना पूजां कारयेत् सिद्धिलालसः ॥ १ ॥

दद्यात् तारावसाने च गर्जध्वनिपदं ततः ।
मन्त्रमातःपदं चैव स्वाहाक्षरसमन्वितम् ॥ २ ॥

एकादशाक्षरो मन्त्रो घण्टायाः सर्वसिद्धिदः ।
इति । उद्धारः सुगमः । कालिकापुराणे—

वामतस्तु तथा धूपमग्रे वा नतु दक्षिणे ।
न धूपं वितरेद्भूमौ नासने न घटे तथा ॥ १ ॥

यथा तथाधारगतं कृत्वा तं विनिवेदयेत् ।
मेदोमज्जासमायुक्तान्न धूपान् विनिवेदयेत् ॥ २ ॥

न यक्षधूपं वितरेत् साधकस्तु कदाचन ।
इति । यक्षधूपस्तु रालेति लोके प्रसिद्धः । विष्णुः—धूपार्थं न जीवतानमिति [Lesung und Satzabgrenzung unsicher] । प्रपञ्चसारे—

गोसर्पिषा वा तैलेन वर्त्या च लघुगर्भया ।
दीपितं सुरभिं शुभ्रं दीपमुच्चैः प्रदर्शयेत् ॥ १ ॥

इति । वाशब्देनोभयोरमिश्रणमुक्तम् । “न मिश्रीकृत्य दद्याच्च दीपस्नेहान् घृतादिकान् । कृत्वा मिश्रीकृतं स्नेहं तामिस्रं नरकं नयेत्” ॥ इति कालिकापुराणवचनात् । तृणोयागे [Werktitel unsicher]—

पारावतभ्रमाकारं दीपं नेत्रादि दर्शयेत् ।
दक्षिणे सर्पिषा दीपं तिलतैलेन वामतः ॥ १ ॥

सिता वर्तिर्दक्षिणतो रक्ता वर्तिस्तु वामतः ।
इति । कालिकापुराणे—

वृत्तेषु दीपो दातव्यो नतु भूमौ कदाचन ।
कुर्वंस्तु पृथिवीतापं यो दीपमुत्सृजेन्नरः ॥ १ ॥

स ताम्रतापं नरकं प्राप्नोत्येव शतं समाः ।
इति । रुद्रयामले—

नैव निर्वापयेद् दीपं साधकस्तु कदाचन ।
यस्तु निर्वापयेद् दीपं तस्य लक्ष्मीर्विनश्यति ॥ १ ॥

कूष्माण्डच्छेदिका नारी दीपनिर्वापकः पुमान् ।
विधवा च दरिद्रश्च भवेत् सप्तसु जन्मसु ॥ २ ॥

इति । मन्त्रतन्त्रप्रकाशे—“पाद्यमाचमनीयं च दत्त्वा नैवेद्यमर्पयेत्” । इति । सनत्कुमारकल्पे—

इत्थं कृष्णं समभ्यर्च्य पञ्चावरणसंयुतम् ।
कदलीफलसंयुक्तं पायसं विनिवेदयेत् ॥ १ ॥

इति । ज्ञानार्णवे—

शुद्धस्फटिकसंकाशं चन्द्ररश्मिसमप्रभम् ।
लसत्सुवर्णजे पात्रे चारु मृद्वोदनं प्रिये ॥ १ ॥

[पाठान्तराणि: घण्टामन्त्र गर्ज—जय इति ग.; नरकं नयेत्—व्रजेत् इति ग.; शतं समाः—न संशयः इति पाठान्तरम्.]

हिङ्गुजीरमरीचार्द्रकैः रचितः शुभः ।
वटकः कुक्कुमाकारः [Lesung unsicher] पायसं हिमसन्निभम् ॥ २ ॥

दुग्धमावर्तितं सम्यक् शर्करासारपूरितम् ।
कपिलाघृतसंयुक्तं भूर्जवच्छोभि मण्डकाः ॥ ३ ॥

शर्करा फाणिताश्चैव सूपं मुद्गोद्भवं तथा ।
नानाविधानि पेयानि व्यञ्जनानि बहूनि च ॥ ४ ॥

इति । उत्तरतन्त्रे—

निधाय स्वर्णजे पात्रे साधारं तच्च मण्डले ।
संस्थाप्य चतुरस्रे च संस्पृश्योच्छ्वासमार्गतः ॥ १ ॥

अस्त्रमन्त्रेण संप्रोक्ष्य चक्रमुद्राभिरक्षितम् ।
वायुबीजेन संशोष्य वह्निबीजेन संदहेत् ॥ २ ॥

स्पृशन् दक्षकराग्रेण सुधाबीजेन मन्त्रवित् ।
अमृतीकृत्य तत्सर्वं मूलमन्त्रेण तत्पुनः ॥ ३ ॥

स्पृशन् कराभ्यां विधिवदष्टधा चाभिमन्त्रयेत् ।
धेनुमुद्रां प्रदर्श्याथ गन्धपुष्पैः समर्चयेत् ॥ ४ ॥

देवमभ्यर्च्य कुर्याच्च पुष्पाञ्जलिमनन्यधीः ।
हेमपात्रस्थितं द्रव्यं परमान्नं सुसंस्कृतम् ॥ ५ ॥

पञ्चधा षड्रसोपेतं गृहाण मम सिद्धये ।
मूलमन्त्रं समुच्चार्य स्वाहान्तं जलमर्पयेत् ॥ ६ ॥

कराभ्यां तत्समुद्धृत्य पूजितं च सुधात्मकम् ।
निवेदयामि भवते सानुगाय जुषाण तत् ॥ ७ ॥

सर्वपूजासु तन्नाम्ना नैवेद्यस्य मनुस्त्वयम् ।
प्राणसंज्ञस्तथापानो व्यानोदानमनुस्ततः ॥ ८ ॥

समानो ङेयुताः सर्वे प्रणवाद्या द्विठान्तकाः ।
पञ्चमन्त्रा भवन्तीह क्रमेण परिकीर्तिताः ॥ ९ ॥

इति । प्राणादीनां मुद्रास्त्वत्र वक्ष्यन्ते । नैवेद्यसंस्कारस्तन्निवेदनप्रकारश्च प्रयोगे वक्ष्यते । स्मृतिसमुच्चये—

त्रिषु वर्णेषु दातव्यं विष्णवे पाकभोजनम् ।
खण्डाज्यादिकृतं पाकं न दुष्येच्छूद्रजन्मनः ॥ १ ॥

इति । श्राद्धकल्पे—शूद्रस्त्वामान्नेनैव दशाहादिकं पिण्डं देयमित्युक्तं, तेन देवतानैवेद्यमप्यामान्नेनैव देयं तुल्यन्यायादिति । ज्ञानार्णवे—“संकल्प्य परमेशान्यै नित्यहोमविधिं चरेत्” इति संकल्प्य नैवेद्यम् । उत्तरतन्त्रे—

इत्थं तु संस्कृते वह्नौ देवमावाह्य मन्त्रवित् ।
संपूज्य मूलमनुना पञ्चविंशतिमाहुतीः ॥ १ ॥

हुनेदाज्येन हविषा तिलैर्वा पायसैः शुभैः ।
तण्डुलैस्तिलमिश्रैर्वा केवलैर्वाथ पुष्पकैः ॥ २ ॥

अङ्गावरणदेवानामेकैकामाहुतिं हुनेत् ।
उद्वास्य वह्निदेवं तु पूजास्थानं व्रजेत्ततः ॥ ३ ॥

उपविश्यासने मन्त्री दद्याद्भूतबलिं ततः ।
ईशाने मण्डलं कृत्वा साधारं तत्र निक्षिपेत् ॥ ४ ॥

अन्नव्यञ्जनतोयाद्यं पात्रे पुष्पादिपूजिते ।
ध्यात्वा भूतानि संपूज्य ततस्तेभ्यो बलिं हरेत् ॥ ५ ॥

इति । भूतानां ध्यानं पीठपूजाप्रकरणे प्रोक्तम् । बलिमन्त्रो बल्युत्सर्गप्रकारश्च प्रागेवोक्तः । उद्वास्य पूजाचक्रे देवं स्वात्मनि वह्नौ चेति अग्निसंस्कारः प्रागेवाभिहितः । संक्षेपप्रकारेऽपि वासिष्ठः—“अग्न्याधानादिकं कर्म नित्यहोमे न विद्यते” इति ॥ नारदीये—“पुनराचमनं दद्यात्करोद्धर्तनमेव च” । पुनराचमनीयमुत्तरापोशनं चकाराद् गण्डूषदन्तधावनादीन्युक्तानि । प्रपञ्चसारे—“पुनर्नैवेद्यमुद्धृत्य पुरोवत्परिपूज्य च । मुखवासादिकं दत्त्वा” इति ॥ नारायणीये—

सकर्पूरं च ताम्बूलं दद्यान्नीराजनं तथा ।
समर्प्य मुकुटादीनि भूषणानि विचक्षणः ॥ १ ॥

आदर्शयेत् तथादर्शं कल्पयेच्छत्रचामरे ।
इति । अगस्त्यः—

[पाठान्तराणि: मण्डकाः—लाः इति क.; हेमपात्रस्थितं—ध्य इति क. ग. (Kurzangabe unsicher); पञ्चधा—च इति क.; उद्वास्य—ततः इति ग.]

कर्पूरशकलोन्मिश्रं नागवल्लीदलैर्युतम् ।
सुधाबिन्दुसमायुक्तं पूगीफलमनोहरम् ॥ १ ॥

ताम्बूलं रघुनाथाय दत्त्वा कामानवाप्नुयात् ।
इति । सुधाबिन्दुश्चूर्णम् । नीराजनमाह सोमशम्भुः—“शिरस्यारोप्य देवस्य दूर्वाक्षतपवित्रकम्” । इति नीराजनशब्देनारात्रिकमुच्यते । तत्र ज्ञानार्णवे—

आरात्रिकं ततः कुर्यात्सर्वकामार्थसिद्धये ।
सौवर्णे राजते कांस्ये लोकनेत्रमनोहरम् ॥ १ ॥

कुङ्कुमेन लिखेत्पद्मं वसुपत्रं वरानने ।
दीपमेकं कर्णिकायां वसुपत्रेऽष्टदीपकान् ॥ २ ॥

यवगोधूमरचितान् शर्करादुग्धसंयुतान् ।
वलयाङ्कितशोभाभिः शोभितान् घृतपूरितान् ॥ ३ ॥

अभिमन्त्र्य ततो मन्त्री रत्नेश्वर्या ततः परम् ।
मूलमन्त्रेण चाभ्यर्च्य ततश्चारात्रिकं चरेत् ॥ ४ ॥

तत्पात्रं तु समुद्धृत्य मस्तकान्तं पुनःपुनः ।
नववारं महादेव्यास्ततो नीराजनं चरेत् ॥ ५ ॥

आरात्रिकं महादेव्याश्चक्रमुद्रां प्रदर्शयेत् ।
इति । रत्नेश्वरीमन्त्रः प्रागेवोद्धृतः । कात्यायनीतन्त्रे—

इत्थमारात्रिकं कृत्वा प्रणम्य परदेवताम् ।
प्राणायामत्रयं कृत्वा मूलमन्त्रेण साधकः ॥ १ ॥

न्यासं कृत्वा यथापूर्वं देवीं ध्यात्वा हृदम्बुजे ।
मूलमन्त्रं यथाशक्ति जपेत्तद्गतमानसः ॥ २ ॥

इति । कुलार्णवे—

ग्रथित्वा मातृकावर्णैर्मूलमन्त्राक्षराणि च ।
क्रमोत्क्रमात् त्रिरावृत्त्या मन्त्रशुद्धिरितीरिता ॥ १ ॥

इति । शारदातिलके—

सहस्रकृत्वः संजप्य मूलमन्त्रमनन्यधीः ।
तं जपं सर्वसंपच्चै देवतायै समर्पयेत् ॥ १ ॥

इति । नित्यहोमे कालान्तरमाह—दक्षिणामूर्तिः, “यथाशक्ति जपं कृत्वा नित्यहोमं समाचरेत्” इति । शैवागमे—

अष्टोत्तरसहस्रं तु तदर्धं त्रिशतं तु वा ।
अष्टोत्तरशतं वापि जपेन्नित्यमतन्द्रितः ॥ १ ॥

जपो जपसमर्पणप्रकारश्च प्रयोगे वक्ष्यते ।
इत्थं जपं समर्प्याथ घण्टावादनपूर्वकम् ।
स्तुवीत स्तुतिभिः सम्यक् साधको भक्तिसंयुतः ॥ १ ॥

इति । उत्तरतन्त्रे—

पौराणिकैर्वैदिकैश्च मूलमन्त्रेण चैव हि ।
प्रदक्षिणं प्रणामं च कुर्याद्धर्मार्थसाधनम् ॥ १ ॥

ततः क्षमापयेन्मन्त्रैर्वक्ष्यमाणैर्महेश्वरि ।
इति । क्षमापणमन्त्राः प्रयोगे वक्ष्यन्ते । अत्र पौराणिकैर्वैदिकैरिति त्रैवर्णिकपरम् । मूलमन्त्रेणेति शूद्रपरं ज्ञेयम्, शूद्राणां पौराणिकस्तवपाठेऽपि निषेधात् । यदुक्तं कालिकापुराणे—

मोहाद्वा कामतः शूद्रः पुराणं संहितां स्मृतिम् ।
पठन्नरकमाप्नोति पितृभिः सह पापकृत् ॥ १ ॥

इति । पञ्चरात्राणां तु श्रवणेऽपि नाधिकारः । यदुक्तं नारदपञ्चरात्रे—

ब्राह्मणक्षत्रियविशां पञ्चरात्रं विधीयते ।
शूद्रादीनां न तच्छ्रोत्रपदवीमधिरोहति ॥ १ ॥

इति । तदुक्तं मेरुतन्त्रे—

[पाठान्तराणि: रामनाम रघुनाथाय—रमम् इति ग. (Kurzangabe unsicher); अतन्द्रितः—ञ्चितः इति ग. (Kurzangabe unsicher).]

ब्राह्मणो वेदमन्त्राद्यैः क्षत्रियः संहितादिभिः ।
पौराणिकाद्यैर्वैश्यस्तु शूद्रस्तु प्राकृतादिभिः ॥ १ ॥

मोहाद्वा कामतः शूद्रः पुराणं संहितां स्मृतिम् ।
पठन्नरकमाप्नोति पितृभिः सह पापकृत् ॥ २ ॥

यः शूद्रो बुद्धिपूर्वं तु शृणुयाच्छ्रावयेद् द्विजः ।
वदन्तौ द्वौ दुःखितौ स्तोऽस्मिन् भवेऽन्ते च नारकौ ॥ ३ ॥

अधिकारमदाद्यस्तु धनस्य मदतोऽपि वा ।
शूद्रश्च शृणुयाद्वेदं स निर्वंशश्च निर्धनः ॥ ४ ॥

अज्ञानाच्चेच्छ्रुतो वेदः श्रावितो वा द्विजन्मना ।
प्राजापत्यत्रयं कृत्वा तौ द्वौ शुद्धौ भविष्यतः ॥ ५ ॥

इति । शैवागमे—

अर्घ्यपात्रं समुद्धृत्य मूलमुच्चार्य मन्त्रवित् ।
साधु वासाधु वा कर्म यद्यदाचरितं मया ॥ १ ॥

तत्सर्वं भगवञ्छम्भो गृहाणाराधनं परम् ।
इत्यर्घ्योदकमुत्सृज्य किंचिद्देवस्य दक्षिणे ॥ २ ॥

करे समर्पयेद्विद्वान् कृतमाराधनं शिवे ।
इति । कुलार्णवे—

कृतार्चनादिकं सर्वं समन्त्रोदकपूर्वःसरम् ।
इतः पूर्वादिमनुना देवतायै समर्पयेत् ॥ १ ॥

इति । इतः पूर्वमिति मन्त्रः प्रागेव प्रदर्शितः । सनत्कुमारः—“उद्वासयेत्ततो देवं परिवारगणैः सह” इति । प्रपञ्चसारे—“स्तुत्वेन्दुखण्डपरिमण्डितमौलिमेवमुद्वासयेत्पुनरमुं हृदयाम्बुजे स्वे” इति । शिवरहस्ये—

रश्मिरूपा महेशस्य पूजिता याश्च देवताः ।
श्रीशिवाङ्गे विलीनास्ताः सन्तु सर्वाः शुभावहाः ॥ १ ॥

इति पुष्पाञ्जलिं दत्त्वा प्रणम्य परिभावयेत् ।
देवस्याङ्गे विलीनं तद्रश्मिवृन्दमशेषतः ॥ २ ॥

तेजोरूपं शिवं ध्यात्वा क्षमस्वेति पुनः पुनः ।
क्षमाप्यारोपयेत् स्वीयहृदम्भोजे महेश्वरम् ॥ ३ ॥

गच्छ गच्छ परं स्थानं स्वस्थानं परमेश्वर ।
यत्र ब्रह्मादयो देवा न विदुः परमं पदम् ॥ ४ ॥

विसृज्यानेन मन्त्रेण ततः पूरकवायुना ।
ध्यायंस्तु मन्त्रेणानेन नत्वा तं स्थापयेद्धृदि ॥ ५ ॥

तिष्ठ तिष्ठ परे स्थाने स्वस्थाने परमेश्वर ।
यत्र ब्रह्मादयः सर्वे सुरास्तिष्ठन्ति मे हृदि ॥ ६ ॥

विसर्जेत्संहारमुद्रया ।
संहारमुद्रां बद्ध्वा च तेजोरूपां महेश्वरीम् ।
विभाव्य पुष्पेणोद्धृत्य वहन्नासाध्वना शिवे ॥ १ ॥

प्रवेश्य द्वादशान्तस्थसहस्रारसरोरुहे ।
विश्राम्य मध्यनाड्या तामानीय हृदयाम्बुजे ॥ २ ॥

संस्थाप्य सम्यक् संपूज्य स्वात्मानं तन्मयं स्मरेत् ।
इति हंसपारमेश्वरवचनात् । कुलमूलावतारे—

ऐशान्यां मण्डलं कुर्याद्द्वारपद्मविवर्जितम् ।
विसर्जनार्थं निर्माल्यधारिण्याः पूजनाय वै ॥ १ ॥

निक्षिप्य तस्मिन्निर्माल्यं मन्त्रेण तु समर्चयेत् ।
चण्डेश्वरि महादेवि निर्माल्यैश्चन्दनादिभिः ॥ २ ॥

लेह्यचोष्यान्नपानादिनिर्माल्यस्रग्विलेपनम् ।
निर्माल्यभोजिन्यै तुभ्यं ददामि श्रीशिवाज्ञया ॥ ३ ॥

इति नैवेद्यशेषं तु दत्त्वा नत्वा विसर्जयेत् ।
इति । गणेश्वरपरामर्शिन्याम्—“लम्बोदराय निर्माल्यमैशान्यां मण्डले न्यसेत्” इति । संमोहनपञ्चरात्रे—“विष्वक्सेनाय निर्माल्यं नैवेद्यं च निवेदयेत्” । शैवागमे—

पूर्वोत्तरदिशि प्रान्ते चण्डेशं मण्डलेऽर्चयेत् ।
देवदेवस्य निर्माल्यं ध्यायन्तं चन्द्रशेखरम् ॥ १ ॥

इति । वामदेवतन्त्रे—

तेजश्चण्डोऽस्य निर्माल्यभोक्ता देवाय यत्ततः ।
तस्मै समर्पयेन्नित्यं नाजिघ्रन्नाक्रमेच्च तत् ॥ १ ॥

इति । उत्तरतन्त्रे—

ततो भास्करबीजेन सहितेनामुना ततः ।
मन्त्रेण भास्करायार्घ्यमच्छिद्रार्थं निवेदयेत् ॥ १ ॥

ॐ नमो विवस्वते ब्रह्मन् भास्वते विष्णुतेजसे ।
जगत्सवित्रे शुचये शुचयं सवित्रे कर्मदायिने ॥ २ ॥

ततः कृत्वाञ्जलिर्भूत्वा पठित्वा मन्त्रमीरितम् ।
एकाग्रमनसा वाग्भिरच्छिद्रमवधारयेत् ॥ ३ ॥

ॐ यज्ज्ञानच्छिद्रं तपश्छिद्रं यच्छिद्रं पूजने मम ।
अच्छिद्रमस्तु तत्सर्वं भास्करस्य प्रसादतः ॥ ४ ॥

भास्करबीजं त्र्यक्षरमन्त्रः, स मन्त्रस्तत्प्रकरणे बोद्धव्यः । विजयमालिनीतन्त्रे—

अर्घ्यतोयेन देवेशि गन्धं पूजावशेषितम् ।
आलोड्य किंचिन्मूलेन मन्त्रयेदष्टधा शिवे ॥ १ ॥

प्रोक्षयेत्तेन तोयेन स्वात्मानं मूलमन्त्रतः ।
निर्माल्यं मस्तके धार्यं मूलमन्त्रेण मन्त्रिणा ॥ २ ॥

प्राश्य पादोदकं देवि नैवेद्यं विभजेत्प्रिये ।
तद्भक्तेभ्यः स्वयं भुक्त्वा तन्मयो विहरेत्सुखम् ॥ ३ ॥

नतु शिवादिप्रसादस्वीकारनिन्दावचनविरोधः, तस्याशुचिपरत्वात् । स्कन्दपुराणे तन्निर्माल्यस्वीकारस्योक्तत्वात् । यथा—

ब्रह्महापि शुचिर्भूत्वा निर्माल्यं यस्तु धारयेत् ।
तस्य पापं महच्छीघ्रं नाशयिष्ये महाव्रते ॥ १ ॥

स्नपयित्वा विधानेन यो लिङ्गस्नपनोदकम् ।
त्रिः पिबेत् त्रिविधं पापं तस्येहापि प्रणश्यति ॥ २ ॥

लिङ्गस्नपनवार्भिः कुर्यान्मूर्धाभिषेचनम् ।
गङ्गास्नानफलं तस्य जायतेऽत्र विपाप्मनः ॥ ३ ॥

इति । तथा—

निर्माल्यं हि तु यो भक्त्या शिरसा धारयिष्यति ।
अशुचिर्भिन्नमर्यादो नरः पापसमन्वितः ॥ १ ॥

नरकं पतते घोरे तिर्यग्योनौ प्रजायते ।
इति । कालिकापुराणे—

फलं पुष्पं च ताम्बूलमन्नपानादिकं च यत् ।
अदत्त्वा तन्महादेव्यै न भोक्तव्यं कदाचन ॥ १ ॥

पथि वा पर्वताग्रे वा सभायामपि साधकः ।
तथा तस्यै निवेद्यैव स्वस्मैभक्ष्यमुपकल्पयेत् ॥ २ ॥

इति । वराहपुराणे—

विष्णुरुद्रान्तरं ब्रूयाच्छ्रीगौर्योरन्तरं तथा ।
नास्तिकानां तु मूर्खाणां वाक्यं शास्त्रविगर्हितम् ॥ १ ॥

इति । भविष्यपुराणे—

यथा शिवस्तथा विष्णुर्यथा विष्णुस्तथा ह्युमा ।
उमा यथा तथा गङ्गा चतुरूपं न विद्यते ॥ १ ॥

इति । तत्रैव—

विष्णुरुद्रान्तरं यस्तु श्रीगौर्योरन्तरं तथा ।
गङ्गागौर्योरन्तरं च यो ब्रूते मूढधीस्तु सः ॥ १ ॥

रौरवादिषु घोरेषु नरकेषु पतत्यधः ।
इति । भविष्योत्तरे—

यो ब्रह्मा स हरिः प्रोक्तो यो हरिः स महेश्वरः ।
महेश्वरः स्मृतः सूर्यः सूर्यः पावक उच्यते ॥ १ ॥

पावकः कार्तिकेयोऽसौ कार्तिकेयो विनायकः ।
गौरी लक्ष्मीश्च सावित्री शक्तिभेदाः प्रकीर्तिताः ॥ २ ॥

देवं देवीं समुद्दिश्य यः करोति व्रतं नरः ।
न भेदस्तत्र मन्तव्यः शिवशक्तिमयं जगत् ॥ ३ ॥

इति । पद्मपुराणे—

सौराश्च शैवगाणेशा वैष्णवाः शक्तियाजकाः ।
मामेव ते प्रपद्यन्ते वर्षापः सागरं यथा ॥ १ ॥

एकोऽहं पञ्चधा जातः क्रीडया नामभिः किल ।
देवदत्तो यथा कश्चित् पुत्राद्याह्वाननामभिः ॥ २ ॥

इति । विष्णुवचनं गीतासु—“अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च” इति । प्रभुः फलदाता । विष्णुपुराणे—

यजन् यज्ञान् यजत्येनं जपत्येनं जपन् नृप ।
हिंसंस्तथान्यं हिनस्त्येनं सर्वभूतो यतो हरिः ॥ १ ॥

इति । इत्थं सर्वं सर्वरूपेण श्रीविष्णोरेव क्रीडितत्वात् स्वेष्टदेवतास्वोपहारस्वीकारो न दोषावह इति प्रतिभाति विचारकाणामिति । अत्रादत्त्वा तदित्यनेन निवेद्यैवेत्यनेन च किंचिद्देयं किंचिद्भोक्तव्यमिति वा, यद्देयं तदेव भोक्तव्यमिति वा विधीयते । अत्र केचिद्धि नियुक्तविनियोगदोषाददत्तापहारप्रसङ्गाच्च पूर्वः पक्षः श्रेयान् इति वदन्ति । वस्तुतस्तु किंचिदग्रशेषादिवादाभावात् कर्मान्तराश्रुतेर्निवेदनभोजनयोरेककर्मकत्वाच्छ्रुतिसंवादात् तद्वेदितत्वाच्चोत्तरपक्ष एव श्रेयानिति । श्रुतिः—“तस्माद्विद्वांसो विष्णुविकृतं भक्षयेयुः” [Lesung विष्णुविकृतं unsicher] इति । नारदपञ्चरात्रे—

यत्किंचित् स्वीयमश्नीयात् पुरो विप्र निवेदितम् ।
विष्णोर्वाक्कायमनसा मूलं साष्टशतं जपेत् ॥ १ ॥

इति प्रायश्चित्तमप्युक्तम् । विप्रेति नारदसम्बोधनम् । नित्यपूजायां संक्षेपप्रकारः प्रयोगे वक्ष्यते । अथ नित्यपूजायामपि यावत्यावश्यकी क्रिया तामाह, प्रपञ्चसारे—

अथ पुनराचम्य गुरुः प्राग्वदनो विष्टरोपविष्टः सन् ।
प्राणायामं सलिपिन्यासं कृत्वा न्यसेत्तदृष्यादीन् ॥ १ ॥

इति । अत एव प्राणायाममातृकान्यासऋष्यादिकराङ्गन्यासानभिधायोक्तं तत्रैव—“जपारम्भे मनूनां तु सामान्येयं प्रकल्पना” इतीयं प्राणायामादिक्रिया प्रकर्षेण कल्प्यते समर्प्यते अधिक्रियते इति प्रकल्पना, अधिकारसंपादना सामान्या सर्ववर्णाश्रमसाधारणा, तेन तैरेव सर्वेषां पूजाधिकारः । अत एवैतदकरणे निन्दा श्रूयते । यथागस्त्यसंहितायाम्—

प्राणायामैर्विना यद्यत्कृतं कर्म निरर्थकम् ।
अतो यत्नेन कर्तव्याः प्राणायामाः शुभार्थिभिः ॥ १ ॥

इति । दक्षिणामूर्तिकल्पे—

जपार्थं सर्वमन्त्राणां विन्यासेन लिपेर्विना ।
कृते तन्निष्फलं विन्द्यात्तस्मादादौ लिपिं न्यसेत् ॥ २ ॥

इति । कपिलपञ्चरात्रे—

ऋषिच्छन्दोदेवतानां विन्यासेन विना यदा ।
जप्यते साधितोऽप्येष तत्र तुच्छफलं भवेत् ॥ १ ॥

इति । गौतमीये—

ध्यानं जपार्चना होमः सिद्धमन्त्रकृता अपि ।
अङ्गविन्यासविधुरा न दास्यन्ति फलं त्वमी ॥ १ ॥

अत एव विहिताननुष्ठाने दोषमाह याज्ञवल्क्यः—

विधिदृष्टं तु यत्कर्म करोत्यविधिना नरः ।
फलं न किंचिदाप्नोति क्लेशमात्रं हि तस्य तत् ॥ १ ॥

इति । उत्तरतन्त्रे—

प्रवासे पथि दुर्गे वा स्थानाप्राप्तौ जलेऽपि वा ।
कारागारनिबद्धो वा प्रायोवेशगतोऽपि वा ॥ १ ॥

[पाठान्तरम्: टिप्पणी प्रकल्पना प्रसङ्गे—प्रसादः इति ग. (Bezug der gedruckten Kurzvariante unsicher).]

मनोभये समुत्पन्ने सिंहव्याघ्रसमाकुले ।
परचक्रागमे चैव कुर्यान्मानसपूजनम् ॥ २ ॥

मनसा हृदयस्यान्तर्ध्यात्वा योगाख्यपीठकम् ।
तत्रैव पृथिवीमध्ये पूजां तत्र समाचरेत् ॥ ३ ॥

मैत्रप्रसादनं स्नानं दन्तधावनकर्म वै ।
अन्यच्च सर्वं मनसा ध्यात्वा कुर्याच्च पूजनम् ॥ ४ ॥

यथा पुष्पादिभिः पूजा बहिर्देशे विधीयते ।
तथा हृद्यपि कर्तव्याः सर्वाश्च प्रतिपत्तयः ॥ ५ ॥

इति । जले प्रवहणादौ । प्रायोवेशगतो गृहीतानशनव्रतः । अन्यच्च सर्वमिति मैत्रप्रसादनं दन्तधावनव्यतिरिक्तमित्यर्थः । मैत्रादीनां मानसासंभवात् । मैत्रम् “यः शौचनिरतो विप्रः स वै मैत्र उदाहृतः” इति भागुरिक्षतसमुच्चयलिखितब्रह्माण्डपुराणवचनात् [Lesung des Werktitels unsicher] । नारदपञ्चरात्रे—

ब्राह्म्यान्मुहूर्तादारभ्य प्रागंशं विप्र वासरात् ।
जपध्यानार्चनास्तोत्रैः कायवाङ्मनसा युतैः ॥ १ ॥

अभिगच्छेज्जगद्योनिं तच्चाभिगमनं स्मृतम् ।
ततः पुष्पफलादीनामुत्थायार्चनमाचरेत् ॥ २ ॥

भगवद्यागनिष्पत्तिकरणं प्रहरं परम् ।
ततोऽप्यङ्गेन यागेन पूजयेत्परमेश्वरम् ॥ ३ ॥

साधकः प्रहरं विप्र इज्याकालो हि स स्मृतः ।
श्रवणं चिन्तनं व्याख्या ततः पाठसमन्विता ॥ ४ ॥

स्वाध्यायकालं तद्विद्धि कालं तं मुनिसत्तम ।
दिनावसाने संप्राप्ते पूजां कृत्वा समभ्यसेत् ॥ ५ ॥

योगो निशावसानेऽथ विश्रामैरन्तरैः कृतम् ।
इति । विप्रेति नारदसंबोधनम् । आदिपदेन समिदाद्याहरणम् । “समित्पुष्पकुशादीनां स कालः समुदाहृतः” इति वचनात् । अङ्गेन यागेनेति स्वयमेव विवृणोति । “मध्वाज्येन च दध्ना च पूजा च पशुना च या । त्रितयं तच्च यागाङ्गं तुर्यं मन्ये च पूजनम्” ॥ मध्वाज्येनेत्यनेन मधुपर्क उक्तः, पशुस्तदङ्गम्, विष्णुधर्मोत्तरे—

मधुपार्किकपश्वर्थे ततो मात्रां निवेदयेत् ।
सहिरण्यं बीजपात्रं द्रविणेन सदैव तु ॥ १ ॥

पशुः कलौ न कर्तव्य इत्याह भगवान् भृगुः ।
इति । द्रविणं दक्षिणा, एतन्मध्याह्नपूजानन्तरं सति संभवे कार्यम् । तथा तत्त्वसारसंहितायाम्—

आतुरी सौतिकी चैव त्रासी दौर्बोधकी तथा ।
साधना भाविनी चेति पञ्चधा भिद्यते पुनः ॥ १ ॥

यदि लङ्घनपर्यन्तो व्याधिरात्मनि दृश्यते ।
तदा पूजा न कर्तव्या स्थण्डिले प्रतिमासु च ॥ २ ॥

न स्नानं दन्तकाष्ठं वा कुर्याद्धोममथापि वा ।
रविमण्डलमालोक्य प्रतिमामथ वा पुनः ॥ ३ ॥

मूलमन्त्रं सकृज्जप्त्वा पुष्पं साक्षतमुत्क्षिपेत् ।
अन्ते व्याधिभिरत्युग्रैः क्रान्तश्चैवोपवासकैः ॥ ४ ॥

न दोषोऽस्त्विति संप्रार्थ्य पुनः पूर्ववदाचरेत् ।
इति संप्रार्थ्य जपहोमादिकं कार्यम् ।
यस्तु रोगवशान्मोहवशाद्दोष उपागतः ।
जपेन क्षालनीयः स्याद् दानेन हवनेन च ॥ १ ॥

ध्यानेनापि मुनिश्रेष्ठ ज्ञात्वा कर्म बलाबलम् ।
इति नारदपञ्चरात्रवचनात् । तथा—

अथ सूतकिनः पूजां वदाम्यागमबोधिताम् ।
स्नात्वा नित्यं च निर्वर्त्य मानस्या क्रियया तु वै ॥ १ ॥

बाह्यपूजाक्रमेणैव ध्यानयोगेन पूजयेत् ।
यदि कामी न चेत्कामी नित्यं पूर्ववदाचरेत् ॥ २ ॥

[पाठान्तरम्: दौर्बोधकी—भया इति ग. (Kurzangabe wie gedruckt).]

त्रासिनो वक्ष्यते पूजा यथैवागमबोधिता ।
लब्धं वा यदि वालब्धमर्घ्यपात्रादि साधनम् ॥ ३ ॥

पूजोदकेन कर्तव्या तच्चेत्तोयं न विद्यते ।
तदा संपूजयेद् देवं भावनाकुसुमादिभिः ॥ ४ ॥

दौर्बोधकीं प्रवक्ष्यामि पूजामागमबोधिताम् ।
मूर्खस्त्रीबालवृद्धाश्च दुर्बोधा इति भाविताः ॥ ५ ॥

रत्नमण्डपधर्मादिचतुष्कमुरगाम्बुजम् ।
मूलमूर्तिः षडङ्गानि तेषां पूजा विधीयते ॥ ६ ॥

अन्येषामपि सर्वेषां प्रोक्ता संक्षेपकर्मणि ।
सर्वेषामेव वस्तूनां अलाभे भावनैव हि ॥ ७ ॥

निर्मलेनोदकेनाथ पूरयेतेत्याह नारदः ।
तथा पुनस्त्रिधा पूजा उत्तमाधममध्यमा ॥ ८ ॥

[Textlücke im Druck: erster Halbvers fehlt] ।

पत्रपुष्पाम्बुनिष्पाद्या पूजा चाधमसंज्ञिका ॥ ९ ॥

विदिताखिलवेदार्थैर्ब्रह्मविद्भिरकल्मषैः ।
क्रियमाणा तु या पूजा सात्त्विकी सा विमुक्तिदा ॥ १० ॥

राजर्षिभिस्तपोनिष्ठैर्भगवत्तत्त्ववेदिभिः ।
या पूजा क्रियते सम्यक् राजसी सा सुखप्रदा ॥ ११ ॥

स्त्रीबालवृद्धमूर्खाद्यैर्भक्त्यैकरुचिमानसैः ।
या पूजा क्रियते नित्यं तामसी सा प्रकीर्तिता ॥ १२ ॥

इति । उत्तरतन्त्रे—

आराधनासमर्थश्चेद् दद्यादर्चनसाधनम् ।
यो दातुं नैव शक्नोति कुर्यादर्चनदर्शनम् ॥ १ ॥

नैकं तु यस्य विद्येत सोऽधो यात्येव नान्यथा ।
यस्तु भक्त्या प्रयत्नेन स्वयं संपाद्य चाखिलम् ॥ २ ॥

साधनं चार्जयेद्विद्वान् स समग्रफलं लभेत् ।
इति । कुम्भसंभवः—

स्वस्थः समर्थः कुर्वीत चोत्तमैरेव साधनैः ।
मध्यमो मध्यमेनैव न्यूनैर्न्यूनस्तपोवने ॥ १ ॥

आपत्क्षेत्रे समर्थोऽपि न्यूनैरेव समाचरेत् ।
पूजाकर्म विशेषेण देशकालानुसारतः ॥ २ ॥

इति । तथा मेरुतन्त्रे—

अथ सूतकिनो नित्यं वैदिकं तु स्मृतीरितम् ।
कृत्वा तान्त्रिकपूजादि मनसैव समाचरेत् ॥ १ ॥

इति । भविष्यपुराणे—

विभवे सति यो मोहान्न कुर्याद्विधिविस्तरम् ।
न तत्फलमवाप्नोति प्रलोभाक्रान्तमानसः ॥ १ ॥

इति । शिवयामले—

शिवपितृवनमैकलिङ्गचण्डीन्द्रजलसंगमचत्वरे सुदेशे ।
अपि शिवगदितं विमुच्य शस्तं निजगृह एव तु पूजनं मुमुक्षोः ॥ १ ॥

अरण्ये स्वल्पकामानां सिद्ध्यर्थं पूजनं हितम् ।
निष्कामानां मुमुक्षूणां गृहे शस्तं सदार्चनम् ॥ २ ॥

इति श्रीमहामहोपाध्यायवर्यभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्यश्रीभगवच्छङ्कराचार्यशिष्यश्रीविष्णुशर्माचार्यशिष्यश्रीप्रगल्भाचार्यशिष्यश्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे एकोनविंशः श्वासः ॥ १९ ॥

Tripurasundari: die Göttin der Sri Vidya.

Video zur Vertiefung: Shri Yantra

Ein heutiger Yoga-Vidya-Vortrag zum Thema; keine Rezitation oder Übersetzung des historischen Textes.

Siehe auch

Seminare

Kundalini Yoga

30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Arjuna Wingen
06.11.2026 - 08.11.2026 Kundalini Yoga Einführung

Gründliche Einführung in die Theorie und Praxis des Kundalini Yoga, Yoga der Energie. Die praktischen Übungen des Kundalini Yoga umfassen Pranayama (…
Arjuna Wingen

Bhakti Yoga

27.10.2026 - 27.10.2026 Mantra-Konzert mit Shamana OM

Konzert mit Shamana OM
Shamana OM
31.10.2026 - 31.10.2026 Mantra-Konzert mit Gruppe Mudita

Konzert mit der Gruppe Mudita
Gruppe Mudita

Indische Schriften

26.12.2026 - 02.01.2027 Indische Rituale Ausbildung

Du interessierst dich für indische Rituale? Du hast die einzigartige Gelegenheit, in dieser Rituale Ausbildung bei Yoga Vidya die kleine Puja, große P…
Sukadev Bretz, Shankari Winkelbauer
01.01.2027 - 10.01.2027 Yogalehrer Weiterbildung Intensiv A1 - Jnana Yoga und Vedanta

Kompakte, vielseitige Weiterbildung für Yogalehrer rund um Jnana Yoga und Vedanta.
Tauche tief ein ins Jnana Yoga und Vedanta, studiere die indischen S…
Vedamurti Dr Olaf Schönert

Chakras

20.11.2026 - 22.11.2026 Heilreise durch die Chakren

Tauche ein in eine transformative Reise durch die sieben Hauptchakren und erfahre, wie du deine Energiezentren aktivieren, ausbalancieren und für dein …
Nese Niekrens, Gajendra Sebastian Niekrens
26.12.2026 - 01.01.2027 Kundalini Yoga Intensiv Praxis - Live Online

Intensives Praktizieren der im Mittelstufen-Seminar gelernten Übungen für noch tiefere Erfahrung und Erweiterung des Bewusstseins ohne viel Theorie. L…
Sukadev Bretz, Shaktipriya Vogt, Radharani Birkner

Energiearbeit

30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Arjuna Wingen
04.11.2026 - 04.11.2026 Einführung in die Chakratherapie - Online Workshop

Uhrzeit: 18 - 21 Uhr
Ein Chakra ist ein feinstoffliches Kraftzentrum des Körpers, welches wichtige Körperfunktionen steuert und bestimmten Organen zug…
Beate Menkarski

Vom Lesen zur Sammlung

Das Studium eines umfangreichen Tantra darf langsam sein. Ein aufmerksam gelesener Abschnitt kann wertvoller sein als viele flüchtig gelesene Seiten. Nimm dir Zeit, einen Begriff zu verstehen, eine Frage zu klären und die eigene Ausrichtung zu erneuern. So können Schriftstudium, Hingabe und Meditation einander ergänzen.