Shri Vidyarnava Tantra Sanskrit Devanagari Teil 4

Aus Yogawiki

Shri Vidyarnava Tantra – Sanskrit in Devanagari, Teil 4 enthält die Śvāsas 20–23 des Uttarārdha. Die Verbindung von Mantra, Puja und innerer Sammlung entfaltet sich hier in einer reichen Sprache von Lauten und göttlichen Gestalten. Die parallele deutsche Übersetzung erklärt Begriffe und lokal unsichere Lesungen.

Umfang dieser Seite: Kapitel 20–23. Die markierten Quellenprobleme und Auslassungen gehören zum Editionsbefund.

Navigation

Zur Ausgabe: Alle Textteile · 108 inspirierende Verse · Mantras und Formelregister

Deutsch: Teil 1 — IAST: Teil 1 — Devanagari: Teil 1

Devanagari: 1 (Kap. 1–9) · 2 (Kap. 10–14) · 3 (Kap. 15–19) · 4 (Kap. 20–23) · 5 (Kap. 24–27) · 6 (Kap. 28–31) · 7 (Kap. 32–35) · 8 (Kap. 36)

So nutzt du diese Textfassung

Die Devanagari-Fassung ermöglicht den unmittelbaren Vergleich mit der Sanskritschrift. Nutze Kapitel, Abschnitt und – wo angegeben – Druckseite gemeinsam zur Orientierung. Die IAST-Fassung hilft beim Abgleich einzelner Wörter; die deutsche Übersetzung erläutert ihren Zusammenhang. Wiederholte Verszahlen gehören häufig zu verschiedenen Zitatreihen und sind deshalb nicht stillschweigend zusammenzuziehen.

Für diesen Teil mit Kapitel 20–23 stehen die passenden Übersetzungs- und Sanskritteile unmittelbar in der Navigation. Wähle beim Wechsel der Fassung denselben Abschnitt; die Grenzen der Dateien sind aus Umfangsgründen unterschiedlich gesetzt.

Textgrundlage und Lesehinweise

Grundlage ist der Druckscan des Uttarārdha von 1937, herausgegeben von Ram Chandra Kak und Harabhatta Shastri. Die beschädigte OCR wurde mit dem Druckbild verglichen. Prosa, Formeln, Tabellen, wiederholte Versnummern und gedruckte Lücken werden bewahrt. IAST ist aus dieser Devanagari-Arbeitsfassung transliteriert. Nicht jede beschädigte Stelle ist sicher lesbar; die gelegentlich herangezogenen Fußnoten bilden keinen vollständigen kritischen Variantenapparat. Vedische Akzente sind nicht durchgehend wiedergegeben.

Das Shri Yantra als moderne Begleitung zum Studium.

Die folgenden zeitgenössischen Videos begleiten das Studium und sind keine Rezitation des historischen Textes.

20. Śvāsa

Morgendliche Verehrung, innere Opferhandlung, Laut- und Strahlenordnungen sowie die Anwendungen der Nityā-Göttinnen bilden den Inhalt dieses Kapitels. Der Text beruht auf Druckseiten 38–90 des Uttarārdha von 1937. Gedruckte Lücken und lokal unsichere Lesungen bleiben sichtbar; die ausführlichen Erläuterungen dazu stehen in der deutschen Übersetzung. Die Wiedergabe ist keine neue kritische Edition. Historische Wirkungsbehauptungen und Schadensrituale sind keine heutigen Praxisempfehlungen.

अथ विंशः श्वासः |

अथ नित्यपूजाप्रयोगः |
तत्र श्रीमान्साधकेन्द्रो रजनीतुर्ययामे शयनाद्दक्षिणाङ्गेन समुत्थाय, स्वेष्टदेवतां स्मृत्वा वामपादं भुवि विन्यस्योत्थाय गृहाद्बहिर्निर्गत्यावश्यकं कृत्वा हस्तौ पादौ च प्रक्षाल्य, रात्रिवासः परित्यज्य धौते वाससी परिधायाचम्य देवतायागमन्दिरं संमार्ज्य गोमयेनोपलिप्य वितानादिभिरलंकृत्य, तत्र स्वासने उपविश्य पूजामूर्तेर्निर्माल्यमपकृष्य प्रक्षाल्य संस्थाप्य प्राणायामादित्रयऋष्यादिन्यासपूर्वकं पूर्वदिनपूजावशिष्टपत्रादिना मूर्तिं त्रिरभ्यर्च्य पाद्याचमनीये दत्त्वा, देवाय कर्पूरशकलैर्दन्तधावनं कारयित्वा सुगन्धिजलगण्डूषमुखप्रक्षालनादि दत्त्वा पुनराचमनीयं निवेद्य करास्यप्रोञ्छनाय सूक्ष्मनिर्मलवस्त्रं दत्त्वा, शिरसि श्वेतसहस्रदलकमलकर्णिकायां श्रीगुरुं श्वेतवस्त्राभरणभूषितं वराभयज्ञानमुद्रापुस्तककरं चन्द्रकान्तनिभं सुप्रसन्नं श्वेतगन्धानुलेपनं श्वेतमाल्यविभूषितं वामाङ्कगतया रक्तवर्णया रक्तवस्त्राभरणगन्धमाल्यविभूषितया वामकरधृतलोलाकमलया देव्या दक्षिणभुजेनालिङ्गितं त्रिनेत्रं शान्तमन्तर्मौखं शिवरूपिणं ध्यात्वा, तच्चरणारविन्दयुगलनिःसृतपीयूषधारया स्वदेहमभिषिक्तं संचिन्त्य “श्रीअमुकानन्दनाथश्रीपादुकां पूजयामि” इति तद्गुरुणा तत्संस्कृतकृतनाम्ना, तदज्ञाने “श्रीगुरुभ्यो नमः |
श्रीगुरुपादुकाभ्यो नमः” इति मन्त्रेण वा गन्धादिभिरुपचारैर्मनसा वा संपूज्य |

आनन्दमानन्दकरं प्रसन्नं ज्ञानस्वरूपं निजभावयुक्तम् |

योगीन्द्रमीड्यं भवदुःखवैद्यं श्रीमद्गुरुं नित्यमहं नमामि ॥

इति प्रणम्य स्वहृदि लयं भावयेत् |
ततो मूलाधारादिब्रह्मरन्ध्रान्तमुद्यत्सूर्यसहस्रप्रभं सुषुम्नान्तस्तेजोदण्डनिभं मूलमन्त्रं ध्यात्वा तत्तेजसा व्याप्तं स्वशरीरं संचिन्त्य वक्ष्यमाणविधिना मूलमन्त्रेण प्राणायामत्रयं कृत्वा वक्ष्यमाणर्ष्यादिकरषडङ्गन्यासान् विन्यस्य हृदयकमले वक्ष्यमाणरूपं देवं ध्यात्वा मानसैरुपचारैः संपूज्य मूलमन्त्रं यथाशक्ति जपित्वा जपं समर्प्य स्तुत्वा प्रणम्य,

त्रैलोक्यचैतन्यमयादिदेव श्रीशङ्कर त्वच्चरणाज्ञयैव |

प्रातः समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्तयिष्ये ॥

संसारयात्रामनुवर्तमानं त्वदाज्ञया शङ्कर देवदेव |

स्पर्धातिरस्कारकलिप्रमादभयानि मां माभिभवन्तु नाथ ॥

जानामि धर्मं नच मे प्रवृत्तिर्जानाम्यधर्मं नच मे निवृत्तिः |

त्वयेन्द्रियाणामधिदेवतेन यथा नियुक्तोऽस्मि तथा करोमि ॥

एते प्रार्थनाश्लोका गणेशाद्युपासकैर्यथायोग्यमूह्याः, इति प्रार्थ्य

समुद्रमेखले देवि पर्वतस्तनमण्डले |

विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥

[पाठान्तराणि: सुप्रसन्नं—शान्त इति ग.; भवदुःख—भवरोग इति क.; त्वयेन्द्रियाणामधिदेवतेन—त्वया हृषीकेश हृदि स्थितेन अथवा केनापि देवेन मयि स्थितेन.]

इति भूमिं प्रार्थ्य, श्वासानुसारेण तस्यां पादं निधायेष्टदेवतानामोदीर्योत्थाय पदे पदेऽस्त्रमन्त्रं स्मरन् ग्रामाद्बाह्ययाम्यां नैरृत्यां वा दिशि शरक्षेपदूरमतीत्य दूरं गत्वा प्रमाणोक्तप्रकारेण स्थानाद्दृश्यादीनुद्वास्य [Lesung दृश्यादीन् unsicher] यथाविधि मलमूत्रोत्सर्गं प्रमाणोक्तविधिना शौचाचमनादिकं च विधायानिषिद्धदिनेषु विहितं दन्तकाष्ठमादाय “क्लीं कामदेवाय सर्वजनप्रियाय नमः” इति मन्त्रेण दन्तधावनं विधाय, दन्तकाष्ठं प्रक्षाल्य पुरतः शुद्धदेशे परित्यज्य, मूलमन्त्रेण मुखं प्रक्षाल्य कुशतिलगन्धाक्षतकुसुमधौतवस्त्राद्यादायास्त्रादिमन्त्रितशङ्कुनोद्धृतां शुचिस्थानान्मृत्तिकां च गृहीत्वा जलाशयं गत्वास्त्रमन्त्रादिमन्त्रितजलेन तीरं प्रक्षाल्य, तत्राभिमन्त्रितं कुशादिकं निधायोद्धृतजलेन तीर्थाद्बहिः कटिशौचं कृत्वा स्वशाखोक्तविधिना वैदिकस्नानं विधाय तदङ्गतर्पणं कृत्वा तीरं गत्वास्त्रमन्त्रेण मृत्तिकया मूर्धादिपादान्तं विलिप्य

“आधारः सर्वभूतस्य विष्णोरतुलतेजसः |
तद्रूपाश्च ततो जातास्ता अपः प्रणमाम्यहम् ॥”

इति तीर्थजलं प्रणम्य संमुखीकरणमुद्रां बद्ध्वा प्राणवायुं निरुन्धन् जलान्तः प्रविश्य, तूष्णीं निमज्ज्योन्मज्ज्य नाभिमात्रे जले स्थित्वा “अद्येत्यादि अमुकोऽहमिष्टदेवताप्रीत्यर्थं तान्त्रिकस्नानं करिष्ये” इति संकल्प्य, मूलमन्त्रेण प्राणायामत्रयं कृत्वा मूलमन्त्रस्य ऋष्यादिकरषडङ्गन्यासांश्च कृत्वा स्वपुरतो जले हस्तमात्रं चतुरस्रं तीर्थं परिकल्प्य

“ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे |
तेन सत्येन देवेश तीर्थं देहि दिवाकर ॥”

इति सूर्यात्तीर्थं प्रार्थ्य क्रों इत्यङ्कुशमुद्रया सूर्यमण्डलं भित्त्वा

“गङ्गे च यमुने चैव गोदावरि सरस्वति |
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु ॥”

इति सूर्यमण्डलात्तीर्थमावाह्य पुरः कल्पिततीर्थमण्डले संयोज्य वक्ष्यमाणतीर्थशक्तिमन्त्रेण तीर्थशक्तिमावाह्य तत्र तां ध्यायेत् |
यथा—

सर्वानन्दमयीमशेषदुरितध्वंसां मृगाङ्कप्रभां

त्र्यक्षीं चोर्ध्वकरद्वयेन दधतीं पाशं सृणिं च क्रमात् |

दोर्भ्यां चामृतपूर्णहेमकलशं मुक्ताक्षमालां वरं

गङ्गासिन्धुसरिद्द्वयादिसहितां श्रीतीर्थशक्तिं भजे ॥

इति ध्यात्वा, “ॐ ह्रां ह्रीं ह्रूं हृदयाद्यः सर्वानन्दमये तीर्थशक्ति एह्येहि स्वाहा तीर्थशक्त्यै नमः” [Lesung der einleitenden Bījas unsicher] इति तीर्थशक्तिं संपूज्य, “ॐ नमो भगवति अम्बे अम्बालिके अम्बिके महामालिन्ये एह्येहि भगवति अशेषतीर्थालवाले ह्रीं श्रीं शिवजटाधिरूढे गङ्गे गङ्गाम्बिके स्वाहा” इति मन्त्रेणाष्टवारमभिमन्त्र्य तज्जलं ह्रींकारेणावलोक्य वमिति धेनुमुद्रयामृतीकृत्य, कवचमन्त्रेणावगुण्ठनमुद्रयावगुण्ठ्यास्त्रमन्त्रेण छोटिकाभिः संरक्ष्य, तत्र सचक्रं सावरणं देवं ध्यात्वा जलमयैः पञ्चोपचारैः संपूज्य मूलमन्त्रेणाष्टवारमभिमन्त्र्य, तत्र मूलमन्त्रं जपन् हृदि देवं स्मरन् त्रिर्निमज्ज्योन्मज्ज्य कुम्भमुद्रां बद्ध्वा मूलमन्त्रेण स्वशिरसि त्रिरभिषिच्य

“ॐ सिष्विक्तानिखिलं [Lesung unsicher] विश्वं मुहुः शुद्धं प्रजायते |
मातरः सर्वदेवानामापो देव्यः पुनन्तु माम् ॥”

इति मन्त्रेण चात्मानमभ्युक्ष्य

“यन्मे केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि |
ललाटे कर्णयोरक्ष्णोरापस्तु घ्नन्तु वो नमः ॥”

इति प्रणम्य स्वाहान्तेन मूलमन्त्रेण त्रिराचम्य मूलेन च त्रिः सन्तर्प्य देवं विसृज्य तीरमागत्य, धौते वाससी परिधायोरुकरौ मृदाद्भिश्च प्रक्षाल्याचम्य, प्रमाणोक्तस्ववर्णविहितं तिलकमादौ विधाय शिवभक्ताङ्गभूतं

भस्मत्रिपुण्ड्रधारणं कुर्यात् |
तत्र ब्राह्मणस्योर्ध्वपुण्ड्रं क्षत्रियस्य त्रिपुण्ड्रं वैश्यस्यार्धचन्द्राकारं शूद्रस्य वृत्ताकारम् ॥

अथ भस्मधारणविधिः—तत्राग्निहोत्रोद्भवं वैवाह्याग्न्युद्भवं वा पूर्वोक्तविधिना वक्ष्यमाणविधिना वा संस्कृतशिवाग्नौ प्रमाणोक्तविधिनान्तरिक्षे गृहीतगोमयपिण्डं शुष्कं मूलमन्त्रेण दग्धं देवोद्वासनात् पूर्वमेव गृहीतमपक्वातिपक्वरहितं वस्त्रेण शोधितं कर्पूरादिसुवासितं भस्म संगृह्य संस्थाप्य तेन वा त्रिपुण्ड्रधारणं कुर्यात् |
तत्र प्रकारस्तु—मूलमन्त्रेण प्राणायामत्रयं कृत्वा शिरसि पिप्पलादऋषये नमः, मुखे गायत्रीच्छन्दसे नमः, हृदि श्रीरुद्राय देवतायै नमः, गुह्ये अग्निबीजाय नमः, पादयोः भस्मशक्तये नमः, मम मोक्षार्थे भस्मधारणे विनियोगः |
इति ऋष्यादिन्यासं विधाय, अङ्गुष्ठयोः कालाय नमो हृदयाय नमः, तर्जन्योः कलविकरणाय नमः शिरसे स्वाहा, मध्यमयोः बलविकरणाय नमः शिखायै वषट्, अनामिकयोः बलप्रमथनाय नमः कवचाय हुं, कनिष्ठिकयोः सर्वभूतदमनाय नमः नेत्रत्रयाय वौषट्, करतलकरपृष्ठयोः मनोन्मनाय नमः अस्त्राय फट्, इति विन्यस्य, हृदयशिरःशिखाकवचनेत्रेषु प्रागुक्तपञ्चमन्त्रान् विन्यस्य अस्त्रमन्त्रेण तालत्रयं दशदिग्बन्धनं च कृत्वा |

“विभूते भूतिमानासीद्वामदेवः सदाशिवः |
रक्षाबन्धस्त्वया देवि रक्ष मां अनघे सदा ॥”

इति विभूतिं प्रणम्य, “सद्योजात” मित्यादिपञ्चानुवाकानां सात्त्विको देवतौपनिषदाः ऋषयः प्रथमद्वितीयचतुर्थानुवाकानामनुष्टुप् “अघोरेभ्य” इत्यस्य स्वराडनुष्टुप् अन्त्या गायत्री, सर्वेषां रुद्रो देवता इति ऋष्यादिकं स्मृत्वा विन्यस्य,

“ॐ सद्योजातं प्रपद्यामि सद्योजाताय ते नमः |
भवे भवे नातिभवे भजस्व मां भवोद्भवाय नमः ॥ १ ॥

वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥ २ ॥

अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः |
सर्वेभ्यः सर्वशर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः ॥ ३ ॥

तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ॥ ४ ॥

ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मेऽस्तु सदाशिवोम् ॥ ५ ॥”

इति मन्त्रान् पठित्वा विभूतिमादाय वामकरे निधाय, भस्माभिमन्त्रणमन्त्रस्य ऋष्यादिन्यासं कुर्यात् |
शिरसि अथर्वशिरसे ऋषये नमः |
मुखे गायत्रीच्छन्दसे नमः |
हृदये श्रीरुद्रदेवतायै नमः |
इति विन्यस्य “अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वं ह वा इदं भस्म मन इत्येतानि चक्षूंषि भस्मानि” इत्यभिमन्त्र्य,

“आपो वा” इत्यस्य प्रजापतिः ऋषिः यजुरापो देवता इति ऋष्यादिकं स्मृत्वा विन्यस्य “आपो वा इदं सर्वं विश्वा भूतान्यापः प्राणा वा आपः पशव आपोऽन्नमापः सम्राडापो विराडापः स्वराडापः छन्दांस्यापो ज्योतींष्यापः सत्यमापः सर्वा देवता आपो भूर्भुवःस्वरापः ॐ” इति मन्त्रेणाद्भिः संसिच्य |
“मा नस्त” इत्यस्य भगवानृषिः जगतीच्छन्दो हिरण्यगर्भो देवता इति ऋष्यादिकं स्मृत्वा विन्यस्य,

“ॐ मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः |
वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तो नमसा विधेम ते ॥”

इति मन्त्रेण संमृज्य, “तस्माद् ब्रह्मेदेतत्पाशुपतं पशुपाशविमोक्षाय” इति मन्त्रेणैकादशवारमभिमन्त्र्य द्विधा कृत्वैकेन भागेन “ईशानः सर्वविद्यानां” इति प्रागुक्तमन्त्रेण शिरसि |
“तत्पुरुषाय” इति मुखे |
“अघोरेभ्य” इति बाहोः |
“वामदेवाय” इति कण्ठादिनाभ्यन्तम् |
“सद्योजात” इति ऊरुमूलादिपादद्वयपर्यन्तम् |
इति सर्वाङ्गे भस्मोद्धूलनं कृत्वा हस्तौ प्रक्षाल्य द्वितीयभागमादाय, शिरसि ॐ हौं हरहर ॐ नमः शिवाय |
ललाटे ब्रह्मणे नमः |
हृदये हव्यवाहनाय नमः |
नाभौ स्कन्दाय नमः |
कण्ठे पूष्णे नमः |

[पाठान्तरम्: सर्वेभ्यः सर्वशर्वेभ्यो—सर्वतः शर्व सर्वेभ्यो इति ख.]

Redaktioneller Hinweis: Die vedischen Akzente der Gebete und Mantras sind nicht durchgehend rekonstruierbar; die Wiedergabe beansprucht keine vollständige Akzentedition.

दक्षबाहुमूले रुद्राय नमः |
दक्षबाहुमध्ये आदित्याय नमः |
दक्षमणिबन्धे चन्द्राय नमः |
वामबाहुमूले वामदेवाय नमः |
वामबाहुमध्ये प्रभञ्जनाय नमः |
वाममणिबन्धे वसुभ्यो नमः |
ककुदि शम्भवे नमः |
पृष्ठे हराय नमः |
ब्रह्मरन्ध्रे परमात्मने नमः |
इति त्रिपुण्ड्रधारणं कृत्वा वैदिकसंध्यां कृत्वा तान्त्रिकसंध्यां कुर्यात् ॥ अयं भस्मधारणविधिस्त्रैवर्णिकानामेव |
अन्यैस्तु पञ्चाक्षरेण मूलमन्त्रेण वा त्रिपुण्ड्रधारणं कार्यमिति |
शाक्तैस्तु कुङ्कुमयुक्तचन्दनादिनैव मूलमन्त्रेण त्रिपुण्ड्रधारणं कार्यमिति ॥

अथ तान्त्रिकसंध्या—तत्र मूलमन्त्रेणाचम्य शिखां बद्ध्वा मूलेनैव प्राणायामत्रयं कृत्वा मूलमन्त्रस्य ऋष्यादिकरषडङ्गन्यासान् विन्यस्य, स्वपुरतो वमिति धेनुमुद्रया जलममृतीकृत्य मूलमन्त्रेण अष्टवारमभिमन्त्र्य, तज्जलबिन्दुभिः कुशैरकारादिक्षकारान्तैरेकपञ्चाशदक्षरैः सबिन्दुभिः प्रत्यक्षरं शिरः प्रोक्ष्य, मूलेन च त्रिः प्रोक्ष्य, सूर्यमण्डले यथोक्तरूपं ध्यात्वा देवं, दक्षिणकरेण जलमादाय वामकराग्रेण त्रिः प्रोक्ष्यावशिष्टं वामकरस्थं जलं वामनासासमीपं नीत्वा तेजोमयं वामनासारन्ध्रेण स्वदेहान्तःप्रविष्टं ध्यात्वा, तेन जलेन स्वदेहान्तःस्थं सकलकलुषं प्रक्षाल्य कृष्णवर्णं तज्जलं दक्षिणनासारन्ध्रेण विनिर्गतं ध्यात्वा दक्षिणकरेणादाय स्ववामभागे वज्रशिलां ध्यात्वा “ॐ श्लीं पशुं हुं फट्” [Lesung der Pāśupatāstra-Formel unsicher] इति पाशुपतास्त्रेण तस्यामास्फाल्य, हस्तौ प्रक्षाल्य मूलमन्त्रेण त्रिराचम्याञ्जलिना जलमादायोत्थाय स्वेष्टदेवतागायत्रीमुच्चार्य “श्रीमहादेव एष तेऽर्घ्यः स्वाहा” |
महादेवेत्युपलक्षणम् |
इति त्रिरर्घ्याञ्जलिं सूर्याभिमुखमुत्क्षिप्य मूलमुच्चार्य “श्रीमहादेवं तर्पयामि नमः” इति त्रिः संतर्प्य, प्राग्वत् प्राणायामादिकं कृत्वा सूर्यमण्डले देवं ध्यायन् “ॐ तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि तन्नः शिवः प्रचोदयात्” ॥ इति शिवगायत्रीं तत्तद्देवतागायत्रीं यथाशक्ति जपित्वा मूलमन्त्रं वाष्टोत्तरशतं जपित्वा जपं समर्प्य स्तुत्वा प्रणम्य सूर्यमण्डलाद् देवं हृदि विसृज्य श्रीगुरुं प्रणमेदिति त्रिषु कालेषु तान्त्रिकसंध्याविधिः ॥ गणेशाद्युपासकैरप्युक्तयुक्त्या तत्तत्संध्या कार्या, तत्तद्गायत्र्यर्घ्यदानजपतत्तन्मूलमन्त्रजपश्च विशेषः |
तत्तद्गायत्री तत्तत्कल्पे द्रष्टव्या |
अत्र—

“सन्ध्यालोपो न कर्तव्यः शम्भोराज्ञैवमेव हि |
दीक्षितः संध्यया हीनो न दीक्षाफलमश्नुते ॥”

इति शिवरहस्यवचनात् संध्यात्रयमावश्यकमिति |
स्वसमये न कृता चेत् संध्या तदाष्टोत्तरशतजपं प्रायश्चित्तार्थं कृत्वा पूर्वसंध्यां कृत्वा तत्तत्कालसंध्यां कुर्यात् ॥

तत्र प्रकृते प्रातः संध्यावन्दनानन्तरं वैदिकतर्पणं निर्वर्त्य मूलेन प्राणायामत्रयऋष्यादिन्यासपूर्वकं स्वपुरतो वमिति धेनुमुद्रया जलममृतीकृत्य, तत्र देवं सचक्रं साङ्गावरणं ध्यात्वा मूलमन्त्रमुच्चार्य “श्री अमुकदेवतां तर्पयामि नमः” इत्यष्टोत्तरशतवारं तदर्धमष्टाविंशतिवारं वा देवस्य मुखकमले परमामृतबुद्ध्या तत्तीर्थजलैः सन्तर्प्यावरणदेवताश्च “अमुकं तर्पयामि नमः” इति प्रत्येकमेकेकाञ्जलिना सन्तर्प्य देवं स्वहृदि विसृज्य तीर्थं च सूर्ये विसृज्य गुरुदिक्पतिब्रह्मान् प्रणम्य, शुद्धोदकपूर्णपात्रमादाय हृदि स्वेष्टदेवतां स्मरन् मौनी स्वपदमार्गदृष्टिः स्तोत्रादिकं पठन् स्वगृहं गच्छेत् |
ततो द्वारि स्थितः स्वपापं मनसा संचिन्त्य,

“देव त्वं प्राकृतं चित्तं पापाक्रान्तमभून्मम |
तन्निःसारय चित्तान्मे पापं फट्फट्फट् ते नमः ॥

सूर्यः सोमो यमः कालो महाभूतानि पञ्च च |
एते शुभाशुभस्येह कर्मणो नव साक्षिणः ॥”

इति पठित्वा “हुं फट्” इति क्रोधदृष्ट्या पापवज्रपुरुषमधश्चावलोक्य सुमना भूत्वा गृहान्तः प्रविश्यास्त्रं शिखया पादौ प्रक्षाल्यायाम्याग्रकुशभूमौ [Lesung der Richtungsangabe unsicher] गोमयोपलिप्तायां सिन्दूरादिना रविबिन्दुमण्डलमध्ये स्थानमास्तीर्य

[पाठान्तरम्: गायत्रीजपस्थले मूलमन्त्रं—मन्त्रं इति क.]

“ॐ ह्रीं आधारशक्तिकमलासनाय नमः” इत्यासनं संपूज्य, तत्र प्राङ्मुख उपविश्य वक्ष्यमाणसूर्यमन्त्रेण प्राणायामत्रयं कृत्वा, शिरसि अजाय ऋषये नमः |
मुखे गायत्रीच्छन्दसे नमः |
हृदये श्रीसूर्यदेवतायै नमः |
इति विन्यस्य सूर्यार्घ्यदाने विनियोगः इति कृताञ्जलिर्वदेत् |
ततः अङ्गुष्ठयोः हां हृदयाय नमः |
तर्जन्योः हीं शिरसे स्वाहा |
मध्यमयोः हूं शिखायै वषट् |
अनामिकयोः हैं कवचाय हुं |
कनिष्ठिकयोः हौं नेत्रत्रयाय वौषट् |
करतलकरपृष्ठयोः हः अस्त्राय फट् |
इति करयोर्विन्यस्यैतानेव पञ्चमन्त्रान् हृदयशिरःशिखाकवचनेत्रेषु विन्यस्यास्त्रमन्त्रेण तालत्रयदशदिग्बन्धनं च कृत्वा,

रक्ताम्बुजासनमशेषगुणैकसिन्धुं भानुं समस्तजगतामधिपं नमामि |

पद्मद्वयाभयवरान् दधतं कराब्जैर्माणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम् ॥

इति सूर्यं ध्यात्वा स्वपुरतः पुरस्तात्प्रयोगप्रकरणे वक्ष्यमाणप्रयोजनतिलकाख्यग्रन्थमन्त्रोक्तविधिना साङ्गं सावरणं संपूज्य, तदशक्तौ तन्मण्डले साङ्गावरणं ध्यात्वा संपूज्य, स्वपुरतश्चतुरस्रवृत्तत्रिकोणात्मकं मण्डलं कृत्वा “श्रीसूर्याधारमण्डलाय नमः” इति मण्डलं संपूज्य, तत्र साधारं प्रस्थजलग्राहि ताम्रपात्रं निधाय सूर्यमन्त्रेण शुद्धोदकेनापूर्य तिलयवसर्षपश्यामाककुशाग्रगन्धाक्षतरक्तपुष्पाणि रक्तचन्दनं च निक्षिप्य कुशैराच्छाद्य तत्पात्रं कराभ्यामाच्छाद्य सूर्यमन्त्रमष्टोत्तरशतं जपित्वा जानुभ्यामवनीं गतस्तत्पात्रं कराभ्यामामस्तकमुद्धृत्य पूर्वोक्तरूपं सूर्यं निजेष्टदेवताभेदेन ध्यायन् “ॐ ह्रां ह्रीं सः सग्रहराशिनक्षत्रयोगकरणपरिवृत श्रीसूर्य एष तेऽर्घ्यः स्वाहा” इति सूर्यायार्घ्यं दत्त्वा, तदर्घ्याम्बुपूतं सूर्यं ध्यायन् तन्मन्त्रं यथाशक्ति जपित्वा सूर्यं स्तुत्वा प्रणम्य स्वपुरः पूजापट्टे तं विसृज्य, पूजामण्डपद्वारं गत्वा तत्र वक्ष्यमाणविधिना सामान्यार्घ्यं संस्थाप्य, तदशक्तौ ताम्रादिपात्रस्थं जलं धेनुमुद्रया अमृतीकृत्य तेन जलेन वा पूजामण्डपस्य द्वारं प्रोक्ष्य द्वारस्योर्ध्वशाखाया मध्ये विघ्नाय नमः |
तद्दक्षिणे महालक्ष्म्यै नमः |
वामे सरस्वत्यै नमः |
पुनर्मध्ये द्वारश्रियै नमः |
द्वारस्य वामदक्षिणशाखयोः गं गणपतये नमः |
क्षं क्षेत्रपालाय नमः |
शंखनिधिवसुधाराभ्यां नमः |
पद्मनिधिवसुमतीभ्यां नमः |
मं मायाशक्त्यै नमः |
चिं चिच्छक्त्यै नमः |
गं गङ्गायै नमः |
यं यमुनायै नमः |
धं धात्र्यै नमः |
विं विधात्र्यै नमः |
इति द्वन्द्वक्रमेणाधोऽधः संपूज्य, अधो देहल्यै नमः |
वामदक्षिणयोः नन्दिने नमः |
महाकालाय नमः |
इति द्वारपालौ संपूज्य, उत्तरद्वारं गत्वा तदर्घ्याम्बुना प्रोक्ष्य प्राग्वद्विघ्नादिदेहल्यन्तं प्रोक्तक्रमेण संपूज्य, द्वारपार्श्वयोः गणेशाय नमः |
वृषभाय नमः |
इति द्वारपालौ संपूज्य, दक्षिणद्वारं गत्वा तथैवाभ्युक्ष्य विघ्नादिदेहल्यन्तमभ्यर्च्य, द्वारपार्श्वयोः उमायै नमः |
चण्डेश्वराय नमः |
इति द्वारपालौ संपूजयेत् ॥ वैष्णवे तु नन्दसुनन्दचण्डप्रचण्डबलप्रबलभद्रसुभद्राः प्रतिद्वारं द्विद्विकक्रमेण पूज्याः |
गाणेशे वक्रतुण्डैकदंष्ट्रमहोदरगजाननलम्बोदरविकटविघ्नराजधूम्रवर्णास्त्वेव पूज्याः ॥ शाक्तद्वारास्तु … [?] ब्राह्म्याद्यष्टमातरस्तु प्राग्वत्पूज्याः |
पुनः पश्चिमद्वारं गत्वास्त्रमन्त्रेण सप्तधाभिमन्त्र्य,

“अपक्रामन्तु भूतानि पिशाचाः प्रेतगुह्यकाः |
ये चात्र निवसन्त्यन्ये देवता भुवि संस्थिताः ॥

अपसर्पन्तु ये भूता ये भूता भुवि संस्थिताः |
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥”

इत्यन्तेऽस्त्रमन्त्रं जपन् नाराचमुद्रया मण्डपान्तः प्रक्षिप्य, तस्मान्निर्गच्छतां विघ्नानां स्ववामाङ्गसंकोचेन मार्गं दत्त्वास्त्रमन्त्रं पठन् वामपार्ष्णिघातत्रयेण भौमान्, ऊर्ध्वोर्ध्वतालत्रयेणान्तरिक्षगान्, तिग्मदृगवलोकनेन दिव्यान् विघ्नानुत्सार्य, दक्षिणपादपुरःसरं शाक्ते वामपादपुरःसरं देहलीमुल्लङ्घ्यान्तः प्रविश्य वाससा द्वारमाच्छाद्य पञ्चगव्यार्घ्यतोयाभ्यां घण्टावादनपूर्वकं मण्डपाभ्यन्तरं प्रोक्ष्य, मण्डपस्य नैरृतकोणे वास्तुपुरुषाय

[पाठान्तरम्: धं—तं इति क.]

नमः |
तत्रैव वास्त्वधीशाय ब्रह्मणे नमः |
इति संपूज्य, मण्डपस्येशानकोणे रक्तद्वादशशक्तिसहिताय श्रीदीपनाथाय नमः |
इति दीपनाथं संपूज्य,

“अतितीक्ष्ण महाकाय कल्पान्तदहनोपम |
भैरवाय नमस्तुभ्यं ममाज्ञां दातुमर्हसि ॥”

इति भैरवाज्ञां प्रार्थ्य “अः फट्” इति मण्डपमध्यस्थां पूजावेदीं गत्वा, शिरसि मेरुपृष्ठाय ऋषये नमः |
मुखे सुतलाय छन्दसे नमः |
हृदि पृथिव्यै देवतायै नमः |
इति विन्यस्य पृथिवीप्रार्थने विनियोगः इति कृताञ्जलिरुक्त्वा,

“ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता |
त्वं च धारय मां नित्यं पवित्रं कुरु चासनम् ॥”

इति पृथिवीं प्रार्थ्य, स्वासनस्थानं मूलमन्त्रेण वाच्यास्त्रमन्त्रेण प्रोक्ष्य तेनैव मन्त्रेण कुशैः सन्ताड्य कवचमन्त्रेणाभ्युक्ष्य, तत्र मण्डूकादिवेदिकान्ताः पीठदेवताः संपूज्य तत्र चेलाजिनकुशोत्तरं हस्तद्वयमात्रं चतुरस्रं चतुरङ्गुलोच्छ्रितं स्वासनमास्तीर्य मूलमन्त्रेण द्वादशाभिमन्त्रितेन जलेनाभ्युक्ष्य “ह्रीं आधारशक्तिकमलासनाय नमः” इति संपूज्य, तत्र प्राङ्मुख उदङ्मुखो वा स्वस्तिकवीरसिद्धान्यतमेनोपविश्य, आसनस्य स्वदक्षिणाग्रकोणादिचतुष्कोणेषु प्रादक्षिण्येन गं गणपतये नमः |
दुं दुर्गायै नमः |
सं सरस्वत्यै नमः |
क्षं क्षेत्रपालाय नमः |
इति संपूज्य गन्धपुष्पाक्षतादीनि पूजाद्रव्याणि स्वदक्षिणभागे निधाय “ह्रीं हुं फट्” [Bīja-Lesung unsicher] इति मन्त्रं स्मरन् दिव्यदृष्ट्या विलोक्य कर्पूरादिवासितशुद्धोदकपूर्णं वामभागस्थं कुम्भं श्रीमिति वामपाणिना संस्पृशन् दक्षिणकराङ्गुल्यग्रेण क्लीं इति कुम्भस्थं जलं संस्पृश्य, रमिति दीपशिखां स्पृष्ट्वा करं प्रक्षाल्य कृताञ्जलिर्वामे गुरुभ्यो नमः |
दक्षिणे गणपतये नमः |
अग्रे महादेवाय नमः |
इति प्रणम्य, चन्दनसुगन्धपुष्पाणि ह्रसौं [Lesung unsicher] इति मन्त्रेणादायास्त्रमन्त्रेण मर्दयित्वा करौ सुरभीकृत्य तत्पुष्पं वामकरेण स्वमूर्धानं परितो रों इति भ्रामयित्वाघ्राय, ॐ हौं

“ते सर्वे विलयं यान्तु ये मां हिंसन्ति हिंसकाः |
मृत्युरोगभयक्लेशाः पतन्तु रिपुमस्तके ॥”

इति पठित्वास्त्रमन्त्रेण नाराचमुद्रया ईशान्यां दिशि दूरे प्रक्षिप्य, अस्त्रमन्त्रेण पुनः करावन्योन्यमार्जनेन संशोध्यास्त्रमन्त्रेणोर्ध्वोर्ध्वतालत्रयमङ्गुष्ठतर्जन्युत्थशब्देन दशदिग्बन्धनं कृत्वा त्रिशूलमुद्रामुद्रितौ व्यस्तौ मणिबन्धेनान्योन्यसंपृक्तौ करौ स्वमूर्धानं परितोऽस्त्रमन्त्रं स्मरन् प्रादक्षिण्येन त्रिर्भ्रामयन् अग्निप्राकारत्रयं विधाय तन्मध्यगतमात्मानं संचिन्त्य मूलमन्त्रेण प्राणायामत्रयं कृत्वा भूतशुद्धिं कुर्यात् ॥

अत्र प्रागुक्तपरिपाट्या भूतशुद्ध्यादिकं तु, प्रथमतो भूतशुद्धिः, ततः प्राणप्रतिष्ठा, ततोऽन्तर्मातृकान्यासः |
अत्रान्तर्मातृकान्यासो मनसैव कार्यः |
“पुष्पैरनामया वापि मनसा वा न्यसेन्मनून्” इति दक्षिणामूर्तिसंहितावचनात् |
“एवमन्तः प्रविन्यस्य मनसा नो बहिर्न्यसेत्” इति कुम्भसंभववचनाच्च |
अत्र वाशब्दः समुच्चये |
मनून् मन्त्रान् |
अत्रैवं व्यवस्था—पुष्पैर्देवतामूर्तौ, अनामया स्वदेहे, मनसा मूलाधारादिचक्रेषु, तत्र करस्पर्शासंभवात् |
अनामया साङ्गुष्ठ्या |
“अङ्गुष्ठानामिकाभ्यां तु न्यासः सर्वत्र संमतः” इति पद्मावतीवचनात् |
ऋष्यादिकरषडङ्गन्यासव्यतिरिक्तेष्वियं व्यवस्था ज्ञेया |
तत्राङ्गुष्ठानां सर्वाङ्गुलीनां विहितत्वात् तथैव संप्रदायात् |
षडङ्गमन्त्राणामपि पृथक्पृथक्प्रतिपादनाच्चेति |

ततो बहिर्मातृकान्यासः |
अत्र बहिर्मातृकान्यासे केवले बिन्दुयुक्तत्वमन्तराणां वीर्ययोजनार्थमिति संप्रदायः |
ततो बिन्दुमातृकान्यासः |
ततो विसर्गमातृकान्यासः |
ततो बिन्दुविसर्गयुक्तमातृकान्यासः |
अत्र

[पाठान्तराणि: ममाज्ञां—मह्यमनुज्ञां इति क.; वाच्य—प्राप्य इति क.; दीपनाथप्रसङ्गे—देवि इति क. (Bezug der letzten Kurzvariante unsicher).]

यतिवानप्रस्थैरादौ सृष्टिस्ततः स्थितिस्ततः संहार इति कार्यः |
गृहस्थैस्तु प्रथमं संहारस्ततः सृष्टिस्ततः स्थितिः कार्या |
ब्रह्मचारिभिः आदौ स्थितिस्ततः संहारस्ततः सृष्टिः कार्या |
अत्र केचित् “गृहस्थैः सृष्टिस्थितिसंहारानन्तरं पुनः सृष्टिस्थिती च कार्ये, तेन स्थित्यन्तता स्यात् |
एवं ब्रह्मचारिभिः सृष्टिस्थितिसंहारानन्तरं पुनः सृष्टिन्यासः कार्यः |
एवं कृते स्थित्यन्तता सृष्ट्यन्तता संहारान्तता च भवति” इत्याहुः |
अत्र यथागुरूपदेशं कार्यमिति ॥

ततस्तारस्थैकपञ्चाशत्कलामातृकान्यासः |
ततः केशवादिमातृकान्यासः |
ततः श्रीकण्ठादिमातृकान्यासः |
ततो भुवनेश्वरीमातृकान्यासः |
ततः श्रीबीजादिमातृकान्यासः |
ततः कामबीजादिमातृकान्यासः |
ततः श्रीशक्तिकामबीजादिमातृकान्यासः |
ततः प्रपञ्चयागमातृकान्यासः |
ततस्तत्तद्देवतोपासकस्तत्तद्देवतामातृकान्यासं कृत्वा मूलमन्त्रेण प्राणायामत्रयं कृत्वा योगपीठन्यासं कुर्यात् ॥

तत्र प्राणायामप्रयोगः—तत्र बद्धपद्मासन ऋजुकः समुपविश्य दक्षिणाङ्गुष्ठेन दक्षिणनासापुटं निरुध्य वामनासापुटेन वायुमाकृष्य स्वोदरे पूरयित्वा कनिष्ठानामिकाभ्यां वामनासापुटं च निरुध्य हृदि देवं ध्यायन् मूलमन्त्रं जपन् यावच्छक्यं वायुं कुम्भकेन धृत्वा पुनर्दक्षिणनासापुटेन शनैः शनैर्वायुं त्यजेदित्येकः प्राणायामः |
पुनर्दक्षिणनासापुटेन वायुमाकृष्य तथैव कुम्भयित्वा पुनर्वामनासारन्ध्रेण तं वायुं त्यजेदित्यन्यः |
पुनर्वामनासारन्ध्रेण प्राग्वद्वायुमापूर्य तथैव कुम्भयित्वा तथैव दक्षिणनासारन्ध्रेण तं वायुं त्यजेदित्यपरः |
इत्थं प्राणायामत्रयं कृत्वा, मूलाधारे “मण्डूकाय नमः” इत्यादिपरतत्त्वान्तं प्रागुक्तक्रमेण विन्यस्य “ॐ नमो भगवते सकलगुणात्मने शक्तियुक्तायानन्ताय योगपीठात्मने नमः” इति मूर्धादिपादान्तं व्यापकत्वेन न्यसेदिति योगपीठन्यासः |
अत्र योगपीठस्थाने—गाणेशैः सुधार्णवस्थाने इक्षुरससमुद्रो विष्णुसूर्योपासकैः क्षीरसमुद्रस्तत्र तत्तत्पीठमन्त्रश्च न्यस्तव्य इति विशेषः ॥

अत्र मूलमन्त्रन्यासः, स च तत्तत्कल्पेषु बोद्धव्यः |
ततस्तत्तत्कल्पोक्तमुद्रां विरच्य स्वेष्टदेवताकल्पोक्तरूपं स्वाभेदेन ध्यात्वा स्वशिरसि मूलमन्त्रेण पुष्पाञ्जलिं दत्त्वा पुनर्हृदयकमले ध्यात्वा, योगपीठपुरःसरं मानसैरुपचारैर्देवं साङ्गं सावरणं संपूज्य मानसमेव नैवेद्यं दत्त्वा देवं भुञ्जानं ध्यायन्, मूलाधारे आत्मान्तरात्मपरमात्मज्ञानात्मेत्यात्मचतुष्काकारचतुरस्रकुण्डमध्ये चिच्छक्तिं कुण्डलिनीं वह्निरूपां ध्यात्वा मूलमन्त्रमुच्चार्य “अहन्तां जुहोमि स्वाहा” |
पुनर्मूलं “असत्यं जुहोमि स्वाहा” इत्थमहन्तासत्यपैशुन्यकामक्रोधलोभमदमोहमात्सर्याणि क्रमेण सुषुम्नास्रुगायुक्तमनःस्रुवेण हुत्वा प्राणायामऋष्यादिकरषडङ्गन्यासपूर्वकं मूलमन्त्रमष्टोत्तरशतवारं जपित्वा गुह्यातीत्यादिना समर्प्य श्रीगुरुं प्रणम्य, पुरतश्चन्दनादिलिप्ते श्रीपर्ण्यादिपीठे सौधादिनिर्मिते स्थण्डिले वा कुङ्कुमादिना तत्तत्कल्पोक्तं पूजाचक्रं निर्माय, तत्र मूलमन्त्रेण पुष्पाञ्जलिं दद्यात् |
यद्वा सुवर्णादिभिः शिल्पिवरैर्निर्मितं पूजाचक्रं चन्दनादिमण्डितं प्राग्वत् पीठे संस्थाप्य पुष्पाञ्जलिं दद्यात् |
तत्र स्वर्णरूप्यादिधातुनिर्मितस्य पूजाचक्रस्याम्लरसादिना संशुद्धस्यादौ वैदिकमार्गेणाग्न्युत्तारणं कारयित्वा मधुघृतगोदुग्धनारिकेलजलैः पृथक्पृथगभिषिच्य पञ्चाशद्वर्णौषधिक्वाथजलैस्तत्तन्मन्त्रौषधिक्वाथजलैर्वाभिषिञ्चेत् ॥

अत्र मन्त्रवर्णौषधिग्रहणे मन्त्रवर्णेषु पुनरुक्तवर्णानामोषध्यो यस्य वर्णस्य यावत्य आवृत्तयो मन्त्रे दृश्यन्ते तस्यौषधेस्तावन्तो भागा ग्राह्याः |
तास्तु प्रागेव प्रदर्शिताः |
ततः शुद्धजलैः प्रक्षाल्य चन्दनागुरुसकर्पूरकस्तूरीकुङ्कुमादिपङ्कैरालिप्य पुरतः शुभे पीठे संस्थाप्य तच्चक्रं स्पृष्ट्वा मूलमन्त्रमष्टोत्तरसहस्रं जपित्वा संशुद्धस्य तस्य चक्रस्य प्रागुक्तप्राणप्रतिष्ठामन्त्रे “अमुकदेवतापूजाचक्रस्य” इत्यादितत्तद्देवतानामपूर्वकं देवमावाह्य साङ्गं सावरणं संपूज्य महानैवेद्यं बलिदानादिपूर्वकं महोत्सवं प्रत्यहं दिनत्रयपर्यन्तं कुर्यात् |

दिनत्रयमपि, प्रथमदिने आवाहितं देवं न विसर्जयेत् |
चतुर्थदिने नित्यपूजान्ते देवं विसर्जयेत् |
इति प्रतिष्ठिते चक्रे नित्यनैमित्तिकादिपूजनं च कुर्यात् |
अग्न्युत्तारणं तु ऋग्वेदोक्ताग्निसूक्तेनैव वा कार्यम् |
सूक्तं तु—[ऋ० १० मं० ८० सू०; vedische Akzente dieser Arbeitsübertragung nicht rekonstruiert]

अग्निः सप्तिं वाजंभरं ददात्यग्निर्वीरं श्रुत्यं कर्मनिष्ठाम् |

अग्नी रोदसी वि चरत्समञ्जन्नग्निर्नारीं वीरकुक्षिं पुरंधिम् ॥ १ ॥

अग्नेरप्नसः समिदस्तु भद्राग्निर्मही रोदसी आ विवेश |

अग्निरेकं चोदयत्समत्स्वग्निर्वृत्राणि दयते पुरूणि ॥ २ ॥

अग्निर्ह त्यं जरतः कर्णमावाग्निरद्भ्यो निरदहज्जरूथम् |

अग्निरत्रिं घर्म उरुष्यदन्तरग्निर्नृमेधं प्रजयासृजत्सम् ॥ ३ ॥

अग्निर्दा द्रविणं वीरपेशा अग्निर्ऋषिं यः सहस्रा सनोति |

अग्निर्दिवि हव्यमाततानाग्नेर्धामानि विभृता पुरुत्रा ॥ ४ ॥

अग्निमुक्थैरृषयो वि ह्वयन्तेऽग्निं नरो यामनि बाधितासः |

अग्निं वयो अन्तरिक्षे पतन्तोऽग्निः सहस्रा परि याति गोनाम् ॥ ५ ॥

अग्निं विश ईळते मानुषीर्या अग्निं मनुषो नहुषो वि जाताः |

अग्निर्गान्धर्वीं पथ्यामृतस्याग्नेर्गव्यूतिर्घृत आ निषत्ता ॥ ६ ॥

अग्नये ब्रह्म ऋभवस्ततक्षुरग्निं महामवोचामा सुवृक्तिम् |

अग्ने प्राव जरितारं यविष्ठाग्ने महि द्रविणमा यजस्व ॥ ७ ॥

अथैतस्य प्रयोगः—तत एभिर्मन्त्रैः प्रथमं प्रतिष्ठितस्य चक्रादिकमग्निशब्दरहितैः शतावृत्या शुद्धजलैरभिषिच्यानन्तरमग्निशब्दसहितैः शताद्यावृत्त्याभिषिञ्चेदित्यग्न्युत्तारणविधिः ॥ ततः प्रत्यहमम्लादिभिः शुद्धजलेन प्रक्षालनं धातुमयचक्रस्य, स्फटिकस्य जलेनैव क्षालनं कार्यमिति ॥ अथ कालीमते चक्रप्रतिष्ठाविधिस्तु वामकेश्वरतन्त्रे—भैरव्युवाच |

चक्रभेदं महादेव त्वत्प्रसादान्मया श्रुतम् |

इदानीं श्रोतुमिच्छामि प्रतिष्ठाक्रमनिर्णयम् ॥ १ ॥

शङ्कर उवाच |

शृणु देवि महाभागे जगत्कारिणि कौलिनि |

तस्योद्घाटनकर्माङ्गं सर्वकार्यविनिर्णयम् ॥ २ ॥

स्नात्वा सङ्कल्पयेन्मन्त्री गुरोरर्चनमारभेत् |

पञ्चगव्यं ततः कृत्वा शिवमन्त्रेण मन्त्रितम् ॥ ३ ॥

तत्र चक्रं क्षिपेन्मन्त्री प्रणवेन समाकुलम् |

समुद्धृत्य ततश्चक्रं स्थापयेत्पूर्णपात्रके ॥ ४ ॥

पञ्चामृतेन दुग्धेन शीतलेन जलेन च |

चन्दनेन सुगन्धेन कस्तूरीकुङ्कुमेन च ॥ ५ ॥

पयोदधिघृतक्षौद्रशर्कराद्यैरनुक्रमात् |
तोयधूपान्तरैः कुर्यात्पञ्चामृतविधिं बुधः ॥ ६ ॥

हाटकैः कलशैर्देवीमष्टभिर्वारिपूरितैः |
कषायजलसंपन्नैः कारयेत स्नानमुत्तमम् ॥ ७ ॥

स्नानं समाप्य तां देवीं स्थापयेत् स्वर्णपात्रके |
यन्त्रराजाय विद्महे महायन्त्राय धीमहि |
तन्नो यन्त्रं प्रचोदयात् ॥ ८ ॥

स्पृष्ट्वा यन्त्रं कुशाग्रेण गायत्र्या चाभिमन्त्रयेत् |
अष्टोत्तरशतं देवि देवताभावसिद्धये ॥ ९ ॥

आत्मशुद्धिं ततः कृत्वा षडङ्गदेवतां यजेत् |
तत्रावाह्य महादेवीं जीवन्यासं च कारयेत् ॥ १० ॥

उपचारैः षोडशभिर्महामुद्रादिभिः सदा |
फलताम्बूलनैवेद्यैर्देवीं तत्र समर्चयेत् ॥ ११ ॥

पट्टसूत्रादिकं दद्याद्वस्त्रालङ्कारमेव च |
मुकुरं चामरं घण्टां यथायोग्यं महेश्वरि ॥ १२ ॥

सर्वमेतत्प्रयत्नेन दद्यादात्महिते रतः |
ततो जपेत्सहस्रं च सकलेप्सितसिद्धये ॥ १३ ॥

बलिदानं ततः कृत्वा प्रणमेच्चक्रराजकम् |
अष्टोत्तरशतं हुत्वा संपाताज्यं विनिक्षिपेत् ॥ १४ ॥

होमकर्मण्यशक्तश्चेद् द्विगुणं जपमाचरेत् |
धेनुमेकां समानीय स्वर्णशृङ्गालङ्कृताम् ॥ १५ ॥

गुरवे दक्षिणां दद्यात्ततो देव्या विसर्जनम् |

अथ प्रयोगः—तत्र साधकः कृतनित्यक्रियः स्वस्तिवाचनपूर्वकं सङ्कल्पं कुर्यात् |
अद्येत्यादि अमुकगोत्रोऽमुकशर्मामुकदेवतायाः पूजार्थममुकयन्त्रसंस्कारमहं करिष्ये इति सङ्कल्प्य, पञ्चगव्यमानीय हौंमित्यष्टोत्तरशतमभिमन्त्र्य ओमिति यन्त्रं तत्र निक्षिपेत् |
तस्मादुद्धृत्य पात्रान्तरे स्थापयेत् |
ततः शीतलजलचन्दनकस्तूरीकुङ्कुमैः स्नापयित्वा पञ्चामृतं प्राग्वत् हौंमिति शोधयित्वा स्थापयेत् ॥

तत्र क्रमस्तु—क्षीरेण स्नाप्य पुनः शुद्धजलैः स्नाप्य धूपयेत् |
एवं दधिघृतमधुशर्कराभिः |
ततोऽष्टभिः कलशैः कुङ्कुमगोरोचनाचन्दनमिश्रिततोयैः स्नापयेत् मूलमन्त्रेण सर्वत्र |
ततो यन्त्रमुत्तोल्य कुशाग्रेण स्पृशन् “यन्त्रराजाय विद्महे महायन्त्राय धीमहि तन्नो यन्त्रं प्रचोदयात्” इत्यष्टोत्तरशतवारमभिमन्त्र्य प्राणप्रतिष्ठां कुर्यात् ॥ ततस्तत्रेष्टदेवतामावाह्य षोडशोपचारैः संपूज्य षडङ्गेन पूजयेत् |
तत्र पट्टसूत्रादिकं दत्त्वाष्टोत्तरसहस्रं जपेत् |
शक्तश्चेद्बलिं दद्यात् |
ततोऽष्टोत्तरशतहोमं कृत्वा प्रत्याहुति संपातं कुर्यात् |
होमासामर्थ्ये द्विगुणजपः कार्यः |
ततो गुरवे सुवर्णालङ्कृतां गां दक्षिणां च दत्त्वाच्छिद्रावधारणं कुर्यादिति |

इत्थं प्रतिष्ठितं प्रक्षालितं चन्दनादिमण्डितं पुरतः प्रोक्तपीठे संस्थाप्य, तत्र मूलमन्त्रेण पुष्पाञ्जलिं दत्त्वा प्राग्वदर्घ्यादिपात्राण्यासाद्यार्घ्यजलं किञ्चित् पात्रान्तरेणोद्धृत्य तेन जलेन स्वात्मानं पूजाचक्रं पूजाद्रव्याणि च मूलमन्त्रेण प्रोक्ष्य तेषु धेनुमुद्रां प्रदर्श्य, स्वदेहं गन्धादिभिरलङ्कृत्य स्वेष्टदेवतारूपं संचिन्त्य स्वशिरसि श्रीगुरुं, मूलाधारे गणपतिं च संपूज्य, प्रागुक्तयोगपीठदेवतास्तत्तन्न्यासस्थानेषु संपूज्य हृदयकमलकेसरेषु तत्तत्पीठशक्तीश्च संपूज्य, तत्तत्पीठमन्त्रेण सर्वाङ्गेषु पुष्पाञ्जलिं दत्त्वा स्वेष्टदेवतारूपं स्वात्मानं ध्यायन् मूलमन्त्रेण मूर्ध्नि हृदये गुह्ये पादयोः सर्वाङ्गे च पञ्चस्थानेषु पञ्च पुष्पाञ्जलीन् दत्त्वा धूपदीपनैवेद्यैश्च प्राग्वन्मूलाधारे चतुरस्रं कुण्डं संचिन्त्य तत्र कुण्डल्यात्मकपरमात्मवह्निं संचिन्त्य मूलमन्त्रमुच्चार्य,

“धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा |
सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् ॥”

पुण्यं जुहोमि स्वाहा |
पुनर्मूलं प्रागुक्तश्लोकमन्त्रं च, पापं जुहोमि स्वाहा |
इत्थं पुण्यपापे कृत्याकृत्ये सङ्क-

ल्पविकल्पौ धर्मं च पृथक् हुत्वा पुनर्मूलं,

“प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीस्रुचम् |
धर्माधर्मकलास्नेहपूर्णां वह्नौ जुहोम्यहं स्वाहा ॥”

इति धर्माधर्मात्मकं सकलप्रपञ्चकं पूर्णाहुतित्वेन हुत्वा निरस्तनिखिलोपाधितया निरतिशयसुखानन्दचिद्विलासात्मकं स्वात्मानं ध्यायन्, प्राणायामर्ष्यादिकषडङ्गन्यासपूर्वकं मूलमन्त्रमष्टोत्तरशतवारं जपित्वा जपं समर्प्यार्घ्यजलेन पूजाचक्रमभ्युक्ष्य, चक्रस्योत्तरभागे ऐं गुरुभ्यो नमः |
दक्षिणे गं गणपतये नमः |
इति संपूज्य पूजाचक्रस्याधस्तादतलादिसप्तपातालभावनया ॐ मण्डूकाय नमः |
एवं कालाग्निरुद्राय नमः |
मूलप्रकृत्यै नमः |
आधारशक्तये नमः |
कूर्माय नमः |
अनन्ताय नमः |
वराहाय नमः |
इति संपूज्य, वराहस्य दंष्ट्रोपरि पृथिव्यै नमः |
तस्यां सुधार्णवाय नमः |
तस्मिन् नवरत्नमयद्वीपाय नमः |
तन्मध्ये स्वर्णपर्वताय नमः |
तदुपरि नन्दनोद्यानाय नमः |
तदुपरि कल्पवृक्षेभ्यो नमः |
तेषां मध्ये विचित्ररत्नभूम्यै नमः |
तन्मध्ये स्वर्णप्राकाराय नमः |
तन्मध्ये रत्नमण्डपाय नमः |
तस्यान्तः स्वर्णवेदिकायै नमः |
तदुपरि रत्नसिंहासनाय नमः |
इति तत्तद्भावनया संपूज्य पूजाचक्राधारपीठं सिंहासनत्वेन परिकल्प्य, तस्य चाग्नेयादिकोणचतुष्टयस्य पादचतुष्टये धर्माय नमः |
ज्ञानाय नमः |
वैराग्याय नमः |
ऐश्वर्याय नमः |
इति प्रादक्षिण्येन संपूज्य, स्वाग्रादिपीठस्य गात्रचतुष्टये अधर्माय नमः |
अज्ञानाय नमः |
अवैराग्याय नमः |
अनैश्वर्याय नमः |
इति प्रादक्षिण्येन पूजयेत् ॥

ततः सिंहासनस्य मध्ये, मायायै नमः |
विद्यायै नमः |
इति मायाविद्ये पट्टसूत्रमयपट्टिकारूपेण लौकिकमञ्चवदोतप्रोतरूपेण ग्रथिते स्थिते ध्यात्वा संपूज्य, तदुपरि अनन्ताय नमः |
इति तल्पाकारमनन्तं संपूज्य, तस्य मूर्ध्नि पद्माय नमः |
आनन्दकन्दाय नमः |
संविन्नालाय नमः |
तद्दलेषु प्रकृतिमयपत्रेभ्यो नमः |
तत्केसरेषु विकृतिमयकेसरेभ्यो नमः |
तत्कर्णिकायां पञ्चाशद्वर्णबीजाढ्यसर्वतत्त्वरूपायै कर्णिकायै नमः |
केसरेषु अं अर्कमण्डलाय नमः |
कर्णिकायां उं सोममण्डलाय नमः |
पत्रेषु मं वह्निमण्डलाय नमः |
तथैव, ब्रह्मणे नमः |
विष्णवे नमः |
रुद्राय नमः |
तथैव सं प्रबोधात्मने सत्त्वाय नमः |
रं प्रवृत्त्यात्मने रजसे नमः |
तं मोहात्मने तमसे नमः |
आं आत्मने नमः |
अं अन्तरात्मने नमः |
पं परमात्मने नमः |
ह्रीं ज्ञानात्मने नमः |
सिंहासनस्य स्वाग्रादिचतुर्दिक्षु मध्ये च—ज्ञानतत्त्वात्मने नमः |
मायातत्त्वात्मने नमः |
कलातत्त्वात्मने नमः |
विद्यातत्त्वात्मने नमः |
परतत्त्वात्मने नमः |
इति संपूज्य, तत्केसरेषु स्वाग्रादिप्रादक्षिण्येन गणेशादितत्तत्पीठस्य नवशक्तीः पीठमन्त्रेण समस्तं पीठं च संपूज्य तत्तन्मूलमन्त्रमुच्चार्य “श्रीशिवादिमूर्तिं परिकल्पयामि” इति पीठमध्ये शिवलिङ्गादि तदभावे पुष्पादिकं वा निक्षिप्य ध्यानोक्तां मूर्तिं विभावयेत् |
“नमः” इति कल्पितां मूर्तिं पूजयेत् ॥

अथ पञ्चायतनी चेत् मध्ये शिवपूजायां देवस्याग्नेयादिकोणचतुष्टये सूर्यगणेशदुर्गाविष्णून् संस्थाप्य गणेशादिक्रमेण तत्तत्कल्पोक्तविधिना तत्तद्यन्त्रे तत्तत्पीठपूजापुरःसरं पृथक्पृथक् साङ्गावरणान् सर्वोपचारैः संपूज्य तत्तन्मन्त्रजपस्तोत्रपाठप्रणामक्षमापनादिभिः परितोषयेत् |
एवं विष्ण्वादिपूजायां प्रमाणोक्तप्रकारेण कोणेषु देवताः संस्थाप्य प्रमाणोक्तप्रकारेणायतनदेवताः पूजयेत् |
अत्र पञ्चायतनपूजायामपि पूज्यपूजकयोर्मध्ये प्राचीदिशं परिकल्प्य तदनुसारेणाग्नेय्यादिकं कल्पयेदिति |
ततः पुनर्मूलमन्त्रेण प्राणायामत्रयं मूलमन्त्रस्यर्ष्यादिकांश्च कृत्वा कराभ्यां पुष्पाञ्जलिमादाय पद्ममुद्रां बद्ध्वा पूर्वोक्तमातृकाम्भोजत्वेन ध्यात्वा पद्मासनेनोपविष्ट ऋजुकायोऽन्तर्मुखो गुदमेढ्रयोरन्तराले सुषुम्नान्तश्चतुरस्रमध्यस्थचतुर्दलपङ्कजदलेषु विभावित

वशषसार्णचतुष्टयं सकेसरं पीतवर्णं मूलाधारं संचिन्त्य, तन्मध्ये सोमसूर्याग्निमयाकथादित्रिरेखं त्रिकोणं विभाव्य तन्मध्ये सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलं जपाकुसुमप्रभं ज्योतिर्लिङ्गं ध्यात्वा, तदुपरि चिद्रूपां तडित्कोटिप्रभादीप्तां बिसतन्तुतनीयसीं प्रसुप्तभुजङ्गीमिव सार्धत्रिवलयेन सर्वान्तर्यामितया स्थितां परब्रह्माविनाभूतां कुण्डलिनीं शक्तिं चिरं विभाव्य, गुरूपदिष्टविधिना गुदाकुञ्चनपूर्वकं हुंकारेण तां कुण्डलिनीमुत्थाप्य सुषुम्नावर्त्मना मूलाधारस्वाधिष्ठानमणिपूरकानाहतविशुद्धाज्ञाख्यषट्चक्रभेदेन ब्रह्मरन्ध्रं नीत्वा, तत्रस्थपरमामृताम्बुधौ परमात्मनि संयोज्य शिवशक्त्यात्मकं तत्तेजो बहिर्नासाध्वना निःसार्य करस्थपुष्पाञ्जलौ संयोज्य, मूलमन्त्रमुच्चार्य “श्रीशिव इहागच्छ इहागच्छ” इति चक्रमभ्यस्थितमूर्तेः शिरसि पुष्पाञ्जलिप्रक्षेपेण तत्तेज आवाहनीमुद्रया समावाह्य तद् ब्रह्मरन्ध्रेण प्रविष्टं संचिन्त्य, श्रीशिवादिरूपेण परिणतं ध्यानोक्तरूपं तं ध्यायन् मूलमन्त्रमुच्चार्य “श्रीशिव इह तिष्ठ इह तिष्ठ” इति स्थापनीमुद्रां प्रदर्श्य,

“देवेश भक्तसुलभ सर्वाभरणसंयुत |
यावत्त्वां पूजयिष्यामि तावदत्र स्थिरो भव ॥”

इति प्रार्थ्य, पुनर्मूलमन्त्रमुच्चार्य “श्रीशिव इह संनिधेहि इह संनिधेहि” इति सन्निधापनमुद्रया संनिधाप्य, मूलमुच्चार्य “श्रीशिव इह संनिरुद्धो भव इह संनिरुद्धो भव” पुनर्मूलं “श्रीशिव इह संमुखो भव इह संमुखो भव” इति तत्तन्मुद्रया विधाय, पुनर्मूलं “श्रीशिव इहावगुण्ठितो भव इहावगुण्ठितो भव” इत्यवगुण्ठ्य देवस्य हृदयादिषडङ्गन्यासस्थानेषु षडङ्गमन्त्रान् विन्यस्य, मूलमुच्चार्य “श्रीशिव सकलीकृतो भव सकलीकृतो भव” इति सकलीकृत्य, धेनुमुद्रां बद्ध्वा देवस्य मूर्ध्नि अमृतवृष्टिं ध्यायन् मूलमुच्चार्य “श्रीशिवामृतीकृतो भवामृतीकृतो भव” इत्यमृतीकृत्य महामुद्रां बद्ध्वा मूलमुच्चार्य “श्रीशिव परमीकृतो भव परमीकृतो भव” इति देवस्य मूर्ध्नि परमामृतवृष्टिं ध्यात्वा, मूलमन्त्रं ततः “ऐं वद वद वाग्वादिनि ऐं क्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरु कुरु सौः ह्सौः” इति दीपनीमकारादिक्षकारान्तां मातृकां वोच्चार्यार्घ्योदकेन देवं त्रिः प्रोक्ष्य देवस्य हृदयं स्पृशन् पूर्वोक्तप्राणप्रतिष्ठामन्त्रे ममपदस्थाने श्रीशिवस्येति पदं प्रक्षिप्य प्राणप्रतिष्ठामन्त्रं जपेत् |
देवस्य प्राणप्रतिष्ठां विधाय, मूलमन्त्रमुच्चार्य “श्रीशिवाय नमः” इति त्रिः पुष्पाञ्जलिं दत्त्वा लिङ्गयोनित्रिशूलाक्षमालावराभयमृगखट्वाङ्गकपालडमरुकाख्या दश मुद्राः प्रत्येकं कामबीजेन विरच्य मूलमन्त्रेण प्रदर्श्य हसिति मुद्रिते दश मुद्राः प्रदर्श्य, मूलमुच्चार्य “श्रीशिव एतत्ते आसनं नमः” इति चार्मं वामं वासं पौष्पं तैजसं वा यथासंभवमासनं देवस्य वामभागे विन्यस्य, “हंहंहं इदमिदमिदं गृहाण स्वाहा” इति निवेद्य मूलेन पद्ममुद्रां प्रदर्श्य, पुनर्मूलमुच्चार्य “श्रीशिवाय नमः” इति पुष्पाञ्जलिं दत्त्वा, पुनर्मूलमुच्चार्य “श्रीशिव कुशलं स्वागतं” इति कुशलस्वागतप्रश्नं कृत्वा कुशलस्वागतप्रश्नमुद्रे प्रदर्श्य, पुनर्मूलमुच्चार्य “श्रीशिव एष तेऽर्घ्यः स्वाहा” इति पूर्वस्थापितार्घ्यपात्राद्गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपदूर्वान्वितं जलं पात्रान्तरेणोद्धृत्य देवस्य शिरसि दत्त्वा “ॐ हंहंहं इदमिदमिदं गृहाण स्वाहा” इति निवेद्यार्घ्यमुद्रां प्रदर्श्य, मूलमुच्चार्य “श्रीशिवाय नमः” इति पुष्पाञ्जलिं दत्त्वा, पुनर्मूलमुच्चार्य “श्रीशिव एतत्ते पाद्यं नमः” इति पाद्यपात्राच्छ्यामाकदूर्वाब्जविष्णुक्रान्तान्वितं जलं पात्रान्तरेणोद्धृत्य देवस्य पादयोर्दत्त्वा ॐ हंहंहमिति मन्त्रेण प्राग्वन्निवेद्य, मुद्रां प्रदर्श्य मूलं प्राग्वत्पुष्पाञ्जलिं दद्यात् |
अत्र सर्वोपचारेषु प्रोक्तमन्त्रेण निवेदनं मूलमन्त्रेण पुष्पाञ्जलिं च प्रत्युपचारं कुर्यात् |

तत आचमनीयपात्राज्जातीफललवङ्गकक्कोलचूर्णयुतजलं पात्रान्तरेणोद्धृत्य, मूलमुच्चार्य “श्रीशिव एतत्ते आचमनीयं सुधा” इति देवस्य मुखकमले दत्त्वा प्राग्वन्निवेद्याचमनीयमुद्रां प्रदर्श्य पुष्पाञ्जलिं दत्त्वा मधुपर्कपात्रमुद्धृत्य, मूलमुच्चार्य “श्रीशिव एष ते मधुपर्कः सुधा” इति देवस्य मुखकमले दत्त्वा प्राग्वन्निवेद्य

मधुपर्कमुद्रां प्रदर्श्य पुष्पाञ्जलिं दत्त्वा पुनराचमनीयपात्रात्पात्रान्तरेण जलमुद्धृत्य, मूलमुच्चार्य “श्रीशिव एतत्ते पुनराचमनीयं सुधा” इति पुनराचमनीयं दत्त्वा प्राग्वन्निवेद्याचमनीयमुद्रां प्रदर्श्य पुष्पाञ्जलिं दत्त्वा, रत्नपादुके उपनीय “पादुकायुगमारुह्य भगवन् रत्ननिर्मितम् |
स्नानमण्डपमायाहि स्नानार्थं शक्रदिग्गतम्” ॥ इति प्रार्थ्य, पूर्वस्यां दिशि विरचितं स्नानमण्डपं नीत्वा प्राग्वदासनं दत्त्वार्घ्यपाद्याचमनीयानि प्राग्वन्निवेद्य, सुगन्धतैलादिकमुपनीय “श्रीशिव एतत्ते सुगन्धतैलाभ्यङ्गसुगन्धामलकाद्युद्वर्तनादिकं नमः” इति सुगन्धामलकाद्युद्वर्तनादिकं च निधाय महाराजोपचारवन्नानाविधैर्जलैरभिषिच्य गङ्गादितीर्थोद्धृतजलपूर्णकनककलशहस्ताभिर्देवकन्याभिरभिषिक्तं मत्वा, प्राग्वन्निवेद्य स्नानमुद्रां प्रदर्श्य मूलेन पुष्पाञ्जलिं दत्त्वा प्राग्वदाचमनीयं दत्त्वा, जलापकर्षणार्थं वस्त्रं दत्त्वाङ्गप्रोञ्छनं परिकल्प्य श्वेतदुकूलयुगलमानीय वमिति वरुणबीजेनाभिमन्त्र्य, जलेनास्त्रमन्त्रेण प्रोक्ष्य “बृहस्पतिदैवताभ्यां वासोभ्यां नमः” इति संपूज्य, मूलमुच्चार्य “श्रीशिव एते ते वाससी नमः” इति वाससी परिधाप्य पूर्ववन्निवेद्य वस्त्रमुद्रां प्रदर्श्य पुष्पाञ्जलिं दत्त्वा, पूर्ववदाचमनीयं दत्त्वा स्वर्णादिनिर्मितं यज्ञोपवीतमानीय, मूलमुच्चार्य “श्रीशिव एतत्ते यज्ञोपवीतं नमः” इति यज्ञोपवीतं दत्त्वा प्राग्वन्निवेद्य पुष्पाञ्जलिं दत्त्वा यज्ञोपवीतमुद्रां प्रदर्श्य प्राग्वदाचमनीयं निवेद्य; रत्नपादुके उपनीय

“ॐ पादुकायुगमारुह्य भगवन् रत्ननिर्मितम् |
आगच्छ निर्मितं याम्यमलङ्कारस्य मण्डपम्” ॥

इति दक्षिणदिशि तमलङ्कारमण्डपं नीत्वा तत्र सिंहासने उपवेश्य नानाविधालङ्करणानि समुपनीय प्राग्वत्प्रोक्ष्य “नानादैवतेभ्यो मुकुटाभरणेभ्यो नमः” इति संपूज्य, मूलमुच्चार्य “श्रीशिव एतत्ते मुकुटं नमः, एतत्ते कुण्डलं नमः” इति नानाभरणानि तत्तन्नाम्ना समर्प्य निवेद्याभरणमुद्रां प्रदर्श्य पुष्पाञ्जलिं दत्त्वा, पादुके उपनीय

“पादुके परिधायेमे पञ्चवाद्यपुरःसरम् |
यागमण्डपमायाहि परिवारगणैः सह” ॥

इति प्रार्थ्य प्रधानमण्डपं नीत्वा तत्र प्राक्कल्पितयोगपीठे देवं समुपवेश्य छत्रचामरादिनानाविधोपकरणहस्तं परिवारदेवतागणं सूर्यात् किरणसमूहमिव देवशरीराद्विनिर्गत्य स्वे स्वे स्थाने समुपविष्टं विशेषायुक्तो प्रधानदेवतासदृशाकाराभरणायुधादिशोभितं स्थिरीभूतं परितश्चक्रमध्ये ध्यात्वा, चन्दनागुरुकर्पूरादिनानागन्धमानीय प्राग्वत्प्रोक्ष्य “गन्धर्वदैवत्याय गन्धाय नमः” इति संपूज्य, मूलमुच्चार्य “श्रीशिव एष ते गन्धो नमः” इति देवाय गन्धं समर्प्य

“शरीरं ते न जानामि चेष्टां नैव च नैव च |
मया निवेदितान् गन्धान् प्रतिगृह्य विलिप्यताम्” ॥

इति प्रपूज्य, मूलमुच्चार्य “श्रीशिवेमानि ते पुष्पाणि वौषट्” इति नानाविधानि सुगन्धशुभ्रपुष्पाणि समर्प्य प्राग्वन्निवेद्य पुष्पमुद्रां प्रदर्श्य देवं संपूज्य देवहृदयादिषु षडङ्गन्यासस्थानेषु षडङ्गानि लयाङ्गत्वेन संपूज्य “श्रीशिव परिवारदेवतापूजनार्थमनुज्ञां देहि” इति देवं प्रार्थ्य तत्तत्कल्पोक्तावरणदेवताः पूजयेदिति ॥

इत्थमङ्गावरणदेवताः संपूज्य तद्बाह्ये देवाग्राद्यष्टसु दिक्षु क्रमेण—लं इन्द्राय सुराधिपतये पीतवर्णाय वज्रहस्ताय ऐरावतवाहनाय नमः |
रं अग्नये तेजोऽधिपतये रक्तवर्णाय शक्तिहस्ताय मेषवाहनाय नमः |
टं यमाय प्रेताधिपतये कृष्णवर्णाय दण्डहस्ताय महिषवाहनाय नमः |
क्षं निर्ऋतये रक्षोऽधिपतये धूम्रवर्णाय खड्गहस्ताय प्रेतवाहनाय नमः |
वं वरुणाय जलाधिपतये शुक्लवर्णाय पाशहस्ताय मकरवाहनाय नमः |
यं वायवे प्राणाधिपतये कृष्णवर्णायाङ्कुशहस्ताय मृगवाहनाय नमः |
सं कुबेराय यक्षाधिपतये मौक्तिकवर्णाय गदाहस्ताय नरवाहनाय नमः |
हं ईशानाय विद्याधिपतये स्फटिकवर्णाय शूलहस्ताय वृषभवाहनाय नमः |
इति संपूज्य इन्द्रेशानयोर्मध्ये आं ब्रह्मणे लोकाधिपतये रक्तवर्णाय पद्महस्ताय हंसवाहनाय नमः |
निर्ऋतिव-

रुणयोर्मध्ये ह्रीं अनन्ताय नागाधिपतये गौरवर्णाय चक्रहस्ताय गरुडवाहनाय नमः, इति पूजयेत् ॥ एवं विस्ताराशक्तौ लं इन्द्राय नमः |
रं अग्नये नमः |
टं यमाय नमः |
क्षं निर्ऋतये नमः |
वं वरुणाय नमः |
यं वायवे नमः |
सं कुबेराय नमः |
हं ईशानाय नमः |
आं ब्रह्मणे नमः |
ह्रीं अनन्ताय नमः, इति प्राग्वत्संपूज्य इन्द्रादीनां समीपे वं वज्राय नमः |
एवं, शं शक्त्यै नमः |
दं दण्डाय नमः |
खं खड्गाय नमः |
पां पाशाय नमः |
क्रों अङ्कुशाय नमः |
गं गदायै नमः |
शं त्रिशूलाय नमः |
पं पद्माय नमः |
चं चक्राय नमः, इति लोकपालानामायुधानि च पूजयेत् |
अत्र सर्वावरणपूजायां प्रथमावरणपूजान्ते मूलमन्त्रेण देवं संपूज्य संबोध्य मूलमन्त्रमुच्चार्य

“अभीष्टसिद्धिं मे देहि शरणागतवत्सल |
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम्” ॥

इति देवस्य चरणयोरर्घ्योदकं पुष्पादिकं दद्यात् |
एवं द्वितीयावरणादिष्वप्यूहनीयम् |

ततो मूलमुच्चार्य “साङ्गाय सावरणाय शिवाय नमः” इति त्रिः पुष्पाञ्जलिना संपूज्यास्त्रमन्त्रेण धूपभाजनं संप्रोक्ष्य हृदयमन्त्रेण धूपभाजनं गन्धादिभिरभ्यर्च्य, तत्र साराङ्गारान्निधाय वमिति धेनुमुद्रयामृतीकृत्य “क्रौं सुरभितेजसे स्वाहा” इति मन्त्रेण गुग्गुलादिधूपं निक्षिप्य “गन्धर्वदेवताय धूपाय नमः” इति धूपं संपूज्य, मूलमुच्चार्य

“वनस्पतिरसोत्पन्नो गन्धाढ्यो धूप उत्तमः |
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्” ॥

इति धूपमुत्सृज्य, स्ववामभागे घण्टां निधायास्त्रमन्त्रेण प्रोक्ष्य तेनैव मन्त्रेण “घण्टायै नमः” इति त्रिरभ्यर्च्य “ॐ गजध्वनि मन्त्रमातः स्वाहा” इति घण्टामन्त्रेण तां त्रिभिरभिमन्त्र्य वामकरेण तां घण्टां वादयन् “ॐ हंहंहं इदमिदमिदं गृहाण स्वाहा” इति मन्त्रेण नीचैर्धूपं निवेद्य, धूपभाजनं देवस्य वामभागे निवेश्य धूपमुद्रां प्रदर्श्य देवं संपूज्य, दीपग्राहिण्यां गोघृतं तिलस्नेहं वा निक्षिप्य तत्र कर्पूरगर्भिणीं वर्तिं निधाय ह्रीमिति प्रज्वाल्य “विष्णुदैवत्याय घृतप्रदीपाय नमः,” “वनस्पतिदैवत्याय तिलदीपाय नमः” इति तैलदीपश्चेत्संपूज्य वमिति धेनुमुद्रयामृतीकृत्य, मूलमुच्चार्य

“सुप्रकाशो महादीपः सर्वत्र तिमिरापहः |
सबाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम्” ॥

इत्युच्चार्य “श्रीशिव एष ते दीपो नमः” इति दीपमुत्सृज्य प्राग्वत् घण्टां वादयन् देवस्य पादादिमूर्धान्तं दीपमुच्चैः प्रदर्श्य, घार्तश्चेद्दक्षभागे तैलदीपश्चेद्देवस्य वामभागे दीपं निवेश्य दीपमुद्रां प्रदर्श्य, देवं संपूज्य प्राग्वद्देवस्य पाद्याचमनीये दत्त्वा स्वर्णादिपात्रे भक्ष्यभोज्यलेह्यचोष्यपेयात्मकं पञ्चविधमन्नं कट्वम्ललवणतिक्तकषायमधुरात्मकषड्रसोपेतनानाविधव्यञ्जनसमेतं नैवेद्यमानीय “विष्णुदैवत्याय नैवेद्याय नमः” इति संपूज्य देवस्य पुरतः चतुरस्रमण्डले साधारं तत्पात्रं निधाय, मूलेन वीक्ष्यास्त्रेण प्रोक्षणीजलेन प्रोक्ष्य तेनैव मन्त्रेण कुशैस्त्रिः संताड्य कवचमन्त्रेणाभ्युक्ष्याधोमुखदक्षिणहस्तोपरि तादृशं वामहस्तं निधाय यमिति वायुबीजेनाष्टवारमभिमन्त्र्य नैवेद्यगतस्पर्शादिदोषान् शोषयित्वा, पुनर्वामहस्तोपरि दक्षिणकरं प्राग्वन्निधायाधोमुखवामहस्तेनाच्छादयन् रमिति वह्निबीजमष्टवारं जपन् तद्गतदोषान् दग्ध्वा, धेनुमुद्रां प्रदर्शयन् वमित्यमृतबीजमष्टधा जपन्नैवेद्यममृतीकृत्यास्त्रमन्त्रेण नैवेद्यस्योपरि चक्रमुद्रां दर्शयन् तत्संरक्ष्य मूलमन्त्रेणाष्टवारमभिमन्त्र्य दक्षिणहस्तेन जलं गृहीत्वा

“हेमपात्रगतं दिव्यं परमान्नं सुसंस्कृतम् |
पञ्चधा षड्रसोपेतं गृहाण परमेश्वर ॥”

इति नैवेद्यस्योपरि चुलकोदकं निक्षिप्य मूलमुच्चार्य “श्रीशिव एतत्ते नैवेद्यं नमः” इत्युत्सृज्य, कराभ्यां तत्पात्रं स्पृशन् पूर्वोक्तमन्त्रेण निवेद्य पात्रान्तरे धेनुमुद्रयामृतीकृत्य देवस्य दक्षिणहस्ते तज्जलं किञ्चिद्दत्त्वा

“अमृतोपस्तरणमसि स्वाहा” इति देवमाचामयित्वा वामकरेण विकचोत्पलसन्निभां ग्रासमुद्रां दर्शयन् दक्षिणकरस्थकनिष्ठानामिकाङ्गुष्ठयोगेन “ॐ प्राणाय स्वाहा” एवं पुनस्तर्जनीमध्यमानामिकाङ्गुष्ठयोगेन “ॐ उदानाय स्वाहा |
” एवं प्रागुक्तपञ्चमुद्राभिः पञ्च ग्रासान् ग्राहयित्वा स्वर्णादिपात्रे जलं धेनुमुद्रया अमृतीकृत्य

“नमस्ते देवदेवेश सर्वतृप्तिकरं परम् |
अन्यानिवेदितं शुद्धं प्रकृतिस्थं सुशीतलम् ॥

परमानन्दसंपूर्णं गृहाण जलमुत्तमम् |
”

इति देवस्य वामभागे जलपात्रं निवेश्य निवेद्य, पुष्पाञ्जलिं दत्त्वास्त्रमन्त्रेण दिग्बन्धनं कुर्वन् देवं परितो जवनिकां विभाव्य “अन्नात्मकं नैवेद्यं नमः” इत्यङ्गुष्ठानामिकायोगरूपां करद्वयेन नैवेद्यमुद्रां प्रदर्श्य देवं भुञ्जानं ध्यायेत् |
यथा—

ब्रह्मेन्द्राद्यैः सरसमभितः सूपविष्टैः समेतो

देव्या शिञ्जद्वलयकरया सादरं वीज्यमानः |

नर्मक्रीडाप्रहसनपरो हासयन् पङ्क्तिभोज्यान्

भुङ्क्ते पात्रे कनकघटिते षड्रसान् देवदेवः ॥

इति ध्यायन् मूलमन्त्रं दशधा जपित्वा जपं समर्प्य नित्यहोमं कुर्यात् |
अत्र नित्यहोमविधानं तु प्रागेव दर्शितम् ॥ अत्रैवं विस्ताराशक्तौ “अग्न्याधानादिकं कर्म नित्यहोमे न विद्यते” इति वशिष्ठसंहितावचनात् लौकिकाग्नावेव देवदेवं ध्यात्वा संपूज्य मूलमन्त्रेण पञ्चविंशत्याहुतीः षडङ्गमन्त्रैश्च षडाहुतीरावरणदेवतानामेकैकामाहुतिं च जुहुयात् |
आवरणहोमाशक्तौ मूलमन्त्रेण षडङ्गमन्त्रैश्चोक्तसंख्यया जुहुयादिति नित्यहोमं विधाय, पूजास्थानं गत्वा स्वासन उपविश्य मूलमन्त्रेण प्राणायामत्रयं कृत्वा ऋष्यादिकषडङ्गन्यासपूर्वकं मूलमन्त्रेण पुष्पाञ्जलित्रयं दत्त्वा पूजाचक्रस्येशानकोणे चतुरस्रवृत्तत्रिकोणमण्डलं कृत्वा साधारं सव्यञ्जनान्नोदकपूरितं ताम्रपात्रं निधाय “सर्वभूतानीहागच्छत इह तिष्ठत” इत्यावाह्य “सर्वभूतेभ्यो नमः” इति पुष्पादिभिः संपूज्य,

“ये रौद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः |
योगिन्योऽप्युग्ररूपाश्च गणानामधिपाश्च ये ॥

भूचराः खेचराश्चैव तथा वै चान्तरिक्षगाः |
सर्वे ते प्रीतमनसो भूता गृह्णन्त्विमं बलिम् ॥”

इति वामकराङ्गुलिभिरर्घ्यपात्रात्पात्रान्तरेणोद्धृत्य जलधारां बलिपात्रे निक्षिपन् बलिमुत्सृज्य पुष्पाञ्जलिमादाय

“भूतानि यानीह वसन्ति भूतले बलिं गृहीत्वा विधिवत्प्रयुक्तम् |

सन्तोषमासाद्य व्रजन्तु सर्वे क्षमन्तु तान्यत्र नमोऽस्तु तेभ्यः ॥”

इति पुष्पाञ्जलिं दत्त्वा प्रणम्य “यथासुखं विहरन्तु भूतानि” इति नाराचमुद्रया विसृज्यास्त्रमन्त्रेण शुद्धजलैः स्वात्मानं प्रोक्ष्य देवं तृप्तं ध्यात्वा, पात्रान्तरे वमिति धेनुमुद्रया जलममृतीकृत्य “अमृतापिधानमसि स्वाहा” इति देवायोत्तरापोशानं दत्त्वा नैवेद्यं गतसारमुद्धृत्य नैर्ऋत्यां नैवेद्यपात्रं निधाय गोमयाद्भिरस्त्रमन्त्रेण तत्स्थानं शोधयित्वा तस्मात् किञ्चिच्छेषमादाय “निर्माल्यभोजिने नमः” इत्यैशान्यां निक्षिप्य हस्तं प्रक्षाल्य, देवाय करशोधनार्थं सुगन्धिचूर्णादिकं करक्षालनाय च दत्त्वा करं क्षालयित्वा, दन्तशोधनार्थं कर्पूरशलाकादि दत्त्वा पुनर्गण्डूषजलं दत्त्वा पादौ प्रक्षाल्य प्राग्वदाचमनीयं दत्त्वा सूक्ष्मवस्त्रेण हस्तौ पादौ प्रोञ्छ्य सुगन्धिचूर्णादिभिः करौ सुरभितौ कृत्वा ताम्बूलमादाय, मूलमुच्चार्य

“तमालदलकर्पूरपूगभागतरङ्गितम् |
संशोभितं सुगन्धं च ताम्बूलं प्रतिगृह्यताम् ॥”

“श्रीशिव एतत्ते ताम्बूलं नमः” इति ताम्बूलं समर्प्य प्रागुक्तनिवेदनमन्त्रेण निवेद्य, मूलमन्त्रमुच्चार्य “सुप्रसन्नाय श्रीशिवाय नमः” इति त्रिः पुष्पाञ्जलिना संपूज्य, पुनर्मूलमुच्चार्य “सुप्रसन्नाय श्रीशिवाय एष गन्धो नमः” एवं गन्धपुष्पधूपदीपैराराधयेत्, इति प्रसन्नपूजां कृत्वा मुकुटं परिधाप्यादर्शं दर्शयित्वा छत्रचामरव्यजनादिनानाविधराजोपचारान् परिकल्प्य, दूर्वाक्षतजलान्यादाय मूलमुच्चार्य “श्रीशिव एतत्ते नीराजनं नमः” इति देवस्य मुकुटोपरि दूर्वादिकं निक्षिपेत् |
ततः कांस्यादिबृहत्स्थाल्यां चन्दनादिनाष्टदलकमलं कृत्वा तत्र मध्येऽष्टसु दलेषु च पिष्टमयान् नव दीपान् घृतपूर्णान् कर्पूरगर्भवर्तिसहितान् निक्षिप्य ह्रीमिति प्रज्वाल्य, क्वचिच्चतुरस्रमण्डले निधाय वमिति धेनुमुद्रयामृतीकृत्यास्त्रमन्त्रेण चक्रमुद्रया संरक्ष्य “[Ratneśvarī-Vidyā: Bīja-Folge im Druck nicht sicher lesbar]” इति रत्नेश्वरीविद्यया मूलमन्त्रेण च पृथक्पृथगभ्यर्च्य तत्पात्रं कराभ्यामादाय मूलमुच्चारन् देवस्य चरणान्मूर्धान्तं मूर्धादिचरणान्तं पुनःपुनर्भ्रामयन् नवकृत्वो नीराजयेत् ॥ इति नीराजनविधिः ॥

ततः प्रणम्य मूलमन्त्रस्य प्राणायामत्रयं कृत्वा ऋष्यादिकरषडङ्गन्यासपूर्वकं प्रागुक्तविधिना प्रतिष्ठितां जपमालां प्रागुक्तविधिना संपूज्य, देवं भावयन् मूलमन्त्रं प्रणवोच्चारपूर्वकमष्टोत्तरसहस्रं तदर्धं त्रिशतमष्टोत्तरशतं वा जपित्वा, ओमिति जपं समाप्य पुनः प्राणायामर्ष्यादिन्यासपूर्वकं जपमालां प्रागुक्तविधिना स्वशिरसि निधायार्घ्योदकमादाय

“ॐ गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् |
सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्वयि स्थिता ॥”

इति देवस्य दक्षिणहस्ते गृहीतोदकदानेन जपं समर्प्य, प्राक्प्रोक्तविधानेन जपमालां संपूज्य रहसि निधापयेत् |
अत्र जपमालाभावेऽङ्गुलिभिर्वा जपगणना कार्या |
इत्थं जपं विधाय घण्टावादनपूर्वकं शिवसहस्रनामशतनामस्तोत्रादिभिर्देवं स्तुत्वा प्रदक्षिणनमस्कारैः परितोष्य

“यद्दत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलम् |
निवेदितं च नैवेद्यं तद्गृहाणानुकम्पया ॥

आवाहनं न जानामि न जानामि विसर्जनम् |
पूजां चैव न जानामि त्वं गतिः परमेश्वर ॥

कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम |
अन्तश्चारेण भूतानां द्रष्टा त्वं परमेश्वर ॥

नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् |
तेषु तेष्वचला भक्तिरव्ययास्तु सदा त्वयि ॥

देवो दाता च भोक्ता च देवः सर्वमिदं जगत् |
देवो जयति सर्वत्र यो देवः सोऽहमेव हि ॥”

इति कृताञ्जलिः प्रार्थ्य पुनःपुनः प्रणम्य स्वेष्टार्थप्रार्थनां कृत्वार्घ्यपात्रमुद्धृत्य

“साधु वासाधु वा कर्म यद्यदाचरितं मया |
तत्सर्वं भगवञ्छम्भो गृहाणाराधनं परम् ॥”

इति कृतमाराधनमर्घ्योदकदानेन समर्प्य पुनः प्राग्वदर्घ्यं दत्त्वा तत्पात्रं स्वस्थाने निवेश्य पुष्पाञ्जलिमादाय “इतः पूर्व” मिति मन्त्रेण देवस्य पादयोर्दत्त्वा प्रणम्य पुष्पाञ्जलिमादाय मूलमुच्चार्य

“रश्मिरूपा महेशस्य पूजिता याश्च देवताः |
श्रीशिवाङ्गे विलीनास्ताः सन्तु सर्वसुखावहाः ॥”

इति पुष्पाञ्जलिं निक्षिप्य, द्वारदेवताश्चतुरायतनदेवताश्च देवस्याङ्गे विलीना इति विभाव्य “श्रीशिव क्षमस्व” इति तालत्रयं दत्त्वा संहारमुद्रां बद्ध्वा

“गच्छ गच्छ परं स्थानं स्वस्थानं परमेश्वर |
यत्र ब्रह्मादयो देवा न विदुः परमं पदम् ॥”

इति पठित्वा निर्माल्यपुष्पेण सह तत्तेजः समुद्धृत्याघ्राय नासाध्वना तत्तेजो ब्रह्मरन्ध्रं नीत्वा सुषुम्नामार्गेण

हृदयकमलमानीय

“ॐ तिष्ठ तिष्ठ परे स्थाने स्वस्थाने परमेश्वर |
यत्र ब्रह्मादयः सर्वे सुरास्तिष्ठन्ति मे हृदि ॥”

इति स्वहृदि संस्थाप्य, तत्र यथोक्तरूपं देवं ध्यात्वा मानसैरुपचारैः संपूज्य स्वाभेदेन ध्यायन् प्राणायामत्रयर्ष्यादिकरषडङ्गन्यासान् विधायेशानकोणे चतुरस्रवेष्टितं त्रिकोणमण्डलं कृत्वा, पञ्चायतनी चेदीशानादिकोणचतुष्के प्रादक्षिण्येन—लम्बोदराय नमः |
चण्डेश्वर्यै नमः |
विष्वक्सेनाय नमः |
तेजश्चण्डाय नमः, इति गणेशादिनिर्माल्येन संपूज्य, मध्ये चण्डेश्वराय नमः, इति देवस्य निर्माल्यपुष्पादिकं निक्षिप्य, नैवेद्यशेषं किञ्चिदानीय

“लेह्यचोष्यान्नपानादिताम्बूलं सग्विलेपनम् |
निर्माल्यभोजिने तुभ्यं ददामि श्रीशिवाज्ञया ॥”

इति तत्रैव निक्षिप्य स्वकरं प्रक्षालयेत् |
अन्यदेवतोपासकैरपि स्वेष्टदेवताङ्गत्वेन पूर्वोक्तस्थापनक्रमेण गणेशादीनां निर्माल्यदेवताः पूज्याः ॥ ततस्ताम्रादिपात्रे गन्धपुष्पान्वितं जलमापूर्य सूर्याभिमुखः स्थित्वा

“ॐ नमो विवस्वते ब्रह्मन् भास्वते विष्णुतेजसे |
जगत्सवित्रे शुचये सवित्रे कर्मदायिने ॥”

इति पठित्वा “हांहींसः श्रीसूर्य एष तेऽर्घ्यः स्वाहा” इति सूर्यायार्घ्यं दत्त्वा, कृताञ्जलिः

“यज्ञच्छिद्रं तपश्छिद्रं यच्छिद्रं पूजने मम |
अच्छिद्रमस्तु तत्सर्वं भास्करस्य प्रसादतः ॥”

इत्यच्छिद्रमवधार्य पूजास्थाने गत्वा पूजावशिष्टं गन्धं किञ्चित् स्ववामकरे निधाय तत्रार्घ्यपात्रोदकं किञ्चित् निक्षिप्यालोड्य मूलमन्त्रेणाष्टवारमभिमन्त्र्य तेन जलेन स्वात्मानं प्रोक्ष्य मूलमन्त्रेण निर्माल्यपुष्पं शिरसि निधाय, मूलेनैव चरणोदकं प्राश्य नैवेद्यं शिवभक्तेभ्यो विभज्य दत्त्वा, स्वयमपि भुक्त्वा श्रीशिवरूपः सुखं विहरेत् ॥ इति नित्यपूजाविधिः ॥

अत्र स्कन्दपुराणे शिवनिर्माल्यधारणं तन्निवेदितभक्षणं च तद्भक्तैः कर्तव्यमित्युक्तत्वादवश्यं कार्यमिति |
यत्तु शिवनिर्माल्यधारणनैवेद्यभक्षणादौ निषेधवचनं तदशुचिपरम् |
अत्राशुचिरनधिकारी अदीक्षित इति यावत् |

अथैवं विस्तरतो नित्यपूजां कर्तुमशक्तश्चेत् प्रातरुत्थाय श्रीगुरुं स्मृत्वा प्रणम्य शौचादिकं विधायोक्तविधिना स्नात्वा, स्नानेऽपि विस्ताराशक्तौ निर्मलादिस्नानानन्तरं कुम्भमुद्रया स्वशिरसि त्रिरभिषिञ्चेत् |
उक्तविधिना त्रिपुण्ड्रं विधाय, तत्रापि विस्ताराशक्तौ मूलमन्त्रेणैवाभिमन्त्रितभस्मना विधायोक्तविधिना संध्यातर्पणसूर्यार्घ्यदानानि कृत्वा, तर्पणेऽपि विस्ताराशक्तौ मूलमन्त्रेणाष्टाविंशतिवारं देवं संतर्प्य, सूर्यार्घ्यदाने विस्ताराशक्तौ केवलसूर्यमन्त्रेणार्घ्यं दत्त्वा गृहं गत्वा प्राग्वद्भूतोत्सादनं कृत्वा प्रागुक्तविधिना पश्चिमद्वारमेव संपूज्य, प्राग्वत् प्रविश्यासनं कल्पयित्वा आसनेऽपि विस्ताराशक्तौ “ह्रीं आधारशक्तिकमलासनाय नमः” इत्यासनं संपूज्योपविश्य, प्राग्वद्द्रव्याण्यासाद्य भूतशुद्धिं विधाय, तत्रापि विस्ताराशक्तौ प्राग्वद्धृदये जीवात्मानं ध्यात्वा तथैव ब्रह्मरन्ध्रे संयोज्य प्राग्वत् पापपुरुषं ध्यात्वा तथैव यंबीजेन संशोष्य रंबीजेन संदह्य वंबीजेन संक्षाल्य पुनर्ब्रह्मरन्ध्राज्जीवात्मानं हृदयमानीय प्राग्वत् प्राणप्रतिष्ठां मातृकान्यासांश्च कृत्वा, समस्तमातृकान्यासकरणाशक्तौ केवलमातृकान्यासं श्रीकण्ठादिन्यासं च, तत्राप्यशक्तश्चेत् केवलमातृकान्यासमेव कृत्वा प्राणायामयोगपीठन्यासं मूलमन्त्रन्यासांश्च कृत्वा ध्यानार्घ्यस्थापनादि सर्वं प्राग्वत् समापयेत् ॥

पाद्यादिपात्रस्थापनाशक्तौ अर्घ्यपात्रं प्रोक्षणीपात्रं च संस्थाप्य प्रोक्षणीजलेनैव पाद्यादीनि कल्पयेत् |
इतोऽपि संक्षेपप्रकारः शास्त्राद्गुरुमुखादवगन्तव्यः |
इयं संक्षेपपूजा विस्तरतः कर्तुमशक्तानामेव, शक्तौ चेदालस्यादिना विस्तारं त्यक्त्वा संक्षेपेण क्रियते तदा दोषाय भवतीति |
उत्तरतन्त्रे—

स्वरूपं मन्त्रयन्त्राणां देवतानां विशेषतः |
अज्ञात्वा भजते मूढो न सिद्धिं प्राप्नुयात् क्वचित् ॥ १ ॥

मन्त्रविद्यार्णनिचयं स्वरव्यञ्जनभेदतः |
पृथक्पृथग्विभज्यैवं पार्थिवाद्याश्च षड्विधाः ॥ २ ॥

रश्मयोऽपि समालेख्यास्तेषु पार्थिवसंचयम् |
तथैवाप्यं तैजसं च वायव्यं नाभसं क्रमात् ॥ ३ ॥

मानसं रश्मिवृन्दं च षोढा संयोज्य संलिखेत् |
षड्विधेषु च भूयस्त्वं यस्य तत् तत्स्वरूपकम् ॥ ४ ॥

इति |
अस्यार्थः—मन्त्रे यावन्तो वर्णास्तान् स्वरव्यञ्जनस्वरूपेण पृथक्पृथग्विलिख्य प्राक् मन्त्रवीर्यप्रकरणप्रोक्तेषु चतुर्विधेषु रश्मिष्वन्यतमं रश्मिक्रमं गृहीत्वा प्रत्यर्कस्य षड्विधरश्मीन् पृथक्पृथग्विलिख्य, ततः इयन्तः पार्थिवाः, इयन्तः आप्याः, इयन्तस्तेजसाः, इयन्तो वायव्याः, इयन्तो नाभसाः, इयन्तो मानसाः |
एवं षड् वृन्दानि कृत्वा तेषु यस्याधिक्यं दृश्यते तत्स्वरूपं मन्त्रयन्त्रदेवतानां ज्ञातव्यम् |
इति कालीमते प्रकाशितं रश्मिवृन्दमेतस्यापि विवेको विविच्यात्र वक्ष्यते ॥ कादिमते तु मातृकार्णवे—

ऊर्ध्वाम्नाया इति ख्याता ऊर्ध्ववक्त्राद्विनिर्गताः |
पूर्वाम्नायास्तु संप्रोक्ता मन्त्राः पूर्वमुखोद्भवाः ॥ १ ॥

दक्षिणास्यात् समुद्भूता दक्षिणाम्नायसंज्ञकाः |
पश्चिमाननसंभूताः पश्चिमाम्नायसंज्ञकाः ॥ २ ॥

उत्तरास्यात्तु संजाता ह्युत्तराम्नायसंज्ञकाः |
ऊर्ध्ववक्त्राच्च संभूता ह्यूर्ध्वाम्नायाभिधाः स्मृताः ॥ ३ ॥

पृथिवीजलतेजांसि वायुराकाशमेव च |
क्रमेणात्र तु विज्ञेयं धराद्यं भूतपञ्चकम् ॥ ४ ॥

मानसा रश्मयो ज्ञेया भूतग्रामे तु सर्वतः |
ऊर्ध्वाम्नायक्रमे वच्मि रश्मिवृन्दं तु षड्विधम् ॥ ५ ॥

आकाशार्णेषु दशसु पार्थिवाद्याश्च रश्मयः |
एकादिदशपर्यन्तं क्रमात्पार्थिवरश्मयः ॥ ६ ॥

एकसप्ततितोऽशीतिपर्यन्तं जलरश्मयः |
एकादशोत्तरशताद्विंशोत्तरशतावधि ॥ ७ ॥

तैजसाश्चैकपञ्चाशदुत्तराच्छततः क्रमात् |
षष्ट्युत्तरशतं यावद्वायव्याः परिकीर्तिताः ॥ ८ ॥

नाभसा रश्मयः सैकचत्वारिंशच्छतद्वयात् |
पञ्चाशदुत्तरशतद्वयं यावत् प्रकीर्तितम् ॥ ९ ॥

प्रत्यक्षरं तु द्वात्रिंशद्द्वात्रिंशन्मानसांशवः |
दशानां वायुवर्णानां वक्ष्ये रश्मिक्रमं शृणु ॥ १० ॥

रुद्राद्विंशतिपर्यन्तं पार्थिवा रश्मयः स्मृताः |
एकषष्टिमितात्सप्तत्यन्तमाप्याः प्रकीर्तिताः ॥ ११ ॥

एकोत्तरशताच्चैव दशोत्तरशतावधि |
तैजसाः सैकनवतिशताद्यावच्छतद्वयम् ॥ १२ ॥

वायव्या रश्मयो ज्ञेयाः सैकत्रिंशच्छतद्वयात् |
चत्वारिंशोत्तरशतद्वयं नाभसरश्मयः ॥ १३ ॥

मानसा रश्मयः प्राग्वद् द्वात्रिंशन्मिताश्च ये |
तैजसेषु दशार्णेषु पार्थिवाद्याश्च रश्मयः ॥ १४ ॥

एकविंशात् क्रमात् त्रिंशद्यावत्पार्थिवरश्मयः |
एकपञ्चाशतः षष्टिर्यावदाप्याश्च रश्मयः ॥ १५ ॥

सैकचत्वारिंशच्छताद्यावत्सार्धशतं तथा |
तैजसा रश्मयः सैकाशीत्युत्तरशतात् क्रमात् ॥ १६ ॥

सनवत्युत्तरशतं वायव्याः संप्रकीर्तिताः |
शतद्वयात् सैकविंशात् सत्रिंशद्द्विशतं क्रमात् ॥ १७ ॥

नाभसा रश्मयो ज्ञेयाः प्राग्वन्मानसरश्मयः |
आप्येषु दशवर्णेषु क्रमाद्रश्मिक्रमं विदुः ॥ १८ ॥

सैकत्रिंशात् ततश्चत्वारिंशद्यावच्च पार्थिवाः |
तथैकनवतेर्यावच्छतमाप्याः प्रकीर्तिताः ॥ १९ ॥

सैकत्रिंशच्छताद्यावच्चत्वारिंशच्छतान्ततः |
तैजसा रश्मयश्चैकसप्तत्युत्तरशतात् क्रमात् ॥ २० ॥

साशीतिशतकं यावद्वायव्याः परिकीर्तिताः |
एकादशोत्तरशतद्वयाद्विंशच्छतद्वयम् ॥ २१ ॥

नाभसा रश्मयो ज्ञेयाः प्राग्वन्मानसरश्मयः |
पार्थिवार्णेषु दशसु क्रमाद्रश्मिक्रमं ब्रुवे ॥ २२ ॥

एकचत्वारिंशदङ्काद्यावत् पञ्चाशतं भवेत् |
पार्थिवा रश्मयो ज्ञेयास्तथैकाशीतितः परम् ॥ २३ ॥

यावन्नवति चाप्यास्ते सैकविंशच्छतात् परे |
सत्रिंशच्छतकं यावत्तैजसाः संप्रकीर्तिताः ॥ २४ ॥

सैकषष्ट्युत्तरशतात् ससप्तत्युर्ध्वशतं तथा |
वायव्या रश्मयो ज्ञेया एकोत्तरशतद्वयात् ॥ २५ ॥

दशोत्तरं द्विशतकं नाभसाः पूर्ववत् परे |

इति |
परे मानसाः |
पूर्ववद् द्वात्रिंशत्प्रत्यर्णं ज्ञेया इत्यर्थः |
जयद्रथयामले—

ऊर्ध्वाम्नाये नभोवायुतेजोजलधरांशवः |
पूर्वाम्नाये पृथिव्यम्बुतेजोऽनिलनभःक्रमः ॥ १ ॥

दक्षिणेऽनिलतेजोऽम्बुपृथिवीनभसां क्रमः |
पश्चिमेऽम्बुपृथिव्यभ्रपवनानलरश्मयः ॥ २ ॥

उत्तरेऽनलवाःपृथ्वीनभोवायुक्रमः स्मृतः |

इति |
मातृकार्णवे—

षट्पञ्चाशल्लकारस्य चाधारे पार्थिवांशवः |
स्वाधिष्ठाने तु द्वाषष्टिस्तैजसोपान्तरश्मयः ॥ १ ॥

मणिपूरे द्विपञ्चाशल्लान्तस्यामृतसंख्यकाः |
अनाहते यकारस्य चतुःपञ्चाशदानिलाः ॥ २ ॥

द्वासप्ततिर्विशुद्धे तु हकारस्य च नाभसाः |
आज्ञायां तु चतुष्षष्टिर्धान्ते मानसरश्मयः ॥ ३ ॥

विसर्गस्थे विसर्गस्य कलाशतकमानसाः |

इति |
अस्यार्थः—ऊर्ध्वाम्नाये आकाशात्मकेशानमुखोद्भूते देवतामन्त्रयन्त्राणां स्वरूपज्ञानार्थं षड्विधरश्मयः प्रदर्श्यन्ते |
तत्रादावाकाशवर्णानां लृलॄअंङञणनमशहानां दशानां क्रमेण १ |
२ |
३ |
४ |
५ |
६ |
७ |
८ |
९ |
१० |
एवं क्रमेण पार्थिवरश्मयो ज्ञेयाः |
अथाप्यरश्मयः—७१ |
७२ |
७३ |
७४ |
७५ |
७६ |
७७ |
७८ |
७९ |
८० |
अथ तैजसरश्मयः—१११ |
११२ |
११३ |
११४ |
११५ |
११६ |
११७ |
११८ |
११९ |
१२० |
अथ वायव्यरश्मयः—१५१ |
१५२ |
१५३ |
१५४ |
१५५ |
१५६ |
१५७ |
१५८ |
१५९ |
१६० |
अथाकाशरश्मयः—२४१ |
२४२ |
२४३ |
२४४ |
२४५ |
२४६ |
२४७ |
२४८ |
२४९ |
२५० |
अथ मानसरश्मयः—३२ |
३२ |
३२ |
३२ |
३२ |
३२ |
३२ |
३२ |
३२ |
३२ ॥

अथ वायुवर्णानाम् अआएकचटतपयषाणां दशानां क्रमेण पार्थिवरश्मयः—११ |
१२ |
१३ |
१४ |
१५ |
१६ |
१७ |
१८ |
१९ |
२० |
अथाप्यरश्मयः—६१ |
६२ |
६३ |
६४ |
६५ |
६६ |
६७ |
६८ |
६९ |
७० |
अथ तैजसरश्मयः—१०१ |
१०२ |
१०३ |
१०४ |
१०५ |
१०६ |
१०७ |
१०८ |
१०९ |
११० |
अथ वायव्यरश्मयः—१९१ |
१९२ |
१९३ |
१९४ |
१९५ |
१९६ |
१९७ |
१९८ |
१९९ |
२०० |
अथाकाशरश्मयः—२३१ |
२३२ |
२३३ |
२३४ |
२३५ |
२३६ |
२३७ |
२३८ |
२३९ |
२४० |
मानसरश्मयः प्राग्वत्प्रत्यक्षरं द्वात्रिंशद्द्वात्रिंशत्क्रमेण ज्ञेयाः ॥

अथ तैजसवर्णानां दशानाम् इईऐखछठथफरक्षाणां पार्थिवादिरश्मयः |
तत्रादौ पार्थिवाः—२१ |
२२ |
२३ |
२४ |
२५ |
२६ |
२७ |
२८ |
२९ |
३० |
अथाप्यरश्मयः—५१ |
५२ |
५३ |
५४ |
५५ |
५६ |
५७ |
५८ |
५९ |
६० |
अथ तैजसरश्मयः—१४१ |
१४२ |
१४३ |
१४४ |
१४५ |
१४६ |
१४७ |
१४८ |
१४९ |
१५० |
अथ वायव्यरश्मयः—१८१ |
१८२ |
१८३ |
१८४ |
१८५ |
१८६ |
१८७ |
१८८ |
१८९ |
१९० |
अथाकाशरश्मयः—२२१ |
२२२ |
२२३ |
२२४ |
२२५ |
२२६ |
२२७ |
२२८ |
२२९ |
२३० |
मानसाः प्राग्वत् ॥

अथाप्यवर्णानां दशानाम् ऋॠओघझढधभवसानां दशानां क्रमेण पार्थिवादिरश्मयः |
तत्रादौ पार्थिवाः—

३१ |
३२ |
३३ |
३४ |
३५ |
३६ |
३७ |
३८ |
३९ |
४० |
अथ आप्याः—९१ |
९२ |
९३ |
९४ |
९५ |
९६ |
९७ |
९८ |
९९ |
१०० |
अथ तैजसाः—१३१ |
१३२ |
१३३ |
१३४ |
१३५ |
१३६ |
१३७ |
१३८ |
१३९ |
१४० |
अथ वायव्याः—१७१ |
१७२ |
१७३ |
१७४ |
१७५ |
१७६ |
१७७ |
१७८ |
१७९ |
१८० |
अथ नाभसाः—२११ |
२१२ |
२१३ |
२१४ |
२१५ |
२१६ |
२१७ |
२१८ |
२१९ |
२२० |
मानसाः प्राग्वत् ॥

अथ पार्थिववर्णानां दशानाम् उऊऔगजडदबलळानां क्रमेण पार्थिवादिरश्मयः |
तत्रादौ अथ पार्थिवाः—४१ |
४२ |
४३ |
४४ |
४५ |
४६ |
४७ |
४८ |
४९ |
५० |
अथ आप्याः—९१ |
९२ |
९३ |
९४ |
९५ |
९६ |
९७ |
९८ |
९९ |
१०० |
अथ तैजसाः—१२१ |
१२२ |
१२३ |
१२४ |
१२५ |
१२६ |
१२७ |
१२८ |
१२९ |
१३० |
अथ वायव्याः—१६१ |
१६२ |
१६३ |
१६४ |
१६५ |
१६६ |
१६७ |
१६८ |
१६९ |
१७० |
अथ नाभसाः—२०१ |
२०२ |
२०३ |
२०४ |
२०५ |
२०६ |
२०७ |
२०८ |
२०९ |
२१० |
मानसाः प्राग्वज्ज्ञेयाः ॥ इत्यूर्ध्वाम्नायक्रमे रश्मिक्रमः ॥

अथ पूर्वाम्नाये रश्मिक्रमः |
तत्रादौ पार्थिवानां दशार्णानां क्रमेण पार्थिवादिरश्मिक्रमः |
तत्रादौ अथ पार्थिवाः—२४१ |
२४२ |
२४३ |
२४४ |
२४५ |
२४६ |
२४७ |
२४८ |
२४९ |
२५० |
अथ आप्याः—१५१ |
१५२ |
१५३ |
१५४ |
१५५ |
१५६ |
१५७ |
१५८ |
१५९ |
१६० |
अथ तैजसाः—१११ |
११२ |
११३ |
११४ |
११५ |
११६ |
११७ |
११८ |
११९ |
१२० |
अथ वायव्याः—७१ |
७२ |
७३ |
७४ |
७५ |
७६ |
७७ |
७८ |
७९ |
८० |
अथ नाभसाः—१ |
२ |
३ |
४ |
५ |
६ |
७ |
८ |
९ |
१० |
॥

अथाप्यानां दशार्णानां पार्थिवादिरश्मयः |
तत्रादौ अथ पार्थिवाः—२३१ |
२३२ |
२३३ |
२३४ |
२३५ |
२३६ |
२३७ |
२३८ |
२३९ |
२४० |
अथ आप्याः—१९१ |
१९२ |
१९३ |
१९४ |
१९५ |
१९६ |
१९७ |
१९८ |
१९९ |
२०० |
अथ तैजसाः—१०१ |
१०२ |
१०३ |
१०४ |
१०५ |
१०६ |
१०७ |
१०८ |
१०९ |
११० |
अथ वायव्याः—६१ |
६२ |
६३ |
६४ |
६५ |
६६ |
६७ |
६८ |
६९ |
७० |
अथ नाभसाः—११ |
१२ |
१३ |
१४ |
१५ |
१६ |
१७ |
१८ |
१९ |
२० |
मानसाः प्राग्वत् ॥

अथ तैजसानां दशार्णानां क्रमेण पार्थिवादिरश्मयः |
तत्र अथ पार्थिवाः—२२१ |
२२२ |
२२३ |
२२४ |
२२५ |
२२६ |
२२७ |
२२८ |
२२९ |
२३० |
अथ आप्याः—१८१ |
१८२ |
१८३ |
१८४ |
१८५ |
१८६ |
१८७ |
१८८ |
१८९ |
१९० |
अथ तैजसाः—१४१ |
१४२ |
१४३ |
१४४ |
१४५ |
१४६ |
१४७ |
१४८ |
१४९ |
१५० |
अथ वायव्याः—५१ |
५२ |
५३ |
५४ |
५५ |
५६ |
५७ |
५८ |
५९ |
६० |
अथ नाभसाः—२१ |
२२ |
२३ |
२४ |
२५ |
२६ |
२७ |
२८ |
२९ |
३० |
अत्र मानसाः प्राग्वत् |

अथ वायव्यानां दशार्णानां पार्थिवादिरश्मयः |
तत्रादौ अथ पार्थिवाः—२२१ |
२२२ |
२२३ |
२२४ |
२२५ |
२२६ |
२२७ |
२२८ |
२२९ |
२३० |
अथ आप्याः—१७१ |
१७२ |
१७३ |
१७४ |
१७५ |
१७६ |
१७७ |
१७८ |
१७९ |
१८० |
अथ तैजसाः—१३१ |
१३२ |
१३३ |
१३४ |
१३५ |
१३६ |
१३७ |
१३८ |
१३९ |
१४० |
अथ वायव्याः—९१ |
९२ |
९३ |
९४ |
९५ |
९६ |
९७ |
९८ |
९९ |
१०० |
अथ नाभसाः—३१ |
३२ |
३३ |
३४ |
३५ |
३६ |
३७ |
३८ |
३९ |
४० |
मानसाः प्राग्वत् ॥

अथ नाभसानां दशार्णानां पार्थिवादिरश्मयः |
तत्रादौ अथ पार्थिवाः—२०१ |
२०२ |
२०३ |
२०४ |
२०५ |
२०६ |
२०७ |
२०८ |
२०९ |
२१० |
अथ आप्याः—१६१ |
१६२ |
१६३ |
१६४ |
१६५ |
१६६ |
१६७ |
१६८ |
१६९ |
१७० |
अथ तैजसाः—१२१ |
१२२ |
१२३ |
१२४ |
१२५ |
१२६ |
१२७ |
१२८ |

१२९ |
१३० |
अथ वायव्याः—८१ |
८२ |
८३ |
८४ |
८५ |
८६ |
८७ |
८८ |
८९ |
९० |
अथ नाभसाः—४१ |
४२ |
४३ |
४४ |
४५ |
४६ |
४७ |
४८ |
४९ |
५० |
अत्रापि मानसाः प्राग्वत् ॥ इति पूर्वाम्नाये रश्मिक्रमः ॥

अथ दक्षिणाम्नाये रश्मिक्रमः |
“दक्षिणेऽनिलतेजोऽम्बुपृथिवीनभसां क्रमः” |
अत्रायमर्थः—पूर्वाम्नाये ये पार्थिवादिरश्मयः पार्थिवदशार्णानामभिहितास्ते दक्षिणाम्नाये वायव्यदशार्णानां पार्थिवादिरश्मयो ज्ञेयाः |
अथ च पूर्वाम्नाये ये आप्यदशार्णानां पार्थिवादिरश्मयः प्रोक्तास्ते दक्षिणाम्नाये तैजसानां दशार्णानां पार्थिवादिरश्मयो ज्ञेयाः |
अथ च पूर्वाम्नाये तैजसानां दशार्णानां ये पार्थिवादिरश्मयः प्रोक्तास्तेऽत्र दक्षिणाम्नाये आप्यानां दशार्णानां पार्थिवादिरश्मयो ज्ञेयाः |
अथ च पूर्वाम्नाये वायव्यदशार्णानां ये पार्थिवादिरश्मयः प्रोक्तास्तेऽत्र दक्षिणाम्नाये पार्थिवदशार्णानां पार्थिवादिरश्मयो ज्ञेयाः |
नाभसा उभयत्र समाना इत्यर्थः |
एवं क्रमेण

“पश्चिमेऽम्बुपृथिव्यभ्रपवनानलरश्मयः |
उत्तरेऽनलवाःपृथ्वीनभोवायुक्रमः स्मृतः ॥”

एतद्रीत्या पश्चिमाम्नायोत्तराम्नाययोः रश्मिक्रम ऊह्यः |
अत्र पञ्चाम्नायेषु क्रमप्राप्तरश्मिभ्योऽप्यधिकरश्मयो लरवयहठानां वर्णानां परं पृथिव्यप्तेजोवाय्वाकाशमानसाः मातृकार्णवोक्तरीत्या ज्ञेयाः |
यथा—मूलाधारे चतुर्दलकमलकर्णिकामध्यस्थलकारस्य षट्पञ्चाशत्पार्थिवरश्मयो ज्ञेयाः |
स्वाधिष्ठाने षड्दलकमलकर्णिकामध्यस्थवकारस्य द्विपञ्चाशदाप्यरश्मयो ज्ञेयाः |
मणिपूरे दशदलकमलकर्णिकामध्यस्थरेफस्य द्वाषष्टिस्तैजसरश्मयो ज्ञेयाः |
अनाहते द्वादशदलकमलकर्णिकामध्यस्थयकारस्य चतुःपञ्चाशद्वायव्यरश्मयो ज्ञेयाः |
विशुद्धे षोडशदलकमलकर्णिकामध्यस्थहकारस्य द्वासप्ततिर्नाभसरश्मयो ज्ञेयाः |
आज्ञायां द्विदलकमलकर्णिकामध्यस्थठकारस्य चतुःषष्टिर्मानसरश्मयो ज्ञेयाः |
ततो ब्रह्मरन्ध्रे सहस्रदलकमलकर्णिकोपरिठाद्विसर्गस्थानस्थितठःकारस्य षोडशशतमानसरश्मयो ज्ञेयाः ॥ श्रीतन्त्रराजे—

अथ षोडशनित्यानां ध्यानानि विविधानि ते |
कथयामि शृणु प्राज्ञ वाञ्छितार्थसुरद्रुमान् ॥ १ ॥

एकैकमङ्गाङ्कितेन तासां तच्छक्तिभिस्तथा |
प्रयोगेषु समस्तेषु बाह्याभ्यन्तरतः क्रमात् ॥ २ ॥

श्रिये कीर्त्यै जयावाप्त्यै वश्याकर्षणसिद्धये |
ध्यायेद्देवीः समस्ताश्च लोहिताकारमण्डनाः ॥ ३ ॥

त्रिवर्गाप्त्यै शान्तिके मुक्ताविधुकर्पूरसन्निभाः |
विद्वेषोच्चाटनिधननिग्रहेष्वसिताः स्मरेत् ॥ ४ ॥

क्षित्यादिभूतैः सत्त्वादिगुणैरेकैकसंहतैः |
एतद्व्याप्तिसमारब्धैर्वर्णाकारैस्तु शक्तयः ॥ ५ ॥

इति |
अत्र क्षितिवर्णानां दशानां सत्त्वादियोजनाप्रकारस्तु—सात्त्विकवर्णाः |
राजसवर्णाः |
तामसवर्णाः |
सात्त्विकसात्त्विकाः |
राजसराजसाः |
तामसतामसाः |
सात्त्विकराजसाः |
राजससात्त्विकाः |
सात्त्विकतामसाः |
तामससात्त्विकाः |
राजसतामसाः |
तामसराजसाः |
एवं द्वादशधा क्षितिवर्णाः १२० |
एवमाप्यवर्णाः १२० |
तैजसाः १२० |
वायव्याः १२० |
नाभसाः १२० |
एवं मानसा अपि ज्ञेयाः ॥ तथा—

धूम्राभाश्चिन्तयेत् सर्वाः प्रोक्तद्वेषादिसिद्धये |
सर्वत्र स्वसमाकारवर्णशक्तिभिरावृताः ॥ १ ॥

असंख्याताः भवन्त्यासां कार्त्स्न्याद्ध्यानं तु को वदेत् |
को वा शृणोति साकल्यात् ततः किञ्चिद्वदामि ते ॥ २ ॥

भौमाकाराः पीतवर्णाः सर्वाः संस्तम्भकारिकाः |
आप्याः सत्त्वगुणाः सर्वाः सिताकाराः समीरिताः ॥ ३ ॥

ताः सर्वा ज्ञानकान्तिश्रीकीर्तिसौभाग्यमुक्तिदाः |
आग्नेय्यो राजसाः सर्वा लोहिताकारसंयुताः ॥ ४ ॥

वश्याकर्षणशान्तिश्रीसौभाग्यविजयप्रदाः |
वायुरूपा धूम्रवर्णाः सर्वा द्वेषादिकारिकाः ॥ ५ ॥

नाभसा नीलवर्णास्ता मारणोच्चाटयोः स्मृताः |
आसां मुखभुजादेर्विधानं शृणु पार्वति ॥ ६ ॥

एकवक्त्राश्चतुर्वक्त्रा नववक्त्रास्तथापराः |
षोडशास्याः पञ्चविंशद्दशास्यां अपि काश्चन ॥ ७ ॥

षट्त्रिंशद्वदनाः कापि चत्वारिंशन्नवाननाः |
चतुःषष्टियुतास्तद्वदेकाशीतिशताननाः ॥ ८ ॥

बहुना किं मुखभुजसंख्या साधकवाञ्छया |
तथापि दर्शितं किञ्चिद्वक्त्रे वक्त्रे भुजद्वयम् ॥ ९ ॥

नामरूपातिगा येन तेन सानन्तविग्रहा |
न सन्ति नानारूपाश्च भवेयुर्भक्तवाञ्छया ॥ १० ॥

अम्बायां ललितायाः स्युरन्याः पञ्चदशाङ्गगाः |
ललिताङ्गित्वसत्त्वेन सर्वासामात्मविग्रहाः ॥ ११ ॥

तेन तासां तु सर्वासां स्वतोऽन्याः परिचारिकाः |
तत्तद्वर्णायुधाकारवाहनैश्च सुसंयुताः ॥ १२ ॥

तथाविधैः स्वस्वशक्तिवृन्दैश्चावेष्टिता अपि |
इति तासां ध्यानभेदाः प्रोक्ताः स्थूला महेश्वरि ॥ १३ ॥

सूक्ष्मरूपाणि च तथा कथयामि तवानघे |
येन ते साधकाः सर्वे वाञ्छितं प्राप्नुयुः क्षणात् ॥ १४ ॥

प्रोक्तेष्वाधारपद्मेषु लोहितात्मैक्यविग्रहाम् |
विभाव्य तेजोनिचयं तत्र सिद्धिं च चिन्तयेत् ॥ १५ ॥

तेन सर्वमभीष्टं तु समवाप्नोत्ययत्नतः |
पूजातर्पणहोमादिरहितं भावनेन वै ॥ १६ ॥

परं तु ध्यानमुदितमखण्डात्मविमर्शतः |
निर्वातदीपसङ्काशमात्मनात्मसमीरणात् ॥ १७ ॥

स्थूलेन साधयेत्तत्तदिष्टं सर्वं शुभाशुभम् |
प्रोक्तक्रमेण देवेशि सततं साध्यसाधकैः ॥ १८ ॥

सिद्धस्तु सूक्ष्मरूपेण ध्यानेन सकलेप्सितम् |
साधयेत् पररूपं तु साध्यं साधनसिद्धये ॥ १९ ॥

ब्रूहि देव महेशान स्थूलसूक्ष्मस्वरूपयोः |
ध्यानयोः कर्मणां सिद्धिं विविधां फलयोगतः ॥ २० ॥

तासां तत्तत्करेष्वङ्गेष्वायुधान्यप्यशेषतः |
शृणु वच्मि महेशानि क्रमेण तव सांप्रतम् ॥ २१ ॥

वामदक्षिणयोः स्यातां द्विभुजे च वराभये |
पाशाङ्कुशौ चतुर्बाहौ षड्भुजे चापसायकौ ॥ २२ ॥

चर्मखड्गौ चाष्टभुजे गदाशूले दशोदिते |
मुखपाण्यायुधानां तु रूपसंख्यादिवाञ्छया ॥ २३ ॥

यस्मिन् कर्मणि ता देवि यथा स्मरति साधकः |
तथा तस्याग्रतो भूत्वा पालयन्ति तमादरात् ॥ २४ ॥

सर्वत्र स्मेरवदननयनाः शुभकर्मसु |
दंष्ट्रोग्रा भीमनयनवदनाः क्रूरकर्मसु ॥ २५ ॥

शुभेषु कर्मस्वासीनाः स्थिताः वाहनगा अपि |
शुभेतरेषु ताः सर्वाः प्रयोगेषु तु सर्वदा ॥ २६ ॥

हारग्रैवेयमुक्तादिमुद्रिकानूपुरान्विताः |
नवरत्नमयैः सर्वाः स्तवकैश्चोपशोभिताः ॥ २७ ॥

वलयैरङ्गदै रत्नमयैरप्यङ्गुलीयकैः |
विराजमानास्ताः सर्वा दिव्यांशुकधरा अपि ॥ २८ ॥

एवं सामान्यमुदितं ध्यानं तासां महेश्वरि |
विशेषं शृणु वक्ष्यामि तत्तत्कर्मसु सिद्धिदम् ॥ २९ ॥

गजवाजिरथारूढा विमानस्थाश्च सिंहगाः |
व्याघ्रतार्क्ष्यसमारूढा ध्येया रक्षासु सर्वदा ॥ ३० ॥

समरेषु जयावाप्त्यै नृपराष्ट्रादिरक्षणे |
पिशाचचोरव्यालादिदुर्गमेऽरण्यवर्त्मनि ॥ ३१ ॥

Redaktioneller Hinweis: Im Vers 38 wurde die gedruckte Variante mit vairi, „Gegner“, berücksichtigt; siehe deutsche Übersetzung 20.TF.38.

ध्यायेत्ता देवताः सर्वाः सर्वशक्तिभिरावृताः |
एकैकशः समस्ता वा सुखीभवति निश्चितम् ॥ ३२ ॥

ऋक्षवानरभल्लूकखरसेरिभवाहनाः |
उच्चाटनेषु सर्वास्ता भीमा ध्येयाः सुदारुणाः ॥ ३३ ॥

कङ्कश्येनवकक्रौञ्चकाककौशिकवाहनाः |
विद्वेषेषु सर्वास्ताः घोरप्रहरणाकुलाः ॥ ३४ ॥

खड्गगोमायुगवयशल्यलीहरिणाश्वगाः |
चिन्तयेत् सकलाः सर्वक्षुद्रकर्मसु साधकः ॥ ३५ ॥

पिशाचवेतालगता ध्येयाः सर्वत्र मारणे |
इति वाहनभेदेन फलभेदाः समीरिताः ॥ ३६ ॥

सर्वास्तार्क्ष्यगता वह्निवायुबाहुद्वयान्विताः |
द्विनेत्रास्त्वेकवदना दंष्ट्राढ्या भीमविग्रहाः ॥ ३७ ॥

दहन्त्यो वैरिनिवहं ध्येयाः स्वाकारशक्तिभिः |
भीमारवाभिरभितो वेष्टिता रणमूर्धनि ॥ ३८ ॥

विजयी भवति क्षिप्रं वैरिसेनाविनाशनः |
पलायनात् संग्रहणात् पादयोः पतनेन वा ॥ ३९ ॥

चतुर्मुखा अष्टभुजा गृह्णत्यो महतीं चमूम् |
विभाव्य विजयं युद्धे प्राप्नोत्युक्तक्रमेण वै ॥ ४० ॥

नवाननास्तद्द्विगुणभुजा वा भीमविग्रहाः |
वामैः कोदण्डनिवहमन्यैर्बाणांश्च बिभ्रतीः ॥ ४१ ॥

ध्यात्वारिसेनां सकलां शरभिन्नकलेवराम् |
वमद्रुधिरधारां च विजयं प्रोक्तमाप्नुयात् ॥ ४२ ॥

अथवा नवभिः खेटमन्यैः खड्गं च बिभ्रतीः |
चतुरङ्गां रिपोः सेनां छिन्दन्तीस्तरवारिभिः ॥ ४३ ॥

चिन्तयित्वा रिपुं युद्धे भीमाकारं सुदुर्जये |
पत्त्यश्वेभरथाटोपवाद्यनिःस्वानसंकुले ॥ ४४ ॥

प्राप्नोत्ययत्नतः क्षिप्रं प्रागुक्तक्रमयोगतः |
अथवा नवभिर्हस्तैर्गदा वामैस्तथेतरैः ॥ ४५ ॥

नखरान् पाणिभिर्भीमान् दधतीः समरे स्मरन् |
तद्भिन्नचतुरङ्गां सेनां विजयमाप्नुयात् ॥ ४६ ॥

तथा स्थूलकुठारौघैः पातयन्तीर्द्विषां बलम् |
विजयी भवति प्रोक्तक्रमाद्वीरो रणाङ्गणे ॥ ४७ ॥

तथैव चर्ममुद्गरकानिबहैर्निघ्नतीर्बलम् |
ध्यात्वा वा विजयी भूयात् समरे रोमहर्षणे ॥ ४८ ॥

निद्रातिमिरहस्ता वा मोहयन्तीर्द्विषां बलम् |
ध्यात्वा विजयमाप्नोति नियतं समरे नृपः ॥ ४९ ॥

पिशाचसर्पहस्ता वा तैः सेनां मृद्नतीः स्मरन् |
विजयं समरे शश्वदश्नुते शक्रोपमः ॥ ५० ॥

पाशकर्तरिकाभिर्वा निघ्नतीः पृतनां रणे |
स्मृत्वा विजयमाप्नोति नृपः प्रोक्तक्रमाद् ध्रुवम् ॥ ५१ ॥

अङ्कुशक्रकचाभ्यां वा दारयन्तीश्चमूः क्षणात् |
चिन्तयन् समरे भीमे विजयी स्यात् सुनिश्चितम् ॥ ५२ ॥

हलैश्च मुसलैर्नित्यं प्रहरन्तीर्द्विषां बलम् |
स्मरन् प्रविजयं युद्धे प्राप्नोति ध्यानवैभवात् ॥ ५३ ॥

तथा षोडशवक्त्रास्ता द्वात्रिंशद्बाहुभिर्युताः |
प्राग्वत् प्रमथितारातिसेनाश्चिन्तयञ्जपेत् ॥ ५४ ॥

पञ्चविंशतिवक्त्रा वा पञ्चाशद्भुजसंयुताः |
तथैकादशभिर्भेदैरायुधैर्निघ्नतीर्बलम् ॥ ५५ ॥

विचिन्त्य जयमाप्नोति समरे सर्वदा नृपः |
तथा स्मरणसंयुक्तः पूजयेत्तास्तदा गृहे ॥ ५६ ॥

षट्त्रिंशद्वदना देवीर्द्विसप्ततिकराः स्मरेत् |
तथैकादशरूपैस्तैः घोरैः प्रहरणैर्युताः ॥ ५७ ॥

एकोनपञ्चाशद्वक्त्रा हस्तैस्तद्द्विगुणैर्युताः |
प्रहरन्तीस्तथारातीन् स्मृत्वा वा जयमाप्नुयात् ॥ ५८ ॥

चतुःषष्टिमुखा देवीः करैस्तद्द्विगुणैर्युताः |
प्रहरन्तीः स्मरन् युद्धे जयी भवति निश्चितम् ॥ ५९ ॥

एकाशीतिमुखा देवीस्तद्द्विगुणभुजैर्युताः |
तथाविधैः प्रहरणैः स्मरन् युद्धे जयी भवेत् ॥ ६० ॥

शतवक्त्रास्तद्द्विगुणकरास्तद्हेतिभिर्युताः |
स्मृत्वा विजयमाप्नोति समरे ताश्च षोडश ॥ ६१ ॥

एवं वक्त्रकरैर्युक्तास्त्वनेकैरिष्टरूपतः |
तथा तैर्हेतिनिवहैर्व्याकुलक्रमहस्तकैः ॥ ६२ ॥

असंख्याता भवेयुस्ताः साधकाभीष्टसिद्धिदाः |
एवमुद्दामसमरसङ्कटादिषु चिन्तयन् ॥ ६३ ॥

देवीस्तास्तरति क्षिप्रमापदो मनुजोऽथवा |
देवो वा राक्षसो यक्षः किन्नरो वा भुजङ्गमः ॥ ६४ ॥

पिशाचो वा गुह्यको वा सिद्धो वा दानवोऽथवा |
न कदाचित् स्मरन्नित्यं भङ्गमाप्नोति निश्चितम् ॥ ६५ ॥

चोरादिसङ्कटेऽरण्ये गिरिदुर्गमवर्त्मनि |
द्विविषैर्वैरिभिर्जातैः कृच्छ्रे राजभये तथा ॥ ६६ ॥

क्षुद्रपीडासु भूतापस्मारराक्षससंकटे |
पिशाचडाकिनीवृन्दब्रह्मराक्षसपीडने ॥ ६७ ॥

अन्येष्वपि च कृच्छ्रेषु विस्तरेषु महत्स्वपि |
स्मरन्नित्थं जयेत्सर्वा विपदो ध्यानवैभवात् ॥ ६८ ॥

एकवक्त्रा द्विनयना द्विभुजाभीष्टधारिकाः |
सपादुकाः समागत्य सर्वाभरणभूषिताः ॥ ६९ ॥

स्वसमानाभिरभितः शक्तिभिः परिवारिताः |
गायन्तीभिश्च नृत्येषु वनमालाभिरन्विताः ॥ ७० ॥

ध्यायन्नभिमतं सर्वमाप्नुयात् षोडशापि ताः |
नासाध्यमस्ति भुवने ध्यानादासां महेश्वरि ॥ ७१ ॥

अलङ्कृतहयारूढाः शक्तिभिश्च तथावृताः |
स्मेराननाश्च गायन्तीः स्मृत्वा विश्वं वशं नयेत् ॥ ७२ ॥

तथाविधा गजारूढास्तथा शक्तिभिरावृताः |
सङ्गीतासक्तमहिलावृन्दसङ्कुलमध्यगाः ॥ ७३ ॥

स्मृत्वा लक्ष्मीमवाप्नोति राजमान्यामतिस्थिराम् |
नानाभोगसमोपेतां प्रख्यातां निजवैभवात् ॥ ७४ ॥

तथाविधरथारूढास्तथा शक्तिभिरावृताः |
तथा संगीतसंसक्तशक्तिवृन्दसमन्विताः ॥ ७५ ॥

स्मरन् भूमिमवाप्नोति राजा चेदरिमण्डलम् |
एवं तत् त्रिविधध्यानात् सौभाग्यं चातुलं यशः ॥ ७६ ॥

कदलीकानने रम्ये निर्जने तास्तथा स्मरन् |
पादुकासक्तचरणा आगच्छन्तीश्च शक्तिभिः ॥ ७७ ॥

मण्डलं मासमर्धं वा जपन् विद्यां ततो वसेत् |
निधिं संप्राप्य भवने भोगी स्याद्यावदायुषम् ॥ ७८ ॥

पूगारामे तथा स्मृत्वा निधिमाप्नोत्ययत्नतः |
एवं चम्पकपुन्नागनमेरुवकुलेष्वपि ॥ ७९ ॥

तथा पर्वतकुञ्जेषु स्मरंस्ता वित्तमाप्नुयात् |
राजतो धनितोऽन्यस्मादेनासौ स्यात् सुखी चिरम् ॥ ८० ॥

समुद्रतीरे पुण्येषु तथा नित्यं स्मरन् धिया |
प्राप्नोत्यनर्घ्यरत्नानि बहूनि ध्यानवैभवात् ॥ ८१ ॥

समुद्रगासरिन्मध्यतरुवाटीषु तास्तथा |
स्मरन् कनकमाप्नोति वर्णोत्कृष्टमसंख्यकम् ॥ ८२ ॥

निर्जने विपिने स्मृत्वा प्राप्नोति महिलाः शुभाः |
रूपयौवनशीलाढ्याः प्रेमनिष्ठास्त्वनन्यगाः ॥ ८३ ॥

उक्तेषु तेषु स्थानेषु हयारूढाः स्मरन् नरः |
नृपतिं कुरुते वश्यं मनोवाक्कायकर्मभिः ॥ ८४ ॥

तेषूक्तेषु गजारूढाः स्मृत्वा नारीनरान्नृपान् |
वशीकरोति भुवने प्राणिनश्चाविशेषतः ॥ ८५ ॥

तथा तेषु रथारूढाः स्मृत्वा देवीस्तथोदिताः |
वाञ्छितं समवाप्नोति मुक्तः स्यान्निगडादितः ॥ ८६ ॥

शतवक्त्रास्तद्द्विगुणभुजास्तेष्वायुधान्यपि |
वाञ्छितानि लिखित्वा ताः पटेषु नवसु स्फुटम् ॥ ८७ ॥

पटांस्तान् मध्यपर्यन्तद्वये संस्थापयेत् तथा |
रथदन्तिहयानां तु तिरस्करणिकायुतान् ॥ ८८ ॥

प्रतिसैन्याभिमुख्ये तु तांस्तु सम्यक्प्रदर्शयेत् |
वज्रालिखितनिःसानभेरीपणवमर्दलान् ॥ ८९ ॥

आहत्य वादयन् शृङ्गशङ्खकाहलादिकम् |
व्रजेदभिमुखं वैरी धावत्याशु पराजितः ॥ ९० ॥

तत्सेना संमुखी पश्चान्न जातु भवति ध्रुवम् |
इति ध्यानान्यशेषाणि कथितानि तवानघे ॥ ९१ ॥

सूक्ष्मध्यानेन सिद्धानां साधकानां फलोदयः |
अतस्तच्छृणु वक्ष्यामि सर्वाभीष्टार्थकारकम् ॥ ९२ ॥

दाडिमीकेसरप्रख्यतेजोरूपाः स्मरन् धिया |
तन्मध्ये साध्यरूपं च निजवाञ्छानुरूपकम् ॥ ९३ ॥

समस्ताभीष्टमाप्नोति शुभानप्यशुभानपि |
तथा सुषुम्नान्तस्तद्वच्चिन्तयेद्वा गमागमम् ॥ ९४ ॥

तेनाखिलं निजेष्टं तु प्राप्नोति ध्यानवैभवात् |
साधकश्च तथा सिद्धस्तयोरेवाशुसिद्धिकृत् ॥ ९५ ॥

इति |
अत्र मूलमन्त्रवर्णाः स्वरव्यञ्जनरूपेण पृथक्कृताः तत्तद्रश्मिवृन्दसहितास्तत्तद्रूपेण ध्यातव्याः |
मातृकावर्णाश्च तथैव ध्यातव्या इत्यर्थः |
षोडशनित्यासु ललिताया अङ्गत्वेन पञ्चदशनित्याः, पञ्चदशनित्यासु परस्परमङ्गाङ्गित्वेन तत्तन्मन्त्रवर्णान् स्वरव्यञ्जनरूपेण पृथक्पृथग्विभज्य क्षित्यादिभूतवर्णान् विभज्य तत्तद्रश्मिपुञ्जसहितान् भावयेत् |
तत्तत्फलं भवेत् ॥ इति कादिमते रश्मिक्रमः ॥

अथ कालीमते रश्मिक्रममाह |
उत्तरतन्त्रे—

मनूनां प्रस्तुतेर्योग्या रश्मयो वर्णसंहतः |
देवतामन्त्रयन्त्राणां ज्ञायते यैः स्वरूपकम् ॥ १ ॥

रश्मिक्रमस्य विज्ञानाच्छिवोऽभून्नात्र संशयः |
अकारस्य तु विज्ञेयाः पार्थिवाश्च चतुर्दश ॥ २ ॥

आप्याः पञ्च मयूखाः स्युस्तेजसा दश चैव हि |
वायव्यास्तस्य संप्रोक्ताः षष्ट्युत्तरशतांशवः ॥ ३ ॥

चत्वारो नाभसा उस्रास्तथा आकारके स्मृताः |
चतुर्दश ततः पञ्च ततः षट्षष्टिकं शतम् ॥ ४ ॥

चत्वारश्चैव चत्वारः इईवर्णद्वये पृथक् |
शतं सप्तत्युत्तरं च ततः पञ्च ततो दश ॥ ५ ॥

चत्वारश्चैव चत्वारः उऊवर्णद्वये पृथक् |
चतुर्दश ततो भौमाः नवषष्ट्युत्तरं शतम् ॥ ६ ॥

ततो दश च चत्वारो वेदा ऋॠद्वये पृथक् |
चतुर्दश ततः पञ्च ततो दश ततो युगाः ॥ ७ ॥

षष्ट्युत्तरशतं चैव लृलॄवर्णद्वये पृथक् |
अवर्णस्येव संप्रोक्ता एकारस्य च रश्मयः ॥ ८ ॥

इवर्णस्य यथा प्रोक्ता ऐकारस्य तथा स्मृताः |
उवर्णस्येव ओकारे ऋकारस्येव औलिपेः ॥ ९ ॥

लृवर्णस्येव विज्ञेया अंस्वरस्य च रश्मयः |
[लॄवर्णस्येव विज्ञेया अःस्वरस्य च रश्मयः ॥ १० ॥]

पार्थिवा रश्मयो ज्ञेयाः कवर्णस्य चतुर्दश |
आप्याः पञ्चदश प्रोक्तास्तैजसाश्च ततः परम् ॥ ११ ॥

वायव्या रश्मयः प्रोक्ताः पञ्चत्रिंशच्छतद्वयम् |
नाभसाश्चैव चत्वारः खकारस्य चतुर्दश ॥ १२ ॥

पार्थिवा जलजाः पञ्च ततश्चैव शतद्वयम् |
सैकचत्वारिंशत्तदनु तैजसा युगसंख्यकाः ॥ १३ ॥

वायव्या नाभसाश्चोक्ताश्चत्वारो वेदसंख्यकाः |
गवर्णे पार्थिवाः पञ्चचत्वारिंशच्छतद्वयम् ॥ १४ ॥

पञ्चाप्या दश चाग्नेया वायव्या वेदसंख्यकाः |
नाभसाश्चैव चत्वारो घवर्णे मनुपार्थिवाः ॥ १५ ॥

आप्याः शतद्वयं चैव प्रोक्ताः षट्त्रिंशदुत्तरम् |
तैजसा दश वायव्याश्चत्वारो नाभसाः स्मृताः ॥ १६ ॥

पञ्चत्रिंशच्छतद्वे च कर्णस्येव चवर्णके |
खवर्णस्येव छार्णस्य गवर्णस्येव जार्णके ॥ १७ ॥

घवर्णस्येव झार्णस्य ङवर्णस्येव ञार्णके |
चवर्णस्येव टार्णस्य छवर्णस्येव ठार्णके ॥ १८ ॥

शतद्वयं पञ्चनवत्युत्तरं डस्य पार्थिवाः |
घस्येव ढस्य संप्रोक्ता ञार्णस्येव च णार्णके ॥ १९ ॥

टस्येव तस्य संप्रोक्ता मनवस्थस्य पार्थिवाः |
पञ्चाप्या एकनवतिद्विशतं चानु वायुजाः ॥ २० ॥

चत्वारो नाभसाश्चैव डस्येव च दवर्णके |
ढस्येव धस्य संप्रोक्ता णार्णस्येव च नार्णके ॥ २१ ॥

पार्णस्य पार्थिवाः प्रोक्ताश्चतुर्दश जलीयकाः |
पञ्चैव तैजसाः प्रोक्ता दशैकनवतिस्तथा ॥ २२ ॥

शतद्वयं तु वायव्याश्चत्वारो नाभसाः स्मृताः |
थस्येव फस्य संप्रोक्ता रश्मयः क्रमशो बुधैः ॥ २३ ॥

बार्णस्य पार्थिवाः पञ्चचत्वारिंशच्छतांशवः |
आप्याः पञ्चदशाग्नेया वायव्या नाभसाः स्मृताः ॥ २४ ॥

चत्वारश्च तथा प्रोक्ता भार्णस्य मनुसंख्यकाः |
पार्थिवाश्च सषट्त्रिंशत्पञ्चसंख्याशतानि च ॥ २५ ॥

तैजसा दश वायव्याश्चत्वारो नाभसास्तथा |
चतुर्दश मकारे तु रश्मयः पार्थिवाः स्मृताः ॥ २६ ॥

आप्याः पञ्च दशाग्नेया वायव्या वेदसंख्यकाः |
पञ्चत्रिंशत्पञ्चशतं नाभसाः संप्रकीर्तिताः ॥ २७ ॥

यार्णे चतुर्दश प्रोक्ताः पार्थिवाः पञ्च नीरजाः |
तैजसा रश्मयः प्रोक्ता वायव्याश्च ततः परम् ॥ २८ ॥

पञ्चत्रिंशत्पञ्चशतं चत्वारो नाभसाः स्मृताः |
रेफस्य मनुसंख्याकाः पार्थिवाः पञ्चनीरजाः ॥ २९ ॥

सैकचत्वारिंशदनु शतपञ्चकतैजसाः |
वायव्याश्चैकचत्वारश्चत्वारो नाभसाः स्मृताः ॥ ३० ॥

बार्णस्येव लवर्णस्य [रश्मयः संप्रकीर्तिताः |
वार्णस्य रश्मयः प्रोक्ताः] पार्थिवाश्च चतुर्दश ॥ ३१ ॥

सषट्त्रिंशदष्टशतमाप्या वै दश तैजसाः |
वायव्याश्चैव चत्वारश्चत्वारो नाभसाः स्मृताः ॥ ३२ ॥

मनुसंख्याः शकारस्य पार्थिवाः पञ्च नीरजाः |
तैजसा दश वायव्याश्चत्वारो नाभसाः स्मृताः ॥ ३३ ॥

पञ्चत्रिंशच्चाष्टशतं षकारे मनुसंख्यकाः |
पार्थिवाः पञ्च चाप्या वै तैजसाः दश कीर्तिताः ॥ ३४ ॥

पञ्चत्रिंशच्चाष्टशतं वायव्या वेद नाभसाः |
वार्णस्येव सकारस्य हकारस्य चतुर्दश ॥ ३५ ॥

पार्थिवाः पञ्च चाप्या वै तैजसा दश कीर्तिताः |
वायव्याश्चैव चत्वारः सपञ्चत्रिंशत्सहस्रम् ॥ ३६ ॥

ससप्ततिसहस्रं च नाभसाः परिकीर्तिताः |
लकारस्येव ळस्येव क्षकारस्य चतुर्दश ॥ ३७ ॥

पार्थिवाः पायसाः पञ्च रश्मयः परिकीर्तिताः |
सैकचत्वारिंशदनु ससप्ततिसहस्रकम् ॥ ३८ ॥

तैजसा वेद वायव्या नाभसाश्च तथा स्मृताः |

Redaktioneller Hinweis: Die Tabelle bleibt gegenüber abweichenden Verswerten eigenständig erhalten; siehe die deutsche Erläuterung der Zahlenabweichungen.

कालीमते रश्मिक्रमः ॥

संख्या वर्णाः भौमाः आप्याः तैजसाः वायव्याः नाभसाः
१ अ १४ ५ १० १६० ४
२ आ १४ ५ १० १६० ४
३ इ १४ ५ १६६ ४ ४
४ ई १४ ५ १६६ ४ ४
५ उ १०० ५ १० ४ ४
६ ऊ १७० ५ १० ४ ४
७ ऋ १४ १६९ १० ४ ४
८ ॠ १४ १६९ १० ४ ४
९ ऌ १४ ५ १० २ १६०
१० ॡ १४ ५ १० २ १६०
११ ए १४ ५ १० १६० ४
१२ ऐ १४ ५ १६६ ४ ४
१३ ओ १७० ५ १० ४ ४
१४ औ १४ १६९ १० ४ ४
१५ अं १४ ५ १० २ १६०
१६ अः १४ ५ १० २ १६०
१७ क १४ १५ १५ २३५ ४
१८ ख १४ ५ २४१ २ ४
१९ ग २४५ ५ १० ४ ४
२० घ १४ २३६ १० ४ ४
२१ ङ १४ ५ १० ४ २३५
२२ च १४ १५ १५ २३५ ४
२३ छ १४ ५ २४१ २ ४
२४ ज २४५ ५ १० ४ ४
२५ झ १४ २३६ १० ४ ४
२६ ञ १४ ५ १० ४ २३५
२७ ट १४ १५ १५ २३५ ४
२८ ठ १४ ५ २४१ २ ४
२९ ड २९५ ५ २४१ २ ४
३० ढ १४ २३६ १० ४ ४
३१ ण १४ ५ १० ४ ४
३२ त १४ १५ १५ २३५ ४
३३ थ १४ ५ २९१ ४ ४
३४ द २९५ ५ २४१ २ ४
३५ ध १४ २३६ १० ४ ४
३६ न १४ ५ १० ४ ४
३७ प १४ ५ १० २९१ ४
३८ फ १४ ५ २९१ ४ ४
३९ ब १४५ ५ १० ४ ४
४० भ १४ ५३६ १० ४ ४
४१ म १४ ५ १० ४ ५३६
४२ य १४ ५ १० ५३५ ४
४३ र १४ ५ ५४१ ४१ ४
४४ ल १४५ ५ १० ४ ४
४५ व १४ ८३६ १० ४ ४

Redaktioneller Hinweis: Die Fortsetzung der Tabelle und die folgenden Verszahlen werden nicht stillschweigend vereinheitlicht.

संख्या वर्णाः भौमाः आप्याः तैजसाः वायव्याः नाभसाः
४६ श १४ ५ १० ४ ८३५
४७ ष १४ ५ १० ८३५ ४
४८ स १४ ८३६ १० ४ ४
४९ ह १४ ५ १० ४ ७००३५
५० ळ १४५ ५ १० ४ ४
५१ क्ष १४ ५ ७००४१ ४ ४

मूलाधारस्थपद्मस्य कर्णिकायां शिवात्मकः ॥ ३९ ॥

षट्पञ्चाशद्भिरुस्रैश्च प्रसरद्भिर्दलान्तिके |
आवृतः पृथिवीवर्णः स्वाधिष्ठानाह्वयाम्बुजे ॥ ४० ॥

कर्णिकायां द्विषष्टिश्च मयूखैः परिवारितः |
तेजोभिर्व्याप्तपत्रश्चानलवर्णः शिवात्मकः ॥ ४१ ॥

मणिपूराख्यचक्रकर्णिकायां समावृतः |
द्वासप्तिमयूखैश्चामृताख्यैरमृतार्णकः ॥ ४२ ॥

अनाहताख्यचक्रस्थकर्णिकायां शिवात्मकः |
चतुःपञ्चाशदुस्रैश्चावृतो मारुतवर्णकः ॥ ४३ ॥

विशुद्धाख्ये महाचक्रे कर्णिकायां समावृतः |
द्वासप्ततिमयूखैश्च नाभसैः शिव एव हि ॥ ४४ ॥

आज्ञायाः कर्णिकामध्ये मनोवर्णः शिवात्मकः |
चतुःषष्टिमयूखैश्चावृतोऽमृतमयः सदा ॥ ४५ ॥

सहस्रारे महापद्मे कर्णिकायां समावृतः |
षट्शताधिकसाहस्रमयूखैर्मानसैः सदा ॥ ४६ ॥

दलैः सहस्रसंख्याकैः सहस्रकिरणात्मकैः |
षट्शतैः स्वाङ्गभूतैश्च विसर्गात्मा शिवात्मकः ॥ ४७ ॥

विसर्गस्था मयूखाश्च षट्चक्रस्थाश्च रश्मयः |
सोमसूर्याग्निमयाष्टात्रिंशत्संख्याकलात्मभिः ॥ ४८ ॥

पञ्चब्रह्मात्ममन्त्राणामष्टात्रिंशत्कलात्मभिः |
तेजोभिरभिव्याप्ताः सन्तः प्रवर्तन्तः परस्परम् ॥ ४९ ॥

वाच्यवाचकरूपेण जगत्स्थावरजङ्गमम् |
व्याप्य तिष्ठन्ति वै सर्वे सृष्टिस्थित्यन्तकारिणः ॥ ५० ॥

षोडशार्णा महाविद्या चन्द्रमण्डलरूपिणी |
षट्त्रिंशत्तत्त्वसंपूर्णा सुधावृष्टिमयी सदा ॥ ५१ ॥

पूर्णमण्डलरूपा च सर्वतेजोमयी परा |

इति |
अत्र पाञ्चभौतिकरश्मीनां सहस्रारस्थितमानसरश्मीनां परस्परप्रतिफलनेन पञ्चाशद्भूतवर्णानां यावन्तो रश्मयः संभूयन्ते, तावन्तः प्रतिवर्णरश्मयो द्वात्रिंशद्द्वात्रिंशन्मानसरश्मिसङ्घे अथच द्वात्रिंशद्द्वात्रिंशन्मानसरश्मयः प्रतिवर्णं प्रतिफलन्तीत्यर्थः |

ईशानवक्त्रसंभूतकलानां पञ्चकस्य तु |
एकैकस्याः कलायास्तु त्रिशतं विंशदुत्तरम् ॥ १ ॥

मानसात्मकरश्मीनां क्रमो ज्ञेयो मनीषिभिः |
मन्त्रस्य वाथ विद्याया अष्टषष्टिमितार्णकाः ॥ २ ॥

द्वात्रिंशद्भिर्मानसैश्च गुणिताः पूर्णमानसैः |
हताश्चेत् तत्र यल्लब्धं तच्छन्दस्तन्मनोः स्फुटम् ॥ ३ ॥

शेषाङ्कपूर्णरूपेण महाविद्या भवत्यसौ |
न्यूने न्यूना क्रमस्त्वेवं ज्ञातव्यः सिद्धिमिच्छता ॥ ४ ॥

इति |
अत्र यस्या विद्याया मन्त्रस्य वा स्वरव्यञ्जनरूपेण पृथक्कृता वर्णा यावन्तो जायन्ते, तावन्तो द्वात्रिंशदङ्केन गुणनीयाः |
प्रत्यक्षरं द्वात्रिंशद्द्वात्रिंशन्मानसरश्मिक्रमत्वात् |
अथच पूर्णमानसैः षट्शतोत्तरसहस्रसंख्याकैर्भागहरणेन यल्लब्धं तत्तन्मन्त्रस्य च्छन्दो ज्ञेयम् |
तत्रापि षड्विंशतोऽधिकं लब्धं चेत्प्राप्यते तदपि षड्विंशता भागहरणेन यदुद्वरितं तच्छन्द इति ज्ञेयम् |
तथा पूर्णमानसैर्भागहरणाद्यदुद्वरितं, तत् षट्सप्तत्युत्तरपञ्चशतसंख्याङ्कश्चेत् सा विद्या महाविद्येति ज्ञेयम् |
ततोऽधिकं चेत्तदपि ज्ञेयं, न्यूनं चेन्न्यूनं ज्ञेयमित्यर्थः ॥

अत्र विद्यार्णरूपस्य द्वात्रिंशद्गुणनेन च |
हृतेन मानसैश्चापि क्वचिन्नोर्वरितं यदि ॥ १ ॥

लब्धं षड्विंशता चैव हरेल्लब्धं भवेच्च तत् |
तच्छन्दः [Drucklücke] ॥ २ ॥

अस्यार्थः—मन्त्रस्य विद्याया वा वर्णाः स्वरव्यञ्जनरूपेण पृथक् कृताः द्वात्रिंशता गुणिताः पूर्णमानसैर्हताश्चेच्छेषाङ्को नोर्वरितस्तदा लब्धमेव षड्विंशता हरेच्छन्दः प्राप्यते, एवं क्रमः सर्वत्र ज्ञेयः ॥

मन्त्रविद्यार्णरूपं तु द्वात्रिंशद्गुणितं यदि |
पूर्णतां न लभेदत्र दशभीकृत्य चाहरेत् ॥ १ ॥

अस्यार्थः—मन्त्रविद्याक्षराणि स्वरव्यञ्जनरूपेण पृथक्कृतानि द्वात्रिंशता गुणयेत् तदा पूर्णता षोडशशतानि न जायन्ते चेद् दशगुणितं कृत्वा षोडशशतैर्भागमाहरेत् |
अन्यत्सर्वं प्राग्वत् ॥

श्रीविद्यायाश्च षोडश्याः सहस्राणि च विंशतिः |
षष्ट्युत्तरं च त्रिशतं भवेयुर्नाभसांशवः ॥ १ ॥

पञ्चोत्तरं च नवतिद्विसहस्रं शताष्टकम् |
पार्थिवा रश्मयश्चाथ षट् सहस्राणि चैव हि ॥ २ ॥

अष्टौ शतान्येकषष्टिस्तैजसा रश्मयो ह्यथ |
पञ्चसप्तत्युत्तरशतं सहस्रं वायुरश्मयः ॥ ३ ॥

अष्टादशोत्तरं पञ्चशतं वेदसहस्रकम् |
मयूखा ह्यमृतात्मानो वक्ष्ये संकीर्णरश्मिकम् ॥ ४ ॥

त्रिशतं च चतुःषष्टिर्वियद्वर्णेषु पार्थिवाः |
षष्ट्युत्तरं शतं चाप्यास्तावन्तस्तैजसाः स्मृताः ॥ ५ ॥

शतं च चत्वारिंशच्च वायव्याः संप्रकीर्तिताः |
चतुर्विंशद्वेदशतं पार्थिवा ह्यनलेषु च ॥ ६ ॥

शतं च पञ्चपञ्चाशदाप्याश्च शतमेव च |
चतुर्विंशतिसंख्याका वायव्याः संप्रकीर्तिताः ॥ ७ ॥

तावन्तो नाभसाः प्रोक्तास्ततो भूवर्णसंचये |
त्रिंशदाप्याश्च चाग्नेया अशीतिश्चतुरुत्तरा ॥ ८ ॥

वायव्याश्च चतुर्विंशत्तावन्तो नाभसाः स्मृताः |
सप्तत्युक्ताः समुद्दिष्टाः वायुवर्णेषु पार्थिवाः ॥ ९ ॥

पञ्चविंशतिधाप्यास्तु पञ्चाशत्तैजसाः स्मृताः |
नाभसा विंशतिः प्रोक्ताश्चाप्यवर्णेषु पार्थिवाः ॥ १० ॥

अष्टाविंशत्युत्तरं च शतसप्तकमेव च |
तैजसाः सप्ततिर्ज्ञेया अष्टाविंशतिर्वायुजाः ॥ ११ ॥

तावन्तो नाभसा ज्ञेयाः संकीर्णा रश्मयस्त्विमे |
अत्र (न्ये) तद्भूतवर्णस्य तत्तद्भूतांशवो निजाः ॥ १२ ॥

इति |
अन्ये भूतांशवः संकीर्णाः मानसा अपि तथैव ज्ञेयाः |
ऊर्ध्वाम्नायक्रमे—मानसाः सहजाः, अन्ये संकीर्णा इति केचित् |
अत्र यथागुरूपदेशं बोद्धव्यम् ॥

पराप्रासादमन्त्रस्य पञ्चोत्तरसहस्रकम् |
आप्यास्तथा पञ्चनवत्युत्तरं च शताष्टकम् ॥ १ ॥

सहस्रं नाभसाः प्रोक्ताः सङ्कीर्णाः पार्थिवाः स्मृताः |
षट्पञ्चाशत्समाख्याताश्चत्वारिंशच्च तैजसाः ॥ २ ॥

वायव्याः षोडश प्रोक्ता नाभसाः षोडशैव हि |
आप्या दश समाख्याता मानसाः प्राग्वदेव हि ॥ ३ ॥

इति |
प्रत्यक्षरं द्वात्रिंशत्क्रमेणाष्टाविंशत्युत्तरशतं रश्मय इत्यर्थः ॥

पराप्रासादवर्णौघं गुणयात्तन्मानसांशुभिः |
षड्विंशता हरेच्छेषं लब्धाङ्केन पुनर्हरेत् ॥ १ ॥

तल्लब्धं तस्य मन्त्रस्य च्छन्दो ज्ञेयं मनीषिभिः |

इति |
पराप्रासादमन्त्रस्य वर्णाः स्वरव्यञ्जनरूपेण पृथक् कृता द्वात्रिंशद्भिर्गुणिताः षड्विंशता हृताः शेषं लब्धाङ्केन हरेत् तच्छेषं तल्लब्धाङ्केन हरेत्तल्लब्धं तच्छन्दः इत्यर्थः ॥ तथा—

कालिकाया महाविद्यावर्णा द्वात्रिंशता हताः |
हताश्च मानसैः पूर्णैः शेषं षड्विंशता हरेत् ॥ १ ॥

शेषं लब्धं तु संयोज्य पुनः षड्विंशता हरेत् |
शेषं छन्दस्तु विज्ञेयं सम्यक् तत्त्वविशारदैः ॥ २ ॥

इति |
अस्यार्थः—विद्याया वर्णाः स्वरव्यञ्जनरूपेण पृथक् कृताः द्वात्रिंशद्भिर्गुणिताः पूर्णमानसांशुभिर्हताः शेषं षड्विंशता हरेत्, तच्छेषे तत्फलं संयोज्य पुनः षड्विंशता हरेत् तच्छेषं छन्दो ज्ञेयमिति ॥

रससंख्याः क्षितेर्भागा द्वौ भागावमृतस्य च |
द्वात्रिंशत्यग्निभागाश्च वायुभागाश्चतुर्दश ॥ १ ॥

पञ्चविंशतिभागाश्च व्योम्नश्च परिकीर्तिताः |
अष्टोत्तरं च द्विशतं सहस्रद्वयमेव च ॥ २ ॥

मानसा रश्मयो ज्ञेया भूतभागोद्भवांशवः |
प्रागुक्तक्रमतो ज्ञेया रश्मिक्रम उदाहृतः ॥ ३ ॥

इति ॥

अथ कादिमते कामेश्वर्यादिनित्यानां प्रयोगविधिर्लिख्यते ॥ “ह्रीं क्लीं ऐं ब्लूं स्त्रीं” इति पञ्चकामा भवन्ति |
तन्त्रराजे—[प० ७ श्लो० ३६]

एषां यन्त्राणि सर्वाणि त्रैलोक्यक्षोभणानि च |
तानि क्रमेण कथयाम्याकर्णय समाहिता ॥ १ ॥

तेषु पञ्चसु बीजेषु पुनरुक्तविवर्जितैः |
योजयेदष्टभिस्तैस्तैः स्वरान् षोडश मायया ॥ २ ॥

अष्टाविंशतिसंयुक्तं शतं तेन भवन्ति वै |
तैर्यन्त्राणि विधेयानि पञ्चानां क्रमशः शिवे ॥ ३ ॥

इति |
अस्यार्थः—प्रोक्तपञ्चसु बीजेषु द्वितीयबीजस्य जठरे प्रथमबीजं |
१ |
तृतीयबीजजठरे द्वितीयं बीजं |
२ |
चतुर्थबीजजठरे तृतीयं बीजं |
३ |
पञ्चमबीजजठरे चतुर्थं बीजं |
४ |
चतुर्थबीजजठरे पञ्चमं बीजं |
५ |
तृतीयबीजजठरे चतुर्थं बीजं |
६ |
द्वितीयबीजजठरे तृतीयं बीजं |
७ |
प्रथमबीजजठरे द्वितीयं बीजं |
८ |
एवमष्टौ बीजानि पुनरुक्तवर्जितानि भवन्ति |
एतानि प्रत्येकं षोडशस्वरयुक्तानि कर्तव्यानि, तदा संख्यया १२८ बीजानि भवन्ति |
एतैर्यन्त्राणि विधेयानीत्यर्थः ॥ यन्त्ररचनाप्रकारमाह—

वृत्तत्रयं षट्कोणं कृत्वा मध्ये स्वमन्त्रम् |
लिखेत् साध्याख्ययोपेतं षट्कोणेषु च तत्पुनः ॥ १ ॥

विभज्य बिन्दुमायाभ्यामध ऊर्ध्वं लिखेत् क्रमात् |
वृत्तान्तरालयोर्बाह्ये चतुःषष्ट्या द्विरालिखेत् ॥ २ ॥

एवं यन्त्राणि पञ्च स्युः पञ्चानां क्रमशः शिवे |

इति |
अस्यार्थः—प्रथमतः षट्कोणं कृत्वा तद्बहिर्वृत्तत्रयं विधाय मध्ये साध्यनामसहितं प्रकृतिस्थपञ्चकामेषु प्रथमं बीजं विलिख्य षट्सु कोणेषु तदेव बीजं विलिख्य प्राक्कथिताष्टाविंशत्युत्तरशतं बीजानि चतुःषष्ट्या चतुःषष्ट्या द्विधा विभज्य वृत्तत्रयान्तरालद्वयेऽभ्यन्तरान्तराले बिन्दुयुक्तानि प्रथमचतुःषष्टिबीजानि पङ्क्त्याकारेण विलिख्य, तद्बाह्यान्तराले द्वितीयचतुःषष्टिबीजानि विसर्गयुक्तानि लिखेत्, इदं प्रथमं यन्त्रम् ॥ द्वितीयबीजं मध्ये साध्यसहितं विलिख्य षट्कोणेषु द्वितीयमेव बीजं विलिख्य बहिरन्तरालद्वये प्राग्वद्विलिखेदिति द्वितीययन्त्रम् ॥ एवं तृतीयबीजेन तृतीयं यन्त्रम् ॥ चतुर्थबीजेन चतुर्थं यन्त्रम् ॥ पञ्चमबीजेन पञ्चमं यन्त्रम् ॥ इति

पञ्च यन्त्राणि भवन्तीत्यर्थः ॥ अथ पञ्चबीजैरेकमेकं यन्त्रं लेखनीयमित्याह—

पञ्चभिस्त्वेकमस्त्यन्यच्चक्रं सुमहदद्भुतम् |
द्वितीयजठरे त्वाद्यं सनामाभिलिखेत् तयोः ॥ १ ॥

बहिस्तृतीयरूपेण षट्कोणेन प्रवेष्टयेत् |
चतुर्थं विलिखेत् कोणेष्वेषु षट्स्वपि पार्वति ॥ २ ॥

वेष्टयेत्पञ्चमेनेव तद्यन्त्रं सर्वमोहनम् |

इति |
अस्यार्थः—द्वितीयबीजस्य क्लींकारस्य जठरे प्रथमबीजं श्रीमिति बीजं साध्यनामगर्भं विलिख्य, तद्बहिस्तृतीयबीजेन ऐंकारेण अधरोत्तरयोगेन षट्कोणं कुर्यात् |
अत्र ऐंकारस्य त्रिकोणरूपत्वाद्बीजद्वयरूपत्रिकोणद्वयेन षट्कोणेनावेष्ट्य षट्कोणेषु चतुर्थबीजं ब्लूंकारं विलिख्य पञ्चमबीजेन स्त्रींकारेण षट्कोणाद्बहिर्वेष्टयेत्, यथा स्त्रींकारगर्भं सर्वं भाति तथा कुर्यादित्यर्थः |
एवं षट्चक्राणि जातानि ॥

अथ समययन्त्रयोरुद्धारक्रममाह—

तस्यापि परतो बाह्ये तैरावेष्ट्य पुरोदितैः |
यन्त्रान्तरं तु जनयेद् बहिर्मातृकयापि च ॥ १ ॥

इति |
प्रोक्तषष्ठयन्त्रस्य बहिर्वृत्तत्रयं विधाय प्राग्वत् १२८ बीजैश्चतुःषष्ट्या द्विरालिखेत् सप्तमं यन्त्रं भवति |
एतस्यैव षष्ठयन्त्रस्य बहिर्वृत्तत्रयान्तरालद्वये प्राग्वद्बिन्दुयुक्तां विसर्गयुक्तां च लिखेत्, इदमष्टमं यन्त्रं भवतीति ॥

यन्त्राण्यष्टौ भवन्त्येवं पञ्चकामात्मकानि वै |
तैरसाध्यं जगत्स्वेषु किञ्चित्तु न कदाचन ॥ १ ॥

मनुजं मनुजेशं वा महिलां वा मदाविलाम् |
अष्टचक्रेषु मध्यस्थं भावयेत् स्वेन तेजसा ॥ २ ॥

एकीभूतं जपेदेतान्यक्षराण्यपि पञ्च वै |
तेन ते वशगाः क्षिप्रं यावज्जीवं न संशयः ॥ ३ ॥

तेष्वष्टमस्य मध्यस्थमात्मसाध्यं जपारुणम् |
तन्मन्त्रार्णप्रकाशैश्च तथारुणतरैर्वृतम् ॥ ४ ॥

भावयन्नात्मना ग्रस्तं जपेत्तान्यक्षराण्यपि |
तेन ते वशगाः क्षिप्रं दद्युः प्राणान् धनानि च ॥ ५ ॥

तस्य षष्ठस्य मध्यस्थबीजं मन्त्रेण वेष्टयेत् |
प्राग्वन्नि(व?ज) सुषुम्नान्तर्भावयेद्योनिमुद्रया ॥ ६ ॥

एतदष्टकमध्यस्थं कुम्भं कृत्वा यथाविधि |
तेनाभिषिञ्चेद् दौर्भाग्यरोगदारिद्र्यमुक्तये ॥ ७ ॥

कुचन्दनेन वा सिन्दूरगैरिकैर्दरदैस्तु वा |
कृत्वा चक्राष्टकं भूमौ फलकायां शिलासु च ॥ ८ ॥

मध्ये विद्यावृतं कृत्वा तत्रावाह्याभिपूज्य ताम् |
कामेश्वरीं तद्वरो जपेन्नक्तं पयोव्रतः ॥ ९ ॥

तेनास्य पूर्वजन्मान्तदुष्कृतान्यपयान्ति वै |
अस्मिञ्जन्मनि सल्लक्ष्मीमवाप्य सुखमेधते ॥ १० ॥

नरं नारीं नृपं वान्यं नगरं वाथ पत्तनम् |
देशं जनपदं विश्वं तन्मध्ये प्रविलिख्य तत् ॥ ११ ॥

पूजयेदरुणैः पुष्पैर्गन्धैः काश्मीरसंभवैः |
नैवेद्यैः कदलीदुग्धशर्करापायसादिभिः ॥ १२ ॥

मण्डलं वा तदर्धं वा सप्तवासरमेव वा |
कन्दर्पसमसौभाग्यो जायते नियतं नरः ॥ १३ ॥

सुवर्णादिषु संलिख्य धारणाद्धरणीतले |
लक्ष्मीकान्तिधनारोग्यैरायुः पूर्णमवाप्नुयात् ॥ १४ ॥

अनावृत्तैस्तु विद्यार्णैः षोडशस्वरयोजनात् |
द्वानवत्या शतं वर्णा जायन्ते मन्त्रसंभवाः ॥ १५ ॥

इति |
अस्यार्थः—कामेश्वर्या मन्त्रस्यैकादशाक्षरस्यानावृत्ताक्षराणि “असकलहवनतयमद्व” इति द्वादशाक्षराणि भवन्ति |
ते षोडशस्वरयोगेनाङ्कतः १९२ वर्णा भवन्तीति ॥

स्वराणां सर्वमन्त्रेषु योजनं केन हेतुना |
क्रियते परमेशान तन्मे कथय सांप्रतम् ॥ १ ॥

स्वराः षोडश देवेशि व्यञ्जनानि तथा पुनः |
पञ्चत्रिंशत् समाख्यातं तयोरन्योन्यसंगतेः ॥ २ ॥

भारत्या देहभूतैस्तैर्व्यञ्जनैः स्वरयोजनम् |
तत्प्राणयोजनं विद्धि रहस्यं परमेश्वरि ॥ ३ ॥

भारत्या वर्णरूपाया हसौ नेत्रे समीरिते |
प्राणाः स्वराः समाख्याता बिन्दुसर्गौ तु चेतना ॥ ४ ॥

अन्यान्यवयवानि स्युरन्यानि परमेश्वरि |
तेन तद्योजितो वर्णाः प्रसीदन्ति न चान्यथा ॥ ५ ॥

बिन्दुसर्गौ हसौ तुर्यस्वरश्चेति च पञ्चमम् |
भारत्या मातृकादेहं विद्धि चैतन्यजृम्भणम् ॥ ६ ॥

तेन तैर्हीनरूपास्तु मन्त्रविद्यास्तथापरे |
निष्प्राणदेहवत् कार्यकरणेष्वक्षमाः स्मृताः ॥ ७ ॥

तेन सर्वत्र तु मया स्वरयोग उदीर्यते |
ये ये मन्त्राः प्रोक्तवर्णविहीनास्तैश्च योजयेत् ॥ ८ ॥

तेन ते बलवन्तः स्युः कार्येषु च फलान्विताः |
तस्मात् सर्वत्र संयोगात् स्वरैः सर्वार्थसिद्धिदाः ॥ ९ ॥

एवं तैस्तु जायन्ते यन्त्राणि सबलानि वै |
द्वात्रिंशद्विनियोगांश्च वक्ष्ये तेषामनुक्रमात् ॥ १० ॥

वृत्तद्वयान्तः षट्कोणं कृत्वा मध्ये निजेप्सितम् |
मायागर्भं समालिख्य वेष्टयेन्मातृकाक्षरैः ॥ ११ ॥

इति |
अस्यार्थः—प्रथमतः षट्कोणं विलिख्य तद्बहिर्वृत्तद्वयं विधाय मध्ये साध्यनामगर्भं ह्रींकारं विलिख्य, षट्सु कोणेषु द्वानवत्युत्तरशतवर्णेषु प्रथमतः षडक्षराणि विलिख्य बहिर्वृत्तद्वयान्तराले मातृकाक्षरैर्वेष्टयेदिति प्रथमं यन्त्रं भवति ॥ द्वितीययन्त्रस्य षट्सु कोणेषु प्रोक्तवर्णसमुदायस्य प्रथमतः षड्वर्णान् विहाय सप्तमाक्षरतः षड्वर्णान् विलिखेदिति द्वितीयं यन्त्रं भवति |
एवं तृतीययन्त्रादिषु च क्रमेण पुनरुक्तवर्जिताः षट्षड्वर्णा लेखनीयाः |
अन्यत्समानम् |
एवं यन्त्राणि ३२ जायन्ते ॥ तेषां फलान्याह—

प्रथमे कनकावाप्तिर्द्वितीये भूषणोदयः |
तृतीये कन्यकासिद्धिश्चतुर्थे भूप्रतिग्रहः ॥ १ ॥

पञ्चमे वाहनावाप्तिः षष्ठे स्त्रीवश्यमीरितम् |
सप्तमे भवनावाप्तिरष्टमे धेनुसङ्गमः ॥ २ ॥

नवमे वशयेद्भूपं दशमे वारणं हयम् |
एकादशेन विजयी नरः समरसीमनि ॥ ३ ॥

वादेषु व्यवहारेषु द्यूतेषु द्विविधेष्वपि |
द्वादशे चेप्सितावाप्तिः परेणारिविनाशनम् ॥ ४ ॥

गजवाजिखरोष्ट्राणां नरगोमृगपक्षिणाम् |
अजङ्गमेषमहिषवाजिनां वाशु नाशनम् ॥ ५ ॥

तत्तच्चर्मणि च तद्रक्तैर्लिखितं तत्र तत्र च |
स्थापितं मण्डलान्मासात्सप्तरात्रादथापि वा ॥ ६ ॥

चतुर्दशेन वृष्टिः स्यात्परेण स्तम्भनं रिपोः |
क्रोधवैरिसमुद्योगगमनादेरपि ध्रुवम् ॥ ७ ॥

षोडशेन धृतेनांसौ भूताद्यैर्नैव बाध्यते |
ततः परेण यन्त्रेण खातेन धरणीतले ॥ ८ ॥

रक्षा भवति सर्वत्र प्राणिनां जगति ध्रुवम् |
अनन्तरानन्तराभ्यां खननात्कलहद्वये ॥ ९ ॥

शस्यानां बहुभिः क्लेशैर्नाशः स्थावरुहामपि |
देशानामपि चान्योन्यकलहात्पीडनं भवेत् ॥ १० ॥

अनन्तरेण यन्त्रेण विरोधो भूभुजां भवेत् |
राज्यसन्धितले तस्य खननेनाल्पकालतः ॥ ११ ॥

एकविंशेन यन्त्रेण रोगार्तो वैरिणो ध्रुवम् |
द्वाविंशेन गवां रोगस्त्रयोविंशेन दन्तिनाम् ॥ १२ ॥

चतुर्विंशेन वाहानां पञ्चविंशेन भूभुजाम् |
षड्विंशेन प्रधानानां रोगावाप्तिर्दृढं भवेत् ॥ १३ ॥

सप्तविंशेन तेषां तु प्रोक्तानां क्लेशनाशनम् |
अष्टाविंशेन यन्त्रेण कृत्या प्रतिनिवर्तते ॥ १४ ॥

धारणाद्भूषु खननाद्वृक्षाग्रादिषु बन्धनात् |
तडागकूपवाप्यादिष्वर्पणात्पाति ता ध्रुवम् ॥ १५ ॥

ततः परेण यन्त्रेण वाग्मी मूकोऽपि जायते |
अत ऊर्ध्वेन यन्त्रेण वैरिवाक्स्तम्भनं भवेत् ॥ १६ ॥

एकत्रिंशेन यन्त्रेण वाहानां दन्तिनामपि |
रक्षा भवति तद्भूषु खननाद्धारणादपि ॥ १७ ॥

द्वात्रिंशेनाम्बुधौ पोता न क्लिश्यन्ति कदाचन |
पारं प्रयान्ति चाक्षोभाद्विचित्रा यन्त्रशक्तयः ॥ १८ ॥

षोडशानां तु नित्यानां प्रत्येकं तिथिषु क्रमात् |
तत्तत्तिथौ तदर्चनं जपहोमादिना चरेत् ॥ १९ ॥

घृतं च शर्करा दुग्धमपूपं कदलीफलम् |
क्षौद्रं गुडं नालिकेरं फलं लाजा तिलं दधि ॥ २० ॥

पृथुकं चणकं मुद्गं पायसं च निवेदयेत् |
प्रतिपत्तिथिमारभ्य क्रमात् पञ्चदशस्वपि ॥ २१ ॥

कामेश्वर्यादिशक्तीनां सर्वासामपि चोदितम् |
आद्याया ललितायास्तु सर्वाण्येतानि सर्वदा ॥ २२ ॥

निवेद्यैश्च जुहुयादर्को दद्यात्त्रयाणामपि |
विद्याभक्तिमतां नित्यमभीष्टावाप्तयेऽनिशम् ॥ २३ ॥

तत्तद्विद्यार्णप्रोक्तमोषधं तत्प्रमाणतः |
संपिष्य गुलिकीकृत्य ताभिः सर्वं च साधयेत् ॥ २४ ॥

अथवातर्पणं नित्यं स्नानपानानुयोजनम् |
पाटीरसंयुतं भाले धारणं सर्वसिद्धिकृत् ॥ २५ ॥

राज्ञां विशेषतो रक्षां कुर्यादेतैस्तु नित्यशः |
स्नाने पाने धार्ये च गुलिकायोजनेन वै ॥ २६ ॥

रोगापमृत्युकृत्यादिदोषा ग्रहसमुद्भवाः |
न बाधन्ते ततो नित्यमर्चयेत् स्वगृहे कविचित् ॥ २७ ॥

इति कामेश्वर्याः प्रयोगविधिः ॥

अथ भगमालिनीनित्याप्रयोगविधिः |
श्रीतन्त्रराजे—(प० ८ श्लो० २३)

काम्यहोममथो वक्ष्ये नानाभीष्टार्थदायकम् |
त्रिमध्वक्तैः पुण्डरीकैर्होमाद्विप्रान् वशं नयेत् ॥ १ ॥

आरग्वधैस्तु राजानं करवीरैस्तु वैश्‍यकम् |
उत्पलैर्वशयेच्छूद्रं वनितां जपया हुतैः ॥ २ ॥

बिल्वैर्लक्ष्मीभवेद्धोमं भूम्याप्त्यै कमलैर्हुतात् |
कैरवैर्वाहनावाप्तिः शेफुपुष्पैर्महद्यशः ॥ ३ ॥

सौभाग्यं चम्पकैः सिद्ध्यै रक्तसौगन्धिकैर्हुनेत् |
तगरैर्वस्त्रसंसिद्ध्यै पुन्नागैर्भूषणाप्तये ॥ ४ ॥

मधूकैः कन्यकासिद्ध्यै पलाशैः स्वर्णसिद्धये |
किंशुकैरंशुकावाप्त्यै पाटलैः पशुसिद्धये ॥ ५ ॥

वकुलोत्पलैः सर्वसिद्ध्यै होमयेत् परमेश्वरि |
अथ यन्त्राणि वक्ष्यामि वाञ्छितार्थप्रदानि तु ॥ ६ ॥

चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमैर्लिखेत् |
सर्वाणि सर्वतो यन्त्राण्यभीष्टावाप्तिकामुकः ॥ ७ ॥

सुवर्णे रजते ताम्रे तैषुके भूर्जपत्रके |
धार्यं मूर्ध्नि बाहौ वा कण्ठे कट्यां प्रकोष्ठके ॥ ८ ॥

निधाय क्वापि पूजां वा कुर्याद्यन्त्राण्यशेषतः |
षट्कोणं वृत्तयोर्मध्ये कृत्वा तन्मध्यतस्तथा ॥ ९ ॥

योनिं विलिख्य तन्मध्ये मायां साध्यसमन्विताम् |
विलिख्य कोणत्रितये बहिः षट्केऽपि संलिखेत् ॥ १० ॥

एकैकं वृत्तयोर्मध्ये शेषार्णानि समालिखेत् |
बहिर्मातृकयावेष्ट्य वृत्तान्तर्बिन्दुयुक्तया ॥ ११ ॥

एवं यन्त्राणि मन्त्रार्णैर्दशभिर्दशभिर्भवेत् |
चरमेऽमृतषष्ट्यैव शेषं संपर्ययोजयेत् ॥ १२ ॥

इति |
अस्यार्थः—प्रथमतस्त्रिकोणं विलिख्य तद्बहिः षट्कोणं कृत्वा तद्बहिर्वृत्तचतुष्टयं विलिख्य मध्ये साध्यनामगर्भं ह्रींकारं विलिख्य त्रिषु कोणेषु प्रथमाक्षरमारभ्य मूलमन्त्रस्याक्षरत्रयं विलिख्य, ततः षट्सु कोणेषु षडक्षराणि विलिख्य तद्बहिर्वृत्तचतुष्टयान्तरालत्रयेऽभ्यन्तरान्तराले मूलमन्त्रस्य दशमबीजं विलिख्य, तत एकादशाक्षरमारभ्य तदन्तराले यथा पूर्णं भवति तथा पञ्चविंशत्युत्तरशतमूलमन्त्रार्णैः संवेष्ट्य, तद्बहिरन्तराले बिन्दुयुक्तमातृकाक्षरैः संवेष्ट्य तद्बहिरन्तराले विसर्गयुक्तमातृकाक्षरैः संवेष्टयेत् |
एवं दशभिर्दशभिर्मूलमन्त्रार्णैः कृत्वा त्रयोदश यन्त्राणि विलिख्यावशिष्टमूलमन्त्राक्षरैः पञ्चभिः सहामृतपञ्चकं संयोज्य, दशभिरक्षरैः प्राग्वद्यन्त्रं विलिख्यामृतपञ्चकं षण्ठहीनद्वादशस्वरसंयोगेन षष्टिबीजानि कृत्वा तानि बिन्दुयुक्तानि विसर्गयुक्तानि च विंशत्युत्तरशतवर्णैः प्रथमान्तराले संवेष्ट्य तद्बहिरन्तरालद्वये बिन्दुविसर्गमातृकाभ्यां वेष्टयेदिति चतुर्दश यन्त्राणि विलिखेत् ॥ अमृतपञ्चकस्योद्धारमाह तत्रैव—

ज्या कं दावोऽम्बु हृत् स्वेन माययामृतपञ्चकम् |
तत्पञ्चकं स्वरैर्भेदादशीतिं मायया तथा ॥ १ ॥

तथा अशीतिः |

तैः षण्ठहीनैः षष्टिः स्यान्मायया च तथा भवेत् |
षष्ट्या शतं समुद्दिष्टं वर्णेष्वमृतविग्रहम् ॥ १ ॥

तेषां सर्वत्र तन्त्रेऽस्मिन् विनियोगो विधीयते |

ज्या जकारः, कं भकारः, दावष्ठकारः, अम्बु वकारः, हृत्सकारः, जभठवस इति |
स्वेन बिन्दुना पञ्च |
मायया विसर्गेण च योगे पञ्चेत्यर्थः |
षण्ठहीनस्वरयुक्तेन षष्टिः |
बिन्दुविसर्गाभ्यां १२० |
अमृतपञ्चकषोडशस्वरसंयोगेन ८० |
बिन्दुना विसर्गेण च १६० अक्षराणीत्यर्थः ॥ तथा—

चतुर्दशानां यन्त्राणां विनियोगं शृणु प्रिये |
वश्यमाकर्षणं स्तम्भमारोग्यं विजयं श्रियम् ॥ १ ॥

रक्षां गजाश्वगोमेषमहिषाणामनुक्रमात् |
नरनारीनृपाणां च प्रोक्तयोगेन साधयेत् ॥ २ ॥

इति ॥ तथा—

अमृतार्णैः समूलार्णैर्लिखिता (ललिता) रहितैस्तु तैः |
नित्याश्चतुर्दशार्णैरप्येकषष्ट्या शतेन च ॥ १ ॥

षट्पञ्चाशत्समोपेतं चतुःशतमुदीरितम् |
तैर्यन्त्ररचनायोगं फलानि च शृणु प्रिये ॥ २ ॥

इति |
अमृतार्णाः षष्ट्युत्तरशतवर्णाः १६० मूलार्णैः पञ्चत्रिंशच्छतवर्णैः १३५ ललितारहितचतुर्दशनित्यानां मन्त्रार्णाः एकषष्ट्युत्तरशतवर्णाः १६१ सर्वे षट्पञ्चाशदुत्तरचतुःशतवर्णाः ४५६ भवन्ति ॥ तथा—

त्रिकोणमष्टपत्राब्जं बहिर्वृत्तद्वयं तथा |
विधाय मध्ये मायास्थं कृत्वा नाम त्रिकोणजम् ॥ १ ॥

अन्तरालत्रयस्थं च बहिःपत्राष्टगामि च |
चतुर्दशार्णमालिख्य वृत्तमध्ये तु मातृकाम् ॥ २ ॥

विलिख्यार्चाहुतजपसेकसिद्धानि योजयेत् |
त्रयस्त्रिंशत्तमं यन्त्रं सशक्त्यमृतपञ्चकैः ॥ ३ ॥

इति |
अस्यार्थः—प्रथमतस्त्रिकोणं विलिख्य तदुपरि वृत्तं कृत्वा, तल्लग्नान्यष्टदलानि विरच्य तद्बहिर्वृत्तद्वयं कुर्यादिति यन्त्रं निर्माय मध्ये साध्यनामगर्भं ह्रींकारं विलिख्य त्रिषु कोणेषु तदन्तरालेषु षड्बीजानि विलिख्याष्टदलेष्वष्टबीजानि विलिखेदिति प्रागुक्तवर्णसमुदायात् प्रथमतश्चतुर्दशाक्षराणि विलिख्य बहिर्वृत्तद्वयान्तराले मातृकाक्षरैर्वेष्टयित्वा त्रयस्त्रिंशत्तमयन्त्रस्यावशिष्टमूलवर्णाष्टके मायाबीजयुक्तामृतपञ्चकं संयोज्य चतुर्दशाक्षराणि विधाय प्राग्वत्पूरयेत् ॥ फलानि ३३ यन्त्राणां क्रमेणाह—

ज्वरे घोरे शीतिकायां तथा चातुर्थिके गदे |
स्फोटे मसूरिकायां च नेत्रार्त्यां कुक्षिसंभवे ॥ १ ॥

यक्षराक्षसगन्धर्वपिशाचोरगपीडने |
बालग्रहर्तौ दौर्भाग्ये बन्ध्यत्वे वैरिपीडने ॥ २ ॥

वादे चोन्मादके राजक्रोधे चोरभये तथा |
डाकिन्यादिगणैः षड्भिराक्रान्त्यां ब्रह्मराक्षसैः ॥ ३ ॥

प्रमेहकामलाछर्दिदोषजेषु त्रिषु क्रमात् |
योजयेदुक्तविधिना त्रयस्त्रिंशदितीश्वरि ॥ ४ ॥

कामेश्वर्यादिनित्यानां साधारणसमर्चनम् |
शृणु देवि प्रवक्ष्यामि सर्वाङ्गाङ्गिवियोगतः ॥ ५ ॥

तासां पञ्चदशानां तु मन्त्रवर्णाः समीरिताः |
शतद्वयं षण्णवतिः (२९६) तैश्चक्रं तत्र पूजनम् ॥ ६ ॥

प्राक्प्रत्यग्दक्षिणोदक् च रेखाविंशतिमालिखेत् |
तेन कोष्ठानि जायन्ते चतुरस्राणि पार्वति ॥ ७ ॥

शतत्रयं त्वेकषष्ट्या तेष्वीशादिप्रदक्षिणम् |
प्रवेशगत्या विलिखेद्यावत्संख्यं यथान्तरम् ॥ ८ ॥

पञ्चषष्टिस्तेषु दिक्षु प्रागादिषु चतुष्टयम् |
अवशिष्टं भवेत्तेषु दिक्स्थेष्वेकीकृतेषु च ॥ ९ ॥

मायां चतुष्टयान्तस्थमालिखेद्वाञ्छितं क्रमात् |
एकोनपञ्चाशत्कोष्ठेष्वेकीभूतेषु तत्र वै ॥ १० ॥

पद्मं चतुर्दशदलं बहिर्वृत्तद्वयं तथा |
लिखित्वा कर्णिकामध्ये योनिं मायादरां लिखेत् ॥ ११ ॥

दलेष्वपि तथा शक्तिं चतुर्दशसु संलिखेत् |
भगमालां मध्यशक्त्यामावाह्याभ्यर्चयेद्बहिः ॥ १२ ॥

पश्चिमादि तु वाय्वन्तमन्या आवाह्य पूजयेत् |
यथाक्रममिदं चक्रमासां साधारणं भवेत् ॥ १३ ॥

मध्ये मध्ये तु या पूज्या शेषास्तत्तद्दलाश्रिताः |
यथाक्रमेण चित्रान्ताः पुनर्येदेकविग्रहाः ॥ १४ ॥

चतुरस्रद्वयं बाह्ये कृत्वा द्वाराणि दिक्षु च |
द्वाराणां पार्श्वयोः कोणेष्वर्चयेद् द्वादश क्रमात् ॥ १५ ॥

ब्राह्मी माहेश्वरी द्वारे पश्चिमे सव्यदक्षिणे |
कौमारी वैष्णवी सौम्ये वाराह्यैन्द्री च पूर्वके ॥ १६ ॥

चामुण्डा समहालक्ष्मीर्याम्ये वाय्वादिकोणगाः |
देशकालौ तथाकारशब्दौ प्रोक्तक्रमेण वै ॥ १७ ॥

अथैतद्यन्त्ररचनाप्रकारः—तत्र प्राक्प्रत्यगायताः विंशतिरेखा दक्षिणोत्तरायताः विंशतिः कोष्ठानि कृत्वा तेषु कोष्ठेष्वीशानगतकोष्ठमारभ्य प्रवेशगत्या प्रादक्षिण्येन पञ्चदशनित्यामन्त्राक्षराणि प्राक्तानि षण्णवत्युत्तरशतद्वयसंख्यकानि [२९६] विलिख्यावशिष्टपञ्चषष्टिकोष्ठेषु प्रागादिदिक्षु कोष्ठचतुष्टयक्रमेण षोडशकोष्ठानि मार्जयित्वा तेषु साध्यनामगर्भं ह्रींकारं प्रतिदिशं विलिख्य मध्यावशिष्टान्येकोनपञ्चाशत्कोष्ठान्येकीकृत्य एकीकं चतुर्दशदलकमलं कृत्वा, तद्बहिर्वृत्तद्वयं विधाय कर्णिकामध्ये त्रिकोणं विलिख्य तन्मध्ये ह्रीमिति बीजं विलिख्य, दलेष्वपि मायाबीजं विलिख्य बहिश्चतुरस्रद्वयं चतुर्द्वारयुक्तं कुर्यादिति यन्त्रं विलिख्य, मध्ये भगमालामावाह्य चतुर्दशदलेषु पश्चिमादिवाय्वन्तं नित्यक्लिन्नादिचित्रान्ताश्चतुर्दश नित्या आवाह्य पूजयेत् |

अत्र मध्ये या नित्या पूज्यते तत्परतो नित्यामारभ्य चतुर्दश नित्याः पूजयेत् |
तद्बहिश्चतुर्द्वारपार्श्वेषु ब्राह्म्यादिशक्तीः संपूज्याग्नेयादिकोणेषु देशकालाकारशब्दाः संपूजयेत् ॥ तथा—

पूजयेत्प्रोक्तरूपैस्तु प्रोक्तरूपाश्च ता यजेत् |
उपचारैरासवैश्च मत्स्यैः मांसैः सुसंस्कृतैः ॥ १ ॥

अपूपैः पायसैर्दुग्धैः सुशीतैः सितसंयुतैः |
कदलीपनसाद्यैश्च फलैर्मधुभिरेव च ॥ २ ॥

नैवेद्यैः प्रीणयेद् देवीं नृत्यगीतादिभिस्तथा |
एकरात्रं त्रिरात्रं च पञ्चरात्रं तु सप्त वा ॥ ३ ॥

नवरात्रं तथा पक्षं मासं पूर्णादिकं तु वा |
वर्षं वा फाल्गुनान्तं वा स्यात् समस्तार्तिनाशनम् ॥ ४ ॥

ग्रहाणां प्रातिकूल्येषु दीर्घरोगेषु वैकृते |
देवतानामथोत्पाते त्रिविधे स्वाभिचारके ॥ ५ ॥

दारिद्र्ये विजयप्राप्त्यां दुर्भिक्षे शत्रुपीडने |
कृच्छ्रेष्वन्येषु घोरेषु पूजैषा सर्वकामदा ॥ ६ ॥

पीठं वा सुसमं कृत्वा वेदिकामण्डपं तु वा |
कुर्वीत प्रोक्तरूपं च प्रोक्तद्रव्यैस्तथार्चयेत् ॥ ७ ॥

नमेरुचम्पकाशोकपुन्नागबकुलाम्बुजैः |
मल्लिकामालतीजातीशतपत्रोत्पलादिभिः ॥ ८ ॥

सुगन्धिभिस्तथान्यैश्च पूजयेत् पूर्णमानसः |
एतद्विद्याभक्त्युपास्तियुतानन्यांश्च पूजयेत् ॥ ९ ॥

अथान्यदपि देवेशि चक्रमद्भुतदर्शनम् |
योन्यर्णवाख्यं वनितागर्वपर्वतवज्रकम् ॥ १० ॥

षोडशाङ्गुलमानेन कृत्वा योनिं समे तले |
तत्र अङ्गुलमानेषु सूत्राण्येकादशार्पयेत् ॥ ११ ॥

तेनात्र योन्यो जायन्ते त्रिकोणानि शतात्परम् |
चत्वारिंशच्च चत्वारि तेषु मन्त्राक्षराणि तु ॥ १२ ॥

प्रादक्षिण्यप्रवेशेन विलिखेत्तु निरन्तरम् |
मध्येऽवशिष्टनवके नववर्गसमन्विते ॥ १३ ॥

नाथान् नव लिखेत् पश्चात् साध्याख्यां कर्मसंयुताम् |
सर्वत्र विलिखेद्धीमान् भूय आवर्तनेन तु ॥ १४ ॥

अर्धरात्रे तु तां साध्यां स्मरन्मदनवह्निना |
दह्यमानां हृतस्वान्तां मस्तकस्थापिताञ्जलिम् ॥ १५ ॥

विकीर्णकेशीमालोललोचनामरुणारुणाम् |
वायुप्रहृतपताकाख्यपटोपमकलेवराम् ॥ १६ ॥

विवेकविधुरां मत्तां मानलज्जाभयातिगाम् |
चिन्तयन्नर्चयेच्चक्रं मध्ये देवीं दिगम्बराम् ॥ १७ ॥

जपादाडिमबन्धूककिंशुकाद्यैः समर्चयेत् |
अन्यैः सुगन्धिशेफालिकुसुमाद्यैः सुगन्धिभिः ॥ १८ ॥

त्रिसप्तरात्रादायाति प्रोक्तरूपा मदाकुला |
यावच्छरीरपातं सा छायेवानपगामिनी ॥ १९ ॥

प्रयोगः स्पष्टः ॥ इति भगमालिनीप्रयोगः ॥

अथ नित्यक्लिन्नाप्रयोगविधिः |
तत्र श्रीतन्त्रराजे—[प० ९ श्लो० २३]

विद्यायाः साधनं सम्यक्समीहितफलप्रदम् |
शृणु देवि प्रवक्ष्यामि प्रयोगार्हो यतो भवेत् ॥ १ ॥

जितेन्द्रियो हविष्याशी त्रिमध्याचारतो भवेत् |
प्राग्वज्जप्त्वा तद्दशांशं कुर्याद्धोमं च तर्पणम् ॥ २ ॥

मधूकपुष्पैर्मध्वक्तैर्बकुलोत्थैरथापि वा |
चन्द्रचन्दनकस्तूरीवासितैस्तर्पयेज्जलैः ॥ ३ ॥

ततो विद्याप्रयोगार्हो नित्यार्चानिरतस्तथा |
सहस्रजापी तद्भक्तः कुर्यादुक्तं न चान्यथा ॥ ४ ॥

पद्मै रक्तैस्त्रिमध्वक्तैर्होमाल्लक्ष्मीमवाप्नुयात् |
तथैव कैरवै रक्तैरङ्गनास्तु वशं नयेत् ॥ ५ ॥

समानरूपवत्सायाः शुक्लायाः गोः पयःप्लुतैः |
मल्लिकामालतीजातीशतपत्रैर्हुतैर्भवेत् ॥ ६ ॥

कीर्तिविद्याधनारोग्यसौभाग्यविजयादिकम् |
आरग्वधप्रसूनैस्तु लौद्रार्कैर्हवनाद्भवेत् ॥ ७ ॥

स्वर्णाप्तिः स्तम्भनं शत्रोर्नृपादीनां क्रुधोऽपि च |
आज्याक्तैः करवीरोत्थैः प्रसूनैररुणैर्हुतैः ॥ ८ ॥

रक्ताम्बराणि वनिताभूपामात्यवशं तथा |
भूषावाहनवाणिज्यसिद्धयश्चास्य वाञ्छिताः ॥ ९ ॥

लवणैः सर्षपैर्गौरैरितरैर्वाथ होमतः |
तत्तैलाक्तैर्निशामध्ये त्वानयेद्वाञ्छितां वधूम् ॥ १० ॥

तैलाक्तैर्जुहुयात् कृष्णार्कपुष्पैर्निशान्तरा |
मासादरातिस्तीव्रार्तिज्वरेण भवति ध्रुवम् ॥ ११ ॥

आरुष्करघृताभ्यक्तैस्तद्बीजैर्निशि होमतः |
शत्रोर्देहे व्रणानि स्युर्दुःसाध्यानि चिकित्सकैः ॥ १२ ॥

आरुष्करघृतं भल्लातकतैलम् |
तद्बीजैर्भल्लातकबीजैः ॥

तैरेव दलिताङ्गस्तु रिपुर्याति यमालयम् |
तथा तत्तैलसंसक्तैर्वानीराङ्कोलकैरपि ॥ १३ ॥

मरिचैः सर्षपाज्याक्तैर्निशि होमात्तु मासतः |
वाञ्छितां वनितां कामज्वरार्तामानयेद्ध्रुवम् ॥ १४ ॥

मरिचैः सर्षपोपेतैः सप्तरात्रं हुतैर्निशि |
धैर्यमानकुलीन्यं दुष्प्रापामानयेद्वधूम् ॥ १५ ॥

अन्नाज्यैर्जुहुयान्नित्यं शतमष्टोत्तरं तु वा |
तेनान्नपूर्णो भवने भोक्ता च भवति प्रिये ॥ १६ ॥

शालीभिराज्ययुक्ताभिर्होमाच्छालीमवाप्नुयात् |
मुद्गेन्द्रैर्घृतैराज्यमिश्रैरिष्टं हुतैर्भवेत् ॥ १७ ॥

साध्यर्क्षवृक्षसंभूतपिष्टपादरजःकृताम् |
राजीमरिचलोणोत्थां पुतलीं जुहुयान्निशि ॥ १८ ॥

प्रपदाभ्यां च जङ्घाभ्यां जानुभ्यामूरुयुग्मतः |
नाभेरधस्ताद्धृदयाद्भिन्नेनाकण्ठतस्तथा ॥ १९ ॥

शिरसा च सुतीक्ष्णेन छित्त्वा शस्त्रेण वै क्रमात् |
एवं द्वादशधा होमान्नरनारीनराधिपाः ॥ २० ॥

वश्या भवन्ति सप्ताहाज्ज्वरार्ताश्चास्य वाञ्छया |
प्रयान्ति निधनं चास्य वाञ्छयानन्ययोगतः ॥ २१ ॥

अत्र साध्यनक्षत्रसंभूतपिष्टसाध्यपादरजो धूलीराजीमरिचलवणैरेभिः पञ्चद्रव्यैरेकैका पुत्तलिका प्राग्वत्प्रयोगाङ्गकृतन्यासा कृतप्राणप्रतिष्ठा |
प्रपदाभ्यां १ जङ्घाभ्यां २ जानुभ्यां ३ ऊरुयुग्मतः ४ नाभेरधस्तात् ५ हृदयान्नाभिपर्यन्तं ६ कण्ठतो हृत्पर्यन्तं ७ शिरः ८, एवमाहुत्यष्टकम् ॥ तथा—

पिष्टेन गुडयुक्तेन मरिचैर्जीर्कैर्युतम् |
कृत्वा पुत्तलिकां साध्यनामयुक्तामथो हृदि ॥ २२ ॥

सनामहोमसंपातघृते संपाच्य तां पुनः |
स्पृशन् निजकराग्रेण सहस्रं प्रजपेन्मनुम् ॥ २३ ॥

अभ्यर्च्य तद्घृताभ्यक्तं भक्षयेत्तद्धिया जपन् |
नरनारीनृपास्तस्य वश्याः स्युर्मरणावधि ॥ २४ ॥

अस्यार्थः—प्राग्वद्गुडयुक्ततण्डुलपिष्टमरिचजीरकैः पुत्तलिकां कृत्वा तस्या हृदि साध्यनाम विलिख्य क्वचिदग्निं संस्थाप्य साध्यनामविदर्भितमूलमन्त्रेण घृतेनैव सहस्रं हुत्वोद्देश्यत्यागं कृत्वा क्वचिद्भाण्डे कृत्वा तत्संपाताज्ये मूलमन्त्रं जपन् तां पुत्तलिकां पक्वान्नवत् संपाच्य, पुनर्निजकराग्रेण तां स्पृशन् मूलं साध्यविदर्भितं सहस्रं जपित्वा तस्यां देवतामावाह्याभ्यर्च्य “अमुकं मे वशमानय, अमुकदेवतापादुकां पूजयामि” इति प्रत्यावरणशक्तिं संपूज्य, धूपदीपादिकं सर्वं प्राग्वत्समाप्य प्राक्प्रोक्तसंपाताज्यसहितां तां मूलं जपन् तद्धिया भक्षयेदुक्तफलं भवति ॥ तथा—

तैरेव पिष्टैर्हस्तं तु कृत्वा तन्मध्यतस्तथा |
साध्यनाम स्फुटं कृत्वा प्राग्वत्संपाच्य भक्षणात् ॥ २५ ॥

वश्यास्ते वत्सरं भूयुस्तन्नामार्णान्वितस्तथा |
कृत्वा विपाच्य खादेत्तु वशयेत्तांस्तदर्धकम् ॥ २६ ॥

अयमर्थः—प्रागुक्तपिष्टैर्वतूलाकारां मुद्रां कृत्वा प्राग्वद्भक्षयेद्वत्सरमात्रं वश्या भवेयुः |
अथ साध्यनामविदर्भितं मूलं जपन् प्रोक्तविधिं विनापि षण्मासमध्ये वश्या भवेयुः |
तदुत्तरं पुनः कुर्यादित्यर्थः ॥ तथा—

नारिकेलफलाम्भोभिस्तर्पणाद्वनिता वशाः |
कर्पूरवासितैस्तोयैर्मनुष्याः स्युर्वशे स्थिताः ॥ २७ ॥

तर्पणाल्लवणाम्भोधिजलैः सर्वेऽस्य किंकराः |
तथा लवणयुक्तेन तोयेन वनिता वशाः ॥ २८ ॥

शुद्धेन वारिणा मासं तदर्धं सप्तरात्रकम् |
तर्पयेद्यस्य नाम्नैव स तस्य स्याद्वशेऽनिशम् ॥ २९ ॥

केतकैर्वासितैरिन्दुयुक्तैः केलफलोदकैः |
तर्पणाद्वनिता वश्या दद्युः प्राणान्निजं धनम् ॥ ३० ॥

नमेरुवासितैस्तोयैस्तर्पणाद्भूमिपा वशम् |
चम्पकैर्वासितजलैस्तर्पणं सर्वरञ्जनम् ॥ ३१ ॥

पाटलीशतपत्राभ्यां वासितैस्तर्पणं जलैः |
सर्वलोकचमत्कारकारी भवति नित्यशः ॥ ३२ ॥

कस्तूरीवासिताम्भोभिस्तर्पणं सर्वसिद्धिकृत् |
इन्दुचन्दनसौरभ्यवासिताम्भःप्रतर्पणम् ॥ ३३ ॥

वाञ्छितार्थसुसंसिद्धिं मण्डलात् कुरुते ध्रुवम् |
सक्तुमिश्रजलैराद्या धनधान्यादिभिश्चिरम् ॥ ३४ ॥

गुडमिश्रजलै रात्रौ तर्पणं विघ्ननाशनम् |
विष्वाफलरसोपेतैर्जलैर्द्वेषाय तर्पयेत् ॥ ३५ ॥

उष्णोदकैः समरिचैस्तर्पयेदरिमृत्यवे |
केवलोष्णोदकैस्तस्य तीव्रज्वरसमुद्भवः ॥ ३६ ॥

निम्बपत्ररसोपेतैरम्बुभिस्तर्पणं द्विषाम् |
जायतेऽन्योन्यवैरस्यं येन ते नाशमाप्नुयुः ॥ ३७ ॥

तथैव सर्षपतैलैस्तर्पणाद्वैरिणो भृशम् |
अतीसारादिभिर्दोषैरौदरैः क्लेशमाप्नुयुः ॥ ३८ ॥

स्पष्टार्थः ॥

अथ यन्त्राणि देवेशि शृणु वाञ्छाप्रदानि वै |
यैः कृतैः सिद्धयो हस्ते भवन्ति भर्जनादपि ॥ ३९ ॥

षट्कोणवृत्तयोर्मध्ये कृत्वा वृत्तं सनामकम् |
विद्याद्यवर्णं विलिखेद् द्वितीयादीनि षट् क्रमात् ॥ ४० ॥

षट्सु कोणेषु विलिखेच्छिष्टमर्णचतुष्टयम् |
वृत्तयोरन्तरा दिक्षु लिखेत् कोणान्तरालतः ॥ ४१ ॥

भूताक्षराणि क्रमशो दश द्वित्रिक्रमेण तु |
एवमेकादशविधं मध्येऽन्येषां निवेशनात् ॥ ४२ ॥

भूताक्षराणि प्रत्येकयोगात् पञ्चशतान्वितम् |
पञ्चकं परमेशानि शृणु तानि यथाक्रमम् ॥ ४३ ॥

एषु सर्वत्र तद्बाह्ये वृत्तं कृत्वा च मातृकाम् |
विलिखेदभितः पश्चाद्विनियोगमथोच्यते ॥ ४४ ॥

वश्ये त्रयमथाकर्षे द्वयं शान्त्यां द्वयं तथा |
मध्ये नामाक्षरन्यासभेदास्तद्भेदकल्पनम् ॥ ४५ ॥

एवं तत्फलभेदस्तु सप्तविंशतिधा भवेत् |
शेषाणि शृणु देवेशि क्रमेण विनियोगतः ॥ ४६ ॥

स्तम्भनं मोहनं पश्चाद्विद्वेषोच्चाटनं तथा |
मारणं व्याधिभिः क्लेशं कुलोत्सादकरं तथा ॥ ४७ ॥

गजाश्वोष्ट्रखराणां च रक्षा महिषमेषयोः |
गवां नराणां नारीणां विजयः समरे द्विषाम् ॥ ४८ ॥

Redaktioneller Hinweis: Prosa und Verse enthalten unterschiedliche Anwendungszahlen; siehe 20.NK.49–52 der Übersetzung.

द्वन्द्वयुद्धे तथा वादे व्यवहारेषु सर्वतः |
द्यूते च रक्षा नगरग्राममण्डलके तथा ॥ ४९ ॥

इति |
अस्यार्थः—प्रथमतो वृत्तं विधाय तद्बहिः षट्कोणं विलिख्य तद्बहिर्वृत्तत्रयं विधाय, मध्ये नित्यक्लिन्नाविद्याक्षरेष्वेकादशसु प्रथमबीजं साध्यनामयुक्तं विलिख्य, षट्सु कोणेषु द्वितीयबीजादिषड्बीजानि विलिख्यावशिष्टार्णचतुष्टयं षट्कोणाद्बहिर्वृत्तद्वयान्तराले चतुर्दिक्षु विलिख्य, तद्बहिरन्तराले तत्तत्कार्यानुगुणभूतार्णदशकं द्वित्रिक्रमेण चतुर्दिक्षु विलिख्य, तद्बहिः पुनर्वृत्तं कृत्वा तदन्तराले मातृकावर्णैरावेष्टयेदिति प्रथमयन्त्रम् |
द्वितीययन्त्रे मध्ये मूलमन्त्रस्य द्वितीयाक्षरं विलिख्य शेषं प्राग्वल्लिखेदिति द्वितीयं यन्त्रं भवति |
एवं तृतीयादिबीजानां तृतीयादीनि यन्त्राणि भवन्ति |
एवमेकादश यन्त्राणि जायन्ते |
एवमेकादशयन्त्राणां सप्तविंशतिप्रयोगा भवन्ति |
यथा—त्रिविधवश्ये प्रथमयन्त्रम् |
द्विविधविद्वेषे द्वितीयं यन्त्रम् |
द्विविधशान्त्यां तृतीयं यन्त्रम् |
अन्येषामष्टयन्त्राणां प्रतियन्त्रं स्तम्भनादिप्रयोगत्रयं प्रयोगत्रयं ज्ञेयं, मध्ये साध्याक्षरलेखनभेदेन प्रयोगभेदस्तत्तत्कार्यानुसारिभूतार्णदशकलेखनभेदश्च ज्ञातव्य इत्यर्थः ॥

अथ यन्त्रान्तरोद्धारमाह—

विद्यायां पुनरुक्तानि हित्वा वर्णानि तान्यपि |
एकादश स्युस्तैः प्राग्वत् स्वरयोगान्महेश्वरि ॥ ५० ॥

षट्सप्तत्या शतं प्रोक्तं वर्णानां मन्त्रगामिनाम् |
प्रोक्तयन्त्रेषु विलिखेदेकादशविभागतः ॥ ५१ ॥

मातृकाविद्ययावेष्ट्य कुर्यात् तन्नामयोजनम् |
षोडशानां च यन्त्राणां विनियोगमथोच्यते ॥ ५२ ॥

अस्यार्थः—मूलविद्यायाः पुनरुक्तवर्जितानि अनावृत्तान्यक्षराणि एकादश भवन्ति “हरनतयकलमद्वस” इति |
एते षोडशस्वरयोगेन षट्सप्तत्युत्तरशतं [१७६] वर्णा भवन्ति |
प्राग्वदेषु वर्णेषु एकादशैकादशवर्णानामेकमेकं यन्त्रं विलिखेदेवं षोडश यन्त्राणि जायन्ते ॥ तेषां फलान्याह—

प्रथमेन तु यन्त्रेण कन्यकाः स्ववशं नयेत् |
तेनैव तासामार्तिं च शमयेत् सेकधारणैः ॥ ५३ ॥

स्वस्थावेशं च तेनैव कुर्यान्मन्त्रं जपन् धिया |
तन्मयीं भावयेत्कन्यां धूपं सर्जरसैर्दहेत् ॥ ५४ ॥

आविष्टां तां समभ्यर्च्य प्राक्कॢप्तैरुपचारकैः |
पृच्छेत् तन्त्राङ्कितानर्थानाचष्टे स्वात्मनस्तदा ॥ ५५ ॥

ततोऽभ्यर्च्यात्मना योज्यां तां तदात्मा भवेत्स्वयम् |
तासामावेशमन्यैश्च शमयेत्तस्य धारणात् ॥ ५६ ॥

द्वितीयेन तु यन्त्रेण कर्पटे गैरिकद्रवैः |
लिखितेन जयेद्वादे प्रतिवादिनमन्तरा ॥ ५७ ॥

स्थापनात्तस्य नियतमतिप्रौढोऽपि तत्क्षणात् |
स्तब्धजिह्वो निरुद्योगः शुष्कास्यो लोललोचनः ॥ ५८ ॥

विलोकयन् दश दिशस्त्यक्तलज्जः पलायते |
पतेद्वा पादयोः क्षिप्रं जितोऽस्मीति स वादकृत् ॥ ५९ ॥

तृतीयेन निशापिष्टतोयेन लिखितेन तु |
कर्पटे खर्परे वापि स्थापितेनोष्णभूतले ॥ ६० ॥

चुल्ल्यधो वा दिनैर्द्वित्रैः स्तम्भयेत् सुदृढं रिपोः |
रोषं गतिं मतिं जिह्वां समरं सर्वमेव च ॥ ६१ ॥

आयान्तमग्रतो रात्रौ मार्गमध्ये खनेदिदम् |
बलिं दद्यात्तदन्यां तन्नवम्योक्तया पुनः ॥ ६२ ॥

तेन तत्पृतना भ्रष्टा रुग्णा गतसमुद्यमा |
भीता नैं तन्मुखा जातु घटते यन्त्रवैभवात् ॥ ६३ ॥

चतुर्थेनारिनक्षत्रवृक्षोत्थफलकातले |
लिखितेन पुरोक्तेन स्थापितेन रिपोः पुरे ॥ ६४ ॥

नाशमेति रिपुः कृच्छ्रैर्वैरिरोगादिसंभवैः |
तेषु तेषु प्रयोगेषु कुर्याद्रक्षामथात्मनः ॥ ६५ ॥

पञ्चमेनाथ षष्ठेन सप्तमेनाष्टमेन च |
नवमेन च कुर्वीत रक्षां राष्ट्रपुरालये ॥ ६६ ॥

प्रागादिषु चतुर्दिक्षु वह्न्यादिष्वष्टदिक्ष्वपि |
मध्ये च स्थापयेद्यन्त्रं ताम्रपट्टेषु कल्पितम् ॥ ६७ ॥

क्रमेण नवमं मध्ये स्थापयेदुक्तयोगतः |
स्वराष्ट्रे नगरे राजगृहे प्रोक्तक्रमात् खनेत् ॥ ६८ ॥

तेन वैरिकृताः कृत्याप्रयोगाः क्रूरविग्रहाः |
प्रवेष्टुमत्राशक्तास्ते नाशयन्ति प्रयोजकम् ॥ ६९ ॥

दशमं राजते पट्टे विलिख्य कवचं दधत् |
रणं वीरः प्रविश्याशु नाशयेद् द्रावयेच्च तत् ॥ ७० ॥

एकादशं निशातोयैर्घृष्टगैरिकलेखनात् |
कर्पटे स्थापितं शीघ्रं शमयेद्भूभृतां रणम् ॥ ७१ ॥

द्वादशेनेन्दुकाश्मीरलिखितेन धृतेन तु |
भूर्जपत्रपुटे सम्यक् सर्वरक्षा भवेन्नृणाम् ॥ ७२ ॥

त्रयोदशेन यन्त्रेण तालपत्रकृतेन तु |
ताललिप्तेन कुड्यान्तःस्थापितेनार्चितेन च ॥ ७३ ॥

गृहरक्षा भवेद्व्याधिचोरग्रहभुजङ्गमात् |
राजतो वैरितो बाधादन्यदुर्हृदितस्तथा ॥ ७४ ॥

चतुर्दशेन यन्त्रेण भूर्जपत्रस्थितेन वै |
धृतेन कामिनीनां तु सौभाग्यमतुलं भवेत् ॥ ७५ ॥

तथा पञ्चदशेनापि स्वर्णपट्टधृतेन तु |
वन्ध्यापि लभते पुत्रं गुणाढ्यं दीर्घजीवितम् ॥ ७६ ॥

षोडशेनोक्तरूपेण साभिषेकं धृतेन वै |
सपत्नीष्वधिका तेन भर्तुः स्यादत्यन्तवल्लभा ॥ ७७ ॥

भूर्जस्थेन धृतेनैव सर्वेषामपि सर्वदा |
रक्षा भवति मर्त्यानां राजचोरग्रहादितः ॥ ७८ ॥

इति नित्यक्लिन्नाप्रयोगः ॥

अथ भेरुण्डानित्याप्रयोगविधिः |
तत्र श्रीतन्त्रराजे—(प० १० श्लो० २१)

स्नातो मौनी पयोभक्षः प्रजपेन्नवलक्षकम् |
तद्दशांशं हुनेदग्नौ त्रिमध्वक्तैः कुशेशयैः ॥ १ ॥

तावच्च तर्पयेत्तोयैरिन्दुचन्दनवासितैः |
अर्चयेन्नित्यशो देवीं सहस्रं प्रजपेदपि ॥ २ ॥

ततः स्वगुरुणोद्दिष्टप्रयोगान् विधिना चरेत् |
अन्यथा निष्फलं भूयात् प्रत्युतैनं निहन्ति च ॥ ३ ॥

द्वितीयाद्यैस्त्रिभिर्बीजैः षष्ठेन च समीरितम् |
निग्रहाख्यमथान्यस्तु त्रिभिरन्त्यद्वयेन च ॥ ४ ॥

षट्कोणं वृत्तयुग्मं च कृत्वा तन्मध्यतो लिखेत् |
द्वितीयार्णं साध्ययुतं कोणेष्वन्यत् त्रयं लिखेत् ॥ ५ ॥

अधरेषु सविसर्गाणि तानि लेख्यानि सर्वदा |
वृत्तयोरन्तरा साध्यसमेतैः पवनार्णकैः ॥ ६ ॥

संवेष्ट्य तानि संजप्य रिपोरष्टमराशिगे |
श्मशाने स्थापयेच्चन्द्रे तद्वै विद्वेषणं भवेत् ॥ ७ ॥

अस्यार्थः—षट्कोणं विलिख्य तद्बहिर्वृत्तद्वयं विधाय भेरुण्डाया मूलनवार्णस्य द्वितीयाक्षरं साध्यनामगर्भं “अमुकामुकयोर्विद्वेषणं कुरु कुरु” इति संयोज्य मध्ये विलिख्य, तृतीयं चतुर्थं षष्ठं बीजत्रयं बिन्दुयुक्तं षट्कोणस्योपरितनकोणत्रये विलिख्य, तान्येव त्रीणि बीजानि षट्कोणस्याधस्तनकोणत्रये विसर्गयुक्तानि विलिख्य तद्बहिर्वृत्तयोरन्तराले वायुवर्णदशकेन साध्यनामगर्भेणावेष्टयेदुक्तफलदं भवतीति ॥ तथा—

निम्बपत्ररसैः पिष्टश्मशानाङ्गारलेखनात् |
पृषदाखुलवाच्च तत्सहस्रद्वयजापतः ॥ ८ ॥

पृषन्मार्जारः |
आखुर्मूषकः |

द्वीपिवक्त्रत्वचि लिखेत् तदन्त्रं गोमुखत्वचि |
समालिख्यं च संज्ञान्तं पूर्वसिद्धोत्तरे रिपोः ॥ ९ ॥

उत्तराधरमाधाय शिलाधः संध्ययोर्जपेत् |
जपित्वा प्रोक्तसंख्यं च जयेत्तं प्रतिवादिनम् ॥ १० ॥

रिपोरुत्तरदिशि पूर्वदिशि वा उत्तराधरं उपरिष्टादधस्ताच्छिलाद्वयमित्यर्थः |
संध्ययोः प्रातः सायम् |
प्रोक्तसंख्यं सहस्रम् |

एतन्मुखावलोकेन प्रतिवादी हतोद्यमः |
निरुत्तरः पलायेत जितोऽस्मीति वदेत् वा ॥ ११ ॥

हरितालेन पिष्टेन निशारसयुतेन तु |
विलिखेद्वादविजये यन्त्रमुक्तक्रमेण वै ॥ १२ ॥

रुरुचर्मणि तद्रक्तलिखितं तद्रिपोर्गृहे |
प्रोक्तकाले खनेदुक्तक्रमपूजाजपान्वितम् ॥ १३ ॥

उच्चाटयेद्रिपून् मासान्नियतं यन्त्रवैभवात् |
नृचर्मणि च तद्रक्तलिखितं तत् श्मशानके ॥ १४ ॥

पूजाजपक्रमोपेतं निखनेदुक्तकालतः |
मासेन याति वैरी तु दाहज्वरयुतो यमम् ॥ १५ ॥

तृतीयं मध्यतः कृत्वा त्वितरान् परितो लिखेत् |

तृतीयं प्रोक्तबीजचतुष्टयमध्ये तृतीयं बीजमित्यर्थः ॥

साध्यर्क्षयोनेस्त्वचि तन्मधूच्छिष्टेन पीडितम् ॥ १६ ॥

श्मशानभस्ममिलितं निक्षिपेन्नष्टकूपके |
प्रोक्तकालसमोपेतं नाशयेत् सलिलं रिपुम् ॥ १७ ॥

तदेव वह्निमूलेन पिष्टेन मनुजास्थ्ना |
लिखितं गोत्वचि क्षिप्तं चुल्ल्यामुपरि वह्निना ॥ १८ ॥

ज्वलितेनानिशं मासाद्भस्माद्भिन्नाङ्गो पतेद्रिपुः |
तृतीयेन तु मध्येन वेष्टितैरितरैरपि ॥ १९ ॥

तृतीयेन तृतीयबीजेन |

उलूककाकपत्त्राभ्यां प्रथमोक्तेन संलिखेत् |
गर्दभत्वचि तत् खात्वा कुण्डमध्ये तदूर्ध्वतः ॥ २० ॥

साध्यर्क्षेन्धने वह्नौ बीजैरुन्मत्तसंभवैः |
कटुतैलप्लुतैर्होमान्मत्तोऽरिम्रियते ध्रुवम् ॥ २१ ॥

साध्यर्क्षवृक्षकीलं तु प्रोक्तयन्त्रसमन्वितम् |
खरस्त्रायुभिराबद्धं खातं वैरिपुरे निशि ॥ २२ ॥

राशौ तदष्टमे मासात्तत्पुरं पितृकाननम् |
काकोलूकबकश्येनकङ्कतित्तिरिपादयोः ॥ २३ ॥

विलिख्य यन्त्राण्युक्तानि प्रेतचीरे निबध्य तत् |
खनेन्मङ्गलवारे तु प्रोक्तकाले चतुष्पथे ॥ २४ ॥

त्रिसप्ताहाद् व्रजेद्वैरी स्यादुन्मत्तो दिशो दश |
तान्येव तत्तच्चर्मस्थं तदालयभुवि स्थितम् ॥ २५ ॥

शमयेद्रभमर्त्याश्वगोखरोष्ट्राजैरिभान् |
सप्ताहात् तद्द्वयान्मासान्नियतं यन्त्रवैभवात् ॥ २६ ॥

तच्छान्तिं शृणु देवेशि यन्त्रध्यानाभिषेकतः |
तन्मन्त्रवश्यैर्यन्त्रस्थैर्ध्येया मन्त्रार्थवैभवैः ॥ २७ ॥

पद्ममष्टदलं कृत्वा मध्ये तारं सनामकम् |
लिखित्वाष्टसु पत्रेषु चतुष्कं तद्बहिरालिखेत् ॥ २८ ॥

बहिर्वृत्तान्तरा कुर्यान्मातृकाक्षरवेष्टनम् |
प्रागुक्तैरेव तैर्द्रव्यैः संपूज्य विनियोगतः ॥ २९ ॥

तत्तत्क्लेशविनाशः स्यात्तथा मन्त्रानुभावतः |

अत्र निग्रहयन्त्रोक्ताक्षरचतुष्टयं विहायोपरिताक्षरपञ्चकमध्ये प्रथमं साध्यनामगर्भं कर्णिकायामर्णचतुष्टयं द्विरावृत्याष्टदलेषु लिखेदित्यर्थः ॥

विजयं समरे राज्ञां शृणु वैरिविनाशनम् ॥ ३० ॥

मन्त्राक्षराणि प्रत्येकं योजयेत् षोडशस्वरैः |
तेन मन्त्राक्षराणि स्युः संख्यया च शतं पुनः ॥ ३१ ॥

चत्वारिंशच्च चत्वारि तैर्यन्त्ररचनं शृणु |

अत्र मूलमन्त्रस्यानावृत्ताक्षराणि करभभचजसवद इति नवाक्षराणि षोडशस्वरयुक्तानि चतुश्चत्वारिंशदुत्तरशतं १४४ भवन्ति ॥ तथा—

तेन सर्वत्र समरे विजयो भवति ध्रुवम् ॥ ३२ ॥

प्राक्प्रत्यग्दक्षिणोदक् च कुर्याद्रेखास्त्रयोदश |
तेन तावन्ति कोष्ठानि संभवन्ति समन्ततः ॥ ३३ ॥

कृत्वाष्टास्रं ततो बाह्ये वृत्तयुग्मं ततो लिखेत् |
अक्षराणि शिवाद्यं तु निर्ऋत्यन्तमनुक्रमात् ॥ ३४ ॥

तत्तन्मन्त्रार्णकोष्ठेषु नवस्वाख्यां समालिखेत् |
बहिरष्टसु कोणेषु द्वितीयार्णादि संलिखेत् ॥ ३५ ॥

यस्मिन् यस्मिन् कोष्ठेऽनावृत्ताक्षरं पतितं तस्मिंस्तस्मिन् कोष्ठे साध्यनाम लिखेदित्यर्थः |
द्वितीयार्णेति मूलमन्त्रबीजानीत्यर्थः ॥

अन्तरालेषु विलिखेदाद्यं वृत्तद्वयान्तरां |
तान्येव मातृकाख्याभिर्विदर्भितमथो लिखेत् ॥ ३६ ॥

बहिरष्टकोणान्तरालेषु आद्याक्षरं प्रणवमेव लिखेत् |
तदन्तर्बहिर्वृत्तद्वयान्तराले मूलमन्त्राक्षरविदर्भितमातृकाक्षरैर्वेष्टयेदित्यर्थः ॥

एतत्पटे समालिख्य ध्वजीकृत्य रणोद्यमे |
दर्शयेत् तेन रिपवः पलायन्ते दिशो दश ॥ ३७ ॥

प्रणमेयुर्निजां लक्ष्मीं प्राभृतीकृत्य तत्क्षणात् |
तदेव वैरिशिबिरे निखनेदुदये शनेः ॥ ३८ ॥

सद्यस्त्वन्योन्यकलहान्नाशमेति सुनिश्चितम् |
तदेव स्वपुरे मध्ये स्थापयेद्धिषणोदये ॥ ३९ ॥

पराभिचारकृत्यादिदुरितानि न तत्र वै |
संस्पृशन्ति पुरान्तःस्थाद्यन्त्रशक्त्यनुभावतः ॥ ४० ॥

तद्यन्त्रं ताम्रपट्टे तु विलिख्याभ्यर्च्य तत्पुनः |
स्थापयेत् साध्यभूभर्तुरेकादशसमुच्छ्रये ॥ ४१ ॥

गजवाजिगृहे स्वस्य भाण्डागारे स्वमन्दिरे |
अन्तःपुरे नगर्यास्तु दिक्षु मध्ये च तत् खनेत् ॥ ४२ ॥

यत्र संस्थापितं यन्त्रं तत्रार्चां नित्यशो नृपः |
कारयेत् तेन तत्सर्वं शाश्वतं वृद्धये भवेत् ॥ ४३ ॥

बीजानि तानि प्रत्येकमष्टपत्रसरोरुहे |
मध्ये दलेषु परितो लिखेदेकैकशः क्रमात् ॥ ४४ ॥

बहिर्मातृकयावेष्ट्य संजप्याभ्यर्च्य नित्यशः |
स्वजन्मर्क्षादिनवके कुर्याच्छान्तिमनुक्रमात् ॥ ४५ ॥

यन्नक्षत्रे भवेदस्य ग्रहतो राजतोऽपि वा |
रोगतो वैरितो वापि तस्मिंस्तत्तेन शामयेत् ॥ ४६ ॥

अत्र यन्त्रान्तरमाह |
बीजानीति—अष्टदलकमलं विलिख्य मध्ये प्रथमबीजं साध्यनामगर्भं विलिख्याष्टसु दलेषु द्वितीयाद्यष्टबीजानि विलिख्य बहिर्वृत्तद्वयान्तराले मातृकाक्षरैर्वेष्टयेत् |
एवं द्वितीयाक्षरं मध्ये

चेद् द्वितीयं यन्त्रं भवति |
एवं नव यन्त्राणि भवन्तीत्यर्थः ॥ तथा—

मन्त्रार्णौषधमध्यस्थं यन्त्रं कृत्वा तु तेन तु |
रक्षां कुर्वीत सर्वेषां सर्वापत्तारणाय वै ॥ ४७ ॥

तत्तद्यन्त्रं तदादिनेषु स्नानपानाशनादिना |
ग्रहजं वैरिजं दुःखं शाम्यत्येव न संशयः ॥ ४८ ॥

क्रमेण नवयन्त्राणि नवग्रहमयानि च |
तस्मात् तत्तद्ग्रहक्लेशं तत्तद्यन्त्रेण शामयेत् ॥ ४९ ॥

सेकाशनविभूत्यादिप्रयोगैरुदितैः क्रमात् |
विविधानि विषाण्येभिर्भूर्जयन्त्रजलानिवेशनैः ॥ ५० ॥

नाशयेत् पानसेकाभ्यां धारणेनार्चनेन च |
एभिस्तु नवभिर्यन्त्रैर्यन्न साध्यं न कुत्रचित् ॥ ५१ ॥

देशे वा नगरे ग्रामे मण्डले खर्वटादिके |
प्रथमं मध्यतः खात्वा प्रागादिषु ततोऽष्टसु ॥ ५२ ॥

द्वितीयादीनि तु खनेत् तत्र लक्ष्मीरतिस्थिरा |
धर्मार्थौ चातिसंवृद्धौ भवेतामुक्तयोगतः ॥ ५३ ॥

द्वितीयं मध्यतः खात्वा त्वितराण्यभितः खनेत् |
धार्मिकास्तेन तत्रस्थाः प्रसीदन्ति च देवताः ॥ ५४ ॥

सप्तस्वन्येषु च तथा कान्त्यारोग्ययशोबलैः |
पुत्रज्ञानधनैश्वर्याः प्रभवन्ति च नित्यशः ॥ ५५ ॥

देहेषु धारैः फणिभिर्नवभिर्नवरन्ध्रगैः |
ध्यातेर्मृतोऽपि माहात्म्यान्मन्त्रस्योत्तिष्ठते ध्रुवम् ॥ ५६ ॥

अश्विन्यादिषु ऋक्षेषु नवानि नवसु क्रमात् |
विलिख्य देवीं तत्रस्थां नवाकारां नवस्वपि ॥ ५७ ॥

पूजयेदुपचारैस्तां नित्यशो भक्तिसंयुतः |
प्रागुक्तपरिवारादिरहितां पूजयन्नपि ॥ ५८ ॥

सिद्धिमेति नरो भक्त्या परया चेत् समन्वितः |
स्त्रीबालवृद्धाशक्तानां गतिरेषा च सिद्धये ॥ ५९ ॥

भेरुण्डां कर्णयोर्जप्याद्विषार्तस्य तदैव सः |
निर्विषो जायतेऽचिन्त्या मन्त्राणां शक्तयः शिवे ॥ ६० ॥

त्रैलोक्यमोहिनी विद्या सर्वतो भवता स्तुता |
न कदाचित् तु सा प्रोक्ता तां मे ब्रूहि महेश्वर ॥ ६१ ॥

सर्वेषामेव मन्त्राणां विद्यानां च यशस्विनि |
व्याप्तरूपं प्रवक्ष्यामि शृणु त्वमिदमद्भुतम् ॥ ६२ ॥

येन नारीनरनृपदेवताः सर्वजन्तवः |
भजन्त्येनं यथा मां त्वं तत्प्रयोगबलाद् ध्रुवम् ॥ ६३ ॥

अकारादिक्षकारान्तमातृकार्णैः सबिन्दुभिः |
प्रत्येकं पुटितान् कृत्वा मन्त्रं विद्यामथापि वा ॥ ६४ ॥

विद्यया मातृकावर्णांस्तु पुटयेन्मन्त्रतोऽपि वा |
प्रोक्ते तद्यन्त्रनवके कुम्भं संस्थाप्य वै तथा ॥ ६५ ॥

जपतर्पणहोमार्चाभिः सद्ध्या सेक ईरितः |
कुचन्दनैर्गैरिकैर्वा दरदैश्चन्दनैस्तथा ॥ ६६ ॥

सिन्दूरैस्तण्डुलैर्मुद्गैस्तिलैः कृष्णैः सितैरपि |
नवानां नवभिः कुर्याद्भिर्यन्त्रप्रकल्पनम् ॥ ६७ ॥

चैत्रादिविषुवद्द्वन्द्वे तथैवायनयोर्द्वयोः |
देवान्तरार्हयाजन्मत्रितये पर्वणि क्रमात् ॥ ६८ ॥

राजा वा राजमहिषी सेनापत्यधिपोऽथवा |
अन्यो वा भक्तिशीलाढ्यः कारयेदभिषेचनम् ॥ ६९ ॥

दक्षिणामभिषेके च दद्याद्वै स्वशक्तितः |
वित्तशाठ्यं न कुर्वीत यदि कुर्वीत लोभतः ॥ ७० ॥

संदहेत् यावकवत् पुत्रलक्ष्मीकलत्रकैः |
तस्मात् सर्वत्र तन्त्रेऽस्मिन् वित्तशाठ्यं न चिन्तयेत् ॥ ७१ ॥

अभिषेकफलं देवि शृणु वक्ष्ये यथाविधि |
सोमसूर्याग्निरूपेण जलेनेप्सितमन्त्रतः ॥ ७२ ॥

जपपूजादिना सिद्धवैभवेनाभिषेकतः |
दुर्लक्षणसमुत्थानि तथा दुष्कर्मजानि च ॥ ७३ ॥

तत्तद्दुर्नीतिजनितान्यन्यानि दुरितानि च |
नाशयेत् तत्क्षणादेव सलिलैरिव पावकः ॥ ७४ ॥

अपुत्रो वित्तविद्यायुरारोग्यादिसमन्वितः |
लभते च बहून् पुत्रान् सुखी च चिरमेधते ॥ ७५ ॥

केमद्रुमादियोगेषु जन्मना प्राक्तनाद्यतः |
यो भृशं नित्यदारिद्र्यात् क्लिष्टः सोऽपि श्रियेधते ॥ ७६ ॥

प्राग्जन्मसंचितैः पापैरपथ्यादिनिषेवणैः |
अनीत्या वैरिविहितैराभिचारादिभिस्तु वा ॥ ७७ ॥

ये रोगाः पीडयन्त्येनं ते विनश्यन्त्यशेषतः |
कान्तिलक्ष्मीधनारोग्यविद्याविजयकीर्तिभिः ॥ ७८ ॥

सुचिरं जीवति ख्यातः पुत्रपौत्रादिभिर्युतः |
नवाभिषेकं नवसु प्रोक्तेषु विधिना चरन् ॥ ७९ ॥

अपमृत्युं विजित्यासक्तः शुद्धान्तमानसः |
जीवन्मुक्तश्चिरं योगी भुवि जीवति मन्मथः ॥ ८० ॥

इति भेरुण्डानित्याप्रयोगविधिः ॥

अथ वह्निवासिनीनित्याप्रयोगः |
तत्र श्रीतन्त्रराजे—(प० ११ श्लो० २६)

विद्यायाः साधनं तद्वत्तत्तन्त्रेऽस्मिन् परमेश्वरि |
अन्यतन्त्रानपेक्षित्वादुच्यतेऽत्रैव साधनम् ॥ १ ॥

द्रव्यानुक्तौ होमविधौ घृतमन्नाज्यमेव च |
संख्यानुक्तौ सहस्रं स्याच्छतं वा तन्त्रचोदितम् ॥ २ ॥

विदध्यादुक्तरूपेण पूर्वोक्तं त्वमुनाक्षितम् |
काम्यहोमविधिं वक्ष्ये शृणु वाञ्छितदायकम् ॥ ३ ॥

शालितण्डुलमादाय प्रस्थं भाण्डे विनिक्षिपेत् |
समानवर्णवत्साया रक्ताया गोः पयस्तथा ॥ ४ ॥

द्विगुणं तत्र निक्षिप्य श्रपयेत् संस्कृतेऽनले |
घृतेन सिक्तं सिक्थं तु कृत्वा तत्ससितं करे ॥ ५ ॥

निधाय विद्यामष्टोर्ध्वं शतं जप्त्वा हुनेत्ततः |
एवं होमो महालक्ष्मीमावहेत् प्रतिपत्कृतः ॥ ६ ॥

सिक्थं पिण्डं, ससितं सितया युतम् ॥ तथा—

शुक्रवारेष्वपि तथा वर्षान्नृपसमो भवेत् |
पञ्चम्यां तु विशेषेण प्राग्वद्धोमं समाचरेत् ॥ ७ ॥

तस्यां तिथौ त्रिमध्वक्तैर्मल्लिकाद्यैः सितैर्हुनेत् |
अन्नाज्याभ्यां तु नियतं हुतान्नाढ्यो भवेन्नरः ॥ ८ ॥

यद्यद्धि वाञ्छितं वस्तु तानि सर्वाणि सर्वदा |
घृतहोमादवाप्नोति तथैव तिलतण्डुलैः ॥ ९ ॥

पञ्चमीषु विशेषेण पूजां कुर्याद् व्रती भवेत् |
प्रतिपत्तिथिमारभ्य पञ्चदश्यन्तमम्बिके ॥ १० ॥

कामेश्वर्यादिचित्रान्ता देव्यस्त्वेकैकविग्रहाः |
यतस्तेन स्वस्वतिथौ तास्ताः पूज्या हुतादिभिः ॥ ११ ॥

प्रीणयेद् व्रतसंकल्पसमेतो भक्तिसंयुतः |
तेनायुःश्रीधनारोग्यविद्याकीर्तिसमन्वितः ॥ १२ ॥

जीवेद्वर्षशतं भूमौ स्वकुल्याग्र्यश्च तत्त्ववित् |
यत्तिथौ याः समाख्याताः स ताः समभ्यर्चयात् ॥ १३ ॥

विद्या विधिवदेवैताः प्रोक्ताः पञ्चदशापि च |
संप्राप्य जपहोमार्चायोगतर्पणसेकतः ॥ १४ ॥

विद्यया देवतात्मानं संप्राप्याखिलमाचरेत् |
विद्याप्राप्तिविधिं देव ब्रूहि सम्यङ् ममाधुना ॥ १५ ॥

आसां पञ्चदशानां च येनैताः साधकोन्मुखाः |
शृणु वक्ष्यामि ते देवि विद्याप्राप्तिविधिं शुभाम् ॥ १६ ॥

येन विद्यादेवताभ्यामैक्यं योगेन सिध्यति |
तद्रूपमावयोरैक्यरूपमानन्दविग्रहम् ॥ १७ ॥

Redaktioneller Hinweis: Mehrere verkürzte Lesungen und die folgenden geometrischen Abweichungen werden in der deutschen Übersetzung lokal besprochen.

यदवाप्तुं यजन्तेऽद्याप्यनेके मुनयोऽम्बिके |
कुचन्दनैः कुङ्कुमैर्वा सिन्दूरैर्गैरिकैः शुभैः ॥ १८ ॥

विदध्याद्विपुलं चक्रं व्यक्तरेखं सुशोभनम् |
यस्या यत्क्रमाख्यातं नित्यपूजाविधिक्रमे ॥ १९ ॥

तत्र कुम्भं निधायान्तर्जले संपूज्य देवताः |
प्रोक्तक्रमसमोपेतं पूर्वेद्युर्गीतनृत्यकैः ॥ २० ॥

कृत्वोत्सवमथान्येद्युः प्राग्वदभ्यर्च्य तां तथा |
तत्तिथौ प्राङ्मुखं शिष्यमुक्तलक्षणसंयुतम् ॥ २१ ॥

तथाविधो गुरुः कुम्भजलैस्तमभिषेचयेत् |
तज्जलं प्रागुदङ्मध्यदिग्गतं सर्वसिद्धिदम् ॥ २२ ॥

अन्यासु क्रमतोऽनिष्टान्यवाप्नोति सुनिश्चितम् |
वह्निदाहं मृतिं रोगं दारिद्र्यं देशमोचनम् ॥ २३ ॥

क्रमाद्वह्न्यादिवाय्वन्ते फलानि स्युरिमानि वै |
ततोऽसौ परिधायाशु शुभ्रे शुद्धे च वाससी ॥ २४ ॥

समाचम्य निजैर्वित्तैः समस्तैर्वा पुरोदितैः |
अभ्यर्च्य पादयोर्नाथं पञ्चश्लोकैः स्तुवीत सः ॥ २५ ॥

प्रणम्योत्थाय पुरतो बद्धाञ्जलिकरो भवेत् |
ततो गुरुस्तमाहूय चक्रमध्ये निवेश्य च ॥ २६ ॥

मनसा भावयन्नैक्यमात्मानं देवतात्मना |
प्रोक्तक्रमेण तां देवीं विद्यारूपां महाद्युतिम् ॥ २७ ॥

समावाह्यास्य मूर्धादित्रिषु स्थानेष्वनुक्रमात् |
संस्थाप्य प्रोक्तरूपां तां ध्यात्वाभ्यर्च्य वदेन्मनुम् ॥ २८ ॥

जीवकर्णे त्रिशः पूर्णदेवतात्मा समाहितः |
ततस्तत्रैव तां विद्यां शतं जप्यात् तदात्मवान् ॥ २९ ॥

पुनस्तदाज्ञयोत्थाय पुष्पैरभ्यर्च्य तं स्तुवन् |
प्रणम्य त्रिरुपासीत मूर्ध्नि बद्धाञ्जलिः स्तुवन् ॥ ३० ॥

आहूय क्रममाचारान् प्रोक्त्वा सम्यग्भजेति तम् |
आदिशेद् देशिकस्तस्माद् दिनादारभ्य सोऽपि तम् ॥ ३१ ॥

नित्यशो जपपूजाद्यैरुपासीत शिवं गुरुम् |
एवं पञ्चदशानां च नित्यानां क्रम ईरितः ॥ ३२ ॥

विद्याप्राप्तिविधौ देवि सर्वं सम्यक् समीरितम् |
तासां नैमित्तिकं काम्यं ललितोक्तविधानतः ॥ ३३ ॥

कुर्यात्प्रतिष्ठार्थं चैवं यत एतैस्तु तन्मयः |
आसामन्योन्यमङ्गाङ्गिपूजासु परमेश्वरि ॥ ३४ ॥

एकाङ्गित्वे स्थितान्यास्तत्परिवारास्तथाविधाः |
अन्यदा प्रोक्तरूपास्तास्तत्र तत्रार्चने मताः ॥ ३५ ॥

तासां काम्यफलावाप्तिध्यानं तत्पटलोदितम् |
एवं सर्वं समाख्यातं साधारणविधानकम् ॥ ३६ ॥

विद्या मन्त्रा इति प्रोक्ता यत्तद्भेदं वद प्रभो |
शृणु देवि विशेषं तु संदर्भस्य समेऽपि च ॥ ३७ ॥

वर्णानां देवताभेदाद् द्विधा स्युस्ते विशेषतः |
स्त्रीदैवत्याः स्मृता विद्या मर्दैवत्यास्तु मन्त्रकाः ॥ ३८ ॥

पुनरस्यास्तु यन्त्राणि तत्फलानि शृणु प्रिये |
विद्याक्षरेष्वनावृत्तान्यक्षराण्यष्ट तैस्तथा ॥ ३९ ॥

स्वराणां संगमादष्टाविंशत्या शतमीरितम् |
विधाय वृत्तयोर्मध्ये षट्कोणं ततो द्वयम् ॥ ४० ॥

अत्र अनावृत्ताक्षराणि “हरवनसयम” इति |
आदावकारः, मिलित्वाष्टावक्षराणि षोडशस्वरयुक्तानि चेदष्टाविंशत्युत्तरशतं १२८ वर्णा भवन्तीत्यर्थः |

कृत्वा तेषु न्यसेदर्णानष्टस्वष्ट तु मध्यतः |
मायां नामाङ्कितां कृत्वा तां तारेण प्रवेष्टयेत् ॥ ४१ ॥

अन्तर्वृत्तान्तराले ताँल्लिखेदर्णान् दश क्रमात् |
कर्मानुरूपान् पञ्चाशल्लिखेदुक्तक्रमेण वै ॥ ४२ ॥

बहिर्वृत्तान्तरा प्राग्वदादिक्षान्ताक्षराणि च |
एवं षोडश यन्त्राणि जायन्ते तैर्यथाक्रमम् ॥ ४३ ॥

इति ॥ अथैतद्यन्त्ररचनाप्रकारः—प्रथमतो मध्ये साध्यनामगर्भं ह्रींकारं विलिख्य तत्प्रणवेन बहिरावेष्ट्य तद्बहिर्वृत्तद्वयं कृत्वा तद्बहिरष्टकोणं चतुरस्रद्वयेन विरच्य तद्बहिर्वृत्तद्वयं विधायाभ्यन्तरवृत्तद्वयान्तराले कर्मानुसारीणि भूताक्षराणि दश द्वित्रिद्वित्रिक्रमेण विलिख्याष्टकोणेषु अष्टाविंशत्युत्तरशतं १२८ वर्णेषु प्रथमाष्टबीजानि विलिख्य तद्बहिर्वृत्तद्वयान्तराले मातृकाक्षरैः संवेष्टयेत् |
द्वितीययन्त्रस्याष्टकोणेषु प्रागुक्तवर्णेषु प्रथमाष्टकं विहाय द्वितीयाष्टकं लिखेत् |
अन्यत्समानम् |
एवं षोडश यन्त्राणि भवन्तीत्यर्थः ॥ तथा—

तैर्यन्त्रैः साधयेन्नित्यं मनीषितमशेषतः |
प्रथमं खर्परे रक्तवह्निमूलेन संयुतम् ॥ ४४ ॥

सिन्दूरं तद्रसे पिष्टं धत्तूररससंयुते |
लिखित्वा खदिराङ्गारे तापयेन्निशि जापवान् ॥ ४५ ॥

नारी नरो नृपोऽन्यो वा समायाति च तद्बलात् |
तदेव तेन ताम्रे वा कांस्ये वा प्राग्वदालिखेत् ॥ ४६ ॥

तत्तापनादपि भवेत् पूर्वोक्तं फलमीश्वरि |
द्वितीयं खर्परे तेन विलिख्य निशि तापयेत् ॥ ४७ ॥

नारी वश्यं समायाति जन्माचारविलङ्घिनी |
तृतीयं तेन तत्रैव लिखित्वा निशि तापयेत् ॥ ४८ ॥

श्मशानाग्नौ मुक्तकेशः क्षणार्धाद्वैरी ज्वरातुरः |
तदेव दम्पतीदग्धवह्न्यङ्गारे तु निर्जने ॥ ४९ ॥

रसे पिष्ट्वा लिखित्वाग्नौ संताप्य निखनेत् ततः |
श्मशाने वैरिणा प्रोक्तकाले क्रुद्धाशयो जपन् ॥ ५० ॥

स तदैव संभ्रान्तः पिशाचार्तो रिपुर्भवेत् |
चतुर्थं विलिखेत् कृष्णपटचीरेऽसिताम्बरः ॥ ५१ ॥

पूर्ववत् तत्र निखनेद्रात्रावुक्तक्रमेण तु |
दाहज्वरेण सप्ताहाद्रिपुर्याति यमालयम् ॥ ५२ ॥

पञ्चमेऽप्यथवा षष्ठे द्वयोर्नाम लिखेद् द्वयोः |
काकोलूकजपक्षोत्थलेखिन्या खर्परद्वये ॥ ५३ ॥

श्मशाने निखनेत् प्राग्वन्नदीतीरद्वये द्वयम् |
नद्यां तु वारिपूर्णायां विद्वेषः स्यात् तयोर्मिथः ॥ ५४ ॥

सप्तमे नाम संलिख्य सीसपट्टे यथाविधि |
शिरःकपाले निक्षिप्य श्मशाने निखनेन्निशि ॥ ५५ ॥

रिपोः पुरोक्तकाले च पिशाचैर्गृह्यते रिपुः |
अष्टमं खर्परे कृत्वा रिपुद्वारे खनेन्निशि ॥ ५६ ॥

सप्ताहात् तद्गृहाद्वैरी प्रयात्युच्चाटितोऽन्यतः |
नवमं हेम्नि कृत्वा तद्भूमिकायां रवेरदिने ॥ ५७ ॥

सिद्धयोगे शुभे लग्ने धिषणोदय एव वा |
कृत्यापमृत्युरोगादिदुःखेभ्यो मुच्यते नरः ॥ ५८ ॥

दशमं राजते पट्टे कृत्वा वेश्मनि कुत्रचित् |
निधाय पूजयेद्वेश्मन्यश्मपातादिशान्तये ॥ ५९ ॥

तथा भूतग्रहार्तींश्च रचेदेतस्य धारणात् |
एकादशं लिखेद्भूर्जे पाटीरेन्दुद्रवैस्तु तत् ॥ ६० ॥

उक्तक्रमसमोपेतं गुलिकीकृत्य तं पुनः |
सितसिक्थमये लिङ्गे संस्थाप्याभ्यर्चयेत् पुनः ॥ ६१ ॥

अत्र सिक्थं मधूच्छिष्टम् |

स्थापयेत्तोयमध्ये तु पूजयेन्नित्यशश्च तत् |
संध्यासु सुसितैः पुष्पैः सौरभाढ्यैर्विधानतः ॥ ६२ ॥

मासात् तदर्धात् सप्ताहाद्वशे स्युः शत्रवो ध्रुवम् |
भवेयुर्व्याधितास्तेनोद्धृतेनारोग्यमाप्नुयुः ॥ ६३ ॥

ज्वरार्तास्तु विशेषेण सुखिताः स्युरयत्नतः |
आम्लसौवीरमध्यस्थं विद्वेषयति वैरिणौ ॥ ६४ ॥

तत्रैव क्वथनाद्रोगं द्वयोरुत्सादयेदपि |
शुण्ठीमरिचपिप्पल्यः सूक्ष्मं परिचूर्णिताः ॥ ६५ ॥

लकुचस्य रसोपेतास्तन्मध्ये तद्विनिक्षिपेत् |
तापयेत् त्रिषु संध्यासु यत्रारातिस्तु तन्मुखम् ॥ ६६ ॥

प्रोक्तकाले ज्वरार्तस्तापतृष्णासमन्वितः |
द्वादशं कर्पटे रात्रिरसेनालिख्य तत्पुनः ॥ ६७ ॥

इष्टकायुगमध्यस्थं कृत्वा तच्छ्लेषयेद् दृढम् |
स्थापयेच्चण्डिकागेहे शास्तुरायतनेऽपि वा ॥ ६८ ॥

स्वगेहभित्तिमध्ये वा शयनस्थानतोऽपि वा |
स्तम्भयेद्वैरिणो रोषमुद्योगं बन्धचिन्तनम् ॥ ६९ ॥

व्यवहारं रणं चान्यदस्याभिमतमात्मनः |
त्रयोदशेन भूर्जस्थेनाशु धारणतोऽङ्गना ॥ ७० ॥

वन्ध्यापि लभते पुत्रं विचित्रा यन्त्रशक्तयः |
चतुर्दशगतं नाम कृत्वा भूर्जे च तत्तथा ॥ ७१ ॥

सिक्थमध्यगतं कृत्वा तं निशीथेऽभितापयेत् |
सप्ताहाद्वशमायान्ति स्त्रियो वा पुरुषा नृपाः ॥ ७२ ॥

गजा हया मृगास्त्वन्ये ये जीवा भूतलाश्रयाः |
परेण नाम्ना युक्तेन फलकालेखितेन वै ॥ ७३ ॥

सुखप्रसूतिः स्यात् स्त्रीणां तत्पूजा प्रोक्षणादिना |
षोडशे नाम संलिख्य धारयेत् प्राणिनां तथा ॥ ७४ ॥

रक्षा भवति सर्वत्र ग्रहरोगभयादिषु |
तदेव स्वर्णपट्टस्थं विधाय विधिना युतम् ॥ ७५ ॥

ऊर्मिकाङ्गदभूषादौ मूर्ध्नि वा बिभृयात् ततः |
आधिव्याधिविनिर्मुक्तो निःसपत्नो जितेन्द्रियः ॥ ७६ ॥

भोक्ता कर्ता च पुण्यानां जीवेद्वर्षशतं भुवि |

इति वह्निवासिनीनित्याप्रयोगविधिः ॥ (११ प०)

अथ महावज्रेश्वरीनित्याप्रयोगविधिः |
श्रीतन्त्रराजे—(१२ प० २२ श्लो०)

वसन्तकाले ग्रीष्मे वा पूर्णिमारभ्य साधयेत् |
हविष्याशी पयोभक्षः फलमूलाशनोऽथवा ॥ १ ॥

स्नातः सुगन्धिसलिलैररुणांशुकवाञ्छुचिः |
चन्द्रचन्दनकाश्मीरचर्चालोहितविग्रहः ॥ २ ॥

अञ्जनाक्ताक्षियुगलस्ताम्बूलारुणवक्त्रवान् |
मुखापितेन्दुशकलो हृष्टचेता जितेन्द्रियः ॥ ३ ॥

मौनी त्रिकालपूजासु कृतसंकल्पसाधनः |
नक्ताशी हुतशिष्टेन जपेद्विद्यां समीरिताम् ॥ ४ ॥

नित्यशो भोजयेद्विप्रान् भक्तान् भजनकौतुकान् |
अन्धादिदीनान् मधुरं पायसं भोज्यभक्तिमान् ॥ ५ ॥

प्रणम्याभ्यर्च्य विसृजेनित्यं सप्तदिनेषु तु |
गुरुं जीवनमासाद्य प्रणम्यासकृदात्मवान् ॥ ६ ॥

धनधान्याम्बराद्यैस्तं संतोष्य तदनुज्ञया |
कृतारम्भो नित्यशश्च पूजयेत्तं च भक्तितः ॥ ७ ॥

अन्ते च वित्तैः स्तोत्रैश्च तं संतोष्य कृती भवेत् |
वित्तशाठ्यं च दम्भं च मोहं चासत्यमेव च ॥ ८ ॥

न कदाचित् प्रकुर्वीत विशेषाद्गुरुसन्निधौ |
एवं लक्षत्रयं जप्त्वा तद्दशांशं हुनेद् घृतैः ॥ ९ ॥

आरग्वधप्रसूनैर्वा प्रसूनैर्बकुलोद्भवैः |
मधुकैश्चम्पकैर्वा त्रिमध्वक्तैश्च नित्यशः ॥ १० ॥

चन्द्रचन्दनकस्तूरीकाश्मीरसुरभीकृतैः |
तर्पयेत् सलिलैस्तावद् दिनशो भक्तिमान् दृढः ॥ ११ ॥

एवं संसिद्धमन्त्रस्तु कुर्यात् काम्यानि साधकः |
गुरुभक्तो नित्यकृत्यकृतसंकल्पसंयुतः ॥ १२ ॥

सहस्रजापी स्थिरधीर्मन्त्रवीर्यविदात्मवान् |
यः सोऽपि काम्यान् कुर्वीत प्रयोगान् नान्यथा शिवे ॥ १३ ॥

यद्यज्ञानेन मोहेन चापलेनापि वा चरेत् |
अनर्थक्लेशराजादिपीडाः प्राप्नोति निश्चितम् ॥ १४ ॥

अरुणैः पङ्कजैर्होमं कुर्यात् त्रिमधुराप्लुतैः |
मण्डलाल्लभते लक्ष्मीं महतीं श्लाघ्यविग्रहाम् ॥ १५ ॥

कह्लारैः क्षौद्रसंसिक्तैः पौर्णम्यां तद्दिनावधि |
जुहुयान्नित्यशो भक्त्या सहस्रं विरचैः शुभैः ॥ १६ ॥

तद्दिनेषु तु पूर्वोक्तान् भोजयेदुक्तरूपतः |
तावच्च जप्याद्धोमान्ते यावत्संख्यं हुतं कृतम् ॥ १७ ॥

चम्पकैः क्षौद्रसंसिक्तैः सहस्रहवनाद् ध्रुवम् |
लभते स्वर्णनिष्काणां शतं मासेन पूर्ववत् ॥ १८ ॥

पाटलैर्घृतसंसिक्तैस्त्रिसहस्रं हुतैस्तथा |
दशादिमासाल्लभते चित्राणि वसनानि च ॥ १९ ॥

कर्पूरचन्दनादीनि सुगन्धीनि च मासतः |
वस्तूनि लभते हृद्यैरन्यैर्भोगोपयोगिभिः ॥ २० ॥

शालीभिः क्षीरसिक्ताभिः सप्तमीषु शतं हुनेत् |
तेन शालिसमृद्धिः स्यान्मासैः षड्भिरसंशयम् ॥ २१ ॥

तिलैर्हुतैस्तद्दिवसे वर्षादारोग्यमाप्नुयात् |
स्वजन्मसु त्रिषु तथा दूर्वाभिर्जुहुयात् तथा ॥ २२ ॥

निरातङ्को महाभोगः शतं वर्षाणि जीवति |
गुडूचीतिलदूर्वाभिस्त्रिषु जन्मसु वा हुनेत् ॥ २३ ॥

तेनायुःश्रीयशोभाग्यपुण्यनिध्यादिवान् भवेत् |
घृतपायसदुग्धैस्तु हुतैस्तेषु त्रिषु क्रमात् ॥ २४ ॥

आयुरारोग्यविभवैर्नृपमान्यो भवेत् तथा |
सप्तम्यां कदलीहोमात् सौभाग्यं लभतेऽब्दतः ॥ २५ ॥

दूर्वात्रिकैस्तु प्रादेशमात्रैस्त्रिस्वादुसंयुतैः |
जुहुयाद्दिनशो घोरे सन्निपाते ज्वरे गदे ॥ २६ ॥

महारोगेषु दूर्वाभिस्तिलैरिक्षूद्धवैस्तथा |
त्रिभिर्वा नित्यशो होमं कुर्यात् त्रिस्वादुयुतैः ॥ २७ ॥

परमासादब्दतो वापि रोगान्मुक्तः सुखी भवेत् |
तद्दिनेषु जपेद्विद्यां नित्यशः सलिलं स्पृशन् ॥ २८ ॥

सहस्रवारं तत्तोयैः स्नानपानं समाचरेत् |
पाकाद्यमपि तैरेव कुर्याद्रोगविमुक्तये ॥ २९ ॥

साध्यर्क्षवृक्षं संचूर्ण्य त्र्यूषणं सर्षपं तिलम् |
पिष्टं च साध्यपादोत्थरजसा च समन्वितम् ॥ ३० ॥

कृत्वा पुत्तलिकां तैस्तु हृदये नामसंयुताम् |
प्राग्वच्छित्त्वायसैस्तीक्ष्णैर्निशि पुत्तलिकां हुनेत् ॥ ३१ ॥

एवं दिनैः सप्तभिर्वा त्रिभिर्वैकदिनेन वा |
साध्यो वश्यो भवेच्छीघ्रमपि दूरस्थितो दृढः ॥ ३२ ॥

तथाविधां पुत्तलिकां कुण्डमध्ये खनेद्भुवि |
उपर्यग्निं निधायात्र विद्यया दिनशो हुनेत् ॥ ३३ ॥

त्रिसहस्रं त्रियामायां सर्षपैस्तद्रसाप्लुतैः |
शतयोजनदूरादप्यानयेदनितां बलात् ॥ ३४ ॥

त्रियामायां निशीथे |
तद्रसाप्लुतैः सर्षपतैलाक्तैः ॥

तां तु पुत्तलिकां मध्ये मधूच्छिष्टसमन्विताम् |
कृतप्राणप्रतिष्ठां च श्मशाने निखनेन्निशि ॥ ३५ ॥

साध्ययोनिं च तत्रैव छित्त्वा दत्त्वा बलिं ततः |
कृताभिषेकस्तां विद्यां प्रजपेच्च शतत्रयम् ॥ ३६ ॥

अरातेरष्टमे राशौ मासान्नानाविधैरपि |
रोगैर्भूतादिसंक्लेशैर्नाशमेति सुनिश्चितम् ॥ ३७ ॥

यच्चन्द्रा समुदृत्य सलिलं तां खनेन्निशि |
क्लेशैस्तैः स विनिर्मुक्तः सुखी जीवति भूतले ॥ ३८ ॥

साध्यवृक्षेण कृत्वा तां सर्पिराज्ये निवेशिताम् |
तोयमध्ये निधायैतत् क्वाथयेदुक्तवासरैः ॥ ३९ ॥

वैरी तीव्रज्वरेणार्तः कृती प्राग्वत् सुखी भवेत् |
तामेव चण्डिकागेहे तथा बलियुतां खनेत् ॥ ४० ॥

साध्यो नरश्च नारी चेच्छास्तुरायतने खनेत् |
तद्विधानेन सहितं शत्रुरुन्मादवान् भवेत् ॥ ४१ ॥

महावज्रं च वज्रं च यन्त्राण्येतान्यनुक्रमात् |
प्रयोगानपि वक्ष्यामि समाहितधिया शृणु ॥ ४२ ॥

प्राक्प्रत्यग्दक्षिणोदक् च विंशत् सूत्राणि पातयेत् |
तेन कोष्ठानि जायन्ते त्वेकषष्ट्या शतत्रयम् ॥ ४३ ॥

तेषु कोणचतुष्केऽपि मार्जयेत् पञ्चकेन च |
चत्वारिंशत्तत्र शेषं वज्राकारं यथा भवेत् ॥ ४४ ॥

दिक्षु चत्वारि चत्वारि मार्जयित्वा त्रिकोणगम् |
कुर्याच्छेषाणि कोष्ठानि पञ्चषष्ट्या शतं भवेत् ॥ ४५ ॥

तेषु पूर्वादि परितो लिखेद्विद्याक्षराणि तु |
प्राग्वत् स्वरविभिन्नानि प्रागुक्तविधिना तथा ॥ ४६ ॥

चत्वारि चत्वारिंशच्च शतं तेषां तु मध्यतः |
एकविंशति कोष्ठानि शिष्टानि पुनरम्बिके ॥ ४७ ॥

तेषु पर्यायनित्यार्णवर्णषट्कसमन्वितम् |
घटिकायुगवर्णौ च लिखेत् प्रागुक्तयोगतः ॥ ४८ ॥

शिष्टेषु विद्यावर्णांश्च लिखेद् द्वादश शेषयोः |
साध्याख्यामालिखेदुक्तक्रमेण पुटयोर्द्वयोः ॥ ४९ ॥

चतुर्दिक्षु लिखेत् कोणेष्वभितो भौतिकार्णकान् |
द्वित्रिक्रमेण प्राक्प्रत्यक्कोणयोस्तु त्रयं त्रयम् ॥ ५० ॥

एतत् प्रोक्तेषु संलिख्य संपूज्य विधिना युतम् |
स्पृशञ्जपेन्मनुं पश्चात् त्रिसहस्रं ततस्तु तत् ॥ ५१ ॥

विनियुञ्ज्यादथोक्तेषु कार्येषु क्रमशः शिवे |
भूताक्षराणि च पुनर्लिखेत् कार्यानुरूपतः ॥ ५२ ॥

महावज्रमिति ख्यातं सर्वत्रैवापराजितम् |
विजयस्तम्भविद्वेषवश्योच्चाटनकर्मसु ॥ ५३ ॥

रक्षां पुष्टिं च शान्तिं च तथैव रिपुनिग्रहे |
देशराष्ट्रपुरग्रामनिवेशादौ विशेषतः ॥ ५४ ॥

घोरेषूत्पातजातेषु भूमौ संलिख्य गैरिकैः |
मध्ये देवीं समावाह्य पूजयेन्नित्यशः शिवाम् ॥ ५५ ॥

संध्यासु तिसृषु प्रोक्तक्रमनीराजनं तथा |
कुर्यात् त्रिरात्रं द्विगुणं त्रिगुणं काम्यरूपतः ॥ ५६ ॥

राज्ञां वैरिनिरोधेन पुरीमात्रावशेषिते |
विभवे मण्डपे तस्य प्रोक्तवज्रं लिखेन्महत् ॥ ५७ ॥

दरदेनार्चयेत् तस्य मध्ये देवीं शुचिस्मिताम् |
नृत्यगीतादिभिः सार्धं संध्यासु च विशेषतः ॥ ५८ ॥

एवं प्राग्वद्दिनैरुक्तैर्विजयी नृपतिर्भवेत् |
वैरिनाशन वा तस्य भङ्गाभ्रमणतोऽपि वा ॥ ५९ ॥

ततस्तन्मार्जयित्वा तु भाले कृत्वा पुरीं बलैः |
परीयाद्देशिकं द्रव्यैर्भजे जीवेच्चिरं सुखी ॥ ६० ॥

निःसपत्नो निरातङ्कः षडङ्गख्यातवैभवः |
एवमेतस्य वज्रस्य वैभवं को नु वर्णयेत् ॥ ६१ ॥

अथैतद्यन्त्ररचनाप्रकारः—तत्र प्राक्प्रत्यगायता दक्षिणोत्तरायताश्च विंशतिं विंशतिं रेखाः कृत्वा समान्तरालानि एकषष्ट्युत्तरत्रिशतकोष्ठानि विलिख्य, कोणचतुष्टये प्रतिकोणं पञ्चचत्वारिंशत्पञ्चचत्वारिंशदिति अशीत्युत्तरशतं कोष्ठानि गुरूक्तयुक्त्या मार्जयित्वा, तेषु स्थलेषु चत्वारि कोणानि विधाय सिद्धेषु पञ्चषष्ट्युत्तरशतकोष्ठेषु १६५ मूलविद्याक्षराण्यनावृत्तानि षोडशस्वरयुक्तानि चतुश्चत्वारिंशदुत्तरशताक्षराणि १४४ पूर्वादिप्रादक्षिण्येन प्रवेशगत्या विलिख्यावशिष्टैकविंशतिकोष्ठेषु तद्दिननित्याया वर्णत्रयं पर्यायनित्याया वर्णत्रयं षट्कोष्ठेषु विलिख्य, घटिकाक्षरसहितं युगाक्षरमेकस्मिन् कोष्ठे विलिख्यावशिष्टचतुर्दशकोष्ठेषु प्रतिकोष्ठमेकैकमिति मूलमन्त्राक्षराणि विलिख्यावशिष्टकोष्ठद्वये साध्याख्यां कर्म च विलिख्य दिक्चतुष्टयस्थकोणचतुष्टये तत्तत्कर्मानुसारिभूतवर्णान् द्वित्रिद्वित्रिक्रमेण विलिखेदेतद्यन्त्रमुक्तफलदं भवति ॥ तथा—

अथान्यवज्रनिर्माणविधानं च शृणु प्रिये |
येन हस्तगतेन स्युः सिद्धयोऽपि स्वहस्तगाः ॥ ६२ ॥

प्राक्प्रत्यग्दक्षिणोदक् च दशसूत्रनिपातनात् |
तेनैकाशीतिकोष्ठानि जायन्ते तच्च पूर्ववत् ॥ ६३ ॥

Redaktioneller Hinweis: Die erste gedruckte Versnummer dieser Seite lautet 34; in der fortlaufenden deutschen Kennung wird sie als 20.MV.64 behandelt.

मार्जयेद्दशकोणेषु शिष्टेषु विलिखेत्तथा |
त्रिकोणानि चतुर्दिक्षु तेषु तान्येव पूर्ववत् ॥ ३४ ॥

विलिखेदवशिष्टेषु मन्त्रार्णांस्तद्द्विशस्तथा |
एकस्मिन्मध्यमे शक्तिजठरे साध्यमालिखेत् ॥ ६५ ॥

एतच्च पूर्वप्रोक्तेषु विनियुञ्ज्यान्निजेच्छया |
न भेदस्त्वनयोरस्ति प्रयोगेषु तु सर्वतः ॥ ६६ ॥

एतद्वज्रस्य मध्यस्थं नाम कृत्वा महीभुजः |
दंशके हृदये शीर्षे संस्थाप्य समरे कृते ॥ ६७ ॥

निहत्य वाहिनीं शत्रोश्चतुरङ्गां महीभुजः |
अक्षताशेषसर्वाङ्गो यशोलक्ष्मीधरान्वितः ॥ ६८ ॥

निवृत्य सुचिरं जीवेद् भूमौ भोगी निजेच्छया |
एतत्ताम्रतले कृत्वा स्थापयेदभिवृद्धये ॥ ६९ ॥

अथैतद्रचनाप्रकारः—तत्र प्राक्प्रत्यगायता दक्षिणोत्तरायताश्च दश दश रेखाः कृत्वा समान्तरालानि एकाशीतिकोष्ठानि विधाय, चतुर्दिक्षु दश दश कोष्ठानि मार्जयित्वा एकचत्वारिंशत्कोष्ठात्मकं वज्राकारं निष्पाद्य, दिक्षु चत्वारि चत्वारि कोष्ठानि मार्जयित्वा त्रिकोणानि विधाय, तेषु कर्मानुसारिप्राग्वद्भूतार्णान् विलिख्य मध्यकोष्ठे मायाबीजं साध्यनामगर्भं विलिख्यावशिष्टकोणेषु मूलमन्त्रस्य द्वादशाक्षराणि द्विशो विलिखेत् |
एतद्यन्त्रमुक्तफलदं भवति ॥ तथा—

विधाय वृत्तयोर्मध्ये षट्कोणं तस्य मध्यतः |
बाह्यं च कृत्वा विद्याया बीजमाद्यमथान्तिकम् ॥ ७० ॥

षट्सु कोणेषु तु पुनरग्रपश्चिमयोर्लिखेत् |
एकैकं पार्श्वकोणेषु द्वे द्वे वृत्तान्तरा पुनः ॥ ७१ ॥

मातृकां विलिखेदादिक्षान्तां बिन्दुसमन्विताम् |
मध्यबीजस्य मध्यस्थं लिखेत् तन्निजवाञ्छितम् ॥ ७२ ॥

भर्तृदर्शनभीतानां कुमारीणामिदं भुजे |
कण्ठे वा धारयेत् सद्यो वल्लभा तस्य जायते ॥ ७३ ॥

अथैतद्यन्त्ररचनाप्रकारः—प्रथमतः षट्कोणं विधाय तद्बहिर्वृत्तद्वयं कृत्वा मध्ये साध्यनामगर्भं ह्रींकारं विलिख्य षट्सु कोणेषु कोणाग्रेषु कोणान्तरालेषु च मायाबीजान्येव विलिख्य वृत्तद्वयान्तराले मायाबीजद्वयसहितामकारादिक्षकारान्तां मातृकां विलिखेत् |
एतद्यन्त्रमुक्तफलदं भवति ॥ तथा—

स्वरप्रसारितैर्मन्त्रवर्णैः पद्मानि कारयेत् |
वृत्ताष्टपत्रयुक्तानि षोडशानि मनोहरम् ॥ ७४ ॥

कर्णिकासु च पत्रेषु लिखेदेकैकमक्षरम् |
कर्णिकार्णस्य मध्यस्थं कुर्यान्नाम निजेप्सितम् ॥ ७५ ॥

घटिकाक्षरसंयुक्तं विनियुञ्ज्यात्तु नित्यशः |
अहोरात्रं षोडशधा कृत्वा तां तेषु योजयेत् ॥ ७६ ॥

समस्तं वाञ्छितं तत्र तन्मध्ये विलिखेत् तदा |
धारयेदभिषिञ्चेच्च जपेदिष्टार्थसिद्धये ॥ ७७ ॥

अथैतद्यन्त्ररचनाप्रकारः—प्रथमतो वृत्तं कृत्वा तत्सक्तान्यष्टदलानि विधाय प्रागुक्तषोडशस्वरसंयुक्तमूलविद्यानावृत्ताक्षरेषु चतुश्चत्वारिंशदुत्तरशतवर्णेषु १४४ प्रथमाक्षरं साध्यनामगर्भं कर्णिकायां विलिख्य तत्रैव घटिकाक्षरं संयोज्याष्टदलेषु द्वितीयाद्यष्टौ वर्णान् विलिखेत् |
एवं नवनववर्णानामेकमेकं यन्त्रं भवति |
एवं षोडश यन्त्राणि भवन्तीत्यर्थः ॥ तथा—

प्राक्प्रत्यग्दक्षिणोदक् च पञ्च सूत्राणि पातयेत् |
कोष्ठानि षोडशात्र स्युस्तेषु पद्मानि कारयेत् ॥ ७८ ॥

प्रागुक्तेषु विधायैवमर्चयेद्यामतः क्रमात् |
देवीं तु स्थापयेद्भूमौ सर्वसंपदवाप्तये ॥ ७९ ॥

स्पष्टोऽयमर्थः ॥ इति महावज्रेश्वरीनित्याप्रयोगविधिः ॥

अथ शिवदूतीनित्याप्रयोगविधिः, श्रीतन्त्रराजे—(१३ प० २० श्लो०)

Redaktioneller Hinweis: Gedruckte punktierte Lücken und die unsicher lesbare zusammengezogene Lautfolge bleiben gekennzeichnet.

साधनं प्रोक्तमार्गेण कुर्यात्क्रममतन्द्रितः |
काम्यहोमविधिं देवि शृणु संकल्पसिद्धिदम् ॥ १ ॥

येनासौ वाञ्छितं क्षिप्रमवाप्नोति सुनिश्चितम् |
वशयेद्वनिता होमाद् गुग्गुलैर्मधुमिश्रितैः ॥ २ ॥

नारिकेलफलोपेतैर्गुडैर्लक्ष्मीमवाप्नुयात् |
तथाज्यसिक्तैः कह्लारैः क्षीराक्तैररुणोत्पलैः ॥ ३ ॥

त्रिमध्वक्तैश्चम्पकैश्च प्रसूनैर्बकुलोद्भवैः |
मधूकजैः प्रसूनैश्च हुतैः कन्यामवाप्नुयात् ॥ ४ ॥

पुंनागजैर्हुतैर्वेश्यान्याज्यैरिष्टमवाप्नुयात् |
माहिष्यैर्महिषीराज्यैरजान् गव्यैश्च गास्तथा ॥ ५ ॥

अवाप्नोति हुतैराज्यैरन्नेनान्नं च साधकः |
शालिपिष्टमयीं कृत्वा पुत्तलीं सितसंयुताम् ॥ ६ ॥

हृद्देशन्यस्तनामार्णां पचेत् तैलाज्ययोर्निशि |
तामनश्नन् दिवा रात्रौ विद्याजप्तां तु भक्षयेत् ॥ ७ ॥

सप्तरात्रप्रयोगेण नरो नारी नृपोऽथवा |
दासवद्वशमायाति वित्तप्राणादिमर्पयेत् ॥ ८ ॥

हयारिपुष्पैररुणैः सितैर्वा जुहुयात् तथा |
त्रिसप्तरात्रान्महतीमवाप्नोति श्रियं नरः ॥ ९ ॥

छागमांसैस्त्रिमध्वक्तैर्होमात् स्वर्णमवाप्नुयात् |
क्षीराक्तैः शस्यसंपूर्णां भुवमाप्नोति मण्डलात् ॥ १० ॥

पद्मैर्हवनाल्लक्ष्मीमवाप्नोति त्रिभिर्दिनैः |
अथ यन्त्राणि वक्ष्यामि नानाभीष्टप्रदानि ते ॥ ११ ॥

शृणु तेषु विधानानि समाहितमनाः शिवे |
दूतीनित्याक्षरेषु स्युरनावृत्तानि वै दश ॥ १२ ॥

अत्रानावृत्ताक्षराणि “हरस्रशवदतयनम” [Lesung der gedruckten Lautfolge unsicher] इति |

तैः षोडशस्वरयुतैः षष्ट्या शतमुदीरितम् |
चतुरस्रद्वयं कृत्वा तदन्तर्वृत्तयुग्मकम् ॥ १३ ॥

तदन्तरष्टकोणं च तदन्तर्वृत्तयुग्मकम् |
कृत्वा तत्र लिखेन्मध्ये विद्याद्यं नामसंयुतम् ॥ १४ ॥

विद्याद्यं ह्रींकारम् |

वृत्तयोरन्तरा शेषं बहिः कोणेषु चाष्टसु |
लिखेद् द्वे द्वेऽक्षरे तेषु बाह्यवृत्तद्वयान्तरा ॥ १५ ॥

कर्मानुरूपान् भूतार्णान् दश भूपुरमध्यतः |
मातृकां विलिखेद् दिक्षु द्वादश द्वादश क्रमात् ॥ १६ ॥

अन्यं च त्रिषु कोणेषु शेषाणां च विलेखने |
स्वरे बिन्दुं समायोज्य योजयेद् व्यञ्जने परम् ॥ १७ ॥

एवं यन्त्राणि जायन्ते दश सिद्ध्यास्पदानि वै |
........................................ ॥

अत्र प्रथमतो वृत्तद्वयं कृत्वा तद्बहिरष्टकोणं तद्बहिर्वृत्तद्वयं तद्बहिश्चतुरस्रद्वयं कृत्वा मध्ये साध्यनामगर्भं मायाबीजं विलिख्य, तद्बहिर्वृत्तद्वयान्तराले प्रथमबीजरहितैर्मूलविद्याक्षरैर्वेष्टयित्वा तद्बहिरष्टकोणेषु षोडशस्वरसंयुक्तानावृत्ताक्षरेषु षष्ट्युत्तरशतसंख्याकेषु १६० प्रथमतः षोडशाक्षराणि प्रतिकोणं द्विद्विक्रमेण विलिख्य, तद्बहिर्वृत्तद्वयान्तरे कर्मानुसारिभूताक्षरदशकं प्राग्वद्विलिख्य, तद्बहिश्चतुरस्रद्वयान्तराले दिक्षु द्वादश द्वादश क्रमेण अकारादिसकारान्तमातृकावर्णान् विलिख्याग्नेयादिकोणेषु त्रिषु हलक्षान् विलिख्येशानकोणे हं लं क्षं इति विलिखेत् |
एवं दश यन्त्राणि भवन्तीत्यर्थः ॥ तथा—

........................................ |
प्रथमं गैरिकैः कृत्वा तत्रावाह्य शिवां यजेत् ॥ १८ ॥

सप्तम्यां त्रिषु संध्यासु सितापूपसमन्वितम् |
कृत्वा निवेद्यं पयसा प्रातर्मध्यन्दिने तथा ॥ १९ ॥

दधिभक्तं तु सायं तु क्षीरं मोचाफलं तथा |
एवं मण्डलमर्धं वा कुर्यात् पूजां समाहितः ॥ २० ॥

वाञ्छितं प्राप्नुयाद् देव्याः प्रसादेनाल्पयत्नतः |
द्वितीयं दरदैः कृत्वा तत्रावाह्याथ तद्दिने ॥ २१ ॥

सुपक्वच्छागमांसेन क्षौद्रमन्नं निवेदयेत् |
तावज्जपैन्महीपालं वशे कर्तुमयत्नतः ॥ २२ ॥

तथैव वनितां हृद्यां वशयेद्यावदायुषम् |
तृतीयमपि सिन्दूरैर्विधायावाह्य तत्र ताम् ॥ २३ ॥

तावद्दिनैस्तथावाह्य वशयेद्विविधान् रिपून् |
चतुर्थं कुङ्कुमैः कृत्वा तत्र मध्येऽर्चयेत् तथा ॥ २४ ॥

सप्ताहादापदः सर्वाः प्रयान्त्यस्याः प्रसादतः |
पञ्चमं चन्दनैः कृत्वा तन्मध्ये पूजयेच्छिवाम् ॥ २५ ॥

केवलं पायसं मोचां सितां घृतसमन्विताम् |
निवेदयंस्त्रिसंध्यासु मासाद्रोगानशेषतः ॥ २६ ॥

जित्वा सुखं चिरं जीवेच्चशेषमायुर्निरामयः |
अभिषिञ्चेच्च यन्त्रे वै कुम्भं संस्थाप्य तैर्जलैः ॥ २७ ॥

कृत्वा तस्मै दक्षिणां च दद्याद्भूरि स्वशक्तितः |
प्राणप्रदात्रे तस्मै तु दद्यात् सर्वस्वमेव वा ॥ २८ ॥

येनासौ तोषमायाति तावद्वित्तं समर्पयेत् |
षष्ठं कर्पूरसंयुक्तं पाटीरैरालिखेत् ततः ॥ २९ ॥

फरषे वा शिलापट्टे पीठे वा सौधभूतले |
अन्नाज्यपायसापूपव्यञ्जनानि निवेदयेत् ॥ ३० ॥

पूजयेच्च त्रिसंध्यासु जपन् विद्यां तदा वशी |
त्रिसप्तरात्रमात्रेण ज्वराद्भीमाभिचारजात् ॥ ३१ ॥

मुच्यन्ते प्राणिनोऽचिन्त्याः शक्तयो मन्त्रयन्त्रयोः |
सप्तमं ताम्रपट्टे तु कृत्वावाह्याभिपूज्य च ॥ ३२ ॥

स्थापयेन्मन्दिरे तस्मिल्लक्ष्मीरास्तेऽतिसुस्थिरा |
अष्टमं राजते कृत्वा बिभृयात् सर्वसंपदे ॥ ३३ ॥

नवमं हेम्नि कृत्वा भूषादौ धारयेच्छिवे |
दशमे सर्वकार्याणि साधयन्नर्चयेच्छिवाम् ॥ ३४ ॥

यद्यद्धि वाञ्छितं कार्यं तत्तन्मध्यगतं तथा |
कृत्वा तां पूजयेत् तत्र तत्कार्यं हृदये स्मरन् ॥ ३५ ॥

तद्दिनैस्तदवाप्नोति नात्र कार्या विचारणा |
दशैव तानि यन्त्राणि भूर्जे कृत्वाभिपूज्य च ॥ ३६ ॥

सिक्थनिर्मितपात्रं तु क्षौद्रमध्ये निवेशयेत् |
त्रिसंध्यमर्चयेद्रक्तगन्धपुष्पैः समाहितः ॥ ३७ ॥

साध्यस्याभिमुखो विद्यां जपेन्नित्यमनुस्मरन् |
पाशेन कण्ठमाबध्य पातितं निजपादयोः ॥ ३८ ॥

न्यस्ताञ्जलिकरं शीर्षे दासोऽहमिति वादिनम् |
त्रिसप्तरात्राद्वश्याः स्युर्नरनारीनृपादयः ॥ ३९ ॥

तदेव कोष्णं कृत्वा च संध्यासु त्रिषु नित्यशः |
कामार्ता वनिताः कामज्वरग्रस्ताशयाः शनैः ॥ ४० ॥

कुलं लज्जां विवेकं च परित्यज्यास्य किंकराः |
भवेयुरिति यन्त्राणां प्रयोगास्ते समीरिताः ॥ ४१ ॥

प्राणप्रतिष्ठाविद्यां ते वक्ष्येऽहं शृणु पार्वति |
वातो नभो धरायुग्मं स्पर्शो व्याप्तेन संयुतः ॥ ४२ ॥

जवी दाहमरुद्युक्तो व्योमापि मरुता युतम् |
अग्निर्हंसश्च पूर्वार्णो पश्चादादित्रयं तथा ॥ ४३ ॥

उयावद्वियुग्मान्तोऽम्बु स्यात् षष्ठसप्तमकौ पुनः |
हच्छिख्यग्निरथा माया वातादित्रितयं पुनः ॥ ४४ ॥

हृद्दाहाम्बुचरैः स्वेन गोत्रादाहाभिभिः परम् |
व्याप्तं मरुत्समोपेतं व्योमाग्निमनन्तरम् ॥ ४५ ॥

पुनराद्यत्रयं चाम्बु मरुद्द्वय नभसा युतम् |
शून्यं मायान्वितं पश्चाच्चतुर्थं पञ्चमं ततः ॥ ४६ ॥

अग्निर्हंसो मरुद्युक्तो व्याप्तं च मरुता युतम् |
खं स्वादुद्वयधरायुग्मं हृदम्बु मरुदन्वितम् ॥ ४७ ॥

Redaktioneller Hinweis: Die ausgeschriebene Prāṇapratiṣṭhā-Formel ersetzt die vorausgehenden gedruckten Lücken nicht.

हंसश्च मरुता युक्तश्चत्वारिंशल्लिपिर्मनुः |
........................................ ॥

“अमुष्य प्राणा इह प्राणा अमुष्य जीव इह स्थित अमुष्य सर्वेन्द्रियाणि अमुष्य वाङ्मनःप्राणा इहायान्तु स्वाहा” इति |

........................................ |
यादिसप्ताक्षरैः कुर्यात् षडङ्गानि द्वियोगतः ॥ ४८ ॥

तलादिषु च तान्येव न्यसेच्छक्तिपुटस्थितम् |
ध्यायेद् देवीं प्राणशक्तिमरुणामरुणाम्बराम् ॥ ४९ ॥

अरुणाकल्पमुकुटामरुणाधरपल्लवाम् |
अरुणायतनेत्राब्जयुगां चारुसिताननाम् ॥ ५० ॥

प्रसूनपिण्डं पाशं च दधानां पाणियुग्मतः |
स्वसमानाभिरभितो वेष्टितां दशशक्तिभिः ॥ ५१ ॥

अनन्तशक्तियुक्ताभिः पूजयेत् पद्ममध्यतः |
प्राणापानसमानाश्च व्यानोदानाश्च शक्तयः ॥ ५२ ॥

नागा कूर्मी प्रकृका देवदत्ता धनञ्जया |
चतुरस्रद्वयं कृत्वा तदन्तर्वृत्तयुग्मकम् ॥ ५३ ॥

तदन्तर्दशपत्राब्जं तदन्तस्तद्द्वयं तथा |
कृत्वा मध्ये समावाह्य कृतार्घ्यं पूजयेत् ततः ॥ ५४ ॥

लक्षं जपेत् पयोभक्तस्तद्दशांशं हुनेत् तथा |
तिलैः शुद्धैः सर्षपैश्च सितमधुरसंयुतैः ॥ ५५ ॥

तर्पयेत् सौरभाढ्येन जलेनेत्थं सुसाधयेत् |
तन्त्रेऽस्मिन् यास्तु पुत्तल्यो यन्त्राण्युक्तानि सर्वतः ॥ ५६ ॥

अनया विद्यया तत्र साध्यप्राणान्नियोजयेत् |
यन्त्रन्यासाः शृणु प्राज्ञे सद्यःप्रत्ययकारकम् ॥ ५७ ॥

येन पुत्तलिका जीवस्पन्दयुक्ता मनोबलात् |
प्राक्प्रत्यग्दक्षिणोदक् च सूत्राण्यष्टौ निपातयेत् ॥ ५८ ॥

कोष्ठान्येकोनपञ्चाशज्जायन्ते तेषु विन्यसेत् |
प्रागुत्तरं समालिख्य परितोऽपि प्रवेशतः ॥ ५९ ॥

मध्येषु शिवनवसु लिखेदङ्गोदितात् क्रमात् |
ततः शिष्टद्वये साध्यनामालिख्याथ साधकः ॥ ६० ॥

संजप्य विद्यां हस्तेन सजीवेन स्पृशन् शतम् |
तेन पुत्तलिकाः कुर्यात् सिद्ध्यै नान्यथा भवेत् ॥ ६१ ॥

साध्यजीवाद्यानयनं शृणु वक्ष्यामि तेऽद्भुतम् |
मन्त्रवीर्यस्मृतिं कुर्वन् तथा तद्धृद्गर्भतः ॥ ६२ ॥

ज्ञानकर्मेन्द्रियार्थांन्मनो जीवं तनुं तथा |
तस्मात् साध्यशरीरान्तात् पुत्तल्यां नाभिमस्तया ॥ ६३ ॥

रक्तरज्ज्वा शक्तिमय्या तानानीयार्पयेद्धिया |
विद्यायास्त्वक्षरान्तेषु साध्यनाम नियोजयेत् ॥ ६४ ॥

एवं नियोजितां विद्यां सहस्रं प्रजपेत् स्पृशन् |
जीवहस्तेन तच्चित्तो निशामध्येषु साधकः ॥ ६५ ॥

एवं संस्थापितप्राणा पुत्तली स्पन्दते तदा |
साध्यस्य जन्मनक्षत्राण्याकर्णय वदामि ते ॥ ६६ ॥

तज्जन्मलग्नसंजातनवांशर्क्षप्रमाणकम् |
अन्यानि च नवर्क्षाणि नवग्रहमन्वयात् ॥ ६७ ॥

तेषु तेषु प्रयोगांस्तु वक्ष्याम्यपरहोमके |
रिपोर्नखं च केशं च चरणोत्थं रजस्तथा ॥ ६८ ॥

अन्यानि चाङ्गरोमाणि पुत्तल्यां योजयेन्न्वतः |
वश्यादिषु च सर्वत्र पुत्तल्यां प्रोक्तया तया ॥ ६९ ॥

एवं सर्वं समाख्यातं प्राणाकर्षणकर्मणि |
अनया विद्यया कृत्वा प्राणाकर्षणमुद्धवा ॥ ७० ॥

ततो निर्दिष्टपुत्तल्यां तत्तत्तन्त्रोक्तमाचरेत् |
सर्वत्र मारणे प्रोक्तं साध्यर्क्षग्रहसंस्थितिम् ॥ ७१ ॥

उक्तानां तत्र ऋक्षाणां तथैवाष्टकवर्गकम् |
दशास्थितिं च संवीक्ष्य कुर्यान्मारणमात्मवान् ॥ ७२ ॥

अनवेक्ष्य कृतं कर्म स्वात्मानं हन्ति तत्क्षणात् |
ब्राह्मणं धार्मिकं भूपं वनितामास्तिकं नरम् ॥ ७३ ॥

वदान्यं सदयं नित्यमभिचारे न योजयेत् |
योजयेद्यदि वैरेण प्रत्यगेनं निहन्ति तत् ॥ ७४ ॥

आभिचारस्य विषयानाकर्णय वदामि ते |
पापिष्ठान् नास्तिकान् घोरान् देवब्राह्मणनिन्दकान् ॥ ७५ ॥

प्रजानां घातकान् सर्वक्लेशकर्मसु संस्थितान् |
क्षेत्रवृत्तिधनस्त्रीणामाहर्तारं कुलान्तकम् ॥ ७६ ॥

निन्दकं समयानां च पिशुनं राजघातकम् |
विषाग्निजन्तुशस्त्राद्यैर्हिंसकं प्राणिनां सदा ॥ ७७ ॥

नियोजयेन्मारणेषु कर्मस्वेतेन पातकी |
कृत्वा तु मारणं कर्म तदन्ते स्वधनार्धतः ॥ ७८ ॥

पादतो वा गुरुं विप्रानाराध्य स्वेन नित्यया |
अभिषिच्य ततो विद्यां जपेदब्दं हविष्यभुक् ॥ ७९ ॥

जन्मत्रयेऽप्यब्दमात्रमभिषेकं समाचरेत् |
सदूर्वाहोममब्दात्तु तत्पापेभ्य मुच्यते ॥ ८० ॥

एतत्ते कथितं सर्वं दूतीनित्याविधानकम् |

इति शिवदूतीनित्याप्रयोगविधिः ॥

इति श्रीमहामहोपाध्यायवर्यभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्य—श्रीभगवच्छङ्कराचार्यशिष्य—श्रीविष्णुशर्माचार्यशिष्य—श्रीप्रगल्भाचार्यशिष्य—श्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे विंशः श्वासः ॥ २० ॥

21. Śvāsa

Die Anwendungen der Nityā-Göttinnen, weitere Vidyās, die innere Deutung des Śrīcakra sowie Praṇava- und Yogalehren bilden den Inhalt dieses Kapitels. Die Textgrundlage sind Druckseiten 91–142 des Uttarārdha von 1937. Gedruckte Lücken, unsichere Bījas und andere örtliche Lesungsprobleme bleiben markiert; Erläuterungen stehen in der deutschen Übersetzung. Historische Wirkungsbehauptungen und körperliche Eingriffe sind keine heutigen Praxisempfehlungen. Die Wiedergabe ist keine neue kritische Edition.

अथ एकविंशः श्वासः |

अथ त्वरितानित्यायाः प्रयोगविधिः |
श्रीतन्त्रराजे—(१४ |
२३)

ततः साधितविद्यस्तु प्रयोगानाचरेन्नरः |
वैणवैर्दशांशं जुहुयात् पत्राद्यैः साधने जपे ॥ १ ॥

एवं संसिद्धमन्त्रस्तु मन्त्रितैश्चुलुकोदकैः |
फणिदष्टमृतानां तु मुखे संताड्य जीवयेत् ॥ २ ॥

तत्कर्णयोर्जपेद्विद्यां यष्ट्या वा जपसिद्धये |
संताड्य शीर्षे सहसा मृतमुत्थापयेदिति ॥ ३ ॥

काम्यहोमविधिं देवि शृणु वक्ष्ये यथाविधि |
कृत्वा योनिं कुण्डमध्ये तत्राग्नौ विधिवद्धुनेत् ॥ ४ ॥

तिलसर्षपगोधूमशालिधान्ययवैर्हुनेत् |
त्रिमध्वक्तैरेकशो वा समेतैर्वा समृद्धये ॥ ५ ॥

बकुलैश्चम्पकैरब्जैः कह्लारैररुणोत्पलैः |
कैरवैर्मल्लिकाकुन्दमधूकैरिन्दिराप्तये ॥ ६ ॥

अशोकैः पाटलैर्बिल्वैर्जातीविचकिलैः सितैः |
नवैर्नीलोत्पलैरश्वरिपुजैः कर्णिकारजैः ॥ ७ ॥

होमाल्लक्ष्मीं च सौभाग्यमायुर्वित्तं यशो निधिम् |
यद्यद्धि वाञ्छितं सर्वमवाप्नोति सुनिश्चितम् ॥ ८ ॥

दूर्वागुडूचीमश्वत्थं वटमारग्वधं तथा |
सितार्कसप्तकं हुत्वा रोगान्मुक्तो नरोऽचिरात् ॥ ९ ॥

इक्षुजम्बूनालिकेरमोचागुडसितैर्हुतैः |
अचलां लभते लक्ष्मीं भोक्ता च भवति ध्रुवम् ॥ १० ॥

एतैरुदीरितैराज्यमधुक्षीरपरिप्लुतैः |
एकैकैर्वनिता वश्या यावज्जीवं धनादिभिः ॥ ११ ॥

तैस्तैराज्यप्लुतैर्भूपा वश्याः स्युर्हवनाद्ध्रिये |
क्षीराक्तैस्तैर् हुतैर्मर्त्या वशे तिष्ठन्त्यशेषतः ॥ १२ ॥

सर्षपाज्यैर्हुनेन्मृत्युकाष्ठाग्नौ वैरिमृत्यवे |
तदर्क्षैररियोन्युत्थमांसैरपि च तत्कृते ॥ १३ ॥

अर्केन्धनाग्नौ योन्युत्थक्षतजोत्पादितं चरुम् |
आरुष्करघृतोपेतं फणीशीर्षं पचेच्च हुनेत् ॥ १४ ॥

कृष्णांशुकशीरोवेष्टः खड्गपाणिश्च रोषवान् |
निशामध्ये हुनेत् सद्यो निहन्तुं वैरिणं हठात् ॥ १५ ॥

मृत्युकाष्ठानले तस्य फलैः पत्रैश्च होमतः |
सप्तरात्रादरातेस्तु गजाश्वा रोगमाप्नुयुः ॥ १६ ॥

चतुरङ्गुलजैर्होमाच्चतुरङ्गबलं रिपोः |
सप्ताहाद्रोगदुःखार्तं भवत्येव न संशयः ॥ १७ ॥

एवमस्यास्तु विद्याया वैभवं को नु वर्णयेत् |
तथापि तद्दिशा किञ्चिदुच्यते तच्छृणु प्रिये ॥ १८ ॥

अथ यन्त्राणि वक्ष्यामि समस्ताभीष्टसिद्धये |
तानि सर्वाणि देवेशि कुरु चित्ते क्रमेण वै ॥ १९ ॥

प्राक्प्रत्यग्दक्षिणोदक् च सूत्राणि द्वादशार्पयेत् |
तदग्राण्यभितः कुर्यात् त्रिशिखान्यस्य मध्यगे ॥ २० ॥

कोष्ठे तारस्य मध्यस्थं नाम कृत्वा शिवादिषु |
प्रादक्षिण्यप्रवेशेन द्वादशावृत्ति मायया ॥ २१ ॥

विद्यामालिख्य संजप्य बिभृयात् सर्वसिद्धये |
श्रिये कीर्त्यै च वश्याय सौभाग्यायाखिलाप्तये ॥ २२ ॥

विषग्रहगदोन्मादशान्त्यै युद्धे जयाप्तये |
नरनारीनृपादीनां वश्याय बिभृयाच्च तत् ॥ २३ ॥

अस्यार्थः—प्राग्प्रत्यगायता दक्षिणोत्तरायताश्च द्वादश रेखा विलिख्यैकविंशत्युत्तरशतकोष्ठानि (१२१) कृत्वा, रेखाग्रेषु सर्वेषु त्रिशूलानि विलिख्य तन्मध्यकोष्ठे ससाध्यं प्रणवं विलिख्येशानकोष्ठमारभ्य प्रादक्षिण्येन प्रवेशगत्या त्वरिताविद्यां प्रणवद्वितीयहृल्लेखाविधुरां द्वादशावृत्तिं विलिखेत् |
एतद्यन्त्रमुक्तफलदं भवति ॥ तथा—

प्राक्प्रत्यग्दक्षिणोदक् च नव सूत्राणि पातयेत् |
जायन्ते च चतुःषष्टिकोष्ठानि परमेश्वरि ॥ २४ ॥

तेषु शर्वनिर्ऋत्यादि लिखेल्लक्ष्मीमनुं क्रमात् |
बहिस्तूर्णाविचरन्ते वषड्युक्तैस्तु वेष्टयेत् ॥ २५ ॥

अनुग्रहं महाचक्रं विद्यां शृणु महेश्वरि |
सर्वतोभद्रविन्यासानुष्टुभं सर्वसिद्धिदम् ॥ २६ ॥

दाहवह्नियुतं चाद्यं वियद्धन्मरुता ततः |
नभश्च मरुतोपेतं व्याप्तं तेन समन्वितम् ॥ २७ ॥

एतान्येव विलोमानि प्रथमं चरणं भवेत् |
द्वितीयादि द्वितीयं स्याद्वा शून्यं द्वितीयकम् ॥ २८ ॥

तृतीयं च चतुर्थं स्याज्ज्या तु साश्वतरा ततः |
प्रतिलोमं तथैतेषां द्वितीयं चरणं भवेत् ॥ २९ ॥

तृतीयतुर्यौ परत इला बह्न्या ततस्त्विला |
मरुद्युता प्राग्वदेतत्प्रतिलोमं तृतीयकम् ॥ ३० ॥

चतुर्थं द्वादशं विंशं तदाद्यं ते विलोमगाः |
एतच्चतुर्थं चरणं श्रीविद्यायां महेश्वरि ॥ ३१ ॥

सर्वतोभद्ररूपैषा विद्या सर्वार्थसाधिका |
यत्र स्थितासौ चक्रस्था न तत्राशुभसंकथा ॥ ३२ ॥

“श्रीसामायायामासाश्री सानायाज्ञज्ञयानासा |
मायालीलालालीयामा याज्ञलालीलीलाज्ञया” ॥ इति |
अथैतद्यन्त्ररचनाप्रकारः—तत्र प्राग्प्रत्यगायता दक्षिणोत्तरायताश्च नव रेखाः कृत्वा चतुःषष्टिकोष्ठयुतं चतुरस्रं श्रीचक्रं परिकल्प्य, तत्र सर्वोपरिगतपङ्क्तेः प्रथमकोष्ठमारभ्य स्ववामादिदक्षिणान्तक्रमेण पङ्क्तिचतुष्टयगतेषु द्वात्रिंशत्कोष्ठेषु प्रोक्तसर्वतोभद्राख्यलक्ष्मीमन्त्रस्य द्वात्रिंशदक्षराणि विलिख्य, पुनरधोगतपङ्क्तिचतुष्टयेऽपि सर्वाधःपङ्क्तेः प्रथमकोष्ठं स्वदक्षिणस्थमारभ्य वामान्तमुपर्युपरि पङ्क्तिचतुष्टयं तस्यैव मन्त्रस्य द्वात्रिंशदक्षराणि विलिख्य तद्बहिः प्रागादिषु चतसृषु दिक्षु ईशादिशान्ते चतुरावृत्तिं तद्बाह्यरेखास्पृष्टां त्वरिताविद्यामन्तर्गतवषट्कारामालिख्य तद्बहिर्वमित्यमृतबीजेन वेष्टयेत् |
एतद्यन्त्रमुक्तफलदं भवति ॥ तथा—

दशसूत्रनिपातेन कृत्वैकाशीतिकं पदम् |
तन्मध्यकोष्ठे दाहस्य कृत्वा नामास्य वीथिषु ॥ ३३ ॥

लिखेद्दशचतुष्कं तु शृणु भद्रे यथाविधि |
उयाधराखमीपया हृततोऽम्बु स्पर्शंगा इला ॥ ३४ ॥

ततः श्रियो लिखेद्विद्यां शिवरक्तादिगादिकाम् |
प्राग्वन्तर्णामृतार्णैस्तं वेष्टयेत् फड्भिर्योजितैः ॥ ३५ ॥

ततोऽम्बु खयुतं तेन मालाकलितरूपिणा |
वृत्तद्वयेन निष्पाद्य कुम्भं पद्माधरोत्तरम् ॥ ३६ ॥

कृत्वा स्वर्णादिपट्टेषु संपूज्याभ्यर्च्य तत्पुनः |
स्थापयेज्जपसंसिद्धं तेषु पूर्वोदितेषु वै ॥ ३७ ॥

तत्र लक्ष्मीरतिस्फीता नीरोगाश्च प्रजास्तथा |
गजाश्वपशवस्त्वन्ये प्राणिनः सुखिनोऽनिशम् ॥ ३८ ॥

भूतप्रेतपिशाचादिपीडासु बिभृयादिदम् |
अलक्ष्मीशान्तये वश्यसिद्ध्यै सर्वसंपदे ॥ ३९ ॥

अथैतद्यन्त्ररचनाप्रकारः—तत्र प्राक्प्रत्यग्दक्षिणोदक् च समान्तरालानि दश दश सूत्राण्यास्फाल्यैकाशीति-

पदानि विधाय, तत्र मध्यकोष्ठे सबिन्दुकुटकारोदरं साध्यनामालिख्य तत्कोष्ठपार्श्वस्थपूर्वापरायतपङ्क्तिद्वयेन दक्षिणोत्तरायतपङ्क्तिद्वयेन च संभूय चतसृषु पङ्क्तिषु चतुश्चतुष्कोष्ठात्मिकासु स्वाग्रादिप्रादक्षिण्यक्रमेण “जूं सः वषट्” इति च प्रतिकोष्ठमेकेकमभ्यन्तरान्निर्गमगत्या विलिख्य, तत ईशानादिनैरृत्यादिकं च प्रागुक्तश्रीविद्यानुष्टुभं मध्यवीथीचतुष्टयवर्जमालिख्य, सर्वबाह्येऽतः ईशादिशान्ते तूर्णामृताक्षराणि चतुरावृत्त्या प्राग्वत्समालिख्य सर्वमध्यकोष्ठमध्यकोष्ठमवष्टभ्य चतुष्कोणस्य तूर्णाक्षरमानेन भ्रमणं वृत्तं निष्पाद्य, तद्बाह्येऽङ्गुलमानेन तथा वृत्तान्तरं कृत्वाध उपरिभागे च मध्यतश्चतुरङ्गुलान्तरालं वृत्तद्वयं मार्जयित्वा तदग्रचतुष्टयमनवक्रं समान्तरालमुपरि चतुरङ्गुलकुम्भमुखाकारं यथा भवति तथा समुन्नमय्य कुम्भमुखे तिर्यग्रेखाद्वयं प्रसार्य, तत्कुम्भवीथीमध्यमन्योन्यस्पृष्टवकारमालया शृङ्खलारूपयान्तर्मुखया समापूर्य सर्वत्रोपरि बिन्दुं समालिख्य, कुम्भाधस्तात्पद्मं तत्कर्णिकास्थकुम्भं यथा भवति तथा समालिख्य प्रोक्तक्रमेण मनीषितेषु विनियोगात् प्रोक्तफलानि भवन्ति |
इत्यनुग्रहयन्त्राणि ॥ अथ निग्रहयन्त्राणि (तत्रैव)

निग्रहं शृणु देवेशि शत्रवो यस्य शङ्किताः |
स्वल्पेनैव तु कालेन भवन्त्येव परासवः ॥ ४० ॥

प्राग्वदेकाशीतिपदं कृत्वा तन्मध्यकोष्ठके |
दाहगर्भे नाम कृत्वा तथा दिग्वीथिषु क्रमात् ॥ ४१ ॥

लिखेद्बीजचतुष्कं तु वह्निमारुतविग्रहम् |
यैः सद्यो वैरिणः स्वैरं विसृजन्ति कलेवरम् ॥ ४२ ॥

रसो दाहद्माखयुतो ग्रासो दाहद्मया खगः |
प्रभा दाहद्माखयुता हंसो दाहादिसंयुतः ॥ ४३ ॥

ईशरक्षोदिगारम्भात् पङ्क्तिशो विलिखेत्ततः |
काल्या यमस्य क्रमतो विद्यामन्त्रं च संक्रमम् ॥ ४४ ॥

सर्वतोभद्ररूपं तु काल्यनुष्टुभमीश्वरि |
शृणु वक्ष्यामि परतो यमानुष्टुभमीदृशम् ॥ ४५ ॥

प्राणो मरुत्समोपेत इला वह्न्या समन्विता |
नभो मरुद्युतं दाहश्चतुर्णां प्रतिलोमतः ॥ ४६ ॥

प्रथमं चरणं तस्य द्वितीयं शून्यमेव च |
नभो भूता ग्रास एतत्प्रतिलोमाद् द्वितीयकम् ॥ ४७ ॥

तृतीयमेकादशमं ततो गोत्रा चरान्विता |
रयस्तेषां विलोमं च तृतीयं चरणं मतम् ॥ ४८ ॥

चतुर्थं द्वादशं विंशं रयोऽम्ब्वाधौ विलोमकम् |
चतुर्थं चरणं प्रोक्तं विद्यैषा सर्वनाशिनी ॥ ४९ ॥

व्याप्तं कालीतृतीयं च मरुताम्बुसमन्वितम् |
नाद एषां विलोमं च प्रथमं चरणं यमे ॥ ५० ॥

एतद्द्वितीयतुर्यौ च नभसा भूश्च नादकम् |
एतेषां प्रतिलोमं च द्वितीयं चरणं मनोः ॥ ५१ ॥

अम्बुयुक्तो मरुच्चास्मिनेकादशकमेव च |
रसः क्ष्मया वह्निदाहौ प्रतिलोमं तृतीयकम् ॥ ५२ ॥

नादो नादो दाहवह्नी रयोऽम्बु तदनन्तरम् |
प्रतिलोमं तु तेषां स्याच्चतुर्थं चरणं शिवे ॥ ५३ ॥

एवं मनुद्वयं कोष्ठेष्वालिख्य बहिरप्यथ |
वेष्टयेद् व्याप्तदाहाभ्यामुक्तक्रमसमन्वितम् ॥ ५४ ॥

मर्करादण्डिगरलैरालिप्तं स्थापयेत् क्रमम् |
जपन् विनिक्षिपेद्वृक्षविवरे चत्वरेऽथवा ॥ ५५ ॥

वल्मीके मातृभवने शास्तुरायतनेऽथवा |
श्मशाने प्रोक्तसमये प्रोक्तक्रमसमन्वितम् ॥ ५६ ॥

“कालीमाररमालीका लीनमोददमोनली |
मामोदेततदेमोमा रत्वतत्वत्वतत्तर” [gedruckte Lautfolge stellenweise unsicher] ॥ इति काल्यनुष्टुभम् ॥

“यमावाटटवामाय माटमाटटमाटमा |
वामोभूरीरीभूमावा टटरीत्वत्वरीटट” [gedruckte Lautfolge stellenweise unsicher] ॥ इति यमानुष्टुभम् ॥

[निग्रहबीजचतुष्टयम्: gedruckte Bījafolge nicht zuverlässig lesbar.] इति निग्रहबीजचतुष्टयम् ॥ अथैतन्निग्रहयन्त्ररचनाप्रकारः—तत्र प्राग्वदेकाशीतिपदोपेतं चक्रं विरच्य तन्म-

ध्यकोष्ठे सबिन्दुकरेफोदरे साध्यनामालिख्य प्राग्वत् तत्पार्श्वपङ्क्तिषु चतुष्कोष्ठेषु प्रागुक्तक्रमेण [Nigraha-Bījafolge wie auf Druckseite 93 nicht sicher lesbar] इत्य्यक्षरचतुष्टयमभ्यन्तरान्निर्गमनगत्याभितः समालिख्य, आभिचार्यः पुरुषश्चेदन्तःकाल्यनुष्टुभं बहिर्यममन्त्रं, वनिता चेदन्तर्यममन्त्रं बहिः कालीविद्यां च समालिखेत् |
लेखने तु—ईशानादिकं निर्ऋत्यादिकं च कालीविद्याम्, अन्यदा तथा यममन्त्रं विलिख्य अन्यतरं बहिरीशानादिनिर्ऋत्यन्तं निर्ऋत्यादीशान्तं च निरन्तरं द्विरालिख्य, तद्बहिर्निरन्तरं बिन्दुयुक्तं यकारं रेफं चेशादीशान्तं यथाक्रममन्तर्बहिर्विभागेन समालिख्य मनीषितेषु विनियुञ्ज्यात् |
एतन्निक्षिपेदाभिचार्यः पुरुषश्चेत् काल्यादिशक्त्यायतने, स्त्री चेत् शास्तुरायतने प्रवासभागेऽधस्तान्निखनेदिति संप्रदायः |
प्रपञ्चसारे—

सीसकृते नवपदे शावभवे कर्पटके वा |
प्रस्तरके वा विषमस्या संलिख्य काकसुपत्रैश्च ॥ १ ॥

चत्वरके वा कलिवृत्ते स्थापितमेतदरीणां हि |
मृत्युकरं व्याधिकरं स्यात् पुत्रस्त्रीविपत्करं च ॥ २ ॥

इति |
तन्त्रराजे—

यत्र देशादिके यन्त्रं तत्रालक्ष्मीर्गदैः समम् |
मारी सुदुस्तरासाध्या सर्वदेवासुरैरपि ॥ ५७ ॥

प्राग्वच्च नवभिः सूत्रैरष्टाष्टकपदं शिवे |
कृत्वा तेष्वीशरक्षोदिगारम्भात् कालिकामनुम् ॥ ५८ ॥

विलिख्य यममन्त्रेण प्रोक्तबीजद्वयेन च |
वेष्टयित्वा बहिश्चक्रं स्थापयेत्तदधोमुखम् ॥ ५९ ॥

एतच्च पूर्वचक्रोक्तफलकृत् परमेश्वरि |
अनुक्तेष्वपि नामानि योजयेत् कोष्ठमध्यतः ॥ ६० ॥

लवणोषणमेदाम्बुगृहधूमाग्निसंयुतम् |
श्मशानाङ्गारनिम्बोत्थनिर्यासो विषमीरितम् ॥ ६१ ॥

ऊषणमूषर इति मनोरमाकारैर्व्याख्यातम् |
मेदाम्बु प्रस्रवः |
अग्निश्चित्रकम् |
यन्त्ररचनाक्रमो यथा—तत्र प्राग्वत् नवभिर्नवभिः सूत्रैश्चतुःषष्टिकोष्ठकानि कृत्वा तेष्वीशानादिकं निर्ऋत्यादिकं चाभिचार्यः पुरुषश्चेदन्तः कालीविद्यां बहिर्यममन्त्रं च, स्त्री चेदन्तर्यममन्त्रं बहिः कालीविद्यां च प्राग्वत् समालिख्य प्राग्वत् सबिन्दुयकाररेफाभ्यां संवेष्ट्य प्रोक्तक्रमेण प्रोक्तस्थानेषु स्थापनात् प्रोक्तफलसिद्धिर्भवतीति ॥ तथा—

विद्याद्यवर्णजठरे साध्यमालिख्य तद्बहिः |
अष्टच्छदेषु फड्वर्ज्यमालिखेदष्टवर्णकम् ॥ ६२ ॥

कर्णिकास्थं ततोऽब्जं च वेष्टयेन्मायया ततः |
बहिः कुम्भं विदध्याच्च प्रोक्ताक्षरविधानतः ॥ ६३ ॥

एवमन्यैश्च नवभिर्विद्यावर्णैर्यथाक्रमम् |
विदध्यान्नव यन्त्राणि दशानां च फलं शृणु ॥ ६४ ॥

यन्त्ररचनाक्रमो यथा—तत्राष्टदलकमलं सकर्णिकं विलिख्य तद्बहिर्वृत्तद्वयं विधाय कर्णिकायां विद्याद्यवर्णं साध्यनामगर्भं विलिख्य, तद्बहिर्मायाबीजेन संवेष्ट्याष्टदलेषु फड्वर्ज्यं द्वितीयाद्यष्टौ बीजानि विलिख्य तद्बहिर्मायया वेष्टयेत् |
एवं द्वितीयबीजं कर्णिकायां विलिख्य द्वितीयं यन्त्रं भवति |
एवं तृतीयबीजादिकं ज्ञेयम् |
एवं दश यन्त्राणि भवन्ति ॥ फलान्याह—

सर्वरक्षां जयं वश्यं नरनारीनृपादिनाम् |
स्तम्भं लक्ष्मीयशोहेमवासांसि च समाप्नुयात् ॥ ६५ ॥

अनावृत्तान्यक्षराणि मन्त्रेष्वेकादशाथ तैः |
स्वराभिन्नैर्भवेत् संख्या षट्सप्तत्या शतं स्मृतम् ॥ ६६ ॥

“अहरखवदहसतफट” [zusammengezogene Lautfolge nicht sicher lesbar] इति |

तैर्यन्त्रकरणं तेषां फलानि च यथाक्रमम् |
शृणु वक्ष्यामि देवेशि साधकाभीष्टसिद्धये ॥ ६७ ॥

वृत्तयोर्मध्यगं कृत्वा पद्मं षोडशपत्रकम् |
तन्मध्ये कर्णिकामध्ये शक्तिं साध्यसमन्विताम् ॥ ६८ ॥

पत्रेषु षोडशार्णानि वेष्टयेत्तच्च मायया |
वृत्तयोरन्तरा बाह्ये कुम्भं प्रोक्तं समालिखेत् ॥ ६९ ॥

एवमेकादशोक्तानि यन्त्राणि प्रथितानि वै |
........................................ ॥

अत्र सकर्णिकं षोडशदलपद्मं विलिख्य बहिर्वृत्तद्वयं विधाय, कर्णिकायां साध्यनामगर्भं ह्रींकारं विलिख्य तन्मायया संवेष्ट्य षोडशदलेषु षोडशबीजानि विलिख्य, वृत्तद्वयान्तराले मायाबीजैः संवेष्ट्य प्राग्प्रोक्तप्रकारेण तद्बहिः कुम्भं विलिखेत् |
एवमेकादश यन्त्राणि भवन्ति |
तथा—

........................................ |
विनियोगानथैतेषां क्रमेण शृणु पार्वति ॥ ७० ॥

प्रथमं गजरक्षाकृद् द्वितीयं हेमरक्षकम् |
तृतीयं नृपरक्षायां चतुर्थं द्वन्द्वरक्षकम् ॥ ७१ ॥

पञ्चमं कुरुते राजवेश्मरक्षां तु सर्वतः |
षष्ठं सचिवरक्षाकृत् सप्तमं पुररक्षकम् ॥ ७२ ॥

अष्टमे गृहरक्षा स्यात् सर्वेषामपि सर्वदा |
फणिचोरग्रहादिभ्यो भयेभ्यः शत्रुतस्तथा ॥ ७३ ॥

नवमं सर्वरोगार्तौ सर्वेषामपि सर्वदा |
उत्तारकं स्याद् देवेशि प्राक्प्रोक्तविधिना युतम् ॥ ७४ ॥

दशमं भूर्जगं कृत्वा प्राग्वत् सिक्थोत्थलिङ्गकम् |
स्थापयेच्छीतले तोये घटादौ सविधेऽथ तम् ॥ ७५ ॥

पूजयेत् तानि च यजेत् स्पृशञ्जीवकरेण तम् |
घोराभिचारकृत्यादिजातो दाहज्वरः क्षणात् ॥ ७६ ॥

विमुच्य तं प्रयोक्तारं नाशयेत् तत्क्षणात् प्रिये |
एवमेतानि यन्त्राणि नामतः सर्वकार्यकृत् ॥ ७७ ॥

सर्वासामपि नित्यानां प्रातरेव समृद्धये |
पूजादौ च बलिं दद्यात् षोडशार्णेन पार्वति ॥ ७८ ॥

इति त्वरितानित्याप्रयोगविधिः ॥

अथ कुलसुन्दरीनित्याप्रयोगविधिः |
श्रीतन्त्रराजे—(१५ |
२५)

एवं नित्यार्चनं कुर्यान्नित्यहोमं घृतेन वै |
प्रातः सलिलपानं च कुर्याद्विद्यात्मसिद्धये ॥ १ ॥

चन्दनोशीरकर्पूरकस्तूरीरोचनान्वितैः |
काश्मीरकालागुरुभिर्मृगस्वेदमयैरपि ॥ २ ॥

आलिप्तगात्रो हृष्टान्तःकरणो मौनमन्वितः |
चित्रभूषाम्बरस्रग्वी जपेद्विद्यां निशामुखे ॥ ३ ॥

पूजयेच्च शिवामेतैर्गन्धैः सर्वार्थसिद्धये |
सर्वाभिरपि नित्याभिः प्रातर्मातृकया समम् ॥ ४ ॥

त्रिजप्ताभिः पिबेत्तोयं तथा वाक्सिद्धये शिवे |
अन्यैरपि च मन्त्रैस्तैर्विद्याभिस्तत् प्रसिद्ध्यति ॥ ५ ॥

प्राग्वल्लक्षत्रयं जप्त्वा तद्दशांशं च तर्पयेत् |
सुगन्धिसलिलैर्होमं तावत् त्रिमधुराप्लुतैः ॥ ६ ॥

पलाशपुष्पैर्विकचैरदुष्टैः रविखण्डितैः |
सिद्धविद्यः पुनः कुर्यात् काम्यकर्माणि साधकः ॥ ७ ॥

देव्या वर्णविभेदेन फलभेदाः समीरिताः |
विद्यास्वरूपभेदांस्तु शृणु वक्ष्ये यथाविधि ॥ ८ ॥

त्रयीमयत्वं विद्यायास्तथा व्यञ्जनसङ्गमात् |
वाच्यवाचकरूपस्य प्रपञ्चस्यामितात्मनः ॥ ९ ॥

कारणत्वं परात्मत्वममेयत्वं च वै क्रमात् |
कथयामि शृणु प्राज्ञे विचित्रास्तव वैभवाः ॥ १० ॥

अकारादिः सामवेदो ऋग्वेदस्तु तदादिकः |
यजुर्वेद इकारादिस्तेषां संयोगतः शुचिः ॥ ११ ॥

तन्निष्पत्तिं शृणु प्राज्ञे प्रोक्तं पूर्वापरक्रमात् |
विलिखेद्योजयेत् पूर्वं शब्दशास्त्रानुसारतः ॥ १२ ॥

गुणसंध्या ऋग्यजुषा ततस्तेनापरं तथा |
वृद्धिसंध्या समायुञ्ज्यादित्युत्पन्नं शुचेर्वपुः ॥ १३ ॥

तेन त्रयीमयी विद्या कार्यकारणयोगतः |
आद्यवर्णप्रभूतानि सर्वाण्यन्यानि येन वै ॥ १४ ॥

मध्यमार्गगतप्राणा व्यञ्जनादेस्तु मातृका |
प्राग्वत् कारणकार्यत्वयोगाद्वाचकरूपता ॥ १५ ॥

तद्वर्णैकसमायोगाद्भूतादित्वेन वाच्यता |
इति वाचकवाच्यत्वरूपा विश्वात्मतोदिता ॥ १६ ॥

पररूपं तृतीयेन त्रिंशिकोक्तं त्रिकात्मकम् |
एवमेषा विश्वमयी विद्यारूपमिदं शृणु ॥ १७ ॥

शुचिराद्या वाक्स्वरूपा द्वितीया वह्निरीरिता |
बिन्दुमार्गात्मनोरेक्यरूपा सा त्वावयोर्वपुः ॥ १८ ॥

तेन बीजेन विश्वात्मरूपा सा सम्यगीरिता |
वनं तृतीयमाख्यातं मायया स्वेन वा युतम् ॥ १९ ॥

एषा त्रैपुरकन्दा स्यात् सङ्केतेन निगद्यते |
ज्ञातृज्ञानज्ञेयदोषगुणतेजस्त्रयात्मिका ॥ २० ॥

[Die gedruckte kurze Bījafolge vor „इति सङ्केतविद्या“ ist nicht sicher auflösbar.] इति सङ्केतविद्या |
त्रैपुरकन्दं त्रिपुरामन्त्राणां मूलमित्यर्थः |
वनं तृतीयं औंकारः |
मायया विसर्गेण, स्वेन बिन्दुना वेति विकल्पः ॥ तथा—

अस्यास्तु मध्यमे बीजे रसाग्राणनियोजनात् |
वाच्यवाचकरूपात्मा प्रपञ्चस्य हि कारणम् ॥ २१ ॥

तृतीये हृत्समायोगात् त्रिकविश्वात्मतोदिता |
हंसहृद्योगतस्तेषु जङ्गमस्थावरात्मता ॥ २२ ॥

[Hier folgen drei eng gesetzte Bījafolgen, nicht durchgehend zuverlässig lesbar.] |
एतासु विद्यासु कादिपञ्चत्रिंशद्व्यञ्जनानाम् |
तथा—

एकद्व्यादिसमायोगाद् व्यञ्जनानां तथा त्रिषु |
ज्ञातुं न शक्यते संख्या विद्यानां परमेश्वरि ॥ २३ ॥

त्रिषु त्रिबीजेषु |

एवं सानन्तविभवा तां निःशेषं वदेत् कथम् |
तथापि भक्तसंत्राणहेतोः कांचन वच्मि ते ॥ २४ ॥

आयुर्लक्ष्मीकीर्तिभोगसौन्दर्यारोग्यदायिकाः |
ऐहिकामुष्मिकज्ञानमय्यः सङ्कल्पसिद्धिदाः ॥ २५ ॥

विद्यायाः कुलसुन्दर्या हंसयोगात् त्रिषु क्रमात् |
विजयाख्या महाविद्या विश्वसंत्राणतत्परा ॥ २६ ॥

[Die anschließende ausgeschriebene Vijayā-Bījafolge ist stellenweise unsicher.] इति विजया |

हृत्समायोगतस्तेषु बीजाख्या विश्वचिन्मयी |
द्वयोर्नियोजनात्तेषु जायते सावयोर्वपुः ॥ २७ ॥

केवलसकारयोगाद्बीजाख्या |
द्वयोर्हकारसकारयोर्योगाद्विश्वचिन्मयी |

हृदादिस्त्वन्मयी विद्या हंसादिर्मन्मयो मनुः |
तेषु दाहसमायोगाद्विश्वाख्या विश्वविग्रहा ॥ २८ ॥

अत्र मन्त्र इति विद्येति भेदद्वयम् |
दाहो रेफः |

प्रत्येकं शक्तिपुटिता विद्या विश्वविमोहिनी |
........................................ ॥

मायाबीजपुटिता प्रत्येकम् |

........................................ |
खं चराम्बुरसोपेतमायाभ्यां पुटिता तु सा ॥ २९ ॥

त्रिपुरामृतसंज्ञा सा सर्वाप्यायनविग्रहा |
[Anschließende Bījafolge nicht sicher lesbar.] इति |

........................................ |
मायाद्या मोहिनी प्रोक्ता तन्मध्या क्षोभिणी मता ॥ ३० ॥

तदन्ता क्लेदिनी ख्याता वातादिः स्यान्महोदया |
त्रयोदशेति कथिता त्रिपुरानिधयः स्मृताः ॥ ३१ ॥

आसां क्रमविपर्यासजाता विद्याष्टषष्टिः |
तासां विधानं ते प्रोक्तमशेषं लवसागरे ॥ ३२ ॥

संपत्करीति काप्यस्ति विद्या याचिन्त्यवैभवा |
तां वक्ष्ये शृणु देवेशि साधकाभीष्टसिद्धये ॥ ३३ ॥

प्राणो रसो मरुद्वह्नियोगादाद्यमीरितम् |
वातेन च चरस्वाभ्यां द्वितीयमपि पार्वति ॥ ३४ ॥

हंसहृदनमायाभिस्तृतीयं परमेश्वरि |
एवं त्रिवर्णा सा विद्या विधानं चाथ कथ्यते ॥ ३५ ॥

[Die ausgeschriebene dreigliedrige Sampatkarī-Bījafolge ist im Druck nicht durchgehend sicher lesbar.] |

तृतीयबीजेनाङ्गानि दीर्घस्वरयुजा क्रमात् |
कुर्यात् कराङ्गयोः प्राग्वदित्थं ध्यायेच्च तां पराम् ॥ ३६ ॥

दाडिमीकेसरप्रख्यदेहवासोविभूषणाम् |
चतुर्भुजां त्रिनयनां प्रसन्नस्मेरवक्त्रकाम् ॥ ३७ ॥

रत्नाभिषेकसंभिन्नामष्टपत्राब्जमध्यगे |
त्रिकोणे स्वस्तिकासीनां करुणानन्दमन्दिराम् ॥ ३८ ॥

प्रवालाक्षस्रजं रत्नचषकं रत्नपूरितम् |
पुस्तकं च वरं हस्तैर्दधानां सर्वमङ्गलाम् ॥ ३९ ॥

अकारादिसकारान्तषोडशत्रयकल्पिते |
कुलासने हल्वर्णमध्ये तद्विद्यान्विते ॥ ४० ॥

समावाह्यार्घ्यसंकल्पपूर्वं तामर्चयेत् क्रमात् |
मध्ये त्रिकोणकोणेषु रतिं प्रीतिं मनोभवाम् ॥ ४१ ॥

अग्रादिसव्यगास्तद्वदष्टपत्रेषु मातरः |
चतुरस्रे लोकपालान् प्राग्वच्छक्तीः समर्चयेत् ॥ ४२ ॥

विधानमष्टषष्ट्या इति सम्यक्समीरितम् |
बलिद्वयं च होमं च प्राग्वदन्यत् समुन्नयेत् ॥ ४३ ॥

चतुर्गुणचतुर्थांशस्वसमाननियोजितैः |
ब्राह्मीरसवचादुग्धैः शृतं सर्पिस्त्रिभिर्दिनैः ॥ ४४ ॥

सयन्त्रं मातृकाविद्याजप्तं त्वयुतमादरात् |
दिनशो विलिहेत् प्रातरब्दान्मूको भवेत् कविः ॥ ४५ ॥

शिवोऽम्बिका कुमारश्च विधिर्विष्णुस्तथा रमा |
कुबेरो रविचन्द्रारज्ञगुरुसितसौरयः ॥ ४६ ॥

वारेशास्तेषु वारेषु तांस्तद्दिनजविद्यया |
नामसप्ताक्षरीयुक्तया पूजयेत् तर्पयेद्धुनेत् ॥ ४७ ॥

वर्णौषधिसमुत्थेन भस्मना मन्त्रितेन तु |
मातृकान्याससहितं स्पृशेद्रक्षाकृतेन तु ॥ ४८ ॥

विशेषतो महीपानामार्तानां च विधिं चरेत् |
तेन ते सुखिनो भूयुः सान्वया यावदायुषम् ॥ ४९ ॥

क्रूरेषु व्याधिषु प्राप्तेष्वभ्यर्च्यैवं तु मण्डले |
नवकोष्ठे नव प्रोक्तान् राहुकेतुसमन्वितान् ॥ ५० ॥

मध्यैन्द्रयमपाशीन्दुवह्निरक्षोऽनिले शिवे |
कोष्ठे तांस्तर्जयेत् सद्यो मुक्तरोगः सुखी भवेत् ॥ ५१ ॥

ग्रहार्तिषु रिपुक्लेशे दुर्भिक्षे त्रिविधे तथा |
उत्पन्ने समरोद्योगे कुर्यादुक्तार्चनादिकम् ॥ ५२ ॥

संपूज्य तद्विदां सम्यग् दद्याद्वा स्वर्णमम्बरम् |
तेन सर्वापदुन्मुक्तः सुखी जीवति भूतले ॥ ५३ ॥

ब्रूहि मे मातृकान्यासं तद्यन्त्रं परमेश्वर |
कथयामि द्वयं तेऽद्य वक्ष्ये तत्पटलेऽखिलम् ॥ ५४ ॥

ह्रस्वदीर्घस्वरद्वन्द्वपुटितैः षण्टवर्जितैः |
कुर्यादङ्गानि षड्वर्गैः पञ्च पञ्चदशाक्षरैः ॥ ५५ ॥

स्वरेषु मध्यतः प्रोक्ताश्चत्वारः षण्टवर्जिताः |
कराङ्गयोर्विधायेत्थमादिक्षान्ताक्षराणि वै ॥ ५६ ॥

भाले वक्त्रावृतौ नेत्रश्रोत्रनासाकपोलतः |
ओष्ठदन्तशिरोजिह्वास्वेकशो विन्यसेत् स्वरान् ॥ ५७ ॥

करयोः पादयोर्मूलमध्यसन्धिष्वथाग्रतः |
विन्यसेच्चतुर्वर्गं पञ्चमं पार्श्वयोः ततः ॥ ५८ ॥

नाभौ हृदि च विन्यस्य व्यापकान् दशधातुषु |
त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्रान्तगामिषु ॥ ५९ ॥

प्राणशक्त्यात्मसु तथा न्यसेदेवं समाहितः |
हृदयस्पर्शिनां तेषां स्मरन् धातुषु विन्यसेत् ॥ ६० ॥

अथ बाहुद्वये स्कन्धयुगे च त्रिककक्षयोः |
हृदयाधस्तथा पादजठरे वदने न्यसेत् ॥ ६१ ॥

वृत्तद्वयावृतं चाष्टपत्रमब्जं महीपुरम् |
विधाय विलिखेन्मध्ये हंसहृदनशक्तिकम् ॥ ६२ ॥

कूटं स्वरान् केसरेषु वर्गान्पत्रेषु चालिखेत् |
पञ्चपञ्चाक्षरोपेतान् दाहाम्बु दिग्विदिक्षु च ॥ ६३ ॥

स्वरेष्वपुनरुक्तानि पञ्चान्यानि तु पञ्च वै |
सव्यञ्जनाव्यञ्जनत्वभेदतोऽभूद् द्विरन्वयः ॥ ६४ ॥

सवाताग्निधरास्वेन शक्तिस्तत्पञ्चकं भवेत् |
अन्यान्येकादश शिवे सन्धिमात्रादिसंभवाः ॥ ६५ ॥

एतद्यन्त्रस्य मध्यस्थं नाम कृत्वा प्रयोजयेत् |
प्रातर्मूर्ध्नि स्मरेदिन्दुबिम्बस्थं सर्वसंपदे ॥ ६६ ॥

अभिषेकाद् धारणाच्च पूजनाल्लोहकल्पिते |
स्थापनाद् गृहदेशादौ यन्त्रं सर्वार्थसिद्धिदम् ॥ ६७ ॥

एतद्यन्त्रस्य मध्यस्था देवताः सकला अपि |
सांनिधिं फलदानं च साधकानां वितन्वते ॥ ६८ ॥

विद्यां तां तु नरो मूर्खो जडो मूकोऽतिपातकी |
नित्यशो जपपूजाद्यैः काले मत्समतां व्रजेत् ॥ ६९ ॥

जिह्वायामक्षराण्येतान्यसकृद्धावयन् धिया |
प्रविष्टो विद्वद्गोष्ठीषु पूज्यते वाग्मिभिर्जनैः ॥ ७० ॥

मूर्ध्नीन्दुबिम्बमध्यस्थं सुधावर्षविधायिनम् |
विभावयतीति मनुं जपेदेकाग्रमानसः ॥ ७१ ॥

मण्डलात् कवितासिद्धिः सर्वभाषामयी भवेत् |
वादादिषु तु सर्वत्र देवतात्मा जयी भवेत् ॥ ७२ ॥

यन्त्राणि नित्याविद्यायाः समान्येकात्मयोगतः |
तेनात्मनोक्तानि शिवे सर्वसिद्धिकराणि वै ॥ ७३ ॥

षोडशस्वपि विद्यासु यन्त्रादन्यत् समीरितम् |
प्रयोगजातमन्योन्यं विदध्यादैक्ययोगतः ॥ ७४ ॥

वृत्तयुग्मं षडस्रं च कृत्वा मध्याद्यमध्यतः |
नामालिख्य बहिः षट्सु तत्त्रयं स्वेन मायया ॥ ७५ ॥

विलिख्य मातृकां वृत्तं कृत्वा तद्धारणान्मुखे |
जिह्वायां भावनात् सर्वगोष्ठीष्वग्रं विगाहते ॥ ७६ ॥

इति कुलसुन्दरीनित्याप्रयोगविधिः ॥

अथ नित्यानित्याप्रयोगविधिः |
श्रीतन्त्रराजे—(१६ प० |
२१ श्लो०)

विदध्यात् साधनं प्राग्वद्दशलक्षं पयोव्रतः |
त्रिस्वादुसिक्तैरक्तैरम्बुजैर्हवनं तथा ॥ १ ॥

जपतर्पणहोमार्चासेकसिद्धमनुर्नरः |
कुर्यादुक्तान् प्रयोगांश्च नचेत् तद्धातुदेवताः ॥ २ ॥

प्राणांस्तस्य ग्रसन्त्येव कुपितास्तत्क्षणं शिवे |
अनया विद्यया लोके यन्न साध्यं न तत्क्वचित् ॥ ३ ॥

विद्याक्षराणि सप्त स्युस्तैः प्राग्वत् स्वरसंयुतैः |
शतं द्वादशसंयुक्तं तैर्यन्त्राणि वदामि ते ॥ ४ ॥

वृत्तद्वयान्तः षट्कोणं तदन्तर्वृत्तयुग्मकम् |
विधाय मध्ये मायास्थमेकमक्षरमाख्यया ॥ ५ ॥

बहिः षडालिखेत् षट्सु वृत्तयोर्भूतमातृकाम् |
कृत्वान्तर्बहिरेवं स्युः क्रमाद्यन्त्राणि षोडश ॥ ६ ॥

इति ॥ अस्यार्थः—अस्या अनावृत्ताक्षराणि सप्त “हसकलरडय” [letzte Glieder der Druckfolge unsicher] इति |
ते षोडशस्वरयुक्ता द्वादशोत्तरशतं वर्णा ११२ भवन्ति ॥ प्रथमतो वृत्तद्वयं कृत्वा तद्बहिः षट्कोणं तद्बहिर्वृत्तद्वयं विधाय मध्ये साध्यनामगर्भमायाबीजे एकमक्षरं विलिख्य, तद्बहिर्वृत्तद्वयान्तराले कर्मानुसारीणि तत्तद्भूताक्षराणि प्राग्वद् विलिख्य, तद्बहिः षट्सु कोणेषु षडक्षराणि विलिख्य तद्बहिर्वृत्तद्वयान्तराले मातृकाक्षरैर्वेष्टयेत् |
एवं षोडश यन्त्राणि भवन्ति ॥ फलान्याह—

प्रथमेन धृतेन स्वादादरव्याधिसंहतिः |
द्वितीयेन शिरोरोगा नश्यन्ति परमेश्वरि ॥ ७ ॥

तृतीयेनाक्षिरुक्शान्तिः श्रोत्रजानां परेण तु |
पञ्चमेन भुजारोगाः प्रयान्त्यूर्ध्वेन पादजाः ॥ ८ ॥

सप्तमेनान्तराधिष्ठा धृतेन निधनाश्रयाः |
धृतेनाष्टमयन्त्रेण ज्ञानेन्द्रियगता गदाः ॥ ९ ॥

परेण कर्मेन्द्रियगा दशमेनानिलोद्भवाः |
एकादशेन पित्तोत्था द्वादशेन कफोद्भवाः ॥ १० ॥

त्रयोदशेन दोषाणां सन्निपातसमुद्भवाः |
प्रयान्ति विलयं सद्यो यन्त्राणां शक्तिवैभवात् ॥ ११ ॥

चतुर्दशेन यन्त्रेण भूतप्रेतपिशाचकाः |
प्रयान्ति भीताः क्षणतः सर्वेऽन्येऽपि ग्रहाः शिवे ॥ १२ ॥

तत्परेण महारोगा धृतेनाष्टौ न बाधकाः |
षोडशेन धृतेन स्यादायुरारोग्यमीश्वरि ॥ १३ ॥

यन्त्राणि षोडशैतानि धारयेच्चाधिशान्तये |
सर्वेषां प्राणिनां सम्यगनुक्तेष्वपि गदेष्वपि ॥ १४ ॥

सर्वत्र यन्त्रधरणं साभिषेकं सदक्षिणम् |
सवन्दनं सविश्वासं फलत्येवान्यथान्यथा ॥ १५ ॥

कूटैर्हीना तु सा विद्या पञ्चकूटाभिधा शिवे |
वाक्सिद्धिमन्यत् सकलं कुरुते न भिदानयोः ॥ १६ ॥

तद्विद्याकूटभेदाः स्युर्विंशत्या शतसप्तकम् |
तैर्वज्रयन्त्रनिर्माणं फलानि च शृणु प्रिये ॥ १७ ॥

प्राक्प्रत्यग्दक्षिणोदक् च सूत्राण्यष्टादश क्षिपेत् |
तैस्तु कोष्ठानि जायन्ते नवाशीतिशतद्वयम् ॥ १८ ॥

प्राग्वत् तत्कोणकोष्ठानि षट्त्रिंशन्मार्जयेत् क्रमात् |
मध्ये वज्रं यथा भूयात् तथा कुर्यात् समन्ततः ॥ १९ ॥

सपञ्चचत्वारिंशच्च शतकोष्ठैस्तु वज्रकम् |
त्र्यस्राणि चत्वार्यग्राणि चतुष्कोष्ठैस्तु पूर्ववत् ॥ २० ॥

विधाय तस्य मध्याधः कोष्ठमारभ्य संलिखेत् |
प्रादक्षिण्यप्रवेशेन कूटांस्तत्तदाद्यखण्डजान् ॥ २१ ॥

मध्येऽवशिष्टनवके वामदक्षत्रयद्वये |
प्रतिलोमानुलोमात्मविद्याद्वयमथालिखेत् ॥ २२ ॥

शिष्टेषु त्रिषु कोष्ठेषु साधकाख्यां तदूर्ध्वगे |
कर्म मध्येऽधरे साध्यमालिखेदपि सर्वतः ॥ २३ ॥

चतुर्दिक्कोणमध्यस्थं द्विरेखाभिर्नवीकृतम् |
मध्यवद्विलिखेत् तेषु वज्रयन्त्रमितीरितम् ॥ २४ ॥

एवमन्यैः पञ्चभिश्च खण्डैः पञ्च प्रकल्पयेत् |
इति षड्वज्रयन्त्राणि प्रोक्तानि क्रमशः शिवे ॥ २५ ॥

अथैतद्यन्त्ररचनाप्रकारः—तत्र प्राक्प्रत्यगायता दक्षिणोत्तरायताश्चाष्टादशाष्टादश रेखा विलिख्य समान्तरालानि नवाशीत्युत्तरशतद्वय (२८९) कोष्ठानि कृत्वा, चतुर्दिक्षु षट्त्रिंशत् षट्त्रिंशत्कोष्ठानि गुरूक्तयुक्त्या मार्जयित्वा पञ्चचत्वारिंशदुत्तरशत (१४५) कोष्ठात्मकं वज्राकारं निष्पाद्य, चतुर्दिक्षु कोष्ठचतुष्टयं कोष्ठचतुष्टयं मार्जयित्वा त्रिकोणानि विधायावशिष्टेष्वेकोनत्रिंशदुत्तरशत (१२९) कोष्ठेषु मध्याधः कोष्ठमारभ्याद्यकूटखण्डान् विंशत्युत्तरशत (१२०) भेदान् विलिख्य, मध्येऽवशिष्टनवकोष्ठेषु वामपार्श्वस्थत्रिषु कोष्ठेषु प्रतिलोमविद्यां त्रिधा विलिख्य दक्षिणपार्श्वस्थकोष्ठत्रये तथेवानुलोमविद्यां विलिख्य मध्यस्थकोष्ठत्रये ऊर्ध्वकोष्ठे साधकनाम तदधः कोष्ठे कर्म तदधः कोष्ठे साध्यनाम विलिख्य, चतुर्दिक्षु चतुस्त्रिकोणेषु द्विद्विरेखायोगेन नव नव त्रिकोणानि विलिख्य तेषु तेषु मध्यनवकोष्ठवद्विलिखेत् |
एवं षट्कूटखण्डजैः षड्वज्रयन्त्राणि भवन्तीत्यर्थः ॥ तथा—

लोहत्रयकृते पट्टे शिलायां वा चतुर्षु वा |
पट्टे वा फलकायां वा षट्कं षट्सु प्रकल्पयेत् ॥ २६ ॥

चतुर्षु वेति लोहत्रयं शिला च |

फलकापट्टयोः पूजां कुर्यान्नित्यश एव तु |
इतराणि तु संस्थाप्य यजेत् तत्रैव तां शिवाम् ॥ २७ ॥

तत्स्थापनप्रदेशे तु विदध्यान्मण्डपं शुभम् |
नवहस्तायामततं पताकातोरणान्वितम् ॥ २८ ॥

फलपुष्पवितानाद्यैः रूपेतं परिकल्पयेत् |
उत्सेधायामविस्तारहस्तां वेदीं च मध्यतः ॥ २९ ॥

एकं चेत् षट्कमथ चेत् कुर्यादित्यादिकं तथा |
ईशमग्निरक्षोम्बुवाय्वादीनां यथाक्रमम् ॥ ३० ॥

प्रथमं राक्षसे त्वन्यान्यभ्येषट्कक्रमेण वै |
निवेश्य गन्धपुष्पाद्यैर्नृत्यगीतादिभिस्तथा ॥ ३१ ॥

समाराध्यैवमेवं तु त्रिदिनं प्रोक्तशक्तिभिः |
हुत्वा जपित्वा जीवार्के भानृक्षे वा स्थिरोदये ॥ ३२ ॥

स्ववामङ्गे भूम्युदये संस्थाप्य परमेश्वरि |
देव्यात्मा तच्छिलाभिस्तु दृढमाबध्य तत्र वै ॥ ३३ ॥

देवीं षडभिःतां ताभिर्डाकिन्यादिभिरम्बिके |
मूर्तिसप्तकमुत्पाद्य प्रतिष्ठाप्य समर्चयेत् ॥ ३४ ॥

नित्यशस्तत्पुरो विद्याभजनं वापि कारयेत् |
यत्र तत्र गदालक्ष्मीरिपुग्रहपिशाचकाः ॥ ३५ ॥

दुर्भिक्षक्षुद्रकर्मोत्थपीडाः कृत्याः परेरिताः |
न कदाचित् संभवन्ति विद्यायन्त्रानुभावतः ॥ ३६ ॥

मङ्गलान्येव जायन्ते सर्वेषां सर्वतः सदा |
धार्मिकाश्चैव राजानः पूर्णसप्ताङ्गसंयुताः ॥ ३७ ॥

फलकापट्टयोः क्लृप्तपूजातो निजमन्दिरे |
वाञ्छितं समवाप्नोति मण्डलान्मासतोऽपि वा ॥ ३८ ॥

आसां देहस्थितिं वक्ष्ये शृणु सर्वार्थदायिनीम् |
सुषुम्नामध्यसंस्थेषु षडाधाराम्बुजेषु ताः ॥ ३९ ॥

तिष्ठन्ति प्राणिनां देव्यः सिध्यन्ति ज्ञानपूजिताः |
बहिश्च मण्डले पूजां निग्रहानुग्रहात्मिकाम् ॥ ४० ॥

विशुद्धाख्ये कण्ठदेशे षोडशस्वरपत्रके |
धूम्रवर्णाम्बुजे देवीं डाकिनीं तत्समाकृतिम् ॥ ४१ ॥

शक्तिभिः स्वररूपाभिरावृतां तत्र पूजयेत् |
तथा सर्वज्ञतासिद्धिर्भवत्येव न संशयः ॥ ४२ ॥

अनाहताख्ये हृद्देशे सिन्दूरारुणपङ्कजे |
राकिणीं द्वादशदले कादिठान्ताक्षरात्मभिः ॥ ४३ ॥

शक्तिभिः पूजयेन्नित्यं कीर्त्यायुःश्रीधनाकृतये |
मणिपूरकसंज्ञे च नाभिस्थे दशपत्रके ॥ ४४ ॥

इन्द्रनीलनिभे डादिदशवर्णात्मशक्तिके |
लाकिनीं पूजयेद्देवीं विजयश्रीसमृद्धये ॥ ४५ ॥

ध्वजमूले समस्तापत्तारणायेष्टसिद्धये |
वादिषड्वर्णशक्तीभिरावृतां काकिनीं यजेत् ॥ ४६ ॥

स्वाधिष्ठानाह्वये पद्मे बालार्कत्विषि षड्दले |
आधाराख्ये चतुष्पत्रे सुवर्णाभे सरोरुहे ॥ ४७ ॥

वादिसान्तार्णशक्तीभिरावृतां शाकिनीं यजेत् |
पायुध्वजान्तरा त्र्यस्रमध्ये तेजःसमन्विताम् ॥ ४८ ॥

आज्ञाख्येऽब्जे भ्रुवोर्मध्ये द्विदले शुद्धविग्रहैः |
सेवितां हक्षशक्तिभ्यां हाकिनीं पूजयेत्तथा ॥ ४९ ॥

त्रिकालज्ञानतः सर्वचित्ताकर्षणकारिणीम् |
विश्वसृष्टिस्थितिध्वंसशक्तिदामप्ययत्नतः ॥ ५० ॥

उक्तक्रमविपर्यासो निग्रहोऽन्तर्बहिस्तथा |
पूजनं सर्वदुःखार्तिशमनं संपदास्पदम् ॥ ५१ ॥

भूमौ विधाय षट्कोणसप्तकं प्रोक्तदिक्क्रमात् |
मध्ये च तत्र तां नित्यानित्यां गन्धादिभिर्यजेत् ॥ ५२ ॥

अभितस्तु षडस्रेषु तत्षट्कं तत्क्रमाद्यजेत् |
बाह्येष्वपि च ताः प्राग्वत् प्रोक्तवर्णाः समर्चयेत् ॥ ५३ ॥

तासां षण्णामपि तथा षट्सु कोणेषु शक्तयः |
षट्त्रिंशत् ताः समा देव्याः सर्वा रूपायुधादिभिः ॥ ५४ ॥

प्राग्वत् स्वराः पञ्च स्युरपूर्वाः कादिमान्तिकाः |
परेषु यवलक्षार्णैः सहितैस्तास्तथार्चयेत् ॥ ५५ ॥

तेषामपि च चक्राणां शक्तीनां च विलोमतः |
पूजा निग्रहसंज्ञा स्यात्सा शत्रूणां विपत्तये ॥ ५६ ॥

षट्चक्रेषु च षट्कुम्भान्निधायारिमहीरुहाम् |
क्वाथतोयाभिसंपूर्णान् कृष्णाम्बरसमन्वितान् ॥ ५७ ॥

अर्धरात्रे यजेत्तास्तु तद्योनिबलिदानतः |
क्षिप्रं वागादिभिस्ते स्युः पूर्णाः शत्रोः कलेवरैः ॥ ५८ ॥

निवेद्यं योनिरक्तेन संपन्नं चरुणा रिपोः |
होमं च कुर्यात्तेनैव फणिशीर्षविषा रुषा ॥ ५९ ॥

ध्यायेद् देवीश्च कुपिता दुष्टोऽष्टौ बाहुभिर्निजैः |
प्रहरन्तीः पिशाचेभ्यो विकिरन्तीश्च तत्तनुम् ॥ ६० ॥

जपागुलुच्छविकसत्कण्ठा भीमार्तिनिःस्वनाः |
ध्यात्वैवं निग्रहं कुर्याद्रिपूणां मारणाय वै ॥ ६१ ॥

चक्रं च निग्रहे प्रोक्तं वज्ररूपं भयङ्करम् |
कांस्ये सीसेऽपि वा कृत्वा स्थापयेद्वैरिभूमिषु ॥ ६२ ॥

प्राक्प्रत्यग्दक्षिणोदक् च दशसूत्रनिपातनात् |
एकाशीतिपदानि स्युस्तेषु कोणचतुष्टये ॥ ६३ ॥

प्रत्येकं दशकोष्ठानि मार्जयेच्छिष्टवज्रके |
चतुर्दिक्षु त्रिकोणानि चतुष्कोष्ठैः प्रकल्पयेत् ॥ ६४ ॥

तेषु मध्यस्थकोष्ठे च साध्यं कर्म समालिखेत् |
शिष्टेषु मध्याधःकोष्ठमारभ्य प्रतिलोमजान् ॥ ६५ ॥

विद्याकूटांस्तु षट्त्रिंशदालिखेदप्रदक्षिणम् |
साध्ययोन्यसृजा पिष्टं तद्वृक्षत्वग्विलेपितम् ॥ ६६ ॥

स्थापयेत् प्रोक्तसमये रिपुक्षेत्रगृहादिके |
श्मशाने चण्डिकागेहे कुलोत्सादकरं भवेत् ॥ ६७ ॥

इति निग्रहमाख्यातं समस्तरिपुमर्दनम् |
अनुग्रहं शृणु प्राज्ञे पूजाचक्रविधानतः ॥ ६८ ॥

देवीस्ताः प्रोक्तरूपास्तु ध्यात्वा चक्रेषु पूजयेत् |
नैवेद्यमासां संप्रीत्यै यदासां प्रीतिदायकम् ॥ ६९ ॥

पायसान्नं गुडान्नं च मुद्गमिश्रान्नकं तथा |
हरिद्रान्नं तिलान्नं च शुद्धान्नं षट्कमेव च ॥ ७० ॥

चक्रेषु सप्तसु तथा तद्वर्णाधारविग्रहाः |
युवतीसप्तकं स्थाप्य प्राग्वदभ्यर्च्य ताः क्रमात् ॥ ७१ ॥

भूषणाम्बरगन्धस्रग्भोजनाद्यैस्तु तोषयेत् |
तुष्टासु तासु तुष्टाः स्युः शक्तयस्ताः समास्तदा ॥ ७२ ॥

प्रागुक्तवज्रे साध्याख्यां तथालिख्यानुलोमजान् |
कूटानुक्तसमारम्भान् प्रादक्षिण्येन संलिखेत् ॥ ७३ ॥

प्रोक्तेषु प्रोक्तरूपेण स्थापयेत् प्रोक्तभूमिषु |
प्रोक्तान्येव फलानि स्युर्योगोऽयं लघुविग्रहः ॥ ७४ ॥

आदिक्षान्ताक्षरैः प्राग्वद्रूपिणीशक्तिसंयुतैः |
बीजद्वयाद्यैः सप्तार्णान्तैः पञ्चदशाक्षरैः ॥ ७५ ॥

पञ्चाशच्छक्तयः पूज्याः पञ्चाशत्तत्रपालकैः |
सप्ताक्षर्या च संयुक्ता मन्त्राः पञ्चदशाक्षराः ॥ ७६ ॥

चतुःषष्टिपदे मध्यचतुष्के दिनविद्यया |
दिनेषु घटिकायोगात् पञ्चाशन्मिथुनान्यपि ॥ ७७ ॥

तेषां बीजद्वयं वर्णैरूपशक्त्यंशसंयुताः |
मनीषितं समालिख्य तेषु तन्मिथुनानि वै ॥ ७८ ॥

घटिकाक्रमयोगेन हृन्मायामध्यगेऽर्चयेत् |
एवं मण्डलमासार्धात् प्राप्नोत्येवाभिवाञ्छितम् ॥ ७९ ॥

नित्यशस्तां समावाह्य तस्मिंश्चक्रे समर्चनात् |
समस्तवाञ्छितप्राप्तिः सदा भवति सर्वतः ॥ ८० ॥

इति नित्यानित्याप्रयोगविधिः ॥

अथ नीलपताकानित्याप्रयोगविधिः |
श्रीतन्त्रराजे— (१७ |
८)

सर्वत्र नित्यहोमं तु कुर्यादन्नाज्यतोऽपि वा |
तिलतण्डुलकैर्वापि प्रोक्तं द्रव्यानुदीरणे ॥ १ ॥

विद्याक्षराणां सर्वेषां स्वरव्यञ्जनबिन्दुकान् |
पृथक् कृत्वाथ गणिते त्रिपञ्चाशद्भवन्ति हि ॥ २ ॥

तेन तल्लक्षसंख्यं तु जपेद्विद्यां प्रयत्नतः |
तद्दशांशं हुनेदग्नौ सर्वत्रात्रलक्षणके ॥ ३ ॥

प्राङ्मुखो नित्यपूजासु साधनेषु च साधकः |
नित्यानामपि सर्वासां वासनायामुदीरितम् ॥ ४ ॥

ततः सिद्धमनुर्मन्त्री कुर्यात् सिद्धिषु कौतुकम् |
तद्विधानं शृणु प्राज्ञे वक्ष्ये विद्याविभेदतः ॥ ५ ॥

दशानामपि सिद्धीनां विद्यास्तासां भिदागताम् |
संख्यां च ताश्च संप्रोक्ताः क्रमेणासां फलानि च ॥ ६ ॥

विद्यादिकूटे वाधे तु योजयेद् दशसु क्रमात् |
ताभ्यामेव विलोमाभ्यां पुटयेदुपरीरितान् ॥ ७ ॥

मन्त्रवर्णान् दशानां च तत्तत्संख्याश्च ताः शृणु |
परस्तात्तत्प्रभेदानां मन्त्रान् वक्ष्ये यथाविधि ॥ ८ ॥

चतुर्विधः स्याद्विजयो द्वन्द्वे सचतुरङ्गके |
कूटयुद्धे दुर्गजे च तेषां मन्त्राश्चतुर्विधाः ॥ ९ ॥

कामरूपत्वमुदितं स्वेच्छयाभीष्टविग्रहम् |
विधातुमात्मनः शक्तिः स एको मन्त्र ईरितः ॥ १० ॥

पादुकायुगलं विद्यावैभवाप्तं तु पादयोः |
कृत्वा स्मरेद्वाञ्छितं तु देशं तत्र तदा स्थितिः ॥ ११ ॥

तन्मन्त्रः स्यादेकविधस्तथैवाञ्जनमीरितम् |
येनाक्ताङ्गो निधिं पश्येद् देवाद्यांश्चान्तरिक्षगान् ॥ १२ ॥

खड्गश्च तादृशः प्रोक्तः करस्थेनाहताः क्षणात् |
पलायिता वा पदयोः प्रणमेयुर्वशंगताः ॥ १३ ॥

वेतालाः स्युरसंख्याताः सिद्ध्यन्ते चैकविद्यया |
निधाय साधकं स्कन्धे चरेयुर्वाञ्छयास्य ते ॥ १४ ॥

विकृताङ्गमुखाः केचित् केचित्तिर्यङ्मुखाङ्गकाः |
केचिद्भीषणनादाङ्गा वेताला बहुविग्रहाः ॥ १५ ॥

सर्वेऽपि वशगा वाक्यादस्य शत्रून् ग्रसन्ति च |
किङ्कराः प्रोक्तकरणाद्भवेयुर्यावदायुषम् ॥ १६ ॥

पिशाचास्तादृशाः प्रोक्ताः कार्श्यवैरूप्यविग्रहाः |
क्रुद्धाः क्षुद्राशयाः प्रोक्तकारिणः स्युरसंख्यकाः ॥ १७ ॥

तेषामेका भवेद्विद्या तथा ते किङ्कराः सदा |
तैरेव प्रहरेच्छत्रुमज्ञातमनिशं रणे ॥ १८ ॥

षट्त्रिंशदंशसंयुक्ता यक्षिण्यो वाञ्छितप्रदाः |
सुरूपा द्विभुजाश्चित्रवसनाभरणान्विताः ॥ १९ ॥

ससहाया यौवनाढ्याः स्रगालेपनसौरभैः |
समेत्य सर्वाभीष्टानि दद्युस्ताः साधकाय वै ॥ २० ॥

तासां विद्यास्तु षट्त्रिंशद्वक्ष्ये ताश्च शृणु प्रिये |
याभिः सिद्धाभिरनिशं साधकाः सर्वसंमताः ॥ २१ ॥

चेटकाश्च चतुःषष्टिस्तेषां मन्त्राश्च तत्समाः |
तेऽपि नानाविधाकाराः सिद्धास्ते दद्युरीप्सितम् ॥ २२ ॥

मायासंख्याश्चित्ररूपाश्चित्राण्यस्येच्छयानिशम् |
वस्तून्युपहरेयुस्ता विद्यैका तत्प्रसाधने ॥ २३ ॥

विद्याया नवमादिवर्णैः षड्भिरुदीरितैः |
दश विद्याः प्रजायन्ते शृणु वक्ष्ये च ताः क्रमात् ॥ २४ ॥

नित्येति विजयं देहीत्युक्त्वा संपुटयेत् ततः |
विद्या सा विजयप्राप्त्यां चतुर्धैकादशाक्षराः ॥ २५ ॥

Redaktioneller Hinweis: Die ausführlichen Listen setzen sich auf der nächsten Druckseite fort; abweichende Lautzahlen werden nicht stillschweigend angeglichen.

अत्र “नित्यविजयं देहि मदद्रवे” इत्येकादशाक्षरो मूलभूतश्चतुर्धा |
तथा— “नित्यद्वन्द्वयुद्धे विजयं देहि मदद्रवे” (१) |
“नित्यचतुरङ्गयुद्धे विजयं देहि मदद्रवे” (२) |
“नित्यकूटयुद्धे विजयं देहि मदद्रवे” (३) |
“नित्यदुर्गयुद्धे विजयं देहि मदद्रवे” (४) इति |
तथा—

मदेति कामरूपं मे देहीति पुटयेत्तथा |
त्रयोदशाक्षरी विद्या कामरूपप्रदेरिता ॥ २६ ॥

“मदकामरूपं मे देहि द्रवे नित्य” |
इति

नित्यद्रवे पादुकां देहीत्युक्त्वा कुर्याच्च संपुटम् |
द्वादशार्णा भवेद्विद्या सिद्धा दद्याच्च पादुके ॥ २७ ॥

“नित्यद्रवे पादुकां देहि मदद्रवे” |
इति |

तथा नित्यमदेत्युक्त्वा देह्यञ्जनमितीरयेत् |
पुटयेत् तद् द्रवेणार्थं द्वादशार्णा समीरिता ॥ २८ ॥

“द्रवे नित्यमद देह्यञ्जनं द्रवे” |
इति

द्रवनित्ये देहि खड्गमित्युक्त्वा पुटयेत् तथा |
द्वादशार्णा भवेत् सिद्धा खड्गं दद्यात् सुशोभनम् ॥ २९ ॥

“द्रवनित्ये देहि खड्गं द्रवनित्ये” इति |

नित्यद्रवेति वेतालान् देहीति पुटयेत् तथा |
त्रयोदशाक्षरी विद्या सिद्धा तान् दर्शयेत्तथा ॥ ३० ॥

“नित्यद्रवे वेतालान्देहि नित्यद्रवे” इति |

पिशाचान्मे प्रयच्छेति पूर्वं नित्यमदद्रवे |
पुटयेत् पूर्ववद् द्वाभ्यां विद्या सप्तदशाक्षरी ॥ ३१ ॥

“नित्यमदद्रवे पिशाचान्मे प्रयच्छ नित्यद्रवे” इति |

षट्त्रिंशदुक्ता यक्षिण्यः सर्वा वाञ्छितसिद्धिदाः |
तासां नामानि विद्याश्च शृणु वक्ष्ये यथाविधि ॥ ३२ ॥

विचित्रा विभ्रमा हंसी भीषणी जनरञ्जिका |
विशाला मदना तुष्टा कालकण्ठी महाभया ॥ ३३ ॥

माहेन्द्री शंखिनी चान्द्री मङ्गला वटवासिनी |
मेखला सकला लक्ष्मीर्मालिनी विश्वनायिका ॥ ३४ ॥

सुलोचना सुशोभा च कामदा सविलासिनी |
कामेश्वरी नन्दिनी च स्वर्णरेखा मनोहरा ॥ ३५ ॥

प्रमोदा रागिणी सिद्धा पद्मिनी सुरतिप्रिया |
कल्याणदा कलादक्षा ततश्च सुरसुन्दरी ॥ ३६ ॥

इति षट्त्रिंशदाख्याता यक्षिण्योऽभीष्टदायिकाः |
तासां विद्याः क्रमेण स्युस्तद्बीजद्वयसंपुटैः ॥ ३७ ॥

नित्यद्रवमदेत्येतैः षड्वर्णैः [Lesung vor नामभिः unsicher] नामभिः |
विद्याः षट्त्रिंशदाख्यातास्ताः सिद्धाः दद्युरीप्सितम् ॥ ३८ ॥

तासां विद्यार्णसंख्यास्तु शृणु वक्ष्ये यथाक्रमम् |
पञ्चमी पञ्चदशमी विंशतिश्च तथान्तिमा ॥ ३९ ॥

चतस्रः पञ्चदशकास्तृतीया साष्टमी तथा |
त्रयोदशी साष्टदशा द्वाविंशा द्वादशाक्षरा ॥ ४० ॥

सैकत्रिंशच्च तद्वत् स्युश्चतुर्दशसमन्विताः |
नवमी दशमी चैकादशी तद्वदनन्तरम् ॥ ४१ ॥

चतुर्विंशा पञ्चविंशा सप्तविंशा तदूर्ध्वगा |
त्रयस्त्रिंशादिकास्तिस्रस्त्रयोदशयुताः पराः ॥ ४२ ॥

चेटकानां चतुःषष्टिं तन्मन्त्रांश्च वदामि ते |
शृणु सिद्धास्तु ते नित्यं साधयेयुः समीहितम् ॥ ४३ ॥

विभ्रमो वाहको वीरो विकर्षः कोरकः कविः |
सिंहनादो महानादः सुग्रीवो मर्कटः शठः ॥ ४४ ॥

बिडालाक्षो बिडालास्यः कुमारः खेचरो भवः |
मयूरो मङ्गलो भीमो द्वीपिवक्त्रः खराननः ॥ ४५ ॥

मातङ्गश्च निशाचारी विषग्राही वृकोदरः |
सैरिभास्यो गजमुखः पशुवक्त्रो मृगाननः ॥ ४६ ॥

क्षोभको मणिभद्रश्च क्रीडकः सिंहवक्त्रकः |
श्येनास्यः कङ्कवदनः काकास्यो हयवक्त्रकः ॥ ४७ ॥

महोदरः स्थूलशिरा विकृतास्यो वराननः |
चपलः कुक्कुटास्यश्च मायावी मदनालसः ॥ ४८ ॥

मनोहरो दीर्घजङ्घः स्थूलदन्तो दशाननः |
सुमुखः पिण्डितः क्रुद्धो वराहास्यः सटामुखः ॥ ४९ ॥

कपटः कौतुकी कालः किङ्करः कितवः खलः |
भक्षको भयदः सिद्धः सवेगश्चेति कीर्तिताः ॥ ५० ॥

बीजद्वयपुटान्तस्थैर्मदनित्यद्रवे-युतैः |
नामभिस्तैर्द्वितीयान्तैर्देहीति पदसंयुतैः ॥ ५१ ॥

एवं मन्त्राश्चतुःषष्टिः क्रमादुक्ता महेश्वरि |
तेषां संख्यामपि तथा शृणु वक्ष्ये यथाविधि ॥ ५२ ॥

चतुर्दशाक्षरास्तेषु नव मन्त्राः समीरिताः |
तथा पञ्चदशार्णास्तु षड्विंशतिरितीरिताः ॥ ५३ ॥

षोडशार्णास्तु मनवः पञ्चविंशतिरीरिताः |
तथा सप्तदशार्णाश्च चत्वारो व्याकुलाः क्रमात् ॥ ५४ ॥

इति |

(1) “ह्रींश्रीं नित्यद्रवे मदविचित्रे श्रींह्रीं” 13 ॥

(2) “ह्रींश्रीं नित्यद्रवे मदविभ्रमे श्रींह्रीं” 13 ॥

(3) “ह्रींश्रीं नित्यद्रवे मदहंसि श्रींह्रीं” 12 ॥

(4) “ह्रींश्रीं नित्यद्रवे मदभीषणि श्रींह्रीं” 13 ॥

(5) “ह्रींश्रीं नित्यद्रवे मदजनरञ्जिके श्रींह्रीं” 15 ॥

(6) “ह्रींश्रीं नित्यद्रवे मदविशाले श्रींह्रीं” 13 ॥

(7) “ह्रींश्रीं नित्यद्रवे मदमदने श्रींह्रीं” 13 ॥

(8) “ह्रींश्रीं नित्यद्रवे मदतुष्टे श्रींह्रीं” 12 ॥

(9) “ह्रींश्रीं नित्यद्रवे मदकालकण्ठि श्रींह्रीं” 14 ॥

(10) “ह्रींश्रीं नित्यद्रवे मदमहाभये श्रींह्रीं” 14 ॥

(11) “ह्रींश्रीं नित्यद्रवे मदमाहेन्द्रि श्रींह्रीं” 13 ॥

(12) “ह्रींश्रीं नित्यद्रवे मदशंखिनि श्रींह्रीं” 13 ॥

(13) “ह्रींश्रीं नित्यद्रवे मदचान्द्रि श्रींह्रीं” 12 ॥

(14) “ह्रींश्रीं नित्यद्रवे मदमङ्गले श्रींह्रीं” 13 ॥

(15) “ह्रींश्रीं नित्यद्रवे मदवटवासिनि श्रींह्रीं” 15 ॥

(16) “ह्रींश्रीं नित्यद्रवे मदमेखले श्रींह्रीं” 13 ॥

(17) “ह्रींश्रीं नित्यद्रवे मदसकले श्रींह्रीं” 13 ॥

(18) “ह्रींश्रीं नित्यद्रवे मदलक्ष्मि श्रींह्रीं” 12 ॥

(19) “ह्रींश्रीं नित्यद्रवे मदमालिनि श्रींह्रीं” 13 ॥

(20) “ह्रींश्रीं नित्यद्रवे मदविश्वनायिके श्रींह्रीं” 15 ॥

(21) “ह्रींश्रीं नित्यद्रवे मदसुलोचने श्रींह्रीं” 15 ॥

(22) “ह्रींश्रीं नित्यद्रवे मद(सु)शोभे श्रींह्रीं” 13 ॥

(23) “ह्रींश्रीं नित्यद्रवे मदकामदे श्रींह्रीं” 13 ॥

(24) “ह्रींश्रीं नित्यद्रवे मद(स)विलासिनि श्रींह्रीं” 15 ॥

(25) “ह्रींश्रीं नित्यद्रवे मदकामेश्वरि श्रींह्रीं” 14 ॥

(26) “ह्रींश्रीं नित्यद्रवे मदनन्दिनि श्रींह्रीं” 13 ॥

(27) “ह्रींश्रीं नित्यद्रवे मदस्वर्णरेखे श्रींह्रीं” 14 ॥

(28) “ह्रींश्रीं नित्यद्रवे मदमनोहरे श्रींह्रीं” 14 ॥

(29) “ह्रींश्रीं नित्यद्रवे मदप्रमोदे श्रींह्रीं” 13 ॥

(30) “ह्रींश्रीं नित्यद्रवे मदरागिणि श्रींह्रीं” 13 ॥

(31) “ह्रींश्रीं नित्यद्रवे मदसिद्धे श्रींह्रीं” 12 ॥

(32) “ह्रींश्रीं नित्यद्रवे मदपद्मिनि श्रींह्रीं” 13 ॥

(33) “ह्रींश्रीं नित्यद्रवे मद(स)रतिप्रिये श्रींह्रीं” 15 ॥

(34) “ह्रींश्रीं नित्यद्रवे मदकल्याणदे श्रींह्रीं” 15 ॥

(35) “ह्रींश्रीं नित्यद्रवे मदकलादक्षे श्रींह्रीं” 14 ॥

(36) “ह्रींश्रीं नित्यद्रवे मदसुरसुन्दरि श्रींह्रीं” 15 ॥

इति षट्त्रिंशद्यक्षिणीमन्त्राः ॥

अथ चतुःषष्टिश्चेटका यथा—

(1) “ह्रींश्रीं मदनित्यद्रवे विभ्रमं देहि श्रींह्रीं” 15 ॥

(2) “ह्रींश्रीं मदनित्यद्रवे वाहकं देहि श्रींह्रीं” 15 ॥

(3) “ह्रींश्रीं मदनित्यद्रवे वीरं देहि श्रींह्रीं” 14 ॥

(4) “ह्रींश्रीं मदनित्यद्रवे विकर्षं देहि श्रींह्रीं” 15 ॥

(5) “ह्रींश्रीं मदनित्यद्रवे कोरकं देहि श्रींह्रीं” 15 ॥

एवं— कविं सिंहनादं महानादं सुग्रीवं

मर्कटं शठं बिडालाक्षं बिडालास्यं कुमारं खेचरं भवं मयूरं मङ्गलं भीमं द्वीपिवक्त्रं खराननं मातङ्गं निशाचारिणं विषग्राहिणं वृकोदरं सैरिभास्यं गजमुखं पशुवक्त्रं मृगाननं क्षोभकं मणिभद्रं क्रीडकं सिंहवक्त्रकं श्येनास्यं कङ्कवदनं काकास्यं हयवक्त्रकं महोदरं स्थूलशिरसं विकृतास्यं वराननं चपलं कुक्कुटास्यं मायाविनं मदनालसं मनोहरं दीर्घजङ्घं स्थूलदन्तं दशाननं सुमुखं पिण्डितं क्रुद्धं वराहास्यं सटामुखं कपटं कौतुकिनं कालं किङ्करं कितवं खलं भक्षकं भयदं सिद्धं सवेगं (६४) इति चतुःषष्टिश्चेटकाः ॥ तथा—

विद्याक्षरेष्वनावृत्तान्यक्षराणि चतुर्दश |
सस्वरैस्तैर्भवेत् संख्या चतुर्विंशच्छतद्वयम् ॥ ५५ ॥

अत्र “हरफसक[झ?]ल[ष?]नतयमदव” इति |
[Zwei Zeichen dieser Lautreihe unsicher.]

तैर्यन्त्राणि च सप्त स्युस्तेषु प्रोक्तक्रमाद्यजेत् |
देवताः सप्तवारेषु भास्करादिषु भक्तितः ॥ ५६ ॥

वाराख्यां सप्तमीयुक्तामिष्टं देहीति चालिखेत् |
यन्त्रस्य मध्ये मायास्थं तत्र सिद्धीश्च पूजयेत् ॥ ५७ ॥

वृत्तयोर्नवयोनिं च कृत्वा बाह्येऽष्टकोणकम् |
बहिः कलाब्जभूसद्मयुगं कुर्याद्यथाविधि ॥ ५८ ॥

विलिख्य तेषु क्रमतो वर्णान् द्वात्रिंशदालिखेत् |
दलेषु कोणेषु तथा वृत्तमध्ये द्वयोः पुनः ॥ ५९ ॥

मातृकामकथायां वै विलिखेदान्तरक्रमात् |
तस्य कोणान्तरालेषु हळक्षार्णान् समालिखेत् ॥ ६० ॥

अग्रात् प्रदक्षिणं त्वेवं सप्त यन्त्राणि तैर्भवेत् |
सिद्धीनां चेटकानां च यक्षिणीनां तथैकशः ॥ ६१ ॥

चेटकानां विशेषोऽयं मध्येऽष्टच्छदमम्बुजम् |
तेषामुक्तक्रमेणैव साधनानि फलानि वै ॥ ६२ ॥

प्रयोगाञ्छृणु देवेशि यैः सिद्धो मत्समो भुवि |
पूज्यते सर्वलोकेशः सर्वतः सर्वदापि वा ॥ ६३ ॥

सिन्धुतीरवने चैता यक्षिणीः साधयेत् त्रिशः |
एकैकस्मिन् वर्णलक्षं जपेदुक्तविधानतः ॥ ६४ ॥

अरण्यवटमूले च पर्वताग्रे गुहासु च |
उद्यानमध्ये कान्तारे मातृपादपमूलतः ॥ ६५ ॥

तद्दशांशं तर्पणं च होमं कुर्यात् प्रसूनकैः |
कदम्बबन्धूकजपाहयमारैश्च लोहितैः ॥ ६६ ॥

ततः प्रीताः समागत्य प्रत्यक्षाः वाञ्छितप्रदाः |
सुवर्णानि च वासांसि भूषणानि फलानि च ॥ ६७ ॥

आस्वाद्यानि च लेह्यानि भोज्यानि त्रिविधानि च |
आलेपनानि माल्यानि दद्युराजीवितावधि ॥ ६८ ॥

आयाताः सर्वदा मह्यं प्रत्यक्षा देहि वाञ्छितम् |
इत्युक्त्वा नित्यशस्तास्तु पूजयेच्च जपेत्तथा ॥ ६९ ॥

अष्टोत्तरसहस्रं तु तां तां विद्यामनन्यधीः |
एवं ताः सर्वयक्षिण्यः फलं दद्युर्यथेप्सितम् ॥ ७० ॥

चेटकानां तु सर्वेषां तेषु तेषु क्रमेण वै |
एकस्मिन् पञ्च पञ्च स्युः सिद्धाः सिन्धुतटे नव ॥ ७१ ॥

तेषां च वर्णलक्षं तु जपेदुक्तविधानतः |
मौनं दिनेषु सततं कुर्यात् सिद्धे न चालयेत् ॥ ७२ ॥

मध्यरात्रे सदा होमं तर्पणं च समीरितम् |
जपेद् दिवानिशं प्रोक्तं सर्वेषामपि साधने ॥ ७३ ॥

चेटकास्ते समागत्य मध्यरात्रेऽतिभीषणाः |
क्षोभयेयुरमुं क्षोभं न चेदेत्याथ तत्पुरः ॥ ७४ ॥

प्रत्यक्षाः किं तवेष्टं तत् करोमीति वदेन्निशि |
प्रत्येकं ते तथेत्युक्त्वा न मां मुञ्चत इत्यपि ॥ ७५ ॥

नित्यशस्तान् जपार्चाभिरुपासीताचरेत् ततः |
स्मृते तमेत्य संदिष्टं साधयेयुः समीहितम् ॥ ७६ ॥

शत्रूणां समरे भङ्गं प्रहारमहिते जने |
कुर्वन्ति प्रार्थितार्थानां प्रदाने ते दिवानिशम् ॥ ७७ ॥

आनयेयुश्च वनिता वाञ्छितास्तत्क्षणाद् ध्रुवम् |
निश्चलीकुर्वते मत्तं दन्तिनं वा हयं नरम् ॥ ७८ ॥

नित्याषोडशके सिद्धे देवर्षिपितृराक्षसैः |
पिशाचैश्चरणैः सिद्धैः किन्नरैरप्सरोगणैः ॥ ७९ ॥

मरुद्भिर्वसुभिः सप्तऋषिभिर्यक्षदानवैः |
रुद्रैरेकादशैः साध्यैः साङ्गैश्च नवभिर्ग्रहैः ॥ ८० ॥

द्वादशार्कैर्लोकपालैस्तथान्यैरपि दैवतैः |
राजभिर्वनिताभिश्च नरैरन्यैर्मृगैस्तथा ॥ ८१ ॥

पूज्यते सर्वदा सिद्धः समीहितसुखास्पदः |
हृष्टाशयो वदान्यश्च दयावान् सुमुखः क्षमी ॥ ८२ ॥

पूर्णाशयः सदानन्दो निरपेक्षः कलान्वितः |
धनी भोक्तापरद्वेषी प्रेमभूरावयोर्भवेत् ॥ ८३ ॥

इति नीलपताकानित्याप्रयोगविधिः ॥

अथ विजयानित्याप्रयोगविधिः |
श्रीतन्त्रराजे— (१८ |
२६)

पूर्वोक्तक्रमतो विद्यां वर्णलक्षं जपेत् सुधीः |
होमं रक्ताम्बुजैः कृत्वा सिद्धमन्त्रो दयान्वितः ॥ १ ॥

प्रयोगानाचरेन्मन्त्री होमयन्त्रविधानतः |
जपेन तर्पणेनापि पूजनेन यथाविधि ॥ २ ॥

कमलैः कैरवै रक्तैः सितैः सौगन्धिकोत्पलैः |
सुगन्धिशेफालिकया त्रिमध्वक्तैर्यथाविधि ॥ ३ ॥

होमात् सप्तसु वारेषु कुर्यात् प्रोक्तैस्तु सप्तभिः |
प्राङ्क्त्वा [Lesung unsicher] वारेशयोश्चापि तन्मण्डलत एव वै ॥ ४ ॥

विजयं समवाप्नोति समरे द्वन्द्वयुद्धके |
मल्लयुद्धे शस्त्रयुद्धे वादे द्यूतद्वयेऽपि च ॥ ५ ॥

व्यवहारेषु सर्वत्र जयमाप्नोति निश्चितम् |
चतुरङ्गुलजैः पुष्पैर्होमात् संस्तम्भयेद्रिपून् ॥ ६ ॥

तथैव कर्णिकारोत्थैः पुन्नागोत्थैर्नमेरुजैः |
चम्पकैः केतकै राजवृक्षजैर्माधवोद्भवैः ॥ ७ ॥

प्राग्वद्वारेषु जुहुयात् क्रमात् पुष्पैस्तु सप्तभिः |
प्राङ्केषु [Lesung unsicher] स्तम्भनं शत्रोर्भङ्गो वा भवति ध्रुवम् ॥ ८ ॥

शत्रोर्मैत्रेण कृत्वाग्नौ तत्समिद्धिस्तु होमतः |
सर्षपाज्याप्लुताभिस्तैः प्रणमन्त्येव पादयोः ॥ ९ ॥

मृत्युकाष्ठानले मृत्युपत्रपुष्पफलैरपि |
समिद्भिर्जुहुयात् सम्यग् वारेशार्चनपूर्वकम् ॥ १० ॥

अरातेश्चतुरङ्गं तु बलं रोगार्दितं भवेत् |
तेनास्य विजयो भूयाद्भयादिनिधनेनापि वा पुनः ॥ ११ ॥

अर्कवारेऽर्कजैरिध्मैः समिद्धेऽग्नौ तदुद्भवैः |
पत्रैः पुष्पैः फलैः काण्डैर्मूलैश्चापि हुनेत् क्रमात् ॥ १२ ॥

सवर्णाङ्गवत्साया घृतासिक्तैस्तु मण्डलात् |
अरातिदिङ्मुखो भूत्वा कुण्डे [folgendes Wort unsicher] विधानतः ॥ १३ ॥

पलायते वा रोगार्तः प्रणमेद्वा भयान्वितः |
वैरी बलसमग्रोऽपि शौर्यमानान्वितोऽपि च ॥ १४ ॥

पलाशेध्मानले तस्य पञ्चाङ्गैस्तद्घृताप्लुतैः |
होमेन सोमवारेषु भवेत्तत् प्राङ्न संशयः ॥ १५ ॥

खादिरेध्मानले तस्य पञ्चाङ्गैस्तद्घृताप्लुतैः |
वारे भौमस्य हवनात् तदाप्नोति सुनिश्चितम् ॥ १६ ॥

अपामार्गेध्मजे वह्नौ तत्समिद्भिर्हुनेत् तथा |
बुधवारेषु शुभ्रायाः सवत्साया घृतान्वितम् ॥ १७ ॥

पूर्वोक्तफलसंसिद्धिर्भवत्येव च तद्दिनैः |
तत्तद्वारेषु भजनात् पूर्वमेव हुतक्रिया ॥ १८ ॥

सर्वत्र प्रोक्तमर्चादिजपयन्त्रादिकर्मसु |
तत्तन्नित्यार्चनं तत्तद्वारेशद्वयपूजनम् ॥ १९ ॥

विधाय पश्चात्कर्माणि तानि कुर्यात् समाहितः |
शीघ्रं तत्फलसंसिद्धिर्भवत्येवान्यथान्यथा ॥ २० ॥

पिप्पलाग्नौ गुरोर्वारे तदुत्थैस्तद्घृतप्लुतैः |
हुनेत्तथा तत्फलाप्तिस्तद्दिनैः स्यादसंशयम् ॥ २१ ॥

उदुम्बराग्नौ भृगुजे वारे होमं तदुद्भवैः |
तत्सिक्तैर्विदधीतेत्थं तद्दिनैस्तत्र सिद्ध्यति ॥ २२ ॥

शमीवह्नौ तदुत्थैस्तु जुहुयात् कृष्णगोघृतैः |
तद्दिनात् तत्फलानि स्युरिति वारेषु सप्तसु ॥ २३ ॥

विजयो विहितः सम्यग्हवनात् तिथिभक्ष्ययोः [Lesung unsicher] |
विजयं शृणु देवेशि कथयामि क्रमेण ते ॥ २४ ॥

प्रतिपत्तिथिमारभ्य पञ्चम्यन्तक्रमेण वै |
शालीचणकमुद्गैश्च यवमाषैश्च होमतः ॥ २५ ॥

महिषाज्यप्लुतैस्ताभिस्तिथिभिः समवाप्नुयात् |
षष्ठादि च दशम्यन्तमजाभवघृतैस्तदा ॥ २६ ॥

प्रागुक्तैस्तत्पहोमात् [Lesung unsicher] प्रागुक्तं फलमाप्नुयात् |
तदूर्ध्वं पञ्चदश्यन्तं समस्तैश्च तिलैर्द्वयैः ॥ २७ ॥

सिताङ्कैः पायसैः सिक्तैराविकैस्तु घृतैस्तथा |
हवनात् फलमाप्नोति यदादौ फलमीरितम् ॥ २८ ॥

एवं नक्षत्रवृक्षोत्थवह्नौ तैस्तैर्मधुप्लुतैः |
हवनादपि तत्प्राप्तिर्भवत्येव न संशयः ॥ २९ ॥

विद्यायां प्राग्वदर्णानि पञ्च युञ्ज्यात् स्वरैस्तथा |
अशीत्यर्णवती विद्या तैर्यन्त्राणि शृणु प्रिये ॥ ३० ॥

प्राक्प्रत्यग्दक्षिणोदक् च दश सूत्राणि पातयेत् |
एकाशीतिपदानि स्युस्तेषु तानि लिखेत् क्रमात् ॥ ३१ ॥

मध्यकोष्ठेऽभिधां कृत्वा प्रागुक्तविधिना युतम् |
शूलीकृत्य च रेखाग्राण्यत्रावाह्याभिपूज्य ताम् ॥ ३२ ॥

उपासीत पुरो विद्यां जपं नित्यं समर्चयेत् |
विद्याक्रमं तत्र यन्त्रे यजेत् तत्फलमाप्नुयात् ॥ ३३ ॥

अत्र यन्त्रलेखनक्रमः सुगमः |
तथा—

प्राक्प्रत्यग्दक्षिणोदक् च चतुःसूत्रनिपातनात् |
नवानि संभवन्त्यत्र कोष्ठानि परमेश्वरि ॥ ३४ ॥

तेषु प्रत्येकमब्जानि साष्टपत्राणि संलिखेत् |
तेषु मध्यस्थपद्मस्य कर्णिकायां समालिखेत् ॥ ३५ ॥

नामगर्भां तु तां विद्यां तद्बहिश्चाष्टपत्रके |
तेष्वादितोऽष्टौ संलिख्य बिन्दुना तद्बहिस्तथा ॥ ३६ ॥

कर्णिकायां तु नामैकं बहिरष्टौ तथाष्टसु |
एवमष्टसु संलिख्य वेष्टयेन्मातृकाक्षरैः ॥ ३७ ॥

विलोमैरनुलोमैश्च मायाबिन्दुसमन्वितैः |
चतुरस्रत्रये बाह्ये रक्षावर्णैः समालिखेत् ॥ ३८ ॥

एवं कृत्वा हस्तयुग्ममाने कुम्भं विधाय तम् |
विद्याङ्गौषधिक्वाथजलैरापूर्य पूर्ववत् ॥ ३९ ॥

अभ्यर्च्य विद्यामयुतं जपित्वा तैर्विधानतः |
अभिषिञ्चेत् ततः क्लेशैर्विमुक्तो जायते सुखी ॥ ४० ॥

विजयं सर्वतो भूयात् प्रोक्तेष्वपि च सप्तसु |
नवग्रहार्तौ रिपुभिः सर्वतः क्लेशसंभवे ॥ ४१ ॥

समरस्योद्यमे कीर्तिसमृद्ध्योरप्यवाप्तये |
पुत्राद्ये वाञ्छितप्राप्त्यै त्रिषु जन्मसु कारयेत् ॥ ४२ ॥

एतद्यन्त्रं गैरिकेण पीठे संलिख्य तत्र ताम् |
देवीमावाह्य संपूज्य जपेद्विद्यां तथायुतम् ॥ ४३ ॥

एवं त्रिःसप्तभिः सप्तरात्राद्विश्वं वशं नयेत् |
राजानं वनितां मर्त्यानन्यांश्च प्राणिनोऽखिलान् ॥ ४४ ॥

हरिद्राद्यैः पटे कृत्वा कलशे वा शरावयोः |
निधाय भित्तिमध्ये वा शयनयानके निजे ॥ ४५ ॥

अभ्यर्च्य विद्यया जापं कुर्यात् संध्यासु नित्यशः |
सहस्रं प्रोक्तकलनात् स्तम्भयेदखिलं द्विषम् ॥ ४६ ॥

शत्रोरुद्योगरोषाभ्यामनिष्टकरणं तथा |
व्यवहारे रणोद्योगे वादे वाचं रुषं मतिम् ॥ ४७ ॥

एतत्प्रागुक्तसुरभिद्रव्यैरालिख्य तत्र ताम् |
संध्यासु पूजयेन्नित्यं सहस्रं प्रजपेत्तथा ॥ ४८ ॥

प्रोक्तकालप्रयोगेण श्रियं प्राप्नोति पुष्कलाम् |
[Gedruckte Auslassung des zweiten Halbverses.]

इति |
अथैतद्यन्त्ररचनाप्रकारः— तत्र प्राक्प्रत्यग्दक्षिणोदक् च चतुश्चतुःसूत्रनिपातनात् समान्तरालानि नव कोष्ठानि कृत्वा, तेषु नवसु कोष्ठेषु अष्टदलपद्मानि सकर्णिकानि नव कृत्वा, मध्याष्टदलकर्णिकायां साध्यनामयुक्तां विजयाविद्यां विलिख्य, बहिरष्टसु दलेषु प्रागुक्ताशीत्यक्षरेषु प्रथमतोऽष्टाक्षराणि विलिख्य, पूर्वदिग्गताष्टदले कर्णिकायां नवमाक्षरं साध्यनामगर्भं विलिख्याष्टदलेष्वष्टाक्षराणि विलिख्य, तथैवाग्नेयदिकस्थाष्टदलपद्मेषु विलिख्य बहिश्चतुरस्रत्रयं कृत्वाभ्यन्तराले विसर्गयुक्तां विलोममातृकां विलिख्य तद्बहिर्वृत्ताभ्यां वेष्टयेत् |
एतद्यन्त्रमुक्तफलदं भवति ॥ तथा—

[Gedruckte Auslassung des ersten Halbverses.] |
अथान्यद्वज्ररूपं तु यन्त्रं वक्ष्येऽतिनिर्भयम् ॥ ४९ ॥

प्राग्वद् द्विसप्त रूपाणां पातनोत्पादयेत् तथा |
कोष्ठानि नवषष्ट्या च युतं शतमातिस्फुटम् ॥ ५० ॥

तच्चतुष्कोणकोष्ठानि मार्जयेत् सैकविंशतिम् |
मध्ये वज्रं भवेत् पञ्चाशीतिकोष्ठं यथाविधि ॥ ५१ ॥

तच्चतुर्दिक्षु विलिखेत् त्रिकोणान्येककोणतः |
सर्वमध्यस्थकोष्ठे च चतुर्दिक्षु न्यसेत् तथा ॥ ५२ ॥

विद्यां नामोदरां कृत्वा प्राग्वद्वर्णांस्तु संलिखेत् |
एतदग्रचतुष्कस्य स्पर्शि त्रिचतुरस्रकम् ॥ ५३ ॥

विधाय तत्र विलिखेत् मातृकां प्राग्विधानतः |
एतेन वज्रयन्त्रेण विजया विजयप्रदा ॥ ५४ ॥

एतत्प्रोक्तेषु संलिख्य स्थापयेत् प्रोक्तरूपतः |
विजयं समवाप्नोति प्रोक्तेष्वपि च सप्तसु ॥ ५५ ॥

विलिख्याश्वत्थफलकातले यन्त्रं कुचन्दनैः |
जपाराधनसंसिद्धं स्थापयेच्छून्यवेश्मसु ॥ ५६ ॥

देशे वा तत्र दिनशो वर्धते श्रीरचञ्चला |
पिशाचा राक्षसाः कृत्या वेतालाः स्युर्न तत्र वै ॥ ५७ ॥

पलाशफलकायां तु विलिख्यैतद्यथाविधि |
स्थापयेद्यत्र कुत्रापि तत् सत्रं ब्राह्मणास्पदम् ॥ ५८ ॥

पूर्वोक्तस्थापनाद् राजधानी भवति सुस्थिरा |
वटे विलिख्य खननात् पत्तनं भवति ध्रुवम् ॥ ५९ ॥

उदुम्बरे विधायैत्थं स्थापनादचिरेण वै |
अहितानाश्रयं स्थानं भवत्येव न संशयः ॥ ६० ॥

वज्रस्य दिक्त्रिकोणान्तरालात् कुर्यात् त्रिशूलकम् |
दाहव्याप्तं स्वरसयुक्तं लिखेत् तच्छृङ्गमन्वयोः [Lesung unsicher] ॥ ६१ ॥

तत्र संस्थाप्य गदितं विद्याजप्तैर्विभूतिना |
भालस्थेनाभिञ्जनेन तमावेश्य गदां वदेत् ॥ ६२ ॥

स्वावेशकारणं कर्म स्वापयानक्रमं तथा |
ग्रहभूतपिशाचाद्या अस्याविश्यापयान्ति वै ॥ ६३ ॥

(तदेव दासवत् तस्य वशं भवति तद्बलात् |
) यन्त्रमेतद्विलिख्याश्मन्यभ्यर्च्य स्थापयेत् क्वचित् ॥ ६४ ॥

राज्ञो गेहे तस्य राज्ञः क्षमा मुञ्चति नान्वयम् |
स्थाने गजानां वाहानां नव कृत्वा नवस्वपि ॥ ६५ ॥

स्थानेषु स्थापितान्येतान्यर्चयेद् दिनशस्तथा |
दिक्षु मध्ये च तत्रैव रोगाः कृत्याः परेरिताः ॥ ६६ ॥

वीक्षितुं भुवनं नैव शक्ताः स्युस्तत्प्रभावतः |
चन्द्रचन्दनकाश्मीरैरालिख्याभिनवे पटे ॥ ६७ ॥

अभ्यर्च्य विद्याजप्तं तं पटमास्तीर्य शाययेत् |
दाहज्वरार्तमचिरान्मुच्यते तज्ज्वरेण सः ॥ ६८ ॥

अन्येष्वपि गदेष्वेवं कारयेत् तद्विमुक्तये |
समरेषु महीपानां यन्त्रमेतदुदाहृतम् ॥ ६९ ॥

निःसाने पटहडङ्केषु वाद्येषु च समालिखेत् |
दरदेनाथ तन्मध्ये तामावाह्य समर्चयेत् ॥ ७० ॥

विजयां विजयावाप्त्यै युगपत् ताडयन् व्रजेत् |
प्रत्यर्थिसेना तच्छब्दाकर्णनेन पलायते ॥ ७१ ॥

दिशो दश भयाविष्टा नाभियाति कदाचन |
सजीवद्यूतकालेषु यन्त्रमेतद्विनिर्मितम् ॥ ७२ ॥

गुलिकीकृत्य तत्कण्ठे बद्ध्वा पश्चात् तु योजयेत् |
एतद्दर्शनमात्रेण पलायन्ते दिशो दश ॥ ७३ ॥

निजाङ्गेषु च तद्यन्त्रं जयमाप्नोति सर्वतः |
नासाध्यं विद्यते तेन वज्रयन्त्रेण पार्वति ॥ ७४ ॥

ध्यायेद्वक्त्रे रिपोर्यन्त्रं विद्यां वा लोहिताकृतिम् |
तदेव दासवत् तस्य वशो भवति तद्बलात् ॥ ७५ ॥

इति ते विजयानित्यावैभवास्तु समीरिताः |

एतद्वज्र (स्य? स्तु) सुगमत्वान्न विस्तारितः |
इति विजयानित्याप्रयोगविधिः ॥

अथ सर्वमङ्गलाप्रयोगविधिः |
तत्र श्रीतन्त्रराजे— (१९ |
१७)

जपं तु नित्यशः कुर्यादग्रे तस्याः सहस्रकम् |
प्राग्वत् तां साधयेद्विद्यां द्वात्रिंशल्लक्षमानतः ॥ १ ॥

होमं दशांशतः कुर्यादन्नाज्याभ्यां घृतेन वा |
एवं संसिद्धविद्यस्तु कुर्यात् प्रोक्तानशेषतः ॥ २ ॥

प्रयोगानन्यथा तस्य नैष्फल्यमयशो मृतिम् |
विदध्यात् तेन तां प्रोक्तक्रमेणाराध्य भक्तितः ॥ ३ ॥

संसाध्य पश्चात् कुर्वीत मङ्गलान्मङ्गलोदितान् |
प्रयोगार्था वर्णशक्तीर्वक्ष्ये देवि शृणु प्रिये ॥ ४ ॥

सोमसूर्याग्निरूपाश्च ताश्चाष्टत्रिंशदेव ताः |
अमृता मानदा पूषा तुष्टिः पुष्टी रतिधृतिः ॥ ५ ॥

शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा |
पूर्णा पूर्णामृता कामदायिन्यः स्वरजाः कलाः ॥ ६ ॥

एताः षोडश चन्द्रस्य कलाः कल्पद्रुमोपमाः |
तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः ॥ ७ ॥

सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा |
एतास्तु शक्तयः प्रोक्ताः क्रमाद् द्वादश भानुजाः ॥ ८ ॥

भकारादिढकारान्तवर्णाचारो विलोमतः |
धातार्यमा च मित्रश्च वरुणो सौभगस्तथा ॥ ९ ॥

विवस्वानिन्द्रपूषार्काः पर्जन्यः समनन्तरः |
त्वष्टा विष्णुरिति प्रोक्ता द्वादशार्काः क्रमेण वै ॥ १० ॥

कादिठान्तार्णतनवः सर्वगाः सर्वसिद्धिदाः |
धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ॥ ११ ॥

सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि |
यादिक्षान्ताक्षरमयाः शक्तयो दश कीर्तिताः ॥ १२ ॥

तेषां दशानां नामानि वासनोक्तानि ते शिवे |
कादिक्षान्ताक्षराणां तु द्वात्रिंशन्मिथुनानि वै ॥ १३ ॥

प्रोक्तक्रमेण संपूज्य विनियुञ्ज्यात् तु सर्वतः |
स्वराणां तु स्वतन्त्रत्वात् स्वतन्त्राः शक्तयस्तथा ॥ १४ ॥

तासां नाथास्तत्सदृशनामरूपाः समीरिताः |
मिथुनान्येवमुक्तानि त्रिंशदष्टक्रमेण वै ॥ १५ ॥

तानि संपूज्य तत्तेजस्त्रयात्मनि जले शिवे |
प्रोक्तानि देवतारूपाण्यावाह्याभ्यर्च्य तैर्जलैः ॥ १६ ॥

Redaktioneller Hinweis: Mehrere Halbverse fehlen bereits im Druck; die Prosa enthält eine von den Versen abweichende Zahl.

अभिषेकात्तु तत्तेजस्त्रयदेव्यात्मता भवेत् |
[Gedruckte Auslassung des zweiten Halbverses.]

अत्र स्वरान्विना द्वाविंशतिमिथुनानि सूर्यस्याग्नेश्च कलाद्वाविंशतित्वात्स्वरैर्मिलित्वा अष्टात्रिंशन्मिथुनानीत्यर्थः |
तथा—

[Gedruckte Auslassung des ersten Halbverses.] |
वाताद्यैर्ग्रासमायान्तैः षट्सप्ततियुतैः शतैः ॥ १७ ॥

पञ्चभिर्योजयेन्नित्यां विद्यां तां सर्वमङ्गलाम् |
ततस्तस्या वनस्थाने स्वरान् षोडश योजयेत् ॥ १८ ॥

ततः सहस्रैर्नवभिर्द्विशतेन च षोडश |
रूपाणि नित्याविद्याया जायन्ते परमेश्वरि ॥ १९ ॥

तैर्यन्त्राणि प्रयोगाश्च फलानि च वदामि ते |

अस्यार्थः— वाताद्यैर्हकाराद्यैर्ग्रासमायान्तैर्ग्रासः क्षकारः माया विसर्गस्तत्सहितक्षकारान्तैः षट्सप्तत्युत्तरपञ्चशत (५७६) वर्णैः पूर्णमण्डलरूपैरित्यर्थः |
ततः सर्वमङ्गलाविद्याया वनस्थाने [folgendes Bīja im Druck unsicher] कारस्थाने षोडशस्वरान् योजयेत् |
तद्बीजमेव षोडशस्वरयुक्तं कुर्यादित्यर्थः |
एवं षोडशस्वरयुक्तसर्वमङ्गलाबीजेन प्रागुक्तपूर्णमण्डलवर्णान् योजयेत् |
यथा— स्वंअस्वंआस्वंइस्वंई इत्यादि स्वंक्षः इत्यन्तं (५७६) |
एवं स्वांअस्वांआस्वांइस्वांई इत्यादि स्वांक्षः इत्यन्तं (५७६) |
स्विंअस्विंआस्विंइस्विंई इत्यादि स्विंक्षः इत्यन्तं (५७६) |
एवं नव सहस्राणि षोडशोत्तरद्विशतवर्णाः (९२१६) जायन्ते इत्यर्थः ॥ तथा—

[Die einzelnen Anschlüsse der dicht gesetzten Bīja-Beispiele sind nicht abschließend gesichert.]

[Gedruckte Auslassung des ersten Halbverses.] |
वृत्तद्वयं विधायास्य बहिः षट्कोणमालिखेत् ॥ २० ॥

तद्बहिश्चाष्टपत्राब्जं तद्बहिर्वृत्तत्रयं तथा |
कृत्वा तेषु न्यसेद्विद्याकूटान्युक्तक्रमेण वै ॥ २१ ॥

तेष्वाद्यं मध्यतः साध्यसमेतं विलिखेद् बहिः |
षट्सु कोणेषु चत्वारि प्रत्येकं विलिखेत् ततः ॥ २२ ॥

अष्टच्छदेषु प्रत्येकं पञ्च पञ्च समालिखेत् |
बहिर्वृत्तान्तरयुगे मातृकां माययान्विताम् ॥ २३ ॥

विलोमामनुलोमां च स्वेन सम्यक् समालिखेत् |
अन्तः षडन्तरालेषु पर्यायदिनसंभवे ॥ २४ ॥

नित्ये लिखेदग्रतस्तु प्रादक्षिण्येन सर्वतः |
एवं यन्त्राणि जायन्ते तैः कूटैरेकभेदतः ॥ २५ ॥

शतं च चत्वारिंशच्च चत्वारि च ततः क्रमात् |
एवमन्यानि कूटानि प्रोक्तानि विलिखेत् क्रमात् ॥ २६ ॥

मध्ये नामसमेतानि तदन्यान्यभितो लिखेत् |
त्रयोदशमितैर्लक्षैः सप्तविंशतिसंख्यकैः ॥ २७ ॥

सहस्रैश्च शतेनापि चतुर्भिस्तानि संख्यया |
यन्त्राणि तेन जायन्ते तैश्चासौ सर्वमङ्गला ॥ २८ ॥

एवमासां तु नित्यानां यन्त्राणि स्युः पृथक् पृथक् |
तस्मादाभिरसाध्यानि न कदाचिच्च कुत्रचित् ॥ २९ ॥

विद्यन्ते तेषु यत् किञ्चिद्द्रव्ये कोऽशेषता वदेत् |
नाथात्मकानि येन स्युस्तेन तानि नवक्रमैः ॥ ३० ॥

भित्त्वा षोडशधा देवि विदध्याद्विनियोगकम् |
विशालमध्यविन्यासं विधाय नवकोष्ठकम् ॥ ३१ ॥

प्रागादिमध्यपर्यन्तं प्रादक्षिण्यक्रमाल्लिखेत् |
नवानि नवसु प्राज्ञे तेषु ऋक्षाणि चालिखेत् ॥ ३२ ॥

सशक्त्या साध्यसंयुक्तं नाथान् देवीश्च तत्क्रमात् |
यद्यद्धि वाञ्छितं कर्म तत्तत् तेषु विलिख्य वै ॥ ३३ ॥

पीठे वा भूतले वापि पूजयेत् प्रोक्तवासरे |
ततः प्राप्ते वाञ्छितार्थे स्नातमुद्वास्य देवताः ॥ ३४ ॥

चक्रं प्रक्षाल्य तत् तोयं केदारादिषु निक्षिपेत् |
एवमन्यानि यन्त्राणि प्रोक्तानि क्रमशः शिवे ॥ ३५ ॥

विनियुञ्ज्यादभीष्टेषु कार्येषु क्रमतः शिवे |
परसंख्यासमेतानि तेषु तेष्वप्ययं विधिः ॥ ३६ ॥

सर्वतः सौम्यकर्माणि सिद्ध्यन्त्येवानया ध्रुवम् |
वश्येषु ज्ञानसंप्राप्तौ सर्वप्रत्यूहशान्तये ॥ ३७ ॥

लक्ष्मीप्राप्तौ तथारोग्यसिद्धौ रोगार्तिशान्तिषु |
विजयाय समस्तापत्तारणायाभिवृद्धये ॥ ३८ ॥

पुत्राप्त्यै सर्वरक्षायै पूजयेत् तेषु तत्क्रमात् |
गजाश्वगोखरोष्ट्राजमहिषीणां विवृद्धये ॥ ३९ ॥

तेषां रोगादिपीडासु तच्छान्त्यै च यथाक्रमात् |
निर्माय नवयन्त्राणि तत्र तत्रार्चयेच्छिवाम् ॥ ४० ॥

तेषु तेषूक्तकार्येषु तत्तत्संप्राप्तिहेतवे |
नव प्राकारयुक्तानि षोडश प्रथमादिषु ॥ ४१ ॥

तिथिषु प्रोक्तरूपाणि तत्र तां सर्वमङ्गलाम् |
पूजयेद्वाञ्छितावाप्त्यै प्रथमे सर्वदा यजेत् ॥ ४२ ॥

एवमेषा महासिद्धिकरी पूजाजपादिना |
लघुमन्त्रक्रियामासां पूजां सर्वार्थसिद्धिदाम् ॥ ४३ ॥

पूर्णामनतिविस्तारां मङ्गलां ब्रूहि मे शिव |
देवर्षिसिद्धगन्धर्वयक्षदेवाङ्गनाश्रयाम् ॥ ४४ ॥

पूजां वक्ष्यामि देवेशि गुह्यां शृणु मनोहराम् |
विद्यया कुलसुन्दर्याः कराङ्गन्यासपूर्वकम् ॥ ४५ ॥

अर्घ्यं तया विधायाथ पीठे चक्रं विधाय तत् |
चन्दनागुरुकर्पूररोचनादरदादिषु ॥ ४६ ॥

एकेन तत्र ताः सम्यगुक्तरूपमथार्चयेत् |
रत्नादिदृषत्स्वेनालिख्य प्रतिष्ठाप्यात्र पूजयेत् ॥ ४७ ॥

वृत्तस्यायामविस्तारद्वये वैकतुरीयतः |
वृत्ते विधाय चिह्नानि तेषु सूत्राणि पातयेत् ॥ ४८ ॥

त्रयमन्तरतो मुक्त्वा तेन द्वादशकोणकम् |
तेषां मर्मसु मध्ये च विदध्याद् वृत्तयुग्मकम् ॥ ४९ ॥

मध्यवृत्तस्य मध्ये तु योनिं कुर्यात् समास्रकम् |
प्राग्वत् तिस्रोऽर्चयेन्नित्यास्तत्कोणेषु प्रदक्षिणम् ॥ ५० ॥

अन्या अन्येषु कोणेषु पूजयेद् द्वादश क्रमात् |
अग्रात् प्रदक्षिणं पश्चादवाक्तां [Lesung unsicher] ध्यायेद्यथाविधि ॥ ५१ ॥

सप्ताक्षर्या केवलया केवलां ललितां जपेत् |
नित्यानां ललिताद्यानां षोडशानां च नामभिः ॥ ५२ ॥

नित्यासप्ताक्षरीभिः स्युः स्वविद्याः पूजासु सर्वदा |
ताभिः षोडशविद्याभिर्नित्यास्ताः षोडशार्चयेत् ॥ ५३ ॥

तद्विद्याक्षरसंख्यास्तु शृणु वक्ष्ये यथाक्रमम् |
प्रथमायाश्च सप्तम्या विद्या स्यात् षोडशाक्षरी ॥ ५४ ॥

द्वितीयायाश्चतुर्थ्यास्तु चतुर्दशभिरक्षरैः |
तृतीयायाश्च षष्ठ्याश्च दशम्या दशपञ्चकम् ॥ ५५ ॥

द्वादश्याः सचतुर्दश्याः पञ्चदश्याः क्रमेण वै |
पञ्चम्याश्च नवम्याश्च त्रयोदश्यास्त्रयोदश ॥ ५६ ॥

एकादश्यास्तु साष्टम्याः षोडश्याः द्वादशोदिताः |
अस्मिन्नेवार्चयेच्चक्रे चतुर्विंशतिभिस्तथा ॥ ५७ ॥

सविंशतिशता विद्या जपेत्तास्ताश्च सिद्धये |
अन्या विंशत्सप्तशतं तैर्यन्त्रेष्वेव पूजनम् ॥ ५८ ॥

आसां पूजाजपाद्येषु यन्त्रेषु च समीरितम् |
एतल्लघुप्रकारं तु यन्त्रं सर्वार्थदायकम् ॥ ५९ ॥

तेन तन्त्रेऽखिलं साध्यं यद्वज्ररूपिणा |
[Gedruckte Auslassung des zweiten Halbverses.]

इति |
अत्र “वृत्तद्वयं विधाय” इत्यादिश्लोकषट्कस्यायमर्थः— प्रथमतो वृत्तद्वयं विधाय तद्बहिः षट्कोणं कृत्वा तद्बहिरष्टदलपद्मं विरच्य तद्बहिर्वृत्तद्वयं कृत्वा मध्ये साध्यगर्भमाद्यकूटं विलिख्य, षट्कोणे प्रतिकोणं चत्वारि चत्वारि कूटानि विलिख्याष्टपत्रेषु प्रतिपत्रं पञ्च पञ्च कूटानि विलिख्य, बहिर्वृत्तान्तरालद्वयस्याभ्यन्तरान्तराले विसर्गसहितां प्रतिलोममातृकां विलिख्य, बाह्यान्तराले बिन्दुयुक्तामनुलोममातृकां विलिख्यान्तः

षट्कोणान्तरालेषु पर्यायनित्यातद्दिननित्ययोः षडक्षराणि स्वाग्रात् प्रादक्षिण्येन विलिखेदिति |
एवं मध्यकूटं तथैव स्थापयित्वा द्वितीययन्त्रेऽग्रिमकूटानि विलिखेदेवं तृतीये तदग्रिमकूटानि विलिखेत् |
एवमेकैकस्य कूटस्य चतुश्चत्वारिंशदुत्तरशतं (१४४) यन्त्राणि जायन्ते |
एवं क्रमेण सर्वाणि यन्त्राणि त्रयोदशलक्षाणि सप्तविंशतिसहस्राणि चतुरुत्तरशतसंख्यानि (१३२७१०४) भवन्ति |
एवमन्यासां नित्यानां यन्त्राणि भवन्तीत्यर्थः |
यन्त्राणां विनियोगानाह— ‘नाथात्मकानि’ इति |
अस्यायमर्थः— विशालायामं नवकोष्ठात्मकं चक्रं विलिख्यैकैकस्मिन् कोष्ठे सूत्रत्रयनिपातनात् षोडश कोष्ठानि विलिख्यैकैकस्मिन् कोष्ठे एकमेकं यन्त्रं विलिखेत् |
एवं चतुश्चत्वारिंशदुत्तरशतं (१४४) यन्त्राणि भवन्ति |
नवकोष्ठेषु त्रिरावृत्त्या सप्तविंशतिनक्षत्राणि विलिख्य नवसु नवनाथान् विलिख्य, सप्तम्यन्तं साध्यनाम “वाञ्छितं कर्म देहि” इति विलिख्य प्रोक्तक्रमेण पूजादिकं कुर्यात्, प्रोक्तफलानि भवन्तीत्यर्थः |
एवमन्येषां यन्त्राणामपि प्रोक्त एव क्रमो ज्ञेयः |
“लघुमन्त्रक्रियाम्” इत्यादिश्लोकैर्लघुपूजोक्ता |
तत्र चतुर्दशारं विलिख्य, मध्ये त्र्यस्रं विधाय तन्मध्ये ललिताज्येष्ठतिस्रः चतुर्दशारेषु चतुर्दशनित्याः पूज्या इत्यर्थः |
तत्तद्विद्याया उच्चारणाशक्तौ नाममन्त्रैः पूजा कार्येत्याह— ‘प्रथमायाश्च’ इत्यादिश्लोकैः |
ते मन्त्रास्तु तत्तत्तन्त्रेष्वयं ज्ञात्वोह्याः |
‘अस्मिन्नेवार्चयेच्चक्रे’ इत्यादिश्लोकेन चतुश्चत्वारिंशदुत्तरशतकूटानि प्रागुक्तान्यप्यस्मिन्नेव चक्रे जपेदित्यर्थः |
अन्यानि नित्याप्रकरणे प्रोक्तानि विंशत्युत्तरसप्तशत (७२०) कूटानि तत्रोक्तयन्त्रेष्वेव पूज्येदित्यर्थः ॥ तथा—

[Gedruckte Auslassung des ersten Halbverses.] |
तद्वज्रं द्विविधं प्राक् कोष्ठकोणात्मभेदतः ॥ ६० ॥

कोणात्मवज्रनिर्माणप्रयोगाः परतः शिवे |
तयास्तु [Lesung unsicher] कोष्ठरूपं तु वज्रं वक्ष्ये यथाविधि ॥ ६१ ॥

यत्साधकेप्सितावाप्त्यै सुराङ्घ्रिपसमं भवेत् |
प्राक्प्रत्यग्दक्षिणोदक् च चतुर्विंशतिसूत्रतः ॥ ६२ ॥

नवविंशतिभिः पञ्चशतं कोष्ठानि तेषु वै |
कोणेषु मार्जयेत् षड्भिः षष्टिकोष्ठानि पूर्ववत् ॥ ६३ ॥

शिष्टेषु वज्रकोष्ठानि पञ्चषष्ट्या शतद्वयम् |
तेषु प्राग्वत् त्रिकोणानि चतुर्दिक्षु चतुष्टयैः ॥ ६४ ॥

कोष्ठैर्विधायाधो मध्ये बाह्यारम्भात् प्रदक्षिणम् |
प्रवेशगत्या विलिखेद्विचित्रादिललितान्तकम् ॥ ६५ ॥

मध्येऽवशिष्टेष्वन्यार्णचतुर्विंशतिमालिखेत् |
ललितार्णचतुर्भेदजनितां नामशक्तियुक् ॥ ६६ ॥

ललितां साध्यगर्भां तु विलिखेन्मध्यकोष्ठतः |
एवं यन्त्रं समालिख्य शिलालोहत्रयादिषु ॥ ६७ ॥

संस्थाप्य कुत्रचित् स्थाने पूजयेद्वाञ्छिताप्तये |
यस्मिन् देशे वज्रं स्थापितं योजनावधि ॥ ६८ ॥

मङ्गलान्येव जायन्ते नामङ्गलकथा क्वचित् |
पूजाचक्रं च तत्तां तु नामानि प्रतिकोणकम् ॥ ६९ ॥

विलिख्य मध्ये ललितां साध्यगर्भां समालिखेत् |
बहिर्वृत्ते च मातृकां च चक्रं स्थापयेद् भुवि ॥ ७० ॥

तेनापि पूर्ववत् प्रोक्तं देशे न स्यादमङ्गलम् |
तस्मिन् सर्वत्र संलिख्य तां विद्यां सर्वमङ्गलाम् ॥ ७१ ॥

मध्ये साध्यार्णसंयुक्तां स्थापयेत् तत्फलाप्तये |
प्रागुक्ते वज्रयन्त्रे वा द्वादशारेऽपि वा शिवे ॥ ७२ ॥

संस्थाप्य कुम्भं तद्वर्णरुहक्वाथपूरितम् |
विद्यया विधिवज्जप्तैरभिषिञ्चेज्जलैः शुभैः ॥ ७३ ॥

जन्मर्क्षेषु विशेषेण समस्तामयशान्तये |
पूर्णसंपत्समृद्ध्यै च ग्रहरोगादिशान्तये ॥ ७४ ॥

तथान्यमपि देवेशि प्रयोगं सर्वपावनम् |
दारिद्र्यवनदावाग्निं पापाब्धिवडवानलम् ॥ ७५ ॥

सङ्कोचध्वान्तमार्तण्डं सन्तोषाब्धिविधूदयम् |
प्रागुक्ताक्षरसंभिन्नां विद्यां नित्यां समाहितः ॥ ७६ ॥

मौनी जपेत् प्रसूनैश्च पूजयेत् सौरभान्वितैः |
तर्पयेत् सलिलैः सिन्धुगामिनीसंगमैः शिवे ॥ ७७ ॥

सौरभाढ्यैस्तिलैः शुभ्रैस्तण्डुलैर्विधिवद्धुनेत् |
संस्थाप्य कुम्भं प्रोक्ताम्बुपूर्णं संपूज्य भक्तितः ॥ ७८ ॥

प्रोक्ताम्बु अक्षरौषधिक्वाथम् |

समस्तं तत् क्रमादेकवारं त्रिराभिषेकतः |
घोराभिचारकृत्यादिदुःखेभ्यो मुच्यते क्षणात् ॥ ७९ ॥

भूतप्रेतपिशाचापस्मारराक्षसयक्षकाः |
कुमारा गुह्यका वीरा डाकिन्यश्चातिदारुणाः ॥ ८० ॥

विमुच्य तत्क्षणाद्भीताः प्रयान्त्येवान्यतः क्षणात् |
समुद्रगासरित्तोये ताः समावर्तयेत् स्थितः ॥ ८१ ॥

कण्ठमात्रे मण्डलान्तु प्राग्जन्माघैर्विमुच्यते |
तथैव घृतहोमेन तर्पणाच्छुद्धवारिभिः ॥ ८२ ॥

एवं सकलकल्याणा संप्रोक्ता सर्वमङ्गला |
नामानुरूपं भजतां कृपया फलदानतः ॥ ८३ ॥

चित्तप्रसादतो नित्यं हर्षोत्पादनतोऽपि च |

इति सर्वमङ्गलानित्याप्रयोगविधिः ॥

अथ ज्वालामालिनीनित्यायाः प्रयोगविधिः |
तन्त्रराजे— [२० |
१४]

अष्टलक्षं हविष्याशी जपेद्विद्यां जितेन्द्रियः |
तद्दशांशं तर्पणं होमं कुर्याच्च गोघृतैः ॥ १ ॥

एवं संसिद्धमन्त्रस्तु कुर्याद्यन्त्राण्यनुक्रमात् |
पूजाचक्रे बहिर्भूतचतुरस्रे त्वखण्डिते ॥ २ ॥

विधाय तत्र विलिखेदक्षराणि यथाविधि |
सर्वमध्ये तारगर्भे शक्तिमाख्यासमन्विताम् ॥ ३ ॥

त्रयं च त्रिषु कोणेषु षट्सु षट्कमथाष्टसु |
अष्टकं बहिरप्येवं बाह्ये दिक्षु नव क्रमात् ॥ ४ ॥

एवं मूलाक्षरैः कृत्वा यन्त्रं तेनैव साधयेत् |
समस्तं वाञ्छितं पूजाधारणस्थापनैः शिवे ॥ ५ ॥

अथैतच्चक्ररचनाप्रकारः— तत्र मध्ये त्रिकोणं तद्बहिः षट्कोणं तद्बहिरष्टास्रं तद्बहिरष्टदलकमलं तद्बहिर्द्वाररहितं चतुरस्रमिति चक्रं निर्माय, मध्ये साध्याख्यागर्भं मायाबीजं प्रणवोदरे विलिख्य त्रिषु कोणेषु त्रीण्यक्षराणि षट्सु कोणेषु षडक्षराणि चाष्टकोणेष्वष्टाक्षराणि अष्टदलेष्वष्टाक्षराणि चतुरस्रे प्रागादिदिक्ष्वष्टावक्षराणि मूलमन्त्रस्य लिखेत् |
एतद्यन्त्रमुक्तफलदं भवति ॥ तथा—

अकारादि[व?]कारान्तवर्णेषु स्वरयोगिषु |
चतुष्टयं प्रोक्तयन्त्रे वर्णांस्तत्तत्स्थानतो लिखेत् ॥ ६ ॥

शिष्टमेकं लिखेन्मध्ये साध्यार्णसमन्वितम् |
एवं यन्त्राणि जायन्ते दश तेषामनुक्रमात् ॥ ७ ॥

विनियोगात् फलावाप्तिं प्रवक्ष्यामि शृणु प्रिये |
यैरिष्टमखिलं प्राप्नोत्ययनात् साधको ध्रुवम् ॥ ८ ॥

द्वितीयादीनि यन्त्राणि मातृकार्णयुतानि वै |
क्रमाद्नवग्रहाणां स्युस्तत्तद्वारेषु तद्दिशि ॥ ९ ॥

तेषु देव्यर्चनात् प्रीतास्त्वनिष्टं ते न कुर्वते |
राहुकेतू स्थितौ यत्र तद्राश्याधिपवारके ॥ १० ॥

षडस्रान्तरालेषु ग्रहनाम द्वितीयया |
विभक्त्या भाजने सम्यक् प्रीणयामीति संलिखेत् ॥ ११ ॥

आद्ये तु यन्त्रे संलिख्य प्रोक्तक्रममथार्चयेत् |
सर्वेष्वपि च वारेषु सर्वेषां प्रीतिसिद्धये ॥ १२ ॥

अनिष्टशान्त्यै नियतमर्चयेत् तान् ग्रहान् प्रिये |
एवं यन्त्रेषु दशसु पूजिता नित्यया सह ॥ १३ ॥

प्रीताः क्रूरा अपि तथा क्रूरस्था अपि सर्वदा |
सौम्याः सौम्यगतानां तु फलान्येव वितन्वते ॥ १४ ॥

दशस्वपि च यन्त्रेषु दरदैर्गैरिकैस्तु वा |
लिखितेष्वर्चितेष्वेवं कुमारं कन्यकां तु वा ॥ १५ ॥

सुशुभावयवां मुग्धां स्नातां धौताम्बरां शुभाम् |
तथाविधं कुमारं वा संस्थाप्याभ्यर्च्य विद्यया ॥ १६ ॥

संस्पृष्टशीर्षो जपेद्विद्यां शतवारं तथार्चयेत् |
प्रसूनैररुणैः शुभ्रैः सौरभाढ्यैरथापि वा ॥ १७ ॥

दद्याद् गुग्गुलुधूपं च यावत्कार्यावसानकम् |
ततो देव्या समाविष्टे तस्मिन् संपूज्य भक्तितः ॥ १८ ॥

ततस्तामुपचारैस्तैः प्रागुक्तविद्यया वशी |
प्रजपेत् तां ततः पृच्छेदभीष्टं कथयेच्च सा ॥ १९ ॥

भूतं भवद्भविष्यं च यद्यन्मनसि स्थितम् |
जन्मान्तराण्यतीतानि सर्वं संपूजिता वदेत् ॥ २० ॥

ततस्तां प्राग्वदभ्यर्च्य स्वात्मन्युद्वास्य तां जपेत् |
सहस्रवारं स्थिरधीः पूर्णात्मा विचरेत् सुखी ॥ २१ ॥

तथा षट्कोणकोणेषु मध्ये चालिख्य दाहकम् |
तत्र संस्थाप्य गदिनमभ्यर्च्योदीरितक्रमात् ॥ २२ ॥

आवेश्य रोगिणं रोगं पृच्छेत् तत्कारणं शमम् |
प्रोक्त्वा तत्सकलं तस्य निर्देशादपयाति च ॥ २३ ॥

प्रथमं स्त्रीकपालस्य मध्यस्थं तापयेन्निशि |
जपन् विद्यां स्मरन् साध्यां सद्य आकृष्यतेऽथ सा ॥ २४ ॥

भीतिलज्जाभिमानादिरहिता वेपिताङ्गका |
निरस्तेतरसद्भावा मन्मथार्ताभियाति सा ॥ २५ ॥

तद्यन्त्रं पुंस्कपालस्थं स्थापयेत् प्रजपेत् तथा |
राजानो राजपुत्रा वा तथान्ये वापि केचन ॥ २६ ॥

विवेकविधुरा मूढास्त्यक्तजातिकुलक्रमाः |
वशगा दासवद्भूपा तिष्ठन्त्यामरणाद् ध्रुवम् ॥ २७ ॥

सर्वासामपि नित्यानामुपदेशेषु तं गुरुः |
तत्र चक्रस्य मध्यस्थं वेधविद्याजपान्वितम् ॥ २८ ॥

बहिर्ज्वालापरीताङ्गं भावयन्निन्द्रियाण्यपि |
मनःषष्ठानि चैकैकं मनसा प्राग्वदात्मनि ॥ २९ ॥

एवं कृते क्षणादेवं विसंज्ञो निपतेद् भुवि |
ततस्तमुत्थाप्य मुखे प्रक्षिप्याम्बु वदेत्ततः ॥ ३० ॥

एष वेधस्त्रिधा प्रोक्तः सद्यः प्रत्ययकारकः |
शाक्तशाम्भववेधाभ्यां द्वयोरात्मैक्ययामलात् ॥ ३१ ॥

शिष्यस्य मूलाधारादिस्थानेषु ब्रह्मरन्ध्रके |
स्मरेद् दाहार्णकान् सप्त संयुज्य प्राग्वदुदीक्षणात् ॥ ३२ ॥

विदध्याच्छाक्तवेधं तु देशिकः सिद्धविद्यया |
शाम्भवे तु शृणु प्राज्ञे वेधमद्भुतविग्रहम् ॥ ३३ ॥

तूष्णीं संस्थापितं शिष्यं तत्तच्चक्रे तदात्मना |
स्वयं प्रविश्य तद्देहमेकिभूत्वा पुनः स्वके ॥ ३४ ॥

समागत्यात्मरूपेण तदात्मानं विभाव्य वै |
कृतन्यासजपार्चस्तु तत्तनुं वह्निना दहेत् ॥ ३५ ॥

स्यादेष शाम्भवो वेधः प्रोक्तः प्रागेव यामलः |
इति वेधत्रयं प्रोक्तं भावनासिद्धिसूचकम् ॥ ३६ ॥

यामले तु विशेषोऽयं विद्धः पश्चाद्गुरोः श्रुतम् |
ज्ञानमन्यच्च सकलं संक्रमेत् तेन तत्समः ॥ ३७ ॥

रक्तचन्दनपङ्केन लिखित्वा प्रथमं शिवे |
लोहैर्विरचिते पट्टे फलकायां शिलातले ॥ ३८ ॥

भूमौ वा सुसमे शुद्धे लोष्टाङ्गारविवर्जिते |
देवीमावाह्य तत्रैव पूजयेच्छक्तिभिर्वृताम् ॥ ३९ ॥

दिनं दिनत्रयं सप्तवासरं पक्षमेव वा |
मासं मण्डलमित्येवं क्रमादिष्टमवाप्नुयात् ॥ ४० ॥

वश्यमाकर्षणं स्तम्भं निग्रहं लाभमीप्सितम् |
अन्यच्च सकलं विश्वमाप्नोत्यर्चनाद् द्रुतम् ॥ ४१ ॥

तदा प्रोक्तगदान्सर्वान् जयेदन्यांस्तथाखिलान् |
साधयेत् प्रथमेनैव यन्त्रेणायत्नतः शिवे ॥ ४२ ॥

द्वितीयं दरदैः कृत्वा प्रोक्तेषूच्चगते रवौ |
पूजयेत् प्रोक्तकालेन फलान्युक्तान्यवाप्नुयात् ॥ ४३ ॥

विलिख्य राजते पट्टे जपित्वा दिनशः स्पृशन् |
सहस्रवारं तां नित्यां विद्यां तद्वासिताम्बुभिः ॥ ४४ ॥

स्नानं पानं पाकजातं कुर्यादुक्तदिनं ततः |
प्रमेहैस्त्रिविधैरश्ममूत्रकृच्छ्रैः सुदारुणैः ॥ ४५ ॥

अश्मरीमूत्रघातादिरोगैर्मुक्तः सुखी भवेत् |
जीवेच्च सुचिरं भूमौ नीरोगः स्वस्थमानसः ॥ ४६ ॥

तृतीयं गैरिकैः कृत्वा वैरिनक्षत्रवृक्षजे |
तले भूमौ ततः खात्वा तत्राग्निं ज्वालयेत्सदा ॥ ४७ ॥

प्रोक्तस्तेनार्तिमेति [Lesung unsicher] दाहज्वरगदादिभिः |
तच्च नोद्धृत्य सलिले प्रक्षिपेच्चेद्विनश्यति ॥ ४८ ॥

चतुर्थं रोचनापूरैरालिख्योक्तप्रपूजनात् |
प्राप्नोति विजयं प्रोक्तेष्वखिलेषु सुनिश्चितम् ॥ ४९ ॥

वादे च द्विविधे द्यूते ग्रहेष्वन्येषु सर्वतः |
सर्वदा जयिनः सर्वे भवन्त्येतस्य वैभवात् ॥ ५० ॥

पञ्चमं कुङ्कुमैः कृत्वा तत्र तत्पूजनाद्दिनैः |
वशे भवन्ति मनुजा दन्तिनो वाजिनः स्त्रियः ॥ ५१ ॥

षष्ठं हरिद्रयालिख्य कर्पटे नामसंयुतम् |
मन्दोच्चे स्थापयेत् क्वापि सुबद्धं त्विष्टकापुटे ॥ ५२ ॥

शत्रोर्जिह्वां गतिं दर्पं दिव्यं राज्ञां समुद्यमम् |
वादेच्छां सकलं चान्यदनिष्टं स्तम्भयेद् ध्रुवम् ॥ ५३ ॥

सप्तमं चन्दनेन्द्वादिमिलितेनालिखेत्तथा |
तत्रार्चयेत् नित्यशस्तां सन्ध्यासु भुवने निजे ॥ ५४ ॥

तद्दिनैरिन्दिरा तस्य सर्वलोकातिशायिनी |
भवत्येव महेशानि विचित्रा यन्त्रशक्तयः ॥ ५५ ॥

अष्टमं लघुरुक्ताद्यैरालिखेत् फलकापुटे |
पीठे वा तत्र तां देवीं गुरावुच्चगते दिने ॥ ५६ ॥

तदुच्चकाले सुरभिप्रसूनैस्त्वर्चयेत् |
वासांसि च विचित्राणि भूषणान्यप्यवाप्नुयात् ॥ ५७ ॥

सुगन्धैरिन्द्वन्तैस्तु [Lesung unsicher] नवममालिख्याभ्यर्च्य तत्र ताम् |
तदालिप्तो व्रजेद्यत्र कुत्रापि जनसंसदि ॥ ५८ ॥

सर्वे तं गुरुवद् बुद्ध्वा वशे स्युर्वनिता यदि |
तदिष्टसाधिका यावज्जीवमस्यानुभावतः ॥ ५९ ॥

विलिखेद् दशमं प्रोक्तद्रव्यैः सर्वैस्तथैकशः |
सहस्रैरितं [Lesung unsicher] सर्वं कार्यमेतत् सुसाधयेत् ॥ ६० ॥

प्रोक्तेषु दशसु प्रोक्तद्रव्यैरालिख्य तेषु च |
संस्थाप्य कुम्भं त्रिविधिना [Druckform] जापयेत् त्रिग्रहे तदा ॥ ६१ ॥

अभिषिञ्चेत् तद्ग्रहस्य दुःस्थानगतं फलम् |
न भवेच्छुभमेव स्यादेवं यन्त्रेष्वशेषतः ॥ ६२ ॥

तथा तदृक्षे तत्पूजां होममन्नाज्यपायसैः |
निवेद्य च प्रणम्यार्थ्ययुतं [Lesung unsicher] दद्याच्छिवात्मवान् ॥ ६३ ॥

तत्तद्ग्रहातिथिषु [Lesung unsicher] त्रिषु ते ग्रहास्तत्प्रभावतः |
एकादशस्थफलदा नित्यशो यजनादपि ॥ ६४ ॥

सुवर्णे रजते वा तद्यन्त्रेष्वन्यतमं शिवे |
विलिख्याभ्यर्च्य तद्विद्याविदे दद्यात् सुपूजितम् ॥ ६५ ॥

षोडशाद्दशनवद्वात्रिंशिक्रमकल्पितम् [Lesung unsicher] |
नित्याचक्रस्थनित्यानामेकां पूजयितुं तु वा ॥ ६६ ॥

दद्यात् गन्धादिनार्चितं प्रणम्य ग्रहविग्रहम् |
पश्चिमाभिमुखमासीनं तस्मै प्रोक्तविधानतः ॥ ६७ ॥

विद्याजप्ताम्बुपानेन वर्धते कुक्षिगोऽनलः |
भुक्ते च जठरस्पर्शजपादपि सुनिश्चयम् ॥ ६८ ॥

मेषादिराशिगे भानौ मासेषु द्वादशस्वपि |
प्रोक्तेषु दशयन्त्रेषु प्रत्येकं त्रित्रिवासरम् ॥ ६९ ॥

पूजयेदेवमब्देन धनधान्यगृहादिभिः |
समृद्धो जीवति चिरमरोगः सुमना भुवि ॥ ७० ॥

यद्राशौ यो ग्रहस्तिष्ठत्येको द्वौ बहवोऽथवा |
तद्दिनेषु तदुच्चेषु कालेषु च तदर्चनात् ॥ ७१ ॥

तत्तद्ग्रहाः सुसंप्रीताः पालयन्त्यनिशं च तम् |
तथा तर्पणहोमाभ्यां जपदानादिनापि वा ॥ ७२ ॥

नवस्वपि च यन्त्रेषु नवग्रहमयव्रतः |
तत्तन्नामे विलिख्यान्तः पूजयेद्वैरिमर्दने ॥ ७३ ॥

रिपुनामयुतान्युक्तान्यालिख्य रविचन्द्रयोः |
उपरागे समे भूमौ दिनशो जयमाप्नुयुः ॥ ७४ ॥

विद्याक्षरौषधानां तु प्रत्येकं कर्षमर्पितम् |
भाण्डे नवे पञ्चगव्यं खारिमानं पचेच्च तत् ॥ ७५ ॥

विद्यया संस्कृते वह्नौ ततस्तदुदरोत्थिते |
घृतेन विद्यया हुत्वा तद्भस्मादाय तत्र वै ॥ ७६ ॥

यन्त्राणि दश निष्पाद्य तत्र देवीं यजेत्तथा |
ततस्तद्भस्म संगृह्य निदध्याद् दिनशोऽर्चयेत् ॥ ७७ ॥

तद्भस्म सर्वशक्तिभिः [Lesung der Verbindung unsicher] सखीभिरपि साधयेत् |
गदचोरग्रहारिष्टक्लेशा न स्युः तद्गृहे ॥ ७८ ॥

नित्यशो धारणे देहे श्रीकण्ठाद्यैर्विलेपितम् |
भक्षणं सर्वकृत्यादिदुरितार्तिविमोचकम् ॥ ७९ ॥

वह्न्यक्षरेषु दशसु व्यञ्जनैः सप्तभिः पृथक् |
स्वरत्रयं क्रमाद्युञ्ज्यात् तेन तान्येकविंशतिः ॥ ८० ॥

त्रिकोणद्वयमालिख्य बाह्याभ्यन्तरयोगतः |
तदन्तर्वृत्तमध्यस्थं षडस्रं च विधाय तु ॥ ८१ ॥

नामाद्यं विलिखेन्मध्ये षट्कोणेषु च षट् क्रमात् |
विलिखेदग्रमारभ्य प्रादक्षिण्येन पार्वति ॥ ८२ ॥

त्रिकोणान्तरतो लिख्य चतुर्दश तथा क्रमात् |
शिष्टे साध्याक्षरं लग्नं लिखेत् पञ्चदशस्वपि ॥ ८३ ॥

क्रमेण मध्ये त्वन्येषां निवेशादेकविंशतिः |
भवन्ति यन्त्राणि तथा तैः कुक्ष्यग्निः प्रवर्धते ॥ ८४ ॥

त्रिकोणाकारके पट्टे ताम्रे तानि विलिख्य वै |
स्पृशन् विद्यां जपेच्चैनां तद्वर्णकृतसंपुटाम् ॥ ८५ ॥

तत्तोयभाण्डे दिनशो निक्षिपेज्जपपूजितम् |
तत्तोयैः पाकपानाभिषेकतो भवति ध्रुवम् ॥ ८६ ॥

प्रदीप्तिर्जठराग्नेस्तु प्राग्जन्माघक्षयेण वै |
जायते परमेशानि नित्यानां वैभवादिति ॥ ८७ ॥

अथैतद्यन्त्ररचनाप्रकारः— प्रथमतः षट्कोणं विरच्य तद्बहिर्वृत्तं तद्बहिरन्तर्बहिर्विभागेन त्रिकोणद्वयं विधाय वह्न्यक्षरेषु सप्तव्यञ्जनानि स्वरत्रययोगेनैकविंशतिर्भवन्ति |
तेष्वाद्यं साध्यनामगर्भं मध्ये विलिख्य द्वितीयादिषडक्षराणि षट्सु कोणेषु विलिख्यावशिष्टचतुर्दशाक्षराणि त्रिकोणद्वयान्तरालेऽग्रात् प्रादक्षिण्यक्रमेणावेष्ट्य शिष्टे वह्न्यक्षरे साध्यनामगर्भं कृत्वाग्रेषु विलिखेत् |
एवं मध्याक्षरभेदेनैकविंशतिर्भवन्ति, प्रोक्तफलेषु योज्यानि प्रोक्तफलानि भवन्ति ॥ इति ज्वालामालिनीनित्याप्रयोगः ॥

अथ विचित्रानित्याप्रयोगविधिः |
तत्र श्रीतन्त्रराजे— (२१ |
१३)

काम्यहोमविधिं वक्ष्ये शृणु सर्वार्थदायकम् |
येनातिमन्दभाग्योऽपि श्रीमान् भोक्ता सुखी भवेत् ॥ १ ॥

मधुरत्रयसंसिक्तैररुणैरम्बुजैः श्रियम् |
प्राप्नोति मण्डलाद्धोमात् सितैस्तैश्च महद्यशः ॥ २ ॥

क्षीराक्तैरुत्पलैः रक्तैर्हवनात् प्रोक्तकालतः |
सुवर्णं समवाप्नोति निधिं वा वसुधां तु वा ॥ ३ ॥

क्षीराक्तैः कैरवैर्होमात् प्रोक्तकालमवाप्नुयात् |
धान्यानि विविधान्याशु सुभगस्तु भवेन्नरः ॥ ४ ॥

आज्याक्तैरुत्पलैर्होमाद्वाञ्छितं समवाप्नुयात् |
तदक्तैरपि कह्लारैर्हवनाद्राजवल्लभः ॥ ५ ॥

पलाशपुष्पैस्त्रिस्वादुयुक्तैस्तत्कालहोमतः |
चतुर्विधं तु पाण्डित्यं भवत्येव न संशयः ॥ ६ ॥

लाजैस्त्रिमधुरोपेतैस्तत्कालहवनेन वा |
कन्यकां लभतेऽयत्नात् समस्तगुणसंयुताम् ॥ ७ ॥

नारिकेलफलक्षोदं ससितं सगुडं तु वा |
क्षौद्राक्तं जुहुयात् तद्वदयत्नाद्धनदोपमः ॥ ८ ॥

तथैवान्नाज्यहोमेन सतण्डुलतिलैरपि |
प्रसूनैररुणैस्तद्वत् तथा बन्धूकसंभवैः ॥ ९ ॥

सितैः प्रसूनैर्वाक्सिद्धिं हवनात् समवाप्नुयात् |
सितरक्तैस्तु मिलितैरायुरारोग्यमाप्नुयात् ॥ १० ॥

दूर्वात्रिकैस्त्रिमध्वक्तैर्हवनात्तु जयेद्गदान् |
तथा गुडूच्या होमेन पायसेन तिलेन च ॥ ११ ॥

श्रीखण्डयुक्तकर्पूरमिलितैः शतपत्रकैः |
हवनाच्छ्रियमाप्नोति या तदन्वयगामिनी ॥ १२ ॥

कुङ्कुमं हिमतोयेन पिष्ट्वा कर्पूरसंयुतम् |
तत्पङ्कमर्दितैर्होमात् कह्लारैर्विकचैः शुभैः ॥ १३ ॥

राजकल्पः श्रिया भूयाज्जीवेद्वर्षशतं भुवि |
निःसपत्नो निरातङ्को निर्द्वन्द्वो निर्मलाशयः ॥ १४ ॥

इक्षुकाण्डस्य शकलेर्हवनाद्रत्नमाप्नुयात् |
तथैव करवीरोत्थैः प्रसूनैररुणैः सितैः ॥ १५ ॥

क्षौद्राक्तैः पाटलीपुष्पैर्हवनाद् वशयेद् वधूः |
तथैव चम्पकैर्होमाद्रूपाजीवां वशं नयेत् ॥ १६ ॥

सरूपवत्सासितगोक्षीराक्तासितहोमतः |
लभतेऽनुपमां लक्ष्मीमपि पापिष्ठचेतनः ॥ १७ ॥

सौवीराक्तैस्तु कार्पासबीजैस्तत्कालहोमतः |
अर्धेन्दुकुण्डे नियतं विद्विष्टा रिपवोऽम्बिके ॥ १८ ॥

अरिष्टपत्रैस्तद्बीजैस्तत्तैलाक्तैस्तथा हुतैः |
मृत्युबीजैर्निम्बतैलसिक्तैर्होमात्तु दन्तिनः ॥ १९ ॥

रोगार्तास्तुरगास्तद्वत् तत्पश्चाङ्गकैर्ध्रुवम् |
अक्षबीजैस्तु तैलाक्तैर्होमः सर्वविनाशनः ॥ २० ॥

करञ्जबीजैस्तत्सिक्तैर्होमाद्वैरी पिशाचवान् |
तथैवाक्षतरूत्पन्नपञ्चाङ्गहवनादपि ॥ २१ ॥

निम्बतैलाप्लुतैरक्षद्रुमबीजैस्तु होमतः |
तद्दिनैः स्यादपस्मारी वैरी भवति निश्चितम् ॥ २२ ॥

अरातेर्जन्मनक्षत्रवृक्षेन्धनगतेऽनले |
तद्योनिपिशितैस्तैश्च हवनं मृत्युकृद्रिपोः ॥ २३ ॥

यक्षाक्षबीजैः सर्षपतैलाक्तैर्हवनात् तथा |
जायन्ते वैरिणः कुष्ठरोगा देहविलोपकाः ॥ २४ ॥

मरीचैः सर्षपैर्होमात् तैलाक्तैर्मध्यरात्रके |
दाहज्वरेण ग्रस्तः स्यादरातिस्तद्दिनैर्ध्रुवम् ॥ २५ ॥

एवं निग्रहहोमेषु स्वरक्षार्थं तथान्वहम् |
सिद्धैः संप्राप्तमन्त्रैस्तु जपहोमादि कारयेत् ॥ २६ ॥

मृत्युञ्जयेन वा तद्वत् प्रयोगस्ताभिरेव च |
विद्याभिरन्यथासिद्धमन्त्रमाशु विनाशयेत् ॥ २७ ॥

प्रागुक्तानां तु कुर्वीत निग्रहं स्वस्य रोषतः |
वित्ताशया वा न कदाप्याचरेद्भुक्तिकामुकः ॥ २८ ॥

नित्यक्लिन्नाविधौ प्रोक्तैस्तर्पणैस्तानि साधयेत् |
अनया विद्यया कर्माण्यशेषाणि महेश्वरि ॥ २९ ॥

अथ यन्त्राणि वक्ष्यामि नानाभीष्टप्रदानि वै |
यैः सर्वे सर्वदा सर्वसमीहितमवाप्नुयुः ॥ ३० ॥

स्वरयुक्तलिपिव्रातगर्भां विद्यां समालिखेत् |
सर्वत्रोक्तेषु विधिवत् स्थानेषु परमेश्वरि ॥ ३१ ॥

त्रिकोणं वृत्तयुग्मं च षट्कोणं तद्द्वयं तथा |
तद्बहिः षड्दलं पद्मं तत्त्रयं च समालिखेत् ॥ ३२ ॥

आद्यकूटं लिखेत् साध्यगर्भं मध्ये विधानतः |
त्रिकोणेषु च षट्कोणे षट्पत्रेषु समालिखेत् ॥ ३३ ॥

Redaktioneller Hinweis: Die in der Prosa angegebene Feldzahl weicht vom Vers und seiner geometrischen Rechnung ab; siehe Übersetzung.

कूटान्यन्यानि चोक्तानि तत्र पञ्चदशान्यपि |
अन्तर्वृत्तान्तरद्वन्द्वे भूतार्णांश्च क्रियोचितान् ॥ ३४ ॥

ससाध्यकर्मवर्णांश्च बहिर्वृत्तान्तरद्वये |
मातृकां विलिखेन्मायाबिन्दुयुक्तां क्रमोत्क्रमात् ॥ ३५ ॥

एवं षड्विंशतिविधं यन्त्रं कुर्याद्विचक्षणः |
परस्तात् शतेनापि षष्ट्या कूटैर्लिखेत् परिमम् [Lesung unsicher] ॥ ३६ ॥

इति |
अथैतद्यन्त्ररचनाप्रकारः— मध्ये त्रिकोणं तद्बहिर्वृत्तद्वयं तद्बहिः षट्कोणं तद्बहिः पुनर्वृत्तद्वयं तद्बहिः षड्दलं पद्मं तद्बहिर्वृत्तत्रयमिति यन्त्रं विलिख्य, तन्मध्ये षोडशस्वरयुक्तमूलविद्यायाः प्रथमं कूटं साध्यगर्भं विलिख्य त्रिकोणेषु कूटत्रयं षट्कोणेषु षट्कूटानि षड्दलेषु षट्कूटानीति षोडश कूटानि विलिख्याभ्यन्तरवृत्तान्तराले साध्यनामयुक्तं तत्तत्कर्मानुसारि तत्तद्भूताक्षराणि द्वित्रिक्रमेण षट्कोणाद्बहिर्वृत्तान्तराले तान्येव भूताक्षराणि तथैव कर्मयुक्तानि विलिख्य, बहिर्वृत्तान्तरालद्वयेऽभ्यन्तरान्तराले विसर्गयुक्तमातृकामनुलोमां विलिख्य तद्बहिरन्तराले बिन्दुयुक्तां विलोममातृकां विलिखेत् |
एवं द्वितीययन्त्रे मध्ये साध्यगर्भं द्वितीयं कूटं विलिख्य प्रागुक्तक्रमेणान्यानि पञ्चदशकूटानि विलिखेत् |
एवं तृतीयकूटादीनि तृतीयादिषु यन्त्रेषु विलिखेदिति षोडशयन्त्राणि निष्पाद्य, प्रागुक्तामृतबीजपञ्चकं षोडशस्वरसंयुक्तं कृत्वा तान्यशीतिबीजानि बिन्दुयुक्तानि विसर्गयुक्तानि च षष्ट्युत्तरशतबीजानि कुर्यात् |
ततस्तेषु प्रथमं मूलविद्यया सहितं मध्ये विलिख्य पञ्चदशबीजानि त्रिकोणादिषु विलिखेत् |
एवं षोडशषोडशबीजैर्दशयन्त्राणि विलिखेत् |
एवं प्रागुक्तैः षोडशयन्त्रैः सह षड्विंशतिर्यन्त्राणि भवन्तीत्यर्थः ॥

अथ सप्तविंशतितमे वज्ररूपं यन्त्रमाह—

प्राक्प्रत्यग्दक्षिणोदक् च सूत्राण्यष्टादश क्षिपेत् |
तैस्तु कोष्ठानि जायन्ते नवाशीतिशतद्वयम् ॥ ३७ ॥

तत्र कोणेषु कोष्ठानि द्वात्रिंशन्मार्जयेत् तदा |
ततो वज्रं भवेन्मध्ये सैकषष्ट्या शतात्मकम् ॥ ३८ ॥

वज्रस्य दिक्षु त्रिकोणानि विदध्यादेककोष्ठतः |
मध्ये कोष्ठे लिखेद्विद्यां साध्याख्याकर्मसंयुताम् ॥ ३९ ॥

त्रिकोणेषु तु तत्कूटान्यालिखेत् साध्यवन्ति च |
प्रागदारभ्य विलिखेत् प्रादक्षिण्यप्रवेशतः ॥ ४० ॥

एतद्वज्रं महायन्त्रं समस्तापन्निवारणम् |

अथैतद्यन्त्ररचनाप्रकारः— प्राक्प्रत्यग्दक्षिणोदक् चाष्टादशाष्टादशसूत्रपातनेन नवाशीत्युत्तरशतकोष्ठानि विरच्य, चतुर्दिक्षु द्वात्रिंशद् द्वात्रिंशत् कोष्ठानि मार्जयित्वा एकषष्ट्युत्तरशत (१६१) कोष्ठात्मकं वज्ररूपं विधाय चतुर्दिक्षु एकैकं कोणं मार्जयित्वा त्रिकोणानि विधाय, मध्ये साध्यनामगर्भां मूलविद्यां विलिख्य चतुर्दिक्षु चतुस्त्रिकोणेषु प्रागुक्तामृतबीजानामादितश्चतुर्बीजानि साध्यनामयुक्तानि विलिख्य, पञ्चमबीजमारभ्य बाह्यतः प्रवेशगत्या प्रादक्षिण्येन सर्वाणि कोष्ठानि पूरयेदिति ॥ तथा—

समस्ताभीष्टदं सर्वविजयश्रीप्रदं शुभम् |
सप्तविंशतिरुक्तानि यन्त्राण्येवं महेश्वरि ॥ ४१ ॥

सप्तविंशतिनक्षत्रमयान्येतानि येन वै |
तेन तान्येव सप्तम्या विभक्त्या साध्यमालिखेत् ॥ ४२ ॥

तानि तत्तद्दिनेष्वेवं विलिखेत् स्थापयेदपि |
फलानि तेषां क्रमशो वदाम्युक्तक्रमेण वै ॥ ४३ ॥

विनियोगक्रमं चैव सुस्फुटं परमेश्वरि |
प्रथमेनार्चितेन स्त्रीदोषा नश्यन्त्यशेषतः ॥ ४४ ॥

स्ववेश्मनि विधायैतत् पीठे भूमितलेऽपि वा |
प्रोक्तद्रव्याणि संपिष्य तत्पङ्केनाथ सुस्फुटम् ॥ ४५ ॥

त्रिरात्रं सप्तरात्रं वा सप्तविंशतिरात्रकम् |
संपूज्य तत्र कुम्भं तु विद्यौषधिजलान्वितम् ॥ ४६ ॥

निधायाभ्यर्च्य गदिनमभिषिञ्चेत् ततः सुखी |
एवमन्यानि यन्त्राणि प्रोक्तेषु विनियोजयेत् ॥ ४७ ॥

तेषां विलेखनद्रव्याण्याकर्णय वदामि ते |
कुचन्दनं चन्दनं च सिन्दूरं सेन्दुरोचनम् ॥ ४८ ॥

काश्मीरमगुरुं कुष्ठमेलाकक्कोलजातिभिः |
त्वचं चैव द्वादशभिर्हिमाम्बुपरिपेषितैः ॥ ४९ ॥

जलेनेक्ष्वब्जवक्त्रोत्थैः रसैर्वा सुरसैः पेषितैः |
द्वितीयं विजयप्राप्त्यै विदध्यात् प्रोक्तरूपतः ॥ ५० ॥

वादे विवादे समरे द्यूतेषु च जयी भवेत् |
तृतीयाद्येषु नवसु ग्रहान् नव समर्चयेत् ॥ ५१ ॥

देव्यात्मरूपान् तेनास्य तैर्बाधा न भवेद् ध्रुवम् |
स्तम्भयेद् द्वादशेनाशु प्रोक्तक्रमविधानतः ॥ ५२ ॥

संग्रामगमनं वर्षोद्योगं वाचमाग्रहम् |
त्रयोदशाद्येष्वजान्तैः [Lesung unsicher] यन्त्रैस्तिथिमयैरपि ॥ ५३ ॥

तत्तत्तिथिषु तैः प्राग्वद्वाञ्छितान् प्राप्नुयाद् ध्रुवम् |
तेषु तेषु तु यन्त्रेषु तत्तत्तिथिदिनाधिपान् ॥ ५४ ॥

वारेशानपि संपूज्य तत्तत्फलमवाप्नुयात् |
कार्योद्योगेषु रोगेषु वाञ्छितेष्वितरेष्वपि ॥ ५५ ॥

वारर्क्षतिथिसंप्रोक्तयन्त्रे तां तैश्च देवतैः |
आवृतामर्चयेदग्निरक्षोवाय्वीशदिग्गतैः ॥ ५६ ॥

रोगशान्तिसमुद्योगफलाभीष्टान्यवाप्नुयात् |
वाराणामधिपाः प्रोक्तास्तिथिनक्षत्रदेवताः ॥ ५७ ॥

ऋक्षवृक्षांस्तथा योनीर्वदामि परमेश्वरि |
वह्निदस्रावुमा विघ्नो भुजङ्गः षण्मुखो रविः ॥ ५८ ॥

मातरश्च तथा दुर्गा दिशो धनदकेशवौ |
यमो हरः शशी चेति तिथीशाः परिकीर्तिताः ॥ ५९ ॥

नक्षत्रदेवताश्चापि शृणु वक्ष्ये यथाविधि |
अश्विनौ च यमो वह्निर्धाता चन्द्रः शिवोऽदितिः ॥ ६० ॥

गुरुः सर्पाश्च पितरस्त्वर्यमा भग एव च |
दिनकृच्च तथा त्वष्टा मरुदिन्द्राग्निमित्रकाः ॥ ६१ ॥

इन्द्रो निरृतितोयाख्यौ विश्वदेवा हरिस्तथा |
वसवो वरुणः पश्चादजएकपदस्तथा ॥ ६२ ॥

अहिर्बुध्न्यस्तथा पूषा प्रोक्ता नक्षत्रदेवताः |
कारस्करश्चामलकोदुम्बरो जम्बुकस्तथा ॥ ६३ ॥

खदिरः कृष्णवंशौ च पिप्पलो नागरोहिणौ |
पलाशप्लक्षकाम्बष्ठबिल्वार्जुनविकङ्कताः ॥ ६४ ॥

बकुलः सरलः सर्जो वञ्जुलः पनसस्तथा |
अर्कः शमी कदम्बश्च चूतो निम्बस्तथान्तिमः ॥ ६५ ॥

मधूकश्चेति संप्रोक्ता वृक्षा भानां क्रमादमी |
अश्वगजमजं सर्पसर्पिणीश्वविडालिकाः ॥ ६६ ॥

अजामार्जारमूषाश्च मूषिका वृषमाहिषौ |
व्याघ्रश्च महिषो व्याघ्री मृगी मृगशुनी कपिः ॥ ६७ ॥

गोखड्गो वानरी सिंही तुरगी सिंहगोगजाः |
यदा रोगादिदुःखार्तिर्भवेत्तदृक्षगेदिनैः [Lesung unsicher] ॥ ६८ ॥

मुहूर्तैः संख्ययाऽहोभिः शान्तिः स्याद् द्विगुणेन वा |
आधारे पञ्च यन्त्राणि स्वाधिष्ठाने चतुष्टयम् ॥ ६९ ॥

रोगेषु भावयेत्तानि तावन्ति मणिपूरके |
अनाहते ततः पञ्चयन्त्राणि परिभावयेत् ॥ ७० ॥

विशुद्धाख्ये च चत्वारि पञ्चाज्ञायामिति क्रमात् |
तत्तत्तिथिदिनेष्वेवं भावयेत् षोडशीं शिवाम् ॥ ७१ ॥

तत्तच्चक्रगताः सर्वा भावयेत् सर्वसंपदे |
आधारादिषु चक्राणि भावयेदुक्तयोगतः ॥ ७२ ॥

नतु सर्वत्र सर्वाणि भावयेन्न कदाचन |
भावनायामशक्तानां तत्तच्चक्राद्बहिस्तथा ॥ ७३ ॥

प्रोक्तान्याधारपद्मानि कृत्वा तत्रार्चयेच्छिवाम् |
एवं दिनेषु वारेषु नक्षत्रेषु त्रिषु क्रमात् ॥ ७४ ॥

संपूज्य देवीमिष्टानि प्राप्नुयात् प्रोक्तवासरैः |
बलिं च दद्यात् तेष्वेव वा परेषु यथाविधि ॥ ७५ ॥

पञ्चाशन्मिथुनानां च शक्तिचक्रेऽर्धरात्रके |
मध्याह्ने सन्ध्ययोश्चापि चक्रस्थानामपीश्वरि ॥ ७६ ॥

मिथुनोक्तक्रमे शक्तिमन्त्रवच्चक्रगामिनाम् |
कूटानां मन्त्ररूपाणि प्रोक्तानि स्फुटमीश्वरि ॥ ७७ ॥

तैस्तेषां तेषु कालेषु बलिं दद्यात् तथेरितैः |
देव्यास्त्वनुग्रहप्रोक्तनिवेद्यैः सिक्थकं महत् ॥ ७८ ॥

विधाय तस्य मध्ये तु कृत्वा दीपं घृतप्लुतम् |
विधाय तत्तन्मन्त्रैस्तु विदध्यात् तान्यनुक्रमात् ॥ ७९ ॥

प्रत्येकं देवतानां वा मिथुनानां तथापि वा |
इत्थं कार्यस्य गुरुतालाघवापेक्षया दिनैः ॥ ८० ॥

साधयेत् सप्तभिः पक्षान्मासान्मण्डलतोऽपि वा |
दध्याद्यपूपपनसमोचागुडघृतान्वितम् ॥ ८१ ॥

कुल्माषाः पायसान्नं च व्यञ्जनं द्रागमांसयुक् [Lesung unsicher] |
मिथुनानां बलिं दद्यात् प्रतिमासं गृहेऽर्चयेत् ॥ ८२ ॥

प्रत्यब्दं वा गृहे मन्त्री जीवेदाढ्यो महोदयः |
एवं कालात्ममिथुनबलिदानेन पूजनात् ॥ ८३ ॥

स्मरणात् कीर्तनात् सर्ववाञ्छितानाप्नुयुर्नराः |
मिथुनानां बलिद्रव्याण्याकर्णय महेश्वरि ॥ ८४ ॥

यैस्तुष्टिं प्रापितान्याशु प्रयच्छन्त्यभिवाञ्छितम् |
दशानां पायसं दद्याद् दशानां तु गुडोदनम् ॥ ८५ ॥

पञ्चानां मुद्गभिन्नान्नं पञ्चानां दधिभक्तकम् |
दद्यादपूपं पञ्चानां पञ्चानां क्षीरशर्करे ॥ ८६ ॥

पञ्चानां नारिकेलस्य फलक्षोदं गुडान्वितम् |
पञ्चानां सितभक्ताभ्यां मोचाफलमुदीरितम् ॥ ८७ ॥

मिथुनार्चारतो नित्यं योऽसौ स्यान्मान्त्रिकाग्रणीः |

इति विचित्रानित्याप्रयोगविधिः ॥

अथ कुरुकुल्लानित्याप्रयोगविधिः |
तत्र श्रीतन्त्रराजे— (२२ |
३२)

प्राग्वद्व्रतयुतो विद्यां पञ्चविंशतिलक्षकम् |
जपित्वा पूजयेत् सन्ध्यास्वथ तर्पणहोमतः ॥ १ ॥

कुर्यान्नित्योदितेष्वन्यतमेन हवनक्रियाम् |
एवं संसिद्धविद्यस्तु नित्यार्चानिरतस्तथा ॥ २ ॥

प्रयोगानाचरेद्भक्त्या काम्यान् प्रोक्तक्रमेण वै |
होमेन पूजया यन्त्रभावनेन च ताञ्छृणु ॥ ३ ॥

घृताक्तैः सर्षपैर्होमाद् वशयेद् वनिताजनम् |
सर्षपस्नेहसंसिक्तैर्मरिचैरानयेच्च ताः ॥ ४ ॥

तैलाक्तैस्तु तिलैर्होमान्मध्यरात्रे यथाविधि |
नारीनरनृपानन्यान् वशयेद्यावदायुषम् ॥ ५ ॥

अजाघृताक्तबन्धूककुसुमैर्मध्यरात्रके |
हवनाद्वनिताः सर्वा मोहयेत् प्रेमकौतुकैः ॥ ६ ॥

क्षीराक्तैर्मल्लिकापुष्पैर्हवनाद् ब्राह्मणान् नृपान् |
वशयेच्छतपत्रैस्तु तथा विचकिलैः शुभैः ॥ ७ ॥

सवत्ससितगोदुग्धसमेतैर्नारिकेलजैः |
फलक्षोदैः सितयुतैर्हवनात् स्वर्णमाप्नुयात् ॥ ८ ॥

नारिकेलफलक्षोदैर्गुडैश्चैव घृतप्लुतैः |
प्रागुक्तकालतो वित्तनिचयं समवाप्नुयात् ॥ ९ ॥

कदलीफलहोमेन स्यादाढ्योऽम्बुजहोमतः |
कह्लारहोमतोऽभीष्टं लभते कुमुदद्वयैः ॥ १० ॥

उत्पलैः पूजयेद् देवीं समस्तापद्विमुक्तये |
पद्मैः सितैर्लोहितैश्च पूजयेदिन्दिराप्तये ॥ ११ ॥

कुमुदाभ्यां यजेद्वित्तलाभाय यशसे तथा |
जपाबन्धूककुसुमैस्तथा दाडिमजैरपि ॥ १२ ॥

सौगन्धिकैर्विचकिलैः कुटजैः शतपत्रकैः |
पुन्नागजैः पाटलैश्च चम्पकोत्थैर्यजेच्छिवे ॥ १३ ॥

सप्तभिः सप्तवारेषु भास्करादिषु पूजयेत् |
प्रोक्तकालेषु वित्ताढ्यो धराधान्यांशुकादिमान् ॥ १४ ॥

चन्दनैरर्चयेन्नित्यं समस्तमपि वाञ्छितम् |
लभते प्रोक्तकालेन तथा कालागुरुद्रवैः ॥ १५ ॥

कुसुमैर्नित्यशः पूजां कुर्यात् सौभाग्यसिद्धये |
कर्पूरैरायुषः सिद्ध्यै वश्यश्रीधनसिद्धये ॥ १६ ॥

मृगस्वेदमदाभ्यां च पूजयन्मासमात्रकम् |
कन्दर्पसमसौभाग्यो वनितासु नरो भवेत् ॥ १७ ॥

एलालवङ्गकक्कोलजातीभिर्नित्यशो यजेत् |
अब्दमात्रं ततो लोके विश्रुतः स्यात् स वैभवैः ॥ १८ ॥

कर्पूरशकलैः पूजा सर्वाभीष्टप्रदा भवेत् |
पूजितैस्तैस्तु जग्धैः स्यान्नरो यात्यखिलप्रियः [Druckform] ॥ १९ ॥

वृत्तत्रयं तथाष्टारमब्जं तन्मध्यतस्तथा |
नवयोनिं विधायात्र मध्ये मायां ससाध्यकाम् ॥ २० ॥

आलिख्याष्टसु कोणेषु मन्त्रार्णाष्टकमालिखेत् |
बहिर्दलेष्वपि तथा लिखेद् द्विद्विक्रमेण वै ॥ २१ ॥

बहिर्मातृकया मायास्वर्गया [Lesung unsicher] प्रतिलोमया |
क्रमश्च [Druckform] अभिसंवेष्ट्य तेन यन्त्रेण साधयेत् ॥ २२ ॥

समस्तं वाञ्छितं पूजाधारणस्थापनादिना |
यन्त्रं रोचनयालिख्य भूर्जे वा क्षौमखण्डके ॥ २३ ॥

गुलिकीकृत्य सिक्थस्य मध्यगं तद्विधाय तु |
तापयेद्रात्रिषु दिनैः प्रागुक्तैः स्त्रियमानयेत् ॥ २४ ॥

दरदेन विलिख्यैतत् पटे वा फलकोदरे |
तत्र देवीं समावाह्य पूजयेत् तैर्दिनैर्भवेत् ॥ २५ ॥

वशे त्रिभुवनं सर्वं नरनारीनृपादिकम् |
गजवाजितरक्ष्वादितिर्यग्जातीरपि ध्रुवम् ॥ २६ ॥

तच्चक्रं सिन्धुतीरे वा नदीतीरेऽथवा लिखेत् |
गैरिकेण समावाह्य देवीं तत्रैव पूजयेत् ॥ २७ ॥

समस्तरोगदुःखार्तिशान्तिः स्यादुदितैर्दिनैः |
लभेच्च पूजनात्तत्र पशुदासीधनादिकम् ॥ २८ ॥

तच्चक्रं चन्दनैः कृत्वा पीठे तद्दिनपूजनात् |
पुत्रपौत्रकलत्राज्ञाधनधान्याद्धिमान् [Lesung unsicher] भवेत् ॥ २९ ॥

तच्चक्रं हेम्नि रूप्ये वा भूर्जे वालिख्य धारणात् |
समस्तरोगदुःखार्तिरहितो वर्धते सुखी ॥ ३० ॥

अथैतच्चक्ररचनाप्रकारः— प्रथमतः नवयोनिचक्रं विलिख्य तद्बहिरष्टदलकमलं तद्बहिरष्टारं तद्बहिर्वृत्तत्रयं च विलिख्य, मध्ये ससाध्यं ह्रीः इति बीजं विलिख्य तद्बहिरष्टसु कोणेषु मूलपञ्चविंशत्यक्षरमन्त्रस्याष्टौ वर्णान् विलिख्य, तद्बहिरष्टदलेष्वष्टाक्षराणि तद्बहिरष्टारेष्वपि शिष्टान्यष्टाक्षराणि विलिख्य तद्बहिरन्तराले विसर्गयुक्तयानुलोममातृकया तद्बहिरन्तराले बिन्दुयुक्तया विलोममातृकया च वेष्टयेत् |
एतद्यन्त्रमुक्तफलदं भवति ॥ तथा—

प्राक्प्रत्यग्दक्षिणोदक् च सूत्रषट्कनिपातनात् |
कोष्ठेषु पञ्चविंशत्सु त्रीणि कोणेषु मार्जयेत् ॥ ३१ ॥

कोष्ठैर्वज्रं ततः शेषैस्त्रयोदशभिरीरितम् |
तन्मध्ये शक्तिमायास्थामालिख्याख्यां ततोऽभितः ॥ ३२ ॥

लिखेद्विद्यां ततस्तस्मिन् पूजयेदर्धरात्रके |
वाञ्छितां वनितां मानकुललज्जातिलङ्घिनीम् ॥ ३३ ॥

तृणराजदले कृत्वा यन्त्रं सर्पपिङ्गुभिः [Lesung unsicher] |
[Gedruckte Auslassung des zweiten Halbverses.]

तृणराजदले तालपत्रे |

[Gedruckte Auslassung des ersten Halbverses.] |
पटुशुण्ठीमागधिकामरिचार्कपयोयुतम् ॥ ३४ ॥

निशासु सिक्थगं दीपवह्नौ संतापयञ्जपन् |
विद्यां त्रयोदशार्णां तु तद्वीक्षितको [Lesung unsicher] दिनैः स्त्रियम् ॥ ३५ ॥

आकर्षयेन्नागच्छेत् तत्र कामज्वराच्छ्रितैः |
अवस्थाभिश्च दशभिर्मृतिमेति सुनिश्चितम् ॥ ३६ ॥

भूर्जे वा तालपत्रे तदालिख्य स्पष्टविग्रहम् |
मधूच्छिष्टप्रतिकृतेर्हृत्सु [Lesung unsicher] तं तापयेत्तथा ॥ ३७ ॥

नरं नारीं नृपं चान्यं प्राणिनं स्नेहविह्वलम् |
करोति यावद्देहान्तं ते प्रतीपं लपन्ति च ॥ ३८ ॥

कज्जलैर्यन्त्रमालिख्य भूर्जे क्षौमे सितेऽथवा |
जपित्वा धारयेत् सर्वरोगदुःखार्तिनाशनम् ॥ ३९ ॥

गैरिकैश्चन्दनोपेतैरालिख्य विमलाम्बरे |
तदास्तीर्य शयानस्य त्रैदशो दाससंनिभाः ॥ ४० ॥

वृत्तद्वयान्तरं कृत्वा षट्कोणं तस्य मध्यतः |
भूः स्वगर्भगतं नाम विलिख्याग्रेषु षट्स्वपि ॥ ४१ ॥

षडक्षराणि विलिखेत् सप्ताक्षर्या क्रमेण वै |
यन्त्रमेतत्तालपत्रे भूर्जे क्षौमेऽर्कपत्रके ॥ ४२ ॥

प्रजप्य विद्यामयुतं वल्मीके निक्षिपेच्च तत् |
तत्र स्थिता ये भुजगा पलायन्तेऽथ तद्दिने ॥ ४३ ॥

तदूर्मिकादौ संलिख्य संजप्याभ्यर्च्य कुत्रचित् |
निधाय नित्यशः पूजासमेतं रक्षतो गृहे ॥ ४४ ॥

भूतप्रेतपिशाचापस्मारवेतालराक्षसाः |
यक्षगन्धर्वभुजगवृश्चिकाद्या न तत्र च ॥ ४५ ॥

तत्क्षिप्त्वा कुम्भसलिले जपित्वा विद्ययानया |
सहस्रवारं सलिलैरासेकः स्थावरनाशनः ॥ ४६ ॥

तत्पीतं जठरं प्राप्तमशेषं नाशयेद्विषम् |
देहगं परमेशानि त्रिविधं भीषणात्मकम् ॥ ४७ ॥

तद्विलिख्य नखाग्रेण नारिकेलदले स्मरन् |
तद्रूपं फणिनं विद्याजपपूर्वं नखादिना ॥ ४८ ॥

पीडनात् पाटनाद्भोगी पीडितः पाटितो भवेत् |
एवं सर्वं त्रिप्रकारं गरलं नाशयेदिदम् ॥ ४९ ॥

बालुकासु सुसंलिख्य यन्त्रमभ्यर्च्य देवताम् |
तत्र तैर्वेष्टयेत् सुप्तं भोगिनो न व्रजेयुर्बहिः ॥ ५० ॥

अथ त्रयोदशाक्षरमन्त्रस्य यन्त्ररचनाप्रकारः— तत्र प्राक्प्रत्यग्दक्षिणोदक् च षट् सूत्रनिपातनात् पञ्चविंशतिकोष्ठात्मकं यन्त्रं विरच्य चतुष्कोणेषु त्रीणि त्रीणि कोष्ठानि मार्जयित्वा त्रयोदशकोष्ठात्मकं वज्ररूपं निष्पाद्य मध्यकोष्ठे ह्रीः इति मायाबीजं साध्यगर्भं विलिख्यावशिष्टानि विद्याया अक्षराणि प्रवेशगत्या विलिखेत् |
एतद्यन्त्रमुक्तफलदं भवति ॥

अथ सप्ताक्षर्याः यन्त्ररचनाप्रकारः— तत्र वृत्तद्वयमध्यस्थं षट्कोणं विलिख्य मध्ये प्रणवगर्भं साध्यनामालिख्य षट्सु कोणेषु षडक्षराणि विलिखेत् |
एतद्यन्त्रमुक्तफलदं भवति ॥ तथा—

अनावृत्तानि विद्यायामक्षराणि त्रयोदश |
तैः षोडशस्वरोपेतैः संख्याष्टौ च शतद्वयम् ॥ ५१ ॥

तानि पूर्वाद्ययन्त्रे तु विलिखेन्मध्यतो द्वयम् |
बहिः प्राग्वत् ततस्तैः स्याद्यन्त्राण्यष्टौ महेश्वरि ॥ ५२ ॥

तेष्वाद्यं सर्ववारेषु विनियुञ्ज्यादुदीरिते |
द्वितीयादीनि यन्त्राणि सप्त भान्वादिवारके ॥ ५३ ॥

विनियुञ्ज्यात् प्रोक्तकर्माख्यालेखनपूर्वकम् |
वाराख्यां सप्तमीयुक्तामालिखेत् साधयेत तत् ॥ ५४ ॥

वश्याकर्षणशान्त्याद्यैर्विदध्यादाद्ययन्त्रतः |
प्रोक्तक्रमेण विधिना शान्तिमर्चनतस्तथा ॥ ५५ ॥

समर्च्य पूजितं क्वापि स्थापितं पोतगर्भके |
न नाशयति तत्पोतमम्बुधौ सर्वदा शिवे ॥ ५६ ॥

तथा वारेषु तेषूक्तान्यालिख्याभ्यर्चयेच्छिवाम् |
वाञ्छितेषु समस्तेषु तैर्दिनैस्तान्यवाप्नुयात् ॥ ५७ ॥

रोगशान्तिं जयं लाभं नानाभीष्टार्थविग्रहम् |
शत्रुभङ्गं वशं नारीनृपमर्त्यादिजन्मिनाम् ॥ ५८ ॥

प्राक्प्रत्यग्दक्षिणोदक् च सूत्राण्यास्फालयेत् क्रमात् |
द्वाविंशतिं ततः सैकचत्वारिंशच्चतुःशतम् ॥ ५९ ॥

तेषु कोणेषु परितो मार्जयेत् पूर्ववत् क्रमात् |
पञ्चपञ्चाशदन्यानि कोष्ठैर्वज्रे महेश्वरि ॥ ६० ॥

शतद्वयं सैकविंशत् तेषु दिक्षु त्रिकोणकम् |
कुर्यात् प्राग्वच्चतुःकोष्ठैस्तथा प्रागध्यतः [Lesung unsicher] शिवे ॥ ६१ ॥

प्रादक्षिण्येन विलिखेत् प्रवेशक्रमयोगतः |
मध्येऽवशिष्टनवकमध्ये नामोदरां लिखेत् ॥ ६२ ॥

मायां तदभितो मन्त्रवर्णांश्चित्रिक्रमेण वै |
त्रिकोणेषु च साध्यानि लिखेद्वज्रमितीरितम् ॥ ६३ ॥

तद्वज्रयन्त्रं तु पटे क्षौमे वा सुसिते शुभे |
विलिख्याभ्यर्च्य तदन्तर्गं पोतं रक्षति वारिधौ ॥ ६४ ॥

प्रागुक्तानि समस्तानि साधयेद्वज्ररूपिणा |
यन्त्रेणानेन कालेन प्रोक्तेन नियतं शिवे ॥ ६५ ॥

तां देवीं पाशसंबद्धं साध्यमङ्कुशताडनात् |
आकर्षन्तीं स्वपादान्ते साञ्जलिं प्रणतं मुहुः ॥ ६६ ॥

रक्ष रक्षेति भाषन्तं स्मरन् विद्यां जपन्निशि |
साध्यो नरोऽथ नारी वा वशमेति सुनिश्चितम् ॥ ६७ ॥

अथवा साञ्जलिं साध्यं प्राग्वद्वादिनमङ्कुशे |
प्रोतकेशसमाकृष्टं जपेत् प्राग्वद् वशे भवेत् ॥ ६८ ॥

मन्त्राक्षराणां तेजोभिः परीतं वा तथाविधाम् |
स्वयमेवानयेत् तां तु स्मरन् जापैर्वशं नयेत् ॥ ६९ ॥

एवं सा कुरुकुल्ला ते प्रोक्ता सर्वार्थसाधिका |
ललितातिग्रहा येन वशिन्यादियुता ततः ॥ ७० ॥

इति कुरुकुल्लानित्याप्रयोगविधिः ॥

अथ वाराहीनित्याप्रयोगविधिः |
तत्र श्रीतन्त्रराजे— (२३ |
१०)

जितेन्द्रियो हविष्याशी मौनी सन्ध्यासु पूजयेत् |
विद्यां जपेल्लक्षसंख्यां तद्दशांशेन तर्पणम् ॥ १ ॥

अर्चनं हवनं कृत्वा सिद्धमन्त्रो दयान्वितः |
गुरुभक्तः सुसन्तुष्टः शान्तचित्तः क्षमान्वितः ॥ २ ॥

प्रयोगानाचरेद्भक्त्या यैरीप्सितमखिलं क्षणात् |
सिद्ध्यत्ययत्नतो देव्या प्रसादाद्वैभवादपि ॥ ३ ॥

ध्यायेच्च देवीं कोलास्यां तप्तकाञ्चनसंनिभाम् |
आकण्ठवनितारूपां ज्वलत्पिङ्गशिरोरुहाम् ॥ ४ ॥

त्रिनेत्रामष्टहस्तां च चक्रं शङ्खमथाङ्कुशम् |
पाशं च मुसलं सीरमभयं वरदं तथा ॥ ५ ॥

दधानां गरुडस्कन्धे सुखासीनां विचिन्तयेत् |
नित्यपूजासु तच्छक्तीस्तत्समानाः स्मरेच्छिवे ॥ ६ ॥

प्रयोगेषु स्मरेद् देवीं सिंहस्थां व्याघ्रगामपि |
गजारूढां हयारूढां तार्क्ष्यारूढां च शक्तिभिः ॥ ७ ॥

श्यामामप्यरुणां पीतामसितां धूम्रविग्रहाम् |
तत्तत्प्रयोगेषु तथा ध्यायेत् तत्तदवाप्तये ॥ ८ ॥

अरुणामरुणाकल्पामरुणाभिस्तु शक्तिभिः |
आवृतां पञ्चमीं ध्यायन् जपेद्वश्याप्तयेऽनिशम् ॥ ९ ॥

पीतां पीताम्बरां पीतभूषणस्रग्विलेपनाम् |
पीतशक्त्यावृतां ध्यायेत् स्तम्भनेषु तु सर्वदा ॥ १० ॥

श्यामां च दुर्गमे मार्गे सिंहस्थां भीमविग्रहाम् |
शक्तिभिः स्वसमानाभिरनन्ताभिः समावृताम् ॥ ११ ॥

चिन्तयन् प्रजपन् विद्यां प्रजपेच्छक्तिमध्यगम् |
स्वात्मानं भावयन्मन्त्री प्रयात्संक्लिष्टवैभवः [Lesung unsicher] ॥ १२ ॥

सिंहर्क्षद्वीपिशरभखड्गैरिभमकरैः |
गवयैर्भुजगैर्भीमैर्दन्तिभिर्मदमन्थरैः ॥ १३ ॥

चोरैः कुन्तप्रहरणैः क्रूरैरन्यैर्भयावहैः |
भूतप्रेतपिशाचाद्यैराकुले रणसङ्कटे ॥ १४ ॥

अलब्धमार्गे विपिने गिरिशृङ्गे तथाविधे |
स्मरन् देवीमुक्तरूपां निरातङ्को व्रजेत् सुखी ॥ १५ ॥

समरेष्वपि भीमेषु पत्त्यश्चरथदन्तिभिः |
सङ्कटेषु दुरन्तेषु स्मृत्वेत्थं विजयी भवेत् ॥ १६ ॥

नखरं क्षुरिकां खड्गं बाणं शूलं गदां सृणिम् |
चक्रं च दक्षिणे बिभ्रत् बाहुभिर्भीमविग्रहाम् ॥ १७ ॥

तर्जनीं खेटकं चर्म चापं डमरुकं हलम् |
पाशं शङ्खं च दधतीमन्यैर्नीलां स्वशक्तिभिः ॥ १८ ॥

गजाधिरूढां द्विरदैः शक्त्यारूढैः समावृताम् |
वैरिसेनां समस्तां च निपात्य परिघैर्भुवि ॥ १९ ॥

तदुपर्यभितः प्रेङ्खत्कदलीकेतुसंकुलम् |
चरन्तीं शक्तिवृन्दैश्च भीमारावैर्मदोद्धतैः ॥ २० ॥

भानुमण्डलमध्यस्थां शूलप्रोतारिविग्रहाम् |
तद्देहान्निर्यद्रक्ताक्तशूलां देवीं विचिन्तयेत् ॥ २१ ॥

कण्ठमात्रे जले स्थित्वा जपेद्विद्यामनन्यधीः |
सप्तरात्रप्रयोगेण वैरिणं मारयेज्ज्वरात् ॥ २२ ॥

देव्याः सपरिवाराया हेतिभिः शकलीकृतम् |
रिपुदेहं स्मरन् फेरुकङ्कक्रव्यादकुक्कुरैः ॥ २३ ॥

भक्ष्यमाणं जपेद्विद्यां त्रिदिनं सलिले स्थितः |
यावत्तावद्दिनैर्वारिहतं [Lesung unsicher] श्रुत्वा समुत्तरेत् ॥ २४ ॥

द्विभुजां धूम्रवर्णां च साध्यजिह्वाहृदम्बुजे |
उत्पाटयन्तीं संचिन्त्य जपञ्छत्रुं यमं नयेत् ॥ २५ ॥

तथाविधां पीतवर्णां स्मृत्वा संजप्य वैरिणः |
क्रोधं संशमयेद्वादे विवादे समरेऽपि च ॥ २६ ॥

तार्क्ष्यारूढां च तां तार्क्ष्यगणस्थाभिश्च शक्तिभिः |
वृतां तार्क्ष्यगणोदामपक्षमारुतमूर्छिताम् ॥ २७ ॥

स्मृत्वा जपेद्रिपोः सेनां दूरतो द्रावयेत् क्षणात् |
तथैवाष्टभुजैः खड्गान् दधानां शक्तिभिर्वृताम् ॥ २८ ॥

तथैवारातिपृतनां समरे नाशयेत् क्षणात् |
विकीर्य केशानरुणवारवाणधरो हयैः ॥ २९ ॥

तरक्षुकेसरिकपिकोलर्क्षगरुडस्थितैः |
शक्तिवृन्दैस्त्रिशूलाग्रप्रोतपत्त्यश्चवारणैः ॥ ३० ॥

क्रीडाविनोदां माणिक्यमण्डपे सिंहविष्टरे |
ध्यायन्नरातेः पृतनां नाशयेत् स्वैर्बलैर्युपः [Lesung unsicher] ॥ ३१ ॥

पीतप्रसूनैः पीताभामर्चयेत् स्तम्भनाय वै |
प्रागुक्तमण्डलाद्यैस्तु वासरैः परमेश्वरि ॥ ३२ ॥

अरातीनां गतिं सेनां मतिं जिह्वां समुद्यमम् |
इष्टमन्यच्च सकलं स्तम्भयेत् साधकः क्षणात् ॥ ३३ ॥

अरुणामरुणैः पुष्पैर्यजेन्मध्यरात्रतः |
निहन्तुकाममप्याशु रिपुं कुर्याद्विधेयताम् ॥ ३४ ॥

विषनाड्यां दग्धयोगे मृतियोगे सनाशके |
यमकण्टककाले वा कृष्णैः पुष्पैस्तथाविधाम् ॥ ३५ ॥

पूजयेत्तैर्दिनैः शत्रून् जीवितेशपुरं नयेत् |
श्यामां च सौरभाढ्यैस्तु पुष्पैरभ्यर्च्य वासरैः ॥ ३६ ॥

तद्दिनैरिन्दिरादाव्यः [Lesung unsicher] स्यादरोगः सुमना वशी |
सुखी जीवति भूमौ स शतं वर्षाणि विश्रुतः ॥ ३७ ॥

होमं कुर्यात् तथा रात्रौ चतुरस्रस्य कुण्डके |
हरिद्रामिलितैरन्नैस्तिलमाषैः सतण्डुलैः ॥ ३८ ॥

पीतैः पुष्पैस्तथा पीतैः फलैस्तालदलैरपि |
सकलीकृत्य लिखितसाध्यवर्णसमन्वितैः ॥ ३९ ॥

निशाघृतसमोपेतैः स्तम्भयेत् प्रागुदीरितान् |
निशाचूर्णघृताक्तैस्तु होमात् संस्तम्भयेत्तथा ॥ ४० ॥

अर्धरात्रेऽरिवृक्षेन्धवह्नौ तद्योनिदेहजैः |
मांसैस्तद्देहसंभूतलोहिताक्तैर्हवनाद् दिनैः ॥ ४१ ॥

मारयेद्वैरिणं रोगशस्त्रशृङ्गफणीजलैः |
दहनैर्वारुणैरन्यैः प्रमादैः कण्टकादिभिः ॥ ४२ ॥

निर्घाततरुकुड्यादिपतनाद् विषभक्षणात् |
शत्रुभिर्वा प्रयोगामी न भवन्त्येव भङ्गुराः ॥ ४३ ॥

धूम्रां कङ्कसमारूढां नखराद्यायुधैर्युताम् |
ध्यायन् रिपोरष्टमे तु राशौ ह्यागघृताप्लुतैः ॥ ४४ ॥

मरीचैः सर्षपैर्होमात् तद्दिनैर्मारयेद्रिपून् |
तीव्रदाहज्वरग्रस्तं विसंज्ञं विकृताङ्गकम् ॥ ४५ ॥

बालार्काभां स्मरन्नाद्यहेतिभिः संयुतां शिवाम् |
सरूपवत्सारुणगोघृताक्तैररुणैः शुभैः ॥ ४६ ॥

प्रसूनैः किंशुकोद्भूतैस्तथा बन्धूकसंभवैः |
जपाप्रसूनैः पालाशैः करवीरसमुद्भवैः ॥ ४७ ॥

कह्लारैरुत्पलैः रक्तैः कमलैः पाटलोद्भवैः |
अशोकजैः कुसुम्भोत्थैरन्यैः पुष्पैश्च लोहितैः ॥ ४८ ॥

हवनात् नृपतुल्यः स्यादैश्वर्येणाज्ञया धनैः |
अन्यैरपि च तत्साम्यैर्वीररक्तैः सुनिश्चितम् ॥ ४९ ॥

अरुणां नखराद्यैश्च युतां ध्यायन् समाहितः |
मध्यरात्रे हुनेत् साध्यदिङ्मुखो मरिचैस्तथा ॥ ५० ॥

प्रोक्तैर्दिनैर्नृपो नारी नरलोकोऽपि वा वशे |
भवेत् कीर्तीन्दिरायुक्तश्चिरं जीवति भूतले ॥ ५१ ॥

विलिख्य भूपुरं मध्ये निजसाध्यं समालिखेत् |
भौमाक्षराणि तद्बाह्ये दशाग्रादभितो लिखेत् ॥ ५२ ॥

बहिरष्टच्छदं पद्मं कृत्वा तत्र लिखेत् क्रमात् |
मन्त्राक्षराणि ऋतुशस्तद्बहिर्वृत्तयुग्मकम् ॥ ५३ ॥

तत्रापि पार्थिवान् वर्णान् बहिः षट्कोणमालिखेत् |
तत्कोणेष्वन्तरालेषु मन्त्रार्णान् भूदशान्वितान् ॥ ५४ ॥

विलिखेत् प्राग्वदभितो बहिर्वृत्तद्वयं लिखेत् |
विलोमां मातृकां तत्र न्यस्य भूमिपुरं बहिः ॥ ५५ ॥

कृत्वानुलोमामालिख्य मातृकां मूलविद्यया |
पूजयन्नखिलं लोकं स्तम्भयेदरिवाहिनीम् ॥ ५६ ॥

अथैतद्यन्त्ररचनाप्रकारः— तत्र मध्ये भूपुरं विलिख्य तन्मध्ये साध्यनाम लिखित्वा तद्बहिः पार्थिववर्णैर्दशभिरावेष्ट्य, तद्बहिरष्टदलपद्मं निर्माय दलेषु मूलमन्त्राक्षराणि प्रतिदले षट्षट्क्रमेण विलिख्य, तद्बहिर्वृत्तद्वयं विधाय तदन्तराले पार्थिववर्णैर्दशभिरावेष्ट्य, तद्बहिः षट्कोणं विलिख्य तत्कोणेषु मन्त्रवर्णान् पार्थिवार्णसहितान् षट्षट्क्रमेण विलिख्य, तद्बहिर्वृत्तद्वयं विधाय तदन्तराले विलोममातृकाक्षरैर्वेष्टयेत् |
तद्यन्त्रमुक्तफलदं भवति ॥ तथा—

नवास्रं वृत्तयुग्मं च वस्वस्रं तद्द्वयं बहिः |
चतुरस्रं च संलिख्य मन्त्रार्णान् षट्षडालिखेत् ॥ ५७ ॥

अष्टान्तरालेष्वेकैकं बाह्यवृत्ते तु मातृकाम् |
चतुरस्रे च विलिखेत् प्रतिलोमानुलोमकाम् ॥ ५८ ॥

साध्याख्यां सर्वतो लिख्याद् ध्यायेद्द्विभुजां शिवाम् |
स्तम्भः स्यात् पूर्वमुक्तानां विधानात् परमेश्वरि ॥ ५९ ॥

अथैतद्यन्त्ररचनाप्रकारः— तत्र प्रथमतो नवास्रं विलिख्य तद्बहिर्वृत्तद्वयं तद्बहिर्वसुकोणं तद्बहिर्वृत्तद्वयं तद्बहिश्चतुरस्रं विलिख्य, मध्ये साध्यनाम कर्मसहितं विलिख्य नवकोणेषु प्रतिकोणं षट्षट्क्रमेण मूलमन्त्राक्षराणि विलिख्याष्टकोणेष्वपि तथैवाष्टकोणान्तरालेष्वेकमेकं मूलमन्त्रं विलिख्य, मध्यवृत्तान्तरालद्वयेऽपि पार्थिववर्णान् प्रागुक्तविधिना साध्यसहितान् विलिख्य, बाह्यवृत्तान्तरालेषु मातृकाक्षरैः संवेष्ट्य तद्बहिश्चतुरस्रे

प्राग्वत् प्रतिलोमानुलोममातृकां विलिखेत् |
तद्यन्त्रमुक्तफलदं भवति ॥ तथा—

वृत्तं त्र्यस्रं पुनर्वृत्तं षडस्रं वृत्तयुग्मकम् |
अष्टास्रं तद्बहिर्वृत्तमिति कृत्वा निवेदयेत् ॥ ६० ॥

एकं मध्ये बहिः कोणेष्वन्तरालेषु च क्रमात् |
त्रयं त्रयं समालिख्य बहिः शिष्टं तु पार्थिवैः ॥ ६१ ॥

विलिख्य साध्यनामापि जपित्वाभ्यर्च्य साधकः |
स्थापयेत् क्वापि तत्रैव नित्यशश्च बलिं क्षिपेत् ॥ ६२ ॥

कृत्वा षडष्टकोणानि षट्कोणानि पृथक् पृथक् |
क्रमात् त्रिकोणवृत्तान्तरालान् षट्कोणसंयुतान् ॥ ६३ ॥

बाह्यात् क्रमेण मध्यान्तं नक्षत्रतिथिवारयुक् |
विलिखेत्त्रिपिशः [Lesung unsicher] सर्वां मातृकां शक्तिसंयुताम् ॥ ६४ ॥

साध्यं सप्तसु मध्येषु विलिखेच्च प्रदक्षिणम् |
मायामध्यगतं देवि धारयेत् सर्वसिद्धये ॥ ६५ ॥

भूतप्रेतपिशाचादिशान्त्यै सर्वार्तिशान्तये |
गजवाजिखरोष्ट्रादिरोगशान्त्यै च धारयेत् ॥ ६६ ॥

एतेषां पृथक्पृथक्करणे सुगमत्वान्न विस्तारितम् ॥ तथा—

प्राक्प्रत्यग्दक्षिणोदक् च रेखा द्वादश संलिखेत् |
रेखाग्रात्सर्वतः शूलांस्तन्मध्याग्रे च पार्श्वयोः ॥ ६७ ॥

स्तम्भयेति समालिख्य मध्यकोष्ठेऽरिनाम च |
परितो विलिखेन्मन्त्रवर्णान् भौमसमन्वितान् ॥ ६८ ॥

गैरिकेणाथ निशया तालेन विलिखेच्छुभम् |
स्थापयेद्भित्तिमध्ये च भूमौ च क्रमात् शिवे ॥ ६९ ॥

भूर्जे वा कर्पटे लोहे शिलायां वा समालिखेत् |
गृहपत्तनयोर्लोहदृषदोरिष्टसिद्धिदम् ॥ ७० ॥

नित्यशः पूजयेत् पुष्पैः सुगन्धैः प्रजपेत्तथा |
यावत्फलाप्तिं कुर्वीत नियतं सन्ध्ययोर्द्वयोः ॥ ७१ ॥

इदमपि यन्त्रं सुगमम् |

प्राक्प्रत्यग्दक्षिणोदक् च कुर्यात् सूत्राणि षोडश |
तैस्तु कोष्ठानि जायन्ते पञ्चविंशच्छतद्वयम् ॥ ७२ ॥

तेषु कोणेषु परितो मार्जयेत् प्राग्वदीश्वरि |
अष्टाविंशतिकोष्ठानि ततः शिष्टेषु दिक्ष्वपि ॥ ७३ ॥

प्राग्वदेकैकतः कुर्यात् त्रिकोणानि यथाविधि |
मध्ये त्रिषु तु कोष्ठेषु साध्यसाधककर्म च ॥ ७४ ॥

उपर्यधो मध्यतश्च शेषेषु प्राग्वदालिखेत् |
मन्त्रार्णानग्रमारभ्य विलिखेदभितः शिवे ॥ ७५ ॥

एतद्वज्रं महायन्त्रं समस्ताभीष्टदायकम् |
यत्रैतत् स्थापितं लोहशिलादिलिखितं शिवे ॥ ७६ ॥

तत्र चोरग्रहव्याधिरिपुसर्पसमुद्भवाः |
भूतप्रेतपिशाचादिकोपजाश्चाप्युपद्रवाः ॥ ७७ ॥

न भवन्ति कदाप्यत्र संभवन्ति च संपदः |
वास्तुमर्मादिदुःखादि शमयेद्देहगं च यत् ॥ ७८ ॥

यस्मिन् गृहे स्थापितं तद्वज्रं तद्गृहवर्तिनाम् |
कृत्याभिचारक्षुद्रादिपीडा न भवति ध्रुवम् ॥ ७९ ॥

वाय्वग्निनैरृतेशं च कुर्याद् द्वादशसूत्रकम् |
तैर्वज्ररूपकोष्ठानि सैकविंशं शतं भवेत् ॥ ८० ॥

तेषु मध्ये समालिख्य साध्यनाम ततो बहिः |
अग्राद्यभित एवान्यान्यक्षराणि समालिखेत् ॥ ८१ ॥

निर्गमेन महीवर्णपूर्वाणि क्रमात् शिवे |
यत्रैतत् स्थापितं लोहशिलादिलिखितं शिवे ॥ ८२ ॥

रोगभूतग्रहोन्मादपिशाचापस्मृतिद्विषः |
अन्यानि क्लेशकारीणि यानि तानि विनाशयेत् ॥ ८३ ॥

प्रोक्तेष्वार्तिष्वपि तथा तद्वज्रं गैरिकैर्देवि |
विलिख्य मध्ये कुम्भं तु क्षीरद्रुक्वाथपूरितम् ॥ ८४ ॥

निधाय देवीं सलिले समावाह्याभिपूज्य च |
स्पृशञ्जलं जपेद्विद्यां सहस्रत्रयमात्मवान् ॥ ८५ ॥

तैर्जलैरभिषिञ्चेत् तं गदिनं प्राङ्मुखं ततः |
तैः क्लेशैर्मुक्तदेहस्तु सुखी जीवति भूतले ॥ ८६ ॥

विद्याप्राप्त्यभिषेकं तु वज्रेऽस्मिन् कोष्ठवज्रके |
सैकविंशशते वापि कुम्भं संस्थाप्य सेचयेत् ॥ ८७ ॥

वेदाङ्गुलपरिभ्रान्त्या वृत्तं कृत्वा ततो बहिः |
अङ्गुले अङ्गुले कुर्यादेकादश ततः क्रमात् ॥ ८८ ॥

तेषु ब्रह्ममानेषु तिर्यक्सूत्राणि पातयेत् |
एकादश ततस्तेषु प्राङ्मध्यात्तु प्रदक्षिणम् ॥ ८९ ॥

भूदशार्णैस्तु तां विद्यामालिखेन्निर्गमक्रमात् |
रेखाग्राणि च शूलानि कृत्वा साध्यं च मध्यतः ॥ ९० ॥

तद्यन्त्रं प्राग्वदखिलविनियोगेषु योजितम् |
नासाध्यमस्ति भुवने विद्यया सिद्धयानया ॥ ९१ ॥

इति वाराहीनित्याप्रयोगविधिः ॥

अथ कौतुकप्रकरणम् |
श्रीतन्त्रराजे— (३४ |
१)

अथ षोडशनित्यानां विद्याकौतुकिनामिह |
चमत्कारकरीं विद्यां वदामि शृणु सुन्दरि ॥ १ ॥

सिद्धसारस्वतं मृत्युञ्जयं त्रिपुटगारुडे |
अश्वारूढामन्नपूर्णां नवात्मानं नवात्मिकाम् ॥ २ ॥

ततश्च देवीहृदयं गौरीविद्यां च लक्षदाम् |
निष्कत्रयप्रदामिष्टवादिनीं च मतङ्गिनीम् ॥ ३ ॥

राज्यलक्ष्मीं महालक्ष्मीं सिद्धलक्ष्मीमनन्तरम् |
गोपालभेदानौषध्यान् वदाम्युक्तक्रमेण वै ॥ ४ ॥

शुचिः स्वेन ततो माया वियद् दाहस्ववह्नियुक् |
हंसहृत्तेजसां योगाद् द्युतिदाहचरस्वकैः ॥ ५ ॥

पुनश्च हंसहृद्धंसद्वयदाहवनैरपि |
समायैकोदिता विद्या पञ्चार्णामृतविग्रहा ॥ ६ ॥

“ऐं ह्रीं श्रीं [viertes Bīja beginnt हसख, Schluss unsicher] [fünftes Bīja beginnt हस, Schluss unsicher]” |

पटलेऽस्मिन्नुक्तानामङ्गानि निजविद्यया |
मायया वा विदध्याच्च ध्यानं चाद्यानुदीरिते ॥ ७ ॥

पयोव्रतः पञ्चलक्षं जपित्वा कुलसुन्दरीम् |
ध्यात्वा सिद्धमनुः पश्चाद्विदध्याद्विनियोगकम् ॥ ८ ॥

अनया मन्त्रितैरद्भिः शोधयित्वा तु कन्यकाम् |
पाययित्वा च तां ब्रूयाच्छ्लोकयेति समाहितः ॥ ९ ॥

गङ्गाप्रवाहवत् तस्या भारती निःसरेन्मुखात् |
आचष्टे च त्रिकालस्थानर्थान् पृष्टा महाद्भुतम् ॥ १० ॥

भूः स्वेन जया धराखेता [Lesung unsicher] हृच्च मायासमन्वितम् |
पालयेति द्विरुक्त्वा तत्प्रतिलोममुदीरयेत् ॥ ११ ॥

विद्या मृत्युञ्जयाख्यासौ दीर्घस्वरयुजा हृदा |
विधायाङ्गानि नियतं स्वात्मानं चिन्तयेदिति ॥ १२ ॥

“ओंजुंसः पालय पालय सःजुंओं” |
सां सीं इत्यादिना षडङ्गन्यासः ॥

आद्यमध्यतृतीयार्णनालपद्मसुकर्णिके |
समासीनं सुधार्द्राङ्गं मौलाविन्दुकलायुतम् ॥ १३ ॥

सुसितं हरिणाक्षस्रक्चिन्तापाशकरैः हरम् |
स्वैक्येन भावयन्नित्यं जपन् दीर्घायुरेधते ॥ १४ ॥

तृतीयममृताख्याया द्वितीयं तदनन्तरम् |
रसावह्निखसहितप्राणस्तैस्त्रिपुटोदिता ॥ १५ ॥

“श्रींह्रींक्लीं” |

त्रिभिर्द्विरुक्तैरङ्गानि कृत्वा नित्यां तु नित्यशः |
जपेदहर्मुखे स्वैक्यं भावयंस्त्रिसहस्रकम् ॥ १६ ॥

तेन विद्यां श्रियं कान्तिं कवितां गानकौशलम् |
नरनारीनृपाणां च वाल्लभ्यं लभते नरः ॥ १७ ॥

अरुणामरुणाब्जस्थां प्रसन्नवदनाम्बुजाम् |
पुष्पेष्वङ्कुशपञ्चानि [Lesung unsicher] पद्मपाण्यिक्षुचापकाम् ॥ १८ ॥

दधानां बाहुभिः षड्भिर्माणिक्यमुकुटोज्ज्वलाम् |
भृङ्गारभूषापिटकचामरादर्शपादुकाः ॥ १९ ॥

दधानाः परितस्तस्या गायन्त्यश्चापि शक्तयः |
परिवार्य स्थितास्ताभिर्वृतां तां स्वैक्यतः स्मरेत् ॥ २० ॥

भूः स्वेन हंसदाहाभ्यां मरुद्वह्निचमया [Lesung unsicher] युताः |
वैरिमोहीत्यर्णानां चतुष्कं गरुडेति च ॥ २१ ॥

जवी सर्वदिग्ग्रासश्च हंसहिंसद्वयं तथा |
स्वाहान्तो गदितो मन्त्रस्तार्क्ष्यस्याखिलरक्षितुः ॥ २२ ॥

त्रयोविंशार्णको मन्त्र उपरागे सुसाधितः |
[Gedruckte Auslassung des zweiten Halbverses.]

“ओंहांहींहूं वैरिमोहिगरुडपक्षी हंसहंसहिंसहिंस स्वाहा” |

[Gedruckte Auslassung des ersten Halbverses.] |
फणिदष्टान् पिशाचाद्यैः क्लिष्टानन्यांश्च रोगिणः ॥ २३ ॥

विषार्तांस्त्रिविधैरुग्रैर्मूर्छितांश्च गतासुकान् |
पालयेच्छतजप्तेन तोयेनाभ्युक्षणात् क्षणात् ॥ २४ ॥

कुर्वतस्ताण्डवं शम्भोरग्रे मेरुसमं विभुम् |
अहितानि च खादन्तं स्मरंस्तार्क्ष्यममुं जपेत् ॥ २५ ॥

पद्माक्षबीजतैलेनाप्याशु नखेन नाशयेत् |
गरलं भुजगानां च समस्तानामयत्नतः ॥ २६ ॥

प्रणवं चरहंसाग्निजवी दाहो नमश्चरौ |
शून्याम्ब्वग्नियुतो दाहो हृदम्बु मरुदन्वितम् ॥ २७ ॥

हंसश्च मरुता युक्तः प्रोक्ता विद्या दशाक्षरी |
षडङ्गं मायया कृत्वा जपेदक्षरलक्षकम् ॥ २८ ॥

“ओं एहि परमेश्वरि स्वाहा” |

ततो यमुद्दिश्य जपं निशि कुर्यादयत्नतः |
समानयेत् स्वगेहे तमानाशात् प्रोक्तकारिणम् ॥ २९ ॥

वश्यमाकर्षणं लक्ष्मीं सुवर्णं वाञ्छितानि च |
प्राप्नोत्ययत्नादनया विद्यया सिद्धयानिशम् ॥ ३० ॥

लोहितां लोहिताश्वस्थां लोहिताम्बरभूषणाम् |
चतुर्भुजां त्रिनयनां प्रसन्नवदनाम्बुजाम् ॥ ३१ ॥

भल्लं दक्षेण वामेन चर्मयष्टिं समुज्ज्वलाम् |
अन्याभ्यां हेमपाशेन कण्ठे बद्ध्वा स्वसाध्यकम् ॥ ३२ ॥

हेमवेत्राहतं बद्धकरयुग्मकृताञ्जलिम् |
दासोऽहमिति भाषन्तं पतितं निजपादयोः ॥ ३३ ॥

स्मरन् विद्यां जपेन्मर्त्यो वशीकुर्यादयत्नतः |
समस्तं जीवभुवनमश्वारूढाख्यविद्यया ॥ ३४ ॥

प्रणवं नमसा युक्तं तथा भगवतीति च |
माहेश्वरीति प्रोक्त्वान्नपूर्णे स्वाहेति तन्मनुः ॥ ३५ ॥

विधाय माययाङ्गानि जपेद्विद्यामहर्मुखे |
सहस्रवारं नियतं तस्य स्याददरिद्रता ॥ ३६ ॥

“ओंनमो भगवति माहेश्वरि अन्नपूर्णे स्वाहा” |

भुजगत्रासकरणनृत्तासक्तावलोकिनीम् |
स्मितवक्त्रां हेमपात्रात् पायसं ददतीं स्मरेत् ॥ ३७ ॥

भवानीं सर्वदा विद्याजपवान्न कदाचन |
बुभुक्षितो भवेदेव न कदाचिन्न कुत्रचित् ॥ ३८ ॥

तथा नृत्यस्थितं मां त्वां तदालोकनकौतुकाम् |
आभ्यां भजन्नित्यशो यो मन्त्राभ्यां याचते वरम् ॥ ३९ ॥

तस्यावयोः प्रसादेन सिद्ध्यत्येवाशु चिन्तितम् |
तिष्ठेच्चोपरि सर्वेषां सर्वथा सर्वतः सदा ॥ ४० ॥

हंसहृद्ग्रासनभसां रसाम्बुव्याप्तदाहकैः |
क्ष्मास्वयोगानूनामतश्च [Lesung unsicher] नवात्मा नवभिश्च तैः ॥ ४१ ॥

“हसक्षमलवयरूं” |

तस्यैव क्ष्माक्षरं हित्वा वह्निं तत्र प्रयोजयेत् |
नवात्मिका तु ते विद्या द्वावेतौ सर्वसिद्धये ॥ ४२ ॥

“हसक्षमलवयर[Schlussvokal unsicher]ं” |

प्रणवं त्रिपुटान्त्यार्णं नमसा चतुरक्षरी |
देवीहृदयसंज्ञासौ विद्या सर्वार्थसिद्धिदा ॥ ४३ ॥

“ओंक्लींनमः” |

ध्यानमुक्तममुष्यास्तु सततं सर्वमङ्गलम् |
सितकुष्ठं स्वर्णपुष्पीमूलं तत्पत्रवारिणा ॥ ४४ ॥

पिष्ट्वा शुद्धः पायसाशी विद्याजापी जितेन्द्रियः |
भूमौ शयीत तां रात्रिं निर्जने सुभगे गृहे ॥ ४५ ॥

तल्लिप्ताज्ञाकण्ठहृत्कस्तत्रालिखितमायकः |
स्वपन्निशीथिनीविद्यां जपन्नाज्ञायितां तथा ॥ ४६ ॥

अतिलोहितरूपां तां विद्यां तां देवतामपि |
स्वप्ने सा तं समासाद्य वदेदस्याभिवाञ्छितम् ॥ ४७ ॥

देवीहृदयविद्येयं स्त्रीणां सद्यः फलप्रदा |
सौभाग्यलक्ष्मीकीर्त्यायुरारोग्यविजयावहा ॥ ४८ ॥

प्रणवं रुद्रदयिते तथा योगेश्वरीति च |
स्वाहान्तिका तु विद्येयं कथिता द्वादशाक्षरी ॥ ४९ ॥

“ओंरुद्रदयिते योगेश्वरि स्वाहा” |

गौरीविद्येत्यसौ प्रोक्ता लज्जातानुसारतः |
ध्यानात् प्राग्वद्धयारूढा देवी साधयतीप्सितम् ॥ ५० ॥

निशामध्ये तु निशया निजवामोरुदेशतः |
साध्यनामसमोपेतामालिख्यैतां तु तन्मनाः ॥ ५१ ॥

ध्यायंस्तथा जपेद्विद्यां तदेवाकर्षयेच्च प्रियाम् |
नानया सदृशी विद्या विद्यते वनितावशे ॥ ५२ ॥

राजवश्ये तथा लोकवश्ये स्त्रीवश्यकर्मणि |
न विद्याः सन्ति विश्वेषे [Lesung unsicher] हयगौरीमनुद्वयात् ॥ ५३ ॥

अग्निनोदश्च तयुक्तस्तावेवाथ नमोधरे |
एतद् द्वितीयं तौ स्यातां काकण्टेति ततः परम् ॥ ५४ ॥

मुरिडस्वाहेति विद्येयमुक्ता पञ्चदशाक्षरी |
[Gedruckte Auslassung des zweiten Halbverses.]

“इटिइटिमुटिमुटिकाकण्टमुरिड स्वाहा” |
[Lesung der letzten zwei Wortglieder unsicher.]

[Gedruckte Auslassung des ersten Halbverses.] |
कृताङ्गो मायया ध्यात्वा तां देवीं सर्वमङ्गलाम् ॥ ५५ ॥

जपेद्विद्यां मौनयुतः कदलीपूगमध्यतः |
त्रिसन्ध्यार्चासमोपेतं सा प्रीता लक्षदा दिनैः ॥ ५६ ॥

प्रणवं नवकेशी च कनकं वतिसंयुतम् |
स्वाहान्ता द्वादशार्णेयं विद्या निष्कत्रयप्रदा ॥ ५७ ॥

“ओं नवकेशी कनकवति स्वाहा” |

नित्यशो गिरिशृङ्गस्थवटमूले त्रिलक्षकम् |
जपित्वाक्षरशो विद्यां फलमुक्तमवाप्नुयात् ॥ ५८ ॥

चरः प्राणो मरुद्युक्तो व्याप्तः प्राणो धरान्वितः |
व्योमद्वयं मरुद्युक्तं रयश्च धरया युतः ॥ ५९ ॥

चरः प्राण इति प्रोक्ता विद्याभीष्टं वदेन्मिथः |
[Gedruckte Auslassung des zweiten Halbverses.]

Redaktioneller Hinweis: Nicht sicher gelesene Bījafolgen bleiben als Lücken erkennbar. Die Ausgabe rekonstruiert sie nicht aus anderen Mantras.

“[Iṣṭavādinī-Formel im Druck nicht sicher entzifferbar]” |

[Erster Halbvers fehlt im Druck] |
जातीपुष्पैर्निशामध्ये पूजिता मङ्गलाकृतिः ॥ ६० ॥

सिद्धसारस्वतस्यादौ त्र्यक्षराणि ततः परम् |
मातङ्गिन्यै तथा स्वाहा पुनस्त्रीणीति तन्मनुः ॥ ६१ ॥

“ऐंह्रींश्रीं मातङ्गिन्यै स्वाहा ऐंह्रींश्रीं” |

द्वादशार्णैवमचिरात् सौभाग्यं कवितां श्रियम् |
गानाभियोगे विश्वेषां मान्यतां च प्रयच्छति ॥ ६२ ॥

मायाकृताङ्गो नित्यशस्तां जपेद् हृदये स्वतः |
सहस्रवारं तेनासौ सिद्धा सर्वं प्रयच्छति ॥ ६३ ॥

इन्द्रनीलनिभां रक्तवसनाभरणोज्ज्वलाम् |
प्रलम्बवेणीसन्नद्धसौगन्धिकसमुज्ज्वलाम् ॥ ६४ ॥

तत्कॢप्तमुण्डमालां च मुक्तास्तबकशोभिताम् |
ऊर्मिकावीरकटकनूपुरैर्मण्डिताङ्घ्रिकाम् ॥ ६५ ॥

वादयन्तीं सदा वीणां स्वसमानाङ्गनाजनैः |
स्तूयमानां च परितो ध्यायेद् देवीं शुचिस्मिताम् ॥ ६६ ॥

मातङ्गिन्या द्वितीयं च तृतीयं तदनन्तरम् |
रसाचरस्वैरम्बु खाद्वाताभ्री तदनन्तरम् [Lautcode nicht durchweg sicher] ॥ ६७ ॥

राज्यदे राज्यलक्ष्मीति हन्माया व्युत्क्रमात् त्रयम् |
विद्यासौ राज्यलक्ष्म्यास्तु षोडशार्णा समीरिता ॥ ६८ ॥

“ह्रींश्रीं[mittlere Bījafolge unsicher]राज्यदे राज्यलक्ष्मि सः [Bīja unsicher]श्रींह्रीं” |

ध्यात्वा तां विजयाविद्यां जपेन्नित्यं च पूजयेत् |
राज्यं प्रयच्छति प्रीता साधकायाविलम्बितम् ॥ ६९ ॥

प्रणवं श्रीपुटां मायां कमले तदनन्तरम् |
कमलातो लये पश्चात्प्रसीद द्वितयं पुनः ॥ ७० ॥

आद्यत्रयं महालक्ष्म्यै नमः प्रोक्ता महेश्वरि |
विद्या ते सप्तविंशार्णा समस्ताभीष्टदानिशम् ॥ ७१ ॥

“ओंश्रींह्रींश्रीं कमले कमलालये प्रसीदप्रसीद श्रींह्रींश्रीं महालक्ष्म्यै नमः” |

बीजत्रयैः षडङ्गानि द्विरुक्तैर्विहितानि वै |
ध्यानं च विजयरूपं प्रजपेद् दिनशस्तथा ॥ ७२ ॥

कीर्तिलक्ष्मीधरारोग्यविजयाद्यखिलेष्टदा |
तुलास्थे भास्करे पूजा पूर्णायां सकलेष्टदा ॥ ७३ ॥

व्यासकदाहवह्निस्वानमो [Lesung des Lautcodes unsicher] हंसो मरुद्युतः |
चण्डतेजश्च संकर्षवर्णाः स्युस्तदनन्तरम् ॥ ७४ ॥

व्योमाग्न्या कालिमन्थाने वर्णौ हंसश्च मायया |
सिद्धलक्ष्म्याश्च विद्येयं प्रोक्ता सप्तदशाक्षरा ॥ ७५ ॥

“[Anfangsbīja unsicher] महाचण्डतेजः संकर्षिणि कालिमन्थाने हः” |

आद्येन कृत्वा चाङ्गानि जपेद्विद्यां तु नित्यशः |
प्रातः सहस्रवारं तु तर्पयेद् तद्दशांशकम् ॥ ७६ ॥

प्रसन्ना वर्षतो नित्यपूजायां साधकस्य सा |
प्रयच्छति जयं युद्धे श्रियं सर्वातिशायिनीम् ॥ ७७ ॥

भूतप्रेतपिशाचापस्मारकृत्यादिवारणम् |
करोति मार्गे कान्तारगिरिकृच्छ्रेऽभिरक्षति ॥ ७८ ॥

ध्याने तु तस्या देवेशि मङ्गले मङ्गलासमा |
युद्धमार्गादिरक्षासु शृणु वक्ष्ये यथाविधि ॥ ७९ ॥

शतशीर्षां त्रिनयनां प्रतिवक्त्रं भयानकाम् |
हस्तद्विशतसंयुक्तां स्वसमाकारशक्तिभिः ॥ ८० ॥

वृतामनन्तंहस्तेषु साधकाभीष्टहेतिकाम् |
ध्यात्वैवमर्चयन्निष्टमवाप्नोत्यखिलं ध्रुवम् ॥ ८१ ॥

प्राक्प्रत्यग्दक्षिणोदक् च कृत्वा सूत्राष्टकं ततः |
मार्जयेद् बाह्यवीथीषु पञ्च पञ्च तथैकधा ॥ ८२ ॥

तदन्तरपि कोणेषु त्रयमेकीकृते ततः |
मध्यादि विलिखेन्मन्त्रवर्णान् षोडशनाम च ॥ ८३ ॥

[Fußnoten: १ ‘धना’ ख. पाठः |
२ ‘अनन्तैः’ ख. पाठः |
विभक्तिपाठत्वात् अनन्ताभिरिति यावत् |
Letztes Erläuterungswort teilweise undeutlich.]

Redaktioneller Hinweis: Die Formeln 1–7 besitzen ein im Druck nicht sicher entziffertes gemeinsames Mittelbīja; die erkennbaren Rahmenlaute werden erhalten.

प्रदक्षिणत्रयान्मध्ये पूजयेत्तत्र तां सदा |
समस्ताभीष्टसंसिद्ध्यै सिद्धलक्ष्मीं तु नित्यशः ॥ ८४ ॥

कदाचिदाद्या ललिता पुंरूपा कृष्णविग्रहा |
सर्वनारीसमारम्भादकरोद्विवशं जगत् ॥ ८५ ॥

ततः स गोपीसंज्ञाभिरावृतोऽभूत् स्वशक्तिभिः |
ततस्तेन विनोदाय स्वं षोढाकल्पयद्वपुः ॥ ८६ ॥

तेषां षण्णां च षण्मन्त्राः समस्ताभीष्टदायकाः |
तैर्यन्त्रपूजाहवनजपतर्पणसेचनैः ॥ ८७ ॥

भवन्ति लक्ष्मीकान्तिश्रीविजयारोग्यसंपदः |
शृणु तान् षट्क्रमान्मन्त्रान् ध्यानार्चाविनियोगकैः ॥ ८८ ॥

स्थिरारसाव्याप्तवनस्तैरेकोऽभून्महामनुः [Lautcode unsicher] |
प्रणवद्वयमध्यस्थः सिद्धगोपालकाभिधः ॥ ८९ ॥

“ओं [Mittelbīja unsicher] ओं” |
(१)

प्रोक्तैस्तु पञ्चभिः काममन्त्रैरेकैकेन क्रमात् |
पुटनान्नामतस्तत्सादृश्यैस्तैः पुटनाद्भवेत् [Verbindung im Druck unsicher] ॥ ९० ॥

संमोहनाख्यस्त्वेवं च सप्तधाभून्महामनुः |
[Zweiter Halbvers fehlt im Druck] ॥

“द्रां [Mittelbīja unsicher] द्रां (२) |
क्लीं [Mittelbīja unsicher] क्लीं (३) |
ऐं [Mittelbīja unsicher] ऐं (४) |
ब्लूं [Mittelbīja unsicher] ब्लूं (५) |
स्त्रीं [Mittelbīja unsicher] स्त्रीं (६) |
द्रांद्रींक्लींब्लूंसः [Mittelbīja unsicher] सःब्लूंक्लींद्रींद्रां (७)” |

[Erster Halbvers fehlt im Druck] |
आद्यः पञ्चाङ्गको मन्त्रस्त्वितरे स्युः षडङ्गकाः ॥ ९१ ॥

तत्तद्बीजादिकेन स्यात् षडङ्गानि यथाविधि |
अष्टपत्राब्जमध्यस्थं पूजयेत् सप्त तान् क्रमात् ॥ ९२ ॥

यन्त्राणि तानि तन्मन्त्रयुतमध्यान्यनुक्रमात् |
वारेषु भास्कराद्येषु तेषां पूजा क्रमेण वै ॥ ९३ ॥

सकलेष्टप्रदा नित्यं दुग्धचौद्रघृतान्नकैः [zweites Opferwort undeutlich] |
पायसेनारिकेलैश्च ससितैः कदलीफलैः ॥ ९४ ॥

क्रमाद्वारेषु नैवेद्यं दद्यादिष्टार्थसिद्धये |
इतीरितैः सप्तभिस्तैः सर्वमिष्टमवाप्नुयात् ॥ ९५ ॥

अरुणं षड्भुजं वंशवादिनं पाशमङ्कुशम् |
पुण्ड्रचापपुष्पपून् दधानं शक्तिभिः स्मरेत् ॥ ९६ ॥

सुवर्णपुष्पीमूलेन पिष्टेन निजवारिणा |
हृत्कण्ठाज्ञालेपनतो देवतादर्शनं भवेत् ॥ ९७ ॥

उग्रगन्धां च नीलीं च धातकीं फलसंयुताम् |
आरग्वधं मुण्डिनीं च शाखोटं जम्बुमूलकम् ॥ ९८ ॥

कार्णिकारं हंसपदीं वाराहीं भृङ्गराजकम् |
कोरण्टं कर्पटं क्षौद्रं त्रिफलां चूर्णयेत् समम् ॥ ९९ ॥

सितेनाज्येन मधुना जग्ध्वा तल्लिप्ततत्त्रयः |
भावयंस्तन्मयो भूयाद् दिवसैः कैश्चिदात्मवान् ॥ १०० ॥

इति ॥ अथ वासना तत्र श्रीतन्त्रराजे— (३५ |
१)

अथ षोडशनित्यानां स्वात्मत्वे वासनां शृणु |
यया तन्मयतासिद्धिः प्रत्यक्षा भवति ध्रुवम् ॥ १ ॥

गुरुराद्या भवेच्छक्तिः सा विमर्शमयी मता |
नवत्वं तस्य देहस्य रन्ध्रत्वेनावभासते ॥ २ ॥

बलिदेव्यः स्वमायाः स्युः पञ्चमी जनकात्मिका |
कुरुकुल्ला भवेन्माता पुरुषार्थास्तु सागराः ॥ ३ ॥

रत्नद्वीपो भवेद्देहो नवत्वं धातुरोर्मिभिः |
सङ्कल्पाः कल्पतरवः स्वाधारा ऋतवः स्मृताः ॥ ४ ॥

ग्रहताराराशिचक्रेण कालात्मा पश्चिमान्मुखः |
तेन पूर्वाभिमुख्यं स्यादन्यतत्ते कथितं मिथः ॥ ५ ॥

ज्ञाता स्वात्मा भवेज्ज्ञानमन्यच्च ज्ञेयं बहिःस्थितम् |
श्रीचक्रपूजनं तेषामेकीकरणमीरितम् ॥ ६ ॥

श्रीचक्रे सिन्धवः प्रोक्ता रसा नियतिसंयुताः |
ऊर्मयः पुरुषापापौ च ब्रह्मच्छाया मातरः स्मृताः [zweiter Halbvers unsicher] ॥ ७ ॥

[Fußnoten: १ ‘प्रादक्षिण्यक्रमात्’ ख. पाठः |
२ ‘तदा’ ख. पाठः |
३ ‘शृङ्गराजकम्’ ख. पाठः |
४ ‘पिप्पलं मतं’ ख. पाठः |
५ ‘न’ ख. पाठः |
]

भूतेन्द्रियमनोऽंशैव क्रमान्नित्याकलाः पुनः [Anfangskompositum unsicher] |
कर्मेन्द्रियार्था दानाश्च ज्ञेयाः स्युः शक्तयोऽष्ट वै [दानाश्च undeutlich] ॥ ८ ॥

नाड्यश्चतुर्दश प्रोक्ताः क्षोभिण्याद्यास्तु शक्तयः |
वायवो दश संप्रोक्ताः सर्वसिद्ध्यादिशक्तयः ॥ ९ ॥

वह्नयो दश संप्रोक्ताः सर्वज्ञाद्यास्तु शक्तयः |
शीतोष्णसुखदुःखेच्छा गुणाः प्रोक्ताः क्रमेण वै ॥ १० ॥

वशिन्याद्याः शक्तयः स्युस्तन्मात्राः पुष्पसायकाः |
मनो भवेदिक्षुधनुः पाशो राग इतीरितः ॥ ११ ॥

द्वेषः स्यादङ्कुशः प्रोक्तः क्रमेण वरवर्णिनि |
अव्यक्ताहङ्कृतिमहदाकारा प्रतिलोमतः ॥ १२ ॥

कामेश्वर्यादिदेव्यः स्युः संवित्कामेश्वरः स्मृतः |
स्वात्मैव देवता प्रोक्ता ललिता विश्वविग्रहा ॥ १३ ॥

लौहित्यं तद्विमर्शः स्यादुपास्तिरितीति भावना |
सिद्धिस्त्वनन्यचित्तत्वं मुद्रा वैभवभावना ॥ १४ ॥

उपचाराश्चलत्वेऽपि तन्मयत्वाप्रमत्तता |
प्रयोगस्तु विकल्पानां हेतोः स्वात्मनि नाशनम् ॥ १५ ॥

यन्त्राणि मन्त्राः सर्वत्र स्वात्मत्वे धैर्यसाधनम् |
संध्यासु भजनं देव्या आदिमध्यान्तमज्जनम् ॥ १६ ॥

अन्यास्तु शक्तयश्चक्रगामिन्यो याः समन्ततः |
तास्तु विश्वविकल्पानां हेतवः समुदीरिताः ॥ १७ ॥

न्यासस्तु देवतात्मत्वेन स्वात्मनो देहकल्पनम् |
जपस्तन्मयतारूपभावनं सम्यगीरितम् ॥ १८ ॥

होमो विश्वविकल्पानामात्मन्यस्तमयो मतः |
तेषामन्योन्यसंभेदभावनं तर्पणं स्मृतम् ॥ १९ ॥

मोहाज्ञानादिदुःखानामात्मन्यस्तमयो दृढम् |
अभिषेकस्तु विद्या स्यादात्मा सर्वाश्रयो महान् ॥ २० ॥

उपाधीनां तु राहित्यमुपदेश इतीरितः |
दक्षिणा भेदशून्यत्वं शुश्रूषा स्थैर्यमुच्यते ॥ २१ ॥

तिथिरूपेण कालेन परिणामावलोकनम् |
नित्याः पञ्चदशैताः स्युरिति प्रोक्तास्तु वासनाः ॥ २२ ॥

पृथिव्यादीनि भूतानि कनिष्ठायाः क्रमान्मताः |
तेषामन्योन्यसंभेदप्रकारैस्तत्प्रपञ्चता ॥ २३ ॥

ललितायास्त्रिभिर्वर्णैः सकलार्थोऽभिधीयते |
शेषेण देवीरूपं तु तेन स्यादिदमीरितम् ॥ २४ ॥

अशेषतो जगत् कृत्स्नं हृल्लेखात्मकमीरितम् |
तस्यार्चार्थस्तु कथितः सर्वतन्त्रेषु गोपितः ॥ २५ ॥

व्योम्ना प्रकाशमानत्वं ग्रसमानत्वमग्निना |
तयोर्विमर्श ईकारो बिन्दुना तन्निकालनम् ॥ २६ ॥

इति ॥ अथ प्रणवस्वरूपनिरूपणम् |
तत्रोपनिषद्वाक्यम्—

ओंब्रह्मविद्यां प्रवक्ष्यामि सर्वज्ञानमनुत्तमाम् |
यत्रोत्पत्तिं लयं चैव ब्रह्मविष्णुमहेश्वरात् ॥ १ ॥

प्रसादान्तःसमुत्थस्य विष्णोरद्भुतकर्मणः |
रहस्यं ब्रह्मविद्यायां ध्रुवाग्निः संप्रचक्षते [letzte Wortverbindung unsicher] ॥ २ ॥

ओमित्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिभिः |
शरीरं तस्य वक्ष्यामि स्थानं कालं लयं तथा ॥ ३ ॥

तत्र देवादयः प्रोक्ता लोका वेदास्त्रयोऽग्नयः |
तिस्रो मात्रार्धमात्रा च त्र्यक्षरस्य शिवस्य च ॥ ४ ॥

ऋग्वेदो गार्हपत्यश्च पृथिवी ब्रह्म एव च |
अकारस्य शरीरं तु व्याख्यातं ब्रह्मवादिभिः ॥ ५ ॥

यजुर्वेदोऽन्तरिक्षं च दक्षिणाग्निस्तथैव च |
विष्णुश्च भगवान् देव उकारः परिकीर्तितः ॥ ६ ॥

सामवेदस्तथा द्यौश्चाहवनीयस्तथैव च |
ईश्वरः परमो देवो मकारः परिकीर्तितः ॥ ७ ॥

[Fußnoten: १ ‘उदीरितः’ ख. पाठः |
२ ‘स्थैर्य’ ख. पाठः |
३ ‘कालस्य’ ख. पाठः |
† निकालनं तादात्म्यविमर्शनिर्णीतिरित्यर्थः |
]

सूर्यमण्डलमिवाभात्यकारः शङ्खमध्यगः |
उकारश्चन्द्रसङ्काशस्तस्य मध्ये व्यवस्थितः ॥ ८ ॥

मकारश्चाग्निसङ्काशो विधूमो विद्युतोपमः |
तिस्रो मात्रास्तथा ज्ञेयाः सोमसूर्याग्नितेजसः ॥ ९ ॥

शिखाभा दीपसङ्काशा यस्मिन्नुपरि वर्तते |
अर्धमात्रा तु सा ज्ञेया प्रणवस्योपरि स्थिता ॥ १० ॥

पद्मसूत्रनिभा सूक्ष्मा शिखाभा दृश्यते परा |
सा नाडी सूर्यसङ्काशा सूर्यं भित्त्वा तथापरम् ॥ ११ ॥

द्वासप्ततिसहस्राणि सूर्यं भित्त्वा तु मूर्धनि |
वरदः सर्वभूतानां सर्वं व्याप्यैव तिष्ठति ॥ १२ ॥

कांस्यघण्टानिनादस्तु यथा लीयति शान्तये |
ओंकारस्तु तथा योज्यः शान्तये सर्वमिच्छता ॥ १३ ॥

यस्मिन् संलीयते शब्दस्तत्परं ब्रह्म गीयते |
ध्रुवं हि चिन्तयेद् ब्रह्म सोऽमृतत्वाय कल्पते सोऽमृतत्वाय कल्पते ॥ १४ ॥

इति |
अस्यार्थः—ब्रह्मविद्यां प्रवक्ष्यामीति श्लोकः क्वचिदेवादौ पठ्यते |
ब्रह्म प्रणवस्तस्य विद्यां ज्ञानं, तां किंभूतां, सर्वेषां ज्ञानं ज्ञानोपायभूतां, प्रणवेन ब्रह्मणि ज्ञाते सर्वस्य विज्ञानात् |
तथा यत्र विद्यायां देवत्रयादुत्पत्तिं लयं चकारात् पालनं च वक्ष्यामीति पूर्वेणान्वयः श्रुतेः प्रतिज्ञेयम् ॥ प्रसादेति विष्णोः ब्रह्मविद्यायां रहस्ये ध्रुवाग्निः प्रणवतेज इति संप्रचक्षते बुधा इत्यन्वयः, विष्णुनेयं विद्या प्रवर्तितेत्यर्थः |
कीदृशस्य प्रसादेन भक्तकृपया अन्तः अनन्तरात् स्तम्भमध्यात् समुत्थस्य नृसिंहरूपेण प्रकटीभूतस्य, यद्वा “प्रासादो देवभूभुजाम्” इति कोशात् क्षीरोदवैकुण्ठबलिगृहद्वारादेः प्रासादस्यान्तराज्जगद्रक्षणार्थं प्रकटीभूतस्य, यद्वा प्रसादः लिङ्गाद्यपेक्षया प्रसन्नरूपो जीवस्तस्यान्तरमावरणमविद्यादि, ततः समुत्थस्य निष्क्रान्तस्याविद्यावरणरहितस्येत्यर्थः |
यथोक्तं छान्दोग्ये—“अथ य एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः” इति |
अद्भुतकर्मणो मत्स्यादिरूपेण ओंकारो ध्रुवोऽक्षरनिघण्टावुक्तः |
तथाहि—

“ओंकारो वर्तुलस्तारो बिन्दुः शक्तिस्त्रिदैवतः |
प्रणवो मन्त्रगर्भश्च पञ्चदेवो ध्रुवः शिवः ॥

मन्त्राद्यः परमं बीजं मूलमाद्यश्च तारकः |
शिवादि व्यापको व्यक्तः परं ज्योतिश्च संविदः” ॥

इति ॥ स्थानं कालं लयं तथेति कालशब्दो मेचकवाचको वर्णं लक्षयति, तेन वर्णं वक्ष्यामीत्यर्थः |
वर्णमित्येव वक्तव्ये कालग्रहणं मात्रारूपकालस्यापि संग्रहाार्थमिति द्रष्टव्यम् |
अवयवशः शरीरं तावदाह तत्र देवा इति, त्र्यक्षरस्य शिवस्य चेति |
शिवोऽर्धमात्रार्थः |
तिस्रो मात्रास्त्र्यक्षरस्य, अर्धमात्रा शिवार्थेत्यर्थः |
प्रणवस्य देवादयस्त्रय उक्ताः |
त्रयस्त्रयोऽनुपदमेव वक्ष्यन्ते |
तिस्रो मात्रा अर्धमात्रा चेति वक्तव्ये छान्दसः सन्धिः |
तदुक्तं हठप्रदीपिकायाम्—

“अकारश्च उकारश्च मकारो बिन्दुसंज्ञकः |
त्रिधा मात्रा स्थिता यत्र तत्परं ज्योतिरोमिति” ॥

त्रय इत्युक्तं तदेव विभजते ऋग्वेद इत्यादिना |
ब्रह्म एव चेत्यत्र छान्दसो ह्रस्वः प्रकृतिभावश्च, ब्रह्मा देव इत्यर्थः |
स्वराडन्तेन ग्रन्थेन शरीरमित्युक्तं संप्रति स्थानं वर्णसहितमाह सूर्यमण्डलमिवाभाति अकारः |
शङ्खो ललाटास्थि तन्मध्यं नेत्रस्थानं तत्र वर्तमानः “योऽयं दक्षिणेऽक्षन्पुरुषः” इति श्रुतेः |
“शङ्खो निध्यन्तरे कम्बुललाटास्थिनखेषु च” इति विश्वः |
तस्य मध्ये शङ्खस्यैव मध्येऽर्थाद्वामनेत्रे स्थितः |
मकार इत्यत्रापि तस्य मध्ये इत्यपेक्ष्यते |
शङ्खस्य मध्ये अर्थात् तृतीयनेत्रे व्यवस्थितः |
अत एव याज्ञवल्क्येनोक्तम्—

[Fußnoten: १ ‘तीर्त्वा सं’ ख. पाठः [Lesung unsicher] |
२ ‘नित्य’ क. पाठः |
Einzelne Sandhi- und Kasusformen der Prosa sind druckbedingt unsicher.]

“इडायां पिङ्गलायां च चरतश्चन्द्रभास्करौ |
इडायां चन्द्रमा ज्ञेयः पिङ्गलायां रविः स्मृतः” ॥

इति ॥ खेचर्यां च—

“जिह्वामूले स्थितो देवि सर्वतेजोमयोऽनलः |
तदग्रे भास्करश्चन्द्रस्तालुमध्ये प्रतिष्ठितः ॥

एवं यो वेत्ति तत्त्वेन तस्य सिद्धिः प्रजायते” ॥

इति |
तिस्रो मात्रा अकारादयः |
अनेन काल उक्तः |
सोमसूर्याग्नितेजस इत्यनेन वर्णा उक्ताः |
यस्मिन् शङ्खे उपरि तृतीयनेत्रादुपरि, अनेनार्धमात्रास्थानमुक्तम् |
पद्मसूत्रनिभेति तस्या वर्ण उक्तः |
शिखाभा ज्वालाभा ऊर्ध्वतावैशद्याभ्याम् |
तथा मूले स्थूला उपर्युपरि तन्वी च |

“शिखा शिफायां ज्वालायां चूडायामग्रमात्रके |
लाङ्गल्यां चापि शाखायां चूडायां च शिखण्डिनः” ॥

इति विश्वः |
सा नाडी सुषुम्ना तस्या एव वा पूर्वाणि विशेषणानि |
सूर्यं चक्षुरधिष्ठानं अथवा सूर्याल्लब्धरश्मित्वान्मनोऽधिष्ठानश्चन्द्रः सूर्यस्तं भित्त्वा तथा अपरमधःकन्दं द्वासप्ततिसहस्रनाडीर्भित्त्वा ऊर्ध्वं गता ॥ तदुक्तं (गोरक्षेण)—

“ऊर्ध्वं मेढ्रादधो नाभेः कन्दयोनिः खगाण्डवत् |
तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः” ॥

इति |
पुनरधिदैवते सूर्यं भित्त्वा मूर्धनि ब्रह्मलोके द्वादशान्ते च दृश्यते इत्यनुषङ्गः ॥ तदुक्तं याज्ञवल्क्येन—

तासां मुख्यतमा तिस्रस्तिसृष्वेकोत्तमोत्तमा |
मुक्तिमार्गेति सा प्रोक्ता सुषुम्ना विश्वधारिणी ॥ १ ॥

कन्दस्था मध्यमे मार्गे सुषुम्ना सुप्रतिष्ठिता |
पृष्ठमध्यस्थिता नाडी सा हि मूर्ध्नि व्यवस्थिता ॥ २ ॥

मुक्तिमार्गे सुषुम्ना सा ब्रह्मरन्ध्रे प्रतिष्ठिता |
अव्यक्ता सैव विज्ञेया सूक्ष्मा सा वैष्णवी स्मृता ॥ ३ ॥

इति |
प्रणवो नादरूपेण सर्वं व्याप्यैव तिष्ठतीत्याह वरद इति |
अनेन ओंकारोऽनाहतशब्दो विष्णुश्चैक इत्युक्तं भवति |
इदानीं लयमाह कांस्यघण्टेति |
यथा लीयति लीनोऽपरतव्यापारो भवति ओंकारस्तथा शान्तये योज्यः, प्लुततरो जप्तव्य इत्यर्थः |
सर्वं सर्वात्मभावं ब्रह्मभावमिच्छता |
यस्मिन् संलीयते इति, यद्वस्त्वनुभूय शब्दो विषयो नोपलभ्यते विलीयते तत्परं ब्रह्म ॥ तदुक्तं प्रदीपिकायाम्—

काष्ठे प्रवर्तितो वह्निः काष्ठेन सह शाम्यति |
नादे प्रवर्तितं चित्तं नादेन सह लीयते ॥ १ ॥

विसृज्य सकलं बाह्यं नादे दुग्धाम्बुवन्मनः |
एकीभूयाशु मनसा ब्रह्माकाशे विलीयते ॥ २ ॥

इति |
लयलक्षणं तु—

लयो लय इति प्राहुः कीदृशं लयलक्षणम् |
अपुनर्वासनोत्थानाल्लयो विषयविस्मृतिः ॥ १ ॥

यद्वा यतो वाचो निवर्तन्ते, इत्यर्थः |
उपसंहरति ध्रुवमिति |
ध्रुवमोंकारं हि ब्रह्म चिन्तयेत्, ध्रुवमेकरूपं वा एकाग्रतया वा ब्रह्म चिन्तयेत् |
द्विरुक्तिः समाप्त्यर्थः ॥

अथ प्रसङ्गतो योगलक्षणमाह क्षुरिकायाम्—

क्षुरिकां संप्रवक्ष्यामि धारणां योगसिद्धये |
यां प्राप्य न पुनर्जन्म योगयुक्तः स जायते ॥ १ ॥

वेदतत्त्वार्थविहितं यथोक्तं हि स्वयंभुवा |
निःशब्दं देशमास्थाय तत्रासनमवस्थितः ॥ २ ॥

कूर्मोऽङ्गानीव संहृत्य मनो हृदि निरुध्य च |
मात्राद्वादशयोगेन प्रणवेन शनैः शनैः ॥ ३ ॥

[Fußnoten: १ ‘मा मार्गे’ ख. पाठः [erste Silbe unsicher] |
२ ‘रुन्ध्य’ ख. पाठः |
]

पूरयेत् सर्वमात्मानं सर्वद्वारान् निरुध्य च |
उरोमुखकटिग्रीवं किञ्चिद् हृदयमुन्नतम् ॥ ४ ॥

प्राणान् संचारयेद्योगी नासाभ्यन्तरचारिणः |
भूत्वा तत्र गतः प्राणान् शनैरथ समुत्सृजेत् ॥ ५ ॥

स्थिरमात्रादृढं कृत्वा अङ्गुष्ठे तु समाहितः |
द्वे तु गुल्फे च कुर्वीत जङ्घे चैव त्रयस्त्रयः ॥ ६ ॥

द्वे जानुनि तथोरुभ्यां गुदे शिश्ने त्रयस्त्रयः |
वायोरायतनं चात्र नाभिदेशे समाश्रयेत् ॥ ७ ॥

तत्र नाडी सुषुम्ना तु नाडीभिर्बहुभिर्वृता |
अणुरक्ताश्च पीताश्च कृष्णास्ताम्रविलोहिताः ॥ ८ ॥

अतिसूक्ष्मां च तन्वीं च शुक्लां नाडीं समाश्रयेत् |
ततः संचारयेत् प्राणानूर्णनाभीव तन्तुना ॥ ९ ॥

तत्र रक्तोत्पलाभासं पुरुषायतनं महत् |
दहरं पुण्डरीकेति वेदान्तेषु निगद्यते ॥ १० ॥

तद्भित्त्वा कण्ठमायाति तां नाडीं पूरयन्यतः |
मनसस्तु क्षुरं गृह्य सुतीक्ष्णं बुद्धिनिर्मलम् ॥ ११ ॥

पादस्योपरि मर्मेज्य तद्रूपं नाम कृन्तयेत् [मर्मेज्य unsicher] |
मनोद्वारेण तीक्ष्णेन योगमाश्रित्य नित्यशः ॥ १२ ॥

इन्द्रवज्र इव प्रोक्तं मर्मजङ्घानुकीर्तनम् |
तद्ध्यानबलयोगेन धारणाभिर्निकृन्तयेत् ॥ १३ ॥

ऊरोर्मध्ये तु संस्थाप्य मर्मप्राणविमोचनम् |
चतुरभ्यासयोगेन छिन्देदनभिशङ्कितः ॥ १४ ॥

ततः कण्ठान्तरे योगी समूहन्नाडिसञ्चयम् |
एकोत्तरं नाडीशतं तासां मध्ये वराः स्मृताः ॥ १५ ॥

इडा रक्षतु वामेन पिङ्गला दक्षिणेन तु |
तयोर्मध्ये वरं स्थानं यस्तं वेद स वेदवित् ॥ १६ ॥

सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी |
द्वासप्ततिसहस्राणि प्रति नाडीस्तु तैतिलम् ॥ १७ ॥

छिद्यते ध्यानयोगेन सुषुम्नैका न छिद्यते |
योगनिर्मलधारेण क्षुरेणानलवर्चसा ॥ १८ ॥

छिन्देन्नाडीशतं धीरः प्रभावादिह जन्मनि |
जातीपुष्पसमायोगैर्यथा वास्यन्ति तैतिलम् ॥ १९ ॥

एवं शुभाशुभैर्भावैः सा नाडी तां विभावयेत् |
तद्वासिताः प्रपद्यन्ते पुनर्जन्मविवर्जिताः ॥ २० ॥

ततो विदितचित्तस्तु निःशब्दं देशमाश्रितः |
निःसङ्गस्तत्त्वयोगज्ञो निरपेक्षः शनैः शनैः ॥ २१ ॥

पाशं छित्त्वा यथा हंसो निर्विशङ्कः खमुत्क्रमेत् |
छिन्नपाशस्तथा जीवः संसारं तरते तदा ॥ २२ ॥

यथा निर्वाणकाले तु दीपो दग्ध्वा लयं व्रजेत् |
तथा सर्वाणि कर्माणि योगी दग्ध्वा लयं व्रजेत् ॥ २३ ॥

प्राणायामसुतीक्ष्णेन मात्राधारेण योगवित् |
वैराग्योपलघृष्टेन छित्त्वा तन्तुं न बध्यते |
छित्त्वा तन्तुं न बध्यते ॥ २४ ॥

इति |
अस्यार्थः—

“क्षुरिका शस्त्रिका प्रोक्ता तत्तुल्या धारणा यतः |
तद्वाचकस्त्रिखण्डोऽयं क्षुरिकाग्रन्थ उच्यते” ॥

गुरुतः प्राप्तविद्यस्य तत एव लब्धज्ञानप्रणवमन्त्रस्य षडङ्गयोगेऽधिकार इति तदर्थमुत्तरो ग्रन्थः क्षुरिकामित्यादि |
क्षुरिकामिव संसारोच्छित्तये शस्त्रिकामिव रूपकं धारणामात्मनि चित्तावस्थानलक्षणम् |
उक्तं च योगियाज्ञवल्क्येन—

[Fußnoten: १ ‘तस्मिन्’ ग. पाठः |
२ ‘धा’ क. पाठः |
३ ‘समुन्नयेत्’ क. पाठः |
४ ‘चाथ’ क. पाठः |
५ ‘ततः’ क. पाठः |
६ ‘तु’ क. पाठः |
७ ‘येच्छनैः’ ‘येद्यतः’ क. पाठः |
८ ‘नाडी तु’ क. पाठः |
९ ‘मल’ क. पाठः |
१० ‘स्थितः’ क. पाठः |
११ ‘नयेत्’ क. पाठः |
]

“शमादिगुणयुक्तस्य मनसः स्थितिरात्मनि |
धारणेत्युच्यते सद्भिः शास्त्रतात्पर्यवेदिभिः” ॥

इति |
न पुनर्जन्म भवतीति शेषः |
स धारणावान् कुतश्चिदपराधाद्यदि योगभ्रष्टो भवति तर्हि जन्मान्तरे योगयुक्त एव जायते इत्यर्थः |
“योगश्चित्तवृत्तिनिरोधः” |
“तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्” इति स्मृतेः ॥ वेदेति |
इदं योगस्वरूपं वेदेन तत्त्वार्थेन परमार्थेन विहितं विधिविषयीकृतं स्वयंभुवा ब्रह्मणा यथोक्तं यथा वर्तते तथोक्तं न विसंवादीत्यर्थः |
तदुक्तं योगियाज्ञवल्क्येन—“वक्ष्यामि योगसर्वस्वं ब्रह्मणा कीर्तितं पुरा” इति |
“यथोक्तं परमेष्ठिना” इति च ॥ योगस्वरूपं साधयितुं षडङ्गान्याह निःशब्दमिति |
यदुक्तं “कान्तारे विजने देशे फलमूलोदकान्विते |
तपश्चरन् वसेन्नित्यम्” इति ॥ षडङ्गलक्षणानि प्रागुक्तानि |
यमादीनां पूर्वकाण्डादेव सिद्धत्वादिहानभिधानं, नतु कापालिकवदनङ्गीकारात् |
यमा दश यथा—

“अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् |
क्षमा धृतिर्मिताहारः शौचं चेति यमा दश” ॥

इति |
नियमा दश यथा—

“तपः सन्तोष आस्तिक्यं दानमीश्वरपूजनम् |
सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो हुतम्” ॥

इति ॥ अवस्थित आस्थित आरूढः |
तदुक्तं गीतासु—

“शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः |
नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरम्” ॥

इति |
तथा तन्त्रेणासने पद्माद्यास्थितमित्यपि बोद्धव्यम् |
तदुक्तं हठयोगप्रदीपिकायाम्—

“हठस्य प्रथमाङ्गत्वादासनं पूर्वमुच्यते |
तत् कुर्यादासनस्थैर्यमारोग्यं चाङ्गपाटवम्” ॥

इति ॥ कूर्मोऽङ्गानीवेति प्रत्याहार उक्तः |
अत्र इन्द्रियाणीति शेषः |
तदुक्तम्—

“इन्द्रियाणां विचरतां विषयेषु स्वभावतः |
बलादाहरणं तेषां प्रत्याहारः स उच्यते” ॥

इति |
आन्तरप्रत्याहारसिद्धये मन इति |
हृदि हृत्पुण्डरीके |
मनोऽनिरोधे दोषस्मरणात् |
तदुक्तम्—

“कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् |
इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते” ॥

इति |
मात्रेति द्वादश मात्रा नादबिन्दावुक्ताः “घोषिणी प्रथमा मात्रा” इत्यादिना तत्रैव द्रष्टव्याः |
प्रणवेन शनैः शनैरुच्चारितेन वायुं पूरयेत् |
कीदृशेन मात्राः अकारोकारमकारार्धमात्राख्याश्चतस्रस्तासां प्रत्येकं तिस्रस्तिस्रो मात्रा घोषिण्यादयो भूमिपत्यादिफला द्वादश, तासां योगश्चिन्तनं यस्मिंस्तेन प्रणवेन पूरयेत् |
यदा द्वादशभिः प्रणवैः पूरणं तदाष्टचत्वारिंशद्भिः कुम्भनं, चतुर्विंशतिभी रेचनम् |
यदा तु षोडशभिः पूरणं तदा चतुष्षष्टिभिः कुम्भनं द्वात्रिंशद्भी रेचनम् |
यदा त्वष्टभिः पूरणं तदा द्वात्रिंशद्भिः कुम्भनं षोडशभी रेचनमिति विवेकः |
सर्वमात्मानं नतु कतिपयद्वारनिरोधनोपविशेत् |
तथा सति वायुवैषम्यं स्यात् |
सर्वद्वारान् स्वद्वाराणीत्यर्थः |
अधोद्वारे आकुञ्चनमूलबन्धाभ्यामूर्ध्वद्वाराणि जालन्धरबन्धेन |
उरोमुखकटिग्रीवमुन्नतं धारयेदिति शेषः |
तदुक्तं गीतासु—“समं कायशिरोग्रीवं धारयन्नचलं स्थिरम्” |

इति |
हृदयं किञ्चिदुन्नतं धारयेत्, अनेन जालन्धरबन्धः सूचितः |
स यथा—

“कण्ठमाकुञ्च्य हृदये स्थापयेच्चिबुकं दृढम् |
बन्धो जालन्धराख्योऽयममृताप्ययकारकः” ॥

इति ॥ सञ्चारयेत् पूरकमात्राभिस्तस्मिन्नेव हृदये |
नासेति तेन मुखेन पूरकरेचकौ निषिद्धौ, मुखेनैव पूरणे—

[Fußnoten: १ ‘धृत्वेन’ क. पाठः [Lesung unsicher] |
२ ‘यान्यङ्गानि’ क. ख. पाठः |
]

शिरानैर्मल्यासिद्धेः |
भूत्वेति प्राणस्तत्र सर्वशरीरे गतः प्रविष्टो भूत्वा तिष्ठतीति शेषः, एतेन कुम्भक उक्तः |
स च पूरकमात्रापेक्षया चतुर्गुणाभिर्मात्राभिः कार्यः |
अथ रेचकमाह शनैरिति |
समुत्सर्जनं च पूरणापेक्षया द्विगुणाभिर्मात्राभिः |
शीघ्रोत्सर्जने विमार्गं वायुर्गच्छेत् |
स्थिरेति स्थिराभिरेकरूपाभिर्मात्राभिर्दृढं स्थिरं प्राणं कृत्वा केवलकुम्भके सिद्धे इत्यर्थः |
ततो धारणाभिः प्रत्याहारमभ्यसेदित्याह अङ्गुष्ठे इत्यादिना |
अङ्गुष्ठे इत्यादौ जातावेकवचनम् |
अङ्गुष्ठयोर्गुल्फयोर्जङ्घयोरित्यादि बोद्धव्यम् |
अङ्गुष्ठयोर्धारणे कुर्वीतेत्यन्वयः, द्वे तु, धारणे कुर्यादित्यर्थः |
त्रयस्त्रय इति (जङ्घे प्राप्य) आद्यन्तमध्येषु निरोधाः कर्तव्या इति शेषः |
जानुनि आद्यन्तयोरूरुभ्यां साधनाभ्यामूर्वोरपि तथा द्वे इत्यर्थः |
गुदेति मूलाधारे स्वाधिष्ठाने चाद्यन्तमध्येषु निरोधः |
वायोरिति, अत्र नाभिदेशे वायोरायतनं मुख्यं स्थानमस्ति |
तच्च धारणया समाश्रयेदित्यर्थः |
तत्रेति, तत्र नाभौ सुषुम्ना मध्यनाडी बहुभिर्द्वासप्ततिसहस्रैर्वृता |
मूलं तु तस्याः कन्दमध्ये कन्दस्तु—“गुदध्वजान्तरे कन्दमुत्सेधाद् द्व्यङ्गुलं विदुः” इत्युक्तः |
“गुदमेढ्रान्तरे यद्वै वेणुकन्दं तदुच्यते” इति च |
वेणुः सुषुम्ना सा च षट्चक्रवती मूलाधारदण्डान्तर्विवरगता मूर्धानं भित्त्वा ब्रह्मलोकान्तं निर्गता |
यच्छान्दोग्ये—“शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका” इति |
नाभेरूर्ध्वं तु चक्रानुक्रमेण धारणा मूर्धान्तं द्रष्टव्या |
उक्तं च योगियाज्ञवल्क्येन—

मर्मस्थानानि सिद्ध्यर्थं शरीरे योगिनो मम [Lesung der letzten Wörter unsicher] |
तानि सर्वाणि वक्ष्यामि यथावच्छृणु सुव्रते ॥ १ ॥

मर्मस्थानसंख्या तु—

“पादाङ्गुष्ठौ तु गुल्फौ च जङ्घामध्यौ तथैव च |
तयोर्मूलं च जान्वोश्च मध्ये चोरुद्वयस्य च ॥ २ ॥

पायुमूलं ततः पश्चान्मध्यदेहश्च मेढ्रकम् |
नाभिश्च हृदयं ग्रीवां कण्ठकूपस्तथैव च ॥ ३ ॥

तालुमूलं च नासाया मूलं चाक्ष्णोश्च मण्डले |
भ्रुवोर्मध्यं ललाटं च प्रोक्तानि मुनिसत्तमैः ॥ ४ ॥

मर्मस्थानानि चैतानि” |
इति एतेषु च तत्रैव धारणोक्ता—

स्थानेष्वेतेषु मनसा वायुमारोप्य धारयेत् |
स्थानात् स्थानं समाकृष्य प्रत्याहारं प्रकुर्वतः ॥ १ ॥

सर्वे रोगाश्च नश्यन्ति योगाः सिध्यन्ति तस्य च |
[Zweiter Halbvers fehlt im Druck] ॥

इति |
प्रपञ्चसारेऽपि—(१९ |
५१)

अङ्गुष्ठगुल्फजानुद्वयं च गुदं च सीवनी मेढ्रम् |
नाभिर्हृदयं ग्रीवा सलम्बिकाग्रं तथैव नासा च ॥ १ ॥

भ्रूमध्यललाटाग्रं सुषुम्नाग्रं द्वादशान्तमित्येवम् |
उत्क्रान्तौ परकायप्रवेशने चागतौ च पुनः स्वतनौ ॥ २ ॥

स्थानानि धारणायाः प्रोक्तानि मरुत्प्रयोगविधिनिपुणैः |
[Zweiter Halbvers fehlt im Druck] ॥

इति |
अङ्गुष्ठादूर्ध्वमारोहे फलमिदमुक्तम् |
मूर्धाङ्गुष्ठपर्यन्तावरोहेऽपि च धारणानां फलमुक्तम्—

“स्थानात् स्थानं समाकृष्य यस्त्वेवं धारयेत् सुधीः |
सर्वपापविशुद्धात्मा जीवेदाचन्द्रतारकम्” ॥

इति |
अणुरक्ताश्चेत्यादीनां नाडीनां विशेषणम् |
तदुक्तं छान्दोग्ये—“अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्य” इति ॥ अणवश्च ता रक्ताश्चेति समासः |

[Fußnoten: १ ‘चित्योः’ ग. पाठः |
२ ‘यान्यङ्गानि’ ग. पाठः |
३ ‘मूर्धा च’ क. पाठः |
४ ‘मे’ क. पाठः |
५ ‘मर्मस्थानं’ क. पाठः |
६ ‘समुत्कृष्य’ क. पाठः |
७ ‘हृद्योनि…’ क. पाठः [Ende unsicher] |
]

एवं केवलकुम्भके सिद्धे प्राणमनसोः स्थानविशेषेषु प्रत्याहारमभ्यस्य धारणासिद्धये सुषुम्नायां प्राणमनसोः प्रवेशः कर्तव्यः |
तत्रोपायः—मूलोड्याणजालन्धरबन्धैः शक्तिचालनेन त्वपानमूर्ध्वमाकुञ्च्य तेन देहमध्ये अग्निं प्रज्वाल्य तज्ज्वालया कुण्डलिनीं प्रताप्योद्बोध्य ब्रह्मनाडीद्वारमध्यस्थतन्मुखप्रसारणेन तत्र वायुमनोवह्नीन् प्रवेशयेदित्याशयेन आह—अतिसूक्ष्मामिति |
तत्र जालन्धरबन्ध उक्तः |
उड्याणं यथा—

“उदरे पश्चिमं तानं नाभेरूर्ध्वं तु कारयेत् |
उड्डियाणो ह्ययं बन्धो मृत्युमातङ्गकेसरी” ॥

इति ॥ मूलबन्धो यथा—

“पार्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद् गुदम् |
अपानमूर्ध्वमाकृष्य मूलबन्धो निगद्यते” ॥

इति |
शक्तिचालनं यथा—

सव्यासनस्थस्य फणावती सा प्रातश्च सायं प्रहरार्धमात्रम् |

प्रपूर्य सूर्यात् परिधानयुक्ता प्रगृह्य नित्यं परिचालनीया [einzelne Wörter unsicher] ॥

इति |
अतिसूक्ष्मां तन्वीं बालाग्रशत(सहस्रान्त)भागोपमां नाडीं सुषुम्नां समाश्रयेत्, अन्या नाडीरुत्सृज्य तत्रैव मनो रुन्ध्यादित्यर्थः |
ततस्तयेत्यर्थः |
तृतीयार्थे तसिः |
तन्तुना इति प्रतियोगिनि तृतीयाश्रवणात् |
सुषुम्नया प्राणान् सञ्चारयेदूर्ध्वं नयेत् |
ऊर्णनाभी कीटविशेषो लूताख्यः स तन्तुना यथोर्ध्वं सञ्चरति तथा संचारयेदित्यर्थः |
तत इति |
ततः सञ्चारानन्तरं तद्भित्त्वा इत्यग्रतनेनान्वयः |
तत् पुण्डरीकं कीदृशं रक्तोत्पलवदाभासं रक्तवर्णं, नानावर्णनाडीयोगात् रक्तता |
“पुण्डरीकं सिताम्बुजे” इति कोशात्, सितत्वेऽपि औपाधिकी रक्तता ज्ञेया |
पुरुषायतनं जीवनीडः महत् सर्वावभासकत्वात् |
दहरं दभ्रं सूक्ष्मरूपत्वेन पुण्डरीकं हृत्पद्मं दहराख्यमाकाशं वेदान्तेषु छान्दोग्यादिषु निगद्यते पठ्यते |
तद्यथा—

“अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्” इति |
तद्भित्त्वेति, तत्पुण्डरीकमनाहताख्यं कुण्डलिनीं मनःप्राणाग्निभिर्भित्त्वा कण्ठे विशुद्धिचक्रस्थानमर्गलां भेत्तुमायाति जीवः |
तां सुषुम्नां पूरयन् व्याप्नुवन् यतः प्रयतः सावधानः |
‘पूरयन् दिवि’ इति पाठे दिवि इति निमित्तसप्तमी, फलमपि च निमित्तं भवति, दिवः प्राप्त्यर्थमूर्ध्वमारोहेदित्यर्थः |
मनसस्त्वेति मनःप्रकृतिकं क्षुरं शास्त्रनिष्णातं मन एवेत्यर्थः |
सुतीक्ष्णं तर्केण घर्षोपलेन निघृष्टं शाणस्थानीयया बुद्ध्या निर्मलम् |
पादस्येति, ब्रह्मणः पादस्य श्रुत्यन्तरोक्तस्य पुंस्पादस्थानीयस्योपरि तदुपासनया मर्मेज्य निर्मलीकृत्य, मृजेश्चङन्तात् ल्यप् छान्दसः [grammatische Formulierung unsicher] |
ब्रह्मणः पादा यथा—“तदेतच्चतुष्पाद् ब्रह्म वाक् पादः प्राणः पादः चक्षुः पादः श्रोत्रं पादः, इत्यध्यात्मम् |
अथाधिदैवतम् अग्निः पादो वायुः पाद आदित्यः पादो दिशः पादः इत्युभयमवादिष्टं भवति अध्यात्मं चाधिदैवं च” इति |
अथवा प्रणवस्य चत्वार्यक्षराण्येव जाग्रदादिरूपाणि पादाः |
“ओमित्येतदक्षरस्य पादाश्चत्वारः” इत्यथर्वणश्रुतेः |
तत् प्रसिद्धं रूपं भूतादिस्वरूपं नाम तद्वाचकः शब्दः तद् द्वयं ब्रह्मणो लोमस्थानीयं स्वरूपाद् बाह्यं कृन्तयेन्निवर्तयेत्, तद्विषयां वृत्तिं भूतशुद्धिमार्गेण त्यजेदित्यर्थः |
इदमेव तस्य निकृन्तनं यदविषयीकरणं मनोमयत्वात् संसारस्य मनसानुपरक्तस्य स्वरूपाभावात् |
हठपक्षे उत्तरमार्गरोधकं सग्रन्थि नाडीचक्रं छिन्द्यात् |
तदुक्तम्—

[Fußnoten: १ ‘ध्यस्य’ क. पाठः [Lesung unsicher] |
२ ‘मध्य’ क. पाठः |
]

Redaktioneller Hinweis: Die körperbezogene Khecarī-Passage ist eine historische Quelle und keine Übungsanleitung.

नासादक्षिणमार्गवाहिपवनः प्राणातिदैवीकृतचन्द्राम्भःपरिपूरितामृततनुः प्राग्रेटिकायां तदा [erste Vershälfte teilweise unsicher] |

छिन्द्यात् कालविशालवह्निवशतो भ्रूरन्ध्रनाडीगणान् तत्कायं कुरुते पुनर्नवतरं छिन्नद्रुमस्कन्धवत् ॥

इति |
किं कृत्वा निकृन्तयेदत आह मन इति |
मनसा उपायेन नित्यशोऽभीक्ष्णं योगं जीवात्मपरमात्मनोरेक्यं पक्षान्तरे योगमुद्योगमाश्रित्य |
इन्द्रेति |
कीदृशं योगं इन्द्रवज्र इवेति |
तथा प्रोक्तं यथा इन्द्रो वज्रेण भेद्यं भिनत्ति, एवमयं योगश्छेद्यं वासनाजालम् |
इन्द्रवज्रस्तद्वत् तत्तुल्यया कुण्डलिन्या नाडीजालं च छिनत्ति |
पुनः कीदृशं, मर्मणो जङ्घाया अनुकीर्तनं यस्मिन् स तं जङ्घारूपं मर्म ध्यानस्थानं यत्र कथितम् |
जङ्घाग्रहणमङ्गुष्ठादेरप्युपलक्षणं तुल्यन्यायत्वात् |
अङ्गुष्ठादिमूर्धान्तानां मर्मणामनुकीर्तनात् |
‘मर्मजङ्घानुकर्तनं’ इति पाठे यथा नापितेन क्षुरस्य तैक्ष्ण्यज्ञानाय जङ्घा अनुकृत्यते मृज्यते, तथाङ्गुष्ठादिमर्मस्थानानि नाडीमलापनुत्तये निर्मलीक्रियन्ते इत्यर्थः |
तद्ध्यानेति, तच्छब्देन योग्यतावशाद् मर्म जङ्घादि गुणीभूतमपि परामृश्यते |
तत् सनामकं मर्मादि धारणाभिः छिन्द्यात् |
अथवा व्यवहितमपि रूपं नाम तच्छब्देन परामृश्यते, स एवार्थः |
इममिन्द्रवज्रयोगं जिह्वायास्तालुमूलप्रवेशार्थं जिह्वामूलसूत्रकृन्तनरूपं हठयोगिनो वर्णयन्ति |
तदुक्तं खेचर्याम्—

तालुमूलं समुद्घृत्य सप्तवासरमात्मवित् |
स्वगुरूक्तप्रकारेण मलं सर्वं विशोधयेत् ॥ १ ॥

स्नुहीपत्रनिभं शस्त्रं सुतीक्ष्णं स्निग्धनिर्मलम् |
समाधाय यतस्तेन रोममात्रं समुच्छिदेत् ॥ २ ॥

छित्त्वा सैन्धवपथ्याभ्यां चूर्णं तेन प्रघर्षयेत् |
पुनः सप्तदिने प्राप्ते रोममात्रं समुच्छिदेत् ॥ ३ ॥

एवं क्रमेण षण्मासं नित्ययुक्तः समाचरेत् |
षण्मासाद्रसनामूले शिराबन्धः प्रणश्यति ॥ ४ ॥

इति |
ततो दोहनमुक्तम् |

अथ वागीश्वरीं नाम शिरोवस्त्रेण वेष्टयेत् |
शनैरुत्कर्षयेद्योगी कालवेलाविधानवित् ॥ ५ ॥

इति |
प्रवेशोऽप्युक्तः—

यदा त्वबाह्यमार्गेण जिह्वा ब्रह्मबिलं विशेत् |
तदा ब्रह्मार्गलं देवि दुर्भेद्यं त्रिदशैरपि ॥ ६ ॥

अङ्गुल्यग्रेण संघृष्य जिह्वां तत्र प्रवेशयेत् |
[Zweiter Halbvers fehlt im Druck] ॥

इति |
ततो जिह्वया मथनाभ्यासात् फलमप्युक्तम्—

एवं द्वादशवर्षान्ते संसिद्धिः परमेश्वरि |
शरीरे सकलं विश्वं पश्यत्यात्माविभेदतः ॥

इति |
स हठतरः पन्थाः |
ऊरोरिति |
ऊरुग्रहणमुत्तरोत्तरस्थानोपलक्षणम्, ऊरोर्मध्ये समनस्कं प्राणं संस्थाप्य मर्मणः प्राणस्य च विमोचनं कर्तव्यम् |
‘अस्मिन् मर्मण्यहं स्थितः’ इत्यभिमानं त्यक्त्वा निरालम्बस्तिष्ठेदित्यर्थः |
एवं स्थानान्तरेष्वप्यूह्यम् |
अथवा सर्वत्रावच्छेदेन व्यवधायकं नाड्यादि विदार्य स्थानात् स्थानान्तरे गमने च ॥ चतुरिति, ऊरोरुत्तरेषु चतुर्षु गुदशिश्ननाभिहृदयस्थानेषु अभ्यासयोगेन नामरूपमर्मप्राणान् छिन्देत् |
अथवा चतुर्वारं चतुरावृत्त्या प्रातर्मध्याह्ने सायं निशीथे च सर्वेषु स्थानेषु अभ्या—

[Fußnoten: १ ‘शगान्’ क. पाठः [Lesung unsicher] |
२ ‘मलानुकृन्तनेन’ क. पाठः |
३ ‘सनाडीकं’ क. ग. पाठः |
४ ‘ध’ क. पाठः |
५ ‘त्व’ ग. पाठः |
६ ‘व्रजेत्’ क. पाठः |
]

सयोगेन |
नन्वेवं छेदने देहाभिमानत्यागेन देहपातः स्यादत आह—अनभिशङ्कित इति |
अयं भावः—न ह्यभिमानत्यागेन देहपातो भवति, सुषुप्त्यादिषु तथादर्शनात् |
ध्यानिनां चिरकालं देहावस्थानस्मृतेश्च |
नवा चक्रादिभेदनेत्यपि सा शङ्केति ॥ तत इति, तदनन्तरं योगी कण्ठान्तरे कण्ठमध्ये नाडीसञ्चयं समूहन् सङ्घीकुर्वन् छिन्देदित्यनुषङ्गः |
कियन्त्यो नाड्यः सन्तीत्यपेक्षायां मध्यमसङ्ख्यामाह—एकेति |
वरा उत्तमाः ॥ इडा रक्षत्वेति, इडा वामेन पिङ्गला दक्षिणेन इत्येवं वक्तव्ये रक्षतुशब्दप्रयोगः शिष्याणामाशिषे विद्यासम्प्रदायोच्छेदो मा भूदिति |
वरं स्थानं सुषुम्नाख्यं, तं तदधिष्ठातारं पुंलिङ्गनिर्देशात् |
किं तत् स्थानं कश्च तदधिष्ठाता इत्यपेक्षायामाह—सुषुम्ना त्विति |
परे परपुरुषे ब्रह्मणि लीना विरजा निर्मला ब्रह्मरूपिणी ब्रह्मस्थानत्वात् सुषुम्नैव वरं स्थानं पर एव तदधिष्ठाता इत्यर्थः |
कथम्भूता सुषुम्ना, नाडीषु मध्ये द्वासप्ततिसहस्राणि नाडीः प्रति तैतिलमुच्छीर्षं गण्डुकम् |
यथा गण्डुकाधारे उत्तमाङ्गं तिष्ठति एवं सुषुम्नाधारे सर्वा नाड्यः स्थिता इत्यर्थः |
“तैतिलो गण्डुके प्रोक्तस्तैत्तिलं करणान्तरे” इति विश्वः ॥

छिद्यते इति |
ध्यानयोगेन ताश्छिद्यन्ते, तासां छिन्नत्वादुच्चावचदेशेषु उत्क्रान्तौ जीवस्य गमनं भवतीत्यर्थः ॥ यदुक्तम्—“तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति” इति ॥ एका सुषुम्ना न छिद्यते, तस्याः परमसूक्ष्मत्वेन मनोविषयत्वायोग्यत्वात् मनोविषयस्यैव योगेन छेद्यत्वात् ऋजुतयाऽप्रतिद्वन्द्वित्वाच्च ॥ योगनिर्मलेति, योग एव निर्मला धारा यस्य तेन क्षुरेण मनसा अनलवर्चसा पादस्योपरि स(धु)त्वात् [Druckverbindung unsicher] अनलतेजसा नाडीशतं छिन्देत् |
तासां छेदे तत्प्रभूतस्य द्वासप्ततिसहस्रस्यापि छेदः सिद्धः |
धीरो धीमान्, प्रभावाद्योगसामर्थ्यात्, इहजन्मनि मनुष्यशरीरे |
तैतिलेन सुषुम्नायाः सादृश्यान्तरमाह—जातीपुष्पेति |
जाती मालती तस्याः पुष्पाणां समायोगैः संयोगैः कृत्वा यथा प्रसाधकास्तैतिलं गण्डुकं वास्यन्ति वासेन परिमलेन युक्तं कुर्वन्ति एवं सा नाडी शुभाशुभैर्भावैर्वास्यते इति विपरिणामः |
पुष्पाधिवासाश्रयो यथा गण्डुकं भवति तथेयं नाडी वासनाश्रय इत्यर्थः |
तर्हि किं कार्यमत आह—तामिति |
चिन्तनफलमाह—तदिति प्रपद्यन्ते सम्पद्यन्ते ॥ तत इति, विदितं चित्तं येन स विदितचित्तः |
मात्राधारेण मात्रा द्वादशादिसङ्ख्या प्रणवमात्रास्ता एव धारा यस्य मनःक्षुरस्य स तथा, तन्तुं वासनारूपं नाडीरूपं च |
द्विरुक्तिर्निश्चयार्थः |
समाप्त्यर्थश्च इति शब्दः |
अयमारोहप्रकार उत्क्रान्तिसमये खेचरीपटले उक्तः, यथा—

यदा तु योगिनो बुद्धिस्त्यक्तुं देहमिमं भवेत् |
तदा स्थिरासनो भूत्वा मूलाच्छक्तिं समुज्ज्वलाम् ॥ १ ॥

सूर्यकोटिप्रतीकाशां भावयेच्चिरमात्मनः |
आपादतलपर्यन्तं प्रसृतं जीवमात्मनः ॥ २ ॥

संहृत्य क्रमयोगेन मूलाधारपदं नयेत् |
तत्र कुण्डलिनीं शक्तिं संवर्तानलसन्निभाम् ॥ ३ ॥

जीवं निजं चेन्द्रियाणि ग्रसन्तीं चिन्तयेद्धिया |
संप्राप्य कुम्भकावस्थां तडिज्ज्वलनभासुराम् ॥ ४ ॥

मूलाधाराद् यतिर्देवि स्वाधिष्ठानपदं नयेत् |
तत्रस्थं जीवमखिलं ग्रसन्तीं चिन्तयेद् व्रती ॥ ५ ॥

तडित्कोटिप्रतीकाशां तस्मादुड्डीय सत्वरम् |
मणिपूरपदं प्राप्य तत्र पूर्ववदाचरेत् ॥ ६ ॥

तत्र स्थित्वा चिरं देवि पूर्ववद्योगमाचरेत् |
अनाहते नयेद्योगी तत्र पूर्ववदाचरेत् ॥ ७ ॥

ततो विशुद्धावानीय कुण्डलीं पूर्ववच्चरेत् |
उड्डीय तस्माद् भ्रूमध्ये नीरन्ध्रं प्रसरं पुनः [letzte Verbindung unsicher] ॥ ८ ॥

प्रभं नीरं महाशून्या कोटिसूर्यसमप्रभम् [erste Hälfte unsicher] |
मनसा सह वागीश्यां भित्त्वा ब्रह्मार्गलं चराचरम् ॥ ९ ॥

[Fußnoten: १ ‘व च’ क. पाठः |
२ ‘मल’ ग. पाठः |
३ ‘वासन्ती’ क. पाठः |
४ ‘भाव्य’ क. पाठः |
]

परामृतमहाम्भोधौ विश्रान्तिं तत्र कारयेत् |
तत्रस्थं परमं देवं शिवं परमकारणम् ॥ १० ॥

शक्त्या सह समायोज्य तयोरैक्यं विभावयेत् |
[Zweiter Halbvers fehlt im Druck] ॥

इति |
ज्ञातमुत्क्रान्तिकालं वञ्चयित्वा यदि जीवितुमिच्छेत् तदावरोहं कुर्यात्, इत्यपि तत्रोक्तम् |
तद्यथा—

यदि वञ्चितुमुद्युक्तः कालं कालविभागवित् |
कालस्तु यावद्व्रजति तावत्तत्र सुखं वसेत् ॥ १ ॥

ब्रह्मद्वारार्गलस्याधो देहं कालप्रयोजनम् |
तस्मादूर्ध्वं पदं देयं नहि कालप्रयोजनम् ॥ २ ॥

यदा देव्यात्मनः कालमतिक्रान्तं प्रपश्यति |
तदा ब्रह्मार्गलं भित्त्वा शक्तिं मूलपदं नयेत् ॥ ३ ॥

शक्तिदेहप्रसृतं तु स्वजीवं चेन्द्रियैः सह |
तत्तत्कर्मणि संयोज्य स्वस्थदेहः सुखं व्रजेत् ॥ ४ ॥

अनेन देवि योगेन वञ्चयेत् कालमागतम् |
[Zweiter Halbvers fehlt im Druck] ॥

इति |
अत्रारोहावरोहाभ्यास एव योगशास्त्रेषु मुख्यो योग इति द्रष्टव्यम् |
स चात्र प्रकाशितः |
अत्र पञ्चाशद्दलगामिनि चित्ते पञ्चाशद्बुद्धयो जायन्ते |
तदुक्तमध्यात्मविवेके—

गुदलिङ्गान्तरे चक्रमाधारं तु चतुर्दलम् |
परमः सहजस्तद्वदानन्दो वीरपूर्वकः ॥ १ ॥

योगानन्दश्च तस्य स्यादीशानादिदले फलम् |
स्वाधिष्ठानं लिङ्गमूलं षट्पत्रं चक्रमस्य तु ॥ २ ॥

पूर्वादिषु दलेष्वाहुः फलान्येतान्यनुक्रमात् |
प्रश्रयः क्रूरता गर्वनाशो मूर्च्छा ततः परम् ॥ ३ ॥

अवज्ञानमविश्वासो जीवस्य चरतो ध्रुवम् |
नाभौ दशदलं पद्मं मणिपूरकसंज्ञकम् ॥ ४ ॥

सुषुप्तिरत्र तृष्णा स्यादीर्ष्या पिशुनता पुनः |
लज्जा भयं घृणा मोहः कुधिताथ विषादिता [कुधिता Lesung unsicher] ॥ ५ ॥

हृदयेऽनाहतं चक्रं दलैर्द्वादशभिर्युतम् |
लौल्यं प्रणाशः कपटः वितर्कोऽप्यनुतापिता ॥ ६ ॥

आशा प्रकाशचिन्ता च समीहा समता ततः |
क्रमेण दम्भो वैकल्यविवेकोऽहंकृतिस्तथा ॥ ७ ॥

फलान्येतानि पूर्वादिदलस्थस्यात्मनो विदुः |
कण्ठेऽस्ति भारतीस्थानं विशुद्धिः षोडशच्छदम् ॥ ८ ॥

तत्र प्रणव उद्गीथो हुंफट्वौषड्वषट्सुधा |
स्वाहा नमोऽमृतं सप्त स्वराः षड्जादयो मताः ॥ ९ ॥

इति पूर्वादिपत्रस्थे फलान्यात्मनि षोडश |
[Zweiter Halbvers fehlt im Druck] ॥

इति |
षोडशच्छदे त्वन्यत्र विशेष उक्तः—

कृपा क्षमार्जवं धैर्यं वैराग्यं च धृतिस्तथा |
हास्यं रोमाञ्चनिश्चयौ ध्यानं सुस्थिरता तथा ॥ १० ॥

गाम्भीर्यमथशमं सत्त्वं बोधश्चैकाग्रता तथा [erste Verbindung unsicher] |
एते पूर्वादिपत्रेषु गुणाः [Rest fehlt im Druck] ॥ ११ ॥

इति |
“तत्त्वंपदार्थावभासो द्रष्टव्यो द्विदले पुनः” इति |
अत्र वायोरुत्थापनं तु आधारस्वाधिष्ठानयोरन्तरेऽग्निकुण्डं तन्मूले मनो दध्यात् |
यत्र यत्र मनस्तत्र तत्र प्राण आयाति |
प्राणवायुयोगेनाग्निर्दीप्यते स चोर्ध्वज्वलनस्वभावः |
तस्मिञ्ज्वालिते वायुरूर्ध्वं गच्छति ततः षट्चक्रभेदो भवति |
स्वाधिष्ठानं लिङ्गचक्रं त्रिःप्रदक्षिणीकृत्य त्रिरावृत्त्या, तत्र कुण्डलिनीमिति अत एव वचनादनुमीयते |
तदुक्तं दीक्षापटले—

तत्र वेधमयीं दीक्षां वक्ष्ये संसारमोचनीम् |
ध्यायेच्छिष्यतनोर्मध्ये मूलाधारे चतुर्दले ॥ १ ॥

त्रिकोणमध्ये विमले तेजसाभिविजृम्भिते |
वलयत्रयसंयुक्तां तडित्कोटिसमप्रभाम् ॥ २ ॥

शिवशक्तिमयीं देवीं चेतनामात्रविग्रहाम् |
सूक्ष्मात् सूक्ष्मतरां शक्तिं भित्त्वा षट्चक्रमञ्जसा ॥ ३ ॥

गच्छन्तीं मध्यमार्गेण दिव्यां परशिवावधि |
वादिसान्तदलस्थार्णान् संहरेत् कमलासन ॥ ४ ॥

Redaktioneller Hinweis: Die Herausgeber erklären einen Kommentarabschnitt wegen des fehlenden Grundverses ausdrücklich für unsicher; die Kolophonzahl 21 ist keine zusätzliche Versnummer.

इत्यादिकुण्डल्यनुसारेण वायोरपि चोर्ध्वं गच्छतस्त्रिः परिवृत्तिः |
मणिपूरकं नाभिचक्रं गत्वा प्राप्य अनाहतं हृच्चक्रं तदप्यतिक्रम्य, विशुद्धौ कण्ठप्रदेशे प्राणान् वायुनिरुध्याज्ञामाज्ञाचक्रं भ्रूमध्यवर्त्यनुध्यायन् अथो नादं ध्यायन् |
कीदृशम् आधारमारभ्य ब्रह्मरन्ध्रपर्यन्तं प्रतीयमानं तथोज्ज्वलं, स वै नादः ब्रह्म प्राणात्मा परमात्मैवेति |
ते प्राणाः षट्शताधिकैकविंशतिसहस्रसङ्ख्याकाः प्राक्प्रोक्ताः |
ग्रन्थान्तरेषु तु षडुत्तरषट्शताधिकैकविंशतिसहस्रसङ्ख्याकाः (२१६०६) इत्यङ्कतः |
अन्यत्र ग्रन्थेषु “अशीतिः षट्शतं चैव सहस्राणि त्रयोदश |
लक्षं चैकं च निःश्वासा अहोरात्रप्रमाणतः” इति सङ्ख्याभेद उक्तः |
अङ्कतः (११३६८०) भवन्ति |
तन्त्रान्तरे तु—

उच्छ्वासे चैव निःश्वासे हंस इत्यक्षरद्वयम् |
तस्मात् प्राणस्तु हंसाख्य आत्माकारेण संस्थितः ॥ १ ॥

नाभेरुच्छ्वासनिःश्वासा हृदयाग्रे व्यवस्थिताः |

इति |
*गुदं पायुमवष्टभ्य रुद्ध्वा आधारान्मूलाधारचक्राद्वायुं प्राणाख्यमुत्थाप्योर्ध्वमवष्टभ्य, अवष्टम्भनोपायो योगियाज्ञवल्क्येनोक्तः—

दक्षिणोत्तरगुल्फेन सीवनीं पीडयेद् दृढम् |
अधस्तादण्डयोः सूक्ष्मां सव्योपरि च दक्षिणः ॥ १ ॥

जङ्घोर्वोरन्तरं योगी निश्छिद्रं बन्धयेद् दृढम् |
समग्रीवशिरःस्कन्धः समपृष्ठः समोदरः ॥ २ ॥

इत्यादि ॥ अत्र कादिमतोक्तश्वासक्रमोऽग्रे वक्ष्यते ॥

इति श्रीमहामहोपाध्यायभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्य-श्रीभगवच्छङ्कराचार्यशिष्य-श्रीविष्णुशर्माचार्यशिष्य-श्रीप्रगल्भाचार्यशिष्य-श्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे एकविंशतितमः श्वासः ॥ २१ ॥

  • अयं टीकाभागो मूलश्लोकाप्राप्तेः संदिग्धः |
Erinnerung an Guru und geistige Unterweisung.

22. Śvāsa

Die Druckseiten 143–198 sind mit dem Scan von 1937 abgeglichen. Lokale Lesungsunsicherheiten, Lücken und abweichende Zählungen bleiben ausdrücklich markiert.

अथ द्वाविंशः श्वासः |
अथ लक्ष्म्यादिमन्त्राणामुद्धारप्रयोगविधिः |
कूर्मपुराणे— श्रियं ददाति विपुलां पुष्टिं मेधां यशो बलम् |
अर्चिता भगवत्पत्नी तस्माल्लक्ष्मीं समर्चयेत् ॥ १ ॥ इति |
सारसंग्रहे— अथोच्यन्ते रमामन्त्रा लक्ष्मीसौभाग्यदा भृशम् |
दुर्गत्युद्धरणे शक्तास्त्रिवर्गफलदायकाः ॥ १ ॥ संवर्ताद्वामतः षष्ठं व्योमसप्तमसंयुतम् |
तुरीयस्वरचन्द्रार्धकलानादाद्यधिष्ठितम् ॥ २ ॥ एकाक्षरो रमामन्त्रो मनोरथसुरद्रुमः |
[Zweiter Halbvers fehlt im Druck] ॥ इति |
संवर्तात् क्षकाराद्वामतो विलोमेन षष्ठं शकारः, व्योमसप्तमोऽपि तथैव, तेन रेफस्तद्युक्तं, तुरीयस्वरः ई, चन्द्रार्धकला अर्धचन्द्रः, नादो बिन्दुः, तेन श्रीबीजमुक्तम् |
तथा— भृगुरस्य मुनिः प्रोक्तश्छन्दश्चास्य निचृन्मतम् |
देवता गदिता लक्ष्मीर्भोगमोक्षफलप्रदा ॥ ३ ॥ द्विसव्यनेत्रकर्णेनो मन्वन्तस्वरसंयुता [Lautcodeverbindung unsicher] |
मन्त्रेणैव षडङ्गानि जातियुक्तानि कल्पयेत् ॥ ४ ॥ सव्यनेत्र इकारः, कर्ण ऊ, कर्णस्यापि सव्यत्वं समासात् |
इनो द्वादशस्वरः, मनुश्चतुर्दशस्वरः अन्त्यो विसर्गः, एतेन श्रां श्रीं श्रूं श्रैं श्रौं श्रः इति षडङ्गमन्त्रा उक्ताः |
ध्यानम्— पद्मारूढा नवकनकरुक् पद्मयुग्माभयेष्टोद्यद्धस्ता हिमगिरिनिभैर्वेदसंख्यैरिभेन्द्रैः |
दत्तोत्तप्तामृतघटैः सिच्यमानाङ्गयष्टिर्भूयाद्भूत्यै रुचिरमुकुटा क्षौमवस्त्राब्जनेत्रा ॥ दत्ताद्यैर्ध्वयोराद्ये तदाद्यधःस्थयोरन्ये [Verbindung unsicher] इत्यायुधध्यानम् |
“चतुर्भुजां सुवर्णाभां सपद्मोर्ध्वकरद्वयाम् |
दक्षिणाभयहस्तां तां वामहस्तवरप्रदाम्” ॥ इति नारायणीयवचनात् |
‘हिमगिरिनिभैः’ इति श्वैत्यमुक्तं, ‘शुभ्राभ्राभैः’ इति दक्षिणामूर्तिवचनात् |
* दक्षिणा— [Fußnoten: १ ‘नादाद्यभूषितम्’ ख. पाठः |
२ ‘घटजवैः’ ख. पाठः |
]

  • तद्यथा—

भूयाद्भूत्यै द्विपद्माभयवरदकरा तप्तकार्तस्वराभा शुभ्राभ्राभेभयुग्मद्वयकरधृतकुम्भाद्भिरासिच्यमाना |
रत्नौघाबद्धमौलिर्विमलतरदुकूलार्तवालेपनाढ्या पद्माक्षी पद्मनाभोरसि कृतवसतिः पद्मगा श्रीः श्रियं वः ॥

मूर्तिसंहितायाम्— अष्टपत्रं लिखेत् पद्मं बहिर्भूविम्बमालिखेत् |
मध्ये बीजं विनिक्षिप्य नव शक्तीः समर्चयेत् ॥ १ ॥ इति |
सारसंग्रहे— अष्टपत्राम्बुजद्वन्द्वं कर्णिकाकेसरोज्ज्वलम् |
चतुर्द्वारसमायुक्तं चतुरस्रत्रयावृतम् ॥ १ ॥ इति पूजाचक्रमुद्धृतम् |
तत्रैव— धर्मादिकल्पिते पीठे नवशक्तिसमन्विते |
रमामावाह्य गन्धाद्यैर्यजेत् साधकसत्तमः ॥ २ ॥ इति |
दक्षिणामूर्तिसंहितायाम्— विभूतिरुन्नतिः कान्तिर्हृष्टिः कीर्तिश्च सन्नतिः |
व्युष्टिरुत्कृष्टिरृद्धिश्च वसुदिक्षु प्रपूजयेत् ॥ १ ॥ मध्ये सिंहासनं पूज्यं सर्वशक्तिमयं प्रिये |
[Zweiter Halbvers fehlt im Druck] ॥ इति |
शारदातिलके—“बीजाद्यमासनं दद्यान्मूर्तिं मूलेन कल्पयेत्” |
सर्वशक्तिपदं प्रोक्त्वा ङेऽन्तं च कमलासनम् |
नम इत्यासनं पूज्यं तत्तद्बीजादिकं शिवे ॥ १ ॥ इति |
तेन बीजानन्तरं “सर्वशक्तिकमलासनाय नमः” इति पीठमन्त्रो ज्ञेयः |
तदुक्तम्— सर्वशक्तिपदं प्रोक्त्वा ङेऽन्तं च कमलासनम् |
नम इत्यासनं पूज्यं तत्तद्बीजादिकं शिवे ॥ इति |
पद्मपादाचार्यास्तु—“श्रींश्रीदेव्यासनाय नमः श्रींश्रीदेवीमूर्तये नमः” इत्याहुः |
सनत्कुमारः—“संकल्प्याम्भोरुहं शुभ्रं कर्णिकायां यजेच्छ्रियम्” |
इति |
सारसंग्रहे— तस्मिन् पीठे समावाह्य देवीं गन्धादिभिर्यजेत् |
पुराङ्गानि समभ्यर्च्य वासुदेवादिमूर्तिभिः ॥ १ ॥ इभैर्निधियुगेनान्या बलाकाद्याभिरीरिता |
लोकेशैरपरावृत्तिस्तदस्त्रैश्च परा स्मृता ॥ २ ॥ बलाका विमला चैव कमला वनमालिका |
विभीषिका मालिका च शाङ्करी वसुमालिका ॥ ३ ॥ पङ्कजद्वयहस्तास्ता मुक्ताहारसमप्रभाः |
अनेन विधिना मन्त्री मनुमेतं भजेत् तु यः ॥ ४ ॥ वस्त्रान्नसंकुलां लक्ष्मीं स प्राप्नोत्यचिराद् ध्रुवम् |
अत्र वासुदेवादिपद्मनिध्यन्तं द्वितीयावरणम्, “मूर्तिभचतुष्कनिधियुगैरपरा” (प्रपञ्चसारे १२ |
१०) इत्याचार्योक्तिः [Zitatkompositum undeutlich] |
यत्तु “आग्नेयादिषु पत्रेषु गुग्गुलुश्च कुरण्टकः |
दमकः सलिलश्च” इति नारायणीयवचनं तत्प्रकृतदिक्परम् ॥ अथ प्रयोगः तत्र प्रातःकृत्यादियोगपीठन्यासान्तं मूलेन प्राणायामत्रयं कृत्वा, शिरसि भृगुऋषये नमः |
मुखे निचृच्छन्दसे नमः |
हृदि श्रिये देवतायै नमः |
गुह्ये शं बीजाय नमः |
पादयोः ई शक्तये नमः |
नाभौ रं कीलकाय नमः |
इति विन्यस्य, प्राग्वद्विनियोगमुक्त्वा श्रां हृदयाय नमः, श्रीं शिरसे स्वाहा, श्रूं शिखायै वषट्, श्रैं कवचाय हुं, श्रौं नेत्रत्रयाय वौषट्, श्रः अस्त्राय फट्, इति षडङ्गमन्त्रानङ्गुष्ठादितलान्तं करयोर्हृदयादिषडङ्गेष्वपि विन्यस्य, ध्यानमानसपूजान्ते चतुर्द्वारयुक्तचतुरस्रत्रयावृतमष्टदलद्वयमर्चापीठं निर्माय, प्राग्वत् पुरतो निधायार्घ्यस्थापनादिपरतत्त्वार्चान्तं, ओं विभूत्यै नमः, रत्यै नमः, कान्त्यै नमः, हृष्ट्यै नमः, कीर्त्यै नमः, सन्नत्यै नमः, व्युष्ट्यै नमः, उत्कृष्ट्यै नमः, मध्ये ऋद्ध्यै नमः, इति स्वाग्रादिप्रादक्षिण्येन पीठशक्तीः संपूज्य श्रींसर्वशक्तिकमलासनाय नमः, इति समस्तपीठ— [Fußnoten: १ ‘सृष्टिः’ ख. पाठः |
२ ‘पुष्टिः’ क. पाठः |
३ ‘शुक्लकः’ क. पाठः |
४ ‘क्लीं’ ख. पाठः [Bīja im Kleindruck unsicher] |
]

संपूज्यावाहनाद्यङ्गपूजान्तेऽन्तरालाष्टदले देव्यग्रादिचतुर्दलेषु—ओं वासुदेवाय नमः, सङ्कर्षणाय नमः, प्रद्युम्नाय नमः, अनिरुद्धाय नमः, इति संपूज्याग्नेयादिविदिक्षु दमकाय नमः, सलिलाय नमः, गुग्गुलवे नमः, कुरण्टकाय नमः, इति संपूज्य, देवीदक्षिणदलाग्रे ओं शंखनिधये नमः, वामदलाग्रे ओं पद्मनिधये नमः, इति संपूज्य, द्वितीयाष्टदले—ओं बलाकायै नमः, ओं विमलायै नमः, ओं कमलायै नमः, ओं वनमालायै नमः, ओं विभीषिकायै नमः, ओं मालिकायै नमः, ओं शाङ्कर्यै नमः, ओं वसुमालिकायै नमः, इति संपूज्य लोकपालार्चादि सर्वं समापयेत् इति ॥ तथा— जपेद्भास्करलक्षं च तत्सहस्रं हुनेत् ततः |
पद्मैस्त्रिस्वादुसंयुक्तैस्तिलैर्वा श्रीफलैरथ ॥ ५ ॥ त्रिभिर्वा मधुराक्तैश्च जुहुयाद्विजितेन्द्रियः |
तर्पणादि ततः कुर्याद् द्विजार्चान्तं प्रसन्नधीः ॥ ६ ॥ इति |
भास्करलक्षं द्वादशलक्षम् |
तत्सहस्रमित्युक्तेर्दशांशो होमः |
बैल्वैः समिद्वैरित्याचार्यचरणाः ॥ त्रिभिरिति एकैकेन सहस्रचतुष्टयं नतु मिलितैस्तेषां तु द्रव्यान्तरत्वेन त्रिभिर्होमासंभवादिति |
तदुक्तं भट्टचरणैः—नैवं व्रीहिभिरिष्टं स्याद्यवैर्नच यथाश्रुतैः ॥ मिश्रैरिज्येत चेदिति “मिश्राणां पृथग्दर्शनात्” इति च, तर्हि त्रिमधुराक्तं विरुद्धमिति चेत् न “सर्वं त्रिमधुरोपेतं होमद्रव्यमुदाहृतम्” इति वचनात् तद्योगस्य पशुपुरोडाशावदानानामुपस्तरणाभिघाराज्ययोगवदविरुद्धत्वादिति ॥ ततः सिद्धमनुर्मन्त्री साधयेन्निजवाञ्छितम् |
वक्त्रोजदघ्ने पयसि तिष्ठन्नर्कगतां श्रियम् [वक्त्रोजदघ्ने undeutlich] ॥ ७ ॥ संस्मृत्य मनुमेनं च जपेल्लक्षत्रयावधि |
सोऽचिरेणैव कालेन दारिद्र्यान्मुच्यते नरः ॥ ८ ॥ मधुसूदनगेहस्थबिल्वाध उपविश्य च |
त्रिलक्षं प्रजपेन्मन्त्री वत्सराद्वाञ्छितप्रदः ॥ ९ ॥ अधिकं वसुसंघातं लभते नान्यथाचिरात् |
अशोकेध्मचिते वह्नौ सघृतैस्तण्डुलैर्हुनेत् ॥ १० ॥ मन्त्री त्रिभुवनं सर्वं वशयत्येव नान्यथा |
खादिरैः शकलैः सम्यगेधितेऽग्नौ यथाविधि ॥ ११ ॥ तण्डुलैस्त्रिस्वादुयुक्तैर्जुहुयान्मन्त्रवित्तमः |
तेन राजकुलं वश्यं धनदाद्धनवान् भवेत् ॥ १२ ॥ अर्कवह्नौ हुनेन्मन्त्री सुशुद्धैः शालितण्डुलैः |
नियुतं राज्यलक्ष्मीं च राजपुत्रो लभेद् ध्रुवम् ॥ १३ ॥ त्रिस्वादुयुक्तैर्नलिनैर्लक्षमेके हुनेत् सुधीः |
अलक्ष्मीसहितो मर्त्यो लक्ष्मीं प्राप्नोति निश्चितम् ॥ १४ ॥ धनधान्यादिसंपत्त्या तोषयेत् तां च साधकः |
करुणार्द्रं सनाथा सा कुलं तस्य न मुञ्चति ॥ १५ ॥ ब्राह्मणः स्वगृहे बिल्वं समारोप्य च वर्धयेत् |
श्रीसूक्तं च जपेदेव तत्पत्रैर्जुहुयात् ततः ॥ १६ ॥ त्रिस्वादुयुक्तैः कुसुमैः फलैर्वापि समिद्वरैः |
स्कन्धभेदैस्तस्य नरस्तन्मूलैश्चापि संहुनेत् ॥ १७ ॥ बिल्वमिश्रहविष्याशी मण्डलात् प्राक् स्वयं रमा |
प्रत्यक्षा च भवेत्तस्य कथमश्रीः कुले भवेत् ॥ १८ ॥ इति |
श्रीयन्त्रसारे— कर्णिकायां साध्यनामगर्भं तारं विलिख्य च |
एवा पित्रे ऋचः पादचतुष्कं चापि तद्दले ॥ १ ॥ अष्टपत्रे यूयमिति दिक्चैवेन्द्रादि चाग्निषु [Versmitte unsicher] |
पादा लेख्यास्ततो बाह्यदलषोडशके क्रमात् ॥ २ ॥ आलिखेत् षोडशदले त्वं सोमास्य चाप्यृचः (प्रचिकीत्यृचः) |
त्रीण्यक्षराणि प्रथमे द्वितीये सप्त सप्त च ॥ ३ ॥ तृतीये च चतुर्वर्णांस्तुरीये पञ्च पञ्चमे |
षष्ठे षट् चतुरो वर्णान् सप्तमेऽष्ट दलेऽष्टमे ॥ ४ ॥ [Fußnoten: १ ‘नवैः’ क. पाठः |
२ ‘तार्थ्यैः’ ख. पाठः [Lesung unsicher] |
३ ‘पठन्’ ख. पाठः |
]

प्रजापते ऋचो वर्णांश्चतुरो नवमे दले |
दशमे च दले वर्णान् पञ्च चैकादशेऽपि षट् ॥ ५ ॥ द्वादशे चतुरो वर्णान् दले चापि त्रयोदशे |
[चतुर्दशे चतुर्वर्णान् सप्त पञ्चदशे दले] ॥ ६ ॥ षोडशे चापि षड्वर्णान् विलिख्य च दले बहिः |
आवेष्ट्य लिप्या श्रीबीजं विलिखेद्भूपुराश्रिषु ॥ ७ ॥ यन्त्रं ऋक्पञ्चकस्यैतद्धनधान्यधरासुतैः |
गोगजाश्वादिमहिषसस्यभूषादिसंकुलाम् ॥ ८ ॥ लक्ष्मीं समावहेद्रम्यां पुत्रपौत्रादिगामिनीम् |
[Zweiter Halbvers fehlt im Druck] ॥ इति |
अस्यार्थः—तत्र चतुर्दलकमलकर्णिकामध्ये ससाध्यं प्रणवं विलिख्य, तद्दलेषु “एवापित्रे” इति ऋचः पादचतुष्टयं स्वाग्रादिप्रादक्षिण्येन प्रतिदलमेकं पादं विलिख्य, तद्बहिरष्टदलं कमलं कृत्वा तस्य दिग्दलेषु “यूयं” इत्याद्यृचः पादचतुष्टयं, कोणदलेषु “एवेन्द्राग्नी” इत्याद्यृचः पादचतुष्टयं विलिख्य, तद्बहिः षोडशदलं कमलं कृत्वा तद्दलेषु “त्वं सोम” इत्यादि ऋग्द्वयस्य प्रथमदले त्रीण्यक्षराणि, द्वितीये सप्त, तृतीये सप्त, चतुर्थे चत्वारि, पञ्चमे पञ्च, षष्ठे षट्, सप्तमे चत्वारि, अष्टमेऽष्ट, “प्रजापते न त्वद्” इति ऋचो नवमे चत्वारि, दशमे पञ्च, एकादशे षट्, द्वादशे चत्वारि, त्रयोदशेऽपि चत्वारि, चतुर्दशे चत्वारि, पञ्चदशे सप्त, षोडशे षडक्षराणि चेति विभज्य विलिख्य, तद्बहिर्वृत्तद्वयं विधाय तयोरन्तरालवीथ्याम् अकारादिक्षकारान्तान् मातृकार्णान् सबिन्दुकान् वेष्टनरूपेण विलिख्य, तद्बहिश्चतुरस्रं कृत्वा तत्कोणेषु श्रीबीजं लिखेत् |
एतद्यन्त्रमुक्तफलदं भवति ॥ ऋक्पञ्चकं तु ऋग्वेदे—वामदेवस्य बृहस्पतिः त्रिष्टुप् |
“एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः |
बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम्” ॥ १ ॥ “यूयमस्मान्नयत वस्यो अच्छा निरंहतिभ्यो मरुतो गृणानाः |
जुषध्वं नो हव्यदातिं यजत्रा वयं स्याम पतयो रयीणाम्” ॥ २ ॥ एवेन्द्राग्नी इत्यस्य कुत्सः इन्द्राग्नी त्रिष्टुप् |
“एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतं धनानि |
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः” ॥ ३ ॥ गौतमस्य त्रिष्टुप् |
“त्वं सोम प्रचिकितो मनीषा त्वं रजिष्ठमनु नेषि पन्थाम् |
तव प्रणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः” ॥ ४ ॥ प्रजापते इति हिरण्यगर्भ ऋषिः को देवता त्रिष्टुप्छन्दः |
“प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव |
यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम्” ॥ ५ ॥ इति |
श्रीयन्त्रसारे— मध्ये तारं साध्ययुक्तं श्रियं कोणेषु षट्स्वपि |
अष्टपत्रे केसरेषु तत्स्वरद्वंद्वं क्रमेण च ॥ १ ॥ या लक्ष्मीरित्यृचो वर्णांश्चतुरश्चतुरो बहिः |
अश्वदाया ऋचा स्रग्वा [Lesung unsicher] हर्निशं संवेष्ट्य कुगृहाश्रिषु ॥ २ ॥ श्रियं समालिखेद्यन्त्रं स्थापितं यत्र मन्दिरे |
धनैर्धान्यैश्च विभवैरन्यैरश्वगवादिभिः ॥ ३ ॥ आपूरयन्ती सततं तत्रैव रमते रमा |
[Zweiter Halbvers fehlt im Druck] ॥ इति |
अस्यार्थः—अष्टदलपद्मोदरे षट्कोणं कृत्वा तन्मध्ये ससाध्यं प्रणवं विलिख्य, षट्कोणेषु श्रीबीजं विलिख्याष्टदलकेसरेषु द्वन्द्वशः स्वरानालिख्याष्टदलेषु “या लक्ष्मीः” इत्यृचो वर्णांश्चतुरश्चतुरो विलिख्य, बहिर्वृत्तत्रयान्तरालद्वयेऽन्तर्गतान्तराले श्रीसूक्तेऽग्रे वक्ष्यमाण—“अश्वदायै गोदायै” इति ऋचा सं—

  • “अश्वदायै गोदायै धनदायै महाधने |
    धनं मे जुषतां देवि सर्वकामांश्च देहि मे” ॥

[Die vedischen Akzente des Drucks sind in dieser Arbeitsfassung nicht vollständig wiedergegeben.]

वेष्ट्य तद्बहिर्गतान्तराले कादिक्षान्तवर्णैरावेष्ट्य तद्बहिश्चतुरस्रं कृत्वा तत्कोणेषु श्रीबीजं लिखेत् |
एतद्यन्त्रमुक्तफलदम् |
“या लक्ष्मीः सिन्धुसंभवा भूतिधेनुः पुरूवसुः |
पद्मा विश्वा वसुदेवी सदा नो जुषतां गृहे” ॥ इति ऋक् |
तथा— [Erster Halbvers fehlt im Druck] |
सद्याद्यं बिन्दुसहितं द्वितीयं भुवनेश्वरी ॥ ४ ॥ तृतीयं च रमाबीजं चतुर्थं कामराजकम् |
समुद्रवर्णो धर्मार्थकाममोक्षफलो मतः ॥ ५ ॥ सद्याद्य ऐ, बिन्दुयुतं तेन ऐं, अन्यत् प्रसिद्धम् |
तथा— ऋषिर्भृगुर्निचृत्पूर्वमनुष्टुप् छन्द ईरितम् |
देवता कमला प्रोक्ता सर्वसंपत्करी शुभा ॥ ६ ॥ पूर्वमन्त्रवदेवास्य षडङ्गानि प्रकल्पयेत् |
[Zweiter Halbvers fehlt im Druck] ॥ अथ ध्यानम्— माणिक्याभा हरिगिरिनिभैः कुञ्जरेन्द्रैश्चतुर्भिर्नासाग्रोच्चैर्मणिमयघटाम्भोभिरासिच्यमाना |
अम्भोजस्था वरसरसिजद्वन्द्वकाभीतिहस्ता लक्ष्मीः पायादमरनिकरैः सेविताङ्घ्र्यम्बुजा सा ॥ ६ ॥ आयुधध्यानं प्राग्वत् |
पूर्वोदिते रमापीठे यजेद्देवीं च पूर्ववत् |
अर्कलक्षं जपेन्मन्त्री नियताशी च संहुनेत् ॥ ७ ॥ तत्सहस्रं सरोजैश्च रक्तैस्त्रिस्वादुसंयुतैः |
पूर्वानुक्तप्रयोगांश्च कुर्यान्मन्त्री यथाविधि ॥ ८ ॥ साधको मनुवर्यस्य निधिभिः सेव्यते स्वयम् |
[Zweiter Halbvers fehlt im Druck] ॥ प्रयोगः सुगमः |
तथा— कामिकापञ्चमं कालो अन्त्यस्वरविभूषितः |
वर्गादिः क्ष्वेडमचला वरुणो दीर्घयुग्भृगुः ॥ ९ ॥ अक्षियुग्धान्तपवनसद्याद्याश्च द्विठावधिः |
दशाक्षरो निगदितो मन्त्रः प्रोक्तफलप्रदः ॥ १० ॥ इति |
कामिकापञ्चमं न, कालो म, अन्त्यस्वरो विसर्गस्तेन मः, वर्गादिः क, क्ष्वेडं म, अचला ल, वरुणो व, दीर्घयुक् वा, भृगुः स अक्षियुक् सि, धान्तं न, पवनो य, सद्याद्य ऐ तेन न्यै, द्विठः स्वाहा ॥ तथा— ऋष्याद्या दक्षसविराट्कमलाः समुदीरिताः |
देवी च पद्मिनी विष्णुपत्नी च वरदा मता ॥ ११ ॥ रूपान्ता कमला चाभिर्ङेनमोऽन्ताभिरुक्तवत् |
पञ्चाङ्गानि मनोरस्य जातियुक्तानि कल्पयेत् ॥ १२ ॥ इति |
शारदायाम्—“नमोऽन्ताः प्रणवादिकाः” इत्यङ्गमन्त्रा उदिताः |
ध्यानं तु— तडित्पुञ्जाभासा कमलयुगदानाभयकरा शरीराच्छभासा भुवनविवरं भासयति या |
सरोजस्था काञ्चीमणिमुकुटमञ्जीररुचिरा श्रिये भूयाल्लक्ष्मीः कुचकलशभारानततनुः ॥ १३ ॥ आयुधध्यानं प्राग्वत् |
रमापीठे पुरा प्रोक्ते यजेल्लक्ष्मीं यथाविधि |
आदावङ्गानि तद्बाह्ये बलाकाद्यष्टशक्तयः ॥ १४ ॥

तद्बाह्ये लोकपालाश्च तदस्त्राणि ततो बहिः |
एवमभ्यर्चयेल्लक्ष्मीं भवेत् साक्षाद्धनाधिपः ॥ १५ ॥ अथ प्रयोगः—प्राग्वद्योगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा, शिरसि दक्षाय ऋषये नमः |
मुखे विराट्छन्दसे नमः |
हृदि श्रीकमलायै देवतायै नमः |
इति विन्यस्य प्राग्वद्विनियोगमुक्त्वा मूलमन्त्रं करयोर्व्यापय्य, ओं देव्यै नमः हृदयाय नमः, ओं पद्मिन्यै नमः शिरसे०, ओं विष्णुपत्न्यै० शिखायै०, ओं वरदायै० कवचाय०, ओं कमलरूपायै० अस्त्राय०, इति पञ्चाङ्गमन्त्रानङ्गुष्ठादिकनिष्ठान्तं करयोर्विन्यस्य, नेत्रवर्जं हृदयादिपञ्चाङ्गेष्वपि विन्यस्य, ध्यानाद्यङ्गपूजान्ते प्राग्वदष्टदले बलाकाद्यष्टशक्तीः संपूज्य इन्द्राद्यर्चादि सर्वं प्राग्वत् समापयेदिति ॥ तथा— पङ्क्तिलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः |
तद्दशांशं सरसिजैस्त्रिस्वाद्वक्तैर्हुनेत् सुधीः ॥ १६ ॥ नद्यां समुद्रगामिन्यां कण्ठदघ्ने जले स्थितः |
लक्षत्रयं जपेन्मन्त्री भवेदर्थान्वितो नरः ॥ १७ ॥ नन्द्यावर्तप्रसूनैश्च जुहुयादुत्तराह्वभे |
रमां संपूज्य साहस्रं तावद्बैल्वैर्मधुप्लुतैः ॥ १८ ॥ फलैर्हुनेत् पौर्णमास्यां पञ्चम्यां वा सिताम्बुजैः |
शुक्रवारे श्वेतपुष्पैर्मासं यो जुहुयात् सुधीः ॥ १९ ॥ संवत्सराद्धनं पूर्णं लभते नात्र संशयः |
किं बहूक्तेन भजते मनुमेनं जितेन्द्रियः ॥ २० ॥ स वाञ्छितार्थाँल्लभते वसुधान्यसमृद्धियुक् |
[Zweiter Halbvers fehlt im Druck] ॥ इति |
तथा— वाक्शक्तिश्रीकामखं च साग्निसद्यान्तसर्गयुक् |
चतृतीयं च वर्गादितृतीयं केवलश्च तः ॥ २१ ॥ लोहितोऽग्नियुतो वामश्रुतियुग् भृगुरीरितः |
तुर्यवर्गादिपवनसद्याद्यहृदयावधि ॥ २२ ॥ द्वादशार्णो महालक्ष्मीमनुः प्रोक्तस्तु सूरिभिः |
प्रणवाद्योऽयमेव स्यात् सर्वसिद्धिकरो मनुः ॥ २३ ॥ इति |
वाक् वाग्बीजं, शक्तिः भुवनेश्वरीबीजं, कामस्तद्बीजं, खं ह, स स्वरूपं, अग्नी रेफः, सद्यान्त औ, सर्गो विसर्गः, एभिः पिण्डितं हस्रौः, चतृतीयं ज, वर्गादितृतीयं ग, केवलश्च तः तकारः स्वररहितः, लोहितः प, अग्नियुक् सरेफः तेन प्र, वामश्रुतियुक् उकारयुक् भृगुः स तेन सु, तुर्यवर्गादि त, पवन य, सद्याद्य ऐ तेन त्यै, हृदयं नमः, प्रणवाद्यस्त्रयोदशाक्षरः ॥ तथा— ऋष्याद्या ब्रह्मगायत्रीमहालक्ष्म्यः समीरिताः |
संशोध्य मनुना पाणी प्रणवाद्यं हृदन्तकम् ॥ २४ ॥ अङ्गुलीषु क्रमान्मन्त्री विन्यसेद्बीजपञ्चकम् |
मन्त्रशेषं न्यसेन्मन्त्री [तलयोरुभयोरपि ॥ २५ ॥ मूर्धादि चरणं यावन्मन्त्रेण व्यापकं न्यसेत् |
मूर्धाक्षिवक्त्रगुह्याङ्घ्रौ पञ्च बीजानि विन्यसेत् ॥ २६ ॥ शेषं सप्तार्णकं मन्त्री] विन्यसेद् हृदि धातुषु |
पञ्चबीजैः पञ्चमन्त्रान् शिष्टैः षष्ठं तु कल्पयेत् ॥ २७ ॥ चतुर्थ्यन्तैर्ज्ञानमुखैर्युक्तं वापि षडङ्गकम् |
ज्ञानैश्वर्ये शक्तिबले वीर्यं तेजश्च षट् क्रमात् ॥ २८ ॥ एवं न्यस्ततनुर्मन्त्री चिन्तयेदिष्टदेवताम् |
आदौ स्मरेत् समुद्यानं सर्वर्तुप्रतिशोभितम् ॥ २९ ॥ वञ्जुलैर्नागरङ्गैश्च रसालैः श्रीद्रुमैरपि |
तालैस्तमालैर्हिन्तालैः शालैश्च बकुलैरपि ॥ ३० ॥ कर्कन्धुबन्धुजीवैश्च चम्पकैरुपशोभितम् |
मन्दान्दोलितकर्पूरकदलीदलमण्डितम् ॥ ३१ ॥ अशोकपाटलानागकोविदारमनोरमम् |
मल्लिकायूथिकाकुन्दमदयन्तीसुगन्धिकम् ॥ ३२ ॥ [Fußnoten: १ ‘प्य’ क. पाठः [Lesung unsicher] |
२ ‘युतैः’ क. ग. पाठः |
]

द्राक्षावल्लीनागवल्लीमाधवीदेवदारुभिः |
नमेरुभिर्लवङ्गैश्च बकुलैस्तिलकैस्तथा ॥ ३३ ॥ शोभितं कर्णिकारैश्च चन्दनै रक्तचन्दनैः |
वञ्जुलैर्मातुलुङ्गैश्च दाडिमीलकुचैः शुभैः ॥ ३४ ॥ नारिकेलैश्च खर्जूरैः पूगैः कुरवकैर्वृतम् |
मालतीकेतकीजातीपारन्तीतुलसीवृतम् ॥ ३५ ॥ नन्द्यावर्तदमनकैः सर्वर्तुकुसुमोज्ज्वलम् |
अमन्दैः पिचुमन्दैश्च मन्दारैरुपशोभितम् ॥ ३६ ॥ विशिष्टैः पनसैश्चोच्चैः शाखोटैः कुटजैर्गिरैः [Schlusswort unsicher] |
अवेगपवनस्पृष्टसुमनोगन्धमञ्जुलम् ॥ ३७ ॥ महासरस्तस्य मध्ये स्मरेन्मन्त्री मनोरमम् |
वरटाहंससङ्घाढ्यचक्रकारण्डकोज्ज्वलम् ॥ ३८ ॥ भ्रमद्भ्रमरमालाभिरलंकृतचतुर्दिशम् |
केकिकेकारवाकीर्णं लक्ष्मणासारसैर्वृतम् ॥ ३९ ॥ फुल्लैः सरसिजैः रम्यैः कह्लारैः कैरवैरपि |
नीलेन्दीवरसङ्घैश्च सुगन्धिकुसुमैर्वृतम् ॥ ४० ॥ सर्वर्तुशोभिकल्पद्रुवनमण्डितमुज्ज्वलम् |
पुलिनं तत्र तन्मध्ये मण्डपं रत्नकुट्टिमम् ॥ ४१ ॥ समुद्यदर्कसंदोहकिरणद्युतिभास्वरम् |
हिमरश्मिकरव्रातसिक्तामृतसुशीतलम् ॥ ४२ ॥ प्रोल्लसद्वालितस्वर्णप्राकारसुमनोहरम् [Anfangskompositum unsicher] |
नानारत्नौघरचितचतुर्द्वारसमन्वितम् ॥ ४३ ॥ नवरत्नमयप्रोद्यद्द्वाराष्टकशोभितम् |
नूतनोच्चन्महारत्नै रचितोत्तुङ्गगोपुरम् ॥ ४४ ॥ तप्तगालितहेमाच्छदण्डध्वजसमूहकम् |
वैडूर्यादिमहारत्नरचितस्तम्भराजितम् ॥ ४५ ॥ संतप्तस्वर्णरचितगवाक्षशतसंकुलम् |
हेमदण्डस्फुरद्दीपसहस्रसुमनोहरम् ॥ ४६ ॥ नानाविधक्षौमवस्त्ररचिताभिश्च काञ्चनैः (?) |
समुद्रपरिघण्टकायुक्तपताकाभिरप्यावृतम् [Glockenkompositum unsicher] ॥ ४७ ॥ शरद्राकासुधारश्मिदुकूलरचितैः शुभैः |
विचित्रवसनोद्भूतैर्वृतं चन्द्रातपैरपि ॥ ४८ ॥ काञ्चनोर्वीमणिव्रातकुट्टिमालंकृतं शुभम् |
घनसारागुरुस्वम्बुकस्तूरीकुङ्कुमैरपि ॥ ४९ ॥ तमालद्रव्य(व)जातैश्च सुगन्धिभिरथेतरैः |
आमोदितचतुर्द्वारं मण्डपं प्रविचिन्तयेत् ॥ ५० ॥ (तदन्तः पारिजातस्य मूले सिंहासनं नवम् |
नानारत्नगणाकीर्णं तत्र देवीं विचिन्तयेत् ॥) बालभास्करसत्कान्तिं शशिशेखरमण्डिताम् |
मुक्ताहारोज्ज्वलां रम्यां रत्नाकल्पविभूषिताम् ॥ ५१ ॥ हस्ताम्भोजैर्विभ्राणां नूतनां शालिमञ्जरीम् |
पद्मद्वयं कौस्तुभं च सस्मितास्यसरोरुहाम् ॥ ५२ ॥ विकचोत्पलसंशोभिलोचनत्रयसंयुताम् |
कर्णपूरस्फुल्लरक्तोत्पलपद्मद्वयाम् ॥ ५३ ॥ नितम्बबिम्बविलसद्रशनादाममञ्जुलाम् |
वलित्रयलसद्वेदिमध्यदेशसुशोभिताम् ॥ ५४ ॥ गम्भीरावर्तहृ(भृ)न्नाभिह्रदमण्डलमण्डिताम् |
यक्षकर्दमसंलिप्तपीनोन्नतघनस्तनीम् ॥ ५५ ॥ कुम्भिकुम्भास्थिमौक्तिकमुक्तादामविराजिताम् [Schmuckkompositum teilweise unsicher] |
क्षौमोत्तरासङ्गवतीं पुष्पदामसुभूषिताम् ॥ ५६ ॥ गालितस्वर्णखचितवलयाद्यङ्गदोज्ज्वलाम् |
काञ्चनोद्यत्पद्मरागमणिसंबद्धकङ्कणाम् ॥ ५७ ॥ नानाविधलसद्रत्नमुद्रिकालंकृताङ्गुलीम् |
कम्बुकण्ठकलारावां स्वर्णग्रैवेयराजिताम् ॥ ५८ ॥ विचित्रनानालङ्कारालङ्कृताङ्गां शुचिस्मिताम् |
उद्यदर्कप्रभाभास्वद्रत्नताटङ्कशोभिताम् ॥ ५९ ॥ [Fußnoten: १ ‘रक्तातप’ ख. पाठः |
२ ‘पारि’ ग. पाठः |
३ ‘सरोजैः’ क. ग. पाठः |
४ ‘वीतां’ क. पाठः |
]

कर्णपूरीकृतस्वर्णबद्धरत्नाङ्कुशां शुभाम् |
प्रवालविलसत्कान्तिरुचिराधरपल्लवाम् ॥ ६० ॥ शेखरप्रो(शङ्खरुचो)ल्लसद्रम्यदशनावलिशोभिताम् |
निर्लाञ्छनशरद्राकाताराधिपशुभाननाम् ॥ ६१ ॥ पञ्चसायककोदण्डविलासाधिकभ्रूयुगाम् |
बिभ्राणां नासिकां प्रोद्यत्तिलपुष्पजयोद्यताम् ॥ ६२ ॥ शीतांशुशकलाकाररुचिरालिकराजिताम् |
घनसौगन्ध्यसंपन्नमृगनाभिविशेषकाम् ॥ ६३ ॥ मनाक्कुञ्चितसुस्निग्धनीलमञ्जुलमूर्धजाम् |
पारिजातद्रुकुसुमगन्धवाहिसुमूर्धजाम् ॥ ६४ ॥ [अनर्घ्यरत्नघटितमुकुटाङ्कितमस्तकाम्] |
तप्तहाटकसंबद्धनानारत्नौघशेखराम् ॥ ६५ ॥ सौन्दर्यभूमेरवधिं तेजसां जन्मभूमिकाम् |
विलासलक्ष्मीभवनं महालक्ष्मीं विचिन्तयेत् ॥ ६६ ॥ वामाधःकरमारम्य दक्षाधःकरपर्यन्तमायुधध्यानम् |
पुराप्रोक्ते रमापीठे देवीं सम्यक् प्रपूजयेत् |
दद्याद्बीजेनासनं च स्वाणुना मूर्तिकल्पना ॥ ६७ ॥ दक्षभागे यजेद्देव्या गणपं चान्यतस्तथा |
सुमनोञ्जलिहस्तं च पुष्पधन्वानमर्चयेत् ॥ ६८ ॥ अङ्गानि पूजयेदादौ यथास्थानेषु मन्त्रवित् |
अष्टपत्रेष्विमाः पूज्या उमा श्रीश्च सरस्वती ॥ ६९ ॥ दुर्गा धरणिगायत्र्यौ देव्युषा चेति शक्तयः |
नानालङ्करणाढ्याः स्युरम्भोजद्वयपाणयः ॥ ७० ॥ अङ्घ्रिप्रक्षालनार्थं च प्रोद्यते जह्नुसूर्यजे |
पूजनीये प्रयत्नेन कराभ्यां धृतचामरौ ॥ ७१ ॥ निधी पूज्यौ च वरुणं पश्चिमे छत्रधारिणम् |
परितश्च यजेद्राशीन् ग्रहांश्चैव ततोऽर्चयेत् ॥ ७२ ॥ चतुर्दन्तान् दिग्गजांश्च यजेदाशासु मन्त्रवित् |
लोकपालांस्तदस्त्राणि तत्तद्बाह्ये यजेत् सुधीः ॥ ७३ ॥ ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः |
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च ते क्रमात् ॥ ७४ ॥ इति |
अथ प्रयोगः—तत्र प्राग्वत् प्रातःकृत्यादियोगपीठन्यासान्तं मूलेन प्राणायामत्रयं कृत्वा शिरसि ब्रह्मणे ऋषये नमः |
मुखे गायत्रीछन्दसे नमः |
हृदि श्रीमहालक्ष्मीदेवतायै नमः |
इति विन्यस्य, प्राग्वद्विनियोगमुत्कीर्त्य (मूलमन्त्रेण करयोर्व्यापकं कृत्वा, अङ्गुष्ठयोः ऐं नमः, तर्जन्योः ह्रीं०, मध्यमयोः श्रीं०, अनामिकयोः क्लीं०, कनिष्ठिकयोः हस्रौः०, करतलयोः जगत्प्रसूत्यै नमः ॥ मूर्ध्नि ऐं नमः, चक्षुषोः ह्रीं०, वक्षसि श्रीं०, गुह्ये क्लीं०, पादयोः हस्रौः०, हृदि सप्तधातुषु—त्वचि जं नमः, रक्ते गं०, मांसे प्रं०, मेदसि सूं०, अस्थिषु त्यैं०, मज्जायां नं०, शुक्रे मं नमः, इति विन्यस्य,) ऐं ज्ञानाय नमः हृदयाय नमः |
ह्रीं ऐश्वर्याय नमः शिरसे स्वाहा |
श्रीं शक्तये नमः शिखायै वषट् |
क्लीं बलाय नमः कवचाय हुं |
हस्रौः वीर्याय नमः नेत्राभ्यां वौषट् |
जगत्प्रसूत्यै तेजसे नमः अस्त्राय फट् |
इति षडङ्गमन्त्रानङ्गुष्ठादितलान्तं मूलमन्त्राभिमृष्योः करयोर्विन्यस्य हृदयादिषडङ्गेष्वपि न्यसेत् |
ततः सकेसरमष्टदलकमलं तद्बहिर्द्वादशदलकमलं तद्बहिर्नवदलं कमलं तद्बहिश्चतुर्द्वारयुतचतुरस्रत्रयमिति पूजाचक्रं निर्माय, प्राग्वत् पुरतः संस्थाप्य ध्यानादिपुष्पोपचारान्ते कर्णिकायां देव्या दक्षिणे गणपतये नमः वामे कामदेवाय इति संपूज्य, प्राग्वत् षडङ्गानि संपूज्याष्टदले उमायै नमः, श्रियै०, सरस्वत्यै०, दुर्गायै०, धरिण्यै०, गायत्र्यै०, देव्यै०, उषायै०, इति स्वाग्रादिप्रादक्षिण्येन संपूज्य, देव्या दक्षिणचरणसमीपे गङ्गायै नमः, वामसमीपे यमुनायै नमः |
देवीदक्षिणे शङ्खनिधये नमः |
वामे पद्मनिधये नमः इति संपूज्य, द्वादशदले मेषाय नमः, वृषाय० मिथुनाय० कर्काय० सिंहाय० कन्यायै० तुलायै० वृश्चिकाय० धनुषे० मकराय० कुम्भाय० मीनाय नमः |
तद्ब— [Fußnoten: १ ‘चित्रिकाम्’ ख. पाठः |
२ ‘पद्मोज्ज्वलोद्यतां’ क. ख. पाठः |
]

हिर्नवदले रवये नमः, सोमाय० मङ्गलाय० बुधाय० बृहस्पतये० शुक्राय० शनैश्चराय० राहवे० केतुभ्यो नमः |
तद्बहिश्चतुरस्रकमलयोरन्तराले देव्यग्राद्यष्टदिक्षु ऐरावताय नमः, पुण्डरीकाय० वामनाय० कुमुदाय० अञ्जनाय० पुष्पदन्ताय० सार्वभौमाय० सुप्रतीकाय नमः |
इति प्रादक्षिण्येन संपूज्य, प्राग्वद्वीथीद्वये दिगीशान् तदस्त्राणि च समभ्यर्च्य धूपदीपादिशेषं प्राग्वत् समापयेदिति |
तथा— जपेद्भास्करलक्षं च नियताशी यतव्रतः |
तद्दशांशं प्रजुहुयाद् घृतैस्त्रिस्वादुसंयुतैः ॥ ७५ ॥ पद्मै रमाद्रुमफलैः प्रत्येकमयुतं हुनेत् |
वासितैः शुचिभिस्तोयैस्तर्पयेदयुतद्वयम् ॥ ७६ ॥ इति |
अत्र घृतैर्दशांशहोमं विधाय तद्दशांशतर्पणादि निर्वर्त्य पश्चादयुतद्वयहोममयुतद्वयतर्पणं च विदध्यात्, इत्यन्यमन्त्रेभ्यो विशेषः ॥ तथा— एवं सिद्धमनुर्मन्त्री गुरुभक्तो दृढव्रतः |
कुर्यात् काम्यानि कर्माणि स्वाभीष्टानि च मन्त्रवित् ॥ ७७ ॥ आज्याप्लुताभिर्दूर्वाभिरायुष्कामो हुनेन्नरः |
सहस्रं दशरात्रं च समिद्धे हव्यवाहने ॥ ७८ ॥ शताह्वाभिर्गुडूचीभिरष्टोत्तरसहस्रकम् |
सप्ताहं जुहुयाज्जीवेद् वत्सराणां शतं सुधीः ॥ ७९ ॥ शताह्वाभिर्दूर्वाभिः |
दीर्घायुश्च घृताभ्यक्तैस्तिलैः प्रजुहुयाद्बुधः |
आरोग्यकामो जुहुयादारभ्यार्कदिनं सुधीः ॥ ८० ॥ दशांशं प्रत्यहं चापि सर्पिरक्तान् समिद्वरान् |
कण्ठदघ्ने जले स्थित्वा महालक्ष्मीमनुस्मरन् ॥ ८१ ॥ समिद्वरानर्कजान् |
अष्टाधिकसहस्रं च प्रोर्ध्वबाहुर्जपेन्मनुम् |
स वाञ्छितार्थं लभते आरोग्यमपि साधकः ॥ ८२ ॥ अन्वहं जुहुयादष्टसहस्रं शालिभिर्ध्रुवम् |
सोऽचिराल्लभते लक्ष्मीं महतीं साधकोत्तमः ॥ ८३ ॥ अष्टसहस्रमष्टाधिकसहस्रमित्यर्थः |
रमालताप्रसूनैर्वा नन्द्यावर्तसमुद्भवैः |
श्वेतसर्षपकैराज्यप्लुतैर्वा जुहुयाद्बुधः ॥ ८४ ॥ प्रथीयसीं रमामाप्नोत्यचिरात् साधको ध्रुवम् |
मान्यते च तथा सर्वैर्जन्तुभिर्नान्यथात्र च ॥ ८५ ॥ नालिकेररजोयुक्तैर्मरिचैर्जीरेकान्वितैः |
गुडयुक्तैर्घृतपक्वैरपूपैर्जुहुयात् सुधीः ॥ ८६ ॥ संयतः प्रत्यहं चाष्टशतं पायसभुग् द्विजः |
मण्डलाद् ध्रुवं साक्षाद् भवेद्वैश्रवणस्तथा ॥ ८७ ॥ गुडमिश्रहविष्यस्य होमादन्नसमृद्धिमान् |
अष्टोत्तरसहस्रं च जपापूनानि संहुनेत् ॥ ८८ ॥ संगृह्य तद्भस्म मन्त्री नागवल्लीरसेन च |
सहितं तिलकं कुर्यात् सर्ववश्यं भवेद् ध्रुवम् ॥ ८९ ॥ पलाशोत्थसमिद्भिश्च कुसुमैर्जुहुयात् तथा |
वश्या भवेयुर्मूर्धजा वशिनस्तस्य मन्त्रिणः ॥ ९० ॥ जातिकाकुसुमैर्मन्त्री राजानं वशमानयेत् |
जुहुयादरुणाम्भोजैर्वैश्याः स्युस्तेन वश्यगाः ॥ ९१ ॥ नीलोत्पलानां होमेन वश्याश्चरणसम्भवाः |
वशयेत् प्रमदा विद्वान् मधूककुसुमैर्घृतैः ॥ ९२ ॥ नवकोष्ठात्मकं सम्यङ्मण्डलं रचयेत् सुधीः |
मध्ये यन्त्रं च रुचिरं कल्पयेद् यथाविधि ॥ ९३ ॥ यन्त्रं वक्ष्यमाणम् |
तेषु कोष्ठेषु नवसु विन्यसेत् कलशान् नव |
शुभांश्चन्दनकाश्मीरलिप्तसर्वाङ्गकान् नवान् ॥ ९४ ॥ कूर्चतण्डुलसंयुक्तान् सर्वदृष्टिमनोहरान् |
पूरयेच्च यथावत् तान् वासितैस्तीर्थपुष्करैः ॥ ९५ ॥

कर्षस्वर्णेन रचितं नवरत्नसमन्वितम् |
कर्णिकामध्यविलसद्यन्त्रं पद्मं तु कारयेत् ॥ ९६ ॥ मध्यस्थकलशे रम्यं यथावत् तद्विनिक्षिपेत् |
पञ्चरत्नानि सर्वेषु कलशेषु विनिक्षिपेत् ॥ ९७ ॥ पञ्चरत्नानि तु— वज्रं मुक्ताफलं नीलं पद्मरागं तथैव च |
मरकतेन समायुक्तं पञ्चरत्नमिदं विदुः ॥ १ ॥ इति पुराणोक्तानि |
तथा— वटीरौशीरकाश्मीरचन्द्रागुरुतमालकम् |
जातीकङ्कोलसंयुक्तं संपिष्येत् तानि भागशः ॥ ९८ ॥ कलशेषु च सर्वेषु यथाविधि विलोडयेत् |
सदाभद्रा च दूर्वा च देवी श्रीश्च मधुव्रता ॥ ९९ ॥ अपामार्गस्य पत्राणि मुशली वज्रवल्लरी |
चक्रप्रियङ्गुव्रीहींश्च मुद्रगोधूमतण्डुलान् [मुद्र im Druck unsicher, wohl मुद्ग] ॥ १०० ॥ शालिमाषांश्च सतिलान् यवान् प्रक्षिप्य निश्चियेत् |
कदलीनारिकेलश्रीधात्रीलकुचभूरुहाम् ॥ १०१ ॥ फलानि पद्मबकुलजातिसौगन्धिकानि च |
मल्लिकाचम्पकाशोकपुन्नागोत्थानि निक्षिपेत् ॥ १०२ ॥ पुष्पाणि केतकीं तद्वत् तुलसीपल्लवानि च |
न्यग्रोधोदुम्बरप्लक्षचैत्याना ब्रह्मकूर्चकम् [Baumkompositum unsicher] ॥ १०३ ॥ प्रक्षिप्य घटवक्त्राणि च्छादयेत् पूपकैः शुभैः |
साक्षतैः सफलैस्तांश्च वेष्टयेत् क्षौमवाससा ॥ १०४ ॥ तेषु मध्यस्थकलशे समावाह्य महेश्वरीम् |
महालक्ष्मीं चन्दनाद्यैरुपचारैश्च संयजेत् ॥ १०५ ॥ शिष्टेष्वष्टसु कुम्भेषु ह्युमाद्याः क्रमतो यजेत् |
सुगन्धैश्चन्दनैः पुष्पैर्मनोज्ञैर्धूपदीपकैः ॥ १०६ ॥ भक्ष्यभोज्यनिवेद्यैश्च यथाविधि यजेत् सुधीः |
संस्पृश्य तान् घटान् मन्त्री त्रिसहस्रं मनुं जपेत् ॥ १०७ ॥ ततः साध्यं समानीय संयतं स्थण्डिले शुभे |
सुपीठे तं निवेश्यार्थ तस्मिन् साध्ये तु योजयेत् ॥ १०८ ॥ मनोहरैरलङ्कारैर्विविधैर्वसनैरपि |
आदरात् तमलङ्कृत्य सुरक्तं सुमनोत्तमम् ॥ १०९ ॥ सुवासिनीभिर्योषाभिर्मिश्रितानां द्विजन्मनाम् |
सहर्षवचनेः सर्ववाद्यानां निनदैः सह ॥ ११० ॥ वेदघोषेण च सह लग्ने चैव सुशोभने |
तेषु मध्यस्थितं कुम्भं समुद्घृत्य गुरुः स्वयम् ॥ १११ ॥ मूलमन्त्रं जपन् सिञ्चेत् साध्यशीर्षे ततोऽपरैः |
कलशैः पूर्ववत् सिक्त्वा हस्तेनास्य शिशोः शिरः ॥ ११२ ॥ संस्पृशन् वेदगदितामाशिषं च प्रयच्छति |
कल्याणमस्तु च सदा संपदश्च निराकुलाः ॥ ११३ ॥ प्रसीदतु महालक्ष्मीः सकला देवता अपि |
रक्षन्तु त्वां सदैवात्र विजयाऽस्तु सुखी भव ॥ ११४ ॥ इत्थं दत्त्वाशिषः पश्चाद्वाससी परिधाप्य च |
आचान्तः प्रणमेत् सम्यग्यथाविधि गुरुं शिशुः ॥ ११५ ॥ नानातिथैश्च वसनैर्नानालङ्करणैरपि [erstes Wort undeutlich] |
धनैर्धान्यै रत्नगोभिर्महिषीभिश्च दासकैः ॥ ११६ ॥ दासीभिर्देवताबुद्ध्या गुरुं संतोषयेत् सुधीः |
नानाविधैर्भक्ष्यभोज्यैर्लेह्यचोष्यैस्तथेतरैः ॥ ११७ ॥ दीनान्धकृपणैः सार्धं भोजयेच्च द्विजन्मनः |
ततः स्वमन्दिरे कुर्यादुत्सवं बन्धुभिः सह ॥ ११८ ॥ षट्त्र्येकाहरम्यं च ततः स नरवरः स्वयम् |
कृतार्थं मन्यते सम्यगात्मानं नान्यथात्र हि ॥ ११९ ॥ राजा शत्रून् विजयतेऽभिषिक्तश्च यथाविधि |
राजपुत्रश्च राज्येप्सुरचिरादाप्नुयात् पदम् ॥ १२० ॥ [Fußnoten: १ ‘शुभे पीठे तं निवेश्य’ ख. पाठः |
२ ‘न्यस्तशिरोशिरः’ क. ख. पाठः [Lesung unsicher] |
]

वन्ध्याभिषिक्ता रमणी ह्यचिराद्वाञ्छितं सुतम् |
महामतिं च लभते नात्र कार्या विचारणा ॥ १२१ ॥ महाभयेषु भूतादिनिमित्तोत्थभयेषु च |
कृत्याद्रोहादिदोषे च प्रकुर्यादभिषेचनम् ॥ १२२ ॥ अभिषेकेणामुना च नृणां भवति निश्चितम् |
सर्वसंपच्च सौभाग्यं सर्वामयशमस्तथा ॥ १२३ ॥ सर्वापद्वारणं चैव सर्वसौख्यानि निश्चितम् |
[Zweiter Halbvers fehlt im Druck] ॥ पटीरोश्चन्दनः |
उशीरो वालकं |
काश्मीरं कुङ्कुमं केसरमिति प्रसिद्धम् |
चन्द्रः कर्पूरः |
तमालकं पत्रजं |
जाती जातीफलं, कङ्कोलं कोल इति प्रसिद्धम् |
भागशः समभागेन |
सदाभद्रा मुस्ता |
देवी सहदेवी |
श्रीरपराजिता |
मधुव्रता भृङ्गराजः |
मुशली तालमूली |
वज्रवल्लरी इन्द्रवारुणी |
प्रियङ्गुः काङ्गुनी |
श्रीः बिल्वः |
धात्री आमलकी, लकुचो बडहर इति प्रसिद्धः |
बकुलः बौलसरीति प्रसिद्धः |
प्लक्षः पाकडीति प्रसिद्धः |
चैत्यो ग्रामप्रसिद्धिहेतुभूतो महावृक्षः |
ब्रह्मकूर्चं पञ्चगव्यम् |
पूपकैराच्छादनपात्रैः ॥ तथा— श्रीमायाकामयुक्तं प्रणवगतमथो साध्यमालिख्य मध्ये किञ्जल्के पूतबीजत्रितयमपि लिखेद् युग्मशश्चार्कपत्रे |
मन्त्रार्णान् षोडशारं स्वर लसितदलं कादियुक्पत्रमूलं हस्रोद्यत्कोणभूमीगृहयुगलवषट्प्रान्ततार्णातं स्यात् [letzte Verszeile teilweise unsicher] ॥ १२४ ॥ यन्त्रमेतन्महालक्ष्म्याः प्रोक्तं संपत्करं परम् |
सर्वसौभाग्यदं चापि सर्वदुःखविमोचनम् ॥ १२५ ॥ आपन्निवारणं प्रोक्तं किं बहूक्तेन सर्वदम् |
[Zweiter Halbvers fehlt im Druck] ॥ इति |
अस्यार्थः—द्वादशदलं पद्मं विरच्य तत्कर्णिकायां प्रणवं विलिख्य तस्योदरे श्रीमायाकामबीजानि (साध्यनाम च विलिख्य तत्केसरेषु प्रोक्तश्रीमायाकामबीजानि) प्रतिकेसरमेकैकमिति बीजत्रयस्याष्टावृत्त्या चतुर्विंशतिकेसरेष्वपि विलिख्य द्वादशपत्रेषु मूलमन्त्रस्य वर्णानेकैकशो विलिख्य तद्बहिः षोडशदलं पद्मं कृत्वा तत्केसरेषु ककारादिसकारान्तान् वर्णान् द्वात्रिंशतं द्वन्द्वशो विलिख्य दलेषु षोडश स्वरान् विलिख्य, तद्बहिश्चतुरस्रद्वयेनाष्टकोणं कृत्वा, तत्कोणेषु प्रतिकोणं हस्रौं [Bījaverbindung unsicher] विलिख्य वषडन्तया त्वरिताविद्यया वेष्टयेत् |
अत्र त्वरिताविद्यावेष्टने त्वष्टकोणाद्बहिर्वृत्तद्वयं कृत्वा तयोरन्तरालवीथ्यां यथोक्तया त्वरिताविद्यया वेष्टयेदिति सम्प्रदायः |
एतद्यन्त्रमुक्तफलदम् ॥ तथा— तारश्रीशक्तिलक्ष्मीकमर्योः शिवयुता धरा |
चतुराननमर्यौ च दीर्घयुक्तः पुरन्दरः ॥ १२६ ॥ उपान्त्यः शिवयुग्वायुलोहितोऽग्नियुतो भृगुः |
चतुर्थस्वरयुक् थान्तः पुनरेतत् त्रयं वदेत् ॥ १२७ ॥ बीजत्रयं महालक्ष्मि हृदन्तो गदितो मनुः |
सर्वदो वै महालक्ष्म्या मन्त्रराजः प्रकीर्तितः ॥ १२८ ॥ इति |
तारः प्रणवः, श्रीः श्रीबीजं, शक्तिर्भुवनेशी, लक्ष्मीः श्रीबीजं, कं स्वरूपं, मर्यो मकारः, शिव ए धरा ल तेन ले, चतुराननः क, मर्यो म, दीर्घयुक्तः पुरन्दरः ला, उपान्त्यो ल, शिव ए वायु य तेन ये |
लोहितः प, अग्निः रेफस्तेन प्र, भृगुः स चतुर्थस्वर ई तेन सी, थान्तो द, पुनरेतत् त्रयं प्रसीदेति |
बीजत्रयं श्रीशक्तिलक्ष्मीबीजानि |
महालक्ष्मि स्वरूपं, हृदन्तो नमोऽन्तः ॥ अत्र केचित् लक्ष्मीशब्दं चतुर्थ्यन्तत्वेनेच्छन्ति, “महालक्ष्म्यै” इत्येवोद्धरन्ति |
तथाच प्रपञ्चसारे “समहालक्ष्म्यै हृदिन्दिरामन्तः” इति (१२ |
२७) |
सारसंग्रहे— त्रिबीजपुटितैर्मन्त्रवर्णैः पञ्चाङ्गमीरितम् |
त्रीष्वग्निवह्निवेदैश्च ततो देवीं विचिन्तयेत् [Lautzählung undeutlich] ॥ १ ॥

इषुः ५ अग्निः ३ वेदः ४ |
ध्यानम्— सिन्दूरारक्तकान्तिः सरसिजवसतिश्चारुलावण्यभूमिर्हस्ताब्जै रत्नपात्रं सरसिजयुगलं दर्पणं संवहन्ती |
दासीभिश्चाभिवीता मणिमयमुकुटा हारसत्कुण्डलाढ्या काञ्चीप्रोद्यन्नितम्बाङ्गदलसितभुजा श्रेयसे वोऽस्तु लक्ष्मीः ॥ २ ॥ वामाधःकरमारभ्य दक्षिणाधःकरपर्यन्तमायुधध्यानं दक्षाधस्तादारभ्य वा |
पूर्वोदिते यजेत् पीठे वक्ष्यमाणेन वर्त्मना |
पुराङ्गानि यजेत् पश्चात् श्रीधरादिंस्ततः सुधीः ॥ ३ ॥ श्रीधरश्च हृषीकेशो वैकुण्ठो विश्वरूपकः |
वासुदेवादयश्चेमे चत्वारः समुदीरिताः ॥ ४ ॥ भारत्यादिभिरन्या स्यात् भारती पार्वती तथा |
चान्द्री शची च संप्रोक्ता दमकाद्यान् यजेद्गजान् ॥ ५ ॥ यजेद्गणान् महालक्ष्म्या अनुरागादिकान् बहिः |
अनुरागो विसंवादो विजयो वल्लभो मदः ॥ ६ ॥ हर्षो बलश्च तेजश्च यजेल्लोकेश्वरान् बहिः |
तदायुधानि तद्बाह्ये पूजयेच्चन्दनादिभिः ॥ ७ ॥ एवं संपूजयेल्लक्ष्मीं यो मर्त्यो विधिनामुना |
तत्र नित्यं महालक्ष्मीर्वर्धते न जहाति तम् ॥ ८ ॥ इति |
अथ प्रयोगः—प्रातःकृत्यादियोगपीठन्यासान्तं मूलमन्त्रेण प्राणायामत्रयं कृत्वा, शिरसि दक्षप्रजापतये ऋषये नमः |
मुखे गायत्रीछन्दसे नमः |
हृदये श्रीमहालक्ष्मीदेवतायै नमः |
इति विन्यस्य प्राग्वद्विनियोगमुत्कीर्त्य, श्रींह्रींश्रीं कमले श्रींह्रींश्रीं हृदयाय नमः |
श्रींह्रींश्रीं कमलालये श्रींह्रींश्रीं शिरसे स्वाहा |
श्रींह्रींश्रीं प्रसीद श्रींह्रींश्रीं शिखायै वषट् |
श्रींह्रींश्रीं प्रसीद श्रींह्रींश्रीं कवचाय हुं |
श्रींह्रींश्रीं महालक्ष्म्यै श्रींह्रींश्रीं अस्त्राय फट् |
इति पञ्चाङ्गमन्त्रान् मूलाभिमृष्टयोः करयोरङ्गुष्ठादिकनिष्ठिकान्तस्वाङ्गुलीषु विन्यस्य, नेत्रवर्जं हृदयादिषु च न्यसेत् |
ततो ध्यानमानसपूजान्तेऽष्टदलकमलत्रयं चतुर्द्वारयुतचतुरस्रत्रयावृतं पूजाचक्रमुद्धृत्य, अर्घ्यस्थापनाद्यङ्गपूजान्तेऽन्तरष्टदलेषु ओंश्रीधराय नमः |
हृषीकेशाय नमः |
वैकुण्ठाय० |
विश्वरूपाय० |
वासुदेवाय० |
सङ्कर्षणाय० |
प्रद्युम्नाय० अनिरुद्धाय०, इति देव्यग्रादिप्रादक्षिण्येन संपूज्य, द्वितीयेऽष्टदले दिक्षु पत्रेषु भारत्यै नमः |
पार्वत्यै० |
चान्द्र्यै० |
शच्यै० |
आग्नेयादिषु पत्रेषु दमकाय नमः, सलिलाय०, गुग्गुलवे०, कुरण्टकाय०, इति संपूज्य, तृतीयेऽष्टदले अनुरागाय नमः |
विसंवादाय०, विजयाय०, वल्लभाय०, मदाय०, हर्षाय०, बलाय०, तेजसे०, इति संपूज्य प्राग्वद् दिगीशादि शेषं समापयेत् इति ॥ दक्षिणामूर्तिसंहितायां तु—अङ्गैः प्रथमावरणं, भारत्यादिचतसृभिः श्रीधरादिभिश्चतुर्भिश्च द्वितीयम्, अनुरागादिभिस्तृतीयं, ततो लोकेशास्तद्धेतयश्च इति पञ्चावरणमुक्तम् |
दक्षिणामूर्तिः— लक्षं जपेत् फलैर्बैल्वैर्जुहुयान्मधुरोक्षितैः |
दशांशं संस्कृते वह्नौ प्राक्प्रोक्तेनैव वर्त्मना ॥ १ ॥ इति |
एष जपः कृतयुगपरः |
एवं सिद्धमनुर्मन्त्री साधयेदिष्टमात्मनः |
चन्दनाक्तैः सरसिजैर्लक्षं प्रजुहुयात् सुधीः ॥ २ ॥ लभते नृपतिर्वैरिसाम्राज्यं समरं विना |
महालक्ष्मीमनुं चैव जपन् राजसभां व्रजेत् ॥ ३ ॥ तत्र संमान्यते नित्यं नात्र कार्या विचारणा |
सहदेवी रमा दूर्वा क्रान्ता भद्रा मधुव्रता ॥ ४ ॥ शक्रवल्ली चाञ्जलिनी मुशली हरिचन्दनम् |
घनसारं चन्दनं च कंकिलं रोचनं च रू [letzte Stoffnamen unsicher] ॥ ५ ॥

मायूरकेसरौ सर्वं पिष्ट्वा सम्यग् हरिद्रया |
संजप्तं मनुना सम्यगष्टोत्तरसहस्रतः ॥ ६ ॥ अनेन तिलकं कृत्वा सर्ववश्यं भवेद् ध्रुवम् |
[Zweiter Halbvers fehlt im Druck] ॥ रमा श्रीलता |
क्रान्ता अपराजिता |
हरिचन्दनं रक्तचन्दनम् |
“हरिर्ना कपिले त्रिषु” इति कोशात् |
घनसारः कर्पूरः |
रुक् कुष्ठम् ॥ सारसंग्रहे— प्रणवं शुद्धवासान्ते से हृदन्ते महापदम् |
ङेऽन्तश्रीहृन्मनुः प्रोक्तश्चतुर्दशभिरक्षरैः ॥ १ ॥ शुद्धवास स्वरूपं |
से स्वरूपं |
हृन्नमः |
महा स्वरूपं |
ङेऽन्ता श्रीः श्रियै |
हृन्नमः |
मनोः पदैश्च पञ्चाङ्गं पूर्ववद् ध्यानपूजनम् |
जपादिलक्षमेतस्य पद्मैर्होमो दशांशतः ॥ २ ॥ पूर्ववत् महालक्ष्मीमन्त्रवत् |
जपः कलियुगपरः |
तर्पणादिकमपि तत्रोक्तं ज्ञेयम् |
तथा— यौंतौंमौंतभये प्रोक्त्वा श्रियै श्रीर्नम इत्यथ |
एकादशार्णो मन्त्रोऽयं जमदग्निर्मुनिर्मतः ॥ ३ ॥ यौंतौंमौंतभये स्वरूपं, श्रियै श्रीर्नम इत्यपि स्वरूपम् |
त्रिष्टुप्छन्दो रमादेवी देवता परिकीर्तिता |
आद्यष्ण्मन्त्रवर्णैश्च हृदन्तैर्हृदि ठान्तकैः ॥ ४ ॥ शिरः, शिखा वषट् भूयो हृत् (हुं) भान्तैः कवचं मतम् |
श्रियै नेत्रे श्रीर्नमोऽस्त्रं विदध्याद् ध्यानमुक्तवत् |
ध्यानमित्युपलक्षणम् |
पूजादिकमपि तथा ज्ञेयम् |
अथ प्रयोगः—प्राग्वद्योगपीठन्यासान्ते मूलमन्त्रेण प्राणायामत्रयं कृत्वा, शिरसि जमदग्नये ऋषये नमः, मुखे त्रिष्टुप्छन्दसे नमः, हृदि श्रीमहालक्ष्म्यै देवतायै नमः, इति विन्यस्य प्राग्वद्विनियोगमुक्त्वा, यौंतौंमौंतभये नमः हृदयाय नमः, यौंतौंमौंतभये स्वाहा शिरसे स्वाहा, यौंतौंमौंतभये वषट् शिखायै वषट्, यौंतौंमौंतभये हुं कवचाय हुं |
श्रियै नेत्रत्रयाय वौषट् |
श्रीर्नमः अस्त्राय फट् |
इति षडङ्गमन्त्रान् प्राग्वत् करयोर्हृदयादिषु च विन्यस्य शेषं महालक्ष्मीवत् सर्वं कुर्यात् ॥ तथा— नित्यं द्वादशसाहस्रं सप्तरात्रं मनुं जपेत् |
तेन सिद्धो भवेन्मन्त्रः साधकस्य न संशयः ॥ ६ ॥ अत्र होमो नोक्तः |
तथापि पूर्वोक्तमन्त्रहोमद्रव्यैर्जपदशांशतो होमः कार्यः, इति साम्प्रदायिकाः |
तथा— लक्ष्मीं सुवर्णाङ्कुरां ध्यात्वा मन्त्रमिमं जपेत् |
अष्टोत्तरसहस्रं च स लभेद्वाञ्छितां श्रियम् ॥ ७ ॥ जपन्नष्टशतं विश्वं तिलकाद्वशयेद् ध्रुवम् |
मासत्रयं तथा जप्त्वा ग्रामं मन्त्री समाप्नुयात् ॥ ८ ॥ इति |
तथा— पद्मप्रभेपदं पद्मसुन्दरीति पदं वदेत् |
पद्मेऽग्निवधूर्मन्त्रश्चतुर्दशभिरक्षरैः ॥ ९ ॥ मन्त्रोद्धारस्तु सुगमः |
पदैश्चतुर्भिः सर्वेण पञ्चाङ्गं गदितं मनोः |
जपपूजादिकं सर्वमस्य पूर्ववदाचरेत् ॥ १० ॥ पूर्ववदेकादशाक्षरोक्तवत् |
“इयं सिद्धा महाविद्या भक्तानां कल्पवल्लिका” |
एतेन पुरश्चरणमपि तत्रोक्तमेव ॥ अथ शक्तिलक्ष्मीमन्त्रः स तु वक्ष्यमाणत्रिपुटामन्त्र एव (२२ श्वा०) |
यजनविधिरपि तत्रोक्त एव ज्ञेयः ॥ दक्षिणामूर्तिसंहितायाम्— अथ वक्ष्ये महादेवि सर्वसाम्राज्यदेवताम् |
यस्या आराधनाद् विष्णुरभूल्लक्ष्मीपतिः स्वयम् ॥ १ ॥ [Fußnote: १ ‘कुर्यात्’ क. पाठः |
Die Nasalzeichen der gedrängten Folge यौंतौंमौं sind im Druck nicht in jeder Wiederholung gleich klar.]

चन्द्रः समदनं क्ष्मेशो वह्निदीर्घाक्षिमण्डितः |
बिन्दुक्रूरेश्वरीयुक्तो द्वितयं वैष्णवी प्रिये [द्वितयं Lesung unsicher] ॥ २ ॥ श्रीबीजं संपुटं कुर्यात् सर्वसाम्राज्यदायिनी |
[Zweiter Halbvers fehlt im Druck] ॥ इति |
चन्द्रः स, मदनं ककारः, क्ष्मा लकारः, ईशो हकारः, वह्नी रेफः, दीर्घाक्षी ईकारः, बिन्दुशब्देन नादो गृह्यते जनकजन्ययोस्तयोरभेदात् |
नादबिन्द्वोर्जनकजन्यत्वम् |
तच्च शारदातिलके—“आसीच्छक्तिस्ततो नादो नादाद्बिन्दुसमुद्भवः” (१ |
७) इति |
क्रूरेश्वरी बिन्दुः, एतेन मायोद्धृता |
तथा— [Erster Halbvers fehlt im Druck] |
ऋषिर्हरिस्तथा छन्दो गायत्री चास्य संमता ॥ ३ ॥ देवता मोहिनी लक्ष्मीः सर्वसाम्राज्यदायिनी |
बीजं कूटं समाख्यातं शक्तिः श्रीबीजमुच्यते ॥ ४ ॥ षड्भिः कूटं स्वरैर्भित्त्वा षडङ्गानि प्रविन्यसेत् |
अतसीपुष्पसंकाशां रत्नभूषणभूषिताम् ॥ ५ ॥ शङ्खचक्रगदापद्मशार्ङ्गबाणधरां करैः |
षड्भिः कराभ्यां देवेशि वरदाभयशोभिताम् ॥ ६ ॥ ध्यायेदिति शेषः |
वामाद्यूर्ध्वयोराद्ये, तदाद्यधःस्थयोरपरे, तदाद्यधःस्थयोरितरे इत्यायुधध्यानम् |
तथा— [Anfang fehlt im Druck] यन्त्रोद्धारं शृणु प्रिये |
त्रिकोणं चाष्टपत्रं च भूविम्बं च ततो लिखेत् ॥ ७ ॥ चतुर्द्वारोपशोभाढ्यं यन्त्रमेतत् समालिखेत् |
अस्मिन् समावाह्य देवीं पूजयेदुपचारकैः ॥ ८ ॥ पूर्ववत् परमेशानि षडङ्गावरणं यजेत् |
गायत्री चैव सावित्री सरस्वत्यग्रकोणतः ॥ ९ ॥ क्रमेण पूजयेन्मन्त्री ब्राह्म्याद्याश्च स्वरैः पृथक् |
अष्टपत्रेषु भूविम्बे शक्रोच्चारेण पूजयेत् ॥ १० ॥ अष्टादशमहाकोटियोगिनीभ्यो नमो लिखेत् |
अनेन मनुना पश्चादिन्द्रादीन् पूजयेत् ततः ॥ २१ ॥ पुनर्देवीं समभ्यर्च्य गन्धपुष्पाक्षतादिभिः |
वटुकक्षेत्रपालेभ्यो योगिनीभ्यो बलिं हरेत् ॥ १२ ॥ अत्र वटुकक्षेत्रपालेभ्य इति बहुवचनं गणेशस्यापि ग्रहणार्थम् |
तेन वटुकक्षेत्रपालगणेशेभ्य इत्यर्थः ॥ अथ प्रयोगः—तत्र प्रातःकृत्यादियोगपीठन्यासान्तं मूलेन प्राणायामत्रयं कृत्वा, शिरसि हरये ऋषये नमः, मुखे गायत्रीछन्दसे नमः, हृदये श्रीसर्वसाम्राज्यलक्ष्म्यै देवतायै नमः, गुह्ये सकलह्रींबीजाय नमः, पादयोः श्रींशक्तये नमः, इति विन्यस्य ममेत्यादि प्राग्वद्विनियोगमुक्त्वा, सकलां हृदयाय नमः, सकलीं शिरसे स्वाहा, सकलूं शिखायै वषट्, सकलैं कवचाय हुं, सकलौं नेत्रत्रयाय वौषट्, सकलः अस्त्राय फट्, इति षडङ्गमन्त्रैः प्राग्वत् करषडङ्गन्यासं कृत्वा, ध्यानाद्यात्मपूजान्ते प्रागुक्तं लक्ष्मीपीठमभ्यर्च्यावाहनादिपुष्पोपचारान्ते प्राग्वदङ्गानि संपूज्य, त्रिकोणाग्रादिप्रादक्षिण्येन ओं गायत्र्यै नमः, सावित्र्यै नमः, सरस्वत्यै नमः, इति संपूज्याष्टदलेषु प्राग्वद् ब्राह्म्याद्याः संपूज्य, चतुरस्रे “अष्टादशमहाकोटियोगिनीभ्यो नमः” इति देवीं परितः संपूज्य लोकेशार्चादि प्राग्वत् समापयेदिति ॥ तथा— “एवमष्टभुजां ध्यात्वा त्रिलक्षं प्रजपेत् सुधीः |
तद्दशांशेन पद्मैस्तु हुनेत् साम्राज्यसिद्धये ॥ १३ ॥ जितेन्द्रियः सन् विधिवत्” इति |
अत्र विधिवदित्यनेन तर्पणादिब्राह्मणभोजनान्तं कर्तव्यमित्युक्तम् ॥ तथा सारसंग्रहे— हृदयं पद्मतनया संबुद्ध्यन्तो रमामनुः |
सप्तार्णो गदितश्चास्य षडङ्गान्यमुनैव हि ॥ १ ॥ नमो हृ०, पद्मतनये शिर०, नमः शिखा०, पद्मतनये कवचा०, नमो नेत्रा० पद्मतनये अस्त्रा० |
“ध्यानपूजाहुतादीनि पूर्ववच्चास्य कीर्तितम्” |
इति |
पूर्ववदेकाक्षरोक्तवत् तथा— [Fußnote: १ ‘भागतः’ ख. पाठः |
Gedruckte Nummer २१ steht zwischen १० und १२; in der deutschen Abschnittskennung als 11 geführt.]

रमामन्त्रेषु यो भक्तः श्रीसूक्तं स जपेत् सुधीः |
विधानं वक्ष्यते सम्यक् पञ्चदशर्चिकस्य हि ॥ १ ॥ हिरण्यवर्णामित्यस्या ऋचो लक्ष्मीमुनिर्मतः |
छन्दोऽनुष्टुप् समाख्यातमन्यासां मुनयः क्रमात् ॥ २ ॥ आनन्दकर्दमचिक्लीतश्रीपुत्रा अमी मताः |
ताम्मावहजाताश्वपूर्वामित्यनयोर्मतः ॥ ३ ॥ छन्दोऽनुष्टुप्च कांसोस्मितामस्या बृहती मतम् |
चन्द्रां प्रभादित्यवर्णमनयोस्त्रिष्टुबीरितम् ॥ ४ ॥ उपैतु मां क्षुत्पिपासा गन्धद्वारां दुरेति च |
मनसः कर्दमेनापः सृजन्त्यार्द्रां च सप्तमी ॥ ५ ॥ आर्द्रां पुष्करिणीमासामष्टर्चां च प्रकीर्तितम् |
छन्दोऽनुष्टुप् तथा ताम्म आवहायाः प्रकीर्तितम् ॥ ६ ॥ प्रस्तारपङ्क्तिः सर्वासां देवते श्रीर्विभावसुः |
मूर्धाक्षिकर्णनासास्यगलदोर्हृत्सुनाभिषु ॥ ७ ॥ गुह्यपायूरुयुगजानुजङ्घाङ्घ्रिषु न्यसेदृचः |
हिरण्मयी च चन्द्रा च तृतीया रजतस्रजा ॥ ८ ॥ हिरण्याद्या स्रजा त्वन्या हिरण्या च तथापरा |
हिरण्यवर्णा चैताभिः कुर्यादङ्गानि षट् क्रमात् ॥ ९ ॥ एताभिश्चतुर्थीनमोऽन्ताभिः |
“एताभिर्ङेनमोऽन्ताभिरङ्गकल्पनमीरितम्” इति मन्त्रतन्त्रप्रकाशवचनात् ॥ ध्यानम्— संरक्तोद्यत्सरसिजरजःपुञ्जवर्णा कराब्जैरिष्टाभीती कमलयुगलं धारयन्ती मनोज्ञा |
सम्यक्शोणप्रवरनलिने संस्थिता चारुभूषा भूयाद्भूत्यै भुवनजननी श्रीरियं रत्नमौलिः ॥ १० ॥ एकाक्षरोक्तवदायुधध्यानम् |
यजेद् देवीं पुराप्रोक्ते पीठे आवाह्य मन्त्रवित् |
यजेदङ्गानि पद्माद्या लोकपालाः सहेतयः ॥ ११ ॥ आवाहनं चासनं स्यादर्घ्यपाद्याचमानि च |
मधुपर्काभिषेकौ च वस्त्रालङ्कारचन्दनम् ॥ १२ ॥ पुष्पं धूपं दीपभोज्ये प्रोद्वासनमथापि च |
एतानि मन्त्रवित् कुर्यादृक्पञ्चदशकेन हि ॥ १३ ॥ पद्माद्या पद्मवर्णान्या पद्मार्द्रा तुरीयका |
तर्पयन्ती सतृप्तान्या ज्वलन्ती सप्तमी मता ॥ १४ ॥ स्वर्णप्राकारसंज्ञेयमष्टमी समुदाहृता |
[Zweiter Halbvers fehlt im Druck] ॥ इति |
अथ प्रयोगः—प्राग्वद्योगपीठन्यासान्ते प्रणवेन श्रीबीजेन वा प्राणायामत्रयं कृत्वा, शिरसि आनन्दकर्दमचिक्लीतश्रीपुत्रेभ्य ऋषिभ्यो नमः |
मुखे अनुष्टुब्बृहतीत्रिष्टुबनुष्टुप्प्रस्तारपङ्क्तिभ्यश्छन्दोभ्यो नमः |
हृदि श्रीविभावसुभ्यां देवताभ्यां नमः, इति विन्यस्य प्राग्वद्विनियोगमुक्त्वा, हिरण्मय्यै नमः हृदयाय नमः, चन्द्रायै नमः शिरसे स्वाहा, रजतस्रजायै नमः शिखायै वषट्, हिरण्यस्रजायै नमः कवचाय हुं, हिरण्यायै नमः नेत्रत्रयाय वौषट्, हिरण्यवर्णायै नमः अस्त्राय फट्, इति षडङ्गमन्त्रानङ्गुष्ठादितलान्तं करयोर्हृदयादिषडङ्गेष्वपि विन्यस्य, शिरसि ओंहिरण्यवर्णामित्यादि० नमः |
नेत्रयोः ओंताम्म आवह० नमः |
कर्णयोः ओंअश्वपूर्वां० नमः |
नासायां ओंकांसोस्मितां० नमः |
मुखे ओंचन्द्रां० नमः |
गले ओंआदित्यवर्णे० नमः |
बाह्वोः ओंउपैतु मां० नमः |
हृदि ओंक्षुत्पिपासा० नमः |
नाभौ ओंगन्धद्वारां० नमः |
गुह्ये ओंमनसः० नमः |
गुदे ओंकर्दमेन० नमः |
ऊर्वोः ओंआपः सृजन्तु० नमः |
जान्वोः ओंआर्द्रां० नमः |
जङ्घयोः ओंआर्द्रां० नमः |
पादयोः ओंताम्म० नमः |
एवमेता ऋचः प्रणवादिनमोऽन्ता विन्यस्य ध्यानमानसपूजान्ते चतुर्द्वारयुतं चतुरस्रत्रयावृतमष्टदलकमलं पूजाचक्रं निर्माय प्राग्वत् पुरतो निधायार्घ्यस्थापनादिपीठार्चनान्ते— “ओं हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् |
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह” ॥ १ ॥ इत्यृचा प्राग्वदावाहनीमुद्रयावाह्य आवाहनादिपरमीकरणान्तं तत्तन्मुद्रया विधाय, ओं ताम्म आवह— [Die vedischen Akzente werden in dieser Arbeitsfassung nicht vollständig wiedergegeben.]

जातवेदो लक्ष्मीमनपगामिनीम् |
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ २ ॥ श्रीरेतत्त आसनं नमः ॥ ओं अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् |
श्रियं देवीमुपह्वये श्रीर्मा देवीजुषताम् ॥ ३ ॥ श्रीरेतत्त अर्घ्यं स्वाहा ॥ ओं कांसोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् |
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥ ४ ॥ श्रीरेतत्ते पाद्यं नमः ॥ ओं चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् |
तां पद्मनेमिं शरणं प्रपद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणोमि ॥ ५ ॥ श्रीरेतत्ते आचमनीयं सुधा ॥ ओं आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः |
तस्य फलानि तपसा तुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥ ६ ॥ श्रीरेष ते मधुपर्कः सुधा ॥ ततः पूर्ववदाचमनीयम् |
ओं उपैतु मां देवसखः कीर्तिश्च मणिना सह |
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिं वृद्धिं ददातु मे ॥ ७ ॥ श्रीरेतत्ते स्नानं नमः |
ओं क्षुत्पिपासामला ज्येष्ठा अलक्ष्मीर्नाशयाम्यहम् |
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥ ८ ॥ श्रीरेते ते वाससी नमः ॥ ततः पूर्ववदाचमनीयम् ॥ ओं गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् |
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥ ९ ॥ श्रीरेतानि ते भूषणानि नमः ॥ ओं मनसः काममाकूतिं वाचः सत्यमशीमहि |
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥ १० ॥ श्रीरेष ते गन्धो नमः ॥ ओं कर्दमेन प्रजा भूता मयि सम्भव कर्दम |
श्रियं वासय मे गृहे मातरं पद्ममालिनीम् ॥ ११ ॥ श्रीरेतत्ते पुष्पं वौषट् |
इति पुष्पान्तानुपचारानुपचर्य पूर्ववदङ्गानि संपूज्याष्टदले स्वाग्रादिप्रादक्षिण्येन, ओं पद्मायै नमः, ओं पद्मवर्णायै नमः, ओं पद्मस्थायै नमः, आर्द्रायै नमः, तर्पयन्त्यै नमः, तृप्तायै नमः, ज्वलन्त्यै नमः, स्वर्णप्राकारायै नमः, इति संपूज्य प्राग्वल्लोकपालांस्तदायुधानि च संपूज्य, ओं आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे |
नि च देवीं मातरं श्रियं वासय मे कुले ॥ १२ ॥ श्रीरेष ते धूपो नमः ॥ ओं आर्द्रां पुष्करिणीं यष्टिं सुवर्णां हेममालिनीम् |
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह ॥ १३ ॥ श्रीरेष ते दीपो नमः ॥ ओं आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् |
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो ममावह ॥ १४ ॥ श्रीरेतत्ते नैवेद्यं नमः ॥ ततः पुनराचमनादिकं दत्त्वा ताम्बूलादि सर्वं प्राक्पूजाप्रकरणोक्तप्रकारेण कृत्वा, ओं ताम्म आवह जातवेदो लक्ष्मीमनपगामिनीम् |
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥ १५ ॥ श्रीः क्षमस्व, इति विसृज्य शेषं प्राग्वत्कृत्वा समापयेदिति ॥ अत्र सर्वेषूपचारेषु प्राग्वत् पूजाप्रकरणोक्तप्रकारेणैव यत्र यद्यत् कर्तव्यं तत्र तत्तत् सर्वं कुर्यात् ॥ तथा— [Erster Halbvers im Druck durch Punkte vertreten] |
प्रारभ्य शुक्लप्रतिपद्यावदेकादशी भवेत् ॥ १५ ॥ तावद् द्वादशसाहस्रं जपन् निश्चलमानसः |
ब्रह्मचर्यरतः शुद्धवस्त्रदन्तादिकः सुधीः ॥ १६ ॥ पद्मैस्त्रिमधुरोपेतैर्घृताक्तेन पयोन्धसा |
श्रीसमिद्भिः सर्पिषा च प्रत्येकं त्रिशतं हुनेत् ॥ १७ ॥ श्रीसमिद्भिर्बिल्वसमिद्भिः |
द्वादश्यां द्वादशैवाथ विप्रान्नैव तु भोजयेत् |
तेन सिद्धो भवेन्मन्त्रो नात्र कार्या विचारणा ॥ १८ ॥ ऋचां द्वादशसाहस्रञ्च नतु सूक्तस्य, इति संप्रदायः |
एकादशभिर्दिनैः सूक्तस्य द्वादशसाहस्रावृत्तेरसम्भ— [Vedische Akzente nicht vollständig wiedergegeben. Schlusswort auf der Folgeseite fortgesetzt.]

वादशक्यत्वाच्च |
तदा त्वेकादशभिर्दिनैरष्टशतावृत्तिः सूक्तस्य कार्या |
तत्राष्टदिनपर्यन्तं प्रत्यहं त्रिसप्तत्यावृत्तिः सूक्तस्य कार्या, अनन्तरदिनत्रये द्वासप्तत्यावृत्तिः प्रत्यहं कार्या, तेन द्वादशसाहस्रमृचामावृत्तिर्भवतीति ॥ तथा— कुन्दमन्दारकुमुदमालतीपद्मकेतकैः |
नन्द्यावर्तद्वयं जाती कह्लारं चम्पकं तथा ॥ १९ ॥ रक्तोत्पलादिपुष्पाणि लक्ष्म्याश्चातिप्रियाणि हि |
स्नानकाले च तैः षड्भिरभिषिञ्चेत् त्रिशः सुधीः ॥ २० ॥ यावज्जपेदृग्भिस्तर्पयेत् तावदेव तु |
पूर्वोक्तविधिना सम्यक् पूजयेत् परमेश्वरीम् ॥ २१ ॥ त्रिवारं प्रत्यहं मन्त्री जुहुयाच्च यथाविधि |
षण्मासं यः करोत्येवं साक्षाल्लक्ष्मीपतिः स्वयम् ॥ २२ ॥ विकचन्मात्र एवाब्जे नवनीतं प्रविन्यसेत् |
मध्ये सकेसरे पद्मे सम्यक्पत्रान्तरालके ॥ २३ ॥ सुसामिद्धज्वले तच्च समुद्धृत्य हुनेत् सुधीः |
अन्त्यर्चाष्टोत्तरशतं जपंश्च भृगुवासरेः ॥ २४ ॥ चत्वारिंशद्भिरस्य स्यान्महालक्ष्मीरचञ्चला |
तुरीयर्ची च जुहुयाद्घृतेनैकादशाहुतीः ॥ २५ ॥ एवं कुर्वत एवास्य षण्मासात् स्यान्महेन्दिरा |
प्रधानतर्पणान्ते च संतर्प्याः शक्तयस्त्विमाः ॥ २६ ॥ प्रणवाद्या हृदन्ताश्च श्रीर्लक्ष्मीर्वरदायिका |
विष्णुपत्नी च वसुदा रूपाप्यन्या हिरण्यतः ॥ २७ ॥ स्वर्णमालिन्यपि परा ततः स्याद् रजतस्रजा |
सुवर्णादिगृहा स्वर्णप्राकारा पद्मवासिनी ॥ २८ ॥ पद्महस्तप्रिया * मुक्तालङ्कारा सूर्यकापरा |
चन्द्रा विश्व[बिल्व]प्रियेश्वर्यो भुक्तिश्चापि प्रमुक्तियुक् ॥ २९ ॥ विभुत्यृद्धिः[भूत्यृद्धी] समृद्धिश्च तुष्टिः पुष्टिर्धनाद्यदा |
भुवनेशी च शुद्धा स्याद्भोगिनी भोगदा मता ॥ ३० ॥ धात्री विधात्री द्वात्रिंशच्छक्तयः समुदीरिताः |
द्वात्रिंशद्भिश्च पूजान्ते मन्त्री मन्त्रैर्बलिं हरेत् ॥ ३१ ॥ मन्त्रैर्नाममन्त्रैः, श्रीरेष ते बलिर्नमः इत्यादिभिः |
श्रीमन्त्रजापिनां केचिदुच्यन्ते नियमा इह |
तैलाभ्यक्तश्च नाश्नीयान्नग्नस्तोये न संविशेत् ॥ ३२ ॥ अशुचिर्न स्वपेत् क्वापि त्वभ्यङ्गादशुचिर्भवेत् |
लवणं तिलसंभूतं नाश्नीयात् केवलं सुधीः ॥ ३३ ॥ लिम्पेद्धरिद्रां वक्त्रे नो नानृतं प्रवदेत् क्वचित् |
कदाचिन्मलिनो न स्यात्क्रुद्धुं नैवालिखेद्वृथा ॥ ३४ ॥ श्रीफलाम्बुजसद्रोणान् न मूर्धनि च धारयेत् |
तथा च निर्मलाचारः शुक्रः शुद्धमना भवेत् ॥ ३५ ॥ शुद्धमाल्यानुलेपश्च शुद्धाभरणभूषितः |
श्वेतवस्त्रपरीधानः शुद्धदेहः स्वलंकृतः ॥ ३६ ॥ उत्कृष्टगन्धानुलेपः शुद्धदन्तश्च सन्नखः |
विष्णुभक्तश्च विमलरम्यशय्यो भवेत् सुधीः ॥ ३७ ॥ निन्दितानन्यभूतां दुष्टां च कलहप्रियाम् |
दुष्टयोनिमनिष्टां च रोगग्रहनिषेविताम् ॥ ३८ ॥ अन्यासक्तामशक्तां च कृष्णाङ्गीं सुबृहत्तनुम् |
अतिह्रस्वां सुदीर्घां च विरस्यां भोगलालुपाम् ॥ ३९ ॥ अन्यपुरुषलोलां च काकाक्षीं राजयोषितम् |
रजस्वलामेकचरां योषितं न स्पृशेदपि ॥ ४० ॥ शान्तः शुचिसितो वाग्मी मधुरालापवान् भवेत् |
दयार्द्रचित्त आचार्यदेवातिथ्यर्चनारतः ॥ ४१ ॥ गुर्वीशपूजानिरतः पुण्यशीलो दृढव्रतः |
नित्यस्नायी पश्चिमाशामुखाशी शीलवान् भवेत् ॥ ४२ ॥ [Fußnoten des Drucks:] १ ‘रे’ क. ‘ने’ ग. पाठः |
२ ‘पात्रास्य’ क. ख. पाठः |
३ ‘व्यङ्गा’ ग. पाठः |
४ ‘संभोगिनीं’ ख. पाठः |
५ ‘ह्रद्रा’ ख. पाठः |
* पद्महस्ता पद्मप्रियेति द्वे नामनी |
[Lokale Lesungsunsicherheiten: Vers 20 तैः षड्भिः; Vers 24 Feuer-Kompositum; Verse 29–30 Namensgrenzen; Vers 34 क्रुद्धुं, vermutlich क्षुद्रां oder क्षुद्रं, nicht sicher auflösbar; Vers 35 शुक्रः; Vers 38 erster Ausdruck; Fußnote 5.]

वर्णाश्रमरतः स्वीयदारतुष्टोऽल्पभाषणः |
एतादृशैश्च नियमैर्युक्तो लक्ष्मीं लभेत सः ॥ ४३ ॥ इति ॥ नारायणीये— नाङ्घ्रिणाक्रमेदब्जं तद्बीजं नच भक्षयेत् |
न स्यान्मलिष्ठो न च्छिन्द्याद्बिल्वं भूमौ शयीत सः ॥ १ ॥ लवणामलके वर्ज्ये नागादित्यतिथौ क्रमात् |
पञ्चम्यामुत्तरे च स्त्री वर्ज्या प्रत्यङ्मुखोऽशने ॥ २ ॥ नागादित्यतिथी पञ्चमीसप्तम्यौ |
बिल्वेन मार्जयेद्दन्तान् त्रिसंध्यं प्रणमेच्च तान् |
प्रातर्भक्ष्यास्तिलास्ते च धार्या लक्ष्मीं * च भजेत् ॥ ३ ॥ धारयेन्मूर्ध्नि तत्पुष्पमुत्तरे मधुरान्नभुक् |
पायसं बिल्वबीजं च भक्षयेच्छुक्लपर्वणि ॥ ४ ॥ शुक्लपर्वणि पूर्णिमायाम् ॥ शारदातिलके—(८|
१६३) शयीत शुद्धशय्यायां तरुण्या सह नान्यथा |
(नग्नो नावतरेदम्भस्तैलाभ्यक्तो न भक्षयेत् ॥ १ ॥ हरिद्रां न मुखे लिम्पेन्न स्वपेदशुचिः क्वचित् |
न वृथा विलिखेद्भूमिं न बिल्वं द्रोणमम्बुजम् ॥ २ ॥ धारयेन्मूर्ध्नि नैवाश्नीयाल्लोणं तैलं च केवलम् |
) मलिनो न भवेज्जातु कुत्सितान्नं न भक्षयेत् ॥ ३ ॥ द्रोणपङ्कजबिल्वानि पद्भ्यां जातु न लङ्घयेत् |
सहदेवीमिन्द्रवल्लीं श्रीदेवीं विष्णुवल्लभाम् ॥ ४ ॥ कन्याम्बुजप्रवालं च धारयेन्मूर्ध्नि सर्वदा |
[Zweiter Halbvers fehlt im Druck.] ॥ श्रीदेवी श्रीलता |
विष्णुवल्लभा अपराजिता |
कन्या कुमारी |
प्रयोगसारे— धान्यगोगुरुहुताशनराणां न स्वपेदुपरि नाप्यनुवंशम् |
नोत्तरापरशिरा नच नग्नो नार्द्रपाणिचरणः श्रियमिच्छन् ॥ १ ॥ इति |
यन्त्रसारे— श्रीबीजं साध्यसंयुक्तं कर्णिकायां विलिख्य च |
वस्वादित्यद्व्यष्टसंख्यपत्रेष्वपि यथाक्रमम् ॥ १ ॥ श्रीसूक्तस्याप्यर्धमर्धमृचामालिख्य तद्बहिः |
यः शुचिः प्रयतो भूत्वेत्यृचा मातृकयापि च ॥ २ ॥ संवेष्ट्य च धराबिम्बकोणेषु श्रियमालिखेत् |
श्रीसूक्तयन्त्रमेतत्तु धारयेद्यो यथाविधि ॥ ३ ॥ पुत्रारोग्यधराधान्यधनगोसस्यशालिनीम् |
लब्ध्वातिबहुलां लक्ष्मीं जीवेच्च शरदां शतम् ॥ ४ ॥ इदमेव ताम्रपट्टे विलिख्य जप्त्वा चाभिषेकसंपातम् |
संस्थाप्याङ्गनभूमौ लक्ष्मीमावाह्य साधु संपूज्य ॥ ५ ॥ भूयः परिवारयुतां बलिं हरेद्दत्तलं समीक्ष्य |
यस्मिन्नेवं क्रियते वर्धन्ते तत्र संपदो नित्यम् ॥ ६ ॥ पुत्रैर्दारैर्विभवैर्भृत्यैरिष्टैर्धनैश्च धान्यैश्च |
नागै रथैस्तुरङ्गैर्वृषभैर्गोभिश्च संख्यया हीनैः ॥ ७ ॥ मन्थन्तो गेहेऽस्मिन् विहरत्यासुतसंलग्नं लक्ष्मीः |
[Zweiter Halbvers fehlt im Druck.] ॥ इति |
अस्यार्थः—अष्टदलकमलं कृत्वा तत्कर्णिकायां श्रीबीजं साध्यसहितं विलिख्याष्टदलेषु ‘हिरण्यवर्णा’ मित्यारभ्य ‘तामिहोपह्वये श्रिय’ मित्यन्तमृचामर्धमर्धमालिख्य तद्बहिर्द्वादशकमलं कृत्वा तद्दलेषु स्वाग्रादिप्रादक्षिण्येन ‘चन्द्रां प्रभासां’ मित्यारभ्य ‘मयि श्रीः श्रयतां यश’ इत्यन्तमृचामर्धमर्धमालिख्य तद्बहिः षोडशदलकमलं कृत्वा तद्दलेषु पूर्ववत् श्रीसूक्तस्य ऋचामर्धमर्धमालिख्य अन्त्यदलद्वये ‘यः शुचिः’ इत्यर्धद्वयं विलिख्य तद्बहिर्वृत्तत्रयं कृत्वाभ्यन्तरवीथ्यां “यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् |
[Fußnoten:] १ ‘प्रथमा’ क. ख. पाठः |
२ ‘वश्या’ ख. पाठः |
* श्रीलतां इत्यर्थः |
[Unsichere Drucklesungen: नारायणीये Vers 3 Schluss; यन्त्रसारे Vers 6 बलिं हरेद्दत्तलं; unnummerierter Halbvers nach Vers 7.]

श्रियः पञ्चदशर्चं च श्रीकामः सततं जपेत्” इत्यृचा संवेष्ट्य बहिर्वीथ्यां मातृकया संवेष्ट्य तद्बहिश्चतुरस्रं विलिख्य तत्कोणेषु श्रीबीजमालिखेत् |
एतद्यन्त्रमुक्तफलदं भवति ॥ अथाश्विननवरात्रे वेदोक्तप्रकारेण महालक्ष्मीपूजनं वक्ष्यते |
तत्र ब्राह्मे मुहूर्ते उत्थाय श्रीगुरुस्मरणकुण्डलिनीध्यानाजपासंकल्पशौचदन्तधावनस्नानमन्त्रस्नानतिलकधारणवैदिकसन्ध्यानन्तरतान्त्रिकसन्ध्यासूर्यदेवर्षिपितृतर्पणानि विधाय, स्वासने समुपविश्य भूशुद्धिदीपनाथवन्दनविघ्नोत्सारणकरशुद्धिदिग्बन्धनाग्निप्राकारत्रयशान्तिपाठमूतशुद्धिप्राणप्रतिष्ठामातृकान्यासादियोगपीठन्यासान्तं विधाय, मूलेन प्राणायामत्रयं कृत्वा गणपतिकुलदेवताब्राह्मणादीन् नमस्कृत्य, सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः |
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥ धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः |
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥ विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा |
संग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् |
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि |
सर्वविघ्नाच्छिदे तस्मै श्रीगणाधिपतये नमः ॥ यत्र योगीश्वरः कृष्णो यत्र पार्थो धनुर्धरः |
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते |
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ स्मृते सकलकल्याणभाजनं यत्र जायते |
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥ सर्वेष्वारम्भकार्येषु नास्ति तेषाममङ्गलम् |
येषां हृदिस्थो भगवान् मङ्गलायतनो हरिः ॥ तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव |
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥ इति मङ्गलं कृत्वा, अद्याश्विने मासि चैत्रे वा अमुकगोत्रोत्पन्नोऽहममुकदेवशर्मा श्रीमहाकाली-महालक्ष्मी-महासरस्वतीप्रीतिपूर्वकदुरितनिवारणक्षेमस्थैर्यायुरारोग्यैश्वर्याभिवृद्धिकामः प्रतिपदमारभ्य नवमीपर्यन्तमिष्टदेवतास्वरूपिण्याः श्रीमहालक्ष्म्याः षोडशोपचारपूजां तदङ्गभूतश्रीसूक्तचण्डीपाठतद्दशांशहोमांश्च निर्विघ्नार्थं गणपतिपूजनं च करिष्ये, इति संकल्प्य ततो रक्ताक्षतादिभिरष्टदलकमलं पीठे विरच्य, तत्र—ओंभूर्भुवःस्वर्महागणपते सिद्धिबुद्धिसहित सवाहन सायुध सपरिवार इहागच्छ, हे हेरम्ब त्वमेह्येहि अम्बिकात्र्यम्बकात्मज |
सिद्धिबुद्धिप्रदे त्यक्त लक्षलाभायुतः पितः ॥ नागास्य नागहार त्वं गणराज चतुर्भुज |
भूषितः स्वायुधैर्दिव्यैः पाशाङ्कुशपरश्वधैः ॥ आवाहये त्वां पूजार्थं रक्षार्थं च मम क्रतोः |
इहागत्य गृहाण त्वं पूजां क्रतुश्च रक्ष मे ॥ आवाह्यैवं गणेशानं पूजाद्रव्यैः प्रपूजयेत् |
“ओं गणानां त्वा गणपतिं हवामहे प्रियाणां त्वा प्रियपतिं हवामहे निधीनां त्वा निधिपतिं हवामहे वसो मम |
आहमजानि गर्भधमा त्वमजासि गर्भधम् ॥ ओं गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् |
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम्” ॥ [Fußnoten:] १ ‘राजो’ ख. पाठः |
२ ‘सुरासुरैः’ क. ख. पाठः |
[Unsichere Drucklesungen: Vorbereitungsprosa मूतशुद्धि, wohl भूतशुद्धि; erster Heramba-Anrufungsvers, insbesondere zweite Hälfte. Vedische Akzente nicht vollständig wiedergegeben.]

इति मन्त्रेणावाहनं स्वागतं पाद्यमर्घ्यमाचमनीयं मधुपर्कं पुनराचमनीयं स्नानं वसनमाभरणानि गन्धपुष्पधूपदीपनैवेद्यताम्बूलप्रदक्षिणनमस्कारान् समर्प्य, हस्तद्वये नारिकेलादिकमर्घ्यपात्रस्थं सपुष्पं गृहीत्वोत्थाय प्रार्थयेत्— रक्ष रक्ष गणाध्यक्ष त्र्यक्ष त्रैलोक्यरक्षक |
भक्तानामभयं कर्ता त्राता भव भवार्णवात् ॥ द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो |
वरद त्वं वरं देहि वाञ्छितं वाञ्छितार्थद ॥ अनेन फलदानेन फलदोऽस्तु सदा मम |
[Zweiter Halbvers fehlt im Druck.] ॥ इति फलं दत्त्वा प्रार्थयेत् |
विघ्नेश्वराय वरदाय सुमप्रियाय लम्बोदराय सकलाय जगद्धिताय |
नागाननाय श्रुतिपञ्चविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ॥ भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय |
विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस्ते ॥ नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः |
विश्वरूपस्वरूपाय नमस्ते ब्रह्मचारिणे ॥ भक्तिप्रियाय देवाय नमस्तुभ्यं विनायक |
[Zweiter Halbvers fehlt im Druck.] ॥ इति नमस्कृत्य |
त्वं विघ्नशङ्कुदलनेति च सुन्दरेति भक्तप्रियेति फलदेति सुखप्रदेति |
विद्याप्रदेत्यघहरेति च ये स्तुवन्ति तेभ्यो गणेश वरदो भव नित्यमेव ॥ इति सम्यक् प्रार्थ्य, ऋत्विग्वरणं कृत्वा यवान् वापयित्वा तन्मध्ये कलशस्थापनं कुर्यात् |
तद्यथा— ओं मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् |
पिपृतां नो भरीमभिः ॥ इति भूमिं स्पृष्ट्वा |
ओं स्योना पृथिवि भवानृक्षरा निवेशिनी |
यच्छा नः शर्म सप्रथाः ॥ इति भूमिं प्रार्थ्य |
मृत्तिके हर मे पापं इति मृत्तिकां निक्षिप्य |
ओं ओषधयः संवदन्ते सोमेन सह राज्ञा |
यस्मै कृणोति ब्राह्मणस्तं राजन् पारयामसि ॥ इति यवान् क्षिप्त्वा |
ओं आजिघ्र कलशं मह्या त्वा विशन्त्विन्दवः |
पुनरूर्जा निवर्तस्व सा नः सहस्रं धुक्ष्वोरुधारा पयस्वती पुनर्मा विशताद्रयिः ॥ इति तत्र कलशं निधाय |
ओं वरुणस्योत्तम्भनमसि |
वरुणस्य स्कम्भसर्जनीस्थो वरुणस्य ऋतसदन्यसि |
वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमासीद ॥ इति जलेन पूरयित्वा |
ओं या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा |
मनै नु बभ्रूणामहं शतं धामानि सप्त च ॥ इति सर्वौषधीः स्थापयित्वा |
ओं स्योना पृथिवि नो भवानृक्षरा निवेशिनी |
यच्छा नः शर्म सप्रथाः ॥ इति पञ्चमृत्तिका निक्षिप्य |
ओं ओषधयः संवदन्ते० इति यवान् निक्षिप्य |
ओं काण्डात्काण्डात् प्ररोहन्ती परुषः परुषस्परि |
एवा नो— [Fußnoten:] १ ‘वदनाय’ क. पाठः |
२ ‘स्त्वं’ क. पाठः |
[Lokale Unsicherheiten: श्रुतिपञ्चविभूषिताय im ersten Preisvers; Verschmelzungen der Varuṇa-Formel werden nach Druck belassen. Vedische Akzente nicht vollständig wiedergegeben.]

दूर्वे प्रतनु सहस्रेण शतेन च ॥ इति दूर्वा निक्षिप्य |
ओं अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता |
गोभाज इत्किलासथ यत्सनवथ पूरुषम् ॥ इति पञ्चपल्लवान्निक्षिप्य |
ओं याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः |
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥ इति फलं क्षिप्त्वा |
ओं परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् |
दधद्रत्नानि दाशुषे ॥ इति पञ्चरत्नानि निक्षिप्य |
ओं हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् |
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ इति हिरण्यं दत्त्वा |
ओं युवा सुवासाः परिवीत आगात्स उ श्रेयान् भवति जायमानः |
तन्धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः ॥ इति रक्तवस्त्रेण सूत्रेण वावेष्ट्य |
ओं गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् |
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥ इति गन्धं दत्त्वा |
ओं पूर्णादर्वि परापत सुपूर्णा पुनरापत |
वस्नेव विक्रीणावहा इषमूर्जं शतक्रतो ॥ इत्युपरि धान्यपूर्णपात्रं विन्यस्य तदुपरि नारिकेलफलं संस्थाप्य |
“ओं त्वां यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः |
अहेळमानो वरुणेह बोध्युरुशंसमान आयुः प्रमोषीः” ॥ इति मन्त्रेण वरुणावाहनं कृत्वा तेनैव मन्त्रेण षोडशोपचारैः पूजयेत् ॥ ततः— ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे |
तेन सत्येन देवेश तीर्थं देहि दिवाकर ॥ इति क्रों इत्यङ्कुशमुद्रया च रवेर्मण्डलात् तीर्थान्याकृष्य, गङ्गे च यमुने चैव गोदावरि सरस्वति |
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः |
आयान्तु लक्ष्मीपूजार्थं दुरितक्षयकारकाः ॥ इत्यावाह्य, चन्दनाक्षतपुष्पमाल्यादिभिः कलशमलंकृत्य, ओं कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः |
मूले तु संस्थितो ब्रह्मा मध्ये मातृगणाः स्थिताः ॥ कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा |
ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥ अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः |
[Zweiter Halbvers fehlt im Druck.] ॥ इति कलशमभिमन्त्र्य, देवदानवसंवादे मथ्यमाने महोदधौ |
उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम् ॥ त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः |
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ॥ शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः |
आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः ॥ त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः |
त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव ॥ सांनिध्यं कुरु मे देवि प्रसन्नो भव सर्वदा |
[Zweiter Halbvers fehlt im Druck.] ॥ इति प्रार्थयेत् |
इत्थं कलशस्थापनं विधाय मूलमन्त्रेण प्राणायामत्रयं कृत्वा, ओं अस्य श्रीसूक्तस्य, शिरसि आनन्दकर्दमचिक्लीतश्रीपुत्रेभ्य ऋषिभ्यो नमः |
हृदि श्रीविभावसुभ्यां देवताभ्यां नमः |
मुखे अनुष्टुब्बृहतीत्रिष्टुबनुष्टुप्प्रस्तारपङ्क्तिभ्यश्छन्दोभ्यो नमः |
इति विन्यस्य मम सकुटुम्बस्य क्षेमस्थैर्यायुरा— [Fußnoten:] १ ‘मे देव तीर्थं’ क. पाठः |
२ ‘स्मृताः’ क. पाठः |
३ ‘स’ क. पाठः |
४ ‘देवेश’ क. पाठः |
[Vedische Akzente nicht vollständig wiedergegeben; Versverbindung उरुशंसमान im Varuṇa-Mantra wie im Druck; letzter Satz auf Folgeseite fortgesetzt.]

रोग्याभिवृद्धये विनियोगः, इति कृताञ्जलिरुक्त्वा, ओं हिरण्यायै नमो हृदयाय नमः |
ओं चन्द्रायै नमः शिरसे स्वाहा |
ओं रजतस्रजायै नमः शिखायै वषट् |
ओं हिरण्यस्रजायै नमः कवचाय हुं |
ओं हिरण्यायै नमः नेत्रत्रयाय वौषट् |
ओं हिरण्यवर्णायै नमः अस्त्राय फट् |
इति षडङ्गमन्त्रानङ्गुष्ठादितलान्तं करयोर्हृदयादिषडङ्गेष्वपि न्यसेत् ॥ शिरसि हिरण्यवर्णां० |
नेत्रयोः ताम्म आवह० |
कर्णयोः अश्वपूर्वां० |
नासिकायां कांसोस्मितां० |
मुखे चन्द्रां प्रभा० |
गले आदित्यवर्णे० |
बाह्वोः उपैतु मां० |
हृदि क्षुत्पिपासा० |
नाभौ गन्धद्वारां० |
गुह्ये मनसः काम० |
गुदे कर्दमेन० |
ऊर्वोः आपः सृजन्ति० |
जान्वोः आर्द्रां० |
जङ्घयोः आर्द्रां० |
पादयोः ताम्म आवह० |
इति विन्यस्य, श्रां श्रीं श्रूं श्रैं श्रौं श्रः इत्यपि षडङ्गानि विन्यस्य प्रागुक्तरीत्या स्वहृत्कमले देवीं ध्यायेत् |
अरुणकमलसंस्था तद्रजःपुञ्जवर्णा करकमलधृतेष्टाभीतियुग्माम्बुजा च |
मणिमुकुटविचित्रालङ्कृता कल्पजातैः भवतु भुवनमाता सन्ततं श्रीः श्रिये वः ॥ इति ध्यात्वा मानसोपचारैराराध्यार्घ्यादिस्थापनान्ते “ओंह्रींहंसः सोऽहं स्वाहा” इति मन्त्रेणात्मपूजां विधाय पीठपूजामारभेत् |
ओं मण्डूकाय नमः |
ओं कालाग्निरुद्राय नमः |
एवम् ओं मूलप्रकृत्यै०, आधारशक्त्यै०, कूर्माय०, अनन्ताय०, वराहाय०, पृथिव्यै०, सुधासमुद्राय०, श्वेतद्वीपाय०, स्वर्णपर्वताय०, नन्दनोद्यानाय०, कल्पवृक्षवनाय०, स्वर्णप्राकाराय०, करुणातोयपरिखायै०, स्वर्णमण्डपाय नमः |
पूर्वद्वारे—द्वारश्रिये नमः, इन्द्राय०, ब्रह्मणे०, सत्त्वाय०, ऋग्वेदाय०, आत्मने०, कालतत्त्वाय०, अम्बिकायै०, इन्द्राण्यै०, वेदमात्रे०, शैलपुत्र्यै०, ब्रह्मचारिण्यै०, चण्डघण्टायै०, स्कन्दमात्रे०, कात्यायन्यै०, कालरात्र्यै०, गौर्य्यै नमः |
ततो दक्षिणद्वारे—द्वारश्रिये नमः |
यमाय०, शान्तायै०, सिद्धायै०, क्षमायै०, विष्णवे०, यजुर्वेदाय०, रजसे०, विद्यातत्त्वाय०, जगन्मात्रे०, मायायै०, शिवायै०, शान्त्यै०, प्रभायै०, ह्रींकारायै०, क्लींकारायै०, मायाशक्त्यै०, वीरायै०, प्रवीरायै०, अन्तरात्मने०, दण्डधराय नमः |
ततः पश्चिमद्वारे—द्वारश्रिये नमः, वरुणाय०, रुद्राय०, सामवेदाय०, तमसे०, आदित्याय०, वारुण्यै०, शङ्खायुधायै०, हंसवाहिन्यै०, जगज्जीवायै०, जगद्बीजायै०, षोडशकलायै०, पूर्णकलशाय०, चित्रिण्यै०, चित्रमालायै०, चित्रायै०, चामुण्डायै नमः |
तत उत्तरद्वारे—द्वारश्रिये नमः, कपालधारिण्यै०, भक्तवत्सलायै०, ईंकारायै०, लांकारायै०, विमलरूपायै०, ईशानाय०, पार्वत्यै०, ब्रह्मणे०, अथर्वणवेदाय०, धात्रे०, ज्योत्स्नायै०, कल्याण्यै०, शर्वाण्यै०, चन्द्रकलायै०, चन्द्रवदनायै०, विभूत्यै०, परमविभूत्यै०, भस्मधारिण्यै०, पावनायै०, गङ्गायै०, भागीरथ्यै०, गोदावर्यै०, प्रवरायै०, प्रणतायै०, क्रांकारायै०, क्रींकारायै०, क्रौंकारायै०, सर्वबीजात्मने०, बीजप्रवाहिन्यै नमः |
ततो मध्ये—रत्नवेदिकायै नमः, रत्नसिंहासनाय०, धर्माय०, ज्ञानाय०, वैराग्याय०, ऐश्वर्याय०, अधर्माय०, अज्ञानाय०, अवैराग्याय०, अनैश्वर्याय०, श्वेतच्छत्राय०, चिच्छक्त्यै०, मायाशक्त्यै०, आनन्दकन्दाय०, संविन्नालाय०, प्रकृतिमयपत्रेभ्यो०, विकारमयकेसरेभ्यो०, पञ्चाशद्वर्णबीजाढ्यसर्वतत्त्वरूपायै कर्णिकायै०, अं अर्कमण्डलाय०, मं वह्निमण्डलाय०, सं सोममण्डलाय०, सं सत्त्वाय०, रं रजसे०, तं तमसे०, आं आत्मने०, अं अन्तरात्मने०, पं परमात्मने०, ह्रीं ज्ञानात्मने०, आत्मतत्त्वाय०, मायातत्त्वाय०, विद्यातत्त्वाय०, कलातत्त्वाय०, परतत्त्वाय नमः |
इति संपूज्य, केसरेषु पूर्वाद्यष्टदिक्षु मध्ये च—ओं विभूत्यै नमः, उन्नत्यै०, कान्त्यै०, हृष्ट्यै०, कीर्त्यै०, सन्नत्यै०, व्युष्ट्यै०, उत्कृष्ट्यै०, मत्यै०, ऋद्ध्यै०, इति संपूज्य, “ओंश्रीं सर्वशक्तिकमलासनाय नमः” इति— [Fußnoten:] १ ‘पद्मजातैः’ ग. पाठः |
२ ‘शान्त्यै’ क. पाठः |
[Lesungsfragen: Nordtor ईंकारा/लांकारा und einige Bīja-Namen nicht ganz sicher; Schlussliste nennt zehn Namen bei acht Richtungen und Mitte. Erste Gliedformel हिरण्यायै weicht von हिरण्मय्यै auf Seite 157 ab.]

समस्तपीठं संपूज्य मूलमन्त्रमुच्चार्य “श्रीलक्ष्मीमूर्तिं परिकल्पयामि नमः” इति कलशोपरि मूर्तिं परिकल्प्य घटामखक्करां (?) लक्ष्मीं दुर्गां देवीं व्यवस्थिताम् |
स्थापयामि महादेवीं सर्वसौभाग्यदायिनीम् ॥ इति संस्थाप्य स्वहृत्कमले प्राग्वद् देवीं ध्यात्वा देव्यास्तेजो दीपाद्दीपान्तरमिव वहन्नासापुटाध्वना पुष्पाञ्जलावानाय एह्येहि देवदेवेशि परिवारसमन्विते |
यावत्त्वां पूजयिष्यामि तावत्त्वं च इहावह ॥ महापद्मवनान्तःस्थे कारणानन्दविग्रहे |
सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥ इत्यावाह्य, आवाहनादिदशमुद्राः प्रदर्श्य ध्यायेत् |
लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं दासीभूतसमस्तदेवनिकरां लोकैकदीपाङ्कुराम् |
श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां तां त्रैलोक्यकुटुम्बिनीं सरसिजां[गां] वन्दे मुकुन्दप्रियाम् ॥ इति ध्यात्वा मूलमन्त्रेण दीपन्या मालिन्यार्घ्योदकेन च त्रिवारं प्रोक्ष्य प्राणप्रतिष्ठां विधाय पुष्पाञ्जलिं गृहीत्वा ओं दुर्गे कात्यायनि देवि शाम्भवि शङ्करप्रिये |
मया भक्त्या कृतां पूजां गृहाण त्वं महेश्वरि ॥ हिरण्यवर्णां०, जातवेदसे०, नमो देव्यै०, श्रीमहालक्ष्म्यै नमः आवाहनं समर्पयामि इति दद्यात् ॥ ओं तप्तकाञ्चनवर्णाभं मुक्तामणिविराजितम् |
अमलं कमलं दिव्यमासनं प्रतिगृह्यताम् ॥ ताम्म आवह०, जातवेदसे०, नमो देव्यै०, श्रीमहासरस्वत्यै नमः श्रीरेतत्ते आसनं नमः |
स्वागतं कुशलं पृच्छे महादेव्यै महेश्वरि |
सुखागतं त्वया भद्रे कृपया भक्तवत्सले ॥ ताम्म आवह०, जातवेदसे०, नमो देव्यै०, महासरस्वत्यै नमः श्रीरेतत्ते स्वागतं नमः |
ओं गङ्गादितीर्थसंभूतं गन्धपुष्पाक्षतैर्युतम् |
पाद्यं ददाम्यहं तुभ्यं नमस्ते कमलालये ॥ अश्वपूर्वां०, जातवेदसे०, नमो देव्यै०, श्रीरेतत्ते पाद्यं नमः |
अष्टगन्धसमायुक्तं स्वर्णपात्रे प्रपूरितम् |
अर्घ्यं ददाम्यहं तुभ्यं प्रसीद त्वं सुरेश्वरि ॥ कांसोस्मितां०, जातवेदसे०, नमो देव्यै०, लोकमात्रे नमः श्रीरेष तेऽर्घ्यः स्वाहा |
ओं सर्वलोकस्य या माता या माता लोकपाविनी |
ददाम्याचमनं तस्यै महालक्ष्म्यै प्रयत्नतः ॥ चन्द्रां प्रभासां०, जातवेदसे०, नमो देव्यै०, वरदायै नमः श्रीरेतत्त आचमनीयं सुधा |
कापिलं दधि कुन्देन्दुधवलं मधुसंयुतम् |
स्वर्णपात्रस्थितं देवि मधुपर्कं गृहाण मे ॥ आदित्यवर्णे०, जातवेदसे०, नमो देव्यै० भक्तप्रियायै नमः, श्रीरेष ते मधुपर्कः सुधा |
ओं कर्पूरवासितं वारि निर्मलं शुद्धहेतुकम् |
गृहाण परमेशानि पुनराचमनीयकम् ॥ आदित्यवर्णे०, जातवेदसे०, नमो देव्यै० भक्तप्रियायै नमः श्रीरेतत्त आचमनीयं नमः |
ओं एहि पादुकया देवि स्नानार्थं स्नानमण्डपम् |
स्नानशाटीं गृहीत्वा तु स्नानासनमागता ॥ सुगन्धितैलगव्यादिपञ्चामृतजलादिकम् |
सुगन्धिशिरउद्वर्तनचूर्णं तद्वद्वर्तनोदिकम् [Lesung unsicher] ॥ नानातीर्थोद्भवं तोयं स्नानीयं च गृहाण मे |
[Zweiter Halbvers fehlt im Druck.] ॥ आदित्यवर्णे०, जातवेदसे०, नमो देव्यै०, भक्तप्रियायै नमः, श्रीरेतत्ते स्नानीयं नमः |
आपो हि ष्ठेति मलापकर्षणम् |
[Erster Aufstellungsvers bereits im Druck mit Fragezeichen; Badevers mit Pulvern und Einreibungen lokal unsicher.]

ओं पयो दधि घृतं चैव शर्करामधुसंयुतम् |
पञ्चामृतं मयानीतं गृहाण परमेश्वरि ॥ आदित्यवर्णे०, जातवेदसे०, नमो देव्यै०, भद्रायै नमः श्रीरेतत्ते पञ्चामृतस्नानं नमः |
पुरुषसूक्तेन शुद्धोदकेन स्नानम् |
जातवेदसे० इति पुनराचमनीयम् |
ओं दिव्याम्बरं नवं श्वेतं क्षौमं चातिमनोहरम् |
त्रैलोक्यजननि देवि दीयमानं गृहाण मे ॥ उपैतु मां०, जातवेदसे०, नमो देव्यै०, श्रीलक्ष्म्यै नमः एतत्ते वस्त्रयुग्मं नमः |
एहि देवि विभूषार्थं नेपथ्यागारमुत्तमम् |
विभूषासनमास्थाय तथादर्शं विलोक्य च ॥ केशप्रसाधनं कृत्वा भूषणान्यङ्गसात् कुरु |
रत्नकङ्कणकेयूरमुक्ताहारादिकानि च ॥ सुप्रसन्ने महालक्ष्मि भूषणानि गृहाण मे |
[Zweiter Halbvers fehlt im Druck.] ॥ क्षुत्पिपासा०, जातवेदसे०, नमो देव्यै०, हिरण्यायै नमः श्रीरेतानि ते भूषणानि नमः |
एहि देवि निजं स्थानं सिंहासनमनुत्तमम् |
पूजाचक्रं समास्थाय गन्धं देव्यङ्गसात् कुरु ॥ चन्दनागुरुकर्पूरकुङ्कुमाद्यैः समन्वितम् |
कस्तूरीरोचनायुतं गन्धं देवि गृहाण मे ॥ गन्धद्वारां०, जातवेदसे०, नमो देव्यै०, श्रीरेष ते गन्धो नमः |
शुद्धमुक्ताफलाभैस्तैरक्षतैः शशिसंनिभैः |
सर्वाङ्गेषु महालक्ष्मीं द्योतयामि सुभक्तितः ॥ जातवेदसे०, नमो देव्यै०, देव्यै नमः श्रीरेते ते अक्षताः नमः |
हरिद्रां च मयानीतां देवि कल्याणदायिनि |
सौभाग्यवर्धनां नित्यं गृहाण हरिवल्लभे ॥ जातवेदसे०, नमो देव्यै०, हरिप्रियायै नमः श्रीरेतत्ते हारिद्रं नमः |
कुङ्कुमं शोभनं दिव्यं सर्वदा मङ्गलप्रदम् |
मयानीतं महादेवि तुभ्यं दास्यामि सुन्दरि ॥ जातवेदसे०, नमो देव्यै०, मङ्गलायै नमः श्रीरेतत्ते कुङ्कुमं नमः |
सिन्दूरं शुभदं नित्यं महाशक्तिप्रियं सदा |
प्रयच्छामि महादेवि सर्वसौभाग्यदायिनि ॥ जातवेदसे०, नमो देव्यै०, महादेव्यै नमः श्रीरेतत्ते सिन्दूरं नमः |
मालतीमल्लिकादीनि नवानि कुसुमानि च |
एकनाथे प्रयच्छामि पुष्पाणि प्रतिगृह्यताम् ॥ मनसः काममाकूतिं०, जातवेदसे०, नमो देव्यै०, एकनाथायै नमः |
श्रीरेतानि पुष्पाणि वौषट् |
रक्तैः श्वेताम्बुजैः पुष्पमल्लिकादिविचित्रितैः |
पुष्पमालां प्रयच्छामि प्रसीद त्वं सुरेश्वरि ॥ जातवेदसे०, नमो देव्यै०, श्रीरेषा ते पुष्पमाला नमः |
सुगन्धं शीतलं शुभ्रं नानागन्धसमन्वितम् |
प्रीत्यर्थं तव देवेशि सच्चूर्णं प्रतिगृह्यताम् ॥ जातवेदसे०, नमो देव्यै०, सुभगायै नमः श्रीरेतत्ते परिमलद्रव्यं नमः |
अथाङ्गपूजा—ओं चञ्चलायै नमः पादौ पूजयामि |
ओं चपलायै नमः गुल्फौ० |
कान्त्यै नमः जानुनी० |
मङ्गलायै नमः जङ्घे० |
भद्रकाल्यै नमः ऊरू० |
कमलिन्यै नमः कटिं० |
शिवायै नमः नाभिं० |
क्षमायै नमः उदरं० |
गौर्यै नमः हृदयं० |
सिंहवाहिन्यै नमः स्तनद्वयं० |
स्कन्दमात्रे नमः भुजद्वयं० |
कम्बुकण्ठायै नमः कण्ठं० |
सरस्वत्यै नमः मुखं० |
सुवासिन्यै नमः नासिकां० |
स्वर्णकुण्डलायै नमः कर्णद्वयं० |
चण्डिकायै नमः नेत्रद्वयं० |
शिवायै नमः ललाटं० |
कुमार्यै नमः शिरः० |
सर्वेश्वर्यै नमः सर्वाङ्गं पूजयामि, इति संपूज्याधो— [Fußnote:] १ ‘शालिसंभवैः’ क. पाठः |

त्तरशतनामभिः पूजयेत् ॥ ओं अस्य श्रीमहालक्ष्म्या अष्टोत्तरशतनाममन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीमहालक्ष्मीर्देवता श्रीमहालक्ष्मीप्रीत्यर्थं श्रीमहालक्ष्मीमष्टोत्तरशतनामभिः पूजयिष्ये |
ततः श्रीबीजषट्केन षडङ्गन्यासं कृत्वा “लक्ष्मीं क्षीरसमुद्रे” इति ध्यात्वा पुष्पैरक्षतैर्वा पूजयेत् |
तद्यथा—ओं महालक्ष्म्यै नमः एवं महाकाल्यै० महासरस्वत्यै० महाकन्यायै० महागौर्यै० महादेव्यै० भक्तानुग्रहकारिण्यै० स्वप्रकाशात्मरूपिण्यै० महामायायै० महेश्वर्यै० (१०) वागीश्वर्यै० जगद्धात्र्यै० कालरात्र्यै० त्रिलोचनायै० भद्रकाल्यै० कपालिन्यै० महाशौर्यायै० त्रिलोकात्मिकायै० सिद्धलक्ष्म्यै० क्रियालक्ष्म्यै० (२०) लोकमार्गप्रदायिन्यै० अरूपायै० सुरूपायै० विश्वरूपिण्यै० पञ्चभूतात्मिकायै० देवमात्रे० सुरेश्वर्यै० दारिद्र्यध्वंसिन्यै० वीणापुस्तकधारिण्यै० सर्वशक्त्यै० (३०) ब्रह्मात्मिकायै० अष्टाङ्गरूपिण्यै० नवदुर्गात्मिकायै० अष्टभैरव्यै० गङ्गायै० शारदायै० वेण्यै० सर्वशास्त्रधारिण्यै० समुद्रवसनायै० ब्रह्माण्डमणिमेखलायै० (४०) अवस्थात्रयनिर्मुक्तायै० गुणत्रयविवर्जितायै० योगध्यानैकसंन्यासिन्यै० योगध्यानैकपरायणायै० देव्यविशोकायै० वेदान्तज्ञानरूपिण्यै० पद्मावत्यै० विशालाक्ष्यै० नागयज्ञोपवीतिन्यै० सूर्यचन्द्रार्धभासायै० (५०) ग्रहर्क्षरूपिण्यै० वैदिकायै० वेदरूपिण्यै० गिरिसंभवायै० कैवल्यदायै० विशृङ्खलायै० सूर्यमण्डलसंस्थितायै० सोममण्डलमध्यस्थायै० वायुमण्डलसंस्थितायै० वह्निमण्डलसंस्थितायै० (६०) शक्तिमण्डलसंस्थितायै० चक्रिकायै० चक्रमध्यस्थितायै० चक्रमार्गप्रदायिन्यै० सर्वसिद्धान्तमार्गशायिन्यै० षड्वर्गवर्जितायै० प्रत्यक्षादिप्रमातृकायै० विद्यामूर्त्यै० त्रैलोक्यमोहिन्यै० विद्यायै० (७०) चर्मदायै० रत्नायै० ब्रह्मस्थापितरूपायै० कैवल्यज्ञानगोचरायै० करुणायै० वरुणायै० मधुकैटभमर्दिन्यै० अचिन्त्यलक्षणायै० गोष्ठ्यै० सदाभक्ताघनाशिन्यै० (८०) महारमायै० परमेश्वर्यै० सुसिद्धलक्ष्म्यै० महाकालिन्यै० सद्योजातायै० वामदेव्यै० अघोरायै० तत्पुरुषायै० ईशानरूपिण्यै० एकाक्षरदेव्यै० (९०) योगिन्यै० योगध्यानपराक्रमायै० श्रीसिद्धलक्ष्म्यै० श्रियै० कमलायै० कमलालयायै० पद्मायै० नलिनयुग्मकराम्बुजायै० शैलपुत्र्यै० ब्रह्मचारिण्यै० (१००) चण्डघण्टायै० कूष्माण्ड्यै० स्कन्दमात्रे० कात्यायन्यै० कालरात्र्यै० महागौर्यै० सिद्धिदायै० सर्वात्मिकायै नमः (१०८) इति संपूज्य, कर्णिकायां— श्रां हृदयाय नमः |
श्रीं शिरसे स्वाहा नमः |
श्रूं शिखायै वषट् नमः |
श्रैं कवचाय हुं नमः |
श्रौं नेत्रत्रयाय वौषट् नमः |
श्रः अस्त्राय फट् नमः |
ततोऽष्टदलेषु—पूर्वादि, ओं पद्मासनायै नमः, ओं पद्मवर्णायै०, ओं पद्मस्थायै०, ओं आर्द्रायै०, ओं तर्पयन्त्यै०, ओं तृप्तायै०, ओं ज्वलन्त्यै०, ओं स्वर्णप्राकारायै नमः |
ततो दलाग्रेषु—ब्राह्म्यै नमः, माहेश्वर्यै०, कौमार्यै०, वैष्णव्यै०, वाराह्यै०, इन्द्राण्यै०, चामुण्डायै०, महालक्ष्म्यै नमः ॥ ततो भूपुरे—लं इन्द्राय सायुधाय सवाहनाय सपरिवाराय सशक्तिकाय नमः |
एवं रं अग्नये०, टं यमाय०, क्षं निर्ऋतये०, वं वरुणाय०, यं वायवे०, सं कुबेराय०, हौं ईशानाय०, आं ब्रह्मणे०, ह्रीं अनन्ताय नमः |
तद्बहिः—वं वज्राय नमः, शं शक्तये०, दं दण्डाय०, खं खड्गाय०, आं पाशाय०, क्रों अङ्कुशाय०, गं गदायै०, शूं शूलाय०, पं पद्माय०, चं चक्राय नमः, इति संपूज्य देव्यै पुष्पाञ्जलिं दत्त्वा, ओं दशाङ्गं गुग्गुलं धूपं चन्दनागुरुसंयुतम् |
भक्त्या दत्तं मया देवि प्रसीद त्वं महेश्वरि ॥ कर्दमेन०, जातवेदसे०, नमो देव्यै०, श्रीमहालक्ष्म्यै नमः श्रीरेष ते धूपो नमः |
ओं कर्पूरवर्तिसंयुक्तं गोघृतेन समन्वितम् |
दीपं गृहाण देवेशि महालक्ष्मि नमोऽस्तु ते |
[Fußnote:] १ ‘ज्वालिन्यै’ ग. पाठः |
[Lokale Namenslesungen unsicher: 22, 45, 50, 67, 71, 79. Die Klammerzahlen sind Gruppenzählungen der 108 Namen, keine Versnummern.]

आपः सृजन्ति०, जातवेदसे०, नमो देव्यै०, श्रीमहालक्ष्म्यै नमः श्रीरेष ते दीपो नमः |
ओं नैवेद्यं गृह्यतां देवि भक्ष्यभोज्यसमन्वितम् |
षड्रसं रचितं दिव्यं घृतेन परिपूरितम् ॥ आर्द्रां०, जातवेदसे०, नमो देव्यै०, पूर्णमालिन्यै नमः श्रीरेतत्ते नैवेद्यं सुधा |
मध्ये पानीयम् |
उत्तरापोशनम् |
पुनराचमनीयम् |
ओं कर्पूरचन्दनाभिमिश्रं दिव्यगन्धसमन्वितम् |
करोद्वर्तनकं नित्यं गृहाण परमेश्वरि ॥ जातवेदसे०, नमो देव्यै०, माहेश्वर्यै नमः श्रीरेतत्ते करोद्वर्तनं नमः |
ओं पूगीफलैः सकर्पूरैर्नागवल्लीदलैर्युतम् |
कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ आर्द्रां०, जातवेदसे०, नमो देव्यै०, पिङ्गलायै नमः श्रीरेतत्ते ताम्बूलं नमः |
[Ein ganzer Vers durch Punkte im Druck ersetzt.] |
[Zweiter Halbvers ebenso.] ॥ जातवेदसे०, नमो देव्यै०, देव्यै नमः श्रीरेतत्ते सुवर्णपुष्पं नमः |
ओं इदं फलं मया देवि स्थापितं पुरतस्तव |
तेन मे सकलावाप्तिर्भवेज्जन्मनि जन्मनि ॥ जातवेदसे०, नमो देव्यै०, सिद्धिदायै नमः श्रीरेतत्ते फलम् |
ओं त्वं सूर्यचन्द्ररत्नानि विद्युदग्निस्त्वमेव हि |
नीराजनं मया दत्तं गृहाण परमेश्वरि ॥ ताम्म आवह०, जातवेदसे०, नमो देव्यै०, यमुनाद्रिवासिन्यै नमः |
श्रीरेतत्ते नीराजनम् |
गौरीमिमाय०, जातवेदसे०, घृणा देवी०, समस्तश्रीसूक्तं पठित्वा श्रीरेतत्ते नैवेद्यं नमः |
ओं महाकाल्यै नमः, महालक्ष्म्यै नमः, महासरस्वत्यै नमः श्रीरेतत्ते मन्त्रपुष्पं नमः |
ओं सर्वस्वरूपे०, जातवेदसे०, नमो देव्यै०, महाकाल्यै नमः श्रीरेतानि प्रदक्षिणानि |
ओं सर्वतः पाणिपादं ते०, यः शुचिः प्रयतो०, नमस्तेऽस्तु महादेवि नमस्तेऽस्तु हरिप्रिये |
नमस्तेऽस्तु जगद्धात्रि नमस्ते शिववल्लभे ॥ जातवेदसे०, नमो देव्यै०, महामायायै नमः श्रीरेतानि ते वन्दनानि |
पञ्चाशे०, या साम्प्रतं०, पद्मासनस्था०, या माया मधुकैटभ०, जातवेदसे०, नमो देव्यै०, श्रीरेषा ते प्रार्थना |
ततः श्रीसूक्तं चण्डीपाठलक्ष्मीहृदयादिकं पाठयित्वा “गुह्यं” इत्यादिना जपं समर्पयेत्, इति लक्ष्मीपूजा ॥ अथ लक्ष्मीहृदयम् |
अस्य श्रीलक्ष्मीहृदयस्य शिरसि भार्गवाय ऋषये नमः |
मुखे त्रिष्टुबादिच्छन्दोभ्यो नमः |
हृदये महालक्ष्म्यै देवतायै नमः |
इति विन्यस्य ममालक्ष्मीपरिहारपूर्वकदीर्घायुश्चैश्वर्यमदैश्वर्यफलावाप्त्यर्थं लक्ष्मीहृदयपाठे विनियोगः, इति कृताञ्जलिर्वदेत् |
ततः श्रां श्रीमिति मन्त्रैः षडङ्गन्यासं विधाय ध्यायेत् |
हस्तद्वयेन कमले धारयन्तीं तु लीलया |
हारनूपुरसंयुक्तां लक्ष्मीं देवीं विचिन्तयेत् ॥ १ ॥ वन्दे लक्ष्मीं परशिवमयीं शुद्धजाम्बूनदाभां तेजोरूपां कनकवसनां सर्वभूषोज्ज्वलाङ्गीम् |
बीजापूरं कनककलशं हेमपद्मं दधानामाद्यां शक्तिं सकलजननीं विष्णुवामाङ्कसंस्थाम् ॥ २ ॥ श्रीमत्सौभाग्यजननीं स्तौमि लक्ष्मीं सनातनीम् |
सर्वकामफलावाप्तिसाधनैकसुखावहाम् ॥ ३ ॥ नमामि नित्यं देवेशि त्वया प्रेरितमानसः |
त्वदाज्ञां शिरसा धृत्वा भजामि परमेश्वरीम् ॥ ४ ॥ समस्तसंपत्सुखदां महाश्रियं समस्तसौभाग्यकरीं महाश्रियम् |
समस्तकल्याणकरीं महाश्रियं भजाम्यहं ज्ञानकरीं महाश्रियम् ॥ ५ ॥ [Lesungsunsicherheiten: Gebetsanfang पञ्चाशे०, ghṛṇā devī als gedruckter abgekürzter Anfang; Zweckformel vor Lakṣmīhṛdaya mit ungewöhnlicher Wiederholung von aiśvarya.]

विज्ञानसंपत्सुखदां सनातनीं विचित्रवाग्भूतिकरीं महेश्वरीम् |
मनोहरानन्तसुभोगदायिनीं नमाम्यहं भूतिकरीं हरिप्रियाम् ॥ ६ ॥ समस्तभूतान्तरसंस्थिता त्वं समस्तभूतेश्वरि विश्वरूपे |
तन्नास्ति यत् त्वद्व्यतिरिक्तवस्तु त्वत्पादपद्मं प्रणमाम्यहं श्रीः ॥ ७ ॥ दारिद्र्यदुःखौघतमोपहन्त्री त्वत्पादपद्मं मयि सन्निधत्स्व |
दीनार्तिविच्छेदनहेतुभूतैः कृपाकटाक्षैरभिषिञ्च मां श्रीः ॥ ८ ॥ अम्ब प्रसीद करुणासुधयार्द्रदृष्ट्या मां त्वत्कृपाद्रविणगेहमिमं कुरुष्व |
आलोकय प्रणयहृद्गतशोकहन्त्री त्वत्पादपद्मयुगलं प्रणमाम्यहं श्रीः ॥ ९ ॥ शान्त्यै नमोऽस्तु शरणागतरक्षणायै कान्त्यै नमोऽस्तु कमनीयगुणाश्रयायै |
कान्त्यै नमोऽस्तु दुरितक्षयकारणायै धात्र्यै नमोऽस्तु धनधान्यसमृद्धिदायै ॥ १० ॥ शक्त्यै नमोऽस्तु शशिशेखरसंस्तुतायै रत्यै नमोऽस्तु रजनीकरसोदरायै |
भक्त्यै नमोऽस्तु भवसागरतारकायै मत्यै नमोऽस्तु मधुसूदनवल्लभायै ॥ ११ ॥ लक्ष्म्यै नमोऽस्तु शुभलक्षणलक्षितायै सिद्ध्यै नमोऽस्तु शिवसङ्घसुपूजितायै |
धृत्यै नमोऽस्त्वमितदुर्गतिभञ्जनायै गत्यै नमोऽस्तु वरसद्गतिदायिकायै ॥ १२ ॥ देव्यै नमोऽस्तु दिवि देवगणार्चितायै भूत्यै नमोऽस्तु भुवनार्तिविनाशिकायै |
दान्त्यै नमोऽस्तु धरणीधरवल्लभायै पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ १३ ॥ सुतीव्रदारिद्र्यविदुःखहन्त्र्यै नमोऽस्तु ते सर्वभयापहन्त्र्यै |
श्रीविष्णुवक्षःस्थलसंस्थितायै नमो नमः सर्वविभूतिदायै ॥ १४ ॥ जयतु जयतु लक्ष्मीर्लक्षणालङ्कृताङ्गी जयतु जयतु पद्मा पद्मसद्माभिवन्द्या |
जयतु जयतु विद्या विष्णुवामाङ्कसंस्था जयतु जयतु सम्यक्सर्वसंपत्करी श्रीः ॥ १५ ॥ जयतु जयतु देवी देवसङ्घाभिपूज्या जयतु जयतु भद्रा भार्गवी भाग्यरूपा |
जयतु जयतु नित्या निर्मलज्ञानवेद्या जयतु जयतु सत्या सर्वभूतान्तरस्था ॥ १६ ॥ जयतु जयतु रम्या रत्नगर्भान्तरस्था जयतु जयतु शुद्धा शुद्धजाम्बूनदाभा |
जयतु जयतु कान्ता कान्तिमद्भासिताङ्गी जयतु जयतु शान्ता शीघ्रमायाहि सौम्ये ॥ १७ ॥ यस्याः कलायाः कमलोद्भवाद्या रुद्राश्च शक्रप्रमुखाश्च लेखाः |
जीवन्ति सर्वेऽपि सशक्तयस्ते प्रभुत्वमापुः परमायुषस्ते ॥ १८ ॥ [Fußnoten:] १ ‘मनोहराम्’ पाठः |
२ ‘अनन्तसंभोगसुखप्रदायिनीं’ पाठः |
३ ‘देवेन्द्र’ पाठः |
४ ‘संगति’ पाठः |
५ ‘कान्तालिता’ ख. पाठः [Lesung der letzten Variante unsicher].

लिलेख निटिले विधिर्मम लिपिं विसृज्यान्तरं त्वया विलिखितव्यमेतदिति तत्फलावाप्तये |
तदन्तर इह स्फुटं कमलवासिनि श्रीरिमां समर्पय स्वमुद्रिकां सकलभाग्यसंसूचिकाम् ॥ १९ ॥ तदिदं तिमिरं भाले स्फुटं कमलवासिनि |
श्रियं समुद्रजां देहि सर्वभाग्यस्य सूचिकाम् ॥ २० ॥ कलया ते यथा देवि जीवन्ति सचराचराः |
तथा संपत्करी लक्ष्मि सर्वदा संप्रसीद मे ॥ २१ ॥ यथा विष्णौ ध्रुवे नित्यं स्वकलां संन्यवेशयः |
तथैव स्वकलां लक्ष्मिर्मयि सम्यक् समर्पय ॥ २२ ॥ सर्वसौख्यप्रदे देवि भक्तानामभयप्रदे |
अचलां कुरु यत्नेन कलां मयि निवेशिताम् ॥ २३ ॥ सदास्तां मद्भाले परमपदलक्ष्मीः स्फुटकला सदा वैकुण्ठश्रीर्निवसतु कला मे नयनयोः |
वसेन्मर्त्ये लोके मम वचसि लक्ष्मीर्वरकला श्रियः श्वेतद्वीपे निवसतु कला मे स्वकरयोः ॥ २४ ॥ तावन्नित्यं ममाङ्गेषु क्षीराब्धौ श्रीकला वसेत् |
सूर्याचन्द्रमसौ यावद्यावल्लक्ष्मीपतिः श्रिया ॥ २५ ॥ सर्वमङ्गलसंपूर्णा सर्वैश्वर्यसमन्विता |
आद्यादिश्रीमहालक्ष्मीः त्वत्कला मयि तिष्ठतु ॥ २६ ॥ अज्ञानतिमिरं हन्तुं शुद्धज्ञानप्रकाशिका |
सर्वैश्वर्यप्रदा मेऽस्तु त्वत्कला मयि सुस्थिरा ॥ २७ ॥ अलक्ष्मीं हरतु क्षिप्रं तमः सूर्यप्रभा यथा |
वितनोतु मम श्रेयस्त्वत्कला मयि संस्थिता ॥ २८ ॥ ऐश्वर्यमङ्गलोत्पत्त्यै त्वत्कला या निधीयते |
मयि तस्मात् कृतार्थोऽस्मि पात्रमस्मि स्थितेस्तव ॥ २९ ॥ भवदावेशभाग्यार्हो भाग्यवानस्मि भार्गवि |
त्वत्प्रसादात् पवित्रोऽहं लोकमातर्नमोऽस्तु ते ॥ ३० ॥ पुनासि मां त्वं कलयैव यस्मादतः समागच्छ ममाग्रतस्त्वम् |
परं पदं श्रीश्चैव सुप्रसन्ना मय्यच्युतेन प्रविशादिलक्ष्मि ॥ ३१ ॥ श्रीवैकुण्ठस्थिते लक्ष्मि समागच्छ ममाग्रतः |
नारायणेन सह मां कृपादृष्ट्यावलोकय ॥ ३२ ॥ सत्यलोकस्थिते लक्ष्मि त्वं समागच्छ सन्निधिम् |
वासुदेवेन साहिता प्रसीद वरदा भव ॥ ३३ ॥ श्वेतद्वीपस्थिते लक्ष्मि शीघ्रमागच्छ सुव्रते |
विष्णुना सहिते देवि जगन्मातः प्रसीद मे ॥ ३४ ॥ क्षीराम्भोधिस्थिते लक्ष्मि समागच्छ समाधवे |
त्वत्कृपावृष्टिसुधया सततं मां विलोकय ॥ ३५ ॥ रत्नगर्भस्थिते लक्ष्मि परिपूर्णे हिरण्मयि |
समागच्छ समागच्छ तिष्ठस्व पुरतो मम ॥ ३६ ॥ स्थिरा भव महालक्ष्मि निश्चला भव निर्मले |
प्रसन्ने कमले देवि प्रसन्नहृदया भव ॥ ३७ ॥ श्रीधरे श्रीमहाभूते त्वदन्तःस्थं महानिधिम् |
शीघ्रमुद्धृत्य पुरतः प्रदर्शय समर्पय ॥ ३८ ॥ [Fußnoten:] १ ‘विक्षिप्य’ ख. पाठः |
२ ‘सत्ये’ ख. पाठः |
३ ‘कलाया निधीयते अहं तस्मात्’ क. ग. पाठः |
४ ‘त्वन्न’ ख. पाठः |
५ ‘देहि’ ख. पाठः |
[Verse 19–20 und 31 mit ungewöhnlichen syntaktischen Verbindungen; Hauptlesung bewahrt.]

वसुन्धरे श्रीवसुधे वसुदोग्ध्रि कृपामयि |
त्वत्कुक्षिगतसर्वस्वं शीघ्रं मे संप्रदर्शय ॥ ३९ ॥ विष्णुप्रिये रत्नगर्भे समस्तफलदे शिवे |
त्वद्गर्भगतहेमादीन् प्रदर्शय प्रदर्शय ॥ ४० ॥ रसातलगते लक्ष्मि शीघ्रमागच्छ मत्पुरः |
न जाने परमं रूपं मातर्मे संप्रदर्शय ॥ ४१ ॥ आविर्भव मनोवेगाच्छीघ्रमागच्छ मे पुरः |
मा वत्स भैरिहेत्युक्त्वा कामं गौरिव रक्ष माम् ॥ ४२ ॥ देवि शीघ्रं समागच्छ धरणीगर्भसंस्थिते |
मातस्त्वद्भृत्यभृत्योऽहं मृगये त्वां कुतूहलात् ॥ ४३ ॥ उत्तिष्ठ जागृहि त्वं मे समुत्तिष्ठ सुजागृहि |
अक्षयान् हेमकलशान् सुवर्णेन सुपूरितान् ॥ ४४ ॥ निक्षेपान्मे समाकृष्य समुद्धृत्य ममाग्रतः |
समुन्नतानना भूत्वा समुद्धेहि धरान्तरात् ॥ ४५ ॥ मत्सन्निधिं समागच्छ मदाहितकृपारसात् |
प्रसीद श्रेयसां दोग्ध्रि लक्ष्मि मे नयनाग्रतः ॥ ४६ ॥ अत्रोपविश्य लक्ष्मि त्वं स्थिरा भव हिरण्मयि |
सुस्थिरा भव संप्रीत्या प्रसन्ना वरदा भव ॥ ४७ ॥ आनीतांस्तांस्त्वया देवि निधीन् मे संप्रदर्शय |
अद्य क्षणेन सहसा दत्त्वा संरक्ष मां सदा ॥ ४८ ॥ मयि तिष्ठ तथा नित्यं यथेन्द्रादिषु तिष्ठसि |
अभयं कुरु मे देवि महालक्ष्मि नमोऽस्तु ते ॥ ४९ ॥ समागच्छ महालक्ष्मि शुद्धजाम्बूनदप्रभे |
प्रसीद पुरतः स्थित्वा प्रणतं मां विलोकय ॥ ५० ॥ लक्ष्मि भुवि गता भासि यत्र यत्र हिरण्मयी |
तत्र तत्र स्थिता त्वं मे तव रूपं प्रदर्शय ॥ ५१ ॥ क्रीडसि त्वं च बहुधा परिपूर्णकृपामयि |
मम मूर्धनि ते हस्तमविलम्बितमर्पय ॥ ५२ ॥ फलद्भाग्योदये लक्ष्मि समस्तपुरवासिनि |
प्रसीद मे महालक्ष्मि परिपूर्णमनोरथे ॥ ५३ ॥ अयोध्यादिषु सर्वेषु नगरेषु समास्थिते |
वैभवैर्विविधैर्युक्ता समागच्छ बलान्विता ॥ ५४ ॥ समागच्छ समागच्छ ममाङ्गे भव सुस्थिरा |
करुणारसनिःष्यन्दनेत्रद्वयविलासिनि ॥ ५५ ॥ संनिधत्स्व महालक्ष्मि त्वत्पाणिं मम मस्तके |
करुणासुधया मां त्वमभिषिञ्च स्थिरं कुरु ॥ ५६ ॥ दीनस्य मस्तके हस्तं मम त्वं कृपयार्पय |
आद्यादिश्रीमहालक्ष्मि विष्णुवामाङ्कसंस्थिते ॥ ५७ ॥ भवभीतिपरित्रस्तभक्तत्राणपरायणे |
प्रत्यक्षीकुरु रूपं मे रक्ष मां शरणागतम् ॥ ५८ ॥ सर्वराजगृहाल्लक्ष्मि समागच्छ गुणान्विता |
स्थित्वा तु पुरतो मेऽद्य प्रसादेनाभयं कुरु ॥ ५९ ॥ प्रसीद मे महालक्ष्मि सुप्रसीद महाशिवे |
अचला भव सुप्रीत्या सुस्थिरा भव मद्गृहे ॥ ६० ॥ यावत्तिष्ठति देवाश्च यावत्त्वन्नाम तिष्ठति |
यावद्विष्णुश्च यावत्त्वं तावत् कुरु कृपां मयि ॥ ६१ ॥ चान्द्री कला यथा शुक्ले वर्धते सा दिने दिने |
तथा दया ते मय्येव वर्धतामभिवर्धताम् ॥ ६२ ॥ यथा वैकुण्ठनगरे यथा वै क्षीरसागरे |
तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह ॥ ६३ ॥ योगिनां हृदये नित्यं यथा तिष्ठसि विष्णुना |
तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह ॥ ६४ ॥ नारायणस्य हृदये भवती यथास्ते नारायणोऽपि तव हृत्कमले यथास्ते |
[Fußnoten:] १ ‘तानना’ ख. पाठः |
२ ‘समादेहि’ ख. पाठः |
३ ‘स्थिते’ ख. पाठः |
४ ‘त्वं’ ख. पाठः |
५ ‘योहिरण्मयि’ ख. पाठः [Lesung unsicher] |
६ ‘त्वं मम तिष्ठसि’ ख. पाठः |
[Vers 65 beginnt am Seitenende und wird auf Seite 172 abgeschlossen; Vers 61 Syntax wie im Druck.]

नारायणस्त्वमपि नित्यमुभौ तथैव तौ तिष्ठतां हृदि ममापि दयावति श्रीः ॥ ६५ ॥ विज्ञानवृद्धिं हृदये कुरु श्रीः सौभाग्यसिद्धिं कुरु मे गृहे श्रीः |
दयासुपुष्टिं कुरुतां मयि श्रीः सुवर्णवृद्धिं कुरु मे करे श्रीः ॥ ६६ ॥ न मां त्यजेथाः श्रितकल्पवल्लि सद्भक्तिचिन्तामणिकामधेनो |
विश्वस्य मातैव सुप्रसन्ना गृहे कलत्रेषु च पुत्रवर्गे ॥ ६७ ॥ आद्यादिमाये त्वमजाण्डबीजं त्वमेव माकारनिराकृतिस्त्वम् |
त्वया धृताश्चाब्जभवाण्डसंघाश्चित्रं चरित्रं तव देवि विष्णोः ॥ ६८ ॥ ब्रह्मरुद्रादयो देवा वेदाश्चापि न शक्नुयुः |
महिमानं तव स्तोतुं मन्दोऽहं शक्नुयां कथम् ॥ ६९ ॥ अम्ब त्वद्वत्सवाक्यानि सूक्तासूक्तानि यानि च |
तानि स्वीकुरु सर्वज्ञे दयालुत्वेन सादरम् ॥ ७० ॥ भवतीं शरणं गत्वा कृतार्थाः स्युः पुरातनाः |
इति संचिन्त्य मनसा त्वामहं शरणं व्रजे ॥ ७१ ॥ अनन्तानन्तसुखिनस्त्वद्भक्तास्त्वत्परायणाः |
इति वेदप्रमाणाद्धि देवि त्वां शरणं व्रजे ॥ ७२ ॥ तव प्रतिज्ञा मद्भक्ता न नश्यन्तीत्यपि क्वचित् |
इति संचिन्त्य संचिन्त्य प्राणान् सन्धारयाम्यहम् ॥ ७३ ॥ त्वदधीनस्त्वहं मातस्त्वत्कृपा मयि विद्यते |
यावत् संपूर्णकामः स्यां तावद् देहि कृपानिधे ॥ ७४ ॥ क्षणमात्रं न शक्नोमि जीवितुं त्वत्कृपां विना |
न जीवन्तीह जलजा जलं त्यक्त्वा जलग्रहाः ॥ ७५ ॥ हितो हि पुत्रवात्सल्याज्जननी प्रस्नुतस्तनी |
वत्सं त्वरितमागत्य संप्रीणयति वत्सला ॥ ७६ ॥ यदि स्यां तव पुत्रोऽहं मातस्त्वं यदि मामकी |
दयापयोधरस्तन्यसुधाभिरभिषिञ्च माम् ॥ ७७ ॥ मृग्यो न गुणलेशोऽपि मयि दोषैकमन्दिरे |
पांसूनां वृष्टिबिन्दूनां दोषाणां च न मे मितिः ॥ ७८ ॥ पापिनामहमेवाग्र्यो दयालूनां त्वमग्रणीः |
दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥ ७९ ॥ विधिनाहं न सृष्टश्चेन्न स्यात् तव दयालुता |
आमयो वा न सृष्टश्चेदौषधस्य वृथोदयः ॥ ८० ॥ कृपा मदग्रजा किं ते ह्यहं वा किं तदग्रजः |
विचार्य देहि मे वित्तं तव देवि दयानिधे ॥ ८१ ॥ माता पिता त्वं गुरु सद्गतिः श्रीस्त्वमेव संजीवनहेतुभूता |
अन्यं न मन्ये जगदेकनाथे त्वमेव सर्वं मम देवि सत्यम् ॥ ८२ ॥ आद्यादिलक्ष्मीर्भव सुप्रसन्ना विशुद्धविज्ञानसुखैकदोग्ध्रि |
अज्ञानहन्त्रि त्रिगुणातिरिक्ता प्रज्ञाननेत्रे भव सुप्रसन्ना ॥ ८३ ॥ अशेषवाग्जाड्यमलापहारिणि नवं नवं स्पष्टसुवाक्प्रदायिनि |
ममेह जिह्वाग्रसुरङ्गनर्तकी भव प्रसन्ना वदने च मे श्रीः ॥ ८४ ॥ समस्तसंपत्सुविराजमाना समस्ततेजःसु विराजमाना |
[Fußnoten:] १ ‘वृद्धिं’ ख. पाठः |
२ ‘गृहे’ ख. पाठः |
३ ‘नित्य’ ख. पाठः |
४ ‘यथा’ ख. पाठः |
५ ‘जगद्विराजमाना’ ख. पाठः |
[Vers 65 schließt den auf Seite 171 begonnenen Vers ab. Vers 85 beginnt hier und endet auf Seite 173. Vers 68 माकारनिराकृतिः und Vers 76 हितो syntaktisch auffällig.]

विष्णुप्रिये त्वं भव दीप्यमाना वाग्देवता मे भवने प्रसन्ना ॥ ८५ ॥ भक्त्या नतानां सकलार्थदे त्वं प्रभातुलावण्यदयासुदोग्ध्रि |
सुवर्णदे त्वं सुमुखी भव श्रीर्हिरण्मये मे भव सुप्रसन्ना ॥ ८६ ॥ सर्वार्थदा सर्वजगत्प्रसूतिः सर्वेश्वरी सर्वभयापहन्त्री |
सर्वोन्नता त्वं सुमुखी भव श्रीर्हिरण्मये मे वदने प्रसन्ना ॥ ८७ ॥ समस्तविघ्नौघविनाशकारिणी समस्तविघ्नोद्धरणे विचक्षणा |
अनन्तसौभाग्यसुखप्रदायिनी हिरण्मये मे वदने प्रसन्ना ॥ ८८ ॥ देवि प्रसीद दयनीयतमाय मह्यं देवादिनाथभवदेवगणाभिवन्द्ये |
मातस्तथैव भव सन्निहिता दृशोर्मे पत्या समं मम मुखे भव सुप्रसन्ना ॥ ८९ ॥ मा वत्स भैरभयदानकरोऽर्पितस्ते मौलौ ममेति मयि दीनदयानुकम्पे |
मातः समर्पय मुदा करुणाकटाक्षं माङ्गल्यबीजमहिमानुसृतं ममान्तः ॥ ९० ॥ कटाक्ष इह कामधुक् तव ममास्तु चिन्तामणिः करः सुरतरुः सदा नवनिधिस्त्वमेवेन्दिरे |
भवेत् तव दयारसो रसरसायनं त्वन्वहं मुखं तव कलानिधिर्विविधवाञ्छितार्थप्रदम् ॥ ९१ ॥ यथा रसस्पर्शनतोऽयसोऽपि सुवर्णता स्यात् कमले तथा ते |
कटाक्षसंस्पर्शनतो जनानाममङ्गलानामपि मङ्गलत्वम् ॥ ९२ ॥ देहीति नास्तीति वचः प्रवेशाद्भीतो रमे त्वां शरणं प्रपन्नः |
अतः सदास्मिन्नभयप्रदा त्वं सहैव पत्या मम सन्निधेहि ॥ ९३ ॥ कल्पद्रुमेण मणिना सहिता सुरम्या श्रीस्ते कला मयि रसेन रसायनेन |
आस्तां यतो मम च दृक्शिरपाणिपादस्पृष्टाः सुवर्णवपुषः स्थिरजङ्गमाः स्युः ॥ ९४ ॥ आद्यादिविष्णोः स्थिरधर्मपत्नी त्वमम्ब पत्या मम सन्निधेहि |
आद्यादिलक्ष्मीस्त्वदनुग्रहेण पदे पदे मे निधिदर्शनं स्यात् ॥ ९५ ॥ आद्यादिलक्ष्मीहृदयं पठेद्यः स राज्यलक्ष्मीमचलां तनोति |
महादरिद्रोऽपि भवेद् धनाढ्यस्तदन्वये श्रीः स्थिरतां प्रयाति ॥ ९६ ॥ यस्य स्मरणमात्रेण तुष्टा स्याद्विष्णुवल्लभा |
तस्याभीष्टं ददात्याशु तं पालयति पुत्रवत् ॥ ९७ ॥ इदं रहस्यं हृदयं सर्वकामफलप्रदम् |
जपः पञ्चसहस्रं तु पुरश्चरणमुच्यते ॥ ९८ ॥ [Fußnoten:] १ ‘नयने’ ख. पाठः |
२ ‘नयने’ ख. पाठः |
३ ‘भक्तोद्धरणे’ ख. पाठः |
४ ‘इह नः सृज जन्ममातः’ ख. पाठः |
५ ‘भवे’ ख. पाठः |
६ ‘मम’ ख. पाठः |
७ ‘यैव’ ख. पाठः |
८ ‘सुवृष्टिः’ ख. पाठः |
[Vers 85 schließt den auf Seite 172 begonnenen Vers ab.]

त्रिकालमेककालं वा नरो भक्तिसमन्वितः |
यः पठेच्छृणुयाद्वापि स याति परमां श्रियम् ॥ ९९ ॥ महालक्ष्मीं समुद्दिश्य निशि भार्गववासरे |
इदं श्रीहृदयं जप्त्वा पञ्चवारं धनी भवेत् ॥ १०० ॥ अनेन हृदयेनान्नं गर्भिण्या अभिमन्त्रितम् |
ददाति तत्कुले पुत्रो जायते श्रीपतिः स्वयम् ॥ १०१ ॥ नरेणाप्यथवा नार्या लक्ष्मीहृदयमन्त्रिते |
जले च पीते तद्वंशे मन्दभाग्यो न जायते ॥ १०२ ॥ य आश्विने मासि च शुक्लपक्षे रमोत्सवे सन्निहितैकभक्त्या |
पठेत् तथैकोत्तरवारवृद्ध्या लभेत सौवर्णमयीं च वृद्धिम् ॥ १०३ ॥ य एकभक्तोऽन्वहमेकवर्षं विशुद्धधीः सप्ततिवारजापी |
स मन्दभाग्योऽपि रमाकटाक्षाद्भवेत् सहस्राक्षशताधिकश्रीः ॥ १०४ ॥ श्रीशाङ्घ्रिभक्तिं हरिदासदास्यं प्रसन्नमन्त्रार्थदृढैकनिष्ठाम् |
गुरोः स्मृतिं निर्मलबोधवृद्धिं प्रदेहि मे देहि परं पदं श्रीः ॥ १०५ ॥ पृथ्वीपतित्वं पुरुषोत्तमत्वं विभूतिवासं विविधर्द्धिसिद्धिम् |
संपूर्णसिद्धिं बहुवर्षभोग्यां प्रदेहि मे देहि पुनः पुनस्त्वम् ॥ १०६ ॥ वागर्थसिद्धिं बहुलोकवश्यं वयःस्थिरत्वं ललनासुभोगम् |
पौत्रादिलब्धिं सकलार्थसिद्धिं प्रदेहि मे भार्गवि जन्मजन्मनि ॥ १०७ ॥ ध्यायेल्लक्ष्मीं प्रहसितमुखीं कोटिबालार्कभासां विद्युद्वर्णाम्बरवरधरां भूषणाढ्यां सुशोभाम् |
बीजापूरं सरसिजयुगं बिभ्रतीं स्वर्णपात्रं भर्त्रां युक्तां मुहुरभयदां शाश्वदप्यच्युतश्रीः ॥ १०८ ॥ इत्यथर्वणरहस्ये लक्ष्मीहृदयस्तोत्रं संपूर्णम् ॥ सारसंग्रहे— अथोच्यन्ते महामन्त्रा दुर्गायाः वाञ्छितार्थदाः |
त्रिवर्गफलमोक्षाभिदायकाः विजयप्रदाः ॥ १ ॥ सद्यः सदण्डी हृल्लेखा सधृतिह्लादिनीन्दुयुक् |
अग्नीन्धिके विसर्गः स्मृतिप्रतिष्ठे श्रिया सह ॥ २ ॥ धूम्रार्चिः स्यात् टपङ्क्त्यर्णस्तन्द्रानन्तेऽष्टवर्णकः |
दुर्गामनुः समाख्यातो भजतां सर्वकामदः ॥ ३ ॥ सद्य ओं, दण्डी अनुस्वारस्तद्युक्तस्तेन प्रणवः, हृल्लेखा भुवनेश्वरीबीजं, धृतिरुकारः, ह्लादिनी दकारः, इन्दुः अनुस्वारस्तेन दुं. अग्निर्दकारः इन्धिका उकारः विसर्गयुक्तस्तेन दुः. स्मृतिगकारः प्रतिष्ठा आ तेन गा, श्रीः ऐकारः धूम्रार्चिर्यकारः तेन यै, टपङ्क्त्यर्णो नकारः, तन्द्रा म. अनन्ता विसर्गः तस्यात्र “ससजुषो रु” रिति रेफः, तेन दुर्गा इत्यस्य सन्धिस्तेन दुर्गायै इति मन्त्रे बोध्यम् ॥ मुनिः प्रोक्तो नारदाख्यो गायत्रं छन्द ईरितम् |
दुर्गा च देवता प्रोक्ता दृष्टादृष्टफलप्रदा ॥ ४ ॥ षड्दीर्घयुक्तैराद्यन्तमनुपूर्वषडर्णकैः |
जातियुक्तैः षडङ्गानि मनोरस्य प्रकल्पयेत् ॥ ५ ॥ [Zusatzvers aus einem anderen Exemplar nach Druckfußnote:] सुवर्णवृद्धिं कुरु मे गृहे श्रीः कल्याणवृद्धिं कुरु मे गृहे श्रीः |
विभूतिवृद्धिं कुरु मे गृहे श्रीः सौभाग्यवृद्धिं कुरु मे गृहे श्रीः ॥ इति पुस्तकान्तरेऽधिकः श्लोकः |
[Weitere Fußnoten:] १ ‘सकृत्’ ख. पाठः |
२ ‘धार्यं’ ख. पाठः |
३ ‘कीर्तिं’ ख. पाठः |
४ ‘वाचा’ ख. पाठः |
[Lokale Unsicherheiten: Lakṣmīhṛdaya 108 भर्त्रां und Schlussfügung; grammatische Erklärung des Visarga im Durgā-Kommentar gedrängt.]

तेन ओं ह्रींदुंदुर्गायै हां हृदयाय नमः, इत्यादिषडङ्गमन्त्रा उन्नेयाः |
तदुक्तमाचार्यचरणैः—“तारो माया च दुर्गायै हामाद्यन्ताङ्गकल्पना” इति |
चकारः दुं समुच्चिनोतीति पद्मपादाचार्यः ॥ ध्यानम्— सिंहासनां मरकतद्युतिमिन्दुचूडां शङ्खं ह्यरं करतलैर्दधतीं शरासम् |
बाणं त्रिनेत्रलसितां भवदुःखहन्त्रीं दुर्गां नमामि मणिभूषणभूषिताङ्गीम् ॥ ६ ॥ वामाग्रद्वयोराद्ये तदाद्यधःस्थयोरन्त्ये, इत्यायुधध्यानम् |
तथा— अष्टपत्राम्बुजद्वन्द्वं चतुरस्रत्रयावृतम् |
चतुर्द्वारसमायुक्तं कुङ्कुमादिभिरुद्धरेत् ॥ ७ ॥ कुर्याच्च पीठपूजायां नवशक्तिसमर्चनम् |
ताश्च प्रभा समाया सजया सूक्ष्मा विशुद्धा स्यात् ॥ ८ ॥ नन्दिन्या सुप्रभया विजया सर्वादिसिद्धिर्नवमी |
एकवदचिशक्तिर्बाहीनैर्नभिः प्रपूजयेत् ॥ ९ ॥ एकवदिति अ इ उ ऋ ॠ ऌ ॡ इति सप्तस्वररहितैरच्भिः आ ई ऊ ए ऐ ओ औ अं अः इति नवभिः स्वरैः सहिता नवशक्तयः पूज्या इत्यर्थः |
तारो वज्रनखदंष्ट्रायुधाय च महापदम् |
सिंहाय वर्मास्त्रनतिप्रान्तः सिंहमनुरीरितः ॥ १० ॥ आसनं मनुनानेन दद्यान्मूलेन कल्पयेत् |
[Zweiter Halbvers fehlt im Druck.] ॥ वर्म हुं, अस्त्रं फट्, नतिर्नमः |
मूर्तिमावाह्य तस्यां तां पूजयेच्चन्दनादिभिः |
प्रथमावृतिरङ्गैः स्याज्जयादिभिः परा परा ॥ ११ ॥ शङ्खादिकैरायुधैः स्याच्चतुर्थीन्द्रादिभिः परा |
तदायुधैश्च दुर्गायाः पूजनं समुदीरितम् ॥ १२ ॥ सजया विजया कीर्तिः प्रीतिः प्रभा समीरिता श्रद्धा |
मेधा श्रुतिः स्वनामाद्यक्षरपूर्वाः समभ्यर्च्याः ॥ १३ ॥ अरिदरगदासिपाशाङ्कुशशरधनूंष्यायुधानि गदितानि |
इत्थं दुर्गामन्त्रं यो भजते स नर इन्दिरां लभते ॥ १४ ॥ अथ प्रयोगः—तत्र प्रातरुत्थाय यागपीठन्यासान्तं मूलेन प्राणायामत्रयं कृत्वा, शिरसि ओं नारदाय ऋषये नमः, मुखे गायत्रीछन्दसे नमः, हृदये श्रीदुर्गायै देवतायै नमः, इति विन्यस्य कृताञ्जलिर्मम स्वाभीष्टसिद्धये विनियोगः इत्युक्त्वा, ओं ह्रींदुंदुर्गायै हां हृदयाय नमः, ओं ह्रींदुंदुर्गायै हीं शिरसे० इत्यादिषडङ्गमन्त्रानङ्गुष्ठादितलान्तं हृदयादिषडङ्गेष्वपि विन्यस्य, ध्यानादिमानसपूजान्ते स्वर्णादिपट्टे चन्दनादिभिरन्तर्बहिर्विभागेनाष्टदलकमलं कृत्वा तद्बहिश्चतुर्द्वारयुतचतुरस्रत्रयं कुर्यादिति पूजाचक्रं निर्माय, प्राग्वत् स्वपुरतः संस्थाप्यार्घ्यस्थापनादिपरतत्त्वार्चान्तं विधाय, अष्टदलकेसरेषु स्वाग्रादिप्रादक्षिण्येन आं प्रभायै नमः, ईं मायायै०, ऊं जयायै०, एं सूक्ष्मायै०, ऐं विशुद्धायै०, ओं नन्दिन्यै०, औं सुप्रभायै०, अं विजयायै०, मध्ये अः सर्वसिद्ध्यै नमः, इति संपूज्य “ओं वज्रनखदंष्ट्रायुधाय महासिंहाय हुं फट् नमः” इति पीठस्य मध्ये समभ्यर्च्यावाहनादिपुष्पोपचारान्ते प्राग्वदङ्गानि संपूज्यान्तरष्टदलेषु स्वाग्रादिप्रादक्षिण्येन ओं जं जयायै नमः, ओं विं विजयायै०, ओं किं कीर्त्यै०, ओं प्रिं प्रीत्यै०, ओं प्रं प्रभायै०, ओं श्रं श्रद्धायै०, ओं में मेधायै०, ओं श्रुं श्रुत्यै नमः, इति संपूज्य, बाह्याष्टदलेषु ओं शङ्खाय नमः, चक्राय०, गदायै०, खड्गाय०, पाशाय०, अङ्कुशाय०, शरेभ्यः०, धनुषे नमः, इति प्रादक्षिण्येन संपूज्य, प्राग्वद्वीथीद्वये लोकपालतदस्त्रार्चादि सर्वं समापयेत् |
तथा— जितेन्द्रियो हविष्याशी वसुलक्षं जपेन्मनुम् |
तत्सहस्रं तिलैः स्वादुलोलितैर्वा पयोन्धसा ॥ १५ ॥ [Vers 9 enthält einen schwer lesbaren Lautcode; die anschließende Prosa erklärt ausdrücklich die neun Vokale.]

जुहुयादेधिते वह्नौ तर्पणादि ततश्चरेत् |
[Zweiter Halbvers durch Punkte vertreten.] ॥ वसुलक्षमष्टलक्षं, स्वादु त्रिमधु |
[Erster Halbvers durch Punkte vertreten.] |
एवं सिद्धमनुर्मन्त्री प्रयोगानाचरेत् सुधीः ॥ १६ ॥ यथोक्तेन विधानेन नव कुम्भान् मनोरमान् |
पञ्चरत्नसमायुक्तान् नवस्थानेषु विन्यसेत् ॥ १७ ॥ मन्त्री दुर्गां यजेन्मध्ये त्वन्यत्र च जयादिकाः |
चन्दनाद्यैः समभ्यर्च्य धूपदीपैश्च मन्त्रवित् ॥ १८ ॥ अभिषिञ्चेत् प्रियं साध्यं राजानं वा शिशुं बुधः |
विजयश्रीसमायुक्तो राजा भवति नान्यथा ॥ १९ ॥ भूतापस्मारवेतालपिशाचाद्वियुज्यते |
वन्ध्या च ललना पुत्रं विनीतं प्राप्नुयाच्छुभम् ॥ २० ॥ आमयान्मुच्यते मर्त्यो दीर्घायुश्च न संशयः |
अनेनैव विधानेन जनानामनुरञ्जनम् ॥ २१ ॥ एवं दुर्गामनुं मर्त्यो यो भजेद्विधिनामुना |
स दीर्घायुश्च दुरितं जयेत् सुविजितामयः ॥ २२ ॥ पद्मे तारगतां शक्तिं ससाध्यां तद्दलेष्वथ |
मन्त्रवर्णाल्लिखेदष्टौ त्रिष्टुब्मन्त्रेण वेष्टयेत् ॥ २३ ॥ मातृकार्णैर्बहिर्वीतं चतुरस्रेण वेष्टयेत् |
दौर्गं यन्त्रमिदं प्रोक्तं सर्वसिद्धिकरं परम् ॥ २४ ॥ अपस्मारमहाभूतक्षुद्रज्वरनिवारणम् |
नृणां विजयदं स्त्रीणां पुत्रदं नात्र संशयः ॥ २५ ॥ इति |
अस्यार्थः—अष्टदलपद्मं कृत्वा तन्मध्ये तारं तस्योदरे शक्तिबीजं तदुदरे साध्यनाम च विलिख्य, तद्दलेषु मन्त्रवर्णानेकैकशो विलिख्य, बहिर्वृत्तत्रयं कृत्वाऽन्तर्वीथ्यां “जातवेदसे सुनवामे” ति त्रिष्टुब्मन्त्रेण संवेष्ट्य, तद्बहिश्चतुरस्रं कुर्यात् |
एतद्यन्त्रमुक्तफलदं भवति |
पूर्वोक्तनवकुम्भस्थापनमस्मिन्नेव यन्त्रे ज्ञेयम् ॥ नारायणीये— विषं हि मज्जा कालोऽग्निरग्निनिष्ठा निठद्वयम् |
मन्त्रो महिषमर्दन्याः प्रोक्तो वस्वक्षरात्मकः ॥ १ ॥ विषं म, हि स्वरूपं, मज्जा ष, कालो म, अग्निः र, अग्निनिष्ठा दकारस्थेन र्दि, नि स्वरूपं, ठद्वयं स्वाहा |
मार्कण्डेयो मुनिश्छन्दो गायत्रं देवता मनोः |
सुरासुरनता देवी प्रोक्ता महिषमर्दनी ॥ २ ॥ शारदातिलके—(११|
२२) महिषमर्दिनि हुंफट् हृदयं परिकीर्तितम् |
महिषशत्रुत्पादि हुंफट् शिरोऽङ्गं समुदीरितम् ॥ १ ॥ महिषं मोहयद्वन्द्वं हुंफडन्तः शिखामनुः |
महिषं हनयुग्मान्ते देवि हुंफट् तनुच्छदम् ॥ २ ॥ महिषान्ते सूदनि हुंफडन्तं चास्त्रमीरितम् |
मन्त्रैरेतैर्जातियुक्तैः पञ्चाङ्गानि प्रकल्पयेत् ॥ ३ ॥ गारुडोपलसन्निभां मणिमौलिकुण्डलमण्डिताम् |
नौमि भालविलोचनां महिषोत्तमाङ्गनिषेदुषीम् ॥ ४ ॥ शङ्खचक्रकृपाणखेटकबाणकार्मुकशूलकान् |
तर्जनीमपि बिभ्रतीं निजबाहुभिः शशिशेखराम् ॥ ५ ॥ दक्षोर्ध्वयोर्द्वयोराद्ये तदाद्यधःस्थयोरन्त्ये, इत्यायुधध्यानम् ॥ ईशानशिवे तु— ध्यायेच्छ्यामां महादुर्गां सर्वाभरणभूषिताम् |
जटामुकुटशोभाढ्यां स्फुरच्चन्द्रकलान्विताम् ॥ १ ॥ पीताम्बरधरां देवीं पीनोन्नतकुचद्वयाम् |
शङ्खचक्रलसद्धस्तां तदधः खड्गखेटकौ ॥ २ ॥ बाणचापौ च तदधः सशूलां तर्जनीयुताम् |
[Zweiter Halbvers fehlt im Druck.] ॥ [Fußnoten:] १ ‘हिंसिके’ ख. पाठः |
२ ‘हेषय’ क. ग. पाठः |
[Unsichere Lautauslegung des Nārāyaṇīya: अग्निनिष्ठा दकारस्थेन र्दि; Śāradātilaka erster Gliedname महिषशत्रुत्पादि nicht sicher.]

तर्जनीति तर्जनीमुद्रा |
तल्लक्षणं यथा—“तर्जन्येकाकिनी ऊर्ध्वं शेषाः संनमितास्त्वधः |
मुद्रेयं तर्जनी प्रोक्ता वक्तृश्रोत्रोस्तु भीतिदा ॥” इति सारसंग्रहोक्ता |
[Erster Halbvers fehlt im Druck.] |
ततः पूर्वोदिते पीठे यजेन्महिषमर्दिनीम् ॥ ३ ॥ प्रथमावृतिरङ्गैः स्याद् दुर्गाद्याभिः परा परा |
ध्यानोक्तैरायुधैः स्याल्लोकपालैः परेरिता ॥ ४ ॥ तदायुधैः पञ्चमी स्यादेवं पूजा समीरिता |
दुर्गाया वरवर्णिन्या ह्यार्या च कनकप्रभा ॥ ५ ॥ कृत्तिका ह्यभयाद्या च प्रदा कन्या स्वरूपिका |
दीर्घस्वराद्याः क्रमशः पूजयेन्मन्त्रवित्तमः ॥ ६ ॥ इति |
दीर्घाद्याः क्लीवान्त्यरहितदीर्घस्वराद्याः |
नारायणीये पूर्वं पटलेऽनन्तज्यन्धियोन्यादीत्युक्त्वोत्तरपटले आद्यैः स्वरैः क्रमादित्युक्तम् |
आद्यैः—आ ई ऊ ए ऐ ओ औ अं इति परस्परैरिति टीका |
यावद्यादिभिरहान्तैरिति ॥ अथ प्रयोगः—तत्र प्राग्वद्योगपीठन्यासान्तं मूलेन प्राणायामत्रयं कृत्वा, शिरसि मार्कण्डेयाय ऋषये नमः, मुखे गायत्रीछन्दसे नमः, हृदये श्रीमहिषमर्दिन्यै देवतायै नमः, इति विन्यस्य विनियोगमुत्कीर्य, महिषमर्दिनि हुंफट् हृदयाय नमः |
महिषशत्रुत्पादि हुंफट् शिरसे स्वाहा |
महिषं हेषय २ हुंफट् शिखायै वषट् |
महिषं हनहन देवि हुंफट् कवचाय हुं |
महिषसूदनि हुंफट् अस्त्राय फट् |
इति पञ्चाङ्गमन्त्रान् मूलमन्त्राभिमृष्टयोः पाण्योरङ्गुष्ठादिकनिष्ठिकान्तास्वङ्गुलिषु विन्यस्य, नेत्ररहितेषु हृदयादिपञ्चाङ्गेषु विन्यस्य, ध्यानमानसपूजान्ते पूर्वमन्त्रोक्तं पूजाचक्रं निर्मायार्घ्यस्थापनाद्यङ्गपूजान्ते तद्दलेषु स्वाग्रादिप्रादक्षिण्येन आं दुर्गायै नमः, ईं वरवर्णिन्यै नमः, ऊं आर्यायै०, एं कनकप्रभायै०, ऐं कृत्तिकायै०, ओं अभयप्रदायै०, औं कन्यायै०, अं स्वरूपायै नमः, इति संपूज्य, द्वितीयेऽष्टदले स्वाग्रादिप्रादक्षिण्येन यं शङ्खाय नमः, रं चक्राय०, लं खड्गाय०, वं खेटकाय०, शं बाणाय०, षं बाणासनाय०, सं शूलाय०, हं तर्जन्यै नमः, इति संपूज्य दिगीशार्चादि शेषं प्राग्वत् समापयेदिति ॥ तथा— प्रजपेद्वसुलक्षं च तत्सहस्रं तिलैर्हुनेत् |
एवं सिद्धमनुर्मन्त्री प्रयोगानाचरेत् ततः ॥ ७ ॥ तिलहोमाद्वशीकारो नृणां स्त्रीणां भवेद् ध्रुवम् |
आमयान्मुच्यते मर्त्यः सद्यः सर्षपहोमतः ॥ ८ ॥ पद्महोमात्तथा राज्ञः सङ्ग्रामे विजयो भवेत् |
दूर्वाहोमेन मर्त्यानां रोगशान्तिर्भवेद् ध्रुवम् ॥ ९ ॥ ब्रह्मवृन्तोत्थकुसुमैर्लभते पुष्टिमुत्तमाम् |
धान्यहोमेन धान्याप्तिः काकपक्षहुतेन च ॥ १० ॥ विद्वेषो जायते लोके ह्यत्यन्तं सुहृदोरपि |
शत्रुर्गच्छति पञ्चत्वं सत्यं मरिचहोमतः ॥ ११ ॥ एवं यो भजते देवीं दुर्गां महिषमर्दिनीम् |
स नाशयेत् क्षुद्रभूतचौरादीन् दर्शनादपि ॥ १२ ॥ इति |
सारसंग्रहे— वेदादिदुर्गासम्बुद्धिद्वितयं वह्निरन्त्यगः |
टपञ्चमः सनयनः कृशानुगृहिणी ततः ॥ १ ॥ पङ्क्त्यक्षरो मनुः प्रोक्तो भजतां सर्वसिद्धिदः |
[Zweiter Halbvers fehlt im Druck.] ॥ वेदादिः प्रणवः |
दुर्गासम्बुद्धिद्वितयं दुर्गे दुर्गे इति |
वह्नी रेफः |
अन्त्यगः क्षकारः, टपञ्चमो णकारः सनयन इकारसहितस्तेन णि |
कृशानुगृहिणी स्वाहा ॥ शारदातिलके—“तारो दुर्गेयुगं रक्ष्मन्त्ये ढान्तं सलोचनम्” इत्युद्धृतं, तत्र सलोचनमिति पदमन्त्यस्य ढान्तस्य च विशेषणमिति द्वयोरपीकारयोग उक्तस्तट्टीकाकृता अपेक्षितार्थद्योतनिकाकारेण |
तेन रक्षिणि इति केचिद्वदन्ति, तन्न रम्यम् |
“तारो दुर्गेद्वयं वह्निरन्त्यं ढान्तं सदृक् शिरः” इति नारायणीयवचनात् |
[Lesungsunsicherheiten: erstes Nārāyaṇīya-Kompositum zur Vokalreihe; zweiter Gliedname महिषशत्रुत्पादि; genaue Lautcodefassung des Śāradātilaka-Zitats. Die Streitfrage रक्षणि/रक्षिणि bleibt ausdrücklich erhalten.]

वह्निमायः स्वरः षष्ठो ढान्तः प्रान्त्योऽग्निरेव च |
दुर्गे द्विरिति सांकरो दुर्गामन्त्रः स्मृतो बुधैः ॥ इति कालिकापुराणाच्च ॥ अत्र षष्ठः स्वर इकारः सप्तस्वराङ्गीकारात् |
ह्रस्वदीर्घापारिकत्वाद् व्युत्क्रमस इकारस्य षष्ठत्वात् सन्निधिस्थेन ढान्तेनैव अस्यान्वये जाते केवलप्रान्तप्रतीतेरुक्तशारदातिलकस्यापि लाघवादेकस्यैव सलोचनमिति पदं विशेषणमित्यर्थः ॥ अत्र व्युत्क्रमेण मन्त्रोद्धारो बोद्धव्यः ॥ तथा नारायणीये— नारदो मुनिराख्यातो विराट्छन्द उदाहृतम् |
जयदुर्गा देवता स्याद्भुक्तिमुक्तिफलप्रदा ॥ १ ॥ ताराद्यैः पञ्चभिर्मन्त्रपदैः सर्वेण संमता |
जातियुक्ताङ्गक्लृप्तिः ॥ इति |
शारदातिलके— दुर्गे च हृदयं प्रोक्तं दुर्गे शिर इतीरितम् |
दुर्गायै स्याच्छिखा वर्म भूतरक्षणि कीर्तितम् ॥ १ ॥ तारादि दुर्गे-द्वितयं रक्षण्यस्त्रं प्रकीर्तितम् |
[Zweiter Halbvers fehlt im Druck.] ॥ इति षडङ्गमन्त्रा उक्ताः |
अत्र केचित् तारादिति वर्मान्तमन्त्रस्यास्त्रान्तर्वदन्ति |
वस्तुतस्तु तयोरक्रमध्ये तदन्तर्भाव इति तत्त्वम् |
ध्यानम्— जलदद्युतिमिन्दुकिरीटां चक्रदरासिरुजः करपद्मैः |
दधतीं नयनत्रययुक्तां सिंहगतां प्रणमेज्जयदुर्गाम् ॥ १ ॥ रुक् त्रिशूलम् |
वामोर्ध्वादिवामाधः करान्तमायुधध्यानम् |
दक्षोर्ध्वादितदधोऽन्तं वा |
तथा— दौर्गे पीठे यजेद्देवीमुक्तमार्गेण मन्त्रवित् |
प्रजपेत् पञ्चलक्षं च तद्दशांशं हुनेद् घृतैः ॥ १ ॥ उक्तमार्गेण प्रथमावृत्युक्तमार्गेण |
तर्पणादि ततः कुर्यात् ततः सिद्धो भवेन्मनुः |
ततः सिद्धमनुर्मन्त्री प्रयोगानाचरेत् सुधीः ॥ २ ॥ इमं मन्त्रं जपन् भूयः प्रविशेच्छत्रुसङ्गरम् |
अशेषं रिपुं हन्यान्नात्र कार्या विचारणा ॥ ३ ॥ विवादे व्यवहारादौ जप्तो विजयदो भवेत् |
अनयास्त्राणि विद्धानि शस्त्राणि सुबहून्यपि ॥ ४ ॥ सुजप्तानि च सङ्ग्रामे सम्यग्विजयदानि च |
[Zweiter Halbvers fehlt im Druck.] ॥ इति |
सारसंग्रहे— तारो हृन्मन्वतो दुर्गेद्वयं रक्षणि च द्विठः |
द्वादशार्णो मनुः प्रोक्तो मुन्याद्यं पूर्ववच्चरेत् ॥ १ ॥ व्यस्तेन च समस्तेन मन्त्रेणाङ्गानि षट् क्रमात् |
ध्यानपूजादिकं सर्वमस्य पूर्ववदाचरेत् ॥ २ ॥ द्विठः स्वाहाकारः |
पूर्ववद् दुर्गाष्टाक्षरवत् ॥ तथा— प्रणवो हृद्भगवती ज्वालामालिनि गृध्रगः |
गालोहितो रिवृते च द्विठान्तः परिकीर्तितः ॥ ३ ॥ द्वाविंशत्यर्णको मन्त्रः सर्वकामफलप्रदः |
[Zweiter Halbvers fehlt im Druck.] ॥ हृन्नमः |
लोहितः प |
द्विठः स्वाहा |
अन्यानि पदानि स्वरूपाणि ॥ [Erster Halbvers fehlt im Druck.] |
त्रिचतुष्पञ्चवस्वर्णैर्भ्रमैर्मन्त्रार्णकैः क्रमात् ॥ ४ ॥ पञ्चाङ्गानि मनोरस्य जातियुक्तानि कल्पयेत् |
अन्यच्छूलिनिदुर्गावत् सर्वमस्य प्रकल्पयेत् ॥ ५ ॥ इति ॥ अथ शूलिनिदुर्गाविधिर्लिख्यते |
सारसंग्रहे— अथ शूलिनिदुर्गाया मनुं वक्ष्ये यथाविधि |
चतुर्थीयं सुधायुक्तं धरा द्वैतद्वयं ततः ॥ ६ ॥ [Fußnoten:] १ ‘तारादिदुर्गे हृदयं’ ख. पाठः |
२ ‘पञ्चवर्णैर्मिलितैर्मन्त्रैः’ क. ग. पाठः |
३ ‘पुनः’ ख. पाठः |
[Lokale Unsicherheiten: einleitende grammatische Prosa; Jvālāmālinī-Lautcode गृध्रगः गा und Zählcode in Vers 4; beginnender Śūlinī-Lautcode.]

मरुत्पञ्चम च वामश्रुतीनां भूमिरक्षियुक् |
दीर्घा तृतीयस्वरयुक् त-तृतीयश्च कर्णयुक् ॥ ७ ॥ ष्टग्रव्याम च वर्मास्त्रवह्नियोषावसानकः |
अयं शूलिनि दुर्गायास्तिथिवर्णो मनुर्मतः ॥ ८ ॥ चतुर्थीयं ज, सुधा व, तद्युक्तं तेन ज्व, धरा ल, एतद्द्वयं ज्वलज्वल इति |
मरुत्पञ्चम श, वामश्रुतिः ऊ तेन शू |
भूमिर्ल, अक्षि इ तेन लि |
दीर्घा न, तृतीयस्वर इ तेन नि |
ततृतीयो द, कर्ण उ तेन दु |
ष्टग्र स्वरूपं |
व्याम ह, वर्म हुं, अस्त्र फट्, वह्नियोषा स्वाहा ॥ मुनिर्दीर्घतमाश्छन्दः ककुबुक्तं च देवता |
शूलिन्याख्या महादुर्गा क्षुद्रदुष्टविनाशिनी ॥ ९ ॥ दुर्गे स्याद् हृदयं शीर्षं वरदे विन्ध्यवासिनि |
शिखा वर्मासुरान्ते च मर्दन्यन्ते ततो वदेत् ॥ १० ॥ युद्धप्रिय पदं पश्चात् त्रासय-द्वयमीरितम् |
पञ्चाङ्गमन्त्रा उद्दिष्टा एवं न्यस्तस्य मन्त्रिणः ॥ ११ ॥ रक्षःक्षुद्रदुरापदमङ्गकर्म भवेद् ध्रुवम् |
एवं न्यस्तशरीरोऽसौ ध्यायेद् दुर्गां सुरैर्नुताम् ॥ १२ ॥ पञ्चाङ्गमन्त्रानाह—‘दुर्गे स्याद्हृदय’ मित्यादि |
तेन शूलिनि इत्यादावन्ते देवसिद्धेत्यादि |
तदुक्तं नारायणीये— एवमादौ शूलिनीति पदं तारादिकं वदेत् |
अवसाने तु सर्वेषां देवसिद्धसुपूजिते ॥ १ ॥ नन्दिनीति युग्मं च महायोगेश्वरीमपि |
वर्मास्त्रबीजे चामूनि ग्रहरक्षाकराणि हि ॥ २ ॥ पञ्चाशदावृत्तिन्यासाज्ज्वरस्तीव्रोऽपि नश्यति |
[Zweiter Halbvers fehlt im Druck.] ॥ तारादित्वं च ज्वरप्रयोगे |
तथा— नीलाम्भोधरकान्तिमिन्दुमुकुटां सिंहाधिरूढां करैः शूलं बाणमसिं ह्यरिं दरगदाचापान् सपाशाञ्छुभैः |
बिभ्राणामसिखेटयुक्तचतसृभिः कन्याभिरारादृतां नानाभूषणभूषितां त्रिनयनां दुर्गां भजे शूलिनीम् ॥ दक्षिणाधःकरमारभ्य वामाधःकरपर्यन्तमायुधध्यानम् |
[Erster Halbvers fehlt im Druck.] |
दुर्गापीठे पुरा प्रोक्ते ध्यात्वा देवीं प्रपूजयेत् ॥ ३ ॥ वक्ष्यमाणेन विधिना पुराङ्गानि प्रपूजयेत् |
दुर्गादिभिर्द्वितीया स्यादायुधैश्चापरा स्मृता ॥ ४ ॥ दिशाधिनाथैर्वज्राद्यैरेवमर्चा समीरिता |
दुर्गा च वरदा विन्ध्यवासिन्यसुरमर्दिनी ॥ ५ ॥ प्रोक्ता युद्धप्रिया देवसिद्धसुपूजितापि च |
नन्दिन्या समहायोगेश्वरीति गदिताश्च ताः ॥ ६ ॥ आयुधानि तु “चक्रदरासिगदाशरशरासनत्रिशिखपाशकानि विदुः” ॥ अथ प्रयोगः—तत्र प्राग्वद्योगपीठन्यासान्तं मूलमन्त्रेण प्राणायामत्रयं कृत्वा, शिरसि दीर्घतमसे ऋषये नमः |
मुखे ककुप्छन्दसे नमः |
हृदि शूलिनीदुर्गायै देवतायै नमः |
इति विन्यस्य विनियोगमुक्त्वा, शूलिनि दुर्गे देवसिद्धसुपूजिते, हृदयाय नमः |
शूलिनि वरदे देवसिद्धसुपूजिते, शिरसे स्वाहा |
शूलिनि विन्ध्यवासिनि देवसिद्धसुपूजिते, शिखायै वषट् |
शूलिन्यसुरमर्दिनि देवसिद्धसुपूजिते, कवचाय हुं |
शूलिनि युद्धप्रिय त्रासय २ देवसिद्धसुपूजिते, अस्त्राय फट् |
इति पञ्चाङ्गमन्त्रान् मूलमन्त्राभिमृष्टयोः पाण्योरङ्गुष्ठादिकनिष्ठास्वङ्गुलिषु विन्यस्य हृदयादिषु नेत्ररहितेषु पञ्चाङ्गेषु च विन्यस्य, ध्यानादिपञ्चाङ्गपूजान्तेऽष्टदलेषु स्वाग्रादिप्रादक्षिण्येन ओं दुं— [Die unklaren verschlüsselten Wörter in Vers 7–8 werden durch die unmittelbar folgende Lautglosse erläutert; Abschluss der Blattformeln auf Seite 180.]

दुर्गायै नमः, एवं वरदायै०, विन्ध्यवासिन्यै०, असुरमर्दिन्यै०, युद्धप्रियायै०, देवसिद्धसुपूजितायै०, नन्दिन्यै०, महायोगेश्वर्यै नमः, इति संपूज्य, द्वितीयाष्टदले स्वाग्रादिप्रादक्षिण्येन ओं चक्राय नमः, शङ्खाय०, खड्गाय०, गदायै०, बाणाय०, चापाय०, शूलाय०, पाशाय०, इति संपूज्य दिगीशार्चादि शेषं प्राग्वत् समापयेत् ॥ तथा— वर्णलक्षं जपेन्मन्त्रं जुहुयात् तद्दशांशतः |
आज्येन प्राज्यहविषा तर्पणादि ततश्चरेत् ॥ ७ ॥ आराध्य विप्रान् विधिवद्भक्त्याभ्यर्च्य गुरुं ततः |
एवं सिद्धमनुर्मन्त्री प्रयोगान् मनसेप्सितान् ॥ ८ ॥ विदधीत विधानेन गुरोराज्ञापुरःसरम् |
शूलाद्यायुधसंयुक्तामुग्रां स्वं शूलिनीं तथा ॥ ९ ॥ विचिन्त्य प्रजपेन्मन्त्रं ग्रस्तं स्पृष्ट्वा विधानतः |
तमाविश्य दशां सर्वं वदेत् पश्चाद्विनश्यति ॥ १० ॥ मन्त्रावृत्या तदानीं च भूतसङ्घः पलायते |
स्मृत्वात्मरोगिणोर्मध्ये शूलिनीमायुधैर्वृताम् ॥ ११ ॥ जपतो विद्रवन्त्याशु ग्रहा अवशविग्रहाः |
दुःसर्पवृश्चिकाद्युत्थं बहुपादकुकुरोद्भवम् ॥ १२ ॥ लूतिकादिककीटोत्थं विषं नाशयति क्षणात् |
निशिते सायके देवीमाधायैव च शूलिनीम् ॥ १३ ॥ क्षेमङ्करीं पूजयित्वा मनुमेनं जपेत् सुधीः |
परायुधानि गृह्णाति सेना निश्चेष्टका भवेत् ॥ १४ ॥ तिलयुक्तैः सर्षपैश्च वैरिणो नामसंयुतैः |
लक्षं प्रजुहुयाच्छत्रुरामयाविष्टविग्रहः ॥ १५ ॥ यमातिथित्वमायाति नात्र कार्या विचारणा |
त्रिस्वाद्वक्तैस्तिलैरष्टसहस्रं प्रत्यहं हुनेत् ॥ १६ ॥ अष्टसहस्रमष्टोत्तरसहस्रमित्यर्थः |
शक्तिरस्याप्रतिहता वत्सरात् प्राग्भवेदलम् |
घृतेनाष्टशतं मन्त्री जुहुयाद्वाञ्छितं लभेत् ॥ १७ ॥ वत्सरात् प्राग् दूर्वया च मधुरत्रययुक्तया |
सम्यगष्टोत्तरशतं जुहुयादीप्सितं लभेत् ॥ १८ ॥ छुरिकाखड्गनाराचाः संजप्ता मनुनामुना |
संपातघृतसिक्ताश्च सङ्ग्रामेऽहतशक्तयः ॥ १९ ॥ अष्टोत्तरशतं मन्त्री गुलिका गोमयस्य च |
जुहुयात् सप्तदिवसैरिष्टो द्विष्टो स्त आदरात् ॥ २० ॥ अस्पृष्टभूम्यन्तरिक्षे गृहीत्वा गोमयं शुभम् |
त्रिसहस्रमितं जप्त्वा यमासाद्वारि संखनेत् ॥ २१ ॥ तस्य संस्तम्भनं मङ्क्षु भवेन्नैवात्र संशयः |
सेनामुखे निखातं च सेनास्तम्भं करोत्यलम् ॥ २२ ॥ ग्रामं वा नगरं गच्छन् संस्मरेदम्बिकां सुधीः |
पानीयान्नकरीं चैव प्रसन्नां प्रजपन्मनुम् ॥ २३ ॥ तर्पयित्वा प्रविष्टस्ते प्राप्नुयादिष्टभोजनम् |
सह च भृत्यवर्गेण साधको नात्र संशयः ॥ २४ ॥ अर्कवृक्षसमिद्भिश्च त्रिमध्वक्ताभिरुक्तवत् |
जुहुयाद्रविसाहस्रं यानुद्दिश्य तु साधकः ॥ २५ ॥ भवन्त्येव हि ते वश्यास्तथाश्वत्थसमिद्वरैः |
प्रसन्नचेताश्च तिलैः पूर्वकर्मणि वा हुनेत् ॥ २६ ॥ दुर्गाकल्पोदितान् सर्वान् प्रयोगान् साधयेत् सुधीः |
[Zweiter Halbvers fehlt im Druck.] ॥ यज्ञव्यतिरिक्तानिति ॥ तथा सारसंग्रहे— अथातो वनदुर्गायाः प्रोच्यते मन्त्र उत्तमः |
धृतिश्च कामिकाद्वन्द्वं तुष्टियुग् वृषटान्तकः ॥ १ ॥ रमेषुस्वरयुक्ता च परा विष्णुयुताक्षियुक् |
प्रज्ञा जया तुष्टिबिन्दुयुक्ता हंसश्च बालयुक् ॥ २ ॥ [Fußnoten:] १ ‘श्वश्रुम’ ग. पाठः [Lesung unsicher] |
२ ‘कुलिकादि’ ग. पाठः |
३ ‘जपेत्’ क. पाठः |
४ ‘प्रच्छन्नां’ क. ग. पाठः |
[Lokale Lesungsfragen: Verse 10 und 20 Schluss; Vers 21 यमासाद्वारि; Vanadurgā-Lautcode wird auf Folgeseite fortgesetzt.]

लोहितो नेत्रसहितो मन्त्रषष्ठाक्षरं वदेत् |
क्लिन्ना सदण्डी वसुधा विषं पङ्क्तिस्वराणयुक् ॥ ३ ॥ प्रभा महाकालश्रोत्रशरः स्थ्यर्धेन्दुयुग्धरिः |
मरुन्मुक्त्युक्तिणी सन्ध्या क्यम सन्ध्याक्य बिन्दुमत् ॥ ४ ॥ सद्मा कान्तियुता शुद्धिर्दीर्घकालं स्वरान्विता |
विश्वमूर्तिः प्रभा बालः कामिकेयुग् वृषध्वकः ॥ ५ ॥ वैकुण्ठो वसुधा चाग्निकान्ता मनुरयं मतः |
प्रवरो वनदुर्गायाः सप्तत्रिंशद्वर्णकः ॥ ६ ॥ धृतिरुकारः |
कामिकाद्वन्द्वं त्त |
तुष्टियुग् इकारयुक्तं तेन त्ति |
वृषः ष स एव ठान्तस्तेन ष्ठ |
रमा प इषुस्वर उ तद्युक्तस्तेन पु |
परा रेफः विष्णुयुत उकारयुतस्तेन रु |
अक्षियुक् प्रज्ञा षि |
जया क तुष्टिरिकारः बिन्दुरुत्कारस्तेन किं |
हंसः स बाल्युग् वकारयुक्तस्तेन स्व |
लोहितः प नेत्रसहित इकारयुक्तस्तेन पि |
मन्त्रषष्ठवर्णः षि |
क्लिन्ना भ |
सदण्डीवसुधा यं |
विषं म पङ्क्तिस्वराणयुक् तेन मे |
प्रभा स |
महाकालो म श्रोत्र उ तेन मु |
शरः प |
स्थ्य स्वरूपं |
अर्धेन्दुयुग्धरिः तं |
मरुत् य |
मुक्त्युक्तिणी दि |
सन्ध्या श |
क्यम स्वरूपे |
सन्ध्या श |
क्य बिन्दुमत् क्यं |
सद्मा व कान्तियुतस्तेन वा |
शुद्धिः त |
दीर्घकालस्वरान्विता मकारकारयुक्तो नकारस्तेन न्मे |
विश्वमूर्तिः भ |
प्रभा ग |
बालो व |
कामिकेयुक् तकार इकारयुक्त तेन ति |
वृषध्वः श |
वैकुण्ठो म |
वसुधा य |
अग्निकान्ता स्वाहा ॥ अत्र वा तन्मे इत्यक्षराणि कीलकानि ॥ ईशानसंहितायाम्— “गुणबीजं समुद्धृत्य उत्तिष्ठेति पदं ततः” इत्यादि |
“एवमेषा महाविद्या निष्कीला सर्वसिद्धिदा |
गुणान्ते भुवनेशानी दुर्गाबीजं नियोजयेत् ॥ मनोरन्ते जयं बीजं मुक्त्वा चान्ते विलोमतः |
पूर्वोक्तबीजत्रितयं योजयेत् क्रौञ्चदारण ॥” बीजत्रयं प्रणवमायादुर्गाबीजानि विलोमतः दुर्गामायाप्रणवक्रमेण |
एतावता आदौ बीजपञ्चकमनन्तरं मन्त्रस्तदनु विलोमेन त्रिबीजमिति मन्त्रः सिद्धः ॥ तथा— आरण्यको मुनिः प्रोक्तोऽत्यनुष्टुप्छन्द ईरितम् |
वनदुर्गा देवतास्य सर्वशत्रुविघातिनी ॥ ७ ॥ ऋतुषड्ध्यष्टाष्टर्तु-बाणमितैर्मन्त्रवर्णकैः क्रमात् |
जातियुक्तैः षडङ्गानि मनोरस्य प्रकल्पयेत् ॥ ८ ॥ पादाष्टसन्धिके गुदे लिङ्गाधारोदरेषु च |
पार्श्वयुग्मे हृदि कुचद्वन्द्वे कण्ठेऽष्टसन्धिषु ॥ ९ ॥ करयोर्वदने नासागण्डदृक्कर्णयुग्मके |
भ्रूमध्ये मूर्धनि मनोरर्णान् न्यसेद्यथाविधि ॥ १० ॥ ध्यानम्— विद्युद्दामप्रभाभां कनकसरसिजे संस्थितां सत्त्रिनेत्रां हस्ताम्भोजैर्वहन्तीमरिदरवरदाभीतिसंज्ञाः क्रमेण |
स्वर्णांशुत्कान्तिवस्त्रां शशिकलितलसद्रत्नचूडां प्रसन्नां पार्श्वोद्यात्सन्मृगेन्द्रां हृदि वनवसतिं दावदुर्गां स्मरेऽहम् ॥ ११ ॥ दक्षाद्यूर्ध्वयोराद्ये तदाद्यधःस्थयोरन्ये, इत्यायुधध्यानम् |
इति ध्यात्वा महादेवीं पूजयेद्भक्तितत्परः |
पूर्वोदिते शुभे दौर्गे पीठे दुर्गां प्रपूजयेत् ॥ १२ ॥ पूर्वमङ्गानि पूज्यानि तत्र आर्यादिकान् यजेत् |
चक्राद्यस्त्राणि मातॄश्च लोकेशानायुधानि च ॥ १३ ॥ आर्या दुर्गा भद्रा सभद्रकाल्यम्बिका च क्षम्या |
वेदाद्या गर्भाख्या क्षेमङ्कर्यष्टमी प्रोक्ता ॥ १४ ॥ चक्रशङ्खासिखेटेषुधनू-रज्जुकरोटिकाः |
तदायुधानीरितानि दुर्गापूजनमीरितम् ॥ १५ ॥ [Fußnoten:] १ ‘वर्मणोन्ते स्वकः’ ख. पाठः |
२ ‘पृथक्’ ख. पाठः |
[Lesungsunsicherheiten: einzelne Namen des Lautcodes und Zahlencode in Vers 8; der Kommentar auf der Folgeseite gibt die ausgeschriebenen Formeln. Vers 15 रज्जु wird auf der Folgeseite abweichend als रुक्, Dreizack, erklärt.]

रुक् त्रिशूलम् |
चकरोटि नरकपालम् ॥ अथ प्रयोगः— तत्र प्राग्वद्योगपीठन्यासान्ते मूलमन्त्रेण प्राणायामत्रयं कृत्वा, शिरसि आरण्यकाय ऋषये नमः |
मुखे अत्यनुष्टुप्छन्दसे नमः |
हृदि श्रीवनदुर्गादेवतायै नमः |
इति विन्यस्य प्राग्वद्विनियोगमुत्कील्य, उत्तिष्ठ पुरुषि हृदयाय नमः |
किं स्वपिषि शिरसे स्वाहा |
भयं मे समुपस्थितं शिखायै वषट् |
यदि शक्यमशक्यं वा कवचाय हुं |
तन्मे भगवति नेत्रत्रयाय वौषट् |
शमय स्वाहा अस्त्राय फट्, इति षडङ्गमन्त्रानङ्गुष्ठादितलान्तं करयोर्हृदयादिषडङ्गेषु च विन्यस्य, दक्षपादाङ्गुलिमूले उं नमः |
गुल्फे त्तिं नमः |
जानुनि ष्ठं नमः |
ऊरुमूले पुं नमः |
वामपादाङ्गुलिमूले रुं नमः |
गुल्फे षिं नमः |
जानुनि किं नमः |
ऊरुमूले स्वं नमः |
गुदे पिं नमः |
लिङ्गे षिं नमः |
मूलाधारे भं नमः |
उदरे यं नमः |
दक्षपार्श्वे में नमः |
वामपार्श्वे सं नमः |
हृदि मुं नमः |
दक्षस्तने पं नमः |
वामस्तने स्थिं नमः |
कण्ठे तं नमः |
दक्षकराङ्गुलिमूले यं नमः |
दक्षमणिबन्धे दिं नमः |
कूर्परे शं नमः |
बाहुमूले क्यं नमः |
वामकराङ्गुलिमूले मं नमः |
मणिबन्धे शं नमः |
कूर्परे क्यं नमः |
बाहुमूले वां नमः |
मुखे तं नमः |
दक्षनासापुटे न्में नमः |
वामे भं नमः |
दक्षगण्डे गं नमः |
वामे वं नमः |
दक्षनेत्रे तिं नमः |
वामे शं नमः |
दक्षकर्णे मं नमः |
वामे यं नमः |
भ्रूमध्ये स्वां नमः |
शिरसि हां नमः, इति विन्यस्य प्राग्वद् ध्यानमानसपूजान्तेऽष्टदलकमलत्रयात्मकं प्राग्वत् पूजाचक्रं निर्मायार्घ्यस्थापनाचङ्गपूजान्ते प्रथमेऽष्टदले— आर्यायै नमः |
दुर्गायै नमः |
भद्रायै नमः |
भद्रकाल्यै नमः |
अम्बिकायै नमः |
क्षम्यायै नमः |
वेदगर्भायै नमः |
क्षेमङ्कर्यै नमः |
द्वितीयेऽष्टदले— चक्राय नमः |
शङ्खाय नमः |
खड्गाय नमः |
खेटकाय नमः |
बाणाय नमः |
चापाय नमः |
शूलाय नमः |
कपालाय नमः |
तृतीयेऽष्टदले— प्राग्वद् ब्राह्म्याद्याः संपूज्य दिगीशार्चादि सर्वं पूर्ववत् समापयेत् |
इति |
नारायणीये— वेदलक्षं जपेन्मन्त्रं तद्दशांशं हुनेत् तिलैः |
ब्राह्म्यायास्तिलदुग्धैर्दुर्गां संचिन्त्य चानले ॥ १ ॥ तर्पणं मार्जनं कृत्वा ब्राह्मणाराधनं तथा |
धनधान्यादिभिः सम्यक् तोषयित्वा निजं गुरुम् ॥ २ ॥ एवं सिद्धमनुर्मन्त्री वाञ्छितार्थान् प्रसाधयेत् |
दुर्गाप्रयोगभेदेन चिन्तयेद्वनवासिनीम् ॥ ३ ॥ श्रिये च दुर्गां महिषोत्तमाङ्गस्थितां च दूर्वादलरुग् (भां) वहन्तीम् |
सचक्रशङ्खासिसखेटबाणचापान् भुजैस्तर्जनिकां वहन्तीम् (त्रिशूलम्) ॥ ४ ॥ शङ्खचक्रकृपाणखेटकबाणधनूंषि शूलवत् |
पुंस्कपालमसृष्टिकान् मुसलकुन्तनन्दकान् ॥ ५ ॥ सत्करैर्वलयसद्गदाभिण्डिपालकशङ्किकान् |
बिभ्रतीं जलदद्युतिं महिषोत्तमाङ्गनिषेदुषीम् ॥ ६ ॥ पावकाल्लसितद्युतिं हृदि भीमसिंह(समा)गताम् |
श्यामलां कमलस्थितां नयनत्रयाल्लसितां शुभाम् ॥ ७ ॥ व्याघ्रचर्मसदंशुकामहिबद्धकुन्तलशोभिताम् |
चन्द्रशोभितशेखरां सुरदानवाभयभीतिदाम् ॥ ८ ॥ प्रजपेत् प्रत्यहं मन्त्री स्वार्थाय शतं ह्यथ |
सहस्रं वा तदन्ते च प्रयोगान् कर्तुमर्हति ॥ ९ ॥ यद्यदुद्दिश्य च मनुं सहस्रं वायुतं जपेत् |
अचिराल्लभते तत्तदसाध्यमपि साधकः ॥ १० ॥ प्रातःस्नायी न्यासपूर्वं स्मरन् देवीमनन्यधीः |
नित्यं सहस्रं प्रजपेन्मन्त्रं साधकसत्तमः ॥ ११ ॥ ज्वरसर्पग्रहोत्थांश्च दोषान् प्रशमयेत् सुधीः |
हुनेदारण्यकतिलै राजिकाभिश्च वा हुनेत् ॥ १२ ॥ अपामार्गसमिद्धिश्च नाशयेत् सकलामयान् |
अपस्मारादिकान् मन्त्री नात्र कार्या विचारणा ॥ १३ ॥ [Fußnote:] १ ‘कुम्भकदम्भकान्’ ख. ग. पाठः |
[Lesungsunsicherheiten: Stoffverbindung in Vers 1; Waffenwörter असृष्टिकान् und वलयसद् in Versen 5–6. Die Alternativen in Klammern stehen im Druck.]

न्यग्रोधोत्थसमिद्भिर्वा सक्षीराभिर्हुनेत् सुधीः |
अयुतं सर्वसंपत्त्यै सर्वोपद्रवशुद्धयेऽपि च ॥ १४ ॥ ग्रहादिशान्त्यै च तथा ह्यभिचारादिशान्तये |
अर्कवृक्षसमुद्भूतैर्जुहुयाच्च समिद्वरैः ॥ १५ ॥ आरभ्य रविवारं च तद्द्वयं प्रत्यहं सुधीः |
दशाहतो वाञ्छितार्थसिद्धिर्भवति नान्यथा ॥ १६ ॥ त्र्यहं वा सप्तरात्रं वा चन्द्रैः सारसमुद्भवैः |
एकैकं शकलं मन्त्री हुनेद्वाञ्छितसिद्धये ॥ १७ ॥ त्रिंशच्छरान् शिताग्रांश्च निधाय जुहुयाद्बुधः |
कटुतैलैः सहस्रं वा ह्ययुतं तदनन्तरम् ॥ १८ ॥ संपाततैलेन शरान् समभ्युज्य यथाविधि |
पूर्ववत् प्रजपेन्मन्त्रं ताञ्छरान् अथ भूपतिः ॥ १९ ॥ शुद्धाचारश्च धीरश्च धन्वी संयतमानसः |
गृहीत्वा परसेनाया मध्ये गच्छेदभीः क्षिपेत् ॥ २० ॥ सा धावति दिशः सर्वाः संभ्रान्ता विह्वला तदा |
स आगत्य पुनर्भूयो गुरुं धान्यधनैरपि ॥ २१ ॥ वस्त्रालङ्करणैश्चैव तोषयेज्जयदायिनम् |
अष्टाधिकशतेनाथ सजप्तं शवभस्म च ॥ २२ ॥ निक्षिपेद्यस्य शिरसि स विद्विष्टो भवेज्जनैः |
देशाद् देशान्तरं चैव काकवद् भ्रमते सदा ॥ २३ ॥ कारस्करद्रुमोत्थैश्च पत्रैर्वायुनिपातितैः |
सहस्रं जुहुयात् पादरजोभिः सह वैरिणः ॥ २४ ॥ उच्चाटोऽस्य भवेत् सद्यो, विषवृक्षसमुद्भवैः |
पुष्पैर्हुनेत् सहस्रं च सेनां संस्तम्भयेद् बुधः ॥ २५ ॥ तावद्भिस्तस्य पत्रैश्च मन्त्री सेनां निवर्तयेत् |
विषवृक्षसमुद्भूतां शत्रोः प्रतिकृतिं शुभाम् ॥ २६ ॥ कृत्वा प्रतिष्ठितप्राणां खण्डं खण्डं कर्तेर्निशि |
कृष्णपक्षचतुर्दश्यां काकोलूकवसाप्लुतैः ॥ २७ ॥ तद्रात्रौ विपिने होमः कर्तव्योऽष्टसहस्रकम् |
चतुर्दशीत्रयादेवं नाशमेति रिपुर्ध्रुवम् ॥ २८ ॥ उलूकवायसपक्षैः सवसारङ्गसंयुतैः |
होमाद्रिपुर्नाशमेति ह्युन्मत्तसमिधं तथा ॥ २९ ॥ होमान्मत्तो रिपुर्नूनं भवत्येव सहस्रतः |
वैरिणः प्रतिमां कृत्वा सम्यक् संस्थापितानिलाम् ॥ ३० ॥ विषत्रिकटुकालिप्तां सम्यगुष्णजले क्षिपेत् |
प्रजपेच्च मनुं सद्यो ज्वराक्रान्तो भवेद्रिपुः ॥ ३१ ॥ दुग्धाभिषेकतः शान्तिर्भवत्यस्य न संशयः |
प्रतिमां विषवृक्षोत्थां निःक्षिपेदुष्णवारिणि ॥ ३२ ॥ उन्मादश्च रिपोः सद्यः पूर्ववच्छान्तिरीरिता |
सूर्यबिम्बेऽन्तरारक्तां शूलतर्जनिकाकराम् ॥ ३३ ॥ ध्यात्वायुतं प्रजप्याथ मारयेद्रिपुसञ्चयम् |
असिखेटकराकृष्णा क्रुद्धा सा वनवासिनी ॥ ३४ ॥ संस्मृता मन्त्रजापे तु शमयेच्छत्रुसञ्चयम् |
शरधनुष्करां सिंहस्थितां पावकसन्निभाम् ॥ ३५ ॥ संस्मृत्य मन्त्रं प्रजपन् क्षिप्रमुच्चाटयेदरीन् |
कारस्करद्रुसमिधामयुतं जुहुयात् सुधीः ॥ ३६ ॥ रोगिणः करिणः सर्वे जायन्ते ह्याचिरात् सदा |
विषवृक्षोत्थितैः पत्रैर्होमं नाशं प्रयान्ति च ॥ ३७ ॥ तद्वृक्षसुमनोभिः स्यादुच्चाटः करिणां ध्रुवम् |
राजवृक्षसमिद्भिर्वा रोगा नश्यन्ति दन्तिनाम् ॥ ३८ ॥ विषवृक्षप्रसूनैश्च त्रिमध्वक्तैस्तु मानवः (वारणः) |
वशीभवेत् तथा शीघ्रं पत्रैरानिल्यशोभितैः (काद्रवैः) |
त्रिस्वादुयुक्तैः करिणो ह्यतिमत्ता भवन्ति च |
अभ्यङ्गः पञ्चगव्येन लोके रक्षाकरः परः ॥ ४० ॥ करिणां मनुजप्तोऽयं प्रोक्तो मन्त्रविदुत्तमैः |
सर्पिस्तिलानिल्यकस्तु राजिकापञ्चगव्यकैः ॥ ४१ ॥ [Fußnoten:] १ ‘सदा’ क. ग. पाठः |
२ ‘आनिल्यको राजवृक्षः’ इत्यर्थः |
[Nummer 39 fehlt im Druck; der unnummerierte Vers ist vollständig aufgenommen. Lesungsunsicherheiten: Stoffwörter in Vers 17 und 29, Verb कर्तेर् in 27 und Verbindung आनिल्यशोभितैः im unnummerierten Vers.]

दुग्धतण्डुलकैश्चैव प्रत्येकं च सहस्रतः |
जुहुयादिभसङ्घानां वृद्धिर्भवति नान्यथा ॥ ४२ ॥ महान्तं विष(द्विज)वृक्षं च छित्त्वा निर्भिद्य पञ्चधा |
दिक्क्रमेणैव पञ्चैवमायुधानि प्रकल्पयेत् ॥ ४३ ॥ सम्यक् शिल्पविदा शङ्खो नन्दकश्चक्रशार्ङ्गकौ |
कौमोदकीति क्रमेण प्रोक्तमायुधपञ्चकम् ॥ ४४ ॥ निक्षिप्य पञ्चगव्ये तु जपेन्मन्त्रसहस्रकम् |
तावच्चाज्येन जुहुयात् संपातं तत्र पातयेत् ॥ ४५ ॥ भूयश्च पूर्वसंख्याकं जपं कुर्याद्विचक्षणः |
विदध्यादायुधान् पञ्च पञ्चगव्यप्रपूरितान् ॥ ४६ ॥ मध्यायुधे स्वा(मध्यावटेष्वा)युधानि निक्षिपेत्(तत्र तत्र च |
बलिं दत्त्वा समाहृत्य तन्मन्त्रमान्त्रभिमन्त्रणं तथा |
कार्या रक्षा राष्ट्रपुरग्रामाणामेवमेव च |
यत्रेयं विहिता रक्षा लक्ष्मीः) तत्र च वर्धते ॥ ४८ ॥ धनधान्यसमृद्धिः स्याद्रिपुचौरभयं न च |
पद्मैर्नृपं वशीकुर्यात् तत्पत्नीरुत्पलैरपि ॥ ४९ ॥ ब्राह्मणान् कुमुदैर्हुत्वा कह्लारैर्विश एव च |
शूद्राँल्लवणहोमेन ग्रामं जातिप्रसूनकैः ॥ ५० ॥ चक्रशङ्खगदाम्भोजहस्तं सञ्चिन्तयेच्छुभम् |
रविबिम्बे मुकुन्दं च मनुं व्यत्यस्तलिङ्गकम् ॥ ५१ ॥ प्रजपेच्चाथ पुरुषभगवत्पदयोरथ |
सर्वसिद्धिकरः प्रोक्तः प्रकारोऽयं सुमन्त्रिभिः ॥ ५२ ॥ साध्यनामाक्षरैः सम्यग्विदर्भितमनुं लिखेत् |
यन्त्रे(पत्रे) ततः कुलालस्य करलं प्रगृह्य मृतं ॥ ५३ ॥ तथा कृता या प्रतिमा तस्याश्च हृदि संन्यसेत् |
संस्थाप्य स्वाभिमुख्ये तां संपूज्य प्रजपेन्मनुम् ॥ ५४ ॥ संध्यात्रये शतं चाष्टाधिकं वश्यो भवेत्तु सः |
व्रीहीन् हुनेदष्टशतं प्रत्यहं वत्सराद्भवेत् ॥ ५५ ॥ व्रीहिमान् गोपयोभिश्च पशुमान् भवति ध्रुवम् |
घृतहोमान्मन्त्रिणः स्यात् काञ्चनाभिर्महीयसी ॥ ५६ ॥ दध्ना सर्वसमृद्धिः स्यादन्नैरन्नसमृद्धियुक् |
मधुहोमेन रत्नानां निधिर्भवति नान्यथा ॥ ५७ ॥ दूर्वाहोमेन दीर्घायुर्मन्त्री भवति निश्चितम् |
श्वेतगुञ्जाः समानीय कुडवप्रमिताः शुभाः ॥ ५८ ॥ एतन्मन्त्रसुजप्ताश्च विकिरेच्छत्रुसैन्यके |
स्वयं मन्त्री सुगुप्तः सन् तेनासौ वैरिणश्चमूः ॥ ५९ ॥ ज्वरादिकैर्महारोगैः पीडिता स्यान्मृताचिरात् |
सेनाधिपतिमुख्यानां परस्परविरोधतः ॥ ६० ॥ एतदुक्तेनैवाविश्वासं प्रयाति च |
[Lücke im Druck.] ॥ तारे शार्ङ्गं ससाध्यं लिखतु रविदले मध्यतः पत्रमूले मर्दिन्या वर्णयुग्मं दलमनु विलिखेद्वित्रिशो मूलवर्णान् |
अन्त्ये प्र(चा)न्त्येकबीजं बहिरथ लिपिभिर्भूपुरद्वन्द्वसंस्थं दुर्गाया यन्त्रमेतद्युवतितनयदं सर्वरक्षाकरं स्यात् ॥ ५९ ॥ सर्वसंपत्करं नृणां सर्वसौभाग्यपुष्टिदम् |
राज्यलक्ष्मीविहीनानां भूपतीनां च राज्यदम् ॥ ६० ॥ ग्रामयस्रस्तनृणां च रोगशान्तिकरं परम् |
ज्वराद्याज्वरसंपातमात्रेण वचमुत्तमम् ॥ ६१ ॥ प्रोक्तं च वनदुर्गायाः सर्वदं नात्र संशयः |
[Lücke im Druck.] ॥ इति |
अस्यार्थः— द्वादशदलपद्मं विरच्य तन्मध्ये तारं तस्योदरे शार्ङ्गं तदन्तः साध्यनाम च विलिख्य, [Fußnote:] १ ‘प्रगृह्य करलस्मृत’ इति ख. पाठः |
[Nummer 47 fehlt im Druck; Klammertext vor und in 48 bewahrt. Nach 60 beginnt eine zweite Reihe mit 59. Lesungsunsicherheiten: Töpfer-Stoffbezeichnung in 53, द्वित्रिशो in zweiter 59, erster und letzter Halbvers der zweiten 61.]

तत्केसरेषु महिषमर्दिन्यष्टाक्षरमन्त्रस्य त्रिरावृत्या प्रतिकेसरं वर्णद्वयं वर्णद्वयमालिख्य, मूलमन्त्रस्य वर्णान् प्रतिदले त्रिश आलिख्यान्तिमाक्षरमन्तिमदले विलिख्य पद्माद्बहिर्वृत्तद्वयं विरच्य तयोरन्तरालवीथ्यां प्रत्यङ्करं सबिन्दुकां मातृकां विलिख्य तद्बहिश्चतुरस्रद्वयसंपुटरूपेणाष्टकोणेन वेष्टयेत्, एतद्यन्त्रमुक्तफलदं भवेत् ॥ नारायणीये— ‘अत्रिरत्र समाख्यातस्तद्बीजं शिवसर्गवान्’ |
अत्रिः दकारः शिव उ सर्गो विसर्गः तेन दुः |
तद्बीजं तस्या दुर्गाया बीजम् |
(अस्य) कश्यप ऋषिः, गायत्री छन्दः, श्रीदुर्गा देवता, षड्दीर्घयुग्बीजेन षडङ्गानि बीजेन सविसर्गेण |
सर्वत्र अष्टकमलदले दूर्वाश्यामां त्रिनेत्रां शूलबाणचक्रशङ्खखड्गखेटधनुःकपालानि दक्षिणाधःकरक्रमेण धारयन्तीं ध्यायेत् |
लक्षजपे दशांशहोमः पूजादिकं वनदुर्गावज्ज्ञेयम् |
अयं लक्षजपः कृतयुगपरः ॥ अथ स्तोत्रम्— यत्कर्मधर्मनिलयं प्रवदन्ति तज्ज्ञाः यज्ञादिपुण्यमखिलं सकलं त्वयैव |
त्वं चेतना यत इति प्रविचार्य चित्ते नित्यं त्वदीयचरणौ शरणं प्रपद्ये ॥ १ ॥ पाथोऽधिनाथतनयापतिरेष शेषपर्यङ्कलालितवपुः पुरुषः पुराणः |
त्वन्मोहपाशविवशो जगदम्ब सोऽपि व्याघूर्णमाननयनः शयनं चकार ॥ २ ॥ तत् कौतुकं जननि यस्य जनार्दनस्य कर्णप्रसूतमलजौ मधुकैटभाख्यौ |
तस्यापि यौ न भवतः सुलभौ निहन्तुं त्वन्मायया कवलितौ विलयं गतौ तौ ॥ ३ ॥ यन्माहिषं वपुरपूर्वबलोपपन्नं यन्नाकनायकपराक्रमजित्वरं च |
यल्लोकशोकजननव्रतबद्धहार्दं तल्लीलयैव दलितं गिरिजे भवत्या ॥ ४ ॥ यो धूम्रलोचन इति प्रथितः पृथिव्यां भस्मीबभूव स रणे तव हुङ्कृतेन |
सर्वासुरक्षयकरे गिरिराजकन्ये मन्ये स्वमन्युदहने कृत एष होमः ॥ ५ ॥ केषामपि त्रिदशनायकपूर्वकाणां हन्तुं न जातु सुलभाविति चण्डमुण्डौ |
तौ दुर्मदौ सपदि चाम्बरतुल्यमूर्ते मातस्तवासिकुलिशात् पतितौ विशीर्णौ ॥ ६ ॥ दौत्येन ते शिव इति प्रथितप्रभावो देवोऽपि दानवपतेः सदनं जगाम |
भूयोऽपि तस्य चरितं प्रथयांचकार सा त्वं प्रसीद शिवदूति विजृम्भितेन ॥ ७ ॥ चित्रं तदेतदमरैरपि ये न जेयाः शस्त्राभिघातपतिताद्रुधिरादपर्णे |
भूमौ बभूवुरमिताः प्रतिरक्तबीजास्तेऽपि त्वयैव गगने गिलिताः समस्ताः ॥ ८ ॥ आश्चर्यमेतदतुलं यदभूत् सुरारी त्रैलोक्यवैभवविलुण्ठनहृष्टपाणी |
शस्त्रैर्निहत्य भुवि शुम्भनिशुम्भसंज्ञौ नीतौ त्वया जननि तावपि नाकलोकम् ॥ ९ ॥ त्वत्तेजसि प्रलयकालहुताशनेऽस्मिंस्तस्मिन् प्रयान्ति विलयं भुवनानि सद्यः |
तस्मिन्निपत्य शलभा इव दानवेन्द्रा भस्मीभवन्ति हि भवानि किमत्र चित्रम् ॥ १० ॥ तत्किं गृणामि भवतीं भवतीव्रतापनिर्वापणप्रणयिनीं प्रणमज्जनेषु |
तत्किं गृणामि भवतीं भवतीव्रतापसंवर्द्धनप्रणयिनीं विपदि स्थितेषु ॥ ११ ॥ [Lesungsunsicherheiten: Vers 1 erste Verbindung; Vers 7 Bezug des Pronomens. Vers 11 liest in der zweiten Hälfte ausdrücklich संवर्द्धन, Vermehrung, im Gegensatz zu निर्वापण, Stillung, in der ersten Hälfte.]

वामे करे तदितरे च तथोपरिष्टात् पात्रं सुधारसयुतं वरमातुलुङ्गम् |
खेटं गदां च दधतीं भवतीं भवानि ध्यायन्ति येऽरुणनिभां कृतिनस्त एव ॥ १२ ॥ यद्वारणात् परमिदं यदि मानवस्ते बीजं स्मरेदनुदिनं दहनाधिरूढम् |
मायाङ्कितं तिलकितं तरुणेन्दुबिन्दुनादैरमन्दमिह राज्यमसौ भुनक्ति ॥ १३ ॥ आवाहनं यजनवर्णनमग्निहोत्रं कर्मार्पणं तव विसर्जनमत्र देवि |
मोहान्मया कृतमिदं सकलापराधं मातः क्षमस्व वरदे बहिरन्तरस्थे ॥ १४ ॥ अन्तः स्थिताप्यखिलजन्तुषु जन्तुरूपा विद्योतसे बहिरिवाखिलविश्वरूपा |
का भूरिशब्दरचना वचनाधिका सा दीनं जनं जननि मामव निष्प्रपञ्चम् ॥ १५ ॥ एतत् पठेदनुदिनं दनुजान्तकारि चण्डीचरित्रमतुलं भुवि यस्त्रिकालम् |
श्रीमान् सुखी स विजयी सुभगः कृती स्यात् त्यागी चिरन्तनवपुः कविचक्रवर्ती ॥ १६ ॥ श्रीसिद्धनाथापरनामधेयः श्रीशम्भुनाथो भुवनैकनाथः |
तस्य प्रसादात् सकलागमश्रीः पृथ्वीधरः स्तोत्रमिदं चकार ॥ १७ ॥ अथ नवार्णविधानोक्तमहालक्ष्मीपूजा लिख्यते |
तत्र प्रातःकृत्यादिमातृकान्यासान्तं विधाय मूलमन्त्रेण प्राणायामत्रयं कृत्वा, शिरसि ब्रह्मविष्णुरुद्रेभ्यो नमः |
मुखे गायत्र्युष्णिगनुष्टुप्छन्दोभ्यो नमः |
हृदि श्रीमहालक्ष्मीमहाकालीमहासरस्वतीदेवताभ्यो नमः |
गुह्ये परमशिवलिङ्गाय बीजाय नमः |
पादयोः कालीशिवदूतीप्रजापतिभ्यः शक्तिभ्यो नमः |
नाभौ ह्रीं कीलकाय नमः |
इति विन्यस्य मम सर्वाभीष्टसिद्धये जपे विनियोगः |
इति कृताञ्जलिरुक्त्वा ओं ऐं ह्रीं क्लीं हृदयाय नमः, एवं षडङ्गन्यासं विदध्यात् |
अत्रैकादशन्यासेषु मातृकान्यासः प्रथमः |
षडङ्गन्यासो द्वितीयः |
ततः— ओं ह्रीं ब्रह्माणी मे पूर्वं पातु |
[Wiederholungszeichen] महालक्ष्मीर्मे ईशान्यां पातु |
[Wiederholungszeichen] व्योमेश्वरी मे ऊर्ध्वं पातु |
[Wiederholungszeichen] सप्तद्वीपेश्वरी मे मध्यं पातु |
[Wiederholungszeichen] नागेश्वरी मेऽधः पातु |
इति तृतीयो न्यासः ॥ ततः— ओं ह्रीं मम पूर्वाङ्गं नन्दजा पातु नमः |
एवं [Wiederholungszeichen] दक्षिणाङ्गं रक्तदन्तिका०, [Wiederholungszeichen] पश्चिमाङ्गं शाकम्भरी०, [Wiederholungszeichen] वामाङ्गं दुर्गा०, [Wiederholungszeichen] मूर्धादिपादान्तं भीमा०, [Wiederholungszeichen] पादादिमूर्धान्तं भ्रामरी पातु नमः |
इति चतुर्थो न्यासः ॥ पादादिनाभिपर्यन्तं [Wiederholungszeichen] ब्रह्मा पातु नमः |
नाभेः कण्ठपर्यन्तं [Wiederholungszeichen] विष्णुः पातु नमः |
कण्ठाद्ब्रह्मरन्ध्रान्तं [Wiederholungszeichen] रुद्रः पातु नमः |
पादद्वये [Wiederholungszeichen] हंसः पातु नमः |
नेत्रयोः [Wiederholungszeichen] वृषभः पातु नमः |
सर्वाङ्गे [Wiederholungszeichen] गजाननः पातु नमः |
ब्रह्मरन्ध्रे [Wiederholungszeichen] हरिः पातु नमः |
मध्यदेहे [Wiederholungszeichen] महालक्ष्म्यै नमः |
मस्तके [Wiederholungszeichen] सरस्वत्यै नमः |
पादयोः [Wiederholungszeichen] महालक्ष्म्यै नमः |
करयोः [Wiederholungszeichen] सिंहाय नमः |
नेत्रयोः [Wiederholungszeichen] परमहंसाय नमः |
पादयोः [Wiederholungszeichen] महिषसहितप्रेताय नमः |
सर्वाङ्गे [Wiederholungszeichen] महेशाय नमः |
पुनः सर्वाङ्गे [Wiederholungszeichen] चण्डिकायै नमः |
इति षष्ठो न्यासः |
ततो ब्रह्मरन्ध्रे ओं ऐं नमः |
दक्षिणकर्णे ओं ह्रीं नमः |
वामकर्णे ओं क्लीं नमः |
दक्षिणनेत्रे ओं चां नमः |
वामनेत्रे ओं मुं नमः |
दक्षनासायां ओं ण्डां नमः |
वामनासायां ओं यैं नमः |
मुखे ओं विं नमः |
लिङ्गे ओं च्चैं नमः |
इति सप्तमो न्यासः ॥ ततो गुदे ओं ऐं नमः |
लिङ्गे ओं ह्रीं नमः |
मुखे ओं क्लीं नमः |
वामनासायां ओं चां नमः |
दक्षनासायां ओं मुं नमः |
वामनेत्रे ओं ण्डां नमः |
दक्षनेत्रे ओं यैं नमः |
वामकर्णे ओं विं नमः |
दक्षकर्णे ओं च्चैं नमः |
इत्यष्टमो न्यासः ॥ [Lesungsfragen: Vers 13 Eingang यद्वारणात्; einzelne Bīja-Vokalzeichen der Prosa sind eng gedruckt. Wiederholungszeichen stehen als solche im Druck; der fünfte Nyāsa ist nicht ausdrücklich durch eine eigene Schlussformel abgegrenzt.]

स्वपूर्वाङ्गे मूर्धादिपादान्तं मूलमन्त्रमुच्चार्य नमः |
एवं दक्षिणपार्श्वे, पृष्ठभागे, वामभागे, पुनर्वामे, पृष्ठे, दक्षभागे, पूर्वाङ्गे व्यापकत्वेन न्यसेत्, इति नवमो न्यासः ॥ ततो मूलमन्त्रमुच्चार्य हृदयाय नमः |
इत्येवं षडङ्गन्यासं कुर्यात् |
इति दशमो न्यासः ॥ ‘खड्गिनी शूलिनी घोरा’ इत्येकं श्लोकं कृष्णवर्णं ध्यात्वा सर्वाङ्गे व्यापकम् |
‘शूलेन पाहि नो देवि’ इत्यादि ‘रक्ष सर्वतः’ इत्यन्तं श्लोकचतुष्टयं बालार्कवर्णं ध्यायन् व्यापकम् |
‘सर्वस्वरूपे सर्वेशे’ इत्यादि ‘चण्डिके त्वां नता वयम्’ इत्यन्तं श्लोकपञ्चकं शुद्धस्फाटिकसङ्काशं ध्यायन् सर्वाङ्गे व्यापकं न्यसेत् |
इति एकादशो न्यासः ॥ अथ स्वहृदये वक्ष्यमाणं पूजापीठं विभाव्य तन्मध्ये मूलमन्त्रस्य बीजत्रयं ध्यात्वा मध्यबीजे श्रीमहालक्ष्मीं सर्वदेवशरीरतेजसोद्भूतां ध्यायेत्— सर्वदेवशरीरेभ्यो याविर्भूतामितप्रभा |
विचित्रवर्णा चित्रमाल्याम्बरविभूषणा ॥ १ ॥ चित्रानुलेपना कान्तिरूपसौभाग्यशालिनी |
अष्टादशभुजा पूज्या सा सहस्रभुजा सती ॥ २ ॥ आयुधान्यत्र वक्ष्यन्ते दक्षिणाधःकरक्रमात् |
अक्षमाला च कमलं बाणासी मुसलं गदा ॥ ३ ॥ चक्रं त्रिशूलं परशुः शङ्खो घण्टा च पाशकः |
शक्तिदण्डश्चर्म चापः पानपात्रं कमण्डलुः ॥ ४ ॥ अलङ्कृतभुजामेभिरायुधैः कमलासनाम् |
सर्वदेवमयीमीशां महालक्ष्मीमिमां नृप ॥ ५ ॥ पूजयन् सर्वदेवानां लोकानां च प्रभुर्भवेत् |
[Zweiter Halbvers fehlt im Druck.] ॥ इति महालक्ष्मीं ध्यात्वा प्रथमबीजे महाकालीं ध्यायेत् ॥ दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा |
विशालया राजमाना त्रिंशल्लोचनमालया ॥ १ ॥ स्फुरद्दशनदंष्ट्रा सा भीमरूपा बभूव नृप |
रूपसौभाग्यकान्तीनां सा प्रतिष्ठा महाश्रियाम् ॥ २ ॥ खड्गबाणगदाशूलचक्रपाशभुशुण्डिभृत् |
परिघं कार्मुकं शीर्षं निश्च्योतद्रुधिरं दधौ ॥ ३ ॥ एषा सा वैष्णवी माया कालरात्रिर्दुरत्यया |
आराधिता वशीकुर्यात् पूजाकर्तुश्चराचरम् ॥ ४ ॥ इति महाकालीं ध्यात्वा महालक्ष्म्या वामभागे सरस्वतीं तृतीयबीजे ध्यायेत्— गौरीदेहात् समुद्भूता या सत्त्वैकगुणान्विता |
साक्षात् सरस्वती प्रोक्ता शुम्भासुरनिबर्हिणी ॥ १ ॥ दधानाष्टभुजा बाणान् मुसलं चक्रशूलभृत् |
शङ्खं च लाङ्गलं घण्टां कार्मुकं वसुधाधिप ॥ २ ॥ एषा संपूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति |
[Zweiter Halbvers fehlt im Druck.] ॥ इति महासरस्वतीं च ध्यात्वा वक्ष्यमाणपीठपूजापुरःसरं महालक्ष्मीं साङ्गां सावरणां मानसोपचारैः स्वमूलाधारे आत्मादिचतुष्टयरूपं चतुरस्रं कुण्डाल्यग्निदीप्तसमुज्ज्वलं ध्यात्वा, मूलमन्त्रमुच्चार्य ‘अहन्तां जुहोमि स्वाहा’ पुनर्मूलमुच्चार्य ‘असत्यं जुहोमि स्वाहा’ इत्येवम् अहन्तापैशुन्यकामक्रोधलोभमोहमदमात्सर्यादीनि सुषुम्णास्रुक्युक्तमनःस्रुवेण पृथक् पृथग् हुत्वा, निर्दग्धनिखिलवैरिगणः स्थिरचित्तो मूलमन्त्रं यथाशक्ति जपित्वा जपं समर्प्य बाह्यपूजां समारभेत् ॥ तत्र स्वर्णादिपीठे कुङ्कुमादिना षट्कोणं तद्बहिर्वृत्तं तत्सलग्नं सकेसरमष्टदलं तद्बहिर्वृत्तं तद्बहिश्चतुर्द्वारयुतं चतुरस्रत्रयं रचयेत्, इति पूजाचक्रं निर्माय, षट्कोणमध्ये वाग्भवमायाकामराजबीजत्रयं पङ्क्त्याकारेण विलिख्य स्वाग्रादिषट्कोणेषु प्रादक्षिण्येन च अकारादिबीजषट्कं विलिखेत् |
ततोऽर्घ्यादिपात्राण्यासाद्य पूजोपकरणानि संप्रोक्ष्य ‘ओं ह्रीं हंसः सोहं स्वाहा’ इति मन्त्रेण स्वशरीरं गन्धादिभिरलङ्कृत्य, स्वात्मानं देवीरूपं विभाव्य प्राग्वत् मूलाधारे चतुरस्रं कुण्डालिरू— [Fortsetzung auf Folgeseite. Fußnote:] १ ‘पूर्वभागे’ ग. पाठः |
[Lesungsunsicherheiten: Feuer-/Kuṇḍa-Verbindung in der Prosa zum inneren Homa.]

पमग्निं संचिन्त्य, मूले० धर्माधर्महविर्दीप्त आत्माग्नौ मनसा स्रुचा |
सुषुम्णावर्त्मना नित्यमक्षवृत्तिं जुहोम्यहं स्वाहा ॥ एवं पापं जुहोमि स्वाहा, इत्थं पुण्यपापकृत्याकृत्यसङ्कल्पविकल्पधर्मान् हुत्वा, पुनर्मूले० प्रकाशामर्शहस्ताभ्यामवलम्ब्योन्मनीस्रुचम् |
धर्माधर्मकलास्नेहपूर्णौ वह्नौ जुहोम्यहम् ॥ अधर्मं जुहोमि स्वाहा, इति पूर्णाहुतिं हुत्वा देवीरूपमात्मानं ध्यात्वा मूलमन्त्रं यथाशक्ति जपित्वा जपं समर्प्य, पूजापीठमर्घ्योदकेनाभ्युक्ष्य, षट्कोणे ओंकारपीठाय नमः |
अष्टदले ओं पूर्णगिरिपीठाय नमः |
चतुरस्रे— ओं कामपीठाय नमः |
इति संपूज्य, पीठाद्बहिश्चतुर्दिक्षु ओं गं गणेशाय नमः, ओं क्षें क्षेत्रपालाय नमः, ओं दुं दुर्गायै नमः, ओं बं बटुकाय नमः, इति संपूज्याग्नेयादिकोणेषु ओं जं जयायै नमः, ओं विं विजयायै०, ओं जं जयन्त्यै०, ओं अं अपराजितायै नमः |
पद्मनालमूले आं आधारशक्तये नमः, कूं कूर्माय नमः, शें शेषाय०, पृं पृथिव्यै०, नां नालाय०, पं पद्माय०, इति संपूज्याष्टदलकर्णिकायां षट्कोणाद्बहिः ओं विं विष्णुमायायै नमः, एवं चें चेतनायै०, बुं बुद्ध्यै०, निं निद्रायै०, क्षुं क्षुधायै०, इति पञ्चशक्तीः संपूज्य, दक्षिणदिशि ओं छां छायायै नमः, शं शक्त्यै०, तृं तृष्णायै०, क्षां क्षान्त्यै०, जां जात्यै०, लं लज्जायै०, इति शक्तिषट्कं संपूज्य, पश्चिमदिशि ओं शां शान्त्यै नमः, श्रं श्रद्धायै०, कां कान्त्यै०, लं लक्ष्म्यै०, धृं धृत्यै०, वृं वृत्त्यै०, इति शक्तिषट्कं संपूज्य, उत्तरदिशि ओं स्मृं स्मृत्यै नमः, दं दयायै०, तुं तुष्ट्यै०, पुं पुष्ट्यै०, मां मात्रे०, आं भ्रान्त्यै०, इति शक्तिषट्कं संपूजयेदिति प्रादक्षिण्येन त्रयोविंशतिदेवताः संपूज्य, मध्यबीजे मूले० ‘श्रीमहालक्ष्म्या मूर्तये नमः’ इति मूर्तिं संपूज्य, कराभ्यां पुष्पाञ्जलिमादाय हृदयकमले यथोक्तरूपां साङ्गां सावरणां महालक्ष्मीं ध्यात्वा, तत्तेजोरूपतामादाय सुषुम्णावर्त्मना ब्रह्मरन्ध्रे नीत्वा प्रवहन्नासारन्ध्रेण पुष्पाञ्जलौ संयोज्य मूलेन तत्तेजः समानीय, ध्यायामि मनसा दुर्गां नाभिमध्ये व्यवस्थिताम् |
आवाहयेत् ततो दुर्गां संसारभयतारिणीम् ॥ १ ॥ कल्याणजननीं सत्यां कामदां करुणाकराम् |
अनन्तशक्तिसंपन्नां दुर्गामावाहयाम्यहम् ॥ २ ॥ महापद्मवनान्तःस्थे कारणानन्दविग्रहे |
सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥ ३ ॥ इति पुष्पाञ्जलिक्षेपेणावाह्य, आवाहनादिनवमुद्राः प्रदर्श्य, देवेशि भक्तिसुलभे सर्वावरणसंयुते |
यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरा भव ॥ ४ ॥ इति प्रार्थ्य, ओं दुर्गे देवि सुरेशानि ज्ञानमार्गप्रदे शिवे |
आसनं मम भूत्यर्थं गृहाण त्वं सुरेश्वरि ॥ ५ ॥ इत्यासनम् |
ओं स्वागतं कुशलं पृच्छे महादेवि महेश्वरि |
सुखागतं त्वया भद्रे कृपया भक्तवत्सले ॥ ६ ॥ इति स्वागतम् |
जगत्पूज्ये त्रिलोकेशि दैत्यदानवभञ्जनि |
अष्टाङ्गार्घ्यं गृहाण त्वं देवि विश्वार्तिहारिणि ॥ ७ ॥ इत्यर्घ्यम् |
कात्यायनि महादुर्गे चामुण्डे शङ्करप्रिये |
पाद्यं गृहाण देवेशि भद्रकालि नमोऽस्तु ते ॥ ८ ॥ इति पाद्यम् |
सर्वलोकस्य या माता या माता लोकपावनी |
ददाम्याचमनं तस्यै महालक्ष्म्यै प्रयत्नतः ॥ ९ ॥ [Lesungsunsicherheiten: zweite unnummerierte Homa-Strophe, besonders पूर्णौ; einzelne Bīja-Zeichen, darunter das vor भ्रान्त्यै als आं gelesene Zeichen. Die Schlussgottheit der Liste ist भ्रान्ति, nicht आनन्द.]

इत्याचमनीयम् |
कपिलादधि कुन्देन्दुधवलं मधुसंयुतम् |
स्वर्णपात्रस्थितं देवि मधुपर्कं गृहाण मे ॥ १० ॥ इति मधुपर्कम् |
कर्पूरवासितं वारि निर्मलं शुद्धिहेतुकम् |
गृहाण परमेशानि पुनराचमनीयकम् ॥ ११ ॥ इति पुनराचमनीयम् |
ज्ञानमूर्ते भद्रकालि दिव्यमूर्ते सुरेश्वरि |
स्नानं गृहाण देवेशि तीर्थोदकविभूषितम् ॥ १२ ॥ इति स्नानम् |
वस्त्रं स्वच्छं महार्हं वै पट्टसूत्रविनिर्मितम् |
गृहाण सुभगे देवि मे दुकूलं सुरार्चिते ॥ १३ ॥ इति वस्त्रम् |
सुरासुरशिरोरत्ननिघृष्टचरणाम्बुजे |
अलङ्कारान् गृहाण त्वं नानारत्नविभूषितान् ॥ १४ ॥ इति अलङ्कारः |
श्रीखण्डागुरुकर्पूररोचनानाभिसंयुतम् |
गृहाण गन्धं मे देवि सर्वकामफलप्रदे ॥ १५ ॥ इति चन्दनम् |
नानापुष्पविचित्राढ्यां पुष्पमालां सुशोभिताम् |
प्रयच्छामि महादेवि गृहाण त्वं सुरेश्वरि ॥ १६ ॥ इति पुष्पाणि |
इति पुष्पान्तानुपचारानुपचर्य, श्रीभगवति परिवारपूजार्थमनुज्ञां देहि इति प्रार्थ्य, मध्ये प्रथमबीजे ओं महासरस्वत्यै नमः |
तृतीयबीजे ओं महाकाल्यै नमः |
महालक्ष्म्याः पृष्ठे ब्रह्मसरस्वतीभ्यां नमः |
महासरस्वतीपृष्ठे रुद्रगौरीभ्यां नमः |
महाकाल्याः पृष्ठे हृषीकेशलक्ष्मीभ्यां नमः |
महालक्ष्म्या वामाग्रे मं महिषासुराय नमः |
दक्षाग्रे सिं सिंहाय नमः, इति संपूज्य षट्कोणेषु पूर्वादि ओं नन्दायै नमः |
ओं रक्तदन्तिकायै०, ओं शाकम्भर्यै०, ओं दुर्गायै०, ओं भीमायै०, ओं भ्रामर्यै नमः इति संपूज्य, षट्कोणाद्बहिः कर्णिकायामेव षडङ्गानि संपूज्य, अष्टदलेषु ब्राह्म्याद्यष्टमातृकाः संपूज्य, चतुरस्रप्रथमवीथ्यामिन्द्रादीन्, द्वितीयवीथ्यां वज्रादीन् संपूज्य, मूले० साङ्गायै सपरिवारायै श्रीमहालक्ष्म्यै नमः इति पुष्पाञ्जलीन् दद्यात् |
गुग्गुलं घृतसंयुक्तमगुर्वादिसमाहितम् |
दशाङ्गं गृहाण धूपं भद्रकालि नमोऽस्तु ते ॥ १७ ॥ इति धूपम् |
रक्तसूत्रलसद्वर्तिं गोघृतेन च पूरितम् |
दीपं गृहाण देवेशि नमस्त्रैलोक्यसुन्दरि ॥ १८ ॥ इति दीपम् |
दिव्यान्नं रससंपुष्टं नानाभक्ष्यैस्तु संस्कृतम् |
चोष्यपेयसमायुक्तमन्नं देवि गृहाण मे ॥ १९ ॥ इति नैवेद्यम् |
इति नैवेद्यं समर्प्य देवीं भुञ्जानां भावयेत् मूलं दशवारं जपित्वा यद्दैविकं देव्यै निवेद्य, स्मार्ताग्नौ मूलेन पञ्चविंशत्याहुतीर्हुत्वा षडङ्गमन्त्रैः षडाहुतीः, आवरणदेवतानामेकैकामाहुतिं हुत्वा पूजास्थानमागत्य, स्ववामाग्रे त्रिकोणमण्डलेऽन्नव्यञ्जनयुतं साधारबलिपात्रं निधाय ‘ओं ह्रीं सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यो हुं फट्’ सर्वभूतेभ्य एष बलिर्नमः |
इति मन्त्रेण बलिमुत्सृज्य, देव्यै उत्तरापोशनादिकं दत्त्वा, ततः गृहाण देवि ताम्बूलं कर्पूरेण सुवासितम् |
पूगीफलसमायुक्तं सचूर्णं मुखमण्डनम् ॥ २० ॥ [Lesungshinweise: Die Zuordnung von Mahāsarasvatī und Mahākālī zum ersten beziehungsweise dritten Bīja ist gegenüber Seite 187 vertauscht; keine stille Angleichung. Das Wort vor देव्यै निवेद्य ist als यद्दैविकं gelesen, bleibt aber unsicher.]

इति ताम्बूलम् |
मङ्गले कालिके दुर्गे महिषासुरसूदनि |
नीराजनं मया दत्तं गृहाण सुरसुन्दरि ॥ २१ ॥ इति नीराजनम् |
दुर्गे देवि नमस्तुभ्यं सकलासुरनाशिनि |
पुष्पाञ्जलिं गृहाण त्वं मया दत्तं सुरार्चिते ॥ २२ ॥ इति पुष्पाञ्जलिः |
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके |
शरण्ये त्र्यम्बके दुर्गे कात्यायनि नमोऽस्तु ते ॥ २३ ॥ इति नमस्कारः |
मया जन्मसहस्रेषु अर्जितं पापसञ्चयम् |
तत्सर्वं नाशय क्षिप्रं प्रदक्षिणपदे पदे ॥ २४ ॥ इति प्रदक्षिणम् |
पूजायाः सद्गुणार्थं तु दक्षिणा दीयते मया |
तां गृहाण महेशानि पूजां मे सफलां कुरु ॥ २५ ॥ इति हिरण्यम् |
भगवति महामाये चामुण्डे पापहारिणि |
यशो देहि धनं देहि तव भक्तिं च देहि मे ॥ २६ ॥ इति प्रार्थना |
ततो मूलमन्त्रं यथाशक्ति जपित्वा जपं समर्प्य सप्तशतीपाठं कुर्यात् ॥ तत्र अद्येत्यादिसङ्कल्पं कृत्वा प्रथमचरित्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, महाकाली देवता, रक्तदन्तिका बीजं, नन्दा शक्तिः, अग्निस्तत्त्वं प्रथमचरित्रजपे विनियोगः |
मध्यमचरित्रस्य विष्णुऋषिः, पङ्क्तिश्छन्दः, महालक्ष्मीर्देवता, दुर्गा बीजं, शाकम्भरी शक्तिः, वायुस्तत्त्वं मध्यमचरित्रजपे विनियोगः |
उत्तमचरित्रस्य रुद्र ऋषिः, अनुष्टुप् छन्दः, महासरस्वती देवता, भ्रामरी बीजं, भीमा शक्तिः, सूर्यस्तत्त्वं उत्तमचरित्रजपे विनियोगः, इति विन्यस्य पठेत् ॥ पूजायन्त्रस्य चतुरस्राद्बहिः प्राच्यां [Wiederholungszeichen] उड्ड्याणपीठाय नमः, मुण्डेश्वरनाथाय नमः, मुण्डाम्बापादुकां पूजयामि नमः |
एवं आग्नेये [Wiederholungszeichen] मातृकापीठाय०, मातृकाचक्रेश्वरनाथाय०, मातृकाम्बापा० |
दक्षिणे [Wiederholungszeichen] जालन्धरपीठाय०, ज्वालामुखनाथाय०, ज्वालाम्बापा० |
नैर्ऋत्ये [Wiederholungszeichen] कोलापुरपीठाय०, कोलापुरेश्वरनाथाय०, कोलाम्बापा० |
पश्चिमे [Wiederholungszeichen] पूर्णगिरिपीठाय नमः, पूर्णेश्वरनाथाय०, पूर्णाम्बापा० |
वायव्ये [Wiederholungszeichen] चौहारपीठाय०, चौहारनाथाय०, चौहाराम्बापा० |
उत्तरे [Wiederholungszeichen] कोलगिरिपीठाय०, कोलनाथाय०, कोलाम्बापा० |
ऐशान्यां [Wiederholungszeichen] कामरूपपीठाय०, कामरूपनाथाय०, कामाम्बापा० |
मध्ये [Wiederholungszeichen] योगिनीपीठाय नमः |
तत आग्नेयादिकोणेषु वेतालान् पूजयेत् अग्निमुखाय नमः, प्रेतवाहनाय० ज्वालामुखाय नमः, धूम्राक्षाय नमः |
ततो मध्ये षट्कोणेषु गुरुभ्यो नमः, परमगुरुभ्यो०, परमेष्ठिगुरुभ्यो०, गणेशाय०, हरये०, हराय नमः |
ततो मध्ये देवीपृष्ठभागे महालक्ष्मीहृषीकेशाभ्यां नमः, सरस्वतीविरिञ्चिभ्यां०, उमामहेश्वराभ्यां० |
दक्षिणे कालाय०, रुद्राय०, महासिंहाय० |
वामे मृत्यवे०, मध्ये विजयाय०, गणपाय०, महिषाय०, चण्डिकायै०, |
उत्तरे कालाय०, दक्षिणे यमाय नमः |
इति संपूज्य योनिमुद्रां प्रदर्शयेत् ॥ अथ जातवेदसादिमन्त्राः— ब्राह्मे मुहूर्त उत्थाय पूर्वोक्तवद्गुरुध्यानाजपास्नानसंध्याभूतशुद्ध्यादिमातृकान्यासान्तं विधाय, मूलमन्त्रेण प्राणायामत्रयं कृत्वा मन्त्रन्यासान् कुर्यात् ॥ अस्य श्रीजातवेदसेमहामन्त्रस्य मरीचिकश्यप ऋषिः, त्रिष्टुप् छन्दः, जातवेदसेऽग्निस्वरूपिणी दुर्गा देवता ममाभीष्टसिद्ध्यर्थे विनियोगः |
मरीचिकश्यपऋषये नमः शिरसि, त्रिष्टुप्छन्दसे नमो मुखे, जातवेदसेऽग्निस्व— [Fortsetzung auf Folgeseite. Lesungsfragen: Namen मुण्डेश्वर/मुण्डाम्बा sowie चौहार im Pīṭha-Verzeichnis; der Sehername मरीचिकश्यप steht als Verbindung im Druck.]

रूपिणीदुर्गादेवतायै नमो हृदि, ममाभीष्टसिद्ध्यर्थं विनियोगाय नमः सर्वाङ्गेषु |
जातवेदसे हृदयाय नमः |
सुनवाम सोममरातीयतो शिरसे स्वाहा, निदहाति वेदः शिखायै वषट्, स नः पर्षदति कवचाय हुं, दुर्गाणि विश्वा नावेव नेत्रत्रयाय वौषट्, सिन्धुं दुरितात्यग्निः अस्त्राय फट् |
एवमङ्गुलीन्यासः ॥ ओं जां नमो दक्षपादाङ्गुष्ठे |
ओं तं नमो वामे |
ओं वें नमो दक्षगुल्फे |
ओं दं नमो वामे |
ओं सें नमो दक्षजङ्घायां |
ओं सुं नमो वामायां |
ओं नं नमो दक्षजानुनि |
ओं वां नमो वामे |
ओं मं नमो दक्षोर्वो |
ओं सों नमो वामे |
ओं मं नमो दक्षकक्ष्यां |
ओं अरां नमो वामायां |
ओं तीं नमो अन्धुनि |
ओं यं नमो नाभौ |
ओं तों नमो हृदि |
ओं निं नमो दक्षस्तने |
ओं दं नमो वामस्तने |
ओं हां नमो दक्षपार्श्वे |
ओं तिं नमो वामपार्श्वे |
ओं वें नमो पृष्ठे |
ओं दः नमो दक्षस्कन्धे |
ओं सं नमो वामे |
ओं नः नमो मध्ये |
ओं पं दक्षबाहुमूले |
ओं रं नमो वामे |
ओं षं नमो दक्षोपबाहौ |
ओं दं नमो वामे |
ओं तिं नमो दक्षकूर्परे |
ओं दुं नमो वामे |
ओं र्गां नमो दक्षप्रकोष्ठे |
ओं णिं नमो वामे |
ओं विं नमो दक्षमणिबन्धादितलान्ते |
ओं श्वां नमो वामे |
ओं नां नमो मुखे |
ओं वें नमो दक्षनासिकायां |
ओं वं नमो वामायां |
ओं सिं नमो दक्षनेत्रे |
ओं न्धुं नमो वामे |
ओं दुं नमो दक्षकर्णे |
ओं रिं नमो वामे |
ओं तां नमो ललाटे |
ओं त्यं नमो मस्तिष्के |
ओं ग्निः नमो मूर्ध्नि |
इत्यक्षरन्यासः ॥ जात शिखायां |
वेदसे ललाटे |
सुनवाम कर्णयोः |
सोमं नासिकायां |
अराती चक्षुषोः |
यत ओष्ठयोः |
नि दन्तेषु |
दहाति तालुनि |
वेदः जिह्वायां |
स ग्रीवायां |
नः बाह्वोः |
पर्षत् स्तनयोः |
अति हृदये |
दुः कुक्षौ |
गाणि नाभौ |
विश्वा पृष्ठे |
नावा पायौ |
इव वृषणयोः |
सिन्धुं शिश्ने |
दुः कक्ष्योः |
इता ऊर्वोः |
अति जङ्घयोः |
अग्निः पादयोः |
अग्नी रक्ततु |
इति पदन्यासे सृष्टिः ॥ ततः समग्रमन्त्रेण व्यापकं विन्यस्य, जातवेदसे पादयोः |
सुनवाम अङ्गुलीषु |
सोमं जानुनोः |
अरातीयतो ऊर्वोः |
नि गुदे |
दहाति कक्ष्योः |
वेदः नाभौ |
स हृदये, नः पृष्ठे |
पर्षत् बाह्वोः |
अति कण्ठे |
दुर्गाणि वक्त्रे |
विश्वा चक्षुषोः |
नावेव नासिकयोः |
सिन्धुं कर्णयोः |
दुरिता ललाटे |
अति मुकुटे |
अग्निः मूर्ध्नि ॥ पादयोः विष्णवे नमः |
हृदि ब्रह्मणे नमः |
मूर्ध्नि परमात्मने नमः |
शिखायां सप्तऋषिभ्यो नमः |
नासिकायां सप्तवायुभ्यो नमः |
चक्षुषोः शशिभास्कराभ्यां नमः |
श्रोत्रयोः अश्विनीयदेवाभ्यां नमः |
जिह्वायां सरस्वत्यै नमः |
वाचि अग्नये नमः, दन्तेषु मरुद्भ्यो नमः |
कण्ठे देवेभ्यो नमः |
हृदि वरुणाय नमः |
उदरे हव्यवाहनाय नमः |
कुक्षौ पृथिव्यै नमः |
कक्ष्यां नवग्रहेभ्यो नमः |
नाभौ मेरवे नमः |
अस्त्रे जातवेदसे नमः |
शिखायां आज्यस्थाल्यै नमः |
शिरसि आज्याय नमः |
नेत्रयोः ज्योतिषे नमः |
कवचे बर्हिषे नमः ॥ उद्यन्तः शक्तिः ज्वलन्तः प्रहरणं बद्धगोधाङ्गुलित्राणं, यस्याः सिंहो रथे युक्तो व्याघ्रा यस्यानुगामिनः |
तामिमां रुद्रसंयुक्तां दुर्गामावाहयाम्यहम् ॥ आयातु दुर्गा दुर्गरूपा अभयं मे ददातु तां दुर्गां कुमारीमृषिभिश्च पूजितां शरणमहं प्रपद्ये, ओं दुर्गायै नमः, ओं याम्यै०, ओं रौद्र्यै०, ओं आदित्यायै०, ओं कात्यायन्यै०, ओं गौर्यै०, ओं धात्र्यै०, ओं शान्त्यै०, ओं चामुण्डायै०, ओं सरस्वत्यै, इति नवशक्तियुक्तां, शङ्खं खेटं तथा बाणान् वामे चाभयदायिनीम् |
धनुश्चक्रं तथा पात्रं दक्षिणे सुवरप्रदम् ॥ चक्रखड्गशराञ्छूलं लोहमृष्टिं च तोमरम् |
वलयं भिण्डिपालं च दधानां चोत्तरे भजे ॥ परिघं चाङ्कुशं चैव धारयन्तीं त्रिलोचनाम् |
सिध्यन्ति सर्वकार्याणि निश्चितं हि द्विजोत्तम ॥ [Lesungsfragen: einzelne Nasal-/Vokalzeichen im Akṣaranyāsa, अन्धुनि als Körperbezeichnung, Schluss ‘अग्नी रक्ततु’ des ersten Padanyāsa, unvollständige Wortgruppe उद्यन्तः शक्तिः usw., Waffenwort लोहमृष्टिं.]

ऋग्वेदे संस्तुता देवी कश्यपेन प्रकीर्तिता |
जातवेदःप्रभां देवीं भुक्तिमुक्तिविधायिनीम् ॥ मेरुपर्वतकुम्भां व्याघ्रानुसारिणीं सिंहचतुर्मुखवाहिनीमष्टादशभुजां शुक्लवस्त्रां शुक्लवासिनीं सर्वाभरणभूषितां जातवेदसदेवीं ध्यात्वा मानसैरुपचारैः संपूज्य, तदेव देवीस्वरूपं स्वात्मानमित्यभेदभावनां कृत्वा रक्षाषडङ्गं कुर्यात् |
ओं हरहारिणि मालिनि शूलिनि दुष्टग्रहनिवारिण्यां स्वाहा हृदयाय नमः |
अग्नितेजोज्वालामालिनि शिरसे स्वाहा |
चन्द्रतेजोज्वालामालिनि शिखायै वषट् |
ब्रह्मतेजोज्वालामालिनि कवचाय हुं |
आदित्यतेजोज्वालामालिनि नेत्रत्रयाय वौषट् |
विष्णुतेजोज्वालामालिनि सर्वतेजोज्वालामालिनि ज्वलज्वालामालिनि शूलिनि दुष्टग्रहनिवारिणि देवि दह जातवेदससंभूते स्वाहा अस्त्राय फट् |
इति षडङ्गं कृत्वा, ‘ओं जातवेदसे सुनवाम सोमं सुरासुरैर्द्विजगजैः पिशाचोरगराक्षसैः रात्रौ भये समुत्पन्ने अरातीयतो निदहाति वेदः राजद्वारे भये घोरे संग्रामे शत्रुसङ्कटे सर्वं रक्षति दुरितं स नः पर्षदति दुर्गाणि विश्वा महद्भये समुत्पन्ने स्मरन्ति च पठन्ति सर्वं तरति दुर्गा नावेव सिन्धुं दुरितात्यग्निः’ इति पठन् स्वात्मानं स्वप्रकाशचिदानन्दमग्रे देवतामयं ध्यात्वा मूलषडङ्गं कुर्यात् |
ओं जातवेदसे सुनवाम हलाहलिनि ज्वलज्वालामालिनि बद्धगोधाङ्गुलित्राणिनि हृदयाय नमः |
सोममरातीयतो हलाहलिनि ज्वलज्वालामालिनि बद्धगोधाङ्गुलित्राणिनि शिरसे स्वाहा |
निदहाति वेदः हलाहलिनि ज्वलज्वालामालिनि बद्धगोधाङ्गुलित्राणिनि शिखायै वषट् |
स नः पर्षदति हलाहलिनि ज्वलज्वालामालिनि बद्धगोधाङ्गुलित्राणिनि कवचाय हुं |
दुर्गाणि विश्वा नावेव हलाहलिनि ज्वलज्वालामालिनि बद्धगोधाङ्गुलित्राणिनि नेत्रत्रयाय वौषट् |
सिन्धुं दुरितात्यग्निः हलाहलिनि ज्वलज्वालामालिनि बद्धगोधाङ्गुलित्राणिनि अस्त्राय फट् |
इति षडङ्गं कृत्वा मन्त्रेण सर्वाङ्गं व्याप्य, स्ववामभागे कलशस्थापनं कृत्वा, स्वदक्षिणभागे शङ्खं संस्थाप्य मध्येऽर्घ्यादिपञ्चपात्राणि संस्थाप्य, देवीसूक्तेन देवीमभिषिच्य पीठपूजां कुर्यात् |
ओं कालाग्निरुद्राय नमः |
मण्डूकाय०, आधारशक्तये०, कूर्माय०, अनन्ताय०, वराहाय०, पृथिव्यै० |
एवमुपर्युपरि संपूज्य, क्षीरसमुद्राय नमः, श्वेतद्वीपाय०, कल्पवृक्षाय नमः, रत्नवेदिकायै नमः |
रत्नसिंहासनाय नमः |
आग्नेयादि धर्माय०, ज्ञानाय०, वैराग्याय०, ऐश्वर्याय०, एते पादरूपिणः ॥ अधर्माय०, अज्ञानाय०, अवैराग्याय०, अनैश्वर्याय०, एते सिंहासनगात्ररूपिणः, इति संपूज्य, तदुपरि ह्रीं मायायै०, ह्रीं चिच्छक्त्यै० |
तदुपरि आनन्दकन्दाय०, संविन्नालाय०, प्रकृतिमयपत्रेभ्यो०, विकारमयकेसरेभ्यो०, पञ्चाशद्वर्णबीजाढ्यसर्वतत्त्वरूपायै कर्णिकायै० |
तदधः अं अर्कमण्डलाय०, सं सोममण्डलाय०, रं वह्निमण्डलाय०, सं सत्त्वाय०, रं रजसे०, तं तमसे०, अं अन्तरात्मने०, आं आत्मने०, पं परमात्मने०, ह्रीं ज्ञानात्मने०, आत्मतत्त्वाय०, मायातत्त्वाय०, विद्यातत्त्वाय०, कलातत्त्वाय०, मध्ये परमतत्त्वाय०, इति संपूज्य केसरेषु पूर्वाद्यष्टदिक्षु मध्ये च पीठशक्तीः प्रपूजयेत् |
ह्रीं जं जयायै०, ह्रीं विं विजयायै०, ह्रीं भं भद्रायै०, ह्रीं भं भद्रकाल्यै०, ह्रीं सुं सुमुख्यै०, ह्रीं दुं दुर्मुख्यै०, ह्रीं व्यां व्याघ्रमुख्यै०, ह्रीं सिं सिंहमुख्यै०, मध्ये— ह्रीं दुं दुर्गायै०, इति संपूज्य ‘ओं वज्रनखदंष्ट्रायुधाय महासिंहाय हुं फट् नमः’ इति पीठं संपूज्य, तदुपरि मूलमन्त्रमुच्चरन् देवीयन्त्रं संस्थाप्यावाहनं कुर्यात् |
यस्याः सिंहो रथे युक्तो व्याघ्रा यस्यानुगामिनः |
तामिमां रुद्रसंयुक्तां दुर्गामावाहयाम्यहम् ॥ इत्यावाह्य आवाहिता भव, आस्थापिता भव, सन्निरोधिता भव, संमुखी कृता भव, अवगुण्ठिता भव, सकलीकृता भव, परमीकृता भव, अमृतीकृता भव, इत्युच्चरन् तत्तन्मुद्राः प्रदर्शयेत् ॥ ध्यानम्— [Lesungsfragen: मेरुपर्वतकुम्भां und सिंहचतुर्मुखवाहिनीम्; ungewöhnliche Endung निवारिण्यां; einzelne eingeschobene Wörter der Schutzfassung des Jātavedas-Verses, besonders द्विजगजैः. Kein stilles Ersetzen durch eine geläufige andere Fassung.]

विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् |
हस्तैश्चक्रगदासिखेटविशिखं चापं गुणं तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां स्मरेत् ॥ इति ध्यात्वा, मूलमन्त्रेण अर्घ्यपाद्याचमनीयमधुपर्कादिषोडशोपचारपूजां कृत्वा आवरणपूजामारभेत् |
यथा |
आग्नेयकोणे जातवेदसे सुनवाम हृदयाय नमः |
ईशानकोणे सोममरातीयतः शिरसे स्वाहा |
नैर्ऋत्ये निदहाति वेदः शिखायै वषट् |
वायव्ये स नः पर्षदति कवचाय हुं |
मध्ये दुर्गाणि विश्वा नावेव नेत्रत्रयाय वौषट् |
पूर्वादिचतुर्दिक्षु सिन्धुं दुरितात्यग्निः अस्त्राय फट् |
इति षडङ्गपूजा प्रथमावरणम् ॥ ततोऽष्टदलेषु पूर्वादिप्रादक्षिण्येन जातवेदसे नमः, सप्तजिह्वाय नमः, हव्यवाहनाय०, अश्वोदरजाय०, वैश्वानराय०, कौमारतेजसे०, विश्वमुखाय०, देवमुखाय नमः |
इति द्वितीयावरणम् ॥ ततः पत्राग्रेषु पूर्वादिचतुर्दिक्षु ओं पृथिव्यात्मने०, सलिलात्मने०, अग्न्यात्मने०, वाय्वात्मने० |
आग्नेयादिकोणेषु निवृत्त्यै०, प्रतिष्ठायै०, विद्यायै०, शान्त्यै नमः |
इति तृतीयावरणम् ॥ ततः पूर्वादिकोणेषु (दिग्विदिक्षु) प्रादक्षिण्येन वचनात्मिकाभिमुखीभ्योऽधोमुखीभ्यः स्त्रीदेवताभ्यो नमः०, ओं जां जागरायै०, ओं तं तपनायै०, ओं वें वेदगर्भायै०, ओं दं दहनरूपिण्यै०, ओं सें सेन्दुखण्डायै० |
शब्दस्पर्शरूपरसगन्धात्मिकाभिमुखीभ्यस्तिर्यङ्मुखीभ्यः स्त्रीदेवताभ्यो नमः, ओं सुं सुम्भदन्त्यै०, ओं नं नभश्चारिण्यै०, ओं वां वागीश्वर्यै०, ओं मं मन्दवादायै०, ओं सों सोमरूपायै० |
षाट्कोशिकमयात्मिकाभिमुखीभ्यस्तिर्यङ्मुखीभ्यः क्लीवदेवताभ्यो नमः |
ओं मं मनोजवायै०, ओं मं मरुद्वेगायै०, ओं रां रात्र्यै०, ओं तीं तीव्रकोपायै०, ओं यं यशोवत्यै०, ओं तों तोयात्मिकायै० |
षडूर्म्यात्मिकाभिमुखीभ्यः ऊर्ध्वमुखीभ्यः क्लीवदेवताभ्यो नमः |
ओं निं नित्यायै०, ओं दं दयावत्यै०, ओं हां हारिण्यै०, ओं तिं तिरस्क्रियायै०, ओं वें वेदमात्रे०, ओं दः दमनप्रियायै० |
सप्तधात्वात्मिकाभिमुखीभ्य उभयमुखीभ्यः क्लीवदेवताभ्यो नमः |
ओं सं समाराध्यायै०, ओं नः नन्दिन्यै०, ओं पं पराक्यै०, ओं रं रिपुमर्दिन्यै०, ओं षं षष्ठ्यै०, ओं दं दण्डिन्यै०, ओं तिं तिग्मायै० |
पञ्चभूतात्मिकाभिमुखीभ्यस्तिर्यङ्मुखीभ्यः क्लीवदेवताभ्यो नमः |
ओं दुः दुर्गायै०, ओं गां गायत्र्यै०, ओं णिं निरवद्यायै०, ओं विं विशालाक्ष्यै०, ओं श्वां श्वासोद्वाहायै० |
कर्मेन्द्रियात्मिकाभिमुखीभ्य ऊर्ध्वमुखीभ्यः स्त्रीदेवताभ्यो नमः |
ओं नां नादिन्यै०, ओं वें वेदनायै०, ओं वं वह्निगर्भायै०, ओं सिं सिंहवाहायै०, ओं धुं धुर्यायै० |
ज्ञानेन्द्रियात्मिकाभिमुखीभ्य ऊर्ध्वमुखीभ्यः स्त्रीदेवताभ्यो नमः |
ओं दुं दुर्विषयायै०, ओं रिं रिरंसायै०, ओं तां तापदहारिण्यै०, ओं त्यं त्यक्तदोषायै०, ओं ग्निः निःसपत्नायै० |
एताः प्रज्वलत्केशवदनाः भीमदंष्ट्रा भयापहा ध्येयाः |
इति चतुर्थावरणम् ॥ ततस्तद्बहिः पूर्वादिदले लं इन्द्राय०, रं अग्नये०, मं (टं) यमाय०, क्षं निर्ऋतये०, वं वरुणाय०, यं वायवे०, सं कुबेराय०, हौं ईशानाय० |
इति पञ्चमावरणम् ॥ ततस्तद्बहिः वं वज्रायुधाय०, शं शक्त्यायुधाय०, दं दण्डायुधाय०, खं खड्गायुधाय०, पां पा— [Fortsetzung auf Folgeseite. Fußnoten:] १ ‘रात्र्यै’ ख. पाठः |
२ ‘वचना’ क. पाठः |
[Lesungsfragen: अश्वोदरजाय, सुम्भदन्त्यै, पराक्यै, धुर्यायै; einzelne Bīja-Zeichen und Wortverbindungen der Gruppenbeschreibungen. Die Bezeichnung क्लीवदेवता bei zugleich femininen Namensendungen wird bewahrt.]

शायुधाय०, क्रों अङ्कुशायुधाय०, गं गदायुधाय०, शं शूलायुधाय० |
इति षष्ठावरणम् ॥ एवं संपूज्य नैवेद्यादिकं निवेद्य आरात्रिकापुष्पाञ्जल्यन्तं समर्प्य, मूलमन्त्रेण प्राणायामत्रयं कृत्वा यथाशक्ति जपित्वा ‘गुह्याति०’ इति मन्त्रेण जपफलं समर्प्य पूर्वोक्तमन्त्रैर्दिक्पालभ्यो बलिं हरेत् |
एवं गायत्रीजपद्विगुणसहितचतुश्चत्वारिंशत्सहस्राणि जपित्वा तिलसर्षपचित्रमूलसमिद्भिरुडुम्बरप्लक्षाश्वत्थसमिद्भिराज्याक्तहविष्यान्नेन दशांशतो होतव्यं, कृतपुरश्चरणो भवति |
तत आग्नेयास्त्राधिकारी भवति ॥ तदुक्तं शारदायाम्— (२२ |
३५.) आग्नेयमभिधास्यामि मन्त्रं सर्वार्थसाधनम् |
मारीचः कश्यपः प्रोक्तो मुनिरस्य महामनोः ॥ १ ॥ त्रिष्टुप्छन्दो देवतात्र जातवेदोऽग्निरीरितः |
नवभिः सप्तभिः षड्भिः सप्तभिः पुनरष्टभिः ॥ २ ॥ सप्तभिः मूलवर्णार्णैः षडङ्गविधिरीरितः |
अङ्गुष्ठगुल्फजङ्घासु जानुनोरूरुयुग्मके ॥ ३ ॥ कक्ष्यन्धुनाभिषु हृदि स्तनयोः पार्श्वयोर्द्वयोः |
पृष्ठतः स्कन्धयोर्मध्ये बाहुमूलोपबाहुषु ॥ ४ ॥ प्रकूर्परप्रकोष्ठेषु मणिबन्धतलेष्वपि |
मुखनासाक्षिकर्णेषु मस्तमस्तिष्कमूर्धसु ॥ ५ ॥ क्रमेण विन्यसेद्वर्णान् मन्त्री मन्त्रसमुद्भवान् |
शिखाललाटनयनकर्णौष्ठरदनासु च ॥ ६ ॥ सकण्ठबाहुहृत्कुक्षिकटिगुह्योरुजानुषु |
जङ्घयोः पादयोर्न्यसेत् पदान्यस्य मनोः सुधीः ॥ ७ ॥ ‘विद्युद्दामसमप्रभां’ इत्यादिध्यानम् |
मन्त्रवर्णसहस्राणि जपेन्मन्त्रं विशालधीः |
तदन्ते तिलसिद्धार्थचित्रमूलैः समिद्वरैः ॥ ८ ॥ क्षीरद्रुमाणामाज्येन हविष्यान्नैर्घृतप्लुतैः |
चतुश्चत्वारिंशदाद्यं चतुःशतसमन्वितम् ॥ ९ ॥ चतुःसहस्रं जुहुयादर्चिते हव्यवाहने |
मण्डले सर्वतोभद्रे षट्कोणाङ्कितकर्णिके ॥ १० ॥ विधिना वक्ष्यमाणेन पीठं देव्याः प्रपूजयेत् |
जयाख्यां विजयां भद्रां भद्रकालीमनन्तरम् ॥ ११ ॥ सुमुखीं दुर्मुखीसंज्ञां पश्चाद्व्याघ्रमुखीं पुनः |
अथ सिंहमुखीं दुर्गां नव शक्तीः प्रपूजयेत् ॥ १२ ॥ आसनं सिंहमन्त्रेण दद्यादुक्तेन देशिकः |
प्रणवानन्तरं वज्रनखदंष्ट्रायुधाय च ॥ १३ ॥ महासिंहाय वर्मास्त्रनतिः सिंहमनुः स्मृतः |
मूर्तिं संकल्प्य मूलेन तस्यामावाह्य पूजयेत् ॥ १४ ॥ षडङ्गानि यथापूर्वं केसरेष्वर्चयेत् सुधीः |
इत्यादिपादाष्टकोत्पन्ना मूर्तयोऽर्च्या बहिः पुनः ॥ १५ ॥ जातवेदाः सप्तजिह्वो हव्यवाहनसंज्ञकः |
अश्वोदरजसंज्ञोऽन्यः पुनर्वैश्वानराह्वयः ॥ १६ ॥ कौमारतेजाः स्याद्विश्वमुखो देवमुखस्ततः |
ततो भूसलिलाग्नीरानात्मनेन्तान् नमोन्वितान् ॥ १७ ॥ चतुर्दिक्षु समभ्यर्चेत् कोणेषु तत्कलाः पुनः |
पूर्वादिदिक्षु संपूज्या जागराद्याः सार्णशक्तयः ॥ १८ ॥ जागरा तपना वेदगर्भा दहनरूपिणी |
सेन्दुखण्डा सुम्भहन्त्री नभश्चारिण्यनन्तरम् ॥ १९ ॥ वागीश्वरी मन्दवाहा सोमरूपा मनोजवा |
मरुद्वेगा रात्रिसंज्ञा तीव्रकोपा यशोवती ॥ २० ॥ तोयात्मिका पुनर्नित्या दयावत्यपि हारिणी |
तिरस्क्रिया वेदमाता तत्परा दमनप्रिया ॥ २१ ॥ समाराध्या नन्दिनी च पराकी रिपुमर्दिनी |
षष्ठी च दण्डिनी तिग्मा दुर्गा गायत्र्यनन्तरम् ॥ २२ ॥ [Fußnoten:] १ ‘मन्दवहा’ ख. पाठः |
२ ‘मदन’ ख. पाठः |
[Lesungsfragen: Quellennummer im Druck als २२ |
३५ gelesen; Vers 15 erste Wortverbindung. Die Versfassung der Namensliste weicht teils von der Prosa ab. Die Opferzahl in 9–10 ist wörtlich 4444, während die vorangehende Prosa ein Zehntel von 44000 verlangt.]

निरवद्या विशालाक्षी श्वासोद्वाहा च नादिनी |
वेदना वह्निगर्भाख्या सिंहवाहाह्वया तथा ॥ २३ ॥ धुर्या दुर्विषया पश्चात् रिरंसा तापहारिणी |
त्यक्तदोषा निःसपत्ना चत्वारिंशच्चतुर्युताः ॥ २४ ॥ लोकपालांस्ततोऽभ्यर्चेद्वज्राद्यायुधसंयुतान् |
इत्थं जपादिभिः सिद्धे मन्त्रेऽस्मिन् साधकोत्तमः ॥ २५ ॥ आग्नेयास्त्राधिकारी स्यात् तद्विधानमिहोच्यते |
[Zweiter Halbvers fehlt im Druck.] ॥ अस्य श्रीआग्नेयास्त्रमन्त्रस्य मरीचिपुत्रकश्यप ऋषिः त्रिष्टुप् छन्दः उग्रकृत्या देवता शत्रुक्षयार्थं जपे विनियोगः |
प्रतिलोममन्त्रेण करशुद्धिं कृत्वा ‘ग्निस्त्यतारिदुं धुंसि’ अस्त्राय फट् |
‘वेवना श्वाविणि गांदु’ नेत्रत्रयाय वौषट् |
‘तिदषरप नः स’ कवचाय हुं |
‘दःवे तिहादनि’ शिखायै वषट् |
‘तोयतीराममसो’ शिरसे स्वाहा |
‘मवानसु सेदवेतजा’ हृदयाय नमः |
इति षडङ्गं कृत्वा, वर्णन्यासपदन्यासान् प्रतिलोमेन कृत्वा गुरूपदिष्टमार्गेण ध्यात्वा, ब्रह्मास्त्रद्विगुणजपसहितं प्रतिलोममन्त्रं चतुश्चत्वारिंशत्सहस्रसंख्याकं जप्त्वा पञ्चगव्येन पक्केन चरुणा दशांशेन होमः कार्यः |
अस्त्रसिद्धिर्भवति ॥ तथा— [Erster Halbvers fehlt im Druck.] |
आग्नेयास्त्रमिति प्रोक्तो विलोमोच्चारितो मनुः ॥ २६ ॥ पूर्वोक्ता एव मुन्याद्या मन्त्रस्यास्य प्रकीर्तिताः |
प्रतिलोमक्रमादस्य षडङ्गानि प्रकल्पयेत् ॥ २७ ॥ वर्णन्यासपदन्यासान् विदध्यात् प्रतिलोमतः |
ध्यानभेदान् विजानीयात् गुरूपदेशान्न चान्यथा ॥ २८ ॥ पूर्ववज्जपकॢप्तिः स्याज्जुहुयात् पूर्वसंख्यया |
पञ्चगव्यसुपक्केन चरुणा तस्य सिद्धये ॥ २९ ॥ अर्चनं पूर्ववत् कुर्यात् शक्तीस्तु प्रतिलोमतः |
सर्वत्र देशिकः कुर्याद् गायत्र्या द्विगुणं जपम् ॥ ३० ॥ क्रूरकर्माणि कुर्वीत प्रतिलोमविधानतः |
शान्तिकं पौष्टिकं कर्म कर्तव्यमनुलोमतः ॥ ३१ ॥ प्रयोगकाले प्रजपेदष्ट पादान् विलोमतः |
साधितो जायते पश्चान्मन्त्रोऽयं विधिनामुना ॥ ३२ ॥ ग्न्यादिपञ्चाक्षरः पादो ज्ञेयो ज्ञानेन्द्रियात्मकः |
धुमाद्योऽन्यः पञ्चवर्णः स्मृतः कर्मेन्द्रियात्मकः ॥ ३३ ॥ श्वाद्यस्तृतीयः पञ्चार्णः पञ्चभूतमयः स्मृतः |
त्याद्यः सप्तार्णतः पादश्चतुर्थो धातुरूपकः ॥ ३४ ॥ दःपूर्वः पञ्चमः पाद ऊर्मिरूपः षडक्षरः |
तोवर्णादिः षडर्णोऽन्यः षाट्कोशिकमयो मतः ॥ ३५ ॥ सोपूर्वः पञ्चवर्णोऽन्यः शब्दादिमय ईरितः |
सेवर्णादष्टमो ज्ञेयः पञ्चार्णो वचनादिकः ॥ ३६ ॥ एवं तत्त्वसमायोगात् पादकॢप्तिरुदीरिता |
तत्तत्पादाक्षरोत्पन्नास्तावत्यो वर्णदेवताः ॥ ३७ ॥ प्रधानमूर्तिप्रतिमाः स्वस्ववर्णोदितप्रभाः |
प्रज्वलत्केशवदना भीमदंष्ट्रा भयापहाः ॥ ३८ ॥ देवता इन्द्रियोत्पन्ना ऊर्ध्वदृष्टय ईरिताः |
देवता भूतपादोत्थास्तिर्यग्वक्त्राः प्रकीर्तिताः ॥ ३९ ॥ धातुरूपाक्षरोद्भूता उभयाननशोभिताः |
ऊर्मिजा ऊर्ध्ववदनाः कोशोत्थास्तिर्यगाननाः ॥ ४० ॥ एताः सर्वाः स्मृताः क्लीबा इन्द्रियार्थोद्भवाः स्त्रियः |
अधस्तिर्यङ्मुखोपेता ईरिता वर्णदेवताः ॥ ४१ ॥ अभिमुख्यः स्मृताः सौम्ये पराङ्मुख्योऽन्यकर्मणि |
आभ्योऽसंख्याः समुद्भूता देवता ज्वलिताननाः ॥ ४२ ॥ याभिर्मन्त्री दहेच्छत्रो राज्यं सगिरिकाननम् |
अस्त्रं मनुष्यनक्षत्रेष्वारभेत विचक्षणः ॥ ४३ ॥ [Fußnoten:] १ ‘पहा’ ख. पाठः |
२ ‘पठितो’ ख. पाठः |
३ ‘सोवर्णात्’ ख. पाठः |
[Lesungsfragen: die rückwärts gesetzten Mantragruppen sind teils schwer unterscheidbar; sie bleiben drucknah und werden nicht zu einer glatten Gesamtformel rekonstruiert. Vers 34 nennt tyādi, die zuvor gelesene Liste beginnt an dieser Stelle mit tiṃ.]

आसुरीषु प्रयुञ्जीत देवतारासु संहरेत् |
पूर्वोत्तरत्रयं पश्चाद्भरण्याद्राथ रोहिणी ॥ ४४ ॥ इमानि मानुष्याण्याहुर्नक्षत्राणि मनीषिणः |
ज्येष्ठाशतभिषामूलधनिष्ठाश्लेषकृत्तिकाः ॥ ४५ ॥ चित्रामघाविशाखाः स्युस्तारा राक्षसदेवताः |
अश्विनी रेवती पुष्यस्वाती हस्तः पुनर्वसुः ॥ ४६ ॥ अनुराधा मृगशिरः श्रवणं देवतारकाः |
उपक्रमेत नन्दासु रिक्तास्वस्त्रं विसर्जयेत् ॥ ४७ ॥ भद्रास्वाहरणं कुर्याज्जयास्वत्यन्तमुत्तमम् |
उपक्रमो भौमवारे शनिवारे विसर्जनम् ॥ ४८ ॥ प्रतिसंहरणं वारे गुरोः शुक्रस्य वा भवेत् |
भानुना मोक्षसंहारौ कुर्यात् पक्षद्वये सुधीः ॥ ४९ ॥ स्थिरेषु राशिष्वारम्भश्चरेषु स्याद्विसर्जनम् |
अस्त्रसंहरणं कुर्यादुभयेषु विचक्षणः ॥ ५० ॥ कृष्णपक्षेऽनलेनास्त्रं विसृजेच्छशिना पुनः |
शुक्लपक्षे क्रमादस्त्रं पुनरात्मनि संहरेत् ॥ ५१ ॥ पश्चिमाभिमुखो भूत्वा कर्म सर्वत्र कारयेत् |
नक्षत्रवृक्षशकलान् साध्याख्याकर्मसंयुतान् ॥ ५२ ॥ तत्तन्मन्त्राक्षरोपेतान् मन्त्री मन्त्रार्णसंख्यया |
जुहुयादेधिते वह्नौ मारयेद्रिपुमात्मनः ॥ ५३ ॥ कृष्णाष्टमीं समारभ्य यावत्कृष्णचतुर्दशीम् |
धत्तूरविषवृक्षाजभूरुहोत्थान् समिद्वरान् ॥ ५४ ॥ राजीतिलेन संयुक्तान् पृथक्सप्तसहस्रकम् |
जुहुयात्संयतो भूत्वा रिपुर्यमपुरं व्रजेत् ॥ ५५ ॥ सप्तरात्रं प्रजुहुयात् सिद्धार्थस्नेहलोलितैः |
आर्द्रेषु विष्टिकाले मरिचैर्मनुनामुना ॥ ५६ ॥ निगृह्यते ज्वरेणारिः प्रलयाग्निसमेन सः |
तालपत्रे समालिख्य शत्रुनाम यथाविधि ॥ ५७ ॥ आग्नेयास्त्रेण संवेष्ट्य कुण्डमध्ये निखातयेत् |
जुहुयान्मरिचैः क्रुद्धो ज्वराक्रान्तः स जायते ॥ ५८ ॥ तदादाय क्षिपेत् तोये शीतले स वशो भवेत् |
पिष्ट्वापामार्गबीजानि मरीचमधुसंयुतम् ॥ ५९ ॥ अत्युष्णे लवणे तोये निःक्षिप्य क्वाथयेत् ततः |
ऋक्षवृक्षप्रतिकृतेर्हृदये वदने नसि ॥ ६० ॥ किंचित्किंचित् क्षिपेत् तोयं दर्व्या कारस्करोत्थया |
आग्नेयमुच्चरन् मन्त्री सोऽचिराज्ज्वरितो भवेत् ॥ ६१ ॥ क्वथितेऽम्भसि तां क्षिप्त्वा हन्याच्छत्रुमप्रयत्नतः |
तीक्ष्णस्नेहेन संलिप्तां शत्रोः प्रतिकृतिं निशि ॥ ६२ ॥ तापयेदेधिते वह्नौ प्रतिलोममनुं जपन् |
ज्वरेण बाध्यते सद्यो मासादस्य मृतिर्भवेत् ॥ ६३ ॥ सामुद्रे सलिले हिङ्गुविषजीरकलोलिते |
क्वथिते पुत्तलीं साध्यनक्षत्रतरुनिर्मिताम् ॥ ६४ ॥ अधोवक्त्रां विनिक्षिप्य यष्ट्या विषतरूत्थया |
तच्छिरस्ताडनं कुर्वञ्जपेदस्त्रं विलोमतः ॥ ६५ ॥ सप्ताहान्मरणं याति शत्रुर्ज्वरविमोहितः |
आदित्यरथनागेन्द्रमस्ताग्निं तद्विषाहतम् ॥ ६६ ॥ नग्नं तैलेन लिप्ताङ्गं दग्धं भानुमरीचिभिः |
अधोमुखं निजरिपुं ध्यात्वा क्वथितवारिणा ॥ ६७ ॥ तापयेद्भानुमालोक्य शत्रुर्मृत्युप्रियो भवेत् |
बिभ्रतीं मुसलं शूलं ध्यायन् कालघनप्रभाम् ॥ ६८ ॥ कार्पासीबीजनिम्बस्य पत्रमेधीघृतप्लुतैः |
हुत्वा विद्वेषयेच्छत्रूनस्त्रेणानेन देशिकः ॥ ६९ ॥ बिभ्राणां तर्जनीं शूलं ध्यात्वा दुर्गां भयङ्करीम् |
माहिषीघृतसंप्लुतैः पल्लवैर्विषवृक्षजैः ॥ ७० ॥ [Fußnoten:] १ ‘समाश्रयेत्’ ख. पाठः |
२ ‘लिखितान्’ ख. पाठः |
३ ‘मन्त्री’ ख. पाठः |
४ ‘खन्यते’ ख. पाठः |
५ ‘संसिक्तैः’ ख. पाठः |
[Lesungsfragen: Baumverbindung धत्तूरविषवृक्षाजभूरुहोत्थान् in 54; kosmische Bildverbindung आदित्यरथनागेन्द्रमस्ताग्निं in 66. Historische Ritualbeschreibung, keine modernen Stoffbestimmungen ergänzt.]

हुत्वा रिपोः क्षणात् सेनामुच्चाटयति मन्त्रवित् |
ध्यात्वा देवीं पुरा प्रोक्तां चतुर्भिर्मरिचान्वितैः ॥ ७१ ॥ अजारुधिरसंयुक्तैर्जुहुयाद्दिवसत्रयम् |
रिपोरुच्चाटनं कुर्यात् सेनाया नात्र संशयः ॥ ७२ ॥ असिशूलकरां दुर्गां ज्वलन्तीं प्रलयाग्निवत् |
ध्यात्वा सर्षपतैलाक्तैर्वनिर्धरसंभवैः ॥ ७३ ॥ हुत्वा विमोहयेच्छत्रून् मरिचैर्वा ससर्षपैः |
कालाञ्जननिभां दुर्गां शूलखड्गधरां स्मरेत् ॥ ७४ ॥ नक्षत्रवृक्षसंभूतैर्व्रणवृक्षस्नेहलोलितैः |
समिद्वरैः प्रजुहुयाद्धन्यान्मासेन वैरिणम् ॥ ७५ ॥ सिंहारूढां प्रधावन्तीं धावमानं रिपुं प्रति |
शरान् कार्मुकनिर्मुक्तान् वह्निज्वालासमाकुलान् ॥ ७६ ॥ मुञ्चन्तीं संस्मरन् दुर्गां तर्पयेदुष्णवारिणा |
भानुबिम्बं समालोक्य रिपोरुच्चाटनं भवेत् ॥ ७७ ॥ अतिदुर्गामयाष्टिगदाहस्तां विचिन्तयेत् |
विद्युद्दामसमानाभां माहिषीघृतसंप्लुतैः ॥ ७८ ॥ पुलाकैर्जुहुयान्निम्बवैभीतकसमिद्वरैः |
कोद्रवैरथवा शत्रोः सेनायाः स्तम्भनं भवेत् ॥ ७९ ॥ आत्तपाशाङ्कुशां रक्तां गाणदुर्गामनुं स्मरेत् |
लोणैः समधुरैः साध्यर्क्षवृक्षकाष्ठैधेऽनले ॥ ८० ॥ जुहुयान्निशि सप्ताहान्मन्त्रविद्वशयेन्नृपान् |
पाशाङ्कुशधरां रक्तां विश्वदुर्गां विचिन्तयेत् ॥ ८१ ॥ फलिनीकुसुमैः फुल्लैश्चन्दनाम्भःसमुक्षितैः |
जुहुयान्निशि यो मन्त्री तस्य विश्वं वशं भवेत् ॥ ८२ ॥ शरच्चन्द्रनिभां देवीं विगलत्परमामृताम् |
पाशाङ्कुशधरां ध्यात्वा सिन्धुदुर्गां समिद्वरैः ॥ ८३ ॥ वैतसैर्मधुरासिक्तैर्जुहुयाद् वृष्टिसिद्धये |
कपालं त्रिशिखं पाशमङ्कुशं बिभ्रतीं करैः ॥ ८४ ॥ जपाकुसुमसङ्काशामग्निदुर्गां विचिन्तयेत् |
हुत्वा लवणपुत्तल्या मधुरत्रययुक्तया ॥ ८५ ॥ आकर्षेद्वाञ्छितान् साध्यान् मन्त्रविन्नात्र संशयः |
अतिदुर्गामित्याद्या फडन्ता त्रिष्टुबीरिता ॥ ८६ ॥ दुर्गाण्यन्ता च गाण्याद्या गाणिदुर्गा समीरिता |
विश्वाद्या त्यक्षरान्ता सा विश्वदुर्गा समीरिता ॥ ८७ ॥ सिन्ध्वाद्या सा वकारान्ता सिन्धुदुर्गा निगद्यते |
त्यन्तामग्न्यादिकामेनामग्निदुर्गां विदुर्बुधाः ॥ ८८ ॥ अग्रेण स्थण्डिलं कृत्वा सुगन्धिकुसुमादिभिः |
देवीमभ्यर्चयेन्नित्यं प्रागुक्तेनैव वर्त्मना ॥ ८९ ॥ आहरेद्रात्रिषु बलिं चरुणा तस्य सिद्धये |
कृत्यारोगग्रहद्रोहभूतादीन् नाशयेदयम् ॥ ९० ॥ यथावदग्निमाराध्य गन्धपुष्पमनोहरैः |
स्थित्वा तस्याग्रतो मन्त्री जपेन्मन्त्रमनन्यधीः ॥ ९१ ॥ जप्तोऽयं भवतीष्टः स्यान्नात्र कार्या विचारणा |
लवणैर्मधुरासिक्तैर्जुहुयात् पश्चिमामुखः ॥ ९२ ॥ मन्त्रार्णसंख्यया मन्त्री रिपुमात्मवशं नयेत् |
शालीन् प्रक्षाल्य संशोध्य शुद्धान् कुर्वीत तण्डुलान् ॥ पाचितर्वां पञ्चगव्येषु संस्कृते हव्यवाहने |
चरुं पचेज्जपन् मन्त्रमवतार्य पुनः सुधीः ॥ ९४ ॥ अर्चयित्वा विशदधीर्देवीमग्नौ यथा पुरा |
जुहुयाच्चरुणा तेन साज्येनाष्टसहस्रकम् ॥ ९५ ॥ पात्रे संपातनं कुर्यात् साध्यं तत्प्राशयेत् पुनः |
शिष्टं तं निखनेद् द्वारि संपातं प्राङ्गणान्तरे ॥ ९६ ॥ कृत्यारोगा विनश्यन्ति सहभूतग्रहामयैः |
परैरुत्पादिता कृत्या पुनस्तानेव भक्षयेत् ॥ ९७ ॥ [Fußnoten:] १ ‘संसिक्तैः’ ख. पाठः |
२ ‘अग्नि’ ख. पाठः |
३ ‘मन्त्र’ ख. पाठः |
४ ‘आकृष्याद्वाञ्छितायां’ ख. पाठः |
५ ‘साध्यान् मन्त्री न’ क. पाठः |
६ ‘जपित्वा’ ख. पाठः |
७ ‘हासुरैः’ ग. पाठः |
[Nummer 93 fehlt im Druck; der vollständige unnummerierte Vers vor 94 ist erhalten. Lesungsfragen: चतुर्भिः in 71 ohne eindeutig benannte vier Stoffe; वनिर्धरसंभवैः in 73; पाचितर्वां in 94. गाण/गाणि und अग्नि/अति wechseln in den Mantrabezeichnungen.]

व्रीहिभिर्नीविपा नीरैः पयोवृक्षसमिद्वरैः |
आज्यैर्मधुत्रयोपेतैरेतैर्दशशतं पृथक् ॥ ९८ ॥ जुहुयात् संपदां भूमिः साधको भवति ध्रुवम् |
भास्करे मेषराशिस्थे मन्त्रज्ञोऽनुगुणे दिने ॥ ९९ ॥ नद्यां समुद्रगामिन्यां स्नात्वा मन्त्री यथाविधि |
उद्धृत्यादाय सिकताः संशोध्य परिशोधयेत् ॥ १०० ॥ न्यस्य ताः पञ्चगव्येषु संस्कृते हव्यवाहने |
भर्जयेन्मनुना सिद्धे दर्व्या ब्रह्मतरूत्थया ॥ १०१ ॥ सिंहमेषधनुःस्थेऽर्के कृष्णपक्षेऽष्टमीतिथौ |
विशाखाकृत्तिकामूलहस्तोत्तरमघास्वथ ॥ १०२ ॥ रोहिण्यां श्रवणे वारौ मन्दवाक्पतिदैवतौ |
विहायान्येषु कुर्वीत सिकतास्थापनं सुधीः ॥ १०३ ॥ गृहग्रामादिराष्ट्राणां रक्षार्थं सिकताः शुभाः |
प्रस्थाढकघटोन्माना मध्यादिष्ववटेष्विमाः ॥ १०४ ॥ नवसु प्रक्षिपेज्जप्तास्तेषु संपूजयेत् क्रमात् |
मध्यादिदेवीमस्त्राणि कपालान्तानि देशिकः ॥ १०५ ॥ चक्रं शङ्खमसिं खेटं बाणं चापं त्रिशूलकम् |
कपालं स्वस्वमन्त्रेण संपूज्यान्ते बलिं हरेत् ॥ १०६ ॥ नक्षत्रग्रहराशीनां लोकेशानां बलिं हरेत् |
विहिता यत्र रक्षेयं वर्धन्ते तत्र संपदः ॥ १०७ ॥ ज्वरग्रहमहारोगचोरभूतसरीसृपाः |
अमुना विलयं यान्ति विधिना नात्र संशयः ॥ १०८ ॥ सिकतानां विशुद्धानां विकारकुडवं सुधीः |
पञ्चगव्ययुतं पात्रे ब्रह्मवृक्षेण निर्मिते ॥ १०९ ॥ निक्षिप्य विधिना यत्र स्थापयेत्तत्र संपदः |
दिने दिने प्रवर्धन्ते कालविष्ट्यादिभिः सह ॥ ११० ॥ महोत्पाता विनश्यन्ति कृत्याद्रोहमहाग्रहाः |
चरुं गव्यात्मना कुर्यात् स्थापनं विधिनामुना ॥ १११ ॥ गोमूत्रं प्रस्थमानं स्याद्गोमयाम्भस्तदर्धकम् |
आज्यात् समगुणं नीरं गोमूत्रात् त्रिगुणं दधि ॥ ११२ ॥ गोमूत्रेण समं सर्पिः सर्वं वा सममुच्यते |
गावः स्युः कपिलाः श्वेतश्यामधूम्रारुणप्रभाः ॥ ११३ ॥ अभावे गदिताः सर्वाः सर्वं वा कपिलोद्भवम् |
एकोनपञ्चाशत्कोष्ठे फलके ब्रह्मशाखिनः ॥ ११४ ॥ विहाय कोणकोष्ठानि शक्त्याद्यं जातवेदसम् |
लिखित्वा मध्यकोष्ठादि पूजयेत् तत्र देवताम् ॥ ११५ ॥ कृत्वा होमं ससंपातं निखनेत् तद्यथा पुरा |
दद्याद्बलिं यथापूर्वमस्य पूर्वोदितं फलम् ॥ ११६ ॥ मध्ये मायामष्टकोष्ठेषु पादानष्टौ कृत्वा मातृकार्णैः प्रवृतम् |
भूबिम्बस्थं सर्वभूतामयघ्नं रक्षायुःश्रीकीर्तिदं यन्त्रमेतत् ॥ ११७ ॥ आग्नेयास्त्रस्य जानाति विसर्गादानकर्मणी |
यः पुमान् गुरुणा शिष्टस्तस्याधीनं जगत्त्रयम् ॥ ११८ ॥ इति श्रीमहामहोपाध्यायभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्य-श्रीभगवच्छङ्कराचार्यशिष्य-श्रीविष्णुशर्माचार्यशिष्य-श्रीप्रगल्भाचार्यशिष्य-श्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे द्वाविंशतितमः श्वासः ॥ २२ ॥ [Fußnote:] १ ‘सततं पुष्कलाम्भसि’ ख. पाठः |
[Lesungsfragen: नीविपा in 98, विकारकुडवं in 109; Zeitkonstruktion in 102–103; Vers 112 liest नीरं, Wasser, nicht क्षीरं, Milch. Kapitelnummer 22 im Kolophon ist kein zusätzlicher Vers.]

23. Śvāsa

Die 54 Druckseiten 199–252 sind mit dem Scan von 1937 abgeglichen. Die Textfassung umfasst 823 nummerierte Einträge, sämtliche unnummerierte Prosa, Formeln und die Kolophone. Lokale Lesungsunsicherheiten, gedruckte Lücken und abweichende Nummerierungen bleiben markiert. Die deutsche Übersetzung erklärt Unterschiede zwischen Parallelfassungen.

अथ त्रयोविंशः श्वासः |
तथा— (२२ |
१) अथो दिनास्त्रं कृत्यास्त्रं वक्ष्ये शत्रुविमर्दनम् |
अतिदुर्गामनुं प्राहुर्दिनास्त्रं मन्त्रवित्तमाः ॥ १ ॥ प्रतिलोममिमं मन्त्रं कृत्यास्त्रं च प्रचक्षते |
दिनास्त्रस्य षडङ्गादीन् प्रतिलोमोदितान् विदुः ॥ २ ॥ (इममतिदुर्गामन्त्रं, स तु— अतिदुर्गाणि इत्यारभ्य पर्षदित्यन्तम् |
प्रतिलोममिति तषेप इत्यादि गांदुति[त्र?] इत्यन्तम् |
दिनास्त्रस्य कृत्यास्त्रस्येति शेषः, प्रतिलोमोदितानि षडङ्गानि त्वाग्नेयास्त्रवदेव |
आदिपदेन वर्णन्यासपदन्यासवर्णशक्तिपूजासु प्रातिलोम्यं सूच्यते |
तच्चात्र पञ्चाद्यक्षरादिमन्त्राक्षरपर्य्यन्तं क्रमेण, नतु क्रमेण त्रिष्टुप्मन्त्रस्य प्रातिलोम्यम् |
) भानुबिम्बगतं शुम्भभौचकं विषाहतम् |
मूलादुत्थितया ग्रस्तं कुण्डल्या भावयन् सुधीः ॥ ३ ॥ मूलाधारे क्षिपेत् सद्यः प्रस्फुरत्कालपावके |
दिनत्रयाज्ज्वराक्रान्तो रिपुर्यमपुरं व्रजेत् ॥ ४ ॥ दिनास्त्रैर्विविधाङ्गं स्वाधिष्ठानगतं रिपुम् |
पञ्चवायुसमिद्धेन वह्निना दग्धविग्रहम् ॥ ५ ॥ ध्यायन्मनुं जपेत् सद्यः स भवेद्यमवल्लभः |
मणिपूरगतं शत्रुमग्निना दीप्तविग्रहम् ॥ ६ ॥ ध्यायन् दिनास्त्रं प्रजपेत् स मृत्युग्रासतां व्रजेत् |
अनाहताहितः शत्रुर्निर्दग्धो मन्त्रवह्निना ॥ ७ ॥ पाशेन बद्ध्वा शीघ्रेण नीयते यमकिङ्करैः |
विशुद्धस्थानगो वैरी दिनबाणेन पीडितः ॥ ८ ॥ अधोमुखः स्मृतस्तूर्णं परासुः स्याद् दिनत्रयात् |
आज्ञायां निहितं शत्रुं दहेद् दिनाग्निना धिया ॥ ९ ॥ पुत्रमित्रकलत्रादीन् हित्वा मृत्युमुपाश्रयेत् |
नाभिमात्रोदके स्थित्वा ध्यायन् बिम्बे दिनेशितुः ॥ १० ॥ वैरिणं दग्धसर्वाङ्गं मन्त्रमष्टोत्तरं शतम् |
जपेत् सप्तदिनादर्वाग् यमलोकं स गच्छति ॥ ११ ॥ आरवारं समारभ्य सप्ताहं प्रजपेन्मनुम् |
सूर्योदयं समारभ्य यावदस्तमयो भवेत् ॥ १२ ॥ सन्निपातज्वराविष्टो यमग्रस्तो भवेदरिः |
स्थित्वा दुर्गालये मन्त्री त्रिरात्रं वर्जिताशनः ॥ १३ ॥ दिनबाणेन विद्धाङ्गं वैरिणं प्रविचिन्तयन् |
जपेन्मनुमिमं शत्रुर्ज्वरितो मरणं व्रजेत् ॥ १४ ॥ स्पृष्ट्वा दुर्गां जपेन्मन्त्रमनश्नस्त्रिदिनं स्मरन् |
शूलप्रोतं निजरिपुं दिनास्त्रेण प्रपीडितम् ॥ १५ ॥ ज्वरेण महताविष्टो जायतेऽसौ यमातिथिः |
रविमण्डलगं शत्रुं दष्टं तद्रथपन्नगैः ॥ १६ ॥ विषाग्निदग्धसर्वाङ्गं ध्यायन्नुष्णेन वारिणा |
तर्पयेद् दिनबाणेन स्यादसौ यमवल्लभः ॥ १७ ॥ १ ‘उद्धृत’ ग. क. पाठः |
२ ‘रिपुः प्राणान् विमुञ्चति’ ख. पाठः |
३ ‘शरेण प्रवि’ ख. पाठः |
४ ‘वशतां’ ख. पाठः |
[Redaktion: Die Zeichenfolge zur Umkehrung in der Klammerglosse sowie „शुम्भभौचकं“ in Vers 3 sind nicht sicher zu deuten. Lesung in Vers 5 „विविधाङ्गं“ unsicher; erwartet wäre eine Form mit „durchbohrt“, die nicht stillschweigend eingesetzt wird. Die Fußnotenvarianten bleiben erhalten.]

रविबिम्बादागतया ज्वालया ग्रस्तविग्रहम् |
रिपुं ध्यात्वा जपेन्मन्त्रं स क्रीडति यमान्तिके ॥ १८ ॥ ग्रहग्रस्तार्कबिम्बस्थं विद्धं मन्त्रमयैः शरैः |
प्रतिपद्य निजं शत्रुं जपेदयुतमस्त्रवित् ॥ १९ ॥ रिपुं नयति शीघ्रेण यमदूतो यमालयम् |
प्रलयानलसंकाशकालरात्रिमिवापराम् ॥ २० ॥ शूलपाशधरां घोरां सिंहस्कन्धनिषेदुषीम् |
सवितुर्मण्डलान्तःस्थां रक्तनेत्रत्रयोद्गतैः ॥ २१ ॥ विस्फुलिङ्गैर्निदहन्तीं रिपुमाकुलविग्रहम् |
स्पष्टदंष्ट्राधरां नृत्यद्भ्रुकुटीभीषणाननाम् ॥ २२ ॥ तर्जयन्तीं निजं शत्रुं तर्जन्या भीमरूपया |
दंष्ट्रामयूखजालेन द्योतयन्तीं दिगन्तरम् ॥ २३ ॥ शूलेन वैरिणो वक्षो दारयन्तीं भयङ्करीम् |
जपेद् दिनत्रयं मन्त्री मारयेद्रिपुमात्मनः ॥ २४ ॥ अस्त्रमन्त्रकृतन्यासः प्रलयाग्निसमप्रभः |
रक्तवस्त्रधरां क्रुद्धां रक्तनेत्रत्रयान्विताम् ॥ २५ ॥ सिंहाधिरूढां धावन्तीं धावमानं रिपुं प्रति |
खड्गेन तच्छिरश्छित्त्वा क्षणाद् व्योमस्थलं गताम् ॥ २६ ॥ ध्यात्वा दुर्गां जपेन्मन्त्रं त्रिदिनं वर्जिताशनः |
अनेनैव विधानेन रिपुर्मृत्युप्रियो भवेत् ॥ २७ ॥ कर्माण्येतानि कुर्वीत दिवसे नतु रात्रिषु |
[Zweiter Halbvers fehlt im Druck] ॥ इति |
अथ रात्रिकृत्यम्— [Erster Halbvers fehlt im Druck] |
पश्चिमाभिमुखलिङ्गस्य सजीवं महिषं पुरः ॥ २८ ॥ निखाय तस्य शिरसि कुण्डं कृत्वा त्रिकोणकम् |
तस्मिन् समेधिते वह्नौ यथावद् देशिकोत्तमः ॥ २९ ॥ सत्रिकोणान् ससाध्यर्क्षसाध्यनामसमन्वितान् |
अजारक्तेन संसिक्तान् कारस्करसमिद्वरान् ॥ ३० ॥ सहस्रं जुहुयाद् देवीं ध्यात्वा सवितृमण्डले |
प्रलयाग्निसमां घोरां द्वात्रिंशद्भुजशोभिताम् ॥ ३१ ॥ उद्यदायुधसंदीप्तां नृत्यन्तीं द्विषन्मस्तके |
महादंष्ट्रां महाभीमां ज्वलत्केशीं नदन्मुखीम् ॥ ३२ ॥ रक्तार्द्रमांसवदनां घूर्णितोर्ध्वत्रिलोचनाम् |
अनेन विधिना शत्रुर्महाज्वरनिपीडितः ॥ ३३ ॥ विमुञ्चति निजं देहं पुत्रमित्रादिभिः सह |
ऊर्ध्वमुष्णाम्भसो मन्त्री लम्बयित्वा भुजङ्गमम् ॥ ३४ ॥ भानुबिम्बगतां दुर्गां सहस्रादित्यसन्निभाम् |
सहस्रपाणिचरणां सहस्राक्षिशिरोमुखीम् ॥ ३५ ॥ सहस्रनागबद्धाङ्गीं त्रासयन्तीं जगत्त्रयम् |
ध्यायन्ननेन सर्पास्ये तर्पयेदुष्णवारिणा ॥ ३६ ॥ संयतः कालपाशेन वैरी मुञ्चेत स्वजीवितम् |
मध्याह्नार्कायुतप्रख्यां नदन्तीं नरसिंहवत् ॥ ३७ ॥ घोरसिंहसमासीनां महाभीषणदर्शनाम् |
शूलप्रोताहितां ध्यायञ्जपेन्मन्त्रमनन्यधीः ॥ ३८ ॥ तर्पयेदुष्णतोयेन सर्पवक्त्रे दिनत्रयम् |
यमस्य भुवनं गच्छेदरातिर्नात्र संशयः ॥ ३९ ॥ शत्रुवच्चप्रतिकृतिं प्रतिष्ठितसमीरणाम् |
उष्णोदके विनिक्षिप्य विषाढ्ये विधिना ततः ॥ ४० ॥ अर्केन्दुनलसंकाशां खड्गखेटकधारिणीम् |
नयनत्रयनिर्गच्छद्विस्फुलिङ्गशताकुलाम् ॥ ४१ ॥ निर्देहां सर्पभूषाढ्यां त्रैलोक्यभयकारिणीम् |
खड्गकृत्ताहितां ध्यायन् प्रजपेदयुतं मनुम् ॥ ४२ ॥ १ ‘युक्ता’ ख. पाठः |
२ ‘समन्त्रार्णान्’ ख. पाठः |
३ ‘मायां’ ग. पाठः |
४ ‘कृशदेहां’ ग. पाठः |
५ ‘दायिनीम्’ ख. पाठः |
[Redaktion: Die Lesungen „शत्रुवच्चप्रतिकृतिं“ (40), „अर्केन्दुनलसंकाशां“ (41) und „निर्देहां“ (42) sind unsicher beziehungsweise auffällig. Vers 28 beginnt nach einer gedruckten Auslassung.]

विधानेनामुना शत्रुर्ग्रस्तो भवति मृत्युना |
प्रकल्प्य दुर्गायतने त्रिकोणं कुण्डमुत्तमम् ॥ ४३ ॥ तत्र संज्वालिते वह्नौ महिषीशकृता कृताम् |
पुत्तलीमजरक्ताक्तां प्रतिष्ठितसमीरणाम् ॥ ४४ ॥ छित्त्वा च्छित्त्वा प्रजुहुयादजरक्तान्वितां निशि |
ध्यात्वा दुर्गां प्रनृत्यन्तीं महिषोरःस्थलान्तरे ॥ ४५ ॥ शूलेन महिषस्याङ्गं भिन्दतीं घोरदर्शनाम् |
अट्टहासैरजस्रोत्थैर्भीषणां सुरसेविताम् ॥ ४६ ॥ प्रलयानलसंकाशां भ्रमन्नेत्रत्रयान्विताम् |
संदष्टाधरसंभिन्नां दंष्ट्राभीममुखाम्बुजाम् ॥ ४७ ॥ खड्गखेटकयुक्ताभिः कन्यकाभिः समावृताम् |
अनेन विधिना शत्रुः प्रयाति यममन्दिरम् ॥ ४८ ॥ दिनास्त्रमेवं विहितं शत्रुनिग्रहकारणम् |
कृत्यास्त्रचोदितान् कुर्यात् प्रयोगान् मन्त्रवित्तमः ॥ ४९ ॥ आधारादुद्गतां देवीं कुण्डलीं सर्परूपिणीम् |
सुषुम्नारन्ध्रमार्गेण यातां व्योमस्थलं ततः ॥ ५० ॥ मुखेन शत्रुमादाय निवृत्तां स्वगृहं प्रति |
ज्वलत्कालानलादीप्तां विचिन्त्य प्रजपेन्मनुम् ॥ ५१ ॥ सप्तभिर्वासरैः शत्रुर्मृत्युमाप्नोति मोहितः |
अङ्गारवारे चित्यग्नौ सर्षपस्नेहलोलितम् ॥ ५२ ॥ सिद्धार्थकुडवं जप्त्वा जुहुयात् पक्षमात्रतः |
कृत्यास्त्रज्वालया दग्धो रिपुर्यमपुरं व्रजेत् ॥ ५३ ॥ चतुर्दश्यामर्धरात्रं चितास्थीन्यर्च्य साधकः |
व्रणतेलविलिप्तानि चिताग्नौ जुहुयात् ततः ॥ ५४ ॥ अनेन विधिना शत्रुर्मृत्युमेष्यति कातरः |
तुषास्थिनिर्मितां शत्रोर्व्रणतेलपरिप्लुताम् ॥ ५५ ॥ प्रतिमां स्थापितप्राणां जुहुयान्निशि साधकः |
छित्त्वा च्छित्वाजरक्तेन सप्ताहान्म्रियते रिपुः ॥ ५६ ॥ श्मशानवालुकाः स्पृष्ट्वा साक्षता नियुतं जपेत् |
विकिरेत्तास्तडागादौ कृत्यास्त्रक्वथितं जलम् ॥ ५७ ॥ तदीयं पीतमचिरान्निहन्ति सकलाञ्जनान् |
कृष्णाङ्गारचतुर्दश्यां प्रजपेत् प्रेतभस्मभिः ॥ ५८ ॥ महिष्याज्येन लुलितैस्तन्मन्त्राक्षरसंख्यया |
निर्माय गुलिकामेनां सम्यग्जप्तसमीरणाम् ॥ ५९ ॥ चितिकाष्ठैधिते वह्नौ जुहुयाद् दृढमानसः |
चतुर्दशीत्रयादर्वाक् शत्रुर्मृत्युप्रियो भवेत् ॥ ६० ॥ श्मशानभस्म सिद्धार्थान् पञ्चगव्ये विनिक्षिपेत् |
महिषस्थां स्मरन् देवीं कालाग्निसदृशप्रभाम् ॥ ६१ ॥ भर्जयेत् प्रजपन्मन्त्रं विषकाष्ठैश्चितानले |
दुर्गाङ्गारे प्रजुहुयादनेनायुतमस्त्रवित् ॥ ६२ ॥ पुनरादाय तद्भस्म सेनायां वैरिणः क्षिपेत् |
सा सेना बहुधा भिन्ना ज्वररोगविमोहिता ॥ ६३ ॥ आयुधानि परित्यज्य युद्धकाले पलायते |
गेहग्रामादिषु क्षिप्तं कुर्यादुच्चाटनं क्षणात् ॥ ६४ ॥ सप्तारवारे गुलिकां दुर्गावेश्मसु शर्कराः |
सप्त माहेन्द्रदिग्वर्जं गृहीत्वा प्रजपेन्मनुम् ॥ ६५ ॥ माहिषीपञ्चगव्येषु भर्जयेत्तां यथापुरा |
भूयो जापित्वा विकिरेद्गेहग्रामपुरीष्विमाः ॥ ६६ ॥ स देशो नश्यति क्षिप्रं दग्धो मन्त्रभवाग्निना |
ब्रह्मदण्डीं मर्कटिकां करक्रोशनिकात्रयम् ॥ ६७ ॥ भौमवारस्य गुलिके गृहीत्वा प्रजपेन्मनुम् |
चतुर्दश्यां रिपोर्गेहे निखनेत् प्रजपेन्मनुम् ॥ ६८ ॥ १ ‘पितां’ ख. पाठः |
२ ‘सन्निधिम्’ ख. पाठः |
३ ‘कथिते’ ख. पाठः |
४ ‘दर्शितान्’ ख. पाठः |
५ ‘त्युं प्रा’ ख. पाठः |
६ ‘स्पृष्ट’ ग. पाठः |
७ ‘का पताः’ ख. पाठः |
८ ‘रणाः’ ग. पाठः |
९ ‘वशो’ ख. पाठः |
१० ‘पिता’ ख. पाठः |
११ ‘सप्तवारेषु कुलिके’ ख. पाठः |
१२ ‘गव्येन’ ग. पाठः |
[Redaktion: Einzelne Fußnotenformen sind fragmentarisch. „व्रणतेल“ (54–55), „दुर्गाङ्गारे“ (62) und „करक्रोशनिका“ (67) bleiben lexikalisch unsicher; keine stillschweigende botanische Gleichsetzung.]

सार्धं पुत्रकलत्राद्यैरुच्चाटो जायते रिपोः |
एकैकं वा जपेन्मन्त्री मण्डलात् तत्फलं लभेत् ॥ ६९ ॥ षड्बिन्दुद्रुमखण्डं पुत्तल्यां निखनेदोदनाप्लुतम् |
स्पृष्ट्वा तां प्रजपेदस्त्रं कृष्णाष्टम्यां निशार्धतः ॥ ७० ॥ शत्रुनामसमायुक्तं श्मशाने निखनेदिमाम् |
प्रणश्यति रिपुः शीघ्रं सकुटुम्बः सबान्धवः ॥ ७१ ॥ कपालशकलान् मन्त्री कृत्यास्त्राक्षरसंख्यकान् |
संस्पृशन् प्रजपेन्मन्त्रं प्राणस्थापनपूर्वकम् ॥ ७२ ॥ कृष्णाङ्गारचतुर्दश्यां श्मशाने विषवृक्षजे |
जुहुयादजरक्ताक्तान् कृत्यास्त्रज्वालया हतः ॥ ७३ ॥ रिपुर्यमपुरं गच्छेन्महाज्वरविमोहितः |
अजारक्तेन संपूर्णे कलशे निक्षिपेदहिम् ॥ ७४ ॥ कपालेन पिधायैनं छादयेद्रक्तवाससा |
पूजयेद्रक्तपुष्पाद्यैः स्पृष्ट्वा तमयुतं जपेत् ॥ ७५ ॥ भौमवारे निशामध्ये कारस्करसमेधिते |
श्मशानवह्नौ जुहुयाद्गच्छेद्यमपुरं रिपुः ॥ ७६ ॥ साध्यनक्षत्रवृक्षेण कृत्वा कुम्भं प्रपूरयेत् |
माहिषैः पञ्चगव्यैस्तं बिडालं तत्र निक्षिपेत् ॥ ७७ ॥ जपपूजादिकं सर्वं यथापूर्वं समाचरेत् |
कारस्करैधिते वह्नौ कृत्यास्त्रेण समेधिते ॥ ७८ ॥ अयुतं व्रणतैलेन हुत्वा चान्ते घटं पुनः |
आमस्तकं समुद्धृत्य जपेन्मन्त्रमनन्यधीः ॥ ७९ ॥ जुहुयाद्विधिनानेन त्रिदिनैर्म्रियते रिपुः |
सुन्दरं महिषीवत्समेकरात्रमुपोषितम् ॥ ८० ॥ पाययेन्महिषासर्पिः प्रस्थं मन्त्रेण मन्त्रितम् |
कुशैः स बद्धसर्वाङ्गं स्थापितप्राणमञ्जसा ॥ ८१ ॥ कारस्करैधिते वह्नौ व्रणतैलेन मन्त्रवित् |
होमं कृत्वायुतं वत्सं जुहुयाद्यतमानसः ॥ ८२ ॥ एकेन दिवसेनारिर्गच्छेद्यमपुरं सुखी |
त्रिकोणकुण्डनिहिते वह्नौ मन्त्रेण दीपिते ॥ ८३ ॥ अर्चिते गन्धपुष्पाद्यैरयुतं जुहुयात् क्रमात् |
राजीभल्लातकतिलतैलैः सप्तदिनं ततः ॥ ८४ ॥ प्रसूतिसमयं प्राप्तां महिषीं स्थापितानिलाम् |
पूजितां गन्धपुष्पाद्यैः स्पृशन् कूर्चेन तां जपेत् ॥ ८५ ॥ मस्तकाद्योनिपर्यन्तं धिया वत्समनुस्मरन् |
आहृत्य हस्ते पतितं जुहुयादेधितेऽनले ॥ ८६ ॥ एवं कृते समुत्पन्ना कृत्या दीप्ता हुताशनात् |
भक्षयेदचिराच्छत्रुमीश्वरेणापि रक्षितम् ॥ ८७ ॥ पुनरग्नौ विशत्येषा कर्तारमनुकाङ्क्षिणी |
एवंविधानि कर्माणि यः कुर्यान्मन्त्रवित्तमः ॥ ८८ ॥ स जपेदात्मरक्षार्थं मन्त्रान् मृत्युञ्जयादिकान् |
[Zweiter Halbvers fehlt im Druck] ॥ अथ लवणदुर्गामन्त्राः |
एषां श्रीलवणदुर्गामन्त्राणामाङ्गिरसऋषये नमः शिरसि |
अनुष्टुप्छन्दसे नमो मुखे |
अङ्गिरात्रिदुर्गाभद्रकालीदेवताभ्यो नमो हृदये |
ह्रींबीजाय नमो गुह्ये |
क्रोंशक्तये नमो जान्वोः |
अंकीलकाय नमः पादयोः |
मम सकलजगद्वश्यार्थं जपे विनियोगः सर्वाङ्गेषु |
ॐ चिटि चिटि हृदयाय नमः, चण्डालि शिरसे स्वाहा, महाचण्डालि शिखायै वषट्, अमुकं मे कवचाय हुं, वशमानय नेत्रत्रयाय वौषट्, स्वाहा अस्त्राय फट् |
एवमङ्गुलीन्यासः ॥ अथान्तरन्यासः— ॐ ॐ नमो मूर्ध्नि, ॐ चि नमो भाले, ॐ टि नमो दक्षनेत्रे, ॐ चि नमो वामनेत्रे, ॐ टि नमो दक्षकर्णे, ॐ चं नमो वामकर्णे, ॐ ण्डां नमो दक्षनासिकायां, ॐ लि नमो वामनासिकायां, ॐ मं नमो मुखे, ॐ हां नमश्चिबुके, ॐ चं नमः कण्ठे, ॐ ण्डां नमो हृदि, १ ‘उत्सादो’ ग. पाठः |
२ ‘खनेत्’ ख. पाठः |
३ ‘कोटावशेषः’ ख. पाठः |
४ ‘स्पृष्ट्वा तान्प्रजपेदस्त्रं’ ख. पाठः |
५ ‘प्रज्वलिते’ ग. पाठः |
६ ‘जनचर्या’ ग. पाठः |
[Redaktion: Die Lesung „षड्बिन्दुद्रुमखण्डं“ in Vers 70 und einzelne Nasalzeichen im folgenden Nyāsa sind unsicher. Die Gottheitsangabe „अङ्गिरात्रिदुर्गाभद्रकाली“ wird ohne stillschweigende Zerlegung bewahrt.]

ॐ लिं नमो दक्षस्तने, ॐ अं नमो वामस्तने, ॐ मुं नमः कुक्षौ, ॐ कं नमो नाभौ, ॐ में नमो दक्षकक्ष्यां, ॐ वं नमो वामकक्ष्यां, ॐ शं नमो मेढ्रे, ॐ मां नमः पार्श्वयोः, ॐ नं नमः ऊरुद्वये, ॐ यं नमो जानुयुगे, ॐ स्वां नमो जङ्घायुगे, ॐ हां नमः पादद्वये, इत्यक्षरन्यासः ॥ ध्यानम्— नवकुङ्कुमसन्निभं त्रिनेत्रं रुचिराकल्पशतं नमामि वह्निम् |
स्रुवशक्तिवराभयानि दोर्भिर्दधतं रक्तसरोरुहे निषण्णम् ॥ १ ॥ कालाम्बुवाहद्युतिमिन्दुवक्त्रां हारावलीशोभिपयोधराढ्याम् |
कपालपाशाङ्कुशशूलहस्तां नीलांशुकां यामवतीं नमामि ॥ २ ॥ नीलाञ्जनाभामरिशङ्खशूलखट्वाङ्गहस्तां तरुणेन्दुचूडाम् |
भीमां त्रिनेत्रां जितशत्रुवर्गां दुर्गां भजे दुर्गतिभङ्गदक्षाम् ॥ ३ ॥ टङ्कं कपालं डमरुं त्रिशूलं संबिभ्रती चन्द्रकलावतंसा |
पिङ्गोर्ध्वकेशी सितभीमदंष्ट्रा भूयाद्विभूत्यै मम भद्रकाली ॥ ४ ॥ इति ध्यात्वा |
ऋक्पञ्चकं जपेत् सम्यगयुतं तद्दशांशतः |
हविषा घृतसिक्तेन जुहुयादर्चितेऽनले ॥ ५ ॥ एवं कृतपुरश्चर्यः प्रयोगे कुशलो भवेत् |
अग्निर्यामवती ध्येयो वश्याकर्षणकर्मणोः ॥ ६ ॥ स्मरेद् दुर्गां भद्रकालीं मन्त्री मारणकर्मणि |
[Zweiter Halbvers fehlt im Druck] ॥ इति |
अथ प्रयोगः— ब्राह्मे मुहूर्ते चोत्थाय गुरुनमस्कारस्नानसन्ध्यामातृकान्यासपात्रासादनान्तं कर्म समाप्य, पीठे मण्डूकादिकमलान्तं संपूज्य केसरेषु पूर्वाद्यष्टदिक्षु मध्ये च पीठशक्तीः पूजयेत् |
भीषणी बहुरूपा च तीक्ष्णदंष्ट्रा मदोत्कटा |
स्मरणी मोहिनी कान्ता कमण्डलुधरा परा ॥ ७ ॥ इति क्रमेण भीं भीषण्यै नमः इत्यादि संपूज्य तत्कर्णिकायां ‘ॐ ह्रीं आधारशक्तिकमलासनाय नमः’ इति पीठमनुं विन्यस्य तदुपरि षट्कोणाष्टदलकमलभूगृहयन्त्रं विभाव्य मध्ये इष्टदेवतामावाह्य षोडशोपचारैः पूजां कृत्वा षट्कोणेषु पूर्वादि, ॐ चिटि चिटि हृदयाय नमः |
इति रीत्या षडङ्गानि संपूज्य, अष्टदलेषु पूर्वादि— शूलहस्ता विकेशी च दारुणा लवणप्रिया |
परा कराला अत्युग्रा तामसी चाष्ट सिद्धयः ॥ ८ ॥ ॐ शूं शूलहस्तायै नमः, इति रीत्या संपूज्य, केसरेषु पूर्वादि— उत्कटो विकटाक्षश्च शूलहस्तो महाबलः |
अग्निजिह्वः खड्गधरः कपाली दारुणप्रियः ॥ ९ ॥ ॐ उं उत्कटाय नमः, इति रीत्या संपूज्य, पत्राग्रेषु पूर्वादि ॐ अं आं असिताङ्गभैरवसहितब्राह्म्यै नमः, ॐ इं ईं रुरुभैरवसहितमाहेश्वर्यै नमः, ॐ उं ऊं चण्डभैरवसहितकौमार्यै नमः, ॐ ऋं ॠं क्रोधभैरवसहितवैष्णव्यै नमः, ॐ लृं लॄं उन्मत्तभैरवसहितवाराह्यै नमः, ॐ एं ऐं कपालिभैरवसहितेन्द्राण्यै नमः, ॐ ओं औं भीषणभैरवसहितचामुण्डायै नमः, ॐ अं अः संहारभैरवसहितमहालक्ष्म्यै नमः, इति संपूज्य, भूगृहे लोकपालान् संपूज्य बहिर्वज्राद्यायुधानि संपूज्य, षडावरणसहितामिष्टदेवतां संपूज्याष्टोत्तरसहस्रं जपित्वा ‘गुह्यातिगुह्य’ इति मन्त्रेण तेजोरूपं फलं देव्या हस्ते समर्पयेत् ॥ दशसहस्रजपः पुरश्चरणम् |
साज्येन हविषा दशांशहोमः |
[Redaktion: Nasalzeichen einzelner Nyāsa-Silben und die Zeichen für vokalisches l sind im Druck teilweise schwer unterscheidbar. Die Gottheitsnamen „स्मरणी“ (7) und „दारुणप्रियः“ (9) bleiben vorläufige Lesungen.]

अथो लवणमन्त्रस्य विधानमभिधीयते |
ऋगाद्या कथिता पूर्वं लवणाम्भसि-पूर्विका ॥ १ ॥ लवणादि द्वितीया स्याद् दहाद्या परिकीर्तिता |
तं दग्ध्वा चतुर्थी स्याद्या ते-पूर्वादि पञ्चमी ॥ २ ॥ अङ्गिरा ऋषिराख्यातश्छन्दोऽनुष्टुबुदाहृतः |
अग्नी रात्रिः पुनर्दुर्गा भद्रकाली च देवताः ॥ ३ ॥ चिटिमन्त्राक्षरैः कुर्यात् षडङ्गानि समाहितः |
पञ्चभिर्हृदयं प्रोक्तं त्रिभिर्वर्णैः शिरः स्मृतम् ॥ ४ ॥ पञ्चवर्णैः शिखा प्रोक्ता कवचं करणाक्षरैः |
पञ्चभिर्नेत्रमुदितं युगलेनास्त्रमीरितम् ॥ ५ ॥ तारश्चिटिद्वयं पश्चाच्चाण्डालि तदनन्तरम् |
महत्पदाद्यां तां ब्रूयादमुकं मे ततः परम् ॥ ६ ॥ वशमानय ठद्वन्द्वं चिटिमन्त्र उदाहृतः |
चतुर्विंशत्यक्षरात्मा सर्वकामफलप्रदः ॥ ७ ॥ नवकुङ्कुमसन्निभं त्रिनेत्रं रुचिराकल्पशतं नमामि वह्निम् |
स्रुवशक्तिवराभयानि दोर्भिर्दधतं रक्तसरोरुहे निषण्णम् ॥ ८ ॥ कालाम्बुवाहद्युतिमिन्दुवक्त्रां हारावलीशोभिपयोधराढ्याम् |
कपालपाशाङ्कुशशूलहस्तां नीलांशुकां यामवतीं नमामि ॥ ९ ॥ नीलाञ्जनाभामरिशङ्खशूलखट्वाङ्गहस्तां तरुणेन्दुचूडाम् |
भीमां त्रिनेत्रां जितशत्रुवर्गां दुर्गां भजे दुर्गतिभङ्गदक्षाम् ॥ १० ॥ टङ्कं कपालं डमरुं त्रिशूलं संबिभ्रती चन्द्रकलावतंसा |
पिङ्गोर्ध्वकेशी सितभीमदंष्ट्रा भूयाद् विभूत्यै मम भद्रकाली ॥ ११ ॥ ऋक्पञ्चकं जपेत् सम्यगयुतं तद्दशांशतः |
हविषा घृतसिक्तेन जुहुयादर्चितेऽनले ॥ १२ ॥ एवं कृतपुरश्चर्यः प्रयोगे कुशलो भवेत् |
अग्निर्यामवती ध्येयो वश्याकर्षणकर्मणोः ॥ १३ ॥ स्मरेद् दुर्गां भद्रकालीं मन्त्री मारणकर्मणि |
जानुप्रमाणे सलिले स्थित्वा निशि जपन्मनुम् ॥ १४ ॥ अनेन वाञ्छितः साध्यः किङ्करो जायतेऽचिरात् |
नाभिमात्रोदके स्थित्वा जपेन्मन्त्रमिमं सुधीः ॥ १५ ॥ अष्टोत्तरसहस्रं यस्तस्य साध्यो वशे भवेत् |
ऋक्पञ्चकं जपेन्मन्त्री कण्ठमात्रोदके स्थितः ॥ १६ ॥ सप्तभिर्दिवसैर्भूपान् वशयेद्विधिनामुना |
विलिख्य तालपत्रे तं साध्यनाम्ना विदर्भितम् ॥ १७ ॥ निक्षिप्य क्षारसंमिश्रे जले तत् क्वथयेन्निशि |
वश्यो भवति साध्योऽस्य नात्र कार्या विचारणा ॥ १८ ॥ तालपत्रे लिखित्वैनं भद्रकालीगृहे खनेत् |
वश्याय सर्वजन्तूनां प्रयोगोऽयमुदाहृतः ॥ १९ ॥ ताम्रपत्रे समालिख्य मन्त्रं साध्यविदर्भितम् |
तापयेत् खादिरे वह्नौ मासाद्वश्यो भवेन्नरः ॥ २० ॥ त्रिकोणकुण्डमापाद्य सम्यक् शास्त्रोक्तलक्षणम् |
तस्मिन् होमं प्रकुर्वीत संस्कृते हव्यवाहने ॥ २१ ॥ प्रक्षाल्य गव्यदुग्धेन संशोध्य लवणं सुधीः |
सुचूर्णितं तज्जुहुयात् सप्ताहाद्वशयेज्जनान् ॥ २२ ॥ १ ‘भजामि’ ग. पाठः |
२ ‘म्बरं’ ग. पाठः |
३ ‘कालाम्बुदाभा’ ग. पाठः |
४ ‘कृतात्’ ग. पाठः |
५ ‘मनन्यधीः’ ग. पाठः |
६ ‘तालपत्रे लिख्य मन्त्रं साध्यनाम’ ख. पाठः |
७ ‘ध्ये ल-वश्यात्’ ग. पाठः |
८ ‘जगत्’ ग. पाठः |
[Redaktion: Einige Fußnoten sind verkürzt und in der Zuordnung nicht eindeutig. „करणाक्षरैः“ in Vers 5 wird nicht stillschweigend zu einer Zahl geändert. Der Mantracode in Vers 6 schreibt „चाण्डालि“ gegenüber „चण्डालि“ auf Druckseite 202.]

दधिमध्वाज्यसंसिक्तैः सैन्धवैर्जुहुयात् तथा |
वशयेत् सकलान् देशानचिरात् किमु पार्थिवान् ॥ २३ ॥ विशुद्धलवणं प्रस्थं विभक्तं पञ्चधा पृथक् |
एकैकया प्रजुहुयादृचा पञ्चाहमादरात् ॥ २४ ॥ यस्य नाम्ना स वश्यः स्यादनेनैव न संशयः |
शुद्धं लवणमादाय जुहुयान्मधुरान्वितम् ॥ २५ ॥ ऊनपञ्चाशदाहुत्या वशं नयति वाञ्छितम् |
नित्यं शुद्धेन लोणेन हुत्वा शत्रून् वशं नयेत् ॥ २६ ॥ मधुरत्रयसंयुक्तैर्लवणैः साधुचूर्णितैः |
जुहुयाद् वशयेन्नारीर्नरान् नरपतीनपि ॥ २७ ॥ मन्त्रं कृष्णतृतीयादि प्रजपेद्यावदष्टमी |
पुत्तलीः पञ्च कुर्वीत साङ्गोपाङ्गाः समाः शुभाः ॥ २८ ॥ एका साध्यद्रुमेण स्यादन्या पिष्टमयी मता |
चक्रिहस्तमृदान्या स्यादन्या सिक्थमयी स्मृता ॥ २९ ॥ लवणं पोतसंभूतं चूर्णितं परिशोधितम् |
कुडवं प्रोक्षयेत् क्षीरदध्याज्यमधुभिः क्रमात् ॥ ३० ॥ गुडाज्यमधुभिः सम्यङ्मिश्रितेनामुना ततः |
कुर्वीत पुत्तलीं सौम्यां सर्वावयवशोभिताम् ॥ ३१ ॥ ग्राममन्त्रकृतं यन्त्रमासां हृदि विनिःक्षिपेत् |
आसु प्राणान् प्रतिष्ठाप्य पूजयेत् कुसुमादिभिः ॥ ३२ ॥ पश्चात् कृष्णाष्टमीरात्रौ याममात्रे गते सति |
विधाय मातृकान्यासं मन्त्रन्यासमनन्तरम् ॥ ३३ ॥ चिटिमन्त्रसमुद्धृतान् चतुर्विंशतिसंख्यकान् |
ताराद्यान् विन्यसेदर्णान् स्थानेष्वेषु समाहितः ॥ ३४ ॥ मूर्ध्नि भाले दृशोः श्रुत्योर्नासास्यचिबुकेष्वथ |
कण्ठहृत्स्तनयुग्मेषु कुक्षौ नाभौ कटिद्वये ॥ ३५ ॥ मेढ्रे पायौ प्रविन्यस्य शिष्टवर्णचतुष्टयम् |
ऊरुद्वये जानुयुगे जङ्घायुग्मे पदद्वये ॥ ३६ ॥ एवं विन्यस्तसर्वाङ्गो रक्तमाल्यानुलेपनः |
रक्तवस्त्रधरः शुद्धः पुत्तलीं दारुणा कृताम् ॥ ३७ ॥ अधोमुखीं खनेत् कुण्डे पिष्टजामासनादधः |
मृन्मयीं प्रतिमां पाददेशे न्यस्येत् तथात्मनः ॥ ३८ ॥ मधूच्छिष्टमयीं व्योम्नि कुण्डस्योर्ध्वं प्रलम्बयेत् |
लवणेन कृतां पश्चात् पुत्तलीं संस्पृशञ्जपेत् ॥ ३९ ॥ ऋक्पञ्चकं यथान्यायमष्टोत्तरसहस्रकम् |
संहृत्या चिटिमन्त्रार्णान् पुनस्तस्यास्तनौ न्यसेत् ॥ ४० ॥ अङ्गुष्ठसन्ध्यग्रपदजङ्घाजानूरुपायुषु |
लिङ्गदेशे पुनर्नाभौ जठरे हृदयाम्बुजे ॥ ४१ ॥ स्तनद्वये कन्धरायां चिबुके वदने पुनः |
प्राणयोः कर्णयोरक्ष्णोर्ललाटे मूर्ध्नि न्यसेत् ॥ ४२ ॥ तत्प्रतिमाप्रमाणं तु— आयामः पादयोस्तस्या आकक्ष्याच्चतुरङ्गुलम् |
पादोनङ्गुलात् कुक्षेस्तावद्वाङ्गुलोदरम् ॥ १ ॥ अङ्गुलद्वयमावक्त्रात् कण्ठदेशस्य मानकम् |
शिरसो वक्त्रमानं स्यात् सार्धद्वयमिहाङ्गुलम् ॥ २ ॥ इति द्वादशाङ्गुलप्रमाणप्रतिमेत्यर्थः ॥ अग्निमादाय संदीप्य साध्यनक्षत्रदारुभिः |
तस्मिन्नभ्यर्च्य मन्त्रोक्तां देवतां रूप्यपात्रके ॥ ४३ ॥ कुशीतरालिपुष्पाद्यैर्नैवेद्याद्यं प्रणमेत् सुधीः |
मन्त्रैरेतैः प्रयोगादावन्ते संयतमानसः ॥ ४४ ॥ ॐ लवणेनाप्यामन्त्र्य निशायां हव्यवाहन |
हविषा मन्त्रजप्तेन तृप्तो भव तया सह ॥ ४५ ॥ १ ‘देवान्’ ख. पाठः |
२ ‘कर्मशां जु’ ग. पाठः |
३ ‘विधिनाचिरात्’ ग. पाठः |
४ ‘स्वमाननम्’ क. पाठः |
५ ‘दत्तेन’ क. पाठः |
[Redaktion: Die Maßangaben der eingeschobenen Verse 1–2 sind teilweise beschädigt oder grammatisch unsicher und werden nicht durch eine ausgerechnete Proportion ersetzt. Unsicher ferner „ग्राममन्त्रकृतं“ (32), „कुशीतरालि…“ (44), „लवणेनाप्यामन्त्र्य“ (45).]

जातवेदो महादेव तप्तजाम्बूनदप्रभ |
स्वाहापते विश्वभक्ष लवणं दह शत्रुहन् ॥ ४६ ॥ ईशे शर्वरि शर्वाणि ग्रस्तं भुक्तं त्वया जगत् |
महादेवि नमस्तुभ्यं वरदे कामदा भव ॥ ४७ ॥ तमोमयि महादेवि महादेवस्य सुव्रते |
त्रियामे पुरुषं हृत्वा वशमानय देवि मे ॥ ४८ ॥ दुर्गे दुर्गादिरहिते दुर्गसंरोधनाकुले |
चक्रशङ्खधरे देवि दुष्टशत्रुभयङ्करि ॥ ४९ ॥ नमस्ते दह शत्रुं मे वशमानय चण्डिके |
शाकंभरि महादेवि शरणं मे भवानघे ॥ ५० ॥ भद्रकालि भवाभीष्टे भद्रसिद्धिप्रदायिनि |
सपत्नान् मे हनं हन दह शोषय तापय ॥ ५१ ॥ शूलासिशक्तिवज्राद्यैरुत्कृत्योत्कृत्य मारय |
महादेवि महाकालि रक्तास्मानक्षरात्मिके ॥ ५२ ॥ साध्यं संस्मृत्य निर्भिद्य पुत्तलीं सप्तधा ततः |
ऋक्पञ्चकं समुच्चार्य जुहुयादेधितेऽनले ॥ ५३ ॥ प्रथमो दक्षिणः पादस्तत्करस्तदनन्तरम् |
शिरस्तृतीयमाख्यातं वामहस्तस्ततः परम् ॥ ५४ ॥ मध्यादूर्ध्वं पञ्चमः स्यादधोऽङ्गः षष्ठ ईरितः |
सप्तमो वामपादः स्यादेवं भागक्रमः स्मृतः ॥ ५५ ॥ सप्तसप्तविभागो वा प्रोक्तेष्वेषु यथाविधि |
हुत्वैवमर्चयित्वाग्निं प्रणमेद् दण्डवत्ततः ॥ ५६ ॥ यजमानो धनैर्धान्यैः प्रीणयेद्गुरुमात्मनः |
अनेन विधिना मन्त्री वशयेत् ससुरासुरान् ॥ ५७ ॥ किं पुनर्मनुजान् भूपानमात्यान् वारयोषितः |
मारणे पूर्वसंप्रोक्तं पुत्तलीनां चतुष्टयम् ॥ ५८ ॥ निवेशयेद्यथापूर्वं साधकेन्द्रो विधानवित् |
अपरां वक्ष्यमाणेन विधानेन प्रकल्पयेत् ॥ ५९ ॥ वराहपारावतविट्तिलव्यूषणरामठैः |
व्रणकृन्निम्बसिद्धार्थसाध्यवामांघ्रिरेणुभिः ॥ ६० ॥ माहिषीमूत्रसंपिष्टैः पूर्वोक्तलवणान्वितैः |
विधाय पुत्तलीं सम्यक् प्राणस्थापनमाचरेत् ॥ ६१ ॥ जपपूजादिकं सर्वं कुर्यात् प्रागुक्तवर्त्मना |
ततः पूर्वोदिते कुण्डे रात्रौ प्रज्वलितेऽनले ॥ ६२ ॥ दुर्गां वा भद्रकालीं वा समाराध्य यथाविधि |
धारयेन्निशितं शस्त्रं सव्यहस्तेन साधकः ॥ ६३ ॥ वामपादं समारभ्य दक्षिणाङ्घ्र्यवसानकम् |
छित्त्वा च्छित्त्वा प्रजुहुयान्निराहारो जितेन्द्रियः ॥ ६४ ॥ कृष्णाष्टमीं समारभ्य यावत्कृष्णचतुर्दशीम् |
अनेनैव विधानेन होमं कुर्याद्विचक्षणः ॥ ६५ ॥ त्रिमासाद्योगेन मारयेद्रिपुमात्मनः |
[Zweiter Halbvers fehlt im Druck] ॥ अथ लवणमन्त्राः— लवणाम्भसि तीक्ष्णोऽस्युग्रोऽसि हृदयं तव |
लवणस्य पृथिवी माता लवणस्य वरुणः पिता ॥ १ ॥ लवणे हूयमाने तु कुतो निद्रा कुतो रतिः |
लवणं पचति पाच लवणं छिन्दति भिन्दति ॥ २ ॥ अमुष्य दह गात्राणि दह मांसं दह त्वचम् |
दह त्वगस्थिमज्जानि अस्थिभ्यो मज्जकां दह ॥ ३ ॥ यदि वसति योजनशते नदीनां वा शतान्तरे |
नगरे लोहप्राकारे कृष्णसर्पशतार्गले ॥ ४ ॥ तं दग्ध्वानय मे शीघ्रमग्ने लोणस्य तेजसा |
वशमायातु लवणमन्त्रशक्तिपुरस्कृतः ॥ ५ ॥ १ ‘एषा मे’ ग. पाठः |
२ ‘देहि’ क. पाठः |
३ ‘सर्गे’ क. पाठः |
४ ‘गैले’ क. पाठः |
५ ‘हन दह शोषय तापय तापय’ ख. पाठः |
६ ‘संस्कृत्य’ ख. ग. पाठः |
७ ‘नृप’ ख. पाठः |
८ ‘सम्यगुक्तेन’ ग. पाठः |
[Redaktion: „रक्तास्मानक्षरात्मिके“ (52), „त्रिमासाद्योगेन“ im unnummerierten Halbvers und „पाच“ (Salzmantra 2) sind unsicher beziehungsweise grammatisch auffällig.]

या ते रात्रिः शल्यविद्धस्य शूलाग्रारोपितस्य च |
या ते रात्रिर्महारात्रिः सा ते रात्रिर्महानिशा ॥ ५ ॥ इति |
एतेषु ऋगादिषु प्रणवान् संयोज्य प्रणवपाशादि त्र्यक्षरादिं चिटिमन्त्रसमेतं ऋक्पञ्चकं जपेत् |
अथवा सर्वेषु ऋगादिषु चिटिमन्त्रादौ च आवरणदेवतादिषु च प्रणवपाशादित्र्यक्षरं योजयेत् ॥ पिप्पलादमते अथ लवणमन्त्राः— लवणाम्भसि तीक्ष्णोऽसि उग्रोऽसि हृदयं तव |
लवणस्य पृथिवी माता लवणस्य जलं पिता ॥ १ ॥ लवणं दहति पचति लवणं छिन्धि भिन्दति |
लवणे हूयमाने तु कुतो निद्रा कुतो रतिः ॥ २ ॥ अमुकस्य दह गात्राणि दह मांसं दह्यनलम् |
दह त्वगस्थिमज्जानि अस्थिभ्यो मज्जिकां दह ॥ ३ ॥ यदि वसति योजनशते नदीनां च शतान्तरे |
सं दग्ध्वा च स मे शीघ्रमग्नेलवणतेजसा ॥ ४ ॥ या ते रात्रिर्महारात्रिर्याते रात्रिर्महानिशा |
या रात्रिः शल्यविद्धस्य शूलाग्रारोपितस्य च ॥ ५ ॥ ॐ चिटि चिटि चाण्डालि महाचाण्डालि अमुकं मे वशमानय स्वाहा, इति लवणमन्त्राः ॥ अस्याङ्गिरा ऋषिः, अनुष्टुप् छन्दः, अग्निरात्रिदुर्गाभद्रकाल्यो देवताः, मन्त्रस्य हलो बीजानि, स्वराः शक्तयः |
लवणाम्भसि—लवणे हूयमाने—दह त्वगस्थि—संदग्ध्वा—या ते रात्रिरित्येतैः पञ्चमन्त्रैः पञ्चाङ्गानि |
अथवा चिटिमन्त्राक्षरैः पञ्चत्रिपञ्चचतुःपञ्चद्विसंख्याकैः क्रमात् षडङ्गानि ॥ ध्यानम्— अरुणोऽरुणपङ्कजसन्निविष्टः स्रुवशक्तिवराभययुक्तकरः |
अमितार्चिरजातगतिर्विलसन्नयनत्रितयोऽवतु वो दहनः ॥ १ ॥ नीलतरांशुककेशकलापा नीलतनुर्निबिडस्तनभारा |
साङ्कुशपाशसशूलकपाला यामवती भवतोऽवतु नित्यम् ॥ २ ॥ करकमलविराजच्चक्रशङ्खासिशूला परिलसितकिरीटा पातितानेकदैत्या |
त्रिनयनलसिताङ्गी तिम्मरारिप्रकाशा पवनसखनिभाङ्गी पातु कात्यायनी वः ॥ ३ ॥ सुरौद्रसितदंष्ट्रिका त्रिनयनोर्ध्वकेशोल्बणा कपालपरशुल्लसड्डमरुका त्रिशूलोज्ज्वला |
घनावननिभा रणद्रुचिरकिङ्किणीमालिका भवद्विभवसिद्धये भवतु भद्रकाली चिरम् ॥ ४ ॥ इति ध्यानम् |
अयुतजपः पुरश्चरणम् |
अत्यन्तनियतस्य त्रिसहस्रजपः पुरश्चरणम् |
आज्यचरुणा दशांशहोमः |
अष्टमीमारभ्य चतुर्दशीपर्यन्तं रात्रिषु प्रतिदिनं कुडवपरिमितलवणचूर्णमधुरत्रयोपेतैरष्टोत्तरं द्विशतं जुहुयात् |
एवं सप्तरात्रहोमेन साध्यो दासवद्वश्यो भवति |
प्रयोगकाले मन्त्रस्यामुकपदस्थाने साध्यनाम निवेश्य जुहुयात् प्रजपेच्च ॥ साध्यनक्षत्रवृक्षास्तु— कारस्करोऽश्व धात्री स्वादूदुम्बरतरुः पुनः |
जम्बूः खदिरकृष्णाख्यौ वंशपिप्पलसंज्ञकौ ॥ १ ॥ नागरोहिणनामानौ पलाशप्लक्षसंज्ञकौ |
अम्बष्ठबिल्वार्जुनाख्यविषङ्कतमहीरुहाः ॥ २ ॥ बकुलः शम्बरः सर्जो वञ्जुलः पानसार्ककौ |
शमीकदम्बाम्रनिम्बमधूका ऋक्षशाखिनः ॥ ३ ॥ १ ‘सरलः’ क. ख. पाठः |
[Redaktion: Der abschließende Salzvers trägt erneut die Nummer 5. „पञ्चक“ steht neben sechs nummerierten Texteinheiten der vorausgehenden Fassung. Unsicher sind „दह्यनलम्“, die Satzfügung in Pippalāda-Vers 4, „अजातगतिः“, „तिम्मरारि“ und „घनावननिभा“ in den Betrachtungsversen sowie einzelne Namen der Baumreihe.]

इति ॥ अथान्नपूर्णेश्वरीमन्त्राः |
ज्ञानार्णवे— (६ प० १५ श्लो०) तारं च भुवनेशानीं श्रीबीजं कामराजकम् |
हृदन्ते भगवत्यर्णान् माहेश्वरिपदं वदेत् ॥ अन्नपूर्णेऽग्निजाया च विद्येयं विंशदक्षरी |
[Zweiter Halbvers fehlt im Druck] ॥ तारं प्रणवः, भुवनेशानी मायाबीजं, श्रीबीजं श्रीमिति, कामराजकं क्लीं, हृन्नमः, भगवति स्वरूपं, माहेश्वरि अन्नपूर्णे स्वरूपं, अग्निजाया स्वाहाकारः |
अत्र माहेश्वर्यन्नपूर्णे इति पदयोः संधिर्विंशदक्षरीत्युक्तेः ॥ तथा— (६—१९) ऋषिर्ब्रह्मास्य मन्त्रस्यानुष्टुप् छन्दोऽभिधीयते |
अन्नपूर्णेश्वरी देवी देवता परिकीर्तिता ॥ १ ॥ बीजं तु भुवनेशानी श्रीबीजं शक्तिरुच्यते |
कीलकं कामराजं स्यात् षडङ्गानि ततः परम् ॥ २ ॥ इति |
दक्षिणामूर्तिः— (१६ प० ७ श्लो०) षड्दीर्घस्वरसंभिन्नां हृल्लेखां कुरु पार्वति |
एभिरङ्गानि विन्यस्य वर्णन्यासमथाचरेत् ॥ १ ॥ ब्रह्मरन्ध्रे च सीमन्ते भालभ्रूमध्ययोर्नसि |
वक्त्रे कण्ठे च हृदये कुक्षिनाभिषु लिङ्गके ॥ २ ॥ आधारे स्फिग्द्वये चोरुद्वये जानुद्वये तथा |
पादयोर्देवदेवेशि (पदन्यासं ततश्चरेत् ॥ ३ ॥ नवद्वारेषु देवेशि पदन्यास उदाहृतः |
[Zweiter Halbvers fehlt im Druck] ॥ ज्ञानार्णवे तु— (६—२३) पदानि नव देवेशि) नवद्वारेषु विन्यसेत् |
मूर्धादिगुदपर्यन्तं पुनस्तु वरानने ॥ ४ ॥ गुदादिब्रह्मरन्ध्रान्तं पदानां नवकं न्यसेत् |
[Zweiter Halbvers fehlt im Druck] ॥ गुदः पर्यन्तो दशमो येषां ब्रह्मरन्ध्रादीनामित्यर्थः |
तेन ब्रह्मरन्ध्रादिलिङ्गपर्यन्तं नव पदानि विन्यस्य पुनर्गुदादिदक्षनेत्रान्तानि तान्येव पदानि न्यसनीयानीति |
ब्रह्मरन्ध्रास्यहृदयमूलाधारेष्वनुक्रमात् |
चतुर्बीजानि विन्यस्य स्वरेष्वन्यान् प्रविन्यसेत् ॥ गोलकं च ततो देवि विन्यसेद्विधिवत् प्रिये |
[Zweiter Halbvers fehlt im Druck] ॥ गोलकं व्यापकम् ॥ ‘मूलेन व्यापकं न्यासं कुर्याद् देहस्य सिद्धये’ इति दक्षिणामूर्त्युक्तवाक्यात् |
स्वरेषु स्वरन्यासस्थानेषु |
ध्यानम्— तप्तकाञ्चनसंकाशां बालेन्दुकृतशेखराम् |
नवरत्नप्रभादीप्तमुकुटां कुङ्कुमारुणाम् ॥ १ ॥ चित्रवस्त्रपरीधानां शफराक्षीं त्रिलोचनाम् |
सुवर्णकलशाकारपीनोन्नतघटस्तनीम् ॥ २ ॥ नृत्यन्तमीशमनिशं दृष्ट्वानन्दमयीं पराम् |
सानन्दमुदुल्लोलाक्षीं मेखलाढ्यां नितम्बिनीम् ॥ ३ ॥ अन्नदानरतां नित्यं भूमिश्रीभ्यां नमस्कृताम् |
[Zweiter Halbvers fehlt im Druck] ॥ अन्नदानरतामित्यनेन वामहस्तेऽन्नपात्रं दक्षिणहस्ते दर्वीं धृतवतीति ज्ञेयम् |
‘अथवा दक्षिणे हस्ते दर्वीं ध्यायेत् सुवर्णजाम् |
दुग्धान्नभरितं पात्रं दिव्यरत्नविभूषितम् ॥ वामहस्ते महेशानि’ इति संहितोक्तेः |
१ ‘कृतिश्छन्दोऽभिधीयते’ ख. पाठः |
२ ‘बीजं’ क. पाठः |
३ ‘वर्णाभां’ क. पाठः |
४ ‘शावकाक्षीं’ क. पाठः |
५ ‘प्रज्वलतां’ क. पाठः |
[Redaktion: Die Klammer zwischen den Zitaten und die Nummer 4 nach dem Quellenwechsel stehen so im Druck. Die Zuordnung von neun Wörtern zu zehn Endpunkten ist in der Glosse eigens problematisiert; die abweichenden Endpunkte werden bewahrt. „सानन्दमुदुल्लोलाक्षीं“ bleibt eine unsichere Lesung.]

ज्ञानार्णवे— (६—२५) त्रिकोणं च चतुष्पत्रं वसुपत्रं ततः परम् |
कलापत्रं च भूविम्बं सचतुर्द्वारमालिखेत् ॥ १ ॥ भूविम्बं चतुरस्रत्रयात्मकं, चतुरस्रत्रयं च कुर्यात् |
चतुर्द्वारोपशोभितमिति संमोहनपञ्चरात्रात् |
एतत्सर्वदैवतपरं ज्ञेयम् |
‘सर्वेष्वेव विधातव्यं पूजाचक्रेषु भूगृहम्’ इति स्वयमभिधानात् |
सिंहासनस्य परितः पीठदेवीः समर्चयेत् |
सिंहासने दक्षिणे तु कथिताः पीठनायिकाः ॥ २ ॥ ता एव पूजिताः पीठे वामाद्याः परमेश्वरि |
[Zweiter Halbvers fehlt im Druck] ॥ वामाद्याः शैवपीठशक्तयः |
अथवा— समभ्यर्च्य जयाद्यास्तु पीठशक्तीर्नव क्रमात् |
पीठं च पीठमन्त्रेण हृल्लेखाद्याः प्रपूजयेत् ॥ १ ॥ इति संमोहनतन्त्रवचनात् |
‘जयादिनवशक्तीश्च पूजयेत्तदनन्तरम्’ इति सारसंग्रहवचनात् |
पूर्वोक्तभुवनेश्वरीपीठस्य जयादिनवशक्तयः, तत्पीठमन्त्रश्च वा ग्राह्यः |
तथा— (६—३४) एवं ध्यात्वा यजेद्देवीं षडङ्गावरणं यजेत् |
तारं प्रासादबीजं च हृच्छिवाय ततः परम् ॥ १ ॥ सप्ताक्षरी महाविद्या अनया देवि पूजयेत् |
गोक्षीरधामधवलं पञ्चवक्त्रं त्रिलोचनम् ॥ २ ॥ प्रसन्नवदनं शान्तं नीलकण्ठविराजितम् |
कपर्दिनं स्फुरत्सर्पभूषणं कम्बुसन्निभम् ॥ ३ ॥ नृत्यन्तमीश्वरं देवं त्रिकोणाग्रे सुरेश्वरि |
ॐ नमः पदमाभाष्य ततो भगवतेपदम् ॥ ४ ॥ ततो वराहरूपाय भूर्भुवःस्वःपतिस्तथा |
ङेन्तं भूमिपतित्वं च मे देहि च ददापय ॥ ५ ॥ वह्निजायान्वितो मन्त्रो वराहस्य वरानने |
अनया विद्यया देवि वामकोणे प्रपूजयेत् ॥ ६ ॥ ॐ नमःपदमाभाष्य ङेन्तं नारायणं लिखेत् |
नारायणं दक्षकोणे क्रमेण परिपूजयेत् ॥ ७ ॥ वामदक्षिणयोः पूज्ये भूश्रियौ परमेश्वरि |
एकेन मनुना देवि कथयामि तवानघे ॥ ८ ॥ अन्नमहि पदं चान्नं मे देह्यन्नाधिपान्तिके |
तये ममान्नमाभाष्य प्रदापय ततः परम् ॥ ९ ॥ वह्निजायान्वितो मन्त्रः संपुटीकृत्य पूजयेत् |
ग्लौमात्मकेन रमया वामदक्षिणयोः क्रमात् ॥ १० ॥ ततश्चतुर्दले पूज्याः पश्चिमादिक्रमेण तु |
तारेण परविद्यां च भुवनेशीं तदात्मना ॥ ११ ॥ कमलां रमया भद्रे कामेन सुभगां यजेत् |
वसुपत्रे महेशानि ब्राह्म्याद्याः पश्चिमादितः ॥ १२ ॥ षोडशारे महेशानि चन्द्रमण्डलरूपिणीः |
कलाः षोडश संपूज्याः पश्चिमादिक्रमेण हि ॥ १३ ॥ अमृता मानदा पुष्टिस्तुष्टिः प्रीती रतिस्तथा |
ह्रीश्च श्रीश्च सुधा रात्रिर्ज्योत्स्ना हेमवती तथा ॥ १४ ॥ छाया च पूर्णिमा नित्या अमावास्या तु षोडशी |
शेषैर्वर्णैः प्रपूज्याथ अन्नपूर्णान्तशब्दकाः ॥ १५ ॥ चतुरस्रे लोकपालान् क्रमेण परिपूजयेत् |
[Zweiter Halbvers fehlt im Druck] ॥ इति |
अथ प्रथमप्रयोगः— तत्र प्रातःकृत्यादियोगपीठन्यासान्तं मूलेन प्राणायामत्रयं कृत्वा, शिरसि ब्रह्मणे ऋषये नमः |
मुखे अनुष्टुप्छन्दसे नमः |
हृदये श्रीअन्नपूर्णायै देवतायै नमः |
गुह्ये १ ‘कुन्दु’ ग. पाठः |
२ ‘पूषा’ ग. पाठः |

ह्रीं बीजाय नमः |
पादयोः श्रीं शक्तये नमः |
नाभौ क्लीं कीलकाय नमः |
इति विन्यस्य ममान्नसमृद्धये जपे विनियोगः |
इति कृताञ्जलिरुक्त्वा, ह्रां हृदयाय नमः |
ह्रीं शिरसे स्वाहा |
ह्रूं शिखायै वषट् |
ह्रैं कवचाय हुं |
ह्रौं नेत्रत्रयाय वौषट् |
ह्रः अस्त्राय फट् |
इति षडङ्गमन्त्रानङ्गुष्ठादितलान्तं करयोर्विन्यस्य हृदयादिषडङ्गेष्वपि न्यस्य, शिरसि ॐ नमः |
सीमन्ते ह्रीं नमः |
भाले श्रीं नमः |
भ्रूमध्ये क्लीं नमः |
नासायां नं नमः |
मुखे मों नमः |
कण्ठे भं नमः |
हृदि गं नमः |
उदरे वं नमः |
नाभौ तिं नमः |
लिङ्गे मां नमः |
आधारे हें नमः |
दक्षस्फिजि श्वं नमः |
वामे रिं नमः |
दक्षोरौ अं नमः |
वामोरौ अं नमः |
दक्षजानुनि पूं नमः |
वामे णें नमः |
दक्षपादे स्वां नमः |
वामे हां नमः |
इति वर्णन्यासः ॥ ततो ब्रह्मरन्ध्रे ॐ नमः |
दक्षनेत्रे ह्रीं० |
वामे श्रीं० |
दक्षश्रोत्रे क्लीं० |
वामे नमो० |
दक्षनासारन्ध्रे भगवति० |
वामे माहेश्वरि० |
मुखे अन्नपूर्णे० |
लिङ्गे स्वाहा० |
इति विन्यस्यैतान्येव पदानि गुदलिङ्गमुखवामदक्षनासारन्ध्रवामदक्षश्रोत्रवामदक्षनेत्रेषु |
इति पदन्यासः ॥ ततो ब्रह्मरन्ध्रे ॐ नमः |
मुखे ह्रीं नमः |
हृदये श्रीं नमः |
मूलाधारे क्लीं नमः |
इति विन्यस्य शिष्टं षोडशस्वरन्यासस्थानेषु न्यसेत् |
ततो मूलेन व्यापकं कृत्वा ध्यानाद्यात्मपूजान्ते प्रागुक्तभुवनेश्वरीपीठं समभ्यर्च्यावाहनादिपुष्पोपचारान्ते प्राग्वदङ्गानि संपूज्य, त्रिकोणाग्रे ‘ॐ हौं नमः शिवाय शिवाय नमः’ इति मन्त्रेण नृत्यन्तं शिवं संपूज्य, वामकोणे ‘ॐ नमो भगवते वराहरूपाय भूर्भुवःस्वःपतये भूपतित्वं मे देहि ददापय स्वाहा वराहाय नमः’ |
इति वराहं संपूज्य, दक्षकोणे ‘ॐ नमो नारायणाय नारायणाय नमः’ इति संपूज्य, त्रिकोणाभ्यन्तरे देव्या वामभागे ‘ग्लौं अन्नमह्यन्नं मे देहि अन्नाधिपतये ममान्नं प्रदापय स्वाहा ग्लौं भूम्यै नमः’ इति संपूज्य, दक्षभागे ‘श्रीं अन्नमह्यन्नं मे देहि अन्नाधिपतये ममान्नं प्रदापय स्वाहा श्रीं श्रिये नमः’ इति संपूज्य, चतुर्दलेषु देव्यग्रादितः— ॐ परविद्यायै नमः |
ह्रीं भुवनेश्वर्यै नमः |
श्रीं कमलायै नमः |
क्लीं सुभगायै नमः ॥ ततोऽष्टदलेषु ब्राह्म्याद्याः संपूज्य, षोडशदलेषु देव्यग्रादि प्रादक्षिण्येन नं अमृतायै अन्नपूर्णायै० मों मानदायै अन्नपूर्णायै० भं पुष्ट्यै अन्नपूर्णायै० गं तुष्ट्यै अन्नपूर्णायै० वं प्रीत्यै अन्नपूर्णायै० तिं रत्यै अन्नपूर्णायै० मां ह्रियै अन्नपूर्णायै० हें श्रियै अन्नपूर्णायै० श्वं स्वधायै अन्नपूर्णायै० रिं रात्र्यै अन्नपूर्णायै० अं ज्योत्स्नायै अन्नपूर्णायै० अं हेमवत्यै अन्नपूर्णायै० पूं छायायै अन्नपूर्णायै० णें पूर्णिमायै अन्नपूर्णायै० स्वां नित्यायै अन्नपूर्णायै० हां अमावास्यायै अन्नपूर्णायै नमः |
तद्बहिश्चतुरस्रे प्राग्वदिन्द्रादीन् संपूज्य शेषं समापयेदिति ॥ दक्षिणामूर्तिः— (१६ |
१७) लक्षं जपेत् सनियमो दशांशेन तु होमयेत् |
रम्यपायससर्पिर्भ्यां सिद्धिदा भवति ध्रुवम् ॥ १ ॥ इति |
सारसंग्रहे— तर्पणादि ततः कुर्यात् पूर्वोक्तविधिना सुधीः |
अन्नपूर्णेश्वरी देवी पूजितान्नसुवर्णदा ॥ १ ॥ अनया विद्यया जातः कुबेरो धननायकः |
अन्नपूर्णेश्वरी नाम सर्वसंपत्समृद्धिदा ॥ २ ॥ इति |
तथा— बीजहीनेयमेव स्यात् षोडशार्णा तथा परे |
मायाद्या साथ ताराद्या मता सप्तदशाक्षरा ॥ १ ॥ १ ‘परा’ ग. पाठः |
[Redaktion: Einige Nasal- und Vokalzeichen der Buchstabenzuordnung sind unscharf. Hier steht स्वधा gegenüber सुधा auf Druckseite 209. Die Prosa führt माहेश्वरि und अन्नपूर्णे getrennt, während die Glosse auf Druckseite 208 Sandhi verlangt.]

मायातारादिका चान्या गदिताष्टादशार्णका |
ऋष्याद्याः पूर्वमुदिता माययाङ्गक्रिया मता ॥ २ ॥ अर्चनाङ्गेन्द्रवज्राद्यैः साधयेत् पूर्ववच्च ताः |
[Zweiter Halbvers fehlt im Druck] ॥ भगवति भवरोगात् पीडितं दुष्कृतोत्थात् सुतदुहितृकलत्रोपद्रवेणानुयातम् |
विलसदमृतदृष्ट्या वीक्ष्य विभ्रान्तचित्तं सकलभुवनमातस्त्राहि मामोन्नमस्ते ॥ ३ ॥ माहेश्वरीमाश्रितकल्पवल्लीमहं भवोच्छेदकरीं भवानीम् |
क्षुधार्तजायातनयाद्युपेतस्त्वामन्नपूर्णे शरणं प्रपद्ये ॥ ४ ॥ दारिद्र्यदावानलदह्यमानं पाह्यन्नपूर्णे गिरिराजकन्ये |
कृपाम्बुधौ मज्जय मां त्वदीये त्वत्पादपद्मार्पितचित्तवृत्तिम् ॥ ५ ॥ इत्यन्नपूर्णास्तुतिरत्नमेतच्छ्लोकत्रयं यः पठतीह भक्त्या |
तस्मै ददात्यन्नसमृद्धिमम्बा श्रियं च विद्यां च यशश्च भुक्तिम् ॥ ६ ॥ अन्नप्रदाख्यमन्त्रस्य पूर्वोक्तस्योच्यते विधिः |
ऋषिर्ब्रह्मा समाख्यातश्छन्दश्चातिकृतिर्मतम् ॥ ७ ॥ देवते भूश्रियौ प्रोक्ते धनधान्यप्रदे शुभे |
वेदेषुशरमुनिद्वयमितैर्मन्त्रार्णकैः पृथक् ॥ ८ ॥ पञ्चाङ्गानि मनोः कुर्याज्जातियुक्तानि मन्त्रवित् |
[Zweiter Halbvers fehlt im Druck] ॥ क्षीराब्धौ रजतोच्चवप्रकनकद्वीपे सुराये (?) शुभे कल्पद्रुव्रजशोभिते मणिमये सद्वित्तपस्याग्रतः |
आसीने वसुधाश्रियौ धनसमूहान् संसृजन्त्यौ मुहुर्भक्ताय प्रविचिन्तयेद् दिनमुखे धान्यान्नसंपत्तये ॥ ९ ॥ आवाह्य वैष्णवे पीठे देवीं गन्धादिभिर्यजेत् |
पुराङ्गानि यजेद्बाह्ये दिक्षु भूतानि संयजेत् ॥ १० ॥ आद्यानि चत्वारि पुनर्विदिक्षु पूजयेदिमाः |
निवृत्त्याद्याश्चतस्रस्तु बलाक्याद्यास्ततः परम् ॥ ११ ॥ इन्द्रादयस्तदस्त्राणि चैवं पूजा समीरिता |
[Zweiter Halbvers fehlt im Druck] ॥ इति ॥ अथ द्वितीयप्रयोगः— तत्र प्रातःकृत्यादियोगपीठन्यासान्तं मूलविद्यया प्राणायामत्रयं कृत्वा, शिरसि ब्रह्मणे ऋषये नमः |
मुखे अतिकृतिच्छन्दसे नमः |
हृदये भूश्रीभ्यां देवताभ्यां नम इति विन्यस्य मम धनधान्यसमृद्धये विनियोगः इति कृताञ्जलिरुक्त्वा, मूलमन्त्रेणाभिमृष्टयोः पाण्योः अन्नमहि अङ्गुष्ठाभ्यां नमः |
अन्नं मे देहि तर्जनीभ्यां नमः |
अन्नाधिपतये मध्यमाभ्यां नमः |
ममान्नं प्रदापय अनामिकाभ्यां नमः |
स्वाहा कनिष्ठिकाभ्यां नमः |
इति विन्यस्य हृदयादिष्वपि नेत्रहीनेषु पञ्चाङ्गेषु न्यसेत् |
अन्नमहि हृदयाय नमः |
अन्नं मे देहि शिरसे स्वाहा |
अन्नाधिपतये शिखायै वषट् |
ममान्नं प्रदापय कवचाय हुं |
स्वाहा अस्त्राय फट्, ततो ध्यानादिमानसपूजान्ते चतुर्द्वारयुक्तचतुरस्रत्रयवेष्टितमष्टदलकमलद्वयं पूजाचक्रं कृत्वा, प्राग्वत् संस्थाप्य संपूज्य तत्र वक्ष्यमाणवैष्णवपीठं संपूज्य, तत्र भूश्रियौ समावाह्यास्नानादिपुष्पोपचारान्ते प्राग्वदङ्गानि संपूज्य, प्रथमाष्टदलस्य दिग्दलेषु ॐ आकाशाय नमः |
ॐ वायवे नमः |
ॐ अग्नये नमः |
ॐ जलाय नमः, इति संपूज्य, विदिग्दलेषु ॐ निवृत्त्यै नमः |
प्रतिष्ठायै १ ‘दुःखयोगात्’ ख. पाठः |
२ ‘बद्धम्’ ख. पाठः |
[Redaktion: „सुराये (?)“ ist bereits im Druck mit einem Fragezeichen versehen. Der Schluss von Vers 6 lautet in der Hauptlesung भुक्तिम्, nicht मुक्तिम्. Die Prosa hat hier die auffällige Folge आस्नानादि.]

नमः |
विद्यायै नमः |
शान्तये नमः |
इति संपूज्य, द्वितीयाष्टदलेष्वेकाक्षरलक्ष्मीप्रकरणोक्तबलाक्याद्यष्टकं संपूज्य प्राग्वदिन्द्रादिपूजामारभ्य शेषं समापयेदिति |
तथा— नियुतं प्रजपेन्मन्त्रं तद्दशांशं च मन्त्रवित् |
जुहुयादाज्यसंपृक्तेनान्नेन च यथाक्रमम् ॥ १ ॥ तर्पणादि ततः कृत्वा विप्रान् संभोज्य यत्नतः |
गुरुं सन्तोष्य यत्नेन मन्त्रसिद्धिमवाप्नुयात् ॥ २ ॥ दिनादौ प्रजपेन्मन्त्रमष्टोत्तरशतं सुधीः |
क्षेत्रधान्यान्नरत्नौघसमृद्धो भवति ध्रुवम् ॥ ३ ॥ इति ॥ अथाश्वारूढामन्त्राः |
सारसंग्रहे— योनिवियत् सनेत्रं च परमेपदमुच्चरेत् |
अस्थिगं मेदयुक्तं च रक्तस्थं दृक् द्विठावपि ॥ १ ॥ प्रणवाद्यो दशार्णोऽयमश्वारूढामनुर्मतः |
[Zweiter Halbvers fehlt im Druck] ॥ योनिरिकारः, वियद्धकारः सनेत्रं इकारयुक्तं तेन हि, परमे स्वरूपं, अस्थि शकारः मेदो वकारः तेन श्व, रक्तं रेफः दृक् इकारः तेन रि, द्विठः स्वाहाकारः |
तथा— [Erster Halbvers fehlt im Druck] |
ऋषिर्ब्रह्मा विराट् छन्दो देवता परिकीर्तिता ॥ २ ॥ अश्वारूढा त्रिभिः पदैः प्रणवाद्यैर्द्विरीरितैः |
षडङ्गानि मनोरस्य जातियुक्तानि कल्पयेत् ॥ ३ ॥ अश्वारूढां नवशशियुतां भालनेत्रां च दोष्णा पाशाबद्धं मदनविवशं साध्यमाश्वानयन्तीम् |
दक्षेणोद्यत्कनकरचितां वेत्रयष्टीं दधानां बन्धूकाभां मनसि कलये पीनवक्षोजनम्राम् ॥ ४ ॥ इति |
तन्त्रराजे तु— (३३ |
३१) ‘लोहितां लोहिताश्वस्थां लोहिताम्बरभूषणाम् |
चतुर्भुजां त्रिनयनां प्रसन्नवदनाम्बुजाम् ॥ १ ॥ अश्वं दक्षिणे वामेन चर्मयष्टिं समुज्ज्वलाम् |
अन्याभ्यां हेमपाशेन कण्ठे बद्ध्वा स्वसाध्यकम् ॥ २ ॥ हेमवेत्राहतं बद्धकरयुग्मकृताञ्जलिम् |
दासोऽहमिति भाषन्तं पातितं निजपादयोः ॥ ३ ॥ स्मरन्’ |
इति चतुर्भुजध्यानमुक्तम् |
शाक्ते पीठे यजेद्देवीं पुराङ्गानि प्रपूजयेत् |
मातॄरिन्द्रादिकान् बाह्ये तदस्त्राणि ततो बहिः ॥ १ ॥ पूजेयमश्वारूढायाः प्रोक्ता सर्वसमृद्धिदा |
[Zweiter Halbvers fehlt im Druck] ॥ इति |
अथ प्रयोगः— तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा, शिरसि ब्रह्मणे ऋषये नमः |
मुखे विराजे छन्दसे नमः |
हृदये अश्वारूढायै देवतायै नमः, इति विन्यस्य वश्यार्थे विनियोगः |
इति कृताञ्जलिरुक्त्वा, एहि हृदयाय नमः |
परमेश्वरि शिरसे स्वाहा |
स्वाहा शिखायै वषट् |
एहि कवचाय हुं |
परमेश्वरि नेत्रत्रयाय वौषट् |
स्वाहा अस्त्राय फट्, इति करषडङ्गन्यासं कृत्वा ध्यानादिपुष्पोपचारान्ते प्राग्वदङ्गानि संपूज्य, (अष्टदलेषु प्राग्वद् ब्राह्म्याद्याः संपूज्य) चतुरस्रे लोकपालान् संपूज्य धूपादिशेषं प्राग्वत् समापयेत् |
तथा— जपेदयुतसंख्याकं तद्दशांशं हुनेद्घृतैः |
तर्पणादि ततः कुर्यात् पूर्वोक्तविधिना सुधीः ॥ १ ॥ १ ‘संस्थिते’ ख. पाठः |
[Redaktion: Die Waffenzuordnung in Tantrarāja-Vers 2 ist im Druck sprachlich auffällig. Der Mantracode nennt zunächst e und hi, während die anschließende Glosse den ersten Vokal als इ erklärt; die ausgeschriebene Nyāsa-Prosa hat एहि. Die letzte Verszeile ist im Druck vorhanden, obwohl sie in der OCR fehlt.]

इत्थं ध्यात्वैव सकलं विश्वं वशयतेऽचिरात् |
आज्यान्नं जुहुयान्मन्त्री लभते वाञ्छितं फलम् ॥ २ ॥ त्रिमध्वक्तैस्तथा लाजैर्हुतैर्वश्या नृपाः किल |
प्रोक्तेनैव विधानेन वश्याः स्युर्वनिता अपि ॥ ३ ॥ अनया विद्यया सर्पिर्होमः काञ्चनदो मतः |
त्रिस्वादुभिः सहस्रं च हुनेत् स्त्रीवश्यसिद्धये ॥ ४ ॥ पूर्वोक्तेनैव होमेन नारीमाकर्षयेद् ध्रुवम् |
प्रणवाद्यथ मायादिरयमेकादशार्णकः ॥ ५ ॥ षड्दीर्घमाययैवास्य षडङ्गविधिरीरितः |
[Zweiter Halbvers fehlt im Druck] ॥ इति |
तथा— प्रणवं पाशहृल्लेखे ह्यङ्कुशाद्योऽयमीरितः |
त्रयोदशार्णको द्वाभ्यामेकेनैकेन युग्मतः ॥ ६ ॥ पञ्चभिश्च तथा द्वाभ्यां षडङ्गविधिरीरितः |
[Zweiter Halbvers fehlt im Druck] ॥ पाशः आं, हृल्लेखा ह्रीं, अङ्कुशः क्रों, अयं दशार्णः |
पुरश्चरणमस्त्रार्णोः पञ्चलक्षं प्रकीर्तितम् |
पूजादिकं स्यादनयोः पूर्वमन्त्रानुसारतः ॥ ७ ॥ कोष्ठानां द्वादशकं कृत्वा मध्यस्थवेदमिते कोष्ठे |
प्रणवं साध्यसमेतं शिष्टेषु द्वादश मन्त्रार्णान् ॥ ८ ॥ अशेषनारीनरपनरवश्यप्रदं मतम् |
अश्वारूढायन्त्रमेतत् पूजितं सर्वकामदम् ॥ ९ ॥ इति |
केरलीये यन्त्रसारे— मध्ये शक्तिं ससाध्यां ज्वलनपुरयुगास्त्रिष्वथो पाशशक्तिं क्रौं मैक्लौं सौंः क्रमेण प्रविलिखतु बहिर्मन्त्रवर्णान् दलेषु |
एकैकं भानुसंख्येष्वपि मदनशरैर्नित्यया मातृकार्णैरावीतं यन्त्रमेतद्धरणिपुरगतं श्रीकरं वश्यकारि ॥ अस्यार्थः— षट्कोणमध्ये ससाध्यं शक्तिबीजं विलिख्य (तत्कोणेषु आं ह्रीं क्रौं मै क्लौं सौः इत्येकमेकं बीजं विलिख्य बहिर्द्वादशदलेषु शक्तिरहितद्वादशाक्षराणि एकैकं क्रमेण विलिख्य) बहिर्वृत्तचतुष्टयं कृत्वा प्रथमवीथ्यां पूर्वोक्तैर्बाणबीजैर्द्वितीयवीथ्यां वक्ष्यमाणनित्यक्लिन्नानित्याविद्यया तृतीयवीथ्यां मातृकार्णैश्च निरन्तरं संवेष्ट्य तद्बहिश्चतुरस्रं कुर्यादेतदुक्तफलदं भवति |
तथा— प्रणवो भुवनाधीशा नमो भगपदं वति |
माहेश्वर्येहि परमेश्वरि स्वाहान्तिको मनुः ॥ एकविंशार्णकः प्रोक्तः पूजाद्यं चास्य पूर्ववत् |
[Zweiter Halbvers fehlt im Druck] ॥ भुवनाधीशा ह्रीं, अन्यत्सुगमम् |
अत्र माहेश्वर्येहिपदयोर् न सन्धिरेकविंशाक्षर इत्युक्तेः ॥ अथ गौरीमन्त्राः |
सारसंग्रहे— मायां वदेद्गौरि रुद्रदयिते योपदं वदेत् |
गेश्वर्यन्ते च वर्मास्त्रद्विठान्तः षोडशाक्षरः ॥ १ ॥ माया ह्रीं, वर्म हुं, अस्त्र फट्, द्विठः स्वाहा |
अजोऽस्य ऋषिराख्यातोऽनुष्टुप् छन्दश्च देवता |
गौरी सौभाग्यसदृश्यसर्वसंपत्प्रदायिका ॥ २ ॥ षड्दीर्घमायया कुर्यात् षडङ्गानि मनोरथ |
हेमाभां बिभ्रतीं दोर्भिर्दर्पणाञ्जनसाधने ॥ ३ ॥ पाशाङ्कुशौ सर्वभूषां तां गौरीं सर्वदा स्मरेत् |
[Zweiter Halbvers fehlt im Druck] ॥ वामाधःस्थयोराद्ये तदाद्यधःस्थयोरन्ये, इत्यायुधध्यानम् |
[Redaktion: Der Beginn von Vers 7 „अस्त्रार्णोः“ und die Bījas „मैक्लौं“ beziehungsweise „मै“ in der Yantra-Anweisung sind unsicher. Die Zellenzahlen in Vers 8 stimmen nicht ohne weiteres zusammen. Die abschließende Zuordnung der vier Attribute Gaurīs ist sprachlich beschädigt.]

[Erster Halbvers fehlt im Druck] |
शाक्ते पीठे यजेद्गौरीं चन्दनाद्यैर्मनोहरैः ॥ ४ ॥ अङ्गानि पूर्वमभ्यर्च्य सुभगाद्यास्ततो यजेत् |
सुभगा ललिता चान्या कामिनी काममालिनी ॥ ५ ॥ पाशाङ्कुशौ दर्पणोऽञ्जनशलाकाष्टमी मता |
शक्रादयस्तदस्त्राणि गौरीपूजा समीरिता ॥ ६ ॥ इति |
प्रपञ्चसारे तु— धर्मादिकल्पिते पीठे पीठशक्तीरिमा यजेत् |
प्रभा ज्ञाना च वाग्वागीश्वरी स्याज्ज्वालिनी परा ॥ १ ॥ वामा ज्येष्ठा च रौद्री च गुह्यशक्तिश्च ता नव |
ह्रस्वत्रयक्लीबवर्ज्यस्वराढ्यभृगुणान्विताः ॥ २ ॥ ह्रस्वत्रयं अइउ, क्लीबाः ऋॠलृलॄ, भृगुः सकारः |
गौंगौरीमूर्तये हृच्च पीठमन्त्रश्च कल्पिते |
एवं पीठे यजेद्देवीं चन्दनाद्यैर्मनोहरैः ॥ ३ ॥ सुभगायै च विद्मान्ते हेअन्ते काममालि च |
न्यै स्याद्धीमहि तन्नो च गौरी स्यात्तत्प्रचोदयात् ॥ ४ ॥ गायत्र्या त्वनया सर्वानुपचारान् प्रकल्पयेत् |
अङ्गानि पूर्वमभ्यर्च्य सुभगाद्यास्ततो यजेत् ॥ ५ ॥ भृगुः साम्बुः सद्वितुर्यषष्ठार्केन्दुस्वरादिकाः |
सुभगा ललिता चान्या कामिनी काममालिनी ॥ ६ ॥ दिक्ष्वन्यत्र स्वायुधानि लोकपालैस्तदायुधैः |
[Zweiter Halbvers fehlt im Druck] ॥ भृगुः सकारः अम्बु वकारः द्वि आ, तुर्य ई, षष्ठ ऊ, अर्क ऐ, तेन स्वां स्वीं स्वूं स्वैं |
आयुधानि दर्पणाञ्जनसाधनपाशाङ्कुशाः |
अथ प्रयोगः— तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा, शिरसि अजऋषये नमः |
मुखे अनुष्टुप्छन्दसे नमः |
हृदये श्रीगौर्यै देवतायै नमः |
इति विन्यस्य ममाभीष्टार्थसिद्धये विनियोगः, इति कृताञ्जलिरुक्त्वा ह्रांमित्यादिना करषडङ्गन्यासं विधाय, ध्यानाद्यात्मपूजान्ते मण्डूकादिपरतत्त्वान्तं पीठमभ्यर्च्याष्टदलकेसरेषु स्वाग्रादिप्रादक्षिण्येन सां प्रभायै नमः, सीं ज्ञानायै० सूं वाचे० सैं वागीश्वर्यै० सैं ज्वालिन्यै० सों वामायै० सौं ज्येष्ठायै० सं रौद्र्यै० सः गुह्यशक्त्यै नमः |
इति संपूज्य, गौं गौरीमूर्तये नमः इति समस्तं पीठं संपूज्यावाहनादिमुद्रादर्शनान्ते ‘सुभगायै विद्महे काममालिन्यै धीमहि तन्नो गौरी प्रचोदयात्’ इति गायत्र्या आसनादिसर्वानुपचारान् दद्यात् |
ततः पुष्पोपचारान्ते पूर्ववदङ्गानि संपूज्याष्टदलेषु दिग्दलेषु ॐ स्वां सुभगायै० ॐ स्वीं ललितायै० ॐ स्वूं कामिन्यै० ॐ स्वैं काममालिन्यै० |
विदिक्षु पाशाय० अङ्कुशाय० दर्पणाय० अञ्जनशलाकायै० इति तदग्रादिप्रादक्षिण्येन संपूज्य तद्बहिश्चतुरस्रे लोकपालांस्तदस्त्राणि च संपूज्य धूपादि शेषं प्राग्वत् समापयेदिति |
तथा— एकलक्षं जपेन्मन्त्रं तद्दशांशं हुनेद्घृतैः |
तर्पणादि ततः कुर्याद् गुरुं सन्तोष्य यत्नतः ॥ १ ॥ सिद्धे मन्त्रे प्रकुर्वीत मन्त्री काम्यानि नान्यथा |
वामाक्षीणां च निशया वामोरौ विलिखेन्निशि ॥ २ ॥ आच्छादयन् वामदोष्णा तन्मनाः प्रजपेन्मनुम् |
शतं सहस्रं लोलाक्षीमानयेत् काममोहिताम् ॥ ३ ॥ एतन्मन्त्रेण संजप्तं गन्धपुष्पफलादिकम् |
दत्तं संसेवितं सर्वजनतावश्यकारकम् ॥ ४ ॥ इति |
तथा— अथान्यं संप्रवक्ष्यामि समस्तस्त्रीवशंकरम् |
काञ्चित्स्त्रीवशं शब्दं करिद्विदु पृथग् द्वयम् ॥ १ ‘पद्या’ ग. पाठः |
[Redaktion: Die Prosa druckt für Vāgīśvarī und Jvālinī zweimal सैं, obwohl der vorausgehende Vokalcode सेंसैं erwarten lässt. Die gedruckte Wiederholung wird bewahrt. Die Schlussform „करिद्विदु“ der neuen Mantraerschließung ist unsicher.]

धेयं वाद्वयं स्त्रीस्वाहेति मन्त्रोऽयमीरितः |
एकोनविंशत्यर्णोऽसौ मन्त्रः स्त्रीवश्यदः परः ॥ अस्य पूजादिकं सर्वं मन्त्री पूर्ववदाचरेत् |
अस्याद्यवर्णांस्तत्त्वाङ्कु साध्यनाम प्रयोजयेत् ॥ जपेन्मन्त्रं शतं वापि स वश्यो भवति ध्रुवम् |
[Zweiter Halbvers fehlt im Druck] ॥ इति ॥ अथ पद्मावतीमन्त्राः |
सारसंग्रहे— माया सलोहिता द्मावति स्वाहा सप्तवर्णकः |
पद्मावत्या मनुः प्रोक्तः सर्ववश्यप्रदायकः ॥ १ ॥ माया भुवनेश्वरीबीजं, लोहितः प, द्मावति स्वरूपम्, स्वाहा स्वरूपं |
तथा— ऋषिर्ब्रह्मा समुद्दिष्टो गायत्री छन्द उच्यते |
पद्मावती देवतास्य ह्रींबीजं शक्तिरस्य तु ॥ २ ॥ स्वाहा स्यान्माययाङ्गानि षड्दीर्घस्वरभिन्नया |
कृत्वा देवीं ततो ध्यायेत् साधकः स्थिरमानसः ॥ ३ ॥ रक्तोत्पलकरद्वन्द्वामब्जस्थां कमलाननाम् |
बन्धूकाभां त्रिनयनां नानाकल्पोज्ज्वलां स्मरेत् ॥ ४ ॥ शक्तिपीठे यजेद्देवीं पुराङ्गानि च मातरः |
लोकपालांस्तदस्त्राणि पद्मावत्यर्चना मता ॥ ५ ॥ प्रयोगः सुगमः |
तथा— पुरश्चरणमस्यैकं लक्षं प्रोक्तं च मन्त्रिभिः |
तद्दशांशेन च घृतैर्जुहुयान्मन्त्रवित्तमः ॥ ६ ॥ एनं मनुं यो भजते सुभगः सर्वयोषिताम् |
षट्कोणान्तर्लिखेच्छक्तिं षट्कोणेषु च संलिखेत् ॥ ७ ॥ मन्त्रार्णांश्च ततो बाह्ये लिपिवीतमिदं मतम् |
रम्यं पद्मावतीयन्त्रं वश्यदं नात्र संशयः ॥ ८ ॥ लिपिवीतं मातृकया |
अन्यत् सुगमम् |
तथा— वाग्भवं प्रथमं बीजं द्वितीयं भुवनेश्वरी |
तृतीयं च रमाबीजं आद्यलक्ष्मीपदं ततः ॥ ९ ॥ स्वयंभुवे पदान्ते च प्रवदेद्भुवनेश्वरी |
ज्येष्ठायै हृदयं चैव मन्त्रः सप्तदशाक्षरः ॥ १० ॥ वाग्भवं ऐं, हृदयं नमः |
अन्यत्सुगमम् |
तथा— ऋषिरस्य स्मृतो ब्रह्मा छन्दोऽष्टिः समुदाहृतम् |
देवता ज्येष्ठलक्ष्मीश्च श्रीमाये शक्तिबीजके ॥ ११ ॥ प्रमृज्य त्रिः करौ विद्वानङ्गन्यासमथाचरेत् |
त्रिवेदाब्धीन्दुभियुग्मवर्णैरङ्गानि षट् क्रमात् ॥ १२ ॥ शिरोभ्रूमध्यवक्त्रेषु बीजानां त्रितयं न्यसेत् |
हृन्नाभ्याधारजान्वङ्घ्रौ पदानां पञ्चकं न्यसेत् ॥ १३ ॥ पद्मासनस्थामरुणामरुणाम्बरधारिणीम् |
कुङ्कुमचोदलिताङ्गीं प्रोत्फुल्लकमलेक्षणाम् ॥ १४ ॥ मन्दस्मितमुखीं ज्येष्ठां कलशं वसुपात्रकम् |
दधानामूर्ध्वबाहुभ्यां पाशमप्यङ्कुशं तथा ॥ १५ ॥ चिन्तयेत् परया भक्त्या देवीमित्थं प्रपूजयेत् |
[Zweiter Halbvers fehlt im Druck] ॥ वामाद्यधःस्थयोराद्ये |
तदाद्यधःस्थयोरन्ये, इत्यायुधध्यानम् |
कलशं सुधाढ्यम् |
सम्यग्धर्मादिभिः पीठं मन्त्रवित् परिकल्पयेत् |
लोहिताक्षी विरूपाक्षी कमला नीललोहिता ॥ १६ ॥ समदा वारुणी पुष्टिरमोघा विश्वमोहिनी |
पूर्वादिदलमूलेषु मध्ये चार्च्याः क्रमादिमाः ॥ १७ ॥ वदेच्च रक्तज्येष्ठायै विद्महे नीलशब्दतः |
ज्येष्ठायै धीमहि प्रोक्त्वा तन्नो लक्ष्मीः प्रचोदयात् ॥ १८ ॥ अनयावाह्य तां ज्येष्ठां पूजयेच्चन्दनादिभिः |
अङ्गानि मातॄर्लोकेशांस्तदस्त्राणि प्रपूजयेत् ॥ १९ ॥ १ ‘षट्कोणं विलि’ ग. पाठः |
२ ‘चक्रं’ क. पाठः |
[Redaktion: Die unnummerierte Mantraerschließung am Seitenbeginn ist beschädigt; besonders „धेयं वाद्वयं“ und „तत्त्वाङ्कु“ sind unsicher. Im Vers 17 steht समदा gegenüber मदायै in der folgenden Prosa. Die Attributglosse bleibt grammatisch unsicher.]

इति ॥ अथ प्रयोगः— तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा, शिरसि ब्रह्मणे ऋषये नमः |
मुखे अष्टिच्छन्दसे नमः |
हृदये ज्येष्ठालक्ष्म्यै देवतायै नमः |
गुह्ये श्रीबीजाय नमः |
पादयोः ह्रींशक्तये नमः, इति विन्यस्य, मूलविद्यया करौ प्रमृज्य, ॐ ऐंह्रींश्रीं हृदयाय नमः |
आद्यलक्ष्मी शिरसे स्वाहा |
स्वयंभुवे शिखायै वषट् |
ह्रीं कवचाय हुं |
ज्येष्ठायै नेत्राभ्यां वौषट् |
नमः अस्त्राय फट्, इत्यङ्गमन्त्रैः करषडङ्गन्यासं विधाय, ध्यानाद्यात्मपूजान्ते मण्डूकादिपरतत्त्वान्तं पीठं संपूज्याष्टदलकेसरेषु स्वाग्रादिमध्यान्तं लोहिताक्ष्यै नमः |
विरूपाक्ष्यै नमः |
कमलायै०, नीललोहितायै०, मदायै०, वारुण्यै०, पुष्ट्यै०, अमोघायै०, विश्वमोहिन्यै०, इति प्रादक्षिण्येन संपूज्य ‘ऐंह्रींश्रीं सर्वशक्तिकमलासनाय नमः’ इति समस्तं पीठं संपूज्य ‘रक्तज्येष्ठायै विद्महे नीलज्येष्ठायै धीमहि तन्नो लक्ष्मीः प्रचोदयात्’ इत्यनया गायत्र्यावाह्य मूलविद्ययासनादिपुष्पोपचारान्तं कृत्वा प्राग्वदङ्गानि संपूज्याष्टदले ब्राह्म्याद्याश्चतुरस्रे लोकपालांस्तदस्त्राणि च संपूज्य धूपदीपादि शेषं प्राग्वत् समापयेदिति ॥ तथा— लक्षं तु प्रजपेन्मन्त्रं जुहुयात् तद्दशांशतः |
पायसेन सुशुद्धेन सर्पिःसिक्तेन साधकः ॥ २० ॥ तर्पणं मार्जनं कृत्वा कुर्याद् ब्राह्मणभोजनम् |
[Zweiter Halbvers fehlt im Druck] ॥ ज्येष्ठामनुं यो भजते मनुष्यः सन्यासपूजाजपतर्पणैश्च |
भोगानिह प्राप्य बहून् स मर्त्यः परत्र विष्णोः पदमेति नित्यम् ॥ २१ ॥ इति |
सारसंग्रहे— अथ वक्ष्ये मन्त्रवरं त्रिपुटासंज्ञकं शुभम् |
लोकरञ्जनकर्तारं चतुर्वर्गफलप्रदम् ॥ १ ॥ यशस्करं पुत्रपौत्रफलं कविताकरम् |
कमला भुवनेशानी तृतीयश्च मनोभवः ॥ २ ॥ वर्णत्रयात्मा त्रिपुटानामको मन्त्र ईरितः |
[Zweiter Halbvers fehlt im Druck] ॥ कमला श्रीं, भुवनेशानी ह्रीं, मनोभवः क्लीं |
दक्षिणामूर्तिसंहितायाम्— ऋषिर्ब्रह्मास्य मन्त्रस्य |
गायत्रं छन्द ईरितम् |
शारदातिलके— ‘ऋषिः संमोहन’ इत्युक्तम् |
आचार्यचरणैः किमपि नोक्तम् |
सारसंग्रहे— [Erster Halbvers fehlt im Druck] |
भृगुः संमोहनोऽस्यर्षिः छन्दो गायत्रमुच्यते ॥ ३ ॥ देवता त्रिपुटाख्या स्याद्द्विरुक्तेनाणुनाङ्गकम् |
अथवा भुवनेशान्या षडङ्गानि प्रविन्यसेत् ॥ ४ ॥ हेमाभां पारिजातद्रुमरुचिरवने मण्डपे स्वर्णभूमौ रत्नोच्चकुट्टिमेऽधो लसदमरतरोश्चारुसिंहासनोर्ध्वे |
षट्कोणस्थां स्मरेऽहं कमलयुगगुणानङ्कुशं चापबाणौ बिभ्राणां हस्तपद्मैर्मणिमयमुकुटां चारुभूषां त्रिनेत्राम् ॥ ५ ॥ दूतीभिश्चामरादर्शसमुद्गककरण्डकान् |
ताम्बूलं च वहन्तीभिरावृतां परितः शुभाम् ॥ ६ ॥ दूतीभिर्धृतिन्यादिभिः |
नारायणीये— ‘सौम्यादौ धृतिनीं सृणीमादित्यां च प्रभावती’मिति |
तथा— ‘पीयूषदृष्ट्या पश्यन्तीं साधकं च मनोहरम्’ इति |
दक्षिणामूर्तिः— षट्कोणं पूर्वमालिख्य मध्ये विद्यां लिखेत् सुधीः |
वीप्सया तां तु षट्कोणकोणेषु क्रमतो लिखेत् ॥ १ ॥ [Redaktion: Die Prosa vertauscht श्री als Bīja und ह्रीं als Śakti gegenüber der Aussage in Vers 11 auf Druckseite 215. Bei Ṛṣi und einzelnen Dūtī-Namen stehen unterschiedliche beziehungsweise unsichere Lesungen; sie werden nicht vereinheitlicht.]

बाह्ये वसुदलं कुर्याद् दीर्घस्वरविभूषितम् |
चतुरस्रं चतुर्द्वारभूषितं मण्डलं लिखेत् ॥ २ ॥ चतुरस्रं चतुरस्रत्रयं, ग्रहं संमार्ष्टीतिवदेकवचनमुद्दिश्य गतसंख्यापरम् |
मध्ये षट्कोणान्तःस्थचतुष्पत्रमध्ये |
‘यजेदेनां चतुष्पत्रे षट्कोणस्थाम्बुजे बुधः’ इति नारायणीयवचनात् |
सारसंग्रहे— शाक्ते पीठे यजेद्देवीं नवशक्तिसमन्विते |
अङ्गानि पूजयेदादौ लक्ष्म्याद्याः कोणषट्कगाः ॥ १ ॥ षट्कोणपार्श्वे च निधी यजेन्मातॄश्च तद्बहिः |
लोकपालांश्च रमणीरूपानाराधयेत् क्रमात् ॥ २ ॥ काञ्चनाभां कृशां लक्ष्मीं सवराब्जकरद्वयाम् |
स्वर्णाभमरिशङ्खाढ्यगदाब्जसुकरं हरिम् ॥ ३ ॥ गुणसृण्यभयाभीष्टधारिणीमरुणां शिवाम् |
शिवं स्वर्णाभमेणाहटङ्काभीतीष्टधारिणम् ॥ ४ ॥ स्वर्णाभां नीलकमलकरां सौम्यां रतिं स्मरम् |
पाशाङ्कुशौ चापबाणौ धारयन्तं रुचारुणम् ॥ ५ ॥ त्रिपुटाख्यमहाविद्यापूजा प्रोक्ता समासतः |
[Zweiter Halbvers fehlt im Druck] ॥ इति |
अथ प्रयोगः— तत्र प्रातःकृत्यादियोगपीठन्यासान्तं मूलविद्यया प्राणायामत्रयं कृत्वा, शिरसि संमोहनाय ऋषये नमः |
मुखे गायत्रीच्छन्दसे नमः |
हृदये श्रीत्रिपुरादेवतायै नमः |
इति विन्यस्य, श्रीं हृदयाय नमः |
ह्रीं शिरसे स्वाहा |
क्लीं शिखायै वषट् |
श्रीं कवचाय हुं |
ह्रीं नेत्रत्रयाय वौषट् |
क्लीं अस्त्राय फट्, इति मन्त्रैः करषडङ्गन्यासं विधाय ध्यानादिपुष्पोपचारान्तं पूर्वोक्तभुवनेश्वरीपीठे कृत्वा प्राग्वदङ्गानि संपूज्य, चतुर्दले देव्या वामदलमारभ्य प्रादक्षिण्येन धृतिन्यै० |
सृण्यै० |
आदित्यायै० |
प्रभावत्यै० |
षट्कोणेषु देव्यग्रकोणमारभ्य लक्ष्म्यै० |
हरये० |
गिरिजायै० |
शिवाय० |
रत्यै० |
अनङ्गजाय० इति संपूज्य, षट्कोणपार्श्वयोर्देवीदक्षिणे शङ्खनिधये नमः |
वामे पद्मनिधये नमः, इति संपूज्याष्टदलेषु ब्राह्म्याद्याः संपूज्य दिगीशादि सर्वं प्राग्वत् समापयेदिति |
तथा— इति ध्यात्वा मन्त्रमिमं जपेदादित्यलक्षकम् |
तत्सहस्रं प्रजुहुयान्मधुराक्तैः समिद्वरैः ॥ १ ॥ श्रीराजवृक्षसंभूतैः सजपाकुसुमैः शुभैः |
तर्पणं मार्जनं कृत्वा ब्राह्मणाराधनं तथा ॥ २ ॥ श्रीवृक्षो बिल्वः |
तथा— लक्ष्मीगौरीसुकन्दर्पबीजानि क्रमशः सुधीः |
कृत्वा कलायां तां चेन्दौ तं चाकाशे स्मरेच्च तत् ॥ सिन्दूरवर्णमखिलं त्रैलोक्यं तन्मयत्वतः |
स्मृत्वा तदाखिलान् देवान् वशयेत् किं पुनर्नरान् ॥ एवं मनुं यो भजते स लभेत् कवितां पराम् |
दिव्यां लक्ष्मीं च सौभाग्यमतुलं लभतेऽचिरात् ॥ बहुकालं च विहरेत् सुखियं भुवि मानवः |
[Zweiter Halbvers fehlt im Druck] ॥ इति |
प्रपञ्चसारे— पाशश्रीशक्तिस्मरमन्मथशक्तीन्दिराङ्कुशाश्च |
पाश आं, स्मरः, मन्मथश्च क्लीं क्लीं, इन्दिरा श्रीबीजं, अङ्कुशः क्रों |
तथा— ऋष्याद्या अजगायत्रीशक्तयः समुदीरिताः |
स्त्रीवश्याकर्षणादौ तु विनियोग उदाहृतः ॥ ६ ॥ षड्दीर्घमाययाङ्गानि सर्वत्राङ्गमिष्यते |
हृच्छिरश्च शिखावर्मनेत्रास्त्रोदरपृष्ठके ॥ ७ ॥ अष्टाङ्गं विन्यसेन्मन्त्री मूलेन व्यापकं न्यसेत् |
आनन्दरूपिणीं देवीं पाशाङ्कुशधनुःशरान् ॥ बिभ्रतीं दोर्भिररुणां कुचावृतां हृदि भावयेत् |
[Zweiter Halbvers fehlt im Druck] ॥ १ ‘नभ्यर्चयेत्’ ख. पाठः |
[Redaktion: In der Nyāsa-Prosa steht त्रिपुरा gegenüber dem Kapitelabschnitt त्रिपुटा. Die Schlussform अनङ्गजाय und einige Komposita der Attribute sind auffällig. आदित्यलक्षकम् und तत्सहस्रम् werden als gedruckte Zahlenwörter bewahrt.]

वामादूर्ध्वयोराद्ये, तदाद्यधःस्थयोरन्ये, इत्यायुधध्यानम् |
शाक्ते पीठे यजेद्देवीं हृल्लेखाद्याभिरङ्गकैः |
मातृभिर्लोकपालैश्च वज्राद्यैः पञ्चमावृतिः ॥ ९ ॥ इति |
अथ प्रयोगः— प्रातःकृत्यादियोगपीठन्यासान्ते मूलविद्यया प्राणायामत्रयं कृत्वा, शिरसि अजऋषये नमः |
मुखे गायत्रीच्छन्दसे नमः |
हृदये शक्तये देवतायै नमः, इति विन्यस्य स्त्रीवश्याकर्षणे विनियोगः, इति कृताञ्जलिरुक्त्वा ह्रांह्रीं इत्यादिना करषडङ्गन्यासं कृत्वा, हृदये आं नमः |
शिरसि श्रीं नमः |
शिखायां ह्रीं नमः |
कवचस्थाने क्लीं नमः |
नेत्रस्थाने क्लीं नमः |
अस्त्रे ह्रीं नमः |
उदरे श्रीं नमः |
पृष्ठे क्रों नमः, इति विन्यस्य ध्यानादिपुष्पोपचारान्ते, मध्ये हृल्लेखायै नमः |
अग्रे गगनायै०, दक्षिणे रक्तायै०, उत्तरे करालिकायै०, पश्चिमे महोच्छुष्मायै०, इति संपूज्य प्राग्वदङ्गानि संपूज्याष्टदलेषु ब्राह्म्याद्याः संपूज्य चतुरस्रे लोकेशादि प्राग्वत् समापयेदिति |
तथा— अष्टलक्षं जपेत् साज्यैर्दशांशं जुहुयात् तिलैः |
तर्पणादि ततः कुर्यादेवं सिद्धो भवेन्मनुः ॥ इति ॥ अथ नित्यक्लिन्नाप्रयोगः |
सारसंग्रहे— भुजङ्गेशसमारूढा लक्ष्मीर्लोलाक्षिसंयुता |
श्रीमुखीविलसच्छीर्षा मेषो नयनसंयुतः ॥ १ ॥ पूतना सुमुखीयुक्ता महाकाली समाघवी |
सूक्ष्मेण सहिता मेषद्वयं भिण्टीशसंयुतम् ॥ २ ॥ जया च योगिनी चैव रेवतीयुक् च वारुणी |
सोर्ध्वकेशी च सहजा खड्गीशं विरजान्वितम् ॥ ३ ॥ सानन्तो नकुलीशश्च नित्यक्लिन्नामनुर्मतः |
एकादशाक्षरः सर्वसौभाग्यैश्वर्यदायकः ॥ ४ ॥ इति |
भुजङ्गेशो रेफः, लक्ष्मीः हकारः, लोलाक्षी ईकारः, श्रीमुखी बिन्दुः, एतैः ह्रीं |
मेषो नकारः, नयनं इकारः, तेन नि |
पूतना त, सुमुखी य तेन त्य |
महाकाली क, माधवी ल, सूक्ष्म इ तेन क्लि |
मेषद्वयं नकारद्वयं, भिण्टीशः ए तेन न्ने |
जया म, योगिनी द, रेवती रेफः चकारात्पुनर्दकारः तेन द्र |
वारुणी व, ऊर्ध्वकेशी ए तेन वे |
सहजा स, खड्गीशो व, विरजा आ तेन स्वा |
नकुलीशो ह, अनन्तः आ तेन हा ॥ तथा— ऋषिर्ब्रह्मा त्रिष्टुबुक्तं छन्दो मन्त्रस्य देवता |
नित्यक्लिन्ना च गदिता चतुर्वर्गफलप्रदा ॥ ५ ॥ दक्षिणामूर्तिसंहितायाम्— ‘बीजमाद्यं वह्निजाया शक्तिः कीलक’मिति ‘विराट्छन्द’ इति च |
आद्येन मन्त्रवर्णेन हृदयं समुदीरितम् |
ततो द्वाभ्यां पुनर्द्वाभ्यां द्वाभ्यां द्वाभ्यां द्वयेन च ॥ ६ ॥ कुर्याच्छिष्टानि चाङ्गानि करयोश्च न्यसेत् क्रमात् |
हृदि दृक्श्रोत्रयोर्द्वन्द्वे त्वचि लिङ्गे च गुह्यके ॥ ७ ॥ पादयोश्चैव मन्त्रार्णान् विन्यसेन्मन्त्रवित्तमः |
अरुणामरुणाकल्पामरुणांशुकधारिणीम् ॥ ८ ॥ अरुणस्रग्विलेपां तां चारुस्मेरमुखाम्बुजाम् |
नेत्रत्रयोल्लसद्वक्त्रां भाले घर्माम्बुमौक्तिकैः ॥ ९ ॥ विराजमानां मुकुटलसदर्धेन्दुशेखराम् |
चतुर्भिर्बाहुभिः पाशमङ्कुशं पानपात्रकम् ॥ १० ॥ अभयं बिभ्रतीं पद्ममध्यासीनां मदालसाम् |
ध्यात्वैवं पूजयेन्नित्यां प्राक्प्रोक्तशक्तिपीठके ॥ ११ ॥ पद्ममष्टदलं मध्ये बहिर्गेहसमन्वितम् |
चतुरस्रद्वयं बाह्ये प्राक्प्रत्यग्द्वारसंयुतम् ॥ १२ ॥ तत्र मध्ये यजेद्देवीं चन्दनादिभिरुत्तमैः |
कर्णिकायोनिमध्यस्थदेशे वाय्वीशवह्निषु ॥ १३ ॥ नैऋत्यां पुरतो दिक्षु यजेदङ्गानि षट् क्रमात् |
क्षोभिणी मोहिनी लोला त्रिषु कोणेषु पूजयेत् ॥ १४ ॥ नित्या निरञ्जना क्लिन्ना क्लेदिनी मदनातुरा |
मदद्रवा द्राविणी च द्राविणा चाष्टपत्रगाः ॥ १५ ॥ [Redaktion: Versnummer 8 der vorangehenden Śakti-Reihe fehlt im Druck; die unnummerierten Verse auf Seite 217 werden nicht nachnummeriert. „समाघवी“ ist in der Glosse als Mādhavī erklärt. Drāviṇī und Drāviṇā stehen am Ende als zwei verschiedene Namen.]

मदाविला मङ्गला च मन्मथार्ता मनस्विनी |
मोहा मोदा मानमयी माया मन्दा मितावती ॥ १६ ॥ द्वारपार्श्वेषु कोणेषु दिक्षु ता दश पूजयेत् |
लोकेशानपि तद्बाह्ये तदस्त्राणि ततो बहिः ॥ १७ ॥ इति ॥ अथ प्रयोगः— तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलविद्यया प्राणायामत्रयं कृत्वा, शिरसि ब्रह्मणे ऋषये नमः |
मुखे त्रिष्टुप्छन्दसे नमः |
हृदये श्रीनित्यक्लिन्नायै देवतायै नमः, इति विन्यस्य मम चतुर्वर्गपुरुषार्थसिद्धये विनियोगः, इति कृताञ्जलिरुक्त्वा, ह्रीं हृदयाय नमः |
नित्य शिरसे स्वाहा |
क्लिन्ने शिखायै वषट् |
मद कवचाय हुं |
द्रवे नेत्रत्रयाय वौषट् |
स्वाहा अस्त्राय फट्, इति करषडङ्गन्यासं विधाय, हृदि ह्रीं नमः |
दक्षनेत्रे निं नमः |
वामे त्यं नमः |
दक्षश्रोत्रे क्लिं नमः |
वामे न्नें नमः |
दक्षनासायां मं नमः |
वामे दं नमः |
सर्वाङ्गे द्रं नमः |
लिङ्गे वें नमः |
गुदे स्वां नमः |
पादयोः हां नमः, इति विन्यस्य मूलविद्यया व्यापकं कृत्वा ध्यानादिषडङ्गपूजान्ते, त्रिकोणे ॐ क्षोभिण्यै नमः, मोहिन्यै०, लोलायै०, इति देव्यग्रादिकोणत्रये संपूज्याष्टदलेषु देव्यग्रदलमारभ्य प्रादक्षिण्येन नित्यायै नमः, निरञ्जनायै०, क्लिन्नायै०, क्लेदिन्यै०, मदनातुरायै०, मदद्रवायै०, द्राविण्यै०, द्राविण्यै०, इति संपूज्य, चतुरस्रे देव्यग्रद्वारस्य वामपार्श्वमारभ्य मदाविलायै०, मङ्गलायै०, मन्मथार्तायै०, मनस्विन्यै०, मोहायै०, आमोदायै०, मानमय्यै०, मायायै०, मन्दायै०, मितावत्यै०, इति द्वारपार्श्वद्वयाग्नेयदक्षिणनैऋति-पश्चिमद्वारपार्श्वद्वयवायव्योत्तरैशानेषु दशदिक्षु संपूज्य, मध्यरेखायामिन्द्रादीन् सर्वबाह्यरेखायां वज्रादींश्च संपूज्य धूपदीपादि सर्वं प्राग्वत् समापयेदिति ॥ तथा— ध्यात्वैवं प्रजपेल्लक्षं मनुमेनं दशांशतः |
मधूकपुष्पैः स्वाद्वक्तैर्जुहुयात् हविषाथवा ॥ १८ ॥ तद्दशांशं तर्पयित्वा जलैः कर्पूरवासितैः |
आत्मानमभिषिच्याथ ब्राह्मणान् भोजयेत् ततः ॥ १९ ॥ वित्तभूषाम्बराद्यैश्च संतोष्य गुरुमात्मनः |
सिद्धमन्त्रः प्रकुर्वीत प्रयोगान् मन्त्रवित्तमः ॥ २० ॥ ततो विद्याप्रयोगार्हो नित्यार्चानिरतस्तथा |
सहस्रजापी तद्भक्तः कुर्यादुक्तं नचान्यथा ॥ २१ ॥ पद्मै रक्तैस्त्रिमध्वक्तैर्होमाल्लक्ष्मीमवाप्नुयात् |
तथैव कैरवै रक्तैः राज्ञश्च स्ववशं नयेत् ॥ २२ ॥ समानरूपवत्सायाः शुक्लाया गोः पयःप्लुतैः |
मल्लिकामालतीजातीशतपत्रैर्हुतैर्भवेत् ॥ २३ ॥ स्वर्णाधिपः स्तम्भनं शत्रोर्नृपादीनां कुधोऽपि वा |
आज्याक्तैः करवीरोत्थैः प्रसूनैररुणैर्हुतैः ॥ २४ ॥ रक्ताम्बराणां वनिता भूपमर्त्यं वशं नयेत् |
भूषावाहनवाणिज्यसिद्धयः स्युः स्ववाञ्छिताः ॥ २५ ॥ लवणैः सर्षपैर्गौरतिलैर्वापि च होमतः |
तत्तैलाक्तैर्निशामध्ये त्वानयेद्वाञ्छितां वधूम् ॥ २६ ॥ तैलाक्तैर्जुहुयात् कृष्णधत्तूरपुष्पैर्निशान्तरे |
मासादरातिस्तीव्रार्तिज्वरेण परिपीड्यते ॥ २७ ॥ आरुष्करघृताभ्यक्तैस्तद्बीजैर्निशि होमतः |
व्रणाः शरीरे शत्रोः स्युः सुदुःसाध्याश्चिकित्सकैः ॥ २८ ॥ तैरेव दलिताङ्गस्तु रिपुर्याति यमालयम् |
तथा तत्तैलसंसिक्तैर्बीजैः रङ्कालजैरपि ॥ २९ ॥ मरिचैः सर्षपाज्याक्तैर्निशि होमात्तु मासतः |
वाञ्छितां च रमां कामज्वरार्तामानयेद् ध्रुवम् ॥ ३० ॥ मरिचैः सर्पिषोपेतैः सप्तारात्रं हुतैर्निशि |
दानमानाकुलैर्नित्यं दुःप्रापामानयेद् वधूम् ॥ ३१ ॥ अन्नाज्यैर्जुहुयान्नित्यं शतमष्टोत्तरं तु वा |
तेनान्नपूर्णं भवनं भोक्ता च भवति ध्रुवम् ॥ ३२ ॥ [Redaktion: In der Prosareihe stehen die beiden letzten Blattkräfte beide als द्राविण्यै; Vers 15 unterschied Drāviṇī und Drāviṇā. Ferner आमोदा gegenüber मोदा in Vers 16. Die Drucklesungen „रक्ताम्बराणां“ (25), „रङ्कालजैः“ (29) und der Satzbau in Vers 31 sind unsicher. Fußnoten: ‘वाणिज्यभूतमर्थं’ क. ग. पाठः; ‘धैर्यं’ ख. पाठः.]

शालीभिराज्ययुक्ताभिर्होमाच्छालीनवाप्नुयात् |
साध्यर्क्षवृक्षसंभूतामिष्टपाद्रजःकृताम् ॥ ३३ ॥ राजीमरिचलोणोत्थां पुत्तलीं जुहुयान्निशि |
प्रपदाभ्यां च जङ्घाभ्यां जानुभ्यामूरुयुग्मतः ॥ ३४ ॥ नाभेरधस्ताद् हृदयाद्गलनाकण्ठतस्तथा |
शिरसश्च सुतीक्ष्णेन छित्त्वा शस्त्रेण वै क्रमात् ॥ ३५ ॥ एवं द्वादशधा होमान्नरनारीनराधिपाः |
वश्या भवन्ति सप्ताहादरातिरस्य वाञ्छया ॥ ३६ ॥ प्रयाति निधनं चास्य वाञ्छयानन्ययोगतः |
पिष्टेन गुडयुक्तेन मरीचैर्जीर्कैर्युताम् ॥ ३७ ॥ कृत्वा पुत्तलिकां साध्यनामयुक्तामथो हृदि |
सनामहोमसंपातघृते संपाच्य तां पुनः ॥ ३८ ॥ स्पृशन् निजकराग्रेण सहस्रं प्रजपेन्मनुम् |
अभ्यर्च्य तद्घृताभ्यक्तां भक्षयेत्तद्धिया जपन् ॥ ३९ ॥ नरनारीनृपास्तस्य वश्याः स्युर्मरणावधि |
तैरेव पिष्टं तु कृत्वा तन्मध्यतस्तथा ॥ ४० ॥ साध्यनाम स्फुटं कृत्वा प्राग्वत्संपाच्य भक्षणात् |
वश्यास्ते वत्सरं भूयुस्तन्नामार्णान्वितैस्तथा ॥ ४१ ॥ कृत्वा विपाच्य खादंस्तु वशयेत् तांस्तदर्धकम् |
नारिकेलफलाम्भोभिस्तर्पणाद्वनिता वश्याः ॥ ४२ ॥ कर्पूरवासितैस्तोयैर्मनुष्याश्च वशं स्थिताः |
तर्पणात्त्र्यर्णाम्भोभिः सर्वे स्युस्तस्य किङ्कराः ॥ ४३ ॥ तथा लवणयुक्तेन तोयेन वनिता वश्याः |
शुद्धेन वारिणा मासं तदर्धं सप्तरात्रकम् ॥ ४४ ॥ तर्पयेद्यस्य नाम्नैव स तस्य स्याद् वशेऽनिशम् |
केतकीवासितैर्गन्धेन्दुयुक्तैः केरफलोदकैः ॥ ४५ ॥ तर्पणाद्वनिता वश्या दद्युः प्राणान्निजं धनम् |
नमेरुवासितैस्तोयैस्तर्पणाद्भूमिपा वशाः ॥ ४६ ॥ चम्पकैर्वासितजलैस्तर्पणं सर्वरञ्जनम् |
पाटलीशतपत्राभ्यां वासितैस्तर्पणैर्जलैः ॥ ४७ ॥ सर्वलोकचमत्कारकारी भवति नित्यशः |
कस्तूरीवासिताम्भोभिस्तर्पणं सर्वसिद्धिदम् ॥ ४८ ॥ इन्दुचन्दनसौरभ्यवासिताम्भःप्रतर्पणम् |
वाञ्छितार्थस्य संसिद्धिं मण्डलात् कुरुते ध्रुवम् ॥ ४९ ॥ (सितक्तुमिश्रजलैराढ्यो धनधान्यादिभिश्चिरम् |
गुडमिश्रजलै रात्रौ तर्पणं विघ्ननाशनम् ॥ ५० ॥ चिञ्चाफलरसोपेतैर्जलैर्द्वेषाय तर्पयेत् |
) उष्णोदकैः समरिचैस्तर्पयेद् वैरिमृत्यवे ॥ ५१ ॥ केवलोष्णोदकेन स्यात् तीव्रज्वरसमुद्भवः |
निम्बपत्ररसोपेतैरम्बुभिस्तर्पणाद् द्विषाम् ॥ ५२ ॥ जायतेऽन्योन्यवैरस्यं येन ते नाशमाप्नुयुः |
तर्पणेऽत्युष्णसलिलैस्तर्पणाद् वैरिणो भृशम् ॥ ५३ ॥ अतिसारादिभिर्दोषै रौद्रैः क्लेशमाप्नुयुः |
वनितानवनीतस्य द्रावकोऽग्निर्जपादिना ॥ ५४ ॥ जायते साधको नित्यं कन्दर्पाधिकसुन्दरः |
[Zweiter Halbvers fehlt im Druck] ॥ इति ॥ तथा— प्रणवं चाथ हृल्लेखा वाग्बीजं नित्यशब्दतः |
क्लिन्ने मदद्रवे वाचं मायामग्निवधूं वदेत् ॥ १ ॥ नित्यक्लिन्नाभिधो मन्त्रः प्रोक्तः पञ्चदशाक्षरः |
[Zweiter Halbvers fehlt im Druck] ॥ हृल्लेखा ह्रीं, वाचम् ऐं, अग्निवधूः स्वाहाकारः |
तथा— ऋषिः संमोहनः प्रोक्तो विराडुक्तं च देवता |
नित्यक्लिन्नाभिधा देवी चतुर्वर्गफलप्रदा ॥ २ ॥ १ ‘पिष्ट’ ख. पाठः |
२ ‘ज्वरार्ताश्चास्य’ ख. पाठः |
३ ‘रात्रकम्’ ख. पाठः |
[Redaktion: Unsichere Lesungen betreffen die Stoffangabe „इष्टपाद्रजः“ in 33, die anatomische Folge „गलनाकण्ठ“ in 35 und „सितक्तु“ in 50. Die Klammer um Vers 50 und den ersten Halbvers von 51 steht im Druck.]

विना वाग्भवबीजं तु द्विद्वियुग्मेषुयुग्मकैः |
समस्तेनाङ्गषट्कं स्यान्नित्यक्लिन्नां स्मरेत्ततः ॥ ३ ॥ सुराब्धिमध्ये पृथुलं सुचारु द्वीपं स्मरेत् कल्पतरूपशोभि |
पिकालिभृङ्गावलिमञ्जुनादं मन्देन संसेवितमीरणेन ॥ ४ ॥ मनोज्ञवीरुत्कुसुमावकीर्णं शरच्छशाङ्कप्रतिमस्वरश्मिम् |
माणिक्यसङ्घामलमण्डपं च सिंहासनं रत्नमयं च तत्र ॥ ५ ॥ त्रिकोणमध्यं ललिताष्टपत्रं संचिन्त्य पद्मं स्मरेत् तत्र देवीम् |
शीतांशुचूडामरुणोत्पलाभां करैः सपाशाङ्कुशकल्पवल्लीः ॥ ६ ॥ कपालमन्येन च धारयन्तीं द्वाभ्यां कराभ्यां कलनादवीणाम् |
त्रैलोक्यसंमोहनकारिणीं तां नित्यां भजे चारुरुचिं त्रिनेत्राम् ॥ ७ ॥ इति |
वामाद्यूर्ध्वयोराद्ये, तदादिमध्ययोरन्ये, तदधस्तनाभ्यां वीणा, इत्यायुधध्यानम् ॥ इति ध्यात्वा यजेत्पीठं चतुःशक्तियुतं सुधीः |
सयोनिकर्णिकं पद्ममष्टपत्रविराजितम् ॥ ८ ॥ बहिः पञ्चदलं पद्मं तद्बहिर्दशपत्रकम् |
चतुरस्रत्रयं बाह्ये चतुर्द्वारविराजितम् ॥ ९ ॥ (इति संमोहनपञ्चरात्रोक्तमिति |
चतुर्दले द्राविण्यादीरीशादिष्वत्र पूजयेत् |
प्रादक्षिण्येन मन्त्रज्ञ उच्यन्ते ता यथाक्रमम्) ॥ १० ॥ पूर्वा स्याद् द्राविणी वामा ज्येष्ठा साह्लादकारिणी |
अपरा क्षोभिणी रौद्री गुह्यशक्तिश्चतुर्थिका ॥ ११ ॥ मायाद्यमासनं देयं मूर्तिं मन्त्रेण कल्पयेत् |
[Zweiter Halbvers fehlt im Druck] ॥ द्राविण्याद्यास्तिस्रो वामाद्यानां तिसृणां विशेषणभूताः |
‘कोणेष्वीशादिमध्ये च तत्र शक्तीर्न्यसेदिमाः’ इति नारायणीयवचनस्य कोणेषु मध्ये चेत्यर्थः |
‘नित्यक्लिन्नां तत्र यजेत् वक्ष्यमाणेन वर्त्मना |
केसरेष्वङ्गपूजा स्यात् पत्रेष्वेताः प्रपूजयेत् ॥ सषण्डाद्यन्तयुक्स्वरवर्जमष्टस्वरादिकाः’ |
[Zweiter Halbvers fehlt im Druck] ॥ सषण्डाद्यन्तयुक्स्वरवर्जमित्यर्थः |
ऋॠलृलॄसहितानुस्वारविसर्ग-अआइत्यष्टस्वररहिताः स्वरादिका इत्यर्थः |
नित्यादिमा सुभद्रा सुमङ्गला वनचारिणी |
सुभगा दुर्भगा स्यान्मनोन्मनी रुद्ररूपिणी ॥ १२ ॥ चतुरङ्गविनोदनपरा दूत्यो रक्ता मनोहराः |
मदमन्थरगामिन्यः सुवेशाश्चारुभूषणाः ॥ १३ ॥ अरुणांश्चावलङ्कारान् पञ्च कामान् प्रपूजयेत् |
व्योमसर्गाढ्यकन्दर्पबीजाद्योऽसावनङ्गकः ॥ १४ ॥ स्मरमन्मथकामाश्च मारः पञ्चम ईरितः |
पञ्च पुष्पेषुपाशाहसाङ्कुशेक्षुधनुर्भृतः ॥ १५ ॥ पृष्ठभागे तूणयुक्ताः शक्तीस्तत्पार्श्वसंस्थिताः |
भूषायुक्ताः स्मेरवक्त्रकमलाः साधु पूजयेत् ॥ १६ ॥ सनिन्दुक्लीबयुग्वर्ज्यस्वरवर्गादिमादिकाः |
ता रतिर्विरतिः प्रीतिर्विप्रीतिर्मतिर्दुर्मती ॥ १७ ॥ १ ‘मात्रद्वा’ ख. ग. पाठः |
[Redaktion: In Vers 13 ist die Lesung „चतुरङ्गविनोदन“ vorläufig. Der Vokalcode in Vers 17 ist im Druck unscharf. Vers 10 setzt einen vierblättrigen Bereich voraus, den die vorausgehende Kurzbeschreibung nicht ausdrücklich nannte.]

धृतिः स्याद्विधृतिस्तुष्टिर्वितुष्टिर्दश संस्मृताः |
अरुणारुणभूषाढ्या वीणाहस्ताः सिताननाः ॥ १८ ॥ लोकपालांस्ततो बाह्ये तद्धेतीश्च ततो बहिः |
[Zweiter Halbvers fehlt im Druck] ॥ इति ॥ अथ प्रयोगः— तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा, शिरसि संमोहनाय ऋषये नमः |
मुखे विराट्छन्दसे नमः |
हृदये श्रीनित्यक्लिन्नायै देवतायै नमः |
इति विन्यस्य ॐ ह्रीं हृदयाय नमः |
नित्य शिरसे स्वाहा |
क्लिन्ने शिखायै० |
मदद्रवे ह्रीं कवचाय० |
स्वाहा नेत्रत्रयाय० |
ॐ ह्रीं नित्यक्लिन्ने मदद्रवे ह्रीं स्वाहा अस्त्रायफट् |
इति षडङ्गमन्त्रानङ्गुष्ठादितलान्तं करयोर्विन्यस्य ध्यानादिपरतत्त्वान्तं पञ्चदलकेसरेष्वीशानकोणादि आं द्राविण्यै वामायै० |
ईं ह्लादिन्यै ज्येष्ठायै० |
ऊं क्षोभिण्यै रौद्र्यै० |
ऐं गुह्यशक्त्यै० इति पीठशक्तीः संपूज्य, ह्रीं सर्वशक्तिकमलासनाय नमः, इति समस्तं पीठं संपूज्य मूलविद्यया मूर्तिं प्रकल्प्यावाहनादिषडङ्गपूजान्ते अष्टदलेषु इं नित्यायै० |
ईं सुभद्रायै० |
उं मङ्गलायै० |
ऊं वनचारिण्यै० |
एं सुभगायै० |
ऐं दुर्भगायै० |
ओं मनोन्मन्यै० |
औं रुद्ररूपिण्यै०, इति संपूज्य, (तद्बहिः पञ्चदलेषु देव्यग्रादि क्लीः अनङ्गाय० |
क्लीः स्मराय० |
क्लीः मन्मथाय० |
क्लीः कामाय० |
क्लीः माराय० |
इति संपूज्य) तद्बहिर्दशदलेषु देव्यग्रादिप्रादक्षिण्येन कं रत्यै० |
कां विरत्यै० |
किं प्रीत्यै० |
कीं विप्रीत्यै० |
कुं मत्यै० |
कूं दुर्मत्यै० |
कों धृत्यै० |
कौं विधृत्यै० |
कं तुष्ट्यै० |
कः वितुष्ट्यै०, इति संपूज्य लोकेशादि सर्वं समापयेदिति ॥ तथा— वह्निलक्षं जपेन्मन्त्रं तद्दशांशं हुनेत् ततः |
घृतेन तर्पणाद्यं च कृत्वा संतोष्य देशिकम् ॥ १९ ॥ धनधान्यादिभिः सम्यक् प्रयोगानाचरेत् ततः |
एवं मन्त्रोदितान् सम्यक् पूर्वोक्तविधिना सुधीः ॥ २० ॥ एवं यः पूजयेद्भक्त्या नित्यक्लिन्नां नरोऽन्वहम् |
प्राप्नोति महतीं लक्ष्मीं प्रार्थ्यते प्रमदाजनैः ॥ २१ ॥ इति ॥ तथा— बालान्त्यहीना नित्यान्ते ह्रस्वं बिन्दुविवर्जितम् |
कामबीजं नद्वयं च शिवयुक् च मदौ वदेत् ॥ १ ॥ द्रान्तेऽम्बु शिवयुग् हादिजलानन्ताः सकान्ति खम् |
अयं वाग्वादिनीक्लिन्नामन्त्रो द्वादशवर्णकः ॥ २ ॥ बालाविद्या पूर्वोद्घृता सा अन्त्यहीना तृतीयबीजरहिता तेन ऐं क्लीं इति बीजद्वयमुद्धृतम् |
नित्य स्वरूपं, कामबीजं ह्रस्वं ह्रस्वेकारयुक्तं बिन्दुविवर्जितं तेन क्लि इति |
नद्वयं शिवयुगेकारयुक्तं तेन न्ने इति |
मदौ मकारदकारौ, द्र स्वरूपं, अम्बु वकारः, शिव एकारः तद्युक्तं तेन वे इति |
हादि सकारः, जलं वकारः, अनन्त आकारस्तैः स्वा इति |
सकान्ति खम् आकारयुक्तो हकारः तेन हा इति ॥ संमोहननिचृन्नित्यक्लिन्ना ऋष्यादिका मताः |
वाग्भवेन षडङ्गानि कृत्वा नित्यां विचिन्तयेत् ॥ ३ ॥ रक्तां सुरक्तवसनामरुणाङ्गरागां हस्ताम्बुजैः कमलपाशसृणीं कपालम् |
संबिभ्रतीं त्रिनयनां शशिशेखरां तां नित्यां स्मरेद्धृदि मदाकुलिताङ्गयष्टिम् ॥ ४ ॥ दक्षाधःकरमारभ्य वामाधःकरपर्यन्तमायुधध्यानम् |
शाक्ते पीठे यजेद्देवीं प्रोक्तेऽङ्गानि पुरा यजेत् |
पूर्वोक्ताश्च ततो ह्यष्टशक्तीर्नित्यादिका यजेत् ॥ ५ ॥ अरुणा नीलकमलकपालाढ्यकराम्बुजाः |
शक्रादिकान् बाह्ये वज्रादीनि ततो बहिः ॥ ६ ॥ १ ‘श्रीआह्लादिन्यै’ ख. पाठः |
२ ‘उं’ ख. पाठः |
[Redaktion: Für die Pīṭha-Kräfte steht in der Prosa पञ्चदल, während Vers 10 auf Seite 221 चतुर्दल nennt. Die Blattgöttin heißt hier Maṅgalā statt Sumaṅgalā. Die letzten Vokalformen der zehn Śakti-Bījas sind teilweise unsicher; die zweimalige Form कं wird bewahrt.]

अथ प्रयोगः— तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा, शिरसि संमोहनाय ऋषये नमः |
मुखे निचृच्छन्दसे नमः |
हृदये नित्यक्लिन्नानित्यायै देवतायै नमः, इति विन्यस्य इष्टसिद्धये विनियोगः इत्युक्त्वा, ऐं हृदयाय० इत्यादिकरषडङ्गन्यासं कृत्वा ध्यानाङ्गपूजान्ते अष्टदलेषु पूर्वोक्तैकादशाक्षरोक्तनित्याद्यष्टशक्तीः संपूज्य लोकेशादि सर्वं समापयेदिति ॥ तथा— संबुद्ध्यन्ता मता नित्यक्लिन्ना तद्वन्मदद्रवा |
कामिकापञ्चमः कालः सविसर्गो दशाक्षरः ॥ १ ॥ नित्यक्लिन्नामनुः प्रोक्तो भजतां सर्वसिद्धिदः |
[Zweiter Halbvers fehlt im Druck] ॥ संबुद्ध्यन्ता नित्यक्लिन्ने, तद्वत् मदद्रवे, कामिकापञ्चमो नकारः कालो म सविसर्गो मः इति |
[Erster Halbvers fehlt im Druck] |
ऋषिरत्रिस्त्रिष्टुबुक्तं छन्दो नित्या च देवता ॥ २ ॥ नित्यायै हृदयं स्वाहा नित्यायै शिर ईरितम् |
क्लिन्नेस्वाहा शिखा नित्यक्लिन्नेन कवचं मतम् ॥ ३ ॥ नित्यक्लिन्ने नमश्चास्त्रं ध्यानं पूर्ववदाचरेत् |
पूजादिकं चास्य मन्त्री पूर्ववत् परिकल्पयेत् ॥ ४ ॥ इति ॥ अथ प्रयोगः— मूलेन प्राणायामत्रयं कृत्वा शिरसि अत्रये ऋषये नमः, मुखे त्रिष्टुप्छन्दसे नमः, हृदये श्रीनित्यक्लिन्नायै देवतायै नमः, इति विन्यस्य सर्वाभीष्टार्थसिद्धये विनियोगः, इति प्राग्वदुक्त्वा मूलेन करयोर्व्यापकं कृत्वा, नित्यायै हृदयाय नमः |
नित्यायै शिरसे स्वाहा |
क्लिन्नेस्वाहा शिखायै० |
नित्यक्लिन्ने कवचाय हुं |
नित्यक्लिन्ने नमः अस्त्राय फट्, इत्यङ्गुष्ठादिकनिष्ठान्तं करयोर्विन्यस्य हृदयादिष्वपि नेत्रहीनेषु पञ्चाङ्गेषु न्यसेत् |
ततो ध्यानपूजादिकं सर्वं पूर्वमन्त्रवत् कुर्यात् ॥ तथा— एकलक्षं जपेन्मन्त्रं तद्दशांशं हुनेत् तिलैः |
तर्पणादि ततः कुर्यात् पूर्वोक्तविधिना सुधीः ॥ ५ ॥ नित्यामन्त्रं जपेद्यः सहुतविधिजपैः सार्चनातर्पणैश्च स स्याद् दारिद्र्यदुःखामयगणवियुतो वत्सराणां शतं च |
जीवेद्विश्वं समग्रं वशयति मनुविन्मोहयत्याशु लोकं देहान्ते मुक्तिमिष्टां परमविमलां प्राप्नुयान्नान्यथात्र ॥ ६ ॥ इति ॥ सारसंग्रहे— प्रणवं भुवनेशानी जलं वह्न्यम्बनन्तयुक् |
ङेन्तं सिनीपदं हृच्च नववर्णा समीरिता ॥ १ ॥ विद्येयं वह्निवासिन्याः सर्वसौख्यफलप्रदा |
यस्याः स्मरणतो वश्यं जायते भुवनत्रयम् ॥ २ ॥ इति |
(जलं व, वह्निः स्वरूपं, अम्बु व, अनन्त आ, तद्युक्तस्तेन वा, ङेन्तं सिनी सिन्यै, हृन्नमः |
) दक्षिणामूर्तिसंहितायाम्— (२२ प०) ऋषिर्वसिष्ठश्छन्दः स्याद्गायत्री देवता त्वियम् |
आद्यन्ते बीजशक्ती तु कीलकं मध्यमेव च ॥ १ ॥ इति |
देवता त्वियं वह्निवासिनी ॥ सारसंग्रहे— विद्याद्वितीयबीजेन दीर्घस्वरयुजा सुधीः |
मायान्तेन षडङ्गानि कुर्यान्मन्त्री कराङ्गयोः ॥ ३ ॥ नवाक्षराणि विद्याया नवरन्ध्रेषु विन्यसेत् |
व्यापकं च समस्तेन कुर्याद् देव्यात्मसिद्धये ॥ ४ ॥ तप्तकाञ्चनसंकाशां नवयौवनसुन्दरीम् |
चारुस्मेरमुखाम्भोजविलसन्नयनत्रयाम् ॥ ५ ॥ १ ‘वर्षं समग्रं’ ग. पाठः |

अष्टभिर्बाहुभिर्युक्तां माणिक्याभरणोज्ज्वलाम् |
रक्ताब्जकम्बुपुण्ड्रेक्षुचापपूर्णेन्दुमण्डलान् ॥ ६ ॥ दधानां बाहुभिर्वामैः कह्लारं हेमशृङ्गकम् |
पुष्पेषु मातुलुङ्गं च दधानां दक्षिणैः करैः ॥ ७ ॥ स्वसमानाभिरभितः शक्तिभिः परिवारिताम् |
नवयोनिकर्णिकायां कृत्वा तद्बहिरम्बुजम् ॥ ८ ॥ द्वादशच्छदसंयुक्तं विदध्याच्च मनोहरम् |
तद्बहिश्चतुरस्रे द्वे द्वारद्वयसमन्विते ॥ ९ ॥ पूर्वपश्चिमयोस्तस्मिंश्चक्रे देवीं समर्चयेत् |
मध्ये समावाह्य वह्निवासिनीं विश्वविग्रहाम् ॥ १० ॥ गन्धपुष्पैर्निवेद्यान्तैरुपचारैर्यजेत् क्रमात् |
अङ्गानि पूर्वमभ्यर्च्य वक्ष्यमाणाश्च शक्तयः ॥ ११ ॥ अष्टकोणेषु संपूज्यास्तदग्रात्तु प्रदक्षिणम् |
ज्वालिनीविस्फुलिङ्गिन्यौ मङ्गला समनोहरा ॥ १२ ॥ कनका कितवा विश्वा विविधा चेति शक्तयः |
दलेषु द्वादशस्वेता राशिशक्तीः समर्चयेत् ॥ १३ ॥ मेषां वृषाख्यां शक्तिं मिथुनां कर्कटामपि |
सिंहां कन्यां तुलां कीटां चापां च मकरामपि ॥ १४ ॥ कुम्भां मीनां यजेत् प्राग्वद्द्वारारभ्य मन्त्रवित् |
चतुरस्रद्वारयुग्मपार्श्वयोः कोणदिक्षु च ॥ १५ ॥ मन्त्रवित् वक्ष्यमाणाश्च दश शक्तीः समर्चयेत् |
घस्मरा सर्वभक्षा च विश्वा च विविधोद्भवा ॥ १६ ॥ चित्ररूपा निःसपत्नी निरातङ्का च पावनी |
अचिन्त्यवैभवा रक्ता दशमी परिकीर्तिता ॥ १७ ॥ लोकपालांस्ततो बाह्ये तदस्त्राणि ततो बहिः |
पूजेयं वह्निवासिन्याः प्रोक्ता सर्वसमृद्धिदा ॥ १८ ॥ इति ॥ अथ प्रयोगः— तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलविद्यया प्राणायामत्रयं कृत्वा, शिरसि वसिष्ठाय ऋषये नमः, मुखे गायत्रीच्छन्दसे नमः, हृदये श्रीवह्निवासिनीनित्यायै देवतायै नमः, गुह्ये ॐ बीजाय नमः, पादयोः नमः शक्तये नमः, नाभौ वह्निवासिन्यै कीलकायै नमः, इति विन्यस्य (ह्रांह्रींमिति करषडङ्गन्यासं विधाय, दक्षनेत्रे ॐ नमः, वामे ह्रीं, दक्षकर्णे वं, वामे ह्निं, दक्षनासि वां, वामे सिं, मुखे न्यैं, लिङ्गे नं, गुदे मः नमः इति विन्यस्य) मूलविद्यया मूर्धादिपादान्तं व्यापकं कृत्वा ध्यानादिमानसपूजान्ते प्रमाणोक्तचक्रमुद्धृत्यार्घ्यस्थापनादिस्वात्मपूजनान्ते भुवनेश्वरीपीठं संपूज्यावाहनादिपुष्पोपचारान्तेऽङ्गानि संपूज्य, अष्टयोनिषु देव्यग्रमारभ्य प्रादक्षिण्येन— ज्वालिन्यै नमः |
विस्फुलिङ्गिन्यै० |
मङ्गलायै० |
मनोहरायै० |
कनकायै० |
कितवायै० |
विश्वायै० |
विविधायै नमः |
इति अष्टशक्तीः संपूज्य, ततस्तद्बहिर्द्वादशदलेषु प्रादक्षिण्येन मेषायै नमः, वृषायै०, मिथुनायै०, कर्कटायै०, सिंहायै०, कन्यायै०, तुलायै०, कीटायै०, चापायै०, मकरायै०, कुम्भायै०, मीनायै०, इति राशिशक्तीः संपूज्य, चतुरस्रे देव्यग्रद्वारस्य दक्षिणभागसमारभ्य प्रादक्षिण्येन घस्मरायै०, सर्वभक्षायै०, विश्वायै०, विविधोद्भवायै०, चित्ररूपायै०, निःसपत्न्यै०, निरातङ्कायै०, पावन्यै०, अचिन्त्यवैभवायै०, रक्तायै०, इति देव्यग्रद्वारपार्श्वद्वयाग्नेयदक्षिणनैऋतिवायव्यकोणेषु देव्याः पृष्ठभागद्वारपार्श्वादित ईशानकोणावधि संपूज्य तद्बाह्ये लोकपालांस्तदस्त्राणि संपूजयेत् |
एतदुक्तफलदं भवति ॥ तथा— एकलक्षं जपेन्मन्त्रं तद्दशांशं हुनेद्घृतैः |
तर्पणं मार्जनं कृत्वा ब्राह्मणाराधनं तथा ॥ १९ ॥ सिद्धमन्त्रः प्रकुर्वीत प्रयोगान्निजवाञ्छितान् |
काम्यहोमविधिं वक्ष्ये सम्यग्वाञ्छितदायकम् ॥ २० ॥ शालितण्डुलमादाय प्रस्थं भाण्डे नवे क्षिपेत् |
समानवर्णवत्साया रक्ताया गोः पयस्तथा ॥ २१ ॥ १ ‘चया’ ग. पाठः |
२ ‘कोणेषु’ क. पाठः |
३ ‘चया’ क. ग. पाठः |
[Redaktion: Einzelne Nyāsa-Nasalzeichen sind unscharf. Die Prosa beschreibt die zehn Außenstellen in einer verdichteten, nicht durchweg eindeutigen Richtungsfolge; keine neue geometrische Anordnung wird eingefügt.]

द्विगुणं तत्र निक्षिप्य श्रपयेत् संस्कृतेऽनले |
घृतेन सिक्तं सम्यक् तु कृत्वा च संस्थितं करे ॥ २२ ॥ निधाय विद्यापुटोक्त्यन्तं शतं जप्त्वा हुनेत्ततः |
एवं होमो महालक्ष्मीमावहेत् प्रतिपत्कृतः ॥ २३ ॥ शुक्रवारेष्वपि तथा वर्षान्नृपसमो भवेत् |
पञ्चम्यां च विशेषेण प्राग्वद्धोमं समाचरेत् ॥ २४ ॥ तस्यां तिथौ त्रिमध्वक्तैर्मल्लिकाद्यैः सितैर्हुनेत् |
अन्नाज्याभ्यां च नियतं हुत्वा त्वाढ्यो भवेन्नरः ॥ २५ ॥ यद्यद्धि वाञ्छितं वस्तु तानि सर्वाणि सर्वदा |
घृतहोमादवाप्नोति तथैव तिलतण्डुलैः ॥ २६ ॥ पञ्चमीषु विशेषेण पूजां कुर्याद् व्रती भवेत् |
[Zweiter Halbvers fehlt im Druck] ॥ इति ॥ अथ वज्रप्रस्तारिणीप्रयोगः |
सारसंग्रहे— वज्रप्रस्तारिणीविद्यामिन्दिरामन्दिरं शुभम् |
वच्मि लोकहितार्थाय यथावच्च समासतः ॥ १ ॥ सर्वनारीनरपतिनरसंमोहनकारिणीम् |
कान्तारसागरक्रूरदुःखसंघाततारिणीम् ॥ २ ॥ अरुणांक्रोधिनी शान्तियुक्ता सृष्टिक्रियाक्षियुक् |
तपञ्चमद्वयं रुद्रयुक्तं ज्ञानामृतेन्दुयुक् ॥ ३ ॥ जयेन्द्वग्न्याप्यायनीयुक् दीर्घा विद्यैव कामिका |
क्षुधावती विषं थान्तं पुनस्तद्वह्निसंयुतम् ॥ ४ ॥ उत्कारी शिवयुक् प्रोक्त्वा बीजमाद्यं पुनर्वदेत् |
द्वादशार्णा महाविद्या प्रोक्ता सर्वसमृद्धिदा ॥ ५ ॥ अरुणा हकारः, अ स्वरूपं, क्रोधिनी रेफः, शान्तिरीकारः, एभिर्मायाबीजमुद्धृतम् |
सृष्टिः ककारः, क्रिया लकारः, अक्षि इकारः, एभिः क्लि इति |
तपञ्चमद्वयं नकारद्वयं, रुद्र एकारस्तद्युक्तं तेन न्ने |
ज्ञानामृता ऐकारः इन्दुरनुस्वारस्तेन ऐं इति |
जया ककारः, इन्दुरनुस्वारः, अग्नी रेफः, आप्यायनी ओकारस्तेन क्रों, दीर्घी न विद्या इ तेन नि, कामिका त, क्षुधावती यः तेन त्य |
विषं म, थान्तं द, पुनस्तदेव दकारः, वह्नी रेफस्तद्युतं द्र |
उत्कारी वकारः, शिव एकारः, तेन वे |
आद्यबीजं मायाबीजम् ॥ दक्षिणामूर्तिः— (२२ प०) द्वादशार्णा पराविद्या ऋषिर्ब्रह्मा च मीयते |
गायत्री छन्द आख्यातं देवता परमेश्वरी ॥ १ ॥ परमेश्वरी वज्रेश्वरी |
सारसंग्रहे— आद्यन्ते बीजशक्ती तु वाग्भवं कीलकं भवेत् |
क्लिन्ने हृदयं प्रोक्तं शिरश्चैवाङ्कुशः शिखा ॥ ६ ॥ नित्य वर्म मद नेत्रं द्रवेऽस्त्रं समुदीरितम् |
मायया पुटितानेतानङ्गषट्के प्रकल्पयेत् ॥ ७ ॥ प्रत्येकं शक्तिपुटितान् मन्त्रार्णान् दश विन्यसेत् |
श्रोत्रनासाकपोलाक्षिनाभिगुह्येष्वनुक्रमात् ॥ ८ ॥ ततः संचिन्तयेद्देवीं सर्वसौख्यप्रदायिनीम् |
रक्तां रक्ताम्बरां रक्तगन्धमाल्यविभूषणाम् ॥ ९ ॥ चतुर्भुजां त्रिनयनां माणिक्यमुकुटोज्ज्वलाम् |
पाशाङ्कुशाविक्षुचापं दाडिमीभासायकं तथा ॥ १० ॥ दधानां बाहुभिर्नेत्रैर्दयामृतसुशीतलैः |
पश्यन्तीं साधकं व्यस्रषट्कोणाब्जमहीपुरे ॥ ११ ॥ चक्रमध्ये सुखासीनां स्मेरवक्त्रसरोरुहाम् |
शक्तिभिः स्वस्वरूपाभिरावृतां पोतमध्यगाम् ॥ १२ ॥ सिंहासनेऽभितः प्रेङ्खत्पोतस्थाभिश्च शक्तिभिः |
वृतां ताभिर्विनोदांश्च यातायातादिभिः सदा ॥ १३ ॥ कुर्वाणामरुणाम्भोधौ चिन्तयेन्मन्त्रनायिकाम् |
ध्यानोदिते मण्डले च शक्तिपीठसुशक्तिके ॥ १४ ॥ १ ‘सिक्तं’ ख. पाठः |
२ ‘सुकृतं’ क. ग. पाठः |
३ ‘दुम’ ख. पाठः |
४ ‘तत्तरस्थाभिः’ ख. पाठः |
[Redaktion: „विद्यापुटोक्त्यन्तं“ in Vers 23 und Teile des Mantracodes sind unsicher. Vers 6 lässt das Wort für das Kopf-Bīja aus; die Glosse und die folgende Prosa nennen aiṃ. „दीर्घी न“ der Glosse wird nicht stillschweigend verbessert.]

शोणाब्धिं हेमपोतं च सिंहासनमनन्तरम् |
तत्र चक्रं ततो देवीं सम्यगावाह्य पूजयेत् ॥ १५ ॥ अरुणैर्गन्धकुसुमैर्धूपदीपैर्निवेद्यकैः |
अङ्गानि पूजयेदादौ त्रिकोणस्थास्तु पूजयेत् ॥ १६ ॥ इच्छाज्ञानक्रियासंज्ञाः षट्कोणेष्वर्चयेत् ततः |
डाकिनीं राकिणीं चैव लाकिनीं काकिनीं ततः ॥ १७ ॥ शाकिनीं हाकिनीं चैव पद्मद्वादशपत्रगाः |
हृल्लेखा क्लेदिनी क्लिन्ना क्षोभिणी मदनातुरा ॥ १८ ॥ निरञ्जना रागवती तथैव मदनावती |
मेखला द्राविणी वेगवती द्वादश शक्तयः ॥ १९ ॥ ततः षोडशपत्रेषु वक्ष्यमाणाः प्रपूजयेत् |
कमला कामिनी कल्पा कला कलितकौतुके ॥ २० ॥ किराता कालकदने कौशिकी कम्बुवाहिनी |
कातरा कपटा कीर्तिः कुमारी कुङ्कुमापि च ॥ २१ ॥ चतुरस्रगताश्चापि शक्तीर्वक्ष्ये यथाक्रमात् |
भगिनी वेगिनी नागा चपला पेशला सती ॥ २२ ॥ रतिः श्रद्धा भोगलोला मदोन्मत्ता मनस्विनी |
दिक्षु द्वाराग्रपार्श्वेषु कोणदिक्षु च संस्थिताः ॥ २३ ॥ द्वादशैता महादेव्यश्चतुरस्रेऽभितो यजेत् |
यजेदाशाधिपान् बाह्ये तदस्त्राणि ततो बहिः ॥ २४ ॥ एतत्संपूजनान्मर्त्यो दारिद्र्यान्मुच्यतेऽचिरात् |
रोगापमृत्युदौर्भाग्यजरादोषैर्विवर्जितः ॥ २५ ॥ देहान्ते भवभीतेश्च मुच्यते नात्र संशयः |
[Zweiter Halbvers fehlt im Druck] ॥ इति |
अथ प्रयोगः— तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा, शिरसि ब्रह्मणे ऋषये नमः |
मुखे गायत्रीच्छन्दसे नमः |
हृदये श्रीवज्रेश्वरीनित्यायै देवतायै नमः |
पादयोः ह्रीं शक्तये नमः |
नाभौ ऐं कीलकाय नमः, इति विन्यस्य ममेष्टार्थसिद्धये विनियोगः, इति कृताञ्जलिरुक्त्वा, ह्रींक्लिन्नेह्रीं हृदयाय नमः |
ह्रींऐंह्रीं शिरसे स्वाहा |
ह्रींक्रोंह्रीं शिखायै वषट् |
ह्रींनित्यह्रीं कवचाय हुं |
ह्रींमदह्रीं नेत्रत्रयाय वौषट् |
ह्रींद्रवेह्रीं अस्त्राय फट्, इति करषडङ्गन्यासं कृत्वा, दक्षश्रोत्रे ह्रींक्लिंह्रीं नमः |
वामे ह्रींन्नेंह्रीं नमः |
दक्षनासि ह्रींऐंह्रीं नमः |
वामे ह्रींक्रोंह्रीं नमः |
दक्षकपोले ह्रींनिंह्रीं नमः |
वामे ह्रींत्यंह्रीं नमः |
दक्षनेत्रे ह्रींमंह्रीं नमः |
वामे ह्रींदंह्रीं नमः |
नाभौ ह्रींद्रंह्रीं नमः |
गुह्ये ह्रींवेंह्रीं नमः, इति विन्यस्य मूलविद्यया व्यापकं कृत्वा ध्यानादिमानसपूजान्ते द्वादशदलकमलं कृत्वा, तत्कर्णिकायां षट्कोणं, तन्मध्ये त्रिकोणं, द्वादशदलाद्बहिः षोडशदलं, तद्बहिश्चतुरस्रत्रयं चतुर्द्वारयुक्तं कुर्यादिति पूजाचक्रं निर्माय, पुरतः प्राग्वत् संस्थाप्याभ्यर्च्यार्घ्यस्थापनादिकमात्मपूजान्तं कृत्वा पीठपूजायां मण्डूकादिपृथिव्यन्ते शोणाब्धौ हेमपोते तन्मध्ये रत्नसिंहासने च संपूज्य, धर्मादिषडङ्गपूजान्ते त्रिकोणस्याग्रकोणमारभ्य ॐ इच्छाशक्त्यै नमः |
ज्ञानशक्त्यै० |
क्रियाशक्त्यै०, इति संपूज्य, षट्कोणेषु देव्या वामकोणे डाकिन्यै नमः, दक्षिणे राकिण्यै० |
पृष्ठकोणे लाकिन्यै० |
पृष्ठवामकोणे काकिन्यै० |
पृष्ठदक्षिणकोणे शाकिन्यै० |
देव्यग्रकोणे हाकिन्यै नमः, इति संपूज्य, द्वादशदलेषु देव्यग्रमारभ्य प्रादक्षिण्येन हृल्लेखायै नमः, क्लेदिन्यै०, क्लिन्नायै०, क्षोभिण्यै०, मदनातुरायै०, निरञ्जनायै०, रागवत्यै०, मदनावत्यै०, मेखलायै०, द्राविण्यै०, वेगवत्यै०, इति संपूज्य, षोडशदलेषु कमलायै नमः, कामिन्यै०, कल्पायै०, कलायै०, कलितायै०, कौतुकायै०, किरातायै०, कालायै०, कदनायै०, कौशिक्यै०, कम्बुवाहिन्यै०, कातरायै०, कपटायै०, कीर्त्यै०, कुमार्यै०, कुङ्कुमायै०, इति संपूज्य, चतुरस्रदेव्यग्रद्वारस्य दक्षिणपार्श्वमारभ्य द्वारपार्श्वेषु कोणेषु च प्रादक्षिण्यक्रमेण भगिन्यै०, वेगिन्यै०, नागायै०, १ ‘लविद्यया’ क. पाठः |
[Redaktion: Für zwölf innere Blattkräfte sind nur elf Namen ausgeschrieben; auch die als zwölf angekündigte äußere Reihe enthält auf dieser Seite nur elf Namen. Die Prosa des ersten Nyāsa nennt keine eigene Bīja-Stelle. Einzelne Nasalzeichen der eingerahmten Silben bleiben unscharf.]

चपलायै०, पेशलायै०, सत्यै०, रत्यै०, श्रद्धायै०, भोगलोलायै०, मदायै०, उन्मत्तायै०, मनस्विन्यै०, इति संपूज्य, लोकेशादि सर्वं प्राग्वत् समापयेदिति ॥ तथा— मन्त्री लक्षत्रयं जप्त्वा तद्दशांशं हुनेद्घृतैः |
आरग्वधप्रसूनैर्वा प्रसूनैर्बकुलोद्भवैः ॥ २६ ॥ मधूकजैश्च पद्मैर्वा त्रिमध्वक्तैश्च मन्त्रवित् |
चन्द्रचन्दनकस्तूरीकाश्मीरसुरभीकृतैः ॥ २७ ॥ तर्पयेच्च दिनप्रस्थतद्वत् सलिलैर्भक्तिमान् सुधीः |
आत्मानमभिषिच्याथ तर्पयेद् ब्राह्मणानपि ॥ २८ ॥ एवं संसिद्धमन्त्रस्तु नित्यार्चानिरतस्तथा |
गुरुभक्तः प्रकुर्वीत प्रयोगान् निजवाञ्छितान् ॥ २९ ॥ सहस्रजापी स्थिरधीर्मन्त्रवीर्यविदात्मवान् |
यः सोऽपि काम्यान् कुर्वीत प्रयोगान्नान्यथा क्वचित् ॥ ३० ॥ यदज्ञानने मोहेन चापलेनाथ वाचरेत् |
अनर्थक्लेशराजादिपीडाः प्राप्नोति निश्चितम् ॥ ३१ ॥ अरुणैः पङ्कजैर्होमं कुर्यात् त्रिमधुराप्लुतैः |
मण्डलाल्लभते लक्ष्मीं महतीं श्लाघ्यविग्रहाम् ॥ ३२ ॥ कह्लारैः क्षोदरसंयुक्तैः पूर्णादिं तद्दिनावधि |
जुहुयान्नित्यशो भक्त्या सहस्रं विकचैः शुभैः ॥ ३३ ॥ एतद्दिनेषु पूर्वोक्तान् भोजयेदुक्तरूपतः |
तावच्च जप्याद्धोमोऽस्य यावत्संख्यं हुतं कृतम् ॥ ३४ ॥ चम्पकैः क्षौद्रसंसिक्तैः सहस्रहवनाद् ध्रुवम् |
लभते स्वर्णनिष्काणां शतं माक्षेण पूर्ववत् ॥ ३५ ॥ पाटलैर्घृतसंसिक्तैस्त्रिसहस्रहुतैस्तथा |
दशोदिमासाल्लभते चित्राणि वसनानि च ॥ ३६ ॥ कर्पूरचन्दनाद्यानि सुगन्धीनि च मासतः |
वस्तूनि लभते हृद्यान्यभोगोपयोगिभिः ॥ ३७ ॥ शालीभिः क्षीरसिक्ताभिर्मन्त्रविच्च शतं हुनेत् |
तेन शालीसमृद्धिः स्यान्मासैः षड्भिरसंशयम् ॥ ३८ ॥ तिलैर्हुनेच्चैवशतं वर्षादारोग्यमाप्नुयात् |
स्वजन्मसु त्रिषु तथा दूर्वाभिर्जुहुयात् सुधीः ॥ ३९ ॥ निरातङ्को महाभागः शतं वर्षाणि जीवति |
गुडूचीतिलदूर्वाभिः त्रिषु जन्मसु संहुनेत् ॥ ४० ॥ चिरायुःश्रीवशोधनान्यभोगपुत्रादिभाग् भवेत् |
घृतपायसदुग्धैश्च हुतैस्तेषु त्रिषु क्रमात् ॥ ४१ ॥ आयुरारोग्यविभवः नृपमान्यो भवेत् तथा |
सप्तम्यां कदलीहोमात् सौभाग्यं लभते ध्रुवम् ॥ ४२ ॥ दूर्वाङ्कुरैस्तु प्रादेशमात्रैः त्रिस्वादुसंयुतैः |
षण्मासादब्दतो वापि रोगान्मुक्तः सुखी भवेत् ॥ ४३ ॥ तद्दिनेषु जपेद्विद्यां नित्यशः सलिलं स्पृशन् |
सहस्रवारं तत्तोयैः स्नानं पानं समाचरेत् ॥ ४४ ॥ पाकाद्यमपि तैरेव कुर्याद्रोगनिमुक्तये |
साध्यर्क्षवृक्षसंचूर्णत्र्यूषणं सर्षपास्तिलाः ॥ ४५ ॥ पिष्टं च साध्यपादोत्थरजसा च समन्वितम् |
कृत्वा पुत्तलिकां तैस्तु हृदये नामसंयुताम् ॥ ४६ ॥ प्राग्वच्चिन्तयस्तिक्ष्णैः शरैः पुत्तलिकां हुनेत् |
एवं दिनैः सप्तकैर्वा त्रिभिर्वैकदिनेन वा ॥ ४७ ॥ साध्यो वश्यो भवेत्स्त्रीमतीदूरस्थितोऽपि च |
तथाविधां पुत्तलिकां कुण्डमध्ये खनेद्भुवि ॥ ४८ ॥ उपर्यग्निं निधायात्र विद्यया दिनशो हुनेत् |
त्रिसहस्रं प्रियामायां सर्षपैस्तद्रसाप्लुतैः ॥ ४९ ॥ शतयोजनदूरादप्यानयेद्वनितां बलात् |
तां तु पुत्तलिकामधमधूच्छिष्टसमन्विताम् ॥ ५० ॥ कृतप्राणप्रतिष्ठां च श्मशाने निखनेन्निशि |
साध्ययोनिं च तत्रैव छित्त्वा दत्त्वा बलिं ततः ॥ ५१ ॥ १ ‘चम्पकैः’ ख. पाठः |
२ ‘मान्ते’ ख. पाठः |
[Redaktion: Die Prosa löst Madonmattā in Madā und Unmattā auf und erreicht damit zwölf äußere Kräfte. Mehrere Lesungen sind unsicher: „दिनप्रस्थतद्वत्“ (28), „माक्षेण“ (35), „दशोदिमासात्“ (36), Kompositum in 37, „प्रियामायां“ (49), „अधमधूच्छिष्ट“ (50). Der anatomische Ausdruck in 51 steht im Zusammenhang der Puppe; der Wortlaut benennt die Zuordnung nicht ausdrücklich neu.]

कृताभिषेकं तां विद्यां प्रजपेच्च शतत्रयम् |
अरातिरष्टमे राशौ मासान्नानाविधैरपि ॥ ५२ ॥ रोगैर्भूतादिसंक्लेशैर्नाशमेति सुनिश्चितम् |
यदन्तरांत समुद्रस्य सलिले तां खनेन्निशि ॥ ५३ ॥ क्लेशैस्तैः स विनिर्मुक्तः सुखी जीवति भूतले |
साध्यवृक्षेण कृत्वा तां सर्षपाज्यनिवेशिताम् ॥ ५४ ॥ तोयमध्ये निधायैतत् क्वाथयेत् शुक्रवासरे |
वैरी घोरज्वरेणार्तः कृते प्राग्वत् सुखी भवेत् ॥ ५५ ॥ तामेव चण्डिकागेहे तथा बलियुतां खनेत् |
साध्यो नरश्चेत् नारी चेत् शास्तुरायतने खनेत् ॥ ५६ ॥ तद्विधानेन सततं शत्रुरुन्मादवान् भवेत् |
[Zweite Vershälfte bereits im Druck durch Punkte ersetzt.] ॥ इति |
तथा— अथ वाग्वादिनीक्लिन्नाद्वितीयार्णं तु योजयेत् |
माया मेषा द्वादशार्णा वज्रप्रस्तारिणी मता ॥ १ ॥ वाग्वादिनी क्लिन्ना पूर्वोक्ता तस्या द्वितीयार्णं द्वितीयार्णस्थाने मायां भुवनेश्वरीबीजं योजयेत्, तत्र स्थितं कामबीजमपास्येत्यर्थः |
तथा— मुनिः स्यादङ्गिरास्त्रिष्टुप् छन्दः प्रोक्तोऽस्य देवता |
वज्रप्रस्तारिणी प्रोक्ता सर्वराजवशंकरी ॥ २ ॥ बीजेनाद्येन चाङ्गानि कल्पयेत् षट् क्रमात् सुधीः |
ध्यानपूजादिकं सर्वमस्याः पूर्ववदाचरेत् ॥ ३ ॥ पूर्ववद्वज्रप्रस्तारिणीवत् |
ह्राँह्रीमित्यादिना षडङ्गन्यासः |
अन्यत्सुगमम् ॥ अथ शिवदूती, सारसंग्रहे— भुवनेशी चतुर्थ्यन्तशिवदूतीपदं सहृत् |
सप्तार्णोऽयं मनुः प्रोक्तः शिवदूत्यास्त्रिवर्गदः ॥ १ ॥ भुवनेशी ह्रीं, चतुर्थ्यन्तशिवदूती शिवदूत्यै, हृन्नमः ॥ दक्षिणामूर्तिः— (२२ प०) ऋषी रुद्रोऽस्य गायत्री छन्दः स्याद्देवता शिवा |
आद्यन्ते बीजशक्ती च मध्यं कीलकमुच्यते ॥ १ ॥ शिवा शिवदूती |
तथा— षड्दीर्घस्वरयुक्तेन बीजेनाद्येन कल्पयेत् |
षडङ्गानि मनोरस्य जातियुक्तानि मन्त्रवित् ॥ २ ॥ तेनैव पुटितैरन्यैर्मन्त्रार्णैर्विन्यसेत् तनौ |
श्रोत्रनासाकपोलाक्षिनाभिषु क्रमशः सुधीः ॥ ३ ॥ षष्ठं मनसि विन्यस्य व्यापकं विद्यया न्यसेत् |
निदाघकालमध्याह्नदिवाकरसमप्रभाम् ॥ ४ ॥ नवरत्नकिरीटां च त्रिणेत्रामरुणाम्बराम् |
नानाभरणसंभिन्नदेहकान्तिविराजिताम् ॥ ५ ॥ शुचिस्मितामष्टभुजां स्तूयमानां महर्षिभिः |
पाशं खेटं गदां रत्नचषकं वामबाहुभिः ॥ ६ ॥ दक्षिणैरङ्कुशं खड्गं कुठारं कमलं तथा |
दधतीं साधकाभीष्टदानोद्यमसमन्विताम् ॥ ७ ॥ ध्यात्वैवं पूजयेद् देवीं दूतीं दुरितनाशिनीम् |
वृत्तद्वयं बहिस्त्र्यस्रं तद्द्वयं षड्दलाम्बुजम् ॥ ८ ॥ तथा षडस्रमष्टास्रं तद्वदष्टदलाम्बुजम् |
भूपुरं वह्निवासिन्याः कृत्वा तन्मध्यगां शिवाम् ॥ ९ ॥ आवाह्याभ्यर्चयेद् देवीं दूतीं दुर्नीतिवारिणीम् |
शाक्ते पीठे गन्धपुष्पैरुपचारैः समाहितः ॥ १० ॥ वृत्तमध्ये द्वितीये च वृत्ते चाङ्गानि पूजयेत् |
इच्छाज्ञानक्रियाशक्तीः त्रिषु कोणेषु पूजयेत् ॥ ११ ॥ शिवां वाणीं दूरसिद्धां त्रैविग्रहवतीमपि |
नादां मनोन्मनीं षट्सु पत्रेषु परिपूजयेत् ॥ १२ ॥ डाकिन्याद्याः षडस्रेषु स्वास्याग्रात् प्रदक्षिणम् |
मूलदेवीसमाकारवर्णायुधसमन्विताः ॥ १३ ॥ [Druckvarianten: 1 „रा“; 2 „विधियुतां“; 3 „दुर्नीति“. Unsichere Druckformen in VP 52–53 und VA 1 bleiben kenntlich; kein stillschweigender Ersatz des unklaren Wortlauts.]

सुमुखी सुन्दरी सारा सुमना च सरस्वती |
समया सर्वगा सिद्धिर्युक्ता अष्टास्रशक्तयः ॥ १४ ॥ वागीशी वरदा विघ्ना विनदा विघ्नकारिणी |
वीरा विघ्नहरा विद्या पूज्याः पत्राष्टके त्विमाः ॥ १५ ॥ विह्वला कर्षिणी लोला नित्या मदनमालिनी |
प्रमोदा कौतुका पुण्या पुराणा चतुरस्रगाः ॥ १६ ॥ पूज्या बाह्ये लोकपालास्तदस्त्राणि च तद्बहिः |
एवं पूजा मया प्रोक्ता शिवदूत्या यथाविधि ॥ १७ ॥ इति |
अथ प्रयोगः— तत्र प्रातःकृत्यादियोगपीठन्यासान्तं मूलविद्यया प्राणायामत्रयं कृत्वा, शिरसि रुद्राय ऋषये नमः |
मुखे गायत्रीच्छन्दसे नमः |
हृदये श्रीशिवदूतीनित्यायै देवतायै नमः |
गुह्ये ह्रींबीजाय नमः |
पादयोः नमः शक्तये नमः |
नाभौ शिवदूत्यै कीलकाय नमः, इति विन्यस्य सर्वाभीष्टसिद्धये विनियोगः, इति प्राग्वदुक्त्वा ध्यानादिमानसपूजान्ते स्वर्णादिपट्टे चन्दनादिना वृत्तद्वयं कृत्वा (तद्बहिः स्वाभिमुखाग्रं त्र्यस्रं तद्बहिः पुनर्वृत्तद्वयं तद्बहिः षड्दलपद्मं) तद्बहिः षट्कोणं तद्बहिरष्टकोणं तद्बहिरष्टदलं कमलं तद्बहिः पूर्वपश्चिमयोर्द्वारद्वययुक्तं चतुरस्रत्रयमिति पूजाचक्रं निर्माय, संस्थाप्य अर्घ्यस्थापनादिपुष्पोपचारान्ते वृत्तान्तराले षडङ्गानि प्राग्वत् संपूज्य, त्रिकोणस्याग्रकोणादिप्रादक्षिण्येन इच्छाशक्त्यै नमः |
ज्ञानशक्त्यै० |
क्रियाशक्त्यै०, इति संपूज्य, षड्दलेषु शिवायै नमः |
वाण्यै० दूरसिद्ध्यै० त्रैविग्रहवत्यै० नादायै० मनोन्मन्यै० इति संपूज्य, षट्कोणेषु देव्यग्रकोणादिप्रादक्षिण्येन हाकिन्यै नमः |
राकिन्यै० शाकिन्यै० लाकिन्यै० काकिन्यै० डाकिन्यै० इति संपूज्य, अष्टकोणेषु सुमुख्यै नमः, सुन्दर्यै० सारायै० सुमनायै० सरस्वत्यै० समयायै० सर्वगायै० सिद्धायै इति संपूज्य, अष्टदलेषु वागीश्यै नमः, वरदायै० विघ्नायै० विनदायै० विघ्नकारिण्यै० वीरायै० विघ्नहरायै० विद्यायै० इति संपूज्य, चतुरस्रे देव्यग्रद्वारस्य दक्षिणभागमारभ्य प्रादक्षिण्येन विह्वलायै नमः, आकर्षिण्यै० लोलायै० नित्यायै० मदनायै० मालिन्यै० प्रमोदायै० कौतुकायै० पुण्यायै० पुराणायै० इति संपूज्य, लोकपालास्त्रादि प्राग्वत् समापयेदिति ॥ तथा— एकलक्षं जपेन्मन्त्रं जुहुयात् साधकोत्तमः |
तद्दशांशं पयोन्नेन सर्पिरक्तेन मन्त्रवित् ॥ १८ ॥ तर्पयेत् तद्दशांशेन सुगन्धिसलिलैः शुभैः |
आत्मानमभिषिच्याथ ब्राह्मणांस्तोषयेद्द्रुतम् ॥ १९ ॥ एवं संसिद्धमन्त्रस्तु प्रयोगान् कर्तुमर्हति |
काम्यहोमविधिं वक्ष्ये सम्यक् सङ्कल्पसिद्धिदम् ॥ २० ॥ येनासौ वाञ्छितं क्षिप्रमवाप्नोति सुनिश्चितम् |
वशयेद्वनिता होमाद् गुग्गुलैस्तिलमिश्रितैः ॥ २१ ॥ नारिकेलसमीपेतैर्गुडैर्लक्ष्मीमवाप्नुयात् |
तथाज्यासिक्तैः कह्लारैः क्षीराङ्कैररुणोत्पलैः ॥ २२ ॥ त्रिमध्वक्तैश्चम्पकैश्च प्रसूनैर्बकुलोद्भवैः |
मधूकजप्रसूनैश्च हुतैः कन्यामवाप्नुयात् ॥ २३ ॥ पुन्नागजैर्हुतैर्वैश्वानरायाज्यैरिष्टमवाप्नुयात् |
माहिषैर्महिषीराजैरजा गव्यैश्च गास्तथा ॥ २४ ॥ अवाप्नोति हुतैः साज्यै रत्नै रत्नानि साधकः |
शालिपिष्टमयीं कृत्वा पुत्तलीं सितसंयुताम् ॥ २५ ॥ हृद्देशे न्यस्तसाध्याख्यां पचेत्तैलाज्ययोर्निशि |
तां मन्त्री च दिवा रात्रौ विद्याजप्तां तु भक्षयेत् ॥ २६ ॥ सप्तरात्रप्रयोगेण नरो नारी नृपोऽथवा |
दासवच्च समायाति वित्तं प्राणादि चार्पयेत् ॥ २७ ॥ हयारिपुष्पैररुणैः सितैर्वा जुहुयात् तथा |
त्रिसप्तरात्रान्महतीमवाप्नोति श्रियं नरः ॥ २८ ॥ [Druckvarianten: 1 „मधु“; 2 „फलैः“; 3 „हुतैराज्यैरन्नैरन्नानि“. SD 24, zweite Hälfte: Stoff- und Tierzuordnung syntaktisch unsicher.]

व्याघ्रमांसैस्त्रिमध्वक्तैर्होमात् स्वर्णमवाप्नुयात् |
क्षीराङ्कैः शस्यसंपन्नां भुवं प्राप्नोति मण्डलात् ॥ २९ ॥ पद्मजातैर्हवनाल्लक्ष्मीमवाप्नोति त्रिभिर्दिनैः |
समस्तापत्तारिणीयं मोहिनी विश्वरञ्जिनी ॥ ३० ॥ श्रीकरी शिवदूत्याख्या प्रोक्ता सर्वसमृद्धिदा |
[Zweite Vershälfte im Druck punktiert.] ॥ इति ॥ अथ (त्वरिता), सारसंग्रहे— त्वरितामन्त्रमथ ते वच्म्यामि सुरवन्दितम् |
सर्वापत्तारकं सर्वसंपत्सन्तानसिद्धिदम् ॥ १ ॥ मूर्धयुग्दन्तपङ्क्तिश्च हृल्लेखा कवचान्तिका |
दक्षदोःकूर्परोष्ठौ स्तां वामदोर्मूलकं ततः ॥ २ ॥ तद्दन्त्योष्ठावन्तिमं च भृगुणान्तिमरेफयुक् |
सशान्तिः खं वामकर्णबिन्दुयुक् सस्वरोऽन्तिमः ॥ ३ ॥ शक्तिरस्त्रान्तको मन्त्रो द्वादशार्णः समीरितः |
[Zweite Vershälfte im Druck punktiert.] ॥ दन्तपङ्क्तिः ओकारः, मूर्धयुक् बिन्दुयुक्, तेन ओं |
हृल्लेखा भुवनेश्वरीबीजं ह्रीं |
कवचं हुं |
दक्षदोःकूर्परः खकारः ओष्ठः ए तेन खे |
वामदोर्मूलं चकारः, दन्त्योष्ठौ छकारैकारौ ताभ्यां च्छे |
अन्तिमः क्षकारः |
भृगुः सकारः, शान्तेन तकारेण रेफेण च युक्तः |
सशान्तिः ईकारयुतस्तैः स्त्रीं |
खं हकारः, वामकर्णः ऊकारः, बिन्दुरनुस्वारः एतैः हूं |
अन्तिमः क्षकारः, स एकारयुक्तस्ताभ्यां क्षे |
शक्तिः ह्रीं, अस्त्रं फट्कारः |
तथा— [Erste Vershälfte im Druck punktiert.] |
ऋष्याद्या अर्जुनविराट्त्वरिताख्याः समीरिताः ॥ ४ ॥ कूर्मबीजैः सदीर्घैः पूर्वपूर्वैर्दीर्घैः षडङ्गकः |
द्वाभ्यां द्वाभ्यां विना मायां कृत्वा मन्वर्णकान् न्यसेत् ॥ ५ ॥ कूर्मश्चकारः |
द्वाभ्यामित्यनेन ‘चच्छे हृत् चच्छेतः शिरः’, इत्यादि प्रयोगे वक्ष्यते |
नारायणीये तु— नवमादिद्वितीयान्तं यदस्या वर्णसप्तकम् |
तेनाङ्गानि द्विवर्णानि कर्तव्यान्युपदेशतः ॥ १ ॥ उपदेश इत्यनेन पृथक्पृथग्न्यासः सूचितः |
तेन ‘खेच हृत्, चच्छे शिरः’, इत्यादि यथागुरूपदेशं कार्यम् |
कपालकण्ठदोहृन्नाभिगुह्योरुषु सजानुषु |
जङ्घयोः पादयोर्मन्त्री सर्वर्णं व्यापकं न्यसेत् ॥ ६ ॥ लसच्छ्यामतनुं रक्तपङ्कजाद्यत्पदाम्बुजाम् |
ताटङ्काङ्गदविभ्राजिरशनानूपरोत्कटैः ॥ ७ ॥ विप्रक्षत्रियवैश्यशूद्रजातिभिर्भीमविग्रहैः |
द्विद्विक्रमादष्टनागैः कल्पिताद्यत्सुभूषणाम् ॥ ८ ॥ शेषश्च वासुकिर्विप्रौ तक्षकः कर्कोटको नृपौ |
वैश्यौ पद्ममहापद्मौ तुर्यौ कुलिकशङ्खकौ ॥ ९ ॥ शङ्खकः शङ्खपालः |
पल्लवांशुकसंवीतां शिखिपिच्छकृतैः शुभैः |
वलयैर्भूषितभुजां माणिक्यमकुटोज्ज्वलाम् ॥ १० ॥ बर्हिबर्हकृतापीडां तच्छत्रां तत्पताकिनीम् |
गुञ्जाफललसद्धारविलसत्कुचमण्डलाम् ॥ ११ ॥ त्रिणेत्रां चारुवदनां मन्दस्मितमुखाम्बुजाम् |
वराभयकरां गण्डद्वयीमकरशोभिताम् ॥ १२ ॥ तनुमध्यलतामुर्व्युप्रथुलस्तनयुग्मकाम् |
अरुणायतसन्नेत्रां सुशोणाधरपल्लवाम् ॥ १३ ॥ [Fußnote:] दक्षिणवामयोर्वराभये, विप्रनागावनन्तकुलिकौ बर्हिवर्णौ, प्रत्येकं सहस्रफणालङ्कृतौ, नृपौ वासुकिशङ्खपालौ पीतवर्णौ प्रत्येकमष्टशतफणालङ्कृतौ, वैश्यौ तक्षकमहापद्मौ नीलवर्णौ प्रत्येकं फणापञ्चशतालङ्कृतौ, वृषलौ पद्मकार्कोटकौ सितवर्णौ प्रत्येकं त्रिशतफणालङ्कृतौ तत्तदाभरणभूतौ ध्येयौ; इत्यधिकः पाठः शिवाचर्चनचन्द्रिकायाम् |
[Lesart:] „लतामुच्च“ ख. पाठः |

विलासमन्दिरं देवीं तरुणीं संस्मरेत् सुधीः |
आसने हेमरचिते वष्टसिंहवृतेऽभितः ॥ १४ ॥ सरोजमष्टपद्मं स्याद्वृत्तयुग्मं ततो भवेत् |
तद्बहिर्भूपुरद्वन्द्वं पश्चिमद्वारसंयुतम् ॥ १५ ॥ मायापीठोदिता अत्र नवशक्तीः प्रपूजयेत् |
त्वरितां वक्ष्यमाणेन विधानेनात्र संयजेत् ॥ १६ ॥ अन्त्यं सदण्डी वर्माथ खं सदण्डी सुधा ज्रदे |
वियद्भान्त्यः सकर्णाग्निरप्येतद्द्वन्द्वकं पुनः ॥ १७ ॥ अन्त्यं सनेत्रार्धचन्द्रो गुलगर्जद्वयं वदेत् |
उपान्त्यस्वरयुग्व्योम वर्मान्त्यो दीर्घबिन्दुयुक् ॥ १८ ॥ ङेन्तं पञ्चाननं हृच्च पीठमन्त्र उदाहृतः |
[Zweite Hälfte im Druck punktiert.] ॥ अन्त्यं चकारः, सदण्डी सानुस्वारः तेन चं |
वर्म हुं |
खं हकारः सदण्डी सानुस्वारः तेन हं |
सुधा वकारः |
ज्रदे स्वरूपं |
वियत् हकारः |
भान्त्यः मकारः कर्ण उ तेन मु |
अग्नी रेफः अपिशब्दादुकारः तेन रु |
पुनरेतद्द्वयं मुरु इति |
अन्त्यं चकारः, सनेत्रः इकारसहितः अर्धचन्द्रो बिन्दुः तेन चिं इति |
गुलद्वयं गर्जद्वयं चेत्यर्थः |
उपान्त्यस्वरो बिन्दुः, तद्युग्व्योम हकारः तेन हं |
वर्म हुं |
अन्त्यः चकारः, दीर्घः आकारः बिन्दुरनुस्वारः तेन चां |
ङेन्तं पञ्चाननं पञ्चाननाय |
हृत् नमः ॥ अनेन मनुना दद्यादासनं मूर्तिकल्पना |
मूलमन्त्रेण कर्तव्या त्वरितां पूजयेत् ततः ॥ १९ ॥ यथावत् केसरेष्वङ्गपूजा कार्या विपश्चिता |
प्रणीतां चैव गायत्रीं यजेत्तत्रैव मन्त्रवित् ॥ २० ॥ तत्रैव सप्तमाष्टमकेसरेषु |
षडङ्गानि संपूज्यावशिष्टकेसरयोर्विपश्चितेत्यनेन षडङ्गपूजायां विशेष उक्तः |
यथा अत्र देव्यग्रकेसरमारभ्य प्रादक्षिण्येन षट्सु केसरेषु षडङ्गानि संपूज्यावशिष्टकेसरद्वये शक्तिद्वयं पूजयेदिति ॥ उक्तं च मुडानीतन्त्रे— “अष्टसिंहासने पूज्या दले पूर्वादिकं क्रमात्” |
इति “अङ्गं प्रणीतां गायत्रीं” इति तोतलामतेऽपि |
“यजेत् तत्राष्टपत्रेषु (पूर्वाशाचाङ्गदेवताः |
सौम्ये प्रणीतामैशे च गायत्रीमभिपूजयेत् ॥” इति |
पद्मपादाचार्याश्च पूर्वादिषट्सु केसरेषु) षडङ्गानि संपूज्य उत्तरेशानयोरुभयं पूजयेदिति ॥ प्रपञ्चसारे— (१३|
३३) हुंकार्याख्या खेचरिचण्डे सच्छेदनी तथा क्षेपणी |
भूयःस्त्रियाद्यया हुंकारीक्षेमङ्कर्यश्च संपूज्याः ॥ १ ॥ सश्रीबीजा लोकेशायुधभूषणान्विता दलाग्रेषु |
इति लोकेशवाहनमपि ज्ञेयम् |
“इन्द्रादिलोकपालानां वर्णा वाहायुधैः समाः” इति तोतलामतात् |
तथा— फट्कारी चाप्यत्र सचापशरधारिणी च तद्बाह्ये ॥ २ ॥ सस्वर्णवेत्रयष्ट्यो द्वाःस्थे पूज्ये पुनर्जयाविजये |
कृष्णो बर्बरकेशो लकुडधरः किङ्करश्च तत्पुरतः ॥ ३ ॥ बर्बरः उद्भूषितः, धूसर इति यावत् |
लकुडः गदा |
‘कृष्णवर्णो गदापाणि’ इति सारसंग्रहवचनात् ॥ सारसंग्रहे— किङ्कराय रक्षयुगं त्वरिताज्ञास्थिरो भव |
कवचान्ते फट्च वदेदनेन मनुना ततः ॥ १ ॥ आरण्यवनसंभूतैर्मनोज्ञैश्च सुगन्धिभिः |
धूपदीपादिभिर्नृत्यगीतैः संपूजयेच्छिवाम् ॥ २ ॥ एवं पूजां विधायाग्रे जपेद्विद्यां सहस्रकम् |
शतं वा कृतहोमस्तु प्राग्वत् पूजां समापयेत् ॥ ३ ॥ इति |
अथ प्रयोगः— तत्र प्रातःकृत्यादियोगपीठन्यासान्तं मूलविद्यया प्राणायामत्रयं कृत्वा, शिरसि अर्जुनाय ऋषये नमः |
मुखे विराजे छन्दसे नमः |
हृदये श्रीत्वरितानित्यायै देवतायै नमः |
गुह्ये ओं बीजाय नमः |
पादयोः ह्रीं शक्तये नमः, इति विन्यस्य मम सकलपुरुषार्थसिद्धये विनियोगः, इति [Fußnoten: „शरास“; „बर्बरः कुटिल इति तन्त्रराजटीकाकारः“. Die Buchstabenglossen des Sitzmantras sind stellenweise auffällig und werden nicht zu einem vermeintlich gesicherten Standardtext normalisiert.]

कृताञ्जलिरुक्त्वा, चचे हृदयाय नमः |
चेच्छः शिरसे स्वाहा |
क्षस्त्री शिखायै वषट् |
स्त्रीहुं कवचाय हुं |
हुंक्षे नेत्रत्रयाय वौषट् |
क्षेफट् अस्त्राय फट्, इति करषडङ्गन्यासं विधाय ध्यानाद्यात्मपूजान्तं भुवनेश्वरीपीठमभ्यर्च्यावाहनादिपुष्पोपचारान्तेऽष्टदलकेसरेषु देव्यग्रादिषट्केसरेषु षडङ्गानि संपूज्य, अन्तिमकेसरयोः— ओं प्रणीतायै० ओं गायत्र्यै० इति संपूज्य, अष्टदलेषु— ओं हुंकार्यै०, खेचर्यै०, चण्डायै०, च्छेदिन्यै०, क्षेपण्यै०, स्त्रियै०, हुंकार्यै०, क्षेमङ्कर्यै०, इति संपूज्य, देव्यग्रे ओं फट्कार्यै नमः, देव्यग्रद्वारदक्षवामपार्श्वयोः ओं जयायै०, विजयायै०, इति संपूज्य, द्वाराग्र एव ‘किङ्कराय रक्ष रक्ष त्वरिताज्ञास्थिरो भव हुंफट्’ किङ्कराय नमः, इति संपूज्य लोकेशास्त्रादि प्राग्वत् समापयेदिति ॥ अत्र हुंकार्यादिशक्तीनां लोकेशात्मकत्वाल्लोकपालार्चा नास्तीति केचित् ॥ मुडानीतन्त्रे— त्वरितादेवि शब्दान्ते विद्महे तूर्णमुद्धरेत् |
विद्यायै धीमहि प्रोक्ता तन्नो देवी प्रचोदयात् ॥ १ ॥ गायत्री त्वरितायास्तु जपात् सांनिध्यकारिणी |
[Zweite Vershälfte im Druck punktiert.] ॥ इति गायत्र्युक्ता ॥ प्रपञ्चसारे— (१३|
३१) दीक्षां प्राप्य गुरोरथ लक्षं जप्याद् दशांशकं जुहुयात् |
बिल्वसमिद्भिस्त्रिमधुरसिक्ताभिः साधकः सुसंयतधीः ॥ १ ॥ इति |
सारसंग्रहे— एवं संस्मृत्य लक्षैकं प्रजपेन्मनुवित्तमः |
मध्वक्तबिल्वसमिधो जुहुयात् तद्दशांशतः ॥ १ ॥ सुगन्धिसलिलैश्चैव तर्पयेत् त्वरितां पराम् |
आत्मानमभिषिच्याथ कुर्याद् ब्राह्मणभोजनम् ॥ २ ॥ एवं सिद्धे मनौ तस्मै नरनारीनराधिपाः |
नमस्क्रियां प्रकुर्वन्ति नात्र कार्या विचारणा ॥ ३ ॥ देवदानवगन्धर्वयक्षचारणयोषितः |
सिद्धविद्याधराणां च योषा ह्यप्सरसस्तथा ॥ ४ ॥ विस्पृष्टजघनोरस्काः स्पष्टदोर्मूलमञ्जुलाः |
प्रस्खलत्पदविन्यासाः प्रस्पन्दिदशनांशुकाः ॥ ५ ॥ रम्यभीषदुन्मिलितनयनेन्दीवराश्च ताः |
श्लथमानाङ्गवसनाः श्लथग्रथितमूर्धजाः ॥ ६ ॥ मन्दस्खलितभाषिण्यः प्रसादाकाङ्क्षया मुहुः |
सम्यक् शिरोविरचितनत्यञ्जलय उत्कटम् ॥ ७ ॥ पश्य वाचं प्रयच्छाशु दयालुः सुमुखैधि नः |
एहि रम्यं सुरोद्यानं रंस्यामोऽत्र निजेच्छया ॥ ८ ॥ निरातङ्कं सदेत्यादिवादिनीभिरहर्निशम् |
प्रलोभ्यमानो मन्त्रज्ञो यदा विक्रियते न सः ॥ ९ ॥ तदैत्य वाञ्छितं तस्मै ददाति त्वरिताखिलम् |
संजप्य कर्णयोर्विद्यां यष्ट्या च जपितद्वया ॥ १० ॥ संताड्य शीर्षे सहसा मृतमुत्थापयेदसौ |
[Zweite Vershälfte im Druck punktiert.] ॥ मृतं सर्पादिदष्टमिति शेषः |
तथा— काम्यहोमविधिं वक्ष्ये यथाविधि विधानवित् |
कृत्वा योनिं कुण्डमध्ये समाधायाग्निमत्र ताम् ॥ १ ॥ योनिं स्वाभिमुखाग्रत्रिकोणम् |
संपूज्य पूर्वविधिना देवतां पूर्ववत् सुधीः |
तिलसर्षपगोधूमशालिधान्ययवैर्हुनेत् ॥ २ ॥ त्रिमध्वक्तैरेकशो वा समेतैर्वा समृद्धये |
बकुलैश्चम्पकै रक्तकह्लारैररुणोत्पलैः ॥ ३ ॥ कैरवैर्मल्लिकाकुन्दमधूकैरिन्दिराप्तये |
अशोकैः पाटलैर्बिल्वैर्जातीविचकिलैः सितैः ॥ ४ ॥ [Die ersten drei Nyāsa-Lautgruppen sind im Druck beeinträchtigt; die Lesungen werden nicht als normalisierte Mantrafassung ausgegeben.]

नवैर्नीलोत्पलैरश्वारिपुजैः कर्णिकारजैः |
होमाल्लक्ष्मीं च सौभाग्यमायुर्नित्यं यशो निधिम् ॥ ५ ॥ यद्यद्धि वाञ्छितं सर्वं तत्तदाप्नोति निश्चितम् |
दूर्वां गुडूचीमश्वत्थं वटमारग्वधं तथा ॥ ६ ॥ सिताब्जं लक्षकं हुत्वा रोगान्मुक्तो नरोऽचिरात् |
इक्षुजम्बूनारिकेलमोचागुडसिताः हुनेत् ॥ ७ ॥ अचलां लभते लक्ष्मीं भोक्ता च भवति ध्रुवम् |
एतैरुदीरितैराज्यमधुक्षीरप्लुतैर्हुनेत् ॥ ८ ॥ एकैकैर्वनिता वश्या यावज्जीवं धनादिभिः |
तैस्तै राज्यप्लुतैर्भूपा वश्याः स्युर्हवनात्ततः ॥ ९ ॥ क्षीराक्तैस्तैर्हुतैर्मर्त्या वशे तिष्ठन्त्यशेषतः |
सर्षपाज्यैर्हुनेन मृत्युकाष्ठाग्नौ वैरिमृत्यवे ॥ १० ॥ तदङ्कवैरियोन्युत्थमांसैरपि च तत्कृते |
रक्तेन्धनाग्नौ योन्युत्थतत्तजोत्पादितं चरुम् ॥ ११ ॥ आरुष्करघृतोपेतं फणिशीर्षस्रुचा हुनेत् |
कृष्णांशुकशिरोवेष्टः खड्गपाणिश्च रोषवान् ॥ १२ ॥ निशामध्ये हुनेत् सद्यो निहन्तुं वैरिणं हठात् |
मृत्युकाष्ठानले तस्य फलैः पत्रैश्च होमतः ॥ १३ ॥ मृत्युः कारस्करः |
सप्तरात्रादरातेस्तु गजाश्वा रोगमाप्नुयुः |
चतुरङ्गुलजहोमाच्चतुरङ्गबलं रिपोः ॥ १४ ॥ सप्ताहाद्रोगदुःखार्तिं भजतेव न संशयः |
मन्त्रजप्तोदकैः स्नानात् क्ष्वेडशान्तिर्भविष्यति ॥ १५ ॥ तज्जप्तयष्टिवाताच्च तज्जप्तचुलुकोदकात् |
होमसंख्या यावती स्याज्जपसंख्या च तावती ॥ १६ ॥ तत्कर्णरन्ध्रजापाच्च सद्यो न स्युर्विषग्रहाः |
तद्यन्त्रस्थापनं चैव विषभूतादिनाशनम् ॥ १७ ॥ एवमस्यास्तु विद्याया वैभवं को नु वर्णयेत् |
तथाप्यनुग्रहात्तस्याः किञ्चिदुक्तं मया तव ॥ १८ ॥ वैरियोन्युत्थमांसैर्वैरिनक्षत्रयोनिमांसैरित्यर्थः |
नक्षत्रयोनयस्तु तोतुलामते— अश्वहस्त्यजसर्पाश्च सर्पिणी च विडालिका |
मेषो बिडालकश्चाखुमूषका गौरृषस्तथा ॥ १ ॥ महिषो व्याघ्रमहिषीव्याघ्रिणीहरिणाः शुनी |
वानरो नकुलश्चैव नकुली वानरी तथा ॥ २ ॥ सिंहो हयवधूः सिंही छागी हस्तिन्यपि क्रमात् |
भानां तु योनयो देवि कथितास्तव सुव्रते ॥ ३ ॥ अत्र द्वितीयनकुलशब्दोऽभिजिदभिप्रायेणोक्तः, अत एवाष्टाविंशतिरिति |
सारसंग्रहः— अथानुग्रहचक्राणि वक्ष्यन्तेऽत्र समासतः |
[Zweite Vershälfte im Druck punktiert.] ॥ कोष्ठचतुःषष्टिं च लिखित्वा तेषु च शिवाद्यं कुणपादि |
श्रीमनुमालिख्य शिखाशेषं तृणमनुं बाह्येऽमृतवीतम् ॥ १ ॥ काञ्चनपट्टेऽच्छे वसने वा संलिखितं च स्थापितमेतत् |
सस्यसमृद्धिदायिन्यः समये स्युस्तत्र वृष्टयः फलदाश्च ॥ २ ॥ यन्त्रमिदं चानुग्रहसंज्ञं यत्र निखातममङ्गला वार्ता |
तत्र भवेत् सत्यं न काचिच्छ्रीमनुमेनं संप्रति वच्ये ते ॥ ३ ॥ विबिन्दुका रमाथ सा विषं च दीर्घसंयुतम् |
मरुच्च दीर्घसंयुतो विलोमगानिमान् वदेत् ॥ ४ ॥ [Fußnoten: 1 „के प्लवजं“; 2 „अर्के“. Mehrere Stoffbezeichnungen und Komposita in TH 9–12 und im Diagrammvers sind beeinträchtigt; die Prosa der Folgeseite erläutert das Diagramm.]

भृगुश्च कान्तिसंयुतस्तपञ्चमश्च सद्ययुक् |
ह्यनन्तयुक् मरुद्भवेत् ज्ञमेयुतं पुनर्वदेत् ॥ ५ ॥ इमान्विलोमगांस्ततश्च मा मरुच्च दीर्घयुक् |
धरा च वामनेत्रयुक् वसुन्धरा ह्यनन्तयुक् ॥ ६ ॥ इमान्विलोमगान् पठेत् ततश्च याज्ञमेयुतम् |
वदेच्च लापदं च ली सुवैपरीत्यगानिमान् ॥ ७ ॥ वदेदिमं मनुं मतः स सर्वकार्यसाधकः |
[Zweite Vershälfte im Druck punktiert.] ॥ इति |
विबिन्दुका रमा श्री इति, सा स्वरूपम्, विषं मकारः, दीर्घः आकारः तेन मा |
मरुत् यकारः, दीर्घः आकारस्तेन या |
विलोमगान् यामासाश्री |
भृगुः सकारः, कान्तिः आ तेन सा इति |
तपञ्चमः नकारः, सद्यः ओकारस्तेन नो |
अनन्त आ, तद्युक्तो मरुत् यकारः तेन या |
ज्ञ स्वरूपं, तत् एयुतं तेन ज्ञे |
इमान् विलोमगान् ज्ञेयानोसा |
मा स्वरूपं, मरुत् यकारः दीर्घः आ तेन या इति, धरा लकारः, वामनेत्रं ईकारः तेन ली, वसुन्धरा लकारः, अनन्तः आ तेन ला |
विलोमगान् लालीयामा |
या स्वरूपं, ज्ञ एयुतं एकारयुक्तं तेन ज्ञे |
ला स्वरूपं, ली स्वरूपं, वैपरीत्यगान् लीलाज्ञेया इति ॥ अथैतद्यन्त्ररचनाप्रकारः— तत्र प्राक्प्रत्यगायता नव रेखा दक्षिणोत्तरायता नव रेखाश्च कृत्वा चतुःषष्टिकोष्ठयुतं चतुरस्रं चक्रं परिकल्प्य, तत्र सर्वोपरिगतपङ्क्तेः प्रथमकोष्ठमारभ्य स्ववामादिदक्षिणान्तक्रमेण पङ्क्तिचतुष्टयगतेषु द्वात्रिंशत्कोष्ठेषु प्रोक्तसर्वतोभद्राख्यलक्ष्मीमन्त्रस्य द्वात्रिंशदक्षराणि विलिख्य, पुनरधोगतपङ्क्तिचतुष्टयेऽपि सर्वाधःपङ्क्तेः प्रथमकोष्ठं स्वदक्षिणस्थमारभ्य वामान्तमुपर्युपरि पङ्क्तिचतुष्टये तस्यैव मन्त्रस्य द्वात्रिंशदक्षराणि विलिख्य, तद्बहिः प्रागादिषु चतसृषु दिक्षु ईशानादीशान्तं चतुरावृत्त्या तद्बाह्यरेखास्पृष्टां त्वरितविद्यामन्तर्गतवषट्कारामालिख्य तद्बहिः वमित्यमृतबीजेन वेष्टयेत् |
एतद्यन्त्रमुक्तफलदं भवति ॥ इतः परं प्रवक्ष्ये ते मनोज्ञं यन्त्रमुत्तमम् |
प्राक्प्रत्यगायतैः सूत्रैस्तथा दक्षोत्तरायतैः ॥ १ ॥ दशभिर्दशभिः कुर्यादेकाशीतिपदानि वै |
समान्तरालकान्यत्र मध्यकोष्ठे समालिखेत् ॥ २ ॥ ससाध्यं टपरं मन्त्री बिन्दुयुक्तं च तद्बहिः |
चतसृष्वपि वीथीषु चतुष्कोष्ठात्मिकासु च ॥ ३ ॥ दिग्गतासु क्रमाद्वर्णान् वक्ष्यमाणान् समालिखेत् |
चतुतीयं वामकर्णयुक्तं बिन्दुविभूषितम् ॥ ४ ॥ विसर्गाढ्यो भृगुस्तोयं श्वेतेशः खेचरी ततः |
केवलां च ततः प्राग्वल्लक्ष्मीविद्यां समालिखेत् ॥ ५ ॥ उक्तवर्णविहीनेषु कोष्ठेषु मनुवित्तमः |
ततस्तृणाग्नमृतार्णैस्तद्वेष्टयेद्बहिः क्रमात् ॥ ६ ॥ मूलविद्याक्षराण्येव वषड्युक्तानि मन्त्रिभिः |
फट्काररहितानीह तानि प्रोक्तानि चागमे ॥ ७ ॥ बहिः कुम्भं विदध्याच्च पद्मं तदधरोत्तरम् |
[Zweite Vershälfte im Druck punktiert.] ॥ इति |
अथैतद्यन्त्ररचनाप्रकारः— तत्र प्राक्प्रत्यग्दक्षिणोदक् च समान्तरालानि दश दश सूत्राण्यास्फाल्य एकाशीतिपदानि विधाय, तत्र मध्यकोष्ठे सबिन्दुकठकारोदरे साध्यनामालिख्य, तत्कोष्ठपार्श्वस्थपूर्वापरायतपङ्क्तिद्वये च संभूय चतसृषु पङ्क्तिषु चतुश्चतुःकोष्ठात्मिकासु स्वाग्रादिप्रादक्षिण्यक्रमेण “झूंसः वषट्” इति च प्रतिकोष्ठे प्रतिकोष्ठमेकैकमभ्यन्तरान्निर्गमगत्या विलिख्य, ततः ईशानादिनैरृत्यादिकं च प्रागुक्तश्रीविद्यानुष्टुभं मध्यवीथिचतुष्टयवर्जमालिख्य सर्वबाह्येऽभितः ईशानादीशान्तं तृणाग्नमृताक्षराणि चतुरावृत्त्या प्राग्वत्समालिख्य, सर्वमध्यकोष्ठमवलम्ब्य चतुःकोणस्य तृणाग्नगताक्षरमानक्रमेण वृत्तं निष्पाद्य तद्बाह्येऽङ्गुलमानेन तथा वृत्तान्तरं कृत्वा, अधः उपरि भागे च मध्यतः चतुर्—

अङ्गुलान्तरालं वृत्तद्वयं मार्जयित्वा, तदग्रचतुष्टयमानमधस्तं समान्तरालमुपरि चतुरङ्गलं कुम्भमुखाकारं यथा भवति तथा समुन्नमय्य तत्कुम्भमुखे तिर्यग्रेखाद्वयं प्रसार्य, तत्कुम्भवीथीमध्यम् अन्योन्यस्पृष्टवकारमालया शृङ्खलारूपया अन्तःमुखया समापूर्य सर्वोपरि बिन्दुं समालिख्य, कुम्भाधस्तात् पद्मं तत्कर्णिकास्थं कुम्भं यथा भवति तथा समालिख्य प्रोक्तक्रमेण मनीषितेषु विनियोगात् प्रोक्तफलानि भवन्ति ॥ तथा— कुङ्कुमैर्लाक्षया वापि लिखितं स्वर्णपट्टके |
धवले वसने वापि लेखन्या स्वर्णजातया ॥ ८ ॥ संपूज्य जपसंसिद्धं स्थापयेद्यत्र तत्र वै |
भवेत्तल्लक्ष्मीरतिस्फीता नीरोगाश्च प्रजास्तथा ॥ ९ ॥ गजाश्वपशवश्चान्ये प्राणिनः सुखिनो भृशम् |
भूतप्रेतपिशाचादिपीडासु विभृयादिदम् ॥ १० ॥ अलक्ष्मीशान्तये वश्यसिद्धये सर्वसंपदे |
कृत्यामृत्युग्रहक्ष्वेडदुरितेभ्यो विमुक्तये ॥ ११ ॥ पुत्रपौत्रैश्वर्यदीर्घायुःसंसिद्धयेऽपि च |
[Zweite Vershälfte im Druck punktiert.] ॥ इति |
तथा— पद्मे दशदलयुक्ते मायां साध्याह्वयसहितां च |
ताराद्यार्णाल्लिखेद् दशपत्रे षट्कोणस्थं क्षितिपुरसंस्थं च ॥ १२ ॥ कृत्याद्रोहग्रहविनाशमनन्तचोरव्यालादिकभयहरम् |
जप्तं दोष्णा विधृतमशेषं राज्ञां युद्धे विजयदमुक्तम् ॥ १३ ॥ इति |
अथैतद्यन्त्ररचनाप्रकारः— तत्र दशदलपद्मं कृत्वा तत्कर्णिकायां मायाबीजस्योदरे साध्यनामालिख्य, तद्दलेषु मूलविद्यायाः प्रणवादिदशवर्णान् मायाबीजरहितान् विलिख्य, तद्बहिः षट्कोणं कृत्वा तद्बहिश्चतुरस्रं कुर्यात् |
एतदुक्तफलदं भवति ॥ तथा— विद्याद्यवर्णजठरे साध्यमालिख्य तद्बहिः |
अष्टच्छदेषु फड्वर्जमालिखेदष्टवर्णकम् ॥ १४ ॥ कर्णिकास्थं ततोऽब्जं च मायया वेष्टितं ततः |
बहिः कुम्भं विदध्याच्च प्रोक्तलक्षणसंयुतम् ॥ १५ ॥ एवमन्येषु नवभिर्विद्यावर्णैर्यथाक्रमम् |
विदध्यान्नव यन्त्राणि दशानां च फलं विदम् ॥ १६ ॥ सर्वरक्षां जयं वश्यं क्ष्वेडदुष्टग्रहनाशनम् |
स्तम्भं लक्ष्मीयशोधान्यवासांसि स समाप्नुयात् ॥ १७ ॥ अथैतद्यन्त्ररचनाप्रकारः— तत्राष्टदलं पद्मं विधाय तत्कर्णिकामध्ये विद्याप्रथमहृल्लेखां तदुदरे विद्याचयभूतप्रणवे तन्मध्ये साध्यनाम चालिख्य शेषाण्यष्टौ मन्त्राक्षराणि हृल्लेखाद्वयफट्कारविधुराणि क्रमेणाग्रादिप्रादक्षिण्येन अष्टसु दलेषु समालिख्य, तत्पद्मं द्वितीयहृल्लेखया उक्तमन्त्रेण वेष्ट्य तद्बहिः प्राग्वत् सबिन्दुकशृङ्खलितवकारान्तरमालोपेतं उपर्यधश्च पद्मद्वयोपेतं च कुम्भं कुर्यात्, एतत्प्रथमयन्त्रम् |
एवमस्यैव यन्त्रस्य कर्णिकामध्ये हृल्लेखोदरे विद्यायास्तृतीयाक्षरादीनि शेषाक्षराणि क्रमेणैकमेकं नामगर्भं विन्यस्य तदनन्तरादितत्पूर्वान्तं प्राग्वदष्टभिरक्षरैर्दलस्थैः पूर्वोक्तेन सार्धं नव यन्त्राणि, हृल्लेखामध्ये सनामकं फट्कारं समालिख्य प्रणवविधुरैस्तृतीयादिभिः शेषाक्षरैः प्राग्वद्दलस्थैर्दशमं चेति, एवं दश यन्त्राणि कुर्यादिति ॥ तथा— [Fußnote: „प्रोक्ताक्षरविधानतः“.]

साध्ययुतं तारकमिह मध्ये कोष्ठशते चैकविंशतिसहितेऽत्र |
द्वादशधा शूलमिह शिवाद्यं संलिख्य विशद्युगवसुशूलम् ॥ १८ ॥ मूलजप्तं यन्त्रवर्यं संपाताज्यसुसंयुतम् |
क्ष्वेडग्रहादि हरति जयलक्ष्मीयशःप्रदम् ॥ १९ ॥ अस्यार्थः— प्राक्प्रत्यगायता दक्षिणोत्तरायताश्च द्वादश द्वादश रेखा विलिख्यैकविंशत्युत्तरशतकोष्ठानि कृत्वा, रेखाग्रेषु सर्वेषु त्रिशूलानि विरच्य, तन्मध्यकोष्ठे ससाध्यं प्रणवं विलिख्येशानकोष्ठमारभ्य प्रादक्षिण्येन प्रवेशगत्या त्वरिताविद्यां प्रणवद्वितीयहृल्लेखाविधुरां द्वादशावृत्तिं लिखेत् |
तद्यन्त्रमुक्तफलदं भवति ॥ तथा— एकाशीतिपदं चक्रं कृत्वा तन्मध्यकोष्ठके |
रेफोदरे समालिख्य साध्यनाम यथाविधि ॥ २० ॥ लिखेद्बीजचतुष्कं तद्वीथीषु च यथा पुरा |
वक्ष्यमाणां ततः प्राग्वत्कालीविद्यां समालिखेत् ॥ २१ ॥ चतुःषष्टिपदेष्वीशादिषु च कुणपादिषु |
यममन्त्रावृतं बाह्ये वह्निवायुसमावृतम् ॥ २२ ॥ निग्रहाख्यमिदं यन्त्रं सर्वशत्रुनिबर्हणम् |
वह्निस्थं पतुरीयं स्याद्वामकर्णेन्दुभूषितम् ॥ २३ ॥ प्रथमं बीजमुदितं संवर्तोऽग्न्यासनेन्दुयुक् |
सवामकर्णो ह्यपरं कूर्मान्तार्धीन्दुवह्नियुक् ॥ २४ ॥ तृतीयं व्योमवह्न्यर्धिबिन्दुभिः परमीिरितम् |
एतद्बीजचतुष्कं तु शत्रुसंहारकारकम् ॥ २५ ॥ पतुरीयं भकारः, वह्निस्थं रेफोपरि स्थितं, वामकर्णमूकारः, इन्दुरनुस्वारः एतैः भ्रूं |
संवर्तः चकारः, अग्न्यासन इति रेफस्थं, इन्दुरनुस्वारः, वामकर्णः ऊकारः तेन च्रूं |
कूर्मान्तः छ, अर्धी ऊकारः, इन्दुरनुस्वारः, वह्नियुक् सरेफः एतैः छ्रूं |
व्योम हकारः, वह्नी रेफः, अर्धी ऊकारः, बिन्दुरनुस्वारः एतैः ह्रूं |
इति ॥ तथा— क्रोधीशः कान्तिमान् शक्रो वामनेत्रं ततः परम् |
कालोऽनन्तयुतो वह्निर्विपरीतानिमान् वदेत् ॥ २६ ॥ शक्रो युतश्च लोलाक्ष्या मेषो भान्तश्च सद्ययुक् |
संवर्तः पुनरेवैतान् विपरीतान् समुद्धरेत् ॥ २७ ॥ कालोऽनन्तयुतः सोऽथ सद्ययुक् ततृतीयकः |
भिण्टीयुता पूतना च विपरीतानिमान् वदेत् ॥ २८ ॥ वह्निरन्त्यः पूतना च सा जलस्था वदेदिमान् |
विपरीतानियं प्रोक्ता कालीविद्यारिपातिनी ॥ २९ ॥ इति |
क्रोधीशः ककारः, कान्तिराकारस्तेन का, शक्रो ल, वामनेत्र ईकारस्तेन ली |
कालो मकारः, अनन्त आकारस्तेन मा |
वह्नी र |
विपरीतान् रमालीका इति |
शक्रो ल, लोलाक्षी ईकारः तेन ली |
मेषो नकारः, भान्तो मकारः, सद्य ओकारस्तेन मो |
संवर्तः च |
विपरीतान् चमो नली इति, कालो मकारः, अनन्त आ तेन मा |
स एव सद्ययुक् तेन मो |
ततृतीयो द, भिण्टी ए तद्युतो दे, पूतना त |
विपरीतान् तेदमोमा इति |
वह्नी रेफः, अन्त्यः चकारः, पूतना त, सैव जले स्थिता वकारोपरि स्थिता तेन त्व |
विपरीतान् त्वतचर इति ॥ तथा— वायुः कालोऽनन्तयुतो जलं कान्तिसमन्वितम् |
सोमश्च खेचरी तोयं कान्तियुक् सा जयान्विता ॥ ३० ॥ वायुः कालः कान्तियुतः खेचरी सद्ययुग् विषम् |
सोमेशः खेचरी कालः सद्ययुक् खेचरी विषम् ॥ ३१ ॥ कान्तिमज्जलकान्ती च कालः सद्ययुतः पुनः |
पतुरीयो वामकर्णयुतोऽग्निर्नेत्रवान् पुनः ॥ ३२ ॥ [Fußnote: „विद्याद्यं“. Auffällige Lesungen च/क्ष in den Buchstabenglossen und die Form तेदमोमा werden nicht stillschweigend normalisiert.]

स एव तादृशो भूयः पतुरीयश्च पूर्ववत् |
कालः सद्ययुतस्तोयं कान्तियुक् खेचरीद्वयम् ॥ ३३ ॥ वह्निः सवामनेत्रश्च ततस्तोयं च पूतना |
तथाविधा पुनः सैव वह्निर्वामाक्षिसंयुतः ॥ ३४ ॥ सोमेशः खेचरी चेति यममन्त्र उदाहृतः |
सर्वशत्रुक्षयकरो यन्त्रविन्यासतः सदा ॥ ३५ ॥ इति |
वायुयकारः, कालो मकारः अनन्त आकारस्तद्युतो तेन मा |
जलं वकारः, कान्तिराकारस्तेन वा |
सोम ट, खेचरी ट, तोयं व, कान्ति आ तेन वा |
सैव कान्तिर्जयान्विता तेन मा |
वायुः यकारः, कालो म, कान्तिराकारस्तेन मा |
खेचरी ट, सद्ययुक् ओकारयुतं, विषं मकारस्तेन मो |
सोमेशः ट, खेचरी ट, कालो म सद्ययुक् ओकारयुतस्तेन मो |
खेचरी ट, विषं मकारः कान्तिमदाकारयुक्तस्तेन मा |
जलं व कान्तिः आ तेन वा |
कालो म, सद्य ओ तेन मो |
पतुरीयो भ, वामकर्णः ऊ तेन भू |
अग्निः र, नेत्रं इ तेन रि |
सोऽग्निस्तादृशो नेत्रयुत इकारयुक्तस्तेन रि |
पतुरीयो भ, पूर्ववत् ऊकारयुक्तस्तेन भू |
कालो म, सद्य ओ तेन मो |
तोयं व, कान्तिः आ तेन वा, खेचरीद्वयं टट इति, वह्निः र, वामनेत्र ई तेन री |
तोयं व, पूतना त तेन त्व |
सैव पूतना तथाविधा तकार एव वकारयुत इत्यर्थः, तेन त्व इति |
वह्निः र, वामाक्षि ई तेन री |
सोमेशः ट खेचरी ट इति ॥ अथैतन्निग्रहयन्त्ररचनाप्रकारः— तत्र प्राग्वद्वेदिकायामेकाशीतिपदोपेतं चक्रं विरच्य, तन्मध्यकोष्ठे सबिन्दुकरेफोदरे साध्यनामालिख्य, प्राग्वत् पार्श्वपङ्क्तिषु चतसृषु चतुष्कोष्ठेषु प्रागुक्तक्रमेण भ्रूंच्रूंछ्रूंह्रूं इति वर्णचतुष्टयं आभ्यन्तरान्निर्गमनगत्या अभितः समालिख्य, अभिचार्यः पुरुषश्चेदन्तःकाल्यनुष्टुभं बहिर्यममन्त्रं, वनिता चेदन्तर्यममन्त्रं बहिःकालीविद्यां च समालिखेत् |
लेखने तु ईशानादिकं नैरृत्यादिकं च कालीविद्या, अन्यदा तथा यममन्त्रं (विलिख्य अन्यतरं बहिरीशादिनैरृत्यन्तं नैरृत्यादीशान्तं च निरन्तरं द्विर्द्विरालिख्य तद्) बहिस्तद्वन्निरन्तरं बिन्दुयुक्तं यकारं रेफं च ईशादीशान्तं यथाक्रममन्तर्बहिर्विभागेन समालिख्य मनीषितेषु विनियुञ्ज्यात् |
एतन्निक्षेपे चाभिचार्यः पुरुषश्चेत् काल्यादिशक्तेरायतनेऽग्रे स्त्री चेच्छास्तुरायतने एवाग्रभागे अधस्तान्निखनेदिति संप्रदायः ॥ तथा— सौमकृते नवपट्टे शावभवे कर्पटके वा |
प्रस्तरके वा विषभस्म्या संलिख्य काकसुपत्रैश्च ॥ ३६ ॥ चत्वरके वा कलिते स्थापितमेतदरीणां हि |
मृत्युकरं व्याधिकरं स्यात् पुत्रस्त्रीवियुतत्वकरं च ॥ ३७ ॥ इति |
तथा— प्राक्प्रत्यग्दक्षिणोदक् च नव सूत्राणि पातयेत् |
जायन्ते च चतुःषष्टिः कोष्ठानि सुसमानि च ॥ ३८ ॥ मन्त्री तेष्वीशनैरृत्यदिगादौ कालिकामनुम् |
विलिख्य यममन्त्रेण प्रोक्तबीजद्वयेन च ॥ ३९ ॥ वेष्टयित्वा वक्रं विषैरेव च लेपयेत् |
ब्रह्मदण्ड्या च मर्दित्वा लिखे जप्तमधोमुखम् ॥ ४० ॥ क्षिपेद्देशादिके यत्र तत्रालक्ष्मीर्गदैः समम् |
मारी तु सुस्थिरासाध्या भवेद्देवासुरैरपि ॥ ४१ ॥ यन्त्ररचनाक्रमो यथा— तत्र प्राग्वन्नवभिर्नवभिः सूत्रैश्चतुःषष्टिकोष्ठकानि कृत्वा तेष्वीशादिकं नैरृत्यादिकं चाभिचार्यः पुरुषश्चेदन्तःकालीविद्यां बहिर्यममन्त्रं च, स्त्री चेदन्तर्यममन्त्रं बहिः कालीविद्यां च प्राग्वत् समालिख्य प्राग्वत् सबिन्दुयकाररेफाभ्यां संवेष्ट्य प्रोक्तक्रमेण प्रोक्तेषु स्थानेषु स्थापनात् प्रोक्तफलसिद्धिर्भवति ॥ तथा— अनुष्टुभेष्वपि नामानि योजयेत् कोष्ठमध्यतः |
लवणोषणमेहाम्बुगृहधूमाग्निसंयुतम् ॥ ४२ ॥ [Mehrere Druckformen in EF 36–40 sind beeinträchtigt. Die lokale Unsicherheit der vier Bījas bleibt wie auf der Vorseite bestehen.]

श्मशानाङ्गारनिम्बोत्थनिर्यासो विषमीरितम् |
[Zweite Vershälfte im Druck punktiert.] ॥ ऊषणमूषर इति मनोरमाकारेर्व्याख्यातम् |
मेहाम्बु प्रस्रवः, अग्निश्चित्रकम् |
सारसंग्रहे— खं खेऽन्त्योऽन्त्यकलायुक्तस्त्रिवर्णेयं त्रिकण्टकी |
ऋष्यादिकं पुरा प्रोक्तं द्विरक्षरैः षडङ्गकम् ॥ ४३ ॥ खं हकारः उं स्वरूपं तेन हुं |
खे स्वरूपं |
अन्त्यः चकारः अन्त्यकला विसर्गः, तेन चः इति |
नाभेर्नीलनिभामधोऽरुणरुचं कण्ठात् सिताभाननां तदालम्बिभिराननैर्युगमितैर्दंष्ट्रोत्कटैर्भीषणाम् |
दीर्घैर्वन्ददरारिहस्तकमलां चन्द्रोल्लसच्छेखरामुद्यद्भालविलोचनां भयहरां देवीं सदा भावयेत् ॥ ४४ ॥ युगमितैश्चतुर्भिः |
दरः शंखः |
अरिश्चक्रं |
वामायुग्द्वयोः शंखचक्रे, अन्ययोरन्यतरे |
इत्यायुधध्यानम् |
ततः पूर्वोदितेनाथ वर्त्मनाङ्गं भजेत् सुधीः |
वर्णलक्षं जपेदन्ते दशांशेन घृतं हुनेत् ॥ ४५ ॥ आत्मानं देवतारूपं ध्यात्वा रूपं (बद्धा) करद्वये |
शूलमुद्रां ग्रहग्रस्तं स्पृष्ट्वैवं प्रजपेन्मनुम् ॥ ४६ ॥ आशु ग्रहात् प्रमुच्येत नरो मन्त्रप्रभावतः |
[Zweite Vershälfte im Druck punktiert.] ॥ इति |
तथा— ईशयुक्त् पूर्वमन्त्रान्त्यौ मध्ये योषिद्भवेदियम् |
वश्या त्रिकण्टकीविद्या त्र्यर्णा मन्त्रिभिरीरिता ॥ ४७ ॥ पूर्वमन्त्रान्त्यौ खेचः इति वर्णौ ईशयुतावेकारयुक्तौ, एतद्द्वयोर्मध्ये योषित् स्त्री इत्याक्षरं यदि भवेदित्यर्थः |
पूर्वोक्तवर्त्मनास्य कुर्यान्मन्त्री यथाविधि |
[Zweite Vershälfte im Druck punktiert.] ॥ पूर्ववत् त्वरितावत् |
एतन्मन्त्रद्वयस्यापि ज्ञेयम् ॥ अथ महामाया वैष्णवी उत्तरतन्त्रे— हान्तान्तपूर्वो मान्तश्च नान्तो णान्तस्तथैव च |
कैकादश आदिषष्ठः खान्तो विष्णुपुरःसरः ॥ १ ॥ एभिरष्टाक्षरैर्मन्त्रः शोणपद्मसमप्रभः |
ओंकारं पूर्वतः कृत्वा जप्यः सर्वैस्तु साधकैः ॥ २ ॥ हान्तान्तपूर्वः शकारः, मान्तो यकारः, नान्तः पकारः, णान्तस्तकारः, कैकादश टकारः, आदिषष्ठश्चकारः, खान्तः ककारः, विष्णुरकारः, पुरःसर इत्यनेनाकारादिशकारान्तो मन्त्रः उक्तः |
नारदोऽस्य ऋषिः प्रोक्तश्छन्दोऽनुष्टुप् च वैष्णवी |
देवता मुनिभिः प्रोक्ता सर्वसिद्धिप्रदा तथा ॥ ३ ॥ मूलमन्त्राक्षरैः कुर्यात् त्रिभिस्त्रिभिरनुक्रमात् |
एकैकं वर्जयेत् पश्चादङ्गानि षडनुक्रमात् ॥ ४ ॥ अकच हृत्, कचट शिरः, इत्यादिप्रणवपूर्वं कुर्यात् |
“अकचैते सप्रणवाः” इति हयशीर्षवचनात् |
ततस्तु मूलमन्त्रस्य वक्त्रे पृष्ठे तथोदरे |
बाह्वोर्गुह्ये पादयोश्च जङ्घयोर्जघने क्रमात् ॥ ५ ॥ विन्यसेदक्षराण्यष्टौ ओंकारं च तथा स्मरेत् |
शोणपद्मप्रतीकाशां मुक्तमूर्धजलम्बिनीम् ॥ ६ ॥ [Fußnote: „पङ्क्ति“. Die च/क्ष-Lesung der Trikaṇṭakī-Glosse bleibt unsicher.]

चलत्काञ्चनसंभूतकुण्डलोज्ज्वलशालिनीम् |
स्वर्णरत्नसमुन्नद्धकिरीटस्रग्धारिणीम् ॥ ७ ॥ शुक्लकृष्णारुणैर्नेत्रैस्त्रिभिश्चारुविभूषिताम् |
बन्धूकदन्तवसनां शिरीषप्रमनासिकाम् ॥ ८ ॥ कम्बुग्रीवां विशालाक्षीं सूर्यकोटिसमप्रभाम् |
चतुर्भुजां विवसनां पीनोन्नतपयोधराम् ॥ ९ ॥ दक्षिणोर्ध्वेन निस्त्रिंशं परेण सिद्धसूत्रकम् |
बिभ्रतीं वामहस्ताभ्यामभीतिवरदायिनीम् ॥ १० ॥ आनम्रनागनासोरूं वृत्तगुल्फां सुपार्ष्णिकाम् |
गात्रेण रत्नस्तम्भं च सम्यगालम्ब्य संस्थिताम् ॥ ११ ॥ किमिच्छसीति वचनं व्याहरन्तीं मुहुर्मुहुः |
पञ्चाननं पुरःसंस्थं निरीक्षन्तीं स्ववाहनम् ॥ १२ ॥ ईदृशीमम्बिकां ध्यात्वा ओंनमः फडिति मस्तके |
स्वकीये सुमनो दद्यात् साहमेवं विचिन्त्य च ॥ १३ ॥ पञ्चाननं मण्डलस्य मध्येऽवश्यं प्रपूजयेत् |
आवाहनं ततः कुर्याद् गायत्र्या शिरसा सह ॥ १४ ॥ महामायायै विद्महे चण्डिकायै च धीमहि |
एवमुक्त्वा ततः पश्चात्तन्नो देवी प्रचोदयात् ॥ १५ ॥ ततस्तु मूलमन्त्रेण गन्धं पुष्पं सधूपकम् |
दीपादिकं च दद्यात्तु मोदकं पायसं तथा ॥ १६ ॥ पुष्पाञ्जलित्रयं दद्यान्मूलमन्त्रेण शोभनम् |
एवं संपूज्य मध्ये तु मन्त्रेणाङ्गानि पूजयेत् ॥ १७ ॥ सिद्धसूत्रं च खड्गं च स्वस्वमन्त्रेण पूजयेत् |
शैलपुत्रीं चण्डघण्टां स्कन्दमातरमेव च ॥ १८ ॥ कालरात्रीं च दिक्पत्रेष्वर्चयेच्चन्दनादिभिः |
चण्डिकामथ कूष्माण्डीं तथा कात्यायनीं शुभाम् ॥ १९ ॥ महागौरीं चाग्निकोणे नैरृत्यादिषु पूजयेत् |
ततः संपूज्य लोकेशांस्तदस्त्राणि च मन्त्रवित् ॥ २० ॥ महामायां नमामीति मूलमन्त्रेण चाष्टधा |
पूजयेत् पद्ममध्ये तु सुमनोञ्जलिभिस्तथा ॥ २१ ॥ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके |
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ २२ ॥ सप्तधावर्तनं कृत्वा स्तुतिमेनां तु साधकः |
पञ्च प्रणामान् कुर्वीत ऐंह्रींश्रीमिति मन्त्रकैः ॥ २३ ॥ योनिमुद्रां ततः पश्चाद् दर्शयित्वा विसर्जयेत् |
[Zweite Vershälfte im Druck punktiert.] ॥ अथ प्रयोगः— तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा, शिरसि नारदाय ऋषये नमः |
मुखे अनुष्टुप्छन्दसे नमः |
हृदये श्रीवैष्णव्यै महामायायै देवतायै नमः, इति विन्यस्य मम सर्वाभीष्टसिद्धये विनियोगः, इति कृताञ्जलिरुक्त्वा, अकच हृदयाय नमः |
कचट शिरसे स्वाहा |
चटत शिखायै वषट् |
टतप कवचाय हुं |
तपय नेत्रत्रयाय वौषट् |
पयश अस्त्राय फट्, इति मन्त्रैः करषडङ्गन्यासं कृत्वा ध्यानानन्तरं ‘ओं नमः फट्’ इति स्वशिरसि पुष्पं दत्त्वा मानसपूजादिपरतत्त्वपूजान्ते ‘ओं पञ्चाननाय (नमः’ इति पीठमध्ये संपूज्य, महामायायै विद्महे चण्डिकायै धीमहि तन्नो देवी प्रचोदयात् स्वाहा |
) इत्यन्तं ‘श्रीवैष्णवीहागच्छागच्छ’ इत्यावाह्य मूलेन स्थापनादिपरमीकरणान्तं कृत्वा प्राणस्थापनादिपुष्पोपचारान्ते मूलमन्त्रेण पुष्पाञ्जलित्रयं दत्त्वा प्राग्वदङ्गानि संपूज्य, दुं सिद्धसूत्राय नमः हांहींहंसः खड्गाय नमः इति देव्या दक्षिणाधऊर्ध्वकरयोः संपूज्याष्टदलेषु देव्यग्रादिचतुर्दलेषु ओं शैलपुत्र्यै नमः |
चण्डघण्टायै० स्कन्दमात्रे० कालरात्र्यै०, आग्नेयादिदलेषु ओं चण्डिकायै० कूष्माण्ड्यै० कात्यायन्यै० महागौर्यै० इति प्रादक्षिण्येन संपूज्य, इन्द्रादिषु पूजानन्तरं मूलान्ते ‘महामायां नमामि’ इति पुष्पाञ्जल्यष्टकं देव्यै [Fußnote: „सिद्धसूत्रं जपमालामित्यर्थः“. Die Bīja-Folge vor खड्गाय ist im Druck nicht ganz sicher.]

समर्प्य धूपादिसर्वं प्राग्वत्समर्पयेत् ॥ तथा— लक्षद्वयं भवेदस्य पुरश्चरणकर्म वै |
दशांशहोमवार्येण कर्तव्यस्तर्पणादिकम् ॥ २४ ॥ इति ॥ तथा— ओंनमोऽन्ते महामायायै मनुर्वसुवर्णकः |
ओंनमोऽन्ते च वैष्णव्यै मन्त्रः प्रोक्तः षडक्षरः ॥ एतन्मन्त्रद्वयस्यापि सर्वं पूर्वोक्तमाचरेत् |
[Zweite Vershälfte im Druck punktiert.] ॥ इति |
कालिकापुराणे— अशुचिर्न महामायां पूजयेत्तु कदाचन |
अवश्यं तु स्मरेन्मन्त्रं योऽतिभक्तियुतो नरः ॥ १ ॥ दन्तरक्ते समुत्पन्ने स्मरणं च न विद्यते |
सर्वेषामेव मन्त्राणां स्मरणान्नरकं व्रजेत् ॥ २ ॥ जानूर्ध्वक्षतजे जाते नित्यकर्माणि संत्यजेत् |
नैमित्तिकं तु तदधः सर्वद्रक्तौ न चाचरेत् ॥ ३ ॥ लोतके तु समुत्पन्ने क्षुरकर्मणि मैथुने |
धूमोद्गारे तथा वान्ते नित्यकर्माणि संत्यजेत् ॥ ४ ॥ द्रव्यभुक्तेऽप्यजीर्णे च नैव भुक्त्वा च किञ्चन |
कर्म कुर्यान्नरो नित्यं सूतके मृतके तथा ॥ ५ ॥ जलस्यापि नरश्रेष्ठ भोजनाद्भेषजादृते |
नित्यक्रियां निवर्तेत सह नैमित्तिकैः सदा ॥ ६ ॥ जलौकां गूढपादं च कृमिगण्डूपदादिकम् |
कामाद्धस्तेन संस्पृश्य नित्यकर्माणि संत्यजेत् ॥ ७ ॥ विशेषतः शिवापूजां प्रमीतपितृको नरः |
यावद्वत्सरपर्यन्तं मनसापि न चाचरेत् ॥ ८ ॥ महागुरुनिपाते च काम्यं किञ्चिन्न चाचरेत् |
आर्त्विज्यं ब्रह्मयज्ञं च श्राद्धं देवक्रियां तथा ॥ ९ ॥ गुरुमाक्षिप्य विप्रं च प्रहत्यैव च पाणिना |
न कुर्यान्नित्यकर्माणि रेतःपाते च शोणिते ॥ १० ॥ स्मरेद् ध्यायेन्मनसा जपेदित्यर्थः |
अतिभक्तियुतः सततेष्टदेवतागतचित्तो नित्यमपि नाचरेदित्यर्थः |
स्वदिति वर्तमानमविवक्षितम् |
नाभेरूर्ध्वमधो वापि यस्य क्षरति शोणितम् |
अशुचिस्तदहः कर्म कुर्वन्नरकमाप्नुयात् ॥ १ ॥ इति भविष्यपुराणवचनात् भेदादधो जान्वधः नित्यं कुर्यादेवेत्यर्थः |
लोतकेऽश्रुजले |
लोतमश्रुणि चोदितमिति विश्वप्रकाशकोषात् |
द्रव्येऽन्नादौ |
गूढपादः सर्पः |
गण्डूपदः किञ्चुलकः |
आर्त्विज्यम् ऋत्विजमाक्षिप्य तिरस्कृत्य पाणिनेत्युपलक्षणम् ॥ योगार्णवे— वान्तोद्गारे च क्षतजे लोतके च समुद्भवे |
गूढपादस्पर्शने च उपस्थस्पर्शने तथा ॥ १ ॥ रेतःपाते तथा क्षौरे प्रमीतपितृके तथा |
नित्यं नैमित्तिकं काम्यं मनसापि न चाचरेत् ॥ २ ॥ उद्गारे धूमोद्गारे |
लोतके क्रन्दनादौ वा |
क्रन्दनादश्रुपाते तु नित्यनैमित्तिकं त्यजेत् |
तदेव हर्षात् संजातं कर्म कुर्वन्न दुष्यति ॥ १ ॥ इति मत्स्यपुराणवचनात् |
उपस्थस्पर्शेऽकामतः |
शौचे ‘गुदादपशिश्नश्चलत्याद्य’ इति तत्स्पर्शोक्तेः |
प्रमीतपितृक इत्युपलक्षणम्, तेन मातर्यपि प्रमीतायाम्, प्रमीतौ पितरौ यस्य देहस्तस्याशुचिर्भवेत् |
नापि दैवं न वा पैत्र्यं यावत् पूर्णोऽथ वत्सरः ॥ २ ॥ इति देवीपुराणवचनात् |
एतत्सर्वं महामायोपासकपरम् |
अथवा सकामपरम् ॥ “अथ सूतकिनां पूजां वदाम्यागमबोधिताम्” इत्यादिप्राक्पूजाप्रकरणोक्ततत्त्वसारसंहितावचनात् |
इति अन्यथा पुर— [Mehrere kommentierende Satzfügungen und das kurze Reinheitszitat sind im Druck beschädigt.]

चरणप्रकरणे लिखितवचनानां वैयर्थ्यापत्तेः ॥ अथ ब्रह्मास्त्रविद्या, तत्र श्रीभैरवयामले— श्रीदेव्युवाच प्रभो त्वं भैरवश्रेष्ठ सर्वतन्त्रानुजीवक |
नानारहस्यसारं च त्वत्प्रसादाच्छृणोम्यहम् ॥ १ ॥ दिव्यतन्त्रं महातन्त्रं पूर्वपश्चिमसंज्ञकम् |
दक्षिणोत्तरमूर्ध्वं च ह्युपायाः कथिताः प्रभो ॥ २ ॥ वश्याकर्षणदिव्यानि मारणोच्चाटनादिकम् |
विद्वेषं मोहनं चान्यद् द्विविधं कामनादिकम् ॥ ३ ॥ विस्तारपूर्वं कथितं ज्ञानं न्यासेन तन्मयाः |
इदानीं स्तम्भनं देव कथयस्व प्रसादतः ॥ ४ ॥ कथयस्व सुरश्रेष्ठ यद्यहं तव वल्लभा |
[Zweite Hälfte im Druck punktiert.] ॥ श्रीभैरव उवाच साधु साधु महाभागे सर्वतन्त्रार्थसाधिके |
न कस्यचिन्मयाख्यातं पृष्टं वापि न केनचित् ॥ ५ ॥ गुह्याद् गुह्यतरं देवि त्वत्स्नेहात्तु प्रकाश्यते |
अथातः संप्रवक्ष्यामि शृणु चैकाग्रमानसा ॥ ६ ॥ विद्या या परमा गुप्ता महास्तम्भनकारिणी |
तारं प्रथममुच्चार्य स्थिरमायामथोच्चरेत् ॥ ७ ॥ संबोधनपदं देवि वदेच्च बगलामुखीम् |
तदग्रे सर्वदुष्टानां ततो वाचं मुखं पदम् ॥ ८ ॥ स्तम्भयेति पदं जिह्वां कीलयेति ततः परम् |
बुद्धिं विनाशयत्यस्मात् स्थिरमायां पुनर्लिखेत् ॥ ९ ॥ लिखेच्च पुनरोंकारं स्वाहेति पदमन्ततः |
षट्त्रिंशदक्षरा विद्या महास्तम्भनकारिणी ॥ १० ॥ इति |
जयद्रथयामले— पूर्वोक्तमायाबीजे तु व्योमरेफान्तरालके |
भूबीजं योजयेदेषा स्थिरमाया प्रकीर्तिता ॥ ११ ॥ मायाबीजे भुवनेश्वरीबीजे भूबीजं लकारं, सुगममन्यत् (तन्त्रान्तरे “वह्निहीनेन्दुयुग्माया स्थिरमाया प्रकीर्तिता” इति मतान्तरम् |
) भुवनेश्वरीबीजस्य सर्वेषु स्थलेषु उद्धृतत्वात् पूर्वोक्तव्युक्तिः |
गजानां च रथानां च दुर्जनानां शीघ्रकारिणः |
स्तम्भयेच्च महावाचं बृहस्पतिमुखोदिताम् ॥ १२ ॥ महापर्वतवृक्षाणां सरितां सागरवनाम् |
चतुष्पदां पक्षिणां च सर्पाग्निवायुविद्युताम् ॥ १३ ॥ स्तम्भयेत् पञ्च दिव्यानि मानुषेषु च का कथा |
त्रैलोक्यस्तम्भिनी विद्या देवी श्रीबगलामुखी ॥ १४ ॥ तारं प्रणवं, स्थिरमायां ह्ल्रींबीजं, संबोधनपदं बगलामुखि, सर्वदुष्टानां स्वरूपं, वाचं स्वरूपं, मुखं स्वरूपं, पदं स्वरूपं, स्तम्भय स्वरूपं, जिह्वां कीलय स्वरूपं, बुद्धिं विनाशय स्वरूपं, स्थिरमायां प्राग्वद्बीजं, प्रणवमोंकारं, स्वाहा स्वरूपम् ॥ तथा— नारायण ऋषिस्त्रिष्टुप् छन्दश्च बगलामुखी |
देवता गदिता देवि त्रैलोक्यस्तम्भकारिणी ॥ १५ ॥ स्थिरमाया भवेद्बीजं शक्तिः स्वाहा समीरिता |
विनियोगस्तु विख्यातः पुरुषार्थचतुष्टये ॥ १६ ॥ स्थिरमायां हृदयं शिरश्च बगलामुखी |
सर्वदुष्ट शिखां न्यस्य कवचं स्तम्भयान्तिकम् ॥ १७ ॥ जिह्वां कीलय नेत्रे च बुद्धिं विनाशयास्त्रकम् |
[Zweite Hälfte im Druck punktiert.] ॥ सर्वदुष्ट इति समग्रपदस्य ग्रहणं तेन सर्वदुष्टानां शिखायै इति |
स्तम्भयान्तिकमित्यनेन वाचं— [Fußnoten: „व्यासेन कथितं मया“; „हास्यकरीकृतम्“. BM 4 und 13–14 enthalten beeinträchtigte Satzfügungen.]

मुखं पदं स्तम्भय इति पदचतुष्टयं कवचे प्रोक्तम् |
सुगममन्यत् |
मूर्ध्नि भाले भ्रुवोर्मध्ये नेत्रयोः श्रोत्रयोर्नसोः |
गण्डयोरोष्ठयोर्वक्त्रे चिबुके च गले प्रिये ॥ १८ ॥ दोःपत्सन्धिषु साग्रेषु मन्त्रवर्णान् न्यसेत् क्रमात् |
एवं न्यासविधिः प्रोक्तस्ततो ध्यानं शृणु प्रिये ॥ १९ ॥ यस्याः स्मरणमात्रेण त्रैलोक्यं स्तम्भयेत् क्षणात् |
गम्भीरां च मदोन्मत्तां तप्तकाञ्चनसुप्रभाम् ॥ २० ॥ चतुर्भुजां त्रिनयनां कमलासनसंस्थिताम् |
मुद्गरं दक्षिणे पाशं वामे जिह्वां च वज्रकम् ॥ २१ ॥ पीताम्बरधरां सान्द्रवृत्तपीनपयोधराम् |
हेमकुण्डलभूषां च पीतचन्द्रार्धशेखराम् ॥ २२ ॥ पीतभूषणभूषां च स्वर्णसिंहासनस्थिताम् |
एवं ध्यात्वा च देवेशि शत्रुस्तम्भनकारिणीम् ॥ २३ ॥ महाविद्यां महामायां साधकेष्टफलप्रदाम् |
[Zweite Hälfte im Druck punktiert.] ॥ दक्षिणाध उत्तरयोर्मुद्गरपाशौ, वामाध उत्तरयोर्जिह्वावज्रे, जिह्वां साधकविपक्षजनस्येति, “धृतमुद्गरवैरिजिह्वा” मिति वचनात् ॥ श्रीदेव्युवाच |
ध्यानं तु कथितं देव महाश्चर्यप्रदायकम् |
इदानीं कथयस्वेश पूजनं विधिपूर्वकम् ॥ २४ ॥ श्रीभैरव उवाच |
पूजनं शृणु देवेशि साधके सिद्धिदायकम् |
नित्यं नैमित्तिकं काम्यं पूजनं त्रिविधं प्रिये ॥ २५ ॥ भूप्रदेशे मनोरम्ये पुष्पामोदैः सुधूपिते |
गोमयेनाथ संलिप्य पुष्पप्रकरशोभिते ॥ २६ ॥ मण्डपे विधिवत्तत्र आसनं तु समर्चयेत् |
सौवर्णे वाथ रौप्ये वा पैत्तले वाथ भूर्जके ॥ २७ ॥ कर्पूरागरुकस्तूरीश्रीखण्डकुङ्कुमैरपि |
लिखेद् यन्त्रं प्रयत्नेन लेखन्या हेमतारया ॥ २८ ॥ मध्ये योनिं समालिख्य तद्बाह्ये तु षडस्रकम् |
तद्बाह्येऽष्टदलं पद्मं तद्बाह्ये षोडशच्छदम् ॥ २९ ॥ चतुरस्रत्रयं बाह्ये चतुर्द्वारोपशोभितम् |
[Zweite Hälfte im Druck punktiert.] ॥ इति |
अत्र तु— यत्र नोक्तं महादेवि पीठं वा पीठशक्तयः |
तत्र मायोदितं पीठं ज्ञेयं ता एव शक्तयः ॥ ३० ॥ तद्बीजेनैव पीठं च यजेन्मायाणुनाथ वा |
[Zweite Hälfte im Druck punktiert.] ॥ इति श्रीशिवयामलवचनाद्भुवनेश्वरीपीठमभ्यर्च्य तत्र श्रीबगलामुखीमन्यां वा देवीमनुक्तपीठं यजेत् |
मायाणुना भुवनेश्वरीबीजेन |
तथा— तत्रावाह्य यजेद् देवीं सुपीतैरुपचारकैः |
अङ्गानि पूर्वमभ्यर्च्य यथास्थानं महेश्वरि ॥ ३१ ॥ पूर्वद्वारे गणेशं च दक्षिणे वटुकं यजेत् |
पश्चिमे योगिनीः पूज्याः क्षेत्रपालं तथोत्तरे ॥ ३२ ॥ ईशानादिनैरृत्यन्तं गुरुपङ्क्तिं समर्चयेत् |
[Zweite Hälfte im Druck punktiert.] ॥ ईशानादीति तन्त्रेषु षडङ्गपूजाक्रमे अग्नीशासुरवायव्येत्युक्तक्रमस्य कल्पितप्राच्यनुसारादैशानस्थानाद्भूतान्यत्र तदारभ्य नैरृतिदिक्पर्यन्तं गुरुपङ्क्तिं पूजयेदित्यर्थः |
तदा तु यथास्थितवायव्यादीशानान्तं— [Fußnoten: „संनिभाम्“; „किरीटसर्पशेखराम्“; „तत्तद्बीजेन“. Die Schlussglosse zur gedrehten Richtungszuordnung ist in der Satzfügung beeinträchtigt.]

गुरुपङ्क्तिपूजा कार्येत्यायातम् ॥ तथा— [Erste Vershälfte im Druck punktiert.] |
बगला पूर्वपत्रे तु स्तम्भिनी च ततः परम् ॥ ३३ ॥ जम्भिनी मोहिनी वश्या अचला च चला तथा |
दुर्द्धरा कल्मषा धीरा कल्पना कालकर्षिणी ॥ ३४ ॥ भ्रामिका मन्दगमना भोगाख्या चैव योगका |
एताः षोडशपत्रेषु गन्धपुष्पाक्षतैर्यजेत् ॥ ३५ ॥ षोडशस्वरसंयुक्ताः संप्रदायात् कुलागमे |
यजेच्च पत्रमध्येषु कल्पिते चाष्टपत्रके ॥ ३६ ॥ ब्रह्माण्याद्याष्ट पूर्वादौ वाहनाकल्पसंयुताः |
स्थिरमायाबीजपूर्वाः परिपूज्याः कुलागमे ॥ ३७ ॥ डादिहान्ताः षडस्रेषु पूज्याः षड्धातुमातृकाः |
लोकेशांश्च तदस्त्राणि पूजयेद्बाह्यतः प्रिये ॥ ३८ ॥ योनिमध्ये मूलदेवीं त्रिरञ्जलिभिरर्चयेत् |
धूपदीपसुनेवैद्यगन्धताम्बूलदीपकैः ॥ ३९ ॥ नीराज्य विधिवत् पश्चाज्जपसंख्यां निवेदयेत् |
पवित्रारोपणं देवि दमनेन च पूजयेत् ॥ ४० ॥ बलित्रयं ततो दद्यात् पीतान्नादीनि साधकः |
[Zweite Hälfte im Druck punktiert.] ॥ बलित्रयमित्युपलक्षणं बलिपञ्चकं दद्यादित्यर्थः |
अथ प्रयोगः— तत्र प्रातःकृत्यादियोगपीठन्यासान्तं मूलमन्त्रेण प्राणायामत्रयं कृत्वा, शिरसि नारायणऋषये नमः |
मुखे त्रिष्टुप्छन्दसे नमः |
हृदये बगलामुख्यै देवतायै नमः |
नाभौ ह्लींबीजाय नमः |
गुह्ये स्वाहा शक्तये नमः |
पादयोः पुरुषार्थचतुष्टये विनियोगाय नमः, इति कृताञ्जलिरुक्त्वा, ह्लीं हृदयाय नमः |
बगलामुखि शिरसे स्वाहा |
सर्वदुष्टानां शिखायै वषट् |
वाचं मुखं पदं स्तम्भय कवचाय हुं |
जिह्वां कीलय नाभ्यां वौषट् |
बुद्धिं विनाशय अस्त्राय फट् |
इति करषडङ्गन्यासं कृत्वा, शिरसि ओं नमः |
ललाटे ह्लीं नमः |
भ्रूमध्ये बं नमः |
दक्षनेत्रे गं नमः |
वामे लां नमः |
दक्षश्रोत्रे मुं नमः |
वामे खिं नमः |
दक्षनसि सं नमः |
वामे वं नमः |
दक्षगण्डे दुं नमः |
वामे ष्टां नमः |
ऊर्ध्वोष्ठे नां नमः |
अधरोष्ठे वां नमः |
मुखे चं नमः |
चिबुके मुं नमः |
गले खं नमः |
दक्षबाहुमूले पं नमः |
मध्ये दं नमः |
मणिबन्धे स्तं नमः |
अङ्गुलिमूले म्भं नमः |
अग्रे यं नमः |
वामबाहुमूले जिं नमः |
मध्ये ह्वां नमः |
मणिबन्धे कीं नमः |
अङ्गुलिमूले लं नमः |
अग्रे यं नमः |
दक्षोरुमूले बुं नमः |
जानुनि द्धिं नमः |
गुल्फे विं नमः |
अङ्गुलिमूले नां नमः |
अग्रे शं नमः |
वामोरुमूले यं नमः |
जानुनि ह्लीं नमः |
अङ्गुलिमूले स्वां नमः |
अग्रे हां नमः, इति विन्यस्य, ध्यानाद्यात्मपूजान्तं पूर्वोक्तभुवनेश्वरीपीठं संपूज्य तत्र नवशक्तिपूजान्ते ‘ह्लीं सर्वशक्तिकमलासनाय नमः’ इति समस्तं पीठं संपूज्यावाहनादिषडङ्गपूजान्तं देव्यग्रद्वारमारभ्य प्रादक्षिण्येन चतुर्द्वारेषु, गणेशाय नमः |
वटुकाय नमः |
योगिनीभ्यो नमः |
क्षेत्रपालाय नमः |
इति संपूज्य, स्ववामभागे कल्पितप्राच्यनुसारेणाग्नेयादिनैरृत्यन्तं, गुरुभ्यो नमः |
परमगुरुभ्यो नमः |
परमेष्ठिगुरुभ्यो नमः |
परापरगुरुभ्यो नमः |
अस्मद्गुरुभ्यो नमः |
इति गुरुपङ्क्तिं संपूज्य, षोडशदलेषु देव्यग्रादिप्रादक्षिण्येन अं बगलायै नमः, आं स्तम्भिन्यै०, इं जम्भिन्यै०, ईं मोहिन्यै०, उं वश्यायै०, ऊं अचलायै०, ऋं चलायै०, ॠं दुर्द्धरायै०, लृं कल्मषायै०, लॄं धीरायै०, एं कल्पनायै०, ऐं कालकर्षिण्यै०, ओं भ्रामिकायै०, औं मन्दगमनायै०, अं भोगायै०, अः योगायै— [Fußnote: „ईशानादिनैरृत्यन्तं“. Im Gliedernyāsa steht नाभ्यां statt der zuvor genannten Augen; im Buchstabennyāsa fehlt der linke Knöchel samt dem zweiten ओं. Die ausgeschriebene Liste enthält 35 Einsetzungen.]

नमः, इति संपूज्य |
अष्टदलेषु प्रादक्षिण्येन— ह्लीं ब्रह्माण्यै नमः, माहेश्वर्यै नमः इत्यादि स्थिरमायाबीजाद्या अष्ट मातॄः संपूज्य, अन्तःषट्कोणेषु देव्यग्रादिप्रादक्षिण्येन डां डाकिन्यै नमः |
रां राकिन्यै नमः |
लां लाकिन्यै नमः |
कां काकिन्यै नमः |
शां शाकिन्यै नमः |
हां हाकिन्यै नमः, इति संपूज्य, मध्ये देवीं पुनस्त्रिर्मूलविद्यया संपूज्य लोकेशपूजादि सर्वं नित्यहोमान्तं कृत्वा बालाप्रकरणोक्तवद्बलित्रयं दत्त्वा शेषं प्राग्वत् समापयेदिति ॥ तथा— साधनं संप्रवक्ष्यामि साधकानां हिताय वै |
सर्वपीतोपचारेण पीताम्बरधरो नरः ॥ ४१ ॥ जपमाला च देवेशि हरिद्राग्रन्थिसंभवा |
पीतमासनमारूढः पीतध्यानपरायणः ॥ ४२ ॥ पीतपुष्पार्चनं नित्यमयुतं जपमाचरेत् |
दशांशेन कृतो होमः पीतद्रव्यैः सुशोभितैः ॥ ४३ ॥ तर्पणादि ततः कुर्यान्मन्त्रः सिध्यति मन्त्रिणः |
साध्यसंज्ञां समुच्चार्य स्तम्भयेति ततः परम् ॥ ४४ ॥ गतिस्तम्भकरी विद्या अरिस्तम्भनकारिणी |
मेधां प्रज्ञां च शत्रादीन् देवमानवपन्नगान् ॥ ४५ ॥ स्तम्भयेच्च महाविद्या सत्यं सत्यं वरानने |
[Zweite Hälfte im Druck punktiert.] ॥ श्रीदेव्युवाच |
अधुना साधनं देव शीघ्रप्रत्ययकारकम् |
मन्त्रयन्त्रौषधजपहुताद्यैः कथयस्व मे ॥ ४६ ॥ साधनं कामितार्थस्य, मन्त्रसाधनस्य प्रागेवोक्तत्वात् |
श्रीभैरव उवाच |
शृणु प्राज्ञे महागुह्यं प्रकटीक्रियतेऽधुना |
एकान्ते निर्जने रम्ये शुचौ देशे गृहेऽपि वा ॥ ४७ ॥ कुण्डं सलक्षणं कृत्वा मेखलात्रयशोभितम् |
योनििर्वितस्तिमात्रा तु षट्कर्माण्यत्र साधयेत् ॥ ४८ ॥ नानाविधानं देवि कर्मोद्दिष्टं समाचरेत् |
मधुरत्रितिलाज्येन वश्यलाभानि साधयेत् ॥ ४९ ॥ तथाकर्षणकामस्तु लोणं त्रिमधुरान्वितम् |
निम्बपत्रैस्तैलयुक्तं विद्वेषणकरं परम् ॥ ५० ॥ हरितालं हरिद्रां च लवणेनैव संयुतम् |
स्तम्भने होमयेद् देवि प्रज्ञां चैव गतिं मतिम् ॥ ५१ ॥ स्तम्भयेदिति शेषः |
राजिकाख्यस्य सारेण माहिष्या रुधिरेण च |
रिपूणां मारणे देवि श्मशानाग्नौ हुनेन्निशि ॥ ५२ ॥ राजिकाख्यसारः आसुरीस्नेहः |
गृध्राणामपि काकानां गृहधूमयुतेन वै |
पत्रेण जुहुयाद् देवि (शत्रोरुच्चाटनाय वै ॥ ५३ ॥ दूर्वाङ्कुरामृतावल्लीखण्डाश्च चतुरङ्गुलाः |
लाजांस्त्रिमधुयुक्तांश्च सर्वरोगोपशान्तये ॥ ५४ ॥ लक्षमेकं जपेद् देवि) ब्रह्मचारी दृढव्रतः |
पर्वताग्रे महारण्ये सिद्धशूलमये गृहे ॥ ५५ ॥ सङ्गमे च महानद्योरनिशायामपि साधयेत् |
श्वेतब्रह्मतरोर्मूलपादुकां चैव कारयेत् ॥ ५६ ॥ अलक्तेन तु रागेण रञ्जितां च हरिद्रया |
षट्त्रिंशदक्षरीविद्या लक्षकेन तु मन्त्रिता ॥ ५७ ॥ शतयोजनमात्रं तु मनश्चिन्तितमात्रतः |
[Zweite Hälfte im Druck punktiert.] ॥ [Fußnote: „शोभनैः“. Unsichere Ortsangabe सिद्धशूलमये in BM 55.]

गच्छेदिति शेषः |
रसं मनःशिलां तालं माक्षिकेण समन्वितम् |
पिष्ट्वाभिमन्त्र्य लक्षैकं स्वाङ्गे लेपनं कृतम् ॥ ५८ ॥ अदृश्यकारकं देवि लोके च महदद्भुतम् |
सुरभेरेकवर्णाया धारोष्णं क्षीरमाहरेत् ॥ ५९ ॥ शर्करामधुसंयुक्तं त्रिवारं तेन मन्त्रितम् |
पाययित्वा तु हरते विषं स्थावरजङ्गमम् ॥ ६० ॥ दारिद्र्यमोचनं देवि लक्षमेकं जपेन्नरः |
दशांशेन कृतो होमः एभिर्द्रव्यैः पृथक्पृथक् ॥ ६१ ॥ लक्ष्मीयुक्तो भवेद् देवि दारिद्र्यं नाशयेद् ध्रुवम् |
अथान्यत् संप्रवक्ष्यामि कामनां यन्त्रतः पराम् ॥ ६२ ॥ पटे वाप्यथ पाषाणे साध्यसंज्ञां तु कारयेत् |
आद्यन्ते स्थिरमायां च हरिद्रातालकैर्लिखेत् ॥ ६३ ॥ उन्मत्तरससंयुक्तं गाढं त्रिवलयं लिखेत् |
गर्भस्तम्भं गतिस्तम्भं चमत्कारकरी परा ॥ ६४ ॥ करोतीति शेषः |
भूर्जपत्रे समालिख्य तालोन्मत्तनिशारसैः |
षट्कोणं तस्य मध्ये तु विद्यां वलयतो लिखेत् ॥ ६५ ॥ साध्यसंज्ञां विद्यया वेष्टयेदित्यर्थः |
साध्यसंज्ञां ततो देवि पीतसूत्रेण वेष्टयेत् |
चक्रं भ्राम्यत्कुलालस्य विपरीतं तु मृत्तिकाम् ॥ ६६ ॥ वृषभं कारयेत् तस्या विलिप्तं तालकेन च |
तन्मध्ये निक्षिपेद् यन्त्रमरूढं वृषभोपारि ॥ ६७ ॥ नासायां निक्षिपेद्रज्जुं पीतवस्त्रेण वेष्टयेत् |
बाह्योपचारपूजाभिः स्वगृहे तु प्रपूजयेत् ॥ ६८ ॥ अर्चयेत्तं चतुष्कालं साध्यनामात्र साधकः |
दुष्टानां स्तम्भयेद्वक्त्रं साक्षाद्वाचस्पतेरपि ॥ ६९ ॥ अधोमुखं श्मशानस्य दृढं खर्परमानयेत् |
गृहीत्वा वामहस्तेन श्मशानाङ्गारकालिखत् ॥ ७० ॥ दक्षहस्तेन देवेशि लिखेन्नाम प्रयत्नतः |
सप्तधा तु ठकारेण पूरकेणाभिमन्त्रयेत् ॥ ७१ ॥ तन्मध्ये विलिखेद्बीजं त्रिवलं कारतः प्रिये |
षष्ठ्यन्तसाध्यनामान्ते मुखं स्तम्भय चालिखेत् ॥ ७२ ॥ बाह्ये न्यस्तं महाबीजं चतुःसंख्यं समालिखेत् |
साध्यनामाक्षरं देवि चाभिमन्त्र्याथ विद्यया ॥ ७३ ॥ षष्ठ्यन्तं साधकं चोक्त्वा साध्यं संबोधनं वदेत् |
मा मुंचेति पदं पश्चाद्वहेदाम्रेडितान्वितम् ॥ ७४ ॥ पीतोपचारैः संपूज्य मुखस्तम्भनमुत्तमम् |
एतद्यन्त्रं वरारोहे श्मशानवसने लिखेत् ॥ ७५ ॥ भेकस्य वदने क्षिप्त्वा पीतसूत्रेण वेष्टयेत् |
भूमिपृष्ठे मण्डलं कृत्वा पीतपुष्पैः समर्चयेत् ॥ ७६ ॥ उत्तरोत्तरसंमन्त्रं च पदमुच्चारयेत् स्फुटम् |
वामपादेन संपूज्य कुलालोद्भवमृत्तिकाम् ॥ ७७ ॥ पूरकस्य प्रयोगेण प्रयोगः प्रत्ययावहः |
आलिखेच्चतुरः पादान् कुञ्चनत्वात् कुञ्चतां गतान् ॥ ७८ ॥ अन्योन्यं मिलितेन कृतोऽधोऽधः समन्ततः |
वामदक्षिणसंबन्धात् द्वौ द्वौ पादौ प्रकल्पयेत् ॥ ७९ ॥ नाम साध्यस्य षष्ठ्यन्तं गतिं च स्तम्भयेति च |
पूर्ववन्मायया नामालिख्यं भूर्बीजमालिखेत् ॥ ८० ॥ [Fußnoten: Zu एभिः: धारोष्णक्षीरशर्करामधुभिर्मिलितैरित्यर्थः; „पीत“; „हुतम्“; „तन्मुद्रा“; „च्छ्य स्वाङ्गे“; „वासरैः“; „उच्चाः“; „पूर्वं“; „भस्मत्वात्“; „तन्मध्यमालिख्य“; „जं तस्य चा“. Mehrere dieser kleinen Druckvarianten sind beschädigt. BM 70–80 weist auffällige Satzfügungen auf.]

पादशाखास्तदग्रेषु तन्मध्ये बीजमालिखेत् |
पूर्वोक्तैर्वस्तुभिर्लिख्य पाषाणे वाथ पट्टके ॥ ८१ ॥ पूर्वोक्तैः संपुटीकृत्य वेष्टयेत् पीततन्तुभिः |
शय्यायाः स्थलसंस्थं च खनेत् खातं प्रयत्नतः ॥ ८२ ॥ वामहस्ते न्यसेदन्तं पीतपुष्पैस्तु पूजयेत् |
महदाश्चर्यमिदं भद्रे रेतःस्तम्भनमुत्तमम् ॥ ८३ ॥ श्मशानखर्परं ग्राह्यं श्मशानाङ्गारमाहरेत् |
मायाबीजं त्रिधालिख्य साध्यसंज्ञां च मध्यतः ॥ ८४ ॥ अप्रकम्पेन वलना रेखां त्रिवलयानया |
वामहस्तेन निखनेत् खर्परं तदधोमुखम् ॥ ८५ ॥ छादयेद्वामपादेन मलोत्सर्गं तथोपरि |
स्तम्भनं चैव देवेशि रिपूणां मुखबन्धनम् ॥ ८६ ॥ ताडपत्रमादाय लिखेत् साध्यं तु नामतः |
आद्यन्ते विलिखेद्बीजं त्रिविधोत्तरकं लिखेत् ॥ ८७ ॥ वामहस्तपुटं कृत्वा करपिण्डीयकण्टकात् |
सप्तसंख्यया कण्टकानि भित्त्वा चैव पुटीकृतम् ॥ ८८ ॥ पृथग्विद्यां च चोच्चार्य नाम साध्यस्य साधकः |
भाण्डमध्ये क्षिपेत्तं च सौवीरेण च पूरयेत् ॥ ८९ ॥ स्वगृहे बाह्यदेशे तु वायव्ये चैव कोणके |
वामहस्ते खनेत् खातं वामपादेन पूरयेत् ॥ ९० ॥ गतिमतिस्तम्भकारः प्रयोगः प्रत्ययावहः |
दिव्यस्तम्भकरं देवि नान्यग्रन्थेष्वपीरितम् ॥ ९१ ॥ तन्त्ररीत्या कथयाम्यद्य शृणु त्वं प्रियमुत्तमम् |
यत्र स्थाने भवेद्दिव्यं देवालयगृहेऽपि वा ॥ ९२ ॥ तत्र स्थाने लिखेद्विद्यां साधकात् साध्यनामतः |
आटरूषस्य पत्राणि परिमृज्य तथोपरि ॥ ९३ ॥ स्तम्भयेत् सप्त दिव्यानि कृतदोषोऽपि शुध्यति |
उत्तरावारुणीमूलं सप्तविद्याभिमन्त्रितम् ॥ ९४ ॥ जलमध्ये तु तत् क्षिप्त्वा तेनैव स्नानमाचरेत् |
महाकृतस्य दोषस्य कृतदिव्यो विशुध्यति ॥ ९५ ॥ अथवा दीपमार्गेण रात्रौ कृत्वा तु मण्डलम् |
भूर्जपत्रे समालिख्य पूर्वोक्तद्रव्यकेण च ॥ ९६ ॥ दीपं प्रज्वालयेद्यत्नात् कपिलाज्येन पूरितम् |
तावत्तु दीपयेद् दीपं यावद् दिव्यं प्रशाम्यति ॥ ९७ ॥ एवं ते कथिता भद्रे कामना प्रत्ययावहा |
इयं तु परमा विद्या किमन्यत् परिपृच्छसि ॥ ९८ ॥ इति |
जयद्रथयामले— पीताम्बरधरो भूत्वा पूर्वाशाभिमुखस्ततः |
लक्षमेकं जपेन्मन्त्रं हरिद्राग्रन्थिमालया ॥ १ ॥ ब्रह्मचर्यरतो नित्यं जपतो ध्यानतत्परः |
प्रियङ्गुपायसैर्वापि पीतपुष्पैश्च होमयेत् ॥ २ ॥ कृते होमे दशांशेन सिध्यति बगलामुखी |
कुरुते वाग्गतिस्तम्भं दुष्टानां बुद्धिनाशनम् ॥ ३ ॥ जपहोमप्रयोगेषु मन्त्रं चाप्ययुतं जपेत् |
[Zweite Hälfte im Druck punktiert.] ॥ एतेन पूर्वं पुरश्चरणत्वेनोक्तायुतजपस्तु प्रयोगसिद्ध्यर्थं प्रयोगारम्भकाले कर्तव्यत्वेनोक्त इति पूर्वीयते, नतु पुरश्चरणत्वेन |
अत एवात्रोभयप्रकारो युक्त इति, तेनैव लक्षजप एव पुरश्चरणम् |
अयं लक्षजपः कृतयुगपरः |
हरिद्राहरितालाभ्यां जुहुयाल्लवणं निशि |
स्तम्भयेत् पञ्च दिव्यानि नात्र कार्या विचारणा ॥ ४ ॥ स्तम्भनेषु च सर्वेषु प्रयोगः प्रत्ययावहः |
अथवा पीतपुष्पैर्वा त्रिमध्वक्तैश्च होमयेत् ॥ ५ ॥ ओंकारयोः संमुखयोरूर्ध्वाधःशिरसालिखेत् |
मध्यगं नाम साध्यस्य तद्बाह्ये चाक्षरद्वयम् ॥ ६ ॥ [Fußnote: „ङ्गारतो लिखेत्“. Mehrere Anweisungen in BM 81–88 sind syntaktisch beeinträchtigt.]

बीजं द्वितीयवर्गस्य तृतीयं बिन्दुभूषितम् |
चतुर्दशस्वरोपेतं संलिखेत् पृथिवीगतम् ॥ ७ ॥ ठकारेण समावेष्ट्य चतुष्कोणपुटं बहिः |
तत्कोणरेखासंसक्तं शूलवज्राष्टकं लिखेत् ॥ ८ ॥ त्रिशूलमध्यरेखासु पृथ्वीबीजानि पार्श्वयोः |
अष्टस्वपि च कोणेषु तदैकैकं समालिखेत् ॥ ९ ॥ पृथिव्यान्तरपार्श्वे च मातृकोपरि मण्डलम् |
आवेष्ट्य च ततः पश्चात्तद्बाह्ये स्थिरमायया ॥ १० ॥ निरोध्याङ्कुशबीजेन नादसंमिलिताङ्घ्रिणा |
लिखेत् पूर्वोक्तमावेष्ट्य ठकारं बगलामुखीम् ॥ ११ ॥ बगलामुखीं तद्विद्याम् |
पाषाणपट्टे वाथ पटे हरिद्रोन्मत्ततालकैः |
गर्भस्तम्भं गतिस्तम्भं लिखित्वा गाढमाक्रमेत् ॥ १२ ॥ विवादव्यतिरिक्तेषु स्तम्भनकृत्येषु प्रोक्तं यन्त्रं पटे वा पाषाणे विलिख्य अध ऊर्ध्वं च पाषाणेन निरुध्य स्थापयित्वा तत्र देवीं पूजयेत् |
विवादे तु वक्ष्यमाणविधिं कुर्यात् |
विवादे यन्त्रमालिख्य भूर्जे तैरेव वस्तुभिः |
कुम्भकारस्य चक्रस्थं भ्रमन्तीं विपरीतगाम् ॥ १३ ॥ मृत्तिकां समुपादाय वृषभं कारयेत् ततः |
यन्त्रं तदुदरे न्यस्य तालेन विलिख्य च ॥ १४ ॥ तन्नासायां विनिक्षिप्य पीतरज्जुं निजे गृहे |
अर्चयित्वा चतुष्कोणे नित्यं पीतोपचारकैः ॥ १५ ॥ दुष्टस्य स्तम्भयेत्तस्य मुखं वाचस्पतेरपि |
[Zweite Hälfte im Druck punktiert.] ॥ इति |
अथैतद्यन्त्ररचनाप्रकारः— तत्र ऊर्ध्वाधोमस्तकमोंकारद्वयमालिख्य तत्पार्श्वगतमन्योन्यसंमुखमोंकारद्वयमित्येवमोंकारचतुष्टयं विलिख्य, तन्मध्ये साध्यनामालिख्य ओंकारयोरन्योन्यसंमुखयोः पार्श्वद्वये ग्लौं इति धराबीजं विलिख्यैतत्सर्वं वृत्तेन संवेष्ट्य, तद्बहिः पुनर्वृत्तं कृत्वा वृत्तयोरन्तराले मूलं विलिख्य, तद्बहिरष्टकोणं कृत्वा तेष्वाग्नेयादिविदिक्स्थकोणचतुष्टयगतरेखाष्टके प्रतिरेखमेकमेकं वज्रमिति वज्राष्टकं विधाय, दिग्गतकोणचतुष्टयस्थरेखाष्टके त्रिशूलाष्टकं कृत्वा, त्रिकोणोदरेषु त्रिशूलमध्यरेखासु त्रिशूलपार्श्वेषु च प्रागुक्तं धराबीजं विलिख्य, वज्रयुक्तचतुरस्रस्य कोणपार्श्वेषु च तदेव बीजं विलिख्याष्टकोणाद्बहिर्वृत्तचतुष्टयं कृत्वा, तदन्तरालवीथीत्रये सर्वाभ्यन्तरवीथ्यां मातृकया संवेष्ट्य तद्बाह्यवीथ्यां स्थिरमायाबीजेन ह्लींकारेण तद्बाह्यवीथ्यां क्रोंमित्यङ्कुशबीजेन संवेष्ट्येदिति प्रोक्तविधिना प्रोक्तद्रव्यैर्विलिख्य विनियोगात् प्रोक्तफलसिद्धिर्भवति ॥ तथा— दृढं खर्परमादाय श्मशानस्थमधोमुखम् |
वामहस्ते समावेश्यं तदङ्गारं तु दक्षिणे ॥ १६ ॥ अङ्गारं ‘कोहला’ इति नत्वग्निः |
अभिमन्त्र्य ठकारेण सप्तधा कृतपूरकः |
तस्योदरगतं बीजं वलयाकारमालिखेत् ॥ १७ ॥ साध्यं मध्ये च षष्ठ्यन्तं तन्मुखं स्तम्भयेति च |
पृथ्वीबीजानि चत्वारि व्यस्तशीर्षाणि संलिखेत् ॥ १८ ॥ ततः परं प्रकुर्वीत यन्त्रे देवेशि पूर्ववत् |
साध्यसंबोधनं कृत्वा षष्ठ्यन्तं साधकं लिखेत् ॥ १९ ॥ मा मुंचेति पदं पश्चात्तद्वदाम्रेडितान्वितम् |
पूजयेत् पीतपुष्पाद्यैर्मुखस्तम्भोऽयमुत्तमः ॥ २० ॥ पूर्वद्रव्यैः श्मशानोत्थवसने व्यक्तमालिखेत् |
भेकस्य वदने क्षिप्त्वा कीलयेत् पीततन्तुभिः ॥ २१ ॥ क्षिप्त्वा क्षोण्यां यजेत् पुष्पैः पीतवर्णैस्तु मण्डले |
अनुच्चाराद्धि मन्त्रस्य स्फुटमुच्चारमाचरेत् ॥ २२ ॥ [Fußnote: „मावेशात्“. BJ 7, die gedruckte Lautverschlüsselung, und die spätere Glosse ग्लौं werden nebeneinander bewahrt.]

पूरकस्य प्रयोगेण प्रयोगः प्रत्ययावहः |
चतुरः पादानालिख्य भग्नत्वात् कुब्जतां गतान् ॥ २३ ॥ भग्नत्वात् त्रुटितत्वाच्चतुर्धा विभक्तत्वादित्यर्थः |
अन्योन्यमिलितेन तं चोर्ध्वाधः समन्ततः |
वामदक्षिणसंबन्धं द्वौ पादौ तस्य कल्पयेत् ॥ २४ ॥ आलिखेन्नाम षष्ठ्यन्तं गतिं च स्तम्भयेति च |
मध्ये लिखित्वा संलिख्य पृथ्वीबीजानि चाग्रतः ॥ २५ ॥ पादाग्रेष्वित्यर्थः |
अग्रेषु शाखा इति च |
“अग्रतः पादशाखान्ते परं मध्ये तु संलिखेत्” |
पादाभ्यां चतुरस्रं प्राप्यते इति सांप्रदायिकाः |
पटे पाषाणपट्टे वा प्रोक्तैश्चैव त्रिभिस्त्रिभिः |
प्राग्वत् संपुटयोगेन बद्ध्वा पीतगुणैर्दृढैः ॥ २६ ॥ गतिस्तम्भो भवत्येवं यन्त्रस्यास्य प्रभावतः |
शिलातालहरिद्राभिर्मेषमूत्रसमन्वितैः ॥ २७ ॥ कोकिलाक्षस्य लेखिन्या निजरक्तपटे लिखेत् |
साध्यस्य नाम षष्ठ्यन्तं कुम्भकेन च वायुना ॥ २८ ॥ स्तम्भनं नात्र संदेहः सप्ताहाज्जायते ध्रुवम् |
शिलातले हरिद्राभिः करपत्रयुगे लिखेत् ॥ २९ ॥ कोकिलस्य च लेखिन्या स्तम्भनं रिपुनाम वा |
त्रिकोणैः सुसमावेष्ट्य तद्बाह्ये पार्थिवं पुरम् ॥ ३० ॥ वज्राष्टकैः समोपेतं रेफषोडशकैर्युतम् |
मायाबीजेन संवेष्ट्य चाङ्कुशेन निरोधितम् ॥ ३१ ॥ तद्योभं योजयित्वा तु कटके वलयेत् ततः |
क्षिप्त्वा वल्मीकमध्ये तु पाषाणैस्तत्र पूरयेत् ॥ ३२ ॥ पश्चात् समारभेद्युद्धं विवादं वापि कारयेत् |
गतिस्तम्भो मनःस्तम्भो वाचां स्तम्भस्तथैव च ॥ ३३ ॥ जिह्वास्तम्भो विवादे च परास्तो जायते ध्रुवम् |
कृष्णकर्पटके यन्त्रं विषरक्तेन संलिखेत् ॥ ३४ ॥ विद्याविदर्भितं नाम जलमध्ये विनिक्षिपेत् |
सिक्थकेन भृशं वेष्ट्य दिव्यस्तम्भनमुत्तमम् ॥ ३५ ॥ स्तम्भयेत् पञ्च दिव्यानि नात्र कार्या विचारणा |
अभिन्नं तु तमेवं तु अनेन विधिना भवेत् ॥ ३६ ॥ त्रिषु यानेषु कर्तव्यं त्रिकोणमायसं लिखेत् |
शिखिपिच्छेन तन्मध्ये नाम विद्याविदर्भितम् ॥ ३७ ॥ तद्बाह्ये चाग्निबीजेन भावशुद्धोऽपि यो नरः |
विषरक्तेन संलिख्य कर्पटे तु श्मशानके ॥ ३८ ॥ विदर्भितं यस्य नाम श्मशाने भस्ममृत्तिकाम् |
गृहीत्वा चाकृतिं कृत्वा यन्त्रं तद्धृदि संक्षिपेत् ॥ ३९ ॥ कण्टकैर्वेधयेत् प्राज्ञः स्मृत्वा विद्यां पुनः पुनः |
वेधिते प्रभवत्यस्य दुःखं स्यादतिवेदना ॥ ४० ॥ सर्वाङ्गं म्रियते विद्धः शूलैश्चैव सुदारुणैः |
ब्रह्मास्त्रं त्रिषु लोकेषु दुर्लभं त्रिदशैरपि ॥ ४१ ॥ गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित् |
गुरुभक्ताय दातव्यं वत्सरार्धोषिताय च ॥ ४२ ॥ इति |
दृढमित्यादिभिरुत्तममित्यन्तैः पञ्चभिः श्लोकैर्यन्त्रान्तरमाह— तत्र श्मशानस्थमधोमुखं खर्परमादाय तद्वामहस्ते निधाय दक्षिणहस्तेन श्मशानाङ्गारं गृहीत्वा तदुभयं ठकारेण सप्तधाभिमन्त्र्य, तस्मिन् खर्परे तेनाङ्गारेण वृत्तं कृत्वा तन्मध्ये स्थिरमायाबीजं विलिख्य, तन्मध्ये अमुकस्य मुखं स्तम्भयेति विलिख्य बीजपरितः पूर्वोक्तं बीजं चतुर्दिक्षु मध्ययोः (६) तद्बहिरष्टकोणादिं सर्वं पूर्वोक्तं— [Fußnoten: „ह्रस्वोर्ध्वौ“; „लिपयः“ / „त्रिषु“; „ठकारैः“; „त्रिधाङ्कुश“; „रेफैः“; „लिखेत्“. Zur Schlussprosa: „अत्र त्रुटिरस्तीति अनुमीयते“ — hier ist eine Lücke anzunehmen. Mehrere Fußnotenlesungen sind beeinträchtigt.]

यन्त्रं कृत्वा क्वचित् संस्थाप्य मूलविद्यायां सर्वदुष्टपदस्थाने अमुकं अमुकस्य मा मुंच मा मुंचेति पदं दत्त्वा, पीतोपचारैस्तस्मिन् यन्त्रे देवीमावाह्य पूजयेत्, मुखस्तम्भो भवति |
इदमेव यन्त्रं पूर्वोक्तहरिद्रादिद्रव्यैः श्मशानवस्त्रे विलिख्य गुलिकीकृत्य, मण्डूकस्य सजीवस्य मुखे विन्यस्य पीतसूत्रेण तन्मुखं दृढं बद्ध्वा, तं मण्डूकं भूमौ खात्वा तदुपरि पीतवर्णं पूजामण्डपं कृत्वा, तत्र देवीं पीतपुष्पादिभिः पूजयेदुक्तफलसिद्धिर्भवति ॥ चत्वर इत्यादिभिः प्रभावत इत्यन्तैर्यन्त्रान्तरमाह— तत्र चत्वर इति दिव्यत्वात्, अयं यन्त्ररचनाप्रकारः, तत्र चतुर्द्वारयुक्तं चतुरस्रं कृत्वा तन्मध्ये अमुकस्य गतिं मतिं मुखं स्तम्भय स्तम्भयेति विलिख्य, मूलविद्यां चतुर्धा विभज्य प्रथमपादमूर्ध्वगत्या पूर्वद्वारान्तं, द्वितीयपादमधोगत्या पश्चिमद्वारान्तं, तृतीयपादं तिर्यग्गत्या उत्तरद्वारान्तं, चतुर्थं पादं तिर्यग्गत्या दक्षिणद्वारान्तमिति मध्यलिखिताक्षरसमुदायस्य चतुर्दिक्षु विलिख्य, चतुष्पादाग्रेषु चतुरस्रस्य चतुष्कोणेषु पूर्वोक्तं भूबीजं विलिखेदिति पूर्वोक्तद्रव्यैर्यन्त्रं पाषाणे वा पटे वा विलिख्य, पीतरज्जुभिर्वेष्टयित्वोपर्यधः पाषाणेन निरुध्य स्थापनात् पूजनाच्चोक्तफलसिद्धिर्भवति ॥ शिलेत्यादिश्लोकाभ्यां पूर्वोक्तस्यैव यन्त्रस्य लेखनद्रव्यविशेषे लेखनी च लेखनसमये कर्तव्यत्वेनोक्तम् |
पुनः शिलेत्यादिभिर्ध्रुवमित्यन्तैः पञ्चभिः श्लोकैः पूर्वोक्तयन्त्रलेखनविशेषेण प्रयोगविशेषमाह— अयमर्थः, तत्र पूर्वोक्तैरेव द्रव्यैः पूर्वोक्तमेव यन्त्रं करपत्रद्वये विलिख्य तच्च स्वरविदर्भितं मध्ये नाम विलिख्य तद्यन्त्रं वृत्तत्रयेणावेष्ट्य तद्बहिश्चतुरस्रं कृत्वा, तद्रेखाचतुष्कोष्ठके वज्राष्टकं कृत्वा, प्रतिवज्रपार्श्वयोः रेफद्वयमिति संभूय रेफषोडशकं सबिन्दुकं विलिख्य, तद्बहिर्वृत्तपञ्चकं कृत्वा तदन्तरालचतुष्टयेऽभ्यन्तराले स्थिरमायाबीजेन संवेष्ट्य, बहिरन्तरालत्रयेऽपि अङ्कुशबीजैर्वेष्टयित्वा, तन्मध्ये मूलविद्यया विदर्भितं साध्यनाम विलिख्य वेष्टयित्वा, वल्मीकमध्ये निःक्षिप्य पाषाणैः पूरयित्वा प्रत्यहं पूजां कारयेत् |
राजा स्वकटकेः शत्रुसैन्यं संवेष्ट्य युद्धमारभेत् |
विवादकर्ता च विवादं कुर्यात् |
एतद्यन्त्रमुक्तफलदं भवति ॥ कृष्णेत्यादिश्लोकाभ्यामेतदुक्तं भवति, तत्रैतदेव यन्त्रं कृष्णवस्त्रे विषरक्तमिलितैः पूर्वोक्तद्रव्यैर्विलिख्य (तन्मध्ये मूलविद्यया विदर्भितं साध्यनाम विलिख्य) मधूच्छिष्टेन दृढं संवेष्ट्य जलमध्ये निःक्षिप्य तत्र दिव्यं कारयेत्, कृतदोषोऽपि विशुध्यति ॥ विषरक्तेनेत्यादिभिः श्लोकैः पूर्वोक्तस्यैव यन्त्रस्य प्रयोगविशेषमाह— तत्र श्मशानवस्त्रे पूर्वोक्तं यन्त्रं मूलविद्याविदर्भितसाध्यनामगर्भितं विषयुक्तरक्तेन विलिख्य श्मशाने भस्ममृद्भ्यां पुत्तलीं निर्माय तस्या हृदि यन्त्रं निक्षिप्य विद्यां स्मरन् कण्टकैस्तां सर्वाङ्गेषु वेधयेदुक्तफलावाप्तिर्भवति |
ततः शत्रुः शीघ्रं म्रियते इति ॥ अथ बगलामुखीस्तोत्रम् |
अस्य श्रीबगलामुखीस्तोत्रमन्त्रस्य भगवान्नारद ऋषिः, बार्हच्छन्दांसि, बगलामुखी देवता स्थिरमाया बीजं, स्वाहा शक्तिः, कीलय कीलकं, मम संनिहितानां दूरस्थानां दुष्टानां विरोधिनां पदजिह्वामुखबुद्धिस्तम्भनार्थं श्रीपरमेश्वरीप्रीत्यर्थं च जपमहं करिष्ये, मध्येसुधाब्धि मणिमण्डपरत्नवेद्यां सिंहासनोपरिगतां परिपीतवर्णाम् |
पीताम्बराभरणमाल्यविभूषिताङ्गीं देवीं भजामि धृतमुद्गरवैरिजिह्वाम् ॥ १ ॥ [Fußnoten: „लं“; „विलिप्य“. Die Versmaßbezeichnung बार्हच्छन्दांसि ist auffällig.]

जिह्वाग्रमादाय करेण देवीं वामेन शत्रून् परिपीडयन्तीम् |
गदाभिघातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि ॥ २ ॥ त्रिशूलधारिणीमम्बां सर्वसौभाग्यदायिनीम् |
सर्वाभरणशोभाढ्यां देवीं ध्यात्वा प्रपूजयेत् ॥ ३ ॥ पीताम्बरां त्रिनेत्रां च द्विभुजां हाटकोज्ज्वलाम् |
शिलापर्वतहस्ताङ्गीं रिपुस्तम्भां मदोत्कटाम् ॥ ४ ॥ वैरिनिर्दलनार्थाय स्मरेत्तां बगलामुखीम् |
गम्भीरां च मदोन्मत्तां स्वर्णकान्तिसमप्रभाम् ॥ ५ ॥ चतुर्भुजां त्रिनयनां कमलासनसंस्थिताम् |
हेमकुण्डलभूषां च पीतचन्द्रार्धशेखराम् ॥ ६ ॥ पीतभूषणभूषां च स्वर्णसिंहासने स्थिताम् |
सानन्दमपि देवेशि अरिस्तम्भनकारिणीम् ॥ ७ ॥ मदनस्य रतेश्चैव प्रीतिस्तम्भकरीं पराम् |
महाविद्यां महामायां साधकस्य बलप्रदाम् ॥ ८ ॥ यस्याः स्मरणमात्रेण त्रैलोक्यं स्तम्भयेत् क्षणात् |
वामे पाणावङ्कुशं च तस्याधस्ताद्वरं शुभम् ॥ ९ ॥ तस्यैवाधःकरे चाक्षसूत्रं च पद्ममुत्तमम् |
[Zweite Hälfte im Druck punktiert.] ॥ एवं दक्षिणपाणिक्रमात् पाशाभयाक्षसूत्रपद्मानि |
केयूराङ्गदकुण्डलभूषां बालां हिमद्युतिसंस्कृतमकुटाम् ॥ १० ॥ तरुणादित्यप्रतिमां कौशेयांशुकलसन्नितम्बाम् |
तन्वीं कल्पद्रुमाधो हेमशिलायां प्रमुदिताचित्तोल्लसत्कान्तिम् ॥ ११ ॥ पञ्चप्रेतसमारूढां भक्तजनविविधकामलीलाम् |
एवंविधां तां बगलां ध्यायेन्मनसि शुद्धेन्दीवरनीलाम् ॥ १२ ॥ चलत्कनककुण्डलोच्छ्रसितचारुगण्डस्थलां लसत्कनकचम्पकद्युतिविराजिचन्द्राननाम् |
गदाहतविपक्षकां कलितलोलजिह्वाञ्चलां स्मरामि बगलामुखीं विमुखानां मुखस्तम्भिनीम् ॥ १ ॥ पीयूषोदधिमध्यचारुविलसद्रत्नोज्ज्वले मण्डपे यः सिंहासनमौलि[गां वि]पाटितरिपुं प्रेतासनाध्यासिनीम् |
स्वर्णाभां करपीडितारिरसनां भ्राम्यद्गदाविभ्रमां नित्यं ध्यायति यान्ति तस्य विलयं सद्योऽम्ब सर्वापदः ॥ २ ॥ मन्त्रस्तावदलं विपक्षदलने स्तोत्रं पवित्रं च ते यन्त्रं वादिनियन्त्रणं त्रिजगतां जैत्रं च चित्रं च ते |
मातः श्रीबगलेति नाम ललितं यस्यास्ति जन्तोर्मुखे— [BG 3 wird auf der folgenden Seite abgeschlossen. Fußnoten: „ल“; „शिवाङ्“; „सत्“; „पुष्प“; „इत्थं“; „अजं“. Mehrere Lesarten und die Komposita von BS 4 sowie BG 2 sind beeinträchtigt.]

त्वन्नामग्रहणेन संसदि मुखस्तम्भो भवेद्वादिनाम् ॥ ३ ॥ देवि त्वच्चरणाम्बुजार्चनविधौ यः पीतपुष्पाञ्जलिं भक्त्या वामकरे निधाय च पुनर्मन्त्री मनोज्ञाक्षरम् |
पीतध्यानपरोऽथ कुम्भकवशाद्बीजं स्मरेत् पार्थिवं तस्यामित्रमुखस्य वाचि हृदये जाड्यं भवेत् तत्क्षणात् ॥ ४ ॥ वादी मूकति रङ्कति क्षितिपतिर्वैश्वानरः शीति क्रोधी शाम्यति दुर्जनः सुजनति क्षिप्रानुगः खञ्जति |
गर्वी खर्वति सर्वविच्च जडति त्वन्मन्त्रिणा मन्त्रितः श्रीनित्ये बगलामुखि प्रतिदिनं कल्याणि तुभ्यं नमः ॥ ५ ॥ दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्र्यविद्रावणं गर्वस्तम्भकरं परं मृगदृशां चेतःसमाकर्षणम् |
सौभाग्यैकनिकेतनं मम दृशोः कारुण्यपूर्णामृतं मृत्योर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः ॥ ६ ॥ मातर्भञ्जय मद्विपक्षवदनं जिह्वां बलात्कीलय ब्राह्मीं द्रावय मुद्रयाशु धिषणामुग्रां गतिं स्तम्भय |
शत्रूंश्चूर्णय चूर्णयाशु गदया गौराङ्गि पीताम्बरे विघ्नौघं बगले हर प्रतिदिनं कारुण्यपूर्णेक्षणे ॥ ७ ॥ संकष्टे चौरसंघे प्रहरणसमये बन्धने वारिमध्ये विद्यावादे विवादे प्रकुपितनृपतौ दिव्यकाले निशायाम् |
वश्यत्वे स्तम्भने वा रिपुवधसमये दीर्घशत्रे रणे वा गच्छंस्तिष्ठंस्त्रिकालं यदि पठति शिवं प्राप्नुयादाशु धीरः ॥ ८ ॥ मातर्भैरवि भद्रकालि विजये वाराहि विश्वाश्रये श्रीविद्ये बगले महेशि समये कामेशि वामे रमे |
मातङ्गि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदे दासोऽहं शरणागतः करुणया विश्वेश्वरि त्राहि माम् ॥ ९ ॥ [Fußnoten: „कृते“; „लीनं शुद्धं“; „मनुं“; „वाग्बुद्ध्यधीस्तम्भो भवेद्वादिनाम्“; „वीर्यशमनं“; „च संकी“; „नाशया“; „देवि तीक्ष्ण“; „प्रणमतां“; „संरम्भे चौरसंघे“; „निर्जने वा“; „नित्ये“. Einzelne Lesarten sind beeinträchtigt.]

त्वं विद्या परमा त्रिलोकजननी विघ्नौघसंछेदिनी योषाकर्षणकारिणी च सुमहद्विघ्नौघसंछेदिनी |
दुष्टोच्चाटनकारिणी जनमनःसंमोहसंदायिनी जिह्वाकीलनवैभवा विजयते ब्रह्मास्त्रविद्या परा ॥ १० ॥ नित्यं यस्तु मनोहरं स्तवमिमं देव्याः पठेत् सादरं धृत्वा यन्त्रमिदं तथैव समरे बाहौ करे वा गले |
राजानो वैरियोषितोऽथ करिणः सर्पा मृगेन्द्राः खगास्ते वै यान्ति विमोहितां रिपुगणा लक्ष्मीः स्थिरा सिद्धयः ॥ ११ ॥ अनुदिनमभिरामं साधको यस्त्रिकालं पठति भुवनमातुः पूज्यते देववर्गैः |
भवति परमकुलं तस्य दृष्ट्यैव लोके भवति परमसिद्धा लोकमाता परा च ॥ १२ ॥ विद्या लक्ष्मीः सर्वसौभाग्यमायुः पुत्राः संपद्राज्यमिष्टार्थसिद्धिः |
मातः श्रेयः सर्ववश्यत्वसिद्धिः प्राप्ता प्राप्ता भूतलेऽस्मिन् नरेण ॥ १३ ॥ यत् कृतं जपसंनाहं गदितं परमेश्वरि |
शत्रूणां स्तम्भनार्थाय तद्गृहाण नमोऽस्तु ते ॥ १४ ॥ ब्रह्मास्त्रमिति विख्यातं त्रिषु लोकेषु दुर्लभम् |
गुरुभक्ताय दातव्यं न देयं यस्य कस्यचित् ॥ १५ ॥ इति श्रीरुद्रयामले बगलामुखीस्तोत्रं संपूर्णम् ॥ इति श्रीमहामहोपाध्यायभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्य—श्रीभगवच्छङ्कराचार्यशिष्य—श्रीविष्णुशर्माचार्यशिष्य—श्रीप्रगल्भाचार्यशिष्य—श्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे त्रयोविंशः श्वासः ॥ २३ ॥ [Fußnoten: „वैरयो मदान्धकरिणः“; „दास“; „दृश्यते यस्य संख्यातं चिन्तनं“. Die Fügung परमकुलं in BG 12 bleibt unsicher.]

Das Gelesene vergegenwärtigen

Die genaue Beschäftigung mit Sanskrit kann Sammlung und Verständnis vertiefen. Eine klare Unterscheidung zwischen überliefertem Wortlaut, offener Lesung und eigener Deutung gehört zu diesem Weg.

Tripurasundari als moderne Bildbegleitung.

Siehe auch

Seminare

Kundalini Yoga

30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Arjuna Wingen
06.11.2026 - 08.11.2026 Kundalini Yoga Einführung

Gründliche Einführung in die Theorie und Praxis des Kundalini Yoga, Yoga der Energie. Die praktischen Übungen des Kundalini Yoga umfassen Pranayama (…
Arjuna Wingen

Bhakti Yoga

27.10.2026 - 27.10.2026 Mantra-Konzert mit Shamana OM

Konzert mit Shamana OM
Shamana OM
31.10.2026 - 31.10.2026 Mantra-Konzert mit Gruppe Mudita

Konzert mit der Gruppe Mudita
Gruppe Mudita

Indische Schriften

26.12.2026 - 02.01.2027 Indische Rituale Ausbildung

Du interessierst dich für indische Rituale? Du hast die einzigartige Gelegenheit, in dieser Rituale Ausbildung bei Yoga Vidya die kleine Puja, große P…
Sukadev Bretz, Shankari Winkelbauer
01.01.2027 - 10.01.2027 Yogalehrer Weiterbildung Intensiv A1 - Jnana Yoga und Vedanta

Kompakte, vielseitige Weiterbildung für Yogalehrer rund um Jnana Yoga und Vedanta.
Tauche tief ein ins Jnana Yoga und Vedanta, studiere die indischen S…
Vedamurti Dr Olaf Schönert

Chakras

20.11.2026 - 22.11.2026 Heilreise durch die Chakren

Tauche ein in eine transformative Reise durch die sieben Hauptchakren und erfahre, wie du deine Energiezentren aktivieren, ausbalancieren und für dein …
Nese Niekrens, Gajendra Sebastian Niekrens
26.12.2026 - 01.01.2027 Kundalini Yoga Intensiv Praxis - Live Online

Intensives Praktizieren der im Mittelstufen-Seminar gelernten Übungen für noch tiefere Erfahrung und Erweiterung des Bewusstseins ohne viel Theorie. L…
Sukadev Bretz, Shaktipriya Vogt, Radharani Birkner

Energiearbeit

30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Arjuna Wingen
04.11.2026 - 04.11.2026 Einführung in die Chakratherapie - Online Workshop

Uhrzeit: 18 - 21 Uhr
Ein Chakra ist ein feinstoffliches Kraftzentrum des Körpers, welches wichtige Körperfunktionen steuert und bestimmten Organen zug…
Beate Menkarski

Vom Lesen zur Sammlung

Das Studium eines umfangreichen Tantra darf langsam sein. Ein aufmerksam gelesener Abschnitt kann wertvoller sein als viele flüchtig gelesene Seiten. Nimm dir Zeit, einen Begriff zu verstehen, eine Frage zu klären und die eigene Ausrichtung zu erneuern. So können Schriftstudium, Hingabe und Meditation einander ergänzen.