Padma Samhita Caryapada Devanagari
Die Padma Samhita – Caryāpāda in Devanagari lädt zum aufmerksamen Lesen des Sanskrittextes ein. Vertraute Wörter gewinnen mit der Zeit Klang und Gestalt: Mantra, Pūjā, Yoga und die Namen des Göttlichen. Diese Seite begleitet das Studium; du kannst jederzeit zur deutschen Übersetzung wechseln und einen kurzen Abschnitt in Ruhe erschließen.
Der Caryāpāda verbindet in 33 Kapiteln Einweihung, Tagesdienst, Feste und Mantralehre. Besonders zugänglich sind die Gebete in Kapitel 13 und 15 sowie der Viṣvaksena-Hymnus in Kapitel 31.
Zur Orientierung: Gesamtwerk · IAST und Übersetzung: Kapitel 1–28 · Kapitel 29–33 · 108 Lesestellen und Mantras.

Mit Freude und Sorgfalt lesen
Wähle zunächst wenige Zeilen. Lies ihre Übersetzung, beachte die Erläuterungen und kehre dann zum Sanskrit zurück. Es ist hilfreich, zwischen dem Erkennen eines Schriftzeichens, der Aussprache und dem Verstehen eines Satzes zu unterscheiden. Für Rezitation und traditionsgebundene Mantrapraxis ist eine kundige Unterweisung wertvoll. Beschädigte Lautfolgen werden durch das Lesen allein nicht zu sicheren Formeln.
Textgrundlage: Die Devanagari-Fassung ist aus derselben IAST-Quelle wie die Übersetzung abgeleitet. Sie bewahrt die vorhandenen Kapitel, Varianten, Quellenzusätze und unsicheren Lesungen und ist kein unabhängiger Textzeuge.
Kapitel 1
Lesehilfe: Kapitel 1: IAST, deutsche Übersetzung und Erläuterungen.
श्रीरस्तु |
श्रीपाञ्चरात्रे महोपनिषदि |
पाद्मसंहितायां |
चतुर्थः चर्यापादः |
प्रथमोध्यायः ||| ब्रह्मणा भगवदाराधन विधानप्रश्नः || |
ब्रह्माः |
कर्षणादि प्रतिष्ठान्तं कर्म यस्य प्रसिद्धये |
तं समाराधनविधिं श्रोतुमिच्छामि साम्प्रतम् || १ ||
प्रसिध्यते |
आराधनविधिः कीदृगधिकारी च कीदृशः |
भगवंस्तदशेषेण ब्रूहि मे भक्तवत्सल || २ ||
श्रीभगवान् |
श्रूयतामभिधास्वामि पृष्टं निरवशेषतः |
चतुर्णां ब्राह्मणादीनां वर्णानां कमलासन || ३ ||
दीक्षया क्रमात् |
अधिकारोऽनुलोमानामपि नान्यस्य कस्य चित् |
पूजाविधौ भगवतः परस्य परमात्मनः || ४ ||
प्रतिलोमभुवां सूतः प्रथमस्तत्र शस्यते ||| एकायनशाखाध्यायिनां मुख्योऽधिकारः || |
आद्यमेकायनं वेदं सद्ब्रह्म प्रतिपादकम् || ५ ||
तेनैव संस्कृता विप्रा मुख्य कल्पाधिकारिणः ||| अन्येषां ब्राह्मणादीनां दीक्षयानुकल्पाधिकारः || |
अन्येषां ब्रह्माणादीनां वर्णानां दीक्षया क्रमात् || ६ ||
त्रयाणां क्षत्रियादीना मनुलोमभुवामपि ||| सूतस्य स्वार्थमात्र यजनेऽधिकारः || |
सूतस्य च विशेषेण दीक्षा चात्मपराऽनिशम् || ७ ||
| | विप्राणां मुख्यानुकल्पयोरपि परार्थयजनेऽधिकारः || |
परार्थयजनं कुर्युर्वप्रा मुख्यानुकल्पयोः ||| दीक्षा हीनाना मनधिकारः || |
नैवाधिकारिणस्तेच दीक्षा संस्कारवर्जिताः || ८ ||
नैवाधिकारिणो गौणा |
|| दीक्षया अधिकारलाभः || |
यथैव दीक्षणीयेष्ट्या जायन्ते ब्राह्मणादयः |
तथैव दीक्षाविधिना जायामाना यथोदिताः || ९ ||
पूजाविदौ भगवतः प्रकल्पन्तेऽधिकारिणः |
ब्रह्मोः ||| ब्राह्मणादीनां जन्मकर्मणोर्निरूपणप्रश्नः || |
भगवन् ब्राह्मणादीनां जन्म कर्म च भावुकम् || १० ||
विहितं च विवाहं च यच्च यावच्च यादृश्यम् |
मह्यं जिज्ञासमानाय भक्ताय परमेश्वर || ११ ||
श्रीभगवान् |
सत्वं कजस्तमश्चेति स्त्रेगुण्यं कमलासन || १२ ||
तन्मयीं तनुमास्थाय ससर्जाहं पुरा प्रजाः ||| सत्वप्रथानू विप्रसर्गः || |
सत्वेऽधिके मुखे विप्रानसृजं विथुनात्मकान् || १३ ||
| | रजः प्रधानः क्षत्रियसर्गः || |
रजोगुणेऽतिशयिते बाहुभ्यां क्षत्रियां स्तथा ||| गुणसाम्ये वैश्यसर्गः || |
ऊरुभ्यां गुणसाम्येतु असृजं मिथुनं विशाम् || १४ ||
| | तमः प्राचुर्ये शूद्रसर्गः || |
आधिक्ये तमसः पर्द्भ्यां शूत्रान् मिथुनरूपिणः ||| वर्णेषु पूर्वपूर्वश्श्रेयान् || |
एतेच वर्णाश्श्रेयांसः पूर्वेपूर्वे यथोदिताः || १५ ||
त्रयस्तेषु द्विजाः पूर्वे मौञ्जबन्धनकर्मणा || १६ ||
चत्वारश्चाश्रमा ब्रह्हन् सर्वएव द्विजन्मनाम् ||| प्रथमः ब्रह्मचर्याश्रमः || |
उपनीय गुरोः पार्श्वे व्रतानुष्ठान पूर्वकम् || १७ ||
वेदाध्ययनमादौयत्स श्रेयान् प्रथमाश्रमः ||| द्वितीयः गृहस्थाश्रमः || |
भार्यासङ्ग्रहणं स्नात्वा प्रजायै तदन न्तरम् || १८ ||
तया च धर्मचरणं द्वीतीयश्चाश्रमस्मृतः ||| तृतीयः वानप्रस्थाश्रमः || |
गत्वा सभार्योविपिनं यथोक्तेनैव वर्त्मना || १९ ||
वने वन्य फलहारो विहितेन्द्रिय निग्रहः |
वसेत्तृतीयो विज्ञेयश्चाश्रमः कमलासन || २० ||
| | तुरीयस्सन्न्यासाश्रमः || |
पुत्रे दारान्विनिक्षिप्य शिखी मुण्डी त्रिवण्डवान् |
यद्वैकदण्डनियतो ब्रह्मध्यानपरायणः || २१ ||
निवृत्तसर्वकामस्तु वसेत्तुर्याश्रमे द्विजः ||| क्षत्रियस्य पूर्वेत्रय आश्रमाः || |
क्षत्रियस्याश्रमाः पूर्वे सन्न्यासाश्रमवर्जिताः || २२ ||
| | विशः आद्यैद्वा || |
विहिता विश एकस्य द्वावन्यैनतु पश्चिमौ ||| शूद्रस्य द्वितीय एकः || |
एक एव चतुर्थस्य दारसङ्ग्रहणात्मकः || २३ ||
षष्कर्मा ब्राह्मणो ज्ञेयः कर्मणाध्यापनादिना |
अध्यापनं चाध्ययनं यजनं याजनं तथा || २४ ||
दानमध्ययनं यज्ञोवृत्तिस्त्रय्येव भूभुजाम् || २५ ||
विशां च सैव शूद्रस्य शुश्रूषैकैव वर्तना ||| विप्रस्य सहजा गुणाः || |
आस्तिक्यमार्जवं शौचं तपश्शान्तिर्दमः क्षमा || २६ ||
दमश्शान्तिः |
ज्ञानं विज्ञानमित्येते विप्रस्य सहजा गुणाः |||क्षत्रियस्य सहजा गुणाः || |
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् || २७ ||
दानमिश्वरभावश्च क्षात्रं कर्म स्वभावजम् ||| विशस्सहजा गुणाः || |
कर्षणं चैव वाणिज्यं गवां रक्षणमेव च || २८ ||
शुद्रा शूद्रस्य भार्यैकासा च स्वाच विशस्म्सृता || २९ ||
स्वासु प्रजास्सजातीया श्चातुर्षर्ण्यमितीरितम् || ३० ||
जारै रुत्पादिता वर्णास्सवर्णास्वेव भीरुषु || ३१ ||
तयोर्विप्रजयोर्नेष्टं त्रयमध्यापनादिकम् || ३२ ||
| | तत्रानुलोमः || |
सवर्णः क्षत्रियायां तु विप्रेणोढश्चिकित्सकः |
आयुर्वेदमधीयूत मन्त्रवच्छोपनीय सः || ३३ ||
सवर्णा क्षत्रिया यत्तेविप्रेणोढाश्चिकित्सकः. अत्र अशुद्धं समीकार्यम् |
तत्र चौर्येण सम्भूतो ज्योतिर्वेदाभिजीविकः |
ज्योतिर्विद्यां समभ्यस्ये दुपनीय समन्त्रकम् || ३४ ||
ब्राह्मणाध्यूढ वैश्यायामम्बष्ठश्शल्य कृन्तकः |
चौर्यात्कुलालः कुम्भूदि निर्माणं तस्य जीविका || ३५ ||
कृत्तमः |
मृण्मयू प्रतिमा चापि कार्या शोस्त्रेक्तवर्त्मना |
नाभेरूर्ध्वं तु वपवनं पृत्तिरस्य विधीयते || ३६ ||
ब्राह्मणाध्यूढशूद्रायां जातःपारशवस्म्सृतः |
अर्चनं सप्तमात्रूणआं पाद्यपादनमेव च || ३७ ||
तस्य वृत्तिर्निषादस्तु चौर्यात्स्यान्मृगघौतुकः |
पट्टबन्धोचितौ चोभौ नृपजौ गुण्डगोलकौ || ३८ ||
क्षत्रियाद्विन्नवैश्यायां गोष्ठी पण्योप जीवनः |
चौर्येण जातो माहिष्यस्तुरङ्ग्रमवणिग्भवेत् || ३९ ||
गोस्त्री |
शूद्रायां क्षत्रियादुग्रो विन्नायां करिबन्धकः |
चौर्येण शूलिको ज्ञेयश्शूलारोपणवृत्तिकः || ४० ||
मणिकारश्शङ्खकारो वणिजौ गुण्डगोलकौ |
करणो विन्नशूद्रायां वैश्याद्द्यूतादिजीवनः || ४१ ||
यौर्या त्कटङ्करस्तस्य वृत्तिरेव कटक्रिया |
मालवश्चाश्वपालश्च शूद्रजावश्वपौ सदा || ४२ ||
कटकरस्तस्य |
गवादिपालकोऽम्बष्ठ्यामाभीरो ब्राह्मणाद्भवेत् |
विलोको वधकृत् क्षत्ता विप्रात्पार शवस्त्रियाम् || ४३ ||
माहिष्येण करण्यां तु रथकारो रथादिकृत् |
शिल्पवित्सर्व शिल्पानामाचार्यस्स च उच्यते || ४४ ||
प्रात्यानां ब्राह्मणादीनां त्रयाणां वृत्तिरुच्यते |
मारणं मण्डनं क्षेमं समुद्रतरणं तथा || ४५ ||
ब्राह्मण्यां क्षत्रियात्सूतो विवाहात्स्रतिलोमजः |
सारथ्यं वृत्तिरेतस्य धर्माणां चैव बोधनम् || ४६ ||
उपवीतोपनयने प्राप्नोत्येव समन्त्रकम् |
चौर्या त्तत्रैव सूतोऽन्यस्सोन्यसंस्कार कारकः || ४७ ||
तस्यां वैदेहको वैश्या द्विवाहाद्व्रस्त्रशुद्धिकृत् |
मागधस्तद्र चौर्येण जङ्घाकरिक वृत्तिकः || ४८ ||
शूद्राद्ब्राह्मण येषायां विवाहाच्चौर्यतोऽपिवा |
चण्डालो झुल्लरीकाक्षो मलनिर्ह रणादिकृत् || ४९ ||
आयोगवस्तन्तुवायो वैश्यादूढ नृपस्त्रियाम् |
तत्रैव चौर्या दारण्यपुलिन्दो मृगघातुकः || ५० ||
शूद्रान्नृपायां विन्नायां पुल्कनो लाक्षमद्यकृत् |
वैश्येन तत्र चौर्येण जृम्भनृत्तादिवर्तनः || ५१ ||
शूद्रात्तत्रच |
वैश्यायां शूद्रविन्नायां तक्षा स्यात्तक्षणादिकृत् |
सोऽयं कांस्य स्वर्णकृत्स्यात् त्वष्टा च भ्रमिजीवनः || ५२ ||
नैल्यकृच्च स विज्ञेयो नीलवस्त्रादि चत्रकृत् |
एवं च जातिपालस्स्या च्चौर्याच्चक्रीतु तैलिकः || ५३ ||
एनञ्जतिः पलाशस्स्यात् |
शूद्रात्करण्यां वै जातः कूटकृच्छन दाहकः |
ब्राह्मणान्नापितोऽम्पष्ठ्यामधोम पनवृत्तिकः || ५४ ||
प्रतिलोमानुलोमाभ्यां प्रतिलोमानुलोमतः |
बहवस्सङ्करा जाता यथाभीरादि जातयः || ५५ ||
Kapitel 2
Lesehilfe: Kapitel 2: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
द्वितीयोऽध्यायः |
|
द्विक्षास्वरूपप्रश्नः. |
ब्रह्मा |
ये दीक्षायामधिकृता ये च तत्र बहिष्कृताः |
ते यथावदशेषेण कथिताः पुरुषोत्तम || १ ||
दीक्षा स्वरूपविषये बुभुत्सा मम सम्प्रति |
विजृम्भते तत्स्वरूपमुपदेष्टुं त्वमर्हसि || २ ||
दीक्षाविधि निरूपणम्. |
तत्र स्थानोपकरणादि. |
श्रीभगवान् |
प्रतिष्ठाविधिवत्सर्वं दीक्षामण्डपमादितः |
कारयित्वा शुचौ देशे तद्वदेव चतुर्मुख || ३ ||
देशे च पश्चिमे वेद्याः गुण्डं तालत्रयाद्बहिः |
कारयित्वाद्विजेन्द्रादि वर्णानामनुपूर्वशः || ४ ||
अनुकूलं चतुष्कोणं तालद्वयमितान्तरम् |
वृत्तं गोकर्णयुग्मेन विस्तीर्णं तदनन्तरम् || ५ ||
चापाकारं वितस्तिभ्यां विस्तारायाम सम्मितम् |
त्रिकोणमितरत्कुण्डं प्रादेशद्वयविस्तृतम् || ६ ||
आयामस्स्रुक्स्रुवादीनामीदृशो ब्राह्मणादिषु |
यजनकालः. |
दशम्यां यागसम्भारास्सम्भूर्यान्समिधादयः || ७ ||
एकादश्यां तु सायाह्ने तिथौ स्यादधिवासनम् |
चक्राब्जमण्डले कुम्भन्यासः. |
मण्डपे यजने स्थाप्यं द्वारकुम्भादि पूर्ववत् || ८ ||
धारणाशोधिततनुश्चक्राब्जं वर्तयेद्गुरुः |
कुम्भं च हेमादिमयं करकं चापि तादृशम् || ९ ||
गालितोदकसम्पार्णं न्यस्तरत्नसुवर्णकम् |
सूत्रवेष्टितनर्वाङ्ग्रं प्रक्चन्दन परिष्कृतम् || १० ||
अहताभ्यां च पासोभ्यां च्छादितं दोषवर्जितम् |
अस्त्रेण शतवारं तु करकं चाभिमन्त्रयेत् || ११ ||
अच्छिन्नधारया सिञ्चे द्वेदिकां परितो गुरुः |
प्रादक्षिण्येन करकं नीत्वा कुम्भं च पृष्ठतः || १२ ||
ऐशाने चक्रपद्मस्य भागे धान्ये निवेशयेत् |
दक्षिणे कलशं वामे करकं मूलविद्यया || १३ ||
कुम्भे च हरिमावाह्य पूजयेच्छास्त्रवर्त्मना |
यजेत देवं चक्राब्जमण्डले कमलासन || १४ ||
साङ्ग्रं सपरिवारं च यथाविधि यथाक्रमम् |
मथित्वाऽष्टाक्षरेणाग्निं गुण्डे तं विनिवेशयेत् || १५ ||
चरोश्चातुर्विध्यम्. |
तत्र सिद्धं चरुं कृत्वा चतुर्धैकं निवेदयेत् |
मण्डलस्थाय हरये कुम्भे भागमथेतरम् || १६ ||
अग्नौ चैकं स्वयं चैकमुप युञ्जीत देशिकः |
समिधश्शतमष्टा च जुहुयाद्देशिकोत्तमः || १७ ||
आज्यहोमोऽपि तद्वत्स्यान्मूलमन्त्रेण मन्त्रवित् |
चरुं नृसूक्तेन तथा पूर्णाहुत्यन्त मन्यतः || १८ ||
सिष्यलक्षणं तत्संस्काराश्च. |
शिष्यं स्नातं जितक्रोधं मदाद्येर्वर्जितं शुचिम् |
अहतक्षौमवसनं सोत्तरीयमलज्कृतम् || १९ ||
दधतं क्षौमवसनम् |
आहूय पाससा बध्वा गुरुर्नेत्रे स्व विद्यया |
आत्मनो दक्षिणेपार्श्वे निवेश्य प्राङ्मुखं यथा || २० ||
तेन दर्भैश्छ संस्पृष्टः पुण्डरीकाक्ष विद्यया |
द्वादशाहुतिमाज्येन जुहुयाच्चरुणा तथा || २१ ||
समित्पुष्पतिलैश्चापि ततः प्रसृति मुद्रया |
त्रिर्मूर्ध्नि शिष्यमालभ्य प्रादक्षिण्येन देशिकः || २२ ||
अष्टाक्षरेण मन्त्रेण ततो भस्म समिद्भवम् |
समुद्भवम् |
पाण्डरं मूर्ध्नि शिष्यस्य विनिवेश्योर्ध्व पुण्ड्रकम् || २३ ||
अस्त्रमन्त्रेण भध्नीया त्सूत्रं प्रतिसरं करे |
पीत्वा शिष्यः पञ्च गव्यं प्रणवेन चरुं ततः || २४ ||
भुञ्जीत कायशुद्ध्यर्थं दर्ना काष्ठेन धावयेत् |
दन्तकाष्ठाग्र निमित्तपरीक्षा. |
दन्तकाष्ठं च भूभागे निपात्याग्रं विलोकयेत् || २५ ||
नैरृते मारुते याम्ये यद्यग्रमशुभं भवेत् |
शुभमन्यत्र दिग्भागे काष्ठाग्रे प्रतिते भवेत् || २६ ||
अशुभं शान्तिहोमेन शाम्येच्छु भकरश्चसः |
नारसिंहेन मन्त्रेण तिलैकष्टोत्तरं शतम् || २७ ||
होमः कार्यस्ततश्शिष्यमाचान्तं देपवन्निदौ |
करे गृहीत्वा दे वेशं प्रणम्य गुरुरात्मवान् || २८ ||
विज्ञापयेदिमां गाधामुच्चार्य कमलासन |
गुरुणा भगवते शिष्यसमर्पणम्. |
संसारपाशबद्धानां पशूनां पाशमोक्षणे || २९ ||
त्वमेव शरणं देव गतिकन्यान विद्यते |
वाशमोक्षणहेतुर्यस्त्वत्समाराधनात्मकः || ३० ||
तेनेमान् जन्मपाशेन पाशितान् पशुजन्मनः |
विपाशयादिदेवेश तदनुज्ञातुमर्हसि || ३१ ||
इति विज्ञाप्य शिष्यं तं मायासू त्रेणवेष्टयेत् |
मायासूत्र स्वरूपम्. |
शुक्लं कक्तं च कृष्णं च त्रिवर्णं त्रिगुणीकृतम् || ३२ ||
सूत्रं पुनश्चत्रिगुणं कृत्वा सूत्रेण तादृशा |
मायासूत्रेण शिष्य कायवेष्टनम्. |
शिखां प्रक्रम्य पादान्तं पञ्चविंशति सङ्ख्यया || ३३ ||
वेष्टयेन्मूलमन्त्रेण कायं शिष्यस्य सर्वतः |
जुहुयात्तेन मन्त्रेण शिष्यं संस्पृश्य देशिकः || ३४ ||
सर्पिषाष्टोत्तरशतं पारान् पूर्णाहुतिं ततः |
स्वप्नार्थं होमः. |
स्वप्नाधिपतिमन्त्रेण सर्पिषाष्टोत्तरं शतम् || ३५ ||
स्वप्नदर्शनसिद्ध्यर्थं जुहुयाद्देशिकोत्तमः |
माषोदनेन भूतेभ्यो बलिं दद्यात्समाहितः || ३६ ||
मायासूत्रमोक्षणम्. |
विमुक्तनेत्रबन्धस्य शिष्यस्य तनुबन्धनम् |
मायासूत्रं समादाय शरावेन्यस्य निक्षिपेत् || ३७ ||
कुम्भपार्श्वेशरावेण पिधायान्येस देशिकः |
शिष्यस्वापनम्. |
दर्भानास्तीर्य तत्तल्पे शिष्यस्वापनमाचरेत् || ३८ ||
मण्डलस्थं च कुम्भस्थं देवं नूद्वास येत्तदा |
शुभस्वप्ने दीक्षानुज्ञा. |
ततः प्रभाते शिष्यस्य शुभं चेत्स्वप्न दर्शनम् || ३९ ||
अशुभस्वप्ने शान्तिहोमः. |
दीक्षेत नूचेदशुभं शान्तिहोमं समाचरेत् |
दीक्षाविधिः. |
स्नात्वा शिष्येण सहितः प्रविसेद्याग मण्डपम् || ४० ||
ध्वाजतोरण कुम्भादिपूजा पूर्ववदिष्यते |
चतुर्विधं निवेद्यान्नं समस्कृत्य प्रदक्षिणम् || ४१ ||
शिष्यं तु पूर्ववन्नेत्रे बध्वा नूतनवाससा |
निवेश्य वूर्ववत्पार्श्वे जुहुयात्समिधादिभिः || ४२ ||
प्रत्येकमष्टोत्तर शतं मूलमन्त्रेण देशिकः |
मायासूत्रं ततश्छित्वा संहारक्रम मास्थितः || ४३ ||
तत्वान्यादिश्य जुहुयात्प्रकृत्यन्तानि देशिकः |
प्रत्येकमष्टोत्तर शत मष्टकृत्वोऽथवागुरुः || ४४ ||
हृत्पद्मे परमं ज्योति र्ध्यात्वा परमपूरुषम् |
तस्मिन् जीवं च शिष्यस्य संहरेन्मन्त्रवित्तमः || ४५ ||
स्पहृत्पद्मे परंज्योतिऽ |
शोषणादीनि देहस्य शिष्यसम्भन्धिन स्तथा |
कृत्वा तत्र स्मरेदण्डं ततस्स्व हृदयाम्बुजात् || ४६ ||
सज्क्रमय्य पुनर्जीवं प्रकृत्यादि क्रमात्सृजेत् |
सर्गकाले च जुहुयात्तत्वानि क्रम मूस्थितः || ४७ ||
माश्रितः |
सृष्ट्वा स्थूलशरीरान्त मण्डभेदं विचिन्तयेत् |
तन्मध्ये पुरुषं ध्यात्वा जातमात्मान मात्मना || ४८ ||
प्रोक्षयेन्मूलमन्त्रेण नेत्रबन्धं च मोचयेत् |
शिष्यस्तु परिधायान्यद्वासःपादौ प्रसाद्य च || ४९ ||
अचम्य पाससाऽन्येन बद्धनेत्रो न्तिके गुरोः |
असीत प्राङ्मखस्तस्मिन् शोधयेच्च षडध्वाना || ५० ||
निजे गुरौ |
च्छादयेत् |
अध्वषट्कम्. |
कलाध्वा च पदाध्वा च भुननाध्वातथैव च |
मन्त्राध्वा मन्त्रवर्णाध्वाषडध्वानः प्रकीर्तिताः || ५१ ||
अत्र तत्वाध्वनः नाम निर्देशः अभ्यूह्यः |
पूर्वविधि शेषः. |
पूर्नमाज्याहुतिं हुत्वा महाव्याहृतिविद्यया |
हुतशेषेण शिष्यस्य पादौस्पृष्ट्वा ततस्तिलैः || ५२ ||
हुत्वा नाभिं समालभ्यततो हुत्वाकुशेशयैः |
स्पृष्ट्वा च हृदयं हुत्वा चरुणा मूर्धनिस्पृशेत् || ५३ ||
अष्टोत्तर शतं होमः प्रत्येकं मूलविद्यया |
होमन्तेच गुरुश्शिष्यं गृहीत्वा दक्षिणे करे || ५४ ||
नीत्वा प्रदक्षिणं कुम्भं मण्डलं च यथोदितम् |
द्वारे तिष्ठंश्चतुर्णां तु द्वाराणां कमलासन || ५५ ||
मणिमुक्ताप्रवालैर्वा पुष्पैर्वाकेवल्तेर्गुरुः |
अञ्जलिं पूरयेदन्ते ततस्तस्य विकस्वरैः || ५६ ||
केसलैर्गुरु रात्मवान् |
दीक्षितस्य नामनिर्देशः |
पुष्पादि विकि रेत्तस्मिन् मण्डले गुरुचोदितः |
यस्मिन् पतति भूभागे पुष्पाणामुत्करस्स्वयम् || ५७ ||
तद्भागाधिपमूर्तीनां नामान्यस्य विनिर्दिशेत् |
शिष्यस्य केशवादीनि पदं भागवतेति च || ५८ ||
नाम्नामन्ते प्रयोक्तव्यं यद्वा भट्टारकेति च |
ब्राह्मणच्चेत् क्षत्रियस्य देह नं नामनिर्दिशेत् || ५९ ||
वैश्यस्य पालशब्दान्तं दासान्तं पादजन्मनः |
ततो विमुच्य दृग्बन्धं दर्शयेच्चक्रमण्डलम् || ६० ||
बालशब्दान्तम् |
शिष्येण सहितो वेद्यां ध्यायेन्ना रायणं गुरुः |
मन्त्रोपदेशः. |
ध्यात्वाच दक्षिणे कर्णे शिष्यस्य प्रणवान्वितम् || ६१ ||
मन्त्रं दद्यादृषिच्छन्धो दैवतं चाङ्ग्रमेव च |
द्वादशाक्षरमादौ तु पश्चादष्टाक्षरात्मकम् || ६२ ||
मूर्तिमन्त्रांश्च तदनु समध्याप्य यथाविधि |
स्त्रीशूद्राणां मन्त्रोपदेसे विशेषः. |
केवलं वैष्णवं नाम नमः प्रणववर्जितम् || ६३ ||
हुं फढादिवषट् स्वाहावर्जितं केशवादिकम् |
अध्याप्यं स्त्रीषु शूद्रेषु तद्वदेवानुलोमजे || ६४ ||
शिष्येण कुम्भमण्डलस्थदेवतार्चनम्. |
कुम्भस्थं मण्डलस्थं च हरिं शिष्यस्समर्चयेत् || ६५ ||
गुहुणा शिष्यनियमोपदेशाय संविधानम्. |
आराध्य हरिमुत्थाय तस्थुषः प्रञ्जले स्तथा |
मूर्ध्नि शिष्यस्यस गुरु र्हस्तेध्यात्वाब्जमण्डलम् || ६६ ||
स्ततो |
हस्तं न्यसे द्विष्णुहस्ते ततश्शिष्यस्य देशिकः |
आचारान्नि यमान् सर्वान् बोधयेदग्नि सन्निधौ || ६७ ||
आचारं नियमान् |
शिष्यानुष्ठेया बाह्यनियमाः. |
मन्त्रः परस्य नाख्येयो नाक्षसूत्रं प्रदर्शयेत् |
न च मुद्रां नापि सिद्धिं मन्त्रस्य कथयेत् स्वयम् || ६८ ||
स्वरम् |
आचार्यनाम नवदे न्नि योगान्नास्य लङ्घयेत् |
न्नियैगम् |
शयनादींश्चन गुरोराक्रमेन्न च लङ्घयेत् || ६९ ||
न गुरुं दूषयेद्वाचा नाचरेत्तस्य विप्रियम् |
गुरुवद्गुरुदारेषु वर्तितव्यमसन्निधौ || ७० ||
आचार्यमच्युतं शात्त्रं त्रयं सम्मान येत्सदा |
नास्तिकादि सहवास निषेधः. |
नास्तिकान् भिन्नमर्यादान् देव ब्रह्मणदूषकान् || ७१ ||
नस्पृशेन्नैव तैस्सार्धं संवसेद्दुर्दशान्वपि |
गुरुदेवादिसन्निधौ वृत्तिः. |
प्रसारयेन्नैव पादौ गुरुदेवाग्नि सन्निधौ || ७२ ||
नियमविशेषाः. |
वेदितव्यं जगत्सर्वं वासुदेवमयं सदा |
अनर्चयीत्वा देवेशं नात्मपोषण माचरेत् || ७३ ||
जवस्तोत्रप्रणामादीन् सन्ध्याकाले समाचरेत् |
भगवद्ध्यानतत्कर्म कीर्तनेषु सदा कमेत् || ७४ ||
कर्तन्येषु |
वैष्णवं च यतिं चैव दृष्ट्वातं प्रणमेत् क्षितौ |
पुत्रदारगृहक्षेत्र पश्वादि धनमात्मनः || ७५ ||
व्यपदेश्यमशेषेण नाम्ना भगवतो भवेत् |
समस्सर्वेषु भूतेषु कामक्रोधौ विपर्जयेत् || ७६ ||
शनैश्शनैरिन्द्रियाणि विषयेभ्यो निवारयेत् |
संसारविमुखैस्सार्धं शास्त्राभ्यासं समाचरेत् || ७७ ||
श्रौतस्मार्तादिकर्माणि सदि सेवेत नेतरत् |
स्वनूत्रोक्तेन विधिना निषेकादिक्रिया भवेत् || ७८ ||
कुर्यात्सर्वाणि कर्माणि भगवद्ध्यानतत्परः |
गुह्यं नाम च गोत्रं च प्रकृतं नान्यदिष्यते || ७९ ||
आसीनो वा शयानो वा गच्छन् भुञ्जान एव वा |
सज्कीर्तयेत् स्मरेद्वापि वासुदेवं सनातनम् || ८० ||
Kapitel 3
Lesehilfe: Kapitel 3: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
चर्यापादेतृतीयोऽध्यायः |
तृतीयोऽध्यायः |
भगवदाराधनविधिः. |
श्रीभहवान् |
श्रूयतामभिधास्यामि ब्रह्मन्नाराधनं हरेः |
येन विष्णोः पदं मर्त्यः प्रोप्नोत्यमरदुर्लभम् || १ ||
स्नानभेदाः. |
स्नानमूलाः क्रियास्सर्वाः स्नानं च बहुधा श्रुतम् |
वारुणं दिव्यमाग्नेयं वायव्यं पार्थिवं तथा || २ ||
मान्त्रं मानसमित्येवं स्नानं सप्तविधं स्मृतम् |
निरीक्ष्य चात्मनश्शक्तिं समयं देशमेव च || ३ ||
एतष्वेकतरं कुर्यात्समाराधनतत्परः |
वारुणास्नानस्वरूपम्. |
अवगाहन मप्स्वन्तर्वारुणं स्नानमिष्यते || ४ ||
सहातपेन वर्षेण स्नानं दिव्यमनन्तरम् |
समिधां दीपितानां च गोमयस्य हुतस्य च || ५ ||
सितेन भस्मनाऽङ्गेषु ललाटादिषु चक्रमात् |
यदूर्ध्वपुण्ड्रकरणं मन्त्रोच्चारणपूर्वकम् || ६ ||
तदाग्नेयं भवेत् स्नानं शोधनं परमं स्मृतम् |
गच्छत्सु गोषु पादोत्थैरजोभिर्भूमिसम्भवैः || ७ ||
वातोत्थैः |
स्पर्शनं वपुषस्स्ननं वायव्यं तदुदाहृतम् |
प्रशस्ते वर्वताग्रादौ जातया स्वेतमृत्स्नया || ८ ||
उच्चार्य केशवादीना नामान्यङ्गे यथाक्रमम् |
ललाटादौ यद्विधान मुर्ध्वपुण्ड्रस्य तद्भवेत् || ९ ||
पार्थिवं स्नानमब्लिङ्गैर्मन्त्रैर्विप्रकरेरितैः |
अत्र ऊर्ध्वपुण्ड्रं मृदा धार्यं सान्तरालं त्रियङ्गुलम् |लक्ष्म्यासार्धं सुखासीनो कमेहं तत्र निर्वृतः || इति पद्यं क्वचिद्दृश्यते |
अम्भोभिः प्रोक्षणं ब्रह्मं स्तन्मास्त्रं स्नानमिष्यते || १० ||
मानसस्नानम् |
त्रिराचम्याऽहतं वासः परिधाय सुखानसः |
प्राणान यम्य मां ध्याये द्धृदयाम्भोरुहे स्थितम् || ११ ||
ध्यानेनानेन निर्द्धूतकल्मषो जायते पुमान् |
स्नानं मानसमेतत्स्यात् स्नतश्च हरिमर्चयेत् || १२ ||
आजानु पादौ प्रक्षाल्य हस्तौ चामणि बन्धनात् |
आचम्य च द्वारपार्श्वं गत्वाङ्गन्यासपूर्वकम् || १३ ||
भगवन्मन्दिरकवाटोद्घाटनम् |
तालत्रयं च हस्ताभ्यां कृत्वाऽभिवलजं स्थितः |
कवाट मुद्घाट्य ततो वायमन्त्रेण मन्त्रेवित् || १४ ||
फण्टायाश्चालनं कुर्यात्कपाटोद्घाटनादिषु इदमर्धं क्वचिदधिक मस्ति |
पद्मज |
साम्ना देवव्रतेनान्तः प्रविशेद्दक्षिणाङ्घ्रिणा |
प्रणमेच्छिरसा देवं पुण्डरीकाक्ष विद्यया || १५ ||
आरोपितेषु दीपेषु माल्ये चापि निरासिते |
वेद्यां पात्रेषु बिम्बेषु शोधितेषु यथातथम् || १६ ||
द्वारपूजामुखे सर्वपरिवारसमर्चने |
कृते शिष्येण वाऽन्येन परिचारपरेण वा || १७ ||
परिवाराननभ्यर्च्य तथैवाग्नि समीडनम् |भोगैरकृत्वा देवस्य पूजास्यान्निष्प्रयोजना |तस्माद्यथोक्तमार्गेण पूजनं स्थान वृद्धिदम् | इति क्वचि दधिकं दृश्यते |
पूजकपरिकर्मा. |
पूजकोऽलङ्कृतस्स्रग्वीशुक्लाम्बरधं श्शुचिः |
शुक्लोपवीतोत्तरीयश्च न्दनाद्य नुलेपनः || १८ ||
चन्दनश्वेतमृत्स्नाम्बु तल्पिता ग्रोर्ध्वपुण्ड्रकः |
आरभ्य नासिकामूलं ललाटान्तं लिखेत्क्रमात् || १९ ||
श्वेतमृत्स्नाम्बुकल्केन धारयेदूर्ध्व पुण्ड्रकम्. इदमर्धं चन्दनेत्य र्धस्थानेक्वचिद्दृश्यते |
इदमर्धं क्वचिन्नास्ति |
आत्मशुद्धिः. |
देवपार्श्वां समासाद्य पार्श्वे सव्येतरे स्वयम् |
आसीनो विष्टगे शुद्धे ॠस्यादौ स्वस्ति कासने || २० ||
सव्योत्तरे |
आसीत |
बध्वा पद्मासनं वापि दूर्याघोषे प्रवर्तिते |
तिरस्करिण्याच द्वारे निश्छिद्रं च्छादिते ततः || २१ ||
अस्त्रमन्त्रेण ककुभो बध्वा धूमध्वजं बहिः |
प्राकारवत् स्थितं ध्यायेत्तेजो मन्त्रेण मन्त्रवित् || २२ ||
चक्रमुद्रां च खे न्यस्य चक्रमन्त्रेण साधकः |
गोपयन्नित्थमात्मानं प्राणायामैस्त्रिभिः क्रमात् || २३ ||
युक्तः कृत्वा योगमुद्रां नाभिकन्टे स्थितं पुनः |
वेद्याकारं वायुबीजं ध्यात्वा तज्जेन वायुना || २४ ||
धूम्रेण देहपाप्मानं शोषयित्वा निरन्वयम् |
त्रिकोणमग्निभीजं च रक्तवर्णं हृदम्बुजे || २५ ||
ध्यात्वा तदुत्थसप्तार्चिश्शिखाभिः कल्मषं दहेत् |
माहेन्द्र बीजं विन्यस्य पीताभं चतुरश्रकम् || २६ ||
कण्ठे सहस्पर्शनेन स्तम्भयेदग्निमुत्थितम् |
वायुना कुम्भकेनैव वृत्तं स्फटिकसन्निभम् || २७ ||
विन्यस्य वारुणं बीजं मूर्ध्नि तज्जामृताम्भसा |
क्षालयेत्सर्वतो देहमापादतलमस्तकम् || २८ ||
पृथिव्यादीनि तत्वानि समाधिपरया धिया |
परमात्मनि संहृत्य प्रलयक्रममास्थितः || २९ ||
पृथिवीं पञ्चगुणकां पीताभां चतुरश्रकाम् |
घ्राणोपस्थेन्द्रिययुतां तन्मात्रालक्षणे ततः || ३० ||
गन्धे संहृत्य योगेन गगनेन विचक्षणः |
कसना पाय्वीन्द्रियाभ्यां सहापश्च चतुर्गुणाः || ३१ ||
गहनेन |
सह पश्चाच्चतु |
अर्धचन्द्राकृति श्चैता स्तन्मात्रालक्षणे कसे |
श्श्वेता |
गन्धं च तन्मात्रात्मानं ततोग्निंत्र्यश्रपाटलम् || ३२ ||
त्रिगुणं दृष्टिचरणस्त्रोतोभ्यां सुसमाहितः |
तन्मात्रालक्षणे रूपे रसं तन्मात्रया सह || ३३ ||
संहरेद्द्विगुणं वायुं स्पर्शेतन्मात्रलक्षणे |
धूम्रं वृत्तं तत्कराभ्यां रूपं तन्मात्रया सह || ३४ ||
वायुना संहरेद्योगी खं च शब्दगुणं पुनः |
तन्मात्रालक्षणे शभ्दे नीलोत्पल दलप्रभम् || ३५ ||
युञ्जानः |
स्पर्शं च तन्मात्रात्मानं श्रुतिपाक्सहितं ततः |
संहृत्य शब्दतन्मात्रां स्वान्ते स्वान्तमहङ्कृतौ || ३६ ||
अहङ्कृतिं बुद्धितत्वे बुद्धिं च प्रकृतौ पुनः |
जीवे च प्रकृतिं जीवं वासनाविवशं ततः || ३७ ||
सुसूक्ष्मं नाभिचक्रे स्वे भास्कराभमवस्थितम् |
नुषुम्नया नाडिकया पद्मसूत्रसुसूक्ष्मया || ३८ ||
उपर्यारोहयेद्देहे कुम्भकेन सभस्वता |
भित्वा च ब्रह्मणो रन्ध्रं बहिर्देहाद्विनिर्गतम् || ३९ ||
प्रविश्य भास्करस्यापि मण्डलान्निर्गतं बहिः |
अशरीरं तथा जीवं परस्मिन् ब्रह्मणि द्रुवे || ४० ||
स्थितं ध्यायेत् स्थितं तत्र स्वदेहं योनिजं दहेत् |
न्यस्तेन शिखिभीजेन पादाग्रेज्वलनं द्विषा || ४१ ||
पादादिमूर्धपर्यन्तं दग्धे देहे निजे ततः |
निवृत्तिबीजं खे ध्याये त्पूर्ण चन्द्रायुतो पमम् || ४२ ||
तदुत्थपीयूषनिधौ जा ते पाण्डर पङ्कजे |
स्मरेज्जीवं समुत्पन्नं सकाशाद्भ्रह्मण स्तदा || ४३ ||
जीवात्प्रधानं तस्माच्च बुद्धिं बुद्धेरहङ्कृतिम् |
ततो मनस्ततश्शब्दं तन्मात्रां खं ततस्सह || ४४ ||
पाक्छ्रुतिभ्यां शब्धगुणं तन्मात्रां स्पर्शलक्षणाम् |
वायुं स्पर्शगुणं सार्धं त्वचा हस्तेन चस्मरेत् || ४५ ||
तन्मात्रां स्पर्शरूपां तां ततोग्निं सह चक्षुषा |
पद्भ्यां रूपगुणं रूपतन्मात्रां च रसं ततः || ४६ ||
तन्मात्रां च स्पर्शनाम्नाम्. ततश्च स्पर्शतन्मात्राम्. तन्मात्रां च ततोरूपाम्. इति च पाठान्तरम् |
तस्मात्तन्मात्राम् |
पुनः |
अपो रसगुणाः पायुरसनाभ्यां सहाब्जज |
गन्धं च तन्मात्रात्मानं सहगन्धगुणां भुवम् || ४७ ||
समुत्पन्नं स्मरेद्विद्वान् फ्राणोपस्थयुतं तथा |
इत्थं शरीरमात्मीयं सृष्टं मह्यादिभूतजम् || ४८ ||
विचिन्त्य पङ्कजं बुध्या प्रबुद्धं तद्विनिस्सृतैः |
शातकुम्भमयैःकुम्भैः पूर्णैरमृतवारिभिः || ४९ ||
स्नापितं शुद्धमनघं चिन्तयित्वा निजं वपुः |
आराधने हरे र्योग्यं परस्य परमात्मनः || ५० ||
मन्त्रन्यासविधिः. |
ध्यायन्नष्टाक्षरं मन्त्रं द्वादशाक्षरमेव वा |
सृष्टिस्थितिलयव्यासै र्हस्तन्यास पुरस्सरम् || ५१ ||
न्यस्येदङ्ग्रषु मूर्धादि पादान्तेषु यथा तथम् |
प्रणवन्यासः. |
तलं पृष्ठं चकरयो श्शोधयुत्वास्त्र विद्यया || ५२ ||
अङ्ग्रलीनां च सर्वासां पर्वस्वाद्यन्तवर्तिषु |
इष्यते प्रणवन्यासो मध्यमेषु च पर्वसु || ५३ ||
अष्टाक्षरस्य सृष्टिलयस्थितीनां न्यासः. |
मन्त्राक्षराणि विन्यस्ये न्न्यास एष सनातनः |
पर्वदक्षिण तर्जन्याः प्रक्रम्याङ्गुलिपर्वसु || ५४ ||
मन्त्राक्षराणां विन्यासो |
प्रक्रम्याङ्ग्रुष्ठ |
दक्षिणेतरतर्जन्याः पर्वान्तं साधकोत्तमः |
सृष्टिन्यासमिमं कुर्या द्व्यत्यासेन तु संहृतौ || ५५ ||
द्विन्यासेन |
प्रक्रम्य तर्जनीपर्व कनिष्ठापर्व विश्रमः |
स्थितावष्टाक्षरस्येष मन्त्रस्य न्यास ईरितः || ५६ ||
द्वादशाक्षरमस्त्रस्य सृष्टिलयस्थितीनां नासः |
द्वादशाक्षर मन्त्रस्य न्यासस्सम्प्रति कथ्यते |
न्यासस्तवले मध्यमया तर्जन्याऽङ्गुपर्वणि || ५७ ||
कृत्वा प्रदक्षिणं पर्नस्वङ्गुष्ठेनेतरेषु तु |
सव्ये तले तु विश्रान्ति स्सृष्टानपरधा लये || ५८ ||
तलयोःप्रक्रमस्थाने दक्षिणेतरयोर्द्वमयोः |
कनिष्ठयोश्च विश्रान्तिः पर्वणो रुभयोरपि || ५९ ||
द्वादशाक्षर मन्त्रस्य न्यासोऽयं कमलासन |
अष्टाक्षर स्थानानि. |
हृदयादीनि चाङ्गानि ध्यात्वाऽङ्गुष्ठादि पञ्चसु || ६० ||
न्यस्येन्नखमुखे नेत्रे तले सव्ये गदा धरौ |
सव्येतरे पद्मचक्रेन्यस्येस्न्यासः करद्वये || ६१ ||
दरौ इतिक्वचित् |
ईरितस्तलयोर्मन्त्रं ध्यात्वा तेजोभिरु ज्वलम् |
ताभ्यां मूर्द्धादिपादान्तं देहे न्यस्ये त्समूहितः || ६२ ||
त्समन्तः |
व्यापकं कञ्चुकं यद्वा मन्त्रमक्षरशस्ततः |
मूर्द्निनेत्रे मुखे चित्ते नाभ्यां गुह्ये च जानुनि || ६३ ||
मन्त्रस्त्वक्षरश |
चरणौ क्रमशस्सृष्टौ न्यासो मन्त्रस्य इष्यते |
विपरीतक्रमोज्ञेय स्संहृतौ पालने पुनः || ६४ ||
नाभ्यादि पृदयान्तेषु न्यासोङ्गेषु प्रकीर्तितः |
अष्टाक्षरस्य मन्त्रस्य स्थानान्येतानि तानि च || ६५ ||
द्वादशाक्षर स्थानानि. |
शिरसः पश्चिमं पूर्वं दक्षिणं चोत्तरं ततः |
चत्वारि च चतुर्वक्त्रस्थानानि द्वादशाक्षरे || ६६ ||
अष्टाक्षर न्यासभूमयः. |
मूर्ध्नि मध्यमयाऽङ्गुल्या तर्जन्या सह चक्षुषोः |
न्यस्येन्मुखेऽनामिकया साङ्गुष्ठेन च मन्त्रवित् || ६७ ||
अङ्गुष्ठ तर्जनीभ्यां तु हृदये न्यसनं भवेत् |
तथाङ्गुष्ठ कनिष्ठाभ्यां नाभौ न्यासः प्रशस्यते || ६८ ||
विनाङ्गुष्ठेन शेषाभिर्गुह्ये जानुनि चोभयोः |
समस्ताभिश्चरणयो रित्यष्टाक्षरभूमयः || ६९ ||
द्वादशाक्षर न्यासभूमयः. |
प्राग्भागे शिरसोङ्गुल्या न्यासोऽङ्गुष्ठेन दक्षिणे |
तर्जन्या पश्चिमे भागे न्यासोऽनामिक योत्तरे || ७० ||
कनिष्ठयातधैतास्स्युर्द्वादशाक्षरभूमयः |
मन्त्राक्षराणां वर्णाः |
रूपं क्रम्णाक्षराणां न्यासकाले विचिन्तयेत् || ७१ ||
शुक्लं हिरण्ययं कृष्णं रक्तं कुङ्कुम सन्निभम् |
पद्मकिञ्जल्क सदृशं सर्ववर्ण कमष्टकम् || ७२ ||
पद्मकिञ्जल्कनीलं च |
सितं कृष्णं च धूम्राभं श्यामं तारानिभं ततः |
स्फटिकाभं च शज्खाभं कक्तं शुक्लं च लोहितम् || ७३ ||
तमोरूपं पीतवर्णं ध्वात्वामन्त्रद्वयाक्षरम् |
षडङ्गन्यासः |
स्थाने यथोक्ते विन्यस्य षडङ्गन्यासमाचरेत् || ७४ ||
हृदयं च शिरश्चेव शिखा कवच मेव च |
नेत्रमस्त्रं षडेतानि हृदये मस्तके तथा || ७५ ||
शिखायामानुपूर्व्येण स्कन्थस्योभय पार्श्वयोः |
नेत्रयोर्दिक्षु सर्वासु न्यसनीयानि भूमिषु || ७६ ||
षण्णां रूपाणि. |
रूपाणि षण्णां कुमुदं बन्धूक मसितोत्पलम् |
अब्जकेसर मम्भोज मतसी सून सन्निभम् || ७७ ||
रूपसम्पदम् |
दिव्यायुधधरं दिव्यवस्त्रमाल्यानु तेपनम् |
कौस्तुभं वनमालां च श्रीवत्सं दिव्यलक्षणम् || ७८ ||
बिभ्राणं भावयेत्साक्षादात्मानं परमेश्वरम् |
अर्चयेन्न्यासबीजानि गन्दपुष्पादिभिः क्रमात् || ७९ ||
मानसैरूप चारैश्च हृदयाम्भोरुहे स्धितम् |
होमान्तमर्च येत्पूर्वं पासुदेवं सनातनम् || ८० ||
होमन्तैर |
मन्त्रशुद्धिः |
आत्म शुद्धिरियं प्रोक्ता मन्त्रशुद्धिस्तु कथ्यते |
षद्विंशे नार्णबीजेन मन्त्रबीजानि शोषयेत् || ८१ ||
नास्त्रभीजेन |
तोषयेत् |
सप्तविंशेन बीजेन दहेदेतानि वर्णशः |
अष्टाविंशेन बीजेन खे च स्तम्भ नमाचरेत् || ८२ ||
तेषु |
एकोनत्रिंशबीजेन तान्येव क्षा लयेत्पुनः |
हुङ्कारेण प्रबुद्धानि फट्कारेण विचक्षणः || ८३ ||
कुर्यादभिमुखान्य न्वक्प्रणवेन विशोधयेत् |
तमक्षमालया शुद्धं जपेन्मन्त्रं समाहितः || ८४ ||
द्वा प्रणवेन |
अष्टोत्तर शतं वारा नष्टाविंशति मेव वा |
अष्ठौ वामन्त्रविन्मन्त्रं बीजाद्यन्त पुठीकृतम् || ८५ ||
पूजाद्रव्याणि सर्वाणि क्षालयेच्चाम्बु पूरिताम् |
दक्षिणे वामपार्श्वेवा विनिवेश्य गल न्तिकाम् || ८६ ||
दक्षिण स्थापयीत्वातु वामे पार्श्वे |
अर्घ्यादि पात्राण्यादाय गायत्र्या विष्ठुपूर्वया |
प्रक्षाल्य पादेष्पादध्याद्देवस्याग्रेऽथ पद्मज || ८७ ||
पात्मनः |
पाद्यं मध्ये दक्षिणेऽर्घ्यं पामे चाचमनीयकम् |
तस्य पार्श्वस्य पार्श्वेतु वामे स्नानीयपात्रकम् || ८८ ||
तत्पार्श्वयोश्च शुद्दापा पात्रम् |
पूर्णानि गालिताम्बोभिः पात्राणि निगमादिना |
अर्घ्यादिषु क्षेवणीयद्रव्याणि. |
संस्पृश्यार्घ्यादि पात्रेषु द्रव्याणि विनिवेशयेत् || ८९ ||
कुशाग्रमक्षतं पुष्पं फलं मलयजं तथा |
तिर्ला सिद्धार्थसहितान् यवा न र्घ्यस्य भाजने || ९० ||
नर्घ्ये विनिक्षिपेत् |
तिलान् दूर्वां विष्णुपर्णीं श्यामाकं पद्ममक्षतम् |
प्राद्यपात्रे षडेतानि द्रव्याणि विनिवेशयेत् || ९१ ||
एलालवङ्गकर्पूरं जातीतक्कोल चन्दनम् |
पुष्पाण्याचमनीये तु पात्रे द्रव्याणि कल्पयेत् || ९२ ||
सन्धं सर्वैषधी रत्नफलबीज कुशानि च |
तिलानि चाक्षतं चैव दधिक्षीरघृतानि च || ९३ ||
गन्धम् इत्यादि द्वादशारम् इत्यन्तं क्वचिन्न |
रजनी द्वादशाङ्गानि स्नानीये च विनिक्षिपेत् |
कोष्ठं मांसीहिरिद्रे द्वे मुराशैलेयचम्पकाः || ९४ ||
स्नानीयद्रव्यमुच्यते |
वचाकचोरमुस्ताश्च सर्वौषध्यः प्रकीर्तिताः |
तिलानि तुलसी चैव निक्षिपेच्छान्ति वारिणि || ९५ ||
तिलैश्च तुलसीभिश्च भवेच्छान्त्युदरं तथा. इतिक्वचित् |
द्रव्याणां दहनशोषणप्लावनादि |
द्वादशारं भासमानं चक्रं मध्येतु भास्करम् |
हस्ते पामेतरे ध्यात्वादीप्तौस्तद्रश्मिभिः पुनः || ९६ ||
मध्यग |
द्रव्याणि दग्ध्वानिश्शेषं भस्मीभूतानि तानि च |
दक्षिणेतरहस्तस्थेसिते पद्मे विकस्वरे || ९७ ||
दलैष्षोडशभिर्युक्ते चन्द्रं पीयूषकश्मिभिः |
ह्लौदयन्तं स्थितं ध्यात्वा तदुत्थैरमृताम्बुभिः || ९८ ||
सिक्तानि जातानि पुन र्यागयोग्यानि भावयेत् |
हस्तयोरुभयोर्देवं ध्यायेन्ना रायणं प्रभुम् || ९९ ||
ताभ्यामर्घ्यादिपा त्रेषु स्पृष्ट्वा द्रव्याणि विश्वतः |
सकृत्सकृत्सम्भृतानि गायत्र्या विष्णुपूर्वया || १०० ||
अभिमन्त्र्य ततो मुद्रां सौरभेयीं प्रदर्शयेत् |
तद्दुग्धेन च पात्राणि पूरितानि विचिन्तयेत् || १०१ ||
ओमर्घ्यमित्यादि पूर्वं कल्पयामीति चोच्चरन् |
स्पृशेत्पात्राणि हस्तेन पात्रेऽन्यस्मिन्नन न्तरम् || १०२ ||
चोच्चरेत् |
अर्घ्यपात्राज्जलं किञ्चद्गृहीत्वा विनिवेशयेत् |
दक्षिणएतरहस्ते तत् पात्रं संस्थाप्य मन्त्रयेत् || १०३ ||
श्रीरर्घ्यस्य भवद्देवी वागीशाचमनीयके |पाद्यस्य पितरो देवा स्नानीये वरुणस्तथा...कस्य शान्तिस्स्यात्पात्रेष्वेतास्समर्चयेत् || इत्यधिकमेकत्र दृश्यते |
मन्रैण मूलभूतेन वारान् सप्ततदम्बना |
पठंसैनास्त्र मन्त्रेण द्रव्याण्यात्मानमेव च || १०४ ||
योगपीठकल्पनम्. |
प्रोक्ष्य कूर्चेन देवस्य योगपीठं प्रकल्पयेत् |
अभिन्ने सहजे पीठे प्रतिमायाश्चतुर्मुख || १०५ ||
आधारं प्रथमं रूर्मं कालाग्निं तदनन्तरम् |
उपरिष्टाच्च भोगीन्द्रं पणाभिर्भूमिमण्डलम् || १०६ ||
चतुरश्रं सहस्रेण बिभ्राणं बलवत्तरम् |
भुवश्चोपरि धर्माद्याः कल्प्या योगासनाङ्घ्रयः || १०७ ||
आग्नेयादिषु चत्वारश्चतसृष्वेव पद्मज |
अधर्माद्याश्च तावन्तः प्रागाद्यासु यथाक्रम् || १०८ ||
प्रागादिषु |
आशासु तावतीष्वेव पुरुषाकृतयस्थ्सताः |
चतुर्भुजास्सिंहवक्त्रास्सिताः पूर्वऽरुणाः परे || १०९ ||
हस्ताभ्यामपि मुख्याभ्यां रचिताञ्जलि सम्पुटाः |
अवराभ्यां च बिभ्राणा हस्ताभ्यां योगपीठिकाम् || ११० ||
मध्ये सदा शिवो देव स्तद्वदेव प्रतिष्ठितः |
अथवा पुरुहूताद्या दिक्षु प्रागादिषु क्रमात् || १११ ||
अष्टावष्टनु पीठस्य पादरूपेण धारकाः |
ईषाश्चतस्रः पूर्वाद्याः तस्य वेद चतुष्टयम् || ११२ ||
तासु देव चतुष्टयम् |
अहङ्कारास्त्रयः पाशा गुणास्सत्वादयो गुणाः |
तूलिका पञ्चभूतात्मा जीवात्मास्तरणं तथा || ११३ ||
अग्ने स्सोमस्य सूर्यस्य मण्डलान्यु परिक्रमात् |
अम्भोजमुपरिष्टाच्च वलर्क्षंद्वादशच्छदम् || ११४ ||
स्मेरकेसरसम्पूर्णं मध्ये विपुलकर्णिकम् |
भद्रासनं कल्पयीत्वा यथो क्तेनैव वर्त्माना || ११५ ||
स्मरेत्केसर |
पीठपार्श्वदेवताः. |
अर्चयेद्गन्धपुष्पाद्यैः पीठपार्श्वैतु दक्षिणे |
ब्रह्माणं विष्णु मीशानं समाराध्य तथोत्तरे || ११६ ||
मीशां च |
सनत्कुमारं सनकं सनन्दं च सभाजयेत् |
पार्श्वेच पश्चिमे दुर्गां विघ्नेशं नारदं तथा || ११७ ||
आत्मनश्च गुरून् ध्यात्वा प्रारभेताच्युतार्चनम् |
भगवदाराधनाम्भः. |
आवाहनपदं पात्रं प्रक्षालितमथाम्बभिः || ११८ ||
पूरमेस्मूलमन्त्रेण हस्ताभ्यां च समुद्धरेत् |
ललाटसममेतस्मिन्नन्तरावाह्य केशवम् || ११९ ||
मूलबिम्भा द्यथादीपं दीपादविकृतं तथा |
यतुरुच्छारयेन्मन्त्रमागच्छ पदसं युतम् || १२० ||
तेनतोयेन कर्मार्चांसिञ्केत्कूर्चेन मूर्धनि |
तत्र सन्निहितं देवं कर्मार्चायां विचिन्तयेत् || १२१ ||
प्रणम्यकिञ्चदुत्थाय स्वागतो कैरनन्तरम् |
मुद्राप्रदर्शनम्. |
दर्शयेत्प्रतिमामुद्रां कल्पयीत्वा च सन्निधिम् || १२२ ||
यावद्यागं स्थिति प्रार्थना. |
यागावसानिकीं तत्र प्रार्थयेत हरेः स्थितम् |
सम्मुखीकरणम्. |
सम्मुखीकरणं कुर्यात्पुण्डरीकाक्षविद्यया || १२३ ||
सपर्यासनम्. |
दद्याच्च मूलमन्त्रेण सपर्यासनमादितः |
देहवदर्चायां मन्त्रेन्यासः. |
यथा देहे तथार्चायां मन्त्रन्यासं समाचरेत् || १२४ ||
तथा देवे |
हस्तन्यासं विना मुद्राप्रदर्शनम्. |
हस्तन्यासं विना शङ्खचक्रमुद्रां प्रदर्शयेत् |
सुरसिद्धाद्यवतारितभिरे आवाहननिषेथः. |
नावाहयेदेकबेरे सुरसिद्धावतारिते || १२५ ||
आवाहयेत् |
ऋषिभिर्मनुजैर्वापि स्थापिते निश्चले हरै |
सुस्थितेऽभिमुखीभाव एवावाहनं. |
सुस्थतेऽभिमुखीभावस्त देवावाहनं हरेः || १२६ ||
निश्चिते |
यथाग्निमाहितं कुण्डे यथा वा पुरुषं स्थितम् |
काले प्रबोधयेदेवमर्चने बोधयेद्धरिम् || १२७ ||
पूजारम्भे स्थिरबिम्बे योगपीठादीनां अवश्यकर्तव्यता. |
कल्पनं योगपीठस्य मन्त्रन्यसनमेव च |
बिम्बे स्थिरे सदा कार्यं पूजारम्भे चतुर्मुख || १२८ ||
पाद्याचमनयोः स्थितं हरिंध्यायेत् |
अर्घ्यवस्त्राम्बराकल्प पुष्पगन्धानुलेपनैः |
प्रत्यर्चितं स्थितं ध्यायेत्पाद्यचमनयोःपुनः || १२९ ||
प्रदिक् स्थिते |
स्नोननै वेद्यकालयो स्सुखासीनं ध्यायेत्. |
आसीनं स्नानकाले च पद्मासनसुखासने |
नैवेद्यधूपदीपादापासीनं स्वस्तिकासने || १३० ||
अन्यतोप्रचारे स्थितमासीनं वा ध्यायेत् |
उपचारेषु चान्यत्र तत्तत्कर्मानुसारतः |
स्थितमासीनमथवा देवं ध्यायेत पूजकः || १३१ ||
पुष्पाञ्जलिः |
अर्चयामीति साम्नातु क्षिपेत्पुष्पाञ्जलिं हरेः |
विभो सकललोकेश विष्णो जिष्णो प्रभो हरे || १३२ ||
त्वां भक्त्या पूजयाम्यद्य भोगै रर्घ्यूदिभिः क्रमात् |
दिव्येनार्घ्योपचारेण यथाशक्ति यथाविधि || १३३ ||
दिव्येनेत्येकः श्लोकः क्वचिदेवास्ति |
अर्चयिष्यामि समये भगवन्तं जनार्दनम् |
इति विज्ञाव्य देवेशं यजेदर्घ्यादिभिःक्रमात् || १३४ ||
अर्घ्यादिदानकाले ध्यानप्रकारः |
भक्तिनम्रेण शिरसा दद्यादर्घ्यंच मूर्धनि |
पादारविन्दयोर्दद्यात्पाद्यं पाद्यप्रतिग्रहे || १३५ ||
ध्यायेदाचमनीयस्य दानकाले जगर्दुरुम् |
आचामन्तमिवाम्भोभि स्साक्षादम्भः प्रतिग्रहे || १३६ ||
उपचर्योपचारेण मधुपर्कादिना हरिम् |
प्रणामः |
हस्ताभ्यां शिरसा पद्भ्यां मनसा चधिया तथा || १३७ ||
अहङ्कारेण चात्मानं निपात्य धरणी तले |
अनेन प्रणिपातेन प्रणिपत्य जनार्दनम् || १३८ ||
प्रार्थना |
दसोऽहं ते जगन्नाथसवुत्रादिपरिग्रहः |
प्रेष्यं प्रशाधि कर्तव्ये मां नियुङ्क्ष्वहिते सदा || १३९ ||
इति विज्ञाप्य देवेशं परिवाराम् प्रकल्पयेत् |
योगासनाब्जपत्रेषु शक्तयः |
योगासनाब्जपत्रेषु पूर्वादिषु यथाक्रमम् || १४० ||
द्वादश द्वादशस्वेव शक्तीश्श्रीवत्सपूर्विकाः |
श्रीवत्सं वनमालां चमायां योगात्मिकां तथा || १४१ ||
वैष्णवीं विमलां सृष्टिं शक्तिमुत्कर्षिणीमपि |
प्रज्ञां सत्यां तथेशानामनुकम्पांपितामहीं || १४२ ||
पुष्टि |
प्रथमावरणे शक्तयः |
प्रथमावरणे चापि दक्षु प्रागादिषु क्रमात् |
व्याप्तिं कान्तिंचतृप्तिंचश्रद्धां विद्यां जयां क्षमाम् || १४३ ||
शान्तिंच शक्तीरष्टैताः कृत्वा चामरधारिणीः |
द्वितीयावरणस्थाः |
ततो द्वितीयावरणे सङ्खद्यायुधधारिणः || १४४ ||
पुरुषानष्ट पूर्वादिष्वानु पूर्व्येण कल्पयेत् |
रूप्येण |
तृतीयावरणस्थाः |
तृतीयावरणे स्वासु दिक्ष्विन्द्रादीन् प्रकल्पयेत् || १४५ ||
बहिरावरणस्थाः |
बहिरावरणे तार्क्ष्यं भगवत्प्रमुखं तथा |
विष्वक्सेसं तधै शान्यां द्वितीयावरणाद्बहिः || १४६ ||
तृतीयावरणे |
परिपाराणां भगवदभिमुखं स्थितिः |
परिवारा निरीक्षेरन् सर्वे प्राञ्जलयो हरिम् |
स्नानासनम् |
दद्याच्च पादुके स्नातुमुत्थानसमये हरेः || १४७ ||
इदंविष्णुरिति द्वाभ्यां पादुकारोहणं हरेः |
उद्धरेच्च हरिं स्नातुमुत्तिष्ठ ब्रह्मणस्स्पते || १४८ ||
स्मरेत् |
इतिमन्त्रेण देवेशं प्रापयेत् स्नानपीठिकाम् |
मन्त्रस्तु भद्रंकर्णेभिरिति स्नानासनासने || १४९ ||
सावित्र्या वितरेदर्घ्यं पाद्यं त्रीणिपदेति च |
आपः पुनन्त्वित्येतेन मन्त्रेणाचमनक्रिया || १५० ||
दन्तधावन काष्ठं च तद्विष्णोरिति निर्वपेत् |
अभ्यङ्गं पामदैव्येन कुर्यादुद्वर्तनं पुनः || १५१ ||
जिह्वानिर्लेखनं चैन विष्णु गायत्रि विद्यया. इतीदमर्धंक्वचिदधिकमस्ति |
कार्यं विष्णोर्नुकमिति मन्त्रेणामलकादिकं |
प्रतद्विष्णुरिति क्षाल्यमभिषेक विधिस्ततः || १५२ ||
नतेविष्णुरिति |
अपाहिष्ठेति तिसृभिरतोदेवा अवन्त्विति |
कङ्कतेन मृजेत्केशान् कलशैस्स्नपनं ततः || १५३ ||
हिरण्यवर्णां हरिणीमिति लेपो हरिद्रया |
हिरण्यवर्णां श्शुचयःपावकेति चतसृभिः || १५४ ||
क्षाल्यो सन्धाम्बुना देहः पुनस्तं कुञ्कुमेनतु |
आलिप्य विष्णुगायत्र्या क्षालमेत्पावमानीभिः || १५५ ||
ब्रह्मजिज्ञानमिति च कयानश्चित्र अभुवत् |
इत्येव मर्घ्यपाद्याद्यै र्यजेदाद्यं महेश्वरम् || १५६ ||
र्धूपदीपान्तमर्चयेत् |
परिषिच्य तु सावित्र्या सूक्तेन पुरुषात्मना |
सहस्रधारया स्नानं यद्वाकुम्भेन तद्भवेत् || १५७ ||
अग्निर्मूर्द्धेतिमन्त्रेण प्लोतेनाङ्गाम्बु निर्हृतिः |
विष्णुगायत्रिया दद्या द्वस्त्रे द्वे धौतनिर्मले || १५८ ||
अलञ्कारासनम्. |
प्रणवेन ब्रह्मसूत्रमुत्तरीयं च कल्पयेत् |
अचान्तमन्वधिष्ठाय पादुके मण्डनासने || १५९ ||
सुखासीनाय देवाय प्राग्वदर्घ्यादि नर्वपेत् |
धूपेनागुरुजे नार्द्रामूर्ध्रानं दिवैत्यृचा || १६० ||
नार्द्रां |
केशान् संशोष्य शुचिना चन्दनेन सुगन्धिना |
इदं विष्णुरिति श्रुत्या लेपनं वपुषिस्मृतम् || १६१ ||
जितं त इतिमन्त्रेण मण्डनैरपि मण्डयेत् |
पुष्पाणि दद्यात्त द्विष्णो रितिमन्त्रेण मन्त्रवित् || १६२ ||
इरावतीति मन्त्रेण पादयोरक्षतान् क्षिपेत् |
अञ्जनं विष्णुगायत्र्याव्याहृत्यादर्वणेक्षणम् || १६३ ||
जितं त इति धूपैश्च धूपयेदगुरूत्थितैः |
उद्धीप्यस्वेति मन्त्रेण दीपारोपण मिष्यते || १६४ ||
तिलान् वस्त्रं तथा हेम ताम्बुलं तण्डुलानपि |
फलानि गव्यमाघारं गाश्चध्यानं यथावसु || १६५ ||
गोग्रासं देशिकायैव दद्याद्देवस्य सन्निधौ |
अधिपस्य तथा राज्ञो राष्ट्रस्य सकलस्य च || १६६ ||
प्रजानां ब्राह्मणादीनां दानमभ्युदयावहम् |
अपनीते यवनिकापटे भक्तानुकम्पया || १६७ ||
घोषयेत्तूर्यघोषेण नृत्तं गीतं तथाचरेत् |
स्तोत्राणि च कथाश्चित्रा वेदनाङ्गानि षटे तथा || १६८ ||
पठेयुरग्रे देवस्य सर्वमन्यच्च मङ्गलम् |
भोज्यासनम् |
आचरे त्पादुके दत्वा गमयेद्भोजनासनम् || १६९ ||
दत्वार्घ्यं पाद्यमाचामं मधुपर्कं निवेदयेत् |
प्रणवेन ततो दद्या त्ताम्बूलीमास्य शोधनीम् || १७० ||
ह विर्नवेदयेत्सिद्धं भोज्यभक्ष्यादिकं तथा |
मधुराति कसोपेतं विध्युक्तं सुसमाहितेः || १७१ ||
हविर्निवेदयेत्पश्चाद्भोज्य भक्ष्यादि संयुतम्. इतिपाठः |
सुसंस्कृतैश्च निष्पन्नैर्यक्तमन्यैःफलादिभिः |
अपक्तैरपतिपक्वैश्च यथा योगं प्रकल्पयेत् || १७२ ||
मृष्टान्नैः |
राजोपचार वत्सर्वमुप चारे प्रकल्पयेत् |
प्रोक्षितं चास्त्रमन्त्रेण परिषिच्य च मर्मणा || १७३ ||
त्पूर्वमुपचारैः प्रकल्पिते |
प्रणवेनार्हणे दत्ते दहनाप्लावनादिके |
कृते च सुरभीमुद्रां दर्शयित्वाच देशिकः || १७४ ||
न्यस्तेऽर्घ्यपुष्टे संस्पृष्टे विष्णुहस्ते समाधिना |
अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु || १७५ ||
विधाय दक्षिणं जानुं भूमिसंस्पर्शगं पुनः. इति क्वचिदधिकमस्ति |
अन्नम्य पामपृष्ठेन दक्षिणेन करेण तु. इद मर्धमन्वारब्धेत्यस्य प्रतिनिधितया क्वचिद्दृश्यते |
प्रगृही तार्घ्यपुष्पेण दर्शितग्रासमुद्रया |
देवस्य त्वेति मन्त्रेण नै वेद्यं तद्यथोदिशम् || १७६ ||
देवस्य दक्षिणे हस्ते निर्वपेत्साधरस्स्वयम् |
ताम्भूलसमर्पणम्. |
दत्तेऽन्नपानके हस्ते पानीये च सुसंस्कृते || १७७ ||
कृते चाचमने दद्यात्ताम्भूली मास्यशोधिनीम् |
क्रियाकलापं पूजादै कर्मार्चायां यदीरितम् || १७८ ||
तत्सर्वं ध्रुवबेरादौ यथासम्भवमाचरेत् |
अर्घ्यादिषूपचारेषु कर्तव्येषु यथातथम् || १७९ ||
मन्त्रपूर्वेषु सर्वषु वाचमेनामुदीरयेत् |
दिव्येनार्घ्योपचारेण यथाशक्ति यथाविधि || १८० ||
अर्चयिच्यामि समये भगवन्तं जनार्दनम् |
इत्यादिकामवितथां पूजकस्सुसमाहितः || १८१ ||
चतुर्भिरेवगन्धाद्यैः परिपारार्चनं मतम् |
सर्वस्मिन्नुपचारे च स्तुत्यन्तेऽपुष्ठिते पुनः || १८२ ||
जपेच्च पूजको मन्त्रं यथोदीरितसञ्ख्यया |
द्वादशाक्षरमन्यं वा तदन्ते हुहुयाद्बहिः || १८३ ||
भूतेभ्यो बलिदानं च कुर्यान्नित्यं महोत्सवम् |
विज्ञाप्य देवदेवेशं पूजकः प्रणमेत्स्वयम् || १८४ ||
प्रणतः |
आददीतावशिष्टानि पूजावस्तूनि कृत्स्नशः |
तैरात्मपूजनं कुर्यात्तुष्येत्तेनापि केशवः || १८५ ||
मन्त्रैर्यथोक्तैराराध्य सूक्तेन पुरुषेण वा |
अथवाद्वादशार्णाद्यैर्मन्त्रैर्बिम्भमुखे हरिम् || १८६ ||
प्रपद्यते परं श्रेया निष्कामो यदि पूजकः |
कामनायास्तु काम्यानि फलानि प्रति पद्यते || १८७ ||
Kapitel 4
Lesehilfe: Kapitel 4: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
चतुर्थोऽध्यायः |
|
नित्योत्सव होमः. |
ब्रह्मा |
भगवन्नुत्सवो नित्यो होमश्चाग्नौ पुरोदितः |
स कथं पूजकैःकार्यः कथयस्व यथातथम् || १ ||
श्रीभगवान् |
द्वारस्थानग्न्यगारस्य चण्डादीन र्चयेत्क्रमात् |
अन्तः प्रविश्य शकृदालिप्ते कुण्डेऽक्षतार्चिते || २ ||
पात्रासादनम्. |
उपविश्यात्मनः पार्श्वे दक्षिणे पुष्पभाजनम् |
अन्यानि होमद्रव्याणि वामपार्श्वेतु निक्षिपेत् || ३ ||
कुण्डस्योत्तरपार्श्वेतु प्रागग्रेषु कुशेषु च |
आज्यपात्रं चरुस्थालीं प्रोक्षणिं समिधःकुकान् || ४ ||
कुण्डस्य इत्यर्धं क्वचिन्न |
प्रणीतां तण्डुलान् तोयं परिधीन् स्रुक्स्रुवै तथा |
दर्वीमग्नेर्विहरणं व्यजनानि च मेक्षणम् || ५ ||
शुष्कं च काष्ठं घण्टां च गन्धद्रव्यं च साक्षतम् |
द्वन्द्वानि च प्रयोज्यानि न्यञ्चि सत्येव सम्भवे || ६ ||
कुण्डमध्ये ततस्तिस्रोरेखाःप्रागायताः पृथक् |
तथोदगायतास्तिस्रोलिखित्वा मूलविद्यया || ७ ||
दर्भस्तम्बद्वयेनाद्भि रुभ्युक्ष्यादाय पावकम् |
मथितं लौकिकं यद्वा निधाय च विहृत्य च || ८ ||
अद्भिः परिसमूह्याग्निं परिस्तीर्य त्रिभिस्त्रिभिः |
प्रागग्रैरुदगग्रैश्च दर्भैः पञ्चभिरेव वा || ९ ||
वासुदेवादिभिर्मन्त्रैः |
सप्तभिर्नव भिर्वापि यद्वैकादशसम्मितैः |
ग्रन्थीकृताग्रैरद्वन्द्वैःपञ्चविंशतिनिष्ठितैः || १० ||
पञ्चभिर्ननभिः |
तत्राग्निमध्येऽपां पूर्णां प्रणीतामक्षतार्चिताम् |
निधाय दर्भयुग्मेन कूर्चं प्रादेशसम्मितम् || ११ ||
द्रव्याग्नि मध्ये |
निर्मायाच्छादनं तस्य त्रिभिर्दर्बैः पवित्रितैः |
कू र्चेन तेन प्रोक्षण्यां प्रणीताजलमावपेत् || १२ ||
प्रोक्षणी मात्मनश्चाग्रे सरूर्चां न्यस्य मन्त्रवित् |
अङ्गुष्ठानामिकाभ्यांतुकूर्चंतत्करयोर्द्वयोः || १३ ||
पुनराघारमुत्पूय त्रिःप्रोक्ष्य प्रोक्षणीं पुनः |
होमद्रव्याणि सर्वाणि प्रोक्षयेत्तेन वारिणा || १४ ||
स्पृशेच्च तानि द्रव्याणि नामादेशं यथा तथम् |
स्रवापयेत्प्रोक्षणीवारि प्रादक्षिण्येन तां पुनः || १५ ||
कृत्वाम्भः पूरितां देवं प्रणीतायां सभाजयेत् |
अग्नेर्दक्षिणतो दर्भकूर्च तन्मयविष्टरे || १६ ||
आवाह्य बुद्ध्या ब्रह्माणमिष्ठ्वा प्रक्षाल्य वारिणा |
विष्णुगायत्रिया स्थालीमाढकं तत्र तण्डुलान् || १७ ||
प्रक्षिप्य हृदयाद्यङ्गैः प्रक्षाल्याग्नावधिश्रपेत् |
आज्यस्थाल्यां निरूप्याज्यं द्रावितं गालितं तथा || १८ ||
तत्र प्रत्यस्य दर्भाग्रद्वयं मन्त्रेण मन्त्रवित् |
अङ्गारेषु निधायाग्नौ तां दीप्तेनाथ बर्हिषा || १९ ||
पर्यग्निकुर्यादुत्तार्य यथास्थानं निवेशयेत् |
उत्पूयोत्ल्पवनं कूर्चमद्भिस्पृष्ट्वा ह्युषर्बुधे || २० ||
प्रहृत्य चामृतीकृत्य घृतं सुरभिमुद्रया |
अवकुण्ठ्य च दिक्पाला निन्द्रादीन् पूजयेत्क्रमात् || २१ ||
उष्णोदकेन प्रक्षाल्य स्रुक्स्रुवै कुशपञ्चकम् |
कूर्चमादाय तौ तेन मूले मध्ये च मूर्धनि || २२ ||
सम्मृज्य कूर्चमूलेन मध्येनाग्रेण चक्रमात् |
निष्टप्याग्नौ निधातव्यै तावुदीच्या मथात्मनः || २३ ||
सुव्रेणाज्यं समादाय होमवस्तूनि सेचयेत् |
चरुं चाज्येन संसिच्य पार्श्वेतमवरोपयेत् || २४ ||
चरोश्चातुर्विध्यम्. |
केवलान्नं तथा मौद्गं पायसान्नं गुलोदनम् |
चतुर्विधश्चरुर्ज्ञेयः पाकश्चुल्यामपीष्यते || २५ ||
यादृङ्नि वेद्यते बिम्बेहोतव्यश्चापि तादृशः |
उदक् संस्थाः परिधयः प्रत्यगारम्भणा स्तथा || २६ ||
निधातव्याश्शिखीशानकोणयो स्समिधौ तथा |
ऊर्ध्वे निधाय मनसा ध्यायन्निध्मान् प्रजापतिम् || २७ ||
एकतोग्रान् सकृत्सञ्चदशोक्तान् मुष्टिमुद्रया |
आदध्यादाज्यपात्रं च कुशमार्चेन वेष्टिते || २८ ||
समित्पञ्च |
वामे करे निधायाग्नावाघाराहुतिमाचरेत् |
प्राजापत्यं तथाचैन्द्रमाज्य भागमथाचरेत् || २९ ||
आग्नेयं दक्षिणे भागे सौम्यं भागमथोत्तरे |
मध्येव्याहृतिभिर्हुत्वास्मरेदग्नि मनन्तरम् || ३० ||
अग्निध्यानम्. |
द्विशीर्षकं सप्तहस्तं त्रिपादं सप्तजिह्वकम् |
वरदं शक्तिपाणिं च बिभ्राणं स्रुक्स्रुवै तथा || ३१ ||
अभीतिदं चर्मधरं वामे चाज्यधरं करे |
जिह्वाभेदेन होमफलभेदः. |
जिह्वायां दक्षिणे वक्त्रेधूम्रायां मारणादिकम् || ३२ ||
लोहिन्यां तु वशीकारः काल्यां कर्म च शान्तिकम् |
सर्वसिद्धि स्स्फुलिङ्गिन्या मानने दक्षिणेतरे || ३३ ||
विश्वरूपरसज्ञाया मणिमादि महाफलम् |
करालिका विजयदा पुष्टिदा च मनूजवा || ३४ ||
कार्ष्ण्यं लौहित्यमेतासां वर्णश्यामत्वमेव च |
स्फुलिङ्गरूपं चततो वर्णस्स्फटिक सन्निभः || ३५ ||
तपनीयनिभः फ्रोक्तो जिह्वानामानु पूर्वशः |
तिलानाघार समिधो जुहुया ज्जातशान्तये || ३६ ||
निभा |
सम्मिश्रान् |
ज्जड |
अष्टोत्तरशतं वारान् द्वादशाक्षरविद्यया |
पूर्णाहुत्यवसाने तु ध्यात्वा ज्वलसमर्चयेत् || ३७ ||
गन्धाद्यैरात्मनू दद्यादक्षतानि च वर्मणा |
परिषिञ्चेज्जलेनाग्निं तन्मध्ये योगपीठिकाम् || ३८ ||
कल्पयीत्वा च तन्मन्त्रैर्जुहुयात्सर्पिषा सकृत् |
अत्रावतार्य हृदयाच्चि द्रूपं परमेश्वरम् || ३९ ||
सकलीकृत्य मन्त्रस्य न्यासं कुर्याद्यथाविधि |
अर्घ्यपूर्वं निवेद्यान्नं नर्पिषा जुहुयात्सकृत् || ४० ||
निवेद्यान्तम् |
जपार्थं च सकृन्मन्त्रैर्जुहुयात्सर्पिषा ततः |
समिद्भिर्वा दलैः पुष्पैर्बीजैर्वाप्यथ वाफलैः || ४१ ||
तिलैः पुष्पैः |
परिवारार्थमप्येवं सर्पिषा जुहुयात्सकृत् |
आराधनं हरेरेतत्सप्तार्चिषि चतुर्मुख || ४२ ||
आराधनं चेदन्यत्र प्रतिमादावनन्तरम् |
जुहुयात्समिदाद्यैस्त्रेर्वक्ष्यमाणेन वर्त्मना || ४३ ||
समिधामायामनहनादि स्वरूपविपर्यासे फलम्. |
आयामस्समिधां तालं कनिष्ठा नहनं क्रमात् |
चर्महीने विनाशस्स्याद्भेदे क्षीणं कुलं भवेत् || ४४ ||
आर्द्रासु बन्धुनाशस्स्यात्पुत्रनाशः पुरातने |
क्षतासु भार्यामरणं कलहाय च शाखिनी || ४५ ||
उद्वेगाय भवेत् स्थूला ह्रास्वाऽवग्रहकारिणी |
दीर्घाति वृष्टि जननी त्याज्या दोषयुता समित् || ४६ ||
पुष्ठिकरणी |
समिधां सङ्ख्या. |
शतं तदर्धं पादं पा समिधोऽष्टौ यथोदिताः |
तदर्धं वा घृताक्तास्ता जुहुयान्मूलविद्यया || ४७ ||
आज्यावसिक्ताश्चत्वारः प्रत्पृचं ग्रासमुद्रया |
नृसूक्तेन च होतव्या मूलमन्त्रेण सर्पिषा || ४८ ||
शतादिसङ्ख्यया होमो ध्यात्वा परमपुरुषम् |
स्रुवेण जुहुयादाज्यं हस्तेव समिधं पुनः || ४९ ||
चरुं पलाशपात्रेण यद्वा हस्तादिना भवेत् |
हुत्वा पुर्णाहुतिं पूर्वं ततश्शान्तिं प्रकल्पयेत् || ५० ||
होमद्रव्याणां फलम्. |
यज्ञवृक्षोद्भवैश्शान्निस्सौभाग्यं कुसुमैश्शुभैः |
धूपद्रव्येस्सदारोग्यं पुष्टिं दध्ना पयश्शुचि || ५१ ||
अन्नेन विविधान् कामानाज्येनायुष्मतीः प्रजाः |
श्वेतपद्मैस्तु जुहुयादिच्छन् ब्रह्मश्रियं नरः || ५२ ||
लक्ष्मीपुष्पैस्तु जुहुया ल्लक्ष्मीकामोऽथ वारुणैः |
पद्मैर्बिल्व समिद्भिर्वा ज्ञानकामस्तु सर्पिषा || ५३ ||
कन्याकामः कालपुष्टै र्गोकामो गोमयैः पुनः |
आयुष्कामस्तु दूर्वाभिर्भूतिकामस्तु मृत्स्नया || ५४ ||
यवाग्वेन्द्रियकामस्तु तिलैस्सर्वजनप्रियः |
ब्रह्मवर्चकामस्तु ब्रह्मवृक्षसमुद्भवैः || ५५ ||
वेणुभिश्च यवैश्चैव नीवारैश्शालिभि स्तथा |
सर्वे कामाःप्रसिद्ध्यन्ति होतुर्भीजैर्यथोदितैः || ५६ ||
लाजहोमेन सिध्यन्ति सर्वे कामा न संशयः |
अन्तेकन्नादिकामस्तु पुत्रकामस्तु पायसैः || ५७ ||
निम्बपुष्पै र्हिरण्यार्थी सर्वं सिध्यति सर्पिषा |
होमार्थद्रव्यपरिमाणम्. |
होमे सर्पर्मधुक्षीरधारा स्याच्चतुरङ्गुला || ५८ ||
शुक्तिर्दध्याहुतिर्ग्रासं पायसाज्याहुतिर्भवेत् |
भक्ष्याहुति स्तदर्धं स्यात्फलैः पुष्पैरखण्डितैः || ५९ ||
भक्ताहुति |
निष्पावबीजमाना तु धूपद्रव्याहुतिर्भवेत् |
तिलव्रीहि यवाद्येस्तु मुष्ट्यर्धार्धाहुतिः क्रमात् || ६० ||
अष्टाङ्गुला तदर्धावा समिद्धूर्वा षडङ्गुला |
मृद्वीकाऽक्षप्रमाणा तु गोमयाहुतिरिष्यते || ६१ ||
पूर्णाहुतिर्घृतस्य स्यात्कुडुबेन चतुर्मुख |
न्यूनाधिकप्रमाणां तु हव्यकव्याहुतिं कृताम् || ६२ ||
भुञ्जन्ति दानवा दैत्या न फलाय च कल्पते |
कुक्कुटाण्ड प्रमाणं तु चरोः पिण्डं घृताप्लुतम् || ६३ ||
निक्षिप्य चस्रुचोर्गते अभिघार्य स्रुवेण च |
ससमिद्दर्भकुसुमं जुहुयान्मूल विद्यया || ६४ ||
प्रायश्चित्तार्थमाज्येनपढञ्चोपनिषदा पुनः |
स्रुचमाज्येन सम्पूर्य सदर्भं समिधान्वितम् || ६५ ||
उद्धृत्य नासिकाग्रान्तमभिघार्य स्रुवेण च |
जाहुयान्मूलमन्त्रेण पूर्णाहुत्यातु साधकः || ६६ ||
स्रुचं जलेन सम्पूर्य बहिः कुण्डात्प्रदक्षिणम् |
सेचयेद्वा विशेषं तु निनयेच्छिरसि स्वयम् || ६७ ||
भस्मना तिलकं कृत्वा हरिमग्ने स्समुत्सृजेत् |
गृहित्वार्घ्यं प्रदद्याच्च धाम्नि देवाय पूजकः || ६८ ||
भक्त्या यदग्नौ विहितं यथाशक्ति यथाविधि |
आराधनं तदेवति गृहाणि वरमेश्वर || ६९ ||
अग्नि कार्यविधिर्ह्येष सङ्क्षेपात्कथितोमया |
विधिनानेन यःकुर्या दग्निकार्यं दिने दिने || ७० ||
Kapitel 5
Lesehilfe: Kapitel 5: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
पञ्चमोऽध्यायः |
नित्योत्सव विधिः. |
श्रीभगवान् |
अथ नित्योत्सवविधिं कथयामि चतुर्मुख |
सर्वदुःखहरं पुंसां सर्वभूत प्रहर्षणम् || १ ||
राष्ट्रस्य राज्ञो ग्रमस्य यजमानस्य सद्मनः |
सुखावहं शान्तिकरं पुण्यमायुर्विवर्धनम् || २ ||
आवाह्य तण्डुले शुद्धे पार्श्वस्थे परमेश्वरम् |
शक्तिभिर्दशभिर्द्वाभ्यां सह प्रातर्दिने दिने || ३ ||
परिक्रमेदायतनं मध्याह्ने त्वन्न कल्पिते |
सायं कुसुमसङ्घाते त्रिसन्ध्यं त्रिषु कल्पयेत् || ४ ||
बिम्बेन वा परीयायात्त्रि सन्ध्य मनुवासरम् |
अथवान्नेन मध्याह्ने कालेऽन्यत द्वये र्चना || ५ ||
वाथ पर्यायात्त्रिसन्ध्यमनुसारतः |
त्रिसन्ध्य मथवान्नेन कुर्यान्नित्योत्सवं हरेः |
मध्यन्दिने वा सर्वार्थं परिक्रम्य बलिं क्षिपेत् || ६ ||
यद्वोत्सवप्रतिकृते रन्वगग्रेऽथवा भवेत् |
त्रिसन्ध्यं चामरं छत्रं वि तानध्वज संयुतम् || ७ ||
हरेत् |
पञ्चावरण बलिदानम्. |
तण्डुलादिकमन्नं वा केवलं कमलासन |
पञ्चावरणके धाम्नि पञ्चस्वावरणे ष्वपि || ८ ||
बलिं दत्वा पर्यटनं गेयवाद्य पुरस्सरम् |
आवरणभेदेन उत्सवतारतम्यम्. |
उत्सवं प्राहुरुत्कृष्टमेकोनं मध्यमं विदुः || ९ ||
द्व्यूनेऽधमं जघन्यं त्रिन्यूने क्षुद्रमथेतरे |
बलिप्रदानेन विना नोत्सवोऽभ्युदयावहः || १० ||
परिचारक लक्षणम्. |
शुक्लाम्बरधरं सौम्यं शुक्लयज्ञोपवीतिनम् |
सोत्तरीयं च सोष्णीषं स्वनुलिप्तमलङ्कृतम् || ११ ||
परिचारकमाहूय भावितं गरुढात्मना |
तन्मूर्धनि च पात्रस्थे तण्डुलेऽन्ने प्रसूनके || १२ ||
देवमावाहयेन्मूल बेरादाराधक स्स्वयम् |
इष्ट्वाच गन्धपुष्पाद्यैस्तत्र देवं यथाविधि || १३ ||
विष्ण्वादिमूर्तीश्चपुनः पूजयित्वा प्रदक्षिणम् |
प्रागाद्येषु द्वादशनु पात्रस्थेषु दलेषु च || १४ ||
सूक्तं सर्वं स्वस्त्ययनं तथान्यच्चापि मङ्गलम् |
पठन् पात्रं चबिभ्राणो व्रजेच्च परिचारकः || १५ ||
चण्डप्रचण्डुप्रमुखान् द्वारपालान् प्रपूजयेत् |
बलिदाने तालनृत्तादि व्यवस्था |
घोषयेन्मल्लतालाद्यैर्बलिदान पुरस्सरम् || १६ ||
नृत्तं तु वैजयन्ती स्यादृषभं गेयमिष्यते |
वितान धवलच्छत्र चामर व्यजनादि भिः || १७ ||
परिक्रमेत बल्यर्थं सर्वानावरणान् क्रमात् |
पीठं प्रदक्षिणीकृत्य प्रविशेदालयं पुनः || १८ ||
तंतु प्रदक्षिणीकृत्य प्रविशेद्गर्भमन्दिरम् |
दत्वार्घ्यां मूलमन्त्रेण मूलबेरे समुत्सृजेत् || १९ ||
तद्वत् |
पाद्यमाचामं मूलबेरे नियोजयेत् |
बलिशेषं क्षिपेत्किञ्चि द्विष्वक्सेनस्य मूर्धनि |
परिशिष्टं महापीठे निक्षिपेदक्षतादिकम् || २० ||
नित्योत्सवे बलिबेरं याने शिरसि वा आरोप्य परिब्रणम्. |
नित्योत्सवश्चे दारोप्य तद्बिम्बं शिबिकादिषु |
आरोप्य यद्वा शिरसि परिभ्रमणमिष्यते || २१ ||
द्बिम्बेन |
बलिबेरभ्रमणे नृत्तातो द्यादिभेदः. |
आतोद्यनृत्तैर्बहुधा भिद्यमान्ते स्समधितम् |
तत्र नृत्तं बहुविधं तानि वक्ष्ये समासतः || २२ ||
विलासं कर्तरी विष्णुक्रान्तमालीढमङ्गलम् |
भद्रमाली तार्क्ष्यपक्षौकरणं स्वस्तिकाह्वायम् || २३ ||
चारी प्रचारी सूची च सावर्तं पारिभद्रकम् |
सौम्यं विषमसूची च खेटकं चावकुञ्चितम् || २४ ||
संवर्तं |
विषमसूरी |
कटिबन्धमलङ्कार मश्मरी पृष्ठकुट्टिमम् |
उल्लङ्घिवामजान्वाख्य मासूरी चापवेष्टितम् || २५ ||
पृष्ठाकुट्टकम् |
माधुरी |
वासरेश्वरसञ्चारीभावै स्यातां निकुट्टिमौ |
कुट्टिमं घटितं स्थायीभावो यच्च विजृम्भितम् || २६ ||
मण्डलं कुञ्चितार्धादि पताका सर्वमङ्गलम् |
कान्तारकुट्टिमाह्वानं प्रपूर्वं घटितं तथा || २७ ||
विलासं सर्वतो भद्रं शुद्धं कुञ्चित मिष्यते |
मार्गचारी कराधीन मावभास मनन्तरम् || २८ ||
विगात्रं |
मानभाल |
आवेष्टितं परीवर्तं निर्धूतं देशिमण्डलम् |
समपूर्वंच घटितं पदं विषमपूर्वकम् || २९ ||
गदितम् |
कर्करीकविलासश्च भवेद्विगलितं तथा |
नृत्तभेदाः पृथग्भावा गात्रावयव चेष्टितैः || ३० ||
आतोद्य गीतिभेदाना मानन्त्यान्नेह तन्यते |
खगेश प्रियं नृत्तम्. |
पुष्पप्रभासमोपेतं ध्वजच्छत्रादि संयुतम् || ३१ ||
गीयते |
नृत्तं गेयं च मध्यमम् |
सर्ववादित्रसुभगं सर्वगेय समेधितम् |
ब्रह्मविद्ब्रह्मघोषेण सहितं दीपसङ्कुलम् || ३२ ||
विष्णुक्रान्तं खगेशस्य नृत्तं गेयं च मध्यमम् |
पुरुहोतादि प्रियं नृत्तम्. |
विलासं सर्वतोभद्रं खेटकं चक्रमण्डलम् || ३३ ||
कान्तारं कुट्टिमं पृष्ठकुट्टिमं कटिबन्धनम् |
पामजानूर्ध्वनृत्तं च पुरुहोतादिषुस्मृतम् || ३४ ||
पुरुहोतादीनां प्रियस्स्वरः. |
षड्जर्षभौच गान्धारो मध्यमः पञ्चमस्तथा |
ध्यैवतश्त्चेव निषधः पुरुहूतादिषु स्वरः || ३५ ||
भवस्य प्रियस्स्वरः. |
सप्तज्ञेया धैवतस्तु भवस्य स्वर इष्यते |
विष्वक्सेनस्य प्रियौ नृत्तस्वरौ. |
नृत्तं तु विष्वक्तेनस्य स्वस्तिकं वृषभस्स्वरः || ३६ ||
गणेश प्रियनृत्तस्वरौ. |
हस्तिनृत्तं गणेशस्य स्वरःपञ्चम इष्यते |
धैवतस्स्यात्स्वरो नृत्तं दुर्गायास्सर्व मङ्गलम् || ३७ ||
अन्येषां देवानां प्रियनृत्तस्वराः. |
अन्येषामपि देवानां नृत्तं स्यात्सर्वमङ्गलम् |
गानं च धैवतं प्रोक्तं गान्धारं पङ्चमं तथा || ३८ ||
तदवान्तरभेदा वा गेया गेयविचक्षणैः |
दिग्भेदेन तालभेदः. |
समतालाह्वयं पाद्यमैन्द्र्यं दिशि हविर्भुजः || ३९ ||
बद्धावतालाभिधानं यमस्य दिशि शृङ्गिणी |
नैरृत्यां मल्लतालं स्याद्वारुण्यां मङ्गलाह्वयम् || ४० ||
वायव्यां जयतालाख्यं कौबेर्यां भद्रसंज्ञितम् |
ऐशान्यां कर्करीतालं |
तार्क्ष्यस्य प्रियं तालम् |
तार्क्ष्यस्य गरुडाह्वयम् || ४१ ||
भूतानां प्रियं तालम्. |
भूतानां बलितालाख्यम् |
सेनेशस्य प्रियं तालम्. |
सेनेशस्यापि तादृशम् |
अन्येषां देवानां प्रियं तालम्. |
अन्येषामपि देवनां तालं भद्रं प्रशस्यते || ४२ ||
दिक्षु सर्वासु सर्वेषु मन्दिरावरणेषु च |
नृत्तं गेयं च वाद्यं च साकल्येन समीरितम् || ४३ ||
ध्वजदर्शन मङ्गलाष्टक बलिदान भक्ष्यादिनिवेदनम्. |
खगध्वजं दर्शयीत्वा मङ्गलाष्टकमेव च |
सन्निधाने च देवस्य सर्वत्र बलिरिष्यते || ४४ ||
निवेद्यं तत्र ताम्बूलं भक्ष्यं च पृथुकादिकम् |
नर्वेष्वा वरणेष्वेवं स्थानं प्रति समाचरेत् || ४५ ||
नैवेद्यम् |
शङ्खनादमात्रेण प्राकारद्वारनिर्गमः. |
केवलाम्बुजनादेन प्राकारद्वारनिर्गमः |
महापीठे बलिप्रदानम्. |
निर्गम्य च महापीठे मन्दिराभिमुखं स्थितः || ४६ ||
दीक्षु सर्वासु पीठस्य पादित्रे घोषि ते भृशम् |
क्षालिते पीठिकामूर्द्नि पूजयेद्विष्णु पार्षदान् || ४७ ||
बलिं निरवशेषेण दत्वा पीठस्य मूर्दनि |
पीठं परीत्य धामान्तः प्रविश्य मुखमण्डपे || ४८ ||
देवस्य यानादितोऽपरोपणम्. |
प्रदाय पादुके पीठे यानादेरवरोप्यच |
प्रङ्मखं विष्टरे देवमवस्थाप्य सभाजयेत् || ४९ ||
देवस्य गर्भगेहप्रवेशनम्. |
उपहार मशेषेण प्रदायावसरोचितम् |
प्रवेशयेद्गर्भगेहं देवमाराधक स्स्वयम् || ५० ||
वाद्यादिन्यूनता समाधानर्थं ताण्डवम्. |
वाद्ये गेये तथा नृत्ते बहिरङ्गण भूमिषु |
न्यूनीभावं समाधातुं शुद्धे ताण्डवमाचरेत् || ५१ ||
महावातादिसंक्षोभेनित्योत्सवप्रतिषेधः. |
महावातादि संक्षोभेन नित्योत्सवमाचारेत् |
बलिप्रदानमात्रं तु कुर्याच्च सति सम्भवे || ५२ ||
नबिं चण्डे प्रचण्डे तु केवलं वा विनिक्षिपेत् |
तयोर्मध्येतु पुरतो मूलमन्त्रेण साधकः || ५३ ||
भूतेभ्यो नम इत्येवं पक्षिपेत्सोदकं बलिम् |
आराधन कालभेदः. |
आराधन विधिर्ह्येषु कालभेदेषु शस्यते || ५४ ||
अह्नि कात्रौ च तान् ब्रह्मन्नधुना कथयामि ते |
एकस्त्रयो वा षड्वापि कालि द्वादश एववा || ५५ ||
पञ्च कालश्चतुष्काल स्तत्कालो बहुधा मतः |
यथाविभवमुद्दिष्टं समाराधन कर्मणि || ५६ ||
एको मध्याह्नसमयः प्रातर्मध्यन्दिनं निशा |
त्रयश्चेत् षट्सुपूर्वेक्ताः कालभेदाः पुनस्त्रयः || ५७ ||
त्रयं च. क. त्रयश्चेत् षट्सु पूर्वोक्त स्ततः कालचतुष्टये |पञ्च काला इमे प्रोक्ताः कालभेदाः पुनस्त्रयः. इति कोशान्तरम् |
मध्यरात्रोऽप राह्णश्च तथा प्रत्यूष ईरितः |
प्रत्यूष श्चार्धरात्रं च प्रातर्मध्यन्दिनं निशा || ५८ ||
पञ्चकाला इमे प्रोक्तान्सतःकालचतुष्टयं |
एकेन हीनः प्रत्यूषो विज्ञेयश्छतुरासन || ५९ ||
कालानां नाडिकामानम्. |
काला द्वादश विज्ञेयाः पञ्च पञ्च च नाडिकाः |
इतरे कालभेदास्तु प्रत्येकं याम सम्मिताः || ६० ||
आराधनभेदाः. |
उत्सवावसितं श्रेष्ठमाराधन मुदाहृतम् |
होमान्तं मध्यमं प्रोक्तं प्रापणान्त मथाधमम् || ६१ ||
क्षुद्रं तु धूपदीपान्त मधमारधनं भवेत् |
स्नानार्चन नृत्तगेयादीनां घटिकामानम्. |
घटिके द्वे भवत् स्नाने घटिकै कार्चने भवेत् || ६२ ||
नृत्तगेये तथा चैका तधर्धेन निवेदनम् |
होमे चैका चोत्सवे द्वे शुद्धनृत्तावसानिके || ६३ ||
प्रभातकाल पूजायां स्नानादि विधिरीदृशः |
घटिका स्नानसमयस्तथार्ध घटिकार्चनम् || ६४ ||
प्रकारकालभेदोयं |
गेयनृत्तस्य घटिका तदर्धेन निवेदनम् |
होमार्धे परिशिष्टस्तु भवेन्नित्योत्सवेक्षणः || ६५ ||
होमार्धे परिशिष्टार्धं भवेन्नित्योत्सवक्रिया |
कालभेदेषु कालत्रयं श्रेष्ठम्. |
कालभेदेषु सर्वेषु श्रेष्ठं कालत्रयं विदुः |
प्रातर्मध्यन्दिनं रात्रि र्मुख्यं च कमलासन || ६६ ||
उक्तकालत्रये बलिनित्योत्सव योरवश्यंभाविता. |
आवश्यं भाविनौ तेषु बलिनित्योत्सवापुभौ |
होमपर्यन्तमन्यत्र कारभेदेषु शस्यते || ६७ ||
उत्सवाद्यङ्गबिम्बानां सर्वकालेषु पूजनम्. |
उत्सवाद्यङ्गलिम्बानि सेनान्यं विहगेश्वरम् |
चण्डप्रचण्डै द्वारस्थौसर्वकालेषु पूजयेत् || ६८ ||
वाद्यपादनकालः. |
मध्यन्दिने प्रदेषे च पुरस्ताद्वाद्य वादनम् |
नीराजनकालः. |
नीराजयेत्प्रदोषेषु देवं |
नीराजनपात्रादि निरूपणम्. |
तदपि कथ्यते || ६९ ||
स्वर्णपात्राणि युग्मानि विपुलानि तथावसु |
तन्मध्ये सालिपृष्ठेषु पर्तिदीपान् तप्रदीपयेत् || ७० ||
प्रकल्पयेत् |
स्त्रीभिश्श्रेणीनन्धेन दीपधारणन्सासौ. |
तथाविधानि पात्राणि करैरुद्धृत्य योषितः |
कल्याणवस्त्राभरणा निर्गताश्च महानसात् || ७१ ||
श्रेणीबन्धाः पुरोगीत नृत्त वाद्यसमन्विताः |
अन्तिके देवदेवस्य विन्यसेयु र्महीतले || ७२ ||
वाद्यादिभिस्सह |
दीपपात्रार्चनम्. |
आधारेषु ततः पात्राण्यर्चये द्विश्वविद्यया |
दीपप्रापणविधिः. |
आचार्योध्रुवभेरादै षडङ्गन्यासमाचरेत् || ७३ ||
इष्ठ्वा च देवमर्घ्याद्येर्दीपपात्राणि पूजकः |
उद्धृत्य भ्रामयेद्देव मापादतलमस्तकम् || ७४ ||
Kapitel 6
Lesehilfe: Kapitel 6: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
चर्यापादेषष्ठोऽध्यायः |
षष्ठोऽध्यायः |
|
पुरुषसूक्तन्यासः. |
ब्रह्मा |
सूक्तस्याङ्गेषु भगवन् पौरुषस्य कथं भवेत् |
न्यासः कथं वा तेन त्वामर्चयामि यथा मम || १ ||
पृच्छत स्संशयानस्य गृहार्चन विधिक्रमः |
याथातथ्येन वक्तव्योमयि चेदस्त्यनुग्रहः || २ ||
विधिःकथम् |त्वया तथ्येन |
श्रीभगवान् |
छन्दोऽनुष्टु बृषि स्तस्य वासुदेवस्स देवता |
मूर्ध्निफाले नयनयो र्नासिकायां तथा मुखे || ३ ||
गले भा ह्वोश्च हृदये नाभावङ्गे च मेहने |
ऊर्वोश्चरणयोर्न्यानः प्रथमादि ऋचां क्रमात् || ४ ||
ऋचामावाहनादौ विनियोगः. |
आद्ययाऽवाहयेद्देव मासनं च द्वितीयया |
पाद्यं तृतीयया चार्घ्यं चतुर्थ्या वितरेदृचा || ५ ||
पङ्चम्याचमनं स्नानं षष्ठ्या सप्तऋचाम्बरम् |
उपवीत मृचाष्टम्या नवम्यागन्धेलेपनम् || ६ ||
पुष्पं दशम्येकादश्या द्वादश्या धूपदीपकौ |
निवेदनं त्रयोदश्या चतुर्दश्या नमस्कृतिः || ७ ||
प्रदक्षिणं पङ्चदश्या षोडश्योद्वासनं हरेः |
होमद्रव्याणि. |
समिधन्नाज्य होमश्च प्रत्यृचं जातवेदसि || ८ ||
स्वगृहे पूजयेद्विष्णु शुचौ देसे गृहे क्वचित् |
आवाहनाधार वस्तूनि. |
स्थले रत्नमयस्थाने विमाने च तथाविधे || ९ ||
रत्नमये ध्याते. ध्यात्वा |
अप्स्वग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च |
आवाहन प्रकारोपचारौ. |
पुष्पोदपात्रमादाय तिष्ठन्नावाहयेद्धरिम् || १० ||
ओंभूरादि व्याहृतिभिः प्रत्येकं पुरुषोत्तमम् |
व्यस्ताभिश्च समस्ताभिः वेदाद्येनासनं ततः || ११ ||
ओंपूर्वादि |
पात्रस्थमम्भस्सावित्र्या अभिमन्त्र्य पवित्रकम् |
तदघ्यं विष्णुगायत्र्या दद्यात्त्रीणिपदेत्यृचा || १२ ||
पाद्यमाचमनीयं च प्रणवेन प्रकल्पयेत् |
मन्त्रैस्स्नपनमब्लिङ्गैरङ्गं च विमृजेत्ततः || १३ ||
व्याहृत्याप्लोतवस्त्रेण जितन्त इति विद्यया |
वासो विद्यादिना दद्यादुपवीतं च लेपनम् || १४ ||
वेदादिना |
इदं विष्णुरिति प्रोच्यप्रणवेन प्रसाधनम् |
तद्विष्णोरिति पुष्पाणि जितन्त इति धूपकम् || १५ ||
उद्दीप्यस्वेति दीपं च देवस्य त्वेति वै हविः |
वासुदेदादिमन्त्रैश्च मत्स्याद्यैः केशवादिभिः || १६ ||
पुष्पाणि दद्याद्ध्यात्वाचतांतां मूर्तिं यथायथम् |
चतुर्मुखादीनां गृहेन स्वातन्त्य्रेणार्चनम्. |
चतुर्मुखादि देवानां परिवारतयार्चनम् || १७ ||
दत्वा |
न स्वातन्त्र्येण यष्टव्यः वैष्णवेन गृहार्चने |
जप्तव्यसूक्तानि. |
जपकाले नृसूक्तं वा द्वादशाक्षरमेव वा || १८ ||
अष्टाक्षरं वा यद्वान्यं मन्त्रं प्रणवमेव वा |
जपेत्समाहितमना यद्वा त्रय्यन्त गोचरान् || १९ ||
गृहार्चने फलम्. |
यो नित्यं पूजयेद्विष्णुं गृहस्थो वेश्मनि स्वयम् |
स नयेत्स्व कुलोद्भूतान् पुरुषानेकविंशतिम् || २० ||
विष्णोः पदं वा सालोक्यं यद्वान्य दभिवाञ्छितम् |
१२८ उपचाराणां नामानि. |
उपचारा हरेदद्य सपर्या विधिगोचराः || २१ ||
अष्टोत्तरशतं विंशच्छ्रुता ये मन्मुखोद्गताः |
आवहनासनोपचाराः. |
अवहन नमस्कारौ प्रत्युत्थान मनन्तरम् || २२ ||
पुष्पाञ्जलि स्स्वागतोक्ति रासनं पादपीठिका |
अर्घ्यं पाद्यं प्रतिग्राहः पाद्यप्लोताभि मर्शनम् || २३ ||
आलेपनं चरणयोश्च न्दनक्षोदवारिणा |
अपामाचमनीयं तु प्रतिग्रहण दर्शनम् || २४ ||
उपस्पर्शन मालेपश्चन्द नाद्यम्बुचर्चया |
पुष्पमाला धूपदानं मधुपर्क निवेदनम् || २५ ||
घनसारो नागवल्ली |
स्नानासनोपचाराः. |
स्नानविष्टर गोचराः |
पादुरे स्नानपीठं च स्नानशाटक मन्वतः || २६ ||
दन्तकाष्ठ मथादर्शो जिह्वानिर्लेखपट्टिका |
ताम्बूलविटिका वस्त्रमपरार्धप्रसारितम् || २७ ||
अभ्यङ्गो मौलिमाला च तालवृन्तमनन्तरम् |
चन्दनोद्वर्तनं तन्वा गन्धामलकवारि च || २८ ||
कङ्कतं कजनीस्नानं वस्त्रं गन्धानुलेपनम् |
उत्तरीयं पवित्रं च नृत्तंगेय मनन्तरम् || २९ ||
वाद्यं दशशतैश्छिद्रैस्स्नानं धाराभि रर्णसाम् |
नीराजनं शिरःप्लोत मुष्णीषं प्लोतपाससा || ३० ||
रेव च |
अङ्गाभिमर्शनं वस्त्र मुपवीत मनन्तरम् |
उत्तरीयं त्रिंशदेते कथिताः कमलासन || ३१ ||
अलङ्कारासनोपचाराः. |
अलङ्कारासनस्थस्य हरेस्तत्काल गोचराः |
उपचारा श्शिरस्त्राणं पीतकौशेय वाससा || ३२ ||
धारणम् |
कर्पूर रजसाऽमौलि चापादान्त मनन्तरम् |
कस्तूरिका मृगमदं चन्दनेनानुलेपनम् || ३३ ||
लेपमापाद तलमस्तकम् |
व्यजनं चामरप्यूहौःकुङ्कु मेनानुलेपनम् |
गन्धं च कृत्रिमा भूषा ब्रह्मसूत्र मनन्तरम् || ३४ ||
प्रकल्पनम् |
उत्तरीयं मौलिमाला भाहुमालाविलम्बनम् |
मृत्स्नया तिलकं कुर्यादञ्जनं च शलाकया || ३५ ||
तूर्ध्वपुण्ड्राङ्कमञ्जनम्. तिलकं चोर्ध्वमञ्जनम्. इति च पाठौ |
पुष्पावकिरणं ब्रह्मन् महादर्शप्रदर्शनम् |
ताम्बूलिका धूपदीपौ शालितण्डुल मात्रिका || ३६ ||
मात्रया |
स्वाध्यायाध्ययनं दानं नाट्यं वेणु निनादनम् |
वीणादिवादनं पाठो मङ्गलाना मनन्तरम् || ३७ ||
नीराजनं च पिण्डानां पङ्चानां क्षेपणं दिशि |
यात्रासनोपचाराः. |
यात्रासनोपचारास्तु हरेसत्त्काल गोचराः || ३८ ||
निशि |
उपानहौ चामराणि मुक्तातप निवारणम् |
मयूरपिङ्छव्यजनं तालवृन्तं रथो गजः || ३९ ||
अश्वश्च शिबिकायानं वैनते यध्वजोन्नतिः |
क्रीडायष्टिश्च ताम्बूली क्रिडाफलसमृद्धयः || ४० ||
एवं पङ्चदश प्रोक्ता यात्रासनगताः परम् |
भोजनासनम्. |
भोजनासनमारूढे हरौ तत्कालगोचराः || ४१ ||
परे |
मधुपर्कं च ताम्बूलं वीटिका मुखशाटिका |
अर्हणाम्भः पायसान्नं मुद्गान्नं च गुलोदनम् || ४२ ||
दध्योदनं पानकं च पानीयं हस्तशाटकम् |
शुद्धिक्च करयो रेलाचन्दनक्षोदवारिणा || ४३ ||
रेनम् |
सुखासीने च दाशार्हे चन्दनोदकचर्चया |
अज्गेष्वालेपनं माल्यमपूव पृथुकास्तथा || ४४ ||
सक्तनस्तिलपिण्डाश्च फलानि क्वथितं जलम् |
नालिकेराम्बुदानं च ताम्बूलीदलवीटिका || ४५ ||
प्रदक्षिण नमस्कारस्तु तिरात्म निवेदनम् |
अर्घ्यमुद्वासनं चैते शतमष्ठा च विंशतिः || ४६ ||
उपचारा हरेर्ब्रर्ह्म विस्तरेण प्रदर्शिताः |
चतुष्षष्टि रुपचाराः. |
आपाहन नमस्कारौ सपर्यासन मन्वतः || ४७ ||
पादपीठं तथैपार्घ्यं पाद्यनीर प्रतिग्रहः |
पाद्यमाचमनीयाम्भः प्रतिग्रहणमेव च || ४८ ||
अचामो मुखवासश्च पादुके स्नानविष्टरम् |
स्नानशाटी दन्तकाष्ठं जिह्वानिर्लेखनं तथा || ४९ ||
ताम्बूलाभ्यङ्जनं चैव व्यजनं चाङ्गपेषणम् |
गन्धामलकजं स्नानं कङ्कतेन विशोधनम् || ५० ||
रजनीचर्चया स्नानमुत्तरीय परिष्कृतिः |
वारिधारा सहस्रेण स्नानं नीराजनं तथा || ५१ ||
प्लोताभिमर्शनं वासो ब्रह्मसूत्र मनन्तरम् |
उत्तरीय मलङ्कारविष्टरं केशशोषणम् || ५२ ||
प्रकल्पनम् |
परिधानं दुकूलेन गन्धद्रव्यानु लेपनम् |
व्यजनं भूषणं माला पुष्पाणां सयनाञ्जनम् || ५३ ||
ताम्बूलं दर्पणं धूपदीपौ मात्रा परिव्ययः |
दानं नीराजनं च्छत्रमुपानट् चामरध्वजाः || ५४ ||
परिव्यथा |
वाहनं शिबिकायानं त्रयं क्रीडा फलं तथा |
भोजन स्यासनप्राप्ति र्मधुपर्क निवेदनम् || ५५ ||
भोजनासन सम्प्राप्तिः |
अर्हणं प्रापणं पानं पानीयं सुखविष्टरम् |
निवेदन मपूपादे स्ताम्बूली स्तोत्र शंसनम् || ५६ ||
धाना |
विसर्जनमिति ब्रह्मन् षष्टिश्च चतुरुत्तरा |
द्वात्रिंशदुपचाराः. |
उपचारानथो पक्ष्ये द्वात्रिं शत्तुयथातथम् || ५७ ||
आवहनासने पश्चादर्घ्यं पाद्य मन न्तरम् |
आचामो मुखवासश्च पादुके दन्तधावनम् || ५८ ||
जिह्वानिर्लेखनं तेलं धात्र्यास्स्नानं हरिद्रया |
पासश्चैपूपवीतं च गन्धालेपश्च भूषणम् || ५९ ||
वासश्चैवोत्तरीयं च गन्धालेपन भूषणम् |
मालाऽञ्चनं तथादर्शदानां धूपश्चदीपिका |
मात्रादानं ततश्छत्रं चामरं तूर्यघोषणम् || ६० ||
मधुपर्कार्हणं चैव निवेदन मनन्तरम् |
भक्ष्यं तथा नागवल्ली विसर्जन मथान्तिमम् || ६१ ||
मथाब्जज |
षोडशोपचाराः. |
उपचाराष्षोडश न्युरात्मनश्शक्त्यपेक्षया |
आवहनासने पूर्वमर्घ्यं पाद्य मनन्तरम् || ६२ ||
उपस्पर्शस्तथा स्नानं पस्त्रं यज्ञोप वीतकम् |
गन्धालेपस्तथा भूषा माला धूपः प्रदीपिका || ६३ ||
मधुपर्कं प्रापणं च विसर्जन मथान्तिमम् |
आसन सामान्योपचाराः. |
आसनेषु च सर्वेषु पाद्यं पाद्य प्रतिग्रहः || ६४ ||
पादप्लोत श्चरणयोर्गन्धा लेपश्चतुर्मुख |
आचामश्च तदम्बूनां प्रतिग्रहण मिष्यते || ६५ ||
पादविष्टर निषेदस्थानम्. |
भोज्ययात्रासने त्यक्त्वा कर्तव्यं पादविष्टरम् |
मधुपर्कनिवेदनम्. |
उपक्रमोप रमयो र्मधुपर्क निवेदनम् || ६६ ||
आचमन स्थानानि. |
भोजनान्तेच वस्त्रस्य परिधाने तथा प्लवे |
जिह्वानिर्लेखनान्ते च सर्वत्रा चमनक्रिया || ६७ ||
घन्टानादं विना निवेदनीयोपचाराः. |
निवेदनि च वस्त्राणां केशानामपि शोषणे |
घन्टानादं विना धूपो |
उपचारान्तरेषु घण्टाया अवश्यकता. |
न विनान्यत्र घण्टया || ६८ ||
दीपोपचारे नै वेष्टं घण्टास्वनन मन्यथा |
विभवानां क्षये स्थाने स्याच्च पूजाऽसुरीकृता || ६९ ||
सार्चा पूजासुरीकृता |
निर्लेखनं रसज्ञाया दन्तकाष्ठं च निक्षिपेत् |
उपस्पर्शन वारीणां प्रतिग्रहण भाजने || ७० ||
भक्षणाद्यन्न पानान्ते पाससा हस्तमार्जनम् |
तथाञ्जने नयनयो र्मार्जनं पाससा भवेत् || ७१ ||
अर्हणं भोजने दद्यान्न पानादौ कदा चन |
अष्टाङ्गापाहनम्. |
परस्य सूक्ष्मस्य तथा स्थूलस्य तदनन्तरम् || ७२ ||
चिन्ता सङ्क्रमणं तस्य बिम्बे प्रत्युद्गम स्तथा |
स्वागतोक्तिर्नमस्कारस्सान्निध्य प्रार्थना तथा || ७३ ||
इत्यावाहन मष्टाङ्गं परस्य परमात्मनः |
रत्नादिक्षणिकान्तानि आवाहन योग्यद्रव्याणि. |
रत्नेषु स्फटिके स्वर्णे रजते ताम्रकेऽपिवा || ७४ ||
राजते ताम्रजे |
क्षणिके वार्चयेद्देव मावाह्य विधिपूर्वकम् |
क्षणिक द्रव्य निरूपणम्. |
चक्राब्जमण्डलं कुम्भ स्सोदक स्सूत्रवेष्टनम् || ७५ ||
बीजं पिष्टं तथैपान्नं फलं पुष्पं जलं तथा |
गन्धं वेदिश्शकृत्कूर्चमित्यादि क्षणिकं मतम् || ७६ ||
कुम्भनीराजनम्. |
आलये स्थापितं देवं सदा नीराजयेद्धरिम् |
सम्पूर्ण मम्भसा कुम्भं हेमादिद्रव्य निर्मितम् || ७७ ||
स्रग्विणं सापिधानं च मुखेऽश्वत्थ दलै र्युतम् |
अक्षतैरर्चितं गन्धवारिणाभ्युक्षितं तथा || ७८ ||
चतुष्टया ङ्गुलोत्सेधं दीपवर्ति विराजितम् |
उच्चैरादाय हस्ताभ्यामापाद तलमस्तकम् || ७९ ||
त्रिः परिभ्रम्य देवेशं बलिपीठे विनिक्षिपेत् |
एवं नीराजनं घोरशान्त्यर्थं पुष्टिवर्धनम् || ८० ||
Kapitel 7
Lesehilfe: Kapitel 7: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
चर्यापादेसप्तमोऽध्यायः |
सप्तमोऽध्यायः |
|
चक्राब्जमण्डलन्यासः. |
ब्रह्मा |
भगवन् कथ्यतां कीदृक् चक्राब्जं नाम मण्डलम् |
यदाराध्यं समाराध्य तरन्ति भववारिधिम् || १ ||
श्रीभगवान् |
चतुर्भिर्याज्ञिकैः काष्ठैष्षडङ्गुल घनैश्शुभैः |
द्वादशाङ्गुल विस्तारै राकारं चतुरश्रकम् || २ ||
मण्डलानुगुणायामविस्तारं परिकल्पयेत् |
अष्टतालायतान् स्तम्भान् सुवृत्तां श्चतुरस्तथा || ३ ||
सन्निकृष्टस्य कोणेषु चतुर्ष्वेतस्य मङ्गलान् |
स्थापयेदुपरिष्टाच्च स्तम्भानां सन्नि वेशयेत् || ४ ||
सन्निविष्टस्य |
स्तम्भाग्रे सन्निवेशनम् |
सन्निवेशनम् |
चत्वारि चैव दारूणि यथापूर्वेक्त लक्षणम् |
तच्चतुष्कं च दारूणां वितानध्वजमालया || ५ ||
चत्वारि दा रूणि तथा |
चतुरश्रं च दारूणां वितानम् |
भूषये त्परितो मुक्तादामानि च विलम्बयेत् |
शुद्धया च मृदाधस्ताच्चतुष्कोष्ठस्य चान्तरम् || ६ ||
पूरये दन्तरं तस्य गोमयेनोपलेपयेत् |
चक्राब्जादीनि बिम्बानि कुर्यात्तत्र महीतले || ७ ||
दुन्नतं तच्च. दन्तदस्तस्य |
तेषामा यामविस्तारा विष्येते हस्तसम्मितौ |
द्विगुणौ त्रिगुणौ वापि स्याता मथ चतुर्गुणौ || ८ ||
यद्वापञ्छ गुणौ ब्रह्मन्नवकाशानु सारतः |
चन्दनार्द्राणि सूत्राणि प्रञ्चि सप्तदशक्षितौ || ९ ||
रूपतः |
निपात येत्तधोदञ्चितावन्ति कमलासन |
षट्पञ्चाशत्समधिके सन्त्येव द्वेशते पुनः || १० ||
कोष्ठानि सन्ति तत्रान्तष्षट्त्रिंशत्कोष्ठ मध्यतः |
स्थापयित्वाततश्शङ्कुं भ्रामये त्सूत्रवर्त्मना || ११ ||
पञ्चवृत्तानि बिम्बानि समान्येकं तु मध्यमम् |
कर्णिकाक्षेत्रमेतस्माद्बहिर्बिम्बं त्रिधा पुनः || १२ ||
विभज्य सूत्रमार्गेण प्रथमा केसरावनिः |
दलभूमिर्द्वितीया तु तृतीया नाभिमण्डलम् || १३ ||
तदेकं द्विविधं वापि त्रिविधं सूत्रवर्त्मना |
विभजेन्नाभि भूभागाद्बहिर्द्वे मण्डले भत् || १४ ||
अरक्षेत्रं बहिर्नेमिभूरेकं मण्डलं भवेत् |
कोष्ठैरथाष्टविंशत्यापरितो बहिरासनम् || १५ ||
चतुरश्रं भवेत्कोष्ठैरशीत्यावीधिका बहिः |
पङ्त्किद्वयेन विश्वात्मन् चतुरश्राद्बहिःपुनः || १६ ||
बिम्बात्मन् चतुरश्रान् बहिःपुनः |
कोष्ठानि द्वादशाधिक्यं शतं पङ्क्तिद्वये भवेत् |
प्रत्याशं तेषु कोष्ठेषु चतुर्द्वारं प्रकल्पयेत् || १७ ||
कोष्ठेश्चतुर्भिःप्रत्येकं द्वयोः पङ्त्क्योश्चतुर्मुख |
चतुर्षु कोणेषु तथा प्रत्येकं शङ्खसिद्धये || १८ ||
कोष्ठध्वयं तु सम्मार्ज्यं द्वयोःपङ्त्क्योश्चतुर्मुख |
प्रतिद्वारं तदभ्यर्णे पार्श्वयो रुभयोरपि || १९ ||
अर्थ शोभा प्रसिद्यर्थं बाह्यानन्तर रथ्ययोः |
द्वे द्वे कोष्ठे बहिःपङ्त्क्या मैकैकं तदनन्तरम् || २० ||
अर्धशोभा प्रक्लुप्त्यर्थं |
पङ्त्क्या एकैकम् |
सम्मार्ज्य मेवं शोभार्थमेकैकं बहिरन्यतः |
त्रीणि त्रीणि च कोष्ठानि मार्जनीयानि पद्मज || २१ ||
उपशोभार्थमप्येवं व्यत्यासेन चतुष्टयम् |
सम्मार्जनीयं कोष्ठानां विनियोगः प्रदर्शितः || २२ ||
प्रशिक्षितः |
यद्वापीठादिनिर्माणं विना कोष्ठानि विंशतिः |
शतद्वयं च परितः परिमृज्य चतुर्मुख || २३ ||
परिगृह्य |
आदिपद्म प्रमाणेन कुर्यादावरणत्रयम् |
चतुर्दिशं चतुर्द्वार कल्पनं पद्ममानतः || २४ ||
यद्वैक वलजं कुर्यादभीष्टदशि पद्मज |
द्वादशाब्जानि कल्प्यानि प्रत्यावरणकल्पनम् || २५ ||
वलयं |
चतुर्षु कोणेष्वेकैकं द्वे द्वे वलज पार्श्वयोः |
दलैर्द्वादशभिर्युक्तं कर्णिकाके सरान्वितम् || २६ ||
वलयं |
आदिपद्मार्धमानेन पद्मजातं प्रकल्पयेत् |
मध्यमे पङ्कजे बिन्दून् कर्णिकायां प्रकल्पयेत् || २७ ||
द्वादशा ब्बजरेखाश्च शतं च नवतिं तथा |
केसरोर्व्यां पिधायान्वग्दलक्षेत्रे प्रकल्पयेत् || २८ ||
ब्जार |
विदिक्षु दिक्षु च तथा चतस्रो विंशतिं तथा |
रेखे द्वे द्वे दलानि स्युस्सूच्य ग्रवदनन्तरे || २९ ||
ग्राणि तदन्तरे |
प्रदर्शयेदुपदलान्न्यरक्षेत्रे दिशःप्रति |
अरे द्वे द्वे विहिक्षु स्यादेकैकं द्वाशशारता || ३० ||
अराणिन्दीवरदलैस्तुल्यान्यब्जपलाशवत् |
यद्वा यपोदराभानि मातुलुङ्ग समानि च || ३१ ||
सदृंशि |
पिपीलिकोदराभानि परस्परमानि च |
अन्तरालानि चै तेषां तुल्यमानानि पद्मज || ३२ ||
ईदृशं मण्डलं शस्तं पासुदेव समर्चने |
नारायणे तु यष्टव्ये बिन्द्वाद्याः पूर्वमीरिताः || ३३ ||
बिम्बाद्याः |
अष्टावष्टौ विधातव्याः केसरा नवतिस्सषट् |
पूर्वेरितानि कोष्ठानि मार्जयित्वाषडुत्तरम् || ३४ ||
त्रिंशश्च तत्र नाभ्यादि विनापद्मं प्रकल्पयेत् |
शङ्कुमाहृत्य सूत्रेण तत्समं विभजेद्द्विधा || ३५ ||
त्रिंशतं |
प्रथमं कर्णिकाक्षेत्रं द्वितीयं विभजेत्त्रिधा |
त्रिष्वाद्यं केसरक्षेत्रं दलक्षेत्र मनन्तरम् || ३६ ||
तृतीयमन्तरालं स्या द्दलपीठिकयोर्द्वयोः |
अष्टौ द्वादश वा कुर्या द्बिन्द्वादीन् कमलासन || ३७ ||
दलम् |
द्बिम्बादीन् |
मण्डलं भद्रकं नाम तदिदं सर्वकामदम् |
चिकीषन् स्वस्तिकं बिम्बं क्षेत्रं षट्त्रिंशतायुम् || ३८ ||
संमृज्य तत्र कोष्ठानि एकं दश च पातयेत् |
प्रागायतानि सूत्राणि उदिचीनायतानिच || ३९ ||
एकादश |
संमृज्य मध्यतो द्वे द्वे वीधीं प्रागायतामपि |
तथोदगायतामेकां कुर्यान्निर्ग मनं पुनः || ४० ||
द्वौ द्वौ |
प्रागायताभ्यां कोष्ठाभ्यां बहिःपङ्त्का उदङ्मुखम् |
प्राचीनं पश्चिमं चापि दक्षिणामुख मिष्यते || ४१ ||
पङ्त्क्या उ |
तथोदगा यताभ्यां स्या दुदक्प्रत्यङ्मुखं शुभम् |
दक्षिणाग्रं भवेत्प्राच्या मितिस्वस्तिक मीरितम् || ४२ ||
दुदक्पङ्क्त्यामुदङ्मुखम् |
द्विधा विभज्य पूर्वोक्तं षट्त्रिंशत्कोष्ठमण्डलम् |
मध्यतः पद्मकरण मवशिष्टे त्रिधाकृते || ४३ ||
द्वाभ्यां सुवृत्तं भागभ्यां भ्रान्तं वृत्त्यस्य मण्डलम् |
अवशिष्टेन भागेन त्वन्तरालं भवेद्बहिः || ४४ ||
चान्तरालं |
सौरमण्डल मेतत्स्यादे तदेवेन्दु मण्डलम् |
सर्वेषामेव बिम्बानां पीठाद्बाह्यं यथापुरम् || ४५ ||
विना विदध्यात्पीठादीन् केवलं चक्रपङ्कजम् |
कर्तुश्शक्त्यपेक्षया चक्रं विना पद्ममण्डलम्. |
चक्रं विना वा पद्मं स्या त्कर्तुश्शक्ति समीक्षया || ४६ ||
पद्मचक्रजम् |
विनापि |
सितादिपञ्चवर्णै र्मण्डल शोभा. |
मण्डलं शोभयेद्रत्नैः पञ्चवर्णैस्सितादिभिः |
तत्र द्रव्य विकल्पः. |
तच्चूर्णै रथवा चूर्णै र्लोहजै र्वाथ धातुजैः || ४७ ||
तच्चूर्णैरथपारत्नैः. अथवा चूर्णितैरत्नैः |
चन्दनागुरुकुष्ठादि गन्धचूर्णै रथापि वा |
शाल्यादि तण्डुलैः पिष्टैस्सित्रेर्व्रीहि भिरप्युत || ४८ ||
पुटदग्धै रवक्षुण्णै रसितै र्याज्ञिकैश्छदैः |
श्यामै श्शुक्लैरवक्षुण्णौः कौसुम्भै रपि पाटलैः || ४९ ||
रथ |
निशा चूर्णैः प्रसूनैर्वापङ्चवर्णैश्च कालजैः |
शोभयेत्कर्णिकादीनि यद्वर्णानि चतुर्मुख || ५० ||
तद्वर्णैरेव रत्नादि द्रव्यैराकारशोभनम् |
अन्तरालानि सर्वत्र कृष्णैश्श्यामैरथापि वा || ५१ ||
शोभ येत्कर्णि कां पीतै श्शुक्लैर्बिन्दून्वि शोभयेत् |
पाटलैः कर्णिकारेखां कृष्णैर्वा केसरावनिम् || ५२ ||
द्विधा कृत्वा पूर्वभागं श्वैतैर्भाग मथोत्तरम् |
पीतैरक्तैर्विरामेषु प्रतिकेसरमर्जुनैः || ५३ ||
बिन्दून्विदध्याद्रद्नैस्तु दलकोटिषु रेखयेत् |
आद्यन्तानि च बर्हाणां सितर क्तैर्विशोभयेत् || ५४ ||
सितैरक्तैः |
बर्हान्त वलयं रक्तैस्सितैर्वा र्भूषये त्पृथक् |
श्यामैः पीतैश्च रक्तैश्च नाभिरेखात्रयं क्रमात् || ५५ ||
द्विनाभित्वे श्यामपीतै श्श्यामैरेवैकनाभिके |
रेखयेदसितै रेव त्वरकोटी रराणि तु || ५६ ||
रक्तैररान्तवलयं कृष्णैर्नेम्यन्तमेदिनीम् |
सितैर्नेमि महीभागं द्विधा कृत्वैक मादितः || ५७ ||
महाभागं |
कृत्वैव |
भागं कृष्णैस्सितैरन्यन्नेमिभागं विशेषयेत् |
पीठं पीतैः पाटलैर्वा सितैर्वा वीधिकां पुनः || ५८ ||
लतावितान पत्रादियुक्तां चूर्णैश्च चित्रयेत् |
रक्तैश्शोभां तथा पीतै रूपशोभां च शोभयेत् || ५९ ||
पत्राणि. युक्तैश्चूर्णैर्विचित्रयेत् |
रूपशोभां |
द्वारं शुक्लैश्च रक्तैश्च पीतैः कृष्णै र्यथाक्रमम् |
शोभये दुत्तरादींश्च कोणान् कृष्णैरथार्जुनैः || ६० ||
शङ्खं च कुर्यात्तैरेव स्वस्तिकं पाटलप्रभम् |
यद्वा पीतनिभं सौरं मण्डलं पाटलप्रभम् || ६१ ||
शङ्खंश्चकुर्यात्तेनैव |
मण्डलं चैन्दवं शुक्लमन्तरालं तु सर्वशः |
मण्डलविस्तारानुसारेण पूरणीय चूर्णोत्सेधः. |
यथेष्टवर्ण सुभगं मण्डले हस्तसम्मिते || ६२ ||
सर्वतः |
रेखानु चूर्णैरुत्सेधः कनिष्ठाङ्गुलि सम्मितः |
द्विहस्तेऽनामि का मानस्त्रिहस्ते मध्यमासमः || ६३ ||
पूर्णैः |
नाहः |
अनामिकासमः |
चतुर्हस्ते मण्डले तु तर्जन्य ङ्गुलिसम्मितः |
पञ्छहस्ते समोऽङ्गुष्ठेनेत्युत्सेधः प्रदर्शितः || ६४ ||
समाङ्गुष्ठै रित्युत्सेधः |
मण्डलं चित्रयित्वैव मारभेत समर्चनम् |
मन्त्राध्वादि षडध्वार्चनम्. |
आराध येत्कर्णिकायां मन्त्राध्वानमनन्तरम् || ६५ ||
तत्वाध्वानं केसरेषु वर्णाध्वानं दलेषु च |
पदाध्यानं नाभिभागि कलाध्वान मरेषु च || ६६ ||
षष्ठं तु भुवनाध्वानं नेमिभागे चतुर्मुख |
बिन्दुषु द्वादशाक्षरावाहनम्. |
कर्णिकायां द्वादशसु बिन्दुषु द्वादशार्चयेत् || ६७ ||
अक्षराणि समावाह्य कर्णिकायां समाहितः |
यजेत परमात्मानं सकलीकृत्य तत्ववित् || ६८ ||
कृत्य |
केसरेषु श्रियादीनामर्चनम्. |
केसरेषु श्रियादींश्च यजेत दलभूमिषु |
शक्तीस्तदीया दश च द्वे च पूज्या यथाविधि || ६९ ||
श्रीवत्सा द्याश्शक्तयश्च व्याप्त्याद्याः परितस्थ्सिताः |
नाभिक्रमेण विष्ण्वादीनां पूजा. |
दला न्तवलये पूज्यो विष्णुः प्रथमनाभिगः || ७० ||
मासाद्या |
ब्रह्मा द्वितीयनाभिस्थस्तृणेत्रस्तु तृतीयगः |
द्वादशस्वरेषु विष्ण्वादिद्वादश मूर्तिपूजा. |
द्वादशारेषु विष्ण्वाद्वाः पूज्या द्वादशमूर्तयः || ७१ ||
अरान्तवलये मीनादिदशमूर्तीनामर्चनम्. |
अरान्तवलये पूज्या मीनाद्या दश मूर्तयः |
प्रथमनेमिवलये शङ्ख्याद्यायुधपूजा. |
प्रथमे नेमिवलये शङ्ख्याद्यायुध पूजनम् || ७२ ||
पीठरोणेषु नराहादीनां पूजा. |
पीठकोण चतुष्केषु वराहो नरकेसरी |
अनन्तश्च हयग्रीवस्तदाग्नेयादिषु क्रमात् || ७३ ||
वीधिकायां लोकपालपूजा. |
वीधिकायां लोकपालाः पुरुहूता दयः क्रमात् |
द्वारेषु चण्डादीनां पूजा. |
पूज्या द्वारेषु चण्डाद्या द्वौ द्वौ प्रति चतुर्ष्वपि || ७४ ||
वेदिकायांद्वारपालाः |
ईशानकोणे विष्वक्सेनपूजा. |
ईशान कोणे रथ्यायां विष्वक्सेनं समर्चयेत् |
पूर्वद्वारे अभिमुख्येन गरुडस्य पूजा. |
गरुडोऽभि मुखस्तिष्ठन् पूर्वद्वारा द्बहिः क्षितौ || ७५ ||
चक्रगदाशज्खानां दक्षिणादिद्वारेषु पूजा. |
चक्रं च दक्षिणद्वारि गदां च द्वारि पश्चिमे |
वलजे चोत्तरे शङ्खं प्रथमा वरणे ततः || ७६ ||
द्वितीयावरणपद्मेषु विष्ण्वादिद्वादशमूर्तिपूजा. |
विष्ण्वादि मूर्तयः पूज्या द्वादशा ब्जेषु पद्मज |
अनन्तरे चावरणे पद्मेषु द्वादशस्वपि || ७७ ||
पासुदेवादि कृष्णान्ता मूर्तयो द्वादशैव ते |
तृतीयावरण पद्मेषु द्वादशादित्यपूजा. |
पद्मेष्वावरणे चान्ते द्वादशा दित्य पूजनम् || ७८ ||
मण्डले वासुदेवार्चनम्. |
एतस्मिन् मण्डले देवं पासुदेवं समर्चयेत् |
बिन्दुषु अष्टाक्षरन्यासः. |
बिम्बे नारायणाख्ये तु बिन्दुष्वष्टसु तावताम् || ७९ ||
अष्टाक्षराणां न्यसनम् |
केसरेषु अष्टौ शक्तयः पूज्याः. |
व्याप्त्याद्याश्शक्तयोऽष्ट च |
केसरेषु समाराध्या |
दलेषु श्रियादयः पूज्याः. |
दलेष्वष्टौ श्रियादयः || ८० ||
सन्यासम् |
अरेषु शङ्खाद्यष्टायुधपूजा. |
अरेष्वष्टनु शङ्खादीन्यायुधान्यष्ट पूजयेत् |
चतुर्विंशतिपद्मेषु तावन्मूर्ति पूजनम्. |
चतुर्विंशतिपद्मेषु चतुर्विं शतिमूर्तयः || ८१ ||
त्रिषु चावरणेष्वेषु पूज्याः |
अस्मिन् चक्राब्जमण्डले नारायणस्य यजनम्. |
तन्मण्डले हरिम् |
नारायणं समावाह्य यजेत परमेश्वरम् || ८२ ||
भगवतो यजने मुख्यःकालः. |
दर्शेच पौर्णमास्यां च सङ्क्रान्तौ श्रावणेषु च |
द्वादश्यां विषुवे चैव ग्रहणेष्व यनेषु च || ८३ ||
जन्मऋक्षे विशेषेण मण्डले हरिमर्चयेत् |
मण्डलाराधनमिदं धर्मका मार्थमोक्षदम् || ८४ ||
जन्मर्क्षेतु |
दीक्षायाश्चक्राब्जमण्डलं प्रशस्तम्. |
चक्राब्जमण्डले शस्ता दीक्षा तस्याश्च मण्डलम् |
ब्राह्मणादिभेदेन मण्डलक्षेत्रवर्णभेदः. |
एकद्वारं भवेत्तच्च सौम्यं स्यादग्रजन्मनाम् || ८५ ||
चित्रितं श्वेतवर्णेन प्राग्द्वारं पृथिवी भुजाम् |
रक्तेन चित्रितं द्वारं पाश्चात्यं पीतवर्णकम् || ८६ ||
विशां भवेद्दाक्षिणात्य मसितं पादजन्मनाम् |
अनुलोमानामुत्पादकवत् द्वाराणि. |
द्वाराणि चानुलोमाना मुत्पादकवदिष्यते || ८७ ||
सूतस्य विशेषः. |
सूतस्य वलजं प्राच्यां |
स्त्रीणां द्वारनिरूपणम्. |
शूद्राणामिव योषिताम् |
कर्षणादिक्रिया योग्याधिकारी. |
शिष्यं सुतं वा सर्वज्ञ मनसूयं जितेन्द्रियम् || ८८ ||
आचार्यवंशजन्मानं निग्रहानु ग्रहे क्षमम् |
शान्तिके पौष्टिके चैव कर्मणि क्षममर्थिनाम् || ८९ ||
वेद वेदान्त तत्वज्ञ माचार्य पदकाङ्क्षिणम् |
देशिकेन्द्रो विधानेन वक्ष्यमाणेन तत्ववित् || ९० ||
वेदङ्ग |
वरकाङ्क्षिणम् |
कर्षणादिषु सर्वेषु विधानेष्वधिकारिणम् |
कुर्यान्मण्डल पूजादि कुम्भयागावसानिकम् || ९१ ||
अधिकारसम्पादका स्संस्काराः. |
दीक्षायामिव तत्सर्वं कृत्वा शिष्यस्य सन्निदौ |
आज्येन चरुणा चैव समिद्भः कुसुमै स्तिलैः || ९२ ||
जुहुयान्मूलमन्त्राभ्या मष्टोत्तरसहस्रकम् |
शिष्यस्य दक्षिणे हस्ते बध्वाप्रति सरं गुरुः || ९३ ||
नृत्तैर्गेयैस्तथा पाद्यै र्वेदघोषैर्नयेन्नि शाम् |
ततःप्रभाते शिष्यं तं स्नातं नूतन वासनम् || ९४ ||
समाहोया समाराध्य मण्डलं कुम्भमेव च |
चतुर्विधं निवेद्यान्नं होमं कुर्याद्यथा निशि || ९५ ||
समालभ्य |
कलशां श्चतुरो द्रोण पूर्णान् होमादि निर्मितान् |
मृण्मयान्वा यथावित्तं सूत्र वस्त्रादिवेष्टितान् || ९६ ||
संस्थाप्य धान्यराशौ तु रत्नादीनि विनिक्षिपेत् |
अग्नेयकुम्भे रत्नानि सर्वाणि विनिवेशयेत् || ९७ ||
नैरृते सर्वलोहानि गन्धद्रव्याणि मारुते |
ऐशाने तीर्थवारीणि ततो देवं समर्चयेत् || ९८ ||
अग्निकोणे वासुदेवं सङ्गर्षण मनन्तरे |
प्रद्युम्नं वायुकोणे तु कोणे रौद्रेऽनिरुद्धकम् || ९९ ||
अग्निकुम्भे |
ततोऽनु शिष्यं संस्थाप्य पीठे भद्रादिविद्यया |
शिष्यं प्राङ्मुखमासीनं षडङ्ग न्यासपूर्वकम् || १०० ||
अर्चयित्वाघृतारोप माचरे दविलम्बयन् |
तूर्य घोषेण गेयेन ब्रह्मघोषेण घोषयेत् || १०१ ||
चतुर्दिक्षु ततोगन्धैः पुष्पैस्ताम्बालविटिभिः |
धनैर्बहु विधैरिष्टैस्सदस्यान् तोषयेद्द्विजान् || १०२ ||
तोषयेच्च विशेषण भगवद्भक्तिमा श्रितान् |
मन्त्रित कुम्भजलै श्शिष्याभिषेकः. |
मुहोर्ते शोभने प्राप्ते ब्राह्मणानामनुज्ञया || १०३ ||
ऋग्वेद मन्त्रितं कुम्भ माग्नेयदिशि निष्ठितम् |
तमुपादाय पाणिभ्यां सूक्तेन पुरुषात्मना || १०४ ||
द्वादशाक्ष रमन्त्रेण सम्पुटीकृतमूर्तिना |
अभिषिञ्चेद्गुरुश्शिष्यं कुम्भेव तदनन्तरम् || १०५ ||
केषु चित्कोशेषु सम्पुटीकृत्यमूर्तिना इति पाठोस्ति |
नैरृतस्थेन यजुषा मन्त्रितेन समाहितः |
वैष्णवेन च सू क्तेन ब्रह्मन्नाद्यवसानयोः || १०६ ||
सङ्कर्षणाख्य मन्त्रेण सम्मुटीकृतमूर्तिना |
कुम्भेन मारुतस्थेन सामाघोषितवारिणा || १०७ ||
सामस्थापित |
प्रद्युम्नसम्पुटेनाथ ब्रह्मन् वारुणसामभिः |
कुम्भेनाथर्ववेदेन पवित्री कृतवारिणा || १०८ ||
ईशान कोणसंस्थेन सम्पुटीकृतमूर्तिना |
अनिरुद्धाख्य मन्त्रेण नारायण समाह्वाया || १०९ ||
विद्यया कलशैस्सर्वै रभिषिञ्चेद्यथोदितम् |
एवमभिषिक्तस्य अधिकारलाभः. |
अभिषिक्तस्ततश्शिष्यो नवाम्बरथंश्शुचिः || ११० ||
आचान्तश्चन्दनक्षोदै र्लिप्तमाति रलङ्कृतः |
स्रग्वी पासोभि रुष्णीषं बद्ध्वा मुकुट सन्निभम् || १११ ||
लिप्ताङ्गस्समलङ्कृतः |
उत्तरीयं च बिभ्राणो बिभ्राणो योगपट्टिकाम् |
अञ्जनाक्तेक्षणद्वन्द्वो बाहुमाला परिष्कृतः || ११२ ||
निरीक्षितादर्शतलो ब्राह्मणैस्स्वस्ति पाचकैः |
दत्तप्रसव वृष्टिश्च श्वेतव्यजनवीजितः || ११३ ||
वाचितैः |
दत्तोपानट् सितच्छत्रो दत्ताश्व गजवाहनः |
नीराजितश्च कल्याणो जायते गुर्वनुग्रहात् || ११४ ||
दत्तप्रसन्ययष्टिः. ५६.सितोपानट् |
अनेनैवाभिषेकेण लब्ध्वाचार्य पदं स्वयम् |
आचार्य कृत्यमखिलं कर्तुमिच्छे च्चतुर्मुख || ११५ ||
गुरुवे दक्षिणां दद्वा द्गोभूहेमादिकं तथा |
यथाविभवविस्तारं ततो हस्त्यादि वाहनम् || ११६ ||
आरुह्य धवलच्छत्र श्वेत चामर वीजितः |
आचार्यचिह्नैरखिलै र्लक्षितो ब्राह्मणै स्सह || ११७ ||
रथयानेनाग्रहारं प्रादक्षिण्येन रथ्यया |
गत्वा देवस्य सदनं प्रविशेत्स्वस्य धाम वा || ११८ ||
Kapitel 8
Lesehilfe: Kapitel 8: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
चर्यापादेअष्टमोऽध्यायः |
अष्टमोऽध्यायः |
महाभिषेकाख्य स्नपनम्. |
ब्रह्मा |
राज्ञोराष्ट्रस्य मर्त्यानां यदभ्युदयसाधनम् |
यच्चोत्पात प्रशमनं व्याधीनं चापनोदनम् || १ ||
यदभिप्रेतमखिलं साधयत्य विलम्बितम् |
कुर्वतां भगवन् तन्मे तदर्चन मनुत्तमम् || २ ||
कथ्यतां मयि चेदस्ति दया परम पूरुष |
रहस्यमपि तन्मह्य माख्येयं जगतो हितम् || ३ ||
श्रीभगवान् |
महाभिषेको नामाग्र्यं स्नपनं कमलासन |
विषुवे सङ्क्रमे चैव ग्रहणे चायनद्वये || ४ ||
मम संमतम् |
द्वादश्यां श्रवणे चैव तथा कर्तु स्त्रिजन्मसु |
दिनत्रये व्यतीपाते रोहिण्यां च तिथित्रये || ५ ||
दर्शेच पौर्णमास्यां च पुनर्वस्वोर्विशेषतः |
पञ्चम्यां शुभनक्षत्र तिथिवा रेषु चाब्जज || ६ ||
प्रयुज्यमानं सर्वार्थ साधनं सर्वशान्तिदम् |
स्नपनत्रै विध्यम् |
कर्तव्यं तत्त्रिधा ब्रह्मन्नुत्तमाधममध्यमम् || ७ ||
जात्युत्कर्षं धनोत्कर्ष मथवावेक्ष्यतत्ववित् |
प्रयुञ्ञीतूत्तमं स्नान मितरेष्वितरद्भवेत् || ८ ||
अङ्कुरन्यासकौतुक बन्धाधिपासाः पूर्वेद्युस्सद्योवा. |
पूर्वेद्यु रङ्कुरन्यासो बध्वा कौतुकमङ्गलम् |
अधिवासश्च बिम्बस्य सद्यो वा सकलं भवेत् || ९ ||
स्नपन प्रतिमाविकल्पः. |
स्नपनं प्रतिमायास्स्यादधिवासश्च तुर्मुख |
तीर्थप्रतिकृतौ वापि पूर्वालाभेऽधिवासयेत् || १० ||
स्नपनं प्रतिमायां |
यद्वोत्स वार्थप्रतिमां बलिबिम्ब मथापिवा |
बिम्बं कर्मार्थमथवा |
उक्तबिम्बाभावे कुशकूर्चकम्. |
असत्त्सकुशकूर्चकम् || ११ ||
लेपमृण्मयादि प्रतिमाधिपासे विशेषः. |
लेपमृण्मयभित्तिस्थ पटस्थेषु च दर्पणम् |
कूर्चं मूर्त्यन्तराभावेक्लुप्तिरेषा सनातनी || १२ ||
स्नपनमण्डप लक्षणम्. |
प्रासादस्या ग्रतःकुर्यात्ततस्स्नपन मण्डपम् |
दशहस्त प्रविस्तारं द्विगुणेनायतं शुभम् || १३ ||
चतुर्द्वारं चतुर्दिक्षु चतुस्तोरण भूषितम् |
सर्वावरण भूष्वेव दिक्षु सर्वासु वा भवेत् || १४ ||
क्लुप्ते वा मण्डपे कुर्या दवकाशानु सारतः |
विभज्य तत्त्रिधा कुर्या त्तृतीयेऽओशेऽथ पश्चिमे || १५ ||
अवलम्ब्य ब्रह्मसूत्रं चतुरश्रं समन्ततः |
चतुर्हस्तां स्नानवेदीं हस्तोत्सेधां शिलादिभिः || १६ ||
उपानहादिसंयुक्तां दर्शनीयां सलक्षणाम् |
उपरिष्टाच्च वलयं वृत्तं वा चतुरश्रकम् || १७ ||
प्रादेशेन प्रविस्तीर्णं ततमष्टाङ्गुलेन वा |
षडङ्गुलेन वा ब्रह्मन् चतुरङ्गुल मुन्नतम् || १८ ||
वेदिकोपरि तद्धारि कुल्यामाश्वभ्र मेदिनीम् |
मृण्मयादिषु बिम्बेषु बहिर्वेदी प्रकल्पनम् || १९ ||
वेदिरो परि चाधारा कुल्यामा |
एकबेरे तु न बहिस्स्ना नवेदी प्रकल्पनम् |
मण्डपालङ्कारः. |
दुकूलक्षौमवसनै र्मण्डपं सर्वतोदिशम् || २० ||
एकबेरे इतीदमर्धं क्वचिन्न |
शोभयेत्पूर्ण कुम्भाद्यैस्तो रणैश्च विभूषयेत् |
वेष्टयेद्दर्भ मालाभि र्मुक्तादामानि लम्बयेत् || २१ ||
तोरणानि |
आस्थानमण्डपे स्थाने तथाचैवार्ध मण्डपे |
गृहार्चायां विशेषः. |
तोरणादि न कर्तव्यं गृहर्चायां तथैव च || २२ ||
मण्डपस्थाने |
नित्यस्नपने अङ्करकौतुक चूर्णस्नपनादिनिषेधः. |
नित्ये च स्नपने नापि कौतुकं नाङ्कुरार्पणम् |
निशाचूर्णैर्नस्नपनमिष्यते |
अर्घ्यादि दीपान्तपूजासु उपकरणोपकल्पनम्. |
मण्डप स्थलम् || २३ ||
स्थले |
गोमयाम्बोभि रालिप्य सुधाचूर्णैश्च शोभयेत् |
दीपाना कोपयेत्तत्रन्यस्येद ङ्कुरपालिकाः || २४ ||
रालिपै |
कोणे रौद्रे मण्डपस्य जलद्रोण्यादिभाजनम् |
कल्पयेद्गालि तस्वादु सुगन्धि जलपूरितम् || २५ ||
पवमानादि भिस्सूक्तैर्मन्त्रितं सापिधानकम् |
वेदिदक्षिणतो भूमा वुपस्नानाम्बु कल्पनम् || २६ ||
अर्घ्यादि दीपपर्यन्तं पूजाद्रव्याणि कल्पयेत् |
चन्दनार्द्राणि सूत्राणि चतुर्दश निपातयेत् || २७ ||
प्रागायतानि तावन्ति सूत्राण्येव चतुर्मुख |
उदगायतानि सन्त्येवं कोष्ठान्ये कोनसप्ततिः || २८ ||
शतं च तेषामा याम विस्तारं षोडशाङ्गुलम् |
धान्यपीठा नुरूपं वा कलशानां चतुर्मुख || २९ ||
यामं विस्तारं |
दिक्ष्वष्टानु तथा मध्ये प्रत्येकं नव भूमिषु |
नव कोष्ठानि कुम्भानां पदानि कमलासन || ३० ||
एकमेकाधिकाशीति कोष्ठानि कलशास्पदम् |
अन्यान्यष्टोत्तराशीती रथ्यां सम्मृज्य कल्पयेत् || ३१ ||
पीठिकोचितधान्य परिमाणम्. |
व्रीहिभिःपीठिकां कुर्यात्कोष्ठभूषु पृथक्पृथक् |
आढकेन तदर्धेन तदर्धार्धेन वा भवेत् || ३२ ||
भावयेत् |
पीठिका धान्यतुर्यांशास्तण्डुलाः पीठिकोपरि |
तत्तुर्यां शास्तिलास्तेषां भवेयुरुपरि स्थिताः || ३३ ||
द्वौ द्वौ कु शाग्रौ प्रत्यस्येत् पीठिकासुचतुर्मुख |
कलशस्वरूपम्. |
सौवर्णा राजतास्ताम्रा मृण्मया वा यथावसु || ३४ ||
प्रत्यस्य वीधिकासु |
कलशा लक्षणोपेताः पक्वबिम्बफलोपमाः |
अच्छिद्रा स्स्वनव नश्च कालमण्डल वर्जिताः || ३५ ||
अभिन्ना मृण्मयाःकुम्भाःपाषाण स्फोटवर्जिताः |
कलशेषु पूरणीयद्रव्यमानम्. |
द्रव्यकुम्भा द्रोणपूर्णास्तदर्धेनाथवाऽथवा || ३६ ||
पादेन कलशाश्शिष्टाः पूर्यावार्याढकेन तु |
कुम्भानां सूत्रविष्टनम्. |
प्रक्षाल्य विष्णुगायत्र्या द्रव्यकुम्भांस्तथेतरान् || ३७ ||
स्थापयित्वा करतले सव्येऽसव्येन पाणिना |
इन्द्रमरुद्वमन्त्रेण तन्तुना परिवेष्टयेत् || ३८ ||
इन्द्रंनत्वेतिमन्त्रेण |
कुम्भवेष्टने तन्तूनामन्तरालमानम्. |
तन्तूनां विष्टितानां स्या दन्तरालं यवा न्तरम् |
अर्धाङ्गुलान्तरालं स्या द्यद्वैकाङ्गुल मन्तरम् || ३९ ||
कलशास्पदमेदन्याःपश्चिमे धरणीतले |
धान्यपीठं विधायास्मिन् कलशानधिवासयेत् || ४० ||
धान्यपीठे ततस्तस्मिन् कुशाना स्तीर्य विश्वतः |
प्रागग्रानु दगग्रांश्च तेषु कुम्भानधोमुखान् || ४१ ||
धान्यपीठे |
ओमित्युच्चार्य विन्यस्येन्नव भूषु यथोत्तरम् |
न्यस्ताना मपि कुम्भाना मुपरिष्टाद्यथापुरम् || ४२ ||
नवानामपि |
दर्भांस्तृणी यादाचार्योमन्त्रेण परमेष्ठिना |
प्रोक्षयेदर्घ्यतोयेन प्राङ्मुखः पुरुषात्मना || ४३ ||
विश्वमन्त्रेण विरिरे दक्षता न धिपासिते |
उत्तानि तेषु कुम्भेषु निवृत्या ह्वोनविद्यया || ४४ ||
न्यधिपासयेत् |
ह्वय |
सर्पिषा ष्टोत्तरशतं विष्णुगाय त्रियाकृते |
होमे हुताज्य शेषेण स्नपनद्रव्यसेचनम् || ४५ ||
सर्पिषा इत्यतः पूर्नं. आह्वानविद्यया इत्यतः अनन्तरं केषु चित्कोशेषु अधिकपाठतया श्लोकद्वयं दृश्यते. तत्र तस्य सङ्गतिं प्रामाणिका विभानयस्तु. यथाअस्थिरत्नं सिरा तन्तुर्मांसं मृत्स्ना प्रकीर्तितम् |शोणैतं कर्तमृद्भस्तु जलं मेदस्तथैन च || कूर्चं वै शुक्लमित्युक्तं चर्मणाम्बरवेष्टनम् . तत्तत्प्रतिकृतिर्जीनः क्रमादेनं स्मरेद्बुधः ||इति |
घृतादिस्नपनद्रव्यै र्वस्त्रपूतैः परिष्कृतैः |
पूरयेत्क लशांस्तत्तन्मन्त्रेःपूर्णान् समुद्धरेत् || ४६ ||
रस्त्र |
सर्वमन्त्रेण विश्वात्मन् कुम्बान् सप्तददश्धोतान् |
द्रव्यकुम्भान् धान्यपीठे स्थापये द्विष्णुपूर्वया || ४७ ||
गायत्र्या च चतुष्षष्टि द्वादशाक्षरविद्यया |
उदकुम्भान् क्रमेणान्यान् प्रङ्मुखो वाप्युदङ्मुखः || ४८ ||
कुम्भानां न्यासक्रमः. |
नवके मध्यमे स्थाने स्थावनी यास्तु मध्यमे |
घृतकुम्भं स्थापयित्वा पदेपौत्रामणे ततः || ४९ ||
ये तु |
उष्णोदकुम्भं विन्यस्ये द्रत्न कुम्भ मनन्तरम् |
फलकुम्भं यमपदे लोहकुम्भं तु नैरृते || ५० ||
प्राचेतसे मार्जनाम्भः कुम्भं गन्धाम्बुमारुते |
अक्षताम्बु च कौ बेरे पदे शार्वे यपोदकम् || ५१ ||
प्राच्यां तु कुम्भनवके मध्ये पाद्य घटं स्यसेत् |
अर्घ्य कुम्भं पदे याम्ये पदे प्राचेतसे पुनः || ५२ ||
पदे |
उपस्पर्शन पानीयं पञ्चगव्य मुदक्पदे |
अग्नेय कुम्भनवके मध्ये दधि घटं न्यसेत् || ५३ ||
नैरृते मध्यतःक्षीरं वायवीये घटं मधोः |
कषाय कुम्भमैशाने सर्वत्र परितो घटान् || ५४ ||
शुद्धोदकांश्चतुष्षष्टि मष्ठावष्टौ निवेशयेत् |
सप्तभिः पञ्छभिर्वापि यद्वा दर्भौस्त्रिभिःकृतान् || ५५ ||
कूर्चान् कुम्भेष्वपागग्रान् निक्षिपेल्ल क्षणान्वितान् |
महा कुम्भे कुशैःकूर्चं चतुर्विंशतिभिः कृतम् || ५६ ||
चक्रमन्त्रेण तान् कुम्भान् शरावैरपिधान येत् |
वासोभि र्द्रव्यकलशा न्युपासुपास इत्यृचा || ५७ ||
सर्वान् शरावेणापि |
कण्ठेषु वेष्टयेदन्यान् वासोभि स्छादयेन्नवैः |
अधिपासितस्य देवस्योत्थापनम्. |
अधीयानैस्त्रयीविद्यां विद्वद्भि र्ब्राह्मणैस्सह || ५८ ||
ऋत्विग्भि स्सहदेवस्य यायान्मन्त्र विदन्तिकम् |
ऋत्विजो देवमुत्थाप्य गुरुश्चोत्तिष्ठ विद्यया || ५९ ||
साम्नारथन्त राख्येन ब्रह्मयाने गुरुस्स्वयम् |
स्थापयेदृत्विजैस्सार्धं ब्राह्मणै र्वेदपारगैः || ६० ||
स्नानासने निवेशनम्. |
शिभिकायां स्थापयित्वा मृद्वास्तरण कल्पिते |
निवेशमेयुः प्रतिमां स्नान वेदितले शुचौ || ६१ ||
शुभे |
स्नानोपचाराः. |
पुण्याहं वा चयेत्पश्चात्पञ्चकाल परायणैः |
अयुग्मैस्तोषयेद्वित्तैस्तान्विभूत्यनुसारतः || ६२ ||
द्वारतोरण कुम्भादीन् समभ्यर्च्य यथापुरम् |
द्वारेष्व ध्ययनं नृत्तं वाद्यं गेयं प्रवर्तयेत् || ६३ ||
सर्पिषा जुहुयादगनौ यावत्कलशसङ्ख्यया |
मूलमन्त्रेण जुहुया च्चरुं पुर्वेक्तसझ्ख्यया || ६४ ||
नृ सूक्तेन समभ्यर्च्य कलशान् स्थापितान् गुरुः |
अर्घ्यादि भिस्तथा देवं |
घृतारोपणम्. |
घृतारोपण माचरेत् || ६५ ||
आचरेत् || इत्यनन्तरं. सप्तधातूनि देहानां कुम्भेषु कल शेषुच |सर्वतस्संस्मरेद्भ्रह्मन्नाचार्यस्तदनु प्रभोः इतीदंपद्यंक्वचित्. कोशे परं वर्तते || |
दन्तकाष्ठं गन्धतैलं तथामलकवारि च |
वस्त्रं दत्वाचोत्तरीय मर्घ्याद्यै रर्चयेत्पुनः || ६६ ||
धूपयेत्पुनः |
दीपान्तमर्चनं कृत्वा पाद्यकुम्भ मुखै र्घटैः |
घृतकुम्भान सानैश्च स्नापये द्दे शिकोत्तमः || ६७ ||
देशिकःक्रमात् |
छिन्नैकतन्तु मुद्धृत्य पाद्यकुम्भं समर्चितम् |
पुष्पैर्दद्यात्करतले देशिकेन्द्रस्य मूर्तिपः || ६८ ||
कूर्चमादाय कुम्भस्थं स्वहस्ते देशिकोत्तमः |
अवागग्रेण कूर्चन तीर्धै र्ब्रह्मादि भिस्ततः || ६९ ||
तद्धस्ते |
स्नपनमन्त्राणां निर्देशः. |
शुभैर्वैष्णव गायत्र्यास्नापयेत्पाद्य वारिभिः |
तद्विष्णुरितिमन्त्रेण स्नापयेदर्घ्यपारिभिः || ७० ||
शुद्धैः |
न तेविष्णु रितिश्रुत्याकुम्भेनाचमनाम्बुना |
विष्णोः क्रमेति मन्त्रेण पञ्चगव्याभिषेचनम् || ७१ ||
दधिक्रा विण्णयजुषा दध्ना देवभिषेचनम् |
साम्ना पयो पृतेनैव पयसा मधुना पुनः || ७२ ||
मधुवातेति मन्त्रेण स्नपनं मधुविद्वषः |
ओषध्य इतिमन्त्रेण कषायाम्भोभिषेचनम् || ७३ ||
कषायौरभिषेचयेत् |
तद्विष्णो रिति मन्त्रेण स्नानंमुष्णाम्बुधारया |
फलिनीत्यनुवाकेन स्नपनं फलवारिभिः || ७४ ||
त्वं विष्णुरिति |
शं नोदेवीरिति स्नानं मन्त्रिदैर्मार्जनाम्बुभिः |
सावित्र्याक्षतपाथोभिस्त्रातार मिति सामभिः || ७५ ||
रत्नोदकैर्लोहतोयैर्महाव्याहृतिविद्यया |
गन्धद्वारेति मन्त्रेण स्नपनं गन्धवारिणा || ७६ ||
शतधारेति मन्त्रेण स्नानं स्याद्यववारिभिः |
घृत स्नातेति मन्त्रेण घृतेन स्नपनं हरेः || ७७ ||
घृतनत्येति |
अथवा पौरुषै स्सूक्तैःक्रमात्पा द्यादिपारिभिः |
ऋग्भिष्षोड शभिस्स्नान मृचेदं विष्णुरित्यपि || ७८ ||
अष्टाक्षरेण वा यद्वा द्वादशाक्षरविद्यया |
विष्णुगायत्रिया वापि स्नानं यद्वा चतुर्मुख || ७९ ||
स्वमूर्ति विद्यया वापि स्नपनं मधुविद्विषः |
क्षालनं च घृत स्नाने सामान्यै कुष्णवारिभिः || ८० ||
स्नानैः |
पाद्यादि द्रव्य कुम्भाना मुद्धारेष्पन्तरा न्तरा |
शुद्धोद कुम्भैरन्यैश्च स्नानमष्टभि रष्टभिः || ८१ ||
मुत्तरेषु |
अष्टाक्षरेण मन्त्रेण भवेद्देवस्य पद्मज |
उपस्नानं तथा प्लोतं वस्त्रं चैपूत्तरीयकम् || ८२ ||
अर्घ्यं पाद्यं तथाचामं गन्धं पुष्पं च धूपकम् |
दीपं चैतानि देयानि प्रतिद्रव्य घटाप्लवम् || ८३ ||
फलं पुष्पं च |
घटाप्लवे |
उद्धरेद्द्रन्व कलशान् विष्णुगायत्रिविद्यया |
शुद्धोदकांश्च कलशान् द्वादशाक्षर विद्यया || ८४ ||
शुद्धोदक इत्यर्धक्वचिन्नास्ति |
हरिद्रा तण्डुलै स्स्वर्ण चूर्णैः कुम्भान् ससूत्रकान् |
पूरयेन्नव निर्दोषान् सप्तवा पञ्च वाथवा || ८५ ||
त्रीण्येकं कुम्भमथवा ते च स्थाप्याः परिव्यये |
त्रीण्येन |
सापिधानेषु कुम्भेषु सकूर्चेषु समर्चयेत् || ८६ ||
श्रियं कुम्भान् समुद्धृत्य श्रीसू क्तेनाभिषेचयेत् |
चूर्णस्नानम्. |
पूर्णाहुतिर्यथा होमेचूर्णैस्स्नासं तथाभवेत् || ८७ ||
तच्चूर्णधारणे फलम्. |
पासुदेवतनुभ्रष्टान् चूर्णान् परमपावनान् |
येवहन्ति शिरोभिस्स्वैर्नरा निर्धूतकल्मषाः || ८८ ||
तेयान्ति वैष्णवं स्थानं पुनरावृत्तिवर्जितम् |
अभिषेकजलपाने फलम् |
अभिषेक जलं विष्णो र्ये पिबन्ति वहन्ति वा || ८९ ||
परमं |
च |
ते सर्वितीर्थाभिशेक फलमश्नुवते महत् |
कृत्वा प्रदक्षिणं नत्वास्तुत्वा स्तोत्रेण देशिकः || ९० ||
तत स्सहस्र धाराभि स्स्नापयित्वा जनर्दनम् |
नीराजनान्तमिष्ट्वैवं |
अलङ्कारासनम्. |
ततोऽलङ्कार विष्टरे || ९१ ||
यजेत मात्रादानान्तं मात्रासङ्ख्या परिव्ययः |
मात्राद्रव्य परिमाणम्. |
खारिद्रोणं तदर्धं वा देयास्स्युर्देशिकाय ते || ९२ ||
भोज्यासने भोज्यभेदः. |
चतुर्विधानि चान्नानि भोजयेद्भो जनासने |
होमान्त मर्चयेद्देवं देशिकेन्द्रो यथाविधि || ९३ ||
स्नपनान्ते ततो देवं सुखमासीन मासने |
याचेत याजमानोपि सर्वमिष्टं जनार्दनम् || ९४ ||
दक्षिणां देशिकेन्द्राय सुवर्णशतनिष्ककाम् |
तदर्धं पादमथवा दद्याद्वि त्तानु सारतः || ९५ ||
द्यानु |
कुर्यादा चार्यसात्सर्वं द्रव्यं पूजाङ्ग माहृतम् |
वस्त्रादिकं तथान्येषां ऋद्विजां तुष्टिमावहेत् || ९६ ||
नृत्तगेयरतानां च तथा स्वाध्यायशालिनाम् |
ब्राह्मणानां यथा तुष्टि स्तथा वित्तं विसर्जयेत् || ९७ ||
वित्तविसर्जनम् |
स्नपनभेदनिरूपणम्. |
अथमोत्तममेतत्तुस्नपनं परिरीर्तितम् |
कोणेषु कुम्भैर्द्वात्त्रिंशत्केवलोदकपूरितैः || ९८ ||
तैर्विहीनं हरेस्स्नानं ज्ञेयन्त्वधममध्यमम् |
शुद्धोद कुम्भेर्यद्धीनं सर्वेस्तदधमाधमम् || ९९ ||
कुम्भेषु क्षेपणीयद्रव्याणि तन्मात्रा च. |
पाद्यकुम्भे तथा चार्घ्ये तथोपस्पर्शनाम्भसि |
कुम्भे कषायफलयोः कुम्भे चाक्षतगन्धयोः || १०० ||
एकैकस्मिन् घटेष्वेषु द्रव्याणामष्टकं क्षिपेत् |
पाद्यादिषु क्रमाद्द्रव्यं तत्प्रमाणं च कथ्यते || १०१ ||
तुलसी च तथा पद्मं दूर्व च स्यात्तथाऽक्षतम् |
श्यामूकं विष्णु पर्णीं च भिल्वपत्राणि चन्दनम् || १०२ ||
पर्णंच |
द्रव्याणि चन्दनं मुक्त्वा मुष्टिमात्राणि तत्फलम् |
सिद्धार्थं चाक्षतं चैव कुशाग्रं च तथा फलम् || १०३ ||
यवास्तिलाश्चन्दनं च प्रसवाश्च सुगन्धयः |
फलं सुपक्व मेतेषु चन्दनं च त्रिनिष्ककम् || १०४ ||
फलेषु पक्वमेष्वेम् |
शिष्टानि मुष्टिमात्राणि तक्कोलं चम्पकस्य च |
मुकुलं घनसारं च जातिरेलाफलानि च || १०५ ||
चन्दनस्य च |
लवङ्गत्वक्चन्दनं च पुष्पाणि सुरभीणि च |
पलार्धपरिमाणानि प्रत्येकं कमलासन || १०६ ||
शमीपलाशखदिरबिल्वाश्वत्थ विकङ्कतम् |
औदुम्बरं चन्यग्रोधश्शम्यादीनां त्वचः स्मृताः || १०७ ||
विकङ्कताः |
प्रत्येकं पलमानास्स्युः कदली भेजपूरकम् |
अम्रमामलकं भिल्वं नालिकेर फलानि च || १०८ ||
फलं तथा |
पनसं मातुलङ्गं च भिन्नान्येतानि निक्षिपेत् |
नीवारवेणुशालीनां प्रियङ्गुयुवयोरपि || १०९ ||
कङ्गुषाष्टिकयोश्चैव गोधूमस्य च तण्डुलाः |
मुष्टिप्रमाणा विज्ञेयाः कुङ्कुमं कोष्ठचन्दने || ११० ||
चन्दनं कुष्ठकुङ्कुनुम्. कुङ्कुमौ |
अगरूशीरमालानि ह्रिबेरं गिरिसम्भवम् |
मांसी मुरं च प्रत्येकं पलमात्राणि पद्मज || १११ ||
माणिक्यं पद्मरागं च नीलं वज्रं च पुष्यकम् |
प्रवालं मौक्तकं चैव तथा मरतकं क्षिपेत् || ११२ ||
वैडूर्यं नवरत्नानि तानि रत्न घटो दके |
रत्नकुम्भे निधातव्यवस्तूनि. |
सुवर्णं रजतं ताम्रं सीसकं त्रपुकं तथा || ११३ ||
कांस्यमायससारं च सप्तलोहघटो दके |
यपूदककुम्भे निधातव्यवस्तूनि तन्मात्रा च. |
प्रत्येकं निष्टमानानि रजनी सूर्यवर्तिनी || ११४ ||
सहदेवी शिरीषं च सदा भद्रं कुशाग्रकम् |
मार्जनानि षडेतानि मुष्टिमात्राणि निक्षिपेत् || ११५ ||
यवा वेणुयवाश्चैव व्रीहयश्चेति तत्त्रिकम् |
यपूदके निधातव्यं प्रत्येकं कुडुपं भवेत् || ११६ ||
पञ्चगव्यं तदुपयोगि पात्रं च. |
पञ्चगव्यानि ग्रह्णीयास्मृत्पात्रे नूतने शुभे |
गोमूत्रं गोमयं क्षीरं दधि सर्पिश्च पञ्चमम् || ११७ ||
गोविशेषः. |
कपिलाया जराया वा पञ्चिगव्यं प्रशस्यते |
तयोरभावे त्वन्यासां गवां गव्यं विधीयते || ११८ ||
नार्ताया न च गर्भिण्या न वृद्धायाः कदा चन |
नावत्साया उपादेयं धेनोर्मूत्रं शकृद्ध्वयम् || ११९ ||
पञ्चगव्यस्य शुद्धिः. |
भूमिष्ठं गोमयं ग्राह्यं सोष्णं क्रिम्याद्यदूषितम् |
निष्पीड्य सम्यग्गृह्णी याद्गोमयस्य रसं पुनः || १२० ||
सद्यस्तप्तं घृतं शुद्ध महोरात्रोषितं दधि |
क्षीरं ग्राह्यमतप्तं च दशाह्ज्जन्मनः परम् || १२१ ||
पञ्चगव्यस्य योजने प्रत्येकं मन्त्रः |
गो मूत्रं विष्णुगायत्र्या गन्धद्वारेति गोमयम् |
आप्याय स्वेति च क्षीरं दधिक्रा व्णेति वै दधि || १२२ ||
घृतं शुक्रमसीत्येवं गव्यानि सह योजयेत् |
विष्णुगायत्रिया यद्वा पञ्चोपनिषदै स्तुवा || १२३ ||
स्समम् |
पञ्चगव्यस्याधि देवताः. |
परमेष्ठी शकृन्मन्त्रो गोमूत्रस्यतु पूरुषः |
विश्वमन्त्रो भवेद्दध्नो निवृत्तिस्सर्पिषो भवेत् || १२४ ||
बिम्बमन्त्रो |
पयसस्सर्वमन्त्रस्स्यात्सर्वेषा मष्टवर्णकम् |
स्नपने पञ्चगव्यद्रव्यमानम्. |
दध्नि द्विगुण माघारा त्पीयूषं त्रिगुणं ततः || १२५ ||
दध्नो |
षड्गुणं मूत्रमेतस्माच्छकृद्वारि चतुर्गुणम् |
स्नवने कधितं मानम् |
प्रोक्षणेपञ्चगव्यद्रव्यमानम् |
प्रोक्षणे पञ्चकं समम् || १२६ ||
प्राशने पञ्चगव्यद्रव्यमानम्. |
गोमयेन समं मात्रं दधिस्याद्द्विगुणं ततः |
ततश्चतुगुर्णणं सर्पिस्सर्पिषोऽष्ट गुणं पयः || १२७ ||
प्रशने पञ्चगव्यानां प्रमाण मिदमीरितम् |
पञ्चगव्यमानन्यूनीभावे दोषः. |
द्रोणमानं पञ्चगव्यं घृतमानं च ता दृशम् || १२८ ||
तत्समं |
तादृगेव दधि क्षीरं तावदेव च माक्षिकम् |
अर्धं पास्यादाढकं वान्यूनं चेदासुरं भवेत् || १२९ ||
तादृगेव |
गृहोर्चायां पञ्चगव्यमानभेदः. |
गृहोर्चास्नपने न्यूनं प्रस्थेनैव प्रकल्पयेत् |
पाद्यादीनामुक्तद्रव्यालाभे प्रतिवापद्रव्याणि. |
पाद्ये द्रव्यान्तरालाभे दूर्वैवा र्घ्यो च सर्षपाः || १३० ||
प्रस्थमानेन |
शस्तमाचमनीये तु तक्कोलं मार्जनाम्भसि |
सहदेवी गन्धतोये चन्दनक्षोद इष्यते || १३१ ||
कषायतोये चाश्वत्थ श्शीतमुष्णोदरे सति |
रत्नोदरे वज्रमेकं कदल्येका फलाम्भसि || १३२ ||
सुवर्णं लोहपानीये शालि दण्डुलमक्षते |
यपूदकघटेव्रीहिश्शस्यते कमलासन || १३३ ||
पञ्चगव्यद्रव्यालाभे प्रतिवादद्रव्याणि. |
अलब्धे दधिनि क्षीरं क्षीरा भावे तु तद्दधि |
मधुन्यलब्धे सर्पींषि तदलाभे भवेन्मधु || १३४ ||
अलाभे पञ्चगव्यानां घृतमेवैकमिष्यते |
पञ्चगव्येषु यस्यस्यादलाभ स्तत्पदे घृतम् || १३५ ||
स्तत्कृते |
मध्यमस्नपनम्. |
स्नपनं मध्यमं वक्ष्ये यथा तदव धारय |
मध्ये पूर्वोक्तकलश स्थापने विहिते सति || १३६ ||
धार्यताम् |
द्वौ द्वौ बहिस्ततः पङ्क्तीस्सम्मृज्य कमलासन |
परितो वीदिकाः कुर्या द्बहिस्ता भ्यो घटास्पदम् || १३७ ||
वेदिकाः |
पञ्चाशत मथैकोन कलशान् दिक्षु निक्षिपेत् |
पूर्वादिषु प्रतिदिशं च तसृष्वम्बुजासन || १३८ ||
पञ्चाशतमथैकेन कलशानां विनिक्षिपेत् |
चत्वारो द्रव्यकलशास्तेषु शुद्धोदकाः परे |
गुऌओदकं चेक्षुरसं नालिकेरजलं तथा || १३९ ||
गुडशब्दे डकारस्थाने. ऌअ इति प्रतिवापः प्राचीनकोशेषु दृश्यते |
शान्तिवारि च पूर्वादौ क्रमान्न्यस्येच्चतुष्टयम् |
गुऌआभावे चेक्षुरसस्तस्त्याभावे गुऌओदकम् || १४० ||
गुऌअमानं पलाशीति रर्धमर्धार्ध मेव वा |
नालिकेर जलाभावे तत्थ्साने क्षीरमिष्यते || १४१ ||
तुलसीवेणुनीवरयवाश्च श्वेतसर्षपाः |
तिलाश्च षट् शान्तिकुम्भे द्रव्याणि तुलसी भवेत् || १४२ ||
मुष्टिमात्रं द्रव्यमन्यत्पृथ क्कुडुबसम्मितम् |
तुलसीदलमन्येषामलाभे ग्राह्यमिष्यते || १४३ ||
क्कुण्डाम्बु. कुसुम |
गुऌओदकादि भिर्द्रव्यैस्स्नपने विहिते सति |
कलशभेधेन स्नपनमन्त्रेभेदः. |
पाद्यादि द्रव्यकलशै र्घृतान्तै स्स्नापयेद्धरिम् || १४४ ||
मधुवातेति मन्त्रेण स्नपनं गुऌअवारिणा |
मधुनक्तमितिस्नान मैक्षवेन रसेन च || १४५ ||
मधुमान्न इतिस्नानं नालिकेराम्भसा पुनः |
वेदाहमितिमन्त्रेण शान्तिद्रव्य घटाम्बुभिः || १४६ ||
जितं त इति शुद्धेन वारिणा स्नपनं हरेः |
मध्यमोत्तममुद्दिष्टं मध्यमे मध्यमं पुनः || १४७ ||
चतुर्भिर्द्रव्यकलशै स्स्नानं शुद्धोदकैर्विना |
बहिष्ठैर्देवदेवस्य मध्यमाधम आप्लवः || १४८ ||
सर्वैरेव द्रव्यकुम्भैस्सर्वैश्शुद्धोदकैर्विना |
उत्तमं स्नपनम्. |
उत्तमं स्नपनं वक्ष्ये यथावदव धारय || १४९ ||
धार्यताम् |
विदिक्षु दिक्षुवत्कुम्भास्थ्साप्याः पूर्वोक्तसङ्ख्यया |
तेषु च द्रव्यकलशाश्चत्वारोऽन्ये चतुर्मुख || १५० ||
शुद्धोदका विदिश्यग्ने र्विन्यस्येन्मङ्गलोदकम् |
इन्द्रवल्यङ्कु राश्वत्थपल्लवाश्च कुशेशयम् || १५१ ||
एकपत्राम्भुजं कुष्ठं कुङ्कुमं रोहिण द्रुमम् |
पुण्यास्सु मनसश्चाष्टौ यूधिका मल्लिकापि च || १५२ ||
त्रीण्युत्पलानि जातिश्च चम्पकं केतकी तथा |
द्रव्याणि मङ्गलानीति प्रस्यीन्मङ्गलपाथसि || १५३ ||
अङ्कुरद्वयमेकैर् मेकपत्रं च पङ्कजम् |
मुष्टिमात्रं सुमनसश्छैकैकं चन्दनादिकम् || १५४ ||
पलं पृथक्पृथक्कुम्भे नैरृते सकलौषधीः |
मांसी कुष्ठं हरिद्रे द्वेमुरा शैलेयचम्बके || १५५ ||
मुस्ता वचा च कर्पूरं प्रत्येकं पलसम्मितम् |
पिष्ट्वा सर्वैषदिघटे निक्षिपेत्कमलासन || १५६ ||
वायवीये सर्वगन्ध द्रव्याणां क्षेपणं घटे |
कर्पूरं कुङ्कुमं कुष्ठं मांसी मलयजं मुरम् || १५७ ||
प्रियङ्गु केसरं मुस्ता तमालं नागकेसरम् |
मालद्वयं चकच्चोरं सुरपर्णिकरेसरम् || १५८ ||
उशीरं तगरं लोध्रं तथैव हरिचन्दनम् |
अगुरुद्वयं सितं कुष्ठं कालेयं ग्रन्थिपल्लवम् || १५९ ||
मुकुलं चम्पकस्येति प्रत्येकं पलसम्मितम् |
चूर्णीकृतं समस्तं च न्य स्येद्गन्धोदके घटे || १६० ||
चम्पकं चेति |
मालौषधिघटे शार्वे मालौषधिसमर्पणम् |
व्याघ्रीसिंही बला चाग्निश्शरपुङ्खा शतावरी || १६१ ||
बिल्वमूलं वचा शुण्ठी कोरण्डं शतमूलिका |
प्रत्येकं पलमानान्स्युः पिष्ट्वा कुम्भे विनिक्षिपेत् || १६२ ||
पुष्पकुम्भे |
मङ्गलोदकवस्तूनामलाभे चन्दनं वरम् |
सर्वौषधीनामेतासामलाभे कुष्ठमिष्यते || १६३ ||
अलाभे सर्वगन्धानां शस्यते चन्दनं वरम् |
मालौषधीनां सर्वासामलाभे शस्यते बला || १६४ ||
अधिदैवं समभ्यर्च्य उद्धृत्य स्नापयेत्क्रमात् |
पूर्वादिदिक्षु प्रथममाग्नेयादि ततःपरम् || १६५ ||
विष्णोर्नुकमिति प्रोच्यस्नापयेन्मङ्गलाम्भसा |
ओषध्य इति मन्त्रेण सर्वैषधिजलेन च || १६६ ||
नारायणानुवाकेन सर्वगन्धाम्बुभिर्हरिम् |
या ओषधीतिमन्त्रेण मालौषधिजलै स्ततः || १६७ ||
अस्त्रशुद्धोदकैस्स्नायाद्द्विद्ययाष्टाक्षरात्मना |
पाद्यपूर्वंघृतान्तंच स्नानं देवे यथापुरम् || १६८ ||
अत्र |
स्नायाद्देवम् |
उत्तमोत्तममेतत्तुस्नपनं परिकीर्तितम् |
उत्तममध्यमस्य उत्तमाधमस्य च स्नपनस्यविधिः. |
अर्धशुद्धोदकैर्हीनं भवेदुत्तममध्यमम् || १६९ ||
सर्वशुद्धोदकैर्हीन मुत्तमाधम मिष्यते |
स्नपनभेदे कलशसङ्ख्याभेदः. |
विंशतिः पञ्च च ब्रह्मन् सङ्क्ष्केपे कलशा मताः || १७० ||
चतुश्शतं च विस्तारे सप्ततिश्च त्रि रुत्तरम् |
कुम्भद्रव्याणा मधिदेवताः. |
द्रव्याणा मथ सर्वेषां कथयाम्यधिदेवताः || १७१ ||
घृतस्य परमात्मा च वासुदेवोऽधिदेवता |
उष्णोदकुम्भे पुरुष स्सत्यस्स्यात्तु फलोदके || १७२ ||
अच्युतो मार्जने देवस्त्वनन्तश्चाक्षतोदके |
रत्नोदके केशवस्स्याल्लोहे नारायणस्म्सृतः || १७३ ||
गन्धोदके माधवस्स्याद्गोविन्दस्स्याद्यवोदके |
पाद्योदके भवेद्विष्णु रर्घ्ये च मधुसूदनः || १७४ ||
त्रिविक्र मस्तथा चामे पञ्चगव्येषु वामनः |
दधिनि श्रीधरो देवो हृषीकेशः पयस्यपि || १७५ ||
मधुनः पद्मनाभस्स्याद्दामोदरः कषायके |
गुऌओदके वराहस्स्यात् नृसिंहश्चैक्षवोदके || १७६ ||
श्रीधरो नालिकेरस्य हयास्य श्शान्तिवारिणः |
वासुदेवो मङ्गलस्य कुम्भस्य कमलासन || १७७ ||
सर्वैषध्यम्बुकलशे देवस्सङ्कर्षणस्म्सृतः |
प्रद्युम्न स्सर्व गन्धस्य मालौषध्येऽनिरुद्धकः || १७८ ||
मूर्तिरेतेषु कुम्भेषु साङ्गपीठं समर्चयेत् |
शुद्धोदकेषु सर्वेषु नारायणसमर्चनम् || १७९ ||
गन्धोदकेषु सर्वत्र |
धान्यानां कलशानां च देवता स्याद्वसुन्धरा |
कुर्चानां दैवतं चास्त्रं चक्रकाणां सुदर्शनम् || १८० ||
पाससो दैवतं विष्णु स्सर्वेषां वा जनार्दनः |
नवसु स्नपनेषु शक्त्यनुसारतः करणेऽनुज्ञा. |
इत्येवं स्नपनं प्रोक्तं नवधा तव पद्मज || १८१ ||
एषामन्य तमेन स्यात्स्नानं वित्तानुसारतः |
तिथ्यादिबेदेन स्नपनभेदः. |
पञ्चम्यां स्नपनं विष्णो र्यथोक्त फलमश्नुते || १८२ ||
तमं तु |
त्रिजन्मर्क्षे दशगुणं श्रवणे द्विगुणं भवेत् |
त्रिगुणं शशिनः पूर्तौ क्षये शतगुणं भवेत् || १८३ ||
प्रोक्तम् |
चतुर्गुणं स्याद्द्वादश्यां त्रिगुणं तारकात्रये |
सङ्क्रान्त्यां षड्गुणं चैव विषुवे त्रिगुणं भवेत् || १८४ ||
विद्धि |
अयने दक्षिणे स्नान मेकं शतगुणं भवेत् |
अयनेऽन्यत्र विहिते सहस्रगुण आप्लवः || १८५ ||
विदौ विधुन्तुदग्रस्ते स्नानं त्रिंशद्गुणं हरेः |
सूर्ये शतसहस्रं तु युगान्ते कोटिसम्मितम् || १८६ ||
अनन्तं स्याद्व्यतीपाते कालेष्वेतेषु पूजनम् |
अनन्तरोक्तफलदं कल्पते चतुरासन || १८७ ||
अष्टोत्तरशतकुम्भस्नपनम्. |
अष्टोत्तरेण कुम्भानां शतेन कमलासन |
स्नपनं कथ्यते विष्णो र्यथावदवधार्यताम् || १८८ ||
ब्राह्मदिव्य मानुषेषु भागेषु त्रिषु भागयोः |
आद्ययोः स्फालयेत्सूत्राण्येकादश पृथक् क्षितौ || १८९ ||
मनुष्येषु |
प्रागायतानि तिर्यक्च तत्र मध्ये च दिक्षु च |
चत्वारि चत्वार्यष्टासु कुम्भस्थानानि वीधिकाः || १९० ||
अन्यानि कुर्यादेवं चषट्त्रिंशत्कोष्ठकं भवेत् |
तत्र कुम्भां स्तोयपूर्णान् विन्यसेन्मानुषे पदे || १९१ ||
पुनः |
भागे नव नवाशासु कुम्भानष्टसु कल्पयेत् |
अष्टोत्तरशतं कुम्भास्संपद्यनैतथा सति || १९२ ||
ब्राह्मे तु मध्यमे स्थाने कलशानां चतुष्टये |
एकस्मिन् द्रव्यमाघारं शिष्टं शुद्धोदकं त्रिकम् || १९३ ||
दिव्ये तु भागे प्राचीने कलशानां चतुष्टये |
एकस्मिन्नुष्णमु दकं दिश्यग्ने रत्नशम्बरम् || १९४ ||
याम्येफलोदकं लौहं नैरृत्यामथ वारुणे |
मार्जनं वायुभागेतु गन्धतोय मुदग्दिशि || १९५ ||
मुदक्पुनः |
अक्षतोदकमीशाने यवम्भःकथिता नव |
द्रव्यकुम्भा बहिर्भागे मानुषे पूर्ववत्पदे || १९६ ||
पूर्वसद्भवेत् |
पाद्यादि द्रव्यकलशाः पूर्वादिषु यथोदिताः |
कल्पनीया यथापूर्वमुद्दृत्य स्नावयेत्क्रमात् || १९७ ||
एकोनपञ्चाशत्कुम्भस्नपनम्. |
कुम्भैरेकोनपञ्चाश त्सङ्ख्क्यैरन्यदुदीर्यते |
चन्दनार्द्राणि सूत्राणि दश प्रागायतानि च || १९८ ||
त्कलशैरन्यदीर्यते |
तथोदगायतानि न्युस्थ्साप्यानि कमलासन |
मध्ये नवसु कोष्ठेषु विन्यसेत्कलशान्नव || १९९ ||
दिक्षु प्रतिदिशं कुम्भान् षट्सु कोष्ठेषु तावतः |
विन्यसेच्च तुरः कुम्भान् विदिक्ष्वपि पृथक्पृथक् || २०० ||
वीधयोऽन्यानि कोष्ठानि द्रव्याणि च यथापुरम् |
पञ्चविंशतिकुम्भस्नपनम्. |
कुम्भानां पञ्चविंशत्या स्नानमन्यदुदीर्यते || २०१ ||
पूर्ववद्दश सूत्राणि स्फालयित्वा भुवस्थ्सले |
मध्ये नवसु कोष्ठेषु नवकुम्भान् प्रकल्पयेत् || २०२ ||
प्रागादिदिक्षु प्रत्येकं कलशां स्त्रीन्प्र कल्पयेत् |
आग्नेयादिषु कुम्भानां कोणेष्वेकैकल्पनम् || २०३ ||
द्वौ द्वौ पुर्वादिषु घटौ पार्श्वतः केवलोदकौ |
अष्टा तान्वर्जयित्वान्ये द्रव्यकुम्भा यथोदिताः || २०४ ||
मध्यमे कुम्भनवके यथोक्त द्रव्यपूरणं |
गन्धद्रव्यैः पूरयेद्वाकलशान्वञ्चविंशतिम् || २०५ ||
चन्दनागुरु काश्मीर कुष्ठ तगर वीरणैः |
असितागुरुणा चापि हरिचन्दनवारिणा || २०६ ||
ह्रीभेरकर्दमेनापि नवमेन घटान्नव |
मध्यादीशानपर्यन्तं पूरयेत्कमलासन || २०७ ||
तमालसितकुष्ठाभ्यां सुरपर्णीरजः कणैः |
कर्पूरनागसुमनोमुस्ताचम्पककुट्मलैः || २०८ ||
प्रिङ्गुपुष्पकालेयग्रन्धिवल्लवभीजकैः |
मांसीखर्जूरशैलेय ह्रीबेरैश्च सुरद्रुमैः || २०९ ||
मुरेण तैर्यथा योगं बहिष्ठानपि षोडश |
हित्वा बहिर्वि दिक्कुम्भान् यद्वान्यैस्स्नापयेद्धरिम् || २१० ||
स्फालयेन्नव सूत्राणि यथा पूर्वं भुवस्थ्सले |
ब्राह्मस्थाने चतुष्कोष्ठे विन्यसेच्चतुरो घर्टा || २११ ||
द्वौ द्वौ स्यातां च पूर्वादि दिक्ष्वौकैकं विदिक्षु च |
रत्नं लोहं तथा गन्धमाघारं च यथा क्रमम् || २१२ ||
दिक्षुचैको दिक्षुचैव |
द्रव्याणि कुम्भेष्वाग्नेय कोणादि स्थेष्वनु क्रमात् |
बहिरैन्द्र पदे कोष्ठे द्वयोःकलशयोर्यथा || २१३ ||
पाद्यमर्घ्यं तथाग्नेय कोणे दधिघटो भवेत् |
याम्ये चाचमनीयं प्राक्सञ्चगव्यं च पश्चिमे || २१४ ||
तु |
कोणे तु नैरृते क्षीरं पश्चिमे तु घटद्वये |
दक्षिणेऽक्षतमन्यत्र मार्जनाम्भस्तथानिले || २१५ ||
कोणे मधु तथा सौम्ये कषायां च कुशोदकम् |
यपोदकं शार्वकोणे द्रव्यैः पद्यादिभिः क्रमात् || २१६ ||
पाद्यद्रव्यादिभिः |
युग्भिष्टोडशभिस्सूक्तैः पौरुषै स्स्नापयेद्धरिम् |
कुम्भैर्द्वादशभिर्वापि चतुर्भिर्मध्यमस्थितैः || २१७ ||
कत्नेन लोहेन तथा सर्वगस्थेन सर्पिषा |
पूर्तैर्बहिरिन्द्रादि कोष्ठस्थैरष्टभिर्घटैः || २१८ ||
प्राचीमारभ्य पाद्येन दध्यर्घ्यक्षीरपूरितैः |
तथैपाचमनीयेन मधुना पञ्चगव्यकैः || २१९ ||
फलोदकेन यद्वान्यैर्द्रव्यैर्द्वादशसम्मितैः |
मध्येऽग्नि कोणे कोष्ठेन नैरुतेऽगुरुणाऽनिले || २२० ||
ग्रन्धिपल्लवभीजेन शार्वे मलयजाम्भसा |
बहिःक्रमेण पूर्वादि दिक्ष्वाष्टासु चतुर्मुख || २२१ ||
काश्मीरजेन मांस्या च तमालेन मुरेण च |
मूलेन पर्वतोत्थेन सुरवर्णीरजःकणैः || २२२ ||
चम्पकप्रसनक्षोदैः शर्जूरेण प्रपूरितैः |
कलशैस्स्नापयेद्देवं नवभिर्वा विधेःपदे || २२३ ||
प्रागादिदिक्षु चाष्टानु क्रमेणाज्येन वस्तुना |
पाद्येन दध्ना चार्घ्येण क्षीरेणाचमनाम्बुना || २२४ ||
प्रागादि इत्यर्धं क्वचिन्न |
मधुना पञ्चगव्येन फलेनापि च पूरितैः |
रत्नैर्वा नवभिपूर्णैः कुम्भैर्नवभिर्लावः || २२५ ||
पञ्चभिर्वा घटैर्मध्ये दिक्षु प्रागादिषु स्थितैः |
मणिभिश्च प्रवालैश्च मुक्ताभिःपूरितैःक्रमात् || २२६ ||
पूर्वादिषु |
वज्रवैडूर्य शकलैर्लोहैर्वा पञ्चभिश्शुभैः |
पञ्चामृतैर्वा मधुना गुऌएनाज्येन पूरयेत् || २२७ ||
कलशैः |
पूरितैः |
दध्ना च पयसा यद्वा पञ्चगव्यैःक्रमाद्भवेत् |
एकेन वाहरेस्स्नानं द्रव्यैः पूर्वोदितैर्भवेत् || २२८ ||
व्यस्तैस्समस्तैर्वा वित्तं देशकालानुसारतः |
देया च दक्षिणा स्वर्णनिष्काःकलशम्मिताः || २२९ ||
अर्धं पादं तदर्धं वा यथावित्तानुसारतः |
स्नपनं दक्षिणाहीनं निष्फलं फलकामिनः || २३० ||
Sanskrit als Sprache der spirituellen Überlieferung
Begleitendes Video aus dem Themenbereich Sanskrit; keine Rezitation oder Einzelversauslegung der Padma Samhita.
Kapitel 9
Lesehilfe: Kapitel 9: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
नवमोऽध्यायः |
ब्रह्मणा भगवन्तं प्रतिप्रजासर्ग शक्ति प्रार्थना. |
ब्रह्मा |
नियक्तोऽहं प्रजास्स्रष्टु त्वया कैटभसूदन |
मुह्यामि च प्रजास्स्रष्टुं कथं कर्तव्य मित्यहम् || १ ||
भगवता सहस्रकलशाभिषेककरणानुज्ञा |
श्रीभगवान् |
देवराज्यात्परिभ्रष्टो देवेन्द्रो ब्रह्महत्यया |
मां समाराध्य विधिना प्राप्तवानात्मनःपदम् || २ ||
एवमन्ये च राजानो ममाराधनमुत्तमम् |
कृत्वा निर्धूय पापानि पातकानि महान्त्यपि || ३ ||
प्रापुर्लोकान् सुदुष्प्रा पानिष्टानत्ययवर्जितान् |
एकोत्तरेण कलशैस्सह स्रेणाभि षेचनम् || ४ ||
पवित्रवस्तुसहितैः पवित्रजलपूरितैः |
आराधनं मम ब्रह्मन् प्रीणनं परमं मतम् || ५ ||
पापापनोदनैकान्तं सर्वाभ्युदयसाधनम् |
प्रजानामपि राष्ट्रस्य राज्ञश्चायुर्विवर्धनम् || ६ ||
अनुष्ठितं पुत्रकामैस्तथा विजयकाङ्क्षिभिः |
दुर्भिक्षदुर्निमित्तादि घोराणां शमनं परम् || ७ ||
सर्वसंपत्करं सर्व पुरुषार्धैकसाधनम् |
आराधनेन तेन त्वं मामाराध्य यथाविधि || ८ ||
निर्मुक्तमोहो निष्पापः प्रजास्स्रष्टुमपीशिषे |
ब्रह्मा |
सहस्रकलशस्नानविधिःकीदृक्कथं भवेत् || ९ ||
सहस्रकलशानां च |
पवित्राणि च वस्तूनि कानि को वा विधेःक्रमः |
स्थापनं कलशानां च को वा स्थापक इष्यते || १० ||
श्रीभगवान् |
सहस्रकलशाभिषेक विधानम् |
द्वात्रिंशद्धस्त विस्तारं द्विगुणेनायतं शुभम् |
कलशास्पदभू भागवैपुल्यानुगुणं महत् || ११ ||
विस्तीर्णम् |
भागे |
मण्टपं कल्पयित्वान्यद्द्वाराणि च यथाविधि |
कलशस्थापनाभूमिं पञ्चविंशतिधा समम् || १२ ||
स्थानभेदेन कलशानां सङ्ख्या. |
विभज्य सूत्रमार्गेण मध्यमे ब्रह्मणःपदे |
एकाशीतिघटा स्थ्साप्यादिव्ये तु तदनन्तरे || १३ ||
सूत्रपातेन |
भागे प्रत्येकमाशासु पूर्वादिचतसृष्वपि |
एकाशीतिघटाः स्थाप्याः कोणेऽपि च चतुष्टये || १४ ||
स्थाप्याश्चै कोनपञ्चाशत्प्रत्येकं मानुषे पुनः |
भागे षोडश दिक्षु स्यात्प्रत्येकं पञ्चविंशतिः || १५ ||
ऊना चैकोनपञ्चाश |
विधिकाश्च यथायोगं कल्पनीयाः पदे पदे |
ब्राह्मे भागे तु नवके मध्यमे च महाघटे || १६ ||
मध्यमे मध्यमे |
सर्वलोहानि रत्नानि सर्वाणि च फलानिच |
सर्वैषधींश्च सर्वांश्च गन्धपूर्णांश्च निक्षिपेत् || १७ ||
श्रीवत्साद्याः प्रतिकृतीः कृत्वा निष्कप्रमाणिकाः |
स्वर्णं ताम्रं च रजयं केवलं चैव निक्षिपेत् || १८ ||
केनलेनैव |
भगवतोष्टौ चिह्नानि. |
श्रीवत्सं वनमालां च शङ्खं चक्रं गदां तथा |
पद्मं शार्ङ्गं तथा खड्ग मष्टौ चिह्नानि शार्ङ्गिणः || १९ ||
वासोभ्यां वेष्टिते कुम्भे वासुदेवं समर्चयेत् |
ब्राह्म एव च भूभागे परितो नवकाष्टके || २० ||
प्राचीन कुम्भनवके मध्यमे कलशे क्षिपेत् |
नूर्याकान्तं पद्मरागं पुरुषस्तस्य देवता || २१ ||
कुम्भानां देवताः द्रव्याणि च . |
नवकानां तथान्येषां क्रमाद्द्रव्यं च देवताः |
कुम्भस्य वक्ष्यते ब्रह्मन् मध्यमस्य पृथक् पृथक् || २२ ||
नवानां च |
वैडूर्य मिन्द्रकान्तं च द्वयं द्रव्यं तु देवता |
वासुदेवश्चेन्द्र नीलोऽप्ययस्कान्तश्च तद्द्वयम् || २३ ||
मिन्दुकान्तं च द्वयं |
द्रव्यस्य |
देवता सत्यमूर्तिस्स्यात्प्रवालो वस्तु गारुडम् |
सङ्कर्षणो देवता स्यात्पुष्यकं स्फटिकद्वयम् || २४ ||
द्रव्यं देवोऽच्युतः पद्मरागः कनकमेव च |
प्रद्युम्नो देवता तस्य वज्रं रजतमेव च || २५ ||
अनन्तो देवता तस्य ताम्रं मुक्ता च वस्तुनि |
देवता चानिरुद्धस्स्या त्सर्वकुम्भेषु मौक्तिकम् || २६ ||
दिव्ये भागे दिशि प्राच्यामेकाशीतिघटास्पदे |
नवके मध्यमे मध्यकलशे कदलीफलम् || २७ ||
पनसाम्रं मातुलङ्गं हव्यजम्बाककेसराः |
बदराणि च तत्वात्मा देवता तस्य कथ्यते || २८ ||
भव्य |
देवताऽद्रव्यमन्यत्र नवकेष्वष्टसूच्यते |
क्रमान्मध्ये घटे द्रव्यं मातुलङ्गं सदाडिमम् || २९ ||
पृथिवी देवता तस्य जम्बा नारङ्गमेव च |
देवताऽपामदिष्ठात्री तक्कोलैला फलद्वयम् || ३० ||
तेजस्वी पुरुषो देवः क्षीरिकामलकद्वयम् |
द्रव्यं देवो जगत्प्राणो द्राक्षा खर्जूरजं फलम् || ३१ ||
द्रव्यं विष्णुपदं देवचूतं पारा च दाडिमम् |
देवो मनःफलं क्षुद्रपनसं वस्तु देवता || ३२ ||
पाराव तान्वितम् वासुदेवो मनः क्षुद्रपनसस्तु स देवता |
अहङ्कारःफलं बिल्वकदल्योर्वस्तु देवता |
बुद्दिस्सर्वेषु कुम्भेषु बदराणि च निक्षिपेत् || ३३ ||
अष्टाक्षरेण मन्त्रेण पञ्चोपनिषदा पुनः |
कुम्भानामपि सर्वेषा मभिमन्त्रणमिष्यते || ३४ ||
उशीरं कुङ्कुमं कुष्ठं मांसी मलयजं मुरम् |
ह्रीबेरमगुरुं पिष्ट्वा कुम्बे तत्र विनिक्षिपेत् || ३५ ||
त्रैलोक्यमोहनं देव मर्चयेन्मन्त्रवित्तमः |
नवकेषु तथा न्येषु प्राच्यादिषु यथाक्रमम् || ३६ ||
मच्युतम् |
जलतो वीरणीमूलं बभ्रुर्देवस्स भाज्यते |
कर्पूरकाश्मीरमुभौ द्रव्यं शौरिश्च देवता || ३७ ||
जलदो वीरणी जलजो विदारिणी ततो विदिरणी |
भाष्यते |
चम्पकं मुकुलं मांसी दासार्हश्चाधिदेवता |
चन्दनं चन्दनं रक्त मन्नाधिपतिरच्युतः || ३८ ||
नुरपर्णी रजो मौरं कर्दमो वस्तु देवता |
वैकुण्ठो गिरिजं मूलं प्रियङ्ग्वाश्च रजःकणाः || ३९ ||
रजो मूरं |
वैकुंठगिरिजं मूलम् |
पुरुषोत्तमदैवत्यं कुष्ठे द्वे द्रव्यमुच्यते |
मुकुन्दःकृष्णधवलो वक्ररूपी वृषाकपिः || ४० ||
मुकुन्दकृष्णधवलानगुरुश्च |
तमालपत्रं सर्वेषु निक्षिपेत्पुरुषात्मना |
पवमानादिभिर्मन्त्रेर्मन्त्रेयेत्तान् सकृत्सकृत् || ४१ ||
त्रत्येकं गन्ध वस्तूनि फलन्यष्टै यथोदितम् |
एकाशीति घटग्रामे वारुणे ब्रह्मणः पदे || ४२ ||
वस्त्राणि |
घटाग्रामे |
कुम्भेषु पूरणीया आपः. |
घटे वापीसरित्कूप ह्रदवृष्टि हिमापगाः |
पत्युः पाथांसि चाहृत्य तटाकस्य च निक्षिपेत् || ४३ ||
तारकेषु च निक्षिपेत् |
नवकानामथान्येषा मष्टानां मध्यमे घटे |
पूर्वोक्तान्येव वाप्यादि नीराणि क्रमशःक्षिपेत् || ४४ ||
कलशे क्षिपेत् |
मध्यमार्न द्रव्यकलशान् सर्वानेव प्रपूरयेत् |
नलिनीनिर्झराम्भोभिः मत्स्यकूर्मावपि द्वयम् || ४५ ||
मध्यमान् इत्यादि श्लोकद्वयं क्वचिन्नदृश्यते |
निष्कद्वयपरिच्छिन्न काञ्चनेन विनिर्मितम् |
कलशेष्वेव नवसु मध्यमेषु विनिक्षिपेत् || ४६ ||
मत्स्यादि रूपिणं देवं वर्जयित्वाच भार्गवम् |
यथोक्तकुम्भनवके क्रमेणैव सभाजयेत् || ४७ ||
देवमर्चयित्वा च भार्गपम्. भाजनमिति च |
मध्यम नवककुम्भेषु नव धान्यानि. |
एकाशीति पदे सौम्ये मद्ये नवकमध्यमे |
यमगोधूमकव्रीहि शालिमुद्गप्रियङ्गुकान् || ४८ ||
माषश्यामाकनीवारान् क्षिपेत्तत्र च पूजयेत् |
देवेशं गरुडारूढं पद्मनाभं यथाविधि || ४९ ||
धान्यानि तानि चैकैक मन्येष्वष्टसु निक्षिपेत् |
घटेषु मध्यभूतेषु क्रमात्सर्वत्र शालयः || ५० ||
पूजयेद्वनमालां च शङ्खं चक्रं च कौस्तुभम् |
पद्मं शार्ङ्गं गदां खड्गं क्रमादुक्तं घटाष्टके || ५१ ||
आग्नेयादिदिक्कुम्भेषु पूरणीयद्रव्याणि. |
पङ्छा शत्सुटेष्वग्नेरेकोनेषु तथा दिशि |
मध्यमं कुम्भनवकमाघारेण प्रपूरयेत् || ५२ ||
शीतिघटे |
षट्स्वेन्द्रेषु च गोमूत्रं क्षीरं याम्येषु पुरुणे |
दधि षट्सु तथा सौम्ये गोमयं षट्सु निक्षिपेत् || ५३ ||
चतुर्षु कुम्भेष्वाग्नेये कोणे वाप्युष्णमुच्यते |
नैरुते पञ्चगव्यानि पञ्चामृतमथानिले || ५४ ||
ऐशाने सक्तुभिस्तेषु नारायणसभाजनम् |
नैरृत्तौकोनपञ्चाशद्घटेषु ब्रह्मणःपदे || ५५ ||
तैलेन नवकं पूर्य गन्धाद्भिष्षट्पुरस्थ्सिताः |
घटसारद्रवैर्याम्ये लाजैःकुम्भेषु वारुणे || ५६ ||
मांस्याद्भिः प्राच्यां स्यात् इत्यपि पाठः |
सौम्ये भिमन्त्रिताम्भोभिः कोणेषु गुऌअवारिभिः |
यजेत तेषु कुम्भेषु वासुदेवं जगद्गुरम् || ५७ ||
मारुदैकोनपंचाञ्चाशद्घटेषु नवकं पुनः |
पूर्य सर्षपतैलेन प्राच्यां षट्पाद्यपारिभिः || ५८ ||
याम्येषडर्घ्यैष्षट्कुम्भाः प्रतीच्याचमनाम्बुभिः |
षट्सैम्ये मङ्गलाम्बोभिः पूरयेत्कमलासन || ५९ ||
मज्जनाम्बोभिः |
कोणेष्विक्षुरस्तेस्तत्र समाराध्योऽनिरुद्धकः |
एशानैकोनपंचाशद्घटेषु ब्रह्मणः पदे || ६० ||
नवकं मधुभिःपूर्य प्राच्यां षट्सर्वगन्धकैः |
शान्तिवारिभिरन्यत्र षट्कं कोणे च नैरुते || ६१ ||
कोणेषु |
आग्नेये च स्थिताः कुम्भा नालिकेरजलैरपि |
शार्वे च वायवीये च पीयूषैर्नालिकेरजैः || ६२ ||
यष्टप्यो हरिरेतेषु कुम्भेषु कमलासन |
भागे तु मानुषे प्राच्यां कुम्भानां पञ्चविंशतिः || ६३ ||
मध्यमं पुरयेन्मृद्भिर्वक्ष्यमाणाभिरष्टभिः |
क्षेत्रतीर्थाब्धिशैलेषु गजसूकरयोरपि || ६४ ||
वल्मीकवृषमोर्मृत्स्नान्यस्यते मध्यमे घटे |
अष्टास्वन्येषु कलशेष्वेकै कां तां विनिक्षिपेत् || ६५ ||
ननकैष्वेकैकां |
अर्च्यश्च केशवस्तेषु क्रमादन्यत्र चोच्यते |
सहदेवी वचा चैव शतमूला शतावरी || ६६ ||
अभ्यर्च्यः |
कुमारी च गुलूची च सिंही व्याघ्रीति चाष्टमी |
मूलानि मध्ये चै तेषां कलशे मध्यमे क्षिपेत् || ६७ ||
एकैकमष्टास्वन्येषु तेषु नारायणार्चनम् |
न्यग्रोधोमम्बराश्वत्थ जम्बुभिल्व त्वचां रसाः || ६८ ||
त्व चस्समाः |
तथापलाशमधुक शिरीषाणामपि त्वचः |
न्यसनीया घटे मध्ये प्रत्येकमितराष्टके || ६९ ||
पूज्यश्चमाधवस्तेषु तरूणां पल्लवा इमे |
पलाशबिल्ववकुल कदम्बाम्रशिरीषजाः || ७० ||
न्यग्रोधाश्वत्थजाश्चापि न्यसनीया विधेःपदे |
एकैकमित रेष्वर्च्यो गोविन्दो जातिमल्लिकैः || ७१ ||
प्रियङ्गु पद्मवकुल नन्द्यावर्तक चम्पकाः |
कुन्दं चैतानि पुषाणि न्यसनीयानि मध्यमे || ७२ ||
कुन्दं च पुष्पाण्येतानिपुष्पाण्येतेषाम् |
सिद्धार्थो राजसिद्धार्थो वंशो गोरोचनापि च || ७३ ||
इन्द्रवेणुर्यवष्षष्ठश्शमी च चणक स्तथा |
एतानि मध्यमे कुम्भे एकैकमिति रेषु तत् || ७४ ||
एकैकं मध्यकुम्भेषु |
रेष्वपि |
तेषु पूज्यो मधुरिपुसरस्सी रुहसम्भव |
तिलमारण्यं कं ग्राम्यं जीरकद्वयमेव || ७५ ||
पूजा मधुरिपोः |
ग्राह्यं |
अतसीसम्भवं चैव शतपुष्पं कुमारकम् |
ऋषिबीजं च कलशे मध्यमेऽन्यत्र पूर्ववत् || ७६ ||
सम्भवच्छन्नं सम्भवं चिह्नं |
कुठाकरम् |
तेषां त्रिविक्रमो देवो यष्टव्य स्साङ्गपीठकः |
श्यामाकष्षाष्टिकश्शाली नीवारस्य च तण्डुलाः || ७७ ||
दुर्वाकुशेन्द्र वल्लीनामङ्कु राः पिप्पलस्य च |
न्यस्यन्ते मध्यमे कुम्भे कुम्भेष्व न्यत्र पूर्ववत् || ७८ ||
देवता वामनस्तेषु कुशा दिव्यौषधास्त्रयः |
काशा मूलमुशिरस्य शरपुङ्खस्य मूलिका || ७९ ||
दिव्येष्टुनः दिव्येषुनः |
मूलिकास्त गरस्यापि तथापामार्गमूलिका |
ते मध्ये च घटे सर्वे घटेष्वन्यत्र पूर्ववत् || ८० ||
पूर्व |
देवता श्रीधरस्तेषां तुलस्यौ च सितासिते |
वेणुकेसरिणोःपत्रे पत्रे केतकबिल्वयोः || ८१ ||
शमीपर्णं तथा जातेर्मध्यमेऽन्यत्र पूर्ववत् |
देवता च हृषीकेशो द्वयं मुस्ताकचोरकम् || ८२ ||
द्विधिमुस्ता |
कुमुदोत्पलयोः कन्दं कह्लोरं शीतलीयकम् |
न्यस्येन्मध्ये कुवलयं कुम्भेष्वष्टसु पूर्ववत् || ८३ ||
तेषां देवः पद्मनाभो मुद्गमाषयवाङ्कुराः |
निष्पावतुवरीव्रीहिकुलुत्थानामथाङ्कुराः || ८४ ||
आढकस्य च कुम्भानां मध्यमेऽन्यत्र पूर्ववत् |
दामोदरार्चनं तत्र शङ्ख पुष्पी बला तथा || ८५ ||
पुष्पफलं |
विष्णुक्रान्ता सदाभद्रा पद्ममेकदलं वरम् |
सहा च सह देवा च न्यसनीयाःविधेःपदे || ८६ ||
मुरम्. खुरम् |
देव्यै |
अन्यत्र पूर्ववत्पूज्यो यज्ञनारायणो भवेत् |
स्वेतार्कश्च तथैवाग्निभद्रा ब्रह्मसुवर्चला || ८७ ||
देनवत्पार्वो |
सरसा च विरक्ता च पृश्निपर्णी स्थिरा तथा |
एरण्डकं घटे मध्ये अन्यत्र स्याद्यथा पुरम् || ८८ ||
विकर्ता च. सरक्ताच |
अर्चनीयो हरिस्तत्र सूरभिः पद्मकेसरं |
पत्रमेला लवङ्गत्व ङ्नागकेसरमेव च || ८९ ||
सुरभिः |
लताजातिफले मध्ये न्यसनीया विधेःपदे |
एकैकमितरेषु स्यात्तेषु कृष्णश्च देवता || ९० ||
सुवर्णं रजतं ताम्रं प्रत्येकं निष्टपञ्चकम् |
कृत्वा पद्माकृतिं कांस्यं दर्पणं चषकानि च || ९१ ||
अयोलवित्राद्याकारं त्रपुं सीसकपित्तले |
त्रयं प्रकृतिरूपेण न्यस्यते मध्यमे घटे || ९२ ||
प्रत्येकमितरेष्वेतद्धय ग्रीवोऽधिदैवतम् |
कुम्भेष्वन्येषु सर्वेषु पूरणं गन्धपारिभिः || ९३ ||
सहस्रकलशस्स्नाने देशिका बहवः स्मृताः |
चत्वारो द्विगुणं वापि तेषां षोडश ऋत्विजः || ९४ ||
पुण्याहं वाचयित्वान्वगधिदेवार्चनं भवेत् |
पञ्चोपनिषदैर्मन्त्रैस्सहस्रं सर्पिषाहुतीः || ९५ ||
शान्त्यर्थं मूलमन्त्रेण जुहुयात्समिदादिभिः |
यावद्रजोभिर्हारिद्रैस्स्नपनं मधुविद्विषः || ९६ ||
मृत्स्नाभिर्मानुषे भागे प्रक्रम्य ब्रह्मणःपदे |
रत्नोदकान्तं कलशैस्सहस्रेणाभिषेचनम् || ९७ ||
मृदा विष्णोर्नुकमिति स्नपनं मूलवारिभिः |
तद्विष्णोरिति देवस्य कषाय कलशाम्बभिः || ९८ ||
प्रथद्विष्णुरितीशस्य विद्यया पल्लवाम्बभिः |
देवस्य त्वेति कुसुमैस्तवामित्यपिसर्षपैः || ९९ ||
प्रविष्णुरिति मन्त्रेति |
द्रुवः पात्विति मन्त्रेण स्नपनं तिलवारिभिः |
भद्रं कर्णेतिमन्त्रेण षाष्टिकाम्बुभिराप्लवः || १०० ||
न ते विष्णुरिति स्नानं कुश मूलाम्बभिर्हरेः |
इरावतीति मन्त्रेण तुलसीदलवारिभिः || १०१ ||
मुस्ताम्बुभिरतो देवा अवन्त्विति चतुर्मुख |
इदं विष्णुरिति स्नानं उष्णैस्त्रीणिपदेति च || १०२ ||
मुद्गेस्त्रीणि |
शङ्खपुष्पाम्बुभिश्चे तैर्विष्णोः कर्माणि पश्यत |
तद्विष्णोः परमिति सुरभ्यादिजलै स्तथा || १०३ ||
तिद्विप्रास इतिस्नानं लोहौर्भागे नृणामपि |
दिव्ये भागे तु पौरस्त्ये एकाशीति घटास्पदे || १०४ ||
प्रागादि ब्रह्म भूम्यन्तं क्रमेण स्नानमिष्यते |
स्नपने दिक्कलशभेदेन मन्त्रभेदः. |
ऐन्ट्रे फलाम्बुभिः स्नानं यज्ञायज्ञीयमन्त्रकम् || १०५ ||
क्रमेण मन्त्राः कथ्यन्ते द्रव्य कुम्भाष्टके यथा |
इन्द्राविष्णुपदे मन्त्रो मनीषापदलक्षितः || १०६ ||
पषट्ते विष्णुरित्येत त्तिस्रो वाच इतीदृशः |
इषेत्वोर्जेति मन्त्रेण सावित्री त्वमसीति च || १०७ ||
स्तरिरित्वमितीति च |
यस्मिन्विश्वानि विद्य च पर्जन्यायेति लक्षितः |
एकाशीतपदे याम्ये स्नानं गन्धोदकैर्घटैः || १०८ ||
नारायणानुवाकस्य ऋग्भिरष्टाभिरादितः |
व्यस्ताभिरष्टभिस्स्नानं सर्वाभि र्मध्यमेन तु || १०९ ||
दिग्भागे पश्चिमे ब्रह्म न्ने काशीति फटास्पदे |
प्रागादि ब्रह्मभूम्यन्तं स्नानं वाप्यादिभिर्जलैः || ११० ||
व्यापृतिभिर्जलैः |
मन्त्राः क्रमेण वक्ष्यन्ते प्रतिद्रव्य घटाप्लवम् |
या आप इति मन्त्रेण सिन्धुद्वीपेतिविद्यया || १११ ||
एते शतमृचा स्नानमिमं मे वरुणेति च |
शं नो देवीरभीत्येष यासां राजेति मन्त्रतः || ११२ ||
एष ते च ऋचा |
मन्त्रकम् |
समुद्र ज्येष्ठ मन्त्रेण यासां देवेति विद्यया |
सूक्तेन वारुणेनैव स्नानं द्रव्य घटैरि ति || ११३ ||
घटेन तु |
एकाशीति घटे सौम्ये वूर्वाद्यब्जपदावधि |
धान्यानि वस्तु कुम्भानां नवानां मन्त्र उच्यते || ११४ ||
त्रातार मिन्द्रसाम्ना चमन्तश्चात्वा वहन्त्विति |
मन्त्रोजितं त इत्येष आपो वहति लक्षितः || ११५ ||
मन्त्रश्च तावती त्येष स त्वं नो अग्निरित्यृचा |
त्वं नो अग्न इति च महाव्याहृतय स्तथा || ११६ ||
अणोरणीयानित्यन्तो मन्त्रः स्नान विदौ क्रमात् |
एकोन पञ्चाशत्कुम्भेष्वग्नेः कोणे यथाक्रमम् || ११७ ||
गोमूत्रादि घटे स्नाने मन्त्राणं कथ्यते क्रमः |
गायत्री प्रथमा तासां पयोव्रत मनन्तरम् || ११८ ||
दधिक्राव्णेति च स्नानं गन्धद्वारामितीदृशम् |
विष्णोरराटमिति च मूर्धानं दिव इत्यृचा || ११९ ||
हिरण्यगर्भमन्त्रेण आप्यायस्वेति विद्यया |
घृतस्ना तेति मन्त्रश्च घृतस्नानविधौ क्रमः || १२० ||
एकोनपञ्चाशत्कुम्भे पदे निरृतिगोचरे |
मन्त्राःक्रमेण वक्ष्यन्ते वस्तुकुम्भेरथाप्लवे || १२१ ||
रक्षोघ्नमिति सामाद्यं पवित्रन्त इतीति च |
भगवान् वासुदेवेति सामवेदव्रताह्वायम् || १२२ ||
वै राजसाम कथितं तथा चैव पराजिताः |
कथ्यते वायुकोणेऽपि मन्त्रास्स्नासविदौ तथा || १२३ ||
वैय्याघ्र |
द्वादशाक्षरमन्त्रश्च द्रुपदा दिव इत्यसौ |
अष्टाक्षराह्वयो मन्त्रश्शन्नोदेवीरिति स्मृतः || १२४ ||
मन्त्रश्चाक्षरमन्त्र |
हिरण्यपाणिरिति च वेदाहमिति च क्रमात् |
ईशानकोणे मन्त्रोक्ति रानोनियुरिति स्मृतः || १२५ ||
श्रीसूक्तं मधु मान्नश्च मधुनक्त इतीति च |
मधुवातेति कोणेषु मन्त्रक्लृप्तिरुदाहृता || १२६ ||
ब्राह्मेपदे तु सूक्तस्य पौरुषस्यादितःक्रमात् |
अष्टासु द्रव्यकुम्भानामष्टानां मन्त्र इष्यते || १२७ ||
मध्यमे नवके पूर्वमष्टाभिश्शुद्धवारिभिः |
स्नापयेन्मूलमन्त्रेण सहस्रेण घटैरिति || १२८ ||
स्नापिते देवदेवेशे पश्चाद्रत्नघटाम्बुभिः |
नूक्तेन पौरुषेणैन स्नापयेद्देशिकस्स्वयम् || १२९ ||
पञ्चरत्न |
घटैश्शुद्धोदकैन्यैस्स्नपनं मूलविद्यया |
हरिद्राचूर्णसंपूर्णैःपञ्चविंशतिभिर्घटैः || १३० ||
स्नपनं सप्तदशभिर्यद्वाषोडशसंमितैः |
यद्वा द्वादशभिः कार्यं नवभिर्वा यथावसु || १३१ ||
पञ्चदशभिः |
आराध्य देवमुचितं निवेद्य च महाहविः |
होमस्सहस्त्रेराज्येन समिद्भिर्मूलविद्यया || १३२ ||
अन्नैश्छतुर्विधैश्चैव प्रत्यृचं पुरुषात्मना |
सूक्तेन तुष्टिं वस्त्राद्यैर्दे शिकानामनन्तरम् || १३३ ||
अन्नैश्चतुर्गुणैश्चैव |
सहस्रकलशस्नाने तत्सङ्ख्या स्वर्णदक्षिणा |
तदर्धमधवा पादो यथाश्रद्धं यथावसु || १३४ ||
यावती दक्षिणा तेषां स्यादर्धमथ ऋत्विजाम् |
सहस्रं ब्राह्मणा नन्नैर्भोजयेद्दक्षिणामपि || १३५ ||
नन्ते |
तद्यात्तुष्टिकरीमन्यानागतानपि तोषयेत् |
सेवां कुर्वन्तिये मर्त्याश्श्रद्धाभक्तिसमन्विताः || १३६ ||
देवस्य स्नानसमये सहस्रकलशाम्बुभिः |
गङ्गादि सरितां स्नानफलमश्नुवते महत् || १३७ ||
स्नानफलदमश्नुते महतोमहत् |
सहस्र कलशस्नाने यत्फलं राजराष्ट्रयोः |
पूजन्ते तदशेषेण प्रागुक्तमिति नोच्यते || १३८ ||
Kapitel 10
Lesehilfe: Kapitel 10: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
दशमोऽध्यायः |
सकामनिष्कामानुष्ठेय महोत्सवप्रश्नः. |
ब्रह्मा |
कथं महोत्सवः कश्चित् कीदृक्तस्य फलं च किम् |
फलकामैरनुष्ठातुमविज्ञातो न शक्यते || १ ||
मह्यं जिज्ञासमानाय प्रसीद भगवन्निदम् |
आख्यातुमर्हसि यथा महोत्सव मनुत्तमम् || २ ||
श्रीभगवान् |
तस्योत्तरम्. |
आराधनमिदं ब्रह्मन् मोक्षकामै रनुष्टितम् |
पश्वादिफलकामैस्तु दुरनुष्ठेयमद्भुतम् || ३ ||
तोषणं मम कल्याण मनुष्ठितममानुषम् |
देवैरेव पुरावृत्रवधे तत्पापनुत्तये || ४ ||
इन्द्रेणापि दिविष्ठेन मामुद्दिश्य कृतं शुभम् |
रूपं तस्य प्रवक्ष्यापि यथा तदवधारय || ५ ||
उत्सवशब्दनिर्वचनम्. |
सवस्सांसारिकं दुःखमुत्तरन्ति तदम्भुधिम् |
यष्टार इति विद्वंसो निर्ब्रुवन्त्युत्सवाह्वयम् || ६ ||
उत्सवत्त्रेविध्यम्. |
नित्यो नैमित्तिकः काम्य स्त्रिविध स्स महोत्सवः |
नित्योत्सवः. |
तत्र नित्यं प्रतिसमं मासपक्षव्यवस्थया || ७ ||
शुभे च तथिनक्षत्रे विषुवे चायनद्वये |
कल्पितावभृथस्नानस्सेवितस्सर्वदैवतैः || ८ ||
नैमित्तिक स्स विज्ञेयो निमित्ते सति कल्पितः |
अवग्रहे च दुर्भिक्षे चोल्कापाते तथा निशि || ९ ||
दर्शने सुरचापन्य वालमीनस्य दर्शने |
देवता प्रतिकायानां कम्पने भेदने तथा || १० ||
देवतानां निकायानां |
हसने चलने चैव रोदने पतने तथा |
गोपुरालयसालानां मण्टपस्य च भेदने || ११ ||
वृक्षे त्वन्यफले इत्यर्ध मत्रापिलिखितमस्ति क्वचित्कोशे |
भङ्गे वा पतने वापि पर्वतानां तथैव च |
निपाते चैत्यवृक्षस्य भङ्गे ज्वलनदर्शने || १२ ||
वृक्षे त्वन्यफले दृष्टे दिवा नक्षत्रदर्शने |
भूतादिदर्शने घोरे भूमिकम्पे तथैव च || १३ ||
दिग्दाहे च महावाते महावृष्टै तथैव च |
ग्रहयुद्धे च सञ्जाते प्रतिसूर्यस्य दर्शने || १४ ||
नृपे रोगाभिभूते च ग्रामे जनपदे तथा |
मसूरिकादि घोराणां व्याधीनां च प्रवेशने || १५ ||
परचक्रप्रवेशे च व्योम्नि नेमिस्वने तथा |
दिव्यदुन्दिभि निर्ह्रदे निर्मले गगने सति || १६ ||
वर्षेवाऽशनिपाते च शक्रध्वजनिपातने |
जलेऽग्निजनने चैव तथैवाद्भुतदर्शने || १७ ||
अनर्षेशनिपाते च |
एवमादौ महोत्पातेनैमित्तिक महोत्सवः |
चतुर्णां पुरुषार्थाना मुद्दिश्यान्यतमं फलम् || १८ ||
उत्सवोनुष्ठितः काम्यस्सङ्कल्पितफलप्रदः |
अवभृथस्नानसमयः. |
कथ्यतेऽवभृथस्नानसमयस्त्रिविधोत्सवे || १९ ||
मासर्क्षे विषुवे चैव ग्रहणे चायनद्वये |
दर्शे च पूर्णमास्यां च श्रवणे सर्वमासिके || २० ||
रोहिण्यां च पुनर्वस्वोः प्रतिष्ठादिवसे तथा |
राज्ञां जन्मदिने कुर्यादभिषेकदिने तथा || २१ ||
एते ष्ववभृथस्नानं ब्रह्मन् सर्वार्थसाधनम् |
उत्सवकालपरिमाणम्. |
मासेन वा तदर्धेन द्वादशाहेन वा पुनः || २२ ||
नवाहेनोत्सवः कार्यः स्सप्ताहेन चतुर्मुख |
अहोभिः पञ्चभि र्वापि त्रिभिर्वैकेन वा पुनः || २३ ||
द्वजारोहणरहित उत्सवः. |
एकाहे त्र्यहके धीमान् ध्वजकर्मन कारयेत् |
अवभृथसमयस्यापवादः. |
सङ्कल्पपूर्वमालोच्य मासऋक्षे तथा तिथौ || २४ ||
तीर्थावगाहनं यद्वा संयोग तिथितारयोः |
विषुवे चायने चैव नादरस्तिथि तारयोः || २५ ||
वारयोः |
दुष्टवारादि संयोगे शुभमेव यथोदितम् |
बलिदानस्य धामविशेषनिबन्धनत्वम्. |
पत्तने नगरे ग्रामे प्रतिलोमाऽनधिष्ठिते || २६ ||
अशून्ये बलिदानादीन् रथ्यासु बहिराचरेत् |
नोचेदावरणेष्वेव कुर्यादन्तर्महोत्सवम् || २७ ||
ग्रामादि रहिते धाम्नि नोत्सवं बहिराचरेत् |
अन्तरावरणेष्वेन न तु त्याज्यं कथं चन || २८ ||
पास्त्वेङ्गे च स्वतन्त्रे च धामन्युत्सव सम्पदि |
यौगपद्ये न दोषस्याद्दोषो वास्त्वङ्गयोर्द्वयोः || २९ ||
आश्रयद्वैविध्यम्. |
स्वतन्त्रं परतन्त्रं च आश्रयं समुदाहृतम् |
उत्तमादित्रैविध्यम्. |
उत्तमादिविभेदेन आलयस्त्रिविधोभवेत् || ३० ||
उत्तमस्स्वतन्त्रालयः. |
विष्ण्वालयं पुराऽकल्य पश्चाद्ग्रामादि कल्पनम् |
स्वन्त्रमिति विज्ञेय मालयं तूत्तमं भवेत् || ३१ ||
मध्यमः परतन्त्रालयः. |
ग्रामादिकं पूराऽकल्प्य पश्चादालयकल्पनम् |
अस्वतन्त्रमिति ख्यातमालयं मध्यमं भवेत् || ३२ ||
अधमः वीध्यन्तराकल्पितालयः. |
स्वतन्त्रालय क्लृप्तासु रथ्यावीधीषु पद्मज |
अन्तरे स्थापितं यत्त दाश्रयं त्वधमालयम् || ३३ ||
उत्सवसन्नि पाते स्वतन्त्रालये पूर्वमर्चनम्. |
स्वतन्त्रे परतन्त्रे वा उत्सवादौ कृते सति |
पूर्वं स्वतन्त्रे कर्तव्यं वास्त्वङ्गे द्विगुणार्चनम् || ३४ ||
आश्रयादिबिम्बानामुत्सवं तत्तदावरण एव कुर्यात्. |
आश्रयादिषु बिम्बेषु उत्सवादौ कृते सति |
तत्तदावरणे कुर्या द्बाह्यवीध्यां तु नाचरेत् || ३५ ||
मोहाद्वा यदिवा लोभा द्विपरीते कृते सति |
अरातिभिः परिभवो महाव्याध्यादिपीडनम् || ३६ ||
प्राङ्गणएषु च सर्वेषु प्रासादादिषु मूर्तिषु |
प्रीत्याभिषेकमात्रं च स्नपनाद्युत्सवं विना || ३७ ||
कारयेद्यदि सम्मोहात्प्रजानां पीडनं तथा |
तस्मात्सर्वप्रयत्नेन विपरीतं तु नाचरेत् || ३८ ||
सदा देशाधिपस्य स्यात्प्रजानाम् |
अन्यथा कारयेन्मोहाद्राजा राष्ट्रं च नश्यति |
ग्रामवास्तुबलिनिषेधः. |
ग्रामाश्रयादिभेराणामालयाश्रयकेषु च || ३९ ||
ग्रामवस्तु बलिहीनं केवलोत्सवमाचरेत् |
वैष्णवोत्सवे देवतान्तरोत्सवनिशेधः. |
देवतान्तरकल्याणे वर्तमानेऽपि वैष्णवम् || ४० ||
कुर्याद्देवोत्सवं नैव वैष्णवेऽन्यं कदाचन |
वासुदेवो हि देवानां देवताम्नायते यतः || ४१ ||
देवोत्सवमध्ये मानुषोत्सवनिषेधः. |
उत्सवे देवदेवस्य ध्वजारोहणपूर्वके |
प्रवर्तिते देवयागे चौलादि र्नैव संस्क्रिया || ४२ ||
नैव यागश्चौलादिश्चैव |
पूर्वापपादः. |
ग्रामाद्यनङ्गायतने प्रवृत्तेऽप्युत्सवे पुनः |
कुर्याद्देवान्तरं यागं चौलादिं चैव संस्क्रियां || ४३ ||
अन्यदेवतोपयुक्ततोरणादीनां प्रतिक्षेपः. |
तोरणादीनि चान्येषां देवानामुत्सवे सताम् |
उत्पाट्य रथ्यासु हरे रुत्सवो नान्यथा भवेत् || ४४ ||
पूर्वापवादः. |
क्लृप्तानामुत्सवे विष्णो रथ्यादिष्वितरोत्सवे |
स्थिराणां तोरणादीनां कुर्यं नोत्पाटनं भवेत् || ४५ ||
अधिमासादौ प्रथमोत्सवनिषेधः. |
अधिके मासि शुक्रादौ गुरौ च स्तमिते सति |
नोत्सवः प्रथमःकल्प्यः कल्पने राजराष्ट्रयोः || ४६ ||
प्रजानां चैव दुःखं स्या द्व्याधिर्वा मृतिरेव वा |
उत्सवे च द्विदीयादौ नोक्तदोषः कथञ्चन || ४७ ||
ध्वजारोहणस्य मुख्यकालः. |
मासादावुत्सवदिने पञ्चाहावधिके क्रमात् |
ध्वजारोहणकालस्तु ब्रह्मन्नद्य प्रदर्श्यते || ४८ ||
एकोनविंशतितमे दिने तीर्थाङ्कुरार्पणात् |
अष्टादशदिने वापि प्रागेव समये शुभे || ४९ ||
वैनतेयध्वजारोहाद्द्वादशाहेऽथवा भवेत् |
यद्वा कल्याण दिवसं त्रिगुणीकृत्य तावताम् || ५० ||
आदौ दिनानां कर्तव्यं ध्वजारोहणमब्जज |
अङ्कुरानपर्ययित्वाह्नि पुण्ये पुर्वे यथोदिते || ५१ ||
ध्वजमारोपयेत्पश्चान्मङ्गलं मङ्गले दिने |
अनुकल्पकालः. |
दैवाद्वामानुषाद्वापि कुतश्चित्कारणाद्यदि || ५२ ||
उत्सवाहर्गणा त्पूर्वं यथोक्तैन कृते ध्वजे |
उत्सवारम्भणदिने दिवाऽरोप्य ध्वजं निशि || ५३ ||
उत्सवारम्भणात् |
ध्वजारोहण भेरीताडनयोः पौर्वापर्यविकल्पः. |
भेरीताडनमन्वक्च पालिकास्वङ्कुरान् क्षिपेत् |
अघोष्य भेरीं प्रथमं ध्वजारोहणमन्वतः || ५४ ||
ततोऽङ्कुरार्पणं यद्वा यद्वा निश्यङ्कुरार्पणम् |
प्रदोषेऽन्वग्ध्वजारोहो भेरीताडनमन्वतः || ५५ ||
तत्कालेऽपि ध्वजारोहे त्रैविध्यं चतुरासन |
ध्वजपटायामादिमानम्. |
तन्तूत्थं क्षौमवसनं निर्देषं सूक्ष्ममाहृतम् || ५६ ||
कार्पासं वा यथावित्तं ध्वजार्थे कल्पयेद्बुधः |
आयतं दशभिर्हस्तै र्विस्तीर्णं पञ्चभिर्दृढम् || ५७ ||
नवभिर्वाष्टभिर्वापि सप्तभिर्वा चतुर्मुख |
मूलभेरसमायामं द्वारायाम मथापि वा || ५८ ||
आयामार्धेन विस्तीर्णं पादेन कृते शेखरम् |
शेखरेण समं पुच्छं तदर्धं कर्णपुच्चकम् || ५९ ||
निर्णेजितं खलीयुक्तं शोषितं लक्षणान्वितम् |
गरुडमूर्ति लक्षणम्. |
आहृत्य मध्ये वस्त्रस्य गरुडं काञ्चनप्रभम् || ६० ||
नवतालप्रमाणेन द्विभुजं धृतञ्चुकम् |
धृतपुष्पाञ्जलिपुटं श्वेताम्बर धरं विभुम् || ६१ ||
दंष्ट्राकरालवदनं ब्रुकुटीकुटिलेक्षणम् |
नीलनासाग्रसंयुक्तं कुञ्चितासव्यपादकम् || ६२ ||
पृष्ठे निविष्टसर्वाङ्घ्रिं पक्षविक्षेपशोभितम् |
गगने गमनारम्भं सुवृत्तं घोरदर्शनम् || ६३ ||
वृत्ताक्षम् |
करण्डिकामुकुटिनं ललाटे रचितालकम् |
हारकेयूरवलयनूवुराभरणोज्ज्वलम् || ६४ ||
अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः |
उरसि न्यस्तकार्कोटं कटिसूत्रिततक्षकम् || ६५ ||
बिभ्राणं दक्षिणे कर्णे पद्माह्वयसरीसृपम् |
महापद्मं तथान्यत्र शङ्खं शिरसि भोगिनम् || ६६ ||
गुलिकं चाङ्गदे सर्पं वर्णस्तेषां च कध्यते |
स्फटिकाभश्पोणिताभःपीताभोधूम्रवर्णकः || ६७ ||
रक्ताम्बुज निभश्छैव पिङ्गलस्तु हिनप्रभः |
भ्रमराभः |
गरुडप्रतिमाया उपरि पार्श्वेऽधस्ताच्च लेखनीयानि. |
क्रमाच्छत्रं मुक्ताहेम परिष्कृतम् || ६८ ||
उपरिष्टाच्च कर्तव्यं पार्श्वयोश्चामरद्वयम् |
अधस्तादम्बजं पुर्ण कुम्भमद्भिश्च पालिकाः || ६९ ||
सङ्कुरा लिखितव्यास्स्युर्दीपौ द्वौ पार्श्वयोर्द्वयोः |
पञ्चवर्णैर्लिखेदेव मन्तरं श्यामवर्णकम् || ७० ||
अन्तरालंच कृष्णेन चित्रये च्चित्रकृत्तमः |
ध्वजार्धसम्मितां चैव पताकां चैव चित्रयेत् || ७१ ||
अन्तरालं न |
अधिपासदिने कर्तव्यानि. |
अधिवासे दिने प्राप्ते तमिस्रायां गुरुस्स्वयम् |
कारुशालां प्रविश्याथ कारयित्वाथ शिल्पिना || ७२ ||
नयनोन्मीलनं तस्मिन् विसृष्टे शिल्पिनी प्सितैः |
अर्थैश्च तोषिते सश्चा निक्षिप्य शिरसि ध्वजम् || ७३ ||
प्सिते |
निक्षिपेत् |
मूर्त्रिपस्य सुवर्णादि लोहपात्रे समर्पितम् |
प्रादक्षिण्येन धामादीन्नी त्वा तूर्य निनादितम् || ७४ ||
मूर्तिपश्च |
निनादितैः |
ततःप्रवेशयेद्याग मण्डपं देशिकोत्तमः |
नयनोन्मीलनादन्य त्प्रतिष्ठायामिवाचरेत् || ७५ ||
अधिवासः. |
छायाधिवासनं सद्यो जले कुर्याद्यथाविधि |
कुम्भैष्टोडशभि श्छायास्नपनं दर्पणे भवेत् || ७६ ||
स्नायात् स्नपनम् |
पौरुषेणैव सूक्तेन गायत्र्या स्वस्य पूजयेत् |
शाययेच्छालि भारादावास्तीर्णे नववाससि || ७७ ||
गाधया |
शायितस्य पटस्याथ अपसव्ये सहाष्टभिः |
परितो न्यस्तकलशैर्वर्धन्या च घटं क्षिपेत् || ७८ ||
आवाह्य गरुडं कुम्भे करके च सुदर्शनम् |
इन्द्रादीनष्टपूर्वादि कलशेषु सुपूजयेत् || ७९ ||
शोधयित्वा च गरुडं पटस्थं शोषणादिभिः |
संहृत्य तत्वानि ततः क्रमादुत्पाद्य पक्षिणम् || ८० ||
चतुर्षु पार्श्व कुण्डेषु होमे स्थण्डिलभूषु वा |
कुण्डे महानसे वापि समिधाज्यै र्यथापुरम् || ८१ ||
समिधाद्यै |
शान्तिहोमस्स्पर्शनं च सेचनं च यथापुरम् |
पटं विस्तीर्णगरुडं मन्दिराभिमुखं यथा || ८२ ||
प्रदर्श्यापाहयेत्तत्र व्याहृत्या |
गरुड प्रार्थना. |
सन्निधिं ततः |
प्रार्थयेत गुरुस्तस्य गाधया वक्ष्यमाणया || ८३ ||
महाबल महाबाहो वैनतेय वयोधिप |
सन्निधत्स्व पटे तुभ्यं समः प्रणवमूर्तये || ८४ ||
कर्मणां सिद्धिमाहोतः कुरुष्व विहगेश्वर |
अहुतव्यास्त्रयो लोका देवस्योत्सव संपदि || ८५ ||
यजेदात्मीय गायत्र्या तमर्घ्याद्युपचर्यया |
निवेदयेत्ततस्तस्मै निवेद्यं च चतुर्विधम् || ८६ ||
कुम्भाय च निवेद्यान्नं स्तोत्रेर्गरुडतोषणम् |
वाहनाय महाविष्णो स्तार्क्ष्याया मिततेजसे || ८७ ||
गरुडाय समस्तुभ्यं सर्वसर्पेन्द्र मृत्यवे |
नमो नमस्ते पक्षीन्द्र स्वाध्यायवपुषे नमः || ८८ ||
विहगन्द्रे मनस्तेऽस्तु समुत्पाटितकल्पक |
आहृतामृतकुंभाय जननीदास्यमोचिने || ८९ ||
सुरासुरेन्द्रजयिने नागेन्द्राभरणाय ते |
यदाधार्मिदं सर्वं तदाधाराय ते नमः || ९० ||
पक्षौ यस्य बृहत्साम रथन्तरमपि द्वयम् |
अक्षिणी चापि गायत्रि त्रिवृत्सामशिरः स्मृतम् || ९१ ||
स्तोम आत्मा नमस्तस्मै वामदेव्याङ्गसम्पदे |
नमःप्राणादि वायूना मिशाय गरुडात्मने || ९२ ||
मिशानाय गरुत्मते |
दोषानपयायाखण्डन् गुणानावह सर्वतः |
विघ्नानि जहि सर्वाणि आत्मसात्कूरु मामपि || ९३ ||
स्तुत्वैवं गारुडं मन्त्रं जपेदेकाग्रमानसः |
तुर्याघोषैर्वेदघोषैर्जागरेण नयेन्निशाम् || ९४ ||
गरुडनि वेदित पिण्डभक्षणं सन्तानप्रदम्. |
निवेद्यं कबलीकृत्य मन्त्रयित्वाच मन्त्रवित् |
पौरुषैर्गारुडैर्मन्त्रै र्वस्थ्यानामपि योषिताम् || ९५ ||
क्षिपेदञ्जिलिषु ध्वात्वा गरुडं चाच्युतं हरिम् |
भक्षयित्वा त्रयः पिण्डान् जनयेयुस्सुतान् बहून् || ९६ ||
ध्वजपटोत्सवः. |
तं प्रभाते समाराध्य निवेद्य च हर्विःक्रमात् |
वस्त्राभरण पुष्पैस्तु पटस्थं शोभयेत्खगम् || ९७ ||
आरोप्य हस्तिपृष्ठे पारथे वान्यत्र मङ्गले |
शिभिकादौ नयेद्ग्रामं प्रादक्षिण्येन धाम वा || ९८ ||
भेरीमृदङ्गपटहौश्शङ्खकाहलचिह्नकैः |
घोषयेत्पुरतस्तस्य नृत्तैर्गेयैश्च सर्वतः || ९९ ||
खगेश वाद्ययोर्मध्ये साङ्कुरपालिकानयनम् |
खगेश वाद्ययोर्मध्ये पालिकास्सङ्कुरान्विताः |
वहेयुर्ब्राह्मणास्सर्वे शिरोभिस्संयतेन्द्रियाः || १०० ||
बिम्बमौत्सवमन्यच्च गरुडस्यान्तिकेऽथवा |
ध्वजस्तम्भस्थापनस्थानम्. |
इच्छया यजमानस्य सर्वमङ्गलसंयुतम् || १०१ ||
गरुडस्यानयेत वा |
अग्रतो बलिपीठस्य बहिर्वा धाम गोपुरात् |
ध्वजस्तम्भं खनेद्भूमौ निर्देषं दारवं स्थिरम् || १०२ ||
बहिःप्रासाद |
स्थम्भोपयोगिदारुमानम्. |
अन्तस्सारो बहिस्सारो निस्सारस्त्रिविध स्तरुः |
क्रमुकादि बहिस्सारं प्रशस्तं विदुरुत्तमम् || १०३ ||
अन्तस्सारे बहिस्सारे नि स्सारे त्रिविधे तरौ |
अन्तस्सारं चन्दनादि प्रशस्तं स्तम्भकल्पने |
निस्सारं वर्जयेत्त्सम्भं शततालायतं शुभम् || १०४ ||
मानाङ्गुलप्रमाणेन विंशत्यूनमथापि वा |
प्रासादोच्छ्रायमथवा यद्वा गोपुरुसम्मितम् || १०५ ||
विंशत्तालमथापि. विंशन्न्यूनम् |
चतुर्धा विभजेत्त्सम्भमेकांशेनैव मस्तकम् |
तस्यचाधारभूतानां च्छेदितानां तु मूलतः || १०६ ||
च्छिद्रितानां त्रि |
त्रयाणामपि पीठानां स्तम्भाग्रे विनिवेशनम् |
आयतानि च पूठानि द्वितालेन चतुर्मुख || १०७ ||
विस्तीर्णानि तदर्धेन तदर्धेन घनानि च |
मूले स्थूलानि सूक्ष्माणि चाग्रे युञ्जीत भूरुहान् || १०८ ||
अग्रे पीठद्वयेच्छिद्रे ध्वजयष्णिं च स्स्कृताम् |
निवेशयेच्छिद्रयित्वा ध्वजस्तम्भं चतुर्मुख || १०९ ||
निवेशयेद्वेणुकं वासव वा सप्तपञ्च वा |
ध्वजस्तम्भंसंस्कारः. |
इत्थं भूतं ध्वजस्तम्भं पीठस्योत्तरपार्श्वतः || ११० ||
आराध्य वेदविद्विप्रैः प्रागग्रं शाययेद्गुरुः |
यद्वोदगग्रं प्रक्षाल्य स्तम्भमब्लिङ्गमन्त्रतः || १११ ||
आनाय्य |
कुशैश्च साग्रैः प्रच्छाद्य स्तम्भमूर्ध्वमुखैश्शुभैः |
संवेष्ट्य दर्भमालाभि र्विष्णुसूक्तेन देशिकः || ११२ ||
ध्वजस्तम्भावटे न्यस्य लोहबीजादि शोधितम् |
तत्रावटे ध्वजस्तम्भं स्थापयित्वादृढं यथा || ११३ ||
प्रासादाभिमुखं |
स्तम्भशिरसि ध्वजपटबन्धनम्. |
तस्य वेण्वग्रविवरे ध्वजम् |
पाशेनाङ्गुष्ठनाहेन त्रिगुणीकृत्य तन्तुना || ११४ ||
ध्वजं निवेशयेद्यद्वा स्तम्भमारुह्य बन्धयेत् |
बद्धध्वजाग्रस्तम्भं वा स्थापयेच्छक्त्यपेक्षया || ११५ ||
ध्वजारोपणकालः. |
एवं नियोज्य यष्ट्यग्रे मुहूर्ते शोभने गुरुः |
पूर्वाह्णे वाथ मध्याह्ने ध्वजमारोपयेत्तथा || ११६ ||
आरोपणमन्त्रः. |
बध्वा पुरुषमन्त्रेण सपताकं सघण्टकम् |
सुवर्णोऽसीति मन्त्रेण ध्वजस्यारोपणं भवेत् || ११७ ||
प्रासादाभिमुखं स्थाप्य खगेन्द्रं पटसंस्थितम् |
तूर्यघोषं तथाम्नायघोषं दिक्षु च घोपयेत् || ११८ ||
खगेशमालामन्त्रादीं स्तत्काले देशिको जपेत् |
स्तम्भमूल वेदीकल्पनम्. |
स्तम्भमूलस्थले वेदिं हस्तैस्सप्तभिरायताम् || ११९ ||
तापद्भिरेव विस्तीर्णामेकहस्तसमुच्छृताम् |
पञ्चभिर्वा त्रिभिर्वापि चतुरश्रां प्रकल्पयेत् || १२० ||
वेदिकायास्तृतीयांशे मध्ये पीठं प्रकल्पयेत् |
चतुष्टयाङ्गुलोत्सेधं मेखलात्रयसंयुतम् || १२१ ||
भागे तृतीये तस्यापि पद्ममष्टदलै र्युतम् |
कर्णिकास्थो यथा स्तम्भस्तथा कुर्याद्विचक्षणः || १२२ ||
षोडश स्तम्भसंयुक्ता प्रपा स्यात्परित स्ततः |
चतुर्द्वारसमायुक्ता दर्भमालाद्यलङ्कृता || १२३ ||
पुण्याहं पाचयित्वाथ प्रोक्षयेत्कुम्भवारिणा |
गारुडेनैव मन्त्रेण कलशैश्चाष्टभि स्तथा || १२४ ||
इन्द्राद्यैःप्रोक्षयेत् स्तम्भंस्वैस्वैर्मन्त्रैर्यथाक्रमम् |
ध्वजे गरुडसान्निध्य प्रार्थनम्. |
प्रार्थयेत स्थितिं तस्य गरुडस्य ध्वजोदरे || १२५ ||
उत्सवावभृथं यावद्गाधया वक्ष्यमाणया |
पक्षीन्द्र पक्षविक्षेपतरङ्गानिलसम्पदा || १२६ ||
निरस्तासुरसन्नाह समरे शत्रुसूदन |
सन्निधत्स्य पटे यावदुत्सवावभृथावधि || १२७ ||
गरुडाय अशेषलोकाह्वानाज्ञापनम्. |
उत्सवप्रतिमां यानमारोप्य शिभिकादिकम् |
ध्वजस्तम्भसमीपोर्वीमानीयादर्शयेत्खगम् || १२८ ||
आह्वोनार्थमशेषाणां लोकानां पतगेश्वरम् |
नियुज्य देवस्तदनु प्राप्नुयान्मण्डपावनिम् || १२९ ||
गरुडस्य कालत्रये आराधनम्. |
आराधयेत्त्रिकालं तु गरुडं च निवेदयेत् |
अनिर्वाण दीपस्थापनम्. |
अनिर्वाणं तथा दीपं रक्षेन्नक्तंदिवा सदा || १३० ||
उत्सवप्रतिमाया रात्रौ होमान्तमर्चनम्. |
उत्सवप्रतिमां तत्र मण्डपे च यथाविधि |
पूजयित्वा निवेद्याथ हविर्होमान्तमर्चयेत् || १३१ ||
रात्रौ तु पूजयित्वैवं |
भेरीताडनसिद्धये कल्पनीयानि. |
भेरीताडन सिद्धये |
ध्वजपीठसंय पुरतः क्षितिं गोमयपारिणा || १३२ ||
आलिप्य चतुरश्रं च सुधाचूर्णैश्चशोभयेत् |
चतुरश्रं धान्यपीठं द्रोणपञ्चकशालिना || १३३ ||
कल्पयित्वा कालचक्रं तस्य मध्ये निवेशयेत् |
बल्यर्चामपितत्रैव स्थापयेद्ध्वज सम्मुखम् || १३४ ||
पूजयित्वा निवेद्याथ हवींषि विविधानि च |
भेर्यर्चनम्. |
आपिप्ते पुरतस्तस्य भूतले धान्यपीठके || १३५ ||
तावदेव महाभेरीं वेष्टितां नववाससा |
दक्षिणेतरयोस्तस्या भेरिकाया यथाक्रमम् || १३६ ||
भागयोरर्चयेद्विष्णुं श्रियं चैव यथाविधि |
त्रिगुणां प्रकृतिं चैव मध्यभागे सभाजयेत् || १३७ ||
भेरीताडनम्. |
मुहूर्ते शोभने भेरीं शब्दतन्मात्रविद्यया |
कोणेन ताडयेन्मूर्तित्रयं ध्यायेद्गुरुस्स्वयम् || १३८ ||
ततः पारशवस्स्नातो दर्भपाणिरलङ्कृतः |
सोपवीतोत्तरीयश्च वहन् भेरीमलङ्कृताम् || १३९ ||
शङ्खादिवाद्यसहितां तालभेदविधानवित् |
घोषयेद्गुरुणेन्द्रादौ हूयमाने मरुद्गणे || १४० ||
आहूतव्य देवताः. |
दिव्यायुधानामाह्वानं तथा वैकुण्ठवासिनाम् |
तथा पारिषदास्सर्वे विष्वक्सेनाभिरक्षिताः || १४१ ||
आह्वातव्या मखे तस्मिन् कुमुदाद्या स्सनायकाः |
ऋषिभिश्च मरीच्याद्यैर्ब्रह्मलोकनिवासिभिः || १४२ ||
समाह्वानं विरिञ्चस्य रुद्रलोकनिवासिभिः |
सार्दं प्रमथसार्धैश्च रुद्रश्च वृषवाहनः || १४३ ||
आह्वातव्यास्तथान्ये च तत्तल्लोकनिपासिनः |
वाहनैःपरिवारैश्च साकं तस्मिन् महूत्सवे || १४४ ||
विद्याश्च मूर्तिधारिण्यस्त्रयू चङ्गैर्वपुष्मती |
अह्वातव्यास्समाह्वानं सर्वेषां च स्वनामभिः || १४५ ||
नित्योत्सवार्चं परितो वीधिकासु सुदर्शनम् |
अन्नर्मूर्तिविधानं च प्रदीपैर्बहुभिर्वृतम् || १४६ ||
गमयित्वा प्रतिदिशं भेरीताडनपूर्वकम् |
ग्राममध्ये चतुर्मुखस्यावाहनम्. |
ग्राममध्यं समासाद्य तत्रावाह्य चतुर्मुखम् || १४७ ||
अर्चयित्वा मखे तस्मिन् याचित्वा सन्निधिं गुरुः |
इन्द्रादींश्च प्रतिदिशं बल्यर्थं सन्निधिं तदा || १४८ ||
अर्चयित्वा तूर्यघोषं घोषयित्वास्वतालवत् |
अन्यत्र गारुडं तालमन्तरालेषु घोषयेत् || १४९ ||
प्रविश्य मन्दिरं तत्र यथापूर्वं निवेशयेत् |
वीधीषु देवताह्वानम्. |
आदायोत्सवबिम्बं वा केवलं वा सुदर्शनम् || १५० ||
अन्नमूर्तिविधानं वा भेरीमादाय केवलाम् |
रथ्यासु देवताह्वानं तत्र तत्र यथाविधि || १५१ ||
भेरीशब्दं श्रुत्वा अवभृथान्तमन्यत्र न यायात्. |
देवताह्वानवेलायां भेरीं शृण्वन्तिये नराः |
तैर्नदीतरणं नैव यानं वा योजनात्परम् || १५२ ||
अनादृत्योत्सवं मोहाद्दूरं यायाज्जनो यदि |
स याति निरयस्थानं प्रेत्य दुःखमिहापि च || १५३ ||
तस्मादवभृथं यावद्वसेत्तत्रैव नो प्रजेत् |
ध्वजार्थमङ्कुरा येन न्यस्तास्स यदि कारणात् || १५४ ||
कुतश्चिदसमर्थो वा मृतो वा देशिकोत्तमः |
शेषं समापयेदन्यः पुत्रो वा तदनुज्ञया || १५५ ||
Kapitel 11
Lesehilfe: Kapitel 11: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
चर्यापादेएकादशोऽध्यायः |
एकादशोऽध्यायः |
|
महोत्सवविधौ अङ्कुरार्पणकालः. |
श्रीभगवान् |
उत्सवारम्भदिवसादर्वागहनि सप्तमे |
आङ्कुरानावपेल्लग्ने शोभने देशिकोत्तमः || १ ||
पालिकासङ्ख्या. |
अष्टोत्तर शतेष्वेव पालिकासु यथाविधि |
षट्त्रिंशत्स्वथ वा |
वीधीचत्वरपरिष्कारालङ्कारौ. |
पश्चादलङ्कारं समाचरेत् || २ ||
अष्टोत्तरशतं वापि |
षट्त्रिंशद्भिस्तुवा |
क्रमुकैर्दारुजैर्वापि तोरणै र्वीधिकामुखम् |
चत्वाराणि तथा ग्रेषु गोपुराणामलङ्क्रिया || ३ ||
फलभारावनम्राश्च कदलीक्रमुकादयः |
पार्श्वेषु तोरणानां स्युः स्थाप्या गमनवीधयः || ४ ||
समभूमितलाःकार्यास्सिकताभिश्च शोभिताः |
दुकूलक्षौमपासोभि र्दर्भमालाशतेन च || ५ ||
ध्वजैश्च सर्वतो दिक्षु शोभयेच्च प्रपादिभिः |
शोधयेत्सर्वभूभागं गोमयोम्भोभिराप्लुतैः || ६ ||
प्रासादालज्कारः. |
प्रासदभित्तयः कार्याश्चित्रिता वर्णपञ्चकैः |
कम्भाभिः पूर्णकुम्भैश्च दीपिकावलिभि स्तथा || ७ ||
अम्भोभिः |
मुक्तादामभिरन्यैश्च साङ्कुरैःपालिकाशतैः |
देशान्तरागतसेवार्थिभ्यः प्रपादिकल्पनम् |
देशाद्देशात्समेतानां वर्णानां च तदुत्सवे || ८ ||
सेवितुं देवदेवेश मन्नाद्यैस्तुष्टिमावहेत् |
प्रपापानीयशालाध्यै र्यजमानो दिवानिशम् || ९ ||
रोगार्तेभ्यः भैषज्यकल्पनम्. |
रोगार्तानथ भैषज्यैर्भिषजेद्धनराशिभिः |
यागमण्डपस्थानम्. |
प्रथमावरणे ब्रह्मन् कारयेद्यागमण्डपम् || १० ||
यद्वावकाशानुगुणं द्वितीयावरणे भवेत् |
अन्तरालेषु सर्वत्र दिशामिष्टे क्वचिद्भवेत् || ११ ||
मण्डपायामिविस्तारौ. |
सप्तहस्तायतं यद्वा पञ्चहस्तायतं तु वा |
विस्तारायामसदृशं यतुर्द्वारस मन्वितम् || १२ ||
मण्डपं कारयेत्तस्य परितः कारयेत्प्रपाम् |
वेदीकल्पनम्. |
तस्य मध्ये त्रियंशे तु वेदीं हस्तसमुच्छृताम् || १३ ||
विस्तीर्णां द्वित्रिहस्तेन |
अग्निकुण्ड निर्माणम्. |
वेद्याः प्राच्यां प्रकल्पयेत् |
कुण्डमाहवनीयस्य चतुरश्रं यथोदितम् || १४ ||
दक्षिणस्यां दक्षिणाग्नेर्दिशि चाप समाकृति |
कुण्डं तु गार्हपत्यस्य प्रतीच्यां वृत्त मद्भुतम् || १५ ||
सभ्यस्य कुण्डं कौबेर्यां त्रिकोणं तदनन्तरम् |
ऐशान्या मग्निकोणे वा कुण्डं च चतुरश्रकम् || १६ ||
अवसक्थ्यस्य शिखिनः पञ्चाग्न्युत्सव मुत्तमम् |
यजमानेच्छया अग्निषु विकल्पः. |
यद्वाऽवसक्थ्य रहितं चतुरग्निं चतुर्दिशि || १७ ||
सभ्यावसक्थ्य रहितं यद्वाग्नि त्रयसंयुतम् |
एकामाहवनीयं वा कल्वयेत्कत्कुरिच्छया || १८ ||
अश्वत्थादिद्रुमैर्द्वारतोरणानि चतुर्दिशम् |
स्रुक्स्रुवौ कारयेदष्ट मङ्गलानि यथापुरम् || १९ ||
आसनं त्वृत्विजां होमपात्राणि विविधानि च |
मण्डपानां च पुरतः प्रपास्यात्पार्श्वयोरपि || २० ||
दुकूलक्षौमकाशेयैर्विचित्रं मण्टपं प्रपाम् |
वितानयेद्वेष्टयेच्च स्तम्भानन्तर्बहिस्थ्सितान् || २१ ||
मुक्तादामानि सर्वत्र लम्बयेद्दीपमालिकाः |
आरोपयेच्च स्तम्भेषु पताकावलिबन्धनम् || २२ ||
मुक्तावितानं बध्नी यात्पुष्पमालाश्च सर्वतः |
एवमादिपरिष्कारै र्भूषयेन्मण्डपादिकम् || २३ ||
तिरस्करिण्यो विपुला बध्नीयाच्च विचित्रिताः |
वरणीयाचार्यादिसङ्ख्या. |
अग्रे चतुर्णां वरण माचार्याणां च ऋत्विजाम् || २४ ||
षोडशा नां तथान्येषां स्वीकारः परिचारिणाम् |
ते च भूष्या यथावित्तं भूषणैः कटकादिभिः || २५ ||
वासोभिश्च नवैश्चित्रे रधिकारानु सारतः |
उष्णीषैरुत्तरीयैश्च गन्धद्रव्यासु लेपनैः || २६ ||
शोभनीयाः प्रयत्नेन यजमानेन सर्वदा |
उत्सवस्यारम्भे अन्तेच स्नपनं कार्यम्. |
स्नपनं चोत्सवा रम्भे तदन्ते च यथोदितम् || २७ ||
कौतुकस्य बन्धनकालः तत्संस्कारश्च. |
कुर्याद्देवस्य पूर्वेद्युः कौतुकं बन्धयेद्गुरुः |
सौवर्णे राजते वापि पात्रे विमलतण्डुले || २८ ||
कलमतण्डुलैः |
खारिद्वयेन वार्धेन यद्वा पादेन सम्मिते |
न्यस्येत्सूत्रं च सौवर्णं क्षौमं कार्पासमेव वा || २९ ||
सप्तभिः पञ्चभिर्वापि सूत्रं क्षौमादितन्तुभिः |
शतेन षष्ठ्यारूढेन फलैः क्रमुकजैरपि || ३० ||
नागवल्लीदलैस्सार्धं फलसङ्ख्या चतुर्गुणैः |
तदर्धैर्वा तदर्धैर्वा कदल्यादिफलैरपि || ३१ ||
कौतुकस्य सविभवं ग्रामप्रादक्षिण्येन धामप्रवेशः. |
सार्धं तदनु तत्पात्रं साधारं न्यस्य मूर्धनि |
वस्त्रेणआच्छादितं छत्रचामरव्यजनान्वितम् || ३२ ||
साधानम् |
बहुदीपकसंयुक्तं सवितानं च मूर्तिपः |
पठद्भिश्शाकुनं सूक्तं ब्राह्मणैर्वेद पारगैः || ३३ ||
तूर्य मङ्गलगीतैश्च सार्धं नीत्वा प्रदक्षिणम् |
धाम विष्णोस्तथा तस्य बहिरावरणानि च || ३४ ||
प्रादक्षिण्येन वा ग्रामं प्रविशेद्देवता न्तिकम् |
उत्सवभेरस्य कौतुकबन्धः उपचाराश्च. |
देवस्य पुरतो भूमितले गोमयपारिणा || ३५ ||
आलिप्ते चतुरश्रेच शालिभारेण पूरिते |
पात्रं निधाय पुण्याहं वाचयित्वा यथाविधि || ३६ ||
भूषिते |
सभाजयित्वा त्त्सूत्र मन्त्रमन्त्रेण देशिकः |
अङ्गुष्ठा नामिकाभ्यां तु गृहीत्वा हस्तयोर्द्वयोः || ३७ ||
अपराजितया सूत्रं चन्दनक्षोद वारिणा |
आलिप्य दक्षिणे हस्ते बध्वा चोत्सवकौतुकम् || ३८ ||
स्पृष्ट्वा दक्षिणहस्तेन सूत्रं पारान् शतं जपेत् |
अन्त्रमन्त्रं तथार्घ्यार्दैरिष्ट्वादेवं निवेदयेत् || ३९ ||
महापूवं तथापूपान् पृथुकांश्च फलान्यपि |
केयं नृत्तं तथापाद्य माचरेद्देवतान्तिके || ४० ||
त्रिभिर्भागवतैर्देवं स्थानेऽन्यत्र निवेशयेत् |
स्नानान्तं क्षौमवसनमालिप्तं चन्दनादिना || ४१ ||
भूषितं भूषणैस्सर्वैस्स्रिग्विणं देवदैवतम् |
अर्चयित्वा यथाशास्त्रं परमान्नं निवेदयेत् || ४२ ||
यथोदितं प्रतिष्ठायां यथाशयन कल्पनम् |
भिम्बं चोपरि विन्यस्य शयने स्थापयेच्छुभे || ४३ ||
स्नपने |
कोणेषु स्थापयेद्दीपान् पालिका स्साङ्कुरास्तथा |
तूर्यघोषैस्तथावेदैस्तोत्रैस्तुत्वा मधुद्विषम् || ४४ ||
निशायां जागरणम्. |
निशां नयोज्जागरेण समाहितमना गुरुः |
देवस्यो तत्थापनम्. |
श्वोभूते शोभने प्राप्ते मुहूर्ते भास्करोदये || ४५ ||
उत्तिष्ठे त्यादिमन्त्रेण त्रिभिर्भागवतैस्सह |
दिक्षु शाकुनिकं सूक्तं पठत्सु ब्राह्मणेष्वपि || ४६ ||
उत्थाव्य शयनाद्देवं तं |
देवस्य शिभिकारोपणम्. |
इदंविष्णुरित्यृचा |
आरोपयेयुश्शिभिकां सुवर्ण प्रभया सह || ४७ ||
ब्राह्मणा एव यानं वहेयुः. |
वहेयु र्भूसुरा यानं ध्यायन्तो विहगाधिपम् |
विकिरेत्सर्वतो दिक्षु पुष्पाणिसुरभीणि च || ४८ ||
लाजांश्च साकं मुक्ताभिस्तूर्यघोषैश्च नादयेत् |
ईदृसैर्मङ्गलैरन्यैस्सर्वावरण भूमिकाः || ४९ ||
नीत्वा प्रदक्षिणं |
भगवतो भद्रासने उपवेशनम्. |
यानादवरोप्य प्रभान्विते |
भद्रासने दुकुलादिचित्रास्तरणशोभिते || ५० ||
पार्श्वेकल्पद्रुमच्छायाशीतले स्वर्णनिर्मिते |
निवेश्य मण्टपे सर्वमुपचारं समाचरेत् || ५१ ||
प्राभृतसमर्पणम्. |
प्राभृतं चाहृतं सर्वं द्रव्यमुत्सवकारणम् |
देवाय दर्शयेत्सर्वं जनसंनदि देशिकः || ५२ ||
कृत्वोपचार मखिलं ततस्स्नपनमण्टपे |
स्नापयेद्देवदेवेशं यथापूर्वोदितैःक्रममैः || ५३ ||
तद्बिम्बं स्नान |
आचार्यो यजमानश्च समीक्ष्य विभवोदयम् |
स्नपनहविर्निवेदनानन्तरं देवस्य गर्भगृहनयनम्. |
महाहविर्निवेद्यान्ते हुत्वा हव्यैर्यथाविधि || ५४ ||
गर्भगेहं विमानस्य नयेन्मङ्गलसंयुतम् |
अपराह्णे मृत्तिकासङ्ग्रहणबीजावापौ. |
ततोऽपराह्णसमये अङ्कुराधारमृत्तिकाम् || ५५ ||
समासाद्य |
आनेतुं बहिरुद्यान बूमेर्यद्वा नदीतटात् |
यानमारोप्य गरुडं सेनान्यं वा परिष्कृतम् || ५६ ||
च |
देवादेशं पुरस्कृत्य सर्वमङ्गल संयुतम् |
वहद्भिःपालिकाःपूर्वं खनित्रं चापि भूषितम् || ५७ ||
ब्राह्मणैर्बहुभिर्वेदानधीयानैस्समन्ततः |
नीत्वा प्रदक्षिणं ग्रामं ततो निर्गत्य देशिकः || ५८ ||
यानम् |
दिशं प्राचीमुदीचीं वा प्रतिसङ्गृह्यमृत्तिकाम् |
यथापूर्वोदितं धाम प्रविश्य रजनीमुखे || ५९ ||
प्रदोषे यागसदसि पालिका द्वादशावराः |
शरावकुम्भसहितास्तद्वर्गा अपि षोडश || ६० ||
ईशानभागे संस्थाप्य सोमकुम्भसमन्विताः |
आवपेत्तासु बीजानि मुहूर्ते शोभने गुरुः || ६१ ||
प्रार्थनापूर्वकं देवस्य यागमण्डपे निवेशनम्. |
ततः प्रविश्य सदनं यजमानो गुरुश्च तौ |
प्रणम्य दण्डवद्भूमौ देवमुत्सव सम्पदम् || ६२ ||
याचेतां गुरुरन्वक्च बध्वा कल्याणकौतुकम् |
उत्सवस्नानबल्यर्थ प्रतिमासु यथा क्रमम् || ६३ ||
सुदर्शने चशयने कल्पितेऽन्यत पूर्ववत् |
बद्धप्रतिसरं सर्वमधिवास्य यथाक्रमम् || ६४ ||
उत्थाप्य सद्यश्चाराध्य प्रादक्षिण्येन मन्दिरम् |
नीत्वा प्रवेश्य यागार्थमण्डपं तत्र चासने || ६५ ||
चानयेत् |
नित्योत्सवा र्चां चक्रं च निवेश्य तदनन्तरम् |
वेदिकायां धान्यराशौ कुम्भस्थापनम्. |
वेदिकायां धान्यपीठं कृत्वा पुर्वेदितक्रमात् || ६६ ||
तत्र प्रक्षालितान् कुम्भान् सूत्रेण परिवेष्टितान् |
गन्धोदकेन सम्पूर्णा न्नवरत्नयुतान्नव || ६७ ||
सम्पूर्य नवरत्नोदरान्नव |
सर्वगन्धरजोमिश्रान् करकेण समन्वितान् |
प्रत्येकं स्यस्तसौवर्णनिष्कानश्वत्थपल्लवैः || ६८ ||
कुशकूर्चेन सहितान् मुखेष्वपि समल्लकान् |
मध्यमं वस्त्र युग्नेन शिष्टानेकेन वाससा || ६९ ||
वेष्टितान्वेदिकाभूमौ स्थापयेद्धान्यराशिषु |
अयतं सप्तभिर्हस्तैष्षद्भिर्वा चाथ पञ्चभिः || ७० ||
विस्तीर्णं वस्त्रमायाममानार्धेन नियोजयेत् |
भगवन्मयविप्रैश्च पुण्याहमपि वाचयेत् || ७१ ||
कुम्भेषु स्थानभेदेन यष्टव्यदेवताः. |
द्वारतोरणकुम्भादीन् प्रतिष्ठायामि वार्चयेत् |
मध्यकुम्भे मूलबेरं करके च सुदर्शनम् || ७२ ||
इदमर्धंक्वचिन्न |
करकेष्वस्त्रपूजनम् |
पूर्वाद्याशागते कुम्भे वासुदेवादि कान्यजेत् |
आग्नेयादिषु कोणेषु यष्टव्याः पुरुषादयः || ७३ ||
पूजनम् |
तधैव पुरुषस्सत्यः क्रमेणाच्युतदेवता |
अनन्तश्चेति हविषा चतुर्णां च निवेदनम् || ७४ ||
क्रमेण पुरुषस्सत्यस्तथैवा |
कुम्भे तथास्त्रे च बलिबिम्बे चै वाष्ट मङ्गलम् |
वेष्टितं वाससा वेदे रधस्ताद्धान्य राशिषु || ७५ ||
कुम्भे कुम्भे तथास्त्रे च विन्यसेदष्ट |
न्यस्याभ्यर्च्य चतुर्दिक्षु वेदतूर्यादिघोषणे |
आहवनीयाद्यग्निषु होतव्यदेवताः. |
प्रवृत्ते जुहुयादग्नौ ध्यायन्नाहव नीयके || ७६ ||
वासुदेवं दक्षिणाग्नौ सङ्कर्षण मनन्तरे |
प्रद्युम्नं पश्चिमे चाग्नावुदी चीनेऽनिरुद्धकम् || ७७ ||
आवसक्थ्ये मूलमूर्तिमिष्ट्वा तीर्थाव सानिकम् |
सन्निधिं प्रार्थ कुण्डेषु जुहुया त्सर्पिरादिभिः || ७८ ||
होमद्रव्याणि. |
सर्पिषा च प्रसूनैश्च धूपद्रव्यैश्च पद्मज |
समिधा पयसा दध्ना तिलव्रीहि यवै स्तथा || ७९ ||
होमसङ्ख्या. |
तत्तद्दैवतमन्त्रेण अष्टोत्तर शतं पृथक् |
अष्टाविंशतिवारान्वा कुण्डेषु प्रागुपक्रमः || ८० ||
पायसैःकृसरैर्गौल्यैर्हरिद्रान्नैश्च मौर्दिकैः |
होतव्यं पौरुषै स्सूक्तैः पृथगग्निषु पञ्चसु || ८१ ||
ब्रह्मादि स्थावरास्त सर्वदेवताहोमः. |
पञ्चमे परमान्नेन ब्रह्माद्युद्दिश्य देवताः |
तत्तन्नाम चतुर्थ्यन्तं परिवारपदान्वितम् || ८२ ||
स्वाहान्तं मन्त्रमुच्चार्य ध्यात्वा ब्रह्मादिदेवताः |
ब्रह्मा प्रजापती रुद्रस्सर्वे देवा यथाक्रमम् || ८३ ||
छन्धांसि वेदा ऋषयो गन्धर्वाश्च सरीसृपाः |
यक्षाश्चप्सरसश्चैव मासाद्यैस्सह वत्सराः || ८४ ||
सरितश्च समुद्राश्च पर्वताश्च तथापगाः |
भूतानि पशवो वृक्षा स्तथैवौषधयःस्मृताः || ८५ ||
सर्वा देव्यः |
वनस्पतिश्चोद्भिदश्च स्वेदजाश्चाण्डजा स्तथा |
जरायुजाश्च भूरादिसप्तलोकास्तथैव च || ८६ ||
अतलाद्यास्तथालोकास्सप्त चण्डादिदेवताः |
इत्येतेभ्यो बलिद्रव्यं जुहुयान्मूलविद्यया || ८७ ||
इदं विष्णुरितिप्रोच्य पूर्णाहुति मथाचरेत् |
न दहेत्परिधीन् दर्भान् देवान्नोद्वासयेत् स्थितान् || ८८ ||
प्रत्यहं धारयेदग्नीन् यावत्तीर्थदिनावधि |
अहोरात्रं प्रतिदिनं जुहुयादुक्तवर्तना || ८९ ||
एकाग्नौवापि होतव्यं होमद्रव्यमशेषतः |
त्रये चतुष्टये चैवमग्नीनां कमलासन || ९० ||
बलिदानया चक्रस्य अन्नमूर्तेश्च निष्क्रमणम्. |
बलिप्रदानं प्रथमं कुर्याद्यागस्य मण्टपे |
चक्रं च बलिभिम्बं च समादायान्नमूर्तिना || ९१ ||
साकं निष्क्रम्य सदनात्तद्द्वारे कुमुदादिकम् |
अभ्यर्च्यपुरतो दद्याद्बलिं भूमितले शुचौ || ९२ ||
सदसः |
उपकरण वाहिनामग्रे गमनम्. |
पात्रस्थं तद्बलिद्रव्यं घण्टां प्रसवभाजनम् |
तोयपूर्णं च करकं दीपपात्रं च दीपिकाः || ९३ ||
धूपपात्रं गृहीत्वाग्रे गच्छन्तु परिचारकाः |
अग्रे अन्नमूर्तिः गच्चेत्. |
अग्रे गच्छेदन्न मूर्तिस्ततश्चक्रमनन्तरम् || ९४ ||
अन्वग्गच्छेत् अनुगस्छेत् |
तदनु नित्योत्स वार्चाया सयनम्. |
नित्योत्सवार्चां तदनु वितानादि समन्विताम् |
ततश्चण्ड प्रचण्डादीन् द्वारेष्वा वरणेषु च || ९५ ||
बलिनिक्षेपः. |
नित्योत्सवप्रक्रियाया बलिमभ्यर्च्य निक्षिपेत् |
मध्यमारभ्य च ग्रामे ब्रह्मादीनां यथाविधि || ९६ ||
देशेष्वीशानपर्यन्तं दत्वाऽभ्यर्च्य बलिं ततः |
परिशिष्टबलिद्रव्यस्य महापीठे निक्षेपः. |
महापीठे बलिद्रव्यं परिशिष्टम शेषतः || ९७ ||
दद्यात्पारिषदान् सर्वानुद्दिश्य कमलासन |
उत्सवमूर्तेश्शयनादुत्थापनम्. |
मुहूर्ते शोभने प्राप्ते गुरुरुत्सव कौतुकम् || ९८ ||
शयनस्थं समुत्थाप्य मन्त्रमुत्तिष्ठ पूर्वकम् |
उच्चारयन् स्वस्तिसूक्तं पठद्भिर्ब्राह्मणै स्सह || ९९ ||
निष्क्रम्य मन्दिरात्तस्मा दुच्चार्य च रथन्तरम् |
उत्सव मूर्तेर्हस्त्यादियुक्तरथेन परिभ्रमणम्. |
समारोप्य रथं युक्तं चतुर्भिर्हस्तिपुङ्गवैः || १०० ||
वाजिभिर्वा बलीवर्दैश्शीघ्रगामिभिरुत्तमैः |
कल्पकद्रुमसंयुक्तं हेमकुटै रलङ्कृतम् || १०१ ||
रथस्यो परिकृत्वा च नयेदास्थितसारथिम् |
यन्त्रेण वा विप्रवर्यौ रधीयानै र्बलान्वितैः || १०२ ||
गजे वा स्यन्दनालाभे याने वा तदसम्भवे |
भगवतो यानारोपणे मन्त्रः. |
भद्रङ्कर्णेति मन्त्रेण यानमारोपयेत्तदा || १०३ ||
सपुष्पहेमप्रभयायुक्तं पुष्पैरलङ्कृतम् |
हैमेन च विमानेन युक्तं पुष्पादिशोभिना || १०४ ||
वितानेन |
कुटाकारेण वा युक्तं मयूरच्छदशोभिना |
सर्वालङ्कार युक्तेन समनःपरिवेषिना || १०५ ||
यात्रोपचारविधिः. |
याने तत्र समासीसमभ्यर्च्यन्यासपूर्वकम् |
देवं निवेदयेत्तस्मै भक्ष्यं च पृथुकादिकम् || १०६ ||
नान्यं चरणयोर्न्यस्येन्निशाचूर्णानि सर्वशः |
दीपैरुदग्रैर्बहुभिः परिषिक्तै र्घृतादिना || १०७ ||
परस्सहस्रै स्सर्वत्र दीपयेच्च शतावरैः |
परिवारवर्गः. |
द्विजेन्द्रमुख्यैर्बहुभि र्भूषितैर्धवलाम्बरैः || १०८ ||
कञ्चुकोष्णीषसहितै र्वालव्यजनपाणिभिः |
तालव्यजनहस्तैश्च बर्हिबर्हकरैस्तथा || १०९ ||
मुक्तातपत्रहस्तै श्च मेघुडम्बरधारिभिः |
भिभ्राणैर्धूपपात्राणि गन्धोद्गारीणी विश्वतः || ११० ||
यानारुढेन पुरतो रचिताञ्जलिकर्माणा |
उच्छैर्ध्वजाधिरूढेन तथा तार्क्ष्येण पद्मज || १११ ||
मत्स्यध्वजाधिरूडेन |
पृष्ठतश्च प्रणमता शिभिकां कलकोज्ज्वलाम् |
आरूढेन विरिञ्चादीन् समुत्सारयता बहिः || ११२ ||
विष्वक्सेनेन देवेन वेद्रहस्तेन सेवितः |
उपानहौ पादुके च पात्रे कनकनिर्मिते || ११३ ||
समारोप्य पुरो विप्रैर्धारयद्भिरलङ्कृतैः |
राजचिह्नानि चान्यानि यातव्यमविलम्बितम् || ११४ ||
विप्रैस्त्रयी मधीयानै र्जवस्तुति परायणैः |
नृत्यता गायता चापि गाणिक्येनानु सेवितम् || ११५ ||
वीणादिवादनपरैर्वन्दिभिश्च तथा परैः |
षड्जदिगीतनिपुणै र्वाद्यवादनकोनिदैः || ११६ ||
गद्यं पद्यं तथा मिश्रं पठद्भिस्तोत्र मुज्ज्वलम् |
भाषाश्च बहुधा भिन्ना भाषमाणै रित स्ततः || ११७ ||
वैतण्डि कै स्तथा जल्पनिपुणैर्वाद शिक्षितैः |
तथा तत्वकथानिष्ठैः पदार्थज्ञैश्च तार्किकैः || ११८ ||
विमांसकैर्याज्ञिकैश्च च्छान्दसैस्साङ्ख्यकोविदैः |
योगज्ञैश्च पूर्णज्ञै श्शाब्दिकौस्तत्व वेदिभिः || ११९ ||
मौहुर्तिकैश्च गणशःपरस्परजिगीषुभिः |
तत्तच्छास्त्रोक्तमार्गेण प्रमेयं बहुधा स्थितम् || १२० ||
उच्चैर्ब्रुवाणैर्व द्वद्भिः पञ्च रात्र परायणैः |
पासुदेवस्य महात्म्यं कथयद्भिश्च सात्विकैः || १२१ ||
संस्कृतं प्राकृतं मिश्रमीर यद्भिरित स्ततः |
शास्त्रेषु नैपुणं सर्वं प्रदर्शयितु मुद्यतैः || १२२ ||
देवस्य पुरतःपृष्ठे पार्श्वतश्च स्थितैर्जनैः |
सेनया सर्वतोदिक्षु चतुरङ्ग नलाढ्यया || १२३ ||
देवस्य पार्श्वयोःपूर्वे लाक्षा रञ्चितमस्करैः |
यन्त्रेर्दारु मयैश्चित्रैऋः पक्ष्याकारैरिति स्ततः || १२४ ||
सर्जक |
देवताकृति यन्त्रैश्च तथा यन्त्रैर्गजादिभिः |
निषादिभिस्समारूढैस्त्रीभिश्च भरतोदितैः || १२५ ||
मार्गैर्बहुविधैर्नृत्तं दर्शयन्तीभिरद्भुतम् |
लेखायन्त्रे स्त्रियारूढै र्यन्त्रे रन्येस्तथाविधैः || १२६ ||
डोलायन्त्रे |
गतागतानि कुर्वाणैरनुयातस्समाकुलैः |
इत्थमावरणं सर्वं परिक्रम्य बहि स्तथा || १२७ ||
ग्रामादिवीधि काश्छापि परिक्रम्य प्रदक्षिणम् |
प्रवेशसमये चापि प्राकारवलयं तथा || १२८ ||
वापि |
प्रादक्षिण्येन गत्वान्तः प्रविशेन्मण्ट पावनिम् |
तत्रावरोपयेद्देवं बलिबेरं तु मन्दिरे || १२९ ||
नालयम् |
चक्रं च यागसदने बलिपीठे बहिस्थ्तते |
अन्नमूर्तिंक्षिपेन्नित्यं समाराधनकल्पितैः || १३० ||
वस्तुभिर्द्वगुणैर्नित्यं द्रुवभेरं समर्चयेत् |
उत्सवबिम्बस्य प्रातस्सिंहासनेऽवस्थापनम्. |
रात्रिशेषे व्यतिक्रानै मण्टपे सिंहविष्टरे || १३१ ||
अवस्थाप्यौत्सवं बिम्बमर्चयेच्छान्त्रवर्त्मना |
तर्स्मिबिम्बे वा स्नपनबिम्बे वा स्नपनम्. |
स्नपनं तत्र वा बिम्बे यद्वान्नपरकौतुके || १३२ ||
एकबेरविधाने मूलबिम्ब एव स्नपनम्. |
एकभेरविधाने तु मूलबिम्बेऽभिषेचनम् |
प्रत्यहं स्नपनं महाहविर्निवेदनं च. |
प्रत्यहं स्नपनं कुर्याद्यथाशक्ति यथाविधि || १३३ ||
यथावसु |
मेहीहविर्नि वेद्याथ बिम्बे कल्याणकल्पिते |
मण्डनालयमासाद्य शोभयोद्भूषणादिभिः || १३४ ||
बिम्बे तत्र स्थिते यागमण्टपं प्राप्य देशिकः |
कुम्भादिकं समभ्यर्च्य निवेद्य च यथोदितम् || १३५ ||
हुत्वा च पूर्ववत्पीठे बलिं दत्वा यथाविधि |
सर्वमन्यच्च |
बल्यर्चाया ग्रामवीधिषु नयनम्. |
बल्यर्चां नीत्वा ग्रामादिवीधिकाः || १३६ ||
यथानिशं विधायान्वगुत्सवार्चं नयेद्भहिः |
उत्सवार्चायाः दिवसानुगुणोपचारेण बहिर्नयनम्. |
यथापुरमलङ्कारं कृत्वा परिकरां स्तथा || १३७ ||
दिवसानुगुणानन्यान् ध्वजादीन्विष्वगुच्छृतान् |
ताम्बूलवीटिकां दत्वा स्थाने स्थाने समाहृताम् || १३८ ||
समाहिताम् |
पुथु कादीं स्तथा भक्ष्या न्नालिकेरफलानि च |
पानीयाचमानादीन चोदितानि यथाविधि || १३९ ||
दत्वानैवेद्यमखिलमद्भिः प्रोक्ष्यास्त्रविद्यया |
निवेदयेदपूपादीन् पक्वं तूष्णीं प्रदर्शयेत् || १४० ||
पानीयं च तथा स्वादु पयःप्रभृति चाहृतम् |
पिष्पमूलादि यच्चास्यच्चन्दनक्षोदभाजनम् || १४१ ||
भूषणं चाङ्गुलीयादि भक्त्या यत्प्रतिदीयते |
प्रोक्ष्य सर्वं तथास्त्रेण देवङ्गे योजयोद्गुरुः || १४२ ||
शिभिकया प्रदक्षिणानन्तरं स्नानमण्टपे समाराधनम्. |
ग्रामं प्रदक्षिणं नीत्वातधैवावरणानि च |
प्रवेश्य धाम शिभिकामन्यामारोप्य मङ्गलाम् || १४३ ||
प्नानमण्टपभूभागे काञ्चने परमानने |
सुखास्तरण संयुक्ते यूनादेरवरोप्यतम् || १४४ ||
कल्याणे |
निवेश्याभीष्टदिग्भागे सम्मुखं मखकौतुकम् |
आराधकस्य कञ्चकोष्णीधारणम्. |
आराधयेद्भागवत स्सर्वालङ्कार संयुतः || १४५ ||
अहतेन सुसूक्ष्मेण वासना श्लक्ष्णतस्तुना |
बद्दोष्णीषोत्तरासङ्गः कर्णकार्दौरलङ्कृतः || १४६ ||
सौवर्णवारवाणेन धवलेन विराजितः |
बद्धस्वदेहसन्नाहः पवित्रतकरश्शुचिः || १४७ ||
परिचारकाणां च तथा. |
समाराधनवस्तूनि नयद्भिः परिचारकैः |
कञ्चुकोष्णीषवासोभिर्भवितव्यं समन्ततः || १४८ ||
पूजकस्यदेवदक्षिणे उपवेशः. |
देवस्य दक्षिणे पार्श्वे पूजरेन्द्रोपवेशनम् |
सेनार्थिनां भगवतः पार्श्वेपृष्ठतश्चोपवेशः. |
आस्थितव्यं भगवतः पार्श्वयोः पृष्ठत स्ततः || १४९ ||
देवस्य वामपार्श्वेतु देशिकेन्द्रोपवेशनम् |
एकाग्रेमानसैस्सर्वै रेकान्तिभिरुवासकैः |
त्रिदण्डिप्रभृतीनामुपासकावां स्थितिः . |
आस्थितव्यं यतिवरैस्त्रिदण्डैरेकदण्डिभिः || १५० ||
ब्रह्मध्यान परैरन्व गाराधन विधिक्रमम् |
अनुसन्धायि भिश्शश्व दुपवेष्टव्य मन्तिके || १५१ ||
बहिस्तेषां च कल्याणै र्वैष्णवै स्संयतेन्द्रियैः |
आनस्दजाश्रु सलिलै राप्लुताङ्गैर्महीसुरैः || १५२ ||
मण्डपाद्बहि रुपवेष्टव्याः. |
उपासितव्यमन्त्येस्तु सदस्यैर्मण्टपाद्बहिः |
अधस्तात्सर्वतोदिक्षु प्रपाया मुपवेशनम् || १५३ ||
नर्तकगायकादीनां स्थानम्. |
अधस्तादग्रतो नृत्तगीतवाद्यविशारदैः |
नाट्यं बहुविधं वाद्यं प्रकृष्टं बहुधास्थितम् || १५४ ||
गीतं च दिव्यं षड्जद्यैस्स्वरैःकालानुसारिभिः |
प्रदर्शयद्भिर्लास्यानि बन्धनानीतराणिच || १५५ ||
गीतं च नृत्तं |
निबन्धानि |
आविष्कुर्वद्भिरान्यांश्च श्रव्यं दृश्यं च तद्द्वयम् |
दर्शयद्भिरधीयानैस्त्रयूं स्वाध्यायकल्पिताम् || १५६ ||
त्रैयन्तकल्पिताम् |
इतिहासपुराणानि कथयद्बिर्यथायथम् |
सन्निधातव्यमन्याभि र्वाणिनीबिस्समन्ततः || १५७ ||
सर्वाण्येभिः |
देवस्य सहस्रधारया स्नानम्. |
इत्थं संसेविते तत्र मण्डपे मधुविद्विषम् |
अर्चयित्वा ततस्स्नानपीठे नीत्वा यथापुरम् || १५८ ||
सहस्रधारापर्यन्तं स्नापयेत्पुरुषोत्तमम् |
अलङ्कारानन्तरं यात्रा. |
अलङ्कारासने नीत्वा तत्र कृत्यम शेषतः || १५९ ||
कृत्वा यात्रासने देवमारोप्य सपरिच्छदम् |
भोजनवासने महाहविर्निवेदनम्. |
प्रवेश्य मण्डपं तत्र न्यसेत्तं भोजवासने || १६० ||
महाहविर्निवेद्याथ पानकान्तं यथोदितम् |
देवस्य राजवदुपचारः. |
सुखासने स्थापयित्वा राजवत्सर्वमाचरेत् || १६१ ||
स्नापयित्वा |
अलङ्कारासनं नीत्वा यानमारोप्य मङ्गलम् |
महोत्सवनिगमनम्. |
अवरोप्यासने तत्र मण्डयित्वा यथापुरम् || १६२ ||
अलङ्कारालयं |
अवरोप्येत्येतदर्धं क्वचिन्न |
होमादि बलिदानान्तं कृत्वा सर्वम शेषतः |
औत्सवं बिम्बमादाय कुर्यादेवं महोत्सवम् || १६३ ||
तीर्थदिनपर्यन्तं अपूर्ववस्तुभिरुपचारः. |
प्रत्यहं महमुक्तेन विधिना विहितं क्रमात् |
अपूर्वाभरणैर्माल्यैरपूर्वैश्चाम्बरैस्तथा || १६४ ||
अपूर्वोद्यानयानाद्यैर्यथा कौतूहलं भवेत् |
तथा विशिष्य कर्तव्यं यावत्तीर्थदिनावधि || १६५ ||
पूर्वानतिक्रमेण स्थानभोगादिकल्पनम्. |
यस्मिन्नास्थानभूभागे ये भोगाः कल्पिताः पुरा |
तत्रेव ते विधातव्या देवस्य सति सम्भवे || १६६ ||
श्रीभूमिभ्यां साकं विना पादेवस्य ग्रामादौ भ्रमणम्. |
श्रिया वसुधया सार्धं ग्रामादौ नित्यमुत्सवे |
परिभ्रमणमीशस्य केवलस्यापि वा भवेत् || १६७ ||
प्रथमदिनमारभ्य षट्सु दिनेषु निवेदनीयवस्तूनि. |
अहनि प्रथमादौस्या द्बलिदानमनुक्रमात् |
पललं रजनीचूर्णं करम्भान् लाजसंयुतान् || १६८ ||
चरुणा सह संयोज्य बलिं तद्याद्यथाविधि |
द्वितीयेऽहनि संयोज्य चरुणा तिलतण्डुलम् || १६९ ||
मिश्रितांश्चरुणा लाजा धानान्यापूपकां स्तथा |
तृतीये च चतुर्थे च नालिकेरजलैस्सह || १७० ||
लाजान् धान्यानाया |
सक्तूंश्च शालिपिष्टं च संयोज्य चरुणा सह |
पंचमे पद्मभीजानि पायसं शालितण्डुलम् || १७१ ||
षष्ठे त्वपूपान् संयोज्य चरुणा निक्षिपेद्बलिम् |
सप्तमादिषु दिनेषु निवेदनीयविशेषः. |
सप्तमादिषु सर्वत्र सार्धमन्नैश्चतुर्विधैः || १७२ ||
अपूपांश्च तथा सक्तून् प्रत्यहं निक्षिपेद्बलिम् |
ब्रह्मादीशानपर्यन्तं स्थानेष्वष्टसु पूर्ववत् || १७३ ||
गोमयशुद्धे बलिपीठे तोयपूर्वं बलिदानम्. |
विधाय बलिपीठानि गोमयालिप्तभूमिषु |
तेषु वाद्यं तथा नृत्तं गेयं नित्येत्सवे यथा || १७४ ||
कृत्वा दद्यात्तोयपूर्वं बलिं तेयोत्तरं तथा |
बलिमुद्रां दर्शयित्वा दर्शयेन्मङ्गलाष्टकम् || १७५ ||
बलिप्रदक्षिणम्. |
बलिं प्रदक्षिणीकृत्य गच्छेयुर्बलिदायिनः |
आरम्भसमाप्तिदिनयोरेको बलिः मध्यदिनेषु बलिद्वयम्. |
आरम्भदिवसे रात्रौ समाप्तिदिवसेऽहनि || १७६ ||
बलिमेकां क्षिपेन्मध्यदिवसेषु बलिद्वयम् |
अहोरात्रं बलिदानम्. |
अह्नि रात्रौ च सर्वत्र बलिदानं यथाविधि || १७७ ||
अन्तदिने ग्रहणादिसम्पाते बलिद्वयम्. |
अवसानदिने रात्रौ ग्रहणे विषुवेऽयने |
प्राप्ते कुर्यादवभृथं यदि तस्मिन् बलिद्वयम् || १७८ ||
ग्रामादिरहितस्थाने महपीठस्य पुरतोबलिः. |
ग्रामादिरहिते स्थाने मध्ये तु पुरतो बलिम् |
महापीठस्य वितरेद्ब्रह्मणे देशिकोत्तमः || १७९ ||
तीर्थदिनात्पूर्वेद्युर्मृगया. |
पुर्वेद्युस्तीर्थदिवसाद्देवस्य मृगया भवेत् |
मृगयादिवसात्पूर्वं जलद्रोण्यवगाहनम् || १८० ||
तस्मिन् दिने सविभवं देवस्य निर्गमः. |
अवगाहदिनात्पूर्वदिवसे देवमर्चयेत् |
श्रीभूमिभ्यां सहैकस्मिन् विष्टरे विपुले स्थितम् || १८१ ||
उद्यानादौ च देवीभ्यां सार्धं देवस्य निर्गमः |
कीड्राश्च तत्र बहुधा दर्शये च्चोपदाः पुनः || १८२ ||
च्चोपधाः |
देसान्तरादाहृतप्रौभृतादिनिवेदनम्. |
देशाद्देशादाहृतानि प्राभृतानि गुरुस्स्वयम् |
प्रदर्श्य देवदेवाय जनसंसदि मण्डपे || १८३ ||
इतो यातमिदं सर्व मितो यातमितीर्यच |
देवादीनपि चाहर्तॄन्काले विज्ञापये त्ततः || १८४ ||
चाहर्तुं काले |
देशिकेन्द्रः देवानन मपलोक्यसर्वेषामनुग्रहंकुर्यात्. |
तन्मयत्वाद्देशिकेन्द्रो देवोऽहमिति भावयन् |
कुर्यादनुग्रहं सर्वं देवस्यालोक्य चाननम् || १८५ ||
भावयेत् |
समीपस्थैरनुग्रहभावना. |
अभिप्रायं यथा राज्ञो ज्ञात्वा तेन प्रदर्शितम् |
ब्रुवन्ति तत्समीपस्था राज्ञां तत्तदनुग्रहम् || १८६ ||
बल्यर्चया उत्सवेसुददर्शनान्नमूत्योर्विकल्पः. |
सुदर्शनान्नमूर्तिभ्यां सह ताभ्यां विनापि वा |
सह बल्यर्चया कुर्याद्विना वा तं महोत्सवम् || १८७ ||
केवलोत्सवबिम्बेन दिनेष्ववभृथावधि |
अपराह्णे जलद्रोण्यव गाहनम्. |
जलद्रोणीं जलस्नानदिने कृत्वा यथापुरम् || १८८ ||
उत्सवं देवदेवस्य प्रातरारभ्य मङ्गऌअम् |
अपराह्णे जलद्रोण्यामवगाहनमिष्यते || १८९ ||
सोपानदेशे सरसि जलद्रोणीं निवेशयेत् |
कटाहं वापि सौवर्णं पूरयेद्गन्धवारिभिः || १९० ||
मुक्ता भान्यक्षतान्यत्र परितो विकिरेत् स्थले |
जलेष्वावाह्य गङ्गाद्यास्सरितस्तास्सभाजयेत् || १९१ ||
काराण्यक्षतानि |
जलेऽभिमन्त्रिते मन्त्रैरब्लिङ्गैर्देवमर्चितम् |
उपचारैर्यथापूर्वं स्नानान्त्रैरवगाहयेत् || १९२ ||
स्नातं तैरेव गाहयेत् |
तस्मिन् काले वारुणसूक्त वाद्यादिघोषः. |
काले तस्मिन्नधीयूरन् सूक्तं वारुणमुच्चकैः |
तन्मया दिक्षु सर्वासु घोषयेत्तूर्यमुच्चकैः || १९३ ||
शाकुन |
अवगाढस्य देवस्य यानेन मण्डपप्रापणम्. |
अवगाढं ततो देवं यानमारोप्य मण्डपम् |
अन्यमानीय तत्रापि यथापूर्वं सभाजयेत् || १९४ ||
तीर्थस्ननस्य ब्रह्मादिभिरनुष्ठितत्वम् |
अनुष्ठितमिदं तीर्थं ब्रह्मद्यैरपि दैवतैः |
तीर्थस्नानपानादिफलम्. |
एतैश्च तीर्थसलिलैःपीतैश्शिरपि धारितैः || १९५ ||
स्नानैर्निर्धूतपाप्मानो यान्ति ब्रह्म सनातनम् |
उत्सवात्पूर्वमनन्तरं वा मृगया. |
मृगयादिवसे वापि प्रातरारभ्य पूर्ववत् || १९६ ||
कृत्वोत्सवमशेषेण तस्यान्ते मृगया भवेत् |
मृगयाविधानम्. |
मृगयानुगुणैस्सर्वैर्भूषणैर्भूषितं ततः || १९७ ||
तद्योग्यायुधसन्नाहं हस्त्यादौ परिकल्पिते |
आरोप्य कृत्रिमे चाश्वे नयेद्ग्रामादि पूर्ववत् || १९८ ||
साधु कल्पिते |
देवीभ्यां सह सीमादौ सैन्यैर्हस्त्यादिभिर्युतम् |
उद्यनमण्टपे चापि मध्ये सौवर्णविष्टरे || १९९ ||
मृगयानिवृत्तस्य देवस्य रात्रौ मण्टपनयनम्. |
आसने तत्र चासीनं स्नानपूर्वं समर्चयेत् |
मण्टपेऽन्यत्र विधिना निवेद्य च महाहविः || २०० ||
यानमारोप्य तद्रात्रौ मन्द्रिरान्तर्भुवं नयेत् |
पश्चिमरात्रिभागे तीर्थभिम्बाधिवासनम्. |
नित्योत्सवं यथापूर्वं कुर्यात्तदनु मङ्गलम् || २०१ ||
पश्चिमे रात्रिभागे तु तीर्थभिमाबाधिवासनम् |
बद्वा प्रतिसरं तीर्थबिम्बाभावे चतुर्मुख || २०२ ||
तीर्थबिम्बाभावे उत्सवमूर्तेरेवकौतुकबन्धः. |
नित्योत्सवप्रतिकृतेरभावे त्वधिवासनम् |
स्नानर्चायां भवेद्यद्वा बिम्बस्योत्सवकारिणः || २०३ ||
उत्सवं प्रातरारभ्य कुर्यात्पूर्वोदितक्रमात् |
उत्थाप्य शायितं बिम्बं निवेश्य मुखमण्टपे || २०४ ||
स्नाममण्डपे |
आदाय स्थापितान् कुम्भान् यागमण्डपभूमिषु |
नीत्वा प्रदक्षिणं धाम तीर्थभिम्बस्य सन्निदौ || २०५ ||
स्थापयित्वा धान्यराशौ तीर्थबिम्बं यथाविधि |
एकबेरे मूलबेरस्यैव कौतुकबन्धः. |
वस्त्रान्तमर्चयित्वान्ते मुहूर्ते शोभने गुरुः || २०६ ||
एकभेरे मूलभेरमन्यथा तीर्थकौतुकम् |
कुम्बौरभ्युद्धृतैर्देवं मूलमन्त्रेण मन्त्रवित् || २०७ ||
वूर्वादिमध्यकुम्भान्तमभिषिञ्चेद्यथाविधि |
स्नानादिदीपपर्युन्तं प्रतिकुम्भं समर्चयेत् || २०८ ||
पठत्सु विप्रवर्येषु दिक्षु स्वाध्यायमुच्चकैः |
घोषयत्सु च वाद्येषु मन्त्रैरब्दैवदैर्गुरुः || २०९ ||
नववस्त्रोत्तरीयाद्यैर्दीपान्तैरर्चिते हरौ |
निशाचूर्णविधिः. |
ध्वजपीठस्य पुरतः क्षितौ गोमयपारिणा || २१० ||
क्षितिम् |
आलिप्ते चतुरश्रे च शालिभारैर्विकीर्यच |
वस्त्रपूर्वाद्यलङ्कारैरुलूखलमङ्कृतम् || २११ ||
क्षालितं स्थण्डिले पीठे स्थापयित्वा चतुर्मुख |
श्रीनूक्तविद्यया लक्ष्मीं ध्यात्वा मन्त्रितमर्चितम् || २१२ ||
तण्डुले पीठे |
ध्यायन् |
मुसलं क्षालितं चापि मन्त्रितं मूलविद्यया |
आदाय मार्तिपैस्सार्धं देशिकेन्द्रस्समाहितः || २१३ ||
अवहन्यान्नि शाचूर्णं निक्षिप्तं तदुलूखले |
गायन्त्यो गणिका गीतं मन्दिरे देवदासिकाः || २१४ ||
मङ्गलं |
अवहन्युर्निशाचूर्णं यथासूक्ष्मतरं भवेत् |
देवस्य निशाचूर्णकुम्भाभिषेकः. |
निक्षिप्तचूर्णं तदनु कुम्भं वेष्टितवासनम् || २१५ ||
सकूर्चमल्लकं पीठे तण्डुलैः परिकल्पिते |
स्थापितं मूलमन्त्रेण गन्धादिभिरथार्चितम् || २१६ ||
सकूर्चं मल्लकम्. पल्लनं |
आदायकुम्भचूर्णैस्तैश्श्रीसूक्तेनाभिषेचयेत् |
अवभृथार्थं देवस्स सरित्तीर्थनयनम्. |
ऋत्विजो देशिकेन्द्रश्च देवं गत्वा प्रदक्षिणम् || २१७ ||
आचार्यः आधार |
अष्टाङ्गप्रणिपातेन प्रणिपत्य विकीर्य च |
पुष्पाण्यञ्जलिभिर्देवं स्तुत्वा स्तोत्रे रनेकशः || २१८ ||
रनेकधा |
अलङ्कृतैर्भागवतैश्छत्रचामरधारिभिः |
तैरेव सर्वैर्बहुभिर्भाव्यं देवसमीपगैः || २१९ ||
अरोप्य देवं हास्त्यादौ तीर्थभिम्बमलङ्कृतम् |
पश्चादुत्सवबिम्बेन नीयमानेन पूर्ववत् || २२० ||
सहितं सरित स्तीर्थं नीत्वा यद्वा सरित्तटम् |
समुद्रे अवभृथे नियमः. |
दर्शे च पौर्णमास्यां च अर्वाक्चेद्योजनावदौ || २२१ ||
परित |
समुद्रतीरमथवा मण्डपे तत्र कल्पिते |
अवरोप्यासने याना न्निविष्टे तीर्थकौतुके || २२२ ||
कलशस्थापनचक्राभिषेकौ. |
कलशानग्रतःपञ्च विंशतिं दश सप्त च |
यद्वा यद्वा नव न्यस्य यथाविधि यथाक्रमम् || २२३ ||
यथापुरम् |
कलशैरभिञ्चेत चक्रं शिष्टैश्च वारिभिः |
चक्रस्य चले मज्जनम्. |
सरितादौ च तीर्थेषु तीर्थान्यावाह्य नामभिः || २२४ ||
निमज्जयेत्तत्र बिम्बं चक्रं च त्रिर्यथाविधि |
तीर्थार्थमौत्सवे बिम्बे समानीते तु वारिभिः || २२५ ||
निमज्जयेत्तत्र कुम्भं चक्रं च त्रिर्यथा विधि. निमज्जेत्तत्र तद्बिम्बं चक्रमन्त्रैः |
प्रोक्ष्य कूर्चाग्रपतितैर्भिम्बं चक्रं निमज्जयेत् |
चक्राभावे कूर्चस्य विधानम्. |
चक्राभावे तु तत्कूर्चं केवलं देवसन्निदौ || २२६ ||
देवेन सहमज्जतां शाश्वतलोकावाप्तिः. |
देवेन सह तत्काले निमज्जन्ति च ये नराः |
ते निर्धूयाखुभं सर्वं महापातकमप्यथ || २२७ ||
यान्ति द्रुवं सुदुष्प्रापं स्थानमाचन्द्रतारकम् |
मण्डपे देवस्य महाहविर्निवेदनम्. |
मण्डपे देवमानीय पूजयित्वा यथापुरम् || २२८ ||
महाहविर्निवेद्याथ ब्राह्मणान् भोजयेत्ततः |
प्रत्यहं ब्रह्मणभोजनम्. |
प्रत्यहं भोजयेद्विप्रान् सहस्रं शतमेव वा || २२९ ||
देवस्यालयाभ्यन्तरप्रापणम्. |
आलयाभ्यन्तरं यानमारोप्य प्रापयेत्ततः |
तद्रात्रौ मण्डपे देवं नीत्वाभ्यर्च यथाविधि || २३० ||
प्रभाते चक्राब्जमण्डले पुष्पयागः. |
निवेद्य च यथान्यायं प्रभाते मण्डपान्तरे |
भक्तैर्भागवतैश्चैव सेविते भूतेल क्वचित् || २३१ ||
चक्राब्जं वर्तयित्वोक्तवर्तना वरणान्वितम् |
प्रसवैः कालजैश्श्यामैः कृष्णैश्च तुलसीदलैः || २३२ ||
न्यूवातिरेकरहितैर्वर्णैरेव सितादिभिः |
विचित्रयेत्पञ्चवर्णैश्चित्रिते तस्य मध्यतः || २३३ ||
तत्र |
भद्रपीठे प्रभायुक्तेन्यस्ते कल्याणकौतुकम् |
निवेश्याराधयेदर्घ्यपाद्यादिभिरनुक्रमात् || २३४ ||
द्वादशाक्षरमन्त्रस्थान्यक्षराणि यथायथम् |
उद्दिश्य भूषापर्यन्तैरर्घ्यार्द्यैर्नवभिःक्रमात् || २३५ ||
प्रत्यक्षरं समस्तानि पुष्पौ रभ्यर्चयेद्धरिम् |
हृदयादीनि चाङ्गानि समुद्दिश्याञ्जलिस्थितैः || २३६ ||
रुपचरेद्धरिम् |
फलं भवतु मे पुष्पैर्नम इत्यवसानकम् |
तन्त्र मन्त्रं समुच्चार्य मन्त्रविद्देशिकोत्तमः || २३७ ||
पुष्पं नम |
तत्र मन्त्रं |
भूषणानि तथोद्दिश्य श्रीवत्पादीन्यनुक्रमात् |
आयुधानि च दिव्यानि चक्रादीनि यथाक्रमम् || २३८ ||
तथैवावरणस्थानां देवतानां समर्चनम् |
मत्स्यादिमूर्तिदशकं केशवादीं स्तथा परान् || २३९ ||
चतुर्विंशतिसङ्ख्याता नुद्दिश्य कुसुमार्चनम् |
पौरुषेण तु सूक्तेन प्रत्यृचं कमलासन || २४० ||
नारायणानुवाकेन विष्णुसूक्तेन देशिकः |
पुष्पाणि तद्याद्देवस्य चरणाम्बोजयोर्द्वयोः || २४१ ||
तथौपनिषदैर्मन्त्रेः ञ्चभिस्सर्वपापनैः |
दिक्षु वेदांश्च चतुरः पठेयुर्मन्त्रवित्तमाः || २४२ ||
विदिक्ष्वेकायनां शाखां तन्मयूस्सुमुखा स्तथा |
अधीयीरन् तथा स्तोत्रेनृत्तैश्च सततोद्यतैः || २४३ ||
तथातोद्यैः |
तोषयेद्देवदेवेशं गेयैश्च बहुधा स्थितैः |
पुष्पाभिषेकं प्रहितैः पुष्पैरेव सितादिभिः || २४४ ||
पुष्पाभिषेकसहितैः |
देवस्य कृत्वा देवाय पायसादि चतुर्विधम् |
अन्नं निवेद्य जुहुयाद्दिश्यग्नेर्मण्डपस्च च || २४५ ||
समिद्भिराज्यैश्चरु भिश्चतुभिर्नश्च पृथक्पृथक् |
अष्टोत्तरशतं वारान् मूलमन्त्रेण मन्त्रवित् || २४६ ||
देवस्य यानेन परिभ्रमणम्. |
ततःप्रदक्षिणं कृत्वा देवं स्तुत्वा च भूतले |
प्रणयेद्दण्डद्यानमारोप्य शिभिकादिकम् || २४७ ||
आगतानां ब्राह्मणादीनां निवर्तनानुज्ञा. |
प्रविशयेदावरणं प्रथमं तत्र च स्थितः |
सेवानुभूतिविवशार्न भक्तान् भागवतांश्च सः || २४८ ||
ब्रह्मादीनपि कल्याणमनुसन्धातुमागतान् |
प्रणतानालयं स्वं स्वं गन्तुं सर्वेश्वरो हरिः || २४९ ||
ब्रह्मन्नपि च |
नियुज्यावरणं तच्च परिक्रम्य प्रदक्षिणम् |
सार्धमभ्यन्तरै र्निर्तैस्सेवकै रनुयायिभि || २५० ||
र्नित्यं |
रनपायिभिः |
शान्तिहोमः पूर्णाहुतिः. |
अभ्यन्तरं मन्दिरस्य प्रविशेन्जङ्गलान्वितम् |
तदहर्निशि पूर्वस्मिन् न्यस्येत्स्नसपनमण्डपे || २५१ ||
यामे |
उत्सवान्तोचितं स्नानं कलशैरा चरेत्क्रमात् |
महाहविर्निवेद्यथ नीत्वातन्मण्डपान्तरे || २५२ ||
यागमण्डपमासाद्य होमं कुर्याद्यथाविधि |
शान्तिहोमं ततःकुर्याद्यथा पूर्वोदितत्रमात् || २५३ ||
प्रायश्चित्तं तु जुहुयात्पञ्सोपनिषदा घृतम् |
सहस्रं वाशतं वापि हुत्वा पूर्णाहुतिं चरेत् || २५४ ||
अग्न्यादीनामुद्वासनम्. |
अग्नीन् विसर्जयेद्देवान् तत्रस्थां स्तोरणादिषु |
ध्वजोद्वासनम् यजमानाय ध्वज स्तम्भदानम्. |
ध्वज स्तम्भं समासाद्य पूजयित्वा खगाधिपम् || २५५ ||
हविर्नि वेद्य गरुडं परिक्रम्य प्रदक्षिणम् |
तमुद्वसेत्पटात्तार्क्ष्यं संहारक्रममाश्रितः || २५६ ||
अवरोप्य ध्वजस्तम्भ मुत्पाट्य च महानिशि |
स्तम्भं ध्वजं चगृह्णीयाद्देशिकेन्द्रस्स्वयं ततः || २५७ ||
सहध्वजं |
ग्रहणं देशिकेन्द्रेण तार्क्ष्यतृप्तिकरं भवेत् |
स्थाने चावाहितान् देवान् तत्र तत्र स्थितानपि || २५८ ||
बलिं दत्वा तूर्यघोषैः स्थाने स्थाने सकृत्सकृत् |
घोषयित्वा चतुर्वक्त्र समुद्वास्य स्वनामभिः || २५९ ||
स्समुत्पाद्य |
देशिकस्य परिजनेन साकं मौनेनाष्टाक्षरजपः. |
मूकैः परिकरैस्सार्धं गुरुरष्टाक्षरं जपेत् |
प्रविश्य धाम देवस्य विज्ञाप्य शकटादिकम् || २६० ||
परिजनै |
यजमानादिभ्यः दक्षिणा. |
यानमारोप्य धामान्तः प्रापयेन्मखकौतुकम् |
प्रभातायां निशायां वाऽनुष्ठिते यागकर्मणि || २६१ ||
प्रभाते तन्निशायां |
यजमानो गुरुं वस्त्रे र्भूषमैःकटकादिभिः |
सौवर्णैर्गन्धपुष्पाद्पैद्यैरलङ्कृत्याभिपूज्य च || २६२ ||
दक्षितामुत्तमां स्वर्णशतनिष्कां ततोऽधिकाम् |
यथाविभूति दत्वान्या दक्षिणाः प्रतिपासरम् || २६३ ||
दशनिष्कं तदर्धं वा तदर्धं वा यथावसु |
निष्करूपां यथाश्रद्धमाचार्यय तदर्धकाम् || २६४ ||
शतनिष्कं |
तदर्धमृत्विजां दद्यात्तदर्धं परिचारिणाम् |
हेमवस्त्रान्नयानाद्येस्तोषये दुपचर्यया || २६५ ||
दुपचर्यच |
गायकाद्यान् जनान् सर्वानधिकारानुसारतः |
कर्माङ्गभूतानन्यांश्च कल्याणं द्रष्टुमागतान् || २६६ ||
भर्क्ता भागवतांशैव सामान्यांश्चेप्सितैर्धनैः |
अप्यल्पिकापि दातव्या दक्षिणा यागकर्मणि || २६७ ||
कर्मिर्भ्यो दक्षिणाहीनो निष्फलःकर्तुरब्जज |
यज्ञःप्रत्युत कर्तॄणां प्रत्यवायाम कल्पते || २६८ ||
उत्सवकारकस्य उपकुर्वाणानां च फलम्. |
तस्मादर्थानुगुण्येन दातव्या दक्षिणा भवेत् |
श्रद्धया वासुदेवस्य साङ्गो पाङ्गं सदक्षिणम् || २६९ ||
उत्सवं देवदेवस्य यःकुर्यात्सकुलं स्वकम् |
उत्तरयर्न स्वयं विष्णोस्सायुज्यं गच्छति द्रुवम् || २७० ||
हयमेधसहस्रेण यजते यस्समाहितः |
यश्चोत्सवेन यजते तयोस्तुल्यफलान्वयः || २७१ ||
यागानामपि सर्वेषां फलमुत्सव कर्मणा |
देवस्याश्नुवते सर्वं यष्टारो नास्तिसंशयः || २७२ ||
कर्मणि |
राजराष्ट्रादीनामभ्युदयकथनम्. |
ुपकुर्वन्ति ये मर्त्यादेवस्योत्सव कर्मणि |
कर्मणा मनसा वाचा तेऽपि यान्ति यथेप्सितम् || २७३ ||
ग्रामे वा नगरे वापि पत्तेने वा महोत्सवः |
विष्णोः प्रवर्तते यत्र देशे राष्ट्रेऽपि वा भवेत् || २७४ ||
भयं न मृत्योर्सव्याधेर्न दुर्भिक्षादिसम्भवः |
नस्यन्ति तस्करास्तत्र नाधर्मस्संप्रवर्तते || २७५ ||
धर्मयुक्तो भवेद्राजा जना धर्मपरायणाः |
भवन्ति सुखिनस्सर्वे सर्वदुःखविवर्जिताः || २७६ ||
सेवार्थिभ्यः पानीयादिदानस्य महाफलत्वम्. |
महोत्सवे वर्तमाने यतर्थिभ्यःप्रदीयते |
पानीयमन्नं वस्त्रं वा तत्सवास्रगुणं भवेत् || २७७ ||
उत्सवेऽधिकृतानां भगवत्प्रसादः. |
पुष्पमूलफलै रिज्या देवस्याभरणादिकैः |
क्रियमाणा यथाशक्ति फलानन्त्याय कल्पते || २७८ ||
सेवस्ते तत्र ये देवमहर्निशमतन्त्रिताः |
तेषामिदमियच्चेति फलं वक्तुं न शक्तते || २७९ ||
अलेपनं मार्जनं च रजःप्रशमनं तथा |
वारिभिर्दीपिकारोपं क्ष्वेलनास्फोटनादिकम् || २८० ||
कुर्वन्तिये ब्रह्मलोकं ते यान्त्यमरदुर्लभम् |
यानं वहन्तिये विप्रास्ते यान्ति ब्रह्मणःपदम् || २८१ ||
परमं पदम् |
रथं वहन्तिये चाश्वास्तेऽपि यान्ति सुरालयम् |
छत्रादिधारिणश्चापि मोदन्तेदिवि मानवाः || २८२ ||
चान्ये तेपि |
देशिको मूर्तिपाश्चैत तथैव परिचारकाः |
उत्सवेऽधिकृता विष्णोःप्राप्नुवन्ति यथेप्सितम् || २८३ ||
ऋचो यजूंषि सामानि ये तत्राधीयते जनाः |
ते परे प्योम्नि देवस्य पार्श्वे वर्तन्तिनिस्पृहाः || २८४ ||
सर्तन्तीति श्रौतः प्रयोगः |
देवस्य कल्याणाराधनम्. सर्वक्षेमकरम्. |
सर्वशान्तिकरं सर्वदुःखोत्सादनमुत्तमम् |
राज्ञो राष्ट्रस्य सुखदयायुरारोग्यवर्धनम् || २८५ ||
प्रजानां वासुदेवस्य कल्याणा राधनं महत् |
इमं देवदयस्सर्वे विष्णोरुत्सवमुत्तमम् || २८६ ||
कृत्वा शाश्वतिकं स्थानं प्रापुरत्यन्तदुर्लभम् |
त्रिदिनै काहसाध्योत्सवयोर्विधेया विधयः. |
उत्सवे त्रिदिनै काहसाध्ये श्रद्धा प्रवर्तिते || २८७ ||
बलिप्रदानं समनोयजनं चाधिपासनम् |
नवावामपि कुम्भानां तथा तीर्धावगाहनम् || २८८ ||
मृगया च जलद्रोणी वर्जनीयानि पद्मज |
तावत्येवोत्सवदिने तीर्थान्ते ग्रामवीधिषु || २८९ ||
ब्रह्मादिदेवतास्सद्यस्समावाह्य बलिः क्षिपेत् |
केनलोदनमग्नौ च होमो निश्यधिवासनम् || २९० ||
स्नपनं विषुवाद्येषु नद्यादाववगाहनम् |
पुष्पयागो जलद्रेणी मृगया च न युज्यते || २९१ ||
अन्यत्सर्वं यथापूर्वं कर्तव्यं फलकाज्ञ्क्षिभिः |
इति गुह्यतमं ब्र्हमन्नुत्तमाराधनं परम् || २९२ ||
Kapitel 12
Lesehilfe: Kapitel 12: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
द्वादशोऽध्यायः |
अर्चननिवेदनोपयोगि फलपुष्पनिर्देशः. |
ब्रह्मा |
समाराध्यो हरिः पुष्पैः कालपक्वैर्हवींषि च |
फलमूलानि चान्यानि कानि योग्यानि कथ्यताम् || १ ||
कैःपत्त्रेवान् |
श्रीभगवान् |
पुष्पाणि नन्दनवनादारामादात्मनोपि वा |
अरण्याद्वा गृहीत्वा च विक्रीतान्यापणस्थलात् || २ ||
अयाचितानि लब्धानि यद्वा कमलसम्भव |
पूर्वपूर्वोदितालाभे ग्राह्यमुत्तरमुत्तरम् || ३ ||
वर्ज्यानि कुसुमफलादीनि. |
अन्यायोपार्जिताव्यन्यदेवतार्थानि वा पुनः |
अग्राह्याणि तथा भिन्नं मुकुलं पतितं तथा || ४ ||
जीर्णं पर्युषितं कीटदूषितं पादलङ्घितम् |
म्लानं स्पृष्टं तथाऽस्पृश्यैर्नीतं च प्रतिलोमजैः || ५ ||
पुष्पादिसङ्ग्रहविधानम् तत्पात्राणि च. |
स्नातश्शुद्धाम्बरो मौनी पाणिं प्रक्षाल्य वारिणा |
पात्रे पुष्पाणि गृह्णीयाद्वेत्रजे तृणजेऽथवा || ६ ||
उपादेयपुष्पाणि. |
कल्पकद्रुमसञ्जातं पारिजातसमुद्भवम् |
हरिचन्दन सन्तानमन्दारद्रुमसम्भवम् || ७ ||
सौगन्धिकोद्भवं पुष्पं षडेते सुरदारुजाः |
पालाशं सप्तमं पुष्पमुपयुक्तानि चार्चने || ८ ||
अनिर्माल्यानि देयानि पुनःप्रक्षाल्य वारिभिः |
उत्तरोत्तरमेकैकं सहस्रगुणमिष्यते || ९ ||
समारोप्यानि |
प्रातरर्चनोपयोगि पुष्पाणि. |
प्रातःपद्मद्वयं शस्तमुत्पलत्रयमर्चने |
फलं च पूर्ववत् ज्ञेयं तथैव शतपत्रिका || १० ||
चम्पकं केतकीयुग्मं मालती माधवी तथा |
सन्द्यावर्तं च पुन्नागं सुरपर्ण्येकपर्णिका || ११ ||
प्रियङ्गु पाटलद्वन्द्वं मन्दारद्वयमेव च |
लक्ष्मीश्च कर्णिकारश्च यूधिका कुरवस्तथा || १२ ||
पट्टिकै तानि शस्तानि फलं पूर्ववदिष्यते |
मध्याह्मार्चनोपयोगीनि. |
शस्तं मध्यन्दिने श्वेतकरवीरजमर्चने || १३ ||
कैङ्किरातं च सौवर्णं पुष्पं सहचरी तथा |
प्रदोषार्चनोपयोगीनि. |
पूर्ववच्च फलं विद्यात्प्रदोषे च प्रशस्यते || १४ ||
दद्यात् |
जातियुग्मं विचकिलं मल्लि काद्वयमेव च |
वकुलं वनजातिश्च तथा च वनमल्लिका || १५ ||
कुमुदं वनमल्ली च पूर्ववच्च फलं स्मृतम् |
प्रातरपचितस्य मध्याह्ने विनियोगः. |
प्रातःकालोदितं पुष्पं युक्तं मध्यन्दिनेपिच || १६ ||
प्रदोषोदितपुष्पाणां मध्यरात्रार्चनयोग्यता. |
प्रदोषे कथितं पुष्पं मध्यरात्रे च शस्यते |
दिवापुष्पैर्दिवा निशावुष्पौर्निशि विनियोगश्शस्तः. |
दिवापुष्पैर्दिवा पूजा निशापुर्षौस्तथा निशि || १७ ||
देशकालानुसारीणि पुष्पाणि. |
देशे काले यथायोगमर्चयेत्पुरुषोत्तमम् |
मालत्या पूजयेत्प्रातर्मध्याह्ने करवीरजैः || १८ ||
अपत्काले यथायोगं पूजयेत्. प्रातःकाले |
सायाह्ने जातिपुष्पैस्तु प्रदोषे वकुलैरपि |
मध्यरात्रे मल्लिकाभिर्यजेत |
जलजपुष्पस्य सर्वदा पुजार्हता. |
जलजैस्सदा || १९ ||
प्रत्यूषे नन्दिकावर्तैः काल एष उदाहृतः |
पद्मादिजलपुष्पाणां दिनत्रयावधि अपर्युषितता. |
पद्मादि जलपुष्पाणामर्वाग्धर्तुस्त्र्यहाद्भवेत् || २० ||
दलपुष्पाणामर्वाक्कर्तु |
न च पर्युषितो दोषो नीरजानां भवेत्तथा |
अबद्देभ्यः प्रसूनेभ्यः मालाबद्धानि श्रेष्ठानि. |
अबद्धेभ्यः प्रसूनेभ्यो बद्धमाला प्रशस्यते || २१ ||
नीवाराणाम् |
मालास्रजोस्स्वरूपं प्रशस्तिभेदश्च. |
मालाभ्यस्स्रग्वरा माला सजातीय प्रसूनका |
स्रक्तु नानाविधैःपुष्पैर्निर्मिता कदलीत्वचा || २२ ||
प्रसूनजा |
सर्वदा अपर्युषितानि पुष्पाणि. |
ह्रीबेरं च तमालं च तथा दमनकत्रयम् |
न पर्युषितमेतैश्च सदैवाराधयेद्धरिम् || २३ ||
तुलसी चतुष्टयं दूर्वा भिल्वपत्रं च पूजार्हाणि |
तुलस्यौ सितकृष्णे च केवलाक्षपकास्तथा |
चत्वारस्तुलसीभेदा दूर्वा भिल्वदलानि च || २४ ||
सर्वदारराधनार्हाणि |
गृहार्चने करवीननिषेधः. |
पूजा तु करवीरजै |
गृहे कुलक्षयकरी |
अक्षतादयोऽप्यर्चनोपयोग्याः. |
पुष्पपत्राद्यसन्निदौ || २५ ||
अक्षतैरर्चनं कुर्याद्धरेः कलमजैस्सितैः |
हविर्योग्यानि धान्यानि. |
नीवारा वेणवश्शाल्यः कलमाद्या यवा अपि || २६ ||
हविर्योग्या व्रीहयश्च तदभावे प्रयङ्गवः |
अन्ये च याज्ञिका धान्यभेदाःकोद्रववर्जिताः || २७ ||
वर्जनीयानि धान्यानि. |
नीचैर्दत्तास्तथा स्पृष्टाःपतितैः प्रतिलोमजैः |
अशौचवद्भिरपरै |
पक्वापक्वयोर्गुणतारतम्यम्. |
रपक्वाःकलमादयः || २८ ||
शस्यन्ते चरुसाकेषु पक्वाश्च तदसन्निदौ |
तण्डुलानां सर्ववर्णेभ्योऽपि ग्राह्यता. |
चातुर्वर्णैरुपहृतास्तण्डुला दोषवर्जिताः || २९ ||
पक्वं न्वक्वेत्प्रयत्नतः. इतिकोशान्तरे |
अखण्डिताःखण्डिताश्चा भावे त्रीनिष्फलीकृताः | |
चरुपात्र निरूपणम्. |
चरुपात्रं ताम्रमयं प्रशस्तं मृण्मयं तु वा || ३० ||
भावे च प्रिफली. भावे च्छत्री. इति क्वचित्. भावे त्रिर्निष्कुलीकृताः. इति स्यात्किम् |
पात्रशुद्धि मन्त्रः. |
विष्णुगायत्रिया भाण्डे क्षालिते गालितैर्जलैः |
पुर्णेप्रणवसंस्पृष्टे |
तण्डुलक्षालनमन्त्रः. |
तण्डुलान्मूलविद्यया || ३१ ||
यद्वा पञ्चोपनिषदा क्षालयेद्वारिभिःपुनः |
पूरणपिधानाधिश्रयणाग्नीन्धनमस्त्राः. |
पूरयेत्प्रणवेनैव पिदध्याच्चक्रविद्यया || ३२ ||
अधिश्रित्य च मूलेन मन्त्रेणाग्निं समेधयेत् |
पञ्छोपनिषदैर्मन्त्रेःकाष्ठैः |
पाकसाधन काष्ठानि. |
कीटाद्यतूषितैः || ३३ ||
यज्ञवृक्षोद्भवैःकाष्ठैः पाचयेत्पावकःक्रमः | |
चरुपरिष्कारः. |
पक्वे जलमपि स्राव्यसिक्त्वाज्येन चरुं पुनः || ३४ ||
इदमर्धं क्वचिन्न |
उदगुद्वासयेद्दर्भैःफलके यज्ञदारुजे |
चरुश्रपणे दीक्षितसम्बन्धि स्त्रीणामधिकारः. |
साधयेद्दीक्षितःपाकं विधिनो क्तेन तत् स्त्रियः || ३५ ||
नस्त्रियः |
यद्वा तूष्णीं साधयेयुरुपदंशांश्च चोदितान् |
निवेदनीय फलशाकवर्गः. |
फलमूलानि तत्रादौ फलानि कदलीफलम् || ३६ ||
आम्रं पनसमुर्वारुं बृहतीं कर्करीमपि |
कारवल्लीमलाबुं च कूश्माण्डं तन्त्रिणीमपि || ३७ ||
वेत्रं पनस |
करवर्तं च निष्पावं गवाक्षं त्रपुसं तथा |
मुद्गभेदांश्च निर्देषान् |
वर्जनीय फलशाकादि. |
सदोषान् परिवर्जयेत् || ३८ ||
इदं पद्यमेकं क्वचिन्नदृश्यते क्वचित्पूर्वोत्तरार्ध वेपरीत्यमस्ति |
उच्चिष्टं क्रिमिणा दष्टं शिवद्यैर्लङ्घितं तथा |
घ्रातं लालाजलस्पृष्टममेध्यप्रभवं तथा || ३९ ||
घ्रातमित्यर्धं क्वचिन्न |
पादस्पृष्टं च पतितमकाले चाशुचिस्थले |
भुक्तशेषं तथा स्पृश्यैस्स्पृष्टं दत्तावशिष्टकम् || ४० ||
वर्ज्यं वल्ली त्रयं कन्दं सूरणद्वयमुत्पलम् |
पिण्डारद्वितयं चापि |
हविर्योग्य फलशाकादि. |
हविर्योग्यं चतुर्मुख || ४१ ||
जीवन्तीं वस्तुकं शाकं कारवल्लीदलं तथा |
तुम्बूदलं च भाञ्जीं च शिम्बमुद्गदलानि च || ४२ ||
चमू |
शाकिनीं शतपर्वाणं तथैवाश्वासमर्दिनीम् |
आगस्त्यं पाचयेच्छाकं विहितं ब्राह्मणस्य च || ४३ ||
एकमूलवेण्वङ्कुरादीनां परिग्रह्यता. |
एकमूलानि चान्यानि गृह्णीयादनिषेधने |
अङ्कुराण्यपि वेण्वादिवस्तूनां कमलासन || ४४ ||
शाकमूलानि |
चेदयित्वालवित्रेण |
लवणादिव्यञ्जन द्रव्याणि. |
लवणैर्मरिचै स्तथा |
सर्षपैर्जीरकैर्हिङ्कुश्रीपर्णीदलमिश्रितैः || ४५ ||
नालिकेरफलैराज्यैर्यथायोगं निवेशितैः |
संस्कार्यं व्यञ्जनं यूषयुक्तं कहितमेव वा || ४६ ||
संस्कार्यवर्जनं यूषयुक्तं |
आयसभाजने घर्षणम्. |
सर्पिषा वाऽयसे पात्रे घृष्टं मृण्मय एव वा |
कलायमुद्गनिष्पाव शिम्बमाषकुलुकत्थाकाः || ४७ ||
चम्प |
सयूषनिर्यूष पाकविवेकः. |
सयूषा वा वियूषा वा पचनीया गुणान्विताः |
कुल्माषादीनां निष्कुलीकरणम्. |
त्वचो व्यपोह्य कुल्माषाःकार्या यद्वा यथोदिताः || ४८ ||
गुल्मस्य |
शुष्काणामाम्रादीनां विनियोगः. |
आम्रादीनि च शुष्काणि फलानि गुऌअतिन्त्रिणी |
मिश्राणि पचनीयानि तथा लवणपासितम् || ४९ ||
कालपक्वानि फलानि. |
आम्रं च श्रृङ्गिबेरं च तथा केवलमिष्यते |
पसनं कदली चाम्रं कपित्थं बदरीफलम् || ५० ||
द्राक्षा राजादनं जम्भूफलं तोटकमप्यथ |
खर्जूरं वेत्रजं चैव मातुलुङ्गं च दाडिमम् || ५१ ||
फलान्येतानि पक्वानि कालपक्वानि योजयेत् |
परमान्नविधानम्. |
क्षीरं चैरो गुणस्तस्य तोयमर्धं तदर्धकम् || ५२ ||
तण्डुलास्तावदेव स्याद्भिन्नो मुद्गस्तदर्धकः |
घृतं समुदितं सर्वं परमान्नं निवेदयेत् || ५३ ||
गुऌआन्नम्. |
समभागं तु पूर्वोक्तैस्तण्डुलैस्सम्मितं समम् |
गुऌअं फलेन निक्षिप्य गुऌआन्नं तद्विदुर्बुधाः || ५४ ||
समवाये तु |
तण्डुलैस्सम्मितं निस्त्वङ्मुद्गभिन्नं सुसाधितम् |
मुद्गान्नम्. |
मुद्गान्नं कालपक्वैस्तु फलै राज्यपरिप्लुतम् || ५५ ||
केवलान्नम्. |
निवेदयेत्केवलान्नं दण्डुलै रेव साधयेत् |
फलानि कन्दशाकानि मुद्गभेदास्तथाङ्कुराः || ५६ ||
पयो दधि घृतं चापि कालपक्वं तथा फलम् |
उपदंशोपस्कार द्रव्याणि. |
आम्रादिलवणैश्चापि शृङ्गिबेरादिसाधितम् || ५७ ||
मत्स्यण्डी गुऌअभेदाश्च यच्चान्यदुपदंशकम् |
उक्तद्रव्याणां मात्रा. |
परिमाणममिषां स्यात् यथाश्रद्धं यथावसु || ५८ ||
च |
मरीच्यादि यथायोग्यं द्रव्यसंस्कारकं भवेत् |
ताम्बोलोपयोगिनागवल्ली क्रमुकादीनां मात्रा. |
नागमल्लीदलानि स्युरशीतिरवरास्तथा || ५९ ||
विंशतिःक्रमुकस्यापि फलान्यवरसङ्ख्यया |
अङ्गानि तैलं तक्कोलं लवङ्गं जाति रेव च || ६० ||
मातुलङ्गत्वगन्यच्च चूर्णकं कर्पूरमिश्रितम् |
पाषाणजं नालिकेरफलं पक्वं च निर्जलम् || ६१ ||
कर्पूरं केवलं वापि आमं वा शुष्कमेव वा |
एतैर्वस्तुभिरन्यैश्च न्यूनभाविवर्जितैः || ६२ ||
ताम्बूलवीटिकास्तैलमृदुपूगफलान्विताः |
निवेद्य याजमानस्य श्रद्धावित्तानुसारतः || ६३ ||
अपूपविचारः. |
गोधूमशालिपिष्टात्था अपूपाश्चापि संस्कृताः |
गुऌअभेदाज्यमरिच जीवकाद्यैर्यथायथम् || ६४ ||
गुऌअभेदाश्चमरि च |
वस्तुभिर्विविधाकारा गुऌअपाकपरिप्लुताः |
पुटदग्धानि निवेदनीयानि. |
पुटदग्धां स्तिलानिक्षुरसपाकपरिप्लुतान् || ६५ ||
मरिचैर्जीरकै र्युक्तान् पललांश्च निवेदयेत् |
पृथुकान् पुटदग्धान्वा केवलान्वा गुऌअप्लुतान् || ६६ ||
मरिचैर्जीरकै र्युक्तान् नालिकेरफलैस्सह |
सक्तून् गुऌअद्रवैर्मिश्रान् मरिचैरपि जीरकैः || ६७ ||
करम्भानपि पूर्वोक्तैस्संस्कारैरपि स्स्कृतान् |
भाण्डानां शुद्धिः पुण्ड्रविधानं च. |
पाकस्थानाच्च भाण्डान्वा वारिभिःक्षालितान् बहिः || ६८ ||
भस्मना च चतुर्दिक्षु कृतोर्ध्वाकारपुण्ड्रकान् |
अस्त्रमन्त्रेण वासोभिश्चन्नान्वा वेत्रपञ्जरे || ६९ ||
यद्वा प्रतिष्ठितान् भूमौ |
जलधारापुरस्सरं हविर्भाण्डप्रापणम्. |
जलधारापुरस्सरम् |वहेयु |
हविःपात्रवाहिनामुष्णिषबन्धः. |
र्विधृतोष्णीषास्सितकञ्चुकसंवृताः || ७० ||
परिचर्या परा विप्रा |
देवस्यदक्षिणभागे हविःपात्रनिक्षेपः. |
मण्टपे मन्दिरेऽपि वा |
देवस्य दक्षिणेपार्श्वे नीत्वा फलकभूमिषु || ७१ ||
सौवर्णादिपात्राणां शुद्धिमन्त्रः. |
सौवर्णादी निपात्राणि विष्णुगायत्रिया ततः |
क्षालितानि परामृश्य |
हविःपरिवेषणक्रमः. |
प्रणवेनाज्यधारया || ७२ ||
न्यमत्राणि |
परामृज्य |
पात्राणिसिक्त्वामन्त्रेण तथा दर्व्या हवींषि च |
आदायादाय निक्षेप्य ममत्रेष्वन्नमर्चितम् || ७३ ||
निक्षिप्य मन्त्रेणान्न |
स्थालीषु बक्तपरिमाणम्. |
खारी तदर्धं पादं वा तदर्धं वाऽवरं मतम् |
प्रतिस्थालीं पायसादिभक्तमानं चतुर्मुख || ७४ ||
यथायथं व्यञ्जनानि निक्षेप्याणि घृतैस्सह |
दध्ना च सर्वाण्य न्नानि प्रकल्प्य व्यञ्जनैस्सह || ७५ ||
इदमर्धं क्वचिन्न |
न्यानि |
निवेदयेयुर्देपाय पानकानि च पूजकाः |
चोष्याणि लेह्यखाद्यानि यथाविभवविस्तरम् || ७६ ||
भगवन्नि वेदितस्य विष्वक्सेननिवेदने मात्रा. |
निवेदितानां तुर्यांशं विष्वक्सेनाय कल्पयेत् |
तच्चागाधजले क्षेप्यं तद्भक्तान्यापि भोजयेत् || ७७ ||
विष्वक्सेननिवेदनेनैव इतरपार्षदादीनां पृत्पिः. |
तेनैवपार्षदास्तृप्ताभवेयुर्भूत तृप्तये |
दास्यो वा गणिका भोज्या देवस्य परिचारिकाः || ७८ ||
ब्रह्मेशानादिनिवेदितस्य अभोज्यत्वम्. |
ब्रह्मेशानादि देवानां नैव भोज्यं निवेदितम् |
चण्डादिनिवेदितस्य अस्पृश्यत्वादि. |
न स्पृश्यं लङ्गनीयं च चण्डादीनां नि वेदितम् || ७९ ||
अस्पृश्यं |
तधैव च |
लक्ष्मी प्रभृतीनां निवेदितस्य अवश्यभोज्यत्वम्. |
देवीनां च श्रियादीनां विनता नन्दनस्य च |
चक्रादीना मायुधानां वस्तु यद्यन्निवेदितम् || ८० ||
भोक्तव्यमेव सर्वेषां विप्रादीनाम शङ्कितम् |
विष्णुनिवेदितस्य अत्यर्थपावनत्वम्. |
विष्णोर्निवेदितं शुद्धं पावनानां च पावनम् || ८१ ||
प्रापणं दुर्लभं भोज्यं न त्याज्यं स्यात्कदाचन |
भुञ्जानानामेधते श्रीस्त्यजतां परिहीयते || ८२ ||
तत्प्राशने व्रतोपवासतुलितत्वम्. |
व्रतोपवासतुलितमशनं तस्य पावनम् |
शुनामिव पुरोडाशो न नीचेषु तदिष्यते || ८३ ||
विष्णुनि वेदितशेषेण देवतान्तरपित्रादियजनेऽनन्तफलत्वम् |
विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तरम् |
पितृभ्यश्चापि तद्देयं तदानन्त्या कल्पते || ८४ ||
विष्णुनिर्मूल्य धारणस्य अतिपावनत्वम्. |
धारितं विष्णुनिर्माल्यं चन्दनाद्यनुलेपनम् |
अहर्निशं धारयतां न पुनर्जननं भवेत् || ८५ ||
विष्णुपादोदकसेवनस्य सर्वपुरुषार्थकारिता. |
तथा हि चरणस्पर्शि विष्णोस्त्स्रिपथगाजलम् |
पुनाति सिद्धदेवर्षिसङ्खानं हो विघातकम् || ८६ ||
पादोदकं च देवस्य पवित्रं परमं मदम् |
पाद्यं दत्वा जलं विष्णो र्मूलमन्त्रेण देशिकः || ८७ ||
गृहीत्वा शतधारेण मूर्द्निधार्यं विशुद्धये |
शोधनं सर्वपापानां सर्वदुष्कृतनाशनम् || ८८ ||
लक्ष्मीविवर्धनं नित्यमायुर्वृद्धिकरं परम् |
म्रियमाणस्स्वयं विष्णोश्चरणस्पर्शितं जलम् || ८९ ||
पीत्वा सद्गतिमाप्नोति न चेहाजायते पुनः |
पितृणां तर्पणं शस्तं पारिणा तेन तर्पिताः || ९० ||
ऋणेभ्यःपितरो मुक्तावसन्तिदिवि देववत् |
भक्ताय देयं पादोत्थं शान्ताय शुभकर्मिणे || ९१ ||
पञ्चकालविधिज्ञाय तदनुष्ठानशीलिने |
विष्णुपादोदकस्य अनधिकारिणः. |
न नास्तिकाय दातव्यं दातव्यं नाभ्यसूयवे || ९२ ||
Kapitel 13
Lesehilfe: Kapitel 13: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
त्रयोदशोऽध्यायः |
|
पञ्चकालविधानप्रश्नः. |
ब्रह्मा |
पञ्च कालविधिज्ञानं प्रशस्तं भगवन्निह |
विहितं पञ्चके काले विधयश्चापि पञ्चके || १ ||
भगवन्नहम् |
काला |
मह्यं जिज्ञासमानाय कथयस्व यथातथम् |
न चेद्रहस्यमत्यन्तं यदहं पृष्टवानिदम् || २ ||
अभिगमनादिपञ्चकनिर्देशः. |
श्रीभगवान् |
आद्यं कर्माभिगमनमुपादानमतःपरम् |
इज्या च पश्चात्स्वाध्यायस्ततो यागस्ततःपरम् || ३ ||
योग |
पंचैते विधयस्तेषां कालाःपंचैव ते क्रमात् |
अभिगमननिर्वचनम्. |
कल्याणाचरणान्तं यत्कर्मजातं चतुर्मुख || ४ ||
उत्थानादिक्रमादेतदभियानमुदीरितम् |
शयनोत्थानतत्वन्यासौ. |
ब्राह्मे मुहूर्ते बुध्येत ध्यायन्ना रायणं परम् || ५ ||
उत्थायीसीत शयने कीर्तयन्नाम वैष्णवम् |
क्रमेण सृष्ट्वा तत्वानि देहमुत्पाद्य तत्ववित् || ६ ||
शयनात् |
न्यस्य देहे षडङ्गानि मन्त्रमुच्चार्य मानसम् |
दशावतारान् व्योहांश्च चतुर्णां मानसानपि || ७ ||
ध्यात्वा स्वनामभिस्तानि कीर्तयित्वा पृथक्पृथक् |
बहिरटनम्. |
अवकुण्ठ्य च वस्त्रेण शरीरं दक्षिणाङ्घिणा || ८ ||
आक्रम्य भूमिं प्रथमं प्रविक्रममनुस्मरन् |
नमः क्षितिधरायेति मन्त्रमुच्चार्य मानसम् || ९ ||
मलविसर्गः. |
ग्रामाद्बहिर्दिशं गत्वानैरृतीं न्यस्य दक्षिणे |
उपवीतं कर्णदेशे व्यवधाय तृणादिना || १० ||
भूमिं समुत्सृजेन्मूत्रं किट्टं च तदनन्तरम् |
उदङ्मुखो दिवा कुर्यात्सन्थ्ययोरुभयोरपि || ११ ||
भूमौ |
दक्षिणाभिमुखो रात्रौ वाति वाते नुसारिणि |
दक्षिणेतरहस्तेन गृह्णीयान्मेहनं ततः || १२ ||
दक्षिणे मृत्तिकां हस्ते समुत्थाय |
जलाशयगमनम्. |
जलाशयम् |
प्रागुदीच्यां प्रतीच्यां वा गत्वा शौचं समाचरेत् || १३ ||
अवयवशौचे मृत्तिकासङ्ख्या. |
मृत्तिकाभिर्द्वादशभिर्गुदं षड्भिश्च मेहनम् |
अन्तराचान्तरा वामकरं प्रक्षाल्यवारिभिः || १४ ||
मृण्मात्राभिस्तदन्ते द्वौकरौ द्वादशसङ्ख्यया |
संशोध्य चरणै ङङ्घे कटिं चोरू च वारिभिः || १५ ||
प्रत्येकं मृत्तिकामात्रा चतुष्कोणे विशोधयेत् |
दन्तधावनम्. |
आ चम्य प्रङ्मुखोभूत्वा दन्तधावनसमाचरेत् || १६ ||
चतुष्केण |
न्यग्रोधोदुम्भराश्व त्थप्लक्षाम्रार्जुनधातकी ||
पालाशवेणु खदिरशमीदारूणि धावने || १७ ||
अत्रद्वितीय तृतीय पादयोरविश्रान्ततया योजनं श्रौतम् |
दन्तानामुदितान्येकादश चाम्भोरुहासन |
दन्तधावनकाष्ठं तद्ध्वादशाङ्गुलमायतम् || १८ ||
दशांगुलं तथा मानमष्टाङ्गुलमथा पि वा |
ब्राह्मणक्षत्रियविशां क्रमेण समुदाहृतम् || १९ ||
यतम् |
जिह्वानिर्लेखनं कुर्या द्गण्डूषाचमनं पुनः |
क्षालयित्वा मुखं तोयै |
स्नानम्. अवगाहने जलाशयविकल्पः. |
राचान्तस्स्नानमाचरेत् || २० ||
अवगाहोभवेद्वाप्यां स्नायाद्वा सरसीघु च |
वाप्याद्यसंभवे नैव कुपैष्वाप्लवनं भवेत् || २१ ||
तप्ततोयस्नाननिमित्तम्. |
स्नानं वातप्ततोयेन दोषवैषम्यसम्भवे |
स्नानक्रमः. |
नाभेरधस्ताद्वा देहं क्षालयित्वात्मनस्तनुम् || २२ ||
आचम्य प्रोक्षयेद्देहं वारिभिर्मन्त्र वित्तनुम् |
ॐ पूर्वया च गायत्र्या वारिभिश्चभिमन्त्रितैः || २३ ||
आत्मानं परिषिच्योर्ध्वमुत्क्षि पेत्सलिलाञ्जलिम् |
योद्धुकामानि रक्षांसि सन्ध्ययोरुभयोरपि || २४ ||
शाम्यन्ति तैर्वज्रघातैर्हस्ताभिप्रेरिर्जलैः |
प्रायश्चित्तं तु हिंसायाः परिभ्रमणमात्मनः || २५ ||
स्नानतर्पणम्. |
तर्पयेदुपविश्याथ तत्तन्मन्त्रमुदीरयन् |
देवादीन् सलिले तिष्ठन् सावित्रीं प्राङ्मुखो जपेत् || २६ ||
उपस्थानम्. |
यावत्सूर्योदयं दृष्ट्वा प्रञ्जलि स्तिमिरापहम् |
उपस्थाय स्वशाखोक्तैर्मन्त्रैध्यायन् हृदि स्थितम् || २७ ||
गुर्वाद्यभिवादनम्. |
अभिवाद्य गुरून् वृद्धार्न तथा भागवतान् क्रमात् |
प्रणम्य स्वाश्रमं देवमबिगम्य यथाविधि || २८ ||
प्रविश्य |
जपहोमान्तार्चनं गोग्रासश्च. |
अर्चयेज्जपहोमान्तं दद्याद्ग्रासं गवामपि |
अलङ्कारः. |
अञ्जनालेपनैस्स्रिग्भिर्वासोभिर्भूषमैस्तथा || २९ ||
दद्याद्ग्राह्यं यथाविधि |
अलक्तकरसाद्यैश्च ताम्बूलीमुखशोदनैः |
उपेतोमङ्गलैरन्यैर्नयेदभिगमक्रियाम् || ३० ||
उपादानम्. |
उपादद्यात्ततःपूजासाधनानि यथायथम् |
सम्भरणीयवस्तूनि. |
पुष्पाणि फलमूलानि विविधान्योषधीरपि || ३१ ||
दध्यादि च हविर्योग्यं तण्डुलानि गुऌआनि च |
स्नानीयानि च वस्त्राणि स्वादूनि सलिलानि च || ३२ ||
दर्भान् पर्णानि समिधो यथाशक्ति यथावसु |
आहृत्य याज्ञिकार्धैर्वा पूजास्थाने निवेशयेत् || ३३ ||
नीत्वोपादानसमयमित्थं |
इज्या. |
तदनु पूजयेत् |
माध्याह्निकस्नानम्. |
प्राप्ते मध्याह्नसमये स्नानं कुर्याद्यथाविधि || ३४ ||
षडङ्गन्यासमृत्तिकाविक्षेपादि. |
न्यासमग्रे षडङ्गानां कृत्वादाय मृदं करे |
सव्ये निधाय कृत्वा तु त्रिधा मूलाग्रमध्यतः || ३५ ||
मूले स्थितां मृदं पूर्व मभिमन्त्र्यास्त्रविद्यया |
विदिक्षु दिक्षु चोर्ध्वायामधरायूमपि क्षिपेत् || ३६ ||
ततो मध्यस्थितां मृत्स्नामुदके मूलविद्यया |
निक्षिप्य भागमग्रस्थं कराभ्यां करयोर्द्वयोः || ३७ ||
विधाय पङ्कमंभोभिर्दर्शयित्वा च पूषणम् |
अस्त्रहीनाङ्गविद्याभिरापादतलमस्तकम् || ३८ ||
पिधाय कल्क |
आलिप्य देहमखिल मवगाह्य च वारिषु |
देवमावाह्य लक्ष्मीशं दत्वा चार्घ्यादिकं ततः || ३९ ||
तथा |
तत्पादक्षालनाम्बोभिः पाणिभ्यां कुम्भमुद्रया |
पावनैश्शिरसि न्यस्तैरात्मानमभिषिच्य च || ४० ||
अघमर्षणम्. |
वासुदेवमभिध्यायन्नघमर्षणमाचरेत् |
उत्तीर्य कर्मनिखिलं मध्याह्न समयोचितम् || ४१ ||
देवयजनम्. |
कृत्वा यजेत देवेशं होमान्तं कमलासन |
स्त्रेत्रेणाभिष्टुयाद्देवं दण्डवत्पतितःक्षितौ || ४२ ||
देवस्तोत्रम्. |
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन |
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज || ४३ ||
नमस्ते वासुदेवाय शान्तानन्तचिदात्मने |
अजिताय समस्तुभ्यं षाड्गुण्यनिधये नमः || ४४ ||
शान्तानन |
महाविभूतिसंस्थाय मनस्ते पुरुषोत्तम |
सहस्रशिरसे तुभ्यं सहस्रचरणाय ते || ४५ ||
सहस्रबाहवे तुभ्यं सहस्रनयनायते |
अमृताय नमस्तुभ्यमेकमूर्ताय ते नमः || ४६ ||
अमूर्ताय |
अनेक मूर्तये तुभ्य मक्षराय च ते नमः |
व्यापिने वेदवेद्याय नमस्ते परमात्मने || ४७ ||
मक्षयाय |
चिन्मात्ररूपिणे तुभ्यं नमस्त्रैयन्त भूमये |
अणिष्ठाय स्थविष्ठाय महिष्ठाय च ते नमः || ४८ ||
मूर्तये |
नेदिष्ठाय दविष्ठाय क्षेपिष्ठाय च ते नमः |
वर्षिष्ठाय यविष्ठाय कनिष्ठाय नमो नमः || ४९ ||
पञ्चात्मने नमस्तुभ्यं सर्वान्तर्यामिणे नमः |
कल्पना पोढरूपाय सृष्ठिस्थित्य न्तहेतवे || ५० ||
क्रोडरूपाय |
नमस्ते गुणरूपाय गुणरूपातिवर्तिने |
व्यस्ताय च समस्ताय समस्तव्यस्तरूपिणे || ५१ ||
समस्त्वव्यक्तमूर्तयेरूपिणे |
आदिमध्यान्तशून्याय तद्वदेव नमो नमः |
प्रणवप्रतिपाद्याय नमःप्रणवरूपिणे || ५२ ||
तद्वते च |
लोकयात्राप्रसिध्यर्थं नृष्ट ब्रह्मादिरूपिणे |
नमस्तुभ्यं नृसिंहादिमूर्तिभेदाय विष्णवे || ५३ ||
विपाकैःकर्मभिःक्लैशैरस्पृष्टवपुषे नमः |
नमो ब्रह्मण्यदेवाय तेजसां निधये नमः || ५४ ||
नित्यसाधारणानेकलोकरक्षापरिच्छद |
सच्चिदानन्दरूपाय वरेण्याय नमो नमः || ५५ ||
यजमानाय यज्ञाय यष्टव्याय नमो नमः |
इज्याफलात्मने तुभ्यं नमस्स्वाध्यायशूतिने || ५६ ||
नमःपरम हिंसाय समस्सत्वगुणायते |
स्थिताय परमे प्यूम्नि भूयो भूयो नमो नमः || ५७ ||
संसारसागरे घोरे विषयावर्तसङ्कुले |
अपारे दुस्तरेऽगाधे पतितं कर्मभिस्स्वकैः || ५८ ||
अनाधमगतिं भीरुं दयाया परया हरे |
मामुद्धर दयासिन्धो सिन्धोरस्मात्सु दुस्सहात् || ५९ ||
दुस्तरात् |
मन्त्रहानिं क्रियाहानिं हानिं वान्यां त्वदर्चने |
क्षमस्व मम देव त्वमपराधसहो व्यासि || ६० ||
अपराधसहस्रभाजनं पतितं भीमभवार्णपोदरे |
अगतिं खरणागतं हरे कृपया केवलमात्मसात्कुरु || ६१ ||
इदं समग्रं दद्यं श्रीयामुनाचार्यकृते स्तोत्र रत्ने दृश्यते |
जन्मप्रभृतिदासोऽस्मि शिष्योऽस्मि तनयोऽस्मिते |
त्वं च स्वामी गुरुर्माता पिता च मम माधव || ६२ ||
नाहं हितं विजानामि त्वां भजाम्वेव केवलम् |
बुद्वैवं नय गोविन्द मुक्त्युपायेन वर्त्मना || ६३ ||
त्वमेव वेत्ता श्रेयो मे नैत देतदितीति च |
बुद्धियोगं च मे देहि येन त्वामुपयाम्यहम् || ६४ ||
वेत्थ श्रेयो मे नेदमेतदितीति च |
इति विज्ञाप्य देवेशं |
पञ्चमहायज्ञातिथिसंस्कारादि. |
वैश्वदेवं स्वधामनि |
कुर्यात्पञ्च महायज्ञानपि गृह्योक्तवर्त्मना || ६५ ||
अतिथीनपि तत्काले यथाशक्ति समर्चयेत् |
पोष्यवर्गान् भोजयित्वा भुञ्जीत नियतस्स्वयम् || ६६ ||
इज्यायास्समयस्तस्याःकथितःकमलासन |
स्वाध्यायस्तद्देशाश्च. |
मन्दिरे वा हरेर्न द्यास्तीरे वा मठभूमिषु || ६७ ||
आमर |
विविक्ते विपिने वापि पर्वते पा गृहेऽपि वा |
ऋचो यजांषि सामानि भिद्यमानान्यनेकधा || ६८ ||
शाखाभेदैर्मूलशाखायेकायनसमाह्वयाम् |
त्रयूमयीमधीयीत सुखासीनस्समाहितः || ६९ ||
अन्यैस्सार्ध मधीयानैष्षजङ्गेषु च रोविधैः |
अध्यापयीत वा शिष्यान् शास्त्राणि विविधानि च || ७० ||
मनूचानैः |
अध्यापयीतकोविदैः इत्यन्तं श्लोकद्वयं क्वचिन्नास्ति |
इतिहासपुराणानि धर्मशास्त्राणि वा पुनः |
तदाराधननिष्ठानि समभ्यस्येद्यथायथम् || ७१ ||
सहवासयोग्याः. |
संसारभीरुभिर्विप्रैस्तत्व निष्कर्षकोनिदैः |
सहासीतोपदेशादिप्रकारचतुरैरपि || ७२ ||
स्वाध्यायकालः कथितस्स्वाध्यायोपि च कीर्तितः |
सायं सन्थ्या. |
ततःपश्चिमसन्थ्यायां प्राप्तायां तत्र चोदितम् || ७३ ||
जपहोमादिकं सर्वं कृत्वा परमपुरुषम् |
अर्चयित्वा यथान्यायं यथापूर्वमशेषतः || ७४ ||
शयनसं वेशः. |
भुक्त्वा संविश्य शयने समुत्थाय महानिशि |
आचम् प्रयतो भूत्वा ध्यात्वा परमपुरुषम् || ७५ ||
योगः. |
योगा नने सुखासीनो युञ्जीतात्मानमात्मनि |
यथोक्तेन प्रकारेण यथाशक्ति चतुर्मुख || ७६ ||
सनसमासीनः |
संहारक्रमाश्रित्य तत्वान्यात्मनि संहरेत् |
आत्मानं वापि हृत्पद्मे परमात्मनि निष्ठिते || ७७ ||
परमात्मनि विष्ठिते |
संह रेदुत्थितो योगात्स्वापं क्लेशावहं त्यजेत् |
उपसंहारः. |
इत्येष कथितो ब्रह्मन् योगःकालश्च पञ्चमः || ७८ ||
क्लेशापहं व्रजेत् |
पञ्चै ते समयाःपञ्च विधय स्तेषु दर्शिताः |
इत्थमेतेषु कालेषु दर्शितैःकर्मभिर्नरः || ७९ ||
Kapitel 14
Lesehilfe: Kapitel 14: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
चर्यापादेचतुर्दशोऽध्यायः |
चतुर्दशोऽध्यायः |
कालविभागनिबन्धनभगवदाराधननिरूपणम्. |
ब्रह्मा |
मासि मासि प्रशस्तानि नक्षत्राणि जनार्दन |
भगवन् कानि येषु स्यादर्चनं परमं स्मृतम् || १ ||
कानि चांशावताराणां जन्मर्क्षाणि युगे युगे |
उच्यतां तानि देवेश श्रोतुमिच्छामि तत्वतः || २ ||
श्रीरामजयन्ती. |
श्रीभगवान् |
चैत्रे मासि पुनर्वस्वोर्जन्म रामस्य मङ्गलम् |
तिथौ नवम्यां लग्ने च कुलीरे कमलासन || ३ ||
राघवस्याप्रमेयस्य नक्षत्रे तत्र राघवम् |
देव्याच सीतया सर्धमर्चयित्वा यथाविधि || ४ ||
उत्सवश्च भवेत्तस्मिन् सर्वमङ्गलसंयुतः |
भरतादीनां जन्मकालपूजा. |
पुष्ये च मीनलग्ने च भरतस्समजायत || ५ ||
तत्र स्यादर्चनं देव्या माण्डव्या सह पूर्ववत् |
उत्सवश्च तथा सर्पे नक्षत्रे लक्ष्मणोऽपि च || ६ ||
शत्रुघ्नश्च कुलीरे च लग्ने जातस्तदर्चनम् |
उभयोस्तत्र दिवसे देव्या चोर्मिलया सह || ७ ||
लक्ष्मणस्येतरस्यापि श्रुतकीर्त्या महोत्सवः |
रामजन्मनक्षत्रे वा भरतादीनां पुजा. |
रामस्य जन्मनक्षत्रे सर्वे वा भरतादयः || ८ ||
अर्चनीया हनुमता सर्धं सर्वैर्महोत्सवः |
नृसिंहजयन्ती. |
तत्रैव श्रवणे चैव सायाह्ने नरकेसरी || ९ ||
अर्चनीयस्स हि तदा हिरण्यमवधीद्रिपुम् |
तस्मिन्नेव सिते पक्षे त्रयोदश्यां समर्चयेत् || १० ||
विष्णुं यद्वा पुनर्वस्वोः पौर्णमास्यामथापि वा |
वसन्तकालपूजा. |
वसन्तकालतृप्त्यर्थं तत्समृद्धिभिराहृतैः || ११ ||
पुष्पैर्नानाविधैर्देवमर्चयेद्दक्षिणामुखम् |
आसीनं मण्डपे क्लृप्ते वेदीमध्ये मनोरमे || १२ ||
उद्याने मन्दिरे वापि कृत्रिमोद्यानशोभिते |
नद्यादौ वा यथायोगं फलपुष्पोदकान्विते || १३ ||
दमनकोत्सवः. |
पौर्णमास्यां तथौ तस्मिन् मासे दमनिकादलैः |
पुष्पान्वितैःप्रपां कृत्वा मण्डपे पूजयेद्धरिम् || १४ ||
पुष्पोर्दमनिकाभिश्च सर्वालङ्कारमाचरेत् |
उत्सवश्च भवेत्तस्मिन् होमो दमनिकादलैः || १५ ||
वसन्तोत्सवस्य मासविकल्पः. |
वैशाखे मासि वा कुर्याद्वसन्तोत्सवमब्जज |
दमनीदलकल्याणमपि वा पूर्वमीरितम् || १६ ||
कह्लोरकुसुमोत्सवः. |
वैशाखे मासि वा चैत्रे सितपक्षे शुभे दिने |
दमनीदलवत्कुर्यात्कल्हारकुसुमोत्सवम् || १७ ||
स्थानेषु पूजयेद्देवं कुम्भादिषु चतुर्ष्वपि |
महाहविर्निवेद्याथ होमं कृत्वा समापयेत् || १८ ||
ज्येष्ठे श्रावणे वा मासे भगवते फलसर्मणम्. |
फलान्यपि समाहृत्य वन्यजानपदान्यपि |
ज्येष्ठे वा श्रावणे वापि देवाय विनिवेदयेत् || १९ ||
सर्वालङ्कारसंयुक्तं विदध्याच्च महोत्सवम् |
एवं यः कारयेत्पूजां श्रद्धापूतेन चेतसा || २० ||
सर्वान् कामानिहावास्य विष्णोलोकं स गच्छति |
त्रिविक्रमजन्मकालः. |
श्रावणे जन्म पूर्वह्णे वामनस्य त्रिविक्रमम् || २१ ||
त्रयो विक्रमाः यस्य यस्माद्वा इदं जन्मविशेषणम् |
मध्यं दिने च तत्कालद्वये पूजा मधुद्विषः |
पूर्वोक्तस्य अनुकल्पकालः. |
पौर्णमास्यां च वैशाख्यां हरे रर्चनमिष्यते || २२ ||
रुत्सव इष्यते |
हनुमज्जन्मकालः. |
अनुराधे हनुमतो जन्म |
राघवेण सहैव हनुमतःपूजनम्. |
तस्मिन् सभाजयेत् |
तं राघवेण सहितं सीतया लक्ष्मणेन च || २३ ||
च विशेषतः |
आञ्जनेयं तदत्यन्तप्रीणनं राघवात्मनः |
अनूराधे पौर्णमास्यां कलशैस्स्नपनं हरेः || २४ ||
भगवतश्शयनोत्सवकालः. |
आषाढे शुक्लपक्षे च द्वादश्यां कमलासन |
चक्राब्जमण्डले देवमर्चयित्वा यथाविधि || २५ ||
कल्पिते शयनागारे मन्धिरे वा यथावसु |
पर्यङ्के कल्पिते तत्र शाययित्वाथ कौतुकम् || २६ ||
देवीभ्यां सह कूर्चं वा त्रितयं तदभावतः |
तत्र नित्यार्चनं मासांश्चतुरो मङ्गलान्वितम् || २७ ||
नयेच्चशयने नैव शाययोदन्यकौतुकम् |
प्रतोपवासनियमान् कल्पयित्वा तदादिकान् || २८ ||
तदात्मकान् |
चातुर्मास्यव्रतकालः. |
तदनुष्ठायिनस्तत्र चातुराश्रम्य माश्रिताः |
आसीरंस्तत्र नियता स्तरेयुर्नतरङ्गिणीम् || २९ ||
स्तरेयुस्ते तरङ्गिणीम् |
देवस्य यावदुत्थानां भोगिपर्यङ्कशायिनः |
श्रीकृष्णजयन्ती. |
श्रावणे मासि कृष्णे च पक्षेऽष्टम्यां तथौ हरेः || ३० ||
रोहिण्यां जन्म कृष्णस्य लोकानां मङ्गलावहम् |
जयन्ती नाम सा प्रोक्ता जयत्यशुभमित्यसौ || ३१ ||
ख्याता |
मध्यरात्रे ततस्तस्मिन् कल्याणं सर्वमाचरेत् |
तिथ्ययोगेऽपि नक्षत्रे केवलेऽर्चनमिष्यते || ३२ ||
देवस्य देवकीसूनोरपरेद्युर्महोत्सवः |
पवित्रोत्सवः. |
नित्यं नैमित्तिकं काम्यं कर्मयच्छ्रुतिचोदितम् || ३३ ||
तत्कुर्वतामाश्रमेषु स्थितानामानुपूर्वशः |
वर्णानां मन्त्रलोपादिशान्त्यर्थं प्रत्यहं हरेः || ३४ ||
आराधं भगवतः पूर्णहुत्या स्वयं मतम् |
तस्य न्यूनातिरेकाभ्यां दुष्कृतं सकलं भवेत् || ३५ ||
कर्मजातं ततःपूर्णमाराधनमभीप्सितम् |
प्रतिसंवत्सरं मासि श्रावणे तन्तुनिर्मितम् || ३६ ||
पवित्रभूषणं विष्णोरारोप्यं बहुमाल्यवत् |
पवित्रशब्दनिर्वचनम्. |
आराध्य विधिवद्भाद्रपदे वाश्वयुजेऽपि वा || ३७ ||
मन्त्रलोपादिना कर्म पतितं विहितं पुनः |
प्रायश्छितैन यत्सर्म कर्तारं त्रायते पुनः || ३८ ||
यतः |
तत्पवित्रं फलैर्भूयो रोहत्येव समाहितः |
इति निर्वचनात्तत् ज्ञेःपवित्रारोहणं मतम् || ३९ ||
पवित्रारोपणकालभेदाः. |
पूर्वोदितेषु मासेषु द्वादश्यां प्रतिपद्यपि |
दशम्यां पौर्णमास्यां वा पङ्च म्यामधवा तिथौ || ४० ||
एकादश्यां त्रयोदश्यां द्वितीयायामथापि वा |
सितपक्षे शुभे वारे लग्ने शुभ तरेऽथ वा || ४१ ||
तरे तथा |
श्रवणे पुष्यरोहिण्यां रेवत्यां भरणीषु च |
स्वातौ हस्तपुनर्वस्वोरश्विन्यां मित्रदैवते || ४२ ||
ऋक्षेष्वन्यतम् कार्यं पवित्रारोपणं हरे |
पवित्रतन्तुर्माणम्. |
तन्तून् ब्राह्मणकन्याभिर्निर्मितान् दोषवर्जितान् || ४३ ||
कार्पासान्वाथ कौ शेयान् क्रीतान्वा शौद्धवारिभिः |
क्षालितान्मि श्रितांश्चूर्णै र्मौद्गिकैश्शोषयेद्भहिः || ४४ ||
क्षालितान् शुद्धवारिभिः |
आतपेषु ततश्शुथ्धान् शोषितां स्त्रिगुणीकृतान् |
पुनस्तां स्त्रिगुणीकृत्य तावन्तोपि चतुर्गुणान् || ४५ ||
यद्वा त्रिगुणतां नीत्वा चतुर्गुण्यं चतुर्मुख |
त्रिगुणांस्त्रिगुणीकृत्य यद्वा तानेकतां नयेत् || ४६ ||
तन्तुसंस्कारः. |
गोमियालेपिते भूमितले मानानुसारतः |
शङ्क्वोस्थ्सापितयोर्यज्ञद्रुमसम्भूतयो स्ततः || ४७ ||
आरोप्य भगवद्भक्ताः प्राङ्मुखा वाप्यु दङ्मुखाः |
आसीना गुरुरन्यो वा तत्प्रयुक्तास्समाहिताः || ४८ ||
स्नाता निर्माणनिपुणा मनुष्या भगवन्मयाः |
कुर्याःपवित्र कल्याणं यथा स्याद्भूषणोत्तमम् || ४९ ||
आयुःपवित्रम् |
अधिवासाद्युपयोगिपवित्रमानम्. |
पवित्रमधिवासार्थमाद्यं नाभ्यवधिस्मृतम् |
अष्टोत्तरशतैस्सूत्रैर्द्वात्रिंशद्ग्रन्थिभिर्युतम् || ५० ||
नाभ्यवधीहितम् |
मूलबेरादिबेराणां पवित्रमिदमिष्यते |
पूर्वापरदिनभेदेन पवित्रमानम्. |
पवित्रं मण्टले पद्मतुल्यमानं घटेऽपि च || ५१ ||
प्रमाण |
कुण्डे च मेखलामानं पुर्वेद्युर्मानमीरितम् |
अपरेद्युःपवित्रेषु मानं संप्रति कथ्यते || ५२ ||
पद्मनाभ्यरनेमीनां चक्राब्जे मण्डले सताम् |
तन्मानानि पवित्राणि बाह्यमानं बहिस्समम् || ५३ ||
पवित्राणां तन्तुग्रन्थितारतम्यम्. |
ग्रन्थयस्तन्तवश्चैषां कथ्यनैच यथाक्रमम् |
चतुश्सतानि सूत्राणि ग्रन्थयस्सप्तविंशतिः || ५४ ||
शतत्रयं तन्तुसङ्ख्या ग्रन्धयो द्विगुणा मताः |
द्वेश ते द्विगुणा ग्रन्थिशतमेक मनन्तरम् || ५५ ||
त्रिगुणे क्रन्थि |
चतुर्गुणा ग्रन्थिसङ्ख्या बाह्यसूत्रं चतुश्शतम् |
ग्रन्थयःपञ्च गुणिताः कुम्भे चाष्टोत्तरं शतम् || ५६ ||
तन्तवो ग्रन्थिसङ्ख्या च सप्तविंशतिरिष्यते |
एकाधिकाशीतिसङ्ख्यास्त न्तवः करके मताः || ५७ ||
सप्तविंशति सङ्ख्याश्छ ग्रन्थयःपरिकीर्तिताः |
पवित्रभेददशकनामानि. |
पवित्रसङ्ख्या भेराणां दश तानि पदामिते || ५८ ||
प्रामाण्यं गन्धसंज्ञं चाप्यलङ्काराह्वयं तथा |
उत्तमाधममध्याख्यं किरीटाह्वमनन्तरम् || ५९ ||
ग्रन्थि |
श्रीवत्सकौस्तुभाह्वानं वनमालाह्वयं तथा |
मानानि तेषां सूत्राणि ग्रन्थयश्च यथाक्रमम् || ६० ||
मानं च तेषां सूत्राणां |
मानानुगुणग्रन्थितन्तुसङ्ख्या. |
कर्थ्यनैनाभिमर्यादा सूत्राण्यष्टोत्तरं शतम् |
द्वात्रिंशद्ग्रन्थयस्तस्य हृदयान्तमन न्तरम् || ६१ ||
सूत्राण्यशीति तस्योक्ता क्रन्थयः पङ्च विंशतिः |
जङ्घामध्यान्तमायामं निर्मितं शततन्तुभिः || ६२ ||
सङ्खोक्ता |
अष्टोत्तरैर्ग्रन्थिभिश्च द्वात्रिंशद्गुणतैर्युतम् |
उत्तमाख्यस्य सूत्राणां भवेत्सङ्ख्या चतुश्शतम् || ६३ ||
शतमष्टौत्तरं सङ्ख्या ग्रन्थीनां जानुसीम तत् |
शतानि त्रीणि तन्तूनां ग्रन्थयोऽशीतिरिष्यते || ६४ ||
आयतं चोरुमध्यान्तं द्वेशते तन्तवः पुनः |
नाभ्यन्तं ग्रन्थयष्षष्टि तन्तवोऽथ चतुश्शतम् || ६५ ||
तन्तवश्च |
किरीटमानं द्वात्रिंशद्ग्रन्थय स्तदन न्तरम् |
शतानि त्रीणि तन्तूनां हाराकारप्रकल्पितम् || ६६ ||
ग्रन्थिभिस्सप्तविंशत्या द्वे शते त न्तवः पुनः |
द्वात्रिंशत् न्तसमर्यादं सहस्रं चाष्टभिर्युतम् || ६७ ||
ग्रन्थयः |
तन्तवश्चरणा याममनेकग्रन्थिभिर्युतम् |
विष्टरस्य सहोत्थस्य पवित्रं तत्समं मदम् || ६८ ||
तन्तवोऽष्टोत्तरशतं ग्रन्थयःपञ्चविंशतिः |
प्रभावित्रं तत्तुल्यं ग्रन्थयो बहनःस्मृताः || ६९ ||
सर्वेषां च स्वतन्त्राणां बिम्बानामिदमीरितम् |
परतन्त्रबिम्बपवित्रविधिः. |
परतन्त्रेषु बिम्बेषु त्रितयं तू त्तमादिकम् || ७० ||
श्रियादिदेवीनां पवित्राणि. |
देवीनां च श्रियादीनां पवित्रं तद्वदिष्यते |
अग्निकुण्डादीनां पवित्राणि. |
अष्टोत्तरशतैस्सूत्रैर्ग्रन्थिभिर्बहुभिर्युतम् || ७१ ||
अग्निकुण्डे मेखलासु पवित्रं प्रतिमेखलम् |
तन्तुभिस्सप्तविंशत्या तावद्भिर्ग्रन्थिभिर्युतम् || ७२ ||
अग्नेःपवित्रं हस्तेन समायामं प्रकीर्तितम् |
मध्यमं पञ्चविंशत्या द्वाविंशत्याधमे मतम् || ७३ ||
द्वादशैवाध मे मताः |
सूत्राणां पञ्चविंशत्या पवित्रं स्रुक्स्रुवादिषु |
तदायामसमायामं ग्रन्थिभिर्बहुभिर्युतम् || ७४ ||
अर्घ्यपात्रे तथा धूपदीपपात्रे चतुर्मुख |
घण्टायामक्षमालायां सर्वत्राष्टोत्तरैश्शतैः || ७५ ||
सूत्रैर्यथेप्सिताग्रन्थिर्द्वादशाङ्गुलमायतम् |
विष्वक्सेनतार्क्ष्यादीनां पवित्राणि. |
विष्वक्सेनस्य तार्क्ष्यस्य तथा दुश्च्यवनादिषु || ७६ ||
दिग्देवतासु द्रुहिणे दुर्गायां विघ्नुनायके |
रुद्रे च परिवारेषु पवित्रं तस्तुभिःकृतम् || ७७ ||
शतेनाष्टोत्तरेण स्याद्द्वात्रिंशद्ग्रन्थिभिर्युतम् |
हस्तमानायतं कार्यं चण्डादिषु च सर्वतः || ७८ ||
कुम्भतोरणादीनां पवित्राणि. |
सप्तविंशतिसूत्रेण ग्रन्थिभिन्नेन निर्मितम् |
हस्तमानं भवेत्कुम्भतोरणादिषु तादृशम् || ७९ ||
बलिपीठपवित्रं तु कर्णिकाया मसंमितम् |
आचार्ययतियुत्विगादीनां पवित्राणि |
आचार्याणां यतीनां च पवित्रं तन्तुभिःकृतम् || ८० ||
स्समं मितम् |
अष्टोत्तरशतै स्सूत्रैर्ग्रन्थिभिःपर्वभिर्युतम् |
ऋत्विजां पूजकानां च ब्राह्मणानां तथैव च || ८१ ||
र्युक्तां ग्रन्धिभिर्बहुभिर्युतम् |
एकाशीत्या कृतं सूत्रैर्नाभ्यन्तपरिलम्बितम् |
राज्ञःपवित्रं सूत्रेण शतेनाष्टोत्तरेण तु || ८२ ||
यथेष्टग्रन्थिनिचयैस्तूलगर्भैश्चनिर्मितम् |
नाभ्यन्तमानमेतत्स्यात्तथा तदनुजीविनाम् || ८३ ||
नाभ्यन्तं त्रयमेतत् स्यात् |
एताशीत्या कृतं सूत्रैर्वैश्यादीनां च तन्तुभिः |
चतुर्विंशतिभिस्तेषां पवित्रमुपवीतवत् || ८४ ||
विभवानुरोधेन पवित्रमानम्. |
पवित्रेषु समस्तेषु विस्तारो विभवे सति |
पादोनमर्धं पादो वा सङ्ख्या स्याद्विभवक्षये || ८५ ||
मणिमुक्ताप्रवालादिभिरपि पवित्रग्रन्थियोगः. |
ग्रन्थींस्ततःपवित्राणां द्रव्यैः कस्तूरि कादिभिः |
मणिमुक्ताप्रवालाद्यै रत्नैश्चापि यथावसु || ८६ ||
लोहैश्च कलधौताद्यैस्तूलैर्वा तदसन्निधौ |
पूरयित्वा दृढं बध्वा ग्रन्थींस्तां स्तन्तुरज्जुभिः || ८७ ||
पवित्रग्रन्थीनामाकारः. |
ग्रन्थयश्शङ्खसंस्थानसमानाकृतयोऽथ वा |
धात्रीफल समाकारा यद्वा मुक्तादि सन्निभाः || ८८ ||
पवित्रवर्णगन्धरचना. |
कुङ्कुमैरोचनाभिश्च तथा मलयजैरपि |
लोहितैरप्यवश्यायैस्संपिष्टैःकर्दमीकृतैः || ८९ ||
ग्रन्थीनामन्तरालानि लिम्पेच्छोभा यथा भवेत् |
ग्रन्थीनां पूरणं यद्वा मल्लिकाद्यैस्सुगन्धिभिः || ९० ||
पुष्पौस्तदन्तरालानि निशाचर्चाभिरेव वा |
रञ्जयेत्तन्तवश्चापि ग्रन्थयश्च यथेच्छया || ९१ ||
यथाविभवविस्तारं कल्पनियाश्चतुर्मुख |
विभवे सति सङ्कोचो नैव कार्यस्तथाऽसति || ९२ ||
विस्तारो नैव कार्यस्यात्तदेव प्रीणनं हरेः |
पवित्राधिवासकालविकल्पः. |
सद्योऽधि वास्य वा तस्मिन्नुपोष्याराधयेद्धरिम् || ९३ ||
पासो |
श्रद्धाया आवश्यकता. |
गृहार्चने कौतुके वा मण्डले वा घटेऽपि वा |
अर्चनं श्रद्धया कार्यं श्रद्धापूतमिदं जगत् || ९४ ||
सिद्धे पवित्रे भगवदर्चनम्. |
विहितेषु पवित्रेषु यथोक्तेनैव वर्त्मना |
आरभेतार्चनं विष्णोर्दशम्यां च निवेदनम् || ९५ ||
निशामुखे गुरुस्सार्धं मूर्तिपैस्सु समाहितः |
भगवति विज्ञापनीयगाधा. |
यजमानेन सहितःप्रविशेद्विष्णुमन्दिरम् || ९६ ||
प्रविश्य पूजयित्वातं गुरुस्तैस्सहितस्स्वयम् |
विज्ञापयेदिमां गधा मीरयन् प्राञ्जलिस्थितः || ९७ ||
विरयेत् |
न्यूवातिरेकशान्त्यर्थं पवित्रारोहणं परम् |
अर्चनं भगवन् सर्वदुरुतोत्सारणक्षमम् || ९८ ||
संपदां चापि सर्वासामुत्पादनमनु तमम् |
क्रियते तदविघ्नेन यथा स्यात्कर्म चोदितम् || ९९ ||
तथानुज्ञापयामि त्वा मनुजानीहि कर्मतत् |
इति विज्ञाप्य निर्गत्य मन्दिरात् |
गुरोरुपवासः. |
मण्डपे पुनः || १०० ||
संस्तीर्य दर्भान् प्रागग्रान् तेषु प्रागाननो गुरुः |
उपविश्योपवासं च कल्पयित्वा समाहितः || १०१ ||
नयेत्तत्रेव तां रात्रिं जपध्यानपरस्सदा |
अपरेद्युरधिपासकालः. |
अपरेद्यु र्निशीधिन्यामधिपासनकर्मतत् || १०२ ||
र्निशायां स्यात् |
आरभेत्तेकभेरेषु बध्वा तत्रेव कौतुकम् |
बहुबेरैकबेरस्थले कौतुकबन्धविधानम्. |
बहुबेरुषु कल्याणमिम्बे कौतुकमङ्गलम् || १०३ ||
कल्याण |
अधिवासविधिः. |
ततो निर्गत्य विपुले मण्टपे तोरणादिकम् |
अर्चयित्वा यथापूर्वं दिक्षु चैव विदिक्षु च || १०४ ||
चतुर्वेदवितो विप्रानेकायनविदस्तथा |
अधीयानान् स्थापयित्वा तुर्याघोषेषु सत्सु च || १०५ ||
मङ्गुलेष्वपि चान्येषु कल्पितेषु यथातथम् |
पवित्रपात्राण्यादाय प्रागुदग्भुवि मण्डपे || १०६ ||
धान्यराशिषु संस्थाप्य पुण्याहं वाचयेत्ततः |
दहनाप्यायनध्यानैः पात्रस्थानि विशोधयेत् || १०७ ||
धूपयेद्गन्धवद्द्रव्यैर्लिम्पेत्कस्तूरि कादिभिः |
पुष्पाणि विकिरेत्तेषु गन्धवन्ति बहुनि च || १०८ ||
तानि भूषणपात्राणि वेष्टयेन्नववाससा |
चक्रमुद्राप्रदर्शनम्. |
दर्शयेच्चक्रमुद्रां च पूजयेदस्त्रविद्यया || १०९ ||
पूजयित्वा |
मण्डपसूत्रबन्धक्रमः. |
ऐशानीं दिशमारभ्य सूत्रेस्संवेष्ट्य मण्टपम् |
मण्टपस्योपरि ध्यात्वा चक्रं भूमितले पुनः || ११० ||
पद्मं गदां च द्वारेषु शङ्खमष्टनु दिक्षु च |
भूतेभ्यो माषान्नबलिदानम्. |
प्रत्यूहकारिणां तस्य छिद्रमन्विष्य धावताम् || १११ ||
भूतानां राक्षसादीनां माषान्नेन बलिं क्षिपेत् |
कल्याणबेरस्य उपवीतान्तमर्चनम्. |
बहुबेरेषु कल्याणबिम्बं स्नानासने बहिः || ११२ ||
बलिर्बहिः |
स्थापयित्वोपवीता न्तमुपचर्य यथातथम् |
चक्राब्जमण्डपे महाहविर्निवेदनम्. |
चक्राब्जमण्डले भूयस्समानीय चतुर्मुख || ११३ ||
द्यैरुपचर्य |
हविर्निवेदनान्तेतु समाराधन कर्मणि |
निष्ठिते करके कुम्भे देवमावाह्य पूजयेत् || ११४ ||
हविर्निवेदयित्वान्ते हुत्वाचाग्निं यथापुरम् |
एकबेरे कल्याणाराधननिषेधःम्. |
एकबेरे चु कल्याण कौतुकाराधनं विना || ११५ ||
अन्यत्सर्वमनुष्ठेयं यथा पूर्वोदित क्रमात् |
सम्भवे कौतुके तस्मिन् पवित्रं भूषणं पुनः || ११६ ||
क्रमम् |
निक्षिपेत्कुम्भकरके दहने तदनन्तरम् |
चक्राब्जमण्डले मन्त्रमिदं विष्णुरिति ब्रुवन् || ११७ ||
प्रविश्य मन्दिरं सर्वैर्मङ्गुलैस्सह देशिकः |
मूलबेरं समासाद्य पवित्रन्यसनं ततः || ११८ ||
समाराध्य |
पवित्रतन्तूनां पञ्चवर्णत्वम्. |
पूर्वोदितेन मन्त्रेण सर्वार्चासु यथाक्रमम् |
पवित्रभूषणन्यासः पञ्च रागैश्च तन्तुभिः || ११९ ||
सर्वासु च |
रङ्गै |
प्रासादं वेष्टयेद्रात्रौ सर्वमाम्नायघोषणैः |
पाद्यैर्गेयैश्च नृत्तैश्च स्तोत्रैर्जागरिता जनाः || १२० ||
अपरेद्युरुपचारः. |
नयेयुरपरेद्युश्च कौतुकं मण्डलेस्थितम् |
स्नानवेद्यां समानीय स्नापयित्वा यथाविधि || १२१ ||
अलङ्कृत्य च देवेशं मण्डले मार्जनादिभिः |
शोधिते वर्तयित्वा च चक्राब्जं पञ्चवर्णकैः || १२२ ||
पर्णपञ्चकैः |
द्वारादियजनं प्राग्वत्कृत्वावस्थाप्य मण्डले |
देवमाराध्य दीपान्तं कुम्भादीनपि पूजयेत् || १२३ ||
धूपान्तम् |
देवे कुम्भे च चतुर्विधान्न निवेदनम्. |
अन्नं चतुर्विधं चापि कुम्भे देवे निवेद्य च |
अग्नौ च जुहुयादन्नं पायसादि चतुर्विधम् || १२४ ||
कुम्भेदेवे |
पौरुषेणै व सूक्तेन यवैश्च व्रीहि वेणुभिः |
तिलैर्लाजैस्तथा पुष्पैस्तथा चागरुबिर्घृतैः || १२५ ||
समिद्भिर्मूलमन्त्रेण पृथगष्टोत्तरं शतम् |
शुभमुहूर्ते पवित्रेश्च क्राब्जमण्डलमण्डनम्. |
मुहूर्ते शोभने प्राप्ते दैवज्ञपरिशोधिते || १२६ ||
पवित्राणि समादाय चक्राब्जं भूषयेत्पुनः |
सर्वत्र मात्रैक्यम्. मूलबेरादिक्रमेण पवित्रारोपणम्. |
पद्मादीनि तदङ्गानि यथा स्वमिदमित्यृचा || १२७ ||
ततःकुम्भे चकरके देवे च तदनन्तरम् |
स एव मन्त्रःकुण्डेऽपि हव्यवाहेऽपि तोरणे || १२८ ||
द्वारकुम्भेषु तत् स्थेषु पवित्राणि यथा तथा |
ततः प्रदक्षिणीकृत्य मण्डलस्थं जगद्गुरुम् || १२९ ||
यथम् |
प्रविश्य मन्दिरं सर्वैर्मङ्गुलैस्सह देशिकः |
स्नपनादि विधायादौ समाराधन मच्युते || १३० ||
हविर्निवेदनान्तं तत्कृत्वा तत्रत्यदेवताः |
मूलबेरं समारभ्य पवित्रै र्भूषयेत्स्वकैः || १३१ ||
स्वतन्त्रपरतन्त्रबेरार्चनम्. |
परपन्त्रास्स्वतन्त्राश्च सर्वाःपूर्वोक्त विद्यया |
अभ्यर्च्यगन्धपुष्पाद्यैःपवित्राणि पृथक्पृथक् || १३२ ||
सङ्ख्यया |
देयानि |
परिपारैस्स्वस्वगीतपाद्यादिकाला प्रदर्शनम्. |
दानवेलायां वाद्यवादनकोविदाः |
नर्तका गायकाश्चैव तथा स्वाध्यायकोविदाः || १३३ ||
इदमर्धं क्वचिन्नास्ति |
सर्वे यथास्वनृत्तादि दर्शयेयुस्तदन्तिके |
अनुक्तपरिवारादिदेवतापवित्रारोपणमन्त्रः. |
चण्डादिपरानाराणामन्येषां प्राङ्कणासिनाम् || १३४ ||
प्राङ्कणे सताम् |
पवित्राणि प्रदेयानि बलिपीठावसानकम् |
ब्रह्मादि देवतानां च तार्क्ष्यसेनेशयोरपि || १३५ ||
सर्वेषामप्यनुक्तानां पवित्राणि यथायथम् |
मन्त्रश्च विष्णुगायत्री यद्वेदं विष्णुरित्ययम् || १३६ ||
अन्येषामप्यनुक्तानां |
यद्वाचाष्टाक्षरेणैव मन्त्रेण द्वादशात्मना |
देशिको मूर्तिपैस्सार्धं यजमानेन संयुतः || १३७ ||
पुष्पाञ्जलिः. |
प्रविश्य मन्दिरं विष्णो रत्नपूर्णाञ्जलिस्स्वयम् |
हेमपुष्पाञ्जलिर्वापि यद्वा पुष्पभृताञ्जलिः || १३८ ||
स्तोत्रेस्तुवानो बहुभिर्विकिरेत्तानि पादयोः |
कत्नानि हेमपुष्पाणि पुष्पाणि सुरभीण्यपि || १३९ ||
सर्वपवित्राणां देवपादयोर्न्यासः. |
कल्पितानि मनुष्याणां पवित्राणि यथायथम् |
न्यस्य देवेशपदयोः पुष्पवत्सुसमाहितः || १४० ||
पवित्रविभजनम्. |
क्षौमा दीनि पवित्राणि देवं विज्ञाप्य देशिकः |
स्वयं गृहीत्वा क्षौमादिपवित्रं चात्मनः कृतम् || १४१ ||
दीनि च वस्त्राणि |
दद्यात्पूजकमुख्यानामृत्विजां सहकारिणाम् |
एकायनीयनिष्ठानामन्येषां विदुषामपि || १४२ ||
यथाधिकारं क्रमशो देवस्यालोक्य चाननम् |
भगवति क्षमाभ्यर्थना. |
स्पृष्ट्वा देवपदान्भोज माचार्योथ जनान्तिके || १४३ ||
माचार्येण पदान्तिके |
न्यूनातिरेकशान्त्यर्थं गाधामेनामुदीरयेत् |
भगवन् देवदेवेश शङ्खचक्रगदाधर || १४४ ||
इदमर्धं क्वचिन्नदृश्यते |
संवत्सरोपचाराणां पूरणार्थं कृतं मया |
आराधनं गृहाणत्वं भक्तानां हितकाम्यया || १४५ ||
नाहं स्वतन्त्रःकिञ्चिच्च करोमि विहितं हितम् |
किन्तु त्वत्त्प्रेरितस्सर्वं करोमि तव यत्स्वयम् || १४६ ||
तत्क्षन्तव्यमशेषेण क्रियालोपाद्यनुष्ठितम् |
ब्राह्मणसन्तर्पणम्. |
समये यजमानस्तु गां भुवं काञ्चनं तथा || १४७ ||
वस्त्रादिकं तथा धान्यं भोजयित्वा महीसुरान् |
दत्वा यथेप्ति तानर्थानाचार्याय च दक्षिणाम् || १४८ ||
शतनिष्कावरां गोभूवस्त्रधान्यादि काव्यपि |
मूर्तिपेभ्यस्तथान्येभ्यस्तत्तत्क र्मानुसारतः || १४९ ||
यथातुष्टिकरं देयं यागे तत्रोपकुर्वताम् |
बहिर्ग्रामोत्सवकालः. |
अपराह्णे बहिर्ग्रामे कुर्यादेवं महोत्सवम् || १५० ||
पवित्रावरोपणावधिः. |
प्रोक्ष्य प्रत्यहमेतानि पूजाकालेषु पूजकैः |
स्यसनीयानि दिवसां श्चतुर्दश चतुर्मुख || १५१ ||
यद्वैकविंशतिं सप्त यदि वा दिवसानपि |
त्रिरात्रमेकरात्रं वा पश्चात्तान्यपरोहयेत् || १५२ ||
द्वयैकविंशतिस्सप्त |
पवित्रारोपणमन्त्राः. |
उच्चरन् पौरुषं सूक्तं साम यद्वा रथन्तरम् |
त्रिसुवर्णं तथा मन्त्रं मूलमस्त्रमथापि वा || १५३ ||
गुरुवे पवित्राप्रदाने दोषः. |
अवरोप्य पवित्राणि देयानि गुरवे ततः |
कुरवे तानि दत्तानि प्रीणनाय मधुद्विपः || १५४ ||
अन्यथा कर्मनैष्फल्यं क्षयस्स्याद्ध्राजराष्ट्रयोः |
आवाहित देवताविसर्जनम्. |
मण्डलस्धं च कुम्भस्थमग्निस्थं च विसर्जयेत् || १५५ ||
पवित्रावरोपणे कालोत्कर्षानवश्यकता. |
पवित्रारोहणदिने कालोत्कर्षोन युज्यते |
पवित्रावरोपणानन्तरं भगवतस्स्नपनम्. |
कृत्वा वरोहणं तेषां स्नपनं तदन न्तरम् || १५६ ||
कार्यं यथोक्तविधिना प्रविशेन्मन्दिरं ततः |
पवित्रोत्सवफलं. |
इत्येष कथितो ब्रह्मन् पवित्रारोहणेविधिः || १५७ ||
अनेन विधिना विष्णोःपवित्रारोहणं हरेः |
कुर्वन् फलान्यनन्तानि प्राप्नु यान्नैव संशयः || १५८ ||
सुखं जीवति निर्व्याधि र्यावदायुस्समृद्धिमान् |
आयुश्च विन्दति प्राप्तं धर्माथान् धर्ममाप्नुयात् || १५९ ||
कामानवाप्नुयात्कामी अर्थार्थीचार्थमाप्नुयात् |
मोक्षार्थी मोक्षमाप्नोति प्रजार्थी लभते प्रजाः || १६० ||
बान्धवैर्लभतेचापि प्रवासिभिस्समागमम् |
कीर्तिंचाप्नोति परमां कीर्तिकामो न संशयः || १६१ ||
पान्थो वै लभते चापि बन्धुभिश्च |
ज्ञानार्थी ज्ञानमाप्नोति शान्त्यर्थी शान्तिमाप्नुयात् |
शत्रवस्तु प्रणश्यन्ति ग्रहभूताद्युपद्रवाः || १६२ ||
आरोग्यकामी चारोग्यं श्रीकामश्स्रियामाप्नुयात् |
बहुनात्र किमुक्तेन फलं यद्यदभीप्सितम् || १६३ ||
तत्सर्वं तस्यहस्तथं नात्र कार्या विचारणा |
भुक्त्वा भोंगांश्च विपुलान् ध्यात्वा चान्ते मधुद्विषम् || १६४ ||
तल्लोकं समवाप्नोति न चेहोजायते पुनः |
धारयन्ति पवित्राणि येभक्ताश्श्रद्धयान्विताः || १६५ ||
तेपि निर्धूय पापानि मोदन्तेदिव देववत् |
आचार्यो मूर्तिपास्सर्वे ये चान्ये परिचारकाः || १६६ ||
ये श्यण्वन्ति च पश्यन्ति कीर्तयन्ति च कर्म तत् |
ते सर्वेपि समृद्धार्थालभन्ते सर्वसंपदः || १६७ ||
आग्रयणपूजायोग्य मासतिथिनक्षत्रादि. |
आग्रयणं श्रावणे मासि मासि प्रोष्ठपदेऽपि वा |
मासे चाश्वयुजे ब्रह्मन् कार्तिके मासिवा भवेत् || १६८ ||
आग्रेणं श्रवणे |
वर्षास्वेवं ततोन्यत्र तैषे माघेऽपि वा भवेत् |
फाल्गुने मासि चैत्रे वा वैशाखे वा तदाचरेत् || १६९ ||
हस्ते च श्रवणे पौष्णे नैरृते च प्रजापतेः |
नक्षत्रे वारुणे पुष्ये वायव्येदितिदैवते || १७० ||
मखासु मैत्रे चित्रायां श्रविष्ठायामथापि वा |
सौम्ये त्रिषूत्तराख्येषु सम्भवानुगुणं भवेत् || १७१ ||
मखे च चित्रे चैत्रायाम् |
अयुग्मास्तिथयस्सर्वा नवमीपरिर्जिताः |
युग्मास्तु तिथयो नेष्टा द्वितीयां दशमीं विना || १७२ ||
सोमो बृहस्पतिस्सौम्यो बृगुश्चेति ग्रहाश्शुभाः |
मेषवृश्चिकमिने तु कन्याझषकुलीरके || १७३ ||
पूर्वपक्षे च कर्तव्यस्तत्रायं कर्मणःक्रमः |
ओषधिलवन धान्य ग्रहणादिविधिः. |
आदौ दध्यादनं क्षेत्रे क्षेत्रपालाय कल्पयेत् || १७४ ||
मुहूर्ते लवनस्योक्ते विधाय लवनं ततः |
धान्यं कणिशभारेण गृह्णीयाद्भूमिकर्षकैः || १७५ ||
कणशहारेण |
कदलीपनसादीनि तथादधिघृतादिकम् |
धान्यभारासपि तथा कन्दल्यादिदलानि च || १७६ ||
कन्दलानि दलानि च |
नयेयुर्नृत्तवादित्रगीतालङ्कारसंयुतम् |
धान्यानयनकाले रक्षा संविधानम्. |
पुरतः पृष्ठतश्चैव सेनेशविहगधिपौ || १७७ ||
अलङ्कृतौ कुञ्जरादियानारूढौ यथावसु |
छत्र चामरसौशेयध्वजातिपरिबर्हकौ || १७८ ||
ग्रामप्रादक्षिण्येन धान्यानां कोष्ठागारनयनम्. |
नीत्वा प्रदक्षिणं ग्राममालयं च मधुद्विषः |
गोष्ठागारं प्रविश्यान्तर्धान्यं कणिशगोचरम् || १७९ ||
भाण्डे धान्यनिक्षेपणे मन्त्रः. |
श्रीसूक्तेन समभ्यर्च्य भाण्डेष्वभिनवेषु तत् |
निक्षिप्य सङ्ग्रहं तस्य कुर्यात्तत्राल येषु च || १८० ||
कर्मकरेभ्यो धान्यविभागः. |
कर्मिणां देवदेवस्य तथा देवं समर्चताम् |
यथाधिकारं धान्यानि दद्याच्च समये शुभे || १८१ ||
परिष्कृत हविर्निवेदनम्. |
तण्डुलान्नूतना नामान् क्षालितांस्त्रिफलीकृतान् |
मरिचैर्जीरकै र्युक्तान् गुऌअपाकेनुभावितान् || १८२ ||
नन्यान् |
नालिकेरफलोपेतानिक्षुखण्डसमन्वितान् |
मूलबेरादिबेराणां मुहूर्ते शोभने गुरुः || १८३ ||
नवतण्डुलहोमः. |
निवेदये |
त्ततो मूलविद्ययाष्टोत्तरं शतम् |
तण्डुलै र्जुहुयादग्नौ |
नवान्न निवेदनम्. |
ब्राह्मणानां यथापुरम् || १८४ ||
ब्रह्मादीनां |
तस्मिन् दिने परेद्युर्वा नवान्नानि निवेदयेत् |
प्रभूतस्स्कृता नेकनिष्ठानि कदलीदले || १८५ ||
Kapitel 15
Lesehilfe: Kapitel 15: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
पञ्चदशोऽध्यायः |
मासानुबन्धिप्रतेषु. वराहव्रतम्. |
श्रीभगवान् |
मासि भाद्रपदे देवं श्रवणे चादिपूरुषम् |
वराहरूपं सुभगं हिरण्याक्षासुरद्विषम् || १ ||
तस्मिन् |
यजेत धरया देव्या सार्धं सर्वार्थसिद्धये |
अन्येषां मूर्तिभेदानामपि तस्मिन् समर्चनम् || २ ||
आश्वयुजमासव्रतम्. |
स्वातावाश्वयुजे मासि यजनं स्नपनादिभिः |
कार्तिकद्वादशीव्रतम्. |
कार्तिके मासि संप्राप्ते द्वादश्यां चासितेतरे || ३ ||
पक्षे प्रबोधयेद्देवमर्चयित्वा यथावसु |
मन्त्रश्चोदित्यमित्येष उत्तिष्ठेति च बोधने || ४ ||
प्रबोध्य वार्चयेद्देवमुत्थितं विधिवर्त्मना |
औत्सवं बिम्पमभ्यर्च्य मण्डपे मण्डले स्थितम् || ५ ||
द्वारतोरणकुम्भादियजनं च यथापुरम् |
ग्रामे महोत्सवः कार्यस्सर्वमङ्गलसंयुतः || ६ ||
सर्वेचाश्रमिणः कुर्यार्व्रतानां च विसर्जनम् |
दशनिष्कं तदर्धं वा दक्षिणां गुरवे तदा || ७ ||
कृत्तितादीपोत्सवः. |
कृत्तिकासु कार्तिक्यां पोर्णमास्यां मधुद्विषः |
कृत्तिकाभिरयोगे वा केवलायां तिथौ भवेत् || ८ ||
दीवोत्सवं तथा सर्वं शोभयेन्मम मन्दिरम् |
अरोप्य सर्वतो दीपान् स्तम्भेघाच्चैर्मधुद्विषः || ९ ||
दीपोत्सवस्त सर्वं शोधयेद्देनमन्दिरम् |दिक्षु सर्वासु सर्वत्र तथा चावरणेषु च |
कूटा काराःकल्पिनीयास्तेषां स्युर्दीपमालिकाः || १० ||
प्राकारभित्तिषु तथा मण्डपे गोपु रेषु च |
बह्वीभिर्दीपमालाभिर्भाव्यं सर्वासु दिक्षु च || ११ ||
दीवोत्सवाय पूर्वेद्युर्निशि कल्याणकौतुकम् |
बध्नीयादौत्सवे बिम्बे सर्वमङ्गलसंयुतम् || १२ ||
अपरेद्युश्च मूलादिबेराणामर्चनं भवेत् |
नैमित्तिकं प्रदोषे तु कुर्याद्दीपाधिपासनम् || १३ ||
पुरस्तान्मूलबेरस्य पात्रमारोप्य नूतनम् |
धान्यराशौ ततस्तस्मिंश्चज्यमाढकसंमितम् || १४ ||
कापिलं तैलमधवा निक्षिप्य परिशोधितम् |
ऋजुवर्तिं तन्तुभिर्वा पाससा नूतनेन वा || १५ ||
कल्पयित्वा समुद्धृत्य कुण्डाग्निं तेन दीपयेत् |
वर्तिमाग्नेयमन्त्रेण अग्निमुद्रां प्रदर्शयेत् || १६ ||
अभ्यर्च्य चाग्नि मन्त्रैस्तु मुहूर्ते शोभने गुरुः |
आदाय पात्रं तत् स्थेन वह्निना वलजादिषु || १७ ||
दीपयेद्दीपिकास्सर्वास्तूर्येषु विदिशो दिशः |
घोषयत्सु तथा नृत्तगीतादीनां समुद्यमे || १८ ||
अधीयानेषु विप्रेषु मन्त्राननवदैवतान् |
औत्सवं बिम्बमादाय सर्वलङ्कारशोभितम् || १९ ||
यानमारोप्य रथ्यासु नयेदावरणेषु च |
दृश्यानि नाटकादीनि कृत्रिमाणीतराणिच || २० ||
दर्शयेद्देव देवाय भाषाभेदान्यथोदितान् |
आसाद्य मण्टपे तस्मिन्नि वेद्य च महा हविः || २१ ||
सर्वालङ्कारशोभितम् |
पृथुकान् संस्कृतान् सक्तून् पललानग्नितृप्तये |
अपूपान् समये तस्मिन्नि वेद्य मधुविद्विषे || २२ ||
अभ्यस्तरं मन्दिरस्य गमयेन्मङ्गलान्वितम् |
कृत्तिकादीपविधिना समाराधसमीरितम् || २३ ||
विशां च राज्ञो राष्ट्रस्य सम्पत्करमनुत्तमम् |
विपत्प्रश्रमनं ब्रह्मन् प्रीणनं जातवेदसः || २४ ||
मार्गशीर्षद्वादशीव्रतम्. |
मार्गशीर्षेसिते पक्षे मासि व्रतमनुत्तमम् |
द्वादश्यां व्रतपूर्वत्वाद्व्रतमाराधनं हरेः || २५ ||
आराधनं भगवतःकुर्वंस्तादृशमुत्तमम् |
दशम्यां हरिमाराध्य भोजयित्वाच भूसुरान् || २६ ||
दक्षिणां च यथाशक्ति दत्वा तेभ्यस्समाहितः |
भगवत्सन्निदौ तेषां विज्ञाप्य द्वादशीव्रतम् || २७ ||
अनुज्ञापूर्वकं पूजां व्रतपूर्वां महाफलाम् |
सङ्कल्प्य दर्भेष्वासीनः प्राङ्मुखः प्रणिदानवान् || २८ ||
हविष्याशी सकृत्कृत्वा सर्वं कर्माह्निकं तथा |
रात्रौ च भगवद्योगमास्थाय च यथाविधि || २९ ||
अपरेद्युःक्रियाजातमे कादश्यां यथाविधि |
पूर्वं त्रिषवणन्नायी नियमं परमास्थितः || ३० ||
अनश्नन् देवमाराध्य होमान्तं मौनमास्थितः |
भगवद्ध्याननिरतो व्यवहारं च लौकिकम् || ३१ ||
असंस्पृशन् मनःकायकर्मभिश्चेङ्गितादिभिः |
स्थितो मौनी तदा तद्वद्रात्रौ कौतुकमबन्धनम् || ३२ ||
बध्वा देवेशमाराध्य दर्भशायूनयेन्नि शाम् |
ब्राह्मे मुहूर्तेचोत्थाय कृत्वा सन्ध्यां यथाविधि || ३३ ||
कर्मदेवान्तिकं गत्वा कुर्यात्पूजां यथापुरम् |
चतुर्वेदविदो विप्रान् दिक्षु प्राच्यादिषु क्रमात् || ३४ ||
दर्भासनेष्वासयित्वा देवस्याभिमुखं यथा |
कोणेषु च दिशां विप्रानेकायनविद स्तथा || ३५ ||
अध्यापयेदध्ययनं यथा स्वच्छन्दसां गुरुः |
सामगानि तरालाभे केवलां स्तपसि स्थितान् || ३६ ||
एकायनविदो वापि हरेस्तत्प्रीणनं परम् |
प्राशयेद्प्राह्मणैस्सार्धं व्रतस्धःकायशुद्धये || ३७ ||
पारये |
कुशोदकं पञ्च गव्यं प्रापणं च यथा क्रमम् |
दिवा स्वापं परान्नं च पुनर्भोजनकर्म च || ३८ ||
स्त्रीसेवां तैलसेवां च कांस्यभोजनमेव च |
मांसाशनं त्यजेत्तस्मिन् दिवसे कर्म गर्हितम् || ३९ ||
भोजयेच्च यथाशक्ति तद्यादन्ते च दक्षिणाम् |
उपवासाक्षमो नक्तमे कादश्यां समाचरेत् || ४० ||
अज्ञानाच्चेत्त्रयोदश्यां पारणं राक्षसं भवेत् |
वर्ज्याश्च वारा मन्दस्य भृगोरङ्गारकस्य च || ४१ ||
नक्षत्रं यमदैवत्यं व्रतारम्भे चतुर्मुख |
पारणं चोपवासश्च न दोषाय तिथित्रये || ४२ ||
न सम्भाषेत पाषण्डवृत्तिभिर्गर्हितैर्नरैः |
प्रमादादपिनैवान्यैर्नास्तिकैःप्रतिलोमजैः || ४३ ||
नाशौचवद्भिर्द्वादश्यां व्रतस्थो नावलोकयेत् |
आर्द्रायामपि मासेऽस्मिन् जन्मर्क्षेच गरुत्मतः || ४४ ||
तत्प्रीतये समाराध्यो हरिश्शास्त्रोक्तवर्त्मना |
पायसान्नं गुऌआन्नं च प्रभाते विनिवेदयेत् || ४५ ||
प्रभूतं |
बिम्बं चौत्सवमाकल्प्य वीधिकावरणेषु च |
गरुडेनैव सहितं गमयेन्मङ्गलान्वितम् || ४६ ||
उत्तरे गरुडेनैनसहितं |
उत्तरायणव्रतम्. |
उत्तरेचायने देवं स्नपनाद्यैस्समर्चयेत् |
घृतेनाभ्यञ्ङयेद्देवं मज्जयेद्वा घृतादिषु || ४७ ||
घृते वा दध्नि पीयूषे यद्वा मधुनि सम्भृते |
फलेषु वा फलरने पञ्च गव्यरसेषु वा || ४८ ||
पायसादिषु चान्नेषु कालपुष्पोच्चयेषु वा |
दलेषु वा तुलस्यातेर्नवरत्नच येषु वा || ४९ ||
सुवर्णकलधौतेषु पुष्पाकारेषु शोभने |
सुवर्ण गोलकाःकृत्वा कल्पितावयपोज्वलाः || ५० ||
गोलकशब्दस्धाने गोलिकेतिसाधु |
लिखिता |
कल्पिताकल्पकल्याणप्रतिमाकारसंमिताः |
पीठिकाकारतुलितास्ताभिराच्छाद्य भूषयेत् || ५१ ||
पञ्चायुधसमाकारा हस्तादिसतृशाकृतीः |
कृत्वा वृथग्यथाशोभं गलकाः कञ्चुकाकृतीः || ५२ ||
भूषयेत्ताभिरङ्गानि चायुधानि च सर्वशः |
आपादमस्तकं वान्यैर्व्रीह्यादिभिरधोक्षजम् || ५३ ||
छादयेन्मूलमन्त्रेण पूरणं सर्ववस्तुभिः |
तिस्रस्त्रिपादसहिता नपि वा द्विगुणां स्तथा || ५४ ||
तिपादभारसहिता नाडिर्वा द्विगुणास्तथा |
पूरयेत्कालमातोद्यनृत्तगीतादुमङ्गलम् |
आचरेत्सर्वमेतस्मिन्यथाविभव विस्तरम् || ५५ ||
जुहुयात्सर्पिषा यावत्पूरणं मूलविद्यया |
देया च दक्षिणा स्वर्णमाचार्यय यथावसु || ५६ ||
घृतादिपूरणं चैतत्सर्वकामसमृद्धिदम् |
पुष्यमासव्रतम्. |
पुष्ये च मासि नक्षत्रे पौर्णमास्यामथापि वा || ५७ ||
आराधनं भगवतस्सर्वपापविनाशनम् |
माघमासे तिलपद्मव्रतम्. |
माघमासे सिते पक्षे वञ्चम्यां मधुविद्विषम् || ५८ ||
समाराध्य यथाशास्त्रं देवस्याग्रे महीतले |
गोमयालेपिते द्वाभ्यां हस्ताभ्यामपि संमिते || ५९ ||
चतुर्भिर्वा समायामविस्तारे च्छादि तेपुनः |
वाससा नूतनेनैव सदशेन तथोपरि || ६० ||
कृष्णाजिनेन शुद्धेन भेदनच्चेदनादिना |
वर्जितेन समाच्छाद्य वस्त्रं तदुपरि क्षिपेत् || ६१ ||
लज्जिते च |
तिलानां भारमेकं वा द्वौ वा कृत्वा च वेदिकाम् |
त्रिमेखलां तिले तस्मिन् पद्माकारसमाकृतिम् || ६२ ||
निष्कत्रयात्मकं स्वर्णं लेखापद्मं तिलेषु वा |
निक्षिप्य नवरत्नानि दिक्षु चाष्टासु निक्षिपेत् || ६३ ||
धान्यपूर्णानिपात्राणि द्वे द्वे प्रतिदिशं क्रमात् |
प्रस्थतैलं तथा सर्पिर्धधि चापि चतुर्गुणम् || ६४ ||
पार्श्वयोःपुरतश्चापि पात्रस्थं न्यस्य भूतले |
तिलाज्याहारःपुरतस्त्रीण्यहानि जितेन्द्रियाः || ६५ ||
तिलाज्यभारसहिता |
उपोष्य वा गुरुःपूर्वमेकरात्रं चतुर्मुख |
अभ्यर्च्य गन्धपुष्नाद्यैस्तिलान्यस्तान्यनन्तरम् || ६६ ||
अधीयानेषु विस्त्रेषु तूर्यवादित्रघोषणे |
मङ्गलेषु तथान्येषु प्रवृत्तेषु यथायथम् || ६७ ||
तिलैस्सहस्रकृत्वोग्नौ जुहुयान्मूलविद्यया |
अचर्यं पञ्च कालज्ञं भगवच्छास्त्रकोविदम् || ६८ ||
कल्याणाचारनिरतं सर्वेस्समुदितं गुणैः |
तस्मे भागवतायेदमर्चयित्वा क्षतादिभिः || ६९ ||
तिलपद्मं प्रदातव्यं सन्निदौ वारिपूर्वकम् |
प्रियतां भगवान् विष्णुरित्याचार्येण मन्त्रवित् || ७० ||
तदन्ते देवमभ्यर्च्य भोजयित्वा महासुरान् |
दद्याच्च दक्षिणां तेब्यो गुरवे च यथोदिताम् || ७१ ||
पूजयित्वा |
इत्थं तिलसरोजं यो दद्याद्धान्यादिसंयुतम् |
पूनाति स पितॄन् सर्वानात्मानं च परावरान् || ७२ ||
सर्वन्कुल्यानपि |
मासर्क्षे पौर्णमास्यां च यजनं स्नपनादिभिः |
फाल्गुनमासे श्रीकामव्रतम् |
फाल्गुने मासि फल्गुन्यां श्रीकामो हरिमर्चयेत् || ७३ ||
उषोष्य पूर्वं नियतो ध्यायन्नित्थं समाहितः |
विपुले बिल्वविपिने मध्ये पुष्करशोभिते || ७४ ||
महातटाके शिज्ञानपक्षिसङ्घसमाकुले |
मण्डपे तत्र माहेन्द्रे रत्न प्राकारवेष्टिते || ७५ ||
मण्डले |
प्रकारपरिवेषणे |
चतुर्दिक्षु चतुर्द्वारे कल्पकद्रुममण्डिते |
सौवर्णे बहुकल्याणरत्नस्तम्भसमन्विते || ७६ ||
सिंहासने वरे रत्न पद्मेऽष्टदलसंयुते |
कर्णिकाकेसरोपेते सुखासीनं श्रिया सह || ७७ ||
पूर्वादिदिक्षु ध्यातव्या वासुदेवादयो दले |
आग्नेयादिषु कोणेषु चत्वारो हस्तिनःक्रमात् || ७८ ||
गुग्गुलुश्च कुरण्डश्चदमकश्शलल स्तथा |
शङ्खपद्मनिधी चापि संहविष्टरपार्श्वयोः || ७९ ||
अन्योन्याभिमुखौ भूरि वमन्तौ वसु सर्वदा |
भूम्यादयोऽष्टौ पूर्वादिदिक्षु चामरपाणयः || ८० ||
इन्द्रादयश्च पूर्वादि दिक्ष्वष्टावष्टसु क्रमात् |
स्थिताः |
स्थिताश्चतुर्षुद्वारेषु वेत्रहस्तास्सकङ्चु काः || ८१ ||
कुब्जवेषास्त्रियो द्वारि पालयन्त्योमनुहराः |
बलाकिनी भीषि का च तथैव वनमालिनी || ८२ ||
शाङ्करी च क्रमादेताःपूर्वादिषु चतुर्मुख |
द्वाराणि पालिकाभिश्च पूर्णकुम्भैर्ध्वजै स्तथा || ८३ ||
तोरणैर्दामभिर्मौक्तैर्दीपैरन्यैश्च मङ्गलैः |
परिष्कृतानि ध्यात्वैवं देवीं देवं च पूजयेत् || ८४ ||
श्रियं वा केवलां पद्मे कर्णिकायामवस्थिताम् |
मण्डपे तत्र पूर्वेक्ते परिवारसमन्विते || ८५ ||
लक्ष्मीप्रसूनकैःपद्मैर्होमो बिल्वादिपल्लवैः |
समिदाज्यैश्च मन्त्रेण श्रियश्चाष्टाक्षरेण च || ८६ ||
श्रीसूक्तानि चतुर्दिक्षु पाठ्यानि पृथिवीसुरैः |
आराध्याभिष्टुयादन्तेस्तोत्रैर्बहुविधैश्श्रियम् || ८७ ||
लक्ष्मीस्तोत्रम्. |
समामि देवि लोकानां जनयि त्र्यब्धिसम्भवे |
सर्वलोकेश्वरेशेश वल्लभे दुर्लभेऽधमैः || ८८ ||
त्र्यब्ज |
दुर्लभे क्षमे |
वासुदेवाङ्गसंस्पर्श सुखैकरसभाजने |
नमस्ते सुखदे देवि देवानामधिदेवते || ८९ ||
शुभदे |
यदृच्छयापि ते देवि कटाक्षाः पतितास्सकृत् |
क्षुद्रेष्वपि प्रगल्भनैते त्रिलोकेश्वराःक्रमात् || ९० ||
न स्पृशन्ति त्रिलोकेशानपि यान्वीक्षणानिते |
संपाद्यन्ते क्षणात्क्षुद्रा नाकपृष्ठादपिच्युताः || ९१ ||
लावण्यादिगुणा यत्र काष्ठामश्नु वते पराम् |
तानि त्वदीयान्यङ्गानि देवि कस्तोतुमर्हति || ९२ ||
त्वं माया त्वमविद्यासि त्वं शक्तिः कर्मणामपि |
चैतन्यशक्तिस्त्वमसि प्रकृतिस्त्रिगुणात्मिका || ९३ ||
त्वमेव विद्यात्रैय्यन्ता त्रयी च त्वं परावरा |
यस्यास्तवायुतांशांशे देव्यो वागादयस्थ्सिताः || ९४ ||
सच्चिदानन्दरूपस्य परस्य परमात्मनः |
आनन्दादिमयी मूर्ति कविभक्ता भवत्यसि || ९५ ||
प्रभासि तस्य नित्या त्वं भास्वतः परमात्मनः |
सन्ध्या त्वमसि विप्राणां वन्दनीया दिने दिने || ९६ ||
भूर्भुवस्स्वस्त्वयी च त्वं भूरसि त्वं भुवोसि च |
स्वरसि व्याहृतिश्चापि ऋग्यगुस्सामकारणम् || ९७ ||
त्वमाहुतिस्त्वमिष्टश्च दक्षिणासि त्वमेव च |
सिद्धिश्च कर्मणां त्वत्तो नान्यास्ति कमलालये || ९८ ||
नीतिरान्वीक्षकी वार्ता विद्या चाद्यासि लौकिकी |
दृष्ट्वा देवि त्वया हीनं मृत प्रायं जगत्त्रयम् || ९९ ||
यत्नैरम्भोधिमथनप्रायैराविर्भभूविथ |
अनुषङ्गिकमुत्पन्नं प्राप्तमप्सरसामपि || १०० ||
तादृगेवामृतादन्यदिन्दिरे हरिमन्दिरे |
हालाहलं विषं चापि जन्मनश्श्रेयसे तव || १०१ ||
प्रत्यूहरूपेणोत्पन्नं क्षीरपारिधिसम्भवे |
अभ्यर्हिता तपोत्पत्ति रेवं नाम मधुद्विषः || १०२ ||
कुर्मादितिर्यग्योनित्वं यत्प्राप्तं परमात्मनः |
त्वं सर्वलोकजननी जनको जगतां हरिः || १०३ ||
त्वया च विष्णुनाचैद्व्याप्तं स्थावरजङ्गुमम् |
मानःकोशं तथा गोष्ठं मागृहं मा परिच्छदम् || १०४ ||
मा शरीरं कलत्रं च त्यजेथा मा च सन्ततिम् |
श्रुतवान् शीलवान् दक्षो बुद्धिमान् वित्तवानृजुः || १०५ ||
वृत्तिवान् बन्धुमान् श्रीमान् पशुमान् धान्यवानपि |
गुणवान् कीर्तिमान् लोके तथाभिजनवान् प्रभुः || १०६ ||
आयुष्मान् विजयी भूमांस्तथैपारोग्यवानपि |
श्लाघ्यवान् देव पुरुषःकटाक्षविषयात्तव || १०७ ||
गुणैर्यथोक्तैरहितस्त्वद्दर्शनविवर्जितः |
क्रीडाभूमिर्हरेर्यस्य वक्षोभूमिस्सनातनी || १०८ ||
आनन्त्यात्तनकल्याणि गुणानां वर्णने क्षमः |
न वाचस्पतिरप्येष दूरे स्यान्मादृशां स्थितिः || १०९ ||
प्रसीद देवि पद्मे त्वं पद्महस्ते शुचिस्तिते |
पद्मासने पद्मयोनेर्जनयित्रि हरिप्रिये || ११० ||
पद्मप्रिये नमस्तुभ्यं विष्णोर्वक्षस्थ्सलालये |
स्तुत्यन्तमित्थमाराध्या देव्यस्सर्वा श्श्रियादयः || १११ ||
देवीनामर्चने विशेषः. |
अर्हणं चोपवीतं च वर्ङयित्वोपचर्यया |
ध्यात्वा यथोक्तमार्गेण यद्वा धूमध्वजार्चनम् || ११२ ||
उत्सवं च श्रिया देव्या सार्धं तस्मिन्मधुद्विषः |
यावज्जीवं श्रियं देवीमर्चयन् संपदं पराम् || ११३ ||
इहानुभूय भूयोऽपि परत्र श्रियमश्नुते |
यद्वा कामयमानेन पुरुषेणार्चनं श्रियः || ११४ ||
परतः |
लभते तत्तदेवेह फलभेदैः किमीरितैः |
आरोग्य कामव्रतम् . |
आरोग्य कामस्सावित्रे मण्डले रत्नपङ्कजे || ११५ ||
असीनं विष्टरे पीतकौशेयवसनं हरिम् |
निष्टप्ततपनीयाभं चतुर्भुजमधोक्षजम् || ११६ ||
प्रसादसुमुखं सर्वदिव्याभरणभूषितम् |
देवीसहायं कल्याणं केवलं वा चतुर्मुख || ११७ ||
पूर्वाद्यष्टदलासीनशक्त्यष्टसमुपासितम् |
एवं ध्यात्वार्चयेन्नित्यमारोग्यं परमश्नुते || ११८ ||
अनन्यलभ्यमारोग्यं सर्वं लभ्येत्ततःपरम् |
दिनपञ्चकव्रतम्. |
दिनानि पञ्च शस्तानि वैष्णवानि चतुर्मुख || ११९ ||
लभ्यमितः परम् |
तेषु व्रतनुष्ठेयं सर्वाभिप्रेतसाधनम् |
पक्षद्वये च द्वादश्यौ सिनीवाली कुहुस्तथा || १२० ||
श्रवणर्क्षं दिनानि स्युर्मासेषु द्वादशस्वपि |
चैत्रादि द्वादशमासाधिव्रतानि. |
चैत्रादिषु द्वादशसु मासेषु द्वादशाधिपाः || १२१ ||
अर्चनीयाःक्रमाद्विष्णुस्तथैव मधुसूदनः |
त्रिविक्रमो वामनश्च श्रीधर स्तदनन्तरम् || १२२ ||
हृषीकेशःपद्मनाभो दामोदरसमाह्वयः |
केशवो नामधेयेन तथा नारायणःस्मृतः || १२३ ||
माधवोऽन्यश्च गोविन्दो द्वादशैते प्रकीर्तिताः |
मासेचैत्रे समारम्भोमार्गशीर्षेथवा भवेत् || १२४ ||
प्रतारम्भो |
अश्नन् हविष्यं पूर्वेद्युरनश्नन्नपरेऽहनि |
श्रवणे मध्यमे भागे शुचिर्दक्षस्समाहितः || १२५ ||
अन्नं |
चक्राब्जमण्डले यद्वा बिम्बे कुम्भेऽथ वा हरिम् |
आराध्य मूर्तिं मासेशमुपचारैर्यथोदितैः || १२६ ||
आराधनान्ते वित्तानि दत्वा शक्त्यनुसारतः |
ब्राह्मणेभ्यस्तथा दत्वा गुरवे दक्षिणादिकम् || १२७ ||
अपरेद्युस्तथा देवमर्चयित्वा यथाविधि |
पारणं ब्राह्मणैस्सार्धं कुर्यान्नि यतमानसः || १२८ ||
एवं चतुर्षु चान्येषु दिनेष्वाराधनक्रमः |
मासि मासि च यष्टव्या मासेशा मूर्तिरब्जज || १२९ ||
दिनेषु पञ्चसूक्तेषु सर्वाभिप्रेतसिद्धये |
त्रिषु संवत्सरेष्वेवं कृत्वा मासेषु च त्रिषु || १३० ||
व्रते समाप्ते स्नपनं कुर्यात्पूर्वोक्त वर्त्मना |
याचयेत व्रतफलं धान्यराशौ स्थितो द्विजः || १३१ ||
वाचयेत व्रतफलं धान्यराशौ स्थितं द्विजम् |
भोजयित्वा द्विजवरान् दत्वा तेभ्यश्च दक्षिणाम् |
दक्षिणाभिस्तथाचार्यं तोषयेत्काञ्चनादिभिः || १३२ ||
पौर्णमास्यामपि ह्येष क्रमो मासाधिपार्चने |
विशेषत स्त्रियामायां चन्द्रमस्यु दितेऽर्हणा || १३३ ||
कुह्वामपि तिथौ प्राग्वदर्चयेद्व्रतमास्थितः |
आराधनं दिनेष्वेषु चतुर्वर्ग फलप्रदम् || १३४ ||
सर्वस्मिन् मासनक्षत्रे प्रादुर्भाव दिनेषु च |
अर्चयित्वाङ्कुरान् पूजा कार्यास्नपनपूर्विका || १३५ ||
Kapitel 16
Lesehilfe: Kapitel 16: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
षोडशोऽध्यायः |
अरिष्टशान्तिकम्. |
ब्रह्मा |
भगवन् भाविनां कर्म फलानामशुभात्मनाम् |
सूचनेषु निमित्तेषु सञ्जातेष्वशुभात्मसु || १ ||
गृहदोषादिषु नृणामधिपस्य च भूपतेः |
तेषा मकस्माज्जातानां कर्म यच्छमनं परम् || २ ||
तन्ममाख्यायतां कीदृक्किं कथं चेति चाच्युत |
रहस्यमपि तद्वाच्यं दयाया परया मयि || ३ ||
दुर्निमित्तनिरूपणम्. |
श्रीभगवान् |
जन्मर्क्षाद्यशुभस्थानग तेष्वङ्गारकादिषु |
क्रूरेषु दुर्निमित्तेषु दुस्वप्नेष्वामयेषु च || ४ ||
गृहक्षेत्रादिकेष्वेवं वल्मीकजनने तथा |
रक्तस्त्रीषु च जातासु अग्निदाहे च वेश्मनाम् || ५ ||
गृहक्षेत्रादिषु स्वेषु वल्मीकाक्रन्दनेषु च |
वस्त्रादिमूषिकादं शे दग्धेषु शयनादिषु |
सङ्कटेष्वपि चान्येषु पुत्रादिकलहात्मसु || ६ ||
नृपकोपे तथा चित्तदुःखे निगलबन्धने |
पीडायामरिपक्षेण पिशाचाद्यैर्भयानकैः || ७ ||
व्रतध्वंसे प्रागभावे पुत्राणामर्थहानिषु |
अरिष्टसूचने पुत्रजन्मन्युत्पातसम्भवे || ८ ||
पुराणा मर्थ |
अरिष्टशान्तये भगवदाराधनवि शेषः. |
एवमादिषु जान्येषु दोषेष्वाराधनं मम |
शान्तये कल्पते ब्रह्मन् प्रकारस्तस्य कथ्यते || ९ ||
स्नानपूर्वाणि कर्माणि कृत्वा विधिवदादृतः |
आचार्यवरण कुम्भस्थापनादि. |
आचार्यं वरयेत्पश्चान्मदारधनतत्परम् || १० ||
स्नानपूर्वाणि इत्यादि सार्धं श्लोकद्वयं केशान्तरे न दृश्यते |
शमादिगुणसंयुक्तं पञ्चकालपरायणम् |
शुचौ भूमितले कुम्भं सौवर्णं राजतं तु वा || ११ ||
ताम्रं वापि यथावित्तं वारिपूर्णं सकूर्चकम् |
तन्तुभिर्वेष्टितं न्यस्त वारिभीजं सपल्लवम् || १२ ||
समल्लकम् |
धान्यराशिषु संस्थाप्य न्यस्तरत्न गुवर्णकम् |
शान्तिद्रव्यसनाथं च अश्वत्थदलमङ्गलम् || १३ ||
वेष्टितं नववस्त्रेण रक्तेनाक्षतसंयुतम् |
प्राच्यां दिशि च देवेशं याम्ये सङ्कर्षणं तथा || १४ ||
प्रद्युम्नं पश्चिमे भागे अनिरुद्धं तथोत्तरे |
एवं क्रमेण व...त्तमावाह्यघटिकासने || १५ ||
कुशकूर्चैः पश्चिमाशासम्मुखेऽष्टाक्षरेण तु |
यजेतार्घ्यादिना यद्वा रुक्मं न्यस्य तदर्चनम् || १६ ||
रुक्मस्य च. कुक्मं न्यस्य तदर्धकम् |
कुम्भे चावाह्य यजनं जपेस्मन्त्रमनुत्तमम् |
मूलमन्त्रेण लक्षं वा तदर्द्धं वा तदर्द्धकम् || १७ ||
जपेत् इत्यादि मन्त्रेणाष्टाक्षरेण इत्यन्तं क्वचिन्न |
ततः पुंसूक्तमन्वाकं नारायणानुवाककौ |
ततश्श्रीसूक्त भूसूक्ते जपेदाचार्य ऋत्विजाम् || १८ ||
मूलेनाग्निं प्रतिष्ठाप्य जुहुयाद्गव्यसर्पिषा |
वैष्णवीकरणाष्टाष्टाक्षरहोमादि. |
अग्नि प्रतिष्ठां क्वत्वाऽथ वैष्णवीकरणं तथा || १९ ||
मन्त्रेणाष्टाक्षरेणैव लक्षवारा नथायुतम् |
सहस्रमपि वा कुण्डे शतं वाष्टोत्तरं गुरुः || २० ||
ध्यात्वा हरिं सर्वशान्तिकरं सर्वसमृद्धिदम् |
गौरवं लाघवं चापि समवेक्ष्य यथोचितम् || २१ ||
दोषाणां यत्नमातिष्ठेदर्चनादिषु सर्वतः |
स्नपनम्. |
अन्तेप्रणवमब्लिङ्गैर्यजमानं गुरुस्स्वयम् || २२ ||
मन्त्रैः कुम्भस्थतो येन प्रोक्षयेन्मूलविद्यया |
सहस्रकृत्वः कूर्चेन स्नापयेच्छेषवारिभिः || २३ ||
आचार्याय यथावित्तं दद्यात्स्वार्णादि दक्षिणाम् |
ब्राह्मणान् भेजयेत्तेभ्यो दक्षिणामल्पिकामपि || २४ ||
प्रभूणामपि सर्वेषां सर्वोपद्रवशान्तये |
सर्वाभिप्रेतलाभाय विशेषयजनं हरेः || २५ ||
कुर्यात् स्नपनपूर्वं तदह्नि नित्यार्चने कृते |
शान्तिकपौष्टिककर्मणोः कालः. |
तदनैशान्तिकं कर्म अपराह्णे तु पौष्टिकम् || २६ ||
पूर्वाह्णे नित्यकर्मोक्तं वस्तुभिर्द्विगुणैरिह |
एकबेरे बहुभेरे च अर्चनक्रमः. |
पूजाद्रव्यैरेकभेरे मूलभेरे समर्चनम् || २७ ||
बहुबेरेतु बिम्बस्यादौत्सवे कमलासन |
आचार्य एव पूजायां वैशेषिक्यां समर्चयेत् || २८ ||
शान्तिके पौष्टके च कर्मणि कुण्डभेदः. |
होमकुण्डं भवेत्पद्मतुल्याकारं सुशोभनम् |
पौष्टिके शान्तिके वृत्तं प्रत्यहं समिधादिभिः || २९ ||
तत्र कर्तव्यहोमादिकम्. |
प्रत्येकं तिलहोमस्स्यादयुतं वा शतावरम् |
प्रत्यहं भोजयेद्विप्रान् यथाशक्ति च दक्षिणा || ३० ||
नृत्तं गेयं च वाद्यं च तथाध्ययनमन्वहम् |
कर्मावसानदिवसं यावदग्नेश्च धारणम् || ३१ ||
सप्ताहं द्विगुणं वा स्यात्त्रिगुणं वा चतुर्गुणम् |
स्नपनं प्रत्यहं कार्यं दानहोमादय स्तथा || ३२ ||
शान्तिके पौष्टिके च कर्मणि ध्येयस्य भगवतो रूपभेदः. |
शान्तिके कर्मणि ध्येयो हरिस्स्फटिक सन्निभः |
पौष्टिके तु सुवर्णाभश्श्रियाऽसीनस्सहासने || ३३ ||
चक्राब्जमण्डलार्चने अनिर्माल्यता. |
चक्राब्जमण्डले कुम्भे यत्र यत्र समर्चनम् |
तत्रैवान्येद्युराराध्यो न तु निर्माल्यता तयोः || ३४ ||
आचार्यादीनां यथाविभवं दक्षिणा. |
आचार्यदक्षिणा वापि यथाविभवविस्तरम् |
कर्मण्यधिकृतानां च कर्मगौरवलाघवम् || ३५ ||
अवेक्ष्य तोषणं वित्तैरृत्विजां चोपकुर्वताम् |
पौष्टिकी क्रिया अनुकूलेषु दिनेषु कार्या. |
दिनादिष्वनुकूलेषु प्रारभ्या पौष्टिकी क्रिया || ३६ ||
शान्तिकी प्रतिकूलेषु कार्या. |
शान्तिकी प्रतिकूलेषु यजमानस्य पद्मज |
भगवतः मन्दिरे परिचर्यापराणां |
क्षेत्रादिप्रदानां दत्तापहारिणां च फलप्रश्नः. |
ब्रह्मा |
भगवन्मार्जनादीनि मन्दिरे कुर्वतां नृणाम् || ३७ ||
विष्णोः क्षेत्रादिदातॄणां पूजोपकरणानि च |
भूषणानि च वस्त्राणि फलमभ्युदयात्मकम् || ३८ ||
कीदृक्कीदृश्च तान्येव दत्तान्याहरतामपि |
अनर्थकरमेतन्मे संशयानस्य कथ्यताम् || ३९ ||
दत्तानां हरताम् |
भगवतः प्रत्युत्तरम् तत्र मार्जनालेपनफलम्. |
श्रीभगवान् |
मार्जनं मन्दिरे विष्णोः कुर्वन् सम्मार्ष्टि देहजम् |
मलं पापात्मकं सर्वं परत्रेह च सम्भृतम् || ४० ||
प्रत्यहं मार्जनं कुर्वन् प्रत्यहं हन्ति किल्बिषम् |
गोचर्ममात्रमालिप्य गोमयेन च भूतलम् || ४१ ||
आलये लभते सद्योगोप्रदानफलं नरः |
मार्जनालेपने कुर्वन् विष्णोरायतने नरः || ४२ ||
उषित्वा सुचिरं स्वर्गे कर्मशेषेण भूतले |
भूयोपि जायते भूपः कुले महति पूजिते || ४३ ||
स्रग्दायिनां फलम्. |
स्रजं बद्वा सुमनसां यः प्रयच्छति विष्णवे |
स भुक्त्वा विपुलान् भोगान्नाकपृष्ठे विराजते || ४४ ||
दीपारोपणफलम्. |
दीपानारोपयेद्विष्णोर्मन्दिरेऽभ्यन्तरे बहिः |
दिवि देववदासित्वा जायते परमार्थवित् || ४५ ||
नित्यान्नैमित्तिकान्वापि दीपानारोपयेन्नरः |
बहुदुःखसमाकिर्णं नरकं नैव पश्यति || ४६ ||
स न पश्यति |
अहोरात्रमनिर्वाणं दीपमारोपयेन्नरः |
सर्वपापविशुद्धात्मा विष्णुलोके महीयते || ४७ ||
उदकाब्युक्षणफलम्. |
उदकाभ्युक्षणं विष्णोरालये विदधाति यः |
लोकं स वारुणं प्राप्य रमते वत्सरान् बहून् || ४८ ||
पुष्पविकिरणफलम्. |
सम्मार्यालिप्य च हरेर्धाम पुष्पाणि भूतले |
विकिरेन्मनुजस्सर्वकामानाप्नोति पुष्कलान् || ४९ ||
भूमिदानफलम्. |
विष्णुसात्कुरुते भूमिं सर्वसस्य फलप्रदाम् |
यस्सलोकानवाप्नोति सर्वानेव न संशयः || ५० ||
पुष्पोद्यानप्रदानेन तपोलोके महीयते |
फलवृक्षसमोपेतां पूगभूमिं जलान्विताम् || ५१ ||
यो ददाति महर्लोके सचिरं वसति ध्रुवम् |
उत्पादयति यः क्षेत्रे वैष्णवे फलिनस्तरून् || ५२ ||
नालिकेरादिकान्याति स स्वर्गं प्रेत्य दुर्लभम् |
तुलसीपुष्पादिदानफलम्. |
आराधनाय तुलसीमुत्पादयति यत्नवान् || ५३ ||
सुरभीणि च पुष्पाणि दिवि देवैस्सपूज्यते |
वापीकूपादिनिर्माणे फलम्. |
वापीकुपतटाकानि विष्णोर्मन्धिरभूमिषु || ५४ ||
उत्पादयति हस्तस्थास्तस्य सर्वसमृद्धयः |
न तं बध्नन्ति पापानि बहुजन्मार्जितान्यपि || ५५ ||
भगवन्मन्दिरजीर्णोद्धारफलम्. |
यः कुर्याद्वैष्णवं धाम भक्तिश्रद्धोभ योचितम् |
खण्डिते स्फुटिते धाम्नि दूषिते च सुधादिभिः || ५६ ||
समादध्यात्पुनर्धाम स लोकं याति वैष्णवम् |
उपकरणद्रव्यदानफलम्. |
स्नानपानाम्भसां विष्णोः प्रदानात्तत्सलोकभाक् || ५७ ||
स्नानीयद्रव्यदानेन नीरोगः प्रेत्य मोदते |
क्षौमादिदानादाप्नोति परलोके महत्सुखम् || ५८ ||
आलेपनद्रव्यदानत्कामानाप्नोति शाश्वतान् |
एलाकर्पूरताम्बालीतैलादिस्वर्शनात्सुखी || ५९ ||
परत्रेह च लोके न्याद्धीर्घकालमसंशयः |
चामरव्यजनच्छत्रदानात् स्वाराज्यमश्नुते || ६० ||
आदर्शनप्रदानेन दृश्यस्सर्वैर्भविष्यति |
धूपद्रव्यप्रदानेन स्वस्थानं स्वर्गिणां भवेत् || ६१ ||
उपानहौ पादुके च वाहनं यानमेव च |
ददाति यो मण्डयित्वा मणिकाञ्चन चित्रिम् || ६२ ||
स विमानं सुदुष्प्रावं प्राप्नोत्येव न संशयः |
अलङ्कृतं भद्रपीठं प्रयच्छन् सर्वकामभाक् || ६३ ||
विनतानन्दनस्थानं ध्वजमुत्पाद्य दर्शयन् |
सामीप्यं सहसा विष्णोर्याति सद्यश्चतुर्मुख || ६४ ||
ध्वजं च वाद्यमुत्पाद्य विष्णुसात्कुरुते तु यः |
स दिव्यदुन्दुभिप्रायं स्थानं प्राप्य विराजते || ६५ ||
दासीदानं तथात्मीयमात्मानं च प्रयच्चति |
वासुदेवाय दास्येन मुक्तिःकरतले स्थिता || ६६ ||
नृत्तभेदैर्गीतभेदै स्तथा वाद्यैरनेकधा |
श्रोतव्यैरपि दृश्यैश्च एवं देवेशसन्निधौ || ६७ ||
आसीन मुपचारौस्तैर्ये समाराधयन्तिते |
प्रेत्य दिव्येषु लोकेषु पूज्यंते तैर्न संशयः || ६८ ||
प्रदक्षिण नमस्काराद्युपचाराणां फलम्. |
प्रदक्षिणनमस्कारस्तुतिप्रायोपचर्यया |
आराधयन्तिये देवं देवानामधिदैवतम् || ६९ ||
ते देवैरुपचर्यन्ते परत्र भगवान् यथा |
स्थितं शयानमासीनं देवं सर्वेश्वरेश्वरम् || ७० ||
यदृच्छयापि पश्यस्तः प्राप्नुवन्ति परं पदम् |
किं पुनर्भक्तिपूर्वं ये पश्यन्ति क्षणम च्युतम् || ७१ ||
मप्यमुम् मप्यमी |
निर्धूय दुष्कृतं सर्वं यान्ति लोकान्यथेप्सितान् |
अष्टाङ्गप्रणिपातेन ये नमस्यन्ति मानवाः || ७२ ||
तपस्स्वाध्यायशीलानां फलमश्नुवतेऽचिरात् |
इयदेतदिति स्मर्तुं फलं वक्तुं च कः क्षमः || ७३ ||
सकृत्प्रणमतां देवं फलं यन्मधुविद्विषम् |
शिरसा श्रवणाभ्यां वा मनसा वा करेण वा || ७४ ||
बहुभ्यां वाथ पद्भ्यां वा दृग्भ्यां वा पक्षसापि वा |
एकैकेनाङ्गजातेन प्रणमन्मधुविद्विषम् || ७५ ||
कामानाप्नोति विपुलाननन्तानन्यदुर्लभान् |
किं पुनर्येऽष्टभिस्सर्वैरङ्गैः प्रणिपतन्ति च || ७६ ||
वासुदेवा श्रयकथा व्याचक्षाणा दिने दिने |
पासुदेवालये यान्ति वाचस्पत्यमसंशयम् || ७७ ||
गवां च कपिलादीनां प्रदानादश्नु ते जनः |
ब्रह्मलोकादिलोकेषु वासं विन्दन्ति शाश्वतम् || ७८ ||
हविषां पायसादीनां हरये च निवेदनात् |
सुखैकरसपूर्णात्मा राजते विष्णुसन्निदौ || ७९ ||
भक्ष्यपानीयभोज्यानामन्येषामपि दानतः |
श्वेतद्वीपे तत्समीपे वसन्ति सुखनस्सदा || ८० ||
बहुनात्र किमुक्तेन वासुदेवार्थमादरात् |
ददाति वस्तुजातं यः स्थानं प्राप्नोति चेप्सितम् || ८१ ||
कर्मणां मार्जनादीनां फलभोगादनन्तरम् |
कर्मशेषैः पुनर्जन्म कर्मानुगुणयोनिषु || ८२ ||
उत्कृष्टास्वेव भोक्तारो लभन्ते सुखिनस्सदा |
दत्तापहारादीनां फलम्. |
प्रासादमण्डपादीनां भोक्तारःकैटभद्विषः || ८३ ||
भेत्तारः |
ये मूढमतयः प्रेत्य निरयेषु निरत्ययाः |
वसन्ति भूयो नीचासु जायन्ते योनिषु द्रुवम् || ८४ ||
भूषणच्छत्रवस्त्रादि यो पर्ता दुर्मति र्नरः |
गले निगलितः पाशैः कृष्यते निरयेषु सः || ८५ ||
वाहनानि च यानानि वैष्णवानि हरन्तिये |
मोहद्वासन्ति ते दीर्घमङ्गार नरकोदरे || ८६ ||
निरयेनराः |
प्रेत्य भूयोऽपि जायन्ते गर्दभोष्ट्रादियोनिषु |
चन्दनादीनि वस्तूनि पुष्पाणि सुरभीण्यपि || ८७ ||
हरन्तिस्वानि विष्णोस्ते व्रजन्ते याम्ययातनाम् |
अनुभूय पुनर्ब्रह्मन् जायन्ते गन्धमूषिकाः || ८८ ||
उपानत्पादुकापीठव्यजनानि हरन्तिये |
उषित्वा निरयेष्वेते जायन्ते फणिनां कुले || ८९ ||
गोभूहिरण्यपस्त्रादिधनं विष्णोः परिग्रहम् |
आहृत्य ये तु भुञ्जन्ते नरकेषु निरत्ययाः || ९० ||
उषित्वा प्रेत्य भूयोपि जायन्ते श्वादियोनिषु |
सर्वेषु नरकेष्वेवं देवब्रह्मस्वहारिणः || ९१ ||
सर्वेष्वित्यादिश्लोकत्रयं क्वचिन्न |
वसन्ति मूढमतयो याम्यदुःखानि भूयसा |
व्यायामोद्वर्तनाभ्यङ्गस्नानपानाशनादिकम् || ९२ ||
कुर्वन्ति मन्तिरे विष्णोर्ये ते निरयगामिसः |
पच्यन्ते तत्र भूयोपि जायन्ते नीचयोनिषु || ९३ ||
वासुदेवप्रतिकृतेर्भेदनच्छेदनादिषु |
विक्रीतादीनि चान्येषु यतन्ते पापचेतसः || ९४ ||
विकृतादीनि |
ये ते यान्ति क्रमात्सर्वान्नरकान् भृशदारुणान् |
अन्येष्वप्यपचारेषु स्थूलसूक्ष्मेषु मानवाः || ९५ ||

Kapitel 17
Lesehilfe: Kapitel 17: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
सप्तदशोऽध्यायः |
जीर्णोद्धारविधिः. |
ब्रह्मा |
प्रतिमानां तथा धाम्नां जीर्णानां भगवन्नहम् |
उद्धारं श्रोतुविच्छामि तन्मे ब्रूहि यथातथम् || १ ||
स्वयंव्यक्तादिष्वङ्गवैकल्ये समाधानम्. |
श्रीभगवान् |
स्वायम्भवार्षदिव्येषु मानुषेषु चतुर्ष्वपि |
अङ्गहानौ रत्नजेषु तत्तज्जाम्बानदैः पुनः || २ ||
समाधातव्यमेवाङ्गं न त्याज्यं शैलजेष्वपि |
तद्वदेव समाधानं दारुजादिषु पञ्चसु || ३ ||
हीनाङ्गेषु पुनर्बिम्बसृष्टिः. |
हीनाङ्गेषु तु बिम्बानि हित्वा तानि पुनस्सृजेत् |
अङ्गमात्रसमाधाने सृष्टौ सर्वात्मनापि च || ४ ||
हीनाङ्गानि |
कुम्भे शक्तिं समुद्वास्य निर्माय च यथापुरम् |
अधिवासादिकं सर्वं प्रतिष्ठायामिवाचरेत् || ५ ||
समावाह्य |
समाधियोग्यस्य बिम्बस्य न त्यागः. |
स्थितवत्स्वेषु बिम्बेषु समाधिर्यदि शक्यते |
न त्यागो युज्यते तेषां सर्वेषामेव पद्मज || ६ ||
सर्वेषु |
समाध्यभावे बिम्बस्य नवीकरणम्. |
त्यक्तं च लोहजं बिम्बं द्रावयित्वा पुनस्सृजेत् |
देवीनामविकालानां प्राचीनानामेव योगः. |
देवे जीर्णे पुनस्सृष्टौ देव्यःप्रच्यो यथास्थिताः || ७ ||
ताभिरेव पुनर्देवो योज्यो नान्यास्सृजेत्पुनः |
प्राचीनदेवीयोगे पुनर्नोद्वाहः. |
नोद्वाहश्च पुनः कार्यस्सन्तते तानु पूजने || ८ ||
शक्तिमुद्वास्य प्रभापद्मासनादीनां समीकरणम्. |
प्रभापद्मासनादीनां वैकल्ये चलनेऽपि वा |
आयुधेऽपि च चक्रादौ यष्टव्यो नासमाहिते || ९ ||
उद्वास्य प्रतिमाशक्तिं मूलभेरे घटेऽपि वा |
चक्रादेश्च समाधानं कार्यं तस्मिन् समाहिते || १० ||
संप्रोक्ष्य पूजयेच्चक्तिमावाह्य प्रतिमासु ताम् |
बालालयं कल्पयित्वातत्र शैलादिवस्तुषु || ११ ||
बिम्बे तु शक्तिमावाह्य जीर्णेभ्यः पूजनं हरेः |
त्यक्तस्य बिम्बस्य जले अवटे वा निक्षेपः. |
त्यक्तं च बिम्बं निखनेत् क्षितौ वाम्भसि निक्षिपेत् || १२ ||
प्रासादनवीकरणे भगवतो बालालये स्थापनम्. |
प्रासादे चापि शिथिले पूजयेद्बालवेश्मनि |
उपेतं परिवारैस्स्वैर्देवं मूले यथा तथा || १३ ||
अजीर्णे ध्रुवबेरे अन्यत्र नोद्वासः. |
अजीर्णे ध्रुवबिम्बे तु जीर्ण्टे धामनि तत् स्थितान् |
देवान्देवपरीवारान्मूलबेरे निवेशयेत् || १४ ||
अजीर्णधामनिष्ठानां जीर्णेतु ध्रुवकौतुके |
नोद्वासो न्यत्र कर्तव्यो देवादीनां चतुर्मुख || १५ ||
तथाकरणे दोषः. |
अजीर्णेनाङ्ग हानौ च धामादौ नैव कल्पयेत् |
भूयस्तरो पि मर्त्येन व्यामोहाद्यदि कल्पयेत् || १६ ||
हीने |
भवेन्मर्त्यो |
आत्महानिर्द्ध्रवा तस्य यजमानस्य सान्वया |
प्रमादकल्पितस्य प्रासादादेः परिष्कृत्य सृष्टौ दोषाभावः. |
यदि प्रमाणरहितं प्रमादात्कल्पितं पूरा || १७ ||
सान्वयम् |
प्रासादादि पुनस्सृष्टौ कल्पये ल्लक्षणान्वितम् |
बहुबेरैकबेरेषु जीर्णोद्धारे यथापूर्वकल्पनम्. |
बहुबेरैरबेरेषु कल्पनं स्याद्यथापुरम् || १८ ||
तदाप्योर्ध्वं |
बहुबेरेनैकबेरं नैकबेरे तथा परम् |
देवीविरहितस्य बिम्बस्य पुनस्सृष्टौ देवीयोगो वैकल्पिकः. |
देवीविरहितं पूर्वं बहुबेरं कृतं यदि || १९ ||
भूयः प्रकल्पने तस्य देवीभ्यां सह वा विना |
अमानुषबिम्बादीनां पुनःपरिष्कारेपूर्ववदेव न्यासः. |
अमानुषं च बिम्बादि पूर्वं लक्षणवर्जितम् || २० ||
जीर्णोद्धारेऽपि कर्तव्यं तथैव न तदन्यथा |
तादृशेषु शयनभेरेषु पूर्ववदेव विधिः. |
शयनं वाऽसनं स्थानं यानं वा तद्यथापुरम् || २१ ||
बिम्बस्य पुनरुद्धारस्तथैव स्यादमानुषे |
मानुषे तु विकल्पः. |
मानुषे तु स्थितादीनां बिम्बानामिच्छया भवेत् || २२ ||
पुनस्सृष्टिर्न दोषाय तथा सति चतुर्मुख |
दिव्ये विमानादौ आकारप्रमाणादीवत् उपादान |
द्रव्यमपि सजातीयमेव. |
दिव्यं विमानं यद्वस्तु यन्मानं यादृशं पुरा || २३ ||
तादृगेव पुनस्सृष्टौ नान्यथा तत्प्रकल्पयेत् |
अन्यथा कल्पने दोषो काज्ञो राष्ट्रस्य च ध्रुवम् || २४ ||
आर्षमानुषयोर्विमानयोः उपादानद्रव्यविकल्पः. |
मानुषं सदनं चार्षं चैष्टकं वाथ मृण्मयम् |
जीर्णं पुनस्समुद्धारे शैलेनेष्टकयापि वा || २५ ||
उपपीठादिषु परिवारेषु च कामचारः. |
उपपीठादिकं क्लृप्तं रक्षार्थं वर्धयेद्बहिः |
परिवारांश्च तत्रस्थानुपपीठे च वर्धिते || २६ ||
बन्धयेत् |
स्थापयेन्मूलबेरस्य रक्षार्थत्वान्न दूषणम् |
चलितसालगोपुरादीनां पृद्धिह्रासावैच्छि कौ. |
सालगोपुरपीठादौ चलिते जीर्ण एव वा || २७ ||
दृढं शिलादिभिःकुर्या द्विस्तीर्ण मथ वाऽन्यथा |
सद्यादिवेगेन नष्टानां प्रासादादीनां स्थलान्तरे कल्पनानुज्ञा. |
नद्यादिजलवेगेन चलिते नष्ट एव वा || २८ ||
प्रासादादौ पुनस्थ्साने निर्बाधेऽन्यत्र कल्पयेत् |
प्रथमकल्पनपदेव द्वितीयकल्पनेऽपि मन्त्रः. |
या मूर्तिर्येन मन्त्रेण यादृशेनाधिकारिणा || २९ ||
प्रथमे कल्पने सैव द्वितीये कल्पने भवेत् |
मूर्तिस्सैव च मन्त्रं च स एव स्थापकः पुनः || ३० ||
अपूर्वकल्पने जीर्णोद्धारे च तुल्यफलता. |
अपूर्वकल्पने जीर्णसमुद्धारे द्वयोरपि |
तुल्यं फलं कल्पनायां धामादेर्नास्तिसंशयः || ३१ ||
तन्त्राधिकारिमूर्तीनां व्यत्यासे दोषः. |
तन्त्राधिकारिमूर्तीनां व्यत्यये कल्पने पुनः |
नृणां नरपतेश्चापि राष्ट्रस्य च भवेत् क्षयः || ३२ ||
बहुबेरे प्रतिष्ठायां जीर्णोद्धारेऽयथापुरम् |
जीर्णोद्धारे नयनोन्मीलनादिनि षेधः. |
कर्मार्चां स्थापयेद्वेद्यां शाययेच्चापि मण्टपे || ३३ ||
नाधिवासं जलेकुर्यान्नयनोन्मीलनं तथा |
न तत्वसंहारोत्पादौ सर्वं पूर्ववदाचरेत् || ३४ ||
नाधिवासो जले कार्योन नेत्रो |
सर्वकर्माण्यथा सर्वकर्म सदा |
उद्वासितशक्तेः पुनराधानम्. |
मूलबिम्बं समासाद्य प्राग्वत्सर्वं समाचरेत् |
बालकौतुकमभ्यर्च्य यात्रा मन्यत्र तद्गताम् || ३५ ||
मूर्तिं च |
शक्तिं कुम्भे समावाह्य कुम्भं धान्यस्थितं पुनः |
अभ्यर्च्य समये प्राप्ते मूलबेरे गुरुस्स्वयम् || ३६ ||
शक्तिं निवेशयेच्छास्त्रदृष्टेन विधिना हरौ |
कुम्भतोयावशेषेण परिवारप्रकल्पनम् || ३७ ||
उत्सवं कारयेदन्ते सर्वशान्तिकरो हिसः |
संप्रोक्षण निमित्तानि. |
ब्रह्मा |
संप्रोक्षणनिमित्तं किं प्रकारो वास्य कीदृशः || ३८ ||
कथ्यतां भगवन्मह्यं जिज्ञासा येऽनुवर्तते |
श्रीभगवान् |
प्रासादे चाङ्गभङ्गादिसस्थाने नूतने कृते || ३९ ||
प्रतिमायां च पीठे च प्रभायां चायुधेपि च |
आराधने च विच्छिन्ने मासादौ कमलासन || ४० ||
च समाहिते |
स्पर्शने प्रतिलोमाद्यैर्नित्याशौचविगर्हितैः |
प्रतिलामानुलोमैश्च सूतैश्च रथकारकैः || ४१ ||
वैखानसैश्च संस्पृष्टे भार्गवागमपूजकैः |
शैवादिभिश्च पाषंडैर्ब्रह्महत्यादिदूषितैः || ४२ ||
क्षय्यपस्मारिकुष्ठ्याद्यैः कृच्छ्रिभिर्मूलरोगिभिः |
उदक्यादिभिरन्यैश्च शिल्पिभिस्स्पर्शदूषिते || ४३ ||
विण्मुत्ररुधिरापेयस्पर्शदोषे च मन्दिरे |
जनने मरणे चैव श्वसृगाल खराधिभिः || ४४ ||
शवादिभिः |
स्पृष्टे च बिम्बे तन्त्राणां सङ्करे समुपस्थिते |
एवमादिषु चान्येषु संप्रोक्षणविधिर्भवेत् || ४५ ||
निमित्तेप्यसंप्रोक्षणे अनिष्टनिर्देशः. |
धामादिकमसंप्रोक्ष्य प्रतिमादिकमप्यथ |
अर्चने राष्ट्रमधिपः प्रजाश्च सदनं हरेः || ४६ ||
शून्यं स्यादिरिण प्रायमुपद्रवसमाकुलम् |
दुर्भिक्षव्याधिकलहमृति प्रायास्स्युरीतयः || ४७ ||
तस्मात्संप्रोक्षणं कार्यं धामादीनां यथाविधि |
संप्रोक्षणविधिः. |
विष्णोर्नुकमिति स्वच्छैर्जलैः प्रोक्षण मिष्यते || ४८ ||
अब्लिङ्गैरितरैर्मन्त्रैराचार्यो ब्राह्मणैस्सह |
ध्रुवबेरादिबिम्बानां शोधने क्षालने कृते || ४९ ||
इदं विष्णुरितिप्रायैर्मन्त्रैः परमपावनैः |
स्नपनं च यथाशक्ति कुर्यात् स्नपनपूर्वकम् || ५० ||
द्वारतोरणकुम्भादियजनं तदनन्तरम् |
धान्यपीठे मण्डपस्य मध्यभागे सुशोभिते || ५१ ||
द्वारतोरणकुम्भाधीन् पुजयेत्समनन्तरम् |
स्थापयित्वा महाकुम्बं सूत्रावस्त्रादिवेष्टितम् |
पूर्वोक्तवर्त्मना तस्मिन् परमात्मानमर्चयेत् || ५२ ||
कुण्डे वा स्थण्डिले वापि जुहुयीत्समिदादिभिः |
प्रत्येकमष्टोत्तरशतं शान्तिहोमो यथापुरम् || ५३ ||
बध्नी यात्कौतुकं बिम्बे प्रोक्षयेदपरेऽहनि |
प्रभातसमये प्राप्ते शोभने देशिकोत्तमः || ५४ ||
स्थापितं कुम्भमास्थाय प्रादक्षीण्येन मन्दिरम् |
नीत्वा देवस्य पुरतो धान्यपीठे निवेश्य च || ५५ ||
निवेद्य |
कूर्चेन तोयमादाय कुम्भस्थं मूलविद्यया |
पञ्चोपनिषदैर्मन्त्रैरब्लिङ्गैरितिरैस्तथा || ५६ ||
शान्तिमन्त्राणि समये पठेयुर्वि प्रसत्तमाः |
ब्राह्मणान् भोजयेच्चापि यथाशक्ति च दक्षिणा || ५७ ||
आचार्यदक्षिणा चापि दशनिष्कावरा तदा |
सद्यो वा सकलं कुर्यान्निशि वा दिवसेऽपि वा || ५८ ||
न तिथि र्न च नक्षत्रं कालवेला न विद्यते |
सद्य एव तु कर्तव्य मिति शास्त्रस्य निश्चयः || ५९ ||
Kapitel 18
Lesehilfe: Kapitel 18: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
चर्यापादेअष्टादशोऽध्यायः |
अष्टादशोऽध्यायः |
नित्यनैमित्तिकादिकर्मवैकल्यप्रायश्छित्तविधिः. |
तत्र प्रायश्चित्तनिर्वचनम्. |
ब्रह्मा |
नैमित्तिकानां नित्यानां कर्मणां भगवन् हरे |
आराधनानां वैकल्यं लोपो वा प्रायसंज्ञितम् || १ ||
तस्य चित्तं समाधानमिति निर्वचनक्रिया |
तत्प्रकारप्रश्नः. |
कस्य किं वा समाधानं कः प्रकारोऽस्य कथ्यताम् || २ ||
भगवता तन्निरूपणम्. |
श्रीभगवान् |
अस्नातातिलकानुपवीतार्चने प्रायश्चित्तम्. |
अस्नातोनु पवीतो वा अधृत्वातिलकं तथा |
अर्चयेद्देवदेवेशं प्रयश्चित्तीयते नरः || ३ ||
नुपनीतो वा |
समाधानं मूलमन्त्रशतं जप्त्वा तदर्चनम् |
अकृत्वा पादयोश्शौचमनाचम्यापि वार्चने || ४ ||
पञ्चोपनिषदां जापः प्रयश्चित्तं तदर्चनम् |
नग्नो वा मुक्तकेशो वास्विन्नाङ्गो वा हसन् श्वसन् || ५ ||
कुप्यन्वा प्रलपन्वापि पूजायां तु शतं जपेत् |
शतकृतोऽस्त्रमन्तस्य समाराधनमन्वतः || ६ ||
आस्थिलोमादिस्पर्शे. |
केशास्थिलोमलोष्टादिस्पर्शने नैव निष्क्रिया |
नीलवस्त्रादिधारणे. |
वसानो नीलमलिनक्लिष्टवासोऽपवित्रकः || ७ ||
अर्चयेन्मूलमन्त्रस्य जपस्तस्य प्रतिक्रिया |
स्त्रीसेविनोऽनाप्लुतस्य स्पर्शे. |
गत्वास्त्रियमानाप्लुत्य पूजने स्नापयेद्धरिम् || ८ ||
पञ्चगव्यैस्ततःपञ्चमहोपनिषदां जपः |
विण्मूत्रादिस्पर्शे. |
विण्मूत्ररेतोरुधिरबालादिस्पर्शने सति || ९ ||
अस्नानपूजने देवं स्नापयेत्कुशवारिभिः |
मूलमन्त्रजपश्चोक्तोनिष्क्रिया तस्य कर्मणः || १० ||
रजस्वलावस्त्रस्पृष्टस्पर्शने. |
वस्त्रं रजस्वलायाश्च स्पृष्ट्वा देवार्चने कृते |
पञ्चगर्वैस्स्नापयित्वा पञ्चोपनिषदां जपः || ११ ||
चण्डालचितिचैत्यस्पृष्टस्पर्शे. |
श्वानं रजस्वलां यूपं चण्डालं वेदविक्रयम् |
चितिं च चैत्यभूमिष्ठं वृक्षं स्पृष्ट्वा तदर्चने || १२ ||
नीचचैत्यस्थं |
पञ्चवारुणमन्त्रैश्च स्नापयेत्कुशवारिणा |
काकखरपाषण्डादिसम्पर्के. |
काकपाषण्डपतितप्रतिलोमखरादिकान् || १३ ||
अस्पृश्यमन्यदप्येवं स्पृष्ट्वा प्राग्वत्प्रतिक्रिया |
केशादिदूषितपुष्पार्चने. |
केशादिदोषदुष्टेन पुष्पेणाराधने कृते || १४ ||
मूत्रादि |
क्षीरेण स्नपनं कृत्वा शान्तिहोमः प्रतिक्रिया |
पुरीषादिस्पृष्टजनार्चने. |
पुरीषादिकमाक्रम्य यद्यनाप्लोत्य पूजयेत् || १५ ||
स्नपनं कुशपाथोभिर्जवः प्राग्वत्प्रतिक्रिया |
स्त्य्रनुपनीतबिम्बस्पर्शे. |
स्त्रियो वा नुपनीतो वा स्पृशेद्बिम्बं प्रतिक्रिया || १६ ||
उक्षणं कुशतोयेन मन्त्रेण परिमेष्ठिना |
पूजामध्येनिष्ठीवनसम्भवे. |
आराधने संप्रवृत्ते निष्ठीवादिकमन्तरा || १७ ||
यद्यापतेदाचमनं स्पृशेद्वा दक्षिणं श्रवः |
अकृतमन्त्रन्यासार्चने. |
प्रलयादिक्रमाद्देहमसंशोध्य समाधिना || १८ ||
मन्त्रन्यासमकृत्वा च पूजने पूर्ववज्जपः |
अर्चनं च पुनस्सर्वं कृत्वादेवस्य निष्कृतिः || १९ ||
चण्डालादिसम्पृक्तहविर्निवेदने. |
चण्डालाद्यैरसंस्पृश्यैर्हविस्स्पृष्टं निवेदयेत् |
यदि प्रमादात्स्नपनं कोघृतेन प्रतिक्रिया || २० ||
शान्ति होमश्च कर्तव्य स्तदन्ते कमलासन |
सृगालादिदूषितवस्तुप्रापणे. |
दृष्टं च स्पृष्टवत्तद्वत्सृगालाद्यैश्च दूषितम् || २१ ||
आचाररहितैरन्यैस्तथै वाशुचिवस्तुभिः |
अयाज्ञिकधान्यहविस्समर्पणे. |
अयाज्ञियैःकोद्रवाद्यैर्हविर्भिश्च निवेदने || २२ ||
पूर्ववच्च समाधानं मूलमन्त्रायुतं जपेत् |
शाकमूलफलैर्लेह्यपेयाद्यैश्च विवर्जितैः || २३ ||
स्नपनं शान्तिहोमश्च मूलविद्यजप स्तथा |
अत्युष्णातिशीतहविर्निवेदने. |
अत्युष्णस्यातिशीतस्य हविषश्च निवेदने || २४ ||
निवृत्तिमन्त्रजापश्च विश्वमन्त्रजपः क्रमात् |
शवादिदूषितगेहश्रपितहविःप्रापणे. |
शवादिदूषिते गेहे पक्वस्य हविषस्तथा || २५ ||
सत्वादि |
निवेदनं चेत्स्नपनं शान्ति होमस्तथैव च |
क्रिमिकेशादिदुष्टस्य हविषश्च निवेदने || २६ ||
पौरुषेणैव सूक्तेन कुर्याच्छुद्धाभिषेचनम् |
मुखवायुहतादिवस्तुनिवेदने. |
मुखवायुहताघ्रातं रजस्तुषकणान्वितम् || २७ ||
मृत्पाषाणशकृत्प्राय दूषितस्य निदेदने |
मूलमन्त्रायुतजपस्तद्वत्पर्युषितं यदि || २८ ||
दूषितं च निवेदयेत् |
निवेदितपूर्वनिवेदने. |
निवेदितस्य हविषो भूयो यदि निवेदनम् |
स्नानपूर्वर्चसं मूलमन्त्रस्य जप इष्यते || २९ ||
स्नपनं पूर्वनन्मूल |
निर्माल्योच्छिष्टसमर्पणे. |
निवेदयेच्च निर्माल्यमुच्छिष्टं वा प्रतिक्रिया |
कुम्भैर्द्वादशभिस्स्नानं शान्तिहोयोजन स्तथा || ३० ||
गुर्वाद्यन्यवन्दनावसरहस्तधृतकु सुमहविराद्युपयोजने. |
गुर्वादीन्मनसा वाचा कर्मणा समतःकरे |
स्थितानि हविरादीनि पुष्पादीनि चतुर्मुख || ३१ ||
पूजावस्तून्ययोग्यानि समाराधनकर्मणि |
तैरर्चने पञ्चकुम्भैस्स्नपनं पूर्ववज्जपः || ३२ ||
पूजानस्तूनि योग्यानि नैवाराधनकर्मणि |
भगवत्स्रणआमकाले हस्तधृतानांपुष्पाणां विष्वक्सेने विनियोगः. |
वासुदेवं प्रणमतः पूजावस्तूनि हस्तयोः |
स्थितानि नार्चनार्हणि सेनान्ये तानि निक्षिपेत् || ३३ ||
तादृशपुष्पैरर्चने. |
तैरर्चनं चेत्स्नपनं कलशैस्सप्तभिर्भवेत् |
शान्तिहोमश्च कर्तव्यो मूलमन्त्रजपस्तथा || ३४ ||
मण्डूकमूषकाद्युपहतनिवेदने. |
मण्डूकमूषिकासर्पबिडालाद्यैश्च जन्तुभिः |
क्रिमिकीटपतंगाद्यैःपक्षिभिर्वायसादिभिः || ३५ ||
स्पृष्टं दष्टं हविर्नैप देवार्हं तन्नि वेदने |
स्नपनं कलशैरेव त्रिभिर्होमान्तमर्चयेत् || ३६ ||
मक्षिकाद्युपघाते विशेषः. |
मक्षिकाद्यैश्च संस्पृष्टं प्रोक्ष्य देवाय कल्पयेत् |
भुक्तशेषनिवेदने. |
भुक्तशेषैःप्रमादाद्वालोभाद्वा देवमर्चयेत् || ३७ ||
मूलमन्त्रायुतजपश्शान्तये तस्य कल्पते |
दत्तशेषप्रदानेन तद्वदेव च निष्कृतिः || ३८ ||
पर्युषिताम्बूपहारे. |
स्नाने पर्युषिताम्बोभिः पुनरेपमथाम्बुभिः |
अब्लिङ्गैः पावनै र्मन्त्रैः प्रायश्चित्तं तदुच्यते || ३९ ||
अपर्युषित तीर्थसलिलानि. |
पुण्यतीर्थसरित्तोये न पर्युषितदूषणम् |
समुद्रतो यस्यापर्युषितत्वावधिः. |
समुद्रतोयं दशमात्परं पर्युषितं दिनात् || ४० ||
तिर्यग्योन्यादिलङ्घितपारिणो निषेधः. |
तिर्यग्योनिभिरस्पृश्यैर्मनुष्यैरपि लङ्घितम् |
स्पृष्टं च वारि न स्नानयोग्यं स्नाने च वारुणैः || ४१ ||
स्नानं पुनर्विधातव्यं शान्त्यर्थं तस्य कर्मणः |
अजाश्वादिमुखसंस्पर्शस्य कामचारः. |
अजाश्व मुखसंस्चर्शोन दोषाय कदाचन || ४२ ||
अशुचिद्रव्यसंपृक्तजलस्य निषेधः. |
गोमुखेनैव संस्पृष्टं वर्जनीयं समर्चने |
प्रायश्चित्तं पुनस्स्नानं मूलमन्त्रजपस्तथा || ४३ ||
विण्मूत्ररुधिरापेययुक्तैस्तोयादिवस्तुभिः |
नार्चयेदर्चने स्नानं कलशै रधमाधमौः || ४४ ||
शिवनिर्माल्यसम्पर्के प्रायश्छित्तम्. |
शिवनिर्माल्यदुष्टेन तोयप्रभृतिवस्तुना |
पूजने कलशैस्स्नानमधमैर्मध्यमैर्भवेत् || ४५ ||
शवादिदूषितकूपादिजलाशयसंस्कारः. |
शिवादिदूषिते कूपे जलमुद्धृत्य पूर्वकम् |
सर्वं तदन्ते पुण्याहं वाचयेज्ज्ञलशुद्धये || ४६ ||
पश्वादिमरणे कूपे चण्डालस्नानपानयोः |
तथा रजस्वलाद्यैश्च प्रतिलोमैर्विगर्हिते || ४७ ||
कूपस्थं तज्जलं सर्वमुद्धरेत्कमलासन |
चुचुन्दर्यादिमरणे जलस्यार्धं समुद्धरेत् || ४८ ||
उक्तसंस्कारस्य दिवारात्रभेदेन भेदः. |
दिवा समुद्धरेत्तोयं रात्रौ चेदग्नि सन्निदौ |
उद्धरेदन्यथा तोयैरुपयोगेऽथ वारुणैः || ४९ ||
पञ्चभिर्जुहुयादग्नौ ब्राह्मणानपि भोजयेत् |
पूजाकाले दीपनिर्वाणे प्रायश्चित्तम्. |
पूजाकाले तु दीपस्य निर्वाणेद्विगुणार्चनम् || ५० ||
दीपमुद्दीप्य जप्तप्यो विश्वमन्त्रश्शतावरः |
आकस्मिकनिर्वाणे दोषाभावः. |
अकस्मादेव निर्वाणे शान्तिर्नैव त्वहेतुके || ५१ ||
अनिर्वाणदीपनिर्वाणे प्रायश्चित्तम्. |
अनिर्वाणस्य निर्वाणे दीपस्य स्नपनं हरेः |
क्षीरेण मूलमन्त्रस्य जपश्चाष्टोत्तरं शतम् || ५२ ||
दीपयोग्यतैलम्. |
सर्पिषा तिलतैलेन दीपारोपणमाचरेत् |
निषिद्धतैलनिरूपणम्. |
नान्यैरेरण्डतैलाद्यैर्नाजाविमहिषादिजैः || ५३ ||
स्नेहैरारोपणं कार्यं न च प्राण्यङ्गमम्भवैः |
प्रमादात्फलजैस्तैलैस्स्न पने दीपने हविः || ५४ ||
बविर्निवेदने. इतिवक्तव्येविग्रहः छान्दसः |
निवेदने च होमे च स्नेहौरन्यैश्च निन्दितैः |
तादृशतैलयोगे प्रायश्छित्तम्. |
अनुष्ठाने कृते कुम्भै स्स्नापयेन्मध्यमोत्तमैः || ५५ ||
शान्तिहोमस्तथा दानं द्विजेभ्यो भोजनं तथा |
निषैद्धदधिक्षीरादि. |
अजप्रभृतिदध्याद्यैस्स्नानादौ विहिते सति || ५६ ||
अजप्रभृतिपश्वाद्यैःहविः प्रभृतिदध्याद्यै |
प्रायश्चित्तं यथापूर्वमाचरेत्कसुलासन |
क्लृप्तोपकरणन्यूनीभावे विधिः. |
पूर्वोपचारक्लृप्तौ तु न्यूनायां क्लृप्तवस्तुभिः || ५७ ||
वस्तुभिर्द्विगुणैर्भूयस्पमाराध्य मधुद्विषम् |
सर्पिषाष्टोत्तरशतं जुहुयान्मूलविद्यया || ५८ ||
मन्त्रक्रियादिहानौ विधिः. |
मन्त्रहानौ क्रियाहानौ मुद्राहानौ तथैव च |
जपहानौ ध्यानहानौ हीनेष्वन्येषु केषु चित् || ५९ ||
मूलमस्त्रजपस्तस्य यथाशक्ति प्रतिक्रिया |
गेयवादित्रनृत्तेषु पूर्वक्लृप्तेषु पूजने || ६० ||
जपक्रिया |
हीनेकस्मिंश्चिदाराध्यो हरिस्स्नपनवर्त्मना |
वाद्यनृत्तादिहानौ शान्तिः. |
वाद्यहानौ तु पयसा नृत्तहानौ घृतेन तु || ६१ ||
गेयहानौ तु मधुना जुहुयात्पूर्वसङ्ख्यया |
पूर्वक्लृप्तोपदं शादिहानौ द्विगुणवस्तुभिः || ६२ ||
निवेदयेत्स्नानपूर्वं कालाति क्रमणेपि च |
भोगद्रव्यैर्द्विगुणितै राराध्य क्षम्यतामिति || ६३ ||
क्रमणेन च |
सन्ध्याकालातिक्रमे. |
उच्चारयेत्तथा सन्थ्यातिक्रान्तौ द्वाद शेष्वपि |
अधिककालपूजाहानौ. |
कालेषु क्लृप्तङ्ख्येषु हानौ कालस्य कस्य चित् || ६४ ||
द्विगुणैर्वस्तुभिः पूज्यः कालेषु च यथोत्तरम् |
कालं प्रथममारभ्य द्विगुणैस्त्रिगुणै स्तथा || ६५ ||
चतुर्गुणैः पञ्चगुणैरेवमाद्यैस्तु वस्तुभिः |
पूजयेज्जप होमाद्यैस्तद्वदेव यथायथम् || ६६ ||
होमान्तम् |
अतिक्रान्ते दिनविदौ विधिरेषप्रकीर्तितः |
द्विदिनादौ तु पक्षान्ते पूजाहिने घटैस्तथा || ६७ ||
अधमोत्तममार्गेण स्नापयेत्तस्य शान्तये |
मासे च पूजाविकले मध्यमोत्तमवर्त्मना || ६८ ||
तिलाज्यचरुभिश्चैव जुहुयान्मूलविद्यया |
वर्षाधिककालपूजालोपे पुनःप्रतिष्ठा. |
संवत्सरत्रयादर्वाङ्मासादूर्ध्वमनर्चिते || ६९ ||
संप्रोक्षणं भवेदूर्ध्वं प्रतिष्ठाविधिरुच्यते |
भूगुप्तगृहर्चाविधिः. |
भूगुप्तामपि चैकाहमुद्धृत्य प्रतिमां पुनः || ७० ||
संप्रोक्षयेद्गृहार्चायामाराधनविरोपने |
स्नपनं पंचगव्येन सूक्तेन पुरुषात्मना || ७१ ||
शान्तये जुहुयादग्नौ ब्राह्मणानपि तर्पयेत् |
मासादूर्ध्वं तु षण्मासं पूजाहीने चतुर्मुख || ७२ ||
कुम्भैष्षोडशभिस्स्नानं सूक्तेन पुरुषात्मना |
भोजयेद्ब्राह्मणानग्नौ जुहुयाच्छान्तये पुनः || ७३ ||
ऊर्ध्वं संप्रक्षणं कार्यं यावत्संवत्सरावधि |
प्रतिष्ठाविधिरूर्ध्वं तु वत्सरादुक्तवर्त्मना || ७४ ||
देवस्थापि तेषु पूजालोपे विधिः. |
त्रिदशादिप्रतिष्ठायां पूजालोपे न दूषणम् |
प्रयश्चित्तं तु मर्त्यानां प्रतिष्ठायामुदीरितम् || ७५ ||
सालिग्रावपूजालोपे शान्त्यभावः. |
सालिग्रावशिलादीनां पूजालोपो न दूषणम् |
तथैपाशुछिसंस्पर्शे क्षालयित्वार्चयेत्पुनः || ७६ ||
सर्वधा लोपने शान्तिर्नोक्तकालाश्रयो भवेत् |
अज्ञानादधवा ज्ञानाद्वह्नितर्पण वर्जिते || ७७ ||
नर्जिने |
अनेककालपूजालोपे विधिः. |
पंचोपनिषदैर्मन्त्रेस्सर्पिषा जुहुयाच्छतम् |
एकादिकालातिक्रान्तौ द्विगुणादि यथापुरम् || ७८ ||
बहुभिःकलशैर्देवं स्नापयेद्दिवसात्परम् |
मासावधि तदूर्ध्वं तु कलशैर्वत्सरावधि || ७९ ||
अष्टोत्तरशतैःकुर्यात्स्नपनं जुहुयात्पुनः |
अष्टोत्तरसहस्रेण तिलाज्यचरुभिः क्रमात् || ८० ||
पृथक् |
द्वादशाक्षरमन्त्रेण शान्तिहोमस्तदा भवेत् |
वत्सरादुपरिष्टात्तु स्नपनं मध्यमोत्तमम् || ८१ ||
कुण्डे चाग्निं स्थापयित्वातिलव्रीहियवैरपि |
लाजैश्च कालपुष्पैश्च समिच्चरुघृतैरपि || ८२ ||
अष्टोत्तरसहस्रेण जुहुयान्मूलविद्यया |
शान्तिहोमस्तथा दानं विप्राणां चापि भोजनम् || ८३ ||
सत्यग्नावप्यहोमे तु प्रायश्चित्तमितीरितम् |
अग्नौशान्तेमथित्वाग्निं शान्तिहोमं समाचरेत् || ८४ ||
पंचोपनिषदैर्मन्त्रेर्व्याहृतिप्रमुखै रपि |
गुपरिस्तीर्य च कुशैर्होमःप्रणवविद्यया || ८५ ||
अष्टोत्तरशतेनाज्यैर्मूलमन्त्रजपस्तथा |
अयथोक्तक्रमे तद्वत्प्रायश्चित्तं विधीयते || ८६ ||
काम्ये परिधमो नेषा नित्ये कर्मणि वान वा |
अलाभे समिधामज्यैश्चरुभिर्वाहुतिर्भवेत् || ८७ ||
ष्टानि नित्यकर्माणि. नित्यं कर्माणि |
तयोरलाभे बीजैर्वा समिद्भिर्वा यथोदितैः |
अग्निकुण्डस्याशुचिसंपर्केशान्तिः. |
अग्नौ केशादिभि स्स्पृष्टे अस्पृश्यस्पर्शने तथा || ८८ ||
र्जुष्टे |
होमो व्याहृतिभिः कार्यो वारानष्टोत्तरं शतम् |
आयुतं पुष्पवत्यादिस्पर्शे मथनजेऽनले || ८९ ||
पाकस्थानाशुचित्वशान्तिः. |
पाकस्थाने चुल्लिस्पर्शे नरैः पुर्वोदितैस्तथा |
श्वादिभिस्स्थानमालिप्य गोमयेन महानसम् || ९० ||
आनीयाग्न्यन्तरं चुल्यां पुण्याहं वाचयेद्ध्विजैः |
विण्मूत्राद्यैस्तथास्पर्शे पूर्ववच्छुद्धिरिष्यते || ९१ ||
पक्वेन चुल्यां दुष्टायां हविषां च निवेदने |
स्नापयेन्नवभिःकुम्भैर्देवं वाथ घटैस्त्रिभिः || ९२ ||
पक्वस्य |
परिवारार्चनलोपे. |
परिवारार्चने च्छिन्ने तत्तन्नामान्युदीरयन् |
सर्पिषा जुहुयादग्नौ प्रत्येकं त्वष्टसङ्ख्यया || ९३ ||
बल्यर्थहविषो दोषे. |
द्विगुणाद्यैर्द्विकालादौ बल्यर्थं च हविर्यदि |
दूषितं केशकीटाद्यैरस्पृश्यैर्मनुजैस्तथा || ९४ ||
काकादिभिश्च तत्त्यक्त्वाहविषान्येन कर्मतत् |
यदि दुष्टेन हविषा बलिं दद्यात्प्रमादतः || ९५ ||
शान्तिहोमस्तदा कार्यश्शास्त्रदृष्टेन वर्तना |
तण्डुलादिदूषणे बलिद्रव्यादिपाते. |
तण्डुले चोदने पुष्पे बल्यर्थे पात्रसंभृते || ९६ ||
देवे चावाहिते तस्मिन् पूर्ववद्दूषणं यदि |
पतिते वा बलिद्रव्ये मूलभेरेऽथवात्मनि || ९७ ||
देवतावाह्यते तस्मिन् |
बलिबेरेऽथवर्त्मनि |
उद्वास्य देवमानीय द्रव्यान्तरमदूषितम् |
तस्मिन्नावाह्य देवेशं यथापूर्वं पुनर्नयेत् || ९८ ||
तद्दोषशान्तये पश्चाद्दध्ना क्षीरेण वा हरिम् |
स्नापयेज्जुहुयाच्छान्तिं मूलमन्त्रजपस्तथा || ९९ ||
बलिबेरस्य पतने. |
बलि बेरे निपतिते यनादावुत्सवे बहिः |
स्थापयित्वा यथापूर्वं बलिशेषं नयेत्पुनः || १०० ||
बिम्बे |
बिम्बं शेषं |
शास्तये नवभिः कुम्भैस्स्नापयेत्पतिते भुवि |
अधमाधममार्गेण शान्तिहोमो जपस्तथा || १०१ ||
रज्वसलादिदूषितभूसंस्कारः. |
नृत्तगेयरता नार्यो गणिकाश्चाथवेतराः |
देवदास्यो दूषयेयू रजोभिः पृथिवीतलम् || १०२ ||
गाणिक्यमथ |
रजस्वलारजोदुष्टं भूतलं जानुमात्रकम् |
खात्वा च मृद्भिरन्याभिः पूरयित्वा महीतलम् || १०३ ||
आलिप्य गोमयांबोभिः पुण्याहं वाचयेत्ततः |
प्रोक्षणं पंचभिर्गव्यैस्सन्निकृष्टं च कौतुकम् || १०४ ||
अधमोत्तममार्गेण कलशैस्स्नापयेद्गुरुः |
तिलाज्यचरुभिर्होमः प्रत्येकं मूलविद्यया || १०५ ||
सहन्रकृत्वस्तदनु शान्तिहोमो जपस्तथा |
कवाटदोषे शुद्धिः. |
कवाटादिकमप्यन्यत्स्पृष्टं प्रक्षाल्यमम्भसा || १०६ ||
तासां च मार्गास्संशोध्या गोमयाम्भोबिरुक्षणैः |
चोरभूतैर्ब्राह्मणाद्यैः स्पष्टे बेरेऽप्यचोदितैः || १०७ ||
चोरस्पर्शे. |
चोरस्पर्शनिमित्तं तु स्नपनं कलशैर्हरेः |
वर्णानामानुपूर्व्येण त्वथमाधमपद्धतिम् || १०८ ||
आरभ्य गणितैः कुर्यात्सङ्करैरपि तद्भवेत् |
बीजप्रयुक्तकलशैस्स्नपनं शान्तये भवेत् || १०९ ||
शान्तिहोमो ब्राह्मणानां भोजनं दानमेव च |
अज्ञातजातिजनस्पर्शे. |
अज्ञातजातिसंस्पर्शे स्नापयेदुत्तमोत्तमैः || ११० ||
शान्तिहोमो द्विजेन्द्राणां भोजनं दानमेव च |
त्रिवस्तुकं मृण्मयं च लेपबिम्बं च भित्तिजम् || १११ ||
तोषणम् |
चित्रं नीचैर्यदि स्पृष्टं चण्डालाद्यै र्विगर्हितैः |
नवीकरणमास्थेयं संप्रोक्षणविधि स्तथा || ११२ ||
स्तथा परैः |
र्भवेत् |
प्रतिष्ठा वा यथावित्तं दोषभूयस्तयाथ वा |
पटस्पर्शे क्षालयित्वा यथापूर्वं पुसस्सृजेत् || ११३ ||
अन्यशास्त्रदीक्षितस्पर्शे. |
दीक्षितैरन्यशास्त्रेषु स्पृष्टे स्नपनमाचरेत् |
दीक्षितैरितरैश्चापि शूद्रैस्तद्वत्समाचरेत् || ११४ ||
महापातक्यादिस्पर्शे. |
महापातकिसंस्पर्शे स्नपनं चोत्तमोत्तमम् |
उपपादकि संस्पृष्टे स्नपनं चाधमोत्तमम् || ११५ ||
परस्त्रीगमनासक्तैस्तथाऽनियतवृत्तिभिः |
स्पर्शे च नवभिःकुम्भैस्स्नपनं कौतुके भवेत् || ११६ ||
अस्पृश्यैरितरैर्वापि कुण्डादिस्सर्शने सति |
स्नपनं पूर्ववत्कार्यं स्त्रीभिर्दुष्टाभिरेव च || ११७ ||
अनुलोमास्त्रियश्शूद्रा व्रजेयुर्गर्भमन्दिरम् |
भूतलं पञ्चगव्येन सिञ्चेद्वा गोमयाम्बभिः || ११८ ||
चण्डालैःपुल्कसैर्वापि तपितैर्मद्यपै स्तथा |
श्वपचैर्मन्दिराभ्यन्तः प्रवेशे मृण्मयांस्त्यजेत् || ११९ ||
तत्रस्थान् क्षालयित्वान्तः कवाटादिमहीतलम् |
आलिप्य गोमयोम्भोभिः पुण्याहमपि वाचयेत् || १२० ||
पुण्याहं वाचयेज्जलैः |
प्रतिमाश्चापि तत्रस्था स्स्नापयेत्कलशैर्गुरुः |
शान्तिहोमो जपश्चैव द्विजानां दानभोजने || १२१ ||
अशौचवत्प्रवेशे च पूर्ववद्विधिरिष्यते |
चण्डालश्श्वपचो वापि तादृशाःपुल्कसादयः || १२२ ||
अज्ञानाद्गर्भगेहेतु कर्मस्वधिकृता यदि |
वसेयुश्चैव तैस्सार्धं भोज्यं वा वस्तु तादृशम् || १२३ ||
स्पृष्टमाराधनाङ्गं चेत्स्पृष्टं वा कौतुकं यदि |
क्रियासमभिहारेण प्रायश्चित्तमिहोच्यते || १२४ ||
शोधयेन्मन्दिरं पूर्वं गोमयालेपनादिभिः |
पुण्याहं वाचयित्वाथ ब्राह्मणांस्तत्र भोजयेत् || १२५ ||
स्वाध्यायं परिकुर्वीरन् ब्राह्मणा वेदपारगाः |
इतिहासपुराणानि पठेयुश्च दिवानिशम् || १२६ ||
कपिलाश्च प्रदेशेषु तत्र तत्राधिपासयेत् |
एवं मासादिकालेषु दोषगौरवराघवम् || १२७ ||
अवेक्ष्य शोधिते धाम्नि ब्राह्मणांस्तोषयेद्धनैः |
प्रतिमानां यथायोगमुद्धारो वा नवीकृते || १२८ ||
कुर्यात्ततो यथापूर्वं निमित्ते वा नवीकृते |
प्रतिष्ठाप्य यथाशास्त्रं स्नापयेत्कलशैरधि || १२९ ||
उद्धारो वा |
सहस्रेण पूरावृत्तदोषाणामपनुत्तये |
अन्तेमहोत्सवःकार्योन चेद्राष्ट्रानृपक्षयः || १३० ||
शिलाबिम्बस्य चालननिषेधः. |
बिम्बं न चालयेच्छैलं न नवीकरणं तथा |
तथैव दिव्यमार्षं च स्वयं व्यक्तं च कौतुकम् || १३१ ||
मागधश्वापदादिस्पर्शे शान्तिः. |
तथान्यैर्मागधाद्यैश्च प्रतिलोमैश्च गर्हितैः |
सहस्रकलशैर्देवं स्नापयेत्तस्य शान्तये || १३२ ||
श्वापदैश्च सृगालाद्यैश्छण्डालाद्यैश्च गर्हितैः |
प्रथमादि प्रविष्टं चेद्धामावरणभूतलम् || १३३ ||
प्रोक्षयेत्पञ्च गव्येन पुण्याहमपि वा चयेत् |
धामस्पर्शे तथान्यस्य बलिपीठादि कस्य च || १३४ ||
कर्मच |
स्पर्शेकृत्वा यथापूर्वं शान्तिहोमं समाचरेत् |
आगन्तुकैः कुक्कुटाद्यैस्स्पृष्टं चेद्धाम सर्वतः || १३५ ||
प्रोक्षयेन्म्रपूतेन वारिणा शान्तिमाचरेत् |
देवान् संस्नापये च्चैव प्रथमावरणादिगान् || १३६ ||
देवं प्रथमानरणादिषु |
खद्योतसंपर्के. |
सर्पिश्चरुतिलैर्होमो मूलेनाष्टोत्तरं शतम् |
खद्योतस्पर्शने देवं स्नापयेन्नवभिर्घटैः || १३७ ||
पूजाकाले कवाटबन्धने. |
पूजाकाले कवाटस्य बन्धनं चेदसङ्कुले |
अष्टोत्तरशतं मूलमन्त्रस्य जप इष्यते || १३८ ||
तत्रापवादः. |
सङ्कुले बन्धनं नैव दोषाय भवति क्वचित् |
बिम्बवदेव प्रभापीठादिषु दोषः. |
प्रभापीठास्त्रसंस्पर्शे बिम्बस्पर्शवदिष्यते || १३९ ||
बन्धने |
आचार्याःपूजकाश्चान्ये तथैव परिचारकाः |
आसनेष्वासिकां भुक्तिं शयनं च यथातथम् || १४० ||
कुर्युः कर्मण्यधिकृता दोषा नैव तदा भवेत् |
अनधिकारिप्रसङ्गे शान्ति. |
अन्ये चेत्कुर्युरवनिं प्रोक्षयेद्गोमयाम्बुभिः || १४१ ||
प्राकारादीनामग्नि दाहे. |
प्राकारे मण्टपे धाम्नि गोपुरे पाकवेश्मनि |
दग्धेऽग्निना समाधाय पूर्ववन्मण्टपादिकम् || १४२ ||
प्रतिष्ठाप्य यथापूर्वं ततः शान्तिं समाचरेत् |
अधमोत्तममार्गेण स्नपनं शान्तिदं भवेत् || १४३ ||
शान्तिहोमस्तु कर्तव्योद्विजानां दानभोजने |
प्रतिमादहने चापि समाधाय यथापुरम् || १४४ ||
स्नासं सहस्रकलशैः प्रतिष्ठाप्य यथाविधि |
वस्त्रादिदहने तस्याः प्रभादिदहने तथा || १४५ ||
नवभिःकलशैस्स्नानं होमादि तदनन्तरम् |
सुदर्शनादीनामग्निदाहे. |
सुदर्शनेऽग्निना दग्धे स्नानं नवघटैर्भवेत् || १४६ ||
ध्वजे विताने छत्रे च दग्धेचास्तरणादिके |
पुनरुत्पाद्य तत्सर्वं शान्तिहोमादिकं भवेत् || १४७ ||
प्राकारादीनां वृद्धिस्थानादिनिर्देशः. |
प्रासादाद्यवकाशानां वृद्धिश्चेत्सर्वतो भवेत् |
यद्वा प्राच्यामुदीच्यां वा वृद्धिर्नान्यत्र शोभना || १४८ ||
निषिद्धदिशि वृद्धौ शान्तिः. |
दक्षिणापरवृद्धिश्चेत्स्नपनं चोत्तमोत्तमम् |
शान्तिहोमो द्विजेन्द्राणां तर्पणं भोजनादिभिः || १४९ ||
उपपीठस्य कामचारः. |
शोभना सर्वतो वृद्धि रुपपीठस्य चेष्यते |
प्रथमावरणं यावत् दोषस्स्याद्देवनिर्मिते || १५० ||
मुपनीतस्य |
नवीकरणे पूर्ववदेव चिह्नानि. |
वर्धितं यदि पूर्वोक्तंस्नपनं शान्तिदं भवेत् |
नह्रासयेत्पुराक्लृप्तं धामादि न च चालयेत् || १५१ ||
पौराणिकं शिरः पीठं धामचिह्नं च वैष्णवम् |
नोद्धृत्य पूरयित्वावा न वृद्धिर्गोपुरादिषु || १५२ ||
पूजयित्वा |
अल्पीयः प्राग्विमानादि दिव्यवर्गं धनैः पुनः |
वर्धयेच्छ्रद्धया मुख्यैर्द्रव्यैरर्चांनयेद्गुरुः || १५३ ||
Kapitel 19
Lesehilfe: Kapitel 19: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
एकोनविंशोऽध्यायः |
उत्सवप्रायश्चित्तविधिः. |
नित्यनैमित्तिकसम्पाते कर्तव्यक्रमः. |
नित्यं नैमित्तिकं काम्यं निपतेद्युगपद्यदि |
श्रीभगवान् |
कृत्वानैमित्तिकं नित्यमाचार्य स्तदनन्तरम् || १ ||
गृहार्चास्नपने निमित्तानुसारेण स्थलम्. |
गृहार्चास्नपने प्राप्ते विस्तारे सति वेश्मनि |
तत्रैव स्नपनं कार्यं सङ्कटे तु बहिर्भवेत् || २ ||
अलयबिम्बस्य बहिस्स्नपननिषेधः. |
पर्वतादौ शुचौ देशे प्रपानिर्माणपूर्वकम् |
स्नपनं देवदेवस्य कार्यं भागवतेन तत् || ३ ||
आलये स्थापितं बिम्बं न कदाचिच्चतुर्मुख |
निर्गमय्य बहिस्स्नाप्य मन्तरेण तु सर्वदा || ४ ||
स्थापयेत् |
तीर्थावभृथादावनुज्ञा. |
तीर्थावधृथवेऌआयां सद्यादीनां तटे भवेत् |
अन्यथा चेच्छान्तिहोमं कुर्यात्सर्वसमृद्धिदम् || ५ ||
स्नपनाङ्गवैकल्ये प्रायश्चित्तम्. |
अङ्कुरार्पणहीने च स्नपने कौतुकेऽन्विते |
अधिवासविहीने च कलशैस्स्नपने सति || ६ ||
कौतुकोज्झिते |
शान्तिहोमो विधातव्य स्सर्वदोषापनुत्तये |
सङ्कल्पितस्नानहानौ द्विगुणं स्नपनं भवेत् || ७ ||
अकृते राजराष्ट्रस्य भवेद्विभवसङ्क्षयः |
यजमानस्य धाम्नश्च प्रजानां च धनक्षयः || ८ ||
स्नपनकालविपर्यये. |
अकाले तु कृते स्नाने विषुवादौ यथोदिते |
शान्तिः कार्ययने चैव दक्षिणे प्रागुपक्रमः || ९ ||
उत्तरे चैव पाश्चात्ये उत्तमं नैव दूषणम् |
चैत्रे च विषुवे तद्वत्क्रमादाश्वयुजेऽपि च || १० ||
उपक्रमण |
स्नपनकलशानां विकारे. |
स्थापितानां च कुम्भानां भेदने पतने तथा |
कालादिदोषदुष्टे च क्रिमिकेशादिदूषिते || ११ ||
च्छेदने |
लङ्घितेऽशुचिसंस्पृष्टे वायसाद्यैश्छ दूषिते |
गर्हिते श्वापदाद्यैश्च स्पृष्टे चाशुचिभिस्तथा || १२ ||
व्याघ्राद्यैश्चैन |
पाषण्डैः प्रतिलोमैश्च तथोदक्यादिदूषिते |
कलशं तं तमुद्धृत्य स्थापयित्वा परान् पुनः || १३ ||
तद्दैवत्यान् जपेन्मन्त्रा नष्टोत्तरशतावरम् |
स्नपनं यदि तैःकुर्याच्छान्तिहोमं समाचरेत् || १४ ||
अक्रमकलशाभिषेके. |
अक्रमेण समुद्धृत्य स्नपने विहिते सति |
जपःपञ्चोपनिषदां कर्तव्यस्तत्समाचरेत् || १५ ||
देवतामन्त्रादिव्यत्यये. |
देवतामन्त्रभूभागद्रव्याणां व्यत्यये सति |
पूर्ववन्मन्त्रजापस्स्यात्प्रतिद्रव्यमनर्चिते || १६ ||
अर्घ्यादिभिर्जपस्तद्वन्महिषाजोष्ट्रसम्भवैः |
क्षीरादिभिस्तथा द्रव्यै स्स्नपने स्नापयेत्पुनः || १७ ||
समद्भिर्मूलमन्त्रेण जुहुयात्कमलासन |
अद्भिःपर्युषिताभिश्चेत्स्नपनं स्नापयेत्पुनः || १८ ||
शान्तिहोमो मूलविद्या जपश्चाष्टोत्तरं शतम् |
आराधनाङ्गवैकल्ये. |
आराधनाङ्गवैकल्ये नृत्तवाद्यादिभि स्सह || १९ ||
जपश्चाष्टोत्तरानरः |
स्सति |
शान्तिहोमो भवेद्वेद्यां स्नपने चलने सति |
प्रतिमापतने तद्वत्प्रायश्चित्तं चतुर्मुख || २० ||
स्नपने वर्तमाने तु चरने पतनेऽपि वा |
यथापूर्वमवस्थाप्य स्नापयित्वा यथीविधि || २१ ||
स्नपने इति श्लोकद्वयं भङ्गे तुपुनः || इतिश्लोकादानन्तरं क्वचित्कोशे दृश्यते |
शान्तिहोमश्च कर्तव्यः पीठादीनां च भञ्ङने |
सहजानां तथा हस्तपादादीनां चतुर्मुख || २२ ||
बन्धने |
भङ्गेतु तेषामावाह्य कूर्चादौ तद्गतं हरिम् |
क्रियां समापयेद्भ ग्नां प्रभापीठादिकं पुनः || २३ ||
भग्ने |
समाधाय यथापूर्वं संप्रोक्षणविधिर्भवेत् |
वस्तुषु स्नपनाङ्गेषु आधिक्यं हानिरेव वा || २४ ||
यदि स्यान्मूलमन्त्रास्य जपश्चाष्टोत्तरावरः |
फलार्थिभेदेन स्नपनकालभेदः. |
मोक्षमाणस्सदा कुर्यात्स्नपनं निशि वाऽहनि || २५ ||
रिपुक्षयार्थीदिवसे धर्मार्थी दिनमध्यमे |
दिनान्ते सर्वभोगार्थी प्राय श्चित्ताय सर्वदा || २६ ||
मोक्षार्थी |
श्चित्तं तु |
स्नपनद्वयसम्पाते प्रतिसरादिनिषेधः. |
बद्धप्रतिसरे बिम्बे स्नपनार्थं तु मन्त्रिणा |
स्नपनान्तरसं प्राप्तौ न च प्रतिसरान्तरम् || २७ ||
मण्डूकादिभिः कलशदूषणे |
मण्डूकमूषिकासर्पचुचुन्दर्यादिजन्तुभिः |
स्पृष्टे विलङ्घिते नष्टे स्थापिते कलशे तथा || २८ ||
त्यक्त्वान्यं तु तथा कृत्वा मूलमन्त्रं जपेद्गुरुः |
स्थापितं कलशं तद्वत्पाषण्डैः प्रतिलोमजैः || २९ ||
आशौचिभिः कलशस्पर्शे |
आशौचवद्भिरपरैःकलश स्पर्शने सति |
सद्रव्यं कलशं त्यक्त्वा तथान्यं तत्र निक्षिपेत् || ३० ||
स्नपने सति |
वाचयित्वाथ पुण्याहं शान्तिहोमं समाचरेत् |
बद्धे प्रतिसरे आशौचाभावः. |
कर्मणिस्नपनादौ तु प्रवृत्ते देशिकोत्तमः || ३१ ||
सूतकं मरणाशौचं शृणुयान्नाशुचिर्भवेत् |
विमानस्थापनाहीनस्थले उत्सवकरणे |
उत्सवे तु यथाशात्रचोदिते स्खलने सति || ३२ ||
सूतकाशौचमाशौचम् शृणुयाद्वा |
शान्तिस्तथोच्यते ब्रह्मन्निदानीमवधार्यताम् |
विमानस्थापनाहीने न कुर्यदुत्सवं हरेः || ३३ ||
ब्रह्मं स्तदेतदव |
कुर्याद्वा ध्वजमुद्धृत्य उत्सवं च क्रमेण वा |
वायवीये धामकोणे विधिना शान्तिमाचरेत् || ३४ ||
गरुडं चाक्रमेन वा |
विमाने |
संवत्सरान्तं तत्रैव ध्वजयष्टेः स्थितिर्भवेत् |
नित्योत्सवरहित स्थलोत्सवकरणे |
हीननित्योत्सवे धाम्नि ध्वजारोहणपूर्वकम् || ३५ ||
नोत्सवं कारये त्काम्यं कारिते शान्तिमाचरेत् |
ध्वजदोषसम्पाते. |
प्रमाणहीने पक्षीन्द्रे ध्वजे स्तम्भादिकेऽपि वा || ३६ ||
त्कर्मकारिते |
शान्तिःकार्य तथा हीने मूषिकाद्यैश्च दूषिते |
अशुचिद्रव्यसंस्पर्शे त्यक्त्वा कोप्यध्वजान्तरम् || ३७ ||
शान्तिं कुर्यात्तथा नित्यं |
शान्तिहोमश्च कर्तव्यो ब्राह्मणानां च भोजनम् |
ध्वजारोहण कर्माङ्गं ध्वजं वा स्तम्भमेव वा || ३८ ||
कर्माङ्गध्वजम् |
सकृन्नियुक्तं त्यक्तव्यं ध्वजयुष्टिं तु न त्यजेत् |
सकृन्नियुक्तेस्तम्भादौ भूयोऽपि विनियोजिते || ३९ ||
प्रायश्चित्तं तु तत्र स्यात्स्नपनं चोत्तमोत्तमम् |
शान्तिहोमश्च कर्तव्यो ब्राह्मणानां च भोजनम् || ४० ||
स्थापिते विहगेशानध्वजे वातातपादिभिः |
वर्णहानौ न दोषस्या त्समाराधनमिष्यते || ४१ ||
विगगेशाने ध्वजे वातादिपातिते |
पतिते वातवेगेन हेतुना येन केन चित् |
उद्धृत्य बध्वा भूयोपि स्नपनं मध्यमोत्तमम् || ४२ ||
वर्णहानौ तथा भिन्ने ध्वजे च्छिन्नेऽपि वा क्वचित् |
ध्वजान्तरं समुत्पाद्यत्यक्त्वा निपतितं ध्वजम् || ४३ ||
यष्टिं वाकल्प्यमेवास्यं न तु कालप्रतीक्षणम् |
विपरीतं ध्वजपटं प्रमादाद्यदिबन्धयेत् || ४४ ||
तन्मोचयित्वा यद्वान्यं बध्वास्नपनमाचरेत् |
ध्वजस्तम्भे तथा भिन्ने भग्ने वा सुषिरेऽपि वा || ४५ ||
स्तम्भान्त रमपस्थाप्य शान्तिस्स्नपनपूर्विका |
पतने भ्रमणे वापि पतिते वा यदृच्छया || ४६ ||
रं स्थापयत्वा |
कम्पने |
शान्तिहोमो भवेत्प्राग्वन्मूलमन्त्रजपस्तथा |
पक्षीशाधिष्ठिते कुम्भे भिन्ने नष्टेऽथ वा तथा || ४७ ||
अस्पृश्यैः प्राणिभिः स्पृष्टे स्थाप्य कुम्भान्तरं पुनः |
आवाह्य तत्र विहगं कर्मशेषं समापयेत् || ४८ ||
ध्वजस्तम्भे च संस्पृष्टे चण्डालाद्यैर्विगर्हितैः |
स्तम्भान्तरमवस्थाप्य शान्तिहोमं समाचरेत् || ४९ ||
सूतकैः प्रेतकैश्चैव प्रतिलोमै सथाविधैः |
स्पृष्टे प्रोक्ष्य ध्वजस्तम्भं पुण्याहोक्तिपुरस्सरम् || ५० ||
सकृन्नियोजितं त्यक्त्वामृण्मयं पालिकादिकम् |
अङ्कुरानर्पयेन्नूचेत् शान्तिहोमादिकं चरेत् || ५१ ||
भवेत् |
अङ्कुरविकारे वल्मीकप्ररोहादै च विधिः. |
अङ्कुरेष्वपि रक्तेषु श्यामवर्णयुतेषु वा |
अप्ररूढेषु सर्वेषु तथा तिर्यग्गतेषु च || ५२ ||
अप्ररूढेषु इत्यादिश्लोकार्धं क्वचिन्न |
अस्पृश्यस्पर्शने तेषां भिन्नच्छिन्नेषु वा पुनः |
पालिकादिषु नष्टेषु पतितेषु यथातथा || ५३ ||
वल्मीकादिप्ररोहे च मूषिकाद्यैश्च भक्षिते |
शान्तिहोमश्च कर्तव्यो ब्राह्मणानां च भोजनम् || ५४ ||
नित्यमध्येनैमित्तिकान्तरापाते प्रत्येकमङ्कुकार्पणम्. |
प्रारब्धकर्ममध्ये चेत्कर्मनैमित्तिकं पुनः |
आपतेदर्पयेद्भूय स्ततर्थां श्चङ्कुर्रा गुरुः || ५५ ||
अर्पितेष्वङ्कुरेषु दैवाद्युपघाते शान्तिः. |
अर्पितेष्वङ्कुरेषु स्याद्दैवाद्वा यदि मानुषात् |
कर्मलोपस्तदा त्यक्त्वा कल्पितानङ्कुरानपि || ५६ ||
शान्त्यर्थं जुहुयादग्नौ मूलमन्त्रजपस्तथा |
कर्ममध्ये कर्मान्तरापाते पुनः कौतुकबन्धः. |
बद्धप्रतिसरे बिम्बे कर्मार्थमपरं यति || ५७ ||
अन्तरा कर्म निपतेद्बध्नीयात्कौतुकं पुनः |
अन्तरापतितं स्नानं समाप्य पूर्वरब्धं समापयेत्. |
अन्तरा पतिते स्नाने समाप्ते स्नपनं पुनः || ५८ ||
पूर्वारब्धमनुष्ठेयं यथाशान्त्रं चतुर्मुख |
शून्यग्रामे बलिदाननिषेधः. |
ग्रामादिषु स्याच्छून्येषु न बलिर्वीधिकोत्सवः || ५९ ||
धामन्येव भवेत्कामं यदि स्याद्वीधिकोत्सवः |
सहस्रकलशैस्स्नानं प्रयश्चित्तं तदिष्यते || ६० ||
महावाताद्यभिघाते ते पुनरुत्सवः. |
उत्सवे वर्त माने स्यान्महावातादिना यति |
ग्रामादौ शिथिले कृत्वा प्रयश्चित्तं पुनर्महः || ६१ ||
माने तु महा |
कार्योन लोप्यो लोपे तु कुम्भैरष्टोत्तरै र्हरेः |
स्नपनं कारयेद्धोमो जपश्चार्थैर्द्विजार्चनम् || ६२ ||
कार्या यथोक्तविधिना |
मुहोर्तातिक्रमे |
मुहूर्तातिक्रमे शान्तिस्सर्वेषां कर्मणामपि |
कार्याहोमादिभिः पश्चात्कर्मारम्भो यथोदितः || ६३ ||
परिजनानामभिघाते अन्यान् कल्पयेत्. |
कर्मण्यधिकृते पूर्वं देशिको मूर्तिपेषु वा |
दैवाद्वा मानुषाद्वापि विघ्नितेष्वधिकारिषु || ६४ ||
हेतुर्दैवा न्मानुषाद्वा |
प्रारब्धं कर्म कर्तव्यं तादृग्भिरपरैर्द्विजैः |
उत्सवे विघ्निते दैवान्मानुषाद्वा यथोदिते || ६५ ||
बलिमेव क्षिपेद्धाम्नि ग्रामादौ विधिकास्वपि |
अतिक्रान्तबलिविधानम्. |
बलिप्रदाने प्यकृते कस्मिंश्चिद्दिवसे पुनः || ६६ ||
कुर्वन् बलिमतिक्रान्तं कृत्वैवं बलिमाचरेत् |
उद्यानमृगयादिक्रियालोपे. |
उत्सवाङ्गेषु हीनेषु कलितेषु यथापुरम् || ६७ ||
उद्यानयानमृगया जलद्रोण्यादि कर्मसु |
शान्तिःकार्या भोजनं च ब्राह्मणानां जपस्तथा || ६८ ||
कासु च |
भोजनं तु |
अपभृथस्नानलोपे पुनरुत्सवः. |
हीनायां तीर्थयात्रायां पुनरुत्सवमाचरेत् |
उत्तमोत्तममार्गेण कृत्वा स्नपनमादितः || ६९ ||
उक्तमासातिक्रमे अनन्तरमासे अनुज्ञाविधिः. |
मासे यथोक्तेऽतिक्रान्ते नक्षत्रादौ यथोदिते |
उत्सवोऽनन्तरे मासि यद्यर्वाग्वत्सराद्भवेत् || ७० ||
ऊर्ध्वं संवत्सरा त्कुर्वन् शान्तिं कृत्वासमाचरेत् |
सहस्रकलशैस्स्नानं शान्तिहोमं जपादिकम् || ७१ ||
न्नो चेत् |
पर्वोत्सवलोपे शान्तिः. |
लुप्ते पर्पोत्सवे शान्ति स्स्नपनं शक्त्यपेक्षया |
अन्येषु विष्णोर्लुप्तेषु श्रवणाद्युत्सवेषु च || ७२ ||
उत्तमोत्तममार्गेण स्नपनं तस्य निष्कृतिः |
बलिवस्तूनां व्यत्यासे. |
व्यत्यासे बलिवस्तूनां जुहुयात्सर्विषा शतम् || ७३ ||
उत्पातसंस्पर्शे. |
वाताद्युत्पात संस्पृष्टे बिम्भे स्नपनमुत्तमम् |
आचरेद्यागशालायां प्रपादिषु महोत्सवे || ७४ ||
संस्पर्शे |
पर्वादिषु |
अग्निदाहे. |
अग्निदग्धेषु तत्सर्वं समाधाय यथापुरम् |
शान्तिहोमो द्विजेन्द्राणां भोजनं दानमेव च || ७५ ||
अग्निदग्धे च |
कुर्यात्सुदर्शनप्लोषे कुम्भैर्नवभिरुप्लवः |
कार्यो बिम्बादिदाहेऽपि तथा स्नपनमाचरेत् || ७६ ||
यागमण्डपस्य सृगालादिप्रवेशे. |
श्वसृगालादिभिर्यागमण्टपादि प्रवेशने |
संस्पर्शे पुर्वक्लप्तानि त्यक्त्वान्यानि निधाय च || ७७ ||
शान्तिहोमोद्विजेन्ध्राणां भोजनादि यथापुरम् |
चण्डालादिप्रवेशादौ त्यक्त्वा तद्वस्तु दूषितम् || ७८ ||
उत्सवार्थानि वस्तूनि शान्ति होमं समाचरेत् |
उत्सवाग्नेस्स्वयं शमने |
उत्सवाग्नौ स्वयं शान्ते शान्तिं कुर्याद्यथाक्रमम् || ७९ ||
विषुवे अयने च रात्रा वपि तीर्थोत्सवानुज्ञा. |
विषुवे चायने चैव तीर्थयात्रा न दोषकृत् |
रात्रावपि |
अन्यत्र अह्न्येव तीर्थयात्रा. |
ततोऽन्यत्र कर्तव्या ह्न्येव सा भवेत् || ८० ||
सैव सा भवेत् |
प्रमादाद्यदि यात्रास्यात्स्नपनं चोत्तमोत्तमम् |
होमविश्छेदे शान्तिः. |
उत्सवे होमविच्छेदे द्विगुणं होममाचरेत् || ८१ ||
महोत्सवमध्ये बिम्बनाशे. |
बिम्बे चोरादिभिर्नष्टे वर्तमाने महोत्सवे |
कर्मार्चादिषु बिम्बेषु बिम्बं चोत्पाद्य पूर्ववत् || ८२ ||
यानादिभ्रंशे. |
आराधयेन्निपतिते बिम्बे यानान्महोत्सवे |
आरोप्य पूर्ववद्यानं रथ्यासु पतितं नयेत् || ८३ ||
आराधनेन |
परितो नयेत् |
एकाधिकाशीतिकुम्भैस्स्नापयेच्छान्तये पुनः |
अङ्गहानौ कौतुकस्य बिम्ब मन्यं नयेत्तदा || ८४ ||
मभ्यन्तरे नयेत् |
हीनाङ्गं चेत्समाधाय सद्यस्सं प्रोक्षणं चरेत् |
स्नपनं शान्तये कुर्याद्ब्राह्मणानां च तोषणम् || ८५ ||
भिन्नाङ्गं |
यानभङ्गे नयेद्देवं यानेनाऽन्येन वीधिकाम् |
शान्तिश्च कार्या पतनभ्रमणादौ च सारथेः || ८६ ||
पुण्याहवाचनादीनि कार्याणि कमलासन |
यानानां अस्पृश्यस्पर्शने. |
अस्पृश्या यदि यानानि वहेयुर्भिम्बमेव वा || ८७ ||
क्षालयित्वा तु यानानि बिम्बं च स्नापयेद्घटैः |
पुष्प यागाभावे. |
पुष्पयागो निशि भवेच्छान्तये भुक्तये पि वा || ८८ ||
रथादीनि |
मुक्तयेपि वा |
थ वा |
अभावे पुष्पयागस्य स्नपनं चोत्तमोत्तमम् |
ध्वजावरोहण कालातिक्रमे. |
आरभ्य तीर्थदिवसादूर्ध्वं पञ्चदिनावधि || ८९ ||
ध्वजावरोहणं कार्यं पश्चाच्चेदवरोहणम् |
दोषस्स्याद्दोषशमनं स्नपनं मध्यमोत्तमम् || ९० ||
अपरोप्य ध्वजपटं स्नपनान न्तरं पुनः |
उद्वास्य देवतास्सर्वाश्शकटाद्बलिकर्मणा || ९१ ||
महोत्सवान्तः पतितं कर्म वैशेषि काह्वयम् |
कार्यमेव न लोप्यं तल्लोपे स्नपनमाचरेत् || ९२ ||
पवित्रारोपण विपर्यासप्रायश्चित्तम्. |
पवित्रारोपणे प्रायश्चित्तमन्यत्प्र दर्श्यते |
हीनमाने पवित्रे वा कुण्डे वा मण्डलेऽपि वा || ९३ ||
दृश्यते |
मण्डलादिकेस्थण्डिलादिके |
अस्त्रमन्त्रं शतं जप्त्वा पूजये दस्त्रवर्धिनीम् |
त्यक्त्वा पवित्रं केशादिदूषितं पुनरेव तत् || ९४ ||
च्छास्त्र पद्धतिम् |
कृत्वा पूर्ववदारोप्य ततश्शान्तिं समाचरेत् |
अस्पृश्यस्पर्शने कुम्भे भिन्ने नष्टेऽपि वा पुनः || ९५ ||
कुंभान्तरे समावाह्य मूलमन्त्रं जपेत्पुनः |
अस्थानशूलस्थापने |
अस्थाने स्थापितं शूल मन्यत्र प्रतिमादिकम् || ९६ ||
स्थापयित्वा यथास्थानं स्नपनादि समाचरेत् |
माने न्यूनाधिके वापि वेद्यादीनां प्रकल्पिते || ९७ ||
मन्यद्वा स्थापनादिकम् |
यथापुरम् |
शान्तिराज्याहुतिः कार्या पंचोपनिषदा शतम् |
नयनमोक्षणाकरणे |
तेषामभावे च तथा शान्तिर्नयनमोक्षणम् || ९८ ||
अकृत्वास्थापने शान्तिं कृत्वा नयनमोक्षणम् |
तोयाधिवासाकरणे |
तोयाधिवासाकरणे प्रतिष्ठायां मधुद्विषः || ९९ ||
स्नपनं शान्तिहोमश्च तद्वदेवाङ्गहानिषु |
अनाचार्यप्रतिष्ठायाम् |
अनाचार्यप्रतिष्ठायां पुनस्थ्सापनमाचरेत् || १०० ||
आचार्यपदमारूढो वैधुर्याद्यल्पदोषवान् |
अधिकार्येव विज्ञानपारं यातो यदि स्वयम् || १०१ ||
वै मुख्या |
ज्ञानाधिकेन देवेशे स्थापिते ज्ञान रूपिणि |
न दोषो ज्ञानदहनस्सर्वदोषान् दहेत्खलु || १०२ ||
देशिके |
बालमंदिरस्थिति कालातिक्रमे. |
यावत्कालं स्थितिर्भालमन्दिरे प्रार्थिता पुरा |
तावत्यतीते समये स्नपनं मधुविद्विषः || १०३ ||
कल्पिता |
कार्यं पुनश्चतत्रैव स्थितिकालं परीक्षयेत् |
अन्यत्र वा बालगेहे यद्वा मूलालये भवेत् || १०४ ||
प्रकल्पयेत् |
कर्मार्थपीठिकायां तत् स्थापयित्वा समर्चयेत् |
शिथिलीसरघादिसम्पाते. |
गोपुरे वालये यद्वा प्राकारे मण्टपेऽथवा || १०५ ||
शिथिली सरघातुम्बावल्मीकादिसमुद्भवे |
उद्धृत्यतत्तत्संशोध्य देशं कृत्वा यथापुरम् || १०६ ||
स्नपनं देवदेवस्य कुर्यादुत्तममध्यमम् |
शान्तिहोमो द्विजेन्द्राणां भोजनं दानमेव च || १०७ ||
सिद्धान्तसाङ्कर्ये. |
सिद्धान्तसङ्करे जाते प्रमादात्तत्र सङ्करे |
कृत्वा संप्रोक्षणं पूर्वं सहस्रकल शाप्लवः || १०८ ||
तथा साधक सङ्करे |कर्षणादिषु दोषस्स्या द्राजराष्ट्रक्षयासहः ||
सिद्धान्तस्वरूपप्रश्नः. |
ब्रह्मा |
सिद्थान्तं नाम किं को वा भेदस्तस्य जनार्दन |
श्रोतुमिच्छामि तत्सर्वं न रहस्यमिदं यदि || १०९ ||
सिन्धान्तनिर्वचनम्. |
श्रीभगवान् |
महोपनिषदं नाम सिद्धान्तपदशब्दितम् |
मीमांसादिषु शात्रेषु ये सिद्धार्था मनीषिणः || ११० ||
तेषामन्तेऽधिकारोस्मिन्नितिसिद्धान्त शब्दितम् |
मन्त्रसिद्धान्तादि भेदकथनम्. |
तच्चतुर्धास्थितं शास्त्रमृगादिवदनेकधा || १११ ||
संज्ञितम् |
सर्व |
एकैकं भिद्यते तन्त्रं शाखाभेदेन भूयसा |
प्रथमंमन्त्रसिद्धास्तं द्वितीयं चागमाह्वयम् || ११२ ||
त्वागमा |
तृतीयं तन्त्रसिद्धान्तं तुर्यं तन्त्रान्तरं भवेत् |
मन्त्रसिद्धान्तः. |
एकैव मूर्तिराराध्या प्राधान्येनेतराः पुनः || ११३ ||
देव्यश्श्रिय्रादयश्चापि संपूज्याः परिवारवत् |
आयुधैश्शङ्खचक्राद्यैश्श्रीवत्साद्यैश्चभूषणैः || ११४ ||
मूर्तिमद्भिः परिवृता केवला वाम्बुजासन |
कथ्यते यत्र तत्प्रोक्तं मन्त्रसिद्धान्तमग्रिमम् || ११५ ||
आगमसिद्धान्तः. |
वासुदेवादयो व्यूहाश्चत्वारस्साधकैरपि |
क्रमागतैस्तुल्यकक्ष्याः पूज्यास्तत्प्रभवाप्यये || ११६ ||
कर्मणामपि सन्यासः कथ्यते यत्र चागमे |
तन्त्रमागमसिद्धान्तं तदुक्तं कमलासन || ११७ ||
तन्त्रसिद्धान्तः. |
नवानामपि मूर्तीनां प्राधान्यं यत्र कथ्यते |
मूर्तयो द्वादशाङ्गानि तेषामेव तथापरे || ११८ ||
प्रादुर्भाव गुणाश्चान्ये मूर्त्यन्तरगुणा अपि |
प्रादुर्भावान्तरयुतास्स दिग्देवैस्सहायुधैः || ११९ ||
गणाश्चान्येगणा अपि |
दिग्देवास्सहायुधाः |
मूर्तिमद्भिश्छ देवीभिर्लक्ष्म्यादिभिरपि स्फुटम् |
तत्तन्त्रसिद्धान्ताह्वानं |
तन्त्रान्तरसिद्धान्तः. |
चतुर्थं परमं पुनः || १२० ||
यत्र तन्त्रान्तरं तत्स्यात् |
सौम्यसिंहादिभूयिष्ठं वक्त्रेभैदैश्चतुर्मुख |
द्वित्रादिमुखभेदा वा मूर्तिरेकैव पूज्यते || १२१ ||
चित्रादि |
परिवारैन्संवृता वा विना वा सर्वकामदा |
यत्र तन्त्रान्तरं तत्स्याच्चतुर्थं कमलासन || १२२ ||
आरम्भावसानयोरेक एव सिद्धान्तः. |
येन सिद्धान्तमार्गेण कर्षणादिक्रिया कृता |
आदौ तेनैव सकलं नान्यसिद्धान्तवर्त्मना || १२३ ||
तन्त्रेणापि तथा येन कर्षणादिक्रिया कृता |
तेनैव सकलं कार्यं न तन्त्रान्तरवर्त्मना || १२४ ||
अनुक्तस्य तन्त्रान्तराद्ग्रहणम्. |
तन्त्रान्तरेऽपि कथितमनुक्तं ग्राह्यमेव हि |
तन्त्रसाङ्कर्यनिषेधः. |
सिद्धान्त सङ्करस्तस्मात्तन्त्रसङ्कर एव च || १२५ ||
सङ्करस्तत्स्यात्. सङ्करस्तस्यतन्त्रसङ्कर एववा |
दोषाय कल्पते राजराष्ट्र धामक्षयात्मने |
सिद्धान्तसङ्करे जाते प्रमादात्तस्य शान्तये || १२६ ||
कृत्वा संप्रोक्षणं पूर्वं सहस्रकलशाप्लवः |
कर्तव्यस्स्नपनं कुर्या त्तन्त्रसङ्करसम्भवे || १२७ ||
त्तत्र |
अन्तेमहोत्सवं कुर्यात् ध्वजारोहणपूर्वकम् |
पञ्चरात्र प्रतिष्ठितस्य तेनैव निर्वाहः. |
स्थापिते पञ्चरात्रेण देवे षड्भिरथाध्वभिः || १२८ ||
पत्रिष्ठाने कृते मोहाद्दोषस्सर्वक्षयात्मकः |
शान्तिश्च तस्य भूयोऽपि पञ्च रात्रोक्तवर्त्मना || १२९ ||
प्रतिष्ठादौ |
प्रतिष्ठाप्य सहस्रेण कलशैस्स्नपनं हरेः |
महोत्सवश्च कर्तव्यो ध्वजारोहणपूर्वकः || १३० ||
एकत्र दीक्षितस्य अन्यत्र दीक्षानिषेधः. |
एकत्र दीक्षितस्तन्ते वा द्विजोत्तमः |
क्रियां न कुर्यादन्यत्र कर्षणादि चतुर्मुख || १३१ ||
कर्षणादिश्चकर्षणादीन् |
आचार्यत्वमथार्त्विज्यं पूजायां मधुविद्विषः |
तन्त्रभेधे च सिद्धान्तभेदे चापि न युज्यते || १३२ ||
आचार्यं क्रमशः पूज्य पूजाद्यं मधुविद्विषः |तन्त्रभेदे च चसिद्धा न्ते तदेवापि न युज्यते. इति क्वचित्पाठः |
विषशस्त्रादिहतानां नारायणबलिः. |
ब्रह्महत्यादिपापानां निष्कृतिस्म्सृतिचोदिता |
मृतानां विषशस्त्राग्नि प्रायैरुग्रैश्च कर्मभिः || १३३ ||
अत्र अध्यायसमाप्तिः क्वचित्कोशे दृश्यते |
नारायणबलिर्नाम समाराधनमुत्तमम् |
गतिहेतुर्विना तेन गतिरन्यान विद्यते || १३४ ||
पुनर्दहनमारभ्य कर्म स्मार्तमशेषतः |
कृत्वा सपिण्डीकरणपर्यन्तं तदनन्तरम् || १३५ ||
देवदेवं समाराध्य वक्ष्यमाणेन वर्त्मना |
विष्ण्वालये नदीतीरे पर्वते वा वनेऽपि वा || १३६ ||
विपिनेपि वा |
आन्यत्र वा पुण्यदेशे कर्तुर्वा भवने शुभे |
यष्टव्यं कृष्णपक्षस्य द्वादश्यामयनद्वये || १३७ ||
उपोषितस्सन् पूर्वेद्युःकर्तानियतमानसः |
ब्राह्मणान्भगवद्भक्तान्व्रतस्वाध्यायशालिनः || १३८ ||
आमन्त्र्यमन्त्रविद्बध्वा केशवादि यथास्वयम् |
शोधिते गोमयाम्भोभिर्भूतले कुशविष्टरे || १३९ ||
उपवेश्य वृतानेव प्राङ्मुखान् कमलासन |
अर्घ्यादिभिस्समभ्यर्च्य सामभिः केशवदिभिः || १४० ||
प्रातरेन |
नमोन्त्रैर्नागवल्ल्यादि दत्वा चाभ्यञ्जयेद्द्विजान् |
स्नातानां सन्निदौ तेषां होमं चौपासनेऽनले || १४१ ||
कृत्वाग्नि मुखमग्नेश्च प्राग्भागे चक्रपङ्कजे |
स्थण्डले कुशकूर्चे वा देवमावाहयेदिति || १४२ ||
पुष्पाञ्जलिस्समुत्थाय नृसूक्ताद्या ऋचो जपन् |
ॐ पूर्वाभिर्व्याहृतिभिरावाह्य पुरुषोत्तमम् || १४३ ||
मूर्तिभेदान् केशवादीन्नामभिस्तैरनन्तरम् |
आवाह्यार्घ्यादिभिष्टद्भिरुपचर्य पृथक्पृथक् || १४४ ||
तर्पयित्वा तिलाम्भोभिः केशवादीन् स्वनामभिः |
उपचर्य च दीपान्तं पुरुषं पुरुषात्मना || १४५ ||
सूक्तेन केशवादींस्तु नामभिस्तैर्यथाक्रमम् |
अग्नौ पद्मासनासीनं ध्यात्वा परमपूरुषम् || १४६ ||
अनूच्य पायसं विष्णोर्नुकमित्यृचमब्जज |
पश्चात्परोमात्रयेति याज्यया जुहुयाद्धविः || १४७ ||
आश्रान्य पायसं |
केशवाद्यैर्नामधेयैस्सर्पिषा जुहुयात्ततः |
चतुर्थ्यन्तैर्द्वादशभि र्नामभिर्ध्यानमास्थितः || १४८ ||
नमन्तै |
क्षीराज्यगुडमिश्रान्नं तेभ्य एव निवेदयेत् |
देवस्य त्वा सवितुरिति महाविष्णोर्नवेदनम् || १४९ ||
सप्तव्याहृतिभिर्भूयो जुहुयात्सर्पिषानले |
दर्भासनेषु भूदेवानाहुतानुपवेशितान् || १५० ||
वस्त्राङ्गुलीयकच्छत्रकुण्डलोपानहादिभिः |
यथाशक्ति समभ्यर्च्य मन्त्रेणाष्टाक्षरेण तान् || १५१ ||
तिलाज्यमिश्रहस्तेन तदनुज्ञानपूर्वकम् |
जुहुयादनले हव्यं विद्यया वक्ष्यमाणया || १५२ ||
पितृभ्यस्तत्पितृभ्यश्च तत्पितृभ्यः पुनस्तथा |
मातृभ्यः पितृमातृभ्य स्तत्पितृभ्यःपुनस्तथा || १५३ ||
पितृभ्यः |
तन्मातृभ्यः पुनःतत्स्वसृभ्यःतत् श्वश्रूभ्वः |
मातामहेभ्य स्तेषां ये पितरस्तेभ्य एव च |
मतामहीभ्यो मातुश्च पितृमातृभ्य एव च || १५४ ||
स्सर्वेभ्यः |
मातुर्मातृभ्य |
पितुः पितामहीभ्यश्च तथाचार्येभ्य एव च |
तत्पत्नीभ्यो गुरुभ्यश्च गुरुपत्नीभ्य एव च || १५५ ||
सखिभ्यस्तत्पुरन्ध्रीभ्योज्ञातिभ्या याश्चतत् स्त्रियः |
ताभ्यश्छामात्यतत् स्त्रीभ्यस्सर्वाभ्यस्तत् स्त्रियश्चयाः || १५६ ||
ताभ्यश्चेति समुच्चार्य स्वधा नम इति ब्रुवन् |
नारायणाय स्वाहेति प्रत्येकं पृथगाहुतिः || १५७ ||
प्रथमाहुतीः. परमाहुतीः |
अग्निबद्दं चतुर्थ्यन्तं कव्यवाहनमित्यथ |
तदन्तेस्विष्टकृच्छब्धमनुषङ्गश्च पूर्ववत् || १५८ ||
हुत्वैवं सर्पिषा पश्चाद्द्वादशाक्षरविद्यया |
प्रत्येकं शतमष्टा च द्वादशाक्षर विद्यया || १५९ ||
इदमर्धं बहुघन |
तथाष्टाक्षरविद्यया |
विष्णुगायत्रिया तद्वद्ब्राह्मणान् षड्रसान्वितम् |
भोजयेद्दक्षणां तद्यात्तान् प्रणम्य प्रदक्षिणम् || १६० ||
ताननुज्ञाप्य शिष्टान्नं यथेष्टं क्रियातामिति |
दक्षिणेनानलं दर्भान् प्रागग्रान् शोधिते स्थले || १६१ ||
संस्तीर्य तेषु दर्भेषु बलिं दद्यात्समाहितः |
विश्वेभ्यश्चैव देवेभ्यस्साध्येभ्यस्तदनन्तरम् || १६२ ||
सर्वेभ्यश्चैव देवेभ्यो विष्णुर्नारायण स्तथा |
सहस्रशिरसे चैव यज्ञात्मपदमेव च || १६३ ||
पुरुषं यज्ञपूर्वं च सर्वेश्वरपदं तथा |
चतुर्थ्यन्तं समुच्छार्य नमस्स्वा हेत्यनस्तरम् || १६४ ||
सर्वत्रैवानुषङ्गं च स्विष्टकृद्यजनादिकम् |
आधेनुवरदानान्तं कृत्वा प्रेतं निवेदयेत् || १६५ ||
मूर्तिषु द्वादशस्वेनं यज्ञशर्माणमाख्यया |
निवेदयामि देवाय केशवायेत्यनुक्रमात् || १६६ ||
द्वादशभ्योनिवेद्यैवं परमान्नं निवेदयेत् |
नारायणबलिर्ह्येष द्विजानां समुदीरितः || १६७ ||
परमात्मन्नि वेदयेत् |
समुदाहृतः |
एवं यस्य कृते दत्तो बलिर्दे वार्चना त्मकः |
स याति निखिलं पापं निर्धूय ब्रह्म शाश्वतम् || १६८ ||
दिकम् |
निर्णयं वापि |
पापानामितरेषां च बलिः पुण्यकृतामपि |
परमात्मपदप्राप्त्यैकल्पते नात्र संशयः || १६९ ||
Kapitel 20
Lesehilfe: Kapitel 20: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
विंशोऽध्यायः |
पापिनां कर्माधिकारार्थप्रायश्चित्तम्. |
ब्रह्मा |
राजानस्तदमात्या वा ये राज्यधुरि निष्ठिताः |
भगवन् रक्षणव्यग्राः प्रजानां सततोद्यताः || १ ||
ब्रह्महत्यादिभिः पापैरभिभूता विगर्हितैः |
कायक्लेशात्मके शास्त्रचोदिते घोरकर्मणि || २ ||
पापनिर्हरणोपाये प्रवर्तितुमनीश्वराः |
ते कथं तानि पापानि निर्धूय सकलन्यपि || ३ ||
कर्माधिकारिणो भूयस्सतां संसदि संमताः |
कल्पनै भगवद्ध्याने तदर्चनविधावपि || ४ ||
योग्याः प्रकारं तं देव ब्रूहि मह्यं यथातथम् |
श्रीभगवान् |
ब्रह्महत्यादिपापानामपनोदनमुत्तमम् || ५ ||
कायक्लेशात्मके कर्मण्यक्षमाणां महीबृताम् |
विहितं सुकरं तेषां प्रायश्चित्तं चतुर्मुख || ६ ||
हिरण्यगर्भतुलाभार निर्देशः. |
हिरण्यगर्भनामैकं कर्म प्रोक्तं यथापरम् |
तुलाभारसमा ख्यं तद्द्वाभ्यां निर्धूत कल्मषम् || ७ ||
तथापरम् |
ख्यातम् |
भगवद्ध्यानपूजादिविदौ भूयोऽधिकारिणिः |
भवन्तिकर्मद्वितयं तदशेषेण कथ्यते || ८ ||
हिरण्यगर्भविधिः. |
कर्तुं व्यवसितं कर्म वरयेद्गुरुमादितः |
सर्वशास्त्रार्थतत्वज्ञं मन्त्राणां पारगं परम् || ९ ||
दयालुं सर्वभूतानामक्रोधनमलोलुपम् |
कर्मद्वयविधानज्ञमृजुं भागवतं द्विजम् || १० ||
कर्मत्रय |
परीक्ष्यैवं विधं यत्नादुपसङ्गम्य पार्थिवः |
अर्थयित्वा यथान्यायमुपचर्य द्विजोत्तमम् || ११ ||
कर्मारभेत पुण्येषु देशकालेषु यन्त्रितः |
षट्सुतैष्यादि मासेषु श्रवणे त्वाष्ट्रा एव वा || १२ ||
कर्मारम्भेषु |
मैत्रे चाश्वयुजि ब्रह्मन् रोहिण्यां पासवेऽपि वा |
पुष्ये वा सौम्यनक्षत्रे चोत्तरत्रितयेऽपि वा || १३ ||
देशेतीरे च सरितां समुद्रतटभूषु वा |
यद्वा सर्वगुणोपेते देशे भगवदालये || १४ ||
नैमित्तिकं चेत्कर्मैतन्न कालादिपरीक्षणम् |
मण्डपं प्रथमं कुर्यात्प्रतिष्ठायामिवालये || १५ ||
अन्यत्र वा यथोद्दिष्टे देशे शास्त्रोक्तवर्तना |
सर्वालङ्कारनंयुक्तमन्तः कल्पितवेदिकम् || १६ ||
अङ्कुरानर्पयेत्पूर्वमुक्तेष्वन्यतमे दिने |
सम्भारास्तत्र सम्भार्या यथाविधि यथावसु || १७ ||
एकाङ्गुलघने तुल्ये कपाले द्वे हिरण्मये |
अधरं चोत्तरं चापि कर्ये द्वाभ्यां चतुर्मुख || १८ ||
वापि |
सङ्गताभ्यां प्रविश्यान्तरास्ते गर्भाशये यथा |
कर्तासुखं तं निर्याय द्वयमण्डसमाकृति || १९ ||
हिरण्यगर्भ संज्ञं तत् यत्रायं जायते पुनः |
होमपात्राणि सर्वाणि रैमयान्येव कारयेत् || २० ||
नामैतत् सम्मानं |
यतोयम् |
सम्भारेषु समस्तेषु सम्भृतेषु महीपतिः |
पूर्वेद्यु र्नियतश्चोप्त रोमश्मश्रुनखश्शुचिः || २१ ||
र्नियतं कृत्त |
शुद्धदश्शुद्धवसनश्श्वेतमाल्यानुलेपनः |
उपोषितो घृतं प्राश्य रात्रिं नियमतत्परः || २२ ||
नीत्वा परेद्युः प्रत्यूषेस्नातो नियतमानसः |
ऋत्विग्भिः कारयेत्कर्म गरुणा चोदितस्स्वयम् || २३ ||
वेदिमध्ये शालिभारैर्नवभिः कृतविष्टरे |
प्रागग्रेषु च दर्भेषु स्तीर्णेष्वारोप्य रैमयम् || २४ ||
कपालमधरं द्वारतोरणादिसमर्चने |
यथापुरं कृते नृत्तगेयवादित्रमङ्गले || २५ ||
हिरण्यगर्भमभितश्चतुर्दिक्षु भृतोदकान् |
संस्थाप्य चतुरः कुम्भान् धान्यपीठेषु तेष्वथ || २६ ||
कुम्भेषु न्यस्तरत्नेषु वेष्टितेषु नवाम्बरैः |
चतस्रो देवतास्स्वीयैर्नामधेयैरनुक्रमात् || २७ ||
आवह्यः पुरुषस्सत्यः प्राचीदक्षिणयेस्तथा |
वारुण्यामथकौबेर्यामच्युतोऽनन्त एव च || २८ ||
समुदीर्यार्घ्यपाद्याद्यै र्धूपदीपावसानकैः |
अन्नं चतुर्विधं चापि कुम्भे कुम्भे निवेदयेत् || २९ ||
पूर्वादि दिक्षु कुण्डेषु प्रतिष्ठायामिवक्रमात् |
क्लृप्तेषु हावयेदग्नौ समिधाज्येन चक्रमात् || ३० ||
भावये दग्नौ |
प्रत्येकं मूलमन्त्रेण शतमष्टोत्तरं गुरुः |
चतुर्विधेन चान्नेन प्रत्येकं षोडशाहुतीः || ३१ ||
कुर्यात्पुरुषनोक्तेन ध्यात्वा यष्टव्यदेवताः |
प्राप्ते मुहुर्ते भूदेवाननुज्ञाप्य गुरुस्स्वयम् || ३२ ||
ज्ञात्वा यष्टव्यदेवताम् |
पाणिना भूमिपं हस्ते गृहीत्वा प्रलयक्रमात् |
देहं संहृत्य भूपालं देहमात्रावशेषितम् || ३३ ||
जावमात्रानीचमात्रा |
ध्यात्वा प्रवेशयेद्गर्भं रैमयं कमलासन |
अधरे रैमये भागे सुखासीनं च भूमिपम् || ३४ ||
छादयेदुपरिष्टेन भागेनैतत्प्रवेशनम् |
घृतमिश्रैस्तिलैस्तत्वसंहाराहुतिमाचरेत् || ३५ ||
तत्त्वोत्पादनमार्गेण चिन्तयित्वा गुरुः पुनः |
स्पष्टं शरीरं भूपस्य सृष्टि होमं यथापुरम् || ३६ ||
कुर्यात्कुण्डेषु सर्वत्र चतुर्घु चतुरासन |
आनीय मन्त्रवज्जातं अण्डात्तस्माद्बहिर्नृपम् || ३७ ||
कुण्डात् |
वैयाघ्रचर्मण्यारोप्य कलशैरभिषेचयेत् |
उत्तमाधममार्गेण वेदवित्तन्त्रवित्तमः || ३८ ||
दैववित् |
तथैव मन्त्रात्स्नपनं द्रव्यजातं च तादृशम् |
कर्मणा तेन निर्धूतकल्मषः पुण्यकृत्तमः || ३९ ||
नेन |
जातो गुरुप्रसादेन गुरुमग्रे सभाजयेत् |
सहस्रनिष्टमानेन तपनीयेन भूमिपः || ४० ||
ऋत्विजां चापि सर्वेषां तावती दक्षिणा मता |
कर्मोपकरणं सर्वं कुर्यादाचार्यसान्नृपः || ४१ ||
हैरण्यमण्डं विद्वद्भ्यो ब्राह्मणेभ्यः प्रदापयेत् |
एवं कृतवतस्तस्य विष्णोराराधनादिषु || ४२ ||
संपद्यतेऽधिकारित्वं द्विरेवं कर्म कुर्वतः |
फलं च विष्णोस्सारूप्यं सायुज्यं त्रिगुणे भवेत् || ४३ ||
त्रिरेवं |
तुलाभारविधिः. |
तुलाभाराह्वयं कर्म द्वितीयं कथ्यतेऽधुना |
निर्माय मण्टपं प्राग्वत्तस्मध्ये यज्ञदारुजौ || ४४ ||
स्तम्भा दृढौ सरवन्तौ हस्तैष्षड्भिस्सम्छृतौ |
द्विहस्तपरिणाहौ द्वौ सवृत्तौ शिल्पिकल्पितौ || ४५ ||
ऋजू |
द्विहस्तमानान्तरालौ स्थापितौ भूतले दृढम् |
कृत्वातयोरुपर्येकं दारु सारव दुत्तरम् || ४६ ||
सुवृत्त |
सुवृत्त |
विस्तीर्णं हस्तमानेन तावन्मानघसं धृढम् |
त्रिहस्तमायतं चैव तुलादण्डमयोमयम् || ४७ ||
आयसेनैव पाशेन योजयेदुत्तरेण तु |
विधायेत्थं तुलामन्यत्सम्भारादि यथापुरम् || ४८ ||
कल्पयित्वा यथापूर्वं कर्मचोपरि शास्त्रिकम् |
होमान्तं सकलं कुर्याद्यथा योगमलोपयन् || ४९ ||
शास्त्रतः |
लोक |
स्नातो नरपतिः क्षामवसनाभरणान्वितः |
शुचिर्ध्यायन् वासुदेवं चर्मखड्गधरस्ततः || ५० ||
परिक्रम्य समस्कृत्य देवांस्तान् पुरुषादिकान् |
तुलामपि तथा कृत्वा भागे तस्याश्च पश्चिमे || ५१ ||
स्थित्वा प्रागाननो भूत्वा आरोहेत्पश्चिमं धटम् |
स्वस्तिन इत्यृचं सूक्तमधीयानश्च मङ्गलम् || ५२ ||
स्वस्तिदा |
प्राच्ये धटे नृपसमं निक्षिपेद्धाटकोत्तमम् |
चतुर्दिक्षु प्रवृत्तेषु नृत्तवादित्रगीतिषु || ५३ ||
निक्षिप्ते क्वा |
अधीयानेषु विप्रेषु वेदांश्च चतुरस्तदा |
शान्तिहोमे च कुण्डेषु प्रवृत्ते पार्थिवस्स्वयम् || ५४ ||
कञ्चित्कालं धटभुवि ध्यायन् रुक्ममयं हरिम् |
आसित्वा गुर्वनुज्ञातः पूर्वं धटभुव स्ततः || ५५ ||
अवरोहेत्सुवर्णं च भूषणानि च भूपतिः |
भूसुरेभ्यो यथायोगं विभज्य वितरेत्ततः || ५६ ||
आचार्यय शतं निष्कं मूर्तिपेभ्यश्च तत्समम् |
सर्वेभ्यो ये च तत्कर्मसहकारे नियोजिताः || ५७ ||
तेभ्योऽपि दद्याद्दीक्षित्वा तेषां कर्म यथायथम् |
तुलाभाराह्वयं कर्म कुर्वन्नित्थं महीपतिः || ५८ ||
अन्यो वा धनवान् कश्चित्सर्वपापैः प्रमुच्यते |
प्रेत्य चाभिमतान् भोगानश्नुते दिवि देववत् || ५९ ||
असकृत्कर्म कुर्वाणो ब्रह्मलोके महीयते |
पापापनोदनं कर्म परलोके सुखावहम् || ६० ||
आयुर्वृद्धिकरं सर्वरोगशान्तिकरं परम् |
संपत्करं यशोवृद्धिकारणं सर्वकामदम् || ६१ ||
चतुरानन कर्मान्यत्स्वर्णगर्भादि संयुतम् |
पुष्याभिषेकः. |
पुष्याभिषेचनं नाम शृणु गुह्यं सनातनम् || ६२ ||
सम्मितम् |
विहितं पृथिवीशानामिन्त्राद्यैरप्यनुष्ठितम् |
मासितैष्ये प्रोष्टपदे मासे चाश्व युजे शुभे || ६३ ||
श्रवणे चैव नक्षत्रे जन्मर्क्षे कर्तुरेव वा |
महाभिषेचनं कर्म प्रारभेत गुरु स्ततः || ६४ ||
स्वयम् |
पूर्वोकैष्वेव देषेषु कस्मिंश्चिदभिपूजिते |
पञ्चदण्डायतां भूमिं कृत्वा वै वर्तुलाकृतिम् || ६५ ||
तस्यामन्तस्थ्सलं सम्यक्कृत्वा निष्कसमुच्छृतम् |
तोरणादि चतुर्दिक्षु स्थापयित्वा चतुर्मुख || ६६ ||
वारि |
अलङ्कृत्य यथापूर्वं वितानध्वजमालया |
तन्मध्ये कल्पयेन्मेरुं मृदङ्गसदृशाकृतिम् || ६७ ||
श्लक्ष्णादि च मृदा कार्यं तस्योच्छ्रायं त्रिहस्तकम् |
मूले चाग्रे च विष्कम्भो हस्तमानस्तथा भवेत् || ६८ ||
तस्योर्द्वेच |
चतुर्दिक्षु च चद्वारो भागास्तस्य यथाक्रमम् |
श्वेतोऽरुणस्तथापीतः कृष्णः कल्प्यश्च सर्वतः || ६९ ||
चतुर्द्वारो |
कत्नैः स्वर्णैः पूरणीया ष्षट्तथा कुलपर्वताः |
पूर्वापरायताः कल्प्या हिमवां स्तदनन्तरम् || ७० ||
भूषणीयौः |
हेमकूटश्च विषधो नीलश्श्वेतश्च पर्वतः |
शतशृङ्गश्च विष्कम्भस्तेषां ग्यात्षोडशाङ्गुलः || ७१ ||
श्वेतश्च पिङ्गलो रक्तो नीलश्चन्द्रसमप्रभः |
हेमवर्णः क्रमाद्वर्णैश्चित्रयेद्धातुपांसुभिः || ७२ ||
जम्बाद्वीपं लिभैत्वैवं लवणोदधिवेध्टितम् |
प्लक्षद्वीपं लिखेद्दिक्षु समुद्रपरि वेष्टितम् || ७३ ||
वारितम् |
शाल्मल्या लक्षितं द्वीपं परीतं मदिराम्बुभिः |
कुशं परीतमाघारैः क्रौञ्चं दधिसमुद्रितम् || ७४ ||
शाकं दुग्धोदधिक्षिप्तं पुष्करं स्वच्छतोयधिम् |
क्रमाल्लिखित्वा सर्वेषां लोकालोकमहाचरम् || ७५ ||
वप्रवत्कल्पयेत्प्राच्यां तस्यान्तरमरावतीम् |
पुरीमिन्द्रस्य याम्यायां नाम्ना संयमनीमपि || ७६ ||
पुरीम् |
यमस्य वरुणस्यापि प्रतीच्यां नगरीं तथा |
विभावरीमुदीच्यां तु पुरीं सोमस्य कल्पयेत् || ७७ ||
इन्द्रादिलोकपालानां स्थाने स्थाने प्रकल्पयेत् |
सैकते स्थण्डिले तत्र तानावाह्य समर्चयेत् || ७८ ||
महामोरुं च तन्मूर्ध्नि वाराहिं मूर्तिमर्चयेत् |
मेरोरुत्तरपार्श्वे तु श्वभ्रं कृत्वा प्रमाणतः || ७९ ||
अधः कपालं सौवर्णं न्यस्य तत्र समर्चयेत् |
पूनरुर्ध्वकपालं च न्यस्य तस्योपरि क्रमात् || ८० ||
पूर्वोक्तेन विधानेन पुरोधा नियतस्स्वयम् |
कुंभान् षोडश संपूर्णान् षोडश प्रस्थपूरणान् || ८१ ||
सौवर्णान् |
परितोऽण्डकपालस्य सूत्रवस्त्रादिवेष्टितान् |
स्थापयित्वा धान्यराशौ सापिधानानलङ्कृतान् || ८२ ||
दिशमैन्द्रीं समारभ्य प्रादक्षिण्येन पूरयेत् |
पञ्चगव्यादिभिर्द्रव्यैः प्रणवेन प्रपूरयेत् || ८३ ||
पञ्चगव्यं च पीयूषं दधि सर्पि स्तथा मधु |
हरिचन्दनतोयं च वारि चाक्षतसंयुतम् || ८४ ||
कुङ्कुमं च तथा तोयं कर्पूरागुरुवारि च |
कुशोदकं च रत्नाम्भस्सर्व पुष्पोदकं तथा || ८५ ||
कौसुमं |
मुष्णो |
फलोदकं च धान्याम्भस्सर्वतीर्थोदकं तथा |
सर्वगन्धोदकं चापि द्रव्याणां क्रम ईरितः || ८६ ||
कल्प ईदृशः |
मोरोश्च दक्षिणे भागे कुण्डमग्नेः प्रकल्पयेत् |
आज्येन जुहुयादग्नौ शतमष्टोत्तरं पृथक् || ८७ ||
पश्चिमे भागे कुण्डे चाग्निं |
वराहमूर्ति प्रभृतीरुपक्षिप्त्वा च देवताः |
अन्याश्च देवताश्शैलान् समुद्रान्विष्टसानि च || ८८ ||
भूरादीनि तथा द्वीपभेदांश्चोद्दिश्य नामभिः |
तेषा माहूय तत्कार्यं गुरुणा सपुरोधसा || ८९ ||
माह्वोय |
भूर्भुवस्स्वरिति ब्रह्मन्ननै च जुहुयाद्घृतैः |
अग्निं विसृज्य वितरेद्दक्षिणाश्च यथावसु || ९० ||
तदनै यजमानस्तु सर्वालङ्कारसंयुतः |
शुचिस्समाहितो भूत्वाकृतकौतुकबन्धनः || ९१ ||
प्रविश्य तत्र तद्धैममण्डं च प्राङ्मुख स्स्वयम् |
प्रविश्यासीत देवेशं ध्यायन्नेव सुधाकरम् || ९२ ||
सुखाकरम्. सुराकरम् |
यज्ञमूर्तिं धरां देवीं बिभ्राणं निजदंष्ट्रया |
एवं ध्यायन्तमासीनं नृपं सोपस्क्रियं स्वयम् || ९३ ||
दंष्ट्रया स्वया |
आचार्यानुमतः कुम्भैः स्थापि तैरभिषेचयेत् |
पञ्चगव्यादिभिर्द्रव्यैर्मन्त्रानुच्चार्यमन्त्रवित् || ९४ ||
वसोः पवित्रमन्त्रेण पञ्चगव्याभिषेचनम् |
शं नोदेवीरिति पयस्स्नानं दध्नाऽभिषेचनम् || ९५ ||
इषेत्वेति घृतेनाग्न आयाहीति तथा पुनः |
मधुना चाग्निमीडेति मानस्तोक इति ब्रुवन् || ९६ ||
हरिचन्धनतोयेन तथैवाक्षतवारिणा |
इदं विष्णुरिति प्रोच्य कुङ्कुमक्षोद वारिणा || ९७ ||
Kapitel 21
Lesehilfe: Kapitel 21: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
चर्यापादेएकविंशोऽध्यायः |
अधिकारिव्यवस्थाप्रश्न प्रतिवचने. |
ब्रह्मा |
सिद्धान्तानां श्रुतो भेदश्चतुर्णां भगवन्मुखात् |
इदानीं शोतुमिच्छामि व्यवस्थामधिकारिणाम् || १ ||
साम्प्रतम् |
श्रीभगवान् |
अहं ते नियमं तेषां कथयिष्यामि शास्त्रतः |
जातेषु सर्वविप्रेषु मन्मुखात्कमलासन || २ ||
विप्रजातेषु सर्वेषु |
नानाचरणगोत्रेषु नानाकर्मपरेषु च |
औपगायनादीनां निर्देशः. |
तेषां मध्ये महाभागा ऋषयोऽष्टसहस्रिणः || ३ ||
औपगायनपूर्वास्ते नानागोत्रा मुमुक्षवः |
अधीयानाःकण्वशाखां तथा माध्यन्दिनाह्वयाम् || ४ ||
तेषां बुद्धिस्समुत्पान्ना मोक्षैकफलदायिनी |
ते सर्वे सह सङ्गम्य ब्रह्माणं प्रोचुरव्ययम् || ५ ||
ब्राह्मणाः |
मोक्ष्यमाणा वयं ब्रह्मन् मोक्षो पायविवित्सया |
शरणं त्वामिहप्राप्ता जन्ममृत्युजिगीषवः || ६ ||
औपगायन मुख्यांस्तानुपासन्नां श्चतुर्मुख |
ब्रह्मणापाञ्चरात्रदीक्षादानम्. |
इति ब्रुवाणानाहूय तदनुग्रहकाम्यया || ७ ||
मुख्यानां तापसानाम् |
पञ्चरात्रोक्त मार्गेण मन्त्रसिद्धान्तवर्त्मना |
दीक्षयित्वा यथान्यायं चक्रवारिज मण्डले || ८ ||
मार्गेषु मन्त्रसिद्धान्तमार्गतः |
आहुतान् दीक्षितान् ब्रह्माकर्तव्यमिदमादिशत् |
काण्वीं माध्यन्दिनीं शाखां शाखास्वन्तर्हिते उभे || ९ ||
अधीध्वं मूलशाखे ते निषेकादींश्च संस्कृतीः |
ताभ्यामेव त्वनुष्ठध्वं सोमयागादिकर्मच || १० ||
भगवद्ध्यानसहितं तत्समाराधनात्मकम् |
कर्तव्यत्वेन वेदोक्तमित्येवं फलवर्जितम् || ११ ||
कृषीध्व मिति कुर्वाणैः कर्मनिश्रेयसं परम् |
प्राप्यतेऽनेन युष्माभिर्मन्त्रसिद्धान्तवर्त्मना || १२ ||
भागवतत्वनिष्पत्तिः. |
पञ्चकालं यथाशास्त्रं गृहे वा मन्दिरेऽपि वा |
भगवत्पूजनं कार्यमद्यप्रभृति नान्यथा || १३ ||
यूयं भागवतास्तेन जाता भगवदर्चनात् |
भगवद्भक्तिकरणात् वंशजाताश्चतुर्मुख || १४ ||
कारणाद्वंशजाश्च नः. वंशजानां महात्मनाम् |ते च भागवता स्सर्वे दीक्षयित्वा यथाविधि |इति क्वचित्पाठः |
नाम्ना भागवतास्सन्तो दीक्षयित्वा यथाविधि |
यथोक्तं कर्म कुर्वाणाः प्राप्नुवन्ति परं पदम् || १५ ||
शाखान्तरेषु ये मन्त्राः पापनाः परमर्षयः |
तानप्यधीध्वं तैर्मन्त्रै रर्चयध्वमधोक्षजम् || १६ ||
आत्मार्थयजनस्य मुख्यता. |
आत्मर्थयजनं विष्णोः कल्प तेऽभ्युद यावहम् |
परार्थयजनप्रदेशाः. |
तथा परार्थयजनं ग्रामे वा पत्तने पुरे || १७ ||
याय चयाय हि |
स्वगृहे वा स्वतन्त्रे वा कार्यं भागवतैर्नरैः |
आत्मनश्च परेषां च तन्नि श्रेयसकृद्भवेत् || १८ ||
अभागवतवंश्यानांपरार्थयजननिषेधः. |
अभागवतवंश्यैस्तु दीक्षितैरपि मानवैः |
आत्मार्थमेव यजनं न परार्थं कदाचन || १९ ||
दीक्षितैश्शास्त्रवर्त्मना |
परार्थयजनं तेषां गर्हितं विप्रसत्तमाः |
दीक्षया कुलीनत्वम्. |
अभागवतवंश्योपि दीक्षितश्शास्त्रावर्त्मना || २० ||
परार्थयजनं कुर्यादपि भागवताज्ञया |
भगवानेव गोविन्दस्साक्षाद्भागवतस्म्सृतः || २१ ||
तं दृष्ट्वा विद्यया हीनमपि दुष्कृतकारिणम् |
निर्गुणं गुणिनं वापि प्रत्युत्तिष्ठेत्कृताञ्जलिः || २२ ||
तानयाचत विश्वात्मा महर्षिरमितौजसः |
यष्माभिः क्षितिलोकेषु कार्यं भगवदर्चनम् || २३ ||
स्वार्थं परार्थमथ वा कर्तव्यं मम शासनात् |
इति ब्रुवाणिस्तान् ब्रह्मा तत्रैवान्तरधीयत || २४ ||
ध्येयवस्तुनिर्देशः मूर्ति लक्षणं च. |
ध्येयं वस्तुप्रवक्ष्यामि मन्त्रसिद्धान्तिनां नृणाम् |
द्विभुजं चेद्वासुदेवं रेखाभिस्तलयोः करे || २५ ||
यत्तत् |
लाञ्चितं शङ्खचक्राद्यैर्ध्यायेत्तद्द्विगुणैः पुनः |
द्वाभ्यां कराभ्यां बिभ्राणं शङ्खचक्रे गदाम्बुजे || २६ ||
मुख्याभ्या मथवाभीति दानं कट्यवलम्बनम् |
इतोऽधिके भुजगमे बह्वायुधधरं हरिम् || २७ ||
वर्णेन श्यामसुभगमथवा धवलद्युतिम् |
शैलादिवस्तुभिः क्लृप्तं बेरं चादिपदेस्थितम् || २८ ||
सरलद्युतिम् |
आसीनं वा शयानां वा गरुडारूढमेव वा |
ध्यायेयुरर्चयेयुश्च त्रयूमन्त्रैस्त्रयीविदः || २९ ||
आगमसिद्धान्तध्यानप्रकारः. |
ध्यायेत्वागमसिद्धान्तस्थिते लम्बभुजद्वयम् |
बल्यादिदानरहितपूजा. |
वासुदेवादयस्सर्वे निराकल्पा निरायुधाः || ३० ||
ध्येयस्त्वागमद्वयः |
सि तास्सिताम्बरधराश्च त्वारस्समदिङ्मुखाः |
एकविष्टरनिष्ठास्ते शयनासन वर्जिताः || ३१ ||
देवीभ्यां परिवारैश्च हीना योगासनेन च |
समप्रधानषाड्गुण्य भाजो मन्त्रैर्बलादिभिः || ३२ ||
प्रभवाख्यक्रमात्यूज्या नित्यं कमलसम्भव |
बलिप्रदानरहिता नित्योत्सवविवर्जिताः || ३३ ||
प्रभवात्तत्क्रमात्. प्रभवप्रक्रमात् |
पवित्रारोपणस्वाप शयनोत्थान वर्जिताः |
कर्मसन्यासिनां स्वरूपम्. |
कर्तव्यत्वेन भवने प्रासादे वा चतुर्मुख || ३४ ||
इतमर्धं क्वचिन्नास्ति |
काल्ये मध्यन्दिनेऽच्छिद्रपञ्च कालपरायणैः |
निराशैः कर्मसन्यासकारिभिर्देवपूजनम् || ३५ ||
बलादिमन्त्रैरच्छिद्र पंचकालपरायणैः |
एकाध्वना निषेकादि संस्कारैश्च बलादिभिः || ३६ ||
संस्काराश्च |
चतुर्णां ब्राह्मणादीनां विहितं नयकर्मच |
द्वादशाक्षरविद्यैव तेषां विद्या न च त्रयी || ३७ ||
द्वादशाक्षरमेतेषां विज्ञानं च त्रय् न च |
न सावित्री न मन्त्रोन्यस्स्वाध्यायजप कर्मणोः |
बीजशक्त्यङ्गरहितमृषिच्छन्दोविवर्जितम् || ३८ ||
कर्मणे |
स्वरूपमेव मन्त्रस्य जपस्वाध्यायकर्मणोः |
वर्णचतुष्टयसंज्ञा. |
चतुर्णामपि वर्णानां संज्ञास्तेषां क्रमोदिताः || ३९ ||
भागो हि द्विजमुख्यस्य संज्ञा वा विप्रवन्नृपे |
वैश्यस्य वर्धिनी संज्ञा मौद्गली वृषलस्य च || ४० ||
विशेषोद्विजमुख्यस्य संज्ञा वा विषुसन्नृपः |
लाङ्गली |
सर्वे समानाश्चत्वारो गोत्रप्रवरवर्जिताः |
उत्कर्षो नापकर्षश्च जातितस्तेषु संमतः || ४१ ||
फलेषु निस्पृहास्सर्वे द्वादशाक्षरचिन्तकाः |
मोक्षैकनिश्चया श्शावसूतकाशौ चवर्जिताः || ४२ ||
स्सर्वे मूतकाशौच |
कर्षणादिष्वनधिकारः. |
नाधिकारो स्ति सर्वत्र कर्षणादिषु कर्मसु |
मोहात्तानि प्रयुञ्जानाः पतन्त्यकृत बुद्धयः || ४३ ||
राजराष्ट्रमनुष्याणां यजमानस्य सद्मनः |
क्षयो भवति तेनै ते न कुर्युः कर्षणादिकम् || ४४ ||
याचेत मन्त्रसिद्धान्ते दीक्षितं विप्रसत्तमम् |
पूजर्थमात्मनो बिम्ब प्रतिष्ठाकरणादिषु || ४५ ||
सोपि बीजादिरहितं द्वादशा क्षरविद्यया |
कुर्यात्प्रतिष्ठामाचार्यः पूजार्थं मन्त्रवित्तमः || ४६ ||
एकायन स्तुतां मूर्तिं प्रतिगृह्य समर्चयेत् |
अर्चनं च चतुस्थ्साने वारिस्रग्बिम्बवह्निषु || ४७ ||
श्चतुर्मूर्तिं |
अभ्यर्चनं |
नाधिकारो स्तिमन्त्रेषु बीजषिण्डपदादिषु |
मौद्गलाद्येकायनानां दाहनिषेधः. |
चतुर्णां मौद्गलादीनां विदुषां द्वादशाक्षरम् || ४८ ||
प्राणानामपि निर्याणे नस्पृशेन्नदहेच्छवम् |
पुत्रपौत्रादिरहितं सन्त्यजेत्काष्ठवद्बहिः || ४९ ||
मूर्त्यन्तरार्चन निषेधः. |
मूर्त्यन्तरार्चनं तेषां प्रत्यवायाय कल्पते |
सिद्धान्तान्तरमार्गेण स्थापितं बिम्बमालये || ५० ||
अज्ञानादथ वा मोहादेकायनविधानतः |
अर्चयन्नापदं सर्वामाप्नोतीह परत्र च || ५१ ||
अर्चयन्तं पदं सर्व |
प्रदक्षिणप्रणामादि राद्धान्तेन्यत्र केवलम् |
विहितं नार्चनं कार्यं राजराष्ट्रक्षयावहम् || ५२ ||
न दीक्षा नैव देहस्य दहनादिविशोधनम् |
नाङ्गन्यासादि सकलं नेष्टमेकायनाध्वनि || ५३ ||
एकायने प्रविष्टानां त्रैविद्यानामयं क्रमः |
तन्त्रसिद्धान्तमार्गनिरूपणम्. |
तन्त्रसिद्धान्तमार्गेतु संप्रत्याचार उच्यते || ५४ ||
चतुर्णामपि वर्णानामितरेषां च तद्भुवाम् |
दीक्षासमैव सर्वेषा माचारस्तन्त्रवर्त्मना || ५५ ||
तद्भवेत् |
निषेकादिश्च संस्कारस्तेषां तन्त्रोक्तवर्त्मना |
त्यक्त्वा त्रयीं तन्त्रमेव प्रपद्य शरणं स्थिताः || ५६ ||
सान्तरालमनुष्ठानं पंचकालोदितं तथा |
यतस्तन्त्रान्तरभुवां नृणां कमलसम्भव || ५७ ||
मन्त्र |
तत्वसंहारजनने न्यासश्च करदेहयोः |
योगविष्टरक्लृप्तिश्च नवपद्मप्रकल्पनम् || ५८ ||
नवकल्प |
मूर्तयो नवपद्मेषु तास्वधिष्ठानमध्यमे |
तामीक्षन्तेदिशो वापि मूर्तयोऽष्टौ यथायथम् || ५९ ||
मूर्तयः |इत्यादि. द्विषत्काक्षर इत्यन्तं क्वचिन्न |
यां दिशं मध्यमा मूर्तिरीक्षते सैश्वरीमता |
यां च वाऽलोक्य पुरुषस्समाराधनकर्मणि || ६० ||
आस्तेऽसौ पौरुषी ज्ञेया प्राजापत्याच वासवी |
योगविष्टरपादानां धर्मादीनां प्रकल्पने || ६१ ||
अथान्तः परिवाराणां सुपर्णीतनयस्य च |
बलिप्रदानपीठस्य गोपुरस्य चतुर्मुख || ६२ ||
तथान्तः |
बाह्यनामपि चै तेषां प्राची स्यादैश्वरी हरित् |
बाह्यानां परिवाराणामन्येषां परिकल्पने || ६३ ||
प्राजापत्यैव दिक्प्राची दिक्समूहे तु पौरुषी |
प्राच्यादिकां समाश्रित्य परिवारप्रकल्पनं || ६४ ||
द्विषट्काक्षरपूर्वाणां बीजशक्त्यङ्गसंयुतम् |
ऋषिच्छन्दो विहीनश्च मन्त्राणां जप इष्यते || ६५ ||
वर्णानामितरेषां च सममाराधनक्रमः |
सवानामपि मूर्तीनां मूर्त्यन्तरगणस्य च || ६६ ||
प्रादुर्भावगणस्यापि वर्णास्त्रीव्यक्तयो मताः |
न ध्वजारोहणं नापि मासाद्युत्सवसम्भनः || ६७ ||
केवलं शयनोत्थाने बलिहोमादिवर्जितः |
प्रादक्षिण्येन गमनं ग्रामादेः कौतुकोत्सवः || ६८ ||
नैमित्तिकं चतुस्थ्साने स्वातन्त्र्येणार्चनं हरेः |
तन्त्रान्तरसिद्धान्ताचारव्यवस्था. |
चक्राब्जमण्डले कुम्भे प्रतिमायां च पावके || ६९ ||
तन्त्रान्तरे च सिद्धान्ते संप्रत्याचार उच्यते |
त्रिवक्तं वा चतुर्वक्त्रमधिकाननमेव वा || ७० ||
योगपीठेस्थितं देवं परिवारैश्च सेवितम् |
पिण्डमन्त्रैः कलामन्त्रेर्भीजशक्त्यङ्गसंयुतैः || ७१ ||
ऋषिच्छन्दोविहीनश्च चत्वारो ब्राह्मणादयः |
समर्चयेयुस्सर्वेषां निषेकाद्यखिलक्रियाः || ७२ ||
तन्त्रान्तरोक्तमार्गेण कार्या त्रैय्यात्मनापि च |
सिद्धान्तसाङ्कर्यनिषेधः. |
सिद्धान्तनां चतुर्णां तु साङ्कर्यं व्यवसावहम् || ७३ ||
स्तुल्यात्मनात्रय्यन्तनर्त्मना |
सिद्धान्तेषु चतुर्ष्वेकं पूवैन् र्नृभिरनुष्ठितम् |
त्यक्त्वा समाश्रयेदन्यं नरो भवति किल्बिषी || ७४ ||
तस्माज्जन्मप्रभृत्येकराद्धान्तनियतो भवेत् |
अन्यथा कुलमात्मानं सर्वं नाशयति स्वयम् || ७५ ||
मन्त्रमण्डलकुण्डादि क्रियामुद्रोपचारकैः |
योगं नयति यो मोहत्स्वसिद्धान्तोक्तवर्त्मना || ७६ ||
Kapitel 22
Lesehilfe: Kapitel 22: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
चर्यापादेद्वाविंशोऽध्यायः |
मुद्राविधिः. |
ब्रह्माः |
कीदृशी भगवन्मूद्रा तद्भेदाश्चापि कीदृशाः |
प्रयोजनं वा किं तस्याः कथ्यतां तदशेषतः || १ ||
मुद्रानिरुक्तिः. |
श्रीभगवान् |
अङ्गुलीरचना भेदो मुद्रायस्मात्प्रदर्शितात् |
हिंसकानामशेषाणां मुदं द्रावयति क्षणात् || २ ||
भेदा मुद्रा यस्मात्प्रदर्शिताः |
साङ्गुलीनामशेषाणां मुद्रा वारयुति क्षणात् |
ततो मुद्रा निरसनं तेषां तस्याः प्रयोजनम् |
प्रीणनं चापि देवानां कर्मणा सोपिदर्शितः || ३ ||
मुद्रापूर्वविधिः. |
प्रयोक्तव्यश्च रहिसि न बहिर्जनसंसदि |
मन्त्रमण्डलमुद्राणां गुप्तिरेषा सनातनी || ४ ||
गन्धलिप्तौ करौ कृत्वा मुद्रादर्शनमाचरेत् |
हृदयमुद्रा. |
अनामि कामध्यमयोः प्रवेश्याङ्गुष्ठमायतम् || ५ ||
विधाय मुष्टिं हृदये न्यसेद्धृदयमुद्रिका |
शीर्षमुद्रा. |
सैषा मुष्टिमधो बध्वा स्तापयित्वा च मूर्धनि || ६ ||
अङ्गुष्ठाग्रेण हननं तर्जन्या शीर्षमुद्रिका |
शिखामुद्रा. |
उर्ध्वाङ्गुष्ठं धृढं मुष्टिं बध्वान्यस्येच्छिखापदे || ७ ||
शिखामुद्रेयमुदिता |
वर्ममुद्रातु कथ्यते |
कवचमुद्रा. |
प्रवेश्याभ्यन्तरांगुष्टं बध्वा मुष्टिप्रवेशनम् || ८ ||
उन्नम्यकिञ्चिदग्रे च विततान्तेन मुष्टिना |
भावयेद्वर्मणो बन्धं सैषा कवचमुद्रिका || ९ ||
हरयेद्वर्मणो |
अस्त्रमुद्रा. |
तर्जन्यंगुष्ठसिरसि स्फोटयेच्चक्रवत् स्मरन् |
दिक्षु सर्वासु शेषाभिर्मुष्टिं बध्वा चतुर्मुख || १० ||
तर्जन्याङ्गुष्ठशिरसा |
क्रमात् |
सैषास्त्रमुद्रा विज्ञाया |
नेत्रमुद्रा. |
शिखामुद्रामधोमुखीम् |
विन्यनेत्तां भ्रुवोर्मध्ये नेत्रमुद्रेयमीरिता || ११ ||
षडङ्गमुद्रास्वेतानु हस्तस्सर्वत्र दक्षिणः |
अग्नि प्राकारमुद्रा. |
कनिष्ठादित्रिभिर्बध्वा मुष्टिं साङ्गुष्ठमुन्न ताम् || १२ ||
विधाय तर्जनीं तेन भ्रामयेदाशु चक्रवत् |
अग्नि प्राकारमुद्रेयं तयैवात्माभिरक्षणम् || १३ ||
ताभि रात्मा |
योगमुद्रा. |
नाभेरधस्ताद्विन्यस्य सव्यं करतलं पुनः |
उत्तानमितरं तस्य विन्यसेदुपरी दृशी || १४ ||
सर्वं |
शम् |
योगमुद्रा |
योगसम्पुटमुद्रा. |
करतलं सव्यं नाभेरधस्ततः |
अवाङ्मुखं तदुपरि सव्येकरतलं पुनः || १५ ||
करतले सर्वं |
सर्वं |
समाङ्गुष्ठं विरचयेद्योगसम्पुटमुद्रिका |
उक्तयोर्मुद्रयोर्विनियोगः. |
योगाभ्यासे च तत्वानां संहारोत्पादनेपि च || १६ ||
मुद्राद्वयमिदं ब्रह्मन्कथितं योगिनां हितम् |
कुम्भमुद्रा. |
योगसंपुट मुद्रेयमुच्चिता घटवत्कृता || १७ ||
मुद्रैवच्छिद्रितामुद्रेयं मुद्रिता |
ऊर्ध्वं स्यात्कुम्भमुद्रैषातया स्नानं समाचरेत् |
संहारमुद्रा. |
तर्जन्या नामिकाग्रं तु विष्टयित्वा क्रमेण तत् || १८ ||
ऊर्ध्वाभ्यां स्यात्कुम्भमुष्टेः कुम्भ |
तथाङ्गुष्ठकनिष्ठौ तु ज्ञेया संहारमुद्रिका |
एतस्या विनियोगः. |
तत्वानां सहृतौ चैव देवतोद्वासने तथा || १९ ||
एषा मुद्रा प्रयोक्तव्या सर्वकर्मसु सर्वदा |
सृष्टिमुद्रा. |
संहताभि श्च तिसृभिरङ्गुलीभिश्चसंगतिः || २० ||
श्चतसृभिः |
विमुक्ततर्जनी भूयस्सृष्टि मुद्रेति कीर्तिता |
एतद्विनियोगः. |
आवाहने तत्वसृष्टौ मुद्रैषा परिकीर्तिता || २१ ||
च सृष्टौ च |
तत्वमुद्रा. |
अङ्गुष्ठतर्जनीभ्यां तु संयोगस्तत्वमुद्रिका |
तत्वन्यसनकाले च मुद्रैषा परिकीर्तिता || २२ ||
समुदाहृता |
सैवज्ञानमुद्रा. |
ज्ञानमुद्रा पि सैवैषा स्यादज्ञानतमोपहा |
न्यासमुद्रा. |
ऊर्ध्वयोः करयोर्मध्यं मध्यमाभ्यां तु स्स्पृशेत् || २३ ||
फलैस्सैषा |
उत्तानितौ करौ कृद्वा न्यास मुद्रा निगद्यते |
देवात्मदेहयोर्मन्त्रं न्यासमुद्रेयमीरिता || २४ ||
मुद्रेति कथ्यते |
जपमुद्रा. |
अङ्गुष्ठाभ्यां तु करयोस्तर्जन्योरुभयोरपि |
मध्यमाभ्यां स्पृशेदन्यां विस्तृतानि यथा तथा || २५ ||
द्विसृताहि र्यथा |
जपमुद्रेति विज्ञेया जपकाले प्रदर्शयेत् |
ब्रह्ममुद्रा. |
अङ्गुलीभिस्समस्ताभिर्दक्षिणेतरहस्तयोः || २६ ||
संपुटीकरणं ब्रह्ममुद्रा संशब्दिता बुधैः |
विष्णुमुद्रा. |
अङ्गुष्ठे द्वे कनिष्ठे द्वे तथास्यात्तर्जनी द्वयो || २७ ||
सहयुक्ताग्रतश्शिष्टा विष्णुमुद्रेति कीर्तिता |
रुद्रमुद्रा. |
सा चैव शेषिताङ्गुष्ठासमस्तेन परस्परम् || २८ ||
सङ्गयुक्ताग्रगाः |
उभयाङ्गुष्ठमुद्रा सा रुद्रस्य कथिता तव |
अभिवादनमुद्रा. |
श्रोत्रे पिधाय पाणिभ्यां दण्डपद्दक्षिणं करम् || २९ ||
प्रसारयेद्गुरूणां तु अभिवादनकर्मणि |
विष्णु राजमुद्रा. |
सर्वहस्ताङ्गुलीस्सव्यकर्णेन्यस्य तथेतरम् || ३० ||
सव्यहस्तांगुलीस्सव्य |
प्रसरेद्विघ्नराजस्य मुद्रा विघ्नविनाशिनी |
भागवतमुद्रा. |
अन्तस्तु तर्जनीयुग्मं संहताङ्गुष्ठकद्वयम् || ३१ ||
मुद्रा भागवती सास्यात् |
वराहामुद्रा. |
करयुग्मं तु सम्पुटे |
कृते वराहमुद्रा सासर्वसिद्धिकरी शुभा || ३२ ||
कृत्वा |
गुरुपङ्क्तिक्रमे ब्रह्मन् सैषामुद्रा प्रदर्शिता |
दहनमुद्रा. |
अपसव्ये करतले संस्मरेद्रक्तपङ्कजम् || ३३ ||
मुद्रास्सर्वाः प्रदर्शिताः. सर्वकर्मप्रदर्शितम् |
तन्मध्ये चिन्तयेदग्निं त्रिकोणं तेससां निधिम् |
अवाङ्मुखं करतलं कृत्वा द्रव्योपरि न्यसेत् || ३४ ||
ज्ञेया दहनमुद्रैषा द्रव्यशुद्धि प्रदा सदा |
अप्यायनमुद्रा. |
सव्ये करतले श्वेतपङ्कजं षोडशच्छदम् || ३५ ||
प्रदायिनी |
कलाषोडश संयुक्तं शशिनं पङ्कजासन |
तन्मध्येचिन्तयित्वातु स्रावितं चामृतं स्मरेत् || ३६ ||
सम्पूर्णम् |
तेनामृतेन तद्भस्म क्षालितं तूत्थितं स्मरेत् |
आप्यायनन्य मुद्रैषा कथिता कमलासन || ३७ ||
सुरभिमुद्रा. |
अंगुष्ठे द्वे कनिष्ठे द्वे तथास्यात्तर्जनी द्वयोः |
शिष्टं प्रसारयेद्ब्रह्मन्नंगुलानि करद्वये || ३८ ||
द्वयम् |
मध्यमां दक्षिणकरेऽनामिकां च तथेतरे |
संहृत्य प्रसरेच्छेषं करयोरुभयोरपि || ३९ ||
ज्ञेया सुरभिमुद्रा सा याग द्रव्यविशोधिनी |
आवाहनमुद्रा. |
हस्ताभ्यामञ्जलिं कृत्वा ईषद्विकसितं स्फुटम् || ४० ||
स्यात् |
अवाहनस्य मुद्रैषा दर्शनात्स न्निधिं भजेत् |
प्रणाममुद्रा. |
हृदये शिरसि द्वेपि सम्पुटाञ्जलिरूर्ध्वागा || ४१ ||
सन्निधिर्भवेत् |
प्रणाममुद्रासाज्ञेया क्षिप्रं देवप्रसादिनी |
तस्याविनियोगः. |
सा ज्ञेया वासुदेवादिमूर्तिनां कमलासन || ४२ ||
चतुर्विंशतिमूर्तीनां मीनादीनां तथैव च |
मुद्रैषा चा न्यमूर्तिनां कथिता कमलासन || ४३ ||
पद्ममुद्रा. |
प्रसार्यकरजान् सर्वान् मणिबन्धौ समेत्य तौ |
अन्तः प्रविश्य चांगुष्ठौ तयोः पृष्ठमनुस्पृशेत् || ४४ ||
प्रसारयेत्पद्ममुद्रा मासने तु प्रदर्शयेत् |
कमलमुद्रा. |
श्रियादीनां च सर्वासां देवीनां चतुरासन || ४५ ||
सम्प्र |
प्रोक्ता कमलमुद्रा सा सर्वकामफलप्रदा |
शङ्खमुद्रा. |
निबध्य दक्षिणांगुष्ठं वामहस्तस्य मुष्टिगम् || ४६ ||
स्यात्सर्व |
कृत्वा चांगुष्ठतर्जिन्यौ संयुक्ते प्रसृते समे |
त्रिप्रस्तु दक्षिणन्यासा बध्नी युर्मुष्टिमूर्ध्वगाः || ४७ ||
तिस्रस्तु दक्षिणस्यान्याम् |
शङ्खमुद्रेयमुदिता ज्ञानदा मोक्षदाऽचिरात् |
चक्रमुद्रा. |
मणिबन्धसमौ हस्तौ तिर्यक्सं भ्राम्य च क्रमात् || ४८ ||
भाव्य चक्रवत् |
पर्यायेण प्रयोक्तक्या चक्रमुद्रा महोदया |
गदामुद्रा. |
मुष्ठिं कृत्वा तु हस्ताभ्यामंगुष्ठौ विनतावुभौ || ४९ ||
मध्यमांगुलियुग्मं तु ऋजुमूर्ध्वं प्रसारयेत् |
शेषाभिरंगुलीभिस्तु बन्धयेयुः परस्परम् || ५० ||
वितता |
दर्वीकृत्य दीर्घाकृत्य |
संश्लिष्टौ कूर्परौ द्वौ तु गदामुद्रेयमीरिता |
चापमुद्रा. |
तर्जन्यग्रं मध्यमया संस्पृशे च्चापमुद्रिका || ५१ ||
धनु |
मुसलमुद्रा. |
मुष्टिं कृत्वा वामहस्त मंगुष्ठमृजुमूर्ध्वतः |
अपसव्यकरेणै तदंगुष्ठं तु बन्धयेत् || ५२ ||
प्रसार्य दक्षिणांगुष्ठं ज्ञेया मुसलमुद्रिका |
खड्गमुद्रा. |
कनिष्ठांगुलिपूर्वं तु संहृत्यांगुष्ठकेन तु || ५३ ||
च |
निबध्य तर्जनीं भूयस्तदग्रं नतमेव च |
खड्गमुद्रा तुसा ज्ञेया सर्वदुष्टभयङ्करी || ५४ ||
वनमूलामुद्रा. |
हस्ताभ्यां लम्बयेद्ब्रह्मन्नंगुल्यग्रैः परस्परम् |
बन्धयेद्वन माला स्यादंगुष्ठौ द्वौ तु संहरेत् || ५५ ||
मामाया अङ्गुष्ठौ |
अञ्जलिमुद्रा. |
आखण्डलादिदेवानां मुद्रा चाञ्जलिसंज्ञिता |
गरुडमुद्रा. |
उभौ करतले पृष्ठौ संश्लिष्टौ तु कनिष्ठकौ || ५६ ||
बन्धयेत्तर्जनीयुग्मं प्रसरेत्तुण्डवत्क्रमात् |
अंगुष्ठौ द्वौ पादयुग्म मधस्ताल्लम्बयेत्क्रमत् || ५७ ||
पदे युग्मे |
मध्यमानामिकाभ्यां तु करयोरुभयोरपि |
पक्षवच्चलनं कुर्याज्ज्ञया गरुडमुद्रिका || ५८ ||
विष्टक्सेनमुद्रा. |
कनिष्ठादित्रयं ब्रह्मन् संहृत्यागुष्ठकेन च |
निबध्य तर्जनीं भूयो निष्वक्सेनस्य मुद्रिका || ५९ ||
अनन्तमुद्रा. |
प्रसार्य करजान् सर्वान् विरलानूर्ध्वगामिनः |
कृत्वाहस्तस्य चायामं तदग्रान् कुञ्चयेत्क्रमात् || ६० ||
फणिफणाग्रसदृशाज्ञेयाऽनन्तस्य मुद्रिका |
बलिमुद्रा. |
चण्डादीनां भ वेन्मुष्टिमुद्रैषा बलिमुद्रिका || ६१ ||
अस्त्रमुद्रा. |
अङ्गुष्ठानामिकाभ्यांतु तथा स्यादस्त्रमुद्रिका |
मुष्टिमुद्रा. |
मुष्टिमुद्रा तु मुष्टिस्स्यादंगुष्ठेन तु वेष्टिता || ६२ ||
तथा स्याद्वक्त्रद्वस्त्र |
ज्ञानमुद्रा. |
ज्ञानमुद्रेति विज्ञेया सैव मुक्तकनिष्ठिका |
गन्धमुद्रा. |
गन्धमुद्रेति विज्ञेया विमुक्तानामिका च सा || ६३ ||
पुष्पामुद्रा. |
पुष्पमुद्रेति विज्ञेया विमुक्ता मध्यमा तथा |
यज्ञोपवीतमुद्रा. |
मध्यमाङ्गुष्ठशिरसि सङ्गतिर्ह्यग्रपर्वणा || ६४ ||
सङ्गताभ्यांतु |
यज्ञोपवीतमुद्रा स्या |
आकल्पमुद्रा. |
दंगुष्ठेन कनिष्ठिका |
आकल्पमुद्रिका ज्ञेया विष्णोः प्रीतिकरी शुभा || ६५ ||
धूपमुद्रा. |
संहृताग्राङ्गुलीनां तु कृत्वा व्यतिकराङ्गुलीः |
सहैवोर्ध्वीकृतांगुष्ठौ कराभ्यां धूपमुद्रिका || ६६ ||
संशृता |
धूम |
दीपमुद्रा. |
ऊर्ध्वंतु मध्यमां कृत्वा संहृत्यांगुष्ठमेव च |
तर्जन्या नामिकाभ्यां तु संहृत्य तु कनिष्ठिकाम् || ६७ ||
तेनैव वामहस्तेन दक्षिणेन कृता तु या |
दीपमुद्रेति सा प्रोक्ता देवदेव प्रयाधिका || ६८ ||
Kapitel 23
Lesehilfe: Kapitel 23: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
चर्यापादेत्रयोविंशोऽध्यः |
मन्त्रोद्धारविधिः. |
ब्रह्मा |
संज्ञाभेदस्तु वर्णानां मन्त्रोद्धारस्तु कीदृशः |
प्रयोजनं वा किं तस्य कथ्यतां तदशेषतः || १ ||
श्रीभगवान् |
अहं ते कथयिष्यामि शृणु सर्वं यथातथम् |
ह्रस्वदीर्घविभागेन भिन्नाः पद्मज मन्मुखात् || २ ||
हन्तते |
गुह्यं |
अकाराद्यास्स्वरा जाताः क्रमादन्येऽर्धमातृकाः |
ककाराद्याश्च चक्रेते न्यस्य पूज्याः परिष्कृते || ३ ||
परिष्कृताः |
प्रशस्ते निर्जने गुप्ते भूभागे शोभने समे |
हस्तद्वयेन विस्तीर्णं स्थण्डिलं चतुरश्रकम् || ४ ||
शोधिते |
दर्पणोदरसङ्काशमुन्नतं चतुरङ्गुलैः |
मृद्भिः पिधाय सुषिरं गोमयेनोपलिप्य च || ५ ||
विधाय सुसमम् विहाय सुषिरम् |
प्रोक्ष्य चक्रं विधातव्यं षोडशारपरिष्कृतम् |
नाभिनमिसमायुक्तं चन्दनक्षोदरेखया || ६ ||
तन्मध्ये छन्दसामादिररभूषु स्वरा स्तथा |
स्पर्शाक्षरं नाभिमध्ये नेमिमध्ये च यादयः || ७ ||
एवं न्यस्तेषु वर्णेषु द्वादशाक्षरविद्यया |
अर्घ्याद्यैस्सकलैर्भोगैर्वर्णात्मासं समर्चयेत् || ८ ||
वर्णानां संज्ञान्तरम्. |
चक्रसंस्थितवर्णानां नामभेदः प्रदर्श्यते |
उद्गीथश्छन्दसामादिः प्रणवस्तारक स्तथा || ९ ||
ब्रह्म च ब्रह्मकोशश्च व्यापी चोङ्कार इत्यपि |
नामानि प्रथितान्यष्टावकारो विष्णुरुच्यते || १० ||
ब्रह्मा |
कथिता |
ओङ्कारादिश्चाप्रमेय आकारो मधुसूदनः |
आदिदेवो गोपनश्च स्यादिकारस्त्स्रिविक्रमः || ११ ||
माया बन्धुश्च रामश्च कथ्यते तदनन्तरम् |
पञ्चबिन्दुर्महामाया वामनस्स्मर्यते तथा || १२ ||
उकारो भुवनाह्वानश्श्रीधरश्चोदय स्तथा |
ऊकाराश्चोर्ध्वलोकेशो हृषीकेशो गुहालयः || १३ ||
ऋकार ऋतधामा च पद्मनाभस्तथोच्यते |
ऋकारः पीठनामा स्याद्योगी दामोदर स्तथा || १४ ||
लृकारः केशवो गोप्ता प्रज्ञाधारो महेश्वरः |
लृकारो दीर्घ घोणश्च नारायणसमाह्वयः || १५ ||
प्रजा |
घोषश्च |
संप्रसारणनामास्यादेकारो माधवाह्वयः |
देवदत्तो मृगेशस्स्यादैकारो गोधनः स्मृतः || १६ ||
धनदः |
गोविन्धो वीरसेनश्च स्यादोकारश्चतुर्मुख |
ओतदेहो वासुदेवो ब्रह्मसाधन इत्यपि || १७ ||
औकार औषधाह्वान और्वस्सङ्कर्षणो मनुः |
अंकारः कपिलाक्षश्च प्रद्युम्नो देवता स्मृतः || १८ ||
देवरः |
अःकारश्चानिरुद्धाह्वः कलान्त स्सर्गिसंज्ञिकः |
ककारः कमलो ब्रह्मा करालश्शङ्खिनःस्मृतः || १९ ||
स्सर्ग |
खकारः खर्वदेहश्च चक्री गरुडवाहनः |
गदध्वंसी गकारश्च गदी पङ्चात्मकस्सृतः || २० ||
सर्व |
पद्मपाणिर्शकारस्तु पञ्चात्मा गजवाहनः |
ङकारश्शार्ङ्गपाणिश्च एकदंष्ट्रः कपिध्वजः || २१ ||
वक्रतुण्डः खड्गधरश्चकारः प्रेतनायकः |
छकारश्छलविध्वंसी स्वच्छन्दः कुण्डली स्मृतः || २२ ||
मुसली जन्महन्ता च जकारः ककुभः स्मृतः |
झकारस्सामवेदात्मा झषाशी च गुवर्णभाः || २३ ||
झषांशी |
नसुवर्ण |
ञकारश्चन्द्रधवलः पाशपाणिर्भृगुःस्मृतः |
टकारो हृदया ह्लादी खेटकी पर्वतः स्मृतः || २४ ||
ह्वानः |
ठकारः कौस्तुभो मेघी तोमरो दुस्सहः स्मृतः |
डकारः पुण्डरीकाक्षो झषो भूमिर्वनालयः || २५ ||
मेधी |
ढकारः पुष्पभद्रा च दृढकर्मा प्रतर्दनः |
णकारो वनमाली स्यात्प्रचण्डस्सुमुखः स्मृतः || २६ ||
एकनेत्र स्तकारस्याद्वैराजो विजयः स्मृतः |
थकारस्सर्व रोधश्च रसात्मा सुप्रतिष्ठितः || २७ ||
रोगश्च |
दकारो वैधरो दृष्टिरत्रि स्स त्रिपुरान्तकः |
धकारो धनदः पुण्यस्सुभगो मोहनाशनः || २८ ||
सर्व |
नकारो भद्रपाणिस्स्याद्विघ्नेशो मानुषेश्वरः |
पकारः पापहननः पवित्रः पश्चिमानवः || २९ ||
पकारः पुल्लनयनश्शिखण्डी स्याद्विकर्मणः |
बकारो जृम्भलो ह्रस्वो मतिमान् कालनेमिजित् || ३० ||
भल्लायुधो भकारश्च सुभद्रस्सूक्ष्मलोचनः |
मकारो मन्दरो दक्षो माधवी पाटलक्रियः || ३१ ||
यकारः पुरुषात्मा स्याद्वायु श्शङ्खश्चतुर्गतिः |
रेषोऽनलो महाज्वालो विश्वात्मासर्वदाहकः || ३२ ||
लकारःपीतवर्णाभो महेन्द्रः पुलहः स्मृतः |
वकारो वरुणः कुम्भः पीयूषात्मा सुधारसः || ३३ ||
शकारश्शुभदो लक्ष्मीः श्रीवत्सो वित्तवर्धनः |
षकारः क्रोधरूपी स्यादुग्रात्मा शत्रुसूदनः || ३४ ||
पूर्णचन्द्रः कलात्मा स्यात् सकारश्शुक्लसंज्ञितः |
द्वादशात्मा हकारास्स्याद्दीप्तिमान् भास्करः स्मृतः || ३५ ||
ऌअकारोडुण्डभो भर्गो विष्कम्भो विषमध्वनिः |
क्षकारो गरुडोऽ नन्तः कूटो नरहरिःस्मृतः || ३६ ||
गर्भो विष्कम्भो नृषभध्वनिःगर्गो |
अनुस्वारो द्रुवो बिन्दुर्यष्टिश्चन्द्रार्ध उच्यते |
स्वाहाकारो हुतान्तश्च टठेति परिकीर्तितः || ३७ ||
चन्देति परिकीर्तितः |
नमस्कारो नतिर्वर्णसंज्ञा इत्यादयः स्मृताः |
वर्णानां देवतानिर्देशः. |
चक्रसंस्थितवर्णानां देवता कथ्यते क्रमात् || ३८ ||
तत्र अचां देवताः. |
सर्वेषामपि वर्णानामकारः कारणं यतः |
सर्वकारणरूपत्वा द्विष्णुस्तस्याधिदेवता || ३९ ||
आकारस्य मधुद्वेषी स्यादिकारस्त्रि विक्रमः |
ईकारो वामनो देवस्तथोकारश्श्रियः पतिः || ४० ||
विक्रमी |
ऊकारस्य पृषीकेशो वर्णस्य स्यादनन्तरम् |
पद्मनाभस्त्वृकारस्य देवो दामोदरो भवेत् || ४१ ||
ॠकारस्य स्थितश्शम्भुः लृकारस्य च देवता |
नारायणोऽधिदेवस्स्यात् लृकारस्य चतुर्मुख || ४२ ||
ॠकारः केशवो देवो |
माधवोऽनन्तरार्णस्य गोविन्दो देवता भवेत् |
ऐकारस्य तथार्णस्य स्यादोकारस्य देवता || ४३ ||
वासुदेवस्तथार्णस्य स्यादौकारस्य देवता |
सङ्कर्षण स्तथाङ्कारो भवेत्प्रद्युम्न देवता || ४४ ||
अःकारस्यानिरुद्धस्स्याद्देवा इत्थं क्रमादचाम् |
देवताः कथिता ब्रह्मन् |
हलां देवताः. |
हलां संप्रति कथ्यते || ४५ ||
ककारस्य विधिर्देवः खकारस्य सुदर्शनः |
गकारस्य घकारस्य वाणी शार्ङ्गश्च देवता || ४६ ||
वाणीशार्ङ्गाधिदेवते |
ङकारस्य चकारस्य देवो नन्दक इष्यते |
छकारस्य यमो देवो जकारस्य च देवता || ४७ ||
मुसली स्यात् झकारस्तु भवेदङ्कुशदैवतः |
ञकारस्य भृगुर्देवः टकारस्य महीधरः || ४८ ||
झकारस्य भवेदङ्कुशदेवता |
मेरुः कौस्तुभदैवत्यः ठकारो डस्तु पार्थिवः |
ढकारो मातृदैवत्योणकारो वानमालिकः || ४९ ||
तकारस्य तथा दृष्टिः थकारो रसदैवतः |
अत्रिर्दकारस्य भवेद्धकारस्य धनेश्वरः || ५० ||
लम्भोदरो नकारस्य पकारस्य पवित्रकः |
शिखण्डवान् फकारस्य बकारस्य तु देवता || ५१ ||
जृम्बलो भाक्षरस्य स्यात्सुभद्रो देवता तथा |
दक्षो मकारस्य भवेद्यकारो वायुदैवतः || ५२ ||
जृम्भलन्तु भकारस्य |
धूमध्वजस्स्याद्रेफस्य लकारस्य दिवस्पतिः |
पकारो वरुणेशान श्शकारो माधिदैवतः || ५३ ||
क्रोधाकारः षकारस्य सकारश्चन्द्रदैवतः |
सहस्रांशुर्हकारस्य ऌअकारो भर्गदैवतः || ५४ ||
भगदैवतः |
नरसिंहः क्षकारस्य कथिताः कादिदेवताः |
मन्त्रावर्णादिज्ञाने फलम्. |
वर्णानां चक्रनिष्ठानां नामान्यपि च देवताः || ५५ ||
यो वेत्ति तस्य फलदा मन्त्रिण श्चतुरानन |
वर्णानां नक्षत्राणि. |
यावतो यस्य वर्णस्य यन्नक्षत्रं विदुर्बुधाः || ५६ ||
स च तावां स्तत्र वर्णः क्रमादिह निगद्यते |
आद्यं विना स्वरं वर्णावाद्यावाश्वयुजौ स्मृतौ || ५७ ||
तासाम् |
इकारस्यापि भरणी कृत्तिकात्रयमुत्तरम् |
चतुष्टयमृकारादि रोहिण्ये कमथेडका || ५८ ||
रौद्रमप्येक मेवस्यात्पुनर्वस्वोर्द्वयं मतम् |
द्वयमेव तथा पौष्णमाद्यन्तं वा मता न्तरे || ५९ ||
वर्णस्स्यात् |
कादिषु प्रथमं पुष्यं द्वयं सार्पं द्वयं मघा |
एकमर्यमणं युग्मं भर्गदैवतमुच्यते || ६० ||
पुष्यद्वयं सार्प |
भगदैवतभगवद्दैव |
युग्ममेव तु सावित्रं द्वयमिन्द्राधिदैवतम् |
एकं निष्ट्या विशाखे द्वे त्रयं मैत्रमनन्तरम् || ६१ ||
द्वयं चित्त्रा |
तिष्या |
ऐन्द्रमेकं त्रयं मूलं पूर्वमाषाढमेककम् |
आषाढमुत्तरं चैरमेकमेवाभिजिन्मतम् || ६२ ||
द्वयं वैष्णवमेकं तु श्रविष्ठा शततारकम् |
एकमेव त्रयं शादि वर्णस्स्यादज एकपात् || ६३ ||
त्रियंशादि |
अहि र्बुध्न्यस्त्रयो वर्णा इति वर्णेषु तारकाः |
राशयः |
आदौ चतुष्टयं मेषो वर्णानामृषभस्त्रिकम् || ६४ ||
तथैव मिथुनं युग्मं कुलीरं मृगराट् तथा |
शिष्टद्वयं शादयस्तु कन्या कुः प्रथमं तुला || ६५ ||
कन्यायाः |
चवर्गो वृश्चिकश्चापः टवर्गस्सद्भिरुच्यते |
तवर्गो मकरः कुम्भः पवर्गोऽ न्त्यस्य यादयः || ६६ ||
न्यस्य |
साधकस्य योगपरीक्षा. |
नक्षत्रं यत्साधकस्य मन्त्रस्याद्यक्षरस्य यत् |
नरनार्योरिवतयोर्योगायोगौ परीक्षयेत् || ६७ ||
सिद्धारिचक्रन्यासः |
चतुष्पदं लिखित्वोर्वां तत्राकारादि निक्षिपेत् |
यर्स्मिपदे साधकस्य नामाद्यर्णलिपि स्तथा || ६८ ||
तत्रैव चेद्भवेस्मन्त्र स्याध्यं वर्णमवस्थितम् |
तत्सिद्धं स्याद्द्वितीये तु साध्यं विद्यादनन्तरे || ६९ ||
स्स्याद्यवर्णमपि |
पदे सिद्धं तुरीये तु वैपरीत्याय कल्पते |
सिद्धे सिद्धं जापाद्यैस्तु साध्ये साध्यं सुसिद्धके || ७० ||
अधितमात्रे महते फलाय भवति ध्रुवम् |
पदे तु वैरिणस्स्याच्छेल्लिपिरध्येतृनाशनम् || ७१ ||
आनुगुण्यं परीक्ष्येत निमित्तानि परीक्ष्य च |
साधकस्साधयेन्मन्त्रं देवस्य कुटिला गतिः || ७२ ||
मूलमन्त्रचतुष्टयस्य नानुगुण्यपरीक्षा. |
चतुर्षुमूलमन्त्रेषु नानुगुण्यं परीक्षयेत् |
मूलमन्त्रनिरूपणम्. |
तारमष्टाक्षरं चैव द्वादशाक्षरमेव च || ७३ ||
विष्णुगायत्र्यपि तथा चत्वारः प्रथमे मताः |
मालाभीजमन्त्रलक्षणम् |
द्वात्रिंशदक्षराधिक्ये मालामन्त्रादशादिखे || ७४ ||
बीजमन्त्रा |
मन्त्राणां वयोजात्यादिनर्देशः. |
स्समस्तेषु पूर्वे वार्धिक्यशोभनाः |
इतरे यौव्वने तद्वत्सर्वे बाल्येपि शोभनाः || ७५ ||
इतरे इत्यर्धं क्वचिन्न |
स्त्रीवुन्न पुमिति त्रैधं भजन्तेमन्त्रजातयः |
संस्त्यानमन्त्रास्स्वाहान्ता मनोन्तास्तु नपुंसकाः || ७६ ||
बिति च |
शेषाः पुरुषमन्त्रास्स्युरिति त्रिविधमीरितम् |
मन्त्रजात्यनुरोधेन कर्मनु विनियोगः. |
उच्चाटने च वश्ये च विद्वेषे क्षुद्रकर्मसु || ७७ ||
स्त्रियः प्रशस्ता नब्लिङ्गाः कर्मस्वन्यत्र पूजिताः |
पुल्लिङ्गेषु तु मन्त्रेषु दिङ्मीत्रं किञ्चिदुच्यते || ७८ ||
सर्वेषु |
फडन्ता मरणाद्यर्थे शस्ता भूताद्युपद्रवे |
हुङ्कारान्ताः प्रशस्यन्ते वौषडन्तास्तु ते पुनः || ७९ ||
हुङ्का राद्या |
आप्यायने नियुज्यन्ते धर्मकामार्थमूर्तिषु |
चतुर्थ्यन्ताः प्रशस्यन्ते ओमन्तास्सर्वसिद्धिदाः || ८० ||
अविधिना ग्रहणे दोषः. |
सर्वमन्त्रास्सर्वफला गुरुवक्त्रद्यदि श्रुताः |
यदृच्छया श्रुतो मन्त्रश्छ न्नेनाथच्छलेन वा || ८१ ||
सर्वे |
च्छन्दे |
पत्रेक्षितो वा व्यर्थस्स्यात्प्रत्युतानर्थदः स्मृतः |
सिद्धैकमनस्त्रस्य मन्त्रान्तरसौलभ्यम्. |
एकस्सुसाधितो मन्त्रोजपहोमादितर्पणैः || ८२ ||
स साधकस्य सर्वार्थं प्रसूते नात्र संशयः |
सम्यक्सिद्धैकमन्त्रस्य नासाध्यमिहा किञ्चन || ८३ ||
किंपुनर्बहपो यस्य का कथा हरिरेव सः |
मन्त्रजपे दिगादिनियमः |
कुशेषु कृष्णत्वचि वा ब्रुस्यामेकान्तभूमिषु || ८४ ||
तस्यामेकान्त |
प्रागादिदिङ्मुखो भूत्वा न तु याम्यमुखः क्वचित् |
उपविष्टो जपेन्मन्त्रं सपवित्रकरश्शुचिः || ८५ ||
धृतोर्ध्वपुण्ड्ररचनो नान्यां वा चमुदीरयन् |
गुरुं प्रणम्य प्रथमं प्रणवप्रमुखं जपेत् || ८६ ||
जपयोग्यप्रदेशाः. |
देवतायतने नद्या शैले सागररोधसि |
वने वा तीर्थदेशे वान्यग्रोधाश्वत्थयोरधः || ८७ ||
अन्यत्र वा शुचौ देशे कुटिं कृत्वारभेत सः |
जापकस्य आहारनियमः. |
अनश्नन् वायुभक्षो वा यद्वाब्भक्षो जलाप्लुतः || ८८ ||
अन्यत्रापि |
जीर्णपर्णाशनश्शाकभोजनो वा फलानि वा |
वक्वानि मूलान्यथवा भुञ्जानो लवणं विना || ८९ ||
यपोष्टि कालाजदुग्ध भिक्षाहोरो जितेन्द्रियः |
पूर्वं पूर्वं प्रशस्तं स्यादशनीयं विशोधनम् || ९० ||
सिद्धियोग्य तिथ्यादयः. |
मन्त्रस्य देवता तारतिथिवारेषु साधकैः |
द्वादश्यां पौर्णमास्यां वा ग्रहणे कर्म शस्यते || ९१ ||
मन्त्रेषु |
राति तिथितारातिथि |
विशेषयजनं कुर्वन् चक्राब्जे जपमाचरेत् |
शिखी वा जटिलो वापि वल्कलाजिनकर्पटः || ९२ ||
त्रिसन्ध्यं स्नाननियतस्तैलाभ्यङ्गविवर्जितः |
युगभेदेन जापावृत्ति भेदः. |
यावदुक्तं कृतयुगे मन्त्राभ्यसनमिष्यते || ९३ ||
त्रेतादिषु त्रिषु प्रोक्तं द्विगुणं त्रिगुणं क्रमात् |
चतुर्गुणं परं वापि ततो मन्त्रफलेच्छया || ९४ ||
सर्वसिद्धिकरोमन्त्रस्सिद्धस्सिद्ध्येत्क्रियावशात् |
क्रियाधिगम्यते शास्त्राच्छास्त्रं देशिकपूरुषात् || ९५ ||
सर्वसिद्ध्यकरो |
मन्त्रशब्ध निर्वचनम्. |
मननं सर्वसत्वानां त्राणं संसारसागरात् |
मननत्राणसंयोगान्मन्त्र इत्युच्यते बुधैः || ९६ ||
तु भव |
अथवा गोपनीयत्वा द्धातोर्मन्त्रयते रयं |
रप्रत्ययान्तः पुल्लिङ्गस्तथायं लोकवेदयोः || ९७ ||
त्वाद्धेतोः |
परम् |
मन्त्रेण स्थाप्यते देवो मन्त्रेणैव विसृज्यते |
ज्ञानानां तत्परं ज्ञानं मन्त्रज्ञानं विदुर्बुधाः || ९८ ||
तन्त्रेण |
ऐहिकामुष्मिकं सर्वं मन्त्रेणैव प्रसिध्यति |
फलदर्शनादेव मन्त्रद्रष्टृत्वम्. |
छन्दो मन्त्राक्षरे यत्तद्दर्शनादृषिरुच्यते || ९९ ||
मात्राक्षरे |
दर्शनं च फलस्याहुर्नपुनर्मन्त्रदर्शनात् |
देवता मन्त्र फलदा मन्त्रेण प्रतिपादिता || १०० ||
ब्रुवन्ति निलयं क्षेत्रं तत्वं तत्वमिदं विदुः |
मन्त्राणां श्वेतादिवर्णभेदः. |
मन्त्राक्षराणां शुक्लादि मन्त्रभेदः प्रकीर्तितः || १०१ ||
तत्वंच भेदयोः |
वर्णभेदाः प्रदर्शिताः |
मूलमन्त्रादिमन्त्राणां साधनं शुणु सांप्रतम् |
मन्त्रिणो वर्ज्यावस्तुनिर्देशः. |
विधाय यागयोग्यानि पुष्पामूलफलानि च || १०२ ||
योग योग्यानि |
शाकादीनि तु वर्ज्यानि वर्जयेदितराणि तु |
गृह्णाया द्यानि वर्ज्यानि तानि वक्ष्यामि पद्मज || १०३ ||
वर्णानि |
वज्यानि पुष्पाणि. |
उग्रगन्धान्यगन्धानि दुर्गन्धानि परित्यजेत् |
वस्त्रार्कपर्णस्पृष्टानि पुष्पाण्यारधने हरेः || १०४ ||
उन्मत्त शाल्मली बीजपूर धुत्तूरिकाजपाः |
बन्धूकीसितकोरण्डद्रोणकन्यापराजिताः || १०५ ||
हृहत्यगस्त्यकूश्माण्डपटोल्यारग्वथैस्समाः |
मिर्गुण्डी दमयन्ती च रिंशुकं पारिभद्रकम् || १०६ ||
मदयन्तीच |
किंशुका पारिभद्रका |
कोशातकी प्रायालुश्च तपस्वी गिरिमल्लिका |
निम्बव्याघ्री करञ्जश्वी षण्ड पाषण्डपट्टिका || १०७ ||
पाण्डर |
विभीतकिङ्किण्यङ्कोललाङ्गलीशङ्खपुष्पिणी |
नारङ्गनन्दिकावर्त वल्लि काक्षीरिकादिषु || १०८ ||
विभीतकिङ्किणीकोल |
मल्लिका |
मन्त्रिणो वर्ज्यानि शाकादीनि. |
पुष्पाणि वर्जनीयानि शाकान्यपि तथा शृणु |
शृङ्गाष्टं ग्रञ्जनं शिग्रू नालिका सुनिषण्णकम् || १०९ ||
शृङ्गाग्रं गृञ्जनम् शृङ्गाष्टं कुङ्जरम् |
सौभाञ्जनं रक्तभाष्पं ग्रामभाष्पं त्रिकण्टकम् |
द्रोणपत्रं लिलिङ्गा च तण्डुलीयं तपस्विनी || ११० ||
पूतिभाष्पम् |
द्रोणं पटोली निम्बं च |
कोशातकी च वर्ज्यानि मूलेषु त्याज्यमुच्यते |
छत्राकं लशुनं तालफलमूले पटोलिका || १११ ||
बिम्बकुम्भाण्डनारङ्गफलानि परिवर्जियेत् |
वर्ज्यानि भोजनपात्राणि. |
बिल्वोदुम्बर भोध्यर्क वटपत्रेषु भोजनम् || ११२ ||
बीजकुम्बा |
वर्जयेत्साधको यत्नादालस्यं दीर्घचिन्तनम् |
विवादनिद्रा निर्वेदनिग्रहानुग्रहंस्त्यजेत् || ११३ ||
दीर्घदर्शनम् |
मन्त्रिणा धारणीयानि चिह्नानि. |
पद्माक्षमालां ग्रीवायां लम्बयेत्साधकश्शुचिः |
सुवर्ण चक्रधारणम्. |
धारयेद्रैमयं चक्रं सर्वविघ्नोपशान्तये || ११४ ||
देहे दारणीयलाञ्चनम्. |
जपकालेऽथवा चक्रं शङ्खाकृति यथातथा |
शार्ङ्गखड्गदाकारं लाञ्छनं लाञ्छयेत्सुधीः || ११५ ||
शरीरावयवे बाह्वोर्वक्षोभुवि चतुर्मुख |
चक्रादिलाञ्छितस्य माहात्म्यम्. |
चक्रादिपञ्चाभिज्ञान लक्षिताङ्गपरिष्कृतम् || ११६ ||
पुरुषं दूरतो दृष्ट्वा भूताद्या भयविह्वलाः |
विद्रवन्ति तथा घोराः पापिष्ठाः क्षणमात्रतः || ११७ ||
विनश्यन्ति तथा पुण्यपुञ्जानि प्रविशन्तिच |
प्रणमन्ति तथा देवा देवर्षिप्रवरास्तथा || ११८ ||
अकृत्यमपि कुर्वाणो भुज्जानो वा यत स्ततः |
पापैर्नलिप्यते देही चक्राद्यायुधलाञ्चितः || ११९ ||
हव्यं कव्यं च दातव्यं तस्मै तद्दानमक्षयम् |
सिद्धिप्रतिबन्धकानि वेषचेष्टादीनि. |
अविधाय शिखाबन्धमकृत्वा तिलकं मृदा || १२० ||
तद्धत्तमक्षयम् |
अधारयंस्ततो दर्भान् सूत्रै रनुपवीतयन् |
कुर्वन् कर्माणि न फलं प्राप्नुयात्पुरुषाधमः || १२१ ||
रनुवनीतवान् |
नग्नो मुक्तशिखाबन्धो वाससा वावकुण्ठितः |
गच्छन् शयानः प्रलपन् न जपात्फलमश्नुते || १२२ ||
जपेन्मौनं समास्थाय सहसंभाषणादिकम् |
प्रतिलोमादिभिर्नीचैर्नकुर्यान्मन्त्रवित्तमः || १२३ ||
व्याहरेदपि कार्यार्थं नित्यं तद्गतमानसः |
मन्त्रसिद्ध्यर्थ शालानिर्माणादि. |
द्वादशाक्षर मन्यं वा जपेदक्षरलक्षकम् || १२४ ||
तो हीनं |
तदर्धं जुहुया दग्नौ होमशालां प्रकल्पयेत् |
धूमनिर्गमनोपेतां चतुरश्रां मनोरमाम् || १२५ ||
मनोहराम् |
कुण्डाकृति मानादि. |
तन्मध्ये कल्पयेत्कुण्डमाहुत्यसुगुणं शुभम् |
वृत्तं वा चतुरश्रं वा मेखलात्रयसंयुतम् || १२६ ||
यो निमन्मृत्स्नया ब्रह्मन् मानं कुण्डन्य कथ्यते |
अयुताहुतिपर्यन्ते होमे हस्तप्रमाणकम् || १२७ ||
योनिकम् |
द्विहस्तं नियुते कुण्डं त्रिहस्तं प्रयुते तथा |
शङ्कुहोमे चतुर्हस्तं महाशङ्का तु षट्करम् || १२८ ||
नृन्दाहुतौ सप्तहस्तं महाबृन्देऽष्टहस्तकम् |
अर्बुदे नवहस्तं स्यान्निर्बुदे दशहस्तकम् || १२९ ||
एकादशकरं खर्वे परार्धे द्वादशायतम् |
त्रयोदशकरं मध्ये अन्तकेतु चतुर्दश || १३० ||
अन्त्यके |
पद्मे कराः पञ्चदश महापद्मे तु षोडश |
समुद्रे विंशतिकर मोघे द्वाविंशतिः स्मृतम् || १३१ ||
महौघे |
इतोऽधिकाहुतिविधौ चतुर्विंशतिहस्तकम् |
प्रसंगात्सङ्ख्यास्थापनिर्देशः. |
प्रसङ्गादुच्यते सङ्ख्या तां क्रमेणावधारय || १३२ ||
एकं दश शतं सङ्ख्या सहस्रमयुतं तथा |
नियुतं प्रयुतं शङ्कुर्महाशङ्कुस्ततः परम् || १३३ ||
नृन्दं तथा महाबृन्दमर्बुदं न्यर्बुदं तथा |
खर्वं परार्धं मध्यान्ते पद्मं तन्महदादिकम् || १३४ ||
पद्मोत्तरं समुद्रं स्यान्महौघं चोत्तमं भवेत् |
एकमारभ्य गणयेत्प्रयुतान्तं यथाक्रमम् || १३५ ||
उपोत्तमम् |
चोत्तरम् |
स्थानात् स्थानं दशगुणं वर्धयेत्प्रयुतावधि |
लक्षस्य नियुतं सङ्ख्या कोटिः प्रयुतमिष्यते || १३६ ||
सर्वत्र सङ्ख्या इत्यत्र संज्ञा इतिको शान्तरे |
शङ्कुमारभ्यगणयेन्महौघान्तं क्रमाद्यथा |
शतं कोटिसहस्राणां शङ्कुसङ्ख्या निगद्यते || १३७ ||
तथैव स्यान्महाशङ्कुरेवं बृन्दं प्रकीर्तितम् |
तद्वदेव महानृन्द मेवमेवार्बुदं स्मृतम् || १३८ ||
इत्थं निर्बुदमाख्यातमेवं खर्वमुदाहृतम् |
एवमेव परार्धं स्यान्मध्यमित्थं चतुर्मुख || १३९ ||
एवमन्तं तथा पद्मं महापद्मं तथैव च |
सागरप्रलयावेवं सङ्ख्या नास्ति ततः परम् || १४० ||
एवमेवं |
अग्ने श्शोत्रादिनिरूपणम्. |
यत्र काष्ठं तु तच्छ्रोत्रं यत्र धूमस्तु नासिका |
यत्राल्पज्वलनं नेत्रं यत्र भस्मतु तच्छिरः || १४१ ||
यत्र इत्यादिसमिद्भिः इत्यन्तं कोशचतुष्टये न दृश्यते |
यत्र सम्यके स्थिता दर्भास्तत्र केशाः प्रकीर्तिताः |
यत्र प्रज्विलितो वह्निर्जिह्वातत्रैव कीर्तिता || १४२ ||
होमस्तानादिफलम्. |
अग्निकर्णे हुती रोगो नासिकायां मनोव्यथा |
चक्षुषोर्निधनं कुर्यात्केशे दारिद्र्यं भवेत् || १४३ ||
हुतं शिरसि पापं स्यात्तस्माज्जिह्वासु होमयेत् |
समिद्भिर्याज्ञियैर्बीजैर्घृतैर्गव्यैस्तथा दलैः || १४४ ||
सुमनोभिस्समिद्धेग्नौ जुहुयादग्निमाहरेत् |
कुण्डमध्ये योगासनम्. |
आरण्यं मणिजं लौहं कुण्डमध्ये परिष्कृते || १४५ ||
योगासनं चाग्नि मध्ये कल्पयित्वा हरिं पुनः |
प्रत्यहं होमः. |
आवाहयेत्तत्र देवं होमान्तं तत्र सन्निधिम् || १४६ ||
तस्य |
प्रार्थयेत समाराध्य होमं कुर्याद्दिने दिसे |
आहोमकालमर्यादं रक्षेदग्निमतन्द्रितः || १४७ ||
न दहेत्परिधीन् दर्भानुपस्तीर्णानुपक्रमे |
सिद्धेर्निमित्तानि. |
एवमुक्तेन मार्गेण जपतो मन्त्रमुत्तमम् || १४८ ||
साधकस्य पुनस्स्वाप्नास्सम्भवन्त्यविचारिताः |
मन्त्रसिद्दिमसिद्दिं च सूच यन्तश्शुभाशुभम् || १४९ ||
पुरा |
यन्त्य |
तत्र सुनिमित्तानि. |
आचार्यं प्रतिमां देवीं पूजोपकरणानि च |
विप्रं भागवतं भूपं छत्रचामरदन्तिनः || १५० ||
सिंहासनमपां कुम्भं पुर्णं कन्यां मधूजनम् |
दीपं शङ्खं तथा यानां श्रीवत्सं पादुकां तथा || १५१ ||
श्रीवृक्षम् |
श्वेतं वस्त्रं च माल्यं च चन्दनं भूषणानि च |
रत्नानि काहलादीनि पायसं दधि पालिकाः || १५२ ||
तांबूलं पुस्तकं घण्टां तण्डुलानवगाहनम् |
समुद्रतरणं शैलारोहणं द्रुमरोहणम् || १५३ ||
भूमिलाभं मृदां लाभं तटकुपादिदर्शनम् |
प्राङ्कुखोदुङ्गुखो वापि यात्रां कुर्वन् स्वयं यदि || १५४ ||
भूमिलाभमृतं लाभम् |
विमानदर्शनं विष्णोर्दीप्तौ च शशिभास्करौ |
नक्षत्राणि गृहादीनि ज्योत्सां च ध्रुवमण्डलम् || १५५ ||
नक्षत्राणि इत्यर्धं कोशपञ्च के न दृश्यते |
दीप्तमग्निं वेदघोषं सिद्धविद्याधरादिकम् |
देवता समितिं चैव पश्यन् मूलफलानि च || १५६ ||
अपूपादीनि भक्ष्याणि कुशयष्टिं कमण्डलम् |
यज्ञोपवीतं पात्राणि स्रुक्स्रुवादीनि लोकयन् || १५७ ||
अक्षमालामेव माद्यैश्शुभैस्स्वप्नैर्विनिर्दिशेत् |
मन्त्रसिद्धिं बहु मुखां |
दुर्निमित्तानि. |
दुस्स्वप्नाश्चाप्यशोभनाः || १५८ ||
मुखात् |
कथ्यन्ते मुण्डितैस्सार्धं सम्भाषा सहवर्तनम् |
स्वयं मुण्डश्छभिभ्राणो जीर्णं नीलं तथाम्बरम् || १५९ ||
कन्थां कर्तां तथा नीलां पुष्पमालां च मूर्धनि |
गर्दभारोहणं भग्नयानाधिष्ठानमब्जज || १६० ||
छिन्नच्छत्रधरो वापि महिषारोहणं तथा |
दक्षिणाभिमुखो गच्छन्नुष्ट्रवाहादिरोहणम् || १६१ ||
दष्टश्च कपिभिर्देहे सृगालैर्वा वृकै स्तथा |
कर्णपादशिरश्छेदो दन्तानां पदनं तथा || १६२ ||
नववस्त्रधरः पीडा भडैः पाशेन बन्धनम् |
विधवालिङ्गनं नीचैः पाषण्डैः प्रतिलोमजैः || १६३ ||
विधायालिङ्गनं |
वर्तनं गोपुरादीनां पतनं शाखिनामपि |
तुरगारोहणं भुक्तिर्बौद्धाद्यालयसेवनम् || १६४ ||
भुक्तम् |
मदिरापायिभिः पापरोगिभिःकितवैस्सह |
वर्तनं दीपनिर्वापं देवानामुत्सवं तथा || १६५ ||
ग्रामादिदाहो भक्ष्याणां फलादीनां च भक्षणम् |
मधूच्छिष्टं प्रतिच्छाया यात्रा युद्धोद्यमं भटैः || १६६ ||
अभ्यङ्गं तैललाभं च मरीचं लवणं तथा |
लोकयन्नेवमादीनि स्वप्ने शान्तिं समाचरेत् || १६७ ||
सिद्धिप्रकाराः. |
जपहोमादिभिर्विद्वान् जाग्रतः प्रत्ययां स्तथा |
वक्ष्यामि साधकस्याग्रे जातानब्युदयावहान् || १६८ ||
प्यूम्नि देवगाणान्नेमि घोषं दुन्दुभिनिस्वनम् |
स्द्दैस्संभाषणं चापि विमानानां च दर्शनम् || १६९ ||
भूतप्रेतपिशाचादिदशर्नं भूतले तथा |
होमकाले च सप्तार्चिस्त्रिशिखः परिदृश्यते || १७० ||
शुद्धस्फटेकसङ्काशो दक्षिणावर्त शोभितः |
दिव्यगन्धोपलम्भश्च छत्रबिम्बध्वजादिकम् || १७१ ||
संयुतः |
शङ्खदुन्दुभिवीणादिवेदघोषश्रुतिं पुनः |
पूर्णाहुतिविधौ सिद्धिलिङ्गान्येतानि लोकयेत् || १७२ ||
सिद्धिलिंगानां गुरुं विनान्यत्रप्रकाशनिषेधः. |
साधकस्तानि लिङ्गानि कथयेन्न गुरुं विना |
होमान्ते भोजयेद्विद्वान् वैष्णवान् द्वादशावरान् || १७३ ||
साधकानि हि लिङ्गानि |
यावन्मन्त्रसिद्धि भगवदाराधनम्. |
यावच्च मन्त्रसिद्धिस्स्यात्तावदाराधयेद्धरिम् |
कामनानुगुणाकारं दार्वाद्यैः परिकल्पितम् || १७४ ||
दिने दिने जपेन्मन्त्रं जुह्वान्नग्नौयथापुरम् |
प्रणव पुरश्चरणविधिः. |
प्रणवस्य शृणु ब्रह्मन् पुरश्चरणमुत्तमम् || १७५ ||
पुनः |
बीजं साङ्गं समुद्धारं यथावदवधारय |
अप्रमेयादिमुदयं मध्ये मन्दरपश्चिमम् || १७६ ||
मन्दिर |
समाहृत्य त्र्यवयवं त्रीन् वर्णान् वाचकं हरेः |
प्लुतोदात्तस्वरं ब्रह्मन् चक्रमध्ये प्रतिष्ठितम् || १७७ ||
त्रिकवचस्त्रीन्वर्णान् |
उद्धरेद्बीजमस्याद्यं प्रतीकं दण्ड शेखरम् |
वैष्णवं दण्डयेद्वैषा शक्तिस्सर्वत्र कीर्तिता || १७८ ||
प्रतीतम् |
बीजशक्त्यङ्गहीना ये मन्त्र्यासुसै निरर्थकाः |
तस्मात्साङ्गं बीजयुक्तं शक्तियुक्तं फलप्रदम् || १७९ ||
बीजं शक्तिश्च कथिता श्रूयतामङ्गजातयः |
ऋषिर्ब्रह्मस्य छन्दस्तु देवी गायत्र मुच्यते || १८० ||
प्रतिपाद्यः परोदेवः परमात्मा स देवता |
बुद्धिस्तत्वं परं प्यूम क्षेत्रं वर्णस्सितच्छविः || १८१ ||
ज्ञानं बलं तथावीर्यमैश्वर्यं तेजसा सह |
शक्तिरेते चतुर्थ्यन्ता नमस्स्वाहा वषट् तथा || १८२ ||
हुं फट् वौषट् क्रमादेत दवसानाश्शुभावहाः |
अङ्गानि हृदयाद्येषु षट्सु स्थानेषु मन्त्रिणा || १८३ ||
प्रयोज्यानि प्रयुक्तेषु मन्त्रस्साङ्गः कृतो भवेत् |
देहे करतले चैव स्थानेषु द्वादशस्वपि || १८४ ||
प्रयोगेषु |
द्वादशाक्षरवन्न्यासः प्रणवस्स्फटिक प्रभः |
न्याने नमोन्तस्स्वाह्न्तू जपपूजाहुतिष्वपि || १८५ ||
न्यासो |
वश्ये चाकर्षणविदौ उच्छाटे हुङ्कृतिर्भवेत् |
मारणे फट्कृतिर्ज्ञेया स्तम्भ विद्वेषमोहने || १८६ ||
विज्ञान |
सतिं विनाङ्गमन्यस्स्याद्धर्मादौ नतिरेव सा |
शाकयावकभैक्षाशी जपेल्लक्षत्रयं शुचिः || १८७ ||
तदर्धं तर्पणे सङ्ख्या तदर्धं होमकर्मणि |
होमान्ते सिद्धयस्तस्य जायन्ते यावदीप्सिताः || १८८ ||
यद्यदीप्सिताः |
ऐहिकामुष्मिकं सर्वं प्रणवाल्लभ्यतेऽ खिलम् |
प्रणवान्न परोमन्त्रः कश्चिदस्ति चतुर्मुख || १८९ ||
फलम् |
शान्तिपुष्ट्यभिचारेषु किमन्यैस्सिद्धिवर्णनैः |
अन्त्यकाले च मां ध्यात्वा व्याहरन् प्रणवाक्षरम् || १९० ||
योगाभ्या सोक्त विधिना जीवमारोहयेद्धृदि |
भ्रुवो र्मध्ये ततोजीवं ततो ब्रह्म बिलं ततः || १९१ ||
योग इत्यादि. सर्वपाप इत्यन्तं क्वचिन्न |
सेन |
उच्चरन् प्रणवं भित्वा भिलं ब्रह्मणि लीयते |
यावत्प्राणविनिर्मोकमभ्यस्येत्प्रणवाक्षरम् || १९२ ||
हित्वाबिम्बं |
सर्वपापविनिरिमुक्तो याति ब्रह्म सनातनम् |
प्रोक्तः प्रणवकल्पस्ते समासेन चतुर्मुख || १९३ ||
Kapitel 24
Lesehilfe: Kapitel 24: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
चर्यापादेचतुर्विंशोऽध्यायः |
श्रीभगवान् |
द्वादशाक्षरमन्त्रकल्पः. |
द्वादशाक्षरमन्त्रस्य शृणु कल्पं चतुर्मुख |
मातृकाचक्रमभ्यर्च्य द्वादशार्णं समुद्धरेत् || १ ||
मन्त्रसमुद्धारप्रकारः. |
प्रणवं परमात्मानं भद्रपाणिमनन्तरम् |
विष्णुं दक्षं चोतदेहं सुभद्रं गदिनं सुधाम् || २ ||
विष्णुशीर्षं त्रयं पश्चाद्द्विजयं संप्रसारणम् |
वरुणं चादिदेवान्तं शुक्लं भुवनशीर्षकम् || ३ ||
अत्रिं माधव नामानं पीयूषं मधुसूदनम् |
वायुं तथाऽप्रमेयान्तमेव मुद्धारणक्रमः || ४ ||
नामान्तम् |
मुच्चारणे विधिः |
बीजमस्य द्वादशात्मा दण्डशीर्ष उदाहृतः |
क्रुद्धो महांश्च वीरश्छ द्युस्सहस्रं च तेजसा || ५ ||
उल्कान्ताष्षडिमे शब्दाश्चतुर्थ्यन्ताः स्वधान्तकाः |
बीजाक्षराणि. |
अङ्गानि हृदयादौ स्युः स्थाने बीजाक्षराणि वा || ६ ||
ष्ठठान्तकाः |
बीजन्यासन्थानभेदः. |
परस्य वासुदेवस्य बीजाङ्गं समुदाहृतम् |
दीप्तिमानूर्ध्वलोकान्तो बीजं दण्डश्शिरः स्मृतम् || ७ ||
दीप्तिमान् कुम्भसंयोगो मधुसूदनमस्तकः |
स एव वामनशिरा हृषीकेशशिरास्तथा || ८ ||
दीप्तिमत्कुम्भ |
वीरसेनशिराश्चापि कल्क्यन्तोयमनन्तरः |
षष्ठमौर्वशिरः प्रोक्तमङ्गानि क्रमशः पुनः || ९ ||
देवदत्तशिराश्चापि विष्ण्वन्तोयमनन्तरः |
सत्यन्तदण्डशिरसस्सर्वे विभवपूर्वके |
वासुदेवे प्रयोक्तव्या हृदया दिषु षट्स्वपि || १० ||
दीनि |
ऋषिर्देवता च. |
व्यूहपूर्वे तु बिम्बस्याद्विष्णुः कुण्डादि पूर्ववत् |
अङ्गं यद्वा द्वादशार्णः पूर्वे षट् हृदयादयः || ११ ||
बीजं स्याद्विष्णुस्तुन्दादि |
षण्णामर्णाष्षडपरे तुन्द गुह्यभुजोरवः |
जङ्घापादमिति स्थानेष्वेते योज्याः क्रमाद्बुधैः || १२ ||
ऋषिश्च देवता चोभे वासुदेवः स्मृतस्त्रिषु |
छन्धश्च देवी गायत्री वर्णश्श्वेतश्चतुर्मुख || १३ ||
तत्वं बुद्धिः परं व्योम क्षेत्रं मन्त्रस्य शब्दितम् |
प्रत्यक्षरमृषिश्छन्दो देवता वर्णविस्तरः || १४ ||
तत्वं क्षेत्रं क्रमात्सर्वमुच्यते द्वादशस्वपि |
परमेष्ठी सनन्दश्च सनकश्च प्रजापतिः || १५ ||
भृगुस्सनत्कुमारश्च पुलस्त्यः पुलहः क्रतुः |
मरीचिरत्र्यङ्गिरसौ कथिता ऋषयः क्रमात् || १६ ||
छन्दांसि देवी गायत्री बस्तः क्षेत्रं प्रजापतिः |
त्रिष्टुप्पङ्त्किश्च बृहती विराट् बस्तस्त्रिवृत्सकः || १७ ||
बस्तः क्षत्रं |
भष्ठस्त्रिवृत्सकः |
उष्णिक्च श्रीरिति ब्रह्मन् वर्णेषु द्वादशस्वपि |
विष्ण्वाद्या मासपा देवास्तत्वानि कथयामिते || १८ ||
तत्वानि. |
चिज्जीवः प्रकृतिर्बुद्धिर्मन स्सत्वादयो गुणाः |
व्योमाग्निर्मरुतश्चापि वर्णानां तत्वमीरितम् || १९ ||
स्तत्वादयो |
क्षेत्राणि. |
क्षेत्राणि परमव्योम वायुरग्निर्जलं तथा |
सत्यं तपो जनश्चैव मह स्स्वर्गं भुव स्तथा || २० ||
तपोऽमृतः |
त्तत्वं |
भूमिः पातालमेतानि क्रमेण कथितानि ते |
आम्नादिधामाश्रेयांशं गोपनान्तं सदण्डकम् || २१ ||
आम्नादि यामाश्रयसो. अत्र अशुद्धमिन |
सत्यन्तं पापहननं विष्ण्वन्तं भानुमान् परम् |
शङ्खमाद्यक्षर परं कमलं मधुसूदनम् || २२ ||
नह्निमत्परम् |
पदम् |
पुलहं चापरं विघ्नुनायकं पीतसूदनौ |
एकनेत्रं मन्दरं च विष्ण्वन्तं भत्रहस्तकम् || २३ ||
संप्रसारणमूर्धानमुद्धरेन्मन्त्रवित्तमः |
अग्निप्रकारमन्त्रोयं कथितः कमलासन || २४ ||
दुर्गा गणपतिस्तार्क्ष्य क्षेत्रपालपदानि तु |
चतुर्थ्यन्तानि नत्यन्त प्रणवादीनि मिन्त्रिणा || २५ ||
कोणदिक्षु प्रयुज्येरन्नारभ्याग्नेर्दिशं क्रमात् |
द्वादशाक्षरभाष्यम्. |
भाष्यं च द्वादशार्णस्य प्रवक्ष्यामि यथातथम् || २६ ||
ओमित्युक्तं परं ब्रह्म सुखरूपं ध्रुवं स्थिरम् |
व्यापित्वात्तस्य वाच्यस्य वाचकं सर्वगं स्मृतम् || २७ ||
पुरुषार्थं परैस्सर्वैस्सुरासुरमहिर्षिभिः |
नम्यन्ते देव देवैकस्स एवैकः परायणम् || २८ ||
आदौ सृजति भूतानि भूतानुग्रहकाम्यया |
परिपालनमप्येष करोति बहुमूर्तिभिः || २९ ||
विश्रमार्थं च भूतानां संहरत्यखिलं जगत् |
गतिर्गतिमतामन्या वासुदेवान्न विद्यते || ३० ||
संहरत्यात्मभूतानि पुनस्सृजति मायाया |
देवे जाग्रति जागर्ति सुप्ते स्वपिति चाखिलम् || ३१ ||
चराचरमिदं कृत्स्नं भूतग्रामं चतुर्विधम् |
द्वादशाक्षरवाच्यो सौ |
द्वादशाक्षरचिन्तकानां माहात्यम्. |
तस्य माहात्म्यमाश्रितः || ३२ ||
ब्रह्मन् |
यम् |
ब्रह्मभूयं गतो ब्रह्मा देवभूयं च देवताः |
ऋषयश्च मरीच्याद्या मुनयस्सनकादयः || ३३ ||
मन्त्रमाहत्म्यमाश्रित्य जग्मुः पदमनुत्तमम् |
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः || ३४ ||
न कदापि निवर्तन्ते द्वादशाक्षरचिन्तकाः |
किं तस्य यज्ञैः किंतीर्थैः किं विश्राणनकर्मभिः || ३५ ||
किं व्रतैर्यस्य मन्त्रोऽसौ द्वादशाक्षरलक्षणः |
सर्व यत्नेन पुरुषस्तन्मन्त्र निरतो भवेत् || ३६ ||
यज्ञेन |
नियतो |
संसार भयभीरूणां मोक्षैकफलकामिनाम् |
मुक्तये परमोपायो मन्त्रोऽयं द्वादशाक्षरः || ३७ ||
देवदानवगन्धर्व यक्षविद्याधरादयः |
प्रणमन्ति महात्मानं द्वादशाक्षरचिन्तकम् || ३८ ||
यस्य राष्ट्रे महीपस्यमन्त्री वसतिनिर्भयः |
तद्राष्ट्रे धनधान्यादि समृद्धं वर्धतेऽधिकम् || ३९ ||
तं दृष्ट्वा |
भूतानि च पलायन्ते ग्रहश्चैव भयङ्काराः |
राष्ट्राद्राजपुराद्राज्ञस्सकाशाच्च निपीडिताः || ४० ||
न फलं शक्यते वक्तुं कार्त्स्न्ये कमलासन |
चतुर्मुखमुखैस्सर्वेर्दिर्वैर्वर्षशतैरपि || ४१ ||
शरीरशुद्धये पुरश्चरणनियमः. |
शरीरशुद्धये पूर्वं पुरश्चरणमाचरेत् |
शरीरं मन्त्रसंस्कारपुरश्चरणमिष्यते || ४२ ||
ब्राह्मणां स्तन्मयान् पूर्वमाहुय द्वादशावरान् |
भोजयित्वा ततश्चक्रमण्डले देवमर्चयेत् || ४३ ||
विज्ञाप्य देशिकः पूर्वमनुज्ञातस्सहायवान् |
आश्रमे यत्र मुनिभिः पूर्वमाचरितं तपः || ४४ ||
तथा. ततः |
सिद्धमन्त्रफले तत्र वासुदेवनिकेतने |
पश्चिमद्वारि वान्यत्र पूर्वोक्तस्थानभूमिषु || ४५ ||
स्थानेऽभिरुचिते पुष्पसमित्कुशफलोदकैः |
समुपेते यथोक्तानां सम्पन्नाभिमताशनः || ४६ ||
भिक्षान्नभोक्ता भक्तानां तन्मयानां गृहेषु वा |
ब्रह्मचारी गृहस्थो वा साधयेद्द्वादशाक्षरम् || ४७ ||
वैखानसो वा नियतस्तपस्यभिरतश्सुचिः |
भिक्षान्नभुग्भ्रह्मचारी शाककन्दफलाशनः || ४८ ||
गृहस्थश्चेत्स्वयं पाकं पुत्रैर्वा भार्ययाऽपि वा |
शिष्येण वा पाचितान्नं निवेद्य हरयेऽग्रतः || ४९ ||
पक्वम् |
वैश्वदेवादिकर्मान्ते भोजयित्वाऽतिथीनपि |
शिष्यं भार्यां तथा पुत्रं तोषयित्वा यथातथम् || ५० ||
शिष्यान् |
पुत्रान् |
स्वयं भुञ्जीत विधिवत्पश्चादन्नमकुत्सयन् |
पुत्रदारसमायुक्तोजपेद्वैखानसश्शुचिः || ५१ ||
वियुक्तः पुत्रदाराद्यैरथवा नियतस्थ्सितः |
अञ्जसैव स्वयं पक्वमन्नमद्यान्मि ताशनः || ५२ ||
पुरश्चरणसम्पत्तये शुद्धिः. |
अन्धस्स्वैरं |
पुरश्चरणसम्पत्तये शुद्धिः. |
सर्वेषां कायशुध्यर्थमादौ चान्द्रायणं चरेत् |
पादोदकं पञ्चगव्यं ब्रह्मकूर्चजलं तथा || ५३ ||
पादो इदमर्धं क्वचिन्न |
पीत्वा कायविशुध्यर्थं पुरश्चरण माचरेत् |
मन्त्रसाधनयोग्यकालः. |
आरम्भः कर्मणां मासि मार्ग शीर्षेऽथ शोभने || ५४ ||
शीर्षेह्नि शोभने |
चैत्रे मासि सिते पक्षे ब्रह्मन्ने कादशीतिथौ |
उपोष्य पूर्वं चक्राब्जे प्रतिमायामथापि वा || ५५ ||
कूर्चे वा स्थण्डिले वापि यथाभिरुचिते पदे |
द्वादश्यां होमपर्यन्तमर्चयित्वा जनार्दनम् || ५६ ||
यथा वा |
पुष्पैः पत्रैर्ब्रह्मचर्यनिरतो देशकालवित् |
सङ्कल्प्य कालनियमं व्रतादिनिमयं तथा || ५७ ||
साधनकालनियमाः. |
नित्यं त्रिषवणस्नानमधश्शयनमेव च |
शयनं वा कुशे पर्णे मृगचर्मणि वाब्जज || ५८ ||
सङ्कल्प्य माषं तैलं च क्षारं लवणमेव च |
कालालं भोजनं कांस्ये दिवा स्वापादि वर्जयेत् || ५९ ||
मांस्यतैलं |
च लवणं तथा |
देहशुद्धिं पुरा कृत्वा मन्त्रजापोऽक्षमालया |
आद्यन्तयोर्बीजयुतं तथैव प्रणवान्वितम् || ६० ||
जपकाले जपेन्मन्त्रं न द्रुतं न विलम्बितम् |
लक्षीकृत्याच्युतं ध्याये त्तदधीनमनोगतिः || ६१ ||
ध्यानप्रकारः. |
ध्यानं वक्ष्यामि सर्वाघनाशनं कमालासन |
चतुर्भुजमुदाराङ्गं सर्वलक्षणलक्षितम् || ६२ ||
शुद्धस्फटिक वर्णाभययुतेन्दुसमप्रभम् |
चारुहासं सुताम्रोष्ठं कर्णान्तायतलोचनम् || ६३ ||
सङ्काशम् |
निर्धूत पद्मरागाभं दन्तच्छविसुशोभितम् |
महोरस्कं महाबाहुं प्रसन्नेन्दुनिभाननम् || ६४ ||
सुभ्रूललाटं सुमुखं घनकुञ्चितमूर्धजम् |
तटिच्छतसहस्राभं पीतनिर्मलवाससम् || ६५ ||
पाणिपादतलाम्भोजं पुण्डरीकायतेक्षणम् |
श्रीवत्साङ्कं किरीटादिसर्वाभरणभूषितम् || ६६ ||
पद्म चक्र गदाशङ्खधारिणं कौस्तुभोरसम् |
दिव्यगन्धविलिप्ताङ्गं दिव्यमालाविभूषितम् || ६७ ||
शेषाहिभोगे विपुले सुखासीनं चतुर्मुख |
श्रीभूमिसहितं देवं ललाटे श्वेतमृत्स्नया || ६८ ||
धृतोर्ध्वपुण्ड्रतिलकं मण्डितं चण्डभानुभिः |
नियुतैरयुतैश्चन्द्रैर्विद्युत्कालाग्निकोटिभिः || ६९ ||
समवेतैरिवैकत्र तेजः पुञ्जैर्विसर्पिभिः |
भ्राजमानं दुरालोकं देहमण्डलनिर्गतैः || ७० ||
भासयस्तं जगत्सर्वं ध्यायेत्प्रक्षीणकल्मषः |
आराध्य देवं सन्थ्यायामपरस्यां यथाविधि || ७१ ||
मन्त्रजपकालावधिः. |
विसृज्य पुनरुत्थायधौतपादकरश्शुचिः |
आचम्य वाग्यतो मन्त्रं जपेत्सम्यक्समाहितः || ७२ ||
यावद्ब्राह्ममुहूर्तस्य प्रादुर्भावस्ततः परम् |
स्नानादि. |
स्नात्वा यथोक्तं सन्ध्यायामनुष्ठाय यथाविधि || ७३ ||
विधिं क्रमात् |
आराध्य देवमार्घ्याद्यैरुपचारै र्यथोदितैः |
जपेन्मन्त्रं शरीरस्य स्थितिमुक्तैः फलार्थिभिः || ७४ ||
फलादिभिः |
जपतर्पण होमसङ्ख्या. |
द्वादशार्णं जपेदेवं विशुद्धेनान्तरात्मना |
लक्षं द्वादश तन्यार्धं तर्पणं वारिभिः स्मृतम् || ७५ ||
जपेन्मन्त्रम् |
तदर्थं जुहुयादग्नौ साधकस्समिदादिभिः |
मन्त्रसिद्धिफलम्. |
चतुर्विंशतिलक्षेण मन्त्रजापेन किङ्कराः || ७६ ||
वर्णजापेन |
सिद्धविद्याधरास्सर्वे पाताले दिवि वा भुवि |
यथाभिरुचिते देशे दुष्प्रापे साधकं द्विजम् || ७७ ||
नयन्तस्तत्र नियतं देवन्ते परिचारिणः |
षट्त्रिंशल्लक्षजापेन देवभूयं समश्नुते || ७८ ||
अतिलक्षजापेन होमैस्तावन्मितैर्वसेत् |
महर्लोके सुखं शश्वत्तत्रत्यैरभिपूजितः || ७९ ||
कोटिलक्षेण जापेन प्राप्नु यादणिमादिकान् |
गुणान् जनाह्वये लोके वसेत्तत् स्थैस्सुपूजितः || ८० ||
महाबृन्दशतेनैव जपहोमैस्तथा वसेत् |
तपोलोके महापद्मजपहोमेन तावता || ८१ ||
ब्रह्मबृन्दशतेनैव. महाबृन्देन तेनैव |
सत्ये वसति देवेशं श्रीभूमिसहितं हरिम् |
दृष्ट्वा निरामयस्तत्र वसेत्तल्लोरवासिभिः || ८२ ||
महोघैश्शतजापेन तावदाहुतिसङ्ख्याया |
साक्षात्कुर्वन् वुसुदेवं तन्मयो भवति ध्रुवम् || ८३ ||
वसति |
किमेभिर्बहुभिः प्रोक्तैः पदं यद्यदभीप्सितम् |
तत्तदाप्नोति पुरुषस्समाराधनकर्मभिः || ८४ ||
वश्याकर्षणमुख्यानि जपहोमादिकर्मभिः |
फलानि चित्ररूपाणि दर्शयेत्साधकस्स्वयम् || ८५ ||
पाताले दिवि वा भूमौ ये भोगा भुवि दुर्लभाः |
तानवाप्नोति पुरुषः पुरुषोत्तमपूजया || ८६ ||
दिवि |
मोक्षकामस्य मन्त्रिणः सिद्धायतनविशेषे मूर्तिपूजा. |
कामोपभोगवैमुख्यं मन्त्रिणः कार्यमुच्यते |
मोक्षैकफलदं धाम दक्षिणद्वारमुत्तमम् || ८७ ||
सिद्धायतनमासाद्य तत्र देवं चतुर्विधम् |
मनुष्यनिर्मितं चार्षं दैवं रूपं मधुद्विषः || ८८ ||
स्वयं व्यक्तं समाराध्य मोक्षकामस्समाहितः |
सालोक्यादिचतुर्भेदां मुक्तिमाप्नोत्यसंशयम् || ८९ ||
सालोक्यं मानुषादार्षात्सामीप्यं देवनिर्मितात् |
सारूप्यं तुल्यमाप्नोति स्वयं व्यक्तादनुक्रमात् || ९० ||
दिव्य |
क्षेत्रसीमानिर्णयः. |
प्रासाद द्वारि चाध्माते शङ्खे तस्य महाध्वनिः |
शूयते यत्र तं देशं वैष्णवं |
सिद्धार्षाद्यालयेषु कामनानुगुणजपसङ्ख्या. |
मानुषालये || ९१ ||
द्वारपार्श्वेतु |
ततो द्विगुणमार्षेतु त्रिगुणं देवनिर्मिते |
चतुर्गुणं स्वयं व्यक्ते देशे वृद्धिमनुक्रमात् || ९२ ||
ब्रह्मचर्यपरो भूत्वा कुशशायी जितेन्द्रियः |
मुमुक्षमाणस्तन्मन्त्रं लक्षजापेन सिध्यति || ९३ ||
योगध्यानम्. तेन देहत्यागप्रकारः. |
युञ्जीत योगविधिना हृदयाम्भोरुहासने |
कर्णिकायां सुखासीनं शुद्धस्फटिकवर्चसम् || ९४ ||
योगं विधिवत् |
चतुर्भुजमुदाराङ्गं ज्योतिर्मण्डलमध्यगम् |
अङ्गुष्ठमात्रं पुरुषं ध्यात्वा भोगैर्यथाक्रमम् || ९५ ||
अभ्यर्चयेन्निर्मलेन मनसा सुसमाहितः |
योगाभ्यासबलेनैव गुणोत्कर्षः प्रजायते || ९६ ||
चन्द्रार्काग्निमयं बीजं कविमण्टलसन्निभम् |
ततस्सूक्ष्मतरं बिम्बं राजमुद्गकमप्रभम् || ९७ ||
बिम्बम् |
तत्तत्सूक्ष्मतरम् |
तं सर्वमन्त्रानाक्रम्य स्थितं विद्याद्विचक्षणः |
ततस्तु राजकाभीजप्रमाणं चिन्तयेत्क्रमात् || ९८ ||
अत्पादकमथान्याभिर्यस्यान्ते नाद आश्रितः |
तं विलीय समुत्पन्नमश्ववालप्रमाणकम् || ९९ ||
यस्य गच्छति ते प्योम्नि प्योम चागच्छते हृदि |
ततो विचिन्तयेत्सूक्ष्मा माश्ववालप्रमाणकाम् || १०० ||
यस्यागच्छन्ति |
मश्वमालाप्रमाणकम् |
ब्रह्मनाडीमनेनाशु पश्यति ध्याननेवनात् |
ततोऽङ्गरोममात्रं तु बीजवालं समन्ततः || १०१ ||
ध्यायेन्नि यममास्थाय ब्रह्मनाडीप्रकाशकम् |
एवं ध्यायन्निमं पिण्डं परिपक्वं परित्यजेत् || १०२ ||
परिज्ञाय पुरा पिण्डं पाकलक्षणमुत्तमम् |
निरुद्धसन्धिमात्रं च कृत्वा देह समीरणम् || १०३ ||
मुक्त्वा तद्ब्रह्मरन्ध्रेण उत्क्रान्तिकरणेन च |
ध्यात्वा परित्यजे द्धेहं नित्याभ्यासरतो यदि || १०४ ||
द्देहान्नित्या |
ब्रह्मप्राप्तिप्रकारः. |
स ब्रह्म परमाप्नोति वासुदेवाख्यमव्ययम् |
अपुनरावृत्तिनिदर्शनम्. |
तैले तैलं घृते सर्पिः क्षीरे क्षीरं जले जलम् || १०५ ||
तद्वन्न भेदो गृह्येत जीवात्म परमात्मनोः |
तप्तलोहो यथा तोयं लीनं नैव प्रजायते || १०६ ||
क्षीणे |
अग्निदग्धानि बीजानि नारोहन्ति यथा पुनः |
तद्वन्नजायते भूयोजीवात्मा कमलासन || १०७ ||
सारूप्यं भगवद्रूपप्राप्तिस्सद्भि रुदाहृता |
सामीप्यं सन्निदौ सेवा देवस्य परिचर्यया || १०८ ||
रुदीरिता |
सालोक्यं च तदाख्यातं लोके वैकुण्ठसंज्ञिते |
तदीये नित्य वासोऽयं पुनरावृत्तिवर्जिते || १०९ ||
सारोऽयं |
ब्रह्मणा देहपातक्रमप्रश्नः. |
ब्रह्मा |
श्रोतुमिच्छामि भगवन् देहपातस्य लक्षणम् |
सङ्क्षेपतस्तु भगवन् वयोर्गतिनिरोधनम् || ११० ||
भगवता तन्निरूपणम्. |
श्रीभगवान् |
युक्ताहारविहारस्य क्रियासक्तस्य पद्मज |
युक्तस्स्वाप्नावभोधस्य योगयुक्तस्य सर्वदा || १११ ||
विवर्तते सदा शब्दो हृद्गतो दुन्धुभिस्वनः |
स्पर्शं न शीतं नाप्युष्णं विजानाति त्वगिन्द्रियम् || ११२ ||
न जानाति |
भ्रुवोर्मध्ये यदा ज्योतिर्द्वादशान्ते व्यवस्थितम् |
प्रत्यस्तमेति वै शीघ्रं न चोदयति वैपुनः || ११३ ||
न जानाति समाधिस्थो हार्दमब्जं यदान्तरे |
परिशुष्यति गात्रस्थं शोणितं श्लेष्मलक्षणम् || ११४ ||
न वेत्ति पार्थिवं गन्धं न बाह्याभ्यन्तरे यदा |
पिण्डस्तदा प्रबोद्धव्यः काले नैव चिरेण तु || ११५ ||
पृथिव्यां संस्थितं चैव धारणायां समाहितः |
न वेत्ति शब्दं प्रागुक्तं पञ्चमात्पञ्चमे क्षणे || ११६ ||
स्थितस्समेधा भाह्येतु शीतोष्णे न च विन्दति |
प तेद्दिनचतुष्केण पिण्डस्तत्कलिते क्षणे || ११७ ||
इदं पद्यं क्वचिन्न |
रूपध्यानं समासाद्य पूर्वोक्तविधिना यदि |
न भाति हृदयाकाशे बहिर्वा ज्योतिषां पतिः || ११८ ||
पिण्डपातो ह्यवश्यं स्यात् ज्ञात्वारिष्टैः पुरोदितैः |
तृतीयेऽह्नि चतुर्वक्तसर्वमेतत्तदा क्षणे || ११९ ||
समादौ यदि वायव्ये योगी सम्यक्प्रवर्तते |
न वेत्ति परमह्लादं तृषितः परिकम्पते || १२० ||
दिनद्वयेन पिण्डस्य पातोस्य द्वितयक्षणे |
स्थितो गगनभागे तु प्रागुक्तविधिना यदि || १२१ ||
न वेत्ति विधिना गन्धं तद्बाह्ये तु शुभाशुभम् |
तत्रैवैकदिने वाथ लक्षणे प्रथमे क्षणे || १२२ ||
ध्यात्वैव विधिना सम्यग्योगी ध्यानैकमानसः |
मयि सन्नार्पितमना व्याहरन् द्वादशाक्षरम् || १२३ ||
मयिसन्तर्पितमना |
व्याहार्षम् |
स्वयमुत्क्रमते पिण्डाद्यायाद्यागनिकेतनम् |
शेषासने सुखासीनं वै कुण्ठे मणिमण्डपे || १२४ ||
अष्टबाहुं विशालाक्षमष्टायुधधरं हरिम् |
श्रीभूमिसहितं देवं सर्वाभरणभूषितम् || १२५ ||
चतुर्भुजं वा वुमेन हन्तेनालिङ्ग्य पङ्कजाम् |
अष्टौ वारस्त्रियस्तस्य वालव्यजनपाणयः || १२६ ||
तिष्ठन्ति परितः पश्चाच्छङ्खाद्यायुधधारिणः |
सेवन्ते पुरुषास्तस्माद्बहि स्तिष्ठन्ति मूर्तयः || १२७ ||
चतुर्विंशति सङ्ख्याकास्ततो मित्रादिमूर्तयः |
पक्षीन्द्रविष्वक्सेनाभ्यां कुमुदादिगणैस्तथा || १२८ ||
इदमर्धं क्वचिदधिकं दृश्यते |
महाभागवतास्तत्र द्वादशाक्षरचिन्तकाः |
सेवन्ते मण्डपे नित्यं पुनरावृत्ति वर्जिताः || १२९ ||
इह यत्कर्म कुर्वाणा विष्णोराराधनात्मकम् |
मुच्यन्ते योगमास्थाय पुरुषाः परमं पदम् || १३० ||
प्राप्यपि तत्तत्कुर्वाणा सेवन्ते पुरुषोत्तमम् |
परकायप्रवेशप्रकारः. |
अथवापिण्डपतनं विज्ञाय प्रागुदीरितैः || १३१ ||
निमित्तैरैहिकैर्भोगैस्सृजन्तः पृथिवीक्षितः |
पिण्डान्तरमुपायेन विशन्ति कमलासन || १३२ ||
येन तं कथयाम्यद्य श्रूयतां सादरं वचः |
वरपिण्डं नवं शुद्धं मध्यमे वयसि स्थितम् || १३३ ||
सर्वलक्षणसंपन्नं पापरोगबहिष्कृतम् |
ब्राह्मणस्य शरीरं वा बाहुजस्याथवा तनुम् || १३४ ||
ऊर्ध्ववक्त्रं दीर्घपादमेकान्ते शाययेच्छवम् |
तत्पादपार्श्वे शायीत बध्वा योगासनं ततः || १३५ ||
अभ्यस्येद्योगमेकाग्रो यथापूर्वं चतुर्मुख |
स जीवं नाभिचक्रस्थं भ्रमन्तं भास्करप्रभम् || १३६ ||
हंसाकारं वलर्क्षाभमिडया पिङ्गलेन वा |
हंसरूपं समास्थाय निर्गतं नासिकापुटात् || १३७ ||
खगवद्याति गगनं सार्धं प्राणसमीरणैः |
तालं हस्तावधिं दण्डं कोशं योजनमेव च || १३८ ||
गत्वा गत्वा निवर्तन्ते योजनानि चतुर्मुख |
नासिकापुटरन्ध्रेण नाभिचक्रं प्रवेशयेत् || १३९ ||
अभ्यस्य नित्यमनिशं योगी योगमतन्द्रितः |
निर्गमय्य स्वकाद्देहान्नासिकारन्ध्रवर्त्मना || १४० ||
आत्मानं परकीयेन नासिकाबिलवर्त्मना |
परपिण्डं स्वदेहस्य विनिपाते प्रवेशयेत् || १४१ ||
नाभिचक्रं प्रविश्याथ नाडीषु विचरेत्सुखम् |
सर्वत्र योगी तत्रस्थो युञ्ञानः पूर्ववत्सदा || १४२ ||
द्रढिम्ने तत्र वपुषस्तत्र स्थित्वा चिरं सुखम् |
तस्यापि पातमालोच्य पिण्डेऽन्यत्र निवेशयेत् || १४३ ||
तत्रापि |
सिद्धये |
इत्येतत्कधिकं ब्रह्मन् परपिण्डप्रवेशनम् |
मन्त्रमाहात्म्यनिगमनम्. |
सिद्धयो मूलमन्त्रस्य समासात्कथितास्तव || १४४ ||
सिद्धये |
मूलमन्त्र इति प्रोक्तस्साक्षाद्देवस्य वाचकः |
प्रसूयते मन्त्रलतां प्रसूतिमणिमादिकाम् || १४५ ||
किं पुनर्धर्म कामार्थी सिद्धिं कमलसम्भव |
नासाध्यमस्ति मन्त्रेण द्वादशाक्षररूपिणा || १४६ ||
सर्वलोकेषु सर्वत्र सत्यमेतद्ब्रवीमिते |
नास्मात्परतरो मन्त्रो विद्यते सर्वकामदः || १४७ ||
रहस्य मेतत्कथितं मन्त्रमाहात्म्यमक्षयम् |
अस्यैवमन्त्रस्य षोडशाक्षरत्वविधिः. |
अयमेवाष्टमूर्तिनामधिकश्चतुरक्षरैः || १४८ ||
अमुना षोडशार्णेन चतुर्विंशतिमूर्तयः |
आराधनीया भोगश्चेल्लभ्यते दुर्लभो महान् || १४९ ||
मन्त्रतन्त्रं यथापूर्वमुद्दृत्य द्वादशाक्षरम् |
अक्षराणि च चत्वारि वर्णचक्रात्समुद्धरेत् || १५० ||
तदुद्धारप्रकारः. |
गुहालये परिक्रान्तं भास्करं दण्डशेखम् |
द्विपट्काक्षरवच्चाङ्गमस्यापि चतुरासन || १५१ ||
एवं क्रमेण विन्यस्य |
तदृषिच्छन्दोनिर्देशः. |
मूर्तिष्वष्टासु यो ध्याता ऋषिर्मन्त्रस्य निश्चितः |
छन्दश्च देवी गायत्रं वासुदेवोऽधिदैवतम् || १५२ ||
अधिकार्णसमष्टेस्स्या द्वर्णस्स्फटिकसन्निभः |
क्षेत्रं च परमप्यूम तत्वं धीः पूर्व मीरिता || १५३ ||
शिष्टार्णकानां द्युमणिर्वासुदेवो नृकेसरी |
मनोभवश्चतुर्णां स्यादधिदैवतकल्पना || १५४ ||
नमस्स्वाहादीनां विनियोगः. |
जपेन्नमोऽन्तं पूजायामुभयोर्होमकर्मणि |
स्वाहायां विरमेद्वौषडन्तमाप्यायने तथा || १५५ ||
मारणे तु फडन्तस्स्यादेवमन्यत्र योजयेत् |
मन्त्रवर्णन्यासस्थानानि. |
न्यासो मूर्ध्निललाटे च दृशोश्श्रवसि च क्रमात् || १५६ ||
नासिकापुटयो र्वक्त्रे गलकूपे तथा हृदि |
नाभिदेशे रहस्ये च तथोर्पूर्जङ्घ योरपि || १५७ ||
र्मध्ये |
कार्यानुरूपं सपृष्ट्यादिव्यसनं सर्वकर्मनु |
आराधनक्रमः. |
आराधनं सर्वसिद्धिकारणं तच्च कथ्यते || १५८ ||
तेजसां निधिमष्टारं सुदर्शनमनुत्तमम् |
चिन्तयित्वा चतुर्ववक्त्रपूर्वस्यां दिशि वेधसम् || १५९ ||
सङ्कर्षणं दक्षिणस्यां प्रद्युम्नं दिशि चाप्पतेः |
अनिरुद्धमुदीचीने कोणदिक्षु श्रियादयः || १६० ||
वाऽपरे |
देव्यश्चतस्रो मध्ये च वासुदेवं जगद्गुरुम् |
अर्घ्यादिभिस्समाराध्य मन्त्रं षोडशलक्षकम् || १६१ ||
जपन् हुत्वाग्निमुदकैस्तर्पयित्वा यथाविधि |
एवं प्रसाधितो मन्त्रः पुरुषार्थांश्चतुर्विधान् || १६२ ||
साधयेत्पुरुषार्थेषु यो येनावाप्तुमिष्यते |
स सर्पूऽवाप्यते ब्रह्मन् किमन्यैरतिवि स्तरैः || १६३ ||
स सर्वः प्राप्यते |
यदि ब्रह्मपदे ब्रह्मन्नभिलाषा प्रवर्तते |
ब्राह्मीं मूर्तिं यजेत्तासु ध्यात्वाऽनन्यमनूगतिः || १६४ ||
ब्रह्मन्योभिलाष |
ग्रीष्मादिषु जपस्थिति प्रकारः. |
ग्रीष्मे मासि स्थितो भूम्यां पादङ्गुष्ठेन पद्मज |
पादमस्यं समुद्धृत्य बाहू चोत्क्षिप्य निश्चलः || १६५ ||
वर्षासु पर्णशालायां बहिश्शरदि शैशिरे |
हेमन्त्रे त्रिषु चैतेषु वसन्तेऽग्निषु पञ्चसु || १६६ ||
वसन्तेषु च |
मध्यस्थो मन्त्रजापस्स्यादित्थं स्यात्प्रतिहायनम् |
उपांशु प्रवरो व्यक्तान्मनसः प्रवरस्ततः || १६७ ||
जापिनः देवादिभिश्छलनम्. |
विघ्नन्ति देवतास्तस्य तपः कर्म सुदश्चरम् |
पदहानिं समाशङ्क्य गन्धर्वप्रमुखै स्तदा || १६८ ||
स्तथा |
अप्सरोभिर्विलोभ्यैनं नृत्तवादित्रगीतिभिः |
स्थिरमतेर्जापकस्य उत्तमं फलम्. |
तस्मात् स्थिरमतिर्भूत्वा जपन् सिद्धिमपाप्नुयात् || १६९ ||
प्रत्यक्षं याति भगवान् त्रिविष्टपपतिस्स्वयम् |
ब्रह्मत्वं वा तदन्यद्वा प्रयच्छति फलं महत् || १७० ||
मूर्तीनामितरासां च पदं यद्यभिलष्यते |
मूर्तिं तां तामभिध्यायन् जपेन्मन्त्रं च पूर्ववत् || १७१ ||
लभते तत्प्रसादेव स्वं स्वं पदमनुत्तमम् |
मन्त्रेणानेन मुख्येन साधकस्साधयेत्फलम् || १७२ ||
ऐहिकामुष्मिकं तत्तान्नात्र कार्या विचारणा |
ब्राह्मणः क्षत्रियो वापि वैश्यो वा जपमाचरेत् || १७३ ||
Das Sanskritwort Japa hören
Begleitendes Video aus dem Themenbereich Japa; keine Rezitation oder Einzelversauslegung der Padma Samhita.
Kapitel 25
Lesehilfe: Kapitel 25: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
चर्यापादेपंचविंशोऽध्यायः |
पञ्चविंशोऽध्यायः |
अष्टाक्षरकल्पः. |
ब्रह्माः |
अष्टाक्षरस्य मन्त्रस्य महिमानमनुत्तमम् |
शुस्रूषितमतमथच्छन्दो विशेषं सर्षिदैवतम् || १ ||
शुश्रूषितं मया |
फलं तन्मन्त्र जापस्य रूपं वा कीदृशं मतम् |
देवता साधनं चापि मदन ग्रहकाम्यया || २ ||
ब्रूहि सर्वमशेषेण मह्यं शुश्रूषवेऽच्युत |
श्रीभगवान् |
अष्टाक्षरस्य मन्त्रस्य फलानि न हि शक्यते || ३ ||
वक्तुं वर्षशतेनापि तेषां दिङ्मात्रमुच्यते |
धर्मार्थकाममोक्षाणामेकान्तफलदं शुभम् || ४ ||
सिद्धयो बहुधा जप्तुर्मन्त्रं चोदितसज्ञ्यया |
अचिन्तनीयो महिमा देवस्येव मधुद्विषः || ५ ||
जप्तुं मन्त्रम् |
वर्णोद्धारक्रमः. |
शुचौ विविक्ते विजने सर्वदोषविवर्जिते |
वर्णचक्रं समालिख्य भूमावर्घ्यादिसाधनैः || ६ ||
अभ्यर्च्यच यथान्यायं ततो वर्णान् समुद्धरेत् |
उद्गीथमादौ विघ्णेशः प्रयोज्यस्तदनन्तरम् || ७ ||
ब्रह्मासाधनसंयुक्तो मन्दरस्स्यादनन्तरम् |
आदिदेवो व्रतो भद्रबाहुःपश्पादुदीरितः || ८ ||
वह्निर्गोपनसंवीतश्श्वपनो विष्णुशीर्षकः |
वनमाली ततो योज्यो मधुसूदनसंयुतः || ९ ||
प्रणवादिशिरो वायुरिति वर्णक्रमोदितः |
बीजच्छन्दोनिर्देशः. |
बीजं विष्णुरमस्वारस्सामर्थ्यं कथितं पुनः || १० ||
अङ्गानि षड्द्विषट्कस्य मन्त्रस्येव विदुर्बुधाः |
छन्दश्च देवी गायत्रमन्तर्यामी मुनस्स्मृतः || ११ ||
छन्दस्तु |
देवो नारायणस्साक्षाद्दैवतं क्षेत्रमीरितम् |
परमव्योम बुद्धिस्स्यात्तत्वं वर्णस्सित स्तथा || १२ ||
प्रत्यक्षरमृषिर्ब्रह्मन् गौतमः प्रथमस्स्मृतः |
भरद्वाजो विश्वामित्रो जमदग्निरनन्तरम् || १३ ||
वसिष्ठः काश्यपः पश्पा दत्रिस्यात्कुम्भसम्भवः |
छान्दांसि गायत्र्यादीनि विराडवसितानि च || १४ ||
दत्रिःकुम्भसमुद्भवः |
धरोध्रुवश्च सोमश्च आपश्चाग्निर्जलाधिपः |
प्रत्यूषश्च प्रभातश्च देवाः प्रत्यक्षरं तथा || १५ ||
गायत्र्युष्णगनुष्टप्च बृहती पङ्तिरेव च |त्रिष्टुप्च जगतीचेति विराडिति तथैव च || इति श्लोक एकः क्वचित्कोशे अधिकोदृश्यते |
आकाशं परमं क्षेत्रमक्षरस्यावसानतः |
सत्यादि लोकास्सप्तस्युः प्रातिलोम्येन भूमयः || १६ ||
अक्षराणां पृथिव्यन्तास्सप्तानां सप्त पद्मज |
अग्निर्भूर्वायुराकाशं सूर्यो द्यौरथ चन्द्रमाः || १७ ||
नक्षत्राणि तथा राशिरेते तत्वान्यनुक्रमात् |
प्रणवनिरुक्तिः. |
निरुक्तमस्य मन्त्रस्य कथयामि यथातथम् || १८ ||
अविः क्विबन्तो व्याप्त्यर्थःस्मर्यते कर्तृसाधनः |
ओंकारवर्णव्यत्यासस्स्यादकारस्य पद्मज || १९ ||
आपः कविश्च तौ व्याप्ता |
मकारवर्णाव्यत्यासो वकारस्याप्ययन्त्विदम् |
अन्तर्बहिश्च यत्सर्वं व्याप्नोति तदुदीर्यते || २० ||
मकारमस्मिन् व्यत्यासः पकार |
अथवा तन्तुसन्तानं वृत्तेर्वाथ भविष्यति |
टेश्च लोपो वकारस्य प्रसारणमतःपरम् || २१ ||
पूर्वत्वं चोपसर्गेण स्यादन्तश्चाद्गुणः कृतः |
यस्मिन्नोतमिदं सर्वं तदेवमभिधीयते || २२ ||
अवते रक्षणार्थत्वा दटि लेपे च वर्तते |
वकारस्योपधायाश्च द्वयो रूढागमःस्मृतः || २३ ||
दवलोपे |
रूर्ध्वागमः |
गुणे च रूपं यत्सर्वं त्रायते तत्परं परम् |
अभिधेयमितिप्रोक्ता निरुक्तिः प्रणवस्य सा || २४ ||
नमःपदनिरुक्तिः. |
सम्यते देव एवैक स्तेषामेकं परायणम् |
नारायणपदनिर्वचनम्. |
नरो देवः परस्स्रष्टा सर्गादौ पाथसामथ || २५ ||
देवतावैक |
तस्मान्ना राणि पाथांसि तान्येवायनमुच्यते |
देवस्य हेतोश्चामुष्मान्नारायण समाह्वयः || २६ ||
नारावाऽयनमावासः पुरुषस्य मधुद्विषः |
अण्प्रत्ययः प्रकृत्यर्थे ततो वाससमाह्वयः || २७ ||
एवं मन्त्रमिमं लब्ध्वा सम्यग्गुरुमुखात्ततः |
साधकनियमाः. |
गुरुशुश्रूषणपरस्सर्व मन्द्राणि साधयेत् || २८ ||
ब्रह्मचर्ये स्थितो मौनी मेध्याहाराशनो प्रती |
अशनीयानि मेध्यानि पक्षामि खृणु तान्यपि || २९ ||
पयोयावकशाकाम्बफलमूलानि सक्तवः |
आद्यं कुशोदकं मेध्यं दधि भिक्षान्नमेव च || ३० ||
मन्त्रजपकालः. |
साधने मन्द्रजापस्य शृणु कालं यथोदितम् |
मूर्गशीर्षे शुभे मासि द्वादश्यां चन्द्रवर्धने || ३१ ||
यथोचितम् |
अराध्य परया भक्त्या नारायणमनन्यधीः |
देवताध्यानम्. |
चाक्राब्जमण्डले देवं द्याये देवं समाहितः || ३२ ||
चतुर्भाहुमुदारङ्गं चक्राद्यायुध सेवितम् |
कालमेघप्रतीकाशं पद्म पत्रायतेक्षणम् || ३३ ||
भूषणम् |
पीताम्बरधरं सौम्यं प्रसन्नेन्दुनिभावनम् |
चारुहासं सुताम्रोष्ठं रत्नोज्वलितकुण्डलम् || ३४ ||
सुभ्रा ललाटं सुमुखं सर्वाभरणभूषितम् |
ललाटतिलकं सौम्यं दीपवच्छ्वेतमृत्स्नया || ३५ ||
ललाटमुकुटं |
धृतोर्ध्वपुण्ड्रतिलकं मण्डितं चण्डभानुना |
स्फुरत्कटककेयूरहारकौस्तुभभूषितम् || ३६ ||
इदमर्धं क्वचि न्नास्ति |
स्फुरद्भास्करवर्णाभं शोभितं वनमालया |
प्रद्योतनसहस्राभभूषणै रपि भूषितम् || ३७ ||
मण्डितम् |
दिव्य चन्दनलिप्ताङ्गं दिव्यमाल्यविभूषितम् |
श्रीभूमिभ्यां सुखासीनं स्वर्णसिंहासने शुभे || ३८ ||
गन्धानुलिप्ताङ्गम् |
ध्यात्वैवं देवदेवेशं मन्त्राजाप परो भवेत् |
सुखासीनो यथाकालं शुचिर्भूत्वा समाहितः || ३९ ||
मन्त्रं जपेज्जगन्नाथं समाराध्य दिने दिने |
मन्त्रजपहोमादिसङ्ख्या. |
जपेल्लक्षाष्टकं प्रोक्तं तदर्धं तिलतर्पणम् || ४० ||
जलतर्पणम् |
तदर्धं जुहुयादग्नौ ततस्सिध्यति मन्त्रराट् |
सिद्धेमन्द्रे धर्मसाधनप्रकारः. |
अथ संसाधिते मन्त्रेण स्वप्ने जाहरणे तथा || ४१ ||
सिद्धिलिङ्गानि मन्त्रस्य मन्त्री पश्यति सन्ततम् |
ततस्सिद्धेन मन्त्रेण साधयेद्धर्ममुत्तमम् || ४२ ||
अथमन्त्रवराद्धर्मसाधनं योऽभिवाञ्चति |
यः पितृणां च सर्वेषां तर्पणं मन्त्रवित्तमः || ४३ ||
पितृणामपि |
ऋणत्रयाद्विनिर्मुक्तिं सर्वस्मादभिवाञ्चति |
उपोष्य स शुचिर्भूत्वा कुम्भेचक्राब्जमण्डले || ४४ ||
कुर्याच्च |
आवाह्य देवमाराध्य सम्यगर्घ्यादिसाधनैः |
गोहिरण्यादिभिर्द्रव्यैस्तितैश्चैव कुशोदकैः || ४५ ||
दत्तैर्मन्त्रजपैर्युक्तः प्रापयेल्लोकमक्षयम् |
पतृन् मन्त्रप्रासान नरकस्थानपि क्षणात् || ४६ ||
दत्तैर्मन्त्रैर्जपे युक्तः |
अतोऽन्यल्लुप्त पिण्डानां पतृणां तृप्तिकारणम् |
कल्याणविधिः. |
विधिं वक्ष्यामि कल्याणं चतुर्वक्त्र यथातथम् || ४७ ||
उपोष्य मन्त्रवित्पूर्वं पूर्वेद्युस्सु समाहितः |
पञ्चम्यां माघमासस्य मण्डलं चक्रपङ्कजम् || ४८ ||
मण्डपम् |
अर्चयित्वा ततस्तस्य मध्ये देवं जगद्गुरुम् |
यजेत कृसरान्नेन होमं तेनैव कल्पयेत् || ४९ ||
समिदाज्यतितानापि मन्त्रेणाष्टोत्तरं शतम् |
पित्रादि नाम संकीर्त्य तारयेति पदान्वितम् || ५० ||
प्राचीनावितिको भूत्वा होमान्ते दक्षिणामुखः |
दक्षिणाग्रान् कुशान् भूमापास्तीर्य ध्यानमास्थितः || ५१ ||
ध्वात्वा नारायणं देवं तर्पयेच्च तिलोदकैः |
तदक्षयं जलं दत्तं पितृणां तृप्तिमावहेत् || ५२ ||
तर्पयित्वा सदाचारान् ब्राह्मणान् भगवन्मयान् |
भोजयेत्षड्रसोपेतं भोजनं द्वादशावरान् || ५३ ||
दद्यात्तेभ्यस्तिलान्वस्त्रान् गोहिरण्यादिकं ततः |
ततस्सव्ये भुजे न्यस्य ब्रह्मसूत्रं समाहितः || ५४ ||
अग्रे भगवतो दर्भान् दक्षिणाग्रान् धरातले |
आस्तीर्य साग्रान् सुषमानासीनू दक्षिणामुखः || ५५ ||
सुसमाना |
पात्रस्थमन्नं दधि च तिलांश्चबदरीफलम् |
कबलीकृत्य तान् पिण्डान् समान्मन्त्रमुदीरयेत् || ५६ ||
मधुवातेति तिसृभिरृग्भिर्बर्हिषि निक्षिपेत् |
गोत्रनाम समुच्छार्य पितृणां सेचनं जलैः || ५७ ||
पुण्डान् पितृब्यो मातृभ्यो भ्रातृभ्योगुरवे तथा |
आचार्यय तथान्येभ्यो बन्धुभ्यो ध्यानमास्थितः || ५८ ||
बहुभ्यो. धर्ममास्थितः |
अवसेचनपूर्वं तु मन्त्रेणानेन मन्त्रवित् |
पिण्डान् दद्यादभिध्यायन् देवं नारायणं हरिम् || ५९ ||
आसेचनं प्रकुर्वीत पुनरेव विचक्षणः |
एवं विधाय विधिवदृणान्मुक्तश्च तत्क्षणात् || ६० ||
विमानं दिव्यमारुह्य याति ब्रह्म सनातनम् |
फलातिशयप्रतिपादनम्. |
उपवानान् बहुविधानक्षमः कर्तुमञ्ञसा || ६१ ||
देवं चक्राब्जमध्यस्थं यजेदर्घ्याधिसाधनैः |
सिद्देनानेन मन्त्रेण नैवेद्यैश्च चतुर्विधैः || ६२ ||
मनुना |
हुत्वाघृतेन ज्वलने समिधाष्टोत्तरं शतम् |
तन्मयान्भोजयेद्विप्रान् दद्याच्च विभपोचितम् || ६३ ||
इष्ट्वेवं देवदेवेशं व्रस्थो नियतेन्द्रियः |
चान्द्रायणं पराकं च कृच्छ्रं सान्तपनं तथा || ६४ ||
संवत्सरोपवासं च तथैकादुश्यु पोषितम् |
कृष्णाष्टम्यां श्रावणे च जयन्त्यादि प्रतेष्वपि || ६५ ||
एकादश्युपवासस्य यदुक्तं फलमुत्तमम् |
तत्तच्छतगुणं विद्यात्फलं पूजाविधेरपि || ६६ ||
एकैकस्योप |
यज्ञधर्मफलाकाज्क्षीतत्तत्फलमवाप्नुयात् |
तर्थाभिगमनस्यापि फलं सप्ताहपूजनात् || ६७ ||
पवित्रारोहणे वापि प्रतादिपरिपूरणे |
स्नवने चोत्सवे पञ्चकालाभिगमने तथा || ६८ ||
घृतादि |
गोपुरालय सालादिनिर्माणे प्रतिमासु च |
क्षेत्रारामतटाकादि प्रदाने च मधुद्विषः || ६९ ||
शालादि |
घृतदीपप्रदाने च यत्फलं तत्सहस्रधा |
फलत्याराधनाद्विष्णोर्नात्र कार्य विचारणा || ७० ||
सङ्क्रान्तिपूजाविधिः. |
सङ्क्रान्तौ मण्डले कुम्भेज्वलने च मधुद्विषम् |
आवाह्य पूजयेद्देवं परमान्नैश्छतुर्विधैः || ७१ ||
जुहुयान्मनुनानेन ज्वलनेऽष्टोत्तरं शतम् |
तन्मयान्भूजयेच्छक्त्यादद्याच्चैव यथावसु || ७२ ||
यस्य यस्य च धर्मस्य फलं यद्यदुदीरितम् |
तस्य तस्य फलं तत्तन्मन्त्राच्छतगुणं भवेत् || ७३ ||
उत्तरायणपूजा. |
अयने चोत्तरे कुम्भे वह्नौ चक्राब्जमण्डले |
सोपवासश्शुचिर्भूत्वा समावाह्य जगद्गुरुम् || ७४ ||
यजेत पूर्ववत्पश्चाद्धोमं पूर्ववदाचरेत् |
अर्थसाधनम्. |
अथार्थासाधनं मन्त्रमभिवाञ्छति चेन्नरः || ७५ ||
पूजने देनम् |
भद्रकं मण्डलं कृत्वा तस्मिन्ना राध्य मन्त्रवित् |
तिलैर्भिल्वैस्तथापद्मैर्निम्बपुष्पैश्च तण्डुलैः || ७६ ||
चम्पकै र्मल्लिकाभिश्च मालत्या करवीरजैः |
नन्द्यावर्तैर्यूधिकाभिः प्रत्येकं शतसङ्ख्याया || ७७ ||
जुहुयाद्विद्यया विद्वान् सप्ताहं चतुरासन |
धनमक्षयमाप्नोति मन्त्रस्यास्य प्रभावतः || ७८ ||
चन्दनं कुङ्कुमं कोष्ठं रोचना लक्तकं तथा |
घनसारं मृगमदं पिष्ट्वा तत्क्षोदवारिणा || ७९ ||
लक्षणम् |
धनदं विलिखेद्भूमौ सप्त रात्रमनन्यधीः |
यजेत गन्धप्रमुखैर्निवेद्य च गुऌओदनम् || ८० ||
रात्रं जितेन्द्रियः |
पादेनाक्रम्य हृदयं धनदस्य जपेत्ततः |
अयुतं नियुतं वापि मन्त्रराजं जितेन्द्रियः || ८१ ||
ध्यात्वा नारायणं देवं तदनैमन्त्रवित्तमः |
साक्षात्करोति धनदं तथैव धनमक्षयम् || ८२ ||
प्रयच्छति धनाध्यक्षैरानीतं स्वाश्रयात्क्षणात् |
माणिभद्रादिभिर्मन्त्रप्रभावेन चतुर्मुख || ८३ ||
स्वाज्ञया. स्वेच्छया |
सप्ताहमथवा यागं कृत्वा भद्रकमण्डले |
हुत्वा हुतीस्तदन्ते च कुर्याद्ब्रह्मणतर्पणम् || ८४ ||
ध्यात्वा नारायणं देवमात्मानं साधकोत्तमः |
पश्यन् महीतलं शुद्धमग्रहाराद्बहिस्थ्सितः || ८५ ||
भवन्ति चास्य निधयः प्रत्यक्षा बहवस्तथा |
अञ्जनाञ्चितचक्षुर्वा मन्त्रेणानेन मन्त्रवित् || ८६ ||
निधीन् पश्यति दुष्प्रापानभीष्टां स्तत् क्षणादसौ |
भद्रके मण्डले पूर्वमिष्ट्वा देवं जनार्दनम् || ८७ ||
यज्ञदारुं वृषस्कन्धे बध्वा तस्मिन् हलं पुनः |
कर्षयेद्भूतलं शुद्धं सितासु मणिकाञ्चनम् || ८८ ||
महदाप्नोत्यभिप्रेतमथवा कमलासन |
वल्मीकस्य तथाभ्यर्णे कृत्वा भद्रकमण्डलम् || ८९ ||
यजेत पूर्ववद्देवमन्त्रे वल्मीकभूमिषु |
नालिकेरजलैस्सार्धं पिष्टं नागबलिं क्षिपेत् || ९० ||
नालिकेरफलै ||
खात्वा वल्मीकधिष्ण्यन्तं तत्र पश्येन्महद्धनम् |
खनित्रं क्षालयित्वा तु निशायामधिवासयेत् || ९१ ||
मण्डले स्वस्तिके देवमिष्ट्वा हुत्वा तथाहुतीः |
अष्टोत्तरशतं भूयः प्रातर्निक्षिप्य भूतले || ९२ ||
घृतं निक्षिप्य भूतले |
शुचौ खनेत्खनित्रेण लभते सुमहद्धनम् |
साधितं पारदं कृत्वा हस्ते जप्त्वा मनुं पुनः || ९३ ||
लभेत |
नियुतं प्रयुतं वापि यथाशक्ति समाहितः |
तद्रसस्पर्शमात्रेण सर्वं काञ्चनतामियात् || ९४ ||
पाषाणमथवा लोष्टमग्नितप्तं न संशयः |
औषधानि च सर्वाणि रसयुक्तानि पद्मज || ९५ ||
लोहसंस्पर्शयुक्तानि सुवते कनकं महत् |
इत्थं धनवतां कामस्समुत्रान्तः प्रवर्तते || ९६ ||
तत्प्राप्तये विधायाब्जमण्डलं तत्र संस्मरेत् |
मन्त्रेशमर्चयित्वाग्रे यथापूर्वमनन्यधीः || ९७ ||
जुहुयाच्च यथोक्तेन मार्गेण दिनसप्तकम् |
स्त्रीभोगः. |
पद्मरागरुचं देवं स्मृत्वा मन्त्रं जपेत्सुधीः || ९८ ||
पूर्वोक्तसङ्ख्यया स्त्रीणां भोगं चेच्छति दुर्लभम् |
चिन्तयित्वाफलं होमकर्मण्यवसिते ततः || ९९ ||
चेतसि दुर्लभम् |
अभीष्टसाधकं सर्वाः प्रार्थयन्तेवरास्त्स्रियः |
यावज्जीवं न त्यजन्ति कामार्ता मन्त्रवित्तमम् || १०० ||
अभीष्टसाधकाः |
कन्याकामः फलैः पक्वैः पुष्पैर्लाजैर्दिने दिने |
सहस्रं जुहुयाद्देवमाराध्य गरुडध्वजम् || १०१ ||
लभते कन्य कामिष्टां तदन्तेन विचारणा |
वशीकारः. |
यन्त्रं वश्यकरं पक्ष्ये श्रूयतां तद्यथातथम् || १०२ ||
भूर्जपत्रे लिखे च्चक्रमष्टारं रोचनादिकैः |
चन्दनद्वयकाश्मीरशशिकस्तूरिकान्वितैः || १०३ ||
त्पद्मचक्रमष्टाररोचनाः |
हेमसूच्यालिखेदेतैर्गन्धद्रव्यैस्तथापरैः |
नाभिनेमियुतं चक्रमष्टारं ज्वालयान्वितम् || १०४ ||
नाभि नेमिं खुभं |
अष्टस्वरेषु विलिखेदक्षराण्यष्ट पद्मज |
प्रादक्षिण्येन विस्पष्टं ह्रीङ्कारं मध्यमे पदे || १०५ ||
साध्यनामापि तत्रैव सोङ्कारं तदनन्तरम् |
ह्रीङ्कारं नाभिवलये दिक्ष्वष्टासु समर्पयेत् || १०६ ||
ह्रीङ्कारं नेमिवलये वशीकरणमक्षरम् |
तथैवाशानु सर्वासु वशं कुरु पदान्वितम् || १०७ ||
तस्मिन्नावाह्य देवेशमिष्ट्वा मन्त्रं जपेद्बुधः |
अष्टोत्तरसहस्रं तु हुहुया दाहुती स्ततः || १०८ ||
जपेत्ततः |
त्तावदाहुतीः |
गुलिकां बिभ्रतस्तस्य वश्यं सर्वमनन्तरम् |
अथवा पादयोः पांसून् रक्तचन्दनमिश्रितान् || १०९ ||
आदाय पुरुषाकारां स्त्रीरूपां वा यथेप्सिताम् |
कृत्वा प्रतिकृतिं तस्मिन्नस्यात्मानं स्मरेद्धरिम् || ११० ||
न्यसेद्धरिम् |
ताडयेन्मूलमनुना रक्तैस्तु हयमारजैः |
प्रत्यहं मन्त्रजापस्स्यादष्टोत्तरसहस्रकम् || १११ ||
यमवारिजैः |
पश्या नारी पुमान् वापि सप्ताहान्ते जपाद्भवेत् |
यावज्जीवं धनैर्दत्तैरात्मना वा यथेप्सितम् || ११२ ||
तिलतण्डुलदूर्वाणामयुताहुतिभिः क्रमात् |
ब्राह्मणक्षत्रियविशो वश्यमन्त्र प्रभावतः || ११३ ||
अपामार्गसमिद्भिर्वा होमाद्वार्णान् वशं नयेत् |
औदुम्बरसमिद्भिर्वा पलाशसमिधापि वा || ११४ ||
होमेन ब्राह्मणा वैश्याः पूर्वोक्ताहुतिसङ्ख्याया |
त्रिभिर्मधुरसैस्सिक्तैरपामार्गसमिच्छतैः || ११५ ||
दशभिर्जुहुयादग्नौराजा वश्यः क्षणाद्भवेत् |
अश्वत्थैः खादिरै र्वापि वशीकरणमीरितम् || ११६ ||
वटवृक्षसमित्सङ्घैर्वैश्यास्सर्वे वशीकृताः |
शूद्रस्तु प्लक्षसमिधामाहुत्या स्ववशः क्षणात् || ११७ ||
गन्धद्रव्यसमायुक्तमृत्स्नया तिलकं दधत् |
दृष्टमात्रेण जनतां वशं नयति मन्त्रवित् || ११८ ||
ध्यात्वा करतले चन्द्रं तन्मध्ये विष्ठितं हरिम् |
सुखासीनं पुण्डरीककर्णिकायां सितप्रभम् || ११९ ||
ध्यायन् करतलस्प र्शैस्सर्वं वश्यं क्षणाद्भवेत् |
भक्ष्यं भोज्यं तथा पेयं फलं वा पुष्पमेव वा || १२० ||
स्पृष्ट्वा सहस्रजापेन दत्तं सर्वान् वशं नयेत् |
आकर्षणम्. |
अकर्षणविधिं वक्ष्येतं ब्रह्मन्नवधारय || १२१ ||
दत्वासर्वं |
भूर्जपत्रे लिखेच्चक्रमष्टारं पूर्ववर्त्मना |
गन्धद्रव्यैर्लिखेन्मन्त्रं हेमसूच्या विचक्षणः || १२२ ||
वेष्टयेदुक्तसूत्रेण तद्यन्त्रमभिमन्त्रितम् |
शिखिचङ्चुपुटे न्यस्तं भावयित्वा जपेत्ततः || १२३ ||
शिखिपिञ्छ |
तन्नामसंयुतं मन्त्रं क्रुद्ध्यन्नाकर्षयेति च |
युक्तं सहस्रं सप्ताहं जपेत्प्रतिदिनं सीधीः || १२४ ||
आत्मानं गरुडारूढं सायुधाष्टभुजं हरिम् |
बन्धूकपुष्पसदृशं भावयित्वा जितेन्द्रियः || १२५ ||
वामोत्सङ्गे हरेर्देवीं निषण्णां कामविह्वलाम् |
पाशाङ्कुशधरां लक्ष्मीं ध्यात्वा च तदनन्तरम् || १२६ ||
नृपं बध्वा गले पाशैस्ताडयित्वाऽङ्कुशादिभिः |
आयुधैः वृष्ठतो मन्त्रमाकर्षय पदान्वितम् || १२७ ||
जप्त्वाऽयुतं सप्तदिनं योजनानां शते स्थितम् |
अपि भूपं नयत्याशु साधको मन्त्रतेसजसा || १२८ ||
धनेन महता युक्तस्स्वयमेवागतोनृपः |
वश्यो भवति कृत्वैवं विप्रादीनपि वाऽनयेत् || १२९ ||
योषिदाकर्षणे चापि कृत्वैवं कर्म मन्त्रवित् |
पञ्चभाणेषुभिर्विद्धां सर्वाङ्गेषु स्त्रियं स्मरेत् || १३० ||
वापि कृत्वैवं मन्त्र मन्त्र |
पाशबद्धं तथैवान्यैरायुधैप्ताडितां भृशम् |
क्षिप्रमेवानयेन्नारीं सप्ताहाच्छरवेगवत् || १३१ ||
दूरस्थितामपि तथा राज्ञो वा महिषीमपि |
सा सन्निधत्ते कामार्ता मदविह्वाललोचना || १३२ ||
समृद्धार्थात्मना वापि धनैर्वापि यथेप्सितैः |
साधकं तोषयत्येषा मन्त्रजापाद्यथोदितात् || १३३ ||
मृतनारीकपाले वा रोचनाद्येन वस्तुना |
पूर्ववच्च क्रमलिख्य तन्मध्येऽभीष्टयोषितः || १३४ ||
लिखित्वा नामधेयं त त्कपाले ज्वलने पुनः |
तापयित्वा जपेन्मन्त्रं सप्ताहं जूप्वसङ्ख्यया || १३५ ||
त्पानके ज्वलिते पुनः |तर्प |
ततस्सिध्यति सा नारी दूरस्थापि यथेप्सिता |
यक्षसाधनम्. |
यक्षाणामपि यक्षीणां साधनं शृणु कथ्यते || १३६ ||
वटवृक्षे कुटिं कृत्वा तत्र चक्रब्जमण्डले |
आराध्य तेवं जुहुयाद्वटवृक्षसमिच्छतैः || १३७ ||
दशभिः प्रत्यहं मन्त्री सप्ताहे परिनिष्ठिते |
पूर्वमेव वटे यक्षं यक्षीं वा कुङ्कुमादिभिः || १३८ ||
लिखित्वा कर्म तत्सर्वं कुर्यादभिमुखे स्वयम् |
सप्तमेऽह्नि वटे रात्रौ कम्पितेऽभीतवत् स्थितः || १३९ ||
गुग्गुलुं घृतमिश्रं च धूपयेन्मन्त्रवित्तमः |
वटाभिमुखमुत्थाय यक्षीं वा यक्षमेव वा || १४० ||
साक्षात्करोति तां तं वा या चेताभीष्टमुत्तमम् |
मातृत्वं वा स्वसृत्वं वा भ्रातृत्वं वा यथातथम् || १४१ ||
पितृत्वं वाथ भार्यात्वमिप्सितं सर्वमाप्नुयात् |
प्रयच्छति यथायोगं यक्षी यक्षश्च मन्त्रिणे || १४२ ||
माता चेन्मातृवद्रक्षेत्पिताचेत्पितृतत्तथा |
एवं भ्रात्रादयो प्यन्ये यथास्वत्राणतत्पराः || १४३ ||
विद्याधरसाधनम्. |
विद्याधरवशीकारे विधानमपरं शृणु |
असोकवृक्ष मूलोर्व्यां कुर्यात्पूजादि पूर्ववत् || १४४ ||
विद्याधरणे यच्छक्यं कर्तुमस्यापि तद्भवेत् |
अन्येषां देवयोनीनामेवं कुर्याद्यथाविधि || १४५ ||
ते ते सर्वं प्रयच्छन्तिमन्त्रतुष्टा यथातथम् |
पातालसाधनम्. |
पातालसाधनं चापि शृणु गुह्यं यथातथम् || १४६ ||
होमावसानं पूजादि कर्म कृत्वा यथोदितम् |
बिलद्वारसमीपे तु लक्षमष्टाक्षरं जपेत् || १४७ ||
क्षीरवृक्षशमीदुर्वातिलाद्यानामनन्यधीः |
प्रत्येकमयुतं होमं कुर्याद्वै साधकोत्तमः || १४८ ||
निर्गच्छति बिलात्तस्मात्कामार्ता कन्यका स्वयम् |
सहस्रपरिवारेण सार्धमायतलोचना || १४९ ||
गृहीत्वा मन्त्रिणं स्वेषु मन्दिरेषु यथासुखम् |
रमते दिव्यभोगैस्सा विचित्रैरतिमानुषैः || १५० ||
पातालद्वारपार्श्वे तु कारयेद्यागमण्टपम् |
ध्वजतोरणसंयुक्तं द्वारकुम्भोपशोभितम् || १५१ ||
चक्राब्जं वर्तयेत्तत्र ध्यात्वा नारायणं प्रभुम् |
यजेत पूर्ववद्धोमं कृत्वा पूर्वोक्तसङ्ख्याया || १५२ ||
अष्टलक्षं मिताहारो जितेन्द्रिय अनन्यधीः |
तत्क्षणादेव नागेन्द्रकन्यका मन्त्रिणः पुरः || १५३ ||
स्थिता मनोभववशा सहस्रैः परिवारिताः |
आत्मतुल्याभिरन्याभिः कन्यकाभिर्वशीकृताः || १५४ ||
गृहीत्वा मन्त्रिणं ताश्च नागालयपुरोत्तमे |
प्रविश्य विविधैर्भोगैर्वशीकुर्वन्तिमन्त्रिणम् || १५५ ||
पीत्वा रसायनं चापि यावदाभूतसंप्लवम् |
रमते भीरुभिस्सार्धं दिवि देवपतिर्यथा || १५६ ||
खड्गसाधनम्. |
खड्गसाधनमाश्चर्यं शृणु वक्ष्यामि तद्यथा |
देहजं लोहितं मन्त्रीश्मशानाङ्गारमिश्रितम् || १५७ ||
पेषयित्वालिखेद्खड्गं चतुस्तालायतं शुभम् |
श्मशानदेशे तन्मूलं स्पृष्ट्वामन्त्रं जपेत्सुधीः || १५८ ||
निशीथे निर्जने तावद्या वज्ज्वालां विमुंचति |
ज्वालाभिरस्य शोभन्ते दिशो दश चतुर्मुख || १५९ ||
नानाविधानि भूतानि भवन्ति भयहेतवः |
अभीतो निश्चतो मन्त्रं जपे देवं समाहितः || १६० ||
स्फुरन्तं पाणिना खड्गं गृहीत्वा दृढमुष्टिना |
मन्त्रं जपेन्नभो याति यत्र विद्याधरादयः || १६१ ||
विद्यामहिम्ना तेषां स राजा भवति मन्त्रवित् |
यक्षराक्षसदैत्यानां जेता मर्त्येषु किंपुनः || १६२ ||
खड्गहस्तस्यदा मन्त्रं जपन्याति त्रिविष्टपम् |
तत्रापि भोगमतुलं लभते चाप्सरोगणैः || १६३ ||
खड्गं वाऽयसमादाय पर्णैः पिप्फलसंभवैः |
अन्तर्हितं विधायाशु नियुतं जपमाचरेत् || १६४ ||
समिदाज्यैस्तथा बीजैर्जुहुयादयुतावरम् |
नररक्तं गजमदं पित्तमाक्षं विमिश्रितम् || १६५ ||
राजवर्तेन तैः खड्गं विलिप्याराधयेद्धरिम् |
तस्मिन् पूर्वोक्तमार्गेण खड्गं स्पृष्ट्वा जपःस्मृतः || १६६ ||
अष्टोत्तरसहस्रेण पश्चात्तापादिसम्भवः |
तापे स्यादधमासिद्धिर्मध्यमा धूमजन्मनि || १६७ ||
उत्तमा ज्वलने दृष्टे पश्चाद्खड्गधरस्स्वयम् |
चरेदभीप्सितान् लोकान् भोगांश्चाप्नोति पुष्कलान् || १६८ ||
सिद्धकन्यासकाशात्सिद्धवस्तुलाभः. |
शङ्खकुक्त्यदरे मन्द्रं लिखेद्गोरोचनाम्बुभिः |
जपेन्मन्त्रवरं स्पृष्ट्वा यावज्ज्वालावलोकनम् || १६९ ||
समुत्थिता च तन्मध्ये कन्या सर्ववरप्रदा |
तिलकं चाक्षमालां च गुलु काञ्जनपादुकाः || १७० ||
दिव्यैषधं रसेन्द्रं च कपालस्थं रसाञ्जनम् |
ददादि सर्वं सा कन्या मन्त्रिणे मन्त्रवैभवात् || १७१ ||
तिलकं भिभ्रत स्तस्य नरनारी मृगादिकम् |
स्मृतिमात्रेण पूरतो दृष्टं भवति तद्ध्रुवम् || १७२ ||
तया क्षमालया जप्तः पुरश्चरणवर्जितः |
मन्त्रो यथेप्सितान् कामान् तस्मै शीघ्रं प्रयच्छति || १७३ ||
निधाय गुलिकामास्ये निर्भयस्सर्वविष्टवे |
चरत्येष यथाकामं दीर्घमायुश्छ विन्दति || १७४ ||
शुक्ति |
अञ्जनेनाक्तनयनस्स्याददृश्यस्सुरासुरैः |
पादुकास्पर्शमात्रेण चारयत्यनले जले || १७५ ||
दूरं वा गमयेच्छीघ्रं यं यं देशमभीप्सति |
दिव्यौषधेन भुक्तेन दुर्वाधिर्नश्यति क्षणात् || १७६ ||
अचिकित्स्योपि कुष्ठादिर्नात्र कार्या विचारणा |
पाषाणादि रसेन्द्रिण स्पृष्टमाग्नौ प्रतापितम् || १७७ ||
हिरण्यं भवति ब्रह्मन् पीत्वा चापि रसायनम् |
बलवानपि तेजस्वी वलीपलितवर्जितः || १७८ ||
शत्रुमारणम्. |
कपाले चाश्म निक्षिप्य शत्रुमूर्धनि निक्षिपेत् |
उद्वासितो वा म्रियते सान्ववायस्सुहृङ्जनः || १७९ ||
उछ्वासितो वा |
इन्द्रजालम्. |
दर्शयन्निन्द्रजालं चेन्मायादेवीं लिखेद्भुवि |
कृष्णां च तुर्भुजां सौम्यां सर्वाभरण भूषिताम् || १८० ||
सर्वाङ्गसुन्दरीं मन्त्री पूजयित्वा जपेत्ततः |
अयुतं नियुतं वापि मन्त्रमष्टाक्ष रान्वितम् || १८१ ||
मन्त्रम् |
मन्त्रमष्टाक्षरद्वयम् ||
राह्वयम् |
सिद्धा तदन्ते सा देवी चतुरङ्गबलं महत् |
भूमौ प्योम्नि बलं स्रवमुद्यतायुधमद्भुतम् || १८२ ||
दर्शयत्याशु मन्त्रेण म न्त्रेणे मन्त्रसिद्धदा |
त्रैलोक्यमपि सर्वं सा प्रदर्शयति तोषिता || १८३ ||
मन्त्रिते मन्त्रसाधिता |
गुलिकाविधिः. |
गुलिका कध्यते ब्रह्मन् निर्माण मधुनोच्यते |
मनश्शिला तथा कुष्ठं हलितालं च कुंकुमम् || १८४ ||
तन्निर्माणं मयोच्यते |
गोरोचनां च चक्राङ्गं सर्वं पिष्ट्वा मधुत्रिकैः |
कृत्वा च गुलिकां चक्रपद्ममध्ये निवेशयेत् || १८५ ||
सर्वाङ्गम् |
एकादशीनिशायां वा यजेत हरिमव्ययम् |
द्वादश्यामर्चयित्वा तु जपेन्मन्त्रं यथापुरम् || १८६ ||
सः |
होममग्नौ प्रकुर्वीत सहस्रं सर्पिषा ततः |
सिद्धेयं गुलिका सर्वं साधयेत्साधकस्य हि || १८७ ||
सद्य स्साधयेत्सर्वमीप्सितम्पूर्वमिरितम् |
वेतालसाधनम्. |
वेतालसाधनं ब्रह्मन् कथयामि यथातथम् |
ब्राह्मणं क्षत्रियं वापि युवानं निर्व्रणं मृतम् || १८८ ||
चापि |
तत्क्षणादेव सङ्गृह्य शून्यागारे निवेशयेत् |
क्षालयित्वा मलं सर्वं चक्रपद्मे निवेश्यतम् || १८९ ||
हृदयं तस्य चाक्रम्य पादेन ध्यानमास्थितः |
जपेन्मन्त्रं दिवारात्रं निशीधे कम्पते शवः || १९० ||
निर्भयस्ताडयेद्देहं सिद्धार्धैरभिमन्त्रितैः |
कम्पमानं शरीरं तदुत्थायाग्रेऽवतिष्ठते || १९१ ||
किं करोमिति च ततोमन्त्रिणं संपुटाञ्जलिः |
ब्रुवाणो मन्त्रिणे तस्मै प्रयच्छति यथेप्सितम् || १९२ ||
खण्डमुष्टिं तथा दिव्यमौषधं च रसायनम् |
गुलिकां पादुके सिद्धं रसं वेणुपुटे स्थितम् || १९३ ||
सिद्धिम् |
पादलेपं चाक्षसूत्रमन्यद्वा दुर्लभं नृभिः |
पादलेपेन गमनमाकाशादिषु मन्त्रिणः || १९४ ||
खड्गेन शत्रुसैन्यानां वधः केसरिणामपि |
दिव्यौषधानां सर्वेषां फलं पूर्वमुदीरितम् || १९५ ||
पूर्णानाम् |
आमयशान्तिः. |
आमयानामपस्मारमुखानां शान्तये विधिः |
भूभागे शल्यरहीते कृत्वा मण्टपमादितः || १९६ ||
निर्व्रणान् लक्षणोपेतान्कलशान् पञ्चविंशतिम् |
पूरितान् द्रोणमात्रेण सर्पिराद्येन वस्तुना || १९७ ||
निर्वाणान् |
ससूत्रान् सकुशांश्चैव सापिधानान् सवस्त्रकान् |
द्वारकुम्भान् चतुर्दिक्षु तोरणानि च कल्पयेत् || १९८ ||
प्रत्येकं कलशान् सर्वान् मन्त्रेणैवाभिमन्त्रयेत् |
अष्टाक्षरेण प्रत्येकमष्टोत्तरशतावरम् || १९९ ||
निशाम्बना चन्दनेन श्वेतदूर्वाङ्कुरेण च |
भूर्जपत्रोदरे पद्ममष्टपत्रं सकर्णिकम् || २०० ||
नाभिनेमियुतं चक्रमष्टारं कमलाद्बहिः |
प्रणवं कर्णिकादेशे साध्यनाम च मध्यतः || २०१ ||
अष्टाक्षराण्यष्टदले नाभौ स्पर्शाक्षरं लिखेत् |
नाभिक्षेत्रे यकारादीनष्टारेषु स्वरान् पुनः || २०२ ||
नेमिक्षेत्रे |
महामायाग्नि संयुक्तं भास्करं दण्डशेखरम् |
नेमिभागे क्रमाद्दिक्षु विदिक्षु चतुरासन || २०३ ||
कृत्वैवं सितसूत्रेण परिवेष्ट्यनिरन्तरम् |
गुलिकां तण्डुलद्रोणमध्यस्थे कलशे क्षिपेत् || २०४ ||
आवाह्य हृदयात्तस्मि न्मन्त्रेशं चक्रपङ्कजे |
चन्दनाद्यैस्सितैर्वस्त्रैः पुष्पैरन्येश्च तादृशैः || २०५ ||
न्मध्ये चक्रं च |
शाल्योदनेन च हरिं यजेत सुसमाहितः |
पूर्णेन्दुमण्दलान्तस्थमुद्गिरन्तं सुधारसम् || २०६ ||
शशाङ्कशतसङ्काशं ध्यात्वा नारायणं हरिम् |
शान्तिं प्रयच्छ महतीमित्यन्ते समुदीरयेत् || २०७ ||
शशिनो दशि वृत्तेऽथ कुण्डे क्षीराज्यतण्डुलैः |
गुग्गुलुं क्षौद्रबीजां श्चसप्ताहं होममाचरेत् || २०८ ||
कुङ्कुमक्षौद्रनिम्बैश्च |
पूर्वोक्तसङ्ख्यया कुम्भैः स्थापितं चामयाविनम् |
स्वापयेन्मूलमन्त्रेण ध्यायेच्चैव जनार्दनम् || २०९ ||
स्थापिदैरामयान्वितम् |स्नापये |
मूर्णेन्दुशतसङ्काशं स्यन्धमानं सुधारसम् |
तदीयपादकमलात्सर्वतो व्याधिपीडितम् || २१० ||
प्रविश्य ब्रह्मरन्ध्रेण प्लापयन्तमनन्यधीः |
ध्यात्वा जपेन्मूलविद्यां मन्त्रविद्व्याधिपीडितम् || २११ ||
उत्थापयति तन्मूर्ध्निन्यस्य तां गुलिकामथ |
अपस्मारादयस्सर्वे शाम्यन्ति मनुतेजसा || २१२ ||
अथादाय च मृत्पात्रं पैत्तलं वाथ काष्ठजम् |
तस्मिन्निक्षिप्य पीयूषं दधिसर्पिस्समन्वितम् || २१३ ||
ओदनं चैत्यवृक्षादिमूले भूतबलिं हरेत् |
भोजयेद्ब्राह्मणानै दद्यातैभ्यो यथावसु || २१४ ||
क्षिपेत् |
पुष्टिविधिः. |
पौष्टिं वक्ष्यामि ते कर्म मण्टपादि यथापुरम् |
भूर्जपत्रे लिखेद्यन्त्रं प्राग्वत्पद्मादिसंयुतम् || २१५ ||
पौष्टिकं वक्ष्यते |
श्रीभूमिमन्त्रं च लिखेत्केसरेषु दलेषु च |
गुलिकां वेष्टितां रक्तासूत्रैर्मधुघटे क्षिपेत् || २१६ ||
विद्रुमाभं च मन्द्रेशं समावाह्य च सर्वगम् |
सौम्याशायां पद्मकुण्डं कलशान् रक्तवाससः || २१७ ||
सर्वदा |
वस्तु सर्वं यथोक्तं तद्युक्तं स्यात्सति सम्भवे |
बलिकर्मच कर्तव्यं कर्मान्ते कमलासन || २१८ ||
महती पुष्टिरेव स्यात्कृते कर्मणि शान्तिके |
आयुष्कामविधिः. |
आयुष्कामस्तु दूर्वाभिर्घृताक्ताभि र्यथोदितम् || २१९ ||
शास्त्रिके |
र्यथो दितैः |
जुहुयान्मण्टपादीनां विधानं पूर्ववर्त्मना |
कर्मान्ते कलशैस्स्नानं साध्यस्य कमलासन || २२० ||
एवं कृते यथाशास्त्रमायुर्विन्दति पुष्कलम् |
आरोग्यकामविधिः. |
आरोग्यकामस्सावित्रे मण्डले हरिमर्चयेत् || २२१ ||
रुक्माभं विद्ययार्घ्यादि साधनैरुक्तवर्त्मना |
पूर्ववज्जपहोमादि होमो गुग्गुलुवस्तुभिः || २२२ ||
जपान्ते प्रणमेन्नित्यमङ्गैरष्टाभिरात्मवान् |
यावदायुषमारोग्यं लभते मन्त्रवैभवात् || २२३ ||
ज्वरितस्य भवेच्छान्तिरमृताचूतपल्लवैः |
पूर्वोक्तेन विधानेन सर्वमन्यद्यथोदितम् || २२४ ||
ज्वरशान्तिर्भवेदन्ते विद्यावीर्यप्रभावतः |
चन्दनादिद्रुमैर्लोहैर्यद्वा प्रतिकृतिः कृता || २२५ ||
पूजिता पूर्ववत्सर्वान् कामानाशु प्रयच्छति |
होमश्च कर्मानुगुणैर्द्रव्यैस्स्यात्कमलासन || २२६ ||
अपमृत्युनिवारणम्. |
अश्वत्थं मन्दवारेषु स्पृष्ट्वा दक्षिणपाणिना |
जपतो नापमृत्युस्स्यात्पूर्वमिरितसङ्ख्याया || २२७ ||
वाक्सिद्धिः. |
घृतमिश्रं वचा चूर्णं यद्वा ब्राह्मीं घृताप्लुताम् |
ज्योतिष्मतीरसं वापि स्पृष्ट्वा लक्षं जपन् पिबेत् || २२८ ||
पूर्वम् |
मुहुर्ते भोभने प्राप्ते वाक्सिद्धिस्तस्य निश्चिता |
औदुम्बरेऽथवा पात्रे कपिलाज्यं चतुष्पलम् || २२९ ||
पत्रे |
मिश्रं श्वेतवचाचूर्णं यद्वा चन्ध्रे मघायुते |
पुण्ये सारस्वते योगे श्वेतवर्णं चतुर्भुजम् || २३० ||
पूर्णे |
श्वेतपद्मे सुखासीनं चन्द्रमण्डलमध्यगम् |
इष्ट्वा देवं गोघृतेन जुहुयाच्च यथाविधि || २३१ ||
पिबन् स सुस्रवं पश्चाल्लभते वाचमुत्तमाम् |
प्रतिवादिवाग्बन्धनम्. |
अष्टबाहुं चन्द्रनिभमात्मानं शेषविष्टरे || २३२ ||
संस्रनम् |
सुखासीनं भावयित्वा कोपिनं प्रतिवादिनम् |
पिधाय जिह्वा हृदयं मुसलेन शिरोऽङ्कुशैः || २३३ ||
कौपीनम् |
विधाय |
ताडयेद्गदया पृष्ठं पाशैर्बध्वा कलेभरम् |
तस्यैव जिह्वामध्ये च माहेन्द्रं दण्ड शेखरम् || २३४ ||
विन्यस्य स्तम्भयेद्वाचमेवं ध्यायन् विचक्षणः |
आत्मनो वादिनश्चैव मध्ये यवनिका भवेत् || २३५ ||
मन्त्रं शतगुणं जप्त्वा वादी वाचं समुत्सृजेत् |
सद्यः परस्यापजयो विजयश्चात्मनो भवेत् || २३६ ||
तत्र दोषाभावः. |
स्तम्भने नै पदोषस्स्या द्बाह्याश्छेत्प्रतिवादिनः |
ब्रह्मवर्चसकामकल्पः. |
ब्रह्मवर्चसकामश्छेत्समिथो ब्रह्मवृक्षजाः || २३७ ||
द्बाह्यश्चेत् |
श्वेतपङ्कजहोमो वा राज्यकामस्य मन्त्रिणः |
समिथो रक्त वर्णास्स्युर्बिल्वपुष्पाणि पद्मज || २३८ ||
पद्मास्स्यु |
लक्ष्मीसुमनसो वापि यद्वा बोधिसमुद्भवाः |
चन्द्रमण्डलमध्यस्थं श्वेतपङ्कजविष्टरे || २३९ ||
सन्नेन्दुवर्चसा |
स्थितं द्विहस्तं सुभगं बालभूषणभूषितम् |
बालावस्थं प्रसन्नेन्दुवर्चसं नीलकुन्तलम् || २४० ||
त्रिहस्तं |
राजतं पात्रमन्नेन पायसेन प्रपूरितम् |
बिभ्राणं वामहस्तेन दध्यन्न कबलं पुनः || २४१ ||
दधानमितरेणापि ध्यात्वा देवं समाहितः |
अन्नेन जुहुयादग्नौ बह्वान्नत्वमवाप्नुयात् || २४२ ||
इतरेण धारयन्तम् |
गोभूराष्ट्रादिकामकल्पः. |
गोकामो गोमयैः क्षीरैस्तदीयैर्होममाचरेत् |
लभते धेनुकं सद्यो मन्त्रविन्मन्त्रवैभवात् || २४३ ||
भूमिकामो मृदा होमं दुर्लभां लभते भुवम् |
फलैर्बिल्वसमुद्भूतैर्होमाद्राष्ट्रसमुद्भवः || २४४ ||
वस्त्रकामस्सुमनसां कालजानां चतुर्मुख |
सितासितादिवर्णानां होमान्नियुतसङ्ख्यया || २४५ ||
नानाविधानि वस्त्राणि लभते नात्रसंशयः |
यद्यत्कामयते मन्त्री धान्यजातिमनेकधा || २४६ ||
तत्तद्धोमेव तत्सर्वं लभतेमन्द्रवैभवात् |
मन्त्राभिमन्त्रितं बीजमुप्तं बहुफलं भवेत् || २४७ ||
पुत्रकामो हविष्टाशी समाराध्य जगद्गुरुम् |
चक्राब्जमण्डले कुम्भस्थापनादि विधाय च || २४८ ||
यथापूर्वं पायसान्नं होमान्ते स्थापितैर्घटैः |
अभिषिच्य तदम्भांसि पाययेत् स्त्रियमागताम् || २४९ ||
सा पुत्रान् लभते त्विष्टान् बहुन् विद्याविचक्षणान् |
इष्ट्वा नारायणं देवं चक्राब्जेप्रोक्तवर्त्मना || २५० ||
अनुग्रहे निग्रहे च सर्वेषां शक्तिमान् भवेत् |
मन्त्रदेवताप्रभावः. |
कम्पने वसुधादीनां पर्वतानां च भेदने || २५१ ||
शोषणे वा समुद्राणां सर्वेषां स्तम्भने पि च |
सर्गस्थितिविनाशानामपि कर्ता यथा हरिः || २५२ ||
सर्वस्थिति |
ध्यानाच्च देवदेवस्य जपान्मन्त्रस्य च क्षणात् |
नश्यन्ति भूतवेतालप्रमुखानि चतुर्मुख || २५३ ||
जपमन्त्रस्य लक्षणात् |
दुष्टसत्वानि मन्त्रस्य प्रभावान्नात्र संशयः |
विषापहरणम्. |
विषदष्टमवस्थाप्य ध्यात्वाच गरुडध्वजम् || २५४ ||
गरुडस्थितम् |देवं विद्यां समुच्चार्य तीक्ष्णतुण्डेन ताडयेत् |
गरुडस्य तु पक्षाभ्यां विषदष्टस्य मूर्धनि || २५५ ||
एवं ध्यात्वा विषं सर्वं व्यपोह्योत्थापयेन्मृतम् |
भुक्तं विषेण संस्पृष्टमन्नं बीजं फलं तथा || २५६ ||
भुक्तं अक्षयश्च इति श्लोकद्वयं अनुक्ताःभूयं प्रपद्यते इत्यतः परं क्वचित्कोशेदृश्यते |
जरयेद्विद्यया सद्यस्सर्वदोषं च नाशयेत् |
धनादिसिद्धयः. |
अक्षयश्चाभिवृद्धिश्च धनस्य यदि काङ्क्षितः || २५७ ||
संस्पृश्य विद्यया सर्वं निक्षिपेद्बहुजप्तया |
बन्धूक कुसुमप्रख्यमात्मानं भगवन्मयम् || २५८ ||
ध्यायन्यायात्सभां तत्र क्रुद्धश्शाम्यति भूमिपः |
अनुक्तास्सिद्धयः सर्वास्सिध्यन्त्यत्यन्तविस्तृताः || २५९ ||
शास्त्रे मन्त्रप्रभावेन देवभूयं प्रपद्यते |
वृष्टिकामो बहिश्शालां पूर्वोक्तविधिना कृताम् || २६० ||
चक्राब्जमण्ड्लादीनि कृत्वा कर्माणि पूर्ववत् |
सप्ताहमाज्यसिक्ताभिस्समिद्भिर्जुहुयात्सुधीः || २६१ ||
वैतसीभिः प्रतिदिनं नियुतायुतसङ्ख्याया |
वृष्टिर्भवति तद्राष्ट्रे तद्धेशे वा दिनत्रये || २६२ ||
मरीचिक्षुण्णसंमिश्रैस्सर्षपै राजसर्षपैः |
पूर्वोक्तसङ्ख्यया होमादतिवृष्टिश्च शाम्यति || २६३ ||
देवतादिपदं प्रेप्सुर्विद्यया लोकमीप्सितम् |
स्वर्गाद्यभीष्टरोकस्य महिमानुगुणैर्जपैः || २६४ ||
स्वर्ग्रादेरिष्ट |
लभते तत्तदाश्चर्यं फलं नैवात्र संशयः |
चिन्तारत्नं तथैवान् मणिमादि गुणं परम् || २६५ ||
लिप्सुर्मन्त्रजपैः कोटिसङ्ख्यैः प्राप्नोति मन्त्रवित् |
मन्त्रदेवतासाक्षात्कारः. |
मन्त्राधिदैवतं देवं द्रष्टुकामोजितेन्द्रियः || २६६ ||
षष्मासान्मन्त्रमनिशं जपेत्तध्यानमास्थितः |
आगत्य देवदेवेशः पप्रत्यक्षो भवति क्षणात् || २६७ ||
वरांश्च दुर्लभांस्तस्मे प्रददाति यथेप्सितान् |
मन्त्रिणे मन्त्रमहात्म्यादचिरेण चतुर्मुख || २६८ ||
मन्त्रामाहात्म्यम्. |
मन्त्रान्तराणां यासिद्धिः कल्पे कल्पे समीरिता |
सापि प्रसिध्येदस्यैव सकला वीर्यपत्तया || २६९ ||
षडङ्गानि च वेदाश्च मन्त्राश्चान्ये परश्शताः |
अन्यच्च वाङ्मयं सर्वं मन्त्रेऽस्मिन् सुसमाहितम् || २७० ||
अपुनर्भवलिप्सूनां गतिरष्टारं मतम् |
जन्मन्यस्मिन्नतीते वा यतेनस्सञ्छितं महत् || २७१ ||
तन्मन्त्रजापमात्रेण प्रलयं याति निश्चयम् |
म्रियमाणश्शुचिर्भूत्वामन्त्रमेतमुदीरयन् || २७२ ||
निन्तुषम् |
प्राप्नोति वैष्णवं स्थानं दुष्प्रापम विनाशनम् |
किं तस्य बहुभिर्मन्त्रैः किं तस्य बहुभिश्श्रुतैः || २७३ ||
विनश्वरम् |
यस्यैषा वशमापन्ना विद्या सर्वार्थसाधनी |
ये मन्त्रमाहात्म्यमिदं शृण्वन्ति च पठन्ति च || २७४ ||
तेषामपि फलान्याहुः पूर्वोक्तानि मनीषिणः |
चतुर्मुखैश्च तुर्वक्त्रफलान्यस्य प्रदर्शयन् || २७५ ||
Kapitel 26
Lesehilfe: Kapitel 26: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
चर्यापादेषड्विंशोऽध्यायः |
षड्विंशोऽध्यायः |
विष्णुगायत्रीकल्पः. |
श्रीभगवान् |
गायत्रीं वैष्णवीं ब्रह्मन् चतुर्विंशाक्षरात्मिकाम् |
शृणु वक्ष्यामि परमं रहस्यं कथ्यतेऽधुना || १ ||
मातृकाचक्रमभ्यर्च्यछन्दसामादिमुद्धरेत् |
आदिदेवशिराश्चात्र विघ्नेशं तदनन्तरम् || २ ||
वह्न्यन्तं गोपनं पश्चाच्छङ्खं विष्णुशिरः स्मृतम् |
सुमुखं गोपनयुत मन्यच्च मरुदादिमत् || ३ ||
तथा |
मन्वक्च |
मायाश्रितं सुधाधाम वैधरोऽन्वकच्छ मन्दरम् |
विष्णुशीर्षो भास्करोऽथ माथवाधिष्ठितः क्रमात् || ४ ||
मायायुतं सुधाधाम विजयो |
आदिदेवसमाक्रान्तः कुम्भशुक्लोदयावहौ |
वैधरो देवतान्तश्च पीयूषरुचिराशिराः || ५ ||
कुम्भं शुक्लोदयावुभौ |वैधरो देवदत्तान्तः पीयूष |
अनिलः प्रणवाद्यन्तो महामायाशिराः क्रमात् |
धनदोनु ततो दक्षो विष्णुमूर्धाथ भास्करः || ६ ||
यादोदोनूतनो |
मायाशिराश्च वैराजो विष्ण्वन्तो भद्रपाणियुक् |
ओतदेहः परः कुम्भस्त्रिविक्रमपरस्स्मृतः || ७ ||
क्रोधनं वनमाल्यन्तं तद्वयं भुवनावधि |
वसर्गः पापहन्ता च वह्निश्चाद्यर्णसंयुतः || ८ ||
चकारश्चोतदेहश्छ द्वौ दृष्टिर्विष्णुमूर्धकः |
दरश्च गोपनश्चोभौ विजयोर्णस्समुद्धृतः || ९ ||
द्वौ वृष्टिर्विष्णु मूर्ध्वगः |
विजयोऽन्तः |
गायत्र्यक्षरन्यासवर्णदेवतादिः. |
चन्दश्छ देवी गायत्रमृषिर्ब्रह्माधिदैवतम् |
विष्णुष्षडङ्गानि तथा क्रुद्धोल्कादीनि पद्मज || १० ||
मूर्धादिपादपर्यन्तमक्षरन्यसनं मतम् |
मूर्ध्निफाले नयनयोर्नासिकापुटयोस्तथा || ११ ||
श्रोत्रयोरास्यगलयोर्हृदये बुहुमूलयोः |
न्यासः कूर्परयोश्चैव तथैव मणिबन्धयोः || १२ ||
हस्तयोः कुक्षिमध्ये च गुह्येचोर्वोश्च जङ्घयोः |
पादयोश्च क्रमादेवं न्यासःप्रोक्तश्चतुर्मुख || १३ ||
पीतं कक्तं च धूम्राभं श्वेतं कृष्णं च लोहितम् |
वलर्क्षं पीतकं रक्तं श्यामं शङ्खनिभं तथा || १४ ||
पाटलं स्फटिकाभं च पीतं रजतसन्निभम् |
चन्द्रदीधितिसङ्काशं पद्मकिञ्जल्कसन्निभम् || १५ ||
ताराभं बन्धुजीवाभं नक्षत्राभं च पाटलम् |
जपाकुसमसङ्काशं तप्तजाम्बानदप्रभम् || १६ ||
रविप्रभं चाक्षराणां वर्णभेदः प्रदर्शितः |
सन्ध्यात्रये ध्येयस्वरूपम्. |
कालमेघनिभं सौम्यं चतुर्बाहुं किरीटिनम् || १७ ||
चनर्णानाम् |
शङ्खचक्रगदापाणिं गरुडारूढमच्युतम् |
एवं ध्यात्वाऽर्चयेद्देवं प्रातः काले समाहितः || १८ ||
स्फटिकोपलसङ्काशं गरुडारूढविग्रहम् |
मध्यन्दिनेऽर्चयित्वा तमाचरेज्जपमात्मवान् || १९ ||
माचरेत् |
प्रदोषेषु चतुर्हस्तं वैनतेयोपरिस्थितम् |
श्यामलं पुण्डरीकाक्षं ध्यायन्मन्त्र मुदीरयेत् || २० ||
मुदीरयन् |
सिद्धये जससङ्ख्या. |
कुर्यात्त्रिषवणस्नानं व्रतस्थस्संयतेन्द्रियः |
चतुर्विंशति लक्षेण मन्त्रजापेन सिध्यति || २१ ||
मन्त्रवित्साधकोवारितर्पणं होमकर्मच |
कुर्वन्नाप्नोति सकलां सिद्धिमिष्टां सुदर्लभाम् || २२ ||
गोमूत्रयावकाहारो जपेल्लक्षमतन्द्रितः |
पातकेभ्यो महद्भ्योपि मुच्यते नात्र संशयः || २३ ||
ब्रह्मकूर्चं पिबन् लक्षत्रयं मन्त्रं जपन्सुधीः |
तत्समेभ्यः पातकेभ्यो विमुक्तोमन्त्रवित्तमः || २४ ||
मुच्यते |
अष्ठाक्षरवदनुष्ठानम्. |
ब्रह्मादि देवतास्सर्वा निनीषुर्वशमात्मनः |
अणिमादिफलं प्रेव्सुस्तथैवाकर्षणोद्यतः || २५ ||
अणिमादिगुणान् |
वशीकारे च सर्वेषां पातालगमने तथा |
गन्धर्वयक्षप्रमुखान् प्रमुखानात्मनस्सदा || २६ ||
चिकीर्षुरष्टाक्षरवदनुतिष्ठेच्छतुर्मुख |
सकृदुच्चारयन्मन्त्रं विष्णुगायत्रिसंज्ञितम् || २७ ||
वेदानामसकृत्सर्व शाखाध्ययनपुण्यभाक् |
केशकीटादिदुष्टानि हवींषि ध्यानमास्थितः || २८ ||
उदीरयन् सकृत् |
एतज्जपेन मन्त्रचतुष्टयप्रास्तिः. |
स्पृष्ट्वा जपेन्मन्त्रमिदं सद्यः शुद्धानि पद्मज |
चतुर्णां मूलमन्त्राणां फलमेतेन सिध्यति || २९ ||
श्रीकराष्टाक्षरमन्त्रः. |
श्रीकरं मन्त्रमपरं वक्ष्ये सर्वार्थसाधनम् |
अष्टाक्षरं चतुर्वक्त्र रहस्यं परमं शृणु || ३० ||
वर्णचक्रं लिखित्वादौ समभ्यर्च्य ततः पुनः |
उद्धरेच्छ्रीकराष्टार्णं मन्त्रं मन्त्रप्रभाववित् || ३१ ||
चक्रं लिखित्वा भूम्यादौ |
आदौ समुद्धरैत्तारमुदयं तदनन्तरम् |
द्विरेकनेत्रमायान्तं क्रोधनं कौस्तुभाक्षरम् || ३२ ||
विष्णुशीर्षं ततो लक्ष्मीमनलं तदनन्तरम् |
महामायायुतं पद्ममप्रमेयमनन्तरम् || ३३ ||
अग्निमादिं चतुर्वक्त्रठठेति श्रीकराह्वयम् |
तद्बीजादिनिर्देशः. |
भीजमस्य प्रवक्ष्यामि यथातत्वमुदीर्यते || ३४ ||
चतुर्वक्त्रं पठेति |
दीप्तिमाननलः पञ्च बिन्दुरर्धेन्दुनिष्ठिता |
बीजमङ्गानि षट्चापि क्रुद्दोल्कादीनि पूर्ववत् || ३५ ||
बिन्दुर्विन्दुश्च निष्ठितम् |
छन्धश्च देवी गायत्रमृषिरस्य प्रजापतिः |
देवता देवदेवेशः प्रत्यर्णं पूर्ववत् स्मृतम् || ३६ ||
ऋषिश्छन्दोदैवतं च |
ध्येयदेवतास्वरूपम्. |
ध्यानं संप्रति कथ्यते |
कल्पकानोकहच्छायामाश्रित्य सुखशीतलाम् || ३७ ||
गरुडस्य चतुर्बाहोस्सर्वालङ्कारधारिणः |
स्कन्धदेशे सुखासीनमष्टबाहुं किरीटिनम् || ३८ ||
कुन्देन्दुधवलं सौम्यं सर्वाकल्पपरिष्कृतम् |
दिव्यगन्धविलिप्ताङ्गं दिव्यमालाविभूषितम् || ३९ ||
पीताम्बरधरं नीलकुन्तलैरुपशोभितम् |
चक्रं च मुसलं भाणमङ्कुशं दधतं भुजैः || ४० ||
चतुर्भिर्दक्षिणैरन्येश्शङ्खं कौमोदकीं तथा |
शार्ङ्गं पाशंच कल्याणैः प्रसन्नेन्दुनिभाननम् || ४१ ||
गरुडोपि च हस्ताभ्यामुभाभ्यां पादपङ्कजे |
देवस्य धारयन् कुम्भं पूर्णं पीयूषवारिणा || ४२ ||
इतराभ्यां च हस्ताभ्यां स्पृशन्नास्ये स्थितं तथा |
श्रियं च वामोरुतले रुक्माभां क्षौमवासिनीम् || ४३ ||
दिव्यगन्धविलिप्ताङ्गां सर्वाकल्पपरिष्कृताम् |
सुभ्राललाटमुकुटां कर्णविश्रान्तलोचनाम् || ४४ ||
लावण्यामृततोयेन वर्षन्तीमिव सर्वतः |
पाशाङ्कुशधरां लक्ष्मीं कन्दर्पशरपीडिताम् || ४५ ||
तपोनियमस्तत्फलं च. |
ध्यात्वैवं पूजयित्वातु व्रतस्थस्संयतेन्द्रियः |
द्वादशाहं जपेन्मन्त्रं ध्यात्वा पार्श्वे निधिद्वयम् || ४६ ||
ऊर्ध्वबाहुर्जलेतिष्ठन्नुरोदघ्ने समाहितः |
आदित्याभिमुखो मन्त्री जुहुयाच्च समिच्छतम् || ४७ ||
बिल्वोद्भवैस्तथालक्ष्मीं कुसुमैः पायसोदनैः |
शुद्धोदनैर्घृताक्तैश्च अष्टोत्तरसहस्रकम् || ४८ ||
एवं कृते विधानेन पुष्टिरुत्पद्यतेऽचला |
पौष्टिकादि च पूर्वोक्तफलं पूर्वोक्तसङ्ख्यया || ४९ ||
पादुकादि च पूर्वोक्तं |
शान्तिकं पौष्टिकं कर्ममन्त्रेणानेन साधयेत् |
लक्ष्मीनारायणमन्द्रकल्पः. |
लक्ष्मीनारायणाह्वानं मन्त्रं परमदुर्लभम् || ५० ||
तस्योद्धारं प्रवक्ष्यामि शृणु वर्णक्रमेण तम् |
उद्गीथं मनुजेशानं विष्णुं मन्दर मेव तत् || ५१ ||
तु |
मोतवत् || सूक्ष्मदृङ्मुख्यम परं गदिनं मुख्यमर्पितं |आद्वर्णं विजयम् |
सूक्तीन्दुमुख्यमपरं गदिनं कुम्भमर्पितम् |
आद्यन्तं विजयं दत्तं माहेन्द्रं चाप्रमेयकम् || ५२ ||
गरुडं दक्षमपरं महामायां विनायकम् |
आदिदेवं ततो वह्निं गोपनं च चतुर्गतिम् || ५३ ||
आद्यं प्रचण्डमाकारं शङ्खमादिं ठठेति च |
उद्दृत्य षोडशार्णं तन्मन्त्रं बीजश्च कथ्यते || ५४ ||
बीजं तु |
द्युमणिं बिन्दुमपरं वामनं बिन्दुमुद्धरेत् |
अङ्गानि पूर्वमुक्तानि छन्धो गायत्रमुच्यते || ५५ ||
नह्नि |
विद्धि शुक्रो मुनिर्देवो लक्ष्मीनारायणस्स्मृतः |
जपष्षोडशलक्षं तु तदर्धं वारितर्पणम् || ५६ ||
दैवं शुक्रो |
होमस्ततर्धोमन्त्रस्य फलान्याहुर्यथा क्रमम् |
सङ्कर्षणमन्त्रः |
सङ्कर्षणादिमूर्दीनां तिसृणां मनुरुच्यते || ५७ ||
पुरम् |
आदितः पूर्ववत्सप्त वर्णानाममनुपूर्वशः |
उद्धारश्शिष्टवर्णानां ब्रह्मन् संप्रति कथ्यते || ५८ ||
दीप्तिमान् वह्निरौर्वश्छ द्रुवश्शुक्लस्तथादिमान् |
बिन्दुः प्रजापतिश्चाद्यो वह्निरुग्रो मुखं ततः || ५९ ||
सुमुखं गोपनयुतं वायुराद्यं ठठान्तितम् |
द्वादशारोणात्मको मन्त्रोबीजमङ्गं च पूर्ववत् || ६० ||
सुखं च |
छन्दश्च देवी गायत्रमृषिस्यान्नीललोहितः |
देवस्सङ्कर्षणो वर्णो देवता तत्वनिर्णयः || ६१ ||
द्वादशाक्षरवत् ज्ञेयः पुरश्चरणमीरितम् |
फलानि पूर्वमुक्तानि वाक्सिद्धिर्महती भवेत् || ६२ ||
ज्ञानं च महदाप्नोति यच्चान्यदधिकाङ्क्षितम् |
तत्सर्वमचिरादेव सिध्येन्मन्त्रप्रभावतः || ६३ ||
शङ्खगोक्षीरधवलं चतुर्भाहुं किरीटिनम् |
वसानं वसनं क्षौमं पूर्णचन्द्रनिभावनम् || ६४ ||
मुक्तां भूयिष्ठमाकल्पं सौवर्णमतिशोभनम् |
दधानं मुख्यहस्तेन ज्ञानमुद्रासमन्वितम् || ६५ ||
पुस्तकं वामहस्तेन बिभ्राणं भुजयोर्द्वयोः |
ऊर्ध्वयोस्स्फाटिकं शङ्खमक्षमालां यथातथम् || ६६ ||
स्फाटिकीं दक्षिणे हस्ते अक्षमालां |
धवलैः कालजैः पुष्पैश्शोभितं वनमालया |
श्वेतपद्मे सुखासीनमेवं ध्यायीत मन्त्रवित् || ६७ ||
ध्यायतो बुद्धिरतुला भवेत् ज्ञानं च पुष्कलम् |
शान्तिकं पौष्टिकं कर्म कुर्यादेतेन पद्मज || ६८ ||
बहुना किं प्रलापेन द्विषट्काक्षरवत्फलम् |
सर्वमाप्नोति मनुना साधकः कमलासन || ६९ ||
प्रद्युम्नमन्त्रः. |
प्रद्युम्नमन्त्रमधुना सर्वकामफलप्रदम् |
ब्रवीमि तस्य चोद्धारं कथ्यतेऽक्षरशः क्रमात् || ७० ||
आदित स्सप्तवर्णानामुद्धारः पूर्वमीरितः |
अस्यासाधारणार्णानां संप्रत्युद्धार उच्यते || ७१ ||
सर्व |
पाप्मानमनलं विष्णुमन्त्रं वायुमुकारवत् |
मन्दरं भद्रपाणिं च मधुसूदनमारुतौ || ७२ ||
आग्नेयी दश चैकं चाप्यर्णस्संहननं मतम् |
अनुस्वारपरो विष्णुर्भीज मङ्गं च पूर्ववत् || ७३ ||
मङ्गानि |
ऋषिस्सनत्कुमारस्स्याच्छन्दो गायत्रमुच्यते |
प्रद्युम्नो देवता मन्त्रस्साधनं फलमेव च || ७४ ||
पूर्वोक्तम् |
अनिरुद्धमन्त्रः. |
मन्त्रमपरमानिरुद्धमतः परम् |
शृणु ब्रह्मन् यथापूर्वं सप्तार्णानामनुक्रमात् || ७५ ||
उद्धारः परिशिष्टानामार्णानां कथ्यतेऽ धुना |
प्रणवाद्योभद्रहस्तोमाया सप्तार्चिरेव च || ७६ ||
क्रमात् |
उदयौ द्वौ च सुभगो गोपनो वायुरादिमान् |
बीजमस्याप्रमेयश्च विसर्गश्छावसानतः || ७७ ||
ऋषिश्च सनकश्छन्दः पूर्ववद्देवता तथा |
अनिरुद्धो द्वादशार्णः क्रमेण समुदीरितः || ७८ ||
यथापुरं षडङ्गानि साधनं फलमेव च |
चतुर्विंशतिमूर्तिमन्त्रनिर्देशः. |
चतुर्विंशतिमूर्तिनां समाख्या द्वादशादिभिः || ७९ ||
Kapitel 27
Lesehilfe: Kapitel 27: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
चर्यापादेसप्तविंशोऽध्यायः |
सप्तविंशोऽध्यायः |
श्रीभगवान् |
मत्स्यादिमूर्तिदशकमन्त्रनिर्देशः. |
मत्स्यादिदशमूर्तीनामवतारक्रमान्मसुः |
उच्यते पूर्ववच्चक्रमक्षराणां समालिखेत् || १ ||
साधारणान् गृहीत्वार्णान् यथापूर्वं चतुर्मुख |
असाधारणरूपं तत्संप्रत्युध्रियते क्रमात् || २ ||
मत्स्यमूर्तिमन्त्रः. |
स्पर्शान्तमाद्यं विजयं चन्द्रमन्वक्चतुर्गतिम् |
आदिमग्निं हृषीकेशं पवित्रं मधुसूदनम् || ३ ||
श्वसनं चाप्रमेयं च द्वादशार्णास्समीरिताः |
माधवं पुरुषात्मानं हृषीकेशं च बिन्दुमत् || ४ ||
श्वसनादयः बिन्दुमदन्ताश्शब्दाः पुल्लिङ्गप्रथमान्ताः क्वचिद्दृश्यन्ते |
माधवी |
बिन्दुमान् |
बीजमङ्गेषु यद्रूपमसाधारणमुच्यते |
सर्वान्तमादिं सर्वत्र षट्सु चाद्यश्च बिन्दुमान् || ५ ||
आदिदेवं महामायां हृषीकेशं च गोपनम् |
विष्णुमौर्वीं षडङ्गेषु मध्यमार्णं क्रमोदितम् || ६ ||
उद्धृत्यैवं प्रयोक्तव्यमृषिरस्य मनुस्स्मृतः |
छन्दश्च देवी गायत्रं मत्स्यरूपः परः पूमान् || ७ ||
देवता रूपरहितः पञ्चार्णो वा मनुस्स्मृतः |
भीजं तदङ्गानि तथा साधनं च यथापुरम् || ८ ||
कूर्ममूर्तिमन्त्रः. |
मूर्तेरनन्तरायास्तु मन्वर्णोद्धारणं शृणु |
असाधारणरूपस्य स्पर्शनादि गुहालयम् || ९ ||
स्वर्शादिं च |
अनलं मन्दरं विष्णुं पूर्ववद्द्वादशाक्षरम् |
बीजोद्धारः क्रोडरूपी भूधरश्च गुहालयः || १० ||
शिष्टम् |
पूर्वरूपम् क्रोधरूपी |
सानुस्वारो बीजमेतत्षडङ्गानि चतुर्मुख |
ऋषिरेतस्य दुर्वासा श्छन्दः पूर्ववदिष्यते || ११ ||
देवता कमठाकारो देवस्संप्रत्यनन्तरम् |
वराहस्य मन्त्रः. |
वराहवपुषो मन्त्रं वर्णचक्रात्समुद्धरेत् || १२ ||
वरुणो विष्णुरनलश्चादिदेवश्च भास्करः |
गोपनः पुरुषात्मा च विष्णुरेते समुद्धृताः || १३ ||
अस्याऽसाधारणा वर्णाःप्रोक्तास्साधारणाः पुरा |
एकादशाक्षरात्मायं बीजं संप्रति कथ्यते || १४ ||
पुनः |
सूक्ष्मदृग्बिन्दुपर्यन्तष्षट्चाचामङ्गपद्धतिः |
बीजमेव मुनिश्शङ्खश्छन्तो गायत्रमिरितम् || १५ ||
नारायणो देवतास्य नत्यन्तश्च षडक्षरः |
तस्यैव मन्त्रान्तरम्. |
यद्वा पूर्ववदेवाङ्गं बीजं च कमलासन || १६ ||
त्रयोदशार्णानुद्धृत्य पूर्वोक्तान् व्याहृतित्रयम् |
उद्धरेत्पतिशब्दं च चतुर्थ्यन्तमनन्तरम् || १७ ||
भूमेः पतित्वमाशास्यं मे देहि तदनन्तरम् |
दाहयेति ठठान्तस्स्याद्द्वात्रिंशद्वर्णसन्ततिः || १८ ||
छन्दोऽनुष्टुबृषिः पूर्वो देवता सा चतुर्मुख |
बीजमुक्तं तदङ्गानि भङ्त्क्वा मन्त्रं प्रकल्पयेत् || १९ ||
वर्णान् करनसङ्काशान् न्यसे दङ्गेषु पूर्ववत् |
ध्यात्वा षोड शलक्षाणि जपेन्मन्त्रमतन्ध्रितः || २० ||
दङ्गानि |
उर्वरायाः पतिस्सद्यो भवेन्मन्त्रप्रभावतः |
पातालगमनादीनि फलान्यस्यापि पद्मज || २१ ||
वराहमालामन्त्रप्रकारः. |
चतुष्षष्ट्यर्णसङ्घातो मालामन्त्रः प्रदर्श्यते |
त्रयोदशार्णाः प्रथममेकदंष्ट्रपदं ततः || २२ ||
चतुर्थ्यन्तं तथा मेघपदं द्विः प्रोच्य च क्रमात् |
उल्कावर्ण पदद्वन्द्वं चतुर्थ्यन्तं ततः परम् || २३ ||
मेयपदम् |
छन्दोम यप्रत्ययान्तं सम्बध्यन्तमुदीरयेत् |
द्विर्लोडन्तो दहिर्वाच्यो हन्तिश्च मथिरेव च || २४ ||
योंप्रत्ययान्तं |
पचिं चमहदाद्यन्तं भौमेति पदयोर्युगम् |
हुं द्विरुच्चार्यारिशिरस्स्वं तथैव खनिं पुनः || २५ ||
भौमे नृपद |
लोडन्तमाय मग्नेयीमिति मन्द्रपदस्थितिः |
बीजमुक्तं तथाङ्गानि भङ्त्क्वामन्त्रं प्रयोजयेत् || २६ ||
मग्नायी मन्वग्गति |
तदङ्गानि |
जामदग्न्य ऋषिःप्रोक्तश्छन्दोऽतिच्छ्द ईरितः |
देवता देवदेवेशः स्थूलघोणवपुस्स्मृतः || २७ ||
लक्षं जपेदिमं मन्त्रं भूमिप्सुश्च चतुर्मुख |
मृत्स्नया जुहुयात्तावद्द्यावदाप्नोति मेदिनीम् || २८ ||
भूतिकामः |
अष्टाक्षरमनोस्तुल्यफलोयं मनुरीरितः |
नृसिंहस्य मन्त्रः. |
उल्कावर्णं चतुर्थ्यन्तमक्षरस्यावसानतः || २९ ||
इदमर्धं क्वचि दधिकं दृश्यते |
चतुष्षष्टि प्रभेदस्य मन्त्रस्य नृहरेर्मया |
न विस्तारः कथयितुं शक्यते बोद्धुमेव वा || ३० ||
तस्मात्त्रिचतुरो भेदाः कथ्यन्ते कमलासन |
वर्णचक्रातथोद्धारस्सं प्रत्येकाक्षरात्मनः || ३१ ||
मन्द्रस्य कथ्यते ब्रह्मन् ब्रह्मकोशपुरस्कृतः |
नृसिंहः कर्षणोबिन्दुरित्येकाक्षरमिरितम् || ३२ ||
एतदेव भवे दङ्गं छन्दो गायत्रमुच्यते |
देवो मुनिश्च दुर्वासा नृसिंहो देवता मता || ३३ ||
च्छन्दो देवी गायत्र |
वर्णश्च पाटलो लक्षत्रयं जप्यं विपश्छिता |
जिगीषुणा चतुर्वर्गफलमन्यच्च काङ्क्षितम् || ३४ ||
त्रियक्षरं च नत्यन्तमेत देवाङ्गमप्यतः |
अष्टाक्षरात्मनोऽस्यैव मन्त्रोस्योद्धारणं क्रमात् || ३५ ||
प्रणवो नतिरन्वक्च विघ्नेशो मधुसूदनः |
अनलश्चादिरिन्दुश्च रामोऽनुस्वार एव च || ३६ ||
गोपतिर्गोपनश्शङ्खो विष्णुरष्टाक्षर स्स्मृतः |
बीजमुक्तं तथाङ्गानि मुनिर्व्यासोऽन्यदीरितम् || ३७ ||
स्ततः |
जपसङ्ख्या फलान्यस्य तथैव कमलासन |
सप्ताक्षरं च नत्यन्तमन्यत्प्रणववर्जितम् || ३८ ||
बीजादि पूर्ववत्सर्वं पङ्चाङ्गो जप एव च |
साधारणास्सप्तवर्णाः पञ्चाऽसाधारणा स्तथा || ३९ ||
पूर्वोक्तद्वादशार्णात्मा शङ्खोदरसमाह्वयः |
यथापूर्वं षडङ्गानि बीजं चैव यथापुरम् || ४० ||
प्रत्यक्षरं लक्षजपो होमस्तर्पणमेव च |
पुरुषार्थस्य सर्वस्य साधकस्साध्वनुष्ठितः || ४१ ||
मन्त्रोनृसिंहवपुषो द्वात्रिंशार्णात्मकोऽपरः |
वक्ष्यते तस्य वर्णानामुद्धारस्सं प्रदर्श्यते || ४२ ||
सर्व |
छन्दसामादिरुदयो गदी वह्निरचां मुखम् |
यष्टिःकुम्भो महामाया ज्वलनो वैष्णव स्तथा || ४३ ||
स्पर्शान्तं द्विरचामादि द्वादशात्माच गोपनः |
पर्जन्तो बिन्दुरुग्रात्मा प्रचण्डश्चोदय स्तथा || ४४ ||
बन्धुरुग्रांशुः |
मन्दरो जन्महन्ता च पीयूषात्मा सवैष्णवः |
महेन्द्रो वाङ्मुखं पद्म पाणिर्विजयसंज्ञितः || ४५ ||
च |
भद्रपाणि |
अर्थचन्द्राकृतिश्शुक्लः प्रणवादिर्विभावसुः |
वरुणश्चाप्रमेयश्च वै राजो ब्रह्मसाधनः || ४६ ||
स्पर्शान्तमुदय स्स्पर्शद्वितीयं विष्णुदैवतम् |
माधवं भद्रपाणिं च पद्मनाभः कलात्मकः || ४७ ||
स्स्वर्गम् |
त्रिविक्रमो ध्रुवः पुषा स्वरादिर्मन्दरस्स्मृतः |
भल्लायुधो महामाया क्रोधरूपी च वैष्णवः || ४८ ||
वनमाली स्वरादिश्च माधवस्सूक्ष्मलोचनः |
अप्रमेयो वैधरश्च ज्वलनोङ्कारसंयुतः || ४९ ||
मायावी |
वैष्णवश्च |
द्विर्मन्दरः पद्मनाभो विजयश्च चतुर्गतिः |
उदयो मन्दरशिराः पदमेतदनन्तरम् || ५० ||
चतुर्भुजः |
वर्णानि सुसमीकृत्य नमाम्यहमुदीरयेत् |
विराडृषिरनुष्टुप्च छन्दो नरहरिस्स्मृतः || ५१ ||
जपेल्लक्षत्रयं बुधः |
देवता बीजमस्योक्तं मन्त्रं भङ्त्क्वाङ्गकल्पना |
न्यासश्छाङ्गेषु पूर्वोक्तक्रमेण कमलासन || ५२ ||
ध्यायेत्स्फटिकवर्णाभं जपसङ्ख्या च पूर्ववत् |
मन्त्रोऽयं नारसिंहस्य सकलापन्निवारणः || ५३ ||
ध्येयस्स्फटिकवणान् भः |
समस्तसम्पज्जननो वाच्योनैव च कस्य चित् |
अस्य मालामन्त्रः. |
उच्यते नरसिंहस्य मालामन्त्रः श्चतुर्मुख || ५४ ||
अधिकं सप्तदशभिर्वर्णैरर्णशत त्रयम् |
प्रथमं छन्द सामादिर्नतिश्च तदनन्तरम् || ५५ ||
द्वयम् |
चतुर्थ्यन्तं पदं वाच्यं नरसिंहेति मन्त्रिणा |
तदेव च महत्पूर्वं देवदानवपूर्वकम् || ५६ ||
दैत्य |
शोणितेति पदं पश्चाद्दिग्धपूर्वं सखोत्तरम् |
पदमेकं चतुर्थ्यन्तं नमोऽन्तं समुदीरयेत् || ५७ ||
पच ग्रनेति च पदं शुषिर्ण्यन्त स्समुद्धृतः |
ग्रन्थिर्णिजन्तो हन्तिश्च सन्ति र्लोण्मध्यमोदयः || ५८ ||
ग्रहे |
स्समध्यमः |
अशुद्धमिन. सन्ति सक्तिरिति क्वचित् |
हुं फट्तदन्तरं प्रोच्य तथा कलिपदं ततः |
चरेति च लुपेत्युक्त्वाक्षरेति तदनन्तरम् || ५९ ||
तथा बल |
हां होंखर चिरं चैव दूं ह्यों ज्वलनमेव च |
ज्वलिश्शुचिर्द्रविस्स्फोटिर्ण्यन्तो लोण्मध्यमोदयः || ६० ||
द्रूं लोम् |
भिदिश्छिदिः तं विकरो लोण्मध्यमशिरास्ततः |
हिसिमृङ्भ्यांणिजन्ताभ्यां लोण्मध्यममुदीरयेत् || ६१ ||
बिदिश्छिदन्तं विकरोभिदिर्णन्तं विकारो |
भीति |
आंपूर्वो नयतिर्लोटि हुंफडन्तमुदीरितम् |
द्रवद्रवेति च ततो विपूर्वं तद्वयं पुनः || ६२ ||
पातालान्तं सर्वशब्दं वासिनामिति पश्चिमम् |
हृदयादीनि कथये त्कृषिर्ण्यन्तश्च मध्यमे || ६३ ||
हृदि कथयेद्ब्रह्मन् |
अज् पूर्वोविद्विषिर्ण्वन्तो लोटि सम्बुद्धिशीर्षकम् |
भगवत्पदमुच्चार्य नारायणपदं ततः || ६४ ||
आर्ज पूर्वो. मुर्खपूर्वो विदुष्यन्तो |
वासुदेवहृषीकेशपदद्वितयमिरयेत् |
दानवादिर्लडन्तश्च जहि राक्षसपूर्वकम् || ६५ ||
अन्तकेति पदं पश्चादुक्त्वा कामोदकी धनुः |
धरेति गरुडादिं च ध्वजान्तं पदमब्जज || ६६ ||
तथामनुः |
त्रिपूर्वधामन्नित्येतन्नतिरस्त्विति ते पदम् |
त्वां प्रपन्नोऽस्मिति पठेदेवमुच्चार्य ते मनुः || ६७ ||
तथा देनमुद्धार्यते |
बीजमुक्तं षडङ्गानि प्रोच्यते पदशोऽधुना |
प्रणवादिश्च सत्यन्तश्चतुर्थ्यन्तश्च विग्रहः || ६८ ||
पुरुषादिमुखादिश्च नरसिंहपदं तथा |
वज्रशब्दं द्विरुच्चार्य क्रमाच्च नखविग्रहौ || ६९ ||
वज्रेति नखदंष्ट्रेति चोक्त्वायुधपदं ततः |
महानरपदं सिंहपर्यन्तं षष्ठमिरितम् || ७० ||
अनिरुद्धो मुनिश्छन्दस्त्वतिपूर्वं च देवता |
नृसिंहारूपी भगवानिति सर्वमुदीरयन् || ७१ ||
सर्वमुदीरितम् |
बिलद्वारि जपेन्मन्म्रीषोडश प्रयतस्थ्सितः |
लक्षाणि सद्यः पातालवासिनः कुरुते वशे || ७२ ||
लोकान्तरगतानां च वशीकारक्षमो भवेत् |
एतावन्तिफलान्यस्येत्यभिधातुं न शक्यते || ७३ ||
अतोऽन्यं नारसिंहस्य मन्त्रं सर्वार्थ साधकम् |
चतुश्शताक्षरं तस्य समुद्धारः प्रदर्श्यते || ७४ ||
आदावुद्दीथमुद्धृत्य नत्यन्तं ब्रह्मसाधनम् |
भल्लायुधं गदध्वंसं वारुणं विजयं तथा || ७५ ||
गदध्वंसी |
माधवं भद्रहस्तं च पावकं श्वेतदीधितम् |
विक्रमं सध्रुवं ब्रह्मन् भास्करं मधुविद्विषम् || ७६ ||
वामनम् |
श्वसनं वुरुणं जन्महन्तारमृतधारकम् |
द्विरदं सर्व दाहं स्याद्वैधरं तदनन्तरम् || ७७ ||
देहम् |
अचामादिं सध्रुवं च क्रोधरूपमधोक्षजम् |
सपर्वतं हुतवह माव्रतं मधुविद्विषम् || ७८ ||
माविषं मधुसूदनम् |
मारुतं माधवं ब्रह्मन् धनदं मधुसूदनम् |
दरं सचन्ध्रं पुल्लं च माधवं नगवारिणम् || ७९ ||
सचक्रम् |
नागवारुणम् |
सविक्रमञ्च कमलं पर्वतं पाशपाणिनम् |
सबन्धुं कमलं पञ्च बिन्दुमस्तक भूषितम् || ८० ||
भूषणम् |
सुमुखं चाग्नि शिरसं करालं मृगवल्लभम् |
क्षपाकरं तथायान्तं यामनीनाथमब्जज || ८१ ||
हृदयाह्लोद माकारं चतुर्गतिमनन्तरम् |
नृहरिं भुवनं सूक्ष्मलोचनं रामर्शीकम् || ८२ ||
विजयं पाटलं भानुं सूदनं सुमुखं तथा |
यान्तं तच्छिरसं पश्चा द्वारुणं गजवाहनम् || ८३ ||
मायान्तं शिरसः पश्च द्द्वारुणं खगवाहनम् |
वासुदेवं तथाक्रोध रूपमाकारमारुतौ |
वैधरं सूदनं भद्र हस्तं वारुणमैन्दवम् || ८४ ||
वत्सोतदेहं सुमुखं विक्रमं विजयाभिधम् |
दृष्टिविक्रम पाशान्तसुभागार्पितविघ्नराट् || ८५ ||
वस्वोतदेहं |
विजयाहितम् |
पञ्चान्तसुभ गापति |
तद्द्वितीयमचामादिद्वितयं श्वसनं तथा |
माधवं सद्ध्रुवं भानुमान्तं माधवभास्करौ || ८६ ||
द्वितृतीयअद्वितीय |
रामं भल्लायुधं पञ्च अन्तकं स्यात्सुधारसम् |
भद्रहस्तमचामादि भान्त माधरासूदनौ || ८७ ||
मान्तरमाधन |
भद्रं वसुं श्वेतरुचिं विक्रमं सद्ध्रुवं तथा |
मार्ताण्डं माधवं भानुं गोपनं नान्तमाधरौ || ८८ ||
यान्तं सश्रीधरं चोग्रं वसुं वारुणगोधनौ |
कुशेशयं माधवं च सुमुखं कौस्तुभं तथा || ८९ ||
वरुणगोपनौ |
विघ्नेशं गोपनं ब्रह्मन् रोहिताश्वं सगोपनम् |
वसनं सुमुखं पश्चाद्वारुणं मधुविद्विषम् || ९० ||
श्वसनं |
दाक्षायणीशमुदयं वैधरं माधवं ततः |
अमृतं वैधरमचां द्वितीयं भान्तमज्जज || ९१ ||
मासपम् |
वैधरं पश्चात् |
ओतदेहं तथा दृष्टिं यान्तमाकारमक्षरम् |
वक्रतुण्डं गन्धवहं विष्टरं विजयं तथा || ९२ ||
वान्तमक्षयम्. स्वान्तयम् |
विष्टपम् |
अमृतं विक्रमपरं श्रीवत्सं वरुणार्पितम् |
यान्तं गुहालयं नान्तं षान्तं च मधुसूदनम् || ९३ ||
गुणालयं भान्तम् |
सद्ध्रुवं द्रुहिणं क्रोधं पावकं सुमुखं पुनः |
सपश्चिमं पद्मनाभं वैधरं च चतुर्मुख || ९४ ||
सवर्णं |
पवमानं सभुवनं भान्तं कुङ्जरगोपनौ |
भद्रहस्तं सरामं च यान्तं स्याच्छ्रीधरं तथा || ९५ ||
हान्तम् |
भद्रं च धनदं पापहननं जयमन्तरौ |
विघ्नेशं सूदनं भल्लं भास्करं स्याच्च तुर्गतिम् || ९६ ||
शुभदं वामनपरमुग्रं वसुशिर स्तथा |
प्रद्योतनं तथा यान्तमृतधा मोग्रवामनौ || ९७ ||
कमलं माधवपरं सनसीरुहसम्भव |
वान्तं च शुभदं दण्डं खर्वं घड्गधरं पुनः || ९८ ||
सरोजमृतधामानं कतृतीयं च वैधरम् |
अचां द्वितीयं धनदं बहुलं सौरमाधरौ || ९९ ||
सोममान्तरौ. सौरमान्तरौ |
नासिक्यं च समुच्चार्य हुंफट् शीर्षाणि योजयेत् |
त्रयोदशानि बीजानि हुंफडन्तानि योजयेत् || १०० ||
बीजाक्षरेषु प्रत्येकं हुंफट्कारमुदीरयेत् |
द्वादशाङ्गविदां प्रोच्यं भास्करं सगुहालयम् || १०१ ||
बीजाक्षराणि |
नासिक्यं नृहरिं चौर्वं चन्द्रार्धं यान्तमौषधम् |
सद्ध्रुवं मारुतं चोर्वीं सदण्डं च क्षपाकरम् || १०२ ||
क्षमापरम् |
समरं सद्ध्रुवं भानुमौर्वं नासिक्यमब्जज |
प्रद्योतनं सभुवनमर्धेन्दुं सान्तमेव च || १०३ ||
समनुम् |
साग्निं सवामनं सार्धं चन्द्रं चैव सरोरुहम् |
वासवं वामनवरं सद्ध्रुवं कतृतीयकम् || १०४ ||
सतृतीयकम् |
महेन्द्रमौर्वं नासिक्यं माधवं द्विरदाननम् |
सुभद्रं श्रीधरं भद्रहस्तं गारुडमेव च || १०५ ||
माधरम् |
सुभगं |
चित्रभानुं शशधरं पीयूषं वसुशीर्षकम् |
मारुतं भद्रहस्तं च विजयं वसुसूदनौ || १०६ ||
प्रचण्डं बन्धुसहितं व्रकतुण्डं गुहालयम् |
सुमुखार्णंच सप्तार्चिर्दरं चन्द्रमचां मुखम् || १०७ ||
बन्धुरहितम् |
सुमुखान्तं |
अपामधिपतिं चाग्निं जृम्भलं द्विरदाननम् |
धनदं वरुणं मायां भान्तं स्याद्ब्रह्मसाधनम् || १०८ ||
पन्नगं सुमुखं पापहननं यान्तमब्जज |
अमृतं विक्रमयुतं वैधरं धूलिकेतनम् || १०९ ||
नान्त |
गोपनं सद्ध्रुवं चन्द्रं सार्धेन्दुं भास्करं वसुम् |
नपश्चिमं हुतवहं मतिमद्वासनं ततः || ११० ||
चान्द्रम् |
पाटलं सर्वरोधं स्यात्कुञ्जरं मन्दरद्वयम् |
लक्ष्मीं सविजयं चाग्निं हृषीकेशं चतुर्मुख || १११ ||
स विजयाम् |
भद्रहस्तं मानुषेखं सूधनं हरिमन्दिरम् |
शङ्खं कलानिधिमपां नाथं वसुमधुद्विषौ || ११२ ||
पश्चिमं विजयं चाग्निं सुभद्रं पुरुषात्मकम् |
कलानिध्योश्च युगलं वारुणं वसुशीर्षकम् || ११३ ||
वैधरं मधुविध्वेषं माधवीं मधुविद्विषम् |
आर्धचन्द्रं हुतवहमनन्तं च द्विरुद्धरेत् || ११४ ||
मधुविद्वेषी |
सान्तं सविक्रमं सेन्द्रं बिन्दुमस्तकभूषितम् |
दश पञ्छ च बीजानि हुंफदन्तानि पूर्ववत् || ११५ ||
बन्धुं सिंधु |
मन्दरं विक्रम वशमैन्द्रं त्रैविक्रमं तथा |
खड्गहस्तं सरामं च वासवं सहविक्रमम् || ११६ ||
परम् |
वैधरं चोर्ध्वलोकेशं श्रीभीजं चानु नासिकम् |
ओतदेहं सयष्टिं च अचामादिं सयष्टिकम् || ११७ ||
नायकम् |
अचां द्वितीयमर्धेन्दुं कपिलं सङ्गिणं तथा |
माठरं गोपनं दण्डं माठरं पञ्चबिन्दुकम् || ११८ ||
माधरम् |
नासिक्यं भास्करं वीरसेनं यष्टिं च भास्करम् |
ओतदेहं सयष्टिं च पतनं चौर्वनासिकौ || ११९ ||
तापनं चौर्वनासिकौ |लोहिताक्षं च कमलम् |
रोहिताश्वं च कलशं विक्रमं कमलासन |
वासुदेवं सहृदयाह्लोदनं बन्दुमस्तकम् || १२० ||
सहृदयं चोदनम् |
शुक्लं सहस्रकिरणमैन्दवं चाग्निमस्तकम् |
वैरिंचं बन्धुसहितं पावकं सुमुखं तथा || १२१ ||
पश्चिमं त्वृतधामानं ककुभा ह्वमनन्तरम् |
सवारुणं सुरपतिं सबन्धुं विजयं तथा || १२२ ||
ककुभाहवमन्तरम् |
वसुपतिम् |
लक्ष्मीं मधुद्विषमथो एकदंष्ट्रगतिं पुनः |
अग्निशीर्षं द्वितीयं च झषं पञ्चान्तकं मतम् || १२३ ||
द्रुहिणं चोदयं ब्रह्मन् वासवं वामनं ततः |
शुभदं पश्चिममचां द्वितीयं कमलासन || १२४ ||
चोदनम् |
तथा |
द्वितीयं सद्ध्रुवं चाब्ज योनिं श्रीधरपङ्कजे |
श्रीवत्समब्जं विजयं काममस्तक मन्दरम् || १२५ ||
योनिस्स्याच्छशिपङ्किजे |
मन्दरौ |
उदयं शुक्रशत्रुं च विजयं ब्रह्मसाधनम् |
मन्दरं यान्तधनदं यान्तं चन्द्रघटं वसुं || १२६ ||
चैव शक्रं च चैव तच्चक्रम् |
भल्लायुधं हृषीकेशमेक नेत्रं घनं पुनः |
सबन्धुं मन्दरं दृष्टियुगलं चाग्निशीर्षकम् || १२७ ||
नेत्रघटं |
भद्रं चतुर्गतिमथो फणीन्द्रं यान्तसूदनौ |
नृहरिं कलानिधिमचा मादिं यान्तं मधुद्विषम् || १२८ ||
धान्तंधाता |
कतृतीयं गदध्वंसं विघ्नेशं नरवाहनम् |
अमृतं वसुनामानं धरित्रीं मधुसूदनम् || १२९ ||
कमलं विक्रमपरं यान्तं वामनहस्तकम् |
नास्तं गुणालयं चैव णान्तं ढान्तं मधुद्विषम् || १३० ||
गुहालयम् |
पश्चिमं चैन्दवमथो भान्तार्पितस गोपनम् |
धनदं चोतवपुषं भद्रं दक्षं च सूदनम् || १३१ ||
गोपतिम् |
वैधरं चैन्दिरमचां द्वितीयं कमलासन |
त्रिविक्रमं भद्रकरं महामायाङ्कितं वसुम् || १३२ ||
चैन्दव |
मृगेशं वरुणं चैव वैराजं पञ्चबिन्दुकम् |
क्षपारकरं कञ्जभवं ततस्स्याद्विघ्ननायकम् || १३३ ||
सदृष्टिं वैधरं देवदत्तं कुम्भं चतुर्मुख |
गतं सृतधामाह्वं मार्ताण्डं पाशहस्तकम् || १३४ ||
वामहस्तकम् |
समाधवं स्याद्द्विजयं गोपनं विषमध्वनिम् |
सरसीरुहं सोर्ध्वलोकं सरसीरुहसम्भन || १३५ ||
पद्मा स मन्दराकारौ प्रचण्डझषसंमितौ |
वैधरं वरुणं रामं भूधरं वह्निमस्तकम् || १३६ ||
समन्दमा |
वैराजम् |
जृम्भलं त्वृतधामा च स्यातां भास्करमन्दरौ |
आद्यन्तं यान्तमाकारं गारुडं हिमदीधितिम् || १३७ ||
अमृतम् |
ओङ्कारादिं शशधरं स विष्णुं वरुणं वसुम् |
सुधारसं प्रचण्डाग्निं भवे दृतमनन्तरम् || १३८ ||
विष्णुं वरुणमस्तकम् |
सुधासमम्. सुधारसं प्रवर्णाङ्कम् |
ध्रुत |
क्रोधरूपं सरामं च गदं च ऋतधामकम् |
गोपतिं वारुणपतिं विक्रमं यादसां पतिम् || १३९ ||
गतिम् |
मधुद्विषं हुतवहं प्रचण्डं यामिनीपतिम् |
सुधारसं वसुयुतं जन्मध्वंसमपां पतिम् || १४० ||
बन्धुयुतम् |
यान्तं सुधारसं बन्धुं द्विद्विराकारमिन्दिराम् |
द्विरदं पापहननं मधुसूदनमब्जज || १४१ ||
विघ्नु |
विजयाकार गर्भाश्च आकारविधुमादराः |
पावकं पीतवर्णाभं ब्रह्मसाधनमब्जज || १४२ ||
भर्गाश्चा चकारविधमो |
भद्रविक्रमतोयेशमाकारेन्दुसविक्रमाः |
इभाकारं ततो द्युम्नभास्करा भूतवैधराः || १४३ ||
सुखदं विक्रमं तोयेश मकारेन्दु |
गुहकारम्.उभाभ्रतस्ततो |
वृतवै |
मारुताकार भद्राश्च मान्ताकारमहोत्पलाः |
उग्रात्मवसुवायव्यसूदना विधिरब्जज || १४४ ||
उग्रशीर्षकमारुत्यौ पश्चिम द्युतिमैन्दवम् |
वामनं वैधरं सूक्ष्मलोचनं कतृतीयकम् || १४५ ||
वृत |
कत्तृ |
कुम्भं भद्रकरं चापि माधवीं भास्करं मधु |
सादनं त्रिदशाहारं विक्रमं चोग्ररूपकम् || १४६ ||
प्रचण्डमोतदेहं च शुभदं वित्तवर्धनम् |
पापकं सुमुखं भद्रहस्तं वै रुहमक्षरम् || १४७ ||
चित्तवर्धनम्. वित्तदर्शनम् |
कुम्भं सुदर्शनं चैव कपिलाक्षं चतुर्मुख |
द्विः प्रपन्नोस्मीतिपदं समुच्चार्य पितामह || १४८ ||
च सूदनं |
प्रसन्नोस्तीति |
ब्रह्मकोशं पुरस्कृत्य नृहरिं चानलं तथा |
ब्रह्मसाधननासिक्यौ भीजं प्रोक्तमतः परम् || १४९ ||
निगमादिं सुभद्रं च पाटलं सद्ध्रुवं तथा |
मन्त्रस्य शक्तिमुद्धृत्य च्छन्दसामादिमुद्धरेत् || १५० ||
गारुडं मधुहन्तारं नासिक्यं विजयं वसुं |
सपद्मनाभं मायां च सूक्ष्मदृङ्माधवं घटम् || १५१ ||
भद्रहस्तं वैधरं च श्रीधरं चाग्निविक्रमौ |
वैराजं भास्करं यान्तं मधु शत्रु समिरणौ || १५२ ||
शक्रा |
मन्दरं माठरमचां द्वितीयं विघ्णु पावकौ |
कलानिधिं सबन्धुं च सार्धचन्द्रं त्विषां पतिम् || १५३ ||
माधवमचां |
द्विषां |
सूदनं शङ्खमपरं कतृतीयं चतुर्मुख |
सान्तं वसुयुतं चैव द्विरुच्चार्य चतुर्मुख || १५४ ||
चान्तं वायुसुतं |
हुंफडन्तं च नत्यन्तं हृन्मन्त्रं परिकीर्तितम् |
वेदादिं वन्नगं पञ्चबिन्दुभूषितमन्तकम् || १५५ ||
वेदादि पञ्चगम् |
वासिक्यं भद्रहस्चं च मधुद्वेषिं वसुं तथा |
ऐन्दवं विक्रमपरं नासिक्यं भास्करं घटम् || १५६ ||
सबन्धुं कमलं पद्मनाभं वामन हस्तकम् |
पुण्डरीकं सबन्धुं च वै राजं वैधरं ततः || १५७ ||
मस्तकम् |
गोधनं विजयं मान्तं वैधरं मधुसूदनम् |
मानुषं चामृतं भद्रकरं गोपनपद्मजौ || १५८ ||
सगोपनदरं चैव माधरं कतृतीयकम् |
ऋतं च सैन्धवं बन्धुं सध्रुवं माठरं त्वचाम् || १५९ ||
माधरं त्वचाम् |
द्वितीयं पुरुषं ब्रह्मन् माधवीं माधरं पुनः |
भृगुखड्गरं चैव द्विरुच्चार्यमतः परम् || १६० ||
भृगुं खड्गधरं |
हुंफडन्तं शिरोमन्त्रं ठठ इत्यवसानकम् |
वेदादिमुरगं षष्ठमचामर्धेन्दुमैन्दवम् || १६१ ||
ततः परम् |
पुल्लनेत्रं सभुवनं गर्हितं भूधरात्मकम् |
कुम्भं सविक्रमं पद्मं खेटकी कलशं त्वचाम् || १६२ ||
भूसुरात्मकम् |
खेटकीं |
तृतीयं कमलं पञ्चबिन्दुं सुमुखमब्जज |
यान्तं च शिरसामब्जयोनिमेणेशमैन्दवम् || १६३ ||
कलशं पंच |
तच्छैर समब्ज |
स्वाहाधरं शशधरं मुखं भूधरसूदनौ |
चतुर्गतिं शतानन्दं वासुदेवं नपश्चिमम् || १६४ ||
कलानिधिं सरामं च यष्टिं भास्रगोपनौ |
चतुर्गतिं खर्वदेहं सूदनं भानुविक्रमौ || १६५ ||
खड्गदेहम् |
द्विरभ्यसेद्धुंफडन्तं शिरोमन्त्रमुदीरितम् |
देवानां दासवचनमन्ते संयोज्य मन्त्रवित् || १६६ ||
द्विर्विन्यस्येत् |
शिखा |
ओङ्कारं नृहरिं वीनसेनं नासिक्यमैन्दवम् |
माठरं यामिनीनाथमृतधामसदर्भितम् || १६७ ||
आखण्डलेशं सर्पेशमाकारं कतृतीयकम् |
द्विरदं विक्रमपरं बहुलं घटविक्रमौ || १६८ ||
घटविक्रमम् |
अम्भोरुहं चोतदेहं हृदयाह्लोदविक्रमौ |
कलानिधिं सुभद्रान्तं सुमुखान्तं समाधवम् || १६९ ||
छान्तं शशधरं देवदत्तं चान्तं सकुम्भकम् |
ऐन्द्रं च कुञ्जरमुखं पीयूषद्युतिविक्रमौ || १७० ||
सयष्टिं द्युमणिं चादि देवं यान्तं हिमालयम् |
नदण्डं गरुडं बन्धुं पश्चिमं च द्विरुद्धरेत् || १७१ ||
देवमान्तं |
हुंपढन्तं च कवचं हुंफट्शीर्षं प्रकीर्तितम् |
आगमादिं नरहरिं चौर्वं नासिक्य मब्जज || १७२ ||
मेव च |
वैधरं गोधनं णान्तं मारुत्यं वैधरं मधु |
सूदनं भद्रहस्तं च पीयूषं सरसीरुहम् || १७३ ||
गोपवर्णान्तंगोपनंणान्तम् |
माधरम् |
गोपनं पुलहं चैव सूदनं मुरुतं वसुम् |
कूटं पुल्लायुधमचां षष्ठं वै राजमेव च || १७४ ||
भल्लायुध |
कतृतीयं पद्मनाभं भास्करं मधुविद्विषम् |
दृष्टिं सवामनं भद्रहस्तं साग्निं समुद्धरेत् || १७५ ||
भास्करं भद्रहस्तं च तद्द्विरुच्चार्यमन्त्रवित् |
पश्चिमं वक्रतुण्डं च मन्दरं सुप्रतिष्ठितम् || १७६ ||
तानुदीर्याथमन्त्रज्ञस्सुभद्रं चैन्दवं पुनः |
सदक्षं वामनशिरा अम्भोरुहनिकेतन || १७७ ||
अम्भोरुहं सभुवनं पावकं भुवनं तथा |
नृहरिं पापहननं विक्रमं विजयं पुनः || १७८ ||
वैरिञ्चं वामनं दक्षमौग्रं दक्षं चतुर्मुख |
गुहालयं सविजयमग्निशीर्षं च मारुतम् || १७९ ||
वायसम् |
ऐणेशं मन्दरं भानुं सूदनं विघ्ननायकम् |
यान्तं ताराधिपं मायां सद्ध्रुवं माठरं तथा || १८० ||
मधुद्विषं मारुतं च हुंफ डस्त्रं प्रकीर्तितम् |
अस्त्रशब्दं चतुर्थ्यन्तं फडन्तं च समुद्धरेत् || १८१ ||
माधवं च |
फडन्तम् |
उद्गीथं नृहरिं सर्गमन्धरं माठरं त्वचाम् |
द्वितीयं पश्चिमं पद्मनाभं चादिसमन्वितम् || १८२ ||
साग्निं मन्दरं माधरम् |
खड्गहस्तं च सुमुखं मेदिन्याः पदमम्बुजम् |
सगोपनं सुरपतिं गोपनं खद्वितीयकम् || १८३ ||
पतिमम्बुजम् ||
भद्रहस्तं सरामं च वासवं ब्रह्मसाधनम् |
खड्गहस्तं गजमुखं सूदनं च चतुर्गतिम् || १८४ ||
सनामं च |
आचामादिं गजमुखमौषधं ना न्तमब्जज |
माधवीं मुरुतं यान्तं माधरं पश्चिमं तथा || १८५ ||
सबन्धुं सप्रचण्डं चाप्येणेशं पाटलप्रियम् |
मार्ताण्डं मधुविद्वेषिं भद्रं स्यादृतधामकम् || १८६ ||
दाक्षायणीशं रामं स्यादनुस्वारं चतुर्मुख |
दिवाकरं चादिदेवं दरं वैधरगोपनौ || १८७ ||
मन्थवैधरगोपनौ |
पावकं पुरुषात्मानं द्विरुक्तं कमलासन |
हुंफडन्तं च नेत्राभ्यां वौषट्कारं प्रयुज्य च || १८८ ||
द्विरुक्त्वा |
एवं न्यस्य विधानज्ञो विष्कम्भान्तं सदण्डकम् |
दिवाकरसहस्राभं हृदयार्णं षडुद्धरेत् || १८९ ||
हृदयादीन् समुद्धरेत् |
उत्पलं कुमुदं रक्त जपाबन्धूकरिंशुकम् |
पाटलं हृदयादीनां वर्णष्षण्णां क्रमाद्भवेत् || १९० ||
रक्षामन्त्रः. |
रक्षामन्त्रं प्रवक्ष्यामि छन्दसामादिमुद्धरेत् |
विघ्नेशं पद्मनाभं स्याद्द्विजराजं सविक्रमम् || १९१ ||
सदण्डं च समार्ताण्डं बहुलं सगुहालयम् |
पश्चिमं वामनपरं प्रचण्डं हरिणं भवेत् || १९२ ||
भल्लायुधं गदध्वंसं लान्तं भद्रकरं तथा |
आचामादिं दिनमणिं माधवं सौरमक्षरम् || १९३ ||
एणेशं धनदं दक्षं वसुशीर्षं च सूदनम् |
धनाध्यक्षं तथा दक्षं पावकं मस्तकस्थितम् || १९४ ||
धान्तं सविक्रमं खान्तं हान्तं स्यात्कपिलं पुनः |
द्विरदास्यं बन्दुपरं माधवीं यान्तशीर्षकम् || १९५ ||
यान्तं |
द्विरासनं बन्धुपरं माधवं |
वासुदेवं खड्गधरं चतुर्गतिमनन्तरम् |
मुखं सवैधरं ब्रह्मन्माठरं तद्ध्विरुद्धरेत् || १९६ ||
सुखं |
पवित्रमप्रमेयं स्यात्तुण्डं चादिसमन्दरम् |
सर्वरोधं द्विरुच्छार्य कमलं सविरोचनम् || १९७ ||
यथापुरं सदण्डं च सूदनं यान्तमारुतौ |
द्विर्वक्तव्यं सुभद्रं च विक्रमं विघ्नवैधरौ || १९८ ||
तद्विरुद्धश्छलध्विंसी बन्दुविघ्नं सवैधरम् |
ऐन्दिरं चोतदेहं च उग्रं मान्तं चतुर्मुख || १९९ ||
तद्विरुक्त्वा |
ऐणएशं |
अत्रिं चाग्निं मधुद्वेषममृतं धूलिकेतनम् |
तार्क्ष्यं सर्ङ्कणं दण्डं तद्विरुच्चार्य पद्मज || २०० ||
मार्ताण्डमूर्ध्वनासिक्यं तदुदीर्यमतः परम् |
पावकं चौर्वशिरसं सदण्डं गोपनं तथा || २०१ ||
सहितं |
गदध्वंसं छलध्वंसं तदुदीर्य जयं तथा |
वैराजं यान्तशिरसं शुक्लं वै राजपावकौ || २०२ ||
जृम्भलं समता ब्रह्मन् माठरं दक्षसंज्ञितम् |
प्रचण्डं माधवं चैव कलशं बन्धुशीर्षकम् || २०३ ||
माधरं |
कमलां वारुणं यान्तं हृषीकेशं च पश्चिमम् |
माया जितं प्रचण्डं च माधवं च ठठान्तिमम् || २०४ ||
पमलाभरणं यान्तं |
ङ्कितम् |
बीजमङ्गानि चोक्तानि दुर्वासा ऋषिरुच्यते |
छन्दो बस्तं देवता च महानरहरिर्हरिः || २०५ ||
मालामन्त्रे त्रिवर्णास्स्युश्शुक्ल पीत सितासिताः |
तत्वं च परमाप्योम सकलीकरणं तथा || २०६ ||
सितारुणाः |
विकलीकरणं चैव मन्त्र स्याप्यायनं भवेत् |
मोचनं चैव इत्येते कथिताः कमलासन || २०७ ||
मन्त्रस्यैवा |
इत्येतत्कथितम् |
चतुष्षष्टिविधे मन्त्रे नारसिंहे महानयम् |
नृसिंहो व्योमचक्राख्यः पातालाख्यश्च सूरिभिः || २०८ ||
ध्यायेन्मृत्युभये कृत्याप्रवेशे युधि विद्विषाम् |
उच्चाटने संहनने भूतानामपनोदने || २०९ ||
आख्यायते ध्यानमस्य स्मृतं स वितृमण्डले |
मध्ये विकस्वरे शुभ्रे पङ्कजे विष्टरोदरे || २१० ||
आसीनं षोडशमुखं भुजै स्तद्विगुणै र्युतम् |
आयुधैश्शज्ञचक्राद्यैर्दुर्दर्शैरश्मिमालिभिः || २११ ||
परचक्रप्रतिक्षेपे दुष्करेष्वन्यकर्मसु |
बीजशक्त्यादिद्वादशाङ्गप्रश्नः. |
ब्रह्माः |
द्वादशाङ्गानि येवेत्तिमन्त्रं सोर्हति वेदितुम् || २१२ ||
इत्युक्तं भगवन् भूयो जिज्ञासा तेषु वर्तते |
तन्निरूपणम्. |
श्रीभगवान् |
बीजं शक्तिस्तथैवाङ्गं हृदयादि च षड्विधम् || २१३ ||
ऋषिश्छन्दो देवता च वर्णोद्दीपनमेव च |
अप्यायनं मोचनं च सकलीकरणं तथा || २१४ ||
विकलीकरणं चैव द्वादशैतानि पद्मज |
तेषां स्वरूपं वक्ष्यामि क्रमात्तदवधार्यताम् || २१५ ||
मन्त्रस्य प्रकृतिर्बीजमक्षरं तत्समुद्धृतम् |
आत्मामन्त्रस्य सा शक्तिर्यथा मन्त्र फलप्रदः || २१६ ||
फलप्रदा |
हृदयादीनि मन्त्रस्य षडङ्गानि पितामह |
देवस्येव मुखादीनि एषु मन्त्रः प्रतिष्ठितः || २१७ ||
ऋषिः फलस्य द्रष्टा प्याच्छन्दस्तदभिधीयते |
अक्षराणामियत्ता या देवता वाच्यमुच्यते || २१८ ||
रूपभेदश्च शुक्लादिवर्णः कमलसम्भव |
संपुटीकरणं रेफलकाराभ्यां तु दीपनम् || २१९ ||
यथोदिताक्षरैस्सर्वैस्संस्कारश्शोषणादिभिः |
मन्त्रस्य देहवत्प्रोक्तं यत्तदाप्यायनं बुधैः || २२० ||
मन्त्रस्य मोचनं नाम प्रयोगस्तम्भनादिषु |
मन्त्राक्षराणां प्रत्येकं संपुटीकरणं स्मृतम् || २२१ ||
सकलीकरणं विद्धि प्रणवेन चतुर्मुख |
वौषट्कारवषट्कारहुं कारैः पृथगीरितैः || २२२ ||
देवतानामभीष्टानां सन्निधिर्यः पुटादिषु |
प्रार्थ्येते स चतुर्वक्त्र विकलीकरणाह्वयः || २२३ ||
च |
एतान्येन प्रयुञ्जीत विद्ययोराद्ययोरपि |
वामनमन्त्रः. |
एकादशाक्षरो मन्त्रो वामनस्य प्रदर्श्यते || २२४ ||
पूर्वोदितास्सप्तवर्णाः विशेस्समुदीर्यते |
पीयूषमादिदेवं च मन्धरं चादिमुद्धरेत् || २२५ ||
विघ्नेशं गोपनं वायुमाद्यं चेति चतुर्मुख |
बीजं शिरस्यूर्द्वलोको यष्टिश्चेति चतुर्गतिम् || २२६ ||
शिखण्ड्यूर्ध्व शिखामूर्द्व |
तु दर्शम् ||
अङ्गानि षट्फलादीनि स्वरान्तान्यानुपूर्वशः |
सानुस्वाराणि योज्यानि काश्यफो मुनिरिष्यते || २२७ ||
छन्दश्च दैवं गायत्रं वामनो देवता पुनः |
लक्षाण्येकादश जपे होमे च जलतर्पणे || २२८ ||
ततस्सिध्यति मन्त्रोयं पुरुषार्थचतुष्टयम् |
फलमन्यच्च यच्चेष्ट मष्टाक्षरवदीरितम् || २२९ ||
त्रिविक्रममन्त्रः. |
ओमादिनतिपूर्वाणि चत्वार्याद्यानि पूर्ववत् |
सप्ताक्षरस्यमन्त्रस्य साधनं च यथापुरम् || २३० ||
सप्तलक्षजापादुक्तं फलमाप्नोति मन्त्रवित् |
गृहीत्वार्णान् सप्त पूर्वन्वैराजो ग्निस्त्रिविक्रमः || २३१ ||
अत्रि |
यदाधिपश्च माया च स्पर्शादिरनलोन्मुखम् |
स्पर्शान्तश्चादिदेवश्च शङ्खो विष्णुरितीरितः || २३२ ||
द्वादशार्णात्मको मन्त्रस्तदेव कमलासन |
त्रिविक्रमस्य बीजं च भास्करो विष्णुरेव च || २३३ ||
अर्धचन्द्राकृति श्चेति तदेवाङ्गं च षड्विधम् |
ऋषिश्च देवता छन्दः पूर्वोक्तान्येव साधनम् || २३४ ||
श्चैते देवताङ्गं च |
पूर्ववत्फलमस्यापि राज्यादिप्राप्तिरिष्यते |
न त्वेकं शक्यते वक्तुमानन्त्यात्फलसम्पदाम् || २३५ ||
नैकैकं |
जामदग्न्यराममन्त्रः. |
रामस्य जामदग्न्यस्य मन्त्रोद्धारश्चतुर्मुख |
गृहीत्वा पूर्ववत्सप्तवर्णान् साधारणां स्ततः || २३६ ||
असाधारणवर्णानां क्रमादुद्धारणं शृणु |
जन्महन्ता गोपनश्च माधवी विष्णुर स्वतः || २३७ ||
न्ततः |
दृष्टिश्छादिर्गदी भद्रपाणिर्वायुश्च गोपनः |
चतुर्गतिस्स्वरादिश्च वह्निराकार एव च || २३८ ||
मन्धराश्छादिदेवश्चश्वसनो विष्णुरब्जज |
हुंपडन्त इति प्रोक्तामन्त्रस्सप्तदशाक्षरः || २३९ ||
अनलः प्रणवादिश्च सयष्टिर्बीजमिरितम् |
एतदेवाङ्गमावृत्तं षट्कृत्वो गार्ग्यदर्शनः || २४० ||
छन्दश्च दैवं गायत्रं जामदग्न्योस्य देवता |
जपेद्द्विंशतिलक्षाणि ततस्सर्वार्थसाधनः || २४१ ||
दशाक्षरोऽथवा मन्त्रोजामदग्न्यपदं विना |
भीजादि सर्वं पुर्वोक्तं मन्त्रश्शत्रुक्षयावहः || २४२ ||
दाशरथिराममन्द्रः. |
मन्त्रो रामावतारस्य ब्रह्मन् दाशरथेर्वरः |
कथ्यते भरतादीनां तद्देवीनां मनुः क्रमात् || २४३ ||
द्वादशाक्षरमारभ्य मन्त्रं तदनु पद्मज |
चतुर्मूर्तिमयायेति पदमुच्चार्यमन्त्रवित् || २४४ ||
अभिरामशरीरेति चतुर्थ्यन्तमुदीरयेत् |
रामेति तद्विभक्त्यन्तं ठठेति तदनन्तरम् || २४५ ||
पठेति च ||
द्वात्रिंशदक्षरात्मायं मनुरुक्तश्छतुर्मुख |
भीजमस्यानलो विष्णुस्सानुस्वारः क्रमात् स्मृतः || २४६ ||
अङ्गानि षट्च तद्बीजमकारादि क्रमाद्भवेत् |
अपरं राममन्त्रं ते कथयामि चतुर्मुख || २४७ ||
प्रथणं प्रणवं प्रोच्य पञ्चबिन्दुं सयष्टिकम् |
चतुर्थ्यन्तं चतुर्मूर्तिपदमुक्त्वाततः परम् || २४८ ||
चतुर्गतिमयायेति शरशार्ङ्गभृदन्वतः |
चतुर्थ्यन्तं शरत्पूर्वमिन्दीवरपदं ततः || २४९ ||
चतुर्वेद |
शिरः पूर्वम् |
त्विषेति च पदं पश्चात्प्रयोज्यं भगवत्पदम् |
चतुर्ध्यन्तं समुच्चार्य मभिरामपदं ततः || २५० ||
शरीरायेति च प्रोच्य रामायेति पदं तथा |
सत्यन्तमिति मन्त्रस्य पदोद्धारः प्रदर्शितः || २५१ ||
बीजं तदङ्गषट्कं च तदृषिश्शरभः स्मृतः |
छन्दश्च पूर्ववद्देवो रामात्मा भगवान् हरिः || २५२ ||
ऋषिः |
जपेदक्षरलक्षं तु ततस्सिध्यति मन्त्रराट् |
फलं चाभीष्टमचिराल्लभते दुर्लभं महत् || २५३ ||
मातृका च क्रविन्यस्तानर्णषण्डान् समन्त्रितान् |
अभ्यर्च्य कुसुमैस्तस्मिन्नुद्धरेद्भगवन्मयः || २५४ ||
मालामन्त्रान्तरम्. |
अतो न्यं मन्त्रसङ्घातं मालामन्त्रं यथातथम् |
वक्ष्यामि संप्रति ब्रह्मन् यधा वदवधार्यताम् || २५५ ||
मर्णसङ्घातं |
तदव |
आदौ नादं सप्तवर्णं वसुं मधुनिघादनम् |
स्पर्शान्तं गोपनं शङ्खं मुखं विष्णुं जयं तथा || २५६ ||
अचां पञ्चममाहेन्द्रा नादादिं घटविक्रमान् |
शङ्खिनं शिखिनं दक्षं करालं वसुनिष्ठितम् || २५७ ||
शङ्खिनां शङ्खिनं |
हस्तं मधुद्विषं ब्रह्मन् धूलिकेतनमदिमम् |
नान्तयान्तौ सदक्षाह्वा पश्चिमोदयमक्षरम् || २५८ ||
भान्तं |
अत्रिं रमाधरं क्रोधरूपिणं चानलाह्वयम् |
अचां द्वितीयं पवनं कलशं बन्धुमस्तकम् || २५९ ||
अग्निं |
उग्रात्मसुमुखौ स्यातां यादोनाथमृगाधिपौ |
दिनेशमादिं नासिक्यं शशाङ्कं मधुविद्विषम् || २६० ||
वैराजं माधवीं भद्रकरं माधवमब्जज |
वक्रतुण्डमचामादिं विजयोदयसंज्ञितम् || २६१ ||
पञ्चान्तकं तथा यान्तकं मन्तकस्थं जयं पुनः |
राममन्दरशङ्खास्स्युर्गोपनं पवनं मुखम् || २६२ ||
पञ्चात्मकम्. पञ्चकं तम् |
आदिभल्लायुदौ रामवसुगोपनपाटलौ |
श्रीवत्समादिमनलं वामनाग्नि मधुद्विषम् || २६३ ||
श्रीवत्सपञ्चायुधादिमनलं वामनोद्विषः |
चितुर्गतिं खड्गधर मेकदृद्वैधरं तथा |
दक्षं चाग्निं हृषीकेश विजयद्वयमन्वतः || २६४ ||
मेकदृक् श्रीधरौ |
मन्दरं च. हृषीकेश |
यान्तं तच्चिरसं पश्चात्पवनं मृगवल्लभम् |
ऋक्षेशमेकनयनदरगोपनविघ्नराट् || २६५ ||
बन्धुयान्तौ च भुवनं वैधरौ पुण्यभास्करौ |
श्वसनं दक्षभुवनौ चक्रविघ्नेशसप्तमम् || २६६ ||
अचां कारणमेणेशकलात्मवसुविक्रमाः |
करालगोपनौ पापहननौ विक्रमं तथा || २६७ ||
ककारचारुमेणशकलशा रूप अचां विकारमैणेश |
महेन्द्रकुम्भावनलो मधुसूदन भास्करौ |
यान्तगोपनसप्तार्चिर्मधुसूदनमारुताः || २६८ ||
वारि |
प्रचण्डगोपनौ खड्गधर श्रीधरवैजयाः |
पीयूषगोपनौ पद्मश्रीधरौ वनमालिनौ || २६९ ||
मेघपञ्चात्मद्विरदकमलामधुविद्विषः |
पितो मृगेशपवनगोपनाश्शुक्ल श्रीधराः || २७० ||
पावकस्थान्तगोविन्दवै राजदरवैधराः |
मधुसूदनविघ्नेशसुधारस समाह्वायाः || २७१ ||
ब्रह्मसाधनसप्तार्चिर्गतिभास्करसप्तमाः |
अचा मादिं धरो वेधाः ब्रह्मसाधनखेटकी || २७२ ||
मत्र धरो |
अग्निश्च कपिलं ब्रह्मन् भल्लायुधसविक्रमम् |
विघ्नेशं वैधरं प्रेतनायकं रामश्रीर्षकम् || २७३ ||
भद्रपाणिं तथा दृक्छ सरसीरुहसम्भव |
दक्षादि देवहुतभुक्चतुर्गतिमनन्तरम् || २७४ ||
श्रीवत्सवासु देवौ द्वौ क्रोधरूपसमिरणौ |
करालं च ऋतं भद्रपाणिं वै राजमारुतौ || २७५ ||
कारणं च |
पश्चिमं वसु कूर्मं च विक्रमं दृष्टिगोपनौ |
विघ्नेशच्छलविध्वंसमाधवा वैधरात्मकम् || २७६ ||
जलजं पापहन्तारं हुतभुक्कमलं घटम् |
वक्रतुण्डं तथा द्युम्नं द्विरदाननविक्रमम् || २७७ ||
भान्तमग्निं चोतदेहं वक्रतुण्डं चतुर्गतिम् |
पश्चिमाननयान्तौ च ओतदेहसमन्वितौ || २७८ ||
वै राजद्वितयं दक्षं गोपनं नासिकोद्भवम् |
गदध्वंसं च कपिलमत्रिं मधुनिघादनम् || २७९ ||
यान्तं चतुर्गतिं शुक्लं वारुणाग्नि समिरणाः |
एकदन्तं चैकदृष्टिं बहुलं मधुविद्विषम् || २८० ||
प्रचण्डं विक्रमं वक्रतुण्डं च सगुहालयम् |
सुमुखं हुतभुक्छङ्खमनलं मधुविद्विषम् || २८१ ||
यष्टिं दक्षं तथाकारं नासिक्यं धूलिकेतनम् |
ध्रुवं माहेन्द्रमाकार मर्धांशुं कुम्भगोपनौ || २८२ ||
मर्धंशु भुजगापनाः |सद्ध्रुवं जन्महन्तारं वारुणं पुलहं तथा |
मुसली कुम्भमाकारं पीतवायुधनप्रदाः || २८३ ||
श्रीधरं भद्रहस्तं च हरिं स्वाहामयावहम् |
हुंफडन्तं नवैतानि बीजानि कमलोद्भव || २८४ ||
नृहरिं स्वाहया धनम् ||
पद्मपाणिं पद्मनाभं वनमालां त्रिविक्रमम् |
श्रीवत्सं शङ्खिभुवनं भद्रहस्तास्सविक्रमाः || २८५ ||
अग्निं मृगेशं वरुणं वैराजं बन्धुमस्तकम् |
दरं तार्क्ष्यं तथाचादिदेवं शुक्लं श्रियः पतिम् || २८६ ||
वसुगोपनशीतांशुभुवनानलवारुणाः |
मृगेशविजयाकार विष्कम्भाश्शुक्ल विक्रमौ || २८७ ||
दृक्पुण्यमादिपदेवं च भास्करं ऋतधामकम् |
सूक्ष्मदृक्छङ्खदक्षौच वैधरोऽग्निश्छतुर्गतिः || २८८ ||
प्रभाकर सविक्रमौ |पश्चिमं त्रितदक्षादि अग्निवायुसरोरुहाः |
ऋतधामा जया गोपा पश्चिमा शुक्लमब्जज || २८९ ||
धृतदक्षात्रिरग्नि वायुसरोरुहाः || ऋतणान्तधरा गोपपश्चिमा |
भानुगोपनसप्तार्चि र्भल्लायुधगुहालयाः |
नै राजककुभौ कुम्भहव्यवाट्कपिलाह्वयाः || २९० ||
भान्त हान्त |
वैधरं भास्करं पापहननं वक्रतुण्डकम् |
गदिनं ऋतधामानं भास्करं सुमुखं तथा || २९१ ||
कुम्भविक्रमजन्माह्वपद्मनाभास्सदेवराट् |
सुभद्रसङ्खदक्षाह्वमोतदेहोऽथ भास्करः || २९२ ||
पवनं पापहननं गोपनौ विजयो दरः |
उदयं पीतकमलं मधुसूदनविघ्नराट् || २९३ ||
माहेन्द्रश्शुभदो वह्निगोधनौ कुम्भविक्रमौ |
अग्निरत्रिः कुम्भधरौ लक्ष्मीखर्वाश्चतुर्मुख || २९४ ||
पुण्यधनौ श्रीश्चदृष्टि | शुक्लोदयं तथा दृष्टिश्श्रीवत्सं वसुशीर्षकम् |
विघ्नेश शुभदौ स्यातां सरसीरुहसम्भव || २९५ ||
शुक्लोदया तथा वृष्टि |
मधुसूदश्शार्ङ्गपाणिः पञ्छान्तकविधी पुनः |
और्वदक्षौतदेहश्च दृष्टिं सरसिजं तथा || २९६ ||
ओतदक्षोत |
वामनो धनदो यान्तस्सुभगाग्नि वनस्रजः |
रामपुण्याग्नि गरुडविक्रमौ जयविक्रमौ || २९७ ||
र्वसुप्रजाः |
सुभगोऽग्नि रादिदेवः कुञ्जरेण मुखाक्षरः |
करालं कपिलं पापहननं पवनात्मजम् || २९८ ||
श्रीधरं दृष्टिधनदं पञ्चबिन्दुं सविघ्नराट् |
शुभोत देहावुग्रात्मा चतुर्गतिमचां मुखम् || २९९ ||
शैलद्वयं द्वादशात्मा गोपनश्शुक्ल पश्चिमौ |
श्रीधरस्सुमुखो भूमिरनलः पञ्च बिन्दुकः || ३०० ||
विंशकः |
करालाग्निं महामाया सुभगो बन्धुरन्वतः |
वैराजं विक्रमं पुपहननं बन्धुमस्तकम् || ३०१ ||
प्रचण्डं पुण्डरीकाक्षं वासुदेवं जयं वसुम् |
सूक्ष्मदृक्कुम्भवरुणपश्चिमाननमाधराः || ३०२ ||
उग्रात्ममृगदक्षाह्व गोपना धनदः कुटः |
दक्षः पुण्योदयश्शुक्ल श्शुभदृष्टिर्विनायकः || ३०३ ||
गुहदृष्टिः |
वैधरो मधुहन्ताच मन्दरं ब्रह्मसाधनम् |
अत्रिरग्निपवित्राह्वा वैधरस्पर्शपश्चिमाः || ३०४ ||
वैराजप्पर्शपञ्चमः |भद्रादिदेवभल्लाह्वमुग्रभूमिं मधुद्विषम् |
एकदृग्दक्षविघ्नेशमाधवा मृगवल्लभाः || ३०५ ||
भास्करं देवदत्तं च भानुं बन्धुं सुभद्रकम् |
गदध्वंसं तथा कुम्भं द्विरदं पश्चिमाननम् || ३०६ ||
पदध्वंसस्तथा |
और्वाग्नि भुवनावुग्रयष्टिर्वेधाश्श्रियः पतिः |
अग्निं रमाधरं द्विश्च अग्निकूट विगर्हितम् || ३०७ ||
विदम्भितम् |
तथा भद्रमधुद्वेषिदृष्टिगोपनमस्तकान् |
वैराजदक्षकमलगोपनाविन्दुपक्षिराट् || ३०८ ||
मनुं ध्रुवाग्नि माकारं बिन्दुश्छन्द्रमदुद्विषः |
नासिक्य मादिरत्रिश्च बन्धुमन्दरविष्टपाः || ३०९ ||
नासिक्यं बन्धुरत्रिं च |
वै राजरेफशङ्खाह्वमाधवावादिविघ्नराट् |
मृगेशकमलौ दक्षं गुहमम्भोरुहासन || ३१० ||
जयोऽग्निर्वायुरैणेशमुखो गरुडवाहनः |
बन्धुपीतपवित्राह्वमधुसूदनवैजयाः || ३११ ||
गोपनो भार्गवाकारशुक्लोदयहुताशनाः |
पीतोतदेहकमलविघ्न विक्रममाधवाः || ३१२ ||
गोपनं सोमबन्धुश्च करिगोपनयष्टयः |
दिनेशमृतधामाह्व दृष्टिशङ्खमधुद्विषः || ३१३ ||
साम |
विघ्नवायू तथा गोपकमलौ सत्रुदाहकः |
धान्तसङ्खा मधोर्हन्ता पद्मक्रोधाग्नि मारुताः || ३१४ ||
यान्त |
आदिश्चक्री सुबन्धुश्च पीतस्सर्वपुरान्तकः |
उदयो यान्तरामौ च वैराजतपवनाग्नयः || ३१५ ||
उदयो रन्तरामौ वैराजतेपवनाग्नयः |आदिः खर्वतनुर्बन्धु पीतपद्ममधुद्विषः |
पाटलं पश्चिमं पद्मनाभं वैधरमाधवौ || ३१६ ||
भल्लायुधं गदी कुम्भ वैराजमृगवल्लभाः |
श्रीवत्समग्निमिकारं कुम्भं पीतद्वयं तथा || ३१७ ||
सुभद्रगोपनौ शङ्खमन्तरौ दिनकृत्तथा |
अचां चतुर्दशं जन्मशशाङ्कमृगवल्लभाः || ३१८ ||
हुताशगोपदक्षाह्वमाधव्यश्च गुहालयः |
वै राजयुगसप्तार्चिर्दर देवहुतान्तिमाः || ३१९ ||
असलो यष्टिसहितो बीजमस्य समिरितम् |
शरभङ्गऋषिस्तस्य वरिवं छन्द ईरितः || ३२० ||
जपो लक्षत्रयस्तस्मिन् चतुश्शतमिताक्षरे |
पुंसो रामावतारस्य परस्य परमात्मनः || ३२१ ||
चतुश्शतार्णरूपोऽयं मालामन्त्रस्समुद्धृतः |
यथापुरं पुरश्चर्या सिद्धश्चैव यथापुरम् || ३२२ ||
भरतादीनां मन्त्रनिर्देशः. |
अन्वेषां भरतादीनामितरप्यूहनामभिः |
आत्मशीर्षैश्छतुर्थ्यन्तैर्नामानि सहितानि च || ३२३ ||
चतुर्थ्यन्तानि वाच्यानि मन्त्ररूपाणि पद्मज |
बीजान्याद्यक्ष राण्येव सानुस्वाराणि योजयेत् || ३२४ ||
बीजा द्यान्य |
सीतादीनां च देवीनां चतुर्थ्यन्तास्समाह्वयाः |
मन्त्रष्ठठेतिपर्यन्तो बीजान्याद्यक्षराणि च || ३२५ ||
मन्त्रषष्ठेतिपर्यन्तो |
श्रीमन्त्रवत्पुरश्चर्या तद्वच्च फलसम्भवः |
बलराममन्त्रः. |
रामस्य बलभद्रस्य मनुस्संप्रति कथ्यते || ३२६ ||
सप्तार्णं पदमुच्चार्य ततः पश्चादुदीरियेत् |
रामायेति चतुर्थ्यन्तं बलभद्रपदं तथा || ३२७ ||
बीजमस्योच्यते ब्रह्मन् जृम्भलं पुलहं तथा |
सानुस्वारो हृषीकेशः पैङ्गलस्यादृषिः स्मृतः || ३२८ ||
छन्दः पूर्ववदेवस्याद्देवता मुसलायुधः |
रामः कमलपत्राक्षो बीजमेवाङ्गपद्धतिः || ३२९ ||
लक्षाण्यक्षरसङ्ख्यानि भवेन्मन्त्रस्य सिद्धये |
फलमिष्टमवाप्नोति पातालगमनादिकम् || ३३० ||
जपेन्मन्त्रस्य |
चतुर्वर्गफलावाप्तेः फलमस्य करेस्थितम् |
कृष्णस्य मन्त्रः. |
यादवस्याथ कृष्णस्य मन्त्रस्संप्रति कथ्यते || ३३१ ||
उद्गीथमुच्छार्यमुखे स्पर्शादि तदनन्तरम् |
ऋतधामा ततः पश्चात्क्रोधरूपमनन्तरम् || ३३२ ||
वनमालिनमाकारं श्वसनं विष्णुमस्तकम् |
सत्यन्तमिति षड्वर्णा मन्त्रस्य कथिता मया || ३३३ ||
बीजं कमलमाद्यं स्यात्सप्तार्चिस्तदनन्तरम् |
और्वः पश्चात्सयष्टिस्स्यादेतेनैवाङ्गकल्पना || ३३४ ||
सनकोऽस्य भवेद्द्रष्टा छन्दो गायत्रमुच्यते |
देवता भगवान् कृष्णः पुरश्छर्या च पूर्ववत् || ३३५ ||
फलानि पूर्वमुक्तानि नानन्त्यादुच्यते पुनः |
गोवर्धनमन्त्रः. |
गोवर्धनाख्यमन्त्रन्य वर्णोद्धारः प्रदर्श्यते || ३३६ ||
वेदादिं पूर्वमुच्चार्य प्रथमे स्पर्शपञ्चके |
तृतीयं यादिषु तथा स्वरेषु च चतुर्मुख || ३३७ ||
चतुर्दश |
सद्ध्रुवं गदिनं ब्रह्मसाधनं च सुधारसम् |
आदिं सप्तार्चिषं पुण्यं मकरं तदनन्तरम् || ३३८ ||
माकारं |
भद्रबाहुं द्वितीयं च श्वसनं मुखमन्वतः |
सत्यस्तमेवमुद्धारः कथितो सववर्णकः || ३३९ ||
मन्त्रस्तदेव बीजादि साधनं फलमीरितम् |
गोपालमन्त्रः. |
गोपालमन्त्रस्योद्धारः कथ्यते कमलासन || ३४० ||
छन्दसामादिमुच्चार्य तृतीयं स्पर्शसंज्ञितम् |
ओतदेहं पवित्रं च वामनं ककुभं ततः || ३४१ ||
अनिरुद्धं विघ्णु राजमकारं यादसांपतिम् |
आद्यं पुलहमावृत्तं स्पर्शोपान्तं च गोपनम् || ३४२ ||
प्रभञ्जनं स्वरेष्वादिं ठठान्तो मनुरीरितः |
बीजं तृतीयं स्पर्शानं पीतं तुर्यमचामतः || ३४३ ||
नासिक्यमङ्गानि पुनर्गोपनं खड्गसंज्ञितम् |
मुख्यं स्पर्शादिमनलं गोपनं स्पर्शनं तथा || ३४४ ||
श्वसनं |
आद्यं ठठान्तं प्रथमं तदेवाङ्गमनन्तरम् |
विपूर्वमधिकं पश्चादङ्गं त्रैलोक्यपूर्वकम् || ३४५ ||
रक्षणेति चतुर्थ्यन्तं तद्विभक्त्यन्तमन्वतः |
असुराद्यन्तकपरं पदं सर्वाद्यनन्तरम् || ३४६ ||
ग्रहं निवारणायेति हुंफडन्तमितीरितम् |
मन्त्रस्य नारदो द्रष्टा विराट्छन्दश्च देवता || ३४७ ||
कष्णावतारो भगवान् जपस्थानं पुरोदितम् |
सहस्रशः प्रतिस्थानं जपः प्रोक्तश्चतुर्मुख || ३४८ ||
सहस्रांश |
जपात्सिध्यति मन्त्रोऽयं साधयत्यखिलं फलम् |
मन्त्रान्तरम्. |
अश्चर्यमपरं मन्त्रं वक्ष्यामि कमलासन || ३४९ ||
उच्चार्य प्रणवं पूर्वं माधरं तदनन्तरं |
चतुर्थ्यन्तमुदीर्याथ तद्विभक्त्यन्तमद्भुतम् || ३५० ||
माधारम् |
भोगेश्वरपदं तद्वत्तद्व च्च क्रिपदं ततः |
सुपर्णादिध्वजान्तं च पदं तादृग्विभक्तिकम् || ३५१ ||
च्चत्रिपदम् |
पीतादिवासश्शब्दान्तं वासुदेवपदं ततः |
तद्विभक्तिशरो योज्यं नत्यन्तो मनुरुद्धृतः || ३५२ ||
पूर्वमङ्गानि योज्यानि पूर्ववन्नातिरिच्यते |
ऋषिश्छन्दो देवता च पूर्वत्फलमेव च || ३५३ ||
बीज |
धर्मार्थकाममोक्षादि नेहभूयः प्रतन्यते |
मालामन्त्रः. |
मालामन्त्रं तावदर्णं देवस्य मधुविद्विषः || ३५४ ||
कृष्णावताररूपस्य चतुर्वर्गफलप्रदम् |
उद्धरामि यथा तत्वं यथा तदवधार्यताम् || ३५५ ||
तथ्यं |
निगमादि द्विषट्कार्णं सरोजमृतधामकम् |
क्रोधं प्रचण्डं मधुभिच्छङ्खकुम्भृतान्विताः || ३५६ ||
नियमादि |
क्रोधश्चण्डक्रमः कुम्भशङ्काग्नि मधुसूदनाः |
दरश्रीवत्स एणेश क्रोधस्सूक्ष्म मतः परम् || ३५७ ||
क्रोधा चण्ड |
वासुदेवो गदी पापहननं च चतुर्गतिम् |
अग्निबिन्धु र्विरिञ्च्यादि देवाश्शङ्ख मचां मुखम् || ३५८ ||
पवित्रमग्निमधुभि द्भद्रपाणिद्वयं पुनः |
वैधरं पश्चिमवसुं दक्षेन्दु भुवनात्मकम् || ३५९ ||
सूक्ष्मचक्षु गर्तिस्सोमः कुम्भाग्नि सगुहालयौ |
पवित्रगोपनौ वायुं पश्चिमाग्निं मधुद्विषः || ३६० ||
वैराज माधवीविघ्नस्सारङ्गासिधराः परः |
बन्धुवै राजहुत भुक्पङ्छात्मद्विरदा सनाः || ३६१ ||
भुक्पन्नगद्विरदाननाः |
त्मनः |
गोपनश्शङ्खदिनकृदृत वैधरमारुताः |
अब्जोतदेहावद्रिश्च यान्तभद्रत्रिविक्रमाः || ३६२ ||
यान्त्रभद्रस्त्रिविक्रमाः |
महेन्द्रशङ्ख मधौभिन्मारुताः ककुभाह्वयाः |
भ्रुगुगोवनविघ्नेशजन्म हन्त्रेणसंहिताः || ३६३ ||
हृद्वेणु संज्ञिताः |मारुतो गोपनो वायुरिन्दु भास्रमैन्दवम् |
ऋतं लक्ष्मीं महामायां क्रोधाग्नि वरुणाह्वयाः || ३६४ ||
अत्रिर्विघ्नद्वयं शङ्खो द्विरदस्सूक्ष्मलोचनः |
श्रियः पतिं तथाजन्महन्तारं वक्रतुण्डकम् || ३६५ ||
हुताशचण्डमधुभिद्दरशुक्लदिनेश्वराः |
कालात्मा प्रतिमाकारजयपावकभद्रकाः || ३६६ ||
उदैकश्चक्षुरमृतविक्रमा विधिपावकौ |
दक्षो विधिश्चर्तधामा दक्षगोपनमब्जज || ३६७ ||
शङ्खमादिं गदध्वंसं माहेन्द्रं पञ्चबिन्दुकम् |
सध्रुवं चेन्दिराबीजं पुष्टिबीजं ततः परम् || ३६८ ||
कामबीजं पाशबीजं श्रीवत्सं बिन्दुमस्तकम् |
चक्रखड्गधरो ब्रह्मा पद्मनाभोऽथ पश्चिमः || ३६९ ||
वै राज दक्षकमल श्रीधराः पीतवामनाः |
इन्दिरापापहनना गोपना वित्तवर्धनाः || ३७० ||
वैधरं दक्षकमलश्रीधराःपीतवामनौ |
मधुसूदन नासिक्यकुशेशयरमाधराः |
श्रीवत्सद्वन्द्वबहुलवित्तेशमधुविद्विषः || ३७१ ||
कपिध्वजो गदी यान्तदक्ष श्रीधर चन्द्रमाः |
पीतादिदेवश्शीतांशुर्माया कमलमब्जज || ३७२ ||
पश्चिमाः |
मनुर्दक्षौतदेहौ च दृष्टिश्शङ्खघटाह्वयः |
माया करालामिकार चण्डार्णवसुमस्तकम् || ३७३ ||
नादादिं पश्चिं पद्मनाभं वै राजविक्रमौ |
पावकं छोर्ध्वलोकेशं पश्चिमं चा प्रमेयकम् || ३७४ ||
खर्वविक्रममाहेन्द्रभल्लायुधसुधारसाः |
विघ्नमन्दरविघ्नेशमाधवीसुप्रतिष्ठिताः || ३७५ ||
कुम्भोदरामशुभद पीयूषाग्नि गुहालयाः |
पश्चिमानविघ्नेश मायामन्धर युग्मकाः || ३७६ ||
वसुमूर्धा महेन्द्रादि देवाः कपिलसंयुताः |
जृम्भलो यान्तसुभग हुताशधनदाः परः || ३७७ ||
कमलसंभवपमल संयुतः |
गोविन्द विघ्भुवन विधिः पश्चिमसंक्षिताः |
सप्तार्चिः पीतवर्णाभं देवरो मतिमां स्तथा || ३७८ ||
शङ्खगोपनवैराज श्रीधरो धनदाभिधः |
मधुद्विट्कुञ्जर मुखचतुर्गतिसपन्नगाः || ३७९ ||
भद्रहस्तो मधुद्वेषी गदध्वंसी द्वयान्वितः |
भद्रपाणिस्तथापुण्यं सनसीरुहसम्भव || ३८० ||
सुधारसो वसुर्भूमिर्गोपनाख्यमतः परम् |
करालबिन्दुविघ्नेशौ पञ्च बिन्धु शुभाह्वयाः || ३८१ ||
गुहाह्वयाः |
मधुहन्ता तथा ब्रह्मा माया विघ्नाश्च वामनाः |
यान्तमाधवपीयूषवै राजाः पञ्चबिन्दुकम् || ३८२ ||
शशाङ्ककमलौ भद्रपाणि दृग्वैधरान्विताः |
एणेशकुम्भदृक्सश्री श्रीधराश्चान्तयादिकाः || ३८३ ||
स्रग्वै |
गदी च ऋतधामा च दिनकृद्वरुणोमृगः |
वैराजं मधुहन्तारं विष्ण्वाभं ब्रह्मसाधनम् || ३८४ ||
विष्कम्भं |
मानुषेशं तथा दक्षं मधुसूदनवैधरौ |
ऋक्षेशभुवनौ यान्तं मधुशत्रु हिमालयाः || ३८५ ||
गुहलयाः |
उदयोऽग्नि पवित्राश्च बन्धुश्रीमधुविद्विषः |
वक्रतुण्ड विरिञ्चौ द्वौ हृषीकेश शुभाभिधौ || ३८६ ||
भान्तादि देवसुमुखौ पुण्डरीक विदर्बितौ |
पुर्णचन्द्रं सरामं च वैधरं मोहनाशनम् || ३८७ ||
हान्तादि |
समारं चमाधरं च |
पीयूषरामदृक् शङ्ख मधुशत्रु धनाधिपाः |
स्वाहाधरं वैधरं च गोविन्दं विजयाभिधम् || ३८८ ||
श्वसनो दृष्टि मदुभिद्धेरम्बमकरालयाः |
कुकेशयमदुद्वेषि पीतमाधवमारुताः || ३८९ ||
अचां द्वितीयं नृहरिं वसुमस्तकमब्जज |
सूक्ष्मदृक् सोर्ध्वलोकेश वै राजमधुविद्विषः || ३९० ||
सूक्ष्मदृकित्यादि मधुद्विषः इत्यन्तं सार्धश्लोकत्रयं क्वचिन्नास्ति |
पापहन्ता तथा सोमदक्षाकरविदर्भितौ |
अचां द्वितीयमनलं कमलामृतवैजयाः || ३९१ ||
द्वयं बन्धुं तथा दक्षं स्कन्धनाग्नि त्रिविक्रमम् |
स्वयम्भूर्जन्महन्ता च पियूषाग्निमदुद्विषः || ३९२ ||
दृष्टिविक्रम यान्तौ च कुम्भबन्धुं चतुर्मुख |
अत्रिमारुतमाकार भद्रहस्तास्सविक्रमाः || ३९३ ||
यान्तश्च |
वक्रतुण्डानिलौ विघ्नदृग्दिनेशद्वयं तथा |
कुञ्जरास्यं पश्चिमास्यं वक्रतुण्डं तथाक्षरम् || ३९४ ||
मन्दरस्सर्वरो धश्छ गदी च ऋतधा रविः |
प्रचण्डपि ण्डमाकार मधुभिद्वरुणाभिधम् || ३९५ ||
धाह्वोगदी चक्री तथा |
ण्डिका |
अचामेकादशं लक्ष्मी मुद्धृत्य कमलासन |
समिर कलशौ बन्धुसुभगौ मकरालयम् || ३९६ ||
कमलौ |
सकविं पुण्डररुचिं मारुतामृतविक्रमाः |
एकादश्यान्तमदुभिच्छुक्लशङ्खेन्दवस्तथा || ३९७ ||
सध्रुवं |
एकदृक् धान्त |
पुल्ललोचन मोकारखेटकी मारुताभिधः |
सुभद्रवसुविघ्नेशवैधराः प्रेतनायकाः || ३९८ ||
मोङ्कार |
सरामविघ्नदृग्दक्ष मधुसूदनमन्वतः |
यान्तवायुधनाध्यक्षरमाधरगणाधिपाः || ३९९ ||
समार |
भुजङ्गहुतभुक्पुण्य दक्षद्विवसुगोपनाः |
सुभगोमन्दरद्वन्द्व मग्नि भद्रक राह्वयम् || ४०० ||
बन्धुमस्तकपञ्चान्ता विष्कम्भद्विरदाननाः |
विक्रमो दक्षहुतभुग्भ्रह्मसाधनमब्जज || ४०१ ||
मधुमस्तकपञ्चाङ्ग |
वक्रतुण्डधरौ शुक्ल कुम्भाग्निद्विरदासनाः |
मधुसूदनपञ्चान्त पश्छिमा ऋतमन्दराः || ४०२ ||
वैधरोग्नि शिराश्शङ्ख शुक्लकुम्भवपुश्शिराः |
सूक्ष्मदृक्चोर्ध्वविजय वरुणा वित्तवर्धनाः || ४०३ ||
यष्टिं सरोरुहं यान्तं पश्चिमाग्निस्समन्दराः |
द्युमणिस्सध्रुवं शुक्लं वरुणो दरमन्वतः || ४०४ ||
दय |
ओतदेहं तथा दक्षं वक्रतुण्डं करालकम् |
अग्निरेणेश श्रीवत्स कुम्भाग्नि सहपश्चिमौ || ४०५ ||
ऋतं भल्लायुधं गोपपाशपाणिजनार्दनाः |
अत्रिं श्रीवत्समनलं वायुं शुक्लं जलाशयम् || ४०६ ||
अग्निं |
वसुं मधुद्विषं चन्द्रं श्रीधरोग्निश्चतुर्मुख |
संप्रसारणवैराजवसुशुक्लमदुद्विषः || ४०७ ||
ब्रह्म |
वैधरो भद्रचण्डांशु श्वसनौ दक्षश्रीधरौ |
चक्री समन्दरमचां पञ्चमं कमलोद्भव || ४०८ ||
उदयं विघ्ननयनावादिखड्गधरा रमा |
वै राजपद्माहुतभुक्पञ्च बिन्दुधनाधिपाः || ४०९ ||
अग्निरुग्रात्ममधुबिद्धृदया ह्लादमक्षरम् |
गदध्वंसं श्रियः कान्तं वनस्रक्ससमिरणम् || ४१० ||
अनिरुद्धात्म |
कुम्भविक्रम पञ्चान्त ऋतभास्करवैजयाः |
भुवनोऽमृतवै राज वसुभल्लकरालकाः || ४११ ||
वै राज जन्महन्तारं द्विरदः कुम्भवैजयाः |
स्वशिरोग्निं तथा शुक्लपीतकुम्भास्सयामिनी || ४१२ ||
नाधं रमाधरं विघ्नुमायां चैव सरोरुहम् |
हुता शकपिलाक्षौ द्वौ पश्चिम व्रतधानिलौ || ४१३ ||
छलध्वंसी पवित्राह्व हृषीकेशहुताशनम् |
कान्तादिपीतफणबृद्दक्षवामनमस्तकान् || ४१४ ||
मान्तादि |
हौरम्भोऽग्नि र्मधुद्वेषी शुभदोदरमैन्दवम् |
पाटलद्वन्द्वमोङ्कारचण्डांशुकपिलाक्षरम् || ४१५ ||
कमलोग्निस्सभुवन दक्षगोपनयष्टिकाः |
हुताशतार्क्ष्यमधुभि न्नासिक्यं चतुरासन || ४१६ ||
कमलोभुवनं दक्षं गोपनायन यष्टिकाः |
श्रीबीजंच गदध्वंसं पीतौर्वंध्रुवमादिमत् |
पाटलोबन्दुविजय वै राजमृगवल्लभाः || ४१७ ||
ककुभो माधवपरं ठठान्तो मनुरीरितः |
नारदोऽस्य मुनिर्द्रष्टा वरिवं छन्ध ईरितः || ४१८ ||
ककुबेन्द्रायवपरं |
देवता देवदेवेशः कृष्णः कमलसम्भव |
अङ्गानि पूर्ववच्छास्य पुरश्चर्या च पूर्ववत् || ४१९ ||
जातिपुष्पौर्बिल्व फलैस्समिद्भिर्होममाचरेत् |
छायायां बिल्ववृक्षस्य जपहोमादिकं भवेत् || ४२० ||
पुष्पौः |
आणिमादिकमैश्वर्यं पुरुषार्थ चतुष्टयम् |
फलं ददाति मन्त्रोऽयं मन्त्रविद्भस्सुसाधितः || ४२१ ||
Kapitel 28
Lesehilfe: Kapitel 28: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
चर्यापादेअष्टाविंशोऽध्यायः |
अष्टाविंशोऽध्यायः |
श्रीभगवान् |
यज्ञमूर्तिमन्त्रः. |
हेब्रह्मन् यज्ञवपुषमन्त्रस्संप्रति कथ्यते |
महाफलं प्रोच्यमानमिमं त्वमवधारय || १ ||
आत्मने इति पर्यन्तमष्टाक्षरवदुद्धरेत् |
कालाद्यनलमध्यं च विग्रहान्तं पदं ततः || २ ||
चतुर्थ्यन्तो मूर्तिशीर्षं यज्ञादिपदमन्वतः |
तद्विभक्त्यन्तमपरं ठठान्तं मनुरीरितः || ३ ||
बी मस्या नलं मुख्यमनुस्वारान्तमुद्धरेत् |
अङ्गानि चानलादीनि षड्भारान्तान्यनुक्रमात् || ४ ||
सानुस्वाराणि योज्यानि क्रतुर्द्रष्टा विरुट्पुनः |
छन्धश्च यज्ञमूर्त्यात्मा देवता भगवान् हरिः || ५ ||
लक्षत्रयं जपःकार्यो मन्त्रस्यास्य प्रसाधने |
फलं प्रसूते धर्मादिपुरुषार्थ चतुष्टयम् || ६ ||
अन्नाधिपतिमन्त्रः. |
अन्नाधिपतिमन्त्रस्य प्रभापोरूपमेव च |
कथ्यते संप्रति ब्रह्मन् न वाच्यं यस्य कस्य चित् || ७ ||
प्रणवादिर्मनुस्सर्वो विशेषस्तूच्यतेऽधुना |
मुख्यमर्णं भद्रपाणिं द्विरुक्तं तदनन्तरम् || ८ ||
मुखवर्णम् |
आदिदेवं धनपतिं मायामुद्धृत्य पश्चिमम् |
विष्णुं विजयनामानमाद्यं वायुमनन्तरम् || ९ ||
देवदत्तं च दक्षादिमाद्यं दक्षं पुनस्तथा |
आदिदेवं मनुष्येशं द्विरुक्तं मुख्यमन्वतः || १० ||
मन्दरं पापहननमृतधा वैष्णवाक्षरम् |
शङ्खमादिमचामन्वग्द्विः प्रोक्तं प्रेतनायकम् || ११ ||
प्रणवादिं ठठेत्यन्तमिति मन्त्रं चतुर्मुख |
बीजमस्य प्रवक्ष्यामि द्वादशात्मानमुद्धरेत् || १२ ||
ज्वलनं वामनं बिन्दुमेतदेवाङ्गमुच्यते |
आकारादिक्रमाद्दीर्घस्वरभक्तिर्विशेष कृत् || १३ ||
वित् |
अस्त्रे विशेषो विष्णुश्च विसर्गश्च समिरितः |
व्यासो द्रष्टास्य मन्त्रस्य छन्दस्तु बृहती तथा || १४ ||
देवतान्नपतिःप्रोक्तो मन्त्रस्यास्य चतुर्मुख |
अन्यथा शृणु वक्ष्यामि बह्वन्नफलदं शुभम् || १५ ||
बह्मर्ण |
नत्यन्तं प्रपणवं पूर्वं वरुणं च त्रिविक्रम् |
क्रोधरूपं प्रचण्डं च विष्णुं वरुणमन्वतः || १६ ||
माधवं पूर्णचन्द्रं च पीयूषात्मानमेव च |
आदिं वैश्वानरं मुख्यं पवित्रं प्रणवादि च || १७ ||
एकनेत्रमकारं च श्वसनं माधवं ततः |
मन्दरं प्रणवाद्यं च दीप्तिमन्त्रं चतुर्मुख || १८ ||
गोपनं जृम्भलं विष्णुं माहेन्द्रं गोपनं ततः |
वायुवाद्यं ठठान्तं च वर्णोद्धार इतीरितः || १९ ||
बीजमङ्गानि पूर्वोक्तमृषिरस्य पराशरः |
छन्दश्छ देवी गायत्रं देवतान्नपतिर्भवेत् || २० ||
पूर्णेन्धुबिम्बमध्यस्थे सितपद्मे विकस्वरे |
आसीनं धवलाकारं निलकुञ्छितमूर्धजम् || २१ ||
दुकूलक्षौमवसनं बालयोग्य विभूषणम् |
कलधौतमयं प्रातं वायसान्नेन पूरितम् || २२ ||
विभूषितम् |
बिभ्राणं दक्षिणे हस्ते दध्योदन मथेतरे |
ध्यायेल्लक्षत्रयं धीमान् जपेत्तद्गतमानसः || २३ ||
अनेन जुहुयाच्चाग्नौ नियतं मन्त्रवित्तमः |
बह्वन्नत्वमवाप्नोति सर्वमिष्टं लभेति च || २४ ||
शक्तीशमन्त्रः. |
शक्तीशमन्त्रमधुना कथयामि चतुर्मुख |
आदितस्सप्तवर्णानामुद्धारः पूर्वमिरितः || २५ ||
क्रोधनं हृदयाह्लादं भुवनं भास्करं ततः |
गुहालयमनुस्स्वारं रविमग्निं च मारुतम् || २६ ||
सयष्टिं पीतमाद्यर्णं कमलं क्रोधरूपिणम् |
माधवीं पञ्चबिन्दुं च हननं चाप्रमेयकम् || २७ ||
वै राजमपप्रमेयं च पुरुषात्माच माधवः |
नारायणं चतुर्थ्यन्तं ठठेति मनुरीरितः || २८ ||
अंशुमान् वीतिहोत्रश्छ वामनो बिन्दुमस्तकः |
अङ्गं च बीजं पूर्वोक्तमृषिश्चापि पराशरः || २९ ||
छन्दश्च देवी गायत्रं शक्तीशो देवता तथा |
जपेद्द्वादश लक्षं तु प्राप्नु यात्सर्वमिप्सितम् || ३० ||
कालनेमिमन्त्रः. |
कालनेमिमनुर्ब्रह्मन् कथ्यते सर्वसाधकः |
आद्यर्णाः पूर्ववत्सप्तपीयूषात्मा त्रिविक्रमः || ३१ ||
उग्रदेहः प्रचण्डश्च विष्णुः कलशमाधवौ |
कमलं गोपनयुतं महेन्द्रं विष्णुमस्तकम् || ३२ ||
विघ्नेशं देवदत्तं च दक्षं मायापरिष्कृतम् |
पतङ्गमृतधामानं वैधरं च चतुर्गतिम् || ३३ ||
देवदेवं च |
पतङ्गामृत |
आद्यं सुधारसं मायामत्रिर्गोपनहव्यवाट् |
आद्यं सुमुख माद्यं च श्वसनं चाप्रमेयकम् || ३४ ||
माकारं |
हुंफडन्तं ठठपरं मनुरेवं समुद्धृतः |
बीजं वक्ष्ये दिनकरं भुवनं यष्टिमस्तकम् || ३५ ||
क्रुद्धादि पूर्ववच्चाङ्गं नारदो मन्द्रदर्शनः |
छन्धो विराट् देवता च कालनेमिश्छतुर्मुख || ३६ ||
जपसङ्ख्याफलं चापि द्विषट्काक्षरवद्भवेत् |
त्रैलोक्यमोहनमन्त्रः. |
त्रैलोक्य मोहनं मन्त्रं कथयामि यथातथम् || ३७ ||
उद्गीथं कमलं पीतं वामनं ध्रुवमस्तकम् |
एकाक्षरो मनुरयं देवताङ्गमनुक्रमात् || ३८ ||
बिन्दु |
षड्भिर्युतमचामाद्वैस्यानुस्वारं प्रजयोजयेत् |
ऋषिर्वृद्धमनुश्छन्धो देवी गायत्रमिरितम् || ३९ ||
त्रैलोक्यमोहनो देवो देवता जपतर्पणम् |
होमश्च फलमप्यस्य निधिस्थानोपलम्भनम् || ४० ||
जपन् भूयस्तथा सर्वं दुर्लभं फलमश्नुते |
तस्यैव मन्त्रान्तरम्. |
षोडशार्णो मनुर्ब्रह्मन् त्रिलोकीमोहनात्मकः || ४१ ||
उच्यते पूर्ववत्सप्तवर्णानाद्यान् समुद्धरेत् |
त्रैलोक्य मोहनपदं चतुर्थ्यन्तं ततः परम् || ४२ ||
तद्विभक्तिपदं विष्णुपदं स्वाहान्तमुद्धरेत् |
मनुरेष स एवाङ्गं बीजं पूर्ववदीरितम् || ४३ ||
मुनिः पुनस्त्यश्छन्दश्च देवता पूर्ववत्तथा |
जपसङ्ख्या फलं चैव मूलमन्त्रवदिष्यते || ४४ ||
मन्त्रो नवाक्षरश्चान्यस्त्रिलोकी मोहनात्मकः |
त्रैलोक्य मोहनपदं चतुर्थ्यन्तं नमस्तथा || ४५ ||
बीजमङ्गमयं चैव सर्वकामफलप्रदम् |
निगमादिं चतुर्थ्यन्तं पदं त्रैलोक्य मोहनम् || ४६ ||
अत्रकामकामेश्वरी इत्यर्धं क्वचिदधिकमस्ति |
अंशुमालिनमग्निं च पञ्चबिन्दुं सयष्टिकम् |
शङ्खिनं पुलहं पञ्च बिन्दुयष्टिसमन्वितम् || ४७ ||
तद्बीजं च द्विरभ्यस्य नतिश्च तदनन्तरम् |
द्वादशार्णात्मकोमन्त्रस्त्रिलोकीमोहनात्मकः || ४८ ||
प्रत्यक्षरं लक्षजपो द्वादशाक्षरवत्फलम् |
कामकामेश्वरीमन्त्रः. |
कामकामेश्वरी नाम मन्त्रस्सर्वफलप्रदः || ४९ ||
उद्गीथं पूर्वमुचार्य भास्करं ज्वलनं ततः |
महामायां यष्टियुतामित्येकाक्षरमुद्धरेत् || ५० ||
ेतदेवाङ्गमुदितं शौनको मुनिरुच्यते |
छन्दश्च देवी गायत्रं देवता पुरुषोत्तमः || ५१ ||
लक्षमेकं जपेन्मन्त्री सर्वान् कामानवाप्नुयात् |
शङ्खकुन्देन्दुधवलं चतुर्चाहुं किरीटिनम् || ५२ ||
गरुडारूढमारोप्य देवीं वामोरुविष्टरे |
दाडिमिकुसुमप्रख्यां सर्वाकल्पपरिष्कृताम् || ५३ ||
वाशाङ्कुशधरां लक्ष्मीं कामविह्वाललोचनाम् |
कामकामेश्वरीमेव ध्यायेदेकाग्रमानसः || ५४ ||
त्रैलोक्यमोहनमालामन्त्रः. |
त्रैलोक्यमोहनं नाम मनुस्संप्रतिकथृते |
ब्रह्मकोशमुदीर्यादौ नत्यन्तं तदनन्तरम् || ५५ ||
पदानि सम्बुध्यान्तानि क्रमेणोद्धारयेत्सुधीः |
पुरुषाद्युत्तमपदं रुपमप्रति मेति च || ५६ ||
मादिच |
लक्ष्म्यादि च निवासान्तं सकलादिं जगत्पदम् |
क्षोभणान्तं च सर्वादिपदं स्त्रीहृदयावधि || ५७ ||
विदारणशिरश्चापि त्रयादि भुवनावधि |
उन्मादकरपर्यन्तं सुरासुरपदं ततः || ५८ ||
मनुजेति समुच्चार्य सुन्दरीजनमन्वतः |
मनांसीति समुच्चार्य तापयेति चतुर्मुख || ५९ ||
दीपयेति पदं पश्चाच्छोषयेति च मारय |
स्तम्भय द्रावयाकर्षपर्यन्तं च क्रियापदम् || ६० ||
द्विर्वक्तव्यं ततो ब्रह्मन् परमं सुभगावधि |
सम्बुध्यन्तं च सौभाग्यं करेति पदमन्वतः || ६१ ||
तदा ब्रह्मन् प्रथमम् |
करोति च पदं ततः |
सर्वकामप्रदं प्रोच्य पदं चामुकमित्यतः |
हनेति द्विस्समुच्चार्य चक्रेण गदयेति च || ६२ ||
खड्गेन सर्वबाणैश्च द्विर्भिन्धेति पठेत्ततः |
पाशेनेति ततो बन्ध बन्धेति च पदद्वयम् || ६३ ||
अङ्कुशेनेति संप्रोच्य ताडयेति द्विरभ्यसेत् |
कुर्वन्ति द्विस्समुच्चार्य किं तिष्ठपदमन्वतः || ६४ ||
तावद्यावत्पदे प्रोच्य समीहितपदं ततः |
मे सिद्धिर्भवतूच्चार्य मे हुंफडिति शीर्षकम् || ६५ ||
हेतु |
इत्येष मालामन्त्रस्य समुद्धारः प्रदर्शितः |
निगमादिरनन्तं च और्वं चन्द्रार्ध शेखरम् || ६६ ||
बीजमेवं समुद्धृत्य षडङ्गानि मनुः पुनः |
षोढा विभज्य कर्तव्या ऋषिस्स्यान्नलकूबरः || ६७ ||
छन्दोऽतिच्छन्दनामास्य देवता पुरुषोत्तमः |
ध्यायेत्तमेव पुरुषं साधयेन्मन्त्रवित्तमः || ६८ ||
ध्यात्वा |
अष्टबाहुं विशालाक्षं गरुडारूढमच्युतम् |
अकलङ्कशशिप्रख्यं पूर्णेन्दुसदृशासनम् || ६९ ||
सुभ्रूललाटमकुटं लावण्यामृतसागरम् |
पीतकौशेयवसनं कपोलामृष्टकुण्डलम् || ७० ||
युवानं |
चक्रं च मुसलं बाणमङ्कुशं दक्षिणे भुजे |
शङ्खं कौमोदकीं शार्ङ्गं पाशं वामेषु बिभ्रतम् || ७१ ||
सर्वलक्षणसंपूर्णं सर्वाकल्पपरिष्कृतम् |
दिव्य चन्दनलिप्ताङ्गं दिव्य स्रग्दामभूषितम् || ७२ ||
स्रस्वस्त्र |
देव्योऽष्टौ परितस्तस्य वालव्यजनपाणयः |
वीजयन्ति सदा देवं कामविह्वललोचनाः || ७३ ||
एताभ्यो बहिरष्टौ च दिक्षु चक्रादिधारिणः |
पुरुषा देवदेवेशं प्रणिपत्य बहिस्थिताः || ७४ ||
एवं सपरिवारं तं ध्यात्वा देवं समाहितः |
सप्ताहं मन्त्रजापेन वश्या मनुजयोषितः || ७५ ||
दिवसेषु च तावत्सु पुनर्यक्ष्यादियोषितः |
तिष्ठन्ति संमुखास्सर्वा मन्मथाविष्टचेतसः || ७६ ||
भजन्तिमन्त्रिणं मन्त्र वैभवान्मोहयन्ति च |
जपी भूयास्तथा कामान् सर्वान्विन्दत्यसंशयः || ७७ ||
प्रभावात् |
जपन् भूयस्तदा |
किं पुनर्बहुनोक्तेन देवः प्रत्यक्षतामियात् |
शान्तिः पुष्टिश्च धर्मश्च कामार्थौ मोक्ष एव च || ७८ ||
कामार्थौस धर्मौ |
पातालाकाशगमनमन्तर्धानमदृश्यताम् |
निधानं फलसिद्धिं च खननं चौषधं तथा || ७९ ||
बलसिद्धिं |
पादुकां गुलिकां चापि रसायनमनुत्तमम् |
अक्षसूत्रं दरं खड्गं तथा वेतालसाधनम् || ८० ||
अष्टसूत्रधरम् |
फलानि दुर्लभान्येव सिध्यन्ति मनुवैभवात् |
प्रत्येकं न प्रदर्शन्ते ग्रन्थविस्तरभीरुभिः || ८१ ||
फलानां दिगियं प्रोक्ता दुर्लभानां चतुर्मुख |
त्रैलोक्यमोहनाख्यस्य कामकामेश्वरस्य च || ८२ ||
एकाक्षरमुखस्योक्तं फलं मन्त्रस्य पद्मज |
यज्ञवराहमन्त्रः. |
मन्त्रं यज्ञवराहस्य वक्ष्यामि कमलासन || ८३ ||
गृहीत्वा पूर्ववत्सप्त वर्णानाद्याननुक्रमात् |
स्पर्सान्तं भास्करं चाद्यं कलशं प्रणपादि च || ८४ ||
कमलम्. केवलम् |
अनलं चादिदेवान्तं भास्करं मधुसूदनम् |
श्वसनं वर्णमाद्यं च ओषधीशमचां मुखम् || ८५ ||
बहुलं |
वह्निं प्रचेतसं मुख्यं मारुतं प्रणवादि च |
मुसलिं चन्द्रधवलमचामादिमनन्तरम् || ८६ ||
श्रीवत्समादिमनलं महामायाग्निगोपनम् |
दरं विष्णुं खड्गधरं विजयं श्रीधरं तथा || ८७ ||
श्रीधरं विजयं |
पियूषरूपमनलं माधवं वैधरं तथा |
आदिं पवित्रधृष्टिं च प्रणवादिविभूषितम् || ८८ ||
श्वसनं चाप्रमेयं च कलात्मा विष्णुमस्तकः |
वरुणं दहनाक्रान्तं वैधरं माधवाक्षरम् || ८९ ||
वरुणं चादिवर्णं च तथैपोग्रात्म संमितम् |
अनलं माधवोपेतं मन्दरं प्रथमं मरुत् || ९० ||
सप्तमम् |
माययो |
मधुसूदनविक्रान्तं पवनं श्वेतरोचिषम् |
वरुणं वीतिहोत्रं च सुभद्रं च गुहालयम् || ९१ ||
वै राजमादिदेवान्तं विजयं मन्दरं तथा |
भद्रपाणिं मृगेशं च वैधरं यष्टिमस्तकम् || ९२ ||
उग्रात्मा पर्वतं चादिमृतधामपरिष्कृतम् |
विघ्नेशं मारुतं चैकनेत्रं शुक्लशिरस्तथा || ९३ ||
सुभद्रं चोर्ध्वलोकेशं नाभिपङ्कजसम्भव |
माधवीमप्रमेयं च वनमाली झष स्तथा || ९४ ||
माहेन्द्रं गोपनयुतं मारुतं प्रथमस्वरम् |
भल्लायुधं हृषीकेशं सुभद्रं भुवनं वसुं || ९५ ||
प्रचेतसं कलात्मान ममृतं सविसर्गकम् |
पवित्रमादिं वै राजं मुख्यं पवनमादवौ || ९६ ||
माकारम् |
सुभद्रमौर्वं दक्षं च मुख द्विपदमिरयेत् |
शशाङ्कं द्विपदं वह्निभुवनं द्विपदं पठेत् || ९७ ||
द्विः परमिरयेत् |शशाङ्कं भुवनं वह्निं भुवनं द्विरदं पठेत् ||
अचां द्वितीयं दृष्टिं च मायां कमलमादिशेत् |
हव्यवाड्गोपनयुतं भास्करं मधुसूदनम् || ९८ ||
कलशमादिशेत्. कमलमादिमम् |
विसस्वान् |
प्रभञ्जनमकारं च सूक्ष्मदृग्भुवनं तथा |
माधवीं रामसहितं पश्चिमाननमादिमत् || ९९ ||
प्रभञ्चने त्यादिसार्धं श्लोकद्वयंक्वचिन्नास्ति |
एकनेत्रमिकारं च विजयं कलशं तथा |
मन्दरं देवदत्तं च वैधरं विष्णुमस्तकम् || १०० ||
द्विर्ब्रूयाद्गापना क्रान्तं पश्चिमाननमादिमत् |
प्रभञ्जनमकारं चठठान्तो मनुरीरितः || १०१ ||
न्तं च |
सूक्ष्मदृग्भुवनं सर्गं बीजमेतत्समुद्धृतम् |
मन्त्रं षोढा विभज्याङ्गकल्पनं काश्यपो मुनिः || १०२ ||
छन्दो विराट् स्तोमघोणी देवता कमलासन |
जपो लक्षद्विषट्कं स्यात्फलं सर्वं यथापुरम् || १०३ ||
दीर्घघोणी. सोमऋषिः |
दरोदरनृसिंहमन्त्रः. |
दरोदरनृसिंहस्य मनुस्संप्रति कथ्यते |
ओंकारं पूर्वमुद्धृत्य कमलं शत्रुदाहकम् || १०४ ||
कलशम् |
गुहालयं सयष्टिं च गोपतिं भुवनं ध्रुवम् |
पुल्ललोचनमाद्यं च हृदया ह्लादनं तथा || १०५ ||
मोदनम् |
भद्रपाणिं स्वरादिं च ज्वलनं चादिमं तथा |
ओषधीशमिकारं च यष्टिं भास्करगोपनौ || १०६ ||
श्वसनं च नतिर्मन्त्रो नारसिंह उदीरितः |
अयमेव मनुर्भीजं छन्दो गायत्रमिरितम् || १०७ ||
देवता नृहरिर्द्रष्टा कपिलो ध्यानमुच्यते |
दरोदरे सुखासीनं शतपत्रे विकस्वरे || १०८ ||
तप्तजाम्भूनदनिभं चतुर्भाहुमुदायुधम् |
पर्यङ्कबन्धसुभगं प्रसारितभुजद्वयम् || १०९ ||
जानुनोरुपरिष्टाच्च सर्वाकल्पपरिष्कृतम् |
व्यात्ताननं त्रिनयनं सखदम्भोलिभीषणम् || ११० ||
सिंहस्यार्धं नरस्यार्धं मेघगम्भूरगर्जितम् |
एवं ध्यात्वा जपेदष्टलक्षं मन्त्री समाहितः || १११ ||
सावित्रे मण्डले देवमासीनं सर्वकामदम् |
ध्यायेल्लभेत धर्मादि पुरुषार्थचतुष्टयम् || ११२ ||
बहुनात्रकिमुक्तेन सर्वान् कामानवावप्नुयात् |
पुरुषचतुष्टयमन्त्रनिर्देशः. |
चतुर्णां पुरुषादीनां मनुस्संप्रति कथ्यते || ११३ ||
प्रणवादीन् सप्तवर्णान् समुद्धृत्य यथा पुरम् |
स्वं स्वं नाम चतुर्थ्यन्तं मन्त्रानेषां प्रकल्पयेत् || ११४ ||
तथा |
तेषां बीजानि वक्ष्यामि वर्णोद्धारैः क्रमादहम् |
तिग्माशुर्गोपनयुतस्सदण्डः पुरुषात्मनः || ११५ ||
मार्ताण्डः पञ्चबिन्दुश्च सेन्दुस्सत्यस्स कथ्यते |
वैराजं पापकं पञ्चबिन्दुं नासिक्य मेव च || ११६ ||
सेन्द्रम् |
मुच्यते |
त्रयूतनुं हृषीकेशं यष्टिं चानन्तनामनि |
ऋषिश्छन्दो देवता च फलमष्टाक्षरे तथा || ११७ ||
हयग्रीवमन्त्रः. |
हयग्रीवस्य मन्त्रस्य वर्णोद्धारः प्रदर्श्यते |
सप्तवर्णान् समुद्धृत्य विजयं बहुलं ततः || ११८ ||
कालात्मा चैक दृग्वह्निं गोपतिं विष्णुमस्तकम् |
श्वसनं प्रणवादिं च लक्ष्मीं बिन्दुमनन्तरम् || ११९ ||
कलात्मा कामात्मा |
बन्धु |
ज्वलनं गोपनयुतं शशाङ्कं माधवं तथा |
स्वाहान्तमश्वशिरसः कथितष्षोडशाक्षरः || १२० ||
स एव बीजमङ्गानि क्रुद्धोल्कादि यथापुरम् |
ऋषिर्बृहस्पतिर्ह्यस्य च्छन्दो गायत्रमुच्यते || १२१ ||
देवो हयशिरा नाम देवता कमलासन |
दशलक्षं जपेन्मन्त्रं महेत् ज्ञानमवाप्नुयात् || १२२ ||
दशलक्षम् इत्यादि कर्तव्यम् इत्यन्तं क्वचिन्न |
ओंकारपूर्वं नत्यन्तं चतुर्थी देवता क्रमात् |
ठठान्तो मन्त्ररोजोयं दशाक्षरविदर्भितः || १२३ ||
बीजानि पूर्ववत्सर्वं कर्तव्यं कमलासन |
हयग्रीवमालामन्त्रः. |
अतोऽन्यं वाजिशिरसो मालामन्द्रं ब्रवीमिते || १२४ ||
स्मर्तव्यम् |
अर्णसप्तकमुद्धृत्य पदं हयशिरास्तथा |
चतुर्थ्यन्तं सर्वविद्यालयेति पदमन्वतः || १२५ ||
सकला मरशब्दादि गुरवे पदमुद्धरेत् |
समस्तप्रतिशब्दादि हन्तानन्तेत्यनन्तरम् || १२६ ||
मलशब्दानि |
हतनन्दे |
वीर्यं तेजः पदं पश्चात् ज्ञानैश्वर्यपदं ततः |
शक्तिश्चैव बलं चैव सर्वाद्यावासमन्वतः || १२७ ||
शक्तिशब्दश्चतुर्थ्यन्तस्सर्वन्याससमन्वितः |
तद्विभक्तिं ततः पश्चात्परमात्मपदं ततः |
चतुर्थ्यन्तं वासुदेवशब्दस्ता दृग्विभक्तिकः || १२८ ||
ज्ञानज्ञेयपदं तद्वद्व्यक्ताव्यक्तपराय च |
सर्वदुष्टासुरं प्रोच्यदुरितं व्रजिनं तथा || १२९ ||
प्रमाथि तद्विभक्त्यन्तं तत्सद्रुचिरपूर्वकम् |
पदं च तुरगायेति ज्ञानमुच्चार्य मूर्तये || १३० ||
इति चोच्चार्य तस्यानु सहस्रं कोटिमन्वतः |
पदं विद्यादिनिकं मुञ्च गच्छ पदे ततः || १३१ ||
स्फोटिर्विजृम्भिर्ल्लोडन्तं द्विर्वक्तव्यं च तिज् पदम् |
सर्वादितेजोमध्यं च निध्यन्तं च पदत्रयम् || १३२ ||
चतुर्थ्यन्तं समुच्चार्य निर्धूत पदमन्वतः |
विकीर्णपदमुचाचार्य प्राक्प्रदीप्तपदं ततः || १३३ ||
वदीर्णपद |
केसरं च सटाशब्दं कलापपदमन्वतः |
प्रदीप्तसूर्यमंशुं च प्रतीकाशपदं ततः || १३४ ||
भास्कराकारशब्दं च ऊष्ममूर्ध्वजमन्वतः |
शङ्खमाभमताङ्घ्रिं च प्रसरव्रातदीप्तिमान् || १३५ ||
द्रवत्कनकमुच्चार्य पिङ्गलायतमाननम् |
महास्वरसमाकारं विशुद्धदशनं ततः || १३६ ||
पङ्त्किं विनिर्गतां चोक्त्वा विराजितपदं तथा |
लोकत्रयद्रवद्दीप्तपदं चामिकरादिमत् || १३७ ||
श्रुत्वा |
पिङ्गलायतमुच्छार्य विष्फारितपदं पठेत् |
लोचनादि महाशब्दं विभीषण पदान्वितम् || १३८ ||
नासिकापुटमद्रीन्द्र शिखराकारसंयुतम् |
रुचिरं पदमुच्चार्य विकुञ्छितपदं तथा || १३९ ||
महाश्रवणसंयुक्तं श्रेयसेति पठेत्पदम् |
तच्छब्दं च चतुर्थ्यन्तं दुष्टसत्वाननन्तरम् || १४० ||
महाशुवर्णसंयुक्त श्रवणेति पदं पठेत् |बिन्दिश्छिन्दि स्तथा मारि र्मर्दिस्त्रासिश्च दातवः |
लोडन्ता द्विस्समुच्चार्य स्यौं वौ मितिपदद्वयम् || १४१ ||
ध्वंसि हन्ति तथाध्मापि हन्ति ग्रहसि ताडय |
पचि र्मथिश्च ते एते चोडन्ता द्विः कृता स्तथा || १४२ ||
ध्वंसिर्ण्यन्त स्तथाध्मापिर्हन्तिर्ग्रन्थिस्तथादिभिः |पचिर्मथिश्च |
र्मन्दिश्च |
परविद्यापदं प्रोच्यच्छिन्धिर्ण्यन्तः प्रयुज्यताम् |
अमित्युक्त्वा तथा नारी लोण्मध्यमशिराः स्मृतः || १४३ ||
एह्येहि भगवन् शब्दं वज्रशब्दमनन्तरम् |
अङ्कुशेनेति तदनुप्रोच्य चाकर्षयेति च || १४४ ||
भगवच्छब्दं यज्ञ |
हृदया द्यादिरन्वक्स्याद्भक्ति पूर्वजनेति च |
जिह्वादिनिलयं प्रोच्य बडबानलमन्वतः || १४५ ||
न्यादिमन्वक् |
सम्बध्यन्तं विश्वमूर्तिं सौमनस्यमनन्तरम् |
भगवन्नितिवक्तव्य मोंकारं हृदयं ततः || १४६ ||
मोङ्कौरहृदयं ततः |सदादिब्रह्म |
सदा यद्ब्रह्म सदसदात्मेति च पदं पुनः |
चिद्घनादि च तुर्थ्यन्तं भगवत्पदमिरयेत् || १४७ ||
सदा सद्ब्राह्म सदासच्चात्मेति |
ठठान्तमुद्धरेदेवं हयग्रीवं चतुर्मुख |
पूर्वोक्तमेवास्य बीजं पूर्ववच्छाङ्गपद्धतिः || १४८ ||
व्यासो मुनिर्हयग्रीवो देवता च्छन्द उत्कृतिः |
ध्यायन् हयशिरोवक्त्रातुद्वान्तं फेनमुल्बणम् || १४९ ||
पिबन्निव सुधीर्मन्त्र राजं मन्त्रविदुच्चरेत् |
अयुतं नियुतं वापि जपेन्मन्त्रस्य सिद्धये || १५० ||
बलं |
जपो मन्त्रस्य सिद्धदः |
विद्यापारमवाप्नोति वागीशत्वं च पद्मज |
व्याख्यातृत्वं च कर्तृत्वं शास्त्राणां बहुवर्त्मनाम् || १५१ ||
सकृद्ग्रहणमात्रेण विद्यास्सर्वाः प्रतिष्ठिताः |
अविस्मृतिश्च तासु स्यात्पुरुषार्थचतुष्टये || १५२ ||
अविस्मृतिश्च नास्यस्यात्पुरु |
नासाध्यं किञ्सिदस्यास्ति दीर्घमायुश्च विन्दति |
मुकुन्दादिमन्त्रनिर्देशः . |
षण्णां मुकुन्दमुख्यानां मनुस्संप्रति कथ्यते || १५३ ||
सप्तार्णान् पुर्वमुच्चार्य नामधेयानि षट्तथा |
चतुर्थ्यन्तानि योज्यानि शिष्टार्णानेवमुद्धरेत् || १५४ ||
शब्दान्येवं स |
बभ्रुमन्त्रः. |
जीमूतमादिं नासिक्ये वरुणं प्रणवादि च |
सबिन्दुं भास्करं रेफे पञ्चबिन्दुं सयष्टिकम् || १५५ ||
जीमूतमादिं इत्यरभ्य नासिक्यमुद्धरेत् इत्यन्तं क्वचिन्न |
रेफम् |
ठठान्तं च मुकुन्धस्य मुनुरेवं समुद्धृतः |
भास्करं पावकं पञ्च बिन्दुर्यष्टिसमन्वितः || १५६ ||
अक्षरं च द्विरभ्यस्येन्मार्ताण्डं च गुहान्वयम् |
सानुस्वारं द्विरभ्यस्येद्विष्णुशब्दमनन्तरम् || १५७ ||
चतुर्थ्यन्तं ठठान्तं च बभ्रोर्मनुरुदीरितः |
वृषाकपिमन्त्रः. |
पर्वतं भुवनं भानुमूर्ध्वलोकेशनासिके || १५८ ||
भास्करं पावकं पञ्च बिन्दुं नासिक्यमुद्धरेत् |
फट्कारं च हुतान्तं च मनुश्चैवं वृषाकपेः || १५९ ||
खुभदं पावकं चैव पञ्चबि न्दुसदर्थकम् |
अक्षरं तद्द्विरुच्चार्य ठठान्तो मन्त्र ईरितः || १६० ||
न्दुं सदण्दकं |
ठान्तोमन्त्र उदीरितः |
शौरिमन्त्रः. |
शौरेस्तथापरं वक्ष्ये दशार्हं मनुमब्जज |
सवितारं बृहद्भानुं सयष्टिं पञ्चबिन्दुकम् || १६१ ||
हुतान्तश्च मनुः प्रोक्तो |
वैकुण्ठमन्त्रः. |
वैकुण्ठमनुरुच्यते |
परमात्मा चतुर्थ्यन्तं वरुणं प्रथमं स्वरम् || १६२ ||
नासिक्यं कुम्भमाकारमर्धेन्दुं भास्करं ततः |
हृषीकेशमनुस्वारं नारायणपदं ततः || १६३ ||
चतुर्थ्यन्तं ठठान्तं च वैकुण्ठमनुरीरितः |
षण्णां ऋष्यादीनि. |
ऋषिश्छन्दो देवता च बीजमङ्गानि षट्तथा || १६४ ||
अष्टाक्षरवदेतेषां फलानि च चतुर्मुख |
अपराजितमन्त्रः. |
अथापराजितं मन्त्रं वक्ष्यामि कमलासन || १६५ ||
निगमादीन् सप्तवर्णान् गृहीत्वादौ यथापुरम् |
चतुर्थ्य न्तान न्तपूर्वमन्तश्शब्दं समुद्धरेत् || १६६ ||
न्तं मन्त्र |
सहस्रादि च शीर्षान्तं तद्विभक्तिपदं पुनः |
तत्सुगन्धं तथाक्षीरमुदार्णव पदान्वितम् || १६७ ||
तत्सुबन्दं |
शायिनेति पदं प्रोच्य शेषभोजपदं तथा |
पर्यङ्केति चतुर्थ्यन्तं तद्विभक्तिश्च वाहनम् || १६८ ||
शायिन्निन |
गरुडादि पदं पश्चाद्वासुदेवपदं ततः |
तद्विभक्तिश्च सत्यन्तं वासःपीतादि तादृशम् || १६९ ||
सङ्कर्षणादिमन्त्रनिर्देशः. |
संपूर्वं कर्षणपदं सम्बुध्यन्तमनन्तरम् |
प्रद्युम्नाद्यनिरुद्धं च तद्विभक्तिपदं स्मृतम् || १७० ||
संपूर्णं |
हयादिशीर्षं सम्बुद्धौ वराहं तद्विदिष्यते |
नृसिंह वामनपदे त्रिविक्रममनन्तरम् || १७१ ||
रामशब्दं त्रिरुच्चार्य कृष्णेति पदमुद्दरेत् |
वरप्रदेति नत्यन्तमस्तीत्यन्वक्क्रियापदम् || १७२ ||
तेच शब्दं चतुर्थ्यन्त मसुरेति पदं ततः |
दैत्ययक्षपदे चोक्त्वा राक्षसेति पदं ततः || १७३ ||
मधुरेति |
भूतं पिशाचं सिद्धं च योगिनी ढाकिनीति च |
ब्रह्मादि राक्षसपदं विनायक पदं ततः || १७४ ||
पूतना रेवतीस्कन्दपुरोगमसमुद्धृतिः |
गृहीदीति च नक्षत्र गृहीनित्यप्यनुक्रमात् || १७५ ||
अन्यांश्चेति महत्पुर्वं गृहानिति पठेत्पदम् |
हनिं दहिं पचिं चैव मथिह्यन्त शबन्वितम् || १७६ ||
इदमर्धं क्वचिदधिकमस्ति |
अनिभिर्द्विः पतिं चैव पतिभ्यन्तं समन्वितम् |
आख्यातं द्विस्समुच्चार्य गृहाणेति तथैव च || १७७ ||
आविश ध्वं सिरपरास्त्रसिद्रुह्यन्तलोट्पराः |
चत्वारो धातवो मन्त्रे द्विर्वक्तव्याश्चतुर्मुख || १७८ ||
चक्रं गदां च वज्रं च तृतीया न्तमुदीरयेत् |
भस्मीकुर्वित्यनुक्रम्य बाहुं सम्बद्दिशीर्षकम् || १७९ ||
सहस्रारपदं सर्वं मुख्य प्रहरणायुधम् |
जयेति विजयेति द्वे पदे द्विः प्रोच्य पद्मज || १८० ||
सहस्रादि |
अनन्तमपरा पूर्वजितं प्रतिहतं तथा |
नङ्पार्वं नेतृपर्यन्तं सहस्रादिपदं ततः || १८१ ||
पूर्वं जितं प्रतिजयं |
प्रज्वलिर्ज्वलिरित्येते लोडन्तेद्विस्समु द्धरेत् |
विश्वरूपं समुद्धृत्य मधुसूदनमन्वतः || १८२ ||
च्चरेत् |
महापुरुषवैकुण्ठनारायणपदं ततः |
पद्मादिनाभिपर्यन्तं हृषीकेशपदं ततः || १८३ ||
सर्वमुक्त्वा तथा भूतं वशीकरणमुद्धरेत् |
शङ्खचक्रगदामुक्त्वा धरेति तदनन्तरम् || १८४ ||
वशङ्करम नूद्धरेत् |
उद्धृत्य सर्वभूतं च नमस्कृतपदं तथा |
सर्वमन्वङ्नागपदं प्रमर्दनपदान्वितम् || १८५ ||
सर्वं प्रपठ्यानुपूर्वादसुरोत्साधनं ततः |
सर्वदेवमनुक्रम्य महाश्वरमुदीरयेत् || १८६ ||
सर्वं गृहं समुच्चार्य निवारणपदं तथा |
यन्त्रमन्यं च सर्वादि प्रभञ्जनपदं ततः || १८७ ||
यञ्चमध्यं च पूर्वादि |
सर्वदुःखप्रशमनं सर्वज्वर विनाशनम् |
सर्वबन्धमनुक्रम्य विमोक्षणपदं तथा || १८८ ||
निवारणं |
दुस्स्वप्नमध्यं सर्वादिविनाशनमनुद्धरेत् |
नमस्कृतान्तं सर्वादिभूतमध्यं पदत्रयम् || १८९ ||
पदद्वयं पूर्ववत्स्यादपकर्षणमाचरेत् |
जनार्दनेति सम्बुद्धौ नमश्चास्त्विति ते पदम् || १९० ||
अप्रमेयमनुस्वारसहितं बीजमिरितम् |
मन्त्रं षोढा विभज्याङ्गमृषिः पद्युन्म उच्यते || १९१ ||
छन्धोऽतिच्छन्द एतस्य विश्वरूपश्च देवता |
साधयेन्मन्त्रविन्मन्त्रमष्टाक्षरसमादिना || १९२ ||
अपराजितमन्त्रेण नासाध्यं विद्यते फलम् |
वश्यमुच्छाटनं चैव तथामारणकर्मच || १९३ ||
कृत्यादि भूतदोषाणां निवारणमनुत्तमम् |
फलानि लिप्सुस्सर्वाणि मन्त्रमेनं समाश्रयेत् || १९४ ||
Kapitel 29
Lesehilfe: Kapitel 29: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
एकोनत्रिंशोऽध्यायः |
|
श्रियादीनां मन्त्राः. |
श्रीभगवान् |
देवीनां च श्रियादीनां मन्त्रान् विष्टरकल्पनम् |
मन्त्रांश्च परिवाराणां प्रथमावरणादिषु || १ ||
अनुक्रमेण वक्ष्यामि यथा तदनधारय |
श्रीमन्त्रः. |
छन्दसामादिराद्यर्णं तुर्यमग्नेरनन्तरम् || २ ||
अग्निश्च महती मायामनुस्वारश्च पश्चिमः |
एकाक्षरो मनुर्ब्रह्मन् श्रियस्सर्वफलप्रदः || ३ ||
पञ्चमः |
ऋषिर्मङ्कणकः प्रोक्तश्छन्दो गायत्रमुच्यते |
श्रीरस्य देवताऽङ्गानि स्वेन रूपेण कल्पयेत् || ४ ||
मङ्कणक इत्यत्र द्विदियोऽनुनासिकोवर्णः स्वनर्ग प्रथमद्वितीयाभ्यां पृथक् सन्दानितो द्विधा पठ्यते |
बिल्वानोकहमूले तु लक्षजापेन साधयेत् |
समिद्भिश्च तदीयाभिर्जुहुयाल्लक्षसङ्ख्यया || ५ ||
श्रीपुष्पैः पायसान्नैश्च जुहुयादुक्तसङ्ख्यया |
श्रियमाप्नोति महतीं श्रीकामो नात्र संशयः || ६ ||
प्रणवादि चतुर्थ्यन्तं नाम नत्यन्तमिरितम् |
चतुरक्षरमन्त्रोयमपरश्श्रीसमाश्रितः || ७ ||
ऋषिरस्य धनाध्यक्षश्छन्दश्श्रीर्देवता तथा |
प्रत्यक्षरं जपेल्लक्षं साधको मन्त्रसिद्धये || ८ ||
प्राग्वच्च बीजमङ्गानि फलमप्यस्य पूर्ववत् |
निगमादिं भद्रहस्तं हैरम्बं मन्दरा दिपम् || ९ ||
प्रागुक्त |
भिधम् || शुभदं मन्दरं |
शुभदं दहनं मायां मारुतं माधवं तथा |
सप्ताक्षरोऽयं श्रीमन्त्रस्सर्वमन्यद्यथापुरम् || १० ||
गृहीत्वैकाक्षरं पूर्वं भानु मग्निं च वामनम् |
भल्लायुधं च महेन्द्रं हृषीकेशं सयष्टिकम् || ११ ||
मुग्रं च |
शशाङ्कमौर्वं नासिक्यं सुभद्रं गदिनं परम् |
जलाधिदैवमाद्यर्णं वै राजं गोधनं धरम् || १२ ||
पुलहं कमलं शक्रं दहकं पाटलप्रियम् |
गोधनं कमलं चित्रभानुं मायाविभूषितम् || १३ ||
कलहं शक्र |
प्रभञ्जनं मृगेशं च स्वाहायां विरमेत्ततः |
षोडशाक्षरमन्त्रोऽयं श्रियः कमलसम्भव || १४ ||
ओङ्कारपूर्वं नत्यन्तं कमलं मन्दरं तथा |
माहेन्द्रं वरुणं चादिदेवं चन्द्रं त्रिविक्रमम् || १५ ||
विघ्नेशं पञ्चबिन्दुं च हुतान्तं त्विदमिरितम् |
बीजाति पूर्ववत्सर्वं परिगृह्य चतुर्मुख || १६ ||
पूर्वोक्तांश्चतुरोवर्णान् गृहीत्वातदनन्तरम् |
देवानां दानवचनं हुमान्तं तदनन्तरम् || १७ ||
इदमेकं पद्यंक्वचिन्न |
इत्युद्धृतो मनुश्चान्यश्श्रियः कमलसंभव |
उद्धृत्य पूर्वमुद्गीथं श्रीवत्समनलं तथा || १८ ||
वामनं यष्टि शिरसं दिनेशं यान्तमब्जज |
पञ्चबिन्दुं सयष्टिं च शुभदं वसुमस्तकम् || १९ ||
सहितम् |
महामायाङ्कितं दण्डं ठ ठ इत्यवसानकम् |
मङ्कणोऽस्य ऋषिश्छन्दो गायत्री श्रीश्च देवता || २० ||
जपेल्लक्षत्रयं मन्त्रं बिल्वारण्येऽथ साधयेत् |
वश्याकर्षणभूलाभ खनिरत्नादिसिद्धयः || २१ ||
धन |
मण्डलध्यानप्रकारः. |
ध्यानमस्य प्रवक्ष्यामि श्रियो महेन्द्रमण्डले |
आसीनायाः परिजनानिन्द्रादीनर्चयेत्क्रमात् || २२ ||
परिजनान् दुर्गादी |
चतुर्थ्यन्तं स्वनामोक्त्वा सत्यन्तं मन्त्रमब्जज |
मण्डले तत्र पद्मस्य पूर्वादिषु दलेषु च || २३ ||
वासुदेवादयो प्योहाश्चत्वारो दिक्ष्ववस्थिताः |
तेषां नाम चतुर्थ्यन्तं सत्यन्तं प्रणवान्वितम् || २४ ||
गग्गुलुश्च कुरण्डश्च दमक श्शललस्तथा |
कोणवर्णेषु संस्थ्यप्य मन्त्रांस्तन्नामपूर्वकम् || २५ ||
करण्डश्च |
शलबस्तथा |कणवर्णेषु संस्थाप्य मन्त्रस्थं नामपूर्वकम् |
मन्त्रान्तं मन्त्र |
रतिस्सरस्वती भूमिः प्रितिः कीर्तिश्चतुर्मुख |
शान्तिः पुष्टिश्च तुष्टिश्च श्रियोऽधस्ताच्च शक्तयः || २६ ||
नामानि तासां मनवो यथापूर्वमुदीरिताः |
पार्श्वे च दक्षिणे तस्याश्श्रियः पद्मनिधिस्थ्सितः || २७ ||
मुनयो |
वामे शङ्खनिधिर्नाम तयोर्मन्त्रं यथापुरम् |
धनदादीनां मन्त्राः. |
धनदो माणिभद्रश्च जृम्भलो नलकूभरः || २८ ||
पूर्णभद्रश्चलेन्द्रश्च कलिस्रक्शिबिकुण्डलः |
पूर्वादिदिक्षु भविनामेताषां मनुरुच्यते || २९ ||
निगमादिं सुभद्रं च एकदन्तं सयष्टिकम् |
धनदस्य मनुः प्रोक्तो नाम नत्यन्तमेव च || ३० ||
भल्लायुधं पद्मनाभं पञ्चिबिन्दुं सदण्डकम् |
नलकूबरमन्त्रश्च कथितः कमलोद्भव || ३१ ||
ककुभं पद्मनाभं च नासिक्यं जृम्भलो मनुः |
स्पर्शान्तं पुलहं चोर्ध्वलोकेशं तदनन्तरम् || ३२ ||
जृंभते |
माणिभद्रस्य सदृशो मनुस्सर्वार्थसाधकः |
पश्चिमं पीतवर्णाभं भुवनं यष्टिमस्तकम् || ३३ ||
कथितो |
पूर्णभद्रस्य कथितो मनुरेवं चतुर्मुख |
वक्रतुण्डं च भुवनं पुलहं भुवनं पुनः || ३४ ||
नासिक्यं मनुरेतस्मिन् शिभिकुण्डलनामनि |
ब्रह्माणमादिं पुलहं गुहालयसयष्टिकम् || ३५ ||
उद्धारश्च मनोरेवं कथितः कलिमालिनः |
वक्रतुण्डं पीतवर्णं हृषीकेशं च तद्ध्रवम् || ३६ ||
चरेन्द्रमन्त्रः कथितः पूर्वादिषु यथाक्रमम् |
मन्दरं पुलहंचैव गुहालयविदर्भितम् || ३७ ||
माहेन्द्रस्य मनुः प्रोक्तस्सुभगः पुलहोदयः |
धनाध्यक्षस्य मन्त्रोऽयं कथितः कमलासन || ३८ ||
मुख्येन्द्र |
धान्याध्यक्ष |
चिन्तामणिप्रभृतीनां मन्त्राः. |
पार्श्वेच दक्षिणे पूज्याश्श्रियः परिजना स्थिताः |
खड्गदामोदरं चैव महामायां सबिन्दुकम् || ३९ ||
चिन्तारत्नस्य कथितो मनुः पूर्वदलाश्रयः |
श्रीवत्समग्निं भुवनं सदण्डं च चतुर्मुख || ४० ||
सवनम् |
कथित श्छ बलामन्त्रस्तार्क्ष्यस्थाने समर्चनम् |
इन्द्रादयो लोकपालास्स्वाशासु परितस्थ्सिताः || ४१ ||
श्शबला |
तृतीयावरणे चापि बलाकी वनमालिनी |
विभीषी शाङ्करी चैव दिक्षु पूर्वादिषु स्थिताः || ४२ ||
नापि |
सकञ्चुका वेत्रहस्ता मन्त्रास्तासां समाह्वयाः |
विष्वक्सेनपदे पुष्पदारिणि मर्चयेत्ततः || ४३ ||
कल्पकं पारिजातं च हरिचन्दनभूरुहम् |
सन्तानमन्दरौ चैव द्वारभूषुनिवेशयेत् || ४४ ||
बिल्वं च सरसीं चैव शतपत्रसमाकुलाम् |
श्रियं परिगतां पक्षि सङ्घातकलनिस्वनाम् || ४५ ||
सङ्खातालिकुल |
परिवारान् प्रकल्प्यैपं तत्तन्नामभिरर्चयेत् |
चतुर्थ्यन्तैर्नतिपरैः प्रणवप्रमुखैस्तथा || ४६ ||
श्रियो मालामन्त्रः. |
मालामन्त्रं प्रवक्ष्यामि श्रियः कमलसम्भव |
उद्गीथमुक्त्वा प्रथमं नतिश्चतदनन्तरम् || ४७ ||
उक्त्वा भगवती शब्दे श्रीचतुर्थ्यन्तमन्वतः |
धीरापदं च सम्बुद्धौ श्रीपूर्वं निलयं तथा || ४८ ||
शब्दं |
आकारपूर्वं भरणं शतमण्डित मन्वतः |
शरीरेति च सम्बुद्धिः पदान्येवं समुद्धरेत् || ४९ ||
भास्करं चानलं पञ्च बिन्दुं चन्द्रार्धशेखम् |
कलात्मानं विसर्गान्तं बीजयेतत्समुद्धरेत् || ५० ||
भास्करंद्विरीरयेत् इत्यन्तं श्लोक द्वयं क्वचिदधिकमस्ति |
द्विरुच्चार्यं भरपदं पापशब्दादनन्तरम् |
अलक्ष्मीमितिवक्तव्यं नाशयेति द्विरीरयेत् || ५१ ||
भास्करं चानलं पंच बिन्दुं यष्टिमनन्तरम् |
त्रिरभ्यसेत्तथा सप्तजन्मपूर्वर्जितं तथा || ५२ ||
अखलं प्रोच्य दारिद्र्यं पदं दूरात्तथा पदम् |
उत्सारयेति द्विः प्रोच्य चन्द्रमादि विसर्गितम् || ५३ ||
विसर्जितम् ||
त्रिस्त्रिः प्रोच्यं त्वदभक्त जनशब्दमनन्तरम् |
वसुं नियोजयेत्युक्त्वा धारयेति पदं पुनः || ५४ ||
प्रोच्यत्वद्भक्तमनलं |
निगममन्वक्च |
पूरयेति द्विरुच्चार्य पदमम्भोरुहासन |
प्रपन्नलोकं ह्रीङ्कारं त्रिरुच्छार्य हयं गजम् || ५५ ||
विविधं पशुमुच्चार्य निचयं तदनन्तरम् |
दासीदासं परिजनं तदन्तं द्विर्विलोकय || ५६ ||
तल्लन्तं द्विर्विलोचनम् ||
मां च सौम्येति चेत्युक्त्वा अवलोकनसंयुतम् |
लक्ष्मीमग्निं विक्रमं च श्रीधरं यष्टिमस्तकम् || ५७ ||
त्रिरुच्चार्य यजेति द्विर्भवतीति च पद्मज |
सुरासुरेत्यनुगुणं सिद्धगन्धर्वराक्षसम् || ५८ ||
जये |
यक्षविद्याधरवदं निखिलं जन्तुशब्दकम् |
मनोभिरिति चाराङ्क्ष्य समागममनन्तरम् || ५९ ||
प्रियेति सम्बुद्धिपदं भास्करं सगुहालयम् |
सार्धचन्द्रमिदं बीजं त्रिरुच्चार्य परादिते || ६० ||
वरं विविधमुच्चार्य सितमालाम्बरं तथा |
धारणीति समुच्छार्यं निखिलं रोचिषं वसु || ६१ ||
निचया भवती पद्मा सम्बुद्धौ तत्त्रयं पदम् |
श्रीपदं चापि नत्यन्तमस्त्वित्यतत्क्रियापदम् || ६२ ||
युष्मच्छब्दं चतुर्थ्यन्तं ठठान्तो मनुरीरितः |
पूर्ववद्बीजमस्यापि मन्त्रं भङ्त्क्वाङ्गकल्पना || ६३ ||
छन्दोऽतिच्छन्द एतस्य देवता श्रीर्धनादिपः |
द्रष्टा फलं जपश्चास्य द्विषट्काक्षरवत्फलम् || ६४ ||
वसुधामन्त्रः. |
अधुना वसुधामन्त्रं प्रवक्ष्यामि चतुर्मुख |
ब्रह्मकोशं मुखं तस्य श्रीवत्सं ज्वलनं तथा || ६५ ||
वसुधाया मनुर्ब्रह्मन् वक्ष्यामि श्रूयतांत्वया |
वामनं माधवं देवदत्तं श्रीबीजमेव च |
कमलं बहुलं पञ्चबिन्दुं सुभगमन्वतः || ६६ ||
मारुतं |
मारुतं देवदत्तम्मारुतं देवं दत्तम् |
भद्रहस्तं विधातारमनलं वामनं तथा |
सुभगं गोपनयुतं विघ्नेशं च समिरणम् || ६७ ||
करालमग्निमिकारं ठठान्तं षोडशाक्षरम् |
तारादिवसुमध्यं च ठठान्तं हृदयादिषु || ६८ ||
अङ्गेषु योजयेन्मन्त्रं नमस्कारपदं शृणु |
सामाया च तथा सौम्या सम्बुद्धौ तत्पदद्वयम् || ६९ ||
योजयेच्च नमस्कारपदं शृणु सयाचित |तथा सौम्या च सम्बुद्धौ समयेति पदद्वयम् || अभयङ्करि चेत्युक्त्वा महाशब्दमनन्तरम् |टाबन्त स्समयावन्त स्सम्बुद्धौ च तथाविधि ||
समयंकरि चेत्यचुक्त्वा महाशब्दमनन्तरम् |
टाबन्तस्समयाशब्दस्सम्बुद्धौ च ठठावधि || ७० ||
ह्यान्तमेति तथा पूर्वं गच्छेति पदमन्वतः |
दिर्वक्तव्यं पदद्वन्द्वं भगपूर्वावधीति च || ७१ ||
भगपूर्वंनतीति च |
वसुशब्दं देही शीर्षं ठठान्तं तेन चाह्वयेत् |
देवीं च वसुधां ध्यायेत्तप्तहालकरोचिषम् || ७२ ||
मह्वयेत् |सिंहासनस्थामाकल्पैरनेकैर्भूषितां सदा |
गृहीतदाडिमिनालवामहस्तां तथेतरे || ७३ ||
हस्ते दधानां सुभगं चिन्तारत्नं चतुर्मुख |
पूर्णं नानाविधैरत्नैः कुम्भं चोर्ध्वमुखं स्थितम् || ७४ ||
चधोमुख |
दक्षिणे चरणाङ्गष्ठे पश्चिमामरभूरुहम् |
पार्श्वयोरुभयोश्चापि वालव्यजनपाणिभिः || ७५ ||
अन्याभिश्शुक्ल ताम्बूलधारिणीभिश्च सेविताम् |
शङ्खपद्मनिदी चापि वमन्तौ विपुलं धनम् || ७६ ||
परस्परमुखप्रेक्षौ परिवाहौ स्थितौ पुनः |
अनुक्तपरिवाराश्च ग्राह्याश्श्रीमनुवर्त्मना || ७७ ||
जपप्रकारः. |
समुद्रगायास्सरितस्स्रोतसि प्राङ्मुखस्थ्सितः |
मस्तदघ्ने जपेल्लक्षं मन्त्रसिद्धौ समाहितः || ७८ ||
स्तनदघ्ने |
वैशाखे मासिशुक्ले च पक्षे मासर्क्षपश्चिमे |
व्रतं समापये च्चक्रे पूजयेच्च महानिशि || ७९ ||
दन्ते |
मल्लिकावकुलैश्चान्यैस्सुगन्धैः कालजैश्शुभैः |
गोघृतैश्च तिलैरन्यैर्यथाभिलषितैरलम् || ८० ||
तर्पणं मन्त्रजापं च नित्यमेतत्समाचरेत् |
एवमाचरतस्सम्यङ्मन्त्रिणो यावदायुषम् || ८१ ||
वसति श्रीर्गृहे तस्य सप्तजन्मसु निश्चला |
धरण्याः मन्त्रः. |
मनुं धरण्या वक्ष्यामि साधनं च यथातथम् || ८२ ||
छन्दसामादिमुद्धृत्य सूक्ष्मादृक्पुलहं तथा |
हृषीकेशं विसर्गान्तं मनुरेकाक्षरः स्मृतः || ८३ ||
गोपनं पञ्चबिन्दुं च ऊर्ध्वलोकेशमन्वतः |
वीरसेनं कलान्तं च सङ्कर्षणसमाह्वयम् || ८४ ||
सबिन्दुं गदिनं तानं कल्पयेद्धृतयादिषु |
पैठरोस्य मुनिश्छन्दो दैवं गायत्रमिरितम् || ८५ ||
सबिन्दुमङ्ग |
देवता धरणी देवी जपेल्लक्षमतन्त्रितः |
मनुर्धरण्यास्सप्तार्णः कथ्यते कमलासन || ८६ ||
धनदं पावकं चादिं सुमुखं गोधनाह्वयम् |
नत्यन्तमेवं सप्तार्णो धरण्यास्संप्रदर्शितः || ८७ ||
दरगोधने |नत्यन्तमेव सप्तार्णोमनुस्संप्रति दर्शितः ||
मनुश्चतुस्त्रिंशवर्णः कथ्यते कमलोद्भव |
आदाय चादौ सप्तार्णान् कुम्भमादि मचामनु || ८८ ||
शशाङ्कमादिं भुवनं सुभगं दत्तसंज्ञितम् |
सुभद्रमूर्ध्वलोकेशं विजयं विष्णुशीर्षकम् || ८९ ||
मोहनाशं तथाकारं वै राजं चाग्निविक्रमम् |
भल्लायुधं च महेन्द्रं हृषीकेशविगर्हितम् || ९० ||
सानुस्वारं च कमलं पावकं सगुहालयम् |
नासिक्यं त्रिदशाहारं त्रिविक्रमसमाह्वयम् || ९१ ||
कमलां |
क्रोधरूपं च सुमुखं सोदकं कलशं ततः |
प्रणवादिं च महेन्द्रं वर्णानां च समुद्धरेत् || ९२ ||
सुभगं पुलहान्तं |
सुभद्रं देवत्तं च भास्करं यष्टिमस्तकम् |
पावकं पाटलं ब्रह्म माहेन्द्रं च गुहालयम् || ९३ ||
पानकंयष्टिसंयुतम् इत्येकः श्लोकः क्वचिदधिको दृश्यते |
सुधालयम् |
प्रभञ्जनं पूर्णचन्द्रमौषधं यष्टिसंयुतम् |
स्वाहायां विरतिर्मन्त्रः कथितः कमलासन || ९४ ||
पूर्वोक्तं बीजमङ्गानि ऋषिश्छन्धश्च देवता |
सरस्वत्याः मन्त्रः. |
सारस्वतं मनुवरं प्रवक्ष्यामि यथा तथम् || ९५ ||
निगमादिं श्वेतरश्मिं मनुमर्धेन्दुशेखरम् |
इत्युद्धरेत्स्वयं गां च द्रष्टा कश्यपनन्दनः || ९६ ||
इत्युच्चरे त्स्वयं चाङ्गं |
छन्दश्च देवी गायत्रं देवता भारती स्वयम् |
लक्षमेकं नियमवान् जपेन्मन्त्रमतन्द्रितः || ९७ ||
अतुला वाग्निभूतिस्स्याल्लभते ज्ञानमुत्तमम् |
सकृद्ग्रहणमात्रेण ग्रहणं दृढमश्नुते || ९८ ||
सकृच्छ्रवण |
स्मृतिप्रमोषो नैवास्य सभायां न पराभवः |
अन्यं सारस्वतं मन्त्रमधुना कथयामि ते || ९९ ||
मुखमस्य ब्रह्मकोशं गोधनं चेन्दुशेखम् |
कमलं पुलहं मायामनुस्स्वारपरिष्कृताम् || १०० ||
खस्य च ब्रह्मलोकेशं गोधनं चन्द्रशेखरम् |
यष्टिं यष्ट्याविसर्गान्तः पूर्वोक्तं मन्त्रमन्वतः |
त्रियक्षरस्य चोद्धारः कथितः कमलासन || १०१ ||
यष्टिवर्जंविसर्गान्तं |
द्रष्टा वसिष्ठो मन्त्रस्य विराट् छन्दस्सरस्वती |
देवता जपनङ्ख्या च लक्षत्रयमुदाहृतम् || १०२ ||
परापरज्ञो पाग्मी च सप्तकृतोऽभिमन्त्रितम् |
जलं पिबेद्ध्रुवं तस्य कल्याणी वाग्भविष्यति || १०३ ||
षडक्षरगणो मन्त्रः कथ्यते कमलासन |
तारकं वरुणं चादिं नासिक्यं ज्वलनाह्वयम् || १०४ ||
मधुसूदनमन्वक्छ हुंफडन्तं नमस्कृतिः |
ऋषिर्महेश्वरश्छन्दो विराट् सैव च देवता || १०५ ||
दशाक्षरं मन्त्रराजं वर्णोद्धारेण चोच्यते |
व्यापी सुधारसश्चापि वैधरो विष्णुमस्तकः || १०६ ||
अर्णोद्धारे च पर्वते |
वर्णा स्त एव चत्वार स्समनन्तरमिरिताः |
ईरयित्वा तथा कुंभं मधुसूदनमन्वतः || १०७ ||
र्ण |
जले शानं |
पञ्चान्तकः पाशपाणिं मधुसूधनपश्चिमम् |
वैधरं रामसहितं विघ्नेसं बन्धुमस्तकम् || १०८ ||
हुतान्तमर्णानुद्धृत्य मनुरेष समिरितः |
अङ्गानि रूपं मन्त्रस्य बीजमेवं विभाजितम् || १०९ ||
चन्द्रमण्डलमध्यस्थां तुषारनिचयप्रभाम् |
वमन्तीममृतं वक्त्राज्जिह्वामध्यगतां स्मरेत् || ११० ||
ध्यायतो मन्द्रिणस्तस्य वाक्सिद्धिरतुला भवेत् |
निगमादिं च नत्त्यन्तं सुभद्रं गदिनं तथा || १११ ||
कुम्भमादिं च विजयं गोविन्दं मधुकेतनम् |
विजयं माधवयुतं ठठान्तं मनुमुद्धरेत् || ११२ ||
दरं गोविन्दमग्नियुक् |मनुरीरितः ||
ज्वलनं चादिमर्धेन्दु बीजमेवं समुद्दरेत् |
द्रष्टास्य देवलश्छन्दो विराट् देवी रति स्तथा || ११३ ||
दश लक्षं जपेन्मन्त्रं ततस्सिध्यति मन्त्रिणः |
वश्याकर्षण विद्वेषमुखा च फलसन्ततिः || ११४ ||
दूरादागमनं चापि प्रोषितस्याऽचिराद्भवेत् |
सप्तवर्णान् समुच्चार्य पूर्वोक्तान् समनन्तरम् || ११५ ||
पवित्रं पीठमन्वक्छ पञ्चबिन्दुमनन्तरम् |
वैराजं गोधनं वायुं ठठान्तं मनुमुद्धरेत् || ११६ ||
गोपनयुतं |
एकचक्षुश्च पीठं च हृषीकेशं सबिन्दुकम् |
बीजमुक्तं मनोरस्य मुनिरङ्गिरसः स्मृतः || ११७ ||
छन्दश्च देवी गायत्रं देवता प्रीतिरुच्यते |
साधयित्वा यथापूर्वं धर्मादिफलभाग्भवेत् || ११८ ||
सप्तार्णाः पूर्व वद्ग्राह्याः करालं वामनं ततः |
एकदृग्गोधनं चित्रभानुं च मधुसूदनम् || ११९ ||
यष्टिं करालमग्निं च ध्रुवं चाग्नेश्च योषितम् |
तदेव बीजं द्रष्टा च मनुः कीर्तिश्च देवता || १२० ||
छन्दश्च देवी गायत्रं पूर्ववत्सिद्धिसाधने |
वर्णानादाय सप्तादौ परिशिष्टान् समुद्धरेत् || १२१ ||
श्रीवत्सं गोपनं भद्रपाणिं च विजयं तथा |
स्पर्शनं वीरसेनं च शुभदं दहनं मनुम् || १२२ ||
यष्टिं च भास्करोपेतं पावकं बिन्दुपञ्चकम् |
सयष्टिं बीजसहितं श्रियस्स्वाहापदावधि || १२३ ||
छन्दो विराट् गौतम र्षिर्देवता शान्तिरुच्यते |
मनुना साधयेद्ब्रह्मन् पादुकादिफलं महत् || १२४ ||
सप्तवर्णा यथापूर्वं नृहरिं पावकं तथा |
महामायामनुस्वारं विजयं प्रणवादिकम् || १२५ ||
उदयं क्रोधरूपं च भूधरं गोपनं तथा |
ठठान्तमेवमुद्धृत्य मनुर्ज्ञेयो विचक्षणैः || १२६ ||
द्रष्टा व्यासो विराट्छन्दो देवता तुष्टिरुच्यते |
लक्षत्रयजपेनैव तुष्टिश्च महती भवेत् || १२७ ||
सप्तार्णाः पूर्ववद्ग्राह्याश्शिष्टार्णस्योद्धृतिः क्रमात् |
भास्करं पावकं पञ्चबिन्दुं यष्टिसमन्वितम् || १२८ ||
पवित्रं भुवनं क्रोधरूपं भूधरमन्वतः |
गोविन्दमाग्नेयी मन्वगुद्धृत्य मनुरीरितः || १२९ ||
द्रष्टेरितस्तथेशाना पुष्टिश्छन्दो विराडभूत् |
अष्टलक्षं जपेन्मन्त्रं पुष्टिकामस्समाहितः || १३० ||
हारितो मुनिरीशाना |
भुक्त्वा भोगांश्च विपुलान् रसायनपुरोगमान् |
अतलादिषु लोकेषु मन्त्री चरति देववत् || १३१ ||
आधारशक्त्यादिमन्त्राः. |
योगासनाङ्गा न्याधारशक्त्यादीनि चतुर्मुख |
यानि तेषां कल्पनेषु वर्णोद्धारपुरस्सरम् || १३२ ||
मन्त्रान्वक्ष्याम्यानुपूर्व्यायथावदवधारय |
ब्रह्मसोशमुखं विद्यात्पवित्रमृतधाम च || १३३ ||
हृषीकेशं बिन्दुपरं प्रतर्दनमतः परम् |
पद्मनाभं च नासिक्यं गोपनं सुभगं पुनः || १३४ ||
आदिदेवं हुतवहं श्रीवत्सं कमलाह्वयम् |
वैराजं वीनसेनं च नतिमेवं समुद्धरेत् || १३५ ||
आधारशक्तिमन्त्रोयं कथितः कमलासन |
चतुर्मुखं चतुर्भाहुं शुद्धस्फटिकवर्चनम् || १३६ ||
किरीटहारकेयूरप्रमुखाकल्पभूषितम् |
श्रीवत्साङ्कं शङ्खचक्रगदापद्मायुधैर्युतम् || १३७ ||
तेजोमण्डलमध्यस्थं ध्यायेदाधाररूपिणम् |
ब्रह्मकोशं दिनकरं भुवनं पापकाह्वयम् || १३८ ||
गुहालयं ध्रुवं भूयः कमलं सगुहालयम् |
पावकं मन्दरं पद्ममाकारं विपुलं तथा || १३९ ||
पुलहं |
गोपनं च गदध्वंसं विनायकमनन्तरम् |
प्रभञ्जनं माधवं च सत्यन्तं मनुमुद्दरेत् || १४० ||
चतुर्गतिं माधवं च सत्यन्तः कुर्मामन्त्रराट् ||
एकवक्त्रं चतुर्भाहुं जपापुष्पसमद्युतिम् |
शङ्कचक्रधरं क्रुद्धं पद्मकौमोदकीधरम् || १४१ ||
शक्तिं |
वह्निमण्डलमध्यस्थं ज्वलनापीतविग्रहम् |
सकलाभरणोपेतं ध्यायेत्कूर्ममनन्तरम् || १४२ ||
ज्वालाविततविग्रहम् |सजलाभरणोपेतं ध्यायेदग्नि |
अनन्तमन्त्रः. |
उद्गीधं भानुमाकारं यष्टिमादिं विनायकम् |
द्विरदं विजयाकारं श्वसनं प्रथमं स्वरम् || १४३ ||
उद्गीथ मंशु |
नतिं चोद्धृत्य मन्त्रोऽयमनन्तस्य प्रदर्शितः |
स्फटिकाद्रिप्रतीकाशं चतुर्भाहुं किरीटिनम् || १४४ ||
मतिं |
पूर्णचन्द्राननं सौम्यं सितपुष्पौर्विराजितम् |
लाङ्गलं मुसलं मुख्यकरयोर्दधतं शिवम् || १४५ ||
जघन्यकरयोश्शङ्खचक्रद्वन्द्वं यथायथम् |
नीलाम्बरधरं दंष्ट्राकरालवदनैर्युतम् || १४६ ||
प्रशान्तवपुषा युक्तं सहस्रफलमुन्नतम् |
फणामणिसहस्रांशु नीराजनविराजितम् || १४७ ||
पृष्ठतो नागवपुषं |
अनन्तवक्त्रकुहरैरुद्वमन्तमुदर्चिषम् |
मण्डलीकृतनागेन्द्र भोगवेष्टन विग्रहम् || १४८ ||
बोगिवेष्टनविष्टरम् |
ध्यायेदनन्तमुभयोः पार्श्वयोर्नागयोषितः |
देव्यस्तस्य सुखासीनाः फणामण्डल मण्डिताः || १४९ ||
भूमन्त्रः. |
ध्यात्वा भुवो मनुः पश्चाद्वर्णोद्धारेण वक्ष्यते |
तारं सुभगनामानमर्चिष्मन्तं चतुर्मुख || १५० ||
सुमुखं गोधनं वायुं नत्यन्तमिति कल्पयेत् |
पीठकल्पनविधिः तन्मन्त्राश्च. |
तस्योपरि फणीन्द्रस्य तपनीयनिभां शुभाम् || १५१ ||
गोपनाह्वानं |
चतुरश्रां महापीठिं कल्पयेन्मधुविद्विषः |
धर्मादीनां चतुर्णां त्वधर्मादीनां च तावताम् || १५२ ||
च नङ्पार्वाणां च |
पादानां कल्पनामन्तरा वक्ष्यन्ते कमलासन |
आद्यर्णान् प्रणवादीं श्च सानुस्वारान् यथायथम् || १५३ ||
चतुर्थ्यन्तानि नामानि प्रोच्यान्ते नतिमिरयेत् |
मथ्ये सदाशिवपदं पादत्वेन प्रकल्पयेत् || १५४ ||
तच्चतुर्थ्यन्तमादौ च भास्करं सगुहालयम् |
नत्यन्तं चैव पादानां नवानां कल्पयेन्मनून् || १५५ ||
ऋगादयश्चतुर्वेदा स्तेषां तु मनवः पुनः |
सानुस्वारां स्तदाद्यर्णान् प्रोच्यादौ कमलासन || १५६ ||
स्तस्यैषांस्तन्मनुः पुनः |चतुर्थ्यन्तानि नामानि ऋगादीनां सतीः पुनः |
मनून् प्रकल्पयेदेवं भौतिकादिरहंकृतिः || १५७ ||
तिस्रः प्रकल्पयेत्पश्चात्तासां मन्त्रान् ब्रवीमि ते |
प्रणवादीन् पुल्लनयनानचामादिं सदण्डकम् || १५८ ||
भौतिकादिरहङ्कारश्चतुर्थ्यन्तो नति स्तथा |
पश्चिमं मारुतं चोर्ध्वलोकेशं बिन्दुमस्तकम् || १५९ ||
पदं च तैजसं शिष्टं पूर्ववन्मनुरीरितः |
कुम्भमौर्वं सनासिक्यं वै कारिपदमन्वतः || १६० ||
शिष्टं यथापुरं सर्वं मनुरन्यस्समिरितः |
सत्वं रजस्तमश्चेति गुणान् पश्चात्प्रकल्पयेत् || १६१ ||
सानुस्वारंस्तदाद्यर्णान् चतुर्थ्यन्तांस्तदाह्वयान् |
मनून् प्रकल्पयेदेवं मह्याद्यैस्तत्प्रकल्पनम् || १६२ ||
आत्मशब्जं चतुर्थ्यन्तं मह्यादि पदपूर्वकम् |
हुंफढन्तं च सत्यन्तं प्रयुञ्जीत मनुं पुनः || १६३ ||
प्रणवं मन्दरं यष्टिं मुसलं पञ्चबिन्दुकम् |
अमृतं गोपनयुतं विजयं माधवीं तथा || १६४ ||
भद्रहस्तं मृगेशं च नतिमुद्धृत्य मन्त्रवित् |
मन्त्रेणास्तरणाध्यासो वह्न्यादेर्मण्डलत्रयम् || १६५ ||
तस्यो परि ष्टादध्यासान् मन्त्रान् सर्वान्यथाक्रमम् |
पावकं शशिनं सूर्यं त्रयमाकारबिन्दुकम् || १६६ ||
तदध्यासं मन्त्रान्वच्मि |
त्रयं साकारबिन्दुकम् || अनुरक्तः |
मनुमेवं समुद्धृत्य पद्मं चोरिकल्पयेत् |
प्रणवं पश्चिमं यष्टिं पवित्रं विजयं तथा || १६७ ||
दक्षं च गोपन परं श्वसनं च विनायकम् |
विष्णुं च मन्दरं स्वर्गमुद्धृत्या जमनुः स्मृतः || १६८ ||
युतं |
ब्जमनुः स्मृतः |
श्रीवत्सादिद्वादशानां शक्तीनां तत्समाह्वयाः |
चतुर्थ्यन्तास्सना सिक्यास्तदाद्यर्ण पुरस्कृताः || १६९ ||
सिक्यं तावदन्य |
मन्त्रोभद्रासनस्यैष कथितः कल्पाना क्रमः |
ब्रह्मसनकादि परिवारकल्पनम्. |
ब्रह्मादय स्ततः पश्छात्सनकादित्रयं पुनः || १७० ||
स्त्रयः |
विनायकश्च दुर्गा चमन्त्रिणो गुरुरस्वतः |
प्रणवाद्याश्चतुर्थ्यन्ता नत्यन्ताश्च तदाह्वयाः || १७१ ||
विनायकंच दुर्गां च मन्द्रिणा |
तानर्चयेच्च ब्रह्मदीन् परिचर्यामुखे हरेः |
प्रथमावरणे यष्टव्याः. |
अष्टौ व्याप्त्यादिकाश्शक्तीः प्रथमावरणे जयेत् || १७२ ||
तैर |
पूर्ववत्तत्समाख्याभिर्मन्त्रैः पञ्चायुधान्यपि |
दिव्यानि दिक्पतीन् सर्वानिन्द्रादीन् विहगाधिपम् || १७३ ||
सेनेशं च चतुर्थ्यन्तैर्नत्यन्तैश्च स्वनामभिः |
पूर्ववत्पूजयेद्प्रह्मन् |
चण्डप्रचण्डमोमन्त्रः. |
द्वितीयावरणे ततः || १७४ ||
तृतीया |
चण्डप्रचण्डावन्तस्थ्सौ द्वार्स्थौ च मनुना जयेत् |
निगमादिं खड्गधरमृतमोतं सयष्टिकम् || १७५ ||
वक्रतुण्डं प्रचण्डं च पुण्डरीकाक्षगोपनौ |
प्रभञ्जनं चाप्रमेयं नत्यन्तो मनुरीरितः || १७६ ||
प्रथमं छन्द सामादिं पश्चिमं ऋतधामकम् |
सदण्डं पापहननं दहनं वक्रतुण्डकम् || १७७ ||
त्वृत साधनम् |प्रचण्डं पुण्डरीकाक्षं चतुर्थ्यन्तं तथा नतिः |
चण्डप्रचण्डयोर्मन्त्रस्समुद्धृत्यार्णमिरितः || १७८ ||
उदुंबरस्य मन्त्रः. |
उदुम्बुरस्य सत्यन्तं शान्तिमादिविभक्तिकम् |
उदीरयेदधिष्ठात्री तस्य शान्तिश्च देवात || १७९ ||
शान्तिं तादृग्विभक्तिताः |
सरस्वति दक्षिणस्यां रतिश्चोत्तरदारुणि |
श्रीः पश्चिमादधस्तस्य शान्तिर्भवति देवता || १८० ||
चतुर्थ्यनं च तन्नाममन्त्रश्चोक्तश्चतुर्मुख |
कवाटे दक्षिणे विश्वनेत्रस्याद्देवता तथा || १८१ ||
उत्तरे विश्ववक्त्रश्च देवता वेत्रदारुषु |
वसन्ति वेदशास्त्राणि नाराचेषु तथा मराः || १८२ ||
ऋषयः कीरदेशेषु भूतेशः पट्टिका भुवि |
विश्वभावनवासस्स्यात्कन्दपट्टद्वयं तथा || १८३ ||
नाम तेषां चतुर्थ्यन्तं मनुर्वास्तुपतेस्तथा |
क्षेत्रेशमन्त्रः. |
क्षेत्रेशस्य मनुर्ब्रह्मन् छन्दसामादिमुद्धरेत् || १८४ ||
नृसिंहमुदयं दक्षमृतधामसदण्डकम् |
चतुर्थ्यन्तं नमोन्तं च तार्क्ष्यमग्रेहरेस्थ्सितम् || १८५ ||
द्वारपार्श्वे शङ्खचक्रद्वयं तत्संज्ञयार्चयेत् |
वच्मि धामार्चने मन्त्रं छन्दसामादिमुद्धरेत् || १८६ ||
तामर्चने |
वरुणं बन्धुशिरसं क्रोधरूपं वनस्रजम् |
वरुणं देवदत्तं च पश्चिमं वह्निगोपनौ || १८७ ||
शशाङ्क मादिदेवान्तं वैधरं दहनं ततः |
हृषीकेशं पश्चिमं च रामं सुमुखमन्वतः || १८८ ||
मादिदेवं च |
पवित्रं च |
माधवं हुंफडन्तं च स्वाहान्तावधिको मनुः |
दिङ्मार्तिनिर्देशः. |
दिङ्मार्तयश्चानुपूर्व्या कथ्यन्ते कमलासन || १८९ ||
स्वाहयानसितं मनुः |इन्द्रेशानौ नृसिंहश्च विरिञ्चश्च क्रमाद्भवेत् |
दिङ्मार्तयोऽथवा शक्तिधरः पशुपति स्तथा || १९० ||
श्रीधरो धनदश्चेति यद्वाक्रोडाकृतिर्हरिः |
नृसिंहश्श्रीधरश्चेति हयशीर्षाकृति स्तथा || १९१ ||
अपि वा स्याच्चतुर्वक्त्र नरनारायणावुभौ |
हरिः कृष्णश्च कथितो यद्वा सत्यादयः क्रमात् || १९२ ||
वासुदेवादयो प्योहा यद्वा दिङ्मार्तयः क्रमात् |
क्रमाच्च तोरणायान्ते पूर्वपश्चिमधामयोः || १९३ ||
चतुरश्रायते धाम्नि पूर्वपश्चिमनासयोः |
पूर्णश्च पुष्करश्छद्वावधिष्टाने पुनः क्रमात् || १९४ ||
आग्नेये हस्तिवदनो याम्ये पशुपति स्तथा |
वारुणे दक्षिणामूर्तिः कौभेरे विश्वरूपधृक् || १९५ ||
शाङ्करे च चतुर्वक्त्र तस्मिन् भगवती तथा |
अन्तर्मण्डलसम्बन्धिगोपुरोभयपार्श्वयोः || १९६ ||
चन्द्रादित्यौ तथोर्व्यां तु इन्द्रदिक्षु विदिक्षु च |
मन्मथश्च विधाता च वि श्वेशष्षण्मुख स्तथा || १९७ ||
आग्न्यादिषु च दिक्षु च |
विघ्नेश |
दुर्गाधनदरुद्राश्च क्षेत्रेश स्तदनन्तरम् |
सोमेशानान्तरे चैव विष्वक्सेनः प्रतिष्ठितः || १९८ ||
दक्षिणोर्वीतले सप्तमातरो वीरभद्रकः |
विघ्नेशः पार्श्वयोस्तेषां ज्येष्ठां निरृतिभूतले || १९९ ||
द्वितीयावरणे यष्टव्याः. |
इन्ध्रादयस्स्वासु दिक्षु द्वितीयावरणे पुनः |
भगवत्प्रमुखे तर्क्ष्योद्वितीयावरणे ततः || २०० ||
बहिरावरणे यष्टव्याः. |
तदीयगोपुरद्वारपार्श्वयोः पुरषाच्युतौ |
खलुरिकाधरित्रीषु वह्न्यादीनां दिशि क्रमात् || २०१ ||
खलुरिकाधरित्रीषु खड्गं कौमो दकीं धनुः इत्येव क्वचिदस्ति. मध्यगतः वह्न्यादीनांमुसलं शङ्खम् इति श्लोकखण्डः नदृश्यते |
हयशीर्षः कर्षणश्च क्रोडाकृतिरनन्तरम् |
प्रद्युम्नोऽनन्तनामानावनिरुद्धोनृकेसरी || २०२ ||
चक्रं च मुसलं शङ्खं खङ्गं कौमोदकीं धनुः |
वज्रं पद्ममिति प्रोक्तं प्रागादिषु तृतीयके || २०३ ||
गोपुरोभयपार्श्वस्था द्वादशाश्शीतरश्मयः |
यमाग्निमध्ये पसवः पितरो यमरक्षसोः || २०४ ||
विश्वे देवाश्च मध्यस्था निरृतेर्वरुणस्य च |
मरुतः पाशहस्तस्य श्वसनस्य च मध्यमाः || २०५ ||
पाशिमारुतयोर्मध्ये मुनयस्सप्त च स्थिताः |
कुबेरेशानयोर्मध्ये रुद्राश्चैकादवस्मृताः || २०६ ||
क्षेत्रपालश्चतत्रैव प्राच्यादौ कुमुदादयः |
मर्यादाह्वयसालस्य द्वारि पुर्णश्च पुष्करः || २०७ ||
मध्यान्तर्हारसालस्य |
उर्वीतले समाराध्याः प्राङ्कणेक्लृप्तपीठके |
स्थाप्याश्चै पोत्तमगणाः प्राच्यादिष्वष्टनु क्रमात् || २०८ ||
वोत्तर |
तथोपेन्द्रादयस्थ्साप्या महत्यावरणे ततः |
महीतले मध्यगणा विश्वे शाद्या दिशि क्रमात् || २०९ ||
जयादयो गोपुराणां बहिर्भूमौ व्यवस्थिताः |
बलिपीठे बलिदानप्रमः. |
बलिपीठेषु सर्वत्र प्रथमावरणादिषु || २१० ||
आद्याश्छ कामजाश्चैव ये भूताः प्राग्दिशि स्थिताः |
प्रसन्नाः परितुष्टास्ते गृह्णन्तु बलिकाङ्क्षिणः || २११ ||
कुर्मजा |
भूमौ प्योम्नि तथा वृक्षपर्वतादिषु विष्ठिताः |
विनायक क्षेत्रपालाश्शूराश्च कुमुदादयः || २१२ ||
विनायकः क्षेत्र पालः कुश्माण्डः |
सर्वैः पारिषदैश्चान्यैप्सार्धं गृह्णन्तु ते बलिम् |
चण्डादयोथ द्वारस्थाश्चतुर्थ्यन्तैस्स्वानामभिः || २१३ ||
धेनुकान्ता |
प्रणपाद्यैश्च नत्यन्तैर्देवीपरिजनान्विताः |
सवाहनास्ते संपूज्यास्स्वे स्वे देशे चतुर्मुख || २१४ ||
बलिपीठेषु सर्वेषां बलिग्रहणकाङ्क्षिणाम् |
तत्तन्नामसमुच्चार्य बलिर्देयो विचक्षणैः || २१५ ||
क्षेत्राशार्चनं विना बलिदानस्य निष्फलत्वम्. |
धामेशानं विना तेन बलिदानेन योऽर्चति |
हरन्ति राष्ट्रं राजानं धाम चात्मानमेव च || २१६ ||
वसन्ति |
परिवारानसभ्यर्च्यतथैवाग्नेस्समिन्धरम् |
भोगैरकृत्वा देवस्य पूजा स्यान्निष्प्रयोजना || २१७ ||
होमै |
तस्माद्यथोक्तमार्गेण पूजनं स्थानवृद्धिदम् |
वर्धनं राजराष्ट्राणां प्रजानां वृद्धिकाङ्क्षिणाम् || २१८ ||
दृश्यादृश्येन रूपेण स्थितानां बलिकाङ्क्षिणाम् |
भूतानां भूतिकामेन देयोऽवश्यं बलिस्सदा || २१९ ||
Kapitel 30
Lesehilfe: Kapitel 30: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
त्रिंशोऽध्यायः |
|
तिथिदेवतामन्त्राः. |
श्रीभगवान् |
तिथियागं चतुर्वक्त्र ब्रवीमि सुखपाधनम् |
काम्यकर्मणः कालः. |
काम्यस्य कर्मणः कालश्शुक्लपक्षस्तथा तिथिः || १ ||
तिथियोगं |
जपहोमार्चनैस्सम्यक्कालेष्वाराधयेत्सुधीः |
तिथिदेवताः. |
अग्निर्ब्रह्माधनेशानौ विघ्नेशश्श्रीष्षडाननः || २ ||
अग्निः प्रजेनश्चेशानो |
भानुर्वृषध्वजो दुर्गा यमो वलनिघादनः |
विष्णुः कामोऽश्विनौ चन्द्र इत्युक्तास्तिथि देवताः || ३ ||
अग्नेर्मन्त्रः. |
प्रणवं नवबिन्दुं च वरुणं श्रीधरं ततः |
गदध्वंसं भद्रहस्तं पावनं माधवं ततः || ४ ||
ठठान्तमुद्धृत्य मनुः कथितो जातवेदसः |
अग्निमाद्यमनुस्वारं बीजं तेनाङ्गपद्धतिः || ५ ||
छन्दो विराट् देवलश्च द्रष्टाग्निरथिदेवता |
चतुर्थ्यन्तं स्वाभिधानं नत्यन्तमसरो मनुः || ६ ||
ऋषिश्छन्दो देवतापि मनोरस्यापि पूर्ववत् |
प्रत्यक्षरं लक्षजपस्साधनं मन्त्रयोर्द्वयोः || ७ ||
काम्यस्य लाभस्सर्वस्य फलमत्यन्तदुर्लभम् |
ब्रह्मणोमन्त्रः. |
निगमादिं कालनेमिमृतधामविदर्भितम् || ८ ||
मार्ताण्डमन्दरयुतं प्रचण्डं माधवं नतिम् |
इत्युद्धरेद्ब्रह्ममनुमुद्धारोऽन्यस्य कथ्यते || ९ ||
चतुर्थ्यन्तं ब्रह्मपदमाग्नेयीनिष्ठितं मनुः |
वै राजमक्षप्रथमं विजयं रोहिणीपतिम् || १० ||
अकारमेकनेत्रं च बीजं प्रणवसंयुतम् |
एतदेवाङ्गसन्तानस्स्वरश्छन्दश्छलोहितः || ११ ||
मुनिर्ब्रह्माच देवश्च यष्टव्यं पङ्कजोतरे |
कुबेरस्य मन्त्रः. |
प्रणवं सूक्ष्मदृष्टिं च भद्रपाणिं सबिन्दुकम् || १२ ||
उद्धृत्यैकाक्षरो मन्त्रः कुबेरस्य समिरितः |
उष्णिक्छन्दो मुनिर्वह्निर्धनेशानश्च देवता || १३ ||
आरम्भं नतिमन्वक्च सुभगं विघ्ननायकम् |
पवित्रं विजयं पश्चाद्ध्वंसनं माधवं तथा || १४ ||
मत्वं च |
कमलं चोदयं प्रोच्य जृम्भलं मृगवल्लभम् |
पावकं गोपनयुतं सदागतिमनन्तरम् || १५ ||
कुम्भं शशाङ्कं भुवनं हेरम्बं रामसंयुतम् |
वक्रतुण्डं जगत्प्राणं मन्दरं पश्चिमाननम् || १६ ||
पवनं हेरम्बं कामसंज्ञितम् |आग्निमाद्यं मारुतं च प्रथमं प्रेतनायकम् |
अचामादि मथाग्नेयीमुद्धृत्य मनुरीरितः || १७ ||
धनदस्य नभो द्रष्टा छन्दोगायत्रमिरितम् |
दैवं धनाधिपो देवो बीजं पूर्ववदीरितम् || १८ ||
अङ्गष्ठे माणिभद्राख्यं तर्जन्यां पूर्णभद्रकम् |
कलिमालिं मध्यमायां विकुण्डलमनामिकाम् || १९ ||
कलिमादिं मध्य माया विजृम्भलमनामिका ||
मूले कनिष्ठकायां च मध्ये च मणिबन्धयोः |
मखेन्द्रं पाणितलयो रङ्गन्यासे धनाधिपं || २० ||
र्दहेन्यं सेर्धनासिकम् ||
स्नात्वाजृम्भलमन्त्रेण प्रक्षिपेदुदकाञ्जलिम् |
अम्भोजकर्णिकामध्ये महाकायं महोदरम् || २१ ||
ज्ञात्वा |
द्विभुजं पीतवसनं चिन्तारत्नं रके स्थितम् |
धारयन्तं मनः कान्तं मन्त्रिभ्यो पीप्सितं वसु || २२ ||
यक्षयक्षीपरिजनं ध्यायन्नर्घ्यादिभिर्यजेत् |
ऋद्धिं गुप्तिं च तत्पार्श्वे चतुर्थ्यन्तं स्वसंज्ञया || २३ ||
अर्घ्याद्यैरर्चयित्वातु ततो जृम्भलमब्जज |
कलिमालिं माणिभद्रं चरेन्ध्रं पूर्णभद्रकम् || २४ ||
नत्यन्तेनार्चयित्वातु |
वरेन्द्रम् |
मुखेन्द्रं शिखिपूर्वं च कुण्डलं नलकूबरम् |
अम्भोजकर्णिकामध्ये दलेष्विन्द्रादिषु क्रमात् || २५ ||
मुखेन्दुं खिपूर्णं |
अर्चयेत्पुरतश्शङ्खनिधिं पद्मनिधिं तथा |
शबलां पुरतो न्यस्येत्पृष्ठतः कल्पकद्रुमम् || २६ ||
शंबरं |
जपहोमौ तर्पणादि फलं मूलमनोर्यथा |
जृम्भलमन्त्रः. |
वक्ष्यामि जृम्भलमनुमर्णोद्धारेण संप्रति || २७ ||
ओमादिं सुभगं भद्रहस्तं वैधर मक्षरम् |
आदिदेवं मारुतं च धनदं भद्रबाहुकम् || २८ ||
राक्षसम् |
पवित्रं विजयं चैव मारुतं माधवं तथा |
जन्महन्तृ तथाम्नायं माधवं सूक्ष्मदर्शनम् || २९ ||
विक्ष्कम्भमादिदेवं च स्पर्शं स्वाहया युतम् |
बीजमाद्यक्षरं भर्गो द्रष्टा च्छन्दो विराण्मनोः || ३० ||
देवता जृम्भलः कार्यः फलं सर्वं प्रयच्छति |
विघ्नेशमन्त्रः. |
विघ्नेशमन्त्रमुद्धृत्य वर्णान् वक्ष्याम्यनुक्रमात् || ३१ ||
उद्गीथं च तृतीयं च स्पर्शेषु पुलहं मनुमम् |
दण्ड इत्युद्धृतो मन्त्रो गणिकाष्षड्विराट्तथा || ३२ ||
सुलभं मनुम् |दग्धमित्ययुतो मन्द्रोगणना |
देवता विघ्नु राजश्च जपो लक्षत्रयं स्मृतम् |
भूतं भव्यं भविष्यं च स्वप्ने पश्यति मन्त्रवित् || ३३ ||
भूतं भनद्भ विष्यं च |
आरब्धं कर्मनिर्विघ्नं फलं दुग्धे यथेप्सितम् |
तृतीयादिं च सुमुखमाद्यं पश्चिमसंज्ञितम् || ३४ ||
पंचम |
अचां मुखं च विजयं प्राणं माधवमन्वतः |
सत्यन्तमादौ पूर्वोक्तं मनुं च मनुरीरितः || ३५ ||
अजो मुनिश्छन्द उष्टिग्देवता विघ्ननायकः |
सप्तलक्षं जपेन्मन्त्रं सिद्धयः पूर्वमिरिताः || ३६ ||
एकाक्षरं नतिशिरो मनुरन्यस्समिरितः |
निगमादिं दिनकरं ज्वलनं पञ्छबिन्दुकम् || ३७ ||
सानुस्वारं गदध्वंसं पद्मनाभं च वामनम् |
यष्टिं सहस्रकिरणं पावकं दण्डशेखरम् || ३८ ||
त्रियक्षरमनुर्ब्रह्मन् कथितस्सर्वसाधनः |
अङ्गादि गदितं वर्णमकारादिस्वरान्तकम् || ३९ ||
प्रयुञ्जीत मनुश्चान्यो वक्ष्यते कमलासन |
उद्गीथमादिं कमलं पावकं पञ्चबिन्दुकम् || ४० ||
अर्धेन्दुसहितं भद्रमनलं बिन्दुवामनम् |
सरोरुहं समाहेन्द्रं महामया सयष्टिकम् || ४१ ||
आद्येन्दुसहितं भद्रं बाहुलं |
बीजं च तत्स्वराद्यर्णं गदध्वंसं प्रचण्डकम् |
पश्चिमाननवैराजौ मायां च वसुधारसं || ४२ ||
मायाश्चैव |
आदिमग्नि मकारं च फट्पदद्वयमिरयेत् |
शशिनं वरुणं वह्निं ककुभं भद्रबाहुकम् || ४३ ||
मनादिं च |
कलशं |
मन्दरद्वयमेकारं वरुणं कमलामुखम् |
अचां दक्षं गोपनं च विघ्नेशं श्वसनं तथा || ४४ ||
सवनम् |
ठठान्तमत्थमुद्धारो बीजादि कथितं पुरा |
ऐहिकामुष्मिकफलं सर्वमेतेन साधयेत् || ४५ ||
श्रियं पूर्वोक्तमार्गेण देवीमर्घ्यादिभिर्यजेत् |
तत्कटाक्षनिपातेन लभते श्रियमुत्तमाम् || ४६ ||
षण्मुखमन्त्रः. |
तारं नतिं क्रोधरूपं प्रचण्डं दक्षमन्वतः |
उदयं खर्वदेहं च गोपनं च प्रभञ्जनम् || ४७ ||
सर्व |
शशाङ्कं श्रीधरं ह्रस्वमृतधामसमाह्वयम् |
दिनेशं माधवीमन्वक्प्रचण्डं मधुसूदनम् || ४८ ||
श्वसनं स्वाहया सार्धं मनुरेषसमिरितः |
जृम्भलं पुलहं चोर्ध्वलोकेशं यष्टिमस्तकम् || ४९ ||
एतद्बीजसमुद्धारस्तदेवाङ्गमृषिः पुनः |
वर्णात्मा कथितश्छन्दो गायत्रं देवता गुहः || ५० ||
दाडिमिकुसमप्रख्यां तन्मन्त्रेण समर्चयेत् |
एवं कृतवतो वंशे सुब्रह्मण्यादयो ग्रहाः || ५१ ||
न पीडयन्ति तद्वंश्यान् भवन्ति चिरजीविनः |
भानुमन्त्रः. |
निगमादिं चोषधीशमनुनासिक्यमुद्धरेत् || ५२ ||
एकाक्षरोऽयं कथितो मन्त्रस्सर्वार्थसाधकः |
हारितो मन्त्रदृच्छन्दो विराट् सूर्यश्च देवता || ५३ ||
ब्रह्मकोशं पद्मपाणिमृतं सुमुखसंज्ञितम् |
रामबिन्दुं हृषी केशमग्निं वायुमचां मुखम् || ५४ ||
मायारामबिन्दुं |
वैधरं बिन्दुवैराजं वायुं तारं समुद्धरेत् |
इत्थमष्टाक्षरो मन्त्रो बीजमेकाक्षरं स्मृतम् || ५५ ||
ऋषिकत्रिश्च देवश्च पूषा चैवाधिदेवता |
परं सप्ताक्षरं मन्त्रं मन्त्रैरुद्धृत्यवर्ण्यते || ५६ ||
दैनं च देवतापुरुषस्तथा |
पुषातथापरं |
सप्तार्णाः पूर्ववद्ग्राह्यस्सुभद्रं मधुसूदनम् |
भद्रहस्तं च कलशं माधवं पूर्वमिरितम् || ५७ ||
बीजमभ्यन्तरीकृत्वा द्विरुक्तं ककुभं तथा |
अप्रमेयं गन्धवहमाद्यमेतदनन्तरम् || ५८ ||
पादद्वितयमापाह्य मादिदेवमनन्तरम् |
पावकं विक्रमयुतं वैधरं ऋतधाम च || ५९ ||
मारुतं चापि नासिक्यं विघ्नेशं गोपनाह्वयम् |
कमलामादिपवनमाद्यं द्विः पदमिरियेत् || ६० ||
चानुनासिक्ये |
द्विः पाद |
माधवीमादिसहितमक्षरं द्विरदं पठेत् |
पवित्रं गोपनयुतं पठेमं स्वरसंयुतम् || ६१ ||
द्विरुदं पदम् |
पश्चिमं |
विघ्नेशं दहतिं धातुं लोडन्तं द्विस्समुद्धरेत् |
शान्तरोगं सुखपदं पूर्वलोडन्तमध्यमम् || ६२ ||
प्रपूर्वेलोटि मध्यमम् |
यमं चण्डं द्विरुच्चार्य त्रिरन्वक्प्रणवं पदम् |
स्वनाम्ना प्रणवान्तेन मनुरेवं समुद्धृतः || ६३ ||
यमं चण्डाद्वि |
बीजमङ्गानि चोक्तानि सिन्धुद्वीपश्च दृष्टवान् |
अतिच्छन्दस्स्वयं छन्दस्सूर्यश्चानेन कथ्यते || ६४ ||
पद्म मध्ये कर्णिकायामादित्यं दलभूमिषु |
प्राच्यादिषु ग्रहानन्यां स्तदानीं बिम्बमर्चयेत् || ६५ ||
पत्रे |
नद्यादिनि समर्चयेतर्घ्यादिषु तथार्चयेत् |
क्रमात् षडृतवस्सर्वे गृहास्सानुग्रहास्तदा |
आयुरारोग्यसौन्दर्य समृद्धि मुखसंपदः || ६६ ||
सुख |
सप्तजन्मसुवंशेऽस्य भवन्तिनि रवग्रहाः |
ईशानमन्त्रः. |
प्रणवं नतिमन्वक्च शुभदं च त्रिविक्रमम् || ६७ ||
वरुणं गोपनं वायुमादिमुद्दृत्य मन्त्रवित् |
मनुः पञ्चाक्षरः कार्यो बीजं संप्रति कथ्यते || ६८ ||
गोपतिं विष्णुसहित मनुस्वारं समुद्धरेत् |
बीजमेतच्चतुर्वक्त्र षडङ्गानामुदाहरेत् || ६९ ||
उपमन्युऋषिश्छन्धो देवं गायत्रमुच्यते |
प्रतिपाद्यो महाशानो जपस्स्याल्लक्षपञ्छकम् || ७० ||
अष्टाक्षरवदस्यापि फलसाधनमेव च |
रक्ताम्बुजासनासिनमर्चयेत्तद्दलेषु च || ७१ ||
प्रागादिषु षडङ्गानि पार्वतीनन्दिकेश्वरौ |
क्रमाद्विन्यस्य पुरतो वाहनं सम्यगर्चयेत् || ७२ ||
दिक्ष्वष्टानु सुरेन्द्रादीनष्टावर्घ्यादिनार्चयेत् |
सृष्ट्यादिन्यसनं कृत्वा प्रथमं तदनन्तरम् || ७३ ||
अक्षरस्यसनं कुर्यात् स्थानेष्वेतेषु पद्मज |
मूर्ध्नि चास्ये च हृदये गुह्ये पादतले तथा || ७४ ||
वर्णानां क्रमशो वर्णाः पञ्चानां कथ्यतेऽधुना |
स्फटिकं पाटलं पीतं श्वेतं नीलमितिस्मरेत् || ७५ ||
शिवोऽहमिति चात्मानं भावयेन्मन्त्रवित्तमः |
ध्यायन्तं देवदेवेशमाराध्य वृषभध्वजम् || ७६ ||
ध्यायन्नेनं समाराध्य देवेशम् |
त्यक्त्वा संसारिकं दुःखमेति स्थानमनश्वरम् |
भोगानप्यैहिकान् भुक्त्वा दुर्लभानमरैरपि || ७७ ||
ओमादिसप्तवर्णानामुद्धारः पूर्वमिरितः |
वैधरं नृहरिं मायां प्रचण्डं मधुसूदनम् || ७८ ||
मन्दरं चोर्ध्वलोकेशं वैराजं द्विश्चतुर्मुख |
पावकं पवनं देवदत्तं पाटलमन्वतः || ७९ ||
गोपतिं मारुतमथो मन्दरं माधवीं तथा |
माधवं धनदं ब्रह्मन् मधुसूदनसंज्ञितम् || ८० ||
मधुनं माधवी |
नासिक्यं पश्चिमं पद्मनाभं च पवनाह्वयम् |
खड्गं द्विरुच्च रेत्स्वाहा इति मन्द्रं समुद्धृतम् || ८१ ||
मनुमन्यं प्रवक्ष्यामि तमर्णैरुद्धराम्यहम् |
तारमत्रिं गरुत्मन्तं रामं सुमुखमन्वतः || ८२ ||
तारमादिम् |
सुखमुखं ततः |
गोपवं मन्दरं चोर्ध्वलोकेशं विजयं पुनः |
तमर्णं चाभिशङ्खं च माधवं वारुणाभिधम् || ८३ ||
भुवनं |
गोपनं च करालं च कमलं जृम्भलं ततः |
श्रीधरं सुभगं मायां जन्मध्वंसमनन्तरम् || ८४ ||
पाशपाणिं चादिदेवं भद्रहस्तं च पश्चिमम् |
ऋताह्वयं वैधरं च मधुभिन्मारुतं ततः || ८५ ||
सतिमुद्धृत्य कथितो वर्णान् षोडश संज्ञितान् |
मन्त्रयोरनयोर्ब्रह्मन् जीवो द्रष्टाभिधीयते || ८६ ||
अग्नि |
धर्मवर्त्तीमहेशानो देवता दक्षिणातनुः |
दिनेश रामसहितं श्वसनं मतिबिन्दुमत् || ८७ ||
मनुबिन्दुमत् |
बीजमेतदतो ध्यानमिशानस्य ब्रविमिते |
कुन्देन्धुमुक्ताशङ्खाभं सर्वाकल्पपरिष्कृतम् || ८८ ||
वैयाघ्रचर्मवसनं जटामण्डलमण्डितम् |
नासाग्रन्यस्तनयनं शशिखण्डविराजितम् || ८९ ||
प्रसन्नवदनं देवं चतुर्भुजमभीष्टदम् |
वामजानुनि विन्यस्तवामेतरपदाम्बुजम् || ९० ||
प्फटिकामक्षमालां च बिभ्राणं दक्षिणेकरे |
वामे कराम्बुजे स्वीये धृतविज्ञानपुस्तुकम् || ९१ ||
दर्शयन्तं ज्ञानमुद्रां महर्षिगणसेवितम् |
ध्यायतो मन्त्रिणस्त्वैवं सिध्वन्ति सकलाः कलाः || ९२ ||
गङ्गाप्रवाहवत्तस्य वाक्प्रसारः प्रवर्तते |
चतुर्वर्गफलावाप्तिस्तस्य हस्ते स्थिता ध्रुवम् || ९३ ||
जपभूयस्तयो कामान् दुर्लभान् सुखमश्नुते |
दुर्गामन्त्रः. |
तिथौ भगवतीं दुर्गां नवम्यां सम्यगर्चयेत् || ९४ ||
निगमादिं वैधरं च भुवनं च विसर्जनम् |
मनुरेकाक्षरः प्रोक्तस्समुद्धृत्य यथातथम् || ९५ ||
स्वीकृत्यैकाक्षरं पूर्वं गदध्वंसं हुताशनम् |
स्पर्शनं गोधनाह्वानं नतिं च मनुरीरितः || ९६ ||
गोपनाह्वानम् |
बीजमस्योद्धरिष्यामि गोपतिं पावकं ततः |
वामनं यष्टिशिरसमस्य कात्यायनो मुनिः || ९७ ||
छन्दश्च देवि गायत्रं वनदुर्गा च देवता |
मर्गाया मन्त्रान्तरम्. |
मन्त्रमन्यं प्रवक्ष्यामि दुर्गाश्रयमनुत्तमम् || ९८ ||
निगमादिं विष्णुसंज्ञं कपिलं जृम्भलाह्वयम् |
माधवं च सुरेन्द्रादिं प्रद्युम्नं कालनेमिजम् || ९९ ||
मधुसूदननमानं पुलहं माययावृतम् |
करालं देवदत्ताख्यं शशाङ्कं कमलानुगौ || १०० ||
कलशानुजौ |
पवित्रमादि देवान्तं नृहरिं स्पर्शनं तथा |
ब्रह्मणमग्निं चोद्धृत्य पञ्चबिन्दुमनन्तरम् || १०१ ||
देवंतम् |
आदिं श्रीवत्समुदयं सुभद्रं नासिकाह्वयम् |
भास्करं भद्रबाहुद्वौ वैधरं गोपतिद्वयम् || १०२ ||
पवित्रखड्गनामानौ द्वौ च दक्षमनन्तरम् |
सुप्रतिष्ठं द्विरुच्चार्य दिनकृन्माधवीध्रुवौ || १०३ ||
फट्कारमग्न्यादिमन्वगित्युद्धृत्य जपेन्मनुम् |
अर्णोद्धारक्रमादन्यं मन्त्रं वच्मि चतुर्मुख || १०४ ||
अस्योद्धारः |
प्रणवं वैधरं पश्चाच्छ्रीधरं गदिनं तथा |
वैश्वानरं मृगपतिं तमेवार्णमनन्तरम् || १०५ ||
यान्तं नृसिंहं सुमुखं रामं स्वाहं समुद्धरेत् |
उद्धृतोऽयं मनुश्चान्यो बीजमङ्गानि पूर्ववत् || १०६ ||
यान्तं नासिक्यसुमुखं नामस्वाहान्तमु |
इत्युद्धृतो |
ऋषिर्जयमतिश्छन्दो गिरिदुर्गाच देवता |
उद्गीथं श्रीधरं चैव दृष्टिद्वन्द्वं त्रिविक्रमम् || १०७ ||
क्रोधरूपि च जीमूतं पश्चिमं भुवनाह्वयम् |
बहुलं श्रीधरं क्रोधं विक्रमं सरसीरुहम् || १०८ ||
विक्रमं धर्मशीतांशुं शशाङ्कं च सुधामयम् |
पश्चिमं रामशिरसं क्रोधरूपं सविक्रमम् || १०९ ||
राजशिखरम् |
भल्लायुधं तथा शङ्खमाधवीद्वयमाधवम् |
शुक्लमादिं मृगपतिं श्रीधरं पश्चिमाननम् || ११० ||
नीहारदीधितिं सर्वरोधं विक्रमशीर्षकम् |
वैराजं कपिलं शङ्खं वैधरं बन्धुमस्तकम् || १११ ||
शुभदं कमलं वायुं मन्दरं वित्तवर्थनम् |
आदिं करालमनिलं नासिक्यं यादसां पतिम् || ११२ ||
वासुं मदनम् |
गोपनं विजयं विघ्नुनायकं दक्षमाधवौ |
सुभद्रं च गदिं कुम्भं वैराजं बन्धुशीर्षकम् || ११३ ||
घोरं |
शुभदं मन्दरं शङ्खं ठठान्तो मनुरीरितः |
षोढा विभज्य तं मन्त्रं हृदयाद्यङ्गकल्पनम् || ११४ ||
द्रष्टा वरेण्यको नाम ह्यनुष्ठुप्छन्द ईरितः |
देवता वनदुर्गास्यात्तदष्टाक्षर वत्फलम् || ११५ ||
वद्भवेत् |
सर्वदाह्वयदुर्गाया मन्त्रमुद्धारयामि ते |
उद्गीथं नतिमन्वक्च सूक्ष्मदृग्दृष्टिशीर्षकम् || ११६ ||
तिथि |
गदध्वंसमकारं च कुम्भनाद्यं चतुर्मुख |
वैराजं राजमानं वै वैधरं श्रीधराह्वयम् || ११७ ||
गदिनं बन्धुसंज्ञं च स्वाहाशीर्षं श्रियः पतिम् |
गदिनं पावकं चैव दृष्टिमिकारमन्वतः || ११८ ||
माधवं स्वाहा धनं दृष्टिं |
देहं च विक्रमं चण्डं रामं मन्दरसंज्ञितम् |
मधुसूदं गन्धवहं माधवं माधराह्वयम् || ११९ ||
देवम् |
मन्दरा |
आदित्यं गोपनं दक्षमादिदेवं च मारुतम् |
मृगेशं मन्धरं भानुं मधुसूदनसंज्ञितम् || १२० ||
पुलहं देवदत्तं च दक्षं च यदभास्करम् |
राम मुग्रात्मनात्मानं मधुसूदनमन्वतः || १२१ ||
मुग्रात्मनामा |
शशाङ्कं श्रीधरं सप्त जिह्वं कुम्बं त्रिविक्रमम् |
कजाननं गोपतिं च लक्ष्मीं भद्रं त्रिविक्रमम् || १२२ ||
जिह्वा कुम्भं च |
वैधरं भुवनाह्वानमुग्ररूपं च खेटकम् |
भल्लायुधं तथा ब्रह्मन् श्वसनं नासिका भुवम् || १२३ ||
ह्वयम् |
विधातारं हुतवहं विक्रमं च सुधारसम् |
रामं च भद्रं सुभगमनिलं विघ्ननायकम् || १२४ ||
रामं महेन्द्रसुभगं महेशं गगनाह्वायम् |
मार्ताण्डमादिदेवं च शशाङ्कं श्रीधरं तथा || १२५ ||
चित्रभानुं तथा दक्षं वैधरं हव्यवाहनम् |
विघ्नेशं विक्रमं दृष्टिं देवदत्तमपां पतिम् || १२६ ||
मधुसूदननामानं कलात्मानमतः परम् |
भुवनं पावकं दृष्टिं गोपनं विजयं तथा || १२७ ||
गोधनं |
वायुं पवित्रमाकारं मुसलं विक्रमं पुनः |
एकनेत्रं माधवं च कलशं पापकाह्वयम् || १२८ ||
पवित्रमाकारं कमलम् |
वैधरं देवदत्तं च विघ्नेशं मधुसूदनम् |
दहनं गोपनं चैव मारुतं वनमालिनम् || १२९ ||
मायां च वैधराह्वानं मधुसूदनमन्धरौ |
ओतदेहं दृष्टिमग्निं पश्चिमाननमन्वतः || १३० ||
ऋतधामं विक्रमं च श्वसनं मृगनायकम् |
पुष्टिभीजं त्रिरुच्चार्य सहस्रकिरणाह्वयम् || १३१ ||
गुहालयमनुस्वारं बीजमेतत्त्रिरुद्धरेत् |
भद्रं गुहालयं चैव विजयं गदिनं तथा || १३२ ||
सुभद्रं गुहालयं चक्रम् |
पद्मनाभं गोपतिं च कलशं मृगराट् तथा |
वै राजमादिदेवं च डुण्डुभं लोचनोदयौ || १३३ ||
उग्रात्मखेटकौ वह्निं गोपतिं विहगाधिपम् |
श्वेतांशु पश्चिमं लक्ष्मीमादिदेवमनन्तरम् || १३४ ||
गोपनं |
वक्रतुण्डं गोपनं च भद्रपाणिमनन्तरम् |
विजयाकारमादिं च शशाङ्कं च सदागतिम् || १३५ ||
द्विरभ्यसेत्कालनेमिं भद्रं पुण्यं द्विरुच्छरेत् |
मन्दरं चादिदेवं च दहनं श्वसनं तथा || १३६ ||
द्विर्ब्रूयात्सूक्ष्मदृग्ब्रह्मन् करालं विजयं पुनः |
पीयूषमादिं विजयं वसुमस्तकनिष्ठितम् || १३७ ||
निहारदीधितिमचामादिं पीतं समाधवम् |
सुभद्रं कमलं चैकदृष्टिं च चतुरासन || १३८ ||
पवित्रमृतधामानं त्रिविक्रममतः परम् |
पुरुषात्मानमेणेशं पश्चिमं पुरतस्तथा || १३९ ||
पुरुषंत |
ध्रुवं ध्रुवं तथा ह्रस्वं माहेन्द्रं मन्दरं ततः |
सर्वरोधं गजास्यं च मायां कमलमन्दरौ || १४० ||
एकनेत्रमृतं शुलं बहु कुक्षिं त्रिविक्रमम् |
करालं पद्मनाभाख्यं विघ्नेशं विजयं तथा || १४१ ||
शीलं बहुकुक्षिम् . शीलं लम्बकुक्षिम् |
भद्रहस्तं तथा रामं शशाङ्कं मनुमन्वतः |
सुभद्रं गोपनं पश्चात्पञ्चान्तिकमथानिलम् || १४२ ||
पश्चिमं पद्मनाभाख्य मृतधामानमस्वतः |
जृम्भलं पुलहं पापहननं पद्मनाभकम् || १४३ ||
मत्रिधाम समन्वितम् |
पश्चात् पावकम् |
दृष्टिं मृगेशममृतमार्यां च द्विर्गुहालयम् |
पवित्रमृतधामानं वैधरं माधवं ततः || १४४ ||
मारुतं कमलां पद्मपवित्रमृतधाम च |
अत्रिं मृगपतिं लक्ष्मीं बहुलं पञ्चबिन्दुकम् || १४५ ||
माधवम् |
पवित्रमृतधामानं वै राजं विक्रमं तथा |
पश्चिमं पद्मनाभाख्यं वैधरं मृगवल्लभम् || १४६ ||
मुखं वैराजविक्रमम् |तं तथा पश्चिमं पद्मं वैधरं मृगवल्लभम् |
दक्षं रविं गोपनाख्यं सुभद्रं भुवनं तथा |
ककुभं माधवं पश्चान्माधवीं भास्कराह्वयम् || १४७ ||
गोपनं मतिमन्तं च पुलहं माधवं रविम् |
यष्टिं च व्याहरेद्ब्रह्मन् तथैव मधुसूदनम् || १४८ ||
ध्रुवं नभोमणिं गोपं बिन्दुं च चतुरासन |
एवं त्रि र्व्याहरेदर्णं सुगतं सागरोत्तमम् || १४९ ||
यन्त्रितम् |
मन्दरं भास्करं पश्चाद्गोपनं माधवीं तथा |
आदिदेवं जगत्प्राणं माधवं नतिमुद्धरेत् || १५० ||
इत्येवमुद्धृतो मन्त्रो ब्रह्मन् सर्वार्थसिद्धदः |
शतेन संमितो वर्णो रश्मीत्यादिभिरेव सः || १५१ ||
नतेन |
भास्करं मन्धरं पञ्चबिन्दुं यष्टिमनन्तरम् |
उद्धृत्य बीजमेतेन षडङ्गानि प्रकल्पयेत् || १५२ ||
दहनं |
द्रष्टा ककुत्स्थश्छन्दस्स्यादतिच्छन्दो त्र देवता |
सर्वदाह्वानमन्त्रस्य चतुर्लक्षोजपःस्मृतः || १५३ ||
धिदेवता |
ज्ञानाद्ध्यानाज्जपान्मन्त्रस्सिद्धिं सर्वां प्रयच्छति |
मन्त्रिणो नित्ययुक्तस्य प्रत्यहं प्रयतात्मनः || १५४ ||
आमुष्मिकं चैहिकं च फलं सर्वं प्रयच्छति |
यमस्य मन्त्रः. |
दशम्यामर्चयेद्ब्रह्मन् कृतान्तमभयप्रदम् || १५५ ||
निगमादिं गन्धवहं हृषीकेशमन्तरम् |
दण्डं प्रभञ्जनं दक्षं चादिदेवं सदागतिम् || १५६ ||
उद्गीथमादिम् |
नितिमुद्धृत्य कथितो मनुर्वैवस्वता श्रयः |
बीजमर्णान् समुद्धृत्य श्वसनं यष्टिशीर्षकम् || १५७ ||
मनुद्धारोऽपि |
ह्वयः |
उदितं तेन बीजेन हृदयाद्यङ्गकल्पनम् |
ऋषिस्सत्यतपाश्छन्दो गायत्रं दैवमिरितम् || १५८ ||
मन्त्रश्च पितृदैवत्यो जपः स्यात्पञ्चलक्षकः |
तेनाराध्य श्राद्धदेवमभीष्टं सर्वमश्नुते || १५९ ||
इन्द्रस्य मन्त्रः. |
प्रथमं छन्दसामादिं विक्रमं मानुषेश्वरम् |
वैधरं वह्निमपरं गोपनं पवनं मुखम् || १६० ||
सतिमुद्धृत्य माघोनः कथितो मनुरब्जज |
वैधरं चोर्ध्वलोकेशं नासिक्यं बीजमुद्धृतम् || १६१ ||
ऋषिर्देवो विराट् छन्दो देवता वलसूदनः |
एतेनेष्ट्वा तुरासाहं साम्राज्य फलमश्नुते || १६२ ||
ऋषिर्जीवो |
विष्णोर्मन्त्रः. |
द्वादश्यां मालमन्त्रेण पूजयेदुक्तवर्त्मना |
भगवन्तं श्रियः कान्तं फलमिप्सन् सुदुर्लभम् || १६३ ||
कामस्य मन्त्रः. |
निगमादिं च नत्यन्तं पश्चिमोदयनं तथा |
क्रोधरूपं पवित्रं च श्रीवत्सं पावकं ततः || १६४ ||
आदिदेवं च पननं गोपनं यष्टिमन्वतः |
गोपतिं बहुलं पञ्छबिन्दुं नरहरिं ततः || १६५ ||
यष्टिमस्तकम् |
गोपनम् |
और्वं यष्टिं च कमलं गोपनं मन्दराह्वयम् |
वैधरं देवदत्तं च कमलं गोपनं तथा || १६६ ||
कलशम् |
शङ्खं ठठान्तमुद्धृत्य मनुरेष समिरितः |
स्वर्गादिं पुलहं बन्धुं नासिक्यं बीजमुद्धरेत् || १६७ ||
स्पर्शादिं |
ऋषिश्श्रीनिधिरस्योक्तो विराट् छन्दश्च देवता |
मन्मथस्तेन यष्टव्यस्स सर्वफलकाङ्क्षिभिः || १६८ ||
एकार्णमपरं मन्त्रमुद्धरिष्यामि पद्मज |
तारं गरुडमौर्वं च सबिन्दुं मनुरीरितः || १६९ ||
लक्षमेकं जपेन्मन्त्री कर्मण्याकर्षणादिके |
समर्थं कामदैवत्यं मनुमन्यं ब्रवीमि ते || १७० ||
उद्गीथं कमलं पीतं मायामर्धेन्दुशेखम् |
करालं गोपनं दक्षं वैधरं तदनन्तरम् || १७१ ||
मास |
मृगेन्द्रं वरुणं चादि देवं श्वसनसंज्ञितम् |
शुक्लं सुधामयं वह्निं ककुभं सविनायकम् || १७२ ||
श्वेतं |
शशाङ्खं माधवं ब्रह्मसाधकं भास्कराह्वयम् |
हैरम्बं गोपनं वायुं ककुभं यादसां पतिम् || १७३ ||
पुलहं निगमादिं च तद्द्वयं तद्विरुच्छरेत् |
पश्चिमं त्वृतधामानं पूर्णं पर्वभिरुच्छरेत् || १७४ ||
च द्विरुद्धरेत् |
मर्णपूर्णं द्वि |
शशाङ्कमादिं जलजं पीतं वरुणमब्जज |
ककुभं विष्णुविघ्नेसौ प्रथमं तग्मदिधितिम् || १७५ ||
मया. माया इति स्यात् |
पद्मनाभं वैधरं च वायुमाद्यं च मन्दरम् |
मन्दराद्यद्वयं भूयस्तदेव समनन्तरम् || १७६ ||
वरुणं विष्णुमब्जां च यष्टि मब्जोदयौ तथा |
दहनं श्रीधरं वर्णं पुलहं ब्रह्मसाधनम् || १७७ ||
मब्जौ जयम् |
करालमाद्यं कलशं मुखं श्रीवत्समन्वतः |
प्रभञ्जनं गोपनं च स्पर्शमाद्यमपां पतिम् || १७८ ||
सयशम् |
ठठास्तमुद्धृत्य मनुः कथितः कमलासन |
ऋषिः कलिङ्गोऽतिच्छन्धश्छन्दः कामश्च देवता || १७९ ||
जपेद्द्विरष्टौ लक्षाणि नासाध्यं तेन मन्द्रिणा |
रतिश्च विरतिश्चोभे तस्य पार्श्वे स्थिते सदा || १८० ||
मन्त्र स्तयोश्छतुर्थ्यन्तं नाममात्रं त्रिशीर्षकम् |
मदनः प्रथमो भाणस्तथैवोन्मादनोऽपरः || १८१ ||
मन्त्रोद्वयोश्चतुर्थ्यन्तनामनीति विशीर्षकम् त्रिशीर्षकम् |
मादन इति स्यात् |प्रच्छाद इत्यपि क्वचित्पाठः |
मोहनं द्वेषणं च द्वे दीपनं पञ्चमं स्मृतम् |
मल्लिका केतकी जातिः पङ्कजं यूधिका तथा || १८२ ||
पुष्पाणि क्रमशो भाणान्या हुस्तेषां मनुः पुनः |
संविद्यर्णाश्च सहिताश्चतुर्थ्यन्तास्समाह्वयाः || १८३ ||
तेषां सत्यन्तसहितं तैस्तेषामर्चनं विधुः |
धनुरङ्कशपाशाश्च तस्यास्त्राणि मनोभुवः || १८४ ||
मन्त्राश्च पूर्ववत्तेषां नामान्येव चतुर्मुख |
कल्पकानोकह प्राय पुष्पितद्रुमशोभिते || १८५ ||
श्रात |
उद्याने मञ्जु शिञ्जानपक्षिसङ्घिनिषेविते |
मध्ये महाह्रदे पूर्णे सरोजैश्च विकस्वरैः || १८६ ||
गमन |
विष्टरे काञ्चने न्यस्ते शुभा स्तरणसंयुते |
आसीनं सह देवीभ्यां सर्वाभरणभूषितम् || १८७ ||
रक्तचन्दनलिप्ताङ्गं रक्तमाल्योपशोभितम् |
चारुकुण्डलिनं कान्तं युवानं क्षौमवासनम् || १८८ ||
वसानमप्सरोमुख्यै स्त्रीगणैः परितो वृतम् |
ध्यायन्ननेन मनुना क्रमादर्घ्यादिभिर्यजेत् || १८९ ||
कामगायत्रिया वापि यजेत मकरध्वजम् |
जपादि पूर्ववत्सर्वं वश्यं च भुवनत्रयम् || १९० ||
सामगायत्र्या |
मन्त्रिणो नित्ययुक्तस्य किमन्यैरतिसिस्तरैः |
अश्विनोर्मन्त्रः. |
अश्विनोर्मन्त्रमधुना ब्रवीमि कमलासन || १९१ ||
उद्धृत्य पूर्वमुद्गीथं विघ्नेशं पाटलप्रियम् |
ब्रह्मसाधननामानं श्रीवत्सं च सुधामयम् || १९२ ||
मायां सुभद्र माकारमश्विनोरीरितो मनुः |
आदिमर्धेन्दुसहितं बीजं तेनाङ्गकल्पना || १९३ ||
मुद्धृत्य. अश्विनो |
भृगुर्द्रष्टा बृहच्छन्दः प्रतिपाद्यौ तथाश्विनौ |
जपन्वैपञ्चलक्षेण सिद्धिस्सर्वार्णसाधनः || १९४ ||
राजयक्ष्मादयो रोगा न तिष्ठन्ति तदन्वये |
औषधानि च दक्षाणि व्याधीनामपनोदने || १९५ ||
तत्करस्पर्शमात्रेण सर्वं वस्त्वौषधंभवेत् |
सोमस्य मन्त्रः. |
पौर्णमास्यां तथा सोमं यजेत मनुवित्तमः || १९६ ||
निगमादिं पूर्णचन्द्रमोतदेहं समन्दरम् |
मधुमारुतविघ्नेशं माधवीं च विसर्जनम् || १९७ ||
मधुद्विण्मारुतं विघ्नो |
सोमस्य कथितो मन्त्रो बीजमुद्धारयामिते |
सितमादिमनुस्वारं कुर्यात्तेनाङ्गसन्ततिम् || १९८ ||
द्रष्टा कौमोदको नाम पङ्त्किच्छन्दस्स देवता |
जपः पूर्ववदेवास्य गायत्र्या वा समर्चयेत् || १९९ ||
फलं च सर्वं पूर्वोक्तं चन्द्रसालोक्यमप्यथ |
इत्युक्तास्तिथमो देवास्तेषां मन्त्रास्समर्चनम् || २०० ||
फलानि च समस्तानि क्रमेणाप्युदितानि ते |
नाराध्यं तिथियोगैस्तैरैहिका मुष्मिकात्मकम् || २०१ ||
क्रमेणोदीरितानि |
नासाध्यं |
फलं मन्त्रप्रसाधेन तद्देवानां महत्तया |
नुकृतान्यपि कर्माणि विना विघ्नेशपूजया || २०२ ||
न फलन्त्यन्तरायेण निहतानि चतुर्मुख |
तदादौ कर्मकुर्वाणैराराध्यो विघ्ननायजः || २०३ ||
Kapitel 31
Lesehilfe: Kapitel 31: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम्९ |
एकत्रिंशोऽध्यायः |
विघ्नराजोत्पत्तिः. |
ब्रह्मा |
भगवन् विघ्नराजस्य जन्मकीदृक्कुतश्च सः |
भूषणानां च कोटीरप्रमुखानां यथातथम् || १ ||
चक्रादीनामायुधानां तार्क्ष्यसेनेशयोरपि |
मनवः पूजितायैस्तैः पूजिताः फलहेतवः || २ ||
इति सर्वं समाचक्ष्वमयि ते यद्यनुग्रहः |
श्रीभगवान् |
असुरैरर्दिता देवा बलिनो युद्धदुर्जयौः || ३ ||
चेदस्त्यनुग्रहः |
शरण्यं शरणं जग्मुः प्रद्युम्नमभयप्रदम् |
देवा |
आहवेषु वयं दैत्यैर्बलवन्तोपि बाधिताः || ४ ||
यथा ते विघ्नविहताः पलायन्ते तथा कुरु |
प्रद्युम्नस्तैरिति प्रोक्तः क्रुद्धस्संरक्तलोचनः || ५ ||
कोपात्तस्य समुद्भूतस्सम्यक् स्तम्भेरमानवः |
सञ्जातं प्राञ्जलिपुटं कुर्वाणं तं पुरस्थ्सितम् || ६ ||
तं दृष्ट्वा गजवद्वक्त्रं प्रोवाचेदं वचस्तदा |
देवानामसुराणां च सङ्ग्रामे समुपस्थिते || ७ ||
सन्निधाय भवांस्तत्र दैत्यानां विघ्नमाचर |
इत्युक्त्वा मिषतस्तस्य प्रद्युम्नो भगवान् हरिः || ८ ||
अन्तर्दधे सुराश्चापि प्रतिजग्मुर्यथा गतम् |
ततः प्रभृति विघ्नेश प्रसादाद्देवतागणाः || ९ ||
पुरम् |
असुरान् जघ्निवांसस्तेन च जग्मुः पराभवम् |
आकल्पमनुनिर्देशः. |
तत्र किरीटमन्त्रः |
आकल्पस्य किरीटस्य मनुं वक्ष्यामि संप्रति || १० ||
व्यापिनं नतिमुद्धृत्य कमलं तदनन्तरम् |
महामायां सप्तजिह्वं पञ्चबिन्दुसमाह्वयम् || ११ ||
हृदयाह्लादमाकारं पवनं शुक्लमन्दरौ |
दाक्षायणीशविजयौ मन्दरं च सरोरुहम् || १२ ||
श्रीधरं हृदयाह्लोदं माधवं वित्तवर्धनम् |
कुम्भं हुताशनं देवदत्तं क्षीरं सुधामयम् || १३ ||
दहनं गोपनं वायुं करालं कमलोद्भव |
ओतदेहं क्षितिधरं विक्रमं धूमकेतनम् || १४ ||
महामायां ध्वजं तथा |
अमृतं बन्धुसहितं भद्रहस्तं त्रिविक्रमम् |
चतुर्गतिं श्रीधरं च विजयं माधवं तथा || १५ ||
हस्तिवक्त्रं वैधरं च भुवनं कामगं ततः |
वैराजं वैधराह्वानमिरयित्वा ततः परम् || १६ ||
वह्निवक्त्रम्. विघ्नं दान्तम् |
रामं पवित्रं विजयं गोपनं द्विरदाननम् |
महेन्द्रं कुञ्जरमुखं विक्रमं सूक्ष्मलोचनम् || १७ ||
उपेन्द्रं |
गोपनं स्पर्शनामादिदेवं समसरोरुहम् |
माहेन्द्रं पश्चिमं चादिदेवं च धनदाह्वयम् || १८ ||
स्पर्शनामानमादिदेवं सरोरुहम् |
पंचमं |
विक्रमं पश्चिमं चैव विजयं च तुरानन |
प्रभञ्जनमृगेशं च मधुसूदन संज्ञितम् || १९ ||
मार्ताण्डं पापकमथो पञ्चबिन्दुं सबिन्दुकम् |
करालमृतधामानं महामायां सयष्टिकम् || २० ||
गोपतिं श्रीधरयुतं नासिक्यं फट्कृतिं तथा |
स्वाहायां विरमेन्मन्त्रं बीजमस्योच्यतेऽधुना || २१ ||
कमलं त्वृतधामानं महामाया परिष्कृतम् |
उद्धृतं षत्षडङ्गानि द्रष्टा चाखण्डल स्तथा || २२ ||
उद्धनं |
छन्दश्च पङ्त्किरित्युक्तं किरीटो देवतापि च |
किरीटिनं च द्विभुजं महाकायं महोदरम् || २३ ||
महाभुजम् |कृताञ्जलिपुटं प्रह्वं सुस्थितं भूषणैर्युतम् |
ध्यात्वैवं मन्त्रविन्मन्त्रं पञ्चलक्षमतन्द्रितः || २४ ||
नत्यन्तं |
श्रीवत्समन्त्रः. |
छन्दसामादिं श्रीशब्दं कलशं तथा |
एकनेत्रं हुतवहं शशाङ्कं मधुसूदनम् || २५ ||
सदागतिं चादिदेवं नासिक्यं यष्टिसंज्ञितम् |
लक्ष्मीं करालं पुलहं महामायां सबिन्दुकम् || २६ ||
तार्क्ष्यमौर्वादिकं यष्टिं हुंफट्कारं हुतान्तिमम् |
श्रीभीजं तद्भवेद्बीज मृषिश्चैव प्रजापतिः || २७ ||
विराट् छन्दश्च गायत्रं श्रीवत्सो देवता मता |
श्रीवत्समन्त्रमपरं कथयामि चतुर्मुख || २८ ||
ओंकारं प्रथमं सोमं स्वरादि जयमारुतौ |
माधवं तारकाधीशमेकनेत्रं समारुतम् || २९ ||
कलशं विजयं पश्चान्महामायापरिष्कृतम् |
शुक्लं च तारं श्वसनं कुंभं वैराजमेव च || ३० ||
अनलं पूर्णचन्द्रं च पुलहं माधवं तथा |
सत्यन्तं शुक्लविजयौ श्वसनं श्वेतरोचिषम् || ३१ ||
दक्षं दरं देवदत्तामोषधीशं तथाब्जज |
वैराजं प्रथमं कुम्भमृतधामवदर्भितौ || ३२ ||
जयं सदागतिं देवदत्तं चैव ठठान्तिमम् |
श्रीभीजं पूर्वमेवोक्तमृषिर्देवल उच्यते || ३३ ||
विजयं सदागतिं |
छन्दश्चाक्षरपङ्त्किस्स्याच्छ्रीवत्सो देवता मता |
ततो लक्षजपेनैव सर्वान्कामानवाप्नुयात् || ३४ ||
रौस्तुभमन्त्रः. |
प्रणवादिं च सत्यन्तं विधातारं तथा मनुम् |
सकारं विजयं लोकं सुभद्रं मधुविद्विषम् || ३५ ||
प्रभञ्जनं पावकं च वैराजं विघ्ननायकम् |
गोपनं धनदं मायां पश्चिमं प्रथमस्वरम् || ३६ ||
वै राजं मारुतं पश्चादेकारं प्रथमस्वरम् |
माधवीं पद्मनाभं च विजयं ब्रह्मसाधनम् || ३७ ||
इतमर्धं क्वचिदधिकमस्ति |
अग्निं भल्लायुधं कुम्भमाकारं मारुतं तथा |
अचां द्वितीयं कमलं पुलहं च पवित्रकम् || ३८ ||
कलशं |
आदिदेवं च धनदं त्रिविक्रममनन्तरम् |
पश्चिमं विजयं चादिं स्पर्शनं माधवं तथा || ३९ ||
मारुतं |
ओषधीशमिकारं च दृष्टिं च धनदं पुनः |
रामं प्रद्यम्नसहितं पश्चिमं पद्मनाभकम् || ४० ||
प्रभञ्जनं छलध्वंसं द्वयं स्वाहावसानकम् |
कौस्तुभं बिन्दुसहितं बीजमेतदृष्टिः पुनः || ४१ ||
मधुं यमं |
जमदग्निर्विराट् छन्दो देवता कौस्तुभाह्वया |
कौस्तुभं च चतुर्थ्यन्तमुच्चार्यनतिमु द्धरेत् || ४२ ||
च्चरेत् |
पञ्चलक्षजपादस्य मनोस्सिध्यति वाञ्छितम् |
वनमालामन्त्रः. |
सप्तार्णपूर्वकं कुम्भं भद्रहस्तं प्रियद्विषम् || ४३ ||
बन्दुं मन्दरं मधुवि |
भद्रहस्तं मन्दरं च मधुसूदनमब्जज |
पुलहं देवदत्तं च माधवीं मधुसूदनम् || ४४ ||
इतमर्धं क्वचिन्नास्ति |
माहेन्द्रं रामनामानं विघ्नेशं पञ्चबिन्दुकम् |
पश्चिमं श्रीधरं वह्निं भुवनं तदनन्तरम् || ४५ ||
क्रोधाग्निं वासुदेवं च वैराजौ द्वौ च मन्दरम् |
पश्चिमं पद्मनाभं च माया शिरसमन्वतः || ४६ ||
मारुतं माधवयुतं ठठान्तो मनुरीरितः |
कलशं मारुतं पश्चादुदयश्चा निरुद्धकम् || ४७ ||
ग्निमा धवौ |
बीजं मुनिश्च धनदः छन्दः पङ्क्तिश्च देवता |
वनमालापरं मन्त्रं कथयामि महाफलम् || ४८ ||
ब्रह्मकोशं नतिं कुम्भं मुखं विघ्नेश मन्दरौ |
गोपनं पुलहं चादिदेवं शङ्खं च गोधनम् || ४९ ||
सुन्दरौ |रोदनं पुलहम् |
खड्गं च रोधनम् |
माधवं सूदनं वायुं मृगेशं दक्षगोपनौ |
चतुर्गतिश्चादिदेवमनलं सगुहालयम् || ५० ||
पश्चिमं विक्रमपरं प्रचण्डं पञ्चिबिन्दुकम् |
दक्षं दिनकरं चक्षुर्द्वितीयं श्वेतदीधितिम् || ५१ ||
चाक्षं द्वि |
दक्षद्वयं वासुदेवं तिग्मांशुं बन्धुशीर्षकम् |
द्विरदास्यं पञ्चबिन्दुं श्वेतरोचिषमादिमत् || ५२ ||
अमृतं वह्निशिरसं कमलं गोपनाह्वयम् |
मन्दरं वैधरं मायां पञ्चमं गजवाहनम् || ५३ ||
वैधरमचां |
माधवं श्वेतदीधिं च कुम्भं बहुलशीर्षकम् |
विजयं चैकदृष्टिं च वरुणं पाटलप्रियम् || ५४ ||
चतुर्गतिं सूदनं च मारुतं चादिमत्तथा |
चतुर्थमृतधामान मग्निं च श्वसनं पुनः || ५५ ||
म्मतिश्च |
ब्रह्मकोशपरां चैव भद्रपाणिं च पद्मजाम् |
विजयं प्रणवादिं च श्वेतदीधितिमब्जज || ५६ ||
शशाङ्कं पद्मनाभं वै धरं मायामहाधनौ |
पश्चिमं विजयं माया शीर्षं विघ्नेशमिरयेत् || ५७ ||
विक्रमं सूक्ष्मदृष्टि च |
विक्रमं सूक्ष्मदृष्टिं च गोपनं च चतुर्मुख |
जन्मध्वंसं च कलशं पुलहं च द्विरुच्छरेत् || ५८ ||
पूर्ववच्च द्विरभ्यस्य पुष्टिबीजमथोद्धरेत् |
गोपतिं गोपनं यष्टिं वरुणं चादिबिन्धुकम् || ५९ ||
प्रपूर्नं च |
भास्करं भुवनं यिष्टिं फट्कारं च ठठान्तिमम् |
पियीषं पवनं ब्रह्मसाधनं यष्टिशीर्षकम् || ६० ||
बीजमेतच्चतुर्वक्त्र प्रधानार्णाङ्गकल्पना |
भवश्चास्य मुनिश्छन्दो अस्या उष्णिश्च देवता || ६१ ||
प्रथमा |
भवस्वामि मुनिश्छन्दस्स्या दुष्णिक्साच |
द्विभुजां बालिकां पीनवक्षोरुहविभूषिताम् |
करण्डमकुटोपेतां बिभ्राणां वनमालिकाम् || ६२ ||
दर्पणं वामहस्तेन बिभ्राणां दक्षिणेन तु |
पुष्पमञ्ज लिकां द्वाभ्यां ध्यात्वालक्षं जपेन्मनुम् || ६३ ||
रिशैलाभ्यां |
अन्येषां भूषणानां च चतुर्थ्यन्तं समाह्वयम् |
मन्त्रं मनोन्तं जानीयाद्भीजमाद्यं प्रकल्पयेत् || ६४ ||
प्रभामन्त्रः. |
प्रभामनुं प्रवक्ष्यामि यथावदवधारय |
उद्गीथमादिं नत्यन्तं पश्चिमं त्वृतधामकम् || ६५ ||
भल्लायुधं चादिदेवं श्वसनं सूक्ष्मलोचनम् |
अचां द्वितीयं श्वेतांशु कमलं चादिमत्तया || ६६ ||
चांदिमं तथा |
पावकं चौषधं पद्मपाणिं वै राजमन्वतः |
मृगेशं जन्मविध्वंसं ब्रह्मसाधनसंयुतम् || ६७ ||
ककुभं कलशं चादि देवं पुलहमब्जज |
ओङ्कारं माधवीमग्निं मायामस्तकभूषितम् || ६८ ||
पाटलप्रियमाकारं पीताभं मधुविध्विषम् |
श्रीवत्समादिं विजयं शशाङ्कं विष्णुमस्तकम् || ६९ ||
मार्ताण्डमिन्दुमनलं मधुसूदनमारुतौ |
श्रियः प्रतिमथैकाक्षं गोपनं कमलोद्भव || ७० ||
अमृतं त्वृतधामानं विजयं कमलालयाम् |
ओतदेहं सुभद्रं च बन्धुमस्तकभूषितम् || ७१ ||
विजयं गोपनं प्राणं हुंफट्कारं ठठान्तकम् |
आद्यर्णं यष्णिसहितं बीजमस्यप्रकीर्तितम् || ७२ ||
ऋषिर्भास्कर एतस्य पङ्त्किश्छन्दश्च देवता |
प्रभा जपश्च मन्त्रस्य लक्षसङ्ख्यः प्रकीर्तितः || ७३ ||
भोगांश्च पुष्करान् भुक्त्वामन्त्रविन्मन्त्रवैभवात् |
परं पदमवाप्नोति देहत्यागेन संशयः || ७४ ||
अक्षमालामन्त्रः. |
निगमादिं कौस्तुभं च गोपनं बिन्दुमैन्दवम् |
विक्रमं वैधरं पुण्यं रामं शुक्लसमाह्वयम् || ७५ ||
वै राजमग्नि माकारं स्पर्शनं विष्णुमस्तकम् |
सत्यन्तमुद्धरेन्मन्त्रमेवमक्षस्रजस्सुधीः || ७६ ||
अक्षमालाधरं ध्यायेद्विभुजं स्फटिकप्रभम् |
अलङ्कृतं पीतवस्त्रं पद्मविष्टरसंस्थितम् || ७७ ||
वरदाभयदाकारं मन्त्रस्य च जपस्तथा |
मन्त्री च महदाप्नोति फलमत्यन्तदुर्लभम् || ७८ ||
धूपमन्त्रः. |
उद्गीथं सुभगं शङ्खमूर्ध्वयष्टिमनन्तरम् |
धनदं च हृषीकेशं मन्दरं ब्रह्मनाधनम् || ७९ ||
बहुलं चैकनेत्रं च पञ्चान्तं बन्धुमस्तकम् |
अनलं गोपनं शङ्खमचामादिं नतिं ततः || ८० ||
पंच |
धूपपात्रमनुः प्रोक्तो |
घंटामन्त्रः. |
घण्टामन्त्रः प्रवक्ष्यते |
आम्नायादिं क्षितिधरं हृषीकेशं रविं तथा || ८१ ||
गुहालयं च नासिक्यं पद्मपाणिं प्रचण्डकम् |
झषमाकार संयुक्तं चतुर्गतिनमस्कृतिः || ८२ ||
विजयं त्वथ. इदमेकं पद्यं क्वचिन्नास्ति |
कथितश्च मनुर्ब्रह्मन् |
दीपमन्त्रः. |
दीपपात्रस्य कथ्यते |
उद्गीथं ककुभं चादिं गदध्वंसम चां मुखम् || ८३ ||
वाङ्मुखम् |
पावकं विजयं जन्महन्तारं ब्रह्मसाधनम् |
वैराजं विक्रमपरमनलं च गुहालयम् || ८४ ||
ब्रह्म |
पश्चिमं चादिदेवं च श्वसनं नतिशीर्षकम् |
दीपपात्रस्य कथितो मनु |
सुदर्शनमन्त्रः. |
स्संप्रति कथ्यते || ८५ ||
नखशीर्षनम् |
ब्रह्मकोशमुखं ब्रह्मन् सप्तार्णं तदनन्तरम् |
शशाङ्कं श्रीधर दृष्टिमादिलक्ष्मीं हुताशनम् || ८६ ||
ब्रह्म |
लम्बोदरं चादिदेवं दरं विष्णुं च माधवम् |
नभोमणिमथो रामं पुलहं चादिमत्तथा || ८७ ||
वक्रतुण्डं विधातारं वक्रतुण्डमचां मुखम् |
कमलं त्वृतधामानं यान्तं च मधुसूधनम् || ८८ ||
मुसलं गोपनयुतं श्वसनं ककुभं ततः |
अमृतं पीतवर्णार्णं हुंफट्कारं ठठान्तिमम् || ८९ ||
पूर्णवर्णाभं फट्कारान्तं ठठान्तकम् ||
शुक्लं मुखं सबिन्दुं च बीजमेवं समुद्धरेत् |
तारं करालमाकारं पुलहं चादिमत्तथा || ९० ||
वक्रतुण्डं विधातारं बहुलं मधुविद्विषम् |
आदिं चतुर्गतिं हुंफडित्यादि हृदयादिषु || ९१ ||
बहुमूलम् |
कालरुद्रोऽथ भगवानृषिश्छन्दः प्रकीर्तितः |
गायत्री देवता चास्य हेतिराजस्सुदर्शनः || ९२ ||
मन्त्रराजं सुर्शनम् |
जपेद्द्वादशलक्षं तु सिद्धयो मूलमन्त्रवत् |
सुदर्शनस्य मन्त्रान्तरम्. |
आदितस्सप्तवर्णांश्च पूर्वोक्तान् शशिनं तथा || ९३ ||
श्रीधरं वैधरं विष्णुं श्रीवत्समनलं तथा |
भद्र हस्तादि देवं च शङ्खादिं च चतुर्मुख || ९४ ||
हस्तं चादिदेवं |
सुदर्शनस्य कथितो द्वादशार्णात्मको मनुः |
बीजमङ्गं यथापूर्वं द्रष्टा च कपिलस्म्सृतः || ९५ ||
छन्दो विराट् देवता च हेति राजस्सुदर्शनः |
जफो द्वादशलक्षं च द्विषट्काक्षरवत्फलम् || ९६ ||
जपेत् |
आम्नायादिं च नत्यन्तं सुदर्शनपदं ततः |
चतुर्थ्यन्तं प्रयुञ्जीत फलमष्टाक्षरे यथा || ९७ ||
ऋषिर्भवस्तथा च्छन्दो गायत्रं हेति राडिनः |
पूर्वोदितं द्विषट्कार्णं माधवी मादिमुद्धरेत् || ९८ ||
संज्ञितम् |
नभोमणिं चादिदेवं वक्रतुण्ड मचां मुखम् |
कराल मृतमग्निं च गोपनं ककुभं तथा || ९९ ||
मवाङ्मुखं |
अचां द्वयं गन्धवहं मुखं दक्षं चतुर्मुख |
गोपतिं गोपनमथो जृम्भलं चादिमत्तथा || १०० ||
द्वितीयम् |
महेन्द्रं यादसां नाथं द्विरदं पन्नगाधिपम् |
स्पर्शनं नृहरिं कुम्भं रामं सुभगमन्वतः || १०१ ||
दरं द्विः |
प्राचेतसं सयष्टिं च शुक्लमादिं दरं तथा |
अमृतं बन्धुसहितं धनाध्यक्षमपां पतिम् || १०२ ||
नासिक्यं शशिनं चादिं मारुतं मन्दरद्वयम् |
मुखं लक्ष्मीं तथै काक्षं वसुं चैव गुहालयम् || १०३ ||
सयष्टिं कुञ्जरमुखं गोपनं शुभदं दरम् |
माधवीं गोपतिं चैव गोपनं कालनेमिजित् || १०४ ||
शोभनं |
माहेन्द्रं गोपनं शङ्खं ककुभं कुम्भसंज्ञितम् |
पुलहं मुसलं कुम्भं महेन्द्रं भुवनाह्वयम् || १०५ ||
नत्यन्तं |
गदध्वंसं हुतवहं वै राजं मृगवल्लभम् |
जन्मध्वंसं शशधरमेणएशं च ठठान्तिमम् || १०६ ||
बीजमङ्गं यथापूर्व मृषिस्स्यान्नीललोहितः |
यष्टिश्छन्दश्च कथितो देवता हेतिराडसौ || १०७ ||
अत्रिः |
जपेल्लक्षत्रयं मन्त्री जपस्यास्य च वैभवात् |
निग्रहेऽनुग्रहे शक्तिस्तम्भविद्वेषणादिकृत् || १०८ ||
मन्त्रस्या |
चलाचलसमुद्रादिशोषणं कम्सनं तथा |
तत्कटाक्षविनिक्षेपात्सृष्ट्यादीनां विधिर्भवेत् || १०९ ||
निधि |
सुदर्शनमहामन्त्रः. |
सुदर्शनमहामन्त्रं वक्ष्यामि चतुरासन |
मातृकाचक्रमालिख्य समभ्यर्च्य यथाविधि || ११० ||
स्वीकृत्य द्वादशार्णांश्च वक्रतुण्डमचां मुखम् |
करालमग्नि सहितं गोपनं मारुतं ततः || १११ ||
पश्चिमं पावकं खड्गमनलं च कृशानुकम् |
विधातारं चादिदेवं पुलहं मधुसूदनम् || ११२ ||
कृशागमम् |
दरं हुतवहं तार्क्ष्यं द्विर्वसुं च समुद्धरेत् |
पाटलप्रियामाकारं दरं ध्रुवसमन्वितम् || ११३ ||
उदयं |
दरत्रयसमन्वितः |
लक्ष्मीं मुखं च वै राजमग्निं भुवनशीर्षकम् |
द्विरदाननमाकारं कमलां मधुसूदनम् || ११४ ||
स्पर्शनं वैधरं चादिमनलं वैधरं तथा |
अमृतं चादिदेवं च महेन्ध्रं च समिकरणम् || ११५ ||
शुक्लं मुखं भास्करं च कमलं विक्रमं तथा |
अनलं सुमुखं विष्णुं पद्मनाभविनायकौ || ११६ ||
जन्मध्वंसं च कलशं पुलहं बन्धुसंमितम् |
वैराजं शुभदं रामं खर्वदेहं हुताशनम् || ११७ ||
वैधरं त्वृतधामानं नृहरिं मृगवल्लभम् |
पवित्रमृतधामानं माधवं भुजगं ततः || ११८ ||
चतुर्गतिं तथा दृष्टिं चादिदेवं हुताशनम् |
भुवनं चण्डमत्रिं च ऊकारं कमलोद्भव || ११९ ||
क्रोधरूपं दिनमणिं विघ्नेशं मधुसूदनम् |
एकाक्षं मन्दरं पद्मं वैधरं गोपतिं तथा || १२० ||
पश्चिमं वक्रतुण्डं च खड्गं गोपनमन्वतः |
भूधरं मारुतं स्पर्शं तृतीयं ककुभं तथा || १२१ ||
माधनम् |
ककुभाह्वयं |
यान्तं च विजयं त्वग्निमाकारं श्वेतरोचिषम् |
अदिं दरं तथेन्द्रं च विजयं ज्वलनं तथा || १२२ ||
आदिदेवं |
जननं |
श्रीधरं च गदध्वंसं भुवनं च हुताशनम् |
उदयं चतुर्गतिं विघ्ननायकं त्वेकचक्षुषम् || १२३ ||
स्वाहाधवं गोपनं च यष्टिं च कमलालयाम् |
वक्रतुण्डं चोर्ध्वलोकं प्रचण्डं वसुमस्तकम् || १२४ ||
गोधनं |
मारुतं वरुणं चाग्निं पश्चिमं स्वान्तमब्जज |
पवित्रमृतधामानं मारुतोदयसंज्ञितौ || १२५ ||
विरिञ्चविजयौ चाग्नि देवमन्दरश्रीधरौ |
मारुतात् षष्ठमन्त्रं च पद्मां विजय मादिमत् || १२६ ||
मादितः |
यष्टिं लक्ष्म्यास्तृतीयं च शिखण्डं ब्रह्मसाधनम् |
खेटकं मारुतं पापहननं पावकं ततः || १२७ ||
षष्टिं |
शशाङ्कं विक्रमं चार्तिदण्डनं विक्रमं तथा |
अर्धेन्दुशेखरं पश्चात्पञ्जान्तमृतधाम च || १२८ ||
चादि |
नभोमणिं पवित्रं च पवनान्तं च मन्दरम् |
गजाननं च विजयं दहनं बिन्दुशेखरम् || १२९ ||
नीहारदीधितिं यष्टिं सान्तं चैवाग्निसप्तमम् |
माधवीमिन्दुयान्तौ च दक्षं च मधुविद्विषम् || १३० ||
अर्धेन्दुमिन्दुमाकारं मन्दरं माययायुतम् |
क्रोधरूपं हुतवहं भुवनं पुण्यविक्रमौ || १३१ ||
यान्तं सुभद्रमोंकारं मुसलं द्विरदाननम् |
धनदं विक्रमं स्पर्शं गोपनं च चतुर्गतिम् || १३२ ||
धान्तम् |
वैराजं वामनं तार्क्ष्यं प्रचण्डं श्वेतदीधितिम् |
विक्रमं वैधरं पुण्यं प्रचण्डं कुञ्जराननम् || १३३ ||
गोपनं |
एकनेत्रं हुतवहं मधुसूदनसंज्ञितम् |
यान्तोदयौ शुक्ललोकौ बहुलं ब्रह्मसाधनम् || १३४ ||
सप्तार्चिश्श्रीधरं त्विन्द्रं यष्टिं पञ्चान्तकं तथा |
यान्तं चाग्निं द्वितीयं च मन्दरं पवनद्वयम् || १३५ ||
चेन्दुम् |
यान्तमचां द्वितीयम् |
भद्रपाणिमथैकाक्षं यान्तं च मधुविद्विषम् |
लम्बकुक्षिं च विजयं शिखिनं मन्दरं तथा || १३६ ||
सर्वरोधं भद्रबाहुं माधवं कमलं ततः |
नासिक्यं खर्वदेहं च वक्रतुण्डं सरोरुहम् || १३७ ||
यान्तं कुशेशयं कुम्भं सुमुखं द्विस्समुद्धरेत् |
ओतदेहं तथा दिं च श्वसनं विजयं तथा || १३८ ||
त्रिं च |
करालमग्नि वदनं मुखं पवकगोपनौ |
निहारदीथितिं चैव चषकं हव्यवाहनम् || १३९ ||
विघ्नेशं गोपनं चाग्निं मधुसूदनमारुतौ |
चण्डं हुतवहं रामं पुलहं बन्धुशीर्षकम् || १४० ||
सुधामयमिकारं च महान्द्रं रामशीर्षकम् |
स्पर्शान्तं विक्रमाध्यं च नत्यन्तं बन्धु मस्तकम् || १४१ ||
विक्रमं चान्यं |
सस्तकम् |
खड्गं त्रिविक्रं पीतवर्णाभं च त्रिविक्रमम् |
माधवीं सर्वरोधं च वैधरं मन्दरद्वयम् || १४२ ||
मन्दरं वैधरद्वयम् ||
यान्तार्णाग्निरथं पश्चाद्यान्तं गोपनमस्तकम् |
विहगेशं श्वेतरोचिर्मुखं हुतवहं तथा || १४३ ||
यान्तार्ण शिरसम् |
श्रीधरं चैकनयनं पश्चिमं बन्धुमस्तकम् |
श्रीवत्समादिदेवान्तं प्रचण्डं कमलाभिधम् || १४४ ||
अथोर्ध्वलोकं श्रीवत्सं मन्धरं मधुविद्विषम् |
प्रचण्डं पुण्डरीकाक्षं शुभदं च सरोरुहम् || १४५ ||
वनं गजमुखं बन्धुं भुवनं मृगवल्लभम् |
अमृतं चैकनयनं पञ्चबिन्दुं सुधामयम् || १४६ ||
भुवनम् |
विक्रमं कुञ्जरमुखं गोपनं धूलिकेतनम् |
करालं जन्मविध्वसं कुलिशं च हुताशनम् || १४७ ||
शशाङ्कमादिं यान्तं च वरुणं पुलहं तथा |
हृषीकेशं तथैकाक्षं वरुणं बन्धुशीर्षकम् || १४८ ||
क्रोधरूपं गोपतिं च दान्तं मन्दरगोपनौ |
शिखिनं स्पर्शनं चादिं षट्कृत्वः पुलहं क्षिपेत् || १४९ ||
गोपनम् |
जयं सदागतिं बन्धुं पियूषं विक्रमाभिधम् |
हिरण्यगर्भमनलं मन्दरद्वयमब्जज || १५० ||
पुण्डरीकाक्ष मग्न्यन्तं विजयं रामशीर्षकम् |
नभोमणिं चादिदेवममृतं मायया युतम् || १५१ ||
मत्यन्तं |
अत्रिं च धनदं कुम्भं द्वयमर्धेन्दुमादिमत् |
हस्तिवक्त्रं च कमलमसलं च सुधामयम् || १५२ ||
अग्निं च गोपनं मान्तं श्रीधरं सुभगं तथा |
स्पर्शत्रयं बृहद्भानुं गोपनं सुमुखं ततः || १५३ ||
माधवीं वासुदेवं च वैधरं माधवाह्वयम् |
सुभद्रं चन्द्रधवलं मुसलं च द्विरुच्छरेत् || १५४ ||
ब्रह्मन्ननन्तरं तस्य मारुतं मधुविद्विषम् |
कुम्भं सविक्रमं लक्ष्मीं सुधादीधितिविक्रमौ || १५५ ||
क्रोधरूपं प्रचण्डं च भुवनं वक्रतुण्डकम् |
करालं शिखिनं दक्षं भद्रहस्तं तथोदरम् || १५६ ||
तथोदयम् |
ओषधीशं तथा दक्षं पानकं च ठठान्तिमम् |
पवनं |
बीजाङ्गदेवतानिर्देशः. |
बीजमङ्गं यथापुर्वमृषिर्दक्षः प्रजापतिः || १५७ ||
छन्दोऽतिच्छन्द एतस्य देवता च सुदर्शनः |
सप्ताधिका सप्तदिश्च वर्णानां द्वे शते समे || १५८ ||
स्यात्सुदर्शनः |
जपेन सिध्यति मनुर्लक्षद्वादशसङ्ख्यया |
जपकालदेशादिनिर्देशः. |
कृष्णपक्षे चतुर्दश्या मुपोष्य प्रयतात्मवान् || १५९ ||
दृढमा |
निशीथे दृढधीर्मन्त्रीश्मशाने वा चतुष्पथे |
जपेद्भूतादयस्तस्य प्रत्यक्षास्सर्वकामदाः || १६० ||
अपरस्सुदर्शनमहामन्त्रः. |
महासुदर्शनं मन्त्रमपरं कथयामिते |
द्विषट्काक्षरमुद्धृत्य गोपतिं मृगवल्लभम् || १६१ ||
वैरांज विक्रम परमनलं मधुसूदनम् |
गदध्वंसमचामादिं दक्षं दिनकराह्वयम् || १६२ ||
परं यान्तं चपरं वामनं |
जन्मध्वंसं |
गोपनं धृतिमन्तं च पुलहं पश्चिमाननम् |
ऋतधामा दिनमणिं पावकं सुमुखं ततः || १६३ ||
अमृतं ककुभं पद्मनाभं गोपतिमब्जज |
सुभगं बन्धुशिरसं पवित्रं विजयं तथा || १६४ ||
गोपन |
चतुर्गतिं देवदत्तं पश्चिमं बन्धुमस्तकम् |
प्रचण्डं पुण्डरीकाक्षं गोपनं वैधराह्वयम् || १६५ ||
बन्धुसप्तकम् |
गोधनं वैधरं ध्वजम् |
सरामं चैकनेत्रं च मारुतं ब्रह्मसाधनम् |
अत्रिं चतुर्गतिं श्वेतदीधितं च स्वरादिमत् || १६६ ||
च प्रसाधनम् |
सुरादिमत् |
विघ्नेशद्वितयं पश्चान्मायामस्तकमुद्धरेत् |
सुभद्रं सूदनं शङ्खं वैधरं पञ्चबिन्दुकम् || १६७ ||
पश्चिमं चैकनयनं सूदनं गदिनं तथा |
भद्रबाहुं सरामं च ककुभं कुम्भ गोपनौ || १६८ ||
शोभनौ |
माहेन्द्रं सूदनं विश्वरूपं भूधरमब्जज |
शुभदं विजयं शुक्लं गोपनं श्वेतदीधितिम् || १६९ ||
क्रोधरूपम् |
ऋतं च सूदनं यान्तं देवरं मन्दरोदयौ |
भृगुं खड्गधरौ द्वौ च माधवं भुवनाह्वयम् || १७० ||
आकारं वक्रतुण्डं च वैधरं श्रीधरं तथा |
उग्रात्मानं पवित्रं च पद्मनाभं च माधवम् || १७१ ||
नृहरिं सूदनं शुक्लं भुवनं बहुलद्वयम् |
तार्क्ष्यं झषं गोपनं च कमलं बन्धुमस्तकम् || १७२ ||
गोपतिम् |
मलयं |
विघ्नेशं वामनपरं सुभद्रं सगुहालयम् |
एकनेत्रं चादिदेवं पश्चिमाननमब्जज || १७३ ||
शुक्लं दक्षं सूदनं च यान्तं पश्छिमवक्त्रकम् |
ऋतधाम तथा दक्षं सर्वरोधं सपश्चिमम् || १७४ ||
विक्रमं शुभदं चादिदेवं खड्गधरं तथा |
चतुर्गतिं वासुदेवं गदध्वंसं सविक्रमम् || १७५ ||
भद्रहस्तं पञ्चबिन्दुबिन्दुमोषधीशं करालकम् |
विघ्नेशं वैधरं कुम्भं विक्रामणमनन्तरम् || १७६ ||
कुञ्जराननमाकारं चतुर्गतिमचां मुखम् |
शिखिनं मानुषेशं च नृहरिं स्पर्शषोडशीम् || १७७ ||
शंखिनम् |
ऋतधामोतदेहं च भद्र बाहुमनन्तरम् |
अचां द्वितीयं दृष्टिं च गदिनं पद्मनाभकम् || १७८ ||
बाहुं समन्दरम् |
मार्ताण्डं सूदनं विघ्ननायकं विजयं तथा |
पद्मनाभं गोपनं च शुक्लमादिं दराह्वयम् || १७९ ||
गोपतिम् |
तत्समष्टिं द्विरुच्चार्य सोममादिं सयष्टिकम् |
भास्करं पावकं चैव द्विर्वक्तव्यं तदक्षरम् || १८० ||
पीयूषं विक्रमं पुण्यं कलशं यष्टिशीर्षकम् |
शशाङ्कमादिं शङ्खं च पूर्ववत्कमलोद्भव || १८१ ||
पीयूषं रामशिरसं स्पर्शानामपि षोडशम् |
ऋतं च सूदनं शुक्ल मत्रिं चैव यथापुरम् || १८२ ||
मुग्रं चैन यथापुरम् || लक्ष |
तार्क्ष्यद्वयं च कमलां विजयं त्वृतधाम च |
हृषीकेशं तथा भद्रद्वयं मधुनिघादनम् || १८३ ||
श्रीवत्सं चादिमनलं श्रियः पतिमनन्तरम् |
पञ्छान्तकं पद्मनाभमेकाक्षं मृगवल्लभम् || १८४ ||
जन्मध्वंसं श्वेतरश्मिमेणएशं दृष्टिवामनौ |
सुभद्रं बन्धुशिरसं स्पर्शानां षोडशाक्षरम् || १८५ ||
विक्रमं चैकविंशं च बन्धुं तन्मस्तकस्थितम् |
सुमुखं पवनाह्वानं ब्र्हमसाविजयाह्वयम् || १८६ ||
दहनं भद्रममृतं मतिमन्तं च सूदनम् |
प्रचण्डं गोपनं शुक्लं भुवनं बहुलं तथा || १८७ ||
भल्लायुधं श्रीधरं च मुसलं प्रेतनायकम् |
माधवं वैधरं विघ्ननायकं द्वितीयं तथा || १८८ ||
अचां द्वितीयं पञ्चान्तं विष्कंभं द्विरदाननम् |
विक्रमं माधवीमग्निं वासुदेवं चतुर्मुख || १८९ ||
वक्रतुण्डं मानुषेशमप्रमेयं वनस्रजम् |
धरित्रीं कमलाक्षं च सूक्ष्मदृग्बन्धुमस्तकम् || १९० ||
विघ्नेशं वैधरं प्रेतनायकं माययायुतम् |
हैरम्बं वैधरं चादिं पश्छिमं त्वृतधामकम् || १९१ ||
विजयं रामशिरसं भास्करं विजयाह्वयम् |
अत्रिं मृगेशं वरुणं गोपनं श्वेतदीधितिम् || १९२ ||
श्रीधरं बहुलं पीतं जृम्भलं मोहनाशनम् |
पश्चिमं भुवनं विघ्ननायकद्वितयं तथा || १९३ ||
अचां द्वितीयं कमलमादिं शङ्खं विनायकम् |
पश्चिमं भुवनं बिन्दुं शशाङ्कं द्विगुणं तथा || १९४ ||
भद्रबाहुं सरामं च सुधादीधितिगोपनौ |
यान्तं समिरणं चादिं पश्चिमं जातवेदनम् || १९५ ||
अमृतं विक्रमपरं वैधरं चानलं तथा |
गोपनं विजयं विघ्ननायकं विजयाह्वयम् || १९६ ||
चानिलं तथा |
ऋतवधामं नलसिजं पद्मनाभं पितामह |
वैराजं श्वसनं चादिदेवं भल्लायुधं करम् || १९७ ||
श्वसनं प्रणवादिं च विघ्नेशं सर्वविक्रमौ |
करालमृतधामान्तं विजयं धनसंज्ञितम् || १९८ ||
शर्वविक्रमौ |
करालम् इत्यारभ्य विधातारम् इत्यन्तं क्वचिन्नास्ति |
स्वच्छन्धमथं दृष्टिं च चतुर्गति मनन्तरम् |
शशाङ्कं पुल्लनयनं वासुदेवं च खेटकम् || १९९ ||
शङ्खं पुलहमोङ्कारं मार्ताण्डं पश्चिमानम् |
क्रोधं वनस्रजं भूमिं नासिक्यं श्वेतदीधितिम् || २०० ||
षोडशं कपिलं भानुं चतुर्गतिमनन्तरम् |
विधातारं तथा शैलं विजयं कमलोद्भव || २०१ ||
अचां त्रयोदशं चाग्निं कमलं चन्द्रदीधितिम् |
वक्रतुण्डं चादिदेवं शङ्खं पीतमचां मुखम् || २०२ ||
शङ्खं पीतमवाङ्मुखं |
पूर्णचन्द्रं तथा दक्षं भुवनं वैधरात्मकम् |
पद्मनाभं ध्रुवं लक्ष्मीं ब्रह्मसाधनसंज्ञितम् || २०३ ||
क्रोधरूपं दरं चादिं माधवं गोपतिं तथा |
विक्रमं माधवं भानुं सरामं सूक्ष्मलोचनम् || २०४ ||
गदध्वंसं च पीयूषं विघ्नेशं पश्चिमाननम् |
अचां द्वितीयं शुभदं सूदनं यष्टिशीर्षकम् || २०५ ||
करालं श्रीधरं लक्ष्मीं मृगेशं द्विरदाननम् |
पद्मपाणिं भूधराख्यं द्वयं वैधरमाधवौ || २०६ ||
भूधर |
पश्चिमं पवनं लक्ष्मीं ब्रह्मसाधनसंज्ञितम् |
क्रोधरूपमचामादिं स्पर्शनं दक्षगोपनौ || २०७ ||
धान्तं चतुर्गतिं पापहननं बहुलं तथा |
वक्रतुण्डं करालं च ककुभं त्वृधाम च || २०८ ||
ऋतधाम च धाम च |
भद्रबाहुं चलध्वंसं मृगेशं दृष्टिमादिमम् |
द्विरदाननयष्टिं च अनलं गोपनाह्वयम् || २०९ ||
गदध्वंसं |
सध्रुवं पुलहं बिन्दुं माहेन्द्रं मधुसूदनम् |
अर्धचन्द्रं तथा चन्द्रं नासिक्यं तद्द्विरुद्धरेत् || २१० ||
बन्धूहम् |
शशाङ्कमृतधामानं सूधनं यष्टिशीर्षकम् |
तद्विरभ्यस्य शीतांशुमर्पितं वसुमस्तकम् || २११ ||
पुलहं वासुदेवाख्यं स्रष्टारंद्विरदाननम् |
विक्रमं बहुलं ब्रह्मन् गोपनं बहुलं तथा || २१२ ||
प्रचण्डं जन्मविध्वंसं विघ्नेशं च तृतीयकम् |
अचां दृष्टिं द्वितीयान्तं भद्रबाहुं पवित्रकम् || २१३ ||
छलि |
द्वितीयकम् |
दृष्टिद्वयं यान्तम् |
ऋतं च कार द्विरदं चाननं मन्दराह्वयम् |
प्रद्योतनं गोपनं च शशाङ्कं च श्रियः पतिम् || २१४ ||
वैधरं शुभदं चाग्निं श्रीवत्सं ब्रह्मसाधनम् |
सुमुखं विक्रमपरं विजयं मुखमब्जज || २१५ ||
अत्रिं सरामं पञ्चान्तं सुभगं मधुसूदनम् |
यष्टिं करालमाकारं चतुर्गतिमनन्तरम् || २१६ ||
अपां पतिं श्वेतरश्मिं श्रियः पतिमतः परम् |
स्तम्बरमाननं मायां कलशं दीप्तरोचिषम् || २१७ ||
सप्त |
सुभगं गोपनं यान्तं गोपनं पश्चिमाननम् |
हृषीकेशं वसुं शङ्खं गोपनं द्वितीयं पुनः || २१८ ||
श्रीद्विज. श्रीबीजद्वितियं |
यष्टिबीजं द्विरुच्चार्य तिग्मदीधिं पवित्रकम् |
ऋतधामतथैकाक्षं विक्रमं बहुलाह्वयम् || २१९ ||
निगमादिं |
गदध्वंसं तथैकाक्षं विक्रमं बहुलाह्वयम् |
गुहालयं पापहनममृतं मधुविद्विषम् || २२० ||
गुहाश्रयम् |
रोचिश्श्रियः पतिं कान्तं वैधरं माधवं तथा |
पीयूषमादिं कमल मशिवं धनदाह्वयम् || २२१ ||
मनलं |
ऋतधाम तथै काक्षमचामेकदशं तथा |
द्विरुद्धरेत्कामभीजं वैधरं तूदयाह्वयम् || २२२ ||
मरणा |
गदध्वंसं तथै वाग्नि मस्तकस्थं पवित्रकम् |
गोपनं विजयं चादिदेवं विष्कम्भसंज्ञितम् || २२३ ||
त्रिदशाकारमेकारं श्वेतांशु विक्रमं तथा |
गजवक्त्रं सूदनं च कपिलाक्षमनन्तरम् || २२४ ||
तृतीयं ककुभद्वन्द्वमस्तकं वसुं पुनः |
जन्मध्वंसं च जलजं सुधादीधितिविक्रमौ || २२५ ||
कलशं पुरुषात्मानं गहनं पद्मनाभकम् |
भास्करं सुमुखं ब्रह्मन् भुवनं विजयं वसु || २२६ ||
मुसलं |
सुखम् |
द्रुहिणं त्वृतधामानं भूधरं क्रोधनं ततः |
स्पर्शानां षोडशार्णं च कुम्भेशं मुसलं ततः || २२७ ||
मृगेशं |
निहारदीधितिमचा मेकदेशमतः परम् |
चतुर्गतिं भद्रहस्तं विजयं पद्मनाभकम् || २२८ ||
मेकादश |
हैरम्बं गोपनं चैव गदिनं कलुषापहम् |
अचां द्वितीयं कमलां गोपनं वित्तवर्धनम् || २२९ ||
कमलम् |
हरिणाननमाये द्वे ककुभं वरुणाह्वयम् |
ज्वलनं मानुषघ्नं च विघ्नेशं गोपनाह्वयम् || २३० ||
वारणानन |
अनलं मानुषेशं च |
श्रीवत्सं द्विशदं शुक्लमचामादिं सरोरुहम् |
ब्रह्मन् पञ्चान्तकमतः धृतावासुमतः परम् || २३१ ||
जलजं |
कोशाष्टकेपि त्रुटिः. क्वचित् यथा पाङ्त्काः पाठः |
वैराजमग्निं नृहरिं ब्रह्मसाधनसंज्ञितम् |
सुभद्रं सुमुखं कुम्भं मारुतं चोतदेहकम् || २३२ ||
दक्षं दाक्षायणीकान्तं मन्दरं पञ्चबिन्दुकम् |
धूमध्वजं प्रचण्डं च सूदनं कतृतीयकम् || २३३ ||
हरिवक्त्रं रामसंज्ञं दृष्टिविक्रममब्जज |
शुभदं कपिलं ह्रस्वं भद्रहस्तं समिरणम् || २३४ ||
करिवक्त्रं |
भद्रहस्तं पुण्यं |
निहारदीधितिमचामादिं कुम्भं हुताशनम् |
शुक्लमोङ्कारसंयुक्तं सुभद्रं मधुसूदनम् || २३५ ||
स्पर्शं तृतीयमनलं विजयं सप्तमिं कलाम् |
विक्रमं सूक्ष्मदृष्टिं च श्रीधरं यादसां पतिम् || २३६ ||
हेरम्बं वासुदेवं च भद्रहस्तं च माधवीम् |
अचां द्वितीयं दृष्टिं च कमलं बहुलं तथा || २३७ ||
तुष्टिं च |
स्पर्शान्तं भुवनं चक्रं भृगुं ककुभसंज्ञितम् |
नभोमणिं विक्रमं च पाटलं मधुविद्विषम् || २३८ ||
भल्लायुधं बन्धु शीर्षं विघ्नेशं वैधराह्वयम् |
वक्रतुण्डमाचामादिं कमलं पीठपूर्वकम् || २३९ ||
रसंशरो |
गोपनं मानुषं चैव पुलहं बन्धुमस्तकम् |
ओतदेहं तथा पीतं जन्मध्वसं त्रिविक्रमम् || २४० ||
पुलहद्वय |
गोपतिं वरुणं विघ्ननायकं त्वृतधामकम् |
एकाक्षं मारुतं चादिदेवं बहुलमस्तकम् || २४१ ||
पवनं सूक्ष्मदृक् प्रोक्तं सूदनं च चतुर्गतिम् |
सुभद्रं च बृहद्भानुं गदिनं वरुणं मुखम् || २४२ ||
पावनं |
जयं कुम्भेशमखिलमृतं भुवनसंज्ञितम् |
दृष्टिं च धनदं दक्षं हृषीकेशं जयाह्वयम् || २४३ ||
शशाङ्कं भुवनं चादिं कमलामद्रिमस्तकम् |
विघ्नेशं भुवनं चादिं कमलामद्रिमस्तकम् |
विघ्नेशं पश्चिमं बन्धुं नासिक्यं गदिनं तथा || २४४ ||
माहेन्द्रं शशिनं देवदत्तं लक्ष्मीं श्रियःपतिम् |
पञ्चान्तकं पद्मनाभं गोपनं विघ्ननायकम् || २४५ ||
अमृतं समिरणमचां द्वितीयं पश्चिमाननम् |
वैराजं माधवीमूर्ध्वलोकेशं विजयद्वयम् || २४६ ||
बहुलं समिरणं देवदत्तं मन्दर गोपने |
गोपनं चौषधीशं च भुवनं वैधराह्वयम् || २४७ ||
गोपती |गोपतिम् |
श्रीवत्समग्निं विघ्नेशं गोपनं च चतुर्गतिम् |
हुंफट्कारं ठठान्तं च मनुमेवं समुद्धरेत् || २४८ ||
बीजाङ्गादिनिर्देशः. |
बीजाङ्गानि यथापूर्वमृषिस्स्यान्नीललोहितः |
छन्धश्च वरिवंसंज्ञो देवता च सुदर्शनः || २४९ ||
अष्टलक्षं जपेद्ब्रह्मन् पाताले दिवि वा भुवि |
गतिनन् प्रतिहन्येत मन्त्रिणो मन्त्रवैभवात् || २५० ||
सुदर्शननृसिंहमन्त्रः. |
सुदर्शननृसिंहाख्यं मन्त्रं ब्रूमि चतुर्मुख |
उद्गीधं नृहरिं पद्मनाभां सङ्कर्षणाह्वयम् || २५१ ||
ब्रह्म |
नासिक्यं शुक्लमादिं च गोपतिं प्रणवादि च |
निहारदीधितं पद्मनाभं च मधुविद्विषम् || २५२ ||
अनलं ककुभं कुम्भं गोपनं पुलहात्मकम् |
अचां द्वितीयं स्पर्शान्तं सूदनं पुलहाह्वयम् || २५३ ||
विक्रमं कुञ्जरमुखं माधवं तस्य मस्तके |
मार्ताण्डं भद्रहस्तं च द्विरुच्चार्य प्रभाकरम् || २५४ ||
वामनं |
श्रीधरं कपिलाक्षं च फट्कारं खेटकीं ततः |
ठठान्तमेवं कथितं द्वाविंशत्यक्षरात्मकम् || २५५ ||
बीजमङ्गानि चोक्तानि छन्दो गायत्रमिरितम् |
द्रष्टा च जमदग्निस्स्याद्धेवता च सुदर्शनः || २५६ ||
सुदर्शननृसिंहध्यानम्. |
सुदर्शनस्य हृदये विष्ठितं नृहरिं हरम् |
स्फटिकाचलसङ्काशं परश्शतसटाकुलम् || २५७ ||
प्रलयाम्बुदनिर्घोषगम्भिरगहनध्वनिम् |
शज्खचक्रधरं द्वाभ्यां कराभ्यामितरौ पुनः || २५८ ||
हाराद्यङ्गदनिर्घोषगम्भिर भयद |
प्रसार्य जानुनोर्भी मं नखदम्भोलिभीषणौ |
व्यत्यस्तचरणद्वन्द्वमासीनं पद्मविष्टरे || २५९ ||
मनखदम्भोलिनिर्मितौ |विन्यस्त |
भ्रुकुटीकुटिलं योगपट्टिकादृढबन्धकम् |
व्यादायवक्त्रकुहरं दंष्ट्रिणं स्फुटिताधरम् || २६० ||
त्रिणेत्रमखिलाकल्पकल्पितं ब्रह्मगर्जितम् |
ध्याये देवं च तन्मन्त्रं मन्त्री तरति दुर्गतिम् || २६१ ||
द्धेनं जपेन्मन्त्रं |
सकृत्स्मरणमात्रेण यथाभिलषितं फलम् |
अन्येषु मन्त्रकल्पेषु यदुक्तं तत्समश्नुते || २६२ ||
पाञ्छजन्यमन्त्रः. |
वक्ष्यामि पाञ्चजन्यस्य मन्त्रं सर्वार्थसाधनम् |
उद्गीथमादौ सप्तार्णानुद्धृत्य तदनन्तरम् || २६३ ||
पश्चिमं भुवनं चण्डं पुण्डरीकं हुताशनम् |
महामायां करालं च गोपनं पन्नगाधिपम् || २६४ ||
सूदनं च तथा सङ्खं कलशं मधुसूदनम् |
मारुतं भुवनाह्वानं मन्दरं भुवनं ततः || २६५ ||
कमलम् |
खर्वदेहं तथा चादिदेवं श्वसनमादिमत् |
वैधरं पञ्चबिन्दुं च पश्चिमं विजयं ततः || २६६ ||
यान्तं गुहालयं पापहननं मधुविद्विषम् |
शङ्खं लक्ष्मीं तथायष्टिं खर्वदेहं च पश्चिमम् || २६७ ||
पंचमम् |
आदिदेवं महेन्द्रं च मधुसूदनशीर्षकम् |
वायुं ठठान्तमुदितमिति प्रोक्तो मनुर्महान् || २६८ ||
श्रीवत्सो यष्टिरुद्गीथो बीजमेतत्प्रकीर्तितम् |
अमुष्य सनको द्रष्टा छन्दस्स्याद्बृहती मनोः || २६९ ||
देवता पाञ्चजन्यश्च चतुर्लक्षोजपः स्मृतः |
पाञ्चजन्यमन्त्रान्तरम्. |
अतोऽन्यं पाञ्चजन्यस्य मन्त्रं शृणु चतुर्मुख || २७० ||
सप्तार्णमुद्धरेदादौ पश्चिमं मधुसूदनम् |
भृगुं चन्ध्रधरं खड्गधवलं ककुभाह्वयम् || २७१ ||
गजवक्त्रं तथा नायुमादि देवं समिरणम् |
पश्छिमं सप्तममचां सुमुखं निगमादिकम् || २७२ ||
पीयूषमत्रिं सुभगं वरुणं मधुविद्विषम् |
गजास्यमादिदेवं च श्वसनं श्वेतरोचिषम् || २७३ ||
सुमुखम् |
वैधरं गोपनं चापि गदध्वंसं चतुर्मुख |
वैराजं विक्रमं दक्षं श्रीधरं तर्क्ष्यवाहनम् || २७४ ||
गोपनं स्पर्शनं जन्महन्तरं सलिताधिपम् |
महेन्द्रमादिं ज्वलनं तथाचं षष्ठिपश्चिमौ || २७५ ||
जलजं |
गोपनं पश्चिमं गोपं पीतवर्णं मधुद्विषम् |
श्वसनं च ठठान्तं च मनुरित्थमुदाहृतः || २७६ ||
जीमङ्गानि वैतस्य देवता चापि पूर्ववत् |
विष्वक्सेन ऋषिश्छन्दस्सुप्रतिष्ठापितामह || २७७ ||
पञ्चलक्षजपेनास्य साधको मन्द्रवैभवात् |
अतलादिषु लोकेषु चरन्न प्रतिहन्यते || २७८ ||
गतिर्न |
किं पिनर्दर्मकामार्थमोक्षाः कमलसम्भव |
कौमोदकीमन्त्रः. |
सप्तार्णमग्रे गोविन्दं गदिनं दृष्टिसूदनौ || २७९ ||
चतुर्गतिं चातिवीरं भल्लायुधमचां मुखम् |
अपां पतिं हुतमहमुकारं पश्चिमाननम् || २८० ||
रामं प्रचण्डं गोविन्दं ब्रह्मसङ्कर्षणावपि |
मन्दरं वासुदेवाह्वं वैधरं विष्णुमस्तकम् || २८१ ||
कुशेशयधरे वीरसेनं हुंफट् ठठान्तिमम् |
इति कौमोदकीमन्त्रमुद्धरेद्बीजमस्यतु || २८२ ||
स्पर्शद्वितीयमर्धेन्दुमेतेनैवाङ्गकल्पना |
ऋषिः कृष्णस्तथा छन्दः पङ्त्किः कौमोदकी पुनः || २८३ ||
चन्दो देवी |
देवता लक्षमन्त्रश्च जवतस्पिद्धिदो भवेत् |
पद्ममन्त्रः. |
आदावुद्धृत्य चोङ्कारं गोपनं दृष्टिविक्रमौ || २८४ ||
चोद्गीथं |
वैराजं मारुतं पापहननं वसुमस्तकम् |
वैराजं बन्धुशिरसं माधवीं सूदनं दरम् || २८५ ||
विजयं तथा |
पाटलप्रियमाकारं समिरणमचां मुखम् |
यान्तं गुहालयं ब्रह्मन् पश्चिमं बन्धुमस्तकम् || २८६ ||
सुमुखं देवदत्तं च हुंफट्कारं ठठान्तिमम् |
नादं पकारमाकारमर्धेन्दुशिरसं पुनः || २८७ ||
हुतान्तिमम् |
बीजं प्रकल्पयेद्ब्रह्मन्नमनै पाङ्गकल्पना |
द्रष्टा विरञ्चश्छन्दश्च विराट्पद्मोऽधिदेवता || २८८ ||
दशलक्षजपात्सिद्धिरखैलं प्राप्नुयान्नरः |
इति पद्ममनुः प्रोक्तो बीजेनान्याङ्गकल्पना || २८९ ||
मुसलमन्त्रः. |
शुक्लं पुनर्विष्णु वह्निपीयूषं गोपनाह्वयम् |
सप्तार्णाद्धरणात्पश्छान्मन्दरं कमलासन || २९० ||
शशाङ्कमादिं पुलहं गोपनं पवनं पुनः |
ज्वलनं गोपनं दक्षं गोपनं कमलोद्भव || २९१ ||
चतुर्गतिं च भुवनं सुमुखं मधुविद्विषम् |
दरं मुखं ठठान्तं च मन्त्रविन्मन्त्रमुद्धरेत् || २९२ ||
मन्दरं भुवनं यष्टिमितिबीजमिदं मनोः |
मुद्गस्यादृषिश्छन्दो विराण्मन्द्रस्य देवता || २९३ ||
मुसलः पञ्चलक्षं तु मन्त्रमस्य प्रचक्षते |
खड्गमन्त्रः. |
उद्धृत्य सप्तवर्णांश्च हैरम्बं मधुसूदनम् || २९४ ||
जप |
गजह्वमत्रिं कमलं मधुशत्रुं चतुर्गतिम् |
विष्णुं शुक्लं पुनर्विष्णुं वह्निपियूषगोपनाः || २९५ ||
गजास्यात्रिसरोजानि |
शशाङ्कं भुवनं वह्निं श्रीवत्सं ब्रह्मसाधनम् |
सुमुखं विक्रमं चापि वैधरं विजयं तथा || २९६ ||
रामं पञ्चान्तकं पुण्यं गोपनं यष्टिशीर्षकम् |
पञ्चान्तकं गोपनं च श्वसनं हुंकृतिं तथा || २९७ ||
फट्कारं स्वाहया सार्धं खड्गस्य गदितो मनुः |
चक्रमन्त्रस्य बीजं स्यादृषिश्श्रीनिधिरुच्यते || २९८ ||
छन्दो विराढधिपतिः खड्गाख्यो हेतिराड्भवेत् |
लक्षत्रयं जपेन्मन्त्री काङ्क्षितां सिद्धिमश्नुते || २९९ ||
शार्ङ्गमन्त्रः. |
सप्तार्णं कल्पयित्वादौ श्रीवत्सं मधुसूदनम् |
शार्ङ्गहस्तं गदध्वंसं मधुसूदन शीर्षकम् || ३०० ||
ज्वलनं पवनादिं च वह्निं शुक्लमपां पतिम् |
मधुसूदनपूर्णेन्दुभुवनं हव्यवाहनम् || ३०१ ||
पवित्रं सप्तममचां श्रियं मन्दरमादिमत् |
विघ्नेशं गोपनं शङ्खं मुखं पश्चिम श्रीधरम् || ३०२ ||
माधवौ |
बहुलं भुवनं क्रोधं त्रयोदशमचां तथा |
हुताशमेकदृष्टीद्वौ मन्दरं पद्मसम्भव || ३०३ ||
पवित्रमृतधामानं वायुं यष्टिं मधुद्विषम् |
चतुर्गतिं हुंकृतिं च फट्कारं च ठठान्तिमम् || ३०४ ||
पवित्रम् इत्यरभ्य उत्तरत्र. अतो वक्ष्येमनुम् इत्यन्तं क्वचित्कोशे गलितम् |
हुंफडन्तं मनुं कृत्वा बीजमाद्यर्णमुद्धरेत् |
ऋषिर्हुतान्तो मन्त्रस्य छन्दश्छन्दोऽधिदेवता || ३०५ ||
बाणो जपन्नष्टलक्षं समरे विजयी भवेत् |
ब्रह्मकोशं नतिं सर्गं कलात्मा कमलाह्वयम् || ३०६ ||
महेन्द्रं गोपनपरं शुभदं मधुविद्विषम् |
शशाङ्कं श्रीधरं वह्निं वरुणं बन्धुमस्तकम् || ३०७ ||
विघ्नेशमादिदेवं च शुभदं गोपनं तथा |
पवनं कुटामौर्वं च नासिक्यं भास्करो मनुः || ३०८ ||
यष्टिं हुङ्कारफट्कारौ हुतान्तं मनुमुद्धरेत् |
पीयूषमादिमर्धेन्दुं बीजं चामुष्य कल्पयेत् || ३०९ ||
शतदृग्दृष्टवान् मन्त्रं माच्छ्दो देवतापि च |
पञ्चलक्षं जपेन्मन्द्रं विजयेत्तरसा रिपून् || ३१० ||
पाशमन्त्रः. |
उद्गीधं पापहननं गोपनं सद्ध्रुवं मनुः |
पश्चिमं गोपनं लक्ष्मीमादिदेवसमिरणौ || ३११ ||
नत्यन्तं कल्पयेन्मन्त्रमृषिः प्राचेतसः स्मृतः |
छन्दो विराडधिपतिः पशो लक्षत्रयं जपः || ३१२ ||
अङ्कशमन्त्रः. |
ब्रह्मकोशमचामादिं नासिक्यं सरसीरुहम् |
भुवनं शुभदं पश्चादादिदेवं गदागतिम् || ३१३ ||
नत्यन्तमिरयेन्मन्त्रं द्रष्टा सत्यो विराट्पुनः |
छन्दोऽङ्कुशो देवता स्याल्लक्षत्रयमिमं जपेत् || ३१४ ||
प्रणवादि चतुर्थ्यन्तं नामधेयं ठठान्तकम् |
अन्येषामायुधानां च मन्द्रबीजमथादिमत् || ३१५ ||
सिद्धयश्च यथापूर्वं भवन्ति जपतोऽखिलाः |
गारुडमहमन्त्रः. |
अतो वक्ष्ये मनुं ब्रह्मन् शूयतां कथ्यतेऽधुना || ३१६ ||
कथयिष्ये |
वश्याकर्षण विद्वेष मारणो च्चाटनादिषु |
शोषणस्तम्भनावेश सर्पाकर्षण कर्मसु || ३१७ ||
नष्टायनविषक्षेप समुद्रतरणादिषु |
नभोलङ्घन वाय्वग्नि जलभूमि प्रवेशने || ३१८ ||
अष्टा |
इन्द्रजालादिविद्यासु ऋषीणां विजये तथा |
अतीतानागतज्ञाने भूतसंपनने तथा || ३१९ ||
ऋणानां विषये सुराणां विषये |
देवता सन्निधानादौ स्फोटिमूर्ष्यादिकर्मणि |
एवमादिषु साध्येषु तथा न्येष्वपि सर्मसु || ३२० ||
स्फुटमुष्ट्यादि |
मन्त्रवित् |इत्थं |
इति मन्त्रं प्रयुञ्जीत गरुत्मन्तमनुस्मरेत् |
सट्तार्णान् पूर्वमुद्धृत्य गदिनं हव्यवाहनम् || ३२१ ||
भुवं पुण्डरीकाक्षं गोपनं पवनं पुनः |
पश्चिमं भुवनं वह्निं श्रीधरं क्रोधविग्रहम् || ३२२ ||
केशनं |
ब्रह्मसाधनवैराजौ जयमन्दरामादिमत् |
अमृतं गोपनं चापि गोपतिं द्विरदाननम् || ३२३ ||
आदिदेवं नभस्वन्तं अनलं च रमाधरम् |
प्रचण्डं कमलं भद्रहस्तं वामनमस्तकम् || ३२४ ||
श्रीधरं च |
श्वसनं रोहिणीशं च मृगेशं मानुषेश्वरम् |
गोपन गदिनं पश्चात्कमलां भुवनं तथा || ३२५ ||
वासुदेवं प्रचण्डं च विक्रमं विजयं तथा |
वै राजं रामसहितं गदिनं मोहनाशनम् || ३२६ ||
वैधरं |
अचां तृतीयमर्धेन्दुं पञ्चान्तकमधुद्विषौ |
मारुतं धूमकेतुं च सप्तकृत्वस्समुद्धरेत् || ३२७ ||
द्वितीय |
हृङ्कृतिं फट्कृतिं स्वाहमोतदेहं ध्रुवं तथा |
पुलहं सप्तकृत्वश्च हुंफट्कारं ठठान्तकम् || ३२८ ||
तारं वरुणगोविन्दौ विघ्नेशमथ माधवम् |
स्पर्शा न्तकमकारं च पञ्चकृत्वस्सदागतिम् || ३२९ ||
न्तर |
षट्कृत्वो वरुणं चापि हुंफट् स्वाहावसानकम् |
निगमं पश्चिमं कूटं विक्रमं विघ्नुगोपनौ || ३३० ||
वह्नि |
ककुभं गोपनं चापि षट्कृत्वो मारुतं पुनः |
व्यञ्जनार्णेषु सर्वत्र सुखोच्चारणमिच्छता || ३३१ ||
स्वरानुद्धरणे कल्प्यं मनुश्शास्त्रोक्तवर्त्मना |
हुंफट्स्वाहावसानं च गारुडं मन्त्रमुद्धरेत् || ३३२ ||
पञ्चान्तकमनुस्स्वारं बीजमेतस्य कल्पयेत् |
आदौ सुवर्णवचनं वक्रतुण्डगिरं पुनः || ३३३ ||
महासुवर्ण इत्येवं खगेश्वरशिरस्तथा |
अनन्तवीर्यवन्ताख्यं पक्षिराजं तथा न्तिमम् || ३३४ ||
प्रणवादि यतुरथ्यन्त नत्यन्तानि चतुर्मुख |
कल्पयित्वाङ्गमन्द्राणि षड्भिरेतैर्यथाक्रमम् || ३३५ ||
सत्यन्तादि |
अङ्गानि हृदयादीनि स्पृशेन्मन्त्रविचक्षणः |
अमुष्य काश्यपो द्रष्टा छन्दः पङ्त्किर्निगद्यते || ३३६ ||
देवता गरुडस्तस्य जपो लक्षत्रयं स्मृतः |
अधस्ताद्वटवृक्षस्य साधकस्साधयेन्मनुम् || ३३७ ||
आम्नायादिं नरहरिं वामनं पश्चिमाननम् |
वैराजं पावकं तारमिति पञ्चाक्षरो मनुः || ३३८ ||
पावकस्सौर इति |
ऋषिर्मरिचिरेतस्य गरुडो देवता तथा |
छन्दश्च देवी गायत्रं षडङ्गानि पुनस्स्वयम् || ३३९ ||
उद्गीधं कमलं वायुं वासुदेवं ध्रुवं तथा |
पश्चिमं बहुलं ब्रह्मसाधनं यष्टिमस्तकम् || ३४० ||
वह्निं |
विघ्नेशं विक्रमं वह्निं महामायां ध्रुवं पुनः |
पुष्पभद्रं तथा पीठं वामनं यष्टिकौस्तुभम् || ३४१ ||
बिन्दुं कलशचन्द्रार्धौ सूर्यार्धान्दुकलात्मनः |
पन्नगाधिपतिं बन्धुं वरुणं यादसां मुखम् || ३४२ ||
हुतान्तमुद्धरेन्मन्त्रमिति गारुडमुत्तमम् |
स्यादिमं जगतस्साक्षात्प्रत्यक्षं पक्षिपुञ्गवः || ३४३ ||
ब्रह्मकाशमथो पद्मं नासिक्यं भूधराह्वयम् |
यष्टिं पापस्य हन्तरं बिन्दुं कमलमन्दरम् || ३४४ ||
अर्धेन्दुकलशं बिन्दुं पश्चिमं पन्नगाशनम् |
विक्रमाग्निमथो शत्रुं ककुभं मधुसूदनम् || ३४५ ||
वायुं स्वाहान्तमित्येव मन्यं गारुडमिरयेत् |
आकाशारोहनं सिद्धिर्जपादस्य भविष्यति || ३४६ ||
धन्यं |
एवं कृत्वाद्यमोङ्कार मादिदेवं खपश्चिम् |
स्वच्छन्दं च द्विरुच्छार्य गदिनं हव्यवाहनम् || ३४७ ||
द्वित्रिरुच्चार्य |
भुवनं मेदिनीं च द्विर्मन्दरं मधुसूदनम् |
वैराजं विपुलं पश्चाद्वामनं च द्विरीरयेत् || ३४८ ||
पुलहं |
पवित्रं पद्मकञ्जं च नागेन्द्रं वायुमादिमत् |
एताद्विःकल्पयित्वाथो गोपनं यष्टिमन्तिमम् || ३४९ ||
तुष्टिबीजार्धशशिनं ठठान्तं कल्पयेन्मनुम् |
सप्तार्णानादितः कृत्वा भास्करं हव्यवाहनम् || ३५० ||
पुष्टिबीजाद्यशशिनो |
गोपनं यष्टिमार्ताण्डौ हव्यवाहन वामनौ |
चन्द्रर्धौ द्वादशात्मानं हृषीकेशमथो ध्रुवम् || ३५१ ||
मारुतौ |
वरुणं हृदयाह्लादं द्वन्द्वं कमलमाधवौ |
वैराजं श्रीधरो भूयः पीठस्तु भुवनद्वयम् || ३५२ ||
विजयं श्रीधरं वह्निं भुवनं पुनरीरयेत् |
लोकनेत्रोर्ध्वनासिक्यं करालं ब्रह्मसाधनम् || ३५३ ||
अनलं यष्टिमनिलं यष्टिं कुम्भो ध्रुवं तथा |
हुतान्तमिति सर्वार्थं जानीयाद्गारुडं मनुम् || ३५४ ||
सप्तार्णमुद्दृत्य पुनः कलशं बन्धुमस्तकम् |
क्रोधरूपं प्रचण्डं च त्रिदशाहारमाधवौ || ३५५ ||
चन्द्रं स्वाहापतिं चापि शशिनं बहुलं तथा |
मृगाङ्कं श्रीधरं वह्निं भुवनं द्वि चतुष्टयम् || ३५६ ||
भानुमत्पुलहद्वन्द्वं हुं फडन्तं हुता न्तिमम् |
इत्यन्यं गारुडं मन्त्रमूहेन्मन्द्रविचक्षणः || ३५७ ||
पवनेन हुताशेन महेन्द्रेण प्रचेतसा |
एतैश्चतुर्बिः प्रत्येकं क्रमव्यस्तैर्विषं हरेत् || ३५८ ||
समस्त्रैः प्रातिलोम्येन स्तम्भनादि समाचरेत् |
व्यापिनं विघ्नुराजं च दामोदरमथो ध्रुवम् || ३५९ ||
एवमादिमिति ब्रह्मन् त्य्रक्षरं मनुमुद्धरेत् |
यैनैव साधितो मन्त्रः यक्षराजोपलक्षितः || ३६० ||
मेघ |
येनैष |
पक्षिराज इति साधु |
त्रीणि तस्य भविष्यन्ति भुवनानि विशेषताम् |
आदिद्वितीयं भुवनं पञ्छान्तममृतं तथा || ३६१ ||
विधेस्तथा |
गदिनं श्रीधरं वह्निमुदयं चादिमम्बुजम् |
वैराजं विक्रमं स्वाहा और्वं च कमलाह्वयम् || ३६२ ||
भद्र |
ओणपं |
भुवनं पर्वतं बन्धुं माहेन्द्रादि श्रियं तथा |
विक्रमं तार्क्ष्यवाहं च मृगेशं मन्दरं तथा || ३६३ ||
आदिसूर्यो गोपनं च मन्दरं भुवनं दिशम् |
अग्निं मृगाधिपं चापि स्वाहाकारावसानिकम् || ३६४ ||
दृशं |
इति मुद्रामनुर्ब्रह्मन् कल्पयेदथ मण्डलम् |
विस्तरेषु निरीक्षन्तां तेषां सङ्ख्या न विद्यते || ३६५ ||
निरीक्ष्यान्तः |
आत्मानं चिन्तयेन्मन्त्री गरुत्मन्तमनन्यधीः |
गरुडद्यानप्रकारः. |
अथ द्यानं प्रवक्ष्यामि पक्षिराजस्य पद्मज || ३६६ ||
मेरुशृङ्गनिभाकारं रुक्मपक्षतिमण्डलम् |
वैडूर्यनीलवासाग्रं वक्रतुण्डं भयङ्करम् || ३६७ ||
वज्रकल्पन खाकारं कल्पितोत्कटिकासनम् |
स्नगम्भूरनिर्ह्रदं शिलाघनभुजान्तरम् || ३६८ ||
कर्तारिं कल्पितोत्कटिसाधनम् |
भवनं भीम. घनगम्भीर इति स्यात् |
अनन्तकर्णाभरणं मूर्ध्नि वासुकिभूषणम् |
महापद्मादरं पद्मदाम वेष्टितभूषणम् || ३६९ ||
मस्तके बद्धकार्कोटं कलाभोः कटिवेष्टितम् |
उपवीतकृतेनापि सङ्खपातेन भूषितम् || ३७० ||
जयेन कुलिकेनापि कल्पि तानघमूपुरम् |
धनङ्जयाभिनेधान विजयेन च भोगिना || ३७१ ||
तं नव |
वामदक्षिणहस्ताभ्यां बिभ्राणं कलकद्वयम् |
बालपल्लवताम्रेण वारवाणेन शोभितम् || ३७२ ||
उद्भिन्नभ्रुकुटीबन्धं करण्डमुकुटं तथा |
पक्षविक्षेपगम्भीर कृतोर्ध्वनयनभ्रमम् || ३७३ ||
दंष्ट्राकरालवदनं ताम्रवर्तुलचक्षुमम् |
इत्थं ध्यात्वा गरुत्मन्तमेकतानेन चेतसा || ३७४ ||
साधयेत्साधनीयानि दुर्लभान्यपि नातिभीः |
यथाक्तं जपतोमन्द्रमादित्येन्यस्तचक्षुषः || ३७५ ||
ऊर्ध्वबाहोर्भविष्यन्ति दासा इव फणीश्वराः |
विष्वक्सेनमन्त्रः. |
विष्वक्सेनमनुर्ब्रह्मन् कथ्यते सर्वसिद्धदः || ३७६ ||
एव |
तारं सुधामयं रामं क्रोधरूपं सुधामयम् |
करालं शशिनं पश्चान्माधवं कुञ्जराननम् || ३७७ ||
गोपनं मारुतं चापि ठठान्तं मन्त्रमुद्धरेत् |
तारेण बिन्दुना चापि बीजमेतस्य कल्पयेत् || ३७८ ||
एतेनै वाङ्गमन्त्राणि कल्प्यानि कमलासन |
विश्वनाथमृषिं प्राहुर्विराट्छन्दो निगद्यते || ३७९ ||
देवता च मनोस्तस्य विष्वक्सेनो महाबलः |
मन्त्रान्तरम्. |
अथ्यान्यः कल्पितो मन्त्रो विष्वक्सेनस्य पद्मज || ३८० ||
उद्गीथं भद्रपाणिं च मन्दरं ब्रह्मसाधनम् |
सुभद्रं गदिनं कुम्भं सुमुखान्तं समाधवम् || ३८१ ||
सुभगं |
स्पर्शादिं बिन्दुसहितं सध्रुवं कमलासन |
दरान्तं गोपनं ब्रह्मन् धनदं रामशीर्षकम् || ३८२ ||
पश्चिमं निगमादिं च वै राजं च समाह्वयम् |
खड्गहस्तं सरामं च जयं वसुवरं तथा || ३८३ ||
सुभदं सरोरुहं वैराजं विक्रममस्तकम् |
पद्मपाणिं भद्रपाणिं पाशपाणिं च पश्चिमम् || ३८४ ||
सोदयं शत्रुहननं मृगेशं वक्रतुण्डकम् |
प्रचण्डं पुण्डरीकाक्षं मधुशत्रुं चतुर्गतिम् || ३८५ ||
खड्गहस्तमचामादिं प्रचण्डं झषमर्पितम् |
सुभद्रान्तं मधुद्वेषिं वै राजं द्विर्वसु परम् || ३८६ ||
वैधरं गोपनं तथा |
अचां द्वितीयं सुभगं पुण्डरीकविदर्भितम् |
वैधरं विष्णुसहितं प्रचण्डं सवनालयम् || ३८७ ||
श्रीवत्सं सध्रुवं खड्ग हस्तहरं तथा |
कमलं त्वृतधामं च सुभगं वसुगोपनौ || ३८८ ||
बहुषुकोशेषु त्रुटिर्दृश्यते. क्वचित् पाठान्तरमस्ति. यथाखड्गहस्तमचामादिं गोपनं वैधरं तथा |
चतुर्गतिमचामादिं वैधरं गोपनं तथा |
विजयं श्वसनं दत्तं सूदनं मृगताञ्छनम् || ३८९ ||
समाधवं द धानं च कमलं माधवं ततः |
पीतं च धनदं कुम्भमर्पितं सध्रुवं पुनः || ३९० ||
यान्तं |
कलानिधिं च पुरध मादि देवं चतुर्गतिम् |
वैधरं वरुणं मायां खेटकं च समुद्धरेत् || ३९१ ||
पश्चिमं पद्मनाभं च मावृतं शुभमालिनीम् |
समन्दरं दरान्तं च मधुद्वेषिं समन्त्रजित् || ३९२ ||
मन्त्रराजं |
ऐन्दवं कतृतीयं च संमतं माठराभिधम् |
सुन्दरं वैधरं पञ्च बिन्दुकं भद्रकं तथा || ३९३ ||
माधवा |
स्पर्शेषु षोडशं पद्मनाभं च चतुरासन |
गोपनं चैन्दवमथो चतुर्गतिमनन्तरम् || ३९४ ||
माधव |
भान्तं मधुद्विषं यान्तं दरं च द्विस्समुद्धरेत् |
कद्वितीयं सूदनं च वैधरं च चतुर्गतिम् || ३९५ ||
कतृतीयं |
द्विर्वक्तव्यं दिनकरं भद्रपाणिमनन्तरम् |
वैधरं भास्करं चापि पश्चिमं वक्रतुण्डकम् || ३९६ ||
मन्दरं सर्वरोधं च द्विर्गतीरिति संमितम् |
गोपतिं सुमुखं चापि शुभदं ब्रह्मसाधनम् || ३९७ ||
क्रोधं चतुर्गतिं चापि आदिबीजं चतुर्मुख |
आदिदेवं तथा कुम्भं संप्रसारणमक्षरम् || ३९८ ||
चद्विः |
श्रीवत्सं पुरुषात्मानं मन्त्रविक्रमनिष्ठितम् |
वरुणं शङ्खमपरं पश्चिमं पद्मनाभकम् || ३९९ ||
सुभद्रं च मधुद्वेषिं कुंभं भद्रकरं तथा |
वैधरं शुभदं चाग्निं चतुर्गितमनन्तरम् || ४०० ||
हुङ्कारं च वषट्कारमिरयेत्कमलासन |
शुभदं वामनपरं क्रोधं चाग्निं मधुद्विषम् || ४०१ ||
चतुर्गतिं सूदनं च वक्रतुण्डं समिरणम् |
माधवीं विजयं भद्रहस्तं च समतं पुनः || ४०२ ||
माधवम् |
विधातारं मृगेशं च भागं यान्तं सविक्रमम् |
सरोरुहं मधुद्वेषिं पश्चिमं रानुशीर्षकम् || ४०३ ||
महेन्द्रममृतं बन्धुं कतृतीयं मृगं तथा |
भास्करं सूदनमथो शङ्खं खड्गधरं पुनः || ४०४ ||
मृतम् |
वैराजं सोदयं चैव कतृतीयं वसुं परम् |
द्वितीयं वासुदेवं च तृतीयं बन्धुसंहितम् || ४०५ ||
माधवं वरुणं पार्श्वमेदरं दरगोपनौ |
चतुर्गतिं खड्गधरं सऋतं ब्रह्मसाधनम् || ४०६ ||
चतुर्थ्यन्तं |
सबिन्दुं पश्चिमं चैव वाचां सप्तमसाधने |
सध्रुवं चेन्धिराभीजं पुष्टिबीजं सहुंकृतिम् || ४०७ ||
सुधारसं चौर्वपरं माधवं च चतुर्मुख |
वौषट्कारं तथा लक्ष्मीं दरान्तं पञ्चबिन्दुकम् || ४०८ ||
मयमर्धं |
यान्तं च सूदनं मान्तं श्रीशब्दं भद्रपाणिनम् |
विक्रमं पुलहं धूलिकेतनं सूरिनन्दनम् || ४०९ ||
हुंकृतिं वैधरं भानुं विघ्नेशं मधुसूदनम् |
खर्वदेहं सबन्धुं च पीतं भल्लायुधं तथा || ४१० ||
माधवं वरुणं भद्रहस्तं सर्गिणमब्जज |
पवित्रं सूदनमथो वैराजं च समिरणम् || ४११ ||
ओंकारादि जयं पीतं सूदनं विधुरं पुनः |
श्रीधरं माणिभद्रं च द्विरदं विक्रमं तथा || ४१२ ||
मणिपुत्रम् |
वक्रतुण्डधरं बिन्दुं पियूषं रामशीर्षकम् |
अत्रिं च सूदनं यास्तं मन्दरं दरवैधरौ || ४१३ ||
द्वयं वसुशिरश्शङ्खं कुम्भं विक्रममस्तकम् |
पूर्णं घटं सध्रुवं च वैधरं च चतुर्गतिम् || ४१४ ||
माधरं |
शुक्लं घटं वह्निपरं वैधरं च मधुद्विषम् |
सुभद्रं मधुविद्वेषं सरसीरुहसम्भव || ४१५ ||
कपिलाक्षं हुतवहं नृसिंहं च समुद्दरेत् |
बीजान्येतद्विरुच्चार्य शुक्लपीतान्तिमाक्षरम् || ४१६ ||
शीर्षं च गोपनं चण्डं पश्चिमं जयतत्परम् |
भल्लायुधं मारुतं च सर्गिणं चतुरासन || ४१७ ||
कृपाकं करीरं च वसुतच्छिरसं तथा |
सुभद्रमूर्ध्वलोकेशं विजयं संप्रसारणम् || ४१८ ||
सुभद्रं पुरुषात्मानं कलान्तं फट्कृतिं तथा |
निगमादिं शशधरं माधवं वसुमाधवम् || ४१९ ||
कालान्तम् |
भल्लायुधं तथासर्गं फट्कृतिं दक्षमक्षरम् |
गोवतिं गोपनं कुम्भं विक्रमं क्रोधरूपिणम् || ४२० ||
प्रचण्डं सार्धममृतं माधवं घटविक्रमम् |
उग्रात्मानं तथा कुम्भं कमलं द्विविधुंतुदम् || ४२१ ||
द्विर्वसुं तथा |
दत्तं भद्रं सूदनं च दक्षान्तं हुंफडन्तकम् |
स्वाहावसानमित्येवं विष्वेक्सेनमहामनुम् || ४२२ ||
उद्धरेद्बीजमस्याथ तारं कुम्भं मनुं ध्रुवम् |
कल्पयेदमुनैवाङ्गमन्त्रं मन्त्रविचक्षणः || ४२३ ||
द्रुपदो दृष्टवानेतच्छन्दोऽतिच्छन्द उच्यते |
विष्वक्सेनो देवता च जपेल्लक्षत्रयं पुनः || ४२४ ||
एतं महामनुं ब्रह्मन् जपतस्सिद्धि काङ्क्षया |
सुरासुरेभ्यस्सर्वेभ्यो भयं तस्य प्रणश्यति || ४२५ ||
काङ्क्षिणः |
विष्वक्सेनाराधनप्रकारः. |
अथेदानीं प्रवक्ष्यामि तस्याराधनसंयुतम् |
कल्पयित्वा महापद्मं दलैर्द्वादशभिर्युतम् || ४२६ ||
कर्णिकायां समासीनं सैनान्यं सम्यगर्चयेत् |
विष्वक्सेन नमस्तेऽस्तु नमो मृत्युभयापह || ४२७ ||
तेनाद्यम् |
नेमो नुत्युभयानपि |
नमः पारिष देशाय धुर्यय जगतां नमः |
चराचराणामदिस्त्वं जन्म नाशो न विद्यते || ४२८ ||
नादिर्न |
धुरमाधाय लोकानां त्वय्येव पुरुषोत्तमः |
योगनिद्रा सुखवशश्शेते शेषे मनोहरे || ४२९ ||
विविधाय च |
एकान्तिनां तपोभक्ति प्रकर्षक्षीणकर्मणाम् |
भगवत्प्राप्तये द्वारदृष्टयस्त्वां प्रभूतये || ४३० ||
ब्रह्माणमाहुः कल्पादौ पालने मधुविद्विषम् |
पतिं पशूनां संहारे जगतस्तस्थुषामपि || ४३१ ||
पादेन मेदिनीं विश्वां मध्येन परमम्बरम् |
नाकं मूर्ध्ना त्वमाक्रम्यतिष्ठस्येको जगन्मयः || ४३२ ||
विश्वं |
त्वं भूमिस्त्वमपां स्थानं तेजश्च त्वं समिरणः |
आकाशस्त्वं त्वामियन्ते विभूतिर्वाप्य तिष्ठति || ४३३ ||
त्वमेव भास्करो भूत्वा विश्वं तपसि विष्टपम् |
आह्लादयसि तद्भूयस्सोमो भूत्वाकृपा निधिः || ४३४ ||
निधे |
सत्वरूपस्य ते रूपे गुणावन्यो रजस्तमः |
शुक्लरूपे यथा रूपे शुक्लरूपस्य वस्तुनः || ४३५ ||
कृष्ण |
त्वां सृष्ट्वा भगवानादौ भङ्त्क्वा तैर्हेतुभिः पुनः |
त्वां स्मृत्वा सत्तमं पश्चात्पुमानेति त्वदात्मताम् || ४३६ ||
त्वां श्रुत्वा |
भुक्त्वा |
त्वमात्मवान् |
वैभवे निजेनैव भिभ्राणेत्वयि विष्टपम् |
पितामहस्सुखं शेषे शेषेऽशेषजगत्पतिः || ४३७ ||
वीत भार |
ऋग्भिः प्रातस्तुवन्ति त्वां यजुर्भिर्मध्यमेदिने |
सायाह्ने सामभिः पुण्यैस्सूर्यात्मानं द्विजातयः || ४३८ ||
प्रवृत्तिहेतुं विश्वस्य त्वामेव प्रकृतिं विदुः |
पुमांसमप्युदासीनं तत्साक्षिणमकल्मषम् || ४३९ ||
न किङ्चिदभि रूपं यद्विश्वं ते विष्टवं पुनः |
नास्तिते नामधेयं चत्वं नामाग्निं सुहृद्विदः || ४४० ||
रूपेण |
सङ्ख्या नास्ति गुणानां ते तेजसामपि भास्वतः |
षड्गुणा इति उक्तत्वात्प्रमेयादीन् प्रचक्षते || ४४१ ||
शक्नोषि बुध्यसे विश्वं भिभर्ति नविकारयम् | |
ईशिषे द्विषतो हंसि त्वमेव भुवनत्रयम् || ४४२ ||
हितैषी त्वं यथा स्वामिन् भक्तानां गतपाप्मनाम् |
तथा च बान्धपास्तेषां साक्षादात्माहिकं बहु || ४४३ ||
त्वदानिनव सिन्धूनां दीधितीनामिवांशुमान् |
स्वामिन्नाम्नायमूलानां विद्यानां प्रभवो भवान् || ४४४ ||
जलामामिन सिन्दुर्वै |
न तु तिष्ठन्ति शास्त्राणि बहुनि कथयन्नपि |
न च त्वद्भक्तिसाराणां कल्याणानि विचिन्तयन् || ४४५ ||
भवेऽस्मिन् दुः खबहुले त्वामाहुर्योगिनां गतिम् |
अपां शिवानामाधारमध्वगानां विवासिनाम् || ४४६ ||
धन्यं तव प्रदेशेषु गत्यन्तरमपश्यताम् |
निर्वापयसि नोचेच्च त्वं कटाक्षसुधारसैः || ४४७ ||
दुःखदावाग्नि भिर्दग्धा जन्तवस्तं महीमयाः |
विशालवक्षसं श्यामं पुण्डरीकनिभेक्षणम् || ४४८ ||
सालाकारचतुर्बाहुं त्वा महं खरणं व्रजे |
चक्रवाक इवादित्यं चातको वारिदं यथा || ४४९ ||
चकोरा इव शीतांशु मार्तस्त्वामहयाश्रये |
एतत्पठति यस्तोत्रं श्रुतिभिस्संस्थितं त्विदम् || ४५० ||
स्थिरम् |
प्रीयते तस्य भगवान् सेनानीरविलम्बितम् |
दद्याच्च सम्पदस्सर्वास्तस्मैभक्ताय दुर्लभाः || ४५१ ||
Kapitel 32
Lesehilfe: Kapitel 32: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
द्वात्रिंशोऽध्यायः |
सुदर्शनमन्त्रकल्पः. |
ब्रह्मा |
ऐहिकामुष्मिकं सर्वं मन्त्रं सौदर्शनं परम् |
शुश्रूषोर्भगवन्नद्य रहस्यमपि पावनम् || १ ||
भक्ताय मह्यं दातव्यं प्रणताय यथातथम् |
श्रीभगवान् |
हन्त ते कथ यिष्यामि मन्त्रं सर्वार्थसाधनम् || २ ||
यथार्थनाम तेनायं नाख्येयो यस्य कस्य चित् |
उद्गीथमुद्धरेत्पूर्वं चन्द्रमाद्यं नभोमणिम् || ३ ||
अत्रिं सितद्युतिं वह्निं गोपनं ज्वलनं मुखम् |
ऊष्माणमुदयं वीरं पुल्लाक्षं विष्णुमस्तकम् || ४ ||
अत्रिम् |
ऊष्मान्तमुदयं बिन्दुं |
हृदयाह्लादमित्येव मन्त्रोद्धारश्चतुर्मुख |
वह्निमादिमनुस्वारं बीजमुद्धृत्य कल्पयेत् || ५ ||
षडङ्गमनुवर्णानामुद्धारः कथ्यते क्रमात् |
अङ्गत्रयं चतुर्वक्त्र पूर्वमाविष्कृतं मया || ६ ||
चतुर्थ्यन्तं चक्रपदमुद्गीथादि प्रयोजयेत् |
अनन्तरं सूर्यपदं तद्विभक्ते च तत्पदम् || ७ ||
पञ्चमं षष्ठमप्यङ्गं पदं तत्तद्विभक्तिकम् |
उद्धार्यं च साहस्रादि ज्वालाधारादि पूर्वकम् || ८ ||
एवमङ्गानि षड्ब्रह्मन्नुक्तानि गहनानि ते |
अहिर्बुध्य्नोमनोर्द्रष्टा विराट्छन्दस्सुदर्शनः || ९ ||
देवता मुनयश्चात्र प्रत्यक्षरमथाब्जज |
व्यासः कण्वो नारदश्च वसिष्ठः परमो भृगुः || १० ||
अत्रिष्षडेते द्रष्टारश्छन्दांस्यक्षरशश्शृणु |
उष्णिग्बृहत्यौ गायत्रं पङ्त्किश्च जगती विराट् || ११ ||
वर्णाः कालाग्निवराणाभाः कालाश्चैवहिदेवताः |
करयोर्न्यस्य तलयोरुभयोरक्षराणि षट् || १२ ||
प्रथमान्तार्णशिष्टानामङ्गुष्ठादिषु पर्वसु |
अङ्गुलीषु क्रमादेवमक्षरन्यास ईरितः || १३ ||
देहे च मूर्ध्निचास्ये च हृदये गुह्यजानुनोः |
पादयोर्न्यसनीयानि क्रमान्मन्त्राक्षराणि षट् || १४ ||
श्रीसुदर्शनगायत्री मपरां न पराजिताम् |
वक्ष्यामि तस्याश्चोद्धारः पदशः कथ्यतेऽधुना || १५ ||
उद्गीथादि चतुर्थ्यन्तं सुदर्शनपदं ततः |
वेत्तिं लुडन्तमपरं बह्वर्थं पद मिरयेत् || १६ ||
महापूर्वं चक्रपदं तद्विभक्ति र्विभूतिजम् |
ध्यायन्ती पदमुच्चार्य पूर्ववत्तिङ्विभूषितम् || १७ ||
विभूषितम् |
तत्पदं चास्मदादेशो नः पदं च द्विशीर्षकम् |
प्रपूर्वं चो दयान्तं च पदमित्युद्धरेन्मनुम् || १८ ||
च दयान्तं |
अस्य बीजं तु पूर्वोक्तं वेदितव्यं चतुर्मुख |
आशासु दशसु स्थाप्य मन्त्रं तच्चक्रमुद्रया || १९ ||
दर्शनम् |
तन्मध्येस्थितमात्मानमग्निज्वालापरीतवत् |
चक्रपङ्कजध्यानप्रकारः. |
ध्यायेत् क्षिततले शुद्धे सहस्रदलपङ्कजे || २० ||
कर्णिकायां चक्रधरं द्विभुजं वृत्तलोचनम् |
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम् || २१ ||
महोदरं महाकायं जपाकुसमसन्निभम् |
करण्डमुकुटोपेतं रक्ताम्बरविभूषितम् || २२ ||
धारयन्तं शिखारत्ने चक्रमेकसमप्रभम् |
नाभिनेमिसमायुक्तं ज्वालामण्डलदुस्सहम् || २३ ||
ज्वलत् षडरसंयुक्तमयुतार्कसमप्रभम् |
पद्ममेवं स्थितं धायेत्तन्नाभौ च सुविस्तृते || २४ ||
चक्राभिमानिसं देवं द्विहस्तं पुरुषंस्थितम् |
रक्ताम्बरधरं रक्तं रक्तचन्दनपङ्किलम् || २५ ||
करण्डमुकुटोपेतं सर्वाकल्पपरिष्कृतम् |
दंष्ट्राकरावदनं भ्रुकुटीकुटिलाननम् || २६ ||
उद्गिरन्तं हुतवहं खरण्डैर्मारुतानुकम् |
विष्फुलिङ्गान् दुर्विषहान्विसृजन्तमनेकशः || २७ ||
कामरूप सहस्रेभ्यः प्रलयाम्बदनिस्वनम् |
तर्जनं वामतर्जन्या बिभ्राणं दक्षिणे करे || २८ ||
समूहेभ्यः |
निपीडिताङ्गलिं शत्रुं प्रहरन्नि वभीषणम् |
दहन्निव च नेत्राभ्यां पिबन्निव महोदधिम् || २९ ||
ध्यात्वैवमर्चयेद्भोगैरर्घ्यादिभिरतन्द्रितः |
सिद्धये मन्त्रराजस्य पुरश्चर्या यथोदिता || ३० ||
देशे काले च मन्त्रस्य रूपं सङ्ख्या च पूर्ववत् |
मन्त्रसाधननियमः. |
खाककन्दफलक्षीरसक्तुपिण्डान्न भक्षणः || ३१ ||
जपसङ्ख्या |
तोयैस्पर्पणमग्नौ च जुहुयात्समिदादिभिः |
मन्द्रस्सिध्यति तस्यैवं कुर्वाणस्य यथाविधि || ३२ ||
सिद्धैं च सूचयत्यस्य स्वप्ने मङ्गलदर्शनम् |
शान्तिकपौष्टिकादिकर्मसु मन्त्रविनियोगविधिः. |
प्रयुञ्जीतततो मन्त्रं शान्तिकादिषु कर्मसु || ३३ ||
षोडशस्तम्भसंयुक्तं कल्पयेद्यागणमण्टपम् |
स्थापयेत्तत्र विधिपत्कुम्भानां पञ्चविंशतिम् || ३४ ||
वेष्टितान् सूत्रवस्त्राद्यै र्धान्यराशिषु मङ्गलान् |
एषु द्रव्याणि सङ्गृह्य न्यसेत्कमलसम्भव || ३५ ||
घृतमुष्णोदकं रत्नं फलदोक मनन्तरम् |
लोहतोयं मर्जानाम्भो गन्धाम्भशाचक्षतोदकम् || ३६ ||
यपोदकं क्रमाधेषु कुम्भेषु नवसु क्षिपेत् |
पाद्यं गुऌओदकं चैव दधि चेक्षुरसं तथा || ३७ ||
मधु वेक्षु |
अर्घ्यं च नालिकेराम्भः क्षीरं च तदनन्तरम् |
सर्वौषधिबजलं तद्वदाचामं मङ्गलोदकम् || ३८ ||
मधुपूर्वं शान्तिवारि पञ्चगव्यमनन्तरम् |
मूलोदकं कषायाम्भः पुक्ष्पवारि चतुर्मुख || ३९ ||
क्षालनाम्भः पुष्पन्दरि |
द्रव्याण्ये तेषु कुम्भेषु बहिष्ठेषु विनिक्षिपेत् |
प्रत्येकं शतकृत्वश्च मन्द्रेणै वाभिमन्त्रयेत् || ४० ||
कुम्भे द्रव्याणि निक्षिप्य चक्रब्जं वर्तयेत्ततः |
तन्मध्येमन्त्रराजेन यष्टव्यं तत्सुदर्शनम् || ४१ ||
कुण्डेवृत्तेच जुहुयात्समि दन्नादिभिः क्रमात् |
हुत्वा निशायां मानुना प्रभातेऽर्घ्यादिभिः क्रमात् || ४२ ||
दन्नघृतादिभिः |
अर्चयित्वा हेतिराजं हुत्वाग्नौ समिदादिभिः |
भूर्जपत्रे लिखेच्चक्रं नाभिनेमिसमन्वितम् || ४३ ||
षडरं तत्र पूर्वादि क्रमाच्चैव षडक्षरम् |
लिखित्वच्छन्दसामादि तन्मध्यै साध्यनाम च || ४४ ||
क्रमादेवम् |
हेमसूच्यालिखेद्द्रव्यैर्मिश्रितैश्चन्दनादिभिः |
चन्दनद्वयकाश्मिररोचनागुरु मुख्यकैः || ४५ ||
सम्मितौ |मुख्यद्रव्यै |
गन्धद्रव्यैस्सुसंपिष्टैः पश्चात्तां भूर्जपत्रिकाम् |
गुलिकां कारयेत्तां च शालितण्डुलराशिषु || ४६ ||
अधिवास्या स्वहं कुम्भैस्स्नापयित्वा यथाविधि |
बन्धयेत्तां मातुरङ्गेमन्द्रेणानेन मन्त्रवित् || ४७ ||
तुरैः कुम्भैः स्थापयित्वा |
गुलिकाबन्धनेनैव मुक्तोरोगादिभिर्नरः |
तेजस्वी भवति क्षिप्रं त्वचा मुक्तो यथारगः || ४८ ||
ज्वलितस्य भवेच्छान्तिः प्रसूनैर्निम्बसम्भवैः |
दूर्वाङ्कुरांश्चूतदलैस्सिक्तैर्मधुपयोघृतैः || ४९ ||
मनुना जुहुयादग्नौ सप्तरात्रमतन्त्रितः |
प्रत्येहं दशसाहस्रसङ्ख्याया रोगिसन्निधौ || ५० ||
अभिषिच्य तथा कुम्भै रोगिणं चक्रविद्यया |
बध्वा च गुलिकां मन्त्रीमोचयेज्ज्वलितं ज्वरात् || ५१ ||
गोभूहिरण्यवस्त्राद्यैर्मन्त्रिणं तोषयेत्ततः |
ब्राह्मणेभ्यो यथाशक्ति दद्याद्गोकम्बलादिकम् || ५२ ||
भूतग्रहि पिशाचादि पीडितानां तथा नृणाम् |
शान्तये जुहुयादग्नौ किंशुकोत्थैस्समिच्छतैः || ५३ ||
गृहीतानां |
त्रियहं त्रिसहस्रैश्च तेषां बध्वा शिखां ततः |
गुग्गुलूत्थेन धूपेन धूपितान् गृहपीडितान् || ५४ ||
ताडयेन्मन्त्रजप्तेन दण्डेन लतयापि वा |
पिशाचादिस्ततो ब्रूयान्मुञ्छामिति प्रपीडितः || ५५ ||
शपथं कारयित्वातु शिखाबन्धं च मोचयेत् |
स्थापितैः कलशैः पश्चान्मन्त्रेण ग्रहपीडितम् || ५६ ||
स्नापयेद्बन्धयेच्छापि गुलिकामभिमन्त्रिताम् |
ततो विमुच्य तेरोगाच्छेतो वाग्भिरुपद्रवात् || ५७ ||
गृह्णन्विचेतो वाभि रूपवान् |
तेजस्वी शतमायुश्च भवेन्मन्त्रप्रभावतः |
नारीच दुर्भगा चक्रधारणात्सुभगा भवेत् || ५८ ||
वन्ध्या च गर्भिणी सद्यस्सुप्रसूस्स्यादपप्रनूः |
अनृतुस्स्यादृतुमती विमुखा सुमुखा भवेत् || ५९ ||
विरहे सङ्गता भर्ता भवेदचिरकालतः |
स्त्रीप्रसूः पुंप्रसूतिश्च अन्तना स्तनमण्डिता || ६० ||
कुमारपक्षिपीडादौ बालानां च यथोदितैः |
विदिभिर्मुच्यते दुःखाल्लभते चायुरुत्तमम् || ६१ ||
प्रासादादिषु ब्रह्मरक्षस्समुच्चाटनविधिः. |
प्रासादेपि नरेन्द्रस्य ब्रह्मरक्षोमुखैर्गृहैः |
प्रवेशे सति तन्मध्ये कुम्भान् रत्नसमन्वितान् || ६२ ||
रक्त |
स्थापयित्वा यथापूर्वं समिदाद्यैरतन्द्रितः |
मन्त्रेण जुहुयान्मन्त्री द्वादशाहन् समाहितः || ६३ ||
प्रत्येकं दशसाहस्रसङ्ख्याया कमलासन |
ताम्रपात्रे शिलायां वा चक्रमालिख्य तत्पुनः || ६४ ||
धान्यराशिषु संस्थाप्य निशायां प्रातरुत्थितः |
प्रासादद्वारि निखनेद्दिक्षु चाष्टसु मुद्रितम् || ६५ ||
मन्त्रितम् |
प्रोक्षयेत्कुम्भुतोयेन गृहं सर्वमशेषतः |
पलायन्ते ग्रहस्सर्वे दूरतस्सर्वतो मुखाः || ६६ ||
उपासन्ते गृहास्सर्वे पुरतः |
तद्रष्ट्रेपि न तिष्ठन्ति सर्वकालमसंशयम् |
प्रासादवर्तिनस्सर्वे जीवन्ति निरुपद्रवाः || ६७ ||
धनधान्यसमृद्धिश्च यथा धनदवेस्मनि |
मूषिकादुर्निमित्तनिरावणविधिः. |
वस्त्रशय्यासानादीनां दंशने मूषिकादिभिः || ६८ ||
रक्तस्त्रीदर्शने वापि केशानां दहने तथा |
अकस्मद्गोपुरादीनां दहनेऽशनिपीडिते || ६९ ||
भेदने |
निशि शक्रधनुर्दर्शे निवाते चैत्यभूरुहः |
भङ्गे वल्मीकजनने दुस्स्वप्नेऽन्यत्र तादृशे || ७० ||
एवमादौ दुर्निमित्तै शान्तिमेतेन कारयेत् |
यज्ञवृक्षसमिद्भिश्च होमः पूर्वोक्तसङ्ख्यया || ७१ ||
पुष्टिविधिः. |
कुर्याच्च शान्तिं पुष्ट्यादिकर्मणा कमलासन |
कर्मभेदेन कुण्डभेदविधिः. |
कथ्यन्ते तानि बहुधा नाभेदं यान्ति भेदतः || ७२ ||
कुण्डानिशान्तिं पुष्पादि |
सर्वाभ्युदयकर्माणि चतुरश्रेषु कारयेत् |
पौष्टिकं पद्मकुण्डेषु शान्तिं वृत्ते सुखावहः || ७३ ||
त्रिकोणे मारणं कर्म कुण्डे चापाकृतौ पुनः |
उच्चाटनं यक्षकन्यासाधने कोणपञ्चके || ७४ ||
षडश्रे स्तम्भनं कर्म सप्ताश्रे मोहनं भवेत् |
विद्वेषणं नवाश्रेस्यादष्टाश्रे मारणं विधिम् || ७५ ||
एकादशाश्रे ब्रह्मादिवशीकरणमाचरेत् |
कुण्डे दशाश्रे पश्यादि देवतातोषणोविधिः || ७६ ||
द्वादशाश्रेषु पुरुषं वैकुण्ठं द्रष्टुमाचरेत् |
योन्याकारे विवाहार्थं कन्यार्थं कमलासन || ७७ ||
वश्यार्थं |
चतुर्विंशत्यङ्गुले स्याद्विस्तारायामकल्पनम् |
खातं तावद्भिरेव स्यात्कुण्डेषु नियतिं शृणु || ७८ ||
तदर्धं पादमथवा चतुरङ्गुलमेव वा |
परितो द्व्यङ्गुलं हित्वा बहिस्तिस्रश्च वेदिकाः || ७९ ||
कार्यास्तासां च विस्तारश्चतुरङ्गुलसंमितः |
तावत्ये पोन्नतिर्ब्रह्मन् कुण्डस्य धनुषः पुनः || ८० ||
अङ्गुल्या नवतिष्षट्च ज्या च षट्त्रिंशदङ्गुला |
शङ्कुं विधाय तन्मध्ये दशाङ्गुलसमायतम् || ८१ ||
भ्रामयेत्परितस्सूत्रं कुण्डं तद्वलयाकृतिम् |
चतुरश्रस्य कुण्टस्य विभजेत्पञ्चधा भुजम् || ८२ ||
द्वौ भागौ भुजमेकं चत्रिं शत्पञ्चाथवा पुनः |
अङ्गुलीनां भवेदेषां त्रिकोणाङ्के भुजः स्मृतः || ८३ ||
द्वौ भारौ |
कुण्डे षडश्रे च भुजा अष्टाष्टैकादशाङ्गुलाः |
एको भुजः पञ्चकोणे विंशत्यङ्गुलिसंमितः || ८४ ||
सप्ताश्रे च भूजायामो यवषट्काधिकः पुनः |
तिस्रश्च दश चाङ्गुल्यः कुण्डे त्वष्टाश्रिभिर्युते || ८५ ||
द्व्यधिका दश वा भूमौ दशांगुल्यः प्रकीर्तिताः |
अंगुल्योस्तु भुजायामो नलस्कन्दांश कीर्तितः || || ८६ ||
नावाश्रकुण्डेषु यवा पञ्चकोणे भुजायतिः |
दश चाङ्गुलयः प्रोक्ता दशाश्रे च चतुर्मुख || ८७ ||
नचाश्रकुण्डेषु यवा पञ्च एको |
यवाः पञ्च भुजायामो नव चाङ्गुलयः स्मृताः |
एकादशाश्रेकुण्डे तु यवैरष्टाभिरन्वितः || ८८ ||
नवाः |
अष्टावङ्गुलयः कुण्डे द्वादशाश्रे भुजायतिः |
अष्टादशांगुला फ्रोक्ता योनिकुण्डेषु चायतिः || ८९ ||
अष्टौ च चत्वारिंशच्च भवेदंगुलयोऽब्जज |
गजोष्ठसन्निभा योनिर्यद्वाश्वत्थदलोपमा || ९० ||
कुण्डा न्युक्तान्यथेदानीं शान्त्यादिः प्रतिकल्प्यते |
यत्कुण्डं यस्य कथितं शान्त्यादेस्तस्य तद्भवेत् || ९१ ||
द्युक्ता यथेदानीम् |
अश्ववारणशालासु चक्रयन्त्रं यथाविधि |
लिखित्वा ताम्रदार्वादौ निशायामधिवासयेत् || ९२ ||
सहस्करृतः कर्तप्यो होमः कुण्डे शुभे यतः |
समिद्भिर्यज्ञ योग्याभिः स्थापयेत्कुम्भमर्चितम् || ९३ ||
कुम्भे उभेकुण्डे यथोदिते |
अथ प्रभाते शालायां यन्त्रं खन्यान्महीतले |
प्रोक्षयेत्कुम्भतोयेन गजानश्वान् पृथक्पृथक् || ९४ ||
सौदर्शनेन मन्त्रेण पुण्याहं पाचयेत्तथा |
नश्यन्ति व्याधयस्तेषां गजाश्वानां चतुर्मुख || ९५ ||
बलं स्यादधिकं तेषामिति सप्ताहमाचरेत् |
ब्राह्मणेभ्यो धनं दद्या द्यथाशक्ति च दक्षिणाम् || ९६ ||
भवत्यधिकमिति सप्ताहं तु समाचरेत् |
दाचार्यय च |
ऊर्जस्वलमथो ब्रह्मन् गजाश्वंजायते भृशम् |
तथा च प्रत्यहं होमस्स्यात्सुदर्शनविद्यया || ९७ ||
मार्गस्थलमथो |
इत्थं गोमहिषादीनां रक्षां कुर्वीत मन्द्रवित् |
पुररक्षाविधिः. |
पुररक्षामथब्रह्मन् प्रवक्ष्यामि यथातथम् || ९८ ||
स्तम्भैष्षोडशभिर्युक्तां दर्भमाला परिष्कृताम् |
पुरमध्ये प्रपां कृत्वा जुहुयात्सर्पिषा पुनः || ९९ ||
पालाशीभिस्समिद्भिश्च दिनान्येकोनविंशतिः |
दिक्ष्वाष्टासु तथा मध्ये पुरस्य कमलासन || १०० ||
खन्यात्सौदर्शनं यन्त्रं स्थापयेत्कुम्भमञ्जसा |
तोयेन प्रोक्षयेद्विद्वान्नगरं चक्रविद्यया || १०१ ||
मन्त्रं |
ऋग्भिश्च पावमानीभिः प्रशस्तार्यथाक्रमम् |
पुरद्वारेषु सौधेषु मण्टपेषु महीबृताम् || १०२ ||
सर्वत्र निखनेच्छक्रं जुहुया त्समिदादिभिः |
मरणव्याधिदुर्भिक्षज्वरादिव्याधयः पुनः || १०३ ||
त्कमालादिना |
नश्यन्ति बलवन्तश्च भवन्ति पुरवासिनः |
ग्राममध्ये तथा दिक्षु विदिक्षु चतुरासन || १०४ ||
शृङ्गाटकेषु सर्वेषु निखनेदायुधा धिपम् |
गृहवेतालरक्षांसि व्याध यश्चज्वरा दयः || १०५ ||
दिभिः |
यो मकरादयः |
न बाधन्ते पुरं ग्रममपस्मारादयस्तथा |
न तस्करभयं किञ्छिदकालमरणं तथा || १०६ ||
पुरुषायुषवन्तस्स्युर्नरा धान्यधनान्विताः |
सौभाग्यं कान्तिरारोग्यं तथा कुलविपर्धयः || १०७ ||
ब्रह्मवर्चस मित्येतद्ब्राह्मणानां भविष्यति |
पयस्विन्यो भविषन्ति गावः पीनपयोधराः || १०८ ||
मन्यद्यत् |
तद्राष्ट्रेषु मनुष्याणां भद्रमेव भविष्यति |
पन्नगनिवारणम्. |
अथ वक्ष्यामि ते ब्रह्मन् पन्नगानां निवारणम् || १०९ ||
तद्राष्टेपि |
देवालये नदीतीरे नन्दनोपवनेषु वा |
चतुस्तम्भसमायुक्तं चतुस्तोरणभूषितम् || ११० ||
अभितो दर्भमालाभिश्शोभितं होम मण्डलम् |
कृत्वा तस्मि न्नपां कुम्भान् स्थापयित्वा नवापरान् || १११ ||
मण्टपम् |
न्नवान् |
प्राच्यां वेद्यां पुनः कुर्यात्कुण्डं पूर्वोक्तलक्षणम् |
यजेदेतेषु कुम्भेषु नव मूर्तिर्यजेत्क्रमात् || ११२ ||
मूतीर्यथाक्रमम् |
निवेद्य पायसं तेभ्यः पश्चात्कुण्डे हुताशनम् |
आददीताथ ताम्रेण तालमात्रं भुजङ्गमम् || ११३ ||
निवेद्यं पायसान्नं स्यात् |
आददीतं तथा |
प्रकल्प्य शेषमन्त्रेण प्रतिष्टाप्य पितामह |
तस्मिंश्चक्रं लिखेत्तस्य मध्ये मत्स्याकृतिं पुनः || ११४ ||
गरुडं शङ्खपालं च कृष्णमन्त्रं च वेष्टनम् |
तन्नागयन्त्रं क्षीरेण घृतेन मधुनापि च || ११५ ||
दध्ना शकृद्रसेनापि स्नापयेच्चक्रविद्यया |
पुष्पगन्धप्रदीपाद्यैरुपचारैस्तथापरैः || ११६ ||
इष्ट्वा नागं स्वमन्त्रेण चक्रं चक्रस्य विद्यया |
कुण्डमध्ये पुनर्नागयन्त्रं खन्याद्विचक्षणः || ११७ ||
तस्य चोत्तानरूपस्य हुताश मुपरिस्थितम् |
कृत्वा दध्ना घृतेनापि पयसा मधुनापि वा || ११८ ||
समिद्भिर्ब्रह्म वृक्षस्य जुहुयान्मन्त्रकोविदः |
सहस्रकृत्वः प्रत्येकमथ गोपयसोक्षितैः || ११९ ||
नीवारभागैस्सप्ताहं जुहुयादयुतैरपि |
अपो नस्त्वितिमन्त्रेण जुहुयात्साधकोत्तमः || १२० ||
वानीरभङ्गैः |
त्रिष्वहस्सु व्यतीतेषु पर्जन्यो मेघवाहनः |
द्वावयेदवनीं कृत्स्नां भूयोपि सलिलोदयैः || १२१ ||
अतिवृष्टि प्रशमनम्. |
प्लापये |
अतिवृष्टि प्रशमनं प्रवक्ष्यामि चतुर्मुख |
विङ्गलाकारमात्मानं ध्यात्वा पियीषभावितम् || १२२ ||
पि स्वकृतं तथा |
शूलवज्र धरं चापि मन्त्रवि न्मन्त्रभूषणम् |
तैलाज्यसिक्तै र्जुहुयाल्लाजनर्षपलावणैः || १२३ ||
करं चापि मन्त्रवित्कोपि भूषणः |
द्भूरिभूषयः |
मधु च राजसर्षपलानलैः |
जुहुयाज्ज्वलिते वह्नावयुतं सप्तसागरात् |
वृष्टिशब्दं पुरस्कृत्य स्तम्भयेति पदद्वयम् || १२४ ||
प्रयोक्तव्यमिदं ब्रह्मन्मन्त्रान्ते मन्द्रवेदिना |
अथ शाम्यति सा वृष्टिर्महती चक्रविद्यया || १२५ ||
राष्ट्रादीनां क्षोभशान्तिः. |
अथ राष्ट्रपुरादीनां क्षोभशान्तिं तथा शृणु |
अक्षराष्ठगतं चक्रं प्रतिष्ठाप्य यथाविधि || १२६ ||
पुरे राष्ट्रे तथा खन्यात्तत्काष्ठैर्जुहुयात्तथा |
सहसा क्षोभमायान्ति वाजिवारणसंकुलम् || १२७ ||
तथा चैव |
राष्ट्रं च क्षुभितं ब्रह्मन्ननवस्थं भविष्यति |
यति शान्तौ मतिं कुर्याच्चक्रमुद्वास्य तत्पुनः || १२८ ||
स्नापयेद्भगवन्तं च सहश्रकलशाम्बभिः |
झडित्येव प्रशान्तं प्याद्दुरितं पुरराष्ट्रयोः || १२९ ||
राष्टादिलम्भनम्. |
राष्ट्रादिलम्भनं तेऽद्य प्रवक्ष्यामि चतुर्मुख |
उपेतं दलषट्कोणे कर्णिकाकेसरान्वितम् || १३० ||
चक्राब्जं कारयेद्भूमौ मेध्यायां कमलासन |
तद्बहिर्नाभिवलयं षडरं तद्भहिर्लिखेत् || १३१ ||
तद्बहिर्नेमिवलंय ज्वालामाला समन्वितम् |
तद्बहिः कल्पयेत्पीठं चतुर्द्वार परिष्कृतम् || १३२ ||
शोभोपशोभयुक्तं च कृत्वा मण्डलमिदृशम् |
तस्मिन् सुदर्शनं ब्रह्मन् पूजयित्वा यथाविधि || १३३ ||
भोगोप |
समिद्भिरन्नै राङ्यैश्छ हुत्वा मन्त्रं प्रसीदतु |
शृङ्गे चक्रं देहराष्ट्रं देहराष्ट्रं तथा धनम् || १३४ ||
मह्यं त्वङ्गे चक्रमेकं |
इत्येतां पावनीं गाधां जपान्ते प्रार्थयन्पठेत् |
अथ तस्य पुरं राष्ट्रं ग्रामं चक्रं प्रयच्छति || १३५ ||
पावकीम् |
यदि तस्य |
प्रभ्रष्टराज्य प्राप्तिविधिः. |
अथ प्रभष्टराज्यानां मनुजानां यथा श्रियः |
तथा वक्ष्यामिते ब्रह्मन्नुवायं चक्रविद्यया || १३६ ||
पुरा भूता |
अन्तस्थितस्य पद्मस्य स्यात्पलाशचतुष्टयम् |
अथाष्टौ द्वादश ब्रह्मन् षोडशाथ चतुष्टयम् || १३७ ||
अथ |
स्यात्पञ्चाशच्चतुष्टयम् |
तथा |
विंशतिश्च तथा त्रिंशद्द्वौ क्रमेण बहिश्छदाः |
इति षड्विध पत्रस्य कर्णिकायां सुदर्शनम् || १३८ ||
मन्त्रस्य |
येष्वथो षट्प्रकारेषु पलाशेषु यथाक्रमम् |
मूर्तीश्चतस्रः प्रथमं तथाष्टौ द्व्यधिका दश || १३९ ||
इष्ट्वाषत् यट्फ्रकारेषु |
षोडशाथ सहस्रं च विंशतिश्च पितामह |
अथ द्वात्रिंशतिं पश्चादन्तरालेषु षट् स्वपि || १४० ||
सत्स्वपि |
यथाक्रमं भूषणानि श्रीवत्सप्रभृतीन्यथ |
अष्टौ शक्तीश्श्रिया सार्धं चक्रादिं होम मण्डलम् || १४१ ||
मण्टपम् |
कवीन् सप्ताधिकान् पञ्च कुमुदादीननन्तरम् |
इन्द्रादीनथ दिक्पालान् पूजयेन्मन्त्रकल्पवित् || १४२ ||
समिद्भिर्भिल्वरूपाभिस्तलैः पद्मैस्तथा घृतैः |
सहस्रकृत्वः प्रत्येकं जुहुयाच्चक्रविद्यया || १४३ ||
इत्थं गते सप्तरात्रे प्रातरुत्थाय मन्त्रवित् |
स्थापितैः पञ्चविंशत्या कुम्भैश्शालिकृतासनैः || १४४ ||
घृतादिपूरितैर्ब्रह्मन् चक्रविद्याभिमन्त्रितैः |
राज्यभ्रष्टं मन्त्रहीनं दन्युभिः परिपीडितम् || १४५ ||
भाग्यहीनं |
राजानं ब्राह्मणं वैश्यं तथान्यं दुरिताहतम् |
अभिषिंचेत् स्मरन् चक्रं तन्मन्त्रेण विधानवित् || १४६ ||
तथा प्रकल्पयेत्यन्त्रं दापयेद्दक्षिणां गुरोः |
इत्थं कृते चतुर्विक्त्रसौभाग्यं राज्यलम्भनम् || १४७ ||
राजलङ्घनं. राज्यलाभदम् |
दस्युनाशो भवेद्भद्रं स्यात्सुदर्शनतेजसा |
आदावन्ते तथा ब्रह्मन् हंसमन्त्रवता पुनः || १४८ ||
विश्व |
नाशयेच्चक्रमन्त्रेण विषं स्थापरजङ्गमम् |
सङ्ग्रामविजयविधिः. |
अथ सङ्ग्रामविजयं वक्ष्यामि कमलासन || १४९ ||
कृपाणे तोरमे शक्तौ शरेषु वलये तथा |
आयुधेषु तथान्येषु ललाटे वाजिहस्तिनाम् || १५० ||
तथा द्वज पठान्तेषु लिखित्वाचक्रमण्डलम् |
प्रविश्य समरं भीमं रिपूणां रोमहर्षणम् || १५१ ||
पताकेषु |
हेषितेन तुरङ्गाणां बृह्मितेन विषाणिनाम् |
हर्षनादेन योधानां रथनेमिस्वनैस्तथा || १५२ ||
तुरङ्गम खुरक्षुण्डैः पार्थिवैः पांसुमण्डलैः |
तिरोहितनभस्सूर्यं कृतान्तसदनोपमम् || १५३ ||
रुधिरास्राव संभ्रान्तं वेतालमिथुनोद्यतम् |
मांससङ्ग्राह णोड्डीनसहस्रश्येनसङ्कुलम् || १५४ ||
रुधिरस्वमसं |
णासीन |
ज्वालामालामयं चक्रं ध्यायन् जित्वा रिपूनपि |
अक्षनागप्रहरणैर्निष्कृयेत्पृतनामुखम् || १५५ ||
अथ वा राज्यसीमासु शङ्कान् खदिरसम्भवान् |
स्थापयेच्चक्रमेन्त्रेण हुतशिष्टघृतोक्षितान् || १५६ ||
अग्निप्रकाररूपस्तेन शक्यं प्रेक्षितुं परैः |
प्रवेशे कम्पनं ब्रह्मन् ब्रह्मविद्या प्रभावतः || १५७ ||
किंपुनर्ब्रह्मन् चक्र |
यत्र यत्र भयं पुंसां तत्र तत्राभयं भवेत् |
चक्रमध्यस्तमात्मानं ध्यायन्तं कुपितात्मनः || १५८ ||
ध्यात्वान्तं |
पर्वतारोहणेऽरण्ये सागरप्लवनादिषु |
व्याघ्रसिंहवराहादि सन्निपातैः खिले पथि || १५९ ||
गच्छन्न भयमाप्नोति चक्रमन्त्रमिमं जपन् |
तं नच्छिन्दन्ति शस्त्राणि न तं दहति पापकः || १६० ||
यमवा |
न चैनं क्लेदयन्त्यापो यस्यैष हृदये मनुः |
ब्राह्मणक्षत्रवैश्यानां शूद्राणां कमलासन || १६१ ||
प्रतिलोमानुलोमानां कुर्यात्सं वनसं पुनः |
समिद्भिर्ब्रह्मवृक्षाणामश्वत्थवटवृक्षयोः || १६२ ||
वननाम्बुज. वलनं पुनः |
प्लक्षोदुम्बरजातीना मपवर्गस्य पापके |
होमं कुर्याद्यथासङ्ख्यं तथा तज्जातियोषिताम् || १६३ ||
मापामार्गस्य |
ब्राह्मणश्श्रियमाप्नोति होमेन श्वेतपङ्कजैः |
रक्तपद्मैर्नरेन्द्रस्य वैश्यस्य श्वेतपाटलैः || १६४ ||
श्रीफलैराहुतिं कुर्वन् राष्ट्रस्याधिपतिर्भवेत् |
अङ्गेन न्यस्तमन्त्रेण यां स्पृशेदङ्गनां नरः || १६५ ||
तस्य सा वशमायाति मृतं चाप्यनुगच्छति |
अपमृत्युनिवारणम्. |
अपमृत्युजयं वक्ष्ये यथातदवधारय || १६६ ||
होमशालागते कुण्डे सम्य गाधाय पङ्कजम् |
तस्मिन्नावाह्य देवेशं दूर्वाकाण्डैर्यथोक्षितैः || १६७ ||
गारा द्यपावकम् |
हेतीशं |
जुहुयात्कोटिभिर्मन्त्रैर्यथाशक्त्यथवा पुनः |
इति मासद्वयं रक्षेत्पावकं नियतेन्ध्रियः || १६८ ||
होमान्ते यदि भूपालस्तुलारोहणमाचरेत् |
अन्यश्चेदात्मनोयत्स्वं दद्याद्ब्राह्मणसात्प्रति || १६९ ||
कलशैः पञ्चविंशत्या स्नापयेच्चक्रविद्यया |
एवं कृते चतुर्वक्त्र कालमृत्युं जयेन्नरः || १७० ||
स्थाप |
अपमृत्युः कथं तस्य तज्जये नास्ति संशयः |
अथवा कालमृत्योश्च जयो पायोऽपगम्यताम् || १७१ ||
निष्टैस्सहस्रसङ्ख्यातैः प्रतिकृत्य पितामह |
द्विभुजं पुरुषाकारं भ्रुकुटीकुटिलेक्षणम् || १७२ ||
दंष्ट्राकरालवदनं वराहरुधिरेक्षणम् |
यष्टिं करेण सव्येन पाशं वामेन बिभ्रतम् || १७३ ||
प्रक्षाल्य पञ्चभिर्गवैः पञ्चोपनिषदा तथा |
नवकैरभिषिच्याथ धान्यराशिषु निक्षिपेत् || १७४ ||
आवाह्य पश्चाद्व्याहृत्या पूजयित्वास्वनामभिः |
होममग्नौ प्रकुर्वीत समिच्चरुघृतैरपि || १७५ ||
ऋग्भिः कृता न्तलिङ्गाभिर्ब्रह्मन् व्याहृतिभि स्तथा |
ततः प्रभाते विप्राय तं पुमांसं हिरण्मयम् || १७६ ||
पूताय भगवद्भक्त्या पञ्चकालानुवर्तिने |
दापयेत्काल मृत्युं च जित्वास्यात्प्रायषं पदम् || १७७ ||
मृत्युं वासजित्वा स्यायुषम्. इत्यस्ति |
मारणविधिः. |
अथ मारणमेतर्हि श्रूयितां चतुरासन |
विविक्ते कल्पयेद्देशे होमशालां विधानवित् || १७८ ||
तन्मध्ये कल्पयेत्कुण्टचार्यो दक्षिमाणामुखः |
गृहीत्वाक्षस्य फलकां हस्तद्वयसमायताम् || १७९ ||
तदर्धविस्त्रृतां ब्रह्मन् घनं च चतुरङ्गलम् |
तस्या लिखित्वा द्वेष्यस्य वपुः प्रत्यक्षसंमितम् || १८० ||
प्रतिकूलेऽथ नक्षत्रे रिपोरष्टमराशिषु |
कृष्णपक्षे विशेषेण प्रकुर्यान्मरणक्रियाम् || १८१ ||
प्राच्यां भागेऽथ कुण्डस्य षडरं चक्रमालिखेत् |
कृष्णसूत्रेरलङ्कृत्य तस्मिन् चक्रं प्रतिष्ठितम् || १८२ ||
कृष्णगन्धैः कृष्णपुष्पैः पूजयेत् कृष्णवारिभिः |
श्मशानाद्वा सुनिलयाद्वल्मीकान्मृदमाहरेत् || १८३ ||
श्मशानादौ |
तां रिपोः पादधूलीभिर्व्यामिश्रां कमलासन |
उन्मत्तरसमिश्रेण खरमूत्रेण पेषयेत् || १८४ ||
विष्ठया वा मृदा वापि द्वेष्यस्य प्रतियातनाम् |
तस्यां प्राणान् प्रतिष्ठाप्य मन्त्रेणानेन मन्त्रवित् || १८५ ||
उद्गीथमप्रमेयं च मन्दरं भुवनं तथा |
क्रोधानिलौ पश्चिमास्यं हुताशं मधुसूदनम् || १८६ ||
प्रचण्डगोपनौ रामं भास्करं पश्चिमाननम् |
नमध्यं गोपनद्वन्द्वममुष्येति पदं पुनः || १८७ ||
जीवा इह स्थिता शब्दं विष्णुदक्षोदयां स्तथा |
क्रोधरूपं तपस्यन्तं सर्वशब्दमनन्तरम् || १८८ ||
नभस्वन्तं |
विक्रमं विघ्नराजात्रिवह्नि बन्धू च गोपनम् |
वनमालाधरं रामं पाङ्मनः काय इत्यपि || १८९ ||
अथ माया तृतीयान्तं लोडन्तं यानि यन्मुखम् |
स्वाहावसानमुद्धृत्य प्रणवान्तानिकं मनुम् || १९० ||
प्रथमायां |
धान्यवान्मुखम् |
तां च प्राणवतीं कुण्डे खन्यामत्तानशायिनीम् |
फलकास्थितमाकामनु लिप्य पातामह || १९१ ||
लिख्य |
पूर्वोक्तया मृदा पश्चात्प्राणिनं प्राणविद्यया |
पादेनाक्रान्तहृदयो रोषलोहितलोचनः || १९२ ||
सहस्रकृत्वश्चक्रस्य मन्त्रं भाषेत मन्त्रवित् |
वृषवृक्षप्ररूढेन शङ्कुना नेत्रयोर्हृदि || १९३ ||
अक्षवृक्षअथवाविषवृक्षैति स्यात्किम् |
हस्तयोः पादयोर्गुह्येश्रोत्रयोर्नासिकोदरे |
अन्येष्वपि प्रतीकेषु वधं कुर्याद्विचक्षणः || १९४ ||
वेधं |
तथा कृते रिपो स्ततद्गात्रं हीनं भविष्यति |
अथ कुण्डेश्मशानाग्निं निदधीत पितामह || १९५ ||
दर्भैः परिस्तरे द्वेद्वां दक्षिणापश्चिमोन्मुखान् |
परिधिं तद्वदाकीर्य कृत्वा राक्षां तथात्मनः || १९६ ||
ऋत्विग्भिष्षोडशोद्दिष्टैर्द्वारेष्वध्ययने कृते |
ब्राह्मणेभ्यो धनं दत्वा हेतिराजमनुस्मरन् || १९७ ||
अक्षकाष्ठप्रक्लृप्ताभ्यां स्रुक्स्रुवाभ्यां यथाविधि |
कृष्णपन्नगराजीव कृष्णोतु क्षतजोक्षितैः || १९८ ||
मरीचैस्सर्षपै र्युक्तानष्टधान्याष्टधान्वितान् |
समिधोऽक्षस्य जुहुयात्सहस्रं प्रतिवासरम् || १९९ ||
र्मिश्रैस्तथान्यैश्चौषधान्वितैः |
रिपुनक्षत्र वृक्षाणां समिधश्छापि मन्त्रवित् |
मन्त्रान्ते शत्रुनामानं मारयेति प्रकीर्तयेत् || २०० ||
होतव्यं चावमानेन होमं कृत्वा दिने दिने |
यावद्भवति कृत्याया दर्शनं जातवेदसि || २०१ ||
होतव्यश्च प्रमाणेन |
क्रमेणतावज्जु हुयाद्वासरावेकविंशतिम् |
फलकामपि वेदस्थां होमधूपेन धूपयेत् || २०२ ||
अगुरुं गुग्गुलं चापि धूपार्थ मनले दहेत् |
अथ सप्तस्वतीतेषु दिवसेषु पितामह || २०३ ||
सप्तस्वहस्सु मध्ये च यथाक्रमनुमि ज्वराः |
आक्रोशो वेदना तीव्रा गात्राणामविधेयता || २०४ ||
हिक्का निश्वासविच्छेदो जिह्वाहानिस्तथारिपोः |
भवन्तिहि प्रभावेन चक्रमन्त्रस्य निश्चितम् || २०५ ||
इति द्विसप्तकेऽतीते दिवसेऽनन्तरे पुनः |
मध्यरेत्रे कृते होमे कृत्या तस्माद्विभावसोः || २०६ ||
कृत्यां तस्या |
त्रिशूलभीषणैर्हस्तै स्सप्तभिस्त्रिभिरङ्घ्रिभिः |
जिह्वया रक्तवर्षिण्या लेलिहाना निजं मुखम् || २०७ ||
स्सन्दर्शितशरादिभिः |
उद्गिरन्ती स्वनेत्राभ्यामाज्वसिक्तं हविर्भुजम् |
नरास्थिमालां बिभ्राणा पुरीतत्कतमेखला || २०८ ||
नूपुरीकृतमेखला |
कपोलकुण्डलोपेता प्रहसन्ती भयानकम् |
दण्डं घण्टां तथा शूर्पं मार्जनीं पाशमण्डलम् || २०९ ||
बिभ्रती लम्बमानाभ्यां हस्ताभ्यां मुक्तमूर्धजा |
अधिरूढापरस्कन्धमन्धकारनिभाकृतिः || २१० ||
स्तनाभ्यां |
स्फुलिङ्गमण्डलस्थेव विमुक्ताटोपभीषणा |
उत्थाय प्राञ्जलिर्भूत्वा किंकरोमिति भाषते || ३२. || २११ ||
अभिधास्यत्यथाचार्यः प्राणान् हर रिपोरिति |
आदिष्टा सा तथेत्युक्त्वा रिपुं तस्य महात्मनः || २१२ ||
अपि दूरस्थितं हत्वा गुरुं पुनरुपैष्यति |
अथ पूर्णाहुंतिं हुत्वा होतृभिस्सह मन्त्रवित् || २१३ ||
पूर्व |
द्वाविंशे दिवसेलक्षं षडक्षरमिमं जपेत् |
तथापराजितं मन्त्रं नारसिह्ममनुं तथा || २१४ ||
द्वादशे |
घृतादिपूरितैः कुम्भैर्विंशत्या पञ्चभिः पुनः |
आत्माभिषेकं कुर्वीत चक्रमन्त्राभिमन्त्रितैः || २१५ ||
कुर्वन्ति |
एनसो मुच्यते तस्मात्तथा शान्तिर्भविष्यति |
उच्चाटनम्. |
उच्चाटनं प्रवक्ष्यामि यथावत्कमलासन || २१६ ||
निम्बदुत्तूरप्रत्राणां श्मशानाङ्गारमिश्रितैः |
रसैरक्षस्य काष्ठेन द्विहस्ते प्रेतवाससि || २१७ ||
कामेन द्विहस्ते व्रत |
षट्कोणे नाभिनेम्यज्के मण्डले क्रमशोलिखेत् |
नामधेयं रिपोरन्तः प्रोच्ययामे थ पश्चिमे || २१८ ||
प्राच्ये याम्येथ पश्चिमे |ककारं भवनं ब्रह्मन्नीकार भवनं पुनः |
यकारं भुवनं ब्रह्मन् झकारं भुवनं तथा |
शिष्टेषु त्रिषु कोणेषु तथोष्टे मण्डलादयः || २१९ ||
भवनम् |
सर्वकोशेष्वपि अशुद्धिः |
तदारूढं रिपुं चापि कुणअडे चापाकृतौ पुनः |
समिद्भिर्निंबवृक्षस्य तथा च विषभूरुहः || २२० ||
जुहुयादभितो वह्नावमृतं प्लोषयन् रिपुम् |
यत्र ध्वजं तं बध्नी यादुच्छ्रिते चैत्यपादपे || २२१ ||
अहोभिरेकविंशत्या रिपुस्तस्य महानपि |
अधिष्टानं निजं हित्वा भार्यापुत्रादिभिस्सह || २२२ ||
पलायते दिगन्तेषु न क्वचिल्लभते स्थितिम् |
विद्वेषणम्. |
अथ विद्वेषणं ब्रह्मन् यथावदवधारय || २२३ ||
अक्षपादपकाष्ठेन स्निग्धयोराकृतिद्वयोः |
कृत्वा तयोर्लिखेन्मन्त्रं नामधेयं तयोरपि || २२४ ||
विद्वेषय पदोपेत मसृजाध्याङ्क्ष कारयोः |
आखुमार्जारयोर्ब्रह्मन् तथा सर्वमयूरयोः || २२५ ||
मसृजा ध्वांक्षतारयोः |
तथान्येषां विरुद्धानां तिरश्चां पक्षिणामपि |
निब ध्य रज्जुमायामां मूर्धजैर्महिषाश्वयोः || २२६ ||
ध्यारज्जु मायाया |
तथा ते अकृती बध्वा व्यस्तयोस्तुकृतं मुखम् |
अपिदध्यात्तयोरास्यं जपेन्मन्त्रं षडक्षरम् || २२७ ||
व्यत्यस्तंयोः कृता मुखीवास्तधोस्तु कृतामुखी |कृते खन्याअथ खन्या |
कुण्डे च होमं कुर्वीत समिद्भि र्मृत्युबन्धयोः |
अष्टोत्तरसहस्रेण हुयादग्नौ सुदर्शनम् || २२८ ||
र्मृणबालयोः |
ध्यायन्न |
युध्येत स्निग्धयोर्द्वन्द्वं काकोलूकादिसंमितम् |
इत्थं दश स्वतीतेषु दिवसेषु स मन्त्रवित् || २२९ ||
अपाकृष्यति दम्पत्यो ममत्वं मित्रयोरपि |
क्षीरैस्नायात्तयोर्भूयः प्रीतर्भवति पूर्ववत् || २३० ||
ममृत्यं |
क्षीरस्नानात् |
स्तम्भनम्. |
अथाभिधीयते ब्रह्मन् स्तम्भनं तं निशम्यताम् |
शिलातले लिखित्वाथ चतुष्कोण चतुष्टयम् || २३१ ||
तेषु प्रत्येकमालिख्य पत्रैर्दिव्यैः पितामह |
गृहं वामनमन्त्रं तमिन्दुकान्तचतुष्टयम् || २३२ ||
प्रीतै |
तमिंद्र |
वज्राङ्कमपि पुष्पैस्तत्पूजयेत्कनकप्रभम् |
स्थापयित्वा स्थण्डिलेऽस्मिन्नासित्वा मन्त्रमिरयेत् || २३३ ||
तले तस्मिन् |
स्तम्भयेति पदं चापि जुहुयादर्कखण्डिकाः |
स्तम्भनं स्यात् झडित्येवं विवाहे गर्भलाभके || २३४ ||
स्तम्भनस्य झडित्येव |
वादजल्पवितण्डासु कथास्वपि च वादिनाम् |
वक्ष्यामि स्खलनं ब्रह्मन् लिखित्वा प्रतियातनाम् || २३५ ||
तिलकं |
द्वेष्यस्यालयवैस्तल्या गोमयाङ्गारमिश्रितैः |
तदङ्गेषु लिखेन्मन्त्रं तद्बीजेन समन्वितम् || २३६ ||
द्वेष्यस्य वयमेवस्तु भिक्षागोमय कुम्भकैः |तदनैषु |
अथ स्याच्छक्तिहीनं तु मतिद्वेषस्य देहिनः |
अथ ते ताडनं वक्ष्ये दुत्तूरहयमारयोः || २३७ ||
मयि द्वेष्यस्य |
दुर्धूरं भय |
अर्कस्य च रसे ब्रह्मन् श्मशानाङ्गारमिश्रितैः |
ऌइखेत्प्रतिकृतिं बिल्व काष्ठे प्रेतस्य वासनि || २३८ ||
सङ्खकीलमथाधाय चतुरङ्गुलसंमितम् |
अङ्गानि ताडये त्तस्य तेन कीलेन मन्त्रवित् || २३९ ||
षडक्षरस्य कुर्वीत नित्यं जप मतन्द्रितः |
धनादिहानिस्तस्य स्यान्न्यस्ते द्वेष्टि स मन्त्रवित् || २४० ||
वशीकारः. |
वशीकारमहं ब्रह्मन् भूपतीनां ब्रवीमिते |
कुष्ठकुङ्गुमसिद्धार्धकर्पूरागुरुचन्दनैः || २४१ ||
कुष्ठं च कुङ्गुमं लोध्रं |
गोरोचनान्वितैश्चापि कुसुम्भरजसा सह |
भूर्जपत्रे ऌइखेच्चक्रं षडरेषु षडक्षरम् || २४२ ||
तद्बहिर्द्वादशारं च नाभिनेमिसमन्वितम् |
द्वादशाक्षरमालिख्य द्वादशारं ततो बहिः || २४३ ||
अष्टाक्षरेण मन्त्रेण हंसमन्त्रेण चान्वितम् |
तद्बहिर्द्वादशज्वालं पाशाङ्कुशमनुद्वयम् || २४४ ||
साध्यस्य नामधेयेन प्रणवेनान्तराङ्कितम् |
आभिष्षोडशभिर्ब्रह्मन् विदर्भितमनन्तरम् || २४५ ||
तदेतद्गुलिकां कृत्वा पद्मसूत्रेण वेष्टिताम् |
चक्राब्जे वा सितां कृत्वा पूजितां कुसुमादिभिः || २४६ ||
होमं पद्माकृतौकुण्डेकृत्वा कुसुमसर्पिषा |
द्वादशाहानिकृत्वैवं मङ्गाल्यादीनि साधयेत् || २४७ ||
मङ्गलादिषु |
राजदयो मुखं तस्य प्रेक्षन्तेविवशा इव |
तस्य दूरात्पलायन्ते कूश्माण्डप्रमुखा ग्रहाः || २४८ ||
पातालसाधनम्. |
रसादल प्रवेशं ते कथयामि चतुर्मुख |
बिल्वदारुं समासाद्य कुसुम्भरजसा सुधीः || २४९ ||
लिखित्वा षडरं चक्रं बहिस्तस्याथ मन्त्रवित् |
यथोपदेशं पातालं पन्नगासुरसङ्कुलम् || २५० ||
यथोद्देशं च |
लिखेत्कृत्वा पुनः कुण्डं तस्मिन्नाधाय पावकम् |
जुहुयान्न रमांसेन जपेन्मन्त्रं च सर्वशः || २५१ ||
द्वादशाहेन ते पश्चात्पापालतलसंश्रयाः |
उपस्थास्यन्ति तं भीता युवत्यः कामपीडिताः || २५२ ||
तं ग्रहिष्यन्ति भर्तारमहं पुर्वं शुचिस्मिताः |
पाणिभिर्लोलवलयैः कामयानाः प्रियंवदाः || २५३ ||
रसायनादि दास्यन्ति तस्मै पातालवर्तिने |
तद्भक्षणेन दीर्घायुस्ताभिस्सह यथेप्सितम् || २५४ ||
ततः प्रभावात् |
रंस्यते रम्यदेशेषु यत्र वा जायते रुचिः |
खड्गसिद्धिः. |
खड्गस्य साधनं ब्रह्मन्निदानीं कथयामिते || २५५ ||
अश्वत्थपत्रा न्तरितं खड्गं शास्त्रोक्तलक्षणम् |
स्पृष्ट्वा षडक्षरं मन्त्रं जपेद्ध्यात्वा सुदर्शनम् || २५६ ||
दृष्ट्वा |
अथ खड्गस्य तापस्यात्सयक्ष्यादीनि जेष्यते |
तस्मिन् धूमायमाने तु गन्धर्वाधिपतिर्भवेत् || २५७ ||
तस्मिन् ज्वालामुखे ब्रह्मन् विद्याधरपतिर्भवेत् |
गृहीत्वा तं पुनः खड्गं यथेष्टं लोकमाप्नुयात् || २५८ ||
परकायप्रवेशः. |
गोमयेनोपलिप्तेऽथ शून्यागारे पितामह |
चक्रं लिखित्वा सुमनास्सितपुष्पौरलंकृतम् || २५९ ||
व्रणहीनं शवं तस्मिन् ब्राह्मणस्य नृपस्य वा |
प्राचीन शिरसं कृत्वा माहिषेन घृतेन तम् || २६० ||
प्राणहीनं |
पादयोर्मन्त्रविल्लिम्पेदसहायोऽप्रमत्तधीः |
तद्वक्षसि पदं कृत्वा मन्त्रराजमिदं जपेत् || २६१ ||
प्रत्यहं जुहुयादग्नौ समिद्भि र्वेत्रभूरुहः |
कृते सङ्ख्यं जपेन्मन्त्रं जनहोमैः पितामह || २६२ ||
र्नेत्र |
तत्तद्धोमैः |
उत्थास्यति शवः प्राणी निशीथे कल्पिताञ्जलिः |
सतस्मै मन्द्रसिद्धाय वक्ति दिव्यं रसायनम् || २६३ ||
पादुकामञ्जनं खड्गं प्रदास्यति यथेप्सितम् |
यदिदं तेन खड्गेन हत्वा श्नीयात्तदामिषम् || २६४ ||
नीया |
त्रैलोक्य विषयं ज्ञानं लप्स्यते चतुरासन |
वलीपलितहीनत्वममरत्वं च सेत्स्यति || २६५ ||
विजयं |
निधानान्यपि गूढानि प्रत्यक्षमिव पश्यति |
रससिद्धिः. |
रसं विमृज्य पाषाणे लिखेच्चक्रं षडक्षरम् || २६६ ||
रसं निधाय मूषायां बध्वाद्रव्यैर्यथोचितैः |
कृत्वाभिमन्त्रित्रंब्रह्मन् चक्रमन्त्रेण कल्पवित् || २६७ ||
उपयुञ्जीत मेधावी जपेच्चापि षडक्षरम् |
आरोग्यं बलमैश्वर्यं कालमृत्युव्यतिक्रमम् || २६८ ||
वाग्मित्वं बुद्धिमत्वं च रूपसंवननं वयः |
सभस्थले गतिश्चापि साक्षादिव गरुत्मतः || २६९ ||
इत्यादयो गुणास्तस्य भविष्यन्तिन संशयः |
पादुकासिद्धिः. |
यथा न पादखेदस्स्याद्दूरं गत्वापि तच्छ्रुणु || २७० ||
काकजङ्घामुपादाय कोकिलेक्षणसंहिताम् |
बलां मोटारसैस्तेषां सऱपुङ्खरसान्वितैः || २७१ ||
मोटां |
सर्षपस्नेहंसमिश्रैश्चक्रमान्त्राभिमन्त्रितैः |
लिप्त्वा पादयुतं चक्रं कृत्वारण्यमहापथे || २७२ ||
सहस्रस्तेन |
लिप्तपादयुतं चक्रं गत्वारणमहापथम् |
योजनानां सहस्रे द्वे न खेदं समवाप्नुयात् |
यक्षीसाधनम्. |
यक्षीसिद्धिं प्रवक्ष्यामि तां लिखेत् क्षौम पाससि || २७३ ||
वाससीम् |
न्य ग्रोधमाले तां ध्यात्वा यक्षीविद्यां जपेद्बधः |
आराध्य गुग्गुलूत्थेन धूपेन कमलासन || २७४ ||
स्नात्वा |
समिद्भिर्वटवृक्षस्य तथाशोक करञ्जयोः |
रक्तपद्मैस्तिलैश्चापि जुहुयाज्जातवेदसि || २७५ ||
एकविंशति रात्रान्ते कम्पते स वटो मुहुः |
दृढबुद्धिः पुनश्चापि मन्त्रमेवं जपेद्बुधः || २७६ ||
अथ प्रत्यक्षरूपा सा यक्षी कल्याणलक्षणा |
स्निग्धेव जननी सिद्धिं तस्मै दत्वा यथेप्सिताम् || २७७ ||
रक्षेद्दत्वा |
अमुनैव विधानेन यक्षा वैश्रवणादयः |
प्रत्यक्षभूता दास्यन्ति साधकेन वृतं वरं || २७८ ||
वृतम् |
यथा यथाऽधिको होमो जपे वा कमलोद्भव |
अमुष्य चक्रमन्त्रस्य पञ्चकोटिर्यथोत्तरम् || २७९ ||
तथा तथा पदान्येता न्यवधूयेत किल्बिषम् |
आदित्यानां सशाङ्कस्य वसूनां मरुतामपि || २८० ||
वदान्येतान्यावेद्याविह |
अश्विनोर्वासवस्यापि मन्वादीनां तपस्विनाम् |
रुद्राणां ब्रह्मणश्चापि चक्रमन्त्रस्य वैभाव्त || २८१ ||
सहस्र कोटिसङ्ख्येन होमेन च जपेन च |
तपसा चातितीव्रेण लभते वैष्णवं पदम् || २८२ ||
किं भूयसा प्रलापेन यत्रेष्टं यद्भविष्यति |
स तेन तेन लभते पापे भ्योपि प्रमुच्यते || २८३ ||
इत्येतत्कथितो ब्रह्मन् षडक्षरमहामनोः |
कलास्संग्रहरूपेण रहस्यस्सर्वसिद्धिदः || २८४ ||
Kapitel 33
Lesehilfe: Kapitel 33: IAST, deutsche Übersetzung und Erläuterungen.
पाद्मसंहितायाम् |
त्रयस्त्रिंशोऽध्यायः |
औपचारिक मन्त्रकल्पः. |
ब्रह्मा |
अथौपचारिकान् मन्त्रान् शुश्रूषे भगवन्नहम् |
प्रयुज्यमानैर्यैः प्रीतिर्महती ते भविष्यति || १ ||
सर्वान् इति. क्वचित्पाठः |
प्रोच्यमानै र्यथाप्रीतिः |
श्रीभगवान् |
ब्रह्मन्नाराधनाङ्गानि मन्त्राण्यवहितश्शृणु |
यानि श्रुत्यन्तभागेषु शृण्वन्ति ब्रह्मवादिनः || २ ||
ब्रह्मकोशं पुरस्कृत्य ककुभं ब्रह्ममस्तकम् |
वैराजं देवरं पश्चादेकनेत्रमृगेश्वरौ || ३ ||
बन्धुकोशं |
बन्धुमस्तकम् |
पवित्रभुवनौ चापि ब्रह्मन् चण्डवनालयौ |
हुताश वामनौ पद्मागोपनौ विनतात्मजम् || ४ ||
विघ्नेशं मन्दरं कान्तं कलात्मा च जयाजयौ |
पीयूषरामौ श्रीकुम्भौ सूक्ष्मं गोपनपश्चिमौ || ५ ||
वरुणं भद्रहस्तान्तं विघ्नेशं पाटलप्रियम् |
अनिरुद्धं जयेणेशौ शुक्लं जयमथोदयम् || ६ ||
जयेणांशौ |
भास्वन्तमृतधामानं शत्रुदाहकवामनौ |
पद्मादिदेवौ श्रीवत्सं दक्षं भास्करगोपनौ || ७ ||
पद्मां च दत्तं |
पवित्र भुवनौ वह्निभुवनौ शत्रुदाहकम् |
पश्चिमास्यं मकारं च हुताशनसुधारसौ || ८ ||
विक्रमौ |
महामोयम् |
अन्तिमं ककुभं कृत्वा जितन्तामनुमिरयेत् |
भानुविष्णुध्रुवं बीजं ब्रह्मन्नेतस्य कल्पयेत् || ९ ||
अङ्गान्यप्यमुना कुर्यादृषिस्सनके उच्यते |
छन्धोऽनुष्टुप्तथैतस्य देवता पुरुषोत्तमः || १० ||
पुरुषो महान् |
जपोऽम्बुतर्पणं होमं कृतं षोडशलक्षवत् |
धर्मार्थकाममोक्षार्थान् पुंसां सर्वं प्रयच्छति || ११ ||
कुर्यात् |
पञ्चोपनिषन्मन्त्राः. |
पञ्चोपनिषदां मन्त्रानथ ते कथ याम्यहम् |
परमेष्ठी पुमान् विश्वो निवृत्तस्सर्व एव हि || १२ ||
आम्नायादिं क्रोधरूपं सङ्कर्षणगजानम् |
दक्षानिरुद्धौ पापघ्न वह्निगोपनमारुतान् || १३ ||
सङ्कर्षणविनायकाः |
नान्तानि |
पवित्रपापकौ दक्षमाधवौ पद्मसम्भव |
क्रोधकौस्तुभ सङ्खाद्यैर्गोपनं जयमन्दरौ || १४ ||
विघ्नेशमाधवौ चान्ते परमेष्टिनमिरयेत् |
ऋषिरादित्यनामास्य च्छन्दो गायत्र मुच्यते || १५ ||
देवता च सदा विष्णु र्जपेद्ध्वादशलक्षवान् |
पुरुषमन्त्रः. |
प्रथमं प्रणवं कृत्वा धूलिकेतन गोवनौ || १६ ||
विघ्नेश द्वितयं दक्षकलान्तौ पश्चिमाननम् |
वह्न्येदिदेवौ शङ्खाख्यं पश्चिमं भुवनं तथा || १७ ||
पावकं भुवनं पश्चाच्चक्रं दाहकगोपनौ |
जयदक्षौ भद्रपाणी देवदत्तौ तथा न्तिमौ || १८ ||
श्रीधरं पश्चात् श्रत्रुं |
इत्येवं पौरुषं मन्त्रमिरयेन्मन्त्रकोविदः |
ऋषिं नारदमस्याहुश्छन्दो गायत्रमीरितम् || १९ ||
देवता वासुदेवश्छ |
विश्वमन्त्रः. |
शृणु विश्वमतः परम् |
ताराग्निगोपनौ दक्षभद्रपाणी कलान्तिमौ || २० ||
भद्रपाणिदक्षकमान्तिमौ |
पवित्रवह्न्यादिदेवान् शङ्खं वरुणविक्रमौ |
श्रीवत्सकुंभौ विजयमन्दरौ विघ्नमाधवौ || २१ ||
इतीरितो विश्वमन्त्रः पुनर्द्रष्टा भृगुर्मनोः |
छन्दो गायत्रमेतस्य वाच्यस्सङ्कर्षणाभिधः || २२ ||
निवृत्तमन्त्रः. |
उद्गीथकुम्भादिदेवौ विघ्नेशद्वयमस्तकम् |
मन्दरं वरुणं पापहननं वह्निगोपनौ || २३ ||
सर्गिणं पाप |
वायुं विघ्नेश्वरं रामं पीयूषं वसुमस्तकम् |
एकनेत्रं वायुमादिदेवान् वैराजमन्दरौ || २४ ||
समघाननं |
मनुष्येशं मृगेशानं निवृत्तिमनुरीरितः |
ऋषिस्तु नारदश्छन्दो गायत्रं पूर्वमीरितम् || २५ ||
प्रद्युम्नो देवताऽनेन निवृत्तिं लभते पुमान् |
सर्वमन्त्रः. |
प्रणवं पीतवर्णाभं गोपनं मानुषेश्वरम् || २६ ||
माधवीं सर्गिणं पापहननं वह्निगोपनौ |
चतुर्गतिं कलात्मानं कुम्भं पावकगोपनौ || २७ ||
वै राजमन्दरौ स्याता मुद्धार्य चतुरासन |
गजास्यं देवदत्तान्तं सर्वमन्त्रं प्रकल्पयेत् || २८ ||
उष्णिक्छन्दः पुनस्त्वस्य दृष्टास्यान्नीललोहितः |
अनिरुद्दो देवता च मनवः पञ्च कीर्तिताः || २९ ||
पञ्चोपनिषदः पुण्या स्ता एताश्चतुरानन |
महापातकनाशिन्यः पराकादि फलप्रदाः || ३० ||
स्ता एव |
पारत्य्रादि |
एतास्सम्यगधीतेयो वेदान्तानथवाखलान् |
तावुभौ सदृशौमन्ये पञ्चभूश्शस्य तेऽधुना || ३१ ||
कोशेषु सर्वेषु एवमेवास्ति |
प्रायश्चित्तेषु होमेषु प्रतिष्ठाप्रोक्षणादिषु |
प्रयुञ्जीत पुमानेतास्सर्वपापप्रणाशिनीः || ३२ ||
शान्तिमन्त्रचतुष्टयम्. |
अतः परं प्रवक्ष्यामि शान्तिमन्त्रचतुष्टयम् |
प्रणवं मधुहन्तारं पवनं मधुसूदनम् || ३३ ||
भास्करं पुरुषात्मानं गदिविघ्नेशमाधवान् |
भल्लायुधं हृषी केशमग्निं भल्लायुधोदयम् || ३४ ||
केशं मर्त्य. भल्लायुधे दधौ |
कुम्भं मृगाङ्कपीयूषौ कमलाननमन्तिमम् |
शुक्लं कुम्भमथो शत्रुं भास्करं गोपनं तथा || ३५ ||
कुम्भं मधोश्शत्रुं इति |
इतीरयेन्मनुं ब्रह्मन् ऋषिस्याद्देवता मनोः |
छन्दो गायत्रमेतस्य देवता तिग्मतेजसः || ३६ ||
पुनः |
उद्गीथं विजयं कुम्भो विघ्नेशात्रिर्मृगेश्वराः |
पियूषगोपनौ भद्रह स्तगोपनयष्टयः || ३७ ||
स्तं देवन दृष्टयः |
जृम्भलं पद्मनाभं च भानु मद्विजयोनयः |
मुसलि गोपनः पश्चा ज्जयं कुम्भं च माधवम् || ३८ ||
मद्विजयाननः |
द्विजयः कुम्भमाधवौ |
नेत्रोतदेहौ सूर्यश्च श्रीधरौ विजयावनौ |
श्रीविघ्नेशस्सुभद्रोऽथ गदी वरुणमस्तकाः || ३९ ||
श्रीधरो विजयगोपनौ |श्रीविघ्नेशौ |
वैराजकुम्भादिदेवा दक्षो मधुनिघादनः |
आदित्यरामनासिक्यचन्द्र वामनसर्गिणः || ४० ||
हुतान्त इति मन्त्रोऽयमाहनीयश्चतुर्मुख |
ऋषिमस्य भृगुं प्राहुश्छन्दो गायत्रमित्यपि || ४१ ||
मनुं |
हुताशनो देवता च देवानां प्रथमं मुखम् |
निगमादिं श्रियः कान्तौ विजयद्वय विक्रमौ || ४२ ||
पातरौ |
क्रोधमेघौ पवित्रं च श्रीधरं पावकोदयौ |
उग्रात्मवह्नीद्युमणिरनलं बन्धु मस्तकम् || ४३ ||
क्रोधाखेयौ |
पवित्रं बन्धुनासिक्यं गदिनं पुलहं तथा |
दृष्टिं मृगेशं द्युमणिं रामो वैधरपावकौ || ४४ ||
वरुणं मायया साकं प्रचण्डं पाटलप्रियं |
पवित्रदहनौ वायुस्वच्छन्धौ ठठपश्छिमौ || ४५ ||
इत्थं प्रकल्पयेन्मन्त्रमृषिर्धनद उच्यते |
छन्दो गायत्रमेतस्य देवता हरिपिङ्गलः || ४६ ||
तारं पवित्रं विजयं विघ्नेशं भृगुगोपनौ |
भास्करं पुरुषात्मानं गदिनं विघ्नमाधवौ || ४७ ||
कालं पवित्रं कमलं |
भल्लायुधहृषीकेशौ वह्निं भल्लायुधं तथा |
कुम्भसंपुटितंशुक्लं चन्द्रपियूषगोपनान् || ४८ ||
भानुमन्तमथो शत्रुमिति मन्त्रं विवेचयेत् |
ऋषिर्बृहस्पतिस्तस्य छन्दः पूर्ववदीरितम् || ४९ ||
भानुमन्तं मधोश्शत्रुं इति स्यात् |
आदित्यो देवता ह्येवमुक्तं मन्त्रचतुष्टयम् |
यत्रमन्त्रं क्रियाद्रव्यहीनं शान्त्यादिकर्मणि || ५० ||
तस्मिन्नेतत्प्रयुञ्जीत तथायं साधको विधिः |
पञ्च विंशतितत्वमन्त्राः. |
मन्त्राणि ते प्रवक्ष्यामि तत्त्वानां पञ्चविंशतेः || ५१ ||
प्रयुज्यमानैर्यैर्विश्वं प्राणितिप्राणवर्जितम् |
प्रणवस्योपरि स्पर्शानाहुर्वामनमस्तकान् || ५२ ||
नमोन्तान् प्रातिलोम्येन योजयेत्पञ्चविंशतिम् |
परशब्दं चतुर्थ्यन्तं न तेः पश्छात्प्रकल्पयेत् || ५३ ||
जीवं देहं तथा बुद्धिर्गर्वं पश्चान्मनस्तथा |
शब्दस्पर्शौ तथा रूपं रसो गन्धश्च पञ्चकम् || ५४ ||
बुद्धिमहङ्कारं मन |
एतान् पञ्चापि विषयान् तन्मन्त्रवचनोदरान् |
श्रोत्रं त्वक्च तथा नेत्रं जिह्वा घ्राणं ततः परम् || ५५ ||
वाचं पाणिं तथा पादं पायूपस्थं पितामह |
पृथिवीं प्रथमं तोयं तेजोमारुतमन्वतः || ५६ ||
प्योम चान्ते चतुर्थ्यन्तै रात्मशब्दैस्तथो त्तरैः |
कृतनामानिमान् शब्दान्मन्त्ररूपेण कल्पयेत् || ५७ ||
दीपमन्त्रः. |
उद्गीथकृतनासिक्यौ हुताशं बिन्दुमस्तकम् |
ककुभं गदिनं वासुदेवं विजयवा मनौ || ५८ ||
बन्धु |
वह्निं गुहालयं चापि पवित्र मधुसूदनौ |
चतुर्गतिं मनुं प्राणं दीपार्थं मनुमिरयेत् || ५९ ||
नतिप्रान्तं दीपान्तं |
अक्षसूत्रमन्त्रः. |
तारं सूर्यहृषीकेशयष्टयः पुष्टिभीजवान् |
मेघबिन्दू शुक्लरामौ ऋषिः पुण्यत्रिविक्रमौ || ६० ||
इन्दुर्गुहालयं पश्चाज्जयपावकगोपनाः |
इति वायुर्नतिमत्स्या दक्षसूत्रमनुर्महान् || ६१ ||
क्वचित्कोशे पाददौ अक्षरद्वयत्रुटिः. अथ वायुनतिमत् इत्यस्ति अन्यत्रैति वायु र्मतिर्मत्स्यात् इति दृश्यते |
अर्घ्यमन्त्रः. |
तारं श्रीरामकौमारपुरुषात्ममृगेश्वरौ |
विष्णुं पंचान्तकं वह्निं धूमध्वजगुहालयौ || ६२ ||
पवित्रबन्धुसुमुखा माधवं प्रथमं तथा |
हुताशं पद्मपाणिंच वायुं वह्निं गुहालयम् || ६३ ||
वह्निं ब्रह्मगुहालयौ |
पश्चिमास्य मधोशत्रुं शङ्खं च नतिमस्तकम् |
इत्यर्घ्यमन्त्रं रचयेत् |
पाद्यमन्त्रः. |
अथ पाद्यमनुं शृणु || ६४ ||
मधोशरत्रुमन्दरं |
तारं गदिद्रुवौ चापि गदध्वंसिमृगाधिपौ |
पश्चिमं रामशिरसं विजयं वह्निपश्छिमौ || ६५ ||
रामपञ्चकं |
एकविंशं पद्मनाभं मायां पवनपङ्कजौ |
वह्निं द्वितीयमनिलं पापघ्नं मधुसूदनम् || ६६ ||
वैधरं मारुतं वह्निं हृषीकेशोऽथ पश्चिमम् |
रामं सुमुखसारङ्गौ नत्यन्तं मन्त्रमिरयेत् || ६७ ||
सुभगं |
अचमनमन्त्रः. |
आदौ व्यापिं शुक्ल वह्निं चन्द्रकुम्भौ जयानिलौ |
मन्दरं पद्मनाभं च वै राजाग्निगुहालयाः || ६८ ||
पापहन्तारमद्वेषी वनमाली मृगेश्वरौ |
गोपनो वक्रतुण्डश्च दक्षविघ्नेशगोपनाः || ६९ ||
पापहन्ता च रामश्च |
वैराजदक्षौ विघ्नेशमाधवौ नतिमस्तकम् |
इत्यचमन मन्त्रस्स्याद्रूपादीनि यथा अमि || ७० ||
मन्त्रस्य धूपादीनां |
भोगनिवेदनमन्त्रः. |
प्रथमं चेदपि मनोन्धो पावान्दुरितात्मवान् |
रामं दृष्टिमनुस्वारं गदिनं विष्णुसप्तमम् || ७१ ||
क्वचित्कोशे प्रथमं चेदनो...न्धूपान्दुरितात्मवान् इति दृश्यते. अन्यत्र यथापाङ्त्कां दृश्यते. शुद्धरोशसंवाद श्शुद्धिकरः |
राजमुष्टिमनुस्कारंसप्तकम् |
आदित्यगोपनौ चण्डं वह्निजायावसानकम् |
इत्येतत्कल्पितं मन्त्रं प्रतिभोगनिवेदनम् || ७२ ||
प्रयुञ्जीत प्रयोगं च तस्मात्साधारणो मनुः |
पुषाञ्जलिमन्त्रः. |
द्विषट्काक्षरमुधृत्य शिखण्डिपुलहं ध्रुवम् || ७३ ||
सुभद्रकुंभौ विजयश्रीधरौ दक्षमाधवौ |
पवित्रभुवनौ क्रोधपश्चिमान नगोपनाः || ७४ ||
गोधनान् |
ठठान्तमथ नत्यन्तं मनुमित्थं प्रकल्पयेत् |
पुष्पाञ्जलिप्रदानेषु नियुञ्जीत जितं पुनः || ७५ ||
वस्त्रमन्त्रः. |
तारश्शुक्लघटो यष्टिश्चन्द्रमा भुवनो नलः |
सुभद्रवाय्यौतदेहनत्यन्तो मनुरीरितः || ७६ ||
तेनाराधन वस्त्रं स्यादाप्यायनमुपाचरेत् |
इत्थमाराधनाङ्गानि मन्त्राणि कथितानि ते || ७७ ||
मप्यायनमानयनमाचरेत् |
ऐहिकसुखसाधनमन्त्राः. |
इदानीमैकान् मन्त्रान् प्रवक्ष्यामि मनोहरान् |
स्वीकृत्य सप्तवर्णानि रोहिणिशमपांपतिम् || ७८ ||
पवित्रमानुषेशनौ गोपनं पुण्यविक्रमौ |
पश्चिमं विजयं वायुं माधवो वरुणानिलौ || ७९ ||
वासुदेवं तथा दक्षं गोपनं जयमन्दरौ |
विघ्नेशमाधवौ पापहननं पवनं तथा || ८० ||
गुहालयमथो यष्टिं सूर्यमूर्ध्वं जगत्पतिम् |
यष्टिं कुम्भं जगत्प्राणं हृषीकेशं तथा ध्रुवम् || ८१ ||
श्वेतांशुं वरुणं बिन्दुं द्विसूर्यं वामनं ध्रुवम् |
ठठान्तिकं मनुं ब्रह्मन्नीरये दथ तारकम् || ८२ ||
दधितारकं |
नत्यन्तं शुक्लवरुणौ पश्चिमं विक्रमं जयम् |
बन्धुमग्निं हृषीकेशं पश्चिमं मधुसूदनम् || ८३ ||
चतुर्गतिमचामादिं माहेन्द्रं विष्णुपन्नगौ |
मन्दरं वामनं पश्चात्पश्चिमं विजयानिलौ || ८४ ||
देवदत्तं श्रियं वह्निं महामायां महाबलाम् |
हृषीकेशं ध्रुवं चापि बीजमाम्रेडयेदिमम् || ८५ ||
पवित्र मनलं चण्डं गोपनं द्विविनायकम् |
वैधरं मधुहन्तारं विजयं मन्दरं तथा || ८६ ||
मनिलं किंच |
भद्रहस्तं मृगेशं च ठठान्तं मन्त्रमिरयेत् |
सिन्धुद्वीपो मनोर्द्रष्टा विराट् छन्दो निगद्यते || ८७ ||
स्वप्नादिपति रेतस्य देवता परमः पुमान् |
हृषीकेशं यष्टिमन्त्रमिरयेन्मन्त्रकोविदः || ८८ ||
उष्णिक्छन्दः पुनस्तस्य देवता नृहरिर्हरिः |
तथा हि रसनामानि.. मन्त्रं प्रचक्षते || ८९ ||
अथाङ्गिरस |
सर्वत्राक्षरत्रुटिः |
अभिन्नविटपस्कन्धं स्पृष्ट्वा श्वत्थमिमं जपेत् |
अहोभिस्सप्तभिर्मृत्युं लङ्घयेत्सं यतेन्द्रियाः || ९० ||
अभग्न |
अल्पायाससाध्यामन्त्राः. |
अथाल्यायाससाध्यानि शृणु मन्त्राणि पद्मज |
व्यापिनं पुरुषात्मानं वासुदेवं नपश्चिमम् || ९१ ||
द्विनीलयम् |
रामं विघ्नेश्वरं मायामुद्गीधरहितानिमान् |
दक्षादीशादिदेवानामथाब्जं सुप्रतिष्ठितम् || ९२ ||
विश्वेश्वरम् |
दक्षादीशानादि देवान्मायाज्जम् |
वायुं पद्म मथोशत्रुं शङ्खवह्निध्रुवानपि |
हुतान्तमुद्धरेत्क र्णगोभितिं मन्त्रमुत्तमम् || ९३ ||
मथोश्शत्रुं इति स्यात् |
र्णगोभूति. र्णभोनिधिः |
जपेल्लक्षमिमं मन्त्रमुफोष्यैकादशे हनि |
द्वादश्यामपि कुर्यात् स्त्रीं समुन्नतपयोधराम् || ९४ ||
उन्नतस्य |
आवाह्य तस्यां हुत्वा च पूजयित्वाच योगिनीम् |
मध्यरात्रे बलिं दत्वा छिन्द्यात्तां प्रतियातनाम् || ९५ ||
हृत्वा |
भूतं भवद्भविष्यं च तस्य वक्ष्यति योगिनी |
अम्नायादिं विधातारं प्रचण्डं वसुमस्तकम् || ९६ ||
भव्यं भविष्यच्च |
पश्चिमं विक्रमं लक्ष्मीं गोपनं खड्ग धारिणम् |
सविक्रमं घटं चाग्निं घटं च द्विरदाननम् || ९७ ||
धारिणीम् |
पङ्कजं वारुणमथो सरसीरुहसम्भव |
ककुभं वह्निमपरं पीयूषं गोपनं तथा || ९८ ||
दारुणम |
झषं गुहालयं चापि शङ्खं वह्निं च मन्दरम् |
श्रीधरं पद्मवैराजं गोपनं सूक्ष्मलोचनम् || ९९ ||
वह्निमपश्चिमं |
वह्निं प्रचण्डं विघ्नेशं रामं मन्दरपावकौ |
पीतादिदेवौ पुलहं यष्टिं पद्मगुहान्तिमौ || १०० ||
एकनेत्रं श्रियं वह्निं वामनं वह्निमाधवौ |
मृगेशभावसद्बन्धोन् विघ्नोपहतिकं तथा || १०१ ||
ध्रुवं |
स्वच्छन्दं विजयं वह्निं वीरसेनसरोरुहौ |
आदिदेवं तथा चन्द्ररविदृष्टिशुभप्रदौ || १०२ ||
तथा चादौ दूरदृष्टि शुभप्रदौ |
वह्निं विनायकं रामं द्विर्दक्षं चतुरासनम् |
प्रचण्डः पावको यष्टिः पश्चिमास्यहुताशनौ || १०३ ||
पियूषरामसहितौ शुभदं वायुगोपनौ |
विजयं पञ्चबिन्दुं च वै राजं मधुसूदनम् || १०४ ||
गणेशगोपनौ पश्चाद्गदिनं विजयं घटम् |
एकदृष्टिं तथा वह्निं मन्दरं मधुसूदनम् || १०५ ||
कुञ्जराननविष्ण्वन्तौ विघ्नेशं बन्धुमस्तकम् |
ककुभं चन्द्रधवलं गोपनं पश्चिमाननम् || १०६ ||
चतुर्गतिं ठठोपान्तमिति मन्त्रं प्रकल्पयेत् |
अधस्तान्ने त्रवृक्षन्य जपेन्नेतदतन्द्रितः || १०७ ||
नष्टं मुष्टिं चिन्तनां च जानात्येतत्प्रसादतः |
जलस्तम्भनमन्त्रः. |
सप्ताक्षरं प्रकल्प्यादौ वरुणं गोपनं दरम् || १०८ ||
मुष्टं इति स्यात्किम् |
पियूषमाधवं दक्षं दृष्टिवह्निदरद्वयम् |
पश्चिमाग्निमुखानेतान् दहनस्यान्तरोदितान् || १०९ ||
सूर्य रामौ पीबतन्धो द्विः प्रकल्प्यचतुष्टयम् |
शुक्लं यष्टिविवस्वन्तौ वह्निं स्वाहावसानिकम् || ११० ||
रामोपि तद्बन्धो |
इत्यम्बुस्तम्भनं मन्त्रं कल्पयेत्कमलासन |
नदीवेगस्तम्भनमन्त्रः. |
प्रणवादिं वासुदेवं शुभदं पङ्क जं तथा || १११ ||
जद्वयं |
मायामभ्यस्य हन्तारं फलहं शशिनं जयम् |
यष्टिं भल्लायुधं चापि विघ्नेशं राममस्तकम् || ११२ ||
सत्यन्तमुदकस्तम्भं मन्त्रं मन्त्र विदीरयेत् |
अनयोः पूर्वमन्त्रेण स्थितवत्सलिते चरेत् || ११३ ||
मितीर |
उत्तरेण तु सिन्धूनां वेगस्तम्भं समाचरेत् |
अग्निस्तम्भनमन्त्रः. |
अग्निस्तम्भनमन्त्रं ते कथयामि यथातथम् || ११४ ||
सप्ताक्षरं कुम्भवह्निं भुवनं वनमालिनम् |
गोपनं पुरुषात्मानं त्रिवह्निं शशलाञ्चनम् || ११५ ||
वैराजबिन्दुं ह्रस्वान्तं चतुर्गतिमथो ठठम् |
इत्यग्निस्तम्भनं मन्त्रं साधयेतयुतं नरः || ११६ ||
लोहतैलं घृतं क्षीरं परशुं सलिलं तथा |
सप्तचैतानि संस्पृश्य शीतश्छाग्निर्भविष्यति || ११७ ||
लोहं तैल |
उदरे पङ्कजस्येव सुखमासीत श्रुष्मणः |
गोमहिषादिवश्यमन्त्रः. |
सप्ताक्षरं चतुर्थ्यन्तं विध्णुशब्दं चतुर्मुख || ११८ ||
उत्तरे पङ्कजस्यैव मुखमासीत पुष्पिणः |
पवित्रं श्रीहृषीकेशं विघ्नेशं मधुसूदनम् |
प्रद्युम्नं पापहननं विजयं वायुमाधवौ || ११९ ||
पवित्रार्थं हृषी |
दृष्टिं मन्दरं पाताद्विष्ठठान्तं मन्त्रमिरयेत् |
गवां च महिषाणां च कुर्यादेतेन वश्यताम् || १२० ||
वृष्टिं |
वाताद्विः |
व्यालादिदमनमन्त्रः. |
आदौ चतुस्त्रिवर्णानि धरप्रदगुहालयौ |
पवित्रवह्निकमलं सुमुखं वह्निगोपनौ || १२१ ||
वायुषठान्त इत्येष व्यालादिदमनो मनुः |
रिपुनाशकपिशाचवशमन्त्रः. |
प्रणवे षष्ठशब्दादि सम्बुध्यन्तं पिशाचवत् || १२२ ||
ऊर्ध्वलोकेश हननं पाषाणेषु ठठोमनुः |
इदं हि जपतो मन्त्रं रिपुमूर्धनि ताडयेत् || १२३ ||
पाषाणेषतरोमनुः |
पिशाचरूपं प्रत्यक्षं पाषाणैरस्थिभिश्शवैः |
गन्धर्वसाधनमन्त्रः. |
व्यापिनं गदिनं भद्रहस्तं पुण्यस्सरित्फतिम् || १२४ ||
गदिनं व्यापिनं हस्तं सरस्यो वा |
वह्निं हुताशं विष्ण्वन्तं ककुभं कुम्भविक्रमौ |
श्रीकुम्भगोपनान् कुम्भं शशाङ्कं ब्रह्मसाधनम् || १२५ ||
वह्निं हुताशनं विष्णुं |
द्विर्मन्दरं मधोश्शत्रुं सुभद्रं बन्धुमस्तकम् |
पितं क्रोधन मायामं विजयं गोपनं ध्रुवम् || १२६ ||
मथो शत्रुं |
धारामम् |
ब्रह्माणं मानुषेशानं वायुं गोपनमस्तकम् |
बिन्दुं पवित्र मनलं मारुतं प्रेतनायकम् || १२७ ||
मनिलं |
स्वाहावसानं गान्धर्वं मन्त्रमित्थं प्रकल्पयेत् |
अथर्वणमिमं मन्त्रं पिनाकिशिरसि स्थितम् || १२८ ||
पिनाङ्गिशिरसोत्थितम् |
अधस्तात्पारिजातस्य हेमसिंहासनस्थितम् |
आयामि नीभिर्मालाभिर्दिव्याभिश्शोभिवक्षसम् || १२९ ||
आयामिनीभिर्ज्वालाभिः |
दिङ्नागमदलिप्ताङ्गं दिव्याभरणभूषितम् |
रूपयौवनयुक्ताभिर्वालव्यजनपाणिभिः || १३० ||
रत्ना |
नित्यं षोढसवर्षाभिरुत्पलस्निग्धदृष्टिभिः |
महाकुल प्रसूताभिर्मदविह्वल मूर्तिभिः || १३१ ||
दृष्टिभिः |
अद्भुतभ्रूविरासाभिश्श्रवणप्रियगीतिभिः |
ईषद्वि स्रंसिवा सोभिरंसव्युकुलमौलिभिः || १३२ ||
स्तनान्दोलितहाराभिः कदलिसुभगोरुभिः |
कुटिलालकमालाभिः कन्यकाभिर्निषेवितम् || १३३ ||
कृतावधानं गीतेषु किन्नराणां मुहुर्मुहुः |
गन्धर्वाधिपतिं ध्यायन्लक्षं मन्त्रमिमं जपेत् || १३४ ||
अथेनमुपतिष्ठनै कुलवत्योवरास्त्रियः |
गन्धर्वराजवचनाद्रूप यौवनशालिनः || १३५ ||
इन्द्रजालमन्त्रः. |
अथेन्द्रजालमन्त्रस्य स्वरूपं कथयामिते |
ब्रह्मकुंभौ वीरसेनौ क्रोधं सुमुखवारुणौ || १३६ ||
सुभग |
रामं दक्षं मधोश्शत्रुं चतुर्गतिमृगेश्वरौ |
मोहयत्यथ रूपाणि द्विः प्रदर्शयमस्तकम् || १३७ ||
हुङ्कारं चतुरभ्यस्तं ब्रह्मन् किलिकिलिं तथा |
ऋतद्वयं कुम्भरामौ पवित्रानलवामनान् || १३८ ||
विजयं लोचने कृत्वा गर्भद्वितयमस्तकम् |
नानारूपाणि मायेद्वे द्विर्मन्त्रमितिकल्पयेत् || १३९ ||
जपेन लक्षसङ्ख्येन माया प्रत्यक्षसंगता |
यद्यदिष्टं साधकस्य तत्तत्कुर्वीत तत्क्षणात् || १४० ||
ब्रह्माद्या देवतास्सर्वा गगनस्थाः प्रदर्शयेत् |
गहनं मेदिनीं कुर्याद्यामिनिं दिवसं तथा || १४१ ||
गगनं मेदनीं कुर्यास्मेदिनिं च दिवं |
जीवन्तमप्सुविहितं प्राणपन्तं तथा शवम् |
मरुप्रदेशं वारिणि शुष्यन्तं पयसां निथिम् || १४२ ||
तथा वशम् |
षड्रसं वैपरीत्येन देशानप्ययथातथम् |
पाषाणैस्ताडयेद्देहे नेत्राद्युत्पाटनं तथा || १४३ ||
खल्वाट केशसंरोहं यूनस्थ्सविरतां तथा |
पुंसस्त्रीत्वं तथा स्त्रीणां पुस्त्वं क्लीबस्य तद्द्वयम् || १४४ ||
तयोर्वाक्लीबतां चित्रं श्मश्रुस्तनविपर्ययम् |
गीतं शुक्ल स्तथा गीता मन्यथा भावभागिनः || १४५ ||
गीतभागिनाम् |
अगर्भिणीं गर्भिणीं च गर्भिणीं चाप्यगर्भिणीम् |
पादादिभङ्गसन्धाने नभः कुसुमसम्भवः || १४६ ||
अचिन्तितानि शैलानां पतनानि यथेप्सितम् |
मनुष्यादिषु शृङ्गाणि गगनारोहणं तथा || १४७ ||
अकाल रणसंरंभान् प्रतिमाकर्षणं तथा |
कठिनानां द्रवीभावं द्रवतां कठिनात्मताम् || १४८ ||
द्राविणां कठिणेय |
अद्यापि प्रलयावस्थामुन्मज्जन निमज्जने |
खड्गादिभि रभङ्गं च जङ्गमं स्थावरं तथा || १४९ ||
श्शिरोभङ्गं |
आचेतनेषु चैतन्यं चेतनेषु विचेतनाम् |
रूपदर्शनमन्धस्य मूकस्य मधुरां गिरम् || १५० ||
श्रवणं बधिरस्यापि पज्गोर्गमसमद्भुतम् |
प्रदर्शनं विमानानां भुवि सूर्येन्दुमण्डलम् || १५१ ||
सूर्यादि |
शिलावर्षं महाघोरं राहुग्रासमपर्वणि |
एतस्थानप्रविष्टानि भुवनानि चतुर्दश || १५२ ||
शिलावर्षमहाधारां |
आसनस्थस्य पतनं तुमुलं च परस्परम् |
प्रतीपगमनं सिन्धो रासनं हव्यवाहने || १५३ ||
तत्क्षणेपि प्ररूढानां वृक्षाणां पल्लवं फलम् |
सेचनं हव्यवाहेन ज्वलनं वयसा तथा || १५४ ||
मध्याह्नसमये ज्योत्स्नांदिङ्मोहं वातसम्ब्रमम् |
चित्तादिधातु सङ्क्षोभं प्रत्यक्षस्याप्यदर्शनम् || १५५ ||
शैलशृङ्गा द्यपतना द्गव्यनस्य प्रदर्शनम् |
दिपतनं गव्यं न्यस्य |
गव्यन्यस्य |
इत्थं भूतानि चित्राणि कुर्यान्मायानुभावतः || १५६ ||
सप्तयक्षीमन्त्रः. |
इदानीं सप्तयक्षीणां मन्त्राणि कथ यामिते |
सुन्दरीमन्त्रः. |
आगच्छ सुन्दरी स्वाहावसानं प्रणवादिमम् || १५७ ||
इत्येष सुन्दरी मन्त्रो मन्त्रादेः कार्यमाचरेत् |
मनोहरामन्त्रः. |
प्रणवं प्रथमं सर्वं मनो हर नमो ठठ || १५८ ||
मन्त्रे मन्त्र्यादेः |
इत्थं मनोहरी मन्त्रः प्रियमिष्टं प्रयच्चति |
कनकवतीमन्त्रः. |
उद्गीथं कनकं ब्रह्मन् पक्ष्यते मैधुनप्रिय || १५९ ||
मनोहरं मन्त्रं प्रियादिष्टं |
उद्गीथः करकी ब्रह्मन् प्रत्युतो मैधुनप्रिये |
ब्रह्मन्...मथो मथुनतर्पिये |
ठठः कनकवत्यास्स्यान्मन्त्रः कामुकसिद्धिदः |
कामेश्वरीमन्त्रः. |
ममागच्छ चतुर्वक्त्र कामेश्वरि ठठान्तिमम् || १६० ||
मामागच्छ |
इति कामेश्वरीमन्त्रः सर्वां सिद्धिं प्रयच्छति |
आरुह्य शयनं नक्तमे काकि पुष्पगन्धवान् || १६१ ||
अत्रक्वचित्कोशे पद्यमेक मधिकमस्ति. यथादिव्यान्योदनवासांसि कुसुमान्य नुलेपनम् |पादुकांजनखड्गादीन् भुषणानि रसायनम् || इति |
रक्त |
ध्यायेत्कामेश्वरिं यक्षिं सा तस्य भवति प्रिया |
यदान्यां कामयेन्मन्त्री सा तस्य वशमाचरेत् || १६२ ||
यदन्यं |
रतिप्रियामन्त्रः. |
स्वाहान्तः कथितो मन्त्रो ब्रह्मात्पाते रतिप्रिये |
प्रिता रतिप्रिया यक्षी साधकस्य प्रयच्छति || १६३ ||
दिव्यान्योदनवासांसि कुसुमाद्यनुलेपनम् |
पादुकाञ्जन खड्गादीन् भाषणानि रसायनम् || १६४ ||
पद्मिनिमन्त्रः. |
ॐ पद्मिनि ठठो मन्त्रं पद्मिनि यस्य देवता |
ॐ श्रीं ह्रीं द्वयमागच्छ द्वयं यक्षि ठठान्तिमम् || १६५ ||
पद्मिनीं तां |
प्रणवद्वितयं पुष्टिबीजं पश्छान्नति स्तथा |
यामिनीमन्त्रः. |
वातादिदेवौ दक्षाद्यं बन्धुं विघ्नेशमारुतौ || १६६ ||
दक्षाख्यं |
वीरसेनमथो शुक्लं कुम्भं वह्निं च पश्चिमम् |
हृषीकेशं जयं कुम्भं श्रीद्धुवौ कमलासन || १६७ ||
कमलानलौ |
पञ्चबिन्दुं ठठान्तं च यामिनीमन्त्रमुद्धरेत् |
एतज्जपेन पुरुषो विभवं लभते परम् || १६८ ||
द्वन्द्वानि पुंसां स्त्रीणां च रहितान्यपि योजयेत् |
यद्यद्वस्तु तथान्येषां स्त्रियो वा पुरुषोऽपि वा || १६९ ||
ताम्भूलं कुसुमं वापि तद्वान्वहमुपानयेत् |
यस्यैते मनवस्सप्त सिद्धाः पुंसश्चतुर्मुख || १७० ||
कुंकुमं वापि तद्वाहनमु |
यक्ष्यस्तस्य भविष्यन्ति किङ्कयन् इति देवताः |
मेरुमन्धरविन्ध्यादिशिखरेषु यथातथम् || १७१ ||
किं कार्यमिति |
साधकं रमयिष्यान्ति कल्पं भोगै रमानुषैः |
पिशाचमन्त्राः. |
ब्रह्मन् पिशाचमन्त्राणि श्रुणुष्व गदतो मम || १७२ ||
कथयिष्ये यथातथम् |
सप्ताक्षराणि सप्तार्कगोपनाः कुम्भविक्रमौ |
क्रोधप्रचण्डौ वरुणमृगेशौ विपुलस्तथा || १७३ ||
सप्ताक्षराण्यथो दक्षगोपनौ |
द्विकुण्डसस्पमिस्वाहा मनुरेष प्रकीर्तितः |
बद्नि यादमुना ब्रह्मन्नाविष्टस्य शिखां पुनः || १७४ ||
सप्ताक्षरं पुरस्कृत्य चतुर्थ्यं विष्णुमस्तकम् |
गुरुर्बन्धुःपिता कामो मन्दरं विक्रमं तथा || १७५ ||
गुरुर्बन्धुः इत्यात्यर्धत्रयं क्वचिदधिकमस्ति |
पुलहं विक्रमं पश्छाद्भल्लायुधगुहालयौ |
वै राजपापहननौ विजयं बन्धुमस्तकम् || १७६ ||
हुताशगोपनौ ब्रह्मन् ककुभं ब्रह्मसूदनौ |
पवित्रशङ्खौ विजयं मायां स्वाहावसानकम् || १७७ ||
भृगु |
इतिमन्त्रं प्रकल्प्याथ बलिमेतेन दापयेत् |
पूर्वं मन्त्रदशार्णानि महेन्द्रो राममस्तकः || १७८ ||
पवित्र पापनौ पीतगौपनौ पश्चिमाननौ |
वह्न्यन्तसूदनौ विघ्नगोपनौ पपनं तथा || १७९ ||
पवनौ पीतगोपनौ पश्चिमानलौ |
गदी हुतवहस्सूर्यो वनमालि पितामह |
मानं शब्द शिरस्स्वाहा गन्धमन्त्रः प्रकल्पितः || १८० ||
भक्तिः |
द्वादशार्णमुखं पूर्वं वह्निं सुमुखविक्रमौ |
माहेन्द्रविक्रमौ भानुर्दक्षं विजययोर्द्वयम् || १८१ ||
द्विर्वारिशब्दं कमलं देवदत्तं विनायकम् |
स्वाहान्तमिरयेन्मन्त्र मावेशे विनियोजयेत् || १८२ ||
तमावेशे नि |
स्तम्भे वा पुरुषे वापि पयस्तेनाभिमन्त्रितम् |
विक्षिपेदथ भूतानि स्तम्भ मप्याविशन्तितम् || १८३ ||
यस्तेनास्यभि |
माप्या |
अष्टाक्षरमुखस्सूर्यो वह्निर्दिः कमलासन |
व्यस्तौ पुनस्तयोर्वह्नावुभयत्र त्रिविक्रमौ || १८४ ||
आदित्यरामं नासिक्यं घटसं वावकप्रियाः |
येन साग्रहमन्त्रस्य पिशाचादिभयावहम् || १८५ ||
स्फुटस्थो पानक |
एनसा |
भूतप्रतिकृतिं कृत्वा शालिपिष्टैर्महोदरीम् |
भित्वा तीक्ष्णेन शस्त्रेण भूतं साक्षाद्भविष्यति || १८६ ||
भूतग्रहपिशाचादीनपस्मारमथापि वा |
कूश्माण्डयक्षगन्धर्वब्रह्मरक्षस्सुरासुरान् || १८७ ||
आवेशयेद्धरेच्चापि मन्त्रैरेतैश्चतुर्मुख |
यद्यदेभिरशक्यं स्यात्तत्तत्कुर्याद्विचक्षणः || १८८ ||
सुदर्शनस्य मन्त्रेण नारसिह्मेन वा पुनः |
त्रैलोक्यमोहनेना पि साक्षा दष्टाक्षरेण वा || १८९ ||
सौदर्शनेन मन्त्रेण |
संहितोपसिंहारः. |
इति मन्त्रप्रभावस्ते कथितः पद्मसम्भन |
चर्या च विधिवत्प्रोक्ता धर्मकामार्थमुक्तिदा || १९० ||
भवचर्या च विधिनत्प्रोक्ता कमलसम्भव ||
इदं हि पावनं शास्त्रमधीते यस्समाहितः |
त्रिष्वप्यमुष्य लोकेषु ज्ञेयमन्यन्नविद्यते || १९१ ||
इदमेकायनं |
शास्त्रोपदेशागमप्रकारः. |
पद्म |
इत्युक्त्वा ब्रह्मणे शान्त्रं भगवान् भूतभावनः |
वासुदेवः परं ब्रह्मतत्रैवान्तरधीयत || १९२ ||
अथ विस्मयमानात्मा ब्रह्मालोकपितामहः |
अजगाम स्वकं लोकं स्तूयमानो महर्षिभिः || १९३ ||
कपिलाय ददौ ब्रह्माशास्त्रमेतन्महर्षये |
स चापि भगवान्मह्यं मयाते कथितं पुनः || १९४ ||
तत्पाताल मिदं हित्वा जम्भूद्विपमितो व्रज |
हिमवत्सर्वते रम्ये समाधाय मनश्शुभम् || १९५ ||
आराधय हृषीकेशं विधानैः पाञ्चकालिकैः |
इति ब्रुवाणे पद्मे तु लब्ध्वा हृष्टेन चेतसा || १९६ ||
विधिभिः |
अयोग्याज्ञानतिमिरं शास्त्राञ्जनशलाकया |
संवर्तस्य पातालाज्जंबूद्वीपागमनम्. |
निवृत्य पातालतलात्कृत्वा पद्मं प्रदक्षिणम् || १९७ ||
निर्वर्त्य |
अमुष्मिन् शैलशिखरे देवदारुभिरावृते |
महाभागवतैः पुण्यैः पञ्चरात्रविशारदैः || १९८ ||
तपस्वाध्यायनिरतैस्सेविते परमर्षिभिः |
हृदयेभ्यस्समाहृत्य हृदयं संयमादिभिः || १९९ ||
अराधयामि विश्वेशं वासुदेवं जगद्गुरम् |
अन्यमानीय तद्वाचा तं ध्यायन्मनसा पुनः || २०० ||
अन्नमानीय तद्वाचा तध्यायन्मन |
कालेनाराधनं कुर्वन् भजामि परमेश्वरम् |
त्वमप्याराधय क्षिप्रं चतुर्प्योहमधोक्षजम् || २०१ ||
शास्त्रगोपनम्. |
मया ते कथितं शास्त्रं सावधानेन किं श्रुतम् |
इदं ते नातपस्काय नाभक्ताय कदाचन || २०२ ||
न चाशुश्रूषवे वाच्यं न च मां यो भ्यसूयति |
तन्त्रेषु पञ्चरत्नानि. |
तन्त्राणां चैवरत्नानि पञ्चाहुः परमर्षयः || २०३ ||
पाद्मं सनत्कुमाराख्यं तथा परमसंहिता |
पद्मोद्भवं च माहेन्ध्रं कण्वतन्त्रामृतानि च || २०४ ||
रक्षादिमन्त्र माद्यन्ते |
तदा प्रभृति ये शिष्टास्ततो हं हिमवत्तटे |
आराधयं चतुर्बाहुं नियतः पुरुषोत्तमम् || २०५ ||
भवन्तोपि यतात्मानो भक्तिमन्तो जनार्दने |
केन वा कथितं शास्त्रमृषयः कल्मषापहम् || २०६ ||
शास्त्रश्रवणे फलम्. |
इदं महोपनिषदं श्रद्धधानशश्रुणोति यः |
स याति शाश्वतं स्थानं दुष्प्रापमकृतात्मभिः || २०७ ||
ब्रह्मैत्यध्यायस्त्रयस्त्रिं शच्चर्यापादः प्रकीर्तित इति अर्धंकेषु चित्कोशेषु दृश्यते ||
येन मां प्रथमामान यथा पद्म गुरोर्गुरुः |
तेनेदं श्रीयते पुण्या मतनोत्पद्म संहिताम् || २०८ ||
ऋषयस्तं भवन्तोपि भगन्तु पुरुषोत्तमम् |
प्रदास्यति स युष्मभ्य मपवर्गं तपोधनाः || २०९ ||
Quelle
IAST-Grundlage: „z pADMA.txt“. Die Nummerierung wurde nicht neu gesetzt. Eine geschlossene Nummernfolge belegt nicht, dass jeder Vers sprachlich vollständig ist.

Im Gespräch mit anderen Tantra-Schriften
Für die Sprache von Mantra, Śakti und innerer Verehrung bieten Lakshmi Tantra, Ahirbudhnya Samhita und Jayakhya Samhita passende Vergleichsmöglichkeiten innerhalb des Pāñcarātra. Kularnava Tantra und Tara Tantra erschließen verwandte Fragen in anderen Traditionen. Vergleiche zunächst einen kurzen, klar übersetzten Abschnitt. So entsteht Verständnis aus dem genauen Zusammenhang, bevor große Gleichsetzungen vorgenommen werden.
Siehe auch
Die Padma Samhita lesen: Werküberblick · Yogapāda · Jñānapāda · Kriyāpāda 1–23 · Kriyāpāda 24–32 · Caryāpāda 1–28 · Caryāpāda 29–33 · Kriyāpāda in Devanagari · Caryāpāda in Devanagari · 108 Lesestellen und Mantras.
Veröffentlichte Tantra- und Āgama-Artikel zum Weiterstudieren:
- Pāñcarātra, Gotteserkenntnis und Hingabe: Ahirbudhnya Samhita, Jayakhya Samhita, Lakshmi Tantra.
- Tempel, Bilder und Weihe in śivaitischer Überlieferung: Kamika Agama, Ajita Agama.
- Meditation und Bewusstsein: Vijnana Bhairava Tantra, Shiva Sutra, Tripura Rahasya.
- Guru, innere Verehrung und Lebensführung: Kularnava Tantra, Mahanirvana Tantra, Tara Tantra.
- Weitere eigenständige tantrische Überlieferungen: Brahma Yamala, Rudrayamala Tantra.
Die Bezüge erläutern gemeinsame Fragen und unterschiedliche Antworten. Sie setzen weder dieselbe Ritualordnung noch eine nachgewiesene historische Abhängigkeit voraus.
Yoga, Meditation und Seminare
Bhakti Yoga
- 27.10.2026 - 27.10.2026 Mantra-Konzert mit Shamana OM
Konzert mit Shamana OM- Shamana OM
- 31.10.2026 - 31.10.2026 Mantra-Konzert mit Gruppe Mudita
Konzert mit der Gruppe Mudita- Gruppe Mudita
Kundalini Yoga
- 30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe
Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…- Arjuna Wingen
- 06.11.2026 - 08.11.2026 Kundalini Yoga Einführung
Gründliche Einführung in die Theorie und Praxis des Kundalini Yoga, Yoga der Energie. Die praktischen Übungen des Kundalini Yoga umfassen Pranayama (…- Arjuna Wingen
Ein Wort mit in die Stille nehmen
Du musst die große Textfülle nicht auf einmal erfassen. Ein klar verstandener Vers, aufmerksam gelesen und mit seiner Übersetzung verbunden, kann für heute genügen. Lass sein Wort in der Meditation nachklingen und frage, welche Haltung es im Alltag stärken darf. So wird aus der Begegnung mit Sanskrit ein geduldiger Weg des Lernens und der inneren Hinwendung.