Shri Vidyarnava Tantra Sanskrit Devanagari Teil 2
Shri Vidyarnava Tantra – Sanskrit in Devanagari, Teil 2 enthält Śvāsa 10–14 des Pūrvārdha, der ersten Werkhälfte. Das „Meer der Sri Vidya“ lädt dazu ein, die Sprache einer vielgestaltigen spirituellen Überlieferung kennenzulernen: Mantra, Verehrung und die Beziehung zum Guru bilden wesentliche Zugänge.
Umfang dieser Seite: Kapitel 10–14. Die markierten Quellenprobleme und Auslassungen gehören zum Editionsbefund.
Diese Textseite ermöglicht das genaue Studium des Sanskrit. Historische Ritualvorschriften sind als Aussagen des Werkes zu lesen; ihre Wiedergabe ist keine persönliche Praxisempfehlung.
Navigation
Zur Ausgabe: Alle Textteile · 108 inspirierende Verse · Mantras und Formelregister
Deutsch: Teil 1 — IAST: Teil 1 — Devanagari: Teil 1
Devanagari: 1 (Kap. 1–9) · 2 (Kap. 10–14) · 3 (Kap. 15–19) · 4 (Kap. 20–23) · 5 (Kap. 24–27) · 6 (Kap. 28–31) · 7 (Kap. 32–35) · 8 (Kap. 36)
So nutzt du diese Textfassung
Die Devanagari-Fassung ermöglicht den unmittelbaren Vergleich mit der Sanskritschrift. Nutze Kapitel, Abschnitt und – wo angegeben – Druckseite gemeinsam zur Orientierung. Die IAST-Fassung hilft beim Abgleich einzelner Wörter; die deutsche Übersetzung erläutert ihren Zusammenhang. Wiederholte Verszahlen gehören häufig zu verschiedenen Zitatreihen und sind deshalb nicht stillschweigend zusammenzuziehen.
Für diesen Teil mit Kapitel 10–14 stehen die passenden Übersetzungs- und Sanskritteile unmittelbar in der Navigation. Wähle beim Wechsel der Fassung denselben Abschnitt; die Grenzen der Dateien sind aus Umfangsgründen unterschiedlich gesetzt.
Textgrundlage und Lesehinweise
Wiedergegeben wird der entsprechende Abschnitt des Muktabodha-E-Textes M00217, śrīvidyārṇavatantra, mit der Verfasserangabe Śrīvidyāraṇyayati. Der Dateikopf nennt Ram Chandra Kak und Harabhatta Shastri als Herausgeber sowie Varanasi Tantrika Text Series, Varanasi 1947. Diese Angaben sind aus dem E-Text übernommen; sie wurden nicht mit einem Titelblatt abgeglichen.
Elektronische Erfassung: Mitarbeitende des Muktabodha Indological Research Institute unter Leitung von Mark S. G. Dyczkowski. Der E-Text nennt Creative Commons BY-NC 4.0 als Lizenz. Die vorliegende Bearbeitung entfernt technische Kopf- und Seitenzeilen und ergänzt MediaWiki-Formatierung, Kapitelüberschriften und Leserführung. Die Sanskritlesungen werden nicht stillschweigend verbessert. Klammern, Fragezeichen, Sternchen und Varianten der Vorlage bleiben erhalten. Diese Fassung ist keine neue kritische Edition.
Verszählungen und unnummerierte Prosa folgen der Vorlage. In Zitaten kann die Verszählung neu beginnen; solche Nummern sind zusammen mit dem jeweiligen Abschnitt zu lesen. Die vier IAST- und acht Devanagari-Teilseiten umfassen zusammen Śvāsa 1–36 mit den jeweils gekennzeichneten Auslassungen. Die zweite Werkhälfte beruht auf der gesonderten Druckgrundlage des Uttarārdha.

10. Śvāsa
अथात्मपूजा - तत्र स्वपुरतस्त्रिकोणमण्डले साधारं पात्रं संस्थाप्य
कलशोदकेनापूर्य विशेषार्घ्यबिन्दुं दत्त्वा स्वदेहं
चन्दनादिभिरलंकृत्यात्मानमिष्टदेवतारूपं ध्यायन्
गुरुगणपतिपरदेवताः प्रणम्य मूलाधारादिब्रह्मरन्ध्रपर्यन्तं
प्राग्वत् कुण्डलिनीं ध्यात्वा तद्रूपिणीं मूलविद्यां परिभाव्य तत्तेजसा
परिणतं स्वेष्टदेवतारूपं स्वदेहं भावयन् आत्मपूजां कुर्यात् ।
प्रागुक्तयोगपीठन्यासरीत्या स्वदेहं योगपीठत्वेन विभाव्य
हृत्कमलकर्णिकायां श्रीचक्राधिरूढां श्रीपरदेवतां विभाव्य
वक्ष्यमाणक्रमेण षोडशोपचारैराराध्य पुष्पाञ्जलिपञ्चकं स्वदेहे
समर्प्यं धूपदीपौ निवेद्यान्तर्हवनं कुर्यात् । तत्र मूलाधारे त्र्यस्रं
कुण्डं विभाव्य तन्मध्ये कालाग्निमेव कामाग्निं
वासनारूपेन्धनप्रज्वलितं प्राणादिपञ्चवायुभिः संधुक्षितं
कुण्डलिनीरूपपरदेवाधिष्ठितं चिदग्निमण्डलं विभाव्य
प्रणवत्रितारादिमूलविद्यान्ते धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा
स्रुचा । षुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् इदं जुहोमि स्वाहा इति
पुण्यपापकृत्याकृत्यसङ्कल्पविकल्पधर्मात्मकं हविःसप्तकं
सप्तावृत्त्या हुत्वा ततः प्रणवत्रितारादिमूलविद्यान्ते
प्रकाशामर्शहस्ताभ्यामवलम्ब्योन्मनीस्रुचम् । धर्माधर्मकलास्नेहं
पूर्णवह्नौ जुहोम्यहम् ॥ अधर्मं जुहोमि स्वाहेति पूर्णाहुतिं दत्त्वा
निरस्तनिखिलप्रपञ्चो निष्कलब्रह्मरूपं साधकः कियत्क्षणं तिष्ठेत् । ततो
देवीरूपमात्मानं ध्यात्वा श्रीगुरुपादुकां प्रणम्य
शिरस्यन्नपूर्णां ध्यात्वा तद्विद्यां यथाशक्ति जपित्वा समर्प्य
प्राणायामर्ष्यादिकरषडङ्गन्यासपूर्वकं
मूलविद्यामष्टोत्तरशतवारं जपित्वा जपं समर्प्यं स्तुत्वा
प्रणमेदित्यात्मपूजा ॥ अथ शक्तिशोधनम् । तदुक्तं भावचूडामणौ :
अदीक्षितकुलासङ्गात् सिद्धिहानिः प्रजायते ।
बलाद्वा यत्नतो वापि अभिषेकं समाचरेत् ॥ १ ॥
आदौ बालां समुच्चार्य त्रिपुरायै समुच्चरेत् ।
नमःशब्दं समुच्चार्यं इमां शक्तिं ततो वदेत् ॥ २ ॥
पवित्रं कुरु शब्दान्ते मम शक्तिं कुरु प्रिये ।
वह्निजायां समुच्चार्य शुद्धिमन्त्रः सुरेश्वरि ॥ ३ ॥
तस्याः कर्णेऽभेदबुद्ध्या मायाबीजं समुच्चरेत् । इति शक्तिशोधनम् ॥ ततः शोधितद्रव्यं तु अर्घ्ये निःक्षिपेत् । तथा श्रीचक्रक्रमे पूर्वशोधितद्रव्यं तु गुप्तेनैव च संक्षिपेत् । इति स्वतन्त्रे :
अर्घ्यद्रव्यमर्घ्यपात्रे निःक्षिप्य प्रयतः सुधीः ।
कुण्डगोलोद्भवं द्रव्यं स्वयम्भूकुसुमं तथा ॥ १ ॥
अर्घ्यं दत्वा महेशानि सर्वसिद्धीश्वरो भवेत् ।
सुधया चार्घ्यदानेन योगिनीनां भवेत् प्रियः ॥ २ ॥
महायोगी भवेद् देवी पीठप्रक्षालितैर्जलैः ।
इति । भैरवतन्त्रे -
पञ्चमात्तु परं नास्ति शाक्तानां सुखमोक्षयोः ।
केवलैः पञ्चमैर्वापि सिद्धो भवति साधकः ॥ १ ॥
इति । तथा -
पूजयेदथ पर्यङ्कमध्ये मण्डुकमप्यतः ।
कालाग्निरुद्रमाधारशक्तिं कूर्ममनन्तकम् ॥ १ ॥
वराहं पृथिवीं कन्दं सुनालं केसराण्यपि ।
पद्मं च कर्णिकां चैव मण्डलं समर्चयेत् ॥ २ ॥
धर्मं वैराग्यमैश्वर्यं ज्ञानमज्ञानमेव च ।
अनैश्वर्यमवैराग्यमधर्ममपि पूजयेत् ॥ ३ ॥
प्. १७९) ज्ञानविद्यात्मकं चैवमात्मनश्चापि पूजयेत् ।
गन्धपुष्पाक्षतादीनि दत्त्वा तत्र निधापयेत् ॥ ४ ॥
तत्रोपरि कुलं स्थाप्य पूजानुष्ठानमेव च ।
पूजयेच्च ततस्तस्यां पञ्च कामान् समाहितः ॥ ५ ॥
ओंकारादिनमोन्तैश्च कुसुमैर्गन्धसंयुतैः ।
अर्चयित्वा चतुर्दिक्षु पूजयेत् कुलनायकम् ॥ ६ ॥
वाग्भवं कामराजं च स्त्रीबीजं कामराजकम् ।
ब्लूमात्मकं ततो दत्त्वा आधारशक्तिमुद्धरेत् ॥ ७ ॥
त्रिकोणं तत्र संलिख्य सिन्दूराद्यैर्वरानने ।
इति उत्तरतन्त्रे -
तस्या मूर्ध्नि त्रिकोणं च मन्त्रमालिख्य साधकः ।
महाप्रेतासनं मध्ये बालां च पूजयेत्ततः ॥ १ ॥
ह्सौं सदाशिवमहाप्रेतपद्मासनाय नमः - इति पूजयेत् । कुलार्णवे -
गणेशं च कुलाध्यक्षं दुर्गां लक्ष्मीं सरस्वतीम् ।
त्रिकोणेषु तु सम्पूज्य बसन्तं मदनं प्रिये ॥ १ ॥
स्तनयोः पूजयेत् पश्चान्मुखे तस्याः सुधाकरम् ।
इति । उत्तरतन्त्रे -
मौलौ गणेशं केशाग्रे कुलाध्यक्षं ललाटके ।
दुर्गां भ्रुवोस्तथा लक्ष्मीं रसनायां सरस्वतीम् ॥ १ ॥
इति ज्ञानार्णवे -
दक्षपादादिमूर्धान्तं वाममूर्धादि सुन्दरि ।
पादान्तं पूजयेत् सर्वाः कला वै कामसोमयोः ॥ १ ॥
श्रद्धा प्रीती रतिश्चैवेत्यादि मातृकाश्वासे द्रष्टव्याः ।
उत्तरतन्त्रे स्वरैरेवं प्रपूज्या हि सर्वकार्यार्थसिद्धये । इति । ललितातन्त्रे :
भगे तदीये विज्ञेया नाड्यस्तिस्रः प्रवाहिकाः ।
एका तु वाहिका चान्द्री सौरी चान्या तु वाहिका ॥ १ ॥
आग्नेयी चापरा ज्ञेया पूजयेत् तास्तु साधकः ।
अम्बु स्रवति चान्द्री सा पुष्पं स्रवति भानवी ॥ २ ॥
बीजं स्रवति चाग्नेयी तासु नामभिरर्चयेत् ।
वाग्भवाद्यैर्नमोयुक्तैः पूजयेत् सुप्रसन्नधीः ॥ ३ ॥
इति । उत्तरतन्त्रे -
पूजयेन्मदनागारे रक्तचन्दनचर्चिते ।
भगमालामनुं प्रोच्य त्रितारानन्तरं तथा ॥ १ ॥
ऐं ह्रीं श्रीं ऐं जूं ब्लूं चैव क्लिन्ने चैव ततः परम् (?) ।
सर्वाणीति भगानीति वशमानय मे ततः ॥ २ ॥
स्त्रीं ह्रीं क्लीं ब्लूं भगमालिन्यै नमः ।
ऐं ह्रीं श्रीमिति मन्त्रेण गन्धाद्यैस्तां समर्चयेत् ।
इहाप्यावाहनं नास्ति जीवन्यासो महेश्वरि ॥ ३ ॥
अथैवं च विधानेन तां षोडशोपचारकैः ।
इष्टदेवीं प्रपूज्याथ सर्वसिद्धीश्वरो भवेत् ॥ ४ ॥
अर्चयेद् गन्धपुष्पाद्यैः स्वशिवं तदनन्तरम् ।
मूलमन्त्रं ततः ओं नमो शिवाय ततः परम् ॥ ५ ॥
यजेत् तत्पुरुषाघोरसद्योजातादिसंज्ञकैः ।
तारं च शान्त्यतीतां च तदङ्गे तदनन्तरम् ॥ ६ ॥
समग्रविद्यामुच्चार्य त्रिकोणं चैव पूजयेत् ।
इति । ऊत्तरतन्त्रे -
अवधूतेश्वरीं कुब्जां कामाख्यां समयामपि ।
वज्रेश्वरीं कालिकां च तथा दिक्चरवासिनीम् ॥ १ ॥
महाचण्डेश्वरीं तारां पूजयेत्तत्र साधकः ।
तदनुज्ञां ततो लब्ध्वा दत्त्वा ताम्बूलमेव च ॥ २ ॥
शिवं च तत्र निःक्षिप्य गजतुण्डाख्यमुद्रया ।
धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा ॥ ३ ॥
सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् ।
स्वाहान्तोऽयं महामन्त्र आरम्भे परिकीर्तितः ॥ ४ ॥
ततो जपेत् स्त्रियं गच्छन् विद्यां त्रिर्भुवनेश्वरीम् ।
प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीस्रुचा ॥ ५ ॥
प्. १८०) धर्माधर्मकलास्नेहपूर्णामग्नौ जुहोम्यहम् ।
स्वाहान्तोऽयं महामन्त्रः शुक्रत्यागे प्रकीर्तितः ॥ ६ ॥
इति । ज्ञानार्णवे -
शिवशक्तिसमायोगो योग एव न संशयः ।
सीत्कारो मन्त्ररूपं च वचनं स्तवनं भवेत् ॥ १ ॥
आलिङ्गनं तु कस्तूरीकर्पूरं चुम्बनं भवेत् ।
नखदन्तक्षतादीनि पुष्पाणि विविधानि च ॥ २ ॥
मैहुनं तर्पणं विद्धि वीर्यपातो विसर्जनम् ।
इति । कुलार्णवे -
आलिङ्गनं चुम्बनं च स्तनयोर्मर्दनं तथा ।
दर्शनस्पर्शने योनेर्विकारं (सो) लिङ्गघर्षणम् ॥ १ ॥
प्रवेशः स्थापनं शक्तेर्नव पुष्पाणि पूजयेत् ।
इति । यामले -
संयोगाज्जायते सौख्यं परमानन्दलक्षणम् ।
कुलामृतं प्रयत्नेन गृह्णीयाद्दुर्लभं नरः ॥ १ ॥
तेनामृतेन दिव्येन सर्वे तुष्टा भवन्ति हि ।
यत्कामं कुरुते मन्त्री तत् क्षणादेव सिद्ध्यति ॥ २ ॥
इति ज्ञानार्णवे -
कुलद्रव्यं च संशोध्य शिवशक्तिमयं प्रिये ।
बीजामृतं परं ब्रह्म जपन्निक्षिप्य सुन्दरि ॥ १ ॥
अर्घ्यपात्रामृतैर्यत्नान्निर्विकल्पः सदानघः ।
श्रीविद्याक्रममभ्यर्च्य परब्रह्ममयो भवेत् ॥ २ ॥
इति ते कथितं ज्ञानं सारं रम्यं वरानने ।
सविकल्पस्तु सततं पापभाग्जायते नरः ॥ ३ ॥
विचिकित्सापरो मन्त्री जायते गुरुतल्पगः ।
अत एव वरारोहे निर्विकल्पः सदा भवेत् ॥ ४ ॥
इति । कुलार्णवे -
कुलामृतं समादाय तदर्घ्ये निक्षिपेद्बुधः ।
तदर्घ्येण समाराध्य पूजाशेषं समापयेत् ॥ १ ॥
शोधितस्य कुलामृतसंज्ञा । शोधनमन्त्रस्तु श्रीक्रमे -
ओं अमृते-अमृतोद्भवे अमृतवर्षिणि प्रिये ।
देवि पदं शुक्रशापं प्रमोचय पदद्वयम् ॥ १ ॥
अमृतं स्रावयद्वन्द्वममृतं कुरुयोग्मकम् ।
स्वाहापदं ततो देवि शुक्रशुद्धिर्भवेत् प्रिये ॥ २ ॥
शुक्लैरक्षततण्डुलैः सुगन्धिकुसुमैर्युतैः ।
अर्घ्यद्रव्यैश्च देवेशि योनौ देवीं प्रपूजयेत् ॥ ३ ॥
इति । उत्तरतन्त्रे -
धूपैर्दीपैश्च नैवेद्यैर्विविधैः कुलसाधकः ।
विधाय वन्दितां तां च तदुच्छिष्टं स्वयं चरेत् ॥ १ ॥
इति । शिवागमे च -
अविचारं शक्त्युच्छिष्टं पिबेच्चक्रपुरो यदि ।
घोरं च नरकं याति कुलमार्गात् पतेद्ध्रुवम् ॥ १ ॥
तस्माद्विर्चार्य यत्नेन शक्त्युच्छिष्टं पिबेत् सुधीः ।
आनन्दं कारयेद्वीरस्तत्त्वं निर्भ्रान्तितः पिबेत् ॥ २ ॥
इति संक्षेपतः शक्तिशोधनं विशेषस्त्वग्रे प्रयोगविधौ वक्ष्यते ॥ अथ पीठपूजा प्रयोगरूपे तत्रार्घ्योदकेन श्रीचक्रमभ्युक्ष्य स्ववामतः पीठोपरि ४ गुरुपादुकाविद्यामुच्चार्य श्री-अमुकानन्दनाथश्रीपादुकां पूजयामिति सम्पूज्य दक्षिणे गंगणपतिश्री० इति सम्पूज्य सर्वाधस्तादारभ्यातलादिसप्तपातालादिभावनयोपर्युपरि ४ मण्डूकाय नमः ४ कालाग्निरुद्राय नमः ४ मूलप्रकृत्यै नमः आधारशक्तये० ४ कूर्माय० ४ वराहाय० ४ अनन्ताय० ४ पृथिव्यै० ४ अमृताम्भोनिधये० ४ रत्नद्वीपाय० ४ नानावृक्षमहोद्यानाय० ४ कल्पवृक्षवाटिकायै० ४ हरिचन्दनवाटिकायै० ४ मन्दारवाटिकायै ४ पारिजातवाटिकायै० ४ पुष्परागरत्नप्राकाराय० ४ पद्मरागरत्नप्राकाराय० ४ गोमेदरत्नप्राकाराय० ४ इन्द्रनीलरत्नप्राकाराय० ४ वज्ररत्नप्राकाराय० ४ वैदूर्यरत्नप्राकाराय० ४ माणिक्यमण्डपाय० ४ सहस्रस्तम्भमण्डपायनमः ४ अमृतवापिकायै० ४ आनन्दवापिकायै० ४ विमर्शवापिकायै० ४ बालातपोद्गाराय० ४ चन्द्रिकोद्गाराय० ४ महाशृङ्गारपरिखायै० ४ महापद्माटव्यै० ४ चिन्तामणिगृहराजाय० ४ पूर्वाम्नायपूर्वद्वाराय० ४ दक्षिणाम्नायदक्षिणद्वाराय०
प्. १८१) ४ पश्चिमाम्नायपश्चिमद्वाराय० ४ उत्तराम्नायोत्तरद्वाराय ४
रत्नद्वीपवलयाय ४ महासिंहासनाय नमः । ततो महासिंहासनं
पञ्चप्रेतमयं ध्यात्वा तस्य
वायव्यादिकोणचतुष्टयगतपादचतुष्टयत्वेन स्थितान्
ब्रह्मविष्णुरुद्रेश्वरान्
पीतश्यामरक्तसितार्कप्रभांश्चतुर्भुजानुपविष्टांस्तेषां स्कन्धेषु
सुलग्नमुत्तानशायिनमुदक्शीर्षं सदाशिवमिन्दुप्रभं ध्यात्वा पूजयेत् ।
तद्यथा - वायव्ये ४ लां पृथिव्याधिपतये ब्रह्मणे नमः
ब्रह्मप्रेतासनश्री० ईशाने ४ वामपामधिपतये विष्णवे नमः
विष्णुप्रेतासनश्री० आग्नेये ४ रां तेजोऽधिपतये रुद्राय नमः
रुद्रप्रेतासनश्री० नैर्-ऋते ४ यां वायव्यधिपतये ईश्वराय नमः
ईश्वरप्रेतासनश्री० मध्ये ४ ह्सौः वियदधिपतये सदाशिवाय नमः
सदाशिवमहाप्रेतासनश्री० -इति पञ्चप्रेतासनं सम्पूज्य तस्य
वायव्यादिकोणचतुष्टये धर्मादिचतुष्टयं तस्य
पश्चिमादिचतुर्दिक्ष्वधर्मादिचतुष्टयं च प्रादक्षिण्येन सम्पूज्य
तन्मध्ये मायाविद्ये सम्पूज्य तदुपरि पञ्चशत फणविराजितायानन्ताय
नम इति सम्पूज्य तन्मध्ये मौलावष्टदलकमलं कामेश्वरीपीठं
ध्यात्वा पद्माय नमः इत्यादिपरतत्त्वान्तं सम्पूज्याष्टदलकेसरेषु
मध्ये च मोहिन्यादिनवशक्तीर्योगपीठन्यासोक्ताः सम्पूज्य
न्यासोक्तपीठमन्त्रेण समस्तं पीठं सम्पूज्य तदुपरि श्रीचक्रं
विभाव्य ४ समस्तप्रकटेत्यादिसमष्टियोगिनीमन्त्रेण समस्तचक्रं सम्पूज्य
बिन्दुचक्रे ४ मूलं ओं ह्रौं क्लीं ऐं भगवति ब्लूं नित्याकामेश्वरि
स्त्रीं सर्वसत्त्ववशङ्करि सः त्रिपुरभैरवि फ्रेंविच्चेह्रींश्रीं
श्रीमहात्रिपुरसुन्दर्यम्बाश्री० इति पूर्णविद्यया त्रिः सम्पूज्य पुनर्मूलेन
त्रिः सपूज्य श्रीचक्रं पुरत्रयात्मकं ध्यात्वा
चतुरस्रत्रयषोडशदलाष्टदलात्मके प्रथमचक्रे ४ प्रथमकूटमुच्चार्य
शरीरात्मने नमः चतुर्दशारदशारद्वयात्मके मध्यचक्रे ४ द्वितीयं
बुद्ध्यात्मने नमः अष्टारत्रिकोणबिन्द्वात्मकान्तश्चक्रे ४ तृतीयं
प्राणात्मने नमः इति सम्पूज्य पुनर्बाह्यतृतीये बाह्यमध्यान्तरभेदेन
प्रोक्तक्रमेण कूटत्रयेण सम्पूज्य तथा मध्यचक्रत्रये अभ्यन्तरत्रये च
सम्पूज्य त्रिकोणचक्रस्य कोणत्रये मध्ये च पीठचतुष्टयं सम्पूज्य
बिन्दुचक्रे महोड्यानपीठे हिरण्यमयसहस्रदलकमलाय नमः इति सम्पूज्य
चतुरस्रपद्मद्वये चतुर्दशारदशारद्वयाष्टारत्रिकोणबिन्दुचक्रेषु
षडासनानि सम्पूज्य चतुरस्रे ४ नादशक्तिश्री० षोडशदले बिन्दुशक्तिश्री०
अष्टदले ४ कलशाशक्तिश्री० चतुर्दशारे ४ ज्येष्ठाशक्तिश्री० बाह्मदशारे ४
रौद्रीशक्तिश्री० अन्तर्दशारे ४ वामशक्तिश्री० अष्टकोणे ४ विबध्नीशक्तिश्री०
त्रिकोणे ४ दूतरीशक्तिश्री बिन्दौ ४ सर्वानन्दाशक्तिश्री० इति नव शक्तीः
सम्पूज्य षट्त्रिंशत्तत्त्वात्मकं श्रीचक्रं ध्यात्वा ४ अं ५०
शिवशक्तिसदाशिवेश्वरशुद्धविद्यामायाकलाविद्यारागकालनियतिपुरुष-
प्रकृत्यहङ्कारबुद्धिमनःश्रोत्रत्वक्चक्षुर्जिह्वा
घ्राणवाक्पाणिपायूपस्थशब्दस्पर्शरूपरसगन्धाकाशवायवग्नि-
सलिलपृथिव्यात्मने श्रीमहात्रिपुरसुन्दर्याः योगपीठाय नमः इति समस्तं
पीठं पुष्पाञ्जलिना सम्पूज्य ततस्तदुपरि मध्ये प्रसूनतूलिकां
कल्पयामीति पुष्पं निःक्षिप्य तदुपरि ४ ह्रींश्रीं महात्रिपुरसुन्दर्याः
सकलचैतन्यानन्दमयीं ओंकामेश्वरकामेश्वरीमूर्ति कल्पयामीति
पुष्पादिप्रक्षेपेण ध्यानोक्तां मूर्तिं भावयन् शक्त्युत्थापनमुद्रां
प्रदर्श्य मूलमुच्चार्य परस्यै कामेश्वरकामेश्वरीमूर्त्यै नमः इति
कल्पितमूर्ति पूजयेदिति योगपीठपूजा ॥
अथ श्रीचक्रपूजा -
तत्र प्रथमं स्वहृत्कमले श्रीचक्रं ध्यात्वा तन्मध्ये देवीं ध्यायेत् ।
ततो ध्यानं प्रवक्ष्यामि त्रिदशैः सेवनीयकम् ।
ततः पद्मनिभां देवीं बालार्ककिरणारुणाम् ॥ १ ॥
जपाकुसुमसंकाशां दाडिमीकुसुमोपमाम् ।
पद्मरागप्रतिकाशां कुंकुमोदरसंनिभाम् ॥ २ ॥
स्फुरन्मुकुटमाणिक्यकिङ्किणीजालमण्डिताम् ।
कालालिकुलसंकाशकुटिलालकपल्लवाम् ॥ ३ ॥
प्रत्यग्रारुणसंकाशवदनाम्भोजमण्डलाम् ।
किञ्चिदर्धेन्दुकुटिलललाटमृदुपट्टिकाम् ॥ ४ ॥
पिनाकधनुराकारभ्रूलतां परमेश्वरीम् ।
आनन्दमुदितोल्लोललीलान्दोलितलोचनाम् ॥ ५ ॥
स्फुरन्मयूखसङ्घातविलसद्धेमकुण्डलाम् ।
सुगण्डमण्डलाभोगजितेन्द्वमृतमण्डलाम् ॥ ६ ॥
विश्वकर्माविनिर्माणसूत्रसुस्पष्टनासिकाम् ।
ताम्रविद्रुमविम्बाभरक्तोष्ठीममृतोपपाम् ॥ ७ ॥
दाडिमीबीजवज्राभदन्तपंक्तिविराजिताम् ।
रत्नद्वि(दी)पसमुद्भासिजिह्वां मधुरभाषिणीम् ॥ ८ ॥
स्मितमाधूर्यविजितमाधुर्यरससागराम् ।
अनौपम्यगुणोपेतचिबुकोद्देशशोभिताम् ॥ ९ ॥
कम्बुग्रीवां महादेवीं मृणालललितैर्भुजैः ।
मणिकङ्कणकेयुरभारखिन्नैः प्रशोभिताम् ॥ १० ॥
प्. १८२) रक्तोत्पलदलाकारसुकुमारकराम्बुजाम् ।
कराम्बुजनखज्योतिर्वितानितनभस्तलाम् ॥ ११ ॥
मुक्ताहारलतोपेतसमुन्नतपयोधराम् ।
त्रिवलीवलयायुक्तमध्यदेशसुशोभिताम् ॥ १२ ॥
लावण्यसरिदावर्ताकारनाभिविभूषिताम् ।
अनर्घरत्नघटितकाञ्चीयुक्तनितम्बिनीम् ॥ १३ ॥
नितम्बबिम्बद्विरदरोमराजीवरांकुशाम् ।
कदलीललितस्तम्भसुकुमारोरुमीश्वरीम् ॥ १४ ॥
लावण्यकदलीतुल्यजङ्घायुगलमण्डिताम् ।
गूढगुल्फपदद्वन्द्वप्रपदाजितकच्छपाम् ॥ १५ ॥
नूपुरैर्विलसत्पादपङ्कजातिमनोहराम् ।
ब्रह्मविष्णुशिरोरत्ननिर्घृष्टचरणाम्बुजाम् ॥ १६ ॥
तनुदीर्घांगुलीभास्वन्नखचन्द्रविराजिताम् ।
शीतांशुशतसङ्काशकान्तिसन्तानहासिनीम् ॥ १७ ॥
लौहित्यजितसिन्दूरजपादाडिमरागिणीम् ।
रक्तवस्त्रपरीधानां पाशांकुशकरोद्यताम् ॥ १८ ॥
रत्नपुष्पनिविष्टां च रक्ताभरणमण्डिताम् ।
चतुर्भुजां त्रिनेत्रां च पञ्चबाणधनुर्धराम् ॥ १९ ॥
कर्पूरशकलोन्मिश्रताम्बूलापूरिताननाम् ।
महामृगमदोद्दामकुंकुमारुणविग्रहाम् ॥ २० ॥
सर्वशृङ्गारवेषाढ्यां सर्वाभरणभूषिताम् ।
जगदाह्लादजननीं जगद्रञ्जनकारिणीम् ॥ २१ ॥
जगदाकर्षणकरीं जगत्कारणरूपिणीम् ।
सर्वमन्त्रमयीं देवीं सर्वसौभाग्यसुन्दरीम् ॥ २२ ॥
सर्वलक्ष्मीमयीं नित्यां परमानन्दनन्दिताम् ।
एवं ध्यायेत् परेशानीं महात्रिपुरसुन्दरीम् ॥ २२ ॥
इत्येवं स्वैक्येन ध्यात्वा मूलविद्यया शिरसि पुष्पाञ्जलिं दत्त्वा
पुनर्हृदयकमले यथोक्तरूपां भगवतीं साङ्गां सावरणां
ध्यात्वा देवीं मानसैरुपचारैः सम्पूज्य नैवेद्यं दत्त्वा
भोजनावसरेऽन्तर्वैश्वदेवं कुर्यात् ॥ तद्यथा तत्र मूलाधारे
आत्मान्तरात्मपरमात्मज्ञानात्मेत्यादिचतुष्टयकॢप्तं चतुरस्रं
कुण्डल्यग्निसमुज्ज्वलं कुण्डं ध्यात्वा तत्र श्रीदेवतां ध्यात्वा तन्मुखे
मूलविद्यान्ते अहन्तां जुहोमि स्वाहा
इत्याद्यहन्तासत्यपैशुन्यकामक्रोधलोभमोहमदमात्सर्याणि सुषुम्ना
स्रुग्युक्तमनःस्रुवेण प्रत्येकं हुत्वा पुनर्हृदयकमले भुक्तवतीं
ध्यात्वा उत्तरापोशानादिसर्वोपचारैराराध्य मूलविद्यां यथाशक्ति
जपित्वा जपं समर्प्यं मूलविद्यया व्यापकं विन्यस्य कराभ्यां
पुष्पाञ्जलिमादाय मातृकाम्भोजत्वेन कल्पयित्वा त्रिखण्डां मुद्रां
बद्ध्वा हृदि श्रीचक्रराजे देवीं यथोक्तरूपां सपरिवारां ध्यात्वा
तेजोरूपतामापाद्यान्तर्मुद्राप्रयोगेण मूलाधारात् कुण्डलिनीमुत्थाप्य
तथा सह षट्चक्रमेदक्रमेण हृदयान्तः स्फुरन्तीं तां तेजोमयीं
षुषुम्नामार्गेण ब्रह्मरन्ध्रं नीत्वा
परतेजःसङ्गमेनामृतमहाम्बुधौ क्षणं विश्रम्य
शिवशक्तिसामरस्यसुखमनुभूय ४ हस्रैं हसकलह्रीं हस्रौः नमः
श्रीमहात्रिपुरसुन्दरि ।
महापद्मवनान्तःस्थे कारणानन्दविग्रहे । सर्वभूतहिते मातरेह्येहि परमेश्वरि । एह्येहि देवदेवेशि त्रिपुरे देवपूजिते । परामृतप्रिये शीघ्रं सान्निध्यं कुरु सिद्धये ॥ देवेशि भक्तसुलभे परिवारसमन्विते । यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरा भव ॥
इत्यावाहनमन्त्रमुच्चार्य वहन्नासापुटाध्वना त्रिखण्डामुद्रामुद्रितकरस्थपुष्पाञ्जलौ तत्तेजः समानीय श्रीपीठान्तःकल्पितमूर्तेः शिरसि ब्रह्मरन्ध्रस्थाने सन्निवेश्य कामेश्वराङ्कस्थां सावरणां श्रीमहात्रिपुरसुन्दरीं सर्वावयवभावेन ध्यायन् मूलमुच्चार्य श्रीमहात्रिपुरसुन्दरि इह तिष्ठ तिष्ठेति स्थापिन्या मुद्रया संस्थाप्य तथैव इह सन्निधेहि सन्निधेहीति सन्निधापनीयमुद्रया सन्निधाप्य पुनस्तथैव सन्निरुध्यस्व २ इति सन्निरोधिन्या सन्निरुध्य तथैव सम्मुखीभव २ इति तन्मुद्रया सम्मुखीकृत्य तथैवावगुण्ठिता भव २ इति तन्मुद्रयावगुण्ठ्य देव्यङ्गे षडङ्गविन्यासेन सकलीकृत्य तथैव धुनेमुद्रयामृतधारयाभिषेचनेनामृतीकृत्य तथैव महामुद्रया परमीकृत्य एता आवाहन्यादिनवमुद्राः प्रदर्श्य ततो मूलविद्यां पूर्वोक्तदीपिनीविद्यामकारादिक्षकारान्तां मातृकां चोच्चार्य मूलेन देवीं त्रिः सम्प्रोक्ष्य ४ श्रींह्रींक्लींहंगणपकालिके सौः सकलह्रींक्लींह्रींक्रींश्रीं इति जीवन्यासविद्यया देव्या हृदयकमले जीवं संस्थाप्य प्राणप्रतिष्ठां कुर्यात् । तत्र पूर्वोक्तप्राणप्रतिष्ठामन्त्रेण देवीं हृदये स्पृशन् तन्मन्त्रं त्रिः सकृद्वा पठेदित्येवं प्राणप्रतिष्ठां विधाय ततः संक्षोभद्रावणाकर्षवश्योन्मादमहांकुशाखेचरीबीजयोन्याख्या नवमुद्राः द्रांद्रींक्लींब्लूंसःक्रों हसखफ्रें ह्सौं ऐं इत्येकैकबीजोच्चारण पूर्वकमेकैकां मुद्रां प्रदर्श्य आं ह्रीं इति
प्. १८३) पाशमुद्रां क्रोंक्रों इत्यंकुशमुद्रां घंघं इति धनुर्मुद्रां द्रांद्रींक्लींब्लूंसःयांरांलांवांसां इति दशभिर्बीजैर्बाणमुद्रां च प्रदर्श्य ४ मूलं श्रीमहात्रिपुरसुन्दरीपादुकां पूजयामीति देवीं सम्पूज्य पुनः ४ मूलमुच्चार्य श्रीमहात्रिपुरसुन्दरीपादुकां तर्पयामीति सव्यहस्तांगुष्ठानामिकाभ्यां विशेषार्घ्यबिन्दुभिस्त्रिवारादन्यूनमष्टोत्तरसहस्रावधि यथाशक्ति श्रीपरदेवताया मुखकमले तर्पयित्वा आसनादिषोडशोपचारान् कुर्यात् । ततो मूलविद्यामुच्चार्य भगवति श्रीमहात्रिपुरसुन्दरि तुभ्यमिदमासनं कल्पयामि अत्र आस्यतां भवत्येति वार्क्षपौष्पचार्मवास्त्रतैजसाद्यन्यतममासनं कल्पयित्वा देव्या वामभागे निवेश्य सिंहासनपद्ममुद्रे प्रदर्श्य प्रणम्य हंहंहं इदमिदं गृहाण स्याहेति प्रार्थनमुद्रया निवेद्य मूलेन पुष्पाञ्जलिं दद्यात् । ततो मूलविद्यामुच्चार्य श्रीमहात्रिपुरसुन्दरि स्वागमितिं कुशलप्रश्नं कृत्वा स्वागतकुशलमुद्रे प्रदर्श्य मूलेन पुष्पाञ्जलिं दद्यात् । ततो मूलं० श्रीमहात्रिपुरसुन्दरीपादुकायै अर्घ्यं कल्पयामि स्वाहेति देव्याः शिरसि सामान्यार्घ्यात् किञ्चिज्जलमुद्धृत्य दद्यात् । ततो निवेदनमन्त्रेण निवेद्यार्घ्यमुद्रां प्रदर्श्य पुष्पाञ्जलिं दद्यात् । ततः पाद्यपात्राज्जलमुद्धृत्य ४ मू० श्रीमहात्रिपुरसुन्दरीपादुकायै पाद्यं परिकल्पयामि नमः इति देव्याः पादयोः पाद्यं दत्त्वा प्राग्वन्निवेद्य पाद्यमुद्रां प्रदर्श्य पुष्पाञ्जलिं दद्यात् । एवमाचमनीयं परिकल्पयामि सुधेति मुखे मधुपर्कं कल्पयामि सुधा इति मुखे दत्त्वा तन्मुद्रे प्रदर्श्य ततः पुनराचमनीयपात्रस्थशुद्धजलेन पूर्ववदाचमनीयं मुखे दत्त्वा ततो रत्नपादुके उपनीय ॥
पादुके परिधायाम्ब त्रिपुरे रत्ननिर्मिते । स्नानमण्डपमायाहि स्नानार्थं शक्रदिग्गतम् ॥
इति प्रार्थ्य रत्नपादुके परिधाप्य स्नानमण्डपं नीत्वा स्नानवस्त्रं परिधाप्य कनकासने समुपवेश्य प्रग्वदर्घ्यपाद्याचमनीयानि दत्त्वा ४ मूलमुच्चार्य श्रीमहात्रिपुरसुन्दरीपादुकायै स्नानीयं कल्पयामि नमः इति सुगन्धितैलामलकादिस्नानीयद्रव्याणि परिकल्प्य प्राग्वन्निवेद्य महाराजोपचारवदभ्यङ्गाद्वर्तनकेशप्रसाधनानि विधायोष्णोदकेन निर्मलस्नाननं कारयित्वा वैदिकपौराणिकमन्त्रैः पञ्चगव्यैः पञ्चामृतेन च स्नपयित्वा पुनः शुद्धजलेन स्नपयित्वा इक्षुरसनारिकेलसलिलपनसाम्रादिविविधफलरसैः कर्पूरादिसुवासितैः स्नपयित्वा पुनर्जलेनाभिषिच्य देवाङ्गनाभिः सुवर्णादिघटैर्नानातीर्थोपहृतैः सलिलैः स्नपयित्वा प्राग्वत्पष्पा~जलिं मूलेन दत्त्वा स्नानमुद्रां प्रदर्श्याचमनीयं कल्पयित्वा केशाङ्गमार्जनार्थं वस्त्रं दत्त्वा जलप्रच्यवनं कारयित्वा नानारत्नखचितं रत्नदुकूलद्वयं वमिति प्रोक्ष्य मूलेनाभिमन्त्र्य बृहस्पतिदेवताभ्यां वासोभ्यां नमः इति सम्पूज्य ४ मूलं श्रीमहात्रिपुरसुन्दरीपादुकायै वाससी परिकल्पयामि नमः इति परिधाप्य वस्त्रमुद्रां प्रदर्श्य पुनराचमनीयनिवेदनं पुष्पाञ्जलिदानं च कृत्वा पट्टसूत्रभवं स्वर्णादिरचितं वा कण्ठसूत्रं विष्णुदैवत्याय कण्ठसूत्राय नमः इति पूजितं देव्यै समर्प्योपवीतमुद्रां प्रदर्श्य मू० श्रीमहात्रिपुरसुन्दरि ॥
पादुके परिधायाम्ब त्रिपुरे रत्ननिर्मिते । आगच्छ निर्मलं याम्यमलङ्कारस्य मण्डपम् ॥
इति प्रार्थ्यालङ्कारमण्डपं नीत्वा सिंहासने समुपवेश्यालङ्कारान् पुरतो निधाय वमिति प्रोक्ष्य मूलेनाभिमन्त्र्य विष्णुदैवतेभ्योऽलङ्कारेभ्यो नमः इति सम्पूज्य मूलं श्रिमहात्रिपुरसुन्दरीपादुकायै मुकुटाद्यलङ्कारान् परिकल्पयामि नमः इति सामान्यत उत्सृज्य विशेषता मुकुटं परिकल्पयामि नमः इत्यादि मुकुट ललाटाभरण कर्णपूर हार ग्रैवेय कांगुलीयक प्रालम्बिका रत्नसूत्राक्षरावली कर्णोत्तंस पार्श्वभूषण नखद्योतांगुलीयककण्ठलम्बार्धहार मृदुभारललन्तिकाङ्गद केयूर वलय बाहुवेष्टन सीमन्तिक गण्डभूषण भ्रूभूषण नाभिभूषण रत्नमाला मणिमेखला शृङ्खला दन्तरत्न कर्णक नीवीरत्न जानुभूषण पादांगुलीयक नुपूरगुच्छक पादकटक हंसक क्षुद्रघण्टिका मुखपत्रकमिति चत्वारिंशद्भिरन्यैश्च चूडारत्नताटङ्कादिनानाविधैः स्त्र्यलङ्करणैरलंकृत्य पूर्ववन्निवेदनमन्त्रेण निवेद्य पुष्पाञ्जलिं दत्त्वाभरणमुद्रां प्रदर्श्य रत्नपादुके उपनीय ४ मू० श्रीमहात्रिपुरसुन्दरि ॥
पादुकायुगमारुह्य पञ्चवाद्यपुरःसरम् । यागमण्डपमायाहि
परिवारगणैः सह ।
इति प्रार्थ्य च्छत्रचामरादिनानोपकरणहस्ताभिः शक्तिभिः सह यागमण्डपं नीत्वा कामेश्वराङ्के भगवतीं समुपवेश्य परिवारदेवताश्च यथास्थानं समुपवेशयेत् ॥ ततः श्रीचक्रमारूढां ध्यायेत् त्रिपुरसुन्दरी मित्यादिप्रागुक्तरीत्या ध्यात्वा मूलेन पुष्पाञ्जलिं
प्. १८४) दत्वा चन्दनागरुकस्तूर्यादिगन्धपञ्चकं
चूर्णघृष्टदाहजसमर्दजप्राण्यङ्गजमिति पञ्चविधं गन्धं
तदन्यतमं वा प्राग्वत् प्रोक्ष्य विष्णुदेवताय गन्धाय नमः इति सम्पूज्य
४ मू० श्रीमहात्रिपुरसुन्दरीपादुकायै गन्धं परिकल्पयामीति गन्धं
समर्प्य प्राग्वन्निवेद्य गन्धमुद्रां प्रदर्श्यं पुष्पाञ्जलिं दत्त्वा
सुगन्धरूपाणि नानाविधपुष्पाण्यानीय प्रोक्ष्य वनस्पतिदेवताभ्यः
पुष्पेभ्यो नमः इति सम्पूज्य ४ मू० श्रीमहात्रिपुरसुन्दरीपादुकायै
पुष्पाणि परिकल्पयामि वौषडिति पुष्पाणि निवेद्य पुष्पमुद्रां प्रदर्श्य
पुष्पाञ्जलिं दत्त्वा धूपग्राहिण्यां धूपमानीय प्रोक्ष्य
धेनुमुद्रयामृतीकृत्य क्लीं सुरभितेजसे स्वाहा इति मन्त्रेण दशाङ्ग
शर्कराघृतमिश्रितं गुग्गुलं वा निःक्षिप्य गन्धर्वदैवत्याय धूपाय
नमः इति धूपं सम्पूज्य ४ मूलं ।
वनस्पतिरसोत्पन्नो गन्धाध्यो गन्ध उत्तमः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
श्रीमहात्रिपुरसुदरीपादुकायै धूपं परिकल्पयामि नमः इति धूपमुत्सृज्य धूपमुद्रां प्रदर्श्यं वामभागे घण्टां निधायास्त्रेण प्रोक्ष्य धेनुमुद्रयामृतीकृत्य पुनरस्त्रेण गन्धादिभिः सम्पूज्य ओं जगत् ध्वनिमन्त्रमातः स्वाहा इति घण्टामन्त्रेणाभिमन्त्र्य वामहस्तेन वादयन् दक्षिणहस्तेन धूपपात्रं चालयन् नीचैर्धूपं निवेद्य तत्पात्रं देव्या वामभागे निधाय दीपपात्रं गोघृतेनापूर्यं तस्मिन् कर्पूरगर्भिणीं वर्ति निःक्षिप्य ह्रीमिति प्रज्वाल्य धेनुमुद्रयामृतीकृत्य विष्णुदैवत्याय दीपाय नमः इति सम्पूज्य ४ मूलं स्वप्रकाशो महादीपः सर्वत्र तिमिरापहः । सबाह्यभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥ श्रीत्रिपुरसुन्दरीपादुकायै दीपं परिकल्पयामि नमः इति दीपमुत्सृज्य दीपमुद्रां प्रदर्श्य प्राग्वन्निवेद्य घण्टावादनपूर्वकमुच्चैर्दीपं प्रदर्श्यं तत्पात्रं देव्या दक्षिणभागे निवेश्य देव्यग्रे चतुरस्रमण्डलं जलेन निर्माय स्वर्णादिपात्रं नानाव्यञ्जनभरितं षड्रसोपेतं पञ्चविधनैवेद्योपेतं तस्मिन् मण्डले साधारं निधाय मूलेन निरीक्ष्यास्त्रेण प्रोक्ष्य तेनैव कुशैस्त्रिः संताड्य कवचेनाभ्युक्ष्य ओं जूंसः वौषट् इत्यनेन सप्ताभिमन्त्रितेन जलेन पुनः प्रोक्ष्यास्त्रमन्त्रेण चक्रमुद्रां प्रदर्श्याधोमुखवामकरेण नैवेद्यं स्पृशन् यमिति बीजेन सप्तधा जपन् तद्गतदोषान् संशोष्य अधोमुखदक्षकरेण स्पृशन् रमिति वह्निबीजं सप्तवारं जपन् तद्गतदोषान् संदह्य अधोमुखवामकरेण स्पृशन् वमिति बीजेन सप्तधाभिमन्त्रेण तदमृतीकृत्य मूलेन विशेषार्घ्यबिन्दुभिः प्रोक्ष्य विष्णुदैवत्याय नैवेद्याय नमः इति सम्प्रज्यास्त्रेण संरक्ष्य मूलेन सप्तवारमभिमन्त्र्य ओं क्लींकामदुघे अमोघे वरदे विच्चे स्फुर स्फुर श्रींश्रींश्रीं इति कामधेनुंविद्यया धेनुमुद्रयामृतोकृत्य (महामुद्रया परमीकृत्य) देव्यै प्राग्वत् पाद्याचमनीये दत्त्वा मूलविद्यया देवीं सम्पूज्य पात्रान्तरे जलममृतीकृत्य चुलुकेनादाय वामांगुष्ठेन नैवेद्यपात्रं स्पृशन् मूलमुच्चार्य साङ्गायै सायुधायै सपरिवारायै सर्वात्मिकायै भगवत्यै श्रीमहात्रिपुरसुन्दरीपादुकायै नैवेद्यं कल्पयामि नमः इति नैवेद्योपरि चुलुकोदकं समर्पयेत् । ततः कृताञ्जलिर्मूलमुच्चार्य श्रीमहात्रिपुरसुन्दरि
हेमपात्रमतं दिव्यं परमान्नं सुसंस्कृतम् । पञ्चधा षड्रसोपेतं गृहाण परमेश्वरि ॥
इत्यन्ते प्रागुक्तमनुना निवेद्य पात्रान्तरे जलममृतीकृत्य देव्या दक्षिणहस्ते तज्जलं किञ्चिद् दत्त्वा क्रों अमृतोपस्तरणमसि स्वाहा इति देवीं प्राशयित्वा वामकरेण ग्रासमुद्रां विकचोत्पलसन्निभां दर्शयन् दक्षिणहस्तेन प्राणादिपञ्चमुद्राः प्रदर्शयेत् । तद्यथा - ४ ऐं ओं प्राणाय स्वाहा इत्यंगुष्ठेन कनिष्ठानामिके स्पृशेत् । ४ क्लीं ओं अपानाय स्वाहा इत्यंगुष्ठेन तर्जनीमध्यमे स्पृशेत् । ४ सौःओं व्यानाय स्वाहा इत्यंगुष्ठेनानामिकामध्यमे स्पृशेत् । ४ ऐंक्लीं उदानाय स्वाहा इत्यंगुष्ठेनानामिकामध्यमातर्जनीः स्पृशेत् । ४ ऐंक्लींसौः समानाय स्वाहा इत्यंगुष्ठेन सर्वाः स्पृशेत् - इति प्राणादिपञ्चमुद्राः प्रदर्शयन् पञ्च ग्रासान् ग्राहयित्वा कृताञ्जलिर्मूलविद्यामुच्चार्य ऐं आत्मतत्त्वव्यापिकाश्रीमहात्रिपुरसुन्दरी तृप्यतु । पुनः मूलं क्लीं विद्यातत्त्व० । ३ मूलंसौः शिवतत्त्व० । मूलं ऐंक्लींसौः सर्वतत्त्व० इति तत्त्वैर्ग्रासचतुष्टयं ग्राहयित्वा कृताञ्जलिर्मूलविद्यामुच्चार्य नैवेद्यमुद्रां करद्वयेन प्रदर्शयन् ४ मू० श्रीमहात्रिपुरसुन्दरि
प्.१८५) चित्पात्रे सद्धविः सौख्यविविधानेकभक्ष्ययुक् । निवेदयामि ते देवि सानुगायै जुषाण तत् ॥
इत्यनेन मन्त्रेण पुष्पाञ्जलिं समर्प्य नैवेद्यजातं तादात्म्येन सपरिवारायै देव्यै निवेदयेत् । ततः स्वर्णादिपात्रस्थं कर्पूरादिसुवासितं जलं धेनुमुद्रयामृतीकृत्य ४ मूल० श्रीमहात्रिपुरसुन्दरि
नमस्ते देवदेवेशि सर्वतृप्तिकरं परम् । अन्यानिवेदितं शुद्धं प्रकृतिस्थं शुशीतलम् ॥ अमृतानन्दसम्पूर्णं गृहाण जलमुत्तमम् ॥ इति देव्यै जलं निवेद्यास्त्रमन्त्रेण जवनिकया भोजनस्थलं संवेष्ट्य घण्टां वादयन् भुञ्जानां परदेवतां ध्यायेत् । तद्यथा :
ब्रह्मेशाद्यैः सरसमभितः सूपविष्टैः समेता
शिञ्जद्वालव्यजननिकरैर्बीज्माना सखीभिः ।
नर्मक्रीडाप्रहसनपरा पंक्तिभोक्तॄन् हसन्ती भुंक्ते पात्रे कनकघटिते
षड्रसान् चिद्विलासा ॥
इति ध्यात्वा मूलविद्यां दशधा जपित्वा जपं समर्प्य भुक्तवतीं संतृप्तां देवीं विभाव्य धेनुमुद्रया पात्रान्तरे जलेनमृतीकृत्य ओं अमृतापिधानमसि स्वाहा इति देव्या हस्ते उत्तरापाशानजलं दत्त्वा तथा तत्प्राशितं विभाव्य गतसारं नैवेद्यं समुद्धृत्य नैर्-ऋत्यां दिशि स्थापयेत् । ततोऽस्त्रमन्त्रेण तत्स्थानं प्रोक्षिण्यद्भिः संशोध्य हस्तमुखप्रक्षालनार्थं देव्यै जलं दत्वा करोद्वर्तनार्थे सुगन्धचूर्णं च दत्वा गण्डूषाणि कारयित्वा कर्पूरशकलैर्दन्तधावनं कारयित्वा पुनर्गण्डूषाणि कारयित्वा चरणप्रक्षालनमाचमनीयं च दत्वा कर्पूरादिना सुगन्धमिश्रितं ताम्बूलमानीय प्रोक्ष्य वनस्पतिदैवत्याय ताम्बूलाय नमः इति सम्पूज्य मू० श्रीमहात्रिपुरसुन्दरीपादुकायै ताम्बूलं कल्पयामि नमः इत्युत्सृज्य ४ मूलं श्रीमहात्रिपुरसुन्दरि
तमालदलकर्पूरपूगभारतरङ्गितम् । संशोधितं सुगन्धं च ताम्बूलंपरिगृह्यताम् ॥
इत्यन्ते ओं हंहंहं इदमिदमिदं गृहाण स्वाहा इति देव्यै ताम्बूलं
निवेद्य योनिमुद्रया प्रणम्य मूलं श्रीमहात्रिपुरसुन्दरीश्रीपादुकां
पूजयामि इति सम्पूज्य वक्ष्यमाणप्रकारेण पूजां विधाय क्लीमिति
नमस्कारमुद्रां बद्ध्वा मूलेन प्रदर्श्य प्रणम्य हूमिति त्यजेत् ।
शाक्तश्चेदनुलोमविलोमेन मूलविद्यया संपुटितैर्मातृकाक्षरैः
शुद्धमातृकास्थानेषु देव्या देहे गन्धपुष्पाक्षतैः सम्पूजयेत् ।
षडङ्गपूजामपि देव्या देहे कुर्यात् - इति लयाङ्गपूजा विद्याय
संक्षोभण्यादि मुद्राः प्रदर्श्य विशेषार्घ्यबिन्दुभिस्त्रिर्वामहस्तेन
संतर्प्यावरणपूजां कुर्यात् ॥
अथ लयाङ्गपूजा तु तन्त्रान्तरे -
समूलैर्मातृकावर्णैरनुलोमविलोमगैः ।
तत्तत्स्थानेषु देव्यङ्गे गन्धाम्भोभ्यक्तपुष्पकैः ॥ १ ॥
पूजयित्वा प्रथमतः षडङ्गैः पूजयेत् सुधीः ।
लयाङ्गमेतत् संप्रोक्तं देवताभावसिद्धिदम् ॥ २ ॥
षडङ्गावरणं चक्रे कल्पोक्तविधिना यजेत् ।
भोगाङ्गं तत्समुद्दिष्टं देवताप्रीतिकारकम् ॥ ३ ॥
इति । अत्र लयाङ्गभोगाङ्गपूजा त्वावश्यकी लयाङ्गं कल्पयेद्देहे देव्यास्तु
परमेश्वरि इति ज्ञानार्णवोक्तत्वात् अत्र लयाङ्गभोगाङ्गे मतद्वयसंमते ।
देवशुद्धौ विशेषमाह कुलार्णवे :
मूलमन्त्रेण दीपिन्या मालिन्यार्घ्योदकेन च ।
त्रिवारं प्रोक्षयेदेवं देवशुद्धिरितीरिता ॥ १ ॥
इदं तु कालीमते । कादिमते तु -
मूलमन्त्रेण दीपिन्या मधु(पर्का ? मत्या)र्घ्याबिन्दुभिः ।
त्रिवारं प्रोक्षयेदेवं देवशुद्धिरितीरिता ॥ १ ॥
इति त्रिपुरार्णवोक्तत्वात् । अत्र समष्टिपूजा व्यष्टिपूजा च कर्तव्या । तदुक्तं स्वच्छन्दसंग्रहे -
समष्टिपूजा प्रारम्भे व्यष्टिपूजावसानके ।
कर्तव्या सिद्धिमिच्छद्भिर्देवताप्रीतिकारिणी ॥ १ ॥
रश्मिरूपा महादेव्याः सर्वावरणदेवताः ।
स्वच्छादर्शे यथा यन्त्रे तथैव प्रतिबिम्बिताः ॥ २ ॥
प्रतिबिम्बितदेवानां पूजा शास्त्रोक्तमार्गतः ।
समष्टिपूजा सा प्रोक्ता व्यष्टिपूजा तथोच्यते ॥ ३ ॥
प्. १८६) रश्मिपूजा महादेव्या अत्र पूजितदेवताः ।
श्रीसुन्दर्यङ्गलीनास्ताः सन्तु सर्वसुखावहाः ॥ ४ ॥
एवमुक्त्वा तु देव्यङ्गे विलीना यन्त्रदेवताः ।
बिम्बीभूता विभाव्यैवं तत्तत्स्थानेषु देशिकः ॥ ५ ॥
देव्यङ्गेषु यजेत् पुष्पैर्व्यष्टिपूजा समीरिता ।
इति । आवरणपूजाप्रारम्भे तु ४ मूलं संविन्मये परे देवि
परामृतचरुप्रिये । अनुज्ञां देहि देवेशि परिवारार्चनाय मे ॥ इति
पुष्पाञ्जलिं दत्त्वावरणपूजामारभेदिति सम्प्रदायः ।
तारत्रयं ध्रुवो माया हंसःसोहं शुचिप्रिया ।
सर्वसौभाग्यजनीपादुकां पूजयामि च ॥ १ ॥
नत्यन्तमनुना देव्यै दद्यात् पुष्पाञ्जलित्रयम् ।
प्रदर्शयेद्योनिमुद्रां ततः संप्राथयेद् बुधः ॥ २ ॥
सर्वमन्त्रमये देवि सर्वदेवनमस्कृते ।
अनुज्ञां देहि देवेशि परिवारार्चनाय मे ॥ ३ ॥
इति संप्रार्थ्य देव्यङ्गान्निर्याता विस्फुलिङ्गवत् ।
वह्नेः समस्तावरणदेवता रश्मिरूपिणः ॥ ४ ॥
देव्याज्ञया स्थिताः स्वस्वस्थानेषु परिचिन्तयेत् ।
मनुश्चन्द्रः कुबेरश्च लोपामुद्रा च कामराट् ॥ ५ ॥
अगस्त्यनन्दिसूर्याश्च विष्णुस्कन्दशिवास्तथा ।
दूर्वासाश्च तथा शक्रः उन्मनी वरुणस्तथा ॥ ६ ॥
धर्मराजोऽनलो नागराजो वायुर्बुधस्तथा ।
ईशानश्च रतिश्चैव तथा नारायणस्तथा ॥ ७ ॥
ब्रह्मा जीवो महादेव्युपासकाः पञ्चविंशतिः ।
एतैरुपासिता विद्या जाग्रत्स्वप्नसुषुप्तिकाः ॥ ८ ॥
तुरीया बिन्दुचक्रेऽस्मिन् विशेषार्घ्यामृतेन च ।
पूजनीयाः प्रयत्नेन तारत्रयपुटाः क्रमात् ॥ ९ ॥
अमुकोपासिता श्री च विद्या श्रीपादुकां ततः ।
पूजयामि नमश्चोक्त्वा यजेत् पञ्चोपचारकैः ॥ १० ॥
पाशांकुशधनुर्बाणधारिण्यो रक्तविग्रहाः ।
चिन्तनीयाः प्रयत्नेन सर्वसौभाग्यदा बुधैः ॥ ११ ॥
दर्शयेद्योनिमुद्रां वै सर्वसौभाग्यवाक्प्रदाम् ।
अनेन क्रमयोगेन विद्यावृन्दं प्रपूजयेत् ॥ १२ ॥
विद्यावृन्दमयीं पूजां पुष्पाञ्जलिविधानतः ।
निवेदयेन्महादेव्यै तर्पणादि समाचरेत् ॥ १३ ॥
एतस्मिन् समये देवि तिथिनित्याः समर्चयेत् ।
विभाव्य च महात्र्यस्रं दक्षपूर्वोत्तरक्रमात् ॥ १४ ॥
रेखासु तिसृषु देवि पञ्च पञ्च विभागतः ।
प्रतिपत्तिथिमारभ्य पौर्णमास्यन्तमद्रिजे ॥ १५ ॥
एकैकां पूजयेन्नित्यां महासौभाग्यभाग्भवेत् ।
कृष्णपक्षे विचित्रादिकामेश्वर्यन्तमेव हि ॥ १६ ॥
एकैकवृद्ध्या हान्या च दर्शान्तं क्रमतो यजेत् ।
कामेश्वर्यादिका नित्या विचित्रान्ताः क्रमाद्यजेत् ॥ १७ ॥
पञ्चोपचारैर्गन्धाद्यै श्रीपात्रामृतबिन्दुभिः ।
तत्तद्विद्यां समुच्चार्य तारत्रितयसंपुटाम् ॥ १८ ॥
उच्चार्यामुकनित्याश्रीपादुकां पूजयामि च ।
नमःपदं महादेवि सर्वत्रायं क्रमः स्मृतः ॥ १९ ॥
कामेश्वरी महानित्या ततो वै भगमालिनी ।
नित्यक्लिन्ना महानित्या भेरुण्डा वह्निवासिनी ॥ २० ॥
महावज्रेश्वरी नित्या शिवदूती तथैव च ।
त्वरिता च महादेवि ततो वै कुलसुन्दरी ॥ २१ ॥
नित्या नीलपताका च विजया सर्वमङ्गला ।
ज्वालामालिन्यथ ततश्चित्रा त्रिपुरसुन्दरी ॥ २२ ॥
रक्तां रक्तदुकूलाङ्गलेपनां रक्तभूषणाम् ।
पाशांकुशौ धनुर्बाणान् पुस्तकं चाक्षमालिकाम् ॥ २३ ॥
वराभीति च दधतीं त्रैलोक्यवशकारिणीम् ।
एवं कामेश्वरीं ध्यायेद् वश्यसौभाग्यवाक्प्रदाम् ॥ २४ ॥
कदम्बवनमध्यस्थामुद्यत्सूर्यसमद्युतिम् ।
नानाभूषणसंपन्नां त्रैलोक्याकर्षणक्षमाम् ॥ २५ ॥
पाशांकुशौ पुस्तकं च तौलिकागतलेखिनीम् ।
वरदं चाभयं चैव दधती विश्वमातरम् ॥ २६ ॥
एवं ध्यायेन्महादेवीं भगमालां विचक्षणः ।
रक्तां रक्ताङ्गवसनां चन्द्रचूडां त्रिलोचनाम् ॥ २७ ॥
स्विद्यद्वक्त्रां मदाघूर्णलोचनां रत्नमूर्च्छिताम् ।
पाशांकुशौ कपालं च महाभीतिहरं तथा ॥ २८ ॥
दधतीं संस्मरेन्नित्यक्लिन्नां पद्मासनस्थिताम् ।
चन्द्रकोटिप्रतीकाशां स्रवन्तीममृतद्रवम् ॥ २९ ॥
नीलकण्ठां त्रिनेत्रां च नानाभरणभूषिताम् ।
इन्द्रनीलस्फुरत्कान्तिं शिखिवाहनशोभिताम् ॥ ३० ॥
पाशांकुशौ कपालं च च्छुरिकां वरदाभये ।
दधतीं चिन्तयेद् देवीं भेरुण्डां विषनाशिनीम् ॥ ३१ ॥
प्. १८७) धायेत् तप्तसुवर्णाभां नानालंकारभूषिताम् ।
पाशांकुशौ स्वस्तिकं च शक्तिं च वरदाभये ॥ ३२ ॥
दधतीं रत्नमुकुटां देवीं वै वह्निवासिनीम् ।
जपाकुसुमसंकाशां रक्तांशुकविराजिताम् ॥ ३३ ॥
माणिक्यभूषणां नित्यां नानाभूषाविभूषिताम् ।
पाशांकुशौ कपालस्थसुधापानविघूर्णिताम् ॥ ३४ ॥
अभयं दधतीं ध्यायेन्महावज्रेश्वरी पराम् ।
दूर्वावर्णा त्रिनेत्रां च महासिंहासनासनाम् ॥ ३५ ॥
शङ्खारिचापबाणांश्च सृणिपाशौ वराभये ।
दधतीं चिन्तयेन्नित्यां शिवदूतीं परां शिवाम् ॥ ३६ ॥
श्यामाङ्गीं रक्तसत्पाणिचरणाम्बुजशोभिताम् ।
वृषलाहिसुमञ्जिरां फटारत्नविभूषिताम् ॥ ३७ ॥
पर्णांशुकां पर्णभूषां वैश्याहिद्वन्द्वमेखलाम् ।
तनुमध्यां पीनवृत्तकुचयुग्मां वराभये ॥ ३८ ॥
दधतीं शिखिपिच्छाभां वलयाङ्गदशोभिताम् ।
गुञ्जारुणां नृपाहीन्द्रकेयूरां रत्नभूषिताम् ॥ ३९ ॥
द्विजनागस्फुरत्कर्णभूषां मत्तारुणेक्षणाम् ।
नीलकुञ्चितधमिल्लवरपुष्पां कपालिनीम् ॥ ४० ॥
कैरातीं शिखिपिच्छाढ्यनिकेतनविराजिताम् ।
स्फुरत्सिंहासनप्रौढां संस्मरेत् त्वरितां बुधः ॥ ४१ ॥
ध्यायेद्देवीं महेशानीं कदम्बवनमध्यगाम् ।
रत्नमण्डपमध्ये तु महाकल्पवनान्तरे ॥ ४२ ॥
मुक्तातपत्रच्छायायां रत्नसिंहासने स्थिताम् ।
अनर्घरत्नघटितमुकुटां रत्नकुण्डलाम् ॥ ४३ ॥
हारग्रैवेयसद्रत्नचित्रितां कङ्कणोज्ज्वलाम् ।
हीरमुक्तालसद्भूषां शुक्लक्षौमविराजिताम् ॥ ४४ ॥
हीरमञ्जीरसुभगारक्तोत्पलपदाम्बुजाम् ।
शुभाङ्गरागसुभगां कर्पुरशकलोज्ज्वलाम् ॥ ४५ ॥
पुस्तकं चाभयं वामे दक्षिणे चाक्षमालिकाम् ।
वरदानरतां दिव्यां महासारस्वतप्रदाम् ॥ ४६ ॥
एवं धायेन्महानित्यां देवेशीं कुलसुन्दरीम् ।
(?) ॥ ४७ ॥
एवं नित्यां महादेवी चिन्तयेद्देशिकोत्तमः ।
शुभ्रवस्त्रासनां रम्यां चन्द्रकुन्दसमद्युतिम् ॥ ४८ ॥
सुप्रसन्नां शशिमुखीं नानारत्नविभूषिताम् ।
अनन्तमुक्ताभरणां स्रवन्तीममृतद्रवम् ॥ ४९ ॥
वरदाभयशोभाढ्यां स्मरेन्नीलपताकिकाम् ।
(?) ॥ ५० ॥
ध्यायेद्देवीं महानित्या स्वर्णाभरणभूषिताम् ।
उद्यद्विद्युल्लताकान्तिस्वर्णांशुकविराजितान् ॥ ५१ ॥
महासिंहासनप्रौढां ज्वालामालां करालिनीम् ।
अरिशङ्खौ खड्गखेटौ त्रिशूलं डमरुं तथा ॥ ५२ ॥
पानपात्रं च वरदं दधतीं शत्रुनाशिनीम् ।
शुभ्राङ्गी ज्ञानदा नित्यां विचित्रवसनां सदा ॥ ५३ ॥
विचित्रतिलकां नित्यां विचित्रा कुंकुमोज्ज्वलाम् ।
वरदाभयशोभाढ्यां नानाशस्त्रधरां क्वचित् ॥ ५४ ॥
बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशांकुशौ शरांश्चापं धारयन्तीं शिवां श्रिये ॥ ५५ ॥
इति षोडशनित्याध्यानानि ।
एतस्मिन् समये देवि गुरून् सम्पूजयेद्बुधः ।
प्राङ्मध्ययोन्यन्तराले गुरुपंक्तित्रयं यजेत् ॥ १ ॥
गुरुमन्त्रेण नाम्नापि निजं सम्पूजयेद्गुरुम् ।
अंगुष्ठमध्यमाभ्यां च गुरून् सम्यक् प्रतर्पयेत् ॥ २ ॥
आनन्दनाथशब्दान्ता अम्बान्ताः शक्तयः क्रमात् ।
गुरून् सम्पुजयेद्देवि परमादिगुरूंस्तथा ॥ ३ ॥
परापरगुरूंश्चैव परमेष्ठिगुरूंस्तथा ।
गुरुशक्तीर्यजेद् देवि ततः श्रीगुरुपादुकाः ॥ ४ ॥
इति सामान्यतो देवि गुरुपात्रोदकैर्यजेत् ।
अथादिशिवनाथश्च ज्ञानाम्बा च सदाशिवः ॥ ५ ॥
इच्छाम्बा ईश्वरश्चैव अम्बिका रुद्र एव च ।
रौद्री विष्णुस्तथा ज्येष्ठा ब्रह्मा वामा पराभिधाः ॥ ६ ॥
रुद्रसंख्याश्च दिव्यौघाः सनकश्च सनन्दनः ।
सनातनश्चापि सनत्कुकारस्तु तथैव च ॥ ७ ॥
सनत्सुजातश्च विभुर्दत्तात्रेयोऽथ रोचनः ।
वामदेवस्तथा व्यासः शुकः सिद्धौघसंज्ञकाः ॥ ८ ॥
परापराख्या गुरवो नृसिंहश्च महेश्वरः ।
भास्करश्च महादेवि ततस्तस्मान्महाशिवः ॥ ९ ॥
सदाशिवो मानवौघा अपराख्या महेश्वरि ।
एते सामान्यगुरवः श्रीनाथादीन् यजेत्ततः ॥ १० ॥
परप्रकाशाभिशश्च ततः परशिवस्तथा ।
परशक्तिश्च कौलेशः शुक्लदेवी कुलेश्वरः ॥ ११ ॥
प्. १८८) कामेश्वरी च दिव्यौघाः पराख्या गुरवः क्रमात् ।
भोगः क्लिन्नस्तु समयः सहजो वेदसंख्यकाः ॥ १२ ॥
परापराख्याः सिद्धौघा गगनो विश्व एव च ।
विमलो मदनश्चैव भुवनो लील एव च ॥ १३ ॥
आत्मा प्रियो मानवौघा अपराख्या निजास्तथा ।
कामराजाख्यविद्याया गुरवोऽत्र प्रकीर्तिताः ॥ १४ ॥
अज्ञातगुरुशिष्याणां कथ्यन्ते गुरवः क्रमात् ।
गुरुभ्यो नम इत्युक्त्वा पादुकाभ्यो नमो वदेत् ॥ १५ ॥
तथैव परमेशानि परमाश्च परापराः ।
परमेष्ठिन आचार्यास्ततो निजगुरून् यजेत् ॥ १६ ॥
परमादिशिवश्चैव कामेश्वर्यम्बिका तथा ।
दिव्यौघश्च महौघश्च सर्वाख्यस्तदनन्तरम् ॥ १७ ॥
प्रज्ञादेवी प्रकाशश्च दिव्यौघाः सम्प्रकीर्तिताः ।
लोपामुद्रा प्रभा माया दिव्यश्चित्रस्तथैव च ॥ १८ ॥
कैवल्यानन्दनाथश्च देव्यात्मानन्दनाथकः ।
महोदयश्च सिद्धौघाश्चिदानन्दस्तथैव च ॥ १९ ॥
ऋद्ध्यम्बा च तथा विश्वः शक्त्यम्बा च रमा तथा ।
कमलश्च परश्चैव मनोहर इति क्रमात् ॥ २० ॥
आत्मा च प्रमितश्चैव मानवौघाः प्रकीर्तिताः ।
लोपामुद्राख्यविद्याया गुरवश्च निजास्ततः ॥ २१ ॥
परप्रकाशश्च तथा विमर्शस्तु परादिकः ।
कामेश्वरी च मोक्षश्चाप्यमृतः पुरुषस्ततः ॥ २२ ॥
अघोरश्चैव दिव्यौघाः प्रकामः सद्गुरुस्तथा ।
सिद्धौघ उत्तमश्चैते चत्वारः परिकीर्तिताः ॥ २३ ॥
सिद्धौघाश्च महेशानि तत उत्तमसंज्ञकः ।
परमाख्यश्च सर्वज्ञः सर्वसंज्ञश्च सिद्धकः ॥ २४ ॥
गोविन्दः शङ्करश्चैते मानवौघाः प्रकीर्तिताः ।
श्रीविद्यामात्रगुरवस्ततो निजगुरुक्रमात् ॥ २५ ॥
एते तुरीयाविषये गुरवः सर्व एव हि ।
ज्ञानमुद्रासुधापूर्णकपालाढ्यकरद्वयाः ॥ २६ ॥
गुरवो रक्तवर्णाः स्युर्जटाभारशिरोधराः ।
एतान् पञ्चोपचारैस्तु यजेत् सङ्घट्टमुद्रया ॥ २७ ॥
गुरुक्रमं प्रपूज्याथ यजेदाम्नायदेवताः ।
वसुकोणे तु पूर्वादि श्रीपात्रामृतबिन्दुभिः ॥ २८ ॥
पूर्वाम्नायेश्वरीं देवीमुन्मनीं पूर्वदिग्गताम् ।
दक्षिणाम्नायेश्वरीं च भोगिनीं दक्षिणे यजेत् ॥ २९ ॥
पश्चिमाम्नायेश्वरीं च कुब्जिकां पश्चिमे यजेत् ।
उत्तराम्नायेश्वरीं च कालिकामुत्तरे यजेत् ॥ ३० ॥
ऊर्ध्वाम्नायेश्वरीं देवीं महात्रिपुरसुन्दरीम् ।
वराभयकरा रक्ताः पाशांकुशधराः शुभाः ॥ ३१ ॥
पञ्चोपचारैः सम्पूज्य योनिमुद्रां च दर्शयेत् ।
आम्नायं तु प्रपूज्याथ सम्यगायतनं यजेत् ॥ ३२ ॥
अन्तर्दशारे पूर्वादि गुरुपात्रामृतेन च ।
ब्राह्म्यदर्शनगायत्रीं पूर्वायतनदेवताम् ॥ ३३ ॥
नारायणं वैष्णवाख्यं याम्यायतनदेवताम् ।
सौरदर्शनसूर्यं च पश्चिमायतनाधिपम् ॥ ३४ ॥
बौद्धदर्शनबुद्धं च उत्तरायतनाधिपम् ।
ऊर्ध्वायतनशैवाख्यदर्शनेशं शिवं यजेत् ॥ ३५ ॥
ऊर्ध्वायतनशाक्ताख्यदर्शनेशीं पराभिधाम् ।
शक्तिं यजेद्बिन्दुचक्रे देवताः परिचिन्तयेत् ॥ ३६ ॥
वराभयकरा रक्ताः स्वस्वायुधकरद्वयाः ।
पञ्चोपचारैराराध्य लिङ्गमुद्रां प्रदर्शयेत् ॥ ३७ ॥
प्रपूज्यायतनं पश्चात् पञ्चरत्नं प्रपूजयेत् ।
बहिर्दशारे पूर्वादि श्रीपात्रामृतबिन्दुभिः ॥ ३८ ॥
श्रीविद्या सिद्धलक्ष्मीश्च मातङ्गी भुवनेश्वरी ।
वाराहीति महेशानि पञ्चरत्नं प्रकीर्तितम् ॥ ३९ ॥
श्रीविद्यापूजनस्थाने चक्रराजे महेश्वरि ।
महारत्नेश्वरीवृन्दमण्डितासनसंस्थिता ॥ ४० ॥
सर्वसौभाग्यजननीपादुकां पूजयामि च ।
इत्युच्चार्य यजेत्तत्र योनिमुद्रां प्रदर्शयेत् ॥ ४१ ॥
पाशांकुशकरा रक्ता निजायुधकरद्वयाः ।
पञ्चरत्नं प्रपूज्याथ पञ्च कल्पलता यजेत् ॥ ४२ ॥
चतुर्दशारे पूर्वादि श्रीपात्रामृतबिन्दुभिः ।
श्रीविद्या त्वरिता चैव पारिजातेश्वरी तथा ॥ ४३ ॥
त्रिकूटा पञ्चबाणेशी पञ्च कल्पलताः स्मृताः ।
पाशांकुशकरा रक्ता निजायुधकरद्वयाः ॥ ४४ ॥
लतानां पूजनान्ते च पञ्चसिंहासनं यजेत् ।
अष्टपत्रे तु पूर्वादि श्रीपात्रामृतबिन्दुभिः ॥ ४५ ॥
बाला सम्पत्प्रदा च चैतन्या तदनन्तरम् ।
द्वितीया चैतन्यरूपा कामेशी तदनन्तरम् ॥ ४६ ॥
(उन्मनी च यजेदेताः पूर्वस्यां च दिशि क्रमात् ।
सिंहासनं च ब्रह्माख्यं यजेच्च तदनन्तरम् ॥ ४७ ॥
प्. १८९) अघोरभैरवी चैव भैरवी च महादिका) ।
ललिताभैरवी चैव कामेशी भैरवी तथा ॥ ४८ ॥
रक्तनेत्रा भोगिनी च विष्णुसिंहासनं ततः ।
दक्षिणे संस्थिताश्चैव यजेत् सौभाग्यहेतवे ॥ ४९ ॥
षट्कूटाभैरवी नित्याभैरवी तदनन्तरम् ।
मृतसञ्जीविनी चैव मृत्युञ्जयपरा तथा ॥ ५० ॥
वज्रप्रस्तारिणी चैव कुब्जिका रौद्रमेव च ।
सिंहासनं यजेद्देवि पश्चिमायां दिशि क्रमात् ॥ ५१ ॥
सिंहासने तूत्तरे तु प्रयजेद्भुवनेश्वरीम् ।
कमलेशीभैरवीं च सिद्धकौलेशभैरवीम् ॥ ५२ ॥
डामराख्यां भैरवीं च कामिनीभैरवीं तथा ।
कालिकामीश्वराख्यं च यजेत् सिंहासनं बुधः ॥ ५३ ॥
बिन्दुमध्ये महेशानि ऊर्ध्वसिंहासनस्थिताः ।
प्रथमा सुन्दरी चैव द्वितीया सुन्दरी तथा ॥ ५४ ॥
तृतीया सुन्दरी चैव चतुर्थी सुन्दरी तथा ।
पञ्चमी सुन्दरी चैव महात्रिपुरसुन्दरी ॥ ५५ ॥
सदाशिवाख्यं देवेशि यजेत् सिंहासनं ततः ।
वराभयकरा रक्ताः पाशांकुशकराः शुभाः ॥ ५६ ॥
सिंहासनाभ्यर्चनान्ते पञ्चकोशार्चनं भवेत् ।
षोडशारे तु पूर्वादि श्रीपात्रामृतबिन्दुभिः ॥ ५७ ॥
श्रीविद्या च परज्योतिः परनिष्कलशाम्भवी ।
अजपा मातृका चेति पञ्च कोशाः प्रकीर्तिताः ॥ ५८ ॥
कोशान्ते पूजयेल्लक्ष्मीः पञ्च सर्वसमृद्धये ।
चतुरस्रे तु पूर्वादि श्रीपात्रामृतबिन्दुभिः ॥ ५९ ॥
श्रीविद्या च तथा लक्ष्मीर्महालक्ष्मीस्तथैव च ।
त्रिशक्तिः सर्वसाम्राज्या लक्ष्म्यः पञ्च प्रकीर्तिताः ॥ ६० ॥
पाशांकुशकरा रक्ता निजायुधकरद्वयाः ।
पञ्च लक्ष्मीः पूजयित्वा पञ्च कामदुघा यजेत् ॥ ६१ ॥
सृष्टिचक्रे तु पूर्वादि श्रीपात्रामृतबिन्दुभिः ।
श्रीविद्यामृतपीठेशी सुधासूरमृतेश्वरी ॥ ६२ ॥
अन्नपूर्णेति विख्याताः पञ्च कामदुघाः क्रमात् ।
पाशांकुशसुधापात्रकलशा रक्तविग्रहाः ॥ ६३ ॥
पूजयित्वा कामदुघाः समयाः पञ्च पूजयेत् ।
स्थितिचक्रे तु पूर्वादि श्रीपात्रामृतबिन्दुभिः ॥ ६४ ॥
बगला कालरात्रिश्च जयदुर्गा तथैव च ।
वज्रवैरोचनी देवी समयाः पञ्च प्रकीर्तिताः ॥ ६५ ॥
पाशांकुशकरा रक्ता निजायुधकरद्वयाः ।
समया पूजनान्ते तु षडङ्गावरणं यजेत् ॥ ६६ ॥
संहारचक्रे अग्नीशासुरवायव्यकोणके ।
बिन्दुमध्ये चतुर्दिक्षु श्रीपात्रामृतबिन्दुभिः ॥ ६७ ॥
मध्ये दिक्षु क्रमेणैव यजेत् सर्वार्थसिद्धये ।
सर्वज्ञा नित्यतृप्ता च तथानादिप्रबोधिनी ॥ ६८ ॥
स्वतन्त्रा च महाशक्तिर्नित्यालुप्ता तथैव च ।
नित्यानन्ता च कथिता तथा भोगषडङ्गके ॥ ६९ ॥
तुषारस्फटिकश्यामनीलकृष्णारुणार्चिषः ।
वरदाभयधारिण्यः प्रधानतनवः स्त्रियः ॥ ७० ॥
एतानि तु महादेवि विशेषावरणानि वै ।
तुरीयोपासकानां च एतान्यावश्यकानि वै ॥ ७१ ॥
कूटविद्यासु वै तत्तद्गुरवस्तत्तदङ्गकम् ।
अत्र मध्यविधानीशे नवावृत्तिरथाम्बिके ॥ ७२ ॥
देवि मध्यविधानीहावरणानि शृणु प्रिये ।
तुरीयोपासकानां च एतान्यावश्यकानि वै ॥ ७३ ॥
अष्टारपार्श्वयोरग्रे सामान्यामृतबिन्दुभिः ।
उदीच्यां प्रयजेद् देवि क्षोभणद्रावणौ ततः ॥ ७४ ॥
आकर्षवश्यबाणौ च दक्षिणे तु समर्चयेत् ।
अग्रे संमोहनं यष्ट्वा चिन्तयेद् बाणदेवताः ॥ ७५ ॥
वराभयकरा रक्ताः सृणिबाणधनुर्धराः ।
अन्तर्दशारे देवेशि पार्श्वयोरग्रयोस्तथा ॥ ७६ ॥
बाणवद् यजनं कुर्यात्पञ्चकामान् वरानने ।
काममन्मथकन्दर्पमकरध्वजसंज्ञकाः ॥ ७७ ॥
मीनकेतुर्महेशानि पञ्च कामाः प्रकीर्तिताः ।
वराभयकरा रक्ताः पञ्चबाणधनुर्धराः ॥ ७८ ॥
बहिर्दशारे षड्वाचः कामवत् पूजयेत् प्रिये ।
सामान्यपात्रसुधया लीना वागपरा परा ॥ ७९ ॥
मध्यमा वाक् च पश्यन्ती वैखरीति प्रकीर्तिताः ।
ज्ञानमुद्राभयाः शुक्ला वीणापुस्तकपाणयः ॥ ८० ॥
चतुर्दशारचक्रे च पार्श्वयोरुभयोस्तथा ।
अग्रे च बिन्दुमध्ये च सामान्यामृतबिन्दुभिः ॥ ८१ ॥
वेदसंख्या अवस्थाश्च यजेत् सर्वार्थसिद्धये ।
जाग्रत्स्वप्नसुषुप्त्यश्च तुरीया च प्रकीर्तिताः ॥ ८२ ॥
प्. १९०) वराभयकरा रक्ता धृतपाशांकुशाः शुभाः ।
अथाष्टदलमूले च वृत्ते वेष्टनाथ शिवे ॥ ८३ ॥
सामान्यपात्रसुधया यजेद्वामादिदेवताः ।
वामा ज्येष्ठा तथा रौद्री अम्बिकेच्छा तथैव च ॥ ८४ ॥
ज्ञाना क्रिया कुब्जिका च बिभ्वी चित्रा विषघ्निका ।
भूचरी खेचरी चैव जया च विजया तथा ॥ ८५ ॥
नन्दा सुन्दन्दा देवेशि शक्तयः परिकीर्तिताः ।
दलाष्टमूलवृत्ते तु वामाद्या दिव्यभूषणाः ॥ ८६ ॥
पाशांकुशधरा रक्ता वरदानरतास्तथा ।
मुक्ताच्छत्रं शरच्चन्द्रचन्द्रिकारम्याचमरैः ॥ ८७ ॥
उशीरक्षिप्तचन्द्रार्ककॢप्तव्यजनयुग्मकम् ।
प्रान्तमुक्तावलीराजत्स्वर्णादर्शं च पीठिकाम् ॥ ८८ ॥
अलङ्कारमयीं पेटीं करण्डं शशिपूरितम् ।
नवरत्नस्फुरद्दीप्तिं ताम्बूलस्य करण्डकम् ॥ ८९ ॥
कर्पूरमृगनाभ्याढ्यकुंकुमक्षोदभाजनम् ।
चषकं स्वर्णरचितं सुधाकुम्भं कमण्डलुम् ॥ ९० ॥
मल्लिकामालतीजातीशतपत्राढ्यदामभिः ।
पूर्णं रत्नमयं भाण्डं कङ्कतीं गजदन्तजाम् ॥ ९१ ॥
कज्जलस्य शलाकां च दधाना निजशक्तयः ।
ततः षोडशपत्राब्जमूलवृत्ते महेश्वरि ॥ ९२ ॥
वेष्टनत्वेन सामान्यसुधया रश्मिपूजनम् ।
विदध्याद्भावचिन्मायानाथेच्छातुष्टिपुष्टयः ॥ ९३ ॥
स्थितिमुक्ती भुक्तिश (?) सदसत्सदसदात्मिकाः ।
क्रियात्मज्ञानलोकाश्च देववेदौ तथैव च ॥ ९४ ॥
संविज्जन्मस्पन्दसंज्ञानिस्पन्दाः कुण्डली तथा ।
शब्दवर्णस्वराश्चैव वर्गसंयोगमन्त्रकाः ॥ ९५ ॥
भैरवो भूतरश्मिश्च रश्मिवृन्दं प्रकीर्तितम् ।
षोडशारमूलवृत्ते रक्ता भावादिरश्मयः ॥ ९६ ॥
पाशांकुशसुधाकुम्भपानपात्रधराः शुभाः ।
ततः षोडशपत्राब्जबाह्ये प्रथमवृत्तके ॥ ९७ ॥
वेष्टनत्वेन सामान्यसुधया योगिनीर्यजेत् ।
डाकिनी राकिणी चैव लाकिनी काकिनी तथा ॥ ९८ ॥
शाकिनी हाकिनी चैव याकिनी योगिनी तथा ।
षोडशारबाह्यवृत्ते योगिन्यो डाकिनीमुखाः ॥ ९९ ॥
पाशांकुशकपालासिधारिण्यः शववाहनाः ।
मुण्डमालासमायुक्ता दंष्ट्राभीममुखाम्बुजाः ॥ १०० ॥
चतुर्वक्त्रा रक्तवर्णा भीमरूपा मदोद्धताः ।
मध्यवृत्ते वेष्टनत्वे सामान्यसुधया शिवे ॥ १ ॥
भैरवीः पूजयेद् देवि भैरवी तदनन्तरम् ।
महाभैरव्यथ सिंहभैरवी धूम्रभैरवी ॥ २ ॥
भीमाद्योन्मनभैरव्यो वशीकरणभैरवी ।
मोहनाख्या भैरवीति भैरव्यः कथिताः प्रिये ॥ ३ ॥
षोडशारबहिर्मध्यवृत्ते तु भैरवीमुखाः ।
पाशांकुशकरा भीमाः कपालशूलपाणयः ॥ ४ ॥
मुण्डमालाधरा रक्ता भीमदंष्ट्राः शवासनाः ।
ततः सामान्यसुधया भैरवान् दश पूजयेत् ॥ ५ ॥
हेरुकं चैव वेतालं त्रिपुरान्तकमेव च ।
अग्निजिह्व च कालान्तं करालं चैकपादकम् ॥ ६ ॥
भीमरूपं महादेवि अचलं हाटकेश्वरम् ।
षोडशारान्त्यवृत्ते तु हेरुकाद्या दश स्थिताः ॥ ७ ॥
भैरवा भीमदंष्ट्रास्यास्त्रिशूलटङ्कधारिणः ।
मेघश्यामाः शवारूढाः कपालदण्डधारिणः ॥ ८ ॥
पूजनं कथितं मध्यविधावरणसंज्ञकम् ।
शृणु वक्ष्ये महादेवि नवावरणपूजनम् ॥ ९ ॥
एतच्चक्रं महेशानि मध्ये बिन्दुविराजितम् ।
ततस्त्रिकोणं चाष्टारं दशारं च दशारकम् ॥ १० ॥
मनुकोणं महेशानि मध्यचक्रमिदं प्रिये ।
बैन्दवादष्टकोणान्तं सर्वमध्यमिदं भवेत् ॥ ११ ॥
चत्वारिंशद्भगैर्युक्तं त्रिभगैरपि पार्वति ।
वसुपत्रं कलापत्रं चतुरस्रं क्रमात् प्रिये ॥ १२ ॥
भगात्कमिदं सर्वं नवयोन्यङ्कितं भवेत् ।
चतुष्षष्टिर्यतः कोट्यो योगिनीनां महौजसाम् ॥ १३ ॥
चक्रेऽस्मिन् सविशेषास्ताः साधकं मानयन्ति हि ।
विना गुरूपदेशेन साधकं भक्षयन्ति हि ॥ १४ ॥
त्रैलोक्यमोहने चक्रे बाह्यरेखां समाश्रिताः ।
सामान्यपात्रसुधया पूजयेत् सिद्धिदेवताः ॥ १५ ॥
चतुरस्रान्तरेखायां पश्चिमादिषु वै क्रमात् ।
द्वारेषु वायुकोणादिकोणेषु ह्यध ऊर्ध्वतः ॥ १६ ॥
दक्षिणावर्तयोगेन यजेत् सर्वार्थसिद्धये ।
अणिमा महिमा चैव लघिमा गरिमा तथा ॥ १७ ॥
ईशित्वं च वशित्वं च प्राकाम्यं भुक्तिरेव च ।
इच्छा प्राप्तिः सर्वकामा मोक्षसिद्धिः क्रमात् प्रिये ॥ १८ ॥
प्. १९१) सद्यःसन्तप्तहेमाभाः पाशांकुशधरा शुभाः ।
महाभरणरत्नानि ससुवर्णानि वै निधीन् ॥ १९ ॥
प्रयच्छन्त्यः साधकेभ्यः पद्मयुग्मधरास्तथा ।
त्रैलोक्यमोहने चक्रे मध्यरेखासमाश्रिताः ॥ २० ॥
तप्तजाम्बूनदाभासाः पञ्चाशत् पीठदेवताः ।
पाशांकुशाभयवरकराः प्रकटरूपकाः ॥ २१ ॥
ताः पूजयित्वा च ततो ब्राह्म्याद्याः सिद्धिवद्यजेत् ।
पूर्वद्वारादिद्वारेषु शुचिकोणादिषु क्रमात् ॥ २२ ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराह्यैन्द्री च चामुण्डा महालक्ष्मीः क्रमात् प्रिये ॥ २३ ॥
असिताङ्गो रुरुश्चण्डः क्रोधश्चोन्मत्तसंज्ञकः ।
कपाली भीषणश्चैव संहारश्चाष्ट भैरवाः ॥ २४ ॥
कामरूपं च मलयं कौह्लाख्यं च कुलान्तकम् ।
चोहारपीठं देवेशि जालन्धरमतः परम् ॥ २५ ॥
उड्यानं देविकोट्टं च पीठाष्टकमुदाहृतम् ।
मातरो भैरवाङ्कस्थाः स्मेरवक्त्राः मदालसाः ॥ २६ ॥
ब्राह्मीप्रभृतयो दिव्या योगिन्यः प्रकटाः शुभाः ।
पाशांकुशधराः सर्वाः क्रमेण दधतींः स्मरेत् ॥ २७ ॥
विद्यां शूलं च शक्तिं च चक्रं चैव गदां ततः ।
वज्रवैदूर्यमालां च पद्मं च वरदं तथा ॥ २८ ॥
भैरवास्त्वसिताङ्गाद्याः पीठाष्टकनिवासिनः ।
शूलं कपालं प्रेतं च बिभ्राणाः क्षुद्रदुन्दुभिम् ॥ २९ ॥
गजत्वगम्बरा भीमाः कुटिलालकशोभिनः ।
पाशांकुशवराभीतिकराः पीठाष्टदेवताः ॥ ३० ॥
तत्र जाम्बूनदप्रख्या योगिन्यः प्रकटाः शुभाः ।
एवं तृतीयरेखायां सिद्धिवत् पूजयेत् प्रिये ॥ ३१ ॥
मुद्रादेवीः प्रयत्नेन सर्वसंक्षोभणादिका तथा ।
सर्वसंक्षोभिणी चैव सर्वविद्राविणी तथा ॥ ३२ ॥
सर्वाकर्षणिका सर्ववशीकारिणिका तथा ।
सर्वोन्मादिनिका चैव ततः सर्वमहांकुशा ॥ ३३ ॥
सर्वखेचरिका सर्वबीजमुद्रा तथैव च ।
सर्वयोनिस्ततः सर्वत्रिखण्डा परिकीर्तिता ॥ ३४ ॥
सर्वसंक्षोभिणीमुख्या मुद्रास्ताः सौम्यविग्रहाः ।
घृतपाशांकुशाः सर्वाः स्वस्वमुद्राकरास्तथा ॥ ३५ ॥
तप्तचामीकराभासा योगिन्यः प्रकटाः शुभाः ।
पाशांकुशोत्पलाभीतिपाणयो रक्तविग्रहाः ॥ ३६ ॥
प्रकटाः कामरूपादिचतुष्पीठादिदेवताः ।
अणिमासिद्धिपुरतश्चक्रेशीं त्रिपुरां यजेत् ॥ ३७ ॥
पञ्चोपचारैराराध्य मुद्रामाद्यां च दर्शयेत् ।
एताः प्रकटयोगिन्यश्चतुरस्रे व्यवस्थिताः ॥ ३८ ॥
त्रैलोक्यमोहिनीचक्रे समुद्राः सायुधास्तथा ।
सवाहनाश्च सपरिवाराश्चैव ससिद्धयः ॥ ३९ ॥
साङ्गोपाङ्गाश्च सर्वोपचारैः सम्पूजितास्तथा ।
तर्पिताः सन्त्विति वदेज्जलं तत्र विनिःक्षिपेत् ॥ ४० ॥
अभीष्टसिद्धिं मे देहि त्रिपुरे देवपूजिते ।
भक्त्या समर्पये तुभ्यं प्रथमावरणर्चनम् ॥ ४१ ॥
इत्युच्चार्य महादेव्यै दद्यात् पुष्पाञ्जलिं ततः ।
इति ते कथितं भद्रे प्रथमावरणार्चनम् ॥ ४२ ॥
अथ वक्ष्ये महेशानि द्वितीयावरणार्चनम् ।
ततः षोडशपत्रेषु कामाकर्षिणिकां यजेत् ॥ ४३ ॥
सामान्यपात्रसुधया पश्चिमादिक्रमेण तु ।
कामाकर्षिणिका चैव बुद्ध्याकर्षिणिका तथा ॥ ४४ ॥
अहङ्काराकर्षिणी च शब्दाकर्षिणिका तथा ।
स्पर्शाकर्षिणिका चैव रूपाकर्षिणिका तथा ॥ ४५ ॥
रसाकर्षिणिका चैव गन्धाकर्षिणिका तथा ।
चित्ताकर्षिणिका चैव धैर्याकर्षिणिका तथा ॥ ४६ ॥
स्मृत्याकर्षिणिका चैव नामाकर्षिणिका तथा ।
बीजाकर्षिणिका चैवामृताकर्षिणिका तथा ॥ ४७ ॥
आत्माकर्षिणिका चैव शरीराकर्षिणी तथा ।
सर्वाशापूरके चक्रे दलषोडशके स्थिताः ॥ ४८ ॥
कामाकर्षिणिकाद्याश्च योगिन्यो गुप्तसंज्ञकाः ।
कलाषोडशरूपाश्च चन्द्रमण्डलमध्यगाः ॥ ४९ ॥
स्वरवर्णा रक्तवर्णाः स्रवत्पीयूषविग्रहाः ।
पाशांकुश(धराः)सुधापूर्णकाश्मरीघटदानन्दाः (?) ॥ ५० ॥
चक्रेशीं त्रिपुरेशीं च कामाकर्षिणिकाग्रतः ।
यजेद्विद्राविणीं मुद्रां दर्शयेद्भाग्यहेतवे ॥ ५१ ॥
एतास्तु गुप्तयोगिन्यः सर्वाशापूरके तथा ।
चक्रे समुद्रा इत्यादि देव्यै पुष्पाञ्जलिं क्षिपेत् ॥ ५२ ॥
अभीष्टसिद्धिं मे देहि त्रिपुरे देवपूजिते ।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ ५३ ॥
प्. १९२) इत्युच्चार्य च देवेश्यै दद्यात्पुष्पाञ्जलिं ततः ।
सर्वसंक्षोभणे चक्रे दलाष्टकविजृम्भिते ॥ ५४ ॥
यजेत् सामान्यसुधया अनङ्गकुसुमादिकाः ।
पूर्वादिदिक्षु पत्रेषु आग्नेयादिविदिक्षु च ॥ ५५ ॥
अनङ्गकुसुमानङ्गमेखला तदनन्तरम् ।
अनङ्गमदना पश्चादनङ्गमदनातुरा ॥ ५६ ॥
अनङ्गरेखानङ्गवेगिन्यथानङ्गांकुशा ततः ।
अनङ्गमालिनी ह्येता बन्धूककुसुमप्रभाः ॥ ५७ ॥
पाशांकुशस्फुरत्कुन्दनीलोत्पलकराः शुभाः ।
अनङ्गकुसुमाग्रे तु यजेत् त्रिपुरसुन्दरीम् ॥ ५८ ॥
चक्रेशीं दर्शयेन्मुद्रां सर्वाकर्षिणिकां ततः ।
एतागुप्ततराश्चैव योगिन्यः सर्वसं ततः ॥ ५९ ॥
क्षोभणे च तथा चक्रे समुद्रेत्यादिना ततः ।
देव्यै पुष्पाञ्जलिं दद्यादभीष्ठेति च मन्त्रवित् ॥ ६० ॥
चतुर्दशारके चक्रे सर्वसौभाग्यदाभिधे ।
सामान्याद्भिः पश्चिमादिवामावर्तक्रमेण च ॥ ६१ ॥
सर्वसंक्षोभिणीमुख्याः शक्तीर्वै पूजयेत् प्रिये ।
सर्वसंक्षोभिणी शक्तिः सर्वविद्राविणी तथा ॥ ६२ ॥
सर्वाकर्षिण्यथ ततः सर्वाह्लादिन्यनन्तरम् ।
सर्वसम्मोहिनी सर्वस्तम्भिनी सर्वजृम्भिणी ॥ ६३ ॥
सर्ववशङ्करी शक्तिः तथा सर्वार्थरञ्जिनी ।
ततः सर्वोन्मादिनी च तथा सर्वार्थसाधिनी ॥ ६४ ॥
ततो वै सर्वसम्पत्तिपूरणी शक्तिरेव च ।
सर्वमन्त्रमयी शक्तिः सर्वद्वन्द्वक्षयङ्करी ॥ ६५ ॥
सर्वसौभाग्यदे चक्रे सर्वसंक्षोभिणीमुखाः ।
सम्प्रदायाख्ययोगिन्यः सर्वाभरणभूषिताः ॥ ६६ ॥
इन्द्रगोपनिभाः सर्वाः सगर्वोन्मत्तयौवनाः ।
पाशांकुशौ दर्पणं च पानपात्रं सुधामयम् ॥ ६७ ॥
बिभ्रत्यः सर्वसुभगाः साधकाभीष्टदायिकाः ।
सर्वसंक्षोभिणीपूर्वे यजेत् त्रिपुरवासिनीम् ॥ ६८ ॥
सर्ववश्यकरीं मुद्रां दर्शयित्वा विचक्षणः ।
तत एताः सम्प्रदाययोगिन्य इति वै क्रमात् ॥ ६९ ॥
देव्यै पुष्पाञ्जलिं दद्यात् ततः सर्वार्थसाधके ।
बहिर्दशारके चक्रे सामान्यसुधया शिवे ॥ ७० ॥
पूर्ववत् पूजयेद् देवि सर्वसिद्धिप्रदामुखाः ।
सर्वसिद्धिप्रदा देवी सर्वसम्पत्प्रदा तथा ॥ ७१ ॥
सर्वप्रियङ्करी देवी सर्वमङ्गलकारिणी ।
सर्वकामप्रदा देवी सर्वदुःखविमोचिनी ॥ ७२ ॥
सर्वमृत्युप्रशमनी सर्वविघ्नविनाशिनी ।
सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी ॥ ७३ ॥
सर्वार्थसाधके चक्रे कुलकौलाभिधाः पराः ।
सर्वसिद्धिप्रदाद्याश्च योगिन्यः सर्वकामदाः ॥ ७४ ॥
जपाकुसुमसङ्काशाः स्फुरन्मणिविभूषिताः ।
महासौभाग्यगम्भीराः पीनवृत्तघनस्तनाः ॥ ७५ ॥
रत्नपेटीविनिःक्षिप्तसाधकेप्सितभूषणाः ।
नानारत्नमयान् दीपान् दधत्यो हसिताननाः ॥ ७६ ॥
पाशांकुशधराः सर्वा रत्नदानपरास्तथा ।
सर्वसिद्धिप्रदाग्रे तु चक्रेशीं त्रिपुरां यजेत् ॥ ७७ ॥
ततः सर्वोन्मादिनीं च मुद्रां संदर्शयेद्बुधः ।
एताश्च कुलकौलाख्ययोगिन्य इति पूर्ववत् ॥ ७८ ॥
देव्यै पुष्पाञ्जलिं दद्यात्ततः षष्ठावृतिं यजेत् ।
सर्वरक्षाकरे चक्रेऽन्तर्दशारे महेश्वरि ॥ ७९ ॥
सामान्यपात्रसुधया पश्चिमादिक्रमेण तु ।
सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदा तथा ॥ ८० ॥
सर्वज्ञानमयी चैव सर्वव्याधिविनाशिनी ।
सर्वाधारस्वरूपा च सर्वपापहरा तथा ॥ ८१ ॥
सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी ।
पूजनीया प्रयत्नेन सर्वेप्सितफलप्रदा ॥ ८२ ॥
सर्वरक्षाकरे चक्रे निगर्भाख्याः शुभप्रदाः ।
सर्वज्ञाद्याश्च योगिन्यो ज्वलत्पावकतेजसः ॥ ८३ ॥
उद्यत्सूर्यसहस्राभा मुक्तालङ्कारभूषिताः ।
पाशटङ्कायुधज्ञानमुद्रावरदसत्कराः ॥ ८४ ॥
सर्वज्ञापुरतो देवि यजेत् त्रिपुरमालिनीम् ।
देव्यै संदर्शयेद् देवि मुद्रां सर्वमहांकुशाम् ॥ ८५ ॥
एता निगर्भयोगिन्यः सर्वरक्षाकराभिधे ।
चक्रे समुद्रा इत्यादि दद्यात् पुष्पाञ्जलिं ततः ॥ ८६ ॥
सर्वरोगहराष्टारचक्रे सामान्यबिन्दुभिः ।
पश्चिमादि क्रमेणैव वशिन्याद्या यजेत् क्रमात् ॥ ८७ ॥
वशिनी कामेश्वरी च मोदिनी विमलारुणा ।
जयिनी सर्वेश्वरी च कौलिनी वागघीश्वरी ॥ ८८ ॥
प्. १९३) सर्वरोगहरे चक्रे रहस्याख्याः शुभप्रदाः ।
योगिन्यः कामदायिन्यौ दाडिमीकुसुमप्रभाः ॥ ८९ ॥
रक्तवस्त्रपरिधाना रक्तगन्धानुलेपनाः ।
नानाभरणसम्पन्नाः पञ्चबाणधनुर्धराः ॥ ९० ॥
पुस्तकं वरदानं च दधाना वाक्प्रदा इमाः ।
यजेत् त्रिपुरसिद्धां च चक्रेशीं वशिनीपुरः ॥ ९१ ॥
मुद्रां प्रदर्शयेत् सर्वखेचरीं भाग्यहेतवे ।
एता रहस्ययोगिन्य इत्यादि च महेश्वरि ॥ ९२ ॥
अभीष्टसिद्धिमिति च देव्यै पुष्पाञ्जलिं क्षिपेत् ।
अन्तराले महाचक्रे सर्वसिद्धिप्रदाभिधे ॥ ९३ ॥
सामान्यपात्रसुधया यजेदायुधदेवताः ।
कामेश्वरस्य कामेश्या जृम्भका बाणदेवताः ॥ ९४ ॥
मोहकाश्चापदेव्यश्च पाशदेव्यो वशङ्कराः ।
स्तम्भकाख्या महादेवि तथैवांकुशदेवताः ॥ ९५ ॥
ततः श्रीपात्रसुधया निजाग्रादित्रिकोणके ।
वाग्भवाख्ये सूर्यचक्रे कामरूपे च पीठके ९६ ॥
मित्रेशनाथात्मिका च तथा जाग्रदधिष्ठिता ।
रुद्रात्मशक्तिसहिता कामेशी सर्वसिद्धिदा ॥ ९७ ॥
ततो वै कामराजाख्ये सोमचक्रे महेश्वरि ।
पीठे पूर्णगिरौ चैवोड्डीशनाथात्मिका ततः ॥ ९८ ॥
तथा स्वप्नाधिष्ठिता च विष्णुशक्तिरुदीरिता ।
वज्रेश्वरी महादेवी ततस्तृतीयकोणके ॥ ९९ ॥
शक्त्याख्ये वह्निचक्रे च पीठे जालन्धरे ततः ।
षष्ठेशनाथात्मिका च तथा सुषुप्त्यधिष्ठिता ॥ १०० ॥
ब्रह्मात्मशक्तिरुदिता देवी श्रीभगमालिनी ।
बिन्दुमध्ये महेशानि कूटत्रयविजृम्भिते ॥ १०१ ॥
समस्तव्योमचक्रे च पीठे चोड्यानसंज्ञके ।
चर्यानाथात्मिका चैव तुरीयाधिष्ठिता ततः ॥ १०२ ॥
परब्रह्मात्मशक्तिः श्रीमहात्रिपुरसुन्दरी ।
सर्वसिद्धिप्रदे चक्रे योगिन्यः सिद्धिदायिकाः ॥ १०३ ॥
अतिरहस्यसंज्ञास्ता आयुधाष्टकदेवताः ।
कामेश्वरीमुखास्तिस्रः कोणत्रयविराजिताः ॥ १०४ ॥
आयुधाष्टकदेव्यस्ता यौवनोन्मत्तविग्रहाः ।
रक्ताः विद्युल्लताकारा उद्दामकुसुमान्विताः ॥ १०५ ॥
नवरत्नविशोभाढ्याः स्वस्वायुधधराः क्रमात् ।
वराभये सुधापात्रं धारयन्त्यः सुखावहाः ॥ १०६ ॥
कामेश्वरी शुक्लवर्णा शुक्लमाल्यानुलेपना ।
मुक्ताफलस्फुरद्भूषा नानाभरणभूषिता ॥ १०७ ॥
पुस्तकं चाक्षसूत्रं च वरदं चाभयं तथा ।
दधतो चाग्रकोणस्था रुद्रशक्तिः प्रिकीर्तिता ॥ १०८ ॥
वज्रेश्वरी कुंकुमाभा स्फुरद्रत्नविभूषणा ।
बालार्कवसना नीलकर्णचुम्बिविलोचना ॥ १०९ ॥
इक्षुकोदण्डपुष्पेषुवरदाभयशोभिता ।
दक्षकोणस्थिता देवी विष्णुशक्तिरियं मता ॥ ११० ॥
सद्यःसन्तप्तहेमाभा भगमाला सुशोभना ।
अनर्घरत्नघटितभूषणा भुवनेश्वरी ॥ १११ ॥
पाशांकुशज्ञानमुद्रावरदानकराम्बुजा ।
ब्रह्मशक्तिर्महेशानी तापत्रयनिकृन्तनी ॥ ११२ ॥
उदक्कोणस्थिता देवी सर्वकामफलप्रदा ।
चक्रेशीं त्रिपुराम्बां च कामेशीपुरतो यजेत् ॥ ११३ ॥
पञ्चोपचारैराराध्य बीजमुद्रां प्रदर्शयेत् ।
एता अतिरहस्याख्या योगिन्य इति पूर्ववत् ॥ ११४ ॥
पुष्पाञ्जलिं प्रदद्याद्वै देव्यै देवि महेश्वरि ।
बिन्दुचक्रे महेशानि सर्वानन्दमयाभिधे ॥ ११५ ॥
पश्चिमादिक्रमेणैव श्रीपात्रसुधया शिवे ।
कूटत्रयक्रमेणैव रतिः प्रतिर्मनोभवा ॥ ११६ ॥
पूजनीया प्रयत्नेन श्रीमत्त्रिपुरसुन्दरी ।
सर्वमन्त्रेश्वरी चैव सर्वचक्रेश्वरी तथा ॥ ११७ ॥
सर्वतन्त्रेश्वरी चैव सर्वयोगेश्वरी तथा ।
सर्वभोगेश्वरी चैव सर्ववीरेश्वरी तथा ॥ ११८ ॥
सर्वपीठेश्वरी चैव सर्ववागीश्वरी तथा ।
सर्वविद्येश्वरी चैव सर्वसिद्धेश्वरी तथा ॥ ११९ ॥
सर्वलोकेश्वरी चैव सर्वयोगेश्वरी तथा ।
(--------------------) सर्वचक्रेश्वरी तथा) ॥ १२० ॥
सर्वानन्दमये चक्रे परे शब्दातिगोचरे ।
परापररहस्याख्या योगिन्य इति पूर्वकाः ॥ १२१ ॥
उद्यत्सूर्यसहस्राभा नानालङ्कारभूषिताः ।
पाशांकुशधराः सर्वा ज्ञानमुद्राभये तथा ॥ १२२ ॥
दधाना यौवनप्रौढाः पीनवृत्तघनस्तनाः ।
श्रीविद्याभिमुखाः सर्वा देवताः परिचिन्तयेत् ॥ १२३ ॥
प्. १९४) श्रीविद्यां चापि सर्वासामाभिमुख्ये स्थितां स्मरेत् ।
अथवा रश्मयः सर्वा देवीरूपेण चिन्तयेत् ॥ १२४ ॥
श्रीचक्रे परमेशानि स्वतन्त्रे स्वस्वसन्निभाः ।
चक्रेशीं रतिपूर्वे तु महात्रिपुरभैरवीम् ॥ १२५ ॥
पूजयित्वा ततः सर्वयोनिमुद्रां प्रदर्शयेत् ।
परापररहस्याख्या योगिनीत्यादिना प्रिये ॥ १२६ ॥
देव्यै पुष्पाञ्जलिं दत्त्वा तर्पयेच्च त्रिधा त्रिधा ॥
इति श्रीमहामहोपाध्यायभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्य- श्रीभगवच्छङ्कराचार्यशिष्य श्रीविष्णुशर्माचार्यशिष्य श्रीप्रगल्भाचार्यशिष्य श्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे दशमः श्वासः ॥ १० ॥
अथ
श्रीविद्यार्णवतन्त्रे
11. Śvāsa
अथोर्ध्वाम्नायावरणानि । तथा कुलार्णवे -
नवावरणपूजां च कृत्वा देवीं प्रतर्प्य च ।
षोडशैरुपचारैस्तु साङ्गं सावरणं शिवम् ॥ १ ॥
पूजयेन्मूलमन्त्रेण गन्धपुष्पाक्षतादिभिः ।
महाषोढोतिताशेषपरिवारांश्च शाम्भवि ॥ २ ॥
प्रणवादिनमोन्तेन तत्तन्नाम्ना प्रपूजयेत् ।
इति । उत्तरतन्त्रे -
बिन्दावासनरूपेण स्थितं च परमं शिवम् ।
पराप्रासादमन्त्रेण तुरीयाविद्ययाथवा ॥ १ ॥
षोडशैरुपचारैस्तु पूजयेत् तर्पयेत् त्रिधा ।
गुरुपात्रामृतेनैवाथवा श्रीपात्रबिन्दुभिः ॥ २ ॥
पञ्चप्रणवमुच्चार्य शिवशक्त्यात्मकादि च ।
परमादिशिवश्री च पादुकां तर्पयामि च ॥ ३ ॥
तर्पयेद्दशधा प्रोक्तदशमुद्राश्च दर्शयेत् ।
बिन्दुचक्रे च पूर्वादिचतुर्दिक्षु च मध्यतः ॥ ४ ॥
गुरुपात्रामृतेनैव षडङ्गावरणं ययेत् ।
ईशतत्पुरुषाघोरवामसद्यादिमूलकैः ॥ ५ ॥
षडङ्गावरणमिष्ट्वा ब्रह्मविष्ण्वोस्तथैव च ।
रुद्रशम्भुपराणां च विश्रान्तिचरणान् यजेत् ॥ ६ ॥
आदिनाथादिगुरवो दिव्यसिद्धौघमानवाः ।
पूजनीयाः प्रत्यत्नेन सर्वकामार्थसिद्धये ॥ ७ ॥
ततोष्टकोणसंधिस्थग्रन्थ्यष्टकविभेदतः ।
योग्मशः पार्श्वयुग्मेषु श्रीपात्रामृतबिन्दुभिः ॥ ८ ॥
कुलयोगिनिपूर्वादिमूलविद्यास्तु षोडश ।
घृतपाशांकुशा रक्ता वरदाभयपाणयः ॥ ९ ॥
पूजयेत् तर्पयेच्चापि ततोऽन्तर्दशकोणके ।
चतुर्दिक्षु तथोऽर्ध्वाधः श्रीपात्रामृतबिन्दुभिः ॥ १० ॥
यजेत् षडाधारविद्यास्तद्वाह्यस्थदशारके ।
ईशानस्य कला इष्ट्वा मन्वस्रे पुरुषस्य तु ॥ ११ ॥
अघोरस्य कला ह्यष्ट दलग्रन्थिषु संयजेत् ।
षोडशच्छदपद्मे तु वामेदेवकला यजेत् ॥ १२ ॥
सद्योजातकला भूमिपुरे सम्पूजयेत् ततः ।
श्रीचक्रस्थान्तरालेषु केसरेषु च वै क्रमात् ॥ १३ ॥
चतुरस्रप्रक्रमेण सामान्यार्घ्यस्थबिन्दुभिः ।
महाषोडोदिताशेषदेवताः परिपूजयेत् ॥ १४ ॥
षट्शाम्भवसुरश्मीनां बिन्दुचक्रे तु पूजनम् ।
इत्थं पूजां विधायाथ षोडशैरुपचारकैः ॥ १५ ॥
सर्वावरणसम्पूर्णां सम्पूज्य तदनन्तरम् ।
इति । दक्षिणामूर्तिसंहितायाम् -
नैवेद्यं षड्रसोपेतं कामधेनुपवित्रितम् ।
दद्यात् कर्पूरसहितं ताम्बूलं परशक्तये ॥ १ ॥
नित्यहोमं प्रकूर्वीत पूर्वोक्तविधिना प्रिये ।
यथाशक्ति जपं कुर्यात् स्तुतिं च परमेश्वरि ॥ २ ॥
आदिश्लोकद्वयेनापि तथा सौभाग्यदेवताम् ।
इति । आदिश्लोकद्वयं तु -
श्रीमच्छ्रीकोशहृदयं पञ्चसिंहासनात्मकं ।
फलं कल्पलतानां च चारुरत्नस्फुरत्कलम् ॥ १ ॥
चतुरायतनानन्दि चतुरन्वयकोशगम् ।
नित्यानन्दि परं ब्रह्मधाम नौमि सुखाप्तये ॥ २ ॥
प्. १९६) इति । तथा -
सौवर्णे रौप्यकांस्यादिपात्रे वसुदलं लिखेत् ।
गन्धेन चुलुकं मध्ये मुद्रां वा तत्र वै न्यसेत् ॥ ३ ॥
वसुपत्रेषु चाज्येन पूरितान् नव दीपकान् ।
भ्रामयेद्रत्नविद्याभिस्त्रिधा भृत्वा तु मस्तके ॥ ४ ॥
मूलेन तां स्मरेदन्ते सर्वविघ्नोपशान्तये ।
इति । रत्नविद्या तु ज्ञानार्णवे -
गसौ च पमनाः पश्चादिन्द्रस्थाः क्रमशः शिवे ।
वामकर्णविशोभाड्या बिन्दुभूषितमस्तकाः ॥ १ ॥
रमायासंपुटेन रत्नेशीयं नवाक्षरी ।
श्रींह्रींग्लूंस्लूंप्लूंम्लूंन्लूंह्रींश्रीं इति । स्वच्छन्दसंग्रहे -
प्रद्योतन ऋषिः प्रोक्तस्त्रिष्टुप्च्छन्दः प्रकीर्तितम् ।
रत्नेश्वरी देवता स्यान्मायाबीजं तु बीजकम् ॥ १ ॥
श्रीबीजं शक्तिरुद्दिष्टा ग्लूंबीजं कीलकं स्मृतम् ।
स्वप्रकाशे तु देवेशि विनियोगः प्रकीर्तितः ॥ २ ॥
मायया दीर्घभाजा च षडङ्गानि प्रविन्यसेत् ।
रत्नेश्वरीं रत्नविभूषिताङ्गीं माणिक्यमौलिं तरुणार्ककान्तिम् ।
करैर्वहन्तीं नव रत्नदीपान् प्रकाशमानां मनसा स्मरामि ॥
इति । तथा -
समस्तचक्रचक्रेशीयुते देवि नवात्मिके ।
आरा(र्ति ? त्रि)कमिदं देवि गृहाण मम सिद्धये ॥ १ ॥
मण्डलं कामतः कुर्यात् साधको भूमिजानुकः ।
वहत्पुटेन हस्ताभ्यां मण्डलोद्धारलक्षणम् ॥ २ ॥
चतुरस्रे व्योमचक्रं क्रमेणानेन पूजयेत् ।
तारं च भुवनेशानीं व्यापकादि च मण्डलम् ॥ ३ ॥
ङेन्तं वाग्भवहृन्मन्त्रो मनुः सूर्याक्षरो भवेत् ।
अन्नोदमिश्रं भागेन साधारं पुष्पपूजितम् ॥ ४ ॥
संस्थाप्य पात्रं तत्रैव कलार्णेन बलिं हरेत् ।
तारं परां सर्वविघ्नकृद्भ्यः सर्व च भू लिखेत् ॥ ५ ॥
तेभ्यो हुंवह्निजाया च त्रिवारोच्चारणद्बलिः ।
पूर्वोक्तबलिदानं तु कुर्याद्विघ्नोपशान्तये ॥ ६ ॥
चतुर्धा बलिदानं तु त्रिषु लोकेषु दुर्लभम् ।
ततः कुमारीः सन्तर्प्य त्रिपुरेश्यानयाथवा ॥ ७ ॥
मयूखान् परमेश्वर्याः संभाव्य मनुवित्तमः ।
खेचर्याः शक्तिचक्रस्य स्वामिनीं संविदं पराम् ॥ ८ ॥
योजयेदात्मनि ज्ञानगहने कृपया गुरोः ।
शिवकोणे देशिकेभ्यो निर्माल्यं सिद्धये क्षिपेत् ॥ ९ ॥
अर्घ्यपात्रं ततो देवि गुरवे गुरुमन्त्रवित् ।
नाममन्त्रेण च स्वस्य तर्पयेदुपदेशतः ॥ १० ॥
वाममार्गेण देवेशि तत्त्वमुद्राधरः शुचिः ।
पुनराधारगं कुर्यादाचारे दीपलक्षणम् ॥ ११ ॥
आरात्रिकस्य मध्यस्थं मूलेनैव तु भक्षयेत् ।
कपालिन्या वापि पात्रं तया वापि समुद्धरेत् ॥ १२ ॥
द्वितीयं तत्त्वगं दक्षे संयोगेनैव पार्वति ।
तत्त्वत्रयेण संयोगात्तर्पयेत् स्वान्तवासिनीम् ॥ १३ ॥
प्रथमं ब्रह्मरूपत्वं द्वितीयं सर्वमन्त्रवित् ।
तृतीयमीशरूपं च विज्ञेयं मुनिसत्तमैः ॥ १४ ॥
किञ्चिदुल्लास्य मुद्राभिः पञ्चभिः परमेश्वरि ।
श्रीगुरोराज्ञया देवि स्वयं श्रीत्रिपुरा भवेत् ॥ १५ ॥
अधोमुखानि सर्वाणि पात्राण्यग्नौ प्रतिष्ठयेत् ।
आकृष्य मन्त्रात् तत्रस्थं शिषिकाभ्योऽक्षतादिकम् ॥ १६ ॥
दत्त्वा तु परमेशानि सुखीभूयान्न संशयः ।
अनर्घ्यमपि विज्ञेयमक्षरैः कथितं मया ॥ १७ ॥
अलाक्षरेण न्यायेन चन्द्रदीपेन च प्रिये ।
गोपितव्यं त्वया भद्रे जननीजारगर्भवत् ॥ १८ ॥
इति । अत्र नित्यहोमविधानं दीक्षाप्रकरणे वक्ष्यामः प्रयोगरूपम् । तथा दक्षिणामूर्ति संहितायाम् -
शृणु देवि प्रवक्ष्यामि विद्यायन्त्रं समाहितः ।
सहस्रजन्मजं पापं हन्ति मासेन देशिकः ॥ १ ॥
पूजयेद्रत्नखचितैश्चम्पकैः स्वर्णजैः प्रिये ।
अवश्यं सर्वकालेषु परमाज्ञाधरो भवेत् ॥ २ ॥
प्. १९७) नाशयेत् सर्वपापानि कोटिजन्मभवान्यपि ।
समुद्रवलयां पृथ्वीं संप्राप्य सुखमेधते ॥ ३ ॥
नित्यं यः पूजयेद्देवीं चम्पकै रजतोद्भवैः ।
स बुद्धिमान् भवेद्देवि सर्वत्र विजयी भवेत् ॥ ४ ॥
पश्चिमाभिमुखं लिङ्गं वृषशून्यमथापि वा ।
स्वयम्भूबाणदेशे वा शैवस्थाने महेश्वरि ॥ ५ ॥
तत्र स्थित्वा जपेन्मन्त्रं प्रवालाक्षस्रजा तथा ।
मुक्तारुद्राक्षपद्माक्षस्फटिकोद्भवया तथा ॥ ६ ॥
माणिक्यपद्मरागादिमनोहर्या जपेद्बुधः ।
जप्त्वा लक्षैकमात्रे तु भूचर्यो विघ्नकारिकाः ॥ ७ ॥
तासामपि यदा नसौ क्षोभं याति मनागपि ।
तदा लक्षत्रयं कुर्यान्नियमेन शुचिर्बुधः ॥ ८ ॥
मानसेनाथवा वाचोपांशुना वा जपेत् सुधीः ।
मनसोच्चारणं देवि जपकोटिफलप्रदम् ॥ ९ ॥
उपांशूच्चारणं देवि वाचिकं शतधा भवेत् ।
वाचिकात् मुखपात्रं स्याच्छ्रीगुरोराज्ञया प्रिये ॥ १० ॥
तद्दशांशेन होमः स्यात् कुसुमैर्ब्रह्मवृक्षजैः ।
कुसुम्भपुष्पैर्जुहुयान्मधुरत्रयसम्प्लुतैः ॥ ११ ॥
सिद्धा भवति विद्यैकं सर्वविद्यास्वरूपिणी ।
योनिकुण्डे भगाकारे वर्तुलेन्द्वर्धयोः प्रिये ॥ १२ ॥
नवत्रिकोणचक्रे वा चतुरस्रेऽथ वस्वरे ।
वाक्पतिर्योनिकुण्डे तु भगे चाकर्षणं भवेत् ॥ १३ ॥
वर्तुलं श्रीपदं देवि चन्द्रार्धे तु त्रयं भवेत् ।
नवत्रिकोणे महतीखेचरीसिद्धिवान् भवेत् ॥ १४ ॥
चतुरस्रे तु सकलं शुभजातं भवेत् सदा ।
शान्तिकं पौष्टिकं लक्ष्मीरारोग्यं वसुकोणके ॥ १५ ॥
पद्माङ्के दश सिद्धीस्तु साधयेन्नात्र संशयः ।
मल्लिकामालतीभिश्च त्रिमध्वक्तैर्वचस्पतिः ॥ १६ ॥
करवीरज(या ? पा)पुष्पैः सघृतैर्भुवनत्रये ।
योषिद्वश्या ततो देवी कर्पूरं कुंकुमं मदम् ॥ १७ ॥
मृगस्य मिश्रितं कृत्वा कामसौभाग्यवान् भवेत् ।
चाम्पेयैः पाटलै रम्यैराम्रैरन्यैः फलैर्हुनेत् ॥ १८ ॥
सप्ताहं मासमात्रं वा लक्ष्मीः प्राप्नोति मन्त्रिणम् ।
श्रीखण्डं चागरुं देवि कर्पूरं गुग्गुलुं हुनेत् ॥ १९ ॥
समग्रपुरसुन्दर्यो वश्यास्तस्य भवन्ति हि ।
हुत्वा फलं त्रिमध्वक्तं खेचरत्वं चतुष्पथे ॥ २० ॥
दधिक्षीरमधुसर्पिर्लाजान् हुत्वा न कालभाक् ।
अथवा नवलक्ष तु जपेद्विद्यां समाहितः ॥ २१ ॥
तद्दशांशेन होमस्तु पूर्वोक्तविधिना यजेत् ।
साधयेत् स्वर्गभूलोकपातालतलवासिनः ॥ २२ ॥
राजिकालवणाभ्यां तु क्षोभयेज्जगतीमिमाम् ।
दध्ना शताष्टकं हुत्वा कालमृत्युं विनाशयेत् ॥ २३ ॥
घृतक्षीरद्वयादायुष्यतोऽष्टशतकं हुनेत् ।
मध्वाज्यगुग्गुलेनैव राजेन्द्रं वशमानयेत् ॥ २४ ॥
आरोग्यं घृतदूर्वाभ्यां हवनेन शताष्टकम् ।
मध्वाज्याक्तै रक्तवर्णैः करवीरैः सगुग्गुलैः ॥ २५ ॥
हुनेल्लक्षं वशीकुर्याद्विंशतिं धरणीभुजाम् ।
मध्वक्तकरवीरैस्तु साङ्गं भूपं वशं नयेत् ॥ २६ ॥
सप्तरात्रेण साज्येन शशिना पूर्ववद्यजेत् ।
पाटलैर्यूथिकाकुन्दैः शतपत्रैश्च जातिभिः ॥ २७ ॥
मालतीनववल्लिभिर्मल्लिकापद्मकिंशुकैः ।
पूजनाद्धवनाद्वापि मिश्रैर्वाऽमिश्रितैरपि ॥ २८ ॥
सर्वसौभाग्यमाप्नोति बुद्ध्या वाक्पतिरुच्यते ।
मुचुकुन्दैर्बिल्वपत्रेः फलैरसितनीरजैः ॥ २९ ॥
नागरै राजचम्पैश्च सिद्धयोऽष्टौ भवन्ति हि ।
नारिकेलैश्च खर्जूरैर्द्राक्षाभिश्चूतसत्फलैः ॥ ३० ॥
मनसा चिन्तितं कार्यं साधकस्य तु होमतः ।
पूजनेन च होमेन श्रीविद्यां परितोषयेत् ॥ ३१ ॥
चरुं विकीर्य सर्वत्र कुमारीपूजनादिभिः ।
पूर्वोक्तबलिदानेन गुरुं सन्तोष्य च क्रमात् ॥ ३२ ॥
सुवासिनीश्च सम्पूज्य दद्याद्भूरि धनं सताम् ।
समग्रं कुसुमं होमे कुष्माण्डं बहुधा हुनेत् ॥ ३३ ॥
नारिकेलान्तरफलैः सकलैस्तु मनःप्रियम् ।
समग्रेणैव चूतस्य फलेन बदरं तथा ॥ ३४ ॥
पनसैः फलगर्भस्थैर्गर्भैर्विलोकितैर्हुनेत् ।
जम्बूफलं समग्रं स्याद्द्राक्षां चैव तथा हुनेत् ॥ ३५ ॥
रम्भाफलं मनोभागं लघु चेत् खण्डितं नहि ।
फलं लघु समग्रं स्यात् कस्तूरी कुंकुमं शशी ॥ ३६ ॥
गुञ्जामात्रं हुनेद्देवि तिलराजीशतं हुनेत् ।
तथैव लवणं लाजा मुष्टिपात्रं हुनेद्बुधः ॥ ३७ ॥
अन्नं तु ग्रासमात्रं हि पक्वान्नैश्च तथा हुनेत् ।
पूर्णं तु क्रमुकार्धेन श्रीखण्डं क्रमुकाकृति ॥ ३८ ॥
प्. १९८) तथागुरु हुनेत्प्राज्यं मनःसन्तोषकारि यत् ।
तच्चतुर्गुणभेदेन दधिदुग्धैर्हुनेत् सदा ॥ ३९ ॥
सर्वासामाहूतीनां तु मानं देवि मनःप्रियम् ।
कुण्डस्य पूजनं वक्ष्ये महाविघ्नविनाशनम् ॥ ४० ॥
चतुर्विंशतिसंख्याभिरंगुलिभिः सुविस्तृतम् ।
खातं च रचयेत् कुण्डं सर्वत्र सुमनोहरम् ॥ ४१ ॥
चतुरस्रं सर्वनेत्रसुभगं मेखलास्ततः ।
सर्वत्रैकांगुलं त्यक्त्वा तिस्रः कार्याः सुशोभनाः ॥ ४२ ॥
आदित्यवसुवेदानां संख्यांगुलिभिरुन्नताः ।
चतुरंगुलविस्तारास्तिस्रोऽपि परमेश्वरि ॥ ४३ ॥
कुण्डस्य पश्चिमे भागे योनिं कुर्यात् सुलक्षणाम् ।
रव्यंगुलिसुविस्तारां वस्वंगुलिसुविस्तृताम् ॥ ४४ ॥
मध्ये षडंगुलां देवि द्व्यंगुलोच्चां मनोरमाम् ।
लक्षणं चतुरस्रस्य कथितं तव सुन्दरि ॥ ४५ ॥
एतस्मिन्माने यद्वान्यत् तदन्येषु यथा भवेत् ।
तेन मानेन सर्वाणि कुण्डानि रचयेद् बुधः ॥ ४६ ॥
गोमयोदकसंलिप्ते पूर्वात्पश्चिमदिग्गताः ।
दक्षिणाद्यूत्तरान्तं तु तिस्रस्तिस्रश्च कारयेत् ॥ ४७ ॥
प्रणवेणाभ्युक्ष्य मध्ये कल्पयेद्यागविष्टरम् ।
शर्करां विकिरेत्तत्र त्रिकोणं तत्पुटं लिखेत् ॥ ४८ ॥
तद्बहिर्वसुपत्रं च ततो भूमण्डलं लिखेत् ।
उपर्युपरि भेदेन तत्र पीठं समर्चयेत् ॥ ४९ ॥
मण्डूकं च तथा रुद्रं कालाग्न्याद्यं ततः परम् ।
आधारशक्तिकूर्मौ च ततोऽनन्तं वराहकं ॥ ५० ॥
पृथिवीं च तथा कन्दं नालं पद्मं च कर्णिकाम् ।
पात्राणि केसराण्येवं तत्तत्स्थानेषु पूजयेत् ॥ ५१ ॥
धर्मं ज्ञानं च वैराग्यमैश्वर्यं पीठदिक्षु च ।
अधर्माश्चैव कोणेषु पीठस्य परिपूजयेत् ॥ ५२ ॥
पुनस्तारेण सम्पूज्य यागविष्टरकं न्यसेत् ।
मध्ये ऋतुमतीं वेदमातरं वेदमस्यकाम् ॥ ५३ ॥
पुरुषाधिष्ठितां ध्यात्वा तद्यौनौ सम्पुटस्थिताम् ।
वह्निं कुण्डे परिभ्राम्य किञ्चिदङ्गारकं त्यजेत् ॥ ५४ ॥
अस्त्रमन्त्रेण सकलान् भूतान् संत्रायसेत् सुधीः ।
पश्चात् प्रज्वालयेद्वह्निं ज्ञानाग्नेः संक्रमेण तु ॥ ५५ ॥
दीपाद्दीपान्तरन्यायात् स्फुरन्तं सर्वतो मुखम् ।
श्वासमार्गेण मनुविद्योनिमार्गेण संक्षिपेत् ॥ ५६ ॥
कुण्डत्रिकोणमध्ये तु तत्र प्रक्षालयेच्छुचिम् ।
आदौ व्याहृतिभिः पश्चाद्वह्निमन्त्रेण च क्रमात् ॥ ५७ ॥
चित्पिङ्गल हनद्वन्द्वं दहद्वन्द्वं पच द्विधा ।
सर्वज्ञाज्ञापय स्वाहा मनुना प्रार्थयेत् ततः ॥ ५८ ॥
अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् ॥ ५९ ॥
उपस्थानं विधायेत्थं जिह्वाङ्गानि प्रविन्यसेत् ।
सषशा वलरायश्च रमस्वस्वरया(रयषष्ठस्वरा)न्विताः ॥ ६० ॥
बिन्दुनादाङ्किताः सप्त जिह्वार्णाः परिकीर्तिताः ।
पद्मरागा सुवर्णा च तृतीया भद्रलोहिता ॥ ६१ ॥
लोहिता च तथा श्वेता धूमिनी च करालिका ।
क्रमेण योजयेद्बीजैर्विन्यसेत् परमेश्वरि ॥ ६२ ॥
पल्लिङ्गगुदमूर्धास्यनासानेत्रेषु च क्रमात् ।
सुराश्च पितरश्चैव गन्धर्वा यक्षपन्नगाः ॥ ६३ ॥
पिशाचा राक्षसाश्चैव स्मर्तव्यास्तासु सप्तसु ।
सहस्रार्चिः स्वस्तिपूर्णं उत्तिष्ठपुरुषस्तथा ॥ ६४ ॥
धूमव्यापी सप्तजिह्वो धनुर्धर इतीरितैः ।
ङहृदन्तैः षडङ्गानि ततो मूर्त्यष्टकं न्यसेत् ॥ ६५ ॥
जातवेदः सप्तजिह्वो हव्यवाहन एव च ।
अश्वोदयैश्चतुर्थः स्याद्वैश्वानर उमे ततः ॥ ६६ ॥
षष्ठः कौमारतेजाश्च विश्वदेवमुखौ न्यसेत् ।
मूर्धांसपार्श्वकट्यन्धुकटिपार्श्वासकेषु च ॥ ६७ ॥
ङेऽन्ता तु सकला ज्ञेया अग्निमूर्त्यङ्गकाः क्रमात् ।
एवं विन्यस्तदेहः सन् पर्युक्ष्यार्घ्यजलेन च ॥ ६८ ॥
दिक्षु दर्भैः परिस्तीर्य ततस्तु परिषेचयेत् ।
वैश्वानर ततो जातवेद पश्चादिहावह ॥ ६९ ॥
लोहिताक्ष च सर्वान्ते कर्माण्यपि च साधय ।
स्वाहान्तोऽणुरयं तारं वक्त्रे चित्पिङ्गलोऽपि च ॥ ७० ॥
अनेन वह्निमभ्यर्च्य ततो जिह्वाः समर्चयेत् ।
मध्ये च कोणषट्के च ततोऽङ्गानि प्रपूजयेत् ॥ ७१ ॥
मूर्तयो वसुपत्रेषु भूबिम्बे दिगधीश्वराः ।
पुनर्वैश्वानरं जप्त्वा त्रिनेत्रमरुणप्रभम् ॥ ७२ ॥
शुक्लाम्बरं रत्नभूषणं पद्मसंस्थितम् ।
वरं शक्तिं स्वस्तिकं चाभीतिं हस्तैश्च विभ्रतम् ॥ ७३ ॥
अनेकहेममालाभिरङ्कितं संस्मरेद्बुधः ।
अर्घ्योदकेन पात्राणि प्रोक्षयेच्छुद्धये ततः ॥ ७४ ॥
प्. १९९) उन्मुखीकृत्य सर्वाणि तत्र तत्र विनिक्षिपेत् ।
प्रणीताप्रोक्षणीयुग्मे जलं स्थाल्यां घृतं तथा ॥ ७५ ॥
अन्यत् सर्वषु पात्रेषु होमद्रव्याणि संक्षिपेत् ।
स्रुक्पात्रे च स्रुवे पात्रे घृते पुष्पं विनिक्षिपेत् ॥ ७६ ॥
स्थालीं पूर्वा(धूपा)न्वितां कुर्यात् सर्वतो धूपयेत् प्रिये ।
मेखलासु च सर्वासु वेष्टयेद्दीपमालिकाः ॥ ७७ ॥
त्रिपंक्त्या चाभितः कुण्डं ततो व्याहृतिभिर्हुनेत् ।
ब्रह्माणं दक्षिणेऽभ्यर्च्य हुनेद्वैश्वानराणुना ॥ ७८ ॥
गर्भाधानादिसंस्कारं चिन्तयेत् सिद्धिहेतवे ।
अनेन विधिनाभ्यर्च्य श्रीचक्रं तत्र चिन्तयेत् ॥ ७९ ॥
तदन्तरे समावाह्य महात्रिपुरसुन्दरीम् ।
समस्तचक्रचक्रेशीसहितां होमयेत् ततः ॥ ८० ॥
दशाज्याहुतिभिः पश्चात् पूजनादिक्रमेण च ।
समस्तचक्रचक्रेशीः प्रकटाद्याश्च योगिनीः ॥ ८१ ॥
होमयेच्च घृतेनैव चैकैकामाहुतिं क्रमात् ।
ततः पूर्वोक्तसुद्रव्यैर्होमयेत् सुभगां पराम् ॥ ८२ ॥
हवनं पद्मरागायां सर्वसिद्धिप्रदं भवेत् ।
रुद्ररक्ता सुवर्णा च सर्वकामफलाप्तये ॥ ८३ ॥
लोहितायां भवेच्छान्तिः स्तम्भनं च क्रमाद्भवेत् ।
उच्चाटनं च धूमिन्यां करालिन्यां च मारणम् ॥ ८४ ॥
इति ते कथितं दिव्यं होमलक्षणमुत्तमम् ।
कृते विघ्नौघशमनं नान्यथा वरवर्णिनि ॥ ८५ ॥
दीपस्थानं समाश्रित्य जपहोमौ समाचरेत् ।
वसुकोष्ठं लिखेत् कूर्मं मध्ये स्थाने प्रकल्पयेत् ॥ ८६ ॥
स्वरान् द्वन्द्वविभागेन पूर्वादिक्रमतो लिखेत् ।
काद्या वर्गास्तु सप्तैते पूर्वादिक्रमतो लिखेत् ॥ ८७ ॥
लक्षवर्गोऽष्टमे योज्यः कूर्मचक्रमिदं भवेत् ।
स्थानाक्षरं यत्र देवि सिद्धिस्तत्र न संशयः ॥ ८८ ॥
स्थानाक्षरं मुखं ज्ञेयं पार्श्वयोस्तस्य वै करौ ।
तत्र शून्यं फलं मध्यकोष्ठयुग्मं तु मृत्युदम् ॥ ८९ ॥
उदरं कच्छपस्यैतत्पादौ तु पश्चिमौ क्रमात् ।
रोगहानिकरौ पुच्छं तयोर्मध्यगतं भवेत् ॥ ९० ॥
दारिद्र्यदं दुःखदं च तस्माद्वक्त्रं समाश्रयेत् ।
तथैव सिद्धिर्नान्यत्र श्रीगुरोराज्ञया प्रिये ॥ ९१ ॥
देशं वा कल्पयेत् स्थानं नगरं ग्राममेव च ।
दीपावसोऽपि कर्तव्यः किं पुनर्हवने यजेत् ॥ ९२ ॥
इति स्वच्छन्दसंग्रहे -
चक्रराजं समालिख्य सिन्दूररजसा प्रिये ।
स्वभम्भूकुसुमाक्तैश्च कुसुमैरक्षतैर्यजेत् ॥ १ ॥
नवावरणदेवीनां गायत्रीभिः समन्ततः ।
गायत्री सम्यगुच्चार्य तदन्तेऽप्यमुकं ततः ॥ २ ॥
वशमानय मेऽन्ते च तत्तत्पल्लवमुच्चरेत् ।
ततश्चामुकदेवीश्रीपादुकां पूजयामि च ॥ ३ ॥
एवामाकर्षणे मोहे स्तम्भनोच्चाटकर्मसु ।
सप्ताहाभ्यन्तरे मन्त्री वांछितं समवाप्नुयात् ॥ ४ ॥
इति । अस्यार्थः क्वचिद्विविक्ते देशे सिन्दूरादिरक्तद्रव्यैश्चक्रराजं विलिख्यार्घ्यस्थापनाद्यात्मपूजानन्तरं यथोक्तपीठपूजां विधाय स्वयम्भूकुसुमाक्तैरक्षतैः पुष्पैर्वावरणपूजां कुर्यात् । तत्र वश्ये तारत्रयपूर्वकतत्तद्गायत्रीमुच्चार्यामुकदेवि अमुकं मे वशमानय अथवा वशं कुरु कुरु वौषट्-अमुकदेवीश्रीपादुकां पूजयामि इति प्रयोगः । एवं प्रत्यावरणं प्रतिदेवीः पूजयेत् । आकर्षणे अमुकमाकर्षयाकर्षयेति एवं स्तम्भनादिप्रयोगेषु योजनीयमित्यर्थः ॥ तथा :
मूलाधारादिचक्रेषु श्रीचक्रं भावयन् पृथक् ।
तत्तद्भूतार्णकिरणैर्वृताश्चक्रस्थदेवताः ॥ १ ॥
पार्थिवैः स्तम्भनं कुर्यादित्यादि प्राक्प्रोक्तफलानि ज्ञेयानि दक्षिणामूर्तिसंहितायाम् -
अथातः सम्प्रवक्ष्यामि चक्रराजस्य साधनम् ।
एवं संसिद्धविद्याया विनियोगक्रम शृणु ॥ १ ॥
कृत्वा सिन्दूररजसा चक्रं तत्र विचिन्तयेत् ।
साध्यप्रतिकृतिं नाम लेखन्यैकां शुभां ततः ॥ २ ॥
ज्वलन्तीं तु क्षणात् देवि मोहिता भयवर्जिता ।
त्यक्त्वा लज्जां समायाति ह्यथान्यत् कथ्यते प्रिये ॥ ३ ॥
तन्मध्यसंस्थितो मन्त्री चिन्तयेदरुणप्रभम् ।
आत्मानं च तथा साध्यं तथा सौभाग्यसुन्दरः ॥ ४ ॥
अरुणैरुपचारैस्तु पूजयेन्मुद्रया वृतः ।
यस्य नाम्ना पुनः सम्यक् स भवेद्दास एव हि ॥ ५ ॥
अदृष्टस्त्रीनामस्वर्णांश्चक्रमध्ये विलिख्य तु ।
योनिमुद्राधरो भूत्वा वेगादाकर्षणं भवेत् ॥ ६ ॥
देवकन्यां राजकन्यां नागकन्यामथापि वा ।
गोरोचनाकुंकुमाभ्यां समभागं च चन्दनम् ॥ ७ ॥
अष्टोत्तरशतावृत्त्या तिलकं सर्वमोहनम् ।
पुष्पं फलं जलं चान्नं गन्धं वस्त्रं च भूषणम् ॥ ८ ॥
प्. २००) ताम्बूलं पूर्वजप्तं च यस्मै सम्प्रेष्यते स तु ।
अङ्गना वीक्षणादेव दासी चास्य भवेत् प्रिये ॥ ९ ॥
करवीरै रक्तवर्णैस्त्रिमध्वक्तैः प्रपूजयेत् ।
चिन्तयन् मासमात्रं हि साध्याख्यां ललनां ततः ॥ १० ॥
इति कुर्वन् महेशानीं पूजयेदरुणप्रभाम् ।
सिन्दूररचिते चक्रे राजानं मोहयेत् क्षणात् ॥ ११ ॥
त्रैलोक्यदुर्लभां चापि रम्भां वा कर्षयेद् द्रुतम् ।
चित्ताङ्गारेण चक्रं तु लिखेद्रक्तद्रवेण हि ॥ १२ ॥
बद्ध्वा बाहावथ क्वापि ज्वरं नाशयति क्षणात् ।
अर्कनिम्बद्रवाभ्यां तु लिखिन्यार्कस्य संलिखेत् ॥ १३ ॥
गोमूत्रे स्थापयेत् तच्च भवेद्विद्वेषणं क्षणात् ।
धूपयेच्चन्दनं रात्रौ वस्त्रं वा धारयेत् ततः ॥ १४ ॥
अष्टोत्तरशतावृत्त्या मोहयेद्भुवनत्रयम् ।
लिप्तगोमयभूमौ तु लिखेद्रोचनया ततः ॥ १५ ॥
सुरूपां प्रतिमां रम्यां भूषाढ्यां परिचिन्तयेत् ।
तद्भालगलहृन्नाभिजन्ममण्दलयोजितम् ॥ १६ ॥
जन्मनाम महाविद्यामंकुशान्तविदर्भिताम् ।
सर्वाङ्गसन्धिसंलीनं कामकूटं समालिखेत् ॥ १७ ॥
साध्याशाभिमुखो भूत्वा श्रीविद्यान्यासविग्रहः ।
क्षोभिणीबीजमुद्राभ्यां विद्यामष्टशतं जपेत् ॥ १८ ॥
योजयेत् तां कामगेहे चन्द्रसूर्यकलात्मके ।
सानुरागातिविमला कामसायकपीडिता ॥ १९ ॥
त्रैलोक्यसुन्दरी नाम क्षणादायाति मोहिता ।
अथवा मातृकाचक्रं बाह्यं संवेष्ट्य मन्त्रवित् ॥ २० ॥
चक्रं प्रपूजयेत् सम्यग् विद्यां पूर्णां च धारयेत् ।
अवध्यः सर्वदुष्टानां व्याघ्रादीनां न संशयः ॥ २१ ॥
श्रीखण्डागुरुकस्तूरीकर्पूरैश्च सकुंकुमैः ।
स्वनाम क्रमतो लेख्यं पूर्ववन्मातृकां लिखेत् ॥ २२ ॥
तेनाजरामरत्वं तु साधकस्य न संशयः ।
अनेनैव प्रकारेण रोचनागुरुकुंकुमैः ॥ २३ ॥
चक्रं विलिख्य साध्यार्णं साधकार्णविदर्भितं ।
त्रैलोक्यमोहनो मन्त्री भवत्येव न संशयः ॥ २४ ॥
कामकूटेन देवेशि सन्दर्भ्यं पृथगक्षरम् ।
साध्यनाम्नस्त्रिकोणान्तर्मातृकां वेष्टयेद्बहिः ॥ २५ ॥
स्वर्णमध्यगतं धार्यं शिखायां यत्र कुत्रचित् ।
लोकपालाश्च राजानो दुष्टास्त्रैलोक्यसंस्थिताः ॥ २६ ॥
ते सर्वे वशमायान्ति सन्निपातादयो ज्वराः ।
अनेन विधिना नाम पुरीं सन्दर्भ्य संक्षिपेत् ॥ २७ ॥
चतुष्पथे मध्यदेशे दिक्षु पूर्वादिषु क्रमात् ।
तस्य सौभाग्यमायाति राजानः किङ्कराः सदा ॥ २८ ॥
स्फुरत्तेजोमयीं पुऋथ्वीं प्रज्वलन्तीं चराचरम् ।
चक्रान्तश्चिन्तयेन्नित्यं मासषट्कं ततो नरः ॥ २९ ॥
तेन कन्दर्पसुभगो लोके भवति निश्चयात् ।
दृष्ट्याकर्षयते लोकान् विषं नाशयति ज्वरान् ॥ ३० ॥
तथा विषं च हरति दृष्ट्यावेशं करोति च ।
रात्रौ सिन्दूरलिखितं पूजयेदेकचित्ततः ॥ ३१ ॥
करोत्याकर्षणं दूराद्योजनानां शतादपि ।
अखण्डं दिक्षु कोणेषु क्रमेण परिपूजयेत् ॥ ३२ ॥
यदा तदैव लोकोऽयं वश्यो भवति नान्यथा ।
भूर्जपत्रे लिखेच्चक्रं रोचनागुरुकुंकुमैः ॥ ३३ ॥
स्वनामदर्भितं कुर्याद्देशं वा पुटभेदनम् ।
मण्डलं विषमस्थानं भूमौ चक्रं निधापयेत् ॥ ३४ ॥
धारयेद्वा ततो मन्त्री पुरं क्षोभयति क्षणात् ।
उन्मत्तरसलाक्षार्कक्षीरकुंकुमरोचनाः ॥ ३५ ॥
कस्तूर्यलक्तसहिता एकीकृत्य तु संलिखेत् ।
यन्नाम तस्य देवेशि चौरजं व्याघ्रजं भयम् ॥ ३६ ॥
ग्रहजं व्याधिजं चैव रिपुजं सिंहजं भयम् ।
अहिजं वाजिजं वास्ति सर्वान् मोहयति क्षणात् ॥ ३७ ॥
रोचनाकुंकुमाभ्यां तु मध्यगां संलिखेद्बुधः ।
त्रिकोणोभयगां चैव साध्यनामाङ्कितामधः ॥ ३८ ॥
तच्चक्रं धारयेत् तस्मात् सप्ताहात् किङ्करो भवेत् ।
पीतद्रव्येण चक्रान्ते लिखेद्विद्यामधस्ततः ॥ ३९ ॥
साध्यनाम विलिख्यैतत्पूर्वस्यां दिशि संक्षिपेत् ।
तस्माद्ब्रह्मापि जीवोऽपि सर्वज्ञो मूकतां व्रजेत् ॥ ४० ॥
अनेन विधिना नीलीरसेन विलिखेच्च तत् ।
दक्षिणाभिमुखो मन्त्री वह्नौ दग्ध्वा रिपून् दहेत् ॥ ४१ ॥
महिषाश्वपुरीषेण गोमूत्रेण च संलिखेत् ।
आरनालस्थितं कुर्याद्भवेद्विद्वेषणं क्षणात् ॥ ४२ ॥
साध्यनाम लिखेन्मध्ये काकपत्रेण सञ्चयेत् ।
संलिख्य रोचनाद्रव्यैराकाशे दृष्टिगं यथा ॥ ४३ ॥
शत्रूनुच्चाटयेदाशु हठोच्चाटोऽयमीरितः ।
महानीलीरसोद्भिन्नरोचनादुग्धमिश्रितैः ॥ ४४ ॥
प्. २०१) लाक्षारसैर्लिखेच्चक्रं चतुर्वर्णान् वशं नयेत् ।
अनेन विधिना नीरे स्थापयेत् तज्जलेन तु ॥ ४५ ॥
सौभाग्यं महदाप्नोति स्नानपानान्न संशयः ।
पीतं चक्रं यजेत् पूर्वे स्तम्भयेत् सर्ववादिनः ॥ ४६ ॥
सिन्दूरलिखितं चक्रमुत्तरे लोकवश्यकृत् ।
पश्चिमे पूजितं चक्रं गैरिकालिखितं ततः ॥ ४७ ॥
मन्त्रिणो देवता वश्याः किं पुनर्योषितः प्रिये ।
तथैव दक्षिणास्यस्तु कृष्णं चक्रं समर्चयेत् ॥ ४८ ॥
साध्यस्य मन्त्रहानिः स्यान्मरणं च विशेषतः ।
क्रमाद्दिगन्तरास्यः सन् वह्निकोणादिषु क्रमात् ॥ ४९ ॥
स्तम्भं विद्वेषणं व्याधिमुच्चाटं कुरुते नरः ।
दुग्धे वश्यकरं क्षिप्तं रोचनालिखितं हठात् ॥ ५० ॥
दग्धं तद्वह्निमध्यस्थं सर्वशत्रून् विनाशयेत् ।
गोमूत्रमध्यगं चैतद्भवेदुच्चाटनं रिपोः ॥ ५१ ॥
विद्वेषणं भवेच्चक्रे तेनैव परमेश्वरि ।
सिन्दूरेण लिखेच्चक्रं निर्जने तु चतुष्पथे ॥ ५२ ॥
सर्वां बाह्यत् आरभ्य मध्यान्तं मातृकां लिखेत् ।
कुलाचारक्रमेणैव रात्रौ सम्पूजयेत् क्रमम् ॥ ५३ ॥
साधकः खेचरो देवि जायते नात्र संशयः ।
चतुर्दश्यां निशि स्वस्थो रुद्रभूमौ प्रपूजयेत् ॥ ५४॥
षण्माससंख्यजातेन साक्षाद्रुद्र इवापरः ।
अञ्जनं विवरं सिद्धिं गुटिकां पादुकाञ्जनम् ॥ ५५ ॥
खड्गं वेतालसौभाग्यं यक्षिणीं चेटकादिकम् ।
सकलं सिद्धिजननं मन्त्री प्राप्नोति नान्यथा ॥ ५६ ॥
चतुर्दश्यां चतुर्दश्यां प्रत्यष्टम्यां समाहितः ।
एकविंशतिरात्रं तु निशि प्रेतस्थितो जले ॥ ५७ ॥
श्रीचक्रं पूजयेत् तद्वत् सुरपूज्यस्तु साधकः ।
पाशांकुशधनुर्बाणैः पौरुषेयैर्महेश्वरि ॥ ५८ ॥
कामो भूत्वा सर्वभूश्च (स्वर्गभूमि) पातालतलयोषिताम् ।
हर्ता कर्ता स्वयं चैव महदाकर्षणं भवेत् ॥ ५९ ॥
तत्तत्कामेश्वरीशस्त्रैर्देव्यात्मा भुवनत्रये ।
पुरुषाकर्षणं चैतद्राजानः किङ्कराः प्रिये ॥ ६० ॥
एतत्कामकलाध्यानं कथितं बीजभेदतः ।
वाग्भवाराधने देवि ज्ञानं सारस्वतं भवेत् ॥ ६१ ॥
श्वेताभरणवस्त्राभ्यां श्वेतपुष्पैः समर्चयेत् ।
अनेन विधिना देवि वाग्भवाराधनं भवेत् ॥ ६२ ॥
अथ कामकलानाम सामर्थ्यं शृणु पार्वति ।
काममन्मथकन्दर्पा मकरध्वज एव च ॥ ६३ ॥
महाकामश्च पूर्वोक्ताः पञ्च कामाः क्रमेण तु ।
कामं मन्मथमध्यस्थं देवि कन्दर्पवेश्मगम् ॥ ६४ ॥
तत्पुटस्थं मीनकेतुं महाकामेशमस्तकम् ।
अनेन कामतत्त्वेन मोहयेज्जगतीमिमाम् ॥ ६५ ॥
मूलादिसृष्टिसंहारविसतन्तुतनीयसीम् ।
तस्मात् कुण्डलिनी शक्तिः शक्तिकूटे महेश्वरि ॥ ६६ ॥
त्रिकूटा त्रिपुरा देवी सर्वसिद्धिप्रदा भवेत् ।
चतुष्षष्टिर्यतः कोट्यो योगिनीनां महौजसाम् ॥ ६७ ॥
चक्रमेतत्समाश्रित्य सतां सिद्धिप्रदाः सदा ।
इति ॥ अथ नानावैदिकमन्त्रमिश्रिताः श्रीविद्यामन्त्रा उद्ध्रियन्ते ।
स्वच्छन्दसंग्रहे -
प्रणवं कमला माया कामपिण्डं च गाणपम् ।
ततो वाग्भवकूटं च यदद्यकच्च वृत्रहन् ॥ १ ॥
कामराजं महाकूटमुदगा अभिसूर्य च ।
शक्तिकूटं समालिख्य सर्वं तदिन्द्र ते वशे ॥ २ ॥
ङेऽन्तं गणपतिं पश्चाद्वरान्ते वरदेति च ।
ततः सर्वजनं मेऽन्ते वशमानय ठद्वयम् ॥ ३ ॥
गणराजेश्वरो मन्त्रः सर्वैश्वर्यफलप्रदः ।
सर्ववश्यकरः पुंसामायुरारोग्यसिद्धिदः ॥ ४ ॥
महागणपतेर्मन्त्रं त्रैष्टुभं जातवेदसम् ।
अर्धं संवादसूक्तस्य पुनरर्धं क्रमाल्लिखेत् ॥ ५ ॥
चतुःखण्डानि चोक्तानि त्रिकूटैर्गर्भितानि च ।
प्रत्यहं जपतः पुंसो यथाशक्ति विशेषतः ॥ ६ ॥
जगत्सम्मोहनं वश्यं कान्तिसौभाग्यपुष्टिदम् ।
इति । अस्यार्थः - ओं श्रींह्रींक्लींग्लौंगं क-ए-ईलह्रीं यद्द्यकच्च वृत्रहन् हसकहलह्रीं उदगा अभिसूर्यं सकलह्रीं सर्वं तदिन्द्र ते वशे गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा ॥ क-ए-ईलह्रीं जातवेदसे सुनवाम
प्. २०२) सोममरातीयतो निदहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः हसकहलह्रीं संसमिद्युवसे वृषन्नग्ने विश्वान्यर्थं आ । इलस्पदे समिध्यसे स नो वसून्याभर । संगच्छध्वं संवदध्वं सं वो मनांसि जानताम् । देवा भागं याथपूर्वे संजानाना उपासते सकलह्रीं ॥ समानो मन्त्रः समितिः समानी समानं मनः ससचित्तमेषाम् । समानं मन्त्रमभिमन्त्रये वः समानेन वो हविषा जुहोमि ॥ समानी व आकूतिः समाना हृदयानि वः । समानमस्तु वो मनो यथा वः सुसहासति ॥ इत्युद्धारः ॥
भद्रन्नो अभिमन्त्रस्य गर्भस्थां सुन्दरीं जपेत् ।
कुबेर इव वित्ताढ्यो जायते भुवि मानवः ॥ १ ॥
इति । अस्यार्थः - भद्रं नो अभिवातय मनः क-ए-ईलह्रीं मरुतामोजसे स्वाहा हसकहलह्रीं इन्द्रो विश्वस्य राजति सकलह्रीं शन्नो भव द्विपदे शं चतुष्पदे ॥ इति ॥
यद्वाग्देवीं च चत्वारि ससर्परीयुगं ततः ।
ऋक्पञ्चकं समाख्यातं महासारस्वतप्रदम् ॥ १ ॥
इति ॥ अस्यार्थः यद्वाग्वदन्त्यविचेतनानि क-ए-ईलह्रीं राष्ट्री देवानां निषसाद मन्द्रा हसकहलह्रीं चतस्र ऊर्जं दुदुहे पयांसि सकलह्रीं ववस्विदस्याः परमं जगाम ॥ १ ॥
देवीं वाचमजनयन्त देवीः क-ए-ईलह्रीं तां विश्वरूपाः पशवो वदन्ति हसकहलह्रीं सा नो मन्द्रेषमूर्जं दुहाना सकलह्रीं धेनुर्वागस्मानुप सुष्टुतैतुः ॥ २ ॥
चत्वारि वाक्परिमिता पदानि क-ए-ईलह्रीं तानि विदुर्ब्राह्मणा ये मनीषिणः हसकहलह्रीं गुहा त्रीणि निहिता नेङ्गयन्ति सकलह्रीं तुरीयं वाचो मनुष्या वदन्ति ॥ ३ ॥
ससर्परमतिं बाधमाना क-ए-ईलह्रीं बृहन्मिमाय जमदग्निदत्ता हसकहलह्रीं आसूर्यस्य दुहिता ततान सकलह्रीं श्रवो देवेष्वमृतमजुर्यम् ॥ ४ ॥
ससर्परीरभरन्तूयमेभ्यः क-ए-ईलह्रीं अधिश्रवः पाञ्चजन्यासु कृष्टिषु हसकहलह्रीं सा पक्ष्या३नव्यमायुर्दधाना सकलह्रीं यां मे पलस्तिजमदग्नयो दधुः ॥ ५ ॥
इति पञ्चमन्त्राः ॥ तथा :
यच्छन्दसा शरीरं मे यो देवानामिति त्रयम् ।
सुन्दरी गर्भगं जप्यात् पृथक्पृथगतन्द्रितः ॥ १ ॥
मेधावी श्रुतिधारी च नारोगी च प्रियंवदः ।
बहुश्रुतः शास्त्रकर्ता श्रुतान् वेदागमानपि ॥ २ ॥
न विस्मरति मर्त्योऽसौ सर्वज्ञो भवति ध्रुवम् ।
इति । अस्यार्थः - यच्छन्दसामृषभो विश्वरूपः क-ए-ईलह्रीं छन्दोभ्योऽध्यमृतात्संवभूव हसकहलह्रीं स मेन्द्रो मेधया स्पृणोतु सकलह्रीं अमृतस्य देव धारणो भूयासम् ॥ १ ॥
शरीरं मे विचर्षणं क-ए-ईलह्रीं जिह्वा मे मधुमत्तमा हसकहलह्रीं मनसः काममाकूतिं सकलह्रीं वाचः सत्यमशीमहि ॥ २ ॥
यो देवनां प्रथमं पुरस्तात् क-ए-ईलह्रीं विश्वाधीपो रुद्रो महर्षिभिः हसकहलह्रीं हिरण्यगर्भं पश्यत जायमानं सकलह्रीं स नो देवः शुभया स्मृत्या संयुनवतु ॥ ३ ॥
इति त्रयो मन्त्राः ॥ तथा :
एवापित्रे यूयमस्मानेवेन्द्राग्नी त्रयं भवेत् ।
चतुर्थी त्वं सोम प्रचेति पञ्चमी तु प्रजापते ॥ १ ॥
एतत्पञ्चर्चगर्भस्थां सुन्दरीं प्रजपेत् पृथक् ।
यो नरस्तस्य नियतं धनधान्यधरासुतैः ॥ २ ॥
गोगजाश्वाविमहिषशस्यभूषादिसंकुलम् ।
लक्ष्मीं समावहेद्रम्यां पुत्रपौत्रादिगामिनीम् ॥ ३ ॥
इति । अस्यार्थः एवा पित्रे विश्वेदेवाय वृष्णे क-ए-ईलह्रीं यज्ञैर्विधेम नमसा हविर्भिः हसकहलह्रीं बृहस्पते सुप्रजा वीरवन्तः सकलह्रीं वयं स्याम पतयो रयीणाम् ॥ १ ॥
यूयमस्मान्नयत वस्यो अच्छा क-ए-ईलह्रीं निरंहतिभ्यो मरुतो गृणानाः हसकहलह्रीं जुषध्वं नो हव्यदातिं यजत्रा सकलह्रीं वयं स्याम पतयो रयीणाम् ॥ २ ॥
एवेन्द्राग्नी पपिवांसा सुतस्य क-ए-ईलह्रीं विश्वास्मभ्यं सञ्जयतं धनानि हसकहलह्रीं तन्नो मित्रो वरुणो मामहन्तां सकलह्रीं अदितिः सिन्धुः पृथिवी उत द्यौः ॥ ३ ॥
त्वं सोम प्रचिकितो मनीषा क-ए-ईलह्रीं त्वं रजिष्ठमनुनेषि पन्थाम् हसकहलह्रीं तव प्रणीति पितरो न इन्दो सकलह्रीं देवेषु रत्नमभजन्त धीराः ॥ ४ ॥
प्रजापते न त्वदेतान्यन्यः क-ए-ईलह्रीं विश्वा जातानि परिता बभूव हसकहलह्रीं यत्कामास्ते जुहुमस्तन्नो अस्तु सकलह्रीं वयं स्याम पतयो रयीणाम् ॥ ५ ॥
प्. २०३) इति पञ्च मन्त्राः ॥ अथ :
अथ या लक्ष्म्यश्वदायिगर्भस्थां सुन्दरीं यजेत् ।
धनैर्धान्यैश्च विभवैरन्यैश्चाश्वगवादिभिः ॥ १ ॥
आपूरयन्ती सततं तत्रैव रमते रमा ।
इति । अस्यार्थः - या लक्ष्मीः सिन्धुसम्भवा क-ए-ईलह्रीं
भूतिधेनुपरूवसूः हसकहलह्रीं पद्मा विश्वावसुर्देवी सकलह्रीं सदा
नो जुषतां गृहम् ॥ अश्वदायि गोदायि क-ए-ईलह्रीं धनदायि महाधने
हसकहलह्रीं धनं मे जुषतां देवी सकलह्रीं सर्वकमार्थसिद्धये ॥ इति
मन्त्रद्वयम् ।
कलातिथ्यूचसूक्तस्थमन्त्रपादचतुष्टयैः ।
सम्पुटीकृत्य जपतां फलान्याचक्ष्महे स्फुटम् ॥ १ ॥
इति । अस्यार्थः - कला-ऋचसूक्तं पुरुषसूक्तं सहस्रशीर्षे त्यादि यजुर्वेदे प्रसिद्धम् । तिथ्यूचसूक्तं श्रीसूक्तं हिरण्यवर्णा मित्यादि ऋग्वेदे प्रसिद्धम् : सम्पुटीकरणं तु सहस्रशीर्षः पुरुषः क-ए-ईलह्रीं सहस्राक्षः सहस्रपात् हसकहलह्रीं स भूमिं विश्वतो वृत्वा सकलह्रीं अत्यतिष्ठद्दशांगुलम् ॥ पुरुष एवेदं सर्वं क-ए-ईलह्रीं यद्भूतं यच्च भव्यम् हसकहलह्रीं उतामृतत्वस्येशानो सकलह्रीं यदन्नेनातिरोहति ॥ एतावानस्य महिमा क-ए-ईलह्रीं अतो ज्यायांश्च पुरुषः हसकहलह्रीं पादोऽस्य विश्वा भूतानि सकलह्रीं त्रिपादस्यामृतं दिवि ॥ त्रिपादूर्ध्वं उदेत्पुरुषः क-ए-ईलह्रीं पादोऽस्येहाभवत्पुनः हसकहलह्रीं ततो विश्वं व्यक्रामत् सकलह्रीं साशनानशने अभि ॥ तस्माद्विराडजायत क-ए-ईलह्रीं विराजो अधि पुरुषः हसकहलह्रीं स जातो अतिरिच्यत सकलह्रीं पश्चाद्भूमिमथो पुरः ॥ यत्पुरुषेण हविषा क-ए-ईलह्रीं देवा यज्ञमतन्वत हसकहलह्रीं वसन्तोऽस्यासीदाज्यं सकलह्रीं ग्रीष्म इध्मः शरद्धविः ॥ इत्यादिक्रमेण षोडशमन्त्राणां पादैः सम्पुटं कृत्वा जपेत् ॥ पुरुषसूक्तमन्त्रपादैर्लोपायाः सम्पुटं श्रीसूक्तमन्त्रपादैः कामराजविद्यायाः सम्पुटमिति ज्ञेयम् ॥ तदुक्तं कुलार्णवे :
लोपाम्बां सम्पुटीकृत्य पौरुषैश्च जपेद्भुधः ।
श्रीसूक्तैः कामराजाख्यां प्रजपेद्यत्नतो बुधः ॥ १ ॥
इति । पौरुषैः पुरुषसूक्तस्थमन्त्रपादैः श्रीसूक्तैः श्रीसूक्तमन्त्रपादैः । एवं हिरण्यवर्णं हरिणीं क-ए-ईलह्रीं सुवर्णरजतस्रजम् हसकहलह्रीं चन्द्रां हिरण्मयीं लक्ष्मीं सकलह्रीं जातवेदो ममावह ॥ एवं क्रमेण प्रत्येकं जयेत् ॥ तथा :
प्रथमेन सुतावाप्तिर्द्वितीया जीवसूर्भवेत् ।
तृतीयेन चतुर्थेन वन्ध्यादोषविनाशनम् ॥ २ ॥
पञ्चमेनाथ षष्ठेन पुत्रं दीर्घायुषं लभेत् ।
सप्तमेन तु गर्भस्य स्थिरता ह्यष्टमेन तु ॥ ३ ॥
सुखप्रसूतिर्नवमाद्गर्भदोषान् विनाशयेत् ।
दशमेन परेणापि पुष्पदोषान् विनाशयेत् ॥ ४ ॥
द्वादशेन तु कन्यायाः सूतिदोषमपास्य च ।
पुमपत्यं भवत्येव चतुर्भिस्तत्परैर्ध्रुवम् ॥ ५ ॥
सर्वे दोषा विनश्यन्ति गर्भजा नात्र संशयः ।
इति ॥ अथ श्रीसूक्तफलानि -
प्रथमे सम्पदां प्राप्तिर्द्वितीयेन पशून् वहेत् ।
तृतीयेन भवेद्धान्यं चतुर्थेन महीं लभेत् ॥ १ ॥
भृत्यान् पञ्चममन्त्रेण षष्ठेन तु महद्यशः ।
सप्तमाद्राजसम्मानमष्टमेन धृतिः स्थिरा ॥ २ ॥
नवमेन तुरङ्गाप्तिर्दशमेन गजांल्लभेत् ।
एकादशेन वस्त्राणि द्वादशेन सुतांल्लभेत् ॥ ३ ॥
त्रयोदशेन रत्नानि चतुर्दशमहामनोः ।
पृथिवीं शस्यसम्पन्नां श्रियं पञ्चदशेन तु ॥ ४ ॥
रुद्रमन्त्रैस्तथा कृत्वा तत्तत्कर्माणि साधयेत् ।
श्रीविद्यावृन्दनिवहस्त्वेवं सम्पुटितो यदि ॥ ५ ॥
पञ्चाशच्च सहस्राणि दशलक्षमितानि च ।
जायन्ते तत्क्रमं ज्ञात्वा गुरुतः शास्त्रतोऽपि वा ॥ ६ ॥
विनियुञ्ज्यात् प्रयोगेषु तत्तत्कर्मण्यतन्द्रितः ।
दीक्षा तु षोडशार्णायाः (षड्दर्शनविधा भवेत् ॥ ७ ॥
तत्रादौ शाक्तदीक्षायाः)क्रमं वक्ष्ये यथाविधि ।
चतुर्विंशतिहस्तं तु मण्डपं कारयेद्बुधः ॥ ८ ॥
प्. २०४) नव कुण्डानि कुर्वीत चतुरस्राणि वै क्रमात् ।
योनिकुण्डानि वा कुर्यादर्धचन्द्रनिभानि वा ॥ ९ ॥
त्रिकोणानि च वृत्तानि षट्कोणान्यम्बुजानि वा ।
अष्टास्त्राण्यथवाचार्यकुण्डमीशेन्द्रमध्यतः ॥ १० ॥
सार्धहस्तद्वयं त्यक्त्वा वेदिकान्तः प्रकल्पयेत् ।
हस्तमात्रं परित्यज्य कुण्डान्यन्यानि कल्पयेत् ॥ ११ ॥
इति ॥ कुण्डलक्षणं त्वग्रे वक्ष्यामः ॥ श्रीकुलार्णवे -
शृणु देवि प्रवक्ष्यामि वैष्णवानां विशेषतः ।
दीक्षायां षोडशार्णायां जपहोमेषु ऋत्विजाम् ॥ १ ॥
मन्त्रान् वक्ष्ये शृनु प्राज्ञे कुण्डेष्वष्टसु वै क्रमात् ।
नारायणं वासुदेवं वराहं वैष्णवं तथा ॥ २ ॥
श्रीकण्ठं नारसिंहं च गोपालं कार्ष्णमेव च ।
पञ्चदश्यां समायोज्य जपे होमे च पार्वति ॥ ३ ॥
वैदिके तु विशेषेण गायत्रीं वेदमातरम् ।
जातवेदसपञ्चर्चं देवीलक्ष्म्योस्तु सूक्तके ॥ ४ ॥
शैवे तु शिवपञ्चार्णमघोरं शरभं तथा ।
प्रासादं वापाशुपतं दक्षिणामूर्तिसंज्ञकम् ॥ ५ ॥
मृत्युञ्जयं दशार्णं च क्रमेण परमेश्वरि ।
सौरे तु घृणिमन्त्रं च षडर्णं वेदवर्णकम् ॥ ६ ॥
त्र्यक्षरं षोडशार्णं च द्वादशार्णं षडर्णकम् ।
अजपाख्यं तु शाक्ते तु बालामन्त्रश्च भैरवी ॥ ७ ॥
त्रिपुरा वासिनी सिद्धा मालिनी त्रिपुरादिका ।
भैरवी त्रिपुराम्बा च बौद्धे पद्मावती तथा ॥ ८ ॥
उग्रताराप्येकजटा तारा नीलसरस्वती ।
मातङ्गी सुमुखी चैव चण्डमातङ्गिनी तथा ॥ ९ ॥
ऊर्ध्वाम्नायक्रमेण द्वेद्वे विद्ये तथैव च ।
मूलविद्याः षोडशैव दीक्षायां श्रीगुरोर्मनोः ॥ १० ॥
शुक्लं मिश्रं च रक्तं विश्रान्तिचरणत्रयम् ।
शम्भोश्चरणविद्ये द्वे पराप्रसादसंज्ञके ॥ ११ ॥
पञ्च ब्रह्मात्मका मन्त्रा अष्टात्रिंशत्कलास्त्रिधा ।
एकार्णं गाणपत्ये तु महागणपतिं तथा ॥ १२ ॥
क्षिप्रसंज्ञं गणेशं च वक्रतुण्डं तथैव च ।
लक्ष्मीगणपतिं चैव हेरम्बगणपं तथा ॥ १३ ॥
विर्याख्यगणपं चैव तथा शक्तिगणेश्वरम् ।
दक्षिणाकालिकायास्तु एकार्णं त्र्यर्णमेव च ॥ १४ ॥
सिद्धकाली षडर्णा च मनुवस्वर्णकौ तथा ।
दशाक्षरद्वयं चैव तारायां षोडशाक्षरी ॥ १५ ॥
आद्यहीनाश्चाष्ट तारा भुवनेश्या गुणार्णकम् ।
श्रीवाक्कामपरारुद्धा त्रिविधा त्रिपुटा तथा ॥ १६ ॥
पञ्चदश्या विशेषेण त्रिचतुष्पञ्चकूटकाः ।
षट्कूटा सप्तकूटा स्यादष्टकूटा तु पञ्चमी ॥ १७ ॥
नित्यापञ्चदशीनां च अङ्गाङ्गित्वं परस्परम् ।
पीताम्बराष्टवाराह्यो दीक्षायां तु परस्परम् ॥ १८ ॥
दुर्गाया महिषार्दिन्या शूलिनी वनदुर्गिका ।
जयाख्या च नवार्णा च शान्त्यग्निलवणात्मिका ॥ १९ ॥
अतिदुर्गा च सम्प्रोक्ता गायत्र्यास्तदनन्तरम् ।
पञ्चायतनभेदैस्तु सौरे शाक्ते च वैष्णवे ॥ २० ॥
शैवे च गाणपत्ये च प्रागुक्ता मन्त्रनायकाः ।
वैष्णवाष्टकमध्ये तु हित्वा स्वाष्टदशाक्षरम् ॥ २१ ॥
तुरीया वेदमाता च संयोज्या परमेश्वरि ।
शैवे पाशुपतं हित्वा तत्र त्रैयम्बकं क्षिपेत् ॥ २२ ॥
सौरेऽप्याष्टाक्षरं हित्वा उद्यन्मन्त्रं नियोजयेत् ।
गाणपत्ये गणानां त्वा हित्वोच्छिष्टं गणेश्वरम् ॥ २३ ॥
शाक्ते प्राग्वच्च संयोज्य दीक्षाहोमजपादिषु ।
एतदायतनानां चाप्यङ्गाङ्गित्वं परस्परम् ॥ २४ ॥
शाक्ते सम्यक् प्रवक्ष्यामि चक्रेश्वर्यः प्रकीर्तिताः ।
षट्शाम्भवोपदेशे तु ह्यङ्गाङ्गित्वं परस्परम् ॥ २५ ॥
त्र्यक्षरं चतुरर्णं चाप्येकाक्षरमतः परम् ।
सिद्धलक्ष्मी राज्यलक्ष्मीर्वान्यद्भेदत्रयं पुनः ॥ २६ ॥
पुनरन्यन्मिलित्वात्र चाङ्गाङ्गित्वं परस्परम् ।
अन्यविद्यासु मन्त्रेषु तत्तद्भेदैः परस्परम् ॥ २७ ॥
अङ्गाङ्गित्वं प्रकर्तव्यं तत्तत्कर्मणि निश्चयात् ।
पञ्चायतनदीक्षायां पूजायां च विशेषतः ॥ २८ ॥
अङ्गाङ्गित्वं प्रवक्ष्यामि शृणु देवि समाहितः ।
महागणेशमन्त्रेण घृणिमन्त्रेण संयुता ॥ २९ ॥
पराप्रासादमन्त्रेण लक्ष्मीनारायणेन च ।
संयोज्य षोडशार्णां तु दीक्षायां जपपूजनात् ॥ ३० ॥
दक्षिणाकालिकायास्तु तथैव परिकीर्तितः ।
तारायाश्छिन्नमस्ताया विशेषोऽत्र निगद्यते ॥ ३१ ॥
मार्तण्डभैरवश्चैव मंजुघोषस्तथैव च ।
उच्छिष्टगणनाथश्च मुकुन्दो बाल एव च ॥ ३२ ॥
प्. २०५) भुवनेश्या महादेव्या यावन्तो वैष्णवाः प्रिये ।
गाणपत्याश्च सौराश्च शैवाश्चापि विशेषतः ॥ ३३ ॥
भैरवी बगला चण्डा मातङ्गी चापराजिता ।
दीक्षायां जपहोमे च पूजने च विशेषतः ॥ ३४ ॥
पञ्चायतनतन्त्रेषु तारावत् परिकीर्तिता ।
दुर्गा च भुवनेशीवन्महालक्ष्मीस्तथैव च ॥ ३५ ॥
अन्यास्तु सम्प्रदायेन प्रयोज्या देशिकोत्तमैः ।
इति ॥ तथा च कादिमते श्रीतन्त्रराजे -
षडष्टद्वादशार्णानां वैष्णवानामशेषतः ।
मन्त्राणां परतत्त्वार्थवाचकत्वादभेदतः ॥ १ ॥
ललितविद्यया तद्वत् प्रासादस्य त्रयात्मनः ।
तथैव च परायाश्च गायत्र्याश्चोक्तरूपतः ॥ २ ॥
व्याहृतीनां महावाक्यपरमात्माजपात्मनाम् ।
प्रणवस्य च ताद्रूप्ययोगात् स्यात्तत्तदात्मता ॥ ३ ॥ (२६।४६)
इति ॥ अथ संप्रदायाम्नायक्रमस्त त्वग्रे वदिष्यामः ॥ अथ (श्रीविद्यायाः
श्रीचक्र आवरणपूजायां नारायणादि) प्रोक्तमन्त्राणां
ऋष्यादिन्यासध्यानानि यथा तन्त्रान्तरेषु - ततः
प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि
साध्यनारायणाय-ऋषये नमः मुखे देव्यै गायत्र्यै छन्दसे नमः
हृदये श्रीपरमात्मने देवतायै नमः इति विन्यस्य ममेष्टार्थे विनियोगः इति
कृताञ्जलिरुक्त्वा मूलेन व्यापकं करयोर्विन्यस्य क्रोद्धोल्काय स्वाहा
हृदयाय नमः महोल्काय स्वाहा शिरसे स्वाहा वोरोल्काय स्वाहा शिखायै
वषट् द्युल्काय स्वाहा कवचाय हुं सहस्रोल्काय स्वाहा अस्त्राय फट् इति
मन्त्रानंगुलीषु हृदयादिषु विन्यस्य ध्यायेत् ।
हस्तैश्चक्रदरौ गदासरसिजे विभ्राणमर्कोल्लसत्-
कान्तिं श्रीधरणीविभूषितलसत्पार्श्वं किरीटान्वितम् ।
श्रीवत्साङ्कसकौस्तुभोरुपदकं केयूरहारोज्ज्वलं
राजत्कुण्डलमण्डितं हृदि भजे पीताम्बरं शार्ङ्गिणम् ॥ १ ॥
इति ध्यात्वा ओं नमो नारायणाय इत्यष्टाक्षरं जपेत् ॥
अथ वासुदेवमन्त्रस्य ततः प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन
प्राणायामत्रयं कृत्वा शिरसि प्रजापति ऋषये नमः मुखे गायत्रीछन्दसे
नमः हृदये श्रीवासुदेवदेवतायै नमः इति विन्यस्य ममाभीष्टसिद्धये
विनियोगः इति कृताञ्जलिरुक्त्वा मूलेन करयोर्व्यापकं कृत्वा ओं हृदयाय
नमः नमो शिरसे स्वाहा भगवते शिखायै वषट् वासुदेवाय कवचाय हुं
नमो भगवते वासुदेवाय अस्त्राय फट् ।
ततः समाहितो भूत्वा वासुदेवं हृदि स्मरेत् ।
मध्येदुग्धाम्बुधि द्वीपे दिव्ययोषानिषेविते ॥ १ ॥
तत्र सञ्चिन्त्य विपिनमखिलर्तुनिषेवितम् ।
तन्मध्ये कल्पवृक्षं च दिव्यमद्भुतदर्शनम् ॥ २ ॥
तस्याधस्ताद्रत्नमञ्च कमलं विमलप्रभम् ।
शरत्पूर्णेन्दुविलसत्प्रभापटलराजितम् ॥ ३ ॥
तत्र सञ्चिन्तयेद्देवं वासुदेवं स्मिताननम् ।
कुन्देन्द्वाभं गदाचक्रपद्मशङ्खलसत्करम् ॥ ४ ॥
चन्द्रायुतलसत्कान्त्या मोहयन्तं जगत्त्रयम् ।
केयुराङ्गदसंराजद्दोर्दण्डं रत्नभूषणम् ॥ ५ ॥
श्रीवत्साङ्कं लसद्रत्नमुकुटं कौस्तुभान्वितम् ।
अरविन्ददलाताम्रसुरम्यायतलोचनम् ॥ ६ ॥
कुण्डलप्रोल्लसद्गण्डमण्डलं पीतवाससम् ।
ग्रैवेयहारसंशोभिकम्बुकण्ठं सुकङ्कणम् ॥ ७ ॥
विशालवक्षःसंराजत्प्रपुल्लवनमालकम् ।
सनकादिमुनीन्द्रैश्च तत्त्वनिर्णयकांक्षमा ॥ ८ ॥
निषेवितं दित्यदितिजातगन्धर्वसंचयैः ।
उद्धविद्याधराश्चैव सेवितं च महोरगैः ॥ ९ ॥
इति ध्यात्वा जपादिकं विदध्यात् ॥
अथ वराहमन्त्रस्य ततः प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि भार्गवाय ऋषये नमः मुखेऽनुष्टुप्च्छन्दसे नमः हृदये श्रीवराहदेवतायै नमः इति विन्यस्य मम सर्वाभीष्टसिद्धये विनियोगः इति
प्. २०६) कृताञ्जलिरुक्त्वा एकशृङ्गाय हृदयाय नमः व्योमोल्काय शिरसे
स्वाहा तेजोऽधिपतये शिखायै वषट् विश्वरूपाय कवचाय हूं
महादंष्ट्रायास्त्राय फट् इति पञ्चाङ्गमन्त्रान् विन्यस्य ध्यायेत् ।
ध्यानम् :
जानोः पदावधि सुवर्णनिभं च नाभेराजानु चन्द्रधवलं च
गलाद्धदन्तम् ।
वह्निप्रभं शशिनिभं शिरसो गलान्तं मौलिस्थलाद्वियत एन्दुनिभं च
कान्तम् ॥ १ ॥
संविभ्रतं करतलैररिशङ्खखङ्गान् खेटं गदां तदनु
शक्तिवराभयानि ।
सर्वंसहाधरणशोभिसदेकदंष्ट्रमाद्यं वराहमनिशं प्रभजे
स्वचित्ते ॥ २ ॥
इति ध्यात्वा ओं नमो भगवते वराहरूपाय भूर्भुवःस्वर्पतये भूपतित्वं मे देहि ददापय स्वाहा अयं मन्त्रो योज्यः ॥
अथ विष्णोः - ततः प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि कपिलाय ऋषये नमः मुखे गायत्र्ये छन्दसे नमः हृदये श्रीभोगवामनाय देवतायै नमः इति विन्यस्य मम सर्वाभीष्टावाप्तये विनियोगः इति कृताञ्जलिरुक्त्वा ओं नमो हृदयाय नमः भगवते शिरसे स्वाहा विष्णवे शिखायै वषट् सुरपतये कवचाय हुं महावलाय नेत्राभ्यां वौषट् स्वाहास्त्राय फट् इति षडङ्गमन्त्रान्विन्यस्य ध्यायेत् । ध्यानम् :
नीलवर्णश्चतुर्बाहुः शङ्खचक्रगदाब्जधृक् ।
सर्वान् भोगान् ददात्येष भक्तानां भोगवामनः ॥ १ ॥
इति ध्यात्वा ओं नमो भगवते विष्ण्वे सुरपतये महाबलाय स्वाहा इति ॥
अथ श्रीकरमन्त्रस्य ततः प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि वामदेवाय ऋषये नमः मुखे पंक्तिच्छन्दसे नमः हृदये श्रीकराय देवतायै नमः इति विन्यस्य मम सर्वाभीष्टावाप्तये विनियोगः इति कृताञ्जलिरुक्त्वा उं भीषय भीषय हुं हृदयाय नमः त्तिं त्रासय त्रासय हुं शिरसे स्वाहा ष्ठं मर्दय मर्दय हुं शिखायै वषट् श्रीं प्रध्वंसय हुं कवचाय हुं कं रक्षय रक्षय हुं अस्त्राय फट् । ततः नेत्रयोः रं उदरे स्वां पृष्ठे हां इति विन्यस्य ध्यायेत् ॥
ततः सञ्चिन्तयेद्विष्णुं श्रीकरं हृदयाम्बुजे ।
लोलकल्लोलजालेन फेनिले सोर्मिमालके ॥ १ ॥
दुग्धाम्बुधावस्त्र मध्ये द्वीपं शुक्लमयं शुभम् ।
हेमस्थलीसमाकीर्णं नानामणिगणैः शुभम् ॥ २ ॥
वनं सञ्चिन्तयेत्तत्र सकलतुंनिषेवितम् ।
कल्पद्रुमसमूहैश्च वारितातपमुत्तमम् ॥ ३ ॥
षटपदालीकलारावसंकुलं लोलपल्लवम् ।
पुष्पवज्रपरागोद्यत् तुषारपरिपूरितम् ॥ ४ ॥
हिरण्यमयानां वृक्षाणां मणिपुष्पेषु चञ्चलम् ।
इन्दिन्दिरालिक्रमणशीलशक्रमणीरुचम् ॥ ५ ॥
अङ्गीकरोति यत्रापि रमन्तेऽप्सरसः सुरैः ।
औदार्यशोभनैश्वर्यसौभाग्यादिगुणैर्युतैः ॥ ६ ॥
रूपाभिराममधुराकृतिभिः सुकुमारकैः ।
मन्दस्मितलसद्दन्तमरीचिद्योतिताननाः ॥ ७ ॥
मनोज्ञा जितचन्द्राभा मदस्फुरितलोचनाः ।
जल्पाकपुंस्कोकिलोद्यद्देववृन्दं निरन्त्रम् ॥ ८ ॥
उन्निद्रितोद्यन्मदनाः पीनस्तनघटालसाः ।
सुश्रोणिभारादत्यर्थमन्दगामिन्य उत्तमाः ॥ ९ ॥
एवं भूताश्चाप्सरसः क्रीडन्ते यत्र चामरैः ।
मारसेनापतिरिव वनलक्ष्म्या गृहं यथा ॥ १० ॥
जन्मस्थानमृतूनां च कल्पवृक्षतरोरधः ।
इन्दिरायाः सोदरस्य नवरत्नमयस्य च ॥ ११ ॥
शिखावलिसमुद्द्योतिशीतलस्य तले शुभे ।
स्वर्णकुट्टिमसंशोभिमहारत्नमनोरमे ॥ १२ ॥
उद्यदर्कप्रभाभास्वत्पीठसन्निहितस्य च ।
प्रसिद्धविक्रमौघस्य पक्षिराजस्य चोपरि ॥ १३ ॥
उपविष्टं गलिताच्छशुचिहाटकसन्निभम् ।
रत्नोद्यन्मकराकारचारुकुण्डलमण्डितम् ॥ १४ ॥
किरीटमणिसन्दीप्तदिक्चक्रं चारुभूषणम् ।
शशिखण्डलसच्छुभ्रकॢप्तामलविशेषकम् ॥ १५ ॥
अतिचञ्चलसच्चिल्लि मुकुटोज्ज्वलगण्डकम् ।
स्मितसंशोभिवक्त्रेन्दुकपोलफलकोज्ज्वलम् ॥ १६ ॥
प्. २०७) दशनावलिरश्म्योघविराजितशुभाधरम् ।
पक्वबिम्बाधरं रम्यरक्तपद्मपलाशवत् ॥ १७ ॥
आयतारुणनेत्रं च सम्यक्पक्ष्मविराजितम् ।
उरुहारमणिव्रातदीधितिप्रोल्लसद्गलम् ॥ १८ ॥
दिव्यरत्नाङ्गदद्योतिबाहुनालधरं हरिम् ।
गदाकमलशङ्खारिधारिणं बाहुदण्डकैः ॥ १९ ॥
कपाटविपुलेनाथ कमलानिलयेन च ।
लसत्कौस्तुभदीप्त्योघविद्योतिततलेन च ॥ २० ॥
वक्षसा सुविराजन्तं त्रैलोक्यनिलयेन च ।
त्रिवलीशोभिना सम्यग्रोमराजिलसद्रुचा ॥ २१ ॥
उद्धरेण विराजन्तं रम्यं कटितटेन च ।
पीतपट्टांशुकरुचा विलसन्मणिमेखलम् ॥ २२ ॥
शरतूणसदृक्पीनरम्योरुपरिभूषितम् ।
केकिकण्ठलसत्कान्तिजङ्घायुगमनोहरम् ॥ २३ ॥
रक्तोत्पलाभचरणं पादाग्रजितकच्छपम् ।
शशरक्तसदृक्कान्तिध्वजाब्जाङ्कितपत्तलम् ॥ २४ ॥
करसद्रक्तकमलरमयालिङ्गितं सदा ।
क्षमया चोपगूढं च नवमाणिक्यशोभितम् ॥ २५ ॥
नवयौवनकान्त्योघसंशोभिसकलाङ्गकम् ।
सुरासुरर्षिप्रमुखैः सेवितं चाप्सरोगणैः ॥ २६ ॥
पूर्णेन्दुबिम्बसदृशवितानसमलंकृतम् ।
सुरयोपाकराब्जालिलसच्चामरराजितम् ॥ २७ ॥
विद्युल्लतासंविलोलवैजयन्तीसुशोभितम् ।
यक्षविद्याधरव्यूहचारणादिनिषेवितम् ॥ २८ ॥
इत्येवं ध्यात्वा उत्तिष्ठ श्रीकर स्वाहा । अयं मन्त्रो (षोडशार्णायां) योज्यः ॥
अथ नृसिंहमन्त्रः - ततः प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि ब्रह्मणे ऋषये नमः मुखेऽनुष्टुप्च्छन्दसे नमः हृदये श्रीनृसिंहदेवतायै नमः इति विन्यस्य मम सर्वाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा उग्रं वीरं हृदयाय नमः महाविष्णुं शिरसे स्वाहा ज्वलन्तं सर्वतो मुखं शिखायै वषट् नृसिंहं भीषणं कवचाय हुं भद्रं मृत्युमृत्युं नेत्रत्रयाय वौषट् नमाम्यहम् अस्त्राय फट् इति विन्यस्य ध्यायेत् :
नृसिंहं भजे जानुविन्यस्तबाहुं त्रिनेत्रं भुजप्रोल्लसच्चक्रशङ्खम् ।
कृशानूपमज्योतिषा ग्रस्तदैत्यं शिरःशोभिदंष्ट्रासुदीप्तद्विजिह्वम् ॥ १ ॥
इति ध्यात्वा उग्रं वीरं महाविष्णुं ज्वलन्तं विश्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् इति मन्त्रो योज्यः ॥
अथ गोपालमन्त्रः - ततः प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि नारदाय-ऋषये नमः मुखे विराट्छन्दसे नमः हृदये श्रीकृष्णाय देवतायै नमः गुह्ये क्लींबीजाय नमः पादयोः स्वाहाशक्तये नमः सर्वाङ्गे कृष्णाय प्रकृतये नमः हृदि श्रीदुर्गायै अधिष्ठात्र्यै देवतायै नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः कृताञ्जलिरुक्त्वा मूलेन करयोर्व्यापकं कृत्वा आचक्राय स्वाहा हृदयाय नमः विचक्राय स्वाहा शिरसे स्वाहा सुचक्राय स्वाहा शिखायै वषट् त्रैलोक्यरक्षणचक्राय स्वाहा कवचाय हुं असुरान्तचक्राय स्वाहा अस्त्रायफट् इति षडङ्गमन्त्रान् विन्यस्य ध्यायेत् :
दरारिचापसद्बाणगुणांशुककराम्बुजम् ।
वेणुमादाय हस्ताभ्यां वादयन्तं मुदान्वितम् ॥ १ ॥
रविमण्डलगं कृष्णं ध्यायेदिष्टफलाप्तये ।
इति ध्यात्वा क्लींकृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा इति मन्त्रो योज्यः ॥
अथ कृष्णमन्त्रः - ततः प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि नारद-ऋषये नमः मुखे गायत्रीच्छन्दसे नमः हृदये श्रीकृष्णदेवतायै नमः गुह्ये क्लींबीजाय नमः इत्यादि विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा पूर्णज्ञानात्मने हृदयाय नमः पूर्णैश्वर्यात्मने शिरसे स्वाहा पूर्णप्रभात्मने शिखायै वष्ट् पूर्णानन्दात्मने कवचाय हुं पूर्णतेज-आत्मने नेत्राभ्यां वौषट् पूर्णशक्त्यात्मने अस्त्राय फट् इति षडङ्गमन्त्रान् विन्यस्य ध्यायेत् :
प्. २०८) ध्यायेद्धरिन्मणिनिभं जगदेकवन्द्यं
सौन्दर्यसारमरिशङ्खवराभयानि ।
दोर्भिदधानमजितं सरमं च भैष्मीसत्यासमेतमखिलप्रदमिन्दिरेशम् ॥
१ ॥
इति ध्यात्वा क्लीं कृष्णाय नमः इति मन्त्रो योज्यः ॥ योगस्तु ओं हसकलह्रीं नमो हसकहलह्रीं नारायणाय सकलह्रीं ॥ १ ॥
ओं हसकलह्रीं नमो हसकलह्रीं भगवते सकल ह्रीं वासुदेवाय ॥ २ ॥
ओं नमो भगवते हसकलह्रीं वराहरूपाय हसकहलह्रीं भूर्भुवःस्वर्पतये सकलह्रीं भूपतित्वं मे देहि ददापय स्वाहा ॥ ३ ॥
ओं नमो भगवते हसकलह्रीं विष्णवे हसकहलह्रीं सुरपतये सकलह्रीं महाबलाय स्वाहा ॥ ४ ॥
उत्तिष्ठ हसकलह्रीं श्रीकर हसकलह्रीं स्वाहा सकलह्रीं ॥ ५ ॥
उग्रं वीरं महाविष्णुं हसकलह्रीं ज्वलन्तं सर्वतो मुखं हसकहलह्रीं नृसिंहभीषणं भद्रं सकलह्रीं मृत्युमृत्युं नमाम्यहम् ॥ ६ ॥
क्लींकृष्णाय हसकलह्रीं गोविन्दाय हसकहलह्रीं गोपीजनवल्लभाय सकलह्रीं स्वाहा ॥ ७ ॥
क्लीं हसकलह्रीं कृष्णाय हसकहलह्रीं नमः सकलह्रीं ॥ ८ ॥
एवं योग इत्यर्थः ॥
वैदिकदर्शने तु मन्त्रानाह - ततः प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन
प्राणायामत्रयं कृत्वा अस्य श्रीगायत्रीमन्त्रस्य शिरसि विश्वामित्राय
ऋषये नमः मुखे गायत्र्यै च्छन्दसे नमः हृदये श्रीपरमात्मने
देवतायै नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा
तत्सवितुर्ब्रह्मात्मने हृदयाय नमः वरेण्यं विष्ण्वात्मने शिरसे स्वाहा
भर्गोदेवस्य रुद्रात्मने शिखायै वषट् धीमहि ईश्वरात्मने कवचाय हुं
धियो यो नः सदाशिवात्मने नेत्रत्रयाय वौषट् प्रचोदयात् परमात्मने
अस्त्रायफट् इति षडङ्गमन्त्रान् विन्यस्य ध्यायेत् ।
मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै-
र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् ।
गायत्रीं वरदाभयांकुशकरां शूलं कपालं गुणं
शङ्खं चक्रमथारबिन्दुयुगलं हस्तैर्वहन्तीं भजे ॥ १ ॥
इति ध्यात्वा तत्सवितुर्वरेण्यं हसकलह्रीं भर्गो देवस्य धीमहि हसकहलह्रीं धियो योनः सकलह्रीं प्रचोदयात् ॥
अथ जातवेदसे मन्त्रस्य - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा अस्य जातवेद मन्त्रस्य शिरसि मारोचपुत्रकश्यपाय ऋषये नमः मुखे त्रिष्टुप्छन्दसे नमः हृदये श्रीजातवेदाग्नये दुर्गायै देवतायै नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा जातवेदसे सुनवाम हृदयाय नमः सोममरातीयतो शिरसे स्वाहा निदहाति वेदः शिखायै वषट् स नः पर्षदति कवचाय हुं दुर्गाणि विश्वा नावेव नेत्रत्रयाय वौषट् सिन्धुं दुरितात्यग्निः अस्त्राय फट् इति षडङ्गमन्त्रान् विन्यस्य धायेत् :
विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं
विभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां स्मरेत् ॥ १ ॥
इति ध्यात्वा जातवेदसे सुनवाम सोमं हसकलह्रीं अरातीयतो निदहाति वेदः हसकहलह्रीं स नः पर्षदति दुर्गाणि विश्वा नावेव सकलह्रीं सिन्धुं दुरितात्यग्निः ॥
अथ तामग्निवर्णामिति मन्त्रस्य - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा ऋष्यादीन् प्राग्वद्विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा ह्रां हृदयाय नमः ह्रीं शिरसे स्वाहा ह्रूं शिखायै वषट् ह्रैं कवचाय हुं ह्रौं नेत्रत्रयाय वौषट् ह्रः अस्त्राय फट् इति विन्यस्य प्राग्वद् ध्यात्वा तामग्निवर्णां तपसा ज्वलन्तीं हसकलह्रीं वैरोचनीं कर्मफलेषु जुष्टां हसकहलह्रीं दुर्गां देवीं शरणमहं प्रपद्ये सकलह्रीं सुतरसि तरसे नमः ॥ इति जपेत् ॥
प्. २०९) अथाग्ने इत्यस्य प्रयोगः तत्र प्रातःकृत्यादियोगपीठन्यासान्ते ऋष्यादिषडङ्गन्यासं ध्यानं च प्राग्वत् विधाय अग्ने त्वं पारया नव्यो अस्मान् हसकलह्रीं स्वस्तिभिरति दुर्गाणि विश्वा हसकहलह्रीं पूश्च पृथिवी बहुला न उर्वी सकलह्रीं भवा तोकाय तनयाय शंयोः ॥ इति जपेत् ॥
अथ विश्वानि न इत्यस्य प्रयोगः तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलमन्त्रेण प्राणायामत्रयं कृत्वा ऋष्यादिकरषडङ्गन्यासध्यानानि प्राग्वद्विधाय विश्वानि नो दुर्गहा जातवेदः हसकलह्रीं सिन्धुं न नावा दुरिताति पपिं हसकहलह्रीं अग्ने अत्रिवन्नमसा गृणानो सकलह्रीं अस्माकं बोध्यविता तनूनाम् ॥ इति जपेत् ॥
अथ पृतनाजितमित्यस्य प्रयोगः - तत्र प्रातःकृत्यादिध्यानान्तं विधाय पृतनाजितं सहमानमुग्रं हसकलह्रीं अग्निं हुवेम परमात्सधस्तात् हसकहलह्रीं स नः पर्षदति दुर्गाणि विश्वा सकलह्रीं क्षामद्देवो दुरितात्यग्निः ॥ ततः श्रीसूक्तदेवीसूक्ते ऋग्वेदे प्रसिद्धे ॥
अथ शैवे प्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि वामदेवाय ऋषये नमः मुखे पंक्त्यै च्छन्दसे नमः हृदये श्रीसदाशिवाय देवतायै नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा सर्वज्ञाय हृदयाय नमः नित्यतृप्ताय शिरसे स्वाहा अनादिबोधाय शिखायै वष्ट् स्वतन्त्राय कवचाय हुं नित्यमलुप्तशक्तये नेत्रत्रयाय वौषट् नित्यमनन्तशक्तये अस्त्राय फट् इति षडङ्गमन्त्रान् विन्यस्य ध्यायेत् :
गोक्षीरफेनधवलं रजताद्रिसमप्रभम् ।
चारुचन्द्रकलाराजज्जटामुकुटमण्डितम् ॥ १ ॥
पञ्चवक्त्रधरं शम्भुं प्रतिवक्त्र.ं त्रिलोचनम् ।
शार्दूलचर्मवसनं रत्नाभरणभूषितम् ॥ २ ॥
इति ध्यात्वा हसकलह्रीं ओं हसकहलह्रीं नमः सकलह्रीं शिवाय इति मन्त्रं जपेत् ॥
अथाघोरास्त्रस्य प्रयोगः तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि अघोराय ऋषये नमः मुखे त्रिष्टुप्च्छन्दसे नमः हृदये श्री-अघोररुद्राय देवतायै नमः गुह्ये ह्रींबीजाय नमः पदायोः ह्रूंशक्तये नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा ह्रीं स्फुरस्फुर हृदयाय नमः प्रस्फुरप्रस्फुर शिरसे स्वाहा घोर घोरतर तनूरूप शिखायै वषट् चटचट प्रचट प्रचट कवचाय हुं कहकह वमवम नेत्रत्रयाय वौषट् बन्धबन्ध घातयघातय हुं फट् अस्त्राय फट् इति षडङ्गमन्त्रान् विन्यस्य ध्यायेत् :
एवं न्यस्ततनुर्मन्त्रौ धायेद्देवमनन्यधीः ।
कालमेघनिभं देवं भीमदंष्ट्रं त्रिलोचनम् ॥ १ ॥
भुजङ्गभूषणं रक्तवसनालेपसंयुतम् ।
परशुं करवालं च बाणांस्त्रिशिखमेव च ॥ २ ॥
दधानं दक्षिणैर्हस्तैरूर्ध्वादिक्रमतः परैः ।
डमरुं खेटकं चापं नृकपालं च पार्वति ॥ ३ ॥
काम्यकर्मसु रक्ताभमसितं चाभिचारके ।
निग्रहे ग्रहभूतादिमुक्त्यै मुक्तानिभं स्मरेत् ॥ ४ ॥
इति । एवं ध्यात्वा ओं ह्रींस्फुरस्फुर प्रस्फुरप्रस्फुर घोर घोरतर तनुरूप हसकलह्रीं चटचट प्रचटप्रचट कहकह हसकहलह्रीं वमवम बन्धबन्ध सकलह्रीं घतयघातय हुं फट् इति मन्त्रं जपेत् ॥
अथ शरभप्रयोगः तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि ब्रह्मणे ऋषये नमः मुखे पंक्त्यै छन्दसे नमः हृदये शरभशाल्वाय पक्षिराजाय देवतायै नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा ओं नमो भगवते हृदयाय नमः शरभशाल्वाय शिरसे स्वाहा पक्षिराजाय शिखायै वषट् मम शत्रून्नाशय नाशय कवचाय हुं हुंफट् नेत्रत्रयाय वौषट् स्वाहा अस्त्राय फट् । ध्यानम् :
अष्टापदं पक्षतिमूलराजद्वज्रांकुं हाटकपक्षकूटम् ।
हेमाङ्गमङ्गीकृतपद्मरागं चञ्चूपुटोल्लासिमुखारबिन्दम् ॥ १ ॥
सूर्यानलेन्दुद्युतिराजमाननेत्रत्रयोल्लासितपद्मरागम् ।
प्. २१०) नीलाश्मदीप्ताखिलरोमसङ्घं शीतांशुखण्डोज्ज्वलितोत्तमाङ्गम् ॥ २ ॥
विप्राहिद्वन्द्वबद्धोत्तमकपिलजटाभारसञ्चारिगङ्गा-
सङ्गाक्रान्तोत्तमाङ्गात् क्रमगलितपृषत्सङ्घहाराभिरामम् ।
अग्रोद्यन्नागबन्धक्रमघटितसटाग्रन्थिपञ्चांगुलोद्य-
त्पुच्छस्थग्रन्थिबाहूद्भवभुजयुगलोल्लासिमालाभिरामम् ॥ ३ ॥
कक्ष्यासंबद्धवैश्याहिपयुगललसच्चन्द्रतीव्रांशुलीला-
घण्टाटोपाकुलाशादशकपतिकुलं वैरिसङ्घंककालम् ।
पाशाकारांसलोलद्वृषलकुलभवाशीर्विषाधीशभोग-
स्फूर्जत्फूत्कारघोरं खुरपुटनिकरक्षुणासर्वंसहं तम् ॥ ४ ॥
भक्षयन्तं पक्षिरूपं भक्तानां वैरिसञ्चयम् ।
शरभं शाल्वरूपं च ध्यायेदेकाग्रमानसः ॥ ५ ॥
इति शरभरूपं शिवं ध्यात्वा ओं नमो भगवते शरभशाल्वाय हसकलह्रीं पक्षिराजाय हसकहलह्रीं मम शत्रून् नाशयनाशय सकलह्रीं घघहुंफट् स्वाहा इति मन्त्रं जपेत् ॥
अथ प्रासादमन्त्रस्य प्रयोगः तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि वामदेवाय ऋषये नमः मुखे पंक्तिच्छन्दसे नमः हृदये श्रीसदाशिवाय देवतायै नमः गुह्ये हंबीजाय नमः पादयोः ओं शक्तये नमः इति विन्यस्य मम सर्वाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा हां हृदयाय नमः हीं शिरसे स्वाहा हूं शिखायै वषट् हैं कवचाय हुम् हौं नेत्रत्रयाय वौषट् हः अस्त्राय फट् इति षडङ्गमन्त्रान् विन्यस्य ध्यायेत् :
ध्यायेद्देवं ततो वत्स हृदि चैकाग्रमानसः ।
सिन्दूरपुञ्जशोणाङ्गं स्मेरवक्त्रं त्रिलोचनम् ॥ १ ॥
मणिमौलिलसच्चन्द्रकलालंकृतमस्तकम् ।
दक्षिणोर्ध्वकरे टङ्कं दधानं तदधो वरम् ॥ २ ॥
वामोर्ध्वहस्ते हरिणं तदधोऽभयमादरात् ।
पीनवृत्तघनोत्तुङ्गस्तनाग्रे विनिवेश्य च ॥ ३ ॥
वामाङ्के सनिविष्टायाः प्रियायाः रक्तपङ्कजे ।
दधत्या दक्षिणे हस्ते चासीनं रक्तपङ्कजे ॥ ४ ॥
नानाभरणसंदीप्तं दिव्यगन्धस्रगम्बरम् ।
इति ध्यात्वा ओं हौं हसकलह्रीं ह्रीं हसकहलह्रीं नमः सकलह्रीं शिवाय इति मन्त्रं जपेत् ॥
अथ पाशुपतास्त्राय प्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्रायाणामत्रयं कृत्वा शिरसि वामदेवाय ऋषये नमः मुखे पंक्तिच्छन्दसे नमः हृदये श्रीपशुपतये देवतायै नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा ओं हुं फट् हृदयाय नमः श्लीं हुंफट् शिरसे स्वाहा प हुंफट् शिखायै वषट् शु हुं फट् कवचाय हुं हुं हुं फट् नेत्रत्रया वौषट् फट् हुं फट् अस्त्राय फट् इति षडङ्गमन्त्रान् विन्यस्य ध्यायेत् :
ध्यायेत् पशुपतिं सम्यंमन्त्री चैकाग्रमानसः ।
पञ्चवक्त्रं दशभुजं प्रतिवक्त्रं त्रिलोचनम् ॥ १ ॥
अग्निज्वालानिभश्मश्रुसंयुतं भीमदंष्ट्रकम् ।
खड्गं बाणानक्षसूत्रं शक्तिं परशुमेव च ॥ २ ॥
दधानं दक्षिणैर्हस्तैरूर्ध्वादिक्रमतो गुरुम् ।
खेटचापौ कुण्डिकां च त्रिशूलं ब्रह्मदण्डयुक् ॥ ३ ॥
वामहस्तैश्च बिभ्राणं मध्याह्नार्कसमप्रभम् ।
नानाभरणसन्दीप्तं पन्नगेन्द्रैरलंकृतम् ॥ ४ ॥
स्फटिकौघनिभं शान्तं सर्वरक्षाकरं स्मरेत् ।
इति । एवं ध्यात्वा ओं श्लीं हसकलह्रीं पशु हसकहलह्रीं हुं सकलह्रीं फट् इति मन्त्रं जपेत् ॥
अथ दक्षिणामूर्तिमन्त्रस्य प्रयोगः : तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि शुकाय ऋषये नमः मुखे गायत्रीछन्दसे नमः हृदये श्रीदक्षिणामूर्तये देवतायै नमः गुह्ये ओं बीजाय नमः पादयोः ह्रीं शक्तये नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा मूलमन्त्रेण करशुद्धिं विधाय ओं ह्रां दक्षिणामूर्तये ह्रां हृदयाय नमः ओं ह्रीं तुभ्यं ह्रीं शिरसे स्वाहा ओं ह्रीं वटमूलनिवासिने ह्रूं शिखायै वषट् ओं ह्रीं ध्यानैकनिरताङ्गाय ह्रैं कवचाय हुं ओं ह्रीं नमो रुद्राय ह्रौं नेत्रत्रयाय वौषट् ओं ह्रीं शम्भवे ह्रः अस्त्राय फट् इति षडङ्गमन्त्रान् विन्यस्य ध्यायेत् :
वटविटपिसमीपे भूमिभागे निषण्णं सकलमुनिजनानां
ज्ञानदातारमारात् ।
त्रिभुवनगुरुमीशं दक्षिणामूर्तिरूपं जननमरणदुःखच्छेददक्षं
नमामि ॥ १ ॥
इति ध्यात्वा ओं ह्रीं दक्षिणामूर्तये तुभ्यं हसकलह्रीं वटमूलनिवासिने हसकहलह्रीं ध्यानैकनिरताङ्गाय सकलह्रीं नमो रुद्राय शम्भवे ह्रीं ओं इति मन्त्रं जपेत् ॥
अथ मृत्युञ्जयस्य प्रयोगः : तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि कहोलाय ऋषये नमः मुखे निचृद्गायत्रीच्छन्दसे नमः हृदये श्रीमृत्युञ्जयाय देवतायै नमः गुह्ये ओं बीजाय नमः पादयोः सः शक्तये नमः नाभौ जूं कीलकाय नमः इति विन्यस्य ममाभीषटसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा मूलमन्त्रेण करशुद्धिं विधाय सां हृदयाय नमः सीं शिरसे स्वाहा सूं शिखायै वषट् सैं कवचाय हुं सौं नेत्रत्रयाय वौषट् सः अस्त्राय फट् इति षडङ्गमन्त्रान् विन्यस्य ध्यायेत् :
ध्यायेद्देवं ततो वत्स समाहितमनाश्चिरम् ।
शुद्धस्फटिकसंकाशं शुभ्रपद्मासनस्थितम् ॥ १ ॥
कपर्दमौलिविलसच्चन्द्रखण्डच्युतामृतैः ।
अभिषिक्तसमस्ताङ्गमर्केन्द्वनललोचनम् ॥ २ ॥
दक्षिणोर्ध्वकरे मुद्रां ज्ञानाख्यां तदधःकरे ।
अक्षमालां च वामोर्ध्वे पाशं वेदमधःकरे ॥ ३ ॥
दधानं चिन्तयेद्देवं मृत्युरोगभयापहम् ।
इति ध्यात्वा ओं हसकलह्रीं जूं हसकहलह्रीं सः सकलह्रीं इति मन्त्रं जपेत् ॥
अथ दशाक्षरस्य प्रयोगः : ततः प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि ब्रह्मणे ऋषये नमः मुखे विराट्छन्दसे नमः हृदये सदाशिवाय देवतायै नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा ओं हृदयाय नमः नमः शिरसे स्वाहा भगवते शिखायै वषट् रुद्राय कवचाय हुं ओं नमो भगवते नेत्रत्रयाय वौषट् रुद्राय अस्त्राय फट् इति षडङ्गमन्त्रान् विन्यस्य धायेत् :
आर्कीर्णं दिव्यभोगैरमरदितिसुतैरर्चितं शैलकन्या-
देहार्धं धारयन्तं स्फटिकमणिनिभं व्याघ्रचर्मोत्तरीयम् ।
द्वैपीं कृत्तिं वसानं हिमकिरणकलाशेखरं नीलकण्ठं
हृष्टं व्याप्तं कलाभिर्धृतकपिलजटं भावयेऽहं महेशम् ॥ १ ॥
इति ध्यात्या ओं हसकलह्रीं नमो हसकहलह्रीं भगवते सकलह्रीं रुद्राय इति जपेत् ॥
अथ सौरदर्शनविधानम् । तत्रादौ घृणिमन्त्रस्य प्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि देवभागाय ऋषये नमः मुखे गायत्रीच्छन्दसे नमः हृदये श्रीसूर्याय देवतायै नमः इति विन्यस्य ममाभीष्टसिद्धये जपे विनियोगः इति कृताञ्जलिरुक्त्वा सत्यतेजोज्वालामणि हुंफट् स्वाहा हृदयाय नमः ब्रह्मतेजोज्वालामणि हुंफट् स्वाहा शिरसे स्वाहा विष्णुतेजोज्वालामणि हुंफट् स्वाहा शिखायै वषट् रुद्रतेजोज्वालामणि हुंफट् स्वाहा कवचाय हुं अग्नितेजोज्वालामणि हुंफट् स्वाहा नेत्रत्रयाय वौषट् सर्वतेजो ज्वालामणि हुंफट् स्वाहा अस्त्राय फट् इति षडङ्गमन्त्रान् विन्यस्य ध्यायेत् :
रक्ताब्जयुग्माभयदानहस्तं केयूरहाराङ्गदकुण्डलाढ्यम् ।
माणिक्यमौलिं दिननाथमीडं बन्धूककान्तिं विलसत्त्रिनेत्रम् ॥ १ ॥
इति ध्यात्वा घृणिः हसकलह्रीं सूर्य हसकहलह्रीं आदित्य सकलह्रीं ओं इति मन्त्रं जपेत् ॥
प्. २१२) अथ षडर्णस्य प्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते शिरसि ब्रह्मणे ऋषये नमः मुखे गायत्रीछन्दसे नमः हृदये श्रीसवित्रे देवतायै नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृता~जलिरुक्त्वा सूक्ष्मरूपाय स्वाहा हृदयाय नमः सूक्ष्मतेजसे स्वाहा शिरसे स्वाहा सूक्ष्माकाराय स्वाहा शिखायै वषट् सूक्ष्मबालाय स्वाहा कवचाय हुं सूक्ष्मकायाय स्वाहा नेत्रत्रयाय वौषट् मूलमन्त्रमुच्चार्यै अस्त्राय फट् इति षडङ्गमन्त्रान् विन्यस्य ध्यायेत् :
रक्तपद्मद्वयं हस्तैर्बिभ्राणं वरदाभये ।
बन्धूकाभं त्रिनेत्रं च रविं ध्यायेत् सुभूषितम् ॥ १ ॥
इति ध्यात्वा ख हसकलह्रीं खो हसकहलह्रीं ल्काय सकलह्रीं स्वाहा इति
मन्त्रं जपेत् ।
अथ चतुरर्णस्य प्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि ब्रह्मणे ऋषये नमः मुखे गायत्रीछन्दसे नमः हृदये श्रीसूर्यरूपिण्यै भुवनेश्वर्ये देवतायै नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा ओं हृदयाय नमः ह्रीं शिरसे स्वाहा ओं शिखायै वषट् ह्रीं कवचाय हुं ओं नेत्रत्रयाय वौषट् ह्रीं अस्त्राय फट् इति षडङ्गमन्त्रान् विन्यस्य ध्यायेत् :
भास्वद्रत्नसहस्रमौलिविलसच्चन्द्रार्धमुद्द्योतय-
द्धस्ताब्जैर्दधदंकुशं गुणवराभीतीः सुतुङ्गस्तनम् ।
पायाद्गालितकाञ्चनाम्बुजजपाविद्युज्ज्वलतकान्तिभि-
र्विश्वं द्योतयदार्कमाश्वशिशिरं विश्वेशिकाया वपुः ॥ १ ॥
इति ध्यात्वा ओं हसकलह्रीं ह्रीं हसकहलह्रीं हं सकलह्रीं सः इति मन्त्रं जपेत् ॥
अथ त्र्यक्षरस्य प्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि अजाय ऋषये नमः मुखे गायत्रीछन्दसे नमः हृदये श्रीसूर्याय देवतायै नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा गुह्यादिपादपर्यन्तं हां नमः कण्ठाद्गुह्यपर्यन्तं हीं नमः मूर्धादिकण्ठान्तं सः नमः इति विन्यस्य ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति करषडङ्गन्यासान् विधाय ध्यायेत् :
अरुणकमलसंस्थं त्रीक्षणं भूरिभूषं
ह्यरुणकमलयुग्माभीष्टदाभीतिहस्तम् ।
अरुणतरशरीरं भावयामो दिनेशं ह्यरुणकरसुसेव्यं
सर्वदेवौघवन्द्यम् ॥ १ ॥
इति ध्यात्वा ह्रां हसकलह्रीं ह्रीं हसकहलह्रीं सः सकलह्रीं इति मन्त्रं जपेत् ॥
अथ षोडशार्णप्रयोगः : तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन पाणायामत्रयं कृत्वा शिरसि ब्रह्मणे ऋषये नमः मुखे जगतीच्छन्दसे नमः हृदये श्रीभास्कराय देवतायै नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा ओं ऐं हृदयाय नमः क्लांक्लींक्लूं शिरसे स्वाहा ह्रां ह्रीं ह्रूं शिखायै वषट् सः कवचाय हुं श्रीभास्कराय नेत्रत्रयाय वौषट् स्वाहा अस्त्राय फट् इति षडङ्गमन्त्रान् विन्यस्य ध्यायेत् :
माणिक्याढ्यरथारूढं मणिकुण्डलधारिणम् ।
हस्तैश्चाभीष्टदं शङ्खचक्रपद्मधरं विभुम् ॥ १ ॥
किरीटिनं मेखलिनं कवचिं शुशरीरिणम् ।
नानारत्नसमोपेतं ऋषिसंख्याश्वशोभितम् ॥ २ ॥
नक्षत्रग्रहराश्याद्यैः सेवितं मुनिमण्डलैः ।
सावित्र्या चैव गायत्र्या सरस्वत्या च शोभितम् ॥ ३ ॥
नानादेवसमायुक्तं भास्करं चिन्तयेद्बुधः ।
एवं ध्यात्वा ओं ऐं हसकलह्रीं क्लांक्लींक्लूं हसकहलह्रीं ह्रांह्रींह्रूंसः सकलह्रीं श्रीभास्कराय स्वाहा इति मन्त्रं जपेत् ॥
अथ द्वादशाक्षरस्य प्रयोगः : तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि देवभागाय ऋषये नमः मुखे विराटछन्दसे नमः हृदयेश्री-आदित्याय देवतायै नमः इति विन्यस्य ममाभीष्टाप्तये विनियोगः इति कृताञ्जलिरुक्त्वा ह्रांह्रींह्रूंह्रैंह्रः इति षडङ्गमन्त्रान् विन्यस्य प्राग्वद्ध्यात्वा ओं आं हसकलह्रीं ह्रींश्रींघृणिः हसकहलह्रीं सूरिय सकलह्रीं आदित्य ओं इति मन्त्रं जपेत् ॥
प्. २१३) अथ षडक्षरस्य प्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि ब्रह्मणे ऋषये नमः मुखे गायत्रीछन्दसे नमः हृदये श्री-आदित्याय देवतायै नमः इति विन्यस्य ममाभीष्टावाप्तये विनियोगः इति कृताञ्जलिरुक्त्वा ओं हृदयाय नमः श्रीं शिरसे स्वाहा ह्रीं शिखायै वषट् क्लीं कवचाय हुं ग्लौं नेत्रत्रयाय वौषट् ह्रां अस्त्राय फट् इति षडङ्गमन्त्रान् विन्यस्य प्राग्वद्ध्यायेत् : ओं श्रीं हसकलह्रीं ह्रींक्लीं हसकहलह्रीं ग्लौं सकलह्रीं ह्रां इति मन्त्रं जपेत् ॥
अथात्माष्टाक्षरस्य प्रयोगः - तस्य न्यासध्यानादिकं प्रागेव प्रपञ्चयागमातृकाविधनेऽभिहितम् ओं ह्रीं हसकलह्रीं हंसः हसकहलह्रीं सोऽहं सकलह्रीं स्वाहा इति मन्त्रं जपेत् ॥
अथ शाक्तदर्शनविधानम् ॥ तत्रादौ बालामन्त्रस्य प्रयोगः तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलमन्त्रेण प्राणायामत्रयं कृत्वा शिरसि दक्षिणामूर्तये ऋषये नमः मुखे पंक्तिच्छन्दसे नमः हृदये श्रीबालायै देवतायै नमः गुह्ये ऐं बीजाय नमः पादयोः सौः शक्तये नमः नाभौ क्लीं कीलकाय नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा ऐं हृदयाय नमः क्लीं शिरसे स्वाहा सौः शिखायै वषट् ऐं कवचाय हुं क्लीं नेत्रत्रयाय वौषट् सौः अस्त्राय फट् इति षडङ्गमन्त्रान् विन्यस्य ध्यायेत् :
भ्रमद्भ्रमरनीलाभधमिल्लामलपुष्पिकाम् ।
ब्रह्मरन्ध्रस्फुरद्भिन्नमुक्तालेखाविराजिताम् ॥ १ ॥
मुक्तालेखारत्नलग्नतिलकाञ्चितभालिकाम् ।
विशुद्धमुक्ताबिन्द्वाढ्यचन्द्ररेखाकिरीटिनीम् ॥ २ ॥
भ्रमद्भ्रमरनीलाभनयनत्रयराजिताम् ।
सूर्यभास्वन्महारत्नकुण्डलालंकृतां पराम् ॥ ३ ॥
शुक्राकारस्फुरन्मुक्ताहारभूषणभूषिताम् ।
कङ्कणादिलसद्भूषामणिबन्धलसत्प्रभाम् ॥ ४ ॥
प्रवाललतिकाकारपाणिपादपल्लवशोभिताम् ।
वज्रवैडूर्यमुक्तालिमेखलां विमलप्रभाम् ॥ ५ ॥
रक्तोत्पलदलाकारपादपल्लवशोभिताम् ।
नक्षत्रमालासङ्काशमुक्ताम~जीरमण्डिताम् ॥ ६ ॥
वामेन पाणिनैकेन पुस्तकं चापरेण तु ।
अभयं च प्रयच्छन्तीं साधकाय वरानने ॥ ७ ॥
अक्षमालां च वरदं दक्षपाणिद्वयेन तु ।
दधतीं चिन्तयेद्देवीं वश्यसौभाग्यवाक्प्रदाम् ॥ ८ ॥
क्षीरकुन्देन्दुधवलां प्रसन्नां संस्मरेत् प्रिये ।
इति ध्यात्वा ऐं हसकलह्रीं क्लीं हसकहलह्रीं सौः सकलह्रीं इति मन्त्रं जपेत् ॥
अथ भैरव्याः प्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि दक्षिणामूर्तये ऋषये नमः मुखे पंक्तिच्छन्दसे नमः हृदये श्रीत्रिपुरभैरव्यै देवतायै नमः गुह्ये वाग्भवकूटबीजाय नमः पादयोः शक्ति कूटशक्तये नमः नाभौ कामराजकूटकीलकाय नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा बीजत्रयाद्विरावृत्त्या षडङ्गानि विन्यस्य ध्यायेत् :
हृदयस्थारुणाम्भोजकर्णिकामध्यसंस्थिताम् ।
जपाकुसुमसङ्काशामरुणाम्बरभूषणाम् ॥ १ ॥
स्मितधौतमहामोहां त्रिनेत्रां चन्द्रशेखराम् ।
विश्वसौन्दर्यसर्वस्वविश्वसागररूपिणीम् ॥ २ ॥
आनन्दमधुरां देवीं मदघूर्णितलोचनाम् ।
ब्रह्माब्जनेत्ररुद्रेशशिवाख्यैर्मुण्डसंज्ञकैः ॥ ३ ॥
मण्डिताङ्गीं महादेवीं मुक्ताजपवटीधराम् ।
पुस्तकालंकृतकरां वरदाभयधारिणीम् ॥ ४ ॥
रक्ताङ्गरागसुभगां ध्यायेत् त्रिपुरभैरवीम् ।
एवं ध्यात्वा हसकलरैं हसकलह्रीं हसकलरीं हसकहलह्रीं हसौः सकलह्रीं इति जपेत् ॥
अथ चैतन्यभैरव्याः प्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं ऋष्यादिकरषडङ्गन्यासान्प्रागुक्तवद्विधाय ध्यायेत् -
उद्यद्भानुसहस्राभां नानालङ्कारभूषिताम् ।
मुकुटोर्ध्वलसच्चन्द्ररेखां रक्ताम्बराञ्चिताम् ॥ १ ॥
प्. २१४) पाशांकुशधरां नित्यवामहस्तकपालिनीम् ।
वरदाभयहस्ताढ्यां पीनोन्नतघनस्तनीम् ॥ २ ॥
एवं ध्यात्वा यजेद्देवीं पूर्वसिंहासनस्थिताम् ।
इति ध्यात्वा सहैं हसकलह्रीं सकलह्रीं हसकहलह्रीं सहौः सकलह्रीं इति जपेत् ॥
अथ कामेश्वरीभैरव्याः प्रयोगः - तत्र प्रातःकृत्यादिध्यानान्तं प्राग्वद्विधाय सह्रैं हसकलह्रीं सकलह्रीं हसकहलह्रीं नित्यक्लिन्ने मदद्रवे सकलह्रीं सह्रौः इति जपेत् ॥
अथ भैरव्याः प्रयोगः - तत्र प्रातःकृत्यादिषडङ्गन्यासान्तं पूर्ववद्विधाय ध्यायेत् -
उद्यत्सूर्यसहस्राभां चन्द्रचूडां त्रिलोचनाम् ।
नानालङ्कारसुभगां सर्ववैरिनिकृन्तनीम् ॥ १ ॥
स्रवद्रुधिरमुण्डालिकलितां रक्तवाससम् ।
त्रिशूलं डमरुं खड्गं तथा खेटकमेव च ॥ २ ॥
पिनाकं च शरान्देवि पाशांकुशयुगं क्रमात् ।
पुस्तकं च चाक्षमालां च शवसिंहासनस्थिताम् ॥ ३ ॥
एवं ध्यात्वा हसखफ्रें हसकलह्रीं हसकलरीं हसकहलह्रीं ह्सौं सकलह्रीं इति जपेत् ॥ इति नित्याभैरवी ॥
अथ भुवनेश्वरीभैरव्याः प्रयोगः - तत्र प्रातःकृत्यादिषडङ्गन्यासान्तं प्राग्वद्विधाय ध्यायेत् -
ध्यायेद् देवीं चतुर्भुजाम् ।
जपाकुसुमसङ्काशां दाडिमीकुसुमप्रभाम् ॥ १ ॥
चन्द्ररेखाजटाजूटां त्रिनेत्रां रक्तवाससम् ।
नानालङ्कारसुभगां पीनोन्नतघनस्तनीम् ॥ २ ॥
प्रेतासनसमासीनां मुण्डमालाविभूषिताम् ।
पाशांकुशवराभीतिर्दधानां च शिवां श्रये ॥ ३ ॥
इति ध्यात्वा हस्रैं हसकलह्रीं हसकहलह्रीं ह्रसौः सकलह्रीं इति जपेत् ॥ इयमेव सकलपूर्वां विधेया भुवनेश्वरीभैरवीभेदः । सम्पत्प्रदा सकाराद्या चेत्कौलेशभैरवी सम्पत्प्रदाया आद्यन्ते रेफं हित्वा सकलसिद्धिदा भैरवी । एतासां विद्यानामृष्यादिकं प्राग्वत् ॥
अथ बौद्धदर्शनाधिदेवतामन्त्राः । तत्रादौ पद्मावतीप्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि ब्रह्मणे ऋषये नमः मुखे गायत्रीच्छन्दसे नमः हृदये श्रीपद्मावत्यै देवतायै नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा ह्रांह्रीमित्यादिना षडङ्गन्यासं कृत्वा ध्यायेत् ॥
पद्मासनस्थां नवकुंकुमाभां रक्तोत्पले संदधतीं त्रिनेत्राम् ।
आबिभ्रतीमाभरणानि रक्तां पद्मावतीं पद्ममुखीं नमामि ॥ १ ॥
इति ध्यात्वा ह्रीं हसकलह्रीं पद्मावती हसकहलह्रीं स्वाहा सकलह्रीं इति
मन्त्रं जपेत् ॥ उग्रताराप्येकजटा तारा नीलसरस्वती इत्युक्तत्वात् । एतासां
मन्त्रास्तु : ऐं ह्रींश्रींक्लींसौः हुं उग्रतारे हुंफट् इत्युग्रतारा ।
श्रींहुं ह्रींहुंफट् इत्येकजटा । ओं ह्रींस्त्रींहूंफट् इति तारा ।
ह्रींस्त्रींहूं इति नीलसरस्वती । एतासां चतसृणां जपे तु
बीजान्तरितपञ्चदशीकूटत्रयं प्रत्येकंप्रत्येकं संयोज्य जपेत् ॥
प्रयोगास्तु : प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं
कृत्वा शिरसि अक्षोभ्याय ऋषये नमः मुखे गायत्रीच्छन्दसे नमः हृदये
अमुकतारायै देवतायै नमः इति विन्यस्य ममाभीष्टसिद्धये जपे विनियोगः
इति कृताञ्जलिरुक्त्वा ओं ह्रां अखिलवाग्रूपिण्यै हृदयाय नमः ओं ह्रीं
अखण्डवाग्रूपिण्यै शिरसे स्वाहा ओं ह्रूं ब्रह्मवाग्रूपिण्यै शिखायै
वषट् ओं ह्रैं विष्णुवाग्रूपिण्यै कवचाय हुं ओं ह्रौं रुद्रवाग्रूपिण्यै
नेत्रत्रयाय वौषट् ओं ह्रः सर्ववाग्रूपिण्यै अस्त्राय फट् इति षडङ्गमन्त्रान्
विन्यस्य ध्यायेत् -
विश्वव्यापकवारिमध्यविलसच्छ्वेताम्बुजन्मस्थितां
कर्त्रीखड्गकपालनीलनलिनै राजत्करां नीलभाम् ।
काञ्चीकुण्डलहारकङ्कणलसत्केयूरमञ्जीरता-
माप्तैर्नागवरैर्विभूषिततनुमारक्तनेत्रत्रयाम् ॥ १ ॥
पिङ्गोग्रैकजटां लसत्सुरसनां दंष्ट्राकरालाननां
प्. २१५) व्याघ्रत्वक्परिधानशोभितकटिं श्वेतास्थिपट्टालिकाम् ।
अक्षोभ्येण विराजमानशिरसं स्मेराननाम्भोरुहां
तारां शावहृदावसनां दृढकुचामम्बां त्रिलोक्याः स्मरेत् ॥ १ ॥
इति ध्यायेत् ॥
अथ मातङ्गीप्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि दक्षिणामूर्तये ऋषये नमः मुखे गायत्रीच्छन्दसे नमः हृदये श्रीमातङ्गिन्यै देवतायै नमः मम सर्वाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा ऐंह्रींश्रीं-ओं नमो भगवति श्रीमातङ्गीश्वरि सर्वजनमनोहारि हृदयाय नमः सर्वमुखराजिसर्वमुखरञ्जिनि शिरसे स्वाहा सर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करि शिखायै वषट् सर्वदुष्टमृगवशङ्करि सर्वसत्त्ववशङ्करि कवचाय हुं सर्वलोकममुकं मे वशमानय नेत्रत्रयाय वौषट् स्वाहा अस्त्राय फट् इति षडङ्गमन्त्रान् विन्यस्य ध्यायेत् :
एवं न्यस्तशरीरोऽसौ चिन्तयेन्मन्त्रदेवताम् ।
अमृतोदधिमध्यस्थे रत्नद्वीपे मनोरमे ॥ १ ॥
स्वर्णप्राकारसंवीते मण्डपे रत्ननिर्मिते ।
कदम्बबिल्वकद्वारि कल्पवृक्षोपशोभिते ॥ २ ॥
वेदिमध्ये सुखास्तीर्णे रत्नसिंहासने प्रभो ।
अष्टपत्रं महापद्मं केसरान्तःसकर्णिकम् ॥ ३ ॥
तन्मध्ये च त्रिकोणं स्यादष्टपत्रे ततो बहिः ।
पुनः षोडशपत्रं स्यात्तद्बाह्ये स्याच्चतुर्दलम् ॥ ४ ॥
वेदास्रं च चतुर्द्वारं मण्डलं प्रोक्तमुत्तमम् ।
तस्य मध्ये सुखासीनां श्यामवर्णां शुचिस्मिताम् ॥ ५ ॥
कदम्बमालाभरणां पूजितां च सुरासुरैः ।
प्रलम्बालकसंयुक्तां चन्द्ररेखावतंसिताम् ॥ ६ ॥
ललाटे तिलकोपेतामीपत्प्रहसिताननाम् ।
किञ्चित्स्वेदाम्बुमधुरललाटफलकोज्ज्वलाम् ॥ ७ ॥
वलीतरङ्गमध्यान्तारोमराजिविराजिताम् ।
सर्वाभरणसंयुक्ता मुक्ताहारविभूषिताम् ॥ ८ ॥
नानामणिगणोन्नद्धकटिसूत्रैरलंकृताम् ।
वलयै रत्नखचितैः केयुरैर्मणिभूषितैः ॥ ९ ॥
भूषितां द्विभुजां बालां मदघूर्णितलोचनाम् ।
आपीनमण्डलाभोगसमुन्नतपयोधराम् ॥ १० ॥
प्रलम्बकर्णाभरणां कर्णोत्तंसविराजिताम् ।
तमालनीलां तरुणीं मधुमत्तां मतङ्गिनीम् ॥ ११ ॥
चतुष्षष्टिकलारूपपार्श्वस्यशुकसारिकाम् ।
कोटिबालार्कसङ्काशां जपाकुसुमसन्निभाम् ॥ २२ ॥
एवं वा पीतवर्णां च ध्यायेन्मातङ्गिनीं पराम् ।
एवं ध्यात्वा ऐंह्रींश्रीं-ओं नमो भगवति श्रीमातङ्गीश्वरि सर्वजनमनोहारि सर्वमुखराजि सर्वमुखरञ्जिनि हसकलह्रीं सर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करि हसकहलह्रीं सर्वदुष्टमृगवशङ्करि सकलह्रीं सर्वलोकममुकं मे वशमानय स्वाहा एवं जपेत् ॥
अथ सुमुखोप्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि तुम्बुरवे ऋषये नमः मुखे गायत्रीच्छन्दसे नमः हृदये श्रीसुमुख्यै देवतायै नमः । इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा ऐंह्रींश्रीं हृदयाय नमः उच्छिष्ट शिरसे स्वाहा चाण्डालि शिखायै वषट् मातङ्गि कवचाय हुं सर्ववशङ्करि नेत्रत्रयाय वौषट् नमः अस्त्राय फट् इति षडङ्गमन्त्रान् विन्यस्य ध्यायेत् :
स्मरेत् प्रथमपुष्पिणीं रुधिरबिन्दुनीलाम्बरां
गृहीतमधुपात्रिकां मदविघूर्णनेत्रत्रयाम् ।
घनस्तनभरालसां गलितचूर्णिकां बालिकां
करस्फुरितवल्लकीं विमलशङ्खताटङ्किनीम् ॥ १ ॥
इति ध्यात्वा ऐं ह्रींश्रीं हसकलह्रीं उच्छिष्टचण्डालिमातङ्गि हसकहलह्रीं सर्ववशङ्करि सकलह्रीं नमः स्वाहा इति जपेत् ॥
प्. २१६) अथ चण्डमातङ्गिनीप्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि दक्षिणामूर्तये ऋषये नमः मुखे गायत्रीच्छन्दसे नमः हृदये श्रीचण्डमातङ्गिन्यै देवतायै नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः : इति कृताञ्जलिरुक्त्वा मायया षड्दीर्घया षडङ्गानि विन्यस्य ध्यायेत् :
मातङ्गीं नवयावकार्द्रचरणामुल्लासिकृष्णांशुकां
वीणोल्लासिकरां समुन्नतकुचां मुक्ताप्रवालावलीम् ।
हृद्याङ्गीं सितशङ्खकुण्डलधरां बिम्बाधरां सस्मिता-
माकीर्णालकवेणिमब्जजनयनां ध्यायेच्छुकश्यामलाम् ॥ १ ॥
इति ध्यात्वा ह्रीं नमः हसकलह्रीं हिलिहिलि हसकहलह्रीं चण्डमातङ्गिनी सकलह्रीं स्वाहा इति जपेत् ॥
अथ गाणपत्यदर्शनाधिदेवतामन्त्राः ।
आदावेकाक्षरगणपतिमन्त्रप्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते
मूलेन प्राणायामत्रयं कृत्वा शिरसि गणकाय ऋषये नमः मुखे
निचृच्छन्दसे नमः हृदये श्रीविघ्नेश्वराय देवतायै नमः इति विन्यस्य
मम सर्वाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा ओं गणजयाय स्वाहा
हृदयाय नमः एकदंष्ट्राय हुंफट् शिरसे स्वाहा अचलकर्णिने नमः
शिखायै वषट् गजवक्त्राय नमो नमः कवचाय हुं महोदराय
नेत्रत्रयाय वौषट् चण्डाय हुं फट् अस्त्राय फट् । अथवा गाङ्गीमित्यादिना
षडङ्गानि विधाय ध्यायेत् ।
रक्ताभः शशिमौलिरंकुशगुणौ दन्तं वरं धारयन्
हस्ताब्जैर्द्विरदाननस्त्रिनयनो रक्ताङ्गरागावृतः ।
बीजापूरबृहत्करोरुजठरो दानार्द्रगण्डस्थलो
विघ्नेशः फणिभूषणो गणपतिर्भूयाद्भवद्भूतये ॥ १ ॥
इति ध्यात्वा गं हसकलह्रीं गं हसकहलह्रीं गं सकलह्रीं इति जपेत् ॥
अथ महागणपतेः प्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि गणकाय ऋषये नमः मुखे निचृद्गायत्रीच्छन्दसे नमः हृदये श्रीगणपतये देवतायै नमः गुह्ये गं बीजाय नमः पादयोः ह्रीं शक्तये नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा ओं गां हृदयाय नमः श्रीं गीं शिरसे स्वाहा ह्रीं गूं शिखायै वषट् क्लीं गैं कवचाय हुं ग्लौं गौं नेत्रत्रयाय वौषट् गं गः अस्त्राय फट् इति षडङ्गमन्त्रान् विन्यस्य ध्यायेत्
चक्राब्जत्रिंशिखान् गुणैक्षवधनू रक्तोत्पलं सद्गदां
व्रीह्यग्रान्वितबीजपूररदनं कुम्भं करैर्बिभ्रतम् ।
पद्मोद्यत्करया निजप्रमदयाश्लिष्टं जपासन्निभं
सार्धेन्दु प्रभजे महागणपतिं नेत्रत्रयोद्भासितम् ॥ १ ॥
एवं ध्यात्वा ओं श्रींह्रीं क्लींग्लौंगं हसकलह्रीं गणपतये वरवरद हसकहलह्रीं सर्वजनं मे वशमानय सकलह्रीं स्वाहा इति जपेत् ॥
अथ क्षिप्रगणपतिप्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन
प्राणायामत्रयं कृत्वा शिरसि गणकाय ऋषये नमः मुखे विराट्छन्दसे
नमः हृदि क्षिप्रप्रसादनाय गणपतये देवतायै नमः इति विन्यस्य
ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा गांगीमित्यादिना
करषडङ्गन्यासं विधाय ध्यायेत् ।
सिन्दूराभमिभाननं त्रिनयनं हस्तेषु पाशांकुशौ
बिभ्राणं मधुमत्कपालमनिशं सार्धेन्दुमौलिं भजे ।
प्. २१७) पुष्ट्याश्लिष्टतनुं ध्वजाग्रकरया पद्मोल्लसद्धस्तया
तद्योन्याहितपाणिमात्तवसुमत्पात्रोल्लसत्पुष्करम् ॥ १ ॥
एवं ध्यात्वा गं हसकलह्रीं क्षिप्रप्रसादनाय हसकहलह्रीं नमः सकलह्रीं इति मन्त्रं जपेत् ॥
अथ वक्रतुण्डप्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि भार्गव ऋषये नमः मुखेऽनुष्टुप्च्छन्दसे नमः हृदये श्रीवक्रतुण्डाय देवतायै नमः इति विन्यस्य ममाभीष्टाप्तये विनियोगः इति कृताञ्जलिरुक्त्वा व हृदयाय नमः क्र शिरसे स्वाहा तु शिखायै वषट् ण्डा कवचाय हुं य नेत्रत्रयाय वौषट् हूं अस्त्राय फट् इति षडङ्गमन्त्रान् विन्यस्य ध्यायेत् :
रम्योद्भिन्नारुणतरमणियातसंशोभिकान्तिं
संबिभ्राणं करकिसलयैः पाशमप्यंकुशाङ्गम् ।
साभीतीष्टं त्रिनयनयुतं रत्नमाल्यांशुकाढ्य-
मम्भोजोद्यत्पुटगतममुं संस्मरेद्वक्रतुण्डम् ॥ १ ॥
इति ध्यात्वा हसकलह्रीं वक्रतुण्डाय हसकहलह्रीं हूं सकलह्रीं इति मन्त्रं जपेत् ॥
अथ लक्ष्मीगणेशप्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि अन्तर्यामि ऋषये नमः मुखे निचृद्गायत्रीच्छन्दसे नमः हृदये श्रीलक्ष्मीगणेशाय देवतायै नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा श्रां गां इत्यादिना षडङ्गानि विन्यस्य ध्यायेत् :
हेमाभः पीतवस्त्रः करकमलतलैः संदधच्चक्रशऽऽखौ
दन्ताभीती च नासाधृतकनकघटः पद्मसंस्थस्त्रिनेत्रः ।
वामाङ्गाविष्टलक्ष्म्या विधृतकमलया प्रोल्लसद्दक्षदोष्णा
श्लिष्टः सौवर्णकान्त्या गणप इह महाश्रीकरो वः श्रियेऽस्तु ॥ १ ॥
इति ध्यात्वा श्रींगंसौम्याय हसकलह्रीं महागणपतये वरवरद हसकहलह्रीं सर्वजनं मे वशमानय सकलह्रीं स्वाहा इति जपेत् ॥
अथ हेरम्बस्य प्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि गणकाय ऋषये नमः मुखे गायत्रीच्छन्दसे नमः हृदये श्रीहेरम्बाय देवतायै नम इति विन्यस्य ममाभीष्टाप्तये विनियोगः इति कृताञ्जलिरुक्त्वा गांगीं इत्यादिना षडङ्गानि विन्यस्य ध्यायेत् :
मुक्ताविद्युत्पयोदामृतघुसृणनिभैः पञ्चभिर्नागवक्त्रै-
र्हेरम्बो भावनीयः शशिधरमुकुटो दृप्तसिंहाधिरूढः ।
हस्तैर्बिभ्रत् त्रिशुलांकुशकजपवटीमुद्गरान् पुंस्कपालं
टङ्काङ्को मोदकंस्याद्रदलसदभये दानमकौघदीप्तिः ॥ १ ॥
एवं ध्यात्वा ओं हसकलह्रीं गूं हसकहलह्रीं नमं सकलह्रीं इति जपेत् ॥
अथ विरिगणेशमन्त्रप्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि गणकाय ऋषये नमः मुखे गायत्रीच्छन्दसे नमः हृदि विरिविघ्नेश्वराय देवतायै नमः इति विन्यस्य ममाभीष्टसिद्धये जपे विनियोगः इति कृताञ्जलिरुक्त्वा विरिविरि हृदयाय नमः गणपति शिरसे स्वाहा वरवरद शिखायै वषट् सर्वलोकं मे कवचाय हुं वशमानय नेत्रत्रयाय वौषट् स्वाहा अस्त्राय फट् इति षडङ्गमन्त्रान् विन्यस्य ध्यायेत् सिन्दूराभमिभानन मिति प्राग्वत् । ह्रीं विरिविरि हसकलह्रीं गणपतिवरवरद हसकहलह्रीं सर्वलोकं मे वशमानय सकलह्रीं स्वाहा इति जपेत् ॥
प्. २१८) अथ शक्तिगणेशस्य प्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते मूलेन प्राणायामत्रयं कृत्वा शिरसि गणकाय ऋषये नमः मुखे निचृद्गायत्रीच्छन्दसे नमः हृदये शक्तिश्रीगणेशाय देवतायै नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा ह्रीं हृदयाय नमः गं शिरसे स्वाहा ह्रीं शिखायै वषट् महागणपतये कवचाय हूं स्वाहा नेत्रत्रयाय वौषट् ह्रींगंह्रीं महागणपतये स्वाहा अस्त्राय फट् इति षडङ्गमन्त्रान् विन्यस्य प्राग्वद्ध्यात्वा -
ह्रींगंह्रीं हसकलह्रीं महागणपतये हसकहलह्रीं स्वाहा सकलह्रीं इति जपेत् ॥
अथोर्ध्वाम्नायक्रमेण श्रीविद्याषोडशार्णाया उपदेशे षोडशमूलविद्यास्वैकैकस्य द्वेद्वे विद्ये प्रयोज्ये । ता विद्यास्तु -
ओं ऐं ह्रींश्रींसहखफ्रें सहौः सहक्षमलवरयीं हौंह्रींहंसः सोऽहं स्वाहा इत्येकादश बीजानि सर्वत्र विद्यादौ योज्यानि ॥
११ स्वप्रकाश परिपूर्णपरापरमहाकुल सिद्धविद्यामहाकुलयोगिनीह्रीं ।
इति कुलयोगिनीमूलविद्या ॥ १ ॥
११ हसौः स्वात्मानं बोधय बोधय हसौः प्रासादपरायोगिनी ह्रीं इति प्रासादपरायोगिनीमूलविद्या ॥ २ ॥
११ ऐंब्लूंक्लिन्ने क्लेदिनि क्लिन्नद्रवे क्लेदय क्लेदय क्लींक्लीं महामद मोहयमोहय क्लीं नमः स्वाहा इति रहस्ययोगिनीमूलविद्या ॥ ३ ॥
११ स्वच्छानन्द परमहंसपरमात्मने स्वाहा हसक्ष्यौं इति शांभवीयोगिनीमूलविद्या ॥ ४ ॥
११ ह्रीं नित्यस्फुरत्तानन्दमयी महाबिन्दुव्यापकमातृस्वरूपिणी ह्रीं इति हृल्लेखायोगिनीमूलविद्या ॥ ५ ॥
११ स्वच्छप्रकाशात्मिके ह्रीं कुलमहामालिनी ह्रीं इति समयविमलायोगिनीमूलविद्या ॥ ६ ॥
११ हंसः नित्यप्रकाशात्मिके कुलकुण्डलिनि आज्ञासिद्धिमहाभैरवी आत्मानं बोधय बोधय अम्बे भगवति ह्रीं हुं इति परबोधिनीयोगिनीमूलविद्या ॥ ७ ॥
११ ओं मोक्षं कुरु इति पञ्चाक्षरी योगिनीमूलविद्या ॥ ८ ॥
११ हसैं हसकलह्रीं हसौः लोपामुद्राचैतन्यत्रिपुरायोगिनीमूलविद्या ॥ ९ ॥
११ ऐं शुद्धसूक्ष्मनिराकारनिर्विकल्प परब्रह्मस्वरूपिणी क्लीं परानन्दमयीशक्तिः सौः इत्यनुत्तरकौलिनीयोगिनीमूलविद्या ॥ १० ॥
११ स्वच्छानन्दपरमहंसपरमात्मने स्वाहा हस्रूं इति गुरूत्तमविमर्शिनीयोगिनीमूलविद्या ॥ ११ ॥
११ अनाभासाव्योमातीता परापरव्योमातीता व्योमेश्वरी ह्रीं इति अनाभासायोगिनीमूलविद्या ॥ १२ ॥
११ ऐं इं ईं ऊं इति सङ्केतसारविद्यायोगिनीमूलविद्या ॥ १३ ॥
११ ह्रीं विच्चे भगवति वाग्वादिनि महाह्रदे महामाया मतङ्गिनि ऐंब्लूंरंस्त्रीं इत्यनुत्तरवाग्वादिनीयोगिनीमूलविद्या ॥ १४ ॥
११ हस्रैंहस्रींहस्रौः इत्यनुत्तरविद्यायोगिनीमूलविद्या ॥ १५ ॥
११ हीं सर्वानन्दमये महाचक्रे वैन्दवे परब्रह्मस्वरूपिणी परामृतशक्तिः सर्वमन्त्रेश्वरी सर्वतन्त्रेश्वरी सर्वयोगीश्वरी सर्वज्ञानेश्वरी सर्वपीठेश्वरी जगदुत्पत्तिमातृकाह्रीं इति तुरीयायोगिनीमूलविद्या ॥ १६ ॥
तथोत्तरतन्त्रे :
पञ्चमाम्नायदीक्षायां चतुराम्नायदेवताः ।
अङ्गत्वेन समाख्याता द्वेद्वे विद्ये समभ्यसेत् ॥ १ ॥
सुरेन्द्रानलयोरैन्द्र्यो याम्ये वै याम्यकोणयोः ।
वारुण्यौ पाशिमरुतोस्तत्परे सौम्यदिग्भवे ॥ २ ॥
इति । अस्यार्थः - पञ्चमाम्नाय ऊर्ध्वाम्नायस्तत्र दीक्षायां
चतुराम्नायदेवताः पूर्वदक्षिणपश्चिमोत्तराम्नाय देवता इत्यर्थः ।
द्वेद्वे विद्ये एकैकस्याम्नायस्य समभ्यसेत् योजयेत् । दिग्विभागमाह सुरेन्द्रेति ।
प्राक्कुण्डाग्नेयकुण्डयोरेन्द्र्यां पूर्वाम्न्यायविद्ये
याम्यकोणयोर्याम्यनैर्-ऋतयोर्याम्ये दक्षिणाम्नायविद्ये पाशिमरुतोः
पश्चिमवायव्ययोर्वारुण्यौ पश्चिमाम्नायविद्ये तत्परे उत्तरेशानकुण्डयोः
सौम्यदिग्भवे उत्तरदिङ्मुखसंभूते उत्तराम्नायविद्ये इत्यर्थः ॥
श्रीकुलार्णवे :
प्राक्कुण्डे भैरवी प्रोक्ता ह्याग्नेये भुवनेश्वरी ।
पीताम्बरा भोगिनी वा याम्यकुण्डे प्रशस्यते ॥ १ ॥
वाराही नैर्-ऋते कुण्डे पश्चिमे चापराजिता ।
भवानी वायुकोणे तु श्यामा तारा तु तत्परे ॥ २ ॥
इति । तथैव -
पञ्चकुण्डात्मके पक्षे चतुःसमयदेवताः ।
चतुराम्नायविद्या वा प्रयोज्याः परमेश्वरि ॥ १ ॥
इति ॥ अथ श्रीगुरुविद्यादीक्षायां त्वङ्गत्वेन चरणादिविद्याः प्रयोज्याः
पराप्रासाददीक्षायां तु पञ्चब्रह्ममन्त्राः पञ्चानां त्रयाणां
विभागमाह अष्टात्रिंशत्कलास्त्रिधेति ।
पञ्चब्रह्ममन्त्राणामष्टात्रिंशत्कलाः षोडश द्वादश दश क्रमेण
प्रयोज्या इत्यर्थः ।
प्. २१९) प्रसङ्गतोऽन्यासां विद्यानां दीक्षायां क्रममाह दक्षिणेति आद्यहीनेति स्पष्टोऽर्थः । भुवनेश्वर्यास्तु गुणार्णकं पाशांकुशभुवनेश्वरी । श्रीः श्रियाभिषिक्तभुवनेश्वरी वाक् वाग्भवरुद्धाभुवनेश्वी कामराजरुद्धा पराबीजरुद्धा । त्रिविधा त्रिपुटेति श्रीबीजादिका कामबीजादिका मायाबीजादिकेत्यर्थः । पञ्चदश्या इति - अत्र जाग्रत्स्वप्नसुषुप्ति तुरीयतुरीयातीतेति पञ्चविधाः । जाग्रद्विद्यायाः (जाग्रद्विद्या स्वप्नविद्यायाः) स्वप्नविद्या सुषुप्तिविद्यायाः सुषुप्तिविद्या तुरीयविद्यायाः तुरीयविद्या तुरीयातीतायास्तुरीयातीतविद्या एव प्रयोज्या ईत्यर्थः । श्रीकुलार्णवे :
पराप्रासादमन्त्रश्च लक्ष्मीनारायणस्तथा ।
चिदम्बरमहामन्त्रः पक्षिरूपश्च शारभः ॥ १ ॥
षडेव शाम्भवाश्चैव महामृत्युञ्जयस्तथा ।
लक्ष्मीजनार्दनो लक्ष्मीवासुदेवस्तथैव च ॥ २ ॥
राजराजेश्वरश्चैव पञ्चवक्त्रश्च मारुतिः ।
मार्तण्डभैरवश्चैव महागणपतिस्तथा ॥ ३ ॥
उच्छिष्टगणनाथश्च वक्रतुण्डस्तथैव च ।
गाणपत्याः श्रिया युक्ताः सीतारामस्तथैव च ॥ ४ ॥
नृसिंहानुष्टुभं चैव पञ्चबाणास्तथैव च ।
पञ्चकामाश्च देवेशि जैना बौद्धास्तथैव च ॥ ५ ॥
शम्भोरूर्ध्वमुखादेव निर्गता वीरवन्दिते ।
शिवपञ्चाक्षरीभेदाः प्रासादाख्याः शिवास्तथा ॥ ६ ॥
विष्णोरष्टाक्षरीभेदा वासुदेवाह्वयास्तथा ।
गाणपत्ये तथैकार्णभेदा घृणिमनुस्तथा ॥ ७ ॥
पूर्वाम्नायास्तु कथिता वराहस्तुम्बुरुस्तथा ।
हरिद्रागणपश्चैव वटुकाः क्षेत्रपालकाः ॥ ८ ॥
शास्तृमन्त्रा नृसिंहाख्यास्तथा हरिहरात्मकाः ।
श्रीकृष्णमन्त्रभेदाश्च दधिवामनसंज्ञकाः ॥ ९ ॥
दक्षिणाम्नायविख्यातास्तथोच्छिष्टाणुभेदकाः ।
पुरुषोत्तमसंज्ञाश्च मालामन्त्रास्तथैव च ॥ १० ॥
अघोररुद्रभेदाश्च येऽपि बौद्धप्रभेदकाः ।
पश्चिमाम्नायविख्याता दक्षिणामूर्तिरेव च ॥ ११ ॥
ग्रहाणां लोकपालानां मन्त्राश्चण्डेश्वरस्य तु ।
वेतालाश्चेटकाश्चैव ये वै हरिहरात्मकाः ॥ १२ ॥
वीरभद्राश्च सुब्रह्मण्यादयो मातृपुत्रकाः ।
उत्तराम्नायविख्याताः शीघ्रकालफलप्रदाः ॥ ३ ॥
अथेष्टदेवताप्रीत्यै यजेदायतनान्यपि ।
आयतनानि चतुरायतनानि । तानि तु मध्यस्थस्वेष्टदेवताया अङ्गभूतानि ।
तत्स्थापनक्रममाह तत्रैव -
तत्राथ पञ्चायतनस्य वक्ष्ये संस्थापनं भक्तिविभेदभिन्नम् ।
भास्वद्गणश्रीपतिपार्वतीशा विघ्नेश्वरार्काद्रिसुता हरिश्च ॥ १ ॥
कृष्णैकदन्तेननगेन्द्रजेशा मायेश्वरेभाननभास्कराजाः ।
ईशेनविघ्नाधिपशक्तिकृष्णा मध्याग्निकोणक्रमतस्तु पूज्याः ॥ २ ॥
इति रत्नसागरे -
रविर्विनायको देवी विष्णुः शङ्करपूजये ।
गणेशार्काम्बिकेशानास्तथा नारायणार्चने ॥ १ ॥
शिवो विघ्नो हरिः कात्यायनी सूर्यार्चने क्रमात् ।
देव्यर्चने शिवो विघ्नः सूर्यो विष्णुस्तथैव च ॥ २ ॥
शिवो रविर्भवानी च विष्णुर्विघ्नेश्वरार्चने ।
आग्नेयादिषु कोणेषु स्थाप्या अङ्गाङ्गिभावतः ॥ ३ ॥
पूज्याश्चैव महेशानि व्यस्ताः स्युर्दुःखदाः सदा ।
इति । अत्र सर्वत्र देवपूजायां तत्तत्पूजारूपं चक्रमुद्धृत्य
तत्तत्कल्पोक्तविधिना तत्तत्पीठपूजापूर्वकं पञ्चायतनदेवताः पूजयेत् ।
अन्यथा पूजाया नैष्फलयं स्यात् । तदुक्तं कुलार्णवे :
देवस्य यन्त्ररूपस्य यन्त्रव्याप्तिमजानता ।
कृतार्चनादिकं सर्वं व्यर्थं भवति शाम्भवि ॥ १ ॥
यन्त्रं मन्त्रमयं प्रोक्तं देवता मन्त्ररूपिणी ।
यन्त्रे सम्पूजिता देवी सहसैव प्रसीदति ॥ २ ॥
कामक्रोधादिदोषोत्थसर्वदुःखनियन्त्रणात् ।
यन्त्रमित्याहुरेतस्मिन् देवः प्रीणाति पूजितः ॥ ३ ॥
प्. २२०) शरीरमिव जीवस्य दीपस्य स्नेहवत्प्रिये ।
सर्वेषामेव देवानां तथा यन्त्रं प्रतिष्ठितम् ॥ ४ ॥
तस्माद्यन्त्रं लिखित्वा वा ध्यात्वा वा भजते शिवे ।
ज्ञात्वा गुरुमुखात् सर्वं पूजयेद्विधिना शिवे ॥ ५ ॥
एकपीठे पृथक्पूजां विना यन्त्रं करोति यः ।
अङ्गाङ्गित्वमपि त्यक्त्वा देवताशापमाप्नुयात् ॥ ६ ॥
एकपीठे सुरेशानि स्वेस्वे यन्त्रे पृथक्पृथक् ।
यजेदावरणोपेतान् देवांस्तत्तद्विधानतः ॥ ७ ॥
आवाह्य देवतामन्यामर्चयेच्चान्यदेवताः ।
उभाभ्यां लभते शापं मन्त्री चञ्चलमानसः ॥ ८ ॥
इति ॥ कुलप्रकाशतन्त्रे -
खण्डिते स्फुटिते दग्धे भ्रष्टे मानविवर्जिते ।
व्यङ्गेऽनर्हपशुस्पृष्टे पतिते दुष्टभूमिषु ॥ १ ॥
अन्यमन्त्रार्चिते चैव पतितस्पर्शदूषिते ।
दशस्वपि च नो कुर्युः सन्निधानं दिवौकसः ॥ २ ॥
इति : अत्र पञ्चायतनपूजायामपि सम्प्रदायात् पूज्यपूजकयोर्मध्ये पूर्वदिशं प्रकल्प्य तदनुसारेणाग्नेययादिकं परिकल्प्य चतुरायतनदेवताः पूजयेत् । धर्मादिपूजायामुक्तयुक्तेस्तुल्यन्यायात् । अत्र केचित् प्रधानदेवतावाहनान्तरमेव तदावरणपूजार्थं देवताग्रे प्राचीनकल्पना तत्पूर्वमेव चतुरायतनदेवतानां पूजायाः कार्यत्वात्कल्पनमयुक्तमिति यथा स्थिताग्नेयादिदिक्षु चतुरायतनदेवताः पूजनीयाः इत्याहुस्तन्न । काम्यपूजासु :
पूर्वाशाभिमुखो भूत्वा वश्यकर्मणि पूजयेत् ।
दक्षिणाशामुखो भूत्वा मारणे पूजयेत्प्रिये ॥ १ ॥
पश्चिमाभिमुखो भूत्वा पूजयेद्धनसिद्धये ।
उत्तराभिमुखो भूत्वा शान्तिकर्मणि पूजयेत् ॥ २ ॥
इति ब्रह्मयामलवचनात् । अग्निराक्षसवायव्यशम्भुकोणमुखोऽर्चयेत् । इति कुलमूलावतारवचनादन्यत्राप्येवमनेकतन्त्रेषु दर्शनाच्च यथास्थितदिक्क्रमेण पूजायामीशानकोणस्थितायाः कदाचित्प्रधानदेवताया वामभागे कदाचिद्दक्षिणे कदाचिदग्रे कदाचित्पृष्ठे चेति स्थित्यनैयत्यप्रसङ्गात् यथास्थिताग्नेयादिषु स्थापनासम्भवात् प्रधानदेवतायाः पीठपूजानन्तरमेव चतुरायतनदेवतापूजनात् पीठपूजायामपि धर्मादिपूजने कल्पितप्राच्यनुसारेणैवाग्नेयादिकल्पनात् चतुरायतनदेवतानामङ्गत्वात् प्रधानदेवतामूर्तेः कल्पितत्वाच्च तदग्रे प्राचीनकल्पनस्यैवोचितत्वादिति ॥ अन्येतु तान्त्रिकदीक्षावद्भिः :
शम्भौ मध्यगते हरीनहरभूदेव्यो हरौ शङ्करे-
भास्येनागसुता रवौ हरगणेशाजाम्बिकाः स्थापिताः ।
देव्यां विष्णुहरैकदन्तरवयो लम्बोदरेऽजेश्वरे-
नार्याः शङ्करमार्गतो हि सुखदा व्यस्तास्तु ते दुःखदाः ॥ १ ॥
इति नारायणीयोक्तरीत्या कल्पितप्राच्यनुसारेण
मध्येशानादिकोणेष्विष्टदेवतादिकाः पञ्च देवताः स्थाप्याः ।
तान्त्रिकदीक्षाहीनैस्तु भविष्यपुराणवचनेन
पञ्चायतनदेवतायजनस्यावश्यकत्वं मत्वा
वैदिकस्मार्तपौराणिकान्यतमविधिना पञ्चायतनयजनं
कुर्वद्भिर्यथास्थितेशानादिकोणेषु मध्ये च पञ्चायतनदेवताः स्थाप्या
इत्याहुः तदत्यन्तमसङ्गतं तेषां पञ्चानां मध्ये
एकस्यापीष्टदेवतात्वाभावनयाङ्गित्वाभावात् कस्यापि मध्ये
स्थापनासम्भवात् रविर्विनायको विष्णुश्चण्डिकेशश्च पञ्चमः ।
अनुक्रमेण पूज्यास्ते व्युत्क्रमेण भयावहाः । इति पुराणसारसमुच्चये
तेषां पञ्चायतनदेवतानां यजनक्रमस्योक्तत्वाच्चेति । अत्र
पञ्चायतनपूजायां गणेशव्यतिरिक्तचतुर्देवतोपासकैः प्रोक्तक्रमेण
देवताः संस्थाप्य गणेशमारभ्य
प्रादक्षिण्यक्रमप्राप्तदेवताचतुष्टयं सम्पूज्य मध्ये स्वेष्टदेवतां
पूजयेत् । गणेशोपासकैस्तु सूर्यमारभ्य प्रादक्षिण्य
क्रमप्राप्तदेवताचतुष्टयं सम्पूज्य गणेशं
पूजयेदित्यागमसिद्धान्तः ॥ अत्र केचित् पञ्चायतनपूजायां
देव्याराधकः सूर्यगणेशशिवविष्णूनभ्यर्च्यान्ते देवीं पूजयेदिति
स्मृत्युक्तम् - इति वदन्ति तदसङ्गतम् अप्रादक्षिण्यापत्तेः [अ]क्रमस्याप्य
लाभतयास्तव्यस्तक्रमापत्तेश्च । वस्तुतस्तु गणेशसूर्यविष्ण्वीशदुर्गा
आवाह्य पूजयेत् । इति योगिनीतन्त्रे देवीपूजायां
पञ्चायतनपूजाक्रमदर्शनात् । आदौ गणपतिं देवं सूर्यं
विष्णुमुमापतिम् । दुर्गां च पूजयेद्विद्वान् इति भैरवीतन्त्रेऽपि
पञ्चायतनपूजाक्रमदर्शनाच्चायमेव तान्त्रिकसिद्धान्तः
सत्सम्प्रदायसिद्धश्च । अन्यदेवतोपासकैरपि तथैव गणेशादिक्रम एव
कार्यः ।
प्. २२१) एकत्रदृष्टन्यायादियं पञ्चायतनपूजा त्वावश्यङ्कार्या शिवं
भास्करमग्निं च केशवं कौशिकीमपि । मनसा नार्चयन्याति
स्वर्गलोकादधोगतिम् । इति भविष्यपुराणे तदकरणे प्रत्यवायश्रवणात् ।
मनसाप्यनर्चयन्नित्यर्थः । अग्निर्गणेशः । यो ब्रह्मा स हरिः प्रोक्तो यो हरिः
स महेश्वरः । महेश्वरः स्मृतः सूर्यः सूर्यः पावक उच्यते । पावका
कार्तिकेयोऽसौ कार्तिकेयो विनायकः । इति भविष्योत्तर पुराणवचनात् ॥
अथ मध्यस्थापितमूर्तौ स्वेष्टदेवतामावाह्य पूजयेत् । तत्र मूर्तिस्तु
तत्तद्ध्यानोक्तरूपा तत्र तु शिवलिङ्गशालग्रामादावपि भावनीया
शिवलिङ्गानां सर्वदैवतपूजाधिकरणत्वात् तेषु सर्वाश्च देवताः
पूज्याः तेषां लिङ्गमणौ कुम्भे मण्डले च प्रपूजनम् । शालग्रामे च
तद्बुध्या यन्त्रादौ च प्रपूजयेत् ॥ भूमावेव कृता पूजा
पुत्रायुर्धननाशिनी इति रुद्रयामलवचनात् । शालग्रामशिलायां तु
तत्तद्बुद्ध्या समर्चयेत् । इति सोमशम्भुवचनात् । लिङ्गस्थण्डिलयोर्वह्नौ
सूर्यकुण्ड्यपटेषु च । मण्डले फलके मूर्ध्नि हृदये दश कीर्तिताः ॥ एषु
स्थानेषु देवेशि यजन्ति परमं शिवम् । इति कुलार्णववचनाच्च
शिवमित्युपलक्षणम् । तेषामित्युक्तेः तेषां पञ्चायतनदेवतानां
यन्त्रादावित्यादिपदं प्रतिमादिपरम् ॥ शालग्रामे मणौ यन्त्रे स्थण्डिले
प्रतिमासु च । हरेः पूजा तु कर्तव्या केवले नतु भूतले ॥ इति
त्रैलोक्यसम्मोहनतन्त्रवचनात्तत्तद्ध्यानोक्तरूपा प्रतिमा कार्या । सातु
मात्रांगुलप्रमाणेन दशपञ्चदशांगुला । गृहे तु प्रतिमा पूज्या
नाधिका तु प्रशस्यते ॥ इति कपिलपञ्चरात्रोक्तरूपा प्रतिमा कार्या
दशांगुलमिता पञ्चदशांगुलमिता वेत्यर्थः । दशांगुलप्रमाणा
सातिथ्यंगुलमिताथवा । अभ्यर्च्या प्रतिमा विष्णोर्गृहेषु गृहमेधिभिः ॥ इति
हयग्रीवपञ्चरात्रवचनात् । अत्रापि वेत्यनेन दशांगुलमारभ्य
पञ्चदशांगुलपर्यन्तोच्चा प्रतिमा कार्येत्युक्तमिति साम्प्रदायिकाः ।
पूर्वश्लोकस्याप्ययमेवार्थः इति वदन्ति । मात्रांगुलप्रमाणं तु
मण्डपनिर्माणप्रकरणे बोद्धव्यं । शिवलिङ्गनिर्माणप्रकारस्तु
शिल्पिशास्त्रे -
लिङ्गमस्तकमध्यात्तु सूत्रं स्यादाप्रणालकम् ।
लिङ्गप्रणालिपुष्टत्वं तावदेव प्रकीर्तितम् ॥ १ ॥
उच्चत्वे च तथा पीठे पञ्चसूत्रं प्रचक्षते ।
पञ्चसूत्रसमायुक्तं शिवलिङ्गं प्रपूजयेत् ॥ २ ॥
भुक्तिदं मुक्तिदं चैव धनारोग्यसुखप्रदम् ।
इति । तन्निर्माणप्रकारस्तु कालोत्तरे -
अंगुलादिवितस्त्यन्तं लिङ्गं गेहे प्रपूज्यते ।
प्रासादे तु तदूर्ध्वं स्यात् पूजनीयं प्रयत्नतः ॥ १ ॥
लिङ्गमस्तकविस्तारं पूज्यभागसमं नयेत् ।
नाहं तत् त्रिगुणं कुर्यान्नाहवत् पीठविस्तृतिः ॥ २ ॥
पूज्यांशद्विगुणं कुर्यात् तच्च पीठं समुन्नतम् ।
वृत्तं वा चतुरस्रं वा मध्ये कण्ठसमन्वितम् ॥ ३ ॥
द्विगुणं लिङ्गनाहच्च कण्ठनाहं समाचरेत् ।
त्रिमेखलमधश्चोर्ध्वं समं वापि द्विमेखलम् ॥ ४ ॥
लिङ्गमस्तकविस्तारं षड्भागं विभजेत्ततः ।
मेखलामेकभागेन कुर्यात् खातं च तत्समम् ॥ ५ ॥
लिङ्गदैर्घ्यसमं कुर्यात् प्रणालं तस्य बाह्यतः ।
विस्तारं तत्समं मूले तदग्रं च तदर्धतः ॥ ६ ॥
जलमार्गः प्रकर्तव्यस्तस्य मध्ये विभागतः ।
कुर्यात् पीठार्धं दीर्घं वा प्रणालं श्रीशिवोदितम् ॥ ७ ॥
सर्वेषां रत्नलिङ्गानां सपीठानां विशेषतः ।
लोहादीनां च लिङ्गानामिदं लक्षणमाचरेत् ॥ ८ ॥
इति ॥ अस्यार्थः - स्वाभिमतलिङ्गं कृत्वा तस्य मस्तकस्य विस्तारं पूज्यस्य लिङ्गस्य यो भाग उच्चता तत्समं नयेत् कुर्यादिर्त्यर्थः । लिङ्गमस्तकविस्तारो लोङ्गोच्छ्रायसमो भवेत् इति शैवागमवचनात् । ततो लिङ्गमस्तकविस्तारो यावत्त्रिगुणसूत्रवेष्टनयोग्यं लिङ्गस्य नाहं स्थौल्यं कृत्वा लिङ्गस्य यो नाहस्तत्सूत्रमानविस्तारं पूज्यस्य लिङ्गस्य योंश उच्चस्ततो द्विगुणौन्नत्ययुक्तं वृत्ताकारं चतुरस्रं वा पीठस्य मध्ये लिङ्गस्य नाहसूत्रस्य स्थौल्यमात्रस्य द्विगुणसूत्रवेष्टनयोग्यं स्थूलं कण्ठं कृत्वा कण्ठस्योर्ध्वमधश्च समांशेन मेखलात्रयं मेखलाद्वयं वा विधाय लिङ्गमस्तकविस्तारं षोढा विभज्य तेष्वेकांशमानेन पीठोपरिभागे सर्ववाह्यांशेन मेखलां कृत्वा तदन्तस्तन्मानेन तत्संलग्नांशेन खातं विरच्य पीठाद्वहिर्लिङ्गसमान दैर्घ्यं पीठमानस्यार्धमानदीर्घं वा मूलदेशे दीर्घांशमानविस्तारमग्रदेशे तदर्धमानविस्तारं तन्मध्ये मूलादग्रावधि प्रणालविस्तारस्य तृतीयांशमानविस्तारखातरूपजलमार्गयुक्तं पीठवत्समेखलं प्रणालं च कुर्यादिति स्फटिकादिरत्नविशेषैः पाषाणादिभिर्वा शिवलिङ्गनिर्माणे साधारणोऽयं विधिः ॥ इति शिवलिङ्गनिर्माणप्रकारः ॥
इति श्रीमहामहोपाध्यायभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्य श्रीभगवच्छङ्कराचार्यशिष्य श्रीविष्णुशर्माचार्यशिष्य श्रीप्रगल्भाचार्यशिष्य श्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे एकादशः श्वासः ॥ ११ ॥
अथ
श्रीविद्यार्णवतन्त्रे

Video zur Vertiefung: Shri Yantra
Ein heutiger Yoga-Vidya-Vortrag zum Thema; keine Rezitation oder Übersetzung des historischen Textes.
12. Śvāsa
अथ श्रीचक्रनिर्माणप्रकारः । श्रीरुद्रयामले -
ततः कुंकुमसिन्दूरैः कार्यं यन्त्रं तु योगिना ।
सौवर्णे राजते ताम्रे स्फाटिके वैद्रुमे तथा ॥ १ ॥
चक्रे यथोक्तविधिना पूज्या देवी नरोत्तमैः ।
इति । तन्त्रराजे -
रत्ने हेमनि रूप्ये वा ताम्रे दृषदि च क्रमात् ।
कृत्वा चक्रस्य निर्माणं स्थापयेत् पूजयेदपि ॥ १ ॥
लक्ष्मीकान्तियशःपुत्रधनारोग्यादिसिद्धये ।
दृषदि गण्डकीशिलायाम् । गण्डकीभवपाषाणे स्वर्णे रजतताम्रयो रिति दक्षिणामूर्तिसंहितावचनात् ॥
अथ धातुविशेषे पूज्यकालसंख्याविशेषमाह रत्नसागरे -
यावञ्जीवं सुवर्णे स्याद्रूप्ये द्वाविंशतिः प्रिये ।
ताम्रे द्वादशकं वर्षं तदर्धं भूर्जपत्रके ॥ १ ॥
इति तन्त्रान्तरे -
ताम्रे द्वादशकं वर्ष स्फाटिकादौ तु सर्वदा ।
तेषां मध्ये स्फाटिके तु सर्वसिद्धिप्रदं भवेत् ॥ १ ॥
इति । लक्षसागरे -
भूमौ सिन्दूररजसा रचितं सर्वकामदम् ।
सुवर्णरचितं यन्त्रं सर्वराजवशङ्करम् ॥ १ ॥
रजतेन कृतं यन्त्रमायुरारोग्यकान्तिदम् ।
ताम्रैस्तु रचितं यन्त्रं सर्वैश्वर्यप्रदं मतम् ॥ २ ॥
यन्त्रं हि स्फाटिके देवि मनोऽभिलषितप्रदम् ।
माणिक्यलि(ख्य ? खि)तं यन्त्रं राज्यदं भुक्तिदं मतम् ॥ ३ ॥
गोमेदरचितं यन्त्रं सर्वैश्वर्यप्रदायकम् ।
कॢप्तं मरकते यन्त्रं सर्वशत्रुविनाशनम् ॥ ४ ॥
लोहत्रयोद्भवं यन्त्रं सर्वसिद्धिकरं मतम् ।
इति ॥ देव्युवाच -
लोहत्रयोद्भवं यन्त्रं कथं कार्यं महेश्वर ।
तन्मे वदस्व कृपया यद्यहं तव वल्लभा ॥ १ ॥
ईश्वर उवाच -
भागा दश सुवर्णस्य रजतस्य च षोडश ।
ताम्रस्य रविभागेन पीठ कुर्यान्मनोहरम् ॥ १ ॥
तस्मिन् पीठे तु निर्माणं श्रीचक्रस्य तु कारयेत् ।
शान्तिदं पुष्टिदं प्रोक्तं सर्वशत्रुनिवर्हणम् ॥ २ ॥
आयुरारोग्यजनकं कान्तिदं पुष्टिदं मतम् ।
इति ॥ अथ चक्रस्य प्रस्तारभेदेन त्रैविध्यं च तत्रैव -
त्रैविध्यं तस्य चक्रस्य भूप्रस्तारोऽर्धमेरुकम् ।
पातालवासिनां देवि प्रस्तारो निम्नरेखकः ॥ १ ॥
ऊर्ध्वरेखो महेशानि मर्त्यलोकनिवासिनाम् ।
स्वर्गलोकादिवासानां यन्त्राण्मेरुसंज्ञकः ॥ २ ॥
भूपुरं तु समारभ्य बैन्दवान्तं महेश्वरि ।
क्रमात्समुन्नतं सर्वं मेरुरूपं मयोदितम् ॥ ३ ॥
समोर्ध्वरेखा नवकमूर्ध्वरेखं प्रकीर्तितम् ।
निम्नरेखासमायोगाद्भूप्रस्तारो मयोदितः ॥ ४ ॥
प्. २२४) यन्त्रराजस्वरूपं ते मया स्नेहात् प्रकाशितम् ।
गोपितव्यं त्वया भद्रे स्वगुह्यमिव सन्ततम् ॥ ५ ॥
इति ॥ अथैतत्प्रस्तारत्रयस्य फलानि प्रस्तारान्तरं च श्रीतन्त्रराजे -
चतुरस्रं समारभ्य नवचक्राण्यनुक्रमात् ।
उन्नतोन्नतमामध्याच्चक्रं स्यान्निधनं धनम् ॥ १ ॥
त्रिद्विक्रमादुन्नतं तदप्रजत्वं श्रियं लभेत् ।
एकद्विषट्क्रमोन्नामं श्रियै कीर्त्ये च कल्पते ॥ २ ॥
नवानि समरूपाणि सर्वाभीष्टार्थसिद्धये ।
इति ॥ तथा कुलमूलावतारे -
उच्छ्रितं क्रमशो देवि वित्तप्राप्तिस्ततो मृतिः ।
भूचक्रं षोडशारं चाप्यष्टारं च समं भवेत् ॥ १ ॥
शेषमुन्नतमीशानि चार्थाप्त्यप्रजदं भवेत् ।
चतुरस्रं समं देवि षोडशारादिबिन्दुकम् ॥ २ ॥
मिथः समुन्नतं देवि श्रियै कीर्त्ये च कल्पते ।
चतुरस्रं समारभ्य बिन्द्वन्तं समरेखकम् ॥ ३ ॥
तथा श्रीः कीर्तिरारोग्यममृतायोपकल्पते ।
इति ॥ अथ श्रीचक्राधिकरणे निषिद्धधातूनन्यानि निषिद्धाधिकरणानि चाह तन्त्रराजे -
सीसकांस्यादिषु पुनः पूर्वोक्तविपरीतकृत् ।
फलकायां पटे भित्तौ स्थापयेन्न कदाचन ॥ १ ॥
स्थापितं यदि मोहेन लोभेनाज्ञानतोऽपि वा ।
कुलं वित्तमपत्यं च निर्मूलयति सर्वथा ॥ २ ॥
इति । कुलमूलावतारे -
अग्निरंगुलविस्तारं प्राक्प्रत्यग्दक्षिणोत्तरम् ।
पलप्रमाणं कर्तव्यमर्चापीठं मनोहरम् ॥ १ ॥
यवार्धोच्चं प्रकुर्वीत चतुरस्रं समन्ततः ।
तस्मिन् पीठे च निर्माणं श्रीचक्रस्य तु कारयेत् ॥ २ ॥
इति । सौत्रामणीतन्त्रे -
ऋजुरेखा भवेल्लक्ष्मीर्वक्ररेखा दरिद्रता ।
अग्निरंगुलविस्तारो यवार्धेनोच्छ्रितिर्भवेत् ॥ १ ॥
इति । लक्षसागरे अग्निरंगुलिहेमस्य (?) इत्यादि प्रागुक्तश्रीचक्रनिर्माणप्रस्तावे सृष्ट्यादिप्रपञ्चो न प्रपञ्चितोऽधुना विशेषमाह उत्तरतन्त्रे :
सृष्टिक्रमेण पूजा हि सृष्टिचक्रेऽभिधीयते ।
स्थितिक्रमेण पूजा स्यात् स्थितिचक्रे महेश्वरि ॥ १ ॥
संहारक्रमयोगेन पूजा संहारचक्रके ।
इति । अत्र श्रीचक्रं त्रिविधं सृष्टिस्थितिसंहारभेदात् । तदुक्तं मातृकासर्वस्वे -
श्रीचक्रं त्रिविधं प्रोक्तं सृष्टिस्थितिलयात्मकम् ।
प्रत्येकं त्रिविधं ज्ञेयं तत्साङ्कर्यात् प्रयत्नतः ॥ १ ॥
मूलभेदा नवैव स्युस्तत्तद्भेदा ह्यनेकधा ।
अत्र सृष्टिसृष्ट्यात्मकं स्थितिस्थित्यात्मकं लयलयात्मकं चेति त्रिविधम् ।
सृष्टिस्थित्यात्मकं स्थितिसृष्ट्यात्मकं सृष्टिलयात्मकं लयसृष्ट्यात्मकं
स्थितिलयात्मकं लयस्थित्यात्मकम् एते नव भेदाः । एवं सर्वे द्वादश
भेदाः अत्र विवेकस्तु तत्रैव :
सृष्टिचक्रं समाख्यातं नवचक्राण्यनुक्रमात् ।
उन्नतोन्नतमामध्यं विज्ञेयं देशिकोत्तमैः ॥ १ ॥
श्रीचक्रं सृष्टिसृष्ट्याख्यं प्रतिरेखं तथोन्नतम् ।
समोर्ध्वरेखानवकं समे पीठे च यद्भवेत् ॥ २ ॥
स्थितिचक्रं तदेवोक्तं स्थूलरेखं महेश्वरि ।
सूक्ष्मरेखं भवेत्तत्र स्थितिस्थित्यात्मकं शिवे ॥ ३ ॥
लयात्मकं निम्नरेखं स्थूलं लयलयात्मकम् ।
सूक्ष्मं पातालरेखं लयात्मकं स्थूलं पातालरेखं
लयलयात्मकमित्यर्थः । सृष्टिस्थित्यात्मकं चेति सृष्तिस्थित्यात्मकं
त्वित्यर्थः ।
अर्धमेर्वात्मकं यन्त्रं द्विधा ख्यातं महेश्वरि ।
अर्धं क्रमादुन्नतं यच्चतुरस्रादितस्ततः ॥ १ ॥
तदूर्ध्वं समरेखं स्यात्सृष्तिस्थित्यात्मकं शिवे ।
वैपरीत्येन चैतस्य स्थितिसृष्ट्यात्मता भवेत् ॥ २ ॥
प्. २२५) चतुरस्रं समारभ्य चक्रत्रयमपीश्वरि ।
क्रमोन्नतं तदूर्ध्वं तु समं स्यान्निम्नरेखकम् ॥ ३ ॥
सृष्टिसंहाररूपं स्याद्वैपरीत्येन तस्य तु ।
लयसृष्ट्यात्मकत्वं तु प्रोक्तं ज्ञेयं मनीषिभिः ॥ ४ ॥
अर्धं पातालरेखं तु तदूर्ध्वं चोर्ध्वरेखकम् ।
लयस्थित्यात्मकं प्रोक्तं वैपरीत्येन तस्य तु ॥ ५ ॥
स्थितिसंहाररूपं तु विज्ञेयं देशिकोत्तमैः ।
स्थितिस्थित्यात्मकं चक्रं प्रशस्तं गृहमेधिनाम् ॥ ६ ॥
आयुःकीर्तिधनारोग्यपुत्रपौत्रविवर्धनम् ।
सृष्टिस्थित्यात्मकं चक्रमप्रजत्वं श्रियं लभेत् ॥ ७ ॥
पञ्चाशद्वर्षतश्चोर्द्ध्वं पुत्रपौत्रप्रदं भवेत् ।
स्थितिसृष्ट्यात्मकं यन्त्रं पुत्रायुर्धनवृद्धिदम् ॥ ८ ॥
पञ्चाशद्वर्षतश्चोर्ध्वमपत्यध्वंसकृद्भवेत् ।
अन्ये प्रोक्तास्तु ये भेदाः श्रीचक्रस्य महेश्वरि ॥ ९ ॥
यतिवैखानसानां तु विशेषो वर्णिनामिति ।
उत्तरतन्त्रे -
कूर्मपृष्ठे तु यद्यन्त्रं न पूज्यं श्रेय इच्छता ।
तस्मात् सर्वप्रयत्नेन परीक्ष्यैव समाचरेत् ॥ १ ॥
सृष्टिचक्रे महेशानि पूजा सृष्ट्यन्तता भवेत् ।
स्थितिचक्रे तु स्थित्यन्ता संहारे तु लयान्तता ॥ २ ॥
गुरुपारम्पर्यतो वा पितृभ्रातृक्रमाच्च वा ।
प्राप्तं श्रीगुरुणा दत्तं गुरुज्येष्ठकनिष्ठकैः ॥ ३ ॥
दत्तं भाग्यवशाद् देवि लभ्यते यदि साधकः ।
पूजां तत्र प्रकुर्वीत स्थित्यन्तां परमेश्वरि ॥ ४ ॥
दुष्टयन्त्रमपि प्रोक्तं फलदं नान्यथा शिवे ।
इति । पितृपितामहक्रमतो गुरुपारम्पर्यक्रमतश्च कालवशाद्भाग्यवशाद् दुष्टयन्त्रं प्राप्यते चेत्तस्मिन् यन्त्रे पूजा तु प्रथमतः संहारक्रमेण ततः सृष्टिक्रमेण ततः स्थितिक्रमेण विधेया शुभफलदं भवतीत्यर्थः ॥
अथ दीक्षापूर्णाभिषेकाङ्गकुण्डमण्डपविधिः ।
दीक्षाङ्गभूतमण्डपरचनार्थं प्राचीपरिज्ञानस्यावश्यकत्वात्
तत्परिज्ञानप्रकारः प्रदर्श्यते । तत्र दिव्यसारस्वततन्त्रे :
निर्मले दिवसे वृक्षप्रासादादिविवर्जिते ।
स्थाने समतले श्लक्षणं कृत्वा हंसपदं सुधीः ॥ १ ॥
तदवष्टम्भतः कुर्याद्द्वादशांगुलमानतः ।
वृत्तं तु परितो भ्रान्त्वा तन्मध्ये स्थापयेद्बुधः ॥ २ ॥
सूच्यग्रं सरलं शंकुं वर्तुलं द्वादशांगुलम् ।
षडंगुलपरीणाहमूलं शिल्पिवरेण तु ॥ ३ ॥
रचितं यत्नतस्तस्मिन् वृत्ते पूर्वापराह्णयोः ।
शंक्वग्रच्छायासंपातस्थानयोश्चिह्नयुग्मकम् ॥ ४ ॥
कृत्वा चिह्नद्वयप्रापि सूत्रं प्राक्प्रत्यगायतम् ।
दत्वा वृत्तायताधन सूत्रेणेच्छाधिकेन वा ॥ ५ ॥
पूर्वपश्चिमयोर्वृत्तद्वयं श्लिष्टं परस्परम् ।
विधाय च तयोः सन्धिद्वयप्रापि प्रसारयेत् ॥ ६ ॥
मध्यचिह्नस्पृष्टमध्यं तत्सूत्रं दक्षिणोत्तरम् ।
एतस्यार्द्धांशमानेन कृत्वा कोणेषु लाञ्छनम् ॥ ७ ॥
तेषु सूत्राष्टकन्यासाच्चतुरस्रं समं भवेत् ।
इति । अथैतद्रचनाप्रकारः - अत्र मेधाद्यनावृतसूर्ये निर्मलनभोमण्डले दिवसे वृक्षप्रासादाद्यनावृते भूप्रदेशे समे स्थाने क्वचिद्बिन्दुं कृत्वा तदवष्टम्भतः प्रतिदिशं द्वादशांगुलमानेन वृत्तं निष्पाद्य तत्र षडंगुलमानपरिणाहमूलम् उत्तरोत्तरपरिणाहापचयेन सूचीमात्रकृताग्रपरिणाहमृज्वाकृतिं द्वादशांगुलोच्छ्रायोपेतं वृत्ताकारं शिल्पिवरेण निर्मितं शंकु वृत्तमध्यस्थबिन्दुमध्यशंकुमूलपरिणाहमध्यं यथा भवति तथा संस्थाप्य तच्छंकुच्छायाग्रस्य पूर्वाह्णे तद्वृत्तरेखापश्चिमभागे यत्र सम्पातस्तत्र चिह्नं कृत्वा अपराह्णेऽपि शंकुच्छायाग्रस्य तद्वृत्तरेखापूर्वभागे यत्र सम्पातो भवति तत्र च चिह्नं विधाय तच्चिह्नद्वयप्रापि सूत्रं विधाय पूर्वपश्चिमं परिकल्प्य तच्चिह्नद्वयावष्टम्भेन तच्चिह्नान्तरालस्थमानस्य स्वेष्टाधिकार्धमानेनान्योन्यं संश्लिष्टं पूर्वापरं वृत्तद्वयं विधाय वृत्तरेखादक्षिणोत्तरसन्धिद्वयप्रापि प्राक्पश्चिमसूत्रमध्यगत्या तिर्यग्रूपेण यत्सूत्रं तत् दक्षिणोत्तरं परिकल्प्य पूर्वपश्चिमदक्षिणोत्तरसूत्रद्वयाग्रचतुष्कसम्पाताद्वक्ष्यमाणमानेन तुल्यरूपकल्पितसूत्राग्रस्तेषां मण्डपकुण्डादीनां प्राक्प्रत्यग्दक्षिणोत्तरात्मकदिक्चतुष्टयं परिकल्पयेदिति स्थूलदृष्ट्या प्राचीसाधनविधिः प्रदर्शितः ॥ सूक्ष्मप्रकारस्तु तन्त्रान्तरे - सुसमे भूतले कृत्वे त्यारभ्योक्तप्रकारेण पूर्वदिनकृत्यमुक्त्वा
प्. २२६) दिनान्तरेऽपि देवेशि प्राग्वच्चिह्नद्वयं सुधीः ।
कृत्वा वृत्ते तु यत्र स्याच्छायायाः परमेश्वरि ॥ १ ॥
प्रवेशो निर्गमश्चैव तत्र पूर्वदिने यदा ।
प्रविष्टनिर्गताच्छाया यदा तन्मध्यनाडिकाः ॥ २ ॥
च्छायादिना तु विज्ञाय च्छायापगमचिह्नयोः ।
अन्तरं दिनयोरिष्टैश्चतुराद्यैर्विभागतः ॥ ३ ॥
विभज्य तत्र चिह्नानि कृत्वा ताभिः सुरेश्वरि ।
नाडीभिः कल्पिता भागा गुणनीयाः प्रयत्नतः ॥ ४ ॥
षष्ट्या हृतं तु लब्धांशैः पूर्वेद्युर्यत्कृतं भवेत् ।
प्राचीसूत्रं पूर्वभागे उत्तरे तूत्तरायणे ॥ ५ ॥
अयने दक्षिणे चैव दक्षिणस्यां दिशि ध्रुवम् ।
चाल्यते चेत् स्फुटा सा स्यात्प्राची तु परमेश्वरि ॥ ६ ॥
इति प्राचीसाधनं विधाय
व्यासद्विगुणरज्ज्वान्तौ पाशौ कृत्वाङ्कयेदिमाम् ।
व्यासार्धमाने शंक्वर्धं सार्धेऽस्मिन्कर्षणाय च ॥ १ ॥
प्राच्यन्तशङ्कोस्तत्पाशौ कृत्वा चाकर्षकर्षणे ।
शंक्वङ्केऽर्वाक्श्रोणिरेवमुदग्व्यत्यस्य चांसकौ ॥ २ ॥
इति शिल्पिशास्त्रोक्तरीत्या मण्डपक्षेत्रमुद्दिष्टमानादधिकविस्तारायामसमचतुरस्रं कल्पयेत् ॥ अस्यार्थः कुण्ड मण्डपादेर्व्यासो यावानिष्टस्तावद्द्विगुणरज्जुमुभयतःपाशं कृत्वा तामेकतःपाशाद् व्यासार्धमात्रे शंक्वर्धं चिह्नयेत् : ततः शंक्वङ्कादग्रतो व्यासार्धमानेन चिह्नापकर्षणतः कुण्डमण्डपादौ प्राचीसूत्रं प्रमाणेन दत्वा तदन्तयोः शंकुं निखन्य तयोस्तद्रज्जुपाशौ तथा कुर्याद्यथा व्यासार्द्धादङ्को यतः कृतः स पाशः प्रतीच्यां स्यात् कर्षचिह्नदक्षिणत आकृष्य व्यासार्धं चिह्ने दक्षिणश्रोणिशंकुं दत्वा तस्यैवोत्तरदिक्श्रोण्यां च शंकुं दद्यात् । ततः पाशौ व्यत्यस्यैवमंसौ साध्याविति । एवं समचतुरस्रं क्षेत्रं कृत्वा बाहुमात्रोद्दिष्टमानाभ्यधिकां चतुरस्रां भुवं बाहुमात्रखननादिभिस्तुषाङ्गरादि लोष्टादिकं भिरस्थ शुद्धमृद्भिरापूर्य दृढीकृत्य
कीलेनैकीकृते मूले पृथक्सूक्ष्मसमाग्रयोः ।
दण्डयोरग्रनैकट्येऽन्यस्तिर्यमध्यचिह्नतः ॥ १ ॥
कीलादिना योजनीये दण्डः समतया द्वयोः ।
मूलदेशे लम्बसूत्रमस्पृशद्भारवद्भुवम् ॥ २ ॥
भूस्थेऽग्रयुग्मे मध्याङ्कात् तिर्यग्दण्डगताद्यतः ।
स्खलेत्तत्पूरयेदन्यन्निम्नयेद्वापि युक्तितः ॥ ३ ॥
अङ्के यावत् सूत्रमेति भूरेवं समतां व्रजेत् ।
इति ॥ अयमर्थः - समस्थौल्यदीर्घरज्ज्वोः कीलेन प्रोतमूलयोर्दण्डयोरग्रनिकटे तादृशं तिर्यग्दण्डं तदर्धदीर्घं कीलेन योजयित्वा तन्मध्ये चिह्नं कृत्वा दण्डत्रयेण दीर्घत्रिकोणाकारं विधाय दीर्घदण्डयोर्मूलाल्लम्बमानं सूत्रमग्रे लघुपाषाणादिबद्धं तिर्यग्दण्डस्य मध्यचिह्नोपरि भूमिं यथा न स्पृशति तथा विधाय भूमिं स्पृष्ट्वाग्रयोस्तयोर्मूलं धृत्वा शनैराकृष्टे तिर्यग्दण्डमध्याङ्काद्यत्र सूत्रं चलति तत्र निम्ना भूस्तां पूरयेत् । अन्यत् खनित्वा वा यथा मध्यचिह्ने सूत्रमेति तथा सर्वत्र कुर्यादिति शिल्पिशास्त्रोक्तप्रकारेण भूमिं समीकृत्य तत्रोत्तममध्यमकनिष्ठाद्यन्यतमं मण्डपं कुर्यात् ॥ मण्डपलक्षणं तु तन्त्रान्तरे :
राज्ञां होमाभिषेकेषु दीक्षादानव्रतादिषु ।
भानोर्गत्या दिशो ज्ञात्वा पुण्याहं वाचयेत् सुधीः ॥ १ ॥
ततः पञ्चनिनादेन मण्डपं रचयेच्छुभम् ।
ज्येष्ठमध्याधमत्वेन तन्मानं त्रिविधं मतम् ॥ २ ॥
षोडशाष्टादशमितैर्हस्तैर्मानमिहोत्तमम् ।
हस्तैर्विंशतिभिः केचिन्मानमुत्तममूचिरे ॥ ३ ॥
मध्यमं द्वादशकरैश्चतुर्दशकरैर्मितम् ।
अधमं दशभिर्हस्तैर्मितमाहुर्मनीषिणः ॥ ४ ॥
केचित्तु नवभिस्तद्वत् सप्तभिर्वाथ पञ्चभिः ।
हस्तैर्मित्तं वदन्त्येव विस्तारायामसंयुतम् ॥ ५ ॥
स्तम्भैः षोडशभिर्युक्तं चतुर्द्वारं सुशोभनम् ।
दिक्षु द्वाराणि चत्वारि साष्टांगुलकरद्वयात् ॥ ६ ॥
साध्यांगुलकरद्वन्द्वाद्विदधीत करद्वयात् ।
ततो मण्डपसूत्रं तु त्रिगुणं परिकल्पयेत् ॥ ७ ॥
पूर्वादिषु क्रमात्तस्य मध्यभागस्तु वेदिका ।
इष्टकाभिर्मृदा वा सा कार्या दर्पणसन्निभा ॥ ८ ॥
वेदीकोणेषु विन्यस्याः स्तम्भा वेदस्वरूपकाः ।
ते चोत्तमे तदर्धोच्चा मध्यमाधमयोः पुनः ॥ ९ ॥
प्. २२७) अष्टहस्तोन्नतिभृतस्ततो द्वादश शोभनाः ।
ऋजवः पञ्चहस्तास्ते सशिखास्तु समन्ततः ॥ १० ॥
चतुष्कोणेषु चत्वारश्चाष्टौ ते सूत्रकोटिषु ।
समान्तरालाः सर्वे ते स्थाप्याः षोडश देशिकैः ॥ ११ ॥
पञ्चमांशोन्मितांस्तांश्च निखनेद्भुवि देशिकः ।
मध्यस्तम्भचतुष्काग्रादेकीभुताग्रकं पुनः ॥ १२ ॥
कृत्वा काष्ठचतुष्कं तु तदग्रे कलशं शुभम् ।
शोभितं कलशेनाथ मुखस्थेन सुदारुजम् ॥ १३ ॥
निर्मितं शिल्पिभिः सम्यक्स्थापयेद्देशिकोत्तमः ।
आच्छादयेत्ततो वंशैः कटैः करदलैश्च तम् ॥ १४ ॥
मण्डपद्वारबाह्ये च युग्मं युग्मं दिशां क्रमात् ।
अश्वत्थोदुम्बरप्लक्षवटोत्थं तोरणं न्यसेत् ॥ १५ ॥
सप्तषट्पञ्चककरं निखनेद्भुवि पूर्ववत् ।
विशालता च तस्याथ दशभिस्त्वंगुलैर्मता ॥ १६ ॥
पञ्चांगुलमितस्थौल्यं विषमं चतुरस्रकम् ।
मध्यभागे तोरणयोस्तिर्यक् काष्ठं प्रविन्यसेत् ॥ १७ ॥
सार्धहस्तद्वयात् (पाद) हस्तयुग्धस्तयुग्मतः ।
अग्निमीलीतिमन्त्रेण विन्यसेत् पूर्वतोरणम् ॥ १८ ॥
इषे त्वेत्यादिमन्त्रेण दक्षिणं तोरणं न्यसेत् ।
अग्न आयेति मन्त्रेण पश्चिमस्य निवेशनम् ॥ १९ ॥
शन्नो देवीतिमन्त्रेण दद्यादुत्तरतोरणम् ।
ऊर्ध्वे ध्वजं च बध्नीयात् घण्टाचामरभूषितम् ॥ २० ॥
पञ्चहस्तो ध्वजः प्रोक्तो दण्डस्तु दशहस्तकः ।
ततस्तु लोकपालानां पताका बाहुसम्मिताः ॥ २१ ॥
द्वादशांगुलविस्तारास्तत्तन्मूर्त्या च लांछिताः ।
पीतारक्तश्यामधूम्राश्वेतधूम्रासितार्जुनाः ॥ २२ ॥
आयुधाङ्काः पताकाः स्युः पुष्पगन्धसमन्विताः ।
यथायोग्यं दण्डयुतास्तत्तन्मन्त्रेण तान्न्यसेत् ॥ २३ ॥
चन्द्रमण्डलगौरेण वितानेन विभुषितम् ।
दुकूलवेष्टितस्तम्भं नानादीपाद्यलंकृतम् ॥ २४ ॥
आम्रपल्लवमालाभिः शोभितं द्वारमुत्तमम् ।
वेष्टितं दर्भरज्ज्वा च विदध्यान्मण्डपं शुभम् ॥ २५ ॥
इति ॥ उत्तरतन्त्रे -
विंशत्यूर्ध्वशतैर्हस्तैर्मण्डपश्चोत्तमो मतः ।
अष्टोत्तरशतैर्हस्तैः शतहस्तैरथापि वा ॥ १ ॥
एकाशीतिमितैर्हस्तैर्द्वासप्ततिकरैरपि ।
षष्टिहस्तैरष्टचत्वारिंशद्भिर्हस्तकैः क्रमात् ॥ २ ॥
षट्त्रिंशद्भिश्च त्रिंशद्भिः सप्तविंशतिहस्तकैः ।
चतुर्विंशतिहस्तैर्वा मण्डपं कारयेद्बुधः ॥ ३ ॥
चतुरस्रं तथा वृत्तं षट्कोणं चाष्टकोणकम् ।
त्रिकोणमष्टपत्राभं नवकोणं द्विकोणकम् ॥ ४ ॥
पञ्चकोणं सप्तकोणं रुद्रकोणं तथैव च ।
द्वादशं षोडशं चाष्टादशविंशतिकोणकम् ॥ ५ ॥
चतुर्विंशतिकोणं च सप्तविंशतिकोणकम् ।
द्वात्रिंशत्कोणकं चैव षट्त्रिंशत्कोणकं तथा ॥ ६ ॥
अष्टचत्वारिंशदस्रं मत्स्याकारो ध्वजाकृतिः ।
शूर्पकुन्तासिशृङ्गाटधनुर्मुद्गरकाकृतिः ॥ ७ ॥
मण्डपास्तत्र कर्तव्याः कुण्डान्यपि विशेषतः ।
पूर्णाभिषेके दीक्षायामभिषेकादिशान्तिषु ॥ ८ ॥
तत्तत्काम्यप्रयोगेषु तत्तत्कुण्डानि देशिकैः ।
कर्तव्यानि विशेषेण तत्तकर्मण्यतन्द्रितैः ॥ ९ ॥
इति ॥ अत्र यावन्तो मण्डपभेदा उक्तास्तावन्तः कुण्डभेदा अपि ज्ञेयाः ॥
अथैतन्मण्डपरचनाप्रकारः - अत्र पूर्णाभिषेकादिषु
चतुर्विंशतिहस्तपरिमिताः कुण्डमण्डपा ये उक्तास्ते कर्तव्याः ।
चतुर्विंशतिर्विंशति अष्टादशषोडशहस्तैर्वोत्तमो मण्डपः चतुर्धा ।
चतुर्दशहस्तैर्द्वादशहस्तैर्वा मध्यमो द्विविधः ।
दशहस्तैर्नवहस्तैः सप्तहस्तैः पञ्चहस्तैश्च समायामविस्तारैश्च
कनिष्ठश्चतुर्विधः । अत्र पक्षे त्रिविधे यथावकाशं
ऋत्विक्सदस्यसामाजिकाद्युपवेशादेः सौकर्ययुक्तं मण्डपं कुर्यात् ॥
हस्तस्तु चतुर्विंशांगुलदैर्घ्य । अंगुलमानं तु महाकपिलपञ्चरात्रे :
वातायनपथं प्राप्य ये भान्ति रविरश्मयः ।
तेषु सूक्ष्मा विसर्पन्ते रेणुकास्त्रसरेणवः ॥ १ ॥
परमाणोरष्टगुणस्त्रसरेणुरुदाहृतः ।
तेऽष्टौ केशाह्वयास्तेऽष्टौ लिक्षा युकास्तदष्टकम् ॥ २ ॥
तदष्टकं यवस्तेऽष्टावंगुलिः समुदाहृता ।
सा तूत्तमांगुलिः सप्तयवा सैव तु मध्यमा ॥ ३ ॥
षट्यवा साधमा प्रोक्ता मानांगुलमितीरितम् ।
विन्यस्तैस्तिर्यगष्टाभिर्यवैर्मानान्तरांगुलम् ॥ ४ ॥
शालिभिर्वा ऋजुन्यस्तैस्त्रिभिर्मानान्तरं भवेत् ।
आचार्यदक्षिणकरे मध्यमांगुलिमध्यगम् ॥ ५ ॥
प्. २२८) पर्वणोरन्तरं दीर्घं मानांगुलमुदाहृतम् ।
विनांगुष्ठेन शेषाभिर्मुष्टिमंगुलिभिः कृतम् ॥ ६ ॥
चतुर्धा विभजेदेको भागो मुष्ट्यंगुलः स्मृतः ।
यं कंचित्पौरुषायामं विभज्य दशधा पुनः ॥ ७ ॥
एकं द्वादशधा भागं कृत्वा तेष्वेकमंगुलम् ।
देहलब्धांगुलं नाम जानीयात् तस्य तत्पुनः ॥ ८ ॥
उच्छ्रायः प्रतिमायाः स्यान्महामानांगुलाश्रयः ।
महामानांगुलिरिति मात्रांगुलिरिहोच्यते ॥ ९ ॥
प्रासादादींश्च तेनैव कुर्यान्मानान्तरेण वै ।
वेदिकापीठशिविकारथादीनां विधिः पुनः ॥ १० ॥
मानान्तरांगुलेनैव भवेन्नान्येन केनचित् ।
यागोपकरणानां च कुर्यान्मानांगुलेन वै ॥ ११ ॥
होमाङ्गादिस्रुवादीनि कुण्डं मुष्ट्यंगुलाश्रयम् ।
देहलब्धांगुलेनैव प्रतिमाङ्गानि कल्पयेत् ॥ १२ ॥
चतुर्विंशतिसंख्याभिर्हस्तस्त्वंगुलिभिर्भवेत् ।
इति । अत्राचार्यो यजमानः । एतावदुक्तं यन्मानं यजमानस्य तद्भवेदिति तन्त्रान्तरे कर्तुर्दक्षिणहस्तस्येति शारदावचनात् ॥ उत्तरतन्त्रे विशेषः :
नवैकादश कुण्डानि कुर्यादुत्तममण्डपे ।
चतुष्कुण्डी मध्यमे स्यात्कनिष्ठेऽप्येककुण्डकम् ॥ १ ॥
इत्येवमुक्तप्रकारमात्रांगुलात्मकांगुलादिभिर्हस्तादि परिकल्प्य प्रोक्तं
मण्डपं कुर्यात् । तत्र प्रोक्तविधिना समीकृते भूतले
पञ्चवाद्यघोषपुरःसरं ब्राह्मणैः स्वस्ति वाचयित्वा
यथोद्दिष्टमानहस्तविस्तारं समचतुरस्रं
कोणचतुष्टयनिखातशंकुचतुष्टयं विधाय पूर्वापरायतं
दक्षिणोत्तराअयतं च मध्यसूत्रं दूरीकृत्य तच्चतुरस्रक्षेत्रं
पुनर्नवधा विभज्य परितः कोणचतुष्टये स्तम्भचतुष्टयं
दिक्चतुष्टयगतपूर्वापरायतदक्षिणोत्तरायतचतुष्ककोट्यष्टकगत-
स्तम्भाष्टकमिति सम्भूय द्वादश
स्तम्भानतिस्थूलान्नातिकृशानवक्रानव्रणानेकजातीयान् सुवृत्तान्
पञ्चहस्तसमुच्छ्रायान् खातप्रविष्टस्वस्वपञ्चमांशान्
प्रमाणाद्बहिर्हस्तस्थौल्यतृतीयांशान् स्थूलवितस्त्युन्नतिशिखायुक्तान्
मध्यविभक्ते कोणचतुष्टये स्तम्भचतुष्टयं पूर्वस्तम्भसजातीयं
पूर्वतः किञ्चित्स्थूलमुत्तममण्डपे
तन्मानस्याधर्मानोच्चमन्यमण्डपेऽष्टहस्तोच्चं पूर्ववत् सशिखं
पञ्चमांशेन प्रविष्टभूतलमिति सम्भूय षोडश स्तम्भान्निखाय
तेषामुपरि सजातीयानि ऋजून्यव्रणानि
शिखाप्रवेशयोग्यवेधयुक्तकोटिद्वयवत् तिर्यक्काष्ठानि शिल्पिभिः
परिकल्पितानि द्वादशस्तम्भाग्रेषु मध्यस्तम्भचतुष्टयाग्रेषु च
चतुरस्राकारेण समारोप्य
मध्यस्तम्भचतुष्टयशिखाग्रप्रविष्टमूलवेधयुक्तमेकीकृताग्रकाष्ठ-
चतुष्टयनिविष्टसजातीयकाष्ठकलशं कमलाकृतिशोभिताग्रं
दिग्विदिक्स्थद्वादशस्तम्भशिखाग्रप्रोतमूलमध्यस्तम्भचतुष्टयाग्र-
स्पृष्टाग्रमध्यतिर्यक्काष्ठचतुष्टयमध्यगताग्रम् ऋज्वाकृति
यथायोग्यदीर्घस्थौल्ययुतप्रसारितद्वादशकाष्ठयुतमन्यैरपि
काष्ठैर्यथायोग्यं दृढीकृतं नारिकेलदलैर्वंशकटैर्वा
सम्यगाच्छादितं तैरेव निःशेषपिहितकोणचतुष्टयं
चतुर्दिक्षूत्तममध्यमकनिष्ठेषु साष्टांगुलहस्तद्वय
सचतुरंगुलहस्तद्वय द्विहस्तविस्तारयुतसशाखद्वारचतुष्टयोपेतं
मण्डपं विरच्य मण्डपस्य पूर्वद्वाराद्बहिर्हस्तमात्रं
परित्यज्याश्वत्थवृक्षस्योत्तममध्यमकनिष्ठेषु
सप्तषट्पञ्चहस्तोच्छ्रितं दशांगुलविस्तृतं पञ्चांगुलस्थूलविस्तारस्य
दशांगुलत्वात् स्थौल्यस्य पञ्चांगुलत्वाद्वैषम्यं बोद्धव्यम् ।
विषमचतुरस्रं प्रमाणातिरिक्तवितस्त्युन्नतशिखं
द्वारस्योभयपार्श्वयोरुत्तममध्यमकनिष्ठेषु
सार्धहस्तद्वयसपादहस्तद्वयहस्तद्वयान्तरालं यथापूर्वं
पञ्चमांशेन प्रविष्टभूतलफलकद्वयं अग्निमीले पुरोहितं यज्ञस्य
देवमृत्विजम् । होतारं रत्नघातमम् इति मन्त्रेण निखाय तत्सजातीयकाष्ठेन
समानविस्तारस्थौल्यं विषमचतुरस्रं कोटिद्वयेऽपि
शिखाप्रवेशयोग्यवेधयुतं तिर्यक्तिर्यक्फलं समारोप्य दर्भमालां च
बध्नीयात् । एवं दक्षिणद्वार उदुम्बरतरुमयं तोरणं इषे त्वोर्जे त्वा
वायवः स्थोपायवः स्थ देवोवः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे ॥
इति मन्त्रेण न्यसेत् । ततः पश्चिमद्वारे प्लक्षमयं तोरणं प्राग्वन्निर्मितं
अग्न आ याहि वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि इति मन्त्रेण न्यसेत् ॥
ततः उत्तरद्वारे वटवृक्षमयं तोरणं प्राग्वन्निर्मितं शन्नो
देवीरभिष्टय आपो भवन्ति पीतये । शंयोरभिस्रवन्तु नः इति न्यसेत् ।
ततस्तेषामुपरिगततिर्यक्फलकेषु मध्यतः षुषिरं विधाय तेषु
तोरणसजातीयकाष्ठेन निर्मितमुत्तममध्यमकनिष्ठेषु
त्रयोदशैकादशनवांगुलमात्रदैर्घ्यं तच्चतुर्थांशविस्तारं शैवे
त्रिशूलाकारं वैष्णवे चक्राकारं तोरणोपरिगततिर्यक्फलकस्य
प्. २२९) द्वादशांशमात्रदीर्घं प्रागादिक्रमेण शङ्खचक्रगदापद्मलांछितं प्रतितोरणमेकैकं कीलमारोपयेत् । तत्र त्रिशूलनिर्माणप्रकारस्तु पिङ्गलामते :
शूलेन निर्मिताः कुर्याद् द्वारशाखास्तु मस्तके ।
शूले नवांगुलं दैर्घ्य तुरीयांशेन विस्तृतिः ॥ १ ॥
ऋजुर्वै मध्यशृङ्गः स्यात् किञ्चिद्वक्रं च पार्श्वयोः ।
हीने चैवं समाख्यातं द्व्यंगुलं रोपयेत्तथा ॥ २ ॥
शेषाणां द्व्यंगुला वृद्धिर्विंशश्चांगुलवृद्धितः ।
इति । हीने कनिष्ठमण्डपे । शेषाणां मध्यमोत्तमानां । विशः प्रवेशः ॥ वास्तुशास्त्रे -
मस्तके द्वादशांशेन शङ्खचक्रगदाम्बुजम् ।
प्रागादिक्रमयोगेन न्यसेत्तेषां स्वदारुजम् ॥ १ ॥
इति ॥ द्वादशांशं तिर्यक्फलकस्य स्वदारुजं
तत्तत्तोरणसजातीयकाष्ठसम्भवं तेन कनिष्ठमण्डपे चतुरंगुलोच्चं
मध्यमे सार्धचतुरंगुलमुत्तमे पञ्चांगुलमिति ॥ केचित्तु तत्र हस्तोन्मिताः
कीलाः संस्थाप्य वैष्णवे तथा । शङ्खचक्रगदापद्मलाञ्छिताः
शूलसन्निभाः ॥ शैवे इति तन्त्रान्तरवचनाद्धस्तमात्रं कीलं वदन्ति । तत्र
तिर्यक्फलकेषु तदा तु हस्तमात्रेषु कीलेषूक्तमानेनैवाग्रदेशेषु
शङ्खचक्राकारं वा त्रिशूलाकारं वा कार्यं बिलप्रवेशश्च तथैव
कार्यः उर्वरितं तु तेषां दण्डवद्दृश्यते इति । ततो मण्डपाग्रे
दशहस्तदैर्घ्यवंशदण्डावलम्बितं हस्तमात्रविस्तृतं
पञ्चहस्तदैर्घ्यं दातव्यं ।
मन्त्रदेवतावाहनमूर्त्यङ्कितघण्टादिभूषिताग्रं सुश्वेतं च तथैव
तत्तद्दैवतवर्णानुरूपवर्णं वा ध्वजमारोप्य दशदिक्षु
बाहुमात्रदीर्घा
यथायोग्यमानदण्डावलम्बितास्तत्तल्लोकपालवर्णानुरूपवर्णास्तत्तल्लोक-
पालवाहनमूर्त्यङ्किता द्वादशांगुलविस्तृता लोकपालानां
वेदोक्ततत्तन्मन्त्रेण पताकाश्च बध्नीयात् । तत्रेन्द्रस्य पीतवर्णा वह्नेः
पिङ्गलवर्णा यमस्य कृष्णवर्णा निर्-ऋतेः श्यामवर्णा वरुणस्य
श्वेतवर्णा वायोर्धूम्रवर्णाः सोमस्यामलवर्णा ईशानस्य श्वेतवर्णा
ब्रह्मणो रक्तवर्णा अनन्तस्य श्वेतवर्णाः इति पताकाभिरलंकृत्य
मण्डपाभ्यन्तरं
सुश्वेतवितानपुष्पमालाभिरलंकृत्याम्राश्वत्थदलग्रथितदर्भरज्जुरूप-
वन्दनमालया मण्डपमन्तर्बहिश्च परिवेष्ट्य स्तम्भान् दुकूलेन
संवेष्ट्य तन्मध्यस्तम्भचतुष्टयमध्यगते चतुरस्ररूपे
मध्यखण्डेऽपक्वेष्टकादिभिः स्निग्धमृद्भिर्वा चतुरस्रां
दर्पणोदरनिभपार्श्व चतुष्टयमध्यप्रदेशां समतलां
वेद्यायामस्यैकादशांशेन नवमांशेन सप्तमांशेन
पञ्चमांशेन चतुर्थांशेन तृतीयांशेन वा समुन्नतां
हस्तमात्रोन्नतां वा वेदीं विदध्यात् । तदुक्तं तन्त्रान्तरे उच्छ्रायाऽस्या
ईशनवसप्तेष्वब्धित्रिभागकैरिति ॥ कपिलपञ्चरात्रे :
चतुर्थांशोच्छ्रितस्तस्यास्त्रिपञ्चसप्तमोऽपि वा ।
नवैकादशभागैस्तामिष्टकाभिः प्रकल्पयेत् ॥ १ ॥
इति । तन्त्रराजे विदध्यान्मध्यतो वेदीं करमात्रसमुन्नताम् इति । शारदायाम् -
नक्षत्रग्रहवाराणामनुकूले शुभेऽहनि ।
ततो भूमितले शुद्ध तुषाङ्गारविवर्जिते ॥ १ ॥
पुण्याहं वाचयित्वा तु मण्डपं रचयेच्छुभम् ।
पञ्चिभः सप्तभिर्हस्तैर्नवभिर्वा मितान्तरम् ॥ २ ॥
षोडशस्तम्भसंयुक्तं चत्वारस्तेषु मध्यगाः ।
अष्टहस्तसमुच्छ्रायाः संस्थाप्या द्वादशाभितः ॥ ३ ॥
पञ्चहस्तप्रमाणास्ते निश्छिद्रा ऋजवः शुभाः ।
तत्पञ्चमांशं निखनेन्मेदिन्यां तन्त्रवित्तमः ॥ ४ ॥
नारिकेलदलैर्वंशैश्छादयेत् तत्समन्ततः ।
द्वारेषु तोरणानि स्युः क्रमात् क्षीरमहीरुहाम् ॥ ५ ॥
स्तम्भोच्छ्रायः स्मृतस्तेषां सप्तहस्तैः पृथक्पृथक् ।
दशांगुलप्रमाणेन तत्परीणाह ईरितः ॥ ६ ॥
तिर्यक्फलकमानं स्यात् स्तम्भानां मध्यमानतः ।
शूलानि कल्पयेन्मध्ये तोरणे हस्तमानतः ॥ ७ ॥
दिक्षु ध्वजान्निबध्नीयाल्लोकपालसमप्रभान् ।
वितानदर्भमालाद्यैरलंकुर्वीत मण्डपम् ॥ ८ ॥
तत्त्रिभागमिते क्षेत्रेऽरत्निमात्रसमुन्नताम् ।
चतुरस्रां ततो वेदीं मण्डलाय प्रकल्पयेत् ॥ ९ ॥
इति मण्डपनिर्माणविधिः ॥ अत्र कनिष्ठमण्डपेषु दशहस्तमण्डपेऽपि मध्यत्र्यंशाधिकत्रिकरायता वेदी कुण्डवेद्योरन्तरालमुभयतः पदद्वयमात्रं तद्बहिरुभयतः कण्ठमेखलासहितकुण्डद्वयव्याप्तभूमिश्चतुर्हस्तमिता तद्बहिःपार्श्वद्वयेऽपि कुम्भस्थापनार्थं
प्. २३०) हस्तद्वयमितिसमस्तमण्डपभूमिर्व्याप्ता । अतः परमाचार्य-
ऋत्विक्सदस्याद्युपवेशनस्थानमपि न लभ्यते इति नायं पक्षःसमीचीनः ।
तस्मादयं पक्षस्त्वैकैककुण्डैकमेखलादिसंक्षेपचिकीर्षायामेतावता
चारितार्थ्यात्तत्तद्विषय इति ज्ञेयः । इत्थं मण्डपं विधाय तस्मिन्
पूर्वाद्यष्टदिक्षु
चतुरस्रयोन्यर्धचन्द्रत्रिकोणवृत्तषट्कोणपद्माष्टाम्नाख्यान्यष्टौ
कुण्डानि कुर्यात् ॥
तत्रादौ चतुरस्रकुण्डनिर्माणप्रकारमाह शारदायाम् -
प्राक्प्रोक्ते मण्डपे विद्वान् वेदिकाया बहिस्त्रिधा ।
क्षेत्रं विभज्य मध्येंऽशे पूर्वादि परिकल्पयेत् ॥ १ ॥
अष्टास्वाशासु कुण्डानि रम्याकाराण्यनुक्रमात् ।
चतुरस्रं योनिमर्धचन्द्रं त्र्यस्रं च वर्तुलम् ॥ २ ॥
षडस्रं पङ्कजाकारमष्टास्रं तानि नामतः ।
आचार्यकुण्डं मध्ये स्याद् गौरीपतिमहेन्द्रयोः ॥ ३ ॥
हस्तमानमितां भूमिं पूर्ववत्परिसूत्रयेत् ।
समन्तात् कुण्डमेतत् स्याच्चतुरस्रं शुभावहम् ॥ ४ ॥
चतुर्विंशत्यंगुलाढ्यं हस्तं तन्त्रविदो विदुः ।
चतुरस्रीकृतं क्षेत्रं पञ्चधा विभजेत् सुधीः ॥ ५ ॥
न्यसेत् पुरस्तादेकांशं कोणार्धार्धप्रमाणतः ।
भ्रामयेत् कोणमानेन तदान्यदपि मन्त्रवित् ॥ ६ ॥
सूत्रयुग्मं ततो दद्यात् कुण्डं योनिनिभं भवेत् ।
चतुरस्रीकृतं क्षेत्रं दशधा विभजेत् पुनः ॥ ७ ॥
एकमेकं त्यजेदंशमध ऊर्ध्वं च तन्त्रवित् ।
ज्यासूत्रं पातयेदग्रे तन्मानाद्भ्रामयेत् ततः ॥ ८ ॥
अर्धचन्द्रनिभं कुण्डं रमणीयमिदं भवेत् ।
चतुर्धा भेदिते क्षेत्रे न्यसेदुभयपार्श्वयोः ॥ ९ ॥
एकैकमंशं तन्मानादग्रतो लाञ्छयेत्ततः ।
सूत्रत्रयमधः कुर्यात् त्र्यस्रं कुण्डमुदाहृतम् ॥ १० ॥
अष्टादशांशे क्षेत्रेंऽशे न्यसेदेकं बहिर्बुधः ।
भ्रामयेत्तेन मानेन वृत्तं कुण्डमनुत्तमम् ॥ ११ ॥
अष्टधा विभजेत् क्षेत्रं मध्यसूत्रस्य पार्श्वयोः ।
भागं न्यसेदेकमेकं मानेनानेन मध्यतः ॥ १२ ॥
कुर्यात् पार्श्वयुगे मत्स्यचतुष्क तन्त्रवित्तमः ।
सूत्रषट्कं ततो दद्यात् षडस्रं कुण्डमुत्तमम् ॥ १३ ॥
चतुरस्रीकृतं क्षेत्रं विभज्याष्टादशांशतः ।
एकभागं बहिर्न्यस्य भ्रामयेत्तेन वर्तुलम् ॥ १४ ॥
वृत्तादि कर्णिकादीनां बहिस्त्रीणि प्रकल्पयेत् ।
पद्मकुण्डमिदं प्रोक्तं विलोचनमनोहरम् ॥ १५ ॥
पूर्वोक्तं विभजेत् क्षेत्रं चतुर्विंशतिभागतः ।
भागमेकं बहिर्न्यस्य चतुरस्रं प्रकल्पयेत् ॥ १६ ॥
अंसयोश्चतुरस्रस्य कोणार्धार्धप्रमाणतः ।
बाह्यस्य चतुरस्रस्य कोणाभ्यां परिलाञ्छयेत् ॥ १७ ॥
दिशं प्रति यथान्यायमष्टौ सूत्राणि पातयेत् ।
अष्टास्रं कुण्डमेतद्धि तन्त्रविद्भिरुदीरितम् ॥ १८ ॥
इति । श्रीतन्त्रराजे (२९ प० २६ श्लो)
प्राक्प्रत्यक्सूत्रमास्फाल्य तन्मध्ये चिह्नकल्पनम् ।
कृत्वा तत्पूर्वतः पश्चाद्द्वादशांगुलमानतः ॥ १ ॥
ततस्तदग्राण्यालम्ब्य मध्यचिह्नस्य मानतः ।
कुर्याद्धंसपदं कोष्ठान्यभितस्तेषु पातयेत् ॥ २ ॥
परं प्रमृज्य तत्रापि विदध्याचिह्नयुग्मकं ।
प्राक्प्रत्यक्चिह्नमानेन तयोरेवावलम्बतः ॥ ३ ॥
दक्षिणोत्तरतो हंसपदे कृत्वा तयोस्ततः ।
प्रसार्य सूत्रं तस्यापि मार्जयित्वोक्तमानतः ॥ ४ ॥
चतुष्टयं तु सूत्राणां चतुरस्रं भवेत्समम् ।
इति ॥ अथैतत्कुण्डरचनाप्रकारः - तत्र वेद्याः पूर्वभागे
मुष्ट्यंगुलमानेन हस्तमात्रां भुवं परित्यज्य प्राक्कल्पितदिक्क्रमेण
प्राक्प्रत्यगायतं सूत्रमास्फाल्य तन्मध्ये चिह्नं कृत्वा
तच्चिह्नात्पूर्वतः पश्चिमतश्च मुष्ट्यंगुलैर्द्वादशमानेन चिह्नं कृत्वा
तत्तदधिकांशं मार्जयित्वा तच्चिह्नद्वयावष्टम्भेन तत्सूत्रार्धात्
किञ्चिदधिकमानभ्रमेण पूर्वापरतः किञ्चिदन्योन्यसंश्लिष्टं
वृत्तद्वयं विधाय तयोर्दक्षिणोत्तरसंदंशरूपहंसपदद्वयप्रापि
प्राक्प्रत्यक्ब्रह्मसूत्रमध्यगतहंसपदभेदं दक्षिणोत्तरं
सूत्रमास्फाल्य तत्रापि मध्यचिह्नाद्द्वादशांगुलमानेन दक्षिणोत्तरं
चिह्नद्वयं विधाय तत्तदधिकांशं मार्जयित्वा
तत्सूत्राग्रचतुष्टयावलम्बेन द्वादशांगुलमानेन चतुर्ष्वपि कोणेषु
हंसपदं विधाय तत्तदग्रात्तत्तद्धंसपदप्रापिप्राक्प्रत्यक्सूत्रद्वयं
दक्षिणोत्तरं सूत्रद्वयं च संभूय सूत्रचतुष्टयमास्फाल्य चतुरस्रं
कुर्यात् । ततस्तत्प्राक्प्रत्यगायतब्रह्मसूत्रमाननिम्नं समचतुरस्रं तत्र
खातं कृत्वा तत्परितः कुण्डमानस्य चतुर्विंशांशमितां भुवं
परित्यज्य तद्बहिर्द्वादशांगुलविस्तरां चतुरंगुलोत्सेधां मेखलां
कृत्वा तदुपरि बाह्ये परितश्चतुरंगुलमानं त्यक्त्वाष्टांगुलविस्तरां
चतुरंगुलोन्नतां द्वितीयां मेखलां कृत्वा तदुपरि बाह्ये चतुरंगुलं
त्यक्त्वा विस्तारोत्सेधाभ्यां चतुरंगुलमितां तृतीयां मेखलां कुर्यात् ।
एवं कृते प्रथमा मेखलां द्वादशांगुलोन्नता चतुरंगुलविस्तृता
द्वितीयाष्टांगुलोन्नता चतुरंगुलविस्तृता तृतीया चतुरंगुलोन्नता
चतुरंगुलविस्तृता च भवतीति । अत्र केचित् प्रथमा मेखला चतुरंगुलविस्तृता
नवांगुलोन्नता द्वितीया तु त्र्यंगुलविस्तृता पञ्चांगुलोन्नता तृतीया तु
द्व्यंगुलविस्तृता द्व्यंगुलोन्नतेति मेखलामानमाहुः । एतन्मेखलया सह
हस्तमात्रखातपक्षे ज्ञेयम् तत्र पञ्चदशांगुलनिम्नखातस्यैव
विश्वकर्मणोक्तत्वात् तदूर्ध्वे नवांगुलोच्छ्रायस्यैवावश्यकत्वात् ।
हस्तमात्रखातपक्षे तु - सर्वेषां मेखलामानं वितस्त्यष्टतदर्धकैः ।
विस्तारोत्सेधयोः कुर्यात् इति तन्त्रराजवचनात् ।
सत्त्वपूर्वकगुणान्विताः क्रमाद् द्वादशाष्टचतुरंगुलोच्छ्रिताः ।
सर्वतोऽंगुलचतुष्कविस्तृता मेखलाः सकलसिद्धिदा मताः ॥ १ ॥ (५ - ३३)
इति प्रपञ्चसारवचनाच्चा पूर्वोक्त एव पक्षः समीचीन इति ॥ ततः
सर्वबाह्यस्थमेखलाया बहिश्चतुरंगुलायामविस्तारोत्सेधं चतुरस्रं
पीठं मृदा कृत्वा तदुपरि
निहितमूलद्वादशांगुलदीर्घोत्तरोत्तरहीनपरिणाहमध्यमेखलासंलग्न
रन्ध्रनालयुतां मूले कुम्भद्वययुक्तां मध्ये
सगर्भामुपरितनमेखलोपरिगतामष्टांगुलमानमूलां
तत्प्रदेशादुभयपार्श्वतः क्रमेण संकुचितामेकांगुलविस्ताराग्रां
द्वादशांगुलमानायामामेकांगुलोत्सेधमेखलायुक्तामश्वत्थपत्रा-
कारां मूलात्किञ्चित् क्रमान्निम्नामीषत्कुण्डप्रविष्टाग्रां योनिं कुर्यात् ।
अथ कुण्डमध्यस्थहंसपदावलम्बेन प्रतिदिशं चतुरंगुलमानेन
वृत्तं निष्पाद्य तद्बहिः पुनः षडंगुलमानेन च वृत्तं कृत्वा तद्वृत्तं
कर्णिकां च परिकल्प्य वृत्तद्वयान्तरालवीथ्यामष्टदलानि कृत्वा
षडंगुलोच्चनाभिं कुर्यात् ॥ इति चतुरस्रकुण्डनिर्माणविधिः ॥
अथ योनिकुण्डमाह तन्त्रराजे -
तन्मध्यपञ्चमांशेन विकास्य ब्रह्मसूत्रकम् ।
पूर्वतः पश्चिमद्वन्द्वकोष्ठयोर्मध्यदेशतः ॥ १ ॥
तत्कोणमानेन तथा भ्रामयेत्पश्चिमाग्रकात् ।
उत्तराग्रावधि तथा दक्षिणाग्रावधि प्रिये ॥ २ ॥
तन्मध्यतिर्यक्सूत्राग्रद्वयावष्टम्भतस्तथा ।
विकासितब्रह्मसूत्रावधि सूत्रद्वयं भवेत् ॥ ३ ॥
योनिकुण्डमिदं भद्रे स्याच्चतुर्षूभयात्मसु ।
तस्मिन्नेवान्यकुण्डानि वदामि सममानतः ॥ ४ ॥
चतुरस्राभितो या तु त्याज्या भूः सान्यतः स्थिता ।
लभ्यते सर्वकुण्डेषु तेन सर्वाणि सर्वतः ॥ ५ ॥
तत्समान्येव जायन्ते षणवत्यंगुलात्मना ।
इति ॥ अथैतत्कुण्डरचनाप्रकारः तत्र प्राग्वत् चतुरस्रं निर्माय चतुष्कोष्ठयुतस्य ब्रह्मसूत्रस्य तन्मानपञ्चमांशेन पूर्वस्यां दिशि वर्द्धयित्वा तत्कोष्ठचतुष्टयात्मकचतुरस्रस्य पश्चिमभागस्थदक्षिणोत्तरकोष्ठयोर्निर्-ऋत्यादीशानान्तमाग्नेया दिवायव्यान्तं चतुष्कोणसूत्रद्वयास्फालनेन लक्षितसूत्रद्वयसंपातनविदितमध्यदेशावष्टम्भतस्तत्कोणवधिमाने- नोत्तरकोष्ठे प्राक्प्रत्यग्ब्रह्मसूत्रपश्चिमाग्रादिदक्षिणोत्तरतिर्यक्सूत्रोत्तराग्रावधि तद्दक्षिणकोष्ठे तत्सूत्रपश्चिमाग्रादि तत्तिर्यक्सूत्रदक्षिणाग्रावधि भ्रमादर्धचन्द्रद्वयमुत्पाद्य तन्मध्यतिर्यक्सूत्राग्रमारभ्य प्राक्प्रसारितब्रह्मसूत्राग्रावधि सूत्रद्वयास्फालनेन योन्याकारं क्षेत्रं परिकल्प्य तद्बहिश्च कण्ठमेखलयोर्यथोक्तमानेनोक्तयुक्त्या योनिमण्डलद्वयं निष्पाद्य प्राग्वत् खातं कृत्वा योन्याकारमेव कण्ठमेखलादि कल्पयेदिति कुण्डानां यादृशं रूपं मेखलानां च तादृशम् । कुर्यात्सर्वेषु कुण्डेषु इति कुलप्रकाशवचनात् ॥
अथार्धचन्द्राकारकुण्डमाह तन्त्रराजे -
तन्मध्यदशमांशं तु परित्यज्याध ऊर्ध्वतः ।
शेषांशांशकमानेन तन्मध्याद्भ्रामयेत् तथा ॥ १ ॥
अर्धचन्द्राकृतिर्येन भवेत् कुण्डं तदीरितम् ।
प्. २३२) इति ॥ अथैतत्कुण्डरचनाप्रकारः - तत्र प्राग्वत् चतुरस्रं निर्माय तद्विष्कम्भमानं दशधा विभज्य तेष्वेकैकांशं प्राक्पश्चिमयोः परित्यज्य चिह्नद्वयं कृत्वा तत्पश्चिमचिह्नात् दक्षिणोत्तरायतं तिर्यक्सूत्रं तच्चतुरस्राद्बहिरप्यंशत्रयमानेन दक्षिणोत्तरयोर्वर्द्धयित्वा तदग्रद्वयावधि तत्कल्पितपश्चिमब्रह्मसूत्रसन्धिमध्यावलम्बनेन वार्धचन्द्रनिभं मण्डलद्वयं कृत्वा प्राग्रेखामध्यगतब्रह्मसूत्रसन्धिमारभ्याष्टांशमानसूत्र- भ्रमादर्धचन्द्राकारं कुण्डं भवेत् । इत्यर्धचन्द्राकारं कुण्डं निर्माय तद्बहिरप्युक्तयुक्त्वा एकांगुलमानेन द्वादशांगुलमानेन वार्धचन्द्रनिभं मण्डलद्वयं कृत्वा प्रथमकृतमण्डलमध्ये हस्तमात्रं निम्नः खातं कृत्वा बहिः कण्ठस्थानं परित्यज्य प्राग्वन्मेखेलादिकं कुर्यादिति ॥
अथ त्रिकोणकुण्डमाह तत्रैव -
तस्यैव षष्ठमंशं तु पार्श्वयोस्तु विकासयेत् ।
प्रत्येकं पश्चिमं सूत्रं तन्मानेनाथ सूत्रयोः ॥ १ ॥
विन्यासाद्ब्रह्मसूत्रान्तं तद्द्वयाग्रावलम्बनात् ।
कुण्डं त्रिकोणमुदितम् ।
इति ॥ अथैतत्कुण्डरचनाप्रकारः - तत्र प्राग्वच्चतुरस्रं कृत्वा तद्ब्रह्मसूत्रस्य प्रागग्रं बहिर्गत्या प्रसार्य तच्चतुरस्रविष्कम्भमानं षोढा विभज्य तेष्.वेकैकांशेन पश्चिमतिर्यक्सूत्राग्रद्वयं पार्श्वद्वयेऽपि बहिः प्रसार्य तदग्रद्वयात् तत्सूत्रमानोपेतसूत्रद्वयस्य प्राक्प्रसारितब्रह्मसूत्रस्य च यत्र सम्पातस्तदवध्यास्फाल्य त्रिकोणकुण्डं परिकल्प्य तद्बहिरेकांशमानेन तद्बहिर्द्वांदशांशमानेनोक्तयुक्त्या त्रिकोणद्वयं निष्पाद्य खातकण्ठमेखलादि प्राग्वत्कल्पयेदिति ॥
अथ वृत्तकुण्डमाह तत्रैव -
तन्मध्याष्टादशांशेन प्राक्सूत्राग्रं विकासयेत् ।
तिर्यक्सूत्राद्बहिस्तेन मानेन भ्रमयेत्तथा ॥ १ ॥
मध्यचिह्नावलम्बेन तद्भवेद्वृत्तमण्डलम् ।
इति ॥ अथैतत्कुण्डरचनाप्रकारः - तत्र प्राग्वत् चतुरस्रं क्षेत्रं साधयित्वा तन्मध्ये विष्कम्भमानमष्टादशधा विभज्य तेष्वेकांशमानतश्चतुरस्राद्बहिर्ब्रह्मसूत्रस्थप्रागग्रं विस्तार्य मध्यचिह्नमवलम्ब्य विस्तारितब्रह्मसूत्राग्रमानेन परितो भ्रमेण वृत्तं निष्पाद्य तद्बहिः पुनश्चतुरस्रस्य चतुर्विंशमानेन कण्ठार्थं वृत्तं कृत्वा तद्बहिः पुनर्द्वादशांगुलमानेन वृत्तान्तरं निष्पाद्य प्रथमकृतवृत्तमध्ये हस्तमात्रं निम्नं खातं कृत्वा कण्ठवृत्ताद्बहिर्द्वादशांगुलान्तरालं वीथ्यां प्राग्वन्मेखलात्रयं योन्यादिकं रचयेदिति ॥ अथ वृत्तकुण्डे योनिर्नास्तीति कश्चित् तन्न योनिकुण्डे योनिः पद्मकुण्डे नाभिश्च नास्तीति तान्त्रिकसिद्धान्तः ॥
अथ सडस्रकुण्डमाह तत्रैव -
तन्मध्यषोडशांशेन विकास्य ब्रह्मसूत्रकम् ।
तेन मानेन च तथा कृत्वा वृत्तमतिस्फुटम् ॥ १ ॥
तद्वृत्ते वृत्तमध्यस्य कुर्यादर्धेन लाञ्छनम् ।
तत्र षट्सूत्रपातेन भवेत् कुण्डं षडस्रकम् ॥ २ ॥
इति ॥ अथैतत्कुण्डरचनाप्रकारः - तत्र प्राग्वत्चतुरस्रं विधाय तन्मध्यमानं षोडशधा विभज्य तेष्वेकांशमानेन ब्रह्मसूत्रस्य प्रागग्रं विकाश्य तन्मानेन चतुरस्रतन्मध्स्थहंसपदमध्यावलम्बेन भ्रमाद्वृत्तं निष्पाद्य तन्मध्यविष्कम्भमानार्धेन तन्मध्यतिर्यक्सूत्रदक्षिणाग्रादिपरितोवृत्ते चिह्नषट्कं विधाय तत्र चिह्नात् चिह्नं ज्यारूपं सूत्रषट्कमास्फाल्य तत्तच्चापरूपवृत्तखण्डमार्जनेन षट्कोणकुण्डक्षेत्रं निष्पाद्य तद्बहिरेकांशतो द्वादशांशतश्चोक्तयुक्त्या षट्कोणद्वयं निष्पाद्य खातादीनि प्राग्वत् कल्पयेदिति ॥
अथ पद्मकुण्डमाह लक्षणसंग्रहे -
चतुरस्रीकृतं क्षेत्रं विभजेदष्टधाम्बिके ।
अष्टमांशप्रमाणेन कर्कटेन तु मध्यतः ॥ १ ॥
वर्तुलं भ्रामयेत्सेयं कर्णिका केसराः पुनः ।
अष्टमांशद्वयेनैव मध्यतो वर्तुलं भवेत् ॥ २ ॥
तृतीयेनाष्टमांशेन पत्राणां मध्यभूर्मता ।
चतुर्थं तु भवेत् क्षेत्रं व्यासतुल्येन च भ्रमात् ॥ ३ ॥
चतुर्विंशतिधा भक्त्वा ब्रह्मसूत्रं वरानने ।
तस्यैकं भागमादाय भक्त्वा षोडशधा पुनः ॥ ४ ॥
पञ्चभिः षोडशैर्भागैर्न्यूनं पञ्चकमष्टकम् ।
भागमादाय तद्बाह्ये पञ्चमं मण्डलं शिवे ॥ ५ ॥
प्. २३३) मध्यतो भ्रामयेत् सर्वैः पत्राणामग्रभूर्मता ।
शास्त्रोक्तविधिना देवि ततः पद्मं समालिखेत् ॥ ६ ॥
वाह्यवृत्तान्तरालं यत्तन्मानं केसराग्रतः ।
तन्मानं कर्कटं कृत्वा केसराग्रे विधाय च ॥ ७ ॥
गुरूपदिष्टमार्गेण षोडशार्धनिशाकरान् ।
लिखित्वा कृतिहस्तेन पत्राग्राणि समालिखेत् ॥ ८ ॥
कर्णिकाव्यासमानेन परित्यज्य तदुच्चताम् ।
लिखेनेदवशिष्टं तु केसराणां च मण्डलम् ॥ ९ ॥
खनेदन्तस्तथाकारं कुर्वन् पत्रभुवं खनेत् ।
पत्राकारा यथा सम्यग्जायन्ते परमेश्वरि ॥ १० ॥
पद्मकुण्डमिति प्रोक्तम् ।
इति ॥ अथैतत्कुण्डरचनाप्रकारः - तत्र प्राग्वच्चतुरस्रीकृतं क्षेत्रमष्टधा विभज्य तन्मध्यचिह्नावलम्बेन परितस्तेष्वेकांशमानेन कर्णिकार्थं वृत्तं निष्पाद्य तद्बहिरप्यंशद्वयमानेन केसरार्थं वृत्तं कृत्वा तद्बहिरप्यंशत्रयमानेन तद्दलार्थं वृत्तं विरच्य तद्बहिरप्यंशचतुष्टयमानेन वृत्तं भ्रामयित्वा तद्बहिरपि सार्घषड्यवमानेन चतुरस्रक्षेत्राद्बहिः वृत्तमेकं भ्रामयेदिति वृत्तपञ्चकं कृत्वा द्वितीयवृत्तपञ्चमवृत्तयोरन्तरालमानकर्कटेन केसरवृत्ताग्रात् सर्वबाह्यवृत्तस्पृष्टसृङ्गद्वयाग्रकान् षोडशार्धचन्द्रान्निष्पाद्य साग्राण्यष्टदलानि कृत्वा तन्मध्यकर्णिकावृत्तं विहाय केसराणि कर्णिकां परितः प्रकाशयत् केसरवृत्तं दलमध्यवृत्तं च सम्यक् खनित्वा चतुर्थपञ्चमवृत्तयोर्दलानि साग्राणि यथा भवन्ति चतुरस्रकुण्डस्य विस्तारायामखातसमानक्षेत्रफलवत् क्षेत्रफलं च यथा भवति तथा गुरूक्तयुक्त्या खननं विधाय बहिः पद्माकारेणैव कण्ठमेखलादिकं कुर्यादिति ॥
अथाष्टास्रकुण्डमाह तन्त्रराजे -
तन्मध्यस्य चतुर्विंशमाने बाह्येऽपि पूर्ववत् ।
विधाय चतुरस्र तु पूर्वकोणार्धमानतः ॥ १ ॥
कोणादभित एवास्य कृत्वा चिह्नानि चाष्ट वै ।
तेषु चिह्नेषु कृत्वाष्टसूत्राणि परितः शिवे ॥ २ ॥
कुर्यादष्टास्रकं कुण्डं इति ॥ अथैतत्कुण्डरचनाप्रकारः - तत्र प्राग्वच्चतुरस्रं विधाय तन्मध्यसूत्रमानं चतुर्विंशतिधा विभज्य तेष्वेकांशमानं तद्बहिः प्रतिदिशं प्रसारितसूत्राग्रे पूर्ववच्चतुरस्रं प्रोक्तक्रमेण विधाय तत्र पूर्वचतुरस्रस्थकोणसूयस्यार्धमानेन बाह्यचतुरस्रे कोणचतुष्टयव्यत्यासावष्टम्भादुभयतः प्रतिरेखं चिह्नद्वयं क्रमात्सम्भूयाष्टचिह्नानि कृत्वा चिह्नात् चिह्नं प्राग्वत्सूत्राष्टकमास्फाल्य तद्बहिर्गतकोणमार्जनादष्टास्रं कुण्डं भवति । इत्थमष्टास्रकुण्डक्षेत्रं परिकल्प्य खातकण्ठमेखलादिकं यथावत्कुर्यादिति दीक्षायामष्टौ कुण्डानि कार्याणि ॥
अथ प्रसक्त्या काम्यहोमार्थं पञ्चास्रसप्तास्रकुण्डयोरपि लक्षणमुच्यते
।
तत्रादौ पञ्चास्रकुण्डमाह तत्रैव -
तन्मध्यसप्तमांएशेन ब्रह्मसूत्रं विकास्य तत् ।
मानेन परितो भ्रान्त्या कृत्वा वृत्तं यथा ततः ॥ १ ॥
तत्त्र्यंशमानात् तद्वृत्ते कृत्वा चिह्नानि तत्र वै ।
पातयेत् पञ्च सूत्राणि तत् स्यात्पञ्चास्रकुण्डकम् ॥ २ ॥
इति ॥ अथैत्कुण्डरचनाप्रकारः - तत्र प्राग्वच्चतुरस्रक्षेत्रं कृत्वा तन्मध्यमानस्य सप्तमांशेन ब्रह्मसूत्रस्य प्रागग्रं बहिर्विकाश्य तन्मानेन तच्चतुरस्रमध्यस्थहंसपदावलम्बनेन भ्रमाद् वृत्तं निष्पाद्य तच्चतुरस्रमध्यसूत्रं चतुर्धा कृत्वा तेष्वंशत्रयेण अंशत्रयेण तद्वृत्ते ब्रह्मसूत्रप्रागग्रादिपरितः पञ्च चिह्नानि विधाय तत्र चिह्नात् चिह्नं ज्यारूपाणि पञ्चसूत्राण्यास्फाल्य तत्तच्चाप(रूप)वृत्तखण्डमार्जनात् पञ्चास्रकुण्डं भवति । इत्थं पञ्चास्रकुण्डक्षेत्रं परिकल्प्य तद्बहिरपि प्रोक्तयुक्त्या कण्ठमेखलार्थं पञ्चास्रद्वयं परिकल्प्य खातादिकं कुर्यादिति ॥
अथ सप्तास्रकुण्डमाह तत्रैव -
तन्मध्यदशमांशेन विकाश्य ब्रह्मसूत्रकम् ।
तेन मानेन संभ्रान्त्या कृत्वा वृत्तं तथा ततः ॥ १ ॥
तच्चतुष्षष्टिभागेषु त्रयस्त्रिंशांशमानतः ।
वृत्ते विधाय चिह्नानि सप्त सूत्राणि पातयेत् ॥ २ ॥
प्. २३४) तत्सप्तास्रं भवेत्कुण्डम् इति ॥ अथैतत्कुण्डरचनाप्रकारः - तत्र
प्राग्वत्समचतुरस्रं कृत्वा तन्मध्यमानं दशधा विभज्य
तेष्वेकांशमानेन ब्रह्मसूत्रं बहिर्विकाश्य तन्मानेन
तच्च्तुरस्रमध्यस्थहंसपदमवष्टम्य वृत्तं कृत्वा तच्चतुरस्रमध्य
सूत्रप्रमाणं चतुष्षष्टिधा विभज्य तेषु त्रयस्त्रिंशदंशमानेन
ब्रह्मसूत्रप्रागग्रादारभ्य वृत्ते सप्त चिह्नानि कृत्वा चिह्नाच्चिह्नं
ज्यारूपेण सप्त सूत्राण्यास्फाल्य
तत्तच्चापरूपवृत्तखण्डमार्जनादेतत्सप्तास्रंकुण्डं भवेदिति ॥ इति
दशविधकुण्डनिर्माणप्रकारः । अत्र दीक्षायामष्टौ कुण्डानि
प्रागाद्यष्टदिक्षु नवममाचार्यकुण्डं चतुरस्रमेवेन्द्रेशानयोर्मध्ये
कुर्यादिति सम्भूय नव कुण्डाइ कार्याणि । अष्टकुण्डकरणाशक्तौ
प्रागादिचतुर्दिक्षु चतुरस्रार्धचन्द्रवृत्तपद्माख्यानि चत्वार्येव कुण्डानि
कुर्यात् । अत्राप्यशक्ताविन्द्रेशानयोर्मध्ये चतुरस्रमाचार्यकुण्डमेकमेव
कुर्यादिति ॥ अथैतेषां कुण्डानां काम्यहोमेषु कुण्डभेदेन फलभेदः ।
तत्र कुलप्रकाशतन्त्रे :
चतुरस्रे स्तम्भनं स्यात्सर्वसिद्धिकरं च तत् ।
भोगाः पुत्रा योनिकुण्डे ह्यर्धचन्द्रं शुभावहम् ॥ १ ॥
मारणे केचिदिच्छन्ति त्रिकोणं द्वेषकारकम् ।
रिपुघातकरं केचिद्वृत्तं शान्तिकरं जगुः ॥ २ ॥
षट्कोणमुच्चाटमृतिभेदेषु सुविशिष्यते ।
वृष्टिदं पुष्टिदं वापि पद्मकुण्डं विदुर्बुधाः ॥ ३ ॥
अष्टकोणं तु मुक्तौ स्यादरोगेऽपीति केचन ।
पञ्चकोणं चाभिचारशमने भूतकृन्तने ॥ ४ ॥
सप्तास्रमेव विज्ञाय काम्यकर्माणि साधयेत् ।
इति ॥ अथ वर्णभेदेन कुण्डभेदः । कुलमूलावतारे -
वर्णनामादितः कुण्डान्युक्तानि क्रमतः शिवे ।
चतुरस्रं वृत्तमर्धचन्द्रं त्र्यस्रमिति क्रमात् ॥ १ ॥
सर्वेषां चतुरस्रं वा दीक्षायामुत्तमं शिवे ।
इति । अथ वेदिकापरितः कुण्डनिर्माणे विशेषमाह तन्त्रराजे -
कुण्डान्यष्टौ चतुष्कं च तेषां रूपं च नामकम् ।
निर्माणं सकलं वक्ष्ये यथाविधि तवानघे ॥ १ ॥
तुलाकुलीरमेषाणां मकरस्य च देशतः ।
विदध्याद्वृत्तकुण्डानि चरराशिचतुष्टये ॥ २ ॥
वृषे सिंहे वृश्चिके च कुम्भे च स्थिरराशिषु ।
विदध्याच्चतुरस्राणिः ततः कुण्डान्यनुक्रमात् ॥ ३ ॥
मिथुने कन्यकायां च चापे मीने क्रमेण वै ।
उभयात्मसु कुर्वीत योनिकुण्डानि मङ्गले ॥ ४ ॥
अमङ्गलेषु कुर्वीत चरेष्वर्धशशाङ्ककम् ।
स्थिरेष्वपि त्रिकोणानि परेषु तु चतुष्टये ॥ ५ ॥
पञ्चास्रं च षडस्रं च सप्तास्रं चाष्टकोणकम् ।
इति ॥ राशिस्थितिमाह तत्रैव -
प्राच्यां मेषवृषौ वह्नौ मिथुनं दक्षिणे तथा ।
कुलीरसिंहावथ तन्निर्-ऋत्यां कन्यका तथा ॥ १ ॥
तुलाकीटौ पश्चिमतो धनुर्वायौ तु संस्थितम् ।
नक्रकुम्भावुत्तरतो मीनमीशे तु संस्थितम् ॥ २ ॥
इति ॥ अथ कुण्डस्वरूपं तद्वासना च प्रथमतन्त्रे -
परं शरीरं प्रकृतेः कुण्डरूपं पुरः शिरः ।
याम्यसौम्यकरौ कुण्डमुदरं पश्चिमे तथा ॥ १ ॥
योनिश्च चरणौ प्रोक्ता सर्वतन्त्रेषु शाम्भवि ।
इति ॥ अथ होमसंख्याभेदेन कुण्डमानभेदस्तत्र लक्षसागरे -
पञ्चाशत्प्रमिते होमे कुण्डं रत्निमितं भवेत् ।
अरत्निमात्रं तु शते सहस्रमितहोमके ॥ १ ॥
चतुर्विंशत्यगुलाढ्यं द्विहस्तमयुते मतम् ।
चतुर्हस्तमितं लक्षे षट्करं दशलक्षके ॥ २ ॥
कोटिहोमे चाष्टहस्तं कुण्डं कुर्यान्महेश्वरि ।
इति ॥ प्रकारान्तरं च तत्रैव -
एकलक्षं समारभ्य यावत्स्याद् दशलक्षकं ।
तथैकहस्तमारभ्य दशहस्तं विवर्द्धयेत् ॥ १ ॥
कोट्यां दशकरं कुण्डं प्रशस्तं परमेश्वरि ।
प्. २३५) इति ॥ एतत्पत्रपुष्पकेवलधृतहोमेष्विति ज्ञेयम् । तत्रातिविस्तारस्य प्रयोजनाभावात् ॥ अथैतेषां द्विहस्तादिकुण्डविशेषाणां मानांगुलक्षेत्रफलानि लक्षसागरे -
फलांगुलानि यावन्ति हस्तक्षेत्रे भवन्ति हि ।
द्विहस्तस्य च कुण्डस्य ततो द्वैगुण्यमिष्यते ॥ १ ॥
हस्तक्षेत्रांगुलान्यत्र षट्सप्तत्या सहैव च ।
शतानि पञ्च विद्यन्ते तन्मूलं ब्रह्मसूत्रकम् ॥ २ ॥
चतुर्विंशत्यंगुलानि विदध्याद्विधिवत्पुनः ।
अंगुलानि द्विपञ्चाशदेकादशशतानि च ॥ ३ ॥
तद्बीजं मध्यतो लिक्षाचतुष्कं चार्धसंयुतम् ।
चतस्रश्च तथा यूका यवाः सप्त तथैव च ॥ ४ ॥
अंगुलानि त्रयस्त्रिंशन्मानं सूत्रे तु मध्यमे ।
सप्तदशशतान्यष्टाविंशतिस्त्वंगुलानि च ॥ ५ ॥
क्षेत्रस्य तु त्रिहस्तस्य मानमेतदुदीरितम् ।
तन्मूलमंगुलान्येकचत्वारिंशच्चतुर्यवाः ॥ ६ ॥
यूकाचतुष्टयं किञ्चिन्न्यूनं लिक्षाचतुष्टयम् ।
चतुरंगुलयुक्तानि त्रयोविंशच्छतानि च ॥ ७ ॥
चतुर्हस्तस्य कुण्डस्य मानमेवमुदीरितम् ।
मूलं तस्यांगुलान्यष्टचत्वारिंशन्मितं भवेत् ॥ ८ ॥
ब्रह्मसूत्रं ततः पञ्चहस्तक्षेत्रांगुलानि तु ।
द्विसहस्रं शतान्यष्टावशीतिर्बीजमुच्यते ॥ ९ ॥
षट्पञ्चाशदंगुलानि चतुस्त्रिंशच्छतानि च ।
तन्मूलमष्टपञ्चाशदंगुलानि च षड्यवा ॥ १० ॥
किञ्चिद्भागादिकं यूकाद्वयं सप्तकरस्य च ।
वेदसंख्यासहस्राणि द्वाविंशत्सहितानि च ॥ ११ ॥
मूलं चतुर्यवैः साकं त्रिषष्टिरंगुलानि च ।
ब्रह्मसूत्रं ततश्चाष्टहस्तक्षेत्रांगुलानि च ॥ १२ ॥
वेदसंख्यासहस्राणि साष्टानि षट्शतानि च ।
अंगुलानि तथा सप्तषष्टिः सप्त यवाः पुनः ॥ १३ ॥
किञ्चिदूनं मूलमस्य नवहस्तेषु दृश्यते ।
शतानि त्वेकपञ्चाशच्चतुर्भिरधिकानि च ॥ १४ ॥
अशीतिरंगुलान्यत्र क्षेत्रं मानमितं भवेत् ।
द्वासप्ततिरंगुलानि मूलमस्य प्रकीर्तितम् ॥ १५ ॥
पञ्चागुलानि क्षेत्रस्य दशहस्तमितस्य च ।
सहस्राणीषुसंख्यानि मुनिसंख्यशतानि च ॥ १६ ॥
षष्टिश्च कथितान्यस्य तन्मूलं ब्रह्मसूत्रकम् ।
वर्धयेत् पञ्चसप्तत्याधिकैः सप्तयवैस्तथा ॥ १७ ॥
अस्याधिकाभ्यां लिक्षाभ्यां साकमेवं प्रकल्पयेत् ।
अतियत्नं समास्थाय कुण्डान्यारचयेत् सुधीः ॥ १८ ॥
द्विहस्तादिमितानां च निर्माणं दुर्घटं शिवे ।
इति ॥ अतियत्नमिति अत्र त्रसरेण्वादिदशपर्यन्तान् मानभेदान् सम्यग्ज्ञात्वा तत्कुण्डविस्तारायामसमाननिम्नखातं यथोक्तमानकण्ठमेखलादिकं च कुर्यादित्यर्थः । दुर्घटं चातियत्नसाध्यत्वात् । त्रसरेण्वादिमानभेदास्तु लक्षणसंग्रहे :
जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः ।
प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥ १ ॥
त्रसरेणुस्तु विज्ञेयो ह्यष्टौ स्युः परमाणवः ।
त्रसरेणुरष्टगुणौ रथरेणुस्तु संस्मृतः ॥ २ ॥
रथरेणवस्तु ते ह्यष्टौ बालाग्रं तन्मतं बुधैः ।
बालाग्राण्यष्ट लिक्षा तु यूका लिक्षाष्टकं स्मृतम् ॥ ३ ॥
अष्टौ यूका यवं प्राहुरंगुलं तु यवाष्टकम् ।
रत्निरंगुलिपर्वाणां विज्ञेयस्त्वेकविंशतिः ॥ ४ ॥
कर एव कलांशेन हीनोऽरत्निरुदाहृतः ।
चत्वारि विंशतिश्चैव हस्तः स्यादंगुलानि तु ॥ ५ ॥
इति ॥ अथास्य कुण्डविस्तारायामसमाननिम्नखातकरणे मेखलादीनां च प्रमाणवचनानि तथा च -
विंशत्या चतुरधिकाभिरंगुलीभिः सूत्रेणाप्यथ परिसूत्र्य भूमिभागम्
।
ताभिश्च प्रखनतु तावतीभिरेकां त्यक्त्वा चांगुलिमपि मेखलाश्च
कार्याः ॥ १ ॥
इति प्रपञ्चसारवचनात् ॥ यावान् कुण्डस्य विस्तारः खननं तावदीरितम् । इति
शारदावचनात् । कुण्डविस्तारवन्निम्नमिति वायवीयसंहितावचनात् ।
चतुरस्रं चतुष्कोष्ठं सूत्रैः कृत्वा यथा पुरा ।
हस्तमानेन तन्मध्ये तावन्निम्नायतं खनेत् ॥ १ ॥
प्. २३६) इति दिव्यसारस्वतप्रयोगसारवचनात् । चतुर्विंशांगुलायामं
तावत्खातसमन्वितम् । इति गणेश्वरपरामर्शिनीवचनात् ।
चतुर्विंशतिसंख्याभिरंगुलीभिः सविस्तृतम् । खातं च रचयेत्कुण्डं इति
दक्षिणामूर्तिसंहितावचनाच्च कुण्डं विरतारायामसमाननिम्नखातं
कर्तव्यमिति सिद्धान्तः ॥ अत्र केचित् - हस्तमात्रं खनेत् तिर्यगूर्ध्वमेखलया
सह । इति होमसारवचनात् । पञ्चत्रिमेखलोच्छ्रायं ज्ञात्वा शेषमधः
खनेत् । इति प्रतिष्ठासारसंग्रहवचनात् । व्यासात् खातकरः प्रोक्तो
निम्नस्तिथ्यंगुलेन तु । इति विश्वकर्मवचनात् । कुण्डं निजांगुले
तिर्यगूर्ध्वमेखलया सह । इति प्रथमतन्त्रे वचनात् । खातं
कुण्डप्रमाणं स्यादूर्ध्वमेखलया सह । इति सिद्धान्तशेखरवचनाच्च
मेखलया सह हस्तमानं खातं वदन्ति एतन्न रम्यं
मेखलयानुगमनेन खातस्याप्यनुगमनप्रसङ्गात् । खातं
कुण्डायतेस्तुल्यमङ्गत्वं तस्य कीर्तितम् । सन्निपत्योपकारेण
मेखलादेर्विंशिष्यते ॥ इति योगिनीहृदयवचनात् सन्निपत्योपकारस्य
खातस्यारादुपकाराङ्गमेखलया सह निर्वाहानौचित्यात् तथोक्तपक्षस्यैव
नियुक्तत्वात् ॥ किञ्च :
मध्यमांगुलिमध्यस्थपर्वणः परिणाहतः ।
तृतीयांशो भवेदत्र तन्त्रे सर्वत्र चांगुलिः ॥ १ ॥
तैश्चतुर्भिर्भवेन्मुष्टिर्वितस्तिस्तत्त्रिभिर्गुणैः ।
अरत्निस्तद्द्वयेन स्याद्धस्तस्तद्द्वयतः शिवे ॥ २ ॥
तद्द्वयं तु भवेद्व्यामस्तन्माना स्यान्नरोन्नतिः ।
षण्णवत्यंगुला सा स्यात् तन्मानैः कुण्डकल्पनम् ॥ ३ ॥
इति श्रीतन्त्रराजवचनात् कुण्डस्य
षण्णवत्यंगुलायामविस्तारस्यावश्यकत्वात् पञ्चदशांगुलखातपक्षे
खातमध्यादारभ्य मेखलोर्ध्वपर्यन्तस्य द्वादश पञ्चदश नवेति
षट्त्रिंशदंगुलमात्रदर्शनात् तस्य पार्श्वद्वयेऽपि द्वैगुण्येन
द्वासप्तत्यंगुलमात्रया चतुर्विंशत्यंगुलस्य तृतीयांशस्य न्यूनत्वाद्
द्वादशांगुलोच्चमेखलासहितहस्तमात्रखाते तु पार्श्वद्वयेऽपि
मध्यप्रदेशाद् द्वादश चतुर्विंशतिर्द्वादशेति
गणनयाष्टाचत्वारिंशद्द्वैगुण्येन षण्णवतिरिति
प्रोक्तसंख्यापरिपूर्णत्वात्
हस्तमात्रखातयुक्तद्वादशांगुलोच्चमेखलापक्ष एव श्रेयानिति ।
एकांगुलविस्तारस्य कण्ठस्य विद्यमानत्वात् पार्श्वद्वयेऽपि तद्ग्रहणेन
द्व्यंगुलविस्ताराधिक्यात् षण्णवत्यंगुलायामत्वं
कुण्डस्यानुपपन्नमितिचेन्न कण्ठस्यानावश्यकत्वात् । अत एव तन्त्रराजे
कण्ठो नोक्तः । तर्हि कण्ठाकरणेऽपि दोषः श्रूयते । सत्यं तस्य
तन्त्रराजविरोधादेव न्यूनमेखलान्यूनखातपरत्वं कल्पनीयमिति ।
तस्मान्मेखलया सह खातप्रतिपादकवचनानि रत्न्यरत्न्यादिषु कुण्डेषु
पञ्चाशदादिहोमविधानेन खाताधिक्यप्रयोजनाभावात् तद्विषयकाणि इति
मन्तव्यानि । अथात्र मेखलाः पञ्च वा कार्याः षट्पञ्चाब्धित्रिपक्षकैः ।
इति लक्षणसंग्रहवचनात् । षड्बाणाब्धिवह्निनेत्रमिताः स्युः पञ्च
मेखलाः । इति सिद्धान्तशेखरवचनाच्च पञ्च वा मेखलाः कार्याः ॥
तथा पिङ्गलामते -
षष्ठांशेनाष्टमांशेन मेखलाद्वितयं मतम् ।
एका सडंगुलोत्सेधविस्तरा मेखला मता ॥ १ ॥
इति ॥ अथ कुण्डानामयथाकरणे दोषा भवन्तीत्याह वसिष्ठः -
अनेकदोषदं कुण्डमत्र न्यूनाधिकं यदि ।
तस्मात्सम्यक् परीक्ष्यैवं कर्तव्यं शुभमिच्छता ॥ १ ॥
इति ॥ तत्र दोषानाह विश्वकर्मा -
खाताधिके भवेद्रोगी हीने धेनुधनक्षयः ।
वक्रकुण्डे तु सन्तापो मरणं छिन्नमेखले ॥ १ ॥
मेखलारहिते शोकोऽभ्यधिके वित्तसंक्षयः ।
भार्याविनाशकं कुण्डं प्रोक्तं योन्या विना कृतम् ॥ २ ॥
अपत्यध्वंसनं प्रोक्तं कुण्डं यत्कण्ठवर्जितम् ॥
इति ॥ तथा क्रियासागरे -
न्यूनाधिकप्रमाणं यत्कुण्डं जर्जरमेखलम् ।
शृङ्गाररहितं यच्च यजमानविनाशकृत् ॥ १ ॥
इति ॥ तथा जयद्रथयामले -
सूत्राधिके सुहृद्द्वेषो मानहीने दरिद्रता ।
वाग्रोधः कण्ठहीने स्यादसिद्धिर्न्यूनखातके ॥ १ ॥
प्. २३७) अधिके चासुरभोगो मानेनाधिकमेखले ।
व्याधयः संप्रवर्तन्ते वियोनौ स्यादपस्मृतिः ॥ २ ॥
उच्चाटः स्फुटिते छिद्रसंकुले वाच्यता भवेत् ।
इति । इत्थं निन्दाश्रवणाद् यथोक्तलक्षणसम्पन्नानि सर्वाणि कुण्डानि कार्याणि इति ॥ अथ कण्ठः । तत्र वसिष्ठः : कण्ठोऽष्टयवमात्रः स्यात् कुण्डे तु करमात्रके । इति ॥ तथा कालोत्तरे :
खाताद्बाह्योऽंगुलः कण्ठः सर्वकुण्डेष्वयं विधिः ।
चतुर्विंशतिकं भागमंगुलं परिकल्पयेत् ॥ १ ॥
इति ॥ अथ योनिः वायवीयसंहितायाम् -
मेखलामध्यतः कुर्यात्पश्चिमे दक्षिणेऽपि वा ।
योनिं सुशोभनां किञ्चिन्निम्नामुन्नालिकां शनैः ॥ १ ॥
अग्रेण कुण्डाभिमुखीं किञ्चिद स्पृष्टमेखलाम् ।
कुम्भद्वयसमायुक्तामश्वत्थदलसन्निभाम् ॥ २ ॥
इति ॥ तथा च वसिष्ठसंहितायाम् -
योनिश्च मध्यमे भागे प्राङ्मुखी मध्यसंस्थिता ।
अष्टांगुलैश्च विस्तीर्णा चायता द्वादशांगुलैः ॥ १ ॥
पृष्ठोन्नता गजोष्ठी च सच्छिद्रा मध्यतोन्नता ।
इति । सच्छिद्रा मध्ये । मध्ये त्वाज्यधृतिः स्मृता इति त्रैलोक्यसारवचनात् आज्यधृतिरिति योनिमध्ये गर्तं कर्तव्यमित्याहुः साम्प्रदायिकाः ॥ तथा लक्षणसंग्रहे :
ईषत्कुण्डप्रविष्टाग्रा जिनांशकृतमेखला ।
मेखलार्थं पृथग्भूमिर्न ग्राह्या बाह्यतः प्रिये ॥ १ ॥
इति । योनिक्षेत्रे तु सा कार्या इति नारदः । कुण्डे त्रयंशेन विस्तारा
योनिरुच्छ्रायतोंऽगुला । कुण्डार्धेन तु दीर्घा स्यात् । इति । तथा त्रैलोक्यसारे
दैर्घ्यात् सूर्यांगुला नालत्रयंशोना विस्तारेण तु । एकांगुलोच्छ्रिता सा तु ।
इति नालत्र्यंशोनाष्टांगुलविस्तारा नालस्य द्वादशांगुलदैर्घ्यादिति ।
स्वायम्भुवेऽपि मेखलामध्यतो योनिः कुण्डार्धा त्र्यंशविस्तृता इति ।
विस्तारो मूलदेशे पिप्पलपत्राकृतित्वात् द्विहस्तादिकुण्डेष्वनया रीत्या
तत्तकुण्डार्धं दीर्घा तत्तत्तृतीयांशविस्तारा तत्तच्चतुर्विंशांशोच्चा च
योनिः कार्या ॥
तदुक्तं सोमशम्भौ -
कुण्डानां यश्चतुर्विंशो भागः सोंऽगुलसंज्ञकः ।
विभज्य तेन कर्तव्या मेखलाकण्ठनाभयः ॥ १ ॥
इति । सिद्धान्तशेखरेऽपि - चतुर्विंशतिमो भागः कुण्डानामंगुलं स्मृतम्
। इति । दीर्घार्कपर्वभिर्योनिर्विस्तारेण षडंगुला । उन्नतिद्व्यंगुलेनोना स्यात् ।
इत्युक्तम् । अत्राष्टांगुलसडंगुलयोरेकांगुलद्व्यंगुलयोश्च विकल्पः ।
तथा होतुरग्रे योनिरासामुपर्यश्वत्थपत्रवत् । इति शारदावचनात् योनिः
सर्वत्र होतुरग्रे प्रोक्तविधिना स्थाप्येति । तत्र चतुष्कुण्डपक्षे चतुरस्रे
अर्धचन्द्रे कुण्डे च योनिर्दक्षिणभागस्थमेखलोपरि स्थाप्या
तयोर्होत्रोरुत्तराभिमुखत्वात् । अन्यकुण्डयोः पश्चिममेखलोपरि योनिः
स्थाप्या तयोर्होत्रोः पूर्वाभिमुखत्वात् ॥
दक्षस्था पूर्वयाम्ये तु जलस्था पश्चिमोत्तरे ।
पञ्चमस्यापि कुण्डस्य योनिर्दक्षिणदिक्स्थिता ॥ १ ॥
इति त्रैलोक्यसारवचनात् ।
पञ्चमस्याचार्यकुण्डस्येत्यर्थः । अत्र कुण्डपक्षे तु -
प्रागग्नियाम्यकुण्डानां प्रोक्ता योनिरुदङ्मुखी । शेषाणां प्राङ्मुखी
प्रोक्ता इति तन्त्रान्तरवचनात् पूर्वाग्नेययाम्येषु उदङ्मुखी योनिरन्येषु
प्राङ्मुखी नवमस्य तु प्राग्वदेव । एतेन योनिकुण्डेऽपि योनिः कर्तव्येति केचित् ।
तन्न योनिकुण्डे योनिमब्जकुण्डे नाभिं च वर्जयेत् । इति विश्वकर्मवचनात् ।
आसां मेखलानां नालमुक्तं तन्त्रराजे बहिःस्थमेखलामध्यादारभ्य
निजनालकम् । वितस्तिमात्रकम् इति । बहिःस्थमेखलामध्यात्
तन्मध्यगतचतुरस्रपीठादित्यर्थः । तथैव तट्टीकाकृता मनोरमाकारेण
व्याख्यातत्वात् । आचार्यचरणैस्तु - योनिस्तत्पश्चिमायामथ दिशि
चतुरस्रस्थलारब्धनाला इत्युक्तं तत्र पद्मपादाचार्यैः -
मेखलात्रयाद्बहिश्चतुरंगुलायामविस्तारं कृत्वा तत्र नालं स्थाप्यमिति
व्याख्यातम् । वितस्तिमात्रं द्वादशांगुलमात्रम् ॥ प्रयोगसारे तु -
प्. २३८) योन्याः पश्चिमतो नालमायामे चतुरंगुलम् ।
त्रिद्व्येकांगुलविस्तारं क्रमान्न्यूनाग्रमिष्यते ॥ १ ॥
इति चतुरंगुलमानेन नालमुक्तम् । एतच्चतुरंगुलषडंगुलादि स्वल्पमेखलापक्षे ज्ञेयम् ॥ नाभिमाह तन्त्रराजे -
नाभिं कुर्यात्तु सर्वत्र कुण्डमध्ये विधानतः ।
अष्टच्छदं सरोजं तु विदध्याच्चारुविग्रहम् ॥ १ ॥
चतुर्भिरंगुलैः कुर्यात् कर्णिकां दलमेव च ।
विस्तारादपि चोत्सेधं षड्भिः षड्भिरुदाहृतम् ॥ २ ॥
इति ॥ शारदायाम् -
कुण्डानां कल्पयेदन्तर्नाभिमम्बुजसंनिभम् ।
तत्तत्कुण्डानुरूपं वा मानमस्य निगद्यते ॥ १ ॥
मुष्ट्यरत्न्येकहस्तानां नाभिरुत्सेधतारतः ।
द्वित्रिवेदांगुलोपेतः कुण्डेष्वन्येषु वर्धयेत् ॥ २ ॥
यवद्वयक्रमेणैव नाभिं पृथगुदारधीः ।
नाभिक्षेत्रं त्रिधा भित्त्वा ततः कुर्वीत कर्णिकाम् ॥ ३ ॥
बहिरंशद्वयेनाष्टौ पत्राणि परिकल्पयेत् ।
इति नाभिलक्षणमुक्तं तत्र यथारम्यं ज्ञेयम् । आतपे क्षत्रिये नाभिः प्राण्यङ्गेऽपि द्वयो रिति नाभिशब्दा पुलिङ्गेऽप्यस्ति ॥ अथ वास्तुपूजा । तत्र श्रीतन्त्रराजे -
चतुरस्राकृतिः कश्चिदसुरः सर्वनाशकः ।
पुरा तस्य वधायैव सर्वे देवाः समुद्यमम् ॥ १ ॥
कृत्वा निहन्तुमुद्युकास्तैरवध्योऽभवद्वरात् ।
आवयोस्तन्निरासाय मामेत्याकथयंस्तथा ॥ २ ॥
कथयास्माकमधुना तद्वास्तुपुरुषस्य तु ।
दर्पशान्तिर्न चेदस्य विश्वमासीदुपद्रुतम् ॥ ३ ॥
इत्युक्तं तैर्मया प्रोक्तं निधनं तस्य दुःशकम् ।
खात्वा तमवनौ तस्य शरीरे स्थापयेत्तथा ॥ ४ ॥
नित्यशश्च त्रिपञ्चाशन्निःस्पन्दाक्रमणाय वै ।
नियोज्य तेषां ये पूजाविमुखास्तैः कृतानि तु ॥ ५ ॥
सुकृतानि समादध्युर्दुष्कृतानि च कुर्वते ।
तस्मात्तेषामर्चनं तु प्रत्यब्दं कुर्वतां सदा ॥ ६ ॥
शुभान्येवासु जायन्ते नाशुभानि कदापि च ।
इति ॥ तच्चक्रादिमाह -
तच्चक्रादिविधानं तु यथावदभिधीयते ।
कृत्वा समलतां भूमिं चतुरस्राकृतिं शुभाम् ॥ १ ॥
अष्टाष्टकोद्यतपदां कोणसूत्रसमन्विताम् ।
चतुष्पदयुते तस्यां मध्यकोष्ठे च देशिकः ॥ २ ॥
ब्रह्माणमर्चयेत्तत्र चतुष्पदयुते पुनः ।
प्रादक्षिण्येन पूर्वादि यजेत् कोष्ठचतुष्टये ॥ ३ ॥
अर्यकं च विवस्वन्तं मित्रमन्यं महीधरम् ।
कोणार्धकोष्ठयोरेकमेकं मन्त्री समर्चयेत् ॥ ४ ॥
वह्न्यादीशान्तमभितो वक्ष्यमाणेष्वनुक्रमात् ।
सावित्रः सविता शक्र इन्द्रजिद्रुद्रतज्जितौ ॥ ५ ॥
आपापवत्सकौ चेति प्रोक्तास्तेष्टौ तु नामतः ।
कोणार्धकोणपार्श्वेषु वह्न्यादीशान्तमर्चयेत् ॥ ६ ॥
शर्व गुहं चार्यमणं जम्भकं पिलिपिच्छकम् ।
चरकिं च विदारिं च पूतानां चैव देशिकः ॥ ७ ॥
ततः पूर्वादिपरतो यजेदष्टौ दिशं प्रति ।
ईशानश्चा (थ पर्जन्यो जयन्तः शक्रभास्करौ ॥ ८ ॥
सत्यो वृषोऽन्तरिक्षश्च पूर्वाशाकोष्ठगाः क्रमात् ।
अग्निः पूषा च वितथो यमोऽथ गृहरक्षकः ॥ ९ ॥
गन्धर्वो भृङ्गराजश्च मृगो दक्षिणकोष्ठगाः ।
निर्-ऋतिश्च) तथा दौवारिकः सुग्रीवकस्तथा ॥ १० ॥
वरुणः पुष्पदन्तश्चासुरः शोषाख्यरोगकौ ।
पश्चिमाशास्थकोष्ठेषु पूज्या एते यथाक्रमम् ॥ ११ ॥
वायुर्नागस्तथा मुख्यः सोमो भल्लाटकस्तथा ।
अर्गलो दितिरप्येवमदितिश्च यथाक्रमम् ॥ १२ ॥
कोष्ठेषूत्तरसस्थेषु देवा एते समीरिताः ।
चित्रै रजोभिरापूर्य देवतानां पदानि वै ॥ १३ ॥
व्रीहिमुद्गयवैः क्षौद्रघृतदुग्धाप्लुतैः क्रमात् ।
अष्टोत्तरशतं चाष्टोत्तरविंशतिमेव वा ॥ १४ ॥
प्रत्येकं तद्धुनेद् द्रव्यैर्मन्त्रैस्तद्वच्च पायसैः ।
बलिं च तेषां कुर्वीत पायसैर्व्यञ्जनान्वितैः ॥ १५ ॥
ससितैर्दुग्धकदलीफलापूपादिसंयुतैः ।
प्. २३९) इति ॥ अथैतच्चक्ररचनाप्रकारः - पूजाविधिं च वक्ष्यते - तत्र मण्डपस्य नैर्-ऋतकोणे हस्तमात्रविस्तारायामां वितस्त्युन्नतां समचतुरस्रां वेदिकामतिश्लक्ष्णां कृत्वा प्राक्प्रत्यगायता दक्षिणोत्तरायताश्च नव नव रेखाः कृत्वा समान्तरालानि चतुष्षष्टिकोष्ठानि कृत्वा तत्र वायुकोणादाग्नेयकोणगतं नैर्- ऋतकोणादीशानगतं चेति कर्णसूत्रद्वयमास्फाल्य वास्तुचक्रं निर्माय तन्मध्यकोष्ठ चतुष्टयमेकीकृत्य तद्बहिः प्रागादिचतुर्दिक्षु प्रतिदिशं चत्वारि कोष्ठानि मध्यकोष्ठसंलग्नान्येकीकृत्य त्रिपञ्चाशद्देवतास्थानानि परिकल्प्य तानि स्थानानि वक्ष्यमाणरजोभिर्मनोहरं यथा भवति तथा सम्यगापूर्य पुष्पाञ्जलिमादाय ब्रह्मादित्रिपञ्चाशद्देवता इहागच्छतागच्छतेति पुष्पाञ्जलिप्रक्षेपेणावाह्य ब्रह्मादित्रिपञ्चाशद्देवता यथास्थानमिह तिष्ठत तिष्ठतेति संस्थाप्य ब्रह्मादिभ्य इदमासनम् इति पुटपुष्पाञ्जलिं दत्त्वा सर्वमध्ये ब्रह्मणे नमः । पूर्वादिचतुर्दिक्षु ओं अर्यकाय नमः ओं विवस्वते नमः ओं मित्राय नमः ओं महीधराय नमः इति प्रादक्षिण्येन सम्पूज्याग्नेयादिकोणचतुष्कगतार्धकोष्ठाष्टके प्रादक्षिण्येनाग्नेयादीशानपर्यन्तं ओं सावित्राय नमः ओं सवित्रे नमः ओं शुक्राय नमः ओं शक्रजिते नमः ओं रुद्राय नमः ओं रुद्रजिते नमः ओं आपाय नमः ओं आपवत्सकाय नमः इति सम्पूज्य तद्बहिःस्थवेद्यामाग्नेयादिकोणचतुष्कगतकर्णसूत्रभिन्नकोष्ठचतुष्टय- पार्श्वगतकोष्ठाष्टके आग्नेयादीशानपर्यन्तं ओं शर्वाय नमः ओं गुहाय नमः ओं अर्यम्णे नमः ओं जम्भकाय नमः ओं पिलिपिच्छकाय नमः ओं चरिक्यैनमः ओं विदार्यै नमः ओं पूतनायै नमः इति सम्पूज्य तद्बहिर्गतवीथीचतुष्टये प्राचीदिग्गतवीथ्यामीशानाद्याग्नेयान्तं ओं ईशानाय नमः ओं पर्जन्याय नमः ओं जयन्ताय नमः ओं शक्राय नमः ओं भास्कराय नमः ओं सत्याय नमः ओं वृषाय नमः ओं अन्तरिक्षाय नमः इत्यष्टौ देवताः सम्पूज्य दक्षिणवीथ्यामाग्नेयादिनैर्-ऋतान्तं ओं अग्नये नमः ओं पूष्णे नमः ओं वितथाय नमः ओं यमाय नमः ओं गृहरक्षकाय नमः ओं गन्धर्वाय नमः ओं भृङ्गराजाय नमः ओं मृगाय नमः इति सम्पूज्य ततः पश्चिमवीथ्यां नैर्-ऋतादिवायव्यान्तं ओं निर्-ऋतये नमः ओं दौवारिकाय नमः ओं सुग्रावाय नमः ओं वरुणाय नमः ओं पुष्पदन्ताय नमः ओं असुराय नमः ओं शोषाय नमः ओं रोगाय नमः इति सम्पूज्योत्तरवीथ्यां वायव्यादीशानान्तं ओं वायवे नमः ओं नागाय नमः ओं मुख्याय नमः ओं सोमाय नमः ओं भल्लाटकाय नमः ओं अर्गलाय नमः ओं दित्यै नमः ओं अदित्यै नमः इति गन्धपुष्पाद्यैस्त्रिपञ्चाशद्देवताः सम्पूज्य कुण्डस्थण्डिलादौ वक्ष्यमाणविधिनाग्निस्थापनं कृत्वा ओं ब्रह्मणे स्वाहा अर्यकाय स्वाहा इत्यादिपूजितदेवतानां स्वाहान्तैर्नाममन्त्रैः प्रत्येकं व्रीहियवमुद्गैर्धृतमधुदुग्धपरिप्लुतैः सघृतैः पायसैश्चैकैकद्रव्येणाष्टोत्तरशतसंख्यमष्टाविंशतिसंख्यं वैकैकदेवतानाम्ना हुत्वा ओं ब्रह्मणे एष बलिर्नमः इत्यादि पूजितदेवताभ्यस्तत्तन्नाम्ना तिलदुग्धकदलीफलापूपनानाव्यञ्जनान्वितपायसैस्तत्तत्पदे तस्यैतस्यै बलिं निवेदयेत् ॥ इति वास्तुपूजाविधिः ॥
अथ वास्तुपूजाफलं तदकरणे फलवैपरीत्यं च तन्त्रराजे -
एवं सिंहगते भानौ पूर्णायां प्रतिवत्सरम् ।
स्वगेहे वास्तुपूजायां मण्डले तु समाचरेत् ॥ १ ॥
न बालमरणव्याधिभूतप्रेतादिकानि च ।
न सर्पपीडा नान्योन्यकलहाद्यशुभानि च ॥ २ ॥
पुत्रपौत्रधनारोग्यपशुदासीसमृद्धिभाक् ।
अरोगी विजयी ख्यातः चिरं जीवति तद्गृहे ॥ ३ ॥
राजवेश्मसु सर्वत्र तथा च महिषीगृहे ।
सचिवामात्यसेनानीभवनेषु पुरे तथा ॥ ४ ॥
विदध्यात् प्रतिवर्षं तु प्रोक्तसिद्ध्यै तु देशिकः ।
न चेदुक्तान्यथारूपफलैः क्लेशोऽनिशं भवेत् ॥ ५ ॥
इति ॥ अथांकुरार्पणविधिः तन्त्रान्तरे -
सप्तभिर्नवभिर्वापि दिनैर्दीक्षादिनात् पुरा ।
बीजारोपणकर्मेदं कर्तव्यं सर्वकामदम् ॥ १ ॥
मण्डपोत्तरदिग्भागे सुसंवृततरे परे ।
भवने मण्डले कुर्यादेके प्राग्वरुणायतम् ॥ २ ॥
याम्योदीच्यायतं त्वन्ये प्रवदन्ति मनीषिणः ।
पदानि द्वादशात्र स्युस्तेषु स्थानत्रयं भवेत् ॥ ३ ॥
चतुष्टयपदोपेतं पदान्यापूरयेत् ततः ।
पीतरक्तसितश्यामै रजोभिर्वह्निपूर्वकम् ॥ ४ ॥
ईशान्तं क्रमतस्त्वाहुः पात्राणि त्रिविधानि च ।
वैष्णव्यः पालिकाः प्रोक्ताश्चतुर्विंशांगुलोच्छ्रिताः ॥ ५ ॥
प्. २४०) वैरिञ्च्यः पञ्चमुख्यश्चाप्युच्छ्रिताः षोडशांगुलैः ।
शैवाः शरावाश्चत्वारो भान्वंगुलसमुच्छ्रयाः ॥ ६ ॥
प्रक्षाल्य सूत्रैः संवेष्त्य स्थानेष्वग्न्यादि विन्यसेत् ।
शालिपूर्णेषु गन्धादिदर्भकूर्चयुतेषु च ॥ ७ ॥
पूरयेत् तानि पात्राणि वालुकामृतकरीषकैः ।
शङ्खस्वनेन नादैश्च पञ्चभिर्ब्राह्मणाशिषा ॥ ८ ॥
क्षालयेद् दुग्धवंबीजैस्ततो बीजानि निर्वपेत् ।
तानि प्रियंगुश्यामाकतिलसर्षपशालयः ॥ ९ ॥
मुद्गाढकीसुनिष्पावखन्वमाषाः प्रकीर्तिताः ।
हरिद्राभिश्च संसिच्य वस्त्रैराछादयेद्गुरुः ॥ १० ॥
सन्ध्ययोरुभयो रात्रौ प्रदद्यादुत्तमं बलिम् ।
त्रिविधस्यापि पात्रस्य सप्तस्वपि दिनेषु च ॥ ११ ॥
प्रथमेऽहनि भूतेभ्यस्तिला लाजा हरिद्रया ।
दधिसक्त्वन्नमित्युक्तं पितृभ्यस्तिलतण्डुलाः ॥ १२ ॥
तृतीयेऽहनि यक्षेभ्यः करम्भा लाजसंयुताः ।
चतुर्थेऽहनि नागेभ्यो नारिकेलघृताप्लुतम् ॥ १३ ॥
सक्तुपिष्टं च सम्प्रोक्तं पञ्चमे ब्रह्मणे बलिम् ।
पद्माक्षताश्च षष्ठेऽह्नि शिवायापूपसंयुतम् ॥ १४ ॥
अन्नं स्यात्सप्तमे चाह्नि विष्णवे स्याद्गुडौदनम् ।
यदि स्यान्नवरात्रं च तदोभयदिने बलिम् ॥ १५ ॥
विष्णवे स्याच्च दुग्धान्नं कृसरं च क्रमात्ततः ।
प्रणवाद्यैर्हृदन्तैः स्वनामभिर्बलिमन्त्रकः ॥ १६ ॥
इति ॥ करम्भा दधिसक्तवः । पद्माक्षताः पद्मबीजानि । कृसरस्तिलमुद्गैः
सह सिद्ध ओदनः ॥ अथैतन्मण्डलरचनाप्रकारः - तत्र
दीक्षादिनात्पूर्वमेव नवभिः सप्तभिर्वा दिनैः
प्राङ्निर्मितमण्डपस्योत्तरभागे सुसंवृतं गृहं निर्माय तत्र
गोमयोपलिप्ते सुसमे भूतले प्राक्प्रत्यगायताः पञ्चहस्तदीर्घाः
पञ्चरेखा याम्योदीच्यायता वितस्त्यन्तरालाश्चैकादश रेखाः कृत्वा
चत्वारिंशत्कोष्ठोपेतं सार्धद्वयहस्तविस्तारोपेतं मण्डलं कृत्वा
तत्रोदग्गतकोष्ठान्येकीकृत्य वीथीः कृत्वा मध्यचतुष्कोभयपार्श्वयोः
कोष्ठद्वयं कोष्ठद्वयं सम्मार्ज्यावसिष्टचतुष्कत्रयात्मकं
द्वादशपदोपेतं मण्डलं निर्माय चतुश्चतुःकोष्ठैरेकमेकं स्थानं
ब्रह्मविष्णुरुद्राणां पश्चिममध्यमपूर्वक्रमेण परिकल्प्य तत्र
पश्चिमादिचतुष्कत्रयेऽपि प्रतिचतुष्कं आग्नेयकोष्ठमारभ्य
ईशानकोष्ठपर्यन्तं पीतरक्तश्वेतश्यामवर्णैः रजोभिः
प्रतिचतुष्कमेकेन रजसा एकैकं कोष्ठमिति क्रमेण द्वादश
कोष्ठान्यापूर्य तत्र स्थानत्रये मध्यमचतुष्के
विष्णुदैवत्याश्चतुर्विंशत्यंगुलोन्नतविस्तृतियुक्ता डमरुकाकाराश्चतुस्रः
पालिका मध्ये पिप्पलदलाम्रपल्लवैः सह श्वेतसूत्रेण सम्वेष्टिताः
संस्थाप्य तथा पश्चिमचतुष्केप्येकस्मिन् पात्रे पञ्च पात्राणि यथा
भवन्ति तथा शिल्पिवरनिर्मितानि प्राग्वत् डमरुकाकाराणि
षोडशांगुलोन्नतविस्तृतियुक्तानि ब्रह्मदैवत्यानि चत्वारि पात्राणि तथैव
पिप्पलादिदलयुक्तानि संस्थाप्य तथा पूर्वचतुष्के
द्वादशांगुलोन्नतविस्तृतिभृतः शिवदैवत्या प्राग्वत्
पिप्पलादिदलयुक्ताश्चत्वारः शारवाः संस्थाप्याः इति द्वादशपात्राणि
प्रक्षालितानि द्वादशकोष्ठे प्रतिकोष्ठमेकमेकं पात्रं शालिपुञ्जेषु
गन्धाक्षतकूर्चयुक्तेषु संस्थाप्य तानितानि पात्राणि वालुकामृत्करीषकैः
सम्पूर्यैकस्मिन् नूतनभाण्डे स्वर्णादिरचिते मृण्मये वा
प्रियंगुश्यामाकतिलसर्षपशालिमुद्गाढकीनिष्पावखल्वमाषाख्यानि
दशधान्यान्येकीकृत्य वमिति अमृतबीजेन गोदुग्धैः प्रक्षाल्य
शङ्खस्वनादिपञ्चवाद्यपुरःसरं तेषु पात्रेषु ब्रह्मदैवत्येषु
प्रथमं ततो विष्णुदैवत्येषु ततः शिवदैवत्येष्विति क्रमेण बीजानि निर्वाप्य
हरिद्रामिश्रजलैः संसिच्य नूतनवस्त्रैराछाद्य सन्ध्ययोरर्धरात्रे च
सप्तस्वपि दिनेषु प्रतिदिनं बलिं दद्यात् । तत्र प्रथमदिवसे
तिललाजासक्तुशाल्योदनानि हरिद्राचूर्णसंयुक्तान्येकीकृत्य कवलत्रयं
निष्पाद्य त्रिविधस्यापि पात्रस्य समीपे सर्वभूतानि इहागच्छतेह तिष्ठतेति
भूतान्यावाह्य संस्थाप्य ओं सर्वभूतेभ्यो नमः इति गन्धादिभिः
सम्पूज्य सर्वभूतबलिद्रव्याय नमः इति बलिद्रव्यं सम्पूज्य हस्ततले जलं
गृहीत्वा वामहस्तेन बलिपात्रं स्पृशन् ओं सर्वभूतेभ्य एष बलिर्नमः इति
बलिपात्रोपरि जलं निःक्षिप्य बलिमुत्सृजेत् । एवं विष्णुपात्रसमीपे
शिवपात्रचतुष्कसमीपे च बलिं दद्यादिति प्रोक्तकालत्रयेऽपि बलिदानविधिः ।
अत्र मण्डलस्य चतुर्दिक्षु बलिर्देयः इति केचिदाहुस्तत्र यथागुरूपदेशं
कार्यमिति । ततो द्वितीयदिने पितृभ्यस्तिलतण्डुलैः प्रागुक्तपरिपाट्यैव
प्रोक्तकालत्रयेऽपि बलिं दद्यात् । चतुर्थेऽह्नि नागेभ्यो
नारिकेलजलाप्लुतसक्तुपिष्टबलिः । पञ्चमदिवसे ब्रह्मणे पद्माक्षतबलिः ।
षष्ठदिवसे शिवायापूपसयुतौदनबलिः । सप्तमदिवसे विष्णुवे
गुडौदनबलिः । नवरात्रपक्षे विष्णव एवाष्टमदिवसे
प्. २४१) दुग्धौदनबलिः नवमदिने कृसरबलिर्देयः । अत्र सर्वत्र बलिदाने प्रथमदिनप्रोक्त एव विधिर्ज्ञेयः तत्तन्नाम्ना पूजनं बल्युत्सर्जनं च ज्ञेयमिति । अत्र नवस्वपि दिनेषु प्रतिदिनं तत्तद्देवताया बलिदानानन्तरं दशदिक्पालेभ्योऽपि तत्तद्दिक्षु ओं इन्द्राय एष बलिर्ममः इत्यादितत्तन्नाम्ना घृतशर्करासहितपायसेन बलिर्देयः ॥ इति बीजारोपणविधिः ॥
अथ दीक्षाकालः । तत्रादौ मासाः । तत्र मन्थानभैरवतन्त्रे -
चैत्रे दुःखाय दीक्षा स्याद्वैशाखे सर्वसिद्धिदा ।
ज्यैष्ठे मृत्युप्रदा सा स्यादाषाढे बन्धुनाशिनी ॥ १ ॥
श्रावणे वृद्धिदा नृणां नभस्ये दुःखदा मता ।
आश्विने सर्वसिद्धिः स्यात् कार्तिके ज्ञानदायिनी ॥ २ ॥
शुभदा मार्गशीर्षे च पौषे मेघाविनाशिनी ।
माघे सुवर्णलाभः स्यात् फाल्गुने सर्वसिद्धिदा ॥ ३ ॥
इति ॥ तथा तन्त्रान्तरे -
मधुमासे भवेद्दुखं माधवे रत्नसंचयः ।
मरणं भवति ज्यैष्ठे चाषाढे बन्धुनाशनम् ॥ १ ॥
समृद्धिः श्रावणे नूनं भवेद्भाद्रपदे क्षयः ।
प्रजानामाश्विने मासे सर्वतः शुभमेव हि ॥ २ ॥
ज्ञानं स्यात्कार्तिके सौख्यं मार्गशीर्षे भवत्यपि ।
पौषे ज्ञानक्षयो माघे भवेन्मेधाविवर्धनम् ॥ ३ ॥
फाल्गुनेऽपि समृद्धिः स्यान्मलमासं परित्यजेत् । इति । -------- (?)
ददन्मन्त्रं लभेन्मन्त्री सप्तजन्मसु ।
इति शिवयामलवचनादाश्विनमासो दीक्षायां विहितोऽपि निषिद्धः ।
महाबलचतुर्दशी शिवरात्रिः ॥ तथा श्रीकण्ठसंहितायाम् :
शरत्काले च वैशाखे दीक्षा श्रेष्ठफलप्रदा ।
मार्गफाल्गुनके श्रेष्ठा ज्यैष्ठे चैव तु साधमा ॥ १ ॥
माघमासे तु शुभदा दुष्टा साषाढमासके ।
आनन्ददा श्रावणे सा पौषे भाद्रे च निन्दिता ॥ २ ॥
इति ॥ तथा च ज्ञानार्णवे - शुक्लपक्षे शुभदिने शुभवारे वरानने ।
मन्त्राद्यारम्भणं कुर्यात् इति ॥ तथा कालोत्तरे मुक्तिकामैः कृष्णपक्षे
भूमिकामैः सिते तथा । दीक्षा कार्या महादेवि इति ॥ तथा शैवागमे :
शुक्लपक्षे प्रकुर्वीत कृष्णे वा देशिकोत्तमः ।
शुक्ले सर्वसमृद्धिः स्यात् कृष्णे मध्यमतो भवेत् ॥ १ ॥
इति ॥ अथ नक्षत्राणि चिन्तामणौ -
अश्विनी रोहिणी चार्द्रा तथा पुष्योत्तरात्रयम् ।
हस्तचित्रास्वातिमैत्रविशाखाश्च धनिष्ठया ॥ १ ॥
पुनर्वसू रेवती च दीक्षायामुत्तमा मता ।
इति । मैत्रमनूराधा । तथा कामधेनौ -
रोहिणी मृगशीर्षं च तथा पुष्यश्च हस्तकः ।
स्वातीराधे रेवती च तथा चाप्युत्तरात्रयम् ॥ १ ॥
शुभान्येतानि दीक्षायां नक्षत्राणि वरानने ।
इति । अथ निषिद्धानि पिङ्गलामते -
कृत्तिकायां मनस्तापो भरण्यां च महापदः ।
पूर्वायां दण्डयेद्राजा मघायां मृत्युमादिशेत् ॥ १ ॥
मूलेन कलहं विद्याज्ज्येष्ठा भवति हानिदा ।
पूर्वाषाढे भयं प्रोक्तं श्रवणेऽनेकरोगदा ॥ २ ॥
शतभिषायां क्षोभदा सन्तापं भाद्रपदा भवेत् ।
इति ॥ अथ तिथयः -
पूर्णिमा पञ्चमी चैव द्वितीया सप्तमी तथा ।
त्रयोदशी च दशमी प्रशस्ताअ सर्वकामदा ॥ १ ॥
इति ॥ तथा श्रीकण्ठसंहितायाम् -
प्. २४२) द्वितीया सप्तमी श्रेष्ठा षष्ठी सर्वत्र निन्दिता ।
द्वादश्यामपि कर्तव्यं त्रयोदश्यामथापि वा ॥ १ ॥
इति । विजयमालिनीतन्त्रे -
पञ्चम्येकादशी शुक्ला सप्तमी च त्रयोदशी ।
दशमी शुक्लपक्षस्य द्वादशी च विशेषतः ॥ १ ॥
इति रत्नसागरे -
तृतीया विहिता नित्यं षष्ठी सर्वत्र निन्दिता ।
सप्तम्यां धनलाभः स्यादष्टम्यां गुरुनाशनम् ॥ १ ॥
नवम्यामृक्थनाशः स्याद्दशमी सुखदायिनी ।
एकादश्यां भवेल्लाभो धनस्य वृषभस्य च ॥ २ ॥
द्वादश्यां धनलाभः स्यात् त्रयोदश्यां सदोदयः ।
शिष्यहानिश्चतुर्दश्यां पौर्णमासी तु सिद्धिदा ॥ ३ ॥
अमायां पुत्रनाशः स्यात् प्रतिपद्वृद्धिनाशिनी ।
इति ॥ अथ देवताविशेषे तिथिविशेषः । कालोत्तरे -
ब्रह्मणः पौर्णमास्युक्ता द्वादशी चक्रधारिणः ।
चतुर्दशी शिवस्योक्ता वाचः प्रोक्ता त्रयोदशी ॥ १ ॥
द्वितीया तु श्रीयः प्रोक्ता पार्वत्याश्च तृतीयका ।
चतुर्थी गणनाथस्य भानोः प्रोक्ता तु सप्तमी ॥ २ ॥
इति ॥ अथ वासराणि तत्र मन्त्रसद्भावे -
मन्त्रारम्भो रवौ शुक्ले बुधे जीवे विशेषतः ।
शनौ मृत्युः क्षयं भौमे सोमे सर्वत्र निष्फलम् ॥ १ ॥
इति । उत्तरतन्त्रे -
रवौ गुरौ बुधे शुक्रे कर्तव्यं परमेश्वरि ।
इति ज्ञात्वा वरारोहे मन्त्रं दद्याद्विचक्षणः ॥ १ ॥
इति । विजयमालिनीतन्त्रे -
रवौ बुद्धिमवाप्नोति शुक्रे चैव धनागमम् ।
बुधेऽभियोगरहिता गुरौ पुत्रान्वितो भवेत् ॥ १ ॥
शन्यङ्गारकयोर्मृत्युरविद्या सोमके भवेत् ।
इति ज्ञात्वा वरारोहे दीक्षां दद्याद्विशालधीः ॥ २ ॥
इति ॥ अथ योगास्तन्त्ररत्नावल्याम् -
योगाश्च प्रीतिरायुष्मान्सौभाग्यः शोभनस्तथा ।
सुकर्मा च धृतिर्वृद्धिर्ध्रुवः सिद्धिश्च हर्षणः ॥ १ ॥
वरीयांश्च शिवः सिद्धो ब्रह्मा ऐन्द्रश्च षोडश ।
इति ॥ तथात्र योगास्तत्र वसिष्ठः -
पूर्वाषाढां प्रतिपदं पञ्चमीं कृत्तिकामथ ।
पूर्वाभाद्रपदा षष्ठी दशमी रोहिणी तथा ॥ १ ॥
द्वादश्यां सर्पनक्षत्रमार्यम्णं च त्रयोदशी ।
नक्षत्रलुम्पा इत्येते देवानामपि नाशदाः ॥ २ ॥
इति । सर्पनक्षत्रमश्लेषा । उत्तराफाल्गुनी आर्यम्णम् ॥ अथ ज्योतिषशास्त्रे करणानि -
शुभानि करणान्याहुर्दीक्षायां तु विशेषतः ।
शकुन्यादीनि विष्टिं च विशेषेण विवर्जयेत् ॥ १ ॥
इति । आत्रादिपदेन किस्तुघ्नचतुष्पदनागानां ग्रहणम् ॥ अथ लग्नानि तन्त्रान्तरे -
मन्त्राद्यारम्भणं मेषे धनधान्यप्रदं भवेत् ।
वृषे मरणमाप्नोति मिथुनेऽपत्यनाशनम् ॥ १ ॥
कर्कटे सर्वसिद्धिः स्यात् सिंहे मेघाविनाशनम् ।
कन्या लक्ष्मीप्रदा नित्यं तुलायां सर्वसिद्धयः ॥ २ ॥
वृश्चिके सर्वसिद्धिः स्याद्धनुर्ज्ञानविनाशनम् ।
मकरः पुत्रदः प्रोक्तः कुम्भो धनसमृद्धिदः ॥ ३ ॥
मीनो दुःखप्रदो नित्यमेवं राशिफलं प्रिये ।
इति । तथा च रुद्रयामले -
मीने सिंहे तथा चापे वृषे हानिः प्रजायते ।
मेषे सर्वसमृद्धिः स्यात् कन्या रत्नप्रदा भवेत् ॥ १ ॥
तुलायां धनधान्यं स्याद्वृश्चिके सर्वसिद्धयः ।
मकरे पुत्रलाभः स्यात्कुम्भे पशुसमृद्धयः ॥ २ ॥
मिथुने पशुनाशः स्यात् कर्कटो राज्यदो मतः ।
एवं लग्नफलं ज्ञात्वा मन्त्रं दद्याद् विशालधिः ॥ ३ ॥
प्. २४३) वृषमीनं तथा चापं सिंहलग्नं विवर्जयेत् ।
सुखदं शुभदं नित्यं कन्याद्यं सर्वसिद्धिदम् ॥ ४ ॥
इति ॥ अथ दीक्षालग्नात् स्थानविशेषेषु स्थितानां ग्रहाणां शुभाशुभफलानि -
त्रिषडायगताः पापाः शुभाः केन्द्रत्रिकोणगाः ।
दीक्षायां तु शुभाः सर्वे रन्ध्रस्थाः सर्वनाशकाः ॥ १ ॥
इति । आयः एकादशस्थानम् । लग्नचतुर्थसप्तमदशमस्थानानां
केन्द्रसंज्ञा पञ्चमनवमस्यानयोस्त्रिकोणसंज्ञा ।
सूर्यशनिराहुकेतुकुजाः पापयुतो बुधः क्षीणशशी च पापाः
गुरुभृगुसुतपापरहितबुधपूर्णचन्द्राः शुभाः । रन्ध्रमष्टमस्थानम्
। सर्वे नवग्रहा अपि ॥ अथ चन्द्रफलम् - जन्मत्रिषट्सप्तैकादशपंक्तिगः
शशी शुभफलप्रदो मतः । नेत्रद्वादशवसुपञ्चवेदग्रहराशिगः शशी
दुष्टः स्मृतः ॥ अथ दीक्षायां कालः तत्र शैवागमे -
अधोमुखे शुभे भे च चन्द्रशुद्धौ विशेषतः ।
कृष्णे ताराबलं कुर्यात् स्वनामादिविचिन्तनम् ॥ १ ॥
धर्मदः प्रातःकालः स्यात् सङ्गवो राज्यदः स्मृतः ।
मध्याह्ने सर्वसिद्धिः स्यात् सायाह्ने सर्वतो भवेद् ॥ २ ॥
रजनी मन्त्रदाने तु निषिद्धा देशिकोत्तमैः ।
दिवा सर्वं प्रकुर्वीत सिद्धिदं परमं स्मृतम् ॥ ३ ॥
इति ॥ अधोमुखनक्षत्राणि तु -
मूलाग्नेयमघाद्विदैवभरणीसार्पाणि पूर्वात्रयं
ज्योतिर्विद्भिरधोमुखं हि नवकं भानामिदं कीर्तितम् ।
वापीकूपतडाकगर्तपरिखाखातो निधेरुद्धृतिः
क्षेपो द्यूतबिलप्रवेशगणनारम्भाः प्रसिद्ध्यन्ति च ॥ १ ॥
इति । द्विदैवं विशाखा विशाखानक्षत्रस्येन्द्राग्नी देवतेति श्रुतिः ॥ अथ दीक्षायाः काल विशेषस्तत्र ज्ञानार्णवे -
मन्त्राद्यारम्भणं कुर्याद्ग्रहणे चन्द्रसूर्ययोः ।
ग्रहणाद्देवदेवेशि कालः सप्त दिनावधि ॥ १ ॥
पवित्रपर्व देवेशि वाममेवाशुभे दिने ।
कालचर्चा न कर्तव्या ग्रहणे चन्द्रसूर्ययोः ॥ २ ॥
पुण्यतीर्थे कुरुक्षेत्रे देवीपीठचतुष्टये ।
इति । तथा रत्नसागरे -
सत्तीर्थेऽर्कविधुग्रासेऽनन्तवामनपर्वणोः ।
मन्त्रदीक्षां प्रकुर्वाणो मासर्क्षादीन्न शोधयेत् ॥ १ ॥
इति । अत्र यद्यपि
सूर्यग्रहणकाले तु नान्यदन्वेषितं भवेत् ।
सूर्यग्रहणकालेन समो नान्यः कदाचन ॥ १ ॥
तत्र यद्यत्कृतं सर्वमनन्तफलदं भवेत् ।
न मासतिथिवारादिशोधनं सूर्यपर्वणि ॥ २ ॥
ददातीष्टं च गृह्णीयात् तस्मिन्काले गुरोर्नरः ।
सिद्धिर्भवति मन्त्रस्य विनाभ्यासेन वेगतः ॥ ३ ॥
इति चिन्तामणिकालिकोद्भवयोः सूर्यग्रहणस्यैव विधायकवचनदर्शनात् ।
चन्द्रग्रहे तु या दीक्षा या दीक्षा वनचारिणाम् ।
जनकस्य तु दीक्षा दारिद्र्यं सप्तजन्मसु ॥ १ ॥
इति योगिनीतन्त्रे चन्द्रग्रहे दीक्षानिषेधवचनदर्शनात् प्रागुक्तरजनीमन्त्रनिषेधवचनाच्चेति सूर्योपरागकालोऽप्युपरागसाधारणतया प्रागुक्तशिवयामलवचनेन निषिद्धत्वान्नात्यन्तं प्रशस्त इत्यवधेयम् । किंतु :
चन्द्रसूर्यग्रहे तीर्थे सिद्धिक्षेत्रे शिवालये ।
मन्त्रमात्रस्य कथनमुपदेशः स उच्यये ॥ १ ॥
इति कालिकोद्भववचनान्मन्त्रान्तरेषु विधिवद्दीक्षितानां दोषावह इति ॥ अथ क्रियावती दीक्षा उत्तरतन्त्रे -
अथ वक्ष्यामि दीक्षाणां विधानं मन्त्रकाम्याय ।
याभिर्विना न लभ्यन्ते सर्वमन्त्रफलानि वै ॥ १ ॥
आत्मलाभं ददत्येताः क्षिण्वन्ति दुरितान्यपि ।
तेन दीक्षा इति प्रोक्तास्तासां तत्त्वविचारकैः ॥ २ ॥
ताश्च क्रमेण कथिताः क्रियामययर्णमययपि ।
कलामयी वेधमयी चतस्रो ज्ञानदाः शुभाः ॥ ३ ॥
प्. २४४) इति । पञ्चमीश्वरीतन्त्रे -
पुण्याहं वाचयित्वादौ ब्राह्मणैः स्वस्तिपूर्वकम् ।
पञ्चवाद्यनिनादैश्च वेदघोषैः सुहृद्वृतः ॥ १ ॥
गत्वा गुरुगृहं शिष्यः प्रणम्य गुरुपादुकाम् ।
दत्वा वरणसामग्रीं संकल्प्य वृणुयाद्गुरुम् ॥ २ ॥
उच्चार्यामुकमन्त्रस्य ग्रहणाय द्विजोत्तमः ।
गुरुत्वेनेति सम्भाष्य त्वामहं च ततो वृणे ॥ ३ ॥
इत्युक्त्वा वृणुयाच्छिष्यो वृतोऽस्मीति ततो गुरुः ।
यथोचितं गुरो कर्म कुरुष्वेति वदेच्छिशुः ॥ ४ ॥
करवाणीति चोच्चार्य पञ्चवाद्यपुरःसरम् ।
ततः शिष्येण सहितो यायाद्यागगृहं गुरुः ॥ ५ ॥
पुण्याहवाचनं कृत्वा शिष्यो भक्तिपरायणः ।
हारकुण्डलकेयुरमुद्रिकाङ्गदभूषणैः ॥ ६ ॥
हेमयज्ञोपवीतैश्च मधुपर्कैर्यथाविधि ।
महार्घवस्त्रताम्बूलैः फलपुष्पसुगन्धकैः ॥ ७ ॥
अवित्तशाठ्यमभ्यर्च्य यथावद् वृणुयाद् गुरुम् ।
ऋत्विजोऽपि तथाभ्यर्च्य वृणुयादुक्तसंख्यकान् ॥ ८ ॥
इति ॥ अथ मधुपर्कविधानमुक्तं डामरे -
मधुपर्कविधानं ते यथावत् कथयाम्यहम् ।
श्रीपर्णीवृक्षपीठानि हस्तमानानिः मानतः ॥ १ ॥
अष्टांगुलसमुच्छ्रायसहितानि समानि च ।
सप्तविंशतिदर्भाणां वेण्योऽग्रे ग्रन्थिभूषिताः ॥ २ ॥
विष्टरे सर्वयज्ञेषु लक्षणं परिकीर्तितम् ।
सुखोष्णोदकसम्पूर्णाः पाद्यार्थे ताम्रगण्डकाः ॥ ३ ॥
शङ्खा अर्घ्यप्रदानाय गन्धपुष्पजलान्विताः ।
दूर्वोदकसमायुक्ताः स्थापनीयाः पृथक्पृथक् ॥ ४ ॥
कमण्डलुः सुताम्रस्य आचम्योदकपूरितः ।
सम्पुटा मधुपर्कार्थं कांस्या दघ्यादिपूरिताः ॥ ५ ॥
महान्त्यर्घ्याणि द्रव्याणि मुद्रिकाद्यं सुभूषणम् ।
मयूरपत्रच्छत्राणि सोष्णीषाणि समाहरेत् ॥ ६ ॥
पदुका आहरेत्तत्र चर्मभूषणभूषिताः ।
अन्यत्स्मार्ते यदप्युक्तं मधुपर्कस्य पूजने ॥ ७ ॥
तत्कृत्वा फलमाप्नोति महायज्ञार्हणोपमम् ।
अन्येभ्यो मधुपर्कस्य विप्रेभ्यः पूजनं स्मृतम् ॥ ८ ॥
भक्त्या तद्द्विगुणं दद्यादाचार्याय सुभक्तिमान् ।
अन्यैर्द्विजैः समं यत्र देशिकस्य प्रपूजनम् ॥ ९ ॥
तस्मिन् यज्ञे फलं स्वल्पमनावृष्टौ यथा क्षितिः ।
देशिकेन्द्रो विधानेन स्नात्वा निर्वतिताह्निकः ॥ १० ॥
मौनमास्थाय भूषाढ्यो गच्छेद्यागगृहं प्रति ।
आचार्यः पूर्वदिवसे उपवेश्य समासने ॥ ११ ॥
शिष्यं मूलेन संजप्तं दद्याद्वै दन्तधावनम् ।
दन्तान् विशोध्य पुरतः स्थण्डिले हस्तमात्रके ॥ १२ ॥
चतुरस्रे पूजयेत् तत्परीक्षेत ततो गुरुः ।
ईशानाग्रे ज्ञानलाभः प्रागग्रे भूतिरुत्तमा ॥ १३ ॥
आग्नेयाग्रे मनस्तापो बन्धुनाशश्च दक्षिणे ।
राक्षसाग्रे मृत्युभयं वारुण्यग्रे मनःशुचम् ॥ १४ ॥
वायव्याग्रे व्यग्रता च कौवेराग्रे सुखावहम् ।
अमङ्गलस्थानपाते प्रायश्चित्तं समाचरेत् ॥ १५ ॥
प्रायश्चित्तमग्रे पुरश्चरणप्रकरणे वक्ष्यते ॥
ततः स्वप्नपरीक्षां च कुर्याद्देशिकसत्तमः ।
क्रूरस्वप्नेऽधमा दीक्षा ह्यक्रूरे मध्यमा मता ॥ १६ ॥
उत्तमस्वप्नपूर्वा तु दीक्षा सर्वोत्तमा मता ।
स्वप्नलक्षणानि तन्निवेदनप्रकारं दुःखस्वप्ने प्रायश्चित्तं चाग्रे पुरश्चरणप्रकरणे वक्ष्यते ॥
एवं विचार्य पुरतो गुरुः पूजां समाचरेत् ।
विधायाचमनं तत्र सामान्यार्घ्यं विधाय च ॥ १७ ॥
अर्घ्योदकेन सम्प्रोक्ष्य द्वारपूजां समाचरेत् ।
ततश्च देशिको विघ्नान् दिव्यानालोकनेन च ॥ १८ ॥
अन्तरिक्षगतानस्त्रोदकैरुत्सारयेत् ततः ।
पार्थिवान् पार्ष्णिघातैस्तत्त्रिभिरुत्सार्य यत्नतः ॥ १९ ॥
अङ्गं सङ्कोच्य किञ्चित्तु शाखां वामगतां स्पृशन् ।
उत्सारितानां भूतानां ददद्वर्त्म तु दक्षिणे ॥ २० ॥
पादेन दक्षिणेनाथ प्रविशेद्यागमण्डपम् ।
इति । द्वारपूजा वक्ष्यते । दक्षिणपादपुरःसरं प्रवेशः पुंदैवतविषयः शाक्ते तु वामपादपुरःसरमेव वामपादं पुरस्कृत्य प्रविशेद्यागमण्डपम् । इति त्रिपुरार्णववचनात् । तथा -
प्. २४५) ब्रह्माणं वास्त्वधीशं च नैर्-ऋत्यां दिशि पूजयेत् ।
अर्घ्याम्बुना च गव्येन यागस्थाने सुसेचिते ॥ २१ ॥
वीक्षणाद्यैस्ततः शुद्धिं चतुर्द्वारान्तमाचरेत् ।
सम्वीक्ष्य मूलमनुना ह्यस्त्रेण प्रोक्षयेत् ततः ॥ २२ ॥
कुर्यात् ताडनमस्त्रेण कवचेनाथ सेचयेत् ।
श्रीखण्डागरुचन्द्रैश्च भूषितेऽस्त्रेण सप्तधा ॥ २३ ॥
जप्तांश्चन्दनसिद्धार्थदूर्वाभस्माक्षतान् कुशान् ।
सजलान् विकिरेन्मन्त्री प्रत्यूहघ्नान् हि मण्डलम् ॥ २४ ॥
मार्जयेदस्त्रमन्त्रेण तान् मन्त्री दर्भमुष्टिना ।
आसनाय तु वार्द्धान्या ईशाने स्थापयेच्च तान् ॥ २५ ॥
पुण्याहं वाचयित्वाथ विप्रान् सन्तोष्य यत्नतः ।
वेदिकायां लिखेत् पश्चात् सर्वतोभद्रमण्डलम् ॥ २६ ॥
तल्लक्षणमथो वक्ष्ये सर्वतन्त्रानुसारतः ।
देशिको वेदिकामध्ये गोमयेनोपलेपिते ॥ २७ ॥
पूर्वोक्तक्रमयोगेन चतुरस्रं प्रकल्पयेत् ।
चतुष्कोष्ठसमायुक्तं कर्णसूत्रविभूषितम् ॥ २८ ॥
तत्र कोष्ठचतुष्कान्तःसूत्राणां स्याच्चतुष्टयम् ।
कोणस्थकोष्ठमध्येषु दृश्यन्ते मत्स्यका यथा ॥ २९ ॥
ऐन्द्रवारुणगं युग्मं सौम्ययाम्यगतद्वयम् ।
मकरेष्वेषु सूत्राणि दद्याच्चत्वारि मन्त्रवित् ॥ ३० ॥
पूर्वपश्चिमगं तद्वद्दक्षोत्तरगतं पुनः ।
मकरान् पूर्ववत् कुर्यात् तत्र सूत्राणि पातयेत् ॥ ३१ ॥
शतयुग्मं च पञ्चाशत्षट्पदानि यथा पुनः ।
प्रादुर्भवन्ति रम्याणि सूत्राण्येवं विकाशयेत् ॥ ३२ ॥
षट्त्रिंशत्कोष्ठकैर्मध्ये सरोजं परिकल्पयेत् ।
तद्बहिः परितः पीठमेकपंक्त्या प्रकल्पयेत् ॥ ३३ ॥
पंक्तिद्वयेन तद्बाह्ये वीथीकल्पनमीरितम् ।
ततोऽन्यपंक्तियुग्मेन द्वारशोभा विधानतः ॥ ३४ ॥
उपशोभाश्च कोणानि मन्त्रवित् परिकल्पयेत् ।
अथ वक्ष्ये विधानेन सरोजलेखनक्रमम् ॥ ३५ ॥
सरोजस्थानजं भागं द्वादशं तु परित्यजेत् ।
ततो वृत्तत्रयं मध्ये कुर्यात् सम्यग् यथाविधि ॥ ३६ ॥
कर्णिकां मध्यवृत्तेन द्वितीयेन तु केसरान् ।
अन्त्यवृत्तेन पत्राणि पत्राग्रांस्त्यक्त भागतः ॥ ३७ ॥
अन्त्यवर्तुलमध्यस्य परिमाणं च यद्भवेत् ।
किञ्जल्काग्रेषु संस्थाप्य पार्श्वतस्त्वर्धचन्द्रकान् ॥ ३८ ॥
संलिख्य सन्धिसम्बद्धसूत्रन्यासं विधाय च ।
दलाग्रमानतो वृत्तं कुर्यात् सम्यग् विचक्षणः ॥ ३९ ॥
वृत्तान्तर्मध्यसूत्रस्य पार्श्वयोस्तु यथाविधि ।
बहिरेकेन कुर्वीत पत्राग्राणि विधानवित् ॥ ४० ॥
किञ्जल्कान् पत्रमूलेषु द्विशः कुर्वीत देशिकः ।
सामान्यं कमलं ह्येतच्छास्त्रे सर्वत्र गीयते ॥ ४१ ॥
त्रिभिः पदैस्तु पीठस्य पादान् कोणेषु कल्पयेत् ।
अतिरिक्तैः पदैः पीठगात्राणि रचयेत्ततः ॥ ४२ ॥
वीथीपंक्तिद्वयं सम्यगेकीकृत्य प्रमार्जयेत् ।
कोष्ठद्वयेन चैकेन प्रत्येकं द्वारपार्श्वयोः ॥ ४३ ॥
शोभा भवत्यतः कोष्ठैरेकतस्त्रिभिरेव च ।
उपशोभास्ततः कोष्ठैः षड्भिः कोणानि कल्पयेत् ॥ ४४ ॥
रजोभिर्भूषयेत् पञ्चवर्णैरेतत्तु मण्डलम् ।
निशारजो भवेत्पीतं शुक्लं तण्डुलजं स्मृतम् ॥ ४५ ॥
रक्तं कौसुम्भमुद्दिष्टं कृष्णमाहुर्मनीषिणः ।
पुलाकदाहसंभूतं श्यामं बिल्वच्छदोत्थितम् ॥ ४६ ॥
पञ्चवर्णाः समाख्याता दीक्षामण्डलकर्मणि ।
उत्सेधतारको रेखाः शुक्ला अंगुलमानतः ॥ ४७ ॥
तारो विस्तारः ।
सर्वाः सीमागतः कार्या शुभ्रा मण्डलकर्मणि ।
पीतवर्णेन चूर्णेन कर्णिकां पूरयेत्ततः ॥ ४८ ॥
किञ्जल्कान् रक्तवर्णेन दलानि श्वेतवर्णतः ।
श्यामेन रजसा सन्धिं मन्त्रविच्चाभिपूरयेत् ॥ ४९ ॥
अथवा कर्णिकां मन्त्री पीतेनैव प्रपूरयेत् ।
किञ्जल्कान् पीतरक्तेन पीठगात्राणि शुभ्रतः ॥ ५० ॥
वीथीचतुष्कमध्येषु कल्पवल्लीः प्रकल्पयेत् ।
पत्रमूलफलाकारमण्डिता हृदयङ्गमाः ॥ ५१ ॥
नानावर्णरजोभिस्ता रञ्जयेत् कुशली गुरुः ।
शुभ्रेण रजसा द्वारचतुष्कं पूरयेत्ततः ॥ ५२ ॥
रक्तवर्णेन तच्छोभाः पीतेनैवोपशोभिकाः ।
कृष्णवर्णेन कोणानि बही रेखात्रयं ततः ॥ ५३ ॥
शुक्लारुणाख्यकृष्णैस्तु रजोभिर्भूषयेत् क्रमात् ।
सामान्यं सर्वतोभद्रं मण्डलं ह्येतदुत्तमम् ॥ ५४ ॥
अन्यानि मण्डलान्यत्र वक्ष्यन्तेऽपि प्रसङ्गतः ।
पूर्वोक्ते चतुरस्रे तु तावत् सूत्राणि पातयेत् ॥ ५५ ॥
प्. २४६) यावत्स्यात् कोष्ठशतकं चत्वारिंशत्समन्वितम् ।
वेदान्वितं तु तन्मध्ये पद्मं षट्त्रिंशता शुभम् ॥ ५६ ॥
एकपंक्त्या भवेत्पीठं वीथी नैवात्र दृश्यते ।
पूर्ववद्वारशोभा स्यादुपशोभात्र नास्ति वै ॥ ५७ ॥
षड्भिः कोष्ठैस्तथा कुर्यात्कोणानि प्रोक्तवर्त्मना ।
अन्यत्सर्वं विधातव्यं प्रोक्तमण्डलवच्छुभम् ॥ ५८ ॥
एतन्मण्डलमन्यत्तु चतुरस्रे सुशोभने ।
पातयेत् क्रमशः सूत्रं यावत्कोष्ठानि सर्वतः ॥ ५९ ॥
(षष्टिस्तथा चतुर्युक्तानि स्युस्तन्मध्यतस्ततः ।
पद्मं चतुर्भिः कोष्ठैः स्यात् कुर्यात् तत्परितः पुनः ॥ ६० ॥
चतुर्वीथीमण्डलान्तावसाना दिग्गतेषु च ) ।
चतुष्केषु तु पद्मानि विदध्यान्मन्त्रवित्तमः ॥ ६१ ॥
चतुष्काणि विदिक्स्थानि चत्वारि विभजेत् सुधीः ।
यावत्षोडश कोष्ठानि भवन्त्येतानि मार्जयेत् ॥ ६२ ॥
तथा यावत्स्वस्तिकानामाकारः प्रकटीभवेत् ।
रजोभिः शुक्लहारिद्ररक्तनीलैः प्रपूरयेत् ॥ ६३ ॥
स्वस्तिकानि शतं चान्यत्पूर्ववत्परिकल्पयेत् ।
उदितं मण्डलं ह्येतन्नवनाभं सुशोभनम् ॥ ६४ ॥
एतदेवोक्तमार्गेण स्वस्तिकाख्यमनुत्तमम् ।
मण्डलं स्यात्तु पञ्चाब्जं सर्वकामफलप्रदम् ॥ ६५ ॥
दीक्षायां वा महादाने देवपूजाव्रतादिषु ।
एतन्मण्डलमध्ये तु कुर्यादन्यतमं बुधः ॥ ६६ ॥
एवं मण्डलमालिख्य प्रोक्तेष्वन्यतमं गुरुः ।
वेदिकायामासने स प्राङ्मुखः संविशेदथ ॥ ६७ ॥
बद्धपद्मासनो मौनी ऋजुकायो जितेन्द्रियः ।
देशिकेन्द्रस्तु संस्थाप्य पूजोपकरणानि तु ॥ ६८ ॥
दक्षिणे वामभागे तु स्थापयेत् कलशं शुभम् ।
सुगन्धिजलपूर्णं च हस्तप्रक्षालनाय च ॥ ६९ ॥
पश्चात्पात्रं विधायाथ दीपान् प्रज्वालयेच्छुभान् ।
व्यजनं मुकुरं छत्रं चामरं दिक्षु मन्त्रवित् ॥ ७० ॥
संस्कुर्यात् तानि सर्वाणि वक्ष्यमाणविधानतः ।
करशुद्धिं विधायाथ कुर्यात् तालत्रयं बुधः ॥ ७१ ॥
शरमन्त्रेण दिग्बन्धं कुर्यान्मन्त्री समाहितः ।
महस्तु तत उत्पन्नं रक्षयेत्तं हि सर्वतः ॥ ७२ ॥
भूतशुद्धिं ततः कृत्वा प्राणस्थापनमाचरेत् ।
न्यासादिकं ततः कुर्याद्देशिको यतमानसः ॥ ७३ ॥
ऋषिं न्यसेत् ततो मूर्ध्नि च्छन्दो वक्त्रगतं न्यसेत् ।
देवतां हृदये न्यस्य मूलमन्त्रस्य देशिकः ॥ ७४ ॥
षडङ्गं विन्यसेन्मन्त्री पञ्चाङ्गं वा यथाविधि ।
यस्य मन्त्रस्य पञ्चाङ्गं नेत्रं तस्य विहीयते ॥ ७५ ॥
अंगैर्विहीनस्य मनोरङ्गं तेरैव कल्प्यते ।
तत्तन्मन्त्रोक्तमार्गेण न्यासानन्यान् समाचरेत् ॥ ७६ ॥
शरीरे स्वस्य मन्त्रस्य योगपीठं प्रकल्पयेत् ।
देहात्मके ततः पीठे ध्यायेन्मन्त्रस्य देवताम् ॥ ७७ ॥
दर्शयित्वा ततो मुद्राः स्थापयेदर्घ्यमुत्तमम् ।
जलेन पूरितां दक्षे प्रोक्षणीं स्थापयेत् ततः ॥ ७८ ॥
तत्राल्पमल्पं शङ्खाम्बु तत उत्तरतो न्यसेत् ।
पाद्यमाचमनीयं च मधुपर्कं च मन्त्रवित् ॥ ७९ ॥
ततो मूलाणुना मन्त्री प्रोक्ष्ण्यद्भिः समाहितः ।
स्वात्मानं मण्डलं चान्यत्पूजोपकरणादिकम् ॥ ८० ॥
प्रोक्षयेद्गन्धपुष्पाद्यैर्देहे स्वे देशिकोत्तमः ।
योगपीठं समभ्यर्च्य न्यासमार्गेण मन्त्रवित् ॥ ८१ ॥
पीठान्तं च ततस्तत्र पूजयेदिष्टदेवताम् ।
देवतात्मा ततः पञ्च कुर्याद्वा सुमनोञ्जलीन् ॥ ८२ ॥
शीर्षे हृदि तथाधारे चरणे सर्वगात्रके ।
पूजयेच्च निवेद्येन रहितैश्चन्दनादिभिः ॥ ८३ ॥
सर्वोपचारैस्तच्छेषं गुर्वादिष्टेन कर्मणा ।
समापयेदिदं सर्वं प्रोक्षण्यद्भिः समाचरेत् ॥ ८४ ॥
पानीयं प्रोक्षणीसंस्थं त्यक्त्वा सम्पूर्य पूर्ववत् ।
उपचारैश्चन्दनाद्यैर्मण्डलं पूजयेद्गुरुः ॥ ८५ ॥
पूरयेत् कर्णिकां पूर्वं शालिभिस्तण्डुलैस्ततः ।
दर्भां न्यसेदुपर्येषां साक्षतं कूर्चक्रं ततः ॥ ८६ ॥
छिन्नमूलाः कुशा दीर्घाः सप्तविंशतिसंख्यकाः ।
ब्रह्मग्रन्थियुतास्त्वग्रदेशे कूर्च इहोच्यते ॥ ८७ ॥
यजेदाधारशक्त्यादिपीठमन्त्रावसानकम् ।
स्वर्णादिरचितं तत्र कलशं छिद्रवर्जितम् ॥ ८८ ॥
त्रिगुणात्मकसूत्रेण वेष्टितं सर्वतो बहिः ।
चन्दनागुरुकर्पूरैर्मध्ये सम्यक्प्रधूपितम् ॥ ८९ ॥
ध्रुवं जपविधानेन स्थापयेद्देशिकोत्तमः ।
नव रत्नानि निःक्षिप्य कुम्भे कूर्चमथोपरि ॥ ९० ॥
दूर्वाचन्दनसंयुक्तं विन्यसेदक्षतान्वितम् ।
पुष्पं नीलं च वैडूर्यं विद्रुमं मौक्तिकं तथा ॥ ९१ ॥
प्. २४७) ततो मरकतं वज्रं गोमेदं पद्मरागकम् ।
मौक्तिकानि च रत्नानि देशिकस्तन्त्रवित्तमः ॥ ९२ ॥
क्षाद्यान्तक्रमतो मन्त्री मातृकां मनसा जपन् ।
मूलमन्त्रं जपन्नन्ते चिन्तयन्नैक्यमात्मनः ॥ ९३ ॥
घटस्य पीठभेदं च चिन्तयेत् साधकोत्तमः ।
पञ्चाशदोषधिक्वाथैः पूरयेत्तदनन्तरम् ॥ ९४ ॥
दुग्धवृक्षत्वचा क्वाथैर्ब्रह्मभूरुटत्वगुद्भवैः ।
गन्धपङ्कप्रसूनादिवासितैर्वा शुभैर्जलैः ॥ ९५ ॥
क्वाथादितोयैरापूर्य शङ्खं तस्मिन् विलोडयेत् ।
गन्धाष्टकं शुभं मन्त्री सर्वसमप्तत्प्रदायकम् ॥ ९६ ॥
कलाः सर्वाः समावाह्य पूजयेच्च यथाविधि ।
कलादिदेवतारूपं शङ्खनीरं घटे क्षिपेत् ॥ ९७ ॥
चन्दनागरुकर्पूरकाश्मीरै रोचनान्वितैः ।
ससिह्लकजटामांसीसटीभिः शक्तिसम्भवम् ॥ ९८ ॥
गन्धाष्टकं शुभं वश्यं शक्तिमन्त्रेषु योजयेत् ।
इति । काश्मीरं कुंकुमम् । सिह्लकं शिलारसः । सटी कचोरः ।
चन्दनागरुकर्पूरचोरकुंकुमरोचनाः जटामांसीकपियुताः
शक्तेर्गन्धाष्टकं मतम् ॥ इति शारदातिलकवचनात् ।
ह्रीवेरं चन्दनं कुष्ठमगुरुं कुंकुमं मुरम् ।
सेव्यकं च जटामांसी वैष्णवं तदुदीरितम् ॥ १ ॥
ह्रीवेरं बालकं । सेव्यकुमुशीरम् । सुरं मोरहरीति प्रसिद्धम् ।
मुरा गन्धवती दैत्या गन्धाढ्या गन्धमादिनी ।
सुरभिर्भूतगन्धा च कुठी गन्धकुठी स्मृता ॥ १ ॥
एकाङ्गीति नानार्थवचनादेकांग्येव मुरशब्देनोच्यते । एकाङ्गी छर्व्युरिति लोके प्रसिद्धा ॥
जलकाश्मीरकुष्ठैस्तु रक्तचन्दनचन्दनैः ।
तमालागरुकर्पूरैः शाम्भवं चाष्टगन्धकम् ॥ १ ॥
जलं बालकम् ।
गन्धाष्टकस्य संयोगात् सामर्थ्याद्देशिकस्य च ।
सशक्तिकं जलं कुम्भे भवेदेव न संशयः ॥ ९९ ॥
आदौ कृशानुसम्बन्धि कलादशकमर्चयेत् ।
कलाद्वादशकं सौरं पूजयेत् तदनन्तरम् ॥ १०० ॥
कलाषोडशकं चान्द्रं यजेत् पश्चाद्गुरूत्तमः ।
वेदादिभेदसञ्जाताः कलाः पञ्चाशतैर्युताः ॥ १०१ ॥
सन्निधाप्य समभ्यर्च्य ततो मन्त्री तु ताः क्रमात् ।
मध्ये मध्ये ऋचः पञ्च पूजनीया इमा अपि ॥ १०२ ॥
आत्ममन्त्रं समुच्चार्य शुचिषत्पदमुच्चरेत् ।
वसुरन्तमन्त्रपदं रिक्षसद्धोपदं ततः ॥ १०३ ॥
पदं ता वेदिषपदे दतिथिर्दुपदं ततः ।
रोणसत्पदमुच्चार्य नृषद्वरपदे वदेत् ॥ १०४ ॥
वदेत् सदृतसद् व्योमसदब्जा गोपदं वदेत् ।
वदेज्जा ऋतजेत्यस्मादद्रिजाशब्दमुच्चरेत् ॥ १०५ ॥
सप्तमस्वरमुच्चार्य सबिन्द्वाषाढिनं वदेत् ।
उक्त्वा बृहत्पदं वान्ते प्रथमो मन्त्र ईरितः ॥ १०६ ॥
इति । आत्ममन्त्रः हंस इति । सप्तमस्वर ऋकारः । आषाढी तकारः । अन्यानि पदानि स्वरूपाणि ॥ तथा -
लोहितो वह्निसहितः पूतना द्व्यन्तिका ततः ।
उक्त्वा ष्णुः स्तवते पश्चाद्वीर्येण मृपदं वदेत् ॥ १०७ ॥
गो न भीमश्च कुचरो गिरिष्ठाश्च ततो वदेत् ।
यस्योरुषु त्रिषु पदं ततो विक्रमणेष्वधि ॥ १०८ ॥
क्षियन्ति तु पदं ब्रूयाद्भुवनानि ततो वदेत् ।
तोयस्थो माधवः पश्चाद्वान्तं स्यात्तायशान्तियुक् ॥ १०९ ॥
द्वितीयो मनुराख्यातस्तृतीयः प्रोच्यतेऽधुना ।
लोहितः पकारः वह्नी रेफस्तेन प्र पूतना तकारः । तोयं वकारः तत्स्थो माधव इकारः तेन वि वान्तं श तोयं व शान्ति आ तेन श्वा । अन्यानि पदानि स्वरूपाणि ॥
णान्तोऽग्निमान्तोपान्त्यस्य कलायुक् पतृतीयकः ।
चतुर्मुखः सचन्द्रार्धस्ततः स्याच्च यजामहे ॥ ११० ॥
परं सुगन्धिं पुष्टीति वर्धनं च ततो भवेत् ।
पदमुर्वारुकमिव बन्धनान्मृपदं वदेत् ॥ १११ ॥
त्योर्मुक्षीयपदे पश्चान्मामृतात्पदमुच्चरेत् ।
प्. २४८) णान्तस्तकारः अग्नी रेफः मान्ता यकारः उपान्त्यकला बिन्दुरेतेन त्र्यं पतृतीयो वकारः चतुर्मुखः ककारः चन्द्रार्धो बिन्दुस्तेन कं अन्यानि पदानि स्वरूपाणि ॥
गायत्र्यात्मा चतुर्थः स्यान्मन्त्रः ख्यातो जगत्यलम् ।
तोयस्था शाल्मली प्रोक्ता सहजाढान्तविष्णुयुक् ॥ ११२ ॥
अग्निश्च केवलः प्रोक्तो योनिं कल्पपदं वदेत् ।
यतु त्वष्टापदं पश्चात् ततो रूपाणि पिंशतु ॥ ११३ ॥
आसिञ्चतु प्रजा पश्चात्पतिर्धातापदं वदेत् ।
गर्भं दधात्विति पदमाषाढी पद्मनाभयुक् ॥ ११४ ॥
पञ्चैते वैदिका मन्त्रास्तेष्वेकैकं प्रपूजयेत् ।
तोयं वकारः शाल्मली इकारस्तेन वि सहजा षकारः ढान्तो णकारो विष्णुयुक् उकारयुक्तस्तेन ष्णु । अग्नी रेफः केवलो विस्वरः ॥ आषाढी तकारः पद्मनाभ एकारस्तेम ते इति ॥
तारस्य पञ्चभेदोत्थकलानामन्तरे सुधीः ।
आवाह्यादौ कलाः पश्चात् सन्निधाप्य च देशिकः ॥ ११५ ॥
प्राणान् संस्थाप्य गन्धाद्यैः पूजयेत् साधकोत्तमः ।
यत्र यत्र कलापूजाविधिस्तत्रैवमेव हि ॥ ११६ ॥
तारस्य पञ्चभेदोत्थकलानां पूजयेत् सुधीः ।
कलादशकमावाह्य सृष्ट्याद्याः सन्निधाप्य च ॥ ११७ ॥
हंसः शुचिपदित्याद्यामृचं सञ्जप्य पूजयेत् ।
प्राणसंस्थापनं कृत्वा कलानां पूजयेच्च ताः ॥ ११८ ॥
एवं जराद्यास्तीक्ष्णाद्याः पीताद्याश्च विधानतः ।
निवृत्त्याद्याश्चापि यजेदुक्तयुक्त्या विचक्षणः ॥ ११९ ॥
अकारोकारकौ प्रोक्तौ मकारो बिन्दुनादकौ ।
शक्तिसान्तावमी सप्त ध्रुवभेदाः समीरिताः ॥ १२० ॥
अन्तिमौ द्वौविमौ भेदौ पृथगेव समीरितौ ।
शक्तिः सकारः सान्तो हकारः ।
ततो रसालपनसपिप्पलद्रुमपल्लवैः ।
सुत्रामवल्लरीनद्धैः कल्पवृक्षमनीपया ॥ १२१ ॥
कलशस्थापनं मन्त्री विदधीत समाहितः ।
पश्चादक्षतसंयुक्तां सफलां शुभचक्रिकाम् ॥ १२२ ॥
देशिकेन्द्रः समादाय स्थापयेत् पल्लवोपरि ।
कल्पवृक्षफलानां हि मत्या विशदधीर्गुरुः ॥ १२३ ॥
पट्टाम्बरयुगेनैव घटं पश्चात् प्रवेष्टयेत् ।
प्रधानकुम्भं संस्थाप्य वेद्यामेवं गुरूत्तमः ॥ १२४ ॥
तोरणानां समीपेषु पूर्वादिषु यथाक्रमम् ।
प्राग्वन्मण्डलमालिख्य पद्मं चाष्टदलं शुभम् ॥ १२५ ॥
प्रागुक्तविधिना तेषु कुम्भान् संस्थाप्य देशिकः ।
ध्रुवं धरां वाक्पतिं च विघ्नेशं तेषु पूजयेत् ॥ १२६ ॥
आग्नेयादिषु कोणेषु कुम्भान् संस्थाप्य पूर्ववत् ।
अमृतं दुर्जयं चैव सिद्धार्थं मङ्गलं तथा ॥ १२७ ॥
सम्पूज्य वह्निकोणादिष्विन्द्रादीनथ पूजयेत् ।
पूर्वादिष्वष्टकुम्भेषु तेषां मन्त्रैस्तु वैदिकैः ॥ १२८ ॥
पुनः पूर्वादिकुम्भेषु पूजयेद् दिग्गजानपि ।
ऐरावतं पुण्डरीकं वामनं कुमुदाञ्जनौ ॥ १२९ ॥
पुष्पदन्तं सार्वभौमं सुप्रतीकं च देशिकः ।
पुनर्वेद्यां गुरुर्गत्वा उपविश्य निजासने ॥ १३० ॥
सञ्चिन्त्य मूलमन्त्रेण मूर्तिं तस्मिन् गुरूत्तमः ।
तस्यां मूर्तौ समावाह्य पूजयेदिष्टदेवताम् ॥ १३१ ॥
स्मृत्वा मूलमनुं मन्त्री सम्यङ्नाडीपथा ततः ।
निर्गमयय च चैतन्यं नासिकाग्रविनिर्गतम् ॥ १३२ ॥
अञ्जलौ मातृकापद्मे महः पुष्पान्विते गुरुः ।
मस्तकान्तं समुत्थाप्य तस्यामावाहयेत् ततः ॥ १३३ ॥
संस्थापनं प्रथमतः सन्निधानमतः परम् ।
सन्निरोध च सकलीकरणं त्ववगुण्ठनम् ॥ १३४ ॥
अमृतीकरणं परमीकरणं स्वस्वमुद्रया ।
सन्निरोधं चेति चकारात्सम्मुखीकरणमपि ज्ञेयम् ॥
क्रमाद् विदध्याच्च तत उपचारान् प्रकल्पयेत् ।
आसनादिप्रसूनान्तानुपचारान् प्रकल्प्य च ॥ १३५ ॥
तत्तन्मन्त्रविधानेषु प्रोक्ताङ्गावरणान्यपि ।
सर्वान्ते लोकपालानां तदस्त्राणां च पूजनम् ॥ १३६ ॥
विधाय पूजामेवं हि धूपदीपनिवेद्यकैः ।
प्. २४९) इति ॥ प्रपञ्चसारे -
कृते निवेद्ये च ततो मण्डलं परितः क्रमात् ।
मङ्गलांकुरपात्राणि स्थापनीयानि मन्त्रिणा ॥ १ ॥
इति ॥ तथा -
वेदिकाया दक्षभागे कृत्वा स्थण्डिलमुत्तमम् ।
संस्थाप्य वह्निं संस्कृत्य वैश्वदेवं समाचरेत् ॥ १३७ ॥
तत्र प्रणवपूर्वाभिर्हुत्वा व्याहृतिभिः पुनः ।
मूलाणुना ततो हुत्वा साज्येन हविषा सुधीः ॥ १३८ ॥
पञ्चविंशतिधा पश्चाद् हुत्वा व्याहृतिभिः पुनः ।
सम्पूज्य तां चन्दनाद्यैः पीठमूर्तौ तु योजयेत् ॥ १३९ ॥
अग्निं विसृज्य शिष्टेन पायसेन बलिं हरेत् ।
पार्षदेभ्यश्चन्दनादिपुष्पाक्षतसमन्वितम् ॥ १४० ॥
तत उत्थाप्य नैवेद्यं तत्स्थलं शोधयेत् सुधीः ।
पुनर्यजेच्चोपचारैः पञ्चभिर्दर्शयेत् ततः ॥ १४१ ॥
छत्रं च चामरं पश्चाद् दद्यात्ताम्बूलमुत्तमम् ।
छत्रं चेति चकाराद्दर्पणव्यजनेऽपि गृह्येते ॥
सहस्रं च जपेन्मन्त्री मूलमन्त्रं समाहितः ।
देवतायै निवेद्याथ तं जपं संपदे ततः ॥ १४२ ॥
ईशानदिशि यः पूर्वं स्थापितो विकिरोऽत्र च ।
सुवर्णवस्त्रसंयुक्तं करकं जलपूरितम् ॥ १४३ ॥
न्यसेदत्र यजेदस्त्रदेवतां घोररूपिणीम् ।
पश्चिमास्यां खड्गखेटधारिणीं सिंहसंस्थिताम् ॥ १४४ ॥
तिष्ठन् सम्पूज्य च ततो गृहीत्वा तं प्रदक्षिणम् ।
भ्रमेदन्तस्तु रक्षेति लोकेशानामितीरयन् ॥ १४५ ॥
नालयुक्तेनोदकेन देवतां भावयेत्ततः ।
स्वस्थाने स्थापयेत्तं तु फण्मन्त्रेण ततोऽर्चयेत् ॥ १४६ ॥
उपविश्य तु भूयोऽस्त्रं गन्धाद्यैर्मन्त्रवित्तमः ।
ततो वह्निं सुसंस्कृत्य चरुं गोपयसा पचेत् ॥ १४७ ॥
नवे ताम्रादिजे पात्रे क्षालिते च शराणुना ।
मूलाणुनाभिमन्त्र्याथ तण्डुलाञ्शालिसम्भवान् ॥ १४८ ॥
तिथिप्रसृतिमानेन शराणुं प्रजपन् क्षिपेत् ।
प्रक्षालितेन पात्रेण पात्रवक्त्रं पिधाय च ॥ १४९ ॥
हुंमन्त्रेण ततो मूलमनुना देशिकोत्तमः ।
पचेद् गुरुः प्राङ्मुखस्तु स्विन्ने तमभिधारयेत् ॥ १५० ॥
मूलेन स्रुवसंस्थेन घृतेनाथावतारयेत् ।
हुंमन्त्रेणास्त्रसंजप्ते कुशास्तीर्णे विभज्य तत् ॥ १५१ ॥
त्रिधा त्वेकं देवतायै परं वह्नौ निवेदयेत् ।
शिष्टं शिष्येण सहितो गुरुर्भुञ्जीत मन्त्रवित् ॥ १५२ ॥
कृताचमन आचान्तं शिष्यमानीय मन्त्रवित् ।
प्रादेशमात्रं हृञ्जप्तं यथोक्तं दन्तधावनम् ॥ १५३ ॥
शिष्याय दद्यात्स रदान् विशोध्य क्षालितं त्यजेत् ।
आचान्तमत्र च यथाविधि तच्छिखाया बन्धैः सुरक्षितममुं प्रविधाय
मन्त्री ।
वेद्यां शयीत कुशसंस्तरणे रजन्यां शिष्येण सार्धममुना
गदितोऽधिवासः ॥ १५४ ॥
ताम्रादीत्यादिपदेन मृण्मयग्रहणम् । तल्लक्षणमुक्तं कात्यायनेन -
तिर्यगूर्ध्वं समिन्मात्रा दृढा नातिबृहन्मुखी ।
मृण्मययौदुम्बरी वापि चरुस्थाली प्रशस्यते ॥ १ ॥
इति । समिन्मात्रा प्रादेशप्रमाणा प्रादेशान्नाधिकानूना इति कपिलवचनात् ।
तिथिप्रसृतिः पञ्चदशप्रसृतिः शराणुरस्त्रमन्त्रः तण्डुलांस्त्रिःक्षालितान् ।
तदुक्तं गोविलेन त्रिःफलीकृतांस्तण्डुलान् त्रिर्देवेभ्यः प्रक्षालयेदित्याहुरिति
॥ कुशलो दक्षस्तेन शृतमिव प्रदक्षिण । ततः ऊर्ध्वमवदानक्रियाक्षममिति
। स्विन्न इति :
सुशाखोक्तश्च सुस्विन्नो ह्यदग्धोऽकठिनः शुभः ।
नचातिशिथिलः पाच्यो न च वीतरसो भवेत् ॥ १ ॥
इत्युक्तलक्षणे घृतेन संस्कृते हुंमन्त्रेणावतारयेदिति पूर्वेणान्वयः । अत्र हुंमन्त्रेणेत्यादिषु तत्तकल्पोक्तकवचमन्त्रास्त्रमन्त्रादयो ज्ञेयाः न तु हुंमात्रं फण्मात्रं वा ॥ अथाग्निस्थापनं नारदपञ्चरात्रे :
कुण्डस्यारम्भकाले तु संस्कारा न कृता यदि ।
निष्पन्नस्य च ते सर्वे विधेयाः स्युः क्रमेण वै ॥ १ ॥
प्. २५०) इति ॥ उत्तरतन्त्रे -
होमकर्म ततो वक्ष्ये सकलागमसंमतम् ।
सुसंस्कृते गुरोः कुण्डे संस्कारैश्च यथाविधि ॥ १ ॥
ते दशाष्टाधिकाः प्रोक्ताः सर्वागमविशारदैः ।
मूलाणुना च संवीक्ष्य संप्रोक्ष्यास्त्राणुना ततः ॥ २ ॥
कुशैः संताड्य चास्त्रेण प्रोक्षयेत् कवचाणुना ।
खननं स्याच्छरेणाथ तेनैवोद्धार ईरितः ॥ ३ ॥
पूरणं च हृदास्त्रेण समीकुर्याच्च सेचनम् ।
कवचेनाथ शस्त्रेण कुट्टनं वर्मणा मतम् ॥ ४ ॥
मार्जनं च विलेपं च संचिन्त्य च कलात्मताम् ।
कुर्यात् त्रिसूत्रीकरणं नमोमन्त्रेण पूरयेत् ॥ ५ ॥
शरेण वज्रीकरणं कुशैः कुर्याच्चतुष्पथम् ।
कवचेनेन्द्रियाणां चाप्युद्घाटनमथाचरेत् ॥ ६ ॥
एवमुक्तैस्तु संस्कारैर्होमे कुण्डानि देशिकः ।
संस्कुर्यादथवा तानि चतुर्भिः प्रथमोदितैः ॥ ६ ॥
शरेण तत्तदङ्गभूतास्त्रमन्त्रेण प्रोक्षणमुत्तानहस्ताग्रेण ।
अभ्युक्षणं मुष्टिबन्धेनासेचनम् । उद्धारः खातमृदा ।
पूरणमन्यमृदा । उक्तं च नारदपञ्चरात्रे :
गृहीत्वा चैकदेशात्तु कुण्डमध्यात्तु मृत्तिकाम् ।
अंगुष्ठानामिकाभ्यां तु हृदयेनाथ पूरयेत् ॥ १ ॥
सेचनमभ्युक्षनमेव शस्त्रेणास्त्रमन्त्रेण । वर्मणेत्येतदग्रिमेषु चतुर्षु सम्बध्नाति । तदुक्तं सोमशम्भुना -
सम्मार्जनं समालेपं कलारूपप्रकल्पनम् ।
त्रिसूत्रीपरिधानं च वर्मणाभ्युक्षणं हृदा ॥ १ ॥
इति ॥ कलारूपप्रकल्पनं सोमसूर्याग्निकलारूपप्रकल्पनम् । त्रिसूत्रीकरणं सूत्रत्रयकल्पनम् । हृदयेन पूजनं तु मेखलात्रयस्यैव ॥ तदुक्तं नारदपञ्चरात्रे :
समभ्यर्च्य ततो बाह्ये मध्यतः प्रणवेन च ।
तेनैव विधिना नाभिं पूजयेच्चन्द्रसन्निभाम् ॥ १ ॥
मेखलात्रयपूजायां हृन्मन्त्रं तु प्रपूजयेत् ।
इति । वज्रीकरणं वज्रवद्दृढचिन्तनम् । चतुष्पथं कुशैश्चतुर्दिक्षु मार्गचतुष्टयकरणम् । शारदातिलके तु : तनुत्रेण तनुयादक्षपाटनमित्युक्तम् । अक्षपाटनलक्षणं तु नारदपञ्चरात्रे :
अच्छिन्नाग्रैस्तदा दर्भैरस्त्रमन्त्राभिमन्त्रितैः ।
कुण्डभित्तिगणं सर्वं वर्मणा परिभूषयेत् ॥ १ ॥
इत्येवमक्षपाटाख्यं कुण्डसंस्कारमुत्तमम् ।
अत्रेन्द्रियाणामुद्घाटनमिति यदुक्तं तत्त्वेवमेव कर्तव्यम् ।
अक्षशब्दस्येन्द्रियवाचकत्वादक्षपाटनमिन्द्रियाणामुद्घाटनमित्यर्थः ।
हुंकारेण राक्षसनिवारणमिति केचित् । आदिक्षान्तानां वर्णानां पाटनं
व्याप्तिरित्यपरे । पक्षान्तरमाह । अथ वेति ।
प्रथमोदितैर्वीक्षणप्रोक्षणताडनाभ्युक्षणैः । तथा : त्रिशस्त्रिशो
लिखेल्लेखाः प्रागुदग्रा हृदाणुना । उदग्रा इति दिव्यत्वादुदगग्राः ।
स्मृताश्च प्राङ्मुखाग्राणां देवा विष्ण्वीशवासवाः ।
उदङ्मुखाग्ररेखाणां ब्रह्मसूर्येन्दवः क्रमात् ॥ १ ॥
अत्र रेखालिखने कुत आरम्भः कुत्रवसानमित्याकांक्षायामाह सौत्रामणीतन्त्रे -
प्राचीमूर्धमुदक्संस्थं दक्षिणारम्भमालिखेत् ।
उदगग्रं पुरःसंस्थं पश्चिमारम्भमालिखेत् ॥ १ ॥
प्राचीमूर्धं प्रागग्रम् । उदगग्रं पुरःसंस्थं पूर्वावसानकम् ।
नारदपञ्चरात्रे -
उल्लिखेदस्त्रराजेन दर्भकाण्डेन यत्नतः ।
भूमावभ्यन्तरे कुण्डे दक्षिणाशादितः क्रमात् ॥ १ ॥
उत्तराशावधिं यावद्दद्याद्रेखात्रयं समम् ।
प्रत्यग्भागात्समारभ्य यावत्पूर्वावधिं तथा ॥ २ ॥
इति ॥ अत्र हृन्मन्त्रास्त्रमन्त्रयोर्विकल्पः । तथा : अथवाग्नियुगान्तःस्थं वह्निगेहं (कोणं) लिखेत् क्रमात् । अग्नियुगं त्रिकोणद्वयरूपं षट्कोणं वह्निकोणं त्रिकोणम् । अत्र रेखाषट्कोणयोर्विकल्पः । तथा यामले : षट्कोणेनावृतं देवि त्रिकोणं तत्र संलिखेत् । इति । अत एव नारदपञ्चरात्रे रेखामात्रमुक्तम् । शारदातिलके : वर्मणाभ्युक्ष्य तारेण
प्. १५१) योगपीठमथार्चयेत् । इति । सौत्रामणीतन्त्रे तु । प्रोक्षयेद्वाग्भवेन
वेत्युक्तं वाशब्दः प्रणवापेक्षया । अभ्युक्ष्य कुशसलिलेन । अभ्युक्ष्य च
कुशाम्भोभिरिति योगिनीतन्त्रवचनात् । प्रपञ्चसारे :
प्राणाग्निहोत्रविधिनाप्यावसथीयेऽनलस्थाने । प्राणाग्निहोत्रविधिरपि तत्रैव
मध्येन्द्रवरुणशशियमदिग्गतानि क्रमेण कुण्डानि ।
आवसथ्यसभ्याहवनीयान्वाहार्यगार्हपत्यानि ॥ इति । उत्तरतन्त्रे : सम्प्रोक्ष्य
प्रणवेनाथ योगपीठं समर्चयेत् । योगपीठार्चनं प्रयोगे वक्ष्यते ।
तत्र शक्तिं च संस्मृत्य सम्यगृतुमतीं शुभाम् ।
अतीन्द्रियाभां सकलजगदात्मस्वरूपिणीम् ॥ १ ॥
ईशानसहितां तत्र सम्यग्गन्धादिभिर्यजेत् ।
शक्तिमन्त्रेण तां शक्तिमीशानं मूलमन्त्रतः ॥ २ ॥
अभ्यर्च्य मूलवित् सम्यक् मणिजं वाऽरणेयकम् ।
कुलीनद्विजगेहोत्थं पात्रे हुतवहं ततः ॥ ३ ॥
आनीयास्त्रेण नैर्-ऋत्यां क्रव्यादांशं परित्यजेत् ।
देवांश मूलमन्त्रेण स्थापयेदग्रतः सुधीः ॥ ४ ॥
पश्चात्तमग्नीं संस्कारैः संस्कुर्याद्वीक्षणादिभिः ।
प्रदीपकलिकाकारं तेज आवाह्य यत्नतः ॥ ५ ॥
ऐक्यं जाठरबैन्दववह्निभ्यां पार्थिवस्य च ।
स्मृत्वाग्निबीजकेनास्य चैतन्यं योजयेदथ ॥ ६ ॥
ओंकारेणाभिमन्त्र्याथ धेनुमुद्रामृतीकृतम् ।
संरक्ष्य च शरेणाथ कवचेनावगुण्ठयेत् ॥ ७ ॥
ततः सम्पूज्य कुण्डस्य भ्रामयेत् त्रिःप्रदक्षिणम् ।
प्रणवेन ततः स्वस्य सम्मुखं स्वीयकुण्डके ॥ ८ ॥
देव्या योनौ तत्र जानुस्पृष्टभूमिश्च देशिकः ।
शिवबीजमिति ध्यात्वा निक्षिपेदाशुशुक्षणिम् ॥ ९ ॥
तत आचमनीयं च देव्या देवस्य कल्पयेत् ।
वैष्णवयागे तु नारदपञ्चरात्रे -
तत्र नारायणाख्यस्य शक्तिर्विद्योतलक्षणा ।
लक्ष्म्याकृतिपदं प्राप्ता अमृतामृतजीवनी ॥ १ ॥
इति ॥ तथा कपिलपञ्चरात्रे -
कामोन्मत्तं ततः कृष्णं लक्ष्मीमृतुमतीं स्मरेत् ।
तयोः संगमयोगेन वह्निः सञ्जातसंस्थितिः ॥ १ ॥
इति ॥ कुम्भसंभवोऽप्याह -
लक्ष्मीमृतुमतीं भद्रां प्रभां नारायणस्य च ।
ग्राम्यधर्मेण सञ्जातमग्निं तत्र विचिन्तयेत् ॥ १ ॥
पात्रे ताम्रादिपात्रे ॥ यदाहात्रिः -
पात्रान्तरेण पिहिते ताम्रापात्रादिके ।
अग्निप्रणयनं कुर्याच्छरावे तादृशेऽपि वा ॥ १ ॥
पिहिते कवचमन्त्रेण । तदुक्तं पिङ्गलामते -
अस्त्रेणाग्निं समाधाय कवचेन पिधाय च ।
क्रव्यादांशं च नैर्-ऋत्यां त्यजेदस्त्रेण पार्वति ॥ १ ॥
इति ॥ तथा नारदपञ्चरात्रे : तैजसे ताम्रपात्र वा मृण्मयेऽभिनवेऽपि वा ।
इति ॥ तैजसपदं गोवलीवर्दन्यायेन ताम्रेतरपरम् । एतेन :
शरावे भिन्नपात्रे वा कपाले चोल्मुकेऽपि वा ।
नाग्निप्रणयनं कुर्याद्व्याधिहानिभयावहम् ॥ १ ॥
इति सरस्वतीसारलिखितवचनं पुरातनमृत्पात्रपरम् अभिनवेत्युक्तेः ।
भैरवीतन्त्रे तु : योनावेवं विन्यसेत् स्वाभिवक्त्रं पश्चादेवं
मूलमन्त्रेण मन्त्री इत्युक्तं तदत्र प्रणवमूलमन्त्रयोर्विकल्पः ॥ जाठर
इति : बिन्दुः परमात्मा तस्याग्नीषोमकत्वात्तद्भवो वह्निर्वैन्दवः पार्थिवो
भौमः । अमृतीकृतं वंबीजेन ॥ अमृतीकरणं ततो विदध्याज्जलबीजेन
सबिन्दुना कृशानोः । इति योगिनीतन्त्रवचनात् । शरेणास्त्रेण । उत्तरतन्त्रे -
उक्त्वा चित्पिङ्गलपदं हनयुग्मं पचद्वयम् ।
दहयुग्मं च सर्वज्ञं आज्ञापय ततो द्विठः ॥ १ ॥
अमुं मन्त्रं प्रभाष्यैव कृशानुं ज्वालयेत्ततः ।
इति ॥ द्विठः स्वाहाकारः । प्रपञ्चसारे -
प्. २५२) अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्णवर्णममलं समिद्धं सर्वतोमुखम् ॥ १ ॥
अनेन ज्वलितं मन्त्रेणोपतिष्ठेद्धुताशनम् ।
इति । सर्वज्ञमिति शब्दकर्मणि द्वितीया । मन्त्रे तु सम्बुद्ध्यन्तं ज्ञेयम् ।
सर्वज्ञाज्ञापय स्वाहा इति दक्षिणामूर्तिवचनात् । ज्वालयेत् कुशैर्मुखेन
वा । ततः प्रज्वालयेत् कुशैः इति कुम्भसम्भववचनात् । मुखेनैव
धमेदग्निं मुखादेषोऽघ्यजायत इति कात्यायनवचनाच्च ।
मन्त्रतन्त्रप्रकाशे :
ततः प्रविन्यसेज्जिह्वा देहे मन्त्रैर्विभावसोः ।
सलिङ्गगुदमूर्धास्यनासानेत्रेषु च क्रमात् ॥ १ ॥
ससर्वाङ्गेषु सर्वास्ता वक्ष्यन्ते त्रिविधा अपि ।
हिरण्या कनका रक्ता कृष्णा चैव तु सुप्रभा ॥ २ ॥
बहुरूपातिरक्ता च जिह्वाः सप्तेति सात्त्विकाः ।
अनलेरार्घिबिन्द्वन्तसादियान्ताक्षरान्विताः ॥ ३ ॥
इति ॥ अनलो रेफः ईरः यकारः अर्घिरूकारः । अयं क्रमो बीजोद्धारप्यैकर्यांयैव । न्यासे तु -
सलिङ्गगुदमूर्धास्यनासानेत्रेषु च क्रमात् ।
विन्यसेदतिरक्तान्ताः सर्वाङ्गेबहुरूपिणीम् ॥ १ ॥
इति सिद्धान्तशेखरवचनात् सर्वाङ्गे बहुरूपां न्यसेत् । प्रपञ्चसारे -
मन्त्री प्रविन्यसेद्भूयो वह्नेरङ्गानि वै क्रमात् ।
सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठ पुरुषस्तथा ॥ १ ॥
धूमव्यापी सप्तजिह्वो धनुर्धरः इतीरितः ।
अङ्गमन्त्रान् क्रमादष्ट मूर्तीश्चापि प्रविन्यसेत् ॥ २ ॥
मूर्धांसपार्श्वकट्यन्धुकटिपार्श्वांसकेषु च ।
प्रदक्षिण्येन विन्यसेद् यथावद्देशिकोत्तमः ॥ ३ ॥
जातवेदाः सप्तजिह्वो हव्यवाहन एव च ।
अश्वोदरजसंज्ञश्च सवैश्वानर एव च ॥ ४ ॥
कौमारतेजाश्च तथा विश्वदेवमुखाह्वयौ ।
स्युरष्ट मूर्तयो वह्नेरग्नये पदपूर्विकाः ॥ ५ ॥
प्रणवादिनमोन्ताश्च इति । प्रादक्षिण्येन शिर आरभ्य वामांसादिक्रमेण दक्षिणांसावधि न्यसेदिति । अन्धु लिङ्गं गुदमिति केचित् । मुखशब्दः प्रत्येकं सम्बध्यते । कौमारतेजाः स्याद्विश्वमुखो देवतामुखस्तथा इति शारदातिलकवचनात् । उत्तरतन्त्रे :
प्रादक्षिण्यक्रमेणैव संसिच्य च ततो जलैः ।
मेखलोपरि संशुद्धैः पुनर्दर्भचतुष्टयः ॥ १ ॥
दिक्क्रमेण परिस्तीर्य दिक्ष्वैन्द्रीवर्जमात्मवित् ।
निक्षिपेत् परिधीन् ब्रह्मविष्णवीशांस्तत्र पूजयेत् ॥ २ ॥
दर्भचतुष्टयैः प्रागुदगग्रैः । पूर्वाग्रैरुत्तराग्रैश्च दर्भैरग्निं
परिस्तरेत् । इति गणेश्वरपरामर्शिनीवचनात् । प्रागग्रैरथ
दर्भैर्धनददिशाग्रैः परिस्तरेत् कुण्डम् । इति भैरवीतन्त्रवचनात् ।
त्रिमेखलकुण्डे । मध्यमेखलायां परिस्तरणपरिधिप्रक्षेपः कार्यः ।
तदुक्तं योगिनीतन्त्रे :
एकमेखलके कुण्डे मेखलाधः परिस्तरेत् ।
द्विमेखले द्वितीयायां मध्यमायां त्रिमेखले ॥ १ ॥
इति ॥ ननु पश्चिममेखलासंलग्नतया नालस्य विद्यमानत्वान्मध्यमेखलायां परिस्तरणपरिधिप्रक्षेपः कथं भवेदित्याङ्क्षायामाह उत्तरतन्त्रे :
नालमेखलयोर्मध्ये परिधेः स्थापनस्य तु ।
रन्ध्रं कुर्यात्तथा विद्वान् मध्यस्थमेखलोपरि ॥ १ ॥
इति । स्थण्डिले सिकतानां तु बाह्ये भूमेः परिस्तरेत् । इति परिधयस्तु कात्यायनेनोक्ताः : परिधीन् परिदधात्यार्द्रानेकवृक्षीयान् बाहुमात्रान् पलाशवैकङ्कतकाश्मर्यवैल्वादि । इति । स्थण्डिले सिकतानां बाह्येऽथ विन्यसेत् परिधी निति च । ऐन्द्रीवर्जं परिधीन् दिक्षु क्षिपेदिति सम्बन्धः । दिक्षु पश्चिमादक्षिणोत्तरासु स्थविष्ठो मध्यमः । अणीयान् द्राधीयान् दक्षिणार्थः । कनिष्ठो ह्वसिष्ठ उत्तरार्थः इति सूत्रितत्वात् । पश्चिमे उत्तराग्रमन्ययोः पूर्वाग्रं चेति । दक्षिणामूर्तिसंहितायाम् : प्रणीताप्रोक्षणीयुग्मे जलं चाथ घृतं तथा इति ॥ तत्पात्रस्थापनप्रकारमाह कुम्भसम्भवः :
प्राणानायम्य विधिवत् परिस्तीर्य कुशान्तरैः ।
स्वगृह्योक्तविधानेन वायुदेशात्ततो मुने ॥ १ ॥
प्. २५३) पात्राण्यासाद्य विधिवदिध्मं तन्त्रेण मन्त्रवित् ।
तान्यवोक्ष्य पवित्रेण चोत्तानानि विधाय च ॥ २ ॥
पुनः प्रोक्ष्य नयेत् पात्रं परिपूर्य शुभाम्बुना ।
दत्त्वाक्षतान् पवित्रं च तदुत्पूय निधापयेत् ॥ ३ ॥
दिश्युत्तरस्यां तत्पात्रं प्रणीतेत्युच्यते बुधैः ।
ततः किञ्चित् प्रणीताम्बु प्रोक्षण्यादाय तज्जलैः ॥ ४ ॥
यज्ञसाधनसम्भारं प्रोक्षयेन्मूलमन्त्रतः ।
इति ॥ उत्तरतन्त्रे -
आसनं च ततो वह्नेः कल्पयित्वा प्रपूजयेत् ।
आसनं योगपीठं च प्रयोगे वक्ष्यते तथा -
कोणषट्के च मध्ये च जिह्वा अङ्गानि केसरे ।
तद्बाह्ये वसुमूर्तीश्च मध्ये वह्निं ततो यजेत् ॥ १ ॥
वक्ष्यमाणेन विधिना गन्धपुष्पादिभिः सुधीः ।
इति प्रपञ्चसारे -
कोणषट्के च मध्ये च जिह्वाभिः केसरेषु च ।
अङ्गमन्त्रैस्ततो बाह्ये चाष्टभिः मूर्तिभिः क्रमात् ॥ १ ॥
ततोऽग्निमनुना तेन मन्त्री मध्ये च संयजेत् ।
वैश्वानर जातवेद प्रोक्त्वा चेहावहेति च ॥ २ ॥
लोहिताक्षपदं सर्वकर्माणीति समीरयेत् ।
ब्रूयाच्च साधयेत्यन्तं वह्निजायान्तिको मनुः ॥ ३ ॥
इति । मन्त्रे सर्वाणि पदानि सम्बुद्ध्यन्तानि ज्ञेयानि ॥
त्रिनयनमरुणप्ताबद्धमौलिं
सुशुक्लांशुकमरुणमनेकाकल्पमम्भोजसंस्थम् ।
अभिमतवरशक्तिस्वस्तिकाभीतिहस्तं नमत कनकमालालंकृतांसं
कृशानुम् ॥ ४ ॥
जिह्वा ज्वालारुचः प्रोक्ता वराभययुतानि च ।
अङ्गानि मूर्तयः शक्तिस्वस्तिकोद्यतदोर्द्वयाः ॥ ५ ॥
कोणषट्के च मध्ये चेति सम्बन्धः ।
तदुक्तं सोमशम्भुना -
रुद्रेन्द्रवह्निमांसादवरुणानिलगोचरे ।
हिरण्याद्याः स्थिता वह्ने रसनाः षडनुक्रमात् ॥ १ ॥
मध्यतो बहुरूपा तु इति ॥ गणेश्वरपरामर्शिन्याम् -
मध्ये च कोणषट्के च जिह्वाः सप्त यजेत्ततः ।
हिरण्या तप्तहेमाभा शूलपाणिदिशि स्थिता ॥ १ ॥
वैदूर्यवर्णा कनका प्राच्यां दिशि समाश्रिता ।
तरुणादित्यसङ्काशा रक्ता जिह्वाग्निसंस्थिता ॥ २ ॥
कृष्णाञ्जनचयप्रख्या नैर्-ऋत्यां दिशि संस्थिता ।
सुप्रभा पद्मरागाभा वारुण्यां दिशि संस्थिता ॥ ३ ॥
अतिरक्ता जपाभासा वायव्यां दिशि संस्थिता ।
बहुरूपा यथार्थाभा दक्षिणोत्तरमध्यगा ॥ ४ ॥
इति ॥ नारदपञ्चरात्रे -
प्रभा दीप्ता प्रकाशा च मरीचिस्तापिनी तथा ।
कराला लेलिहा चेति कुण्डं व्याप्य व्यवस्थिताः ॥ १ ॥
ईशपूर्वाग्निदिग्भागे प्रभाद्यं त्रितयं स्थितम् ।
रक्षोवारुणवायव्ये मरीच्याद्यं त्रयं तथा ॥ २ ॥
सौम्ये च मध्यमे याम्ये स्थितैका लेलिहाभिधा ।
इति ॥ हिरण्यादीनामेव नामन्तराणि प्रभादीनि । यद्वा वैष्णवयागे त्वेताः स्वतन्त्राः । तथा वायवीयसंहितायाम् -
हिरण्या प्रागुदग्जिह्वा कनका पूर्वतः स्थिता ।
रक्ताग्नेयी नैर्-ऋती च कृष्णान्या सुप्रभा मता ॥ १ ॥
अतिरक्ता मरुज्जिह्वा स्वनामानुगुणप्रभाः । अन्या च अरुणा ।
त्रिंशिखा मध्यमा जिह्वा बहुरूपासमाह्वया । तच्छिखैका दक्षिणतो ज्वलन्ती वामतः परा
इति सात्त्विकजिह्वाः । राजस्यस्तामस्यश्च वक्ष्यन्ते ॥ केचित्तु -
कुण्डस्य मध्ये ह्यथ सा प्रशस्ता जिह्वा हिरण्या भुवि कार्मणादौ ॥
स्तम्भनादिषु मता कनकान्तर्द्वेषणादिषु मता खलु रक्ता ।
प्. २५४) मारणे निगदिता भुवि कृष्णा सुप्रभा बुधवरैरिह शान्त्याम् ॥ १ ॥
उच्चाटनेऽतिरक्तान्तर इति वदन्ति । ज्वालारुच इति जिह्वानां ध्यानम् । जिह्वाः
सर्वाः परिज्ञेया ज्वालाभासाः स्वरूपतः । इति प्रयोगसारवचनात् । एता
ज्वालारुचा वीता वराभययुता अपि । इति गणेश्वरपरामर्शिनीवचनाच्च ।
प्रपञ्चसारे :
संस्कृतेन घृतेनाभिद्योतनोद्द्योतनेन च ।
व्याहृत्यनन्तरं तेन जुहुयान्मनुना त्रिशः ॥ १ ॥
अभिद्योतनोद्द्योतनाख्यसंस्कारद्वयसंस्कृतेनेति संबन्धः ।
अपरे तु संस्कारान्तरमप्यङ्गीकुर्वन्ति । पिङ्गलामते :
कुण्डे चाष्टादश ज्ञेयाः संस्काराः शिवशास्त्रतः ।
घृते स्रुचि स्रुवे चाष्टौ इति ॥ उत्तरतन्त्रे :
समादाय घृतस्थालीमस्त्रमन्त्रेण सेचयेत् ।
घृतं तत्र समापूर्य वीक्षणादिसुसंस्कृतम् ॥ १ ॥
वायव्ये बाह्यतोऽङ्गारान् कृत्वा तेषु हृदा न्यसेत् ।
तापनं तु समुद्दिष्टं कुशद्वयमतः क्षिपेत् ॥ २ ॥
आज्ये प्रज्वलितं वह्नौ विन्यसेत्तु धृतान्वितम् ।
पवित्रीकरणं दर्भद्वयेन ज्वलितेन तु ॥ ३ ॥
वर्मणाज्यं च नीराज्य वह्नौ दर्भद्वयं क्षिपेत् ।
अभिद्योतनमेतत् स्यादुद्द्योतनमथोच्यते ॥ ४ ॥
कुशं प्रज्वलितं वह्नौ विन्यसेत्तद् हृदा क्षिपेत् ।
वह्नाबुद्वास्य च घृतमङ्गारानग्निषु क्षिपेत् ॥ ५ ॥
अपः संस्पृश्य मन्त्रज्ञः कुर्यादुत्पवनं ततः ।
अस्त्रमन्त्रं जपन्मन्त्री कुशौ प्रादेशमात्रकौ ॥ ६ ॥
अंगुष्ठानामिकाभ्यां च गृहीत्वा घृतमुत्पवेत् ।
ततो हृदा कुशाभ्यां तु स्वाभिमुख्येन सम्प्लवेत् ॥ ७ ॥
घृतं तत्स्यात् सम्प्लवनं षट् संस्काराः प्रकीर्तिताः ।
इति ॥ आज्यमिति -
उत्तमं गोघृतं प्रोक्तं मध्यमं महिशीभवम् ।
अधमं छागलीजातं तस्माद्गव्यं प्रशस्यते ॥ १ ॥
इति पिङ्गलामतोक्तं वीक्षणादिसुसंस्कृतं घृतं समापूर्य मूलमन्त्रेणाभिमन्त्र्य धेनुमुद्रयामृतीकृत्य पश्चादुक्तसंस्कारैः संस्कुर्यात् ॥ उक्तं च शैवागमे :
गव्यमाज्यं समादाय मूलमन्त्राभिमन्त्रितम् ।
स्वकां ब्रह्ममयीं मूर्तिं सञ्चिन्त्य परितापयेत् ॥ १ ॥
इति ॥ वायवीयसंहितायाम् : न्यस्य मन्त्रं घृते मुद्रां
दर्शयेद्धेनुसंज्ञिताम् इति । बाह्यतः कुण्डव्यासादिति शेषः । प्रज्वलितं
कुशद्वयं हृदा आज्ये क्षिपेदित्यन्वयः । नीराज्याभितः परिभ्राम्य
दर्भद्वयं दर्भाणामग्नौ प्रक्षेपः प्रतिपत्तिकर्म अत एव मन्त्रोऽपि
नोक्तस्तेन दर्भनाशे सति अकृतेऽपि प्रक्षेपे न वैगुण्यमिति ।
अंगुष्ठानामिकाभ्यां हस्तद्वयेतेति शेषः ।
उत्पवेदग्निसंमुखमित्यर्थः ॥ शैवागमे :
प्रादेशमात्रदर्भाभ्यामंगुष्ठानामिकाग्रकैः ।
घृताभ्यां संमुखं वह्नेरस्त्रेणोत्पवमाचरेत् ॥ १ ॥
इति ॥ उभयत्र वह्निप्रक्षेप एव कुशानां प्रतिपत्तिकर्म ॥ पुनस्तत्रैव -
गृहीत्वा स्रुक्स्रुवावूर्ध्वमुखावधोमुखौ क्रमात् ।
प्रताप्याग्नौ त्रिधा दर्भमूलमध्याग्रकैः स्पृशेत् ॥ १ ॥
मूलमध्याग्रदेशे तु आत्मविद्याशिवात्मकम् ।
क्रमात्तत्त्वत्रयं न्यस्येत् ह्रांह्रींह्रूंबीजकैः प्रिये ॥ २ ॥
स्रुचि शक्तिं स्रुवे शम्भुं विन्यस्य हृदयाणुना ।
त्रिसूत्रवेष्टितग्रीवौ पूजितौ कुसुमादिभिः ॥ ३ ॥
कुशानामुपरिष्टात्तु स्थाप्यावेतौ स्वदक्षिणे ।
दर्भमूलादिभिः स्रुक्स्रुवयोर्मूलादिस्पर्शः ।
स्पर्शमभिधायोक्तमुत्तरतन्त्रे -
तत आदाय वामेन प्रोक्षयेद्दक्षपाणिना ।
भूयोऽग्नौ तौ प्रताप्याथ कुशानग्नौ निवेदयेत् ॥ १ ॥
प्रताप्य त्रिश इति शेषः ॥ उक्तं च पिङ्गलामते -
पुनस्त्रिंशः प्रताप्याधोमुखावग्नौ कुशान् क्षिपेत् ।
मूलमध्याग्रके न्यसेच्छक्तीरिच्छादिकाः क्रमात् ॥ १ ॥
इति । इच्छाज्ञानक्रियाः शक्तयः ॥ उत्तरतन्त्रे -
कुशद्वयं घृते न्यस्य ततः प्रादेशसंमितम् ।
सग्रन्थि कृत्वा साग्रं द्वौ शुक्लकृष्णौ विचिन्तयेत् ॥ १ ॥
प्. २५५) पक्षौ वाम इडां दक्षे पिङ्गलां मध्यतस्ततः ।
सुषुम्नां संस्मरेन्मन्त्री ततो होमं समाचरेत् ॥ २ ॥
सग्रन्थि कुशद्वयमित्यन्वयः ॥
दक्षभागाद्गृहीत्वाज्यं स्रुवेणाथ हृदाणुना ।
जुहुयाद्दक्षनेत्रेऽग्नेः स्वाहान्तायाग्नये ततः ॥ १ ॥
गृहीत्वा वामभागाच्च घृतं वामेऽग्निलोचने ।
जुहुयाच्च हृदा सोमाय स्वाहेति च देशिकः ॥ २ ॥
गृहीत्वा मध्यतस्त्वाज्यमग्नेरलिकलोचने ।
हृदाणुनाग्नीषोमाभ्यां स्वाहेति जुहुयात् सुधीः ॥ ३ ॥
दक्षभागाद्गृहीत्वा तु हृदाज्यं जुहुयात् सुधीः ।
वक्त्रे वह्नेः स्विष्टकृते स्वाहेति च ततो गुरुः ॥ ४ ॥
सर्वत्र हृन्मन्त्रस्त्वाज्यग्रहणे ज्ञेयः ॥ शारदातिलके -
सताराभिर्व्याहृतिभिराज्येन जुहुयात् पुनः ।
जुहुयादग्निमन्त्रेण त्रिवारं देशिकोत्तमः ॥ १ ॥
व्याहृतिभिर्व्यस्तसमस्ताभिस्तिसृभिः । प्रपञ्चसारे -
गर्भाधानादिका वह्नेः समुद्वाहावसानिकाः ।
क्रियास्तारेण वै कुर्यादाज्याहुत्यष्टभिः क्रमात् ॥ १ ॥
इति ॥ शारदातिलके - गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा इति ।
वायवीयसंहितायाम् -
जातं ध्यात्वैवमाकारं जातकर्म समाचरेत् ।
नालापनयनं कृत्वा ततः संशोध्य सूतकम् ॥ १ ॥
शिवाग्निरिति नामास्य कृत्वाहुतिपुरःसरम् ।
पित्रोर्विसर्जनं कृत्वा चूडोपनयनादिकम् ॥ २ ॥
अथोद्वाहावसानं यत् कृत्वा संस्कारमस्य तु ।
इति । शिवाग्निरिति शैवे । अन्यत्र तु नारायणाग्निर्दुर्गाग्निरित्यादि ॥ उत्तरतन्त्रे -
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ।
जातकर्म ततो नामकरणं चोपनिष्क्रमम् ॥ १ ॥
अन्नप्राशनचौलोपनयनानि ततः परम् ।
महानाम्न्यं महापूर्वव्रतं च तदनन्तरम् ॥ २ ॥
अथौपनिषदं चैव गोदानं तदनन्तरम् ।
समावर्तनमुद्वाहः संस्कारा मरणान्तिकाः ॥ ३ ॥
क्रूरकर्मणि कर्तव्या मरणान्ताश्च देशिकैः ।
इति ॥ एतन्मन्त्रश्च नारदपञ्चरात्रे -
प्रणवं पूर्वमुच्चार्य ततः कर्म समुच्चरेत् ।
सम्पादयामि स्वाहेति सर्वकर्मस्वयं विधिः ॥ १ ॥
इति ॥ सौत्रामणीतन्त्रे : विवाहान्ता वाग्भवेन इत्युक्तम् तदेतयोर्विकल्पः ।
उत्तरतन्त्रे : विवाहानन्तरम् अभ्यर्च्यं वह्निं पितरौ संयोज्यात्मनि मन्त्रवित्
। इत्युक्तं यथासम्प्रदायं ज्ञेयम् ॥ तथा :
आद्यन्ते घृतसंश्लिष्टाः पञ्चाथ समिधो हुनेत् ।
जुहुयाद्रसनाङ्गाष्टमूर्तिमन्त्रैः सकृद्घृतैः ॥ १ ॥
इति ॥ गणेश्वरपरामर्शिन्याम् -
ततो (ऽपि) जुहुयादङ्गमन्त्राद्यैश्च सकृत् सकृत् ।
तन्नामान्ते निशितधीः स्वाहान्तैश्च यथाक्रमम् ॥ १ ॥
इति ॥ विष्णुधर्मोत्तरे -
मन्त्रेणोंकारपूर्वेण स्वाहान्तेन विचक्षणः ।
स्वाहावसाने जुहुयाद्ध्यायन्वै मन्त्रदेवताम् ॥ १ ॥
इति ॥ श्रुतिरपि : यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेद्वषट् करिष्यन् इति । स्वाहान्तमन्त्रस्तु तदन्तो न कर्तव्यः ॥ उत्तरतन्त्रे :
चतुर्वारं स्रुवेणाज्यं गृहीत्वा स्रुचि निःक्षिपेत् ।
नेनैव तां पिधायाग्नौ हुनेत्तिष्ठन् गुरुः स्वयम् ॥ १ ॥
वौषडन्तेन वह्नेस्तु मनुना सम्पदे ततः ।
इति ॥ प्रपञ्चसारे -
जिह्वायां मध्यसंस्थायां मन्त्री ज्वालावलीतनौ ।
ताराद्यैर्दशभिर्मन्त्रैः पूर्वपूर्वसमन्वितैः ॥ १ ॥
मनुना गाणपत्येन हुनेत् पूर्वं दशाहुतीः ।
जुहुयाच्च चतुर्वारं समस्तेनैव तेन तु ॥ २ ॥
आज्येन साध्यमनुना पञ्चविंशतिसंख्यकम् ।
जुहुयात् सर्वहोमेषु सुधीरनलतृप्तये ॥ ३ ॥
प्. २५६) तान्त्रिकाणामयं न्यायो हुतानां समुदीरितः ।
इति ॥ गाणपत्येन महागणेशमन्त्रेण ॥ गणेश्वरपरामर्शिन्याम् -
महागणेशमन्त्रेण पूर्वपूर्वयुतेन च ।
तारादिबीजषट्केषुकरणेष्वद्रिवर्णकैः ॥ १ ॥
भिन्नेन दशधा तेन समस्तेन हुनेत् प्रिये ।
इति ॥ मन्त्रः प्रयोगे वक्ष्यते । इषवः पञ्च करणानीन्द्रियाणि पञ्च अद्रयः सप्त बीजषट्कः एषु पदच्छेदः । चरुहोमे तु चरुमिदानीं श्रपयेत् तत्प्रकारः प्रागेव प्रपञ्चितः ॥ उत्तरतन्त्रे :
सम्पूज्य देवतापीठं वह्नौ सम्यक् ततो गुरुः ।
अग्निरूपधरां तत्र पूजयेदिष्टदेवताम् ॥ १ ॥
आज्येन साध्यमनुना पञ्चविंशतिसंख्यकम् ।
हुनेन्मन्त्री चा (ज्य ? ग्नि) मुखे वक्त्रैकीकरणं मतम् ॥ २ ॥
आत्माग्निदेवतानां च चिन्तयन्नैक्यमात्मवित् ।
एकादशाथ मूलेन हुनेदाज्येन चाहुतीः ॥ ३ ॥
नाडीसंधानमेवं हि प्रोक्तं देशिकसत्तमैः ।
अङ्गप्रभृत्यावृतीनामेकैकामाहुतिं हुनेत् ॥ ४ ॥
पूर्वादिदिक्षु कुण्डेषु सर्वेष्वपि यथाविधि ।
गुरुर्वह्नि प्रविहरेत् संस्कृतेषूक्तवर्त्मना ॥ ५ ॥
सर्वर्त्विजश्चन्दनाद्यैः सम्पूज्य प्रोक्तदेवताम् ।
सर्वावरणसंयुक्तां मूलेन जुहुयुस्ततः ॥ ६ ॥
पञ्चविंशतिधा सर्पिः संयुतेन पयोन्धसा ॥
इति ॥ वायवीयसंहितायाम् -
स्रुवेणाज्यं समित्पाणिस्रुचा शेषं करेण वा ।
तत्तद्द्रव्येण होतव्यं तीर्थेनार्षेण वा तथा ॥ १ ॥
इति ॥ छन्दोगपरिशिष्टे : दैवेन तीर्थे च हूयते हविः स्वङ्गारिणि स्वर्च्चिषि तच्च पावके । इति ॥
योऽनर्च्चिषि जुहोत्यग्नौ व्यङ्गारिणि च मानवः ।
मन्दाग्निरामयावी च दरिद्रश्चोपजायते ॥ १ ॥
इति ॥ तथा प्रपञ्चसारे -
हुते तु देशिकः पश्चान्मण्डले बलिमाहरेत् ।
नक्षत्राणां सवाराणां सराशीनां यथाक्रमं ॥ १ ॥
दद्याद्बलिं गन्धपुष्पधूपदीपकमादरात् ।
ताराणामश्विन्यादीनां राशिः पादाधिकं द्वयम् ॥ २ ॥
मेषादियुक्त नक्षत्र संज्ञापूर्वमनन्तरम् ।
देवताभ्यः पदं प्रोक्त्वा दिवानक्तं वदेत्तथा ॥ ३ ॥
चारिभ्यश्चाथ सर्वेभ्यो भूतेभ्यो वै नमो वदेत् ।
एवं राशौ तु सम्पूर्णे तस्मिंस्तद्वत् प्रयोजयेत् ॥ ४ ॥
तथा राश्यधिपानां च ग्रहाणां तत्र तत्र च ।
सप्तानां करणानां च दद्यान्मीनाह्वमेषयोः ॥ ५ ॥
अन्तराले बलिस्त्वेवं सम्प्रोक्तः कलशात्मकः ।
पुनर्निवेद्यमुद्धृत्य पूर्ववत् परिपूज्य च ॥ ६ ॥
मुखवासादिकं दत्त्वा तदा तद्युक्तया पुनः ।
स्तुत्वा यथावत् प्रणमेद्भक्तियुक्तस्तु साधकः ॥ ७ ॥
इति ॥ मीनाह्वमेषयोरन्तराले ईशानपूर्वदिशोर्मध्ये ॥ तथा तन्त्रराजे -
प्राच्यां मेषवृषौ वह्नौ मिथुनं दक्षिणे तथा ।
कुलीरसिंहो च तथा नैर्-ऋत्यां कन्यका स्थिता ॥ १ ॥
तुलाकीटौ पश्चिमतो धनुर्वायौ तु संस्थितम् ।
नक्रकुम्भावुत्तरतो मीनमीशे तु संस्थितम् ॥ २ ॥
इति श्रीमहामहोपाध्यायभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्य- श्रीभगवच्छङ्कराचार्यशिष्य श्रीविष्णुशर्माचार्यशिष्य श्रीप्रगल्भाचार्यशिष्य श्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे द्वादशः श्वासः ॥ १२ ॥
13. Śvāsa
उत्तरतन्त्रे -
समुत्थायोषसि तिलैर्जुहुयुः सर्पिरन्वितैः ।
पुनः साध्येन मनुना अष्टोत्तरसहस्रकम् ॥ १ ॥
द्रव्यैर्विधानप्रोक्तैर्वा हुनेदष्टाधिकं शतम् ।
शिष्यं स्नातं पञ्चगव्यं पाययेन्मन्त्रवित्तमः ॥ २ ॥
कुण्डस्याभ्याशमानीय दिव्यदृष्ट्यावलोकयेत् ।
हृत्पुण्डरीकाच्चैतन्यं तस्य स्वात्मनि योजयेत् ॥ ३ ॥
आचार्यस्तत अध्वानं षड्विधं शोधयेत् क्रमात् ।
ते कलातत्त्वभुवनार्णपदा मन्त्रपूर्वकाः ॥ ४ ॥
अध्वानः षट् च सम्प्रोक्तास्तेषां लक्षणमुच्यते ।
कला निवृत्तिप्रसुखास्तदध्वा पञ्च कीर्तिताः ॥ ५ ॥
शैवादिनिगमैर्भिन्नास्तत्त्वाध्वानो बहुक्रमाः ।
तत्र शैवानि तत्त्वानि षट्त्रिंशत्प्रमितान्यथ ॥ ६ ॥
वक्ष्यन्ते शिवशक्ती च सदाशिव इतीरितः ।
विद्या चैतानि शुद्धानि शुद्धाशुद्धानि सप्त च ॥ ७ ॥
माया विद्या कला रागः कालो नियतिरेव च ।
पुरुषश्चाप्यशुद्धानि प्रकृतिर्बुद्ध्यहंकृतिः ॥ ८ ॥
मनश्चेन्द्रियदशकं तन्मात्रा भूतपञ्चकम् ।
उक्तानि शैवतत्त्वानि षट्त्रिंशन्मन्त्रवेदिभिः ॥ ९ ॥
अथ वैष्णवतत्त्वानि द्वात्रिंशत्प्रमितानि च ।
वक्ष्यन्ते जीवसहितः प्राणो बुद्धिर्मनस्ततः ॥ १० ॥
दशेन्द्रियाणि तन्मात्रा भूतानां पञ्चकं तथा ।
हृत्पद्मं तेजसां चैव त्रयं चत्वार एव च ॥ ११ ॥
वासुदेवादयः सौराण्युच्यन्ते भूतपञ्चकम् ।
तन्मात्राश्चेन्द्रियाणि स्युर्मनोऽहङ्कारबुद्धयः ॥ १२ ॥
प्रधानं चेति शक्तेस्तु तत्त्वानि स्युर्दशैव हि ।
(निवृत्त्याद्याः कलाः पञ्च ततो बिन्दुकला पुनः ॥ १३ ॥
नादः शक्तिः सदापूर्वः शिवश्च प्रकृतेर्विदुः ।
सप्त तत्त्वानि प्रोक्तानि तन्त्रज्ञैस्त्रिपदात्मनः) ॥ १४ ॥
आत्मविद्याशिवा एते विपरीतास्त एव च ।
सर्वतत्त्वं च सम्प्रोक्तास्तत्त्वाध्वानस्तु देशिकैः ॥ १५ ॥
भुवनानीह सर्वाणि भुवनाध्वा प्रकीर्तितः ।
इति ॥ भुवनानि लोकाः । तेतु कुलार्णवे -
अतलो वितलश्चैव सुतलश्च महातलः ।
रसातलश्च तदनु तलातल इति स्मृताः ॥ १ ॥
पातालो भूर्भुवः स्वश्च महर्जनतपाह्वयाः ।
सत्यलोकश्च सम्प्रोक्ता लोका एते यथाक्रमम् ॥ २ ॥
आदिक्षान्तांस्तथा वर्णान् वर्णाध्वानं प्रचक्षते ।
पदाध्वा वर्णवृन्दं स्यान्मन्त्राध्वा पदसंचयः ॥ ३ ॥
शिष्ये स्मरेत् तान् पादान्धुनाभिहृद्भालमूर्धसु ।
कूर्चेन च गुरुः शिष्यं स्पृशन् कुण्डे स्वके हुनेत् ॥ ४ ॥
तिलैर्घृताक्तैस्ताराद्यममुकाध्वानमत्र च ।
शोधयामि द्विठान्तेन मन्त्रेणाष्टाहुतीः पृथक् ॥ ५ ॥
इति ॥ कुलार्णवे -
शूद्रसंकरजातीनां नाध्वशुद्धिर्विधीयते ।
पादोदकप्रदानाद्यैः कुर्यात् पापविमोचनम् ॥ १ ॥
इति ॥ तथा -
षडध्वनः क्रमात् सम्यक् प्रविलाप्य शिवावधि ।
सृजेत् सृष्ट्या विलीनांस्ताञ् शिवान्तांश्च गुरूत्तमः ॥ १ ॥
प्. २५८) देशिकेन्द्रश्च तं शिष्यं दृष्ट्या दृष्ट्वा च दिव्याय ।
तच्चैतन्यं स्थितं तस्मिंस्तस्मिन्नेव नियोजयेत् ॥ २ ॥
हुनेन्महाव्याहृतिभिस्ततो देशिकसत्तमः ।
अङ्गप्रभृत्या वृतीनां हुनेद्भूयो घृतेन वै ॥ ३ ॥
भूरग्नये च पश्चाच्च पृथिव्यै च युतो मनुः ।
भुवः स्याद्वायवे चान्तरिक्षाय च युतो मनुः ॥ ४ ॥
स्वरादित्याय च दिवे च युतो मनुरीरितः ।
भूर्भुवःस्वश्चन्द्रमसे नक्षत्रेभ्यश्च पूर्वतः ॥ ५ ॥
दिग्भ्यस्ततो वदेदेष मन्त्रः प्रोक्तस्तुरीयकः ।
महते च द्विठान्ताः स्युर्महाव्याहृतिमन्त्रकाः ॥ ६ ॥
महते इति पदं भूरित्यादिचतसृष्वप्यन्वेति । द्विठः स्वाहाकारः ॥
ब्रह्मार्पणाह्वमन्त्रेण सर्वकर्मच्छिदे सुधीः ।
जुहुयादाहुतीरष्टौ केवलाज्येन मन्त्रवित् ॥ ७ ॥
वदेदितः परं पूर्वप्राणबुद्धिस्ततो वदेत् ।
देहधर्माधिकारं च जाग्रत्स्वप्नसुषुप्तिषु ॥ ८ ॥
वदेत् स्वावस्थासु मनसा वाचा पदमुद्धरेत् ।
कर्मणा चैव हस्ताभ्यां पद्भ्यामुक्त्वोदरेण च ॥ ९ ॥
वदेच्छिश्ना च यच्छब्दं स्मृतं यत्पदमुच्चरेत् ।
उक्तं य यत्कृतं तच्च सर्वं ब्रह्मार्पणं भव ॥ १० ॥
तु स्वाहान्तश्च सम्प्रोक्तो ब्रह्मार्पणमनूत्तमः ।
हुत्वा पूर्णाहुतिं मन्त्री स्रुचा मूलाणुना ततः ॥ ११ ॥
इति । ब्रह्मार्पणमन्त्रः प्रयोगे स्पष्टीक्रियते । कपिलपञ्चरात्रे -
अर्चयित्वा यथान्यायं जुहुयाद्वै पुनः सुधीः ।
न्यूनातिरिक्तपूर्णार्थं ददामि सघृतं तिलम् ॥ १ ॥
विष्णुबीजं समुच्चार्य साङ्गं कुरुकुरु द्विठः ।
यानुलोमाष्टमं वर्णं षष्ठोपान्त्यस्वराकुलम् ॥ २ ॥
प्रणवेन समायुक्तं विष्णुबीजं प्रकीर्तितम् ।
इति । यानुलोमाष्टमो हकारः षष्ठस्वरः ऊकारः उपान्त्यस्वरो बिन्दुः ॥ शैवागमे -
कृत्वा तु मृडनामाग्निमभ्यर्च्य प्रयतः पठेत् ।
सहस्रार्चिर्महातेजः नमस्ते बहुरूपधृक् (त्) ॥ १ ॥
सर्वाशिने सर्वगते पावकाय नमोऽस्तु ते ।
त्वं रौद्रो रौद्रकर्मा च घोरहा त्वं नमामि ते ॥ २ ॥
विष्णुस्त्वं लोकपालोऽसि शान्तिमत्र प्रयच्छ मे ।
सर्पिषा स्रुचमापूर्य पुष्पं चोपर्यधोमुखम् ॥ ३ ॥
स्रुगुपरि स्रुचं दत्त्वा पुष्पं तत्र प्रदापयेत् ।
सव्योत्तरकराभ्यां च सम्पुटाभ्यां च शङ्खवत् ॥ ४ ॥
संगृह्योत्थाय संलग्नौ नाभौ तिर्यङ्निधाय च ।
पूर्णादर्वीति मन्त्रेण मूलेन च सुसंयतः ॥ ५ ॥
दद्यात् पूर्णाहुतीस्तिस्रः सर्वकामप्रपूरणीः ।
इति । पुष्पदानं स्रुगुपरि ॥ तदुक्तं वायवीयसंहितायाम् -
ततो होमावशिष्टेन घृतेनापूर्य वै स्रुचम् ।
निधाय पुष्पं तस्याग्रे स्रुवेणाधोमुखेन ताम् ॥ १ ॥
सदर्भेण समाच्छाद्य मूलेनाञ्जलिना ततः ।
वौषडन्तेन जुहुयाद्धारां जपसमन्विताम् ॥ २ ॥
इति । पूर्णादर्वीति शाखाविशेषे वैदिकहोमे । मूलेन वौषडन्तेन ।
स्वाहाकारं ततो होमे पूर्णायां वौषडेव हि इति तदीयवचनात् ।
हुत्वा च हविषा दद्यात् स्रुचा पूर्णाहुतित्रयम् ।
वौषडन्तेन मन्त्रेण वैष्णवेन सुरोत्तमम् ॥ १ ॥
इति हयशीर्षपञ्चरात्रवचनाच्च ॥ घृताभावे तु नारदपञ्चरात्रे -
अभावे तु घृतस्यैव होमद्रव्येण पूरयेत् ।
तस्योपरि घृतं दद्यात्तदूर्ध्वं कुसुमादिकम् ॥ १ ॥
इति ॥ देवीहोमे तु पूर्णायागे -
आज्येन स्रुवमापूर्य तेनापूर्य स्रुचं ततः ।
तदूर्ध्वेऽधोमुखं कृत्वा स्रुवमुत्थाय मन्त्रवित् ॥ १ ॥
ऋजुकायस्तयोर्मूलं नाभिमूले निधाय च ।
मूलं नमोन्तमुच्चार्य वामपादपुरःसरम् ॥ २ ॥
दद्यात् पूर्णाहुतीर्मन्त्री परामृतधिया ततः ।
प्. २५९) इति ॥ गणेश्वरपरामर्शिन्याम् -
ओं भो भो वह्ने महाशक्ते सर्वकर्मप्रसाधक ।
कर्मान्तरेऽपि संप्राप्ते सन्निधिं कुरु सादरम् ॥ १ ॥
इति मन्त्रेण संप्रार्थ्य वह्निमुद्वासयेदपि ।
इति ॥ उत्तरतन्त्रे -
पुनः सम्पूज्य गन्धाद्यैर्मूलमन्त्रेण मन्त्रवित् ।
कुण्डादुद्वास्य चाचार्यो देवतां कलशे न्यसेत् ॥ १ ॥
साङ्गां सावरणां तत्र पूजयेच्च यथाविधि ।
सप्तव्याहृत्याग्निजिह्वादीनामेकाहुतिं क्रमात् ॥ २ ॥
हुत्वाद्भिः परिषिच्याग्निम् इति ॥ कपिलपञ्चरात्रे -
ततो ब्रह्माणमुद्वास्य ब्राह्मणाय प्रदापयेत् ।
द्वात्रिंशत्पलताम्रेण निर्मितं ताम्रपात्रकम् ॥ १ ॥
तण्डुलेन समापूर्य सहिरण्यं सदक्षिणम् ।
गुरुर्वृताय तत्तस्मै पूर्णपात्रं विदुर्बुधाः ॥ २ ॥
इति ॥ उत्तरतन्त्रे -
संयोज्यात्मनि मन्त्रवित् ।
ततः परिस्तरानग्नौ परिधीन् निक्षिपन्नतु ॥ १ ॥
नित्ये नैमित्तिके तास्तु क्षिपेद्देशिकसत्तमः ।
वस्त्रेण नेत्रमन्त्रेण शिष्यनेत्रे निबध्य च ॥ २ ॥
कुण्डाद्धस्ते समादाय नयेन्मण्डलसन्निधौ ।
सुमनोभिः प्रपूर्यास्य ह्यञ्जलि क्षेपयेद्घटे ॥ ३ ॥
मूलमन्त्रोच्चारपूर्वं देवताप्रीतये गुरुः ।
नेत्रबन्धमपास्योपवेशयेत् कुशसंस्तरे ॥ ४ ॥
ततश्च पाठयेच्छिष्यं मन्त्रमेनं गुरुत्तमः ।
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ॥ ५ ॥
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ।
अतः पूजाविधानेन संहरेज्जनयेच्च तम् ॥ ६ ॥
तान् मनूक्ताञ्शिशोर्देहे न्यासान् सर्वान् प्रविन्यसेत् ।
पञ्चोपचारैरभ्यर्च्य कलशस्थेष्टदेवताम् ॥ ७ ॥
तन्त्रोक्तवर्त्मना तत्र सकलीकृतिमाचरेत् ।
अथोपवेशयेच्छिष्यं भूषितं मण्डलान्तरे ॥ ८ ॥
कुम्भास्यस्थसुरद्रूंश्च मूर्ध्नि न्यस्य शिशोर्गुरुः ।
अथ पञ्चनिनादैश्च विप्राशीर्वचनैः सह ॥ ९ ॥
सुस्थितं नियतात्मानं सिञ्चेत् कलशपुष्करैः ।
येन प्रकारेण पुरा पूरितश्च सुधारसैः ॥ १० ॥
तोयैरक्षरसंयुक्तैर्घटस्तेनैव वर्त्मना ।
तथैवैनं चाभिषिञ्चेदाशु संपदवाप्तये ॥ ११ ॥
गृहीत्वाभ्यर्चितं पूर्वं करकं ह्यस्त्ररूपिणम् ।
तत्तोयैरभिषिञ्चेत् तं रक्षायै देशिकोत्तमः ॥ १२ ॥
जलेन शिष्टेन शिशुं गुरुराचामयेत् ततः ।
तद्देवतास्वरूपं च विदध्यात् सकलीकृतिम् ॥ १३ ॥
वाससी विमले रम्ये परिधायाज्ञया गुरोः ।
आचम्य निकटे तस्य निविशेद्वाग्यतः शिशुः ॥ १४ ॥
गुरुः सम्पूज्य शिष्यस्थदेवतां भावयंस्तयोः ।
ऐक्यं गुरुर्विनीतस्य सम्यक् तस्य मनुं त्रिशः ॥ १५ ॥
दक्षकर्णे वदेद्विद्वान् विप्रायोदकपूर्वकम् ।
अन्येभ्यस्तु वदेदेवमेवं मन्त्री विचक्षणः ॥ १६ ॥
इति ॥ अगस्त्यः -
स्वयंज्योतीर्मयीं विद्यां गच्छन्तीं भावयेद्गुरुः ।
आगतां भावयेच्छिष्यो धन्योऽस्मीति विशेषतः ॥ १ ॥
इति ॥ तथा -
अष्टोत्तरशतं शिष्यः प्रजपेद्गुरुणोदितम् ।
अष्टाविंशतिवारं वा ह्यष्टकृत्वोऽथवा जपः ॥ १ ॥
गुरुदेवात्ममन्त्राणामैक्यं शिष्यो विभावयेत् ।
प्रणामं विभवे कुर्यात् साधको भक्तिमान् मुहुः ॥ २ ॥
सोऽष्टाङ्गश्चाथ पञ्चाङ्गः पूजाकर्मसु संमतः ।
हस्ताभ्यां चरणाभ्यां च जानुभ्यां वक्षसा तथा ॥ ३ ॥
मूर्ध्ना दृष्ट्या तथा वाचा चित्तेनाष्टाङ्ग ईरितः ।
हस्तजानुशिरोवाक्यधीभिः पञ्चाङ्ग ईरितः ॥ ४ ॥
आचार्याज्ञां ततः कुर्यात् सद्यः शिष्यो विभाव्य च ।
अलंकारांश्च वासासि दद्यादृत्विग्भ्य आदरात् ॥ ५ ॥
ईश्वरार्पणबुद्ध्या तु द्विजाशीर्भिश्च नन्दितः ।
प्रदद्याद्गुरवे शिष्यो विचार्यार्धं तदर्धकम् ॥ ६ ॥
दशांशं वा प्रदद्याच्च वित्तशाठ्यविवर्जितः ।
तदधीनमना नित्यं तच्चित्तस्तत्परायणः ॥ ७ ॥
प्. २६०) तत्पादाब्जरजोभूषो भवेत् साधकसत्तमः ।
इति ॥ तन्त्रराजे -
गुरवे दक्षिणां दद्यात् प्रत्यक्षाय शिवात्मने ।
सर्वस्वं वा तदर्धं वा तदर्धं वा तदाज्ञया ॥ १ ॥
नचेत्तच्छक्तिसंक्रान्तिः कथमस्य भविष्यति ।
गजाश्वमहिषीमेषपशुदासीमहीयुतम् ॥ २ ॥
सुवर्णं भूषणं वासो भवनं चान्यदीप्सितम् ।
स्वदेहं स्वात्मप्राणांश्च दद्यात् स्वशक्तिभक्तितः ॥ ३ ॥
इति ॥ तथा -
ततो नानाविधैर्भक्ष्यैर्लेह्यैश्चोष्यैस्तथेतरैः ।
ब्राह्मणान् भोजयेत्पश्चात् प्रदद्याद्भूरिदक्षिणाम् ॥ १ ॥
एवं क्रियामयी दीक्षा सम्बद्धात्र निरूपिता ।
इति ॥ अत्रोदकपूर्वकमित्यनेन गोहिरण्यवन्मन्त्रस्य प्रदानं प्रतीयते ।
दानं तु स्वस्वत्वपरित्यागपूर्वकं विधिवत्
परस्वत्वप्रतिपादनरूपं भवति । तत्तु क्वापि शिष्याय मन्त्रं दत्त्वा
पुनस्तं मन्त्रं गुरुर्न जपति नाराधयति च । तं पुनरन्यस्मै
कस्मैचित् न ददाति इति वचनं सम्प्रदायो वा न दृश्यते ।
तस्मादुदकदानं त्वौपचारिकमिति वाच्यम् । तर्हि चतुर्णामपि
वर्णानामुदकदानं साधारणं कथं न स्याद् दीक्षायां
विशेषाभावादौपचारिकत्वाच्च । तस्मादुदकदानं
मन्त्रदानरूपमेव । तत्र परस्वत्वापादने कृतेऽपि
स्वस्वत्वापरित्यागराहित्यं तु कन्यादानवद्भवितुमर्हतीत्यास्तां
विचारः ॥
अनन्तरोक्तवर्णात्मदीक्षां वक्ष्ये यथाविधि ।
पुंस्प्रकृत्यात्मकत्वं हि वर्णानां समुदीरितम् ॥ १ ॥
तादृक्त्वं च शरीरस्य प्रोक्तमेवात्र देशिकैः ।
ततस्तनौ शिशोर्न्यसेद्वर्णान् देशिकसत्तमः ॥ २ ॥
संहरेद्वैपरीत्येन वर्णान् तत्स्थानसंस्थितान् ।
देशिकेन्द्रस्य सामर्थ्यादाज्ञया देवतात्मनः ॥ ३ ॥
देवतात्मा भवेच्छिष्यस्तदा संलीनतत्त्वकः ।
ततस्तु शिष्यचैतन्यं परमात्मनि योजयेत् ॥ ४ ॥
तानर्णांस्तत उत्पाद्य न्यसेच्छिशुशरीरके ।
तस्मिंश्च सृष्टिक्रमतस्तच्चैतन्यं पुनर्न्यसेत् ॥ ५ ॥
भवेच्छिष्यो देवतात्मा नित्यानन्दात्मकः शिशुः ।
ज्ञानदार्णमयी दीक्षा कथिता सर्वसिद्धिदा ॥ ६ ॥
अथोच्यते कलात्मा सा दीक्षा दिव्यत्वदायिनी ।
कला निवृत्तिप्रमुखा भूतानां पञ्च चेरिताः ॥ ७ ॥
शिष्यकाये भूतमये वेधयेत् ताः क्रमात् सुधीः ।
पादादिजानुपर्यन्तं निवृत्तिः संस्थिता कला ॥ ८ ॥
जान्वोः सकाशादानाभि प्रतिष्ठाख्या कला स्मृता ।
नाभितः कण्ठपर्यन्तं विद्याख्या संस्थिता कला ॥ ९ ॥
कण्ठतो ह्याललाटं तु शान्त्याख्या संस्थिता कला ।
भालाच्छिरोवधि प्रोक्ता शान्त्यतीता कला तथा ॥ १० ॥
अयथाक्रमतो विद्वान् वेधयेत् स्थानतोऽन्यतः ।
स्थानेष्वीशाज्ञया चैषा कलादीक्षा समीरिता ॥ ११ ॥
अथ वेधात्मिका दीक्षा प्रोच्यते भवमोचनी ।
चतुर्दले स्मरेत् पत्रे मूलाधारे शिशोस्तनौ ॥ १२ ॥
धामत्रितसंयुक्ते त्रिकोणोक्तबिले सुधीः ।
त्रिरावर्तमयीं देवीं विद्युत्पुञ्जस्वरूपिणीम् ॥ १३ ॥
महादेवमयीं साक्षाज्ज्ञानमात्रस्वरूपिणीम् ।
अणोरणीयसीं देवीं चक्रषट्कप्रभेदिनीम् ॥ १४ ॥
सुषुम्नावर्त्मना दिव्यां यान्तीं शिवगृहं प्रति ।
सान्तान् वादीन् दलस्थार्णान् पद्मयोनौ समाहरेत् ॥ १५ ॥
षड्दले कमले तं तु लान्तबाद्यर्णयुग्दले ।
स्वाधिष्ठाने गुरुः सम्यग् योजयित्वा तु वेधयेत् ॥ १६ ॥
तानर्णानानयेद्विष्णौ विष्णुं तं नाभिपङ्कजे ।
फान्तडाद्यर्णसंयुक्ते दिग्दले वेधयेत् स्वयम् ॥ १७ ॥
वर्णांस्तान् योजयेद्रुद्रे रुद्रं तं हृत्सरोरुहे ।
ठान्तकाद्यर्णपत्राब्जे वेधयेदीश्वरे स्वयम् ॥ १८ ॥
वार्णांस्तानाहरेदस्मिन् कण्ठपद्मे च तं तथा ।
कलामयदले पद्मे स्वरान् संयोज्य यत्नतः ॥ १९ ॥
सदाशिवे च संयोज्य तांस्तद्भ्रूमध्यपद्मके ।
द्विदले हक्षसंयुक्ते वेधयित्वा तु देशिकः ॥ २० ॥
हक्षौ तावाहरेद्बिन्दौ कलायामाहरेच्च तम् ।
कलां नादे समायोज्य नादं नादान्तके पुनः ॥ २१ ॥
नादान्तमुन्मनीमध्ये विषुवक्त्रे तथोन्मनीम् ।
विषुवक्त्रं स्वके वक्त्रे संहरेद् देशिकः स्वयम् ॥ २२ ॥
प्. २६१) शक्त्या सहैवमात्मानं नयेत्परशिवावधि ।
देशिकाज्ञावशाच्छिष्यो दग्धाज्ञानस्तदा क्षितौ ॥ २३ ॥
पतेदवाप्तविज्ञानः सर्वज्ञो जायते ततः ।
सदाशिवः स्वयं भूयात् सत्यमेव न संशयः ॥ २४ ॥
ज्ञानप्रदा मया प्रोक्ता दीक्षा वेधात्मिका शुभा ।
चतस्रस्त्वेवमुद्दिष्टा दीक्षाः सम्यक् शुभावहाः ॥ २५ ॥
इति । श्रीकुलार्णवे -
हस्ते शिवपुरं ध्यात्वा जपद् मूलाङ्गमालिनीम् ।
गुरुः स्पृशेच्छिष्यतनुं स्पर्शदीक्षा भवेदियम् ॥ १ ॥
चित्तं तत्त्वे समाधाय परतत्त्वोपबृंहितान् ।
उच्चरेत् संहतान् मन्त्रान् वाग्दीक्षेति निगद्यते ॥ २ ॥
निमील्य नयने ध्यात्वा परतत्त्वं प्रसन्नधीः ।
सम्यक्पश्येद्गुरुः शिष्यं दृग्दीक्षा सा भवेत् प्रिये ॥ ३ ॥
गुरोरालोकमात्रेण भाषणात् स्पर्शनादपि ।
सद्यः संजायते ज्ञानं सा दीक्षा शाम्भवी मता ॥ ४ ॥
ज्ञेया सिद्धान्तशास्त्रार्थसंप्रदायादिहेतुभिः ।
अन्तरेणोपदिष्टा ये मन्त्राः स्युर्विफला यतः ॥ ५ ॥
देवास्तमेव शंसन्ति पारम्पर्यप्रवर्तकम् ।
गुरुमन्त्रागमाभिज्ञं समयाचारपालकम् ॥ ६ ॥
गुरुः शिष्याधिकारार्थ विरक्तोऽपि शिवाज्ञया ।
कञ्चित्कालं विधायैतत् सुशिष्याया समर्पयेत् ॥ ७ ॥
तस्यार्पिताधिकारस्य योगः साक्षात्परे शिवे ।
ततस्तु शाश्वती मुक्तिरिति शङ्करभाषितम् ॥ ८ ॥
तस्मात् सर्वप्रयत्नेन साक्षात् परशिवोदितम् ।
सम्प्रदायमविच्छिन्नं सदा कुर्याद्गुरुः प्रिये ॥ ९ ॥
भुक्तिमुक्तिप्रसिद्ध्यर्थं परीक्ष्य विधिवद्गुरुः ।
पश्चादुपदिशेन्मन्त्रमन्यथा निष्फलं भवेत् ॥ १० ॥
अन्यायेन च यो दद्याद्गृह्णात्यन्यायतश्च यः ।
ददतो गृह्णतो देवि कुलशापो भविष्यति ॥ ११ ॥
गुरुशिष्यावुभौ मोहादपरीक्ष्य परस्परम् ।
उपदेशं ददद्गृह्णन् तौ प्रयातां पिशाचताम् ॥ १२ ॥
अशास्त्रीयोपदेशं तु यो गृह्णाति ददाति च ।
भुञ्जाते तावुभौ घोरान् नरकानेकविंशतिम् ॥ १३ ॥
असंस्कृत्योपदेशं तु यः करोति विमूढधीः ।
विन्यस्यति च तं मन्त्रं सैकते शालिबीजवत् ॥ १४ ॥
अनहं तत्त्वविज्ञानं न तिष्ठति कदाचन ।
तस्मात् परीक्ष्य वक्तव्यमन्यथा निष्फलं भवेत् ॥ १५ ॥
सुशिष्यायातिभक्ताय यज्ज्ञानमुपदिश्यते ।
तत् प्रापयति तत्तत्त्वं गौः क्षीरात्तु घृतं यथा ॥ १६ ॥
धनेच्छाभयलोभाद्यैरयोग्यं परिदीक्षयेत् ।
देवताशापमाप्नोति कृतं च विकृतं भवेत् ॥ १७ ॥
इति ॥ (अथ पूर्णाभिषेकविधिर्लिख्यते) उत्तरतन्त्रे -
पूर्णाभिषेकं वक्ष्यामि साधकानां शुभावहम् ।
विना येनाभिषेकेण साधकः पूर्णबोधताम् ॥ १ ॥
आचार्यत्वं च नाप्नोति सद्गतिं च समीहिताम् ।
तस्माद् गुरुः प्रियं शिष्यं बोधयित्वाभिषेचयेत् ॥ २ ॥
विरच्य विपुलं चक्रं मण्डपेऽतिमनोरमे ।
खारीतोयभृतं कुम्भं स्थापयेच्चक्रमध्यतः ॥ ३ ॥
अन्येषु कलशान् रत्नवस्त्रहेमसमन्वितान् ।
दलेषु विधिवत् स्थाप्य तत्राबाह्येष्टदेवताम् ॥ ४ ॥
अभ्यर्च्य मध्ये चान्येषु चाङ्गावरणदेवताः ।
शिष्यस्य जन्मनक्षत्रे प्राग्वत् तैरभिषेचयेत् ॥ ५ ॥
अयं पूर्णाभिषेकः स्यात् साधकाभीष्टसिद्धिदः ।
इति ॥ खारीप्रमाणं तु स्कन्दपुराणे -
पलद्वयं तु प्रसृतं कुडवं द्विगुणं मतम् ।
चतुर्भिः कुडवैः प्रस्थमाढकं तैश्चतुर्गुणैः ॥ १ ॥
चतुर्गुणो भवेद्द्रोणः कुम्भस्तद्द्वयतः स्मृतः ।
कुम्भैस्तैरष्टभिः खारी -------------------------- ॥ २ ॥
इति ॥ अथ दीक्षाप्रयोगः : तत्रैवं विचार्य विहितकालेषु दीक्षादिनात् पूर्वदिने शिष्यः प्रातःस्नातः कृतनित्यक्रियः समलंकृतः पञ्चवाद्यघोषपुरःसरं ब्राह्मणैः कृतस्वस्तिवाचनः प्रियसुहृद्भिः सार्धं स्वयं गुरुगृहं गत्वा तं विधिवत् प्रणम्य तदाज्ञया प्राणायामपुरःसरम् ओं अद्यामुकमासेऽमुकराशिगते सवितर्यमुकपक्षेऽमुकतिथावमुकगोत्रो ब्राह्मणश्चेदमुकशर्मा क्षत्रियश्चेदमुकवर्मा वैश्यश्चेदमुकगुप्तः शूद्रश्चेदमुकदासोऽहं चतुर्विधपुरुषार्थसिद्धिकामोऽमुकमन्त्रग्रहणं करिष्ये
प्. २६२) इति कुशहस्तः प्राङ्मुख उदङ्मुखो वा सङ्कल्पं विधाय
प्रमाणोक्तमधुपर्कसामग्रीभिः स्वशाखोक्तविधिना श्रीगुरुं
मधुपर्केणाभ्यर्च्य
धौतोत्तरीयप्रच्छदपटस्वर्णांगुलीयककर्णाभरणस्वर्णयज्ञो-
पवीतहारकेयूराङ्गदादिनानाभरणच्छत्रचामरोपानद्युगल-
शययातल्पारतरणसम्पन्नां वरणसामग्रीं गुरुसन्निधौ निधाय
अद्येत्यादि प्राग्वत् तिथ्युल्लेखनान्तेऽमुकगोत्रोऽमुकशर्मेत्यादि
यथावर्णविहितमुच्चार्याहं
चतुर्विधपुरुषार्थसिद्धिकामोऽमुकमन्त्रग्रहणार्थममुकगोत्र-
ममुकवेदान्तर्गतामुखशाखाध्यायिनममुकमेभिर्यथाशक्ति
विहितवरणसाधनैर्गुरुत्वेन वृणे इति गुरुपादयोः प्रणम्य
वरणसामग्रीं निवेदयेत् । ततो वृतोऽस्मीति गुरुणा प्रतिवचने दत्ते
शिष्यः कृताञ्जलिर्यथोक्तं गुरो कर्म कुरुष्वेति ब्रूयात् । ततो गुरुः
करवाणीति प्रतिब्रूयात् । इत्थं गुरुवर्णं विधाय तदनुज्ञयाष्टौ
ब्राह्मणान् वेदवेदाङ्गपारगान् स्वेष्टदेवतोपासकान्
प्रागुक्तगुरुवरणोक्त सामग्रीभिस्तथैव ऋत्विवत्वेन वृणुयात् ।
चतुष्कुण्डपक्षे चत्वार एव ऋत्विजः कार्याः । ततः शिष्येणैवंवृतो
गुरुः कृतनित्यक्रियः समलंकृतः पञ्चवाद्यघोषपुरःसरं
ब्राह्मणैः सुहृज्जनैश्च वृतः शिष्येण सह मण्डपद्वारं गत्वा
तत्र वक्ष्यमाणविधिना द्वारपूजां विधाय तथैव
भूतोत्सादनपूर्वकं मण्डपान्तः प्रविश्य तथैव
पञ्चगव्यार्घ्यतोयप्रोक्षणपूर्वकं
वक्ष्यमाणवीक्षणादिचतुर्भिः संस्कारैः
संस्कृतमण्डपाभ्यन्तरे चन्दनागरुकर्पूरधूपिते
चन्दनसर्षपदूर्वाभस्माक्षतलाजान् अस्त्रमन्त्रेण
सप्तधाभिमन्त्रितान् मण्डपान्तर्विकीर्य अस्त्रमन्त्रेण कुशमुष्टिना
सम्मार्ज्य मण्डपस्येशानकोणे संस्थाप्य ब्राह्मणैः
पुण्याहवाचनं कारयित्वा वास्तुपुरुषपूजादिकं विधाय
भैरवाज्ञापुरःसरं वेदिकायामस्तीर्य वक्ष्यमाणविधिना
सम्पूज्य तत्र प्राङ्मुखोपविष्टः स्वपुरतः सुसमे भूतले वेदिकोपरि
सर्वतोभद्रमण्डलं कुर्यात् । तत्र प्राक्प्रत्यगायता
दक्षिणोत्तरायताश्च सप्तदशसप्तदश रेखाः कृत्वा
षट्पञ्चाशदुत्तरशतद्वयकोष्ठयुतं चतुरस्रमण्डलं कृत्वा
तन्मध्यगतषट्त्रिंशत्कोष्ठान्येकीकृत्य
तद्बहिश्चतुर्दिक्ष्वेकपंक्तिं परितः सम्मार्ज्यैकीकृत्य पीठं
परिकल्प्य तद्बहिश्चतुर्दिग्गतपंक्तिद्वयमेकीकृत्य सम्मार्ज्यं वीथीं
परिकल्प्य सर्वमध्यगतसरोजस्थाने बहिः परितः द्वादशभागं
परित्यज्य सर्वमध्यावलम्बनेन समान्तरालवृत्तत्रयं निष्पाद्य तत्र
सर्ववृत्तमध्यकर्णिकां परिकल्प्य तद्बहिर्गतवृत्तवीथीं
केसरार्थं परिकल्प्य केसरस्थानं षोडशधा विभज्य
तच्चिह्नावलम्बनेन द्वितीयतृतीयवृत्तयोरन्तरालमानसूत्रमानेन
गुरूक्तयुक्त्या षोडशार्धचन्द्रान् परिकल्प्य तेनाष्टदलानि कृत्वा
तृतीयवृत्ताद्बहिस्त्यक्तैकांशतो मध्यचिह्नावलम्बनेन वृत्तान्तरं
निष्पाद्य गुरूक्तयुक्त्या पात्राग्राणि विधायैकैकदलमूले
केसरद्वयं यथा दृश्यते तथा विरच्य पद्मं कृत्वा
पद्मबहिर्गतैकपंक्तिरूपचतुरस्रपीठस्य कोणचतुष्टयेऽपि
कोष्ठत्रयेण कोष्ठत्रयेण पीठपादान्
परिकल्प्यावशिष्टकोष्ठैरेकीभूतैः पीठगात्राणि विधाय
तद्बहिर्गतपंक्तिद्वयकोष्ठानि सम्यक् प्रमार्ज्य
तद्बहिर्गतपंक्तेश्चतुर्दिक्षु मध्ये मध्ये कोष्ठद्वय
कोष्ठद्वयमेकीकृत्य सर्ववाह्यगतपंक्तेरपि चतुर्दिक्षु प्रतिदिशं
कोष्ठचतुष्टयमार्जनेन द्वारचतुष्टय परिकल्प्य
द्वारचतुष्टयस्यापि पार्श्वयोः पंक्तिद्वयगतकोष्ठेषु
अन्तःपंक्तेः कोष्ठत्रयं बहिःपंक्तेः कोष्ठमेकमिति
कोष्ठचतुष्टयमेकीकृत्य शोभां विधाय तत्पार्श्वयोरप्यन्यः
पंक्तेः कोष्ठमेकं बहिःपंक्तेः कोष्ठत्रयमिति कोष्ठचतुष्टयम्
कोष्ठचतुष्टयम् एकीकृत्योपशोभां विधायावशिष्टैः षड्भिः
कोष्ठैश्चत्वारि कोणानि कल्पयेत् इति सर्वतोभद्रमण्डल निर्माय
सरोजकर्णिकाकेसरदलाग्रपीठवीथीद्वारशोभोपशोभाकोणस्थानानि
पञ्चवर्णरजोभिर्भूषयेत् । पञ्चवर्णरजांसि तु - हरिद्राचूर्णं
पीतं रजः तण्डुलचूर्णं शुक्लं कुसुम्भकुसुमचूर्णं रक्तं
दग्धतण्डुलचूर्णं कृष्णं बिल्वपत्रचूर्णं श्याममिति ।
रजोविन्यासप्रकारस्तु : सीमागताः सर्वरेखाः शुक्लरजसा
एकांगुलोत्सेधविस्तारयुताः कार्याः । पीतरजसा कमलकर्णिकां
केसराणि च सम्यक् समापूर्य शुक्लरजसा दलानि च सम्पूर्य
श्यामरजसा दलसन्धीनापूरयेत् । अथवा कर्णिकां पीतेन केसरान्
पीतरक्ताभ्यां दलानि रक्तेन दलसन्धीन् कृष्णेन रजसा सम्पूर्य
पीतेन कृष्णेन वा पीठगर्भमापूर्य पीठपादान् रक्तेनापूर्य
पीठगात्राणि शुभ्ररजसापूर्य वीथीचतुष्टये कल्पवल्लीः
कोरकपुष्पपल्लवफलमण्डिता नानावर्णरजोभिरारचयय शुभ्रेण
रजसा द्वारचतुष्कमापूर्य रक्तवर्णेन द्वारशोभाः
पीतेनोपशोभाः कृष्णेन कोणानि चापूर्य तद्बही
रेखात्रयमेकैकांगुलान्तरालं शुक्लरक्तकृष्णरजोभिः कुर्यादिति
सर्वतोभद्रमण्डलं विधाय वेदीपरितो दीपान् प्रज्वाल्य
वक्ष्यमाणविधिना पूजाद्रव्याण्यासाद्य तथैव तानि संस्कृत्य
छत्रचामरद्वयदर्पणव्यजनादिकं च यथायथं निधाय
गुर्वादिवन्दनपूर्वकं
करशुद्धितालत्रयदिग्बन्धनाग्निप्राकारत्रयभूतशुद्धिप्राण-
प्रतिष्ठामातृकान्यासयोगपीठन्यासमूलमन्त्रन्यासांश्च
विधाय
मुद्राविरचनस्वेष्टदेवताध्यानमानसपूजान्ते
वैश्वदेवमूलमन्त्रजपतत्समर्पणार्घ्यस्थापनात्मपूजान्तर्हवन
मूलमन्त्रजपतत्समर्पणानि विधाय शर्वतोभद्रमण्डलाय नमः
इति मण्डलं गन्धादिपञ्चोपचारैः सम्पूज्यार्घ्यजलेन प्रोक्ष्य तत्र
वक्ष्यमाणविधिना पीठपूजां विधाय तत्कर्णिकां
शालिभिरापूर्यं तण्डुलान् कुशान् दूर्वाः सप्तविंशतिभिः
कुशैरेकीकृताग्रविरचितब्रह्मग्रथिन्कं कूर्चं च निधाय तत्र
वक्ष्यमाणविधिना शालिपुञ्जोपरि वह्निमण्डलं वह्निकलाश्च
सम्पूज्य तत्र स्वर्णादिनिर्मितं त्रिगुणीकृतसूत्रवेष्टितसर्वाङ्गं
चन्दनागरुकर्पूरधूपधूपितं कुम्भं प्रणवमुच्चरन्
संस्थाप्य तत्र पुष्परागनीलवैदूर्यविद्रुममौक्तिकमरकतवज्र-
गोमेदपद्मरागाख्यानि नवरत्नानि ससुवर्णानि निक्षिप्य कुम्भस्योपरि
गन्धाक्षतदूर्वान्वितप्रागुक्तलक्षणं कूर्चं च निधाय तत्र
क्षंलमित्यादिविलोममातृकान्ते मूलमन्त्रं त्रिर्जपन् आत्मनः
कुम्भस्य योगपीठस्य चैवयं भावयन्
वक्ष्माणपञ्चाशदक्षरौषधिक्वाथैरश्वत्थयोदुम्बरप्लक्षवट-
क्वाथैः पलाशवृक्षत्वचाक्वाथैः
कर्पूरचन्दनकस्तूरीकुंकुमवासितैस्तीर्थजलैर्वा कुम्भमापूर्यं
स्वपुरतो वक्ष्यमाणविधिना शङ्खं संस्थाप्य
कुम्भपूरितजलसजातीयजलेनापूर्य तत्र गन्धाष्टकं विलोड्य तत्र
वक्ष्यमाणवह्निकलाः सूर्यकलाः सोमकलाश्चावाह्य तासां पृथक्
पृथक् प्राणप्रतिष्ठां विधाय सम्पूज्य
प्रणवोत्थैकपञ्चाशत्कलाः कलामातृकान्यासोक्ताः सम्पूज्याः ।
तत्र प्रथममकाराद्ब्रह्मण उत्पन्नाः कचवर्गोत्थाः
सृष्ट्यादिदशकलाः समावाह्य हंसः शुचिपदिति ऋचो वामदेव
ऋषिर्जगतीच्छन्दः सूर्यो देवतेति ऋष्यादीन् स्मृत्वा ओं हंसः
शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।
नृपद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा आद्रिजा ऋतं बृहत् ॥ इति
मन्त्रमुच्चार्य ब्रह्मणे नमः इति सम्पूज्य
पूर्वोक्तप्राणप्रतिष्ठामन्त्रेण ममपदस्थाने सृष्ट्यादीनामिति
पदं दत्त्वा सृष्ट्यादीनां प्राणप्रतिष्ठां विधाय ओं कं सृष्ट्यै
नमः इत्यादि दशकलाः सम्पूज्याः ।
उकाराद्विष्णोरुत्पन्नाष्टतवर्गोत्था जरादिदशकलाः समावाह्य ओं
प्रतद्विष्णुरिति मन्त्रस्य दीर्घतमा ऋषिस्त्रिष्टुप्छन्दो विष्णुर्देवता इति
ऋष्यादिकं स्मृत्वा ओं प्रतद्विष्णुः स्तवते वीर्येण मृगो न भीमः
कुचरो गिरिष्ठाः । यस्यारुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि
विश्वा ॥ इति पठित्वा विष्णवे नमः इति सम्पूज्य
प्राग्वज्जरादिदशकलानां प्राणप्रतिष्ठां विधाय ओं टं जरायै
नमः इत्यादिदशकलाः सम्पूज्याः । मकाराद्रुद्रादुत्पन्नाः
पयवर्गोत्थास्तीक्ष्णादिदशकलाः समावाह्य ओं त्र्यम्बकमिति मन्त्रस्य
वसिष्ठ ऋषिरनुष्टुप्छन्दः त्र्यम्बकरुद्रो देवना इति ऋष्यादिकं
स्मृत्वा ओं त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ इति पठित्वा रुद्राय
नमः इति सम्पूज्य तासां प्राणप्रतिष्ठां विधाय ओं पं तीक्ष्णायै
नमः इत्यादिदशकलाः सम्पूज्याः । ईश्वराद्बिन्दोरुत्पन्नाः
षकारादिक्षकारान्ताः पञ्चवर्णोत्थाः पीतादिपञ्चकला आवाह्य
ऋष्यादिस्मरणपूर्वकं गायत्रीमुच्चार्य इश्वराय नमः इति
सम्पूज्य तासां प्राणप्रतिष्ठां विधाय ओं षं पीतायै नमः
इत्यादिपञ्चकलाः सम्पूज्याः ततो नादोत्थाः सदाशिवादुत्पन्नाः
स्वरजा निवृत्त्याद्याः षोडशकलाः समावाह्य विष्णुर्योनिं
कल्पयत्विति मन्त्रस्य त्वष्टा गर्भकर्ता ऋषिरनुष्टुप्छन्दो विष्णुर्देवतेति
ऋष्यादिकं स्मृत्वा ओं विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥ इति पठित्वा शदाशिवाय
नमः इति सम्पूज्य तासां प्राणप्रतिष्ठां विधाय अं निवृत्त्यै
नमः इत्यादिषोडशकलाः सम्पूज्याः । इत्थं चतुर्नवतिदेवताः
शङ्खे सम्पूज्य सकलकलामयं शङ्खजलं मूलमन्त्रेण कुम्भे
संयोज्य ततोऽश्वत्थपनसाम्रपल्लवान् इन्द्रवारुणीलतया संवेष्ट्य
कल्पवृक्षधिया कलशे निधाय तदुपरि कलशसजातीयं
तण्डुलपूर्णं नारिकेलफलाढ्यकल्पवृक्षफलबुद्ध्या पात्रं
संस्थाप्य पट्टवस्त्रयुगेन घटं संवेष्टयेदिति वेद्यां
प्रधानकुम्भस्थापनं विधाय पूर्वादितोरणसमीपे
प्रागुक्तमण्डलेऽपि अष्टदलकमलेषु वा शालिपुञ्जोपरि
प्रागुक्तविधिना प्रतिद्वारमेकमेकं संस्थाप्य तत्र
पूर्वदिग्गतकुम्भे ध्रुवं दक्षिणे धरां पश्चिमे वाक्पतिमुत्तरे
विघ्नेशं च सम्पूज्य तद्वदाग्नेयादिकोणचतुष्टये कुम्भान्
संस्थाप्याग्नेयकुम्भेऽमृतं नैर्-ऋते दुर्जयं वायव्ये
सिद्धार्थमीशाने मङ्गलं च सम्पूज्य पुनः
पूर्वादिकुम्भेष्विन्द्रादिलोकपालानावाह्य वेदोक्ततत्तन्मन्त्रेण
सम्पूज्य पुनः पूर्वाद्यष्टदिक्षु कुम्भाद्बहिः ऐरावतं पुण्रीकं
वामनं कुमुदाञ्जनौ । पुष्पदन्तं सर्वभौमं सुप्रतीकं च
पूजयेत् ॥ इति दिग्गजान् सम्पूज्य पुनर्गुरुर्वेद्यां गत्वा स्वासने
समुपवेश्य स्वेष्टमन्त्रेण प्राणायामत्रयं कृत्वा तस्य
मन्त्रस्यर्प्यादि
करषडङ्गन्यासपूर्वकं सकलन्यासजालं विधाय देवतां ध्यात्वा मानसैरुपचारैः सम्पूज्य प्रधानकुम्भे वक्ष्यमाणप्रकारेण मूर्तिं परिकल्प्य तत्र स्वेष्टदेवतामावाह्य वक्ष्यमाणप्रकारेण षोडशोपचारैः साङ्गावणं तत्तत्कल्पोक्तविधिना सम्पूज्य वेद्या दक्षिणभागे हस्तमात्रायामविस्तारमंगुष्ठपर्वमात्रोच्चं वालुकाभिः समचतुरस्रं स्थण्डिलं कृत्वा वक्ष्यमाणनित्यहोमप्रोक्तविधिना वह्निं संस्थाप्य चरुं श्रपयित्वा तत्र देवतामावाह्य सम्पूज्य नित्यहोमोक्तविधिना साज्येन तेन चरुद्रव्येण हुत्वा पुनर्देवं सम्पूज्य कुम्भस्थमूर्तौ संयोज्य तथैव वह्निं सम्पूज्य विसृज्य वक्ष्यमाणविधिना सर्वभूतबलिं तत्तत्कल्पोक्तबलिदानं च विधाय देवायोत्तरापोशानादिनीराजनान्तं नित्यपूजोक्तविधिना विधाय प्राणायामत्रय-ऋष्यादिकरषडङ्गन्यासपूर्वकं मूलमन्त्रमष्टोत्तरसहस्रं जपित्वा देवाय वक्ष्यमाणविधिना जपं समर्प्य पूर्वमण्डपस्येशानकोणे स्थापितविकिरपुञ्जोपरि सुवर्णगर्भं वस्त्रयुग्मवेष्टितं जलपूरितं करकं विन्यस्य तत्रास्त्रदेवतां सिंहरूपां दक्षवामकरयोः खड्गखेटकधारिणीं घोररूपां पश्चिमाभिमुखां ध्यात्वा तिष्ठन् गन्धादिपञ्चोपचारैः सम्पूज्य नमस्कृत्य तं करकं कराभ्यामुद्धृत्य मण्डपाभ्यन्तरे प्रदक्षिणं भ्रमन् करकं स्वस्थाने निवेश्योपविश्यास्त्रमन्त्रेण पुनस्तामस्त्रदेवतां पञ्चोपचारैः सम्पूज्य ततः प्राक्कृतेषु कुण्डेषु इन्द्रेशानयोर्मध्यगताचार्यकुण्डे गुरुरग्निस्थापनं कुर्यात् ॥
तत्रादौ कुण्डं गोमयेनोपलिप्य कुण्डसमीपे नित्यपूजोक्तविधिना स्वासनमास्तीर्य सम्पूज्य तत्रोदङ्मुखः प्राङ्मुखो वोपविश्य मूलमन्त्रेण प्राणायाम-ऋष्यादिकरषडङ्गन्यासान् विन्यस्य देवतां ध्यात्वा मानसोपचारैः सम्पूज्य मूलं यथाशक्ति जपित्वा जपं समर्प्य श्रीगुरुं प्रणम्य कुण्डसंस्कारान् कुर्यात् ॥ तत्रादौ कुण्डं मूलमन्त्रेण वीक्ष्यास्त्रमन्त्रेणप्रोक्ष्यास्त्रेणैव कुशैस्त्रिः संताड्य कवचेनाभ्युक्ष्यास्त्रेण कुण्डमध्ये किञ्चित् खात्वास्त्रमन्त्रेण तां मृदमंगुष्ठानामिकाभ्यां उद्धृत्य बहिस्त्यक्त्वा हृन्मन्त्रेण शुद्धमृत्तिकया खातमापूर्य अस्त्रमन्त्रेण समीकृत्य कवचमन्त्रेण जलैः संसिच्यास्त्रमन्त्रेण काष्ठादिना कुट्टयित्वा दृढीकृत्य कवचमन्त्रेण कुशैः कुण्डं सम्मार्ज्य कवचेनैव गोमयाद्भिः संलिप्य कवचेनैवाग्निसूर्यसोमानामष्टात्रिंशत्कलारूपं सञ्चिन्त्य कवचेनैव मेखलात्रयेऽपि त्रिगुणीकृतसूत्रेण प्रतिमेखलं त्रिस्त्रिः संवेष्ट्य ओं अमुककुण्डाय एतदासनं नमः इत्याद्यासनादिदीपान्तैरुपचारैः प्रथमचतुरस्रादितत्तत्कुण्डनाम्ना चतुर्थीनमोऽन्तेन सम्पूज्य तथैव नाभिं च सम्पूज्य मेखलात्रयं तथैव हृन्मन्त्रेण सम्पूज्यास्त्रमन्त्रेण कुण्डं वज्रवद्दृढं सञ्चिन्त्य हृन्मन्त्रेण कुशैः कुण्डस्य चतुर्दिक्षुवह्निज्वालाविलासाय चतुष्पथं मार्गचतुष्ट्यं परिकल्प्य कवचमन्त्रेणाच्छिन्नाग्रैः कुशैरस्त्रमन्त्राभिमन्त्रितैः कुण्डभित्तिगणं सर्वमाच्छादयन् अक्षपाटनं कुर्यात् इत्यष्टादश संस्कारान् कुर्यात् । अशक्तौ प्रथमोदितैश्चतुर्भिरेव संस्कारैः कुण्डं संस्कृत्य तत्र हृन्मन्त्रेणास्त्रमन्त्रेण वा दक्षिणमध्योत्तरेषु प्रागग्राः पश्चिममध्यपूर्वेषूदगग्रा इति तिस्रस्तिस्रो रेखाः कुशमूलेन विलिख्य प्रणवेनाभ्युक्ष्य प्रागग्रासु रेखासु दक्षिणरेखायां विष्णवे नमः । मध्यरेखायां रुद्राय नमः । उत्तरस्याम् इन्द्राय नमः । उदगग्रासु रखासु पश्चिमायां ब्रह्मणे नमः । मध्यमायां सूर्यायनमः । पूर्वरेखायां सोमाय नमः । इति सम्पूज्य तत्र वक्ष्यमाणयोगपीठक्रमेण मण्डूकादिपरतत्त्वान्तं योगपीठं सम्पूज्य तत्र पद्मकेसरेषु स्वाग्रादिप्रादक्षिण्येन मध्यान्तं ओं जयायै नमः । एवं विजयायै नमः । अजितायै नमः । अपराजितायै नमः । नित्यायै नमः । विलासिन्यै नमः । दोग्ध्र्यै नमः । अघोरायै नमः । मङ्गलायै नमः इति सम्पूज्य । ह्रीं सर्वशक्तिकमलासनाय नमः इति मध्ये पुष्पाञ्जलिं निक्षिप्य तत्र भुवनेश्वरीं तत्तन्मन्त्रेणावाह्यावाहनादिपरमीकरणान्तं तत्तन्मुद्रया विधायासनादिषोडशोपचारैराराध्य तत्र श्रीशिवं ध्यात्वा मूलमन्त्रेण तथैव सम्पूज्य देवीमृतुस्नातां देवं च कामोन्मत्तं विचिन्त्य स्वर्णादिपात्रेण मृत्पात्रं चेत् नूतनेन सूर्यकान्तादिभवमरणिभवं श्रोत्रियगृहाद्वाग्निमस्त्रमन्त्रेण पात्रे कृत्वा कवचमन्त्रेण सजातीयेन पात्रान्तरेणपिधाय कन्यया सुवासिन्या वा समानीतं गुरुरादायास्त्रमन्त्रेणैकमङ्गारं तन्मध्यात् क्रव्यादांशं नैर्-ऋतकोणे परित्यज्य देवांशं मूलेन वीक्ष्यास्त्रेण प्रोक्ष्यास्त्रेण कुशैः संताड्य कवचेनाभ्युक्ष्य तत्र स्वमूलाधारस्थवह्निमण्डलगतपरमात्मस्वरूपाग्नीषोमात्मकाद् विन्दोः सकाशाद्बहिं मणिपूरगतजाठरानलेन सह सुषुम्नामार्गेण वहन्नासापुटाध्वना निष्कास्य रमिति वह्निबीजमुच्चरन् पुरतः पात्रस्थिते वह्नौ
वह्निचैतन्यं संयोज्य औदर्यवैन्दवपार्थिववह्नीनामैक्यं
विभावयन् प्रणवेनाभिमन्त्र्य वमिति
धेनुमुद्रयामृतीकृत्यास्त्रमन्त्रेणसंरक्ष्य कवचेनावगुण्ठ्य ओं
रं वह्नये नमः इति गन्धादिभिः सम्पूज्य जानुभ्यामवनिं
गतस्तत्पात्रं कराभ्यामादाय कुण्डोपरि त्रिःप्रदक्षिणं
परिभ्राम्य देव्या योनौ शिववीजमिति ध्यायन स्वाभिमुखं
कुण्डमध्ये प्रणवमुच्चरन् तमग्निं निक्षिप्य मैथुनधिया
देवदेव्योराचमनं दत्त्वा ओं चित्पिङ्गल हनहन पचपच दहदह
सर्वज्ञाज्ञापय स्वाहा इति मन्त्रमुच्चरन् मुखेन फूत्कृत्य
कुशैरग्निं प्रज्वाल्य काष्ठैः पट्टकृत्य कृताञ्जलिस्तिष्ठन् ओं अग्निं
प्रज्वलितं वन्दे जातवेदं हुताशनम् । सुवर्णवर्णममलं
समिद्धं सर्वतोमुखम् ॥ इति ज्वलन्तं वह्निमुपस्थाय
वक्ष्यमाणवह्निमन्त्रेण प्राणायामत्रयं कृत्वा शिरसि भृगु-ऋषये
नमः । मुखे गायत्रीछन्दसे नमः । हृदये अग्नये देवतायैः नमः ।
गुह्ये रंबीजाय नमः । पादयोः स्वाहाशक्तये नमः इति विन्यस्य
दीक्षाङ्गहोमे विनियोगः इति कृताञ्जलिर्वदेत् । लिङ्गे सरयूं हिरण्यायै
नमः । गुदे षरयूं कनकायै नमः । शिरसि शरयूं रक्तायै
नमः । मुखे वरयूं कृष्णायै नमः । नासिकायां लरयूं
सुप्रभायै नमः । नेत्रयोः ररयूं रक्तायै नमः । सर्वाङ्गे
यरयूं बहुरूपायै नमः इति सप्तजिह्वा विन्यस्य ओं सहस्रार्चिष
हृदयाय नमः । स्वस्तिपूर्णाय शिरसे स्वाहा । उत्तिष्ठपुरुषाय
शिखायै वषट् । धूमव्यापिने कवचाय हुं । सप्तजिह्वाय नेत्रत्रयाय
वौषट् । धनुर्धरायास्त्राय फट् । इति षडङ्गानि विन्यस्य शिरसि अग्नये
जातवेदसे नमः । वांमांसे अग्नये सप्तजिह्वाय नमः ।
वामपार्श्व अग्नये हव्यवाहनाय नमः । वामकट्यां अग्न्ये
अश्वोदरजाय नमः । लिङ्गे अग्नये वैश्वानराय नमः । दक्षकट्यां
अग्नये कौमारतेजसे नमः । दक्षपार्श्वे अग्नये विश्वमुखाय नमः ।
दक्षांसे अग्नये देवमुखाय नमः इति मूर्तीर्विन्यस्य वह्निरूपं
स्वात्मानं ध्यात्वा सप्तजिह्वामुद्रां प्रदर्श्य कुण्डस्योत्तरभागे
कुशास्तरे स्रुवस्रुवौ प्रोक्षणीपात्रे आज्यस्थाली चरुस्थाली परिधित्रयं
समित्पञ्चात्मकमिध्मं लूनमूलसाग्रकुशमुष्टिरिति
पात्राण्यधोमुखानि संस्थाप्य अन्यान्यपि दध्यक्षतादिबलिद्रव्याणि
गन्धपुष्पादिपूजाद्रव्याणि च यथायथं संस्थाप्याधोमुखानि
स्रुक्स्रुवादीनि
सपवित्राधोमुखहस्तसेकरूपावीक्षणपूर्वकमुत्तानीकृत्य
प्रणीतपात्रं प्रक्षाल्य स्वपुरतः कुशास्तरे निधाय
शुद्धजलैरापूर्य तत्र गन्धाक्षतान् निक्षिप्य प्रादेशमात्रं
साग्रं कुशद्वयं मध्ये ब्रह्मग्रन्थियुतं जलाग्रे उत्तराग्रं
पवित्रं निधाय करद्वयानामिकांगुष्ठाभ्यां पवित्रं मूलाग्रे
विधृत्यास्त्रमन्त्रमुच्चरन् पवित्रमध्येन जलं पात्राद्बहिस्त्रिवारं
निक्षिपेत् ॥ इत्युत्पवनं विधाय तन्मध्ये किञ्चित् घृतं निक्षिप्य
तत्पात्रं कराभ्यामामस्तकमुद्धृत्य कुण्डस्योत्तरभागे कुशास्तरे
विधाय तदुपरि प्रागग्रान् दर्भान् निक्षिपेत् इति प्रणीतापात्रं
संस्थाप्य प्रोक्षणीपात्रं प्रक्षाल्य शुद्धजलैरापूर्य तन्मध्ये
प्रणीतापात्रजलं पात्रान्तरेणोद्धृत्य किञ्चिद्दत्त्वा तेन जलेन
मूलमन्त्रेण सर्वाणि पात्राणि होमद्रव्याणि पूजाद्रव्याणि च
प्रोक्षयेत् इति द्रव्यासादनं विधाय प्रोक्षणीयजलेनाग्निं
परिषिच्यागर्भैश्चतुर्भिर्दर्भैः प्राचीदिशमारभ्य
प्राच्यामुत्तराग्रैरीशानाद्याग्नेयान्तं परिस्तीर्य पुनर्दक्षिणस्यां
प्रागग्रैः पूर्वपरिस्तरणमूलमग्रैराच्छादयन् पुनः
पश्चिमायामुत्तराग्रैर्दक्षिणपरिस्तरणमूलं मूलेनाच्छादयन्
पुनरुत्तरस्यां प्रागग्रैः पश्चिमपरिस्तरणाग्रं
पूर्वपरिस्तरणग्रमग्रेण च परिस्तीर्य परिधित्रयमादाय सर्वतः
स्थूलं पश्चिम उत्तराग्रं ततः कनिष्ठं दक्षिणे पूर्वाग्रं
पश्चिमपरिधेर्मूलोपरि मूलं यथा भवति तथा पुनस्ततोऽपि
कनिष्ठमुत्तरस्यां पूर्वाग्रं पश्चिमपरिधेरग्रोपरि मूलमिति
कुण्डस्य मध्यमेखलोपरि परिस्तरणोपरि परिधित्रयं निक्षिपेत् । अथ
पश्चिममेखलायां तु परिस्तरणपरिधिस्थापनं
योनिनालोर्ध्वमेखलयोरन्तराले कार्यमिति । पश्चिमपरिधौ ओं ब्रह्मणे
नमः । दक्षिणपरिधौ ओं विष्णवे नमः । उत्तरपरिधौ ओं रुद्राय नमः
। इति सम्पूज्य स्वेष्टदेवतादीक्षितं ब्राह्मणमाहूय कुण्डस्य
दक्षिणे भागे कुशासने समुपवेश्य
अमुकगोत्रोऽमुकशर्माहममुकगोत्रामुकवेदान्तर्गतामुकशाखा-
ध्यायिनममुकशर्माणं ममेष्टदीक्षाङ्गभूतहोमकर्मणि
कृताकृतावेक्षणाय ब्रह्मत्वेन त्वां वृणे इति
वस्त्रालङ्कारादिभिर्वृणुयात् । ततस्तं गन्धादिभिः सम्पूज्य
ब्राह्मणालाभे कुशवटुं वा सम्पूज्य
वह्निमन्त्रेणार्ध्यपाद्याद्याचमनीयमधुपर्कपात्राणि संस्थाप्य
संस्कृत्य कुण्डमध्ये षट्कोणगर्भितकर्णिकं सकेसरं
चतुर्द्वारयुक्तचतुरस्रत्रयवेष्टितमष्टदलकमलं
वह्नेः पूजापीठं विभाव्य तत्र प्रागुक्तविधिना मण्डुकादिपरतत्त्वान्तं योगपीठं समभ्यर्च्य अष्टदलकेसरेषु स्वाग्रादिप्रादक्षिण्येन पीतायै नमः श्वेतायै० अरुणायै० कृष्णायै० धूम्रायै० तीव्रायै० विस्फुलिङ्गिन्यै० रुचिरायै० ज्वालिन्यै० नमः इति मध्यान्तं नवशक्तीः सम्पूज्य रं सर्वशक्तिकमलासनाय नमः इति समस्तं पीठं सम्पूज्य तन्मध्ये वह्निं
करैर्वरस्वस्तिकशक्त्यभीतीर्दधानमम्भोजगतं त्रिनेत्रम् ।
सिन्दूरवर्णं तपनीयभूषं वह्निं जटाभूषितमौलिमीडे ॥ १ ॥
इति ध्यात्वा सप्तजिह्वामुद्रां प्रदर्श्य ओं वैश्वानर जातवेद
लोहिताक्ष सर्वकर्माणि साधय स्वाहा अग्नये नमः इत्यग्निं त्रिः
पुष्पाञ्जलिना सम्पूज्य पुनर्वह्निमन्त्रमुच्चार्याग्नये एतदासनं
नमः एवमग्ने एष ते अर्धः स्वाहा एतत्ते पाद्यं नमः एतत्ते
आचमनीयं स्वधा एष ते मधुपर्कः स्वधा एतत्ते पुनराचमनीयं
स्वधा एतत्ते स्नानं नमः इति
पुरश्चरणमुखमूर्धादिवसर्वाङ्गोद्देशेन मेखलाया बहिः
पात्रान्तरे अर्घ्यपाद्यादिस्नानान्तां वह्नेस्तत्तदङ्गभावनां
परिकल्प्य पुनराचमनीयं दत्त्वा वह्नावेव वस्त्रं दत्त्वा
पुनराचमनीयं दत्त्वा यज्ञोपवीतं निवेद्य बहिः पुनराचमनीयं
दत्त्वा गन्धपुष्पे वह्नावेव निवेदयेत् इति
वह्निमन्त्रेणासनादिपुष्पान्तानुपचारानुपचर्य षट्कोणेषु
देवाग्रादिकोणमारभ्य मध्यान्तं सरयूं हिरण्यायै नमः ।
षरयूं कनकायै नमः । शरयूं रक्तायै नमः । वरयूं
कृष्णायै नमः । लरयूं प्रभायै नमः । ररयूं अतिरक्तायै
नमः । यरयूं बहुरूपायै नमः इति सम्पूज्य अष्टदलकेसरेषु
अग्नीशासुरवायव्यदेवताग्रतदादिचतुर्दिक्षु ओं सहस्रार्चिषे हृदयाय
नमः । ओं स्वस्तिपूर्णाय शिरसे स्वाहा नमः । ओं उत्तिष्ठपुरुषाय
शिखायै वषट् नमः । ओं धूमव्यापिने कवचाय हुं नमः ।
सप्तजिह्वाय नेत्रत्रयाय वौषट् नमः । ओं धनुर्धरायास्त्राय फट्
नमः । इति षडङ्गानि सम्पूज्य अष्टदलेषु देवाग्रादिप्रादक्षिण्येन ओं
अग्नये जातवेदसे नमः । एवं अग्नये सप्तजिह्वाय० अग्नये
हव्यवाहनाय० अग्नयेऽश्वोदरजाय० अग्नये वैश्वानराय० अग्नये
कौमारतेजसे अग्नये विश्वमुखाय० अग्नये देवमुखाय नमः इति
प्रादक्षिण्येनाष्टमूर्तीः सम्पूज्य तद्बहिश्चतुरस्रे इन्द्रादीन्
सायुधान् सम्पूज्य पुनर्वह्निमन्त्रेण वह्निं सम्पूज्य धूपदीपादि
दत्त्वा नैवेद्यमुत्सृज्याग्नौ प्रक्षिप्य प्राग्वदाचमनीयं दत्त्वा ततः
स्रुक्स्रुवौ प्राञ्चावधोमुखावग्नौ संताप्य तयोरग्रं
कुशाग्रैर्मध्यं मध्यैर्मूलं मूलैरिति त्रिः सम्मृज्याग्नौ तान्
प्रक्षिप्य स्रुक्स्रुवौ स्वदक्षिणभागे कुशास्तरे निधाय
आज्यस्थालीमादायास्त्रमन्त्रेण प्रक्षाल्य स्वपुरतः कुशास्तरे
निधाय तदुपर्युत्तराग्रं प्रादेशमात्रं मध्ये ब्रह्मग्रन्थियुतं
कुशद्वयरूपं पवित्रं निधाय पात्रान्तरस्थं शुद्धं गोघृतं
दुर्गन्धादिदूषणरहितं वीक्षणादिचतुःसंस्कारैः संस्कृतं
वमिति धेनुमुद्रयामृतीकृतं
मूलेनाष्टधाभिमन्त्रितमाज्यस्थाल्यां निक्षिप्य
कुण्डादङ्गारानुद्धृत्य मेखलाया बहिर्भूमौ वायव्यकोणे
निक्षिप्य तेष्वाज्यस्थालीं हृन्मन्त्रेण निधाय कुशद्वयं प्रज्वाल्य
हृन्मन्त्रेणाज्ये निक्षिप्य शेषमग्नौ निक्षिप्य पुनर्दर्भद्वयं
प्रज्वाल्य कवचमन्त्रेणाज्यस्थालीमभितः परिभ्राम्य
दग्धशेषमग्नौ निक्षिप्य पुनः कुशान् प्रज्वाल्य हृन्मन्त्रेणाज्ये
प्रदर्श्य दग्धशेषमग्नौ निक्षिप्य आज्यस्थालीमुद्धृत्य
प्रादक्षिण्येन कुण्डं परितो भ्रामयन् आनीय स्वपुरतः कुशास्तरे
निधाय बाह्यस्थानङ्गारान् कुण्डमध्ये निक्षिप्य अपः
संस्पृश्यांगुष्ठानामिकाभ्यां करद्वयेन पवित्रं मूलाग्रे
धृत्वा मन्त्रमुच्चरन् पवित्रमध्येन घृतमुत्पूय हृन्मन्त्रमुच्चरन्
तथैव पवित्रमध्येन स्वाभिमुखं घृतं त्रिः संप्लाव्य
तत्पवित्रमाज्यस्थाल्यां प्रागग्रं मध्ये निवेश्य भागद्वयं
कृत्वा दक्षिणभागं शुक्लपक्षं वामभागं कृष्णपक्षं
परिकल्प्य पुनस्तथैव वामभागे इडां दक्षिणभागे पिङ्गलां
मध्ये सुषुम्नामिति नाडीत्रयं सञ्चिन्त्य स्रुवेण दक्षिणभागात्
हृन्मन्त्रेणाज्यमादाय अग्नये स्वाहा इति वह्नेर्दक्षिणनेत्रे हुत्वा
अग्नये इदं न मम इत्युद्देशत्यागं विधाय पुनर्हृन्मन्त्रेण
वामभागादाज्यं गृहीत्वा सोमाय स्वाहा इति वह्नेर्वामनेत्रे हुत्वा
सोमाय इदं न मम इत्युद्देशत्यागं विधाय पुनर्हृदयमन्त्रेण
मध्यादाज्यं गृहीत्वा ओं अग्नीषोमाभ्यां स्वाहा इति
वह्नेर्ललाटलोचने हुत्वा इदमग्नीषोमाभ्यां न मम
इत्युद्देशत्यागं कृत्वा पुनर्दक्षिणभागाद्धृदाज्यं गृहीत्वा
अग्नये स्विष्टकृते स्वाहा इति वह्नेर्वक्त्रे हुत्वा अग्नये स्विष्टकृते इदं न
मम इत्युद्देशत्यागं विधाय ओं भूः स्वाहा आग्नये इदं न मम ओं
भूवः स्वाहा वायवे इदं न मम ओं स्वः स्वाहा
सूर्याय इदं न मम ओं भूर्भुवःस्वः स्वाहा प्रजापतये इदं न मम ओं वैस्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साध्य स्वाहा इति वह्निमन्त्रेण वारत्रयं हुत्वा अग्नये इदं न मम इत्युद्देशत्यागं कृत्वा ओं अग्नेर्गर्भाधानं सम्पादयामि स्वाहा एवं पुंसवनं सीमन्तोन्नयनम् इति प्रतिकर्माज्याहुत्यष्टकं हुत्वा वागीश्वराज्जातं वह्निं प्रागुक्तरूपं ध्यायन् अग्नेर्जातकर्म० इत्यष्टावाज्याहुतीर्हुत्वा वह्नेर्नालच्छेदं कृत्वा सूतकं संशोध्य वह्नेर्नामकरणं सं० इत्यष्टावाज्याहुतीर्हुत्वा शिवाग्निरिति तस्य नाम कृत्वा ओं वह्नेरुपनिष्क्रमणं सं० अग्नेरन्नप्राशनं स० अग्नेश्चौलं सं० अग्नेरुपनयनं सं० अग्नेर्महानाम्न्यं सं० अग्नेर्महाव्रतं सं० अग्नेरौपनिषदं सं० अग्नेर्गोदानं सं० अग्नेः समावर्तनं सं० अग्नेरुद्वाहं सम्पादयामि स्वाहा इति प्रतिकर्माष्टावाज्याहुतीर्हुत्वा वह्नेर्गर्भाधानाद्युद्वाहान्तान् संस्कारान् विधाय वह्नेः पितरौ देवदेव्यौ प्राग्वत् सम्पूज्य विसृज्य मूलाग्रेषु घृतसंसिक्ताः पञ्चसमिधस्तूष्णीमेकदेवाञ्जलिना वह्नौ समर्प्यं ओं सरयूं हिरण्यायै स्वाहा एवं षरयूं कनकायै.० शरयूं रक्तायै० वरयूं कृष्णायै० लरयूं सुप्रभायै० ररयूं अतिरक्तायै० यरयूं बहुरूपायै० । ओं सहस्रार्चिषे हृदयाय स्वाहा एवं स्वस्तिपूर्णाय शिरसे० उत्तिष्ठपुरुषाय शिखायै० धूमव्यापिने कवचाय० सप्तजिह्वाय नेत्रत्रयाय० धनुर्द्धराय अस्त्राय० । ओं अग्नये जातवेदसे स्वाहा एवं अग्नये सप्तजिह्वाय० अग्नये हव्यवाहनाय० अग्नये अश्वोदराय० अग्नये वैश्वानराय० अग्नये कौमारतेजसे० अग्नये विश्वमुखाय० अग्नये देवमुखाय० इति जिह्वाङ्गमूर्तिमन्त्रैरेकैकामाहुतिं दत्त्वा ओं लं इन्द्राय स्वाहा इन्द्राय इदं न मम एवं अग्नये० यमाय० निर्-ऋतये० वरुणाय० वायवे० कुवेराय० ईशानाय० ब्रह्मणे० अनन्ताय० वज्राय० शक्तये० दण्डाय० खड्गाय० पाशाय० अंकुशाय० गदायै० शूलाय० पद्माय० चक्राय० । एवं तत्तन्नामभिरेकैकामाहुतिं हुत्वा सर्वत्र तत्तन्नामोद्देशत्यागं कुर्यात् । ततः स्रुवेणाज्यमादाय चतुर्वारं निक्षिप्याधोमुखं स्रुचो मुखे निधायोत्थाय प्रागुक्तवह्निमन्त्रमुच्चार्य स्वाहास्थाने वौषडित्यग्नौ तिष्ठन् स्रुचा हुत्वोपविश्य ओं स्वाहा ओं श्रीं स्वाहा ओं श्री ह्रीं स्वाहा ओं श्रीं ह्रीं क्लीं स्वाहा ओं श्रींह्रींक्लींग्लौं स्वाहा ओं श्रींह्रींक्लींग्लौंगं स्वाहा ओं श्रींह्रींक्लींग्लौंगं गणपतये स्वाहा ओं श्रींह्रींक्लींग्लौंगं गणपतये वरवरद स्वाहा ओं श्रींह्रींक्लींग्लौंगं गणपतये वरवरद सर्वजनं मे स्वाहा ओं श्रींह्रींक्लींग्लौंगं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा इति दशधा विभक्तेन महागणपतिमन्त्रेण दशाहुतीर्हुत्वा ओं श्रींह्रींक्लींग्लौंगं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा इति समस्तव्यस्तमन्त्रेण चतस्र आज्याहुतीर्जुहुयात् । इत्यग्निस्थापनविधिः ॥
इत्थग्निस्थापनं विधाय नूतनताम्रादिपात्रमस्त्रमन्त्रेण
प्राक्षल्य तत्र मूलमन्त्रेणाष्टधाभिमन्त्रितांस्तण्डुलान्
पञ्चदशप्रसृतिमितान् त्रिःप्रक्षालितानस्त्रमन्त्रं जपन्निक्षिप्य तत्र
गोदुग्धं वाष्पं यावत्तावत् पक्वं भवति तावन्निक्षिप्य
प्रक्षालितेन पात्रेण कवचमन्त्रमुच्चरन् तत्पात्रवदनं पिधाय
यदा तद्दुग्धं वाष्पवशादुपर्यायाति तदा मेक्षणेन
प्रदक्षिणमूर्ध्वमवघट्टयन् मूलमन्त्रं स्मरन् प्राङ्मुखो
गुरुश्चरुं पचित्वा शृते तस्मिन् मूलमन्त्रेणाज्यं स्रुवेण निक्षिप्य
कवचमन्त्रेण तत्पात्रमवतार्य अस्त्रमन्त्रेणाभिमन्त्रितं कुशास्तरे
चरुं निक्षिप्य त्रिधा विभज्यैकं भाग देवाय कुम्भस्थाय निवेद्य
मण्डपपरितः पुर्वमंकुरार्पणकर्मणि कृतांकुरभाजनानि
निक्षिप्य घृतपूर्णान् पिष्टमयदीपांश्च निधाय कुण्डसमीपं
गत्वा स्वासने समुपविश्य तत्र वक्ष्यमाणविधिना
मूलमन्त्रेणार्घ्यादिपात्रस्थापनं विधाय कुण्डमध्ये
वह्नेर्मुखे पूजाचक्रं विभाव्य तत्र वक्ष्यमाणविधिना
मण्डूकादिपीठमन्वन्तं सम्पूज्य तत्र देवतामावाह्य
वक्ष्यमाणविधिना साङ्गं सावरणं सर्वोपचारैः पूजयेत् ।
अत्रर्घ्यादिस्नानान्तमग्निपूजावदेव कुण्डाद्बहिः पात्रान्तरे
देवमुद्दिश्य कल्पयेत् । अन्यत्सर्वं कुण्डमध्ये एव कल्पयेत् । ततो
मूलमन्त्रेण वह्निदेवतयोर्वक्त्रैकाकरणार्थं
पञ्चविंशत्याज्याहुतीर्हुत्वा स्वात्माग्निदेवतानामैक्यं विभावयन्
मूलेन नाडीसन्धानार्थमेकादशवारं घृतैर्हुत्वा
षडङ्गावरणदेवतानामेकैकामाहुतिं हुत्वा
प्राङ्निर्मितचरोस्तृतीयांशं नवधा विभज्यैकांशेन मूलेन
पञ्चविंशतिधा हुत्वा प्रागादिदिक्स्थकुण्डेषु ऋत्विग्भिः
प्रागुक्तविधिनाष्टादशसंस्कारैः संस्कृतेषु गुरुः
स्वकुण्डादग्निमुद्धृत्योद्धृत्य निक्षिपेत् । ऋत्विजश्च स्वस्वकुण्डे वह्निं
प्रागुक्तविधिना प्रज्वाल्योपस्थाय
परिषेचनपरिस्तरणपरिधिप्रक्षेणपूजादिभिः सम्यक्परितोष्य समिद्धे
तस्मिन्
प्. २६८
स्वेष्टदेवतानित्यपूजोक्तविधिना देवमावाह्य ताम्बूलान्तैरुपचारैः सम्यक् सम्पूज्य वक्त्रैकीकरणनाडीसन्धानाङ्गावरणहोमान्ते मूलमन्त्रेण गुरुणा विभज्य दत्तेन घृतमिश्रेण पायसेन पञ्चविंशतिधा स्वस्वकुण्डे जुहुयुः ॥
अथ गुरुः सर्वतोभद्रमण्डलस्य पूर्वादिवीथीचतुष्टये
मेषादिराशिस्थानेषु प्राच्यां मेषवृषौ आग्नेययां मिथुनं
दक्षिणे कर्कटसिंहौ नैर्-ऋते कन्यां पश्चिमे तुलावृश्चिकौ वायव्ये
धनुः उत्तरे मकरकुम्भौ ईशाने मीनः इति विभक्तेषु राशिस्थानेषु
राश्यधिनाथेभ्यो ग्रहेभ्यो नक्षत्रेभ्यः करणेभ्यश्च हुतशेषेण
पायसेन बलिं दद्यात् । यथा मेषवृश्चिकस्थानयोः
कंखंगंघंङं मेषवृश्चिकराश्यधिपतये मङ्गलाय एष
गन्धपुष्पांकुशः पायसबलिर्नमः । एवं चं ५
वृषतुलाराश्यधिपतये शुक्राय एष० । टं ५
मिथुनकन्याराश्यधिपतये बुधाय एष० । यं १०
कर्कटराश्यधिपतये सोमाय एष० । अं १६ सिंहराश्यधिपतये
सूर्याय एष० । तं ५ धनुर्मीनाधिपतये गुरवे एष० । पं ५
मकरकुम्भाधिपतये शनैश्चराय एष गन्धपुष्पाक्षतयुक्तः
पायसबलिर्नमः ॥ पुनः क्रमेण मेषादिस्थानेषु
मेषराश्यंशभूताश्विनीभरणीकृत्तिकापादनक्षत्रदेवताभ्यो
दिवानक्तंचरेभ्यः सर्वेभ्यो भूतेभ्यः एष गन्ध० इत्यादि प्राग्वत् ।
एवं
वृषराश्यंशभूतकृत्तिकापादत्रयरोहिणीमृगशिरोर्धनक्षत्र-
देवताभ्यो० । मिथुनराश्यंशभूतमृगशिर-
उत्तरार्धाद्रापुनर्वसुपादत्रयनक्षत्रदेवताभ्यो । एवमग्रेऽपि
मन्त्रा ऊह्याः ॥ ततो मीनमेषयोरन्तराले ववकरणाय एष० इत्यादि ।
एवं वृषमिथुनयोरन्तराले वालवाय एष० । मिथुनकर्कयोर्मध्ये
कौलवाय० । सिंहकन्ययोर्मध्ये तैतिलाय० । कन्यातुलयोर्मध्ये गराय०
। वृश्चिकधन्वोर्मध्ये वणिजे० । धनुर्मकरयोर्मध्ये विष्टये एष
गन्धाक्षतपुष्पयुतपायसबलिर्नमः इति बलिं दद्यात् । अत्र
राशिद्वयाधिपतीनां राशिद्वयस्थानेऽपि बलिर्देयः इति सम्प्रदायः ॥
ततो गुरुः कुम्भस्थाय देवायोत्तरापोशानादिनीराजनान्तं
वक्ष्यमाणविधिना कृत्वा स्तुत्वा प्रणम्य क्षमापयेत् : ततस्तृतीयं
भागं शिष्येण सह गुरुर्भुक्त्वा स्वयमाचान्तः स्वाचान्ताय
शिष्याय षडङ्गन्यासयोगेन सकलीकृताय प्रादेशमात्रं
यथोक्तहृन्मन्त्रेणाष्टधाभिमन्त्रितं दन्तकाष्ठं दद्यात् ।
शिष्योऽपि तेन दन्तधावनं विधाय दन्तकाष्ठं प्रक्षाल्य पुरतः
परित्यज्याचम्य गुरोः समीपं गच्छेत् । ततो गुरुः शिष्यं
शिखाबन्धनेन मूलमन्त्राभिमन्त्रितेन संरक्ष्य तेन सार्धं
वेद्यां कुशास्तरणे तस्यां रात्रौ शयनं कुर्यादित्यधिवासः ॥
अत्र प्राक्प्रोक्तविधिनोर्ध्वाम्नायाद्याम्नायदेवतानां दीक्षायां
तत्तन्मन्त्रहोमस्तत्तद्देवतापूजनक्रम ऋत्विग्भिर्विधेयः ।
नवग्रहपूजा तु आगमोक्तैर्वैदिकमन्त्रैर्वा विधेया
ईशानकोणवेद्यां पृथगेवेति सम्प्रदायः ।
पञ्चपषट्कूटविद्याभ्यां शोधितं बहुवासरैः इति क्रमे
प्रोक्तक्रमेणैव दीक्षाप्रयोगक्रमः साधीयान्
तत्राङ्गत्वेनान्यमन्त्राकथनात् ।
षड्दर्शनाङ्गभूतप्रधानविद्यादीक्षाविधौ तु
षड्दर्शनेष्वङ्गत्वेन ये ये मन्त्रा
अभिहितास्तद्रीत्यैवर्त्विक्सामयिकैर्होमजपपूजादयो विधेयाः ॥
गुरुणापि तथैव सङ्गोपाङ्गपूर्णरूपेणोपदेशः कार्यः ।
पूर्णाभिषेकविधिमग्रे तत्प्रकरणे वक्ष्यामः ॥
वैदिकदर्शनप्राधान्येन यत्रोपदेशस्तत्र श्रुतिस्मृत्युक्तविधिनैव
विशेषो बोद्धव्यः अन्यत्साम्यम् ॥
अथ वैदिकदर्शनदीक्षाया आदौ
गणाधिपपूजादिमण्डपपूजाप्रयोगः । तत्रादौ गणेशपूजा :
यजमान् आसनोपर्ययुपविश्याचम्य प्राणायामत्रयं कृत्वा
कुशाक्षतान् हस्ते गृहीत्वा सङ्कल्पं कुर्यात् । तद्यथा :
अद्येत्यादिमासपक्षाद्युल्लेखानन्तरं
करिष्यमाणामुकदेवतामन्त्रदीक्षाकर्ंअणि प्रत्यूहशान्तये
गणपतिपूजनमहं करिष्ये इति सङ्कल्प्यावाहनादिषोडशोपचारैः
गणानां त्वा इति मन्त्रेण गणपतिं सम्पूज्य बद्धाञ्जलिः
प्रार्थयेत् ।
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ १ ॥
पूजा सम्पूर्णतां यातु वाचयित्वा विसर्जयेत् ।
इति ॥ ततः पीठेऽक्षतपुञ्जेषु गौर्यादिषोडशमातृका ब्राह्म्यादिसप्तमातृकाश्च पूजयेत् । तास्तु -
गौरी पद्मा मेधा सावित्री विजया जया ।
देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥ १ ॥
धृतिस्तुष्टिस्तथा पुष्टिरात्मनः कुलदेवता ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ २ ॥
वाराही च तथेन्द्राणी चामुण्डा सप्तमातरः ।
इति । पूजाप्रकारस्तुः : पूजोपकरणान्युपकल्प्य प्राङ्मुख उपविश्य
कुशयवतिलान्यादय अद्येहेत्यादि०
करिष्यमाणमन्त्रदीक्षाङ्गभूततया गौर्यादिषोडशमातृपूजनं
ब्राह्मयादिसप्तमातृपूजनं च करिष्ये इति सङ्कल्प्य अक्षतैः ओं
भूर्भुवःस्वः गौरीहागच्छ इह तिष्ठेत्यावाह्य
स्वशाखोक्तमन्त्रेण प्रतिष्ठाप्य गौर्यै नमः
इदमासनमित्यादिरीत्या पदार्थानुसमयेन सर्वाः
प्रत्येकमुत्तरसंस्थाः पूज्याः । एवं ब्राह्म्याद्या अपि । यदा तु
मातॄणां गणदेवतात्वं तदा प्रत्येकं नाम गृहीत्वा
गौर्यादिभ्य इति चोक्त्वा युगपत्पूजयेत् एवं ब्राह्म्याद्या अपि । ततः
स्वाचारतो वसोः पवित्रमसीति कुण्ड्यलग्नाः पञ्च सप्त वा घृतेन
धाराः कुर्यात् । तत्पूजनमपि केचिदाहुः । ततः शान्तिपाठः । ततो
यथाचारं वृद्धिश्राद्धं सङ्कल्पपूर्वकं स्वशाखोक्तं कुर्यात्
। ततः पुण्याहवाचनम् : तच्चावनिकृतजानुमण्डल इत्यादि पुण्याहं
भवन्तो ब्रुवन्त्विति त्रीन् ब्राह्मणान् श्रावयेत् । ते च पुण्याहमिति त्रिः
प्रतिब्रूयुः । ओं स्वस्ति भवन्तो ब्रुवन्त्विति त्रिः । ओं स्वस्ति इति त्रिः प्रतिवचनम् ।
ओं ऋद्धिं भवन्तो ब्रुवन्त्विति त्रिः । ओं ऋध्वतामिति त्रिः प्रतिवचनम् । ततो
मण्डपाद्बहिः पश्चिमदेशे उपलिप्ते यजमानः प्राङ्मुख
उपविश्याचम्य प्राणानायम्य अद्येहेत्यादि
अमुकदेवतामन्त्रदीक्षाकर्म कर्तुमाचार्यर्त्विजां वरणमहं
करिष्ये इति सङ्कल्प्य आचार्यमुदङ्मुखमुपवेश्य
सिताम्बरहेमकुण्डलसूत्रकेयूरकण्ठाभरणाभिरामं कृत्वा
बद्धाञ्जलिः दीक्षादाने त्वं मे गुरुर्भव इति प्रार्थ्य भवानि इति
तेनोवते
अमुकप्रवरान्वितामुकगोत्रममुकवेदान्तर्गतामुकशाखाध्यायिन-
ममुकशर्माणममुकप्रवरान्वितामुकगात्रोऽमुकशर्माहम्
एभिर्गन्धपुष्पाक्षतताम्बूलहेमाभरणांगुलीयकवासोभिरमुक-
मन्त्रदीक्षादाने गुरुत्वेन त्वां वृणे । वृतोऽस्मीति स वदेत् । एवं
पूर्वकुण्डे गायत्रीहोमार्थमेकमाग्नेयदक्षिणनैर्-
ऋतपश्चिमवायव्यसौम्येशानकुण्डेषु होमार्थं सप्त ब्राह्मणान्
एवं नव ब्राह्मणान् वृणुयात् । ततः पूर्वद्वारपालनार्थं
द्वावृग्वेदिनौ दक्षिणद्वारपालनार्थं द्वौ यजुर्वेदिनौ
पश्चिमद्वारपालनार्थं द्वौ सामगौ उत्तरद्वारपालनार्थं
द्वावथर्वाणौ एवमष्टौ पृथक् पृथग्वृणुयात् । वरणवाक्यं
प्राग्वदेव । एवं पुस्तकाचार्यं वृणुयात् । अत्र द्वारपालकास्तु
सर्वदर्शनसाधारणाः । ततः शुक्लाम्बरधरः
शुक्लमाल्यानुलेपनः सपत्नीकः सशिष्यर्त्विक् आचार्यो मङ्गलघोषे
जायमाने सम्पूर्णकलशहस्तो भद्रं कर्णेभिः इत्यादिमन्त्रघोषण
मण्डपं प्रदक्षिणीकृत्य पश्चिमद्वारेण प्रविश्य मण्डपान्तः
पश्चिम देशे उपविश्याचम्य प्राणानायम्य देशकालौ स्मृत्वा
करिष्यमाणदीक्षादानाङ्गतया अद्य
गणेशपूजामण्डपदेवतास्थापनादि करिष्ये इति सङ्कल्प्य
षोडशोपचारैर्गणेशं प्रपूज्य गौरसर्षपान् सर्वतो
मण्डपान्तर्विकिरेत् । तत्र मन्त्रा रक्षोघ्नाः :
यदत्र संश्रितं भूतं स्थानमाश्रित्य सर्वदा ।
स्थानं त्यक्त्वा तु तत्सर्वं यत्रस्थं तत्र गच्छतु ॥ १ ॥
अपक्रामन्तु भूतानि पिशाचाः सर्वतो दिशम् ।
सर्वेषामविरोधेन ब्रह्मकर्म समारभे ॥ २ ॥
इति पञ्चगव्येन कुशैः सर्वत्र सर्वतः प्रोक्षयेत् शुचि वो हव्येति आपो हि
ष्ठे ति ऋचा । ततः कृताञ्जलिः स्वस्त्ययनं तार्क्ष्यमिति मन्त्रद्वयं
जपेत् । ततः पूर्वस्यां दिशि मण्डपद्वाराद्बहिर्हस्तमात्रे
वटतोरणमाश्वत्थं वा सुदृढनामकं सुशोभननामकं वा
शङ्खाङ्कितम् अग्निमीले पुरोहितमिति निधाय नाम्ना सम्पूज्य
चन्दनादिचर्चितं कृत्वा राहुं बृहस्पतिं तत्र न्यसेत् । तत्रैकः
कलशः स्थाप्यः । तत्र मन्त्राः - महीद्यौरिति भूमिं स्पृशन्
प्रार्थ्य ओषधयः समिति यवान् क्षिप्त्वा आकलशेष्विति आजिघ्र कलशमिति
वा कलशं निधाय इमं मे गङ्गे इति जलेनापूर्य गन्धद्वारां इति
गन्धं या ओषधीरिति सर्वौषधीः ओषधयः समिति यवान्
काण्डात्काण्डादिति दूर्वाः अश्वत्थे वो इति पञ्चपल्लवान् श्योना
पृथिवि इति पञ्च मृदः याः फलिनी रिति फलम् श हि रत्नानीति पञ्च
रत्नानि हिरण्यरूपमिति हिरण्यं क्षिप्त्वा युवा सुवासा इति वस्त्रेण
रक्तसूत्रेण च मुखे वेष्टयेत् । पूर्णा दवीत्युपरि
धान्यपूर्णशरावं निधाय तत्र ध्रुवमावाह्य पूजयेत् ॥ ततो
दक्षिणे औदुम्बरं वा सुभद्रं विकटं वा चक्राङ्कितं तोरणं
इषे त्वोर्जे त्वा इति निधाय नाम्ना पूर्ववत् सम्पूज्य चन्दनादिचर्चितं
कृत्वा सूर्यमङ्गारकं च न्यसेत् । ततः पूर्ववत् कलशं स्थापयित्वा
तत्र धरामावाह्य पूजयेत् ॥ ततः पश्चिमे प्लाक्षमौदुम्बरं वा
सुहोत्रं सुप्रभं पद्माङ्कितं तोरणं शन्नो देवीरिति निधाय
नाम्ना पूर्ववत् सम्पूज्य चन्दनादिचर्चितं कृत्वा शुक्रं बुधं च
तत्र न्यसेत् । पूर्ववत् कलशं निधाय वाक्पतिमावाह्य पूजयेत् ॥ तत
उत्तरे वाटमाश्वत्थं पालाशं वा पूर्णसुकर्मं सुभीमं वा
गदाङ्कितं तोरणम् अग्न आयाहि इति निधाय नाम्ना सम्पूज्य
चन्दनादिचर्चितं कृत्वा सोमकेतुशनींस्तत्र न्यसेत् । ततः पूर्ववत्
कलशं निधाय तत्र विघ्नेशमावाह्य पूजयेत् ॥ ततः पुनः
पूर्वद्वारे द्वारशाखाद्वये कलशद्वयं दध्यक्षतभूषितं
पूर्ववन्मन्त्रैः स्थापयेत् । प्रतिकलशं मन्त्रावृत्तिः ।
ऐरावतकलशद्वयं न्यस्य पूजयेत् । तत्र ऋग्वेदिनौ ऋत्विजौ ।
ऋग्वेदः पद्मपत्राक्षो गायत्र्यः सोमदेवता ।
अत्रिगोत्रस्तु विप्रेन्द्र शान्तिपाठं मखे कुरु ॥ १ ॥
इति प्रार्थ्य प्रत्येकमग्निमीले इति गन्धादिना पूजयेत् । ततः
एह्येहि सर्वामरसिद्धसाध्यैरभिष्टुतो वज्रधरामरेश ।
संवीज्यमानोऽप्सरसां गणेन रक्षाध्वरं नो भगवन् नमस्ते ॥ १ ॥
भो इन्द्रेहागच्छेह तिष्ठेति इन्द्रं साङ्ग सपरिवारं सायुधं सशक्तिकं द्वारकलशे आवाह्य तत्र त्रातारमिन्द्र मितीन्द्रं सम्पूज्य आशुः शिशान इति पीतां एताकां पीतं च ध्वजद्वयमपि पञ्चहस्तदण्डमुच्छ्रयेत् । इन्द्रं वो विश्वतस्परि इति वा मन्त्रः । तत्र सहस्राक्षं मत्तैरावणस्थितं पीतकिरीटकुण्डलधरं दक्षिणवामकरस्थवज्रोत्पलमिन्द्रं ध्यात्वा
इन्द्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः ।
शतयज्ञाधिपो देवस्तस्मै नित्यं नमोनमः ॥ १ ॥
इति नत्वा इन्द्राय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायैतं माष (भक्त) बलिं समर्पयामि इति बलिं दद्यात् ॥ तत आचम्याग्नेये गत्वा पूर्ववत् कलशं निधाय तत्र पुण्डरीकं पूजयित्वाऽमृतं च प्रपूज्य
एह्येहि वैश्वानरहव्यवाह मुनिप्रवीरैरभितोऽभिजुष्ट ।
तेजोवता लोकगणेन सार्धं ममाध्वरं पाहि कवे नमस्ते ॥ १ ॥
भो अग्ने इहागच्छेह तिष्ठेति साङ्गं सपरिवारं सायुधं सशक्तिमग्निं कलशे आवाह्य त्वन्नो अग्ने इत्यग्निं गन्धादिना प्रपूज्य अग्निं दूतमिति रक्तां पताकां रक्तध्वजं पञ्चहस्तदण्डमुच्छ्रयेत् । ततः छागस्थं रक्तं दक्षिणवामकरधृतरक्तकमण्डलुं यज्ञोपवीतिनमग्निं ध्यात्वा
आग्नेयः पुरुषो रक्तः सर्वदेवमयोऽव्ययः ।
धूम्रकेतुरजोऽध्यक्षस्तस्मै नित्यं नमोनमः ॥ १ ॥
इति नत्वा साङ्गायेत्यादिकमुक्त्वा अग्नये एतं माषभक्तवलिं समर्पयामि इति बलिं दद्यात् ॥ तत आचम्य दक्षिणे गत्वा प्रतिद्वारशाखं पूर्ववत् कलशद्वयं संस्थाप्य वामनगजं तत्र न्यस्य पूजयेत् । ततो यजुर्वेदविदावृत्विजौ
कातराक्षो यजुर्वेदस्त्रैष्टुभो विष्णुदैवतः ।
काश्यपेयस्तु विप्रेन्द्र शान्तिपाठं मखे कुरु ॥ १ ॥
इति प्रत्येकं प्रार्थ्य गन्धादिना इषे त्वोर्जे त्वा इति पूजयेत् । ततः
एह्यहि वैवस्वत् धर्मराज सर्वामरैरर्चित धर्ममूर्ते ।
शुभाशुभानन्दशुचामधीश शिवाय नः पाहि मखं नमस्ते ॥ १ ॥
भो यमेहागच्छेह तिष्ठेति साङ्गादिविशिष्टं मयमावाह्य यमाय सोममिति गन्धादिभिः पूजयित्वा कृष्णां पताकां कृष्णं च ध्वजं पञ्चहस्तायतं दण्डं आयं गौरित्युच्छ्रयेत् । ततो महिषारूढं धृतदण्डपाशदक्षिणवामकरद्वयं कृष्णाञ्जनचयनिभमग्निसमनयनं यमं ध्यात्वा
महामहिषमारूढं दण्डहस्तं महाबलम् ।
आवाहयामि यज्ञेऽस्मिन् पूजा मे प्रतिगृह्यताम् ॥ १ ॥
इति नत्वा साङ्गायेत्यादि यमायैतं माषभक्तबलिं समर्पयामि इति बलिं दद्यात् ॥ ततः आचम्य नैर्-ऋत्यां पूर्ववत् कलशं स्थापयित्वा कुमुदगजं दुर्जयं च पूजयित्वा
प्. २७१) एह्येहि रक्षोगणनायकस्त्वं विशालवेतालपिशाचसङ्घैः ।
ममाध्वरं पाहि पिशाचनाय लोकेश्वरस्त्वं भगवन् नमस्ते ॥ १ ॥
भो निर्-ऋते इहागच्छेह तिष्ठेति साङ्गादिविशिष्टमावाह्य मो षु ण इति असुन्वन्तमिति वा निर्-ऋतिं गन्धादिभिः पूजयित्वा नीलां पताकां ध्वजं च पञ्चहस्तदण्डं मा षु ण इत्युच्छ्रयेत् । ततो नरारूढं खड्गहस्तं नीलवर्णं नीलाभरणं निर्-ऋतिं ध्यात्वा
नरारूढं महाकायं खड्गहस्तं महाबलम् ।
नीलं रक्षोगणैर्जुष्टं नीलाभरणभूषितम् ॥ १ ॥
निर्-ऋतिं खड्गहस्तं च सर्वलोकैकनायकम् ।
आवाहयामि यज्ञेऽस्मिन् पूजा मे प्रतिगृह्यताम् ॥ २ ॥
इति नत्वा साङ्गायेत्यादि निर्-ऋतये एवं माषभक्तबलिं समर्पयामि इति बलिं दद्यात् ॥ तत आचम्य पश्चिमद्वारे प्रतिशाखं कलशद्वयं पूर्ववत् स्थापयित्वा अञ्जनं दिग्गजं न्यस्य पूजयेत् । ततः सामवेदविदावृत्विजौ
सामवेदस्तु पिङ्गाक्षो जागतः शक्रदैवतः ।
भारद्वाजस्तु विप्रेन्द्र शान्तिपाठं मखे कुरु ॥ १ ॥
इति प्रार्थ्य गन्धादिना अग्न आयाहि इति पूजयेत् । ततः
एह्येहि यादोगणवारिधीनां गणेन पर्जन्य सहाप्सरोभिः ।
विद्याधरेन्द्रामरगीयमान पाहि त्वमस्मान् भगवन् नमस्ते ॥ १ ॥
भो वरुणेहागच्छेह तिष्ठेति साङ्गादिविशिष्टं वरुणमावाह्य तत्त्वा यामि इति गन्धादिभिः पूजयित्वा श्वेतां पताकां ध्वजं चं इम मे वरुण इत्युच्छ्रवेत् । ततो मकरस्य पाशहस्तं शुक्लवर्णं किरीटधारिणं वरुणं व्याख्वा
पाशहस्तं च वरुणमर्णसां निधिमीश्वरम् ।
आवाहयामि यज्ञेऽस्मिन् वरुणाय नमोनमः ॥ १ ॥
इति नत्वा साङ्गायेत्थादि वरुणायैतं माषभक्तबलिं समर्पयामि इति बलिं दद्यात् ॥ तत आचम्य वायव्यां पूर्ववत् कलशं निधाय पुष्पदन्तं सिद्धार्थं च सम्पूज्य
एह्येहि यज्ञे मम रक्षणाय मृगाधिरूढः सहसिद्धसङ्घैः ।
प्राणाधिपः कालकवेः सहाय गृहाण पूजां भगवन् नमस्ते ॥ १ ॥
भो वायो इहागच्छेह तिष्ठेति साङ्गादिविशिष्टं वायुमावाह्य तव वायवृतस्पते इति गन्धादिना पूजयित्वा धूम्रां पताकां ध्वजं च वायो शतमित्युच्छ्रयेत् । ततो मृगाधिरुढं चित्राम्बरध्वजधरदक्षवामहस्तं वायुं ध्यात्वा
वायुमाकाशगं चैव पवनं वेगवाहनम् ।
आवाहयामि यज्ञेऽस्मिन् पूजेयं प्रतिगृह्यताम् ॥ १ ॥
अनाकारो महौजाश्च पशुदृष्टगतिर्दिवि ।
तस्मै पूज्याय जगती वायवेऽहं नमामि च ॥ २ ॥
इति नत्वा साङ्गायेत्यादि वायवे एतं माषभक्तबलिं समर्पयामि इति बलिं दद्यात् ॥ तत आचम्योत्तरद्वारे प्रतिद्वारशाखं कलशद्वयं प्राग्वत् स्थापयित्वा सार्वभौ?म दिग्गजं न्यस्य प्रपूज्याथर्वविदावृत्विजौ
बृहन्नेत्रोऽथर्ववेदोऽनुष्टुभो गुरुदैवतः ।
वैशम्पायन विप्रेन्द्र शान्तिपाठं मखे कुरु ॥ १ ॥
इति प्रार्थय शन्नो देवीरिति गन्धादिना प्रपूज्य ततः
एह्येहि यक्षेश्वर यज्ञरक्षां विधत्स्व नक्षत्रगणेन सार्धम् ।
सर्वौषधीभिः पितृभिः सहैव गृहाण पूजां भगवन् नमस्ते ॥ १ ॥
भो सोमेहागच्छेह तिष्ठेति साङ्गादिविशिटं सोममावाह्य सोसो धेनुं वयं सोमेति वा पूजयित्वा हरितां श्वेतां पताकां ध्वजं च आप्यायस्व इति न्यस्य नरयुतविमानस्थं कुण्डलहारकेयूररुचिरं वरगदाधरदक्षिणवाम भुजद्वयं मुकुटिनं महोदरं महाकायं हरितवर्णं कुवेरं ध्यात्वा
सर्वनक्षत्रमध्ये तु सोमो राजा व्यवस्थितः ।
तस्मै सोमाय देवाय नक्षत्रपतये नमः ॥ १ ॥
इति नत्वा साङ्गायेत्यादि सोमायैतं माषभक्तबलिं समर्पयामि इति बलिं दद्यात् ॥
तत आचम्य ऐषान्यां पूर्ववत् कलशं निधाय सुप्रतीकं दिग्गजं मङ्गलं च तत्र सम्पूज्य
एह्येहि विश्वेश्वर नस्त्रिशूलखट्वाङ्गधारिन् स्वगणेन सार्धम् ।
लोकेश यज्ञेश्वर यज्ञसिद्ध्यै गृःआण पूजां भगवन् नमस्ते ॥ १ ॥
भो ईशानेहागच्छेह तिष्ठेति साङ्गादिविशिष्ठमीशानमावाह्य तमीशानमिति गन्धादिना प्रपूज्य श्वेतां सर्ववर्णां वा पताकां ध्वजं च अभित्वा देव सवितः इत्युच्छ्रयेत् । ततो वृषारूढं दक्षिणवामहस्तधृतवरत्रिशूलं त्रिनेत्रं शुभ्रवर्णंमीशानं ध्यात्वा
बृषस्कन्धसमारूढं शूलहस्तं त्रिलोचनम् ।
आवाहयामि यज्ञेऽस्मिन् पूजा मे प्रतिगृह्यताम् ॥ १ ॥
सर्वाधिपो महादेव ईशानः शुक्ल ईश्वरः ।
शूलपाणिर्विरूपाक्षस्तस्मै नित्यं नमोनमः ॥ २ ॥
इति नत्वा साङ्गायेत्यादि ईशानायैतं माषभक्तबलिं समर्पयामि इति बलिं दद्यात् ॥
तत आचम्य ईशानपूर्वयोर्मध्येऽधः
एह्येहि पातालधरामरेन्द्र नागाङ्गनाकिन्नरगीयमान् ।
यक्षोरगेन्द्रामरलोकसङ्घैरनन्त रक्षाध्वरमस्मदीयम् ॥ १ ॥
भो अनन्तेहागच्छेद तिष्ठेति साङ्गादिविशिष्टमनन्तमावाह्य आयं
गौरिति गन्धादिभिरभ्यर्च्य मेघवर्णां श्वेतां पताकां ध्वजं
च आयं गौरित्युच्छ्रयेत् ।
अनन्तशयनासीनं फणसप्तकमण्डितम् ।
पद्मशङ्खधरोर्ध्वाधोदक्षभागकरद्वयम् ॥ १ ॥
चक्रगदाधरोर्ध्वांधोवामभागकरद्वयम् ।
इति नीलवर्णमनन्तं ध्यात्वा
योऽसावनन्तरूपेण ब्रह्माण्डं सचराचरम् ।
पुष्पवद्धारयेन्मूर्ध्नि तस्मै नित्यं नमोनमः ॥ १ ॥
इति नत्वा साङ्गायेत्यादि अनन्तायैतं माषभक्तबलिं समर्पयामि इति बलिं दद्यात् ॥
तत आचम्य पश्चिमनैर्-ऋतमध्ये ऊर्ध्वम्
एह्येहि सर्वाधिपते सुरेन्द्रलोकेन सार्धं पितृदेवताभिः ।
सर्वस्य धातास्यमितप्रभावो विशाध्वरं नः सततं शिवाय ॥ १ ॥
भो ब्रह्मन्निहागच्छेह तिष्ठेति साङ्गादिविशिष्टं ब्रह्माणमावाह्य ब्रह्म जज्ञानमिति गन्धादिभिरभ्यर्च्य रक्तां पताकां ध्वजं च तेनैवोच्छ्रित्य अक्षसूत्रकुशमुष्टिधरोर्ध्वाधोदक्षिणकरं स्रुवकमण्डलुधरोर्ध्वाधोवामकरद्वयं चतुर्मुखं श्मश्रुलं जटिलं लम्बोदरं रक्तवर्णं ब्रह्माणं ध्यात्वा
पद्मयोनिश्चतुर्मूर्तिवेदावासः पितामः ।
यज्ञाध्यक्षश्चतुर्वक्त्रस्तस्मै नित्यं नमोनमः ॥ १ ॥
इति नत्वा साङ्गायेत्यादि ब्रह्मणे एतं माषभक्तबलिं समर्पयामि इति बलिं दद्यात् ॥
तत आचम्य मण्डपमध्ये चामरकिङ्किणीयुतात्युच्चदण्डो वा
दशषोडशहस्तदण्डो वा दशहस्तदीर्घं स्त्रिहस्तविस्तारः
पञ्चहस्तदीर्घो हस्तविस्तारो वा महाध्वजो विचित्रवर्णः इन्द्रस्य
वृष्णो इति संस्थाप्यः । ब्रह्म जज्ञानमिति च तत्रैव ब्रह्मपूजनं
कार्यम् । ततो मण्डपषोडशस्तम्भेषु सर्वेभ्यो देवेभ्यो नमः ।
वंशेषु किन्नरेभ्यो नमः । ततः पूर्वस्यां दिशि
किञ्चिद्भूमिमुपलिप्योपविश्य
त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ।
ब्रह्मविष्णुशिवैः सार्धं रक्षां कुर्वन्तु तानि मे ॥ १ ॥
देवदानवगन्धर्वा यक्षराक्षसपन्नागाः ।
ऋषयो मनवोगावो देवमातर एव च ॥ २ ॥
सर्व ममाध्वरे रक्षां प्रकुर्वन्तु मुदान्विताः ।
ब्रह्मा विष्णुश्च रुद्रश्च क्षेत्रपाला गणैः सह ॥ ३ ॥
रक्षन्तु मण्डपं घ्नन्तु रक्षांसि सर्वतः ।
इति त्रैलोक्यस्थेभ्यः स्थावरेभ्यो भूतेभ्यो नमः ।
त्रैलोक्यस्थेभ्यश्चरेभ्यो भूतेभ्यो नमः । ब्रह्मणे नमः । विष्णवे०
शिवाय० देवेभ्यो० दानवेभ्यो० गन्धर्वेभ्यो० यक्षेभ्यो०
राक्षसेभ्यो० पन्नगेभ्यो० ऋषिभ्यो० मनुष्येभ्यो० गोभ्यो०
देवमातृभ्यो नमः । इति प्रत्येकं सम्पूज्य पुष्पादियुतं
पूर्ववन्मन्त्रैरेव तस्यां भूमावेवैतेभ्य एव माषभक्तबलिं
दद्यात् ॥
तत आचार्यः सार्त्विक् प्रक्षालितपादपाणिराचान्तः प्राग्वद्वारेण
मण्डपं प्रविश्य दक्षिणद्वारपश्चिमदेशे उपविश्याचम्य भो
ब्राह्मणा यथाविहितं कर्म कुरुध्वमिति ब्रूयात् । ततो
गुरुर्महावेद्युपरि पुष्पाणि विकीर्य उपरि च वितानं पञ्चवर्णं
फलपुष्पोपशोभितं वेदिमानं बध्नीयात् । ग्रहवेद्यां च
तन्मानं बध्नीयात् सर्वतोभद्रं च लिखेत् ।
पूर्णाभिषेकदीक्षायां तु नवहस्तपरिमितमध्यवेद्यां श्रीचक्रं
तत्तदिष्टदेवताचक्रं वा रचयेत् ।
नवहस्तं त्रिहस्तं वा श्रीचक्रमभिषेचते ।
स्थण्डिले नित्यपूजायां हस्तमात्रं प्रशस्यते ॥ १ ॥
इति तन्त्रराजवचनात् । तस्मिन् पक्षे ग्रहवेदी सर्वतोभद्रमण्डलवेदी
चैशान्यां क्रियते । गुरुमण्डलवेदी वायव्ये मिथुनपूजावेदी आग्नेये
तद्दिननित्यापूजावेदी वास्तुमण्डलसमीपे इति सम्प्रदायः ।
तथात्रावसरे आचार्यः स्वगृहोक्तविधिन । स्वकुण्डेऽग्निस्थापनं
कुर्यात् । तेनैव क्रमेणान्यकुण्डेष्वपि स्वस्वशाखोक्तविधिना
ऋत्विजोऽग्निस्थापनं कुर्युः । गुरुश्च सर्वकर्माध्यक्षस्तिष्ठेत् ।
एवमग्निषु प्रणीतेषु गुरुर्ग्रहवेद्यां सर्वतोभद्रे च अद्येहेत्यादि
दीक्षादानाख्यकर्माङ्गतया मण्डपदेवतास्थापनं करिष्ये इति
सङ्कल्प्य ब्रह्मादीन् स्थापयेत् । मध्ये ब्रह्मा ब्रह्म जज्ञानं
गौतमो वामदेवो ब्रह्मा त्रिष्टुप् ब्रह्मस्थापने पूजने च विनियोगः ।
एवमुत्तरत्र ओं ब्रह्म जज्ञानं । १ । उत्तरे सोमः । २ । ओं अभित्वा देव
सवितः । ३ । पूर्वे इन्द्रः इन्द्रं वो मधुच्छन्दा इन्द्रो गायत्री । ४ ।
आग्नेये अग्निः अग्निं काण्वो मेधातिथिरग्निर्गायत्री अग्निं दूतं
वृणीमहे । ५ । दक्षिणे यमः यमायसोमं वैवस्वतो यमो
यमोऽनुष्टुप् । ६ । नैर्-ऋत्यां निर्-ऋतिः मोषुणो घोरः कण्वो निर्-
ऋतिर्गायत्री । ७ । पश्चिमे वरुणः तत्त्वा यामि शुनःशेपो वरुणस्त्रिष्टुप् ।
८ । वायव्यां वायुः वायो शतं गौतमो वामदेवो वायुरनुष्टुप् । ९ ।
वायुसोममध्येऽष्टौ वसवः ज्मया अत्र मैत्रावरुणो वसिष्ठो
वसवस्त्रिष्टुप् । १० । सोमेशानमध्ये एकादश रुद्राः आ रुद्रासः
श्यावाश्वस्यैकादश रुद्रा जगती आ रुद्रासः । ११ । ईशानेन्द्रमध्ये
द्वादशादित्याः त्यान्नु क्षत्रियान् सांमदो (मत्स्यो) मगे
द्वादशादित्या गायत्री । १२ । इन्द्राग्निमध्ये अश्विनौ अश्विना राहूगणो
गौतमोऽश्विनौ उष्णिक् । १३ । अग्नियममध्ये विश्वेदेवाः सपैतृकाः
ओमासः मधुच्छन्दा विश्वेदेवा गायत्री । १४ । यमनिर्-ऋतिमध्ये
सप्तयक्षाः अभि त्यं वामदेवः सप्तयक्षाः प्रकृतिः ओं अभि त्यं
देवं सवितारमोण्यो कविक्रतुमर्चामि सत्यसवं रत्नधामभिः
प्रियं मतिकविं मतिम् । ऊर्ध्वा यस्या मतिर्भा अदिद्युतत्सवीमनि
हिरण्यपाणिरमिमीतः सुक्रतुः प्रिया स्वः । १५ । निर्-ऋतिवरुणमध्ये
भूतनागाः आयं गौः सार्पंराज्ञी सर्पा गायत्री आयं गौः । १६ ।
वरुणवायुमध्ये गन्धर्वाप्सरसः अप्सरसाम् एतश ऋष्यशृङ्गो
गन्धर्वाप्सरसोऽनुष्टुप् । ओं अप्सरसां गन्धर्वाणां । १७ ।
ब्रह्मसोममध्ये स्कन्दनन्दीश्वरशूलमहाकालाः कुमारं
कुमारः स्कन्दस्त्रिष्टुप् कुमारं माता । १८ । ऋषभं ऋषभो
वैराजोष्नुष्टुप् ऋषभं मा । १९ । ब्रह्मेशानमध्ये दक्षादिः
सप्तकोणे वा अदितिः लोक्यो बृहस्पतिर्दक्षोऽनुष्टुप् ओं अदितिर्ह्यजनिष्ट । २० ।
ब्रह्मेन्द्रमध्ये दुर्गा विष्णुश्च तामग्निवर्णां सौभरिर्दुर्गा
त्रिष्टुप् ओं तामग्निवर्णां । २१ । इदं विष्णुः काण्वो मेधातिथिर्गायत्री
ओं इदं विष्णुः । २२ । ब्रह्माग्नेय मध्ये स्वधा उदीरतां शंखः
स्वधा त्रिष्टुप् उदीरतामवर । २३ । ब्रह्म मध्ये विष्णुमृत्युरोगाः
परं मृत्यो सङ्कसुको मृत्युरोगास्त्रिष्टुप् । २४ ।
ब्रह्मनिर्-ऋतिमध्ये गणपतिः गणानां त्वा गृत्समदो गणपतिर्जगती ।
२५ । ब्रह्मवरुणमध्ये आपः शन्नो अम्बरीषः सिन्धुद्वीप आपो
गायत्री । २६ । ब्रह्मवायु मध्ये मरुतः मरुतो यस्य राहूगणो गौतमो
मरुतो गायत्री । २७ । ब्रह्मणः पादमूले कर्णिकाधः पृथ्वी श्योना
मेधातिथिर्भूमिर्गायत्री । २८ । तत्रैव गङ्गादिनद्यः इमं मे
सिन्धुक्षित् प्रैयमेधो गङ्गायमुनासरस्वत्यो जगती । २९ । तत्रैव सप्त
सागराः धाम्नो धाम्नो राजन्नितो वरुण नो मुञ्च । यदापो अघ्न्या इत्
वरुणेति शपामहे ततो वरुण नो मुञ्च । मयि वायो मोषधीर्हिसीरतो
विश्वव्यचा भूस्त्वेतो वरुण नो मुञ्च । ३० । तदुपरि मेरुं नाम्ना
पूजयेत् । बाह्ये सोमादिसमीपे क्रमेणायुधानि गदां० त्रिशूलं०
वज्रं० शक्तिं० खड्गं० पाशं० अंकुशं० । तद्बाह्ये उत्तरादितः
गौतमः भरद्वाजः विश्वामित्रः कश्यपः जमदग्निः वसिष्ठः अत्रिः
अरुन्धतीति । ८ । तद्बाह्ये पूर्वादि ऐन्द्री कौमारी ब्राह्मी वाराहि
चामुण्डा वैष्णवी माहेश्वरी वैनायकी इत्यष्टौ शक्तयः एतान्
स्वस्वमन्त्रैः प्रतिष्ठाप्य प्रत्येकं सह वा पूजयेत् । एवमग्निं
प्रणीय देवतास्थापनवेद्यां ग्रहादिपञ्चाशीतिदेवतास्थापनं
कुर्यात् । तत्रायं प्रयोगः- अद्येहेत्यादि दीक्षादानाख्यकर्मणि
ग्रहादिपीठदेवतास्थापनमहं करिष्ये । प्रणवस्य परब्रह्म-ऋषिः
परमात्मा देवता देवीगायत्री छन्दः व्याहृतीनां क्रमेण
जमदग्निभरद्वाजभृगवो ऋषयः अग्निवायुसूर्या देवता :
देवीगायत्रीदेवी-उष्णिक् देवीबृहत्यः छन्दांसि सूर्याद्यावाहने
विनियोगः । तत्राग्रपीठमध्ये वर्तुले द्वादशांगुले मण्डले
प्राङ्मुखं सूर्यं रक्तपुष्पाक्षतैः आकृष्णेति हिरण्यस्तूप ऋषिः
सविता देवता त्रिष्टुप् छन्दः सूर्यावाहने विनियगः । अकृष्णेन ओं
भूर्भुवःस्वः कलिङ्गदेशोद्भव काश्यपसगोत्र
सूर्येहागच्छेत्यावाह्येह तिष्ठेति स्थापयेत् । १ । तत आग्नेये चतुरस्रे
चतुर्विंशांगुले मण्डले प्राङ्मुखं सोमं श्वेतपुष्पाक्षतैः
आप्यायस्वेति गौतमः सोमो गायत्री सोमावाहने विनियोगः । ओं
आप्यायस्व० ओं भूर्भुवःस्वः यमुनातीरोद्भव आत्रेयसगोत्र
सोमेहागच्छेत्यावाह्येह तिष्ठेति स्थापयेत् । २ । ततो दक्षिणे त्रिकोणे
त्र्यंगुले मण्डले दक्षिणमुखं भौमं रक्तपुष्पाक्षतैः
अग्निर्मूर्धेति विरूपः आङ्गिरसोऽङ्गारको गायत्री अङ्गारकावाहने
विनियोगः । ओं अग्निर्मूधो ओं भूर्भुवःस्वः सरस्वतीसमुद्भव
भारद्वाजसगोत्र भौमेहागच्छेत्यावाह्येह तिष्ठेति स्थापयेत् । ३ । तत
ऐशाने बाणाकारे चतुरंगुले मण्डले उदङ्मुखं बुधं
पीतपुष्पाक्षतैः उद्बुध्यध्वमिति बुधः सौम्यो बुधस्त्रिष्टुप्
बुधावाहने विनियोगः । ओं उद्बुध्यध्वं ओं भूर्भुवःस्वः
मगधदेशोद्भवात्रेयसगोत्र बुधेहागच्छेत्यावाह्येह तिष्ठेति
स्थापयेत् । ४ । तत उत्तरतो दीर्घचतुरस्रे षडंगुले उदङ्मुखं
बृहस्पतिं पीतपुष्पाक्षतैः बृहस्पते इति गृत्समदो बृहस्पतिस्त्रिष्टुप्
बृहस्पत्यावाहने विनियोगः । बृहस्पतेऽति य ओं भूर्भुवःस्वः
सिन्धुदेशोद्भवाङ्गिरसगोत्र बृहस्पते इहागच्छेत्यावाह्येह तिष्ठेति
स्थापयेत् । ५ । ततः पूर्वे पञ्चकोणे नवांगुले मण्डले प्राङ्मुखं
शुक्रं शुभ्रपुष्पाक्षतैः शुक्र इति पाराशरः शुक्रो द्विपदा विराट्
शुक्रावाहने विनियोगः । ओं शुक्रः शुशुक्वान् ओं भूर्भुवःस्वः
भोजराड्देशोद्भव भार्गवसगोत्र शुक्रेहागच्छेत्यावाह्येह तिष्ठेति
स्थापयेत् । ६ । ततः पश्चिमे धनुषि ह्यंगुले मण्डले प्रत्यङ्मुखं
शनिं कृष्णपुष्पाक्षतैः शमग्निरिति इरिंबिठिः शनैश्चर उष्णिक्
शन्यावाहने विनियोगः । शमग्निः ओं भूर्भुवःस्वः
सौराष्ट्रदेशोद्भव काश्यपसगोत्र शने इहागच्छेत्यावाह्येह तिष्ठेति
संस्थापयेत् । ७ । ततः कृष्णशूर्पमण्डले दक्षिणमुखं राहुं
धूम्रपुष्पाक्षतैः कया न इति वामदेवो राहुर्गायत्री विनियोगः । ओं
कया नः ओं भूर्भुवःस्वः पूर्वदेशोद्भव पाटलिसगोत्र राहो
इहागच्छेत्यावाह्येह तिष्ठेति स्थापयेत् । ८ । ततो वायव्ये ध्वजाकारे
मण्डले दक्षिणमुखान् केतून् कृष्णपुष्पाक्षतैः केतुं कृण्वन् इति
मधुच्छन्दाः केतवो गायत्री केत्वावाहने विनियोगः । ओं केतुं कृण्वन्
ओं भूर्भुवःस्वः मध्यदेशोद्भवा जैमिनिगोत्राः केतव
इहागच्छतेत्यावाह्येह तिष्ठतेति स्थापयेत् ॥ ९ ॥
अथाधिदेवताः श्वेतपुष्पाक्षतैः क्रमात् सूर्यादीनां दक्षिणतः
स्थाप्याः । त्र्यम्बकं वसिष्ठो रुद्रोऽनुष्टुप् । विनियोगः सर्वत्र देयः ।
त्र्यम्बकं ओं भूर्भुवःस्वः ईश्वर० । १ । गौरीर्मिमाय दीर्घतमा
उमा जगती सोमदक्षिणे । २ । यदक्रन्दो दीर्घतमा स्कन्दस्त्रिष्टुप् । ३ ।
विष्णो दीर्घतमा विष्णुस्त्रिष्टुप् । ४ । ब्रह्म जज्ञानं गौतमो वामदेवो
ब्रह्मा त्रिष्टुप् । ५ ।
इन्द्रं वो मधुच्छन्दा इन्द्रो गायत्री । ६ । यमाय सोमं यमो
यमोऽनुष्टुप् । ७ । मोषुणो घोरः कण्वो गायत्री । ८ । उषो वाजं
प्रस्कण्वश्चित्रगुप्तो बृहती । ९ । एवमेव शुक्लपुष्पाक्षतैर्ग्रहाणां
वामे मन्त्रान्ते व्याहृतीरुक्त्वा इहागच्छेह तिष्ठेति चोक्त्वा
प्रत्यधिदेवताः स्थापयेत् । अग्निं काण्वो मेधातिथिरग्निर्गायत्री अग्निं
दूतं । १ । अप्सु मेधातिथिरापोऽनुष्टुप् । २ । स्योना
मेधातिथिर्भूमिर्गायत्री । ३ । इदं विष्णुः मेधातिथिर्विष्णुर्गायत्री । ४
। इन्द्र श्रेष्ठानि गृत्समद इन्द्रस्त्रिष्टुप् । ५ । इन्द्राणी वृषाकपिरिन्द्राणी
पंक्तिः । ६ । प्रजापते नहि हिरण्यगर्भः प्रजापतिस्त्रीष्टुप् । ७ । आयं
गौः सार्पराज्ञी सर्पा गायत्री । ८ । ब्रह्म जज्ञानं गौतमो
वामदेवो ब्रह्मा त्रिष्टुप् । ९ । ततः शुक्लपुष्पाक्षतैर्विनायकादीन्
पञ्च० । गणानां त्वा गृत्समदो गणपतिर्जगती राहोः (वामे)
विनायकम् । १ । जातवेदसे कश्यपो दुर्गा त्रिष्टुप् शनेरुत्तरतो दुर्गां० ।
२ । तववायवृतस्पते आङ्गिरसो वायुर्गायत्री रवेरुत्तरतो वायुं० । एतान्
मन्त्रान् पठन्ति सांप्रदायिकाः । ३ । आदित्यप्रत्नस्य वत्स आकाशो
गायत्री राहोर्दक्षिणे आकाशम् । ४ । एषो उषा प्रस्कण्वोऽश्विनौ गायत्री
अश्विनाविहागच्छतेह तिष्ठतेति केतोर्दक्षिणेऽश्विनौ ॥ ५ ॥
अथ लोकपालाः - इन्द्रं विश्वा जेता माधुच्छन्दस इन्द्रोऽनुष्टुप्
इन्द्रेहागच्छेह तिष्ठेति पूर्वे इन्द्रं० । एवमुत्तरत्र । १ । अग्निः
मेधातिथिरग्निर्गायत्री । २ । यमाय सोमं यमो यमाऽनुष्टुप् । ३ ।
मोषुणो घोरः कण्वो निर्-ऋतिर्गायत्री । ४ । त्वन्नओ अग्ने वामदेवो
वरुणस्त्रीष्टुप् । ५ । तव वायो व्यश्व्यो वायुर्गायत्री । ६ । सोमो धेनुं
गौतमः सोमस्त्रिष्टुप् । ७ । तमीशानं गौतमः सोम ईशानो गायत्री । ८
। शहस्रशीर्षः नारायणोऽनन्तोऽनुष्टुप्
ईशानपूर्वयोर्मध्येऽनन्तम्० । ९ । ब्रह्म जज्ञानं गौतमो
वामदेवो ब्रह्मा त्रिष्टुप् । १० । नैर्-ऋत्यपश्चिमयोर्मध्ये ब्रह्माणम्० ।
१२ । ततः उत्तरे क्षेत्रस्य वामदेवः क्षेत्रपालोऽनुष्टुप् । वास्तोऽपते
वसिष्ठो वास्तीष्पतिस्त्रिष्टुप् । ततः
सामध्वनिशरीरस्त्वं वाहनं परमेष्ठिनः ।
विषपापहरो नित्यमतः शान्तिं प्रयच्छ मे ॥ १ ॥
इत्यनेन चोत्तरे गरुत्मन्तमावाह्य । रवेः पूर्वे शेषं सोमस्याग्रे
वासुकिं भौमाग्रे तक्षकं बुधोत्तरे कार्कोटकं बृहस्पतेरग्रे
पद्मकं शनिपश्चिमे शङ्खपालं राहोः पुरः कम्बलं केतोः
पुरः कुलिकं पीठात् प्राच्यामश्विन्यादिसप्तनक्षत्राणि
विष्कम्भादिसप्तयोगान् वववालवकरणे सप्तद्वीपानि ऋग्वेदं च ।
दक्षिणे पुष्यादिसप्तनक्षत्राणि धृत्यादिसप्तयोगान् कौलवतैतिले करणे
सप्तसागरान् यजुर्वेदं च । पश्चिमे स्वात्यादिसप्तनक्षत्राणि
वज्रादिसप्तयोगान् गरवणिजे करणे सप्तपातालानि सामवेदम् च ।
उत्तरेऽभिजिदादिसप्तनक्षत्राणि साध्यादिषट्योगान् विष्टिकरणं
भूरादिसप्तलोकान् अथर्ववेदं च । वायव्ये ध्रुवं सप्तर्षीश्च । अथ
यथावकाशं गङ्गादिसप्तसरितः सप्त कुलाचलान् अष्टौ वसून्
द्वादशादित्यान् एकादशरुद्रान् एकोनपञ्चाशन्मरुतः षोडश
मातॄः षड्-ऋतून् द्वादश मासान् द्वे अयने पञ्चदश तिथीन् षष्टिं
सम्वत्सरान् नागान्सर्पान् यक्षान् गन्धर्वान् विद्याधरान् अप्सरसः
रक्षांसि भूतानि मनुष्यान् इति । ततो वेद्यैशान्यां कलशं स्थाप्य
तत्र वरुणमावाह्य सम्पूज्यार्च्चयेत् । यथा कलशाभिमन्त्रणम् :
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
मूले तस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥ १ ॥
कुक्षौ तु सागराः सप्त सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥ २ ॥
अङ्गैश्च सहिताः सर्वे कलश तु समाश्रिताः ।
अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा ॥ ३ ॥
आयान्तु यजमानस्य दुरितक्षयकारकाः ।
देवदानवसंवादे मथ्यमाने महोदधौ ॥ ४ ॥
उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम् ।
त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः ॥ ५ ॥
त्वयि तिष्ठन्ति भूतानि त्ययि प्राणाः प्रतिष्ठिताः ।
शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः ॥ ६ ॥
आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः ।
त्ययि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः ॥ ७ ॥
त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव ।
सान्निध्यं कुरु मे देव प्रसन्नो भव सर्वदा ॥ ८ ॥
इति । ततः फलपुष्पमालोल्लसितं वितानं बृहस्पतिदैवतं सूर्यादिभ्य इदं न ममेत्युत्सृज्य ग्रहवेद्युपरि बध्नीयात् । एवं वेदोक्तमण्डपप्रतिष्ठादिकं विदध्यादिति । अन्यत्सर्वं प्रागुक्तविधिना विधेयम् ॥
ततो गुरुः सशिष्यः प्रातरुत्थाय कृतावश्यकक्रियः प्रादेशमात्रं
शिष्याय यथोक्तं दन्तकाष्ठं मूलमन्त्रेण सप्तवाराभि
मन्त्रितं दत्त्वा दन्तधावनं कारयेत् । दन्तान् विशोध्य
दन्तकाष्ठं प्रक्षाल्य पुरश्चतुरस्रे हस्तमात्रे वा स्थण्डिले त्यजेत् ।
ततो गुरुस्तत्परीक्षां कुर्यात् । तत्र शुभाशुभफलानि प्रागेव
प्रमाणनिरुपणे प्रोक्तानि प्रायश्चित्तं चाग्रे वक्ष्यते । ततः शिष्योऽपि
स्नातः कृतपौर्वाह्णिकक्रियः समलंकृतः श्रीगुरुं प्रणम्य
तदाज्ञया तत्पार्श्वे उपविशेत् । ततो गुरुश्च ऋत्विजश्च स्वस्वकुण्डे
तथैव देवं साङ्गं सावरणं सम्पूज्य
सघृतैस्तिलैस्तत्तत्कल्पोक्तपुरश्चरणहामद्रव्यैर्वाऽष्टोत्तरसहस्र-
मष्टोत्तरशतं वा जुहुयुः । ततो गुरुः शिष्यं सूद्रव्यतिरिक्तं
पञ्चगव्यं पाययित्वा कुण्डसमीपं नोत्वा दिव्यदृष्ट्या विलोक्य
तस्य हृदयारविन्दात् जीवात्मानं भूतशुद्ध्युक्तपरिपाट्या तद्देहाद्
ब्रह्मरन्ध्रमार्गात् निःसार्य स्वात्मनि गुरूक्तयुक्त्या योगबलेन
संयोज्य शिष्यषडध्वशोधनं कुर्यात् । तत्र शिष्यस्य पादयोः
कलाध्वानं निवृत्तिप्रतिष्ठाविद्याशान्तिशान्त्यतीताश्चेति
पञ्चकलात्मकं सञ्चिन्त्य ततस्तस्य लिङ्गप्रदेशे
शिवशक्तिसदाशिवेश्वरशुद्धविद्यामायाकलाविद्याकालरागनियति-
पुरुषप्रकृत्यहङ्कारबुद्धिमनःश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाक्-
पाणिपादपायूपस्थशब्दस्पर्शरूपरसगन्धाकाशवायव्यग्निसलिल
पृथिव्यात्मकषट्त्रिंशत्तत्त्वरुपं शिव तत्त्वाध्वानं ध्यायेत् । इति
शैवदीक्षायाम् ॥ वैष्णवदीक्षायां तु - जीवप्राणधियोमन
इन्द्रियदशकं तन्मन्त्राः भूतानां पञ्चकमपि हृत्पद्मतेत्रसां
त्रितयं तद्वच्च वासुदेवप्रमुखाश्चत्वार उपदिष्टा इति ।
इन्द्रियदशकं प्रागुक्तं श्रोत्रादयो वागादयश्च । तन्मात्राश्च
शब्दादयः । भूतपञ्चकमाकाशादि । तेजसां त्रितयं
सोमसूर्याग्निमयं वासुदेवप्रमुखाश्च
वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाश्चत्वारः ॥ सौरदीक्षायां तु
भूततन्मात्रेन्द्रियाणि मनो गर्वश्च बुद्धिश्च धीस्तथा प्रधानं
चेति । इन्द्रियाणि दश ज्ञानक्रमभेदात् । गर्वोऽहङ्कारः । प्रधानं
प्रकृतितत्त्वम् ॥ शक्तिदीक्षायां तु (निवृत्त्याद्याः पञ्च कलाः बिन्दुः
नादः शक्तिः सदाशिवः शिव इति दश तत्त्वानि ॥ त्रिपददीक्षायां तु)
आत्मविद्याशिवा एते विपरीतास्त एव च । सर्वतत्त्वं चेति । विपरीताः
शिवविद्यात्मानः इति क्रमेण त एव च आत्मविद्याशिवा एवेति सप्त तत्त्वानि
। इत्थं तत्तद्दीक्षायां तत्तदध्वानं चिन्तयेदिति ॥
गाणपत्यदीक्षायां तु शैवतत्त्वान्येव ज्ञातव्यानि ॥ ततः शिष्यस्य
नाभौ
अतलवितलसुतलमहातलतलातलरसातलपातालभूर्भुवःस्वर्महर्जनस्-
तपःसत्यलोकात्मकचतुर्दश भुवनाध्वानं सञ्चिन्त्य (ततस्तस्य
हृदये आदिक्षान्तार्णस्वरूपं वर्णाध्वानं भावयेत् । ततः
शिष्यललाटे वर्णसङ्घमयं पदाध्वानं विभावयेत् ।) ततः
शिष्यशिरसि पदसमुदायमयं मूलमन्त्रस्वरूपं मन्त्राध्वानं
भावयेत् इति शिष्यशरीरेऽध्वषट्कं सञ्चिन्त्य तं कूर्चेन स्पृशन्
गुरु स्वकुण्डे ओं अमुकस्य कलाध्वानं शोधयामि स्वाहा इति
घृताक्तैस्तिलैरष्टधा हुत्वा कलाध्वानम् तत्त्वाध्वनि विलीनं
विभाव्य ओं अमुकस्य तत्त्वाध्वानं शोधयामि स्वाहा इत्यष्टधा
हुत्वा तत्त्वाध्वानं भुवनाध्वनि विलीनं विभाव्य पुनः ओं
अमुकस्य भुवनाध्वानं शोधयामि स्वाहा इत्यष्टधा हुत्वा
भुवनाध्वानं वर्णाध्वनि विलीनं विभाव्य पुनः ओं अमुकस्य
वर्णाध्वानं शोधयामि स्वाहा इत्यष्टधा हुत्वा तं पदाध्वनि
विलीनं विभाव्य पुनः ओं अमुकस्य पदाध्वानं शोधयामि स्वाहा
इत्यष्टधा हुत्वा तं मन्त्राध्वनि विलीनं विभाव्य पुनः ओं अमुकस्य
मन्त्राध्वानं शोधयामि स्वाहा इत्यष्टधा हुत्वा तं
ब्रह्मरन्ध्रस्थपरशिवे लीनं विभाव्य पुनः संहृतिप्रतिलोमेन
परमशिवस्य सकाशात् मन्त्राध्वानं सृष्ट्वा ततः पदाध्वानम्
तस्माद्वर्णाध्वानं ततो भुवनाध्वानं तस्मात्तत्त्वाध्वानं
ततः कलाध्वानं च सृष्ट्वा तत्तत्स्थाने संस्थाप्य शिष्यं
दिव्यदृष्ट्या विलोक्य स्वस्मिन् स्थितं शिष्यचैतन्यं ततो हृदयारबिन्दे
आवाहनोक्तप्रकारेण तद्ब्रह्मरन्ध्रे नियोजयेत् । अत्र
शूद्रसङ्करजातीनामध्वशोधनं न कार्यम् । तेषां
पादोदकप्रदानेन शोधनम् कुर्यात् । ततः पूर्ववत् स्वेष्टदेवताया
अङ्गावरणदेवतानां घृतेनैकैकामाहुतिं दत्त्वा ओं भूरग्नये च
पृथिव्यै च महते च स्वाहा ओं भूवो वायवे चान्तरिक्षाय च महते च
स्वाहा ओं स्वरादित्याय च दिवे च महते च स्वाहा ओं
भूर्भुवःस्वश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च
स्वाहा इत्याहुतिचतुष्टयं हुत्वा इतः पूर्वं
प्राणबुद्धिदेहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा
वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत् स्मृतं
यदुक्तं यत्कृतं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा
इत्यष्टावाज्याहुतीर्हुत्वा
ओं सहस्रार्चिर्महातेजा नमस्ते बहुरूपधृक् ।
सर्वाशिने सर्वगत पावकाय नमोऽस्तु ते ॥ १ ॥
त्वं रौद्र घोरकर्मा च घोरहा त्वं नमोस्तु ते ।
विष्णुस्त्वं लोकपालोऽसि शान्तिमत्र प्रयच्छ मे ॥ २ ॥
इत्यग्निं प्रार्थ्य अग्निमन्त्रेण प्राग्वदग्निं सम्पूज्य न्यूनातिरिक्तसिद्ध्यर्थं ददामि सघृतं तिलं ओं हूं साङ्गं कुरुकुरु स्वाहा इति तिलैराहुतिं हुत्वा घृतेन स्रुचमापूर्य तदुपरि पुष्पमधोमुखं स्रुच च निधाय शङ्खवत्सम्पुटाभ्यां कराभ्यां गृहीत्वोत्थाय स्रुवस्रुवयोर्मूलं नाभौ निधाय वौषडन्तेन मन्त्रेणाहुतित्रयं दत्त्वा प्राग्वत्तत्र देवं सम्पूज्य वह्नेः सकाशादुद्वास्य कलशे विसृज्य प्राग्वद् व्याहृत्याग्निजिग्वाङ्गमूर्तिमन्त्रैरेकैकामाज्याहुतिं हुत्वा प्राग्वत् प्रोक्षणीयजलेनाग्निं परिषिच्य
भो भो वह्ने महाशक्ते सर्वकामप्रसाधक ।
कर्मान्तरेऽपि सम्प्राप्ते सान्निध्यं कुरु सादरम् ॥ १ ॥
इत्यग्निं प्रार्थ्य संहारमुद्रया तं स्वात्मन्युद्वास्य परिधीन् परिस्तरणांश्च तूष्णीमग्नौ प्रक्षिप्य प्रणीतापात्रमुद्वास्य स्वपुरतः कुशास्तरे निधाय ओं प्राच्यै दिशे नमः एवं दक्षिणायै० प्रतीच्यै० उदीच्यै० ऊर्ध्वायै दिशे नमः इति तत्तद्दिशि प्रणीताजलमुत्क्षिप्य अधरायै दिशे नमः इति भूमौ जलं निक्षिप्य भूमौ पतितजलेन स्वात्मानं शिष्यं च कुशैः सम्प्रोक्षयेदिति प्रणीतोद्वासनं विधाय ब्रह्माणमुद्वास्य ब्रह्मस्थाने ब्राह्मणाय सहिरण्यं पूर्णपात्रं दापयेत् इति दीक्षाङ्गहोमविधिः ॥ पूर्णपात्रस्वरूपं तु दीक्षाप्रकरणेऽभिहितम् ॥ ततो नेत्रमन्त्रेण शिष्यनेत्रे नूतनवस्त्रपट्टेन बद्ध्वा तं हस्तेन गृहीत्वा कुम्भसमीपे गत्वा तेन सह तस्याञ्जलिं पुष्पैरापूर्यं स्वयं मूलमन्त्रमुच्चरन् घटस्थदेवतायै पुष्पाञ्जलिं दापयित्वा तस्य नेत्रबन्धनं विमुच्य कुशास्तरे तमुपवेश्य
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ १ ॥
इति मन्त्रं पाठयित्वा कुम्भे देवं साङ्गावरणं सर्वोपचारैः
सम्पूज्य प्रागुक्तभूतशुद्धिविधिना शिष्यस्य देहं संस्मृत्य
संशोध्योत्पाद्य तस्य देहे मुलमन्त्रस्य ऋष्याद्यखिलन्यासजालं
विधाय पुनः कुम्भस्थदेवतां गन्धादिपञ्चोपचारैः सम्पूज्य
मण्डपद्वारदेवताः सलोकपालाङ्गावरणदेवता
गणेशादिचतुरायतनदेवताः स्वस्वाङ्गावरणसहिता देवस्याङ्गे
विलीना इति विभाव्य तं प्रागुक्तविधिना षडङ्गन्यासयोगेन
सकलीकृत्य तेजोरूपमापाद्य तत्तेजोरूपं कलशजलं
परब्रह्ममयं सञ्चिन्तयन् शिष्यं समलंकृतं वेद्याः समीपे
पूर्वेशानोत्तरान्यतमदिशि सर्वतोभद्रादिमण्डले पूर्वाभिमुखं
भद्रपीठे समुपवेश्य पञ्चवाद्यघोषपुरःसरं गुरुः कुम्भं
समुद्धृत्य कुम्भस्थाम्रपल्लवादिकं कल्पव्.क्षशाखाबुद्ध्या
शिष्यशिरसि निधाय वेदघोषं कुर्वद्भिर्-ऋत्विग्भिरन्यैश्च
ब्राह्मणैः सह मूलमन्त्रेण विलोममातृकया तं
पूर्वाभिमुखोपविष्टमुत्तराभिमुखस्तिष्ठन् अभिषिच्य पुनः
पूर्वमभ्यर्चितमस्त्ररूपं गृहीत्वा तत्तोयैरभिषिच्य
तत्करकावशिष्टजलेन शिष्यमाचामयित्वा देवतास्वरूपं तं
प्राग्वत् षडङ्गन्यासेन सकलीकृत्य शुद्धे नूतने वाससी परिधाप्य
स्वाचान्तं स्वसमीपे समुपवेश्य शिष्यदेहे संक्रान्तं देवं
तस्यैव देहे गन्धादिपञ्चोपचारैः सम्पूज्य शिष्यदेवतयोरैक्यं
बिभावयन् सुविशीतस्य शिष्यस्य दक्षिणकर्णे श्रीमूलमन्त्रं
गणेशादिचतुरायतनमन्त्रपूर्वकं गणेशदीक्षायां
सूर्यादिपूर्वकं तत्तदङ्गतया पूजनक्रमेण वारत्रयं च वदेत् ।
शिष्यो ब्राह्मणश्चेत्तस्य हस्ते मन्त्रदानरूपेणोदकं दद्यात्
अन्येभ्यस्त्वेवमेव वदेत् । ततः शिष्यः स्वगुरूपदिष्ट
मन्त्रमृष्यादिकरषडङ्गन्यासपूर्वकमष्टोत्तरशतमष्टाविंशति
वारमष्टधा वा जपित्वा जपं समर्प्यं गुरुमन्त्रदेवतानामैक्यम्
विभाव्य साष्टाङ्गं बहुशो गुरुं प्रणम्य पुनः पञ्चाङ्गं
प्रणमेत् । तत्राष्टाङ्गपञ्चाङ्गयोर्लक्षणमुक्तं प्रागेव प्रमाणे ।
इत्थं प्रणम्य गुरवे ऋत्विग्भ्यश्च प्रमाणोक्तां दक्षिणां दद्यात्
इति क्रियामयी दीक्षा ॥
अथैवं विस्तरतः क्रियादीक्षां कर्तुमशक्तश्चेत् पूर्वोक्ते
कनिष्ठमण्डपं प्राग्वद्वेदिकायां मण्डलं कृत्वा तथैव तत्र
कुम्भस्थापनं कृत्वा ऋत्विग्वरणाशक्तौ गुरुश्चतुरस्रमेव कुण्डं
कृत्वा तत्राग्निस्थापनाद्यखिलं कृत्वोक्तविधिनाभिषिच्य दीक्षां
दद्यात् ।
मण्डपकरणाशक्तौ क्वचित् प्रशस्ते स्थले प्राग्वत् मण्डलं तत्तद्देवतापूजाचक्रं च वा कृत्वा तदशक्तौ प्रागुक्तविधिना स्थण्डिलं कृत्वा तत्रोक्तविधिनाग्निं संस्थाप्योक्तविधिना होमादिकं कृत्वाभिषिच्य मन्त्रं दद्यात् ॥ अथ येऽग्नेर्वर्णाद्यास्तानाह तत्र नारदपञ्चरात्रे :
अग्नेर्भासश्च गन्धाश्च शब्दाश्चाकृतयस्तथा ।
विकाशाश्च शिखाश्चैव संवेद्याः कर्मसिद्धये ॥१ ॥
पद्मरागद्युतिः श्रेष्ठो लाक्षारससमप्रभः ।
बालार्कवर्णो हुतभुग्जपाभः शस्यते बुधैः ॥ २ ॥
इन्द्रगोपकसंकाशः शोणिताभोऽथ पावकः ।
शक्रचापनिभः श्रेष्ठः कुसुम्भाभस्तथैव च ॥ ६ ॥
रक्तानां पुष्पजातीनां वर्णेनाग्निरिहोच्यते ।
इति ॥ अथ गन्धः -
सुगन्धद्रव्यगन्धोऽग्निर्घृतगन्धः सुशोभनः ।
आयुर्दः पद्मगन्धः स्याद्बिल्वगन्धश्च सुव्रतः ॥ १ ॥
नागचम्पकपुन्नगपाटलीयूथिकानिभः ।
पद्मेन्दीवरकह्लारसर्पिगुग्गुलसन्निभः ॥ २ ॥
पावकस्य शुभो गन्धः इति ॥ अथ शब्दः
जीमूतवल्लकीशिखिमृदङ्गध्वनितुल्यकः ।
शब्दोऽग्नेः सिद्धये होतुरन्यथा स्यादसिद्धिदः ॥ १ ॥
इति ॥ शारदातिलके - भेरीवारिदहस्तीन्द्रध्वनिर्वह्नेः शुभावहः । इति ॥ अथाकृतिः
वृत्ताकारो द्विजश्रेष्ठ ध्वजचामरसन्निभः ।
विमानानां हयानां च प्रासादानां वृषस्य च ॥ १ ॥
आकारेणाथ हंसानां मयूराणां च सिद्धिदः ।
तदाकृतिः सदा वह्निः सद्यः सिद्धिकरः स्मृतः ॥ २ ॥
शेषाणां दंष्ट्रिणां रूपं न शस्तं होमकर्मणि ।
यद्रूपं कथितं चैतद्यदि तस्य प्रतीक्षणम् ॥ ३ ॥
अन्योन्यत्वं प्रपद्येत तदा सिद्धिकरोऽनलः ।
इति ॥ अथ शिखाः -
विषमाश्च शिखा वह्नेस्त्र्यादयश्च शुभावहाः ।
ह्रस्वा ह्रस्वोन्नता दीर्घाग्निज्वालाः सिद्धिदाः स्मृताः ॥ १ ॥
इति ॥ तथ शारदातिलके -
प्रदक्षिणास्त्यक्तकम्पाश्छत्राभाः शिखिनः शिखाः ।
शुभदा यजमानस्य राज्यस्यापि विशेषतः ॥ १ ॥
इति ॥ अथ नारदपञ्चरात्रे -
प्रदीप्ते लेलिहानेऽग्नौ निर्धूमे सगुणे तथा ।
हृद्ये तुष्टिप्रदे चैव होतव्यं सिद्धिमिच्छता ॥ १ ॥
स्निग्धः प्रदक्षिणावर्तः सुशब्दश्चापि यो भवेत् ।
नित्यमेवं शुभकरो यदन्यैर्वर्जितोऽगुणैः ॥ २ ॥
इति ॥ अथ निषिद्धः-
अल्पतेजाश्च रुक्षश्च विस्फुलिङ्गसमन्वितः ।
धूमावलीढज्वालश्च कृशानुर्नैव सिद्धिदः ॥ १ ॥
दुर्गन्धश्चावलीढश्च सितकृष्णश्च यो भवेत् ।
भूमिं च विलिखेद्यस्तु सोऽपि दद्यात् पराभवम् ॥ २ ॥
इति ॥ तथा शारदातिलके
कृष्णः कृष्णगतेर्वर्णो यजमानं विनाशयेत् ।
श्वेतो राष्ट्रं निहन्त्याशु वायसस्वरसंनिभः ॥ १ ॥
खरस्वरसमो वह्नेर्ध्वनिः सर्वविनाशकृत् ।
पूतिगन्धो हुतवहो होतुर्दुःखप्रदो भवेत् ॥ २ ॥
छिन्नावृत्ता शिखा कुर्यान्मृत्युं धनपरिक्षयम् ।
शुकपक्षनिभो धूमः पारावतसमप्रभः ॥ ३ ॥
हानिं तुरङ्गजातीनां गवां च कुरुतेऽचिरात् ।
इति ॥ तथा तन्त्रसारे
खरोष्ट्रमहिषादीनां रुतमत्र न सिद्धये ।
रूक्षश्चटचटाशब्दस्त्वपसव्यगतिस्तथा ॥ १ ॥
उल्लिखेद्वसुधां यश्च यश्चाधःशिख एव च ।
नेष्यतेऽसौ मुनिश्रेष्ठ शास्त्रेऽस्मिन् पारमेश्वरे ॥ २ ॥
इति ॥ अत्रैवंविधेषु दोषेषु प्रायश्चित्तमुक्तं कुलप्रकाशतन्त्रे
एवं विधेषु दोषेषु प्रायश्चित्ताय देशिकः ।
मूलेनाज्येन जुहुयात् पञ्चविंशतिमाहुतीः ॥ १ ॥
पञ्चविंशतिरेकैकस्मिन् दोषे ॥ अथवह्नेः सात्त्विकादिजिह्वाभेदाः - तत्र दीक्षाङ्गहोमे सात्त्विक शान्तिकहोमे हिरण्याद्याः प्रागेवोक्ताः । अथ वश्यादिकाम्यहोमेषु राजस्यो जिह्वाः कुलमूलावतारे राजस्यः पद्मरागैका सुवर्णा भद्रलोहिता । चतुर्थी लोहिता श्वेता धूमिन्यन्या करालिका ॥ १ ॥
इति ॥ तामस्योऽपि तत्रैव-
* * * * * * * * तामस्यो विश्वमूर्तिका ।
स्फुलिङ्गिनी धूम्रवर्णा चतुर्थी तु मनोजवा ॥ १ ॥
पञ्चमी लोहिताख्या स्यात् कराली गदिता तथा ।
काली च सप्तमी प्रोक्ता ज्ञातव्याः कार्यभेदतः ॥ २ ॥
यागक्रियाकाम्यहोमक्रूरहोमेषु च क्रमात् ।
इति ॥ अथ जिह्वानामधिदेवताः कुलप्रकाशतन्त्रे
जिह्वानामधिदेवाः स्युर्विबुधाः पितरस्तथा ।
गन्धर्वयक्षनागाश्च पिशाचा राक्षसास्तथा ॥ २ ॥
रसनासु सुरादीनां जुहुयात् कार्यसिद्धये ।
तृप्ता दद्युस्ततो देवा वाञ्छितां सिद्धिमुत्तमाम् ॥ २ ॥
रसनाः स्वीयनामाभाः कृशानोः प्रायशो मताः ।
इति ॥ उत्तरतन्त्रे -
वैश्वानरं स्थितं ध्यायेत् समिद्धोमेषु देशिकः ।
शयानमाज्यहोमेषु निषणं शेषकर्मसु ॥ १ ॥
इति ॥ अथात्र होमकाले वह्नेर्जिह्वाशिरःकर्णादिकं ज्ञात्वा जिह्वायामेव जुहुयात् । तथा चोक्तं महाकपिलपञ्चरात्रे राहुकल्पे च -
सर्वकार्यप्रसिद्ध्यर्थं जिह्वायां तस्य होमयेत् ।
चक्षुःकर्णादिकं ज्ञात्वा होमयेद् देशिकोत्तमः ॥ १ ॥
अग्निकर्णे हुतं यत्तत् कुर्याच्च व्याधितो भयम् ।
नासिकायां महद्दुःखं चक्षुषोर्नाशनं भवेत् ॥ २ ॥
केशे दारिद्र्यदं प्रोक्तं तस्माज्जिह्वासु होमयेत् ।
यत्र काष्ठं तत्र कर्णौ यत्र धूमस्तु नासिका ॥ ३ ॥
यत्राल्पज्वलनं नेत्रं यत्र भस्म तु तच्छिरः ।
यत्र प्रज्वलितो वह्निस्तत्र जिह्वाः प्रकीर्तिताः ॥ ४ ॥
इति ॥ तथा शारदातिलके -
आस्यान्तर्जुहुयाद्वह्नेः विपश्चित् सर्वकर्मसु ।
कर्णहोमे भवेदव्याधिर्नेत्रे त्वन्धत्वमीरितम् ॥ १ ॥
नासिकायां मनःपीडा मस्तके धनसंक्षयः ।
सधूमोऽग्निः शिरः प्रोक्तं निर्धूमश्चक्षुरेव च ॥ २ ॥
ज्वलन् कृशो भवेत्कर्णः काष्ठमग्नेश्च नासिका ।
अग्निर्विजायते यत्र शुद्धस्फटिकसन्निभः ॥ ३ ॥
तन्मूलं तत्र विज्ञेयं चतुरंगुलमानतः ।
इति ॥ अथ स्रुक्स्रुवौ उत्तरतन्त्रे -
स्रुक्स्रुवौ शिंशपाश्वत्यश्रीपर्णीखदिराम्रजौ ।
चन्दनद्वयदेवद्रुविकङ्कतशमीभवौ ॥ १ ॥
बिल्वोदुम्बरपलाशनागकेसरसंभवौ ।
बकुलाशोकपुन्नागप्लक्षन्यग्रोधचम्पकैः ॥ २ ॥
निर्मिता विति । शारदातिलके
श्रीपर्णीशिंशपाक्षीरशाखिष्वेकतमंबुधः ।
गृहीत्वा विभजेद्धस्तमात्रं षट्त्रिंशता पुनः ॥ १ ॥
विंशत्यंशैर्भवेद् दण्डो वेदिस्तैरष्टभिर्भवेत् ।
एकांशेन मितः कण्ठः सप्तभागमितं मुखम् ॥ २ ॥
वेदित्र्यंशेन विस्तारः कण्ठस्य परिकीर्तितः ।
अग्रं कण्ठसमानं स्यान्मुखे मार्गं प्रकल्पयेत् ॥ ३ ॥
कनिष्ठांगुलिमानेन सर्पिषो निर्गमाय वै ।
वेदीमध्ये विधातव्या भागेनैकेन कर्णिका ॥ ४ ॥
विदधीत बहिस्तस्या एकांशे नाभिपङ्कजम् ।
तस्य खातं त्रिभिर्भागैर्वृत्तमर्धांशतो बहिः ॥ ५ ॥
अंशेनैकेन परितो दलान्यष्टौ प्रकल्पयेत् ।
मेखला मुखवेद्योः स्यात् परितोऽर्धांशमानतः ॥ ६ ॥
दण्डमूलाग्रयोः कुम्भौ गुणवेदांगुलैः क्रमात् ।
द (ग) ण्डीयुगं यमांशैः स्याद्दण्डस्यानाह ईरितः ॥ ७ ॥
षड्भिरंशैः पृष्ठभागो वेद्याः कूर्माकृतिर्भवेत् ।
हंसस्य वा हस्तिनो वा पोत्रिणो वा मुखं लिखेत् ॥ ८ ॥
मुखस्य पृष्ठभागोऽस्याः सम्प्रोक्तं लक्षणं स्रुवः ।
स्रुचश्चतुर्विंशतिभिर्भागैरारर्चयेत् स्रुवम् ॥ ९ ॥
द्वाविंशत्या दण्डमानमंशैरेतस्य कीर्तितम् ।
चतुर्भिरंशैरानाहः कर्षाज्य ग्राहि तच्छिरः ॥ १० ॥
अंशद्वयेन निखनेत् पङ्के मृगपदाकृतिम् ।
दण्डमूलाग्रयोर्गण्डी भवेत् कङ्कणभूषिता ॥ ११ ॥
इति । गण्डीयुगं कङ्कणाकारं कङ्कभूषितेति स्वयमुक्तत्वात् ।
गण्डी कङ्कणवद् भवेदिति वायवीयसंहितावचनाच्च । अन्यत्र तु
गण्डी कुम्भः । तत्र तस्यैवावश्यकत्वात् । वायवीयसंहितायां
श्रुक्स्रूवौ तैजसौ वापि इति ॥ स्रुक्स्रुवाभावे कुम्भसम्भवः :
पलाशपत्रे निश्छिद्रे रुचिरौ स्रुक्स्रुवौ मुने ।
विदध्याद्वाश्वत्थपत्रे संक्षिप्ते होमकर्मणि ॥ १ ॥
इति ॥ अथैतद्रचनाप्रकारमाह - तत्र
शिंशपाश्वत्थश्रीपर्णीखदिराम्रचन्दनरक्तचन्दनदेवदारुवि-
कङ्कतशमीपलाशोदुम्बरबिल्वपनसबकुलाशोकनागकेसरपुन्नाग-
चम्पकवटवृक्षाणामन्यतममशुष्कमव्रणमशीर्णं
घुणादिभिरदुष्टमुद्दिष्टमानादधिकस्थूलदीर्घं समचतुरस्रं
काष्ठं गृहीत्वा तत्र मुष्ट्यंगुलेन चतुर्विंशत्यंगुलमानं
षट्त्रिशदंशेन विभज्य तेषु विंशत्यंशं दण्डार्धं
विभज्यावशिष्टषोडशभागेष्वग्रदेशे भागाष्टकं मुखार्त्थं
परिकल्प्यावशिष्टभागाष्टकेन समचतुरस्रां वेदीं कृत्वा
तन्मध्यचिह्नं कृत्वा तच्चिह्नमवलम्ब्यार्धांशमानेनाभितो
वृत्तं निष्पाद्य तद्बहिरप्येकांशमानेन वृत्तान्तरं निष्पाद्य
वृत्तयोरन्तराले भागत्रयं निम्नं मध्ये वृत्ताकारां कर्णिकां
स्थापयित्वा तद्बहिर्गतं कृत्वा तद्बहिरर्धांशमानेनाभितो वृत्तं
निष्पाद्य तद्बहिरपि एकांशमानेन वृत्तान्तरं निष्पाद्य
वृत्तयोरन्तरालेऽष्टदलानि परिकल्प्य तद्बहिरर्धांशमाने
सुसमाकारां चित्रितां वा शोभां विदध्यात् ।
ततोऽग्रेऽवशिष्टांशेन वेद्यास्तृतीयांशेन पार्श्वद्वयखण्डनेन
मध्ये एकांशेन कण्ठं विधाय कण्ठतः
किञ्चिदुच्चमवशिष्ठं सप्तभिरंशैरग्रं कण्ठसमानविस्तरं
समतलमधस्तादधोधः क्षीयमाणविस्तारं कृत्वा मुखेऽपि
वेदीवत् मेखलां परिकल्प्य कण्ठादधो मुखस्य मेखलामभिन्दन्
प्रणालिकाकारमेकांशमाननिम्नः कनिष्ठाप्रवेशयोग्यं
खातं कृत्वा कर्णिकामध्यस्थखातमध्यात्
मुखमध्यस्थप्रणालिकाकारखातमध्ये यथा घृतं निःसरति
तथा तप्तलोहशलाकया कण्ठवेदिपरिधिभेदनं सुषिरं विधाय
तथैवाग्रेऽपि मुखपरिधिभेदनं घृतनिर्गमाय
कनिष्ठाप्रवेशयोग्यं रन्ध्रं कुर्यात् । ततो वेद्याः पृष्ठभागे
कूर्माकारं मध्ये किञ्चित्समतलं भूमौ यथा निश्चल तिष्ठति
तथा कृत्वा मुखस्य पृष्ठभागे मध्ये किञ्चिन्निम्नं कृत्वा
मुखरन्ध्राधस्तात् उच्चभागं हंसमुखाकारं
गजमुखाकारं वराहमुखाकारं वा सुरम्यं कारयित्वा
दण्डस्याग्रे वेधत एकाङ्गेन कङ्कणाकारत्रयं चतुष्टयं वा
कृत्वाअ तदर्धांशचतुष्टयेन मुखकण्ठमध्य
मूलादिसुशोभितमूर्ध्वमुखं निर्माय तदधः पुनरेकांशेन
प्राग्वत् कङ्कणानि कृत्वा तदधो नवांशमानं सुवर्तुलं
षडंशमानदैर्घ्यं सूत्रेण वेष्टनयोग्यस्थलं दण्डमध्यं
कृत्वा तदधः पुनरेकांशेन कङ्कणानि तदर्धांशत्रयेण
प्राग्वदूर्ध्वमुखं कुम्भं तदधः पुनरेकांशेन कङ्कणानि
च कुर्यात् इति स्रुचं निर्माय स्रुचः षट्त्रिंशभागेषु
चतुर्विंशतिभागदैर्घ्यमग्रदेशेंद्वयमानेन वर्तुलाकारं
स्थूलशिरोभागयुतं सुवर्तुलं स्रुवं निर्माय तस्य मुखप्रदेशे
पङ्कमध्यगतमृगपदाकारं कर्षमात्रग्राहि खातं कृत्वा
तदधस्त्वेकांशमानेन प्राग्वत् कङ्कणानि तदर्धांशचतुष्टये
कुम्भं तत एकांशेन पुनः कङ्कणानि तत एकादशांशमानं
चतुरंशमानदैर्घ्यसूत्रवेष्टनयोग्यस्थलं कृत्वा
पुनरेकांशेन कङ्कणानि ततोंशत्रयेण कुम्भं पुनरेकांशेन
कङ्कणानि च कुर्यादिति स्रुवनिर्माणप्रकारः ॥ एवं
स्वर्णरौप्यताम्रयौ वा स्रुक्स्रुवौ कार्यौ । स्रुवाभावे पालाशस्य
मध्यपत्रद्वयं पिप्पलदलद्वयं वा होमे ग्राह्यं संस्कारोऽपि
स्रुक्स्रुवयोरिव पत्रयोरपि कार्यः । अथ होमद्रव्यप्रमाणि तत्र
शारदायाम् :
कर्षमात्रं घृतं होमे शुक्तिमात्रं पयः स्मृतम् ।
उक्तानि पञ्चगव्यानि तत्समानि मनिषिभिः ॥ १ ॥
तत्समं मधुदुग्धान्नमक्षमात्रमुदाहृतम् ।
दधि प्रसृतिमात्रं स्याल्लाजाः स्युर्मुष्टिसंमिताः ॥ २ ॥
पृथुकास्तत्प्रमाणाः स्युः सक्तवोऽपि तथोदिताः ।
गुडं पलार्धमानं स्याच्छर्करापि तथा स्मृता ॥ ३ ॥
ग्रासार्धं चरुमानं स्यादिक्षुः पर्वावधिः स्मृतः ।
एकैकं पत्रपुष्पाणि तथापूपानि कल्पयेत् ॥ ४ ॥
कदलीनागरङ्गाणां फलान्येकैकशो विदुः ।
मातुलुङ्गं चतुःखण्डं पनसं दशधाकृतम् ॥ ५ ॥
अष्टधा नारिकेलानि खण्डितानि विदुर्बुधाः ।
त्रिधाकृतं बिल्वफलं कपित्थं खण्डितं द्विधा ॥ ६ ॥
उर्वारुकफलं होमे कठितंखण्डितं त्रिधा ।
फलान्यन्यान्यखण्डानि समिधः स्युर्दशांगुलाः ॥ ७ ॥
दूर्वात्रयं समुद्दिष्टं गुडुची चतुरंगुला ।
व्रीहयो मुष्टिमात्राः स्युर्मुद्गमाषयवा अपि ॥ ८ ॥
तण्डुलाः स्युस्तदर्धांशाः कोद्रवा मुष्टिसंमिताः ।
गोधूमा रक्तकलमा विहिता मुष्टिमानतः ॥ ९ ॥
तिलाश्चुलुकमात्राः स्युः सर्षपास्तत्प्रमाणकाः ।
शुक्तिप्रमाणं लवणं मरिचान्यपि विंशतिः ॥ १० ॥
पुरं वरदमानं स्याद्रामठं तत्समं स्मृतम् ।
चन्दनागुरुकर्पूरकस्तूरीकुंकुमानि च ॥ ११ ॥
तिन्तिणीबीजमानानि समुद्दिष्टानि देशिकैः ।
इति ॥ उत्तरतन्त्रे - पायसं चाक्षसंमितम् इति । कर्षलक्षणं तत्रैव
माषो दश गुञ्जाः स्यात् षोडशमाषो निगद्यते कर्षः इति ।
तैलस्याप्येतदेव परिमाणम् । शुक्तिः कर्षद्वयम् प्रसृतिमात्रं
पलद्वयमात्रं मुष्टिः पलं पलार्धं कर्षद्वयं ग्रासार्धम्
अशीतिरक्तिकामितम् ॥ कुलमूलावतारे :
गुञ्जाभिर्दंशभिर्माषः शाणो माषचतुष्टयम् ।
द्वौ शाणौ घटकः कोलो बदरं इक्षणश्च (?) सः ॥ १ ॥
तौ द्वौ पाणितलं कर्षः सुवर्णं कवलग्रहः ।
पिचुर्बिडालपदकं तिन्दुकोऽक्षश्च तद्द्वयम् ॥ २ ॥
शुक्तिरष्टात्मिका ते द्वे पलं बिल्वचतुर्थिका ।
मुष्टिराम्रं प्रगुञ्जोऽथ द्वे पले प्रसृतिस्तथा ॥ ३ ॥
इति । मातुलुङ्गं बीजपूरम् । उर्वारुकं कर्कटी । तदर्धांशाः
शुक्तिमिता । चुलुकमात्राः पाणितलप्रमाणाः कर्षमात्रा इत्यर्थः ।
अक्षसम्मितं कर्षद्वयमात्रं । पुरं गुग्गुलः ।
बदरमानमशीतिगुञ्जामितं । रामठ हिंगुः ॥ नारदपञ्चरात्रे :
तृतीयं खण्डं मूलानां ह्रस्वानि स्वप्रमाणतः । इति ।
शैवागमेऽपि : खण्डत्रयं स्यान्मूलानां सुक्ष्माण्येवं च
होमयेत् । एवं केवलमखण्डमिति यावत् । कन्दानामष्टमं भागं
लतानामंगुलद्वयम् । इति ॥
अथ समिधः । तत्र नारदपञ्चरात्रे -
समित्प्रादेशमात्रेण समच्छेदान्विता तथा ।
विशीर्णा द्विदला ह्रस्वा वक्राः स्थूलाः कृशा द्विधा ॥ १ ॥
क्रिमिदष्टाश्च दीर्घाश्च निस्त्वचः परिवर्जिताः ।
विशीर्णायुःक्षयं कुर्यात् द्विदला व्याधिसम्भवा ॥ २ ॥
ह्रस्वायां मृत्युमाप्नोति वक्रा विघ्नकरी मता ।
स्थूलाभिहरते लक्ष्मीं कृशायां जायते क्षयः ॥ ३ ॥
द्विधायां नेत्रदोषाः स्युः कीटदष्टार्थनाशिनी ।
द्वेषं प्रकुरुते दीर्घा प्राणघ्न्यो निस्त्वचः कृताः ॥ ४ ॥
सक्षीरा नाधिकान्यूनाः समिधः सर्वकामदाः ।
आर्द्रत्वचं समच्छेदा जर्झर्यंगुलवर्तुलाम् ॥ ५ ॥
ईदृशीं होमयेत् प्राज्ञः प्राप्नोति विपुलां श्रियम् ।
श्रौते स्मार्ते च तन्त्रोक्ते समिधः परिकीर्तिताः ॥ ६ ॥
इति । तथा वायवीयसंहितायाम् -
ताः पालाश्यः परा वापि यज्ञिया द्वादशांगुलाः ।
अवक्रा न स्वयं शुष्काः सत्वचो निर्व्रणाः समाः ॥ १ ॥
दशांगुला वा विहिताः कनिष्ठांगुलसंमिताः ।
प्रादेशमात्रा वा लाभे होतव्याः सकला अपि ॥ २ ॥
इति ॥ अथ प्रकृते क्रियादीक्षाशक्तानां वर्णदीक्षादिविधिर्लिख्यते : तत्र पुंस्प्रकृत्यात्मकानकारादिक्षकारान्तान् मातृकावर्णान् पुंस्प्रकृत्यात्मके शिष्यदेहे यथाविधि विन्यस्य पुनः संहारक्रमेण मूर्धादिहृदयान्तस्थं क्षकारं नाभ्यन्तस्थलकारे संहरामि हृदादिनाभिपर्यन्तस्थलकारं हृदादिवामपादाग्रस्थे हकारे संहरामि हृदादिवामपादाग्रपर्यन्तस्थं
हकारं हृदादिदक्षिणपादाग्रपर्यंन्तस्थे सकारे संहरामि हृदादिदक्षिणपादाग्रपर्यन्तस्थं सकारं हृदादिवामपाण्यग्नावधिस्थे षकारे संहरामि हृदादिवामपाण्यग्रावधिस्थं षकारं हृदादिदक्षिणपाण्यग्रावधिस्थे शकारे संहरामि एवं युक्त्या शकारं वकारे संहरामित्यादि मुखवृत्तस्थमाकारं शिरःस्थे अकारे संहरामि एवं युक्त्या वर्णान् संहृत्य पुनस्तच्चैतन्यं सकलतत्त्वग्रामसमेतं परमात्मनि संयोज्य विलीनसकलतत्त्वसमूहं विगतनिखिलकलुषं दिव्यतनुं शिष्यं विचिन्त्य पुनः परमात्मनः सकाशादकारादिक्षकारान्तान् वर्णानुत्पाद्य वक्ष्यमाणसृष्टिन्यासक्रमेण शिष्यदेहे मातृकावर्नान् विन्यस्य पुनस्तच्चैतन्यं तत्त्वग्रामसमेतं तस्मिन् संयोज्योक्तविधिनोपदेशं कुर्यात् इति वर्णात्मदीक्षा ॥
अथ कलादीक्षा : तत्र पादतलतो जानुपर्यन्तं निवृत्तिकलां जानुतो नाभिपर्यन्तं प्रतिष्ठाकलां नाभितः कण्ठपर्यन्तं विद्याकलां कण्ठतो ललाटपर्यन्तं शान्तिकलां ललाटात् ब्रह्मरन्ध्रपर्यन्तं शान्त्यतीताकलां च शिष्यदेहे सञ्चिन्त्य निवृत्तिकलां प्रतिष्ठाकलायां संहरामि प्रतिष्ठाकलां विद्याकलायां संहरामि विद्याकलां शान्तिकलायां शान्त्यतीताकलायां संहरामि इति क्रमात् संहृत्य वेधयित्वा तां परमात्मनि संहृत्य प्राग्वत्तस्य शरीरं संशोध्य समुत्पाद्य परमात्मनः सकाशाच्छान्त्यतीताकलां ततः शान्तिं ततो विद्यां ततः प्रतिष्ठां ततो निवृत्तिं च सृष्टिक्रमेण शिष्यदेहे तत्तद्स्थाने संयोज्योपदेशादिकं कुर्यादिति । एवमष्टात्रिंशत्कलाभिर्वोक्त्युक्त्या संहारसृष्टिन्यासक्रमेण शिष्यं संस्कृत्य दीक्षां दद्यात् इति कलादीक्षा ॥
अथ स्पर्शदीक्षा : तत्र गुरुः स्वहस्ततले शिवरूपं स्वगुरुं ध्यायन् मूलविद्यां षडङ्गमातृकां च जपन् शिष्यस्य शिरसि स्वदक्षिणकरं निधायोपदिशेत् इति स्पर्शदीक्षा ॥
अथ वाग्दीक्षा : तत्र गुरुः परचिद्रूपे शिवे चित्तं निधाय तदुद्भूतान् समस्तमन्त्रान् ध्यायंस्तन्मनाः स्वयं सिष्यायोपदिशेमन्त्रान् इति वाग्दीक्षा ॥
अथ दृग्दीक्षा : तत्र गुरुः स्वनेत्रे निमील्य परमात्मस्वरूपिणीं देवतां ध्यात्वा प्रसन्नचित्तो दिव्यचक्षुषा शिष्यं निरीक्ष्य मन्त्रोपदेशं कुर्यात् इति दृग्दीक्षा । पश्चादुक्तमेतत् दीक्षात्रयं विरक्तानां शिष्याणां तत्त्वविदा गुरुणा कर्यमिति । स्त्रीणां तु वाग्दीक्षैव विहिता नान्या ॥
अथ वेधदीक्षा : तत्र गुरुः शिष्यस्य मूलाधारे चतुर्दलपङ्कजमध्यत्रिकोणमध्ये यथोक्तरूपां कुण्डलिनीं ध्यात्वा तत्पत्रचतुष्ट्यमध्यस्थवादिसान्ताक्षरचतुष्टयं तन्मध्यस्थिते कमलासने संहृत्य तं ब्रह्माणं तदूर्ध्वगं तस्वाधिष्ठानाख्यषट्पत्रकमलमध्यस्थिते विष्णौ संयोज्य वेधयित्वा तत्पत्रषट्कमध्यस्थवादिलान्तवर्णषट्कं विष्णौ संयोज्य तदूर्ध्वे नाभिमण्डले दशकलात्मके मणिपूराख्ये विष्णुं संयोज्य तत्पत्रदशकमध्यस्थडादिफान्तवर्णदशकसहितं विष्णुं तत्पङ्कजमध्यस्थे रुद्रे संयोज्य वेधयित्वा तं रुद्रमनाहताख्ये हृत्पद्मे कादिठान्तद्वादशवर्णाढ्यद्वादशदलसंयुक्ते संयोज्य तैरक्षरैः सार्धं तं तन्मध्यस्थितेश्वरे संयोज्य वेधयित्वा कण्ठदेशे षोडशस्वराढ्यषोडशदलकमले विशुद्धचक्रे तमीश्वरं संयोज्य तैः स्वरैः सार्धं ईश्वरं तन्मध्यस्थे सदाशिवे संयोज्य वेधयित्वा तं सदाशिवं भ्रूमध्यद्विदलपङ्कजमाज्ञाचक्रं नीत्वा तत्पत्रद्वयहक्षवर्णद्वयसहितं सदाशिवं तन्मध्यवर्तिनि बिन्दौ संयोज्य वेधयित्वा तं बिन्दुं तदूर्ध्वस्थितायां कलायां संयोज्य तां पुनर्नादे तं नादान्ते तमुन्मन्यां तां विषुचक्रे विषुचक्रं गुरुवक्त्रे चेत्युत्तरोत्तरं संयोज्य वेधयित्वा जीवात्मना सह तां कुण्डलिनीं परशिवे संयोज्य वेधयेत् । एवं कृते शिष्यो गुर्वाज्ञया छिन्नसंसारपाशो विसंज्ञः सद्यः क्षितितले पतति । ततो गुरुः संहृतविपरीतक्रमेण परशिवात् कुण्डलिनीमुत्पाद्य तथा हृत्मखिलं सृष्टिक्रमेण शिष्यदेहे तत्तच्चक्रे तां तां देवतां संयोज्य हृदये जीवं मूलाधारे कुण्डलिनिं संयोज्योपदेशादिकं कुर्यात् । ततः संजातदिव्यबोधो भूतभविष्यद्वर्तमानज्ञः सदाशिवो भवति इति विधदीक्षा ॥ प्रायः कलौ वेधदीक्षाकरो गुरुस्तद्योग्यः शिष्यश्च दुर्लभ इत्याहुराचार्याः । प्रसङ्गादत्रापि लिखितेयमिति शिवम् ॥
अथैवं दीक्षितानां सद्भक्तियुक्तानां गुरुतः शास्त्रतश्चाधिगताशेषरहस्यपरमार्थानां गुरुः शिष्याणां पूर्णाभिषेकाख्यं
द्वितीयमभिषेकं कुर्यात् । तत्र प्रागुक्ते मण्डपे वेदिकायां वक्ष्यमाणं विपुलं तत्पूजाचक्रं निर्माय प्राग्वत् पञ्चजोभिः कर्णिकादलकेसरकोणादिकमापूर्य तस्य मध्ये खारीतोयपूर्णकुम्भं प्रागुक्तविधिना संस्थाप्यान्येषु दलेषु कोणेषु चतुरस्रेषु च सर्वावरणदेवतापूजास्थानेषु प्रस्थद्वयजलपूर्णकलशान् संस्थाप्य तत्र मध्येकुम्भे देवतामावाह्य प्रागुक्तविधिना षोडशोपचारैः सम्पूज्यान्येषु कलशेषु तथैवाङ्गावरणदेवताः सम्पूज्य दीक्षोक्तविधिना शिष्यजन्मनक्षत्रे प्राग्वत् पञ्चवाद्यघोष पुरःसरं स्वेष्टदेवताभक्तैर्ब्राह्मणैः सह तं सम्यगभिषिञ्चेत् । ततः शिष्योऽपि प्राग्वत् श्रीगुरुं प्रणम्य दक्षिणादिकं दत्त्वा ब्राह्मणान् भूरिदक्षिणादिभिः सन्तोषयेदिति पूर्णाभिषेकविधिः ॥
पूर्णाभिषेकहीनो यः साधको म्रियते यदि ।
पिशाचत्वमवाप्नोति नरकं च प्रपद्यते ॥ १ ॥
इति कुलार्णववचनादावश्यकोऽयमभिषेकः ।
इति श्रीमहामहोपाध्यायभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्य- श्रीभगवच्छङ्कराचार्यशिष्य- श्रीविष्णुशर्माचार्यशिष्यश्रीप्रग्लभाचार्यशिष्य - श्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे त्रयोदशः श्वासः ॥ १३ ॥
अथ
श्रीविद्यार्णवतन्त्रे
14. Śvāsa
अथ कादिमते पूर्णाभिषेकविधिः ॥ श्रीतन्त्रराजे - (२ प० ५२ श्लो०)
उक्तलक्षणसम्पन्नं शिष्यमाचारभूषणम् ।
पञ्चषट्कूटविद्याभ्यां शोधितं बहुवासरैः ॥ १ ॥
कलशैरभिषिच्यामुं श्रीचक्रे सन्निवेश्य च ।
आधारे हृदये मूर्ध्नि चक्रं सञ्चिन्त्य मध्यतः ॥ २ ॥
स्वान्तादावाह्य संस्थाप्य सम्पूज्य न्याससंयुतम् ।
त्रिशो विद्यां जपेत्कर्णे देव्यात्मा पूर्णमानसः ॥ ३ ॥
देवतागुरुमन्त्रात्मतत्त्वैक्यं भावयन् मुदा ।
शतं जपेत्तदग्रस्थो निकटे त्रिदिनं वसेत् ॥ ४ ॥
नचेत् सञ्चारिणी शक्तिर्गुरुमेति न संशयः ।
तस्मात्तदन्तिके तस्य पूजादेशादिकृद्वसेत् ॥ ५ ॥
तादात्म्यमात्मनो लब्धुं गुरोर्मन्त्रात्मनो यतः ।
ततस्तदा समारभ्य तदायत्तो धनादिभिः ॥ ६ ॥
अथाभिषेकं द्विविधं समवाप्य तदाज्ञया ।
अनुग्रहादि कुर्वीत सिद्ध्ये नान्यथा भवेत् ॥ ७ ॥
विधाय चक्रं तन्मध्ये यओन्यां कुम्भं निधाय तम् ।
क्वाथोदकैः समापूर्याभिषिच्याभिवदेन्मनुम् ॥ ८ ॥
क्रमागतसमाचारनिरते भक्तिशालिनि ।
द्वितीयमभिषेकं तु कुर्याद् देव्यात्मसिद्ध्ये ॥ ९ ॥
विरच्य विपुलं चत्रं प्रतियोनि च षोडश ।
त्रिकोणानि विधायात्र मध्ये कुम्भं तु विन्यसेत् ॥ १० ॥
सौवर्णं राजतं ताअम्रं काचं मार्तिकमेव च ।
पूरितं खारितोयेन कथितेनाक्षरौषधैः ॥ ११ ॥
निक्षिप्य नवरत्नानि धान्यानि विविधानि च ।
हिरण्यानि सताम्राणि वासोभ्यामभिवेष्टयेत् ॥ १२ ॥
रक्ताभ्यां चन्दनैश्चूतपनसाश्वत्थपल्लवैः शतक्रतुलताबद्धैर्मातुलुङ्गफलान्वितः ॥ १३ ॥
पिधाय कलशानन्यानन्येष्वेकैकशो न्यसेत् ।
सार्धं सहस्रं षट्त्रिंशत्पञ्चसंख्य क्रमोदिताः ॥ १४ ॥
मध्ये चक्रे सुतोयादि कृत्वावाह्याभिपूज्य च ।
कालात्मनित्यामन्त्रांश्च जपित्वा पूर्ववासरे ॥ १५ ॥
जन्मर्क्षे प्रातरुत्थाय स्वनित्यां तत्र पूजयेत् ।
सहस्रं प्रजपेत् पश्चाद्धोमं कृत्वा समन्ततः ॥ १६ ॥
शृङ्गकाहलशङ्खादिवाद्यसङ्गीतनर्तनैः ।
मुदितैर्योगिनीवृन्दैरेकैकं देवतात्मभिः ॥ १७ ॥
वृत्तैः सुपूजितैः सार्धमभिसिञ्चेत् स्वयं गुरुः ।
स्वक्रमं तस्य कथयेत्तदा प्रभृति सोऽपि तम् ॥ १८ ॥
अनुतिष्ठेदविच्छिन्नपर्यायं तस्य विच्युतौ ।
सहस्रं प्रजपेद् विद्यामभिषेकसमन्वितम् ॥ १९ ॥
अथवा षणवत्यस्तु कलशास्तत्र विन्यसेत् ।
तेषु शक्तीः समावाह्य सम्पूज्यैवाभिषेचयेत् ॥ २० ॥
एकं वा कलशं जन्मदिने कृत्वाभिषेचयेत् ।
एवं नैमित्तिकं नित्यमविच्छिन्नं समाचरेत् ॥ २१ ॥
इति मातृकार्णवे -
शिष्यायोपदिशेद्विद्या नित्याः पञ्चदशात्मिकाः ।
त्रिकुटाश्च चतुष्कुटाः पञ्चकूटास्तथैव च ॥ १ ॥
षट्कूटाः सप्तकूटाश्च वसुकूटा नवात्मिकाः ।
दशैकादशकूटाश्च रविकूटास्तथैव च ॥ २ ॥
त्रयोदशात्मिकाश्चैव चतुर्दशभिधास्तथा ।
तथा पञ्चदशाख्याश्च तथा षोडशकूटकाः ॥ ३ ॥
अङ्गप्रत्यङ्गविद्याश्च तथा चावृतिदेवताः ।
पञ्चायतनविद्याश्च न्यासजालं तथैव च ॥ ४ ॥
शुद्धाशुद्धाश्च शबलाः सर्वाश्चोपदिशेत् क्रमात् ।
ता विद्याः प्रजपेच्छिष्यः क्रमप्राप्ताः क्रमेण वै ॥ ५ ॥
गुरुसेवापरो नित्यं गुर्वाज्ञापालको वसेत् ।
क्रमप्राप्तमहाविद्यानिचये भक्तिशालिनि ॥ ६ ॥
द्वितीयमभिषेकं तु कुर्याद्देव्यात्मसिद्धये ।
प्राक्प्रोक्तविधिना सम्यङ्मण्डपं कारयेद्बुधः ॥ ७ ॥
चतुर्विंशत्युत्तरैश्च शतहस्तैश्च मण्डपम् ।
सुदिने शुभनक्षत्रे सुमुहूर्ते शुभोदये ॥ ८ ॥
गणेशं पूजयेदादौ पञ्चवाद्यपुरःसरम् ।
प्राक्प्रोक्तविधिना सम्यक् कुर्यात् पुण्याहवाचनम् ॥ ९ ॥
मातृकापूजनं चैव वृद्धिश्राद्धं तथैव च ।
ब्राह्मणान् पूजयेत् पश्चात् स्वस्तिवाचनपूर्वकम् ॥ १० ॥
सुवर्णभूषणैर्वस्त्रैः श्रीगुरुं वृणुयाद् बुधः ।
ददाज्ञयान्यविप्रांश्च वृणुयात् स्वर्णवस्त्रकैः ॥ ११ ॥
एकं तु पुस्तकाचार्यमृत्विजो वसुसंख्यकान् ।
ब्राह्मणान् नवसंख्यांश्च ह्यष्टौ च द्वारपालकान् ॥ १२ ॥
चतुरः शान्तिपाठाय द्विजानन्यान् शुचिव्रतान् ।
स्वविद्योपासकान् भक्त्या स्वर्णरत्नांगुलीयकैः ॥ १३ ॥
द्विजाज्ञया गुरुर्मध्यवेद्यां चक्रं लिखेत् सुधीः ।
श्रीगुरूक्तप्रकारेण समसूत्रं मनोहरम् ॥ १४ ॥
प्रतिरेखं प्रयत्नेन पूरयेद्रक्ततण्डुलैः ।
सप्तसप्ततिकोणेषु योनिषु प्रतियोनि च ॥ १५ ॥
षोडशारचयेत् सूत्रैस्त्रिभिः षोडशसंख्यया ।
सर्वत्र शालिपुञ्जेषु कलशान् स्थापयेद्बुधः ॥ १६ ॥
मध्यस्थयोनिमध्ये च खारीतायभृतं घटम् ।
प्रस्थमात्रग्राहिघटान् इतरेषु निधापयेत् ॥ १७ ॥
पदेषुकामेश्यादीनां प्रतिदेवि च षोडश ।
अष्टायुधानां स्थानेषु प्रतिहेति च षोडश ॥ १८ ॥
प्रतिस्थानं षोडशैव सिद्धिमुद्रापदेषु च ।
पार्श्वयोरेकमेकं च देव्याः पृष्ठे घटत्रयम् ॥ १९ ॥
हेमरत्नफलैर्वासोद्वयपल्लवशोभितान् ।
गुरुमण्डलनिर्माणं षड्कोणाष्टाब्जमध्यतः ॥ २० ॥
कमलाष्टास्रयोर्मध्ये तिथीशानां च मण्डलम् ।
ग्रहमण्डलमीशाने सर्वतोभद्रमण्डलम् ॥ २१ ॥
वारेशमण्डलं मध्ये अष्टास्राचार्यकुण्डयोः ।
आग्नेयपूर्वमध्ये तु कूर्यान्नक्षत्रमण्डलम् ॥ २२ ॥
योन्यर्धचन्द्रमध्ये तु नित्यामण्डलमुत्तमम् ।
याम्यनैर्-ऋतमध्ये दद्दिननित्याप्रपूजने ॥ २३ ॥
मण्डलं रचयेदिति शेषः ।
नैर्-ऋत्ये वास्तुपूजायां मण्डल रचयेद्बुधः ।
वृत्तत्रिकोणमध्ये तु धातुदैवतमण्डलम् ॥ २४ ॥
षट्कोणवृत्तयोर्मध्ये मिथुनानां च मण्डलम् ।
आग्नये कुरुकुल्लाया वाराह्या वायुगोचरे ॥ २५ ॥
शेषिकाबलिदेवीनां मण्डलान्यन्तरान्तरा ।
इति । गुरुमण्डलसर्वतोभद्रमण्डलपूजाक्रमः प्रागेवाभिहितः ॥
अथ नवग्रहादिपूजाविधिः । तत्र श्रीतन्त्रराजे - (२८ प० ७२ श्लो०)
ग्रहाणां मातृकाविद्याविग्रहं विग्रहं यतः।
तेन तेषां पूजार्थं वक्ष्ये तद्धाममण्डलम् ॥ १ ॥
सुधास्वरैर्भवेदिन्दोर्मण्डलं भास्करस्य तु ।
सुधाव्यञ्जनरूपं स्यादितरे तन्मया यतः ॥ २ ॥
तेन तेषां मण्डलानि तैस्तैर्वर्णैर्वदामि ते ।
तेषां नवानां पूजासु तन्मयं नवमण्डलम् ॥ ३ ॥
चन्द्रार्कयोः पृथक्पूजास्वभ्यर्च्य मण्डलं तयोः ।
क्रमेण शृणु देवेशि सर्वश्रेयस्करात्मकम् ॥ ४ ॥
प्राक्प्रत्यग्दक्षिणोदक् च चतुःसूत्रनिपातनात् ।
त्रिहस्तमात्रे जनयेन्नव कोष्ठानि तेषु वै ॥ ५ ॥
मध्ये प्राक्कोष्ठयोःकृत्वा वृत्तत्रयमतिस्फुटम् ।
तन्मध्ये तिर्यगूर्ध्वं च सूत्रद्वयनिपातनात् ॥ ६ ॥
विधाय नवधा मध्यमीशादि विलिखेत् क्रमात् ।
वाताद्यष्टस्वरान् मध्ये प्रणवं नभसा युतम् ॥ ७ ॥
वृत्तवीथ्योः स्वरोपेतं नभसा मातृकां लिखेत् ।
तत्रार्कमर्चयेत् तस्य नामभिर्द्वादशोदितैः ॥ ८ ॥
प्रणवाद्यैर्नमोन्तैश्च भानोः सर्वत्र सर्वदा ।
सोमस्याद्यं स्वसंयुक्तं कृत्वा तेन तथार्चयेत् ॥ ९ ॥
तन्नाम्ना तत्र विलिखेद्विन्द्वाढ्यं च स्वराष्टकम् ।
षोडशस्वरयुक्तं च मातृकां च स्वयोगतः ॥ १० ॥
विलिखेद्वृत्तयोर्मध्ये मध्यकोष्ठेऽपि तं लिखेत् ।
दाहवह्निस्वसहितमर्चयेत्तत्र मण्डले ॥ ११ ॥
सोममुक्तक्रमेणैव प्रोक्तकालेषु सर्वदा ।
निवेद्य शर्करादुग्धपायसैश्चोपचारकैः ॥ १२ ॥
सप्तस्वन्येषु कोष्ठेषु कृत्वा वृत्तत्रयं तथा ।
तत्तद्वर्गादिवर्णं च स्वरैस्तां मातृकामपि ॥ १३ ॥
विलिख्य मध्यं च तथा कृत्वा तेषु च तत्क्रमात् ।
तत्तद्वर्गाक्षराण्याख्यात्र्यक्षरैरालिखेदपि ॥ १४ ॥
मध्ये प्रणवगर्भस्थवर्गाद्यक्षरमालिखेत् ।
एवं कृतेषु नवसु पूजयेच्च नव ग्रहान् ॥ १५ ॥
अग्न्यादीशान्तमभितो लिखेन्नामान्यनुक्रमात् ।
त्र्यक्षराणि चतुर्थ्यन्तान्यर्च्चयेत्तैश्च तानिति ॥ १६ ॥
भौमं बुधं तथा सौरिं गुरुं राहुं च शुक्रकम् ।
केतुमेतैस्तु सर्वत्र मन्त्रानुक्तौ च पूजनम् ॥ १७ ॥
एवं नवग्रहाणां तु मण्डलान्युदितानि वै ।
तेष्वेव तेषामर्चातस्ते कुर्युस्तदनुग्रहम् ॥ १८ ॥
भास्करेन्द्वोश्च तद्वारद्वये दर्शे च पूर्णिके ।
स्वोच्चयोः स्थितयोः पूजां मण्डलं शृणु पार्वति ॥ १९ ॥
विलिख्य वृत्तयुगलं तन्मध्ये तिर्यगूर्ध्वतः ।
रेखाभिर्नवभिर्मध्ये त्वेकाशीतिपदं लिखेत् ॥ २० ॥
ईशकोष्ठादि परितः प्रवेशेनामृतार्णकान् ।
मायन्ताशीतिसंख्यातान् मध्ये दावगतं च तत ॥ २१ ॥
वृत्तयोरन्तरा कृत्वा मातृकां ग्रथितां च तैः ।
पञ्चभिश्चालिखेत्तत्र बिम्बे सोमं समर्चयेत् ॥ २२ ॥
कर्पूरचन्दनाभ्यां तदालिखेदिन्दुबिम्बकम् ।
रक्तचन्दनसिन्दूरगैरिकेष्वेकतो रवेः ॥ २३ ॥
कृत्वा बिम्बं तत्र तं च पूजयेत् प्रोक्तरूपतः ।
द्विवृत्तान्तस्तिर्यगूर्ध्वं कृत्वा रेखाः समान्तराः ॥ २४ ॥
एकोनविशं तन्मध्येष्वा लिखेत् प्राग्वदुदीरितान् ।
प्राणादिकान्नमोन्तांस्तु स्वैरुपेतान् स्वरैर्युतान् ॥ २५ ॥
वृत्तयोरन्तरा तैश्च पञ्चविंशतिवर्णकैः ।
स्वरैर्भान्तयुतैर्वह्निदशार्णैर्ग्रथितां लिपिम् ॥ २६ ॥
विलिख्य विशदाकारं त्रिहस्तायामविस्तरम् ।
तन्मध्ये भानुमावाह्य पूजयेत् प्राग्वदीश्वरि ॥ २७ ॥
पीठे वा सुधया क्लिप्ते भूतले वा शिखातले ।
सुसमेऽनावृते कृत्वा बिम्बायुक्तानि पूजयेत् ॥ २८ ॥
एवं सर्वत्र तन्त्रेऽस्मिन् ग्रहपूजा समीरिता ।
विशेषादेशरहिते तत्र तत्क्रमतोऽर्चयेत् ॥ २९ ॥
अस्यार्थः प्रयोगे वक्ष्यते । वास्तुमण्डलपूजा प्रागेव प्रदर्शिता ॥ अथ तिथिवारर्क्षदेवताः पिङ्गलामते -
शृणु देवि प्रवक्ष्यामि वारतिथ्यृक्षदेवताः ।
रवौ सूर्यशिवौ देवि चन्द्रे सोमाम्बिके ततः ॥ १ ॥
भौमे तु मङ्गलगुहौ शुद्ध (बुधो) विष्णुस्ततः परे ।
परे गुरुचतुर्वक्त्रौ भृगौ शुक्रपुरन्दरौ ॥ २ ॥
मन्दे वारे (धने)श्वरः कालो वारेशाः परिकीर्तिताः ।
इति । परे बुधवारे । परे गुरुवारे । तथा -
ब्रह्मा विधाता विष्णुश्च यमः शीतकरो गुरुः ।
इन्द्रश्च वसवो नागा धर्मः शिवदिवाकरौ ॥ १ ॥
मन्मथश्च कलिश्चैव विश्वेदेवास्तिथीश्वराः ।
दर्शे तु पितरो देवि पूज्याः सर्वोपचारकैः ॥ २ ॥
अश्विनौ च यमो वह्निर्ब्रह्मेन्दुश्च शिवोऽदितिः ।
गुरुः सर्पाश्च पितरो भगोऽर्यमदिनेश्वरौ ॥ ३ ॥
त्वष्टा वायुरथेन्द्राग्नी मित्रश्चेन्द्रस्ततः प्रिये ।
निर्-ऋतिश्चैव तोयं च विश्वेदेवाः प्रजापतिः ॥ ४ ॥
विष्णुश्च वसवो देवि वरुणाश्चाज एकपात् ।
अहिर्बुध्न्यश्च पूषा च प्रोक्ता नक्षत्रदेवताः ॥ ५ ॥
एताः सर्वोपचारैस्तुतद्दिनेषुसमयर्चयेत् ।
प्रणवाद्यैश्चतुर्थीहृदन्तैर्नामभिरीश्वरि ॥ ६ ॥
इति । अत्रेन्द्राग्नी इत्येकस्यैव नक्षत्रस्य देवताद्वयम् ।
विशाखानक्षत्रमिन्द्राग्निदेवतेति श्रुतेः । उत्तराषाढानक्षत्रस्य
विश्वेदेवाः श्रवणस्य विष्णुः । एतयोर्मध्ये प्रजापतिरिति यदुक्तं
तदभिजितमस्ति तज्ज्योतिःशास्त्रेऽवगन्तव्यम् ॥ अथ तद्दिननित्यापूजाविधिः
। श्रीतन्त्रराजे - (२५ प० ७८ श्लो०)
आसां तु नित्याविद्यानामङ्गानि च शृणु प्रिये ।
द्विरुक्तैस्तैः षडङ्गानि कुर्यादर्णैः कराङ्गयोः ॥ १ ॥
विन्यस्य मातृकामुक्तां जपेद्विद्यास्तथैकशः ।
रक्ता रक्ताम्बरा रक्तभूषणस्रग्विलेपनाः ॥ २ ॥
पाशांकुशेक्षुकोदण्डप्रसूनविशिखाः स्मरेत् ।
तदावृतीनां पञ्चानां शक्तीस्तत्सदृशीः स्मरेत् ॥ ३ ॥
चतुरस्रद्वयं कृत्वा द्वारद्वयविभूषितम् ।
अष्टपत्राम्बुजं मध्ये नवयोनौ च तां यजेत् ॥ ४ ॥
अङ्गावृतिं मध्ययोनावन्तरे स्यायुधावृतीः ।
पृष्ठतो गुरुपंक्तिं च कोणेष्वष्टसु च क्रमात् ॥ ५ ॥
बहिर्दलेष्वपि तथा यजेद्वर्णैर्विलोमतः ।
रूपिणीशक्तिसहितैर्मायासप्ताक्षरीयुतैः ॥ ६ ॥
ब्राह्यादिशक्तीस्तद्बाह्ये चतुरस्रद्वये यजेत् ।
आसां बलिप्रदानं च करोतु कुरुकुल्लया ॥ ७ ॥
सप्ताक्षर्या केवलया प्रोक्तरूपां स्मरन् धिया ।
इति ॥ अथ प्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते
तद्दिननित्याविद्या प्राणायामत्रयं कृत्वा शिरसि
ह्रींश्रींदक्षिणामूर्तये ऋषये नमः । मुखे पंक्तिच्छन्दसे नमः
। हृदये कालनित्यायै देवतायै नमः । इति विन्यस्य
हृदयादिषडङ्गेष्वपि विन्यस्य रक्तां रक्ताम्बरामित्यादि ध्यात्वा
मानसपूजादिकं विधाय स्वपुरतः स्वर्णादिपट्टे कुंकुमादिना
सकेसरमष्टदलकमलं विरच्य तन्मध्ये नवयोनिचक्रं
विधायाष्टदलाद्बहिश्चतुरस्रद्वयमन्तर्विभागेन
प्राक्पश्चिमयोर्द्वारद्वययुतं कृत्वा तन्मध्ये योनौ
तद्दिननित्याविद्याया अक्षरत्रयं लिखित्वा श्रीपर्ण्यादिपीठे स्वपुरतः
संस्थाप्य तत्र तद्दिननित्याविद्यया पुष्पाञ्जलिं
तत्त्वार्घ्यादिप्रात्राणि संस्थाप्यात्मपूजां विधाय
श्रीचक्रपीठपूजां विधायावाहनादिपुष्पान्तैरुपचारैरुपचर्य
लयाङ्गपूजनं कृत्वा योनिमुद्रां पाशादिचतुर्मुद्राः प्रदर्श्य
मध्ययोनिमध्येऽग्नीशासुरवायव्यकोणेषु देव्यग्रे तदादिचतुर्दिक्षु
च प्राग्वत् षडङ्गानि सम्पूज्य
मध्ययोनेर्बहिरष्टकोणाभ्यन्तरस्थान्तरालेषु
प्राग्वदायुधचतुष्टयं सम्पूज्य देव्याः पृष्ठभागे योनिमध्ये
योन्यन्तराले गुरुपंक्तित्रयस्थाने रेखात्रयं विभाव्य तासु
प्रथमरेखायां प्रकाशानन्दादिगुरुत्रयं मध्यरेखायां
श्रीज्ञानानन्दनाथादिगुरुत्रयं तृतीयरेखायां
स्वभावानन्दादिगुरुत्रयं चेति गुरुपंक्तित्रयं पूजयेत् ।
ततोऽष्टयोनिषु देव्यग्रमारभ्य वामावर्तेन तद्दिननियाविद्याया
मध्याक्षरं षोडशस्वरयुक्तं कृत्वा मायाबीजपूर्वकं
तेषामाद्यक्षरमुच्चार्य रूपिणोशक्तिपादुकां पूजयामि दिवितीयं
रूपिणीशक्तिपादुकां पूजयामि इत्याद्यष्टशक्तीः
सम्पूज्याष्टदलेषु वामावर्तेनावशिष्टाक्षरशक्तीः सम्पूज्य
बहिश्चतुरस्रवीथ्यां वामावर्तेन
ब्राह्म्याद्यष्टशक्तीर्मायाबीजादिकाः सम्पूज्य
लोकपालार्चनादिनैवेद्यदानान्ते कुरुकुल्लाविद्या सप्ताक्षर्या
बलिदानं च विधाय सर्वं समापयेदिति तद्दिननित्यायाः पूजाविधिः
॥
अथ डाकिन्यादिषड्धातुदेवतापूजाविधिर्लिख्यते । तत्र श्रीतन्त्रराजे - (१६ पा० ७२ श्लो०)
भूमौ विधाय षट्कोणसप्तकं प्रोक्तदिक्क्रमात् ।
मध्ये च तत्र तां नित्यानित्यां गन्धादिभिर्यजेत् ॥ १६ ॥
अभितस्तत्षडस्रेषु तत्षट्कं तत्क्रमाद्यजेत् ।
बाह्येष्वपि च ताः प्राग्वत् प्रोक्तवर्णाः समर्चयेत् ॥ २ ॥
तासां षण्णामपि तथा षट्कोणेषु सशक्तयः ।
षट्त्रिंशत्ताः समा देव्याः सर्वरूपायुधादिभिः ॥ ३ ॥
प्राग्वत् स्वराणां पञ्च स्युरपूर्वाः कादिमान्तकाः ।
परेषु यवलक्षार्णरहितैस्तैस्तथार्चयेत् ॥ ४ ॥
तेषामपि च चक्राणां शक्तीनां च विलोमतः ।
पूजा निग्रहसंज्ञा स्यात्सा शत्रूणां विपत्तये ॥ ५ ॥
इति ॥ अथ प्रयोगः - तत्र वेदिकायां गोमयोपलिप्ते पशुदृष्टिरहिते स्वासनपूजादियोगपीठन्यासान्ते नित्यानित्यापूजोक्तविधिना प्राणायामादिमानसपूजान्तं कृत्वा स्वपुरतः क्वचिद्विन्दुं कृत्वा तदवष्टम्भतः परितश्चतुर्विंशांगुलमानभ्रमाद्वृत्तं निष्पाद्य तन्मध्ये प्राक्प्रत्यगायतं ब्रह्मसूत्रमास्फाल्य तद्ब्रह्मसूत्रस्यार्धमानेन तस्मिन् वृत्ते ब्रह्मसूत्रस्य पूर्वाग्रदितः पश्चिमाग्रादितश्च दक्षिण (भागे) चिह्नद्वयमुत्तरभागे चिह्नद्वयमिति सम्भूय चिह्नचतुष्टयं कृत्वा चिह्नात् चिह्नं दक्षिणोत्तरायतं तिर्यक्सूत्रद्वयमास्फाल्य पश्चिमतिर्यक्सूत्राग्रद्वयमारभ्य ब्रह्मसूत्रस्य पूर्वाग्रावधि सूत्रद्वयं विन्यस्य पुनः पूर्वतिर्यक्सूत्रस्य कोटिद्वयमारभ्य ब्रह्मसूत्रस्य पश्चिमाग्रावधि सूत्रद्वयमास्फाल्य षट्कोणं जायते । ततो वह्निकोणादिवायुकोणान्तं तथेशानादिनिर्-ऋत्यन्तं ब्रह्मसूत्रद्वययमास्फाल्य समेतानि तानि त्रीण्यपि सूत्राणि प्रत्येकं त्रिधा विभज्य चिह्नानि कृत्वा पश्चिमवायव्येशानपूर्वाग्नेयनिर्-ऋतिदिग्गतेषु षट्सु ब्रह्मसूत्रतृतीयांशस्थानेषु मध्ये च तत्तदर्धमानसूत्रप्रमाणेन वृत्तसप्तकं कृत्वा ब्रह्मसूत्रत्रयं प्रत्येकं चतुर्विंशतिधा विभज्य मध्यवृत्तमध्यगतबिन्दुमारभ्य परितः षट्सु वृत्तेषु दशमांशदशमांशस्थानेषु तत्तन्मध्यगतब्रह्मसूत्रचिह्नानि कृत्वा पुनर्मध्यवृत्तस्य च मध्यादित
आग्नेयकोणगतवृत्तब्रह्मसूत्रे प्राग्वद्दशमांशे चिह्नं कृत्वा
तथैवाग्नेयमध्यवृत्तयोरन्तरालादितो
वायव्यवृत्तमध्यगतब्रह्मसूत्रे दशमांशे चिह्नं कृत्वा
तथैवेशाननिर्-ऋतिकोणगतवृत्तयोरप्युक्तयुक्त्या प्रतिवृत्तं चिह्नद्वयं
विधाय तथैव प्राक्प्रत्यगायतब्रह्मसूत्रस्य पश्च्माग्रादितः
पूर्वाग्रादितश्च प्राग्वद्दशमांशे चिह्नद्वयं विधाय सप्तस्यपि
वृत्तेषु चिह्ने चिह्ने प्रतिवृत्तं तिर्यग्रेखाद्वयं कृत्वा तेषु
प्रागुक्तयुक्त्या षट्कोणसप्तकं निष्पाद्य तेषु प्रतिषट्कोणं मध्ये
च षट्सु त्रिकोणेषु वृत्तानि कृत्वा ब्रह्मसूत्राणि मार्जयेदिति
पूजाचक्रमुद्धृत्य तन्मध्ये नित्यानित्याविद्यया पुष्पाञ्जलिं
निक्षिप्य नित्याविद्ययार्घ्यस्थापनाद्यात्मपूजान्ते मध्यषट्कोणे
नित्यानित्यापूजोक्तविधिना पीठपूजादिपुष्पोपचारान्ते तत्रोक्तविधिना
डाकिन्यादिषट्कं सम्पूज्य धूपदीपौ दत्त्वा
वक्ष्यमाणनैवेद्यषट्कं निवेद्य ताम्बूलादि सर्वं च निवेद्य निर्-
ऋतिकोणे धूम्रवर्णे मध्ये डाकिनीमावाह्य धूम्रवर्णो
नित्यासमानमुखभुजादियुतां ध्यात्वा
डांडीमित्यादिषडङ्गमन्त्रैर्जातियुतः षडङ्गन्यासयोगेन
सकलीकृत्य तस्याः प्राणप्रतिष्ठां विदध्यात् । एवमुत्तरत्रापि
राकिण्यादीनामाद्यक्षरैः षड्दीर्घजातियुतैस्तासां सकलीकरणं
प्राणप्रतिष्ठां च कुर्यात् । ततः
स्वाभिमुखीमासनादिपुष्पान्तैरुपचारैरभ्यर्च्य
तदावरणशक्तीश्च निरृतिकोणे ह्रीं-आं-अंशक्तिपादुकां पूजयामि
। एवं वायव्यकोणे २ कंशक्तिपादुकां पूजयामि । पूर्वकोणे २
खंशक्तिपादु० । आग्नेयकोणे २ गंशक्तिपा० । ईशानकोणे २
घंशक्तिपा० । पश्चिमकोणे २ ङंशक्तपादु० । इति सम्पूज्य
धूपदीपौ दत्त्वा यायसान्नं निवेद्य
ताम्बूलादिप्रणामान्तैरुपचारैः परितोष्य वायव्यषट्कोणे
सिन्दूरवर्णे राकिणीमावाह्य सिन्दूरवर्णां
नित्यानित्यासमानमुखभुजादियुतां ध्यात्वासनादिपुष्पोपचारान्ते
राकिण्यादिवामाग्रदक्षिणाग्रपृष्ठवामदक्षिणसंमुखस्थेषु
षट्सुकोणेषु ह्रीं-आं-अंशक्तिपादु० । एवं २ चंशक्तिपा० । २
छंशक्तिपा० । २ जंशक्तिपा० । झंशक्तिपादुकां० । २
ञंशक्तिपादुकां पूजयामीति सम्पूज्य धूपदीपौ दत्त्वा
गुडौदनं निवेद्य ताम्बूलादि प्राग्वत्कल्पयेत् । ततः
पूर्वदिग्गतषट्कोणे नीलवर्णे लाकिनीमावाह्य नीलवर्णां
प्राग्वन्मुखभुजादियुतां ध्यात्वासनादिपुष्पोपचारान्ते प्रोक्तरीत्या
षट्कोणेषु ह्रीं-आं-अंशक्तिपादु० । २ टंशक्तिपा० । २ ठंशक्तिपा०
। २ डंशक्तिपा० । २ ढंशक्तिपा० । २ णंशक्तिपा० । इति सम्पूज्य
धूपदीपौ दत्त्वा मुद्गौदनं निवेद्य शेषं प्राग्वत् कुर्यात् ।
आग्नेयदिग्गतषट्कोणे उद्यदादित्यवर्णे तादृशीं काकिनीमावाह्य
प्राग्वद् ध्यात्वाऽसनादिपुष्पोपचारान्ते प्राग्वत् षट्कोणेषु ह्रीं-
आं-अंशक्तिपा० । २ तंशक्तिपा० । २ थंशक्तिपा० । २ दंशक्तिपा० । २
धंशक्तिपा० । २ नंशक्तिपा० । इति सम्पूज्य निवेद्य शेषं प्राग्वत्
कुर्यात् । तत ईशानदिग्गतषट्कोणे हेमवर्णे शाकिनीमावाह्य
स्वर्णंवर्णां ध्यात्वाऽसनादिपुष्पोपचारान्ते २ अंशक्तिपा० । २
पंशक्तिपा० । २ फंशक्तिपा० । २ बंशक्तिपा० । २भंशक्तिपा० ।
२मंशक्तिपा० । इति सम्पूज्य तिलमिश्रान्नं निवेद्य शेषं प्राग्वत्
कुर्यात् अथ पश्चिमषट्कोणे शुभ्रवर्णे हाकिनीमावाह्य
प्राग्वद्भुजादियुतां शुभ्रवर्णां ध्यात्वाऽसनादिपुष्पोपचारान्ते
२ अंशक्तिपा० । २ रंशक्तिपा० । २ शंशक्तिपा० । २ षंशक्तिपा० । २
संशक्तिपा० । २ हंशक्तिपा० । इति सम्पूज्य धूपदीपौ दत्त्वा
शुद्धान्नं निवेद्य ताम्बूलादि प्राग्वत् कल्पयेत् । ततो नित्यां
प्राग्वत्तद्विद्यया सम्पूज्य धूपदीपौ दत्त्वा स्तुतिप्रणामादिभिः
परितोष्य डाकिन्याद्याः सावरणा अस्यां संयोज्य तां वा स्वहृदि
उद्वास्य तन्मयः सुखं विहरेदिति ॥
अथ पञ्चशन्मिथुनपूजा ॥ तत्र श्रीतन्त्रराजे - (१६ पा० ९५ श्लो०)
आदिक्षान्ताक्षरैः प्राग्वद्रूपिणीशक्तिसंयुतैः ।
बीजद्वयाद्यैः सप्ताक्षर्ययन्तैः पञ्चदशाक्षरैः ॥ १ ॥
पञ्चाशच्छक्तयः पूज्याः पञ्चाशत्क्षेत्रपालकैः ।
तेषां बीजद्वयं वर्णा रूपक्षेत्रेशसंयुताः ॥ २ ॥
सप्ताक्षर्यया च संयुक्ता मन्त्राः पञ्चदशाक्षराः ।
चतुष्षष्टिपदे मध्यचतुष्के दिनविद्यया ॥ ३ ॥
मनीषितं समालिख्य तेषु तन्मिथुनानि वै ।
घटिकाक्रमयोगेन हृन्मायामध्यगेऽर्चयेत् ॥ ४ ॥
दिनेषु घटिकायोगात् पञ्चाशन्मिथुनान्यपि ।
एवं मण्डलमासार्धात्प्राप्नोत्येवाभिवाञ्छितम् ॥ ५ ॥
नित्यशस्ताः समावाह्य तस्मिंश्चक्रे समर्चनात् ।
समस्तवाञ्छितप्राप्तिः सदा भवति सर्वतः ॥ ६ ॥
इति । आदिक्षान्तेत्यादि सर्वत इत्यन्तस्य श्लोकषट्कस्यायमर्थः तत्र प्राग्वच्छुभस्थाने समान्तरालानि नव सूत्राणि
प्राक्प्रत्यग्दक्षिणोदक्च विन्यस्य चतुष्षष्टिपदोपेतं चतुरस्ररचक्रं कृत्वा तस्मिंश्चक्रे मध्यकोष्ठचतुष्कमेकीकृत्य तत्र तद्दिननित्याक्षराणि स्वाभिमतप्रार्थनमध्यमालिख्य तदनन्तरे बाह्याधःपंक्तिस्थमध्यद्वये दक्षिणं कोष्ठमारभ्य प्रादक्षिण्यक्रमेणामुक्तक्रमं निर्गमगत्या चक्रवामपंक्त्याधः कोष्ठावधि षष्टिकोष्ठेषु तद्दिनोदयाक्षरादीनि मातृकायाः पञ्चाशदक्षराणि विसर्गस्वरसहितानि ह्रीमितिबीजमध्यगतानि विलिख्यावशिष्ठेषु पुनरप्युदयादीनि दशाक्षराणि समालिख्य तेषु लिखितक्रमेणोदयाक्षरादिषु षष्टिघटिकासु तत्र घटिकामिथुनं षोडशभिरुपचारैरभ्यर्च्य तत्फलमवाप्नुयात् । अत्र पूजामन्त्रस्तु ह्रींश्रीं-अंरूपिणीशक्तिपादुकां पूजयामि इत्यादिशक्तिविद्याः पञ्चाशत् ह्रींश्रीं-अंरूपक्षेत्रेशपादुकां पूजयामि इत्यादयः क्षेत्रेशाः पञ्चाशदित्येवं पञ्चाशदक्षरादीनि षष्टिमिथुनानि यथाक्रममेकैकशःस्थ (?) विलम्बेन पूजयेत् । प्रतिघटिकापूजनस्य तदेककाम्यकर्मविषयत्वात् ॥ इति पञ्चाशन्मिथुनपूजा ॥ अथ कामेश्वर्यादिपञ्चदशनित्यानां पूजाविधिर्लिख्यते । तत्र कामेश्वरीनित्यायजनविधिः श्रीतन्त्रराजे - ( ७ प० १ श्लो०)
अथ षोडशनित्यासु द्वितीया या समीरिता ।
कामीश्वरीति तां सर्वकामदां शृणु तत्त्वतः ॥ १ ॥
तत्त्वन्यासं ध्यानभेदांस्तच्छक्तीस्तत्प्रपूजनम् ।
मन्त्रोद्धारस्तु तत्रैव - (३ । ६)
शुचिः स्वेन युतस्त्वाद्यो ललिता स्याद्द्वितीयकः ।
शून्यमग्नियुतं पश्चाद्रयो व्याप्तेन संयुतः ॥ १ ॥
प्राणो रसाग्निसहितः शून्ययुग्मं चरान्वितम् ।
नभो गोत्रा पुनश्चैषा दाहेन समयोजिता ॥ २ ॥
अम्बु स्याच्चरसंयुक्तं वनशक्तियुतं च हृत् ।
एषा कामेश्वरी नित्या कामदैकादशाक्षरी ॥ ३ ॥
इति । ऐं सकलह्रीं नित्यक्लिन्ने मदद्रवे सौः ११ इति । तथा त्रिपुरार्णवे -
(ऋषिः संमोहनः प्रोक्तस्त्रिष्टुप् छन्द उदाहृतम् ।
कामेश्वरीदेवता स्याद्ब्रह्मबीजं तु बीजकम् ॥ १ ॥
शक्तिः कामकला प्रोक्ता धराबीजं तु कीलकम् ।)
तन्त्रराजे - (७ । ३)
मूलविद्याक्षरैरेवं कुर्यादङ्गानि षट् क्रमात् ।
एकेन हृदयं शीर्षं तावताथो द्वयं द्वयात् ॥ १ ॥
चतुर्भिर्नयनं तद्वदस्त्रमेकेन चोदितम् ।
दिक्श्रोत्रनासाद्वितये जिह्वाहृन्नाभिगुह्यके ॥ २ ॥
व्यापकत्वेन सर्वाङ्गे मूर्धादिप्रपदावधि ।
न्यसेद्विद्याक्षराण्येषु स्थानेषु तदनन्तरम् ॥ ३ ॥
समस्तेन व्यापकं तु कुर्यादुक्तक्रमेण वै ।
अथ ध्यानं प्रवक्ष्यामि नित्यपूजासु चोदितम् ॥ ४ ॥
येन देवी सुप्रसन्ना ददातीष्टमयत्नतः ।
बालार्ककोटिसङ्काशां माणिक्यमुकुटोज्ज्वलाम् ॥ ५ ॥
हारग्रैवेयकाञ्चीमिरूर्मिकानूपुरादिभिः ।
मण्डितां रक्तवसनां रक्ताभरणशोभिताम् ॥ ६ ॥
षड्भुजां त्रीक्षणामिन्दुकलाकलितमौलिकाम् ।
पञ्चाष्टषोडशद्वन्द्वषट्कोणचतुरस्रगाम् ॥ ७ ॥
मन्दस्मितोल्लसद्वक्त्रां (दया ? लज्जा) मन्थरवीक्षणाम् ।
पाशांकुशौ च पुण्ड्रेक्षचापं पुष्पशिलीमुखम् ॥ ८ ॥
रत्नपात्रं सुधापूर्णं वरदं बिभ्रतीं करैः ।
एवं ध्यात्वार्चयेद् देवीं नित्यपूजासु सिद्धये ॥ ९ ॥
प्रयोगादिषु सर्वत्र वक्ष्ये ध्यानानि तत्र वै ।
मदनोन्मादनौ पश्चात्तथा दीपनमोहनौ ॥ १० ॥
शोषणश्चेति कथिता बाणाः पञ्च पुरोदिताः ।
कुसुमा मेखला पश्चान्मदना मदनातुरा ॥ ११ ॥
अनङ्गपदपूर्वास्ताः पञ्चमी मदवेगिनी ।
ततो भुवनपाला स्याच्छशिरेखा त्वनन्तरा ॥ १२ ॥
रेखा गगनपूर्वान्या पूज्या पत्रेषु चाष्टसु ।
श्रद्धा प्रीति रतिश्चैव धृतिः कान्तिर्मनोरमा ॥ १३ ॥
मनोहराष्टमी प्रोक्ता देवी चात्र मनोरथा ।
मदनोन्मादिनी पश्चान्मोहिनी शङ्खिनी ततः ॥ १४ ॥
शोषिणी च वशङ्कारी शिञ्जिनी सुभगाः ततः ।
सस्वराः षोडश प्रोक्ताः प्रियदर्शिनिकान्तिकाः ॥ १५ ॥
पूज्यास्ताः प्रतिपत्रं तु प्रत्येकं षोडशच्छदे ।
पूषा चेद्धा सुमनसा रतिः प्रीतिर्धृतिस्तथा ॥ १६ ॥
ऋद्धिः सौम्या मरीचिश्च परतस्त्वंशुमालिनी ।
शशिनी चाङ्गिरा च्छाया ततः सम्पूर्णमण्डला ॥ १७ ॥
तुष्ट्यमृताख्या कथिताः कलाः स्युः सस्वरा विधोः ।
सोडशस्वपि पत्रेषु पूजयेत्ता यथाक्रमम् ॥ १८ ॥
बहिः षट्कोणकोणेषु डाकिन्याद्यास्तथार्चयेत् ।
तद्बहिश्चतुरस्रस्थलोकेशास्तत्समा यजेत् ॥ १९ ॥
वटुकं गणपं दूर्गां क्षेत्रेशं चाभितो यजेत् ।
अग्न्याद्यस्रेषु विद्यादिसप्ताक्षर्ययन्तरास्थितैः ॥ २० ॥
तन्नामभिर्बलिं तेभ्यो दद्याद्गन्धादि चोदितैः ।
ततस्तामङ्गविद्याभ्यां कॢप्तार्घ्यः पूजयेच्छिवाम् ॥ २१ ॥
प्रागुक्तैरुपचाराद्यैर्होमं कुर्यात्ततस्तथा ।
घृताक्तैर्मधुराक्तैर्वा प्रसूनैररुणैः शुभैः ॥ २२ ॥
अन्नाद्याभ्यां प्रजुहुयात्ततः प्राग्वत्समापयेत् ।
इति ॥ अथ प्रयोगः - तत्र प्रातःकृत्यादियोगपीठन्यासान्ते
कामेश्वरीविद्ययां प्राणायामत्रयं कृत्वा शिरसि संमोहनाय
ऋषये नमः । मुखे त्रिष्टुप्छन्दसे नमः । हृदये कामेश्वरीदेवतायै
नमः । गुह्येकं बीजाय नमः । पादयोः ईशक्तये नमः । नाभौ
लंकीलकाय नमः इति विन्यस्य मम
कर्तव्यपूर्णाभिषेकाख्यद्वितीयदीक्षाफलसिद्धये विनियोगः इति
कृताञ्जलिरुक्त्वा ऐं हृदयाय नमः । सकलह्रीं शिरसे स्वाहा । नित्य
शिखायै वषट् । क्लिन्ने कवचाय हुं । मदद्रवे नेत्रत्रयाय वौषट् ।
सौः अस्त्रायफट् इति षडङ्गन्यासं विधाय दक्षनेत्रे ऐं नमः ।
वामे सकलह्रीं नमः । दक्षश्रोत्रे नि नमः । वामेत्य नमः ।
दक्षनसि क्लि नमः । वामे न्ने नमः । जिह्वायां म नमः । हृदये द
नमः । नाभौ द्र नमः । गुह्ये वे नमः । सौः इति सर्वाङ्गे व्यापकं
विन्यस्य ध्यानं विधाय मानसपूजान्ते स्वर्णादिपट्टे
कुंकुमादिना पञ्चदलकमलं कृत्वा तद्बहिरष्टदलं तद्बहिः
षोडशदलं तद्बहिः षट्कोणं तद्बहिश्चतुर्द्वारयुक्तं चतुरस्रमिति
पूजाचक्रं निर्माय स्वपुरतश्चन्दनादिपीठे संस्थाप्य तत्र
कामेश्वरीविद्यया पुष्पाञ्जलिं
विनिःक्षिप्यार्घ्यादिस्थापनाद्यात्मपूजान्ते पीठपूजां कृत्वा तत्र
कामेश्वरीविद्यया मूर्ति परिकल्प्यावाहनादिपुष्पोपचारान्ते
लयान्तं सम्पूज्य पञ्चदलकमलकेसरेषु
अग्नीशासुरवायव्यदेव्यग्रतस्तदादिचतुर्दिक्षु च षडङ्गानि सम्पूज्य
देव्याः पृष्ठभागे पञ्चदलाष्टदलयोरन्तराले
प्राग्वद्दिननित्यापूजोक्तगुरुत्रयं सम्पूज्य पञ्चदलेषु
देव्यग्रादिप्रादक्षिण्येन ह्रींश्रींद्रांमदनबाणाय नमः २
द्रीं उन्मादन बाणाय नमः । २ क्लींदीपनबाणाय नमः । २ ब्लूं
मोहनबाणाय नमः । २ सः शोषणाबाणाय नमः इति सम्पूज्य
तद्बहिरष्टदलेषु देव्यग्रादिप्रादक्षिण्येन २ अनङ्गकुसुमापा० । २
अनङ्गमेखलापा० । २ अनङ्गमदनापा० । अनङ्गमदनातुरापा० । २
अनङ्गमदवेगिनीपा० । २ अनङ्गभुवनपालापा० । २ अनङ्गशशिरेखा
पा० । २ अनङ्गगगनरेखापादुकां पूजयामि नमः । ततः
षोडशदलेषु २ अं श्रद्धापादुकां पूजयामि नमः । २
आंप्रीतिपा० । २ इंरतिपा० । २ ईंधृतिपा० । २ उंकान्तिपा० । २
ऊंमनोरमापा० । २ ऋंमनोहरापा० । २ ॠंमनोरथापा० । २
ऌंमदनापा० । २ ॡं-उन्मादिनी पा० । २ एंमोहिनीपा० । २ ऐं
(शान्ति?शंखिनी) पा० । २ ओंशोषिणीपा० । २ औंवशंकरीपा० । २
अंशिञ्जिनीपा० । २ अःसुभगापा० इति सम्पूज्य तद्बहिः
षोडशदलाग्रेषु - २ अंपूषापादुका० । २ आं-इद्धापा० । २
इंसुमनसापा० । २ इंरतिपा० । २ उं प्रीतिपादुका० । २ ऊंधृतिपा० । २
ऋं-ऋद्धिपा० । २ ॠसौम्यापा० । २ ऌमरीचिपा० । २ ॡं-अंशुमालिनीपा०
। २ एंशशिनीपा० । २ ऐं-अङ्गिरापा० । २ ओंछायापा० । २
औंसम्पूर्णमण्डलापा० । २ अंतुष्टिपा० । २ अः-अमृतापा० इति
सम्पूज्य तद्बहिः षट्कोणेषु दक्षिणाग्रकोणे २ ऐंडाकिनीपा० ।
वामाग्रे २ ऐंराकिणीपा० । पृष्ठकोणे २ ऐंलाकिनीपा० । पृष्ठवामे
२ ऐंकाकिनी० । पृष्ठदक्षिणे २ ऐंशाकिनी० । देव्यग्रे २ ऐंहाकिनीपा०
इति सम्पूज्य षट्कोणाद्बहिश्चतुरस्राभ्यन्तरे आग्नेयकोणे २
ऐंवटुकपा० । नैर्-ऋते २ गंगणपतिपा० । वायव्ये ऐंदुर्गापा० ।
ईशाने २ ऐंक्षंक्षेत्रेशपा० इति सम्पूज्य तद्बहिः चतुरस्रे देव्याः
पृष्ठभागमारभ्य पूर्वादिदशदिक्षु २ ऐंलं-इन्द्रशक्तिपा० । २
ऐंरं-अग्निशक्तिपा० इत्यादिलोकपालांस्तदायुधानि च
शक्त्यन्तैस्तन्नामभिः सम्पूज्य धूपदीपनैवेद्यान्ते कुरुकुल्लाबलिं
वटुकगणपदूर्गाक्षेत्रेशबलिं च दत्त्वा जपादिकं शेषं
समापयेत् । अत्र पञ्चदशनित्यास्वपि पूजादौ सर्वभूतबलिं पूजान्ते सप्ताक्षर्या कुरुकुल्लाबलिं दद्यात् इति कामेश्वरीनित्यायजनविधिः ॥
अथ भगमालिनीनित्यायजनविधिः । तत्र श्रीतन्त्रराजे - (८ प०)
अथ षोडशनित्यासु तृतीयां भगमालिनीम् ।
शृणु देवि प्रवक्ष्यामि साङ्गां सावरणाम् क्रमात् ॥ १ ॥
तदङ्गान्यथ तद्ध्यानं तदावरणदेवताः ।
तत्पूजायाः क्रममिति मन्त्रोद्धारस्तथैव च ॥ २ (-३ । ९)
कामेश्वर्यादिरादिः स्याद्रसश्चाथ स्थिरा रसा ।
धरायुक् सचरा पश्चात् स्थिरा पश्चाद्रसः स्मृतः ॥ ३ ॥
स्थिराशून्येऽग्नि संयुक्ते रसः स्यात्तदनन्तरम् ।
स्थिरा भूसहिता गोत्रा सदाहोऽग्नी रसः स्थिरा ॥ ४ ॥
नभश्च मरुता युक्तं रसा चरसमन्विता ।
ततो रसः स्थिरा पश्चान्मरुता सह योजिता ॥ ५ ॥
अम्बु हंसश्च सचरो रसोऽथ स्यात् स्थिरायुतः ।
स्थिरा धरान्वितो हंसो व्याप्तेन च चरेण तु ॥ ६ ॥
रसः स्थिरा ततो व्याप्तं भूयुतं शून्यमग्नियुक् ।
रसः स्थिरा ततः साग्निः शून्यं जवियुतो मरुत् ॥ ७ ॥
रयः शून्यं चाग्नियुतं हृद्दाहः साम्ब्वतः परम् ।
रसः स्थिराम्बु च वियत् स्वयुतं प्राण एव च ॥ ८ ॥
दाहोऽग्नियुग्रसस्तस्मात् स्थिरा क्ष्मा दाहसंयुता ।
सचरः स्याञ्जवी पूर्वविद्यातार्तीयतः क्रमात् ॥ ९ ॥
चतुष्टयमथार्णानां रसस्तदनु च स्थिरा ।
हृदम्बुयुक् क्ष्मया दाहः सचरः स्याञ्जवी च हृत् ॥ १० ॥
दाहोऽम्बुमरुता युक्तो व्योम साग्नी रसस्तथा ।
स्थिरा तु मरुता युक्ता शून्यं साग्नि नभश्चरौ ॥ ११ ॥
हंसो व्याप्तमरुद्युक्तः शून्यं व्याप्तमतोऽम्बु च ।
दाहो गोत्रा चरयुता तथा दाहस्तथा रयः ॥ १२ ॥
हृद्धरासहितं दाहरयौ चरसमन्वितौ ।
रसः स्थिरा ततः प्राणो रसाग्निसहितो भवेत् ॥ १३ ॥
शून्ययुग्मं चरयुतं ततः पूर्वमतः परम् ।
शून्ययुग्मं च गोत्रा स्याद्दाहयुक्ताम्बुना चरः ॥ १४ ॥
प्राणो रसाचरयुतो गोत्रा व्याप्तमतः परम् ।
गोत्रा दाहमरुद्युक्ता त्वम्बु व्याप्तमतो भवेत् ॥ १५ ॥
वातो नभश्च भूयुक्तं वाश्चरेण समन्वितम् ।
रसः स्थिराम्ब्वग्नियुतं वायुयुग्मं चरान्वितम् ॥ १६ ॥
ग्रासो धरायुतः पश्चाद्रसः शक्त्या समन्वितः ।
ग्रासो भूसहितो देवि रसो व्याप्तं ततश्च हृत् ॥ १७ ॥
दाहेनाम्बु च हृत्पश्चाद्रयोऽम्बुमरुदन्वितः ।
शून्यं च केवलं भद्रे रसश्च सचरा स्थिरा ॥ १८ ॥
वियदम्बुयुतं दाहस्त्वग्नियुक् स्वयुतः शुचिः ।
भूमि रसाक्ष्मास्वयुता पञ्चैकान्तरिताः स्थिताः ॥ १९ ॥
तदन्तरितबीजानि स्वसंयुक्तानि पञ्च वै ।
तानि क्रमाज्ज्या सचरो रसो भूश्च नभोयुता ॥ २० ॥
हंसश्चरयुतो द्विः स्यात् ततः प्राणो रसाग्नियुक् ।
शून्ययुग्मं चरयुतं हृद्दाहोऽम्बुमरुद्युतः ॥ २१ ॥
व्योमाग्निसहितं पश्चाद्रसश्च मरुता स्थिरा ।
शून्यं साग्नि नमः कुर्याच्चरेण सहितं प्रिये ॥ २२ ॥
अम्बु पश्चाद्वियत् तस्मान्नभश्च मरुदन्वितम् ।
शून्य व्याप्तं च हृद्युक्तं रयदाहस्ववह्निभिः ॥ २३ ॥
हंसः सदाहोऽम्बुरसाचरस्वैः संयुतो भवेत् ।
हंसः स्याद् दाहवह्निस्वैर्युक्तमन्त्यमुदीरितम् ॥ २४ ॥
पञ्चत्रिंशच्छतार्णैः स्यान्नित्याऽसौ भगमालिनी ।
इति । ऐं भगभुगे भगिनी भगोदरि भगमाले भगावहे भगगुह्ये भगयोनि भगनिपातिनि सर्वभगवशङ्करि भगरूपे नित्मक्लिन्ने भगस्वरूपे सर्वाणि भगानि मे ह्यानय वरदे रेते सुरेते भगक्लिन्ने क्लिन्नद्रवे क्लेदय द्रावय अमोघे भगविच्चे क्षुभ क्षोभय सर्वसत्त्वान् भगेश्वरि ऐंब्लूंजंब्लूंभेंब्लूंमोंब्लूंहेंब्लूंहें क्लिन्ने सर्वाणि भगानि मे वशमानय स्त्रींह्रब्लेंह्रीं इति ॥ त्रिपुरार्णवे :
ऋषिरस्यातु सुभगो गायत्रीच्छन्द उच्यते ।
देवतेयं तु बीजं तु हरब्लेमात्मकं प्रिये ॥ १ ॥
शक्ति श्रीबीजमन्त्यं तु कीलकं परमेश्वरि ॥
इति । इयं भगमालिनीनित्या । तन्त्रराजे - (८ । ३)
अङ्गानि मन्त्रवर्णैः स्यादाद्येन हृदुदीरितम् ।
ततश्चतुर्भिः शीर्षं स्याच्छिखा त्रिभिरुदीरिता ॥ १ ॥
चतुष्टयत्रयैः शेषाण्यङ्गानि षडिति क्रमात् ।
अरुणामरुणाकल्पां सुन्दरीं सुस्मिताननाम् ॥ २ ॥
त्रिनेत्रां बाहुभिः षड्भिरुपेतां कमलासनाम् ।
कह्लारपाशपुण्ड्रेक्षुकोदण्डान् वामबाहुभिः ॥ ३ ॥
दधानां दक्षिणैः पद्ममंकुशं पष्पसायकम् ।
तथाविधाभिः परितोवृतां शक्तिभिरात्मभिः ॥ ४ ॥
अक्षरोत्थाभिरन्याभिः स्मरोन्मादमदात्मभिः ।
पञ्चत्रिंशच्छतार्णैस्तै रूपिणीशक्तिपञ्चकम् ॥ ५ ॥
सप्ताक्षरीं च संयोज्य शक्तीस्तत्संख्यका यजेत् ।
मदनां मोहिनीं लोलां भञ्जनीमुद्यमां शुभाम् ॥ ६ ॥
ह्लादिनीं द्राविणीं प्रीतिं रतिं रक्तां मनोरमाम् ।
सर्वोन्मादां सर्वसुखां सभङ्गामभितोद्यमाम् ॥ ७ ॥
अनल्पां व्यक्तविभवां विविधक्षोभविग्रहे ।
एताः स्युः शक्त्यः पञ्चपञ्चाशद्भिः शतं त्विति ॥ ८ ॥
ताभिर्वृतां तु तां देवीं पूजयेद्वाञ्छिताप्तये ।
अथ पूजाक्रमं देवि शृणु सर्वार्थदायकम् ॥ ९ ॥
येन विश्वं वशे भूयादपि स्थावरजङ्गमम् ।
चतुरस्रद्वयं कृत्या कुर्याद् द्वारं तु पश्चिमे ॥ १० ॥
तन्मध्येऽब्जं पञ्चदलं कृत्वा तत्कर्णिकागतम् ।
योनिद्वयं ततो मध्ये तिर्यग्रेखाविधानतः ॥ ११ ॥
योनिः कुर्याच्च तत्संख्या योनयः परिकीर्तिताः ।
अग्राद्विलोमगास्तासु शक्तीः संस्थाप्य पूजयेत् ॥ १२ ॥
मध्ये वृत्तद्वयं कृत्वा तत्र विंशतिरेखया ॥ निष्पाद्य तावतीर्योनीर्मदनाद्याः समर्चयेत् ॥ १३ ॥
वृत्तान्तराले त्वभितो यजेदङ्गानि षट् क्रमात् ।
तन्मध्ये भगमालां तामावाह्योक्तस्वरूपिणीम् ॥ १४ ॥
संस्थापनादिभिर्युक्तामर्चयेदुपचारकैः ।
अर्घ्यामङ्गैश्च मूलेन संस्थाप्याभ्युक्ष्य मूलतः ॥ १५ ॥
द्वारस्य पार्श्वयो रागद्वेषशक्ती तथार्चयेत् ।
शब्दस्पर्शौ तथा रूपं रसं गन्धं च पूर्ववत् ॥ १६ ॥
तदन्तवृत्तयोर्मध्ये षडङ्गानि तथार्चयेत् ।
तदन्तर्भगमालायां मदनाद्यास्तथार्चयेत् ॥ १७ ॥
मध्यस्थदेवीमभितो यजेत्तान्यायुधान्यपि ।
ततो देवीं षोडशभिरुपचारैरुदीरितैः ॥ १८ ॥
पूजयेदाद्यवर्णेन विदद्यात्तद्बलिद्वयम् ।
जपेदष्टोत्तरशतमग्रे देव्यास्तु नित्यशः ॥ १९ ॥
प्राग्वदग्निमुखं कृत्वा होमं कुर्याद् दशांशतः ।
संयोज्य बिन्दौ तां प्राग्वन्मूलेनाभ्यर्च्य तां तथा ॥ २० ॥
स्वात्मन्युद्वासयेदुक्तप्रकारेण महेश्वरि ।
देव्यात्मा वशयेद्विश्वं नरनारीनराधिपान् ॥ २१ ॥
इति ॥ अथ प्रयोगः - तत्र प्राग्वदासनपूजनादियोगपीठन्यासान्तं
कृत्वा मूलविद्यया प्राणायामत्रयं कृत्वा शिरसि सुभगाय ऋषये
नमः । मुखे गायत्रीच्छन्दसे नमः । हृदये श्रीभगमालिनीनित्यायै
देवतायै नमः । गुह्ये हरब्लें बीजाय नमः । पादयोः श्रीं शक्तये
नमः । नाभौ ह्रीं कीलकाय नमः इति विन्यस्य ममाभीष्टसिद्धये
जपे विनियोगः इति कृताञ्जलिरुक्त्वा ओं हृदयाय नमः । ओं भगसुभगे
शिरसे स्वाहा । ओं भगिनी शिखायै वषट् । ओं भगोदरि कवचाय हुं । ओं
भगमाले नेत्रत्रयाय वौषट् । ओं भगावहे अस्त्राय फट् इति मन्त्रैः
करषडङ्गन्यासं विधाय प्राग्वन्मूलविद्यया व्यापकं विन्यस्य
अरुणामित्यादि यथोक्तरूपां ध्यात्वा मानसपूजां विधाय
स्वर्णादिपट्टे कुंकुमादिभिरन्तर्बहिर्विभागेन चतुरस्रद्वयेन
चतुरंगुलान्तरालां समचतुरस्रां वीथीं कृत्वा तस्याः
पश्चिमभागे मध्ये द्वारं विधाय तस्य चतुरस्रस्य मध्ये
पञ्चदलं पद्मं विरस्य वृत्तद्वययुक्तायां तत्कर्णिकायां
समत्रिरेखां कर्णिकामध्यवृत्तस्पष्टकोणाग्रकां यथामानां
योनिं कृत्वा तस्या एकां रेखां चतुर्विंशतिधा विभज्य
तैरंशैस्त्रयोविंशतिचिह्नानि कृत्वा तस्यास्तिसृषु रेखास्वपि तथा
कृत्वा तेष्वेकांशमानमभितस्त्यक्त्वा तदन्तः प्राग्वत्समत्रिरेखां
योनिं विधाय तस्यां योन्यामेकां रेखामेकविंशतिधा विभज्य
तेषु विंशतिचिह्नानि प्रतिरेखमिति रेखात्रयेऽपि प्रत्येकं कृत्वा तेषु
बाह्याभ्यन्तरचिह्नेषु चिह्नाच्चिह्नमिति क्रमेण पञ्चचत्वारिंशद्
रेखास्तिर्यग्रूपाः प्रतिपार्श्वं विलिखेदिति । एवं कृते
बाह्यरेखाग्राण्याभ्यन्तररेखाग्राणि च त्रिकोणानि
पञ्चत्रिंशदधिकशतसंख्यानि सम्भवन्ति ।
तदन्तस्त्र्यस्ररेखात्रयस्पृष्टरेखं भ्रमेण वृत्तं निष्पाद्य
तदन्तरेऽपि तद्व्यासपञ्चमांशमानभ्रमेण वृत्तं विधाय
तदन्तरेऽप्येकांशमाने वृत्तान्तरं कृत्वा
पूर्वव्ट्तयोर्विष्कम्भसोडशांशसहितं विष्कम्भमानं
त्रिगुणीकृत्य तत्र समुदायमानं दशधा विभज्य तेष्वेकैकांशेन
चिह्नानि परितस्तद्वृत्तद्वये प्रतिवृत्तं दशदश विधाय तेषु क्रमेण
बाह्याभ्यन्तरं तस्माद्बाह्यमिति गोमूत्रिकाक्रमेण तिर्यग्रूपा
विंशतिरेखा विलिखेत् । एवं
कृते बाह्याभ्यन्तरवृत्तस्पष्टाग्राणि च त्रिकोणान्यभितो विंशतिसंख्यकानि सम्भवन्ति । इत्थं पूजाचक्रं निर्माय प्राग्वत् पुरतः संस्थाप्य भगमालिनीविद्यया मूर्ति संकल्प्यावाहनादिपुष्पोपचारान्ते देव्याः पृष्ठभागे वृत्ताभ्यन्तरे एव प्राग्वत् प्रकाशानन्दादिगुरुपंक्तित्रयं पूजयित्वा पञ्चदलकर्णिकामध्यगतवृत्तद्वयान्तराले प्राग्वदग्नीशासुरवायव्यदेव्यग्रतस्तदादिचतुर्दिक्षु षडङ्गानि सम्पूज्य द्वारस्य वामदक्षिणपार्श्वयोः । ओं ऐंरागशक्तिपा० ओं ऐंद्वेषशक्तिपा० इति सम्पूज्य पञ्चदलकर्णिकामध्यगतयोनिद्वयान्तराले पञ्चत्रिंशदधिकशतशक्तीः सम्पूज्य तदन्तर्वृत्तद्वयान्तरालस्थविंशतित्रिकोणेषु देव्यग्रमारभ्य वामावर्तेन ओं ऐंमदनापादुकां पू० एवं २ मोहिनीपा० २ लोलापा० २ भञ्जिनीपा० २ उद्यमापा० २ शुभापा० २ ह्लादिनीपा० २ द्राविणीपा० २ प्रीतिपा० २ रतिपा० २ रक्तापा० २ मनोरमापा० २ सर्वोन्मादापा० २ सर्वसुखापा० २ अभङ्गापा० २ अभितोद्यमापा० २ अनल्पापा० २ व्यक्तिविभवापा० २ विविधविग्रहापा० २ क्षोभविग्रहापा० इति सम्पूज्य तदन्तरा वृत्तवीथिं रेखाभिः षोढा विभज्य तेषु षट्सु खण्डेषु देव्यग्रखण्डमारभ्य ओं ऐं-इक्षुकोदण्डाय नमः एवं २ पाशाय० २ कह्लाराय० २ पद्माय० २ अंकुशाय० पुष्पसायकेभ्यो नमः इति सम्पूज्य तदन्तरा वृत्तवीथिं सम्पूज्य धूपदीपादि सर्वं प्राग्वत् समापयेत् इति भगमालिनीनित्यायजनविधिः ॥
अथ नित्यक्लिन्नानित्यपूजाविधिः ॥ तत्र श्रीतन्त्रराजे - (९ प० ।श्लो० १)
अथ षोडशनित्यासु चतुर्थीं शृणु पार्वति ।
नित्यक्लिन्नाभिधानां तां तन्मन्त्रं प्रागुदीरितम् ॥ १ ॥
इति । तदुद्धारस्तु तत्रैव - (३ । ३२)
हंसस्तु दाहवह्निस्वैर्युक्तः प्रथममुच्यते ।
कामेश्वर्यास्तृतीयादिवर्णानामष्टकं भवेत् ॥ १ ॥
हृदम्बु मरुता युक्तं हंसश्च मरुता युतः ।
एकादशाक्षरी नित्यक्लिन्ना नित्या समीरिता ॥ २ ॥
इति । तथा - तदङ्गानि च तद्ध्यानं तच्छक्तीस्ताभिरर्चनम् । इति ।
त्रिपुरार्णवे -
ऋषिर्ब्रह्मा समुद्दिष्टो विराट् छन्द इतीरितम् ।
नित्यक्लिन्ना देवतोक्ता वनिता द्राविणी परा ॥ १ ॥
बीजमाद्यं वह्निजाया शक्तिर्न्नेकीलकं मतम् ।
इति । तन्त्रराजे - (९ । ३)
आद्येन मन्त्रवर्णेन हृदयं समुदीरितम् ।
ततो द्वाभ्यां पुनर्द्वाभ्यां द्वाभ्यां द्वाभ्यां द्वयेन च ॥ १ ॥
कुर्याच्छेषाणि चाङ्गानि करयोश्च न्यसेत् क्रमात् ।
तन्त्रे षडङ्गं यत्रोक्तं तत्र तत्र करद्वये ॥ २ ॥
न्यसेदंगुष्ठमूलादिकनिष्ठाग्रान्तमूर्द्ध्वगम् ।
शेषं तलद्वये न्यस्य हृद्दृक्श्रोत्रनसोर्द्वयोः ॥ ३ ॥
त्वचि ध्वजे च पायौ च पादयोरर्णकान् न्यसेत् ।
अरुणामरुणाकल्पामरुणांशुकधारिणीम् ॥ ४ ॥
अरुणस्रग्विलेपां तां चारुस्मेरमुखाम्बुजान् ।
नेत्रत्रयोल्लसद्वक्त्रां भाले धर्माम्बुमोक्तिकैः ॥ ५ ॥
विराजमानां मुकुटलसदर्धेन्दुशेखराम् ।
चतुर्भिर्बाहुभिः पाशमंकुशं पानपात्रकम् ॥ ६ ॥
अभयं बिभ्रतीं पद्ममध्यासीनां मदालसाम् ।
ध्यात्वैवं पूजयेन्नित्यक्लिन्नानित्यां स्वशक्तिभिः ॥ ७ ॥
क्षोभिणी मोहिनी लोला त्रिकोणादिषु शक्तयः ।
नित्या निरञ्जना क्लिन्ना क्लेदिनी मदनातुरा ॥ ८ ॥
मदद्रवा द्राविणी च द्रविणा चाष्टपत्रगा ।
मदाबिला मङ्गला च मन्मथार्ता मनस्विनी ॥ ९ ॥
मोहामोदा मानमयी माया मन्दा मनोवती ।
चतुरस्रगताः पूज्या मदारुणचलेक्षणाः ॥ १० ॥
मध्यनित्यासमाकारवर्णबाह्वायुधान्विताः ।
चतुरस्रद्वयं कृत्वा प्राक्प्रत्यक्द्वारसंयुतम् ॥ ११ ॥
तन्मध्येऽष्टदलं पद्मं तन्मध्ये त्र्यस्रकं तथा ।
अर्घ्यं षडङ्गमूलाभ्यां कृत्वा तां प्राङ्मुखोऽर्चयेत् ॥ १२ ॥
चतुरस्रे पश्चिमादिनिर्-ऋत्यन्तं भजेच्च ताम् ।
द्वारपार्श्वेषु कोणेषु दिक्षु ता दश पूजयेत् ॥ १३ ॥
तदन्तरष्टपत्रेषु पश्चिमादिप्रदक्षिणम् ।
अर्चयेदष्टशक्तीस्तास्तदन्तर्योनिकोणगाः ॥ १४ ॥
अग्र्यात्प्रदक्षिणं तिस्रः शक्तीश्चोक्तविधानतः ।
कर्णिकायोनिमध्यस्थदेशे वायवीशवह्निषु ॥ १५ ॥
निर्-ऋत्यां पुरतो दिक्षु यजेदङ्गानि षट् क्रमात् ।
ततो देवीं तु तां नित्यां नित्यक्लिन्नामुदीरितैः ॥ १६ ॥
उपचारैरर्चयेच्च बलिं दद्याच्च पूर्ववत् ।
तदग्रतो जपेद्विद्यां सहस्रं यदि वा शतम् ॥ १७ ॥
ततोऽभ्यर्च्य शिवां होमं कुर्यादुक्तक्रमेण तु ।
आज्यसिक्तान्धसाज्येन पुष्पैर्वा सौरभान्वितैः ॥ १८ ॥
जुहुयात् प्राग्वदुदितसंख्यं प्राग्वत् समापयेत् ।
अभ्यर्च्य देवीमथ तां स्वात्मन्युद्वास्य पूर्ववत् ॥ १९ ॥
न्यासं कृत्वा स्तोत्रयुगं जपित्वा तन्मयंश्चरेत् ।
इति ॥ अथ प्रयोगः - तत्र प्राग्वदासनपूजादियोगपीठन्यासान्ते
नित्यक्लिन्नाविद्यया प्राणायामत्रयं कृत्वा शिरसि ब्रह्मणे ऋषये
नमः । मुखे विराज छन्दसे नमः । हृदये श्रीनित्याक्लिन्नानित्यायै
देवतायै नमः । गुह्ये र्ह्रींबीजाय नमः । पादयोः स्वाहाशक्तये
नमः । नाभौ न्नेकीलकाय नमः इति विन्यस्य मम सर्वाभीष्टसिद्धये
विनियोगः इति कृताञ्जलिरुक्त्वा ह्रीं हृदयाय नमः । नित्य शिरसे स्वाहा
। क्लिन्ने शिखायै वषट् । मद कवचाय हुं । द्रवे नेत्रत्रयाय वौषट् ।
स्वाहा अस्त्राय फट् इति करषडङ्गन्यासं कृत्वा हृदये ह्रींनमः ।
दक्षनेत्रे निंनमः । वामे त्यंनमः । दक्षश्रोत्रे क्लिंनमः । वामे
न्नेंनमः । दक्षिणनासायां मंनमः । वामे दंनमः । त्वचि
द्रंनमः । लिङ्गे वेंनमः । गुदे स्वांनमः । पादयोः हांनमः
इति विन्यस्य प्राग्वन्मूलविद्यया व्यापक कृत्वा
ध्यानादिमानसपूजान्ते स्वर्णादिपट्टे कुंकुमादिना
पूर्वपश्चिमयोर्द्वारद्वययुतं चतुरस्रद्वयं कृत्वा
तन्मध्येऽष्टदलपद्मं निर्माय तत्कर्णिकायां स्वाभिमुखाग्रं
त्रिकोणं कृत्वा प्राग्वत् स्वपुरतः
संस्थाप्याभ्यर्च्यार्घ्यादिस्थापनाद्यात्मपूजान्ते
भुवनेश्वरीपीठमभ्यर्च्य तत्र नित्यक्लिन्नाविद्यया तन्मूर्तिं
परिकल्प्यावाहनादिपुष्पोपचारान्ते कोणान्तः प्राग्वद् देवीं परितः
षडङ्गानि सम्पूज्य तद्बहिर्देव्याः पृष्ठभागे प्राग्वत्
प्रकाशानन्दादिगुरुपंक्तित्रयमभ्यर्च्य चतुरस्रे
देव्यग्रतस्तद्द्वारस्य दक्षिणे ओं ह्रींश्रींमदाबिलापादुकां
पूजयामि नमः । उत्तरे ओं ह्रींश्रींमङ्गलापा० । एवं २
मन्मथार्तापा० । २ मनस्विनीपा० । २ मोहापा० । २ आमोदापा० । २
मानमयीपा० । २ मायापा० । २ मन्दापा० । २ मनोवती० इति
प्रादक्षिण्येन सम्पूज्यान्तस्त्रिकोणेषु देव्यग्रकोणमारभ्य २
क्षोभिणीपा० २ मोहिनीपा० २ लोलापा० इति प्रादक्षिण्येन सम्पूज्य
पुनर्मध्ये नित्यक्लिन्नां तद्विद्यया सम्पूज्य धूपदीपादिकं
सर्वं कृत्वा प्राग्वत् समापयेत् इति नित्यक्लिन्नानित्यायजनविधिः ॥
अथ भेरुण्डानित्यापूजाविधिलिख्यते । तत्र श्रीतन्त्रराजे - (१० प० । श्लो० १)
अथ षोडशनित्यासु भेरुण्डा पञ्चमी तु या ।
तद्विधानं शृणु प्राज्ञे कथयामि यथाविधि ॥ १ ॥
मन्त्रोद्धारस्तृतीयेऽभूदङ्गान्यावृतिदेवताः ।
पूजाक्रमं चेति ।
मन्त्रोद्धारस्तु तृतीयपटले - (३ । ३५)
भूः स्वेन युक्ता प्रथमं प्राणो दाहेन तद्युतम् ।
रसो दाहेन तद्युक्तं प्राणो दाहवनस्वयुक ॥ १ ॥
कं च दाहेन तद्युक्तं प्रभा दाहेन तद्युता ।
ज्या च दाहेन तद्युक्ता नित्यक्लिन्नान्ततो द्वयम् ॥ २ ॥
एषा नवाक्षरी नित्या भेरुण्डा सर्वसिद्धिदा ।
इति । ओंक्रोंभ्रोंक्रोंझ्रोंछ्रोंज्रों स्वाहा । त्रिपुरार्णवे -
ऋषिरस्या महाविष्णुर्गायत्री छन्द उच्यते ।
देवतेयं वरारोहे तृतीयं बीजमुच्यते ॥ १ ॥
वह्निजाया तु शक्तिः स्यात् कीलकं सृणिरेव च ।
इति । तन्त्रराजे - (१० । ४)
आद्यन्तद्वयमध्यस्थैः षड्भिः कुर्यात् षडङ्गकम् ।
रन्ध्राज्ञामुखकण्ठेषु हृन्नाभ्याधारपद्द्वये ॥ १ ॥
न्यसेन्मन्त्रार्णनवकं मातृकान्यासपूर्वकम् ।
ततः शक्तीसवृतिस्था ध्यानं च शृणु पार्वति ॥ २ ॥
बाह्यावृतौ तु ब्राह्म्याद्या युगशक्तीश्च पूजयेत् ।
तदन्तरष्टपत्रेषु विजयां विमलां शुभाम् ॥ ३ ॥
विश्वां विभूतिं विनतां विविधां विमलां क्रमात् ।
तदन्तरष्टकोणेषु कमलां कामिनीं तथा ॥ ४ ॥
किरातीं कीर्तिसहितां कुर्दिनीं कुलसुन्दरीम् ।
कल्याणीं काककोलां च पूजयेदुक्तयोगतः ॥ ५ ॥
डाकिनीं राकिणीं तद्वल्लाकिनीं काकिनीं तथा ।
शाकिनीं हाकिनीं षट्सु कोणेषु क्रमतोऽर्च्चयेत् ॥ ६ ॥
इच्छाज्ञानक्रियाशक्तीस्त्रिषु कोणेषु पूजयेत् ।
अष्टकोणान्तरालेषु पूजयेदायुधाष्टकम् ॥ ७ ॥
चतुरस्रद्वयं कृत्वा चतुर्द्वारसमन्वितम् ।
तदन्तरष्टपत्राब्जं वृत्तयुग्ममथान्तरा ॥ ८ ॥
अष्टास्रं भूपुरद्वन्द्वात्तच्च वृत्तसमन्वितम् ।
तदन्तस्तादृशं कुर्यात् षट्कोणं वा तु विग्रहम् ॥ ९ ॥
तदन्तस्तादृशीं कुर्याद्योनिं तन्मध्यतो यजेत् ।
भेरुण्डां पञ्चमीं नित्यामुक्तशक्तिभिरावृत्ताम् ॥ १० ॥
अर्घ्यं षडङ्गमूलाभ्यां संसाध्य प्राङ्मुखो यजेत् ।
बलिं च षोडशार्णेन दद्यादाद्यन्तयोः क्रमात् ॥ ११ ॥
अथ ध्यानं प्रवक्ष्यामि देव्याः सर्वार्थसाधकम् ।
तदावृत्तिस्थशक्तीनां क्रमेण शृणु पार्वति ॥ १२ ॥
तप्तकाञ्चनसङ्काशदेहां नेत्रत्रयान्विताम् ।
चारुस्मिताञ्चितमुखीं दिव्यालङ्कारभूषिताम् ॥ १३ ॥
ताटङ्कहारकेयूररत्नस्तवकमण्डिताम् ।
रसानानूपुरोर्म्यादिभूषणैरतिसुन्दरीम् ॥ १४ ॥
पाशांकुशौ खेटखड्गौ सदावज्रधनुःशरान् ।
करैर्दधानामासीनां पूजायामन्यदास्थिताम् ॥ १५ ॥
शक्तीश्च तत्समाकारतेजोहेतिभिरन्विताः ।
पूजयेत्तद्वदभितः स्मितसौम्यमुखां सदा ॥ १६ ॥
एवं देवीमावृतिभिरावृतामर्चयेत् तथा ।
बलिर्माद्यन्तयोर्दद्यात् पूर्वोक्तविधिना युतम् ॥ १७ ॥
इति ॥ अथ प्रयोगः : तत्र प्राग्वदासनपूजादियोगपीठन्यासान्ते
भेरुण्डाविद्यया प्राणायामत्रयं कृत्वा शिरसि ओं महाविष्णवे
ऋषये नमः । मुखे गायत्रीच्छन्दसे नमः । हृदये
श्रीभेरुण्डानित्यादेवतायै नमः । गुह्ये भ्रांबीजाय नमः ।
पादयोः स्वाहाशक्तये नमः । नाभौ क्रोंकीलकाय नमः इति विन्यस्य
मम सर्वाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा क्रों हृदयाय
नमः । भ्रों शिरसे स्वाहा । क्रों शिखायै वषट् । झ्रों कवचाय
हुं । छ्रों नेत्रत्रयाय वौषट् ।
ज्रों अस्त्राय फट् इति करषडङ्गन्यासं कृत्वा ब्रह्मरन्ध्रे ओं नमः ।
आज्ञायां क्रों नमः । मुखे भ्रों नमः । कण्ठे क्रों नमः ।
हृदि झ्रों नमः । नाभौ छ्रों नमः । मूलाधारे ज्रों नमः ।
दक्षपादे स्वां नमः । वामपादे हां नमः । इति विन्यस्य
प्राग्वद्व्यापकं कृत्वा तप्तकाञ्चनसङ्कासदेहामित्यादि ध्यात्वा
मानसपूजान्ते प्राग्वत् स्वर्णादिपट्टे कुंकुमादिना
चतुर्द्वारयुक्तं चतुरस्रद्वयं कृत्वा तदन्तरष्टदलं पद्मं
तदन्तर्वृत्तं तदन्तरष्टास्रं पुनस्तदन्तर्वृत्तं तदन्तः षट्कोणं
तदन्तर्वृत्तं तन्मध्ये स्वाभिमुखाग्रत्रिकोणरूपां योनिं च कृत्वा
प्राग्वत् संस्थाप्यार्घ्यादिस्थापनाद्यात्मपूजान्ते प्राग्वद्
भुवनेश्वरीपीठमभ्यर्च्यावाहनादिप्राणप्रतिष्ठान्ते योनिमुद्रां
प्रदर्श्यासनादिपुष्पोपचारान्ते योन्यन्तर्देव्यभितः प्राग्वत्
षडङ्गानि सम्पूज्य योनिहृत्तयोरन्तराले देव्याः पृष्ठभागे
प्राग्वद्गुरुपंक्तित्रयमभ्यर्च्य चतुरस्रद्वयपार्श्वयोः २
ब्राह्मीपादुकां पूजयामि नमः । २ माहेश्वरीपा०
पश्चिमद्वारपार्श्वयोः २ कौमारीपा० २ वैष्णवीपा०
पूर्वद्वारस्योत्तरदक्षिणपार्श्वयोः २ वाराहीपा० २ इन्द्राणीपा०
दक्षिणद्वारपार्श्वयोः २ चामुण्डापा० २ महालक्ष्मीपा० इति
सम्पूज्य चतुरस्रवायुकोणे २ कृतयुगशक्तिपा० ईशाने २
त्रेतायुगशक्तिपा० आग्नेये २ द्वापरयुगशक्तिपा० निर्-ऋतिकोणे २
कलियुगशक्तिपा० इति संपूज्य तदन्तरष्टदलेषु देव्यग्रदलमारभ्य
प्रादक्षिण्येन २ विजयापा० २ विमलापा० २ शुभापा० २ विश्वापा० २
विभूतिपा० २ विनतापा० २ विविधापा० २ विमनापा० इति सम्पूज्य
तदंतरष्टकोणेषुदेव्यग्रमारभ्य प्रादक्षिण्येन २ कमलापा० २
कामिनीपा० २ किरातीपा० २ कीर्तिपा० २ कुर्दिनीपा० २ कुलसुन्दरीपा० २
कल्याणीपा० २ कालकोलापा० इति सम्पूज्य तदन्तः षट्कोणेषु देयवा
वामाग्रकोणे २ डाकिनीपा० दक्षिणाग्रकोणे २ राकिणीपा० पृष्ठकोणे
२ लाकिनीपा० पृष्ठवामाग्रकोणे २ काकिनीपा० दक्षिणपृष्ठकोणे २
शाकिनीपा० देव्यग्रकोणे २ हाकिनीपा० इति सम्पूज्य ततस्रिकोणे
देव्यग्रकोणमारभ्य प्रादक्षिण्येन २ इच्छाशक्तिपा० २
ज्ञानशक्तिपा० २ क्रियाशक्तिपा० इति
सम्पूज्याष्टकोणषट्कोणयोरन्तराले देव्या दक्षिणाग्रादितः
पृष्ठदक्षिणाग्रान्तं स्थानचतुष्टयं परिकल्प्य २ शरेभ्यो नमः
२ खड्गाय नमः २ अंकुशाय नमः २ पाशाय नमः इति
दक्षिणाधःकरादितदूर्ध्वकरान्तस्थान्यायुधानि सम्पूज्य देव्याः
पृष्ठवामभागमारभ्य वामाग्रावधि स्थानचतुष्टयं
परिकल्प्य तेषु २ गदायै नमः २ चर्मणे नमः
२ धनुषै नमः २ वज्राय नमः इति सम्पूज्य प्राग्वल्लोकपालांस्तदायुधानि च सम्पूज्य पुनर्मध्यस्थनित्यां तद्विद्यया सम्पूज्य धूपादिसर्वं प्राग्वत्समापयेत् इति हेरुण्डानित्यापूजाविधिः ॥
अथ वह्निवासिनीनित्यापूजाविधिः । श्रीतन्त्रराजे - (११ प० । १ श्लो०)
अथ षोडशनित्यासु या षष्ठी समुदीरिता ।
सा विद्या वह्निवासिन्याः कथिताभून्नवाक्षरी ॥ १ ॥
तदङ्गानि लिपिन्यासं ध्यानं शक्तिभिरर्चनम् ।
इति । तथा तत्रैव - (३ प० २८ श्लो०)
भेरुण्डाद्यमिहाद्यं स्यान्नित्यक्लिन्नाद्यनन्तरम् ।
ततोऽम्बु शून्यं हंसाग्नियुतम्बु मरुद्युतम् ॥ १ ॥
हृदग्निना युतं शून्यं व्याप्तेन शुचिना च युक् ।
शून्यं नमः शक्तियुतं नवार्णेयमुदीरिता ॥ २ ॥
नित्या सर्वार्थदा वह्निवासिनी विश्वघस्मरा ।
इति । ओं ह्रींवह्निवासिन्यै नमः ॥ त्रिपुरार्णवे -
ऋषिर्वसिष्ठश्छन्दः स्यादगायत्री देवता त्वियम् ।
आद्यन्तं बीजशक्ती स्यात् कीलकं मध्यमेन च ॥ १ ॥
इति । तन्त्रराजे - (११ । ३)
विद्याद्वितीयबीजेन स्वरान् दीर्घान्नियोजयेत् ।
मायान्तान् षड्भिरेवाङ्गान्याचरेत् स्वकराङ्गयोः ॥ १ ॥
नवाक्षराणि विद्याया नवरन्ध्रेषु विन्यसेत् ।
व्यापकं तु समस्तेन कुर्याद् देव्यात्मसिद्धये ॥ २ ॥
सर्वास्वपि च विद्यासु व्यापकं न्यासमाचरेत् ।
तेन तत्तन्मयो बूयात् साधकस्तेन सिद्धयः ॥ ३ ॥
तस्याचिरेण देवीनां प्रसादात् सम्भवन्ति च ।
मातृकायाः षडङ्गं च मातृकान्यासमेव च ॥ ४ ॥
सर्वासां प्रथमं कृत्वा पश्चात् तत्रोदितं न्यसेत् ।
ललितायास्तु वर्गैस्तत् प्रोक्तमष्टाभिरेव च ॥ ५ ॥
तेन तस्यास्तु लिपिशो न्यासो नैव समीरितः ।
तप्तकाञ्चनसंकाशां नवयौवनसुन्दरीम् ॥ ६ ॥
चारुस्मेरमुखाम्भोजां विलसन्नयनत्रयाम् ।
अष्टाभिर्बाहुभिर्युक्तां माणिक्याभरणोज्ज्वलाम् ॥ ७ ॥
पद्मरागकिरीटांशुसंभेदारुणिताम्बराम् ।
पीतकौशेयवसनां रक्तमञ्जीरमेखलाम् ॥ ८ ॥
रत्नमौक्तिकसंभिन्नस्तबकाभरणोज्ज्वलाम् ।
रक्ताब्जकम्बुपुण्ड्रेक्षुचापपूर्णेन्दुमण्डलाम् ॥ ९ ॥
दधानां बाहुभिर्वामैः कह्लारं हेमशृङ्गकम् ।
पुष्पेषु मातुलिङ्गं च दधानां दक्षिणैः करैः ॥ १० ॥
स्वसमानाभिरभितः शक्तिभिः परिवारिताम् ।
एवं ध्यात्वार्चयेद्वह्निवासिनीं विश्वविग्रहाम् ॥ ११ ॥
जवालिनीविस्फुलिङ्गिन्यौ मङ्गला सुमनोहरा ।
कनका कितवा विश्वा विविधा चेति शक्तयः ॥ १२ ॥
अष्टकोणेषु सम्पूज्यास्तदग्रात्तु प्रदक्षिणम् ।
दलेषु द्वादशस्वेता राशिशक्तीः समर्चयेत् ॥ १३ ॥
मायासप्ताक्षरीमध्यगतैर्नामाभिरीरितैः ।
घस्मरा सर्वभक्षा च विश्वा च विविधोद्भवा ॥ १४ ॥
चित्ररूपा निःसपन्ना निरातङ्का च पावनी ।
अचिन्त्यवैभवा रक्ता दशमी परिकीर्तिता ॥ १५ ॥
बलिदेवीति सम्प्रोक्ता कुरुकुल्लाद्यविद्यया ।
यत्र नोक्ता देवता तु बलिकर्मणि तत्र ताम् ॥ १६ ॥
सप्ताक्षर्या समोपेतां विदध्याद्बलिदेवताम् ।
वृत्तयोर्नवयोनिं तु कृत्वा तद्बहिरम्बुजम् ॥ १७ ॥
द्वादशच्छदसंयुक्तं विदध्याद् वृत्तयुग्मकम् ।
तद्बहिश्चतुरस्रे द्वे द्वारद्वयसमन्विते ॥ १८ ॥
पूर्वपश्चिमयोस्तस्मिंश्चक्रे देवीं तथार्चयेत् ।
इति ॥ अथ प्रयोगः : तत्र प्राग्वदासनादियोगपीठन्यासान्ते
वह्निवासिनीविद्यया प्राणायामत्रयं कृत्वा शिरसि वसिष्ठ-ऋषये
नमः । मुखे गायत्रीच्छन्दसे नमः । हृदि वह्निवासिनीनित्यादेवतायै
नमः । गुह्ये (ओं) ह्रीं बीजाय नमः । पादयोः नमःशक्तये नमः ।
नाभौ वह्निवासिन्यै कीलकाय नमः इति विन्यस्य मम
सर्वाभीष्टसिद्ध्ये विनियोगः इति कृताञ्जलिरुक्त्वा
षड्दीर्घयुक्तद्वितीयबीजेन षडङ्गन्यासं कृत्वा दक्षनेत्रे ओं नमः
। वामे ह्रीं नमः । दक्षकर्णे वं नमः ।
वामे ह्रिं नमः । दक्षनसि वां नमः । वामे सिं नमः । मुखे
न्यैं नमः । लिङ्गे नं नमः । गुदे मंः नमः इति विन्यस्य मूलेन
व्यापकं विधाय तप्तकाञ्चनसङ्काशामित्यादि ध्यात्वा
मानसपूजान्ते स्वर्णादिपट्टे कुंकुमादिना द्वादशदलकमलं
विलिख्य तत्कर्णिकायां वृत्तद्वयं विधाय तन्मध्ये
प्राग्वन्नवयोनिचक्रं कृत्वा पद्माद्बहिर्वृत्तद्वयं विधाय तद्बहिः
पूर्वपश्चिमयोद्वारयुतं चतुरस्रद्वयं कुर्यादिति पूजाचक्रं
निर्माय प्राग्वत् संस्थाप्याभ्यर्च्यार्घ्यस्थापनाद्यात्मपूजान्ते
प्राग्वद् भुवनेश्वरीपीठमभ्यर्च्य तत्र वह्निवासिनीविद्यया मूर्ति
परिकल्प्यावाहनादिपूजोपचारान्ते बाह्याभ्यन्तरवृत्तयोरन्तराले
प्राग्वत् षडङ्गानि सम्पूज्य अष्टकोणेषु देव्यग्रादिप्रादक्षिण्येन २
ज्वालिनीपादुका पूजयामि नमः । २ विस्फुलिङ्गिनीपा० । २ मङ्गलापा० ।
२ मनोहरापा० । २ कनकापा० । २ कितवापा० । २ विश्वापा० । २ विविधापा०
इति सम्पूज्य द्वादशदलेषु देव्यग्रादिप्रादक्षिण्येन २ मेषापादुकां
पूजयामि नमः । २ वृषापा० । २ मिथुनापा० । २ कर्कटापा० । २
सिंहापा० । २ कन्यापा० । २ तुलापा० । २ कीटापा० । २ चापापा० । २
मकरापा० । २ कुम्भापा० । मीनापा० इति सम्पूज्य चतुरस्रे
देव्यग्रद्वारस्य दक्षिणभागमारभ्य प्रादक्षिण्येन २ द्यस्मरापा०
। २ सर्वभक्षापा० । २ विश्वापा० । २ विविधोद्भवापा० । २ चित्ररूपापा०
इति पश्चिमद्वारपार्श्वद्वयवायव्योत्तरेशानेषु सम्पूज्य
पूर्वद्वारस्योत्तरदक्षिणपार्श्वद्वयाग्नेयदक्षिणनिर्-ऋतिकोणेषु च २
निःसपत्नापादुकां पूजयामि नमः । २ निरातङ्कापा० । २ पावनीपा०
। २ अचिन्त्यवैभवापा० । २ रक्तापा० इति सम्पूज्य तद्बहिः
प्राग्वल्लोकपालांश्च तदा युधानि च सम्पूज्य धूपदीपादिसर्वं
प्राग्वत्समापयेत् - इति वह्निवासिनीनित्यायजनविधिः ॥
अथ वज्रेश्वरीनित्यायजनविधिः ॥ तत्र श्रीतन्त्रराजे - (१२ प०)
अथ षोडशनित्यासु सप्तमी या समीरिता ।
तस्या विधानं वक्ष्यामि शृणु सर्वार्थसाधकम् ॥ १ ॥
प्रोक्तैव विद्या प्रागेव द्वादशाक्षरविग्रहा ।
तदङ्गानि लिपिन्यासं ध्यानं शक्तिभिरर्चनम् ॥ २ ॥
इति । तथा - (३ । ४१)
द्वितीयं वह्निवासिन्या नित्यक्लिन्नाचतुर्थकम् ।
पञ्चमं भगमालाद्यं भेरुण्डाया द्वितीयकम् ॥ १ ॥
नित्यक्लिन्नाद्वितीयं च तृतीयं षष्ठसप्तमौ ।
अष्टमं नवमं च स्यादेतदाद्यमितीरितम् ॥ २ ॥
महावज्रेश्वरीनित्या द्वादशार्णा समीरिता ।
इति । ह्रींक्लिन्ने ऐंक्रोंनित्यमदद्रवे ह्रीं । त्रिपुरार्णवे ऋषिर्ब्रह्मा च गीयते । गायत्री छन्द आख्यातं देवता परमेश्वरी । परमेश्वरी वज्रेश्वरी । आद्यन्ते बीजशक्ती तु वाग्भवं कीलकं भवेत् ॥ इति तन्त्रराजे - (१२ । ४)
द्वयमेकैकमप्यत्र द्वयं द्वयमथ द्वयम् ।
मायया पुटितं कृत्वा कुर्यादङ्गानि षट् क्रमात् ॥ १ ॥
(प्रत्येकं शक्तिपुटितैर्मन्त्राणैर्दशभिर्न्यसेत् ।) दृक्श्रोत्रनासावाग्वक्षोनाभिगुह्येषु च क्रमात् ॥ २ ॥
रक्तां रक्ताम्बरां रक्तगन्धमालाविभूषणाम् ।
चतुर्भुजां त्रिनयनां माणिक्यमुकुटोज्ज्वलाम् ॥ ३ ॥
पाशांकुशाविक्षुचापं दाडिमीसायकं तथा ।
दधानां बाहुर्भिर्नेत्रैर्दयामदसुशीतलैः ॥ ४ ॥
पश्यन्तीं साधकं त्र्यस्रषट्कोणाब्जमहीपुरे ।
चक्रमध्ये सुखासीनां स्मेरवक्त्रसरोरुहाम् ॥ ५ ॥
शक्तिभिः स्वस्वरूपाभिरावृतां पोतमध्यगाम् ।
सिंहासनेऽभितः प्रेङ्खत्पोतस्थाभिश्च शक्तिभिः ॥ ६ ॥
वृतां ताभिर्विनोदानि यातायातादिभिः सदा ।
कुर्वाणमरुणामभोधौ चिन्तयेन्मन्त्रनायिकाम् ॥ ७ ॥
इच्छाज्ञानक्रियास्तत्र त्रिकोणास्थाश्च शक्तयः ।
डाकिन्याद्याः षडस्रस्था पद्मद्वादशपत्रगाः ॥ ८ ॥
हृल्लेखा क्लेदिनी क्लिन्ना क्षोभिणी मदनातुरा ।
निरञ्जना रागवती तथैव मदनावती ॥ ९ ॥
मेखला द्राविणी वेगवती द्वादशशक्तयः ।
ततः षोडशपत्रस्थाः शक्तीराकर्णयाम्बिके ॥ १० ॥
कमलां कामिनीं कल्पां कलां कलितकौतुके ।
किरातां कालकदने कौशिकीं कम्बुवाहिनीम् ॥ ११ ॥
कातरां कपटां कीर्तिं कुमारीं कुंकुमामपि ।
चतुरस्रस्थाश्च शक्तीराकर्णय च ताः क्रमात् ॥ १२ ॥
भञ्जिनीवेगिनी भोगा चपला पेशला सती ।
रतिः श्रद्धा भोगलोला मदोन्मत्ते मनस्विनी ॥ १३ ॥
दिक्षु द्वारेषु पार्श्वेषु कोणादिषु च संस्थिताः ।
द्वादशैतामहादेव्याश्चतुरस्राभितो यजेत् ॥ १४ ॥
कृत्वार्घ्यमङ्गमूलाभ्यां प्रोक्तरूपां ततोऽर्चयेत् ।
शोणाब्धिं हेमपोतं च सिंहासनमतः परम् ॥ १५ ॥
तत्र चक्रं ततो देवीं प्राग्वदावाह्य शक्तिभिः ।
मायासप्ताक्षरीमध्यगतैर्नामभिरर्चयेत् ॥ १६ ॥
बलिं दद्याच्च तदनु सप्ताक्षर्या पुरोक्तया ।
देव्यास्तु कुरुकुल्लाया होमं कुर्याद्यथाविधि ॥ १७ ॥
घृताक्तैररुणै पुष्पैर्घृतैर्वा होममाचरेत् ।
प्राग्वत् समापयेदित्थमर्चनं ते समीरितम् ॥ १८ ॥
इति ॥ अथ प्रयोगः तत्र प्राग्वदासनपूजादियोगपीठन्यासान्ते
मूलमन्त्रेण प्राणायामत्रयं कृत्वा शिरसि ब्रह्मणे ऋषये नमः ।
मुखे गायत्रीच्छन्दसे नमः । हृदि वज्रेश्वरीनित्यादेवतायै नमः ।
गुह्ये ह्रींबीजाय नमः । पादयोः ह्रींशक्तये नमः । नाभौ
ऐंकीलकाय नमः इति विन्यस्य मम सर्वाभीष्टसिद्धये विनियोगः इति
कृताञ्जलिरुक्त्वा ह्रींक्लिन्ने हृदयाय नमः । ऐं शिरसे स्वाहा । क्रों
शिखायै वषट् । नित्य कवचाय हुं । मद नेत्रत्रयाय वौषट् ।
द्रवेह्रीं अस्त्राय फट् इति करषडङ्गन्यासं विधाय दक्षनेत्रे
ह्रींक्लींह्रीं नमः । वामनेत्रे ह्रींन्नेंह्रीं नमः । दक्षकर्णे
ह्रीं-ऐंह्रीम् नमः । वामकर्णे ह्रींक्रोंह्रीं नमः । दक्षनसि
ह्रींत्रींह्रीं नमः । वामनसि ह्रींत्यंह्रीं नमः । मुखे
ह्रींमंह्रीं नमः । वक्षसि ह्रींदंह्रीं नमः । नाभौ
ह्रींद्रंह्रीं नमः । लिङ्गे ह्रींवेंह्रीं नमः इति विन्यस्य मूलेन
व्यापकं विधाय तक्तां रक्ताम्बरामित्यादि ध्यात्वा
मानसपूजां विधाय प्राग्वत्स्वर्णादिपीठे कुंकुमादिना
स्वाभिमुखाग्रत्रिकोणरूपां योनिं विधाय
तद्बहिर्द्वादशदलपद्मं तद्बहिः षोडशदलपद्मं
तद्बहिश्चतुर्द्वारयुतं चतुरस्रद्वयं कुर्यात् इति पूजाचक्रं निर्माय
प्राग्वत्स्वपुरतः संस्थाप्याभ्यर्च्यार्ध्यस्थापनाद्यात्मपूजान्ते
भुवनेश्वरीपीठार्चने मण्डूकादिपृथिव्यन्तमभ्यर्च्य तदनु
शोणसमुद्राय नमः । कनकपोताय नमः । रत्नसिंहासनाय नमः
इति सम्पूज्य तदनु धर्मादिपीठमन्वन्तं प्राग्वत्सम्पूज्य तत्र
मूलविद्यया मूर्ति परिकल्प्यावाहनादिपुष्पान्तैरुपचारैरुपचर्यय
त्रिकोणमध्ये प्राग्वत् षडङ्गानि सम्पूज्य त्रिकोणयोरन्तराले देव्याः
पृष्ठे प्राग्वद्गुरुपंक्तित्रयमभ्यर्च्यान्तस्त्रिकोणे
देव्यग्रादिप्रादक्षिण्येन ह्रींहृल्लेखापादुकां पूजयामि ।
ह्रींक्लेदिनीपा० । ह्रींक्लिन्नापा० । ह्रींक्षोभिणीपा० ।
ह्रौंमदनापा० । ह्रींमदनातुरापा० । ह्रींनिरञ्जनापा० ।
ह्रींरागवतीपा० । ह्रींमदनावतीपा० । ह्रींमेखलापा०
ह्रींद्राविणीपा० । ह्रींवेगवतीपा० । इति सम्पूज्य तद्बहि ।
षोडशदलेषु कमलापा० कामिनीपा० कल्पापा० कलापा० कलितापा०
कौतुकापा० किरातापा० कालापा० कदनापा० कौशिकीपा०
कम्बुवाहिनीपा० कातरापा० कपटापा० कीर्तिपा० कुमारीपा०
कुंकुमापा० इति प्राग्वत्सम्पूज्य चतुरस्रे देव्यग्रादिद्वारचतुष्टयस्य
पार्श्वेषु पश्चिमद्वारस्य दक्षिणभागादिप्रादक्षिण्येन
भञ्जिनीपा० वेगिनीपा० भोगापा० चपलापा० पेशलापा० सतीपा०
रतिपा० श्रद्धापा० प्रीतिपा० इति सम्पूज्य वायव्यादिकोणचतुष्टये
प्राग्वत् प्रादक्षिण्येन भोगलोलापा० मदनापा० उन्मत्तापा०
मनस्विनीपा० इति निर्-ऋत्यन्तं सम्पूज्य प्राग्वल्लोकपालार्चादि शेषं
समापयेत् इति वज्रेश्वरीनित्यायजनविधिः ॥
अथ शिवादूतीनित्यायजनविधिः । तत्र श्रीतन्त्रराजे - (१३ प०)
अथ षोडशनित्यासु या प्रोक्ता त्वष्टमी तदा ।
तद्विधानं शृणु प्राज्ञे समीहितफलप्रदम् ॥ १ ॥
विद्योद्धारः कृतः पूर्वमथ न्यासक्रमं तथा ।
तथावरणशक्तीश्च तद्ध्यानं तत्प्रपूजनम् ॥ २ ॥
इति । तत्रैव - (३ । ४४)
वज्रेश्वर्यन्त्यमाद्यं स्याद्वियदग्नियुतं ततः ।
अम्बु स्यान्मरुता युक्तं गोत्रा क्ष्मासंयुता ततः ॥ १ ॥
रयो व्याप्तेन शुचिना युतं स्यात्तदनन्तरम् ।
अन्त्यर्णौ वह्निवासिन्या दूती नित्या समीरिता ॥ २ ॥
इति । ह्रींशिवादूत्यै नमः ॥ त्रिपुरार्णवे : ऋषी रुद्रोऽथ गायत्री छन्दः स्तद्देवता शिवाः । शिवादूती इति । आद्यन्ते बीजशक्ती च मध्यं कीलकमुच्यते ॥ इति । श्रीतन्त्रराजे - (१३ । ५)
कृत्वा प्राग्वत् षडङ्गानि विद्याद्येनोक्तवर्त्मना ।
तेनैव पुटितैरर्णैर्न्यसेच्छ्रोत्रादिपञ्चसु ॥ १ ॥
षष्ठं मनसि विन्यस्य व्यापकं विद्यया न्यसेत् ।
प्राग्वदर्घ्य समुद्दिष्टं तच्छक्तीः शृणु पार्वति ॥ २ ॥
विह्वलाकर्षिणी लोला नित्या च वन(मदन)मालिनी ।
विनोदा कौतुका पुण्या पुराणा चतुरस्रगाः ॥ ३ ॥
वागीशी वरदा विश्वा विनदा विघ्नकारिणी ।
वीरा विघ्नहरा विद्येत्युक्त्वा यन्त्राष्टशक्तयः ॥ ४ ॥
सुमुखी सुन्दरी सारा सुमना च सरस्वती ।
समया सर्वगा विद्येत्युक्तास्त्वष्टास्रशक्तयः ॥ ५ ॥
डाकिन्याद्याः षडस्रेषु सर्वास्त्यग्रात् प्रदक्षिणम् ।
मूलदेवीसमाकारवर्णाकार (युध) समन्विताः ॥ ६ ॥
शिवां वाणीं दूरसिद्धां त्यैविग्रहवतीमपि ।
नादां मनोन्मनीं षट्सु पत्रेषु परितोऽर्चयेत् ॥ ७ ॥
इच्छाज्ञानक्रियाशक्तीस्त्रिषु कोणेषु पूजयेत् ।
मध्ये देवीं हेतिवृतां पूजयेदष्टमीं शिवाम् ॥ ८ ॥
तस्या ध्यानं शृणु प्राज्ञे यन्मयं विश्वमीरितम् ।
तथापि भक्तसर्वाणहेतोः कॢप्तां परां तनुम् ॥ ९ ॥
निदापकालमध्याह्नदिवाकरसमप्रभाम् ।
नवरत्नकिरीटां च त्रीक्षणामरुणाम्बराम् ॥ १० ॥
नानाभरणसम्भिन्नदेहकान्तिविराजिताम् ।
शुचिस्मितामष्टभुजां स्तूयमानां महर्षिभिः ॥ ११ ॥
पाशं खेटं गदा रत्नचषकं वामबाहुभिः ।
दक्षिणैरंकुशं खड्गं कुठारं कमलं तथा ॥ १२ ॥
दधानां साधकाभीष्टदानोद्यमसमन्विताम् ।
ध्यात्वैवं पूजयेद् देवीं दूतीं दुर्नीतिनाशिनीम् ॥ १३ ॥
वृत्तद्वयं बहिस्त्रयस्रं तद्द्वयं षड्दलाम्बुजम् ।
(तथा षडस्रमष्टास्रं तद्वष्टदलाम्बुजम्) ॥ १४ ॥
भूपुरे वह्निवासिन्याः कृत्वा तन्मध्यगां शिवाम् ।
आवाह्याभ्यर्च्य तच्छक्तीः प्रागुक्तविधिना स्थिताः ॥ १५ ॥
जप्त्वा हुत्वा नमस्कृत्य स्वात्मन्युद्वासयेत् तथा ।
इति ॥ अथ प्रयोगः : तत्र प्राग्वदासनपूजादियोगपीठन्यासान्ते मूलेन
प्राणायामत्रयं कृत्वा शिरसि रुद्राय ऋषये नमः । मुखे
गायत्रीच्छन्दसे नमः । हृदये श्रीशिवादूतीनित्यायै नमः । गुह्ये
ह्रींबीजाय नमः । पादयोः नमःशक्तये नमः । नाभौ शिवादूत्यै
कीलकाय नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति
कृताञ्जलिरुक्त्वा ह्रांह्रीमित्यादिना करषडङ्गन्यासं विधाय
श्रोत्रयोः ह्रींशिंह्रीं नमः । सर्वाङ्गे ह्रीं वां ह्रीं नमः ।
चक्षुषोः ह्रींदूंह्रीं नमः । जिह्वायां ह्रींत्यैंह्रीं नमः ।
घ्राणयोः ह्रींनंह्रीं नमः । मनसि ह्रींमंःह्रीं नमः
इत्यादिसमस्तविद्यया व्यापकं विधाय निदाघकाल इत्यादि ध्यात्वा
मानसपूजां विधाय प्राग्वत् स्वर्णादिपट्टे कुंकुमादिना
षड्दलपद्मं विधाय तदन्तर्वृत्तं (वृत्तद्वयं) मध्ये
स्वाभिमुखाग्रं त्रिकोणं (तदन्तर्वृत्तद्वयं) पद्माद्बहिः
षट्कोणं तद्बहिरष्टकोणं तद्बहिरष्टदलपद्मं तद्बहिः
पूर्वपश्चिमयोर्द्वारयुतं चतुरस्रं कुर्यादिति पूजाचक्रं निर्माय
प्राग्वत् पुरतः संस्थाप्याभ्यर्च्यार्घ्यस्थापनाद्यात्म पूजान्ते
मूलेन मूर्ति परिकल्प्यावाहनादिपुष्पोपचारान्ते त्रिकोणे
प्राग्वत्षडङ्गानि सम्पूज्य त्रिकोणवृत्तयोरन्तराले प्राग्वद्
गुरुपंक्तित्रयं सम्पूज्य चतुरस्रे देव्यग्रद्वारस्य
दक्षिणभागमारभ्य प्रादक्षिण्येन ओं विह्वलापादु० आकर्षिणीपा०
लोलापा० नित्यापा० मदनापा० मालिनीपा० विनोदापा० कौतुकापा०
पुण्यापा० पुराणापा० इति सम्पूज्य अष्टदलेषु प्राग्वत् वागीशीपा०
वरदापा० विश्वापा० विनदापा० विघ्नकारिणीपा० वीरापा०
विघ्नहरापा० विद्यापा० इति सम्पूज्याष्टकोणे प्राग्वत् सुमुखीपा०
सुन्दरीपा० सारापा० सुमनापा० सरस्वतीपा० समयापा० सर्वगापा०
सिद्धापा० इति सम्पूज्य षट्कोणेषु देव्यग्रकोणमारभ्य हाकिनीपा०
शाकिनीपा० काकिनीपा० लाकिनीपा० राकिणीपा० डाकिनीपा० इति सम्पूज्य
षट्पत्रेषु शिवापा० वाणीपा० दूरसिद्धापा० त्यैविग्रहवतीपा०
नादापा० मनोन्मनीपा० इति सम्पूज्यान्तस्त्रिकोणेषु
देव्यग्रादिप्राक्षिण्येन इच्छाशक्तिपा० ज्ञानशक्तिपा० क्रियाशक्तिपा०
इति सम्पूज्य त्रिकोणान्तर्वृत्तयोरन्तराले देव्या
दक्षिणाधःकरादिवामाधःकरान्तान्यायुधस्थानानि परिकल्प्य
कमलाय नमः ।
कुठाराय नमः । खड्गाय नमः । अंकुशाय नमः । रत्नचषकाय नमः । गदायै नमः । खेटाय नमः । पाशाय नमः । इति सम्पूज्य पुनर्मध्ये देवीं सम्पूज्य धूपदीपादिकं सर्वं प्राग्वत् समापयेत् इति शिवादूतीनित्यायजनविधिः ॥
अथ त्वरितानित्यायजनविधिः । श्रीतन्त्रराजे - (१४ पा०)
अथ षोडशनित्यासु नवमी या समीरिता ।
प्रोक्तैव त्वरिता विद्या प्रागेव द्वादशाक्षरा ॥ १ ॥
तद्विधानं शृणु प्राज्ञे होमयन्त्रादिभिः समम् ।
येन मन्त्री मन्मथाभो विक्षोभयति भूतलम् ॥ २ ॥
इति । तत्रैव - (३ । ४७)
आद्यं तु वह्निवासिन्या दूत्यादिस्तदनन्तरम् ।
हंसो धरास्वसंयुक्तः तेजश्चरसमन्वितम् ॥ १ ॥
वायुः प्रभाचरयुता ग्रासः शक्तिसमन्वितः ।
हृदा रयेण दाहेन वह्निः स्यादष्टमं प्रिये ॥ २ ॥
हंसः क्ष्मास्वयुतो ग्रासश्चरयुक्तो द्वितीयकम् ।
द्युतिर्नादयुता नित्या त्वरिता द्वादशाक्षरी ॥ ३ ॥
इति । ओं ह्रींहुंखेचछेक्षःस्त्रीहूंक्षेह्रींफट् ॥ तथा त्रिपुरार्णवे -
ऋषिः सौरिर्विराट् छन्दो देवतेयं च पार्वति ।
कवचं स्त्री शक्तिबीजे क्षेच कीलकमीरितम् ॥ १ ॥
इयं तु त्वरिता नित्या । तन्त्रजाजे - (१४ । ३)
विद्याचतुर्थवर्णादिसप्तभिस्त्वक्षरैस्तथा ।
कुर्यादङ्गानि युग्मार्णैः षट् क्रमेण कराङ्गयोः ॥ १ ॥
शिरोललाटकण्ठेषु हृन्नाभ्याधारकेषु च ।
ऊरुयुग्मे तथा जानुयुग्मे जङ्घाद्वये तथा ॥ २ ॥
पादयुग्मे तथा वर्णान्मन्त्रजान् दश विन्यसेत् ।
द्वितीयोपान्त्यमध्यस्थैर्मन्त्रार्णैरितरैरपि ॥ ३ ॥
ताराद्यैः शृणु तद्ध्यानं तच्छक्तीस्तत्प्रपूजनम् ।
श्यामवर्णां शुभाकारां नवयौवनशोभिनीम् ॥ ४ ॥
द्विद्विक्रमादष्टनागैः कल्पिताभरणोज्ज्वलाम् ।
ताटङ्कमङ्गदं तद्वद्रशनानूपुरान्वितैः ॥ ५ ॥
विप्रक्षत्रियविट्शूद्रजातिभिर्भीमविग्रहैः ।
पल्लवांशुकसंवीतां शिखिपुच्छकृतैः शुभैः ॥ ६ ॥
वलयैर्भूषितभुजां माणिक्यमुकुटोज्ज्वलाम् ।
बर्हिबर्हकृतापीडां तच्छत्रां तत्पताकिनीम् ॥ ७ ॥
गुञ्जागुणलसद्वक्षःकुचकुंकुममण्डनाम् ।
त्रिनेत्रां चारुवदनां मन्दस्मितमुखाम्बुजाम् ॥ ८ ॥
पाशांकुशवराभीतिलसद्भुजचतुष्टयाम् ।
ध्यात्वैवं तोतुलां देवीं पूजयेच्छक्तिभिर्वृताम् ॥ ९ ॥
तदग्रस्थां च फट्कारीं शरचापकरोज्ज्वलाम् ।
प्रसादे फलदाने च साधकानां त्वरान्विताम् ॥ १० ॥
यतः सा त्वरितेत्युक्ता मया शक्तिर्नवम्यासौ ।
कृष्णवर्णो गदापाणिर्वर्वरोर्ध्वशिरोरुहः ॥ ११॥
किंकरस्त्वग्रतस्तस्याः पूज्यः सर्वार्थसिद्धये ।
तद्द्वारपार्श्वयोः पूज्ये जयाविजयसंज्ञिके ॥ १२ ॥
शक्ती तत्सदृशौ स्वर्णवेत्रवेल्लत्कराम्बुजे ।
हुंकारी खेचरी चण्डा छेदिनी क्षेपिणी ततः ॥ १३ ॥
स्त्रीहुंकार्यौ क्षेमकरी लोकपालसमा इमाः ।
पूज्याः पद्माष्टपत्रेषु स्थिता मन्त्रार्णशक्तयः ॥ १४ ॥
याभिर्नित्यार्चिताभिः स्यान्नरो नारीषु मन्मथः ।
शृणु पूजाविधिं तस्यास्त्वरिताया महेश्वरि ॥ १५ ॥
प्राग्वदर्घ्यं विधायेशीमष्टासिंहांघ्रिके शुभे ।
आसने हेमरचिते विदध्यात् भूपुरद्वयम् ॥ १६ ॥
पश्चिमद्वारसंयुक्तं तदन्तर्वृत्तयुग्मकम् ।
तदन्तरष्टपत्राब्जं विधायात्र परां शिवाम् ॥ १७ ॥
प्राग्वदावाह्य परितः शक्तिभिर्वेष्टितां तथा ।
मुद्रादर्शनपूर्वं तु पूजयेत्तां यथोदिताम् ॥ १८ ॥
अग्रपत्राग्रके वृत्तमध्ये वार्च्यौ पुरोदितौ ।
किङ्करस्य बलिं दद्याद् देव्यग्रे प्रागुदीरितैः ॥ १९ ॥
स्वसमानगणाकीर्णमण्डलस्थस्य भक्तितः ।
एवं पूजां विधायाग्रे जपेद्विद्यां सहस्रकम् ॥ २० ॥
शतं वा कृतहोमस्तु पूजां प्राग्वत् समापयेत् ।
इति ॥ अथ प्रयोगः : तत्र प्राग्वदासनादियोगपीठन्यासान्ते
त्वरिताविद्यया प्राणायामत्रयं कृत्वा शिरसि सौरये ऋषये नमः ।
मुखे विराट्छन्दसे नमः । हृदि त्वरितानित्यादेवतायै नमः । गुह्ये ओं
बीजाय नमः । पादयोः हुं शक्तये नमः । नाभौ क्षे कीलकाय
नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा ओं
खेचहृदयाय नमः । चछे शिरसे स्वाहा । छेक्षः शिखायै वषट् ।
क्षःस्त्री कवचाय हुम् । स्त्रीहूं नेत्रत्रयाय वौषट् । हूंक्षे अस्त्राय
फट् इति करषडङ्गन्यासं कृत्वा शिरसि ह्रीं ओं ह्रीं नमः । ललाटे
ह्रींहुंह्रींनमः । कण्ठे ह्रींखेह्रींनमः । हृदि
ह्रींचह्रींनमः । नाभौ ह्रींछेह्रींनमः । मूलाधारे
ह्रींक्षःह्रींनमः । ऊरुद्वये ह्रींस्त्रींह्रींनमः । जानुद्वये
ह्रींहूंह्रीं नमः । जङ्घाद्वये ह्रींक्षेह्रींनमः । पादद्वये
ह्रींफठ्रींनमः इति मायापुटितवर्णान् विन्यस्य समस्तविद्यया
व्यापकं विन्यस्य ध्यानादिमानसपूजान्ते स्वर्णादिपट्टे
कुंकुमादिना पश्चिमादिद्वारयुतं चतुरस्रद्वयं विधाय
तदन्तर्वृत्तद्वयोपेतमष्टदलपद्ममिति पूजाचक्रं विधाय
प्राग्वत्पुरतः संस्थाप्याभ्यर्च्यर्घ्यादिस्थापनाद्यात्मपूजान्ते
भुवनेशीपीठमभ्यर्च्य तत्र मूलविद्यया मूर्ति
कल्पयित्वावाहनादिपुष्पोपचारान्ते कर्णिकान्तः प्राग्वत् षडङ्गानि
गुरुपंक्तित्रयं च सम्पूज्य पश्चाद् बहिर्वृत्तत्रयान्तराल
थवीथीद्वये देव्यग्रदलाग्रबाह्ये फट्कारीपादु० । बाह्यवीथ्यां
देव्यग्र एव किङ्करपा० (द्वारपार्श्वयोः जयापा० विजया० ।
अष्टपत्रेषु हुङ्कारपा० खेचरीपा०) चण्डा० छेदिनीपा० क्षेपिणीपा०
स्त्रीकारीपा० हूङ्कारीपा० क्षेमकरीपा० इति सम्पूज्य
प्राग्वल्लोकपालार्चादिसर्वं समापयेदिति । अत्र
कुरुकुल्लाबलिदानानन्तरं किङ्करस्यापि देव्यग्रेऽन्नादिभिर्बलिं
दद्यात् इति त्वरितानित्यायजनविधिः ॥
अथ कुलसुन्दरीपूजाविधिः । तत्र श्रीतन्त्रराजे - (१५ प०)
अथ षोडशनित्यासु दशमी या समीरिता ।
विद्योक्ता कुलसुन्दर्यास्तस्याः पूजाविधिं शृणु ॥ १ ॥
तद्ध्यानमथ तन्न्यासं तच्छक्तीस्तत्समर्चनम् ।
इति । तत्रैव - (३ । ५१)
शुचिः स्वेन युतस्त्वाद्यो रसावह्निसमन्वितः ।
प्राणो द्वितीयः स्वयुतो वनहृच्छक्तिभिः परः ॥ १ ॥
इतीरिता त्र्यक्षरी स्यान्नित्या सा कुलसुन्दरी ।
इति । ऐंक्लींसौः ॥ त्रिपुरार्णवे -
ऋषिस्तु दक्षिणामूर्तिरहं शिरसि विन्यसेत् ।
छन्दः पंक्तिस्तु विज्ञेयं मुखे विन्यस्य देवताम् ॥ १ ॥
हृदये परमेशानीं विन्यसेत् कुलसुन्दरीम् ।
वाग्भवं बीजमित्युक्तं शक्तिस्तार्तीयमीरितम् ॥ २ ॥
कामबीजं कीलकं स्यात् पुरुषार्थे नियोजितम् ।
इति । तन्त्रराजे - (१५ । १२)
त्रिभिस्तैरुदितैर्मूलवर्णैः कुर्यात् षडङ्गकम् ।
आद्यमध्यावसानेषु पूजाजपविधौ क्रमात् ॥ १ ॥
प्रत्येकं तैस्त्रिभिर्बीजैर्दीर्घस्वरसमन्वितैः ।
कुर्यात् कराङ्गवक्त्राणां न्यासं प्रोक्तं यथाविधि ॥ २ ॥
ऊर्ध्वप्राग्दक्षिणोदक्च पश्चिमापरनामभिः ।
शुचिनत्यन्तरस्थैस्तैस्तदात्मसु यथाक्रमम् ॥ ३ ॥
आधाररन्ध्रहृत्स्वेकं द्वितीयं लोचनत्रये ।
तृतीयं श्रोत्रचिबुके चतुर्थं घ्राणतालुषु ॥ ४ ॥
पञ्चमं (त्रा?चां) सनाभीषु तथोरुपाणिपद्द्वये ।
मूलमध्याग्रतो न्यस्येन्नवधा मूलवर्णकैः ॥ ५ ॥
लोहितां लोहिताकारशक्तिवृन्दनिषेविताम् ।
लोहितांशुकभूषास्रग्लेपनां षण्मुखाम्बुजाम् ॥ ६ ॥
प्रतिवक्त्रं त्रिनयनां तथा चारुस्मितान्विताम् ।
अनर्घ्यरत्नघटितमाणिक्मुकुटोज्ज्वलाम् ॥ ७ ॥
ताटङ्कहारकेयूररशनानूपुरोज्ज्वलाम् ।
रत्नस्तबकसंभिन्नलसद्वक्षःस्थलां शुभाम् ॥ ८ ॥
कारुण्यानन्दपरमामरुणाम्बुजविष्टराम् ।
भुजैर्द्वादशभिर्युक्तां सर्वेशीं सर्ववाङ्मयीम् ॥ ९ ॥
प्रवालाक्षस्रजं पद्मं कुण्डिकां रत्ननिर्मिताम् ।
रत्नपूर्णं तु चषकं लुङ्गीं व्याख्यानमुद्रिकाम् ॥ १० ॥
दधानां दक्षिणैर्वामैः पुस्तकं चारुणोत्पलम् ।
हैमीं च लेखनीं रत्नमालां कम्बु वरं भुजैः ॥ ११ ॥
अभितः स्तूयमानां च देवगन्धर्वकिन्नरैः ।
यक्षराक्षसदेवर्षिसिद्धविद्याधरादिभिः ॥ १२ ॥
ध्यात्वैवमर्चयेन्नित्यं वाग्लक्ष्मीकान्तिद्सिद्धये ।
सितां केवलवाक्सिद्ध्यै लक्ष्म्यै हेमप्रभामपि ॥ १३ ॥
धूमाभां वैरिविद्विष्ट्यै मृतये निग्रहाय च ।
नीलां च मूकीकरणे स्मरेत्तत्तदपेक्षया ॥ १४ ॥
भाषा सरस्वती वाणी संस्कृता प्राकृतापरा ।
बहुरूपा चित्ररूपा रम्याप्यानन्दकौतुके ॥ १५ ॥
एवमेकादश प्रोक्ता नवयोनिषु पूजयेत् ।
बहिरष्टच्छदाम्भोजे ब्राह्म्याद्यास्ताः समर्चयेत् ॥ १६ ॥
चतुरस्रे लोकपालान् शक्तिरूपान् समर्चयेत् ।
इन्द्राग्नियमरक्षोर्भिर्वरुणानिलसोमकान् ॥ १७ ॥
ईशानन्तविधीन् प्रागाद्यष्टदिक्ष्वधरोत्तरम् ।
शक्त्यान्तैर्नामभिः प्राग्वत् पूजयेत् सर्वसिद्धये ॥ १८ ॥
चतुरस्रद्वयं कुर्यात् प्राक्प्रत्यग्द्वारसंयुतम् ।
तन्मध्ये वृत्तयुग्मस्थं कुर्यादष्टच्छदाम्बुजम् ॥ १९ ॥
चतुस्त्रिपञ्चचत्वारिभागतो नवयोनिकम् ।
कृत्वात्र तां समावाह्य प्राग्वत् सम्यगथार्चयेत् ॥ २० ॥
एकादशस्वन्तशक्ती मध्ययोनेस्तु पार्श्वयोः ।
तथैव लोकपालान्तशक्ती द्वारद्वयेऽर्चयेत् ॥ २१ ॥
विशेष (एव?एष) सामान्यमन्यदर्चनमम्बिके ।
सप्ताक्षर्या बलिं दद्यात् पूजान्ते कुरुकुल्लया ॥ २२ ॥
एवं नित्यार्चनं कुर्यान्नित्यहोमं घृतेन वै ।
इति ॥ अथ प्रयोगः : तत्र प्राग्वदासनपूजादियोगपीठन्यासान्ते मूलेन
प्राणायामत्रयं कृत्वा शिरसि दक्षिणामूर्ति-ऋषये नमः । मुखे
पंक्तिच्छन्दसे नमः । हृदये कुलसुन्दरीनित्यादेवतायै नमः । गुह्ये
ऐंबीजाय नमः । पादयोः सौः शक्तये नमः । नाभौ क्लीं कीलकाय
नमः इति विन्यस्य मम पुरुषार्थ चतुष्टयसिद्धये विनियोगः इति
कृताञ्जलिरुक्त्वा पूजारम्भे जपारम्भे आं हृदयाय नमः । ईं
शिरसे स्वाहा । ऊं शिखायै वषट् । ऐं कवचाय हुं । औं
नेत्रत्रयाय वौषट् । अः अस्त्राय फट् इति कराङ्गयोर्विन्यस्य शिरसि ऐं
आं ऊर्ध्ववक्त्राय नमः । मुखे ऐं ईं पूर्ववक्त्राय नमः ।
दक्षकर्णे ऐं ऊं दक्षिणवक्त्राय नमः । वामकर्णे ऐं ऐं
उत्तरवक्त्राय नमः । चूडाधः ऐं औं पश्चिमवक्त्राय नमः ।
चिबुके ऐं अः अपरवक्त्राय नमः इति विन्यसेत् । पूजामध्ये
त्वावरणपूजारम्भे विद्याया मध्यबीजं षड्दीर्घस्वरैर्भिन्नं
कृत्वा क्लांक्लीमित्यादिना न्यसेत् । पूजान्तेऽपि विद्यया अन्त्यबीजं
तथैव स्वरभिन्नं कृत्वा सां सीमित्यादिना न्यसेत् । मध्ये जपाने च ।
जपमध्यमुद्दिष्टसंख्याया अर्धजपानन्तरमिति । अथ प्रकृते
प्रथमकूटस्य वक्त्रन्यासानन्तरं भूत्वा (यः) आधारे ऐं ।
ब्रह्मरन्ध्रें क्लीं । हृदये सौः । दक्षनेत्रे ऐं । वामनेत्रे क्लीं ।
ललाटनेत्रे सौः । दक्षश्रोत्रे ऐं । वामे क्लीं । चिबुके सौः । दक्षनसि
ऐं । वामे क्लीं । तालुनि सौः । दक्षांसे ऐं । वामे क्लीं । नाभौ
सौः । दक्षदोर्मूले ऐं । मध्ये क्लीं । अग्रे सौः वामदोर्मूले ऐं ।
मध्ये क्लीं । अग्रे सौः । दक्षोरुमूले ऐं । मध्ये क्लीं । अग्रे सौः ।
वामोरुमूले ऐं । मध्ये क्लीं । अग्रे सौः । एवं पाणिपादद्वये इति
विन्यस्य ततो मूलविद्यया व्यापकं कुर्यात् । पूजाजपमध्यान्तयोरपि
मध्यबीजान्त्यबीजाभ्यां वक्त्रन्यासानन्तरं
मूलबीजैर्नवविधन्यासं व्यापकस्य न्यासं च कुर्यादिति
सम्प्रदायः । ततो ध्यानमानसपूजान्ते प्राग्वत्स्वर्णादिपट्टे
कुंकुमादिनाष्टदलपद्मं कृत्वा तत्कर्णिकायां
प्राग्वन्नवयोनिचक्रं विधाय पद्माद्बहिर्वृत्तद्वयं तद्बहिः
पूर्वपश्चिमद्वारद्वययुतं चतुरस्रद्वयं कुर्यादिति पूजाचक्रं
निर्माय प्राग्वत् पुरतः
संस्थाप्याभ्यर्च्यार्घ्यादिस्थापनाद्यात्मपूजान्ते
मण्डूकादिज्ञानात्मान्ते प्राग्वत् पीठपूजान्तं
कृत्वाष्टदलकेसरेषु वामायै नमः ज्येष्ठायै नमः रौद्र्यै०
अम्बिकायै० इच्छायै० ज्ञानायै० क्रियायै० कुलिकायै० चित्रायै०
विषध्न्यै० दूतर्ययै० आनन्दायै० इति द्वादशशक्तीः सम्पूज्य हसौं
सदाशिवमहाप्रेतपद्मासनाय नमः इति समस्तं पीठं सम्पूज्य
तत्र कुलसुन्दरीविद्यया मूर्तिं परिकल्प्यावाहनादिप्राणप्रतिष्ठान्ते
प्रागुक्तषड्वक्त्रन्यासमन्त्रैर्देव्या वक्त्रषट्कं
सम्पूज्यासनादिपूजोपचारान्ते ततस्त्रिकोणस्याग्रकोणे २ भाषापा० इति
सम्पूज्याष्टयोनिषु देव्यग्रयोनिमारभ्य प्रादक्षिण्येन २ सरस्वतीपा०
२ वाणीपा० २ संस्कृतापा० २ प्राकृतापा० २ परापा० २ बहुरूपापा० २
चित्ररूपापा० २ रम्यापा० इत्यष्टौ शक्तीः सम्पूज्य अन्तर्योन्यां
देव्याः पृष्ठदक्षिणकोणे आनन्दापा० तद्वामे कौतुकापा० इति
सम्पूज्य अष्टदलेषु प्राग्वद्ब्राह्मयाद्याः सम्पूज्य चतुरस्रे
प्राग्वल्लोकपालान् इन्द्रशक्तिपा० इत्यादि शक्तिरूपान्सम्पूज्य
तदायुधान्यपि तथैव शक्तिरूपाणि सम्पूज्य धूपादिसर्वं कृत्वा
प्राग्वत्समापयेत् इति कुलसुन्दरीनित्यासपर्याविधिः ॥
अथ नित्यानित्यायजनविधिः । श्रीतन्त्रराजे - (१६ प०)
अथ षोडशनित्यासु या प्रोक्तैकादशी तु ताम् ।
नित्यानित्यां शृणु प्राज्ञे तदायत्तमिदं जगत् ॥ १ ॥
विद्योद्धारः कृतः पूर्वं तद्विधानमिहोच्यते ।
यासौ समस्तभूतानां देहस्थितिविधायिनी ॥ २ ॥
न्यासध्यानं ततः शक्तीस्ताभिः पूजां च साधनम् ।
इति । तत्रैव - (३ । ५३)
हंसश्च हृत्प्राणरसादाहकुर्भिः समन्वितः ।
विद्यया कुलसुन्दर्या योजितः सम्प्रदायतः ॥ १ ॥
इति । हसकलरडैं हसकलरडीं हसकलरडौः ॥ इति त्रिपुरार्णवे - नित्यानित्या तु बाला चे ति अत्र बालानित्यानित्ययोरभेदात् करषडङ्गार्घ्यादिकं बालाया इव ज्ञेयम् । तन्त्रराजे - (१६ । ४)
दीर्घस्वरसमेताभ्यां हंसहृद्भ्यां षडङ्गकम् ।
भ्रूमध्ये कण्ठहृन्नाभिगुह्याधारेषु च क्रमात् ॥ १ ॥
विद्याक्षराणि क्रमशो न्यसेद्बिन्दुयुतानि च ।
व्यापकं तु समस्तेन विधाय विधिना युतम् ॥ २ ॥
ध्यायेत्तां सर्वसम्पत्तिहेतोः सर्वात्मिकां शुभाम् ।
उद्यद्भास्करबिम्बाभां माणिक्यमुकुटोज्ज्वलाम् ॥ ३ ॥
पद्मरागकृताकल्पामरुणांशुकधारिणीम् ।
चारुस्मितलसद्वक्त्रषट्सरोजविराजिताम् ॥ ४ ॥
प्रतिवक्त्रं त्रिनयनां भुजैर्द्वादशभिर्युताम् ।
पाशाक्षगुणपुण्ड्रेक्षुचापखेटत्रिशूलकान् ॥ ५ ॥
वरं वामैर्दधानां चाप्यंकुशं पुस्तकं तथा ।
पुष्पेषु मण्डलाग्रं च कपालमभयं तथा ॥ ६ ॥
दधानां दक्षिणैर्हस्तैर्ध्यायेद् देवीमनन्यधीः ।
अनन्ताः शक्तयो देव्यास्त्वाकर्णय वदामि ते ॥ ७ ॥
ललिताशक्तिवृन्दाश्च बीजद्वयमथो क्रमात् ।
पूर्णमण्डलवर्णाः स्युरन्ते शक्तीतिसंयुताः ॥ ८ ॥
सप्ताक्षर्या युता संज्ञा विद्याः स्युर्द्वादशाक्षराः ।
षट्सप्तत्या पञ्चशतं यजेत्ताभिर्वृतां शिवाम् ॥ ९ ॥
षट्कोणकोणेष्वासीना डाकिन्याद्यास्तथार्चयेत् ।
रक्षोनिलेन्द्रवह्नीशवरुणेषु क्रमाच्च ताः ॥ १० ॥
डाकिनी राकिणी पश्चाल्लाकिनी काकिनी तथा ।
शाकिनी हाकिनी मूलदेवीसदृशविग्रहाः ॥ ११ ॥
हेतीस्तामभितः शक्तिरूपास्तन्मुकुटानताः ।
कृतन्यासार्धसंकल्पः पूजयेदीरितक्रमात् ॥ १२ ॥
सतिलद्वयहोमं तु जपेद्विद्यां यथोदिताम् ।
षट्कोणाद्बहिरब्जं तु शतार्धैकदलान्वितम् ॥ १३ ॥
कृत्वा तेष्वपि ताभिस्तु वृता पूज्या तु मध्यतः ।
द्विचतुष्षड्दलशतैर्द्वादशाष्टदलच्छदैः ॥ १४ ॥
पद्मैरावृतषट्कोणे यजेल्लघ्वीरितार्चना ।
चतुरस्रद्वयं बाह्ये चतुर्द्वारसमन्वितम् ॥ १५ ॥
विधाय तेषु शाखाश्च शक्तीनां विंशतिं यजेत् ।
ब्राह्म्यादिलोकपालाख्याः षोडशद्वारसंस्थिताः ॥ १६ ॥
अनन्तब्रह्मनियतिकालरूपा विदिग्गताः ।
इति ॥ अथ प्रयोगः : तत्र प्राग्वदासनयोगपीठन्यासान्ते
नित्यानित्याविद्यया प्राणायामत्रयं कृत्वा शिरसि दक्षिणामूर्ति-
ऋषये नमः । मुखे पंक्तिच्छन्दसे नमः । हृदि नित्यानित्यादेवतायै
नमः । गुह्ये ऐंबीजाय नमः । पादयोः ओं शक्तये नमः । नाभौ
ईंकीलकाय नमः इति विन्यस्य मम सर्वाभीष्टसिद्धये विनियोगः इति
कृताञ्जलिरुक्त्वा ह्सां हृदयाय नमः । ह्सीं शिरसे स्वाहा । ह्सूं
शिखायै वषट् । ह्सैं कवचाय हुं । ह्सौं नेत्रत्रयाय वौषट् । ह्सः
अस्त्राय फट् इति करषडङ्गन्यासं विधाय भ्रूमध्ये हं नमः ।
कण्ठे संनमः । हृदि कंनमः । नाभौ लं नमः । गुह्ये
रंनमः । मूलाधारे डंनमः समस्तविद्यया व्यापकं विधाय
उद्यद्भास्करबिम्बाभामित्यादि ध्यात्वा मानसपूजान्ते
स्वर्णादिपट्टे कुंकुमादिना षट्कोणं विधाय तन्मध्ये वृत्तं
कृत्वा षट्कोणाद्बहिः षोडशदलयुतानि षट्त्रिंशत्पद्मानि
द्वात्रिंशद्द्वात्रिंशद्दलयुतानि अष्टादशपद्मानि वा
तद्बहिर्विभागेन कृत्वा तद्बहिश्चतुरस्रद्वयं चतुर्द्वारोपेतं
कुर्यादिति पूजामण्डलं निर्माय प्राग्वत् पुरतः
संस्थाप्याभ्यर्च्यार्घ्यादिस्थापनाद्यात्मपूजान्ते
कुलसुन्दरीपीठमभ्यर्च्य मूलेन मूर्तिं परिकल्प्यावाह्यासनादि
पुष्पोपचारान्ते पीठमध्ये देवीपरितः प्राग्वत् षडङ्गानि सम्पूज्य
देव्याः पृष्ठभागे षट्कोणवृत्तयोरन्तराले प्राग्वद्गुरु
पंक्तित्रयमभ्यर्च्य
निर्-ऋतिकोणे २ डाकिनीपा० । वायव्ये २ राकिणीपा० । पूर्वकोणे २
लाकिनीपा० । आग्नेये २ काकिनीपा० । ईशाने २ शाकिनीपा० । पश्चिमकोणे २
हाकिनीपा० इति सम्पूज्य बहिःषोडशदले देव्यग्रदलमारभ्य
प्रादक्षिण्येन २ अशक्तिपा० इत्यादि षोडशशक्तीः पूजयेत् ।
एवमन्येष्वपि पञ्च(षट्)त्रिंशद्वर्णशक्तीः प्रतिपद्मं
षोडशशक्तीरिति प्रागुक्तपूर्णमण्डलवऋणशक्तीः पूजयेत् ।
अष्टादशपद्मपक्षे तु प्रतिपद्मं द्वात्रिंशत्संख्याकाः
प्रोक्तशक्तयः पूज्याः । अथ षट्कोणाद्बहिरेकपञ्चाशद्दलमितं
पद्मं विरच्य तद्दलेषु
देव्यग्रादिप्रादक्षिण्येनैकपञ्चाशद्वर्णशक्तिः पूजयेत् । यथा
षट्कोणाद्बहिः षोडशदलपद्मं तद्बहिर्द्वादशदलं
तद्बहिर्दशदलं तद्बहिःषड्दलं तद्बहिश्चतुर्दलं
तद्बहिर्द्विदलमिति पद्मषट्कं निर्माय तेषु षोडशदलेषु
स्वरशक्तीर्द्वादशदलेषु कादिठान्तवर्णशक्तीर्दशदलेषु
डादिफान्तवर्णशक्तीः षड्दलेषु वादिलान्तवर्णशक्तीः चतुर्दलेषु
वादिसान्तवर्णशक्तीर्द्विदलयोर्हक्षवर्णशक्ती इति पञ्चाशच्छक्तीः
पूजयेत् । एवमुत्तममध्यमकनिष्ठपक्षेष्वेकपक्षानुसारेण
वर्णशक्तीः सम्पूज्य पूर्वद्वारमारभ्य प्रतिद्वारं द्विद्विक्रमेण
इन्द्रादीशानान्तलोकपालशक्त्यष्टकं प्राग्वत् सम्पूज्य
वायव्यादिनिर्-ऋत्यन्तं कोणचतुष्टये २ अनन्तशक्तिपा० २
ब्रह्मशक्तिपा० २ नियतिशक्तिपा० २ कालशक्तिपा० इति सम्पूज्य
षट्कोणान्तवृत्तयोरन्तराले द्वादश स्थानानि परिकल्प्य २
अभयशक्तिपा० २ कपालशक्तिपा० २ खड्गशक्तिपा० २ इषुशक्तिपा० २
पुस्तकशक्तिपा० २ अंकुशशक्तिपा० २ पाशशक्तिपा० २
अक्षगुणशक्तिपा० २ इक्षुचापशक्तिपा० २ खेटकशक्तिपा० २
त्रिशूलशक्तिपा० २ वरशक्तिपा० इति सम्पूज्य पुनर्मध्ये देवीं
तद्विद्ययाभ्यर्च्य धूपादि सर्वं कृत्वा समापयेत् इति
नित्यानित्यायजनविधिः ॥
अय नीलपताकार्चाविधिः ॥ श्रीतन्त्रराजे - (१७ प०)
अथ षोडशनित्यासु द्वादशी या समीरिता ।
तस्या नीलपताकाया विधानं सर्वसिद्धिदम् ॥ १ ॥
न्यासक्रमविधानं च ध्यानं शक्तीः प्रपूजनम् ।
इति । तत्रैव - (३ । ५६)
त्वरितोपान्त्यमाद्यं स्याद् द्युतिर्दाहचरस्वयुक् ।
हृच्च दाहक्ष्मास्वयुतं (वज्रेशीपञ्चमं ततः ॥ १ ॥
मरुत् स्वयुक्तो मध्याद्ये दशम्याः क्रमशः स्मृते ।
भूमी रसाक्ष्मास्वयुता) वज्रेशी षष्ठतः क्रमात् ॥ २ ॥
षडक्षराणि त्वरितातृतीयं तदनन्तरम् ।
द्युतिर्दाहचरस्वेन अस्या आद्यमनन्तरम् ॥ ३ ॥
उक्ता नीलपताकाख्या नित्या सप्तदशाक्षरी ।
ह्रींफ्रेंस्रूंओं-आंक्लीं-ऐंब्लूंनित्यमदद्रवेहुंफ्रेंह्रीं इति । त्रिपुरार्णवे
ऋषिः सम्मोहनश्छन्दो गायत्रं देवता मनोः ।
नित्या नीलपताकाख्या ह्रींबीजं ह्रीं च शक्तिकम् ॥ १ ॥
कामबीजं कीलकं स्यादिति ॥ श्रीतन्त्रराजे - (१७ । ५)
मूलविद्याक्षरैरङ्गान्याचरेत् षडिति क्रमात् ।
द्विचतुष्टयषट्त्र्यर्णैः क्रमेण षडीतिरितैः ॥ १ ॥
श्रोत्राक्षिनासायुगले वाचि कण्ठे हृदि क्रमात् ।
नाभावाधारके पादसन्धिषु त्रिषु च क्रमात् ॥ २ ॥
मन्त्राक्षराणि क्रमशो न्यसेत् सप्तदशापि च ।
व्यापकं समस्तेन विदध्याच्च यथाविधि ॥ ३ ॥
इन्द्रनीलनिभां भास्वन्मणिमौलिविराजिताम् ।
पञ्चवक्त्रां त्रिनयनामरुणांशुकधारिणीम् ॥ ४ ॥
दशहस्तां लसन्मुक्ताप्रायाभरणबूषिताम् ।
रत्नस्तवकसम्भिन्नदेहां चारुस्मिताननाम् ॥ ५ ॥
पाशं पताकां चर्मापि शार्ङ्गचापं वरं करैः ।
दधानां वामपार्श्वस्थैः सर्वाभरणभूषितैः ॥ ६ ॥
अंकुशं च ततः शक्ति खड्गं बाणं तथाभयम् ।
दधानां दक्षिणैर्हस्तैरासीनां पद्मविष्टरे ॥ ७ ॥
स्वाकारवर्णवेषास्यपाण्यायुधविभूषणैः ।
शक्तिवृन्दैर्वृतां ध्यायेद्देवीं नित्यार्चनक्रमे ॥ ८ ॥
त्रिषट्कोणयुतं पद्ममष्टपत्रं ततो बहिः ।
द्व्य(अ)ष्टारं भूपुरद्वन्द्वाद् वृत्ते तत्पुरयुग्मकम् ॥ ९ ॥
चतुर्द्वारयुतं दिक्षु शाखाभिश्च समन्वितम् ।
कृत्वा तामावृतां शक्तिगणैस्तत्रार्चयेच्छिवाम् ॥ १० ॥
(इच्छाज्ञानक्रियाशक्तीस्त्रिषु कोणेषु पूजयेत् ।
अग्रात् प्रदक्षिणेनैव यजेदावृत्तिपञ्चकम्) ॥ ११ ॥
डाकिन्याद्या यजेत षट्सु कोणेषु परितः क्रमात् ।
ब्राह्म्यादीरष्टपत्रेषु तत्कोणेषु बहिस्तथा ॥ १२ ॥
प्रागुक्तास्ता यजेच्छक्तीर्नित्यानित्यादिषूदिताः ।
बलिद्वयं च कुर्वीत पूजां प्राग्वत् समापयेत् ॥ १३ ॥
सर्वत्र नित्यहोमं तु कुर्यादन्नाज्यतोऽपिवा ।
तिलतण्डुलकैर्वापि प्रोक्तं द्रव्यानुदीरिते ॥ १४ ॥
इति ॥ अथ प्रयोगः - तत्र प्राग्वद्योगपीठन्यासान्ते नीलपताकाविद्यया
प्राणायामत्रयं कृत्वा शिरसि सम्मोहनाय ऋषये नमः । मुखे
गायत्रीच्छन्दसे नमः । हृदये नीलपताकानित्यादेवतायै नमः । गुह्ये
ह्रींबीजाय नमः । पादयोः ह्रींशक्तये नमः । नाभौ
क्लींकीलकाय नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति
कृताञ्जलिरुक्त्वा ह्रींफ्रें हृदयाय नमः । स्रूंओं-आंक्लीं शिरसे
स्वाहा । ऐंब्लूंनित्यमदशिखायै वषट् । द्रकवचाय हुं ।
वेनेत्रत्रयाय वौषट् । हुं-अस्त्राय फट् इति करषडङ्गन्यासं विधाय
दक्षकर्णे ह्रींनमः । वामे फ्रेंनमः । दक्षनेत्रे स्रूंनमः ।
वामे ओं नमः । दक्षनसि आंनमः । वामे क्लींनमः । मुखे ऐं
नमः । कण्ठे ब्लूंनमः । हृदि निंनमः । नाभौ त्यंनमः ।
मूलाधारे मंनमः । दक्षोरुमूले दंनमः । जानुनि द्रंनमः ।
गुल्फसन्धौ वेंनमः । वामोरुमूले हुंनमः । जानुनि फ्रेंनमः
। गुल्फसन्धौ ह्रींनमः इति विन्यस्य मूलेन व्यापकं कृत्वा
ध्यानादिमानसपूजान्ते प्राग्वत् स्वर्णादिपट्टे कुंकुमादिना
चतुर्द्वारोपेतं चतुरस्रद्वयं कृत्वा तदन्तर्वृत्तद्वयं
तदन्तरष्टदलकमलं तदन्तः षट्कोणे तदन्तस्त्रिकोणमिति
पूजाचक्रं निर्माय पुरतः
संस्थाप्याभ्यर्च्यार्घ्यादिस्थापनाद्यात्मपूजान्ते
भुवनेश्वरीपीठमभ्यर्च्य तत्र नीलपताकाविद्यया मूर्ति
परिकल्प्यावाहनादिपुष्पोपचारान्ते त्रिकोणाभ्यन्तरे
प्राग्वत्षडङ्गानि सम्पूज्य त्रिकोणषट्कोणयोरन्तराले
प्राग्वद्गुरुपंक्तित्रयमभ्यर्च्य त्रिकोणषट्कोणयोरन्तराले २ अभयाय
नमः । २ बाणाय नमः । २ खड्गाय नमः । २ शक्तये नमः । २
अंकुशाय नमः । २ पाशाय नमः । २ पताकायै नमः । २ चर्मणे
नमः । २ शार्ङ्गचापाय नमः । २ वराय नमः इति सम्पूज्य
त्रिकोणस्याग्रकोणादिप्रादक्षिण्येन २ इच्छाशक्तिपा० । २ ज्ञानशक्तिपा०
। २ क्रियाशक्तिपा० इति सम्पूज्य षट्कोणेषु देव्यग्रादिप्रादक्षिण्येन २
हाकिनीपा० एवं शाकिनी० काकिनी० लाकिनी० राकिणी० डाकिनी० इत्यादि
सम्पूज्याष्टदलेषु देव्यग्रादिप्रादक्षिण्येन ब्राह्मीपादु०
एवमष्टमातृकाः सम्पूज्याष्टकोणेषु देव्यग्रमारभ्य
प्रादक्षिण्येन (२ सुमुखीपा०) २ सुन्दरीपा० २ सारापा० २ सुमनापा० २
सरस्वतीपा० २ समयापा० २ सर्वगापा० २ सिद्धापा० इति सम्पुज्य
बहिश्चतुरस्रे देव्यग्रद्वारस्य दक्षिणभागमारभ्य प्रादक्षिण्येन २
विह्वलापा० । २ आकर्षिणीपा० । २ लोलापा० । २ नित्यापा० । २ मदनापा० । २
मालिनीपा० । २ विनोदापा० । २ कौतुकापा० । २ पुण्यापा० । २ पुराणापा०
इति सम्पूज्य वह्निश्चतुरस्रस्य चतुर्द्वारपार्श्वेषु देव्यग्रद्वारस्य
दक्षिणपार्श्वमारभ्य प्रतिद्वारं
द्विद्विक्रमेणेन्द्रादीशानपर्यन्तं लोकपालशक्त्यष्टकं प्राग्वत्
सम्पूज्याग्नेयादिकोणचतुष्टये अनन्तब्रह्मनियतिकालशक्तीः सम्पूज्य
वज्रादीन्यायुधानि प्राग्वच्छक्तिरूपाणि सम्पूज्य पुनर्मध्ये
नीलपताकानित्यां तद्विद्ययाभ्यर्च्य धूपादि सर्वं प्राग्वत् कल्पयेत्
इति नीलपताका नित्यापूजाविधिः ॥
अथ विजयानित्यार्चाविधिः । श्रीतन्त्रराजे - (१८ प०)
अथ षोडशनित्यासु सम्प्रोक्ता या त्रयोदशी ।
तद्विधानं शृणु प्राज्ञे विद्या प्रागुदिता तव ॥ १ ॥
तदङ्गान्यक्षरन्यासं ध्यानार्चास्यास्तु शक्तिभिः ।
इति । तत्रैव - (३ । ६१)
रसो नमस्तथा दाहो व्याप्तं क्ष्मा वनपूर्विका ।
स्वेन युक्ता भवेन्नित्या विजयैकाक्षरा मता ॥ १ ॥
भमरय-उ-औं इति । त्रिपुरार्णवे ऋषिरस्या अहिश्छन्दो गायत्री देवता स्वयम् । इति । स्वयं विजया । तन्त्रराजे - (१८।३)
विद्याया व्यञ्जनैर्दीर्घस्वरयुक्तैश्चतुष्टयम् ।
शेषाभ्यां च द्वयं कुर्यात् षदङ्गानि करङ्गयोः ॥ १ ॥
ज्ञानेन्द्रियेषु श्रोत्रादिष्वपि चित्तेषु विन्यसेत् ।
अक्षराणि क्रमाद्बिन्दुयुतात्वन्यत्तु पूर्ववत् ॥ २ ॥
पञ्चवक्त्रां दशभूजां प्रतिवक्त्रं त्रिलोचनाम् ।
भास्वन्मुकुटविन्यस्तचन्द्ररेखाविराजिताम् ॥ ३ ॥
सर्वाभरणसंयुक्तां पीताम्बरसमुज्ज्वलाम् ।
उद्यद्भास्वद्बिम्बतुल्यदेहकान्तिं शुचिस्मिताम् ॥ ४ ॥
शङ्खं पाशं खेटचापौ कह्लारं वामबाहुभिः ।
चक्रं तथांकुशं खड्गं सायकं मातुलुङ्गकम् ॥ ५ ॥
दधानां दक्षिणैहस्तैः प्रयोगे भीमदर्शनाम् ।
(उपासनेऽतिसौम्यां च सिंहोपरि कृतासनाम्) ॥ ६ ॥
व्याघ्रारूढाभिरभितः शक्तिभिः परिवारिताम् ।
समरे पूजनेऽन्येषु प्रयोगेषु सुखासनाम् ॥ ७ ॥
शक्तयश्चापि पूजायां सुखासनसमन्विताः ।
सर्वा देव्याः समाकारमुखपाण्यायुधा अपि ॥ ८ ॥
चतुरस्रद्वयं कृत्वा चतुर्द्वारोपशोभितम् ।
शाखाष्टकसमोपेतं तत्र प्राग्वत् समर्चयेत् ॥ ९ ॥
तदन्तर्वृत्तयुग्मान्तरष्टकोणं विधाय तत् ।
तदन्तश्च तथा पद्मं षोडशच्छदसंयुतम् ॥ १० ॥
तथैवाष्टच्छदं पद्मं विधायावाह्य तत्र ताम् ।
तत्तच्छक्त्यावृतां सम्यगुपचारैस्तथार्चयेत् ॥ ११ ॥
अन्नाज्याभ्यां नित्यहोमं कुर्याद्वा तिलतण्डुलैः ।
बलिद्वयं प्रकुर्वीत पूजां चापि समापयेत् ॥ १२ ॥
ललितारहिताः पञ्चदशनित्यास्तिथीश्वराः ।
चन्द्रखण्डलसन्मौलियुताः सा तन्मयी सदा ॥ १३ ॥
इति । अत्र कामेश्वर्यादिपञ्चदशनित्यानां वृद्धिक्षयोपेतचन्द्रकलापञ्चदशकरूपपञ्चदशतिथिमयत्वाच्च तासां चन्द्रकलाधारणत्वम् ललितायास्तु तासां कलानां कारणभूताक्षयेन्दुकलारूपत्वात् तस्यास्तद्धारणं नास्ति । तथा :
मायासप्ताक्षरीमध्यगतैर्नामभिरर्चयेत् ।
तदावरणगाः शक्तीस्तत्समाकारहेतिकाः ॥ १४ ॥
अग्रात्प्रदक्षिणेनैव ताः सर्वास्तेषु पूजयेत् ।
तासां क्रमेण नामानि शृणु वक्ष्ये यथाविधि ॥ १५ ॥
नित्यानित्यावदुदितमर्चनं चतुरस्रके ।
ब्राह्म्यादिलोकपालाश्च षोडशद्वारसंस्थिताः ॥ १६ ॥
(अन्तःस्थिताष्टकोणेषु पूजयेदुक्तविग्रहाः ।
जयां च विजयां दुर्गां भद्रां भद्रकरीमपि ॥ १७ ॥
क्षेमां क्षेमङ्करीं नित्यामष्टकोणेषु भक्तितः) ।
तदन्तः षोडशदलेष्वर्चयेत् षोडशाभितः ॥ १८ ॥
शक्तीस्ता गन्धपुष्पादियुतो भक्तिसमन्वितः ।
विदारिकां विश्वमयीं विश्वां विश्वविभञ्जिकाम ॥ १९ ॥
वीरां विक्षोभिणीं विद्यां विनोदाञ्चितविग्रहाम् ।
वीतशोकां विषग्रीवां विपुलां विजयप्रदाम् ॥ २० ॥
विभवां विविधां विप्रां प्रोक्ताकारसमन्विताः ।
तदन्तरष्टपत्रेषु शक्तीरष्टाभितो यजेत् ॥ २१ ॥
प्रोक्तक्रमेण गन्धाद्यैर्भक्तिविघ्नाशयो वशी ।
मनोहरां मङ्गलां च मदोत्सिक्तां मनस्विनीम् ॥ २२ ॥
मानिनीं मधुरां मायां मोहिनीमुक्तविग्रहाः ।
एवं पूजाजपध्यानहोमोपासनतो वशी ॥ २३ ॥
भजते नित्यशो देवीं योऽसौ स्यात् सर्वतः सुखी ।
इति ॥ अथ प्रयोगः - तत्र प्राग्वद्योगपीठन्यासान्ते विजयाविद्यया
प्राणायामत्रयं कृत्वा शिरसि अहि-ऋषये नमः । मुखे
गायत्रीच्छन्दसे नमः । हृदि विजयानित्यादेवतायै नमः इति विन्यस्य
भां हृदयाय नमः । मीं शिरसे स्वाहा । रूं शिखायै वषट् ।
यैं कवचाय हुं । उं नेत्रत्रयाय वौषट् । औं अस्त्राय फट् इति
करषडङ्गन्यासं विधाय श्रोत्रयोः भंनमः । सर्वाङ्गे
मंनमः । नेत्रयोः रंनमः । जिह्वायां यंनमः । नासायां उं
नमः । चित्ते औंनमः इति विन्यस्य प्राग्वद्विजयाविद्यया व्यापकं
विधाय ध्यानादिमानसपूजान्तं स्वर्णादिपट्टे कुंकुमादिना
चतुर्द्वारयुतं चतुरस्रद्वयं विधाय तदन्तर्वृत्तयुग्मं
तदन्तरष्टकोणम् तदन्तः षोडशदलं पद्मं
तदन्तरष्टदलपद्ममिति पूजाचक्रं निर्माय पुरतः
संस्थाप्याभ्यर्च्यार्घ्यादिस्थापनाद्यात्मपूजान्ते
प्राग्वद्भुवनेश्वरीपीठमभ्यर्च्यं तस्मिन् विजयाविद्यया मूर्ति
परिकल्प्यावाहनादिपुष्पोपचारान्ते प्राग्वत् षडङ्गानि
गुरुपंक्तित्रयं च सम्पूज्य चतुरस्रस्य चतुर्द्वारपार्श्वेषु
देव्यग्रद्वारस्य दक्षिणपार्श्वमारभ्य तद्वामपार्श्वान्तं
प्रतिद्वारं द्विद्विक्रमेणेन्द्रादीशानान्तं लोकपालशक्त्यष्टकं
प्राग्वत् सम्पूज्य वायव्यादिनिर्-ऋत्यन्तकोणचतुष्टये
अनन्तब्रह्मनियतिकालशक्तीः सम्पूज्याष्टकोणेषु
देव्यग्रकोणमारभ्य प्रादक्षिण्येन २ जयापा० २ विजयापा०
२ दुर्गापा० २ भद्रापा० २ भद्रकरीपा० २ क्षेमापा० २ क्षेमङ्करीपा० २ नित्यापा० इति सम्पूज्य षोडशदलेषु २ विदारिकापा० २ विश्वमयीपा० २ विश्वापा० २ विश्वभञ्जिकापा० २ वीरापा० २ विक्षोभिणीपा० २ विद्यापा० २ विनोदापा० २ अञ्चितविग्रहापा० २ वीतशोकापा० २ विषग्रीवापा० २ विपुलापा० २ विजयप्रदापा० २ विभवापा० २ विविधापा० २ विप्रापा० इति सम्पूज्य अष्टदलेषु २ मनोहरापा० २ मङ्गलापा० २ मदोत्सिक्तापा० २ मनस्विनीपा० २ मानिनीपा० २ मधुरापा० २ मायापा० २ मोहिनीपा० इति सम्पूज्याष्टदलकमलकर्णिकायां २ मातुलुङ्गाय नमः । २ सायकेभ्यो नमः । २ खड्गाय नमः । २ अंकुशाय नमः । २ चक्राय नमः । २ शङ्खाय नमः । २ पाशाय नमः । २ खेटाय नमः । २ चापाय नमः । २ कह्लाराय नमः इति सम्पूज्य पुनर्मध्ये विजयानित्यां तद्विद्यया सम्पूज्य धूपादि सर्वं प्राग्वत् समापयेत् इति विजयानित्यापूजाविधिः ॥
अथ सर्वमङ्गलासपर्याविधिः । तत्र श्रीतन्त्रराजे - (१९ प०)
अथ षोडशनित्यासु या प्रोक्ता तु चतुर्दशी ।
एकाक्षरा तु सा प्रोक्ता विद्या सा सर्वमङ्गला ॥ १ ॥
न्यासक्रमं ध्यानविधि शक्तीरावरणस्थिताः ।
पूजाक्रमं साधनं च विनियोगादिकान् क्रमात् ॥ २ ॥
इति । तत्रैव - (३ । ६३)
हृदम्बुवनयुक्तं स्वं नित्यां स्यात् सर्वमङ्गला ।
एकाक्षर्यानया सिद्धो जायते खेचरःक्षणात् ॥ १ ॥
स्वौं इति । त्रिपुरार्णवे - ऋषिच्छन्दो महेशानि गायत्री छन्द उच्यते ।
देवतेयमिति । इयं सर्वमङ्गला । तन्त्रराजे - (१९ । ३)
मूलविद्याक्षरैर्दीर्घस्वरभिन्नैः षडङ्गकम् ।
तानि तत्स्वरभिन्नानि तानि षट्सुमनोवधि ॥ १ ॥
सुवर्णवर्णां रुचिरां मुक्तामाणिक्यभूषणाम् ।
माणिक्यमुकुटां नेत्रद्वयप्रेङ्खङ्खद्दयापराम् ॥ २ ॥
द्विभुजां स्वासनां पद्मे त्वष्टषोडशतद्द्वयैः ।
पत्रैरुपेते सचतुर्द्वारभूसद्मयुग्मके ॥ ३ ॥
मातुलुङ्गफलं दक्षे दधानां करपङ्कजे ।
वामेन निजभक्तानां प्रयच्छन्तीं धनादिकम् ॥ ४ ॥
स्वसमानाभिरभितः शक्तिभिः परिवारिताम् ।
षट्सप्ततिभिरन्याभिरक्षरोत्थाभिरन्विताम् ॥ ५ ॥
प्रयोगेष्वन्यदा नित्यसपर्यासूक्तशक्तिकाम् ।
ताः शक्तीः शृणु देवेशि या नित्यावरणस्थिताः ॥ ६ ॥
भद्रां भवानीं भव्यां च विशालाक्षीं शुचिस्मिताम् ।
कुंकुमां कमलां कल्पां पूजयेदष्टपत्रके ॥ ७ ॥
कलां च पूरणीं नित्याममृतां जीवितां दयाम् ।
अशोकाममलां पूर्णां पुण्यां भाग्यामथोद्यताम् ॥ ८ ॥
विवेकां विभवां विश्वां विनतां चाष्टयुग्मके ।
पूजयेदभितः शक्तीः प्रादक्षिण्यक्रमेण वै ॥ ९ ॥
कामिनीं खेचरीं सर्वां पुराणां परमेश्वरीम् ।
गौरीं शिवाममेयां च विमलां विजयां पराम् ॥ १० ॥
पवित्रां पद्मिनीं विद्यां विश्वेशीं शिववल्लभाम् ।
अशेषरूपामानन्दामम्बुजाक्षीमनिन्दिताम् ॥ ११ ॥
वरदां वाक्प्रदां वाणीं विविधां वेदविग्रहाम् ।
वन्द्यां वागीश्वरीं सत्यां सं (ञ्जा?य) तां च सरस्वतीम् ॥ १२ ॥
निर्मलां नादरूपां च पूजयेत् षोडशद्वये ।
प्राग्वद्गन्धादिभिः सर्वाः क्रमादत्वर्थसंज्ञिताः ॥ १३ ॥
ब्राह्म्याद्या लोकपालाख्याः शक्तीर्द्वारेषु पूजयेत् ।
पश्चिमादि चतुर्दिक्षु चतस्रः प्रोक्तविग्रहाः ॥ १४ ॥
अनन्तब्रह्मनियतिकालरूपा विदिग्गताः ।
बलिद्वयं च होमं च कुर्यात् प्राग्वत् समापनम् ॥ १६५ ॥
जपं तु नित्यशः कुर्यादग्रे तस्याः सहस्रकम् ।
इति ॥ अथ प्रयोगः : तत्र प्राग्वद्योगपीठन्यासान्ते
सर्वमङ्गलाविद्यया प्राणायामत्रयं कृत्वा शिरसि चन्द्राय ऋषये
नमः । मुखे गायत्रीच्छन्दसे नमः । हृदि
सर्वमङ्गलानित्यादेवतायै नमः । इति विन्यस्य मम
सर्वाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा स्वां हृदयाय
नमः । स्वीं शिरसे स्वाहा । स्वूं शिखायै वषट् । स्वैं कवचाय
हुं । स्वौं नेत्रत्रयाय वौषट् । स्वः अस्त्राय फट् इति
करषडङ्गन्यासं कृत्वा श्रीत्रयोः स्वांनमः । सर्वाङ्गे
स्वींनमः ।
नेत्रयोः स्वूंनमः । जिह्वायां स्वैंनमः नासायां स्वौंनमः ।
मनसि स्वः नमः इति विन्यस्य समस्तविद्यया व्यापकं विधाय
ध्यानादिमानसपूजान्ते प्राग्वत् स्वर्णादिपट्टे कुंकुमादिना
चतुर्द्वारोपेतं चतुरस्रद्वयं कृत्वा तदन्तर्द्वात्रिंशद्दलं
तदन्तः षोडशदलं तदन्तरष्टदलमिति पूजाचक्रं निर्माय प्राग्वत्
पुरतः संस्थाप्याभ्यर्च्यार्घ्याद्यात्मपूजान्ते भुवनेश्वरीपीठे
सर्वमङ्गलाविद्यया मूर्ति परिकल्प्यावाहनादिपुष्पोपचारान्ते
प्राग्वत् षडङ्गानि गुरुपंक्तित्रयं च सम्पूज्य कर्णिकायां देव्या
दक्षिणवामयोः बीजपूराय नमः । खड्गाय नमः इति
सम्पूज्याष्टदलेषु २ भद्रापा० २ भवानीपा० २ भव्यापा० २
विशालाक्षीपा० २ शुचिस्मितापा० २ कुंकुमापा० २ कमलापा० २
कल्पापा० इति सम्पूज्य षोडशपत्रेषु २ कलापा० २ पूरणीपा० २
नित्यापा० २ अमृतापा० २ जीवितापा० २ दयापा० २ अशोकापा० २ अमलापा०
२ पूर्णापा० २ पुण्.यापा० २ भाग्यापा० २ उद्यतापा० २ विवेकापा० २
विभवापा० २ विश्वापा० २ विनतापा० इति सम्पूज्य द्वात्रिंशद्दलेषु २
कामिनीपा० २ खेचरीपा० २ आर्यापा० २ पुराणापा० २ परमेश्वरीपा० २
गौरीपा० २ शिवापा० २ अमेयापा० २ विमलापा० २ विजयापा० २ परापा०
२ पवित्रापा० २ पद्मिनीपा० २ विद्यापा० २ विश्वेशीपा० २
शिववल्लभापा० २ अशेषरूपापा० २ आनन्दापा० २ अम्बुजाक्षीपा० २
अनिन्दितापा० २ वरदापा० २ वाक्प्रदापा० २ वाणीपा० २ विविधापा० २
वेदविग्रहापा० २ वन्द्यापा० २ वागीश्वरीपा० २ सत्यापा० २
संयतापा० २ सरस्वतीपा० २ निर्मलापा० २ नादरूपापा० इति सम्पूज्य
चतुरस्रस्य चतुर्द्वारपार्श्वेषु देव्यग्रद्वारस्य
दक्षिणपार्श्वमारभ्य तत्तद्द्वारपार्श्वान्तं प्रतिद्वारं
द्विद्विक्रमेण ब्राह्म्याद्यष्टशक्तीः प्रादक्षिण्येन सम्पूज्य
पूर्वद्वारमारभ्य पूर्वादिक्रमेणेन्द्रादीशानान्तं
लोकपालशक्त्यष्टकं प्राग्वत् सम्पूज्य वायव्यादिनिर्-ऋत्यन्तं
कोणचतुष्टये अनन्तब्रह्मनियतिकालशक्तीः सम्पूज्य पुनर्मध्ये
सर्वमङ्गलाविद्यया देवीं सम्पूज्य प्राग्वत् स्मापयेत् इति
सर्वमङ्गलानित्यापूजाविधिः ॥
अथ ज्वालामालिनीनित्यापूजाविधिः । श्रीतन्त्रराजे - (२० प०)
अथ षोडशनित्यासु पञ्चदश्युदिता तु या ।
तद्विधानं शृणु प्राज्ञे ज्वालामालिन्युदाहृता ॥ १ ॥
न्यासं ध्यानं तथा शक्तीः पूजामपि च साधनम् ।
इति । तत्रैव - (३ । ६४)
भूः शून्यं नभसा भूश्च रसश्चाथ स्थिराम्बु च ।
रयोऽग्निना युतो ज्याम्बु मरुद्युक्ता रसा मरुत् ॥ १ ॥
नभश्च मरुता युक्तं रसाशून्येऽग्निसंयुते ।
गोत्रा चरणे सहिता अम्बु पूर्वाक्षरं तथा ॥ २ ॥
अस्वाग्नी हृत् सदाहाम्बु रसक्ष्मारयहृत् स्वयुक् ।
हंसश्च मरुता दाहः प्राणश्च मरुता युतः ॥ ३ ॥
दाहः साग्निः प्राणचरो ज्या मरुत्सहिता रयः ।
चरेणाम्बु च गोत्रा हृत्साग्नि ज्याम्बुरसा स्वयुक् ॥ ४ ॥
रयः साग्नि ज्याम्बु रसा पुनरेतौ जवी ततः ।
दाहेनानेन ते द्विः स्यात् हंसो दाहमरुत्स्वयुक् ॥ ५ ॥
हंसश्च दाहवह्निस्वैर्दाहक्ष्मास्वयुतश्च सः ।
सप्त दाहास्ततोऽस्याः स्युरष्टमाद्यास्तु पञ्च वै ॥ ६ ॥
उपान्त्याधः स्थितं नीलपताकाया अनन्तरम् ।
त्वरितान्त्यं च भेरुण्डा अष्टमं नवमं तथा ॥ ७ ॥
ज्वालामाला तु नित्यासौ त्रिषष्ट्यर्णा समीरिता ।
इति । ओं नमो भगवति ज्वालामालिनी देवदेवि सर्वभूतसंहारकारिके जातवेदसि ज्वलन्ति ज्वल ज्वल प्रज्वल प्रज्वल ह्रांह्रींह्रूं ररररररर ज्वालामालिनि हुंफट् स्वाहा इति ॥ त्रिपुरार्णवे :
ऋषिस्तु कश्यपश्छन्दो गायत्रं देवता त्वियम् ।
रेफास्त्रे बीजशक्ती तु कीलकं कवचं प्रिये ॥ १ ॥
इति । इयं ज्वालामालिनी ॥ तन्त्रराजे - (२० । ३)
एकद्वयचतुष्पञ्चचतुष्टयदशाक्षरैः ।
कुर्यादङ्गानि मूलार्णैरादितः षट् कराङ्गयोः ॥ १ ॥
ज्वलज्ज्वलनसङ्काशां माणिक्यमुकुटोज्ज्वलाम् ।
षड्वक्त्रां द्वादशभुजां सर्वाभरणभूषिताम् ॥ २ ॥
पाशांकुशौ खेटखड्गौ चापबाणौ गदाधरौ ।
शूलवह्नी वराभीती दधानां करपङ्कजैः ॥ ३ ॥
स्वसमानाभिरभितः शक्तिभिः परिवारिता ।
चारुस्मितलसद्वक्त्रसरोजां त्रीक्षणान्विताम् ॥ ४ ॥
ध्यात्वैवमुपचारैस्तैरर्चयेत्तां तु नित्यशः ।
चतुरस्रद्वयं कृत्वा चतुर्द्वारसमन्वितम् ॥ ५ ॥
सशाखमष्टपत्राब्जमन्तरष्टाष्टके ततः ।
षट्कोणं मध्यतस्त्र्यस्रं विधायात्र शिवां यजेत् ॥ ६ ॥
इच्छाज्ञानक्रियाशक्तीरर्चयेत् त्र्यस्रगाः क्रमात् ।
डाकिन्याद्याश्च षट्कोणे त्वष्टास्रे घस्मरादिकाः ॥ ७ ॥
घस्मरा विश्वकवला लोलाक्षी लोलजिह्विका ।
सर्वभक्षा सहस्राक्षी निःसङ्गा संहृतिप्रिया ॥ ८ ॥
बहिरष्टच्छदेऽप्येताः पूजयेच्च प्रदक्षिणम् ।
अचिन्त्यामप्रमेयां च पूर्णरूपां दुरासदाम् ॥ ९ ॥
सर्वां संसिद्धिरूपां च पावनामेकरूपिणीम् ।
बहिर्द्वारेषु कोणेषु पूजयेत् प्रागुदीरिताः ॥ १० ॥
प्राग्वत् कृतार्चश्चक्रे तामुक्ते प्रोक्तक्रमाद्यजेत् ।
बलिहोमावसानान्तमिति सम्यक् समीरितम् ॥ ११ ॥
इति ॥ अथ प्रयोगः - तत्र प्राग्वद्योगपीठन्यासान्ते ज्वालामालिनीविद्यया
प्राणायामत्रयं कृत्वा शिरसि कश्यपाय ऋषये नमः । मुखे
गायत्रीच्छन्दसे नमः । हृदि ज्वालामालिनीनित्यादेवतायै नमः । गुह्ये
रं बीजाय नमः । पादयोः फट्शक्तये नमः । नाभौ हुं कीलकाय
नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः इति कृताञ्जलिरुक्त्वा ओं
हृदयाय नमः । नमः शिरसे स्वाहा । भगवति शिखायै वषट् ।
ज्वालामालिनि कवचाय हुं । देवदेवि नेत्रत्रयाय वौषट् ।
भूतसंहारकारिके अस्त्रायफट् इति करषङ्गन्यासं कृत्वा मूलेन
व्यापकं विन्यस्य ध्यात्वा मानसपूजान्ते स्वपुरतश्चन्दनादिना
पूजायन्त्रं विलिख्य पुरतः
संस्थाप्याभ्यर्च्यार्घ्यादिस्थापनाद्यात्मपूजान्ते
भुवनेश्वरीपीठमभ्यर्च्य मूलेन मूर्ति
परिकल्प्यावाहनादिपुष्पोपचारान्ते प्राग्वत् षडङ्गानि
गुरुपंक्तित्रयं च सम्पूज्य त्रिकोणषट्कोणयोरन्तराले २ अभीत्यै
नमः । २ वह्नये नमः । २ शङ्खाय नमः । बाणेभ्यो नमः । २
खड्गाय नमः । अंकुशाय नमः । २ पाशाय नमः । २ खेटाय
नमः । २ चापाय नमः । २ गदायै नमः । २ शूलाय नमः । २ वराय
नमः इति सम्पूज्य त्रिकोणे २ इच्छाशक्तिपा० २ ज्ञानशक्तिपा० २
क्रियाशक्तिपा० इति सम्पूज्य षट्कोणेषु देव्या वामाग्रकोणे २
डाकिनीपा० । दक्षिणाग्रकोणे २ राकिणीपा० । पृष्ठकोणे २ लाकिनीपा० ।
पृष्ठ वामकोणे २ काकिनीपा० । पृष्थदक्षे २ शाकिनीपा० । अग्रकोण २
हाकिनीपा० इति सम्पूज्य अष्टकोणेषु २ घस्मरापा० । २ विश्वकवलापा० ।
२ लोलाक्षीपा० । २ लोलजिह्विकापा० । २ सर्वभक्षापा० । २ सहस्राक्षीपा० ।
निःसङ्गापा० । २ संहृतिप्रियापा० । इति सम्पूज्य अष्टदलेषु २
अचिन्त्यापा० २ अप्रमेयापा० २ पूर्णरूपापा० २ दुरासदापा० २
सर्वापा० २ संसिद्धिरूपापा० २ पावनापा० २ एकरूपिणीपा० इति
सम्पूज्य चतुरस्रस्य चतुर्द्वारपार्श्वेषु देव्यग्रद्वारस्य
दक्षिणपार्श्वमारभ्य तद्द्वारपार्श्वान्तं प्रतिद्वारं
द्विद्विक्रमेण ब्राह्म्याद्यष्टशक्तीः सम्पूज्य
पुनर्ज्वालामालिनीविद्यया मध्ये तां सम्पूज्य धूपादिकं सर्वं
प्राग्वत् कृत्वा समापयेत् इति ज्वालामालिनीनित्यायजनविधिः ॥
अथ चित्रानित्यायजनविधिः । श्रीतन्त्रराजे - (२१ प०)
अथ षोडशनित्यासु या चित्रा षोडशी शिवे ।
प्रोक्ता तत्कल्पमधुना शृणु सर्वार्थसिद्धिदम् ॥ १ ॥
विद्या प्रागेव कथिता तदङ्गन्याससंयुतम् ।
ध्यानं शक्तीः पूजनञ्च साधनं तत्फलानि च ॥ २ ॥
इति । तत्रैव (३ । ७२) वायुप्राणवनस्वैः सा चित्रा स्यादक्षरद्वया । इति ।
चर्कौ ॥ त्रिपुराणवे ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते ।
विचित्रा देवतेति ॥ तन्त्रराजे (२१ । ४)
विद्यादिवायुना कुर्याद् दीर्घस्वरयुजा क्रमात् ।
षडङ्गानि यथापूर्वं मातृकां विद्यया न्यसेत् ॥ १ ॥
उद्यदादित्यबिम्बाभां स्वर्णरत्नविभूषणाम् ।
नवरत्नकिरीटां च चित्रपट्टांशुकोज्ज्वलाम् ॥ २ ॥
चतुर्भुजां त्रिनयनां शुचिस्मितलसन्मुखीम् ।
सर्वानन्दमयीं नित्यां समस्तेप्सितदायिनीम् ॥ ३ ॥
चतुर्भिश्च भुजैः पाशमंकुशं वरदाभये ।
दधानां मङ्गलापद्मकर्णिकानवयोनिगाम् ॥ ४ ॥
तच्छक्तिभिश्च तच्चक्रे तथैवार्चनमीरितम् ।
नवयोनावष्टवर्गयुता ब्राह्म्यादिका यजेत् ॥ ५ ॥
इच्छाज्ञानक्रियाशक्तीरर्चयेन्मध्यकोणतः ।
हेतिश्च परितो देव्याः पूजयेत् तद्भुजान्तिके ॥ ६ ॥
सर्वासामपि नित्यानां नाथान् देव्यास्तु पश्चिमे ।
पूजयेत् तत्तदकारांस्तत्तन्मन्त्रैर्यथाविधि ॥ ७ ॥
गुरुमण्डलपूजादि साधारणमुदीरितम् ।
सर्वासामपि नित्यानां यदाद्यास्यन्दजा इमाः ॥ ८ ॥
इति ॥ अथ प्रयोगः : तत्र योगपीठन्यासान्ते चित्राविद्यया प्राणायामत्रयं कृत्वा शिरसि ब्रह्मणे ऋषये नमः । मुखे गायत्रीच्छन्दसे नमः । हृदि चित्रादेवतायै नमः इति विन्यस्य चः हृदयाय नमः । चीं शिरसे स्वाहा । चूं शिखायै वषट् । चैं कवचाय हुं । चौं नेत्राभ्यां वौषट् । चां अस्त्राय फट् इति करषडङ्गन्यासं कृत्वा चकौं अंनम इत्यादि चकौं क्षंनम इत्यन्तं मातृकां विन्यस्य ध्यानमानसपूजान्ते स्वर्णादिपट्टे कुंकुमादिना चतुर्द्वारयुक्तं चतुरस्रद्वयं कृत्वा तदन्तर्द्वात्रिंशद्दलं पद्मं तदन्तरष्टदलं पद्मं तदन्तर्नवयोनिमिति पूजाचक्रं निर्माय पुरतः संस्थाप्याभ्यर्च्यार्घ्यादिस्थापनाद्यात्मपूजान्ते भुवनेश्वरीपीठमभ्यर्च्य तस्मिश्चित्राविद्यया मूर्तिं परिकल्प्यावाहनादिपुष्पोचारान्तं प्राग्वत् त्रिकोणाष्टकोणयोरन्तराले गुरुपंक्तित्रयं च सम्पूज्य त्रिकोणाष्टकोणयोरन्तरालेष्वेव दक्षिणवामयोश्चतुर्षु स्थानेषु २ अभयाय नमः २ अंकुशाय नमः २ पाशाय नमः २ वराय नमः इति सम्पूज्यान्तस्त्रिकोणे देव्यग्रादिप्रादक्षिण्येनेच्छाज्ञानक्रियाशक्तीः सम्पूज्याष्टयोनिषु २ अं १६ ब्राह्मीपा० । २ कं ५ माहेश्वरीपा० । २ चं ५ कौमारीपा० । २ टं ५ वैष्णवीपा० । २ तं ५ वाराहीपा० । २ पं ५ इन्द्राणीपा० । २ यं ५ चामुण्डापा० । २ शं ५ महालक्ष्मीपा० । अष्टदलादिषु सर्वमङ्गलापूजोक्तशक्तीः सम्पूज्य तथैव सर्वं समापयेत् इति चित्रानित्यापूजाविधिः ॥
अथ कुरुकुल्लासपर्याविधिः । तत्र श्रीतन्त्रराजे - (२० प०)
अथ षोडशनित्यानां या प्रोक्ता बलिदेवता ।
सा विद्या कुरुकुल्लायाः पञ्चविंशाक्षरो मनुः ॥ १ ॥
इति । तत्रैव - (३ । ८९)
प्राणदाहौ धरायुक्तौ पुनराद्यं रसे मरुत् ।
व्याप्तं मरुच्छक्तियुतं भूः स्वयुक्ता ततस्त्रयम् ॥ १ ॥
अस्यादौ तु रसायुग्मं चरेण समायोजितम् ।
दाहेन वह्निशक्तिभ्यां युतो हंसस्ततः परम् ॥ २ ॥
नभो द्विर्हृत्सदाहाम्बु ज्या शून्यं स्वेन संयुतम् ।
अम्बु पश्चाद्वियद्युक्तं मरुता तु नभः प्रिये ॥ ३ ॥
शून्यं व्याप्तं भुवा हंसः पूर्वान्त्यौ स्यान्मनुत्रयम् ।
अस्य षष्ठादिपञ्चार्णादन्त्यौ स्यादाद्य ईरितः ॥ ४ ॥
एकादशाक्षरादन्त्यौ द्वितीयः समुदीरितः ।
तृतीयः पञ्चविंशार्णः प्रोक्ता मन्त्रा इति क्रमात् ॥ ५ ॥
ओं कुरुकुल्ले स्वाहा इति सप्ताक्षरी ॥ १ ॥ कुरुकुल्लायाः ओंकुरुकुल्ले ह्रीः स्वाहा इति त्रयोदशाक्षरी ॥ २ ॥
कुरुकुल्लायाः ओं कुरुकुल्लेह्रीः मम सर्वजनं वशमानय ह्रीं स्वाहा इति पञ्चविंशाक्षरी ॥ ३ ॥
इति तत्रैव - (२२ । २)
सैव त्रिखण्डा तत्रैव प्रोक्ता विद्या तु संख्यया ।
सप्तभिः प्रथमा प्रोक्ता त्रयोदशयुता परा ॥ १ ॥
तृतीया तु पञ्चविंशदक्षरा परिकीर्तिता ।
एवं सा त्रिभिरप्येतैर्विद्यारूपैरभीष्टदा ॥ २ ॥
इति । त्रिपुरार्णवे - ऋषिस्तु दक्षिणामूर्तिः पंक्तिश्छन्द उदाहृतम् ।
देवता कुरुकुल्ला इति ॥
तन्त्रराजे - (२२ । ४ )
इक्ष्विराघृतदुग्धाब्धिमध्यगे नवरत्नके ।
द्वीपे तां ललितां नित्यविनोदानन्दितां यजेत् ॥ १ ॥
तत्तीरे पूजयेद् देवीं पञ्चमीं तीरपालिकाम् ।
तत्सागरेषु परितो रत्नपोतचरीं यजेत् ॥ २ ॥
तदाज्ञया रत्नपोतं तन्नाम्नैव समर्चयेत् ।
बलिचक्रं च तेनैव तन्मध्ये तु समर्चयेत् ॥ ३ ॥
पूर्वपश्चिमदिग्द्वारसंयुतं चतुरस्रकम् ।
कृत्वा तदन्तः पद्मं च साष्टपत्रं सकर्णिकम् ॥ ४ ॥
कर्णिकायां चारु कृत्वा नवयोनिं समर्चयेत् ।
षडङ्गं बालया कृत्वा तेनार्घ्यमपि साधयेत् ॥ ५ ॥
त्रिखण्डामुद्रया मूलमन्त्रेणाद्येन चावहेत् ।
ध्यात्वैवं परिवारैस्तां देवीं गन्धादिभिः क्रमात् ॥ ६ ॥
विकीर्णकुन्तलां नग्नां रक्तामानन्दविग्रहाम् ।
दधानां चिन्तयेद्बाणचापपाशसृणीः करैः ॥ ७ ॥
तत्समानायुधाकारवर्णा देव्यस्तु बाह्यगाः ।
ऋतुस्नाताः स्फुरद्योन्यः सदानन्दारुणेक्षणाः ॥ ८ ॥
हृल्लेखया स्थापनादीनुपचारान् समाचरेत् ।
ततस्तदाज्ञयारोहेद् भ्रामिणीं द्राविणीं यजेत् ॥ ९ ॥
पश्चिमद्वारमारभ्य दक्षशाखादि पूजयेत् ।
सूर्यं सोमं तिथिं वारं योगर्क्षकरणान्यपि ॥ १० ॥
(य?प)क्षिणीश्च तथा (तारां?मासं) पूर्वद्वारस्य शाखयोः ।
व्योमवायव्यग्नितोयक्ष्मारूपिणीशक्तिसंयुतम्
शब्दं स्पर्शं च रूपं च रसं गन्धं च पूर्ववत् ।
प्राणं बुद्धिं तथा शक्तिमष्टपत्रेषु पूजयेत् ॥ १२ ॥
बाह्यान्तरस्थकोणेषु वाग्देव्यष्टकमर्चयेत् ।
ततो बाणान् धनुः पाशमंकुशं चाभितो यजेत् ॥ १३ ॥
मध्ये त्रिकोणकोणेषु सेच्छाज्ञानक्रियात्मिकाः ।
शक्तीर्यष्ट्वाथ तन्मध्ये संविदासनमर्चयेत् ॥ १४ ॥
ततस्तां पञ्चविंशार्णमूलमन्त्रेण पूजयेत् ।
ततस्तदाज्ञया पोतपरीतं द्वीपमागतः ॥ १५ ॥
पश्चिमं पुष्परागं च सम्प्राप्यावतरेत् क्रमात् ।
परीयमाणे दिक्ष्वेतानर्चयेत् तत्र तत्र वै ॥ १६ ॥
इक्ष्विराघृतदुग्धाब्धीन् पश्चिमादिविलोमतः ।
नमोन्तैर्नामभिः पूर्वमर्चयेद्गन्धपुष्पकैः ॥ १७ ॥
नवरत्नमयं द्वीपमित्यादि प्रागुदीरितम् ।
एवं समर्चितं देव्या ललितायाः प्रियङ्करम् ॥ १८ ॥
एवं देवी पूजयितुः शीघ्रं बहु मनीषितम् ।
प्रसीदति यतस्तस्मात् पूजयेदेवमीश्वरि ॥ १९ ॥
देवीनां कुरुकुल्लां तु पोतादुपरि पूजयेत् ।
पञ्चविंशार्णमूलेन पूजान्ते परमेश्वरि ॥ २० ॥
देव्या बलिः समाख्यातस्ताराशक्तेस्तु विद्यया ।
तां शृणु त्वं प्रिये! वच्मि ताराविद्यां दशाक्षरीम् ॥ २१ ॥
भूःस्वेन मरुता युक्तो रयो दाहश्चरान्वितः ।
रयो धरान्वितः पश्चाद्रययुग्मं मरुद्युतम् ॥ २२ ॥
एतत् तृतीयं षष्ठं स्याच्चतुर्थं सप्तमं प्रिये ।
षष्ठं तदष्टमं विद्याद् हृदम्बुमरुदन्वितम् ॥ २३ ॥
हंसश्च मरुता युक्तः पोक्ता विद्या दशाक्षरी ।
ओं तारेतुतारेतुरे स्वाहा । इति ।
अनयास्या बलिं दद्याद् विद्यया परमेश्वरि ।
ध्यानं देव्याः शृणु प्राज्ञे समस्तापन्निकृन्तनम् ॥ १ ॥
अस्यास्तोयेषु सर्वत्र वाधो न भवति स्मृतेः ।
श्यामवर्णां त्रिनयनां द्विभुजां वरपङ्कजे ॥ २ ॥
दधानां बहुवर्णाभिर्बहुरूपाभिरावृताम् ।
शक्तिभिः स्मेरवदनां रक्तमौक्तिकभूषणाम् ॥ ३ ॥
रत्नपादुकयार्न्यस्तपादाम्बुजयुगां स्मरेत् ।
इति ॥ अथ प्रयोगः : तत्र वेदिकोपरि भूमौ चन्दनादि सिन्दूरेण वा
सनवयोनिकर्णिकमष्टदलकमलं कृत्वा तद्बहिः
प्राक्पश्चिमद्वारद्वययुक्तं चतुरस्रद्वयमिति पूजाचक्रं निर्माय
कुरुकुल्लाविद्यया प्राणायामत्रयं कृत्वा शिरसि दक्षिणामूर्ति ऋषये
नमः । मुखे पंक्तिच्छन्दसे नमः । हृदये श्रीकुरुकुल्लादेवतायै
नमः इति विन्यस्य करिष्यमाणबलिदाने विनियोगः इति कृताञ्जलिरुक्त्वा
बालाबीजत्रयेण मूलविद्यावत् करषडङ्गन्यासं कृत्वा
कुरुकुल्लाविद्यया व्यापकं विन्यस्य विकीर्णकुन्तलामिति ध्यात्वा
मानसपूजान्ते प्रोक्षणीपात्रस्थापनाद्यात्मपूजान्ते
मण्डूकादिपृथिव्यन्तं श्रीचक्रपूजावदभ्यर्च्य तथैव
पश्चिमादिविलोमेनेक्षु इराघृतदुग्धान् सम्पूज्य इक्षुसागरतीरे
द्वीपस्य नैर्-ऋतकोणे २ वाराहीविद्यामुच्चार्य वाराहीदेवीपा० इति
मूलदेव्यभिमुखोपविष्टां वाराहीं सम्पूज्य तदनुज्ञया २
ह्रींरत्नपोताय नमः इति रत्नपोतं सम्पूज्य तदुपरि
रत्नसिंहासनादिमनोन्मनीशक्त्यन्तं श्रीचक्रपूजाक्रमेण
सम्पूज्य ततस्तन्मध्ये संविदासनाय नमः इति देव्या भर्तृभूतं
पुरुषं सम्पूज्य तत्र पञ्चविंशाक्षर्या कुरुकुल्लाविद्यया
त्रिखण्डामुद्रया च तां समावाह्य ह्रीः इति
स्थापनादिपरमीकरणान्तमुद्राः प्रदर्श्य तस्याः
प्राणप्रतिष्ठां विधाय पाशादिचतुर्मुद्राः
प्रदर्श्यासनादिपुष्पोपचारान्ते श्रीकुरुकुल्ले
परिवारपूजार्थमनुज्ञां देहि इति प्रार्थ्यं तदनुज्ञया साधकः
स्वयं रत्नपोतमारुह्य रत्नपोतस्य पूर्वपश्चिमकोट्योः
ह्रींभ्रामिणीश्रीपा० ह्रीं द्राविणीपा० इति सम्पूज्य पश्चिमद्वारस्य
दक्षिणशाखामारभ्य नवशक्तीः प्रादक्षिण्येन पूजयेत् । तद्यथा -
पश्चिमद्वारदक्षिणशाखायां २ ह्रीः सूर्यरूपिणीशक्तिपा० ।
वायव्यकोणे २ ह्रीः सोमरूपिणी० ।
तच्छक्तिभिश्च तच्चक्रे तथैवार्चनमीरितम् ।
नवयोनावष्टवर्गयुता ब्राह्म्यादिका यजेत् ॥ ५ ॥
इच्छाज्ञानक्रियाशक्तीरर्चयेन्मध्यकोणतः ।
हेतिश्च परितो देव्याः पूजयेत् तद्भुजान्तिके ॥ ६ ॥
सर्वासामपि नित्यानां नाथान् देव्यास्तु पश्चिमे ।
पूजयेत् तत्तदकारांस्तत्तन्मन्त्रैर्यथाविधि ॥ ७ ॥
गुरुमण्डलपूजादि साधारणमुदीरितम् ।
सर्वासामपि नित्यानां यदाद्यास्यन्दजा इमाः ॥ ८ ॥
इति ॥ अथ प्रयोगः : तत्र योगपीठन्यासान्ते चित्राविद्यया प्राणायामत्रयं कृत्वा शिरसि ब्रह्मणे ऋषये नमः । मुखे गायत्रीच्छन्दसे नमः । हृदि चित्रादेवतायै नमः इति विन्यस्य चः हृदयाय नमः । चीं शिरसे स्वाहा । चूं शिखायै वषट् । चैं कवचाय हुं । चौं नेत्राभ्यां वौषट् । चां अस्त्राय फट् इति करषडङ्गन्यासं कृत्वा चकौं अंनम इत्यादि चकौं क्षंनम इत्यन्तं मातृकां विन्यस्य ध्यानमानसपूजान्ते स्वर्णादिपट्टे कुंकुमादिना चतुर्द्वारयुक्तं चतुरस्रद्वयं कृत्वा तदन्तर्द्वाअत्रिंशद्दलं पद्मं पद्मं तदन्तरष्टदलं पद्मं तदन्तर्नवयोनिमिति पूजाचक्रं निर्माय पुरतः संस्थाप्याभ्यर्च्यार्घ्यादिस्थापनाद्यात्मपूजान्ते भुवनेश्वरीपीठमभ्यर्य तस्मिंश्चित्राविद्यया मूर्तिं परिकल्प्यावाहनादिपुष्पोपचारान्तं प्राग्वत् त्रिकोणाष्टकोणयोरन्तराले गुरुपंक्तित्रयं च सम्पूज्य त्रिकोणाष्टकोणयोरन्तरालेष्वेव दक्षिणवामयोश्चतुर्षु स्थानेषु २ अभयाय नमः २ अंकुशाय नमः २ पाशाय नमः २ वराय नमः इति सम्पूज्यान्तस्त्रिकोणे देव्यग्रादिप्रादक्षिण्येनेच्छाज्ञानक्रियाशक्तीः सम्पूज्याष्टयोनिषु २ अं १६ ब्राह्मीपा० । २ कं ५ माहेश्वरीपा० । २ चं ५ कौमारीपा० । २ टं ५ वैष्णवीपा० । २ तं ५ वाराहीपा० । २ पं ५ इन्द्राणीपा० । २ यं ५ चामुण्डापा० । २ शं ५ महालक्ष्मीपा० । अष्टदलादिषु सर्वमङ्गलापूजोक्तशक्तीः सम्पूज्य तथैव सर्वं समापयेत् इति चित्रानित्यापूजाविधिः ॥
अथ कुरुकुल्लासपर्याविधिः । तत्र श्रीतन्त्रराजे - (२० प०)
अथ षोडसनित्यानां या प्रोक्ता बलिदेवता ।
सा विद्या कुरुकुल्लायाः पञ्चविंशाक्षरो मनुः ॥ १ ॥
इति । तत्रैव - (३ । ८९)
प्राणदाहौ धरायुक्तौ पुनराद्यं रसे मरुत् ।
व्याप्तं मरुच्छक्तियुतं भूः स्वयुक्ता ततस्त्रयम् ॥ १ ॥
अस्यादौ तु रसायुग्मं चरेण समायोजितम् ।
दाहेन वह्निशक्तिभ्यां युतो हंसस्ततः परम् ॥ २ ॥
नभो द्विर्हृत्सदाहाम्बु ज्या शून्यं स्वेन संयुतम् ।
अम्बु पश्चाद्वियद्युक्तं मरुता तु नभः प्रिये ॥ ३ ॥
शून्यं व्याप्तं भुवा हंसः पूर्वान्त्यौ स्यान्मनुत्रयम् ।
अस्य षष्ठादिपञ्चार्णादन्त्यौ स्यादाद्य ईरितः ॥ ४ ॥
एकादशाक्षरादन्त्यौ द्वितीयः समुदीरितः ।
तृतीयः पञ्चविंशार्णः प्रोक्ता मन्त्रा इति क्रमात् ॥ ५ ॥
ओं कुरुकुल्ले स्वाहा इति सप्ताक्षरी ॥ १ ॥ कुरुकुल्लायाः ओं कुरुकुल्लेह्रीः स्वाहा इति त्रयोदशाक्षरी ॥ २ ॥ कुरुकुल्लायाः ओं कुरुकुल्लेह्रीः मम सर्वजनं वशमानय ह्रीं स्वाहा इति पञ्चविंशाक्षरी ॥ ३ ॥ इति तत्रैव - (२२ । २)
सैव त्रिखण्डा तत्रैव प्रोक्ता विद्या तु संख्यया ।
सप्तभिः प्रथमा प्रोक्ता त्रयोदशयुता परा ॥ १ ॥
तृतीया तु पञ्चविंशदक्षरा परिकीर्तिता ।
एवं सा त्रिभिरप्येतैर्विद्यारूपैरभीष्टदा ॥ २ ॥
इति । त्रिपुरार्णवे - ऋषिस्तु दक्षिणामूर्तिः पंक्तिश्छन्द उदाहृतम् ।
देवता कुरुकुल्ला इति ॥ तन्त्रराजे - (२२ । ४)
इक्ष्विराघृतदुग्धाब्धिमध्यगे नवरत्नके ।
द्वीपे तां ललितां नित्यविनोदानन्दितां यजेत् ॥ १ ॥
तत्तीरे पूजयेद् देवीं पञ्चमीं तीरपालिकाम् ।
तत्सागरेषु परितो रत्नपोतचरीं यजेत् ॥ २ ॥
तदाज्ञया रत्नपोतं तन्नाम्नैव समर्चयेत् ।
बलिचक्रं च तेनैव तन्मध्ये तु समर्चयेत् ॥ ३ ॥
पूर्वपश्चिमदिग्द्वारसंयुतं चतुरस्रकम् ।
कृत्वा तदन्तः पद्मं च साष्टपत्रं सकर्णिकम् ॥ ४ ॥
कर्णिकायां चारु कृत्वा नवयोनिं समर्चयेत् ।
षडङ्गं बालया कृत्वा तेनार्घ्यमपि साधयेत् ॥ ५ ॥
त्रिखण्डामुद्रया मूलमन्त्रेणाद्येन चावहेत् ।
ध्यात्वैवं परिवारैस्तां देवीं गन्धादिभिः क्रमात् ॥ ६ ॥
विकीर्णकुन्तलां नग्नां रक्तामानन्दविग्रहाम् ।
दधानां चिन्तयेद्बाणचापपाशसृणीः करैः ॥ ७ ॥
तत्समानायुधाकारवर्णा देव्यस्तु बाह्यगाः ।
ऋतुस्नाताः स्फुरद्योन्यः सदानन्दारुणेक्षणाः ॥ ८ ॥
हृल्लेखया स्थापनादीनुपचारान् समाचरेत् ।
ततस्तदाज्ञयारोहेद् भ्रामिणीं द्राविणीं यजेत् ॥ ९ ॥
पश्चिमद्वारमारभ्य दक्षशाखादि पूजयेत् ।
सूर्यं सोमं तिथि वारं योगर्क्षकरणान्यपि ॥ १० ॥
(य?प)क्षिणीश्च तथा (तारां?मासं) पूर्वद्वारस्य शाखयोः ।
व्योमवायव्यग्नितोयक्ष्मारूपिणीशक्तिसंयुतम्
शब्दं स्पर्शं च रूपं च रसं गन्धं च पूर्ववत् ।
प्राणं बुद्धिं तथा शक्तिमष्टपत्रेषु पूजयेत् ॥ १२ ॥
बाह्यान्तरस्थकोणेषु वाग्देव्यष्टकमर्चयेत् ।
ततो बाणान् धनुः पाशमंकुशं चाभितो यजेत् ॥ १३ ॥
मध्ये त्रिकोणकोणेषु सेच्छाज्ञानक्रियात्मिकाः ।
शक्तीर्यष्ट्वाथ तन्मध्ये संविदासनमर्चयेत् ॥ १४ ॥
ततस्तां पञ्चविंशार्णमूलमन्त्रेण पूजयेत् ।
ततस्तदाज्ञया पोतपरीतं द्वीपमागतः ॥ १५ ॥
पश्चिमं पुष्परागं च सम्प्राप्यावतरेत् क्रमात् ।
परीयमाणे दिक्ष्वेतानर्चयेत् तत्र तत्र वै ॥ १६ ॥
इक्ष्विराघृतदुग्धाब्धीन् पश्चिमादिविलोमतः ।
नमोन्तैर्नामभिः पूर्वमर्चयेद्गन्धपुष्पकैः ॥ १७ ॥
नवरत्नमयं द्वीपमित्यादि प्रागुदीरितम् ।
एवं समर्चितं देव्या ललितायाः प्रियङ्करम् ॥ १८ ॥
एवं देवी पूजयितुः शीघ्रं बहु मनीषितम् ।
प्रसीदति यतस्तस्मात् पूजयेदेवमीश्वरि ॥ १९ ॥
देवीनां कुरुकुल्लां तु पोतादुपरि पूजयेत् ।
पञ्चविंशार्णमूलेन पूजान्ते परमेश्वरि ॥ २० ॥
देव्या बलिः समाख्यातस्ताराशक्तेस्तु विद्यया ।
तां शृणु त्वं प्रिये! वच्मि ताराविद्यां दशाक्षरीम् ॥ २१ ॥
भूःस्वेन मरुता युक्तो रयो दाहश्चरान्वितः ।
रयो धरान्वितः पश्चाद्रययुग्मं मरुद्युतम् ॥ २२ ॥
एतत् तृतीय षष्ठं स्याच्चतुर्थं सप्तमं प्रिये ।
षष्ठं तदष्टमं विद्याद् हृदम्बुमरुदन्वितम् ॥ २३ ॥
हंसश्च मरुता युक्तः प्रोक्ता विद्या दशाक्षरी ।
ओं तारेतुतारेतुरे स्वाहा । इति ।
अनयास्या बलिं दद्याद् विद्यया परमेश्वरि ।
ध्यानं देव्याः शृणु प्राज्ञे समस्तापन्निकृन्तनम् ॥ १ ॥
अस्यास्तोयेषु सर्वत्र वाधो न भवति स्मृतेः ।
श्यामवर्णां त्रिनयनां द्विभुजां वरपङ्कजे ॥ २ ॥
दधानां बहुवर्णाभिर्बहुरूपाभिरावृताम् ।
सक्तिभिः स्मेरवदनां रक्तमौक्तिकभूषणाम् ॥ ३ ॥
रत्नपादुकयार्न्यस्तपादाम्बुजयुगां स्मरेत् ।
इति ॥ अथ प्रयोगः : तत्र वेदिकोपरि भूमौ चन्दनादि सिन्दूरेण वा
सनवयोनिकर्णिकमष्टदलकमलं कृत्वा तद्बहिः
प्राक्पश्चिमद्वारद्वययुक्तं चतुरस्रद्वयमिति पूजाचक्रं निर्माय
कुरुकुल्लाविद्यया प्राणायामत्रयं कृत्वा शिरसि दक्षिणामूर्ति-ऋषये
नमः । मुखे पंक्तिच्छन्दसे नमः । हृदये श्रीकुरुकुल्लादेवतायै
नमः इति विन्यस्य करिष्यमाणबलिदाने विनियोगः इति कृताञ्जलिरुक्त्वा
बालाबीजत्रयेण मूलविद्यावत् करषडङ्गन्यासं कृत्वा
कुरुकुल्लाविद्यया व्यापकं विन्यस्य विकीर्णकुन्तलामिति ध्यात्वा
मानसपूजान्ते प्रोक्षणीपात्रस्थापनाद्यात्मपूजान्ते
मण्डूकादिपृथिव्यन्तं श्रीचक्रपूजावदभ्यर्च्य तथैव
पश्चिमादिविलोमेनेक्षु इराघृतदुग्धान् सम्पूज्य इक्षुसागरतीरे
द्वीपस्य नैर्-ऋतकोणे २ वाराहीविद्यामुच्चार्य वाराहीदेवीपा० इति
मूलदेव्यभिमुखोपविष्टां वाराहीं सम्पूज्य तदनुज्ञया २
ह्रींरत्नपोताय नमः इति रत्नपोतं सम्पूज्य तदुपरि
रत्नसिंहासनादिमनोन्मनीशक्त्यन्तं स्रीचक्रपूजाक्रमेण सम्पूज्य
ततस्तन्मध्ये सम्विदासनाय नमः इति देव्या भर्तृभूतं पुरुषं
सम्पूज्य तत्र पञ्चविंशाक्षर्या कुरुकुल्लाविद्यया
त्रिखण्डामुद्रया च तां समावाह्य ह्रीः इति
स्थापनादिपरमीकरणान्तमुद्राः प्रदर्श्य तस्याः
प्राणप्रतिष्ठां विधाय पाशादिचतुर्मुद्राः
प्रदर्श्यासनादिपुष्पोपचारान्ते श्रीकुरुकुल्ले
परिवारपूजार्थमनुज्ञां देहि इति प्रार्थ्यं तदनुज्ञया साधकः
स्वयं रत्नपोतमारुह्य रत्नपोतस्य पूर्वपश्चिमकोट्योः
ह्रींभ्रामिणीश्रीपा० ह्रींद्राविणीपा० इति सम्पूज्य पश्चिमद्वारस्य
दक्षिणशाखामारभ्य नवशक्तीः प्रादक्षिण्येन पूजयेत् । तद्यथा
पश्चिमद्वारदक्षिणशाखायां २ ह्रीः सूर्यरूपिणीशक्तिपा० ।
वायव्यकोणे २ ह्रीः सोमरूपिणी० ।
उत्तरे २ ह्रीः तिथिरु० । ईशाने २ ह्रीः वाररू० । पूर्वद्वारस्योत्तरतः
शाखायां २ ह्रीः योगरू० । दक्षशाखायां २ ह्रीः ऋक्षरू० ।
आग्नेये २ ह्रीः करणरू० । दक्षिणे २ ह्रीः पक्षरू० । नैर्-ऋते २ ह्रीः
मासरू० इति सम्पूज्य ततोऽष्टदलेषु देव्यग्रादि प्रादक्षिण्येन
व्योमरू० । शब्दरू० । वायुरू० । स्पर्शरू० । अग्निरू० । रूपरू० ।
तोयरू० । रसरू० । क्ष्मारू० । गन्धरू० । प्राणरू० । बुद्धिरू० ।
शक्तिरू० इति सम्पूज्य अन्तरष्टयोनिषु देव्यग्रादिप्रादक्षिण्येन
वशिन्यादिवाग्देवताष्टकं सम्पूज्य तदन्तर्योनेर्बहिः बाणरू०
चापरू० पाशरू० अंकुशरू० इति सम्पूज्य ततो मध्ययोन्यां
देव्यग्रादिप्रादक्षिण्येन इच्छारू० ज्ञानरू० क्रियारू० इति सम्पूज्य
ततो मध्ये प्राग्वत् संविदासनमभ्यर्च्य तस्मिन् पञ्चविंशाक्षर्या
कुरुकुल्लां गन्धादिभिः सम्पूज्य धूपदीपौ दत्त्वाऽन्यत्सर्वं
समाप्य ओं तारेतुतारेतुरेस्वाहा इति मन्त्रेण कुरुकुल्लापूजाङ्गत्वेन
बलिं दत्त्वा समापयेत् इति कुरुकुलापूजाविधिः ॥
अथ वाराहीसपर्याविधिः ॥ तन्त्रराजे - (२३ प०)
अथ षोडशनित्यानामङ्गभूता तु पञ्चमी ।
तद्द्विधा कथिता पूर्वं तदङ्गानि च पूजनम् ॥ १ ॥
साधनं सिद्धमन्त्रस्य प्रयोगध्यानपूजनैः ।
होमैर्यन्त्रैश्च वक्ष्यामि समस्ताभीष्टसिद्धये ॥ २ ॥
इति । तत्रैव - (३ । ७३)
शुचिः स्वेनाथ शून्यं स्यान्नभसां भूरसः स्थिरा ।
अम्बु पश्चाद्रयः साग्निर्मरुताम्बुरयौ तथा ॥ १ ॥
इलायुतोऽग्निरेतानि पुनरम्बु मरुद्युतम् ।
दाहश्च मरुता हंसस्त्वग्निरेतत्त्रयं पुनः ॥ २ ॥
अम्बुदाहौ मरुद्युक्तौ हंसोऽथ धरया नभः ।
तेजोऽग्निना युतःपञ्च वातः स्वेन समायुतः ॥ ३ ॥
तोयं चरेण तत्पूर्वं तोयमग्नियुतं ततः ।
शून्यं व्याप्तेन शुचिना शून्यं शक्त्या नभोयुतम् ॥ ४ ॥
दाहो धरास्वसहितस्तोयं चरसमन्वितम् ।
एतत्पूर्वमधः प्रोक्तचतुष्टयमतः परम् ॥ ५ ॥
ज्या स्वेन युक्ता सचरो रसश्चैतस्य पूर्वकम् ।
रसोऽग्निना पुनः प्रोक्तचतुष्कात् त्रयमन्ततः ॥ ६ ॥
नभो भुवा चरेणापि हंसस्त्वेतस्य पूर्वकम् ।
हंसोऽग्निना प्राक् त्रितयं हृदयं स्वसमायुतम् ॥ ७ ॥
रसश्चरेण तत्पूर्वमग्निना च रसो युतः ।
पश्चादुक्तत्रयं वातो धरया च नभः प्रिये ॥ ८ ॥
प्राणः स्वेन युतः पश्चाधृदयं स्वयुतं रसः ।
व्याप्तमेतत्त्रयं पश्चाद् हृद् दाहेनाम्बुसंयुतम् ॥ ९ ॥
गोत्रा धरायुता स्पर्शो नादयुक्तो जवी युतः ।
दाहेन पूर्वं पूर्वं च पूर्वं च मरुता युतम् ॥ १० ॥
शून्यं मरुत्स्वसहितं हृद् दाहेनाम्बुना चरः ।
स्पर्शो मरुत्स्वसहितो हृद् दाहेनाम्बुना युतम् ॥ ११ ॥
ज्याग्निः स्वसंयुतो हंसस्तथाम्बु मरुता सह ।
हृदयेन स्वेन युतं रसश्च स्वेन संयुतः ॥ १२ ॥
प्राणदाहौ धरायुक्तौ पुनस्तौ वह्निना वियत् ।
वार्दाहयुक्तमम्बु स्याद्वियद् व्याप्तस्वसंयुतम् ॥ १३ ॥
पूर्वद्विरुक्तवर्णौ च शुचिः स्वेन युतस्तथा ।
स्थिरा रसा वनस्वेन दावौ हंसो धरास्वयुक् ॥ १४ ॥
द्युतिर्नादवती पश्चाद् हृदम्बु मरुता युतम् ।
हंसश्च मरुता विद्या दशोत्तरशताक्षरी ॥ १५ ॥
इति । ऐं नमो भगवति वात्तालि वात्तालि वाराहि वाराहि वाराहिमुखि वाराहिमुखि अन्धे अन्धिन्यै नमः रुन्धे रुन्धिन्यै नमः जम्भे जम्भिन्यै नमः मोहे मोहिन्यै नमः स्तम्भे स्तम्भिन्यै नमः अमुकं स्तम्भ्य स्तम्भय सर्वदुष्टप्रष्टानां सर्वेषां सर्वजिह्वास्तम्भं कुरु कुरु शीघ्रवश्यं कुरु ऐं ठलौं ठठ हुंफट् स्वाहा । इति ॥ वर्णाः ११० ॥ त्रिपुरार्णवे - ऋषिस्तु दक्षिणामूर्ति गायत्रीच्छन्द ईरितम् । इति । तन्त्रराजे - (२३ । ३)
अङ्गानि कृत्वा मन्त्रार्णैः सप्तभिः षड्युगेन च ।
दशभिः सप्तभिः सप्तसंख्यैर्जातिभिरन्वितम् ॥ १ ॥
त्रिकोणवृत्तषट्कोणवृत्तद्वयसमन्वितम् ।
विधाय चक्रं तत्रैव स्वनाम्नावाह्य पूजयेत् ॥ २ ॥
दशोत्तरशताक्षर्या वाराहीविद्यया प्रिये ।
सर्वमध्ये समभ्यर्च्य वामदक्षाग्रकोणतः ॥ ३ ॥
क्रोधिनीं स्तम्भिनीं चण्डोच्चण्डां च स्वस्वनामभिः ।
आद्यबीजान्त्यसप्राणैरुपेतामथ पूजयेत् ॥ ४ ॥
षट्सु कोणेषु स्वाग्रादि ब्राह्म्याद्या वामतोऽर्चयेत् ।
वृत्ते चैव महालक्ष्मीं पञ्चमीं मध्यतस्तथा ॥ ५ ॥
बलिं तु षोडशार्णेन कृत्वाभ्यर्च्योपचारकैः ।
इति ॥ अथ प्रयोगः - वेद्यां त्रिकोणषट्कोणवृत्तद्वयचतुरस्रात्मकं
मण्डलं निर्माय मूलेन प्राणायामत्रयं कृत्वा शिरसि
दक्षिणामूर्तये ऋषये नमः । मुखे गायत्रीच्छदन्से नमः । हृदये
श्रीवाराहीदेवतायै नमः इति विन्यस्य ममाभीष्टसिद्धये विनियोगः
इति कृताञ्जिरुक्त्वा ऐं नमो भगवति हृदयाय नमः । वात्तलि २
शिरसेस्वाहा । वाराहि २ शिखायै वषट् । वराहमुखि २ कवचाय हुं ।
अन्धे अन्धिन्यै नमः नेत्रत्रयाय वौषट् । रुन्धे रुन्धिन्यै नमः
अस्त्रायफट् । इति करषडङ्गन्यासं विधाय ध्यायेत् :
ध्यायेच्च देवीं कोलास्यां तप्तकाञ्चनसन्निभाम् ।
आकण्ठवनितारूपां ज्वलत्पिङ्गशिरोरुहाम् ॥ १ ॥
त्रिनेत्रामष्टहस्तां च चक्रं शङ्खमथांकुशम् ।
पाशं च मुसलं सीरमभयं वरदं तथा ॥ २ ॥
दधानां गरुडस्कन्धे सुखासीनां विचिन्तयेत् ।
इति ध्यात्वा मानसपूजान्तेऽर्घ्यादिस्थापनाद्यात्मपूजां विधाय
भुवनेश्वरीपीठमभ्यर्च्य मूलेन मूर्ति परिकल्प्य तद्विद्यया
समावाह्यावाहनादिपरमीकरणान्तं तत्तन्मुद्रया
विधायासनादिपुष्पोपचारान्ते त्रिकोणस्य वामकोणे २ क्रों क्रोधिन्यै
नमः । दक्षकोणे २ स्तं स्तम्भिन्यै नमः । अग्रे २ क्षोंक्रों
चण्डोच्चण्डायै नमः । ततः षट्कोणकोणषु
देव्यग्रादिप्रादक्षिण्येन आं ब्राह्म्यै नमः । ईं माहेश्वर्यै नमः
। ऊं कौमार्यै नमः । ॠं वैष्णव्यै नमः । ॡं वाराह्यै नमः ।
ऐं इन्द्राण्यै नमः इति सम्पूज्य तद्बहिर्वृत्तद्वये औं चामुण्डायै
नमः । अः महालक्ष्म्यै नमः इति देव्यग्रे पूजयेत् । ततश्चतुरस्रे
इन्द्रादींस्तद्बहिश्च वज्रादीन्सम्पूज्य पुनर्मध्ये देवीं तद्विद्यया
सम्पूज्य धूपादिकं सर्वं प्राग्वत् समापयेत् इति
वाराहीपूजाविधिः ॥
अथ वारेशानां पूजाप्रयोगः - तत्र तद्वेदिकायां षट्कोणात्मकं मण्डलं विधाय मूलेन प्राणानायम्य करिष्यमाण पूर्णाभिषेकाङ्गत्वेन वारेशपूजनमहं करिष्ये इति संकल्प्य तद्दिनवारेशौ षट्कोणमध्ये आवाह्यासनादिपुष्पोपचारान्तैरुपचारैरभ्यर्च्य तदुत्तरवारेशादीन् षट्कोणेषु द्वौ द्वौ क्रमेण स्वाग्रादिप्रादक्षिण्येन सम्पूज्य धूपादिकं सर्वं निवेद्यान्यत्सर्वं प्राग्वत्समापयेत् ॥ वारेशास्तु - रविवारस्य सूर्यशिवौ । चन्द्रवारस्य सोमाम्विके । मङ्गलवारस्य भौमकुमारौ । सौम्यवारस्य ब्रह्मबुधौ । गुरुवारस्य बृहस्पतिविष्णु । भृगुवारस्य शुक्ररमे । शनिवारस्य कुबेरसौरी । इति वारेशार्चनविधिः ॥
अथ तिथीशार्चनप्रयोगः - तत्र तद्वेदिकायां चतुर्दशारमण्डलं
विलिख्य मूलेन प्राणायामत्रयं कृत्वा
करिष्यमाणपूर्णाभिषेकाङ्गत्वेन तिथीशपूजनं करिष्ये इति
संकल्प्य मध्ये
तत्तत्तिथीशमावाह्यासनादिपुष्पोपचारान्तमभ्यर्च्य
स्वाग्रादिप्रादक्षिण्येन तदुत्तरतिथीशादीन् चतुर्दशारेषु
प्रादक्षिण्यक्रमेणाभ्यर्च्य धूपादिकं कृत्वा प्राग्वत्समापयेत् ।
तिथीशास्तु - प्रतिपद्यग्निः । द्वितीयायामश्विनौ । तृतीयायामुमा ।
चतुर्थ्यां विघ्नराजः । पञ्चम्यां सर्पः । षष्ठ्यां षण्मुखः ।
सप्तम्यां रविः । अष्टम्यां मातरः । नवम्यां दूर्गा ।
दशम्यां दिशः । एकादश्यां घनदः । द्वादश्यां केशवः ।
त्रयोदश्यां यमः । चतुर्दश्यां हरः । पञ्चदश्यां चन्द्रः ।
अमावास्यायां पितरः इति तिथीशपूजाक्रमः ॥
अथ नक्षत्रदेवतापूजाक्रमः - तत्र तद्वेद्यां
सप्तविंशत्यरात्मकं पूजाचक्रं विधाय मूलेन
प्राणायामत्रयं कृत्वा अद्येहेत्यादि
करिष्यमाणपूर्णाभिषेकाङ्गत्वेन नक्षत्रेशपूजां करिष्ये इति
सङ्कल्प्य तत्तत्तिथिनक्षत्रेशं मध्ये
आसनादिपुष्पोपचारान्तैरुपचारैः सम्पूज्य सप्तविंशत्यृक्षेषु
स्वाग्रादिप्रादक्षिण्येन तदुक्तनक्षत्रेशमारभ्य सम्पूज्य
धूपदीपादिकं दत्त्वा प्राग्वत् समापयेत् ॥ नक्षत्रेशास्तु -
अश्विन्यामश्विनौ । भरण्यां यमः । कृत्तिकायामग्निः । रोहिण्यां
धाता । मृगशिरसि चन्द्रः । आर्द्रायां शिवः । पुनर्वसावदितिः । पुष्ये
गुरुः । अश्लेषायां सर्पः । मघायां पितरः । पूर्वायामर्यमा ।
उत्तरायां भगः । हस्ते सूर्यः । चित्रायां त्वष्टा । स्वात्यां
मारुतः । विशाखायामिन्द्राग्नी । अनुराधायां मित्रः ।
ज्येष्ठायामिन्द्रः । मूलायां निर्-ऋतिः । पूर्वाषाढायां तोयं ।
उत्तराषाढायां विश्वेदेवाः । अभिजिति प्रजापतिः । श्रवणे हरिः ।
घनिष्ठायां वसवः । शतभिषजि वरुणः ।
पूर्वाभाद्रपदायामजैकपात् । उत्तराभाद्रपदायामहिर्बुध्न्यः ।
रेवत्यां पूषा इति नक्षत्रेशसपर्याविधिः ॥
अथ नवग्रहपूजाविधिः । तत्र प्रयोगः - हस्तत्रयायामविस्तारवेदिकायां प्राक्प्रत्यग्दक्षिणोक्च चतुःसूत्राणि पातयित्वा समान्तरालं नवकोष्ठात्मकं चक्रं निष्पाद्य समस्तकोष्ठान्तरालेषु वृत्तत्रयं रचयित्वा तत्तन्मध्ये सूत्रद्वयनिपातेन नव कोष्ठानि निष्पाद्य मध्यकोष्ठे अष्टदिक्षु स्वाग्रादिप्रादक्षिण्येन अं आं इं ईं उं ऊं ऋं ॠं इति वाताद्यष्टस्वरान् विलिख्य मध्यकोष्ठे मों इति विलिख्य वृत्तत्रयस्यान्तरालद्वयेऽभ्यन्तरान्तराले मं मां मिं मीं मुं मूं मृं मॄं में मैं मों मौं मं मः इति विलिख्य बाह्यान्तराले अं आं इत्यादिक्षः इत्यन्तं मातृकां विलिख्य तत्र भास्करं पूजयेत् ॥ ततः पूर्वदिग्गतनवकोष्ठात्मकमण्डले मध्यकोष्ठे सोंसोमाय नमः । ह्रीमिति विलिख्याष्टसु कोष्ठेषु पूर्वादि ऌं ॡं एं ऐं ओं औं अं अः इत्यष्टौ स्वरान् विलिख्याभ्यन्तरान्तराले हंहामित्यादिषोडशस्वरसंयुक्तं हकारं विलिख्य तद्बहिः बिन्दुयुतां मातृकां च विलिख्य तत्र सोमं पूजयेत् ॥ तत आग्नेयदिग्गतनवकोष्ठात्मकमण्डलमध्यकोष्ठे प्रणवगर्भं ककारं विलिख्य तद्बहिरष्टसु कोष्ठेषु कं ५ मङ्गल इत्यष्टाक्षराणि विलिख्य अभ्यन्तराले षोडशस्वरयुतं ककारं विलिख्य तद्बहिरन्तराले मातृकां विलिख्य तत्र मौमं पूजयेत् ॥ ततो दक्षिणमण्डले मध्यकोष्ठे प्रणवगर्भं चकारं विलिख्य तद्बहिरष्टसु कोष्ठेषु चं ५ बुधाय इति विलिख्य अभ्यन्तरान्तराले चंचामित्यादिषोडशस्वरयुक्तं चकारं विलिख्य तद्बहिर्मातृकां च विलिख्य तत्र बुधं पूजयेत् ॥ ततो निर्-ऋतिमण्डले मध्यकोष्ठे प्रणवगर्भं टकारं लिखित्वा तद्बहिरष्टषु कोष्ठेषु स्वाग्रादिप्रादक्षिण्येन टं ५ सौरये इत्यष्टवर्णान् विलिख्य तद्बहिरन्तराले षोडशस्वरयुक्तं टकारं तद्बहिरन्तराले मातृकां च विलिख्य मध्ये षोडशोपचारैः शनैश्चरं पूजयेत् ॥ ततो पश्चिममण्डले मध्यकोष्ठे प्रणवगर्भं तकारं विलिख्य तद्बहिरष्टसु कोष्ठेषु तं ५ गुरवे इति विलिख्य तद्बहिरन्तराले षोडशस्वरयुक्तं तकारं तद्बहिरन्तराले मातृकां च विलिख्य तत्र गुरुं षोडशोपचारैः पूजयेत् ॥ ततो वायव्यमण्डले मध्यकोष्ठे प्रणवगर्भं पकारं विलिख्य तद्बहिरष्टसु कोष्ठेषु स्वाग्रादिप्रादक्षिण्येन पं ५ शुक्राय इत्यष्टावक्षराणि विलिख्य तद्बहिरन्तराले षोडशस्वरयुक्तं पकारं विलिख्य तद्बहिरन्तराले मातृकां च विलिख्य तत्र शुक्रं षोडशोपचारैः पूजयेत् ॥ तत उत्तरमण्डले मध्यकोष्ठे प्रणवगर्भं यकारं विलिख्य तद्बहिरष्टसु कोष्ठेषु स्वाग्रादिप्रादक्षिण्येन यं ५ राहवे इत्यष्टावक्षराणि विलिख्य तद्बहिरन्तराले षोडशस्वरयुक्तं यकारं विलिख्य तद्बहिरन्तराले मातृकां च विलिख्य तत्र राहुं षोडशोपचारैः पूजयेत् ॥ तत ईशानमण्डले मध्यकोष्ठे प्राणवगर्भं षकारं विलिख्य तद्बहिरष्टसु कोष्ठेषु स्वाग्रादिप्रादक्षिण्येन षं ५ केतवे इत्यष्टावक्षराणि विलिख्य तद्बहिरन्तराले षोडशस्वरयुक्तं षकारं विलिख्य तद्बहिरन्तराले मातृकां च विलिख्य तत्र षोडशोपचारैः केतुं पूजयेत् इति नवग्रहपूजाविधिः ॥
इति श्रीमहामहोपाध्यायभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्य - श्रीभगवच्छङ्कराचार्यशिष्य - श्रीविष्णुशर्माचार्यशिष्य - श्रीप्रगल्भाचार्यशिष्य - श्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे चतुर्दशः श्वासः ॥ १४ ॥
अथ
श्रीविद्यार्णवतन्त्रे

Video zur Vertiefung: Guru
Ein heutiger Yoga-Vidya-Vortrag zum Thema; keine Rezitation oder Übersetzung des historischen Textes.
Siehe auch
- Sri Vidya
- Tripurasundari
- Guru
- Mantra
- Nyasa
- Puja
- Nityashodashikarnava
- Parashurama Kalpasutra
- Dakshinamurti Samhita
- Sharada Tilaka Tantra
- Prapanchasara Tantra
- Jnanarnava Tantra
- Kularnava Tantra
- Mantramahodadhi
- Shaktisangama Tantra
- Tripura Rahasya
Seminare
Kundalini Yoga
- 22.11.2026 - 27.11.2026 Chakras und Kundalini Yoga - Selbstentfaltung und ganzheitliche Weiterentwicklung
Eine Woche intensiver Praxis mit Techniken aus dem Kundalini Yoga: langes Halten der Asanas mit Chakra Konzentration, fortgeschrittene Pranayama Übunge…- Gauri Blumenthal
- 04.12.2026 - 06.12.2026 Der Vagusnerv im Yoga
Der Vagus-Nerv, der X. Hirnnerv, verbindet das Gehirn mit allen wichtigen Körperorganen und funktioniert in beide Richtungen wie eine Informationsautob…- Premajyoti Schumann, Helena Horsch
Bhakti Yoga
- 01.12.2026 - 01.12.2026 Mantra-Konzert
Aleah Gandarvika & Friends
18:45-19:45 Uhr- Aleah Gandarvika
- 04.12.2026 - 06.12.2026 Bhakti Yin Yoga meets Metta und Dharma
Tauche ein in eine außergewöhnliche tiefe Praxis des Bhakti Yin Yoga mit der Weisheit des Dharma und der liebenden Güte von Metta vereint. Wir laden …- Marco Büscher, Melanie Bhavani Bergweiler
Indische Schriften
- 26.12.2026 - 02.01.2027 Indische Rituale Ausbildung
Du interessierst dich für indische Rituale? Du hast die einzigartige Gelegenheit, in dieser Rituale Ausbildung bei Yoga Vidya die kleine Puja, große P…- Sukadev Bretz, Shankari Winkelbauer
- 01.01.2027 - 10.01.2027 Yogalehrer Weiterbildung Intensiv A1 - Jnana Yoga und Vedanta
Kompakte, vielseitige Weiterbildung für Yogalehrer rund um Jnana Yoga und Vedanta.
Tauche tief ein ins Jnana Yoga und Vedanta, studiere die indischen S…- Vedamurti Dr Olaf Schönert
Chakras
- 20.11.2026 - 22.11.2026 Heilreise durch die Chakren
Tauche ein in eine transformative Reise durch die sieben Hauptchakren und erfahre, wie du deine Energiezentren aktivieren, ausbalancieren und für dein …- Nese Niekrens, Gajendra Sebastian Niekrens
- 26.12.2026 - 01.01.2027 Kundalini Yoga Intensiv Praxis - Live Online
Intensives Praktizieren der im Mittelstufen-Seminar gelernten Übungen für noch tiefere Erfahrung und Erweiterung des Bewusstseins ohne viel Theorie. L…- Sukadev Bretz, Shaktipriya Vogt, Radharani Birkner
Energiearbeit
- 20.11.2026 - 22.11.2026 Heilend Strömen
Ganz automatisch legen wir bei Schmerz oder Unwohlsein unsere Hände nicht nur an die entsprechende Stelle, sondern auch an wichtige Energiepunkte des K…- Eric Vis Dieperink
- 22.11.2026 - 25.11.2026 Heilende Hände & Klang
Tauche ein in die faszinierende Verbindung von Berührung und Klang, die dir Momente der Ruhe, Kraft und Inspiration schenken kann. Dieses Seminar lädt…- Stefanie Oberländer, George Gabel
Vom Lesen zur Sammlung
Das Studium eines umfangreichen Tantra darf langsam sein. Ein aufmerksam gelesener Abschnitt kann wertvoller sein als viele flüchtig gelesene Seiten. Nimm dir Zeit, einen Begriff zu verstehen, eine Frage zu klären und die eigene Ausrichtung zu erneuern. So können Schriftstudium, Hingabe und Meditation einander ergänzen.