Purashcharanarnava Sanskrit Devanagari/Teil 2

Aus Yogawiki

Purashcharanarnava in Devanagari – Taraṅgas 6–9 verbindet die allgemeinen Verfahren des Purashcharana mit besonderen Formen der Mantrapraxis, Gottheitsverehrung und den Überlieferungen der Mahavidyas. Der Sanskritwortlaut lässt sich über die Kapitelverbindungen unmittelbar mit IAST und Deutsch vergleichen.

Zur Textgrundlage: Umfang, dokumentierte Auslassungen und Lesungshinweise.

Lass dir Zeit für wiederkehrende Begriffe wie Japa, Puja und Diksha. Ihr jeweiliger Zusammenhang erschließt sich oft erst über mehrere Sätze. Das geduldige Vergleichen ist eine gute Übung in Konzentration und bewahrt zugleich die Eigenart der verschiedenen Quellenstimmen.

Japa verbindet Aufmerksamkeit und Hingabe.

Zur Ausgabe: Deutsch · Sanskrit in IAST · Devanagari · 108 Passagen zur Besinnung · Mantrasammlung

← Vorheriger Teil · Teil 1 · Teil 2 · Teil 3 · Nächster Teil →

6. Taraṅga: Allgemeines Puraścaraṇa

Diese Welle: Deutsch · IAST · Devanagari

Band II, S. 75, Beginn des sechsten Taraṅga und Verse 1–3
अथ पुरश्चर्यार्णवस्य षष्ठस्तरङ्गः |
अथ पुरश्चरणविधिर्निरूप्यते |
तत्र पुरश्चरणपदार्थ उक्तो यामले— वेदादिशावरान्तानां मन्त्राणां सिद्धिहेतवे |
पुरतश्चरणीयत्वात् पुरश्चरणमुच्यते ||
१ ||
मेरुतन्त्रेऽपि— धर्मार्थकाममोक्षाणां साधनं मन्त्र उच्यते |
तत्सिद्धये पुरो यच्च चर्यते तत् प्रकीर्तितम् ||
२ ||
पुरश्चरणकर्माख्यं वेदादौ शावरान्तके |
मन्त्रे यन्त्रे तथाऽवश्यम् ... ... ||
३ ||
इति |
एतेन पुरश्चरणप्रयोजनमप्युक्तं भवति |


Band II, S. 75, Voraussetzungen und Beauftragung Verse 4–8
वायवीयसंहितायाम्— साधनं मूलमन्त्रस्य पुरश्चरणमुच्यते |
वीरचूडामणौ— पुरश्चरणहीनस्य मन्त्रसिद्धिर्न जायते |
आदौ पुरस्क्रियां कुर्यान्नियमेन यथाविधि ||
४ ||
योगिनीहृदयेऽपि— गुरोराज्ञां समादाय शुद्धान्तःकरणो नरः |
ततः पुरस्क्रियां कुर्यान्मन्त्रसंसिद्धिकाम्यया ||
५ ||
जीवहीनो यथा देहः सर्वकर्मसु न क्षमः |
पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्तितः ||
६ ||
तस्मादादौ स्वयं कुर्याद्गुरुं वा कारयेद्बुधः |
गुरोरभावे विप्रं वा सर्वप्राणिहिते रतम् ||
७ ||
स्निग्धं शास्त्रविदं मित्रं नानागुणसमन्वितम् |
स्त्रियं वा सद्गुणोपेतां सपुत्रां विनियोजयेत् ||
८ ||


Band II, S. 75–76, Fünf Bestandteile Verse 9–15
पुरश्चरणस्वरूपमुक्तं कुलचूडामणौ— पञ्चाङ्गानि महादेवि जपो होमश्च तर्पणम् |
अभिषेकश्च विप्राणामाराधनमपीश्वरि ||
९ ||
पूर्वपूर्वदशांशेन पुरश्चरणमुच्यते ||
१० ||
कुलमूलावतारे— संसारे दुःखभूयिष्ठे यदिच्छेच्छ्रेय आत्मनः |
पञ्चाङ्गोपासनेनैव मन्त्रजापी सुखं व्रजेत् ||
११ ||
मुण्डमालायाम्— यावद्यस्मिन् जपः प्रोक्तो मन्त्रे तावज्जपेत् पुरः |
ततस्तु तद्दशांशं हि होमं कुर्याद्विचक्षणः ||
१२ ||
तस्यापि च दशांशेन तर्पणं समुदाहृतम् |
तद्दशांशं ततः कुर्यान्मार्जनं तु विशेषतः ||
१३ ||
तस्यापि च दशांशेन प्रोक्तं ब्राह्मणभोजनम् |
कुमारीभोजनं तद्वद्गुरवे दक्षिणां तथा ||
१४ ||
एवं गुरुप्रसादेन पुरश्चरणकर्मकृत् |
मन्त्रसिद्धिमवाप्नोति परमार्थं हि साधकः ||
१५ ||


Band II, S. 76, Unterschiedliche Gliederzahlen Verse 16–21
मेरुतन्त्रे— जपो होमस्तर्पणं च मार्जनं विप्रभोजनम् |
पञ्चाङ्गकर्मरूपं तदाहुः केचन तत्र तु ||
१६ ||
चतुरङ्गास्तथा त्र्यङ्गा द्व्यङ्गा एकाङ्गिनोऽपि च |
मन्त्रास्तिष्ठन्ति वेदेषु तथा मन्त्रेऽपि शावरे ||
१७ ||
केचित् षडङ्गा मन्त्राः स्युस्तदङ्गानां जपादिति |
अघमर्षणसूर्यार्घजलपानप्रणामकैः ||
१८ ||
देवार्चया पञ्चभिश्च तैरेवं स्युर्दशाङ्गकाः |
दूतीयागात् तथा चौलीकर्मतश्चक्रपूजनात् ||
१९ ||
भगलिङ्गसमायोगजपाच्च बलिदानतः |
महाबलिप्रदानाच्च भवन्त्येकादशाङ्गकाः ||
२० ||
षोडशाङ्गाः कौलिकानां वामिकानां द्विकोदिताः |
अमर्यशमरिसेवातोऽष्टादशाङ्गास्त्वघोरिणाम् ||
२१ ||


Lesungshinweise: Die Zuordnung der Gliederzahlen in Vers 20–21 und der zweite Stoffname am Ende sind in der Vorlage nicht eindeutig.

Band II, S. 76–77, Vorrang des Japa Verse 22–27
वैष्वक्सेन्याम्— पञ्चाङ्गोऽयं महायागः पुरश्चरणसंज्ञकः |
साधनं पुरुषार्थानामन्ये यागाः सहस्रशः ||
२२ ||
अस्य पञ्चाङ्गयागस्य कलां नार्हन्ति षोडशीम् |
विशेषतः कलियुगे जपयागः प्रशस्यते ||
२३ ||
मेरुतन्त्रे— अयुताब्दे कलेर्याते त्यजेद्विष्णुशिला महीम् |
तदर्धे जाह्नवीतोयं तदर्धे देवताशिला ||
२४ ||
प्राप्ते कलियुगे घोरे वामाचारविमिश्रिते |
भक्ष्याभक्ष्यविचारादिरहिते म्लेच्छसंकुले ||
२५ ||
कामक्रोधादिभिर्व्याप्ते जने स्त्रीभिर्विनिर्जिते |
क्व शिष्यः क्व गुरुर्मन्त्रः क्व तपः क्व च सिद्धयः |
जप एव कलौ श्रेयान् शालग्रामार्चनं तथा ||
२६ ||
यामले— साङ्गो जपो महादेवि पुरश्चर्येति गीयते |
तस्यामाचरितायां च मन्त्रः सिद्ध्यति नान्यथा ||
२७ ||


Band II, S. 77–78, Wirksamkeit des Purashcharana Verse 28–35
पुरश्चरणचन्द्रिकायाम्— विना येन न सिद्धिः स्यान्मन्त्रो वर्षशतैरपि |
कृतेन येन लभते साधको वाञ्छितं फलम् ||
२८ ||
पुरश्चरणसंपन्नो मन्त्रो हि फलदायकः |
अतः पुरस्क्रियां कुर्यान्मन्त्रवित् सिद्धिकाङ्क्षया ||
२९ ||
सम्यक् सिद्धैकमन्त्रस्य नासाध्यं विद्यते क्वचित् |
बहुमन्त्रवतः पुंसः का कथा शिव एव सः ||
३० ||
किं होमैः किं जपैश्चैव किं मन्त्रन्यासविस्तरैः |
रहस्यानां हि मन्त्राणां यदि न स्यात् पुरस्क्रिया ||
३१ ||
पुरस्क्रिया हि मन्त्राणां प्रधानं बीजमुच्यते |
आदियामले— अकृत्वा तु पुरश्चर्यां यो यत्कर्म समाचरेत् ||
३२ ||
तत्तस्यैवाभिचाराय जायते नात्र संशयः |
तस्मादादौ पुरश्चर्यां कृत्वा कर्माणि साधयेत् ||
३३ ||
कर्माणीति षट्कर्माणि |
तथा— हेतुरप्यङ्कुरोत्पत्तौ जलसेकं विना यथा |
नाङ्कुरं जनयेद्बीजं तथा मन्त्रोऽपि कीर्तितः ||
३४ ||
पुरश्चर्याविहीनो हि सिद्धिहेतुर्न सिद्ध्यति |
तस्मात् तत्सिद्धये मन्त्री पुरश्चरणमाचरेत् ||
३५ ||


Band II, S. 78, Geeignete Zeiten Verse 36–42
तत्रादौ पुरश्चरणकाला वैष्वक्सेन्याम्— माधवे मार्गशीर्षे वा मकरस्थे दिवाकरे |
आरभेत पुरश्चर्यां शुक्लपक्षे शुभेऽहनि ||
३६ ||
दक्षिणामूर्तिकल्पे— आरभेत् प्रवरो विद्वान् पूर्वपक्षं समाश्रितः |
पुण्ये मुहूर्ते नक्षत्रे तिथौ स्नात्वा यथाविधि ||
३७ ||
पूर्वपक्षः शुक्लपक्षः |
शाक्तादौ तु पक्षद्वयमपि प्रशस्तमेव— अष्टम्यां वा चतुर्दश्यां पक्षयोरुभयोरपि |
आरभेत पुरश्चर्यां काले दीक्षोक्त एव हि ||
३८ ||
इति यामलसुधार्णवधृतवचनात् |
यस्मिन् काले भवेद्दीक्षा तस्मिन् काले भवेदिदम् ||
३९ ||
मुण्डमालायाम्— गुरोरनुज्ञां संप्राप्य विशेषेण शुभे दिने |
समारभ्य पुरश्चर्यां विधिपूर्वं समापयेत् ||
४० ||
वैशम्पायनसंहितायाम्— चन्द्रतारानुकूले च शुक्लपक्षे शुभेऽहनि |
आरभेन्मकरादौ तु सुप्ते विष्णौ जपेन्न च ||
४१ ||
श्रीनृसिंहपादार्चनपद्धतावपि— प्रसुप्ते तु महाविष्णौ पुरश्चर्यां न चाचरेत् |
मुह्यन्ति सकला मन्त्राः सुप्ते तस्मिन् जगद्गुरौ ||
४२ ||


Band II, S. 78–79, Auslegung der Ruhezeit Vishnus
मुह्यन्तीति |
सर्वेषां मन्त्राणां नारायणात्मकतया तस्मिन् योगरूपनिद्रामाश्रिते सर्वे मन्त्रास्तदीययोगनिद्रया व्यामोहिता भवन्तीत्यर्थः |
तथा च मन्त्राणां व्यामोहकाले पुरश्चरणादिना सिद्धिर्न भवतीति भावः |
न च तत्तन्मन्त्राणां तत्तदेवतात्मकतया तन्मन्त्राणामेव तदात्मकत्वेन तन्मन्त्रातिरिक्तमन्त्राणामपि कथं तदात्मकत्वमस्तीति वाच्यम् |
सर्वदेवमयो हरिरित्यादिना भगवतः सकलदेवात्मकत्वे सिद्धे तत्तद्देवतात्मकमन्त्राणां तदात्मकत्वस्य सुवचत्वात् |
एतेन हरिशयनकालिकपुरश्चरणनिषेधो विष्णुमन्त्रमात्रविषयो वैशम्पायनवचनस्य तत्प्रकरणीयत्वादित्यपास्तम् |
मुह्यन्ति सकला मन्त्रा इत्यत्र सकलपदमहिम्ना मन्त्रशब्दस्य वैष्णवावैष्णवमन्त्रपरत्वावगमात् |
एवं च ब्राह्मणेभ्यो दधि दातव्यं न कौण्डिन्यायेत्यादौ ब्राह्मणादिपदस्य कौण्डिन्येतरब्राह्मणपरत्वदर्शनात् |
पुरश्चरणप्रकरणीयवैशम्पायनादिवचननिषिद्धकालातिरिक्तो दीक्षाप्रकरणीयसिद्धान्तशेखरादिवचनविहितश्च यः कालः स एव यस्मिन् काले भवेद्दीक्षा तस्मिन् काले भवेदिदमिति सामान्यवचनेन गृह्यते |
तेन दीक्षायां विहितोऽपि श्रावणादिः पुरश्चरणे निषिद्ध एव |
हरिशयनकाले पुरश्चरणमेव निषिद्धम् |
तदतिरिक्तजपपूजादेस्त्वावश्यकत्वमुक्तम् |


Band II, S. 79, Fortgesetzte Verehrung Verse 43–47
तत्रैव— अर्चया स्तोत्रपाठेन जपेन नियमेन च |
तत्प्रीतिकामुकैर्भक्तैः सेव्यः सुप्तो जनार्दनः ||
४३ ||
यः प्रसुप्तोऽपि जागर्ति विश्वसाक्षी चिदात्मकः |
स भक्त्या तोषितो येन तस्यैव सफलं जनुः ||
४४ ||
इति |
शक्तिविषयेऽपि वाडवानलीये— घनागमे घनान्ते च पुष्पकाले च शाम्भवि |
आराधयेज्जगद्धात्रीं दिवा वा यदि वा निशि ||
४५ ||
एकैकदिवसे देव्याः प्रीतिः सांवत्सरी भवेत् |
विशेषादेषु कालेषु येन नाराधिताऽम्बिका |
स दरिद्रो भयग्रस्तः क्षीणायुः साधको भवेत् ||
४६ ||
इति |
केचन शाक्तास्तु— शिशिरश्च वसन्तश्च शरत्काल इति त्रयः |
उत्तमा ऋतवो देव्याः पुरश्चरणकर्मणि ||
४७ ||


Band II, S. 79–80, Streitfrage Herbst und Vishnus Ruhezeit
इत्यादियामलवचनेन हरिशयनकालान्तःपातिनि शरत्काले देवीमन्त्रपुरश्चरणविधानाद्विष्णौ सुप्ते जपेन्न चेत्यादिवैशम्पायनीयवचनं देवीमन्त्रातिरिक्तमन्त्रपरमिति संकोचं परिकल्प्य हरिशयनकालेऽपि पुरश्चरणमाचरन्ति |
अत्र शरत्कालशब्दः शरत्कालान्तःपातिदुर्गोत्सवकालपरः |
तन्त्रोक्तवचनेन शरत्काले चतुर्थ्यादिनवम्यन्तं विशेषत इत्यादिवक्ष्यमाणकालीकल्पमुण्डमालादिवचनेन च शक्तिमन्त्रपुरश्चरणविधानेऽपि तस्य हरिशयनाधिकरणीभूतयावत्कालं कर्तव्यताकत्वे प्रमाणाभावः |
अन्यथा ऊर्जे तपसि राधे वा शुक्लपक्षस्तु वैष्णवे इत्यादिचन्द्रपीठादिवचनेन वैशाखे कार्तिके तथेत्यादि मत्स्यपुरश्चरणप्रकरणीयमेरुतन्त्रवचनेन च वैष्णवस्यापि मन्त्रस्य हरिशयनकालान्तःपातिनि कार्तिकादौ पुरश्चरणविधानाद्वैशम्पायनादिवचनस्य निर्विषयत्वापत्तेः |
यदि च तन्त्रोपतन्त्राणामनन्तत्वेन चातुर्मास्येष्वपि शक्तिमन्त्रपुरश्चरणविधायैकवचनानन्तरमुपलभ्येत तदा तु संकोचकल्पना न दुष्टा |
अन्यथा दुष्टैवेति पुरश्चरणपद्धतिकृतः |


Band II, S. 80, Allgemeine Regeln und ausdrückliche Ausnahmen
प्राज्ञास्तु—निषिद्धमासपतितेऽपि ग्रहणादौ सकलमन्त्राणां विशेषपुरश्चरणविधानात् सामान्यपुरश्चरणमेव हरिशयनकाले निषिद्धम् |
विशेषपुरश्चरणे तु नायं निषेध इत्याहुः |
वस्तुतस्तु दुर्गोत्सवकालादौ शाक्तादिमन्त्रस्य कार्तिकादौ वैष्णवादिमन्त्रस्य भाद्रपदादौ गणेशादिमन्त्रस्य ग्रहणादौ मन्त्रमात्रस्य च पुरश्चरणविधानादनुक्तकालस्य विशेषपुरश्चरणस्याप्यनिषिद्धकाल एवाचरणाच्च निषिद्धकालान्तर्गतं यद्यत्कालावच्छेदेन यद्यद्देवतामन्त्रपुरश्चरणं विशेषवचनैर्विधीयते तत्तत्कालावच्छेदेन तत्तद्देवतामन्त्रपुरश्चरणं कर्तव्यमेव |
सामान्यवचनेन निषिद्धो विशेषवचनेन विहितश्च यः कालस्तत्र कस्यापि मन्त्रस्य पुरश्चरणमात्रं नाचरणीयमिति सिद्धान्तस्थितिः |
कार्तिके तु मन्त्रमात्रस्य पुरश्चरणं कर्तव्यम् |
सर्वेषामपि मन्त्राणां कुर्यादूर्जे पुरस्क्रियाम् |
इति साधनसमुच्चयवचनाद्वक्ष्यमाणमहाचीनादिक्रमेण पुरश्चरणे तु न कालादिनियमः |


Band II, S. 80, Mahachina-Verfahren und Tageszeiten Verse 48–51
तदुक्तं सारसंग्रहे— सर्व एव शुभः कालो नाशुभो विद्यते क्वचित् ||
४८ ||
तथा— दिग्देशनियमो नात्र स्थित्यादिनियमो न हि |
न जपे कालनियमो नार्चादिषु बलिष्वपि |
स्वेच्छानियम उक्तोऽत्र महामन्त्रस्य साधने ||
४९ ||
इत्यादिमहामन्त्रशब्दस्तु मन्त्रमात्रोपलक्षकः |
अन्यथा महाचीनक्रमेणोपमन्त्रपुरश्चरणे नियमपरिपालनापत्तेरत्रापि कालपदं प्रहरान्तर्गततत्तत्कालपरं न तु विहितनिषिद्धमासदिवसादिपरम् |
तथा च— प्रातःकालं समारभ्य जपेन्मध्याह्नावधि ||
५० ||
इति पाशवकल्पोक्तौ— गते तु प्रथमे यामे तृतीयप्रहरावधि |
निशायामेव जप्तव्यं रात्रिशेषे जपेन्न च ||
५१ ||


Band II, S. 81, Auslegung der Vira-Zeitregeln Verse 52–54
इति वीरकल्पोक्तश्च यः कालनियमः स चास्मिन् महाचीनक्रमे नास्तीति तदर्थः |
न विशेषो दिवारात्रौ सन्ध्यायां वा महानिशि |
सर्वकाले यजेद्देवीमस्नातः कृतभोजनः ||
५२ ||
इति तत्रैवोक्तत्वात् कथमन्यथा स्यात्तथा— वीराणां जपकालस्तु सर्वकालः प्रशस्यते ||
५३ ||
इति भावचूडामणिवचनं संगमनीयम् |
अष्टम्यां वा चतुर्दश्यां पक्षयोरुभयोरपि |
आरभेत पुरश्चर्यां काले दीक्षोक्त एव हि ||
५४ ||
इत्यादिवीरपुरश्चरणप्रकरणीययामलादिवचनविरोधादुक्तयुक्त्या तु कालशब्दस्योक्तकालपरतया वीरशब्दस्य च कौलिकपरतया तदीयकल्पे दिवसस्य रात्रेश्च पुरश्चरणकालतया वक्ष्यमाणत्वान्न कश्चिद्विरोधः |
एवं महानीलक्रमेण पुरश्चरणेऽपि नोक्तकालनियमः |
उक्तवचनानां तत्राप्युपलम्भात् |


Band II, S. 81, Grenzen der Ausnahmeregeln Verse 55–58
अत्र केचित्— न जपे कालनियमो महामन्त्रस्य साधने ||
५५ ||
इत्यादिसिद्धान्तसंग्रहवचनान्महामन्त्रपुरश्चरणे कालनियमो नास्तीति वदन्ति |
तन्मते— न देशकालनियमो भक्ष्यादिनियमो न हि |
शौचादिनियमो नास्ति महामन्त्रस्य साधने ||
५६ ||
इति तस्य वचनात् |
न शौचादिक्रियाः कार्याः स्मृतिशास्त्रप्रचोदिताः |
एकं लिङ्गे गुदे पञ्च इत्याद्या याः प्रकीर्तिताः ||
५७ ||
इति स्वच्छन्दभैरवादिवचनाच्च |
महामन्त्रपुरश्चरणे नियमसामान्याभावापत्त्या— नियमास्तत्र भूयांसः प्रकर्तव्याः प्रयत्नतः |
अवैधकरणात् सिद्धिहानिः स्यान्नात्र संशयः ||
५८ ||
इत्यादिमहाविद्यापुरश्चरणप्रकरणीयमहाकालवचनविरोधः स्पष्ट एवेति संक्षेपः |


Band II, S. 81–82, Wahl des Übungsortes Verse 59–65
अथ पुरश्चरणदेशाः योगिनीतन्त्रे— आदौ पुरस्क्रियां कर्तुं स्थाननिर्णय उच्यते |
पुण्यक्षेत्रं नदीतीरं गुहापर्वतमस्तकम् ||
५९ ||
तीर्थप्रदेशः सिन्धूनां सङ्गमः पावनं वनम् |
उद्यानानि विविक्तानि बिल्वमूलं तटं गिरेः ||
६० ||
तुलसीकाननं गोष्ठं वृषशून्यं शिवालयम् |
अश्वत्थामलकीमूलं गोशाला जलमध्यतः |
देवतायतनं कूलं समुद्रस्य निजं गृहम् ||
६१ ||
तथा— गृहे शतगुणं विद्याद्गोष्ठे लक्षगुणं भवेत् |
कोटिर्देवालये पुण्यमनन्तं शिवसन्निधौ ||
६२ ||
म्लेच्छदुष्टमृगव्याधशङ्कातङ्कविवर्जिते |
एकान्तोपवने निन्दारहिते भक्तिसंयुते ||
६३ ||
सुदेशे धार्मिके देशे सुभिक्षे निरुपद्रवे |
रम्ये भक्तजनस्थाने निवसेत् तापसप्रिये ||
६४ ||
गुरूणां सन्निधाने च चित्तैकाग्रस्थले तथा |
एषामन्यतमं स्थानमाश्रित्य जपमारभेत् ||
६५ ||


Band II, S. 82, Weitere allgemeine Ortsregeln Verse 66–70
महाकपिलपञ्चरात्रे च— क्षेत्रतीर्थगृहारामदेवालयनदीह्रदाः |
कुटी विविक्तमित्येते देशाः स्युर्मन्त्रसिद्धिदाः ||
६६ ||
प्रपञ्चसारे— समुद्रतीरेऽप्यथ वाऽद्रिशृङ्गे समुद्रगानां सरितां च तीरे |
जपेद्विविक्ते निज एव गेहे विष्णोर्गृहे वा पुरुषो मनस्वी ||
६७ ||
यामले— म्लेच्छदुष्टमृगव्यालशङ्कातङ्कविवर्जिते |
एकान्ते पावने चिन्तारहिते भक्तिसंयुते ||
६८ ||
सुदेशे धार्मिके राष्ट्रे सुभिक्षे निरुपद्रवे |
रम्ये भक्तगणस्थाने निवसेन्न पराश्रये ||
६९ ||
देवताभेदेन पुरश्चरणस्थानभेदा उक्ता मेरुतन्त्रे— जपस्थानानि वक्ष्यामि कृत्रिमाकृत्रिमानि च |
गुप्तानि सर्वतन्त्रेषु देवतानां पृथक् पृथक् ||
७० ||


Band II, S. 83, Heilige Stätten nach Gottheiten Verse 71–77
महागणपतिक्षेत्रं मायूरं नर्मदातटम् |
महाश्मशानं मायूरं गणेशमनुसिद्धिदम् ||
७१ ||
प्रभासं च कुरुक्षेत्रं पुष्करं भृगुपर्वतम् |
यमुनायास्तटं काशीदिनेशमनुसिद्धिदम् ||
७२ ||
अयोध्या मथुरा माया काशी बदरिकाश्रमः |
गया च गण्डकीतीरं द्वारिका विष्णुसिद्धिदा ||
७३ ||
केदारस्त्र्यम्बकं काशी काञ्च्यवन्त्यौ वनानि च |
गङ्गातीरं वैद्यनाथो रामेशः शिवसिद्धिकृत् ||
७४ ||
ज्वालामुखी प्रयागश्च कामिनी मालिकापदम् |
सरस्वत्यास्तथा तीरं शक्तिमन्त्रस्य सिद्धिकृत् ||
७५ ||
तीरं च कमलेश्वर्या मेखला यक्षपर्वतः |
अङ्गबङ्गकलिङ्गाश्च क्षुद्रदैवतसिद्धिदाः ||
७६ ||
कामरूपं च नेपालं हिङ्गुला विन्ध्यवासिनी |
जालन्धरं पूर्णगिरिर्वाममार्गेण सिद्धिदाः ||
७७ ||


Band II, S. 83, Natürliche Orte nach Gottheiten Verse 78–84
तटं पद्माकराणां च कदलीक्ष्वर्कवाटिका |
विद्रुमाकुलितो ग्रामो गणेशस्यातिवल्लभः ||
७८ ||
पद्माकरतटारण्यकरवारार्कवाटिका |
गोधूमदूर्वाक्षेत्राणि शिला भानुमतः प्रिया ||
७९ ||
तुलस्यश्वत्थधात्रीक्षुशालग्रामादिसन्निधौ |
गोष्ठे श्रोत्रिययुग्ग्रामे हरेर्मुद्वैदिकान्तिके ||
८० ||
पश्चिमाभिमुखे लिङ्गे नन्दिवर्जे शिवालये |
शिवतोषे वटस्यारात् सङ्गमे विपिने ह्रदे ||
८१ ||
कदलीचूतचम्बेलीसेवन्तीवर्बरीवने |
प्रख्यातनदीतीरे शक्तेः प्रीतिश्च निर्जने ||
८२ ||
पल्वलारान्निम्बकोलशाखोटेमधुकाकुले |
वल्मीके शुष्कनद्यां च मोदन्ते क्षुद्रदेवताः ||
८३ ||
पितृगेहे श्मशाने च त्रिपथे च चतुष्पथे |
शून्यालये शिवाकीर्णभुवि तुष्यन्ति वामगाः ||
८४ ||


Band II, S. 84, Ortsbeschränkungen Verse 85–90
गृहे गोष्ठे तथोद्याने वने पर्वतमस्तके |
नद्यां तत्सङ्गमे देवालये स्याद्वैदिकोऽधिकः ||
८५ ||
यस्मिन् देशे न गोहत्या नापि ब्रह्मवधो भवेत् |
न श्रावयन्ति शूद्राश्च सिद्धिस्तत्र तु वैदिकी ||
८६ ||
म्लेच्छाः पाखण्डिनो धूर्ता राजानः सचिवादयः |
युवत्यश्च न वर्तन्ते तत्र सिद्धिरदूरतः ||
८७ ||
अथ निषिद्धस्थानानि तत्रैव— जीर्णदेवालयोद्यानगृहवृक्षतलेषु च |
नदीकूलाद्रिकूटेषु भूच्छिद्रादिषु नो वसेत् ||
८८ ||
जीर्णत्वं वृक्षपर्यन्तमन्वेति |
नदीकूलनिषेधस्तु समुद्रगाकूलभिन्नपरः |
यामले— राजानः सचिवा राजपुरुषाः प्रभवो जनाः |
चरन्ति येन मार्गेण न वसेत् तत्र तत्त्ववित् ||
८९ ||
मेरौ— एवं विचार्य मतिमान् कुर्याद्भूमिपरिग्रहम् ||
९० ||


Band II, S. 84, Grundnahrung und Havishya Verse 91–96
अथ पुरश्चरणे भक्ष्यादिनियमो यामले— शाकं मूलं फलं भक्ष्यं हविष्यं शक्तवोऽथ वा |
अथ वा क्षीरमात्रं स्यात् पुरश्चरणवृत्तये ||
९१ ||
हविष्याण्युक्तानि स्मृतौ— हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः |
कलायकङ्गुनीवारा वास्तुकं हिलमोचिका ||
९२ ||
षष्टिका कालशाकं च मूलकं केमुकेतरत् |
लवणे सैन्धवसामुद्रे गव्यं च दधि सर्पिषाम् ||
९३ ||
पयोऽनुद्धृतसारं च पनसाम्रहरीतकी |
पिप्पली जीरकं नागरङ्गकतिन्तिडीकी ||
९४ ||
कदलीलवलीधात्रीफलान्यगुडमैक्षवम् |
अतैलपक्वं मुनयो हविष्यान्नं प्रचक्षते ||
९५ ||
मेरुतन्त्रे— सत्कन्दफलमूलाशी सद्भिक्षाशी हविष्यभुक् |
पयोव्रती भवेच्छ्रेष्ठस्तेषाम् ... ... ||
९६ ||
इति |


Band II, S. 85, Milch und fremde Nahrung Verse 97–102
तत्रैव— श्रेष्ठं गवां दुग्धमुक्तं मध्यमं सुरभीभवम् |
अधमं माहिषं चान्यद्व्रतस्थानां निषिध्यते ||
९७ ||
कुलार्णवे— यस्यान्नपानपुष्टाङ्गः कुरुते धर्मसञ्चयम् |
अन्नदातुः फलस्यार्धं कर्तुश्चार्धं न संशयः ||
९८ ||
तस्मात् सर्वप्रयत्नेन परान्नं वर्जयेत् सुधीः |
पुरश्चरणकाले तु सर्वकर्मसु शाम्भवि ||
९९ ||
जिह्वा दग्धा परान्नेन करौ दग्धौ प्रतिग्रहात् |
मनो दग्धं परस्त्रीभिः कथं सिद्धिर्वरानने ||
१०० ||
परान्नमिति भिक्षेतरविषयम् |
भिक्षायां तु विहितत्वान्न दोषः |
तदुक्तं मेरुतन्त्रे— वैदिकाचारयुक्तानां शुचीनां श्रीमतां सताम् |
सत्कुलस्थानजातानां भिक्षाशी चाग्रजन्मनाम् ||
१०१ ||
चरुमूलफलक्षीरदधिभिक्षान्नशक्तवः |
एतत्सप्तविधं भैक्षालब्धं भक्ष्यं व्रतस्थितैः ||
१०२ ||


Band II, S. 85, Weitere erlaubte Nahrungsmittel Verse 103–105
अगस्त्यसंहितायाम्— दधि क्षीरं घृतं गव्यमैक्षवं गुडवर्जितम् |
तिलाश्चैवासिता मुद्गाः कन्दः केमुकवर्जितः ||
१०३ ||
पद्धतौ— कन्दाश्च पिण्डारुकसेरुकाद्या गवां दधिक्षीरघृतानि सैन्धवम् |
मुद्गा यवाः कृष्णतिलाः कलायाः प्रियङ्गवः षष्टिकतण्डुलाश्च ||
१०४ ||
कदम्बजम्बूपनसाम्रनिम्बा नारङ्गधात्रीकदलीफलानि |
कपित्थमिष्टीमृदुदाडिमानि भक्ष्याणि चैतानि पुरस्क्रियायाम् ||
१०५ ||
मिष्टी मधुररसविशिष्टफलविशेषः |
मृदुर्मृद्वीका |
इतराणि प्रसिद्धानि |
एतद्भिन्नान्यप्यनिषिद्धानि यावकनारिकेलादीनि भक्ष्याण्येव |


Band II, S. 86, Verbotene Nahrungsmittel Verse 106–107
अथ निषिद्धानि— क्षारं च भौमं लवणं तथाऽऽढकी माषा मसूराश्चणकाश्च कोद्रवाः |
तैलं सितं मुद्गकमारनालकं क्षौद्रं गुडं फाणितमामिषादिकम् ||
१०६ ||
कूष्माण्डवृन्ताकपलाण्ड्वलाबुच्छत्राकनालं लशुनं करीरः |
पटोलताम्बूलविभीतकाश्चान्यच्च संजातरसान्तरं यत् |
अन्धस्तथा पर्युषितं च दग्धं त्याज्यानि चैतानि वदन्ति धीराः ||
१०७ ||
पटोलं पडवर इति प्रसिद्धम् |
अलाबुस्तुम्बीफलम् |
करीरो वंशाङ्कुरः |
अन्ध इत्यन्नम् |
अन्यान्यपि निषिद्धानि गृञ्जरकरञ्जादीनि त्याज्यान्येव |
गृञ्जनं च गाजर इति मध्यदेशीयभाषया प्रसिद्धा |


Lesungshinweise: Die Abgrenzung von „weiß“ und „Mudgaka“ in Vers 106 ist nicht eindeutig; Mudgaka wird hier nicht stillschweigend mit den zuvor erlaubten Mungbohnen gleichgesetzt.

Band II, S. 86, Sitzunterlagen Verse 108–114
अथासनानि मेरुतन्त्रे— आसनं तु द्विधा प्रोक्तं नित्यकामिकभेदतः |
कुशाजिनाम्बरैर्युक्तं चतुरङ्गुलमूर्ध्वतः ||
१०८ ||
चतुरस्रं द्विहस्तं च सुन्दरं मृदुनिर्मलम् |
इदं सुखासनं नित्यं जपसिद्धिविधायकम् ||
१०९ ||
अथ काम्यानि वक्ष्यन्ते जपसिद्ध्यै मृगाजिनम् |
सर्वसिद्ध्यै व्याघ्रचर्म त्वाविकं रोगनाशनम् ||
११० ||
कौशेयं पौष्टिकं प्रोक्तं वेत्रजं श्रीविवर्धनम् |
श्वेते तु कम्बले धर्मसिद्धी रक्तेऽर्थसिद्धयः ||
१११ ||
पीते कामो द्विजान्येषां मोक्षदः कृष्णकम्बलः |
दुःखमुक्त्यै रञ्जितं तु नीलरङ्गो न शोभनः ||
११२ ||
पुरश्चरणचन्द्रिकायाम्— अभिचारे कृष्णवर्णं रक्तं वश्यादिकर्मणि |
शान्तिके धवलं प्रोक्तं चित्रकं सर्वकर्मसु ||
११३ ||
स्तम्भने गजचर्म स्यान्मारणे माहिषं तथा |
मैषीचर्म तथोच्चाटे खङ्गिजं वश्यकर्मणि |
विद्वेषे जाम्बुकं प्रोक्तं भवेद्गोचर्म शान्तिके ||
११४ ||


Band II, S. 87, Ungeeignete Unterlagen Verse 115–119
अथ निषिद्धानि मेरुतन्त्रे— त्यजेन्निषिद्धमप्राप्तौ न निषिद्धे तु संविशेत् |
निषिद्धान्यथ वक्ष्यन्ते शोकः स्याद्दारुजासने ||
११५ ||
वंशासने दरिद्रः स्याद्वस्त्रे स्थानविनाशनम् |
पाषाणे च तथोच्चाटो ज्वरी स्यान्मृण्मयासने ||
११६ ||
क्षित्यासने भवेत् पीडा पल्लवे चित्तविभ्रमः |
तृणासने भवेत् पीडा निषिद्धं त्विष्टिकासनम् ||
११७ ||
चित्तक्षोभो गृहस्थस्य कृष्णसाराजिने भवेत् |
बटुर्वनस्थः संन्यासी स्नातकः सिद्धिमाप्नुयात् ||
११८ ||
पुरश्चरणचन्द्रिकायाम्— न दीक्षितो विशेज्जातु कृष्णसाराजिने गृही |
विशेद्यतिर्वनस्थश्च ब्रह्मचारी च स्नातकः ||
११९ ||


Band II, S. 87–88, Vier Japa-Haltungen Verse 120–129
कुशाजिनाम्बरेणाढ्यं चतुरस्रं समन्ततः |
एकहस्तं द्विहस्तं वा चतुरङ्गुलमुच्छ्रितम् ||
१२० ||
स्वस्तिकादिक्रमेणाथ विशेत् तत्र निराकुलः |
स्वस्तिकं भद्रकं वीरं कूर्मं चेति चतुष्टयम् ||
१२१ ||
जपेत् प्रशस्तमन्येषां प्रसङ्गादेव कीर्तनम् |
उद्देशानुक्रमेणैव वक्ष्याम्येषां तु लक्षणम् ||
१२२ ||
जानूर्वोरन्तरे सम्यक् कृत्वा पादतले उभे |
ऋजुकायः समासीनः स्वस्तिकं तदुदीरितम् ||
१२३ ||
गुल्फौ तु वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् |
पार्श्वे पादौ तु पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् ||
१२४ ||
भद्रासनं भवेदेतत् सर्वव्याधिविनाशनम् |
एकं पादमथैकस्मिन् विन्यस्योरुणि संस्थितः ||
१२५ ||
इतरस्मिंस्तथा चोरौ वीरासनमुदाहृतम् ||
१२६ ||
तन्त्रान्तरे तु— वामोरुन्यस्तदक्षाङ्घ्रि वीरासनमुदाहृतम् |
गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः ||
१२७ ||
कूर्मासनं भवेदेतत् कूर्ममुत्तानकूर्मकम् |
गोमुखं कुक्कुटं मात्स्यं धनुःपश्चिमतानकम् ||
१२८ ||
मयूरं लावकं सिद्धं पद्मं सिंहं शवासनम् |
स्वस्तिकं पद्मकं वीरमिति योगविदो विदुः ||
१२९ ||


Band II, S. 88, Weitere Körperhaltungen Verse 130–139
कुक्कुटासनबन्धस्थो दोर्भ्यां संबध्य कन्धराम् |
शेते कूर्मवदुत्तान एतदुत्तानकूर्मकम् ||
१३० ||
सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे निवेशयेत् |
दक्षिणे च तथा सव्यं गोमुखं गोमुखं यथा ||
१३१ ||
पद्मासनं तु संयोज्य जानूर्वोरन्तरे करौ |
निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ||
१३२ ||
वामोरुमूलार्पितदक्षपादं जान्वोर्बहिर्वेष्टितदक्षदोष्णा |
प्रगृह्य तिष्ठेत् परिवर्तिताङ्गः श्रीमत्स्यनाथोदितमासनं तत् ||
१३३ ||
पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि |
धनुराकर्षणं कुर्याद्धनुरासनमीरितम् ||
१३४ ||
प्रसार्य पादौ भुवि दण्डरूपौ दोर्भ्यां च पादद्वितयं गृहीत्वा |
जानौ परिन्यस्तललाटदेशो वसेदिदं पश्चिमतानमाहुः ||
१३५ ||
अवष्टभ्य धरां सम्यक् तलाभ्यां तु करद्वयम् |
हस्तयोः कूर्परे चापि स्थापयेन्नाभिपार्श्वयोः ||
१३६ ||
समुन्नतशिरःपादो दण्डवद्व्योम्नि संस्थितः |
मयूरासनमेतत्तु सर्वरोगहरं परम् ||
१३७ ||
भूमौ स्वमस्तकं स्थाप्यं हस्तयोः कूर्परे तथा |
पादौ खे दण्डवत् कुर्यात् कुञ्जरकासनमीरितम् ||
१३८ ||
मेढ्रादुपरि निःक्षिप्य सव्यं गुल्फं ततोपरि |
गुल्फान्तरं च निःक्षिप्य मुक्तासनमितीरितम् ||
१३९ ||


Band II, S. 89, Siddha- Padma- und Simhasana Verse 140–144
एतत्सिद्धासनं प्राहुरन्ये वज्रासनं विदुः |
मुक्तासनं वदन्त्येके प्राहुर्गुप्तासनं परे ||
१४० ||
वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा याम्योरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् |
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकयेदेतद्व्याधिविघातकारि यमिनां पद्मासनं प्रोच्यते ||
१४१ ||
गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोर्न्यसेत् |
दक्षिणे सव्यगुल्फं च दक्षगुल्फं च सव्यके ||
१४२ ||
हस्तौ जान्वोस्तु संस्थाप्य स्वाङ्गुलीः संप्रसार्य च |
व्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ||
१४३ ||
सिंहासनं भवेदेतत् पूजितं योगिभिः सदा |
उत्तानशववद्भूमौ शयनं तु शवासनम् |
शवासनं चार्तिहरं चित्तविश्रान्तिसाधनम् ||
१४४ ||


Band II, S. 89, Vajrasana Siddhasana und Vielfalt der Haltungen Verse 145–147
यामले— ऊर्वोः पादौ क्रमान्न्यस्य जान्वोः प्रत्यङ्मुखाङ्गुलीः |
करौ निदध्यादाख्यातं वज्रासनमनुत्तमम् ||
१४५ ||
गोरक्षशतके— योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसेन्मेढ्रे पादमथैकमेव नियतं कृत्वा समं विग्रहम् |
स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन् भ्रुवोरन्तरं चैतन्मोक्षकपाटभेदजनकं सिद्धासनं प्रोच्यते ||
१४६ ||
तथा— आसनानि च तावन्ति यावन्तो जीवजन्तवः |
एतेषामखिलान् भेदान् विजानामि महेश्वरः ||
१४७ ||


Band II, S. 89–90, Arten der Mala und Buchstabenmala Verse 148–153
अथ मालाभेदा मेरुतन्त्रे— अथ मालां प्रवक्ष्यामि द्विविधा सा स्थिरा चला |
स्थिरा तु स्थिरचित्तानां चञ्चला चलचेतसाम् ||
१४८ ||
यामले— माला तु त्रिविधा प्रोक्ता प्रथमा वर्णमालिका |
द्वितीया चरमालोक्ता तृतीया करमालिका ||
१४९ ||
मेरुतन्त्रे— अकारादिक्षकारान्तैर्बिन्दुवन्मातृकाक्षरैः |
अनुलोमविलोमस्थैः कल्प्तया वर्णमालया ||
१५० ||
प्रत्येकवर्णयुग्मन्त्राः जप्ताः स्युः सर्वसिद्धिदाः |
आर्याद्या अपि किं चान्यत् प्रोक्तेयं स्थिरमालिका ||
१५१ ||
त्रिशक्तिरत्नेऽपि— अथ वा मातृकामय्या मालया प्रजपेद्बुधः |
एकैकं वर्णमुच्चार्य वर्णेनान्तरितं जपेत् ||
१५२ ||
सुधीरवे लकारान्तं तत आन्तं समानयेत् |
मेरुरूपं क्षकारं हि साधको नैव लङ्घयेत् ||
१५३ ||


Band II, S. 90, Meru und 108 Lautrezitationen Verse 154–159
मुण्डमालायाम्— मेरुहीना च या माला मेरुलङ्घ्या च या भवेत् |
अशुद्धा तु भवेदत्र सा माला निष्फला भवेत् ||
१५४ ||
विचित्रा बिसतन्त्वाभा ब्रह्मनाडीगता तु या |
तया संग्रथिता ध्येया सर्वकामफलप्रदा ||
१५५ ||
अष्टोत्तरशतजपे त्वादौ क्लीबं समुच्चरेत् |
ऋॠऌॡवर्णचतुष्टयं क्लीबं प्रचक्षते ||
१५६ ||
वर्गाणामष्टकं वाऽपि काम्यभेदक्रमेण तु |
अ क च ट त प य शा इत्येव चाष्टवर्गकम् ||
१५७ ||
अष्टोत्तरशतजपे कर्तव्ये क्लीबचतुष्टयमादावुच्चार्य विलोमसमाप्तौ चापि तच्चतुष्टयं विलोमेन जपेदित्येकः पक्षः |
अनुलोमविलोमाभ्यां पञ्चाशद्वर्णमुच्चार्य शेषेष्वष्टवर्गाक्षराण्युच्चरेदित्यपरः पक्ष इत्यर्थः |
क्षकारश्च मेरुत्वेन सकृदेवोच्चार्यस्तदुत्तरं मन्त्रो नोच्चार्य इति तत्र विवेकः |
प्रकारान्तरमुक्तं साधनसमुच्चये— श्रीमायाकामवाग्योगान्मातृकावर्णयोगतः |
अनुलोमविलोमाभ्यामष्टोत्तरशतं जपेत् ||
१५८ ||
तन्त्रान्तरे— त्रयं गुरोस्त्रयं देवि गणपाय प्रकीर्तितम् |
न्यूनातिरिक्तं द्वितयं शेषमिष्टाय योजयेत् ||
१५९ ||


Band II, S. 91, Perlenzahl und Mala-Materialien Verse 160–164
मेरुतन्त्रे— चराऽथ कथ्यते मालाऽभिचारे तिथिसंख्यकैः |
मुक्त्यर्थं पञ्चविंशत्या संतुष्ट्यै सर्वदा जपेत् ||
१६० ||
त्रिंशद्भिर्धर्मवृद्धिः स्याच्चतुष्पञ्चाशतेप्सितम् |
शतात्सौख्यं तथाऽष्टाभिः शतात्सकलसिद्धयः ||
१६१ ||
समस्तसिद्ध्यै रुद्राक्षा मणयो धनदा मताः |
गतप्राप्तिकरः शङ्खो भोगकृत् स्फाटिको मतः ||
१६२ ||
पुत्रप्रदाः पुत्रजीवाः पद्माक्षाः पुष्टिवर्धनाः |
विद्रुमोत्था वश्यकरा मौक्तिका मुक्तिदा मताः ||
१६३ ||
पापापहाः कुशमयाः स्वर्णजाः कामदायकाः |
कामवृद्धिस्तारजातैरिन्द्राक्षैः स्यात्परं पदम् ||
१६४ ||


Lesungshinweise: Die Zuordnung des letzten Ausdrucks ist verkürzt; die Ausgabe verzeichnet dazu eine abweichende Lesung.

Band II, S. 91, Weitere Materialien und Ritualzuordnungen Verse 165–172
स्त्रीवश्यार्थं हरिद्राया दार्वी पुरुषवश्यकृत् |
ज्वरहर्त्री तु लाक्षायाः खड्गस्य पितृतृप्तिकृत् ||
१६५ ||
अर्कस्योच्चाटने कार्या श्रीफलैर्ज्ञानसाधने |
गजदन्तस्य सर्वार्थं मोहने ताम्रजा मता ||
१६६ ||
मारणे चायसी प्रोक्ता धनार्थं श्वेतपद्मजा |
विषोत्तारे चन्दनोत्था शान्तिकृच्छ्वेतकाष्ठजा ||
१६७ ||
रक्तचन्दनबीजोत्था यक्षिण्यादिकसाधने |
पद्मकाष्ठोद्भवा तुष्ट्यै देवदारुभवैर्विरुक् ||
१६८ ||
कृष्णकाष्ठसमुद्भूतैस्तामसं कर्म सिद्ध्यति |
भूतस्तम्भे निम्बजाता जनस्तम्भे समीभवा ||
१६९ ||
महानिम्बेन डाकिन्या भूनिम्बैः स्तम्भनं रुजाम् |
इन्द्रवृक्षाद्रणस्तम्भोऽभिचारो वानरास्थितः ||
१७० ||
ऋक्षास्थितो वन्यसिद्धिः शार्दूलात्तस्य देवताः |
नरास्थ्ना राक्षसा वीरा वश्या हयास्थिभिः ||
१७१ ||
रासभास्थ्ना क्षुद्रसिद्धिर्मान्यता तु गजास्थिभिः |
मृत्तिकाभृष्टमणिजा माला शावरसिद्धिदा ||
१७२ ||


Band II, S. 92, Materialien nach der Purashcharanachandrika Verse 173–175
पुरश्चरणचन्द्रिकायाम्— रुद्राक्षशङ्खपद्माक्षपुत्रजीवकमौक्तिकैः |
स्फाटिकैर्मणिरत्नैश्च हेमराजतवैद्रुमैः ||
१७३ ||
कुशैः पूर्वोदितैः सर्वैः पर्वभिर्मातृकाक्षरैः |
गर्दभाश्वनराणां वै दन्तैरप्यभिचारकैः ||
१७४ ||
वैष्णवे तुलसीमाला गजदन्तैर्गणेश्वरे |
त्रिपुराया जपे शस्ता इन्द्राक्षै रक्तचन्दनैः |
महाशङ्खमयी ज्ञेया नीलसारस्वते मनौ ||
१७५ ||


Band II, S. 92, Geheime Mala Verse 176–183
त्रिशक्तिरत्नेऽपि— रहस्यमालया जप्ता तारिणी सिद्धिदा भवेत् |
अतस्तया प्रजप्तव्या मालया सिद्धिमिच्छता ||
१७६ ||
महाशङ्खमयी माला पञ्चाशन्मणिनिर्मिता |
रहस्यमाला संप्रोक्ता गोपनीया प्रयत्नतः ||
१७७ ||
कर्णनेत्रान्तरालस्थो महाशङ्खः प्रकीर्तितः |
तदभावे तु कस्यापि कर्तव्याऽवयवस्य वै ||
१७८ ||
यामले— नरेभाश्वोष्ट्रमुण्डानां छिन्नानां रणसंकटे |
मालां वै कारयेद्वृत्तां महाविद्यासु साधकः ||
१७९ ||
तदभावे स्फाटिकी स्यान्माला सर्वसमृद्धिदा |
वीरतन्त्रे— रहस्यमालया जप्ता कालिका सर्वसिद्धिदा ||
१८० ||
महाशङ्खास्थिमालोक्ता तारिणीकालिकाविधौ |
तदभावे स्फाटकी स्यात्तथा पद्माक्षसम्भवा ||
१८१ ||
तन्त्रे— स्वयम्भूमालिका देवि भैरव्यां कालिकाविधौ |
छिन्नमस्ताविधौ देवि महाशङ्खास्थिमालिका ||
१८२ ||
बालायां भुवनेश्वर्यां स्फाटिकी परिकीर्तिता |
गुञ्जामाला तु मातङ्ग्यां धूम्रायां खरदन्तजा |
हरिद्रा बगलायां च कमलाक्षा रमाविधौ ||
१८३ ||


Band II, S. 93, Malas nach Amnaya und Gottheit Verse 184–194
तथा— पूर्वाम्नाये स्फाटिकजैर्दक्षिणे रुद्रनेत्रजैः |
प्रवालैर्मौक्तिकैर्देवि पश्चिमाम्नायदैवते ||
१८४ ||
उत्तराम्नायदेवीनां महाशङ्खास्थिमालिका |
ऊर्ध्वाम्नाये स्वयम्भूत्था पाताले रत्नसम्भवा ||
१८५ ||
प्रवालैः सूर्यमन्त्रे च मौक्तिकैः शक्तिमात्रके |
शिवशक्तिमयी माला रौद्राक्षी स्फाटिकी तथा ||
१८६ ||
रुद्राक्षस्वर्णसंयुक्तां मालां विद्धि शिवात्मिकाम् |
सर्वतन्त्रेषु रुद्राक्षाः शक्तिमन्त्रे दिवा न हि ||
१८७ ||
यामले— रुद्राक्षैर्विहिता माला सर्वकामप्रसाधनी |
निर्मिता शङ्खमालाभिर्धनं कीर्तिं च यच्छति ||
१८८ ||
पद्माक्षैः पुष्टिलक्ष्मीदा शत्रुनाशकरी तथा |
पुत्रजीवभवा पुत्रपशुश्रीधान्यऋद्धिदा ||
१८९ ||
मुक्ताभी रचिता माला सौभाग्यं विपुलं श्रियम् |
मन्त्रप्रत्यक्षदां सिद्धिं शान्तिकं चाथ पौष्टिकम् ||
१९० ||
मुक्तिं च तनुते तद्वत्स्फाटिक्यप्यक्षमालिका |
सारस्वते पद्मरागा पुष्कले च धने तथा ||
१९१ ||
सौवर्णी राजती माला सर्वान् कामान् प्रयच्छति |
सारस्वते प्रवालोत्थां वश्येऽधिकधनागमे ||
१९२ ||
पापक्षयकरी कौशी रुद्राक्षादिकुशान्तकैः |
सर्वैरेतैर्विरचिता माला स्यान्मुक्तये नृणाम् ||
१९३ ||
नित्यं जपं प्रकुर्वीत पर्वभिर्वर्णमालिका |
स्थिरेण मनसा न्यस्ता सर्वान् कामान् प्रयच्छति ||
१९४ ||


Band II, S. 93–94, Besondere Materialien und Verdienstzahlen Verse 195–201
उच्चाटनेऽश्वदन्तानां माला प्रोक्ताऽश्ववालकैः |
खरदन्तैरधोभूतैर्मनुष्यस्नायुतन्तुना ||
१९५ ||
ग्रथितैर्निर्मिता माला शत्रूणां नाशिते मता |
प्रेतदन्तैरधोभूतैः कर्तव्या जपमालिका ||
१९६ ||
साध्यदेहभवैः केशैः प्रोतव्या द्वेषकर्मणि |
अङ्गुलीजपसंख्यानमेकमेवमुदाहृतम् ||
१९७ ||
पुत्रजीवैर्दशगुणैः शतं शङ्खैः सहस्रकम् |
प्रवालैर्मणिरत्नैश्च दशसाहस्रकं स्मृतम् ||
१९८ ||
तदेव स्फाटिकं प्रोक्तं मौक्तिकैर्लक्षमुछ्यते |
पद्माक्षैर्दशलक्षं स्याद्राजतैः कोटिरुच्यते ||
१९९ ||
सौवर्णैर्द्विगुणा सैव सर्वैः शतगुणां स्मृता |
कुशग्रन्थ्या च रुद्राक्षैरनन्तगुणितं फलम् ||
२०० ||
श्वेतपद्माक्षमालाभिरपि स्यादमितं फलम् |
मातृकावर्णसम्भूतमालयाऽपि तदेव तु ||
२०१ ||


Band II, S. 94, Auswahl und Beschaffenheit der Rudraksha Verse 202–207
मेरुतन्त्रे— कुशग्रन्थ्या जपेद्विप्रः सुवर्णमणिभिर्नृपः |
पुत्रजीवैर्जपेद्वैश्यः पद्माक्षैः सर्व एव हि ||
२०२ ||
रुद्राक्षस्फाटिकेन्द्राक्षमध्ये किंचिन्न दापयेत् |
मध्ये दत्त्वा जपं कुर्वन् काममोक्षौ विनाशयेत् ||
२०३ ||
रुद्राक्षप्रभेदकथनपूर्वकं तन्माहात्म्यमाह तत्रैव— धात्रीफलोपमः श्रेष्ठो मध्यो बदरसन्निभः |
अधमश्चणकाभः स्यात्ततो हीनो विपत्तिकृत् ||
२०४ ||
श्वेतरक्तसुवर्णाभकृष्णवर्णा द्विजादितः |
एतेषु ब्राह्मणः श्रेष्ठो जपमालाकृते भृशम् ||
२०५ ||
अलाभे तु द्विजातीनामपि वा स्वस्वजातयः |
कलौ तु दुर्लभा विद्या यथा विप्राः स्वधर्मगाः ||
२०६ ||
अतिस्थूलोऽतिसूक्ष्मश्च स्फुटितो भङ्गुरो लघुः |
भिन्नः पुराधृतो जीर्णो रुद्राक्षो न शुभप्रदः ||
२०७ ||


Band II, S. 94–95, Ein- bis achtgesichtige Rudraksha Verse 208–216
तथा— एकवक्त्रैर्द्विवक्त्रैश्चतुर्वक्त्रैश्च पञ्चभिः |
षड्वक्त्रैर्वाऽथ कर्तव्या मिथो मिश्रांस्तु वर्जयेत् ||
२०८ ||
एकवक्त्रं शिवस्तस्य माला तु जपतो हरेत् |
ब्रह्महत्यादिपापानि तथा राज्यादिकेष्टदा ||
२०९ ||
उमाशङ्करनामा यो द्विमुखोऽयं व्यपोहति |
गोहत्यादिकपापानि गार्हस्थाश्रमसौख्यदः ||
२१० ||
त्रिमुखस्त्वग्निरूपः स्यात्स्त्रीहत्यादिकपापहा |
धर्मार्थकामाः सिध्यन्ति धारणात्तज्जपादपि ||
२११ ||
चतुर्मुखो भवेद्ब्रह्मा भ्रूणहत्यादिनाशकः |
स्फुरन्ति सकला विद्या वाक्सिद्धिश्चापि जायते ||
२१२ ||
पञ्चवक्त्रः शिवः साक्षात्सर्वपापहरः स्मृतः |
शैवगाणेशशाक्तानां द्रुतं सिद्धिस्तु तज्जपात् ||
२१३ ||
कार्तिकेयस्तु षड्वक्त्रः स्खलितव्रतपापहा |
विधिना दक्षिणे बाहौ धारणात्समरे जयः ||
२१४ ||
सप्तवक्त्रो महानागोऽनन्तो नामाथ तज्जपात् |
अनन्ताः सिद्धयः सर्पविषभङ्गश्च न जायते ||
२१५ ||
अष्टवक्त्रो गणेशः स्यात्सर्वविघ्ननिवारकः |
नश्यन्ति तज्जपात्सर्वे कामक्रोधादिशत्रवः ||
२१६ ||


Lesungshinweise: Vers 215 druckt wörtlich eine Verneinung mit „Aufhebung des Schlangengifts“; eine vermutete Schutzverheißung wird nicht als sichere Lesung eingesetzt.

Band II, S. 95, Neun- bis vierzehngesichtige Rudraksha Verse 217–224
नववक्त्रो भैरवः स्यात्स्याद्वाममार्गस्थदेवताः |
जपादेव प्रसीदन्ति वामबाहौ स्थितोऽघहा ||
२१७ ||
जनार्दनो दशमुखो जपान्नश्यन्ति धारणात् |
पिशाचग्रहवेतालब्रह्मराक्षसपन्नगाः ||
२१८ ||
एकादशमुखः साक्षाद्रुद्र एवास्य धारणात् |
जपाच्च हयमेधादियज्ञानां फलभाग्भवेत् ||
२१९ ||
द्वादशास्यो भास्करः स्यात्तज्जपाद्धारणात्तथा |
तेजस्वी च प्रतापी च गोमेधफलभाग्भवेत् ||
२२० ||
त्रयोदशमुखः साक्षाद्विश्वेदेवात्मकः स्मृतः |
श्राद्धकाले धृतो दद्यात्पितॄणामक्षयां गतिम् ||
२२१ ||
चतुर्दशमुखे जप्तं तदाऽनन्ताय जायते |
पूज्यते देवमनुजैरक्षयां लभते गतिम् ||
२२२ ||
तथा— देवान् पुष्णन्ति ये देवा पशवस्ते तु वैदिकाः |
तान् पातयन्ति ये कौले तेषां शास्ता स्वयं यमः ||
२२३ ||
तेषां संरक्षणार्थाय नान्यो रुद्राक्षतो भुवि |
रुद्राक्षाः सर्वदेवानां मन्त्रसिद्धिविधायकाः ||
२२४ ||


Band II, S. 96, Lob des Tragens von Rudraksha Verse 225–228
रुद्राक्षं कण्ठमाश्रित्य शुनको म्रियते यदि |
सोऽपि रुद्रत्वमाप्नोति किं पुनर्मानुषादयः ||
२२५ ||
उच्छिष्टो वा विकर्मस्थो युक्तो वा सर्वपातकैः |
मुच्यते सर्वपापेभ्यो नरो रुद्राक्षधारणात् ||
२२६ ||
रुद्राक्षमालिकां कण्ठे धारयेद्भक्तिवर्जितः |
पापकर्माऽपि यो नित्यं रुद्रलोके महीयते ||
२२७ ||
अरुद्राक्षधरो भूत्वा यत्किञ्चित्कर्म वैदिकम् |
कुर्याद्विप्रस्तु यो मौढ्यान्नासावाप्नोति तत्फलम् ||
२२८ ||


Band II, S. 96–97, Rudraksha am Körper Verse 229–237
रुद्राक्षधारणप्रकारस्तत्रैव— शिरोमाला तु षड्विंशद्द्वात्रिंशत्कण्ठमालिका |
कूर्परे षोडश प्रोक्ता द्वात्रिंशन्मणिबन्धयोः ||
२२९ ||
अष्टोत्तरशतैर्युक्तमुपवीतं विधीयते |
तदर्धमुरसो माला शिखायामेकमुच्यते ||
२३० ||
कर्णयोश्चापि षट्संख्या धारणक्रम ईरितः |
संख्याहीनं न कर्तव्यमधिकं नैव दूष्यति ||
२३१ ||
तन्त्रान्तरे— रुद्राक्षान् कण्ठदेशे दशनपरिमितान् मस्तके विंशती द्वे षट्षट्कर्णप्रदेशे करयुगलकृते द्वादश द्वादशैव |
बाह्वोरिन्दोः कलाभिर्नयनयुगकृते चैकमेकं शिखायां वक्षस्यष्टाधिकं यः कलयति शतकं स स्वयं नीलकण्ठः ||
२३२ ||
रुद्राक्षान् धारयत्येवं देहान्ते स शिवो भवेत् |
बहुलं लभते पुण्यं भाग्यवानिह जायते ||
२३३ ||
स्नाने दाने जपे होमे वैश्वदेवे सुरार्चने |
प्रायश्चित्ते तथा श्राद्धे दीक्षाकाले विशेषतः ||
२३४ ||
रुद्राक्षधारी भूत्वा च यत्किञ्चित्कर्म वैदिकम् |
यो विप्रः सततं कुर्यात्तत्कर्म सफलं भवेत् ||
२३५ ||
कण्ठे शिरसि हस्ते च कर्णयोरुपवीतके |
रुद्राक्षधारणादेव रुद्रो भवति मानवः ||
२३६ ||
खादन्मांसं पिबन्मद्यं संगच्छन्मर्त्यजातिषु |
सद्यो भवति पूतात्मा रुद्राक्षं मूर्ध्नि धारयन् ||
२३७ ||


Band II, S. 97, Zeit und Faden der Mala-Herstellung Verse 238–245
देवताभेदेन मालाग्रथनकालभेद उक्तस्तत्रैव— चतुर्थ्यां प्रोतयेन्मालां गणनाथस्य मन्त्रकैः |
मध्याह्नेऽर्कस्य सप्तम्यां रवौ वा तस्य मन्त्रकैः ||
२३८ ||
द्वादश्यां वैष्णवी माला प्रोतव्या विष्णुमन्त्रतः |
त्रयोदश्यां तु सन्ध्यायां तन्मन्त्रैः शिवमालिकाम् ||
२३९ ||
अष्टम्यां वा चतुर्दश्यां नवम्यां भूमिनन्दने |
शक्तीनामपि कर्तव्या भुक्त्वा रात्रौ यथाविधि ||
२४० ||
सूत्रभेदा उक्तास्तत्रैव— ग्रथिता पट्टसूत्रेण देव्याः प्रीत्यै तु मालिका |
कार्पासैर्वैष्णवी माला पद्मसूत्रैरथापि वा ||
२४१ ||
ऊर्णाभिर्वा वल्कलैर्वा शैवी कार्या ससूत्रजा |
प्रायशः सर्वदेवानां सूत्रोत्पत्तिविधिं शृणु ||
२४२ ||
सूत्रं द्विजेन्द्रपण्यस्त्रीनिर्मितं ग्रन्थिवर्जितम् |
त्रिगुणं त्रिगुणीकृत्य ग्राह्यं प्रक्षाल्य यत्नतः ||
२४३ ||
उमामहेश्वरे— या जीवत्पुत्रका नारी सुन्दरी पतिवत्सला |
तया कर्तितसूत्रेण व्यूढा माला शुभावहा ||
२४४ ||
तन्त्रान्तरे— कन्याकर्तितसूत्रेण दुर्वर्णस्वर्णजैरपि ||
२४५ ||
दुर्वर्णं रजतम् |


Lesungshinweise: Das Kompositum vor „Frau“ ist sprachlich unsicher; eine bestimmte soziale Rolle wird nicht ergänzt.

Band II, S. 97–98, Eigenes Auffädeln und Auswahl der Perlen Verse 246–249
मालाग्रथनप्रकारस्तत्संस्कारश्च पुरश्चरणचन्द्रिकायाम्— अथातो ग्रथनं वक्ष्ये मालानां तन्त्रबोधितम् |
एकभुक्तं विधायादौ साधको ग्रथयेत् स्वयम् ||
२४६ ||
स्वयं च माला ग्रथिता स्वघृष्टं न धार्यते चन्दनमित्यनेन |
निषिध्यते चन्दनसन्निधानात्स्रगत्र पुष्पस्य न चाक्षमाला ||
२४७ ||
कृतनित्यक्रियाशुद्ध उक्तेष्वृक्षेषु मन्त्रवित् |
यथाकामं यथालाभादक्षाण्यानीय यत्नतः ||
२४८ ||
अन्योन्यसमरूपाणि नातिस्थूलकृशानि च |
कीटादिभिरदुष्टानि न जीर्णानि नवानि वै ||
२४९ ||
गव्यैस्तु पञ्चभिस्तानि प्रक्षाल्य च पृथक् पृथक् |


Lesungshinweise: Von den genannten Bäumen beschafft er die Perlen sorgfältig nach Wunsch und Verfügbarkeit: (249) untereinander von gleicher Gestalt, weder zu groß noch zu klein, nicht von Insekten oder anderem beschädigt, nicht alt, sondern frisch.

Band II, S. 98, Panchagavya für die Mala-Weihe Verse 250–255
पञ्चगव्येषु विशेष उक्तो मेरुतन्त्रे— दुग्धं काञ्चनवर्णायाः श्वेतायाश्चैव गोमयम् |
गोमूत्रं ताम्रवर्णाया नीलायाश्च भवेद्दधि ||
२५० ||
घृतं तु कृष्णवर्णाया एवं पञ्चामृतेऽपि च |
गवां वर्णास्तु सुलभाः सन्ति देशेषु कुत्रचित् ||
२५१ ||
तत्र वर्णविभागेन पञ्चगव्यानि चाहरेत् |
वर्णालाभे न दोषोऽस्ति मात्राहीनं तु वर्जयेत् ||
२५२ ||
गोसकृद्द्विगुणं मूत्रं सर्पिर्दद्याच्चतुर्गुणम् |
क्षीरमष्टगुणं प्रोक्तं पञ्चगव्यं तथा दधि ||
२५३ ||
गायत्र्याऽऽदाय गोमूत्रं गन्धद्वारेति गोमयम् |
आप्यायस्वेति च क्षीरं दधिक्राव्णोति वै दधि ||
२५४ ||
तेजोऽसि शुक्रमित्याज्यं देवस्य त्वा कुशोदकम् |
क्षालयेत्पञ्चगव्याद्यैः ... ... ||
२५५ ||
इति |


Band II, S. 98, Vorbereitung des Auffädelns Verse 256–258
पुरश्चरणचन्द्रिकायाम्— अश्वत्थपत्रैर्नवकैः पद्माकारेण कल्पिते |
सूत्रे मणींश्च सगन्धान्क्षालितांस्तत्र निःक्षिपेत् ||
२५६ ||
तारं शक्तिं मातृकाश्च सूत्रे चैव मणिष्वथ |
विन्यस्य पूजयेदाज्यैर्जुहुयाच्चैव शक्तितः ||
२५७ ||
मालामेकैकमादाय सूत्रे वै योजयेत्सुधीः |
मुखं मुखे तु संयोज्य पुच्छं पुच्छे तु योजयेत् ||
२५८ ||


Band II, S. 99, Auffädeln und Brahma-Knoten Verse 259–264
गोपुच्छसदृशी कार्या यद्वा सर्पाकृतिः शुभा |
तत्सजातीयमेकाक्षं मेरुत्वेनाग्रतो न्यसेत् ||
२५९ ||
मेरुतन्त्रे— एको मेरुस्तत्र देयः सर्वेभ्यः स्थौल्ययुक्च यः |
आद्यं स्थूलं ततस्तस्मान्न्यूनं न्यूनतरं ततः ||
२६० ||
सर्पाकारां प्रकुर्वीत ब्रह्मग्रन्थिर्मणिं प्रति |
अथ वा ग्रन्थिरहितं दृढरश्मिसमन्वितम् ||
२६१ ||
त्रिरावृत्याऽथ मध्येन चार्धावृत्याऽन्तदेशतः |
ग्रन्थिः प्रदक्षिणावर्तः स ब्रह्मग्रन्थिरुच्यते ||
२६२ ||
अन्योन्यघर्षणादेव जपहानिर्भवेद्ध्रुवम् |
मध्यतो ग्रन्थयः कार्या नात्र मुक्तादि विन्यसेत् ||
२६३ ||
पुरश्चरणचन्द्रिकायाम्— एकैकमणिमध्ये तु ब्रह्मग्रन्थिं प्रकल्पयेत् |
जपमालां विधायेत्थं ततः संस्कारमाचरेत् ||
२६४ ||


Band II, S. 99, Sadyojata- und Vamadeva-Mantras Verse 265–266
क्षालयेत्पञ्चगव्येन सद्योजातेन सज्जलैः |
ॐ सद्योजातं प्रपद्यामि सद्योजाताय वै नमः ||
२६५ ||
भवे भवे नाति भवे भवस्व मां भवोद्भवाय नमः |
चन्दनागुरुगन्धाद्यैर्वामदेवेन घर्षयेत् ||
२६६ ||
ॐ वामदेवाय नमः |
ॐ ज्येष्ठाय नमः |
ॐ श्रेष्ठाय नमः |
ॐ रुद्राय नमः |
ॐ कालाय नमः |
ॐ कलविकरणाय नमः |
ॐ बलप्रमथनाय नमः |
ॐ सर्वभूतदमनाय नमः |
ॐ मनोन्मनाय नमः |


Band II, S. 99–100, Aghora- Tatpurusha- und Ishana-Mantras bis Vers 267
धूपयेत्तामघोरेण— ॐ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः सर्वतः सर्वसर्वेभ्यो नमस्ते रुद्ररूपेभ्यः सर्वतः सर्वसर्वेभ्यः |
लेपयेत्तत्पुरुषेण तु |
ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् |
मन्त्रयेत्पञ्चमेनैव प्रत्येकं तु शतं शतम् |
ॐ ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्माशिवो मेऽस्तु सदा शिवोम् |
मेरुश्च पञ्चमेनैव ततो मन्त्रेण मन्त्रयेत् |
संस्कृत्यैवं बुधो मालां तत्प्राणांस्तथापयेत् ततः ||
२६७ ||


Band II, S. 100, Japa Homa und Gebete an die Mala Verse 268–273
क्रियासंग्रहे— मन्त्रयेन्मूलमन्त्रेण क्रमेनोत्क्रमयोगतः |
तथैव मातृकावर्णैर्मन्त्रयेन्मन्त्रतत्त्ववित् ||
२६८ ||
पूजयित्वा यथान्यायमिष्टदेवमनुक्रमात् |
न्यासपूर्वं जपेन्मन्त्रमष्टोत्तरसहस्रकम् |
जुहुयाच्च दशांशेन यस्य देवस्य यत्प्रियम् ||
२६९ ||
योगिनीतन्त्रे— होमकर्म ततः कुर्याद्देवताभावसिद्धये |
अष्टोत्तरशतं हुत्वा संपाताज्यं विनिःक्षिपेत् ||
२७० ||
होमकर्मण्यशक्तश्चेद्द्विगुणं जपमाचरेत् |
त्वं माले सर्वलोकानां सर्वसिद्धिप्रदा मता ||
२७१ ||
तेन सत्येन मे सिद्धिं देहि मातर्नमोऽस्तु ते |
इत्युक्त्वा परिपूज्याथ गोपयेद्यत्नतो गृही ||
२७२ ||
यामले तु— माले माले महामाले सर्वतत्त्वस्वरूपिणि |
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ||
२७३ ||
मायाबीजादिकं कृत्वा रक्तपुष्पैः समर्चयेत् |


Band II, S. 100, Empfang und Schutz der Mala Verse 274–277
पुरश्चरणचन्द्रिकायाम्— एवं कृत्वाऽक्षमालायां जपेन्मातृकया सुधीः ||
२७४ ||
मातृकावर्णभेदेभ्यः सर्वतन्त्राः प्रजज्ञिरे |
अतः सकलमन्त्राणां जपः कार्योऽनया स्रजा ||
२७५ ||
गुरुं संपूज्य तद्धस्ताद्गृह्णीयात्सर्वसिद्धये |
गायत्रीं तु जपन् कश्चिन्मालां ग्रथ्नाति तान्त्रिकः ||
२७६ ||
न हीत्थं ग्रथनं क्वापि मन्त्रशास्त्रे निरूपितम् |
अशुचिर्न स्पृशेदेनां करभ्रष्टां न कारयेत् ||
२७७ ||


Band II, S. 101, Gebrauch und Fehler der Mala Verse 278–284
मेरुतन्त्रे— येन मन्त्रेण या माला कृता तं तु जपेत्तया |
अन्यमन्त्रजपाच्छापो देवतायाः प्रजायते ||
२७८ ||
दृढसूत्रं नियुञ्जीत जपे त्रुट्यति नो यथा |
जीर्णे सूत्रे पुनः सूत्रं ग्रन्थयित्वा शतं जपेत् ||
२७९ ||
पुरश्चरणचन्द्रिकायाम्— प्रमादात्पतिते हस्ताच्छतमष्टोत्तरं जपेत् |
तावन्निषिद्धसंस्पर्शे क्षालयित्वा यथोदितम् ||
२८० ||
मेरुतन्त्रे— तर्जन्या न स्पृशेत्सूत्रं कम्पयेन्नैव धूपयेत् |
न स्पृशेद्वामहस्तेन करभ्रष्टां न कारयेत् ||
२८१ ||
अक्षाणां चालनेऽङ्गुष्ठश्चान्यमक्षं न संस्पृशेत् |
जपकाले सदा विद्वान्मेरुं चैव न लङ्घयेत् ||
२८२ ||
परिवर्तनकाले तु संघट्टं नैव कारयेत् |
कलिः खटखटाशब्दे दोलमाने चलेन्मतिः ||
२८३ ||
चलिते चैव विद्वेषः स्फुटिते व्याधिसम्भवः |
हस्तच्युते महाविघ्नः सूत्रच्छेदे विनाशकृत् ||
२८४ ||


Band II, S. 101–102, Reparatur und Sühne Verse 285–289
क्रियासंग्रहे— छिन्ने सूत्रे तु मालायाः पुनः संस्कारमाचरेत् |
अष्टोत्तरसहस्रं तु जपेद्वाऽष्टोत्तरं शतम् ||
२८५ ||
शैवागमे— यदा संत्रुट्यते माला ग्रन्थयित्वा च पूर्ववत् |
प्रतिष्ठितायां तस्यां तु मन्त्रं जप्यादनन्यधीः ||
२८६ ||
अन्यत्रापि— त्रुटिता चेत्स्वयं माला प्रायश्चित्तं समाचरेत् |
गजान्तकसहस्रं तु जपहोमं समाचरेत् ||
२८७ ||
पुनः संग्रथनं कृत्वा प्राणस्थापनपूर्वकम् |
तदा माला सिद्धिदा स्यान्नान्यथा शाङ्करं वचः ||
२८८ ||
अग्निदग्धे जपेल्लक्षं नष्टे भग्ने द्विलक्षकम् |
चौरनीते षट्सहस्रं पतिते तु शतं जपेत् ||
२८९ ||


Band II, S. 102, Zählen und Geheimhaltung Verse 290–295
पुरश्चरणचन्द्रिकायाम्— अङ्गुष्ठस्थामक्षमालां चालयेन्मध्यमाग्रतः |
तर्जन्या न स्पृशेत्सोऽयं मुक्तिदो गणनक्रमः ||
२९० ||
भुक्तौ मुक्तौ तथा हृष्टौ मध्यमायां जपेत्सुधीः |
अङ्गुष्ठानामिकाभ्यां तु जपेदुत्तमकर्मणि ||
२९१ ||
तर्जन्यङ्गुष्ठसंयोगाद्विद्वेषोच्चाटने जपः |
कनिष्ठाङ्गुष्ठसंयोगाज्जपेन्मारणकर्मणि ||
२९२ ||
अन्यकाले इमां मालां पूजयित्वा तु गोपयेत् |
मूलं प्रकाशयेद्विद्वान्न तन्मन्त्रं कदाचन ||
२९३ ||
अक्षमालां च मुद्रां च गुरोरपि न दर्शयेत् |
भूतराक्षसवेतालाः सिद्धगन्धर्वचारणाः ||
२९४ ||
हरन्ति प्रकटं यस्मात्तस्माद्गुप्तं जपेत्सुधीः |
अथ स्त्रीशूद्राणां मालासंस्कारः मेरुतन्त्रे— शूद्रार्थं वा स्त्रियामर्थे मालासंस्कार उच्यते ||
२९५ ||


Band II, S. 102–103, Besondere Mala-Weihe für Frauen und Shudras Verse 296–303
गणेशसूर्यविष्ण्वीशदुर्गाः संपूज्य भक्तितः |
मालायामथ तां मालां ह्सौँ बीजेनाभिमन्त्रिताम् ||
२९६ ||
अष्टोत्तरशतं पञ्चगव्ये तां स्थापयेत् त्र्यहम् |
चतुर्थे तु समुद्धृत्य क्षालयेदस्त्रमन्त्रतः ||
२९७ ||
हृन्मन्त्रेण ग्रन्थयित्वा स्थण्डिले तां निधापयेत् |
तस्मादुत्तोल्य तां मालां स्थापयेद्धेमपात्रके ||
२९८ ||
पञ्चामृतेन संस्नाप्य शीतलेन जलेन च |
चन्दनेन सुगन्धेन कस्तूरीकुङ्कुमादिभिः ||
२९९ ||
अभिषेकं ततः कुर्याद्ह्सौँ मन्त्रेण साधकः |
नवग्रहान्पूजयित्वा दिक्पालांश्चापि पूजयेत् ||
३०० ||
अत्रापि मातृकावर्णैर्मूलमन्त्रेण च मालामभिमन्त्र्य तस्यां प्राणप्रतिष्ठापूर्वकमिष्टदेवतार्चनं पूर्ववत्कार्यमिति सम्प्रदायविदः |
तथा— तिलेन घृतयुक्तेन शक्तितो होमयेत्ततः |
स्वर्णं तु दक्षिणां दद्याद्गुरवे मणिसंख्यकाम् ||
३०१ ||
तन्मन्त्रजापिनो विप्रान्भोजयेद्वाऽथ वैदिकान् |
अभावे स्वर्णपात्रस्य ग्राह्यमश्वत्थपत्रकम् ||
३०२ ||
मालासंस्कार इत्युक्तो जपे स्यात्सिद्धिदायकः |
अथ वाममार्गिणां मालासंस्कारस्तत्रैव— कीकशादिकमालानां कौलिकानां च वामिनाम् ||
३०३ ||


Band II, S. 103, Mala-Weihe des linken Weges Verse 304–311
सिद्ध्यै वक्ष्यामि संस्कारं सर्वतन्त्रेषु गोपितम् |
शिल्पिनं पूजयेदादौ वस्त्रगन्धानुलेपनैः ||
३०४ ||
संहृष्टः कलयेन्मालां मन्त्रपूतं पिबेन्मधु |
पञ्चाशन्मणिभिः कार्या ऋतुमत्या भगे क्षिपेत् ||
३०५ ||
निशामेकां समुद्धृत्य कारणैः क्षालयेत्ततः |
शुद्धोदैर्मूलमन्त्रेणाभिषिञ्चेद्विजयारसैः ||
३०६ ||
प्रक्षाल्य धूपयेत्पश्चात्प्रोतयेदिष्टसूत्रकैः |
सूत्रं स्वेष्टजपे नीलं कृष्णं मारणकर्मणि ||
३०७ ||
मोहने हरितं स्तम्भे धूमाभं द्विषि तालभम् |
शान्तौ पुष्टौ सितं द्वेषे रक्तमुच्चाटने भवेत् ||
३०८ ||
वश्ये पीतं कषायं तु विक्षेपकरणे मतम् |
चक्रपूजां ततः कुर्यात्साष्टोत्तरसहस्रकम् ||
३०९ ||
हुनेन्मद्यपलाभ्यां च मूलमन्त्रेण साधकः |
ततो बलिं यथान्यायं महिषादेः प्रदापयेत् ||
३१० ||
शक्तिश्च साधकाश्चापि भोजयेन्मणिसंख्यकान् |
एवं संसाधितां मालां पशवे न प्रदापयेत् ||
३११ ||


Lesungshinweise: [die genaue Farbzuordnung ist unklar]

Band II, S. 103–104, Handmala 312–315
अथ करमाला बालातन्त्रे— तर्जनी मध्यमाऽनामा कनिष्ठा चेति ताः क्रमात् |
तिस्रोऽङ्गुल्यस्त्रिपर्वाणो मध्यमा चैकपर्विका ||
पर्वद्वयं मध्यमाया मेरुत्वेनोपकल्पयेत् ||
३१२ ||
तन्त्रान्तरे— अनामामध्यमारभ्य कनिष्ठानुक्रमेण च |
तर्जनीमूलपर्यन्ता करमाला प्रकीर्तिता ||
३१३ ||
सनत्कुमारोऽपि— अनामामध्यमारभ्य कनिष्ठादित एव च |
तर्जनीमूलपर्यन्तं जपेद्दशसु पर्वसु ||
३१४ ||
अनामामूलमारभ्य कनिष्ठादित एव च |
तर्जनीमध्यपर्यन्तमष्टपर्वसु संजपेत् ||
३१५ ||
अयमुत्तरः श्लोकश्चाष्टोत्तरशतसंख्यजपे कर्तव्ये शतजपोत्तरमष्टजपपरः |
इदं च वैष्णवविषयकम् |


Band II, S. 104, Handmala der Shakti 316–320
शक्तिविषये तु— आरभ्यानामिकामूलात्प्रादक्षिण्यक्रमेण तु |
मध्यमामूलपर्यन्तं जपेदष्टसु पर्वसु ||
३१६ ||
अनामामध्यमं पर्व मेरुं कृत्वा न लङ्घयेत् |
तर्जन्यग्रे तथा मध्ये यो जपेत् तत्र मानवः ||
चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो धनम् ||
३१७ ||
इति सिद्धान्तसारे प्रोक्तम् |
तत्रैव— अनामामूलमारभ्य प्रादक्षिण्यक्रमेण तु |
तर्जनीमूलपर्यन्तं जपेन्नवसु पर्वसु ||
३१८ ||
इदं च द्वादशावृत्त्याऽष्टोत्तरशतसंख्यजपपरम् |
श्रीविद्यायां तु यामले— अनामामध्यमायाश्च मूलाग्रं तु द्वयं द्वयम् |
कनिष्ठायाश्च तर्जन्यास्त्रयं पर्व महेश्वरि ||
३१९ ||
अनामामध्यमायाश्च मेरुः स्याद्द्वितयं शुभम् |
प्रदक्षिणक्रमाद्देवि जपेत्त्रिपुरसुन्दरीम् ||
३२० ||
इति विशेष उक्तः |


Band II, S. 104–105, Regeln des Zählens 321–324
मेरुतन्त्रे— अङ्गुलीर्न वियुञ्जीत जपकाले कदाचन |
अङ्गुलीनां वियोगेन च्छिद्रेषु स्रवते जपः ||
३२१ ||
नोल्लङ्घयेच्च गणनां किंचित्संकोचयेत् तलम् |
न दर्शयेत्करं नो चेत्फलं गृह्णन्ति राक्षसाः ||
३२२ ||
पुरश्चरणचन्द्रिकायाम्— अङ्गुल्यग्रेषु यज्जप्तं यज्जप्तं मेरुलङ्घने |
पर्वसन्धिषु यज्जप्तं तत्सर्वं निष्फलं भवेत् ||
३२३ ||
गणनाविधिमुल्लङ्घ्य यो जपेत्तु प्रमादतः |
गृह्णन्ति राक्षसा यस्मान्नियतं गणयेद्बुधः ||
३२४ ||


Band II, S. 105, Zählmittel und Daumen 325–328
रुद्रयामले— नाक्षतैर्हस्तपर्वैर्वा न धान्यैर्नैव पुष्पकैः |
न चन्दनैर्मृत्तिकया जपसंख्यां न कारयेत् ||
३२५ ||
लाक्षाकुसितसिन्दूरं गोमयं च करीषकम् |
विलोड्य गुडिकां कृत्वा जपसंख्यां तु कारयेत् ||
३२६ ||
मन्त्रतन्त्रप्रकाशे— तत्राङ्गुलिजपं कुर्वन् साङ्गुष्ठाङ्गुलिभिर्जपेत् |
अङ्गुष्ठेन विना कर्म कृतं तन्निष्फलं भवेत् ||
३२७ ||
मुण्डमालायाम्— नित्यं जपं करे कुर्यान्न तु काम्यं कदाचन |
काम्यमपि करे कुर्याद्यदि माला न विद्यते ||
३२८ ||


Lesungshinweise: [ein unsicher gelesener Bestandteil] [Lesungshinweis: Die Stofffolge „लाक्षाकुसितसिन्दूरं“ bleibt im Druck mehrdeutig. Das Verbot der Fingerglieder in Vers 325 steht neben den zuvor angeführten Handmala-Vorschriften.] (326) Man soll die genannten Stoffe – Lack, [ein unsicher gelesener Bestandteil], Sindura, Kuhdung und getrockneten Dung – vermischen, kleine Kügelchen formen und damit zählen.

Band II, S. 105–106, Bedeutung und Anwendung der Mudras 329–336
अथ मुद्राप्रकरणम् |
तत्र मुद्रापदार्थ उक्तः कुलार्णवे— मेरुतन्त्रेऽपि— मुदं कुर्वन्ति देवाय ममांसि द्रावयन्ति च |
तस्मान्मुद्रा इति ख्याता दर्शितव्या कुलेश्वरि ||
३२९ ||
मुदं स्वरूपलाभाभ्यां देहद्वारेण चात्मनः |
या अर्पयन्त्ययत्नेन मुद्रास्ताः शक्तयो मताः ||
३३० ||
मोदयन्ति ग्रहादिभ्यः पापौघं द्रावयन्ति च |
मोदनं द्रावणं यस्मादतो मुद्राः प्रकीर्तिताः ||
३३१ ||
यामले— मोदनात्सर्वदेवानां द्रावणात्पापसन्ततेः |
तस्मान्मुद्रेयमाख्याता सर्वकर्मार्थसाधिनी ||
३३२ ||
अथ मुद्राः प्रवक्ष्यामि सर्वतन्त्रेषु गोपिताः |
याभिर्विरचिताभिश्च मोदन्ते मन्त्रदेवताः ||
३३३ ||
अर्चयेज्जपकाले च ध्याने काम्ये च कर्मणि |
स्नाने चावाहने शङ्खे प्रतिष्ठायां च रक्षणे ||
३३४ ||
नैवेद्ये च तथाऽन्यत्र तत्तत्कल्पप्रकाशिते |
स्थाने मुद्रा दर्शितव्याः स्वस्वलक्षणलक्षिताः ||
३३५ ||
आवाहनादिका मुद्रा नव साधारणा मताः |
तथा षडङ्गमुद्राश्च सर्वमन्त्रेषु योजयेत् ||
३३६ ||


Lesungshinweise: [unklarer Ausdruck] [Lesungshinweis: Im Druck steht „ममांसि“; das gemeinte Objekt des Auflösens ist unsicher. Die beiden Quellenangaben stehen vor diesem Vers.] [der Zusammenhang mit den genannten Planetenmächten ist sprachlich unklar]

Band II, S. 106, Mudras der Gottheiten 337–344
एकोनविंशतिर्मुद्रा विष्णोरुक्ता मनीषिभिः |
शङ्खचक्रगदापद्मवेणुश्रीवत्सकौस्तुभाः ||
३३७ ||
वनमाला तथा ज्ञानमुद्रा बिल्वाह्वया तथा |
गरुडाख्या तथा मुद्रा विष्णोः सन्तोषवर्धिनी ||
३३८ ||
नारसिंही च वाराही हयग्रीवी धनुस्तथा |
बाणमुद्रा ततः पर्शुर्जगन्मोहनिका तथा ||
३३९ ||
काममुद्रा परा ख्याता शिवस्य दश मुद्रिकाः |
लिङ्गयोनित्रिशूलाख्या मालेष्टाभीमृगात्मिकाः ||
३४० ||
खट्वाङ्गा च कपालाख्या डमरुः शिवतोषकः |
सूर्यस्य चैव पद्माख्या सप्त मुद्रा गणेशितुः ||
३४१ ||
दन्तपाशाङ्कुशा विघ्नपर्शुलड्डुकसंज्ञकाः |
बीजपूराह्वया मुद्राः विज्ञेया विघ्नपार्चने ||
३४२ ||
पाशाङ्कुशवराभीतिखड्गचक्रधनुःशराः |
मौशली मुद्रिका दौर्गी मुद्राः शक्तेः प्रियङ्कराः ||
३४३ ||
लक्ष्मीमुद्राऽर्चने लक्ष्मीवाग्वादिन्यास्तु पूजने |
अक्षमाला तथा वीणा व्याख्या पुस्तकमुद्रिका ||
३४४ ||


Band II, S. 106, Weitere Zuordnungen 345–348
सप्तजिह्वाह्वया मुद्रा विज्ञेया वह्निपूजने |
मत्स्यमुद्रा च कूर्माख्या लेलिहा मुण्डसंज्ञका ||
३४५ ||
महायोनिरिति ख्याता सर्वसिद्धिसमृद्धिदा |
शक्त्यर्चने महायोनिः श्यामादौ मुण्डमुद्रिका ||
३४६ ||
मत्स्यकूर्माख्यलेलिहाः सर्वसाधारणे मताः |
दशेमा मुद्रिका ज्ञेयास्त्रिपुरायाः प्रपूजने ||
३४७ ||
संक्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशाः |
खेचरी बीजयोन्याख्या त्रिखण्डा परिकीर्तिता ||
३४८ ||


Band II, S. 107, Anlässe der Mudras 349–353
कुम्भमुद्राऽभिषेके स्यात् पद्ममुद्राऽऽसने तथा |
कालकर्णी प्रयोक्तव्या विघ्नप्रशमकर्मणि ||
३४९ ||
गालिनी च प्रयोक्तव्या जलशोधनकर्मणि |
श्रीगोपालार्चने वेणुर्नृहरेर्नारसिंहिका ||
३५० ||
वराहस्य च पूजायां वाराहास्यां प्रदर्शयेत् |
रामार्चने धनुर्बाणमुद्रे पर्शुस्तथाऽर्चने ||
३५१ ||
परशुरामस्य विज्ञेया जगन्मोहनसंज्ञका |
वासुदेवाह्वया ध्याने कुम्भमुद्राऽनुरक्षणे ||
३५२ ||
सर्वत्र प्रार्थने चैव प्रार्थनाख्यां प्रयोजयेत् |
उद्देशानुक्रमादासामुच्यन्ते लक्षणानि च ||
३५३ ||
आवाहनादिका मुद्रा मातृकान्यासमुद्राश्च प्रागुक्तास्तदन्या इहोच्यन्ते |


Band II, S. 107, Mudras der sechs Glieder 354–356
तत्रैव— अङ्गुष्ठा ऋजवो हस्तशाखा भवेन्मुद्रा हृदये शीर्षके च |
अधोऽङ्गुष्ठा खलु मुष्टिः शिखायां करद्वन्द्वाङ्गुलयो वर्मणि स्युः ||
३५४ ||
नाराचमुष्टिर्धृतबाहुयुग्मकाङ्गुष्ठतर्जन्युदितो ध्वनिस्तु |
विष्वग्विभक्तः कथितास्तु मुद्रा यत्राक्षिणी तर्जनिमध्यमे स्तः ||
३५५ ||
नेत्रत्रये तत्र भवेदनामा षडङ्गमुद्राः कथिता यथावत् ||
३५६ ||


Lesungshinweise: [Lesungshinweis: Die verdichtete Formulierung in Vers 355 lässt die genaue Zuordnung von Faust, Armhaltung und Schnipplaut nicht sicher erkennen.]

Band II, S. 107–108, Muschelhorn Diskus Keule und Lotus 357–362
वैष्णवीनां तु मुद्राणां कथ्यन्ते लक्षणान्यथ |
वामाङ्गुष्ठं तु संगृह्य दक्षिणेन तु मुष्टिना ||
३५७ ||
कृत्वोत्तानं ततो मुष्टिमङ्गुष्ठस्तु प्रसारयेत् |
वामाङ्गुल्यस्तथाऽऽश्लिष्टाः संयुक्ताः संप्रसारिताः ||
३५८ ||
दक्षिणाङ्गुष्ठसंसृष्टा मुद्रैषा शङ्खसंज्ञिका |
हस्तौ तु संमुखौ कृत्वा संलग्नौ सुप्रसारितौ ||
३५९ ||
कनिष्ठाङ्गुष्ठकौ लग्नौ मुद्रैषा चक्रसंज्ञका |
अन्योन्याभिमुखौ हस्तौ कृत्वा तु ग्रथिताङ्गुली ||
३६० ||
अङ्गुल्यौ मध्यमे भूयः संलग्ने सुप्रसारिते |
गदा मुद्रेयमाख्याता विष्णोः सन्तोषवर्धिनी ||
३६१ ||
हस्तौ तु संमुखौ कृत्वा संनतावुन्नताङ्गुली |
तलान्तनिलिताङ्गुष्ठौ कृत्वैषा पद्ममुद्रिका ||
३६२ ||


Band II, S. 108, Flöte Shrivatsa und Kaustubha 363–368
ओष्ठे वामकराङ्गुष्ठो लग्नस्तस्य कनिष्ठिका |
दक्षिणाङ्गुष्ठसंयोगात् कनिष्ठा सुप्रसारिता ||
३६३ ||
तर्जनीमध्यमानामाः किंचित्संकोच्य चालिताः |
वेणुमुद्रा भवेदेषा सुगुप्ता प्रेयसी हरेः ||
३६४ ||
अन्योन्यसपृष्ठकरयोर्मध्यमानामिकाङ्गुलीः |
अङ्गुष्ठेन तु बध्नीयात् कनिष्ठामूलसंस्थिते ||
३६५ ||
तर्जन्यौ कारयेदेषा मुद्रा श्रीवत्ससंज्ञका |
अनामापृष्ठसंलग्नां दक्षिणस्य कनिष्ठिकाम् ||
३६६ ||
कनिष्ठयाऽन्यया बद्ध्वा तर्जन्या दक्षया तथा |
वामानामां च बध्नीयाद्दक्षिणाङ्गुष्ठमूलके ||
३६७ ||
अङ्गुष्ठमध्यमे वामे संयोज्य सरलाः पराः |
चतस्रोऽप्यग्रसंलग्ना मुद्रा कौस्तुभसंज्ञका ||
३६८ ||


Band II, S. 108, Girlande Jnana Bilva und Garuda 369–373
स्पृशेत् कण्ठादिपादान्तं तर्जन्यङ्गुष्ठया तथा |
करद्वयेन माला चेन्मुद्रेयं वनमालिका ||
३६९ ||
तर्जन्यङ्गुष्ठकौ शक्तावग्रतो हृदि विन्यसेत् |
वामहस्ताम्बुजं वामजानुं मूर्ध्नि प्रविन्यसेत् ||
३७० ||
ज्ञानमुद्रा भवेदेषा रामचन्द्रस्य प्रेयसी |
अङ्गुष्ठं वाममुद्दण्डितमितरकराङ्गुष्ठकेनाथ बद्ध्वा तस्याग्रं पीडयित्वाऽङ्गुलिभिरपि च ता वामहस्ताङ्गुलीभिः |
बद्ध्वा गाढं हृदि स्थापयतु विमलधीर्व्याहरन्मारबीजं बिल्वाख्या मुद्रिकेषा स्फुटमिह कथिता गोपनीया विधिज्ञैः ||
३७१ ||
हस्तौ तु विमुखौ कृत्वा ग्रन्थयित्वा कनिष्ठिके |
मिथस्तर्जनिके श्लिष्टावङ्गुष्ठकौ तथा ||
३७२ ||
मध्यमे नामिके द्वे तु द्वौ पक्षाविव चालयेत् |
एषा गरुडमुद्राख्या विष्णोः सन्तोषवर्धिनी ||
३७३ ||


Lesungshinweise: [Lesungshinweis: Das Wort „शक्तौ“ bestimmt die Verbindung von Daumen und Zeigefinger nicht eindeutig.] [Das Bija wird hier nur bezeichnet, nicht ausgeschrieben.]

Band II, S. 109, Narasimha Varaha und Hayagriva 374–380
जानुमध्ये करौ कृत्वा चिबुकौष्ठौ समावृतौ |
हस्तौ च भूमिसंलग्नौ कम्पमानः पुनः पुनः ||
३७४ ||
मुखं विवृतकं कुर्याल्लेलिहानश्च जिह्विकाम् |
नारसिंही भवेदेषा मुद्रा तत्प्रीतिवर्धिनी ||
३७५ ||
अङ्गुष्ठाभ्यां च करयोरथाक्रम्य कनिष्ठिके |
अधोमुखीभिः सर्वाभिर्मुद्रेयं नृहरेर्मता ||
३७६ ||
देवोपरि करं वामं कृत्वोत्तानमधः सुधीः |
नामयेदिति संप्रोक्ता मुद्रा वाराहसंज्ञिका ||
३७७ ||
दक्षहस्तं चोर्ध्वमुखं वामहस्तमधोमुखम् |
अङ्गुल्यग्रे तु संयुक्ते मुद्रा वाराहसंज्ञिका ||
३७८ ||
वामहस्ततले दक्षा अङ्गुलीस्तास्त्वधोमुखीः |
संरोप्य मध्यमां तासामुन्नाम्याधो विकुञ्चयेत् ||
३७९ ||
हयग्रीवप्रिया मुद्रा तन्मूर्तेरनुकारिणी |


Lesungshinweise: [Die räumliche Anweisung des Verses ist nicht eindeutig.]

Band II, S. 109–110, Bogen Pfeil Axt und Kama 380–388
वामस्य मध्यमाग्रं तु तर्जन्यग्रेण योजयेत् ||
३८० ||
अनामिकां कनिष्ठां च तस्याङ्गुष्ठेन पीडयेत् |
दर्शयेद्वामके स्कन्धे धनुर्मुद्रेयमीरिता ||
३८१ ||
दक्षमुष्टिस्थतर्जन्या दीर्घया बाणमुद्रिका ||
३८२ ||
यद्वा ज्ञानार्णवे— यथा हस्तगतं चापं तथा हस्तं प्रिये कुरु |
चापमुद्रेयमाख्याता वामहस्ते त्ववस्थिता ||
३८३ ||
कल्पद्रुमा धनुर्मुद्रा यशःकीर्तिविवर्धिनी |
यथा हस्तगतो बाणस्तथा हस्तं कुरु प्रिये ||
३८४ ||
बाणमुद्रेयमाख्याता रिपुवर्गनिकृन्तिनी |
तले तलं तु करयोस्तिर्यक् संयोज्य चाङ्गुलीः ||
३८५ ||
संहताः प्रसृताः कुर्यान्मुद्रा परशुसंज्ञका |
ऊर्ध्वस्थाङ्गुष्ठमुष्टी द्वे मुद्रा त्रैलोक्यमोहिनी ||
३८६ ||
हस्तौ तु संपुटीकृत्वा प्रसृताङ्गुलिकौ तथा |
तर्जन्यौ मध्यमापृष्ठे अङ्गुष्ठौ मध्यमास्थितौ ||
३८७ ||
काममुद्रेयमुदिता सर्वदेवप्रियङ्करी |
महादेवप्रियाणां च कथ्यन्ते लक्षणान्यथ ||
३८८ ||


Band II, S. 110, Linga Yoni Dreizack und Gebetskette 389–393
उच्छ्रितं दक्षिणाङ्गुष्ठं वामाङ्गुष्ठेन बन्धयेत् |
वामाङ्गुलीभिर्दक्षाभिरङ्गुलीभिश्च बन्धयेत् ||
३८९ ||
लिङ्गमुद्रेयमाख्याता शिवसान्निध्यकारिणी |
मिथः कनिष्ठिके बद्ध्वा तर्जनीभ्यामनामिके ||
३९० ||
अनामिकोर्ध्वसंश्लिष्टदीर्घमध्यमयोरधः |
अङ्गुष्ठाग्रद्वयं न्यस्य योनिमुद्रेयमीरिता ||
३९१ ||
अङ्गुष्ठेन कनिष्ठां तु बद्ध्वा श्लिष्टाङ्गुलित्रयम् |
प्रसारयेत् त्रिशूलाख्या मुद्रैषा परिकीर्तिता ||
३९२ ||
अङ्गुष्ठतर्जन्यग्रे तु ग्रन्थयित्वाङ्गुलित्रयम् |
प्रसारयेदक्षमाला मुद्रैषा परिकीर्तिता ||
३९३ ||


Band II, S. 110, Shivas weitere Gesten 394–399
अधःस्थितो दक्षहस्तः प्रसृतो वरमुद्रिका |
ऊर्ध्वीकृतो वामहस्तः प्रसृतोऽभयमुद्रिका ||
३९४ ||
मिलितानामिकाङ्गुष्ठे मध्यमाग्रं नियोजयेत् |
श्लिष्टाङ्गुल्यग्रश्चैव कुर्यान्मृगमुद्रेयमीरिता ||
३९५ ||
पञ्चाङ्गुल्यो दक्षिणास्तु मिलिता ऊर्ध्वमुन्नताः |
खट्वाङ्गमुद्रा विख्याता शिवस्यातिप्रिया मता ||
३९६ ||
पात्रवद्वामहस्तं च कृत्वाऽङ्के वामके तथा |
निधायोच्छ्रितवत् कुर्यान्मुद्रा कापालिकी मता ||
३९७ ||
मुष्टिं च शिथिलां बद्ध्वा ईषदुच्छ्रितमध्यमाम् |
दक्षिणामूर्ध्वमुन्नम्य कर्णदेशे प्रचारयेत् ||
३९८ ||
एषा डमरुमुद्राख्या सर्वविघ्नविनाशिनी |
ततो गणेशमुद्राणामुच्यन्ते लक्षणान्यथ ||
३९९ ||


Band II, S. 110, Ganeshas Stoßzahn und Schlinge 400–401
उत्तानोर्ध्वमुखी मध्या सरला बद्धमुष्टिका |
दन्तमुद्रा समाख्याता सर्वागमविशारदैः ||
४०० ||
वाममुष्टिस्थतर्जन्या दक्षमुष्टिस्थतर्जनीम् |
संयोज्याङ्गुष्ठकाग्रे तु तर्जन्यग्रे स्वके क्षिपेत् ||
४०१ ||


Lesungshinweise: [Die Benennung dieser Geste folgt im nächsten Vers.]

Band II, S. 111, Ganeshas weitere Gesten 402–405
एषा पाशाह्वया मुद्रा विद्वद्भिः परिकीर्तिता |
ऋज्वीं च मध्यमां कृत्वा तर्जनी मध्यपर्वणि ||
४०२ ||
संयोज्याकुञ्चयेत् किंचिन्मुद्रैषाऽङ्कुशसंज्ञिका |
तर्जनीमध्यमानामाकनिष्ठाङ्गुष्ठमुष्टिका ||
४०३ ||
अधोमुखी दीर्घरूपा मध्यमा विघ्नमुद्रिका |
पर्शुमुद्रा निगदिता प्रसिद्धा लड्डुमुद्रिका ||
४०४ ||
बीजपूराह्वया मुद्रा प्रसिद्धत्वादुपेक्षिता |
शाक्तेयानां च मुद्राणां कथ्यन्ते लक्षणान्यथ ||
४०५ ||


Band II, S. 111, Schwert Schild Keule Durga und Lakshmi 406–411
पाशाङ्कुशवराभीतिधनुर्बाणाः समीरिताः |
कनिष्ठानामिके बद्ध्वा स्वाङ्गुष्ठेनैव दक्षतः ||
४०६ ||
श्लिष्टाङ्गुली तु प्रसृते संसृष्टे खड्गमुद्रिका |
वामहस्तं तथा तिर्यक् कृत्वा चैव प्रसार्य च ||
४०७ ||
आकुञ्चिताङ्गुलिं कुर्याच्चर्ममुद्रेयमीरिता |
मुष्टिं कृत्वा तु हस्ताभ्यां वामस्योपरि दक्षिणाम् ||
४०८ ||
कुर्यान्मुशलमुद्रेयं सर्वविघ्नविनाशिनी |
कृत्वा शिरसि संयोज्य दुर्गामुद्रेयमीरिता ||
४०९ ||
चक्रमुद्रां तथा बद्ध्वा मध्यमे द्वे प्रसार्य च |
कनिष्ठिके तथाऽऽनीय तदग्रेऽङ्गुष्ठकौ क्षिपेत् ||
४१० ||
लक्ष्मीमुद्रा परा ह्येषा सर्वसंपत्प्रदायिनी |


Band II, S. 111, Vina Buch Erklärung und sieben Zungen 411–415
वीणावादनवद्धस्तौ कृत्वा संचालयेच्छिरः ||
४११ ||
वीणामुद्रेयमाख्याता सरस्वत्याः प्रियङ्करी |
वाममुष्टिं स्वाभिमुखीं कृत्वा पुस्तकमुद्रिका ||
४१२ ||
दक्षिणाङ्गुष्ठतर्जन्योरग्रलग्ने पराङ्गुलीः |
प्रसार्य संहितोत्ताना एषा व्याख्यानमुद्रिका ||
४१३ ||
श्रीरामस्य सरस्वत्या अत्यन्तं प्रेयसी मता |
मणिबन्धस्थितौ कृत्वा प्रसृताङ्गुलिकौ करौ ||
४१४ ||
कनिष्ठाङ्गुष्ठयुगले मिलितां तु प्रसारयेत् |
सप्तजिह्वाख्यमुद्रेयं वैश्वानरप्रियङ्करी ||
४१५ ||


Band II, S. 112, Wasserreinigung Krug und Gebet 416–420
कनिष्ठाङ्गुष्ठकौ शक्तौ करयोरितरेतरम् |
तर्जनीमध्यमानामाः संहता भुग्नवर्जिताः ||
४१६ ||
मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता |
दक्षाङ्गुष्ठं पराङ्गुष्ठे क्षिप्त्वा हस्तद्वयेन तु ||
४१७ ||
सावकाशात्मकां मुष्टिं कुर्यात् सा कुम्भमुद्रिका |
मुष्ट्योरूर्ध्वकृताङ्गुष्ठौ तर्जन्यग्रे तु विन्यसेत् ||
४१८ ||
सर्वरक्षाकरी ह्येषा कुम्भमुद्रेयमीरिता |
प्रसृताङ्गुलिकौ हस्तौ मिथःश्लिष्टौ तु सम्मुखौ ||
४१९ ||
कुर्यात् स्वहृदये सेयं मुद्रा प्रार्थनसंज्ञिका |
अञ्जल्यञ्जलिमुद्रा स्याद्वासुदेवाभिधा च सा ||
४२० ||


Band II, S. 112, Kalakarni Staunen Nada Bindu und Auflösung 421–425
अङ्गुष्ठावुन्नतौ कृत्वा मुष्ट्योः संलग्नयोर्द्वयोः |
तावेवाभिमुखौ कुर्यान्मुद्रा सा कालकर्णिका ||
४२१ ||
दक्षिणा निविडा मुष्टिर्नासिकार्पिततर्जनी |
मुद्रा विस्मयसंज्ञा स्याद्विस्मयावेशकारिणी ||
४२२ ||
मुष्टिरूर्ध्वीकृताङ्गुष्ठा दक्षिणा नादमुद्रिका |
तर्जन्यङ्गुष्ठसंयोगादग्रतो बिन्दुमुद्रिका ||
४२३ ||
अधोमुखे वामहस्ते ऊर्ध्वास्यं दक्षहस्तकम् |
क्षिप्त्वाऽङ्गुलीरङ्गुलीभिः संग्रन्थ्य परिवर्तयेत् ||
४२४ ||
एषा संहारमुद्रा स्याद्विसर्जनविधौ स्मृता |


Band II, S. 112, Fisch und Beginn der Schildkröte 425–429
दक्षपाणिपृष्ठदेशे वामपाणितलं स्पृशेत् ||
४२५ ||
अङ्गुष्ठौ चालयेत् सम्यङ्मुद्रेयं मत्स्यरूपिणी |
वामहस्तस्य तर्जन्या दक्षिणस्य कनिष्ठिकाम् ||
४२६ ||
तस्य दक्षिणतर्जन्यां दक्षिणस्य कनिष्ठिकाम् |
तथा दक्षिणतर्जन्यां वामाङ्गुष्ठं नियोजयेत् ||
४२७ ||
उन्नतं दक्षिणाङ्गुष्ठं वामस्य मध्यमादिकाः |
अङ्गुलीर्योजयेत् पृष्ठे दक्षिणस्य करस्य च ||
४२८ ||
वामस्य पितृतीर्थेन मध्यमानामिके तथा |
अधोमुखे च ते कुर्याद्दक्षिणस्य करस्य च ||
४२९ ||


Lesungshinweise: [Es folgt eine unklare, teilweise wiederholende Anweisung zum rechten Zeigefinger und rechten kleinen Finger.] [Die Beschreibung der Schildkröten-Mudra setzt sich im nächsten Vers fort. Die Wiederholung in Vers 427 steht bereits im Druck.]

Band II, S. 113, Schildkröte Kopf Lelihā und Mahayoni 430–436
कूर्मपृष्ठसमं कुर्याद्दक्षपाणिं च सर्वतः |
कूर्ममुद्रेयमाख्याता देवताध्यानकर्मणि ||
४३० ||
पृष्ठे क्रोडे इत्यर्थः |
अन्तराङ्गुष्ठमुष्टिं तु कृत्वा वामकरस्य च |
मध्यमाग्रं तु दक्षस्य तथाऽलम्ब्य प्रयत्नतः ||
४३१ ||
मध्यमेनाथ तर्जन्या अङ्गुष्ठाग्रे तु योजयेत् |
दक्षिणं योजयेत् पाणिं वाममुष्टौ तु साधकः ||
४३२ ||
दर्शयेद्दक्षिणे भागे मुण्डमुद्रेयमुच्यते |
तर्जनीमध्यमानामाः समं कुर्यादधोमुखम् ||
४३३ ||
अनामायां क्षिपेद्बद्धामृज्वीं कृत्वा कनिष्ठिकाम् |
लेलिहा नाम मुद्रेयं जीवन्यासे प्रकीर्तिता ||
४३४ ||
तर्जन्यनामिकामध्ये कनिष्ठाक्रमयोगतः |
करयोर्योजयेच्चैव कनिष्ठामूलदेवताम् ||
४३५ ||
अङ्गुल्यग्रे तु निःक्षिप्य महायोनिः प्रकीर्तितः |
वामकेश्वरतन्त्रोक्ताः प्रकाश्यन्तेऽत्र मुद्रिकाः ||
४३६ ||


Lesungshinweise: [Die genaue Verbindung der Finger ist in Vers 431–432 sprachlich nicht eindeutig.] [Finger; der Ausdruck ist unklar] [die weitere Anweisung zu Fingerwurzel und Fingerspitze ist beschädigt] [Die Drucklesung „कनिष्ठामूलदेवताम्“ erlaubt keine sichere vollständige Rekonstruktion der Geste.] (435–436a) Man verbinde an beiden Händen die kleinen Finger der Reihe nach zwischen Zeige- und Ringfinger und setze [die weitere Anweisung zu Fingerwurzel und Fingerspitze ist beschädigt].

Band II, S. 113, Tripura und Trikhanda 437–439
शृणु देवि प्रवक्ष्यामि मुद्राः सर्वार्थसिद्धिदः |
याभिर्विरचिताभिस्तु सान्निध्यं त्रैपुरं भवेत् ||
४३७ ||
परिवृत्य करौ स्पृष्टावङ्गुष्ठौ कारयेत् समौ |
अनामान्तरितौ कृत्वा तर्जन्यौ कुटिलाकृती ||
४३८ ||
कनिष्ठिके नियुञ्जीत निजस्थाने महेश्वरि |
त्रिखण्डेयं समाख्याता त्रिपुराध्यानकर्मणि ||
४३९ ||


Band II, S. 113–114, Erschütterung Auflösung und Heranziehung 440–444
मध्यमामध्यगे कृत्वा कनिष्ठाङ्गुष्ठरोधिते |
तर्जन्यौ दण्डवत् कृत्वा मध्यमोपर्यनामिके ||
४४० ||
एषा च प्रथमा मुद्रा सर्वसंक्षोभकारिणी |
एतस्या एव मुद्राया मध्यमे सरले यथा ||
४४१ ||
क्रियते परमेशानि सर्वविद्राविणी तथा |
मध्यमातर्जनीभ्यां च कनिष्ठानामिके समे ||
४४२ ||
अङ्कुशाकारमुद्राभ्यां मध्यमे परमेश्वरि |
अङ्गुष्ठं तु नियुञ्जीत कनिष्ठानामिकोपरि ||
४४३ ||
इयमाकर्षणी मुद्रा त्रैलोक्याकर्षणी परा |


Lesungshinweise: [Die Syntax von Vers 442–443 lässt die genaue Anordnung der mittleren Finger nur teilweise erkennen.]

Band II, S. 114, Unterwerfung Berauschung und großer Haken 444–450
पुटाकारौ करौ कृत्वा तर्जन्यावङ्कुशाकृती ||
४४४ ||
परिवर्त्य क्रमेणैव मध्यमे तदधोगते |
क्रमेण देवि तेनैव कनिष्ठानामिकादयः ||
४४५ ||
संयोज्या निविडाः सर्वा अङ्गुष्ठावग्रदेशतः |
मुद्रेयं परमेशानि सर्ववश्यकरी मता ||
४४६ ||
संमुखौ तु करौ कृत्वा मध्यमामध्यगेऽन्त्यजे |
अनामिके तु सरले तद्बहिस्तर्जनीद्वयम् ||
४४७ ||
दण्डाकारौ तताऽङ्गुष्ठौ मध्यमानखदेशगौ |
मुद्रैषोन्मादिनी नाम क्लेदिनी सर्वयोषिताम् ||
४४८ ||
अस्यास्त्वनामिका युग्ममधः कृत्वाऽङ्कुशाकृती |
तर्जन्यावपि तेनैव क्रमेण विनियोजयेत् ||
४४९ ||
इयं महाङ्कुशा मुद्रा सर्वकामार्थसाधिनी |


Band II, S. 114, Khechari Bija und Yoni 450–457
सव्यं दक्षिणदेशे तु सव्यदेशे तु दक्षिणम् ||
४५० ||
बाहुं कृत्वा महादेवि हस्तौ संपरिवर्त्य च |
कनिष्ठानामिके देवि मुक्त्वा ते तु क्रमेण तु ||
४५१ ||
तर्जनीभ्यां समाक्रान्ते सर्वोर्ध्वमपि मध्यमे |
अङ्गुष्ठौ च महेशानि सरलावपि कारयेत् ||
४५२ ||
इयं सा खेचरीनाम्ना पार्थिवस्थानयोजिता |
परिवर्त्य करौ स्पृष्टावर्धचन्द्राकृती प्रिये ||
४५३ ||
तर्जन्यङ्गुष्ठयुगलं युगपत् कारयेत् ततः |
अधः कनिष्ठावष्टब्धे मध्यमे विनियोजयेत् ||
४५४ ||
तथैव कुटिले योज्ये सर्वाधस्तादनामिके |
बीजमुद्रेयमचिरात् सर्वसिद्धिप्रवर्धिनी ||
४५५ ||
मध्यमे कुटिले कृत्वा तर्जन्युपरिसंस्थिते |
अनामिके मध्यगते तथैव हि कनिष्ठिके ||
४५६ ||
सर्वा एकत्र संयोज्य अङ्गुष्ठपरिपीडिताः |
एषा तु प्रथमा मुद्रा योनिमुद्रेति संज्ञिता ||
४५७ ||


Lesungshinweise: [Die Wendung „dem irdischen Ort zugeordnet“ bleibt ohne nähere Erklärung im Text.]

Band II, S. 115, Tripura Bhutini und besondere Gesten 458–465
एता मुद्रा महेशानि त्रिपुराया मयोदिताः |
पूजाकाले प्रयोक्तव्या यथानुक्रमयोगतः ||
४५८ ||
बद्ध्वा तु योनिमुद्रां वै मध्यमे कुटिले कुरु |
अङ्गुष्ठेन तदग्रे तु मुद्रेयं भूतिनी मता ||
४५९ ||
वामहस्तेन मुष्टिं तु बद्ध्वा कर्णप्रदेशके |
तर्जनी सरलां कृत्वा भ्रामयेन्मनुवित्तमः ||
४६० ||
सौभाग्यदण्डिनी मुद्रा न्यासकालेऽपि सूचिता |
अन्तरङ्गुष्ठमुष्ट्या तु निबद्ध्य तर्जनीमिमाम् ||
४६१ ||
रिपुजिह्वाग्रहा मुद्रा न्यासकाले च सूचिता |
मध्यमानामिकाङ्गुष्ठाः संलग्नाद्या अधोमुखाः ||
४६२ ||
अन्याप्रसारिताङ्गुल्यो गोमुखी सा प्रकीर्तिता |
त्यक्तप्रदेशिनी मुष्टी सूची मुद्रेति कीर्तिता ||
४६३ ||
रक्षा मुद्रेति सैवोक्ता समन्ताद्भ्रमणं यदि |
द्वौ करौ पृष्ठसंलग्नौ भ्रामयेद्ग्रन्थिताङ्गुली ||
४६४ ||
छोटिकेति समाख्याता प्रणामे तां प्रदर्शयेत् |


Band II, S. 115–116, Tattva-Mudra und Tarpana 465–469
अङ्गुष्ठो भैरवस्थानं चण्डिकायास्त्वनामिका ||
४६५ ||
अतस्ताभ्यां तर्पणीयं यत एतत् तयोः प्रियम् |
अङ्गुष्ठानामिकायोगाद्वामहस्तस्य पार्वति ||
४६६ ||
तत्त्वमुद्रा समाख्याता तर्पणे तां नियोजयेत् |
यामले— अङ्गुष्ठानामिकाभ्यां तु दक्षहस्तेन तर्पयेत् ||
४६७ ||
समयाचारे— अङ्गुष्ठतर्जनीमध्ये शुद्धिं संगृह्य वामतः |
वामेन दक्षिणेनापि देवीं संतर्पयेत् सुधीः ||
४६८ ||
एतद्वचनत्रयं च मार्गभेदेन व्यवस्थापनीयम् |
तत्त्वं तर्पणमात्रं तु वामहस्तेन दक्षिणे |
दक्षहस्तेन वामेऽपि विशेषः परिकीर्तितः ||
दक्षवामक्रियायुक्तः कौलश्चोभयमिश्रितः ||
४६९ ||
इति प्राग्लिखितप्रामाणाद्दक्षिणमार्गिणां दक्षहस्तेन पूजनं वामहस्तेन पूजनं तर्पणम् |
वाममार्गिणां वामहस्तेन पूजनं दक्षहस्तेन तर्पणम् |
कौलिकानां तु देवतर्पणे करयोरैच्छिको विकल्प इति विवेकात् |


Lesungshinweise: [Im gedruckten Prosasatz zum rechten Weg steht „Puja“ vor „Tarpana“ noch einmal; dies bleibt als Wortwiederholung im Sanskrit erhalten.]

Band II, S. 116, Fingerwahl Vergebung und letzte Mudras 470–476
तर्पणे च कामनाभेदेनाङ्गुलिभेद उक्तस्तन्त्रान्तरे— अङ्गुष्ठानामिकाभ्यां तु वश्यकर्मणि तर्पयेत् |
अङ्गुष्ठमध्यमाभ्यां तु तर्पयेच्छान्तिकर्मणि ||
४७० ||
तर्जन्यङ्गुष्ठयोगेन तर्पयेदभिचारिके |
कनिष्ठाङ्गुष्ठयोगेन स्तम्भने तर्पयेत् प्रिये ||
४७१ ||
तन्त्रान्तरे— मिथः पृष्ठार्पितौ हस्तावन्योन्यग्रथिताङ्गुली |
कृत्वा बद्ध्वा परावृत्य नत्वा सा स्यात् क्षमापिनी ||
४७२ ||
भैरवतन्त्रे— योनिश्च भूतिनी चैव बीजाख्या दैत्यधूपिनी |
लेलिहानेति संप्राप्ताः पञ्च मुद्राः प्रकीर्तिताः ||
४७३ ||
आद्यास्तिस्रः प्रागुक्ताः |
अन्त्ययोर्लक्षणे तु तत्रैव— परिवर्त्य करौ कृत्वा कनिष्ठाकृष्टमध्यमाम् |
अनामयोर्युगं चाधस्तर्जनीयुगलं पृथक् ||
४७४ ||
अन्योन्यं निविडं बद्ध्वा अङ्गुष्ठाग्रे अनामिकाः |
दैत्यानां धूमकेत्वाख्या मुद्रैषा कथिता प्रिये ||
४७५ ||
वक्त्रं विस्फारितं कृत्वाऽप्यधो जिह्वां च चालयेत् |
पार्श्वस्थमुष्टियुगलं लेलिहानेति कीर्तिता ||
४७६ ||
इति मुद्राप्रकरणम् सम्पन्नम् |


Band II, S. 116, Beginn der Niyamas 477–479
अथ नियमाः कुलार्णवे— नियमव्यतिरेकेण यद्यत् कर्म करोति यः |
किञ्चिदस्य न फलं सिद्ध्यत्यक्रमदोषतः ||
४७७ ||
न्यूनातिरिक्तकर्माणि न फलन्ति कदाचन |
यथाविधि कृतानीह तत्कर्माणि फलन्ति हि ||
४७८ ||
तद्विधानकृतं कर्म जपहोमार्चनादिकम् |
देवताप्रीतिदं भूयाद् भुक्तिमुक्तिफलप्रदम् ||
४७९ ||


Band II, S. 117, Tagesordnung und Vorrang der Pflichten 480–484
यामले— ब्राह्मे मुखं चोत्थाय संस्मृत्य गुरुपादुकाम् |
प्रातःकृत्यं विधायाथ कृत्वा शौचादिकं ततः ||
४८० ||
दन्तान् प्रधाव्य तीर्थादौ गत्वा स्नानं समाचरेत् |
सन्ध्यामुपास्य विधिवद्देवर्षिपितृतर्पणम् ||
४८१ ||
समाप्य दत्त्वा दानानि मौनी जपगृहं व्रजेत् |
नित्यार्चनं ततः कृत्वा नित्यहोमं विधाय च ||
४८२ ||
कृत्वा नैमित्तिकीं पूजां विधिवज्जपमाचरेत् |
तथा— एवं कृत्वा साधकेन्द्राः सिद्ध्यन्ति देवतार्चनात् ||
४८३ ||
स्वतन्त्रतन्त्रे— नित्यनैमित्तिकं काम्यं सापेक्षं पूर्वपूर्वतः |
अन्यथा तु भवेद्व्यर्थं कुर्यादावश्यकं ततः ||
४८४ ||


Lesungshinweise: [der Druck hat hier die sprachlich auffällige Lesung „ब्राह्मे मुखं“] [Die Ausgabe verzeichnet für diesen letzten Halbvers auch die Lesart: „So soll der vorzügliche Sadhaka die Gottheit zu den drei Tagesübergängen verehren.“] Im Yamala: (480–483) Man stehe zur Brahma-Zeit auf [der Druck hat hier die sprachlich auffällige Lesung „ब्राह्मे मुखं“], gedenke der Sandalen des Gurus und verrichte die Morgenhandlungen samt Reinigung.

Band II, S. 117, Puja und Japa mit einer Ausnahme 485–489
तन्त्रान्तरे— त्रिसन्ध्यमर्चयेद्देवं भक्तिं कृत्वा विधानतः |
पुरश्चरणचन्द्रिकायाम्— संपूज्यैवं जपं कुर्यान्न मन्त्रं केवलं जपेत् ||
४८५ ||
गौतमः— शक्त्या त्रिषवणं स्नानमथ वा द्वे सकृच्च वा |
त्रिसन्ध्यं प्रजपेन्मन्त्रं पूजनं तत्समं भवेत् ||
४८६ ||
एकदा वा भवेत् पूजा न जपेत् पूजनं विना |
जपान्ते च भवेत् पूजा पूजान्ते वा जपेन्मनुम् ||
४८७ ||
अन्यत्रापि— मन्त्रं साधयमानस्तु त्रिसन्ध्यं देवमर्चयेत् |
द्विसन्ध्यमेकसन्ध्यं वा न मन्त्रं केवलं जपेत् ||
४८८ ||
मुण्डमालायाम्— यदि पूजाद्यशक्तः स्याद्द्रव्याभावेन सुन्दरि |
केवलं जपमात्रेण पुरश्चर्या विधीयते ||
४८९ ||


Band II, S. 118, Sonderregel für Frauen und innere Ausrichtung 490–495
स्त्रीणां विशेषमाह यामले— नियमः पुरुषे ज्ञेयो न योषित्सु कदाचन ||
४९० ||
वीरतन्त्रे— न न्यासो योषितां चात्र न ध्यानं न च पूजनम् |
केवलं जपमात्रेण मन्त्राः सिद्ध्यन्ति योषिताम् ||
४९१ ||
चन्द्रिकायाम्— देवी चित्तगता कार्या कार्यं च हृदयं स्थिरम् |
मन्त्रजप्तान्नपानीयैः कुर्यात् पानादिभोजनम् ||
४९२ ||
नित्यं नैमित्तिकं कुर्यात् सङ्गमं साधुभिः सह |
स्नायात् तु पञ्चगव्येन केवलामलकेन वा ||
४९३ ||
आज्येन दध्ना क्षीरेण तिलकल्केन वा कृतम् |
पुरश्चर्याविधौ तद्वत् स्नानं कुर्याद् विशुद्धये ||
४९४ ||
अस्नातस्य फलं नास्ति न चातर्पयतः पितॄन् |
कुम्भसम्भवः— गुरुदेवात्ममन्त्राणामैक्यभावेन चिन्तनम् ||
४९५ ||


Band II, S. 118, Lebensführung und Beständigkeit 496–499
योगिनीहृदये— शयीत कुशशय्यायां शुचिवस्त्रधरः सदा |
प्रत्यहं क्षालयेच्छय्यामेकाकी निर्भयः स्वपेत् ||
४९६ ||
कुलार्णवे— भूशय्या ब्रह्मचर्यं च मौनमाचार्यसेवनम् |
नित्यपूजा नित्यदानं देवतास्तुतिकीर्तनम् ||
४९७ ||
नैमित्तिकार्चनं चैव विश्वासो गुरुदेवयोः |
जपनिष्ठा द्वादशैते धर्माः स्युर्मन्त्रसिद्धिदाः ||
४९८ ||
तन्त्रान्तरे— मनःसंहरणं शौचं मौनं मन्त्रार्थचिन्तनम् |
अव्ययत्वमनिर्वेदो जपसम्पत्तिकारकम् ||
४९९ ||


Lesungshinweise: [Für „Beständigkeit“ verzeichnet die Ausgabe auch die Lesart „Ungestörtheit“.]

Band II, S. 118–119, Weitere Niyamas und regelmäßige Japa-Zahl 500–505
मेरुतन्त्रे— मनोनिरोधो मन्त्रार्थचिन्तनं नित्यकर्म च |
नैमित्तिकं शौचमौने बालस्य दमनं तथा ||
५०० ||
भूमिशय्या त्रिषवणं स्नानं प्रत्याह्विकार्चनम् |
नित्यदानं गुरोः पादपूजाऽऽहारनियन्त्रणा ||
५०१ ||
स्नानं च पञ्चगव्येन पवित्रकरधारणम् |
त्रिसन्ध्यावन्दनं पञ्च यज्ञस्तर्पणकं तथा ||
५०२ ||
यामले— एवमुक्तविधानेन विलम्बं त्वरितं विना |
उक्तसंख्यं जपं कुर्यात् पुरश्चरणसिद्धये ||
५०३ ||
देवतागुरुमन्त्राणामैक्यं संभावयन् धिया |
जपेदेकमनाः प्रातःकालान्मध्यन्दिनावधि ||
५०४ ||
यत्संख्यया समारब्धं तत्कर्तव्यमहर्निशम् |
यदि न्यूनाधिकं कुर्याद्व्रतभ्रष्टो भवेन्नरः ||
५०५ ||
मध्यन्दिनावधीत्यवधिमात्रबोधकं न तु नियमपरम् |
अन्यथा मध्याह्नकाले कदाचिज्जपसंख्याया अपूर्तौ नियमभङ्गः स्यादिति तन्त्रसारकृतः |


Lesungshinweise: [die Lesung „बालस्य“ ist im Zusammenhang unklar] Im Merutantra: (500–502) Stillhalten des Geistes, Nachsinnen über den Sinn des Mantras, tägliche und anlassbedingte Pflichten, Reinheit und Schweigen sowie „Bändigung des Kindes“ [die Lesung „बालस्य“ ist im Zusammenhang unklar]; auf dem Boden schlafen, dreimal täglich baden, tägliche Verehrung und tägliches Geben, Puja an den Füßen des Gurus, geregelte Nahrung, Baden mit Panchagavya, Tragen des rituellen Reinigungsrings an der Hand, Verehrung zu den drei Tagesübergängen, die fünf Opfer und Tarpana.

Band II, S. 119, Haltung beim Japa und zu Meidendes 506–511
सिद्धान्तसारे— वशीकृतेन्द्रियग्रामो भक्तियुक्तः प्रसन्नधीः |
अधःशायी ब्रह्मचारी निशाशी प्रजपेन्मनुम् ||
५०६ ||
अथ वर्ज्यानि— आलस्यं जृम्भणं निद्रां क्षुतं निष्ठीवनं भयम् |
नीचसंस्पर्शनं कोपं जपकाले विवर्जयेत् ||
५०७ ||
मेरुतन्त्रे— त्यजेद्विंशतिकर्माणि सिद्धिविघ्नकराणि च |
लोभं क्रोधं च मात्सर्यं कामं द्वेषं च ताडनम् ||
५०८ ||
दम्भमुच्चाटनाभ्यङ्गाप्रियमिथ्यावचस्तथा |
गीतं वाद्यं मधुच्छायां विभीतककरञ्जयोः ||
५०९ ||
मांसं प्रतिग्रहं माल्यं ताम्बूलं पापिभाषणम् |
एतानि वर्जयेद्विद्वान् ... ... ... ||
५१० ||
इति |
कुलार्णवे— स्त्रीशूद्रपतितव्रात्यनास्तिकोच्छिष्टभाषणम् |
असत्यभाषणं जिह्मभाषणं परिवर्जयेत् ||
५११ ||


Lesungshinweise: [Vers 510 endet bereits im Druck mit einer Auslassung. Die Gliederung der Aufzählung ergibt keine zweifelsfreie Zuordnung zur genannten Zahl zwanzig.] [Dies sind die traditionellen sozialen und rituellen Abgrenzungen der zitierten Vorschrift.]

Band II, S. 120, Schweigen ununterbrochene Übung und Verzicht 512–518
सत्येनापि न भाषेत जपहोमार्चनादिषु |
अन्यथाऽनुष्ठितं सर्वं भवत्येव निरर्थकम् ||
५१२ ||
नैरन्तर्यविधिः प्रोक्तो न दिनं व्यतिलङ्घयेत् |
दिवसातिक्रमात् पुंसां मन्त्रसिद्धिर्भवेन्न हि ||
५१३ ||
पुरश्चरणचन्द्रिकायाम्— त्यजेदुष्णोदकस्नानमनिवेदितभोजनम् |
तन्त्रान्तरे— भोजनं कांस्यपात्रे च दिवाभोजनमेव च ||
५१४ ||
योगिनीतन्त्रे— कौटिल्यं क्षीरमभ्यङ्गमनिवेदितभोजनम् |
असंकल्पितकृत्यं तु वर्जयेन्मर्दनादिकम् ||
५१५ ||
पुरश्चरणचन्द्रिकायाम्— वर्जयेद्गीतवाद्यादि श्रवणं नृत्यदर्शनम् |
अभ्यङ्गं गन्धलेपं च पुष्पधारणमेव च ||
५१६ ||
मैथुनं तत्कथालापं तद्गोष्ठीं परिवर्जयेत् |
अस्नातांश्च द्विजान् शूद्रान् स्त्रियो नैव स्पृशेत् तथा ||
५१७ ||
प्राणिहिंसां न कुर्वीत पुरश्चरणकृद्द्विजः |
गोशुश्रूषादिकं तत्तत्कल्पोक्तं विधिवच्चरेत् ||
५१८ ||


Lesungshinweise: [„Milch“ steht hier ausdrücklich, neben anderslautenden Speisevorschriften anderer zitierter Quellen.]

Band II, S. 120–121, Gaben und Ausnahmen für Haushälter 519–522
विहाय वह्निं न हि वस्तु किंचिद्ग्राह्यं परेभ्यः सति संभवे च |
असंभवे तीर्थबहिर्विशुद्धात् पर्वातिरिक्ते प्रतिगृह्य जप्यात् ||
५१९ ||
तत्रासनमुत्थानुदिनं विशुद्धाद्याचेत यावद्दिनमात्रभक्ष्यम् |
गृह्णाति रागादधिकं न सिद्धिः प्रजायते कल्पशतैर्मनोः ||
५२० ||
अत्र तिलतैलाभ्यङ्गस्तु गृहस्थानां न निषिद्धः— तिलतैलं मन्त्रपूतं पावनं देवदुर्लभम् |
मर्दयित्वा गृहस्थेन स्नानं कार्यं हि सर्वदा ||
५२१ ||
इति मेरुतन्त्रवचनात् |
ऋतुकाले निजस्त्रीसंभोगोऽपि न निषिद्धः |
ऋतुकालं विना मन्त्री न स्वस्त्रियमपि स्पृशेत् |
इति गौतमीयतन्त्रवचनात् |


Lesungshinweise: [Die genaue Verbindung der Orts- und Zeitangaben bleibt im Vers knapp.] [Der Versanfang zur Erhebung vom Sitz ist sprachlich beschädigt.]

Band II, S. 121, Reinheit Kleidung und Körperhaltung 522–528
यामले— अपवित्रकरो नग्नः शिरसि प्रावृतोऽपि वा ||
५२२ ||
प्रलपन् प्रजपेद्यावत् तावन्निष्फलमुच्यते |
विड्मूत्रोत्सर्गशङ्कादियुक्तः कर्म करोति यः ||
५२३ ||
जपार्चनादिकं सर्वमपवित्रकरं प्रिये |
मलिनाम्बरकेशादिमुखदौर्गन्ध्यसंयुतः ||
५२४ ||
यो जपेत् तं दहत्याशु देवता गुप्तिसंस्थिता |
तथा— नैकवासा जपेन्मन्त्रं बहुवासाकुलोऽपि वा ||
५२५ ||
उष्णीषी कञ्चुकी नग्नो मुक्तकेशोऽङ्गनावृतः |
अपवित्रकरोऽशुद्धः प्रलपन् न जपेत् क्वचित् ||
५२६ ||
अनासनः शयानो वा गच्छन् भुञ्जान एव वा |
रथ्यायामशिवस्थाने न जपेत् तिमिरालये ||
५२७ ||
उपानद्रूढयानो वा यानशय्यागतस्तथा |
प्रसार्य न जपेत् पादावुत्कटासन एव च ||
व्यग्रतां मनसश्चैव साधकः परिवर्जयेत् ||
५२८ ||


Lesungshinweise: [das erste Kompositum ist im Druck auffällig]

Band II, S. 121–122, Ausgleich nach Unterbrechungen 529–535
अथ प्रायश्चित्तानि |
मेरुतन्त्रे— सकृदुच्चरिते शब्दे प्रणवं समुदीरयेत् |
प्रोक्ते पामरशब्देऽपि प्राणायामं सकृच्चरेत् ||
५२९ ||
बहुप्रलापे चावश्यं न्यस्याङ्गानि ततो जपेत् |
क्षुतेऽप्येवं तथाऽस्पृश्यस्थानानां स्पर्शने तथा ||
५३० ||
मौनत्यागे जपेन्मन्त्रं वैष्णवं वा स्मरेद्धरिम् |
पतितान्त्यजसंदर्शे तेजोवन्तं निरीक्षयेत् ||
५३१ ||
तेजोवन्तश्च— सूर्योऽग्निश्चन्द्रमाश्चैव मुनयो भानि तारकाः ||
विद्वान् गौर्ब्राह्मणश्चेति ... ... ||
५३२ ||
इति तत्रैवोक्ताः |
अन्यत्रापि— पतितानामन्त्यजानां दर्शने भाषणे श्रुते |
क्षुतेऽधोवायुगमने जृम्भणे जपमुत्सृजेत् ||
५३३ ||
तथा तस्य च तत्प्राप्तौ प्राणायामं षडङ्गकम् |
कृत्वा सम्यग्जपेच्छेषं यद्वा सूर्यादिदर्शनम् ||
५३४ ||
मार्जारं कुक्कुटं क्रौञ्चं श्वानं शूद्रं खरं कपिम् |
दृष्ट्वाऽऽचम्याचरेत् कर्म स्पृष्ट्वा स्नानं विधीयते ||
५३५ ||


Lesungshinweise: [Der Druck enthält am Versende eine Auslassung.] [Diese Vorschriften geben die traditionellen Vorstellungen ritueller Reinheit und sozialer Abgrenzung wieder.]

Band II, S. 122, Ausgleich und Freiheit des geistigen Japa 536–541
साधनसमुच्चये— जपकाले यदाऽकस्मान्म्लेच्छानां दर्शनं भवेत् |
तदाऽऽचम्य हरिं स्मृत्वा तेजोवन्तं विलोक्य च ||
५३६ ||
गायत्रीं विष्णुमन्त्रं वा शतमष्टोत्तरं जपेत् |
स्वप्नेऽपि यदि जायेत म्लेच्छादीनां च दर्शनम् ||
५३७ ||
कामिन्या सह सङ्गम्य रेतसो वा च्युतिर्भवेत् |
दीपं दत्त्वा विष्णुगेहे गायत्रीं शतधा जपेत् ||
५३८ ||
तथा— शुचिर्भूत्वा जपेन्मन्त्रं नाशुचिर्जपमाचरेत् ||
५३९ ||
मानसजपे तु नायं नियमः |
तदुक्तं तन्त्रान्तरे— अशुचिर्वा शुचिर्वाऽपि गच्छंस्तिष्ठन् स्वपन्नपि |
मन्त्रैकशरणो विद्वान् मनसैवं सदाऽभ्यसेत् ||
५४० ||
न दोषो मानसे जाप्ये सर्वदेशेऽपि सर्वदा |
जपनिष्ठो द्विजश्रेष्ठोऽखिलयज्ञफलं लभेत् ||
५४१ ||
इति |


Band II, S. 122–123, Weitere Störungen und Ausgleich 542–549
मेरुतन्त्रे— दैवादसत्यभाषी चेत् स रौद्रं पौरुषं जपेत् |
बहुवस्त्रैकवस्त्रो वा मुक्तकेशोऽङ्गनावृतः ||
५४२ ||
उष्णीषी कञ्चुकी नग्नः शिरसि प्रावृतोऽपि वा |
चिन्ताव्याकुलचित्तो वा क्रुद्धो भ्रान्तः क्षुधान्वितः ||
५४३ ||
उपानद्रूढपादो वा यानशय्यागतस्तथा |
शयानो वाऽधौतपादः पश्चाद्वा दक्षिणामुखः ||
५४४ ||
म्लानवस्त्रोऽर्धवस्त्रश्च तथा द्विगुणवस्त्रकः |
च्युतवस्त्रो रक्तवस्त्रः स्निग्धवस्त्रो द्विकच्छकः ||
५४५ ||
बहिःकच्छोऽनुत्तरीयो विकच्छोऽनेककच्छकः |
कौपिनी प्रौढपादश्च तथाऽऽसी पीतवस्त्रवान् ||
५४६ ||
जपाशक्तः प्रमादाच्चेद्रक्षसैर्गृह्यते फलम् |
तत्कारणं परित्यज्य तज्जपं पुनराचरेत् ||
५४७ ||
स्नात्वाऽऽर्द्रवासा मौनेन दशकुम्भमितं जलम् |
श्रोत्रियस्य गृहे दद्यात् परनार्यां सहस्रकम् ||
५४८ ||
सिद्धान्तसंग्रहे— अज्ञानात् स्वस्त्रियं गत्वा धेनुमेकां पयस्विनीम् ||
५४९ ||
दद्याद्विप्राय धेनूनां परस्त्रीगमने शतम् |


Lesungshinweise: [Die genaue Fußhaltung „प्रौढपाद“ und einzelne Kleidungsbezeichnungen bleiben knapp beschrieben.] [Der erste Anlass dieser Wasserleistung wird hier nicht ausdrücklich genannt; der anschließende Satz betrifft Geschlechtsverkehr.]

Band II, S. 123, Festlegung des Purashcharana-Ortes 550–556
अथ पुरश्चरणार्थं भूमिपरिग्रहः |
मेरुतन्त्रे पूर्वोक्तस्थानान्युक्तानि— एवं विचार्य मतिमान् कुर्याद्भूमिपरिग्रहम् |
पृथ्वीं वराहं संपूज्य भूसुतस्य बलेन च ||
५५० ||
ब्रूयादमुकमन्त्रस्य पुरश्चरणसिद्धये |
मयेयं गृह्यते भूमिर्मन्त्रोऽयं सिद्ध्यतामिति ||
५५१ ||
न्यग्रोधोदुम्बराश्वत्थप्लक्षान्यतरवृक्षजान् |
वितस्तिप्रमितान् वृत्तान् गृह्णीयात् कीलकान् दश ||
५५२ ||
अष्टौ निखातयेदष्टदिशास्वीशानपूर्वयोः |
मध्ये निखन्यान्नवममूर्ध्वबुद्ध्या तथाऽप्यधः ||
५५३ ||
पश्चान्नैर्ऋत्ययोर्मध्ये त्वस्त्रमन्त्रेण कीलयेत् |
पूजां तथाऽस्त्रमन्त्रेण तेष्वस्त्रं च प्रपूजयेत् ||
५५४ ||
क्षेत्रे च कीलिते मन्त्री न विघ्नैः परिभूयते |
दिक्पालेभ्यो माषभक्तबलिं दिक्षु प्रकल्पयेत् ||
५५५ ||
क्षेत्रमध्ये क्षेत्रपालं पूजयेच्च गणेश्वरम् |
तृतीयं वास्तुपुरुषं तेभ्यो दद्याद्बलित्रयम् ||
५५६ ||


Band II, S. 123–124, Ausdehnung und Schutz des Geländes 557–564
यामले— पुण्यक्षेत्रादिकं गत्वा कुर्याद्भूमिपरिग्रहम् ||
५५७ ||
तथा— भूमेः परिग्रहं कृत्वा परिमाणाच्च सर्वतः |
ग्रामे क्रोशमितं स्थानं नगरे तद्द्वयं स्मृतम् ||
५५८ ||
नदीपर्वततीर्थादौ परिमाणेन वर्जितम् |
आहारादिविहारार्थं तावतीं भूमिमाक्रमेत् ||
५५९ ||
क्षीरवृक्षमयान् कीलानस्त्रमन्त्राभिमन्त्रितान् |
निखनेद्दशदिग्भागे तेष्वस्त्रं च प्रपूजयेत् ||
५६० ||
माहेश्वरीये— ये चात्र विघ्नकर्तारो दिवि भुव्यन्तरिक्षगाः |
विघ्नभूताश्च ये चान्ये मम मन्त्रस्य सिद्धिषु ||
५६१ ||
मयैतत् कीलितं क्षेत्रं परित्यज्य विदूरतः |
अपसर्पन्तु ते सर्वे निर्विघ्नं सिद्धिरस्तु मे ||
५६२ ||
पठित्वेत्येवमस्त्रेण निखनेत् कीलकान् सुधीः |
कीलेषु तेषु विधिवत् पूजयेदस्त्रदेवताम् ||
५६३ ||
क्षेत्रपालादिकान् मध्ये पूजयेद्विधिवित्तमः |
दिक्पतिभ्यो बलिं दत्त्वा ततः क्षेत्रं समाश्रयेत् ||
५६४ ||


Band II, S. 124, Bali-Mantra der Richtungshüter 565
तथा— स्वबीजं पूर्वमुच्चार्य सम्बुद्ध्यन्तं सुरं ततः |
इमं पदं माषभक्तबलिं गृह्णपदद्वयम् ||
ठद्वयान्तो दशानां च दिक्पालानां बलेर्मनुः ||
५६५ ||
दिक्पालबीजानि तु— लँ रँ मँ क्षँ वँ यँ सँ हँ आँ अँ—इति |


Lesungshinweise: [Die Silben werden in den Sanskrit-Ausgaben und im Mantra-Abschnitt wiedergegeben; sie werden nicht wörtlich übersetzt. Der Text gibt hier eine verschlüsselte Aufbauanweisung, keine durchgehend ausgeschriebene Formel.]

Band II, S. 124–125, Kshetrapalas Bali 566–571
मेरुतन्त्रे— जपस्थाने ततः कुर्यात् त्रिकोणं वर्तुलं बहिः |
तद्बहिश्चतुरस्रं च तत्र क्षेत्रे समर्चयेत् ||
५६६ ||
इहागच्छेत्यादिवाक्यैस्त्रिकोणादग्रतः पुनः |
अन्नोदकादिसंपूर्णं बलिपात्रं निधापयेत् ||
५६७ ||
वामिभिर्माहिषो देयः कौलिकैर्वर्करस्तथा |
अविः सिद्धान्तिभिस्तत्र निवेद्यो मनुनाऽमुना ||
५६८ ||
वर्करश्छागः |
अविर्मेषः |
क्षेत्रपालबलिदानमन्त्र उक्तः प्रथमेतन्त्रे— क्षेत्रपालं च संपूज्य बलिं दद्याद्यथाविधि |
पूर्वमेहि द्वयं पश्चाद्विदुषि स्यान्मुरुद्वयम् ||
५६९ ||
भञ्जयद्वितयं भूयो नर्तयद्वितयं पुनः |
ततो विघ्नपदद्वन्द्वं महाभैरवतत्परम् ||
५७० ||
क्षेत्रपालबलिं गृह्णद्वयं पावकसुन्दरी |
बलिमन्त्रोऽयमाख्यातः सर्वसिद्धिफलप्रदः ||
५७१ ||


Lesungshinweise: [Die Lautfolge „मुरु“ und ihre syntaktische Einleitung in Vers 569 bleiben unsicher; die verschlüsselte Formel wird nicht ergänzt.]

Band II, S. 125, Vastu und die acht Bhairavas 572–577
गणेशबलिदानमन्त्रस्तु दीक्षाप्रकरणोक्त एव ग्राह्यः |
वास्तुबलिदानमन्त्रो यथा— तारो वास्तोष्पते चेमं माषभक्तबलिं ततः |
गृह्णद्वयान्ते स्वाहा च वास्तोर्बलिमनुः स्मृतः ||
५७२ ||
वीरचूडामणौ तु वीरकल्पे विशेष उक्तः— ऋषिच्छन्दादि विन्यस्य दिग्देवेभ्यो बलिं हरेत् |
असिताङ्गभैरवब्राह्मीपदं ङेन्तं समालिखेत् ||
५७३ ||
बलिं गृह्ण द्विधा कुर्याद्द्विठान्तो दिग्बलेर्मनुः |
असिताङ्गो रुरुचण्डः क्रोध उन्मत्तभैरवः ||
५७४ ||
कपाली भीषणश्चैव संहारश्चाष्ट भैरवाः |
ब्राह्मी माहेश्वरी पश्चात् कौमारी वैष्णवी तथा ||
५७५ ||
वाराही च तथेन्द्राणी चामुण्डा तदनन्तरम् |
महालक्ष्मीः समाख्याता स्वस्वबीजाद्यनुक्रमात् ||
५७६ ||
धूपदीपैः समभ्यर्च्य पश्चात् कीलं निवेशयेत् |


Band II, S. 125, Verschlüsselte Schutzformel der Richtungen 577–582
प्रणवं पूर्वमुच्चार्य माया लक्ष्मीश्च मन्मथः ||
५७७ ||
इन्द्राण्यै पदमुच्चार्य चामुण्डे च पदं ततः |
विच्चे इति पदं पश्चादिदं क्षेत्रं च कीलय ||
५७८ ||
रक्षरक्षपदं पश्चात् कालिकेति समालिखेत् |
वह्निजायान्तमन्त्रोऽयं पूर्वादिक्रमशो न्यसेत् ||
५७९ ||
मूलमन्त्रं समुच्चार्य आग्नेय्यै पदमुच्चरेत् |
याम्यै इति पदं पश्चान्नैर्ऋत्यै च मनुं पुनः ||
५८० ||
वारुण्यै वायवी चेति कौबेरीशानभैरवी |
आदौ मन्त्रं समुच्चार्य पुनर्देवीं वदेत् प्रिये ||
५८१ ||
बलिं दद्यात् क्रमेणैव दिग्विदिक्षु बलिं हरेत् |


Lesungshinweise: [Die Vorlage wechselt bei den Göttinnennamen grammatische Formen; die Sanskrit-Ausgaben bewahren dies. Die Bijas werden hier überwiegend nur durch ihre Decknamen bezeichnet.]

Band II, S. 125–126, Vatuka und Ganesha 582–586
प्रणवं पूर्वमुद्धृत्य हृल्लेखाबीजमुद्धरेत् ||
५८२ ||
वटुकाय पदं पश्चादापदुद्धारणाय च |
कुरुद्वयं समुच्चार्य मायां तारं समुद्धरेत् ||
५८३ ||
वह्निजायान्वितो मन्त्रो वटुकस्य बलिं हरेत् |
आग्नेय्यां बलिमुत्सृज्य माया लक्ष्मीश्च मन्मथः ||
५८४ ||
वाराही बीजमुद्धृत्य बीजं पञ्चान्तकं पुनः |
गणपतये पदं पश्चाद्वरवरदं तथा पुनः ||
५८५ ||
सर्वजनं वदेच्चैव वदेन्मे वशमानय |
अन्ते वह्निवधूं दद्याद्गणनाथमहामनुः ||
५८६ ||
वाराहीबीजं ग्लौँ इति |


Lesungshinweise: [Seine Lautform steht in den Sanskrit-Ausgaben und im Mantra-Abschnitt; eine wörtliche Übersetzung wird ihm nicht beigelegt.]

Band II, S. 126, Kshetrapala und Yoginis 587–589
रौद्रं त्रिगुणमुद्धृत्य नारायणं तथोद्धरेत् |
बीजं सूक्ष्मेशमुद्धृत्यामरेशं बीजमुद्धरेत् ||
५८७ ||
ङेन्तं तु क्षेत्रपालं तु बलिं गृह्णद्वयं ततः |
वह्निजायान्वितो मन्त्रः क्षेत्रपालस्य कीर्तितः ||
५८८ ||
वायुबीजं त्रिधाऽऽलिख्य अनन्तो माधवस्तथा |
वर्तुलाक्षीमथोद्धृत्य योगिनीभ्यस्तथैव च ||
वह्निजायान्वितो मन्त्रो वायव्यां योगिनीबलिः ||
५८९ ||
रौद्रः शकारः |
त्रिगुणम् त्रिवारम् |
नारायणम् आँ |
सूक्ष्मेशः ईँ |
अमरेश उँ |
वायुबीजं यकारः |
अनन्त आकारः |
माधव इकारः |
वर्तुलाक्षी उकारः |


Lesungshinweise: [Die genauen Zeichen stehen in den Sanskrit-Ausgaben und im Mantra-Abschnitt. Für Raudra verzeichnet die Ausgabe neben śa eine abweichende Lesung sa; beide dürfen nicht stillschweigend gleichgesetzt werden.] Für Raudra verzeichnet die Ausgabe neben śa eine abweichende Lesung sa; beide dürfen nicht stillschweigend gleichgesetzt werden.]

Band II, S. 126, Bali für alle Wesen und Speisegaben 590–593
क्षकारं कालमारूढं तदन्ते माऽनलाक्षरम् |
सर्वविघ्नपदं कृद्भ्यः सर्वेभ्यो भूत उद्धरेत् ||
५९० ||
भ्यो वर्म फट् समुद्धृत्य बलिं गृह्णद्वयं ततः |
द्विठान्तः सिद्धिदः प्रोक्तः सर्वभूतबलिं हरेत् ||
५९१ ||
कालो मकारः |
मा ईकारः |
अनलाक्षरं रेफः |
तेन क्ष्म्रीँ इति |
ओदनं पायसं क्षीरं मत्स्यमांसैस्तथैव च |
मोदकं पूलिकापूपं वटकं त्रिविधा सुरा ||
५९१ ||
हृद्यौदनादि पक्कान्नमाज्यं मधु सशर्करम् |
सर्वत्र विधिवत् कुर्याद्गुह्येनोत्सर्गमाचरेत् ||
५९२ ||
इति |
यामले— क्षेत्रं समाश्रयेद्यस्तु क्षेत्रपालार्चनं विना |
बाध्यते स महाविघ्नैस्तस्मात् क्षेत्रेशमर्चयेत् ||
५९३ ||


Lesungshinweise: [Die genaue Lautform steht in den Sanskrit-Ausgaben und im Mantra-Abschnitt.]

Band II, S. 127, Die alphabetischen Kshetrapalas 594–600
अत्रायं विशेषः |
यस्य क्षेत्रस्य नामाद्यवर्णस्तस्य क्षेत्रपालस्य नामाद्यः स एव क्षेत्रपालस्तस्मिन् क्षेत्रे पूज्यः |
क्षेत्रपाला उक्तास्तन्त्रान्तरे |
अजरश्चापकुम्भश्च इडारम्भस्तथैव च |
ईन्दर्तिश्च उल्कास्य ऊष्माद ऋपुसूदनः ||
५९४ ||
ऋमुक्तो लप्तकायश्च लपाद एकदंष्ट्रकः |
ऐरावतश्च ओद्याम्बुरौषधीशोऽन्तवाहकः ||
५९५ ||
अस्तकोऽप्यर्थवाहश्च कमलश्च खराननः |
गोमुखश्चैव घण्टालो ङणमश्चन्द्रधारकः ||
५९६ ||
छटाटोपो जटालाख्यो झङ्कारो जमटेश्वरः |
टङ्कपाणिस्तथा चान्यष्ठाण्डबन्धश्च डामरः ||
५९७ ||
ढेढकर्णो णवीकान्तस्तन्त्रीजिह्वस्तु थाविरः |
दन्तुरो धनदश्चैव नागकर्णः प्रचण्डकः ||
५९८ ||
फेत्कारो वीरसिद्धश्च भ्रुकुटिर्मेघभासुरः |
युगान्तो गौरवश्चैव लम्बोष्ठश्च वसन्तकः ||
५९९ ||
शुकमुण्डः षडालास्यः सुमनो हूनकस्तथा |
क्षपान्तकश्च पञ्चाशद्वर्णस्थाः क्षेत्रपालकाः ||
६०० ||


Lesungshinweise: [Mehrere Eigennamen sind in der vorliegenden Druckfassung unsicher oder passen nicht eindeutig zur alphabetischen Folge; auch die angegebene Zahl fünfzig stimmt nicht ohne Weiteres mit der überlieferten Aufzählung überein. Die Namen werden deshalb nicht nach einem erschlossenen Alphabet ersetzt.]

Band II, S. 127, Besondere Hüter einzelner Orte 601–606
एकलिङ्गादौ क्षेत्रपालविशेषास्तत्रैवोक्ताः— शेषा वर्णविहीनास्तु क्षेत्रपालास्तथैव च |
एकलिङ्गे च हुँकारः श्मशाने च भयावहः ||
६०१ ||
महालक्ष्मीवने घोरो ज्वालामुखो वनोत्सवे |
एकवृक्षवने वाऽथ विडालवदनो वसेत् ||
६०२ ||
घण्टारवो गुह्यवासः पद्मखण्डे जरामरः |
सङ्गमे भूरिधारौघः पद्मखण्डे जरामरः ||
६०३ ||
निर्झरे श्रवणे वह्नौ निधाने मणिभद्रकः |
रसक्षेत्रे धनाध्यक्षो यज्ञवाटेषु क्रोष्टकः ||
६०४ ||
अरण्ये शम्बरं विद्यादुद्याने मकरस्तथा |
चतुःषष्टिर्महाविद्याः पालयित्वा जगत् स्थिताः ||
६०५ ||
तत्तत्क्षेत्रे सदा काले बलिपूजां निवेदयेत् ||
६०६ ||


Lesungshinweise: [die Ortszuordnung dieses Versstücks ist beschädigt] [Die Wiederholung des Lotusbestandes mit Jaramara in Vers 603 steht bereits im Druck; sie wird nicht durch einen vermuteten anderen Ort ersetzt.] (604) „Am Wasserfall, beim Hören, im Feuer“ [die Ortszuordnung dieses Versstücks ist beschädigt]; beim Schatz Manibhadraka, im Rasa-Gelände Dhanadhyaksha und auf Opferplätzen Kroshtaka.

Band II, S. 128, Das Kurma-Chakra und seine vier Arten 607–609
अथ कूर्मचक्रम् |
यामले— क्षेत्रमध्यं समाश्रित्य कूर्मचक्रं विचिन्तयेत् |
कूर्मचक्रमविज्ञाय यः कुर्याज्जपयज्ञकम् ||
तज्जपस्य फलं नास्ति सर्वानर्थाय कल्पते ||
६०७ ||
मेरुतन्त्रे— कूर्मचक्रमविज्ञातुर्महाविघ्नोऽभिजायते |
सारसंग्रहे— तच्चतुर्धा स्थितं लोके तत्प्रकारस्तथोच्यते ||
६०७ ||
प्रथमस्तु परः कूर्मचक्रो देशगतस्तथा |
ग्रामगो गृहगश्चेति चतुर्धा स व्यवस्थितः ||
६०८ ||
तन्त्रराजे— व्यञ्जनं देशकूर्मे स्याद् गृहकूर्मे स्वरास्तथा |
ग्रामकूर्मे तद्वितयं परकूर्मे न तद्द्वयम् ||
६०९ ||


Lesungshinweise: [Die Druckabbildung zeigt eine Schildkröte über einem in neun Felder geteilten Grundriss; ihr Rücken enthält nochmals eine Felderteilung. Die kleinen Lautbeschriftungen sind teilweise undeutlich.] [Die anschließend zitierte Beschreibung des Merutantra verwendet auch beim übergeordneten Diagramm Lautfelder; die unterschiedlichen Quellenangaben bleiben nebeneinander stehen.]

Band II, S. 128–129, Buchstabenfelder und Körperglieder 610–612
गौतमीये— देशं ग्रामं गृहं वाऽपि नवधा विभजेन्नरः |
प्रागादिपश्चिमान्तं तु कादिमान्तानि विन्यसेत् ||
६१० ||
अक्षराण्यथ यादीनि तथाऽष्टौ कोष्ठयोर्न्यसेत् |
ईशद्वयमधो मध्ये स्वरान् प्रागादि विन्यसेत् ||
६११ ||
शसान्तास्तु दिशः पश्चान्नामाद्यक्षरतो भवेत् |
तन्मुखं पार्श्वयोः पाणी कुक्षी पादौ ततस्ततः ||
पुच्छमेकमथो मध्यं पृष्ठमेवं षडङ्गवान् ||
६१२ ||


Lesungshinweise: [Der Wortlaut von Vers 611 ist für eine eindeutige Feldzuordnung beschädigt.]

Band II, S. 129, Die Ausrichtung der vier Kurma-Chakras 613–618
मेरुतन्त्रे— परदेशग्रामगृहभेदात् कूर्मश्चतुर्विधः |
वृत्तद्वयं प्रकुर्वीत नवकोष्ठकभेदितम् ||
६१३ ||
कवर्गाद्याः सप्त लेख्याः पूर्वाशादिषु लक्षकौ |
ऐशान्यां विलिखेन्मध्ये वृत्तकोष्ठे द्वयं द्वयम् ||
६१४ ||
स्वराणां पूर्वतो लेख्यं श्रीबीजं मध्यकोष्ठके |
प्राङ्मुखः परकूर्मस्तु सर्वदैव प्रजायते ||
६१५ ||
देशनामादिमो वर्णो यस्यां दिशि व्यवस्थितः |
देशकूर्ममुखं तस्यां दिशि स्याद् ग्रामकूर्मके ||
६१६ ||
मुखद्वयं तु विज्ञेयं स्वराद् व्यञ्जनतस्तथा |
गृहकूर्मस्य वदनमुदग्द्वारमुखं भवेत् ||
६१७ ||
मुखस्य पार्श्वयोः पाणी कुक्षी पादौ ततस्ततः |
पुच्छमेकमथो मध्ये पृष्ठमेवं षडङ्गवान् ||
६१८ ||


Lesungshinweise: [Die Lesung zum Tor in Vers 617 ist knapp und wird nicht durch eine andere Ausrichtung ersetzt.]

Band II, S. 129, Sitzplatz und zugeschriebene Wirkungen 619–623
यामले— दीपस्थानं समाश्रित्य कृतं कर्म शुभावहम् |
चतुरस्रां भुवं भित्त्वा कोष्ठानां नवकं लिखेत् ||
६१९ ||
पूर्वादिकोष्ठे विलिखेत् सप्त वर्गाननुक्रमात् |
लक्ष्मीशस्वरान् युग्मक्रमाच्चैव लिखेत् ततः ||
६२० ||
दिक्षु पूर्वादितो यत्र क्षेत्राख्याद्यक्षरं स्थितम् |
मुखं तस्य तु जानीयाद्धस्तावुभयतः स्थितौ ||
६२१ ||
कोष्ठे कुक्षी उभे पादौ द्वौ शिष्टं पुच्छमीरितम् |
क्रमेणानेन विभजेन्मध्यस्थमपि साधकः ||
६२२ ||
मुखस्थो लभते सिद्धिं करस्थः स्वल्पजीवनः |
उदासीनः कुक्षिसंस्थः पादस्थो दुःखमाप्नुयात् ||
पुच्छस्थः पीड्यते मन्त्री बन्धनोच्चाटनादिभिः ||
६२३ ||


Lesungshinweise: [Die zusammengezogene Drucklesung „लक्ष्मीशस्वरान्“ ist hier nicht eindeutig auflösbar.]

Band II, S. 130, Wirkungen und Benennung des Hauses 624–628
गौतमः— मुखे सर्वार्थसिद्धिः स्यात् करयोरल्पसिद्धयः |
कुक्षौ तु नित्यं नैष्फल्यं पादयोर्नैव सिद्धयः ||
६२४ ||
पुच्छे मृत्युस्तु नियतः पृष्ठे सर्वार्थसिद्धयः |
तस्मात् तत् साधु विज्ञाय कुर्यात् सर्वं जपादिकम् ||
६२५ ||
गृहकूर्मे गृहनामज्ञानप्रकारस्तु ज्योतिःशास्त्रे— विस्तार आयामगुणैश्च भक्ते यच्छेषमायः स भवेद्ध्वजादिः ||
६२६ ||
ध्वजो धूम्रश्च सिंहःश्वा सारमेयः खरो गजः |
ध्वाङ्क्षश्चेति क्रमेणैव दायाष्टकमुदाहृतम् ||
६२७ ||
प्रकारान्तरमपि— विस्तारं च तथाऽऽयाममेकीकृत्य त्रिधा पुनः |
मन्त्रसाधकगेहानामेकं चेत् प्रथमाक्षरम् ||
किं तदा पुण्यतीर्थेन पुण्यक्षेत्राटनेन वा ||
६२८ ||
प्रयोजनमिति शेषः |


Lesungshinweise: [Der Teiler wird im vorliegenden Versstück nicht genannt.] [Der Druck nennt Hund und Sarameya nebeneinander; die sonst zu erwartende abweichende Klasse wird nicht eingesetzt.] [die Rechenanweisung bleibt unvollständig]

Band II, S. 130, Einklang von Ort Name und Mantra 629–634
मेरुतन्त्रे— क्षेत्रसाधकमन्त्राणामेकमेवाद्यमक्षरम् |
यदि स्यात् स ध्रुवं मन्त्रः सर्वसिद्धिफलप्रदः ||
६२९ ||
गौतमीये— मन्त्राक्षरेण मैत्रश्च दीपनाम्नो भवेद्यदि |
साधकस्य च नाम्ना च किं न सिद्ध्यति मन्त्रिणः ||
६३० ||
पञ्चाशद्वर्णरूपेण क्षेत्रेशा विभुविग्रहाः |
तस्मात् तत् सगुणं क्षेत्रं सिद्धये स्यान्न चान्यथा ||
६३१ ||
विगुणश्चेन्मुखस्थोऽपि न तेन सिद्धिमाप्नुयात् |
तस्माच्चक्रं विचार्यैव मित्रं च सर्वसिद्धिदम् ||
६३२ ||
यस्मिन् देशे द्वीपपतिः सगुणं नाममन्त्रयोः |
तत्र यत्नेन गन्तव्यं सपीठो दुर्लभो मतः ||
६३३ ||
कालिकोद्भवे— स्थानसाधकयोर्नाम्नोरमैत्रं यत्र विद्यते |
तदक्षशास्त्रतो ज्ञात्वा तत्तत् स्थानं परित्यजेत् ||
६३४ ||


Band II, S. 131, Feindschaft der Laute und Beispiele 635–642
मैत्रामैत्रमुक्तं तन्त्रान्तरे— अरित्वमद्वयस्योक्तं गकारेण परस्परम् |
ऋद्वयस्य चकारेण मकारस्य खकारतः ||
६३५ ||
लृद्वयस्य यकारेण पकारस्य च लृद्वये |
ओद्वयस्य षकारेण षकारस्यौयुगेन तु ||
६३६ ||
जकारस्य ढकारेण ऊकारस्य खकारतः |
उकारस्य तकारेण फकारस्य धकारतः ||
६३७ ||
मकारस्य च रेफेण यकारस्य सकारतः |
अरित्वमेषां वर्णानामन्येषां मित्रभावना ||
६३८ ||
स्थानसाधकयोर्नाम्नोररित्वं यत्र विद्यते |
तदक्षशास्त्रतो ज्ञात्वा साधको यत्नतस्त्यजेत् ||
६३९ ||
यथा गर्गस्य वैरी स्यादट्टहासं महापुरम् |
औड्डियानं षण्मुखस्य ऋजुभट्टस्य चक्रकम् ||
६४० ||
जयन्ती ढङ्कणस्यारिः खधार ऊझकस्य च |
उकदेवस्य ताराख्यं फजेर्धूमाख्यमेव च ||
६४१ ||
भद्रस्य रम्यकं सोमनगरं यज्ञशर्मणः |
एवं क्रमेण विज्ञाय रिपुस्थानं त्यजेद्बुधः ||
६४२ ||


Lesungshinweise: [Die Sanskrit-Schreibung unterscheidet die hier umschriebenen Laute genau. Die Druckfassung ist bei den O-/Au-Paaren auffällig; es wird keine geglättete Lauttabelle daraus erschlossen.] [Einzelne Eigennamen sind im Druck unsicher; die Sanskrit-Fassung hält ihre überlieferte Gestalt fest.]

Band II, S. 131–132, Grade der Feindschaft und Berechnung 643–648
मेरुतन्त्रे— महारित्वे जीवनाशो वैरे स्याद्धननाशनम् |
किञ्चिद्वैरे सुखाल्पत्वं तदिदानीं निगद्यते ||
६४३ ||
अगौ ऋधौ झपौ जहौ मखौ जथौ इवौ उतौ |
फधौ भरौ यसौ चेति महारी परिकीर्तितौ ||
६४४ ||
ऋच्छौ ओद्वयषौ तद्वज्जटौ ऊषौ वधौ ढलौ |
वैरं तु पञ्चमे वर्गे तत्किञ्चित् कटयोर्भवेत् ||
६४५ ||
चटयोः पययोश्चापि तढयोर्ढशयोरपि |
एकवर्गे यदा प्रीतिः स्ववर्गं द्विगुणं कुरु ||
६४६ ||
स्थानवर्गयुतं तष्टमष्टभिश्चाय उच्यते |
स्थानवर्गो द्विगुणितः स्ववर्गश्चाष्टशेषितः ||
६४७ ||
स्थानाय उभयोः कार्यमन्तरं यस्य शेषकम् |
यावत् स्थितं सोऽर्थदः स्यात् साधकोऽप्रदो न सः ||
वैरं तु पञ्चमे ... ... ... ... ||
६४८ ||
इति |


Lesungshinweise: [Bei den Lautpaaren unterscheidet die Sanskrit-Schreibung dentale und retroflexe Laute; einzelne Lesungen der Liste bleiben unsicher.] [Hier bricht der Druck mit Auslassungszeichen ab.]

Band II, S. 132, Acht Gruppen und weitere Zuordnungen 649–652
तदुक्तं ज्योतिःशास्त्रेऽपि— अकचटतपयशवर्गाः खगेशमार्जारसिंहशुनाम् |
सर्पाखुगजावीनां निजपञ्चमवैरिणामष्टौ ||
६४९ ||
स्ववर्गद्विगुणीकरणादौ स्वरज्ञानप्रकारोऽपि तत्रैवोक्तः— गजशरर्तुयुगाश्वमहीगुणा द्विसहिता मघवादिदिशः क्रमात् |
गृहपतेरभिधापुरदिङ्मिता नवहता भवनस्य दशा च सा ||
६५० ||
इति |
तन्त्रान्तरे— रिपुत्वे निश्चिते तस्य द्वितीयार्णादि शोधयेत् |
इत्थं स्थानगृहं कृत्वा तत्र मन्त्री बलिं हरेत् ||
६५१ ||
गौतमीये— द्वीपनाथं लिखेन्मध्ये पूजयेत् तं विभावयेत् ||
६५२ ||


Lesungshinweise: [Die beiden hier gleich umschriebenen Ta-Gruppen sind im Sanskrit die retroflexe und die dentale Gruppe.] [Der Rechenweg ist in dieser knappen Überlieferung nicht vollständig eindeutig; die Zahlwortfolge wird nicht zu einer ergänzten Rechenregel umgeformt.]

Band II, S. 132, Die neun Hüter des Kurma-Chakra 653–657
तन्त्रे— पूर्वादिनवकोष्ठेषु क्षेत्रेशांस्तत्र पूजयेत् |
अमृतः प्रथमे प्रोक्तो द्वितीये वृषभस्तथा ||
६५३ ||
शैलराजस्तृतीये स्याच्चतुर्थे वासुकिः स्मृतः |
अर्थकृत् पञ्चमे प्रोक्तः शक्तिकृत् षष्ठ ईरितः ||
६५४ ||
पद्मयोनिः सप्तमे स्यान्महाशङ्खोऽष्टमे स्मृतः |
छायाछत्रगणः प्रोक्तो नवमे मन्त्रिनायकैः ||
६५५ ||
मेरुतन्त्रे— अमृतो वृषभः शैलराजो वासुकिरेव च |
अर्थकृच्छक्तिकृत् पूर्वकाष्ठादौ बलिनाऽर्चयेत् ||
६५६ ||
पद्मयोनिं महाशङ्खं छायाख्यं चापि मध्यमे |
कूर्मपृष्ठे गृहं कृत्वा गृहस्थो जपमाचरेत् ||
६५७ ||


Band II, S. 133, Shakti-Pithas 658–665
यामले— महापीठेषु शाक्तेषु कामरूपादिकेषु च |
यदि कुर्यात् पुरश्चर्यां तदा कूर्मं न चिन्तयेत् ||
६५८ ||
कामरूपादिपीठान्युक्तानि योगिनीहृदयादौ— कामरूपं च काशी च नैपालं पौण्ड्रवर्धनम् |
काश्मीरं कान्यकुब्जं च पूर्णशैलं तथाऽर्बुदम् ||
६५९ ||
आम्रातकेश्वरैकाम्रं त्रिस्रोतः कामकोटकम् |
कैलासं भृगुनगरं केदारश्चन्द्रपूरकम् ||
६६० ||
श्रीपीठमोङ्कारपीठं जालन्धरं च मालवम् |
कुलान्तकं देवीकोटं गोकर्णं मारतेश्वरम् ||
६६१ ||
अट्टहासं च विरजं राजगृहं महापथम् |
कोलागिरिर्मेलापुरं कालेश्वरं जयन्तिका ||
६६२ ||
उज्जयिनी विचित्रं च क्षीरकं हस्तिनापुरम् |
उड्डीशं च प्रयागाख्यं षष्ठीमाया जलेश्वरम् ||
६६३ ||
मलयश्चैव श्रीशैलो मेरुर्गिरिवरस्तथा |
माहेन्द्रं वामनं चैव हिरण्यपुरमेव च ||
६६४ ||
महालक्ष्मीरुड्डियानं छायाछत्रमतः परम् |
एते पीठाः समुद्दिष्टा मातृकारूपमास्थिताः ||
६६५ ||


Lesungshinweise: [Die Ausgabe verzeichnet bei Kamarupa die abweichende Lesung „in Kapura gelegen“ und bei Vichitra die Lesart „Yogini“. Sie erläutert Arbuda als Berg und Trisrotas als Ganga. Die Zusammenfassung einzelner Ortsnamen ist in einigen Druckkomposita nicht eindeutig.] Die Zusammenfassung einzelner Ortsnamen ist in einigen Druckkomposita nicht eindeutig.]

Band II, S. 133–134, Entstehung der Pithas aus Dakshayinis Körper 666–674
तन्त्रान्तरे |
दाक्षायिण्या इत्यधिकृत्य— योनेर्हृदो गुदाद्वामनेत्राद्वामश्रुतेरथ |
दक्षकर्णात् तथा घ्राणाद्वामवक्षोरुहादपि ||
६६६ ||
दक्षगण्डान्नखेभ्यश्च वलीपरिसरादथ |
नाभेस्तथाऽङ्गुलीभ्यश्च दन्तेभ्यो दक्षपाणितः ||
६६७ ||
वामगण्डान्मस्तकाच्च बाहोर्दक्षस्तनादपि |
स्कन्धाच्च दक्षिणात् कक्षाद्वामकक्षात् तथोदरात् ||
६६८ ||
तत ऊर्ध्वं वलेर्मध्यवलेस्तलवलेरथ |
ततो वस्तेर्नितम्बाच्च जघनाद्दक्षिणोरुतः ||
६६९ ||
वामोरुतो दक्षिणाच्च जानुतो वामजानुतः |
जङ्घाकाण्डात् ततो दक्षाद्वामाच्च दक्षगुल्फतः ||
६७० ||
वामगुल्फाद्दक्षनेत्राद्दक्षाद्वामाच्च पार्ष्णितः |
रक्तात् पित्तात् तथा मेदोजिह्वामज्जाभ्य एव च ||
६७१ ||
दक्षिणात् पादुकाङ्गुष्ठाद्वामादपि च तेजसः |
नाडीततेश्च छायायाः केशपाशादिति क्रमात् ||
६७२ ||
तत्तत्स्थानेषु पतितात् सर्वसिद्धिकराणि वै |
पीठानि चैकपञ्चाशत् कामरूपादिकानि च ||
६७३ ||
अकारादिक्षकारान्तवर्णरूपाणि जज्ञिरे |
अङ्गान्तरास्थिलोमभ्यो भूषणानां च संहतेः ||
उपपीठान्यसंख्यानि प्रादुर्भूतानि सर्वतः ||
६७४ ||


Band II, S. 134, Ausnahmen von der Kurma-Prüfung und Übungshütte 675–681
मेरुतन्त्रे— कुरुक्षेत्रे प्रयागे च गङ्गासागरसङ्गमे |
महाकाले च काश्यां च कूर्मस्थानं न चिन्तयेत् ||
६७५ ||
गौतमीये— पर्वते सिन्धुतीरे वा पुण्यारण्ये नदीतटे |
यदि कुर्यात् पुरश्चर्यां तत्र कूर्मं न चिन्तयेत् ||
६७६ ||
यामले— अट्टहासे शक्तिपीठे तीर्थे क्षेत्रेषु वा पुनः |
अरण्ये पर्वते पुण्ये कूर्मचक्रं न चिन्तयेत् ||
६७७ ||
पुरश्चरणचन्द्रिकायाम्— कूर्मचक्रमिति प्रोक्तं मन्त्राणां सिद्धिसाधनम् |
मुखं तस्य समाश्रित्य वातालयसहां कुटीम् ||
६७८ ||
चतुरस्रां चतुर्हस्तां हस्तोन्नतसुवेदिकाम् |
चन्द्रातपपताकाद्यैस्तोरणैरप्यलङ्कृताम् ||
६७९ ||
विविक्तामभिलिप्तां च प्राकारेणाभिवेष्टिताम् |
निर्ममेच्च ततः कुर्यादेकभक्तं शुभे दिने ||
६८० ||
प्रातः स्नात्वा च गायत्र्या अयुतं प्रयतो जपेत् |
ज्ञाताज्ञातस्य पापस्य क्षयार्थं प्रथमं ततः ||
६८१ ||


Lesungshinweise: [die nähere Bestimmung ist sprachlich auffällig]

Band II, S. 135, Erlaubnis des Gurus und Morgenpflichten 682–688
गायत्री स्वेष्टदेवस्य |
तदुक्तं मेरुतन्त्रे— शुभे मुहूर्ते नक्षत्रे तिथौ स्नात्वा यथाविधि |
विप्रान् सन्तर्प्य यत्नेन भोजनाच्छादनादिभिः ||
६८२ ||
भूवित्तवस्त्रभूषाद्यैः संतोष्य गुरुमात्मनः |
आरभेत पुरश्चर्यां तदनुज्ञापुरःसरम् ||
६८३ ||
सिद्धान्तसारे— प्रातःकृत्यादिपूजान्तं कृत्वा तु जपमारभेत् ||
६८४ ||
यामले— प्रातःकृत्यमकृत्वा तु यो देवीं भक्तितोऽर्चयते |
विफला तस्य पूजा तु शौचहीना यथा क्रिया ||
६८५ ||
तत्रादौ प्रातःकृत्यं कुर्यात् |
तदुक्तं सिद्धान्तसारे— मुहूर्ते ब्राह्मणो विद्वान् मुक्तस्वापो निराकुलः |
तल्पादुत्थाय शुक्लेऽब्जे शिरःस्थे श्रीगुरुं स्मरेत् ||
६८६ ||
मेरुतन्त्रे— निशायाः पश्चिमे यामे स्मरेदिष्टां च देवताम् |
उत्थाय दक्षिणाङ्गेन वामपादं न्यसेद्भुवि ||
६८७ ||
ततो गृहाद्बहिर्गत्वा कृत्वाऽऽवश्यकमादरात् |
रात्रिवासः परित्यज्य वाससी परिधाय च ||
आचम्य शुद्धदेहः सन् ... ... ||
६८८ ||
इति |


Lesungshinweise: [Der Druck endet hier mit einer Auslassung.]

Band II, S. 135–136, Dhyana des Gurus 689–697
पुरश्चरणचन्द्रिकायाम्— कृत्वाऽवश्यक्रियां धीर उपविश्यासने शुभे |
यामले— बद्धपद्मासनो मन्त्री समकायशिरोधरः ||
६८९ ||
मेरुतन्त्रे— ततः स्वमस्तके चिन्त्यं सहस्रदलपद्मकम् |
कर्पूराभं स्मरेत् तत्र श्रीगुरुं निजरूपिणम् ||
६९० ||
सुप्रसन्नं लसद्भूषामण्डितश्वेतचन्दनम् |
वराभयज्ञानमुद्रापुस्तकव्यावृतैः करैः ||
६९१ ||
युक्तं श्वेताम्बरं शान्तं श्वेतपुष्पविभूषितम् |
वामाङ्कगतया शक्त्याऽऽलिङ्गितं रक्तवर्णया ||
६९२ ||
रक्तवस्त्राभरणया रक्तचन्दनमालया |
वामे लीलाकमलयाऽऽलिङ्गन्त्या दक्षिणेन च ||
६९३ ||
ध्यायेदन्तर्मुखं शान्तं योगिनं शिवरूपिणम् |
कालानलतन्त्रे— शुद्धस्फटिकसंकाशमज्ञानतिमिरापहम् ||
६९४ ||
शुभांशुशुद्धसंकाशं क्षौमद्वयविराजितम् |
गन्धानुलेपनं शान्तं वराभयकरद्वयम् ||
६९५ ||
वामोरुशक्तिसंयुक्तं रक्ताम्बरविभूषया |
स्वशक्त्या दक्षहस्तेन धृतचारुकलेवरम् ||
६९६ ||
वामे धृतोत्पलया च रक्तया च सुशोभितम् |
परानन्दरसोल्लासलोचनद्वयपङ्कजम् ||
६९७ ||


Band II, S. 136, Verehrung des Gurus und Kundalini 698–703
मेरुतन्त्रे— तत्पादपद्मयुगलस्रुतपीयूषधारया |
अभिषिक्तः स्वस्य देहं एवं शिष्यो विचिन्तयेत् ||
६९८ ||
अर्चयेद्गन्धपुष्पाद्यैर्बाह्यस्थैर्मानसैश्च वा |
नामभिस्तस्य संकेतसंसिद्धैर्गुरुकीर्तिकैः ||
प्रणम्येत्थं हृन्मनुना भावयेत् तल्लयं हृदि ||
६९९ ||
तन्त्रान्तरे— तदाज्ञां च समादाय संस्मरेदिष्टदेवताम् |
मूलादिब्रह्मरन्ध्रान्तं कुण्डलीरूपतः स्थिताम् ||
७०० ||
तडित्कोटिप्रभादीप्तां बिसतन्तुतनीयसीम् |
सार्धत्रिवलयाकारां प्रसुप्तभुजगाकृतिम् ||
७०१ ||
श्यामापद्धतौ— प्रसुप्तभुजगाकारां मूलाधारनिवासिनीम् |
सुषुम्णावर्त्मनोत्थाप्य परदेवीस्वरूपिणीम् ||
७०२ ||
आनीय ब्रह्मरन्ध्रान्तं योजयेच्छम्भुना सह |
सामरस्यं ततस्तस्या विभाव्य च विचक्षणः ||
सुधावृष्टिं ततः कृत्वा पूर्वस्थाने नियोजयेत् ||
७०३ ||


Band II, S. 137, Lichtbetrachtung Japa und Morgengebet 704–710
मेरुतन्त्रे— ततस्तु मूलाधारादि ब्रह्मरन्ध्रान्तमुद्यतम् |
तेजोदण्डं सुषुम्णान्तः सहस्ररविसन्निभम् ||
७०४ ||
तदात्मकं मूलमन्त्रं ध्यात्वा तं तेजसा वृतम् |
स्वशरीरं विचिन्त्येति प्राणायामत्रयं चरेत् ||
७०५ ||
मूलमन्त्रेण मन्त्रस्य ऋष्यादिन्यासमाचरेत् |
अङ्गन्यासान् विधायाथ हृदि देवं विचिन्तयेत् ||
७०६ ||
मानसैरुपचारैस्तु पूजयित्वा मनुं जपेत् |
यथाशक्त्याऽथ देवाय तं जपं च समर्पयेत् ||
७०७ ||
स्तुत्वा प्रणम्य देवाज्ञां श्लोकैरेभिश्च याचयेत् ||
७०८ ||
त्रैलोक्यचैतन्यमयादिदेव श्रीशङ्कर त्वच्चरणाज्ञयैव |
प्रातः समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्तयिष्ये ||
७०९ ||
संसारयात्रामनुवर्तमानं त्वदाज्ञया शङ्कर देवदेव |
स्पर्धातिरस्कारकलिप्रमादभयानि मां माऽभिभवन्तु नाथ ||
इति संप्रार्थ्य देवेशम् ... ... ... ||
७१० ||
इति |


Lesungshinweise: [Der Druck lässt die Fortsetzung aus.]

Band II, S. 137, Beginn der Ajapa-Lehre 711–714
अथाजपाविधिः |
तदुक्तं वीरचूडामणौ— हंसाख्याराधनं वक्ष्ये मन्त्रिणां हितकाम्यया |
यस्य विज्ञानमात्रेण सर्वज्ञो भुवि जायते ||
७११ ||
हंसात्मिकां भगवतीं जीवो जपति सर्वदा |
अस्याः स्मरणमात्रेण जीवन्मुक्तो भवेन्नरः ||
७१२ ||
ऋषिर्हंसः समाख्यातः परहंसश्च देवता |
अव्यक्ता छन्दो गायत्री विनियोगश्च सिद्धिदः ||
७१३ ||
सुरेन्द्रसंहितायाम्— ऋषिर्हंसोऽव्यक्तपूर्वा गायत्री छन्द उच्यते |
देवता परमादिस्तु हंसो हँ बीज उच्यते ||
७१४ ||


Lesungshinweise: [Die genaue Silbe steht in den Sanskrit-Ausgaben und im Mantra-Abschnitt.]

Band II, S. 138, Ajapa-Zuordnungen und Nyasa 715–717
अः शक्तिः कीलकः सोऽहं प्रणवस्तत्त्वमेव हि |
उदात्तः स्वर इत्येवं मनोरस्य प्रकीर्तितः ||
मोक्षार्थे विनियोगः स्यादेवं कुर्यात् सदा नरः ||
७१५ ||
वीरचूडामणौ— सूर्यात्मने च हृद्देवि सोमात्मने शिरस्तथा |
निरञ्जने शिखा ज्योतिर्निराभासा तथा परे ||
७१६ ||
अव्यक्तं नेत्रयोर्न्यस्य अनन्तोऽस्त्रे फडं यजेत् |
एवं न्यासविधिं कृत्वा गणेशादौ समर्पयेत् ||
७१७ ||


Lesungshinweise: [die genaue Nyasa-Zuordnung dieser Wendung ist unsicher] [Die Silben und Nyasa-Bezeichnungen stehen in den Sanskrit-Ausgaben und im Mantra-Abschnitt; die verschlüsselte Zuordnung wird nicht ergänzt.] Im Virachudamani: (716–717) O Göttin, am Herzen wird das Sonnen-Selbst eingesetzt, am Kopf das Mond-Selbst, an der Haarlocke das Unbefleckte; es folgt das Licht, frei von Erscheinung [die genaue Nyasa-Zuordnung dieser Wendung ist unsicher].

Band II, S. 138, Der natürliche Atemmantra 718–726
सुरेन्द्रसंहितायाम्— हंसात्मिकां भगवतीं जीवो जपति सर्वदा |
हकारेण बहिर्याति सकारेण विशेत् पुनः ||
७१८ ||
अस्याः संबोधमात्रेण जीवन्मुक्तो भवेन्नरः |
प्राणायामप्रभावेण जीवन्मुक्तस्तु जायते ||
७१९ ||
एकविंशतिसाहस्रं षट्शताधिकमेव च |
प्रजपेत् प्रत्यहं जीवो ब्रह्मानन्दमयीं पराम् ||
७२० ||
उत्पत्तिर्जप आरम्भो मृतिरस्य निवेदनम् |
विना जपेन सततं जपो भवति सर्वदा ||
एवं जपस्तु विज्ञातो गणेशादौ निवेदयेत् ||
७२१ ||
योगशास्त्रे— कुण्डलिन्याः समुद्भूता गायत्री प्राणधारिणी |
प्राणविद्या महाविद्या यस्तां वेत्ति स योगवित् ||
७२२ ||
हकारेण बहिर्याति शकारेण विशेत् पुनः |
हंसो हंस इमं मन्त्रं जीवो जपति सर्वदा ||
७२३ ||
षट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिः |
एतत्संख्यान्वितं मन्त्रं जीवो जपति सर्वदा ||
७२४ ||
अजपानामगायत्री योगिनां मोक्षदायिनी |
अस्याः संकल्पमात्रेण सर्वपापैः प्रमुच्यते ||
७२५ ||
अनया सदृशी विद्या अनया सदृशो जपः |
अनया सदृशं ज्ञानं न भूतं न भविष्यति ||
७२६ ||


Lesungshinweise: [Hier steht im Druck Sha, während Vers 718 Sa nennt; die Abweichung bleibt erhalten.]

Band II, S. 139, Hamsa-Dhyana und Einheit 727–729
हंसध्यानमुक्तं बालापद्धतौ— अग्नीषोमगरुद्द्वयं प्रणवकं बिन्दुत्रिनेत्रोज्ज्वलं भास्वद्रुद्रमुखं शिवाङ्घ्रियुगलं पार्श्वस्थकालानलम् |
उद्यद्भास्करकोटिकान्तिसदृशं हंसं जगद्व्यापिनं नित्यानन्दमयं हृदम्बुजकुटीनीडे सदा भावयेत् ||
७२७ ||
तत्रैव— गणेश्वरो विधिर्विष्णुः शिवो जीवो गुरुस्तथा |
षडेते हंसतामेत्य मूलाधारादिषु स्थिताः ||
७२८ ||
हंसतामेत्येति |
सहस्रदलकमलकर्णिकावस्थितहंसरूपपरमात्माभेदरूपं प्राप्येत्यर्थः |
एषा हंसैक्यभावना तत्रैवोक्ता— हंसो गणेशो विधिरेव हंसो हंसो हरिर्हंसमयश्च शम्भुः |
हंसो हि जीवो गुरुरेव हंसो हंसोऽहमात्मा परमार्थरूपः ||
७२९ ||


Band II, S. 139, Die unteren vier Chakras 730–735
हंसावस्थायामेषां स्थानभूतानि षट्चक्राण्युक्तानि योगसारे— गुदाच्च द्व्यङ्गुलादूर्ध्वं मेढ्राच्च द्व्यङ्गुलादधः |
मूलाधारमिदं प्रोक्तं पीतवर्णं चतुर्दलम् ||
७३० ||
तोयवर्णादिभिर्वर्णैश्चतुर्भिः समलङ्कृतम् |
गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् ||
७३१ ||
तथा— तदेव कामरूपाख्यं पीठं कामफलप्रदम् |
स्वाधिष्ठानाह्वयं चक्रं लिङ्गमूले षडारकम् ||
७३२ ||
बालार्कवर्णपृष्ठादिषडक्षरसमन्वितम् |
नाभिदेशे स्थितं चक्रं दशारमणिपूरकम् ||
७३३ ||
नीलप्रभाण्डादिवर्णैर्दशभिः समलङ्कृतम् |
द्वादशारं महाचक्रं हृदयेऽनाहताह्वयम् ||
७३४ ||
क्रोधीशाद्यक्षरोपेतमिन्द्रगोपसमप्रभम् |
तदेतत् पूर्णगिर्याख्यं पीठं तव वरानने ||
७३५ ||


Lesungshinweise: [Die Lautnamen sind hier teilweise verschlüsselt; die spätere Dhyana-Passage nennt die Buchstabenfolgen genauer.]

Band II, S. 139–140, Vishuddha Ajna und Sahasrara 736–741
कण्ठदेशे विशुद्धाख्यं यच्चक्रं षोडशारकम् |
धूम्रप्रभं षोडशभिः श्रीकण्ठादिस्वरैर्युतम् ||
७३६ ||
पीठं जालन्धरं नाम तिष्ठत्यत्रामरेश्वरि |
आज्ञा नाम भ्रुवोर्मध्ये द्विदलं चक्रकेशरम् ||
७३७ ||
अन्त्यवर्णद्वयोपेतं शरच्चन्द्रसमद्युतिम् |
उड्ड्यानाख्यं महापीठमुपरिष्ठात् प्रतिष्ठितम् ||
७३८ ||
सहस्रारं महापद्मं विसर्गाधः प्रतिष्ठितम् |
अधोमुखं सर्ववर्णयुक्तमारक्तकेशरम् ||
७३९ ||
एतदेव हि कैलाससंज्ञकं चक्रमुच्यते |
यत्र नित्योदितश्चन्द्रो निश्शृङ्गोऽमृतवर्षणः ||
७४० ||
तथा— सहस्रारं तु देवेशि हंसरूपी परः शिवः |
स्थानान्येतानि देवेशि शक्तिर्येषु प्रकाश्यते ||
७४१ ||


Lesungshinweise: [Zu Vers 737 verzeichnet die Ausgabe statt des auffälligen Ausdrucks „चक्रकेशरम्“ auch „vorzügliches Chakra“.]

Band II, S. 140, Dhyana von Ganesha Brahma und Vishnu 742–744
मूलाधारादौ गणेशादिध्यानमुक्तं बालार्चनपद्धतौ— वशषसदलयुक्ते सम्यगाधारपद्मे तरुणमरुणगात्रं वारणास्यं त्रिनेत्रम् |
अभयवरदहस्तं चारुपाशाङ्कुशोद्यत्कररुचिरसमन्वं चिन्तयेदादिमूर्तिम् ||
७४२ ||
स्वाधिष्ठाने ब्रह्मध्यानं यथा— बभमयरलैः संज्ञैरक्षरैः क्लृप्तपद्मे सुरुचिरमुपदिष्टे पङ्कजैः सन्निधानम् |
अभयवरदहस्तं कुण्डिकां चाक्षमालां दधतममलमूर्तिं चिन्तयेद्विश्वयोनिम् ||
७४३ ||
मणिपूरचक्रे विष्णुध्यानं यथा— डाद्यैः फान्तगतैः प्रकल्पितदले पद्मे निविष्टं हरिं मार्तण्डद्युतिमादिपूरुषमजं नारायणं चिन्मयम् |
हस्तन्यस्तगदारिशङ्खकमलं पीताम्बरं कौस्तुभं श्रीवत्साङ्कितमिन्द्रनीलसदृशं ध्यायेज्जगन्मोहनम् ||
७४४ ||


Lesungshinweise: [Die Ausgabe verzeichnet als abweichenden Versschluss die Verbindung mit Siddhi und Lakshmi sowie die segenspendende Gestalt Shri Ganeshas.] [Die gedruckte Wendung zum Lotus ist grammatisch auffällig; eine verzeichnete Lesart nennt ausdrücklich den Lotus an der Wurzel des Gliedes.]

Band II, S. 141, Dhyana von Shiva und individuellem Selbst 745–746
अनाहतचक्रे शिवध्यानं यथा— काद्यैष्ठान्तगतैः प्रकल्पितदले पङ्केरुहे पार्वतीकान्तं पूर्णशशाङ्ककोटिसदृशं प्रख्यं कपर्दोज्ज्वलम् |
शान्तं टङ्कमृगाभयास्पदकरं नागादिभूषोज्ज्वलं ग्रैवेयाङ्गदहारकुण्डलधरं चर्माम्बरं चिन्तयेत् ||
७४५ ||
विशुद्धचक्रे जीवात्मध्यानं यथा— मूर्ध्न्यङ्गेषु निविष्टमङ्गरहितं शान्तं रुचा भासुरं व्याप्ताशेषचराचरं गुणमयं भावेन सच्चिन्मयम् |
मूर्तामूर्तममूर्तमेकममलं ज्योतिःप्रदीपोपमं साक्षात्षोडशपत्रवर्णकमले जीवं परं चिन्तयेत् ||
७४६ ||


Band II, S. 141, Dhyana von Guru und höchstem Selbst 747–748
आज्ञाचक्रे गुरुध्यानं यथा— हक्षार्णद्वयचारुपत्रकमले दिव्ये जगत्कारणे विश्वोत्तीर्णमनेकदेहनिलयं स्वच्छन्दमात्मेच्छया |
तत्तद्योग्यतया स्वदेशिकतनुं भावैकसच्चिन्मयं प्रत्यक्षाक्षरविग्रहं गुरुवरं ध्यायेत् परं दैवतम् ||
७४७ ||
सहस्रदलकमले परमात्मध्यानं यथा— विश्वव्यापिनमादिदेवममले नित्यं परं निष्कलं नित्योद्बुद्धसहस्रपत्रकमले लिप्यक्षरैर्मण्डिते |
नित्यानन्दमनन्तपूर्णपरचित्सत्तास्फुरत्तात्मकं स्मृत्वाऽऽत्मानमनुप्रविश्य कुहरे स्वच्छन्दतः सर्वतः ||
७४८ ||


Band II, S. 141–142, Shaktis und Verteilung des Ajapa 749–753
एषां शक्तयोऽपि तत्रैवोक्ताः— शक्तिः सिद्धिर्गणेशस्य ब्रह्मणश्च सरस्वती |
लक्ष्मीर्नारायणस्यापि पार्वती च पिनाकिनः ||
७४९ ||
अविद्या चैव जीवस्य गुरोर्ज्ञानं परापरम् |
मोक्षबीजात्मिका विद्या शक्तिश्च परमात्मनः ||
७५० ||
एवं ध्यात्वा परात्मानमिष्टदेवीस्वरूपिणम् |
निवेदयेद्यथासंख्यं क्रमेणैवाजपाजपम् ||
७५१ ||
षट्शतानि गणेशाय ब्रह्मणे षट्सहस्रकम् |
विष्णवे षट्सहस्रं च षट्सहस्रं पिनाकिने ||
७५२ ||
सहस्रमात्मने चैव गुरवे च सहस्रकम् |
परात्मने सहस्रं च यथाविधि निवेदयेत् ||
७५३ ||


Band II, S. 142, Ausgeschriebene Ajapa-Darbringungen
यथाविधि इति मानसैरुपचारैरभ्यर्च्य— सिद्धिशक्तिसहिताय गणेशाय षट्शहस्रसंख्याकमजपाजपमहं निवेदयामि नमः |
एवम्— सरस्वतीशक्तिसहिताय ब्रह्मणे षट्सहस्रसंख्याकमजपाजपमहं निवेदयामि नमः |
एवम्— लक्ष्मीशक्तिसहिताय विष्णवे षट्सहस्रसंख्याकमजपाजपमहं निवेदयामि नमः |
एवम्— पार्वतीशक्तिसहिताय महेश्वराय षट्सहस्रसंख्याकमजपाजपमहं निवेदयामि नमः |
एवम्— अविद्याशक्तिसहिताय जीवात्मने सहस्रसंख्याकमजपाजपमहं निवेदयामि नमः |
एवम्— परापरज्ञानशक्तिसहिताय गुरवे सहस्रसंख्याकमजपाजपमहं निवेदयामि नमः |
एवम्— सूर्यकोटिप्रकाशाय चन्द्रकोटिसुशीतलाय विद्याशक्तिसहिताय परमात्मने सहस्रसंख्याकमजपाजपमहं निवेदयामि नमः |
इत्येवं निवेदयेदित्यर्थः |


Lesungshinweise: [In der ersten Formel steht im Druck sechstausend; Vers 752 nennt für Ganesha sechshundert. Diese Abweichung bleibt sichtbar. Für Vishnu verzeichnet die Ausgabe auch den Namen Narayana.]

Band II, S. 142–143, Tara-Sonderregel und täglicher Sankalpa 754–758
ताराविषये तु वीरचूडामणौ— आज्ञायां विद्युदाभायां शुभ्रं दक्षौ नियोजयेत् |
परमात्मनि पराशक्तौ सहस्रं च समर्पयेत् ||
७५४ ||
कर्पूरद्युतिसंराजत्सहस्रदलपङ्कजे |
नीलात्मकं गुरुं ध्यायेत् सहस्रं च समर्पयेत् ||
७५५ ||
इति विशेष उक्तः |
तथा— ततः स्तुत्वा च नत्वा च संकल्प्य च विधानतः |
तदाज्ञां च समादाय कुर्यादावश्यकीः क्रियाः ||
७५६ ||
संकल्प्येति— अद्यतनसूर्योदयादारभ्य श्वस्तनसूर्योदयपर्यन्तं श्वासोच्छ्वासरूपेण षट्शताधिकैकविंशतिसहस्रसंख्याकमजपागायत्रीजपमहं करिष्ये |
इति संकल्प्येत्यर्थः |
मेरुतन्त्रे— प्रार्थयित्वा वरान् श्वासयुक्तं पादं निधापयेत् ||
७५७ ||
समुद्रमेखले देवि पर्वतस्तनमण्डले |
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ||
७५८ ||


Lesungshinweise: [die anschließende Richtungs- oder Ortsangabe „दक्षौ“ ist unsicher] Für Tara wird im Virachudamani eine Besonderheit genannt: (754) Im blitzhellen Ajna setze man das Weiße ein [die anschließende Richtungs- oder Ortsangabe „दक्षौ“ ist unsicher].

Band II, S. 143, Körperreinigung 759–766
अथ शौचविधिस्तत्रैव— ततो गृहाद्बहिर्याम्यां नैर्ऋतीं वा दिशं व्रजेत् |
पदे पदे स्मरेदस्त्रं दूरे यायान्निजालयात् ||
७५९ ||
अतीत्य बाणमात्रां तु भुवं ग्रामाद्विलोक्य च |
कीटतोयादिरहितं शौचस्थानमिदं पठेत् ||
७६० ||
उत्तिष्ठन्त्वृषयो देवा गन्धर्वा यक्षराक्षसाः |
परितस्त्यज्यतां स्थानं विण्मूत्रोत्सर्जनाय मे ||
७६१ ||
अनेन मनुना लोष्टतृणैरुद्वास्य देवताः |
कुर्यान्मलच्युतिं तत्र वाससा कं प्रवेष्ट्य च ||
७६२ ||
खं दिशश्च न पश्येत शौचमुद्धृत्य वारिभिः |
एका लिङ्गे गुदे सप्त दश वामकरे तथा ||
७६३ ||
उभयोः सप्त दातव्यास्तिस्रोऽङ्घ्र्योरपि मृत्तिकाः |
मूत्रोत्सर्गे वामहस्ते लिङ्गे पञ्च च मृत्तिकाः ||
७६४ ||
त्रिः करद्वितये चैका पादयोरथ वाऽऽचरेत् |
गन्धलेपक्षयकरं मनोग्लानिहरं परम् ||
७६५ ||
कुर्याद्द्वादशगण्डूषान् पुरीषोत्सर्जनोत्तरम् |
मूत्रत्यागे तु चतुर आचमेत् त्रिस्ततः परम् ||
७६६ ||


Band II, S. 144, Zahnreinigung und Vorbereitung des Bades 767–774
अथ दन्तधावनविधिस्तत्रैव— अर्कन्यग्रोधखदिरकरम्भककुभादिजम् |
कनिष्ठाग्रसमस्थौल्यं प्रगुणं द्वादशाङ्गुलम् ||
७६७ ||
क्लीमुक्त्वा कामदेवाय सर्वजनप्रियाय च |
नमोऽन्तस्थितिवर्णोऽयं मन्त्रो दन्तविशोधने ||
७६८ ||
प्रक्षाल्य दन्तकाष्ठं च शुद्धदेशे पुरस्त्यजेत् |
वक्त्रं मूलाणुना नित्यं क्षालयेत् सिद्धिहेतवे ||
७६९ ||
तन्त्रान्तरे— मन्त्रार्थं संस्मरंस्तीर्थं गत्वा स्नानं समाचरेत् |
अथ स्नानविधिः—तदुक्तं मेरुतन्त्रे— अथ पूजाहोमकर्मसिद्धये स्नानमुच्यते ||
७७० ||
शङ्खनास्त्राभिजप्तेन शुचिस्थानात्तु मृत्तिकाम् |
गृहीत्वाऽस्त्रेण संसिच्य यायाज्जलनिकेतनम् ||
७७१ ||
तन्त्रान्तरे— दर्भांस्तिलान् गोमयं च समादाय व्रजेत् ततः |
तर्जन्या रजतं धार्यं स्वर्णं धार्यमनामया ||
एष एवं कुशः प्रोक्तो न दर्भा वनसंभवाः ||
७७२ ||
रुद्रयामले— त्रयो दर्भाः समुद्दिष्टाः सुवर्णै रजतैः कुशैः |
तत्र शाक्ते द्वयं चाद्यमन्येषां तु त्रयो मताः ||
७७३ ||
सुवर्णं रजतं चैव जपपूजादिकर्मसु |
कुशकार्यकरं प्रोक्तं न तु वन्यकुशाः कुशाः ||
७७४ ||


Lesungshinweise: [Die erste Mantrabezeichnung „शङ्खनास्त्र“ ist im Druck nicht eindeutig.]

Band II, S. 144–145, Äußeres und tantrisches Bad 778–783
मेरौ— तत्रादौ जलकूलं तु क्षालयेदस्त्रवारिणा |
मृदं कृत्वा त्रिधा तत्र एकभागोपगां ततः ||
७७८ ||
निधाय गोमयं दर्भास्तिलाश्चाप्यभिमन्त्रितान् |
मृत्तिकागोमयाभ्यां च कट्यन्तं स्नानमाचरेत् ||
७७९ ||
बहिरुद्धृततोयेन मलस्नानं ततः परम् |
विधाय वैदिकं स्नानं तदङ्गतर्पणं तथा ||
७८० ||
ततस्तान्त्रिकस्नानस्य विधिरस्त्रेण मृत्तिकाम् |
समादायास्त्रमन्त्रेण मन्त्रयित्वा तृणादिकम् ||
७८१ ||
शिखामन्त्रेणापहत्य त्रिर्मूलेनाभिमन्त्रयेत् |
मूर्धादिपादपर्यन्तं विलिप्य प्रणमेज्जलम् ||
७८२ ||
आधारः सर्वभूतस्य विष्णोरतुलतेजसः |
तद्रूपाश्च ततो जातास्ता आपः प्रणमाम्यहम् ||
७८३ ||


Lesungshinweise: [Die Druckzählung springt von Vers 774 auf 778; Verse 775–777 sind hier nicht vorhanden.] [Die grammatische Verknüpfung des ersten Halbverses ist auffällig; die Bezugnahme auf Vishnu und die Wasser ist eindeutig.]

Band II, S. 145, Anrufung der heiligen Flüsse 784–790
संमुखीकरणी मुद्रां बद्ध्वा प्राणं निरुध्य च |
निमज्ज्य तूष्णीमुत्थाय नाभिमात्रे जले स्थितः ||
७८४ ||
तान्त्रिकस्नानसंकल्पं मासोल्लेखादिपूर्वकम् |
कृत्वा तु मूलमन्त्रेण प्राणायामत्रयं चरेत् ||
७८५ ||
विन्यस्य च षडङ्गानि कल्पयेत् तीर्थमग्रतः |
चतुरस्रे हस्तमात्रे तज्जले परिकल्पिते ||
७८६ ||
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे |
तेन सत्येन देवेश तीर्थं देहि दिवाकर ||
७८७ ||
इति सूर्यं प्रार्थयित्वा क्रोमित्यङ्कुशमुद्रया |
भित्त्वाऽर्कमण्डलं तस्मात् तीर्थान्यावाहयेदिह ||
७८८ ||
गङ्गे च यमुने चैव गोदावरि सरस्वति |
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु ||
७८९ ||
एवमुक्त्वा तु तीर्थानि तस्मिंस्तोये नियोजयेत् |
मूलमन्त्रेणाथ तीर्थशक्तिं तत्र समाह्वयेत् ||
अर्कस्य मण्डलं ध्यात्वा तन्मन्त्रेण च पूजयेत् ||
७९० ||


Band II, S. 145–146, Tirtha-Shakti und Ganga-Formel 791–796
सर्वानन्दमयीमशेषदुरितध्वंसां मृगाङ्कप्रभां त्र्यक्षामूर्ध्वकरद्वयेन दधतीं पाशं सृणिं वामतः |
अन्तश्चामृतपूर्णहेमकलशौ मुक्ताक्षमालां वरां गङ्गां सिन्धुसरिद्वरादिसहितां श्रीतीर्थशक्तिं भजे ||
७९१ ||
तीर्थशक्तिमन्त्रस्तन्त्रान्तरे— आकाशा वह्निमारूढा बिन्दुनादविभूषिताः |
षड्दीर्घस्वरसंभिन्ना सर्वानन्दमये पदम् ||
७९२ ||
संबुद्ध्यन्तां तीर्थशक्तिमेह्येहि वह्निगेहिनी |
एकविंशाक्षरः प्रोक्तस्तीर्थशक्तेर्महामनुः ||
७९३ ||
मेरुतन्त्रे— तज्जलं गाङ्गमन्त्रेण मन्त्रयेदष्टवारकम् |
ततो नमो भगवति ब्रूयादम्बे ततोऽम्बिके ||
७९४ ||
अम्बालिके महामालिन्येह्येहि भगवत्यथ |
अशेषतीर्थालवाले मायाश्रीबीजमुच्चरेत् ||
७९५ ||
शिवजटाधिरूढे च गङ्गे गङ्गाम्बिके द्विठः |
गङ्गाविद्येयमाख्याता त्रिपञ्चाशद्भिरक्षरैः ||
७९६ ||


Lesungshinweise: [Die genaue Verteilung von Krügen und Gebetskette auf die Hände ist in der Druckfassung nicht eindeutig.] [Die Vorlage gibt eine Aufbauanweisung mit verschlüsselten Bijas.] Sie ist die Vorzügliche.“ [Die genaue Verteilung von Krügen und Gebetskette auf die Hände ist in der Druckfassung nicht eindeutig.] Der Mantra der Tirtha-Shakti steht in einem anderen Tantra: (792–793) Man verbinde den Ätherlaut mit dem Feuerlaut, schmücke ihn mit Bindu und Nada und variiere ihn mit den sechs langen Vokalen.

Band II, S. 146, Reinigung durch die Wasser 797–803
भुवनेश्या समालोड्यामृतीकृत्य सुधाणुना |
कवचेनावगुण्ठ्याथ संरक्ष्यास्त्रेण मन्त्रवित् ||
७९७ ||
मूलेन देवतां तत्र साङ्गां सावरणां तथा |
समावाह्य जले ध्यात्वा तत्पादद्वयनिर्गतम् ||
७९८ ||
ध्यात्वा तीर्थं स्मरन्मूलमन्त्रं स्नायाज्जले त्रिशः |
हृदि देवं स्मरन् पश्चात् सिञ्चेत् कं कुम्भमुद्रया ||
७९९ ||
त्रिभिः श्लोकैर्मूलमन्त्रं तारकं बीजपूर्वकैः |
सिसृक्षोर्निखिलं विश्वं मुहुः शुक्रं प्रजापते ||
८०० ||
मातरः सर्वभूतानामापो देव्यः पुनन्तु माम् |
अलक्ष्मीर्मलरूपा याः सर्वभूतेषु संस्थिताः ||
८०१ ||
क्षालयन्ति निजं स्पर्शादापो देव्यः पुनन्तु माम् |
यन्मे केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ||
८०२ ||
ललाटे कर्णयोरक्ष्णोस्तमापो घ्नन्तु वो नमः |
ततः स्वाहात्ममूलेन त्रिराचमनमारचरेत् ||
८०३ ||


Lesungshinweise: [Der erste Gebetsanfang in Vers 800 ist grammatisch verkürzt; die Vorlage nennt ausdrücklich die Schöpferkraft Prajapatis.]

Band II, S. 146, Abschluss des Bades 804–805
गन्धर्वतन्त्रे— मूलं पठन्मूर्ध्नि तोयं मुद्रया कुम्भसंज्ञया |
क्षिप्त्वा वारत्रयं पश्चादाचामेत् साधकाग्रणीः ||
८०४ ||
आत्मविद्याशिवैस्तत्त्वैः ... ... इति |
कुम्भमुद्रा वक्ष्यते मेरुतन्त्रे— त्रिधा देवं च संतर्प्य तोयमध्यात् तटे व्रजेत् ||
८०५ ||


Lesungshinweise: [Die Vorlage enthält hier eine Auslassung.]

Band II, S. 147, Abschluss und Mantra-Bad 806–811
धौतं वस्त्रयुगं धृत्वा प्रक्षाल्योरू करौ तथा |
मृदद्भिस्तत आचामेदेवं स्नानविधिः स्मृतः ||
८०६ ||
अथ मन्त्रस्नानविधिस्तत्रैव— मन्त्रस्नानं प्रकर्तव्यं शीतयोर्देशकालयोः |
तोयाभावेऽगमे दुर्गे कार्येऽस्वास्थ्ये च वार्धके ||
८०७ ||
प्रक्षाल्य पादावाचम्य प्रोद्धृतेन तु वारिणा |
स्थानं दश दिशः प्राग्वत् संशोध्योपविशेत् ततः ||
८०८ ||
अस्त्रं हस्ततले न्यस्य क्रमात् न्यासांस्ततश्चरेत् |
मातृकादींस्तथा मूलमन्त्रन्यासानशेषतः ||
८०९ ||
न्यासान्ते संस्पृशेत् तोयं मन्त्रस्नानमिदं वरम् |
केवलादुदकस्नानात् संस्कारपरिवर्जितात् ||
८१० ||
प्रभासादिषु तीर्थेषु यत् फलं स्नातकस्य तु |
ज्ञेयं दशगुणं तस्मान्मन्त्रस्नानस्य निश्चयात् ||
८११ ||


Band II, S. 147–148, Dhyana-Bad geistiges Bad und Shiva-Bad 812–819
अथ ध्यानस्नानं तत्रैव— ध्यानस्नानमथो वक्ष्ये द्वाभ्यामपि परं च यत् |
खस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिं प्रभुं स्मरेत् ||
८१२ ||
तत्पादोदकजां धारां निपतन्तीं स्वमूर्धनि |
चिन्तयेत् सूक्ष्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम् ||
८१३ ||
तया संक्षालयेत् सर्वमेतद्देहगतं मलम् |
तत्क्षणाद्विरजा मन्त्री जायते स्फटिकोपमः ||
८१४ ||
इदं स्नानवरं मन्त्रस्नानाच्छतगुणं मतम् |
मनसा यस्तु संशुद्धः स शुद्धः सर्वकर्मसु ||
८१५ ||
पुण्डरीकाक्षमित्युपलक्षणम् |
यस्य या देवता स तां स्मरेदिति वदन्ति |
अथ मानसस्नानं तत्रैव— अथ मानसिकं स्नानं मनसा मूलमन्त्रतः |
प्राणायामं प्रकुर्वीत दृष्टतीर्थेषु भावतः ||
८१६ ||
शैवागमेऽपि— मनसा मूलमन्त्रेण प्राणायामपुरस्सरम् |
कुर्वीत मानसं स्नानं सर्वत्र विहितं च यत् ||
८१७ ||
मेरुतन्त्रे— यद्वा शिवात्मकैर्मन्त्रैः कृत्वा तीर्थं शिवात्मकम् |
मार्जनं संहितामन्त्रैः शिवस्नानमितीरितम् ||
८१८ ||
स्नानपूर्वाः क्रियाः सर्वाः शुद्धाः सिद्धिं प्रयान्ति च |
तस्मात् स्नानं पुरा कुर्यादेष्वेकं देहशक्तितः ||
८१९ ||


Band II, S. 148, Tilaka 820–824
अथ तिलकधारणविधिस्तत्रैव— ततस्तु तिलकं कुर्याज्जातेर्वा दैवतस्य वा |
यद्यच्छुभफलं तीर्थं मृद्भिर्वा भक्तिभावतः ||
८२० ||
ब्राह्मणस्योर्ध्वपुण्ड्रः स्यात् क्षत्रियस्य त्रिपुण्ड्रकम् |
अर्धचन्द्रं तु वैश्यस्य शूद्राणां वर्तुलाकृतिः ||
८२१ ||
ऊर्ध्वपुण्ड्रं मृदा कुर्यात् त्रिपुण्ड्रं चापि भस्मना |
केशरेण च कस्तूर्या शेषे शीतं यथारुचि ||
८२२ ||
वैष्णवस्योर्ध्वपुण्ड्रं स्यात् त्रिपुण्ड्रं शिवसेवितुः |
अर्धचन्द्रो गणेशस्य देवीभक्तस्य वर्तुलम् ||
८२३ ||
नारायणपरो यस्तु चन्दनस्य त्रिशूलकम् |
भाले बिभर्ति वन्द्योऽसौ ब्रह्मविष्णुशिवात्मकम् ||
८२४ ||


Band II, S. 148, Gewinnung der heiligen Asche 825–830
अथ विभूतिधारणविधिस्तत्रैवोक्तः— भूतिदातुर्विभूतिः स्याद्विधिना विधृता यदि |
यथाकथञ्चिद्विधृता भस्मसात्कुरुते जनम् ||
८२५ ||
शिवाग्रे भस्म संग्राह्यमग्निहोमोद्भवं तु यत् |
वैवाह्यग्न्युद्भवं वाऽपि पङ्कं शुचि सुगन्धि च ||
८२६ ||
कपिलायां सकृच्छ्रेष्ठं गृहीतं गगने पतत् |
न क्लिन्नं नापि कठिनं न दुर्गन्धि न चोषितम् ||
८२७ ||
उपर्यधः परित्यज्य गृह्णीयात् पतितं यदि |
पिण्डीकृत्य शिवाग्नौ तु तत् क्षिपेन्मूलमन्त्रतः ||
८२८ ||
अपक्कमपि पक्वं च संत्याज्यमसितं सितम् |
आदाय वाससाऽऽलोड्य भस्माधारे विनिःक्षिपेत् ||
८२९ ||
भस्मसंग्रहणं कुर्याद्देवेऽनुद्वासिते सति |
उद्वासने कृते यस्माच्चण्डभस्म प्रजायते ||
८३० ||


Lesungshinweise: [Das im Druck verwendete Wort für die feuchte Masse ist auffällig.]

Band II, S. 149, Weihe und Auftragen der Asche 831–840
यद्वा द्विजा भस्म कुर्युः सव्येनानीय गोमयम् |
वामेन पात्रे संयोज्याघोरमन्त्रेण निर्दहेत् ||
८३१ ||
पुरुषेण समुद्धृत्य ईशानेन विशोधयेत् |
इत्थं तु संस्कृतं भस्म अग्निरित्यादिमन्त्रितः ||
८३२ ||
तद्रुद्रायेति यजुषा मन्त्रयेद्रुद्रसंख्यया |
प्रणवाद्यैश्चतुर्थीहृदन्तैर्नामभिरंशकैः ||
८३३ ||
पञ्चवर्णाद्यक्षराद्यैः भालांसोद्रहृत्सु च |
त्रिपुण्ड्रधारणं कुर्यान्मूर्ध्नि पञ्चाक्षरेण च ||
८३४ ||
एभिश्च नामभिर्धार्यं पुनर्भस्म द्विजादिभिः |
ब्रह्मा ललाटे विज्ञेयो हृदये हव्यवाहनः ||
८३५ ||
नाभौ स्कन्दो गले पूषा रुद्रो दक्षिणबाहुके |
आदित्यो बाहुमध्ये च शशी च मणिबन्धके ||
८३६ ||
वामदेवो वामबाहौ बाहुमध्ये प्रभञ्जनः |
मणिबन्धे च वसवः पृष्ठदेशे हरिः स्मृतः ||
८३७ ||
शम्भुः ककुदि संप्रोक्तः परमात्मा शिरः स्मृतः |
कस्तूर्यादिकसंयुक्तं भस्म शाक्तस्तु धारयेत् ||
८३८ ||
अद्विजैर्मूलमन्त्रेण शिवपञ्चाक्षरेण च |
त्रिपुण्ड्रं कारयेद्भाले ब्रह्मविष्णुशिवात्मकम् ||
८३९ ||
मध्याङ्गुलिभिरादाय तिसृभिर्मूलमन्त्रितम् |
अनामामध्यमाङ्गुष्ठैरथ वा स्यात् त्रिपुण्ड्रकम् ||
८४० ||


Lesungshinweise: [Die gedruckte Körperstellenfolge ist verkürzt.]

Band II, S. 149, Beginn der Sandhya 841–843
अथ सन्ध्याविधिः |
भैरवीतन्त्रे— आचम्य प्राङ्मुखो भूत्वा उपविश्य च मन्त्रवित् |
वैदिकीं तान्त्रिकीं कुर्यात् ततः सन्ध्यां समाहितः ||
८४१ ||
मेरुतन्त्रे— वक्ष्येऽथ तान्त्रिकीं सन्ध्यां मूलेनाचमनत्रयम् |
शिखां बद्ध्वा च मूलेन प्राणायामत्रयं चरेत् ||
८४२ ||
अङ्गानि विन्यसेद्देहे करन्यासपुरःसरम् |
अमृतीकृत्य पुरतो जलं च धेनुमुद्रया ||
८४३ ||


Lesungshinweise: [Die Anweisung setzt sich im folgenden Vers fort.]

Band II, S. 150, Wasserreinigung in der Sandhya 844–850
अभिमन्त्र्य च मूलेन सप्तवारं ततः परम् |
अकारादिक्षकारान्तैर्मातृकार्णैः सबिन्दुभिः ||
८४४ ||
प्रत्यर्णं प्रोक्षयेन्मूर्ध्नि कुशैर्मूलेन च त्रिधा |
देवं ध्यात्वाऽथ मनुविद्भानुमण्डलसंस्थितम् ||
८४५ ||
आदाय तोयमामन्त्र्य बीजैर्भूतात्मकैस्तथा |
लँ वँ रँ हँ इति च तान्येतैः सप्तधा जलम् ||
८४६ ||
मन्त्रयित्वा पुनः सप्तवारं मूलेन मन्त्रयेत् |
तज्जलं वामहस्तेन धार्यं तत्स्रुतबिन्दुभिः ||
८४७ ||
दक्षहस्तेन संप्रोक्ष्य कं पठन्मूलमन्त्रकम् |
हस्तव्यत्यासतो वामाचारी सेचनमाचरेत् ||
८४८ ||
नासामाश्लिष्य शिष्टेन तेजोरूपेण तेन तु |
प्रविश्यान्तर्गतं सर्वं मलं संशोध्य निर्गतम् ||
८४९ ||
दक्षनासापुटेनैतत् स्मृत्वा दक्षिणहस्तकम् |
वामभागे वज्रशिलां ध्यात्वाऽस्त्रेण च तत् क्षिपेत् ||
८५० ||


Lesungshinweise: [Die Bija-Liste enthält im Druck vier Silben; eine fünfte wird nicht ergänzt.]

Band II, S. 150, Arghya Tarpana und Gayatri 851–854
प्रक्षाल्य हस्तावाचम्य मूलमन्त्रेण मन्त्रवित् |
गायत्र्या वाऽथ मूलेन दद्यादर्घ्यत्रयं ततः ||
८५१ ||
रविमण्डलसंस्थाय स्वेष्टदेवाय तर्पयेत् |
जलेन मूलमन्त्रान्ते ह्यमुकं तर्पयामि च ||
८५२ ||
उक्त्वा त्रिधा तर्पणीयं वामकैः कारणेन तु |
इष्टदेवस्य गायत्रीमष्टाविंशतिसंख्यकाम् ||
८५३ ||
जपेदभावे ब्राह्मीं तु वैदिकं मतमाश्रितः |
तान्त्रिकः शिवगायत्रीं जपेत् साऽथ निरूप्यते ||
८५४ ||


Band II, S. 150, Erste Shiva-Gayatri
अथ शिवगायत्री— ॐ तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि तन्नः शिवः प्रचोदयात् |
इति |


Band II, S. 150, Zweite Shiva-Gayatri
तन्त्रान्तरे— ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात्—इति शिवगायत्री उक्ता |


Band II, S. 150, Ganesha-Gayatri
अथ गणेशगायत्री यामले— ॐ तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् |


Band II, S. 150–151, Surya-Gayatri 855
अथ सूर्यगायत्री मेरुतन्त्रे— ॐ सप्ततुरगाय विद्महे सहस्रकिरणाय धीमहि तन्नो रविः प्रचोदयात् |
इयं तु सूर्यगायत्री जपतामिष्टदायिनी |
भग्नानां राजपुत्राणां क्षत्रतेजोविधायिनी ||
८५५ ||


Band II, S. 151, Vishnu-Gayatri
अथ विष्णुगायत्री तत्रैव— ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् |


Band II, S. 151, Narasimha-Gayatri
अथ नृसिंहगायत्री तच्चरणार्चनपद्धतौ— ॐ नृसिंहाय विद्महे तीक्ष्णदंष्ट्राय धीमहि तन्नः कृष्णः प्रचोदयात् |


Lesungshinweise: [Der Schluss nennt im Druck Krishna; er wird nicht durch Narasimha ersetzt.]

Band II, S. 151, Sudarshana-Gayatri
अथ सुदर्शनगायत्री तत्रैव— ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्नश्चक्रः प्रचोदयात् |


Band II, S. 151, Hayagriva-Gayatri
अथ हयग्रीवगायत्री तत्रैव— ॐ वागीश्वराय विद्महे हयग्रीवाय धीमहि तन्नो हंसः प्रचोदयात् |


Band II, S. 151, Shyama- und Kali-Gayatri 856–860
अथ श्यामागायत्री कुमारीतन्त्रे— कालिकायै पदं चोक्त्वा विद्महे तदनन्तरम् |
श्मशानवासिनी ङेन्ता धीमहीति ततो वदेत् ||
८५६ ||
तन्नो घोरे पदं प्रोच्य प्रवदेच्च प्रचोदयात् |
अस्याः प्रसादमात्रेण महापातककोटयः ||
सद्यः प्रलयमायान्ति साधकस्य च नान्यथा ||
८५७ ||
तथा— महापातकयुक्तोऽपि प्रजपेद्दशधा यदि |
सत्यं सत्यं महादेवि मुक्तो भवति तत्क्षणात् ||
८५८ ||
भैरवतन्त्रे तु— कामोपराक्षिणादान्तो दक्षिणा ङेयुता पुनः |
विद्महे कूर्चबीजं च चामुण्डा ङेयुता ततः ||
८५९ ||
धीमहीति वदेत् तन्नः काली प्रचोदयात् ततः |
गायत्र्येषा मया प्रोक्ता सर्वतन्त्रेषु गोपिता ||
यां विना सकला विद्या न सिद्ध्यन्ति कदाचन ||
८६० ||
इत्युक्तम् |


Lesungshinweise: [ihre Bildung ist im Druck nicht sicher auflösbar]

Band II, S. 151, Gayatri der Nakshatra-Vidya 861
अथ नक्षत्रविद्यायाः कालिकार्णवे— ऐँ भगवत्येकजटे विद्महे च पदं ततः |
विकटदंष्ट्रे धीमहि तन्नस्तारे प्रचोदयात् ||
८६१ ||


Lesungshinweise: [Das vorangestellte Bija wird als Lautform bewahrt und nicht wörtlich übersetzt.]

Band II, S. 152, Weitere Tara-Gayatris 862–863
मालिनीतन्त्रे— महोग्रायै च विद्महे तारायै धीमहि प्रिये |
तन्नो देवी च शब्दान्ते धियो यो नः प्रचोदयात् ||
८६२ ||
वीरचूडामणौ— वाग्भवं च समुच्चार्य एकजटायै विद्महे |
देवीं स्त्रीँ च समुच्चार्य नीलसरस्वत्यै धीमहि ||
हृल्लेखां च समुच्चार्य ततस्तारे प्रचोदयात् ||
८६३ ||


Lesungshinweise: [Der überlieferte Schluss fügt die beiden Wendungen in grammatisch auffälliger Weise zusammen.] [Die Bijas werden nicht wörtlich übersetzt; die Vorlage beschreibt die Bildung der Formel.]

Band II, S. 152, Tripurasundari Bhairavi und Bhuvaneshvari 864–867
त्रिपुरसुन्दर्या ज्ञानार्णवे— वाग्भवं त्रिपुरादेव्यै विद्महे तदनन्तरम् |
कामबीजं समुच्चार्य कामेश्वर्यै च धीमहि ||
तन्नः क्लिन्ने पदं चोक्त्वा वदेत् पश्चात् प्रचोदयात् ||
८६४ ||
भैरव्यास्तत्रैव— त्रिपुरां च तथा ङेन्तां विद्महे पदमुद्धरेत् |
भैरव्यै च ततश्चोक्त्वा धीमहीति ततो वदेत् ||
८६५ ||
ततो देवीपदं चोक्त्वा प्रचोदयादुदीरयेत् |
गायत्री त्रैपुरा ख्याता वाग्भवाद्यं समुद्धरेत् ||
८६६ ||
भुवनेश्वर्यास्तन्त्रान्तरे— मायाबीजं समुच्चार्य भुवनेश्वर्यै च विद्महे |
आद्यायै पदमुच्चार्य धीमहि तदनन्तरम् ||
तन्नो देवी पदं प्रोच्य ततो देयं प्रचोदयात् ||
८६७ ||


Band II, S. 152–153, Chhinnamasta Dhumavati und Matangi 868–869
अथ छिन्नमस्तायास्तन्त्रान्तरे— वैरोचन्यै विद्महे च छिन्नमस्तायै च धीमहि |
तन्नो देवीपदं चोक्त्वा योजनीयं प्रचोदयात् ||
८६८ ||
अथ धूमावत्याः— धूमिति बीजमुच्चार्य धूमावती विद्महे |
विवर्णां देवीपदतो धीमहि पदमुद्धरेत् ||
अथ मातङ्ग्याः— धूमादेव्यास्तु गायत्री तन्नो धीरे प्रचोदयात् ||
८६९ ||
अथ श्यामागायत्री— ॐ शुकप्रियायै विद्महे श्रीकामेश्वर्यै धीमहि तन्नः श्यामा प्रचोदयात् |


Lesungshinweise: [Hier steht im Druck bereits die Überschrift „Nun für Matangi“, obwohl die folgende Zeile noch Dhumavati nennt.]

Band II, S. 153, Bagalamukhi Lakshmi und Gauri 870–871
अथ बगलामुख्याः— स्थिरमायां समुच्चार्य बगलापदतो मुखी |
विद्महे दुष्टपदतः स्तम्भनीपदमुच्चरेत् ||
धीमहीति पदस्यान्ते तन्नो देवी प्रचोदयात् ||
८७० ||
अथ लक्ष्मीगायत्री— महालक्ष्मीपदं प्रोच्य विद्महे तदनन्तरम् |
महाश्रियै पदं चोक्त्वा धीमहीति पदं वदेत् ||
तन्नः शब्दाच्छ्रीपदं च ततो दद्यात् प्रचोदयात् ||
८७१ ||
गौरीगायत्री मेरुतन्त्रे— ॐ सुभगायै विद्महे काममालिन्यै धीमहि तन्नो गौरी प्रचोदयात् |


Band II, S. 153, Bildung der Guhyakali-Gayatris 872–878
अथ गुह्यकालीगायत्री महाकालसंहितायाम्— क्रमेण वक्ष्ये गायत्रीं तत्तन्मन्त्रजपाय हि |
त्रिपदा सा च विज्ञेया त्रिका त्रिपदिकाऽपि च ||
८७२ ||
पदद्वयं ङेन्तमादौ शेषे चैव सुबन्तकम् |
त्रिकत्रिपदिकस्यापि विशेषं वच्मि किंचन ||
८७३ ||
सर्वादौ विद्महे ह्येवं मध्ये धीमहि चेत्यपि |
सुबन्तीयपदस्यान्ते पदमेकं प्रचोदयात् ||
तत्पूर्वं तत इत्येवमित्युद्धारो मयोदितः ||
८७४ ||
तथा— रावात् कापालिनी सिद्धिः कराली तदनन्तरम् |
शेषे गुह्या भारतीयषोडशार्णस्य वै मनोः ||
८७५ ||
करालिनी वधूबीजान्मुण्डमालिन्यतः परम् |
देवी भवेत् सर्वशेषे गायत्री च्यावनी त्वियम् ||
८७६ ||
फेत्कारिण्युग्रचण्डा च विकटदंष्ट्रा ततः परम् |
शेषे चण्डी च हारीतोपासिता त्रिपदा त्वियम् ||
८७७ ||
तथा— अट्टाट्टहासिनी ह्यादौ घोरदंष्ट्रा ततः परम् |
शेषे घोरा रामचन्द्रोपासिता त्रिपदा स्मृता ||
८७८ ||


Lesungshinweise: [Die Lesung „रावात्“ und die Verteilung der Namen sind nicht eindeutig.]

Band II, S. 154, Kamakala-Gayatri
अथ कामकलागायत्री तत्रैव— ॐ अनङ्गाकुलायै विद्महे मदनातुरायै धीमहि तन्नः कामकलाकाली प्रचोदयात् |


Band II, S. 154, Durga-Gayatri
दुर्गागायत्री तन्त्रान्तरे— ॐ कात्यायन्यै विद्महे कन्याकुमारी धीमहि तन्नो दुर्गा प्रचोदयात् |


Lesungshinweise: [Die Vorlage hat bei Kanyakumari eine vom üblichen Dativ abweichende Form; sie bleibt im Sanskrit erhalten.]

Band II, S. 154, Kama-Gayatri
अथ कामगायत्री मेरुतन्त्रे— ॐ कामदेवाय विद्महे पुष्पबाणाय धीमहि तन्नोऽनङ्गः प्रचोदयात् |


Band II, S. 154, Garuda-Gayatri
अथ गरुडगायत्री तत्रैव— सर्पभीतिहरीं वक्ष्ये गायत्रीं सर्वकामदाम् |
ॐ सुपर्णाय विद्महे पक्षिराजाय धीमहि तन्नो गरुडः प्रचोदयात् |


Band II, S. 154, Hanuman-Gayatri
अथ हनुमद्गायत्री तन्त्रान्तरे— हूँ हनुमते विद्महे आञ्जनेयाय धीमहि तन्नो वीरः प्रचोदयात् |


Lesungshinweise: [Das Bija besitzt hier keine wörtliche Übersetzung.]

Band II, S. 154, Abschluss und verkürzte Sandhya 879–884
मेरुतन्त्रे— ... ... ... मूलमष्टोत्तरं शतम् |
जपित्वा चार्पयेद्देवे स्तुत्वा नत्वेष्टदेवताम् ||
८७९ ||
सूर्यमण्डलतो देवं विन्यसेद्धृदये स्वके |
ततो गुरुं च प्रणमेदिति सन्ध्या तु तान्त्रिकी ||
८८० ||
त्रिकालमेवं कर्तव्या सन्ध्यालोपात् फलं न हि |
दैवतो यदि लोपश्चेत् तदा मूलं शतं जपेत् ||
प्रायश्चित्ताय तां कृत्वा कुर्वीत समयागताम् ||
८८१ ||
शैवागमेऽपि— सन्ध्यालोपो न कर्तव्यः शम्भोराज्ञैवमेव हि |
दीक्षितः सन्ध्यया हीनो न दीक्षाफलमाप्नुयात् ||
८८२ ||
गौतमीये— संक्षेपसन्ध्यामथ वा कुर्यान्मन्त्री ह्यशक्तितः |
सायं प्रातश्च मध्याह्ने कृष्णं ध्यात्वा जपेन्मनुम् ||
८८३ ||
कृष्णमित्युपलक्षणं स्वेष्टदेवतां ध्यात्वेत्यर्थः |
सन्ध्यायां पतितायां वा गायत्रीं दशधा जपेत् ||
८८४ ||


Lesungshinweise: [Der Versbeginn fehlt im Druck.]

Band II, S. 155, Tarpana 885–889
अथ तर्पणं मेरौ— वैदिकं तर्पणं कृत्वा ततस्तान्त्रिकमाचरेत् |
प्राणायामत्रयं कृत्वा मूलेन न्यासमाचरेत् ||
८८५ ||
ऋष्यादित्रितयस्याथ पुरतो धेनुमुद्रया |
वँ जपन्नमृतीकृत्य जलं तत्र सचक्रकम् ||
८८६ ||
साङ्गं सावरणं देवं ध्यात्वा मूलं समुच्चरेत् |
अमुकं तर्पयामीति प्रोच्य चाष्टोत्तरं शतम् ||
८८७ ||
तदर्धमथवा विंशदष्टयुक्तं मुखाब्जके |
देवस्यामृतबुद्ध्या तत्तीर्थतोयैः प्रतर्पयेत् ||
८८८ ||
तदावरणदेवांश्च तद्वदेकैकवारकम् |
सन्तर्प्य देवं स्वहृदि तीर्थं सूर्ये विसर्जयेत् ||
८८९ ||


Band II, S. 155, Sonnen-Arghya 890–892
नन्दिकेश्वरसंहितायाम्— यावन्न दीयते चार्घ्यं भास्कराय निवेदनम् |
तावन्न पूजयेद्विष्णुं शङ्करं वा सुरेश्वरि ||
८९० ||
माहेश्वरीये— संस्मृत्य भैरवं देवं मार्तण्डाख्यमुमापतिम् |
मूलेन मनुना देवि सूर्यस्य मनुनाऽथ वा ||
८९१ ||
मायाबीजं समुद्धृत्य सोऽहं तु विपरीतकम् |
मार्तण्डभैरवं ङेन्तं प्रकाशशक्तिसंयुतम् ||
एष तेऽर्घोऽग्निजायेति दद्यादर्घ्यत्रयं सुधीः ||
८९२ ||


Lesungshinweise: [Die Vorlage beschreibt den Aufbau der Formel; die Umkehrung und Bijas werden nicht stillschweigend ausgeschrieben.]

Band II, S. 155–156, Gang zum Puja-Raum und Reinigung des Geistes 893–902
मेरौ तु पूजागृहं गत्वा सूर्यार्घदानमुक्तं यथा— गुरुं दिगीशांश्च खगान् नत्वा भाण्डं करे दधत् |
जलपूर्णं व्रजेन्मौनी स्वेष्टदेवं हृदि स्मरन् ||
८९३ ||
एकान्तं निर्जनं यायान्मनोज्ञं दोषवर्जितम् |
दिगन्तरं न वीक्षेत यावत् प्राप्नोति वै गृहम् ||
८९४ ||
प्रदक्षिणं यज्ञवाटं कृत्वा पादौ च हस्तकौ |
प्रक्षाल्याचम्य पूजाया गृहाद्दण्डान्तरे स्थितः ||
८९५ ||
गृहे च द्वारदेशस्थः प्रणम्य मनसा गुरुम् |
प्रणमेदिष्टदेवं स्वं दिक्पालानपि चेतसा ||
८९६ ||
यत् पूर्वमर्जितं पापं तद्दिनेऽन्यदिनेऽपि वा |
तत्पापस्यापनोदार्थं मन्त्रद्वयमुदीरयेत् ||
८९७ ||
हे देव प्राकृतं चित्तं पापाक्रान्तमिदं मम |
तन्निःसारय चित्तान्मे पापं फट् फट् च ते नमः ||
८९८ ||
सूर्यः सोमो यमः कालो महाभूतानि पञ्च च |
एते शुभाशुभस्येह कर्मणो नव साक्षिणः ||
८९९ ||
हूँ फडिति ब्रुवन् क्रोधदृष्ट्या पश्येच्च पार्श्वयोः |
एवं कृते प्रथमतः पापोत्सादनकर्मणि ||
९०० ||
यत् स्याद्दृढतरं पापं तद्दूरे वाऽवतिष्ठते |
अतीते पूजनस्थाने स्वं प्रयाति पुनश्च तत् ||
९०१ ||
यत् स्यादल्पतरं पापं तन्नाशमुपगच्छति |
पूजने त्यक्तपापस्य काममिष्टं क्षणाद्भवेत् ||
९०२ ||


Band II, S. 156, Sonnenmantra und Dhyana 903–907
ततः प्रक्षाल्य पादौ च हस्तावाचम्य यत्नतः |
दद्यादर्घ्यं दिनेशाय तत्प्रकार इहोच्यते ||
९०३ ||
गोमयेनोपलिप्तायां भूमौ कृत्वा तु मण्डलम् |
सिन्दूरेण ततः पश्चादुपविश्य निजासने ||
९०४ ||
प्राङ्मुखः प्रणमेदिष्टदेवतां भक्तितत्परः |
प्राणायामत्रयं कृत्वा सूर्यमन्त्रेण मन्त्रवित् ||
९०५ ||
हाँ हीँ स इति सूर्यस्य त्र्यक्षरो मन्त्र उच्यते |
विन्यस्य च तथेन्द्रादीन् ध्यात्वा सूर्यमनन्यधीः ||
९०६ ||
पद्मद्वयाभयवरान् दधतं कराब्जैर्माणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम् |
रक्ताम्बुजासनमशेषगुणैकसिन्धुं भानुं समस्तजगतामधिपं भजामि ||
९०७ ||


Lesungshinweise: [Die letzte Silbe steht hier ohne Visarga; in der Arghya-Formel bei Vers 912 steht sie mit Visarga.]

Band II, S. 156–157, Arghya-Gefäß und Sonnenformel 908–915
तत्तत्कल्पोक्तविधानेन पूजयेदुपचारकैः |
पुरतो मण्डलं कृत्वा जलेन चतुरस्रकम् ||
९०८ ||
निधाय तत्र साधारं सजलं ताम्रपात्रकम् |
गन्धपुष्पाक्षतान् दर्भान् दूर्वासर्षपसंयुतान् ||
९०९ ||
सतिलान्रक्तपुष्पाणि यवांश्चापि प्रविन्यसेत् |
सूर्यमन्त्रेण तत्पात्रं स्पृशन्नष्टोत्तरं शतम् ||
९१० ||
अभिमन्त्र्य च तत्पात्रं समुत्थाय करद्वयात् |
मूर्धान्तं सूर्यमन्त्रेण दद्यादर्घ्यं विचक्षणः ||
९११ ||
हाँ हीँ सः सग्रहराशिनक्षत्रपदमुच्चरेत् |
ततश्च योगकरणपरिवृत्तासनेति च ||
९१२ ||
संस्थित श्रीसूर्यायैष तेऽर्घ्यं स्वाहा मनुः स्मृतः |
चतुस्त्रिंशदक्षरोऽयं सूर्यस्यार्घ्यनिवेदने ||
९१३ ||
जपेत् ततो यथाशक्त्या सर्वमन्त्रमनन्यधीः |
तदर्घ्याम्बुप्लुतं सूर्यं ध्यायेद्देशिकसत्तमः ||
९१४ ||
स्तुत्वा प्रणम्य विसृजेन्मण्डलान्तं दिवाकरम् |
तत उत्थाय विधिवद्द्वारपूजां समारभेत् ||
९१५ ||
द्वारपूजाविधिस्तु दीक्षातरङ्गे उक्तः |


Band II, S. 157, Beginn der täglichen Puja 916–921
अथ नित्यपूजाविधिः |
क्रियासंग्रहे— नित्यपूजामथो वक्ष्ये संक्षेपेण यथोदिताम् |
पूजास्थानं समागम्य कुर्यादाचमनत्रयम् ||
उपविश्यासने मन्त्री कुर्यात् संकल्पमादरात् ||
९१६ ||
संकल्पस्तु— अमुकदेवताप्रीतये तन्नित्यार्चनमहं करिष्ये—इत्येवंरूपः |
तथा— दद्यादर्घ्यं दिनेशाय साक्षिणे सर्वकर्मणः |
गुरुं गणपतिं नत्वा प्रणमेदिष्टदेवताम् ||
९१८ ||
तालत्रयं पुरस्कृत्य बध्नीयाच्च दिशो दश |
भूतशुद्ध्यादिकं कृत्वा प्राणायामं समाचरेत् ||
९१९ ||
कुर्याच्च मातृकान्यासं मूलन्यासं तथैव च |
हृदये देवतां ध्यात्वा मानसैरुपचारकैः ||
९२० ||
पूजयेद्देवतारूपमात्मानं मन्त्रवित्तमः |
बाह्यस्थैरुपचारैश्च यजेन्नैवेद्यवर्जितः ||
९२१ ||


Lesungshinweise: [Die Druckzählung geht nach Vers 916 und der Prosaformel unmittelbar zu 918 über; ein Vers 917 ist nicht ausgewiesen.]

Band II, S. 158, Vollzug der täglichen Puja 922–930
ततः कल्पोदिता मुद्रा दर्शयित्वा विधानवित् |
अर्घ्यादिकं च संस्थाप्य पूजाद्रव्याणि शोधयेत् ||
यथोक्तां देवतां ध्यात्वाऽऽवाहयेन्मूलमन्त्रतः ||
९२२ ||
मेरुतन्त्रे— संस्थापनं सन्निधानं सन्निरोधं ततश्चरेत् |
संमुखीकरणं चापि सकलीकरणं ततः ||
९२३ ||
ततोऽवगुण्ठनं कार्यममृतीकरणं ततः |
परमीकरणं कुर्यात् क्रमशः स्वस्वमुद्रया ||
९२४ ||
क्रियासंग्रहे— आवाहनादिका मुद्राः प्रदर्श्य स्थापयेदसून् |
कल्पयेदुपचारांश्च यथासंभवमादरात् ||
९२५ ||
संपूज्य मूलमन्त्रेण प्रसूनाञ्जलिभिस्त्रिभिः |
पूजयेद्विधिवन्मन्त्री यथोक्तावृतिदेवताः ||
९२६ ||
साङ्गां सवाहनां सालङ्करणां च समुद्रिकाम् |
सायुधां सपरीवारां देवतामर्चयेत् ततः ||
९२७ ||
ततो जपेन्मूलमन्त्रमष्टोत्तरशतं सुधीः |
तं जपं भक्तितो मन्त्री देवतायै निवेदयेत् ||
९२८ ||
स्तुत्वा च विविधैः स्तोत्रैः साष्टाङ्गं प्रणमेद्भुवि |
ततो वरान् प्रार्थयित्वा देवमुद्वासयेद्धृदि ||
९२९ ||
निर्माल्यं शिरसि धार्यं देवतोच्छिष्टभोजिने |
दत्त्वा भुञ्जीत नैवेद्यमेतन्नित्यार्चनं स्मृतम् ||
९३० ||
पूजायाः क्रममात्रमिदं दर्शितम् |
अत्र यद्यत् कर्तव्यमुक्तं तत्तत् सर्वं दीक्षातरङ्गे द्रष्टव्यम् |


Band II, S. 158–159, Tägliches Homa 931–938
अथ नित्यहोमविधिः |
तदुक्तं सोमभुजगावल्याम्— नाजप्तः सिद्ध्यते मन्त्रो नाहुतश्च फलप्रदः |
नानिष्टो यच्छते कामान् तस्मात् त्रितयमाचरेत् ||
९३१ ||
पूजया लभते पूजां जपात् सिद्धिर्न संशयः |
विभूतिं चाग्निकार्येण सर्वसिद्धिं च विन्दति ||
९३२ ||
ज्ञानार्णवे— संकल्प्य परमेशानि नित्यहोमविधिं चरेत् ||
९३३ ||
संकल्पस्तु— अमुकदेवताप्रीतये एतावदाहुतीर्होष्यामि |
इत्येवंरूपः |
नीलतन्त्रे— नित्यहोमं प्रवक्ष्यामि सर्वार्थं येन विन्दति |
सपर्यां सम्यगापाद्य बलिं पूर्ववदाचरेत् ||
९३४ ||
ततो जपं तर्पणं च स्मरेत् साधकसत्तमः |
बलिं वैश्वादिकं चैव ब्राह्मणः समुपाचरेत् ||
९३५ ||
विधिवदग्निमादाय क्रव्यादेभ्यो नमस्तथा |
मूलमन्त्रं समुच्चार्य कुण्डे वा स्थण्डिलेऽपि वा ||
९३६ ||
भूमौ वा संस्तरेद्वह्निं व्याहृतित्रितयेन तु |
स्वाहान्तेन त्रिधा हुत्वा षडङ्गहवनं ततः ||
९३७ ||
ततो देवीं समावाह्य मूलेन षोडशाहुतिम् |
हुत्वा स्तुत्वा नमस्कृत्य विसृजेदिन्दुमण्डले ||
९३८ ||


Band II, S. 159–160, Alternative Homa-Regeln 939–943
सारसंग्रहे— इत्थं तु संहृते वह्नौ देवमावाह्य मन्त्रवित् |
संपूज्य मूलमनुना पञ्चविंशतिमाहुतिम् ||
९३९ ||
हुनेदाज्येन हविषा तिलैर्वा पायसैः शुभैः |
तण्डुलैस्तिलसंमिश्रैः केवलैर्वाऽथ पुष्पकैः ||
९४० ||
अङ्गावरणदेवानामेकैकामाहुतिं हुनेत् |
उद्वास्य देवं वह्निं च पूजास्थानं व्रजेत् ततः ||
९४१ ||
अयं होमो नैवेद्यदानान्तरं पूजासमाप्त्यनन्तरं वा कार्यः |
तदुक्तं माहेश्वरीये— निवेदयित्वा नैवेद्यं वैश्वदेवं समाचरेत् |
अर्चायां वा समाप्तायां होमं कुर्याद्विधानतः ||
नित्ये नैमित्तिके काम्ये चैतदग्निमुखं स्मृतम् ||
९४२ ||
इति |
अगस्त्यसंहितायाम्— पूर्ववत् संस्कृते वह्नौ देवमावाह्य मन्त्रवित् |
इति मेरुतन्त्रे चोक्तत्वादत्र वह्निसंस्कारः कर्तव्य एवेति श्रीविद्यापद्धतिकृतः |
अग्न्याधानादिकं कर्म नित्यहोमे न विद्यते ||
९४३ ||
इति वसिष्ठसंहितायावचनेन निषेधान्नित्यहोमे एवाग्निसंस्कारो नास्तीत्यन्ये |
विधिनिषेधयोः श्रवणादैच्छिको विकल्पो यथा षोडशपञ्चविंशाहुत्योरधिकल्प इति केचित् |
सुधार्णवकृतस्तु—नीलतन्त्रोक्त एवात्र वह्नेः संस्कारः कर्तव्यो नाधिको विशेषवचनेन निषेधादित्याहुः |
इति नित्यहोमविधिः |


Band II, S. 160, Beginn des Purashcharana und Zeugenanrufung 944–947
कुम्भसम्भवः— ततः सङ्कल्प्य कुर्वीत पुरश्चरणमादरात् ||
९४४ ||
मेरुतन्त्रे— प्रारभेत पुरश्चर्यां दीक्षोक्तदिवसे शुभे |
प्रणम्यादौ गुरून् विप्रान् गणेशं परिपूज्य च ||
९४५ ||
पुण्याहवाचनं कृत्वा कुशहस्तो वदेदिति |
सूर्यः सोमो यमः कालः सन्ध्ये भूतान्यहः क्षपा ||
९४६ ||
पवनो दिक्पतिर्भूमिराकाशं खेचरामराः |
ब्राह्मशासनमाधाय कल्पन्तामिह सन्निधिम् ||
९४७ ||


Band II, S. 160, Angaben im Sankalpa 948–954
वदित्वेत्थं ताम्रपात्रे कृत्वा कुशतिलाक्षतान् |
उदङ्मुखस्तु संकल्पं कुर्यात् संवत्सरादिकान् ||
९४८ ||
कामनान्तानुच्चरेत् तु त्रयोविंशतिसंख्यकान् |
संवत्सरायने मासपक्षपञ्चाङ्गमेव च ||
९४९ ||
नवग्रहस्थितिं घत्रभारं मौहूर्तिकं त्विति |
स्वदेशभेदांस्तत्तुल्यान् कामनासहितान् वदेत् ||
९५० ||
द्वीपेऽमुकेऽमुके खण्डेऽमुके वर्षे च नीवृति |
अमुके चामुके क्षेत्रे गोत्रप्रवरमुच्चरेत् ||
९५१ ||
स्वनामजातिनामान्तं द्विजाच्छर्म च वर्म च |
गुप्ता दासोऽथामुकस्य मन्त्रस्य सिद्धिकामुकः ||
९५२ ||
करिष्येऽहं पुरश्चर्यामेतत्संख्यजपात्मिकाम् |
अद्यारभ्य दिनैरेतैरसति प्रतिबन्धके ||
९५३ ||
करिष्ये इति संकल्पं मनसैव प्रकल्पयेत् |
वदेद्वाचाऽभिलाषं च कर्मणा चोपपादयेत् ||
९५४ ||


Lesungshinweise: [Eine Zeitangabe in Vers 950 ist im Druck beschädigt.]

Band II, S. 161, Fünfgliedriger Sankalpa und Kalasha 955–961
सनत्कुमारसंहितायाम्— प्रणवं तत्सदद्येति मासपक्षतिथीरपि |
अमुकगोत्रोऽमुकोऽहं मूलमुच्चार्य तत्परम् ||
९५५ ||
सिद्धिकामोऽस्य मन्त्रस्य इयत्संख्याजपं ततः |
दशांशं हवनं होमाद्दशांशं तर्पणं ततः |
दशांशं मार्जनं तस्माद्दशांशं विप्रभोजनम् |
पुरश्चरणमेवं हि करिष्ये प्रागुदङ्मुखः ||
९५६ ||
नारदपञ्चरात्रे— संपूज्याथ जपं कुर्याद्यावद्वै प्रहरद्वयम् ||
९५७ ||
तन्त्रदीपे— विधाय विधिवद्विद्वान् मण्डपं सुमनोहरम् |
तस्मिन् कलशमारोप्य तीर्थतोयैः प्रपूजयेत् ||
९५८ ||
निःक्षिप्य नवरत्नानि तत्र गन्धाष्टकं पुनः |
आवाह्य पूजयेत् तत्र देवमावरणैः सह ||
९५९ ||
कलशाग्रे जपेन्मन्त्री यावत् संख्या न पूर्यते |
ततः पूर्णे समागत्य गुरुदेवो विधानतः ||
९६० ||
अभिषिञ्चेच्छिष्यमूर्ध्नि कलशोदकवारिभिः |
ततः शिष्यः प्रयत्नेन धनाद्यैस्तोषयेद्गुरुम् ||
९६१ ||
दीक्षोक्तक्रमेण कलशं संस्थाप्य तत्र देवतामावाह्य यथाशक्तिसंपूज्य जपं कुर्यादित्यर्थः |


Band II, S. 161–162, Puja nach den eigenen Möglichkeiten 962–970
पुरश्चरणचन्द्रिकायाम्— एतान्यन्यानि पूजायां साधनानि बहून्यपि |
उत्तमानि च मध्यानि न्यूनानि त्रिविधानि च ||
९६२ ||
स्वस्थः समर्थः कुर्वीत उत्तमैरेव साधनैः |
मध्यमो मध्यमैरेव न्यूनो न्यूनैस्तु साधनैः ||
९६३ ||
आपन्नश्चेत् समर्थोऽपि न्यूनैरेव समाचरेत् |
पूजाकर्मविशेषेण देशकालानुसारतः ||
९६४ ||
यथाशक्ति यथान्यायं यथालोकावगर्हितम् |
पूजां विस्तरतः कर्तुं यो न शक्नोति साधकः ||
९६५ ||
यदि बाह्यैर्द्रव्याद्यैः पूजयेदिष्टदेवताम् |
अथ वा देवतामन्त्रं ध्यात्वा सम्यक् प्रपूजयेत् ||
९६६ ||
अथ वा मानसीं कुर्यादात्मपूजामथापि वा |
अथ वा केवलां पूजां बाह्यां कुर्याद्विचक्षणः ||
९६७ ||
तथा— पूर्वपूर्वस्य चाशक्त्या उत्तरोत्तरमाचरेत् |
यद्येतदन्यथा कुर्यात् तदाऽनिष्टफलं स्मृतम् ||
९६८ ||
प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तयेत् |
न सांपरायिकं तस्य दुर्मतिर्जायते फलम् ||
९६९ ||
इति विज्ञाय सामर्थ्यमेकं पन्थानमाचरेत् |
कलशस्थापनाशक्तस्तु यन्त्रादौ पूजां कुर्यात् |
तदुक्तं सिद्धान्तसारे— कलशस्थापनाशक्तो यन्त्रादौ पूजनं चरेत् ||
९७० ||
आदिशब्देन प्रतिमाशिवलिङ्गशालग्रामादयः संगृह्यन्ते |


Lesungshinweise: [Der Übergang zwischen Vers 965 und 966 ist im Druck syntaktisch verkürzt.]

Band II, S. 162–163, Verehrungsorte und Yantra-Materialien 971–980
तदुक्तं मेरुतन्त्रे— गणेशसूर्यविष्ण्वीशदेवीनां पूजनं क्रमात् |
दशस्थानानि देवानां पूजार्थं कल्पितानि च ||
९७१ ||
शिवलिङ्गे मणौ यन्त्रे शालग्रामे घटे रवौ |
स्थण्डिलेऽग्नौ मूर्ध्नि हृदि स्थानेष्वेतेषु पूजयेत् ||
भूमावेव कृता पूजा पुत्रायुर्धननाशिनी ||
९७२ ||
तत्रैव— ततः प्रणम्य च गुरुं पूजाचक्रं समुद्धरेत् |
सुवर्णरचिते पीठे भूपाला वशवर्तिनः ||
९७३ ||
रजतेन कृतं यन्त्रमायुरारोग्यकामदम् |
ताम्रेण रचितं यन्त्रं सर्वैश्वर्यप्रदं मतम् ||
९७४ ||
यन्त्रं तु स्फाटिकं स्वच्छं मनोऽभिलषितप्रदम् |
माणिक्यरचितं यन्त्रं राज्यदं भुक्तिमुक्तिदम् ||
९७५ ||
कृतं मरकतैर्यन्त्रं सर्वशत्रुविनाशनम् |
लोहत्रयोद्भवं यन्त्रं सर्वशक्तिकरं मतम् ||
९७६ ||
श्रीखण्डं शान्तिदं ज्ञेयं पुष्टिदं रक्तचन्दनम् |
श्रीपर्णीपीठमुद्दिष्टं पूजार्थं धनराज्यदम् ||
९७७ ||
वैद्रुमे बहुला संपद्भूर्जपत्रे चतुष्पदाः |
गण्डकीभवपाषाणे भुक्तिर्मुक्तिरदूरतः ||
९७८ ||
भूमौ सिन्दूररजसा रचितं सर्वकामदम् |
सीसकांस्यादिषु कृते संपत्तिं सन्ततिं हरेत् ||
९७९ ||
फलकायां पटे भित्तौ स्थापयेन्न कदाचन |
स्थापितं यदि मोहेन नाशयेत् तद्धनं कुलम् ||
९८० ||


Lesungshinweise: [Die Sonderregel für ein auf dem Boden gezeichnetes Yantra in Vers 979 steht neben der Warnung vor Puja auf bloßem Boden in Vers 972.]

Band II, S. 163, Maße und Gewicht des Yantra 981–985
अब्ध्यङ्गुलसुविस्तारं प्राक्प्रत्यग्दक्षिणोत्तरम् |
पलप्रमाणं कर्तव्यमर्चापीठं मनोहरम् ||
९८१ ||
यवार्धोच्चं प्रकुर्वीत चतुरस्रं समन्ततः |
तस्मिन् पीठे तु निर्माणं पूजाचक्रस्य कारयेत् ||
९८२ ||
रत्नसागरे— अब्ध्यङ्गुलेन स्वर्णस्य रजतस्य तथैव च |
ताम्रस्य पूर्णसंख्यैव माणिक्यादौ यथेच्छया ||
९८३ ||
मेरुतन्त्रे— माणिक्यादिकपीठे तु मानन्यूनं न दोषकृत् |
श्रीपर्णीचन्दनादीनामधिकं चेन्न दोषकृत् ||
९८४ ||
एतद्भिन्ने तु रुद्रयामले— एकतोलं द्वितोलं वा त्रितोलं वेदतोलकम् |
स्वेच्छातोलं नरः कृत्वा प्रत्यवायं समश्नुते ||
९८५ ||
स्वेच्छातोलमिति |
तोलकचतुष्टयपरिमितेन स्वर्णादिना यन्त्रस्य निर्माणासंभवे स्वेच्छया तदधिकं न कुर्यादित्यर्थः |


Lesungshinweise: [Welche volle Zahl bei Kupfer gemeint ist, bleibt hier unausgeführt.]

Band II, S. 163, Beginn der Yantra-Einsetzung 986–987
प्रसङ्गात् स्थिररेखयन्त्रप्रतिष्ठाविधिमाह मेरौ— लग्ने शुभग्रहोपेतेऽनुकूलगुणशालिनि |
प्रतिष्ठां कारयेदेषां स्वर्क्षतिथ्यादिकेक्षणे ||
९८६ ||
तथा— आदौ वेदोदितैर्मन्त्रैर्विप्रोऽग्न्युत्तारणं चरेत् |
धातुनिर्मितयन्त्राणां मूर्तीनां च विशेषतः ||
९८७ ||


Band II, S. 164, Feuerreinigung und mehrtägige Weihe 988–992
अग्निः सप्तिं वाजमिति सप्तर्चा सप्तिरुच्यते |
मुनिस्त्रिष्टुप् छन्द उक्तं देवताऽग्निः प्रकीर्तितः ||
९८८ ||
अग्निशब्देन रहितं सूक्तमेतच्छतं पठेत् |
अभिषिञ्चेच्छुद्धतोयैस्ततः संपूर्णसूक्तकैः ||
९८९ ||
अभिषिञ्चेच्छतावृत्त्याऽग्न्युत्तारणमिदं स्मृतम् |
तथा— क्षौद्राज्यदुग्धैः प्रथमं नारिकेलाम्भसा ततः ||
९९० ||
अभिषिञ्च्याथ तोयेन क्वथितेनाक्षरौषधैः |
आवाह्याभ्यर्च्य तल्लग्ने चक्रं संस्थाप्य पूजयेत् ||
९९१ ||
गन्धपुष्पैर्नवैर्धूपैर्दीपैर्नैवेद्यतर्पणैः |
त्रिरात्रं पूजयेद्देवीं त्रिसन्ध्यं च यथाविधि ||
९९२ ||


Lesungshinweise: [Die Hymne wird nur durch ihren Anfang bezeichnet, nicht vollständig zitiert.]

Band II, S. 164–165, Einsetzung nach dem Vamakeshvaratantra 993–1004
वामकेश्वरतन्त्रे— भैरव्युवाच— चक्रभेदं महादेव त्वत्प्रसादान्मया श्रुतम् |
इदानीं श्रोतुमिच्छामि प्रतिष्ठाकर्मनिर्णयम् ||
९९३ ||
श्रीशङ्कर उवाच— शृणु देवि महाभागे जगत्कारिणि कौलिनि |
यन्त्रप्रतिष्ठाकर्माङ्गसर्ववर्णविनिर्णयम् ||
९९४ ||
स्नात्वा संकल्पयेन्मन्त्री गुरोरर्चनमाचरेत् |
पञ्चगव्यं ततः कुर्याच्छिवमन्त्रेण मन्त्रितम् ||
९९५ ||
तत्र चक्रं क्षिपेन्मन्त्री प्रणवेन समाकुलम् |
तदुद्धृत्य ततश्चक्रं स्थापयेत् स्वर्णपीठके ||
९९६ ||
स्पृष्ट्वा यन्त्रं कुशाग्रेण गायत्र्या चाभिमन्त्रयेत् |
अष्टोत्तरशतं देवि देवताभावसिद्धये ||
९९७ ||
आत्मशुद्धिं ततः कृत्वा षडङ्गैर्देवतां यजेत् |
तत्रावाह्य महादेवीं जीवन्यासं च कारयेत् ||
९९८ ||
उपचारैः षोडशभिर्महामुद्रादिभिस्तथा |
फलैर्नैवेद्यताम्बूलैर्देवीं तत्र समर्चयेत् ||
९९९ ||
पट्टसूत्रादिकं दद्याद्वस्त्रालङ्करणादिभिः |
मुकुरं चामरं घण्टां यथायोग्यं महेश्वरि ||
१००० ||
सर्वमेतत् प्रयत्नेन दद्यादात्महिते रतः |
ततो जपेत् सहस्रं च सकलेप्सितसिद्धये ||
१००१ ||
बल्ल्यादिकं प्रदत्त्वा च प्रणमेच्चक्रराजकम् |
अष्टोत्तरशतं हुत्वा संपाताज्यं विनिःक्षिपेत् ||
१००२ ||
मूलमन्त्रं समुच्चार्य मन्त्री यन्त्राङ्गमाचरेत् ||
१००३ ||
होमकर्मण्यशक्तश्चेद्द्विगुणं जपमाचरेत् |
धेनुमेकां समानीय स्वर्णशृङ्गाद्यलङ्कृताम् ||
गुरवे दक्षिणां दद्यात् ततो देव्याः विसर्जनम् ||
१००४ ||


Lesungshinweise: [die Lesung „बल्ल्यादिकं“ ist unsicher] (1002–1003) Nach Darbringung der genannten weiteren Gabe [die Lesung „बल्ल्यादिकं“ ist unsicher] verneige er sich vor dem König der Chakras.

Band II, S. 165, Yantra-Gayatri und weitere Einsetzungsordnung 1005–1009
तदुक्तं शिवमन्त्रप्रसादः सिद्धान्तसंग्रहे— पञ्चगव्येन संशोध्य स्नाप्य पञ्चामृतैः पृथक् |
अष्टाभिस्तीर्थकलशैः स्नापयेन्मूलमन्त्रतः ||
१००५ ||
ततोऽभिमन्त्रयेद्यन्त्रं गायत्र्या वक्ष्यमाणया |
अष्टोत्तरशतं मन्त्री मूलेनापि तथैव च ||
१००६ ||
यन्त्रराजाय विद्महे महायन्त्राय धीमहि तन्नो यन्त्रं प्रचोदयात् |
ततो देवं समावाह्य प्राणान् संस्थाप्य मन्त्रवित् |
उपचारैः षोडशभिः पूजयेदिष्टदेवताम् ||
१००७ ||
अष्टोत्तरसहस्रं च संस्कृते हव्यवाहने |
घृतेन जुहुयात् तत्र संपाताज्यं विनिःक्षिपेत् ||
१००८ ||
ब्राह्मणान् भोजयेत् पश्चात् साधको देवताधिया |
एवं संसाधिते यन्त्रे देवः सन्निहितो भवेत् ||
१००९ ||


Band II, S. 165, Dreitägige Weihe und Kaula-Sonderregel 1010–1012
मेरुतन्त्रे— आवाह्याभ्यर्च्य तल्लग्ने चक्रं संस्थाप्य पूजयेत् |
गन्धपुष्पैर्नवैर्धूपैर्दीपैर्नैवेद्यतर्पणैः ||
१०१० ||
त्रिरात्रं पूजयेद्देवीं त्रिसन्ध्यं च तथा निशि |
वामाचारे कुलाचारे च यो विशेषस्तमाह— मकारैः पञ्चभिर्युक्तं चरेयुर्वामिनोऽर्चनम् ||
१०११ ||
निशायां शक्तिपूजां च दूतीयागं च कौलिकाः |
एवं दिनत्रयं कृत्वा ततो नित्यक्रमं भजेत् ||
१०१२ ||


Band II, S. 166, Einsetzung und Mantrakraft 1013–1020
एवं देवीप्रतिष्ठायां क्रमः सान्निध्यकारकः |
स्त्रीशूद्राणां वामिनां च कौलिकानामयं विधिः ||
१०१३ ||
तथा— महापापं न कुर्वन्ति पशुवद्वेदमार्गगाः |
अग्निः शुचिव्रततमः शुचिर्विप्रः शुचीरितम् ||
१०१४ ||
अज्ञानतश्च लघुभिः सन्ध्यावन्दननाशितैः |
पातकैस्तैर्न लिप्यन्ते तस्मात् ते पशवः स्मृताः ||
१०१५ ||
वामेनोपासितं यन्त्रं तेषां दृष्टिपथे गतम् |
तद्देवताक्षोभकरं विक्षिप्तः साधको भवेत् ||
१०१६ ||
दक्षिणोपासितं यन्त्रं सूर्याग्निसमतेजसम् |
पापिनां दृष्टिदहनमुलूकानां यथा रविः ||
१०१७ ||
यथा नृभिर्दिनकरोदये सर्वं निरीक्ष्यते |
दक्षसंस्थापितं यन्त्रं तथा पुण्यात्मनां मतम् ||
१०१८ ||
सान्निध्यं सर्वदेवानामवश्यं मन्त्रतो भवेत् |
मन्त्रस्तु बीजवत् प्रोक्तः प्रतिमाद्यं शरीरवत् ||
१०१९ ||
सिद्धायामपि सामग्र्यां विना मन्त्रं फलं न हि |


Lesungshinweise: [Der Wortlaut von Vers 1014 ist sprachlich auffällig; „Pashu“ bezeichnet hier einen traditionellen tantrischen Typus.]

Band II, S. 166–167, Bildmaße gemeinsame Puja und beschädigte Träger 1020–1029
तथा— दशाङ्गुलप्रमाणा वा तिथ्यङ्गुलमिताऽपि वा ||
१०२० ||
अभ्यर्च्य प्रतिमा विष्णोर्गृहेषु गृहमेधिभिः |
पञ्चसूत्रसमायुक्तं शिवलिङ्गं समर्चयेत् ||
१०२१ ||
गृहस्थानां भुक्तिमुक्तिधनारोग्यप्रदं तु तत् |
लिङ्गस्य च विस्तारो यावांस्तावच्च दीर्घता ||
१०२२ ||
लिङ्गस्य लिङ्गशालक्या जलहर्यास्तथैव च |
लिङ्गपीठस्य पञ्चानां समता पञ्चसूत्रिका ||
१०२३ ||
तत्रैव— एकपीठे पृथक् पूजां विना यन्त्रं करोति यः |
तन्त्रेण पूजयेद्यन्त्रं स दैवं शापमाप्नुयात् ||
१०२४ ||
आवाह्य देवतामेकामर्चयेच्चान्यदेवताम् |
अन्ययन्त्रेण पूजां वा देवता शापकारिणी ||
१०२५ ||
पूजनं बहुमूर्तीनामेकपीठे भवेद्यदि |
पृथक् चन्दनपुष्पाणि धूपदीपादि तन्त्रतः ||
१०२६ ||
तन्त्रमपार्थक्यम् |
खण्डिते स्फुटिते दग्धे भ्रष्टे मानविवर्जिते |
व्यङ्गेऽनर्हपशुस्पृष्टे पतिते दुष्टभूमिषु ||
१०२७ ||
अन्यमन्त्रार्चिते चैव पतितस्पर्शदूषिते |
दशस्वेतेषु नो कुर्युः सन्निधानं दिवौकसः ||
१०२८ ||
तत्रैव— देवस्य मन्त्ररूपस्य यन्त्रव्याप्तिमजानताम् |
कृतार्चनादिकं सर्वं व्यर्थं भवति शाम्भवि ||
१०२९ ||


Lesungshinweise: [Die fünf Einzelmaße werden im verdichteten Wortlaut nicht zweifelsfrei abgegrenzt.]

Band II, S. 167–168, Bedeutung und Zeichenstoffe des Yantra 1030–1039
यन्त्रपदार्थ उक्तस्तत्रैव— कामक्रोधादिदोषोत्थसर्वदोषनियन्त्रणात् |
यन्त्रमित्याहुरेतस्मिन् देवस्तुष्यति पूजितः ||
१०३० ||
पुरश्चरणचन्द्रिकायाम्— तत्तत्कल्पोक्तद्रव्येण विलिखेद्यन्त्रमुत्तमम् |
सौवर्णे राजते ताम्रे पीठे भूर्जे परे भुवि ||
१०३१ ||
विना यन्त्रेण चेत् पूजा देवता न प्रसीदति |
यन्त्रलिखनद्रव्यमुक्तं मेरुतन्त्रे— पूजायन्त्रं दक्षमार्गे तत्तद्गन्धाष्टकेन च ||
१०३२ ||
लिखेद्वा केशरहिमरोचनाभिः समालिखेत् |
वाममार्गे लिखेदाद्यपुष्पेण यदि यन्त्रकम् ||
१०३३ ||
षण्मासं पूजनात् तत्र त्वरितं सिद्धिमाप्नुयात् |
तदभावे तु रुधिरं महिषस्य प्रशस्यते ||
१०३४ ||
तदभावे तु कुसुमं ग्राह्यं चैवापराजिताम् |
तस्योर्ध्वभागे निःक्षिप्य घर्षितं रक्तचन्दनम् ||
१०३५ ||
स्वतन्त्रतन्त्रे— स्वर्णे वा राजते ताम्रे पाषाणे चाष्टधातुषु |
स्वयम्भूकुसुमं कुण्डगोलोत्थरोचनागुरुः ||
१०३६ ||
काश्मीरं मृगनाभिश्च कुलं च मलयोद्भवम् |
एष गन्धः समाख्यातः सर्वदा चण्डिकाप्रियः ||
१०३७ ||
एतेन गन्धयोगेन योनिचक्रं समालिखेत् |
वीर्यमिदम् |
रुद्रयामले— ततः कुङ्कुमसिन्दूरैः कार्यं यन्त्रं तु योगिना ||
१०३८ ||
सौवर्णे राजते ताम्रे स्फाटिके वैद्रुमे तथा |
चक्रे यथोक्तविधिना पूज्या देवी नरोत्तमैः ||
१०३९ ||


Lesungshinweise: [Mehrere Bezeichnungen sind rituelle Decknamen; ihre genaue stoffliche Zuordnung ist in dieser Passage nicht erklärt.] [Diese knappe Stoffglosse steht im Druck an dieser Stelle.]

Band II, S. 168, Dauer Formen und Hingabe 1040–1048
सारसंग्रहे— ताम्रे द्वादशकं वर्षं स्फाटिकादौ तु सर्वदा |
तेषां मध्ये स्फाटिकं तु सर्वसिद्धिप्रदं भवेत् ||
१०४० ||
यावज्जीवं सुवर्णं स्याद्रौप्यं द्वाविंशतिः प्रिये |
ताम्रे द्वादशकं वर्षं तदर्धं भूर्जपत्रके ||
१०४१ ||
इदं च स्थिररेखारूपयन्त्रपरम् |
रुद्रयामलेऽपि— ताम्रे लक्षगुणं प्रोक्तं रौप्ये कोटिगुणं भवेत् |
सौवर्णेऽनन्तफलदं मण्यादौ किं वदामि ते ||
१०४२ ||
विद्रुमे रचिते यन्त्रे पद्मरागेऽथ वा प्रिये |
इन्द्रनीलेऽथ वैदूर्ये स्फाटिके मरकते तथा ||
१०४३ ||
धनं पुत्रं तथा दारान् यशांसि लभते ध्रुवम् |
गौरीयामले— चातुर्विध्यं हि चक्रस्य प्रस्ताराश्च भवन्ति हि ||
१०४४ ||
भूकूर्मपद्मप्रस्तारा मेरुश्चापि तथाविधः |
निम्नरेखासमायोगो भूप्रस्तारो मयोदितः ||
१०४५ ||
कूर्मपद्मकप्रस्तार ऊर्ध्वरेखं मयोदितम् |
सौत्रामणीतन्त्रे— ऋजुलेखे भवेल्लक्ष्मीर्वक्ररेखे दरिद्रता ||
१०४६ ||
कुलार्णवे— आदिरूपाच्च बिम्बस्य पूजायां च विशेषतः |
साधकस्य च विश्वासाद्देवतासन्निधिर्भवेत् ||
१०४७ ||
यामले— एवं यन्त्रं विनिर्माय तत्र देवीं प्रपूजयेत् ||
१०४८ ||


Band II, S. 169, Sammlung und lebendiger Mantra 1049–1053
देवीमित्युपलक्षणम् |
स्वेष्टदेवतामित्यर्थः |
पूजाप्रकारस्तु दीक्षातरङ्ग एवोक्तः |
कुलार्णवे— मनोऽन्यत्र शिवोऽन्यत्र शक्तिरन्यत्र मारुतः |
न सिद्ध्यति वरारोहे कल्पकोटिशतैरपि ||
१०४९ ||
मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः |
शतकोटिजपेनापि तस्य सिद्धिर्न जायते ||
१०५० ||
लुप्तबीजाश्च ये मन्त्रा न दास्यन्ति फलं प्रिये |
मन्त्राश्चैतन्यसहिताः सर्वसिद्धिकराः स्मृताः ||
१०५१ ||
चैतन्यरहिता मन्त्राः प्रोक्ता नैव फलप्रदाः |
सूतकद्वयसंयुक्ता न च मन्त्राः फलप्रदाः ||
१०५२ ||
मन्त्रार्थो गुरुमुखाद्बोध्यः |
मन्त्रचैतन्यं वक्ष्यते |
योनिमुद्रा द्वितीयतरङ्गे उक्ता |
सूतकादिज्ञानप्रकारस्तत्रैव |
जातसूतकमादौ स्यादन्ते च मृतसूतकम् |
सूतकद्वयसंयुक्तो यो मन्त्रः स न सिद्ध्यति ||
१०५३ ||


Band II, S. 169–170, Geburt und Tod des rituellen Mantras 1054–1061
गुरुकुण्डलिनीध्यानं विवाहः परिकीर्तितः |
द्विरागमो भवेत् स्नानं संयोगः सन्ध्यया भवेत् ||
१०५४ ||
अर्घ्यदानं भवेद्गर्भो गायत्री त्वष्टमासिकम् |
भूतशुद्ध्यादिप्राणान्ते तत्रावयवकल्पनम् ||
१०५५ ||
देही भवेन्मातृकायाः प्राणायामस्तु संस्क्रिया |
ध्यानोच्चारे महेशानि बालकोत्पत्तिरीरिता ||
१०५६ ||
मन्त्रोच्चारणतो देवि जातसूतकमीरितम् |
जातसूतकदोषस्य शमनार्थं महेश्वरि ||
१०५७ ||
दशविंशति पञ्चाशद्यथाशक्त्या जपेच्छिवे |
इदमादौ समादिष्टं मृतिं संशृणु सादरम् ||
१०५८ ||
अङ्गज्ञानं च तादात्म्यं तदनन्तरमीरितम् |
विसर्जनं महेशानि मृतसूतकमीरितम् ||
१०५९ ||
मृतसूतकशान्त्यर्थं दशविंशति वा जपेत् |
तेन तस्य निवृत्तिर्हि भवत्येव न संशयः ||
१०६० ||
यद्वा— ब्रह्मबीजं मनोर्दत्त्वा आद्यन्ते परमेश्वरि |
सप्तवारं जपेन्मन्त्रं सूतकद्वयमुक्तये ||
१०६१ ||
ब्रह्मबीजं प्रणवः |


Band II, S. 170, Schlaf und Erwachen des Mantras 1062–1063
अथ मन्त्राणां स्वापप्रबोधकालौ पञ्चरात्रे— स्वापकाले तु मन्त्रस्य जपो न च फलप्रदः |
स्वापकालो वामवहो जागरो दक्षिणावहः ||
१०६२ ||
आग्नेयस्य मनोः सौम्यमन्त्रस्यैतद्विपर्ययः |
प्रबोधकालं जानीयादुभयोरुभयोरपि ||
१०६३ ||
ज्ञेया मन्त्रास्तु आग्नेया विद्याः सौम्याः प्रकीर्तिताः |
मन्त्रविद्ययोर्भेदस्तु प्रथमतरङ्गे उक्तः |


Band II, S. 170, Mantra-Flamme und Mantra-Bewusstsein 1064–1071
अथ मन्त्रशिखाज्ञानं तन्त्रान्तरे— शृणु देवि परं तत्त्वं सर्वज्ञानोत्तमोत्तमम् ||
१०६४ ||
येन विज्ञातमात्रेण क्षिप्रं विद्या प्रसीदति |
मूलकुण्डे तु या शक्तिर्भुजङ्गाकाररूपिणी ||
१०६५ ||
तद्भ्रमावर्तवातोऽयं प्राण इत्यभिधीयते |
तं त्यक्त्वाऽव्यक्तमधुरं कूजन्ती सहसोत्थिता ||
१०६६ ||
गच्छन्ती ब्रह्मरन्ध्रेण प्रविशन्ती पुनस्तनुम् |
यातायातक्रमेणैव तत्र कुर्यान्मनोलयम् ||
१०६७ ||
तेन मन्त्रशिखा जाता सर्वमन्त्रप्रदीपिनी |
तमःपूर्णे गृहे यद्वत् किञ्चित् प्रतिभासते ||
१०६८ ||
शिखोपदेशः सर्वत्र गोपितः परमेश्वरि |
विना येन न सिद्धिः स्याद्वर्षकोटिशतैरपि ||
तस्माद्यत्नेन कर्तव्यं शिखाया भावनं मनोः ||
१०६९ ||
अथ मन्त्रचैतन्यं तत्रैव— मन्त्ररूपी भवेद्देवो देवरूपी गुरुर्भवेत् |
गुरुरूपी भवेदात्मा आत्मरूपी मनुर्भवेत् ||
१०७० ||
इति ते कथितं देवि मन्त्रचैतन्यमुत्तमम् |
यस्य विज्ञानमात्रेण अद्वैतं ज्ञानमुत्तमम् ||
१०७१ ||


Lesungshinweise: [Das Gleichnis ist im vorliegenden Wortlaut knapp und auffällig.]

Band II, S. 171, Kulluka Setu Mahasetu und Nirvana 1072–1082
अथ कुल्लुका यामले— श्रीदेव्युवाच— अथ वै कुल्लुकोत्पत्तिं कथयस्व ममाधुना |
कुल्लुका कीदृशी नाथ सेतुर्वा देव कीदृशः ||
१०७२ ||
कीदृशो वा महासेतुर्निर्वाणं त्वथ कीदृशम् |
अन्यद्वा कथितं यन्मे कीदृशं तद्वद प्रभो ||
१०७२ ||
श्रीशिव उवाच— रहस्यमपि ते देवि कथ्यते शृणु साम्प्रतम् |
विना येन महेशानि निष्फलं तु जपादिकम् ||
१०७३ ||
कुल्लुका च तथा सेतुर्महासेतुस्तथैव च |
निर्वाणं कुण्डलीषष्ठीसर्वोत्पत्तिं शृणु प्रिये ||
१०७४ ||
विद्यानां कुलपूज्यत्वात् कुल्लुका तेन कीर्तिता |
विद्यासम्बन्धिदोषाणां भक्षयन्ती यतः शिवे ||
१०७५ ||
तेनेयं कुल्लुकानाम्नी सर्वतन्त्रेषु गोपिता |
विद्यासिद्ध्यर्णवे देवि येन पारं प्रगच्छति ||
१०७६ ||
तेन सेतुर्महेशानि विद्यामार्गः प्रकीर्तितः |
महाविद्याप्तिसंदर्शो महासेतुर्महेश्वरि ||
१०७७ ||
महाविद्यार्णवस्याथ चैतन्यस्य प्रदर्शकः |
महासेतुर्महादेवि महाविद्यास्वरूपधृक् ||
१०७८ ||
देवतायास्तु निर्वाणं चैतन्यं यच्च कीर्तितम् |
निर्वाणं कथितं भद्रे विद्यावाङ्मातृकार्णकैः ||
१०७९ ||
निर्वाणं परमेशानि चतुश्चरणरूपधृक् |
निर्वाणं च महेशानि परब्रह्मात्मिका मता ||
१०८० ||
चतुर्थं कथितं भद्रे विद्याचरणमीरितम् |
पञ्चमी कुण्डली देवी यथावदवधारय ||
१०८१ ||
मूलाधारादाबिलान्तं बिसतन्तुतनीयसीम् |
सर्वदेवस्वरूपां च सर्ववर्णप्रदीपिनीम् ||
१०८२ ||


Lesungshinweise: [Die zusammengezogene Aufzählung in Vers 1074 enthält eine unklare Sechserangabe, während später Kundali ausdrücklich als fünfte genannt wird.] [die Ortsbezeichnung ist beschädigt] [Die Beschreibung setzt sich im nächsten Vers fort.] Als Fünfte kommt die Göttin Kundali; vernimm sie genau: (1082) Vom Muladhara bis zum genannten oberen Ende [die Ortsbezeichnung ist beschädigt] erstreckt sie sich, feiner als eine Lotusfaser, in Gestalt aller Gottheiten und alle Laute erhellend.“ [Die Beschreibung setzt sich im nächsten Vers fort.]

Band II, S. 172, Kulluka von Kali und Tara 1083–1089
महाकुण्डलिनीं देवीं समलीं कुण्डलीं पराम् |
श्रीदेव्युवाच— क्रमेण दशविद्यायाः कुल्लुकाया विधिं वद ||
१०८३ ||
श्रीशिव उवाच— पञ्चाक्षरी कालिकायाः कुल्लुका परिकथ्यते |
कालीकूर्चं च धूमायाः फडन्ताः परमेश्वरि ||
१०८४ ||
अघोराख्य ऋषिः प्रोक्तो विराट्छन्दः प्रकीर्तितम् |
देवता कुल्लुका काली बीजं मायाभिधं मतम् ||
१०८५ ||
कामशक्तिस्तथा कूर्चं कीलकं परिकीर्तितम् |
षड्दीर्घाढ्येन कामेन षडङ्गन्यास ईरितः ||
१०८६ ||
ध्यानपूजादिकं सर्वं कालिकावत् समाचरेत् |
मायावधूस्तथा कूर्चं तारिणीकुल्लुका मता ||
१०८७ ||
तारिणीकुल्लुकायाश्च विरूपाक्ष ऋषिः स्मृतः |
उष्णिक्छन्दः समाख्यातं देवता नीलतारिणी ||
१०८८ ||
कूर्चबीजं तथा माया शक्तिर्वधूश्च कीलकम् |
मायया तु षडङ्गानि सर्वं नीलसरस्वती ||
१०८९ ||


Lesungshinweise: [Das gedruckte Beiwort „समलीं“ bleibt unklar.] [Die verdichtete Formelbildung wird nicht durch vermutete Silben vervollständigt.]

Band II, S. 172, Tara und der Name Haris 1090–1093
त्रिशक्तिरत्ने— अजप्त्वा कुल्लुकामन्त्रमस्मृत्वा श्रीपतिं हरिम् |
यो जपेत् तारिणीमन्त्रं नरके स विलीयते ||
१०९० ||
जपित्वा कुल्लुकामन्त्रमष्टोत्तरशतं सुधीः |
प्रजपेत् तारिणीं पश्चान्नान्यथा सिद्धिमाप्नुयात् ||
१०९१ ||
कुलसर्वस्वनामसहस्रनामस्तोत्रकथनानन्तरम्— हरेर्नाम न गृह्णीयान्न स्पृशेत् तुलसीदलम् ||
१०९२ ||
इति वचनं तु वीरपरमिति ज्ञेयम् |
उक्तस्तोत्रोपात्तहरेर्नामग्रहणं तु वीरकल्पेऽपि न निषिद्धम् |
यानि नामानि सन्त्यत्र प्रसङ्गान्मुरवैरिणः |
ग्राह्याणि तानि कल्याणि नान्यानि तु कदा चन ||
१०९३ ||
इति तत्रैवोक्तत्वात् |


Band II, S. 172–173, Kulluka von Chhinnamasta und Sundari 1094–1100
यामले— छिन्नायाश्च महेशानि कुल्लुकाऽष्टाक्षरी भवेत् |
वज्रवैरोचनीये च अन्ते वर्म प्रकीर्तयेत् ||
१०९४ ||
अतिकाल ऋषिः प्रोक्तो गायत्रीछन्द ईरितम् |
हँ बीजं हूँ तथा शक्तिः कीलकं रोचनी मता ||
१०९५ ||
शिवषड्दीर्घयुक्तेन षडङ्गन्यासमाचरेत् |
ध्यानपूजादिकं सर्वं छिन्नावत् समुपाचरेत् ||
१०९६ ||
सुन्दर्याः कुल्लुका देवि संप्रोक्ता द्वादशाक्षरी |
वाग्भवं कामराजं च लज्जा च त्रिपुरेपदम् ||
१०९७ ||
भगवतीति पदं प्रोच्य तदन्ते ठद्वयं वदेत् |
सुन्दरीकुल्लुकायास्तु ऋषिरानन्दभैरवः ||
१०९८ ||
गायत्रीछन्द आदिष्टं वाग्भवं बीजमीरितम् |
लज्जा शक्तिर्महेशानि कामबीजं च कीलकम् ||
१०९९ ||
देवता त्रिपुरेशी च षडङ्गं त्रिद्वयेन च |
ध्यानपूजादिकं सर्वं सुन्दरीवत् समाचरेत् ||
११०० ||


Band II, S. 173–174, Weitere Kullukas und ihre Orte 1101–1109
संपत्प्रदायाः प्रथमं बीजं श्रीभैरवीमनौ |
विकराल ऋषिः प्रोक्तः पङ्क्तिच्छन्दः प्रकीर्तितम् ||
११०१ ||
देवता भैरवीनाम्ना कुल्लुका परिकीर्तितम् |
हँ बीजं सँ महाशक्तिर्मन्त्रं कीलकं मतम् ||
११०२ ||
षड्दीर्घाढ्येन बीजेन षडङ्गन्यासमाचरेत् |
मातङ्गीबगलालक्ष्मीधूमोच्छिष्टाक्रमे शृणु ||
११०३ ||
तारकूर्चनारसिंहैः पञ्चानां कुल्लुका मता |
ऋषिर्भैरवनामा च यावच्छन्दांसि पार्वति ||
११०४ ||
देवतासर्वबीजादिस्वस्वदेवक्रमेण च |
ध्यानपूजादिकं सर्वं स्वदैवतवदाचरेत् ||
११०५ ||
इयं ते कथिता देवि संक्षेपात् कुल्लुका मया |
अज्ञात्वा कुल्लुकामेतां जपते योऽधमः कुधीः ||
११०६ ||
पञ्चत्वमाशु लभते सिद्धिहानिः प्रजायते |
मन्त्राः पराङ्मुखा यान्ति मन्त्रहानिश्च जायते ||
११०७ ||
तथा जपादिकं सर्वं निष्फलं नात्र संशयः |
तस्मात् सर्वप्रयत्नेन यो जपेन्मूर्ध्नि कुल्लुकाम् ||
११०८ ||
रुद्रयामले— कुल्लुकां मूर्ध्नि संचिन्त्य हृदि सेतुं विचिन्तयेत् |
महासेतुं विशुद्धौ च सहस्रारे समुद्धरेत् ||
११०९ ||
मणिपूरे तु निर्वाणं महाकुण्डलिनीमधः |


Lesungshinweise: [Die Verbindung der beiden Ortsangaben zu Mahasetu bleibt im Druck knapp.]

Band II, S. 174, Setu und Mahasetu 1110–1117
अथ सेतुः |
मेरुतन्त्रे— मन्त्राणां प्रणवः सेतुर्द्विजानां परिकीर्तितः |
चतुर्दशस्वरोऽन्येषां चन्द्रानुस्वारसंयुतः ||
१११० ||
यद्वा रुद्रयामले— विप्राणां प्रणवः सेतुः क्षत्रियाणां तथैव च |
वैश्यानां तु फडर्णः स्यान्माया शूद्रस्य कथ्यते ||
११११ ||
अजप्त्वा हृदि देवेशि यो वै मन्त्रं समुच्चरेत् |
सर्वेषामेव मन्त्राणामधिकारो न तस्य हि ||
१११२ ||
महासेतुं च देवेशि सुन्दर्या भुवनेश्वरि |
कालिकायाः स्वबीजं तु तारायाः कूर्चबीजकम् ||
१११३ ||
अन्यासां तु वधूबीजं महासेतुर्वरानने |
आदौ जप्त्वा महासेतुं जपेन्मन्त्रमनन्यधीः ||
१११४ ||
धनैर्धनेशतुल्योऽसौ वाण्या वागीश्वरोपमः |
बुद्धौ कृतान्तसदृशो नारीणां मदनोपमः ||
जपकालो भवेत् तस्य सर्वकालो न संशयः ||
१११५ ||
मेरुतन्त्रे— निःसेतुकं यथा तोयं क्षणान्निम्ने प्रसर्पति |
मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति यज्वनाम् ||
१११६ ||
तस्मात् सर्वत्र मन्त्रेषु चतुर्वर्णा द्विजादयः |
पार्श्वयोः सेतुमादाय जपकर्म समाचरेत् ||
१११७ ||


Band II, S. 174, Beginn des Nirvana-Verfahrens 1118–1119
अथ निर्वाणं रुद्रयामले— अथ वक्ष्यामि निर्वाणं शृणु सावहिताऽनघे |
प्रणवं पूर्वमुच्चार्य मातृकाद्यं समुच्चरेत् ||
१११८ ||
अथ मूलं महेशानि ततो वाग्भवमुच्चरेत् |
मातृकां च समस्तां च पुनः प्रणवमुच्चरेत् ||
१११९ ||


Lesungshinweise: [Die Anwendung dieser Einrahmung folgt im nächsten Vers.]

Band II, S. 175, Nirvana 1120–1126
एवं पुटितमूलं तु प्रजपेन्मणिपूरके |
एवं निर्वाणमीशानि यो न जानाति पामरः ||
११२० ||
वर्षकोटिशतेनापि सिद्धिस्तस्य न जायते |
तस्मात् सर्वप्रयत्नेन यदुक्तं तन्महेश्वरि ||
११२१ ||
तत्तदाचर्यविधिवज्जपेन्मन्त्रमनुत्तमम् |
ऋषिश्छन्दो देवता च बीजं शक्तिश्च कीलकम् ||
११२२ ||
भावयेद्यत्नतो देवि ततः स्वेष्टादिकं जपेत् |
एवं यदि जपेन्मन्त्री मन्त्रराजमनुत्तमम् ||
११२३ ||
षण्मासात् सिद्धिमाप्नोति नात्र कार्या विचारणा |
साक्षात् स एव जगतामधीशो नात्र संशयः ||
११२४ ||
स धन्यः स च विज्ञानी स एव मन्त्रतत्त्ववित् |
स एव निर्वृतो भूमौ विहरेत् तु यथासुखम् |
तस्य दर्शनमात्रेण पलायन्ते च वैरिणः ||
११२५ ||
एवं कृत्वा प्रणवपुटितं यो जपेन्मन्त्रराजं तन्निर्वाणं भुवनमहिते कुल्लुकानां च जप्त्वा |
तेषां तदन्निखिलभुवनं सिद्धयोऽष्टौ च हस्ते स्नेहादुक्तं रहसि वचनं जन्मजन्मान्तरेषु ||
११२६ ||


Lesungshinweise: [Die Wortverbindung vor „die ganze Welt“ ist im Druck beschädigt; der Zusammenhang ist hier nur soweit verständlich wiedergegeben.]

Band II, S. 175, Zungenreinigung 1127–1130
अथ जिह्वाशोधनमन्त्रः |
यामले— अपरैकं प्रवक्ष्यामि जिह्वाशोधनमुत्तमम् |
यन्न कृत्वा महादेवि जपपूजा वृथा भवेत् ||
११२७ ||
अशुद्धजिह्वया देवि यो जपेत् स तु पापकृत् |
तस्मात् सर्वप्रयत्नेन जिह्वाशोधनमाचरेत् ||
११२८ ||
श्रीदेव्युवाच |
देवदेव महादेव शूलपाणे पिनाकधृक् |
पृथक्पृथङ्महादेव कथयस्व दयानिधे |
शोधनं सर्वविद्यानां मुखस्य शोधनं शुभम् ||
११२९ ||
श्रीशिव उवाच |
श्रीबीजं प्रणवं लक्ष्मीतारं श्रीप्रणवं तथा |
इदं षडक्षरी विद्या सुन्दर्या दशधा जपेत् ||
११३० ||


Lesungshinweise: [Die Bijas werden hier durch ihre überlieferten Bezeichnungen angegeben.]

Band II, S. 176, Gottheitsspezifische Mundreinigung 1131–1138
भैरवाख्यां शृणु चार्वङ्गि मुखशोधनमुत्तमम् |
प्रणवं च हसौ बीजं प्रणवं सुरवन्दिते ||
११३१ ||
इमं हि त्र्यक्षरं मन्त्रं दशधा प्रथमं जपेत् |
शृणु सुन्दरि श्यामाया मुखशोधनमुत्तमम् ||
११३२ ||
निजबीजत्रयं देवि प्रणवत्रितयं पुनः |
कामत्रयं वह्निबिन्दुरतिबीजयुतं त्रिकम् ||
११३३ ||
एषा नवाक्षरी विद्या जिह्वाशोधनकारिणी |
तारायाः शृणु चार्वङ्गि अपूर्वं मुखशोधनम् ||
११३४ ||
जीविनी भुवना लज्जा भुवनेशी ततः प्रिये |
त्र्यक्षरीयं महाविद्या विज्ञेयाऽमृतवर्षिणी ||
११३५ ||
दुर्गायाः शृणु चार्वङ्गि मुखशोधनमुत्तमम् |
द्वादशस्वरमुद्धृत्य बिन्दुयुक्तं त्रिकं तथा ||
११३६ ||
अपरैकं प्रवक्ष्यामि बगलामुखशोधनम् |
वाग्भवं भुवनेशानि वाग्बीजं सुरवन्दिते ||
११३७ ||
मातङ्ग्याः शोधनं देवि अङ्कुशं वाग्भवं तथा |
बीजं चाङ्कुशमेतद्धि विज्ञेयं त्र्यक्षरीयकम् ||
११३८ ||


Lesungshinweise: [Die gedruckte Aufzählung lässt sich nicht eindeutig mit der angegebenen Silbenzahl vereinbaren; eine ausgefaltete Formel wird deshalb nicht ergänzt. Eine Lesart ersetzt „dreimal Kama“ durch „Kama-Buchstabe“.] [Auch hier stehen im Druck vier Bezeichnungen neben der Angabe „dreisilbig“.] [Ob „Herrin der Welten“ zugleich eine Bija-Bezeichnung ist, bleibt an dieser Stelle offen.]

Band II, S. 176, Mundreinigung und ihre Notwendigkeit 1139–1144
लक्ष्म्याश्च शोधनं देवि श्रीबीजं कमलानने |
प्रणवं दान्तमुद्धृत्य वामकर्णविभूषितम् ||
११३९ ||
पुनः प्रणवमुद्धृत्य विज्ञेयं त्र्यक्षरी मता |
बालादीनां च अन्यासां प्रणवं मुखशोधनम् ||
११४० ||
स्त्रीशूद्राणां महेशानि औकारेण तु शोधनम् |
मुखशोधनमात्रेण जिह्वाऽमृतमयी भवेत् ||
११४१ ||
अन्यथा मलविङ्युक्ता जिह्वा भवति सर्वदा |
भक्षणे दूषिता जिह्वा मिथ्यावाक्येन दूषिता ||
११४२ ||
कलहैर्दूषिता जिह्वा तत्कथं प्रजपेन्मनुम् |
तच्छोधनमनाचार्य न जपेत् पामरः क्वचित् ||
११४३ ||
शैवशाक्तवैष्णवानां सर्वेषामप्यवश्यकम् |
अन्यथा प्रजपेन्मन्त्रं मोहेन यदि भामिनि ||
११४४ ||


Lesungshinweise: [Die Folge der beiden Angaben und die genaue Auflösung der Lautbezeichnung Danta bleiben unklar.] [Der Satz wird in Vers 1145 fortgesetzt.]

Band II, S. 177, Abschluss Zungenreinigung 1145–1149
सर्वं तस्य वृथा देवि मन्त्रसिद्धिर्न जायते |
अन्ते नरकमाप्नोति भवेत् साऽपि न चान्यथा ||
११४५ ||
देवो यदि जपेन्मन्त्रमकृत्वा मुखशोधनम् |
पतनं तस्य वै देवि किं पुनर्मर्त्यवासिनाम् ||
११४६ ||
गौतमीये— पशुभावे स्थिता मन्त्राः केवला वर्णरूपिणः |
स्वस्वध्वनिप्रोच्चरिताः प्रभुत्वं प्राप्नुवन्ति ते ||
११४७ ||
मन्त्राक्षराणि विण्मूत्रे प्रोतानि परिभावयेत् |
तामेव परमेव्योम्नि परमामृतसंज्ञके |
दर्शयेदात्मसद्भावं पूजाहोमादिभिर्विना ||
११४८ ||
रुद्रयामले— जपं यस्य शृणोत्यन्यः स मन्त्रः शून्य उच्यते |
ऋषिच्छन्दोदेवताभिः परित्यक्तो भुजङ्गमः ||
११४९ ||


Lesungshinweise: [Der Bezug von „jene“ im Sanskrit ist grammatisch unklar; die Verknüpfung dieser beiden Vorstellungen bleibt unsicher.] Im höchsten Raum, der höchster Unsterblichkeitsnektar heißt, vergegenwärtige man das eigene wahre Sein, auch ohne Puja, Homa und dergleichen.“ [Der Bezug von „jene“ im Sanskrit ist grammatisch unklar; die Verknüpfung dieser beiden Vorstellungen bleibt unsicher.] Im Rudrayamala: 1149: „Ein Mantra, dessen Japa ein anderer hört, heißt leer: eine Schlange, die von Rishi, Versmaß und Gottheit verlassen ist.“

Band II, S. 177, Kenntnis der Mantraglieder 1150–1155
अथ मन्त्राणामवयवज्ञानम् |
तदुक्तं विशुद्धेश्वरादौ— मन्त्रं नीत्वा गुरोः पार्श्वे गुरुभक्तिपरायणः |
मन्त्रश्रोत्रास्यहृन्नेत्रप्राणान् विज्ञाय तत्त्वतः ||
११५० ||
यत्नाच्च कीलकं ज्ञात्वा कुर्यान्मन्त्रपुरस्क्रियाम् |
मन्त्राणां प्रणवः श्रोत्रं मुखं रेफः प्रकीर्तितम् ||
११५१ ||
स्वराश्च चक्षुषी ज्ञेया मन्त्रविद्भिरनन्तरम् |
अतिरिक्ताश्च ये वर्णा हृदयं परिकीर्तितम् ||
११५२ ||
भूतडामरयक्षडामरयोर्बीजकोशे— श्रवणस्य हृदयनेत्रज्ञानान्मोक्षो मनोः सद्यः सिद्धिः सर्वविधीनां स्यात् साक्षाच्छिव एव साधको वन्यः ||
११५३ ||
श्रोत्रादीनां ज्ञानाभावे मन्त्रस्य ग्रहणमात्रात् |
दारिद्र्यं च विपत्तिर्नरकप्राप्तिरयशोवंशः ||
११५४ ||
दीनोऽतिदुःखभागी पराजितः शत्रुपीडितः शोकी |
कुर्याद्व्यथितचित्तो मन्त्री श्रोत्रादिविज्ञानम् ||
११५५ ||


Lesungshinweise: [Das letzte Beiwort ist im Druck unklar.]

Band II, S. 178, Lautglieder und ihre Zuordnung 1156–1167
स्वेनातिभक्त्या श्रोत्रादीनां ज्ञानं गुरोर्भवति तदा |
कृतकृत्यो लोकत्रयपूजितोऽनवद्यो मन्त्री ||
११५६ ||
तथा— लयश्रोत्रासृगास्या हृच्छून्याः सेनदृशस्वराः |
गर्जिनीधूम्रभैरव्योरभावे तु दृशः स्मृताः ||
११५७ ||
मूलार्णं मुखमादिष्टं हृदयं स्वरशक्तयः |
आदिमध्यावसानेषु पूर्वाभावे यथोत्तरम् ||
११५८ ||
तथा— सौरे तथा गाणपत्ये दौर्गे शैवेऽथ वैष्णवे |
भौतिके च मनावास्यहृन्नेत्रं द्योतते यथा ||
११५९ ||
मूलाक्षरे विचारोऽयं मूलार्णं बीजमुच्यते |
विषे विचारः कर्त्तव्यो बीजे सति विषान्विते ||
११६० ||
तथा— एभिरशेषमन्त्राणां हृन्नेत्रवदनानि च |
असवोऽस्य परिज्ञेयाः सर्वतन्त्रेषु गोपिताः ||
११६१ ||
बीजे रक्तमुखाः सर्वे मूलार्णं हृदयं स्वराः |
दक्षवामदृशौ चण्डी विकला मध्यमानतः ||
११६२ ||
बीजाभावे मनोविद्युन्नेत्रमास्यं मनोहरा |
मूलार्णं हृदयं दण्डी प्राणोऽपि स्वरशक्तयः ||
११६३ ||
चिन्तामणिनृसिंहाख्ये नेत्रास्यप्राणहृच्छ्रुती |
यत्र बीजाक्षरं मन्त्रस्तत्र सर्वं स एव हि ||
११६४ ||
प्रधानपूर्ववर्गा विकला यत्र दृश्यते |
तत्र नेत्रं विजानीयान्मुखं च क्षतजोक्षितम् ||
११६५ ||
रक्तवर्जमनोर्मूलवर्णमास्यं प्रकल्पितम् |
विद्युन्नेत्रं विनिर्दिष्टं विकला चण्डिवर्जिता ||
११६६ ||
विद्युदेवास्यहृन्नेत्रं हृद्वक्त्रप्राणवर्जिते |
श्रोत्रहीनो मनुः कायक्लेशदो विघ्नकारकः ||
११६७ ||


Lesungshinweise: [Diese gedrängte Zuordnung bleibt teilweise syntaktisch unsicher; die Lautnamen werden anschließend im Quelltext erklärt.] [Die Zuordnung der letzten beiden ist unklar.] [Deren genaue Funktion bleibt in der gedrängten Satzfolge offen.] [Die Wortverbindung zur Stellung von Vikala ist unsicher.] Bei Anfang, Mitte und Ende gilt beim Fehlen des jeweils Früheren das folgende.“ [Diese gedrängte Zuordnung bleibt teilweise syntaktisch unsicher; die Lautnamen werden anschließend im Quelltext erklärt.] Ferner: 1159–1160: „So werden Mund, Herz und Augen in den Mantras der Sonne, Ganeshas, Durgas, Shivas, Vishnus und der Bhutas kenntlich.

Band II, S. 178–179, Erläuterung der Mantraglieder 1168–1170
तथा— हृदये मूर्तिमास्थाय दृढचित्तः समाहितः |
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ||
११६८ ||
मनो हृत्वेन्द्रियार्थाच्च सर्वभावेन साधकः |
पश्यतीति लयश्रोत्रं नान्यथा शृणुयात् ततः ||
११६९ ||
असृक् रेफः |
शून्यं हकारः |
सेनो विसर्गः |
गर्जिनी इकारः |
धूम्रभैरवी ईकारः |
विषं प्रणवः |
रक्तं रेफः |
चण्डी विसर्गः |
विकलाऽनुस्वारः |
विद्युत् अकारः |
मनोहरा स्वाहा |
दण्डी यकारः |
चिन्तामणिबीजं नृसिंहबीजं चाग्रे वक्ष्यते |
क्षतजोक्षितं रेफः |
देवतामन्त्रयोर्वाच्यवाचकभाव उक्तस्तन्त्रान्तरे— वाच्यवाचकभावेन सर्वे मन्त्राः प्रतिष्ठिताः |
यद्देवताया यो मन्त्रः सा वाच्या स च वाचकः ||
११७० ||


Lesungshinweise: [Die abschließende Formulierung ist im Druck schwer verständlich.]

Band II, S. 179, Beginn des Japa 1171–1178
अथ जपप्रारम्भः |
मेरुतन्त्रे— गुरुं गणपतिं दुर्गां मातॄर्नत्वा च पूजनम् |
कृत्वा स्वमूलमन्त्रेण प्राणायामत्रयं चरेत् ||
११७१ ||
कृत्वा ऋष्यादिविन्यासं मन्त्रन्यासं तथैव च |
ध्यायेच्च हृदये देवं पात्रे संस्थाप्य मालिकाम् ||
११७२ ||
उत्तरतन्त्रे— जपादौ पूजयेन्मालां तोयैरभ्युक्ष्य यत्नतः |
विधाय मण्डलस्थां तां सव्यहस्तगतां च वा |
इष्टमन्त्रेण मालायाः प्रोक्षणं परिकीर्तितम् ||
११७३ ||
मेरुतन्त्रे— अर्घ्योदकेन संप्रोक्ष्य ततस्तां प्रार्थयेदिति |
ॐ मां माले महामाये सर्वशक्तिस्वरूपिणि ||
११७४ ||
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव |
पूजयित्वा ततो मालां गृह्णीयाद्दक्षिणे करे ||
११७५ ||
बीजं गणपतेः पूर्वमुच्चार्य तदनन्तरम् |
अविघ्नं कुरु माले त्वां गृह्णीयात् तदनन्तरम् ||
११७६ ||
हस्ते च दक्षिणे पश्चाच्चिन्तयेन्मनसा शिवम् |
चिन्तयेच्च गुरुं मूर्ध्नि यथा वर्णादिकं भवेत् ||
११७७ ||
मन्त्रं ध्यायेत् कण्ठमध्ये पीतवर्णं हिरण्मयम् |
महामायां च हृदये स्वात्मानं गुरुपादयोः ||
११७८ ||


Band II, S. 180, Innere Vereinigung und Chakras 1179–1188
आज्ञाचक्रे ततः पश्चाद्गुरोर्मन्त्रस्य चात्मनः |
देव्याश्चाप्येकतां नीत्वा सुषुम्णावर्त्मना ततः ||
११७९ ||
तत्त्वस्वरूपमेकं तद्यच्चक्रं प्रतिलङ्घयेत् |
षट्चक्रेऽपि महामायां क्षणं ध्यात्वा प्रयत्नतः ||
११८० ||
लब्धेन मूलमन्त्रेण चादिषोडशचक्रकम् |
आदिषोडशमध्यस्थां साधकानन्ददायिनीम् ||
११८१ ||
चिन्तयेत् साधको देवीं जपकर्म समारभेत् |
भ्रुवोरुपरि नाडीनां तिसृणां व्रात उच्यते ||
११८२ ||
तद्व्रातं त्रिपथस्थानं षट्कोणं चतुरङ्गुलम् |
रक्तञ्च कुलयोगज्ञैराज्ञाचक्रमितीरितम् ||
११८३ ||
कण्ठे तिसृणां नाडीनां वेष्टनं विद्यते नृणाम् |
सुषुम्णेडापिङ्गलानां षट्कोणं तत्षडङ्गुलम् ||
११८४ ||
तत्षट्चक्रमिति प्रोक्तं शुक्लं कण्ठस्य मध्यगम् |
तिसृणामपि नाडीनां हृदये चैकता भवेत् ||
११८५ ||
तत्स्थानं षोडशारं स्यात् सप्ताङ्गुलप्रमाणतः |
तत् पीतमुक्तं योगज्ञैरादिषोडशचक्रकम् ||
११८६ ||
ध्येयानामथ मन्त्राणां चिन्तितस्य जपस्य च |
यस्मादाद्यं तु हृदयं तस्मादादि निगद्यते ||
११८७ ||
क्रियासंग्रहे— गुरुं च देवतां मन्त्रं तथा स्वात्मानमेव च |
एकीभूतमिति ध्यायेदादिषोडशचक्रके ||
११८८ ||


Lesungshinweise: [Der Satzübergang zu Vers 1181 ist im Druck grammatisch verkürzt.] [Diese Chakrabeschreibung wird entsprechend dem vorliegenden Text wiedergegeben.]

Band II, S. 180–181, Haltung und Aussprache beim Japa 1189–1196
मेरुतन्त्रे— एवं विचिन्त्य मध्याया मध्यभागे तु मालिकाम् |
अस्पृशंस्तर्जनीं मालामङ्गुष्ठाग्रेण चालयेत् ||
११८९ ||
पूर्वं मन्त्रं जपन् यस्तु संस्पृशेदपरं मणिम् |
अङ्गुष्ठेन भवेत्तस्य निष्फलं स जपः सदा ||
११९० ||
मालां स्वहृदयासन्नां धृत्वा दक्षिणपाणिना |
देवीं विचिन्तयन् जप्यं कुर्याद्वामेन न स्पृशेत् ||
११९१ ||
एकचित्तः प्रशान्तात्मा ह्यक्षसूत्रकरः शुचिः |
भुग्नग्रीवोन्नतः शान्तः कण्डून्मीलनवर्जितः ||
११९२ ||
सविसर्गं समात्रं च सबिन्दुं साक्षरं स्फुटम् |
न द्रुतं वाऽपि विश्रान्तं क्रमान्मन्त्रं जपेत् सुधीः ||
११९३ ||
यामले— अतिद्रुतो व्याधिहेतुरतिदीर्घो वसुक्षयः |
अक्षराक्षरसंयुक्तं जपेन्मौक्तिकहारवत् ||
११९४ ||
मेरुतन्त्रे— तन्निष्ठस्तद्गतप्राणस्तच्चित्तस्तत्परायणः |
तत्पदार्थानुसन्धानं कुर्वन्मन्त्रं शनैर्जपेत् ||
११९५ ||
जपाच्छ्रान्तः पुनर्ध्यायेद्ध्यानाच्छ्रान्तः पुनर्जपेत् |
जपध्यानादियुक्तस्य क्षिप्रं मन्त्रः प्रसिध्यति ||
११९६ ||


Lesungshinweise: [Eine überlieferte Lesart lautet statt „zu rasch“: „zu kurz“.]

Band II, S. 181, Formen des Japa 1197–1204
सनत्कुमारः— मनः संहृत्य विषयान्मन्त्रार्थगतमानसः |
न द्रुतं न विलम्बितं जपेन्मौक्तिकपङ्क्तिवत् ||
११९७ ||
जपः स्यादक्षरावृत्तिर्मानसोपांशुवाचिकैः |
धिया यदक्षरश्रेणीं वर्णस्वरपदात्मिकाम् ||
११९८ ||
उच्चरेदर्थमुद्दिश्य मानसः स जपः स्मृतः |
जिह्वोष्ठौ चालयेत् किञ्चिद्देवतागतमानसः ||
११९९ ||
किञ्चिच्छ्रवणयोग्यः स्यादुपांशुः स जपः स्मृतः |
मन्त्रमुच्चारयेद्वाचा वाचिकः स जपः स्मृतः ||
१२०० ||
वाचिकाल्लक्षगुणित उपांशुः परिकीर्तितः |
उपांशोः कोटिगुणितो मानसस्तु प्रशस्यते ||
१२०१ ||
तन्त्रान्तरे— मनसा यः स्मरेत् स्तोत्रं वचसा च मनुं जपेत् |
उभयं निष्फलं याति भिन्नभाण्डोदकं यथा ||
१२०२ ||
कुलार्णवे— मानसः सिद्धिकामानां पुष्टिकामैरुपांशुकः |
वाचिको मारणे चैव प्रशस्तो जप ईरितः ||
१२०३ ||
मेरौ— षट्कर्मकृद्वाचिकः स्यात् कायिकः सर्वसिद्धिकृत् |
मानसः साधयेन्मोक्षं ततोऽन्यः क्षुद्रकर्मकृत् ||
१२०४ ||


Lesungshinweise: [Diese strengere Aussage steht neben der vorausgehenden Anerkennung des gesprochenen Japa.] [„Körperlich“ wird an dieser Stelle nicht weiter erläutert.]

Band II, S. 182, Frucht und Haltung des Japa 1205–1211
जपेन देवता नित्यं स्तूयमाना प्रसीदति |
जपात् सिद्धिर्जपात् सिद्धिर्जपात् सिद्धिर्नदूरतः ||
१२०५ ||
यथा धनेन सन्तुष्टो जायते क्षुल्लकः प्रभुः |
तथैव बलिदानेन पूजया क्षुद्रदेवताः ||
१२०६ ||
यथा महागुणैर्वश्यो जायते गुणवान् प्रभुः |
तथाऽहं त्वं विष्णुश्च जपादेव फलप्रदाः ||
१२०७ ||
पाद्मे— यक्षरक्षःपिशाचाश्च ग्रहाः सर्पाश्च भीषणाः |
जापिनं नोपसर्पन्ति भयभीताः समन्ततः ||
१२०८ ||
वैशम्पायनः— यज्जले शुष्कवस्त्रेण स्थले चैवार्द्रवाससा |
जपो होमस्तथा दानं सर्वं तन्निष्फलं भवेत् ||
१२०९ ||
रुद्रयामले— अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः |
जनसंगोष्ठलौल्यश्च षड्भिर्मन्त्रो विनश्यति ||
१२१० ||
विश्वासास्तिक्यकरुणाश्रद्धानियमनिश्चयैः |
सन्तोषः शुद्धकर्मादिगुणैर्युक्तो जपेत् प्रिये ||
१२११ ||


Lesungshinweise: [Die gedruckte Verbindung der letzten beiden Glieder ist sprachlich unsicher.]

Band II, S. 182–183, Darbringung des Japa 1212–1219
सनत्कुमारः— कृत्वा जपं पुरा चैवं तेजोरूपं समर्पयेत् |
देवस्य दक्षिणे हस्ते कुशपुष्पार्घ्यवारिभिः ||
१२१२ ||
शक्तिविषये तु— एवं जपं पुरा कृत्वा गन्धाक्षतकुशोदकैः |
जपं समर्पयेद्देव्या वामहस्ते विचक्षणः ||
१२१३ ||
इति यामलादौ प्रोक्तम् |
तथा— न न्यूनं नाधिकं चापि जपं कुर्याद्दिने दिने |
यदि कुर्यात् प्रमादात् तु नेष्टं फलमवाप्नुयात् ||
१२१४ ||
मेरुतन्त्रे— जपान्तेऽष्टोत्तरशतं जप्त्वा शिरसि धारयेत् |
मालामन्त्रस्तु ह्रीं सिद्ध्यै नमः सम्प्रार्थयेदिति ||
१२१५ ||
त्वं माले सर्वदेवानां प्रीतिदा शुभदा मम |
शिवं कुरुष्व मे भद्रे यशोवीर्यं च वर्द्धय ||
१२१६ ||
ग्रहणे स्थापने पूजायां प्रोक्तो मालिकामनुः |
पञ्चाक्षरस्ततो देवं स्वेष्टं सम्प्रार्थयेदिति ||
१२१७ ||
गुह्यातिगुह्यगुप्ता त्वं गृहाणास्मत्कृतं जपम् |
सिद्धिर्भवतु मे देव त्वत्प्रसादाज्जगत्पते ||
१२१८ ||
मूलमन्त्रं समुच्चार्य देवहस्ते निवेदयेत् |
तं जपं चार्घ्यतोयेन मध्याह्ने समये त्विदम् ||
१२१९ ||


Lesungshinweise: [Die weibliche Anfangsanrede und die männliche Schlussanrede stehen so nebeneinander im Druck.]

Band II, S. 183, Tagesabschluss und Mahlzeit 1220–1228
तदूर्ध्वं पूर्ववत् स्नात्वा विशेषेण विधानवित् |
न्यासावसानमखिलं कर्म कुर्यात् पुरोदितम् ||
१२२० ||
पूजाग्निहोमपर्यन्तं ततश्च जपमारभेत् |
यावद्दिनावसानं तु भूयः स्नात्वा ततो द्विज ||
१२२१ ||
उपास्य पूर्ववत् सन्ध्यां देवं सम्पूजयेत् पुनः |
विसृज्य भोजनं कुर्यात् सततं तारकोदये ||
१२२२ ||
यामले— नक्तं हविष्यं भुञ्जीत पुरश्चरणकृन्नरः ||
१२२३ ||
नक्तपदार्थ उक्तो भविष्ये— मुहूर्तोनं दिनं नक्तं प्रवदन्ति मनीषिणः |
नक्षत्रदर्शनान्नक्तमहं मन्ये नराधिप ||
१२२४ ||
इति |
अत्र सूर्यमन्त्रपुरश्चरण एव मुहूर्तोनदिने भोजनं कार्यम्— आत्मद्विगुणच्छायायां यदा सन्तिष्ठते रविः |
सौरं नक्तं विजानीयादन्यत्र निशि भोजनम् ||
१२२५ ||
इति मात्स्यात् |
मेरौ— द्विजैस्तु भोजनं कार्यमुपस्तीर्याभिधार्य च |
पावयेद्वैदिकैर्मन्त्रैः प्रोक्षणादिककर्मणा ||
१२२६ ||
पुनर्मूलेन संमन्त्र्य भुञ्जीयाद्धृदयाणुना |
मूलाभिमन्त्रितं तोयं भोजने तृषितः पिबेत् ||
१२२७ ||
पलाशपत्रे भुञ्जीयान्मध्यपत्रविवर्जिते |
तदभावे कदल्यां वा मधूके सर्जकेऽपि च ||
१२२८ ||


Lesungshinweise: [Eine Lesart hat als Anrede „Herr der Scharen“.]

Band II, S. 184, Nachtruhe und Dauer des Japa 1229–1234
भुक्त्वा शयीत शयने संशुद्धे वसुधातले |
अहतास्तरणास्तीर्णे सदर्भशयने शुचौ ||
१२२९ ||
मन्त्रिते मूलमन्त्रेण जितक्रोधो जितेन्द्रियः |
अभीष्टदेवतां ध्यायन् प्राक्शिरस्को निशि स्वपेत् ||
१२३० ||
अर्धरात्रे समुत्थाय पादशौचं विधाय च |
आचम्य देवं संस्मृत्य शीघ्रं सम्पूज्य पूर्ववत् ||
१२३१ ||
जपं कुर्याद्यथाशक्तिरर्पयेच्च तथेश्वरे |
स्वपेत् ततस्तु यद्दृष्टं स्वप्नं तं गुरवे वदेत् ||
१२३२ ||
जपश्चायं वनस्थानां प्रोक्तोऽयं ब्रह्मचारिणाम् |
देशाद्युपद्रवत्रासात् त्वरया चेत् समापनम् ||
१२३३ ||
कर्तव्यं चेदयं कालः प्रोक्तोऽत्यावश्यकेऽपि च |
आमध्याह्नं जपः श्रेष्ठो मध्यमः प्रहरत्रयम् |
सार्धं यामत्रयं हीनोऽऽवश्यके प्रोक्तलक्षणः ||
१२३४ ||


Lesungshinweise: [Der Bezug zwischen nächtlicher Praxis, Dringlichkeit und den Zeitabstufungen ist im vorliegenden Wortlaut nicht vollständig eindeutig.]

Band II, S. 184, Wiederholungszahlen und Homa 1235–1239
वैशम्पायनः— कल्पोक्तैव कृते सङ्ख्या त्रेतायां द्विगुणा भवेत् |
द्वापरे त्रिगुणा प्रोक्ता कलौ सङ्ख्या चतुर्गुणा ||
१२३५ ||
एकवीराकल्पे— भावनारहितानां च शूद्राणां क्षुद्रचेतसाम् |
चतुर्गुणो जपः प्रोक्तः सिद्धये नान्यथा भवेत् ||
१२३६ ||
वाराहीतन्त्रे— एषां जपे च होमे च सङ्ख्या नोक्ता मनीषिभिः |
तेषामष्टसहस्राणि सङ्ख्या स्याज्जपहोमयोः ||
१२३७ ||
क्रियासंग्रहे— पूर्णायां जपसङ्ख्यायां विधिवत्संस्कृतानले |
तैस्तैः कल्पोदितैर्द्रव्यैर्दशांशं हवनं चरेत् ||
१२३८ ||
होमद्रव्येण विहिते सर्पिषा होममाचरेत् |
होमव्यवस्था संप्रोक्ता पुरश्चरणसिद्धये ||
१२३९ ||
होमार्थमग्निसंस्कारो होमविधिश्च दीक्षाविधौ विशदीकृत एवेति नेह वितन्यते |


Lesungshinweise: [Die erste Satzhälfte von Vers 1239 ist im Druck sprachlich unvollständig; eine möglicherweise gemeinte Ersatzregel bei fehlenden Opferstoffen wird nicht ergänzt.]

Band II, S. 185, Tarpana 1240–1246
अथ तर्पणम् |
कुलार्णवे— तर्पणं तु ततः कुर्यात् तीर्थोदैश्चन्द्रमिश्रितैः |
जले देवं समावाह्य पादाद्यैरुदकात्मकैः ||
१२४० ||
सम्पूज्य विधिवद्भक्त्या परिवारसमन्वितम् |
एकैकमञ्जलिं तोयं परिवारान् प्रतर्पयेत् |
ततो होमदशांशेन तर्पयेत् परदैवतम् ||
१२४१ ||
पुरश्चरणचन्द्रिकायाम्— मूलमन्त्रं समुच्चार्य तदन्ते देवताभिधाम् |
द्वितीयान्तामहं पश्चात् तर्पयामि नमोऽन्तकः |
तर्पणस्य मनुः प्रोक्तस्त्वङ्गादीनां च कल्पयेत् ||
१२४२ ||
शक्तिविषये तु यामलादौ— मन्त्रान्ते नाम चोच्चार्य तर्पयामि ततः परम् |
वह्निजायान्तमन्त्रेण तर्पयेत् परदेवताम् ||
१२४३ ||
तथा— मूलमन्त्रं समुच्चार्य मन्त्रान्ते देवताभिधाम् |
तर्पयामि नमः प्रोच्य तर्पयेत् कुलनायिकाम् ||
१२४४ ||
इति वह्निजायान्तनमोऽन्तयोर्विकल्पः |
वैष्णवेऽपि नमोऽन्त एव तर्पणमन्त्रः, तदुक्तं गौतमीये— आदौ मन्त्रं समुच्चार्य श्रीपूर्वं कृष्णमित्यपि |
तर्पयामि पदं चोक्त्वा नमोऽन्तं तर्पयेन्नरः ||
१२४५ ||
तथा— तर्पयामि पदं योज्यं मन्त्रान्तेष्वेषु नामसु |
द्वितीयान्तेषु चेत्येवं तर्पणस्य मनुर्मतः ||
१२४६ ||


Lesungshinweise: [Chandra, wörtlich ‚Mond‘, bezeichnet hier einen Zusatz; dessen stoffliche Identität wird nicht ausdrücklich erklärt.]

Band II, S. 185–186, Marjana 1247–1250
अथ मार्जनम् |
नीलतन्त्रे— नमोऽन्तं मन्त्रमुच्चार्य तदन्ते देवताभिधाम् |
द्वितीयान्तामहं पश्चादभिषिञ्चाम्यनेन तु |
अभिषिञ्चेत् स्वमूर्धानं तोयैः कुम्भाख्यमुद्रया ||
१२४७ ||
वैशम्पायनः— तर्पणस्य दशांशेन नमोऽन्तं मन्त्रमुच्चरन् |
अभिषिञ्चेत् स्वमूर्धानं जलैः कुम्भाख्यमुद्रया ||
१२४९ ||
अन्यत्रापि— मन्त्रान्ते नाम चोच्चार्य सिञ्चामीति नमः पदम् |
अत्र मूलमन्त्रमुच्चार्य— अमुकदेवतामभिषिञ्चामि नमः ||
१२५० ||
इति योजयन्ति |


Lesungshinweise: [Die Vorlage springt von Vers 1247 unmittelbar zu 1249; eine Nummer 1248 ist hier nicht gedruckt.] [„Die betreffende Gottheit“ ist im Quelltext ein einzusetzender Platzhalter.]

Band II, S. 186, Brahmanenspeisung und Guruverehrung 1251–1257
अथ ब्राह्मणभोजनम् |
पुरश्चरणचन्द्रिकायाम्— मार्जनस्य दशांशेन ब्राह्मणानपि भोजयेत् |
ब्राह्मणामन्त्रणं कृत्वा भक्ष्यं सम्पाद्य षड्रसम् ||
१२५१ ||
समावाह्यासनं दद्यान्मूलेनैवेष्टदेवताम् |
ध्यात्वा चावाहनं कुर्याद्ब्राह्मणाँश्च यथोदितान् ||
१२५२ ||
पाद्याद्यैरर्चयेदिष्टदेवतारूपभूसुरान् |
भक्ष्यैर्नानारसोपेतैर्भोजयेद्देवताधिया ||
१२५३ ||
मेरुतन्त्रे— विप्राराधनमात्रेण व्यङ्गं साङ्गं प्रजायते |
यानि यान्यपि कर्माणि हीयन्ते द्विजभोजनैः ||
१२५४ ||
निरर्थकानि तानि स्युर्बीजान्युषरगाणि च |
गुरुं सन्तोषयेत् पश्चाद्गोहिरण्याम्बरादिभिः ||
१२५५ ||
गुरौ तुष्टे हि सन्तुष्टो मन्त्रः सिद्ध्यति मन्त्रिणः |
तन्त्रान्तरे— गुरवे दक्षिणां दद्याद्भोजनाच्छादनादिभिः ||
१२५६ ||
गुरुसन्तोषमात्रेण सर्वसिद्धिर्भवेद्ध्रुवम् |
गुरुमूलमिदं सर्वमित्याहुस्तन्त्रवेदिनः ||
१२५७ ||


Band II, S. 186, Fünf Verfahrensweisen 1258–1259
मेरुतन्त्रे— पञ्चधाऽत्र विधिः प्रोक्तो जपसम्पूर्णकारकः |
आद्यः कल्पः प्रतिदिनमामध्याह्नं जपं चरेत् ||
१२५८ ||
तद्दशांशेन कल्पोक्तं द्रव्यैर्होमं प्रकल्पयेत् |
तर्पणं मार्जनं कृत्वा तथा ब्राह्मणभोजनम् ||
१२५९ ||


Lesungshinweise: [Fortsetzung in Vers 1260.]

Band II, S. 187, Fünf Verfahren und Ersatzhandlungen 1260–1267
तद्दशांशं ततश्चायं प्रथमः कल्प ईरितः |
अयं द्वितीयः कल्पस्तु लक्षमेकं जपं चरेत् ||
१२६० ||
होमादिकं तस्य कृत्वाऽग्रिमं लक्षं समारभेत् |
अयं द्वितीयः कल्पस्तु लक्षमेकं जपं चरेत् |
होमादिकं तस्य कृत्वाऽग्रिमं लक्षं समारभेत् ||
१२६१ ||
अयं तृतीयः कल्पस्तु सम्पूर्णं जपमाचरेत् |
पूर्णहोमे तर्पणादिपूर्वमेवाचरेदिति |
चतुर्थस्तु तथा कल्पो दारिद्र्यैर्द्विगुणो जपः ||
१२६२ ||
होमाद्यभावे कर्तव्यस्त्र्यादिनिध्नैर्नृपादिकैः |
पञ्चमस्तु तथा कल्पो यस्य देवस्य यत् प्रियम् ||
१२६३ ||
तदेव द्विगुणं कार्यं शीघ्रं दैवततुष्टये |
जपप्रियाः सर्वदेव्यो वाममार्गे बलिप्रियाः ||
१२६४ ||
पानप्रियास्तु सिद्धान्ते कौलिके तु रतिप्रियाः |
होमप्रियो महादेवो भास्करस्तर्पणप्रियः ||
१२६५ ||
मार्जनं तु गणेशस्य विष्णोर्ब्राह्मणभोजनम् |
प्रायश्चित्तं तु न कृतं तदाऽशुद्धो भवेद्द्विजः ||
१२६६ ||
प्रायश्चित्तचतुष्केण द्विजाद्यैः क्षत्रियादिकाः |
यामले— होमकर्माद्यसक्तानां विप्राणां द्विगुणो जपः |
इतरेषां तु वर्णानां त्रिचतुष्पञ्चसङ्ख्यया ||
१२६७ ||


Lesungshinweise: [Diese Wiederholung steht tatsächlich im Druck.] [Die gedruckte Wendung zur Reihenfolge ist verkürzt.] [Die zuletzt genannte Personengruppe ist im Druck sprachlich unklar.] [Dieser unnummerierte Satzteil ist unvollständig überliefert.]

Band II, S. 187–188, Unterschiedliche Ersatzregeln 1268–1274
वैगुण्यादिहोमाद्यपक्ष एव सनत्कुमारः— यद्यदङ्गं भवेद्भङ्गं तत्सङ्ख्याद्विगुणो जपः ||
१२६८ ||
होमाभावे जपः कार्यो होमसङ्ख्याचतुर्गुणः |
विप्राणां क्षत्रियाणां च रससङ्ख्यागुणः स्मृतः ||
१२६९ ||
वैश्यानां वसुसङ्ख्याकमेषां स्त्रीणामयं विधिः |
यं वर्णमाश्रितः शूद्रः स च तस्य विधिं चरेत् ||
१२७० ||
तन्त्रान्तरे— होमाभावे द्विजानां च यः प्रोक्तः सुरभिर्जपः |
तत्सुभुवाश्च तद्भक्ताः शूद्राणां च स एव हि ||
१२७१ ||
मेरुतन्त्रे— अथ वक्ष्ये दरिद्रस्य मन्त्रसिद्धिर्यथा भवेत् |
होमकर्मण्यशक्तस्य विप्रस्य द्विगुणो जपः ||
१२७२ ||
इतरेषां तु वर्णानां त्रिगुणादि विधीयते |
होमद्विगुणजपेन सम्पूर्णतर्पणं भवेत् ||
१२७३ ||
अकृते मार्जने प्रोक्तं तर्पणद्विगुणो जपः |
प्रत्याम्नाये ब्रह्मभोज्यो न कुत्रापि मया श्रुतः ||
१२७४ ||
सर्वथा भोजयेद्विप्रान् कृतसाङ्गत्वसिद्धये |


Lesungshinweise: [Das Beiwort des Japa und das Wort für die erste zusätzliche Personengruppe sind im Druck unsicher.] [Die unterschiedlichen Ersatzfaktoren dieser Quellen bleiben nebeneinander stehen.] Ein Shudra folgt dem Verfahren des Standes, dem er sich angeschlossen hat.“ In einem anderen Tantra: 1271: „Der bei fehlendem Homa für Zweimalgeborene gelehrte Japa gilt ebenso für ihre Frauen und für die ihnen ergebenen Shudras.“ [Das Beiwort des Japa und das Wort für die erste zusätzliche Personengruppe sind im Druck unsicher.] Im Merutantra: 1272–1274: „Nun werde ich erklären, wie ein Armer Mantrasiddhi erlangt.

Band II, S. 188, Ritualberechtigung und Unterbrechungen 1275–1281
अत्र— स्त्रीशूद्राभ्यां न होतव्यं मन्त्रोच्चारणपूर्वकम् ||
१२७५ ||
इति वचनात् |
स्त्रीशूद्रयोस्तु होमस्थाने यथोक्तजप एव न तु शक्तावपि होम इति सुधार्णवकृतः |
तथा च नारदपञ्चरात्रे— त्रयाणामेव वर्णानां होमविधिरुदीरितः |
शूद्रस्तु तत्फलाकाङ्क्षी होमात् तद्द्विगुणं जपेत् ||
१२७६ ||
क्रियासंग्रहे— होमस्तु ब्राह्मणद्वारा स्त्रीशूद्राणां निगद्यते |
होमसङ्ख्यापञ्चगुणं द्विगुणं वा जपं चरेत् ||
१२७७ ||
वाराहीतन्त्रे तु— शूद्राणामधिकारोऽस्मिंस्तान्त्रिके होमकर्मणि |
वह्निजायां परित्यज्य स्वाहान्ते च नमो मतः ||
१२७८ ||
इत्युक्तम् |
तन्त्रान्तरे— पुरश्चरण आरब्धे सूतकादिः पतेत् चेत् |
आरब्धं न परित्याज्यमन्यथा दोषभाग्भवेत् ||
१२७९ ||
तथा च स्मृतौ— यज्ञव्रतविवाहेषु श्राद्धे होमेऽर्चने जपे |
आरब्धे सूतकं न स्यादनारम्भे च सूतकम् ||
१२८० ||
प्रारम्भो वरणं यज्ञे सङ्कल्पो व्रतजाप्ययोः |
नान्दीमुखं विवाहादौ श्राद्धे पाकपरिष्क्रिया ||
१२८१ ||


Band II, S. 189, Abschlussverehrung und Siddhi 1282–1291
तन्त्रेष्वपि— जपो दीक्षार्चनविधिः कार्यो दीक्षान्वितैर्नरैः |
नास्ति पापं यतस्तेषां सूतकं वा यतात्मनाम् ||
१२८२ ||
सूतके मृतके चैव धूमोद्गारादिके तथा |
जपं चार्घ्यं तथा कुर्यान्मन्त्रन्यासपुरःसरम् ||
१२८३ ||
पुरश्चरणचन्द्रिकायाम्— पुरश्चर्यां विधायेत्थं सम्यक् साधकसत्तमः |
तदन्ते महतीं पूजां कुर्याद्ब्राह्मणभोजनम् ||
१२८४ ||
बहुभिर्वस्त्रभूषाभिः पूजयेद्गुरुमात्मनः |
दीपनाथाँश्च सन्तोष्य मन्त्राः सिद्ध्यन्ति मन्त्रिणाम् ||
१२८५ ||
होमाङ्गनिरूपणम्— जपहोमार्चनैर्मन्त्रा नियतस्यास्य सिद्धिदाः |
जपेन द्विगुणेनापि मनवः सिद्धिदाः स्मृताः ||
१२८६ ||
रुद्रयामले— भोजनेन विना देवीतर्पणेन विना पुनः |
होमेनापि विना सिद्ध्यै मन्त्राणां त्रिगुणं जपेत् ||
१२८७ ||
अगस्त्यसंहितायाम्— सम्यक्सिद्धैकमन्त्रस्य पञ्चाङ्गोपासनेन च |
सर्वे मन्त्राः प्रसिद्ध्यन्ति त्वत्प्रसादान्महेश्वरि ||
१२८८ ||
तन्त्रान्तरे— दुर्लभं त्रिषु लोकेषु सिद्धमन्त्रस्य मन्त्रिणाम् |
न किञ्चिदस्ति देवेशि तस्मान्मन्त्रं प्रसाधयेत् ||
१२८९ ||
अन्यत्रापि— श्रेयांसि बहुविघ्नानि कथितानि मनीषिभिः |
तस्माद्विघ्नानि निर्जित्य मन्त्रसाधनमाचरेत् |
ततः सिद्धमनुर्मन्त्री साधयेत् स्वमनोरथान् ||
१२९० ||
मेरुतन्त्रे— एकस्मिन् साधिते कार्ये मन्त्रो याति सकुण्ठताम् |
तावज्जपं पुनः कृत्वा चैककार्यक्षमो भवेत् ||
१२९१ ||


Lesungshinweise: [Der genaue Anlass, den „Rauchentwicklung“ hier bezeichnet, bleibt offen.] [Die Dipa-Nathas werden an dieser Stelle nicht näher bestimmt.]

Band II, S. 190, Guruvertrauen und Abschluss 1292–1296
तत्रैव— मन्त्रान्तरे च संसिद्धो गुरुर्मन्त्रं प्रयच्छति |
यथोक्ताचरणात् तस्य सिद्धिः शिष्यस्य जायते ||
१२९२ ||
कृपा च स्यात् सिद्धमन्त्रं ददाति च यथा गुरुः |
विना जपं विना पूजां सिद्धयस्तत्करे स्थिताः ||
१२९३ ||
क्रियासंग्रहे— गुरौ च देवतायां च भक्तिरव्यभिचारिणी |
मन्त्रे शास्त्रे च विश्वासः सिद्धेर्बीजं विदुर्बुधाः ||
१२९४ ||
प्रत्यङ्गिराकल्पे— भक्तिमारुतनुन्नेन पुरश्चरणवह्निना |
दग्धे पापेन्धनव्यूहे मन्त्राः सिद्ध्यन्ति मन्त्रिणाम् ||
१२९५ ||
इति सामान्यपुरश्चरणविधिः |
विभ्रत्यद्भुतभूतिभूतपवचोवैचित्र्यचित्रामृतस्रोतःशालिनि सन्निबन्धनसरित्सम्भेदमभ्यर्हितम् |
षष्ठः श्रीनरदेवनिर्मितपुरश्चर्यार्णवे प्रस्फुरन् सद्युक्तिस्फुटमौक्तिकोत्कररुचोत्तुङ्गस्तरङ्गो गतः ||
१२९६ ||
इति श्रीमन्महाराजाधिराजश्रीप्रतापसिंहसाहविरचिते पुरश्चर्यार्णवे सामान्यपुरश्चरणविधिर्नाम षष्ठस्तरङ्गः सम्पन्नः ||


Lesungshinweise: [Der erste Versabschnitt enthält eine beschädigte Wortverbindung; das Bild des Ozeans, der Ströme, der Welle und der Perlen ist lesbar, die genaue Bestimmung des Wortnektars bleibt unsicher.] 1296: „Im vom ehrwürdigen König geschaffenen Ozean des Purashcharana, der herrliche Ströme vielfältigen Wortnektars und den verehrungswürdigen Zusammenfluss der Flüsse guter Lehrwerke trägt, ist die sechste Welle vorübergezogen: aufleuchtend und hochragend im Glanz zahlreicher klarer Perlen trefflicher Darlegungen.“ [Der erste Versabschnitt enthält eine beschädigte Wortverbindung; das Bild des Ozeans, der Ströme, der Welle und der Perlen ist lesbar, die genaue Bestimmung des Wortnektars bleibt unsicher.] Damit ist im Purashcharanarnava, verfasst vom erhabenen Großkönig, König der Könige, Shri Pratapasimha Shah, die sechste Welle namens „Allgemeines Purashcharana-Verfahren“ abgeschlossen.

Svadhyaya und Meditation vertiefen einander.

7. Taraṅga: Mantra-Siddhi und besondere Puraścaraṇas

Diese Welle: Deutsch · IAST · Devanagari

Band II, S. 191, Beginn des siebten Taraṅga und Verse 1–8
अथ सप्तमतरङ्गे मन्त्रसिद्धिलक्षणम् |
अथ पुरश्चरणभेदमन्त्रसिद्धिलक्षणादिषु निरूपणीयेषु सूचीकटाहन्यायेन मन्त्रसिद्धिलक्षणमादौ निरूप्यते |
तदुक्तं पञ्चरात्रे— अथातः सम्प्रवक्ष्यामि मन्त्रसिद्धेस्तु लक्षणम् |
मनोरथानामक्लेशे सिद्धेरुत्तमलक्षणम् ||
१ ||
मृत्यूनां हरणं तद्वद्देवतादर्शनं तथा |
प्रयोगानां क्लेशसिद्धिः सिद्धेस्तु लक्षणं तथा ||
२ ||
तथा च— परकायप्रवेशश्च पुरप्रवेशनं तथा |
ऊर्ध्वोत्क्रमणमेवं हि चराचरपुरे गतिः ||
३ ||
खेचरीमेलनं चैव तत्कथाश्रवणादिकम् |
भूछिद्राणि प्रपश्येत् तु तस्मादुत्तमलक्षणम् ||
४ ||
स्मरणे कीर्तने विष्णोरानन्दाश्रुविमोचनम् |
रोमाञ्चोद्गद्गदालापश्चित्तस्यैकाग्रता तथा ||
५ ||
विषयेषु च वैराग्यं प्रीतिश्च परमेश्वरे |
तत्कथाश्रवणौत्सुक्यं तत्पादसेवने रतिः ||
६ ||
तद्गुणस्तुतिकाव्यानामविलम्बितकर्तृता |
तत्पादाम्बुजचिह्नानां दर्शनं पूजनादिषु ||
७ ||
अनाहतस्य शब्दस्य भवेदाकस्मिकी श्रुतिः |
विनाऽपि योगाभ्यसनं चैतदुत्तमलक्षणम् ||
८ ||


Lesungshinweise: [Der Vergleich bezeichnet die Behandlung einer kleineren Aufgabe vor einer größeren.] [Der Druck liest hier „unter Mühe“; die Spannung zur Mühelosigkeit im vorigen Vers bleibt bestehen.] [Die besondere Bedeutung des ‚Betretens einer Stadt‘ wird hier nicht erläutert.]

Band II, S. 191–192, Abstufungen der Siddhi 9–15
ख्यातिर्वाहनभूषादिलाभः सुचिरजीवनम् |
नृपाणां तद्गतानां च वशीकरणमुत्तमम् ||
९ ||
सर्वत्र सर्वलोकेषु चमत्कारकरः शुचिः |
रोगापहरणं दृष्ट्या विषापहरणं तथा ||
१० ||
पाण्डित्यं लभते मन्त्री चतुर्विधमयत्नतः |
वैराग्यं च मुमुक्षुत्वं त्यागिता सर्ववश्यता ||
११ ||
अष्टाङ्गयोगाभ्यसनं भोगेच्छापरिवर्जितम् |
सर्वभूतेष्वनुकम्पा सार्वज्ञादिगुणोदयः ||
१२ ||
इत्यादिगुणसम्पत्तिर्मध्यसिद्धेस्तु लक्षणम् |
ख्यातिर्वाहनभूषादिलाभः सुचिरजीवनम् ||
१३ ||
नृपाणामङ्गनानां च वात्सल्यं लोकवश्यता |
महैश्वर्यं धनित्वं च पुत्रादिधनसम्पदः ||
१४ ||
अधमाः सिद्धयः प्रोक्ता मन्त्रिप्रथमभूमिका |
सिद्धमन्त्रस्तु यः साक्षात् स शिवो नात्र संशयः ||
१५ ||


Lesungshinweise: [Einige Kennzeichen werden im Text bei mehreren Abstufungen genannt; diese Überschneidungen bleiben erhalten.]

Band II, S. 192–193, Aufzählung der Siddhis 16–26
साधनसमुच्चये— सिद्धो यस्य महामन्त्रः साधनेन बलीयसा |
देवानामपि दुष्प्रापाः सिद्धयस्तत्करे स्थिताः ||
१६ ||
दिक्चरी खेचरी सिद्धिः पादुकासिद्धिरेव च |
अन्तर्द्धिसिद्धिर्वेतालसिद्धिः कायप्रवेशनम् ||
१७ ||
यक्षिणी भैरवीसिद्धिः खड्गसिद्धिस्तथैव च |
आज्ञासिद्धिर्धातुवादगुटिकाञ्जनसिद्धयः ||
१८ ||
आकर्षणवशीकारौ द्रावणं मोहनं तथा |
उच्चाटनं स्तम्भनं च द्वेषणं मारणं तथा ||
१९ ||
उन्मादनं शोषणं च मूर्छनं क्षोभणं तथा |
ग्रहाणां च गतिस्तम्भं वेगस्तम्भं नभस्वतः ||
२० ||
नदीमहार्णवस्तम्भं वाक्स्तम्भं प्रतिवादिनाम् |
गन्धर्वोरगदैत्यानां किन्नराणां च रक्षसाम् ||
२१ ||
सिद्धविद्याधरादीनां कन्यकाकर्षणं तथा |
नृपाणां देवतानां च क्षणादाकर्षणं भवेत् ||
२२ ||
शीतलीकरणं वह्नेः सर्पाणां निर्विषीक्रिया |
शोषणं सागरस्यापि त्रैलोक्यस्य वशीकृतिः ||
२३ ||
अमोघवचनत्वं च शापे चानुग्रहे तथा |
कामरूपं कामगतिः कामदातृत्वमेव च ||
२४ ||
अणिमा महिमा चैव गरिमा लघिमा तथा |
ईशित्वं च वशित्वं च प्राकाम्यं प्राप्तिरेव च ||
२५ ||
इत्याद्याः सिद्धयः सर्वा जायन्ते नात्र संशयः |
बहुनाऽत्र किमुक्तेन सिद्धमन्त्रस्य मन्त्रिणः |
यद्यदिष्टं च तत्सर्वं करामलकवद्भवेत् ||
२६ ||


Band II, S. 193, Zeichen nach längerer Mantrapraxis 27–38
नारदपञ्चरात्रे— मन्त्राराधनशक्तस्य प्रथमे वत्सरत्रये |
जायन्ते बहवो विघ्ना नियमस्थस्य नारद ||
२७ ||
नोद्वेगं साधको याति कर्मणा मनसा यदि |
तृतीयवत्सरादूर्ध्वं राजानश्च महीभृताः ||
२८ ||
प्रार्थयन्तेऽनुरोधेन गर्विता अपि मानिनः |
प्रसादः क्रियतां नाथ ममोद्धारणकारणम् ||
२९ ||
प्रज्वलन्तं च पश्यन्ति तेजसा विभवेन च |
अतस्ते मुनिशार्दूल निष्ठुरं वक्तुमक्षमाः ||
३० ||
नवमाद्वत्सरादूर्ध्वं स्वयं सिद्ध्यति मन्त्रराट् |
नानाश्चर्याणि हृदये मन्त्रसिद्धिमयानि वै ||
३१ ||
अत्यानन्दप्रदान्याशु प्रत्यक्षेण बहिस्तथा |
जडधीस्तु क्षणं विप्रः क्षणमस्ति प्रहर्षितः ||
३२ ||
क्षणं दुन्दुभिनिर्घोषः शृणोत्यप्यन्तरिक्षगम् |
क्षणं च मधुरं वाद्यं नानागीतसमन्वितम् ||
३३ ||
आजिघ्रति क्षणं गन्धान् कर्पूरमृगनाभिजान् |
उत्पतन्तं क्षणं वाऽपि पश्यत्यात्मानमात्मना ||
३४ ||
चन्द्रार्ककिरणाकीर्णं क्षणमालोकयन् नभः |
गजगोवृषनादाँश्च शृणुयाच्च क्षणं द्विजः ||
३५ ||
निर्भराम्बुदसंक्षोभं क्षणमाकर्षयत्यपि |
तारकाणि विचित्राणि योगिनो नभसि स्थितान् ||
३६ ||
पश्यत्युद्ग्राहयन्तं च क्षणं मन्त्रवतां सदा |
क्षणं किलिकिलारावं हंसबर्हिरवं तथा ||
३७ ||
क्षणं मेघोदयं पश्येत् क्षणं रात्रिं दिने सति |
रात्रौ च दिवसालोकं ससूर्यं क्षणमीक्षते ||
३८ ||


Lesungshinweise: [Der letzte Satzteil ist im Druck grammatisch gestört.]

Band II, S. 194, Weitere Zeichen und Grenze der Siddhis 39–49
बलेन परिपूर्णश्च तेजसा भास्करोपमः |
पूर्णेन्दुसदृशः कान्त्या गमने विहगोपमः ||
३९ ||
शमेन युक्तः प्रौढेन गाम्भीर्येण सुखेन च |
स्वल्पाशनेनाकृशता बहुनाऽपि निखिद्यते ||
४० ||
विण्मूत्रयोरल्पता हि भवेन्निद्राक्षयस्तथा |
जपध्यानगतो मन्त्री न खेदमधिगच्छति ||
४१ ||
विना भोजनपानाभ्यां पक्षमासादिकं मुने |
इत्येवमादिभिश्चिह्नैर्महाविस्मयकारिभिः ||
४२ ||
प्रवृत्तः सम्प्रबोद्धव्यः प्रसन्नो मन्त्रराडिति |
बौद्धायनः— सिद्धेस्तु त्रीणि चिह्नानि दाता भोक्ता अयाचकः ||
४३ ||
भैरवीतन्त्रे— ज्योतिः पश्यति सर्वत्र शरीरं वा प्रकाशयुक् |
निजं शरीरमथ वा देवतामयमेव हि ||
४४ ||
वक्रतुण्डकल्पे— चित्तप्रसादो मनसश्च तुष्टिरल्पाशिता स्वप्नपराङ्मुखत्वम् |
स्वप्नेषु यानाद्युपलम्भनं तु सिद्धस्य चिह्नानि भवन्ति सद्यः ||
४५ ||
मेरुतन्त्रे— एवं सिद्धे मनौ देवा मोक्षमार्गनिरोधकाः |
तपःक्षयकराश्चैव जायन्तेऽनेकसिद्धयः ||
४६ ||
स्वल्पसिद्धौ निमग्नश्चेन्न जायन्तेऽणिमादयः |
अणिमादिनिमग्नश्चेन्मोक्षवार्त्ताऽतिदुर्लभा ||
४७ ||
नारसिंहेऽपि— यथा स्वल्पसुखे मग्नो न प्राप्नोति महत् सुखम् |
तथा सिद्धौ निमग्नस्य मुक्तिर्दूरे प्रवर्तते ||
४८ ||
तस्मात् सिद्धीर्दृढीकृत्य भजेन्नृहरिपादुकाम् |
अखण्डैकरसानन्दं ततः प्राप्नोति नान्यथा ||
४९ ||


Lesungshinweise: [Der Druck ist im zweiten Satz grammatisch verkürzt.] [Die gedruckte Lesung „festige“ steht in Spannung zur vorausgehenden Warnung vor dem Versinken in Siddhis; sie wird nicht stillschweigend durch „verachte“ oder „gib auf“ ersetzt.] Dann erlangt man ungeteilte, ganz einheitliche Glückseligkeit, anders nicht.“ [Die gedruckte Lesung „festige“ steht in Spannung zur vorausgehenden Warnung vor dem Versinken in Siddhis; sie wird nicht stillschweigend durch „verachte“ oder „gib auf“ ersetzt.]

Band II, S. 195, Hingabe und Verschwiegenheit 50–58
पुरश्चरणसामर्थ्यात् सर्वसिद्ध्याश्रयोऽपि सन् |
न त्याज्या भगवद्भक्तिः साधकैर्मुक्तिकामुकैः ||
५० ||
बुभुक्षवः सन्त्यनेके केचित् सन्ति मुमुक्षवः |
भोगमोक्षनिराकाङ्क्षी विरलो भजते हरिम् ||
५१ ||
स एव जीवन्मुक्तः स्यान्नारायणमनामयम् |
सिद्धौ सत्यामसत्यां च भजते योगनिस्पृहः ||
५२ ||
मेरुतन्त्रे— अल्पं तपः क्षणान्नश्येन्मध्यमं चापि गर्वतः |
सिद्धिद्वारा महत् तस्य चिह्नं लक्षणमुच्यते ||
५३ ||
स्वप्ने वाऽक्षिसमक्षं वा आश्चर्यमिति हर्षदम् |
अकस्माद्यदि जायेत नाख्यातव्यं गुरोर्विना ||
५४ ||
प्रकाशनीयं न क्वापि ऐहिकीं सिद्धिमिच्छता |
प्रकाशयति यो मोहादौत्सुक्यान्मन्त्रजं सुखम् ||
५५ ||
निकटस्थाश्च तास्तस्य सिद्धयो यान्ति दूरतः |
आविर्भवन्ति दुःखानि शोकाश्च विविधा अपि ||
५६ ||
अल्पाशनं स्वल्पनिद्रा सदा चित्तप्रसन्नता |
प्रकाशयुक् शरीरं च वाक्यं सत्यं प्रजायते ||
५७ ||
तथा— वाङ्मनोरथसंसिद्धो दाता भोक्ता अयाचकः ||
५८ ||


Band II, S. 195, Weitere Siddhizeichen und erneute Übung 59–61
प्रपञ्चसारे— ततोऽस्य प्रत्ययास्त्वेवं जायन्ते जपतो मनुम् |
अधिष्ठितं निश्यदीपं निस्तमिश्रं गृहं भवेत् ||
५९ ||
अर्काभस्तेजसाऽसौ भवति नलिनजा सन्ततं किङ्करी स्याद्रोगा नश्यन्ति दृष्ट्या द्रुतमथ धनधान्याकुलस्तत्समीपम् |
देवा नित्यं नमोऽस्मै विदधति फणिनो नैव दंशन्ति पुत्रान् पौत्रान् मित्राणि वृद्धाँस्तनुविपदि परं धाम विष्णोः प्रयाति ||
६० ||
इति सिद्धिचिह्नानि |
फेत्कारिणीतन्त्रे— कर्मणा प्रबलेनैव प्रतिबन्धाविरोधिना |
यदि सिद्धिं न लभते द्विस्त्रिर्वा पुनराचरेत् ||
६१ ||


Lesungshinweise: [Die grammatische Verbindung einzelner Satzglieder im mittleren Versabschnitt ist im Druck gestört.] [Die Verbindung des Wortes für Hindernisse ist im Sanskrit nicht eindeutig.] Im Phetkarinitantra: 61: „Wird trotz kraftvollen Handelns wegen entgegenstehender Hindernisse keine Siddhi erlangt, vollziehe man das Verfahren noch zwei- oder dreimal.“ [Die Verbindung des Wortes für Hindernisse ist im Sanskrit nicht eindeutig.]

Band II, S. 196, Hilfe bei ausbleibender Siddhi 62–64
अथ द्वित्रैरपि पुरश्चरणैर्मन्त्राणामसिद्धौ तत्सिद्ध्यर्थमुपायानाह मेरुतन्त्रे— असिद्धत्वाद्गुरोर्दैवात् शिष्ये सिद्धिर्न जायते |
तदोपायं प्रकुर्याद्धि यद्गोप्यमधुनोच्यते ||
६२ ||
अनुलोमविलोमेन बिन्दुवन्मातृकाक्षरैः |
जपेत् सम्पुटितं मन्त्रं प्रत्यहं शतसङ्ख्यया ||
६३ ||
एकमासं ततो होमादिकात् सिद्धो भवेन्मनुः |
पुरश्चर्योक्तमखिलमाह्निकं च समाचरेत् ||
६४ ||


Band II, S. 196, Besonderheiten vedischer Mantras 65–74
वैदिकमन्त्रे तु विशेष उक्तस्तत्रैव— एवं वैदिकमन्त्रस्य सिद्धयेऽद्रिरसार्णकाः |
वर्णा देया बिन्दुयुक्ताः क्रमतश्चोत्क्रमेण च ||
६५ ||
ह्रस्वदीर्घप्लुतैर्भेदैर् अ इ उ ऋ त्रिधा मताः |
ह्रस्वः प्लुतो लृद्विविध एचोऽपि द्विविधा मताः ||
६६ ||
दीर्घप्लुतविभेदेन ह्यनुस्वारो विसर्गकः |
चतुर्विंशतिराख्याताः स्वरा एवं यमैः सह ||
६७ ||
चत्वारः कादिका वर्णा जिह्वामूलीययुक् च कः |
एवं कवर्गो दशधा चाद्याः पञ्चदश स्मृताः ||
६८ ||
उपध्मानीयसंयुक्तः पकारस्तेन तत्र षट् |
याद्यष्टाविति सम्प्रोक्ता यजुर्वेदे तु मातृकाः ||
६९ ||
लक्षौ द्वावधिकौ ऋक्षु ज्ञोऽधिकोऽथर्वणि स्मृतः |
जपश्चाष्टोत्तरशतं प्रत्यहं मासमात्रकम् ||
७० ||
अनध्यायं वर्जयित्वा चत्वारिंशद्दिनं तथा |
होमादिसकलं प्राग्वन्नित्यमेवं प्रकल्पयेत् ||
७१ ||
उपायन्तरमाह तत्रैव— कुलदैवतमन्त्रं तु भूतलिप्या पुटीकुरु |
क्रमोत्क्रमाच्छतावृत्तिं कुर्यात् सिद्धिस्तु मासतः ||
७२ ||
तथा— अत्युग्रदेवताजप्यस्त्वष्टोत्तरसहस्रकम् |
त्रिकालं गन्धपुष्पाद्यैर्निशीथे पञ्चमैः पुनः ||
७३ ||
षण्मासं कौलिकाद्यैश्चेदर्चिता सुप्रसीदति ||
७४ ||


Lesungshinweise: [Die Zahlbezeichnung bleibt hier unausgelegt, da sich die anschließende Buchstabenaufzählung nicht eindeutig dazu fügt.] [Die Zählung der ka-Gruppe ist im gedruckten Wortlaut nicht vollständig nachvollziehbar.] [Die ‚fünften Gaben‘ sind im vorliegenden Satz nicht näher bestimmt.]

Band II, S. 197, Weitere Verfahren und Sampata-Apyayana 75–87
भूतलिपिरग्रे वक्ष्यते |
अथोपायान्तराणि गन्धर्वतन्त्रे— अनुष्ठितो यथान्यायं यदि मन्त्रो न सिद्ध्यति |
पुनस्तावत् प्रजप्तव्यस्ततः सिद्धो भवेत् पुनः ||
७५ ||
पुनश्चानुष्ठितो मन्त्रो यदि सिद्धो न जायते |
उपायास्तत्र कर्त्तव्याः सप्त शङ्करभाषिताः ||
७६ ||
मेरुतन्त्रे— ब्रह्मद्वेषाद्गुरोर्दोषात् स्त्रीद्वेषाच्चेन्न जायते |
शपतो वाऽकीलितत्वात् तत्रोपायाष्टकं भवेत् ||
७७ ||
सम्पाताप्यायनं द्रावो बोधनं च वशीकृतिः |
पीडनं पोषशोषौ च दहनं तत्क्रियोच्यते ||
७८ ||
भूर्जपत्रं समानीय पद्ममष्टदलं लिखेत् |
अष्टगन्धेन देवस्य रोचनाचन्दनेन वा ||
७९ ||
साधकस्य तु नामार्णैर्मन्त्रसन्दर्भितं लिखेत् |
यावद्द्वयोः समाप्तिः स्यात् तस्य चाद्यन्तयोर्लिखेत् ||
८० ||
तारादिकं साधकस्य नामाथाष्टदलेषु तु |
द्वौ द्वौ लेख्यौ स्वरौ तच्च सम्यग्ध्यायन् सुधात्मकम् ||
८१ ||
तत् संवेष्ट्य मृदा सम्यग्वेष्टयेद्ब्राह्मणादिकम् |
शुक्लादिवर्णया पश्चात् सिक्थकेन च वेष्टयेत् ||
८२ ||
क्षिपेत् त्रिमधुरे तत् तु मृण्मये लघुभाजने |
क्षीरपूर्णे नवे कुम्भे तत् क्षिपेल्लघुभाजने ||
८३ ||
अग्निं संस्थापितं कृत्वा सन्निधौ तस्य तं घटम् |
संस्थापयेत् त्रिमधुरैर्मूलमन्त्रेण होमयेत् ||
८४ ||
अष्टादिकसहस्रं तु सम्पातं कलशे क्षिपेत् |
होमं समाप्य तं कुम्भं निःक्षिपेच्च जलाशये ||
८५ ||
स्वगुरुं ब्राह्मणाँश्चान्याँस्तोषयेद्दक्षिणादिभिः |
सम्पाताप्यायनं चैतदुक्तं सिद्धिर्न चेद्भवेत् ||
८६ ||
द्रावणं तु तदा कुर्यात् तत्प्रकार इहोच्यते |
वैं बीजेन ग्रन्थयित्वा भूर्जपत्रे लिखेन्मनुम् ||
८७ ||


Lesungshinweise: [Die Quellen nennen zunächst sieben, danach acht Verfahren. Die Verbindung zur Verriegelung ist im gedruckten Wortlaut unklar.] [Die gedruckte Satzendung zur Einsetzung des kleinen Gefäßes ist unregelmäßig.] [Fortsetzung in Vers 88.]

Band II, S. 198, Erwecken und Beeinflussen des Mantras 88–96
उशीररोचनाभ्यां च शिलाकर्पूरकुङ्कुमैः |
क्षीराज्यमधुतोयानां मध्ये तं लिखितं क्षिपेत् ||
८८ ||
पूजनाच्च जपाद्धोमाद्द्रावितः फलदो भवेत् |
द्रावितोऽपि न सिद्धश्चेद्बोधनं तस्य कारयेत् ||
८९ ||
वाग्भवेन च बीजेन सम्पुटीकृत्य तं जपेत् |
एवं बुद्धो भवेत् सिद्धो नो चेत् कुर्यात् वशीकृतिम् ||
९० ||
कुचन्दनमहादारुहरिद्रामनःशिलाः |
एतैस्तु लिखितो मन्त्रो भूर्जपत्रे सुशोभने ||
९१ ||
कण्ठे धृतो भवेद्वश्यो नो चेत् कुर्यात् प्रपीडनम् |
अनुदात्तस्वरेणाद्यमुदात्तेन द्वितीयकम् ||
९२ ||
तृतीयमनुदात्तेन पठेत् तुर्यमुदात्ततः |
एवं पदानि सर्वाणि पठेन्मन्त्रस्य साधकः ||
९३ ||
अनुदात्तपदोच्चारे देवं ध्यायेदधःस्थितम् |
ऊर्ध्वस्थितमुदात्तस्योच्चारेऽष्टाधिसहस्रकम् ||
९४ ||
जपेन्मन्त्रं ततो भूर्जे भानुदुग्धेन लेखयेत् |
मन्त्रं तमाक्रमेद्वामपादेनाथ च होमयेत् ||
९५ ||
अष्टोत्तरशतं मन्त्रं पीडितः सन् प्रसीदति |
न सिद्धश्चेत् तदा पोष्यः प्रोच्यते तत्क्रियाऽधुना ||
९६ ||


Band II, S. 198–199, Nähren und Reinigen des Mantras 97–105
ह्सौँ बीजपुटितं मन्त्रं विलिखेद्भूर्जपत्रके |
रोचनाकुङ्कुमाभ्यां च धारयेद्दधिदुग्धयोः ||
९७ ||
इदं पोषणमित्युक्तं दोषशोषणमुच्यते |
यज्ञस्य भस्मना लेख्यं वायुबीजविदर्भितम् ||
९८ ||
भूर्जपत्रे स्वेष्टमन्त्रं तत् कण्ठे धारयेदिति |
एतच्छोषणमित्युक्तं दहनं प्रोच्यतेऽधुना ||
९९ ||
पृथक् पृथक् च मन्त्राणां चतुर्दिक्षु समावृतान् |
रँ बीजेन पलाशस्य बीजतैलेन संल्लिखेत् |
भूर्जपत्रेऽथ तद्धार्यं कण्ठे दाहक्रिया त्वियम् ||
१०० ||
उपायान्तराण्युक्तानि यामलेश्वरगन्धर्वादौ— प्रणवो मातृका देवी हृल्लेखेत्यमृतत्रयम् |
अमृतत्रयसंयोगाद्दुष्टमन्त्रोऽपि सिद्ध्यति ||
१०१ ||
सुवर्णमर्कतैलं च पिष्टं मन्त्राम्भ एव च |
एतल्लिप्ताङ्गसञ्जप्तो मन्त्रः कुण्ठोऽपि सिद्ध्यति ||
१०२ ||
गौतमीये— सुवर्णसूर्यतैलेन पिष्टेन निजवारिणा |
तल्लिप्ताङ्गहुतः कुण्ठो मनुः सद्यः प्रसीदति ||
१०३ ||
इति मन्त्रसिद्ध्युपायाः |
आदावन्ते च मन्त्रस्य हृल्लेखा कामबीजकम् |
श्रीबीजं च विनिःक्षिप्य जपेन्मन्त्रं तु सिद्धये ||
१०४ ||
तारसम्पुटितं वाऽथ कृत्वा मन्त्रं तु साधकः |
लक्षमात्रं प्रजप्तव्यं दुष्टमन्त्रोऽपि सिद्ध्यति ||
१०५ ||
इत्युपायाः |


Lesungshinweise: [Die Verteilung der Umschließung in Vers 100 ist grammatisch nicht ganz eindeutig. Die Bijas in Vers 97 und 100 tragen im Druck Chandrabindu; der erste Lautverbund lautet h-s-au.] [Die Bezeichnung ‚eigenes Wasser‘ bleibt stofflich unbestimmt. Die Druckanmerkung bezeichnet den Abschnitt von Vers 102 bis zu diesem Abschluss als Zusatz eines Textzeugen.] [Laut Druckanmerkung fehlen die Verse 104–105 mit ihrem Abschluss in einem Textzeugen.]

Band II, S. 199, Alternative Purashcharanas 106–111
अथ पुरश्चरणभेदाः वाडवानलीये— पुरश्चर्या विना मन्त्रा न सिद्ध्यन्ति कदाचन |
न ते मन्त्राः प्रयोगार्हा न ते मन्त्राः फलप्रदाः ||
१०६ ||
ये च मन्त्राः पुरश्चर्यावर्जिता वीरवन्दिते |
कीर्तिता यस्य मन्त्रस्य जपसङ्ख्या तु भूयसी ||
१०७ ||
तावत्सङ्ख्याजपं कर्तुमसमर्थश्च साधकः |
समुद्रगनदीकूले देवतायतनेऽथ वा ||
१०८ ||
माघे मासि हविष्याशी लक्षमात्रं जपेन्मनुम् |
भक्त्या सम्पूजयेद्देवीं त्रिसन्ध्यं विविधार्हणैः ||
१०९ ||
होमादीनि ततः कुर्यात् तदङ्गानि विधानतः |
एवंकृते महादेवि भवेन्मन्त्रः फलप्रदः |
दीक्षा हि विफला ज्ञेया पुरश्चर्यामकुर्वताम् ||
११० ||
मुण्डमालायाम्— कृष्णाष्टमीं समारभ्य यावत् कृष्णाष्टमी भवेत् |
सहस्रसङ्ख्ये जप्ते तु पुरश्चरणमिष्यते ||
१११ ||


Lesungshinweise: [Ob tausend täglich oder insgesamt gemeint sind, wird in diesem Vers nicht ausdrücklich gesagt.]

Band II, S. 200, Zeitlich bestimmte Verfahren 112–123
तत्रैव— कृष्णां चतुर्दशीं प्राप्य तपस्यन्तं महोत्सवे |
अष्टमीनवमीरात्रौ पूजां कुर्याद्विशेषतः ||
११२ ||
दशम्यां पारणं कुर्यान्मत्स्यमांसादिभिर्युतम् |
षट्सहस्रं जपेन्नित्यं भक्तिभावपरायणः ||
११३ ||
तथा— अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते |
चतुर्दशीं समारभ यावदन्या चतुर्दशी ||
११४ ||
तावज्जप्ते महेशानि पुरश्चरणमिष्यते |
केवलं जपमात्रेण मन्त्राः सिद्धा भवन्ति हि ||
११५ ||
बलिहोमादिदानेन विशेषात् पीठपूजने |
योनिपीठं महापीठं कामरूपं तथाऽपरम् |
तयोरेकतमं पूज्यं रुद्रदेह इवापरः ||
११६ ||
चन्द्रपीठे— महालक्ष्मीं समारभ्य आमहानवमीश्वरि |
कृष्णाष्टम्या आनवमी मधौ शाक्ते मनौ स्मृतम् ||
११७ ||
ऊर्जे तपसि राधे वा शुक्लपक्षस्तु वैष्णवे |
एकादश्यन्त ऐशे तु भूतान्तः फाल्गुने स्मृतः ||
११८ ||
भाद्रेऽपि वैघ्नराजे तु माघभाद्रौ स्ववासरात् |
अन्येष्वपि च मन्त्रेषु पूर्वोक्तं नवरात्रकम् ||
११९ ||
जपो मातृकया प्रातःकालान्मध्यन्दिनावधि |
रात्रौ याममितः कार्यः पयोमूलफलाहृतिः ||
१२० ||
चतुर्थयामे कर्तव्या मालामन्त्रे दशांशतः |
विंशांशाद्वा दशांशाद्वा अन्येष्वपि हुतं मतम् ||
१२१ ||
दक्षिणा च यथोक्ता च वित्तशाठ्यं न कारयेत् |
एवं मन्त्रःप्रयोगार्हो भवत्येव न संशयः ||
१२२ ||
साधनसमुच्चये— तद्देवतिथिमारभ्य यावत् तद्देवतातिथिः |
नित्यं जपेत् षट्सहस्रं पुरश्चरणमिष्यते ||
१२३ ||


Lesungshinweise: [Die zeitliche Verbindung im ersten Satz ist im Druck gestört.] [Die Aufzählung und die anschließende Zweizahl stimmen im Wortlaut nicht eindeutig überein.] [Die Zuordnung des ersten Bhadra-Verweises bleibt unklar.] [Das Bezugswort der ersten Anweisung fehlt; es wird nicht ergänzt.] Yonipitha, Mahapitha und außerdem Kamarupa werden genannt; einen dieser beiden Orte soll man verehren, wie einen weiteren Leib Rudras.“ [Die Aufzählung und die anschließende Zweizahl stimmen im Wortlaut nicht eindeutig überein.] Im Chandrapitha: 117: „Von Mahalakshmi bis Mahanavami, o Herrin, oder im Frühlingsmonat Madhu vom dunklen achten Tag bis Navami wird das Verfahren für Shakti-Mantras gelehrt.

Band II, S. 201, Herbstliche Purashcharanas 124–130
ऊर्जे कृष्णेतरे पक्षे आरभ्य प्रतिपत्तिथिम् |
प्रजपेद्वैष्णवं मन्त्रं यावदेकादशीतिथिः ||
१२४ ||
होमादिभिः प्रभोज्यान्तं विदध्याद्द्वादशीदिने |
विधिनाऽनेन सिद्ध्यन्ति मनवो मुरवैरिणः ||
१२५ ||
कालिकाकल्पे— अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते |
शरत्काले चतुर्थ्यादिनवम्यन्तं विशेषतः ||
१२६ ||
भक्तितः पूजयित्वा तु रात्रौ तावत्सहस्रकम् |
जपेदेकस्तु विजने केवलं तिमिरालये ||
१२७ ||
अष्टम्यादिनवम्यन्तमुपवासपरो भवेत् |
स भवेत् सर्वसिद्धीशो नात्र कार्या विचारणा ||
१२८ ||
शरत्काले देवीपक्षे |
तावत्सहस्रं षट्सहस्रम् |
मुण्डमालायाम्— अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते |
शरत्काले महापूजा क्रियते या च वार्षिकी ||
१२९ ||
तस्मिन् पक्षे विशेषेण पुरश्चरणतत्परः |
अष्टम्यादिनवम्यन्तमुपवासपरो भवेत् |
पूजयेद्भक्तितो रात्रौ षट्सहस्रजपं चरेत् ||
१३० ||
अत्र प्रतिपदादिनवम्यन्तं जपो बोध्यः |


Band II, S. 201–202, Schädel und Leichnam als Ritualbezug 131–137
विश्वसारे— अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते |
पूजास्थाने विनिःक्षिप्य नरमुण्डं तदूर्ध्वके ||
१३१ ||
कोमलासनमास्तीर्य पूजयेत् परदेवताम् |
षट्सहस्रप्रमाणेन प्रत्यहं किं न सिद्ध्यति ||
१३२ ||
कलीतन्त्रे— अथ वाऽन्यप्रकारेण पुरश्चरणमिष्यते |
कुजे वा शनिवारे वा नरमुण्डं समाहृतम् ||
१३३ ||
पञ्चगव्येन मिलितं चन्दनाद्यैर्विशेषतः |
निःक्षिप्य भूमौ हस्तार्धमानतः काननान्तरे ||
१३४ ||
तत्र तद्दिवसे रात्रौ सहस्रं यदि साधकः |
एकाकी प्रजपेन्मन्त्रं स भवेत् कल्पपादपः ||
१३५ ||
तत्रैव— अथ वाऽन्यप्रकारेण पुरश्चरणमुच्येत |
शवमानीय तद्वारे तेनैव परिखन्यते ||
१३६ ||
तद्दिनान्तदिनं यावत् तावदष्टोत्तरं शतम् |
जपेदिति शेषः |
स भवेत् सर्वसिद्धीशो नात्र कार्या विचारणा ||
१३७ ||
तद्वार इति |
पूर्वोक्तशनिभौमवारे |
तेनैवेति |
हस्तार्धमानेनेवेत्यर्थः |


Lesungshinweise: [Die Zeitangabe ist im gedruckten Vers unklar.]

Band II, S. 202, Ganztägiger und nächtlicher Japa 138–144
तत्रैव— अथ वाऽन्यप्रकारेण पुरश्चरणमिष्यते |
अष्टम्यां वा चतुर्दश्यां पक्षयोरुभयोरपि ||
१३८ ||
सूर्योदयात् समारभ्य यावत् सूर्योदयान्तरम् |
तावज्जप्त्वा निरातङ्कः सर्वसिद्धीश्वरो भवेत् ||
१३९ ||
अत्र होमादिकमपि कर्तव्यं पुरश्चरणत्वश्रुतेः |
तन्त्रान्तरे— अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते |
सूर्योदयं समारभ्य यावत् सूर्योदयान्तरम् |
तावज्जप्त्वा निरातङ्कं सर्वसिद्धीश्वरो भवेत् ||
१४० ||
अत्र तिथिनियमो नोक्त इति पूर्वस्माद्विशेषः |
अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते |
सूर्यास्तं च समारभ्य सूर्योदयो यावदेव तु ||
१४१ ||
तावज्जप्त्वा निरातङ्कं सर्वसिद्धीश्वरो भवेत् |
अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते ||
१४२ ||
सूर्योदयं समारभ्य यावदस्तमयो भवेत् |
तावद्भक्त्या जपेद्देवि सर्वसिद्धीश्वरो भवेत् ||
१४३ ||
अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते |
सूर्यास्तं च समारभ्य यावत् सूर्योदयो भवेत् ||
१४४ ||


Lesungshinweise: [Fortsetzung in Vers 145; die erneute Nennung dieser Zeitspanne steht so im Werk.]

Band II, S. 203, Homa- und Tarpana-Purashcharana 145–149
तावज्जपेन्महेशानि सर्वसिद्धीश्वरो भवेत् |
अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते ||
१४५ ||
शरत्काले चतुर्थ्यादिनवम्यन्तं महेश्वरि |
होमरूपां पुरश्चर्यां कुर्यात् सिद्धीश्वरो भवेत् ||
१४६ ||
अथ तर्पणरूपां च पुरश्चर्यां ब्रवीमि ते |
दुग्धेनासवतोयेन रक्तैर्मज्जाभिरेव च ||
१४७ ||
मधुना गन्धतोयेन रक्तधाराभिरेव च |
केवलं शुद्धतोयस्य तर्पणेन महेश्वरि ||
१४८ ||
अत्राधिकारिभेदेन तर्पणद्रव्यभेदो बोध्यः |
साधनसमुच्चये— प्रतिपद्दिनमारभ्य नवम्यन्तं महोत्सवे |
दिवा वा यदि वा रात्रौ षट्सहस्रं जपं चरेत् |
देवीं सम्पूज्य विधिवत् सर्वसिद्धीश्वरो भवेत् ||
१४९ ||


Band II, S. 203–204, Weitere tägliche und nächtliche Verfahren 150–162
तन्त्रान्तरे— अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते |
दिवा जपेत् षट्सहस्रं रात्रावपि तथैव च ||
१५० ||
एवं क्रमेण देवेशि सर्वसिद्धीश्वरो भवेत् |
अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते ||
१५१ ||
दिवा जपेत् षट्सहस्रं तावद्धोमं चरेन्निशि |
सर्वसिद्धीश्वरो भूयादतोऽन्यं शृणु पार्वति ||
१५२ ||
अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते |
नित्यकृत्यं दिवा कृत्वा केवलं तिमिरालये ||
१५३ ||
रात्रौ जपेद्ध्यानपरः सर्वसिद्धीश्वरो भवेत् |
अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते ||
१५४ ||
गानमण्डलगो जप्त्वा त्रैलोक्याधिपतिर्भवेत् |
अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते ||
१५५ ||
दिवा जपेद्दिक्सहस्रं रात्रौ पूजां चरन् जपेत् |
सहस्रमात्रं प्रजपेदामिषान्नपरायणः ||
१५६ ||
सर्वसिद्धीश्वरो भूयाद्वेतालसिद्धिमाप्नुयात् |
अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते ||
१५७ ||
प्रतिपद्दिनमारभ्य नवम्यन्तं महेश्वरि |
एकान्ते पर्वते शून्ये केवलं तिमिरालये ||
१५८ ||
उदयास्तमयं जप्त्वा सर्वसिद्धीश्वरो भवेत् |
अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते ||
१५९ ||
पर्वते विपिने शून्ये नवरात्रं जितेन्द्रियः |
मुण्डोपरि भवेन्मुण्डकपालं च ततोऽपरि ||
१६० ||
तत्र दीपं च प्रज्वाल्य दीपालोकनतत्परः |
नवरात्रं जपेद्देवि दीपालोकनतत्परः ||
१६१ ||
मूलमन्त्रं कपालेषु कौमार्या बीजमुत्तमम् |
सिन्दूरेण कृतं यन्त्रं सर्वसिद्धीश्वरो भवेत् ||
१६२ ||


Lesungshinweise: [Die räumliche Zuordnung der letzten Mantra- und Yantra-Angaben ist im Text nur verkürzt überliefert.]

Band II, S. 204, Lata-Verehrung 163–166
कालीतन्त्रे— अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते |
अष्टमीसन्धिवेलायामष्टोत्तरलतागृहम् ||
१६३ ||
प्रविश्य मन्त्री विधिवत् ताः समभ्यर्च्य यत्नतः |
पूर्वोक्तकल्पमासाद्य पूजादिकं समाचरेत् ||
१६४ ||
केवलं कामदेवोऽसौ जपेदष्टोत्तरं शतम् |
तासां च पत्रमूले च जप्त्वा सङ्गृह्य मस्तके |
महासिद्धिर्भवेत् सद्यो लतापूजनदर्शनात् ||
१६५ ||
अष्टमीसन्धिवेलायामष्टमीनवम्योः सन्धिवेलायाम् |
अष्टोत्तरलतागृहं यथासम्भवमष्टपर्यन्तानां शक्तीनां गृहं मदनमन्दिरम् |
पूर्वोक्तकल्पं दूतीयागाख्यम् |
पत्रमूले वराङ्गे जप्त्वा बीजं निरस्य तदेव बीजं मस्तके सङ्गृह्य तिलकं कृत्वेत्यर्थः |
इदं वीरपरम् |
एवमन्येषामपि तत्तन्मार्गपरत्वं सकलसाधारणत्वं च क्रियाविशेषाद्बोद्धव्यम् |
तथा— अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते |
आकृष्टायाः कुलागारे लिखित्वा मन्त्रमेव च ||
१६६ ||


Lesungshinweise: [Die Zahlformulierung wird in der anschließenden Erläuterung des Werkes abweichend als „bis zu acht“ ausgelegt. Die Latas, wörtlich „Ranken“, bezeichnen hier Frauen im Ritual.] [Die Druckanmerkung bezeichnet dies als tantrische Anwendung.] [Der verschlüsselte Ausdruck wird hier beibehalten; Fortsetzung in Vers 167.]

Band II, S. 205, Fortsetzung und Guruverehrung 167–170
सम्पूज्य तत्र संस्कारं कृत्वा तस्यै निवेद्य च |
किञ्चिज्जप्त्वा मनुं नीत्वा देवताभावतत्परः ||
१६७ ||
तां विसृज्य नमस्कृत्य स्वयं सुप्त्वा सुसंयतः |
प्रातः स्त्रीभ्यो बलिं दत्त्वा मन्त्रसिद्धिर्न संशयः ||
१६८ ||
अथ पूजनमात्रं न तु सम्भोगोऽपीति ठक्कुरः |
तत्रैव— गुरुमानीय संस्थाप्य देववत्पूजनं विभोः |
वस्त्रालङ्कारहेमाद्यैः सन्तोष्य गुरुमेव च ||
१६९ ||
तत्सुतं तत्सुतां चैव तत्पत्नीं चैव पूज्यं च |
पूजयित्वा मनुं जप्त्वा स्वयं सिद्धीश्वरो भवेत् ||
१७० ||


Lesungshinweise: [Die Verbindung bei der Übernahme beziehungsweise Führung des Mantras in Vers 167 bleibt sprachlich unklar.]

Band II, S. 205, Verfahren des linken Weges 171–174
मेरुतन्त्रे— वाममार्गीयमन्त्राणामेवमेवान्यदुच्यते |
कृष्णाष्टमीं समारभ्य यावत् कृष्णचतुर्दशी ||
१७१ ||
देवं ध्यात्वा जपेन्मन्त्रमयुतानां चतुष्टयम् |
दशांशं होमयेत् पश्चात् तर्पयेदभिषेचयेत् ||
१७२ ||
कल्पलता-धृतवचनानि— अष्टम्यां च चतुर्दश्यां नवम्यां च विशेषतः |
रात्रियोगेन देवेशि गत्वा च पितृकानने ||
१७३ ||
दिगम्बरो मुक्तकेशो भूत्वा च सुरसुन्दरि |
प्रजपेदयुतं मन्त्री देवताभावतत्परः |
मन्त्रसिद्धिर्भवेत् तस्य देवीपुत्रस्य भूतले ||
१७४ ||


Band II, S. 205–206, Das rote Verfahren 175–180
मुण्डमालायाम्— यद्गुह्यं परमं देवि गोप्याद्गोप्यतरं प्रिये |
तदेतत् कथयिष्यामि प्रकाशश्च प्रजायते ||
१७५ ||
गोप्तव्यं तु महादेवि रहस्यं यत् तु गद्यते |
मनोहरे शुभे गेहे कर्पूरादिसुवासिते ||
१७६ ||
रक्तभित्तिसमालिप्ते रक्तचन्दनमालया |
रक्तासनोपविष्टः सन् रक्तपुष्पाणि धारयेत् ||
१७७ ||
रक्तचन्दनसंलिप्तो रक्तवस्त्रावृतः सदा |
जपेदयुतमेकं तु रक्तां ध्यायेत् सुरेश्वरीम् ||
१७८ ||
पश्चाद्रक्तबलिं दद्याद्रक्तपुष्पैः समर्चयेत् |
दशांशं जुहुयाद्रक्तकुसुमैर्वज्रसंज्ञकैः ||
१७९ ||
मधुरत्रयसंसिक्तैः सिन्दूरारुणविग्रहः |
कुमारीं भोजेत् पश्चाद्रक्तपुष्पासवादिभिः |
लभते वाञ्छितां सिद्धिमेवं कृत्वा हि साधकः ||
१८० ||


Lesungshinweise: [Der Ausdruck für die Bali unterscheidet hier sprachlich nicht eindeutig zwischen roter Gabe und Blutgabe; ein Alter der Kumari wird nicht genannt. Die besondere Blütenbezeichnung Vajra wird nicht weiter aufgelöst.] Wer so handelt, erlangt die gewünschte Siddhi.“ [Der Ausdruck für die Bali unterscheidet hier sprachlich nicht eindeutig zwischen roter Gabe und Blutgabe; ein Alter der Kumari wird nicht genannt.

Band II, S. 206, Das weiße Verfahren 181–188
पुरश्चरणान्तरमाह— अथ वा कल्पयेद्गेहं सुधादिधवलीकृते |
शुभ्रासने समाविश्य शुद्धस्फटिकमालया ||
१८१ ||
कर्पूरचन्दनालिप्ते शुभ्राम्बरधरः शुचिः |
श्वेतपुष्पैः समभ्यर्च्य ध्यायन् शुभ्रां सुरेश्वरीम् ||
१८२ ||
जपेत् सहस्रदशकं पश्यन्नुद्योतितं जगत् |
होमयेत् तद्दशांशेन पुण्डरीकदलैः शुभैः ||
१८३ ||
शर्करामधुसंयुक्तैः सर्पिः संलोलितैस्तथा |
श्वेताम्बरं सितां मालां श्वेतपुष्पाभिषूषणम् ||
१८४ ||
श्वेतानुलेपनं तद्वद्दद्याद्विप्राय दक्षिणाम् |
कुमारीभ्यस्तथा दद्याद्भोजयेत् ताश्च भक्तितः ||
१८५ ||
स्वयं त्रिमधुरोपेतैः पश्चाद्भुञ्जीत साधकः |
निवेद्य पुरतो देव्यै भक्त्या विशुद्धभावतः ||
१८६ ||
एवं कृत्वा पुरश्चर्या ज्ञानवृद्धिकरी परा |
यशोवृद्धिकरी तद्वद्राज्यवश्यकरी तथा ||
१८७ ||
प्रसन्नहृदयं तद्वत् साधकं परिकल्पयेत् |
अथ वाऽन्यप्रकारेण पुरश्चरणकर्मकृत् ||
१८८ ||


Lesungshinweise: [Fortsetzung in Vers 189.]

Band II, S. 206, Beginn des farbigen Lotusmandalas 189–191
लभते वाञ्छितां सिद्धिं गुरुभक्तिपरायणः |
सिन्दूरेण पुरस्कृत्य मण्डले मन्दिरोदरे ||
१८९ ||
तत्राष्टपत्रकमलं लिप्तं सिन्दूररेणुभिः |
पत्राणि पीतहरितसितनीलं क्रमाल्लिखेत् ||
१९० ||
कर्णिकां च हरिद्रायाश्चूर्णैरालिख्य निर्मलाम् |
तत्रेष्टदेवतां मध्ये पूर्णकुम्भात्मिकां चरेत् ||
१९१ ||


Band II, S. 207, Abschluss des Lotusmandala-Verfahrens 192–196
निवेश्य पञ्चरत्नानि पञ्चामृतजलं तथा |
रक्तवस्त्रावृतं कुम्भं कृत्वा साधकसत्तमः ||
१९२ ||
नमस्कृत्य गुरुं कुर्यादयुतं जपमुत्तमम् |
होमं कुर्यात् प्रयत्नेन बिल्वपत्रैः सहस्रकम् ||
१९३ ||
रक्तचन्दनसंसिक्तैः स्फुरत्त्रिमधुराप्लुतैः |
बलिमष्टदले दद्याच्छागरक्तोक्षितैर्नरः ||
१९४ ||
सगुडैः पायसैर्मध्ये मधुलालितमस्तकम् |
छागस्यैवार्चितं पूर्वं रक्तपुष्पस्य मालया ||
१९५ ||
बलिमुत्तममुत्सृज्य निरीक्षेत दिशस्ततः |
पलायन्ते वैरिणस्ते भीता एवं द्रुतं निशि ||
१९६ ||


Band II, S. 207, Bhairava- und Göttinnenverehrung am Verbrennungsplatz 197–203
अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते |
भौमवारे चतुर्दश्यां बलिमादाय मन्दिरात् ||
१९७ ||
श्मशानं समुपागत्य बलिपूजां समाचरेत् |
पूर्वोक्तमण्डपं कृत्वा ततो दद्याद्बलिं निशि ||
१९८ ||
भैरवं पूजयित्वाऽऽदौ ततो देवीं समर्चयेत् |
व्याघ्राजिनोपविष्टः सन् मुक्तकेशो जपेत् सुधीः ||
१९९ ||
सहस्रदशकं देवि निर्भयो वीरसत्तमः |
ततो नरकपालस्थं बलिं दद्यात् सुरादिकम् ||
२०० ||
भैरवाय नमस्कृत्य देव्यै रक्तं सुरां तथा |
पायसं दधि भक्तं च गुडोदनमथापि वा ||
२०१ ||
प्रणमेन्निर्भयो भूत्वा सानन्दो मन्दिरं व्रजेत् |
महापातकनिर्मुक्तो जायते राज्यभाजनम् ||
२०२ ||
दुःखदो वैरिवृन्देन व्याख्यावागीश्वरो भवेत् |
दृष्ट एव मनोहारी स्त्रीणां काम इवापरः ||
२०३ ||


Lesungshinweise: [Die Verbindung zur Feindesschar ist im Druck grammatisch unregelmäßig.]

Band II, S. 207–208, Verehrung einer Frau als Göttin 204–210
अथ वा मन्दिरे शून्ये सिन्दूरारुणमण्डले |
नारीं चतुर्दशीरात्रौ कृष्णपक्षे निशान्तरे ||
२०४ ||
आनीय रूपसम्पन्नामलङ्कृत्य विभूषणैः |
वस्त्रैर्माल्यैरङ्गरागैः समभ्यर्च्य विशेषतः ||
२०५ ||
न्यासं विधाय तस्यां तु यजेदानन्दनन्दिनीम् |
भुञ्जन् सौगन्धिकं वस्तु सहस्रं तु शतोत्तरम् ||
२०६ ||
सदुग्धं तु बलिं दद्यात् सुरामधुरमिश्रितम् |
निवेदयेत् तु नैवेद्यं तस्यै सुरामधुरमिश्रितम् ||
२०७ ||
ततो लभेत त्रैलोक्ये वशीकरणमुत्तमम् |
कविताकौशलं सम्यगाकर्षणकरं तथा ||
२०८ ||
तस्यामनिन्दितायां तु प्रसन्ना परमेश्वरि |
पूर्णानन्दो भवेदस्मान्नियतं साधकोत्तमः ||
२०९ ||
एतद्गुह्यतरं देवि न प्रकाश्यं कथञ्चन |
साधकेन महासिद्धिमिच्छता दुर्लभं भुवि ||
२१० ||


Lesungshinweise: [Das Verb der Wiederholung ist im Vers nicht ausdrücklich gesetzt; der Stoff bleibt unbestimmt.]

Band II, S. 208, Lampen und Kalasha 211–221
अथ वा शृणु देवेशि पुरश्चरणमुत्तमम् |
हविष्याशी मुक्तकेशो जपेदयुतमादरात् ||
२११ ||
गद्यपद्यमयी वाणी तस्य सर्वविधा भवेत् |
अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते ||
२१२ ||
दिवा परिष्कृते देवि रात्रौ दीपान् प्रदापयेत् |
चतुःषष्टिं चतुर्दिक्षु मध्ये मण्डलमालिखेत् ||
२१३ ||
सिन्दूरैः पटवासैश्च पुनः षोडशपत्रकम् |
ततोऽष्टदलमालिख्य मध्ये कुर्याच्च कर्णिकाम् ||
२१४ ||
त्रिकोणद्वयमालिख्य तत्र कुम्भं निधापयेत् |
पुनः पञ्चामृतैः पूर्णं दूर्वाम्रादिदलान्वितम् ||
२१५ ||
आच्छाद्य मृदुवस्त्रेण लोहितं च विशेषतः |
ततो दिग्बन्धनं कृत्वा द्वीपिचर्मासनस्थितः ||
२१६ ||
उपविश्यावाहयेद्देवीमिष्टां तत्रार्चयेत् ततः |
पञ्चोपचारविधिना ततस्तु जपमारभेत् ||
२१७ ||
प्रथमं प्रहरं हित्वा तुरीयं च विवर्जयेत् |
मध्ययोर्यामयोर्जप्यादङ्गन्यासादिपूर्वकम् ||
२१८ ||
जपान्ते तु बलिं दद्यात् कृष्णच्छागं प्रयत्नतः |
ततो जपानुक्रमेण होमादि प्रातराचरेत् ||
२१९ ||
तर्पणं मार्जनं कृत्वा तथा ब्राह्मणभोजनम् |
ततः कुमारीं सम्पूज्य साधकाँस्तोषयेत् ततः ||
२२० ||
एवं कृत्वा पुरश्चर्या महासिद्धिकरी सदा |
पुरश्चरणकर्तॄणां वश्यगा भैरवी स्वयम् ||
२२१ ||


Band II, S. 209, Zeitspanne und Verehrung ohne sexuelle Handlung 222–234
सिद्धमन्त्रप्रभावेण त्रैलोक्यं वशमानयेत् |
अपरं तु प्रवक्ष्यामि पुरश्चरणमुत्तमम् ||
२२२ ||
शृणु शैलसुते देवि शीघ्रं शीघ्रफलप्रदम् |
कृष्णां चतुर्थीमारभ्य यावच्छुक्लचतुर्थिका ||
२२३ ||
प्रयतस्तु जपेन्मन्त्रं योषिन्नियमपूर्वकम् |
ततो होमादिकं कार्यं ततः पूर्णं भवेदिदम् ||
२२४ ||
सोत्साहं तु ततो देवीं ध्यात्वा सुस्थो जपं चरेत् |
ततः सिद्धिमवाप्नोति वाञ्छितां मन्त्रसाधकः ||
२२५ ||
अथ वा पुष्पशय्यायां मृदुवासः सुभूषणः |
कृत्वाऽङ्गरागं सानन्दस्त्रयोदश्यां कुजे दिने ||
२२६ ||
व्यभिचारवतीं नारीं विभूष्यानीय सन्निधिम् |
पुष्पेण तां समालम्ब्य जपेदेकान्तमन्दिरे ||
२२७ ||
प्रवालमालया धीमान् मौक्तिकस्याक्षमालया |
यथाशक्ति जपेन्मन्त्रं ततो देव्यै बलिं ददेत् ||
२२८ ||
पायसं मधुसर्पिर्भ्यां सितावलितमुत्तमम् |
सुगन्धकुसुमैर्मालां निर्माय नवपल्लवैः ||
२२९ ||
निवेद्य देव्यै तां मालां तस्याः केशे निधाय च |
न काचित् कामचेष्टां च विदध्यात् साधकोत्तमः ||
२३० ||
तस्यै भूषादिकं दत्त्वा पुरो देव्यै निवेदयेत् |
देव्यै दत्त्वा विशेषेण ततस्तां तु विसर्जयेत् ||
२३१ ||
रात्रिशेषं ततो विद्वान् जागरेण समापयेत् |
कृतमेवंविधं कर्म देव्या हर्षविवर्द्धकम् ||
२३२ ||
साधको लभते सिद्धिमेवं कृत्वा तु मन्त्रतः |
एतत् तु सुकरं कर्म धैर्याधीनं सुरेश्वरि ||
२३३ ||
कथितं ते सुगोप्यं हि न प्रकाश्यं कथञ्चन |
कौतुकार्थं किञ्चिदन्यत् कथयिष्यामि पार्वति ||
२३४ ||


Lesungshinweise: [Welche Regeln gemeint sind, wird hier nicht ausgeführt.] [Die genaue Bedeutung der Verbindung ‚mit einer Blume sich auf sie stützend‘ bleibt unklar.]

Band II, S. 209–210, Kurkuma-Mandala 235–239
साधकः करणाद्यस्य सर्वलोकप्रियो भवेत् |
मण्डलं पुरतः कृत्वा हरिद्राचूर्णनिर्मितम् ||
२३५ ||
चतुर्द्वारि शुभां रम्भां स्थापयेत् तां दलान्विताम् |
तासु दीपावलिं दत्त्वा कौशलेन विशेषतः ||
२३६ ||
अष्टम्यां प्रातरारभ्य तदहोरात्रकं जपेत् |
बलिं च विधिवद्दत्त्वा होमाद्यन्तं समाचरेत् ||
२३७ ||
विधायोपोषणं प्रातर्दक्षिणान्तां क्रियां चरेत् |
महासिद्धिं लभेन्मन्त्री हरितालकरः परः ||
२३८ ||
सुगोप्यमेतत् सर्वं हि कथितं तव भामिनि ||
२३९ ||


Lesungshinweise: [Das letzte Beiwort ist in diesem Zusammenhang unklar.]

Band II, S. 210, Weitere Verfahren und Rama-Navami 240–246
कालीतन्त्रे— अथ वा विजने रम्ये अस्थिशय्यासने नरः |
उभयास्तं मनुं जप्त्वा सर्वसिद्धीश्वरो भवेत् ||
२४० ||
निजे क्रोडे बिल्वमूले शवमारोप्य यत्नतः |
नृसिंहमुद्रया वीक्ष्य जपेन्मातृकया नरः |
सहस्रं तत्र जप्त्वा तु सर्वसिद्धीश्वरो भवेत् ||
२४१ ||
भैरवतन्त्रे— अष्टाधिकं च साहस्रं कृत्वा प्रतिदिनं जपेत् |
षण्मासात् सिद्धिसंयुक्तः कविर्विद्यानिधिर्भवेत् ||
२४२ ||
तन्त्रान्तरे— महापितृवने नक्तं शवशय्यासनस्थितः |
षट्सहस्रं जपेन्मन्त्री सर्वसिद्धीश्वरो भवेत् ||
२४३ ||
एतत् त्रितयमपि प्रथमविद्याविषयम् |
साधनसमुच्चये— या तिथिर्यस्य देवस्य तस्यां वा साधकोत्तमः |
सूर्योदयं समारभ्य यावदस्तमयो भवेत् ||
२४४ ||
सूर्यास्तं वा समारभ्य यावत् सूर्योदयो भवेत् |
तावत्कालं जपेन्मन्त्रं पुरश्चर्येयमीरिता |
होमादिविप्रभोज्यान्तं कर्त्तव्यं पूर्ववद्बुधैः ||
२४५ ||
अगस्त्यसंहितायाम्— चैत्रे मासि नवम्यां तु जातो रामः स्वयं हरिः |
पुनर्वस्वृक्षसंयुक्ता सा तिथिः सर्वकामदा ||
२४६ ||


Lesungshinweise: [Die Zeitbestimmung „beide Untergänge“ bleibt unklar.] [Die Druckanmerkung verzeichnet den Abschnitt von diesem Zitat bis zum Fastenbrechen am zehnten Tag als nur in einem Textzeugen vorhanden; Fortsetzung auf der folgenden Seite.]

Band II, S. 211, Rama-Navami und kürzere Verfahren 247–252
तथा— तस्मिन् दिने महापुण्ये राममुद्दिश्य भक्तितः |
जपेदेकान्त आसीनो यावत् स्याद्दशमीदिनम् ||
२४७ ||
तेनैव स्यात् पुरश्चर्या दशम्यां भोजयेद्द्विजान् |
भक्ष्यभोज्यैर्बहुविधैर्भक्त्या दद्याच्च दक्षिणाम् |
कृतकृत्यो भवेत्तेन सद्यो रामः प्रसीदति ||
२४८ ||
तिथिनिर्णयमाह— चैत्रे शुद्धा तु नवमी पुनर्वसुयुता यदि |
सैव मध्याह्नयोगेन महापुण्यतमा भवेत् ||
२४९ ||
नवमी चाष्टमी विद्धा त्याज्या विष्णुपरायणैः |
उपोषणं नवम्यां वै दशम्यामेव पारणम् ||
२५० ||
वाडवानलीये— वक्ष्ये तत्राप्यशक्तानां पुरश्चरणमुत्तमम् |
पक्षाद्यां तिथिमारभ्य यावत् तद्देवतातिथिः ||
२५१ ||
तावज्जपेद्वर्णमय्या मालया प्रहरद्वयम् |
जपान्ते पूजनं कुर्यात् प्रत्यहं हवनादिकम् |
यस्य कस्यापि मन्त्रस्य पुरश्चरणमिष्यते ||
२५२ ||
तत्रेति पूर्वोक्तलक्षजपरूपपुरश्चरण इत्यर्थः |


Band II, S. 211, Purashcharana während einer Finsternis 253–256
अथ ग्रहणकालीनपुरश्चरणम् |
तदुक्तं मेरुतन्त्रे— अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते |
ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः ||
२५३ ||
नद्यां समुद्रगामिन्यां नाभिमात्रे जले स्थितः |
स्पर्शाद्विमुक्तिपर्यन्तं जपेन्मन्त्रं समाहितः ||
२५४ ||
तावत्कालं जपित्वेत्थं ततो होमादिकं चरेत् |
ब्राह्मणान् भोजयेत् पश्चात् पुरश्चर्यासमं त्विदम् ||
२५५ ||
प्रायश्चित्ते प्रयोगस्य प्रत्यवायस्य नाशने |
येषां जपे च होमे च सङ्ख्या तन्त्रेषु नोदिता |
तत्र सेयं पुरश्चर्या सर्वतन्त्रेषु गोपिता ||
२५६ ||


Band II, S. 212, Ausführungsweisen bei Finsternissen 257–267
तन्त्रान्तरेष्वपि— ग्रहणे चन्द्रसूर्यस्य शुचिः पूर्वमुपोषितः |
नद्यां समुद्रगामिन्यां नाभिमात्रे जले स्थितः ||
२५७ ||
यद्वा शुद्धोदके स्नात्वा शुचौ देशे समाहितः |
स्पर्शाद्विमुक्तिपर्यन्तं जपं कुर्यादनन्यधीः ||
२५८ ||
अनन्तरं दशांशेन क्रमाद्धोमादिकं चरेत् |
तदन्ते महतीं पूजां कुर्याद् ब्राह्मणभोजनम् ||
२५९ ||
ततो मन्त्रस्य सिद्ध्यर्थं गुरुं सम्पूज्य तोषयेत् |
ततः प्रयोगान् कुर्वीत मन्त्रवित् कल्पनोदितान् ||
२६० ||
कालीतन्त्रे— अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते |
चन्द्रसूर्यग्रहे चैव ग्रासावधि विमुक्तितः ||
२६१ ||
यावत्सङ्ख्यं मनुं जप्त्वा तावद्धोमादिकं चरेत् |
सनत्कुमारसंहितायाम्— अथ वाऽन्यप्रकारेण पौरश्चरणिको विधिः |
चन्द्रसूर्योपरागे च स्नात्वा प्रयतमानसः ||
२६२ ||
संस्पर्शादिविमोक्षान्तं जपेन्मन्त्रमनन्यधीः |
दृष्ट्वा स्नात्वा च सङ्कल्प्य विमोक्षान्तं जपं चरेत् ||
२६३ ||
तावद्धोमादिकं कुर्याद् ग्रहणान्ते शुचिः पुमान् |
एवं जपान्मन्त्रसिद्धिर्भवत्येव न संशयः ||
२६४ ||
तावदिति यावान् जपो जात इत्यर्थः |
तदुक्तं सिद्धेश्वरीमतेऽपि— चन्द्रसूर्यग्रहे देवि ग्रासावधि विमुक्तितः |
यावत्सङ्ख्यमनुर्जप्तस्तावद्धोमादिकं चरेत् ||
२६५ ||
पञ्चाङ्गं तावदेव स्याज्जपहोमौ समौ स्मृतौ |
सिद्धेश्वरीमतं प्रोक्तं सर्वसिद्धिप्रदायकम् ||
२६६ ||
चन्द्रपीठमन्त्रदेवप्रकाशिकरत्नावल्यादौ— उपवासत्रयं कृत्वा एवं वा शक्त्यपेक्षया |
श्राद्धादि चातिसङ्क्षेपाद् ग्रहणे स्पर्शमात्रतः ||
२६७ ||


Lesungshinweise: [Die Zeitwörter stehen im Sanskrit in umgekehrter Kasusverbindung; ihre gemeinte Abfolge ergibt sich aus dem Zusammenhang.] [Fortsetzung in Vers 268.]

Band II, S. 213, Finsternisrituale und Ersatz für fehlende Glieder 268–280
समुद्रगायां सरिति कण्ठमात्रे जले स्थितः |
जपं कुर्यादुद्ग्रहान्तं होमाद्यं तद्दशांशतः ||
२६८ ||
सम्पूर्णां दक्षिणां दत्त्वा मन्त्रसिद्धिमवाप्नुयात् |
ततः प्रयोगान् कुर्वीत मन्त्रवित् कल्पनोदितान् ||
२६९ ||
तन्त्रचिन्तामणि धृततन्त्रान्तरवचनानि— अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते |
सूर्यचन्द्रोपरागे तु नाभिमात्रोदके स्थितः ||
२७० ||
ग्रासाद्विमुक्तपर्यन्तं जपं कुर्यान्महेश्वरि |
तद्दशांशं होमयेद्धि तद्दशांशैस्त्रयं क्रमात् ||
२७१ ||
अनेन क्रमयोगेन सङ्गमे सञ्जपेच्च वा |
एकाङ्गुष्ठोपरि स्थित्वा ग्रासावधि विमुक्तितः ||
२७२ ||
पञ्चाङ्गं चाथ वाऽष्टाङ्गं दशाङ्गाख्यपुरस्क्रियाम् |
कुर्याद्यत्नेन देवेशि सर्वसिद्धीश्वरो भवेत् ||
२७३ ||
अथ वाऽन्यप्रकारेण पुरश्चरणमुच्यते |
ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः ||
२७४ ||
घटिकार्धं पूर्वमेव ग्रहणं परिवर्तते |
तदा स्नानं विधातव्यं ग्रस्ते सङ्कल्पमाचरेत् ||
२७५ ||
जाताशौचं मृताशौचं ग्रहणे नास्ति पार्वति |
विमोक्षान्तं जपं कुर्यात् सम्यग्ज्ञाते समापनम् ||
२७६ ||
सूर्ये छन्ने अनायातघटिकार्धं विचारयेत् |
ततः समापनं कुर्यात् सिद्धमन्त्रो भवेद्ध्रुवम् ||
२७७ ||
प्रमादाद्गलिते यागे बहुविप्रान् प्रभोजयेत् |
यद्यदङ्गं विहीयेत तत्साङ्गे द्विजभोजनम् ||
२७८ ||
दशांशं हवनं कुर्यात् तर्पणं तद्दशांशतः |
मार्जनं तद्दशांशेन दशांशेनाभिषेचनम् ||
२७९ ||
दशांशं विप्रभोज्यं च देवरूपो नरो भवेत् |
यद्यदङ्गं विहीयेत तत्सङ्ख्याद्विगुणो जपः |
द्वित्रिवेदबाणभेदैर्विप्रादीनां क्रमः स्मृतः ||
२८० ||


Lesungshinweise: [Die zeitliche Aussage ist im Wortlaut widersprüchlich.] [Die genaue Zeitberechnung bleibt im Druck unklar.] [Marjana und Abhisheka stehen hier als getrennte Glieder im Text.]

Band II, S. 214, Finsternisbeginn und Verhältnis zum Ahnenritual 281–287
वाडवानलीये— चन्द्रसूर्योपरागे च जपेन्मन्त्रमनन्यधीः |
स्पर्शाद्विमुक्तिपर्यन्तं तावद्धोमादिकं चरेत् |
अथ वा तद्दशांशेन पुरश्चरणमुच्यते ||
२८१ ||
अत्र स्पर्शपदं स्पर्शज्ञानपरम्— चक्षुषा दर्शनं राहोर्यत् तद्ग्रहणमुच्यते |
तत्र कर्माणि कुर्वीत गणनामात्रतो न हि ||
२८२ ||
इति स्मार्तवचनात् |
तथा च— सूर्यग्रहणकालादिर्नान्यः कालः प्रशस्यते |
यस्तु श्राद्धानुरोधेन ग्रहणे चन्द्रसूर्ययोः |
न करोति पुरश्चर्यां नरके स विपच्यते ||
२८३ ||
इत्यादिवचनान्मन्त्रिणां ग्रहणपुरश्चरणमावश्यकम् |
सर्वस्वेनापि कर्तव्यं श्राद्धं वै राहुदर्शने |
अकुर्वाणस्तु नास्तिक्याद् पङ्के गौरिव सीदति ||
२८४ ||
श्राद्धकरणे स्मार्तनिन्दार्थवादस्तु दीक्षितान्यपर इति सुधार्णवकृतः |
तदुक्तं सनत्कुमारेणापि— जपयज्ञं परित्यज्य पितृयज्ञं करोति यः |
स भवेद्देवताद्रोही पितॄन् सप्त नयत्यधः ||
२८५ ||
इति केचित् प्रतिनिधिद्वारा श्राद्धमामनन्ति |
अन्नाभावे द्विजाभावे प्रवासे पुत्रजन्मनि |
हेमश्राद्धं सग्रहे च शूद्रः कुर्यात् स एव हि ||
२८६ ||
इति वचनाद्धेमश्राद्धं विधाय पुरश्चरणमाचरन्ति |
हेमश्राद्धं च पित्रुद्देशेन यथाशक्तिसुवर्णदानम् |
कल्पलताकृतस्तु— जपयज्ञं परित्यज्येत्यादिः सनत्कुमारवचनमारब्धपुरश्चरणमध्ये मध्याह्नपतितसूर्यग्रहणविषयमित्याहुः |
वस्तुतः स्मार्तानां श्राद्धं तान्त्रिकाणां तु पुरश्चरणमावश्यकम् |
तान्त्रिकस्तु जपं कुर्यात् स्मार्तः श्राद्धं समाचरेत् ||
२८७ ||
इति सिद्धान्तसारवचनात् |
ग्रहणपुरश्चरणसङ्कल्पस्तु—

Lesungshinweise: [Fortsetzung auf der folgenden Seite.]

Band II, S. 215, Sankalpa und Begriff des Purashcharana 288–289
ॐ अद्येत्यादि राहुग्रस्ते दिवाकरे निशाकरे वाऽमुकगोत्रोऽमुकशर्माऽमुकदेवताया अमुकमन्त्रसिद्धिकामो ग्रासाद्विमुक्तिपर्यन्तं जपरूपपुरश्चरणमहं करिष्ये— इति |
अत्र केचित् |
जपो होमस्तर्पणं च मार्जनं विप्रभोजनम् |
पञ्चाङ्गोपासनं लोके पुरश्चरणमिष्यते ||
२८८ ||
तथा— सिद्धिकामोऽस्य मन्त्रस्य यावत्सङ्ख्यं जपं ततः |
दशांशं हवनं कुर्यात् तद्दशांशं तु तर्पणम् |
दशांशं मार्जनं कुर्याद्दशांशं विप्रभोजनम् ||
२८९ ||
इत्यादिवचनादेकसङ्कल्पान्तरे तु पञ्चाङ्गोपासनमेव पुरश्चरणम् |
ग्रहणपुरश्चरणादौ तु पुरश्चरणपदं भाक्तम् |
तस्य जपमात्ररूपत्वादेकसङ्कल्पान्तरितपञ्चाङ्गोपासनत्वाभावात् |
तत्र होमादिविधानं तु प्रधानीभूतपुरश्चरणतुल्यताबोधनायेत्याहुस्तच्चिन्त्यम् |
मेरुतन्त्रादौ मुख्यपुरश्चरणेऽपि प्रथमतः जपमात्रसङ्कल्पोक्तत्वात् |
मन्त्रमार्गादिभेदेन न्यूनातिरिक्ताङ्गस्य पुरश्चरणस्य च तत्रैवोक्तत्वादेव सङ्कल्पान्तरितपञ्चाङ्गोपासनस्यैव पुरश्चरणपदवाच्यत्वे प्रमाणाभावात् |
पञ्चाङ्गोपासनं लोके पुरश्चरणमिष्यत इत्यादिवचनं च येषां मन्त्राणां पञ्चाङ्गमेव पुरश्चरणं तन्मन्त्रपुरश्चरणपरं न तु मन्त्रसामान्यपुरश्चरणपरम् |
एकेनैव वाक्येन साङ्गजपसङ्कल्पस्तु लाघवार्थः |


Lesungshinweise: [Die Auslassungen sind Einsetzstellen für die im Quelltext durch amuka bezeichneten persönlichen Angaben; die Zeitformel wird dort mit „heute und so weiter“ abgekürzt.]

Band II, S. 215–216, Sichtbarkeit und Fasten bei Finsternissen 290–295
साधनसमुच्चये— दोषादल्पाद्भयं हित्वा ज्योतिःशास्त्रनिरूपितम् |
राहुं दृष्ट्वा जपं कुर्यात् कोटिपुण्यफलप्रदम् ||
२९० ||
ज्योतिःशास्त्रोक्तदोषप्रतीकारोऽप्युक्तस्तत्रैव |
निर्माय राजतं चन्द्रं सौवर्णं च दिवाकरम् |
पञ्चोपचारैरभ्यर्च्य दद्याद्विप्राय बुद्धिमान् ||
२९१ ||
इति |
तथा— ग्रासाद्विमुक्तिपर्यन्तं यदा सङ्कल्पितो जपः |
ग्रस्तास्ते शास्त्रतो ज्ञात्वा विमुक्तिं जपमुत्सृजेत् |
अदृष्ट्वा नैव भुञ्जीत सूर्यं वा रजनीकरम् ||
२९२ ||
तथा— यामत्रयं न भोक्तव्यं चन्द्रग्रहणपूर्वतः |
सूर्यग्रहणतः पूर्वं प्रहराणां चतुष्टयम् ||
२९३ ||
यत् तु मत्स्यपुराणे— अपराह्ने न मध्याह्ने मध्याह्ने न तु सङ्गवे |
भुञ्जीत चेत् सङ्गवे स्यान्न पूर्वं भुक्तिमाचरेत् ||
२९४ ||
इति वचनं तद्बालवृद्धातुरविषयम् |
तदुक्तं वृद्धवसिष्ठेन— सूर्यग्रहे तु नाश्नीयात् पूर्वं यामचतुष्टयम् |
चन्द्रग्रहे तु यामाँस्त्रीन् बालवृद्धातुरैर्विना ||
२९५ ||
इति |


Band II, S. 216, Purashcharana mit Buchstabenpflanzen 296–303
अथ वर्णौषधिपुरश्चरणम् |
मेरुतन्त्रे— अयोग्यगुरुतो लब्ध्वा वार्यादिस्थानमाश्रिताः |
दुर्देशत्वात् पुरश्चर्यां कर्तुं चेच्छक्यते न हि ||
२९६ ||
राज्ञो भाग्यमतो वाऽपि सुकुमारस्य वा यथा |
सिद्धिर्भवेत् तथा वक्ष्ये वर्णौषधिपुरस्क्रियाम् ||
२९७ ||
सप्तधा सा परिज्ञेया वर्णमासैस्तु सिद्धिदा |
मन्त्रवर्णौषधीकाष्ठै रचयेद्गुटिकाः शुभाः ||
२९८ ||
वर्णक्रमेण ताः प्रोह्य अनुलोमविलोमतः |
स्थूलादिकाश्च लघ्वन्ताः कर्तव्या मणयो यथा ||
२९९ ||
सर्पद्वयाकृतिर्माला भवेन्नित्यं तया जपेत् |
मालया मणिसङ्ख्याकं प्रथमोऽयं जपः स्मृतः ||
३०० ||
सर्वे समाना मणयः प्रोतव्याः स्वर्णसूत्रके |
कण्ठे धार्या कण्ठमाला नित्यमेव द्वितीयकः ||
३०१ ||
तथैव राजते सूत्रे प्रोताः परिपूजयेत् |
तद्देवकल्पमार्गेण प्रक्रमोऽयं तृतीयकः ||
३०२ ||
वर्णौषधीनां क्वाथेन नित्यस्नानं चतुर्थकः |
वर्णौषधीरजो लिह्याद् गोधृतेन तु पञ्चमः ||
३०३ ||


Lesungshinweise: [Die Ortsangabe und die Verbindung beim König beziehungsweise Begünstigten bleiben im gedruckten Wortlaut unklar.] [Die historischen Anwendungen werden als Textaussagen wiedergegeben; die Pflanzen selbst werden hier noch nicht neu aufgezählt.]

Band II, S. 217, Abschluss Pflanzenverfahren und Vira-Purashcharana 304–311
तच्चूर्णोद्धर्तनं नित्यं कुर्यादिति तु सप्तमः |
तद्भस्मधारणं नित्यं कुर्यादिति तु सप्तमः ||
३०४ ||
वर्णौषध्यस्तु प्रागुक्ताः |
अथ वीरपुरश्चरणम् |
अत्र रात्रिरेव कालो न दिवसस्तदुक्तं मुण्डमालायाम्— गते तु प्रथमे यामे तृतीयप्रहरावधि |
प्रजप्तव्यं निशायां तु रात्रिशेषे जपेन्न च ||
३०५ ||
हविष्यं भक्षयेन्नित्यमेकभक्तं सुसंयतः |
कुलचूडामणौ— पुरश्चरणकाले तु परशक्तिं प्रपूजयेत् |
दीक्षितो वस्त्रपुष्पाद्यैर्भोज्यैः पायससम्भवैः ||
३०६ ||
शून्यगेहे समानीय चार्घ्योदकविशोधितम् |
अमृतीकरणं कृत्वा शक्तिरभिमुखं नयेत् ||
३०७ ||
समानीय शक्तिपूजोपयुक्तद्रव्याद्यमृतीकरणं तेषामेव— अर्घ्योदकेन सर्वास्ताः सम्प्रोक्ष्य विधिपूर्वकम् |
अमृतीकरणं कुर्यात् सकलीकरणं ततः ||
३०८ ||
अत्रामृतीकरणादिकं शक्तीनाम् |
पूज्यशक्तीराह— अथाष्ट कन्यका वक्ष्ये देवीरूपधरा यतः |
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च कुलभूषणा ||
३०९ ||
वेश्या नापितकन्या च रजकी योगिनी तथा |
विशेषवैदग्ध्ययुताः सर्वा एव कुलाङ्गनाः ||
३१० ||
अष्टकन्यारूपभेदं विलोक्यामर्षचेष्टिताः |
ब्राह्मण्याद्यष्टशक्तीनां नामभिः कृतसञ्ज्ञकाः |
गौरकृष्णादिकं रूपं सौम्यत्वं च गुणादिकम् ||
३११ ||
शक्तीनां नामानि वक्ष्यमाणस्तोत्र एव वक्तव्यानि |


Lesungshinweise: [Beide Verfahren heißen im Druck „siebtes“; ein sechstes wird hier nicht ausdrücklich bezeichnet.] [Die Verbindung zur Beurteilung ihres Verhaltens ist im Druck gestört.]

Band II, S. 217–218, Verehrung der Shaktis 312–316
पूजाप्रकारमाह— आसनं प्रथमं दत्त्वा स्वागतं च वदेत् पुनः |
अर्घ्यं पाद्यं च पानीयं मधुपर्कं जलं ततः ||
३१२ ||
स्नापयेद्गन्धपुष्पाद्यैः केशसंस्कारमाचरेत् |
धूपयित्वा ततः केशं कौशेयं विनिवेदयेत् ||
३१३ ||
ततः स्नानान्तरे पीठमास्तीर्य पादुकाद्वयम् |
दत्त्वा तत्र समासीनां नानालङ्कारभूषणैः ||
३१४ ||
भूषयित्वाऽनुलेपं च गन्धमाल्यं निवेदयेत् |
तां तां शक्तिं समावाह्य मूर्ध्नि तासां समानयेत् ||
३१५ ||
भोज्यमण्डपमध्ये तु स्वर्णपात्रे सुशोभने |
चर्व्यं चोष्यं लेह्यपेयं भोज्यं चैव हि भक्षणम् |
अदीक्षिता यदा स्युस्तास्तदा मायां निवेदयेत् ||
३१६ ||
तां तामिति |
यस्य नाम्ना या सङ्केतिता तस्याः शिरसि तां शक्तिमावाह्य पूजयेदित्यर्थः |
इदं चावाहनं मध्येऽप्युक्तमादावेवार्हति सर्वत्र तथा दर्शनात् |


Lesungshinweise: [Ob Maya hier das so benannte Bija oder eine damit verbundene Weihe meint, wird in diesem Satz nicht näher erklärt.]

Band II, S. 218–219, Stotra an die Shaktis 317–325
तत्रासां सव्यकर्णेषु ततः स्तोत्रं समाचरेत् |
मातर्देवि नमस्तेऽस्तु ब्रह्मरूपधरेऽनघे ||
३१७ ||
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे |
माहेशि वरदे देवि परमानन्दरूपिणि ||
३१८ ||
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे |
कौमारि सर्वविघ्नेशि कुमारक्रीडनेऽवरे ||
३१९ ||
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे |
विष्णुरूपधरे देवि महागरुडवाहिनि ||
३२० ||
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे |
वाराहि वरदे देवि दंष्ट्रोद्धृतवसुन्धरे ||
३२१ ||
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे |
चामुण्डे मुण्डमालासृक्चर्चिते विघ्ननाशिनि ||
३२२ ||
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे |
महालक्ष्मि महामोहक्षोभसन्तापनाशिनि ||
३२३ ||
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे |
पितृमातृमये देवि पितृमातृबहिष्कृते ||
३२४ ||
एके बहुतरे देवि विश्वरूपे नमोऽस्तु ते |
एतत् स्तोत्रं पठेद्यस्तु कर्मारम्भे सुसंयतः ||
३२५ ||


Lesungshinweise: [Das letzte Beiwort bleibt unklar.] [Diese Anrufung wird laut Druckanmerkung nur in einem Textzeugen überliefert.] [Die Fruchtaussage folgt in Vers 326.]

Band II, S. 219, Abschluss der Shakti-Puja und Ersatzpersonen 326–332
विदग्धां वा समालोक्य तस्य विघ्नो न जायते |
यदि व्रीडापरास्तास्तु भोजने तद्गृहाद्बहिः ||
३२६ ||
स्थित्वा स्तोत्रं पठेत् तावद्यावत् तृप्तिः प्रजायते |
आचम्य मुखवासादि ताम्बूलं च निवेदयेत् ||
३२७ ||
तथा— ततो दद्यात् पुनर्मालां चन्दनं पङ्क्तितं शुभम् |
विसृज्य प्रदक्षिणीकृत्य वरं प्रार्थ्य सुखी भवेत् ||
३२८ ||
अन्या यदि न गच्छन्ति निजकन्या निजानुजा |
अग्रजा मातुलानी वा जननी तत्सपत्निका ||
३२९ ||
वयस्या ज्ञातिजा वाऽपि निःपतिर्वा सभर्तृका |
पूर्वाभावे परा पूज्या मदंशा योषितो यतः ||
३३० ||
एका चेद्युवती तत्र पूजिता वा विलोकिता |
सर्वा एव तदा देव्यः पूजिताः कुलभैरव ||
३३१ ||
इदं च पुरश्चरणस्यादौ मध्ये चान्ते च कर्तव्यम् |
तथा हि तत्रैव— आदावन्ते च मध्ये च लक्षपूर्तौ विशेषतः |
न पूजयति चेत् कान्तां तदा विघ्नैर्विलुप्यते ||
३३२ ||


Band II, S. 219, Ritualplatz im Virachudamani 333–337
वीरचूडामणौ— क्षेत्रमादौ तु संशोध्य समसूत्रं मनोहरम् |
वेदिकां कारयेत तत्र मध्ये मुण्डं विनिःक्षिपेत् ||
३३३ ||
अलिना लेपनं कुर्यान्मध्ये चाष्टदलं लिखेत् |
पूर्वादिक्रमतो ज्ञेयं स्वरयुग्मं लिखेत् क्रमात् ||
३३४ ||
वर्गाष्टकं लिखेत् तत्र मध्ये प्रासादमालिखेत् |
गगनं बिन्दुसंयुक्तं लाङ्गलीशं तथैव च ||
३३५ ||
सविसर्गं वरारोहे केशरेषु लिखेत् ततः |
तत्राधारादि सम्पूज्य आसनं स्थापयेद्बुधः ||
३३६ ||
उपविश्यासने वीरो यत्र कुत्राप्यचूडके |
पार्ष्णिघातत्रयं कुर्याच्छोटिकात्रितयं ततः ||
३३७ ||


Lesungshinweise: [Ali und die Lautnamen werden hier nur bezeichnet; die Ortsbestimmung achudaka bleibt unklar.]

Band II, S. 220, Schutz und Mandala 338–343
दिग्बन्धमस्त्रमन्त्रेण पूर्वादिक्रमतो बुधः |
वकेशान्ते पिनाकीशं नादबिन्दुविभूषितम् ||
३३८ ||
पशुपदं समुच्चार्य रमान्तेऽस्त्रमनूत्तमम् |
पाशुपतास्त्रविद्येयं सर्वविघ्नविनाशिनी ||
३३९ ||
वकेशः शकारः |
पिनाकीशो लकारः |
भूतशुद्धिं विधायादौ न्यासपूर्वं विधानतः ||
३४० ||
तथा— गोमयेन विलिप्तायां भूमौ मण्डलमालिखेत् |
अलिना लेपनं कुर्याद्यक्षकर्दमकेन वा ||
३४१ ||
सूत्रेण सूत्रितं पद्मं समसूत्रं मनोहरम् |
रक्तं श्वेतं हरिद्वर्णं कृष्णपत्रं सुकेशरम् ||
३४२ ||
चतुरस्रं सुशोभाढ्यं तन्मध्ये योनियुग्मकम् |
त्रिकोणं चैव तन्मध्ये शून्ये शून्यं विचिन्तयेत् ||
३४३ ||


Lesungshinweise: [Die Verbindung mit Rama ist im Druck nicht eindeutig; eine vollständige Lautformel wird nicht ergänzt.] Dies ist die Pashupata-Waffenvidya, die alle Hindernisse vernichtet.“ [Die Verbindung mit Rama ist im Druck nicht eindeutig; eine vollständige Lautformel wird nicht ergänzt.] Vakesha bezeichnet sha, Pinakisha la.

Band II, S. 220, Gekennzeichnete Auslassung 344–349
[Textauslassung: Verse 344–349. Sexualisierte Darstellung einer ausdrücklich minderjährigen Ritualperson; nicht wörtlich wiedergegeben.]

Lesungshinweise: [Notwendige Auslassung in allen drei Textausgaben: Diese Passage verbindet eine ausdrücklich sechzehnjährige Ritualperson mit sexualisierten körperlichen und rituellen Angaben. Sie wird nicht wörtlich wiedergegeben. Der Abschnitt behandelt die Auswahl einer weiblichen Ritualperson, ihre Gleichsetzung mit der Göttin und die Vorbereitung zugehöriger Ritualgefäße.]

Band II, S. 220–221, Lautangaben und Rataneshvari 350–352
तत्त्वपञ्चकमन्त्रेण एकैकं शोधयेद्बुधः |
वह्निसूर्यकलाचन्द्रकलान्ते हृदयं मनुम् ||
३५० ||
त्रिकोणं विलिखेन्मध्ये त्रिकोणमकथादिकम् |
खान्तं षान्तं तथा नान्तं यान्तं धान्तं सशत्रुकम् ||
३५१ ||
वामकर्णसमायुक्तं बिन्दुनादैरलङ्कृतम् |
रत्नेश्वरीति विद्याख्यं पञ्चरत्नात्मकं मनुम् ||
३५२ ||
षडङ्गेनैव सम्पूज्य मूलमन्त्रेण मन्त्रयेत् |


Lesungshinweise: [Die Lautbildungsanweisung in Vers 351 ist unvollständig beziehungsweise mehrdeutig; die verschlüsselten Bezeichnungen werden nicht zu einer geratenen Formel ergänzt.] Man verehre mit den sechs Gliedern und weihe mit dem Grundmantra.“ [Die Lautbildungsanweisung in Vers 351 ist unvollständig beziehungsweise mehrdeutig; die verschlüsselten Bezeichnungen werden nicht zu einer geratenen Formel ergänzt.]

Band II, S. 221, Swatantratantra und weitere Lehrmeinungen 353–359
स्वतन्त्रतन्त्रे— रात्रौ मांसासवैर्देवीं पूजयित्वा विधानतः |
ततो नग्नां स्त्रियं नग्नो रमन् क्लेदयुतोऽपि वा ||
३५३ ||
जपेल्लक्षं ततो देवीं होमयेज्ज्वलितानले |
योनिकुण्डे स्थितं सर्पिर्मत्स्यं मांसं फलं तथा ||
३५४ ||
दशांशं तर्पयेन्मद्यं मांसमिश्रैस्तु साधकः |
तर्पणस्य दशांशं तु अभिषिञ्च्य जगन्मयीम् ||
३५५ ||
दशांशं भोजयेत् साधु साधकं कालिकाप्रियम् |
मद्यं मांसं च मत्स्यं च चर्वणं च प्रदापयेत् |
ततस्तु तोषयेद्भक्त्या गुरुं स्वर्णादिभिः प्रिये ||
३५६ ||
तन्त्रशेखरे— एवं प्रकुर्वतस्तस्य प्रथमे वत्सरत्रये |
भवन्ति बहवो विघ्नाः श्रद्धाभावादयोऽशुभाः ||
३५७ ||
अस्मिन्नर्थे भवेन्मन्त्री यदि नोद्विग्नमानसः |
सेत्स्यतीति च विश्वस्तस्तदाऽसौ सिद्धिभाग् भवेत् ||
३५८ ||
कालीकल्पे— न न्यासो योषितां तत्र न पूजा नापि चिन्तनम् |
रात्रौ जपैकमात्रेण सिद्धिदा दक्षिणा भवेत् |
नवमाद्वत्सरादूर्ध्वं स्वयं सिद्ध्यति मन्त्रराट् ||
३५९ ||
इति वीरपुरश्चरणविधिः |


Lesungshinweise: [Dieses eigenständige Zitat nennt kein Alter der Beteiligten.]

Band II, S. 221, Beginn eines weiteren linken Verfahrens 360–361
मेरुतन्त्रे— वाममार्गे द्रुतं सिद्धिः कर्मणा येन जायते |
तदहं सम्प्रवक्ष्यामि सूक्ष्मसाधनमद्भुतम् ||
३६० ||
अष्टम्यां वा चतुर्दश्यां कृष्णायां भौमवासरे |
गृहीत्वा नृकपालं तु मद्यं मांसं तथोदनम् ||
३६१ ||


Lesungshinweise: [Fortsetzung in Vers 362.]

Band II, S. 222, Lampe und Augenruß 362–372
कल्माषान् मिश्रितान् कृत्वा गच्छेदश्वत्थभूमिकाम् |
एकान्ते निर्जने तस्य तले संलिप्य भूमिकाम् ||
३६२ ||
दण्डमात्रमष्टदिक्षु कीलान्मूलेन पूरयेत् |
अष्टोत्तरसहस्रेण सप्ततन्तुकडोरकम् ||
३६३ ||
निबन्धयेत् तत्र पूजां देवतायाः समाचरेत् |
देवीं तु हृदि संस्थाप्य तस्मिन् स्थाने सुदीपकम् ||
३६४ ||
कुर्याच्च नरतैलेनाभावे कपिलहव्यकैः |
तदभावे तु तैलेन कुडवप्रमितेन च ||
३६५ ||
दीपं कुर्यादष्टशतसूत्राणां वर्त्तिका मता |
तस्योपरि कपालं तत्कज्जलार्थं निवेशयेत् ||
३६६ ||
दीपं दृष्ट्वा जपेन्मन्त्रं नान्यतस्तु विलोकयेत् |
अर्धे प्रज्वलिते तैले भूतप्रेतपिशाचकाः ||
३६७ ||
नानारूपा भिन्नशब्दाः साधकं भीषयन्ति ते |
न भेतव्यं तदन्तं तु वामहस्तेन निःक्षिपेत् ||
३६८ ||
तेषामग्रे नान्यदृष्टिः प्रपश्येद्दीपमेव हि |
किञ्चिच्छेषे दीपतैले देवी सा वरदा भवेत् ||
३६९ ||
तस्यै तत्र बलिं दत्त्वा श्रुत्वा संयाचयेद्वरम् |
पूर्वकर्मविपाकेन यदि नायाति देवता ||
३७० ||
दीपान्ते कज्जलं ग्राह्यं तत्र देवीं प्रपूज्य च |
आनयेत्तद्गृहे सिद्धं दत्त्वाऽक्ष्णोः स्याज्जगद्वशम् ||
३७१ ||
दत्त्वाऽक्ष्णोः कज्जलं तच्च प्रयोगानाचरेत् ततः |
सर्व एव प्रसिद्ध्यन्ति लोलुपे न गुरौ सति |
रक्षयेदञ्जनं सम्यङ् न चेद्भक्षति भैरवः ||
३७२ ||


Lesungshinweise: [Das bezeichnete Wurfobjekt ist im Vers nicht eindeutig lesbar.]

Band II, S. 222–223, Lampen-Purashcharana 373–377
तत्रैव— अथातः सम्प्रवक्ष्यामि सर्वतन्त्रेषु गोपितम् |
सर्वसिद्धिकरं दीपं न वाच्यं यस्य कस्यचित् ||
३७३ ||
शान्त्यादिग्रहणान्तिकेषु भक्तो वर्णः प्रजायते |
मन्त्रवर्णस्य दिवसे क्रमाद्दीपं प्रकल्पयेत् ||
३७४ ||
सायं तु कुडवाज्यस्य वर्तिर्भूपञ्चतन्तुभिः |
यावज्ज्वलति दीपोऽसौ तावत् पश्यन्मनुं जपेत् ||
३७५ ||
मन्त्रार्णसङ्ख्यदीपेषु ज्वलितेष्वथ तद्दिने |
पुनर्दीपे कृते सा तु दीपे सन्दृश्यते स्फुटा ||
३७६ ||
इष्टं स्वकीयं कथयेद्याचयेन्मनसेप्सितम् |
ददाति देवता तुष्टा गुह्यमेतत् प्रकाशितम् ||
३७७ ||


Lesungshinweise: [Eine Druckvariante lautet „die Mantrasiddhi bewirkt“.] [Diese Berechnungsanweisung ist in der Vorlage trotz lesbaren Drucks nicht eindeutig verständlich.] [Das Zahlwort bleibt unausgelegt.] Man soll dies nicht jedem Beliebigen mitteilen.“ [Eine Druckvariante lautet „die Mantrasiddhi bewirkt“.] 374: „Bei den von Shanti bis Grahana reichenden Verfahren entsteht der geteilte Buchstabe; an dem Tag des Mantrabuchstabens bereite man der Reihe nach eine Lampe.“ [Diese Berechnungsanweisung ist in der Vorlage trotz lesbaren Drucks nicht eindeutig verständlich.] 375: „Abends verwende man ein Kudava Ghee und einen Docht aus der durch ‚Erde–fünf‘ bezeichneten Fadenzahl.

Band II, S. 223, Duti-Yaga und Rangfolge der Shaktis 378–385
अथ दूतीयागविधिः |
रुद्रयामले— दूतीयागस्य विधिना रममाणो वरस्त्रिया |
जप्त्वा मन्त्रं साधकेन्द्रः सद्यः सिद्धिमवाप्नुयात् ||
३७८ ||
तन्त्रान्तरे— पुरुषेण विना किञ्चित् प्रकृत्या क्रियते न हि |
तथा शक्तिं विना देवः फलं दातुं क्षमो न हि |
तस्मात् पुंशक्तिसंयोगं कृत्वा मन्त्रं प्रसाधयेत् ||
३७९ ||
कुमारीतन्त्रे— नटी कपालिनी वेश्या रजकी नापिताङ्गना |
ब्राह्मणी शूद्रकन्या च तथा गोपालकन्यका ||
३८० ||
मालाकारस्य कन्या च नव कन्याः प्रकीर्तिताः |
एतासु काञ्चिदानीय ततस्तद्योनिमण्डले ||
३८१ ||
पूजयित्वा महादेवीं ततो मैथुनमाचरेत् |
देवीयामले— अथ पूजाफलं वक्ष्ये उत्तरोत्तरगोचरम् ||
३८२ ||
स्वशक्त्याऽयुतं पुण्यं परशक्तिप्रपूजने |
ततो वेश्याऽधिका ज्ञेया रजकी च ततोऽधिका ||
३८३ ||
रजक्याः क्षुरकी श्रेष्ठा क्षुरक्याश्चर्मकारिणी |
ततोऽधिकतरा प्रोक्ता हेतुनारी वरानने ||
३८४ ||
ततोऽप्यन्त्यजसम्भूता चाण्डाली च ततोऽधिका |
ततो मातङ्गिनी श्रेष्ठा मातङ्ग्याः पुष्कशी तथा ||
३८५ ||


Lesungshinweise: [Die soziale Aufzählung enthält hier keine Altersangaben.] [Diese Gruppenbezeichnung ist hier nicht näher erklärt.] [Die historischen sozialen Rangsetzungen gehören zur zitierten Quelle; Fortsetzung in Vers 386.]

Band II, S. 224, Eigenschaften und Ausschlüsse 386–393
पुष्कश्या अन्त्यजा श्रेष्ठा ततोऽतिसुन्दरी स्मृता |
सुन्दरी परतः प्रोक्ता प्रीतिमत्यनुरागिणी ||
३८६ ||
तत्परा परमेशानि उन्मत्ता शुभलक्षणा |
समयाचारसम्पन्ना मन्त्रज्ञा भयवर्जिता ||
३८७ ||
विदग्धा त्वप्रसूता च धैर्यस्वातन्त्र्यसंयुता |
एवंगुणसमायुक्ताः पूजयेत् सर्वयोषितः ||
३८८ ||
महाकालसंहितायाम्— ऋषिकन्यां न चाकर्षेन्मद्यपानां च कन्यकाम् |
द्विजातीनां स्त्रियं चापि व्रतस्थानां स्त्रियं तथा ||
३८९ ||
गुर्वङ्गनां गुरोः पत्नीं सगोत्रां शरणागताम् |
शिष्ययोषां न चाकर्षेत् पापिनां वनितां तथा |
नापुष्पितां गुर्विणीं वा बालापत्यां तथा पुनः ||
३९० ||
देवीयामले— आत्मीया च परा चैव शक्तिमात्रं महेश्वरि |
मन्त्राधिदेवताबुद्ध्या पूज्याः सर्वोपचारकैः ||
३९१ ||
विविधैः फलताम्बूलैर्वस्त्रालङ्कारहेमभिः |
सम्पूज्य विधिवद्भक्त्या बहुहेतुं प्रदापयेत् ||
३९२ ||
सम्भोगवासनां कृत्वा यः कुर्याच्छक्तिपूजनम् |
स दारिद्र्यमवाप्नोति नारकी च भवेद्ध्रुवम् ||
३९३ ||


Lesungshinweise: [Die stoffliche Bedeutung von Hetu ist hier nicht ausdrücklich erklärt.]

Band II, S. 224–225, Gekennzeichnete Auslassung 394–399
वीरचूडामणावपि— [Textauslassung: Verse 394–397.] महाकालः— [Textauslassung: Verse 398–399. Sexualisierte Körperbeschreibung einer zuvor ausdrücklich minderjährigen Ritualperson und unmittelbar anschließende körperbezogene Ritualangaben; nicht wörtlich wiedergegeben.]

Lesungshinweise: [Notwendige Auslassung in allen drei Textausgaben. Der Abschnitt nennt erneut ausdrücklich ein Alter von sechzehn Jahren und verbindet dies mit sexualisierten Körperbeschreibungen und unmittelbar anschließenden körperbezogenen Ritualangaben. Nichtgrafischer Inhaltshinweis: Beschrieben werden die Auswahl und Eigenschaften einer weiblichen Ritualperson, ihre Ausstattung und ihre Sitzposition.]

Band II, S. 225, Pitha-Shaktis und Anrufung 400–404
वीरचूडामणौ— वामभागे समालिख्य त्रिकोणं पञ्चवर्तुलम् |
श्वेतरक्तसमायुक्तं नीलं सिन्दूरचर्चितम् ||
४०० ||
साधकः प्राङ्मुखो भूत्वा देवीं प्रत्यङ्मुखां जपेत् |
पीठशक्तिं विधानेन नव शक्तिः प्रपूजयेत् ||
४०१ ||
रतिः प्रीतिः प्रिया कान्तिः कामिनी काममालिनी |
कन्दर्पदलिनी दुर्गा भाविनी नव शक्तयः ||
४०२ ||
वियद् भृगुं समुच्चार्य मनुबिन्दुकलान्वितम् |
महाप्रेतपदं पश्चाद्धृदयान्तमिमं मनुम् ||
४०३ ||
मूलं मन्त्रं समुच्चार्य सम्बुद्धा तारिणीपदम् |
एह्येहि च पदं पश्चात् पादुकाभ्यां पुनः पुनः |
गृहीत्वा वामहस्तेन आसने चोपवेशयेत् ||
४०४ ||
तारिणीपदमित्युपलक्षणं स्वेष्टदेवतानामित्यर्थः |


Lesungshinweise: [Diese Lautbildungsangabe bleibt verschlüsselt.] [Die Verbindung mit der Paduka-Anrufung ist im Wortlaut verkürzt.]

Band II, S. 225–226, Gekennzeichnete Auslassung 405–418
तथा— [Textauslassung: Verse 405–418 und die zugehörige abschließende Kurzerläuterung. Fortsetzung des sexualisierten körperbezogenen Rituals im Zusammenhang mit der zuvor ausdrücklich minderjährigen Ritualperson; nicht wörtlich wiedergegeben.]

Lesungshinweise: [Notwendige Auslassung in allen drei Textausgaben. Der Abschnitt setzt das körperbezogene Sexualritual im Zusammenhang mit der zuvor ausdrücklich minderjährigen Ritualperson fort. Nichtgrafischer Inhaltshinweis: Er ordnet der Ritualperson Gottheiten und Mantraelemente zu und beschreibt ihre Verehrung. Die abschließende Erläuterung bestimmt den Bezug einer Gottheitenanrufung auf Tara.]

Band II, S. 226–227, Jnanarnava über das Ritualbett 419–426
ज्ञानार्णवे— पञ्चमं गजदन्तस्य हेमरूप्यादिनिर्मितम् |
विशुद्धक्षौमरचितां तूलिकां तत्र योजयेत् ||
४१९ ||
पुष्पाण्याकीर्य मध्ये तु कर्पूरस्य रजस्तथा |
मण्डूकादींस्तत्र देवि उपर्युपरि शैलजे ||
४२० ||
मण्डूकं पूजयेदादौ रुद्रं कालाग्निसन्निभम् |
आधारशक्तिं कूर्मं च तथाऽनन्तं वराहकम् ||
४२१ ||
पृथिवीं च तथा कन्दं नालं पद्मं दलं तथा |
केशरालीश्च सम्पूज्य कर्णिकां पूजयेत् ततः ||
४२२ ||
मञ्चकं च समभ्यर्च्य तत्र पादचतुष्टये |
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च क्रमाद्यजेत् ||
४२३ ||
अपूर्वान् पूजयेदेताँस्तत्पादानां समीपके |
आत्मान्तरात्मपरमज्ञानात्मनः प्रपूजयेत् ||
४२४ ||
मञ्चकाग्रेषु सम्पूज्य गुणत्रयमथार्चयेत् |
दूतीं सुलक्षणां रम्यां सर्वलक्षणलक्षिताम् ||
४२५ ||
नानालङ्कारसुभगां स्ववशां शारदामिव |
पूजयेत् परमेशानि पञ्चकामशरैस्तथा ||
४२६ ||


Lesungshinweise: [Lager] [Das erste Wort ist im Druck gestört; der folgende Text spricht ausdrücklich von einem Bett.] [Der Druck liest an dieser Stelle unregelmäßig apurvan.]

Band II, S. 227, Gottheitsnyasa und Lautanweisungen 427–436
वटुकादींश्चतुर्दिक्षु पूजयेत् सिद्धिहेतवे |
मातृकां विन्यसेत् तस्माद्देहे कामशरान्विताम् ||
४२७ ||
त्रिकोणं विन्यसेन्मूर्ध्नि तत्र पूजां यजेत् क्रमात् |
त्रिकोणमध्ये बालाख्यां कामेशीं परिपूजयेत् ||
४२८ ||
गणेशं च कुलाध्यक्षं तथा लक्ष्मीं सरस्वतीम् |
त्रिकोणेषु च सम्पूज्य वसन्तं मदनं प्रिये ||
४२९ ||
स्तनयोः पूजयेत् पश्चान्मुखे तस्याः कलाधरम् |
वाग्भवं कामराजं च स्त्रीबीजं कामराजकम् ||
४३० ||
हसक्लेमात्मकं दत्त्वा आधारशक्तिमुच्चरेत् |
श्रीपादुकां ततो दत्त्वा पूजयामि वदेत् ततः ||
४३१ ||
अनेन मनुना तस्य ललाटे सुमनोहरम् |
त्रिकोणं तत्र संलिख्य सिन्दूराद्यैर्विशेषतः ||
४३२ ||
वटुकं योगिनीं चैव क्षेत्रपालं गणेश्वरम् |
लक्ष्मीं सरस्वतीं चैव पूजयेत् तत्र सुन्दरि ||
४३३ ||
कामबीजं समुच्चार्य कामराजं ततः परम् |
श्रीपादुकां ततो दत्त्वा पूजयामि वदेत् ततः ||
४३४ ||
दक्षपादतले देवि पूजयेन्मनुनाऽमुना |
वैं वसन्तं समुच्चार्य नादहीनारमाततः ||
४३५ ||
पादुकां पूजयामीति तस्या वामकरे न्यसेत् |
शक्तिबीजं समुच्चार्य सोमपादपदं ततः ||
४३६ ||


Lesungshinweise: [Die Lautverbindung hasaklema ist im Druck nicht eindeutig als Bija-Folge bestimmbar; sie wird nicht vervollständigt.] [Fortsetzung in Vers 437. Die Körperzuordnungen werden entsprechend dieser eigenständigen Jnanarnava-Passage wiedergegeben; ein Alter ist hier nicht genannt.]

Band II, S. 228, Kamakala und Mondkalas 437–444
श्रीपादुकां ततो दत्त्वा पूजयामि स्तनद्वये |
आरोहक्रमतः कामकलान्यासं चरेत् सुधीः ||
४३७ ||
स्मरदीपिकायाम्— पादे गुल्फे तथोरौ च भगे नाभौ कुचे हृदि |
कण्ठे कक्षे तथोष्ठे च गण्डे नेत्रे श्रुतावपि |
शीर्षे सर्वशरीरे च वसेत् कामः स्थितिक्रमात् ||
४३८ ||
इति स्थानान्युक्तानि |
कलानां नामानि तु तन्त्रे— श्रद्धा प्रीती रतिश्चैव धृतिः शान्तिर्मनोहरा |
मनोरमा मनोरामा मदनोन्मादिनीति च ||
४३९ ||
मोहिनी दीपनी चैव शोषिणी च वशङ्करी |
रञ्जिनी सुभगा देवी षोडशी प्रियदर्शना ||
४४० ||
अकारादिस्वरैरर्च्याः कलाः कुसुमधन्वनः |
पूषाऽर्यमा सुमनसा रतिः प्रीतिस्तथा धृतिः ||
४४१ ||
ऋद्धिः सौम्या मरीचिश्च दशमी चांशुमालिनी |
अङ्गिरा शशिनी चैव च्छाया सम्पूर्णमण्डला ||
४४२ ||
पुष्टिश्चैवामृता चेति कलाः सोमस्य षोडश |
अकारादिस्वरयुताः पूजनीया मनीषिभिः ||
४४३ ||
दक्षपादादि मूर्धान्तं वामे मूर्धादि सुन्दरि |
पादान्तं पूजयेत् सर्वाः कला वै कामसोमयोः ||
४४४ ||


Band II, S. 228–229, Verehrung der fünf Pfeile 445–453
तन्त्रान्तरे— पृष्ठवंशात् समारभ्य शिरोऽन्तं कामवाचकम् |
विन्यस्य विधिवन्मन्त्री पूजयेत् तत् तु मूर्धनि ||
४४५ ||
धर्मात्मकं समुच्चार्य कामचापपदं ततः |
पादश्रीपादुकां दत्त्वा पूजयामीति पूजयेत् ||
४४६ ||
मूर्ध्नि पादे मुखे गुह्ये हृदये च यथाक्रमात् |
पञ्चबाणैः पञ्चबाणान् यथास्थानेषु पूजयेत् ||
४४७ ||
द्रां द्रावणपदं दत्त्वा बाणपादपदं ततः |
श्रीपादुकां वदेत् पश्चात् पूजयामीति पूजयेत् ||
४४८ ||
द्रीमात्मकं समुच्चार्य उन्मादबाणमुच्चरेत् |
पादश्रीपादुकां दत्त्वा पूजयामीति पूजयेत् ||
४४९ ||
कामबीजं ततो दत्त्वा मोहबाणपदं ततः |
पादश्रीपादुकां दत्त्वा पूजयामीति पूजयेत् ||
४५० ||
ब्रह्मात्मकं समुच्चार्य सन्दीपनपदं ततः |
बाणपादपदं दत्त्वा श्रीपादुकां ततो वदेत् ||
४५१ ||
पूजयामीति सम्पूज्य शेषे बाणं समुच्चरेत् |
शोषणं च समालिख्य बाणपादपदं ततः ||
४५२ ||
श्रीपादुकां ततो दत्त्वा पूजयामीति पूजयेत् |
ललाटमण्डले पश्चात् त्रिकोणं पूजयेत् ततः ||
४५३ ||


Lesungshinweise: [Die Vorlage gibt überwiegend Bausteine und Benennungen statt vollständiger Formeln. Dharma und Brahman werden hier nicht zu ungesicherten Bijas aufgelöst.]

Band II, S. 229, Stirndreieck und heilige Stätten 454–462
वाग्भवं शुभपादं च श्रीपादुकां ततो वदेत् |
पूजयामि ततो दत्त्वा दक्षरेखासु पूजयेत् ||
४५४ ||
द्रीमात्मकं समुच्चार्य भगसर्पिः पदं ततः |
श्रीपादुकां ततो दत्त्वा पूजयामीति पश्चिमे ||
४५५ ||
कामबीजं समुच्चार्य भगसर्पिःपदं ततः |
श्रीपादश्रीपदं दत्त्वा पादुकां च ततो वदेत् ||
४५६ ||
पूजयामीति चोच्चार्य पूजयेद्वामपार्श्वके |
हसौँरात्मकमालिख्य भगावहपदं ततः ||
४५७ ||
पादश्रीपादुकां दत्त्वा पूजयेन्मध्यदेशतः |
श्रीउड्डीशपदं दत्त्वा देवीमुड्डीश्वरीं ततः ||
४५८ ||
नाथदेवपदं दत्त्वा श्रीरक्ताम्बां ततो वदेत् |
श्रीचर्यानाथमालिख्य पादश्रीपादुकां ततः ||
४५९ ||
पूजयामीत्युड्डियाने पूजयेद् हृदि सुव्रते |
श्रीपादं च समालिख्य जालन्धरपदं ततः ||
४६० ||
महापीठं समालिख्य नादहीना रमा ततः |
जालेश्वरीपदं दत्त्वा देवीजालीशमालिखेत् ||
४६१ ||
नाथदेवपदं दत्त्वा श्रीजालाम्बापदं ततः |
श्रीषष्ठीशपदं दत्त्वा नाथदेवपदं ततः ||
४६२ ||


Lesungshinweise: [Die erste Lautverbindung in Vers 457 bleibt unsicher; sie ist keine gesicherte Rezitationsformel.] [Fortsetzung in Vers 463. Die ausdrücklich wiederholten Namens- und Ehrentitelbestandteile bleiben erhalten; unklare Bezeichnungen wie Bhaga-Sarpis werden nicht umgedeutet.]

Band II, S. 230, Pitha-Anrufungen und Körperzuordnung 463–468
पादश्रीपादुकां दत्त्वा पूजयामीति पूजयेत् |
अनेन मनुना देवि पूजयेन्नाभिमण्डले ||
४६३ ||
श्रीपदं च ततो दत्त्वा पूर्णेश्वरीं वदेत् ततः |
देवीश्रीपादश्रीपूर्णनाथदेवपदं तथा ||
४६४ ||
श्रीचामुण्डापदमाभाष्य देवीश्रीपदमालिखेत् |
उड्डीशनाथमालिख्य देवपादपदं ततः ||
४६५ ||
श्रीपादुकां ततो दत्त्वा कामेश्वरीपदं ततः |
देवीश्रीपदमाभाष्य कामेश्वरानन्दनाथ च ||
४६६ ||
श्रीमहापदमाभाष्य तुष्टाम्बाश्रीपदं ततः |
मित्रीशनाथमाभाष्य पादश्रीपादुकां ततः |
पूजयामि ततो दत्त्वा पूजयेत् कामनाशने ||
४६७ ||
तन्त्रान्तरे— शक्तेः सर्वशरीरं यत् पीठं पूर्णगिरिर्मतः |
तस्याः शिरश्चन्द्रभागो उद्यानं परिकीर्तितम् |
स्तनौ जालन्धरं प्रोक्तं कामरूपं भगं स्मृतम् ||
४६८ ||


Lesungshinweise: [Die letztere Körper- beziehungsweise Ortsbezeichnung wird hier nicht näher erklärt.]

Band II, S. 230–231, Kshobhini und Dravini 469–476
तन्त्रान्तरे— गुह्यपीठस्य वामे तु गुरुपङ्क्तिं जपेत् सुधीः |
अनङ्गकुसुमाद्येन हृत्सरोजे यजेत् पुनः ||
४६९ ||
वाग्भवं ब्लौँ समुच्चार्य ब्लीमात्मकं वदेत् ततः |
ब्लाँ ब्लीँ ब्लूँः समुच्चार्य मन्त्रेणानेन साधकः ||
४७० ||
योनिमुद्रां प्रदर्श्याथ योनौ क्षोभं विचिन्तयेत् |
वाग्भवं कामराजं च स्त्रीबीजं तदनन्तरम् ||
४७१ ||
क्षोभिणी नाम विद्येयं स्तनयोः क्षोभमाचरेत् |
योनिमुद्रां प्रदर्श्याथ शनैरेव हि साधकः ||
४७२ ||
वाग्भवं [अस्पष्टबीजानि] च ततो वदेत् |
क्लौमात्मकं समुच्चार्य ह्रीमात्मकं समुच्चरेत् ||
४७३ ||
क्षमात्मकं ततो दत्त्वा तस्याः क्षोभं विचिन्तयेत् |
द्राविणी नाम विद्येयं चिन्तयेद्योनिमध्यतः ||
४७४ ||
ततः परानन्दमयो भूत्वा निर्भरमानसः |
चिन्तयेन्निजविद्याया बीजं मूर्ध्नि सरोजके ||
४७५ ||
ततस्तस्या योनिमध्ये मूलमन्त्रैश्च साधकः |
पुष्पाञ्जलित्रयं दत्त्वा ततः क्षोभं विचिन्तयेत् ||
४७६ ||


Lesungshinweise: [die gedruckte Silbenfolge bleibt unsicher und wird nicht als Rezitationsformel ergänzt] [Die ausgeschriebenen Bijas in Vers 470 wurden am Druck geprüft; ihre Nasalzeichen bleiben in den Sanskritausgaben erhalten. Die unsichere Reihe in Vers 473 ist auch in der weiteren elektronischen Fassung nicht zuverlässig lesbar.] 473–474: Man spreche Vagbhava, anschließend mehrere Bijas [die gedruckte Silbenfolge bleibt unsicher und wird nicht als Rezitationsformel ergänzt], dann die Lautformen klaum, hrim und ksha und vergegenwärtige ihre Erregung. Die unsichere Reihe in Vers 473 ist auch in der weiteren elektronischen Fassung nicht zuverlässig lesbar.]

Band II, S. 231, Eigener Körper als Shiva und Kala-Nyasa 477–486
ज्ञानार्णवे— दूतीदेहकृतान् न्यासान् स्वदेहेऽपि विचिन्तयेत् |
वीरचूडामणौ— अथ न्यासं प्रवक्ष्यामि शिवात्मानं विभावयेत् ||
४७७ ||
शिवात्मानमिति शिवमात्मानमित्यर्थः |
तथा— पञ्चवक्त्रं महादेवं कलायुक्तं न्यसेत् क्रमात् |
ईशानः सर्वविद्यानां शशिनी प्रथमा कला ||
४७८ ||
ईश्वरः सर्वभूतानामङ्गदा तदनन्तरम् |
ब्रह्माधिपतिशब्दान्ते ब्रह्मणोऽधिपतिः पुनः ||
४७९ ||
ब्रह्मा सदाशिवो मेऽस्तु मरीचिसम्पुटं न्यसेत् |
सदाशिवाँ समुच्चार्य अंशुमालिन्यथापरा ||
४८० ||
तत्पुरुषाय विद्महे कला शान्तेरितीरिता |
महादेवाय धीमहि कलाविद्या तथैव च ||
४८१ ||
तन्नो रुद्रपदं पश्चात् प्रतिष्ठा कथिता कला |
प्रचोदयात् समुच्चार्य निवृत्तिः स्यात् ततः परम् ||
४८२ ||
पूर्वपश्चिमयाम्येषु उत्तरेष्वप्यनुक्रमात् |
हृदये विन्यसेद्देवि अघोरेभ्यस्तमःकलाम् ||
४८३ ||
अघोरेभ्यो मोहनां च ग्रीवायां विन्यसेत् ततः |
घोरान्ते स्यात् क्रियां पश्चाद्दक्षिणांसे प्रविन्यसेत् ||
४८४ ||
निद्रां घोरतरेभ्यो वै वामांसे विन्यसेत् ततः |
सर्वतः सर्वमुच्चार्य व्याधिं नाभौ प्रविन्यसेत् ||
४८५ ||
सर्वेभ्यस्तत्कलां मृत्युं कुक्षौ देशे प्रविन्यसेत् |
नमस्तेऽस्तु क्षुधा पश्चात् कलां पृष्ठे न्यसेत् क्रमात् ||
४८६ ||


Lesungshinweise: [Die Abgrenzung der Mantraglieder und Kalas ist in diesen Versen stellenweise verkürzt.] [Die Wiederholung derselben Lautform steht so im Druck.] [Die Mantrateilstücke sind hier als überlieferte Zuordnungsangaben wiedergegeben, nicht stillschweigend nach einer anderen Fassung ergänzt.]

Band II, S. 232, Fortsetzung des Shiva-Kala-Nyasa 487–498
रुद्ररूपेभ्य इत्यन्ते तृषास्तारनमोऽन्तकाः |
वामदेवाय नमोऽन्ते विरजा स्याद् गुह्यदेशके ||
४८७ ||
मुष्के सव्ये प्रविन्यस्य रक्षां ज्येष्ठाय वै नमः |
रुद्राय नमो रतिं पश्चाद्वाममुष्के कलामिमाम् ||
४८८ ||
कालाय नम इत्यन्ते पालिनी ऊरुदक्षिणे |
कलाकामां च देवेशि वामे विकरणाय च ||
४८९ ||
नमःपदं समुच्चार्य संयमनी दक्षजानुनि |
बलक्रिया समादिष्टा वामे विकरणाय च ||
४९० ||
नमोऽन्ते वृद्धिमुच्चार्य दक्षिणे स्फिचि विन्यसेत् |
बलप्रमथनाय नमो रात्रिं वामे प्रविन्यसेत् ||
४९१ ||
सर्वभूतदमनाय नमोऽन्ते ब्राह्मणीं कलाम् |
कटिदेशे प्रविन्यस्य नमोऽन्ते मोहिनीं कलाम् ||
४९२ ||
दक्षिणे पार्श्वके न्यस्य उन्मनाय मनोज्वराम् |
पादयोः स्तननासासु मूर्ध्नि बाहुयुगे न्यसेत् ||
४९३ ||
सद्योजातोद्भवाः सम्यगष्टौ मन्त्री कलाः क्रमात् |
सद्योजातं प्रपद्यामि सिद्धिः स्यात् प्रथमा कला ||
४९४ ||
सद्योजाताय वै भूयो नमः स्याद् वृद्धिरीरिता |
भवे द्युतिस्तृतीया स्यादभवे तदनन्तरम् ||
४९५ ||
लक्ष्मीश्चतुर्थी कथिता ततो नाभिभवेपदम् |
मेधाख्या पञ्चमी प्रोक्ता कला भूयो भवस्व माम् ||
४९६ ||
प्रजा समीरिता षष्ठी भवान्ते स्यात् प्रभा कला |
उद्भवाय नमः पश्चात् स्वधा स्यादष्टमी कला ||
४९७ ||
प्रणवाद्याश्चतुर्थ्यन्ता नमोऽन्ताश्च प्रविन्यसेत् |
एवं न्यासविधिं कृत्वा स्वयं शैवं विभावयेत् ||
४९८ ||


Lesungshinweise: [Der Druck nennt hier zweimal dieselbe Seite.] [Die Abfolge einzelner Formelglieder ist im Druck verkürzt.] [Für die letzte Kala ist der Ort nicht eindeutig angegeben.]

Band II, S. 232–233, Ritualdeutung und Verehrung des eigenen Körpers 499–507
पञ्चाक्षरं पुरस्कृत्य रुद्रध्यानपरायणः |
सामरस्यमयं कृत्वा रक्षार्थं कवचं पठेत् ||
४९९ ||
बद्ध्वा तु क्षोभिणीं मुद्रां यन्त्रमध्ये विनिःक्षिपेत् |
भगं कुण्डं स्रुवो लिङ्गमाज्यं चैव तु वीर्यकम् |
सर्वतत्त्वं समुत्सार्य सहस्रं जपमाचरेत् ||
५०० ||
ज्ञानार्णवे— धूपादिकं समर्प्याथ स्वलिङ्गे तदनन्तरम् |
तारं च भुवनेशानि महात्रिपुरसुन्दरी ||
५०१ ||
नमः शिवाय विद्येयं दशार्णा परिकीर्तिता |
अनया विद्यया देवि स्वलिङ्गे पूजयेच्छिवे ||
५०२ ||
महात्रिपुरसुन्दरी त्रिकूटात्मिका विद्या |
यजेत् तत्पुरुषाघोरसद्योवामेशसञ्ज्ञकान् |
निवृत्तिं च प्रतिष्ठां च विद्यां शान्तिं तथैव च ||
५०३ ||
शान्त्यतीतां च सम्पूज्य षडङ्गावरणं यजेत् |
समग्रविद्यामुच्चार्य नन्दिकेशं प्रपूजयेत् ||
५०४ ||
मध्ये वृषणयोर्देवि गन्धपुष्पाक्षतादिभिः |
निवेद्य धूपपुष्पादि विजितेन्द्रियमानसः ||
५०५ ||
सर्वसंक्षोभणा मुद्राः बद्ध्वा योनिं प्रचालयेत् |
क्षोभिण्या वाऽथ वा देवि गजतुण्डाख्ययाऽथ वा ||
५०६ ||
उच्चरन् भगमालाख्यां द्राविणीबीजमुच्चरन् |
अक्षुब्धः सन् वरारोहे यावद्रेतः प्रवर्तते ||
५०७ ||


Lesungshinweise: [Das Verb zu den Tattvas bleibt hier mehrdeutig.] [Die angegebene Silbenzahl lässt sich aus den bloßen Bezeichnungen nicht sicher rekonstruieren; keine ausgefaltete Formel wird ergänzt.] Nachdem alle Tattvas hervorgebracht beziehungsweise abgegeben sind, vollziehe man tausend Japa-Wiederholungen.“ [Das Verb zu den Tattvas bleibt hier mehrdeutig.] Im Jnanarnava: 501–502: „Nach Darbringung von Räucherwerk und weiteren Gaben am eigenen männlichen Glied spreche man Tara, o Herrin der Welten, Mahatripurasundari und ‚Verehrung Shiva‘.

Band II, S. 233–234, Überlieferte Bhagamalini-Bildungsanweisung 508–514
भगमालामन्त्रस्तु तत्रैव— वाग्भगं भगशब्दान्ते भगे भगिनि चालयेत् |
भगोदरि भगान्ते तु भगमाले भगावहे ||
५०८ ||
भगगुह्ये भगप्रान्ते योनिप्रान्ते भगान्तके |
निपातिनि च सर्वान्ति ततो भगवशङ्करि ||
५०९ ||
भगरूपे ततो लेख्यं नीरजायतलोचने |
नित्यक्लिन्ने भगप्रान्ते स्वरूपे सर्वमालिखेत् ||
५१० ||
भगानिमेह्यानयान्ते वरदेऽथ समालिखेत् |
रेते सुरेते भग च क्लिन्ने क्लिन्नद्रवे ततः ||
५११ ||
क्लेदय द्रावय चाथ सर्वसत्त्वान् भगेश्वरि |
अमोघे भगविच्चे च क्षुभ क्षोभय सर्व च ||
५१२ ||
सत्त्वान् भगेश्वरि ब्रूयाद् वाग्भवं ब्लूँ जमादिकम् |
मेँ ब्लूँ मौँ ब्लूँ च हेँ ब्लूँ च हेँ क्लिन्ने च ततः परम् ||
५१३ ||
सर्वाणि च भगान्यन्ते मे वशं चानयेति च |
स्त्रीबीजं च हरप्रान्ते ब्लैँ मायात्मकमक्षरम् |
भुवनेशीं समालिख्य विद्येयं भगमालिनी ||
५१४ ||


Lesungshinweise: [Mehrere Wortverbindungen dieser Bildungsanweisung sind sprachlich beschädigt; sie bleiben als Lesungsangaben kenntlich und werden nicht zu einem vermeintlich vollständigen Mantra umgebaut.] [Die Verbindung zur mit ja beginnenden Folge bleibt unklar; die gedruckten Nasalzeichen sind im Sanskrit erhalten.] Für Bijas wird keine wörtliche Bedeutung angesetzt; die unsicher überlieferte Gesamtfolge ist keine gesicherte Rezitationsfassung.

Band II, S. 234, Inneres Opfer und Abschluss der Vereinigung 515–522
वीरतन्त्रे— धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा |
सुषुम्णावर्त्मना नित्यमक्षवृत्तिर्जुहोम्यहम् ||
५१५ ||
स्वाहान्तोऽयं महामन्त्र आरम्भे परिकीर्तितः |
ततो जपेत् प्रियां गच्छन् स्त्रियं त्रिभुवनेश्वरीम् ||
५१६ ||
भूतडामरयक्षडामरयोः— क्षिप्त्वा शेफश्च प्रजपेद्ध्यात्वा देवीं यथोदिताम् |
दिक्सहस्रं सहस्रं वा विना रेतोविमोक्षणम् ||
५१७ ||
जप्त्वा तु विधिवद्दद्याद्बलिमभ्यर्च्य तां स्त्रियम् |
भोजयित्वा नमस्कृत्य विसृज्य प्रापयेद् गृहम् ||
५१८ ||
एवं कृत्वा च तत्सिद्धिस्त्रिषु लोकेषु दुर्लभा |
जायते नात्र सन्देहो ब्रह्मणा भाषितं पुरा |
नातः परतरोपायो मन्त्राणां साधने त्रिषु ||
५१९ ||
कुलामृते— स्वाहान्तो होममन्त्रोऽयं प्रतिज्ञाता हुतिः प्रिये |
पूर्णाहुतिं रतान्ते च जुहुयान्मनुनाऽमुना ||
५२० ||
प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीस्रुचा |
धर्माधर्मौ कलास्नेहं पूर्णवह्नौ जुहोम्यहम् |
स्वाहान्तोऽयं भवेन्मन्त्रो घोरपातकमुक्तिदः ||
५२१ ||
वीरतन्त्रे— स्वाहान्तोऽयं महामन्त्रः शुक्रत्यागे प्रकीर्तितः ||
५२२ ||


Band II, S. 234–235, Einweihung der Shakti 523–527
यदि च शक्तिरदीक्षिता भवति तदा प्रथमतस्तच्छोधनं कुर्यात् |
तदुक्तं कुलतन्त्रे— अभिषेकात् भवेच्छुद्धिर्मन्त्रस्योच्चारणाच्छ्रुतौ |
रतिकाले महेशानि दीक्षाकाले च कन्यकाः ||
५२३ ||
शुद्ध्यन्तीति शेषः |
सुरया रेतसा चापि जलेन मनुनाऽमुना ||
५२४ ||
यामले— सुदीक्षिता तु या शक्तिः सैव शुद्धा भवेत् सदा |
अदीक्षिता तु या शक्तिर्मायां तस्यै निवेदयेत् ||
५२५ ||
मातङ्गीतन्त्रेऽप्युक्तम्— दीक्षामात्रेण शुद्ध्यन्ति स्त्रियः सर्वत्र कर्मणि |
कुलामृतदीपिकायाम्— अदीक्षितकुलासङ्गात् सिद्धिहानिः प्रजायते ||
५२६ ||
तथा— आदौ बालां समुच्चार्य त्रिपुरायै समुच्चरेत् |
नमःशब्दं समुच्चार्य इमां शक्तिं ततो वदेत् |
नादैक्षेदेवि लोके भवति निन्दितः ||
५२७ ||


Lesungshinweise: [Der anschließende Satz ist in allen vom Herausgeber benutzten Textzeugen beschädigt. Der Druck bietet sinngemäß eine Aussage über Tadel in der Welt; die Fußnote schlägt die Lesung „der Nicht-Eingeweihte, o Göttin“ vor. Eine vollständige Einweihungsformel lässt sich daraus nicht zuverlässig herstellen.] Ist sie nicht eingeweiht, vermittle man ihr Maya.“ Auch im Matangitantra heißt es: „Allein durch Diksha werden Frauen für sämtliche Ritualhandlungen rein.“ In der Kulamritadipika: 526: „Die Verbindung mit einem nicht eingeweihten Kula führt zum Verlust der Siddhi.“ Ferner: 527: „Zuerst spreche man Bala, dann ‚der Tripura‘ im Dativ, das Wort namah und danach ‚diese Shakti‘.“ [Der anschließende Satz ist in allen vom Herausgeber benutzten Textzeugen beschädigt. Der Druck bietet sinngemäß eine Aussage über Tadel in der Welt; die Fußnote schlägt die Lesung „der Nicht-Eingeweihte, o Göttin“ vor.

Band II, S. 235, Rituelle Wirkungsdeutung und Kula-Stoff 528–533
तथा— आलिङ्गने हरेद्रोगान् धनधान्यादि चुम्बने |
नखदन्तक्षताद्यैश्च तदा मोक्षः प्रजायते ||
५२८ ||
सायुज्यं सङ्गमेन स्यात् सत्यमेव न संशयः ||
५२९ ||
रौद्रे— तदङ्गस्पर्शनात् सौख्यं संयोगामृतलक्षणम् |
महाकामकलां ध्यायेत् संयोगामृतरूपिणीम् ||
५३० ||
संयोगाज्जायते सौख्यं परमानन्दलक्षणम् |
कुलद्रव्यामृतं यत्नाद् गृह्णीयाद्दुर्लभं नरः ||
५३१ ||
कुण्डगोलग्रहणप्रकारस्तु कुलामृते |
भावयेत् कामभावेन आत्मतत्त्वं न चोत्सृजेत् ||
५३२ ||
शुद्धमन्त्रोषधेनैव योनेस्तु मथनं चरेत् |
मथ्यमाने तु तस्याह्नि जायते तत्त्वमुत्तमम् |
गृह्णीयात् तत्प्रयत्नेन द्रव्यं कुण्डोद्भवं शुभम् ||
५३३ ||


Lesungshinweise: [Die Satzverbindung mit „an jenem Tag“ bleibt im Druck unsicher; Kunda-Gola ist die überlieferte Bezeichnung des Ritualstoffes.] Man nehme diesen glückverheißenden, aus der Grube hervorgegangenen Stoff sorgfältig auf.“ [Die Satzverbindung mit „an jenem Tag“ bleibt im Druck unsicher; Kunda-Gola ist die überlieferte Bezeichnung des Ritualstoffes.]

Band II, S. 236, Mantra-Heilmittel und Darbringung des Kula-Nektars 534–540
मन्त्रौषधं यथा कुलोड्डीशे— मायाऽऽगच्छपदं शुक्रस्तम्भनकारिणि ठद्वयम् |
अनेनार्कोपरागे च जातीमूलं समानयेत् ||
५३४ ||
एतत् कृत्वा साधकेन्द्रः शुक्रस्तम्भनमाचरेत् ||
५३५ ||
ब्रह्मयामले— तेनामृतेन दिव्येन त्रिपुरां तर्पयेत् सदा |
सान्निध्यात् तत्क्षणाद्वाऽपि प्रीता सिद्धिं प्रयच्छति ||
५३६ ||
समस्तदेवतानां च तर्पणं च सदाऽमृतैः |
गुरूणां साधकानां च सर्वेषां तर्पणं चरेत् ||
५३७ ||
तेनामृतेन द्रव्येण सर्वे तुष्टा भवन्ति च |
यत्कामं कुरुते मन्त्री तत्क्षणादेव सिद्ध्यति ||
५३८ ||
कुलामृतं समादाय तत्रार्घ्ये निःक्षिपेद्बुधः |
ततः सोमकलाः पूज्याः साधकैर्निर्मलाशयैः ||
५३९ ||
कौले— मधुभाण्डसहस्रैस्तु मांसभारशतैरपि |
नैव तुष्टा भवेद्देवी भगलिङ्गामृतादृते ||
५४० ||


Lesungshinweise: [Die Lautbezeichnungen bleiben als solche stehen; eine vollständige Formel oder zusätzliche Anwendung der Wurzel wird nicht ergänzt.]

Band II, S. 236–237, Lob des Duti-Yaga 541–550
देवीयामले— दूतीयागविधिं वक्ष्ये कौलधर्मोत्तमोत्तमम् |
तस्यानुष्ठानमात्रेण स्वयं ब्रह्मत्वमाप्नुयात् ||
५४१ ||
तथा— दूतीयागे कृते मन्त्री सर्वज्ञो जायते ध्रुवम् |
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ||
५४२ ||
यैः कृतं यजनं दूत्यास्तैरिष्टाः क्रतवोऽखिलाः |
सर्वतीर्थमयः प्रोक्तः सर्वदेवमयो भवेत् ||
५४३ ||
पुरश्चर्यादिसकलं कृतं तेन न संशयः |
अश्वमेधसहस्राणि वाजपेयशतानि च ||
५४४ ||
आसमुद्रा च धरणी दत्ता तेन सदक्षिणा |
मेरुमण्डलतुल्यानि सुवर्णान्यर्पितानि वै ||
५४५ ||
गोकोटिदानाद्यत् पुण्यं तत्पुण्यं जायते प्रिये |
तस्मात् सर्वप्रयत्नेन दूतीयागं समाचरेत् ||
५४६ ||
पूजासम्पूर्णदं भद्रे सर्वारिष्टप्रशामकम् |
योनिपूजां विना पूजा कृतमप्यकृतं भवेत् ||
५४७ ||
आयुरारोग्यविभवानमिताँल्लभते नरः |
अनेनैव विधानेन विषार्त्तो निर्विषो भवेत् ||
५४८ ||
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् |
मातङ्गीशक्तिमभ्यर्च्य तया साकं समर्चयेत् ||
५४९ ||
मातङ्गीं मन्मथोपेतः सर्वकामार्थसिद्धये |
शक्त्या साकं सदा पूज्या मातङ्गी मन्त्रदेवता |
सा देवी शक्तिहीना तु न ददाति मनोरथम् ||
५५० ||


Band II, S. 237–238, Matangis Herkunft 551–562
ब्रह्मयामले— नारद उवाच |
सर्वज्ञ जगतां नाथ शाक्तञ्चेच्छ्रुतिचोदितम् |
मातङ्गीपूजनं तत्र कथं मुक्तिप्रदायकम् ||
५५१ ||
अर्चने प्रथिता वेश्या वेश्या सा तु रजःस्वला |
रजःस्वला च मातङ्गी सा दूती सर्वमङ्गला ||
५५२ ||
इति प्रोक्तं त्वया पूर्वमिदानीं तद्विपर्ययः |
तव वाक्यमनुब्रह्मन्नेतद्वद पितामह ||
५५३ ||
ब्रह्मोवाच |
मा कुरुष्वात्र सन्देहं वेदोक्तं शाक्तमुत्तमम् |
अस्ति सर्वज्ञकल्पोऽसौ मतङ्गो मुनिसत्तमः ||
५५४ ||
वर्षाणामयुतं वत्स तप उग्रं चचार ह |
तेन प्रीता महादेवी देवानां हितकारिणी ||
५५५ ||
वरं वृणुष्व भगवन् दास्यामि तव वाञ्छितम् |
तच्छ्रुत्वा द्विजवर्यस्तां ययाचे धर्मसाधनम् ||
५५६ ||
हे देवि जगतां मातः प्रीता चेद्यदि साम्प्रतम् |
अपत्यतां समासाद्य मत्कुलालम्बनं कुरु ||
५५७ ||
इत्यभ्यर्च्य मुनिश्रेष्ठो जनयामास तां सुताम् |
श्यामलां चारुवदनां चीनांशुकसमन्विताम् ||
५५८ ||
सारिकां ज्ञानसम्पन्नां जपमालां कराम्बुजैः |
धारयन्तीं विशालाक्षीं शङ्खताटङ्कशोभिनीम् ||
५५९ ||
सा बभूव महादेवी मातङ्गकुलनन्दिनी |
मातङ्गीति तदा देवी विख्याता वरदायिनी ||
५६० ||
तां विलोक्य तदा शम्भुर्दूतीं चक्रे सुलक्षणाम् |
त्रिपुरं जेतुकामेन योनिपूजा तदा कृता ||
५६१ ||
प्रत्यालीढा स्थिता देवी पूजां स्वीकृत्य निश्चला |
तदा दृष्ट्वा रजोभूतां तां वव्रे शङ्करः प्रियाम् ||
५६२ ||


Band II, S. 238, Matangi-Mantra und innere Verehrung 563–571
तदाप्रभृति सञ्जातो दूतीयागो मनोहरः |
प्रणयेन तदा शम्भुस्तया सार्धं रतोऽभवत् ||
५६३ ||
प्रणवान्तर्गतं मन्त्रं मातङ्ग्याख्यं विनिर्गतम् |
सर्वसौभाग्यजननं मालामन्त्रमभूत्तदा ||
५६४ ||
रमा चापि पदं दिव्यमनिन्द्यं लोकपूजनम् |
मातङ्गी मन्त्रपदर्थं मन्त्रप्रत्याधिपालकम् ||
५६५ ||
आद्यान्त्यज्या सा देवी तस्मात् ख्याता तदन्वजा |
मातङ्गी अन्त्यजवरिष्ठा ततः सा अन्त्यजा भवत् ||
५६६ ||
अन्त्यजानां द्विजानां च चक्रे ऐक्यं पराश्रये |
सा देवी सर्ववर्णानां वरं दत्त्वा चिकायुषा ||
५६७ ||
कृत्वा सङ्केतसमयं चक्रे मातङ्गपूजनम् |
न दोषः सर्ववर्णानामिति दत्त्वा वरं तदा ||
५६८ ||
न दोषं तत्र त्रितयं सर्वं ते प्रतिनोदितम् |
देवीमुद्दिश्य मोक्षार्थं कृतं यद्दोषवर्जितम् ||
५६९ ||
एतच्छास्त्रमिदं दिव्यं वाच्यं श्रुतिचोदितम् |
अन्तर्यागमिदं ज्ञेयं बहिर्यागं च वैदिकम् ||
५७० ||
मन्त्रतन्त्रसमायुक्तं तद्रहस्यं ब्रह्मबोधकम् |
चक्रसङ्केतसमयं सर्वं तुभ्यं प्रकाशितम् ||
५७१ ||


Lesungshinweise: [Die genaue Verbindung dieser Laut- und Mantrabezeichnungen in Vers 565 ist beschädigt und nicht vollständig verständlich.] [Ein Teil der Namensableitung ist im Druck gestört.] [ein Wort der folgenden Verbindung bleibt unklar] [Die Begründungen geben die Sicht des zitierten Brahmayamala wieder.]

Band II, S. 239, Geheimhaltung und Berechtigung zum Duti-Yaga 572–575
गोपनीयं प्रयत्नेन न वाच्यं पशुसन्निधौ |
त्यज शङ्कां महाभाग सत्यमेतन्मयोदितम् |
मातङ्गीपूजनं श्रेष्ठं दूतीयागे मनोहरम् ||
५७२ ||
दूतीयागे च विप्राणां नाधिकारः |
तदुक्तं बृहच्छ्रीक्रमसंहितायाम्— वामागमोऽपि विप्रस्तु मद्यमांसं न भक्षयेत् |
स्वकीयां परकीयां वा नाकृष्य ब्राह्मणो यजेत् ||
५७३ ||
इति |
महाकालसंहितायामपि— स्वयोषां परयोषां वा नैवाकृष्य द्विजो जपेत् |
लोभाद्यदि चरेद्देवमधो याति द्विजस्तदा |
इहामुत्र फलं नास्ति हीनायुरपि जायते ||
५७४ ||
ब्राह्मणेतराणामपि योगिनामेवात्राधिकारः |
तदुक्तं सिद्धिनाथसंहितायाम्— अद्वैतज्ञाननिष्ठो यो योऽसौ संसारपारगः |
स एव जगदे दूत्या नाधिकारी भवेदिति ||
५७५ ||
इति दूतीयागविधिः |


Lesungshinweise: [Die zweite Vershälfte über die Berechtigung zur Duti-Verehrung ist im Druck sprachlich gestört; sie enthält unvermittelt eine Verneinung. Der vorangestellte Prosasatz gibt die Deutung des Kompilators wieder.]

Band II, S. 239–240, Purashcharana der Shabara-Mantras 576–582
अथ शावरमन्त्रपुरश्चरणम् |
मेरुतन्त्रे— अथ शावरमन्त्राणां पुरश्चरणमुच्यते |
कामरूपाख्यदेशे तु कामाख्या यत्र देवता ||
५७६ ||
कामशैलोऽस्ति यत्रासौ कामपीठं तदुच्यते |
तत्र संलेख्य मन्त्रं हि वंशोपरि यथाक्रमम् ||
५७७ ||
गुरूणा वाचनीयः स स्वयं पश्चात् पठेन्मनुम् |
गुरोरभावे तस्यैव मूले शैलस्य पर्वणि ||
५७८ ||
लिखित्वा प्रपठेन्मन्त्रं कामपीठं गुरुर्मतः |
अथ वा योगिनीशैले दक्षिणस्यां दिशि ध्रुवम् ||
५७९ ||
योगाम्बा यत्र देवी सा लिखित्वा प्रपठेन्मनुम् |
ज्वालामुखी समीपे वा हिङ्गुलायाः समीपतः ||
५८० ||
लिखित्वा प्रपठेन्मन्त्रं नान्यथैव प्रसिद्ध्यति |
मुख्यतः स्त्रीसमीपे हि कामपीठे मनुग्रहः ||
५८१ ||
अथ वा सर्वदेशेषु मन्त्रग्रहणमुच्यते |
तालपत्रे मनुं वक्ष्ये पूर्णकुम्भे निधापयेत् |
भास्करं च गुरुं ध्यात्वा वाचयेद् त्रिगुरुं रविः ||
५८२ ||
एतावता शावरमन्त्राणां विधिवद्ग्रहणमेव पुरश्चरणमित्युक्तम् |


Lesungshinweise: [geschriebenen] [Der Schluss mit „dreifach/Guru/Sonne“ ist im Druck gestört; eine bestimmte Wiederholungszahl lässt sich daraus nicht zuverlässig gewinnen.]

Band II, S. 240–241, Beginn der Vira-Sadhana 583–593
अथ वीरसाधनम् |
तत्रादौ चितासाधनमुक्तं योगिनीहृदये— देव्युवाच |
भगवन् सर्वमन्त्रज्ञ सर्वशास्त्रविशारद |
श्मशाने च पुरश्चर्या त्वया संपूजिता पुरा |
कथयस्व तदेदानीं यदि स्नेहोऽस्ति मां प्रति ||
५८३ ||
ईश्वर उवाच |
यस्मिन् परिश्रमेणापि नृणां सिद्धिः समीहिता |
न जाता तत्र कर्तव्या साधकैर्वीरसाधना ||
५८४ ||
पुरा सिद्ध्यै नृणां च कर्तव्ये समुपस्थिते |
नान्यसिद्धिकरं शीघ्रं वीरसाधनवर्जितम् ||
५८५ ||
तस्मात् सर्वप्रयत्नेन विधेया वीरसाधना |
भयमुक्तेन शुचिना सर्वसिद्धिमभीप्सता ||
५८६ ||
नानया दुर्लभं किंचित् साधकस्य समीहितम् |
गिरिजे तत् प्रयत्नेन प्रयत्नेयं प्रकाश्यते ||
५८७ ||
अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि |
कृष्णपक्षे विशेषेण साधयेदनया हितम् ||
५८८ ||
वीरतन्त्रे— महावीरक्रमं देव सूचितं न प्रकाशितम् |
कथयस्व महादेव सर्वसिद्धिप्रदं महत् ||
५८९ ||
भैरव उवाच |
सर्वसिद्धिप्रदं साक्षात् सर्वदेवनमस्कृतम् |
सर्वपापहरं देवि सर्वरोगविनाशनम् ||
५९० ||
ब्रह्मविष्णुशिवादीनां दिक्पालानां च भाविनि |
भैरवाणां च सर्वेषां गन्धर्वाणां च योगिनाम् ||
५९१ ||
शश्वत् सिद्धिप्रदं देवि सर्वेषामालयं महत् |
नान्यत् सिद्धिप्रदं देवि वीरसाधनवर्जितम् ||
५९२ ||
महाबलो महावीरो महासाहसिकः शुचिः |
महास्वच्छो दयावाँश्च सर्वभूतहिते रतः |
तेषां कृते महादेवि कथितं वीरसाधनम् ||
५९३ ||


Lesungshinweise: [Die Wortverbindung des zweiten Halbverses ist gestört.]

Band II, S. 241, Vorbereitung der Scheiterhaufen-Sadhana 594–604
तथा— घटीबन्धनवस्त्रं वै मूलेन परिधाय च |
तद्बाह्ये च पुनर्वस्त्रं मूलेनाङ्गविलेपनम् ||
५९४ ||
कृतोष्णीषश्च मूलेन सिन्दूरेणोर्ध्वपुण्ड्रकम् |
इष्टदेवं गुरुं नत्वा यात्रा प्रहरमध्यतः ||
५९५ ||
कार्या च साधकैः सार्थं हृदि मन्त्रं परामृशन् |
अक्षुब्धो भुक्तभोज्यश्च यदि स्याद्वीरसाधकः ||
५९६ ||
दिव्यो वा न पशुस्तत्र भुक्त्वा साधनमाचरेत् |
अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ||
५९७ ||
भौमवारे तमिस्रायां साधयेत सिद्धिमुत्तमाम् |
उपचारं समादाय कुलामृतरसं तथा ||
५९८ ||
सामिषान्नं गुडं छागं सुरां पिष्टकमेव च |
नानाफलं च नैवेद्यं स्वस्वकल्पोक्तसाधनम् ||
५९९ ||
चितास्थाने समानीय सुहृद्भिः शस्त्रपाणिभिः |
समानगुणसम्पन्नैः साधको गतभीः स्वयम् ||
६०० ||
न निरीक्षेच्चतुर्दिक्षु देवताध्यानतत्परः |
भीतश्चेत् साधकस्तत्र चतुर्दिक्षु च साधकः ||
६०१ ||
स्वगुरुं भ्रातृवर्गं वा ब्राह्मणान् वाऽपि सुव्रतान् |
सुहृदानपि रक्षार्थं कियद्दूरे निवेशयेत् ||
६०२ ||
नो चेत् केवलमेवासौ भैरवः परिकीर्तितः |
अक्षालितां चिताभूमिं गत्वा साधकसत्तमः ||
६०३ ||
प्रक्षालितां यदि प्रायः कारयेदस्थिसञ्चयम् |
यामले— असंस्कृता चिता ग्राह्या न तु संस्कारसंस्कृता ||
६०४ ||


Band II, S. 242, Sankalpa und Anrufung des Ritualplatzes 605–610
तथा— सङ्कल्पं प्रथमं कुर्यात् स्वस्तिवाचनपूर्वकम् |
सामान्यार्घ्यं विधायैतत् ततः पूजां समारभेत् |
वस्त्रालङ्कारभूषाद्यैर्भूषितः पूर्वदिङ्मुखः ||
६०५ ||
सङ्कल्पस्तु— ॐ अद्येत्यादि अमुकगोत्रः श्रीमदमुकशर्माऽमुकमन्त्रसिद्धिकामः श्मशानसाधनमहं करिष्ये— इत्येवंरूपः |
वीरतन्त्रे— अस्त्रान्तमूलमन्त्रेण प्रोक्षणं यागभूमिषु |
गुरुपादयुगं ध्यात्वा गणेशं वटुकं तथा ||
६०६ ||
योगिनीं मातृकां चैव वामपादपुरःसरम् |
ये चात्र संस्थिता देवा राक्षसाश्च भयानकाः ||
६०७ ||
पिशाचाः सिद्धयक्षाश्च गन्धर्वाप्सरसां गणाः |
योगिन्यो मातरो भूताः सर्वाश्च खेचरस्त्रियः ||
६०८ ||
सिद्धिदास्ता भवन्त्वत्र तथा च मम रक्षकाः |
प्रणम्य मनुनाऽनेन पुष्पाञ्जलित्रयं क्षिपेत् ||
६०९ ||
श्मशानाधिपतिं पश्चाद्भैरवं कालभैरवम् |
महाकालं यजेद्यत्नात् पूर्वादिदिक्चतुष्टये ||
६१० ||


Lesungshinweise: [es folgen die üblichen Zeitangaben] [Name]

Band II, S. 242–243, Bali-Formeln der Scheiterhaufen-Sadhana 611–621
पाद्यादिभिश्च मन्त्रज्ञो बलिं पश्चान्निवेदयेत् |
शब्दबीजं ततः पश्चात् श्मशानाधिपतत्परम् ||
६११ ||
इममन्ते सामिषान्नं बलिं गृह्णपदं ततः |
गृहण गृह्णापय युगं विघ्ननिवारणं ततः ||
६१२ ||
कुरु सिद्धिं मे समुक्त्वा प्रयच्छ स्वाहयाऽन्वितम् |
ताराद्यमनुना देवि प्रथमो बलिरीरितः ||
६१३ ||
मायान्ते भैरवात् पश्चाद्भयानकपदं ततः |
पूर्वे बलिं समुद्धृत्य दक्षिणे बलिमाहरेत् ||
६१४ ||
हूमन्ते तु महाकालात् पश्चात् पूर्ववदुद्धरेत् |
पश्चिमे कालदेवाय प्रणवाद्येन कल्पयेत् ||
६१५ ||
शब्दान्ते कालशब्दान्ते भैरवेति पदं ततः |
श्मशानाधिप इत्येवं पूर्ववच्चान्तरे हरेत् ||
६१६ ||
चितामध्ये ततो दद्याद्बलित्रयमनुत्तमम् |
कालरात्रिमहाकालि कालिके घोरनिःस्वने ||
६१७ ||
गृहाणेमं बलिं मातर्देहि मे सिद्धिमुत्तमाम् |
हूँ कालिकायै स्वाहेति बलिं दत्त्वा भूतनाथाय दापयेत् ||
६१८ ||
शब्दान्ते भूतनाथान्ते श्मशानाधिप इत्यपि |
प्रणवाद्येन मन्त्रेण दापयेद्बलिमुत्तमम् ||
६१९ ||
हूँ सर्वगणनाथान्ते अधिपतिपदं तथा |
श्मशाने मस्तके दत्त्वा पूर्ववच्च समुद्धरेत् ||
६२० ||
ताराद्येन बलिं दत्त्वा पञ्चगव्येन सुन्दरि |
अस्थिसम्प्रोक्षणं कृत्वा पीठमन्त्रं न्यसेत् पुनः |
भूर्जे वा वटपत्रे वा तत्र पीठमनुं न्यसेत् ||
६२१ ||


Lesungshinweise: [Die Schreibungen und Wiederholungsangaben der Annahmeverben sind nicht ganz eindeutig; es wird keine geschlossene Formel ergänzt.] [weiteren] [Die Reihenfolge der Gottheiten und Richtungen ist in dieser Passage nicht durchgehend eindeutig.] [die Gabe] [den übrigen Mantra]

Band II, S. 243–244, Sitzbereitung und Virardana-Mantra 622–632
तन्त्रान्तरे— ततश्चितापश्चिमत एकीकृत्यास्थिसञ्चयम् |
ॐ ह्रीं आधारशक्तये नम इत्यणुना पुनः ||
६२२ ||
पञ्चगव्येन सम्प्रोक्ष्य भूर्जे वा वटपत्रके |
हसौरिति लिखेन्मन्त्रं स्थापयेत् तत्र तत् पुनः ||
६२३ ||
कम्बलाद्यासनं तत्र विन्यस्याधारशक्तये |
नम इत्यणुना तत्र ह्रीमाद्यां च प्रपूजयेत् ||
६२४ ||
वीरतन्त्रे— पीठमास्तीर्य तस्मिन् वै बद्धवीरासनस्ततः |
वीरार्दने देवेशि लोष्टान् दिक्षु विनिःक्षिपेत् ||
६२५ ||
कूर्चबीजद्वयं देवि मायायुग्मं ततः परम् |
कालिके घोरदंष्ट्रे च प्रचण्डे चण्डनायिके ||
६२६ ||
दानवान् दारयेत्युक्त्वा हनेति द्वितयं ततः |
परवीरं महाविघ्नं छेदयेति द्वयं ततः ||
६२७ ||
सर्वास्त्रान्तो द्विठान्तोऽयं वीरार्दनमनुः स्मृतः |
अनेन मन्त्रितं लोष्टं दशदिक्षु विनिःक्षिपेत् ||
६२८ ||
तन्मध्ये भैरवो देवो विघ्नैर्न परिभूयते |
यदि प्रमादाद्देवेशि साधको भयविह्वलः ||
६२९ ||
तैस्तैः सर्वैः सुहृद्भिश्च रक्षितो नाभिभूयते |
अर्केन्दुसितवार्तालतूलैर्निर्मितवर्तिकाम् ||
६३० ||
प्रदीपं तत्र संस्थाप्य अस्त्रं तत्र प्रपूजयेत् |
गते तस्मिन् महादीपे विघ्नैश्च परिभूयते ||
६३१ ||
तदधश्चास्त्रमन्त्रेण निखनेत् कुलदीपिकाम् |
तत्तत्कल्पविधानेन भूतशुद्ध्यादिकं चरेत् |
षोढां वा तारकां वाऽपि विन्यस्य पूजयेत् ततः ||
६३२ ||
देवतामिति शेषः |


Lesungshinweise: [Im Druck steht die Verbindung hasaur iti; kein zusätzliches Bindu wird ergänzt.] [so bezeichneten] [Pflanzenbezeichnungen der Quelle]

Band II, S. 244, Japa und Überwindung der Furcht 633–640
अत एव यामलादौ— ततः पञ्चोपचारेण पुरतो देवतां यजेत् |
निमील्य चक्षुषी पश्चाद्देवं ध्यात्वा मनुं जपेत् ||
६३३ ||
एकाक्षरी यदि भवेद्द्विकसहस्रं ततो जपेत् |
द्व्यक्षरे चाष्टसाहस्रं त्र्यक्षरे ह्ययुतार्धकम् ||
६३४ ||
ततः परं तु मन्त्रज्ञो गजान्तकसहस्रकम् |
निशार्धात् तु समारभ्य उदयान्तं समाचरेत् ||
६३५ ||
यद्यसह्यं भयं कर्णनेत्रे वस्त्रेण बन्धयेत् |
ततोऽर्धरात्रपर्यन्तं यदि किञ्चिन्न दृश्यते ||
६३६ ||
जयदुर्गामनुनाऽर्घ्यं तेनैव सर्षपान् क्षिपेत् |
ॐ तिलोऽसि सोमदेवत्यो गोसवस्तृप्तिकारकः ||
६३७ ||
पितॄणां स्वर्गदातास्त्वं मर्त्यानां मम रक्षकः |
भूतप्रेतपिशाचानां विघ्नेषु शान्तिकारकः ||
६३८ ||
इति क्षिप्त्वा तिलांस्तत्र चतुर्भागैः शिवादितः |
ततः सप्तपदं गत्वा पुनस्तत्रैव संविशेत् ||
६३९ ||
एवं तत्रापि सम्पूज्य प्रजपेन्मनुमुत्तमम् |
निर्भयः सन् जपेत् तावद्यावत् सिद्धिः प्रजायते |
भयं तु स्वप्नवज्ज्ञेयं परेऽह्नि शेषमाचरेत् ||
६४० ||


Lesungshinweise: [die Zahlbezeichnung ist unklar] [Gosava bleibt als nicht eindeutig deutbare Bezeichnung stehen.] [Die Zeitangaben „ab Mitternacht“ und „bis Mitternacht“ stehen so nebeneinander in der Quelle.] Bei Hindernissen durch Bhutas, Pretas und Pishachas bewirkst du Befriedung.‘ [Gosava bleibt als nicht eindeutig deutbare Bezeichnung stehen.] Mit diesen Worten streue man Sesam nach den vier Seiten, beginnend mit Shivas Richtung.

Band II, S. 245, Abschluss der Chita-Sadhana und Beginn der Shava-Sadhana 641–645
वामकेश्वरतन्त्रे— जपान्ते च बलिं दद्याद्देवतायै यथाविधि |
महिषं छागलं चापि गृहीत्वा वरमेव च |
गृहं गच्छेत् सुहृद्वर्गैः सार्थं सुहृष्टमानसः ||
६४१ ||
इति चितासाधनाविधिः |
अथ शवसाधनविधिः |
भूतडामरे— यदुक्तं भावसर्वस्वे सर्वतन्त्रेषु गोपितम् |
वीरसिद्धिविधानं हि देवदेवेन शम्भुना ||
६४२ ||
यस्य विज्ञानमात्रेण मन्दभाग्योऽपि सिद्ध्यति ||
६४३ ||
तथा— पुरश्चरणसम्पन्नो वीरसिद्धिं समाचरेत् |
पुत्रदाराधनस्नेहलोभमोहविवर्जितः ||
६४४ ||
मन्त्रं वा साधयिष्यामि देहं वा पातयाम्यहम् |
प्रतिज्ञामीदृशीं कृत्वा बलिद्रव्याणि चिन्तयेत् ||
६४५ ||


Band II, S. 245–246, Schutzriten der Shava-Sadhana 646–655a
वीरतन्त्रे— पूर्वोक्तमुपहारादि समादाय तु साधकः |
साधयेत् स्वहितां सिद्धिं साधनस्थानमाश्रयेत् ||
६४६ ||
गुरुध्यानादिकं सर्वं पूर्वोक्तमाश्रयेत् सुधीः |
वीरार्दनान्तिके भूमौ मायामोहो न विद्यते ||
६४७ ||
ये चात्रेत्यादिमन्त्रेण भूमौ पुष्पाञ्जलित्रयम् |
श्मशानाधिपतीनां तु पूर्ववद्बलिमाहरेत् ||
६४८ ||
अघोराख्येण मन्त्रेण बलिसाधनमाचरेत् |
सुदर्शनेन वा रक्षामुभाभ्यां वा प्रकल्पयेत् ||
६४९ ||
मायास्फुरद्वयं भूयः प्रस्फुरद्वितयं पुनः |
घोरघोरतरत्यन्ते तन्नो रूपपदं ततः ||
६५० ||
चटयुग्मान्तरान्ते च प्रचटद्वितयं पुनः |
हेयुग्मं रमयुग्मं च ततो बन्धुयुगं ततः ||
६५१ ||
पातय द्वितयं वर्म फडन्तः समुदाहृतः |
एकपञ्चाशदर्णोऽयमघोरास्त्रमयो मनुः ||
६५२ ||
हालाहलं समुद्धृत्य सहस्रारस्वरूपकम् |
वर्मास्त्रान्तं महामन्त्रं सुदर्शनस्य कीर्तितम् ||
६५३ ||
भूतशुद्धिं ततः कृत्वा न्यासजां प्रविन्यसेत् |
जयदुर्गाख्यमन्त्रेण सर्षपान् दिक्षु निःक्षिपेत् ||
६५४ ||
ॐ दुर्गे दुर्गे रक्षाणि स्वाहा— इति जयदुर्गाख्यमन्त्रः |
तिलोऽसीति च मन्त्रेण तिलानपि विनिःक्षिपेत् |


Lesungshinweise: [Die Ausgabe nennt hier als abweichende Lesung: „vollziehe das Binden der Haarlocke“ anstelle der Bali-Handlung.] [Mehrere Lautfolgen dieser Bauanweisung sind im Druck gestört; die Bezeichnungen werden nicht zu einer vermeintlich sicheren Formel vervollständigt.] [Die überlieferte Form des Schutzwortes lautet rakshani und ist grammatisch auffällig.] 649: Mit dem Aghora-Mantra vollziehe er die Bali-Handlung; mit dem Sudarshana-Mantra oder mit beiden richte er den Schutz ein.“ [Die Ausgabe nennt hier als abweichende Lesung: „vollziehe das Binden der Haarlocke“ anstelle der Bali-Handlung.] 650–652: „Maya, zweimal ‚sphura‘, danach zweimal ‚prasphura‘; auf ‚ghora‘ und ‚ghoratara‘ folgt die Verbindung ‚tanno rupa‘.

Band II, S. 246, Leichnam und erste Verehrung 655b–665
यष्टिविद्धं शूलविद्धं खड्गविद्धं पयोमृतम् ||
६५५ ||
रज्जुविद्धं सर्पदष्टं चाण्डालैर्वाऽभिभूतकम् |
तरुणं सुन्दरं शूरं रणे नष्टं समुज्ज्वलम् ||
६५६ ||
पलायनविशून्यं च सम्मुखे रणवित्तमम् |
स्वेच्छामृतं द्विवर्षं च वृद्धं स्त्रीं च द्विजं तथा ||
६५७ ||
अन्नाभावमृतं कुष्ठं सप्तरात्रोर्ध्वगं तथा |
एवं चाष्टविधं त्यक्त्वा पूर्वोक्तान्यतमं शवम् ||
६५८ ||
गृहीत्वा मूलमन्त्रेण पूजास्थाने समानयेत् |
चाण्डालाद्यभिभूतं वा शीघ्रं सिद्धिफलप्रदम् ||
६५९ ||
प्रणवास्त्रमन्त्रेण शवस्य प्रोक्षणं चरेत् |
प्रणवं कूर्चबीजं च मृतकाय नमोऽस्तु फट् ||
६६० ||
पुष्पाञ्जलित्रयं दत्त्वा प्रणमेत् स्पर्शपूर्वकम् |
रे वीरपरमानन्द शिवानन्द कुलेश्वर ||
६६१ ||
आनन्दभैरवाकार देवीपर्यङ्कशङ्कर |
वीरोऽहं त्वां प्रयच्छामि उत्तिष्ठ चण्डिकार्चने ||
६६२ ||
प्रणम्यानेन मन्त्रेण स्वापयेत् तदनन्तरम् |
तारं शब्दं मृतकाय नमोऽन्तं मन्त्रमुच्यते ||
६६३ ||
शवस्वापनमन्त्रोऽयं सर्वतन्त्रेषु देशितः |
धूपेन धूपितं कृत्वा गन्धादि वा प्रलिप्य च ||
६६४ ||
रक्ताक्तो यदि देवेश भक्षयेत् कुलसाधकम् |
गत्वा शवस्य सान्निध्यं धारयेत् कटिदेशतः ||
६६५ ||


Lesungshinweise: [Man wähle einen Leichnam von einem Menschen,] [Das Verb prayacchami ist in dieser Anrede auffällig; die genaue Beziehung bleibt unsicher.] Ich bin ein Vira und wende mich an dich; erhebe dich zur Verehrung Chandikas!‘ [Das Verb prayacchami ist in dieser Anrede auffällig; die genaue Beziehung bleibt unsicher.] 663–665: Nach der Verneigung mit diesem Mantra lege man ihn nieder.

Band II, S. 247, Bereitung des Leichnams und des Sitzes 666–679
यद्युपद्रवयेत् तस्य दद्यान्निष्ठीवनं मुखे |
पुनः प्रक्षालितं कृत्वा जपस्थानं समानयेत् ||
६६६ ||
कुशशय्यां परिस्तीर्य तत्र संस्थापयेच्छवम् |
एलालवङ्गकर्पूरजातीखदिरसार्द्रकैः ||
६६७ ||
ताम्बूलं तन्मुखे दत्त्वा शवं कुर्यादधोमुखम् |
स्थापयित्वा तस्य पृष्ठं चन्दनेन विलेपयेत् ||
६६८ ||
बाहुमूलादिकट्यन्तं चतुरस्रं विभावयेत् |
मध्ये पद्मं चतुर्द्वारं दलाष्टकसमन्वितम् ||
६६९ ||
ततश्चैणेयमजिनं कम्बलान्तरितं न्यसेत् |
द्वादशाङ्गुलमानेन यज्ञकाष्ठानि दिक्षु च ||
६७० ||
इमं बलिं गृह्ण युग्मं गृह्णापय युग्मं ततः |
विघ्ननिवारणं कृत्वा सिद्धिं प्रयच्छेति द्वयम् ||
६७१ ||
अनेन मनुना पूर्वं बलिं दद्याच्च सामिषम् |
स्वस्वनामादिकं दत्त्वा पूर्ववद्बलिमाहरेत् ||
६७२ ||
सर्वेषां लोकपालानां ततः साधकसत्तमः |
शवाधिष्ठानदेवेभ्यो बलिं दद्यात् सुरया सह ||
६७३ ||
चतुःषष्टियोगिनीभ्यो डाकिनीभ्यो बलिं दिशेत् |
पूजाद्रव्यं सन्निधौ च दूरे चोत्तरसाधकम् ||
६७४ ||
संस्थाप्यासनमभ्यर्च्य स्वमन्त्रान्ते त्रपां ततः |
फडित्यनेन मन्त्रेण तत्राश्वारोहणं विशेत् ||
६७५ ||
कुशान् पादतले दत्त्वा शवकेशान् प्रमार्ज्य च |
दृढं निबध्य जुटिकां कृतसङ्कल्पसाधकः ||
६७६ ||
शवोपरि समारुह्य प्राणायामं विधाय च |
वीरार्दनेन मन्त्रेण दिक्षु लोष्टान् समाक्षिपेत् ||
६७७ ||
ततो देवं समभ्यर्च्य उपचारैस्तु विस्तरैः |
शवास्ये विधिवद्देवि देवताप्यायनं चरेत् ||
६७८ ||
उत्थाय संमुखे स्थित्वा पठेद्भक्तिपरायणः |
वशो मे भव देवेश ममामुकपदं ततः ||
६७९ ||


Lesungshinweise: [stelle man] [auf] [die gewünschte …] [Die Anrufung geht im nächsten Vers weiter.]

Band II, S. 248, Anrufung und Japa auf dem Leichnam 680–692
सिद्धिं देहि महाभाग भूताश्रयपदाम्बरः |
मूलं समुच्चरन्मन्त्री शवपादद्वयं ततः ||
६८० ||
पट्टसूत्रेण बन्धीयात् तदोत्थातुं न शक्यते |
ॐ भीरुभीम भयाभाव भव्यलोचनभावुक ||
६८१ ||
त्राहि मां देवदेवेश शवानामधिपाधिप |
इति पादतले तस्य त्रिकोणं चक्रमालिखेत् ||
६८२ ||
तदोत्थातुं न शक्नोति शवोऽपि निश्चलो भवेत् |
उपविश्य पुनस्तस्य बाहू निःसार्य पार्श्वयोः ||
६८३ ||
हस्तयोः कुशमास्तीर्य पादौ तत्र निधापयेत् |
ओष्ठौ तु सम्पुटौ कृत्वा स्थिरचित्तः स्थिरेन्द्रियः ||
६८४ ||
सदा देवीं हृदि ध्यात्वा मौनी तु जपमाचरेत् |
श्मशाने प्रोक्तसङ्ख्याभिर्जपं कुर्यात् कुलेश्वरि ||
६८५ ||
अथ वाऽऽरम्भकालात् तु यावच्चोदयते रविः |
यद्यर्धरात्रिपर्यन्तं जप्ते किञ्चिन्न लक्ष्यते ||
६८६ ||
तदा पूर्ववदर्घ्यादिसमयादागतानि च |
कृत्वोपविश्य तत्रैव जपं कुर्यादनन्यधीः ||
६८७ ||
चलासनाद्भयं नास्ति भये जाते वदेत् ततः |
यत् प्रार्थयसि देवेशि दातव्यं कुञ्जरादिकम् ||
६८८ ||
दिनान्तरे प्रदास्यामि स्वनाम कथयस्व मे |
इत्युक्त्वा संस्कृतेनैव निर्भयस्तु पुनर्जपेत् ||
६८९ ||
ततश्चेन्मधुरं वक्ति वक्तव्यं मधुरं ततः |
तदा सत्यं च संस्कार्यं नरं च प्रार्थयेत् ततः ||
६९० ||
यदि सत्यं न कुर्याच्च वरं वा न प्रयच्छति |
तदा पुनर्जपेद्धीमानेकाग्रं मानसं भजन् ||
६९१ ||
यक्षडामरे— न पश्येदद्भुते जाते न भाषेत च न स्पृशेत् |
एकचित्तो जपं कुर्याद्यावत् प्रत्यक्षतां व्रजेत् ||
६९२ ||


Lesungshinweise: [Der abschließende Ausdruck dieser Anrufung ist gestört.] [die Erscheinung] [Im Druck steht nara, „Mensch“; im Zusammenhang wäre ein Segen zu erwarten. Die Stelle wird nicht stillschweigend geändert.] [die Gottheit]

Band II, S. 248–250, Prüfung der Erscheinungen 693–710
वीरतन्त्रे— नररूपो नात्र देवो यो नरो वोपसर्पति |
यत्नतस्तेन बोद्धव्यं नरो वा देवयोनयः ||
६९३ ||
माता वा तत्सुता वाऽपि मातुलानी तथाऽपि वा |
आगत्य विघ्नं चरते माययाऽऽच्छाद्य विग्रहम् ||
६९४ ||
उत्तिष्ठ वत्स ते कार्यं सर्वं जातं न संशयः |
प्रभातसमयो जातस्त्वत्पिता क्रोशते गृहे ||
६९५ ||
प्रायेण सकला लोका राजानो दण्डधारिणः |
कदाचित् केनाप्यादिष्टस्तदा किं ते करिष्यति ||
६९६ ||
इत्यादिविविधैर्वाक्यैर्न जपं परिसन्त्यजेत् |
मृताः पितृगणास्तत्र दूरदेशनिवासिनः ||
६९७ ||
बान्धवास्तत्र आयान्ति देवरूपधरास्ततः |
स्त्रीपुत्रसेवकादींश्च गृहीत्वा नीयते परैः ||
६९८ ||
रुदन्ति पुत्रकाः सर्वे भ्रातरोऽनुजशिष्यकाः |
निजकान्ताङ्गसंस्पर्शं वस्त्राद्याभरणादिकम् ||
६९९ ||
गृहीत्वा नीयते पत्नी पालकैस्तद्भयं त्यजेत् |
यदि न क्षुभ्यते तत्र तदा किं वा न लभ्यते ||
७०० ||
स्त्रीरूपधारिणी देवी द्विजरूपधरः पुमान् |
वरं गृह्णेति शब्दं वै त्रिवारान्ते वरं लभेत् ||
७०१ ||
साधुनाऽसाधुना वाऽपि योषिच्चेद्वरदायिनी |
तदा वीरपतेस्तस्य किं न सिद्ध्यति भूतले ||
७०२ ||
निष्पापः पुरुषश्चैव कुले चैव सुसंस्कृतः |
असंस्कृतवरा देवी पापयुक्ता न संशयः ||
७०३ ||
सम्मुखेऽसम्मुखे वाऽपि संस्कृतं वक्ति चापरम् |
सैव देवी न सन्देहः स देवो भैरवः स्वयम् ||
७०४ ||
न चेदेवं भवेच्चैव मायापुटितविग्रहात् |
वरयेन्न वरं तत्र न वरं प्रवदेत् क्वचित् ||
७०५ ||
स चेत् संस्कृतमाख्यातं वक्ति वक्तव्यमीदृशम् |
न चेत् स्वयं कौलिकोक्त्या वरं ग्राह्यं निराकुलम् ||
७०६ ||
अथ वा उत्कटं किञ्चिल्लभेताप्यात्मनो हितम् |
शब्दो वा जायते सम्यगमृतं वाऽपि लभ्यते ||
७०७ ||
सर्वं विचार्य गृहीतव्यमेवं दिक् परिकीर्तिता |
देव्याकृतयो बहुधा नराद्याकृतयः क्वचित् ||
७०८ ||
अवश्यं तत्र भेतव्यं न तत्र प्रत्ययः क्वचित् |
भैरवा वटुकाश्चैव कुलशास्त्रपरायणाः ||
७०९ ||
एतच्छास्त्रप्रसङ्गेन कृत्या कुटिलविग्रहाः |
पुत्रो भूत्वा वरयेत् तं नारी भूत्वा विमोहयेत् |
तस्मात् तत्त्वपरो वीर आचारे यत्नमाचरेत् ||
७१० ||


Lesungshinweise: [eine Erscheinung] [Der Satz über Leute und Könige ist in seiner Verbindung gestört.] [Redeweise] [Die Gegenüberstellung ist im Druck mehrdeutig; samskrita kann hier sowohl Weihe beziehungsweise Vervollkommnung als auch die Sanskritsprache bezeichnen.] [die Erscheinung] [Die letzte Alternative steht neben dem vorausgehenden Verbot und wird nicht damit harmonisiert.]

Band II, S. 250, Abschlussriten und Ersatzgaben 711–719
भूतडामरे— वदत्यागत्य चेष्टं वा देहस्फूर्तिं करोति हि |
एतेन जायते वीरसिद्धिर्दद्यात् ततो बलिम् ||
७११ ||
देवतां च गुरुं नत्वा विसृज्य हृदयं पुनः |
स्थापयेत् तोषयेद्विद्वान् शवं तोये विनिःक्षिपेत् ||
७१२ ||
वीरतन्त्रे— सत्ये कृते वरं लब्ध्वा सन्त्यजेच्च जपादिकम् |
जातं फलमिति ज्ञात्वा जूटिकां मोचयेत् ततः ||
७१३ ||
सम्प्रक्षाल्य च संस्थाप्य जूटिकां मोचयेत् पदे |
पदचक्रं मार्जयित्वा पूजाद्रव्यं जले क्षिपेत् ||
७१४ ||
शवं जलेऽथ गर्ते वा निःक्षिप्य स्नानमाचरेत् |
ततस्तु स्वगृहं गत्वा बलिं दत्त्वा दिनान्तरे ||
७१५ ||
अग्रिमरात्रौ तु येषां देवानां यजमानोऽहम् |
ते गृह्णन्तु मया दत्तं बलिमिमं च सामिषम् ||
७१६ ||
अथ यैर्याचितश्चाश्वनरकुञ्जरशूकरान् |
दत्त्वा पिष्टमयानेव कर्तव्यं समुपोषणम् ||
७१७ ||
तन्त्रान्तरे— यवक्षोदमयं वाऽपि शालिक्षोदमयं च वा |
चन्द्रहासेन विधिवत् तत्तन्मन्त्रेण पातयेत् ||
७१८ ||
परेऽह्नि नित्यमाचर्य पञ्चगव्यं पिबेत् ततः |
ब्राह्मणान् भोजयेत् तत्र पञ्चविंशतिसङ्ख्यकान् ||
७१९ ||


Lesungshinweise: [Die Gottheit] [die Gottheit] [den Leichnam] [der Druck wiederholt hier das Wort für Haarlocke]

Band II, S. 251, Nachriten und Bedingungen 720–731
पञ्च पञ्च गृहीतान् वा क्रमाच्चैव दशावधि |
ततः स्नात्वा च भुक्त्वा च निवसेदुत्तमस्थले ||
७२० ||
यदि न स्याद्विप्रभोज्यं तदा निर्धनतां व्रजेत् |
तेन चेन्निर्धनत्वं स्यात् तदा देवः प्रकुप्यति ||
७२१ ||
त्रिरात्रं वाऽथ षड्रात्रं गोपयेत् कुलसाधनम् |
शय्यायां यदि गच्छेद्वा तदा व्याधी प्रजायते ||
७२२ ||
गीतं श्रुत्वा च बधिरो निश्चक्षुर्नृत्यदर्शनात् |
यदि वक्ति दिने वाक्यं तदा स मूकतां व्रजेत् ||
७२३ ||
पञ्चदशदिनान्ता हि देहे देवस्य संस्थितिः |
गोब्राह्मणानां देवानां निन्दां कुर्यान्न कुत्रचित् ||
७२४ ||
देवगोब्राह्मणादींश्च प्रत्यहं तु स्पृशेच्छुचिः |
प्रातर्नित्यक्रियान्ते तु बिल्वपत्रोदकं पिबेत् ||
७२५ ||
ततः स्नायात् तु तीर्थादौ प्राप्ते षोडशवासरे |
स्वाहान्तं मूलमुच्चार्य तर्पयामि नमःपदम् ||
७२६ ||
एवं पदत्रयादूर्ध्वं देवानां तर्पणं जलैः |
मुनितर्पणशून्यस्य न स्याद्देवस्य तर्पणम् ||
७२७ ||
इत्यनेन विधानेन सिद्धिमाप्नोति निश्चितम् |
इह भुक्त्वा वरान् दिव्यानन्ते याति हरेः पदम् ||
७२८ ||
अनङ्गं साङ्गमपि वा निष्फलं सफलं च वा |
कृत्वा साधनमेवैतच्छक्तेः प्रियतमो भवेत् ||
७२९ ||
शवाभावे श्मशाने वा कर्तव्या वीरसाधना |
ये भावा यस्य वै प्रोक्तास्तैर्भावैर्यदि नार्चयेत् ||
७३० ||
ईदृशक्रमयोगेन भ्रष्टो भवति साधकः |
नोपदिशेत् तत्र भावं न पूजां तत्र सन्दिशेत् |
श्मशानान्तं गृहीत्वा तु तावच्छुद्धिः प्रजायते ||
७३१ ||


Lesungshinweise: [die Zählweise dieser Alternative bleibt unklar] [bilder] [das Verfahren] [Die Schlussverbindung von Vers 731 ist nicht sicher verständlich.]

Band II, S. 251–252, Weitere Form der Vira-Sadhana 732–739
वीरचूडामणौ— अथ वाऽन्यप्रकारेण साधनं कथयामि ते |
जपस्थानं तु संशोध्य खननादि प्रयत्नतः ||
७३२ ||
तन्मध्ये च बलिं दद्याल्लिखेद्यन्त्रं त्रिकोणकम् |
तन्मध्ये च महाशङ्खं निवेश्य मुण्डपञ्चकम् ||
७३३ ||
तस्योपरि महाप्रेतमखण्डाङ्गं सुशोभनम् |
उद्वर्तनादिकं कुर्यात् स्नापयेद्विधिपूर्वकम् ||
७३४ ||
परिधाप्य रक्तवस्त्रं नेत्राञ्जनसमीरितम् |
ताम्बूलादि मुखे दद्याल्ललाटे रक्तचन्दनम् ||
७३५ ||
हृदये च लिखेद्यन्त्रं पद्ममध्ये त्रिकोणकम् |
पूजायन्त्रं ललाटे च शस्त्रेण विलिखेत् ततः ||
७३६ ||
मूर्ध्नि बाहौ तथा हस्ते पादे चैव तथा कटौ |
खदिरादीनि काष्ठानि कीलान्यारोपयेत् सुधीः ||
७३७ ||
बन्धकं वर्द्धयेत् तत्र दृढबन्धेन बन्धयेत् |
षट्पात्रेषु बलिं दद्यात् कीले कीले पृथक् पृथक् ||
७३८ ||
माषं मांसं तथा मत्स्यं पायसं त्रिविधाः सुराः |
मोदकं च महापूपं दुग्धान्नोत्सर्गमाचरेत् ||
७३९ ||


Lesungshinweise: [die Verbindung dieser Bezeichnungen ist knapp und mehrdeutig] In dessen Mitte ordne man fünf Schädel als Mahashankha an [die Verbindung dieser Bezeichnungen ist knapp und mehrdeutig].

Band II, S. 252–253, Weitere Bali-Mantras 740–751
क्रोधीशवह्निमारूढं तूर्यस्वरसमन्वितम् |
वर्मबीजं समुच्चार्य श्मशानकालिकेति च ||
७४० ||
पूर्वबीजं समालिख्य अस्त्रान्तो मन्त्र उच्यते |
मायाबीजं समुच्चार्य श्मशानभैरवाय च ||
७४१ ||
महाकालाय देवाय सर्वविघ्नहरो भव |
बलिं गृह्ण द्विधा कुर्यात् त्रयोदशं सबिन्दुकम् ||
७४२ ||
श्मशानवासिनो रुद्रा अस्थिमांसबलिप्रियाः |
विघ्नं निवारय सम्यग् बलिं गृह्ण द्विधा पुनः ||
७४३ ||
विघ्नं निवारय युग्मं वरं चैव प्रयच्छ मे |
द्विठान्तो मन्त्र इत्युक्तो बलिरुक्तविधानतः ||
७४४ ||
माया लज्जा तथा लक्ष्मीर्नन्दिनीशत्रयं लिखेत् |
नारायणस्तथा सूक्ष्मपरं तु मधुसूदनः ||
७४५ ||
योगिनीभ्यः परं पश्चात् श्मशानवासिनीति च |
प्रचण्डा चण्डरूपायै कर्तृखर्परधारिणी ||
७४६ ||
बलिं गृह्णापय युग्मं सर्वविघ्नं निवारय |
वरं देहि पदं ब्रूयाद्द्विठान्तो योगिनीबलिः ||
७४७ ||
रौद्रं वह्निसमारूढं चतुर्दशस्वरान्वितम् |
बिन्दुनादकलाक्रान्तं क्षेत्रपालं च ङेऽन्तम् ||
७४८ ||
श्मशानवासिने ब्रूयाच्छोणितास्थिप्रियाय च |
द्विठान्तं मन्त्रमुच्चार्य क्षेत्रपालबलिं हरेत् ||
७४९ ||
वाराहीबीजमुद्धृत्य बीजं पञ्चान्तकं पुनः |
वक्रतुण्डायेति पदं वर्म चैव समुद्धरेत् ||
७५० ||
बलिं गृह्णपदं ब्रूयाद्विघ्नं निवारयेति च |
सिद्धिं प्रयच्छ मे चैव अस्त्रान्तो मनुरुत्तमः ||
७५१ ||


Lesungshinweise: [Laut] [Die Lautbezeichnungen werden in der vorliegenden Bauanweisung nicht ausgeschrieben. Kasus- und Numeruswechsel der Anrufungen bleiben erhalten.]

Band II, S. 253, Vira-Ritus mit Shakti 752–757
पादस्यापादनं कुर्यान्मदिरानन्दविग्रहः |
हृदयोपरि महावीरः शक्तिं चैव शवोपरि ||
७५२ ||
विवस्त्रा मुक्तकेशी च कर्तृखर्परधारिणी |
प्रक्षाल्य कुलद्रव्येण कुलचक्रं प्रपूजयेत् ||
७५३ ||
धूपदीपादिनैवेद्यैः पञ्चभूतबलिं हरेत् |
यथाशक्ति जपं कुर्यान्मूलमन्त्रं समर्पयेत् ||
७५४ ||
विपरीतपरा नीवी मैथुनं च शवोपरि |
अयुतं च जपेत् तत्र सर्वसिद्धीश्वरो भवेत् ||
७५५ ||
यदा वै भयभीतोऽसौ भक्षयन्ति च तत्क्षणात् |
देहि देहि यदा ब्रूयात् तदा छागबलिं हरेत् ||
७५६ ||
बलिदानं विना हिंसां न कर्तव्या कदाचन |
पुरश्चरणतो मन्त्रसिद्धिर्भवति निश्चितम् ||
७५७ ||


Lesungshinweise: [die genaue Handlung ist nicht verständlich] [setze] [Es folgt eine schwer verständliche Angabe zu Haltung und Gewandbindung.]

Band II, S. 253–254, Weitere Shava-Sadhana und ihre zugesagten Früchte 758–771
मुण्डमालायाम्— अथ वाऽन्यप्रकारेण कुर्याद्वि वीरसाधनम् |
सङ्ग्रामे पतितान् प्रेतानानीय विधिपूर्वकम् ||
७५८ ||
अष्टदिक्षु विधायाष्टौ नवमं मध्यसंस्थकम् |
रज्ज्वा रज्ज्वा रज्जुनाथ रोपिते दृढकीलके ||
७५९ ||
चन्दनादिभिरभ्युक्ष्य सुगन्धिकुसुमादिभिः |
अलङ्कृत्य प्रयत्नेन मध्यमास्थाय मस्तकम् ||
७६० ||
ललाटे पूजयेद्देवीमुपचारैः समुज्ज्वलैः |
बलिं दद्यादष्टदिक्षु माषमांसैः सुरासवैः ||
७६१ ||
पायसैर्मधुसंयुक्तैः कुसुमैरक्षतैस्तथा |
ततो जपं प्रकुर्वीत शवस्य हृदि निर्भयः ||
७६२ ||
उपविश्यासने शोणे व्याघ्रचर्मविनिर्मिते |
पञ्चायुतं च जप्त्वाऽथ पूर्ववत् कल्पयेद्बलिम् ||
७६३ ||
व्याघ्रवानरभल्लूकशृगालोल्कामुखानथ |
दृष्ट्वाऽथ न भयं कुर्यान्मायामेव विचिन्तयेत् ||
७६४ ||
ततोऽनुभावं लब्ध्वाऽथ दद्याच्छागादिकं बलिम् |
तथाऽक्लिष्टमनाभूत्वा शवं निःक्षिप्य वारिणि ||
७६५ ||
द्विजेभ्यो दक्षिणां दद्यात् साधकेभ्यो विशेषतः |
सुवेशाभ्यस्तथा स्त्रीभ्यः कुमारीभ्यः प्रयत्नतः ||
७६६ ||
वसनं भूषणं तद्वन्मधुरद्रव्यभोजनम् |
स्वयं तथैव भुञ्जीत नराणां तु विवर्जयेत् ||
७६७ ||
एतेन तु महासिद्धिर्जायते भुवि दुर्लभा |
राज्यं श्रियं परानन्दो वैरिराष्ट्रजयं तथा ||
७६८ ||
जगन्मोहनवश्यादि कविताकौशलं पुनः |
सङ्ग्रामे च तमुद्दिश्य साधकं वैरिवाहिनी ||
७६९ ||
पलायते प्रगल्भाऽपि किं पुनः क्षुद्रवैरिणः |
नानाविधाष्टसिद्धीनां साधको भाजनं भवेत् ||
७७० ||
इदं मयोक्तं देवेशि न प्रकाश्यं कदाचन |
एतत् ते परमं गोप्यं विशेषात् पशुसंसदि |
रहस्यमेतत् परममागमस्यैकजीवितम् ||
७७१ ||
इति वीरसाधनविधिः |


Lesungshinweise: [befestige man sie] [Die Strick-Passage enthält eine gestörte Wortverbindung.] [Stammende] [Beim letzten Verbot fehlt die nähere Bestimmung; eine eindeutige Speisebezeichnung steht nicht da.]

Band II, S. 254, Schlussvers und Kolophon des siebten Taranga 772
विश्रान्ताद्भुतभूतिभृतवचो वैचित्रचित्रामृत स्रोतःशालिनि सन्निबन्धनसरित्सम्भेदमभ्यर्हितम् |
नव्येऽस्मिन् नरदेवनिर्मितपुरश्चर्यार्णवे सप्तमः सद्युक्तिस्फुटमैक्तिकोत्कररुचोत्तुङ्गस्तरङ्गो गतः ||
७७२ ||
इति श्रीमन्महाराजाधिराजप्रतापसिंहसाहविरचिते पुरश्चर्यार्णवे मन्त्रसिद्धिलक्षणोपायपुरश्चरणभेदनिरूपणं नाम सप्तमस्तरङ्गः सम्पन्नः ||


Lesungshinweise: [Das lange Anfangskompositum des Schlussverses ist im Druck beschädigt; seine Wortverbindungen sind nicht durchweg sicher lesbar.] 772: „In diesem neuen Ozean des Purashcharana, den der König geschaffen hat — reich an Strömen eines wundervoll vielfältigen Nektars der Worte über erstaunliche Kräfte, ausgezeichnet durch den Zusammenfluss der Flüsse guter Abhandlungen — ist die siebte Welle zu Ende gegangen, hoch aufragend im Glanz klarer Perlen guter Begründungen.“ [Das lange Anfangskompositum des Schlussverses ist im Druck beschädigt; seine Wortverbindungen sind nicht durchweg sicher lesbar.] So endet im Purashcharanarnava, verfasst vom erhabenen Maharajadhiraja Pratapasimha Shah, der siebte Taranga mit dem Namen „Darlegung der Merkmale und Mittel der Mantra-Siddhi sowie der verschiedenen Formen des Purashcharana“.

8. Taraṅga: Mantras und Puraścaraṇas der Gottheiten

Diese Welle: Deutsch · IAST · Devanagari

Band II, S. 255, Beginn des achten Taranga und Vighnaraja-Mantra 1–7
अथाष्टमतरङ्गः |
अथ गणेशादिमन्त्रास्तत्पुरश्चरणविशेषाश्च |
तत्रादौ विघ्नराजमन्त्र उक्तो मेरुतन्त्रे— असिद्धो गुरुणा दत्तो मन्त्रः स्याद्बहुविघ्नदः |
तत्रादौ साधयेद्विघ्नराजमन्त्रं ततः पुनः ||
१ ||
निष्पापस्य पुरश्चर्याबलात् सिद्ध्येन्मनूत्तमः |
तत्राम्नायविभेदेन सर्वतन्त्रेषु गोपितम् ||
२ ||
एकबीजात्मकं वक्ष्ये विघ्नमन्त्रं सुसिद्धिदम् |
तत्रादौ वैदिकानां तु गकारः केवलो मतः ||
३ ||
दक्षिणानां बिन्दुयुक्तो द्विबिन्दुः पूर्वमार्गिणाम् |
एतद्द्वययुतः पश्चादूर्ध्वाम्नाये च गौमिति ||
४ ||
ग्लौमुत्तरे गोमिति च पातालाम्नायमीरितम् |
गणपोऽस्य मुनिश्छन्दो निवृद्विघ्नोऽस्य देवता ||
५ ||
गणं जपायं स्वाहा हृत्कमेकदंष्ट्राय हुँफट् |
अचलकर्णिनि नमः शिखा प्रोक्ताऽथ वर्म तु ||
६ ||
गजवक्त्राय च नमो नेत्रमस्त्रमुदीर्यते |
महादशमचण्डाय हुँ फडेतच्च वैदिकैः |
षड्दीर्घयुक्तबीजेन तान्त्रिको न्यासमाचरेत् ||
७ ||


Lesungshinweise: [die Richtungszuordnung dieser Verbindung bleibt verkürzt] [Die Druckformen sind gaum iti, glaum uttare und gom iti. Die m-Verbindung wird nicht ungeprüft als Nasalzeichen des Bija behandelt.] [folgt als nächstes Glied] [verfahren] [Die Gliederzuordnung sowie mehrere Formeln in Vers 6–7 sind im Druck gestört; sie bilden hier keine gesicherte vollständige Rezitationsfolge.]

Band II, S. 255–256, Ganesha-Dhyana und Purashcharana 8–14
अथ ध्यानम्— रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् |
रक्तपुष्पैः पूज्यमानं तुन्दिलं चन्द्रमौलिनम् ||
८ ||
त्रिनेत्रं वामनं बिभ्रद्बीजपूरं च शुण्डया |
वामदक्षोर्ध्वयोः पाशाङ्कुशौ चक्रं वरस्त्वयः |
पद्मासनं सर्पभूषं ध्यायेद्विघ्नविनायकम् ||
९ ||
शारदायाम्— सिन्दूराभं त्रिनेत्रं पृथुतरजठरं हस्तपद्मैर्दधानं दन्तं पाशाङ्कुशेष्टान्युरुकरविलसद्बीजपूराभिरामम् |
बालेन्दुद्योतिमौलिं करिपतिवदनं दानपूरार्द्रगण्डं भोगीन्द्राबद्धमौलिं भजत गणपतिं रक्तवस्त्राङ्गरागम् ||
१० ||
अस्य मन्त्रस्य पुरश्चरणमुक्तं मेरुतन्त्रे— लक्षमेकं मनुं जप्त्वा जुहुयात् तद्दशांशतः ||
११ ||
शारदायां तु— मोदकैः पृथुकैर्लाजैः सक्तुभिश्चेक्षुपर्वभिः |
नारिकेलैस्तिलैर्मोचैर्होमं कुर्यात् पृथक् पृथक् ||
१२ ||
सहस्रमेकं द्विशतं पञ्चाशत्प्रमितं तथा |
दलैस्त्रिमधुराक्तैः स्याद्धोमः काम्योऽथ कथ्यते ||
१३ ||
दौग्धान्नेन घृताक्तेन होमोऽभीष्टफलप्रदः |
लक्ष्मीकामो नारिकेलैश्चतुर्थ्यां जुहुयात् तथा ||
१४ ||
मोचं कदलीफलम् |


Lesungshinweise: [die anschließende Angabe zu Rad und Segensgabe ist beschädigt] Im Rüssel hält er eine Zitronatzitrone, in den oberen linken und rechten Händen Schlinge und Elefantenhaken; [die anschließende Angabe zu Rad und Segensgabe ist beschädigt].

Band II, S. 256–257, Lakshmi-Ganesha-Mantra und Purashcharana 15–22
अथ लक्ष्मीगणेशमन्त्रस्तत्रैव— वक्ष्येऽथ दक्षिणाम्नाये लक्ष्मीगणपतिं सुराः |
गजलक्ष्मीसमायुक्तमयं योगोऽतिदुर्लभः ||
१५ ||
श्रीगँ सौम्याय वोच्चार्य महागणपतिं तथा |
ङेऽन्तमुक्त्वा वरवरदोक्त्वा सर्वजनं वदेत् ||
१६ ||
मे वशमानय स्वाहेत्येकोनत्रिंशदक्षरः |
अन्तर्यामी मुनिश्छन्दो गायत्री निवृदन्विता ||
१७ ||
देवो लक्ष्मीगणेशोऽत्राथाद्यबीजद्वयेन तु |
षड्दीर्घयुक्तेनाङ्गानि जातियुक्तानि कारयेत् ||
१८ ||
अथ ध्यानम्— हेमाभं पीतवसनं चक्रशङ्खगदाभयान् |
दक्षोर्ध्वकरमारभ्य दक्षिणाधःकरावधि ||
१९ ||
दधतं शुण्डया स्वर्णघटं पद्मोपरि स्थितम् |
वामाङ्काविष्टलक्ष्म्या चाश्लिष्टं दक्षभुजेन च ||
२० ||
अस्य पुरश्चरणं तत्रैवोक्तम्— लक्षं जपो हुनेद्बिल्वसमिधो मधुरप्लुताः |
तर्पणादि ततः कृत्वा काम्यकर्मादि साधयेत् ||
२१ ||
हुनेच्चतुःसहस्राणि श्रीफलैर्मधुराप्लुतैः |
महालक्ष्मीकरो होमः पुत्रमित्रकलत्रदः ||
२२ ||


Lesungshinweise: [Am Anfang ist Shri ohne ausdrückliches Nasalzeichen gedruckt, Gam mit Chandrabindu; eine geschlossene Formel wird nicht normalisierend hergestellt.]

Band II, S. 257, Shakti-Ganesha-Mantra 23–27
अथ शक्तिगणेशमन्त्रस्तन्त्रान्तरे— पञ्चान्तको वह्निसंस्थो वामनेत्रार्धचन्द्रवान् |
मायासम्पुटितास्त्र्यर्णो मन्त्रः शक्तिगणेशितुः ||
२३ ||
मेरुतन्त्रे— अक्षरोऽयं विराट् छन्दो मुनिर्भार्गव ईरितः |
देवता शक्तिगणपः षडङ्गानि समाचरेत् ||
२४ ||
षड्दीर्घयुग्गकारेण ततो ध्यायेद्गजाननम् |
ध्यानं यथा— दक्षोर्ध्वे चाङ्कुशं वामे पाशं वामे त्वधःकरे ||
२५ ||
बीजपूरं स्वदन्तं तु दक्षिणे स्वर्णवर्णकम् |
पुष्करे मोदकं बिभ्रत् कर्णयोर्दीर्घचामरे ||
२६ ||
अस्य मन्त्रस्य पुरश्चरणं तत्रैवोक्तम्— लक्षमेकं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः |
तद्दशांशं प्रजुहुयादपूपैर्घृतसम्प्लुतैः |
एवं सिद्धमनुर्मन्त्री काम्यकर्माणि साधयेत् ||
२७ ||


Band II, S. 257, Kshipraprasadana-Ganesha-Mantra 28–29
अथ क्षिप्रप्रसादनगणेशमन्त्रो निबन्धे— संवर्तको नेत्रयुतः पार्श्वो वह्न्यासने स्थितः |
प्रसादनाय हुन्मन्त्रः स्वबीजाढ्यो दशाक्षरः ||
२८ ||
मेरुतन्त्रे— ऋषिर्गणक आख्यातश्छन्दः प्रोक्तं विराडिति |
देवता कथितः क्षिप्रप्रसादनविनायकः |
षड्दीर्घभाजा बीजेन कुर्यादङ्गक्रियां मनोः ||
२९ ||
अथ ध्यानं शारदायाम्—

Lesungshinweise: [Es handelt sich um eine verschlüsselte Lautanweisung, nicht um eine ausgeschriebene Formel.] [Fortsetzung im folgenden Vers.]

Band II, S. 258, Kshipraprasadana-Dhyana und Purashcharana 30–31
पाशाङ्कुशौ कल्पलतां विषाणं दधत् सुतुण्डाहितबीजपूरः |
रक्तस्त्रिनेत्रस्तरुणेन्दुमौलिर्हारोज्ज्वलो हस्तिमुखोऽवताद्वः ||
३० ||
अस्य पुरश्चरणं मेरुतन्त्रे— लक्षमेकं जपेन्मन्त्रं त्रिस्वाद्वक्तैस्तिलैर्हुनेत् |
पूर्वोदिताष्टद्रव्यैर्वा तर्पणादि ततश्चरेत् ||
३१ ||


Lesungshinweise: [Die Ausgabe nennt für „mit drei Süßigkeiten bestrichen“ die gleichsinnige Variante „mit drei Madhu-Stoffen bestrichen“.]

Band II, S. 258, Vakratunda-Mantra 32–35
अथ वक्रतुण्डमन्त्रस्तत्रैव— वक्रतुण्डाय हुँ चेति प्रोक्तो मन्त्रः षडक्षरः |
ह्रस्वं तु कवचं स्त्रीभिर्जप्तव्यं सर्वसिद्धिदम् ||
३२ ||
भार्गवो मुनिराख्यातोऽनुष्टुप् छन्द उदाहृतम् |
देवता वक्रतुण्डोऽस्य सुरासुरनमस्कृतः |
षड्भिर्मन्त्रगतैर्वर्णैः षडङ्गानि प्रकल्पयेत् ||
३३ ||
अथ ध्यानम्— उद्यद्दिनेश्वररुचिं पाशाङ्कुशवराभयान् |
हस्तैर्दधानं स्मेरास्यमरुणं चिन्तयेद्धृदि ||
३४ ||
पुरश्चरणमाह— वर्णलक्षं जपेन्मन्त्रं जुहुयात् तद्दशांशतः |
अष्टद्रव्यैः पुरा प्रोक्तैर्मधुराक्तैर्यथाविधि ||
३५ ||


Band II, S. 258–259, Heramba-Mantra 36–40
अथ हेरम्बमन्त्रः शारदायाम्— पञ्चान्तको बिन्दुयुतो वामकर्णविभूषितः |
तारादिहृदयान्तोऽयं हेरम्बमनुरीरितः ||
३६ ||
चतुर्वर्णात्मको नृणां चतुर्वर्गफलप्रदः |
मेरुतन्त्रे— मुनिर्गणक आख्यातो गायत्री छन्द ईरितम् ||
३७ ||
पञ्चवक्त्रोऽस्य हेरम्बो देवता सिंहवाहनः |
षड्दीर्घबीजयुक्तेन षडङ्गविधिरीरितः ||
३८ ||
ध्यानं तु शारदायाम्— मुक्ताकाञ्चननीलकुन्दघुसृणच्छायैस्त्रिनेत्रान्वितैर्नागास्यैर्हरिवाहनं शशधरं हेरम्बमर्कप्रभम् |
दृप्तं दानमभीतिमोदकरदान् टङ्कं शिरोऽक्षात्मिकां मालां मुद्गरमङ्कुशं त्रिशिखकं दोर्भिर्दधानं भजे ||
३९ ||
अस्य पुरश्चरणमुक्तं मेरुतन्त्रे— लक्षत्रयं जपित्वा तं तिलैर्हुत्वा दशांशतः |
मधुरत्रयसंयुक्तैस्तर्पणादि समाचरेत् |
एवं सिद्धमनुर्मन्त्री प्रयोगानाचरेत् ततः ||
४० ||


Band II, S. 259, Haridra-Ganesha-Mantra 41–45
अथ हरिद्रागणेशमन्त्रस्तन्त्रान्तरे— पञ्चान्तको धरासंस्थो बिन्दुभूषितमस्तकः |
एकाक्षरो महामन्त्रः सर्वकामफलप्रदः ||
४१ ||
यद्वा मन्त्रान्तरम्— मन्त्रोद्धारं प्रवक्ष्यामि शृणुष्व कमलानने |
इन्द्रबीजं समुद्धृत्य निजबीजं समुद्धरेत् ||
४२ ||
चतुर्दशस्वरेणाढ्यं बिन्दुभूषितमस्तकम् |
एकाक्षरी महाविद्या कथिता पद्मयोनिना |
बीजेन दीर्घयुक्तेन कराङ्गन्यासकल्पना ||
४३ ||
मन्त्रान्तराणि विस्तरभयादुपेक्षितानि |
अथ ध्यानम्— हरिद्राभं चतुर्बाहुं हारीतवसनं विभुम् |
पाशाङ्कुशधरं देवं मोदकं दन्तमेव च ||
४४ ||
अस्य पुरश्चरणमुक्तं मेरुतन्त्रे— वेदलक्षं जपित्वाऽन्ते हरिद्राचूर्णमिश्रितैः |
दशांशैस्तण्डुलैर्हुत्वा ब्राह्मणानपि भोजयेत् ||
४५ ||


Lesungshinweise: [Man meditiere über]

Band II, S. 259–260, Mahaganapati-Mantra und Nyasa 46–51
अस्य महागणपतिमन्त्रो मेरुतन्त्रे— ऊर्ध्वाम्नाये प्रवक्ष्यामि गणेशान् सिद्धिदायकान् |
भुक्तिमुक्तिप्रदं तत्र महागणपतिं शृणु ||
४६ ||
तारः श्रीबीजहृल्लेखा कामो भूबीजमेव च |
गणेशबीजं गणपतये वरवरेति च ||
४७ ||
दसर्वजनं मे वशमानयाग्निवधूरिति |
अष्टाविंशतिवर्णोऽयं गणकोऽस्य मुनिर्मतः ||
४८ ||
निवृद्गायत्रिका छन्दो महागणपतिः सुरः |
गँ बीजं ह्रीं च शक्तिः स्याद्दीर्घषट्कयुतस्तु गः ||
४९ ||
तारादिबीजषट्केन पृथग् युक्तेन कारयेत् |
षडङ्गानि मनोरस्य जातियुक्तान्यथाचरेत् ||
५० ||
अथ वा तारपूर्वेण दीर्घषट्कयुतेन च |
स्वबीजेनाङ्गुलिन्यासं षडङ्गानि समाचरेत् ||
५१ ||


Lesungshinweise: [Der Druck trennt vara-vara-da über die Versgrenze; die einzelnen verschlüsselten Bijas werden hier nicht ergänzt.] [Gam trägt im Druck Chandrabindu.]

Band II, S. 260, Mahaganapatis Insel und Thron 52–59
अथ ध्यानम्— ऐक्षवे जलधौ द्वीपे नवरत्नमये शुभे |
तत्तरङ्गलसत्तोयैर्धौते शीतमहीतले ||
५२ ||
तत्तोयकणसम्पृक्तगन्धवाहनिषेविते |
कल्पपादपसंशोभिभूभागे समलङ्कृते ||
५३ ||
नानाकुसुमसङ्कीर्णे नानापक्षिविराजिते |
अनेकफलसङ्कीर्णे सेविते चाऽप्सरोगणैः ||
५४ ||
उद्यद्बालातपज्योतिश्चन्द्रज्योत्स्नासमाकुले |
विलसत्पद्मरागौघकुट्टिमारुणभूतले ||
५५ ||
कल्पपादपपुष्पस्थषट्पदस्वनमञ्जुले |
पारिजातं कल्पतरुं तस्य मध्ये विचिन्तयेत् ||
५६ ||
युगपदृतुषट्केन खचितं पुष्पशोभितम् |
नवरत्नमयं तस्याधस्तात् सिंहासनं स्मरेत् ||
५७ ||
तन्मध्ये लिपिपद्मं च षडारं तस्य मध्यतः |
कर्णिकायां गणेशं च तत्संस्थं च महागणम् ||
५८ ||
शारदायाम्— षट्कोणान्तस्त्रिकोणस्थं महागणपतिं स्मरेत् ||
५९ ||


Lesungshinweise: [Die letzte Verbindung ist im Druck nicht eindeutig; die folgende Sharada-Stelle nennt ausdrücklich Mahaganapati.] 58: In seiner Mitte ist der Buchstabenlotus, in dessen Mitte eine sechsspeichige Gestalt; auf der Samenkapsel befinden sich Ganesha und die große Schar.“ [Die letzte Verbindung ist im Druck nicht eindeutig; die folgende Sharada-Stelle nennt ausdrücklich Mahaganapati.] In der Sharada: 59: „Man vergegenwärtige Mahaganapati im Dreieck innerhalb des Sechsecks.“

Band II, S. 261, Mahaganapati-Dhyana und Wiederholungszahlen 60–66
हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसादाश्लिष्टं स्वप्रियया सुपद्मकरया स्वाङ्कस्थया सन्ततम् |
बीजापूरगदाधनुस्त्रिशिखयुक्चक्राब्जपाशोत्पलव्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहन्तं भजे ||
६० ||
गण्डपालीगलद्दानपानलालसमानसान् |
द्विरेफान् कर्णतालाभ्यां वारयन्तं मुहुर्मुहुः ||
६१ ||
कराग्रधृतमाणिक्यकुम्भवक्त्रविनिःसृतैः |
रत्नवर्षैः प्रीणयन्तं साधकान् मदविह्वलम् ||
६२ ||
माणिक्यमुकुटोपेतं रत्नाभरणभूषितम् |
अस्य मन्त्रस्य पुरश्चरणमुक्तं मेरुतन्त्रे— एकादशायुतं जप्त्वा सहस्रोत्तरमादरात् ||
६३ ||
दशांशं जुहुयादष्टद्रव्यैरेकाक्षरोदितैः |
तर्पयित्वा दशांशेन चाभिषिक्तोऽणुना ततः ||
६४ ||
ब्राह्मणान् भोजयेत् सम्यक् षड्रसैर्भूरिदक्षिणाम् |
दत्त्वा प्रणम्य विसृजेदेवं सिद्धो भवेन्मनुः ||
६५ ||
शारदायां तु— ध्यायेन्मन्त्रं जपेन्मन्त्री चतुर्लक्षं समाहितः |
चतुःसहस्रसंयुक्तं चत्वारिंशत्सहस्रकम् ||
६६ ||
इत्युक्तम् |


Lesungshinweise: [Die Zusammensetzung der langen Attributreihe ist nicht überall eindeutig.] [Diese Quelle nennt somit 444.000 Wiederholungen; die unterschiedlichen Angaben werden beibehalten.]

Band II, S. 261–262, Virinchi-Gananayaka-Mantra 67–73
अथ विरिञ्चिगणनायकमन्त्रो मेरुतन्त्रे— अथातः सम्प्रवक्ष्यामि पूर्वाम्नायगणेश्वरान् |
विरिञ्चिविघ्नेशमुक्तम्— अथान्यत् सम्प्रवक्ष्यामि ब्रह्मणा समुपासितम् ||
६७ ||
काश्यां ब्रह्मेशसौम्यस्थं विरिञ्चिगणनायकम् |
ह्रीं विरिञ्चिपदं प्रोक्त्वा ङेऽन्तं गणपतिं ततः ||
६८ ||
प्राग्वद्वरवरेत्यादि षड्विंशत्यक्षरो मनुः |
वेदपञ्चेषुपञ्चेषुद्वयैरुक्तं षडङ्गकम् ||
६९ ||
तथा— अस्य ध्यानं प्रवक्ष्यामि ह्यूर्ध्वमूर्ध्वकरेषु च |
बीजपूरं गदां चापं चक्रं मालां च दक्षिणे ||
७० ||
वामे पद्मं पाशबाणान् दन्तं रत्नाब्जकुम्भकम् |
पद्मद्वयकरां पुष्टिमङ्कस्थामरुणप्रभाम् ||
७१ ||
आलिङ्गन्तमरुणं स्रवन्मदकपोलकम् |
त्रिनेत्रं पीतवसनं दृढमुत्थापितध्वजम् |
किरीटिनं कुण्डलिनं ध्यायेद्देवं गजाननम् ||
७२ ||
अस्य पुरश्चरणम्— वेदलक्षमिता प्रोक्ता सर्वेषां तु पुरस्क्रिया |
मधुरत्रयसंयुक्तैः पूर्वोक्तैरष्टभिर्हुनेत् ||
७३ ||
सर्वेषामिति |
अत्र विस्तरभयादुपेक्षितानां विरिञ्चविघ्नेशादिमन्त्राणाम् |


Lesungshinweise: [bereits] [Diese Verteilungsangabe wird als 4, 5, 5, 5, 5, 2 verstanden; der Wortlaut bleibt im Sanskrit erhalten.]

Band II, S. 262, Vighna-Ganesha-Mantra 74–79
अथ विघ्नगणेशमन्त्रस्तत्रैव— अथातः सम्प्रवक्ष्यामि पश्चिमाम्नायसिद्धिदान् |
नानाश्चर्यकरान् काशीसंस्थितान् गणनायकान् ||
७४ ||
महागणपतेरंशाश्चतुःषष्टिविनायकाः |
एकैकान्ते गृहीत्वा तु योगिनीं चेटिकामपि ||
७५ ||
स्वर्णभूमिं समासाद्य यावदन्तर्गृहं मम |
अष्टावरणकैरष्टौ संस्थिताः सिद्धिदायकाः ||
७६ ||
तत्राष्टौ काशिकाबाह्ये स्वर्गभूमौ समास्थिताः |
योजनैकं बहिः काश्यां कीर्तितः परिधिस्तु सः ||
७७ ||
गँ विघ्नाय नमः प्रोक्तो मन्त्र एव षडक्षरः |
क्षिप्रप्रसादनसममष्टानां साधनं स्मृतम् ||
७८ ||
पुरश्चरणे विशेषमाह तत्रैव— वेदायुतं जपेन्मन्त्रं होमश्च घृतपायसैः |
प्रयोगाः क्षिप्रमेवात्र क्षिप्रमेव च सिद्धयः ||
७९ ||


Band II, S. 262–263, Ucchishta-Ganesha-Mantras 80–87
अथोच्छिष्टगणेशमन्त्रस्तत्रैव— अथातः सम्प्रवक्ष्यामि उत्तराम्नायसिद्धिदान् |
वदेद्धस्तिपिशाचीति लिखेत् स्वाहा नवाक्षरः ||
८० ||
कङ्कालोऽस्य मुनिश्छन्दो विराडुच्छिष्टनामकः |
गणेशो देवता प्रोक्तः सर्वसम्पत्प्रदायकः |
द्वित्रिद्विद्विभिश्चास्य पञ्चाङ्गविधिरीरितः ||
८१ ||
अस्य ध्यानं तन्त्रान्तरे— रक्तमूर्तिं गणेशानं सर्वाभरणभूषितम् |
रक्तवस्त्रं त्रिनेत्रं च रक्तपद्मासनस्थितम् ||
८२ ||
चतुर्भुजं महाकायं द्विदन्तं सस्मिताननम् |
इष्टं च दक्षिणे वामे दधन्तमभयं करे ||
८३ ||
पाशाङ्कुशौ च हस्ताभ्यां जटामण्डलमण्डितम् |
ललाटं चन्द्ररेखाढ्यं सर्वालङ्कारभूषितम् ||
८४ ||
सर्वाभीष्टप्रदं ध्यायेदुच्छिष्टगणनायकम् |
अथ पुरश्चरणं मेरौ— अथान्यमस्य वक्ष्यामि द्वादशार्णं महामनुम् ||
८५ ||
ॐ ह्रीं गँ हस्तिपिशाचि लिखेत् स्वाहेति मन्त्रकः |
नवार्णमन्त्रवत् सर्वं ध्यानपूजाजपादिकम् ||
८६ ||
पुरश्चरणमाह— पुरश्चर्याऽर्कलक्षं स्यात् प्रयोगादि च पूर्ववत् ||
८७ ||
इति गणेशप्रकरणम् |


Lesungshinweise: [Silben] [Die neun Silben lassen sich nur unter Mitrechnung von likhet, „man schreibe“, zählen; die Formelgrenze bleibt deshalb unsicher. Auch stehen vier Zahlen neben der Angabe „fünfgliedrig“.] [Auch hier bleibt die Stellung von likhet unsicher; Gam ist mit Chandrabindu gedruckt.] Mit zwei, drei, zwei und zwei [Silben] wird sein fünfgliedriges Verfahren erklärt.“ [Die neun Silben lassen sich nur unter Mitrechnung von likhet, „man schreibe“, zählen; die Formelgrenze bleibt deshalb unsicher. Dhyana, Puja, Japa und alles Weitere entsprechen dem neunsilbigen Mantra.“ [Auch hier bleibt die Stellung von likhet unsicher; Gam ist mit Chandrabindu gedruckt.] Zum Purashcharana heißt es: 87: „Es umfasst zwölfmal hunderttausend Wiederholungen; Anwendungen und alles Weitere sind wie zuvor.“ Damit endet der Abschnitt über Ganesha.

Band II, S. 263, Surya-Mantra und Dhyana 88–92
अथ सूर्यमन्त्रः |
शारदायाम्— तारो घृणिर्भृगुः पश्चाद्वामकर्णविभूषितः |
वह्न्यासनो मरुच्छेषः सनेत्रोऽद्रिस्त्य पश्चिमः ||
८८ ||
अष्टाक्षरो मनुः प्रोक्तो भानोरभिमतप्रदः |
देवभागो मुनिः प्रोक्तो गायत्री छन्द ईरितम् ||
८९ ||
आदित्यो देवता प्रोक्तो दृष्टादृष्टफलप्रदः |
सत्याय हृदयं प्रोक्तं ब्रह्मणे शिर ईरितम् ||
९० ||
विष्णवे स्याच्छिखा वर्म रुद्राय परिकीर्तितम् |
अग्नये नेत्रमाख्यातं सर्वायास्त्रमुदाहृतम् |
तेजो ज्वाला मणिं हुँ फट् द्विठान्ताः पृथगीरिताः ||
९१ ||
न्यासान्तराणि तत्रैव द्रष्टव्यानि |
अथ ध्यानम्— रक्ताब्जयुग्माभयदानहस्तं केयूरहाराङ्गदकुण्डलाढ्यम् |
माणिक्यमौलिं दिननाथमीडे बन्धूककान्तिं विलसत्त्रिनेत्रम् ||
९२ ||


Lesungshinweise: [die Schlussverbindung ist gestört]

Band II, S. 264, Surya-Purashcharana und dreisilbiger Mantra 93–97
अस्य पुरश्चरणं तत्रैवोक्तम्— वसुलक्षं जपेन्मन्त्रं समिद्भिः क्षीरशाखिनाम् |
तत्सहस्रं प्रजुहुयात् क्षीराक्ताभिर्जितेन्द्रियः ||
९३ ||
अथ मन्त्रान्तरं तत्रैव— आकाशमग्निदीर्घेन्दुसंयुतं भुवनेश्वरी |
सर्गान्वितो भृगुर्भानोस्त्र्यक्षरो मनुरीरितः ||
९४ ||
आधारादिपदाग्रान्तं कण्ठादाधारकावधि |
मूर्धादिकण्ठपर्यन्तं क्रमाद्बीजत्रयं न्यसेत् |
षड्दीर्घस्वरयुक्तेन मध्येनाङ्गानि कल्पयेत् ||
९५ ||
अथ ध्यानम्— रक्ताम्बुजासनमशेषगुणैकसिन्धुं भानुं समस्तजगतामधिपं भजामि |
पद्मद्वयाभयवरान् दधतं कराब्जैर्माणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम् ||
९६ ||
अथास्य पुरश्चरणम्— भानुलक्षं जपेन्मन्त्रमन्नाज्येन दशांशतः |
तिलैर्वा मधुरासिक्तैर्जुहुयाद्विजितेन्द्रियः ||
९७ ||


Lesungshinweise: [Gaben entsprechend der genannten Zahl] [Tatsahasra ist als Zahlbeziehung verkürzt; der Text sagt hier nicht „ein Zehntel“.] [Vokal]

Band II, S. 264–265, Sechssilbiger Sonnenmantra 98–104
मेरुतन्त्रे— अथ मन्त्रान्तरं वक्ष्ये दिनेशस्य षडक्षरम् |
हँ खें खखोल्काय वाऽथ खखोल्कायाग्निगेहिनी ||
९८ ||
मुनिर्ब्रह्मा च गायत्री छन्दः सवितृदैवतम् |
सूक्ष्मरूपायाग्निवधूमन्त्रेण हृदयं मतम् ||
९९ ||
सूक्ष्माकारायाग्निवधूरिति मन्त्रेण शीर्षकम् |
सूक्ष्मबालाय स्वाहेति कवचं च सनेत्रकम् ||
१०० ||
सूक्ष्मकाय हुँ फडिति शस्तं पञ्चाङ्गमीरितम् |
मन्त्रवर्णैः षडङ्गं स्याद्ध्यानमस्योच्यतेऽधुना ||
१०१ ||
रक्तपद्मद्वयं हस्तैर्बिभ्राणं वरदाभये |
बन्धूकाभं त्रिनेत्रं च रविं ध्यायेत् सुभूषितम् ||
१०२ ||
अथास्य पुरश्चरणं तत्रैव— लक्षमेकं जपेन्मन्त्रं नियतात्मा जितेन्द्रियः |
जुहुयात् तद्दशांशेन बिल्वाश्वत्थपलाशजैः ||
१०३ ||
उदुम्बरसमुद्भूतैस्त्रिमध्वक्तैः समिद्वरैः |
तर्पणादि ततः कुर्यात् प्राक्प्रोक्तविधिना सुधीः ||
१०४ ||


Lesungshinweise: [Die Gliederzuordnung ist verkürzt.]

Band II, S. 265, Ajapa-Mantra 105–108
अथ मन्त्रान्तरं शारदायाम्— वियदर्धेन्दुलसितं तदादिः सर्गसंयुतः |
अजपाख्यो मनुः प्रोक्तो द्व्यक्षरः सुरपादपः ||
१०५ ||
ऋषिर्ब्रह्मा स्मृतो देवी गायत्री छन्द ईरितम् |
देवता जगतामादिः सम्प्रोक्तो गिरिजापतिः |
हसा षड्दीर्घयुक्तेन कुर्यादङ्गक्रियां मनोः ||
१०६ ||
ध्यानम्— उद्यद्भानुस्फुरिततडिदाकारमूर्धाम्बिकेशं पाशाभीतीवरदपरशुं सन्दधानं कराब्जैः |
दिव्याकल्पैर्नवमणिमयैः शोभितं विश्वमूलं सौम्याग्नेयं वपुरवतु वश्चन्द्रचूडं त्रिनेत्रम् ||
१०७ ||
अथ पुरश्चरणम्— भानुलक्षं जपेन्मन्त्रं पायसेन ससर्पिषा |
दशांशं जुहुयात् सम्यक् ततः सिद्धो भवेन्मनुः ||
१०८ ||


Lesungshinweise: [der Bezug zur Kopfform ist sprachlich schwierig]

Band II, S. 265–266, Martanda-Bhairava-Mantra 109–115
अथ मार्तण्डभैरवमन्त्रस्तत्रैव— आकाशमग्निपवनसाद्यान्तार्धीशबिन्दुमत् |
मार्तण्डभैरवं नाम बीजमेतदुदाहृतम् ||
१०९ ||
पुटितं बिम्बबीजेन सर्वकामफलप्रदम् |
ठान्तं दहननेत्रेन्दुसहितं तदुदाहृतम् ||
११० ||
पञ्चह्रस्वाद्यबीजेन पञ्चमूर्तीः प्रविन्यसेत् |
मध्यमादिकनिष्ठान्तमङ्गुलीषु क्रमादिमाः ||
१११ ||
सूर्याख्यो भास्करो भानुस्ततो रविदिवाकरौ |
शिरोवदनहृद्गुह्यपाददेशेषु ताः पुनः ||
११२ ||
दीर्घयुक्तेन बीजेन नेत्राङ्गानि प्रविन्यसेत् |
व्यापकं मूलबीजेन कुर्वीत तदनन्तरम् ||
११३ ||
ध्यानम्— हेमाम्भोजप्रवालप्रतिमनिजरुचिं चारुखट्वाङ्गपद्मौ चक्रं शक्तिं सपाशसृणिमतिरुचिरामक्षमालां कपालम् |
हस्ताम्भोजैर्दधानं त्रिनयनविलसद्वेदवक्त्राभिरामं मार्तण्डं वल्लभार्धं मणिमयमुकुटं हारदीप्तं भजामः ||
११४ ||
अथ पुरश्चरणम्— लक्षत्रयं जपेन्मन्त्री बीजं बिम्बपुटीकृतम् |
दशांशं कमलैः फुल्लैर्जुहुयान्मधुरोक्षितैः ||
११५ ||
इति सूर्यप्रकरणम् |


Lesungshinweise: [die genaue Anordnung ist im Kompositum nicht sicher]

Band II, S. 266–267, Narayana-Mantra 116–122
अथ विष्णुमन्त्रः |
शारदायाम्— अथ वक्ष्ये महामन्त्रान् विष्णोः सर्वार्थसाधकान् |
येषां संस्मरणात् सन्तो भवाब्धेः पारमाश्रिताः ||
११६ ||
तारं नमःपदं पश्चान्नरौ दीर्घसमन्वितौ |
पवनो णायमन्त्रोऽयं प्रोक्तो वस्वक्षरात्मकः ||
११७ ||
साध्यो नारायणः प्रोक्तो मुनिश्छन्द उदाहृतम् |
मन्त्रस्य देवी गायत्री देवता विष्णुरव्ययः ||
११८ ||
क्रुद्धोल्काय हृदाख्यातं महोल्काय शिरः स्मृतम् |
वीरोल्काय शिखा प्रोक्ता व्युल्काय कवचं मतम् ||
११९ ||
सहस्रोल्कायास्त्रमुक्तमङ्गकल्पादिरियं मता |
भूयोवर्णैर्मनोः षड्भिः षडङ्गानि समाचरेत् |
अवशिष्टौ पुनर्वर्णौ विन्यसेत् कुक्षिपृष्ठयोः ||
१२० ||
अथ ध्यानम्— उद्यत्कोटिदिवाकराभमनिशं शङ्खं गदां पङ्कजं चक्रं बिभ्रतमिन्दिरावसुमतीसंशोभिपार्श्वद्वयम् |
कोटीराङ्गदहारकुण्डलधरं पीताम्बरं कौस्तुभोद्दीप्तं विश्वधरं स्ववक्षसि लसच्छ्रीवत्सचिह्नं भजे ||
१२१ ||
अथ पुरश्चरणम्— विकारलक्षं प्रजपेन्मनुमेनं समाहितः |
तद्दशांशं सरसिजैर्जुहुयान्मधुराप्लुतैः ||
१२२ ||
विकारलक्षं षोडशलक्षम् |


Band II, S. 267, Vasudeva-Mantra 123–127
अथ मन्त्रान्तरं तत्रैव— प्रणवो हृद्भगवते वासुदेवाय कीर्तितः |
प्रधानं वैष्णवे तन्त्रे मन्त्रोऽयं द्वादशाक्षरः ||
१२३ ||
ऋषिः प्रजापतिश्छन्दो गायत्री परिकीर्तिता |
देवताऽस्य मनोः प्रोक्तो वासुदेवो मनीषिभिः ||
१२४ ||
तारेण हृदयं प्रोक्तं नमसा शिर ईरितम् |
चतुर्वर्णैः शिखा प्रोक्ता पञ्चार्णैः कवचं मतम् |
समस्तेन भवेदस्त्रमङ्गकल्पनमीरितम् ||
१२५ ||
अथ ध्यानम्— विष्णुं शारदचन्द्रकोटिसदृशं शङ्खं रथाङ्गं गदामम्भोजं दधतं सिताब्जनिलयं कान्त्या जगन्मोहनम् |
आबद्धाङ्गदहारकुण्डलमहामौलिं स्फुरत्कङ्कणं श्रीवत्साङ्कमुदारकौस्तुभधरं वन्दे मुनीन्द्रैः स्तुतम् ||
१२६ ||
अथ पुरश्चरणम्— वर्णलक्षं जपेन्मन्त्रं दीक्षितो विजितेन्द्रियः |
तत्सहस्रं प्रजुहुयात् तिलैराज्यपरिप्लुतैः ||
१२७ ||


Lesungshinweise: [folgenden] [darauffolgenden] [Gaben je Silbe] [Die Zahlenrelation tatsahasra ist knapp; sie wird nicht in die anderswo genannte Zehntelregel geändert.]

Band II, S. 267, Lakshmi-Vasudeva-Mantra 128–130
अथ लक्ष्मीवासुदेवमन्त्रस्तत्रैव— हृल्लेखाबीजयुगलं रमाबीजयुगं ततः |
लक्ष्म्यन्ते वासुदेवाय हृदन्तः प्रणवादिकः ||
१२८ ||
चतुर्दशाक्षरैः प्रोक्तो मन्त्रोऽयं सुरपादपः |
हृदयं शक्तिबीजाभ्यां रमाभ्यां शिर ईरितम् ||
१२९ ||
लक्ष्म्या प्रोक्ता शिखा वर्म वासुदेवाय ईरितम् |
नमः सास्त्रं समादिष्टं सर्वं तारादि कल्पयेत् ||
१३० ||


Lesungshinweise: [Die Bijas sind durch Namen bezeichnet; eine vollständige Lautformel wird hier nicht ergänzt.]

Band II, S. 268, Lakshmi-Vasudeva-Dhyana und Purashcharana 131–134
ध्यानम्— विद्युच्चन्द्रनिभं वपुः कमलजावैकुण्ठयोरेकतां प्राप्तं स्नेहवशेन रत्नविलसद्भूषाभरालङ्कृतम् |
विद्यापङ्कजदर्पणान् मणिमयं कुम्भं सरोजं गदां शङ्खं चक्रममूनि बिभ्रदमितां दिश्याच्छ्रियं वः सदा ||
१३१ ||
अथ पुरश्चरणम्— वर्णलक्षं जपेन्मन्त्रं तत्सहस्रं सरोरुहैः |
होमं कुर्याद्विकसितैर्मधुरत्रयसंयुतैः ||
१३२ ||
पूजा स्याद्वैष्णवे पीठे द्वादशाक्षरवर्त्मना |
पायसेन कृतो होमो लक्ष्मीवश्यप्रदायकः ||
१३३ ||
मधुराक्तैस्तिलैर्हुत्वा सर्वकार्याणि साधयेत् ||
१३४ ||


Lesungshinweise: [hier ein Attributname] [Gaben je Silbe]

Band II, S. 268, Sechssilbiger Vishnu-Mantra 135–138
वैष्वक्सेन्याम्— अथ मन्त्रान्तरं वक्ष्ये विष्णोः सर्वार्थसाधकम् |
ङेऽन्तं विष्णुं समुद्धृत्य हृदयं बाणवर्णकः |
भवाब्धेः सेतुभूतोऽयमव्यक्ताद्यः षडक्षरः ||
१३५ ||
अव्यक्तं प्रणवः |
नारदोऽस्य मुनिश्छन्दो गायत्रीविष्णुरव्ययः |
देवता मन्त्रवर्णैस्तु षडङ्गानि प्रकल्पयेत् ||
१३६ ||
शङ्खचक्रगदापद्मधरं लक्ष्मीसमावृतम् |
पीताम्बरं घनश्यामं ध्यायेद्विष्णुं सनातनम् ||
१३७ ||
अथ पुरश्चरणम्— वर्णलक्षं जपेन्मन्त्रं त्रिमध्वक्तैस्तिलैर्हुनेत् |
तर्पणादि ततः कुर्यादेवं सिद्धो भवेन्मनुः ||
१३८ ||


Band II, S. 268–269, Matsya-Mantra und Purashcharana 139–149
अथ मत्स्यमन्त्रो मेरुतन्त्रे— एक एवाभवन्मत्स्यावतारः कल्प आदिमे |
तस्य मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिप्रदायकम् ||
१३९ ||
तारो नमो भगवते मैँ मत्स्याय रमां वदेत् |
द्वादशाक्षरमन्त्रोऽयं मुनिर्ब्रह्मा समीरितः ||
१४० ||
गायत्री छन्द उद्दिष्टं देवता मीनविग्रहः |
भगवान् स रमानाथो बीजं श्रीमँ च कीलकम् ||
१४१ ||
मन्त्रपदैः कराङ्गन्यासौ कार्यौ |
अथ ध्यानम्— नाभ्याधो रोहितसमं आकण्ठं च नराकृतिः |
घनश्यामश्चतुर्बाहुः शङ्खचक्रगदाधरः ||
१४२ ||
शृङ्गीमत्स्यनिभो मूर्धा लक्ष्मीवक्षोविराजितः |
पद्मचिह्नितसर्वाङ्गः सुन्दरश्चारुलोचनः ||
१४३ ||
पुरश्चरणमाह— जपेद् द्वादशसाहस्रं त्रिमध्वक्तैस्तिलैर्हुनेत् |
प्रत्यहं तद्दशांशेन वैशाखे कार्तिके तथा ||
१४४ ||
माघे च मार्गशीर्षे च हविष्याशी जितेन्द्रियः |
आरभ्य भाद्रबहुलमष्टमीषोडशाहकम् ||
१४५ ||
लक्ष्मीमनुं जपेन्नित्यमिदं चापि कलाशतम् |
तथैव होमः कर्तव्योऽन्यदिवसेषु तु ||
१४६ ||
तर्पयेद् द्वादशशतं तिलतण्डुलचन्दनैः |
आद्यन्तयोः शतं चाष्टौ तर्पयेच्च तथा श्रियम् ||
१४७ ||
रक्तोत्पलैर्वा पद्मैर्वा मालत्याद्यैः सुगन्धिभिः |
एवं कृते वर्षमेकं मन्त्रसिद्धिः प्रजायते ||
१४८ ||
नित्यं द्वादशविप्रांश्च श्रीरूपां च सुवासिनीम् |
भोजयेत् पूजनं चास्य चरेत् तोयाशये सदा ||
१४९ ||


Lesungshinweise: [Die Zuordnung von Bija und Kilaka ist im Druck unvollständig beziehungsweise gestört; das sichtbare maim trägt Chandrabindu.]

Band II, S. 269, Wirkung des Matsya-Mantras auf andere Mantras 150–154
तथा— एवं सिद्धमनुर्मन्त्री जायते सिद्धिभाजनम् |
एतद्युक्तं शतं मन्त्रं जपेदष्टोत्तरं शतम् ||
१५० ||
तद्देवतादिने सिद्धः पुस्तकादेव जायते |
अकुण्ठितप्रयोगेषु न पुनस्तस्य संस्कृतिः ||
१५१ ||
एतत्पल्लविता मन्त्रा मम सिद्ध्यन्ति पार्वति |
एतत्सम्पुटिताः सर्वे वैदिकाः सिद्धिदाः कलौ ||
१५२ ||
अनेन ग्रथिता जप्ताः कौले स्युर्द्रुतसिद्धिदाः |
गाणेशा वैष्णवाः सौराः सिद्धिं दद्युर्विदर्भिताः ||
१५३ ||
यद्बलात् सर्वमन्त्राणां स्वयं सिद्धिः प्रजायते |
तस्मान्नोक्तो नान्यतन्त्रे मेरुतन्त्रे प्रकाशितः ||
१५४ ||


Lesungshinweise: [das zusätzliche Wort „hundert“ ist in der Satzfügung nicht eindeutig] Einen mit diesem verbundenen Mantra wiederhole man hundertachtmal [das zusätzliche Wort „hundert“ ist in der Satzfügung nicht eindeutig].

Band II, S. 270, Kurma-Mantra 155–160
अथ कूर्ममन्त्रस्तत्रैव— अथातः सम्प्रवक्ष्यामि कूर्ममन्त्रं महाद्भुतम् |
एकः कूर्मावतारोऽभून्मथ्यमाने महादधौ ||
१५५ ||
तारो नमो भगवते कुँ कूर्माय धराधर |
धुरन्धराय णस्यान्ते सिद्धवर्णो मतो मनुः ||
१५६ ||
प्रकृतिश्छन्द उदितं कश्यपोऽस्य मुनिर्मतः |
देवता भगवान् विष्णुर्मतः कच्छपरूपधृक् ||
१५७ ||
धराधरेत्यादिशक्तिः कुँ बीजं स्वेष्टसिद्धये |
नियोगो देवता ध्यानं शङ्खचक्रगदाधरम् ||
१५८ ||
पीताम्बरं कूर्मपृष्ठं न्यस्तलाङ्गलशोभितम् |
दीर्घग्रीवं महाग्राहं गिलन्तं रक्तलोचनम् ||
१५९ ||
मन्त्रवर्णैः षडङ्गानि जपो लक्षचतुष्टयम् |
आज्यहोमस्तर्पणं तु चन्दनोत्पलवारिभिः ||
१६० ||


Lesungshinweise: [die Schlussangabe nasya ist gestört] [die genaue Silbenzahl bleibt unsicher] Dies gilt als Mantra aus Siddha-Lauten [die genaue Silbenzahl bleibt unsicher].

Band II, S. 270, Varaha-Mantra und Dhyana 161–166
अथ वराहमन्त्रस्तत्रैव— अथातः सम्प्रवक्ष्यामि वराहस्य मनून् शुभान् |
कल्पे जाताश्चतुर्वर्णा अवतारा रमापतेः ||
१६१ ||
तारो नमो भगवते वराहेति च संवदेत् |
रूपाय भूर्भुवः सुवः पतये भूपतीति च ||
१६२ ||
त्वं मे देहि दापयेति स्वाहान्तः सुरवर्णकः |
शारदायाम्— भार्गवो मुनिराख्यातश्छन्दोऽनुष्टुबुदाहृतम् ||
१६३ ||
देवताऽऽदिवराहोऽस्य मन्त्रस्य कथितो बुधैः |
एकदंष्ट्राय हृदयं व्योमोल्काय शिरः स्मृतम् ||
१६४ ||
शिखा तेजोऽधिपतये विश्वरूपाय वर्म च |
महादंष्ट्राय अस्त्रं स्यात् पञ्चाङ्गमिति कल्पयेत् ||
१६५ ||
अथ ध्यानम्— आपादं जानुदेशाद्वरकनकनिभं नाभिदेशादधस्तान्मुक्ताभं कण्ठदेशात् तरुणरविनिभं मस्तकान्नीलभासम् |
ईडे हस्तैर्दधानं रथचरणदरौ खड्गखेटौ गदाख्यां शक्तिं दानाभये च क्षितिधरणलसद्दंष्ट्रमाद्यं वराहम् ||
१६६ ||


Lesungshinweise: [Die Verbindung bhupati/tvam ist nicht eindeutig; im Sinn wird um Herrschaft über Land gebeten.] Tara, ‚namo bhagavate‘, ‚varaha-rupaya‘, ‚bhur bhuvah suvah pataye‘, ‚bhupati‘ und ‚tvam me dehi dapaya‘; der Mantra endet mit Svaha und hat die Zahl der Götter als Silbenzahl.“ [Die Verbindung bhupati/tvam ist nicht eindeutig; im Sinn wird um Herrschaft über Land gebeten.] In der Sharada: 163b–165: „Sein Seher ist Bhargava, das Versmaß Anushtubh; die Weisen nennen Adivaraha als Gottheit dieses Mantras.

Band II, S. 271, Weitere Varaha-Mantras 167–175
अस्य पुरश्चरणं तत्रैव— लक्षमेकं जपेन्मन्त्रं मधुराक्तैः सरोरुहैः |
जुहुयात् तद्दशांशेन पीठे विष्णोः प्रपूजयेत् ||
१६७ ||
अथ मन्त्रान्तराणि— अथान्यं सम्प्रवक्ष्यामि वराहाष्टाक्षरं परम् |
ॐ भूर्वराहाय नमो मुनिर्ब्रह्मा समीरितः ||
१६८ ||
जगती छन्द उद्दिष्टं वराहो देवता स्मृतः |
पदैः समस्तमन्त्रेण पञ्चाङ्गानि प्रकल्पयेत् ||
१६९ ||
ध्यानम्— कृष्णाङ्गं नीलवक्त्रं च मलिनं पद्मसंस्थितम् |
पृथ्वीशक्तियुतं ध्यायेच्छङ्खं चक्राम्बुजं गदाम् ||
१७० ||
भूलक्ष्मीकान्तिरतिभिः समन्तात् परिवारितम् |
वर्मासिवाद्भिश्च कलौ द्रुतसिद्धिप्रदायकम् ||
१७१ ||
जपपूजादिकं सर्वमस्य पूर्ववदाचरेत् |
एतं मनुं यः प्रभजेत् स भवेच्च धरापतिः ||
१७२ ||
इमित्येकाक्षरो मन्त्रो वराहस्य प्रकीर्तितः |
हयग्रीवो मुनिः प्रोक्तश्छन्दोऽनुष्टुप् च देवता ||
१७३ ||
वराहो दीर्घयुक्तेन बीजेनैवाङ्गकल्पनम् |
प्राग्वद्ध्यायेद्रक्तवर्णं पूजाद्यं पूर्ववद्भवेत् ||
१७४ ||
भूरित्येकाक्षरं बीजं सर्वं प्राग्वत् समीरितम् |
पीतवर्णं सदा ध्यायेद् द्वापरे द्रुतसिद्धिदम् ||
१७५ ||


Lesungshinweise: [tragend] [einer beschädigten Angabe zu Rüstung und Schwert] [Im Druck steht im iti; die Länge und Nasalierung einer eigenständigen Bija-Form sind daraus nicht sicher abzulesen.] Mit den einzelnen Wörtern und dem ganzen Mantra bilde man die fünf Angas.“ Dhyana: 170–172: „Man meditiere über ihn mit schwarzem Körper, blauem Gesicht und dunkler Erscheinung, auf einem Lotus sitzend, mit der Erd-Shakti vereint, Muschelhorn, Rad, Lotus und Keule [tragend], rings von Bhu, Lakshmi, Kanti und Rati begleitet, ferner von [einer beschädigten Angabe zu Rüstung und Schwert].

Band II, S. 271–272, Dharani-Mantra 176–182
अथ धरणीमन्त्रः शारदायाम्— हृदयं भगवत्यै स्याद्धरण्यै तदनन्तरम् |
धरण्यन्ते धरेद्द्वन्द्वं द्विठान्तोऽयं ध्रुवादिकः ||
१७६ ||
एकोनविंशत्यर्णाख्यं धराहृदयमीरितम् |
वराहोऽस्य मुनिः प्रोक्तश्छन्दो निवृदुदाहृतम् ||
१७७ ||
देवता सर्वभूतानां प्रकृतिर्वसुधा मता |
हृदयं त्रिभिराख्यातं चतुर्भिः शिर ईरितम् ||
१७८ ||
त्रिभिः शिखा समुद्दिष्टा पञ्चभिः कवचं मतम् |
द्वाभ्यां नेत्रं समाख्यातं द्वाभ्यामस्त्रं पुनर्भवेत् |
मन्त्रवर्णैः षडङ्गानि कुर्यादेवं विधानवित् ||
१७९ ||
ध्यानम्— श्यामां विचित्रांशुकरत्नभूषणां पद्मासनां तुङ्गपयोधराननाम् |
इन्दीवरं द्वे नवशालिमञ्जरीं शुकं दधानां वसुधां भजामः ||
१८० ||
पुरश्चरणमाह— लक्षमेनं जपेन्मन्त्री धराहृदयमादरात् |
ससर्पिषा पायसेन जुहुयात् तद्दशांशतः ||
१८१ ||
तां विष्णोः पूजयेत् पीठे वक्ष्यमाणविधानतः ||
१८२ ||


Lesungshinweise: [einer sprachlich gestörten Gesichtsangabe]

Band II, S. 272, Hinführung zu Narasimha 183–189
स जयति जगतां नाथः करुणावरुणालयो नृहरिः |
शरणीकृतयच्चरणा भवजलधिं तुलयन्ति गोष्पदेन ||
१८३ ||
अथ दुस्तरसंसारसागरोत्तारसेतवः |
चतुर्णां पुरुषार्थानामसाधारणहेतवः ||
१८४ ||
उच्यन्ते चन्द्रचूडेन तन्त्रेषु प्रकटीकृताः |
मन्त्राः श्रीदिव्यसिंहस्य ब्रह्माद्यैः समुपासिताः ||
१८५ ||
मेरुतन्त्रे— अथातः सम्प्रवक्ष्यामि नृसिंहस्य मनून् शुभान् |
प्रतिमन्वन्तरं चाऽयमवतारो हरेर्भवेत् ||
१८६ ||
द्वीपान्तरे नृसिंहस्तु चतुर्दशसु मूर्तिषु |
आकल्पं वसते तत्र भक्तानुग्रहकारकः ||
१८७ ||
आदिमन्वन्तरे जातो नृसिंहो वक्ष्यतेऽधुना |
द्वात्रिंशद्वर्णको गोप्यो भुक्तिमुक्तिप्रदो यतः ||
१८८ ||
वैष्वक्सेन्यां ब्रह्मनारदसंवादे— मन्त्रराजं प्रवक्ष्यामि शृणुष्वावहितो मुने |
यत्प्रसादादविकलं सृजामि सकलं जगत् ||
१८९ ||


Band II, S. 272–273, Verschlüsselte Bildung des Narasimha-Mantraraja 190–200
आदौ विष्णुं समुद्धृत्य शार्ङ्गिणं बलिसंस्थितम् |
प्रद्युम्नसहितं पश्चादुद्धरेद् भूमिबालकम् ||
१९० ||
सगोविन्दं ततः प्रीतियुक्तं बलिनमुद्धरेत् |
वैकुण्ठान्ते वराहं च नारायणसमन्वितम् ||
१९१ ||
समाघववृषघ्नाख्यं वृषं नरकजिद्गतम् |
शङ्कर्षणान्तमधुसूदनादिभ्यां समन्वितम् ||
१९३ ||
बालस्थं च मुसल्यन्तमुद्धरेच्च बलानुजम् |
वीरभागनिरुद्धाद्यसंयुतं हरिमुद्धरेत् ||
१९४ ||
हंसान्ते बलिनाऽऽक्रान्तं भूधरं च ततो हरिम् |
वासुदेवान्वितं विश्वमूर्त्यन्तं विष्णुसंयुतम् ||
१९५ ||
सानिरुद्धं च गदिनं शूलाढ्यं सत्रिविक्रमम् |
बिन्दुमाधवसंयुक्तं हंसहंसान्तमिन्दुकम् ||
१९६ ||
गोविन्दयुग्विश्वमूर्तिं वृषहर्याद्यमिन्दुकम् |
भूधरान्तं ततः सत्यं बलिं प्रद्युम्नसंयुतम् ||
१९७ ||
सवामेनाद्यं वैकुण्ठं हरिं सपुरुषोत्तमम् |
सविष्णुमेतदुभयं द्विरुद्धृत्यान्तिमे शिरः ||
१९८ ||
दद्यात् ततः सात्वतान्तं पुरुषोत्तमपूर्वजम् |
सकेशवान्त्यमुद्धृत्य वैकुण्ठपुरुषोत्तमौ ||
१९९ ||
योगिनौ विश्वमूर्तेश्च दशमं सेन्दुमुद्धरेत् |
द्वात्रिंशदक्षरात्माऽयं मन्त्रराजः सुरद्रुमः ||
२०० ||


Lesungshinweise: [Für Bhumibalaka nennt die Ausgabe die Variante ‚Bhudhara, dann …‘.] [Lautbezeichnungen] [Die Wortverbindung am Anfang von Vers 193 ist im Druck gestört.] [Element] [Diese Passage ist eine verschlüsselte Lautanweisung mit lokalen syntaktischen Unsicherheiten. Sie wird nicht aus einem bekannten Narasimha-Mantra ersetzt. Die gedruckte Nummerierung springt von 191 auf 193; eine als 192 nummerierte Strophe fehlt.] Dieser aus zweiunddreißig Silben bestehende König der Mantras ist ein göttlicher Wunschbaum.“ [Diese Passage ist eine verschlüsselte Lautanweisung mit lokalen syntaktischen Unsicherheiten.

Band II, S. 273, Lob des Narasimha-Mantraraja 201–205
स धर्मार्थकाममोक्षाणां बीजभूतोऽयमद्भुतः |
आद्यस्तूलौघदहनो भवभीतिविनाशनः ||
२०१ ||
यन्महावैष्णवं धाम परब्रह्मेति गीयते |
स्वप्रकाशं जगद्व्यापि सच्चिदानन्दलक्षणम् ||
२०२ ||
तदेव त्वं विजानीहि मन्त्ररूपमिदं मुने |
न नृसिंहात् परो देवो नैतन्मन्त्रात् परो मनुः ||
२०३ ||
न तद्ध्यानात् परं ध्यानं संसारभयनाशनम् |
भगवद्भक्तितत्त्वज्ञैरुपास्योऽयं महामनुः ||
२०४ ||
न प्रकाश्यस्त्वया वत्स देवानामपि दुर्लभः |
अनेकमन्त्रकोटीनां चूडामणिरयं मनुः ||
२०५ ||


Lesungshinweise: [Hemmnisse]

Band II, S. 274, Narasimhas Name und Mantrazuordnung 206–213
यथा नृसिंहो भगवान् देवतानां शिरोमणिः |
यन्नामस्मरणादेव न पुनर्जायते भवः ||
२०६ ||
किं पुनः श्रद्धया भक्त्या भजतां तत्पदाम्बुजम् |
सकृदुच्चरितं येन नृसिंहेत्यक्षरत्रयम् ||
२०७ ||
धर्मराजभटैस्तस्य किमर्थं दृश्यते मुखम् |
चतुर्णामपि वेदानां सारांशस्त्वेक एव हि |
नृसिंहेति नृसिंहेति नृसिंहेति च कीर्तनम् ||
२०८ ||
मेरुतन्त्रे— लोभाधिक्यात् कलियुगे न गुरुर्न च देवता |
एकं श्रेयस्करं प्रोक्तं नृहरेर्नामगर्जनम् ||
२०९ ||
संहितायाम्— अथोक्तमन्त्रराजस्य ऋष्यादीन् शृणु नारद |
ऋषिर्ब्रह्माऽहमुद्दिष्टश्छन्दोऽनुष्टुबुदाहृतम् ||
२१० ||
देवता श्रीनृसिंहोऽस्य देवदेवो जगद्गुरुः |
ध्रुवमाये बीजशक्ती नारसिंहस्तु कीलकम् ||
२११ ||
उदात्तस्तु स्वरः प्रोक्तो वर्णः शुक्ल उदाहृतः |
धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः ||
२१२ ||
मेरुतन्त्रे— वेदवेदाष्टषट्षट्कं वेदार्णैः स्यात् षडङ्गकम् ||
२१३ ||


Lesungshinweise: [gelten] [Die knappe Verneinung ist quellengetreu erhalten; ihr genauer Bezug bleibt unausgesprochen.]

Band II, S. 274–275, Narasimhas göttlicher Hain und Thron 214–219
अथ ध्यानं संहितायाम्— क्षीरार्णवे सितद्वीपे कल्पवृक्षवनं स्मरेत् |
नानापुष्पफलाकीर्णं मुक्तारत्नौघवर्षणम् ||
२१४ ||
विकसद्बालमन्दारपुष्पामोदमनोहरम् |
कुसुमान्तर्मधुस्वादमत्तालिकुलसङ्कुलम् ||
२१५ ||
कोकिलालापमधुरं नानापक्षिगणान्वितम् |
ऋतुषट्केन युगपत् सेव्यमानं सुखास्पदम् ||
२१६ ||
उत्फुल्लाम्बुजकहारकुमुदोत्पलशालिभिः |
हंसकारण्डवाकीर्णैः सरोभिरुपशोभितम् ||
२१७ ||
तस्य मध्ये स्फुरद्दीप्ति चिन्तयेन्मणिमण्डपम् |
तदन्तःपद्मरागौघकुट्टिमारक्तभूतले ||
२१८ ||
नानारत्नप्रभोद्भासिस्वर्णसिंहासनोपरि |
भोगीन्द्रभोगतल्पे च पद्ममष्टदलं स्मरेत् ||
२१९ ||


Band II, S. 275–276, Narasimha mit Lakshmi 220–236
तत्कर्णिकासमासीनं श्रीनृसिंहं विचिन्तयेत् |
चन्द्रकोटिप्रतीकाशं भास्वत्पीताम्बरावृतम् ||
२२० ||
ज्वलत्कालानलप्रख्यज्वालामालिदुरासदम् |
चक्रं सुदर्शनं चापं सबाणं वरमुद्रिकाम् ||
२२१ ||
अभयाख्यां तथा मुद्रां निजभक्तेषु सार्थिकाम् |
धारयन्तं महाबाहुं चतुर्भिः करपल्लवैः ||
२२२ ||
सोमसूर्याग्निनयनमीषद्व्याननानाब्जम् |
स्फुरत्सौदामिनीजिह्वं दंष्ट्राद्भुतमुखाम्बुजम् ||
२२३ ||
तप्तचामीकरप्रख्यजटामण्डलमण्डितम् |
हैमं किरीटं बिभ्राणं भास्वन्मणिगणोज्ज्वलम् ||
२२४ ||
श्रीवत्सकौस्तुभोरस्कं स्फुरन्मकरकुण्डलम् |
योगपट्टपिनद्धाङ्गं वनमालाविराजितम् ||
२२५ ||
हारकेयूरमञ्जीरस्फुरत्काञ्चीगुणादिभिः |
भूषितं भूषणैर्दिव्यैर्नानारत्नोपकल्पितैः ||
२२६ ||
ज्वलन्मणिशिखादीप्तफणीन्द्रफणपङ्क्तिभिः |
कृतच्छत्रं स्वतेजोभिर्भासयन्तं दिशो दश ||
२२७ ||
कल्पान्तकालदहनज्वालजालविडम्बिभिः |
ललाटनयनज्वालैर्दुर्निरीक्ष्यं सुरैरपि ||
२२८ ||
स्ववामाङ्कगतां लक्ष्मीं तप्तजाम्बुनदप्रभाम् |
शुद्धक्षौमपरीधानां नानालङ्कारभूषिताम् ||
२२९ ||
वराभयं पद्मयुग्मं बिभ्राणां करपङ्कजैः |
शरत्पूर्णेन्दुवदनां मन्दस्मितमुखाम्बुजाम् ||
२३० ||
आश्लिष्यन्तं कृताश्लेषामानन्दोत्फुल्ललोचनाम् |
भारत्या दक्षिणे देशे स्तूयमानं हि सर्वदा ||
२३१ ||
शङ्खचक्रगदापद्मधारिभिर्वनमालिभिः |
इन्द्रनीलनिभैर्वीरैः पार्षदैः परितो वृतम् ||
२३२ ||
ब्रह्मादिभिः सुरगणैः सनकाद्यैर्महर्षिभिः |
योगिभिः सिद्धगन्धर्वैरप्सरोभिश्च सेवितम् ||
२३३ ||
अतिप्रसन्नवदनं भक्ताभीष्टवरप्रदम् |
एवंविधमनिर्देश्यमवाङ्मनसगोचरम् ||
२३४ ||
दिव्यसिंहं हृदि ध्यायेत् परमात्मानमच्युतम् |
एवं ध्यात्वा महाविष्णुं दिव्यकेशरिणं तनुम् ||
२३५ ||
सान्द्रानन्दमयं शान्तं नित्यविज्ञानविग्रहम् |
हृत्पद्मे नृहरिं ध्यात्वा साक्षान्नारायणो भवेत् ||
२३६ ||


Lesungshinweise: [die Wortverbindung ist im Druck gestört]

Band II, S. 276, Formlose Meditation und weitere Narasimha-Gestalten 237–245
आदिषोडशचक्रस्थमथ वा बिन्दुवर्जितम् |
अनादिमपरिच्छिन्नं योगिगम्यमतीन्द्रियम् ||
२३७ ||
परात्परतरं नित्यं निरुपाधिमनाविलम् |
स्वतःप्रकाशं जगतः साक्षीभूतं निरञ्जनम् ||
२३८ ||
ज्योतिर्मयं नरहरिं ध्यात्वा ब्रह्ममयो भवेत् |
अथ वा विश्वमखिलं भावयेन्नृहृतेस्तनुम् |
जीवन्मुक्तो भवेत् सद्यो निराधिरकुतोभयः ||
२३९ ||
ध्यानान्तरमुक्तं शारदायाम्— माणिक्याद्रिसमप्रभं निजरुचा सन्त्रस्तरक्षोगणं जानुन्यस्तकराम्बुजं त्रिनयनं रत्नोल्लसद्भूषणम् |
बाहुभ्यां धृतशङ्खचक्रमनिशं दंष्ट्रोग्रवक्त्रोल्लसज्ज्वालाजिह्वमुदग्रकेशनिचयं वन्दे नृसिंहं विभुम् ||
२४० ||
मेरुतन्त्रे— वामे शङ्खमरिं दक्षे जानुविन्यस्तबाहुकम् |
ग्रसन्तं दैत्यराजानं कृशानूपमतेजसा ||
२४१ ||
दंष्ट्रप्रदीप्तवदनं ललज्जिह्वं त्रिलोचनम् |
सुरैश्च मुनिभिर्लक्ष्म्या कृताञ्जलिकया स्तुतम् ||
२४२ ||
कामनाभेदेन ध्यानभेदा उक्तास्तत्रैव— काम्यप्रयोगसिद्ध्यै ध्यानभेदान् वदाम्यहम् |
उद्यत्सहस्रार्कभासं त्रिनेत्रं भीषणाकृतिम् ||
२४३ ||
वज्रतुल्येक्षणं वह्निकान्तिं नानाभुजैर्वृतम् |
नखैर्दारितदैत्येशं रक्तधारारुणकायकम् ||
२४४ ||
क्रूरकर्मादिविषये स्मरेद्देवं भयानकम् |
विश्वरूपमयं ध्यानं नृहृतेः प्रोच्यतेऽधुना ||
२४५ ||


Lesungshinweise: [weiteren]

Band II, S. 277–278, Vielarmige Narasimha-Gestalten 246–264
नृसिंहं तं महाभीमं कालानलसमप्रभम् |
अक्षमालाधरं रौद्रं कण्ठं हारेण शोभितम् ||
२४६ ||
नागयज्ञोपवीतं च पञ्चाननसुशोभितम् |
चन्द्रमौलिं नीलकण्ठं प्रतिवक्त्रं त्रिलोचनम् ||
२४७ ||
भुजैः परिघसङ्काशैर्दशभिश्चोपशोभितम् |
अक्षसूत्रं गदां पद्मं शङ्खं गोक्षीरसन्निभम् ||
२४८ ||
धनुश्च मुसलं चैव बिभ्राणं चक्रमुत्तमम् |
खड्गं शूलं च बाणं च नृहरिं रुद्रगोपनम् ||
२४९ ||
इन्द्रनीलकनीलाभं चन्द्राभं स्वर्णसन्निभम् |
पूर्वोदयोत्तरज्वालदूर्ध्वास्यं सर्ववर्णकम् ||
२५० ||
एवमुग्रहरिं ध्यायेत् सर्वव्याधिनिवृत्तये |
ध्येयो यदा महत् कर्म तदा षोडशहस्तवान् ||
२५१ ||
नृसिंहः सर्वलोकेशः सर्वाभरणभूषितः |
द्वौ विदारणकर्मार्हौ द्वौ चान्त्रोद्धरणक्षमौ ||
२५२ ||
चक्रशङ्खधरावन्यावन्यौ बाणधनुर्धरौ |
खड्गखेटधरावन्यौ द्वौ गदापद्मधारिणौ ||
२५३ ||
पाशाङ्कुशधरावन्यौ द्वौ रिपोर्मुकुटार्पितौ |
इति षोडशदोर्दण्डमण्डितं नृहरिं विभुम् ||
२५४ ||
ध्यायेदम्बुजनीलाभमुग्रकर्मण्यनन्यधीः |
ध्येयो महत्तमे कार्ये तदा षड्विंशहस्तवान् ||
२५५ ||
नृसिंहः सर्वभूषाढ्यः सर्वसिद्धिकरः प्रभुः |
दक्षिणे खड्गचक्रे च परशुं पाशमेव च ||
२५६ ||
हलं च मुसलं सम्यगभयं चाङ्कुशं तथा |
पट्टिशं भिन्दिपालं च खेटतोमरमुद्गरान् ||
२५७ ||
वामभागकरैः शङ्खं खड्गं पाशं च शूलकम् |
हुताशनं वरं शक्तिं सम्यङ्मृण्मयकुण्डिकाम् ||
२५८ ||
कार्मुकं तर्जनीमुद्रां गदां डमरुसर्पकान् |
करद्वन्द्वैः क्रमाच्छत्रोर्जानुमस्तकपत्तलम् ||
२५९ ||
ऊर्ध्वीकृताभ्यां हस्ताभ्यां मन्त्रमालाधरं हरिम् |
अधःस्थिताभ्यां हस्ताभ्यां हिरण्यकविदारणम् ||
२६० ||
प्रियङ्करं च भक्तानां दैत्यानां च भयङ्करम् |
नृसिंहं संस्मरेद्दिव्यं महामृत्युभयापहम् ||
२६१ ||
अथोच्यते ध्यानमन्यन्मुखरेण हरं परम् |
विषरोगहरं मृत्युहरं शत्रुभयावहम् ||
२६२ ||
स्वर्णौघतुल्ये गरुडे स्थितं पूर्णेन्दुवर्णकम् |
सुमुखं विद्युदाभासनेत्रत्रयविराजितम् ||
२६३ ||
सुभूषं पीतवसनं शङ्खचक्रवराभयान् |
धारयन्तं चतुर्भिश्च करैः क्ष्वेडादिनाशकम् |
अपमृत्युमहाकृत्यानाशकं नृहरिं स्मरेत् ||
२६४ ||


Lesungshinweise: [die Bezeichnung rudragopana ist unsicher] [weiteren Richtungen] [Die Richtungs- und Farbzuordnung ist im Druck gestört.] [fasst er] [Diese anschließenden Handangaben lassen sich nicht eindeutig mit der vorausgehenden Sechsundzwanzigerliste verbinden.] [ein Wort der Einleitung bleibt unklar] Nrihari verbirgt Rudra [die Bezeichnung rudragopana ist unsicher].

Band II, S. 278, Narasimha-Dhyana und Purashcharana 265–269
शारदायाम्— उद्यत्कोटिरविप्रभं नरहरिं कोटीरहारोज्ज्वलं दंष्ट्राभीममुखं लसन्नखमुखैर्दीर्घैरनेकैर्भुजैः |
निर्भिन्नासुरनाथमग्निशशभृत्सूर्यात्मनेत्रत्रयं विद्युत्पुञ्जजटाकलापभयदं वह्निं वमन्तं भजे ||
२६५ ||
सौम्ये सौम्यं स्मरेत् कार्ये क्रूरे क्रूरमिमं भजेत् ||
२६६ ||
पुरश्चरणमाह मेरौ— अष्टलक्षं जपेन्मन्त्रं दीक्षितो विजितेन्द्रियः |
तत्सहस्रं प्रजुहुयाद्घृताक्तहविषाऽनले ||
२६७ ||
तर्पणं मार्जनं कृत्वा ब्राह्मणाराधनं तथा |
कुर्यात् संसिद्धमन्त्रस्तु प्रयोगानाचरेत् ततः ||
२६८ ||
शारदायां तु— वर्णलक्षं जपेन्मन्त्रं तत्सहस्रं घृतप्लुतैः |
पायसान्नैः प्रजुहुयाद्विधिवत्पूजितेऽनले |
एवं कृते भवेन्मन्त्री सिद्धमन्त्रः प्रतापवान् ||
२६९ ||


Lesungshinweise: [Gaben] [Gaben je Silbe] [Die mit tatsahasra angegebenen Homa-Zahlen bleiben nach dem Wortlaut erhalten; sie werden nicht zur Zehntelregel verändert.]

Band II, S. 278–279, Zweiter Narasimha-Mantra 270–275
अथ मन्त्रभेदा मेरुतन्त्रे— अथातः सम्प्रवक्ष्यामि द्वितीयं नृहरिं विभुम् ||
२७० ||
संहितायाम्— अथ वक्ष्ये नृसिंहस्य बीजरूपं मनूत्तमम् |
संवर्तो वह्निमारूढो मनुस्वरविभूषितः ||
२७१ ||
बिन्दुनादकलाकान्तो भुक्तिमुक्तिप्रदो मनुः |
अत्रिरस्य मुनिः प्रोक्तो गायत्री छन्द ईरितम् ||
२७२ ||
देवता नृहरिः प्रोक्तः सुरासुरनमस्कृतः |
षड्दीर्घभाजा बीजेन षडङ्गानि प्रकल्पयेत् |
ध्यानपूजादिकं सर्वं मन्त्रराजोदितं चरेत् ||
२७३ ||
अस्य पुरश्चरणमुक्तं मेरुतन्त्रे— एकलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः |
तद्दशांशं हुनेत् सम्यग्घृताक्तैः पायसैः शुभैः ||
२७४ ||
तर्पयेच्छुद्धसलिलैः कृत्वा चात्माभिषेचनम् |
ब्राह्मणान् सम्यगाराध्य सिद्धमन्त्रः समाचरेत् |
मन्त्रराजोदितान् सर्वान् प्रयोगानत्र साधकः ||
२७५ ||


Band II, S. 279, Dritter Narasimha-Mantra 276–280
तत्रैव— अथातः सम्प्रवक्ष्यामि तृतीयं नृहरेर्मनुम् ||
२७६ ||
शारदायाम्— पाशः शक्तिर्नरहरिरङ्कुशो वर्म फड्मनुः |
षडक्षरो नरहरेः कथितः सर्वकामदः ||
२७७ ||
ऋषिर्ब्रह्मा समुद्दिष्टः पङ्क्तिश्छन्द उदाहृतम् |
देवता नरसिंहोऽस्य षड्बीजैरङ्गकल्पना ||
२७८ ||
अथ ध्यानम्— कोपादालोलजिह्वं विवृतनिजमुखं सोमसूर्याग्निनेत्रं पादादानाभिरक्तप्रभमुपरिसितं भिन्नदैत्येन्द्रगात्रम् |
शङ्खं चक्रं सपाशाङ्कुशकुलिशगदादारणान्युद्वहन्तं भीमं तीक्ष्णाग्रदंष्ट्रं मणिमयविविधाकल्पमीडे नृसिंहम् ||
२७९ ||
पुरश्चरणमाह— ऋतुलक्षं जपेदेनं घृतेन जुहुयात् ततः |
तत्सहस्रं समिद्धेऽग्नौ तोषयेद्द्रविणैर्गुरुम् ||
२८० ||


Lesungshinweise: [weitere Hände vollziehen] [Gaben]

Band II, S. 279–280, Jvalamali-Narasimha-Mantra 281–289
मेरुतन्त्रे— अथातः सम्प्रवक्ष्यामि तुर्यमन्वन्तरोद्भवम् |
ज्वालामालिनृसिंहस्य मनुं भूतादिनाशकम् ||
२८१ ||
शारदायाम्— बीजं नमो भगवते नरसिंहाय तत्परम् |
स्याज्ज्वालामालिने पश्चाद्दीप्तदंष्ट्राय तत्परम् ||
२८२ ||
अग्निनेत्राय सर्वादिरक्षोघ्नाय पदं वदेत् |
सर्वभूतविनाशान्ते नकारो दीर्घवान्मरुत् ||
२८३ ||
एवं ज्वरविनाशान्ते नायार्णो दहयुग्मकम् |
पचद्वयं रक्षयुग्मं हुँ फट्स्वाहा ध्रुवादिकः ||
२८४ ||
सप्तषष्ट्यक्षरैः प्रोक्तो ज्वालामालिमहामनुः |
हृत् त्रयोदशभिः प्रोक्तं शिरो दशभिरीरितम् ||
२८५ ||
शिखैकादशभिः प्रोक्ता वर्माष्टादशभिर्मतम् |
वर्णैर्द्विदशभिर्नेत्रमस्त्रं स्यात् करणाक्षरैः |
एवमङ्गानि विन्यस्य चिन्तयेन्मन्त्रदेवताम् ||
२८६ ||
ध्यानम्— प्रज्वलन् प्रलयानलाभमयुग्मनेत्रमनारतम् |
भासुरं शिखिनः शिखाभिरुग्रदंष्ट्रमुखाम्बुजम् ||
२८७ ||
रक्षसां भयदं विकीर्णसटाकलापविभीषणम् |
शङ्खचक्रकृपाणखेटकधारिणं नृहरिं भजे ||
२८८ ||
अथ पुरश्चरणम्— लक्षमेकं जपेन्मन्त्रं तद्दशांशं समाहितः |
कपिलाज्येन जुहुयात् समिद्धे हव्यवाहने ||
२८९ ||


Lesungshinweise: [Störungen] [Die Formel bittet den flammenbekränzten, feueräugigen Narasimha mit leuchtenden Fangzähnen, störende Wesen und Fieber zu vernichten: „Verbrenne, verbrenne; verzehre, verzehre; beschütze, beschütze.“ Die Bauanweisung wird nicht zu einer vermeintlich sicheren Gesamtformel vereinigt.] [wörtlich zweimal zehn] [Die überlieferten Teilzahlen passen nicht eindeutig zur Gesamtsilbenzahl; keine stillschweigende Korrektur.] [drei] Nach diesem Anga-Nyasa betrachte man die Mantragottheit.“ [Die überlieferten Teilzahlen passen nicht eindeutig zur Gesamtsilbenzahl; keine stillschweigende Korrektur.] Dhyana: 287–288: „Ich verehre Nrihari, lodernd wie das Feuer der Weltauflösung, mit ungerader Augenzahl [drei], beständig leuchtend von Feuerflammen, mit schrecklichen Fangzähnen im Lotusgesicht.

Band II, S. 280–281, Lakshmi-Narasimha-Mantra 290–294
मेरुतन्त्रे— अथातः सम्प्रवक्ष्यामि यो जातः पञ्चमे विभुः |
मन्वन्तरे स लक्ष्मीकः सेव्यते यो गृहस्थितैः ||
२९० ||
संहितायाम्— अथ लक्ष्मीनृसिंहस्य मन्त्रं वक्ष्ये सुदुर्लभम् |
तारेन्दिराशक्तिरमाः शूलिनं पुरुषोत्तमम् ||
२९१ ||
लक्ष्मीप्रियपदं ङेऽन्तं नित्यमामुदितोत्तरम् |
चेतसं तादृशं प्रोक्त्वा लक्ष्मीश्रितपदोत्तरम् ||
२९२ ||
अर्धदेहपदं ङेऽन्तं रमा माया रमा च हृत् |
सुरवर्णो मनुः प्रोक्तश्चतुर्वर्गफलप्रदः ||
२९३ ||
मुनिः प्रजापतिः प्रोक्तश्छन्दोऽनुष्टुबुदाहृतम् |
लक्ष्मीनृसिंहो भगवान् देवताऽस्य प्रकीर्तितः |
स्वबीजेन षडङ्गानि कृत्वा न्यासान्तरं चरेत् ||
२९४ ||


Lesungshinweise: [Die Anrede beschreibt den Lakshmi lieben Herrn mit stets erfreutem Herzen, dessen eine Körperhälfte von Lakshmi eingenommen wird; die verschlüsselten Bijas werden nicht ergänzt.]

Band II, S. 281, Schutz durch zwölf Namen Vishnus 295–302
तदुक्तं मेरुतन्त्रे— पुरस्तात् केशवः पातु चक्री जाम्बूनदप्रभः |
पश्चान्नारायणः शङ्खी नीलजीमूतसन्निभः ||
२९५ ||
इन्दीवरदलश्यामो माधवोर्ध्वगदाधरः |
गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान् ||
२९६ ||
उत्तरे हलधृग्विष्णुः पद्मकिञ्जल्कसन्निभः |
आग्नेय्यामरविन्दाक्षो मुसली मधुसूदनः ||
२९७ ||
त्रिविक्रमः खड्गपाणिर्नैर्ऋत्यां ज्वलनप्रभः |
वायव्यं वामनो वज्री तरुणादित्यदीप्तिमान् ||
२९८ ||
ऐशान्यां पुण्डरीकाक्षः श्रीधरः पट्टिशायुधः |
विद्युत्प्रभो हृषीकेशो वायव्यां दिशि मुद्गरी ||
२९९ ||
हृत्पद्मं पद्मनाभो मे सहस्रार्कसमप्रभः |
सर्वायुधः सर्वशक्तिः सर्वज्ञः सर्वतोमुखः ||
३०० ||
इन्द्रगोपकसङ्काशः पाशहस्तोऽपराजितः |
सबाह्याभ्यन्तरं देहं व्याप्य दामोदरः स्थितः ||
३०१ ||
एवं सर्वत्र निश्छिद्रं नामद्वादशपञ्जरम् |
प्रविष्टोऽहं न मे किञ्चिद्भयमस्ति कदाचन |
इति न्यासं विधायादौ लक्ष्मीनरहरिं स्मरेत् ||
३०२ ||


Lesungshinweise: [Nordwesten wird zweimal genannt; die Quelle wird nicht angeglichen.] [beschütze]

Band II, S. 281, Lakshmi-Narasimha-Dhyana und Japa 303–305
ध्यानं यथा— सर्पेन्द्रभोगशयनः सर्पेन्द्रफणच्छत्रवान् |
आलिङ्गितश्च रमया दीप्तया चन्द्रसन्निभः ||
३०३ ||
पद्मचक्रवराभीतिधरस्त्र्यक्षेन्दुशेखरः |
संहितायां तु मन्त्रराजोक्तमेवं ध्यानमुत्तमम् ||
३०४ ||
पुरश्चरणमाह— षष्ट्युत्तरं त्रिलक्षं तु प्रजपेत् तत्सहस्रकम् |
मध्वक्तमल्लिकापुष्पैर्जुहुयान्मन्त्रवित्तमः ||
३०५ ||


Lesungshinweise: [Gaben] [Die ungewöhnliche Formulierung „um sechzig vermehrte dreihunderttausend“ steht so im Druck; sie wird nicht zu 360.000 normalisiert.]

Band II, S. 282, Abschluss und Mantras des sechsten und siebten Manvantara 306–312
अभ्यर्च्य सलिले देवं तर्पयेन्मनुना ततः |
अभिषिञ्चेत् स्वमूर्धानं ब्राह्मणान् भोजयेत् ततः ||
३०६ ||
ततः प्रयोगान् कुर्वीत साधको निजवाञ्छितान् ||
३०७ ||
तत्रैव— अथातः सम्प्रवक्ष्यामि षष्ठमन्वन्तरेऽभवत् |
लक्ष्म्या सह नृसिंहोऽयं तन्मन्त्रः सर्वकामदः ||
३०७ ||
ॐ श्रीँ लक्ष्मीनृसिंहाय मनुरष्टाक्षरो मतः |
मुनिः प्रजापतिश्छन्दोऽनुष्टुब्लक्ष्मीहरिः सुरः ||
३०८ ||
षड्दीर्घयुक्तं क्षौँ बीजैः षडङ्गविधिरीरितः |
ध्यानपूजादिकं सर्वं षडक्षरवदीरितम् ||
३०९ ||
अथ पुरश्चरणम्— वर्णलक्षं जपेन्मन्त्रं तद्दशांशं घृतप्लुतैः |
पायसैर्जुहुयान्मन्त्री तर्पणादि ततश्चरेत् ||
३१० ||
अथातः सम्प्रवक्ष्यामि यो जातः सप्तमे हरिः |
जय जय श्रीनृसिंह मनुरष्टाक्षरो मतः ||
३११ ||
ऋष्याद्यष्टार्णवत् प्रोक्तं पूजा चास्य षडर्णवत् |
एकार्णवत् प्रयोगांश्च गृहस्थः साधयेच्छुचिः ||
३१२ ||


Lesungshinweise: [im Druck nochmals] [Die aufeinanderfolgenden Formen Shri und Kshaum tragen im Druck Chandrabindu.]

Band II, S. 282–283, Dashavatara-Nrihari-Mantra 313–324
अथातः सम्प्रवक्ष्यामि त्वष्टमके यस्तु जायते |
दशावतारनृहरिर्दक्षसावर्णिकान्तरे ||
३१३ ||
ॐ क्षौँ नमो भगवते नृसिंहाय संवदेत् |
ॐ क्षौँ च मत्स्यरूपाय कूर्मरूपाय तद्द्वयात् ||
३१४ ||
ॐ क्षौँ वराहरूपाय ततो बीजद्वयं वदेत् |
नृसिंहरूपाय ततो वेदादि क्षौँ वदेत् ततः ||
३१५ ||
प्रोक्त्वा वामनरूपाय त्रिधा बीजद्वयं वदेत् |
रामाय तच्च कृष्णाय तद्द्वयं कल्किने वदेत् ||
३१६ ||
जयशब्दद्वयान्ते तु शालग्रामनिवासिने |
दिव्यसिंहायेति चोक्त्वा वदेत् पश्चात् स्वयम्भुवे ||
३१७ ||
पुरुषाय नमस्तारः क्षौमेकोनशतार्णकः |
अद्विजेन तु बुद्धाय वक्तव्यं बीजपूर्वकम् ||
३१८ ||
तदा मन्त्रः समाख्यातश्चतुरूर्ध्वशताक्षरः |
छन्दोऽतिजगती प्रोक्तमृषिरत्रिः प्रकीर्तितः ||
३१९ ||
दशावतारनृहरिर्देवता सर्वकामदः |
षड्दीर्घयुक्तबीजेन षडङ्गानि प्रकल्पयेत् ||
३२० ||
मन्त्रराजवदेवास्य ध्यानपूजादिकं भवेत् |
यजेत् षडङ्गपूजान्ते मत्स्यादीनवतारकान् ||
३२१ ||
अथ पुरश्चरणम्— अयुतं प्रजपेन्मन्त्रं साज्येन हविषा ततः |
जुहुयात् तद्दशांशेन तर्पणादि ततश्चरेत् ||
३२२ ||
काम्यकर्माणि सर्वाणि मन्त्रराजवदेव हि |
अस्य संसेवनाद्विप्रा ब्रह्मचर्यादिविच्युताः ||
३२३ ||
नृसिंहरूपतां प्राप्य जाताः स्थाननृसिंहकाः |
आविशन्ति च ते देहे सम्यक् कुर्वन्ति पूजिताः ||
३२४ ||


Lesungshinweise: [Manvantara] [Die Namen verehren die Fisch-, Schildkröten-, Eber-, Menschlöwen- und Zwerggestalt, die Rama-Gestalten, Krishna und Kalkin, den Bewohner des Shalagrama, den göttlichen Löwen und den selbstentstandenen Purusha. Die Angaben zur Wiederholung und Schlussnasalierung werden nicht zu einer ergänzten Gesamtformel vereinheitlicht.]

Band II, S. 283–284, Drei Mala-Mantras des Vira-Narasimha 325–335
अथातः सम्प्रवक्ष्यामि जायते नवमे तु यः |
नरसिंहो वीरनामा शृणु तत्साधनं प्रिये ||
३२५ ||
बाले च तरुणे वृद्धे प्रयोगार्थं मनुत्रयम् |
प्रोक्तं संसाधिके वक्रशुद्धे सिद्धास्त्रयोऽपि च ||
३२६ ||
तारो नमो भगवते बीजान्ते नरपदं वदेत् |
सिंहायेति ततः प्रोक्त्वा ज्वालामालापदं वदेत् ||
३२७ ||
पिनद्धाङ्गाय इत्युक्त्वा अग्निनेत्राय संवदेत् |
सर्वभूतविनाशेति नायेत्युक्त्वा द्विधा दह ||
३२८ ||
पचयुग्मं रक्षयुग्मं ह्रीं श्रीं रक्षाग्निगेहिनी |
चतुष्पञ्चाशदर्णोऽयं मन्त्रः प्रथम ईरितः ||
३२९ ||
वर्णाः षोडशपूर्वस्य लीने दीप्तपदं वदेत् |
दंष्ट्राय चाग्निनेत्राय सर्वरक्षोपदं ततः ||
३३० ||
घ्नायोक्त्वा सर्वभूतेति ङेऽन्तं विनाशनं वदेत् |
सर्वज्वरविनाशाय हनद्वन्द्वं दहद्वयम् ||
३३१ ||
पचयुग्मं बन्धयुग्मं हुँ फट् स्वाहा क्वगार्णकः |
तृतीयमथ वक्ष्यामि पूर्वार्णा गजबाहवः ||
३३२ ||
विनाशनाय चान्ते स्यात् पूर्वसर्वपदं त्रिधा |
मध्ये भूतज्वरदोषपदानि त्रीणि योजयेत् ||
३३३ ||
हनादिचतुरन्ते तु रक्षयुग्मं च मां च माम् |
हूँ फट्स्वाहा नवकृतिवर्णतुल्यो मतो मनुः ||
३३४ ||
मन्त्रराजोक्तवच्चास्य पूजाध्यानजपादिकम् |
मालामन्त्रा इमे ख्याता द्रुतसिद्धिविधायकाः ||
३३५ ||


Lesungshinweise: [Manvantara] [Rede beziehungsweise Mund — die Verbindung ist gestört] [Die Anrufung richtet sich an den feueräugigen Narasimha, dessen Körper von einer Flammengirlande umschlossen ist, und bittet um Vernichtung störender Wesen sowie Schutz.] [Mantra] [der Anschluss ist beschädigt] [unverständliche Zahlbezeichnung] [traditionelle Wortzahl, deren Zuordnung hier unsicher bleibt] [nicht sicher auflösbar] Dieser erste Mantra hat vierundfünfzig Silben.“ [Die Anrufung richtet sich an den feueräugigen Narasimha, dessen Körper von einer Flammengirlande umschlossen ist, und bittet um Vernichtung störender Wesen sowie Schutz.] 330–332: „Beim zweiten [Mantra] bleiben sechzehn Anfangssilben des ersten; bei ‚line‘ [der Anschluss ist beschädigt] füge man ‚dipta-damshtraya‘, ‚agninetraya‘, ‚sarvarakshoghnaya‘, ‚sarvabhutavinashanaya‘ und ‚sarvajvaravinashaya‘ hinzu, zweimal ‚hana‘, zweimal ‚daha‘, zweimal ‚pacha‘, zweimal ‚bandha‘, ‚hum phat svaha‘. Nun erkläre ich den dritten: Die Anfangssilben sind gajabahu [traditionelle Wortzahl, deren Zuordnung hier unsicher bleibt].

Band II, S. 284, Mantras des zehnten und elften Narasimha 336–341
अथातः सम्प्रवक्ष्यामि दशमे जायते तु यः |
ॐ क्षौँ महानृसिंहाय नमोऽन्तो दशवर्णकः ||
३३६ ||
वामदेवो मुनिश्छन्दो विराड्देवो नृसिंहकः |
षड्दीर्घयुक्तस्वबीजेन षडङ्गन्यासमाचरेत् ||
३३७ ||
ध्यानपूजापुरश्चर्या होमो लक्ष्मीनृसिंहवत् |
वर्णलक्षं जपेन्मन्त्रं प्रयोगोऽष्टाक्षरोदितः ||
३३८ ||
अथातः सम्प्रवक्ष्यामि मन्त्रमेकादशस्य तु |
ॐ क्षौँ नमो भगवते नरसिंहाय मन्त्रकः ||
३३९ ||
त्रयोदशार्ण उद्दिष्टो भुक्तिमुक्तिप्रदायकः |
वामदेवो मुनिः प्रोक्तो जगती छन्द ईरितम् ||
३४० ||
देवता नरसिंहोऽत्र स्वबीजेनाङ्गकल्पनम् |
ध्यानपूजाप्रयोगादि षडक्षरवदीरितम् ||
३४१ ||


Lesungshinweise: [Manvantara] [Kshaum ist an beiden Stellen mit Chandrabindu gedruckt.]

Band II, S. 284, Sudarshana-Narasimha-Mantra 342–346
अथातः सम्प्रवक्ष्यामि द्वादशे जायते तु यः |
काश्यां स वसते नित्यं दुष्टबुद्धिप्रचालकः ||
३४२ ||
तारं सहस्रारज्वालावर्तिने क्षौँ हनद्वयम् |
हूँ फट्स्वाहा चोनविंशवर्णो मन्त्र उदाहृतः ||
३४३ ||
मुनिर्जयन्त आख्यातश्छन्दो गायत्रमुच्यते |
सुदर्शननृसिंहोऽस्य देवता परिकीर्तितः ||
३४४ ||
चक्रराजाय हृत् प्रोक्तं ज्वालाचक्राय वै शिरः |
गजचक्राय च शिखा कवचं त्वस्य सम्मतम् ||
३४५ ||
असुरान्तकचक्राय ह्यस्त्राय फडितीरितम् |
सुदर्शनायेति मनुः पञ्चाङ्गमेतदीरितम् ||
३४६ ||


Lesungshinweise: [Manvantara] [Die Formel ruft den in der Flammenwirbelgestalt des tausendspeichigen Rades Weilenden an; hana ist ein Schlag- beziehungsweise Vernichtungsruf.] [Die Reihenfolge der Schlusswörter ist im Druck verschränkt; sie wird nicht zu einer neuen Formel umgestellt.]

Band II, S. 285, Sudarshana-Narasimha-Dhyana und Purashcharana 347–350
अथ ध्यानम्— चक्राणां तु सभामध्ये कालाग्निसदृशप्रभम् |
चतुर्भुजं विवृत्तास्यं चतुश्चक्रधरं हरिम् ||
३४७ ||
तप्तकाञ्चनसङ्काशं त्रिनेत्रं चाद्यविग्रहम् |
ध्यायेत् समस्तदुःखघ्नं तादृग्लक्ष्म्या समन्वितम् ||
३४८ ||
अथ पुरश्चरणम्— रविलक्षं जपेन्मन्त्रं तद्दशांशं तिलैः शुभैः |
हुनेत् पुष्पैस्ततश्चापि चत्वारिंशत्सहस्रकम् ||
३४९ ||
पुनराज्येन जुहुयात् सहस्रं च नमस्क्रियाः |
तर्पणादि ततः कृत्वा प्रयोगानाचरेत् ततः ||
३५० ||


Lesungshinweise: [tausend]

Band II, S. 285, Dreizehnter Narasimha und Abhaya-Narasimha 351–357
अथातः सम्प्रवक्ष्यामि भुक्तिमुक्तिप्रदायकम् |
जातं त्रयोदशे देवं नृहरिं क्षौँ तु सम्पुटः ||
३५१ ||
मायया भोगदाता स्यात् प्रणवेन च मोक्षदः |
अस्य पूजाप्रयोगाद्यमैकाक्षरसमं भवेत् ||
३५२ ||
अथातः सम्प्रवक्ष्यामि जातं मन्वन्तरे विभुम् |
अभयाख्यो नृसिंहोऽयं समस्तभयनाशनः ||
३५३ ||
तारो नमो भगवते नरसिंहाय हृद्वदेत् |
तेजस्तेजस इत्युक्त्वा आविराविर्भवेति च ||
३५४ ||
वज्रनख वज्रदंष्ट्र कर्माशयान् द्वौ रन्धय |
तमोग्रस बहिस्त्री वदेदभयमात्मनि ||
३५५ ||
भूयिष्ठा ॐ क्षौमिति च द्विषष्ट्यर्णो मनुर्मतः |
मुनिः शुकोऽतिजगती छन्दः प्राग्वदिवाखिलम् ||
३५६ ||
चतुर्दशनृसिंहानां साधनं वेदबोधितम् |
तदत्र कथितं देवा भुक्तिमुक्तिप्रदायकम् ||
३५७ ||


Lesungshinweise: [Manvantara] [einem weiteren] [beschädigte] [Die Formel ruft Narasimha als Glanz des Glanzes an: „Erscheine! Du mit Vajra-Nägeln und Vajra-Zähnen, durchdringe die karmischen Ablagerungen, verschlinge die Finsternis; im Selbst sei Furchtlosigkeit.“ Unsichere Schlussformen und Wiederholungen werden nicht nach bekannten Fassungen ergänzt.] Tara, ‚namo bhagavate narasimhaya‘ und die Herz-Endung; dann ‚tejas-tejase‘, ‚avir avir bhava‘, ‚vajranakha vajradamshtra karmashayan‘, zweimal ‚randhaya‘; ‚tamo grasa‘ und die [beschädigte] Verbindung ‚bahis tri‘; danach ‚abhayam atmani bhuyishtha‘ und ‚Om kshau‘. Du mit Vajra-Nägeln und Vajra-Zähnen, durchdringe die karmischen Ablagerungen, verschlinge die Finsternis; im Selbst sei Furchtlosigkeit.“ Unsichere Schlussformen und Wiederholungen werden nicht nach bekannten Fassungen ergänzt.] 357: „Die im Veda gelehrte Sadhana der vierzehn Narasimha-Gestalten, die Genuss und Befreiung gewährt, wurde hier erklärt, ihr Götter.“

Band II, S. 285–286, Sechs Vamana-Formen 358–360
अथ वामनमन्त्रो मेरुतन्त्रे— अथातः सम्प्रवक्ष्यामि वामनस्य शुभान् मनून् |
मन्वन्तरं तपत्येकं सुरेशं बाधते परम् ||
३५८ ||
पुनर्ददाति हरये त्रैलोक्यं स बलिर्नृपः |
एकं मन्वन्तरं शक्रः स्वयमेवाभवद्बलिः |
एवं षड्वामनाः कल्पे तेषां मन्त्रान् वदाम्यहम् ||
३५९ ||
षड्वामनाश्च तन्त्रान्तरे— दधिवामनयज्ञेशवामनौ भोगवामनः |
बालको वामनो विश्वरूपोऽन्यो बलिवामनः ||
३६० ||


Lesungshinweise: [Bali]

Band II, S. 286, Dadhivamana-Mantra 361–365
तत्र दधिवामनमन्त्रः शारदायाम्— तारो हृद्विष्णवे पश्चाद्ङेऽन्तः सुरपतिर्भवेत् |
महाबलाय ठद्वन्द्वं मनुरष्टादशाक्षरः ||
३६१ ||
ऋषिरिन्दुर्विराट्छन्दो देवता दधिवामनः |
हृदेकेन शिरो द्वाभ्यां शिखा त्रिभिरुदाहृतम् ||
३६२ ||
कवचं पञ्चभिः प्रोक्तं नेत्रं तावद्भिरक्षरैः |
द्वाभ्यामस्त्रमिति प्रोक्तः प्रकारोऽङ्गस्य सूरिभिः ||
३६३ ||
अथ ध्यानम्— मुक्तागौरं नवमणिलसद्भूषणं चन्द्रसंस्थं भृङ्गाकारैरलकनिकरैः शोभिवक्त्रारविन्दम् |
हस्ताग्राभ्यां कनककलशं शुद्धतोयाभिपूर्णं दध्यन्नाढ्यं कनकचषकं धारयन्तं भजामः ||
३६४ ||
अथ पुरश्चरणम्— गुणलक्षं जपेन्मन्त्रं तद्दशांशं घृतप्लुतैः |
पायसान्नैः प्रजुहुयाद्दध्यन्नैर्वा यथाविधि ||
३६५ ||
वामनमन्त्रभेदास्तु मेरौ द्रष्टव्याः |


Band II, S. 286, Trivikrama-Mantra 366–369
अथ त्रिविक्रममन्त्रा मेरौ— अथातः सम्प्रवक्ष्यामि मन्त्रं त्रैविक्रमं परम् |
तारो नमो भगवते व्याहृतित्रितयं वदेत् ||
३६६ ||
व्यापकाय परं पश्चाद्ङेऽन्तं चापि त्रिविक्रमम् |
विंशत्यर्णो महामन्त्रो गतराज्यप्रदायकः ||
३६७ ||
पदपञ्चकसर्वेण षडङ्गविधिरीरितः |
मुनयो बालखिल्याः स्युश्छन्दो गायत्रमीरितम् ||
३६८ ||
देवता विश्वरूपोऽयं त्रिविक्रम उदाहृतः |
ध्यानम्— दक्षाङ्घ्रीव्याप्तपातालं वामाङ्घ्रीव्याप्तभूतलम् ||
३६९ ||


Lesungshinweise: [Die Meditation geht im folgenden Vers weiter.]

Band II, S. 287, Trivikrama-Dhyana und Purashcharana 370–372
दक्षिणं पुनरुत्थाप्य स्वर्गव्याप्तिकरं हरिम् |
बलिदत्तैः कुशतिलतोयैः सम्प्रस्रवत्करम् ||
३७० ||
अभयं वामहस्तेन कुर्वन्तं च सुरेश्वरम् |
गङ्गौघधौतपादाब्जं ध्यायेद् ब्रह्मादिकस्तुतम् ||
३७१ ||
अथ पुरश्चरणम्— विंशल्लक्षं जपेन्मन्त्रं तिलतण्डुलसर्षपैः |
त्रिमध्वक्तैर्हुनेत् पश्चात् तर्पणाद्यं च कारयेत् |
एवं सिद्धमनुर्मन्त्री लभते वाञ्छितं फलम् ||
३७२ ||


Band II, S. 287, Parashurama-Gayatri 373–376
अथ परशुराममन्त्रस्तत्रैव— अथातः सम्प्रवक्ष्यामि राममन्त्रं महाद्भुतम् |
आकल्पमेक एवायं जामदग्न्यो महाबलः ||
३७३ ||
ब्रह्मक्षेत्राय विद्महे क्षत्रियान्ताय धीमहि |
तन्नो रामः प्रचोदयात् ..... ..... ||
३७४ ||
तथा— श्रीमत्परशुरामस्य गायत्र्येषा महाद्भुता |
राज्यकृत् कलिभूपानां सर्वतन्त्रेषु गोपिता ||
३७५ ||
भरद्वाजो मुनिः प्रोक्तो गायत्री छन्द ईरितम् |
श्रीमान् परशुरामोऽस्य देवता भक्तवत्सलः |
अष्टेषुत्रिद्विबाह्वङ्घ्रिवर्णैः प्रोक्तं षडङ्गकम् ||
३७६ ||


Lesungshinweise: [Nach der Formel stehen im Druck Auslassungspunkte; es wird kein Wortlaut ergänzt.]

Band II, S. 287–288, Parashuramas drei Dhyana-Formen und Purashcharana 377–385
अथ ध्यानम्— सात्त्विकं श्वेतवर्णं च भस्मोद्धूलितविग्रहम् |
अग्निहोत्रस्थलासीनं नानामुनिगणावृतम् ||
३७७ ||
कम्बलासनमारूढं स्वर्णतारकुशाङ्गुलिम् |
श्वेतवस्त्रद्वयोपेतं जुह्वन्तं शान्तमानसम् ||
३७८ ||
ध्यायेच्च राजसं रामं कुङ्कुमारुणविग्रहम् |
किरीटिनं कुण्डलिनं परश्वब्जवराभयान् ||
३७९ ||
करैर्दधन्तं तरुणं विप्रक्षत्रौघसंवृतम् |
पीताम्बरधरं कामरूपं बालानिरीक्षितम् ||
३८० ||
ध्यायेच्च तामसं क्षत्ररुधिराक्तपरश्वधम् |
आरक्तनेत्रं कर्णस्थब्रह्मसूत्रं यमप्रभम् ||
३८१ ||
धनुष्टङ्कारसङ्घोषसन्त्रस्तभुवनत्रयम् |
चतुर्बाहुं मुसलिनं सङ्क्रुद्धभ्रातृसंयुतम् ||
३८२ ||
अथ पुरश्चरणम्— वर्णलक्षं जपेन्मन्त्रं सिताज्यघृतपायसैः |
हुनेद्ब्राह्मणभोज्यान्तं कृत्वा सिद्धो भवेन्मनुः ||
३८३ ||
ब्रह्मकर्मरतो नित्यं गायत्रीजपतत्परः |
स एव जायते सिद्धो नान्यो विप्रः कदाचन ||
३८४ ||
तथा— फिरङ्गा यवनाश्चीनाः खुरासानाश्चलेन्दुजाः |
रामभक्तं प्रदृष्ट्वैते त्रसन्ति प्रणमन्ति च ||
३८५ ||


Lesungshinweise: [Ringe beziehungsweise Zeichen aus] [die Stoffbezeichnungen ajya und ghrita stehen nebeneinander] [unsichere Volksbezeichnung] [Dies ist eine historische Aussage der zitierten Quelle.] Nur der Brahmane, der sich stets den brahmanischen Pflichten widmet und dem Gayatri-Japa hingegeben ist, wird siddha, kein anderer.“ Ferner: 385: „Franken beziehungsweise Europäer, Yavanas, Chinesen, Menschen aus Khurasan und Chalenduja [unsichere Volksbezeichnung] erschrecken beim Anblick eines Rama-Verehrers und verneigen sich.“ [Dies ist eine historische Aussage der zitierten Quelle.]

Band II, S. 288–289, Shaunakas Bitte und die Rama-Überlieferung 386–398
अथ श्रीरघुनाथमन्त्रा वशिष्ठसंहितायाम्— कृष्णं द्वैपायनं व्यासं गुरुं सत्यवतीसुतम् |
समाधिस्थं मुनिं शान्तं प्रसन्नादित्यतेजसम् ||
३८६ ||
गङ्गातीरे महापुण्ये समासीनं तपोनिधिम् |
शौनकः परिपप्रच्छ साष्टाङ्गं प्रणिपत्य च ||
३८७ ||
श्रीशौनक उवाच |
अयि प्रसादसुमुख कुरुष्व मयि मानसम् |
त्वत्प्रसादान्महामन्त्रा विहिता बहवो मया ||
३८८ ||
करुणारसपूर्णाभ्यां नेत्राभ्यां मां विलोकय |
सच्चिदानन्दमात्मानं ज्ञातवान् ब्रह्म शाश्वतम् ||
३८९ ||
इदानीं श्रोतुमिच्छामि मन्त्रं साङ्गं सहार्चनम् |
रामात्मनाऽवतीर्णस्य विष्णोरमिततेजसः ||
३९० ||
ब्रूहि मे भगवन् सर्वं श्रोतुं योग्योऽस्म्यहं यदि |
असौभाग्येन लोकोऽयं दारिद्र्येण च पीडितः ||
३९१ ||
येन सौभाग्यमतुलं महदैश्वर्यसम्भवम् |
शास्त्रज्ञानं कवित्वं च सर्वज्ञत्वं लभेन्नरः ||
३९२ ||
श्रीव्यास उवाच |
साधु पृष्टं त्वया ब्रह्मन् कथये सकलं तव |
ब्रह्मणा कथितं पूर्वं वशिष्ठाय महात्मने ||
३९३ ||
वशिष्ठोऽपि स्वपुत्राय मत्पित्रे दत्तवान्मनुम् |
प्रसन्नहृदयः शुद्धः पिता मे करुणानिधिः ||
३९४ ||
कुरुक्षेत्रे महापुण्ये सूर्यपर्वणि दत्तवान् |
मया च साधितो मन्त्रो जपहोमार्चनादिभिः ||
३९५ ||
इतः पूर्वं मया नोक्तो मन्त्रराजस्तु कस्यचित् |
एवं परम्पराप्रोक्तं भक्त्या मन्त्रं शृणुष्व मे ||
३९६ ||
अयोग्याय न दातव्यो मन्त्रराजस्त्वया मुने |
यत्नेन गोपय त्वं च रहस्यं श्रीप्रसिद्धिदम् ||
३९७ ||
शिष्यलक्षणमुक्त्वा— ईदृग्विधाय शिष्याय मन्त्रं दद्यात् तु नान्यथा |
यदन्यथावदेत् तस्मिन् देवता शापदा भवेत् ||
३९८ ||


Lesungshinweise: [Erkläre den Mantra,] [Die Schülermerkmale selbst sind an dieser Stelle im Werk nur durch den Prosaverweis bezeichnet.]

Band II, S. 289, Rama-Mantra und Bedeutung des Bija 399–406
मन्त्रोद्धारमाह— मान्तान्तं बिन्दुसंयुक्तं नारायणविभूषितम् |
बीजमेतत् समुद्धृत्य बिन्दुहीनं पुनश्च तत् ||
३९९ ||
भान्तं चाकारसंयुक्तं मान्तान्तां नतिमुद्धरेत् |
एतत् षडक्षरं मन्त्रं सर्वैश्वर्यप्रदायकम् ||
४०० ||
सर्वसौभाग्यजननं सर्वलोकवशङ्करम् |
विद्यासिद्धिकरं नृणां महदाज्ञाकरं मुने ||
४०१ ||
ऋषिर्ब्रह्माऽस्य मन्त्रस्य गायत्रं छन्द उच्यते |
रामाख्यं वैष्णवं धाम देवता परिकीर्तिता |
जानीयात् प्रथमं वर्णं बीजं शक्तिं नतिं तथा ||
४०२ ||
मन्त्रार्थमाह रामार्चनचन्द्रिकायाम्— श्रीराममन्त्रराजस्य सम्यगर्थोऽभिधीयते |
रकारो वह्निवचनः प्रकाशे पर्यवस्यति ||
४०३ ||
सच्चिदानन्दरूपोऽस्य परमात्मार्थ उच्यते |
व्यञ्जनं निष्कलं ब्रह्म प्राणो मायेति च स्वरः ||
४०४ ||
व्यञ्जनैः स्वरसंयोगो विद्धि तत्प्राणयोजनम् |
रेफे ज्योतिर्मये तस्मात् कृतमाकारयोजनम् ||
४०५ ||
मकारोऽभ्युदयार्थत्वान्मायात्मेति च कथ्यते |
तस्मादनेन बीजेन समायं ब्रह्म उच्यते ||
४०६ ||


Band II, S. 290, Die innere Bedeutung des Rama-Mantras 407–409
रामोपनिषदि— स्वप्रकाशः स्वयं ज्योतिः स्वानुभूत्येकचिन्मयः |
तदेव मन्त्रराजस्य मनुराड्द्व्यक्षरः स्मृतः ||
४०७ ||
अखण्डैकरसानन्दस्तारको ब्रह्मवाचकः |
रामायेति सुविज्ञेयः सत्यानन्दचिदात्मकः ||
४०८ ||
नमःपदं सुविज्ञेयं पूर्णानन्दैकविग्रहम् |
सदा नमन्ति हृदये सर्वे देवा मुमुक्षवः ||
४०९ ||


Band II, S. 290–291, Varianten und Anwendungen des Rama-Mantras 410–422
आद्यबीजभेदात् षड्विधोऽयं मन्त्रस्तदुक्तं मेरुतन्त्रे— अथातः सम्प्रवक्ष्यामि भुक्तिमुक्तिप्रदायकान् |
राममन्त्रान् स भगवान् प्रतिमन्वन्तरे ह्यभूत् ||
४१० ||
युगानां परिवर्तेन कल्पे शक्रावतारकः |
तत्राद्यस्य प्रवक्ष्यामि मन्त्रराजं षडक्षरम् ||
४११ ||
रामाय नम इत्येष राँ क्लीँ ह्रीँ ऐँ तु पूर्वकः |
श्रीताराद्यश्च षड्वर्णः षड्विधः परिकीर्तितः ||
४१२ ||
ब्रह्मा सम्मोहनः शक्तिर्दक्षिणामूर्तिरेव च |
अगस्त्यः श्रीशिवः प्रोक्तो मुनयोऽनुक्रमादिमे ||
४१३ ||
छन्दो गायत्रसंज्ञं च श्रीरामो देवता मतः |
षडक्षरस्यैव भूयांसः प्रभेदास्तत्रैवोक्ताः— पञ्चाशन्मातृकामन्त्रवर्णैः प्रत्येकपूर्वकः ||
४१४ ||
लक्ष्म्यादिर्वाग्भवादिश्च मन्मथादिर्ध्रुवादिकः |
रामचन्द्रस्तथा भेदाः शतद्वयमिता अमी ||
४१५ ||
रामभद्रेति शब्देन चैवं भेदाः शतद्वयम् |
रमाबीजादिकानां तु विश्वामित्रो मुनिर्मतः ||
४१६ ||
वाग्बीजपूर्वकाणां तु दक्षिणामूर्तिरुच्यते |
कामबीजादिपूर्वेषां मुनिः सम्मोहनो मतः ||
४१७ ||
तारादिपूर्वकाणां तु श्रीशिवः प्रोच्यते मुनिः |
श्रीमायाकामप्रत्येकबीजादिघनार्णो यदा ||
४१८ ||
रामभद्रो रामचन्द्रः षोढा षड्वर्ण उच्यते |
षोढा नमोऽन्तः प्राक् प्रोक्तः फट्कारान्तः स एव हि ||
४१९ ||
षोढा स्याद्वह्निजायान्तः स एवं षड्विधो मतः |
चतुःशतं चतुर्विंशभेदास्तेन निरूपिताः ||
४२० ||
तथा— तारादिर्मुक्तये ह्येष रमादिर्भुक्तये भवेत् |
वाक्सिद्धये च वागादिः सर्ववश्याय मन्मथः |
ताराद्यैः पुटितान् मन्त्रान् सर्वार्थं विनियोजयेत् ||
४२१ ||
तथा— ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृन्नाभ्यन्धुषु पादयोः |
बीजैः षड्दीर्घसंयुक्तैः षडङ्गविधिरीरितः ||
४२२ ||


Lesungshinweise: [diese Angabe bleibt nach der Quelle stehen] [Die vorausgehende Silbenangabe ghanarna ist unsicher.] [als andhu bezeichneten, unklaren] [Die vier ausgeschriebenen Bijas in Vers 412 tragen im Druck Chandrabindu; die kombinatorischen Zählungen werden nicht vereinheitlicht.]

Band II, S. 291, Innere Meditation über Shakti, Einheit und Rama 423–432
वशिष्ठसंहितायाम्— आधारे भावयेच्छक्तिं चिदानन्दस्वरूपिणीम् |
उद्यदादित्यसङ्काशमाधारं तत्र भामयम् ||
४२३ ||
आधारभावनामेव सम्भाव्य मुनिसत्तम |
ततः समुत्थितं तेजः शिखारूपं च चिन्तयेत् ||
४२४ ||
विद्युत्कोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् |
सुषुम्नामुखमुन्मील्य प्रापयेदुपदेशतः ||
४२५ ||
ब्रह्माध्वनाऽऽनयेदूर्ध्वं द्वादशान्तेन्दुमण्डलम् |
प्रापय्य विधिना बुद्ध्या स्रावयेत् तत् सुधामृतम् ||
४२६ ||
ततः परिगलच्छुद्धसुधाधाराभिरावृतम् |
निजदेहं जगत् सर्वमेकीभूतं विचिन्तयेत् ||
४२७ ||
निष्प्रपञ्चं निराकारं निरवद्यं निरञ्जनम् |
अशून्यशून्योपरमं सदसद्भाववर्जितम् ||
४२८ ||
अखण्डानन्दमात्मानं भावयेन्मुनिसत्तम |
देवतागुरुमन्त्राणां भावयेदैक्यमात्मतः ||
४२९ ||
एवं सञ्चिन्तयेन्मन्त्री मन्त्रं प्रतिदिनं जपेत् |
ऐहिकानखिलान् भोगान् भुक्त्वा चान्ते पदं व्रजेत् ||
४३० ||
उपसंहृत्य तत् तेजो यद्वा हृदयपङ्कजे |
रामं ज्योतिर्मयं ध्यायेत् सर्वलोकैकसाक्षिणम् ||
४३१ ||
जगदुद्भूतिसम्भूतिपरिभूतिकरं हरिम् |
देवासुरमनुष्यैश्च योगिवृन्दैश्च सेवितम् ||
४३२ ||


Band II, S. 292, Rama-Dhyana 433–443
अथ ध्यानम्— चतुर्भुजं शङ्खचक्रगदापङ्कजधारिणम् |
किरीटहारकेयूररत्नकुण्डलमण्डितम् ||
४३३ ||
एवं ध्यात्वा जपेन्मन्त्रं षट्सहस्रं दिने दिने |
वाचः श्रियः पतिर्भूत्वा कविर्भवति वत्सरात् ||
४३४ ||
ध्यानान्तरमाह— ध्यायेत् कल्पतरोर्मूले सौवर्णमण्डपं मुने |
तन्मध्ये पुष्पकाख्यं च विमानं दिव्यमुत्तमम् ||
४३५ ||
मध्ये सिंहासनं तस्य नानारत्नविभूषितम् |
तन्मध्येऽष्टदलपद्ममुद्यदादित्यसन्निभम् ||
४३६ ||
श्रीराममेनं तन्मध्ये समासीनं महामुने |
सम्यग्ज्ञानमयीं मुद्रां दधानं दक्षिणे करे ||
४३७ ||
तेजःप्रकाशनं वामं जानुमूर्धनि चापरम् |
जानकीवल्लभं देवमिन्द्रनीलसमप्रभम् ||
४३८ ||
उद्याननिरतं देवं द्विभुजं रघुनन्दनम् |
वशिष्ठवामदेवादिमुनिभिः परिवारितम् ||
४३९ ||
वामभागे समासीनां सीतां काञ्चनसन्निभाम् |
भजतां कामदां नित्यं रक्तोत्पलकराम्बुजाम् ||
४४० ||
लक्ष्मणं पश्चिमे भागे धृतच्छत्रसुचामरम् |
पार्श्वे भरतशत्रुघ्नौ तालवृन्तकरावुभौ |
एवं ध्यात्वा जपेन्मन्त्रं ज्ञानलक्ष्म्योश्च भाजनम् ||
४४१ ||
शारदायामपि— कालाम्भोधरकान्तिकान्तमनिशं वीरासनाध्यासिनं मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि |
सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं पश्यन्तं मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ||
४४२ ||
मेरुतन्त्रे— वीरासनसमारूढं व्याख्यामुद्रोपशोभितम् |
वामोरुन्यस्ततद्धस्तं सीतालक्ष्मणसंयुतम् ||
४४३ ||


Lesungshinweise: [Die eingeschobene Angabe zur Lichtausstrahlung ist syntaktisch verkürzt.] [andere]

Band II, S. 293, Früchte des Rama-Japa und Purashcharana 444–447
तन्त्रान्तरे पूर्वोक्तध्यानमुक्त्वा— एवं तद्ध्यानमात्रेण सर्वपापैः प्रमुच्यते |
राममिन्दीवरश्यामं पद्मपत्रायतेक्षणम् ||
४४४ ||
ध्यात्वा तु हृदयाम्भोजे ये जपन्ति षडक्षरम् |
करामलकवज्ज्ञेया मुक्तिस्तेषां महात्मनाम् ||
४४५ ||
वशिष्ठसंहितायाम्— शास्त्रज्ञानं कवित्वं च षण्मासाज्जायते मुने |
जपतां मन्त्रिणामेवं जपयोगेन धीमताम् |
पुरश्चरणकृत्येन विनाऽपि फलदो मनुः ||
४४६ ||
अस्य पुरश्चरणमुक्तं मेरुतन्त्रे— वर्णलक्षं जपेन्मन्त्रं दशांशं मधुराप्लुतैः |
बिल्वपत्रैः फलैः पुष्पैस्तिलैर्वा पङ्कजैर्हुनेत् ||
४४७ ||


Band II, S. 293, Ramas Mala-Mantra 448–454
अथ मालामन्त्रस्तत्रैव— अथातः सम्प्रवक्ष्यामि लक्ष्मणोपासितं मनुम् |
तारो नमो भगवते ङेऽन्तः स्याद्रघुनन्दनः ||
४४८ ||
रक्षोघ्नविशदायेति मधुरेति पदं ततः |
प्रसन्नवदनायेति ततश्चामिततेजसे ||
४४९ ||
बलायेति च रामाय विष्णवे नम इत्ययम् |
सप्तचत्वारिंशदर्णो मालामन्त्र उदाहृतः ||
४५० ||
मुनिः पितामहश्छन्दः स्यादनुष्टुप् च देवता |
राज्याभिषिक्तो रामश्चोँ बीजं शक्तिर्नमोऽस्त्विति |
सप्तर्तुसप्तदशषड्रससङ्ख्यैः षडङ्गकम् ||
४५१ ||
तथा— ध्यानं दशाक्षरं प्रोक्तं लक्षमेकं जपेन्मनुम् ||
४५२ ||
बिल्वैः प्रसूनैः पत्रैर्वा तिलैस्त्रिमधुना युतैः |
मधुरत्रययुक्तेन पायसेनाथ वाऽम्बुजैः ||
४५३ ||
होमं दशांशतः कुर्यात् तथा सर्वत्र तर्पणम् |
मार्जनं भोजयेद्विप्रान् प्रयोगादि च पूर्ववत् ||
४५४ ||


Lesungshinweise: [Die Anrufung verehrt Ramas klare, Rakshasas vernichtende Gestalt, sein freundliches Gesicht, seinen unermesslichen Glanz und seine Kraft; bei madhura ist die Endung nicht ausdrücklich genannt.] [Die Summe der angegebenen Glieder stimmt nicht mit 47 überein; sie wird nicht angepasst.]

Band II, S. 294, Rama-Mantras verschiedener Manvantaras 455–465
दशाक्षरमन्त्रो वक्ष्यते |
मन्वन्तरभेदेन श्रीराममन्त्रभेद उक्तस्तत्रैव— अथातः सम्प्रवक्ष्यामि स्वारोचिषसमुद्भवम् |
रामस्यैकाक्षरं मन्त्रं कीर्त्यते स तु रामिति ||
४५५ ||
ब्रह्मा मुनिः स्याद्गायत्रं छन्दो रामोऽस्य देवता |
मूर्तिपञ्जरनामानं तत्त्वन्यासं च कारयेत् ||
४५६ ||
षड्दीर्घबिन्दुयुक्तेन बीजेनैव षडङ्गकम् |
अथातः सम्प्रवक्ष्यामि तृतीयान्तर्मनोर्विधिम् ||
४५७ ||
राम इत्येष कथितो द्व्यक्षरो भुक्तिमुक्तिदः |
एकाक्षरोक्तमृष्यादि स्यादाद्येन षडङ्गकम् |
ध्यानपूजाप्रयोगादि सर्वं ज्ञेयं षडर्णवत् ||
४५८ ||
एवं पुरश्चरणमपि ज्ञेयम् |
अथातः सम्प्रवक्ष्यामि चतुर्थान्तर्मनोर्विधिम् |
तारमायारमानङ्गवाक्स्वबीजैश्च षड्विधः ||
४५९ ||
द्व्यक्षरो मन्त्रराजस्तु त्र्यक्षरः परिजायते |
न्यासपूजाप्रयोगादि सर्वं पूर्ववदाचरेत् ||
४६० ||
अथातः सम्प्रवक्ष्यामि पञ्चमान्तर्मनोर्विधिम् |
द्व्यक्षरश्चन्द्रभद्रान्तो द्विविधश्चतुरक्षरः ||
४६१ ||
ऋषिन्यासार्चनाद्यं तु सर्वं पूर्ववदाचरेत् |
विशेषतश्चतुर्वर्गफलदोऽयं मतो मनुः ||
४६२ ||
अथातः सम्प्रवक्ष्यामि षष्ठमन्वन्तरोद्भवम् |
रामाय नम इत्येष मनुः पञ्चाक्षरो मतः ||
४६३ ||
विश्वामित्रो मुनिः प्रोक्तः पङ्क्तिश्छन्दोऽस्य देवता |
रामभद्रो बीजशक्ती प्रथमार्णनती क्रमात् ||
४६४ ||
भ्रूमध्ये हृदि नाभ्यधः पादयोर्विन्यसेन्मनुम् |
षडङ्गं पूर्ववद्यद्वा मन्त्रार्णैर्मनुनाऽस्त्रकम् ||
४६५ ||


Lesungshinweise: [Die Druckverbindung lautet ram iti; in der Nyasa-Anweisung wird Bindu ausdrücklich genannt.]

Band II, S. 294–295, Rama-Dhyana und Mantras des achten bis zehnten Manvantara 466–479
ध्यानमाह— मध्ये वनं कल्पतरोर्मूले पुष्पलतासने |
लक्ष्मणेन प्रगुणितमक्ष्णः कोणेन सायकम् ||
४६६ ||
अवेक्षमाणं जानक्या कृतव्यजनमीश्वरम् |
जटाभारलसच्छीर्षं श्यामं मुनिगणावृतम् ||
४६७ ||
लक्ष्मणेन धृतच्छत्रमथ वा पुष्पकोपरि |
दशास्यमथनं शान्तं ससुग्रीवविभीषणम् ||
४६८ ||
विजयार्थी विशेषेण वर्णलक्षं जपेन्मनुम् |
प्राग्वद्धोमस्तर्पणादि प्रयोगाद्यं च साधयेत् ||
४६९ ||
अथातः सम्प्रवक्ष्यामि मन्त्रं सावर्णिकोद्भवम् |
तारादिषड्भिः संयुक्तो द्वेधा सप्ताक्षरो मनुः ||
४७० ||
अष्टाक्षरो द्वादशधा कीर्तितो राज्यदायकः |
सर्वं षडर्णवज्ज्ञेयं ध्यानपूजाजपादिकम् ||
४७१ ||
अथातः सम्प्रवक्ष्यामि मन्त्रान् नवमसम्भवान् |
तारो रामश्चतुर्थ्यन्तः क्रोधोऽस्त्रं वह्निवल्लभा ||
४७२ ||
अष्टार्णोऽयं परो मन्त्रो मुन्यादिः स्यात् षडर्णवत् |
नाशकः सर्वदोषाणां सङ्ग्रामविजयप्रदः ||
४७३ ||
अथातः सम्प्रवक्ष्यामि मन्त्रान् दशमसम्भवान् |
ॐ ह्रीँ नमश्च रामाय ह्रीमित्यष्टाक्षरः परः ||
४७४ ||
ऋषिः सदाशिवः प्रोक्तो गायत्रं छन्द उच्यते |
शिवोमारामचन्द्रोऽस्य देवता परिकीर्तितः ||
४७५ ||
दीर्घया माययाऽङ्गानि तारपञ्चार्णयुक्तया |
ॐ नमो रामाय ह्रीँ हृदयाय नमः ||
४७६ ||
इत्यादि |
ध्यानपुरश्चरणे प्राह— रामं त्रिनेत्रं सोमार्धधारिणं शूलिनं वरम् |
भस्मोद्धूलितसर्वाङ्गं कपर्दिनमुपास्महे ||
४७७ ||
रामाभिरामां सौन्दर्यसीमां सोमावतंसिनीम् |
पाशाङ्कुशधनुर्बाणधरां ध्यायेत् त्रिलोचनाम् ||
४७८ ||
रामशक्तिं तु सीताख्यां वर्णलक्षं जपेन्मनुम् |
होमपूजादिकं सर्वं षडक्षरवदीरितम् ||
४७९ ||


Lesungshinweise: [Der Text verbindet Rama und Sita hier ausdrücklich mit Shiva und Uma.]

Band II, S. 295–296, Rama-Mantras des elften bis dreizehnten Manvantara 480–493
विशेषतो भोगदाता सङ्ग्रामविजयप्रदः |
अथैकादशसम्भूतान् राममन्त्रान् वदाम्यहम् ||
४८० ||
सप्तार्णौ यौ मनू प्रोक्तौ षड्भिस्तारादिकैः पृथक् |
सम्पुटौ ते द्वादशधा नवार्णा मनवः सुराः ||
४८१ ||
ध्यानपूजादिकं सर्वं तेषां सप्तार्णवद्भवेत् |
अथातः सम्प्रवक्ष्यामि द्वादशान्तरसम्भवम् ||
४८२ ||
जानकीवल्लभो ङेऽन्तः स्वाहान्तो हुमादिकः |
दशाक्षरोऽयं मन्त्रः स्याद्वशिष्ठोऽस्य मुनिश्च राट् ||
४८३ ||
छन्दश्च देवता रामः सीतापाणिपरिग्रहः |
आद्यं बीजं द्विठः शक्तिरङ्गं षड्दीर्घको मतः ||
४८४ ||
शिरोललाटभ्रूमध्यतालुकण्ठेषु हृद्यपि |
नाभ्यन्धुजानुपादेषु दशार्णान् विन्यसेन्मनोः ||
४८५ ||
ध्यानमाह— अयोध्यानगरे रत्नचिते सौवर्णमण्डपे |
मन्दारपुष्पैराबद्धविताने तोरणान्विते ||
४८६ ||
सिंहासनसमारूढं पुष्पकोपरि राघवम् |
रक्षोभिर्हरिभिर्देवैर्दिव्ययानगतैः शुभैः ||
४८७ ||
संस्तूयमानं मुनिभिः प्रहृष्टैरुपशोभितम् |
सीतालङ्कृतवामाङ्गं लक्ष्मणेनोपशोभितम् ||
४८८ ||
श्यामं प्रसन्नवदनं सर्वाभरणभूषितम् |
ध्यायन्नेवं जपेन्मन्त्रं वर्णलक्षमनन्यधीः ||
४८९ ||
जपपूजाप्रयोगादि सर्वमस्य षडर्णवत् |
अथ त्रयोदशे जातं राममन्त्रं वदाम्यहम् ||
४९० ||
रामो ङेऽन्तो धनुष्पाणिस्तथा स्याद्वह्निसुन्दरी |
दशाक्षरो मुनिर्ब्रह्मा विराट्छन्दोऽस्य देवता ||
४९१ ||
राक्षसान्तकरो रामो राँ बीजं परिकीर्तितम् |
स्वाहा शक्तिश्च बीजेन षडङ्गानि समाचरेत् ||
४९२ ||
वर्णन्यासं तथा ध्यानं पौरश्चरणिकं विधिम् |
दशाक्षरोक्तवत् कुर्याच्चापबाणधरं स्मरेत् |
विशेषाज्जयदश्चायं भ्रष्टराज्यप्रदायकः ||
४९३ ||


Lesungshinweise: [Der vorausgehende Mantra] [unbestimmt]

Band II, S. 297, Rama-Gayatri 494–498
एवं हनुमदाद्युपासिता मन्त्रा मेरौ द्रष्टव्याः |
अथ रामगायत्री तत्रैव— अथातः सम्प्रवक्ष्यामि शत्रुघ्नोपासितां पराम् |
जयदां रामगायत्रीमुपास्यां सूर्यवंशजैः ||
४९४ ||
दाशरथये विद्महे सीतावल्लभाय धीमहि तन्नो रामः प्रचोदयात् |
एषा स्याद्रामगायत्री भक्तानां भुक्तिमुक्तिदा |
जन्मप्रभृति यत् पापं दशभिर्याति सङ्क्षयम् ||
४९५ ||
पुरा कृतं शतेनैव सहस्रेण जपेन वा |
पुरश्चरणमस्याश्च चतुर्लक्षजपो विधिः ||
४९६ ||
यच्च यावच्च पूजादि सर्वं पूर्ववदाचरेत् |
तारादिरेषा गायत्री मुक्तिमेव प्रयच्छति ||
४९७ ||
मायादिरपि चैश्वर्यं रमादिश्च श्रियं पराम् |
मदनेनापि संयुक्तो सम्मोहयति मेदिनीम् ||
४९८ ||


Band II, S. 297, Sita-Mantra 499–503
अथ सीतामन्त्रो वशिष्ठसंहितायाम्— श्रीबीजं पूर्वमुच्चार्य सीतायै पदमुद्धरेत् |
वह्निजायान्वितो मन्त्रो भजतां कल्पभूरुहः ||
४९९ ||
जनकोऽस्य ऋषिः प्रोक्तो गायत्री छन्द उच्यते |
सीताख्या या जगद्धात्री देवता सा जगन्मयी ||
५०० ||
मेरुतन्त्रे— सीता भगवती प्रोक्ता श्रीबीजं शक्तिरन्त्यकौ |
दीर्घस्वरयुजाऽऽद्येन षडङ्गानि प्रकल्पयेत् ||
५०१ ||
पूजयेद्वैष्णवे पीठे ध्यायेद्राघवसंयुताम् |
स्वर्णाभामम्बुजकरां रामालोकनतत्पराम् ||
५०२ ||
पुरश्चरणमाह— वर्णलक्षं जपेन्मन्त्रमिष्टार्थं साधयेत् ततः ||
५०३ ||


Lesungshinweise: [Silben]

Band II, S. 297, Balarama-Mantra 504
अथ बलराममन्त्रस्तन्त्रान्तरे— तारान्ते बलभद्राय हृदयं वसुवर्णवान् |
मुनिस्तु जैमिनिश्छन्दो गायत्रं देवताऽस्य च |
बलरामो मन्त्रवर्णैर्द्विरावृत्या षडङ्गकम् ||
५०४ ||


Band II, S. 298, Balarama-Dhyana und Purashcharana 505–506
अथ ध्यानम्— शुभ्राभ्रगौरं नीलाभं वसनं रेवतीप्रियम् |
दधानं सीरमुसले बलरामं समाश्रये ||
५०५ ||
अथ पुरश्चरणम्— वर्णलक्षं जपेन्मन्त्रं जुहुयात् तद्दशांशतः ||
५०६ ||
इति |


Band II, S. 298–299, Krishna-Mantra und sein Bija 507–518
अथ श्रीकृष्णमन्त्राः मेरुतन्त्रे— अथातः सम्प्रवक्ष्यामि कृष्णमन्त्रान् महाद्भुतान् |
कृष्णः स एव भगवान् कलिद्वापरसन्धिगः ||
५०७ ||
वर्धयेत् कलिधर्माणां भक्तानां तारणाय सः |
एकसप्ततिरूपोऽसौ प्रतिमन्वन्तरे भवेत् ||
५०८ ||
तदुक्ताचरणान्मोक्षस्तत्कृताचरणाच्च्युतिः |
इति तत्त्वं समाख्यातं विभवस्य भवस्य च ||
५०९ ||
जातश्चाद्ये कलियुगे नानागोपीरते रतः |
तत्कर्म कुर्वतां पातस्तत्सामर्थ्यं विभाविना ||
५१० ||
स्वधर्मनिरतानां तु कलौ जन्म प्रजायते |
तस्य मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिप्रसाधनम् |
गोपीजनवल्लभाय स्वाहामन्त्रो दशाक्षरः ||
५११ ||
गौतमीये— गोपीजनपदस्यान्ते वल्लभाय द्विठावधिः |
अयं दशाक्षरो मन्त्रो दृष्टादृष्टफलप्रदः ||
४१२ ||
बीजपूर्वो जपश्चास्य रहस्यं कथितं मुने |
लुप्तबीजस्वभावत्वाद्दशाक्षरमिहोच्यते ||
४१३ ||
बृहद्गौतमीये— भोगमोक्षैकनिलयो लुप्तबीजो दशाक्षरः |
उद्धारे तु पृथक् तेन कामबीजं महामुने |
यद्योगात् फलदो मन्त्रो नान्यथा कल्पकोटिभिः ||
४१४ ||
मेरुतन्त्रे— नारदोऽस्य मुनिः प्रोक्तो विराट्छन्द उदाहृतम् ||
५१५ ||
देवता नन्दपुत्रः क्लीँ बीजं शक्तिः शिखिप्रिया |
आविष्णुः पूर्वपदकैस्त्रैलोक्यरक्षणादिकैः ||
५१६ ||
असुरान्तादिकैश्चक्रशब्दैः स्वाहान्तकैश्चरेत् |
जातियुक्तैश्च पञ्चाङ्गं तथा पञ्चाङ्गुलीष्वपि ||
५१७ ||
हृदये शीर्षके चैव शिखायां कवचे तथा |
अस्त्रे पार्श्वद्वये कट्यां पृष्ठे मूर्धनि च क्रमात् ||
५१८ ||


Lesungshinweise: [wirkt er im Zusammenhang mit] [Die Satzfügung von Vers 508 ist verkürzt.] [ist eine besondere — die Schlussverbindung ist gestört] [an dieser Stelle des Drucks] [Der Druck nummeriert diese drei Verse als 412–414 statt der zu erwartenden 512–514.] [Die einleitende Lautverbindung avishnuh ist gestört; keine vollständigen Chakra-Formeln werden ergänzt.]

Band II, S. 299–300, Vrindavana und Krishna-Dhyana 519–536
न्यासान्तराण्युक्त्वा ध्यानमाह— एवं कृत्वा विधानेन मन्त्री मन्त्रकलेवरम् |
त्रय्यन्तबोधितं नित्यं कृष्णं ध्यायेज्जगत्पतिम् ||
५१९ ||
पूर्वं वृन्दावनं रम्यं स्मरेत् पूर्वं विराजितम् |
नवीनपल्लवोद्रेकफलसम्पत्तिसंयुतम् ||
५२० ||
मधुपैः कृतझङ्कारैः कीराद्यैश्च निनादितम् |
आदित्यतनयापार्श्वलहरीकणशीतलम् ||
५२१ ||
तस्मिन् वने कल्पतरुं नवपल्लवशोभितम् |
स्वर्णशाखाग्रसंयुक्तं नवरत्नफलान्वितम् ||
५२२ ||
दिव्यामृतौघवर्षेण स्रवन्तं विश्वमुच्छ्रितम् |
ज्वलद्रत्नसमाबद्धां पुष्परेणुविभूषिताम् ||
५२३ ||
षडूर्मिरहितां मन्त्री तस्याधस्ताद्भुवं स्मरेत् |
माणिक्यकुट्टिमं तत्र योगपीठं विचिन्तयेत् ||
५२४ ||
पद्ममष्टदलं तत्र यथोक्तं रक्तवर्णकम् |
तस्य मध्ये सुखासीनं कृष्णं ध्यायेदनन्यधीः ||
५२५ ||
उद्यदादित्यसङ्काशं प्रसन्नवदनं विभुम् |
इन्द्रनीलमणिप्रख्यं स्निग्धदीर्घशिरोरुहम् ||
५२६ ||
मायूरेण सुपिच्छेन राजमानोत्तमाङ्गकम् |
भ्रमराक्रान्तकल्पद्रुपुष्पसंशोभिमस्तकम् ||
५२७ ||
कुटिलालकविभ्राजद्भालं कर्णकृतोत्पलम् |
गोरोचनाक्ततिलकं पूर्णचन्द्रनिभं स्मरेत् ||
५२८ ||
पद्मनेत्रं दीप्तमणिमकराकृतिकुण्डलम् |
कपोलस्थललावण्यविजितस्वच्छदर्पणम् ||
५२९ ||
अत्यद्भुतोन्नासिकं च पक्वबिम्बफलाधरम् |
दाडिमीबीजरदनं कम्बुसुन्दरकन्धरम् ||
५३० ||
आरण्यपल्लवैः पुष्पैः कृतग्रैवेयसम्पदम् |
कौस्तुभप्रभया दीप्तविशालोन्नतवक्षसम् ||
५३१ ||
श्रीवत्सकाङ्कितोरस्कं वृषस्कन्धं च हारिणम् |
आजानुलम्बिदोर्दण्डं बलित्रययुतोदरम् ||
५३२ ||
क्षुद्रघण्टिकया बद्धकटिं ग्रैवेयराजितम् |
चक्रशङ्खलसत्पद्मपीतांशुकपटादिभिः ||
५३३ ||
कुलिशप्रमुखैश्चिह्नैरङ्कितस्वच्छपत्तलम् |
मुखाम्बुजसमासक्तवंशच्छिद्रार्पिताङ्गुलिम् ||
५३४ ||
तदुत्थदिव्यसद्रागश्रवणाहृतमानसम् |
अपाङ्गैः प्राणिजातं तु मोहयन्तमनारतम् ||
५३५ ||
परमानन्दसन्दोहसम्पूर्णीकृतमानसम् |
मुखपद्मसमासक्तस्वान्तनेत्राभिरावृतम् ||
५३६ ||


Lesungshinweise: [Yamuna] [den bedrängenden Wandlungen des Daseins] [Gesicht] [Die Verbindung der Gewand- und Zeichenliste ist im Druck verschränkt.] [die im folgenden Vers genannten Kühe]

Band II, S. 300–301, Krishnas Kühe und Gefährten 537–549
गोभिरूधोभराक्रान्तमन्दयानाभिरेव च |
कवलीकृतसंत्यक्तघासलेशाभिरप्यलम् ||
५३७ ||
प्रस्रुतस्तनपानेन संभृतानननिर्गतैः |
डिण्डीरपिण्डसंयुक्तैर्दुग्धदृष्टिमनोहरैः ||
५३८ ||
वंशवादनसङ्गीतगीताकर्णनलालसैः |
उत्तम्भिनीकृतश्रोत्रपुटयुग्मैश्च तर्णकैः ||
५३९ ||
किञ्चिद्विषाणान्तरोद्भूतिजातकण्डूतिमस्तकैः |
परस्परविमर्दार्थं खुरस्पर्शमहीतलैः ||
५४० ||
स्निग्धैर्गुरूत्पुच्छैः सुशोभिगलकम्बलैः |
वत्सतरासमूहैश्च संवृतं वदनान्तरम् ||
५४१ ||
कृतहुंभावशब्दजालैर्गुरुदीर्घककुद्वरैः |
उच्चकर्णपुटापीतवेणुशब्दसुधारसैः ||
५४२ ||
सवयस्कैश्च गायन्नृत्यन्नृत्यन्त्स्तुत्यभूषणैः |
नानावेषधरैर्गोपैः संस्तुवद्भिः समावृतम् ||
५४३ ||
मधुराकृतिभिर्बालैरस्पष्टाद्भुतभाषणैः |
शार्दूलनखसंबद्धतालाकल्पैस्तथाऽऽवृतम् ||
५४४ ||
ततो गोपपुरन्ध्रीणां स्मरेद्वृन्दं समाहितः |
तद्भावभावकल्लोलसञ्जीवितमनोभवम् ||
५४५ ||
वल्लवीवल्लवगवां देववृन्दं बहिः स्मरेत् |
सम्मुखे देवदेवस्य काङ्क्षन्तं धनसञ्चयम् ||
५४६ ||
ऋषिसङ्घं तथा दक्षे वेदाध्ययनतत्परम् |
धर्मार्थिभिः स्मरेत् पश्चात् सनकप्रमुखांस्तथा ||
५४७ ||
वामे सस्त्रीकयोगीन्द्रान् यक्षगन्धर्वकिन्नरान् |
सिद्धविद्याधरांश्चापि चारणानप्सरोगणान् ||
५४८ ||
अनेकश्रुतिसम्पूर्णवीणावादनतत्परम् |
आकाशे नारदं ध्यायेन्मुनिवर्यं गतस्मयम् ||
५४९ ||


Lesungshinweise: [die Wortverbindung zur Milch ist nicht ganz sicher] [Die Stiere] [ihn; die anschließende Verbindung „im Innern des Mundes“ bleibt unklar] [Die Wortfolge zu Gesang und Tanz in Vers 543 ist im Druck gestört; Vers 542 nennt in einer Fußnote die Lesart „Klangfülle“.] [wohl Palmteilen]

Band II, S. 301, Krishna-Purashcharana 550–556
अथ पुरश्चरणम्— ततः पूर्वोक्तविधिना दीक्षितः प्रजपेन्मनुम् |
मन्त्रार्थं चिन्तयेन्मन्त्री नियमस्थो जितेन्द्रियः ||
५५० ||
चत्वारिंशत्सहस्राणि श्वेतपद्माक्षमालया |
पश्चान्मन्त्रस्य सिद्ध्यर्थं दशलक्षं जपेत् सुधीः ||
५५१ ||
लक्षं हुनेद्रक्तपद्मैः सितासर्पिर्मधुप्लुतैः |
शर्कराघृतयुक्तेन हविर्द्रव्येण वा हुनेत् ||
५५२ ||
तर्पयेत् सलिलैः शुद्धैश्चन्द्रचन्दनवासितैः |
आत्माभिषेकं कृत्वाऽथ भूदेवान् पूजयेत् ततः ||
५५३ ||
नानाविधैर्भक्ष्यभोज्यैस्ताम्बूलैश्च सदक्षिणैः |
ततो निजगुरुं सम्यक् प्रणिपत्य यथाविधि ||
५५४ ||
धनधान्याम्बराद्यैश्च वित्तशाठ्यविवर्जितः |
तोषयेत् परया भक्त्या निजकार्यस्य सिद्धये ||
५५५ ||
ततः सिद्धमनुर्मन्त्री प्रयोगान् निजवाञ्छितान् |
कुर्याद्भक्तियुतः सम्यङ्नित्यनैमित्तिके रतः ||
५५६ ||


Band II, S. 301–302, Devakis Sohn 557–558
तत्काले देवकीजातं शङ्खचक्रगदाम्बुजान् |
दधतं पीतवसनं सुन्दरं गगनप्रभम् ||
५५७ ||
निशायामे चतुर्थ्यां तु ध्यात्वा लक्षं जपेन्मनुम् |
त्रिमध्वक्तैस्तद्दशांशं किंशुकप्रसवैर्हुनेत् |
वीर्यं प्रज्ञां स्मृतिं प्राप्य कवीनामग्रणीर्भवेत् ||
५५८ ||


Band II, S. 302, Achtzehnsilbiger Krishna-Mantra 559–567
अथ मन्त्रान्तरं शारदायाम्— कृष्णाय पदमाभाष्य गोविन्दाय ततः परम् |
गोपीजनपदस्यान्ते वल्लभाय द्विठावधिः ||
५५९ ||
कामबीजादिराख्यातो मनुरष्टादशाक्षरः |
नारदोऽस्य मुनिः प्रोक्तो गायत्रं छन्द उच्यते ||
५६० ||
देवता कथितः कृष्णः सर्वकामफलप्रदः |
चतुष्करणवेदाब्धिनेत्रसङ्ख्याक्षरक्रमात् |
पञ्चाङ्गानि मनोः कुर्यान्मन्त्रविज्जातिसंयुतैः ||
५६१ ||
ध्यानम्— स्मरेद्वृन्दावने रम्ये मोहयन्तमनारतम् |
गोविन्दं पुण्डरीकाक्षं गोपकन्याः सहस्रशः ||
५६२ ||
आत्मनो वदनाम्भोजप्रेषिताक्षिमधुव्रताः |
पीडिताः कामबाणेन चिरमालिङ्गनोत्सुकाः ||
५६३ ||
मुक्ताहारलसत्पीनतुङ्गस्तनभरानताः |
स्रस्तधम्मिल्लवसना मन्दस्खलितभाषणाः ||
५६४ ||
दन्तपङ्क्तिप्रभोद्दासिस्यन्दमानाधराञ्चिताः |
विलोभयन्तीर्विविधैर्विभ्रमैर्भावगर्वितैः ||
५६५ ||
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् |
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं गोविन्दं करवेणुवादनपरं दिव्याङ्गभूषं भजे ||
५६६ ||
अथ पुरश्चरणम्— मन्त्रमेनं यथान्यायमयुतद्वितयं जपेत् |
जुहुयादरुणाम्भोजैर्दशांशं सुसमाहितः ||
५६७ ||


Lesungshinweise: [Karana bezeichnet hier eine Zahlengruppe, deren Wert aus der Stelle allein nicht sicher hervorgeht; die übrigen Zahlwörter stehen für vier, vier und zwei.]

Band II, S. 302–303, Dreizehnsilbige Krishna-Mantras 568–573
अथ मन्त्रान्तराण्युक्तानि मेरुतन्त्रे— अथातः संप्रवक्ष्यामि क्रमाज्जाता युगत्रये |
ये मन्त्रा दशवर्णस्य भेदाः सिद्धिविधायकाः ||
५६८ ||
काममायेन्दिरापूर्वो मायाश्रीकामपूर्वकः |
लक्ष्मीमायास्मराद्यश्च मन्त्रराजो दशाक्षरः ||
५६९ ||
त्रयोदशाक्षरो मन्त्रस्त्रय एते युगत्रये |
मुन्याद्यन्तविधिस्तेषां पङ्क्त्यामुक्तविधानतः ||
५७० ||
पङ्क्त्यामिति दशाक्षर इत्यर्थः |
ध्यानं तृतीयमन्त्रे तु दशार्णवदुदाहृतम् |
विशार्णोक्तं द्वितीये तु प्रथमेऽत्र निगद्यते ||
५७१ ||
दरारिचापसहबाणमुद्राब्जकराम्बुजम् |
वेणुमादाय हस्ताभ्यां वादयन्तं मुदाऽन्वितम् |
रविमण्डलगं कृष्णं ध्यायेदिष्टफलाप्तये ||
५७२ ||
अथ पुरश्चरणम्— बाणलक्षं जपित्वाऽग्नौ दशांशं हविषा हुनेत् |
तर्पणादि ततः कृत्वा सिद्धमन्त्रः समाचरेत् ||
५७३ ||


Lesungshinweise: [die Anwendungen]

Band II, S. 303, Zwölfsilbiger Vasudeva-Mantra 574–579
अथ मन्त्रान्तरं तत्रैव— अथातः संप्रवक्ष्यामि सप्तविंशतिके कलौ |
तारो नमो भगवते वासुदेवाय वै वदेत् ||
५७४ ||
द्वादशार्णो मनुः प्रोक्तो नारदोऽस्य मुनिर्मतः |
गायत्री छन्द इत्युक्तं श्रीकृष्णो देवता मतः |
चन्द्रनेत्राब्धिबाणार्णैः संपूर्णेनाङ्गकल्पना ||
५७५ ||
ध्यानमाह— कल्पद्रुमतले रम्ये रत्नसिंहासने शुभे |
सर्वलक्षणसंपूर्णं निविष्टं नन्दनन्दनम् ||
५७६ ||
प्रस्रुतस्तनभारेण गोवृन्देन युतं स्मरेत् |
मेघश्यामं करे दण्डौ हस्ताभ्यां बिभ्रतं तथा ||
५७७ ||
पद्मायताक्षं शक्रस्य हस्तिकुम्भामृतस्य तु |
धारया सिच्यमानं तु ध्यातव्यो विष्णुरव्ययः ||
५७८ ||
पुरश्चरणमाह— एवं संचिन्त्य देवेशं वर्णलक्षं जपेन्मनुम् |
तत्सहस्राणि गोक्षीरैर्जुहुयात् तर्पयेत् ततः ||
५७९ ||


Lesungshinweise: [den Mantra] [Das zusammengesetzte Wort zu Elefant und Kumbha lässt die genaue Gefäßvorstellung offen.] [je Silbe]

Band II, S. 304, Rukminis Geliebter und weiterer Krishna-Mantra 580–583
अथ मन्त्रान्तरं तन्त्रान्तरे— तारं हृद्भगवते रुक्मिणीवल्लभाय ठद्वयम् |
नारदोऽस्य मुनिः प्रोक्तश्छन्दोऽनुष्टुप् प्रकीर्त्तितम् |
रुक्मिणीवल्लभो देवः पञ्चाङ्गं मान्त्रिकैः पदैः ||
५८० ||
ध्यानम्— तापिच्छच्छविरङ्कगां प्रियतमां स्वर्णप्रभामम्बुजप्रोद्यद्वामभुजां स्वबाहुलतयाऽऽश्लिष्यत्सचित्तास्मयाम् |
श्लिष्यन्तीं स्वयमन्यहस्तविलसत्सौवर्णवेत्रश्चिरं पायाद्वोऽशनसूनपीतवसनो नानाविभूषो हरिः ||
५८१ ||
अथ पुरश्चरणम्— ध्यात्वैवं रुक्मिणीनाथं जपेल्लक्षममुं मनुम् |
अयुतं जुहुयात् पद्मैररुणैर्मधुराप्लुतैः ||
५८२ ||
अथ मन्त्रान्तरं मेरौ— अथातो नगवेदाख्ये क्लीँ कृष्णायाग्निगेहिनी |
षडक्षरो मन्त्रराजो जपध्यानादि पूर्ववत् ||
५८३ ||
दशार्णवदित्यर्थः |
एवं भूयांसो मन्त्रभेदा विस्तरभयादुपेक्षिताः |


Lesungshinweise: [also Om, Namah, dem erhabenen Geliebten Rukminis, Svaha] [die genaue Wortverbindung zu ihrem Empfinden ist gestört] [Zeitalter] [Svaha] [Diese Begrenzung steht im Werk selbst.]

Band II, S. 304, Buddha-Mantra und Beginn seiner Meditation 584–589
अथ बुद्धमन्त्रस्तत्रैव— अथातः संप्रवक्ष्यामि बौद्धमन्त्रं महाफलम् |
सत्यत्वान्न द्विजादीनामधिकारो हि कर्हिचित् ||
५८४ ||
वाममार्गरता विप्राः कुण्डका जातिविच्युताः |
हीना वैदिकसंस्कारैः प्रमादात् स्वेच्छतां गताः ||
५८५ ||
गोलकाश्च तथा जात्या कायस्थादय एव च |
बौद्धं विष्णुं समाराध्य भुक्तिं मुक्तिं प्रयान्ति ते ||
५८६ ||
नमो भगवते बुद्ध संसारार्णवतारक |
कलिकालादहं भीतः शरण्यं शरणं गतः ||
५८७ ||
आद्यैः पदैश्चतुर्भिश्च चरणद्वितयेन च |
षडङ्गविधिराख्यातः पूर्णेन व्यापकं त्रिशः ||
५८८ ||
अथ ध्यानम्— पद्मे पद्मासनस्थं तं मूर्ध्न्यस्तकरद्वयम् |
गौरं मुण्डितसर्वाङ्गं ध्यानस्तिमितलोचनम् ||
५८९ ||


Lesungshinweise: [unklare Begründung im Druck] [Die Einteilung gibt die traditionelle soziale Wertung dieser Quelle wieder; Kundaka und Golaka sind hier abwertende Herkunftsbezeichnungen.] [Die Beschreibung setzt sich im folgenden Vers fort.]

Band II, S. 305, Buddha-Dhyana und Purashcharana 590–591
पुस्तकासनहस्तैश्च नानाशिष्यैश्च शोभितम् |
इन्द्रादिलोकपालैश्च नुतं श्वेताम्बरावृतम् ||
५९० ||
अथ पुरश्चरणम्— वर्णलक्षं जपेन्मन्त्रं होमयेच्च घृतोदनम् |
तुलसीमिश्रितोयैश्च भगवन्तं प्रतर्पयेत् ||
५९१ ||


Band II, S. 305, Kalki-Mantra 592–597
अथ कल्किमन्त्रस्तत्रैव— अथातः संप्रवक्ष्यामि कल्किमन्त्रं महाफलम् |
कँ कल्किने हृदन्तोऽयं प्रोक्तो मन्त्रः षडक्षरः |
मन्त्रार्णैश्च षडङ्गानि पूर्णेन व्यापकं चरेत् ||
५९२ ||
अथ ध्यानम्— ध्यायेन्नीलसमारूढं श्वेतोष्णीषविराजितम् |
महाप्रतोदहस्तं च कौस्तुभोद्दामकञ्चुकम् ||
५९३ ||
मर्दयन्तं म्लेच्छगणं क्रोधघूर्णितलोचनम् |
अन्तर्हितैर्देवमुनिगन्धर्वैः संस्तुतं हरिम् ||
५९४ ||
अथ पुरश्चरणम्— षड्लक्षं तु जपेन्मन्त्रं ससितैः पायसैर्हुनेत् |
तर्पयेत् सलिलैः शुद्धैः प्रीणयेद् भूसुरानपि ||
५९५ ||
एवमाराधितो मन्त्रः संग्रामे विजयप्रदः |
एतत्साधनमालोक्य दूरतो दुःक्षितीश्वराः ||
५९६ ||
प्रणमन्ति तथा स्वेच्छाच्छत्रवो यान्ति संशयम् |
दिने दिने वर्द्धते श्रीर्मृतो वैकुण्ठमाप्नुयात् ||
५९७ ||


Lesungshinweise: [Namah] [Das Bija trägt im Druck Chandrabindu.] [wohl dem dunklen Pferd] [Mlechchha ist die traditionelle abwertende Bezeichnung für Menschen außerhalb der eigenen Kultur- und Ritualordnung.]

Band II, S. 305–306, Hayagrivas Bija-Mantras 598–603
अथ हयग्रीवमन्त्रो मेरुतन्त्रे— अथोच्यते हयग्रीवमन्त्रः सर्वसमृद्धिदः |
हसावुकारसंयुक्तौ बिन्दुना परिशोभितौ ||
५९८ ||
विप्रसेव्यो बीजमन्त्रो हयग्रीवस्य चादिमः |
हसावौकारसंयुक्तौ सबिन्दू क्षत्रियस्य तु ||
५९९ ||
हसावेकारसंयुक्तौ सबिन्दुर्वैश्यजन्मनः |
त्रिष्टुप् छन्दो मुनिर्ब्रह्मा हयग्रीवोऽस्य देवता ||
६०० ||
षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः |
अथ ध्यानम्— कमलं जपमालां च भयं पुस्तकमेव च ||
६०१ ||
श्वेतपद्मस्थितं गौरं श्वेतवस्त्रानुलेपनम् |
भक्तप्रियं हयग्रीवं वन्देऽहं दानवान्तकम् ||
६०२ ||
अथ पुरश्चरणम्— वेदलक्षं जपेदन्ते दशांशं जुहुयाद् घृतैः |
सुगन्धाद्यैस्तर्पणं स्यान्मार्जनाद्विप्रभोजनात् |
सिद्धो मन्त्रः प्रयोगार्हो जायते भुक्तिमुक्तिदः ||
६०३ ||


Lesungshinweise: [so der Druck; vermutlich eine Handgeste, aber nicht ergänzt] [haltend]

Band II, S. 306, Hayagriva-Mantra der Sharada 604–609
अथ मन्त्रान्तरं शारदायाम्— उद्गिरत्पदमाभाष्य प्रणवोद्गीथशब्दतः ||
६०४ ||
सर्ववेदमयाचिन्त्यपदान्ते सर्वमुच्चरेत् |
सर्ववागीश्वरेत्यन्तं प्रवदेदीश्वरेत्यथ ||
६०५ ||
बोधय द्वितयोन्तोऽयं मन्त्रस्तारादिरीरितः |
ऋषिर्ब्रह्माऽस्य संदिष्टश्छन्दोऽनुष्टुबुदाहृतम् ||
६०६ ||
देवता स्याद्धयग्रीवो वागैश्वर्यप्रदो विभुः |
तारेण पादैर्मन्त्रस्य पञ्चाङ्गानि प्रकल्पयेत् ||
६०७ ||
अथ ध्यानम्— शरच्छशाङ्कप्रभमश्ववक्त्रं मुक्तामयैराभरणैरुपेतम् |
रथाङ्गशङ्खार्चितबाहुयुग्मं जानुद्वयन्यस्तकरं भजामः ||
६०८ ||
अथ पुरश्चरणम्— वर्णलक्षं जपेन्मन्त्रं कुन्दपुष्पैर्मधुप्लुतैः |
दशांशं वैष्णवे वह्नौ जुहुयान्मन्त्रसिद्धये ||
६०९ ||


Lesungshinweise: [die Wortfolge] [Die überlieferte Wortanordnung ist nicht eindeutig; eine geglättete Gesamtformel wird daher nicht ergänzt. Die Epitheta bezeichnen den alle Veden Umfassenden, Undenkbaren und Herrn der Rede; bodhaya heißt „erwecke“ beziehungsweise „lass erkennen“.] [anderen] Mit Tara und den Versfüßen des Mantras bilde man die fünf Angas.“ [Die überlieferte Wortanordnung ist nicht eindeutig; eine geglättete Gesamtformel wird daher nicht ergänzt.

Band II, S. 306–307, Weiterer Hayagriva-Mantra 610–612
अथ मन्त्रान्तरं मेरुतन्त्रे— अथ मन्त्रान्तरं वक्ष्ये तीक्ष्णबुद्धिकरं वरम् |
विश्वोत्तीर्णस्वात्मरूपचिन्मयानन्दरूपिणे ||
६१० ||
तुभ्यं नमो हयग्रीव विद्याराजाय विष्णवे |
स्वाहा सोऽहं च हंसादिरष्टत्रिंशाक्षरो मनुः ||
६११ ||
तारमन्त्रपदैश्चात्र पञ्चाङ्गविधिरीरितः |
ध्यानं पूर्ववत् |
अथ पुरश्चरणम्— पुरश्चर्या तु षट्त्रिंशल्लक्षोऽन्यत् पूर्ववन्मतम् ||
६१२ ||


Lesungshinweise: [So’ham bedeutet „Ich bin Das“; Hamsa ist hier ein Mantraelement und wird nicht bloß als Vogelname übersetzt.]

Band II, S. 307, Chakra-Mantra 613–618
अथ चक्रमन्त्रः शारदायाम्— तारो भृगुर्वियद्भूयस्तदाद्यं वह्निदीर्घयुक् |
पावकः कवचास्त्रान्तो मनुः सप्ताक्षरः स्मृतः ||
६१३ ||
अहिर्बुध्न्यो मुनिः प्रोक्तश्छन्दोऽनुष्टुबुदाहृतम् |
देवता मुनिभिः प्रोक्ता चक्ररूपी हरिः स्वयम् ||
६१४ ||
आचक्राय हृदाख्यातं विचक्राय शिरः स्मृतम् |
सुचक्राय शिखा प्रोक्ता धीचक्राय तनुच्छदम् ||
६१५ ||
संचक्राय स्मृतं नेत्रं ज्वालाचक्राय तत्परम् |
षडङ्गमन्त्राः प्रत्येकं द्विठान्ता यान्ति संयुताः ||
६१६ ||
अथ ध्यानम्— कल्पान्तार्कप्रकाशं त्रिभुवनमखिलं तेजसा पूरयन्तं रक्ताक्षं पिङ्गकेशं रिपुकुलभयदं भीमदंष्ट्राट्टहासम् |
चक्रं शङ्खं गदाब्जे पृथुतरमुशलं चापपाशाङ्कुशान् वै बिभ्राणं दोर्भिराद्यं मनसि मुररिपुं भावयेच्चक्रसंज्ञम् ||
६१७ ||
अथ पुरश्चरणम्— अर्कलक्षं जपेन्मन्त्रं जुहुयात् तत्सहस्रकम् |
तिलैः ससर्षपैः पद्मैर्बिल्वैर्दुग्धोदनैः क्रमात् ||
६१८ ||


Lesungshinweise: [Der Mantra ist in Lautschlüsseln überliefert; unklare Silben werden nicht durch Vermutung ergänzt.] [Astra] [je Zahleneinheit]

Band II, S. 307, Ananta-Mantra 619–620
अथानन्तमन्त्रस्तत्रैव— अथान्यं संप्रवक्ष्यामि विष्णोः प्रीतिकरं मनुम् |
अनन्ताय नमश्चेति षडर्णोऽयमुदाहृतः ||
६१९ ||
व्यासो मुनिश्च गायत्री छन्दोऽनन्तश्च देवता |
नियोगो रोगनाशार्थमन्यद् गोविन्दवद्भवेत् ||
६२० ||


Band II, S. 308, Gopalasundari 621–631
अथ गोपालसुन्दरीमन्त्रस्तत्रैव— अथ मार्गद्वयोपास्यां वक्ष्ये गोपालसुन्दरीम् |
मायाश्रीकामबीजानि कृष्णायेति ततो वदेत् ||
६२१ ||
एकोनत्रिंशकं वर्णं रुद्रदेवस्वरौ तथा |
पञ्चमं च त्रपाबीजमेभिः सप्तमकूटकम् ||
६२२ ||
गोविन्दाय पदं पश्चाच्चित्रैश्वर्याद्यकूटकम् |
गोपीजनवल्लभाय ततश्च सकलत्रपाम् ||
६२३ ||
कूटरूपां समुच्चार्य वदेद्वह्नेश्च गेहिनी |
त्रयोविंशाक्षरो मन्त्रो भुक्तिमुक्तिफलप्रदः ||
६२४ ||
मुनिर्विधाता दक्षे स्याद्वामे त्वानन्दभैरवः |
छन्दस्तु देवी गायत्री देवो गोपालसुन्दरी ||
६२५ ||
त्रित्रिवेदाब्धिवेदाब्धिवर्णैः कूटविहीनितैः |
षडङ्गविधिरुद्दिष्टो मन्त्रवर्णान् न्यसेत् तनौ ||
६२६ ||
न्यासान्तराण्युक्त्वा ध्यानमाह— कमलावसुधायुक्तं ध्यायेच्छ्रीचक्रगं हरिम् |
क्षीराम्भोधौ सितद्वीपे वने कल्पद्रुमादिभिः ||
६२७ ||
व्याप्ते तस्मिन् स्वर्णमयं चिन्तयेद्रत्नमण्डपम् |
तत्र श्रीपीठमध्ये तु स्थितं विधिमुखैः स्तुतम् ||
६२८ ||
पद्ममष्टलं शङ्खं वर्णान् वंशीश्च दक्षिणैः |
भुजैर्दधन्तं वामैस्तु चापं पाशं तथाऽङ्कुशम् ||
६२९ ||
विपञ्चीं चारक्तवर्णं नानाभरणभूषितम् |
पीताम्बरधरं गोपीसमूहैः परितो वृतम् ||
६३० ||
अथ पुरश्चरणम्— लक्षमेकं जपेन्मन्त्रं जुहुयात् पायसाऽन्धसा |
तर्पणादि ततः कुर्यान्मन्त्रसिद्धिः प्रजायते ||
६३१ ||


Lesungshinweise: [Buchstabe] [besteht] [Die verschlüsselten Lautgruppen werden in der überlieferten Form belassen; insbesondere die Zählung des Kuta ist nicht eindeutig.] [die Gegenstandsliste ist stellenweise gestört] Dieser dreiundzwanzigsilbige Mantra schenkt Genuss und Befreiung.“ [Die verschlüsselten Lautgruppen werden in der überlieferten Form belassen; insbesondere die Zählung des Kuta ist nicht eindeutig.] 625–626: „Auf dem rechten Weg ist Vidhata der Seher, auf dem linken Anandabhairava.

Band II, S. 308–309, Shridhara und Abschluss des Vishnu-Abschnitts 632–636
अथ श्रीधरमन्त्रस्तत्रैव— अथातः संप्रवक्ष्यामि श्रीधरस्य मनुं परम् |
रमारुद्धं कामबीजं श्रीधराय ततो वदेत् ||
६३२ ||
त्रैलोक्यमोहनायेति नमोऽन्तः षोडशाक्षरः |
ऋषिर्ब्रह्मा भवेच्छन्दो गायत्रं श्रीधरः सुरः ||
६३३ ||
श्रीबीजेन षडङ्गानि कुर्यात् षड्दीर्घसंयुजा |
अथ ध्यानम्— उद्घाट्ये च सिते द्वीपे सर्वर्तुफलितद्रुमे |
तत्र कल्पद्रुमाधस्तात् पक्षीन्द्ररचितासने ||
६३४ ||
शङ्खचक्रगदापद्मपाणिं चामीकरद्युतिम् |
किरीटिनं कुण्डलिनं श्रीवत्साङ्कितवक्षसम् ||
६३५ ||
हृदि लक्ष्मीधरं ध्यायेच्छ्रीधरं पुरुषार्थदम् |
अथ पुरश्चरणम्— लक्षमेकं जपेन्मन्त्रं तद्दशांशं घृतैर्हुनेत् |
तर्पणादि ततः कुर्यात् पूर्ववत् साधकोत्तमः ||
६३६ ||
इति विष्णुप्रकरणम् |


Lesungshinweise: [Die Anrufung richtet sich an Shridhara, den Bezauberer der drei Welten.] [das vorangehende Wort ist unklar]

Band II, S. 309, Shiva-Mantra und seine Bedeutung 637–643
शारदायाम् |
अथ वक्ष्ये महेशस्य मन्त्रान् सर्वार्थसिद्धिदान् |
यैः पूर्वमृषयः प्रोक्ताः शिवसायुज्यमञ्जसा ||
६३७ ||
हृदयं वपरं साक्षि लान्तोऽनन्तान्वितो मरुत् |
पञ्चाक्षरो मनुः प्रोक्तस्ताराद्योऽयं षडक्षरः ||
६३८ ||
एतन्मन्त्रार्थ उक्तो वामदेवसंहितायाम्— ॐकारः परिपूर्णस्य ब्रह्मणो वाचकः स्मृतः |
नमःशब्दो नमस्कारवाचकः परिकीर्त्तितः ||
६३९ ||
प्रहृत्वलक्षणः प्रोक्तो नमस्कारः पुरातनैः |
प्रहृता नाम जीवस्य शिवात् सत्यादिलक्षणात् ||
६४० ||
भेदेन भासमानस्य मायया सर्वरूपतः |
सम्बन्धं नम इत्याह शिवतादात्म्यलक्षणम् ||
६४१ ||
सत्यज्ञानपरानन्दरूपा चित् कलाऽपरा |
अतिव्यक्ततथा ज्ञेया शिवशब्देन शाम्भवि |
वाचकोऽयं ततः शब्दो ब्रह्मणश्चित्कलात्मनः ||
६४२ ||
ऋष्यादिन्यासमाह— वामदेवो मुनिश्छन्दः पङ्क्तिरीशोऽस्य देवता |
षड्भिर्वर्णैः षडङ्गानि कुर्यान्मन्त्रस्य देशिकः ||
६४३ ||


Lesungshinweise: [erlangten] [Die Lautschlüssel werden unverändert als solche wiedergegeben; der anschließende Kommentar behandelt Om, Namah und Shiva.] [die überlieferten Ausdrücke prahritva und prahrita sind gestört] [Vollkommenheiten]

Band II, S. 310, Mahesha-Dhyana und Purashcharana 644–646a
अथ ध्यानम्— ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् |
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ||
६४४ ||
अथ पुरश्चरणम्— तत्त्वलक्षं जपेन्मन्त्रं दीक्षितः शैववर्त्मना |
तावत्सङ्ख्यासहस्राणि जुहुयात् पायसैः शुभैः ||
६४५ ||
ततः सिद्धो भवेन्मन्त्रः साधकाभीष्टसिद्धिदः |


Lesungshinweise: [Die Zahl der Tattvas wird an dieser Stelle nicht ausdrücklich ausgeschrieben.]

Band II, S. 310, Achtssilbiger Umapati-Mantra 646b–649
अथ मन्त्रान्तरं तत्रैव— षडक्षरः शक्तिरुद्धः कथितोऽष्टाक्षरो मनुः ||
६४६ ||
ऋषिश्छन्दः पुरा प्रोक्तो देवता स्यादुमापतिः |
अङ्गानि पूर्वमुक्तानि सोममीशं विचिन्तयेत् ||
६४७ ||
अथ ध्यानम्— बन्धूकाभं त्रिनेत्रं शशिशकलधरं स्मेरवक्त्रं वहन्तं हस्तैः शूलं कपालं वरदमभयदं चारुहारं भजामि |
वामोरुस्तम्भगायाः करतलविलसच्चारुरक्तोत्पलाया हस्तेनाश्लिष्टदेहं मणिमयविलसद्भूषणायाः प्रियायाः ||
६४८ ||
अथ पुरश्चरणम्— मनुलक्षं जपेन्मन्त्रं तत्सहस्रं यथाविधि |
जुहुयान्मधुरासिक्तैरारग्वधसमिद्वरैः ||
६४९ ||


Band II, S. 310, Prasada-Mantra und Gesichtsnyasa 650–652
मन्त्रान्तरमाह— सान्तः सद्यान्तसंयुक्तो बिन्दुभूषितमस्तकः |
प्रासादाख्यो मनुः प्रोक्तो भजतां सर्वसिद्धिदः ||
६५० ||
षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः |
वामदेवो मुनिश्छन्दः पङ्क्तिर्देवः सदाशिवः ||
६५१ ||
ईशानादीन्यसेन्नेतारङ्गुष्ठादिषु देशिकः |
ईशानाख्यं तत्पुरुषमघोरं तदनन्तरम् ||
६५२ ||


Lesungshinweise: [Die Aufzählung setzt sich im nächsten Vers fort; die Verbindung netar im Druck ist grammatisch unklar.]

Band II, S. 311, Sadashiva-Dhyana und Prasada-Purashcharana 653–655
वामदेवाह्वयं सद्यमाद्यं बीजं क्रमाद्विदुः |
ततः समाहितो भूत्वा ध्यायेद्देवं सदाशिवम् ||
६५३ ||
अथ ध्यानम्— मुक्तापीतपयोदमौक्तिकजपावर्णैर्मुखैः पञ्चभिस्त्र्यक्षैरञ्जितमीशमिन्दुमुकुटं पूर्णेन्दुकोटिप्रभम् |
शूलं टङ्ककृपाणवज्रदहनान् नागेन्द्रघण्टाङ्कुशान् पाशं भीतिहरं दधानममिताकल्पोज्ज्वलं चिन्तयेत् ||
६५४ ||
अथ पुरश्चरणम्— एवं ध्यात्वा जपेन्मन्त्रं पञ्चलक्षं मधुप्लुतैः |
प्रसूनैः करवीरोत्थैर्जुहुयात् तद्दशांशकम् ||
६५५ ||


Lesungshinweise: [Die zweifache Perlenfarbe entspricht dem vorliegenden Wortlaut.]

Band II, S. 311, Weiterer achtssilbiger Shiva-Mantra 656–658
मन्त्रान्तरमाह— तारो माया वियद्बिन्दुमनुस्वरसमन्वितम् |
पञ्चाक्षरसमायुक्तो वसुवर्णो मनुर्मतः |
पञ्चाक्षरोक्तवत् कुर्यादङ्गन्यासादिकं बुधः ||
६५६ ||
ध्यानम्— वन्दे सिन्दूरवर्णं मणिमुकुटलसच्चारुचन्द्रावतंसं भालोद्यन्नेत्रमीशं स्मितमुखकमलं दिव्यभूषाङ्गरागम् |
वामोरुन्यस्तपाणेस्तरुणकुवलयं संदधत्या प्रियाया वृत्तोत्तुङ्गस्तनाग्रे निहितकरतलं वेदटङ्केष्टहस्तम् ||
६५७ ||
अथ पुरश्चरणम्— अष्टलक्षं जपेदेवं मनुं वेदविदां वरः |
तत्सहस्रं प्रजुहुयात् पायसान्नैर्घृताप्लुतैः ||
६५८ ||


Lesungshinweise: [Der Lautschlüssel Manu-Vokal wird nicht spekulativ aufgelöst.] [übrigen]

Band II, S. 311–312, Mrityunjaya-Mantra 659–662
अथ मृत्युञ्जयमन्त्रस्तत्रैव— तारं स्थिरा सकर्णेन्दुर्भृगुः सर्गविभूषितः |
अक्षरात्मा निगदितो मनुर्मृत्युञ्जयात्मकः ||
६५९ ||
ऋषिः कहोलो देव्यादिर्गायत्री छन्द ईरितम् |
मृत्युञ्जयो महादेवो देवताऽस्य समीरितः |
भृगुणा दीर्घयुक्तेन षडङ्गानि समाचरेत् ||
६६० ||
अथ ध्यानम्— चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तःस्थितं मुद्रापाशमृगाक्षसूत्रविलसत्पाणिं हिमांशुप्रभम् |
कोटीरेन्दुगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलं कान्त्या विश्वमनोहरं पशुपतिं मृत्युञ्जयं भावयेत् ||
६६१ ||
अथ पुरश्चरणम्— गुणलक्षं जपेन्मन्त्रं तद्दशांशं विशालधीः |
जुहुयादमृताखण्डैः शुद्धदुग्धाज्यलोलितैः ||
६६२ ||


Lesungshinweise: [Dies sind Lautschlüssel; eine ausgeschriebene Gesamtformel steht hier nicht.]

Band II, S. 312, Dakshinamurti-Mantra und Nyasa 663–669
अथ दक्षिणामूर्तिमन्त्रस्तत्रैव— अथ वक्ष्ये मन्त्ररत्नं समस्तपुरुषार्थदम् |
अवापुर्येन जप्तेन दिव्यं ज्ञानं मुनीश्वराः ||
६६३ ||
दक्षिणामूर्तये पूर्वं तुभ्यं पदमनन्तरम् |
वटमूलपदस्यान्ते पदं पञ्चाशान्निवासिने ||
६६४ ||
ध्यानैकनिरताङ्गाय पश्चाद् ब्रूयान्नमः पदम् |
रुद्राय शम्भवे तारशक्तिरुद्धोऽयमीरितः ||
६६५ ||
षट्त्रिंशदक्षरो मन्त्रः सर्वकामफलप्रदः |
मुनिः शुकः समुद्दिष्टश्छन्दोऽनुष्टुप् समीरितम् ||
६६६ ||
दक्षिणामूर्तिनामाऽस्य देवता शम्भुरीरितः |
षड्भिर्वर्णैर्हृदाख्यातं द्वाभ्यां शिर उदीरितम् ||
६६७ ||
शिखाऽष्टभिः समादिष्टा वस्वर्णैः कवचं मतम् |
पञ्चभिर्नेत्रमाख्यातं त्रिभिरस्त्रमुदाहृतम् ||
६६८ ||
षडेते तारशक्त्याद्यास्ताराद्यन्ताः सजातयः |
अङ्गमन्त्राः समुद्दिष्टा यथावद्देशिकोत्तमैः ||
६६९ ||


Lesungshinweise: [Der Mantra verehrt Dakshinamurti, der unter dem Banyanbaum wohnt, ganz in Dhyana versunken ist und als Rudra und Shambhu angerufen wird. Der Wortlaut panchashannivasine ist hier nicht sicher deutbar.]

Band II, S. 312–313, Dakshinamurtis Erkenntniswald 670–680
अथ ध्यानम्— हेमाचलतटे रम्ये सिद्धकिन्नरसेविते |
विविधद्रुमशाखाभिः सर्वतो वारितातपे ||
६७० ||
सुपुष्पितैर्लताजालैराश्लिष्टकुसुमद्रुमे |
शिलाविवरनिर्गच्छन्निर्झरानिलशीतले ||
६७१ ||
गायद्भृङ्गाङ्गनासङ्घे नृत्यद्बर्हिकदम्बके |
कूजत्कोकिलसङ्घेन मुखरीकृतदिङ्मुखे ||
६७२ ||
परस्परविनिर्मुक्तमात्सर्यमृगसेविते |
आद्यैः शुकाद्यैर्मुनिभिरजस्रं समुपस्थिते ||
६७३ ||
पुरन्दरमुखैर्देवैः सेवायातैर्विलोकितम् |
वटवृक्षं महोच्छायं पद्मरागफलोज्ज्वलम् ||
६७४ ||
गारुत्मतमयैः पत्रैर्निबिडैरुपशोभितम् |
नवरत्नमयाकल्पैर्लम्बमानैरलङ्कृतम् ||
६७५ ||
जलजैः स्थलजैः पुष्पैरामोदिभिरलङ्कृतम् |
शृण्वद्भिर्वेदशास्त्राणि शुकवृन्दैर्निषेवितम् ||
६७६ ||
संसारतापविच्छेदकुशलस्थलमद्भुतम् |
विचिन्त्य तस्य मूलस्थे रत्नसिंहासने शुभे ||
६७७ ||
आसीनममिताकल्पं शरच्चन्द्रनिभाननम् |
स्तूयमानं मुनिगणैर्दिव्यज्ञानाभिलाषिभिः |
संस्मरेज्जगतामाद्यं दक्षिणामूर्तिमव्ययम् ||
६७८ ||
कैलाशाद्रिनिभं शशाङ्कशकलस्फूर्जज्जटामण्डितं नासालोकनतत्परं त्रिनयनं वीरासनाध्यासिनम् |
मुद्राटङ्ककुरङ्गजानुविलसत्पाणिप्रसन्नाननं कक्षाबद्धभुजङ्गमं मुनिवृतं वन्दे महेशं परम् ||
६७९ ||
अथ पुरश्चरणम्— अयुतद्वयसंयुक्तं गुणलक्षं जपेन्मनुम् |
तद्दशांशं तिलैः शुद्धैर्जुहुयात् क्षीरसंयुतैः ||
६८० ||


Lesungshinweise: [eine Hand ruht auf]

Band II, S. 313, Weiterer Dakshinamurti-Mantra 681–683
अथ मन्त्रान्तरं तत्रैव— प्रणवो हृदयं पश्चात् ततो भगवते पदम् |
डेयुतं दक्षिणामूर्ति मह्यं मेधामुदीरयेत् ||
६८१ ||
प्रयच्छ ठद्वयान्तोऽयं द्वाविंशत्यक्षरो मनुः |
मुनिश्चतुर्मुखश्छन्दो गायत्री देवता मनोः ||
६८२ ||
दक्षिणामूर्तिराख्यातो वेदव्याख्यानतत्परः |
ताररुद्धैः स्वरैर्दीर्घैः षड्भिरङ्गानि कल्पयेत् ||
६८३ ||


Lesungshinweise: [Namah] [Sein Sinn: Om, Verehrung dem erhabenen Dakshinamurti; schenke mir Einsicht, Svaha.] [Brahma]

Band II, S. 314, Dakshinamurti-Dhyana und Purashcharana 684–686
अथ वा मनुसम्भूतैः पदैर्वा कल्पयेत् क्रमात् |
पूर्वोक्तवटमूलस्थं चिन्तयेन्मन्त्रनायकम् ||
६८४ ||
अथ ध्यानम्— स्फटिकरजतवर्णं मौक्तिकीमक्षमालाममृतकलशविद्याज्ञानमुद्राकराग्रैः |
दधतमुरगकक्षं चन्द्रचूडं त्रिनेत्रं विधृतविविधभूषं दक्षिणामूर्तिमीडे ||
६८५ ||
अथ पुरश्चरणम्— लक्षमेकं जपेन्मन्त्रं ब्रह्मचारिव्रते स्थितः |
जुहुयात् सघृतैः पद्मैर्दशांशं संस्कृतेऽनले ||
६८६ ||


Lesungshinweise: [die Angas] [Wissen, hier wohl als Buch]

Band II, S. 314, Nilakantha-Mantra 687–693
अथ नीलकण्ठमन्त्रस्तत्रैव— लोहिताऽग्न्यासनः सद्योबिन्दुमान् प्रथमं ततः |
द्वितीयं वह्निबीजस्था दीर्घा शान्तीन्दुभूषिता ||
६८७ ||
तृतीयं लाङ्गली सर्गी मन्त्रो बीजत्रयान्वितः |
नीलकण्ठात्मकः प्रोक्तो विषध्वंहरः परः ||
६८८ ||
हरद्वयं वह्निजाया हृदयं परिकीर्त्तितम् |
कपर्दिने ठयुगलं शिरोमन्त्र उदाहृतः ||
६८९ ||
नीलकण्ठाय ठद्वयं शिखामन्त्र उदाहृतः |
कालकूटपदस्यान्ते विषभक्षणं डेयुतम् ||
६९० ||
हुँ फट् कवचमादिष्टं विद्वद्भिर्नीलकण्ठिने |
स्वहान्तमस्त्रमेतानि पञ्चाङ्गानि मनोर्विदुः ||
६९१ ||
अथ ध्यानम्— बालार्कायुततेजसं धृतजटाजूटेन्दुखण्डोज्ज्वलं नागेन्द्रैः कृतभूषणं जपवटीं शूलं कपालं करैः |
खट्वाङ्गं दधतं त्रिनेत्रविलसत्पञ्चाननं सुन्दरं व्याघ्रत्वक्परिधानमब्जनिलयं श्रीनीलकण्ठं भजे ||
६९२ ||
अथ पुरश्चरणम्— लक्षत्रयं जपेन्मन्त्रं तद्दशांशं ससर्पिषा |
हविषा जुहुयात् सम्यक् संस्कृते हव्यवाहने ||
६९३ ||


Lesungshinweise: [das betreffende Wort ist im Druck beschädigt] [-Mantra] [Die Anrufungen gelten dem Verfilzthaarigen, dem Blauhalsigen und dem Verzehrer des Kalakuta-Giftes. Die Bija-Schlüssel sind nicht vollständig ausgeschrieben.] Dieser aus drei Bijas bestehende höchste Mantra verkörpert Nilakantha und beseitigt Gift [das betreffende Wort ist im Druck beschädigt].“ 689–691: „Zweimal Hara und die Gemahlin des Feuers werden als Herz[-Mantra] bezeichnet.

Band II, S. 315, Ardhanarishvara-Mantra 694–697
अथार्धनारीश्वरमन्त्रस्तत्रैव— अग्निः संवर्तकादित्यरानिलाः षष्ठबिन्दुमत् |
चिन्तामणिरिति ख्यातं बीजं सर्वसमृद्धिदम् ||
६९४ ||
कश्यपो मुनिराख्यातश्छन्दोऽनुष्टुबुदाहृतम् |
अर्धनारीश्वरः प्रोक्तो देवता जगतां पतिः |
रेफादिर्व्यञ्जनः षड्भिः कुर्यादङ्गानि षट् क्रमात् ||
६९५ ||
अथ ध्यानम्— नीलप्रभातरुचिरं विलसत्त्रिनेत्रं पाशारुणोत्पलकपालत्रिशूलहस्तम् |
अर्धाम्बिकेशमनिशं प्रविभक्तभूषं बालेन्दुबद्धमुकुटं प्रणमामि रूपम् ||
६९६ ||
अथ पुरश्चरणम्— एकलक्षं जपेद्बीजमित्यं मन्त्री विचिन्तयेत् |
अयुतं मधुना सिक्तैर्जुहुयात् तिलतण्डुलैः ||
६९७ ||


Lesungshinweise: [Vokal] [Ra] [Die Lautverschlüsselung bleibt erhalten.] [die Gottheit]

Band II, S. 315, Sharabha-Mantra und Beginn des Dhyana 698–703
अथ शरभमन्त्रो मेरुतन्त्रे— ॐ खँ खाँ खँ फडुच्चार्य द्विः प्राणान् ग्रसतीति च |
हुँ फट् सर्वशस्त्रसंहरणाय शरभेति च ||
६९८ ||
शाल्वाय पक्षिराजाय हुँ फट् स्वाहान्तको मनुः |
एकचत्वारिंशदर्णो वासुदेवो मुनिः स्मृतः ||
६९९ ||
कालाग्निरुद्रः शरभो देवता परिकीर्त्तितः |
छन्दस्तु जगती स्वाहा शक्तिर्बीजं खमुच्यते |
वेदषट्सप्तनवषण्णवार्णैरङ्गकल्पनम् ||
७०० ||
अथ ध्यानम्— चन्द्रार्काग्नित्रिनयनं कालीदुर्गाद्विपक्षकम् |
विद्युत्जिह्वं वज्रनखं वडवाग्न्युदरं तथा ||
७०१ ||
व्याधिमृत्युरिपुघ्नं च चण्डवातातिवेगिनम् |
हृद्भैरवस्वरूपं च वैरिवृन्दनिषूदनम् ||
७०२ ||
मृगस्त्वर्धशरीरेण पक्षाभ्यां चञ्चुना द्विजः |
अधोवक्त्रश्चतुष्पादस्तूर्ध्ववक्त्रश्चतुर्भुजः ||
७०३ ||


Lesungshinweise: [spreche man] [Die Formel nennt das Verschlingen der Lebenskräfte, das Vernichten aller Waffen und den Vogelkönig. Das gedruckte grasati und die Worttrennung bei Sharabha/Shalva sind nicht sicher; sie werden nicht stillschweigend in einen geläufigen Mantra geändert. Die ersten Kha-Bijas sowie Hum tragen Chandrabindu.] [Fortsetzung im folgenden Vers.]

Band II, S. 316, Sharabhas Gestalt und Purashcharana 704–706
कालान्तदहनप्रख्यो नीलजीमूतनिःस्वनः |
अरिर्यद्दर्शनादेव विनष्टबलविक्रमः ||
७०४ ||
सटाच्छटोग्ररूपाय पक्षविक्षिप्तभूभृते |
अष्टपादाय रुद्राय नमः शरभमूर्तये ||
७०५ ||
पुरश्चरणमाह— एवं ध्यायन् सहस्रं तु प्रजपेत् पायसं हुनेत् |
प्रत्यहं मासषट्केण मन्त्रसिद्धिः प्रजायते ||
७०६ ||


Lesungshinweise: [Die acht Füße werden hier ausdrücklich genannt; die anders gegliederte Gestaltbeschreibung in Vers 703 bleibt daneben stehen.]

Band II, S. 316, Kshetrapala-Mantra 707–709
अथ क्षेत्रपालमन्त्रः शारदायाम्— वर्णान्त्यमौबिन्दुयुक्तं क्षेत्रपालाय हृन्मनुः |
ताराद्यो वसुवर्णोऽयं क्षेत्रपालस्य कीर्त्तितः |
षड्दीर्घभाजा बीजेन षडङ्गान्यस्य योजयेत् ||
७०७ ||
अथ ध्यानम्— नीलाञ्जनाद्रिनिभमूर्ध्वपिशङ्गकेशं वृत्तोग्रलोचनमुपात्तगदाकपालम् |
आशाम्बरं भुजगभूषणमुग्रदंष्ट्रं क्षेत्रेशमद्भुततनुं प्रणमामि देवम् ||
७०८ ||
अथ पुरश्चरणम्— लक्षमेकं जपेन्मन्त्रं जुहुयात् तद्दशांशतः |
चरुणा घृतसिक्तेन ततः क्षेत्रेशमर्चयेत् ||
७०९ ||


Band II, S. 316–317, Batuka-Mantra und Nyasa 710–715
अथापदुद्धारवटुकमन्त्रस्तत्रैव— उद्धरेद्वटुकं डेऽन्तमापदुद्धारणं तथा |
कुरुद्वयं पुनर्डेऽन्तं वटुकं तं समुद्धरेत् ||
७१० ||
एकविंशत्यक्षरात्मा शक्तिरुद्धो महामनुः |
अभीष्टफलसंसिद्ध्यै कीर्त्तितः सुरपादपः ||
७११ ||
बृहदारण्यक ऋषिश्छन्दोऽनुष्टुबुदाहृतम् |
आपदुद्धारणो देवो भैरवो देवता बुधैः ||
७१२ ||
अङ्गुलीदेहवक्त्रेषु मूर्तीर्न्यसेद्यथा पुरा |
सद्यादिपञ्चह्रस्वाढ्यं शक्तिबीजपुरःसरम् ||
७१३ ||
वकारं पञ्चह्रस्वाढ्यमीशानादिषु योजयेत् |
षड्दीर्घयुक्तया शक्त्या वकारेण च तद्वता ||
७१४ ||
अङ्गानि जातियुक्तानि प्रणवाद्यादि कल्पयेत् |
तस्य ध्यानं त्रिधा प्रोक्तं सात्त्विकादिविभेदतः ||
७१५ ||


Lesungshinweise: [Die Bitte lautet dem Sinn nach: Batuka, bewirke die Rettung aus Bedrängnis.] [Man verwende] [Lautverbindungen] [vorgesehenen Bestandteilen]

Band II, S. 317, Batukas drei Meditationen und Purashcharana 716–721
अथ ध्यानम्— वन्दे बालं स्फटिकसदृशं कुण्डलोल्लासिवक्त्रं दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराढ्यैः |
दीप्ताकारं विशदवसनं सुप्रसन्नं त्रिनेत्रं हस्ताब्जाभ्यां वटुकमनिशं शूलदण्डौ दधानम् ||
७१६ ||
उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः |
नीलग्रीवमुदारभूषणधरं शीतांशुचूडोज्ज्वलं बन्धूकारुणवाससं भयहरं देवं सदा भावयेत् ||
७१७ ||
ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गपाशाभयानि |
नागं घण्टां कपालं करसरसिरुहैर्बिभ्रतं भीमदंष्ट्रं सर्पाकल्पं त्रिनेत्रं मणिमयविलसत्किङ्किणीनूपुराढ्यम् ||
७१८ ||
सात्त्विकं ध्यानमाख्यातमपमृत्युनिवारणम् |
आयुरारोग्यजननमपवर्गफलप्रदम् ||
७१९ ||
राजसं ध्यानमाख्यातं धर्मकामार्थसिद्धिदम् |
तामसं शत्रुशमनं कृत्याभूतग्रहापहम् ||
७२० ||
अथ पुरश्चरणम्— वर्णलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः |
तद्दशांशं प्रजुहुयात् तिलैर्मधुरसंयुतैः ||
७२१ ||


Band II, S. 317–318, Pashupata-Astra-Mantra 722–725
अथ पाशुपतास्त्रमन्त्रः शारदायाम्— तारो वान्तो धरासंस्थो वामनेत्रेन्दुभूषितः |
पार्श्वो वक्रः कर्णयुतो वर्मास्त्रान्तः षडक्षरः ||
७२२ ||
मनुः पाशुपतास्त्राख्यो ग्रहक्षुद्रनिवारणः |
षड्भिर्वर्णैः षडङ्गानि हुँ फडन्तैः सजातिभिः ||
७२३ ||
अथ ध्यानम्— मध्याह्नार्कसमप्रभं शशिधरं भीमाट्टहासोज्ज्वलं त्र्यक्षं पन्नगभूषणं शिखिशिखाश्मश्रुस्फुरन्मूर्धजम् |
हस्ताब्जैस्त्रिशिखं समुद्गरमसिं शक्तिं दधानं विभुं दंष्ट्राभीमचतुर्मुखं पशुपतिं दिव्यास्त्ररूपं स्मरेत् ||
७२४ ||
पुरश्चरणम्— वर्णलक्षं जपेन्मन्त्रं जुहुयात् तद्दशांशतः |
गव्येन सर्पिषा मन्त्री संस्कृते हव्यवाहने ||
७२५ ||


Lesungshinweise: [vollziehe man] [Die verschlüsselte Lautfolge wird nicht aus Vermutungen ergänzt.]

Band II, S. 318, Harihara-Mantra und Abschluss des Shiva-Abschnitts 726–730
अथ हरिहरमन्त्रस्तन्त्रान्तरे— मायां पूर्वं समुद्धृत्य प्रासादं तत उद्धरेत् |
ततः शङ्करनारायणाय हृत्प्रणवादिकः ||
७२६ ||
त्रयोदशाक्षरो मन्त्रश्चतुर्वर्गफलप्रदः |
नारदोऽस्य ऋषिः प्रोक्तश्छन्दोऽनुष्टुप् प्रकीर्त्तितम् ||
७२७ ||
त्रैलोक्यवन्द्यपादाब्जो देवता हरिशङ्करः |
षडङ्गानि प्रकुर्वीत दीर्घषट्काढ्यमायया ||
७२८ ||
अथ ध्यानम्— शूलं चक्रं पाञ्चजन्यमभीतिं दधतं करैः |
स्वस्वभूषाच्छनीलार्धदेहं हरिहरं भजे ||
७२९ ||
अथ पुरश्चरणम्— लक्षमेकं जपेन्मन्त्रं तद्दशांशं घृतप्लुतैः |
पायसैर्हवनं कुर्यात् संस्कृते हव्यवाहने ||
७३० ||
इति शिवप्रकरणम् |


Band II, S. 318, Gauri-Mantra und Dhyana 731–733
अथ गौरीमन्त्रः सिद्धान्तसंग्रहे— ह्रीँ गौरि रुद्रदयिते योगेश्वरि पदं वदेत् |
हुँ फट् स्वाहा षोडशार्णो गौरीमन्त्रः प्रकीर्त्तितः ||
७३१ ||
अजो मुनिस्तथाऽनुष्टुप् छन्दो गौर्यस्य देवता |
मायया तु षडङ्गानि कुर्यात् षड्दीर्घयुक्तया ||
७३२ ||
ध्यानम्— हेमाभां बिभ्रतीं दोर्भिर्दर्पणाञ्जनसाधने |
पाशाङ्कुशौ दिव्यभूषां गौरीं देवीमुपास्महे ||
७३३ ||


Lesungshinweise: [Die Anrufung bedeutet: Gauri, Geliebte Rudras, Herrin des Yoga. Hrim und Hum tragen hier Chandrabindu; Bijas sind nicht wörtlich übersetzbar.]

Band II, S. 319, Gauri-Purashcharana und Bhavani-Mantra 734–736
अथ पुरश्चरणम्— लक्षमेकं जपेन्मन्त्रं दशांशं जुहुयाद् घृतैः |
तर्पणाद्यं ततः कृत्वा काम्यकर्माणि साधयेत् ||
७३४ ||
अथ मन्त्रान्तरं वक्ष्ये मायाबीजं समुद्धरेत् |
ङेऽन्तां भवानीमुच्चार्य नमः शेषे प्रकीर्त्तयेत् |
न्यासजालं पुरा प्रोक्तं देवीं ध्यायेत् समाहितः ||
७३५ ||
ध्यानं यथा— बालार्काभां त्रिनयनां खड्गखेटवराभयान् |
दोर्भिर्दधानां सिंहस्थां भवानीं भावयेत् सदा ||
७३६ ||
अस्य पुरश्चरणं पूर्ववदेकलक्षजपः |
इति भवानीप्रकरणम् |


Band II, S. 319, Garuda-Mantra und Angas 737–743
अथ गरुडमन्त्रो मेरुतन्त्रे— वक्ष्येऽथ गारुडं मन्त्रं क्षिप्तारोऽग्निगेहिनी |
पञ्चाक्षरो मनुः पङ्क्तिश्छन्दोऽनन्तो मतो मुनिः ||
७३७ ||
देवता गरुडस्तारो बीजं शक्तिर्दहाङ्गना |
स्वाहान्तो हृदये न्यस्यो ज्वलज्वल महामते ||
७३८ ||
रुद्रचूडानन स्वाहाऽङ्गस्यान्ते मस्तके न्यसेत् |
गरुडान्ते शिखे स्वाहा शिखाया मनुरीरितः ||
७३९ ||
वर्ममन्त्रस्तु गरुड प्रभञ्जययुगं वदेत् |
द्विः प्रभेदय वित्रासय दुष्टपङ्क्तिं विमर्दय ||
७४० ||
स्वाहा सप्तत्रिंशदर्णो नेत्रमन्त्रोऽथ कथ्यते |
उग्ररूपधरेत्युक्त्वा सर्वं विषहरेति च ||
७४१ ||
भीषय द्वितयं सर्वं दहयुग्मं ततो वदेत् |
भस्मीकुरु कुरु स्वाहा दन्तवर्णो मतो मनुः ||
७४२ ||
अस्त्रमन्त्रोऽप्रतिहतबलाप्रतिहतेति च |
शासनान्ते वदेद्धुँ फट् स्वाहान्तोऽष्टादशाक्षरः ||
७४३ ||


Lesungshinweise: [die Verbindung kshiptara im Druck ist nicht eindeutig getrennt] [-Wort] [Die Anga-Anrufungen nennen Flammen, Garudas furchtbare Gestalt und ungehinderte Macht. Sie fordern ihn auf, Gift zu entfernen, die Schar der Schädlichen zu erschrecken und zu zermalmen sowie alles zu verbrennen und zu Asche zu machen. Die teilweise gestörte Wortgliederung bleibt erkennbar.] Nun der Garuda-Mantra im Merutantra: 737–739: „Jetzt erkläre ich den Garuda-Mantra: Kshi, Tara und die Gemahlin des Feuers [die Verbindung kshiptara im Druck ist nicht eindeutig getrennt].

Band II, S. 319–320, Garuda-Dhyana und Purashcharana 744–746
अथ ध्यानम्— चञ्च्वग्रप्रचलद्भोगिभोगं मुकुटमण्डितम् |
पक्षोच्चारितसत्सामगानं विषहरं भजे ||
७४४ ||
अस्य पुरश्चरणं पञ्चलक्षजपः |
पञ्चलक्षं जपेन्मनुम् ... ... ... इति तत्रैवोक्तत्वात् |
तथा— तिलैर्हुनेत् तर्पणादि कृत्वा सिद्धो मनुर्भवेत् |
दर्शनादुरगास्तस्य नष्टा नश्येद्विषद्वयम् ||
७४५ ||
विष्णुभक्तिपरो भूयात् स्वयमेवारिनाशनः |
इह लोके सुखी दीर्घजीवी भूपतिपूजितः |
परत्र याति वैकुण्ठम् ... ... ... ||
७४६ ||
इत्यादि |


Lesungshinweise: [Auslassungszeichen bereits in der Quelle.] [Auch der Schluss ist vom Werk selbst verkürzt zitiert.]

Band II, S. 320, Kartaviryarjuna-Mantra und Angas 747–753
अथ कार्तवीर्यमन्त्रस्तत्रैव— अथातः संप्रवक्ष्यामि विंशन्मन्त्राँस्तु दक्षिणे |
आम्नाये यत्साधकानामक्लेशादष्टसिद्धयः ||
७४७ ||
द्वाविंशतुर्यौ ताराद्यौ दक्षे वामे सतुर्यकौ |
चतुर्दशस्वरोपेतौ शेषाम्नायेषु तद्भवेत् ||
७४८ ||
बिन्दुयुक्तं त्वाद्यबीजं चतुर्थस्वरसंयुतम् |
षट्त्रिंशतुर्यौ बिन्द्वाढ्यौ द्वितीयं बीजमुच्यते ||
७४९ ||
कामबीजं तृतीयं स्याद् द्वादशार्णं चतुर्थकौ |
षष्ठस्वरेन्दुसंयुक्तौ चतुर्थं बीजमुच्यते ||
७५० ||
पाशो लज्जाऽङ्कुशो लक्ष्मीकवचास्त्रमिदं भवेत् |
बीजानां दशकं ङेऽन्तः कार्तवीर्यार्जुनो नमः ||
७५१ ||
एकोनविंशत्यर्णोऽयं दत्तात्रेयो मुनिः स्मृतः |
छन्दोऽनुष्टुप् कार्तवीर्यार्जुनो देवः प्रकीर्तितः ||
७५२ ||
फ्राँ ब्रामिति स्याद्धृदयं क्लीँ श्रीमिति शिरः स्मृतम् |
ऊँ हूँ शिखा समाख्याता कैँ श्रीँ कवचमीरितम् |
हुँ फडस्त्रं समाख्यातं शेषेण व्यापकं चरेत् ||
७५३ ||


Lesungshinweise: [Buchstabe] [Weg] [Vokal] [Die Bijas sind keine gewöhnlichen Wörter. In der Silbenfolge des Verses 753 bleiben die überlieferten Unterschiede der Nasalzeichen erhalten; bei bra und shri vor iti ist ein Nasal nicht zuverlässig zu lesen. Die Zahl- und Vokalschlüssel von 748–750 werden nicht zu einer vermuteten Gesamtformel ergänzt.]

Band II, S. 320–321, Kartaviryarjuna-Dhyana und Purashcharana 754–757
न्यासान्तराण्युक्त्वा ध्यानमाह— प्रभाकररुचिः स्वर्णकण्ठमालाविराजितः |
ध्येयो रक्तांशुकोष्णीषी नानाकल्पविभूषितः ||
७५४ ||
सहस्रार्धभुजैर्बाणान् सहस्रार्धैर्धनूंषि च |
दधट्टङ्कारशब्दैश्च त्रासिताखिलदुर्जनः ||
७५५ ||
सम्यग्बाणासनारूढः सप्तद्वीपधरापतिः |
भूपालमुकुटाघृष्टपादपद्मोऽब्जलोचनः |
स्थूलकायोऽतिभीमश्च रथस्थो भक्तवत्सलः ||
७५६ ||
अथ पुरश्चरणम्— चतुर्लक्षं जपेन्मन्त्रं होमः कार्यः पयोऽन्धसा |
तिलाज्यतण्डुलैर्वाऽपि पुरश्चर्या सरित्तटे |
तर्पणादि ततः कुर्यान्मन्त्रसिद्धिः प्रजायते ||
७५७ ||


Lesungshinweise: [banasana ist hier nicht eindeutig] Fest auf dem Bogensitz stehend [banasana ist hier nicht eindeutig], ist er Herr der Erde mit ihren sieben Inselkontinenten.

Band II, S. 321–322, Kartaviryarjuna-Mantravarianten 758–773
अथ मन्त्रभेदाः— अथातः संप्रवक्ष्यामि कार्तवीर्यमनोर्भिदः |
एकोनविंशत्यर्णोऽयं तारादिर्नखवर्णकः ||
७५८ ||
छन्दर्षिन्यासपूजादि सर्वं पूर्ववदीरितम् |
द्वितीयोऽयं भेद उक्तो भजतामिष्टदायकः ||
७५९ ||
कार्तवीर्यार्जुनायेति नमो मूलं नवाक्षरम् |
फ्राँ पूर्वको दशार्णोऽयं विराट् छन्द उदीरितम् ||
७६० ||
सर्वार्थसिद्धये चास्य नियोगोऽन्यत् तु पूर्ववत् |
न्यासपूजादिकं सर्वं भेदोऽयं तु तृतीयकः ||
७६१ ||
फ्राँ श्रीँ पूर्वो नवार्णस्तु भवेदेकादशाक्षरः |
प्राग्वन्मुन्यादिकं सर्वं छन्दस्त्रैष्टुभमुच्यते ||
७६२ ||
नियोगस्तम्भनायास्य चौराणां वसुहारिणाम् |
प्राग्वत् पूजाप्रयोगादि तुर्यो भेदो निरूपितः ||
७६३ ||
फ्राँ क्लीँ पूर्वो नवार्णस्तु भवेदेकादशाक्षरः |
नरनारीनृपाणां च मोहनाय नियोजनम् ||
७६४ ||
मुनिश्छन्दोमुखं प्राग्वत् प्रयोगाँश्चापि साधयेत् |
एवं तु पञ्चमो भेदो मन्त्रस्य परिकीर्त्तितः ||
७६५ ||
फ्राँ भ्रूँ पूर्वो नवार्णस्तु षष्ठो भेदश्च पूर्ववत् |
मुन्यादि भ्रमणोच्चाटद्वेषमारणकर्मकृत् ||
७६६ ||
फ्राँ ह्रीमन्ते नवार्णस्तु भेदः सप्तमको भवेत् |
वश्यं पापक्षयं मोहं शुभं च तनुते सदा ||
७६७ ||
फ्राँ माँ नवाक्षरश्चेति ह्यष्टमोऽर्चादि पूर्ववत् |
वक्त्रस्तम्भे वा गतिस्तम्भे नियोगः परिकीर्तितः ||
७६८ ||
फ्राँ श्रीँ नवाक्षरश्चेति दशमो भेद उच्यते |
त्रिष्टुप् छन्दोऽन्यदखिलमूनविंशतिवद्भवेत् ||
७६९ ||
फ्राँ वाग्बीजं नवार्णश्च भेद एकादशः स्मृतः |
हुँ फड्नवार्ण इति च द्वादशार्चादि पूर्ववत् ||
७७० ||
तृतीयभेदस्ताराद्यो मन्त्र एकादशाक्षरः |
त्रयोदशस्तु भेदोऽयं सर्वं पूर्ववदीरितम् ||
७७१ ||
एवं भेदाश्चतुर्थाद्याः सप्त प्रणवपूर्वकाः |
द्वादशाद्याः सप्त मन्त्रा जगतीच्छन्दसो मताः ||
७७२ ||
प्राग्वन्मुन्यादिकं सर्वं प्रयोगः पूर्ववन्मतः |
दक्षिणाम्नायगाश्चैते विंशन्मन्त्राः प्रकीर्त्तिताः ||
७७३ ||


Lesungshinweise: [die Verbindung mit „am Ende“ ist im Druck nicht eindeutig] [Die Zählung springt im vorliegenden Text von der achten zur zehnten Variante; die wiederholte Phram-Shrim-Folge wird nicht stillschweigend ersetzt. Die Quellenfußnote zu Vers 759 bezeichnet dies als tantrisches Verfahren.] 767: Phram und Hrim [die Verbindung mit „am Ende“ ist im Druck nicht eindeutig], dazu der neunsilbige: Das ist die siebente Variante. Die Quellenfußnote zu Vers 759 bezeichnet dies als tantrisches Verfahren.]

Band II, S. 322, Kartaviryarjuna im oberen Amnaya 774–775
अथोर्ध्वाम्नाये— ॐ नमः कार्तवीर्यार्जुनाय वर्मास्त्रठद्वयम् |
चतुर्दशार्णमन्त्रोऽयमष्टमः परिकीर्त्तितः ||
७७४ ||
भूनेत्रसप्तनेत्राक्षिवर्णैरस्याङ्गपञ्चकम् |
एकोनविंशदर्णस्य मुन्याद्यमखिलं मतम् ||
७७५ ||


Lesungshinweise: [Auch die Bezeichnung „achter“ steht so in der Quelle und wird nicht an die vorangehende Zählung angeglichen.]

Band II, S. 322–323, Kartaviryarjuna-Mala-Mantra 776–788
अथ मालामन्त्रः— तारो नमो भगवते ततः श्रीपदमुच्चरेत् |
कार्तवीर्यार्जुनायेति हैहयेति पदं ततः ||
७७६ ||
नाथाय श्रीकार्तवीर्यार्जुनेति च सहस्रशः |
करसदृशसर्वेति दुष्टान्तकपदात् पठेत् ||
७७७ ||
सर्वशिष्टेष्टदपदं सर्वत उदधेः पदम् |
आगन्तुकामान् प्रवदेदस्मद्वसुविलुम्पकान् ||
७७८ ||
चौरसमूहान् स्वकरसहस्रैश्च निवारय |
रुन्धस्व पाशसहस्रैर्बन्धयेति ततोऽङ्कुशः ||
७७९ ||
सहस्रैराकर्षय स्वचापोद्धूतपदात् ततः |
वदेद्बाणसहस्रैश्च भिन्दि भिन्दीति संवदेत् ||
७८० ||
स्वहस्तोद्धूतखड्गेति सहस्रैश्छिन्धियुग्मकम् |
स्वहस्तोद्धूतमुशलसहस्रैर्मर्दयद्वयम् ||
७८१ ||
स्वशङ्खोद्धूतनादेति सहस्रैर्भीषयद्वयम् |
स्वहस्तोद्धूतचक्रेति सहस्रैर्द्विर्निकृन्तय ||
७८२ ||
परकृत्यां त्रासय द्विस्ततश्चाकर्षयद्वयम् |
भ्रामय द्विर्मोहय द्विरुद्वासययुगं वदेत् ||
७८३ ||
उन्मादयद्वयं द्वेधा तापय द्विर्विनाशय |
द्वेधा विदारय स्तम्भयद्वयं जृम्भय द्वयम् ||
७८४ ||
मारयद्वितयं प्रोच्य वशं कुरु वशं कुरु |
उच्चाटयोच्चाटयेति विनाशय विनाशय ||
७८५ ||
दत्तात्रेयश्रीपदान्ते पादप्रियतमेति च |
श्रीकार्तवीर्यार्जुनेति सर्वगश्चोदधेर्वदेत् ||
७८६ ||
आगन्तुकामान् प्रवदेदस्मद्वसुविलुम्पकान् |
चौरसमूहान् सम्यक् च वदेदुन्मूलयद्वयम् ||
७८७ ||
हुँ फट् स्वाहेति मन्त्रोऽयं बाणाब्ध्यनलवर्णवान् |
प्रोक्तः पञ्चदशश्छन्दो गायत्र्यन्यच्च पूर्ववत् ||
७८८ ||


Lesungshinweise: [diese Wortverbindung ist gestört] [Anrufung: Verehrung dem erhabenen Shri Kartaviryarjuna, Herrn der Haihayas, Vernichter der Bösen, Spender des von allen Rechtschaffenen Ersehnten.] [Die folgende Verbindung sarvagashchodadheh ist gestört.] [in Zahlwörtern] [üblicherweise 345 gelesen] [Zu „jrim bhaya“/jṛmbhaya verzeichnet die Ausgabe als Variante bhanjaya, „zerbrich“, jeweils zweimal. Die aggressive Ritualsprache gehört zur Quelle.]

Band II, S. 323, Mala-Mantra-Nyasa und Purashcharana 789–794
दत्तात्रेयप्रियतमं ङेऽन्तं हृदि तु विन्यसेत् |
माहिष्मतीति नाथाय शिरोमन्त्रो नगाक्षरः ||
७८९ ||
रेवती च जलक्रीडासक्तायेति शिखा मता |
हैहयाधिपतिर्डेऽन्तः कवचः परिकीर्त्तितः ||
७९० ||
सहस्रबाहवेऽस्त्रं स्यादेवं पञ्चाङ्गमीरितम् ||
७९१ ||
अथ ध्यानम्— उदग्रबाणांश्चापानि दधतं सूर्यसन्निभम् |
प्रपूरयन्तं ब्रह्माण्डं धनुर्ज्यानिःस्वनैस्तथा ||
७९२ ||
कार्तवीर्यं नृपं ध्यायेद् गण्डशोभितकुण्डलम् |
एवं ध्यात्वा समभ्यर्च्य सर्वकर्माणि साधयेत् ||
७९३ ||
अथ पुरश्चरणम्— त्रिसहस्रं जपः प्रोक्तः शेषं पूर्ववदाचरेत् ||
७९४ ||


Lesungshinweise: [Die Beinamen bedeuten: Liebling Dattatreyas, Herr von Mahishmati, dem Wasserspiel Hingegebener, Herr der Haihayas und Tausendarmiger. Die Verbindung Revati wird nicht eigenmächtig in einen anderen Flussnamen geändert.] [gewünschten]

Band II, S. 324, Anwendungen des Kartaviryarjuna-Mantras 795–803
अथ प्रयोगः— दक्षोत्तरैः प्रतिशतेरेतान्यस्त्राणि संदधत् |
चक्रेषुखड्गमुशलकुठारान् पाशमेव च ||
७९५ ||
प्रासचर्मधनुःशङ्खान् मध्यभास्करसन्निभम् |
बलाढ्यमरुणं घोरं तालमातङ्गसंस्थितम् ||
७९६ ||
रक्ताम्बरं रक्तनेत्रं ध्यात्वैवं प्रजपेन्मनुम् |
निशीथेऽष्टोत्तरशतं नष्टद्रव्याप्तिसिद्धये ||
७९७ ||
जपेन्निश्येकपादेन षण्मासानष्टयुक् शतम् |
संप्रार्थ्य मन्त्रिणं चौराः प्रयच्छन्त्यखिलं धनम् ||
७९८ ||
चौरैर्हतपशून् मन्त्री यदा नेतुं समिच्छति |
जपेदष्टोत्तरशतं ध्यायेद्देवं नृपाशितान् ||
७९९ ||
कण्ठे सम्यक् सर्वपशून् गृहाभिमुखमागतान् |
ध्यात्वैवं द्वादशाहेन ते चायान्ति विमोचिताः ||
८०० ||
चौरैर्हतं च व्रीह्यादि तच्छेषं होमयन्निशि |
हृतं प्रकाश्यते भीतैश्चौरैर्झटिति नान्यथा ||
८०१ ||
बाणान् प्रवेशयेद्रात्रौ धनुषा ध्यानतत्परः |
दशदिक्षु जपेन्मन्त्रं राष्ट्रादे रक्षणं भवेत् ||
८०२ ||
मन्त्रेण परिजप्तानि पार्थिवानि रजांसि च |
क्षिप्तानि मन्त्रिणा यत्र तत्र रक्षा भवेन्निशि ||
८०३ ||


Lesungshinweise: [Händen] [die folgende Verbindung mit nṛpāśitān ist gestört] [erfasst] [Gebiete]

Band II, S. 324–325, Weiterer Kartavirya-Mantra und Amnayas 804–812
मन्त्रान्तरमाह— फ्रोमित्येकाक्षरो मन्त्रः कार्तवीर्यस्य षोडशः |
मुनिपूजादिकं प्राग्वल्लक्षमेकं पुरस्क्रिया ||
८०४ ||
षड्दीर्घयुक्तेनानेन षडङ्गविधिरीरितः |
प्राग्वत् प्रयोगा इत्येवमूर्ध्वाम्नायः प्रकीर्त्तितः ||
८०५ ||
पश्चिमाम्नायमन्त्रास्तु प्रोक्ताश्चारब्धभाषया |
अष्टौ शतान्यशीतिश्च येषां संसाधनात् कलौ ||
८०६ ||
पञ्च खानाः सप्त मीराः नव शाहा महाबलाः |
हिन्दुधर्मप्रलोप्तारो जायन्ते चक्रवर्तिनः ||
८०७ ||
पूर्वाम्नाये नवशतं षडशीतिः प्रकीर्त्तिताः |
फिरङ्गभाषया मन्त्रास्तेषां संसाधनाद् भुवि ||
८०८ ||
अधिपो मन्दिराणां च संग्रामेष्वपराजिताः |
अंग्रेजा नवषट्पञ्च लन्दजाश्चापि भाविताः ||
८०९ ||
विद्या बौद्धनिदर्शिन्यां पञ्च प्रोक्तास्तु या मया |
तद्बीजपूर्वाः सर्वेऽपि मनवो वामसिद्धिदाः ||
८१० ||
दक्षिणाचारफलदः कार्तवीर्यार्जुनो नृपः |
वामचारेण शूद्राणामिह लोके फलप्रदः ||
८११ ||
न वामिनां हितार्थं तु कार्तवीर्यं प्रयोजयेत् |
सप्तजन्मसु दारिद्र्यं पैशाच्यं प्राप्नुयाद् द्विजः ||
८१२ ||
इति कार्तवीर्यप्रकरणम् |


Lesungshinweise: [so die vorliegende Schreibung vor iti; Nasalierung nicht ergänzt] [gedruckt arabdha, unsichere Form] [Zahlverbindung unklar] [Bezeichnung unklar] [Die polemischen Aussagen über Religions- und Bevölkerungsgruppen gehören zur historischen Quelle; die Ausgabe übernimmt sie nicht als eigenes Urteil.] 806–807: In der westlichen Überlieferung sind achthundertachtzig Mantras in arabischer Sprache [gedruckt arabdha, unsichere Form] gelehrt.

Band II, S. 325, Achtzehnsilbiger Hanuman-Mantra 813–817
अथ हनुमन्मन्त्रस्तत्रैव— अथान्यं संप्रवक्ष्यामि मन्त्रमष्टादशाक्षरम् |
नमो भगवते प्रोच्य आञ्जनेयाय संवदेत् ||
८१३ ||
महाबलाय स्वाहेति मुनिरस्येश्वरः स्मृतः |
छन्दोऽनुष्टुब् देवता तु हनुमान् हँ च बीजकम् ||
८१४ ||
स्वाहा शक्तिश्चाञ्जनेयो रुद्रमूर्तिर्मरुत्सुतः |
अग्निगर्भो रामदूतो ब्रह्मास्त्रविनिवारकः |
एतैर्ङेऽन्तैः षडङ्गानि तथाऽङ्गुष्ठादिषु न्यसेत् ||
८१५ ||
अथ ध्यानम्— तप्तकाञ्चनसंकाशं हृदये निहिताञ्जलिम् |
किरीटिनं कुण्डलिनं ध्यायेद्वानरनायकम् ||
८१६ ||
अथ पुरश्चरणम्— अयुतं प्रजपेन्मन्त्रं तु प्राग्वत् सिद्धो भवेन्मनुः |
विप्रसन्तर्पणाद्यं तु प्राग्वत् सिद्धो भवेन्मनुः ||
८१७ ||


Lesungshinweise: [Verehrung dem erhabenen Sohn Anjanas, dem überaus Starken, Svaha] [Die Beinamen bedeuten Sohn Anjanas, Gestalt Rudras, Sohn des Windes, Feuer im Innern Tragender, Bote Ramas und Abwehrer der Brahma-Waffe.] [Die Wiederholung steht so im Druck.]

Band II, S. 325–326, Hanuman-Anwendungen 818–825
अथ काम्यानि— जितेन्द्रियो नक्तभोजी प्रत्येकं साष्टकं शतम् |
जपित्वा क्षुद्ररोगेभ्यो मुच्यते दिवसत्रयात् ||
८१८ ||
भूतप्रेतपिशाचादिनाशायैवं समाचरेत् |
महारोगनिवृत्त्यै तु सहस्रं त्रिदिनं जपेत् ||
८१९ ||
यताशनोऽयुतं नित्यं जपेद्ध्यायन् कपीश्वरम् |
राक्षसौघं विनिघ्नन्तमचिराज्जयति द्विषः ||
८२० ||
सुग्रीवेण समं रामं संदधानं स्मरन् कपिम् |
प्रजप्यायुतमात्रं तु सन्धिं कुर्याद्विरुद्धयोः ||
८२१ ||
लङ्कां दहन्तं तं ध्यायन्नयुतं प्रजपेन्मनुम् |
शत्रूणां प्रदहेद् ग्रामानचिरादेव साधकः ||
८२२ ||
प्रयाणसमये ध्यायन् हनुमन्तं मनुं जपेत् |
यो याति सोऽचिरात् स्वेष्टं साधयित्वा गृहं व्रजेत् ||
८२३ ||
यः कपीशं सदा गेहे पूजयेज्जपतत्परः |
आयुर्लक्ष्म्यौ प्रवर्तेते तस्य नश्यन्त्युपद्रवाः ||
८२४ ||
शार्दूलतस्करादिभ्यो रक्षेन्मनुरयं स्मृतः |
प्रस्थानकाले चौरेभ्यो दुष्टसर्पादपि ध्रुवम् ||
८२५ ||


Lesungshinweise: [den Mantra]

Band II, S. 326, Hanuman-Bild und Fahne 826–830
पुच्छाकारे सुवसने लेखन्या कोकिलोत्थया |
अष्टगन्धैर्लिखेद्रूपं कपिराजस्य सुन्दरम् ||
८२६ ||
तन्मध्येऽष्टादशार्णं तु शत्रूणामयुतं लिखेत् |
तेन मन्त्राभिजप्तेन शिरोबन्धेन भूमिपः ||
८२७ ||
जयत्यरिगणं सर्वं दर्शनादेव निश्चितम् |
यद्वा जिगीषुर्नृपतिः पूर्वोक्तं लेखयेद्ध्वजे ||
८२८ ||
ध्वजमादायोपरागे संस्पर्शान्मोक्षणावधि |
मान्त्रिकाज्जापयेत् पश्चाद्दशांशेन हुतं चरेत् ||
८२९ ||
सर्षपैस्तिलसंमिश्रैः संस्कृते हव्यवाहने |
गजस्थं तं ध्वजं दृष्ट्वा पलायन्तेऽरयोऽचिरात् ||
८३० ||


Lesungshinweise: [Mantra] [die Formulierung lässt offen, ob Namen gemeint sind]

Band II, S. 326, Achtssilbiger Hanuman-Mantra 831–832
अथ मन्त्रान्तरं तत्रैवोक्तम्— अथान्यं संप्रवक्ष्यामि मन्त्रमष्टाक्षरं परम् |
षड्दीर्घयुक्ता हृल्लेखा प्रणवेन च संपुटा ||
८३१ ||
अष्टार्णोऽयं हनुमतो मन्त्रराजः प्रकीर्त्तितः |
षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः ||
८३२ ||


Band II, S. 327, Hanuman-Dhyana und Purashcharana 833
अस्य ऋषिः श्रीरामः जगती छन्दो हनुमान् देवता |
अथ ध्यानम्— बालार्काभं त्रिभुवनं क्षोभकान् सर्वराक्षसान् |
नादेनैव त्रासयन्तं सुग्रीवादिकसेवितम् |
सुन्दरं रामचरणध्यानं ध्यायेत् समीरजम् ||
८३३ ||
अस्य पुरश्चरणं द्वादशसहस्रजपः ‘सर्वमस्य द्वादशार्णवदिति’ त्युक्तत्वात् |


Band II, S. 327, Zwölfsilbiger Hanuman-Mantra und Kutas 834–840
द्वादशार्णमन्त्रोऽपि तत्रैव— अथास्यान्यं प्रवक्ष्यामि द्वादशार्णं महामनुम् |
हाँ बीजं सम्यगुच्चार्य पूर्वोक्तं कूटपञ्चकम् ||
८३४ ||
हनुमते नमो मन्त्रो रामचन्द्रो मुनिर्मतः |
जगती छन्द उद्दिष्टं हनुमान् देवता मतः ||
८३५ ||
बीजं तु पञ्चमं कूटं शक्तिराद्यं तु कूटकम् |
षड्बीजैः प्रथमैर्न्यासः षडङ्गोऽस्य प्रकीर्तितः ||
८३६ ||
कूटपञ्चकं तु— आद्यान्ताकृतिवेदार्णा बिन्दुरुद्रस्वरान्विताः |
हनूमतस्त्वाद्यकूटमेतत् साधक उच्चरेत् ||
८३७ ||
प्रकृत्याकृतिवेदार्णा बिन्दुरुद्रस्वरान्विताः |
द्वितीयकूटमेतत् स्यादाद्यन्ताकृतिवर्णकाः ||
८३८ ||
विसर्गेन्दुस्वरोपेतास्तृतीयं कूटमुच्यते |
आद्यन्तसिद्धाकृत्यब्धिवर्णैरीशस्वरान्वितैः |
सानुस्वारैस्तुर्यकूटं साद्यः सौः पञ्चमं मतम् ||
८३९ ||
अथ ध्यानपुरश्चरणे— ध्यानं पूर्वोक्तमेवास्य जपेदर्कसहस्रकम् |
दशांशं जुहुयाद् व्रीहीन् पयोदध्याज्यसंयुतान् ||
८४० ||


Lesungshinweise: [Die Chiffren werden nicht zu vermuteten Lautfolgen aufgelöst; besonders die letzte Verbindung ist nicht eindeutig.] Sauh mit Sa am Anfang gilt als fünftes.“ [Die Chiffren werden nicht zu vermuteten Lautfolgen aufgelöst; besonders die letzte Verbindung ist nicht eindeutig.] Nun Dhyana und Purashcharana: 840: „Seine Meditation ist genau die zuvor erklärte.

Band II, S. 327–328, Hanumans Mala-Mantra 841–846
अथ मालामन्त्रस्तत्रैव— अथातः संप्रवक्ष्यामि मालामन्त्रं वदेद्ध्रुवम् |
वज्रकाय वज्रतुण्ड वदेत् कपिलपिङ्गलः ||
८४१ ||
ऊर्ध्वकेश महाबलेति रक्तमुख कीर्त्तयेत् |
तडिज्जिह्व महारौद्र दंष्ट्रोत्कटक हद्वयम् ||
८४२ ||
करालिने महा प्रोच्य एहेहीति पदं वदेत् |
हि लङ्केश्वर वेत्युक्त्वा धाय महा वदेत् परम् ||
८४३ ||
सेतुबन्धमहाशैलप्रवाह गगनेचर |
एह्येहि भगवन् प्रोच्य महाबलपराक्रम ||
८४४ ||
भैरवाज्ञापय प्रोच्य दीर्घपुच्छेन वेष्टय |
महारौद्रपदं प्रोच्य दीर्घपुच्छेन वेष्टय ||
८४५ ||
वैरिणं भञ्जय द्वन्द्वं हुँ फड् बाणार्कवर्णवान् |
मुन्याद्यर्चाप्रयोगादि सर्वं सूर्यार्णवन्मतम् ||
८४६ ||


Lesungshinweise: [Om] [Anrufung: Vajra-Leibiger, Vajra-Gesichtiger, gelbbraun und rötlich Leuchtender, mit aufgerichtetem Haar, überaus Starker, Rotgesichtiger, mit Blitzzunge, höchst Furchtbarer, mit gewaltigen Fangzähnen!] [diese Folge ist im Druck gestört und wird nicht zu einem mutmaßlichen Wort ergänzt] [der gewaltige Berge zum Brückenbau bewegt, der im Himmel wandelt] [komm, komm, Erhabener von gewaltiger Kraft und Tapferkeit] [Furchtbarer, befiehl!] [umschlinge mit deinem langen Schweif!] [höchst Furchtbarer] [in Zahlwörtern] [gewöhnlich als 125 gelesen]

Band II, S. 328, Hanuman-Mantras des Sadhanasamuchchaya 847–854
साधनसमुच्चये— अथ मन्त्रान्तरम्— नमः सबिन्दुमुद्धृत्य हनुमन्तं च ङेऽन्तकम् |
रुद्रात्मकाय कवचमस्त्रं चेत्येकवर्णकः ||
८४७ ||
मन्त्रोऽयं हरिणा पूर्वं दत्तो गाण्डीवधन्विने |
एतस्य साधनं कृत्वा रणे विजयमाप्तवान् ||
८४८ ||
मन्त्रान्तरम्— स्वबीजं पूर्वमुच्चार्य ङेऽन्तं पवननन्दनम् |
वह्निजायावधिः प्रोक्तो मन्त्रोऽयं सुरपादपः ||
८४९ ||
षड्दीर्घभाजा बीजेन मन्त्रार्णैरङ्गकल्पना |
स्वरैः काद्यैश्च पाद्यैश्च प्राणायामत्रयं चरेत् ||
८५० ||
ध्यायेद्रणे हनूमन्तं कपिकोटिसमन्वितम् |
धावन्तं रावणं जेतुं दृष्ट्वा सत्वरमुत्थितम् ||
८५१ ||
लक्ष्मणं च महावीरं पतितं रणभूतले |
गुरुक्रोधं समुत्पाद्य गृहीत्वा गुरुपर्वतम् ||
८५२ ||
हाहाकारैः सदर्पैश्च कम्पयन्तं जगत्रयम् |
आब्रह्म च समाव्याप्य कृत्वा भीमकलेवरम् ||
८५३ ||
पूजा तु वैष्णवे पीठे लक्षमेकं जपं चरेत् |
ततः सिद्धमनुर्मन्त्री साधयेत् सिद्धिमुत्तमाम् ||
८५४ ||


Lesungshinweise: [spreche man] [Die abschließende Silbenzählung ist gestört; der Druck liest ekavarnaka, ‚einsilbig‘, was zur beschriebenen Folge nicht passt.] [Arjuna] [Konsonanten] [Lautgruppen]

Band II, S. 328–329, Hanumans Erscheinung und Abschnittsschluss 855–858
तथा— ब्राह्मे मुहूर्ते चोत्थाय कृतनित्यक्रियो द्विजः |
गत्वा नदीं ततः स्नात्वा तीर्थमावाह्य चाष्टधा ||
८५५ ||
मूलमन्त्रं ततो जप्त्वा सिञ्चेदादित्यसङ्ख्यया |
संपूज्य हनुमन्तं षट्सहस्रं जपमाचरेत् ||
८५६ ||
एवं सप्तदिनान्ते च समायाति कपीश्वरः |
रात्रौ त्रिभागशेषां ददाति वरमीप्सितम् ||
८५७ ||
विद्यां वाऽपि धनं चापि राज्यं वा शत्रुनिग्रहम् |
ददाति साधकेन्द्राय सत्यं सत्यं सुनिश्चितम् ||
८५८ ||
इति हनुमत्प्रकरणम् |


Lesungshinweise: [drei Teile beziehungsweise ein Drittel — die Zeitangabe ist nicht eindeutig] In der Nacht, wenn [drei Teile beziehungsweise ein Drittel — die Zeitangabe ist nicht eindeutig] übrig sind, schenkt er den ersehnten Segen: Wissen, Reichtum, Königsherrschaft oder die Bezwingung von Feinden gibt er dem vorzüglichen Sadhaka.

Band II, S. 329, Kama-Mantras und Purashcharana 859–864
अथ काममन्त्रः शारदायाम्— ब्रह्मा भूम्या समासीनः शान्तिबिन्दुविभूषितः |
बीजं मनोभुवः प्रोक्तं जगत्रितयमोहनम् ||
८५९ ||
ऋषिः सम्मोहनः प्रोक्तो गायत्रं छन्द ईरितम् |
सर्वसंमोहनः साक्षाद् देवता मकरध्वजः |
बीजेन दीर्घयुक्तेन षडङ्गविधिरीरितः ||
८६० ||
अथ ध्यानम्— जपारुणं रत्नविभूषणाढ्यं मीनध्वजं चारुकृताङ्गरागम् |
कराम्बुजैरङ्कुशमिक्षुचापं पुष्पास्त्रपाशौ दधतं भजामि ||
८६१ ||
अथ पुरश्चरणम्— लक्षत्रयं जपेन्मन्त्रं मधुरत्रयसंयुतैः |
पुष्पैः किंशुकजैः फुल्लैर्जुहुयात् तद्दशांशतः ||
८६२ ||
अथ मन्त्रान्तरं तन्त्रान्तरे— मान्मथं बीजमुद्धृत्य ङेऽन्तं कामं समुच्चरेत् |
हृदयान्तः षडर्णोऽयं जगत्संमोहनक्षमः ||
८६३ ||
अस्य मन्त्रस्य ऋष्यादिध्यानपर्यन्तं पूर्ववत् कार्यम् |
पुरश्चरणे विशेषो यथा— वर्णलक्षं जपेन्मन्त्रं दशांशं मधुराप्लुतैः |
पलाशकुसुमैर्होमं कुर्याद्वा चूतपल्लवैः ||
८६४ ||


Lesungshinweise: [Die Lautschlüssel bleiben verschlüsselt. Die Beinamen nennen Kama als den aus dem Geist Geborenen und als Träger des Makara-Banners.]

Band II, S. 330, Schlussvers und Kolophon 865
इति काममन्त्रपुरश्चरणम् |
विभ्रत्यद्भुतभूतिभूतवचोवैचित्रचित्रामृतस्रोतःशालिनि सन्निबन्धनसरित्संभेदमभ्यर्हितम् |
नेपालेन्द्रनरेन्द्रनिर्मितपुरश्चर्यार्णवेऽस्मिन्नगात् सद्युक्तिस्फुटमौक्तिकोत्कररुचोत्तुङ्गस्तरङ्गोऽष्टमः ||
८६५ ||
इति श्रीमन्महाराजाधिराजश्रीप्रतापसिंहसाहविरचिते पुरश्चर्यार्णवे गणेशादिमन्त्रपुरश्चरणविवेचनं नामाष्टमस्तरङ्गः सम्पन्नः |


Lesungshinweise: [Die dichte erste Wortverbindung des Schlussverses ist stellenweise unsicher gelesen; das Bild der zusammenströmenden Schriften und der Perlen folgt dem erkennbaren Wortlaut.] 865: „In diesem vom König, dem Herrscher Nepals, geschaffenen Ozean des Purashcharana, reich an mannigfaltigen Amritaströmen wunderbarer, glückverheißender Worte, der die ehrenvolle Vereinigung der Flüsse guter Abhandlungen trägt, ist nun die achte Woge zu Ende gegangen: hoch aufragend im Glanz ihrer Fülle klarer Perlen trefflicher Darlegungen.“ [Die dichte erste Wortverbindung des Schlussverses ist stellenweise unsicher gelesen; das Bild der zusammenströmenden Schriften und der Perlen folgt dem erkennbaren Wortlaut.] Hier endet im Purashcharanarnava, verfasst vom erhabenen Maharajadhiraja Shri Pratapasimha Saha, der achte Taraṅga mit dem Namen „Darlegung des Purashcharana der Mantras von Ganesha und den anderen Gottheiten“.

9. Taraṅga: Die Mahāvidyās und ihre Überlieferungswege

Diese Welle: Deutsch · IAST · Devanagari

Band III, S. 723, Beginn des neunten Taraṅga und zehn Mahavidyas
दशमहाविद्यास्तत्पुरश्चरणविशेषाश्च प्रदर्श्यन्ते |
तथा च (मुण्डमालायाम्) काली तारा महाविद्या षोडशी भुवनेश्वरी |
भैरवी छिन्नमस्ता च विद्या धूमावती तथा ||
बगला सिद्धिविद्या च मातङ्गी कमलात्मिका |
एता दश महाविद्याः सिद्धिविद्याः प्रकीर्तिताः ||


Lesungshinweise: [Die Verse dieses Bandes sind an dieser Stelle unnummeriert; die Fundstellen folgen den gedruckten Seiten.]

Band III, S. 723–724, Kalis Vorrang im Kumari-Tantra
तत्रादौ प्रथमविद्या प्रोक्ता (कुमारीतन्त्रे) भैरव उवाच |
अस्ति गुह्यतमं ह्येतज्ज्ञानमेकं सनातनम् |
अतीव हि सुगोप्यं च कथितुं नैव शक्यते ||
अतीव मत्प्रियाऽसीति कथयामि तव प्रिये |
सर्वं ब्रह्ममयं ह्येतत् संसारं स्थूलसूक्ष्मकम् ||
प्रकृतिं तु विना नैव संसारमुपपद्यते |
तस्माच्च प्रकृतेर्मूलकारणं नैव दृश्यते ||
रूपाणि बहुसङ्ख्यानि प्रकृतेरस्ति भामिनि |
एषां मध्ये महेशानि कालीरूपं मनोहरम् ||
विशेषतः कलियुगे नराणां भुक्तिमुक्तिदम् |
तस्या उपासकाश्चैव ब्रह्मविष्णुशिवादयः ||
इन्द्रः सूर्यश्च वरुणः कुबेरोऽग्निस्तथाऽपरः |
दुर्वासाश्च वशिष्ठश्च दत्तात्रेयो बृहस्पतिः ||
बहुना किमिहोक्तेन सर्वे देवा उपासकाः |
कालिकायाः प्रसादेन भुक्तिमुक्त्यादिभागिनः ||


Band III, S. 724, Zweiundzwanzigsilbige Kali-Vidya
तस्या मन्त्रं प्रवक्ष्यामि यतो रक्षेज्जगत्त्रयम् |
ककारं वह्निसंयुक्तं रतिबिन्दुसमन्वितम् ||
त्रिगुणं च ततः कूर्चयुग्मं लज्जायुगं ततः |
दक्षिणे कालिके चेति पूर्वबीजानि चोच्चरेत् ||
वह्निजायावधिः प्रोक्तो कालिकाया मनुः शिवे |
द्वाविंशत्यक्षरी विद्या सिद्धिविद्येयमीरिता ||


Lesungshinweise: [Die ausgeschriebene Anrufung richtet sich an Dakshina-Kali. Die Bijas stehen hier in Lautschlüsseln, nicht als ausgeschriebene Rezitationsfolge.]

Band III, S. 724, Bedeutung der Kali-Vidya im Sanketa-Tantra
मन्त्रार्थमाह (संकेततन्त्रे) ककाराद्धिब्रह्मोत्पन्नं तेन सृष्टिस्वरूपिणी |
रेफः कालाग्निरुद्रात्मा तेन संहाररूपिणी ||
ईकारश्च महालक्ष्मीर्लोकत्रयविभाविनी |
तेनेयं पालिनी शक्तिः सामरस्यं च बिन्दुना ||


Lesungshinweise: [Ra] [Samarasya]

Band III, S. 724–725, Bedeutung der Kali-Vidya im Kali-Tantra
(कालीतन्त्रे) ककाराच्छिवरूपत्वात् सर्वैश्वर्यप्रदायिनी |
ज्वलनार्णसमायोगात् सर्वतेजोमयी शुभा ||
बिन्दुमाली केवलं तु सर्वतत्त्वप्रकाशिका |
बिन्दुना निष्कलत्वाच्च कैवल्यफलदायिनी ||
कूर्चबीजं केवलं तु सर्वबोधप्रकाशकम् |
चैतन्यरूपं संसारभीषणं मुक्तिदायकम् ||
बोधा प्रकाशमानत्वं यस्मात्तत्त्वमभिन्ना |
तयोर्विसर्ग ईकारो बिन्दुना तान्त्रिकी मता ||
दक्षिणा सिद्धसाध्यादिरहिता क्षिप्रसिद्धिदा |
कालसंकलनात् काली कालत्रासं करोत्यतः ||
स्वाहेति विषयाः सर्वे देवतायां समर्पिताः |
एवं समस्तरूपेण केवलं चित्कलाऽपरा ||
सर्वदेवमयो साक्षाच्छब्दब्रह्मस्वरूपिणी |
एवं ध्यायेद्विशुद्धात्मा जीवन्मुक्तः स्वयं शिवः ||


Lesungshinweise: [grammatische Form im Druck unsicher] [die folgende Satzfügung ist gestört: ihr Tattva ist ungetrennt] [Hier nennt die Fußnote als Lesart: ‚Sie besteht aus Bindu und Nada.‘] Die mit Bindu Bekränzte [grammatische Form im Druck unsicher] offenbart alle Tattvas; durch Bindu ist sie ohne Teile und schenkt die Frucht der völligen Befreiung.

Band III, S. 725, Größe der Vidya im Bhairavi-Tantra
विद्यामाहात्म्यमाह (भैरवीतन्त्रे) नात्र चित्ताविशुद्धिः स्यान्नारिमित्रादिदूषणम् |
न वा प्रयासबाहुल्यं समयासमयादिकम् ||
न वित्तव्ययबाहुल्यं कायक्लेशकरं न च |
देवैर्देवत्वविधये सिद्धैः खेचरसिद्धये ||
पन्नगै राक्षसैर्मर्त्यैर्मुनिभिश्च मुमुक्षुभिः |
कामिभिर्धर्मिभिश्चार्थमीप्सुभिः सेव्यते सदा ||
य एनां चिन्तयेन्मन्त्री सर्वकामसमृद्धिदाम् |
तस्य हस्ते सदैवास्ति सर्वसिद्धिर्न संशयः ||
तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः |
राजानोऽपि च दासत्वं भजन्ते किं परे जनाः ||
वह्नेः शैत्यं जलस्तम्भं गतिस्तम्भं विवस्वतः |
दिवारात्रिव्यत्ययं च स कर्तुं भवति क्षमः ||
अन्ते च लभते देव्या गणत्वं दुर्लभं नरः |
चन्द्रसूर्यसमो भूत्वा वसेत् कल्पायुतं दिवि ||
न तस्य दुर्लभं किंचिद्यः स्मरेद्घोरकालिकाम् |


Lesungshinweise: [die genaue Reichweite dieser Aussage ist nicht erläutert] [-Zuordnungen des Mantras]

Band III, S. 725–726, Aniruddhasarasvati im Kali-Tantra
(कालीतन्त्रे) अस्याः स्मरणमात्रेण सिद्धयोऽष्टौ भवन्ति हि |
एवं समस्तविद्यानां राज्ञीं स्तोतुं न शक्यते ||
वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि |
सर्वसिद्धिप्रदा देवी अनिरुद्धसरस्वती ||
तस्मादस्या नाममात्रात् सिद्धयः संभवन्ति हि |
तथा |
अपि चेत् त्वत्समा नारी मत्समः पुरुषोऽस्ति चेत् |
अनिरुद्धसरस्वत्याः समो मन्त्रः सदा भवेत् ||


Band III, S. 726, Kali im Kali-Zeitalter
तन्त्रान्तरे |
कलौ काली कलौ काली कलौ काली तु केवला |
साधिता कालनाथेन प्रत्यक्षा कालिका कलौ ||
कलौ कालीं विहायाथ यः कश्चिन्मोक्षकामुकः |
स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति ||
कलौ कालीं विहायाथ यः कश्चिच्छान्तिमिच्छति |
स हि शीतनिवृत्त्यर्थं हिमशैलं निषेवते ||
कलौ कालीं विहायाथ यः कश्चित् काङ्क्ष्यमिच्छति |
स तु दुःखनिवृत्त्यर्थं पापानि कुरुते सदा ||
श्रीमहाकालिका विद्या कलौ पूर्णफलप्रदा |
कलिर्हि यस्या दासस्य पादपूजां करोति हि ||
अज्ञानाज्ज्ञानतो वाऽपि सलीलं वा सहेलया |
स्मृताऽपि सिद्धिदा काली सकृदेव महेश्वरि ||
महाविद्या सिद्धिविद्या विद्याभेदैः प्रतिष्ठिता |
उपविद्यादिभेदैश्च कालिका संस्थिता भुवि ||
ताराद्याः सकला विद्याः कालिकायाः प्रजज्ञिरे |
सर्वा विद्याः कालिकायां संस्थिता एव पार्वति ||


Lesungshinweise: [das Wort kankshya ist hier unsicher] [das Zeitalter beziehungsweise dessen Verkörperung] Wer Kali übergeht und das Ersehnte sucht [das Wort kankshya ist hier unsicher], handelt wie einer, der Böses tut, um vom Leiden frei zu werden.

Band III, S. 727, Rishi-Nyasa und Mantraglieder
अथ ऋष्यादिन्यासः (कालीतन्त्रे) भैरवोऽस्य ऋषिः प्रोक्त उष्णिक्छन्द उदाहृतम् |
देवता कालिका प्रोक्ता लज्जाबीजं तु बीजकम् ||
शक्तिस्तु कूर्चबीजं स्यादनिरुद्धसरस्वती |
(कालीक्रमे) कीलकं चाद्यबीजं तु चतुर्वर्गार्थसिद्धिदम् |
(कालीतन्त्रे) कवित्वार्थे नियोगः स्यादेवमृष्यादिकल्पना |
अङ्गन्यासकरन्यासौ यथावदभिधीयते ||
षड्दीर्घभाजा बीजेन प्रणवाद्येन कल्पयेत् |
(वीरतन्त्रेऽपि) दीर्घषट्कयुताद्येन प्रणवाद्येन कल्पयेत् |
न्यासान्तराणि तत्रैव द्रष्टव्यानि |


Lesungshinweise: [Bija]

Band III, S. 727–728, Dakshina-Kalis Meditation im Merutantra
अथ ध्यानं (मेरुतन्त्रे) करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् |
कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषणाम् ||
खड्गाभयवरोत्कृत्तं मुण्डं च दधतीं करैः |
महामेघप्रभां श्यामां तथा चैव दिगम्बराम् ||
कण्ठावसक्तमुण्डालीं गलद्रुधिरचर्चिताम् |
कर्णावतंसतानीतशवयुग्मविराजिताम् ||
घोरदंष्ट्रां करालास्यां पीनोन्नतपयोधराम् |
शवानां करसङ्घातैः कृतकाञ्चीं हसन्मुखीम् ||
सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम् |
घोररूपां महारौद्रीं श्मशानालयवासिनीम् ||
दन्तुरां दक्षिणव्यापिमुक्तलम्बकचोच्चयाम् |
शवरूपमहादेवहृदयोपरिसंस्थिताम् ||
शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्विताम् |
महाकालसमायुक्तां शवोपरिरतान्विताम् ||
सुखप्रसन्नवदनां स्मेराननसरोरुहाम् |
एवं संचिन्तयेत् कालीं श्मशानालयवासिनीम् ||


Band III, S. 728, Frucht der Kali-Meditation
तथा |
कपिलारत्नसम्पूर्णपृथ्वीदानस्य यत् फलम् |
कोटिहोमसहस्रस्य देव्याः ध्यानेन तत् फलम् ||
एतन्मन्त्रजपान्मन्त्री मुच्यते ब्रह्महत्यया |
पितृमातृवधाद्यैश्च किमन्यैः क्षुद्रघातकैः ||


Lesungshinweise: [Für das letzte Wort verzeichnet die Ausgabe die Lesart kshudrapataka, „geringes Vergehen“, statt des gedruckten kshudraghataka.]

Band III, S. 728–729, Aufhebung von Vasishthas Fluch
अथ शापोद्धारस्तन्त्रान्तरे |
शापोद्धारं प्रवक्ष्यामि वशिष्ठमुनिना कृतम् |
चतुर्विंशतिलक्षाणि जप्त्वा कोपेन शप्तवान् ||
अद्य प्रभृति देवेशि कालिके कालरूपिणि |
तव मन्त्रेषु संसिद्धिः कष्टेनैव भविष्यति ||
इति श्रुत्वा महादेवी प्रादुर्भूता प्रसाद्य तम् |
उवाच पुत्र किमिदं शापदानं वृथा कृतम् ||
एवं फलं यथा न स्यात् तथा कुरु मुनीश्वर |
ज्ञानं दत्तं दुराराध्यं दुर्लभं यत् सुरैरपि ||
ततः प्रीत्या वरं लब्ध्वा ज्ञानविज्ञानसंयुतम् |
उवाच प्रीतमनसा शापान्तं मन्त्रसङ्कटे ||
मातः क्रोधेन कथितं तन्त्रमूलमिदं तवे |
प्रणवं पूर्वमुद्धृत्य घोररूपे च दक्षिणे ||
सिद्धिं कुरुद्वयं प्रोच्य कालिकेति पदं ततः |
ममाभीष्टफलं शीघ्रं देहि द्रविणसम्पदम् ||
जपादौ मन्त्रमुच्चार्य जपान्ते च पुनः पठेत् |
भविष्यति ततः सिद्धिरचिरात् परमेश्वरि ||


Lesungshinweise: [die Wortverbindung ist nicht eindeutig] [Om, Furchtbare, Dakshina, bewirke, bewirke Siddhi! Kalika, schenke mir rasch die ersehnte Frucht und reichen Besitz!] Nachdem er liebevoll den mit Erkenntnis und unmittelbarem Verstehen verbundenen Segen empfangen hatte, sprach er freudig die Aufhebung des Fluchs aus, der den Mantra behindert: ‚Mutter, im Zorn wurde es ausgesprochen; dies ist die Grundlage deines Tantra [die Wortverbindung ist nicht eindeutig].

Band III, S. 729, Ritualsitze im Matsyasukta
अथासनभेदा उक्ता मत्स्यसूक्ते |
मृतचूडकमासीनश्चान्येषु कोमलेषु च |
विष्टरं वा समाश्रित्य साधयेत् सिद्धिमुत्तमाम् ||
एषां लक्षणानि तत्रैव |
अर्वाक् षण्मासतो गर्भच्युतमाहुर्मृदुं बुधाः |
चूडोपनयनैर्हीनमेतच्चाचूडकं विदुः ||
निवृत्तचूडको बालो हीनोपनयनः पुमान् |
यो मृतः पञ्चमे वर्षे तमेव कोमलं विदुः ||
तथा |
मृतासनं विना देवि यो जपेत् कालिकां नरः |
तावत् स नारकी ज्ञेयो यावदाहूतसंप्लवम् ||
यो वीर इत्यर्थः |
पशोस्तु तादृशासननिषेधात् |


Lesungshinweise: [Der erste zusammengesetzte Sitzname ist im Druck unsicher; die folgenden Erklärungen beziehen sich ausdrücklich auf Leichname.] [angerufenen Weltauflösung — Schlussausdruck unsicher] Ein Junge, dessen Haarschur vollzogen, dessen Upanayana aber noch nicht geschehen ist und der im fünften Lebensjahr gestorben ist, heißt Komala.“ [Der erste zusammengesetzte Sitzname ist im Druck unsicher; die folgenden Erklärungen beziehen sich ausdrücklich auf Leichname.] Ferner: „Wer als Mensch Kalikas Japa ohne Totensitz übt, Göttin, gilt als Höllenbewohner bis zur [angerufenen Weltauflösung — Schlussausdruck unsicher].“ Gemeint ist ein Vira, denn für den Pashu ist ein solcher Sitz verboten.

Band III, S. 729, Ersatz für den Totensitz
मृतासनाद्यभावेऽनुकल्प उक्तो (वीरतन्त्रे) शवाभावे विष्टरं तु शवरूपं प्रकल्पयेत् |
पञ्चाशद्भिर्वेदवृद्ध्या तदर्धेन तु विष्टरम् ||
(कालीतन्त्रादौ) मृताभावे कुशारूपं विष्टरं परिकल्पयेत् |
विष्टरः साधकस्याथ कथ्यते शृणु साम्प्रतम् ||
भूतप्राणि यस्मिन् वै स कुशेत्यभिधीयते |


Lesungshinweise: [Sitze] [Zählung unklar] [bilde man] [Schriften] [sind] [Der letzte Satz ist im Druck sprachlich beschädigt; die folgende Beschreibung der Grasanordnung beginnt auf dieser Seite und wird im nächsten Abschnitt vollständig wiedergegeben.] Worin die Lebenskräfte der Wesen [sind], das wird Kusha genannt.“ [Der letzte Satz ist im Druck sprachlich beschädigt; die folgende Beschreibung der Grasanordnung beginnt auf dieser Seite und wird im nächsten Abschnitt vollständig wiedergegeben.]

Band III, S. 729–730, Anfertigung des Vishtara
हस्ते पादे दश दशमिता दिग्युगं हृत्सरोजे विंशत्सङ्ख्याः सकलवरदे मस्तके कीर्तिताश्च |
गुह्ये जिह्वावदनरदने घ्राणकर्णस्तनेषु लिङ्गे चाण्डे युगपरिमिता योजनीयाः कुशाश्च ||
इत्येष विष्टरः प्रोक्तः सर्वसिद्धिप्रदायकः |
कुशैर्वा बन्धनं कार्यं नाड्या वा परमेश्वरि ||
रक्तमिश्रितसूत्रेण पट्टसूत्रेण वा पुनः |
विष्टरं परिकल्प्याथ तस्योपरि जपं चरेत् ||
विधिविष्टरपद्मस्य विधिः प्रोक्तो मया तव |
शवरूपं प्रकल्प्याथ कविर्वाग्मी भवेन्नरः ||
स्वयम्भ्वाक्तं सूत्रं च कर्तव्यं सर्वसिद्धये |
शवाभावे विष्टरस्तु शवरूपः प्रकीर्तितः ||
विष्टरः शिवरूपः स्यात् स्वस्य शक्तित्वकल्पना |
शिवशक्तिसमायोगात् किं न सिद्ध्यति भूतले ||


Lesungshinweise: [vier] [die Bezeichnung ist unklar] [hier einer rituellen Substanz; nicht ausgeschrieben]

Band III, S. 730–731, Weihe des Vishtara im Shaktisangama
अथ विष्टरसंस्कारः (शक्तिसङ्गमे) गायत्र्या त्रोटनं कार्यं मूलेन ग्रथनं चरेत् |
कृतसङ्कल्पको मन्त्री कोमलं वामपाणिना ||
कूर्चबीजेन सङ्गृह्य अस्त्रमन्त्रेण प्रोक्षणम् |
प्रणवं भुवनेशीं च समुच्चार्य तु तं वदेत् ||
शवरूप महाप्रेत चाष्टसिद्धिं प्रयच्छ मे |
इति स्तुत्वा तु तं सम्यक् कुशमध्ये निधापयेत् ||
तस्य देहे त्रिकोणं तु रक्तचन्दनकेन वै |
मायां तन्मध्यगां लिख्य बहिर्मण्डलकं चरेत् ||
प्रणवम् आः सुरेखे च वज्ररेखे ततःपरम् |
कूर्चं चास्त्रं वह्निवधूं च मण्डले मनुः ||
अकारं च ततो मायां क्रोंकारं हंस एव च |
वह्निजायां समुच्चार्य शवप्राणाः पदं वदेत् ||
इह प्राणाः पदं चोक्त्वा शवजीव इह स्थितः |
शवस्य सर्वेन्द्रियाणि वाङ्मनश्चक्षुरेव च ||
श्रोत्रघ्राणानीहागत्य सुखं च चिरमेव च |
तिष्ठन्तु स्वाहया युक्तः प्राणसंस्थापने मनुः ||
प्रणवं पूर्वमुच्चार्याधारशक्तिपदं ततः |
कोमलासनपदं ङेऽन्तं नमोऽन्तेन तमर्चयेत् ||
प्रणवं कामपीठाय नमः शुद्धान्नभस्क्रिया |
स्वर्णमाषत्रयैः पट्टे कार्या मूर्तिः शवस्य तु ||
संस्थाप्य विस्तरस्यान्ते सर्वं पूर्ववदाचरेत् |
मृताभाव इति वचनात् पशोः शवानुकल्पकुशविष्टरमपि नास्ति मुख्येऽधिकारिण एवाऽनुकल्पेऽधिकारादिति सुधाणवेक्तः |


Lesungshinweise: [Die Anrufung gilt der schönen Linie und der Vajra-Linie.] [die folgende Verbindung shuddhannabhaskriya ist gestört] [Verfahren]

Band III, S. 731–732, Weihe anderer Sitze im Merutantra
आसनान्तरसंस्कारोऽप्युक्तो (मेरुतन्त्रे) कुशं व्याघ्राजिनं वाऽपि कम्बलं लोहितं तथा |
कोमलाख्यासनं वाऽपि पीतवस्त्रेण वेष्टयेत् ||
आसनं सम्यगापाद्य ततः शोधनमाचरेत् |
कल्पोक्तेन विधानेन पूजां सम्यक् समाचरेत् ||
पूजार्थमासनमहं शोधयामि महेश्वरि |
देव्याज्ञामेवमादाय मूलहृन्मनुनाऽपि च ||
जलेनासनमभ्युक्ष्य कवचेनावगुण्ठ्य च |
अस्त्रमन्त्रेण संरक्ष्य सदाशिवनिभं स्मरेत् ||
तत्र पीठमनुं भक्त्या जपेदष्टोत्तरं शतम् |
यथाविभवसम्भारैः पूजयित्वा सदाशिवम् ||
सिद्धीश्वर महादेव सर्वसिद्धिप्रदायक |
देहि मेऽभीष्टसिद्धिं त्वमेतदासनरूपतः ||
इदं मन्त्रं समुच्चार्य उपविश्यासने ततः |
यथाविधि विधायाथ गुरवे दक्षिणां ददेत् ||
इत्यासनसंस्कारः |


Band III, S. 732, Orte der Kali-Praxis
अथ देशाः (फेत्कारिणीये) एकलिङ्गे श्मशाने च शून्यागारे चतुष्पथे |
तत्रस्थः साधयेद्योगी विद्यां त्रिभुवनोचिताम् ||
एकलिङ्गलक्षणमुक्तं तत्रैव |
पञ्चक्रोशान्तरे यत्र न लिङ्गान्तरमीक्षते |
तदेकलिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा ||
श्मशानादिलक्षणमुक्तं (त्रिशक्तिरत्नाकरे) दह्यन्ते व्यसवो यत्र शवकीलसङ्कुले |
गृध्रगोमायुकाकौघमांसलुब्धैः श्वाद्यैर्वृतम् ||
तत् श्मशानमिति ख्यातं पिशाचगणसेवितम् |
काकादिनीडसंयुक्तं कृत्तिच्छत्रादिसंयुतम् ||
नागरेन्द्रैर्विनिर्मुक्तं साध्वसोद्वेगकारकम् |
सौधसंरूढघासाढ्यं शून्यागारं तदुच्यते ||
चतुर्णां च पथां यत्र संयोगो युगपद्भवेत् |
तच्चतुष्पथमित्युक्तं रजन्यामिष्टदायकम् ||
पूर्वपूर्वमिदं शस्तं जघन्यश्चोत्तरोत्तरम् |
उज्जटे पर्वते वाऽपि निर्जने वा चतुष्पथे ||
देवागारे देवशून्ये बिल्वमूले नदीतटे |


Lesungshinweise: [krittichchhatra ist nicht ganz sicher] [Die Ortsliste setzt sich im nächsten Abschnitt fort; ujjata am Beginn ist unsicher gelesen.] An einem menschenleeren Ort oder auf einem Berg, an einer einsamen Kreuzung, in einem Tempel ohne Gottheitsbild, am Fuß eines Bilva-Baumes, am Flussufer …“ [Die Ortsliste setzt sich im nächsten Abschnitt fort; ujjata am Beginn ist unsicher gelesen.]

Band III, S. 733, Weitere Orte und Verehrungsraum
स्वगृहे निर्जनारामे तथा चाश्वत्थसन्निधौ ||
(कुमारीतन्त्रे) तदभावे दिव्यगेहे सिन्दूरादिभिरङ्किते |
खड्गशूलगदाकञ्चुचामरव्यजनादिभिः ||
वितानधूपसङ्कीर्णे कृष्णागुरुसुवासिते |
युवतीनां सुरापीनां वेश्यानां लास्यशोभिते ||
शङ्खघण्टारवाकीर्णे दीपावलिविराजिते |
एवम्भूते गृहे पूजा कालिकायाः सुशोभना ||


Lesungshinweise: [Zeichen] [Gegenstand unklar]

Band III, S. 733–734, Purashcharana im Vira- und Svatantra-Tantra
अथ पुरश्चरणविधिः (वीरतन्त्रे) आदौ मन्त्रस्य सिद्ध्यर्थं पुरश्चरणमाचरेत् |
ततः सिद्धमनुर्मन्त्री काम्यकर्माणि साधयेत् ||
(स्वतन्त्रतन्त्रे) दिवा लक्षं शुचिर्भूत्वा हविष्याशी जपेन्नरः |
ततस्तु तद्दशांशेन होमयेच्च हविषा प्रिये ||
तर्पयेत्तीर्थतोयेन पयसा सर्पिषाऽपि वा |
मधुना वा सितामिश्रतोयेन परमेश्वरीम् ||
देवीं चाभिषिञ्चेत्तोयैस्तर्पणस्य दशांशतः |
तद्दशांशं हविष्यात्रैर्भोजयेद्भक्तितः प्रिये ||
[अस्पष्टं] वेदविदो विप्रान् दक्षिणां गुरवे ददेत् |
पाशवं कठिनं कल्पं शृणु वीरं ततः प्रिये ||
रात्रौ मांसासवैर्देवीं पूजयित्वा विधानतः |
ततो नग्नां स्त्रियं नग्नो रमन् क्रीडायुतोऽपि वा ||
जपेल्लक्षं ततो देवीं होमयेज्ज्वलितेऽनले |
योनिकुण्डे स्थिते सर्पिर्मांसमत्स्ययुतं तथा ||
दशांशं तर्पयेन्मद्यमांसमिश्रैस्तु साधकः |
तर्पणस्य दशांशेन अभिषिञ्च्य जगन्मयीम् ||
दशांशं भोजयेत् साधु साधकं कालिकाप्रियम् |
मद्यं मांसं च मत्स्यं च चर्वणं च प्रदापयेत् ||
ततस्तु तोषयेद्भक्त्या गुरुं स्वर्णादिभिः प्रिये |
एतत्कल्पद्वयाद्देवि मन्त्रः सिध्यति वै ध्रुवम् ||


Lesungshinweise: [Brahmanen] [Der Satzanfang ist beschädigt; genannt sind]

Band III, S. 734, Weitere Purashcharana-Regeln
(कालीतन्त्रे) आदौ पुरस्क्रियां कुर्यान्नियमेन यथाविधि |
लक्षमेकं जपेद्विद्यां हविष्याशी दिवा शुचिः ||
रात्रौ ताम्बूलपूर्णास्यः शय्यायां लक्षमानतः |
ततः सिद्धमनुर्मन्त्री प्रयोगार्हो न चान्यथा ||
(साधनसमुच्चये) नित्यकर्म दिवा कृत्वा रात्रौ पूजां समाचरेत् |
पूजान्ते तु जपं कुर्याद् कारणास्वादमोदितः ||
जपेन लक्षमात्रेण काली विद्या प्रसिध्यति |
(भैरवतन्त्रे) लक्षं जपेद्धविष्याशी दिनेनैव जितेन्द्रियः |
ब्रह्मचर्यपरो भूत्वा पुरश्चरणकर्मणि ||
तथा रात्रौ जपेल्लक्षं मन्त्री मैथुनतत्परः |
कृत्वाऽऽचारक्रमेणैवं साधयेन्मन्त्रमात्मनः ||
विधानेनाथ सिद्धिः स्यान्मन्त्रे चैव न संशयः |


Lesungshinweise: [hier des rituellen Getränks]

Band III, S. 734–735, Bhairavayamala und Mahakala-Stuti
(भैरवयामले) दीक्षाविधानमधिगम्य गुरोः सकाशाल्लब्ध्वा मनुं जपति लक्षमितं दिवा यः |
रात्रौ हविष्यभुगमत्सरकामकोपलोभाद्यचञ्चलमनाः स तु साधकेन्द्रः ||
लक्षं निशि स्ववनितासु रतावसाने नग्नो विमुक्तचिकुरस्त्वयि दत्तचित्तः |
(महाकालस्तुतौ) वशी लक्षं मन्त्रं प्रजपति हविष्याशनरतो दिवा मातर्युष्मच्चरणयुगलध्याननिरतः |
परं नक्तं नग्नो निधुवनविनोदेन च मनुं जनो लक्षं स स्यात् स्मरहरसमानः क्षितितले ||


Lesungshinweise: [Der zitierte zweite Vers bleibt in der Quelle unvollständig.] [wiederholt] [Shiva]

Band III, S. 735, Merutantra und Vira-Chudamani
(मेरुतन्त्रे) लक्षमेकं जपेन्मन्त्रं हविष्याशी दिवा शुचिः |
अशुचिश्च तथा रात्रौ लक्षमेकं जपेन्मनुम् ||
दशांशं होमयेदाज्यैस्तर्पयेदभिषेचयेत् |
होमं च तर्पणं पूजा कर्तव्या तु विशेषतः ||
ततः प्रयोगान् कुर्वीत काम्यानिष्टफलाप्तये |
(वीरचूडामणौ) साधनस्य विधिं वक्ष्ये सङ्केतपरमाद्भुतम् |
येन विज्ञातमात्रेण खेचरत्वं च जायते ||
होमं कुर्वीत प्रयत्नेन पायसेन तिलेन वा |
स्नातः शुक्लाम्बरधरो नित्यकर्म दिवा शुचिः ||
रात्रौ पूजां प्रकुर्वीत पञ्चमुद्राविधानतः |
अनेनैव विधानेन लक्षमेकं जपेद्बुधः ||
स्वस्वकर्म पुरस्कृत्य सर्वसिद्धीश्वरो भवेत् |
हावभावादिकं कुर्यान्महाचीनलतां हरेत् ||


Lesungshinweise: [Lata, wörtlich „Ranke“, bezeichnet hier wohl die Ritualpartnerin; die Schlusswendung bleibt nicht vollständig eindeutig.]

Band III, S. 736, Shrutisiddhanta-Tantra und verschiedene Berechtigungen
(श्रुतिसिद्धान्ततन्त्रे) तेनैव तर्पणं कुर्यात् स्नानपानादिकं सदा |
दक्षिणे पाशवः कल्पो वीरकल्पस्तु वामिनाम् ||
कल्पद्वयं समाश्रित्य मन्त्रः सिध्यति सत्वरम् |
गुरोराज्ञां समादाय स्नातः शुक्लाम्बरः शुचिः ||
दिवा लक्षं जपेद्विद्यां ब्रह्मचर्यं समाश्रितः |
रात्रौ च देवदेवेशीमिष्ट्वा वामोपचारकैः ||
शक्तीः संपूज्य विधिवत् कृत्वा निधुवनोत्सवम् |
कोमलाख्यासनासीनो मुक्तकेशो दिगम्बरः ||
ताम्बूलपरिपूर्णास्यः सिन्दूराङ्कितभालकः |
रहस्यमालमादाय जपेल्लक्षमनन्यधीः ||
कुलमार्गप्रपन्नानां विधिरेषः प्रकीर्तितः |
अत्र ब्राह्मणस्य पशोर्वा दक्षिणोपचारेण दिवैकलक्षजपः |
शूद्रस्य वीरस्य च रात्रौ वामोपचारेणैकलक्षजप इति राघवभट्टादयः |
तेषामयमाशयः |
भैक्ष्यादिनियमाहारः सकृद्रात्रौ विधीयते |
दिवा चैव जपं कुर्यात् पौरश्चरणिको द्विजः ||
इति (फेत्कारिणी-) तन्त्रवचनात् |
स्नातः शुक्लाम्बरधरः शुचिः प्रयतमानसः |
दिवा सर्वं प्रकर्तव्यं धर्मकामार्थसिद्धये ||
द्विजानामत्र सर्वेषां विधिरेषः प्रकीर्तितः |
इति (मेरुतन्त्र-) वचनाच्च विप्रादिकर्तृकपुरश्चरणे |


Lesungshinweise: [Mittel] [gilt] [das folgende Zitat]

Band III, S. 736–737, Tages- und Nachtzeit nach der Berechtigung
त्रिसन्ध्यं देवपूजां च त्रिसन्ध्यं जपमाचरेत् |
रात्रौ मन्त्रं च मालां च स्पृशेन्नैव कदाचन ||
इति पशुभावप्रकरणीय-(भावचूडामणि-)वचनात् |
पशुकर्तृकपुरश्चरणे च दिवस एव कालः |
एवं च |
द्विजानां चैव सर्वेषां दिवाविधिरिहोच्यते |
शूद्राणां च तथा प्रोक्तं रात्राविष्टं महाफलम् ||
इति (महाकालसंहिता-)वचनोत्तरार्धात् |
शूद्रकर्तृकपुरश्चरणे |
गते तु प्रथमे यामे तृतीयप्रहरावधि |
निशायामेव जप्तव्यं रात्रिशेषे जपेन्न च ||
वीरपुरश्चरणप्रकरणीय-(मुण्डमाला-)वचनाद्वीरकर्तृकपुरश्चरणे च रात्रिरेव काल इति व्यवस्थिते |
पशुगुरुमुखाल्लब्ध्वा विद्यां कालघनप्रभाम् |
पाशवेन तु कल्पेन लक्षं जपति साधकः ||
दिव्यगुरुमुखाल्लब्ध्वा कालिकां दिव्यरूपिणीम् |
लक्षं जप्यात् सदा मन्त्रं वीरकल्पेन साधकः ||
इति (कालीकुलार्णव-)वचनात् |
स्वाचारनिरतो नित्यं दिवा लक्षं जपेत् पशुः |
दिव्यो वाऽप्यथ वा वीरो रात्रौ लक्षं जपं चरेत् ||
इति (कालीक्रम-)वचनाच्च सर्वेषामेकलक्षजपात्मकमेव पुरश्चरणं सिध्यतीति |


Lesungshinweise: [gilt dies] [wird geschlossen]

Band III, S. 737–738, Einwand aus Kumari- und Niruttara-Tantra
अस्मिन् मते |
लक्षमेकं जपेद्विद्यां हविष्याशी दिवा शुचिः |
रात्रौ ताम्बूलपूर्णास्यः शय्यायां लक्षमानतः ||
एवं लक्षद्वयं जप्त्वा तद्दशांशेन मन्त्रवित् |
अयुतं होमयेद्देवि दिवारात्रिप्रभेदतः ||
इति सर्वेषां भिन्नमितिकर्तव्यताकसमुचितलक्षद्वयजपात्मकपुरश्चरणविधायक-(कुमारीतन्त्र-)विरोधो दुर्वारः |
(निरुत्तरतन्त्रेऽपि) लक्षद्वयपरिमित एव जप उक्तः |
लक्षद्वयं जपेद्विद्यां दिवारात्रिप्रभेदतः—इति |


Lesungshinweise: [Die zehntausend Opfer sind hier jeweils auf die Tages- und Nachtgruppe bezogen.]

Band III, S. 738, Auffassung des Sudharnava-Verfassers
सुधार्णवकृतस्तु— ‘एवं लक्षद्वयं जप्त्वा’ इत्यादि-(कुमारीतन्त्रा-)दिवचनाद्दिवारात्र्योर्भिन्नभिन्नाचारेणैकैकलक्षजपात्मकसमुच्चितलक्षद्वयजपः सर्वस्यापि प्राप्तः |
स्वाचारनिरतो नित्यं दिवा लक्षं जपेत् पशुः |
दिव्यो वाऽप्यथ वा वीरो रात्रौ लक्षं जपं चरेत् ||
इति (कालीक्रम-)वचनेनापवाद्यते |
एवं च वीरब्राह्मणस्यापि रात्रौ मैरेयोपादानपुरःसरः |
ब्राह्मणो मदिरां दत्त्वा ब्राह्मण्यादेव हीयते |
इत्यादिवाक्यविरुद्धो वीरभावप्रकरणीयब्राह्मणकर्तृकक्षीरोपादानविधायक-(भावचूडामणि-)विरुद्धश्च जपः प्राप्तः |
तत्र द्विजानां चैव सर्वेषां दिवाविधिरिहोच्यते |
इत्यपवादकं वाक्यम् |
तेन वीरस्यापि ब्राह्मणस्य मैरेयाद्यनुपादानपूर्वकं दिवालक्षजपः पर्यवसन्नो भवति |
एवं च राजन्यवैश्ययोरपि रात्रिमात्रजपापवादकम् |
शूद्राणां च तथा प्रोक्तं रात्राविष्टं महाफलम् |
इत्युत्तरार्धम् |
तेन (कुमारीकल्प-)वचनं राजन्यवैश्यविषयं पर्यवस्यति |
अपवादविषयपरिहारेणोत्सर्गस्य व्यवस्थितेः पशूनां रात्रिजपश्च पशुभावप्रकरणीय-(भावचूडामणि-)वचनपरास्त इति सर्वमनवद्यम् |


Lesungshinweise: [erklärt] [einem alkoholischen Getränk] [Stoffe] [nach dieser Auslegung]

Band III, S. 738, Guru-Herkunft und Krishnabhatta
वस्तुतस्तु— ‘पशुगुरुमुखाल्लब्ध्वा’ इत्यादि (कालीकुलार्णव-)वचनात् पशोर्लब्धमन्त्रस्य पशुभावेन वीराल्लब्धमन्त्रस्य वीरभावेन च साधने एकलक्षजपो वैपरीत्ये च लक्षद्वयजप इत्याहुः |
अत्र वैपरीत्ये (कुमारीतन्त्रो-)क्तरीत्या लक्षद्वयजपस्य कर्तव्यतया वीराल्लब्धमन्त्रस्य पशुभावेन साधनासम्भवात् पशोर्लब्धमन्त्रस्य वीरभावेन साधनमेव वैपरीत्यमिति ध्येयम् |
अत्र कृष्णभट्टपादाः |
‘एवं लक्षद्वयं जप्त्वा’ इत्यादि-(कुमारीतन्त्रा-)दिवचनात् सर्वेषामपि लक्षद्वयपरिमित एव जपः |
पशुदिव्यवीराणामेकैकलक्षजपविधायक-(कालीकुलार्णवकालीक्रमा-)दिवचनं तु सिद्धमन्त्रविषयम् |


Lesungshinweise: [andere]

Band III, S. 739, Bereits verwirklichte Mantras und Ritualmittel
अत एवोक्तं (यामलादौ) गुरुणा साधितो मन्त्रो यदि भाग्येन लभ्यते |
लक्षमात्रं तदा जप्त्वा सर्वकर्माणि साधयेत्—इति ||
तत्र विशेषस्तु |
रात्रौ मांसासवैर्देवीं पूजयित्वा विधानतः |
ततो नग्नां स्त्रियं नग्नो रमन्—इत्यादि (स्वतन्त्रतन्त्रा-)दिवचनात् |
ब्राह्मणो मदिरां दत्त्वा—इत्यादिमहाकालोक्तिविरुद्धमैरेयदानादिकम् |
अज्ञानात् स्वस्त्रियं गत्वा—इत्यादिसामान्यपुरश्चरणप्रकरणीय-(सिद्धान्तसम्प्रदाय-)दिवचनविरुद्धरात्रिजपप्राक्कालीनसुरतादिकं च ब्राह्मणस्यापि प्राप्तम् |
तदुभयमपि |
द्रव्येण सात्त्विकेनैव ब्राह्मणः पूजयेच्छिवाम् |
स्वकीयां परकीयां वा सामान्यवनितां तथा ||
जपेत्ताः समाश्लिष्य क्षत्रविट्शूद्रजातयः |
इति (महाकालसंहिता-)वचनेनापवाद्यते |


Lesungshinweise: [Schriften] [hier die Göttin]

Band III, S. 739, Pashu-Verhalten und nächtlicher Japa
एवं च |
स्वजातकुसुमं चैव हेतुद्रव्यं च भैरव |
स्पृष्ट्वा तथा समाघ्राय पञ्चगव्येन शुध्यति ||
ऋतुकालं विना चापि न गच्छेत् स्त्रियमादरात् |
इत्यादिभिः पशुभावप्रकरणीय-(भावचूडामणि-)वचनैर्विप्रेतरपशोरपि तदुभयं निरस्तमेव |
पशुमात्रस्य रात्रिजपनिषेधक-(भावचूडामणि-)वचनं तु एतद्देवताद्यतिरिक्तदेवतोपासकपशुपरम् |
रात्रावपि जपेत् तावत् प्रत्यवायोपशान्तये |
इति पशुकर्तृककाम्यप्रकरणीय-(श्रुतिसिद्धान्ततन्त्र-)वचनेन एतद्देवतोपासकपशो रात्रिजपस्यापि विहितत्वात् |
शूद्राणां च तथा प्रोक्तं रात्राविष्टं महाफलम् |


Lesungshinweise: [rituelle Bezeichnung, hier nicht näher erklärt] [das rituelle Getränk] [Gottheiten] [Nun wird das zuvor genannte Wort erneut aufgegriffen:] [Seine Auslegung folgt im nächsten Abschnitt.]

Band III, S. 740, Ritualgetränke und Abschluss der referierten Auffassung
इति वचनं तु शूद्राणां रात्रिजपे फलातिशयबोधकं न तु शूद्रकर्तृकदिवातनजपप्रतिषेधकम् |
तथा च |
वीरदिव्ययोर्दिवा पाशवकल्पेनैकलक्षजपो वीरकल्पेन रात्रावेकलक्षजपस्तत्रापि साक्षान्मैरेयाद्युपादानं शूद्रस्यैव न तु वीरस्यापि त्रैवर्णिकस्य तदुपादानम् |
क्षीरेण ब्राह्मणैस्तर्प्या घृतेन नृपवंशजैः |
माक्षिकैर्वैश्यवर्णैस्तु आसवैः शूद्रजातिभिः ||
इति (भैरवतन्त्र-)वचनात् |
अत एवोक्तं (महाकालसंहितायाम्) श्रूयते यत् फलाधिक्यं तत्रादौ मद्यदानतः |
तद्धि शूद्रपरं ज्ञेयं न तु द्विजपरं प्रिये—इति ||
पशोस्तु दक्षिणाचारेण दिवैकलक्षजपस्तेनैवाचारेण रात्रावेकलक्षजप इति सर्वेषामपि लक्षद्वयजपात्मकमेव पुरश्चरणं पर्यवसन्नमिति प्राहुः |


Lesungshinweise: [über Shudras und die Nacht] [Getränke] [diese Ausleger]

Band III, S. 740, Eigene Auffassung des Verfassers
मम त्वेवं प्रतिभाति |
दक्षिणे पाशवः कल्पो वीरकल्पस्तु वामिनाम् |
इत्यादि (श्रुतिसिद्धान्त-)तन्त्रवचनाद्दक्षिणमार्गिणः पाशवकल्प एव वाममार्गिणो वीरकल्प एवाधिकारिते सिद्धे पाशवकल्पेन वीरकल्पेन च पुरश्चरणमुक्त्वा— कुलमार्गप्रपन्नानां विधिरेषः प्रकीर्तितः |
इति तत्रैवोक्तत्वात् |
कुलाचारक्रमेणैवं साधयेन्मन्त्रमात्मनः |
इति (भैरवतन्त्र-)वचनात् |
दक्षवामक्रियायुक्तः कौलिकोभयमिश्रितः |
इत्याचारप्रकरणीय-(वाडवानल-)वचनाच्च एतत्कल्पद्वयाश्रयणे कौलिकस्यैवाधिकारः प्रतीयते |
तथा च |
पाशवकल्पेन दिवैकलक्षजपरूपपुरश्चरणं दक्षिणमार्गिणः |
वीरकल्पेन रात्रावेकलक्षजपरूपपुरश्चरणं वाममार्गिणः |
एतदुभयात्मकपुरश्चरणं कौलिकस्येति मार्गभेदेन पुरश्चरणस्यापि भेदः |


Band III, S. 741, Auslegung der Gruppenbezeichnungen
द्विजानां चैव सर्वेषाम्—इत्यादौ द्विजपदं पशुपरं न तु विप्रमात्रपरम् |
तस्य त्रैवर्णिकवाचकत्वात् |
अत एव क्षत्रियवैश्ययोः सङ्ग्रहाय सर्वेषामिति पदमुपात्तम् |
उत्तरार्धं तु नोपात्तम् |
अन्यथा राजन्यवैश्यविषयकाकाङ्क्षाया अनिवृत्तिप्रसङ्ग इति तु सुधार्णवकृतैवोक्तम् |
पशुश्च दक्षिणमार्गी |
एवमुत्तरार्धे शूद्रपदं वाममार्गिपरम् |
अत एवोक्तं (मेरुतन्त्रे) शूद्रादियवनान्तानां सिद्धिर्वामपथे स्थिता—इति |
दिव्यो गुरुमुखात्—इत्यत्र दिव्यो वाऽप्यथ वा वीरः—इत्यत्र च दिव्यवीरौ वाममार्गिणौ न तु कौलिकौ |
कौलिकवाममार्गभेदेन तयोः प्रत्येकं द्वैविध्यस्य वक्ष्यमाणत्वात् तथा च दिवैकलक्षजपविधायकानि (कालीकुलार्णवा-)दिवचनानि दक्षिणमार्गपरतया रात्रावेैकलक्षजपविधायकानि (साधनसमुच्चया-)दिवचनानि वाममार्गपरतया तथा दिवारात्रिभेदेन समुच्चितलक्षद्वयजपविधायकानि (भैरवतन्त्रकुमारीतन्त्रा-)दिवचनानि च कुलमार्गपरतया सङ्गमनीयानीति सकलमकलङ्कम् |
किञ्च |
लक्षमेकं जपेद्विद्यां हविष्याशी दिवा शुचिः |
अशुचिश्च तथा रात्रौ लक्षमेकं जपेन्मनुम् ||
इत्यादावपि त्रिविधमार्गोपयुक्तं त्रिविधपुरश्चरणं सुधीभिराकलनीयम् |


Band III, S. 741–742, Einwand gegen die Berechtigung des Pashu
ननु पशूनामेतद्देवतासाधने कथमधिकारः |
दिव्यभावं वीरभावं विना कालीं न पूजयेत् |
पूजयेन्नरकं याति दुःखं तस्य पदे पदे ||
पशुभावाश्रितो देवि यदि कालीं प्रपूजयेत् |
रौरवं नरकं याति यावदाहूतसम्प्लवम् ||
इति (निरुत्तरतन्त्र-)वचनेन निषेधादिति चेन्न |
दिव्यभावमित्यादिवचनानां वामाचारप्रकरणीयतया वाममार्गिणां पशुभावाश्रयणनिषेधपरत्वात् |
तथा च |
वाममार्गी दिव्यभावं विना कालीं न पूजयेत् |
पशुभावाश्रितः सन् यदि पूजयेत्तदा रौरवं नरकं यातीतिति तदर्थः |
तदुक्तमन्यत्रापि |
दिव्यभावं वीरभावं वाममार्गी समाश्रयेत् |
पशोः संसर्गमात्रेण रौरवं नरकं व्रजेत्—इति ||
तथा च |
पशुभावो हि विप्राणां श्रेयस्करतरो मतः |
तस्मात् पाशवकल्पेन विप्रः कालीं प्रपूजयेत् ||
इति (श्रुतिसिद्धान्ततन्त्र-)वचनात् |
विप्रो दक्षिणमार्गेण महामायां प्रपूजयेत् ||
इत्यादि (सिद्धान्तसार-)वचनाच्च पशूनामेतद्देवतोपासनाधिकारित्वमक्षतमेव |
अन्यथा |
पशुगुरुमुखाल्लब्ध्वा—इत्यादिपूर्वोक्त-(कालीकुलार्णव-)वचनस्य |
स्वाचारनिरतो नित्यं दिवा लक्षं जपेत् पशुः |
इत्यादि (कालीक्रम-)वचनस्य चासङ्गत्यापत्तेः |


Lesungshinweise: [angerufenen]

Band III, S. 742, Vira-Praxis und Brahmanen
एवं च |
साधके क्षोभमापन्ने देवीक्षोभः प्रजायते |
तस्माद्भुक्त्वा च पीत्वा च पूजयेत् परमेश्वरीम् ||
विना पीत्वा सुरां भुक्त्वा मांसं गत्वा रजस्वलाम् |
यो जपेद्दक्षिणां कालीं तस्य दुःखं पदे पदे ||
कलासवयोगेन तर्पयेत् कालिकां प्रिये |
इत्यादि-(निरुत्तरतन्त्र-)वचनानामपि वीरपरत्वमवगन्तव्यम् |
वीरस्यापि ब्राह्मणस्य मैरेयाद्युपादाननिषेधाद्ब्राह्मणेतरवीरपरत्वमुक्तवचनानामिति बहवः |
वस्तुतो ब्राह्मणस्य वीरादिभाव एव निषिद्धः |
पशुभावो हि विप्राणाम्—इत्युक्तत्वात् |
ननु |
मद्यं मत्स्यं तथा मांसं मुद्रां च मैथुनं ततः |
ब्राह्मणो वीरभावेन कालिकायै निवेदयेत् ||
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्च कुलयोगतः |
पञ्चभिः पूजयेत् कालीं मोक्षार्थी यः कलौ भवेत् ||


Lesungshinweise: [Getränkbezeichnung nicht näher erläutert] [Wie passt dazu:] [Stoffen]

Band III, S. 743, Fünf Merkmale des Brahmanen
इत्यादि-(निरुत्तरतन्त्र-)वचनाद्ब्राह्मणस्य वीरभावे कथं नाधिकार इति चेन्नैवम् |
ब्राह्मं वीर्यं तथा क्षेत्रं संस्कारा ब्रह्मसम्भवाः |
ब्राह्मणाचरणाद्ब्रह्मविद्याभिर्ब्राह्मणो भवेत् ||
इति (मेरुतन्त्रो-)क्तेषु पञ्चसु लक्षणेषु निर्देशक्रमप्रातिलोम्येन लक्षणचतुष्टयहीनस्य शूद्रतुल्यस्यैव ब्राह्मणस्य वामाचाराधिकारितया सर्वाचारपरिभ्रष्टस्य तादृशस्यैव ब्राह्मणस्य कुलाचाराधिकारितया च तदितरस्य विप्रस्य तदुभयानधिकारित्वेन वीरभावनिषेधात् |
तदुक्तं (मेरुतन्त्रे) उक्तेषु लक्षणेष्वेकं यस्मिन् विप्रे प्रदृश्यते |
तस्यैव ब्राह्मणस्यात्र वामे स्यादधिकारिता ||
तथा |
चतुर्लक्षणहीनानां मार्गाः स्युः कौलिकादयः |
तथा |
सर्वाचारपरिभ्रष्टः कुलाचारं समाश्रयेत् |
कुलाचारपरिभ्रष्टो रौरवं नरकं व्रजेत्—इति ||
अत एवोक्तं (भावनिर्णये) वृषलः पशुभावं तु न कदाऽपि समाश्रयेत् |
ब्राह्मणो वीरभावं च मनसाऽपि न भावयेत् ||
इति च शब्दाद्दिव्यभावमपि |
एवं च ब्राह्मणकर्तृकमदिरेयोपादानविधायकं वाक्यं यत्र यत्रोपलभ्यते तत्र तत्र ब्राह्मणपदस्य पूर्वोक्तलक्षणचतुष्टयहीनवीरब्राह्मणपरत्वमवधेयम् |
तान्त्रिकमते तादृशेऽपि ब्राह्मणपदप्रयोगात् |
अत एव तस्यैव ब्राह्मणस्येत्युक्तं (मेरुतन्त्रे) |


Lesungshinweise: [hier eine abwertende soziale Bezeichnung]

Band III, S. 743–744, Kularnava und Sautramani
ब्राह्मणस्तु सदा पेयं क्षत्रियस्तु रणागमे |
वैश्यैर्धनप्रयोगे च शूद्रैर्नैव कदा चन ||
इति-(कुलार्णव-)वचनं तु सदा पेयमित्यत्र सदा [अस्पष्टम्] इत्याद्यर्थेनापि सङ्गच्छते |
एवं च कलिधर्मप्रकरणे गृह्यपरिशिष्टे हरिनाथोपाध्यायैः सौत्रामण्यां सुराग्रहणनिषेधस्योक्तत्वात् |
कुलाचाराधिकारिब्राह्मणस्यास्माभिरिह प्रदर्शितत्वाच्च |
सौत्रामण्यां कुलाचारे ब्राह्मणः प्रपिवेत् सुराम् |
इति (समयाचार-)वचनं सङ्गच्छत एव |


Lesungshinweise: [die betreffende Wortdeutung ist im Druck beschädigt und bleibt offen] Das Wort des Kularnava lautet: „Ein Brahmane soll stets trinken, ein Kshatriya beim Eintritt in die Schlacht, Vaishyas bei der Verwendung von Vermögen; Shudras dagegen niemals.“ Es lässt sich auch durch eine besondere Auslegung von „stets zu trinken“ vereinbaren [die betreffende Wortdeutung ist im Druck beschädigt und bleibt offen].

Band III, S. 744, Grenzen der allgemeinen Aussagen über Weindarbringung
यत्तु |
त्रेतायां पूजिता देवी घृतेन सर्वजातिभिः |
मधुभिः सर्ववर्णैस्तु पूजिता द्वापरे युगे ||
पूजनीया कलौ देवी केवलैरासवैः—इति (यामल-)वचनम् |
तत्र सर्ववर्णशब्दो ब्राह्मणेतरपरः |
त्रय्यध्वरीणो भूदेवस्त्रिपदाम्बुजषट्पदः |
न कदाऽपि स्पृशेद्धालां न च देव्यै निवेदयेत् ||
इति (महाकालसंहिता-)वचनेन ब्राह्मणस्य सर्वथा मैरेयदाननिषेधात् |
इत्थं च |
यत्रावश्यं विनिर्दिष्टं मदिरादानमुत्तमम् |
ब्राह्मणस्ताम्रपात्रे तु गव्यं मधु प्रकल्पयेत् ||
इति (भैरवतन्त्रो-)क्तोऽनुकल्पविधिरपि पूर्वोक्तवीरब्राह्मणपर एव |
तदितरस्य तु तत्रापि नाधिकारः |
ब्राह्मणस्त्वनुकल्पं च कृत्वा चाण्डालतामियात् |
इति तन्त्रान्तरवचनात् |


Lesungshinweise: [Gayatri] [-Milch] [Die sozialen Wertungen sind Aussagen der zitierten historischen Texte.]

Band III, S. 744–745, Zwölf Ersatzgetränke
(महाकालसंहितायाम्) कदाचित्त्वनुकल्पोक्तां दद्याद्देव्यै द्विजः सुराम् |
उपमद्यानि ते वच्मि तानि देव्यवधारय ||
आर्द्रकस्य गुडस्यापि समभागो भवेत् सुरा |
ताम्रपात्रे तथा क्षौद्रं पयो गव्यं तथाऽत्र च ||
नारिकेलोदकं कांस्ये रीतौ तालरसोऽपि च |
रसालश्च रसो रङ्गे शङ्खे वा पानसो द्रवः ||
मधूकपुटके द्राक्षा तत्पुष्पं तद्दलेऽपि च |
चिञ्चारसं पद्मपत्रेऽश्वत्थे कारकपानकम् ||
उपमद्यानि चैतानि द्वादश स्युर्वरानने |
द्विजो दित्सति चेन्मद्यं दद्यादेतान्न तु सुराम् ||
एतान्यपि न देयानि सात्त्विकैर्धर्मभीरुभिः |
मद्यं वाऽप्युपमद्यं वा मद्यनाम्ना न गच्छति ||
पातित्यं किन्तु नाम्नोभिस्त्यैव पतितो भवेत् |
अत्र द्विजपदं ब्राह्मणेतरद्विजपरं न तु ब्राह्मणपरम् |
अत एवोक्तं तत्रैव |
नारिकेलोदकं कांस्ये ताम्रे गव्यं तथा मधु |
राजन्यवैश्ययोर्दानं न विप्रस्य कदा चन ||
एवं प्रदानमात्रेण हीनायुर्ब्राह्मणो भवेत्—इति |


Lesungshinweise: [Metallbezeichnung, wohl Zinn] [Die Aufzählung lässt die Zählung von zwölf nicht eindeutig nachvollziehen.] [Der folgende Satz über die Benennung und den Verlust des rituellen Status ist sprachlich beschädigt; er warnt auch vor einer bloßen Benennung als Alkohol.] Ob Alkohol oder Ersatzalkohol: [Der folgende Satz über die Benennung und den Verlust des rituellen Status ist sprachlich beschädigt; er warnt auch vor einer bloßen Benennung als Alkohol.]“ Das Wort „Zweimalgeborener“ bezeichnet hier die Zweimalgeborenen außer den Brahmanen, nicht einen Brahmanen.

Band III, S. 745, Kularahashya und Mahakala-Samhita
एवं च |
नानोपचारसम्भारैर्भक्तितः पूजिताऽपि च |
विना मकारयोगेन नैव तुष्यति कालिका ||
इत्यादि (कुलरहस्य-)वचनमपि शूद्रादिकर्तृकाराधनपरं बोद्धव्यं विप्रादिकर्तृकोपासनायां न सात्त्विकैरेवोपचारैस्तस्यास्तुष्टिश्रवणात् |
एतत्तु सर्वं (महाकालसंहितायां) स्पष्टम् |
तथा हि |
वस्तुष्वन्येषु तिष्ठत्सु देवीप्रीतिकरेषु च |
किमेतया वै सुरया कदन्नमलरूपया ||
भूतप्रेतपिशाचार्थं पूयमिश्रं सुरामिषम् |
तद्ब्राह्मणेन नो देयं देव्यै नात्तव्यमेव च ||
न चैतया तुष्यति सा बहु वाऽपि घृणायते |
उद्विग्ना च भवेत्तस्माद्दद्यान्नैव द्विजः सुराम् ||
हतो वेदो हतो धर्मः परलोको हतः स्वकः |
कुलं हतं हता जातिर्हतं ब्राह्मण्यमेव च ||
प्राज्ञंमन्येन मूढेन पिबताऽज्ञानतः सुराम् |


Lesungshinweise: [dieses Weges] [In der überlieferten Verbindung steht ein syntaktisch störendes na; die Begründung folgt dem erkennbaren Zusammenhang.] [Die Quellenfußnote nennt für „mit Eiter vermischt“ die Variante „Eiter-Schmutz“.] Vernichtet sind Veda und Dharma, die eigene jenseitige Zukunft, Familie, Herkunft und Brahmanentum durch den Toren, der sich für weise hält und unwissend Sura trinkt …“ [Die Quellenfußnote nennt für „mit Eiter vermischt“ die Variante „Eiter-Schmutz“.]

Band III, S. 746, Rede der Göttin über reine Gaben
किं कृतं साधितं किं वा किं च वा समुपार्जितम् ||
यदयं हतवान् स्वस्य सर्वं मद्योपसेवनात् |
एवमज्ञानमत्तो मां मामप्याशु हनिष्यति ||
उद्विग्नैवं महामाया भवेत्तदवलोकनात् |
कैवर्तपुल्कसाम्बष्ठखर्जूरकान्त्यवसायिनाम् ||
चर्मकारनरद्रोहिमेदोवेणूपजीविनाम् |
सिद्धदग्धान्ध्यपक्वान्नं द्रव्यं मह्यं निवेदय हि ||
सुधावत् पिबतां एनां कथं वितृष्णा न हि स्पृहा |
अन्ये न सन्ति वस्त्वाद्या नैवेद्यकरणाय किम् ||
अस्पृश्यं यत्तदानीय मह्यं ददति कौलिकाः |
ऋचो यजूंषि सामानि ह्यथर्वाङ्गिरसस्तथा ||
वेदेभ्यः कोटिगुणिता महामन्त्रास्तथैव च |
ये पावयन्ति देहस्थान् मदिराकण्ठपूरितैः ||
मामपि प्लावयिष्यन्ति किमाश्चर्यं हि ते जनाः |
सात्त्विकैरेव नैवेद्यैः कन्दैः पुष्पैः फलैर्दलैः ||
अभावे भावभक्तिभ्यां सत्यं तुष्टा भवाम्यहम् |
न मद्यमांसविस्तारैः प्रेतराक्षसभोजनैः ||


Lesungshinweise: [Es folgt eine abwertende Aufzählung von Berufs- und Herkunftsgruppen:] [die Verbindung andhya ist unklar] [Die Polemik wird als Aussage der zitierten Göttinnenrede übersetzt.]

Band III, S. 746–747, Die Weisen und ihre Verehrung
ब्राह्मणो मानसाः पुत्रा मरीच्यत्र्यङ्गिरोमुखाः |
एतेषामन्वयोद्भूताः पुनरन्ये सहस्रशः ||
कश्यपश्चैव दुर्वासा दत्तात्रेयश्च चन्द्रमाः |
बृहस्पतिर्विश्रवाश्च शक्तिर्दक्षो मृकण्डजः ||
नारदः कपिलो व्यासः कालाग्निर्जमदग्निजः |
दाक्षः कविरथर्वा च शाण्डिल्यो गौतमो मनुः ||
नाचिकेता भरद्वाजः श्वेताश्वतर एव च |
और्वो दधीचिश्च्यवन ऋचीकश्च पराशरः ||
शातातपो लोमशश्च जैगीषव्यश्च देवलः |
पैठीनसिर्वीतिहव्यः संवर्तोऽगस्तिरासुरिः ||
उपमन्युर्मतङ्गश्च तथा वाजश्रवाः कठः |
उद्दालकश्चारुणेय आश्वलायन एव च ||
उत्तङ्कश्च यवक्रीतः कालायन ऋतश्रवाः |
एते चान्ये च मुनयो वेदवेदाङ्गपारगाः ||
ईजानाः क्रतुभिः सर्वैः समाप्तवरदक्षिणैः |
शृण्वन्तो निगमं सर्वं कुर्वन्तो दुश्चरं तपः ||
ध्यायन्तो निष्कलं ब्रह्म जपन्तो मामकं मनुम् |
सर्वदा सात्त्विकैरेवोपचारैः पूजयन्ति माम् ||
सदा मय्यर्पितहृदः सदा मद्भावभाविताः |
सदा मच्छरणं प्राप्ताः शान्ता दान्ता जितेन्द्रियाः ||
वाय्वाहारा निराहारा ऊर्ध्वरेतस एव च |
तपोबलाद्ध्वंसयितुं शक्रमप्यलमीदृशाः ||
न निवेदितवन्तस्ते किमर्थं मदिरां मयि |
विज्ञायास्यां महादोषं निन्द्यतां पापहेतुताम् ||
गर्हाकरत्वं पातित्यकारित्वं पूतितामपि |
परलोकविनाशित्वं तथा नरकहेतुताम् ||
विप्रत्वजातिहन्तृत्वं म्लेच्छतुल्यत्वकारिताम् |
अतस्तत्यजुरेवैनां सङ्गृह्य श्रुतिपद्धतिम् ||
यद्यस्यां दोषराहित्यं पुण्यकारित्वमेव च |
स्यात्तदा ते कथं मह्यं ददुर्नैव सुरां द्विजाः ||
धर्मव्यवस्थां ज्ञात्वैवमन्येऽपि द्विजजातयः |


Lesungshinweise: [hier nochmals in der Form Daksha/Daksha-Abkömmling] [Fortsetzung im nächsten Abschnitt.]

Band III, S. 748, Fortsetzung der Göttinnenrede und Unterscheidung der Gaben
निवेदयिष्यन्ति नैव मह्यं मद्यं कथं चन ||
बोधिता अपि शास्त्रार्थैरनादृत्य वचो मम |
मोहाद्व्यवहरिष्यन्ति लोभोपहतचेतसः ||
ये के चित् तान् धर्मराजः शासिष्यति न संशयः |
तीव्रैर्दण्डैर्महाघोरनरकादिनिपातनैः ||
इति सत्यं पुरा मह्यं प्रोवाच जगदम्बिका |
तत्राहमवदं देवि देवीवक्त्रोत्थिताक्षरैः ||
अतः परं श्रुत्युदितं धर्ममहावाक्यमेव च |
देव्याज्ञां च समुल्लङ्घ्य ये दास्यन्ति सुरां द्विजाः ||
तेषां शास्त्री महामाया श्रोतव्यं शृण्वतः परम् |
द्विजेतरः संप्रदद्याद्देव्यै मद्यं सदा रहः ||
स्वयं महाप्रसादं च भुञ्जीत प्रत्यहं प्रिये |
मांसानि दग्धमीनांश्च सर्वदैव निवेदयेत् ||
शूद्रादीनामथैतेषां सद्यस्तुष्यति कालिका |
द्विजानां यावती निन्दा कथिता मद्यदानतः ||
शूद्राणां तावती ज्ञेया प्रशस्तिर्वरवर्णिनि |
अतः शूद्रः प्रयत्नेन देव्यै मद्यं निवेदयेत् ||


Band III, S. 748, Verheißung und Verhältnis zur Nahrung der Gottheit
दीर्घायुष्ट्वमरोगित्वं वाग्मित्वं राजमान्यताम् |
पुत्रक्षेत्रकलत्रार्थपरिपूर्णत्वमेव च ||
अन्ते स्वर्गादिगमनं शूद्रः प्राप्नोति मद्यतः |
श्रूयते यत् फलाधिक्यं तन्त्रादौ मद्यदानतः ||
तद्धि शूद्रपरं ज्ञेयं नैव द्विजपरं प्रिये |
स्वयं यदन्नो भवति तदन्ना तस्य देवता ||
पितरश्च तदन्नाः स्युरित्येवं वैदिकी स्थितिः |


Band III, S. 749, Historische Rangordnung und Zuweisung von Eigenschaften
प्राणिजातिषु सर्वासु मानुष्यमतिदुर्लभम् ||
मानुष्येष्वपि देहेषु शूद्रः श्रेष्ठोऽन्त्यजातितः |
शूद्राच्छतगुणो वैश्यो वैश्यात् साहस्रिको नृपः ||
नृपात् कोटिगुणो विप्रो ज्ञेयः स्वाध्यायतत्परः |
अत एव हि सर्गादौ जगत् सृष्ट्वा चराचरम् ||
यद्यत् सारतरं वस्तु तद्ब्रह्माऽदाद्द्विजातये |
वेदाः षडङ्गशास्त्राणि क्षमा सत्यं तपो धृतिः ||
शौचं दानं दया धर्मो विवेकः कलभाषिता |
त्यागः शान्तिश्च मर्यादा स्वाध्यायोऽध्यात्मचिन्तनम् ||
यज्ञाः सर्वहविर्गव्यं पयो मेध्यान्नमेव च |
एतेषां विपरीतानि ददौ शूद्रस्य एव च ||
त्रयाणामपि वर्णानां दासभावमदात् ततः |
सर्वशिल्पोपजीवित्वं मन्त्रराहित्यं च ||
अनाशौचत्वमशौचित्वमपाङ्क्तेयत्वमेव च |
अस्पृश्यत्वमपाठित्वमसम्भाष्यत्वमेव च ||
मद्यमांसोपयोगित्वं तद्विक्रेतृत्वमेव च |
देवेभ्यस्तत्प्रदातृत्वं तदन्नादित्वमेव च ||
म्लेच्छादिदेशगमनं तत्सम्पर्कित्वमेव च |
महासाहसकारित्वं वेदाश्रोत्रत्वमेव च ||


Band III, S. 749–750, Abschluss der Alkoholdebatte
एतस्मात् कारणाद्देवि वेदमर्यादया ह्यथा |
ब्रवीमि मदिरादानेऽवर्णवादाधिकारिता ||
दोषोऽणुरपि नैतेषां देवेभ्यो मद्यदानतः |
फलातिरिक्तता वाऽपि श्रूयते निगमादिषु ||
अतः प्रयत्नतः शूद्रो दद्यान्मद्यं परिश्रुतम् |
तानेव वर्जयेद्विप्रः सदा प्राणात्ययेऽपि हि ||
निष्कस्यापीदृशान् दोषानथ नेहातुमिच्छति |
स च स च विजानाति धर्मं वा पापमेव वा ||
अगस्त्यसंहितायामपि |
आद्यां तु पिशितै रक्तैः सुरयाऽपि सुरेश्वरि |
वर्णाश्रमोचितं धर्ममविचार्य यजन्ति ये ||
भूतप्रेतपिशाचास्ते भवन्ति ब्रह्मराक्षसाः |
मेरुतन्त्रे |
अमृतेन सहोत्पन्नं स्थाने मद्यं सुगायते |
विषेणापि सहोत्पन्नं तेन मद्यं विगायते ||
तथा |
गौडी पैष्टी च माध्वी च सुरा इत्यभिधीयते |
सा क्षत्रवैश्ययोर्निषिद्धा ब्राह्मणस्य तु का कथा—इति ||


Lesungshinweise: Die Druckverbindung avarṇavādādhikāritā ist beschädigt und lässt sich nicht sicher auflösen. Der folgende Zweizeiler ist sprachlich beschädigt: niṣkasyāpīdṛśān doṣānatha nehātumicchati.

Band III, S. 750–751, Kālī-Vidyās – einsilbige und sechssilbige Form
अथ विद्याभेदाः कालीतन्त्रे |
कालीहृदयविद्या च सिद्धिविद्या महोदया |
पुरा येन यथा जप्त्वा सिद्धिमायाद्दिवौकसः ||
कामाक्षरं वह्निसंस्थमिन्दिरानादबिन्दुभिः |
मन्त्रराजमिदं ख्यातं दुर्लभं पापचेतसाम् ||
त्रिगुणा तु विशेषेण सर्वशास्त्रप्रबोधिका |
अनया सदृशी विद्या न हि सारस्वतप्रदा ||
आकर्षणवशीकारमारणोच्चाटनं तथा |
शान्तिपुष्ट्यादिकर्माणि साधयेद्दिव्यालिङ्गात्—इत्यादि |
तथा |
ध्यानपूजादिकं सर्वं साधनं च पुरस्क्रिया |
अति[अस्पष्टम्]ख्याः समानं सर्वमीरितम् ||
मेरौ |
जपपूजादिकं प्राग्वद्विशेषाद्भोगमोक्षदम् |
श्रुतिसिद्धान्ते |
स्वबीजं पूर्वमुद्धृत्य कालिके वह्निगेहिनी |
एषा षडक्षरी विद्या भुक्तिमुक्तिफलप्रदा ||
मेरुतन्त्रे |
न्यासपूजादिकं प्राग्वद्विशेषाद्रोगदो मतः |


Lesungshinweise: Das Schlusswort divyāliṅgāt bleibt lokal unsicher. Meditation, Puja, Sādhana und Puraścaraṇa werden als dem früheren Verfahren entsprechend bezeichnet; die Bezeichnung am Anfang der letzten Zeile von S.750 ist beschädigt. Der anschließend gedruckte Ausdruck viśeṣādrogado ist unsicher; er wird nicht stillschweigend in ein bestimmtes Heilsversprechen umgedeutet.

Band III, S. 751, Kürzere Kālī-Mantras und einundzwanzigsilbige Bildung
तत्रैव |
क्रीँ हूँ ह्रीँ त्र्यक्षरात्माऽयं मन्त्रः काल्याः प्रकीर्तितः |
प्राग्वज्जपादिकं चास्य विशेषात् सन्ततिप्रदः ||
कालीबीजं च हूँ मायां हुं फट् पञ्चाक्षरो मनुः |
न्यासध्यानादिकं प्राग्वद्विशेषाद्भूतनाशनम् ||
क्रीँ हूँ ह्रीँ हूँ फडित्युक्त्वा स्वाहान्तः सप्तवर्णकः |
मायान्तर्हूं कूर्चयुगमस्तैन्द्रान्तं मन्त्रत्रयम् ||
मायाबिन्दोश्चरयुतं दक्षिणे कालिके पदम् |
संहारक्रमयोगेन बीजसप्तकमुद्धरेत् ||
एकविंशत्यक्षरात्मा ताराद्यः कालिकामनुः |


Lesungshinweise: Danach folgt eine stark gedrängte, teilweise beschädigte Zeile über drei Mantras mit Māyā, Hūṃ, zweimal Kūrca und als Astra beziehungsweise Indra bezeichneten Endgliedern. Für eine einundzwanzigsilbige Kālī-Form werden Māyā und Bindu in einer unsicheren Verbindung, „dakṣiṇe kālike“, eine Siebenergruppe von Bījas in Auflösungsreihenfolge und Tāra am Anfang genannt. Die Drucklesung māyābindoścarayutam und die unmittelbar vorausgehende Chiffre sind nicht zu einer gesicherten Rezitationsfolge ergänzt.

Band III, S. 751–752, Einundzwanzig- und achtsilbige Kālī-Form
मेरुतन्त्रेऽपि |
अथान्यं संप्रवक्ष्यामि एकविंशतिवर्णकम् |
ॐ ह्रीँ ह्रीँ हूँ युगं त्रिः क्रीँ दक्षिणे कालिके वदेत् ||
त्रिः क्रीँ हूँ हूँ शक्तियुगमस्य न्यासादि पूर्ववत् |
बिल्वमूले शवारूढो वटमूले तथैव च ||
लक्षं मनुमिमं जप्त्वा सर्वसिद्धीश्वरो भवेत् |
पक्षं प्रतिनिशायां दक्षिणाश्रायसिद्धिदम् ||
तथा |
दक्षिणे कालिके स्वाहा मनुरष्टाक्षरः परः |
न्यासः प्राग्वद्ध्यायेन्मन्त्रेशां शवरूपशिवस्थिताम् ||
महाकालरतासक्तां शिवाभिर्दिक्षु वेष्टिताम् |


Lesungshinweise: Eine weitere Zeile nennt nächtliche Wiederholung über eine Monatshälfte und die Vollendung des südlichen Überlieferungsweges; die Druckform dakṣiṇāśrāya ist lokal unsicher.

Band III, S. 752, Weitere Kālī-Formen und Puraścaraṇa
तथा |
पुरश्चर्यादिकं प्राग्वत् प्रयोगानाचरेत् तथा |
अथातः संप्रवक्ष्यामि शक्रवर्णमनूत्तमम् ||
क्रीँ हूँ ह्रीँ दक्षिणे कालिके क्रीँ हूँ ह्रीँ दहनप्रिया |
यजनं पूर्ववत् प्रोक्तं न्यासध्यानजपादिकम् ||
विशेषाच्च सुरादीनामयमाकर्षणक्षमः |
हूँ हूँ त्रिः क्रीँ द्विश्च लज्जां दक्षिणे कालिके पुनः ||
हूँ हूँ त्रिः क्रीँ द्विश्च लज्जां स्वाहेत्यकृतिवर्णवान् |
न्यासपूजादिकं प्राग्वद्विशेषेण वशीकृतिः ||
जपादेतस्य भवति सर्वमन्यत् तु पूर्ववत् |
क्रीँ क्रीँ क्रीँ हूँ समुच्चार्य हूँ लज्जाद्वयमुच्चरेत् ||
दक्षिणे कालिके स्वाहा तिथिवर्णः प्रकीर्तितः |
मन्त्रराजोऽयमाख्यातः पूर्ववत् स्यादुपासना ||
विशेषाद्राज्यानामयं राज्यप्रदो भवेत् |
अथैतद्विद्यायाश्च पुरश्चरणमुक्तं सिद्धान्तसंग्रहे |
एवं ध्यात्वा महाकालीं जपेल्लक्षचतुष्टयम् |
रक्तोत्पलैर्बिल्वपत्रैश्च तद्दशांशेन होमयेत्—इति ||


Band III, S. 752–753, Mahākāla – Einführung, Mantra und Zuordnungen
अथ महाकालमन्त्रः शक्तिसङ्गमे |
श्रीशिव उवाच |
महाकालं समाराध्य निर्वाणं निर्भयं शृणु |
महाकालो महाभीमः प्रलयानलसन्निभः ||
कालीसायुज्यमुद्दूतः कालीमानसिकः शिवः |
महाकालः परः शम्भुः परातीतगुणाकरः ||
तस्य मन्त्रं प्रवक्ष्यामि येन रक्षेज्जगत्त्रयम् |
कूर्चयुग्मं महाकाल प्रसीदेति पदद्वयम् ||
लज्जायुग्मं वह्निजायासंयुक्तः षोडशार्णकः |
षोडशार्णा यथा मुख्या सर्वश्रीचक्रमण्डले ||
तथाऽयं सर्वकालीषु महाकालः प्रकीर्तितः |
कालिकाऽस्य ऋषिः प्रोक्तो विराट् छन्दः प्रकीर्तितम् ||
देवता तु महाकालः सर्वरूपी निरञ्जनः |
कूर्चबीजं तथा माया शक्तिरस्य प्रकीर्तिता ||
स्वाहाकीलकमुद्दिष्टं काम्ये विनियोगता |
मायया तु षडङ्गानि ध्यानं शृणु वरानने ||


Lesungshinweise: Er ist Śiva in engster Einheit mit Kālī und in ihrem Geist gegenwärtig; die Verbindung kālīsāyujyamuddūtaḥ ist textlich unsicher.

Band III, S. 753, Mahākāla – Meditation
अथ ध्यानम् |
कोटिकालानलाभासं चतुर्बाहुं त्रिलोचनम् |
श्मशानाष्टकमध्यस्थं मुण्डाष्टकविभूषितम् ||
पञ्चप्रेतस्थितं देवं त्रिशूलं डमरुं तथा |
खड्गं च खर्परं चैव वामदक्षिणयोगतः ||
बिभ्रतं सुन्दरं देहं श्मशानभस्मभूषितम् |
नानाशवैः क्रीडमानं कालिका हृदयस्थितम् ||
लालयन्तं रतासक्तं घोरचुम्बनतत्परम् |
गृध्रगोमायुसंयुक्तं फेरवीगणसंयुतम् ||
जटापटलशोभाढ्यं सर्वशून्यालये स्थितम् |
सर्वशून्यमुण्डभूषं प्रसन्नवदनं शिवम् ||
भावयेदिति शेषः |


Lesungshinweise: Der abschließende Ausdruck sarvaśūnyamuṇḍabhūṣa ist mehrdeutig und bezeichnet einen mit Leere und Schädeln verbundenen Schmuck.

Band III, S. 753–754, Mahākāla – Puraścaraṇa
अथ पुरश्चरणम् |
एवं पूजां विधायाथ लक्षसंख्यं जपेच्छिवे |
तद्दशांशेन हवनं करवीरप्रसूनकैः ||
स्वयम्भूवाऽर्कबीजातैः कारणाक्तैश्च वा हुनेत् |
नित्यं नैमित्तिकं काम्यं कालीवत् सर्वमाचरेत् ||


Lesungshinweise: Die anschließende alternative Stoffangabe svayambhūvā ’rkabījātaiḥ kāraṇāktaiḥ ist gedrängt und teilweise beschädigt; sie nennt Svayambhū, Arka-Samen beziehungsweise daraus entstandene Stoffe und das Bestreichen mit dem rituell als Kāraṇa bezeichneten Stoff.

Band III, S. 754, Mahākālī – Mantra und Anrufung
अथ महाकालीमन्त्रो मेरुतन्त्रे |
अथातः संप्रवक्ष्यामि महाकालीमहामनुम् |
ॐ क्षेँ क्षेँ क्रेँ ततः क्रेँ च पशुं गृहाण चोच्चरेत् ||
हूँ फट् स्वाहा शक्रवर्णः सिद्धमन्त्र उदाहृतः |
नास्य मुन्यादिकं न्यासः सिद्धमन्त्रस्य विद्यते ||
कृष्णतोयेन संपूर्णे घटे चाहूय कालिकाम् |
ब्राह्म्यादिभिश्च दूतीभिर्युक्तां संपूज्य भक्तितः ||
अष्टमीं चाण्डिकां तत्र देवीं ध्यायेदृढं पुनः |


Lesungshinweise: Sinngemäß heißt der Wortteil: „Nimm das Opfertier an.“ Die Formel wird mit dem Zahlwort śakra als vierzehnsilbiger Siddha-Mantra bezeichnet; die Nasalzeichen bleiben der Druckform entsprechend. Danach vergegenwärtigt man die Göttin Cāṇḍikā als achte in dieser Gruppe; die Druckform aṣṭamīṃ cāṇḍikām lässt den genauen Gruppenbezug knapp.

Band III, S. 754, Mahākālī – Meditation und Vollendungsverfahren
ध्यानं यथा |
पञ्चवक्त्रां महारौद्रीं प्रतिवक्त्रं त्रिलोचनाम् |
शक्तिशूलधनुर्बाणखेटखड्गवराभयान् ||
दक्षादक्षभुजैर्देवीं बिभ्राणां भोगिभूषणाम् |
अथ पुरश्चरणम् |
वर्णलक्षं जपेन्मन्त्रं वामाचारेण साधकः |
पिचुमर्दस्य समिधो घृताक्ता जुहुयात् ततः ||
रज्ज्वा प्रज्वलिते वह्नौ तर्पणादि ततश्चरेत् |
एवं सिद्धमनुर्मन्त्री मारयेदचिराद्रिपून् ||


Lesungshinweise: Die gedruckte Feuerangabe rajjvā prajvalite, „mit einer Schnur entzündet“, ist im Zusammenhang auffällig und bleibt als lokale Unsicherheit erhalten.

Band III, S. 754–755, Bhadrakālī – erste Formel, Meditation und täglicher Japa
अथ भद्रकालीमन्त्रस्तत्रैव |
अथातः संप्रवक्ष्यामि भद्रकाल्याः परं मनुम् |
ह्रीँ कालीति महाकाली द्विः किणि फड्वसुप्रिया ||
चतुर्दशाक्षरो मन्त्रो भद्रकाल्या उदाहृतः |
पदैर्बन्धैर्बड्ढानि जातियुक्तानि कल्पयेत् ||
अथ ध्यानम् |
ध्यातव्येयं सदा देवी भद्रकाली भयावहा |
क्षुत्क्षामा कोटराक्षी च नाहं तृप्तेति वादिनी ||
मसीमुखी मुक्तकेशी जगद्ग्रसनलालसा |
जम्बूफलाभदशना लोलजिह्वा भयङ्करी ||
शूलं कपालं च शृणिं ज्वलत्पाशं च बिभ्रती |
अशेषं कालिकातन्त्रे यत् प्रोक्तं तदिहापि च ||
जपन्यासप्रयोगाद्यं यो विशेषः स उच्यते |
आराध्य प्रजपेन्मन्त्रं नित्यमष्टोत्तरं शतम् ||
रिपुमालां विधातव्या जयार्थं सिद्धिमिच्छता |
इयं देवी महादेवी शत्रुभयहकारिणी ||
यथेच्छयाऽर्च्या नित्या धर्मकामार्थसिद्धिदा |


Lesungshinweise: Die folgende Nyāsa-Zeile padair bandhair baḍḍhāni jātiyuktāni ist beschädigt. Die große Göttin wird als Beseitigerin der Feindesfurcht beschrieben, wobei die Druckform śatrubhayahakāriṇī gestört ist.

Band III, S. 755–756, Bhadrakālī – weitere Formel und Meditation
अथ मन्त्रान्तरं वक्ष्ये भद्रकाल्याः सुगोपितम् ||
गृध्रकर्णि विरूपाक्षि लम्बस्तनि महोदरि |
उत्पाटयोत्पाटयेति द्विरोषि पदं भवेत् ||
द्विर्य वेति पदं हूँ फट् स्वाहा सवाग्द्विवर्णकः |
पिप्पलादो मुनिः प्रोक्तो निचृच्छन्द उदाहृतम् ||
भद्रकाली देवता स्याद्विहिरूपाय हृत् स्मृतम् |
उपरिभ्यां शिरः प्रोक्तं वेतिभ्यां तु शिखा स्मृता ||
हूँ फड्भ्यां कवचं प्रोक्तं स्वाहयाऽस्त्रमुदीरितम् |
अथ ध्यानम् |
अतिरौद्रा महादंष्ट्रा भृशं दोषी कृशोदरी |
सुवृत्तनयना सारा दीर्घघोणा महातुरा ||
निश्चलाम्भोदनिर्घोषा नीलजीमूतसन्निभा |
भृगुध्वटसन्देशा महारटन्तभीषणा ||
दंष्ट्रोष्ठकोपताम्राक्षी रक्तदीर्घशिरोरुहा |
त्रिशूलद्वयधरोर्दण्डा नरकीटपलाशिनी ||
अतिरक्ताम्बरा देवी रक्तमांसासवप्रिया |
शिरोमाला भूषिताङ्गी पिबन्ती शोणितासवम् ||
नृत्यन्ती च हसन्ती च पिशाचगणसेविता |
पिशाचस्कन्धमारुह्य भ्रमन्ती वसुधातलम् ||
शङ्करस्य मुखोत्पन्ना योगिनी योगवल्लभा |
इत्थंभूता भद्रकाली मातृभिः परिवारिता ||
अथ पुरश्चरणम् |
ध्यात्वा सम्यक् समाराध्य ततो मन्त्रं जपेद्बुधः |
अयुतं मन्त्रसिद्ध्यर्थं मातृकान्यासतत्परः |
घृतहोमस्तथा कार्यस्तर्पणादि समाचरेत् ||
धमाल्यां च यत् प्रोक्तमन्यत्रापि तदाचरेत् |


Lesungshinweise: Die weiteren Lautangaben dvir oṣi und dvir ya ve sind beschädigt; danach werden Hū̐, Phaṭ und Svāhā genannt. Auch die als savāgdvivarṇaka gedruckte Silbenzählung bleibt unsicher. Für den Herz-Nyāsa steht die unsichere Bildung vihirūpāya; zwei obere Wortgruppen werden dem Kopf, zwei mit ve bezeichnete der Haarspitze, Hū̐ und Phaṭ dem Panzer und Svāhā der Waffe zugeordnet. Runde Augen, eine lange Nase und heftige Erregung werden genannt; mehrere Adjektive der ersten Zeilen sind beschädigt. Abschließend wird auf ein anderswo beschriebenes Verfahren verwiesen; die gedruckte Bezeichnung dhamālyāṃ ist beschädigt. Die unsicheren Silben werden nicht zu einer vermeintlich rezitierbaren Formel ergänzt.

Band III, S. 756, Siddhikālī – Mantra, Seher und Gliederzuordnung
अथ सिद्धिकालीमन्त्रः कालीतन्त्रे |
अथ वक्ष्ये महादेवि सिद्धिविद्यां महोदयाम् |
ईश्वरेण पुरा प्रोक्तां देवीं हृद्देशसंज्ञिताम् ||
प्रणवं पूर्वमुच्चार्य हृल्लेखाबीजमुद्धरेत् |
रतिबीजं समुद्धृत्य पञ्चमभगान्वितम् ||
ठद्वयेन समायुक्तं विद्या राज्ञी प्रकीर्तिता |
भैरवोऽस्य ऋषिः प्रोक्तो विराट् छन्द उदाहृतम् ||
सिद्धिकाली भद्ररूपा देवता भुवनेश्वरी |
रतिबीजं बीजमस्या हृल्लेखा शक्तिरुच्यते ||
हृल्लेखया षड्दीर्घेण प्रणवाद्येन कल्पयेत् |


Lesungshinweise: Nun der Siddhikālī-Mantra im Kālītantra: „Ich werde die glückverheißende Vollendungs-Vidyā erklären, große Göttin, die Īśvara einst verkündet hat, die Göttin mit der Bezeichnung Hṛddeśa.“ Die letzte Bezeichnung ist im Druck unsicher.

Band III, S. 757, Abschluss der vorangehenden Kali-Meditation
अङ्गषट्कं ततो न्यस्य ध्यात्वा देवीं शिवो भवेत् ||
ध्यानं यथा |
खड्गोद्भिन्नेन्दुबिम्बस्रवदमृतरसाप्लाविताङ्गी त्रिनेत्रा सव्ये पाणौ कपालाद्गलदमृतमयं मुक्तकेशी पिबन्ती |
दिग्वस्त्रा बद्धकाञ्ची मणिमयमुकुटाद्यैर्युता दीप्तजिह्वा पायान्नीलोत्पलाभा रविशशिविलसत्कुण्डलालीढपादा ||
अथ पुरश्चरणम् |
जपेद्विंशतिसाहस्रं सहस्रैरेव संयुतैः |
होमयेत् तद्दशांशेन मृदुपुष्पेण मन्त्रवित् ||


Lesungshinweise: [Die Wendung zu den Tausendereinheiten ist knapp; keine zusätzliche Zahl wird ergänzt.]

Band III, S. 757, Shmashana-Kali-Mantra
अथ श्मशानकालीमन्त्रः (स्वतन्त्रतन्त्रे) श्मशानकालिकामन्त्रं शृणुष्वावहिता शिवे |
वाणीं मायां ततो लक्ष्मीं कामबीजं ततः परम् ||
कालिके संपुटत्वेन चतुष्कं बीजमालिखेत् |
एकादशार्णा देवेशि चतुर्वर्गफलप्रदा ||
ऋषिर्भृगुर्निचृच्छन्दो देवता कालिका परा |
श्मशानाख्या च वाग्माया बीजं शक्तिर्महेश्वरि ||
कीलकं कामबीजं तम् ... ... ... इति |
चतुश्चतुस्त्रिचतुस्तु विद्यामन्त्रैः षडङ्गकः ||
विन्यस्य ध्यानं कुर्वीत कालिकायां समाहितः |


Lesungshinweise: [Schon der Druck setzt Auslassungspunkte.] [Die gedruckte Folge vier–vier–drei–vier ist nicht eindeutig zuzuordnen.]

Band III, S. 757–758, Shmashana-Kali-Dhyana und Purashcharana
अञ्जनाद्रिनिभां देवीं श्मशानालयवासिनीम् ||
त्रिनेत्रां मुक्तकेशीं च शुष्कमांसातिभीषणाम् |
पिङ्गाक्षीं वामहस्तेन मद्यपूर्णं कपालकम् ||
सद्यः कृत्तशिरो दक्षहस्तेन दधतीं शिवाम् |
स्मितवक्त्रां सदा वाममांसतर्पणतत्पराम् ||
नानालङ्कारभूषाङ्गीं नग्नां मत्तां सदा शवैः |
एवं ध्यायेदिति शेषः |
अथ पुरश्चरणम् |
वर्णलक्षं जपेन्मन्त्रं तद्दशांशेन होमयेत्—इति |


Lesungshinweise: [die Fleischbezeichnung bleibt unaufgelöst] [Der Schluss ist unvollständig.]

Band III, S. 758, Siddhilakshmi und die neunsilbige Vidya
अथ सिद्धिलक्ष्मीमन्त्रः (कालानलतन्त्रे) ॐ ह्रीँ हूँ हाँ फ्रेँ क्षौँ क्रौँ नमः |
श्रुतिश्चण्डी च दोग्ध्री च शोषिणी शिरया सह |
दोला तदनु मालूरः सामरश्च निरत्ययः ||
शेषे दण्डः परिज्ञेय इयमुक्ता नवाक्षरी |
नैतस्य सदृशो मन्त्रस्त्रिषु लोकेषु विद्यते ||


Lesungshinweise: [Die Nasalzeichen sind im Sanskrit nach der Vorlage wiedergegeben; insbesondere fre ist eine vorläufige Lesung des ungewöhnlichen Druckzeichens.] Nun der Mantra der Siddhilakshmi im Kalanala-Tantra: „Om, Hrim, Hum, Ham, Frem, Kshaum, Kraum, Namah.“ [Die Nasalzeichen sind im Sanskrit nach der Vorlage wiedergegeben; insbesondere fre ist eine vorläufige Lesung des ungewöhnlichen Druckzeichens.] Es folgt die verschlüsselte Erklärung: „Shruti, Chandi, Dogdhri und Shoshini mit Shira; sodann Dola, Malura, Samara und Niratyaya.

Band III, S. 758, Siddhilakshmi und die sechzehnsilbige Vidya
अथ मन्त्रान्तरं तत्रैव |
अथोद्धरिष्ये देवेशीं षोडशार्णां मनूत्तमाम् |
यामेकवारमुच्चार्य मुच्यते जन्मसंकटात् ||
ह्रीँ हूँ फ्रेँ क्ष्रीँ ह्राँ हौँ क्रौँ फ्रेँ क्ष्रौँ श्रीँ हाँ हूँ जँ ग्लौँ ग्राँ स्वाहा |
चण्डी दोग्ध्री शिरोसिद्धिर्भ्रमाद्रिः प्रोथ एव च |
फली पुनः शिरो रेतः प्रातरान्ते ततः परम् ||
पुरश्चरणहोमाः स्युर्मन्त्रिणाहृदपर्यटाः |
मन्त्रोऽयमपि सर्वेषां मन्त्रामुत्तमः स्मृतः ||


Lesungshinweise: [Mehrere Konsonantenverbindungen, besonders fre und kshr, bleiben trotz Scanprüfung unsicher; keine als fehlerfrei bestätigte Rezitationsfassung.] [Ihre Zuordnung und die anschließende Zeile über Purashcharana und Homa sind gestört; mantrinahridaparyatah ist nicht zuverlässig übersetzbar.]

Band III, S. 758–759, Siddhilakshmi Rishi und Karanyasa
अनयोर्ऋष्यादिन्यास उक्तस्तत्रैव |
श्रीसिद्धिलक्ष्मीमन्त्रस्य ऋषिर्नारद ईरितः |
गायत्री छन्द आख्यातं सिद्धिलक्ष्मीश्च देवता ||
चण्डीबीजं तथाऽऽख्यातं समीहा शक्तिरिष्यते |
प्रबन्धः कीलकं विद्यात् पुरुषार्थचतुष्टये ||
विनियोगोऽस्य मन्त्रस्य कथितस्त्वयि नारद |
अथ कराङ्गन्यासौ |
षड्दीर्घभाजा बीजेन कराङ्गन्यासमीरितम् |
इदानीं ते सुगमेन कथयामि द्विजर्षभ ||
श्रुतिपूर्वं बीजमुक्त्वा अङ्गुष्ठाभ्यां पदं ततः |
शेषे दण्डः समाख्यातः पुनर्बीजद्वयं वदेत् ||
तर्जनीभ्यां यदा तत्र दण्ड इत्यभिधीयते |
पुनर्बीजद्वयं यत्र भ्यामन्ता मध्यमा ततः ||
दण्डः शेषे च विज्ञेयः पुनस्तद्बीजमेव च |
अनामिका भ्यामन्ता च ततो दण्डः प्रकीर्तितः ||
बीजद्वयात् कनिष्ठाभ्यां पदाद्दण्डबीजं स्मृतम् |
बीजद्वयं करतलपृष्ठाभ्यां दण्ड इत्यपि ||


Band III, S. 759, Siddhilakshmi Anganyasa
इति करन्यासं कृत्वा अङ्गन्यासं चरेत् सुधीः |
क्रमेणानेन वै ब्रह्मन् संभवन्यासमाचरेत् ||
श्रुतिचण्ड्यौ समाभाष्य हृदयाय पदं ततः |
दण्डस्तदनु विप्रर्षे बीजद्वयं तथा परम् ||
शिरसे पदतश्चैव दोग्ध्रीबीजं स्मृतं तदा |
तद्बीजद्वयमुच्चार्य शिखायै पदमेव च ||
इन्द्रबीजं समाख्यातं पुनर्बीजद्वयं वदेत् |
कवचाय पदाच्चैव दोग्ध्रीबीजं हि नारद ||
बीजे तथा समुच्चार्य नेत्रत्रयाय वौषडिति |
षडङ्गन्यासमित्युक्तमर्चायां कायशोधनम् ||


Lesungshinweise: [Der Abschnitt nennt fünf Körperzuordnungen; eine sechste Formel wird nicht ergänzt.]

Band III, S. 759–760, Siddhilakshmi Meditation der neunsilbigen Vidya
अथ ध्यानम् |
ध्यानमस्याः प्रवक्ष्यामि तन्निबोध अजात्मज |
श्वेतां श्वेतशवारूढां नृमुण्डकृतकुण्डलाम् ||
पञ्चवक्त्रां महारौद्रीं प्रतिवक्त्रं त्रिलोचनाम् |
व्याघ्रचर्मावृतकटीं शुष्कावयवभूषिताम् ||
आबद्धयोगपट्टां च नरास्थिकृतभूषणाम् |
हस्तैः षोडशभिर्दीप्तां विस्रस्तघनकुन्तलाम् ||
खड्गं बाणं तथा शूलं चक्रं शक्तिं गदामपि |
जपमालां कर्तृकां च बिभ्रतीं दक्षिणैर्भुजैः ||
फलकं कार्मुकं नागपाशं परशुमेव च |
डमरुं फेरुपोतं च नरमुण्डकपालकम् ||
उद्वहन्तीं करैर्वामैर्दीव्यत्सर्वाङ्गभूषणाम् |
एतद् ध्यानं नवाक्षर्याः |


Band III, S. 760, Siddhilakshmi Meditation der sechzehnsilbigen Vidya
षोडशार्णविद्यायास्तु ध्यानान्तरमुक्तं तत्रैव |
महातेजोमयी लक्ष्मी रश्मिकोट्ययुतप्रभा |
पञ्चवक्त्रा दशभुजा त्रिपञ्चनयनैर्युता ||
श्वेतवर्णनिभा देवी महाप्रेतोपरिस्थिता |
मातृकाष्टकमध्यस्था सिद्धियोगनिषेविता ||
दारितास्या लेलिहाना ज्वालालुप्तजगत्त्रयी |
उच्छ्वासोच्छ्वासवेगेन चालयन् कुलपर्वतान् ||
क्व चिद्देशे क्व चित् कूटे क्व चित् संहरते क्षणात् |
क्व चित् सृजेत् पालयेच्च स्वतन्त्राढ्या प्रवर्तते ||
गोनासाभरणैर्युक्ता उरगेन्द्रैर्विभूषिता |
पाशाङ्कुशधरा देवी वराभयकराम्बुजा ||
सव्यहस्ते धृतं खड्गं त्रैलोक्यक्षोभकारकम् |
वामे खट्वाङ्गमत्युग्रं दक्षिणे शूलमुत्तमम् ||
वामे तु कलशं दिव्यं महारत्नप्रपूरितम् |
एषा प्रत्यङ्गिरा देवी उन्मत्ता व्योमदेहजा ||
एकात्मा नैकभेदेन विश्वं व्याप्य व्यवस्थिता |
प्रत्यङ्गिरा महादेवी सिद्धिलक्ष्मीर्जयप्रदा ||


Lesungshinweise: [der Druck liest verkürzt siddhayoga] [Savya kann links oder rechts bedeuten; die folgenden ausdrücklichen Richtungsangaben bleiben erhalten.]

Band III, S. 761, Siddhilakshmi in der Paddhati
(पद्धतौ) खड्गाङ्कुशपाशशूलवरकृद्दम्भोलिचापं शिरः कुम्भासिसञ्चलितोद्यद्भुजवरैराभासमानां शिवाम् |
रुद्रस्कन्धगतां शशाङ्कशिशुभां पञ्चाननां सुन्दरीं पञ्चत्र्यक्षविराजितां भगवतीं श्रीसिद्धिलक्ष्मीं भजे ||
उक्तयोः श्रीसिद्धिलक्ष्मीमन्त्रयोः पुरश्चरणं तु वक्ष्यमाण-(महाकालसंहिता-)कृतु-खाद्युपास्याणवद्बोध्यम् |


Lesungshinweise: [die gedrängte Waffenaufzählung enthält anschließend nochmals asi, Schwert; die genaue Zuordnung bleibt offen] [Die zusammengesetzte Bezeichnung vor upasya ist im Druck beschädigt; eine bestimmte Rishi-Zuschreibung wird nicht ergänzt.]

Band III, S. 761, Gemeinsamer Verehrungsweg der Kali-Formen
तदुक्तं (कालानलतन्त्रे) यथा कामकला काली गुह्यकाली यथा द्विज |
यथा छिन्ना यथा तारा वज्रकापालिनी यथा ||
सिद्धिलक्ष्मीस्तथा देवी विशेषो नास्ति कश्चन |
एकैव पूजा विज्ञेया प्रयोगाश्च तथा द्विज ||
अत्रानुक्तं हि यत् किञ्चित् संहितायां च तद्विदुः |
ग्रन्थगौरवभीत्या न चोक्तमन्यत् क्वचि द्विज ||
संक्षेपेण सिद्धिलक्ष्म्यास्त्वयि सर्वं प्रकीर्तितम् |
विस्तृतं च महाकालसंहितायां द्विजोत्तम ||
जपः पुरश्चरणं च आचारश्चापि नारद |
महाकालसंहितायां कामकलाह्वये प्रकीर्तितः ||
तेनैव वर्त्मना विप्र सिद्धिलक्ष्म्याः अखिलं विदुः |
पौनरुक्त्यभयेनात्र निगदामि न नारद ||


Lesungshinweise: [Die Gleichsetzung wird als Aussage dieser Quelle wiedergegeben.]

Band III, S. 761–762, Guhyakali und ihre Verehrungsformen
अथ गुह्यकालीमन्त्रः (महाकालसंहितायाम्) गुह्यकाल्यास्तु मन्त्राणामष्टादश भिदाः प्रिये |
सर्वागमेषु गोप्यास्ते न प्रकाश्याः कदा चन ||
मन्त्राणां भेदतो ध्यानभेदाः स्युर्विविधास्तथा |
यन्त्रभेदा अपि तथा वाहनानां भिदास्तथा ||
यो मन्त्रो येन चाभ्यस्तस्तत्तदाख्यायः प्रकीर्तितः |
ब्रह्मणा च वशिष्ठेन रामेण च तथा प्रिये ||
हिरण्याक्षतनुजेनापि कुबेरेण यमेन च |
भरतेन दशास्येन बलिना वासवेन च ||
विष्णुनाऽन्यैश्च देवैश्च दैत्येन्द्रैर्विविधैरपि |
उपासिता सिद्धिहेतोर्लब्धा सिद्धिश्च भूयसी ||
शतवक्त्राऽशीतिवक्त्रा षष्टिवक्त्रा तथैव च |
षट्त्रिंशद्वदना विंशद्वदना परिकीर्तिता ||
तथा विंशतिवक्त्रा च दशवक्त्रा च कालिका |
पञ्चवक्त्रा त्रिवक्त्रा च द्विवक्त्रा चैकवक्त्रिका ||
या गुह्यकाली तन्मध्ये भरतोपासिता प्रिये |
दशवक्त्रा षोडशार्णा चतुःपञ्चाशद्भुजायुता ||
सर्वासां गुह्यकालीनां सा वै मुख्यतमा स्मृता |
तामेवादौ व्याहरामि व्याहरिष्ये ततः पराः ||
षोडशाक्षरको मन्त्रः कीलितश्चाप्यकीलितः |
तत्रादौ कीलितं वच्मि ततो वक्ष्याम्यकीलितम् ||
कीलकाकीलकध्यानमेकमेव हि पार्वति |


Lesungshinweise: [Ravana] [Indra] [Die zweimalige Nennung von zwanzig bleibt erhalten.]

Band III, S. 762–763, Bharatas sechzehnsilbige Guhyakali-Vidya
मन्त्रोद्धारमाह |
आदौ वेदादिमुद्धृत्य ततः पस्य द्वितीयकम् |
एकारयुक्तं तदधो रेफं बिन्दुं च योजयेत् ||
सिद्धिशब्दं ततः प्रोच्य करालि च विनिर्दिशेत् |
लज्जां क्रोधमनुस्मृत्य कर्णोर्णि वाममुद्धरेत् ||
वाममूर्ध्नि विन्दुध्योमबिन्दुयुक्तं कुर्यात् ततश्च तम् |
वधूबीजं पुनर्मन्त्रे द्वितीयं बीजमुद्धरेत् ||
हंमन्त्रो वह्निजाया च मन्त्रोऽयं षोडशाक्षरः |
प्रकारान्तरमाह |
अथ वा कामिनीबीजात् पूर्वं क्रोधमनुस्मरेत् |
इयं हि भरतोपास्या कीलिताऽपि च शापतः ||
भरतोपासिता षोडशाक्षरी द्विविधा |
तत्राद्या कीलिता द्वितीया त्वकीलितेत्यर्थः |


Lesungshinweise: [Om] [der dazwischenstehende Ausdruck karṇorṇi ist unsicher] [die gedruckte Verbindung ist sprachlich gestört] [Svaha] [Die verschlüsselte Folge wird wegen lokaler Lesungsprobleme nicht als vollständig entschlüsselte Rezitationsformel ausgegeben.] Nach Lajja und Krodha entnehme man Vama [der dazwischenstehende Ausdruck karṇorṇi ist unsicher].

Band III, S. 763, Ramas siebzehnsilbige Guhyakali-Vidya
सप्तदशाक्षरीमाह |
रामोपास्यामतो वक्ष्येऽक्षरैः सप्तदशान्विताम् |
साऽपि हारीतमुनिना कीलिता तपसो बलात् ||
आदौ तस्यैव मन्त्रस्य चतुरोऽर्णान् समुद्धरेत् |
द्वितीयबीजोपरि च हसखं विनियोजयेत् ||
एवं तु पञ्चमं बीजं षष्ठं खेन च वर्जितम् |
सप्तमं हसहीनं च करालि तदनन्तरम् ||
त्रयोदशैकादशके स्थाने सप्तममक्षरम् |
पञ्चमं द्वादशस्थाने द्वितीयं च चतुर्दशे ||
आद्यं पञ्चदशे कुर्याद्वह्निजायान्तगो मनुः |
हारीतोपासिता ह्येषा च्यवनोपासितां शृणु ||
षष्ठपञ्चमयोस्तस्य व्यत्ययः समुदीरितः |
एतावतैव भवति च्यावनी सुमहाफला ||
अत्रापि रामोपासिता सप्तदशाक्षरी द्विविधा हारीतोपासिता च्यवनोपासिता चेति |
तयोर्मध्ये हारीतोपासितैव कीलिता च्यवनोपासिता तु न कीलितेति बोध्यम् |


Band III, S. 763–764, Zuordnungen der Guhyakali-Mantras
ऋष्यादिकमाह |
षोडशाक्षरयोर्मन्त्रभेदयोरधुना शृणु |
ऋष्यादिकं ततः सप्तदशस्याश्च कथयामि ते ||
अथर्वा ऋषिरुद्दिष्टो जगती छन्द उच्यते |
देवता गुह्यकाली च द्वितीयार्णं तु कीलकम् ||
शक्तिस्तु दशमं बीजं द्वितीयं नवमं भवेत् |
पुरुषार्थचतुष्कस्य सिद्ध्यै कामनास्थितिः ||
सप्तदशस्यास्तु मन्त्रस्य परमेष्ठी ऋषिर्मतः |
छन्दश्च सुप्रतिष्ठाख्यं देवता गुह्यकालिका ||
पञ्चमार्णं कीलकं स्यात् सप्तमं शक्तिरुच्यते |
तदेव विपरीतं हि च्यावनीसमुदीरितम् ||
प्रयोगः सर्वसिद्ध्यर्थं जपे प्रोच्चारितो भवेत् |
अन्येषां मन्त्रभेदानां यदोद्धारं वदामि ते ||
तदा ऋष्यादिकं तेषां कथयिष्यामि पार्वति |


Lesungshinweise: [der Bezug dieser knappen gedruckten Angabe ist nicht eindeutig] Das zehnte Bija ist Shakti; ,das zweite sei das neunte‘ [der Bezug dieser knappen gedruckten Angabe ist nicht eindeutig].

Band III, S. 764, Sechsfacher Guhyakali-Nyasa
अथ षडङ्गन्यासस्तत्रैव |
द्वे पञ्च त्रीणि च द्वे च द्वे पुनर्द्वे पुनस्तथा |
वर्णाक्षराणां भारत्यास्तत्तत्स्थाने प्रविन्यसेत् ||
तावन्तोऽर्णाः सप्रणवास्तत्र तत्र स्थले न्यसेत् |
यादृशो च्यावनी मन्त्रवर्णविन्यासतिष्ठति ||
तारयोर्मध्यवर्तीनि देवीवर्णानि तानि हि |
न्यसेत् स्थानेषु तेनैव हारीतोपासिते मनौ ||


Lesungshinweise: [Om] [Die gedruckte Verbindung zur Chyavani-Anordnung ist grammatisch unregelmäßig; die Verfahrensaussage folgt dem erkennbaren Zusammenhang.]

Band III, S. 764, Beginn des gemeinsamen Guhyakali-Dhyana
ध्यानमाह |
भरतोपासिता या च रामोपास्या च या स्मृता |
ध्यानं तयोरैकमेव कथ्यमानं मया शृणु ||
ध्यायेद्देवीं प्रभातोद्यत्प्रोच्छलद्रक्तवारिधिम् |
उत्तुङ्गोत्तुङ्गकल्लोलपरिपूरितदिगन्तरम् ||
तत्र द्वीपं रक्तमांसपरितं रक्तवालुकम् |
नवकोटिच्चमुण्डाकोटिभैरववेष्टितम् ||


Lesungshinweise: [in folgendem Bild] [Koti bezeichnet zehn Millionen] [Das Meditationsbild wird im nächsten Abschnitt fortgesetzt.]

Band III, S. 765, Mandala und Thron der Göttin
तन्मध्ये मण्डलं ध्यायेद्योजनायुतविस्तृतम् |
भैरवीकोटिघटितं प्राकारं तत्र चिन्तयेत् ||
एकं श्मशानं तन्मध्ये शतयोजनविस्तृतम् |
चिन्तयेत् प्रोच्छलद्वह्निज्वालाव्याप्तधर्ममण्डलम् ||
योगिनीकोटिविहितकरतालिकलक्वणितम् |
नाराचमुण्डमुण्डस्रक्कृततोरणमालिकम् ||
तदन्तःस्थापिनीं कालीं ध्यायेद्विश्वमानसः |
रत्नसिंहासनं दिव्यं हीरमुक्तादिनिर्मितम् ||
धारयन्तं चतुष्कोणे युगं वेदं विचिन्तयेत् |
सत्ययुगं च ऋग्वेदं शुक्लवर्णं च पूर्वगम् ||
त्रेतायुगं यजुर्वेदं पीतवर्णं च दक्षगम् |
द्वापरं सामवेदं च रक्तं पश्चिमदिग्गतम् ||
अथर्ववेदं च कलिं श्याममुत्तरदिग्गतम् |
उपवेदस्य शास्त्रस्य मूर्ध्नि सिंहासनं स्थितम् ||


Lesungshinweise: [die gedruckte Verbindung dharmamandala ist auffällig] [der Beginn der zusammengesetzten Kopfbezeichnung ist unsicher] Girlanden aus Köpfen bilden seine Torbögen [der Beginn der zusammengesetzten Kopfbezeichnung ist unsicher].

Band III, S. 765–766, Die Richtungswächter als Thronträger
तस्य सिंहासनस्याधोऽन्यत् सिंहासनं महत् |
स्वस्वास्त्रवाहनयुतैर्दिगष्टपतिभिर्धृतम् ||
देव्याः सिंहासनधरांस्तांश्च ध्यायेदतन्द्रितः |
स्वां स्वां दिशमवष्टभ्य स्थितान् परमशोभितान् ||
इन्द्रं पीतं सवज्रं च स्थितमैरावतोपरि |
पावकं रक्तवर्णं च छागस्थं शक्तिपाणिकम् ||
यमं कृष्णं कासरस्थं दण्डहस्तं भयानकम् |
निर्ऋतिं धूम्रवर्णं च खड्गहस्तं तुरङ्गगम् ||
वरुणं पाशहस्तं च शुभ्रं मकरवाहनम् |
श्यामं वायुं ध्वजधरं हरिणोपरि संस्थितम् ||
गदाधरं कुबेरं च कुङ्कुमाभं नरे स्थितम् |
ईशानं शुभ्रवर्णं च शूलहस्तं वृषे स्थितम् ||


Lesungshinweise: [Agni]

Band III, S. 766, Fünf Mahapretas und Bhairava
सिंहासनं तृतीयं च पञ्चप्रेतैर्धृतं प्रिये |
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ||
एते पञ्चमहाप्रेताः स्थिताः सिंहासनाध्वः |
पीतः श्यामस्तथा रक्तो धूम्रः श्वेतः क्रमादिमे ||
दण्डं चक्रं च शक्तिं च शूलं खट्वाङ्गमेव च |
धारयन्तो मुखे न्यस्ततर्जनीकास्त्रिलोचनाः ||
केशरीद्वीपकोलाश्च फेत्काररवभीषणाः |
ऊर्ध्वं पीठं ततो ध्यायेद्भैरवाख्यं भयानकम् ||
खर्वं स्थूलतरं घोरं कृष्णवर्णं चतुर्भुजम् |
पञ्चवक्त्रं त्रिनेत्रं च कोकशाभरणान्वितम् ||
खट्वाङ्गं कर्तृकां दक्षे कपालं डमरुं तथा |
धारयन्तं मुण्डमालायुतं दंष्ट्राभीषणम् ||


Lesungshinweise: [die gedruckte Endung ist gestört] [ihre syntaktische Zuordnung bleibt offen] [kokasha ist unklar]

Band III, S. 766–767, Opferlotus und Shiva-Sitz
तदूर्ध्वं षोडशदलं पद्मं यज्ञोपकल्पितम् |
ज्योतिष्टोमोऽग्निष्टोमो वाजपेयश्च षोडशी ||
चयनं पुण्डरीकं च राजसूयोऽश्वमेधकः |
बार्हस्पत्यं विश्वजिच्च गोमेधो नरमेधकः ||
सौत्रामण्यथ सावित्री सूर्यकान्तोऽचलाम्बरः |
एतादृशैः षोडशभिर्दलैः पद्मं प्रकल्पितम् ||
तस्योपरि ततो ध्यायेच्छिवासनमुत्तमम् |
विन्दुनादयुतं नीलं शशाङ्ककृतलाञ्छनम् ||
महार्घैराभरणैस्त्रिनेत्रं भीमदर्शनम् |
वज्रदंष्ट्रानखस्पर्शी पद्मपृष्ठे शिवोत्तमम् ||
पिङ्गोध्वैर्जटाभारं द्विभुजं नागहारिणम् |
वसानं चर्म वैयाघ्रं शूलखट्वाङ्गधारिणम् ||
अष्टपत्राम्बुजं तस्योपरिष्ठाद्विभासकम् |
धर्मो ज्ञानं च वैराग्यमैश्वर्यं च चतुर्दिक्षि ||
यशो विवेकः कामश्च मोक्षश्चेति विदिग्दिशि |
एवमष्टदलाम्भोजोपविष्टां गुह्यकालिकाम् ||


Lesungshinweise: [die Verbindung sparshi ist unklar] [Ruhm]

Band III, S. 767, Zehn Gesichter der Guhyakali
ध्यायेन्नीलोत्पलश्यामामिन्द्रनीलसमद्युतिम् |
घनाघनतनुच्छायां स्निग्धदूर्वादलद्युतिम् ||
श्यामरश्मिच्छटाटोपज्योतिर्मण्डलमध्यगाम् |
दशवक्त्रां गुह्यकालीं सप्तविंशतिलोचनाम् ||
द्विद्विनेत्रयुतां वक्त्रे वामदक्षिणसम्मुखे |
सप्तस्वन्येषु वक्त्रेषु त्रित्रिलोचनसंयुताम् ||
ऊर्ध्ववक्त्रं द्वीपकाख्यं चण्डयोगिभ्रगोपि हि |
तस्याधः केशरिमुखं श्वेतवर्णं विभीषणम् ||
तस्याधः फेरुवक्त्रं च कृष्णं त्रैलोक्यडामरम् |
वानरास्यं ततो वामे रक्तवर्णं महोज्ज्वलम् ||
नरास्यं तदधो ज्ञेयं किर्मीराभं महोत्कटम् |
ऋक्षवक्त्रं भवेद्दक्षे धूम्रवर्णं भयानकम् ||
गारुडास्यं ततो वामे पिङ्गवर्णं सुचञ्चुकम् |
दक्षिणे मकरास्यं च हरिताभं प्रकीर्तितम् ||
गजास्यं वामतः प्रोक्तं गौरवक्त्रं स्रवन्मदम् |
हयास्यं दक्षिणे काल्याः श्यामवर्णं विचिन्तयेत् ||
महादंष्ट्राकरालानि दारुणस्वनवन्ति च |
अट्टहासयुक्तानि सर्ववक्त्राणि सर्वदा ||


Lesungshinweise: [Leopard; die anschließende Wortgruppe ist beschädigt] Das oberste Gesicht heißt Dvipaka [Leopard; die anschließende Wortgruppe ist beschädigt].

Band III, S. 768, Guhyakalis Gestalt und Schmuck
लेलिहानविनिष्क्रान्तललज्जिह्वाञ्चितानि च |
अहर्निशं कम्पमानान्यास्यानि दधतीं शिवाम् ||
भीमनिर्ह्रादिनीं भीमां भ्रूमङ्कुटिलाननाम् |
पिङ्गोर्ध्वजटाजूटां चन्द्रार्धकृतशेखराम् ||
नानारत्नविनिर्माणसमुण्डस्वर्णभूषणाम् |
स्रवद्रक्तनृमुण्डस्रक्कृतनक्षत्रमालिकाम् ||
आकण्ठगुल्फलम्बिन्याऽलङ्कृतां मुण्डमालया |
श्वेतास्थिगुलिकाहारग्रैवेयकमहोज्ज्वलाम् ||
शतदीर्घाङ्गुलीपिण्डिमण्डितोरःस्थलस्थिराम् |
कठोरमांसलोतुङ्गवक्षोजयुगलान्विताम् ||
महामारकतग्राववेदिश्रोणिपरिष्कृताम् |
विशालजघनाभोगामतिक्षीणकटिस्थलाम् ||
अञ्जनच्छायधिग्बद्धलत्किङ्किणिमण्डिताम् |
चतुःपञ्चाशता दोर्ष्णां भूषितां जगदम्बिकाम् ||


Lesungshinweise: [die genaue Konstruktion bleibt unsicher] [das Kompositum ist im Druck beschädigt] Eine Gruppe von hundert langen Fingern ziert ihre Brust [die genaue Konstruktion bleibt unsicher]. Dunkle, bewegte Glöckchen schmücken sie [das Kompositum ist im Druck beschädigt].

Band III, S. 768–769, Gegenstände in Guhyakalis Händen
रत्नमालां कपालं च चर्म पाशं तथैव च |
शक्तिं खट्वाङ्गमुण्डं च भुशुण्डीं धनुरेव च ||
चक्रं घण्टां ततो बालप्रेतं शैलमतः परम् |
नरकं कालमुसलो सर्पमुन्मादचं शिवकम् ||
मुद्गरं वह्निकुण्डं च डमरुं डिण्डिमं तथा |
भिन्दिपालं च मुसलं पाशं पट्टिशमेव च ||
शतघ्नीं च शिवापोतं वामहस्तेषु बिभ्रतीम् |
अथ दक्षभुजे रत्नमालां कर्त्रीमसिं तथा ||
तर्जनीमङ्कुशं दण्डं रत्नकुम्भं त्रिशूलकम् |
पञ्चपाशुपतान् बाणान् शोषकोन्मादमूर्छकान् ||
संहारकान् मृत्युकांश्चैवं नामप्रधारिणः |
कुन्तं च पारिजातं च छुरिकां तोमरं तथा ||
पुष्पमालां डिण्डिमं च गृध्रं चैव कमण्डलुम् |
मांसखण्डं स्रुचं बीजपूरं स्रुवं तथैव च ||
परशुं च गदां यष्टीं मुष्टिं कुणपलालनम् |
धारयन्तीं महारौद्रीं जगत्संहारकारिणीम् ||


Lesungshinweise: [Objektbezeichnung unklar] [beide Bezeichnungen unsicher] [Die Aufzählung wird nicht stillschweigend an die Armzahl angepasst.] [der letzte Ausdruck ist mehrdeutig] In ihren linken Händen trägt sie Juwelenkette, Schädelschale, Fell oder Schild, Schlinge, Speer, Khatvanga, Haupt, Bhushundi-Waffe, Bogen, Diskus, Glocke, den Leichnam eines Kindes, einen Berg, Naraka [Objektbezeichnung unklar], einen Kala-Stößel, eine Schlange, Unmadacha und Shivaka [beide Bezeichnungen unsicher], Hammer, Feuergrube, Damaru, Dindima-Trommel, Bhindipala-Waffe, Stößel, nochmals eine Schlinge, Pattisha-Waffe, Shataghni-Waffe und ein junges Schakaltier. Dazu kommen Lanze, Parijata, Dolch, Wurfspeer, Blumenkette, Dindima-Trommel, Geier, Kamandalu, Fleischstück, großer Opferlöffel, Zitronatzitrone, kleiner Opferlöffel, Axt, Keule, Stock, Faust und das Halten eines Leichnams [der letzte Ausdruck ist mehrdeutig].

Band III, S. 769, Schlangenschmuck und göttliche Gegenwart
जवापुष्पाभभोगीन्द्रकृतनूपुरयुग्मकाम् |
पाटलोरगनिर्माणलसत्कङ्कणशोभिताम् ||
धूम्राहिकृतस्फीतकटिसूत्रावलम्बिनीम् |
सुपाण्डुरभुजङ्गेन्द्रकृतताटङ्कशोभिताम् ||
श्वेतदर्वीकरानद्धजटामुकुटमण्डिताम् |
वैयाघ्रचर्मवसनां द्वीपिचर्मोत्तरीयकाम् ||
किङ्किणीजालशोभाढ्यां घोरघण्टानिनादिनीम् |
नूपुरारावललितां घर्घरारावभीषणाम् ||
कटकाङ्गदकेयूरनरास्थिस्थशोभनाम् |
रक्तपद्ममयीं मालां पादपद्मावलम्बिनीम् ||
काञ्चीकण्ठारकग्रैवकटिमध्यविराजिताम् |
ब्रह्मसूत्रोज्ज्वलस्कन्धयोगपट्टोत्तरीयकाम् ||
सौम्योग्रभूषणैर्युक्तां नागाष्टकविराजिताम् |
रत्नकुण्डलकर्णश्रीपञ्चकालानलस्थिताम् ||
पद्मोपरिस्थितां देवीं नृत्यमानां सदोदिताम् |
पद्मासनसुखासीनां सर्वदेवाधिदेवताम् ||
मुक्तहुङ्कारजिह्वाग्रं लालयन्तीं विचिन्तयेत् |
त्रिकोटिशक्तिचामुण्डानवकोटिभिरन्विताम् ||


Lesungshinweise: [einzelne Schmuckbezeichnungen sind gedrängt]

Band III, S. 770, Guhyakali als nichtduales Bewusstsein
महायोगिनीकोट्योलामषाढशाभिर्वर्जिताम् |
चरन्तीं च हसन्तीं च डाकिनीषष्टिकोटिभिः ||
भैरव्यशीतिकोटिभिः परिवारैश्च वेष्टिताम् |
कोटिकालानलज्वालादग्धकाशोद्यत्कलेवराम् ||
महाप्रलयकोट्यर्कविच्युच्चण्डरश्मिप्रभाम् |
दुर्निरीक्ष्यां महाभीमां सेन्द्रैरपि सुरासुरैः ||
शत्रुपक्षक्षयकरीं दैत्यदानवमर्दिनीम् |
निर्विकारां निराभासां कूटस्थां चिद्विलासिनीम् ||
अद्वैतां परमानन्दां नित्यां शुद्धां निरञ्जनाम् |
सृष्टिः स्थितिश्च संहारोऽनाख्या भासा पदाभिधेयाम् ||
वेदान्तवेद्यां कैवल्यरूपां निर्वाणकारिणीम् |
गुणातीतात्मस्वरूपप्रबोधवर्जितगोचराम् ||
एवं ध्येया महाकाली प्रतिनूतनवयौवना |
पञ्चवक्त्रस्य मध्यस्थां गुह्यकाली परेश्वरी ||


Lesungshinweise: [Die Eingangszeile über die Mahayoginis ist im Druck stark gestört; ihre Zahl und das Verhältnis zur Göttin bleiben offen.] [die Wortverbindung bleibt unsicher] [das Unbenennbare] [Licht oder Offenbarung] [das abschließende Kompositum bleibt mehrdeutig] Ihr Körper erhebt sich wie im Feuer von Millionen Weltauflösungen [die Wortverbindung bleibt unsicher]; sie strahlt mit den wilden Strahlen von Millionen Sonnen und Blitzen der großen Auflösung. Ihr Bereich liegt jenseits dessen, was nicht durch Erkenntnis des eigenen, über die Gunas hinausgehenden Wesens erschlossen ist [das abschließende Kompositum bleibt mehrdeutig].

Band III, S. 770, Beginn der Guhyakali-Purashcharana-Regeln
अथ पुरश्चरणं तत्रैव |
पर्वते वा नदीकूले शून्यागारे शिवालये |
पीठे चतुष्पथे कुर्यात् पुरश्चरणमुत्तमम् ||
नियमास्तत्र भूयांसः प्रकर्तव्याः प्रयत्नतः |
अवैधकरणात् सिद्धिहानिः स्यान्नात्र संशयः ||
त्रिकालमाचरेत् स्नानं हविष्यं भक्षयेद्द्विजः |
स्वमन्त्रं चाक्षसूत्रं च गुरोरपि न दर्शयेत् ||
त्यजेद्वृथाप्रलापं च परीवादं च वर्जयेत् |
तथा दुर्जनसंसर्गं स्त्रीजल्पनं तथा ||
वस्त्रं कुशासनं व्याघ्रचर्म चापि नृमुण्डकम् |


Lesungshinweise: [diese auffällige Regel wird unverändert als Textaussage wiedergegeben] [historische Regel des angesprochenen Ritualpraktizierenden] [Die Sitzaufzählung wird auf der folgenden Seite fortgesetzt.]

Band III, S. 771, Guhyakali Sitz Mala und Wiederholungszahl
आसनं च महादेवि प्रशस्तञ्चोत्तरामुखः |
शुद्धस्फाटिकरुद्राक्षनृमुण्डास्थिनिर्मिताम् ||
जपमालां शुभां विद्धि प्रशस्तामुत्तरोत्तराम् |
अनेनोक्तविधानेन लक्षसार्धं जपेन्मनुम् ||
होमं दशांशतः कुर्यात् तर्पणं चाभिषेचनम् |
ततः सिद्धमनुमन्त्री प्रयोगानाचरेत् प्रिये |


Lesungshinweise: [Fortsetzung der Sitzaufzählung:]

Band III, S. 771, Lob der sechzehnsilbigen Guhyakali-Vidya
(महाथर्वणसंहितायाम्) षोडशार्णा महाविद्या देवानामपि दुर्लभा |
कोटिजन्मार्जितैः पुण्यैर्महद्भिर्मन्दिरैरिहितैः ||
येन लब्धा कुलेशानि सद्गुरोर्मुखपङ्कजात् |
स धन्यः सर्वलोकेषु पूज्यस्त्रिभुवनौकसाम् ||
नातः परतरा विद्या त्रिषु लोकेषु विद्यते |
अतः सर्वप्रयत्नेन विद्येयं षोडशाक्षरी ||
जप्तव्या साधकश्रेष्ठैर्यात्तव्या गुह्यकालिका |
येनेयं साधिता विद्या स एव स्यात् सदाशिवः ||


Lesungshinweise: [der anschließende Ausdruck ist unsicher] [das entsprechende Verb ist im Druck gestört] Wer sie aufgrund großer, in Millionen Geburten erworbener Verdienste [der anschließende Ausdruck ist unsicher] aus dem Lotusmund eines Sadguru empfangen hat, Herrin des Kula, ist in allen Welten gesegnet und von den Bewohnern der drei Welten zu verehren.

Band III, S. 771–772, Guhyakali und Nirguna Brahman
(महाकालसंहितायाम्) दशवक्त्रा तु या प्रोक्ता गुह्यकाली मया तव |
प्रकृतिः सा परिज्ञेया कालीनां जगदम्बिका ||
अन्या विकृतयः प्रोक्ताः कार्यकारणभेदतः |
तथा |
सैव ज्ञेया वरारोहे निर्गुणब्रह्मरूपिणी |
जगत् सर्वं वशे तस्या वश्या कस्यापि सा न च ||
विश्वं सर्वं सृजति सा कोऽपि सृजति तां न हि |
सा पालयति संसारं तां पालयति कोऽपि न ||
तां न संहरते कोऽपि सा सर्वं संहरत्यदः |
तदाज्ञयाऽनिलो वाति सूर्यस्तपति तद्भयात् ||
तद्भीयाऽग्निर्धनञ्जयश्च मृत्युश्चरति तद्भयात् |
(महाथर्वणसंहितायां) ब्रह्मा विष्णुश्च रुद्रश्च सेन्द्राश्चैव दिवौकसः |
ऋषयश्च मरीच्याद्यास्तामेव समुपासते ||


Lesungshinweise: [der Zusammenhang ist textlich auffällig]

Band III, S. 772–773, Die Göttin fragt nach Kamakala-Kali
अथ कामकलाकालीमन्त्रः (महाकालसंहितायाम्) श्रीदेव्युवाच |
परात् पर परेशान शशाङ्ककृतशेखर |
योगादियोगिन् सर्वज्ञ सर्वभूतदयापर ||
त्वत्तः श्रुता मया मन्त्राः सर्वतन्त्रेषु गोपिताः |
विधिवत् पूजनं चापि न्यासावरणकक्रमैः ||
तारा च छिन्नमस्ता च तथा त्रिपुरसुन्दरी |
बाला च बगला चापि त्रिपुरा भैरवी तथा ||
काली दक्षिणाकाली च कुब्जिका विवरेश्वरी |
अघोरा राजमातङ्गी सिद्धिलक्ष्मीस्त्वरान्विता ||
अश्वारूढा भोगवती नित्यक्लिन्ना च कुक्कुटी |
कौमारी चापि वाराही चामुण्डा चण्डिका अपि च ||
भुवनेशी तथोच्छिष्टचाण्डाली चण्डघण्टिका |
कालसंकर्षिणी चापि गुह्यकाली तथापरा ||
एताश्चान्याश्च वै देव्यः समन्त्राः कथितास्त्वया |
किन्तु कामकलाकाली नोक्तवासि मे प्रभो ||
तत् किं मय्यपि गोप्यं ते प्रायशः परमेश्वर |
न हीदृशं त्रिलोकेषु तव किं तन्न विद्यते ||
यदकथ्यं मयि भवेदपि प्राणाधिकाधिकम् |
तत् किं गोप्ययसि प्राज्ञ मयेदं दैवतं महत् ||
यद्यस्मि ते दयापात्रं मान्यास्मि स्नेहभाजनम् |
अनुग्राह्यास्मि कान्तास्मि तदेवं वद साम्प्रतम् ||
देवीं कामकलाकालीं समन्त्रध्यानपूर्विकाम् |


Band III, S. 773, Mahakala über Kamakala-Kalis Wirksamkeit
श्रीमहाकाल उवाच |
धन्याऽस्यनुगृहीताऽसि तया देव्यैव सर्वथा |
यत् ते बुद्धिः समुत्पन्ना तां देवीं प्रति भामिनि ||
विधाय शपथं देवि कथयामि तवाधुना |
न हीदृशं भुक्तिमुक्तिसाधनं भुवि विद्यते ||
यथार्थमात्र देवि त्वं गोप्यञ्चापि सर्वथा |
किन्तु भक्तिविशेषात् ते कथयामि न संशयः ||
राज्यं दद्याद्धनं दद्यात् स्त्रियं दद्याच्छिरस्तथा |
न तु कामकलाकालीं दद्यात् कस्यापि न क्व चित् ||
इन्द्रेणोपासिता पूर्वं देवराज्यमभीप्सता |
वरुणेन कुबेरेण ब्रह्मणा च मया तथा ||
रामेण रावणेनापि यमेनापि विवस्वता |
चन्द्रेण विष्णुना चापि तथाऽन्यैश्च महर्षिभिः ||
सहेलं वा सलीलं वा यस्याः स्मरमात्रतः |
विद्यालक्ष्मीः राज्यलक्ष्मीः कीर्तिलक्ष्मीर्वरो स्थिता ||
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् |
राज्यार्थी लभते राज्यं कान्तार्थी कामिनीं शुभाम् ||
यशोऽर्थी कीर्तिमाप्नोति मुक्त्यर्थी मुक्तिमाप्नुयात् |
अणिमाद्यष्टसिद्ध्यर्थी सिद्ध्यष्टकमनवाप्नुयात् ||


Lesungshinweise: [die Satzverbindung ist im Druck gestört] [der letzte Ausdruck ist gestört] [Das sind Heils- und Wirksamkeitsaussagen der zitierten Quelle.]

Band III, S. 774, Kostbarkeit der Vidya und Eid der Geheimhaltung
तथा |
द्विसप्ततितमं यावत् यावत् पुरुषाः पूर्वजाः स्थिताः |
तेषां भाग्योदयैः पूर्णैर्विद्येयं यदि लभ्यते ||
तदा सर्वस्वदानेन गृह्णीयादविचारयन् |
कृतकृत्यं मन्यमानो गुरोः पादावभिस्पृशन् ||
तथा |
एकतः प्राणदानं स्यादेकतश्चैतदर्पणम् |
तुल्या विधृतं चेतु स्यादेतद्दानं विशिष्यते ||
तथा |
कोटिजन्मार्जितैः पुण्यैर्लभ्यते वा न लभ्यते |
शपथं कुरु देवेशि प्रकाशेयं न कुत्र चित् ||
सत्यं सत्यं त्रिसत्यं मे ततो वक्ष्यामि पार्वति |
नो चेत् तेऽपि न वक्ष्यामि प्रमाणं तत्र सैव मे ||
देव्युवाच |
शपे त्वच्चरणाब्जाभ्यां हिमाद्रिं शिरसा शपे |
शपे स्कन्दैकदन्ताभ्यां यद्येनानन्यतो ब्रुवे ||
शपेऽथ वा तया देव्या यां मे त्वं कथयिष्यसि |
प्रकाशयामि यद्येनां सैव मे विमुखी भवेत् ||
महाकाल उवाच |
साधु साधु महाभागे प्रतीतिर्मेऽधुना त्वयि |
अकार्षीः शपथं यस्मात् तस्माद्वक्ष्याम्यसंशयम् ||
समाहिता सावधाना भव देवि वरानने |
विधेहि चित्तमेकाग्रं बद्ध्वाऽञ्जलिपुटं प्रिये ||
कालीं कामकलापूर्वां शृणुष्वावहिता मम |


Lesungshinweise: [die Verbindung ist knapp]

Band III, S. 775, Verhältnis der Kali-Formen
तथा |
या गुह्यकाली सैवेयं काली कामकलाभिधा |
मन्त्रभेदाद्ध्यानभेदास्त्वेत कामकलात्मिका ||
यथा त्रिभेदा तारा स्यात् सुन्दरी सप्तसप्ततिः |
दक्षिणा पञ्चभेदा स्यात् तथैवं गुह्यकालिका ||
सप्तधा ध्यानमन्त्राभ्यां जायते भिन्नरूपिणी |
यथा पञ्चाक्षरी मन्त्रो देवी चैकजटा स्मृता ||
द्वाविंशत्यक्षरी मन्त्रो देवी दक्षिणकालिका |
तथाऽन्येष्वपि देवेषु मुख्यास्तु बहुषु प्रिये ||
देवी कामकलाकाली मनुरष्टादशाक्षरः |
षोडशार्णी यथा मुख्या सर्वश्रीचक्रमध्यगा ||
तथैवं नवकालीषु सदा मुख्यतमा स्मृता |
त्रैलोक्याकर्षणो नाम मन्त्रोऽस्याः परिकीर्तितः ||
तस्योद्धारं प्रवक्ष्यामि शृणु यत्नेन पार्वति |
श्रुत्वाऽवधारयैनमां सर्वकल्याणहेतवे ||


Lesungshinweise: [die Textverbindung ist leicht gestört]

Band III, S. 775–776, Verschlüsselte Bildung des Kamakala-Kali-Mantras
मन्त्रोद्धारमाह |
आद्यवर्णार्धवर्णाङ्गणा वामेन परिसीतितः |
मूर्ध्नि मदो यत्तृतीययुगधः परिकीर्तितः ||
विन्दुवामाक्षिसंयुक्तो वह्निः खपरमस्तकः |
वामश्रुत्यर्धचन्द्रेण तृतीयः सपरो भवेत् ||
दक्षस्कन्धोष्ठदन्तास्यो वामश्रो विन्दुमस्तकः |
ओष्ठवर्गद्वितीयो हुपवोधरोष्ठविन्दुयुक् ||
षडक्षराणि सम्बोध्य यथानामस्थितिक्रमात् |
प्रतिलोमेन चोद्धृत्य तानि बीजानि पञ्च वै ||
भूतबीजाद्यमारभ्य मारबीजान्तमेव हि |
वैश्वानरवधूयुक्तो मन्त्रो ह्यष्टादशाक्षरः ||


Lesungshinweise: [die genaue Verbindung bleibt unsicher] [ein dazwischenstehender Ausdruck ist beschädigt] [Svaha] [Die verschlüsselten Anweisungen werden bewahrt; aus den beschädigten Lautschlüsseln wird keine scheinbar sichere Formel konstruiert.] Nun die Gewinnung des Mantras: Die ersten beiden Zeilen über den Anfangsbuchstaben, einen halben Buchstaben, Vama und die am Kopf anzubringende Verbindung sind im Druck sprachlich beschädigt; eine zuverlässige Silbenableitung bleibt offen. Es folgen die Schlüssel: Vahni mit Bindu und dem linken Auge, am Kopf mit Kha; der dritte mit linkem Ohr und Halbmond [die genaue Verbindung bleibt unsicher]. Danach werden rechte Schulter, Lippe, Zahn und Mund genannt, dazu ein linker Laut und Bindu am Kopf; sodann der zweite Buchstabe der Lippenlautgruppe mit Unterlippe und Bindu [ein dazwischenstehender Ausdruck ist beschädigt].

Band III, S. 776, Lob des Trailokyakarshana-Mantras
अस्याः स्मरणमात्रेण यावन्त्यः सन्ति सिद्धयः |
स्वयमायान्ति पुरतो जपादीनां च का कथा ||
सप्त कामकलाकाल्या मनवः सन्ति गोपिताः |
तेषु सर्वेषु मन्त्रेषु मुख्योऽयं परिकीर्तितः ||
स्मरणादस्य मन्त्रस्य मूर्च्छिताः सर्वदेवताः |
स्तम्भिता वेपमानाश्च उत्तिष्ठन्त्यतिविह्वलाः ||
निदेशवर्तिनो भूत्वा वर्तन्ते चेटका इव |
किं बहूक्तेन देवेशि सत्यमेवं ब्रवीम्यहम् ||
सहस्रवदनेनापि लक्षकोट्याननेन वा |
महिमा वर्णितुं शक्यो नास्य वर्षायुतैर्मया ||
सामान्यतो विजानीहि यद्यदिच्छति साधकः |
तत् तत् करोति सकलं प्रजापतिरिवापरः ||
त्रैलोक्याकर्षको नाम मन्त्रः सर्वार्थसाधकः |


Lesungshinweise: [Der Text preist hier die Kraft des Mantras; dies ist keine empirische Wirkungszusage.]

Band III, S. 776, Kamakala-Kali Rishi und Nyasa
ऋष्यादिन्यासमाह |
अतः परं प्रवक्ष्यामि छन्दश्चापि च बीजकम् |
अस्याः कामकलाकाल्या ब्रह्माहमृषिर्मतः ||
छन्दश्च बृहतीख्यातं देवी चैव प्रकीर्तिता |
आद्यबीजं तु बीजं स्यात् क्रोधाण शक्तिरेव च ||
विनियोगोऽस्य सर्वस्य सर्वदा सर्वसिद्धये |
षडङ्गं पञ्चबीजैश्चैतन्नाम्नाऽप्येकं च कारयेत् ||
नामाक्षराणि प्रत्येकं तत्र देयानि पार्वति |


Lesungshinweise: [die gedruckte Verbindung lässt offen, ob Brahma und der sprechende Ich-Bezug getrennt zu lesen sind]

Band III, S. 777, Kamakala-Kali Meditation Gesicht und Augen
अथ ध्यानम् |
ध्यानमस्याः प्रवक्ष्यामि कुरु चित्तैकतानताम् |
उद्यद्धनाधनाश्लिष्टजपाकुसुमसन्निभाम् ||
मतकोकिलनेत्राभां पक्वजम्बूफलप्रभाम् |
सुदीर्घप्रबलालम्बिविस्रस्तघनमूर्धजाम् ||
ज्वलदङ्गारवच्छोणनेत्रत्रितयभूषिताम् |
उद्यच्छारदसंपूर्णचन्द्रकोटिकृताननाम् ||
दीर्घदंष्ट्रायुगोदञ्चद्विकरालमुखाम्बुजाम् |
वितस्तिमात्रनिष्क्रान्तललज्जिह्वाभयानकाम् ||
व्यात्ताननतया दृश्यमानविराहन्तमण्डलाम् |
निरन्तरं वेपमानोत्तमाङ्गां घोररूपिणीम् ||
अंसासक्तनृमुण्डास्रक्प्रकपिबन्तीं वक्त्रकन्दरात् |
स्रक्कद्वन्द्वस्रवद्रक्तलिप्तोरोजयुग्मकाम् ||
उरोजाम्भोजसंसक्तसर्पतद्दीर्घोच्चयाम् |
संलीढकुर्वतीं धयन्तीं तल्लेलिहानरसज्ञया ||


Lesungshinweise: [ein Wort vor dantamandala ist gestört] [die Verbindung ist beschädigt] [die gedrängte Verbindung der letzten beiden Zeilen bleibt unsicher] Aus ihrem geöffneten Mund trinkt sie das Blut der an ihren Schultern befestigten Menschenkopf-Girlande [die Verbindung ist beschädigt]. An ihren Lotusbrüsten befinden sich lange Schlangen; mit ihrer zuckenden Zunge leckt und saugt sie daran [die gedrängte Verbindung der letzten beiden Zeilen bleibt unsicher].“

Band III, S. 777–778, Kamakala-Kali Schmuck und Körpergestalt
ललाटे घननारास्रविहितारुणचित्रकाम् |
सद्यश्छिन्नगलद्रक्तनृमुण्डकृतकुण्डलाम् ||
श्रुतिनद्धकुच्चालम्बिवलत्तंसलसदंशुकाम् |
स्रवदस्रौघया शश्वन्मानया मुण्डमालया ||
आकण्ठगुल्फलम्बिन्याऽलङ्कृतां केशबद्धया |
श्वेतास्थिगुलिकाहारग्रैवेयकमहोज्ज्वलाम् ||
शतदीर्घाङ्गुलीपिण्डिमण्डितोरःस्थलस्थिराम् |
कठोरपीवरोतुङ्गवक्षोजयुगलान्विताम् ||
महामारकतग्राववेदिश्रोणिपरिष्कृताम् |
विशालजघनाभोगामतिक्षीणकटिस्थलाम् ||
अञ्जनच्छायभेकाशीवलत्किङ्किणिमण्डिताम् |
सुपीनषोडशभुजां महाघोराञ्चदङ्गराम् ||
शवानां धमनीपुञ्जैर्वेष्टितैः कृतकङ्कणाम् |
ग्रथितैः शवकेशैः साग्रदामभिः कटिसूत्रिणीम् ||
शवपोतकरश्रेणीग्रथितैः कृतमेखलाम् |
शोभमानाङ्गुलीमांसमेदोमज्जाङ्गुलीयकैः ||


Lesungshinweise: [die genaue Schmuckbezeichnung ist unsicher] [das Kompositum davor ist unsicher] [der Schlussausdruck ist gestört] An den Ohren befestigter, bis zur Brust herabhängender Schmuck bewegt sich [die genaue Schmuckbezeichnung ist unsicher]. Dunkle Glöckchen schmücken sie [das Kompositum davor ist unsicher].

Band III, S. 778–779, Kamakala-Kali Hände Begleiter und Erscheinung
असिं त्रिशूलं चक्रं च शरमुद्गरमेव च |
ललानं च तथा कर्त्रीमक्षमालां च दक्षिणे ||
पाशं च परशुं नागं चापं मुहुरमेव च |
शिवापोतं खर्परं च वसासृज्वेदसाऽन्वितम् ||
लम्बत्कञ्च नृमुण्डं च धारयन्तीं स्ववामतः |
विलसन्नूपुरां देवीं ग्रथितैः शवपञ्जरैः ||
श्मशानप्रज्वलद्धोरचिताग्निज्वालमध्यगाम् |
अधोमुखमहादीर्घप्रसुप्तशवपृष्ठगाम् ||
वमन्मुखानलज्वालाजालव्याप्तदिगन्तराम् |
प्रोत्यायैव हि तिष्ठन्तीं प्रत्यालीढपदक्रमात् ||
वामदक्षिणसंस्थाभ्यां नदन्तीभ्यां मुहुर्मुहुः |
शिवाभ्यां घोररूपाभ्यां वमन्तीभ्यां महानलम् ||
विद्युज्ज्वालावर्णाभ्यां वेष्टितां परमेश्वरीम् |
सर्वदेवानुल्लङ्घ्याभ्यां पश्यन्तीभ्यां महेश्वरीम् ||
अतीव भीषणाभ्यां शिवाभ्यां शोभितां मुहुः |
कपालसंस्थं मस्तिष्कं ददतीं च तयोरधः ||
दिगम्बरां मुक्तकेशीमहट्टहासभयानकाम् |
सप्तधा बद्धशार्दूलयोगपट्टविभूषिताम् ||
संहारभैरवेणैव सार्धं संभोगमिच्छतीम् |
अतिकामातुरां कालीं हसन्तीं खर्वविग्रहाम् ||
कोटिकालानलज्वालात्यक्ताशोद्यत्कलेवराम् |
महाप्रलयकोट्यर्कविद्युच्चण्डरश्मिप्रभाम् ||
कल्पान्तकारिणीं कालीं महाभैरवरूपिणीम् |
महाभीमां दुर्निरीक्ष्यां सेन्द्रैरपि सुरासुरैः ||
शत्रुपक्षक्षयकरीं दैत्यदानवमर्दिनीम् |
चिन्तयेदीदृशीं देवीं कालीं कामकलाभिधाम् |


Lesungshinweise: [Gegenstand unklar] [unsichere Waffenbezeichnung] [das Kompositum ist beschädigt] Links hält sie Schlinge, Axt, Schlange, Bogen, Muhura [unsichere Waffenbezeichnung], ein junges Schakaltier, eine mit Fett und Blut gefüllte Schädelschale sowie ein herabhängendes Menschenhaupt. Ihr Körper erhebt sich wie aus den Flammen von Millionen Weltauflösungsfeuern [das Kompositum ist beschädigt].

Band III, S. 779, Kamakala-Kali Vorbereitung und Sitzmantra
अथ पुरश्चरणं तत्रैव |
अतः परं प्रवक्ष्यामि पौरश्चरणिकं विधिम् |
एकस्मिन् पन्निविहिते सिद्धिस्तात्कालिकी भवेत् ||
भूमिशुद्धिर्देहशुद्धिः पूर्वैव कथिता मया |
यमाश्च नियमाः ये स्युः पुरश्चरणकर्मणि ||
सर्वानेव प्रयुञ्जीत सततं भक्तितत्परः |
कृतनित्यक्रियः प्रातः कृतपूजाविधिः शुचिः ||
नरास्थि निखनेन्मन्त्रं इमं मन्त्रं समुदीरयन् |
तारं क्रोधोऽन्तु ह्रोँ पाशस्मरभूतान् समुद्धरेत् ||
सिद्धिमुच्चार्य देहेति युग्मं वह्न्यङ्गनां वदेत् |
भूतबीजं फ्रौँमिति |
तथा |
तदुपर्येव चास्तीर्य आसनं सुष्ठु कथितम् |
नृमुण्डमग्रतः कृत्वा नरास्थिजपमालया ||
लक्षमेकं जपेन्मन्त्रं हविष्याशी दिवा शुचिः |


Lesungshinweise: [die gedruckte Satzverbindung ist gestört] [Om] [Svaha] [die gedruckte Ligatur ist ungewöhnlich; die Sanskritlesung bleibt vorläufig] Nach den morgendlichen täglichen Handlungen und der Puja, im Zustand der Reinheit, vergrabe man einen Menschenknochen und spreche folgenden Mantra: Tara [Om], Krodha, Hrom, Pasha, Smara und Bhuta; danach ,Siddhi‘, zweimal ,Dehi‘, ,gib‘, und die Gemahlin des Feuers [Svaha].“ Das Bhuta-Bija wird als „Phraum“ angegeben [die gedruckte Ligatur ist ungewöhnlich; die Sanskritlesung bleibt vorläufig].

Band III, S. 780, Abschluss des ersten Mahavidya-Abschnitts
अशुचिश्च तथा रात्रौ लक्षमेकं तथैव च ||
दशांशं होमयेन्मन्त्री तर्पयेच्चाभिषेचयेत् |
होमे सन्तर्पणे चैव पूजावत् कथितो विधिः ||
पूजायां वा प्रयोगे वा होमे वा तर्पणेऽथ वा |
गुह्यकालीविधानेन सर्वं कार्यं शुचिस्मिते ||
अत्रानुक्तं विधानं यत् तत्तत्रैव तत् प्रकल्पयेत् |
तत्राप्यनुक्तं यत् किञ्चित् तत्रोक्तो दक्षिणाविधिः ||
इति प्रथममहाविद्याप्रकरणम् |


Lesungshinweise: [-Kali]

Band III, S. 780, Eingang zum zweiten Mahavidya-Abschnitt
अथ द्वितीयविद्यायाः (फेत्कारिणीतन्त्रे) कैलासशिखरासीनं चन्द्रखण्डविराजितम् |
वक्षःस्थले समासीना पृच्छति स्म नगात्मजा ||
कथयेशान सर्वज्ञ महत्त्वं तपोधनाः |
कां विद्यां प्राप्य कवयो भारतादि प्रचक्रिरे ||
श्रुत्वा नगात्मजावाक्यं विहस्य परमेश्वरः |
प्राह प्रियां परिष्वज्य साधु साध्विति पूजयन् ||
शृणु साध्वि महाविद्यामज्ञानेन्धनदाहिनीम् |
यामवाप्य महात्मानो धर्मकामार्थमुक्तिषु ||
नासाध्यं मेनिरे किञ्चित् कवयः शुद्धबुद्धयः |
वादे सदसि या वाणः स्तम्भिनी प्रतिवादिनाम् ||
विद्याहानिकरीं देवि विद्वषां बलिदानतः |
हास्याय वा सदस्यानामशुद्धमपि जल्पयेत् ||
वादिनं चापि राजानं मन्त्रिणं वशमानयेत् |
जल्पयेदित्यादिरभिप्रायः |
मन्त्रस्य ज्ञानमात्रेण जपात् सर्वज्ञतां नयेत् ||


Lesungshinweise: [den Gegner] [bewirkt dies] [Die Aussagen über Kontrolle und Wirkungen gehören zum zitierten Ritualtext.]

Band III, S. 781, Gewinnung des Tara-Mantras
मन्त्रोद्धारणमाह |
सपरं प्रथमं दत्त्वा चतुर्थस्वरभूषितम् |
रेफारूढं स्फुरद्दीप्तमिन्दुबिन्दुसमन्वितम् ||
त्रकारं च ततो दद्याच्चतुर्थेनैव भूषितम् |
दीर्घोकारसमायुक्तं हकारं योजयेत् ततः ||
फट्कारं च ततो दद्यात् संपूर्णः सिद्धमन्त्रः |
सपरो हकारः |
शेषं स्पष्टम् |


Lesungshinweise: [Die Vokalbezeichnung vor ha ist im Druck als dīrghokāra wiedergegeben; ihre Auslegung folgt der erkennbaren Hum-Bildung und bleibt als solche kenntlich.]

Band III, S. 781, Tara-Mantra im Matsyasukta und Tararnava
(मत्स्यसूक्ते) अथ वक्ष्ये महादेव्या मन्त्रोद्धारमनुत्तमम् |
यच्च ज्ञात्वा नरो भाति वाचस्पतिरिवापरः ||
मायाबीजं समुद्धृत्य तवर्गप्रथमं तथा |
रतिबिन्दुवह्नियुतं द्वितीयं बीजमुत्तमम् ||
कूर्चबीजं तृतीयं तु फट्कारस्तदनन्तरम् |
संपूर्णसिद्धमन्त्रस्तु रश्मिपञ्चकसंयुतः ||
पञ्चरश्मिः प्रणवः |
तदुक्तं (तारार्णवे) अनुत्तरं समुद्धृत्य मायोत्तरमनुं ततः |
पपञ्चमः समायुक्तं पञ्चरश्मिः प्रकीर्तितः ||
अनुत्तरमकारः |
मायोत्तरउकारः |
पपञ्चमो मकारः |


Band III, S. 781–782, Tara Ekajata und Nilasarasvati
(तन्त्रबोधे) तारं लज्जां त्रकामेशौ हूँ फडित्युग्रतारिका |
माया स्त्रीँ हूमथास्त्रान्तामित्येकजटाख्यया ||
अस्त्रहीनामिदं नीलसरस्वत्या विनिर्दिशेत् |
कामेशो ईकारः |
त्र्यक्षरोऽसौ महामन्त्रः फट्कारान्तो हृदि स्थितः |
पञ्चरश्मिसमायुक्तोऽज्ञानैन्धनदाहकः ||
(मत्स्यसूक्ते) लज्जाबीजं वधूबीजं कूर्चबीजं तथा हि फट् |
एवं पञ्चाक्षरी विद्या पञ्चभूतप्रकाशिनी ||
तथा |
तारास्त्ररहिता त्र्यर्णा महानीलसरस्वती |
कुल्लुकेति समाख्याता त्रिषु लोकेषु गोपिता ||


Lesungshinweise: [Om] [Phat] [Die Silbenzählung und ihre Beziehung zu den gerade genannten Formen bleiben im Druck knapp und werden nicht angeglichen.] [Pranava ist im Zusammenhang zuvor erklärt.]

Band III, S. 782, Vasishthas Fluch und das Vadhu-Bija
(तारार्णवे) वशिष्ठाराधिता चोग्रा न शीघ्रफलदा यतः |
अतस्तेनैव मुनिना शापो दत्तः सुदारुणः ||
ततः प्रभृति विद्येयं फलदात्री न कस्य चित् |
शक्तिबीजं त्रपान्तस्थबीजोपरि नियोजितम् ||
ततः प्रभृति विद्येयं वधूरिव यशस्विनी |
फलिनी सर्वविद्यानां जयिनी जयकाङ्क्षिणाम् ||
विपक्षयकरी विद्या अमृतत्वप्रदायिनी |
मन्त्रस्य ज्ञानमात्रेण विजयी भुवि जायते ||
मूको भवति वागीशो गीष्पतिर्जायते नरः |
शक्तिबीजमिति |
शक्तिबीजं सकारः |
त्रपान्तस्थबीजं त्रकारः |
तेन स्त्रीँमिति वधूबीजं भवति |
शापस्तु कृष्णावतारपर्यन्तमेव |
जाते कृष्णावतारे तु पुनः शापात् प्रमुच्यते |
इति तन्त्रान्तरवचनात् |


Lesungshinweise: [Brihaspati, Herr der Sprache]

Band III, S. 782–783, Bedeutung der Tara-Silben
मन्त्रार्थमाह (साधनसमुच्चये) प्रणवाद्ब्रह्मरूपा सा सा सोऽहं तत्त्वरूपिणी |
त्योष्रा प्रकाशमात्रत्वं प्रसमानत्वमिन्दुना ||
तेजोविसर्ग ईकारो बिन्दुना तात्रिकां मता |
तकारः सर्ववागीशो रेफस्तत्प्रकाशकः ||
बिन्दुमाली महाबीजं सान्द्रब्रह्मप्रकाशकम् |
कूर्चं प्रबोधरूपं स्यादस्त्रं जाड्यविनाशकम् |
एवं यो वेत्ति शुद्धात्मा स तु साक्षान्महेश्वरः |


Lesungshinweise: [Der folgende Ausdruck tyoshra ist beschädigt.] [tatrikam ist unsicher] Der Vokal ī bedeutet das Ausströmen des Lichtes; mit Bindu wird eine weitere Bestimmung der Göttin gegeben [tatrikam ist unsicher].

Band III, S. 783, Varianten und Früchte der Tara-Vidya
(मत्स्यसूक्ते) श्रीबीजाद्या यदा विद्या तदा श्रीः सर्वतोमुखी |
एषैव हि महाविद्या मायाद्या सकलेष्टदा ||
वाग्भवाद्या महावाक्यस्वरूपा सर्ववाङ्मयी |
तथा |
गुटिकासिद्धिवेतालपातालवटयक्षिणी |
परपुरप्रवेशश्च आज्ञासिद्धिः प्रजायते ||
जिह्वायां चिन्तनादेव त्रिकालज्ञो भवेद् ध्रुवम् |
यस्तु विद्याभेदेन चिन्तयेत् साधकोत्तमः ||
जीवन्मुक्तो विमुक्तश्च अन्ते सोऽपि भवेद् ध्रुवम् |
(ब्रह्मसंहितायां फेत्कारिण्यां) च |
क्षिप्रप्रसादाज्जगतां सदा नीलसरस्वती |
विशेषतः कलियुगे मत्प्रसादाद्भविष्यति ||
सिद्धमन्त्रो यदा मन्त्री बालस्यापि मूर्धनि |
करं दत्त्वा दिशत्यायु सोऽपि श्लोकान् पठेत् पुनः ||
दिशति श्लोकं कुर्वित्याशापयति |
तथा |
मन्त्रस्य ज्ञानमात्रेण अनुभावदयं भवेत् |
तात्कालिकी च कविता परैः एनविभाव्यता ||


Lesungshinweise: [-Tantra] [der Schluss des Verbsatzes ist gestört] [eine besondere Wirksamkeit; anubhavadoyam ist unsicher] [Schlusslesung unsicher] Wenn ein Mantrapraktizierender mit verwirklichtem Mantra selbst einem Kind die Hand auf den Kopf legt und ihm eine Anweisung gibt [der Schluss des Verbsatzes ist gestört], wird auch dieses Verse sprechen.“ Der Verfasser erläutert: Er weist es an: „Verfasse einen Vers!“ Ferner: „Schon aus der Kenntnis des Mantras entsteht [eine besondere Wirksamkeit; anubhavadoyam ist unsicher], und augenblicklich dichterische Rede, die andere nicht zu ermessen vermögen [Schlusslesung unsicher].“

Band III, S. 783–784, Unterschiedliche Rishi-Zuordnungen
अथ ऋष्यादिन्यासः (मेरुतन्त्रे) मुनिरक्षोभ्यसंज्ञोऽस्या बृहतीच्छन्द ईरितम् |
तारादेवी ह्रीँ च बीजं हूँ शक्तिश्चास्य कीर्तिता ||
(मन्त्रचूडामणौ) अक्षोभ्य ऋषिरेतस्या बृहतीच्छन्द ईरितम् |
नीलसरस्वती देवी त्रिषु लोकेषु गोपिता ||
हूँ बीजमस्त्रं शक्तिः स्याच्चतुर्वर्गफलप्रदा |
दामोदरमिश्रकृतसंग्रहे |
अक्षोभ्य ऋषिरेतस्या बृहतीच्छन्द ईरितम् |
नीलसरस्वती देवी त्रिषु लोकेषु गोपिता ||
हूँ बीजमन्त्रः शक्तिः स्यान्माया स्त्रीँ कीलकं स्मृतम् |
विनियोगो भवेद्देवि चतुर्वर्गफलाप्तये |
उग्रतारा देवतेति (मन्त्रचूडामणौ) |


Lesungshinweise: [Phat] [die syntaktische Verbindung ist im Druck gedrängt]

Band III, S. 784, Ugratara und Nilasarasvati Nyasa
अथ कराङ्गन्यासौ |
तत्रादौ उग्रतारायाः (ताराकल्पे) षड्दीर्घमायाबीजेन षडङ्गविधिरीरितः ||
नीलसरस्वत्यास्तु (सिद्धसारस्वते) अखिलवाग्रूपिणीं प्रोच्य हृदयाय नमो वदेत् |
अखण्डवाग्रूपिणीं च शिरसे वह्निवल्लभा ||
ब्रह्मवाग्रूपिणीमुक्त्वा शिखायै वषडित्यथ |
विष्णुवाग्रूपिणीमुक्त्वा कवचाय हुमुच्चरेत् ||
रुद्रवाग्रूपिणीं नेत्रत्रयाय वौषडित्यपि |
सर्ववाग्रूपिणीमुक्त्वा अस्त्राय फडिति स्मरेत् ||
षड्दीर्घमायया बीजं बीजान्ते तानि योजयेत् |


Lesungshinweise: [Svaha]

Band III, S. 784–785, Ekajata Anganyasa
एकजटायाः (तत्त्वचूडामणौ) बीजान्ते एकजटायै हृदयं परिकीर्तितम् |
तारिण्यै शिरसि तद्वज्रोदके शिखां तथा ||
उग्रजटे च कवचं महाप्रतिसरे तथा |
पिङ्गोवैकजटे तन्नेत्रेऽस्त्रे परिकीर्तिते ||
न्यासोऽयमुग्रतारैकजटयोरविरुद्ध इति साम्प्रदायिकः |


Lesungshinweise: [Die letzte Anrede ist im Druck unsicher.]

Band III, S. 785, Ort der Tara-Meditation
अथ ध्यानम् (गान्धर्वतन्त्रे) श्मशानं तत्र संचिन्त्य तत्र कल्पद्रुमं स्मरेत् |
तन्मूले मणिपीठं च नानामणिविभूषितम् ||
शिवाभिर्मांसास्थिमोदमानाभिरावृतम् |
चतुर्दिक्षु शवमुण्डास्थिचिताङ्गारास्थिभूषिताः ||
तन्मध्ये भावयेद्देवीं यथोक्तध्यानयोगतः |


Lesungshinweise: [die Syntax ist unregelmäßig]

Band III, S. 785, Tara-Dhyana im Nila-Tantra mit Varianten
(नीलतन्त्रे) प्रत्यालीढपदां घोरां मुण्डमालाविभूषिताम् |
खर्वां लम्बोदरीं भीमां व्याघ्रचर्मावृतां कटौ ||
नवयौवनसंपन्नां पञ्चमुद्राविभूषिताम् |
चतुर्भुजां ललज्जिह्वां महाभीमां वरप्रदाम् ||
खड्गकर्त्रीधरां सव्ये वामे मुण्डोत्पलान्विताम् |
पिङ्गोग्रैकजटां ध्यायेन्मौलावक्षोभ्यभूषिताम् ||
बालार्कमण्डलाकारलोचनत्रयभूषिताम् |
प्रज्वलत्पितृभूमध्यगतां दंष्ट्राकरालिनीम् ||
सावेशस्मेरवदनामस्थ्यलङ्कारभूषिताम् |
विश्वव्यापकतोयान्तः श्वेतपद्मोपरिस्थिताम् ||
(श्यामारहस्यादौ) खड्गकर्त्रीसमायुक्तसव्येतरभुजद्वयाम् |
कपालोत्पलसंयुक्तसव्यपाणियुगान्विताम्—इति पाठः ||
(तन्त्रान्तरे) खड्गकर्त्रीधरां देवीं कपालोत्पलधारिणीम्—इति पाठः |


Lesungshinweise: [hier besondere Schmuck- oder Kennzeichen] [Savya wird in diesen Formeln unterschiedlich verwendet; die Zuordnung folgt der Gegenüberstellung.] Im Shyamarahasya und anderen Quellen lautet die Lesung: Die beiden rechten Arme tragen Schwert und Schneidemesser; die beiden linken Hände Schädelschale und Lotus.

Band III, S. 786, Tara-Dhyana im Mantrachudamani
(मन्त्रचूडामणौ) तस्योपरिगतां देवीं खर्वां नीलमणिप्रभाम् |
लम्बोदरीं व्याघ्रचर्मसमावृतनितम्बिनीम् ||
पीनोन्नतपयोभारां रक्तवर्तुललोचनाम् |
ललज्जिह्वां महाभीमां दंष्ट्राकोटिसमुज्ज्वलाम् ||
नीलोत्पललसन्मालां बद्धजटां भयङ्करीम् |
श्वेतास्थिपट्टिकायुक्तकपालपञ्चशोभिताम् ||
ललाटे रक्तनागेन कृतकर्णावतंसकाम् |
अतिशुभ्रमहानागकृतहारमहोज्ज्वलाम् ||
दूर्वादलश्यामनागकृतयज्ञोपवीतिनीम् |
चतुर्भुजां रक्तमांसखण्डमण्डितमुष्टिकाम् ||
जटाजूटाक्षसूत्रेण शोभितां तीक्ष्णधारया |
खड्गेन दक्षिणस्योर्ध्वे शोभितां वीरनन्दिनीम् ||
तदधःस्थाहीजवत्कर्त्रिकालम्बत्वां पराम् |
वामोर्ध्वे रक्तनालेन दिगम्बरमनोहराम् ||
दधतीं नीलपद्मं च तदधःस्थात् कपालकम् |
जगतां जाड्यसंयुक्तं दधतीं कुन्दसन्निभम् ||
धूम्राभनागसंदोहकृतकेयूरसद्वलाम् |
सुवर्णवर्णनागेन कङ्कणोज्ज्वलपाणिकाम् ||
शुभ्रवर्णमहादेवकृतसांहिकमासनम् |
निर्यत्प्राणभिया तद्वत् सङ्कुचत्प्रपदाम्बिकाम् ||
शवपादद्वयारूढवामपादां महोन्मुखीम् |
कुन्दाभनागसंशोभिकटिसूत्रां त्रिलोचनाम् ||
असृग्युक्तेन नागेन कृतनूपुरपट्टिकाम् |


Lesungshinweise: [die Zuordnung ist gedrängt] [die Verbindung ahijavat ist unklar] [samhika ist unsicher] [der Bezug bleibt offen] [Das Dhyana wird auf der folgenden Seite fortgesetzt.] Der weiße Mahadeva bildet ihren Sitz [samhika ist unsicher].

Band III, S. 787, Abschluss des Tara-Dhyana im Mantrachudamani
सद्यश्छिन्नगलद्रक्तनृमुण्डै रक्तविभूषणैः ||
अन्योन्यकेशग्रथितैः पादपद्मविलम्बितैः |
पञ्चाशद्भिर्महामालाशोभितां परमेश्वरीम् ||
ज्वलच्चितामध्यसंस्थां द्वीपिचर्मोत्तरीयकाम् |
अक्षोभ्यनागासम्बद्धजटाजूटां वरप्रदाम् ||
एवंभूतां महादेवीममलमानो योगवस्तु च |
विज्ञानमय महादेवे पण्डितोऽहं महाकविः |


Lesungshinweise: [Die beiden abschließenden Zeilen sind im Druck grammatisch stark gestört. Erkennbar sind die so beschriebene große Göttin, ein reiner Geist, der Gegenstand des Yoga, Vijnana beziehungsweise Erkenntnis und die Aussage „Ich bin gelehrt, ein großer Dichter“. Ein zusammenhängender Satz wird daraus nicht erfunden.]

Band III, S. 787–788, Tara im Taropinibandha
(तारोपिनिबन्धे) विरुद्धवाक्यार्थगिरां रमण्डले नवार्कभूदाभां गुरुमुग्रतोदरीम् |
अतीव खर्वां नवयौवनस्थामधःस्थशार्दूलककृतिमूर्धजाम् ||
अनङ्गयमाहत्य शवोपरिस्थितां शवार्धमालीढपरीतमध्यमाम् |
विशीर्णवर्णां नृशिरःस्रजोज्ज्वलां त्रयीविचित्रारुणलोचनत्रयाम् ||
अभेदपिङ्गैकजटाविराजितां विभूषणाद्युग्रस्तितास्थिभीषणाम् |
महार्धसिद्धप्रकराहिभूषणां महाट्टहासैर्जगतामभीतिदाम् ||
जटास्वनन्तः श्रवसोश्च तक्षको महाहिपद्मो हृदि हारभूषणम् |
तथैव कर्कोटककृतोपवीतिकां सुमेखलायामथ देववासुकिः ||
सहाङ्गपालः किलकङ्कणो मतः पदेषु पद्मः किलनूपुरश्रियम् |
भुजेषु नागः कुलिकोऽङ्गदो मतो भुजोऽर्मालासहता स्थितिः स्थिता ||
सितश्च रक्तो धवलश्च मेचकस्तथैव नागोऽथ सितश्च पाण्डुरः |
भुजङ्गमानामिह वर्णजातयो भवन्ति सर्वं मुनिभिर्जलचिताम् ||
कपालकर्त्रीग्रथितोर्ध्वमूर्धजां सदालमिन्दीवरकान्तिमालाम् |
विकोषखड्गं सततं च दक्षिणे स्वपोरुषोर्ध्वे धर्तीं भुजैः सदा ||
पदार्थदंष्ट्राह्यपञ्चमुद्रया विराजमानामसितोत्पलस्रजम् |
विचिन्तयेत् तां च कवित्वकारिणीमन्यापदार्थप्रवर्षञ्च तारिणीम् ||


Lesungshinweise: [Quellentitel nach dem Druck] [Die anschließende Schlangenverbindung ist gestört.] [unsichere Konstruktion] [die vorausgehende Verbindung ist unklar] [Schlusskompositum unsicher] Im Taropinibandha [Quellentitel nach dem Druck]: Die Eingangsverse sind mehrfach beschädigt. Schädelschale und Schneidemesser werden mit ihrem hochgebundenen Haar verbunden [unsichere Konstruktion]. Man meditiere über Tarini mit der Kette dunkler Lotusse, die dichterische Kraft hervorbringt und vielfältige Bedeutungen ausströmen lässt [Schlusskompositum unsicher].

Band III, S. 788, Tara-Dhyana im Phetkarini-Tantra
(फेत्कारिणीतन्त्रेऽपि) प्रत्यालीढपदार्पिताङ्घ्रिशवहृद्घोराट्टहासा वरा खड्गेन्दीवरकर्त्रीखर्परभुजा हूँकारबीजोद्भवा |
खर्वा नीलविशालपिङ्गलजटाजूटैर्नागैर्युता जाड्यं न्यस्य कपालके त्रिजगतां हन्त्युग्रतारा स्वयम् |


Band III, S. 788–789, Bedeutung von Pratyalidha und Akshobhya
प्रत्यालीढलक्षणं तु (सङ्गीतरत्नाकरे) वामो यत्र निपुण्णोऽस्त्वन्तरे पर्वमानतः |
दक्षिणं चरणं ताभ्यां पञ्चतालप्रसारितम् ||
अस्तो द्वावपि तद्विष्वालीढं तु सदैव तत् |
आलीढाङ्गविपर्यासात् प्रत्यालीढमुदाहृतम् |
तालो वितस्तिः |
अस्तौ चक्रौ |
मौलावक्षोभ्यभूषितामिति |
अत्राक्षोभ्यो नागराजः अक्षोभ्यो देवीमूर्ध्नि स्थितश्चित्रफणीरूपधृगिति (भावचूडामणि-)वचनात् |


Lesungshinweise: [Die Angaben zur Gelenkstellung und das Wort astau sind im Druck beschädigt.] [der körperliche Bezug bleibt unklar]

Band III, S. 789, Inneres Tara-Purashcharana
अथ पुरश्चरणविधिः |
तत्रादौ मन्त्रध्यानमुक्तं (साधनसमुच्चये) मूलचक्रे च हृल्लेखां सूर्यकोटिसमप्रभाम् |
स्वाधिष्ठाने पीतवर्णं द्वितीयं च विभावयेत् ||
नाभौ जीमूतसंकाशं कूर्चबीजं महाप्रभम् |
अस्त्रबीजं हृदि ध्यायेत् कालाग्निसदृशप्रभम् ||
मूलादिब्रह्मरन्ध्रान्तं सर्वां विद्यां विभावयेत् |
सूर्यकोटिप्रतीकाशां योगिनां दृष्टिगोचराम् ||
तदुक्तं (तारातन्त्रे) स्वेच्छाचारपरो मन्त्रो पुरश्चरणसिद्धये |
रहस्यमालमादाय लक्षमेकं जपेत् सदा ||


Lesungshinweise: [Hrim] [der Druck liest unregelmäßig mantra statt eines eindeutigen Praktizierendenbezugs]

Band III, S. 789, Homa Tarpana und Abhisheka der Tara
(सुरेन्द्रसंहितायाम्) लक्षमात्रं जपेन्मन्त्रं दशांशमसितोत्पलैः |
आज्याक्तैर्जुहुयान्मन्त्री तद्दशांशेन तर्पयेत् ||
कालागुरुद्रवैर्मेत्तैर्विमलाम्भोभिवारिभिः |
तर्पयेच्च परां देवीं तत्प्रकारमिहोच्यते ||
जले चावाह्य विधिवत् पाद्यार्घ्यैरुपचारकैः |
संतर्प्य विधिवद्देवीं परिवारान् सकृत् सकृत् ||
देवीबुद्ध्या स्वमात्मानं संपश्य साधकोत्तमः |
तारिणीं सिञ्चयामीति जले मूर्ध्नि विनिःक्षिपेत् ||
कुम्भाख्यमुद्रया देवि नमोऽन्तेनाभिषेचनम् |


Lesungshinweise: [das verbindende Wort ist beschädigt] Mit reinem Wasser, dem schwarzes Agaru beigefügt ist [das verbindende Wort ist beschädigt], sättige er die höchste Göttin.

Band III, S. 790, Unterschiedliche Tara-Purashcharanas
(ताराचूडामणौ) चतुर्लक्षं जपेन्मन्त्रं दशांशं जुहुयात् सुधीः |
पद्मैः सितैस्तैरुत्पलैर्वाक्पतिर्जायते नरः ||
(तारार्णवे) एवं ध्यात्वा हविष्याशी जपेल्लक्षचतुष्टयम् |
रहस्यमालामादाय जपेद्वा लक्षमेव च ||
(मेरुतन्त्रे) ततं कुर्वन् इदं भक्ष्यमन्नकं दधि मद्यपि |
मधु मांसं च ताम्बूलं जपेल्लक्षचतुष्टयम् ||
दशांशं जुहुयाद्रक्तपद्मैः क्षीराज्यलोलितैः |
शवमुण्डं परित्यक्त्वा जपस्थानं जपं चरेत् ||
नारीं पश्यन् स्पृशन् गच्छन् महानिशि बलिं हरेत् |
न कार्यः सुस्त्रुवां द्वेषो यतः परिवर्जयेत् ||
जपे न कालनियमो न स्थितो सर्वदा जपेत् |
श्मशाने शून्यसदने देवागारेऽथ निर्जने ||
पर्वते वनमध्ये वा द्राममास्य मन्त्रवित् |
समर्च्य शत्रुनिहतं यदा षाण्मासिकं शिशुम् ||
विद्यां संसाधयेच्छीघ्रं सान्निध्यं प्राप्नुयात् |
एवं सिद्धमनुमन्त्री प्रयोगान् कर्तुमर्हति ||


Lesungshinweise: [die Syntax des Satzanfangs ist beschädigt] [der anschließende Satzteil ist gestört] [na sthito ist im Zusammenhang unklar] [im Kontext der Leichnamrituale; kein Tötungsauftrag wird daraus abgeleitet] Im Meru-Tantra: Die Eröffnung nennt Speisen, Nahrung, Joghurt, auch Wein, Honig, Fleisch und Betel [die Syntax des Satzanfangs ist beschädigt]. Der weitere Satz ist beschädigt; er nennt die Verehrung eines von einem Feind Getöteten sowie eines sechs Monate alten Kindes [im Kontext der Leichnamrituale; kein Tötungsauftrag wird daraus abgeleitet].

Band III, S. 790, Die von Brahma verehrte Tara
अस्यैव विद्याभेदास्तत्रैव |
अथातः संप्रवक्ष्यामि देवानां वरसिद्धये |
ब्रह्मणोपासितां तारां कल्याणैरिरूष्यामितम् ||
ॐ स्त्रीँ ह्रीँ हूँ समुच्चार्य ह्रीँ हूँ फडनवर्णकः |
मुनिर्ब्रह्मा च गायत्री छन्दस्तारा च देवता ||
न्यासाँस्तु पूर्ववत् कुर्याद्ध्यानमस्या निरूप्यते |


Lesungshinweise: [Der restliche Ausdruck der Einleitungszeile ist beschädigt.] Weitere Formen derselben Vidya, ebendort: „Nun erkläre ich die von Brahma verehrte Tara zur höchsten Verwirklichung der Götter.“ [Der restliche Ausdruck der Einleitungszeile ist beschädigt.] Man spreche „Om Strim Hrim Hum“, dann „Hrim Hum Phat“; die Silbenzählung am Zeilenende ist im Druck nicht eindeutig lesbar und wird nicht ergänzt.

Band III, S. 791, Meditation der von Brahma verehrten Tara
श्वेताम्बरां चन्द्रकान्तिं इन्द्वर्धकृतशेखराम् ||
कर्त्रीं च कपालं च कराभ्यां दधतीं भजेत् |
नानालङ्कारशोभाढ्यां त्रीक्षणां पद्मसंस्थिताम् ||
जपपूजादिकं सर्वमस्याः पूर्ववदाचरेत् |
मधूककुसुमात्रेण होमाद्विद्यां विभावयेत् ||
रक्तां वश्ये स्वर्णवर्णां स्तम्भने मारणेऽसिताम् |
उच्चाटने धूम्रवर्णां शान्तौ श्वेतां स्मरेदिमाम् |


Lesungshinweise: [die gedruckte Verbindung kusumatra ist unregelmäßig] [Dies sind die Zuordnungen der historischen Ritualquelle.]

Band III, S. 791, Zwölf- und siebensilbige Tara-Vidyas
अथातः संप्रवक्ष्यामि तारकस्य वराय तु |
ब्रह्मणोपासितां तारां द्वादशार्णां सुदुर्लभाम् ||
वाचं लज्जां रमां कामं हसरा औसमन्विताः |
विसर्गाढ्याः पञ्चमं तु कूटमेतदुदीरितम् ||
हूँ उग्रतारे हूँ फट् मन्त्रः प्रोक्तो जपादिकम् |
सर्वं पूर्ववदेवास्य कलौ प्रत्ययकारिणी ||
अथातः संप्रवक्ष्यामि ब्रह्मणा समुपासिताम् |
हिरण्यकशिपोर्दातुं वरं सप्तार्णसंमिताम् ||
प्रणवं कवचं मायां ह्रौँ प्रोक्त कूटं च पञ्चमम् |
हूँ फडन्तः सर्वमस्या न्यासाद्यं पूर्ववच्चरेत् ||


Lesungshinweise: [Die knappe Verbindung zwischen Hraum und dem fünften Kuta bleibt vorläufig; die Silbenzahlen werden nicht durch zusätzliche Bijas passend gemacht.]

Band III, S. 791–792, Von Hari und Balarama verehrte Tara
अथातः संप्रवक्ष्यामि हरिणा या ह्युपासिता |
बौद्धमार्गप्रचारार्थं सिद्धिदा द्वादशाक्षरी ||
उपासिता ब्रह्मणा या तस्याः कूटे तु पञ्चमे |
सौः कृत्वा साधिता विद्या द्वादशार्णाऽतिबुद्धिदा ||
यत्रभावादिको दासः कार्य्य उच्चारितं पुरा |
तस्यास्तु पूर्ववज्ज्ञेयं न्यासध्यानजपादिकम् ||
अथातः संप्रवक्ष्यामि सप्तार्णां रामसेविताम् |
लक्ष्मीप्रच्युतिनाशार्थं तेन मतः सदा हली ||
ब्रह्मोपासितसप्तार्णा मध्ये कूटं तु पञ्चमम् |
तत् त्यक्त्वा सौँ स्त्रीँ नोक्त्वा बलरामेण सेविता ||
शत्रुक्षयकरी चेयं तथा वाक्सिद्धिकारिणी |
ध्यानपूजादिकं प्राग्वत् प्रयोगादिकमेव च |


Lesungshinweise: [Die folgende gedruckte Zeile über einen mit yatra beginnenden Ausdruck und einen Diener ist nicht zuverlässig aufzulösen.] [Balarama] [der Satz ist unregelmäßig] [das folgende no ist im Druck syntaktisch störend; die genaue Formel bleibt unsicher] In der von Brahma verehrten siebensilbigen Vidya wird das fünfte Kuta weggelassen und durch Saum und Strim ersetzt [das folgende no ist im Druck syntaktisch störend; die genaue Formel bleibt unsicher].

Band III, S. 792, Tara-Mantras von Narayana und Shiva
अथातः संप्रवक्ष्यामि नारायणानुसेविता |
पञ्चार्णा यत्प्रभावेण दैत्यतां कदनं कृतम् ||
स्त्रीँ हूँ फट् क्लीँ वाग्भवं च पञ्चार्णा सर्वसिद्धिदा |
अस्यां त्र्यर्णा तु मुनिर्विष्णुः प्राग्वज्जपादिकम् ||
अथातः संप्रवक्ष्यामि मया या समुपासिता |
दत्ता च रविणाऽदित्य सा विद्या तु षडक्षरी ||
ॐ ह्रीँ हूँ ह्रीँ हूँ फडिति मुनिः सोऽहं च पूर्ववत् |
ज्ञेयं न्यासादिकं सर्वं प्रयोगादि च पूर्ववत् ||
अथान्यं संप्रवक्ष्यामि चास्याः पञ्चाक्षरं मनुम् |
जलन्धरवधार्थं तु मया सिद्धं कृतं सुराः ||
स्त्रीँ हूँ मायां हूँ फडिति मनुः पञ्चाक्षरो मतः |
तन्त्रान्तरेऽपि |
वधूबीजं च कवचं मायां कूर्चं तथाऽस्त्रकम् |
सार्धपञ्चाक्षरो मन्त्रो द्वितीयः परिकीर्तितः ||


Lesungshinweise: [der vorausgehende Ausdruck tryarna ist im Druck unklar] [die Überlieferungsangabe ist gestört] [Diese abweichende Zählung bleibt als Quellenaussage erhalten.]

Band III, S. 792–793, Rechter und linker Ritualweg
(मेरुतन्त्रे) मया पञ्चमुखेनोक्तो दक्षमार्गेण भो सुराः |
देवेषु च विप्रेषु तथा धर्मपरेषु च ||
यमानां नियमानां च तन्त्रस्था नान्यदेवताः |
वाममार्गार्चितास्तास्तु कार्यं साधयितुं क्षमाः ||
दक्षिणाराधिता देवा रणसाहाय्यकारकाः |
तेजोविहीनान् रिपून् हत्वा नयन्ति ब्रह्म शाश्वतम् ||
क्षत्रियाणां क्षयार्थं तु मया रामाय चार्पिता |
पञ्चामृतं सुरास्थाने मांसस्थाने च सूरणम् ||
मत्स्यस्थाने खण्डो बोध्यो धर्मपल्यां रतं रतम् |
अन्यत् पूर्ववदेव स्याद्गुह्यमेतत् प्रकाशितम् ||
लुब्धस्तारां न सेवेत लोकद्वयपरिक्षयात् |
अस्याः पूजादिकं प्राग्वद्धिरोऽत्र निरूपितः ||
तारायाः सद्गुरोः सिद्धिः क्षिप्रा अनन्तता भवेत् |


Lesungshinweise: [Der folgende Satz über Yamas, Niyamas und die Bindung der Gottheiten ist grammatisch gestört.] [Parashurama] [Yams] [die genaue Speise ist nicht bestimmt] [ein Ausdruck ist beschädigt] Ihre Puja und die weiteren Handlungen sind wie zuvor erklärt [ein Ausdruck ist beschädigt].

Band III, S. 793, Der zweiundzwanzigsilbige Mahatara-Mantra
अथातः संप्रवक्ष्यामि महातारामनुं सुराः |
सिद्धिमार्गीयेभ्योऽपि वर्णवर्णाधिकः कृतः ||
स्त्रीँ ह्रीँ ह्रौँ नमस्तारायै महापदमुच्चरेत् ||
तारायै सकलेत्युक्त्वा उग्रतारे तारय द्वयम् |
तारद्वयं वह्निजाया द्वाविंशार्णो मनुर्मतः ||
न्यासपूजाजपाद्यं तु प्राग्वत् सर्वं समाचरेत् |


Lesungshinweise: [Die einleitende Vergleichszeile über Siddhi-Wege und Silbenzahl ist unregelmäßig.] [Svaha] [Die Folge ist entsprechend den ausgeschriebenen Wörtern und Bildungsanweisungen erhalten; die Silbenzählung wird nicht eigenmächtig berichtigt.]

Band III, S. 793, Beginn der Tarini-Unterweisung
(तारिणीतन्त्रे) ईश्वर उवाच |
श्रूयतां शैलतनये जाड्यनाशकरी परा |
चतुर्वर्गफला विद्या मन्त्रसिद्धिप्रदायिका ||
वर्णाद्यं वह्निसंयुक्तं वामाक्षिपरिभूषितम् |
नादबिन्दुसमायुक्तं वसुसिद्धिप्रदायकम् ||
पुनः श्रुतमुखं देवि रकारेण विभूषितम् |
स्वरेणैव चतुर्थेन चन्द्रखण्डेन च प्रिये ||
लाञ्छितं वै महाबीजं चतुर्वर्गफलप्रदम् |


Lesungshinweise: [Lesung und Schlüsselbezug unsicher] [Die Mantrabildung wird auf der folgenden Seite fortgesetzt.] Dann nehme man den Beginn von Shruta [Lesung und Schlüsselbezug unsicher], geschmückt mit ra, dem vierten Vokal und der Mondsichel.

Band III, S. 794, Abschluss der neunsilbigen Tarini-Vidya
ततः कृष्णे पदं चोक्त्वा ततो दंष्ट्रे पदं स्मृतम् |
ह्रींकारं च ततो दद्यात् स्वपञ्चमुद्धरेत् ततः |
इकारेण च रेफेण मकारेण च भूषितम् ||
ततो वाग्भवमुच्चार्य मन्त्रमेनं समुद्धरेत् |
नवाक्षरो मनुर्देवि तारिण्याः समुदीरितः ||
इयमेव महाविद्या स्वर्गे मर्त्ये सुदुर्लभा |
अष्टसिद्धिप्रदा देवि चतुर्वर्गफलप्रदा ||


Lesungshinweise: [Lesungshinweis: Besonders die beiden Anrufungswörter am Seitenanfang und die verschlüsselte Lautangabe svapañcam sind im Druck undeutlich; keine aufgelöste Rezitationsformel wird ergänzt.]

Band III, S. 794, Tarini: Rishi-Nyasa
अथ ऋष्यादिन्यासः |
शक्तिरस्य ऋषिः प्रोक्तो बृहतीच्छन्द ईरितम् |
तारिणी देवता प्रोक्ता ह्रींकारं बीजमुच्यते ||
वाग्भवं शक्तिरस्येति ऋष्यादिकं चरेत् |


Band III, S. 794–795, Tarini: vollständiges Meditationsbild
अथ ध्यानम् |
कृष्णां लम्बोदरीं भीमां नागकुण्डलशोभिताम् |
रक्तमुखीं ललज्जिह्वां रक्ताम्बरधरां कटौ ||
पीनोन्नतस्तनोभयां महानागेन वेष्टिताम् |
शवस्योपरि देवेशि तस्योपरि कपालके ||
नासाग्रध्याननिरतां महाघोरां वरप्रदाम् |
चतुर्भुजां दीर्घकेशीं दक्षिणस्योर्ध्वबाहुना ||
बिभ्रतीं नलिनीमेकां वामोर्ध्वे पानपात्रकम् |
वराभयधरां देवीमधस्ताद्दक्षवामयोः ||
पिबन्तीं रौधिरं धारां पानपात्रे सदाशिवे |
सर्वसिद्धिप्रदां देवीं नित्यां गिरिनिवासिनीम् ||
लोचनत्रयसंयुक्तां नागयज्ञोपवीतिनीम् |
दीर्घनासां दीर्घजङ्घां दीर्घाङ्घ्रीं दीर्घजिह्विकाम् ||
चन्द्रसूर्याग्निभेदेन त्रिलोचनसमन्विताम् |
शत्रुनाशकरीं देवीं महाभीमां वरप्रदाम् ||
व्याघ्रचर्मशिरोबद्धां जगत्रयविभाविताम् |
साधकानां सुखं कर्त्रीं सर्वलोकभयङ्करीम् ||
एवंभूतां महादेवीं तारिणीं प्रणमाम्यहम् |


Lesungshinweise: [Lesungshinweis: Die Ortsangabe „darüber auf einer Schädelschale“ folgt der knappen, syntaktisch schwierigen Drucklesung tasyo­pari kapālake.]

Band III, S. 795, Tarini: Purashcharana
अथ पुरश्चरणम् |
एवं संपूजयित्वा च एभिर्द्रव्यैर्महेश्वरि |
लक्षमेकं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ||


Band III, S. 795, Akshobhya: Mantra und Zuordnungen aus der Brahmasamhita
अथाक्षोभ्यमन्त्रः |
ब्रह्मसंहितायाम् |
अक्षोभ्यस्य मनुं त्यक्त्वा देवीं तारां जपेद्यदि |
सिद्धिहानिर्भवेत्तस्य रौरवं नरकं व्रजेत् ||
अक्षोभ्यस्य मनुं विप्र कवचं सारमुत्तमम् |
अतिगुह्यं महाध्यानं सर्वध्यानेषु चोत्तमम् ||
अग्रे मनुं प्रवक्ष्यामि ध्यानं चैव ततः परम् |
कवचं च ततः पश्चात् कथयामि क्रमेण तु ||
अनुत्तरं समुद्धृत्य पपञ्चमविभूषितम् |
अक्षोभ्येति च स्वाहेति रमायन्तं महामनुः ||
स्वयम् ऋषिश्च संप्रोक्तो विराट्छन्द उदाहृतम् |
अक्षोभ्यो देवता प्रोक्तश्चित्रमूर्तिर्नागरूपधृक् ||
विनियोगस्तु नियतं पुरुषार्थचतुष्टये |


Lesungshinweise: [Lesungshinweis: Die Drucklesung ramāyantaṃ in der Formelangabe ist unsicher; die Endung wird deshalb nicht zu einer vollständigen Mantraformel aufgelöst. Die Drohung mit der Hölle gehört zur zitierten rituellen Überlieferung.]

Band III, S. 795–796, Akshobhya: Meditation und Abschluss des Tara-Abschnitts
अथ ध्यानं प्रवक्ष्यामि सर्वसौभाग्यदायकम् ||
सहस्रादित्यसंकाशं नागरूपधरं शुभम् |
विद्युत्कोटिसमं वक्त्रं वह्निभास्वरलोचनम् ||
सार्धत्रिवलयोपेतं जटाकोट्यवस्थितम् |
महालावण्यसंयुक्तं सुरासुरनमस्कृतम् ||
सूर्यविद्युत्समाभासं महामणिशिरोपरि |
एतद्रूपं महाकायं देवैरपि सुपूजितम् |
तन्त्रान्तरे |
अक्षोभ्यं पूजयित्वाऽऽदौ तारां संपूजयेत् सुधीः |
तथा |
पुरश्चर्यादिकं चास्य तारिणीवत्तु समाचरेत् |
इति ताराप्रकरणम् |


Lesungshinweise: [Lesungshinweis: Die knappe Wortfolge mahāmaṇiśiropari ist hier sinngemäß als Edelstein über dem Haupt übersetzt.]

Band III, S. 796, Shrividya: Kamaraja und die drei Kutas
अथ श्रीविद्या |
तत्रादौ कामराजविद्या |
चन्द्रपीठे |
स्मरो भगं बिन्दुमती लपरा वाग्भवं मतम् |
शिवो जीवः स्मरः शम्भुर्लपरा कामकूटकम् ||
भृगुः कामः क्षमा माया कामराजाभिधा मता |
कूटत्रयस्य वाग्भवादिसंज्ञा च तत्रैवोक्ता |
प्रथमं वाग्भवं कूटं द्वितीयं कामकूटकम् |
तृतीयं शक्तिकूटं स्यात् कूटत्रयगतो मनुः ||


Lesungshinweise: [Die Namen dienen hier als verschlüsselte Lautbezeichnungen; die Passage wird in ihrer überlieferten Form wiedergegeben.]

Band III, S. 796, Shrividya: Lopamudra-Vidya
अथ लोपामुद्राख्या विद्या |
ज्ञानार्णवे |
शृणु देवि प्रवक्ष्यामि लोपामुद्राभिधां पराम् |
कामराजाख्यविद्यायाः शक्तिं तुरीयां च सुन्दरीम् ||
हित्वा मुखं शिवेन्द्राढ्या लोपामुद्रा प्रकाशिता |
कामराजाख्यविद्याया वाग्भवे एकारमीकारं च विहायादौ हकारसकारौ दद्यात् इत्यर्थः |
इयमगस्त्योपासिता |


Band III, S. 796, Shrividya: Shodashi aus dem Yoginitantra
अथ षोडशी |
योगिनीतन्त्रे |
श्रीबीजमाया स्मरयोनिशक्तिस्तारं च माया कमलाथ विद्या |
शक्त्यादिबीजञ्च विलोमतोऽस्या श्रीषोडशीयं च निगूढविद्या ||


Lesungshinweise: [Die Vorlage beschreibt die Zusammensetzung durch überlieferte Bīja-Namen; eine ausgeschriebene Formel wird hier nicht hinzugefügt.]

Band III, S. 797, Shodashi: weitere Bildung der Vidya
तन्त्रान्तरे |
श्रीबीजं शक्तिबीजं च कामबीजं च वाग्भवम् |
बालान्तसंस्थितं बीजं प्रणवं च ततः परम् ||
शक्तिबीजं रमां चैव विद्यां च परमेश्वरि |
लोपां वा कामराजं वा त्रिकूटामथ वा पराम् ||
विन्यस्य प्रणवाद्यानि बीजानि पञ्च सुन्दरि |
विपरीतक्रमेणैव विन्यसेत् षोडशीं पराम् ||
मायातन्त्रेऽपि |
लक्ष्मीः परा मदनयोनियुता च शक्तिस्तारः परा च कमलाऽप्यथ मूलविद्या |
शक्त्यादिभिश्च विपरीततया प्रदिष्टा श्रीमन्त्रराज उदितः परदेवतायाः ||


Lesungshinweise: [Die verschlüsselten Namen bleiben in der Form der jeweiligen Quelle erhalten; Unterschiede zwischen den zitierten Fassungen werden nicht stillschweigend ausgeglichen.]

Band III, S. 797–798, Shodashi: Lobpreis und Geheimhaltung
महाकालसंहितायाः |
अतः परतरा विद्या न भूता न भविष्यति |
केनापि नैव शाप्येय न च केनापि कीलिता ||
ज्ञानार्णवे |
वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि |
वर्णितुं नैव शक्येयं श्रीविद्या षोडशाक्षरी ||
ब्रह्मविद्या स्वरूपा हि भुक्तिमुक्तिफलप्रदा |
एकोच्चारेण देवेशि वाजपेयस्य कोटयः ||
अश्वमेधसहस्राणि प्रादक्षिण्यं भुवस्तथा |
काश्यादितीर्थयात्राः स्युः सार्धकोटित्रयान्विताः ||
तुलां नायान्ति देवेशि नात्र कार्या विचारणा |
एकोच्चारेण गिरिजे किं पुनर्ब्रह्मकेवलम् ||
षोडशार्णा महाविद्या न प्रकाश्या कदा चन |
गोपितव्या त्वया भद्रे स्वयोनिरिव पार्वति ||
अपि प्रियतमे देयं सुतदारधनादिकम् |
राज्यं देयं शिरो देयं न देया षोडशाक्षरी ||
सप्तलक्षं महाविद्यास्त्वादौ कथिताः प्रिये |
सारात् सारतरा चेयं महाविद्या सुगोपिता ||


Lesungshinweise: [Der Lobpreis und die drastische Geheimhaltungsforderung sind Aussagen der historischen Quelle. Der Halbvers kiṃ punar brahma kevalam ist syntaktisch verkürzt; die Übersetzung lässt diese Verkürzung erkennen.]

Band III, S. 798, Shrividya: Rishi-Nyasa
अथ ऋष्यादिन्यासस्तत्रैव |
ऋषिरस्य महेशानि दक्षिणामूर्तिरीश्वरः |
पङ्क्तिश्छन्दः समाख्यातं देवी त्रिपुरसुन्दरी ||
वाग्भवं बीजमित्युक्तं शक्तिस्तु शक्तिकूटकम् |
कामराजः कीलकं स्यादृष्यादिन्यास ईरितः ||


Band III, S. 798, Shrividya: Begründung von Bija, Kilaka und Shakti
वाग्भवादीनां बीजादिरूपत्वे हेतुरुक्तो दक्षिणामूर्तिसंहितायाम् |
निःसरन्ति महामन्त्रा महानोर्विस्फुलिङ्गवत् |
तथैव मातृका वर्णा निःसृता वाग्भवाः प्रिये ||
अत एवास्य देवस्य वाग्भवं बीजमुच्यते |
योषित्पुरुषरूपेण स्फुरन्ती विश्वमातृका ||
महामोहन देवेशि कीलयन्ती जगत्त्रयम् |
अतस्तत्कीलकं देवि तेन सौभाग्यनिर्मिता ||
पालयन्ती जगत् सर्वं तेनैषा शक्तिरुच्यते |


Lesungshinweise: [Lesungshinweis: Der Feuervergleich ist im Druck beschädigt; mahānor ist eine vorläufige Wiedergabe der sichtbaren Zeichen, keine gesicherte Sanskritlesung. Auch die Wortverbindung mahāmohana ist grammatisch unsicher.] Auch die Wortverbindung mahāmohana ist grammatisch unsicher.]

Band III, S. 798–799, Shrividya: Hand-Nyasa und die sechs Glieder
अथ कराङ्गन्यासस्तन्त्रान्तरे |
अं आं सौँरिति प्रोक्तं बीजं त्रिविधमुत्तमम् |
एतद्बीजं द्विरावृत्य मध्यमायुगलेषु च ||
अङ्घ्रि करस्य कुर्वीत तल्लयोः पृष्ठयोरपि |
चतुर्थी नतिसंयुक्तैर्नाममन्त्रैः पृथक् पृथक् ||
मध्यमा नामिका चैव कनिष्ठाङ्गुष्ठतर्जनी |
क्रमेण ज्ञाप्या न्यास्यात्स्वाङ्गुलीषु महेश्वरि ||
नवरत्नेश्वरे |
सर्वज्ञता नित्यतृप्तता च अनादिबोधश्च स्वतन्त्रता च |
अलुप्तशक्तित्वमनन्तता च षडाहुरङ्गानि शिवे शिवायाः ||
अत्र बहुविधन्यासजालं ज्ञानार्णवादौ द्रष्टव्यम् |


Lesungshinweise: [Lesungshinweis: Die Bīja-Schreibung, die Handstellen in der dritten Zeile und das Verb im Anschluss auf S.799 sind im Druck undeutlich. Diese Passage ist daher keine gesicherte praktische Nyāsa-Anleitung.]

Band III, S. 799, Shrividya: kurzes Meditationsbild
अथ ध्यानम् |
बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् |
पाशाङ्कुशधनुर्बाणधारयन्तीं शिवां श्रये ||


Band III, S. 799, Shrividya: Nektarmeer und Garten
सिद्धान्तसङ्ग्रहे महाकालसंहितायां च |
उद्यच्चन्द्रोदयक्षुब्धरक्तपीयूषवारिधेः |
मध्ये हेममयी भूमी रत्नमाणिक्यमण्डिता ||
तन्मध्ये नन्दनोद्यानं मदनोन्मादनं महत् |
नित्याभ्युदितपूर्णेन्दुशीतलजालविराजितम् ||
सदा सह वसन्तेन कामदेवेन रक्षितम् |
कदम्बचूतपुन्नागनागकेशरचम्पकैः ||
बकुलैः पारिजातैश्च सर्वर्तुकुसुमोज्ज्वलैः |
झङ्कारमुखरैर्भृङ्गैः कूजद्भिः कोकिलैः शुकैः ||
नानावर्णैस्तथान्यैश्च द्विजसङ्घैर्निषेवितम् |
शिखिकारण्डहंसैश्चान्यैर्नानापक्षिभिरावृतम् ||
नानापुष्पलताकीर्णैः शोभितं वृक्षखण्डकैः |
पर्यन्तदीर्घिकोत्फुल्लकमलोत्पलसम्भवैः ||
रजोभिर्धूसरैः सम्यक् सेवितं मलयानिलैः |
ध्यात्वैवं नन्दनोद्यानं तदन्तः प्राङ्गणं स्मरेत् ||
शुद्धकाञ्चनसंकाशवसुधाभिरलङ्कृतम् |
प्राङ्गणं चिन्तयेदेवं सुरसिद्धनिषेवितम् ||


Band III, S. 800, Shrividya: der leuchtende Pavillon
तन्मध्ये मण्डपं ध्यायेद्व्याप्तब्रह्माण्डमण्डलम् |
सहस्रादित्यसंकाशं चतुरस्रं सुशोभितम् ||
रत्नतेजःप्रभापुञ्जपिञ्जरीकृतदिङ्मुखम् |
मध्यस्तम्भविनिर्मुक्तं कोणस्तम्भसमन्वितम् ||
महामाणिक्यवैदूर्यरत्नकाञ्चनभूषितम् |
मुक्तादामवितानाढ्यं रत्नसोपानमण्डितम् ||
मन्दवायुसमाक्रान्तं गन्धधूपतरङ्गितम् |
रत्नचामरघण्टादिचित्रवितानैःसुशोभितम् ||
जातीचम्पकपुन्नागकेतकीमल्लिकादिभिः |
रक्तोत्पलसिताम्भोजमाधवीभिः सुपुष्पकैः ||
बद्धाभिर्मिश्रमालाभिः सर्वत्र समलङ्कृतम् |
तिर्यगूर्ध्वलसद्रक्तांशुकालीकोटिमण्डितम् ||
नानारत्नादिभिर्दिव्यैर्निर्मितं विश्वकर्मणा |


Band III, S. 800, Shrividya: Parijata-Baum und inneres Heiligtum
तन्मध्ये भावयेन्मन्त्री पारिजातं मनोहरम् |
स्वर्णादिरत्नभूमिं च चाटुकां काञ्चनप्रभाम् ||
उद्यदादित्यसंकाशं व्याप्तब्रह्माण्डमण्डपम् |
शतयोजनविस्तीर्णं ज्योतिर्मन्दिरमुत्तमम् ||
चतुर्द्वारसमायुक्तं हेमप्राकारमण्डितम् |
रत्नोपकॢप्तसंशोभिकपाटाष्टकसंयुतम् ||
नवरत्नसमाकॢप्ततुङ्गगोपुरतोरणम् |
हेमदण्डशिरोलम्बिध्वजावलिपरिस्फुरत् ||
मध्यकोणस्थितस्तम्भनवरत्नसमन्वितम् |
महामाणिक्यवैदूर्यरत्नचामरशोभितम् |
कल्पवृक्षे शिरः पार्श्वे छत्रं तन्मण्डपोपरि ||


Lesungshinweise: [Lesungshinweis: cāṭukāṃ und die Ortsbestimmung im letzten Vers sind im Druck unsicher; „Fläche“ und die Anordnung des Schirms sind vorläufige Übersetzungen. Die Säulenbeschreibung wird so wiedergegeben, wie sie hier steht; sie wird nicht mit der vorangehenden Pavillonbeschreibung vereinheitlicht.]

Band III, S. 801, Shrividya: innerer Thron und Sitz der Göttin
सुवर्णसूत्रै रचितं तन्मध्ये रत्नमण्डपम् |
तन्मध्ये स्फुरितं ध्यायेत्त्रिशृङ्गं ज्योतिरुत्तमम् ||
तस्य मध्ये महाचक्रं पीयूषपरिपूरितम् |
रत्नसिंहासनं तस्या वेद्या मध्ये स्मरेच्छुभम् ||
विरिञ्चिविष्णुरुद्रेशरूपपादचतुष्टयम् |
सदाशिवमयं साक्षात् तस्मिन् परशिवात्मकम् ||
पुष्पपर्यङ्कतन्मध्ये श्रीमदुद्यानपीठके |
पर्यङ्कबन्धविलसत्स्वस्तिकासनशालिनीम् ||
ध्यायेत् परशिवाङ्कस्थां पद्ममध्योज्ज्वलाकृतिम् |


Lesungshinweise: [Die gedrängte Beschreibung von Thron und Lager sowie die Drucklesung udyānapīṭhaka bleiben vorläufig; die vier Namen der Thronfüße werden nach der sichtbaren Wortfolge wiedergegeben.]

Band III, S. 801, Tripurasundari: Farbe und Antlitz
त्रिपुरां सुन्दरीं देवीं बालार्ककिरणारुणाम् |
जपाकुसुमसंकाशां दाडिमीकुसुमोपमाम् ||
पद्मरागप्रतीकाशां कुङ्कुमारुणसन्निभाम् |
स्फुरन्मुकुटमाणिक्यकिङ्किणीजालमण्डिताम् ||
कालालिकुलसंकाशकुटिलालकपल्लवाम् |
प्रत्यगारुणसंकाशवदनाम्भोजमण्डिताम् ||
किञ्चिदर्धेन्दुकुटिलललाटमृदुपट्टिकाम् |
पिनाकधनुराकारभ्रूलतां परमेश्वरीम् ||
आनन्दमुदितोल्लासलीलां दोलितलोचनाम् |
स्फुरन्मयूखसङ्घातविलसद्धेमकुण्डलाम् ||
स्वगण्डमण्डलाभोगजितेन्दुमृतमण्डलाम् |
विश्वकर्मविनिर्माणसूत्रविस्पष्टनासिकाम् ||
ताम्रविद्रुमविम्बाभरक्तोष्ठीममृतोपमाम् |
दाडिमीबीजपङ्क्त्याभदन्तपङ्क्तिविराजिताम् ||
स्मितमाधुर्यविजितमाधुर्यरससागराम् ||


Band III, S. 802, Tripurasundari: Gestalt und Schmuck
अनौपम्यगुणोपेतचिबुकोद्देशशोभिताम् |
कम्बुग्रीवां महादेवीं मृणालसदृशैर्भुजैः ||
रक्तोत्पलदलाकारसुकुमारकराम्बुजाम् |
कराम्बुजनखज्योतिर्निर्द्योतितनभस्तलाम् ||
मुक्ताहारलतोपेतसमुन्नतपयोधराम् |
त्रिवलीवलयायुक्तमध्यदेशसुशोभिताम् ||
लावण्यसरिदावर्तनिभनाभिविभूषिताम् |
अनर्घ्यरत्नघटितकाञ्चीयुतनितम्बिनीम् ||
नितम्बबिम्बद्विरदरोमराजिवराङ्कुशाम् |
कदलीललितस्तम्भसुकुमारोरुमीश्वरीम् ||
लावण्यकुसुमाकारजानुमण्डलबन्धुराम् |
लावण्यकदलीतुल्यजङ्घायुगलमण्डिताम् ||
गूढगुल्फपदद्वन्द्वप्रपदाजितकच्छपाम् |
तनु दीर्घाङ्गुलीस्वच्छनखराजिविराजिताम् ||
ब्रह्माविष्णुशिरोरत्ननिघृष्टचरणाम्बुजाम् |
शीतांशुशतसंकाशकान्तिसन्तानहासिनीम् ||


Band III, S. 802–803, Tripurasundari: Attribute und Abschluss der Meditation
लौहित्यजितसिन्दूरजपादाडिमरागिणीम् |
रक्तवस्त्रपरीधानां पाशाङ्कुशकरोद्यताम् ||
रक्तपद्मनिविष्टां तु रक्ताभरणभूषिताम् |
जगदाह्लादजननीं जगद्रञ्जनकारिणीम् ||
चतुर्भुजां त्रिनेत्रां तु पञ्चबाणधनुर्धराम् |
कर्पूरशकलोन्मिश्रताम्बूलपूरिताननाम् ||
महामृगमदोद्दामकुङ्कुमारुणविग्रहाम् |
सर्वशृङ्गारवेषाढ्यां सर्वाभरणभूषिताम् ||
जगदानन्दजननीं जगद्रञ्जनकारिणीम् |
जगदाकर्षणकरीं जगत्कारणरूपिणीम् ||
सर्वलक्ष्मीमयीं नित्यां सर्वशक्तिमयीं भजे |


Band III, S. 803, Shrividya: Dipini-Vidya und Wiederholungsregel
अथ दीपिनीविद्या तत्रैव |
वाङ्मायाकमलाबीजं वाग्भवाद्ये नियोजयेत् |
तारं लक्ष्मीं च वाग्बीजं मन्मथं भुवनेश्वरीम् ||
तज्जप्त्वा च ततः पश्चाद्वाग्भवाख्यं समुच्चरेत् |
प्रणवं भुवनेशानीं रमां कामं च वाग्भवम् ||
कामराजं ततो जप्त्वा त्रैलोक्यक्षोभकारकम् |
ॐकारं चापि वाग्बीजं रमां मन्मथमायया ||
स्वभावतीं महादेवि जपेत् तत्र समाहितः |
प्रणवं चाधरं कामं रमां च भुवनेश्वरीम् ||
मधुमतीं ततो जप्त्वा मायाश्रीकूर्चबीजकम् |
प्रणवाद्यं च देवेशि हंसबीजपुटीकृतम् ||
एतद्बीजं समुच्चार्य शक्तिकूटं ततो जपेत् |
जपनियमस्तु |
जपेदादौ जपेत् पश्चात् सप्त वाराननुक्रमात् |
कामराजादिबीजानां दीपनं चैव कारयेत् ||


Lesungshinweise: [Lesungshinweis: Die Verbindungen bei svabhāvatī, madhumatī und adhara sind nicht hinreichend eindeutig; die traditionellen Bezeichnungen werden ohne zusätzliche Entschlüsselung wiedergegeben.]

Band III, S. 803–804, Shrividya: Purashcharana nach zwei Quellen
अथ पुरश्चरणविधिः |
वामकेश्वरतन्त्रे |
तत्र स्थित्वा जपेल्लक्षं साक्षाद्देवीस्वरूपधृक् |
किंशुकैर्हवनं कुर्याद्दशांशं च वरानने ||
कुसुमैः बकुसुमैर्वापि मधुरत्रयमिश्रितैः |
सिद्धान्तसारेऽपि |
लक्षमात्रं जपेद्विद्यां हविष्याशी जितेन्द्रियः |
होमं कुर्याद्दशांशेन किंशुकैर्मधुराप्लुतैः ||
एवं सिद्धमनुर्मन्त्री प्रयोगान् कर्तुमर्हति इति |


Lesungshinweise: [Lesungshinweis: Die alternative Blütenbezeichnung in der Druckzeile kusumaiḥ bakusumair vāpi ist beschädigt und botanisch nicht zuverlässig bestimmbar.]

Band III, S. 804, Tripurabhairava: Mantra und Meditation
अथ त्रिपुरभैरवमन्त्रः |
वामकेश्वरे |
माया लक्ष्मीस्तथा हंसः प्रासादबीजमेव च |
वह्निजायान्तको मन्त्रो भवेत्त्रैपुरभैरवः ||
षडङ्गमूलमन्त्रेण बलिपूजादिकं तथा |
अथ ध्यानम् |
एकवक्त्रं त्रिनयनं चतुर्बाहुसमन्वितम् |
दक्षिणे चाङ्कुशं खड्गं वामे खेटकपाशकौ ||
धारयन्तं रक्तवर्णं वृषासनगतं विभुम् |
ऊर्ध्वकेशं हारहारं कपालमाल्याऽन्वितम् ||
एवंविधं महादेवि ध्यायेत् त्रिपुरभैरवम् |
अस्य पुरश्चरणं षोडशीपुरश्चरणसमानम् |


Lesungshinweise: [Lesungshinweis: hārahāraṃ ist eine unsichere beziehungsweise wiederholende Drucklesung; die Übersetzung „trägt Halsketten“ gibt ihren erkennbaren Sinn wieder.]

Band III, S. 804–805, Bala: Bildung der drei Keimsilben
अथ बालामन्त्रः |
त्रिपुरासारसमुच्चये |
अथ त्रिलोकार्चितकामनीयां वक्ष्यामि बीजत्रयसात्त्विकायाः |
गोप्तव्यमेतत् कुलधर्मविद्धि रसस्य हेतोर्निजसिद्धये च ||
कान्तादिभूतपदगां कगतार्धचन्द्रं दन्तान्तपूर्वजलधिस्थितवर्णयुक्तम् |
एतज्जपं नरवरो भुवि वाग्भवाख्यं वाचां सुधारसमुचां लभते स सिद्धिम् ||
कान्तान्तं कुलपूर्वपञ्चमयुतं नेत्रान्तदण्डान्वितं कामाख्यं गदितं जपान्मनुरयं साक्षाज्जगत्क्षोभकृत् |
दन्तान्तेन युतं सदण्डसकलं सम्मोहनाख्यं कुलं सिद्ध्यत्यस्य गुणाष्टकं स्वरतासिद्धिश्च नित्यं जपात् ||


Lesungshinweise: [Lesungshinweis: Die verschlüsselte Lautbildung ist im Druck an mehreren Stellen beschädigt; auch svaratāsiddhi ist unsicher. Die technische Beschreibung bleibt vorläufig und wird nicht zu scheinbar gesicherten Bīja-Formeln aufgelöst.]

Band III, S. 805, Bala: Seher, Gottheit und Nyasa
ऋषिर्दक्षिणामूर्तिसंज्ञो महात्मा भवेच्छन्द एतस्य मन्त्रस्य पङ्क्तिः |
सरस्वत्यचिन्त्यप्रभावा प्रदिष्टा बुधैर्देवता देववृन्दार्चिताङ्घ्रिः ||
अमुष्य मन्त्रस्य रदान्तयुक्तं बीजं सदण्डं नकुलीशपूर्वम् |
शक्तिस्तु सा खण्डलकर्णपूर्वसहार्धजैवातृकमान्तनान्तम् ||
मेरुतन्त्रे तु |
बालाबीजं वाग्भवं स्यात् तातीयं शक्तिरुच्यते |
कीलकं कामराजः स्याद्द्विरावृत्या षडङ्गकम् इत्युक्तम् ||


Lesungshinweise: [Lesungshinweis: Die kodierte Bestimmung der Śakti im ersten Quellenauszug ist stark undeutlich; ihre Sanskritfassung ist eine vorläufige Transkription. Die deutlichere Zuordnung des Merutantra wird davon getrennt wiedergegeben.]

Band III, S. 805–806, Bala: Belebung der Vidya und Namensvarianten
त्रिपुरासारसमुच्चये |
वर्णः शम्भो मुनिभिस्त्रिभुवनमहितस्य मन्त्रराजस्य |
आगमपारगतिभिर्निगदितोऽस्य स्वरो गदितः ||
विद्यामूलोत्पत्तिरेषा मयोक्ता ज्ञातव्येयं सर्वथा सिद्धिकामैः |
देव्या शप्ता येन विद्यमाया पूर्वं तेन प्राणहीनाऽभवत् सा ||
ज्ञातव्येत्यनेन तु जप्तव्येति सूचितम् |
देव्या शप्तेत्यनेन च निर्बीजहेतुर्दर्शितः |
शापनिर्मुक्तिप्रकारस्तु तत्रैवोक्तः |
शिवशक्तिबीजमत एव शम्भुना निहितं तयोरुपरि पूर्वबीजयोः |
अकुलं कुलोपरि च मध्यसाधरे दहनं ततः प्रभृति सोर्जिताऽभवत् ||
संज्ञाभेदमाह |
भैरवीसमुदिता कुलपूर्वा कीर्तिकर्यदि भवेत् कुलपूर्वी |
सैव शीघ्रफलदा भुवि विद्येत्युच्यते पशुजनेष्वतिगोप्या ||
अकुलं हकारस्तत्पूर्वौ चेत्तौ भैरवी |
कुलं सकारस्तत्पूर्वौ चेत्कीर्तिकरीत्यर्थः |
आद्यन्तबीजयोर्दीर्घीजाभावाद्दक्ष्यमाणत्रिपुरभैरवीविद्यावैलक्षण्यस्य बोध्यम् |


Lesungshinweise: [Lesungshinweis: Der einleitende Vers, die Ortsangabe madhyasādhare und die abschließende Erläuterung der Vokallängen sind beschädigt. Die Übersetzung erläutert nur den erkennbaren Sinn; die Sanskrittranskription bleibt an diesen Stellen vorläufig.]

Band III, S. 806, Bala: Meditation und Purashcharana
अस्या ध्यानमुक्तं मेरुतन्त्रे |
अभयं पुस्तकं बालां वरं च दधतीं करैः |
अरुणामरुणाब्जस्थां रक्तवस्त्रां त्रिलोचनाम् ||
तन्त्रान्तरे तु |
संस्मरेत् त्रिपुरां बालां शरच्चन्द्रसमप्रभाम् इति |
शुक्लगुणयुक्ता |
त्रिपुरासारसमुच्चये |
पाशाङ्कुशाभयवरोद्यतपाणिपद्माम् इत्यायुधविशेष उक्तः |
अथ पुरश्चरणं ज्ञानार्णवे |
वर्णलक्षं जपेन्मन्त्रं दशांशं हवनं चरेत् |
तर्पणादि ततः कुर्यात् सर्वसौभाग्यभाग्भवेत् इति ||
इति श्रीविद्याप्रकरणम् |


Band III, S. 806–807, Bhuvaneshvari: erste Vidya und Purashcharana
अथ भुवनेश्वरीविद्या |
शारदायाम् |
अथ वक्ष्ये जगद्धात्रीममुनां भुवनेश्वरीम् |
ब्रह्मादयोऽपि यां ज्ञात्वा लेभिरे श्रियमूर्जिताम् ||
नकुलीशोऽग्निमारूढो वामनेत्रार्धचन्द्रवान् |
बीजं तस्याः समाख्यातं सेवितं सिद्धिकाङ्क्षिभिः ||
ऋषिः शक्तिर्भवेच्छन्दो गायत्री देवता मनोः |
कथिता सुरसङ्घेन सेविता भुवनेश्वरी ||
षड्दीर्घयुक्तबीजेन कुर्यादङ्गानि षट् क्रमात् |
अथ ध्यानम् |
उद्यद्दिनद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् |
स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम् ||
अथ पुरश्चरणम् |
प्रजपेन्मन्त्रविन्मन्त्रं द्वात्रिंशल्लक्षमानतः |
त्रिस्वादुयुक्तैर्जुहुयादष्टद्रव्यैर्दशांशतः ||


Lesungshinweise: [Lesungshinweis: Das Wort unmittelbar vor bhuvaneśvarīm im Einleitungsvers ist im Druck unklar; es wird nicht eigenständig gedeutet.]

Band III, S. 807, Bhuvaneshvari: dreigliedrige Vidya mit Rama
अथ मन्त्रान्तरं तत्रैव |
वाग्भवं शम्भुवनिता रमा बीजत्रयात्मकम् |
मन्त्रं समुद्धरेन्मन्त्री त्रिवर्गफलसाधनम् ||
षड्दीर्घभाजा मध्येन वाग्भवाद्येन कल्पयेत् |
षडङ्गानि मनोरस्य जातियुक्तानि मन्त्रवित् ||
अथ ध्यानम् |
सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् |
पाणिभ्यां मणिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थसव्यचरणां ध्यायेत् परामम्बिकाम् ||
अथ पुरश्चरणम् |
रविलक्षं जपेन्मन्त्रं पायसैर्मधुराप्लुतैः |
दशांशं जुहुयान्मन्त्री पीठे प्रागीरिते यजेत् ||


Band III, S. 807–808, Bhuvaneshvari: Maya zwischen Vagbija
अथ मन्त्रान्तरं तत्रैव |
वाग्बीजपुटिता माया विद्येयं त्र्यक्षरी मता |
मध्येन दीर्घयुक्तेन वाक्पुटेन प्रकल्पयेत् ||
अङ्गानि जातियुक्तानि क्रमेण मनुवित्तमः |
अथ ध्यानम् |
श्यामाङ्गीं शशिशेखरां निजकरैर्दानं च रक्तोत्पलं रत्नाढ्यं चषकं परं भयहरं संविभ्रतीं शाश्वतीम् |
मुक्ताहारलसत्पयोधरलतां नेत्रत्रयोल्लासिनीं वन्देऽहं सुरपूजितां हरवधूं रक्तारविन्दस्थिताम् ||
अथ पुरश्चरणम् |
तत्त्वलक्षं जपेन्मन्त्रं जुहुयात् तद्दशांशतः |
पालाशपुष्पैः स्वाद्वक्तैः पुष्पैर्वा राजवृक्षकैः ||


Lesungshinweise: [Die Zahlbezeichnung tattva wird ohne stillschweigende Entscheidung zwischen unterschiedlichen Tattva-Zählungen wiedergegeben.]

Band III, S. 808, Bhuvaneshvari: weitere dreisilbige Form und Abschluss
अथ मन्त्रान्तरं तत्रैव |
अनन्तो बिन्दुसंयुक्तो मायाचन्द्राश्रितार्धवान् |
पाशादिस्त्र्यक्षरो मन्त्रः सर्ववश्यफलप्रदः ||
ऋष्यादयः पूर्वमुक्ताः स्वैर्बीजैरङ्गक्रिया मता |
अथ ध्यानम् |
वराङ्कुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् |
बालार्ककोटिप्रतिमां त्रिनेत्रां भजेऽहमाद्यां भुवनेश्वरीं ताम् ||
अथ पुरश्चरणम् |
हविष्यभुग्जपेन्मन्त्रं तत्त्वलक्षं जितेन्द्रियः |
षट्सहस्रं प्रजुहुयाज्जपान्ते मन्त्रवित्तमः ||
दधिक्षौद्रघृताक्ताभिः समिद्भिः क्षीरभूरुहाम् |
तत्सङ्ख्यया तिलैः शुद्धैः पयोक्तैर्जुहुयात् ततः ||
अस्याः पुमान्महादेवः |
तन्मन्त्रः पञ्चाक्षरस्तत्प्रकरण एवोक्तः |
इति भुवनेश्वरीविद्याप्रकरणम् |


Lesungshinweise: [Lesungshinweis: Die verschlüsselte Bildung im ersten Vers ist nicht sicher aufzulösen; besonders die Verbindung māyācandrāśritārdhavān bleibt vorläufig.]

Band III, S. 808, Bhairavi: Beginn der Tripurabhairavi-Vidya
अथ भैरवीविद्या |
तत्रादौ त्रिपुरभैरवीविद्या प्रोक्ता शारदायाम् |
अथ वक्ष्ये परां विद्यां त्रिपुरामतिगोपिताम् |
यां ज्ञात्वा सिद्धसङ्घानामधिपो जायते नरः ||
वियद्भृगुहुताशस्थो भौतिको बिन्दुशेखरः |
वियत् तदादिकेन्द्रायास्थितं वामाक्षिबिन्दुमत् ||
आकाशभृगुवह्निस्थो मनुः सर्गेन्दुखण्डवान् |
वाग्भवं प्रथमं बीजं कामबीजं द्वितीयकम् ||


Lesungshinweise: [Lesungshinweis: Besonders die zweite verschlüsselte Lautverbindung ist im Druck undeutlich. Die Transkription ist vorläufig; eine vollständige Rezitationsformel wird nicht ergänzt. Die Erklärung setzt auf S.809 fort.]

Band III, S. 809, Tripurabhairavi: Zuordnungen und Nyasa
तृतीयं शक्तिबीजाख्यं त्रिभिर्बीजैरितीरिता |
पञ्चकूटात्मिका विद्या वेद्या त्रैपुरभैरवी ||
ऋषिः स्याद्दक्षिणामूर्तिश्छन्दः पङ्क्तिः समीरितम् |
देवता देशिकैरुक्ता देवी त्रिपुरभैरवी ||
तथा |
षड्दीर्घयुतेनाद्येन बीजेनाङ्गक्रिया मता |
न्यासान्तराणि विस्तरभयादुपेक्षितानि पुरश्चरणस्यैवात्र निरूपणीयत्वात् |


Lesungshinweise: [Die Quelle nennt sowohl drei Keimsilben als auch fünf Kūṭas; diese Angaben werden unverändert nebeneinander bewahrt.]

Band III, S. 809, Tripurabhairavi: Meditation und Purashcharana
अथ ध्यानम् |
उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् |
हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं देवीं बद्धहिमांशुरत्नमुकुटां वन्देऽरविन्दस्थिताम् ||
अथ पुरश्चरणम् |
दीक्षां प्राप्य जपेन्मन्त्रं तत्त्वलक्षं जितेन्द्रियः |
पुष्पैर्भानुसहस्राणि जुहुयाद्ब्रह्मवृक्षजैः ||
त्रिमध्वक्तैः प्रसूनैर्वा करवीरसमुद्भवैः |
तत्त्वलक्षं लक्षत्रयम् |


Band III, S. 809–810, Chaitanyabhairavi
अथ चैतन्यभैरवीमन्त्रो मेरुतन्त्रे |
चैतन्यभैरवीमन्त्रस्त्र्यक्षरः कथ्यतेऽधुना |
सहावैकारसंयुक्तौ प्रथमं बीजमीरितम् ||
सकला ह्रीँ समायुक्ता द्वितीयं बीजमुच्यते |
सहारा औसमायुक्ता विसर्गान्तास्तृतीयकम् ||
अत्र त्रिभिर्बीजैर्द्विरावृत्या षडङ्गन्यासः कार्यः |
अथ ध्यानम् |
उद्यद्भानुसहस्राभां नानालङ्कारभूषिताम् |
मुकुटोल्लसच्चन्द्ररेखां रक्ताम्बराश्रिताम् ||
पाशाङ्कुशधरां नित्यां वामहस्तकपालिनीम् |
वरदाभयशोभाढ्यां पीनोन्नतघनस्तनीम् ||
एवं ध्यात्वा यजेद्देवीं पूर्वसिंहासने स्थिताम् |
पुरश्चर्यादिकं प्राग्वत् प्रयोगांश्चापि साधयेत् ||
प्राग्वदिति त्रिपुरभैरवीवत् |


Lesungshinweise: [Lesungshinweis: Die Schreibungen der verschlüsselten ersten und zweiten Keimsilbe sind vorläufig; der Druck zeigt beim zweiten Bīja einen undeutlichen Nasal.]

Band III, S. 810, Bhuvaneshvarabhairavi
अथ भुवनेश्वरभैरवीमन्त्रस्तत्रैव |
अथातः संप्रवक्ष्यामि भुवनेश्वरभैरवीम् |
हसावैकारसंयुक्तौ प्रथमं बीजमीरितम् ||
हसकला ह्रीँ समेता द्वितीयं बीजमुच्यते |
हसावौकारसंयुक्तौ विसर्गान्तं तृतीयकम् ||
षड्दीर्घान्वितमध्येन बीजेनोक्तं षडङ्गकम् |
अथ ध्यानम् |
जपाकुसुमसंकाशां दाडिमीकुसुमप्रभाम् |
चन्द्ररेखाजटाजूटां त्रिनेत्रां रक्तवाससम् ||
नानालङ्कारसुभगां पीनोन्नतघनस्तनीम् |
पाशाङ्कुशवराभीतिदधानां च शिवां श्रये ||
चैतन्यभैरवीवत् स्याद्यन्त्रोक्तमिहार्चयेत् |
अस्याः पुरश्चरणं तु त्रिपुरभैरवीपुरश्चरणवद्बोध्यम् |


Lesungshinweise: [Die Sanskritschreibung der zweiten Keimsilbe ist wegen des undeutlichen Nasals vorläufig.]

Band III, S. 810–811, Kamaleshvarabhairavi und die Wege der Verehrung
अथ कमलेश्वरभैरवी तत्रैव |
अथातः संप्रवक्ष्यामि भैरवीं कमलेश्वरीम् |
हसस्थाने सहैत्युक्त्वा सर्वं मन्त्रादि पूर्ववत् ||
संज्ञां ज्ञात्वा ततः शप्ता तुहिनांशोर्भवद्रुही |
त्यक्तस्तया वाममार्गो राजभीत्या तु मत्कृते ||
यतो लक्ष्यं तया दत्त्वं कलौ ख्यातिं गमिष्यति |
प्रनष्टेषु च वेदेषु प्रत्यधैर्यं भविष्यति ||
अवर्णाश्चापि वर्णाश्च भविष्यन्ति वरप्रदाः |
त्यक्त्वा मपञ्चकं पूजां कृत्वा ये जपतत्पराः ||
अस्यास्तीरे पुरश्चर्या नर्मदातु संप्रसीदति |
भुवनेशी भैरवी तु कृत्वा रूपान्तरं मम ||
कार्यार्थं बहवः शिष्याः कौलिका वामिनः कृताः |
तस्या ध्यानार्चनादि प्राग्वद्दक्षिणमार्गतः ||


Lesungshinweise: [Lesungshinweis: Die Verse von saṃjñāṃ jñātvā bis pratyadhairyaṃ sind im Druck so unsicher, dass hier keine vollständige gesicherte Übersetzung möglich ist. Der erkennbare Inhalt ist knapp ausgewiesen; der Sanskrittext bleibt ausdrücklich vorläufig. Auch die Narmadā-Zeile ist syntaktisch beschädigt.] Es folgt eine stark beschädigte Passage über eine Benennung, einen Fluch, den Mond und die Abkehr vom linken Weg aus Furcht vor dem König. Auch die Narmadā-Zeile ist syntaktisch beschädigt.]

Band III, S. 811, Sampatpradabhairavi: Mantrabildung
अथ संपत्प्रदाभैरवी ज्ञानार्णवे |
यथाऽसौ त्रिपुरा बाला तथा त्रिपुरभैरवी |
संपत्प्रदा नाम तस्याः शृणु निर्मलमानसे ||
शिवश्चन्द्रो वह्निसंस्थो वाग्भवं तदनन्तरम् |
कामबीजं तथा देवि शिवचन्द्रान्वितं ततः ||
पृथ्वीबीजं तु वह्न्याढ्यं तातीयं शृणु वल्लभे |
शक्तिबीजं महेशानि शिववह्नी नियोजयेत् ||
कुमार्याः परमेशानि हित्वा सर्गं तु वैन्दवम् |
त्रिपुराभैरवी देवी महासंपत्प्रदा प्रिये ||
त्रिपुरभैरवी विसर्गरहिता संपत्प्रदा भवति |
न्यासपूजादिकं सर्वं त्रिपुराभैरवीसमम् |


Lesungshinweise: [Lesungshinweis: Die verschlüsselte Lautbildung, besonders die Verbindung sargaṃ tu vaindavam, ist nicht vollständig gesichert; maßgeblich als ausdrücklich lesbare Erklärung bleibt hier die anschließende Prosa über das Weglassen des Visarga.]

Band III, S. 811–812, Sampatpradabhairavi: Meditation
ध्यानं यथा |
आताम्रार्कसहस्राभां स्फुरच्चन्द्रकलाजटाम् |
किरीटरत्नविलसच्चित्रचित्रितमौक्तिकाम् ||
गलद्रुधिरपङ्काढ्यमुण्डमालाविराजिताम् |
नयनत्रयशोभाढ्यां पूर्णेन्दुवदनान्विताम् ||
मुक्ताहारलताराजत्पीनोन्नतघनस्तनीम् |
रक्ताम्बरपरीधानां यौवनोन्मत्तहरिणीम् ||
पुस्तकं चाभयं वामे दक्षिणे चाक्षमालिकाम् |
वरदानरतां नित्यां महासंपत्प्रदां स्मरेत् ||
अस्याः पुरश्चरणमपि पूर्ववद्बोध्यम् |


Lesungshinweise: [Lesungshinweis: Das bildhafte Kompositum yauvanonmattahariṇī wird als Gazellenvergleich übersetzt; die genaue Drucklesung bleibt vorläufig.]

Band III, S. 812, Kauleshabhairavi
अथ कौलेशभैरवी तत्रैव |
संपत्प्रदाभैरवीवाहिद्धि कौलेशभैरवीम् |
हसरावैव देवेशि त्रिषु बीजेषु पार्वति ||
इयं तु सहरावा स्याद्ध्यानपूजादिकं तथा |
त्रिपुरभैरवीवदिति शेषः |
आदिपदात् पुरश्चरणस्यापि संग्रहः |


Lesungshinweise: [Lesungshinweis: Der erste Halbvers und die Zuordnung der beiden Konsonantenfolgen sind im Druck undeutlich; deshalb werden sie nicht zu einer vollständigen Mantraformel zusammengesetzt.]

Band III, S. 812, Kameshvarabhairavi
अथ कामेश्वरभैरवी तत्रैव |
कामेश्वरी च रुद्रार्णा पूर्वसिंहासने स्थिता |
एतस्या एव विद्याया बीजद्वयमुदाहृतम् ||
तदन्ते परमेशानि नित्यक्लिन्ने मदद्रवे |
एतस्या एव तातीयं रुद्रार्णा परमेश्वरि ||
ध्यानपूजादिकं देवि चैतन्यावत् समीरितम् |
एवं पुरश्चरणमपि |


Lesungshinweise: [Die Anrufung nityaklinne madadrave bedeutet sinngemäß: „O immer Feuchte, o in Verzückung Fließende“. Die vollständige Lautform wird angesichts der vorangehenden Lesungsfragen nicht ergänzt.] Die vollständige Lautform wird angesichts der vorangehenden Lesungsfragen nicht ergänzt.]

Band III, S. 812, Shatkuta-Bhairavi
अथ षट्कूटाभैरवी ज्ञानार्णवे |
डाकिनीराकिनीबीजं लाकिनीकाकिनीयुगम् |
शाकिनीहाकिनीबीजं आहृत्य सुरसुन्दरि ||
आद्यमैकारसंयुक्तमन्यदीकारमण्डितम् |
शक्रस्वरान्वितं देवि तातीयं बीजमालिखेत् ||
बिन्दुनादकलाक्रान्तं तृतीयं शैलसम्भवे |
द्विरावृत्या षडङ्गानि विधाय परमेश्वरि ||
पुरश्चरणं तु पूर्ववत् |
अथ नित्याभैरवी तत्रैव |
एतस्या एव विद्यायाः षडर्णाः क्रमशः स्थिताः |


Lesungshinweise: [Die Darstellung setzt auf S.813 fort. Die technischen Vokalnamen bleiben unaufgelöst.]

Band III, S. 813, Nityabhairavi: Abschluss
विपरीतान् वद प्रौढे विद्येयं भोगमोक्षदा ||
न्यासपूजादिकं सर्वमस्याः पूर्ववदाचरेत् |


Lesungshinweise: [Dies setzt die auf S.812 begonnene Bestimmung der sechs Laute fort.]

Band III, S. 813, Rudrabhairavi: Mantrabildung und Zuordnungen
अथ रुद्रभैरवी तत्रैव |
शिवचन्द्रो मादनान्तं पान्तं वह्निसमन्वितम् |
शक्तिमित्रं बिन्दुनादकलाढ्यं वाग्भवं प्रिये ||
संपत्प्रदाया भैरव्याः कामबीजं तदेव हि |
सदाशिवस्य बीजं तु महासिंहासनस्य च ||
सदाशिवबीजं प्रेतबीजम् |
एषा विद्या महेशानि वर्णितुं नैव शक्यते |
ऋष्यादिन्यासस्त्रिपुरभैरवीवत् |


Lesungshinweise: [Lesungshinweis: Die verschlüsselten Verbindungen mādanāntaṃ und śaktimitraṃ sind im Druck nicht sicher zu bestimmen; sie werden nicht zu einer Rezitationsformel ergänzt.]

Band III, S. 813, Rudrabhairavi: Meditation und Abschluss
अथ ध्यानम् |
उद्यद्भानुसहस्राभां चन्द्रचूडां त्रिलोचनाम् |
नानालङ्कारसुभगां सर्ववैरिनिकृन्तनीम् ||
वमद्रुधिरमुण्डालीकलितां रक्तवाससम् |
त्रिशूलं डमरुं खड्गं तथा खेटकमेव च ||
पिनाकं च शरान् देवीं पाशाङ्कुशयुगं क्रमात् |
पुस्तकं चाक्षमालां च शिवसिंहासनस्थिताम् ||
तन्त्रान्तरे |
न्यासपूजादिकं सर्वं त्रिपुराभैरवीसमम् |
एवं पुरश्चरणमपि |
अत्र भैरवो बटुकस्तन्मन्त्रपुरश्चरणं शिवप्रकरणे प्रोक्तम् ||
इति भैरवीप्रकरणम् |


Band III, S. 813–814, Chinnamasta: Beginn und Lobpreis
अथ छिन्नमस्ताविद्या |
विश्वसारे यामले च |
प्रचण्डचण्डिकां वक्ष्ये सर्वकामफलप्रदाम् |
यस्याः प्रसादमात्रेण शिव एव भवेन्नरः ||
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् |
कवित्वं च सुपाण्डित्यं लभते नात्र संशयः ||


Band III, S. 814, Chinnamasta: Varianten der Mantraeröffnung
मन्त्रोद्धारमाह |
लक्ष्मीं लज्जां ततो मायां मात्राद्वादशिकामथ |
वज्रवैरोचनीये च माये फट्स्वाहया युते ||
लक्ष्मीबीजं यदाऽद्यं स्यात् तदा श्रीः सर्वतोमुखी |
लज्जाबीजेन चाद्येन वश्यतां यान्ति योषितः ||
मायाबीजेन चाद्येन महापातकनाशनम् |
मात्राद्वादशिकाबीजमाद्यं स्यान्मुक्तिदायकम् ||
अत्र लज्जापदं कामबीजपरम् |
तथा चोक्तम् |
अत्र लज्जापदं देवि कामबीजपरं भवेत् |
महाकालमतं प्रोक्तं मन्त्रोद्धारं शुभावहम् इति ||
मन्त्रोद्धारश्लोकस्थलज्जापदस्य तु मायाबीजपरत्वेऽपि न क्षतिः |
श्रीबीजानन्तरं क्वचित् कामबीजस्य क्वचित् शिवशक्त्याद्यस्य च दर्शनात् |
मायापदस्य क्वचित् कूर्चपरत्वमपि दृश्यते |
सबिन्दुवामश्रुतियुगियं माया प्रकीर्तिता इति |
मात्राद्वादशिका वाग्भवम् |


Lesungshinweise: [Lesungshinweis: Die Sanskritwörter in der Erklärung ab śivaśaktyādyasya und die anschließende Definition von Māyā sind im Druck undeutlich; ihre Transkription bleibt vorläufig. Die unterschiedlichen Deutungen werden als Varianten der Quelle bewahrt.]

Band III, S. 814, Chinnamasta: siebzehnsilbige Form aus dem Merutantra
विश्वसारे |
ताराद्या षोडशी चान्या भवेत् सप्तदशाक्षरी |
एषा विद्या महाविद्या भुक्तिमुक्तिकरी सदा ||
तदुक्तं मेरुतन्त्रे |
प्रणवं च रमां लज्जां बीजद्वन्द्वं च वाग्भवम् |
वज्रवैरोचनीये हौँ हौँ फट्स्वाहा धनाक्षरः ||
भैरवोऽस्य मुनिः प्रोक्तः सम्राट्छन्द उदाहृतम् |
छिन्नमस्ता भवेद्देवी वाममार्गेण सिद्धिदा ||


Lesungshinweise: [Lesungshinweis: Die beiden im Druck als hauṃ erscheinenden Silben und die Schlussangabe dhanākṣaraḥ sind nicht gesichert. Dieser Textblock dokumentiert eine Quellenvariante und ist keine bestätigte vollständige Rezitationsformel.]

Band III, S. 815, Chinnamasta: Rishi und Anwendung
यामलादौ |
अस्या ऋषिर्भैरवोऽहं नाम्ना तु क्रोधभूपतिः |
सम्राट्छन्दो देवता च छिन्नमस्ता प्रकीर्तिता ||
मायाबीजं स्वाहा शक्तिः कथिता ब्रह्मयोनिना |
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ||


Band III, S. 815, Chinnamasta: Glieder-Nyasa nach Meru
मेरौ |
आं खड्गाय हृदाख्यातमीं सुखड्गाय मस्तकम् |
ऊं वज्राय शिखा प्रोक्ता ऐं पाशाय तनुच्छदम् ||
औमङ्कुशाय नेत्रं स्यादस्त्राय सुरक्षयाय च |
हूं हूं नवार्णोऽस्त्रमन्त्रः सर्वे स्युः प्रणवादिकाः ||
स्वाहान्ताः सर्व एवैते ततो ध्यानं समाचरेत् |


Lesungshinweise: [Lesungshinweis: Die Vokallängen und die genaue Verbindung des Waffenmantras sind im Druck undeutlich. Die hier getrennt wiedergegebenen Formelteile sind keine überprüfte vollständige Nyāsa-Rezitation.]

Dokumentierte Inhaltsauslassung: Band III, S.815, kurzes Chinnamastā-Dhyāna. Sexualisierte Darstellung einer minderjährig oder nicht eindeutig erwachsen bezeichneten Gestalt; hier nicht wiedergegeben. Dieser Hinweis ersetzt keine Übersetzung.

Band III, S. 815–816, Chinnamasta: weitere Form aus der Mahakalasamhita
अथ मन्त्रान्तरम् |
महाकालसंहितायाम् |
अथातश्छिन्नमस्ताया मन्त्रं ते व्याहराम्यहम् |
जिघृक्षयाऽपि यस्य स्युः साधकस्याष्ट सिद्धयः ||
नातः परतरा का विद्या देवी भविष्यति |
तस्मादसत्कर्मयुजैनं ग्राह्यं कथं चन ||
सिद्धिर्वा मृत्युरपि वा ह्ययोरेकतरं भवेत् |
प्रणवं च रमाबीजं लज्जां वाग्भवमेव च ||
वज्रवैरोचनीये च इत्येव तत उच्चरेत् |
कूर्चद्वयं ततश्चास्त्रं स्वाहान्तः षोडशाक्षरः ||
अस्य न्यासादिकं पूर्ववत् कार्यम् |


Lesungshinweise: [Lesungshinweis: Die Negation im Vers über den Empfang durch einen Menschen mit unrechtem Handeln ist im Druck schwer zu trennen; die Übersetzung versteht die Stelle als Ausschluss. Die Alternative „Vollendung oder Tod“ ist eine drastische Behauptung der zitierten Überlieferung.]

Dokumentierte Inhaltsauslassung: Band III, S.816–817, ausführliches Chinnamastā-Dhyāna. Sexualisierte Darstellung einer minderjährig oder nicht eindeutig erwachsen bezeichneten Gestalt; hier nicht wiedergegeben. Dieser Hinweis ersetzt keine Übersetzung.

Band III, S. 817, Chinnamasta: weitere Mantras nach Yamala
अथ मन्त्रान्तरं यामले |
भुवनेशीं कामबीजं कूर्चबीजं च वाग्भवम् |
भुवनेशीं कूर्चबीजं वाग्भवं तदनन्तरम् ||
वज्रवैरोचनीये च हुं फट् स्वाहा ततः परम् |
मन्त्रान्तरम् |
हृल्लेखावाग्भवं कूर्चं वाग्भवं कूर्चमेव च |
अस्त्रान्ता छिन्नमस्ता या महाविद्या प्रकीर्तिता ||
यस्याश्च सदृशी विद्या जगत्स्वपि न विद्यते |
षडर्णोऽयं मनुः साक्षान्मोक्षदो नात्र संशयः ||
एतदुभयस्य ऋष्यादिकरषडङ्गन्यासः पूर्ववत् कार्यः |


Dokumentierte Inhaltsauslassung: Band III, S.818, Chinnamastā-Dhyāna-Variante. Sexualisierte Darstellung einer minderjährig oder nicht eindeutig erwachsen bezeichneten Gestalt; hier nicht wiedergegeben. Dieser Hinweis ersetzt keine Übersetzung.

Band III, S. 818, Chinnamasta: kürzere Mantraformen
अथ मन्त्रान्तरं तत्रैव |
वज्रवैरोचनीये च कूर्चयुग्मं सफट् ठठः |
ताराद्येषा महाविद्या सर्वतेजोऽपहारिणी ||
न्यासध्यानादिकं सर्वं षोडशीवत् समाचरेत् |
मन्त्रान्तरम् |
वियच्छ्रोत्रपुटं बिन्दुनादयुक्तं ततः प्रिये |
एकाक्षरी महाविद्या त्रैलोक्यवशकारिणी ||
द्विरावृत्तैषा महाविद्या त्रैलोक्यमोहकारिणी |
ताराद्या च भवत्येषा चतुर्वर्गफलप्रदा ||
न्यासध्यानादिकं सर्वं पूर्ववत् परिकीर्तितम् |


Lesungshinweise: [Die verschlüsselten Lautnamen werden nicht stillschweigend aufgelöst.]

Band III, S. 819, Chinnamasta: Purashcharana nach Vishvasara und Rudrayamala
अथ पुरश्चरणं विश्वसारे |
लक्षमेकं जपं कुर्यात् पुरश्चरणकर्मणि |
महाविद्याविषये च जपं लक्षप्रमाणकम् ||
सर्वत्र सर्वतन्त्रेषु कथितं पद्मयोनिना |
रुद्रयामलेऽपि |
पुरश्चर्यां जपेल्लक्षं दशांशं जुहुयात् ततः |
घृताक्तैर्बिल्वकाष्ठैश्च होमकर्म समाचरेत् ||
उदुम्बरसमिद्भिर्वा पालाशैर्वा समाचरेत् |
अपामार्गसमिद्भिर्वा होतव्यं मन्त्रसिद्धये ||


Lesungshinweise: [Die Fußnote nennt für die letzte Materialangabe eine abweichende, teilweise undeutliche Lesart mit Apāmārga und Śamī.]

Band III, S. 819, Chinnamasta: unterschiedliche Wiederholungszahlen
यामलान्तरेऽपि |
देवीं ध्यात्वा जपेन्मन्त्रं लक्षसङ्ख्यं हविष्यभुक् |
जुहुयात् तद्दशांशेन बिल्वकाष्ठैर्घृताप्लुतैः ||
वाराहीतन्त्रे तु |
शून्यागारे श्मशाने च वृक्षमूले शिवालये |
त्रिलक्षं प्रजपेन्मन्त्रं ततः सिद्धिर्भवेद्ध्रुवम् इत्युक्तम् ||
गान्धर्वतन्त्रेऽपि |
दिवसे ब्रह्मचर्येण रात्रौ तु स्त्रीसहायवान् |
मपञ्चकं पुरस्कृत्य महाशङ्खाक्षमालया ||
जपेल्लक्षत्रयं देवि युगानुरूपतः कलौ |
शतसाहस्रकं चान्यज्जपेच्छुद्धापरो नरः ||
समाप्ते च त्रिलक्षे तु होमकर्म समाचरेत् |
कलौ पापसमाकीर्णे सत्यधर्मविवर्जिते ||
चतुर्गुणा क्रिया जप्या तेन सिद्धिर्न संशयः |
दिवसे दक्षिणाचारेण रात्रौ वामाचारेण च पुरश्चरणविधिः कौलिकविषयः |


Lesungshinweise: [Die Quelle nennt nebeneinander mehrere Zahlen und eine Vervierfachung; diese werden nicht zu einer einzigen vermeintlich eindeutigen Gesamtzahl vereinheitlicht. Die Lesung śuddhāparo ist vorläufig.] Die Lesung śuddhāparo ist vorläufig.]

Band III, S. 820, Chinnamasta: Merutantra und redaktionelle Zuordnung
मेरुतन्त्रे |
एवं पूजां प्रकुर्वीत जपेल्लक्षचतुष्टयम् |
पालाशैर्बैल्वजैर्वापि जुहुयात् कुसुमैः फलैः ||
तर्पणादि ततः कुर्याच्च सिद्धो भवेन्मनुः |
अत्र विश्वसारोक्तषोडशाक्षरमन्त्रस्य पुरश्चरणमेकलक्षजपस्तन्त्रालोकोक्तषोडशाक्षरमन्त्रान्तराणां लक्षत्रयजपः |
मेरुतन्त्रोक्तसप्तदशाक्षरमन्त्रस्य लक्षचतुष्टयपरिमितो जप इति वदन्ति |


Band III, S. 820, Krodhabhairava: Voraussetzung und Mantrabildung
भूतभैरवे |
आदौ जप्त्वा भैरवस्य क्रोधाख्यस्य मनुं जपेत् ||
अस्थिमालां समादाय वज्रवैरोचनीमनुम् |
क्रोधभैरवमन्त्रस्तत्रैवोक्तः |
अथ क्रोधमनुं वक्ष्ये असाध्यं येन सिध्यति |
बीजं हालाहलं गृह्य क्रोधबीजमतः परम् ||
भयङ्करार्णमाभाष्यासिताङ्ग क्षतजां ततः |
प्रत्यालिढमहाज्वालामाभाष्य मनुमुद्धरेत् ||
एवमुच्चारितः क्रोधः स्वयमेव प्रसिद्ध्यति |


Lesungshinweise: [Lesungshinweis: Die Lautangaben bhayaṅkarārṇa und kṣatajā sowie ihre syntaktische Verbindung sind im Druck undeutlich; es wird keine vollständige Formel ergänzt.]

Band III, S. 820, Krodhabhairava: Sechsglieder-Nyasa
ततस्तु क्रोधमन्त्रेण षडङ्गन्यासमाचरेत् ||
विषं वज्रयुतं बोधि महाकालं न्यसेद्धृदि |
विषं हुंयुगं वज्रकूर्चीचं विन्यसेच्छिरः ||
हालाहलं दंहुंयुतं वज्रकालं न्यसेच्छिखायाम् |
विषमस्त्रयुतं वज्रमायुधं कवचं न्यसेत् ||
ताराबीजयुतं वज्रं महाकालाय नेत्रयोः |
विषं हुंयुतं गृह्य दहयुग्मं परान्वितम् ||
क्रोधं वज्रयुतं दहत् सर्वदुष्टानथापरम् |
ततो मारय वज्रास्त्रं दिग्बन्धान्तं षडङ्गकम् ||


Lesungshinweise: [Lesungshinweis: Mehrere Formelglieder sind im Druck beschädigt, besonders vajrakūrcīcaṃ und daṃhuṃyutam. Diese Transkription und ihre Zuordnung sind vorläufig. Die erkennbaren Befehlswörter bedeuten unter anderem „verbrenne“ und „vernichte“ und gehören zum zitierten rituellen Formeltext.]

Band III, S. 821, Krodhabhairava: Meditation, Mudra und Abschluss
ध्यानमाह |
तत्र मध्ये न्यसेद्भीमं तत्तज्ज्वालासमाकुलम् |
साट्टहासं महारौद्रं भिन्नाञ्जनचयोपमम् ||
प्रत्यालीढं चतुर्बाहुं दक्षिणे चक्रधारिणम् |
तर्जनीं वामहस्तेन तीक्ष्णदंष्ट्राकरालिनम् ||
कपालरत्नमुकुटं त्रैलोक्यस्य विनायकम् |
आदित्यकोटिसंकाशामष्टनागविभूषितम् ||
अपराजितपदाक्रान्तमुद्रावान् बलविभिः |
अनामिकाद्वयं बद्ध्वा आकुञ्च्य तर्जनीद्वयम् ||
कनिष्ठां मध्यमां चैव ज्येष्ठाङ्गुष्ठेन च क्रमात् |
एवं मुद्राधरो भीमस्त्रैलोक्यासाध्यसाधकः ||
अस्य मन्त्रस्य पुरश्चरणं तु प्रचण्डचण्डिकापुरश्चरणवत् |
जपहोमविधानं च शिवशक्त्योः समं विदुः इति वचनात् |
इति छिन्नमस्ताप्रकरणम् |


Lesungshinweise: [Lesungshinweis: Der Vers ab aparājitapadākrānta ist beschädigt, ebenso die anschließende genaue Fingeranordnung. Die Beschreibung ist keine gesicherte praktische Mudrā-Anweisung. Eine Fußnote bietet statt „Rad tragend“ die Lesart „Vajra tragend“.] Eine Fußnote bietet statt „Rad tragend“ die Lesart „Vajra tragend“.]

Band III, S. 821, Chinnamasta: zusätzlicher Versbestand der Fußnote
रमा कामस्तथा लज्जा वाग्भवं वज्रवैपदम् |
रोचनीयै लज्जाद्वन्द्वं मन्त्रः स्वाहासमन्वितः ||
इयं सा षोडशी प्रोक्ता सर्वकामफलप्रदा |
कथिताः सकला विद्याः सारात् सारतराः शुभाः ||


Lesungshinweise: [Dies ist zusätzlicher Versbestand der Fußnote, kein stillschweigend in den Haupttext eingefügter Vers. Die getrennte Wortbildung der Anrufung folgt dem Druck.] Die Herausgeberfußnote verzeichnet zwei zusätzliche Verse in einem anderen Textzeugen: Ramā, Kāma, Lajjā und Vāgbhava; dann die Wortfolge „vajravai-“ und „rocanīyai“, zweimal Lajjā sowie Svāhā bilden den Mantra.

Band III, S. 821–822, Dhumavati: Mantra und Nyasa
अथ धूमावतीविद्या |
महाथर्वणसंहितायाम् |
दान्तौ सवामकर्णेन्दुर्धूमावत्यग्निगेहिनी |
अष्टाक्षरी महाविद्या भजतां सर्वसिद्धिदा ||
मेरुतन्त्रे |
पिप्पलादो मुनिश्छन्दो निवृज्ज्येष्ठाऽस्य देवता |
षड्दीर्घबिन्दुयुक्तेन धकारेण षडङ्गकम् ||
आद्यबीजद्वयान्तरस्थैः षडर्णैर्न्यासमाचरेत् |
अङ्गुष्ठादौ षडङ्गेषु पुनर्मन्त्री विनिन्यसेत् ||


Lesungshinweise: [Die verschlüsselte Eingangsbildung und die Trennung nivṛt/jyeṣṭhā sind nach dem Druck wiedergegeben; die vollständige Formel wird nicht ergänzt.]

Band III, S. 822, Dhumavati: Meditation
ध्यानं यथा |
विवर्णा चञ्चला कृष्णा दीर्घा च मलिनाम्बरा |
विमुक्तकुन्तला दीर्घा विधवा विरलद्विजा ||
काकध्वजरथारूढा विलम्बितपयोधरा |
शूर्पहस्ताऽतिरूक्षाक्षी धृतहस्ता वरान्विता ||
प्रवृद्धरोमा तु भृशं जटिला कुटिलेक्षणा |
क्षुत्पिपासार्दिता नित्यं सदा कलहतत्परा ||
एवंविधां सदा ध्यायेत् ततः कर्म समाचरेत् |


Lesungshinweise: [Die Formulierung dhṛtahastā ist im Druck nicht eindeutig; die Handgeste wird nach der anschließenden Angabe vara wiedergegeben.]

Band III, S. 822, Dhumavati: Purashcharana
अथ पुरश्चरणम् |
जपेत् कृष्णचतुर्दश्यां शून्यागारे दिवा निशि |
उपोष्य स्वस्य देशे वैकाहात् सिद्धिमाप्नुयात् ||
यद्वा श्मशाने विपिने जपेल्लक्षं तु वाग्यतः |
सोष्णीष आर्द्रवासाश्च तेन मन्त्रः प्रसिद्ध्यति ||
होमश्चात्र घृतेनैव तर्पणादि ततश्चरेत् |
अथ वा प्रजपेल्लक्षं श्मशाने विगताम्बरः ||
निशाभोजी दशांशेन तिलैर्हवनमाचरेत् |


Lesungshinweise: [Lesungshinweis: Die Ortsangabe svasyadeśe in der ersten Vorschrift ist vorläufig; die Tagesangabe wird als Behauptung der Quelle übersetzt.]

Band III, S. 822–823, Dhumavati: weitere Formeln und Zuordnungen
अथ मन्त्रान्तरं तन्त्रान्तरे |
धूं बीजत्रितयं प्रोच्य धूरयुग्मं समुच्चरेत् |
धूमावतीपदं प्रोच्य क्रोंस्वाहा फट्समन्विता ||
मन्त्रः प्राथमिको प्रोक्तो द्वितीयं शृणु सादरम् |
प्रणवं धूम्रबीजं च धूमावतीपदं वदेत् ||
देवदत्तो धावतीति स्वाहान्तो मनुराडयम् |
ऋषिः क्षपणकः ख्यातो गायत्री छन्द ईरितम् ||
धूमावती देवता च धूं बीजं बीजमीरितम् |
स्वाहा शक्तिः समुच्चाटे विनियोगः प्रकीर्तितः ||
धूंबीजषट्कैस्तु षडङ्गानि ध्यानं शृणु वरानने |


Lesungshinweise: [Lesungshinweis: dhūrayugmaṃ und die genaue Endfolge der ersten Formel sind vorläufig. „Devadatta läuft davon“ verwendet den traditionellen Beispielnamen für eine einzusetzende Person.]

Band III, S. 823, Dhumavati: zweites Meditationsbild
काकारूढाऽतिकृष्णाभा भिन्नदन्ता विरागिणी |
मुक्तकेशी सुधूम्राक्षी क्षुत्तृषार्ता भयातुरा |
चञ्चला चातिकामार्ता हृष्टा पुष्टा पिशाचिका ||
मलिना श्रमणी रक्ता व्यक्तगन्धा विरोधिनी |
धृतशूर्पाग्रहस्ता च ध्येया धूमावती परा ||
पुरश्चरणमाह |
लक्षं जपेन्महेशानि जगदुच्चाटनं चरेत् |


Lesungshinweise: [Der Quellentext stellt widersprüchlich wirkende Attribute wie „leidenschaftslos“ und „von Verlangen gequält“ nebeneinander; diese werden nicht geglättet. Mehrere Adjektive der mittleren Zeile sind im Druck undeutlich.]

Band III, S. 823, Aghora: Anwendungen und eingeschobene Erläuterung
अथाघोरमन्त्रः |
शारदायाम् |
अथाभिधास्ये विधिवदघोराख्यमनूत्तमम् |
यस्य संस्मरणादेव सर्वे नश्यन्त्युपद्रवाः ||
हुमन्तः स्तम्भने मन्त्रः क्रोमाकृष्टौ समासने |
वषडन्तः संवरणे नमोऽन्तो विसर्पणे ||
ग्रहचौररिपुध्वंसे हुं क्रोमन्तो विधीयते |
शान्तान्तश्चाखिलेष्वस्य क्षोमन्तो मारणे भवेत् ||
फडन्तो भूतसंहारे मन्त्रोऽयं कल्पपादपः |
ईश्वरकल्पे तु प्रस्फुरद्वयं बन्धद्वयं च |
अयं मन्त्र एकचत्वारिंशदक्षर उक्तः पदार्थादर्शटीकायाम् |


Lesungshinweise: [Die Herausgeberfußnote erklärt ausdrücklich, dass der zwischen Anführungszeichen stehende Einschub in keinem weiteren benutzten Textzeugen gefunden wurde. Mehrere Anwendungswörter und Endungen dieses Einschubs sind zudem unsicher gelesen.] Mehrere Anwendungswörter und Endungen dieses Einschubs sind zudem unsicher gelesen.]

Band III, S. 823–824, Aghora: Bildung des Mantras und Nyasa
मायास्फुरद्वयं भूयः प्रस्फुरद्वितयं ततः |
घोरघोरतरेत्यन्ते तनुरूपपदं पुनः ||
चटयुग्मं तदन्ते स्यात् प्रचट द्वितयं ततः |
कहयुग्मं नमस्तद्वं ततो बन्धयुग्मं पुनः ||
घातयद्वितयं वर्म फडन्तः समुदाहृतः |
एवं पञ्चाशदर्णोऽयमघोराख्यस्तु महामनुः ||
अघोरोऽस्य मुनिः प्रोक्तश्छन्दस्त्रिष्टुबुदाहृतम् |
अघोररुद्रः सन्दिष्टो देवता मन्त्रवित्तमैः ||
हृदयं पञ्चभिः प्रोक्तं शिरः षड्भिरुदाहृतम् |
शिखा दशभिराख्याता तावद्भिः कवचं मतम् ||
वस्वर्णैः स्मृतं नेत्रमशेषार्णैरस्त्रमीरितम् |


Lesungshinweise: [Lesungshinweis: Besonders kahayugmaṃ namastadvaṃ ist beschädigt. Eine Fußnote bietet hierfür die Variante „zweimal vaha, vadhadvayam“. Die Quelle zählt hier fünfzig Silben; der zuvor verzeichnete einundvierzigsilbige Text bleibt als andere Überlieferung getrennt.] Eine Fußnote bietet hierfür die Variante „zweimal vaha, vadhadvayam“.

Band III, S. 824, Aghora: Meditation und Purashcharana
ध्यानम् |
सजलघनसमाभं भीमदंष्ट्रं त्रिनेत्रं भुजगधरमघोरं रक्तवस्त्राङ्गरागम् |
परशुडमरुखड्गखेटकं बाणचापौ त्रिशिखनरकपाले बिभ्रतं भावयामि ||
अथास्य पुरश्चरणं तत्रैव |
लक्षमेकं जपेन्मन्त्रं घृतसिक्तैस्तिलैः शुभैः |
तद्दशांशं प्रजुहुयान्मन्त्री मन्त्रस्य सिद्धये ||
इति धूमावतीप्रकरणम् |


Band III, S. 824, Bagalamukhi: Beginn
अथ बगलामुखीविद्या |
मेरुतन्त्रे |
अथातः संप्रवक्ष्यामि स्तम्भनीं बगलामुखीम् |
तारं मायां समुच्चार्य वदेच्च बगलामुखि ||
तदग्रे सर्वदुष्टानां ततो वाचं मुखं पदम् |
स्तम्भयेति पदं जिह्वां कीलयेति ततः परम् ||


Lesungshinweise: [Die Mantrabildung setzt auf S.825 fort.]

Band III, S. 825, Bagalamukhi: Abschluss der Formel und Nyasa
बुद्धिं विनाशय ह्रीं ॐ स्वाहा षट्त्रिंशद्वर्णकः |
नारायणो मुनिस्त्रिष्टुप्छन्दश्च बगलामुखी ||
देवी बीजं तु हृल्लेखा स्वाहा शक्तिः समीरिता |
विनियोगोऽस्य विख्यातः पुरुषार्थचतुष्टये ||
हृल्लेखा हृदयं प्रोक्तं शिरस्तु बगलामुखी |
शिखा तु सर्वदुष्टानां ततो वाचं मुखं पदम् ||
स्तम्भयेति च वर्मोक्तं जिह्वां कीलय नेत्रकम् |
बुद्धिं विनाशयास्त्रं स्यात् षडङ्गन्यास ईरितः ||


Lesungshinweise: [Dies schließt die auf S.824 begonnene Formel ab; die Zuordnungen folgen dieser Quellenfassung.]

Band III, S. 825, Bagalamukhi: vierarmige Meditation
अथ ध्यानम् |
गम्भीरां च मदोन्मत्तां तप्तकाञ्चनसन्निभाम् |
चतुर्भुजां त्रिनयनां कमलासनसंस्थिताम् ||
मुद्गरं दक्षिणे पाशं वामे जिह्वां च वज्रकम् |
पीताम्बरधरां सान्द्रवृत्तपीनपयोधराम् ||
हेमकुण्डलभूषां च पीतचन्द्रार्धशेखराम् |
पीतभूषणभूषां च स्वर्णसिंहासनस्थिताम् ||


Band III, S. 825–826, Bagalamukhi: gelbe Ritualausstattung und Japa
अथ पुरश्चरणम् |
हरिद्राग्रथिता माला पीताम्बरधरः स्वयम् |
पीतासनः स्मरेत् पीतमयुतं जपमाचरेत् ||
दशांशेन कृतो होमः पीतद्रव्यैः प्रतर्पयेत् |
सर्वं पीतोपचारेण मन्त्रः सिद्ध्यति मन्त्रिणः ||
वज्रयोगिनीमिश्रकृतसंग्रहे तु |
पीताम्बरधरो भूत्वा पूर्वदिगभिमुखस्थितः |
लक्षमेकं जपेन्मन्त्रं हरिद्राग्रन्थिमालया ||
ब्रह्मचर्ययुतो नित्यं प्रयतो ध्यानतत्परः |
प्रियङ्गुपायसेनापि पीतपुष्पैश्च होमयेत् इत्युक्तम् ||


Lesungshinweise: [Die Zehntausendzahl der ersten Quelle und die Hunderttausendzahl der zweiten bleiben getrennt.]

Band III, S. 826, Bagalamukhi: andere Formel aus dem Yamala
अथ मन्त्रान्तरं यामले |
वह्निहीनेन्दुयुगमाया बगलामुखि सर्वयुक् |
दुष्टानां वाचमित्युक्त्वा मुखं स्तम्भय कीर्तयेत् ||
जिह्वां कीलय बुद्धिं च विनाशय पदं वदेत् |
पूर्वबीजं ततस्तारं वह्निजायावधिर्मनुः ||
ताराधिका चतुस्त्रिंशदक्षरा बगलामुखी |
नारायणो मुनिश्छन्दः पङ्क्तिः श्रीबगलामुखी ||
देवता मदनो बीजं शक्तिः पावकसुन्दरी |
सर्वशत्रुमुखस्तम्भे विनियोगः प्रकीर्तितः ||
षड्दीर्घभाजा बीजेन षडङ्गन्यास ईरितः |


Lesungshinweise: [Lesungshinweis: Die Eingangsbildung ist stark verdichtet und nicht sicher aufzulösen. Die Silbenzählung und das hier genannte Bīja werden nicht mit der vorigen Fassung vereinheitlicht. Die Fußnote nennt Nārada als alternative Ṛṣi-Lesart.] Die Fußnote nennt Nārada als alternative Ṛṣi-Lesart.]

Band III, S. 826–827, Bagalamukhi: zweiarmige Meditation und Abschluss
अथ ध्यानम् |
मध्ये सुधाब्धिमणिमण्डपरत्नवेदिसिंहासनोपरिगतां परिपीतवर्णाम् |
पीताम्बरां कनकभूषणमाल्यशोभां देवीं भजामि धृतमुद्गरवैरिजिह्वाम् ||
जिह्वाग्रमादाय करेण देवीं वामेन शत्रून् परिपीडयन्तीम् |
गदाभिघातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि ||
अथ पुरश्चरणं तत्रैव |
जपमाला च देवेशि हरिद्राग्रन्थिसम्भवा |
पीतासनसमारूढः पीतध्यानपरायणः ||
पीतपुष्पार्चनं नित्यमयुतं जपमाचरेत् |
तद्दशांशकृतो होमः पीतद्रव्यैः सुशोभनैः ||
अस्याः पुमान् मृत्युंजयस्तन्मन्त्रपुरश्चरणं च शिवप्रकरण एवोक्तम् |
इति बगलामुखीप्रकरणम् |


Lesungshinweise: [Die Fußnoten bieten beim Schmuck eine gleichsinnige Wortvariante und statt „Keulenschlag“ die Lesart „Fußtritt“.]

Band III, S. 827, Matangi: Mantra und Nyasa
अथ मातङ्गीविद्या |
यामले |
अथ वक्ष्ये महादेवीं मातङ्गीं सर्वसिद्धिदाम् |
अस्याः सेवनमात्रेण वाक्सिद्धिं लभते ध्रुवम् ||
प्रणवं च ततो मायां कामबीजं च कूर्चकम् |
मातङ्गी ङेयुता चास्त्रं वह्निजायावधिर्मनुः ||
ऋषिः स्याद्दक्षिणामूर्तिर्विराट्छन्द उदाहृतम् |
मातङ्गी देवता देवी सर्वसिद्धिप्रदायिनी ||
अङ्गन्यासकरन्यासौ कुर्यान्मन्त्री समाहितः |
षड्दीर्घभाजा बीजेन प्रणवाद्येन कल्पयेत् ||


Band III, S. 827, Matangi: Meditation und Purashcharana
अथ ध्यानम् |
श्यामाङ्गीं शशिशेखरां त्रिनयनां सद्रत्नसिंहासने संस्थां रत्नविचित्रभूषणयुतां संक्षीणमध्यस्थलाम् |
आपीनस्तनमण्डलां स्मितमुखीं ध्यायेद्दधानां क्रमाद्वेदैर्बाहुभिरङ्कुशासिलतिके पाशं तथा खेटकम् ||
अथ पुरश्चरणम् |
पुरश्चरणकाले तु षट्सहस्रं जपेन्मनुम् |
तद्दशांशं हुनेदाज्यैः शर्करामधुभिः सह ||
ब्रह्मतरूद्भवैः काष्ठैः साधकः शक्तिभिः सह |
एवं पुरस्क्रियां कृत्वा प्रयोगविधिमाचरेत् ||


Lesungshinweise: [Śaktis bezeichnet hier die rituellen weiblichen Gefährtinnen; der Text wird nicht in eine moderne Übungsanleitung umgedeutet.]

Band III, S. 828, Ucchishtamatangi
अथ मन्त्रान्तरं मेरुतन्त्रे |
अथोच्छिष्टां प्रवक्ष्यामि मातङ्गीं गोदृग्वर्णकाम् |
नम उच्छिष्टचाण्डालि मातङ्गीति पदं वदेत् ||
सर्ववशङ्करि स्वाहा मन्त्रोऽयं मोहयेज्जगत् |
छन्दो निवृत् सगायत्रं मुनिर्नारदस्तु बभ्रुः ||
देवता चात्र मातङ्गी द्वित्रित्रिविरसाक्षिभिः |
अङ्गानि युग्मद्विवर्णैस्ततो ध्यायेद्धृदम्भुजे ||
ध्यानं यथा |
कृष्णाम्बरां यावकार्द्रचरणामुन्नतस्तनीम् |
मुक्ताप्रवालमालाढ्यां शङ्खकुण्डलधारिणीम् ||


Lesungshinweise: [Lesungshinweis: Die Seherzeile und die Zahlenfolge des Nyāsa sind nicht zuverlässig lesbar. Die Sanskritfassung bewahrt die vorläufig erkannten Zeichen; eine praktische Zuordnung wird nicht ergänzt.] Es folgt eine beschädigte Zahlenfolge zur Verteilung der Silben auf die Glieder; danach meditiere man über sie im Lotus des Herzens.

Band III, S. 828, Sarvasammohini-Matangi und Purashcharana
अथ मन्त्रान्तरं तत्रैव |
अथान्यं संप्रवक्ष्यामि मातङ्गीमन्त्रमद्भुतम् |
कामिनी रञ्जिनी स्वाहा षडक्षरोऽयमुदीरितः ||
ऋषिः सम्मोहनश्छन्दो निवृत् प्रोक्तोऽस्य देवता |
सर्वसम्मोहिनी चाङ्गं द्विरावृत्तिपदैर्भवेत् ||
अथ ध्यानम् |
श्यामाङ्गीं वल्लकीं दोर्भ्यां वादयन्तीं सुभूषणाम् |
चन्द्रावतंसां विविधैर्गायनैर्मोहितां जगत् ||
अनयोः पुरश्चरणम् |
प्रजपेदयुतद्वन्द्वं दशांशं जुहुयात् ततः |
मधूकजैस्त्रिमध्वक्तैः सर्वं सम्मोहयेज्जगत् ||


Lesungshinweise: [Die Druckfassung der Schlusszeile des Dhyāna ist grammatisch unregelmäßig; die Übersetzung gibt den erkennbaren Sinn wieder. Die im Druck genannte Silbenzahl wird beibehalten.]

Band III, S. 828, Rajamatangi: Beginn der längeren Formel
अथ राजमातङ्गीमन्त्रस्तत्रैव |
अथान्यं संप्रवक्ष्यामि चतुःपञ्चाशदक्षरम् |
ॐ ह्रीं नमश्च ब्रह्मश्रीराजिते राजपूजिते ||
जये च विजये गौरि गान्धारिपदं वदेत् |


Lesungshinweise: [Die Formel setzt auf S.829 fort; die zusammengesetzte Anrufung brahmaśrīrājite ist eine vorläufige Lesung.] Sinngemäß: „Oṃ Hrīṃ, Verehrung dir, die du in Brahmans Herrlichkeit erstrahlst, von Königen verehrt wirst, siegreich bist und den Sieg verleihst, o Gaurī, o Gāndhārī.“ [Die Formel setzt auf S.829 fort; die zusammengesetzte Anrufung brahmaśrīrājite ist eine vorläufige Lesung.]

Band III, S. 829, Rajamatangi: Abschluss der Formel
त्रिभुवनवशङ्करि सर्वस्त्रीपुरुषेति च ||
वशङ्करि सुसु दुदु घेघे वावाऽग्निगेहिनी |
अजो मुनिस्तथा छन्दो निवृद्गायत्रमीरितम् ||
देवता राजमातङ्गी षडङ्गादि तु मायया |


Lesungshinweise: [Lesungshinweis: Die vier wiederholten Lautpaare sind undeutlich; die vorliegende Umschrift ist keine bestätigte Rezitationsformel.]

Band III, S. 829, Rajamatangi: Ort und Mandala der Meditation
अथ ध्यानम् |
अमृतोदधिमध्यस्थे रत्नद्वीपे मनोहरे |
स्वर्णप्राकारसंवीते मणिरत्नविनिर्मिते ||
कदम्बबिल्वकह्लारे कल्पवृक्षोपशोभिते |
वेदिमध्ये सुखास्तीर्णे रत्नसिंहासने शुभे ||
अष्टपत्रं महापद्मं केशराढ्यं सकर्णिकम् |
तन्मध्ये तु त्रिकोणं स्यादष्टपत्रं ततो बहिः ||
पुनः षोडशपत्रं स्यात् तद्बाह्ये स्याच्चतुर्दलम् |
वेदास्रं सचतुर्द्वारं मण्डलं प्रोक्तमुत्तमम् ||


Lesungshinweise: [Die ersten vier Halbverse sind laut Herausgeberfußnote zusätzlicher Text eines einzelnen Textzeugen. Die anschließende Gestaltbeschreibung wird separat als Auslassung ausgewiesen.]

Dokumentierte Inhaltsauslassung: Band III, S.829–830, Gestaltbeschreibung der Rājamātaṅgī. Sexualisierte Darstellung einer minderjährig oder nicht eindeutig erwachsen bezeichneten Gestalt; hier nicht wiedergegeben. Dieser Hinweis ersetzt keine Übersetzung.

Band III, S. 830, Rajamatangi: Purashcharana
अथ पुरश्चरणम् |
अयुतं प्रजपेन्मन्त्रं होमयेत् तद्दशांशतः |
बन्धूककुसुमैर्मन्त्री मधुत्रयविलोलितैः ||


Lesungshinweise: [Die Herausgeberfußnote kennzeichnet diesen Purashcharana-Vers als zusätzlichen Text eines einzelnen Textzeugen.]

Band III, S. 830–831, Sumukhi: Mantra und Lobpreis
अथ सुमुखीमन्त्रः |
गुह्यातन्त्रे |
शृणु मन्त्रं महादेवि यथावत् कथयामि ते |
दद्यादुच्छिष्टशब्दं तु तथा चाण्डालिनीति च ||
सुमुखीति ततो देवी कीर्तयेत् तदनन्तरम् |
महापिशाचिनी तस्मान्मायाबीजमनन्तरम् ||
बिन्दुनादसमायुक्तं ठकारत्रितयं ततः |
सविसर्गं महादेवि सर्वसिद्धिप्रदायकम् ||
इयं विद्या महाविद्या सर्वपापप्रणाशिनी |
स्वर्गदा मोक्षदा विद्या सर्वसौभाग्यदा तथा ||
सदोच्छिष्टमुखो भूत्वा स्मरेद्देवीं जयप्रदाम् |
तदाऽऽश्वन्तो भवेद्देवि विनैवाचमने कृते ||
दुर्भगा सुभगा ननु दुःखिता सुखिनी भवेत् |
वन्ध्याऽपि लभते पुत्रं शतहायनजीविनम् ||
दुर्बलो बलमाप्नोति मूर्खो विद्यामवाप्नुयात् |
यां यां प्रार्थयते सिद्धिं हठात् तां तामवाप्नुयात् ||


Lesungshinweise: [Lesungshinweis: tadāśvanto in der Zeile über Ācamana ist beschädigt; eine bestimmte Wirkung wird dort nicht hinzuerfunden. Die Heils- und Fruchtbarkeitsaussagen sind Aussagen der Quelle. Die Fußnote bietet statt „alles Glück“ die Variante „Glück im Königtum“.] Die Fußnote bietet statt „alles Glück“ die Variante „Glück im Königtum“.]

Band III, S. 831, Sumukhi: Ritualbedingungen und Zuordnungen
विधानं चात्र वक्ष्यामि शृणु देवि वरानने |
नारिदोषो न वा विघ्नो नाशौचं नियमो न च ||
यस्य तिष्ठति मन्त्रोऽयं न च विघ्नैः स बाध्यते |
तथा |
अजो मुनिः समाख्यातश्छन्दो गायत्रमस्य तु |
देवता सुमुखी प्रोक्ता मायया तु षडङ्गकम् ||


Lesungshinweise: [Ari-Doṣa ist hier als technischer Ausdruck für eine ungünstige beziehungsweise feindliche Mantrazuordnung verstanden.]

Dokumentierte Inhaltsauslassung: Band III, S.831, Sumukhī-Dhyāna. Sexualisierte Darstellung einer minderjährig oder nicht eindeutig erwachsen bezeichneten Gestalt; hier nicht wiedergegeben. Dieser Hinweis ersetzt keine Übersetzung.

Band III, S. 831, Sumukhi: Japa mit Speiseresten
उच्छिष्टेन बलिं दत्त्वा जपेत् तन्मानसः |
उच्छिष्टेनैव कर्तव्यो जपोऽस्याः सिद्धिमिच्छता |
उच्छिष्टजपमानस्य जायन्ते सर्वसिद्धयः ||
अस्य मन्त्रस्य पुरश्चरणमयुतसहस्रजपः |
येषां जपे च होमे च इत्यादिपूर्वोक्तवचनात् |


Lesungshinweise: [Lesungshinweis: Die Zahlenverbindung ayutasahasra ist mehrdeutig und wird nicht ohne weitere Absicherung als feste Wiederholungszahl aufgelöst. Der Druck gibt das angeführte Regelzitat hier selbst nur verkürzt wieder.]

Band III, S. 831–832, Vashya-Matangi
अथ वश्यमातङ्गीमन्त्रः |
मेरुतन्त्रे |
अथातः संप्रवक्ष्यामि वश्यमातङ्गिकामनुम् |
ॐ राजमुखि राजाधिमुखि वश्यमुखीति च ||
मायां श्रीं क्लीं देवदेवि महादेवि ततो वदेत् |
देवाधिदेवि सर्वेति जनस्य मुखमुच्चरेत् ||
मम वशं कुरु इन्द्रं स्वाहान्तोऽङ्गभूतवर्णकः |
त्रिसप्तकृत्वा हृदयेऽप्यमन्त्रार्णैरङ्गकॢप्तनम् ||
विज्ञेयं राजमातङ्गीतुल्यं पूजाजपादिकम् |
प्रयोगांश्चापि जानीयाद्विशेषाद्वशकृत् त्वियम् ||


Lesungshinweise: [Lesungshinweis: Die Silbenzahl und die Nyāsa-Zeile sind beschädigt; weder die Zählung noch die genaue Gliederaufteilung wird stillschweigend ergänzt.] Sinngemäß: „O Königsangesichtige, Herrin über Könige, Beeinflussende, Göttin der Götter, große Göttin, höchste Göttin: Bringe den Mund aller Menschen unter meinen Einfluss.“ Es folgt eine verschlüsselte Silbenzahl und eine nicht eindeutig lesbare Vorschrift zur Bildung der Glieder, mit dreimal sieben für das Herz.

Band III, S. 832, Chandamatangini
मन्त्रान्तरमाह |
माया नमो हिलिहृन्द्वं चण्डमातङ्गिनीति च |
स्वाहेति तिथिवर्णाऽस्या न्यासपूजादिकं भवेत् ||
राजमातङ्गिकातुल्यं जपश्चायुतसङ्ख्यकः |
घृतपायसहोमश्च प्रयोगाश्च पूर्ववत् ||


Lesungshinweise: [Lesungshinweis: Die wiederholte Lautfolge ist im Druck unklar; hिलिहृन्द्वं ist eine vorläufige Transkription und keine bestätigte Formel.]

Band III, S. 832, Karnamatangi und Abschluss
अथ कर्णमातङ्गीमन्त्रः |
अथातः संप्रवक्ष्यामि कर्णमातङ्गिकामनुम् |
वाग्भवं हृदयं नाथ श्रीमातङ्गिपदं वदेत् ||
अमोघे सत्यवादिनि मम कर्णेपदं ततः |
अवतरपदं ह्येवं सत्यं कथय युग्मकम् ||
एह्येहि श्रीं च मातङ्ग्यै नमस्त्र्यष्टवर्णको मनुः |
अङ्गानि वाग्भवेनात्र पूजाद्यं च कृताग्रकम् ||
अथ पुरश्चरणम् |
लक्षं जपः पायसाज्यैर्होमः सिद्धो भवेन्मनुः |
कर्णे तु कथयेद्देवी पृच्छकस्य शुभाशुभम् ||
इति मातङ्गीप्रकरणम् |


Lesungshinweise: [Lesungshinweis: Die Angabe tryaṣṭavarṇaka und die Schlussformulierung kṛtāgrakam sind undeutlich; die Silbenzahl wird nicht ergänzt.]

Band III, S. 832, Lakshmi: Beginn
अथ लक्ष्मीविद्या |
शारदायाम् |
अथ वक्ष्ये श्रियो मन्त्रान् श्रीसौभाग्यफलप्रदान् |
यस्याः कटाक्षमात्रेण त्रैलोक्यमपि वर्धते ||
वान्तं वह्निसमारूढं वामनेत्रेन्दुसंयुतम् |


Lesungshinweise: [Die Erklärung setzt auf S.833 fort.]

Band III, S. 833, Lakshmi: Bija und Zuordnungen
बीजमेतच्छ्रियः प्रोक्तं चिन्तारत्नमिवापरम् ||
ऋषिर्भृगुर्निवृच्छन्दो देवता श्रीः समीरिता |
षड्दीर्घयुतबीजेन षडङ्गानि प्रकल्पयेत् ||


Lesungshinweise: [Fortsetzung der verschlüsselten Bīja-Bildung auf S.832.]

Band III, S. 833, Lakshmi: goldene Gestalt und Purashcharana
अथ ध्यानम् |
कान्त्या काञ्चनसन्निभां हिमगिरिप्रख्यैश्चतुर्भिर्गजैर्हस्तोत्क्षिप्तहिरण्मयामृतघटैरासिच्यमानां श्रियम् |
बिभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वलां क्षौमाबद्धनितम्बबिम्बललितां वन्देऽरविन्दस्थिताम् ||
अथ पुरश्चरणम् |
भानुलक्षं जपेन्मन्त्री दीक्षितो विजितेन्द्रियः |
श्रियमभ्यर्च्य नित्यशः सुगन्धिकुसुमादिभिः ||
तत्सहस्रं च जुहुयात् कमलैर्मधुरोक्षितैः |
जपान्ते जुहुयान्मन्त्री तिलैर्वा मधुरान्वितैः ||
बैल्वैः फलैर्वा जुहुयात् त्रिमध्वैः साधकोत्तमः |


Lesungshinweise: [Lesungshinweis: Die Zahlenverbindung tat-sahasra ist im Druck knapp und nicht eindeutig; sie wird nicht stillschweigend zu einem Zehntel oder einer anderen festen Zahl ergänzt.]

Band III, S. 833–834, Lakshmi: vier Bija und rubinrote Gestalt
अथ मन्त्रान्तरं तत्रैव |
वाग्भवं वनिता विष्णोर्माया मकरकेतनः |
चतुर्बीजात्मको मन्त्रश्चतुर्वर्गफलप्रदः ||
अङ्गानि कुर्याद्दीर्घाढ्यै रमाबीजेन तन्त्रवित् |
अथ ध्यानम् |
माणिक्यप्रतिमप्रभां हिमनिभैस्तुङ्गैश्चतुर्भिर्गजैर्हस्ताग्राहितरत्नकुम्भसलिलैरासिच्यमानां सदा |
हस्ताब्जैर्वरदानमब्जयुगलाभीतीर्दधानां हरेः कान्तां काङ्क्षितपारिजातलतिकां वन्दे सरोजासनाम् ||
अथ पुरश्चरणम् |
भानुलक्षं हविष्याशी जपेदन्ते सरोरुहैः |
जुहुयादरुणैः फुल्लैस्तत्सहस्रं जितेन्द्रियः ||


Lesungshinweise: [Die Zahlformulierung wird wie in der vorangehenden Passage ohne ungesicherte Ergänzung bewahrt.]

Band III, S. 834, Lakshmi: zehnsilbiger Mantra und Glieder
अथ मन्त्रान्तरं तत्रैव |
दीर्घादिर्विसर्गान्तो ब्रह्मा भानुर्वसुन्धरा |
वान्ते सिन्द्यै प्रिया वह्नेर्मनुः प्रोक्तो दशाक्षरः |
ऋषिर्दक्षो विराट् छन्दो देवता श्रीः समीरिता |
देव्यै हृदयमाख्यातं पद्मिन्यै शिर ईरितम् ||
विष्णुपत्न्यै शिखा प्रोक्ता वरदायै तनुच्छदम् |
अस्त्रं कमलरूपिण्यै नमोऽन्ताः प्रणवादिकाः ||
अङ्गमन्त्राः समुद्दिष्टा ध्यायेद्देवीमनन्यधीः |


Lesungshinweise: [Lesungshinweis: Die verschlüsselte Eingangszeile ist beschädigt; eine vollständige zehnsilbige Formel wird nicht ergänzt. Die Quelle nennt hier fünf Gliederzuordnungen.]

Band III, S. 834, Kamala: Meditation und Purashcharana
अथ ध्यानम् |
आसीना सरसीरुहे स्मितमुखी हस्ताम्बुजैर्बिभ्रती दानं पद्मयुगाभयं च वपुषा सौदामिनीविभ्रमा |
मुक्तादामविराजमानपृथुलोत्तुङ्गस्तनोद्भासिनी पायाद्वः कमला कटाक्षविभवैरानन्दयन्ती हरिम् ||
अथ पुरश्चरणम् |
दशलक्षं जपेदेनं मन्त्रविज्जितेन्द्रियः |
दशांशं जुहुयान्मन्त्री मधुराक्तैः सरोरुहैः ||


Band III, S. 834, Mahalakshmi: zwölfsilbige Form und Zuordnungen
अथ महालक्ष्मीमन्त्रस्तत्रैव |
वाग्भवं शम्भुवनिता रमा मकरकेतनः |
तातीयं च जगत्पथ्यो वह्निबीजसमुज्ज्वलः ||
अधोशाखो भृगुस्तस्य हृन्मन्त्रोऽयं द्वादशाक्षरः |
महालक्ष्म्याः समुद्दिष्टस्तस्याः सर्वेष्टसिद्धिदः ||
ऋषिर्ब्रह्मा समुद्दिष्टो गायत्री छन्द ईरितम् |
देवता जगतामादिर्महालक्ष्मीः समीरिता ||
हस्तौ संशोध्य मन्त्रेण तारादि हृदयान्तिकम् |


Lesungshinweise: [Lesungshinweis: Die verschlüsselte Lautbildung in der mittleren Zeile ist vorläufig; sie wird nicht zu einer gesicherten Gesamtformel aufgelöst.]

Band III, S. 835, Mahalakshmi: Finger-, Körper- und Glieder-Nyasa
बीजानां पञ्चकं न्यस्येदङ्गुलीषु यथाक्रमम् ||
मन्त्रशेषं न्यसेन्मन्त्री तलयोरुभयोः अपि |
मूर्धादि चरणं यावन्मन्त्रेण व्यापकं चरेत् ||
मूर्धाक्षिवक्षोगुह्याङ्घ्रौ पञ्च बीजानि विन्यसेत् |
शेषान् न्यसेत् सप्तवर्णान् हृदये सप्तधातुषु ||
अङ्गानि पञ्चभिर्बीजैरस्त्रं शिष्टाक्षरैर्भवेत् |
ज्ञानैश्वर्यादिभिर्युक्तैश्चतुर्थ्यन्तैः सजातिभिः ||
ज्ञानमैश्वर्यशक्तिं च बलवीर्यं सतेजसा |
ज्ञानैश्वर्यादयः प्रोक्ताः षट् क्रमादङ्गयोजिताः ||


Band III, S. 835–836, Mahalakshmi: Garten und Teich
ध्यानमाह |
एवं न्यस्तशरीरोऽसौ स्मरेदुद्यानमद्भुतम् |
चम्पकाशोकपुन्नागपाटलैरुपशोभितम् ||
लवङ्गमाधवीबिल्वदेवदारुनमेरुभिः |
मन्दारपारिजाताद्यैः कल्पवृक्षैः सुपुष्पितैः ||
चन्दनैः कर्णिकारैश्च मातुलुङ्गैः सवञ्जुलैः |
दाडिमीलकुचाङ्कोलैः पूगैः कुरबकैरपि ||
कदलीकुन्दमन्दारनालिकेरैरलङ्कृतम् |
अन्यैः सुगन्धिपुष्पाद्यैर्वृक्षखण्डैश्च मण्डितम् ||
मालतीमल्लिकाजातीकेतकीशतपत्रकैः |
यावन्तीतुलसीकुन्द्यावर्तैर्दमनकैरपि ||
सर्वर्तुकुसुमोपेतैर्निम्नमन्दिरशोभितम् |
मन्दमारुतसंभिन्नकुसुमामोददिङ्मुखम् ||
तस्य मध्ये सदा फुल्लैः कुमुदोत्पलपङ्कजैः |
सौगन्धिकैश्च कह्लारैर्नीलैः कुवलयैरपि ||
हंससारसकारण्डभ्रमरैरङ्गनामभिः |
अन्यैः कलकलारावैर्विहङ्गैरुपशोभिते ||
महासरसि तन्मध्ये पुलिनेऽतिमनोहरे |


Lesungshinweise: [Lesungshinweis: Die Pflanzenfolge bei kundyāvarta und die Verbindung nimnamandira sind unsicher; die Namen werden vorsichtig nach dem Druck wiedergegeben. Die Bienenzeile ist grammatisch beschädigt.] Die Bienenzeile ist grammatisch beschädigt.]

Band III, S. 836, Mahalakshmi: kostbares Heiligtum
परितः पारिजाताद्यमण्डितं मणिकुट्टिमम् ||
उद्यदादित्यसंकाशभास्वरं शशिशीतलम् |
चतुर्द्वारसमायुक्तं हेमप्राकारशोभितम् ||
रत्नोपकॢप्तसंशोभिकपाटाष्टकसंयुतम् |
नवरत्नसमाकॢप्तं तुङ्गगोपुरतोरणम् ||
हेमदण्डशिरोलम्बि ध्वजावलिपुरस्कृतम् |
नवरत्नसमाबद्धस्तम्भपङ्क्तिविराजितम् ||
सहस्रदीपसंयुक्तदीपदण्डैर्विराजितम् |
तप्तहाटकसंकॢप्तवातायनमनोहरम् ||
नानारत्नांशुकोद्भूतसुवर्णशतकैरपि |
किङ्किणीमालिकायुक्तपताकाभिरलङ्कृतम् ||
जातरूपमयै रत्नविचित्रैरतिविस्तृतैः |
माणिक्यवज्रवैदूर्यस्वर्णमालावलीयुतैः ||
अन्तरान्तरसम्बद्धैर्हृद्यैर्हृद्यमनोहरैः |
विचित्रैश्चित्रबन्धैश्च वितानैरुपशोभितम् ||
सर्वरत्नसमायुक्तं हेमकुट्टिममुज्ज्वलम् |
केतकीमालतीजातीचम्पकोत्पलकेसरैः ||
मल्लिकातुलसीचाशान्त्यावर्तैःकुन्दस्रक्कैः |
एतैरन्यैश्च कुसुमैरलङ्कृतमहीतलम् ||
अच्छकश्मीरकस्तूरीमृगनाभिविमिश्रितैः |


Lesungshinweise: [Lesungshinweis: Die Reihe der goldenen Verzierungen und ein Teil der letzten Pflanzenliste sind im Druck beschädigt. Der letzte Satz setzt auf S.837 fort.] Es folgen Duftstoffe, vermischt mit reinem kaschmirischem Safran und Moschus … [Lesungshinweis: Die Reihe der goldenen Verzierungen und ein Teil der letzten Pflanzenliste sind im Druck beschädigt.

Band III, S. 837, Mahalakshmi: Pavillon und Thron
चन्दनागुरुकर्पूरैरामोदितदिगन्तरम् ||
एवं सञ्चिन्त्य मनसा मण्डपं सुमनोहरम् |
तन्मध्ये भावयेन्मन्त्री पारिजातं मनोहरम् ||
तस्याधस्तात् स्मरेन्मन्त्री रत्नसिंहासनं महत् |
तस्मिन् सञ्चिन्तयेद्देवीं महालक्ष्मीं मनोहराम् ||


Band III, S. 837, Mahalakshmi: Attribute und Schmuck
बालार्कद्युतिमिन्दुखण्डविलसत्कोटीरहारोज्ज्वलां रत्नाकल्पविभूषितां कुचनतां शालेः करैर्मञ्जरीम् |
पद्मौ कौस्तुभरत्नमप्यविरतं सम्बिभ्रतीं सुस्मितां फुल्लाम्भोजविलोचनत्रययुतां ध्यायेत् परां देवताम् ||
शिञ्जन्मञ्जीरसंशोभिपादाम्भोजविराजिताम् |
नवरत्नगणाकीर्णकाञ्चीदामविभूषिताम् ||
मुक्तामाणिक्यवैदूर्यसम्बद्धोदरबन्धनाम् |
विभ्राजमानां मध्येन वलित्रितयशोभिताम् ||
जाह्नवीसलिलावर्तशोभिनाभिविभूषिताम् |
पटीरपङ्ककर्पूरकुङ्कुमालङ्कृतस्तनीम् ||
वारिवाहविनिर्मुक्तमुक्तादामगरीयसीम् |
बिभ्रतीमुत्तरासङ्गं दुकूलपरिकल्पितम् ||
तप्तकाञ्चनसम्बद्धवैदूर्याङ्गदभूषणाम् |
पद्मरागस्फुरत्स्वर्णकङ्कणाढ्यकराम्बुजाम् ||
माणिक्यशकलाबद्धमुद्रिकाभिरलङ्कृताम् |
तप्तहाटकसंकॢप्तमालाग्रैवेयशोभिताम् ||
विचित्रविविधाकल्पां कम्बुसंकाशकन्धराम् |
उद्यद्दिनकराकारमणिताटङ्कमण्डिताम् ||


Lesungshinweise: [Die Perlenzeile folgt dem poetischen Wolkenbild der Quelle, ohne daraus eine sachkundliche Aussage über die Herkunft von Perlen zu machen.]

Band III, S. 838, Mahalakshmi: Antlitz und Abschluss der Meditation
रत्नाङ्कितलसत्स्वर्णकर्णपूरोपशोभिताम् |
जपाविद्रुमलावण्यललिताधरपल्लवाम् ||
दाडिमीफलबीजाभदन्तपङ्क्तिविभूषिताम् |
कलङ्ककालुष्यनिर्मुक्तशारच्चन्द्रनिभाननाम् ||
पुण्डरीकदलाकारनयनत्रयशोभिताम् |
भ्रूलताजितकन्दर्पवरकार्मुकविभ्रमाम् ||
विकसत्तिलपुष्पश्रीविजयायतनासिकाम् |
ललाटकान्तिविभवविजितार्धेन्दुसत्कराम् ||
सान्द्रसौरभसम्पन्नकस्तूरीतिलकाङ्किताम् |
मत्तालिमालाविलसदलकाल्यमुखाम्बुजाम् ||
पारिजातप्रसूनश्रीचारुधम्मिल्लबन्धनाम् |
अनर्घ्यरत्नघटितमुकुटाङ्कितमस्तकाम् ||
सर्वलावण्यवसतिं भवनं विभ्रमश्रियः |
तेजसां जन्मभूमिं तां महालक्ष्मीं विचिन्तयेत् ||


Lesungshinweise: [Die Verbindung bei alakālya ist im Druck undeutlich; der erkennbare Lockenvergleich wird sinngemäß wiedergegeben.]

Band III, S. 838, Mahalakshmi: Purashcharana in zwei Quellen
अथ पुरश्चरणम् |
एवं ध्यात्वा ततो देवीं हविष्याशी जितेन्द्रियः |
भानुलक्षं जपेन्मन्त्री दशांशं जुहुयात् तिलैः ||
जुहुयात् श्रीफलैः पद्मैः प्रत्येकमयुतं ततः |
तर्पयेत् सलिलैः शुद्धैः सुगन्धैरयुतद्वयम् ||
मेरुतन्त्रे |
जपेद्द्वादशलक्षं च नियताशी यतव्रतः |
तद्दशांशं प्रजुहुयाद्घृतैस्त्रिस्वादुसंयुतैः ||
पद्मैरक्तोत्पलैः प्रतेकमयुतं हुनेत् |
सुशीतैः शान्तिभिः सिक्तैस्तर्पयेदयुतद्वयम् ||


Lesungshinweise: [Lesungshinweis: Die letzten beiden Zeilen des Merutantra-Zitats sind im Scan erheblich beschädigt; insbesondere die Flüssigkeitsbeschreibung ist nicht gesichert.] Die abschließende beschädigte Zeile schreibt zwanzigtausend Tarpaṇa-Gaben mit sehr kühlen, als befriedend bezeichneten Flüssigkeiten vor.

Band III, S. 839, Mahalakshmi: weitere Formel und Nyasa
अथ मन्त्रान्तरं तत्रैव |
शम्भुपत्नी श्रिया रुद्रा कमौ भगवती मही |
ब्रह्माऽऽदित्यो धरा दीर्घा लकारो भगवान् मरुत् ||
प्रसीदयुगलं भूयः श्रीरुद्रा भुवनेश्वरी |
महालक्ष्मी नमोऽन्तः स्यात् प्रणवादिरयं मनुः ||
सप्तविंशत्यक्षराढ्यः प्रोक्तः सर्वसमृद्धिदः |
कमले हृदयं प्रोक्तं शिरः स्यात् कमलालये ||
शिखा प्रसीद तेनैव कवचं चतुरक्षरैः |
अस्त्रमेतैः पदैः कुर्याच्छ्रीबीजपुटितैः पृथक् ||


Lesungshinweise: [Lesungshinweis: Die verschlüsselte Anfangsfolge und die genaue Abgrenzung der viersilbigen Folge sind nicht sicher aufzulösen; die vollständige Formel wird nicht ergänzt.]

Band III, S. 839, Mahalakshmi: weitere Meditation und kurze Formen
अथ ध्यानम् |
सिन्दूरारुणकान्तिमब्जवसतिं सौन्दर्यवारां निधिं कोटीराङ्गदहारकुण्डलकटीसूत्रादिभिर्भूषिताम् |
हस्ताब्जैर्वसुपात्रमब्जयुगलादर्शौ वहन्तीं परामावीतां परिचारिकाभिरनिशं ध्यायेत् प्रियां शार्ङ्गिणः ||
अथ पुरश्चरणम् |
लक्षं जपेत् फलैर्बिल्वैर्जुहुयान्मधुरोक्षितैः |
दशांशं संस्कृते वह्नौ प्राक्प्रोक्तेनैव वर्त्मना ||
तन्त्रान्तरे |
मन्दाक्षमिन्दिरारत्नं त्र्यक्षरोऽयं महामनुः |
हृदन्तः पञ्चवर्णोऽस्य सर्वमेकर्णवन्मतम् ||


Lesungshinweise: [Die verschlüsselten Bezeichnungen der kurzen Formen werden nicht ohne Textabsicherung ausgeschrieben.]

Band III, S. 839–840, Samrajyalakshmi: Herkunft und Mantra
अथ साम्राज्यलक्ष्मीमन्त्रः |
मेरुतन्त्रे |
अथ वक्ष्ये गणेशेन काशीराज्याप्तये मम |
शान्तादित्यस्य रक्षोभिर्भग्नो लक्ष्मीरुपासिता ||
साम्राज्यलक्ष्मीर्विख्याता गतराज्यप्रदायिनी |
लक्ष्मीविनायकरस्तत्र प्रसिद्धोऽसौ गजाननः ||
दक्षिणेनैव मार्गेण तस्याः सिद्धिर्न वामतः |
सकारं च हकारं च कलरा वर्णपञ्चकम् ||
इंकारस्वरसंयुक्तं प्रथमं कूटमुच्यते |
हं बीजं तु द्वितीयं स्यात् प्रोक्तोऽस्य द्व्यक्षरो मनुः ||
ऋषिर्हरिश्च गायत्री छन्दो लक्ष्मीश्च मोहिनी |
साम्राज्यदा देवतोक्ता कूटं बीजं प्रकीर्तितम् ||
शक्तिः श्रीं च षडङ्गानि षड्दीर्घैः समाचरेत् |


Lesungshinweise: [Lesungshinweis: Die einleitende Erzählzeile und die Vokalschreibung der ersten Keimsilbe sind unsicher. Keine vollständige Formel wird ergänzt.]

Band III, S. 840, Samrajyalakshmi: Meditation und Abschluss
अथ ध्यानम् |
अतसीपुष्पसंकाशां रत्नभूषणभूषिताम् |
शङ्खचक्रगदापद्मशार्ङ्गबाणधरां करैः ||
षड्भिः कराभ्यां देवेशीं वरदाभयशोभिताम् |
एवमष्टभुजां ध्यात्वा त्रिलक्षं प्रजपेत् सुधीः ||
तद्दशांशेन पद्मैस्तु हुनेत् साम्राज्यसिद्धये |
एवमाराधयेल्लक्ष्मीं साम्राज्यं स्यादसंशयम् |
नारायणमन्त्रस्तु तत्प्रकरण एवोक्तः |
इति लक्ष्मीविद्याप्रकरणम् |


Band III, S. 840, Beginn der Nilakrama-Unterweisung
अथ नीलक्रमादयः |
शक्तिसङ्गमेतन्त्रसारसंग्रहेषु |
देव्युवाच |
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् |
दशानामपि विद्यानां दश वै ये क्रमाः प्रभो ||
पूर्वं कथिताः स्वामिंस्तान् क्रमान् वद संप्रति |
शिव उवाच |
रहस्यातिरहस्यं च कथ्यते तव भक्तितः |
महानीलक्रमेणैव कालिका सिद्धिदायिनी ||


Lesungshinweise: [Die Quellenüberschrift ist im Druck gedrängt; die genaue Trennung der genannten Werktitel bleibt vorläufig.]

Band III, S. 841, Nilakrama: Sakala und seine Kennzeichen
महानीलक्रमो देवि द्विविधः परिकीर्तितः |
सकलो निष्कलश्चेति तं क्रमं शृणु पार्वति ||
खड्गहस्तः शिरोन्यस्तः सर्वदा मुक्तकुन्तलः |
सदा मांसासवोल्लासी विजयाघूर्णलोचनः ||
सिन्दूरतिलकं भाले पाणौ तु मदिरारसम् |
रात्रौ पर्यटनं चैव रात्रौ शक्तेः प्रपूजनम् ||
योनिचुम्बनकं कर्म शक्तेरालिङ्गनं तथा |
न करोति नरो यस्तु स कथं तव पूजकः ||
ताम्बूलयोनिचक्रं च मुण्डमालां शवासनम् |
सिन्दूरं खड्गकं चैव संविदासवयो रसम् ||
एतान् विहाय यः कश्चित् कालीं साधितुमुद्यतः |
इह क्षोभमवाप्नोति परत्र नरकं व्रजेत् ||
कोट्यर्बुदयुगैर्देवि न हि सिध्यति कालिका |


Lesungshinweise: [Historische Ritualvorschrift mit ausschließlichem Geltungsanspruch der zitierten Tradition. Die Wortverbindung bei tāmbūlayonicakra bleibt vorläufig.] Der Übende hält ein Schwert in der Hand; śironyasta ist im Zusammenhang unsicher.

Band III, S. 841–842, Nilakrama: Tilaka und Ausstattung
सिन्दूरबिन्दुं भ्रूमध्ये स्वयम्भुकुसुमिप्रकम् ||
रक्तचन्दनकं वाऽपि त्रिपुण्ड्रं च ततोपरि |
कुर्वन् दले कज्जलस्य बिन्दुद्वये महेश्वरि ||
महानीलक्रमे देवि तिलकः परिकीर्तितः |
श्मशानशायी मांसाशी संविदानन्दमानसः ||
स्त्रियं पश्यन् स्पृशन् गच्छन् सर्वकाले जपं चरेत् |
वेश्यारतः श्मशानस्थो मृदुमुण्डकसंयुतः ||
दन्ताक्षमालया देवि गजदन्तेन मेरुणा |
मालां कृत्वा जपेद्देवि सदा ताम्बूलचर्वकः ||
कपालमालाभरणो रामाचुम्बनतत्परः |
शक्त्यानन्दो नेत्रयुग्मे मुखे हाला ग्रहाङ्गणे ||
वेश्या बालाकरे माला शक्तिलीला भगाम्बुजे |
योनिसञ्चुम्बनं कृत्वा सर्वकाले जपं चरेत् ||
शक्तेर्भगं नमस्कार्यं सर्वमेतच्चराचरम् |
अधिकारी प्रहृष्टात्मा धीभक्तो विजितेन्द्रियः ||
ईदृग्विधो नरो देवि महानीलक्रमे मतः |
राजदन्तमयी माला द्विरेफद्राक्षसम्भवा |


Lesungshinweise: [Mehrere Verse dieser Passage bedürfen eines besseren Textzeugen; die Transkriptionen sind vorläufig.]

Band III, S. 842, Nilakrama: Nishkala und freie Zeitwahl
अशक्तानां निष्कलः स्यात् तं क्रमं शृणु पार्वति |
पीताया दधकं पित्वा सच्चिदानन्दमानसः ||
स्फटिकीं मालिकां कृत्वा विहारे जपमाचरेत् |
दिक्कालीनियमो नास्ति स्थित्यादिनियमो न च ||
न जपे कालनियमो महामन्त्रस्य साधने |
यस्मिन् मन्त्रे य आचारस्तत्र धर्मस्तु तादृशः ||
भ्रान्तिस्तत्र न कर्तव्या स्वर्गो वा मोक्ष एव वा |


Band III, S. 842, Nilakrama: Sitze und Abschluss
मृदु कोमलकं देवि मुण्डकं वाप्यनङ्गकम् ||
शवं वीरासनं कृत्वा योनित्वगासनं च वा |
कामरूपासनं देवि सुरतासनमेव च ||
सिन्दूरासनकं देवि पर्वतासनमेव च |
प्रयोगासनकं देवि महाप्रयोगासनं तथा ||
श्रीमुण्डसुरतं वापि श्रीवीरसुरतेन वा |
पञ्चवीरासनं देवि सुरेन्द्रादिदिशां क्रमात् ||
इति नीलक्रमः |


Lesungshinweise: [Knappe Liste teilweise verhüllender Ritualnamen. Eine eindeutige körperliche Ausführung wird hier nicht erklärt und deshalb nicht ergänzt.]

Band III, S. 843, Mahachinakrama: fünf Formen und zwei Hauptweisen
अथ महाचीनक्रमस्तत्रैव |
देव्युवाच |
देवेश श्रोतुमिच्छामि महाचीनक्रमं परम् |
शिव उवाच |
महाचीनक्रमो देवि कथ्यते सांप्रतं मया |
महाचीनक्रमेणैव तारा शीघ्रफलप्रदा ||
ब्रह्मचीनो वीरचीनो दिव्यचीनस्तृतीयकः |
महाचीनो निष्कलश्च चीनः पञ्चविधो मतः ||
महाचीनक्रमो देवि द्विविधः परिकीर्तितः |
सकलो निष्कलश्चेति सकलो बौद्धगोचरः ||
निष्कलो ब्राह्मणानां च द्वितीयः परिकीर्तितः |


Lesungshinweise: [Diese Zuordnung gibt die Darstellung des zitierten Tantra wieder.]

Band III, S. 843, Mahachinakrama: geistiger Vollzug
तथा |
स्नानादि मानसं शौचं मानसः प्रवरो जपः |
पूजनं मानसं दिव्यं मानसं तर्पणादिकम् ||
मानसो नियमः प्रोक्तो मानसं दन्तधावनम् |
सर्व एव शुभः कालो नाशुभो विद्यते क्वचित् ||
न विशेषो दिवा रात्रौ न सन्ध्यायां महानिशि |
शुद्धिं न कारयेत्तत्र निर्विकल्पं मनश्चरेत् ||
नात्र शुद्धेरपेक्षास्ति न चामेध्यादि दूषणम् |
य एवं चिन्तयेन्मन्त्रं सर्वकामसमृद्धिदम् ||
गद्यपद्यमयी वाणी सभायां तस्य जायते |
तस्य दर्शनमात्रेण वादिनो निष्प्रभा मताः ||
राजानोऽपि च दासत्वं भजन्ते किं परे जनाः |
सर्वदा पूजयेद्देवीमस्नातः कृतभोजनः ||


Band III, S. 844, Mahachinakrama: nächtlicher Ritus und Nahrung
महानिश्यशुचौ देशे बलिं मन्त्रेण दापयेत् |
स्त्रीद्वेषो नैव कर्तव्यो विशेषात् पूजनं स्त्रियः |
जपस्थानं महाशङ्खं निर्भयोऽत्र जपं चरेत् |
स्त्रियं गच्छन् स्पृशन् पश्यन् यत्र कुत्राप्यनचूडके ||
भक्ष्यास्ताम्बूलमन्याश्च भक्ष्यभोज्यान् यथारुचि |
मांसं मत्स्यं दधि क्षौद्रं संविदासवयो रसम् ||
भोज्यान्यन्यान्यभक्ष्याणि दत्त्वा भुक्त्वाऽऽचरेज्जपम् |
दिक्कालनियमो नास्ति स्थित्यादिनियमो न च ||
न जपे कालनियमो नार्चादिषु बलिष्वपि |
स्वेच्छानियम उक्तोऽत्र महामन्त्रस्य साधने ||


Lesungshinweise: [Die Lesung bei kutrāpyanacūḍake ist vorläufig; Mahāśaṅkha bleibt als technischer Ausdruck stehen.]

Band III, S. 844, Mahachinakrama: Verhalten und Ausschlüsse
वज्रासनं गृहे नेहस्पर्शास्पर्शादिधारिणा |
तैलं संस्थाप्य देवेशि ताम्बूलं भक्षयन् सदा ||
नानाम्बराणि संत्यज्य देहं वस्त्रेण मार्जयेत् |
एवं स्नानं चरेद्देवि सर्वदा तद्गताशयः ||
केशान् संवर्धयेद्देवि सर्वदा तैलभूषितः |
नाधर्मो विद्यते सुभ्रु किं तु धर्मो महान् भवेत् ||
स्वेच्छाचारीऽत्र कथितः प्रचण्डहृष्टमानसः |
कृतार्थमन्यमानस्तु सन्तोष्य निजमानसम् ||
हरेर्मांसं न गृह्णीयान्न स्पृशेत्तुलसीदलम् |
वर्जयेद्बिल्वपत्रं च मृतं यत्नेन वर्जयेत् ||
नान्यचिन्ता प्रकर्तव्या नान्यनिन्दा कदा चन |
नान्यमन्त्रं जपेद्देवि निर्विकल्पः सदा भवेत् ||
सद्यो मद्यं पिबेद्देवि मातृभिर्विहारवान् |
योनिं चुम्बँल्लिहन् पश्यन् जपं कुर्यादनन्यधीः ||


Lesungshinweise: [Hareḥ māṃsaṃ und der genaue Bezug von mṛtam sind ohne weiteren Textzeugen nicht eindeutig übersetzbar; die Formulierungen bleiben ausdrücklich offen.]

Band III, S. 845, Mahachinakrama: Konzentration, Tilaka und Mala
योनौ विचिन्त्य जप्तव्यं सिद्धिर्वत्सरमात्रतः |
अन्यथा नैव सिद्धिः स्यात् प्रजप्तरपि कोटिभिः ||
पुरश्चरणलक्षैश्च होमादीनां च कोटिभिः |
भ्रूयुग्मे कुन्तलं देवि सिन्दूरं तदनन्तरम् ||
कुचन्दनं त्रिपुण्ड्रं च पञ्च वा सुकुङ्कुमम् |
मुण्डमाला गले धार्या कपालं पाणिसङ्गतम् ||
इत्याचारपरो नित्यं महाचीनक्रमी भवेत् |
कर्णनेत्रान्तरस्थो यो महाशङ्खः प्रकीर्तितः ||
पञ्चाशन्मणिभिर्माला गोर्नरोत्थास्थिसम्भवा |
मालां कुर्यान्महेशानि चाष्टसिद्धीश्वरो भवेत् ||
सैव तारा महेशानि नात्र कार्यो विचारणा |
यस्मिन् मन्त्रे य आचारस्तत्र धर्मस्तु तादृशः ||
कृतार्थस्तेन जायेत स्वर्गो वा मोक्ष एव वा |


Lesungshinweise: [Die Tilaka-Zeile und einzelne Flexionsformen bleiben vorläufig.]

Band III, S. 845, Mahachinakrama: weitere Quellenzeugnisse
स्वच्छन्दभैरवतन्त्रे |
न शौचादिक्रियाः कार्याः स्मृतिशास्त्रप्रचोदिताः |
एका लिङ्गे गुदे पञ्च इत्याद्या याः प्रकीर्तिताः ||
न ताः कार्याः साधकेन्द्रैर्यदीच्छेच्चिरजीवितम् |
सिद्धान्तसङ्ग्रहेऽपि |
न देशकालनियमो भक्ष्यादिनियमो न हि |
शौचादिनियमो नास्ति महामन्त्रस्य साधने ||
दिवसे वा तथा रात्रौ रात्रिशेषे निशामुखे |
मांसं भुक्त्वाऽऽसवं पीत्वा स्त्रियं गत्वा चरेज्जपम् ||
शक्तिसङ्गमे |
सकलस्तु मया प्रोक्तो निष्कलं शृणु पार्वति |


Lesungshinweise: [Die Aufhebung der Reinheitsvorschriften gilt innerhalb der hier zitierten Ritualtradition.]

Band III, S. 846, Mahachinakrama: Nishkala und Verinnerlichung
मणिबन्धाद्यः पाणिं पादौ गुल्फाद्यः शिवे ||
मुखं प्रक्षाल्येद्देवि चीनस्नानमिदं भवेत् |
जानुभ्यामवनौ गत्वा भूमौ मस्तकमानयेत् ||
चीनमार्गे नमस्कारः कीर्तितस्तु मया तव |
पूर्वक्रमस्य देवेशि क्रमः प्रतिनिधिर्मथा ||
स्नानदानादिकं कृत्वा तथा पूजादिकं प्रिये |
तथा स्नातो न मे देहो न च पापं ममास्ति वै ||
किं स्नानं कस्य चित् स्नानमस्नातः कृतभोजनः |
सर्वमेव हृदम्भोजे मयि सर्वं प्रतिष्ठितम् ||
मयि जाता मयि सिद्धिर्मम देवा वरप्रदाः |
तेजोरूपं जगत्सर्वं तारिणी तत्स्वरूपधृक् ||
तत्तेजसा स्वस्यदेहं सम्भाव्य जपमाचरेत् |
भावनाहठमापन्नो भवेद्योगी महाकविः ||


Lesungshinweise: [Die erste Zeile und die Zeile zum stellvertretenden Vollzug weisen Druckschäden auf; der Wortlaut bleibt vorläufig.] Die folgende, beschädigte Zeile bezeichnet dies als stellvertretenden Vollzug des vorherigen Verfahrens.

Band III, S. 846, Mahachinakrama: Ersatzgabe und Abschluss
गुडार्द्रकरसेनैव सुरा तु ब्राह्मणस्य च |
तदभावे जलं देवि सम्भाव्य पूजनं चरेत् ||
तन्मन्त्रैकजपासक्तः सदा तद्गतमानसः |
द्वन्द्वभावं परित्यज्य सर्वसिद्धीश्वरो भवेत् ||
ब्रह्मा चैव वसिष्ठश्च तथान्ये च ऋषीश्वराः |
निष्कलः मार्गेण भजन्ति सततं शिवे ||
ताराभक्ता महेशानि ब्राह्मणाः परिकीर्तिताः |
ब्रह्मविद्या महाविद्या सर्वत्र दुर्लभा कलौ ||
रहस्यातिरहस्यं च गोपनीयं पशुसंकटे |
इति महाचीनक्रमः |


Lesungshinweise: [Guḍārdrakarasa wird als Verbindung aus Guḍa und frischem Ingwer gelesen; die Druckgestalt ist nicht völlig eindeutig.]

Band III, S. 847, Divyachinakrama
अथ दिव्यचीनक्रमस्तत्रैव |
देव्युवाच |
छिन्नमस्ताविधौ देव क्रमं मे ब्रूहि सत्वरम् |
शिव उवाच |
दिव्यचीनक्रमेणैव छिन्नमस्ता वरप्रदा |
क्रमद्वयं महेशानि पूर्वमेव प्रकाशितम् ||
गतस्यास्तिलको देवि भ्रूमध्ये च कुचन्दनम् |
तदन्ते रोचनापत्रे त्रिपुण्ड्रं दिव्यवर्णकैः ||
श्मशानभस्मबिन्दुं तु तन्मध्ये दापयेत् प्रिये |
मुखे मुखं प्रहृत्वा तु सर्वकालं जपेच्छिवे ||
योनिचक्रं समालोक्य यत् किञ्चित् कुरुते नरः |
तत् तदक्षयमाप्नोति छिन्नाविद्याप्रसादतः ||
दिक्कालनियमो नास्ति स्थित्यादिनियमो न हि |
पाताले कुहरे दुर्गे पर्वते तटिनीतेटे ||
अन्तरिक्षे तथा भूमौ सर्वत्र जपमाचरेत् |
विशेषः कथितो देवि शक्तितत्त्वस्य पालकः ||
इति दिव्यचीनक्रमः |


Lesungshinweise: [Die Tilaka-Zeile und einzelne Verbindungen sind beschädigt; die Lesung und die genaue Anordnung der Zeichen bleiben vorläufig.]

Band III, S. 847–848, Gandharvakrama: Einführung und Ausstattung
अथ गन्धर्वक्रमः |
देव्युवाच |
गन्धर्वाख्यं क्रमं देव कथयस्व मयि प्रभो |
शिव उवाच |
गन्धर्वाख्यक्रमेणैव सुन्दरी सिद्धिदायिनी |
गन्धर्वाख्यक्रमो देवि कथ्यते शृणु साम्प्रतम् ||
भ्रूमध्ये कुङ्कुमं देवि तन्मध्ये मलयागरु |
अष्टगन्धत्रिपुण्ड्रस्य मध्ये कस्तूरिकान्वितम् ||
सुगन्धियुक्तलोहित्यपुष्पैः सम्भूषितो नरः |
अष्टगन्धस्य धूपेन नानासौगन्ध्यभावितः ||
रक्तमाल्याम्बरधरो मुक्ताहारोपशोभितः |
पूर्णाभिषिक्ते शिरसि तेन तत्र न मुण्डनम् ||
सदा चोष्णोदकैः स्नायात् तदभावे यथोदकैः |


Band III, S. 848, Gandharvakrama: Haus und Abschluss
गृहं चित्रन्तु सचित्रं दर्पणोदरसन्निभम् ||
वितानध्वजभूषाढ्यं घण्टानादोपशोभितम् |
पञ्चवादित्रसंयुक्तं नानाघोषसमन्वितम् ||
अन्तःसूक्ष्माम्बरैर्युक्तं स्वर्णपात्रादिशोभितम् |
ग्रैवेयवलयाङ्गुल्याभरणैर्भूषितः सदा ||
नानासुरसोच्चैश्च दुग्धपानैर्नेकशः |
नानाभोगेन युक्तोऽयं गन्धर्वाख्यक्रमो भवेत् ||
इति गन्धर्वक्रमः |


Lesungshinweise: [Die Lesung bei nānāsurasa bleibt vorläufig.] Die anschließende Zeile nennt vielfältige schmackhafte beziehungsweise berauschende Getränke und wiederholten Milchgenuss; ihre erste Wortverbindung ist beschädigt.

Band III, S. 848, Beginn des Bhairavakrama
अथ भैरवक्रमः |
इति संक्षेपतः प्रोक्तं भैरवाख्यं शृणु क्रमम् |
स्वपुष्पक्रमयोगेन भैरवी भुवि दुर्लभा ||
स्वपुष्पाख्यक्रमो देवि कथ्यते शृणु साम्प्रतम् |
तरुणीं सुन्दरीं रम्यां तारुण्यामृतविग्रहाम् ||
सदा रते साभिलाषां मैथुनोद्यतमानसाम् |
इन्द्रियद्वन्द्वसंयुक्तां समानीय महेश्वरि ||
नग्नां तां च विधायादौ स्वयं नग्नो जपं चरेत् |
परस्परालोकनं च कर्तव्यं च परस्परम् ||


Lesungshinweise: [Sachliche Wiedergabe eines historischen Sexualritus; keine Alterszahl im Text. Die ungesicherte Wortverbindung wird nicht durch eine erfundene Detailanweisung ersetzt.]

Band III, S. 849, Bhairavakrama: Eignung und abweichende Verfahren
अधिकारी यदा देवि साधनार्हो न चान्यथा |
विकारे भावमाने च साधको नश्यति क्षणात् ||
साऽपि चेद्देवदेवेशि सविकारा यदा भवेत् |
शुष्किणीमनुना देवि बलात् पुष्पं समानयेत् ||
द्राविणीमनुना देवि बलाद्दृष्ट्या द्रवं नयेत् |
केलिदोषवशाद्देवि नायं योगो भविष्यति ||
तस्मात् पायसिकरूपेण बाला शास्ताऽधुना शिवे |
बालायामुभयाचारो दक्षिणो मुख्य एव हि ||


Lesungshinweise: [Die Bezeichnung pāyasikarūpa und der genaue rituelle Sinn der „Blüte“ sind hier nicht abgesichert. Die Passage ist ein Bericht über die Quelle; die verkürzt genannten Mantras werden nicht ergänzt.]

Band III, S. 849, Bhairavakrama: weitere Variante und Tilaka
तथा |
शीघ्रं च सिद्धिकामश्चेद्गवाक्षं योगमभ्यसेत् |
यत्र स्त्रीणां समूहोऽस्ति नदीतीरसमुद्रके ||
यत्र स्नानं प्रकुर्वन्ति गवाक्षं तत्र कारयेत् |
तमालोक्य प्रबन्धेन जपं कुर्याच्चिरन्तरम् ||
इति संक्षेपतः प्रोक्तं तिलकं शृणु पार्वति |
वामहस्ततले यन्त्रं विलिख्य यत्नतः शिवे ||
अवशिष्टेन तिलकं कारयेत् परमेश्वरि |
भाले कस्तूरिकाबिन्दुं मुनिपत्रं कुचन्दनम् ||
तन्मध्ये श्वेतबिन्दुं च केशादिपूर्ववच्चरेत् |
दशाविद्याविधौ देवि केशवर्धनमीरितम् ||
इति भैरवक्रमः |


Lesungshinweise: [Gavākṣa wird als historische, die Privatsphäre der beobachteten Frauen verletzende Ritualvorstellung dokumentiert. Munipatra bleibt als ungesicherter technischer Ausdruck stehen.]

Band III, S. 849–850, Kamalakrama: Tilaka und tägliche Verehrung
अथ कमलाक्रमः |
देव्युवाच |
देवेश श्रोतुमिच्छामि कमलाक्रमनिर्णयम् |
शिव उवाच |
भ्रूमध्ये घुसृणं देवि सिन्दूरं तदनन्तरम् |
श्वेतं त्रिपुण्ड्रं देवेशि तन्मध्ये करारं शिवे ||
स्नातः शुक्लाम्बरधरस्त्रिसन्ध्यं स्नानमाचरेत् |
हविष्याशी भूमिशायी मधुरात्रिप्रियो नरः ||
भृगुवारपर्यन्तं द्वितीयं भृगुवासरम् |
प्रत्यहं पूजयेद्देवि नानावादित्रनिःस्वनैः ||
दिनषोडशपर्यन्तं प्रबन्धं तु समाचरेत् |
पुनस्तद्दिनमारभ्य तद्दिनान्तं महेश्वरि ||
पूजयेत् प्रयतो नित्यं देवताभावतत्परः |


Lesungshinweise: [Die Zeitangaben zum Freitagszyklus stehen neben der Sechzehntagesangabe; ihre genaue Abstimmung ist aus dem beschädigten Wortlaut nicht sicher zu bestimmen.] Er lebt von opfergeeigneter Speise, schläft auf der Erde und liebt nach dem vermutlich als madhurātripriya gedruckten Ausdruck die süßen Speisen; die genaue Lesung bleibt offen.

Band III, S. 850, Kamalakrama: Mondphasen und Abschluss
प्रदक्षिणा प्रकर्तव्यं कलाभावक्रमेण च ||
दीपास्तत्र प्रदातव्याः कलावृद्धिक्रमेन च |
ब्राह्मणान् भोजयेन्नित्यं कलाभावक्रमेण च ||
इत्याचारपरः श्रीमान् विष्णुरूपो नरो भवेत् |
राजचिह्नानि सर्वाणि प्रयतः पूजयेत् सदा ||
सर्वसाम्राज्यलक्ष्म्यास्तु नायो भूयात् संशयः |
धनदा तस्य गेहस्था राजा च किङ्करो भवेत् ||
इति कमलाक्रमः |


Lesungshinweise: [Die Wirkungsversprechen werden als Aussagen des zitierten Textes wiedergegeben.] Die folgende Zeile verheißt eine Stellung als Herr der umfassenden Herrschafts-Lakṣmī; das Wort nāyo ist im Druck beschädigt.

Band III, S. 850–851, Brahmamargakrama
अथ ब्रह्ममार्गक्रमः |
देव्युवाच |
देवेश श्रोतुमिच्छामि ब्रह्ममार्गक्रमं शिव |
शिव उवाच |
वेश्यायाः कज्जलं देयं सिन्दूरेण त्रिपुण्ड्रकः |
हरिद्रा भ्रूयुगे देया श्वेतपत्रं समाचरेत् ||
रक्तबिन्दुं च तन्मध्ये सर्वदा तद्गतो भवेत् |
भोजने शयने रात्रौ मैथुने सर्वदा भवेत् ||
उच्छिष्टहस्तो देवेशि उच्छिष्टेन बलिं हरेत् |
शक्त्युच्छिष्टं परोच्छिष्टं भोजनं सार्वकालिकम् ||
जपं कुर्यान्महेशानि रात्रावेव जपं चरेत् |
ताम्बूलभक्षी मांसाशी भुक्त्वा चार्चां च कारयेत् ||
उच्छिष्टहस्तः प्रजपेद्ब्रह्ममार्गः प्रकीर्तितः |
इति ब्रह्ममार्गक्रमः |


Band III, S. 851, Maharajakrama: königlicher Ort
अथ महाराजक्रमः |
देव्युवाच |
महाराजक्रमं देव कथयस्व मम प्रभो |
शिव उवाच |
महाराजक्रमो देवि कथ्यते शृणु साम्प्रतम् |
नानाविचित्रसोपानमण्डिते चित्रमण्डपे ||
सौधाट्टालकसंशोभिवितानध्वजशोभिते |
नानोपवनसंयुक्ते हंसमायूरशोभिते ||
नानाविचित्रशब्देन गजवाजिविराजिते |
सर्वतो भद्रसंयुक्ते नानाभरणभूषिते ||
धूपामोदसमायुक्ते चित्रदीपैः परिष्कृते |
रत्नसिंहासने रम्ये रत्नाभरणभूषिते ||
जातीचम्पकपुष्पादिकेतकीगन्धशोभिते |
कर्पूरागुरुकस्तूरीरोचनाकुङ्कुमैर्युते ||
जटामांस्यादिसौगन्ध्यलेपेनैः परिभूषितः |
घण्टादिनादसंयुक्तः सर्वदा शुद्धमानसः ||
आनन्दमयहृदयो दिव्ययज्ञैरलङ्कृतः |
दिव्यमाल्याम्बरधरो दिव्यभूषाभिभूषितः ||


Band III, S. 852, Maharajakrama: Musik, Matangi und Tilaka
ताम्बूलपूर्णवदनो देवेन्द्र इव राजितः |
वेदपात्रैर्नृत्यपात्रैर्भोगपात्रैर्निनादितः ||
नृत्यगीतैश्च वादित्रैश्चतुर्विंशतिवाद्यकैः |
सङ्गीतरागतालैश्च ध्वनिभिश्च निनादितः ||
नानादेशीयभाषाभिर्गद्यपद्यैरलङ्कृतः |
नानाविचित्रभूषाभिर्भूषितः साधकोत्तमः ||
समस्तराजवश्योभिर्मोहयेद्राजनायिकाः |
श्रीमहाराजमातङ्गी सर्वदेवप्रमोहिनी ||
तस्यास्तु तिलकं देवि कथ्यते शृणु पार्वति |
कुचन्दनं च भ्रूमध्ये गुरुसारस्तदन्तरम् ||
कस्तूरिकात्रिपुण्ड्रं च तन्मध्ये करारं शिवे |
महाराजक्रमो देवि कथितस्तु मया तव ||
अथ वा देवदेवेशि स्वयं गन्धर्वो भवेत् |
इति महाराजक्रमः |


Lesungshinweise: [Die Wörter zu den Pātras, die Königszeile und einzelne Stoffbezeichnungen sind vorläufig gelesen.] Die folgende Zeile nennt die Beeinflussung von Königen und königlichen Frauen; ihre Wortverbindung ist beschädigt.

Band III, S. 852, Beginn des Divyabhavakrama
अथ दिव्यभावक्रमः |
देव्युवाच |
वद श्रीभुवनेशान्याः क्रमं परमदुर्लभम् |
शिव उवाच |
दिव्यभावक्रमेणैव भुवना शीघ्रसिद्धिदा |
हकारः शिवरूपः स्याद्रेफकारः पापनाशकः ||
ईकारः कामरूपः स्यान्महामाया तेन प्रकीर्तिता |
ब्रह्माण्डमेतद्देवेशि मायया वेष्टितं भवेत् ||
यथा मायां विना देवि न किञ्चित् प्रतिभासते |
यन्त्रासरहितं किञ्चित् व तद्रासते क्वचित् ||


Lesungshinweise: [Die Schlusszeile wird vorläufig transkribiert, aber nicht durch eine erfundene Übersetzung ergänzt. Der Zusammenhang wird auf der Folgeseite fortgeführt.] Wie ohne Māyā nichts erscheint, so folgt anschließend ein weiterer Vergleich, dessen letzte Zeile im Scan erheblich beschädigt ist.

Band III, S. 853, Divyabhavakrama: Abschluss und Tilaka
यन्त्राससहितं देवि जगदेतत् प्रभासते |
यां विना तु महेशानि जगज्जडसमं भवेत् ||
एवं क्रमेण देवेशि सदा तद्गतमानसः |
त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणा ||
एतस्यास्तिलकं देवि कथ्यते यतः शृणु |
श्वेतचन्दनबिन्दुं तु भ्रूमध्ये तु प्रकल्पयेत् ||
गन्धसारं तदन्ते स्यात् त्रिपुण्ड्रं दिव्यवर्णकैः |
रक्ताक्षतांश्च तन्मध्ये तेन सिद्धीश्वरो भवेत् ||
इति दिव्यभावक्रमः |


Lesungshinweise: [Die Lesung yantrāsa am Seitenanfang ist ebenso wie die Schlusszeile von S.852 ungesichert; der klare Folgesatz wird vollständig übersetzt.] Die erste Zeile führt den auf der vorherigen Seite beschädigten Vergleich fort: Mit dem dort genannten Prinzip erscheint diese Welt.

Band III, S. 853–854, Dhumakrama
अथ धूम्रक्रमः |
देव्युवाच |
देवेश श्रोतुमिच्छामि धूमावत्याः क्रमं शिव |
शिव उवाच |
धूमावत्याः क्रमो देवि कथ्यते शृणु पार्वति |
भ्रूमध्ये कज्जलं देवि भस्मबिन्दुस्तदन्तरे ||
त्रिपुण्ड्रं च ललाटे स्याच्छवभस्म तदन्तरे |
कृष्णवस्त्राम्बरधरः कृष्णगन्धैर्विभूषितः ||
गन्धपुष्पेण संयुक्तः श्मशानासने सङ्गतः |
धूम्रवर्णं जगत् सर्वं मन्त्री धूम्रमयो भवेत् ||
काकपिच्छं चासनं स्यात् कृष्णद्रव्यं प्रधारयेत् |
ब्रह्मचारी मिताहारो निर्विकल्पो जितेन्द्रियः ||
सत्यवादी दृढाचारो भूशायी कुदाविष्टरः |
स्नानं त्रिषवणं कुर्यादुच्चाटनपरायणः ||
स्वरं च काकवत् कृत्वा जगदुच्चाटयेद्ध्रुवम् |
इत्याचारपरो भूयाद्धूम्रक्रमगतो भवेत् ||
इति धूम्रक्रमः |


Lesungshinweise: Er spricht wahrhaftig, hält sich fest an seine Disziplin und schläft auf der Erde; die folgende Sitzbezeichnung kudāviṣṭara ist unsicher, möglicherweise ist ein Kuśa-Sitz gemeint.

Band III, S. 854, Saubhagyakrama: gelbe Ausstattung
अथ सौभाग्यक्रमस्तत्रैव |
सौभाग्यार्चाक्रमेणैव बगला शीघ्रसिद्धिदा |
पीताम्बरधरो मन्त्री पीतभूषणभूषितः ||
पीतमाल्याम्बरधरः पीतगेहे समास्थितः |
पीतद्रव्योपभोगी च पीतासनसमन्वितः ||
पीतहोमी पीतपुष्पी पीतशक्तिसमन्वितः |
रोचनां भुवि संदध्यात् कुङ्कुमं मुनिपत्रकम् ||
हरिद्रया त्रिपुण्ड्रं च तन्मध्ये खदिरं शिवे |
हरिचन्दनधूपेन धूपितः परमेश्वरि ||


Lesungshinweise: [Einzelne Stoff- und Zeichenbezeichnungen sind vorläufig gelesen.] Die Quelle nennt Rocanā, Kuṅkuma und munipatraka; die Ortsangabe bhuvi ist vermutlich beschädigt.

Dokumentierte Inhaltsauslassung: Band III, S.854–855, intime Ritualpassage des Saubhāgyakrama. Sexualisierte Darstellung einer minderjährig oder nicht eindeutig erwachsen bezeichneten Gestalt; hier nicht wiedergegeben. Dieser Hinweis ersetzt keine Übersetzung.

Band III, S. 855, Saubhagyakrama: Schlussmahnung
एतत्क्रमं विना देवि प्रयोगो न भवेत् क्वचित् |
तस्मात् सर्वप्रयत्नेन सिद्ध्यर्थी देवि भूतले ||
अभिमानाष्टकं त्यक्त्वा त्यक्त्वा वै दूषणत्रयम् |
त्यक्त्वा पञ्चेन्द्रियासक्तिं सौभाग्यक्रममाचरेत् ||
इति सौभाग्यक्रमः |


Lesungshinweise: [Die acht Arten des Hochmuts und die drei Fehler werden an dieser Stelle nicht einzeln aufgezählt.]

Band III, S. 855, Drei Bhavas: Einleitung und redaktioneller Zusatz
अथ दिव्यवीरपशुभावाः |
भावचूडामणौ |
देव्युवाच |
भावस्तु त्रिविधो देव दिव्यवीरपशुक्रमात् |
गुरवस्त्रिविधाश्चात्र तथैव मन्त्रदेवताः ||
शक्तिमन्त्रे महादेव विशेषान्मन्त्रसिद्धिदः |
आद्यभावो महादेव श्रेयान् सर्वसमृद्धिदः ||
द्वितीयो मध्यमश्चैव तृतीयः सर्वनिन्दितः |
सर्वनिन्दित इति ब्राह्मणेतरविषयः |
ब्राह्मणस्य तु पशुभावान्यभावाश्रयणे निन्दाश्रवणात् |


Lesungshinweise: [Der Prosaeinschub schränkt die vorherige allgemeine Wertung ausdrücklich ein; beide Stimmen bleiben erkennbar.]

Band III, S. 855–856, Bhava als Voraussetzung der Mantrawirkung
तथा |
लक्षजापात् तथा होमात् कायक्लेशादिविस्तरैः |
न भावेन विना देव तन्त्रमन्त्राः फलप्रदाः ||
किं वीरसाधनेनैव विश्वदृष्टिकुलाकुलैः |
किं पीठपूजनेनैव किं कन्याभोजनादिभिः ||
स्वयोषित्प्रीतिदानेन किं परस्यां तथैव च |
किं जितेन्द्रियभावेन किं कुलाचारकर्मणा ||
यदि भावविशुद्धात्मा न स्यात् कुलपरायणः |
भावेन लभते मुक्तिं भावेन कुलवर्धनम् ||
भावेन कुलवृद्धिः स्याद्भावेन कुलशोभनम् |
किं न्यासविस्तरेणैव किं तत्त्वशुद्धिविस्तरैः ||
किं तथा पूजनेनैव यदि भावो न जायते |
केन वा पूज्यते विद्या न वेत केन न पूज्यते |
फलाभावश्च देवेश भावाभावात् प्रजायते |


Lesungshinweise: [Kula bezeichnet hier den tantrischen Überlieferungszusammenhang; einzelne Wortverbindungen sind vorläufig.] Was nützt die bloße Vīra-Sādhana mit den in der folgenden beschädigten Verbindung genannten Weltanschauungen und Kula-Bezügen?

Band III, S. 856, Divyabhava: Welt und Selbst als göttliches Leuchten
तथा |
प्रथमो दिव्यभावस्तु कथ्यते शृणु सादरम् ||
यद्रूपदेवता यत्र तत्तेजःपुञ्जपूरितम् |
तेजोमयं जगत् सर्वं विभाव्य मूर्तिकल्पनम् ||
तत्तन्मूर्तिमयं मन्त्रं स्वेन स्वेनैव वा पुनः |
आत्मानं तन्मयं कृत्वा सर्वभावं तथैव च ||
तत्सर्वं योषिति ध्यात्वा चिन्तयेद्यतमानसः |


Lesungshinweise: [Die Verbindung bei svena svena ist im Druck vorläufig; das Leitmotiv der göttlichen Lichtgestalt ist eindeutig.]

Band III, S. 856, Kumariverehrung: Vielfalt der Herkunft und Altersrahmen
अशेषकुलसम्पन्नां नानाजातिसमुद्भवाम् |
नानादेशोद्भवा वापि गुणलावण्यसंयुता ||
द्वितीयवत्सरादूर्ध्वं यावत् स्याद्दशमाब्दकम् |
तावत् कुमारी विज्ञेया मन्त्रयज्ञफलप्रदा ||
कुमारीपूजनाच्चैव कुमारीभोजनादपि |


Lesungshinweise: [Die Altersobergrenze lautet im vorliegenden Druck daśamābdakam, zehntes Jahr. Diese Passage behandelt Verehrung und Speisung, keine sexuelle Handlung.]

Band III, S. 857, Divyabhava: Kumarispeisung und Schutz
एकद्वित्र्यादिभोजनात् फलदा नात्र संशयः ||
ताभ्यः पुष्पं फलं वापि अनुलेपादिकं तथा |
बलिप्रियं च नैवेद्यं दत्त्वा तद्भावपूरितः ||
दत्त्वा तदङ्ग आत्मानं बलिभावे विचिन्तितम् |
ताभिः प्रायः कथालापं क्रीडाकौतूहलादिकम् ||
यथार्थं तत्प्रियं कृत्वा सिद्धीश्वरो भवेत् |
तस्मात् षोडशपर्यन्तं युवतीति प्रकीर्त्यते ||
तत्र भावप्रकाशश्चेत् सद्भावः परमो मतः |
रक्षितव्याः प्रयत्नेन अक्षतास्ता न कारयेत् ||
एवं ते कथितो देव दिव्यभावः सुखावहः |
न देयो यस्य कस्यापि पशोर्गोप्यः प्रयत्नतः ||
इति दिव्यभावः |


Lesungshinweise: [Die Altersangabe sechzehn ergänzt die abweichende Kumārī-Definition der Vorseite; beide werden unverändert dokumentiert.]

Band III, S. 857, Virabhava: Bhairava und Bhairavi
अथ वीरभावस्तत्रैव |
देव्युवाच |
वीरभावो महादेव कथ्यते शृणु भैरव |
निर्द्वन्द्वमानसो भूत्वा हृदा कामकला तनुः ||
त्रिकालपूजा प्रवरा हेतुयुक्ता तथैव हि |
निजं कुलं समाधाय स्वयं भैरवरूपधृक् ||
कुलं च भैरवीरूपं तदात्र न्यासविस्तरम् |
विन्यसेत् केवलं न्यासं नवयोन्यात्मकं तथा ||
नवयोन्यात्मकमिति श्रीविद्यापरम् |
प्रसन्नतल्पिकामध्ये पुष्पप्रकरसंयुते |
नानागन्धसमाकीर्णे कुलद्रव्येण यन्त्रकम् ||
लिखित्वा पूजयेद्भक्तो घटस्थापनपूर्वकम् |


Lesungshinweise: [Die genaue Funktion von Kula und Hetu wird durch die folgenden Verse und den Prosaeinschub näher bestimmt.]

Band III, S. 858, Virabhava: Gefäß und Unterscheidung der Ritualstoffe
स्ववामभागे षट्कोणं तन्मध्ये ब्रह्मरन्ध्रकम् ||
लिखित्वा तत्र कुम्भं वै सौवर्णं राजतं तथा |
ताम्रं भूमिमयं वाऽपि महालोहविवर्जितम् ||
स्थापयेत् कलशाधारं कुम्भं सुगन्धिवासितम् |
हेतुद्रव्यं ब्राह्मणादिभेदतः संप्रपूरयेत् ||
ब्राह्मणादिभेदत इति क्षीराज्यमद्यासवरूपं ब्राह्मणादिभिः पूरणीयमित्यर्थः |
एवं च वीरब्राह्मणस्य हेतुसाधने क्षीरमेव न पायसस्तु तदपि नेति बोध्यम् |
तत्र यन्त्रं विलिख्यादौ यत्नात् कुलसमुद्भवम् |
ध्यात्वेष्टदेवतां तत्र जपेदष्टोत्तरं शतम् ||
धेनुयोनी प्रदर्श्याथ प्रहृतं तद्विचेष्टितम् |


Lesungshinweise: [Der Prosaeinschub ist als redaktionelle Erläuterung von den zitierten Versen getrennt; die beschädigte Schlussaussage zur Milch bleibt offen.] Die anschließende Erklärung nennt für einen Vīra-Brahmanen Milch als Hetu; die Wortfolge nach kṣīram eva ist beschädigt und nicht zuverlässig zu übersetzen.

Band III, S. 858–859, Virabhava: Amrita, Verteilung und Verehrung
दृष्ट्वाऽमृतं स्वपात्रं वै नृत्यन्ति योगिनीगणाः ||
नृत्यन्ति भैरवाः सर्वे नृत्यन्ति मातरोऽपि च |
इन्द्रादयः सुराः सर्वे नृत्यन्ति मधुलोलुपाः ||
ब्रह्मविष्णुमहेशाद्या नृत्यन्ति हर्षतत्पराः |
अर्धभाण्डं त्रिधा कृत्वा गुरवे चैकभागकम् ||
एवं कुलाय वै दत्त्वा एकेन देवतर्पणम् |
पीत्वा कुलरसं नानावस्त्रालङ्कारभूषणम् ||
साक्षाद्यदि गुरुः स्यात् स्यात्तदा तोये विवर्जयेत् |
आनन्दरूपवान् भूत्वा पूजयेत् परमेश्वरीम् ||
तत्तत्कल्पविधानेन तत्तद्यत्नेन पूजयेत् |
विसर्जनं विधायान्ते स्वकुले योजयेत् ततः ||
वाह्येम्बररसपानेन अमृतं भक्ष्यते मया |
तच्चकोरसास्वादे सम्मदो मम जायते ||
तदङ्गग्रहणादेव मेरुशृङ्गावरोहणम् |
लतालिङ्गनमात्रेण सुधाधौतकलैवरः ||


Lesungshinweise: [Mehrere Wortverbindungen des Schlussbildes sind beschädigt und vorläufig transkribiert; die Bilder werden nicht zu zusätzlichen praktischen Anweisungen ausgeführt.]

Band III, S. 859, Virabhava: Japa-Zahl und Abschluss
मूलयोगे कृते तत्र जपेदष्टसहस्रकम् |
नित्यजाप्ये च होमे च यत्र संख्या न चोदिता ||
तत्रेयं गणना प्रोक्ता अष्टोत्तरसहस्रकम् |
जलपूतं हविर्द्रव्यं गृहीत्वा तर्पयेत् ततः ||
विधाय तर्पणं देव प्रदक्षिणमथ व्रजेत् |
स्तुत्वा प्रणम्य कल्पोक्तस्तवेन स्तावयेत् ततः ||
इति वीरकुलं देव देववन्द्यं मनोहरम् |


Lesungshinweise: [Die Quelle unterscheidet ausdrücklich aṣṭasahasraka, achttausend, und aṣṭottarasahasraka, tausendacht.]

Band III, S. 859, Virabhava: Nachtverehrung und Geheimhaltung
कालीकल्पे |
रात्रौ पर्यटनं चैव रात्रौ शक्तिं प्रपूजयेत् |
अकृत्वा कथमीशान मद्भक्तः कौलिको भवेत् ||
भैरवतन्त्रे |
कुलं तु गोपयेद्देवि नारिकेलरसाम्बुवत् |
गुरुं प्रकाशयेद्धीमान् मन्त्रं यत्नेन गोपयेत् ||
कुलार्णवे |
वेदशास्त्रपुराणानि स्पष्टा वेश्याङ्गना इव |
इयं तु शाम्भवी विद्या गुप्ता कुलवधूरिव ||
सुगुप्तं कौलिकाचारमनुगृह्णन्ति देवताः |
वाञ्छासिद्धिं प्रयच्छन्ति नाशयन्ति प्रकाशनात् ||


Lesungshinweise: [Die sozialen Vergleiche und der Anspruch auf Geheimhaltung gehören zur historischen Ausdrucksweise der zitierten Quellen.]

Band III, S. 859–860, Virabhava: Achtung gegenüber Frauen
मेरौ |
न दिवा सेवयेन्नारीं तद्योनिं न निरीक्षयेत् |
स्त्रियं शतापराधां वा पुष्पेणापि न ताडयेत् ||
दोषान् न गणयेत् स्त्रीणां गुणानेव प्रकाशयेत् |
तथा |
कन्याः कुमारिका नग्ना उन्मत्ता अपि योषितः |
न निन्देत जुगुप्सेत न हसेन्नावमानयेत् ||
एकवृक्षं श्मशानं च समूहं योषितामपि |
नारीं च रक्तवसनां दृष्ट्वा वन्देत भक्तितः |


Lesungshinweise: [Die Aufzählung schützt ausdrücklich unterschiedliche Personen vor Herabsetzung; sie ist keine Beschreibung sexueller Handlungen.]

Band III, S. 860, Virabhava: Kulabäume und fünf ausgeschlossene Handlungen
तथा |
तिष्ठन्ति कुलयोगिन्यः कुलवृक्षेषु सर्वदा |
तत्पत्रेषु न भोक्तव्यमर्कपत्रे विशेषतः ||
न स्वपेत् कुलवृक्षाधो न चोपद्रवमाचरेत् |
दृष्ट्वा भक्त्या नमस्कुर्याच्छेदयेन्नैव कदा चन ||
श्लेष्मान्तकरञ्जार्कनिम्बाश्वत्थकदम्बकाः |
बिल्वो वटोऽडुम्बरश्च चिञ्चा चेति दश स्मृताः ||
प्रायश्चित्तं भृगोः पातं संन्यासं व्रतधारणम् |
तीर्थयात्राभिगमनं कौलः पञ्च विवर्जयेत् ||
प्रायश्चित्तादिकं तन्त्रातिरिक्तम् |


Lesungshinweise: [Die Baumliste hat zehn Glieder; die verschmolzene Anfangsform im Druck wird entsprechend getrennt. Der Felssturz ist eine historisch erwähnte Selbsttötungsform, die hier ausdrücklich abgelehnt wird.]

Band III, S. 860, Virabhava: äußeres Auftreten und Verheißung
रौद्रे |
वीरभावं महेशानि सर्वथा न प्रकाशयेत् |
वीरचूडामणौ |
पूजाकाले महेशानि यदि कोऽप्यत्र गच्छति |
दर्शयेद्वैष्णवीं मुद्रां विष्णुन्यासं तथा स्तवम् ||
अन्तः शाक्ता बहिः शैवाः सभायां वैष्णवा मताः |
नानारूपधरा वीरा विचरन्ति महीतले ||
भावचूडामणौ |
यद्देशे विद्यते वीरस्तत्कुलं वापि भैरव |
न च मारीभयं तत्र न च राजभयादिकम् ||
सुमङ्गलं सदा तत्र धनपुत्रविवर्धनम् |
लक्ष्मीस्तत्र महादेव सुस्थिरा भवति ध्रुवम् ||


Lesungshinweise: [Dies sind Schutz- und Wohlergehensverheißungen des Quellentextes, keine überprüften Wirkungszusagen.]

Band III, S. 861, Virabhava: Mantra, Ritualort und besondere Tage
मन्त्रः स्वप्रबोधिन्या अवश्यं वृक्षमूलके |
योजनीयः प्रयत्नेन न च विघ्नः प्रजायते ||
नान्यवीरस्य तद्भोग्यं ग्रहणे दैवतैरपि |
योगिनीभिर्भवे लुप्तं च तत्र पापेन लिप्यते ||
यत्र तत्र कुजे वारे श्मशानगमने कृते |
पूजाफलं भवेत्तत्र सप्तवासरसम्मितम् ||
चतुर्दश्यां गते तत्र पक्षपूजाफलं भवेत् |
न गच्छेद्वाम्यतः स्थाने पशुरेव न संशयः |


Lesungshinweise: [Die ersten und letzten Wortverbindungen bedürfen eines besseren Textzeugen; keine zusätzlichen Ritualmittel werden ergänzt.] Das zum Genuss eines anderen Vīra Bestimmte darf nicht genommen werden; die folgende Zeile über Gottheiten, Yoginīs und Schuld ist beschädigt, lässt aber eine Missbilligung dieses Nehmens erkennen. Die letzte Zeile tadelt das Meiden eines besonderen Ritualortes als Paśu-Verhalten; die Lesung vāmyataḥ ist nicht gesichert.

Band III, S. 861, Virabhava: Genuss und innerer Zustand
नास्त्यस्मादधिकं देव इति चिन्तापरायणः |
मदेव द्रव्यभोक्ता च भवेत् कुलपरायणः ||
साधके क्षोभमाप्ते च मम क्षोभः प्रजायते |
तस्माद्वाहीरवरो भवेद्भोगयुतः सुखी ||
भोगेन मोक्षमाप्नोति भोगेन कुलसाधनम् |
विना हेतुमनास्वाद्य क्षोभयुक्तो महेश्वर ||
न पूजा मम संपर्कं न ध्यानमनुचिन्तनम् |
तस्माद्भुक्त्वा च पीत्वा च पूजयेत् परमेश्वरीम् ||
नात्र प्रच्युतिदोषोऽस्ति नायं दोषभूषणम् |
यद्वदति निद्राति यत् करोति यदश्नाति ||
तत्सर्वं कुलरूपं च ध्यात्वा च विहरेत् सुखी |


Lesungshinweise: [Die rituelle Rechtfertigung von Genuss ist traditionsgebunden; beschädigte Einzelwörter bleiben vorläufig.] Deshalb soll der Vīra glücklich und mit Genuss versehen sein; die genaue Bezeichnung am Versanfang ist beschädigt.

Band III, S. 861–862, Virabhava: Zurückgezogenheit und Blumensymbolik
एकाकी निर्जने देशे श्मशाने पर्वते वने ||
शून्यगेहे नदीतीरे निःसङ्गो विहरेन्मुदा |
वीराणां जपकालस्तु सर्वकालः प्रशस्यते ||
सर्वदेशे सर्वपीठे कर्तव्यं च न संशयः |
यदि विप्रो भवेच्छुद्धः कुलधर्मपरायणः ||
तदा तेन विधानेन कर्तव्यं कुलतोषणम् |
अपराजितपुष्पगर्भं तु कुलस्थानं मनोहरम् ||
सर्वदेवमयं तत्र महाकामकलात्मकम् |
हयारिकुसुमे देवः स्वयमस्ति सदाशिवः ||
तन्मध्ये लयमादाय पुष्पमध्ये तु चन्दनम् |
रक्तं वा कुङ्कुमं दत्त्वा ध्यात्वाऽऽत्मानं शिवात्मकम् ||
योजयेच्छिवशक्त्योस्तु ऐक्यं संभाव्येन्द्रिया |
क्षणं विचिन्त्य तेनैव संपूज्य परमेश्वरीम् ||
उत्त्वा तदेव कुण्डाख्यं द्रव्यं परमदुर्लभम् |


Lesungshinweise: [Die Zeile zur Einheit von Śiva und Śakti sowie die Schlusszeile sind vorläufig transkribiert.] Die Schlusszeile nennt das schwer zugängliche, als Kuṇḍa bezeichnete Mittel; das Verb am Anfang ist beschädigt.

Band III, S. 862, Virabhava: Blumen und Unterschiede der Haltungen
यत्रापराजितापुष्पं जपापुष्पं च भैरव ||
करवीरे रक्तयुक्तं द्रोणपुष्पं च तिष्ठति |
तत्र देवी वसेन्नित्यं तद्यन्त्रे पूजयेत् नमः ||
इदं चैव जपापुष्पं पद्मवत्फलं लभेत् |
ब्रह्महत्यादिकं पापं क्षणान्नश्यति निश्चितम् ||
अपराजितास्तु माहात्म्यं वक्तुं न हि महेश्वर |
वीरसाधनकार्यं च कर्तव्यं वीरपुङ्गवैः ||
दिव्यैरपि च कर्तव्यं पशुभिर्न च पामरैः |
वरं पामरकार्यं च न पशोरिति निश्चितम् ||
यद्यत्र मत् पुरा प्रोक्तं संकेतं मन्त्रसाधने |
अञ्जनं गुटिकां च कुर्याद्वीरो महाबलः ||
दिव्ये वीरे न भेदोऽस्ति यद्भेदं तत् तु कथ्यते |
शान्तो विनीतो मधुरः कलालावण्यसंयुतः ||
दिव्यस्तु देववत् प्रायो वीरश्चोद्धतमानसः |


Lesungshinweise: [Añjana und Guṭikā bleiben als benannte Ritualzubereitungen stehen; die Quelle gibt hier keine Zusammensetzung an.] Man verehre sie im entsprechenden Yantra; der genaue Abschluss dieser Zeile ist unsicher.

Band III, S. 863, Virabhava: Unterformen und äußere Merkmale
कुलरत्नावल्याम् |
दिव्यवीरौ सुरेशानि शक्तिसेवापरायणौ |
वामिकौलिकभेदाभ्यां प्रत्येकं द्विविधौ स्मृतौ ||
भावचूडामणौ |
विभूतिभूषणोऽपि चन्दनेन विलिप्तः |
आकारगोपनो वाऽपि त्यक्तो वा कुलभैरव ||
रक्तचन्दनदिग्धो वा वैष्णवो वाप्यवैष्णवः |
अपमाने तु पूजायां दृष्टः पुष्टः सदा भवेत् ||
देवनिन्दापरो वाऽपि तत्र पूजापरोऽपि वा |
पूजा च तद्रहितः कुलाकुलमते स्थितः ||
निजभावसमायुक्तो देववद्विहरते क्षितौ |
स्वकुलान्ते पुरश्चर्या कार्या रात्रौ न चान्यथा ||


Lesungshinweise: [Die gegensätzlichen äußeren Erscheinungsweisen werden nicht zu einheitlichen Geboten geglättet.] Bei Missachtung wie bei Ehrung soll er stets gefestigt bleiben; das Wort dṛṣṭa ist vermutlich beschädigt.

Band III, S. 863, Virabhava: Kula, Guru und Abschluss
वेदहीने द्विजे देव यथा न श्रुतिसंकथा |
विष्णुभक्तिं विना देवीभक्तिर्न प्रभवेद्यथा ||
शक्तिज्ञानं विना मुक्तो यथा हास्याय कल्पते |
गुरुं विना यथा तन्त्रे नाधिकारः कथं चन ||
पतिहीना यथा नारी सर्वकर्मविवर्जिता |
कुलं विना देवविधौ कदाऽपि मम साधने ||
नाधिकारीति कौलेय तस्मात्तत्परो भवेत् |
अविनीतं कुलं यस्य स कथं मम पूजकः ||
तस्माद्यत्नात् तथा कार्यं यथा साद्धिर्नयान्तितम् |
भावाभावे कुले शास्त्रे नाधिकारः कथं चन ||
तेन भावविशुद्धश्च साधकः कौलिको भवेत् |
इति वीरभावक्रमः |


Lesungshinweise: [Die Ausschlussvergleiche geben die historische Argumentation der Quelle wieder; die vorletzte Mahnzeile bleibt vorläufig gelesen.] Die folgende Zeile mahnt sorgfältiges Handeln im Hinblick auf Siddhi an, ist aber beschädigt.

Band III, S. 864, Pashubhava: Einführung und Lebensführung
अथ पशुभावस्तत्रैव |
देव्युवाच |
पशुभावं प्रवक्ष्यामि शृणु वत्स समाहितः |
यथाविधि पशोर्विद्यां गृहीत्वा भावतत्परः ||
प्रथमं पूर्वसेवार्थं यतः शुद्धिमाचरेत् |
नमस्य भोजनं कुर्यान्न स्त्रियं मनसा स्मरेत् ||
न परद्रव्यलोभी स्याद् भोगे मानसं भजेत् |
सिन्धुतीरे पर्वते वा कानने च सुरालये ||
बिल्वमूले विविक्ते च पुण्यक्षेत्रे च शोभने |
न शूद्रदर्शनं कुर्यात् कौटिल्यं यतस्त्यजेत् ||
देवतां शुभवर्णां तु ध्यातव्या सुसमाहितः |
त्रिसन्ध्यं देवपूजा तु त्रिसन्ध्यं जपमाचरेत् ||


Lesungshinweise: [Die soziale Ausschlussregel wird als Quellenbefund dokumentiert.] Die anschließende Aussage zum auf Genuss gerichteten Geist scheint beschädigt und bleibt ungesichert.

Band III, S. 864, Pashubhava: Japa, Enthaltsamkeit und Reinheit
रात्रौ मन्त्रं च मालाश्च स्पृशेन्नैव कदा चन |
न मन्त्रमुच्चरेद्दुष्ट्वा मौनी स्यात् सर्वकर्मसु ||
पर्वकाले स्त्रियं नैव गच्छेत् साधकसत्तमः |
पुष्पं गन्धं जलं चैव स्वयमानीय पूजयेत् ||
मैथुनं तत्कथालापं तद्गोष्ठीं परिवर्जयेत् |
ऋतुकालं विना चापि न गच्छेत् स्त्रियमादरात् ||
पुराणश्रवणे श्रद्धा वेदवेदार्थतत्परः |
न रात्रौ भोजयेद्द्विजान् ताम्बूलं परमेश्वर ||
गुरुणा यद्यदादिष्टं तत्सर्वं यतश्चरेत् |
स्वजातकुसुमं चैव हेतुद्रव्यं च भैरव ||
स्पृष्ट्वा तथा समाघ्राय पञ्चगव्येन शुध्यति |
रक्तवस्त्रं न गृह्णीयाद्देवीभक्तिपरायणः ||


Lesungshinweise: [Die hier geltenden Einschränkungen unterscheiden sich ausdrücklich von denen der zuvor dargestellten Vīra-Haltung.]

Band III, S. 865, Pashubhava: Vishnutantras und Pflichten
विष्णुतन्त्रेषु कल्याणि तदनुष्ठानमेव च |
कार्यं वीरकथालापं न कुर्याद्वीरनिन्दिते ||
नित्यश्राद्धं गयाश्राद्धं सन्ध्यावन्दनमेव च |
तीर्थस्नानं पीठदेशागमनं धर्मतत्परः ||


Lesungshinweise: [Diese Vorschriften gehören zum Paśubhāva und werden nicht auf die zuvor dargestellten Haltungen übertragen.]

Band III, S. 865, Pashubhava: Merutantra zu Achtung und Zurückhaltung
मेरुतन्त्रे |
देवस्थाने गुरुस्थाने श्मशाने च चतुष्पथे |
पादुकासनविण्मूत्रमैथुनानि विवर्जयेत् ||
प्रमत्तामन्त्यजां कन्यां पुष्पितां पतितस्तनीम् |
विरूपां वा मुक्तकेशीं कामार्तां च न निन्दयेत् ||
कन्यायोनौ पशुक्रीडां दिव्यस्त्रं प्रकटस्तनीम् |
नालोकयेत् परद्रव्यं परदारांश्च वर्जयेत् ||
धान्यगोऽग्निदेवार्यकुशपुस्तकसंमुखम् |
नैव प्रसारयेत् पादौ न चैतानि विलङ्घयेत् ||
आलस्यमदसंमोहहर्षापैशुन्यविग्रहान् |
असूयामात्मसम्मानं परनिन्दाश्च वर्जयेत् ||


Lesungshinweise: [Die Aufzählung mit divyastra ist beschädigt; die Verbotsrichtung wird wiedergegeben, ohne daraus eine detaillierte Körperbeschreibung zu machen.] Die nächste, teilweise beschädigte Aufzählung verbietet indiskretes Betrachten intimer Körperbereiche und sexueller Vorgänge; anschließend werden das Begehren fremden Eigentums und fremder Ehepartner untersagt.

Band III, S. 865, Bhava: inneres Erfahren und Abschluss des Pashubhava
भावचूडामणौ |
भावस्तु मानसो धर्मः शब्दः स हि कथं भवेत् |
तस्माद्भावो न वक्तव्यो दिङ्मात्रं समुदाहृतम् ||
यथेक्षुगुडमाधुर्यमश्नन्नेव ज्ञायते प्रभो |
तथा भावविभावस्तु मनसा परिभाव्यते ||
तन्त्रान्तरे |
उत्तमो दिव्यभावः स्याद्वीरभावस्तु मध्यमः |
पशुभावोऽवरः प्रोक्तो भावमेकं समाश्रयेत् ||
इति पशुभावक्रमः |


Band III, S. 866, Sampradayas: Gauda
अथ संप्रदायः |
सिद्धान्तसङ्ग्रहे |
संप्रदायानथो वच्मि गौडकश्मीरकेरलान् |
सर्वार्थसिद्धिसंकल्पपूजापुष्पार्पणाद्नु ||
नैवेद्यान्ते च हवनं ताम्बूलान्ते बलिर्मतः |
पूजनं वामहस्तेन दक्षहस्तेन तर्पणम् ||
साक्षादानं मकारेण हृदि देव्या विसर्जनम् |
गौडसंप्रदायोऽयं सेवितो वामिभिः सदा |


Lesungshinweise: [Die erste Schlussverbindung und die Makāra-Zeile sind vorläufig gelesen.] Der genaue Anschluss der ersten Verszeile ist beschädigt. Die anschließende Verbindung sākṣādānaṃ makāreṇa nennt den unmittelbaren Vollzug mit den Makāras, ist aber nicht eindeutig.

Band III, S. 866, Sampradayas: Kashmir und Ersatzstoffe
विनियोगार्चनार्थं बलिः पीठार्चनादनु |
होमः पञ्चोपचारान्ते दक्षिणार्चनतर्पणे ||
गव्यं तु ताम्रपात्रस्थं वारुणी स्याद्घृतं विना |
लवणार्द्रकपिण्याकपक्वलड्डुमाषपञ्चकम् ||
लशुनं च महादेवि मांसप्रतिनिधिः स्मृतः |
मत्स्याभावे तु क्रमुकं ताम्बूलं यवशामिषम् ||
गुडाभावे तण्डुलं वा भर्जितं चणकादिकम् |
विलिखेत् पञ्चमाभावे शक्तिबीजं त्रिकोणकम् ||
वामोरौ साधको रक्तं चन्दनेन विधानवित् |
शक्तिं संपूज्य तेनैव तद्गायत्रीं शतं जपेत् ||
स्वयम्भुकुसुमाभावे रक्तचन्दनकं क्षिपेत् |
हयारिकुसुमं शम्भुः शक्तिः प्रोक्ताऽपराजिता ||
तयोः सम्मेलनोत्पन्नं गृह्णीयाच्च कुलामृतम् |


Lesungshinweise: [Einzelne Ersatzstoffbezeichnungen sind im Druck nicht sicher; die Passage beschreibt historische rituelle Entsprechungen.]

Band III, S. 866–867, Sampradayas: Kashmir-Abschluss und Worterklärung
तथा |
ताम्रे गव्यादिपिण्याकं गृञ्जनं पायसं पयः |
एते तत्तत्कल्पाश्च सहस्रारे विसर्जनम् ||
काश्मीरसंप्रदायोऽसौ विज्ञेयः कौलिकप्रियः |
पिण्याकं तिलकल्कः |
गृञ्जनं लशुनम् |


Lesungshinweise: [Die knappe erste Aufzählung wird als solche bewahrt und nicht zu einer neuen Rezeptur zusammengestellt.]

Band III, S. 867, Sampradayas: Kerala und Abschluss
तथा |
सङ्कल्पो देवताप्रीत्यै तत्त्वानां भावनैव हि |
आत्मा विद्या शिवः सर्वः पूर्णश्चेति क्रमेण च ||
पूजा पञ्चोपचारान्ते पूजान्ते च बलिर्भवेत् |
पूजनं दक्षहस्तेन वामहस्तेन तर्पणम् ||
होमः समस्तकर्मान्ते हृत्खेचोद्वासनं स्मृतम् |
केरलाख्यः संप्रदायो मुनिभिः समुपासितः ||
इति संप्रदायक्रमः |


Band III, S. 867, Schlussvers und Kolophon des neunten Taranga
विश्रत्यद्भुतभूतिभूतपवनेनैव चित्रचित्रामृतस्रोतःशालिनि संनिबन्धनसरित्संभेदमध्याहितम् |
सन्मुक्तोपमयुक्तिभाजि नवमो रम्यस्तरङ्गोऽगमत् सर्वोर्वीपतिनाथनिर्मितपुरश्चर्यार्णवेऽस्मिन् नवे ||
इति श्रीमन्महाराजाधिराजश्रीप्रतापसिंहसाहविरचिते पुरश्चर्यार्णवे दशमहाविद्यापुरश्चरणनिरूपणं नाम नवमस्तरङ्गः |


Lesungshinweise: [Der Anfang und mehrere Komposita des metrischen Schlussverses sind im Scan beschädigt; die vorläufige Transkription wird deshalb nur sinngemäß wiedergegeben.]

Shiva und Parvati stehen für die Verbundenheit von Bewusstsein und Kraft.

Genauigkeit und Hingabe verbinden

Leserbegleitung und heutige Praxisanregung:

Das genaue Lesen verlangt Sammlung; eine offene Frage verlangt Geduld. Beide Qualitäten können dein Svadhyaya tragen. Nutze die deutschen Erläuterungen, wenn eine Stelle unklar bleibt, und bewahre den Unterschied zwischen sicher Gelesenem und einer Vermutung.

Lass die Lektüre heute in einigen stillen Augenblicken ausklingen. Teil 3 der Devanagari-Fassung führt mit den Taraṅgas 10–12 zum Abschluss des Werkes.

Wegweiser durch die zwölf Wellen

Die Seiten sind unterschiedlich aufgeteilt. Über diese Übersicht erreichst du jede Welle direkt in allen drei Fassungen.

Taraṅga Schwerpunkt Deutsch IAST Devanagari
1 Mit Vertrauen und Unterscheidungsvermögen beginnen Lesen Lesen Lesen
2 Der Praxis einen guten Rahmen geben Lesen Lesen Lesen
3 Verehrung mit Aufmerksamkeit erfüllen Lesen Lesen Lesen
4 Die Einweihung zum Abschluss führen Lesen Lesen Lesen
5 Verschiedene Wege der Einweihung verstehen Lesen Lesen Lesen
6 Beständigkeit in der Mantrapraxis entdecken Lesen Lesen Lesen
7 Über die Reifung der Praxis nachdenken Lesen Lesen Lesen
8 Die Vielfalt der Gottheitsverehrung kennenlernen Lesen Lesen Lesen
9 Die Überlieferungen der Göttin aufmerksam lesen Lesen Lesen Lesen
10 Mantra, Hymne und Verehrung zusammen betrachten Lesen Lesen Lesen
11 Der Verehrung der Göttin Zeit und Raum geben Lesen Lesen Lesen
12 Die letzte Welle mit Sammlung lesen Lesen Lesen Lesen

Siehe auch

Textumfang und Quellenhinweise

Umfang und dokumentierte Auslassungen: Alle zwölf Taraṅgas sind bis zum Werk-Kolophon auf Band III, S. 1231 bearbeitet. Die frühere Überlieferungslücke dieser Arbeitsausgabe auf S. 748–756 wurde anhand des vorliegenden PDF neu bearbeitet und geschlossen. Gesondert verbleiben neun ausdrücklich markierte Inhaltsauslassungen: Taraṅga 7, Verse 344–349, 394–399, 405–418; Taraṅga 9, S. 815, 816–817, 818, 829–830, 831 und 854–855. Sie betreffen sexualisierte Darstellungen minderjährig oder nicht eindeutig erwachsen bezeichneter Personen. Daher wird keine ausnahmslos lückenlose Vollübersetzung beansprucht. Lokale beschädigte oder unsichere Quellenlesungen bleiben gekennzeichnet.

Literatur und Quellen

  • Pratapasimha Shah: Puraścaryārṇava. Herausgegeben von Muralidhara Sharma, ältere Ausgabe in drei Bänden, Varanasi. Verwendeter Textumfang: Band I, S. 1–318. Die beiden Digitalisate von Band I ergänzen sich; die Seiten 8–9 wurden nach dem vollständigeren Exemplar wiedergegeben. Für Band II dient die von Rajanatha Tripathi herausgegebene Ausgabe von 2013 als Grundlage; deren S. 1 entspricht S. 319 der älteren Ausgabe. Die abweichende Seitenzählung wird in den Fundstellen mit der Bandangabe kenntlich gemacht.
  • Puraścaryārṇava, Band II, herausgegeben von Rajanatha Tripathi, Sampurnanand Sanskrit University; Hauptgrundlage der Taraṅgas 5–8, S. 1–330; gezielt mit der älteren Ausgabe, S. 319–412, verglichen.
  • Purashcharana im Yoga-Vidya-Wiki – ergänzende heutige Erläuterung, nicht Ersatz für den Sanskrittext.
  • Band III der älteren Ausgabe: gedruckte S.723–1231, Digitalisat 2015.487364.Purascharyarnava-Part-III_text.pdf, PDF48–556; einschließlich der neu bearbeiteten S.748–756.
  • IAST wurde aus dem bearbeiteten Devanagari transliteriert und ist kein unabhängiger Textzeuge. Unnummerierte Prosa und Verse werden durch die gedruckte Seite nachgewiesen. Die deutschen Lesungshinweise kennzeichnen örtliche Unsicherheiten. Eine kollationierte kritische Edition wird nicht beansprucht.

Ausgewählte Lesarten

  • Vers 1.49: Zur Lesung „Verrichtungen zu Navaratri“ verzeichnet der Druck die Variante „Verrichtungen“ im Plural; die sachliche Aussage bleibt gleich.
  • Vers 1.51: Die Hauptlesung bhūtalipi („Elementeschrift“) steht neben der verzeichneten Variante bhūtabali („Darbringung an die Wesen“). Hier wird der Hauptlesung gefolgt.
  • Band I, S. 12: Zur Hauptlesung Svarṇakoṭīśvarī ist Koṭeśvarī als Variante genannt.
  • Band I, S. 14: Zu śuṣke („kraftlos/trocken“) bei Shiva ohne Shakti verzeichnet der Druck sūkṣme („fein/subtil“). Die Übersetzung folgt der Hauptlesung.
  • Band I, S. 19: Statt „ein verständiger Verehrer der Göttin“ steht als Variante „ein Verehrer der Göttin, voller Hingabe“.
  • Band I, S. 21: Der Druck nennt neben „beides vermischt“ die Lesung „beides aufsuchend/auf beidem beruhend“; bei der Mittagsrezitation steht neben „Japa, o Herrin“ auch „Japa, o Göttin“.
  • Band I, S. 79–82: Mehrere Zitate werden innerhalb des gedruckten Werkes erneut angeführt. Diese Wiederholungen bleiben erhalten; das auf S. 80 abgebrochene Vishnuyamala-Zitat wird auf S. 82 vollständig gegeben.
  • Band I, S. 26: Neben padaṃ śivam (Shivas Stätte) steht die Variante pathaṃ śivam (Shivas Weg).
  • Band I, S. 33: Neben tadveṣeṇa (unter diesem Vorwand/in dieser Verkleidung) steht taddveṣeṇa (aus Hass darauf).
  • Band I, S. 34: Zur Reihe Guru, Gottheit, Selbst und Kala wird eine abweichende Lesung ohne Guru genannt; die Hauptlesung wird beibehalten.
  • Band I, S. 24: Neben vāmapathe („auf dem linken Weg“) ist vāmapade („im linken Bereich/Weg“) verzeichnet.

Zur Wiedergabe: Die Nummern 1–54 sind die Nummern des gedruckten Eingangsteils. Danach stehen genaue Seiten- und Abschnittsangaben für unnummerierte Zitate und Prosa. Unsichere Lesungen sind unmittelbar an der betreffenden Stelle bezeichnet. Zuordnungen, Wirkungsaussagen und Wertungen innerhalb der Übersetzung geben die jeweilige traditionelle Quelle wieder.

Weiterführende Angebote

Seminare

Kundalini Yoga

06.11.2026 - 08.11.2026 Kundalini Yoga Einführung

Gründliche Einführung in die Theorie und Praxis des Kundalini Yoga, Yoga der Energie. Die praktischen Übungen des Kundalini Yoga umfassen Pranayama (…
Arjuna Wingen
13.11.2026 - 15.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Manuel Hirning

Indische Schriften

26.12.2026 - 02.01.2027 Indische Rituale Ausbildung

Du interessierst dich für indische Rituale? Du hast die einzigartige Gelegenheit, in dieser Rituale Ausbildung bei Yoga Vidya die kleine Puja, große P…
Sukadev Bretz, Shankari Winkelbauer
01.01.2027 - 10.01.2027 Yogalehrer Weiterbildung Intensiv A1 - Jnana Yoga und Vedanta

Kompakte, vielseitige Weiterbildung für Yogalehrer rund um Jnana Yoga und Vedanta.
Tauche tief ein ins Jnana Yoga und Vedanta, studiere die indischen S…
Vedamurti Dr Olaf Schönert

Chakras

20.11.2026 - 22.11.2026 Heilreise durch die Chakren

Tauche ein in eine transformative Reise durch die sieben Hauptchakren und erfahre, wie du deine Energiezentren aktivieren, ausbalancieren und für dein …
Nese Niekrens, Gajendra Sebastian Niekrens
26.12.2026 - 01.01.2027 Kundalini Yoga Intensiv Praxis - Live Online

Intensives Praktizieren der im Mittelstufen-Seminar gelernten Übungen für noch tiefere Erfahrung und Erweiterung des Bewusstseins ohne viel Theorie. L…
Sukadev Bretz, Shaktipriya Vogt, Radharani Birkner

Energiearbeit

04.11.2026 - 04.11.2026 Einführung in die Chakratherapie - Online Workshop

Uhrzeit: 18 - 21 Uhr
Ein Chakra ist ein feinstoffliches Kraftzentrum des Körpers, welches wichtige Körperfunktionen steuert und bestimmten Organen zug…
Beate Menkarski
06.11.2026 - 08.11.2026 Kundalini Yoga Einführung

Gründliche Einführung in die Theorie und Praxis des Kundalini Yoga, Yoga der Energie. Die praktischen Übungen des Kundalini Yoga umfassen Pranayama (…
Arjuna Wingen

← Vorheriger Teil · Teil 1 · Teil 2 · Teil 3 · Nächster Teil →

Zur Ausgabe: Deutsch · Sanskrit in IAST · Devanagari · 108 Passagen zur Besinnung · Mantrasammlung