Purashcharanarnava Sanskrit Devanagari

Aus Yogawiki

Purashcharanarnava in Devanagari – Taraṅgas 1–5 bietet den Sanskritwortlaut der ersten fünf Wellen. Gottheitsverehrung, die Beziehung zu Guru und Mantra sowie die verschiedenen Verfahren der Diksha bilden ihren Zusammenhang. Die Schriftfassung lädt zu einem geduldigen, genauen Studium ein.

Zur Textgrundlage: Umfang, dokumentierte Auslassungen und Lesungshinweise.

Wenn du Devanagari lernst, beginne mit wenigen vertrauten Wörtern. Vergleiche Schriftbild, IAST-Umschrift und deutsche Bedeutung. Es genügt, einen kleinen Abschnitt aufmerksam zu erfassen: Mit jeder Wiederbegegnung kann das Vertrauen in das eigene Lesen wachsen.

Japa verbindet Aufmerksamkeit und Hingabe.

Zur Ausgabe: Deutsch · Sanskrit in IAST · Devanagari · 108 Passagen zur Besinnung · Mantrasammlung

Teil 1 · Teil 2 · Teil 3 · Nächster Teil →


1. Taraṅga: Gottheiten, Überlieferungswege und Einweihung

Diese Welle: Deutsch · IAST · Devanagari

Anrufung
श्रीदक्षिणामूर्तिगुरुभ्यो नमः |


1.1
शुण्डादण्डप्रचण्डप्रहतिहठदलत्प्रोढदोर्दण्डदृप्यद्दैत्येन्द्रानीकमुण्डोत्कररचितसमित्ताण्डवक्षोणिघोषः |
प्रत्य्यूहध्वान्तधामाधिपतिरधिपतिः सिद्धिसिद्धो गणानां दद्यादद्रीन्द्रकन्यास्मरहरनयनानन्दसंवर्द्धनो वः ||
१ ||


1.2
ब्रह्मोमाधवमाधवात्मकतनुश्छायाऽऽननप्रस्फुरन्मुग्धाम्भोजमधुव्रताभनयनः साक्षी जगत्कर्मणः |
ध्वान्तध्वस्तसमस्तविष्टपपरित्राणे निरस्तश्रमस्तिग्मांशुस्त्रिदशाग्रणीस्त्रिभुवनस्तुत्योऽस्तु वः श्रेयसे ||
२ ||


1.3
सद्भक्तिप्रणमद्विधित्रिपुरजिद्दृग्वाऽहितायामरश्रेष्ठश्रेणिकिरीटकोटिविलसद्बालांशुनीराजितम् |
यत् स्मृत्वा सुधियस्तरन्ति सहसा संसारवारां निधिं तद्विष्णोश्चरणाम्बुजं दिशतु वः श्रेयो नृसिंहाकृतेः ||
३ ||


Lesungshinweise: [Die genaue Lesung einer Bezeichnung innerhalb der Götterreihe ist unsicher.]

1.4
यच्छक्तिः प्रकृतिस्ततो महदभूत्तत्त्वं ततोऽहंकृतिस्तन्मात्राणि ततश्च भूतनिवहस्तेभ्यः पृथिव्यादिकः |
भूतेभ्यः करणानि चेति जगदुत्पन्नं यतः सोऽव्ययः पायाच्चन्द्रकलाऽवतंसरुचिरः साऽनुग्रहो वः शिवः ||
४ ||


1.5
अव्यक्तो मुक्तिमार्गो निगमनिगदितो दुर्ग इत्यागमज्ञाः स्वाऽविद्यादीनपोद्य यत्पदयुगममृतं लेभिरे भावयन्तः |
पायात्सा सैरिभघ्नी भवसलिलनिधेस्तारिणी रक्षणीति ब्रह्माद्यैरद्वितीयेति च सततनुता सिद्धविद्याऽऽदितो वः ||
५ ||


1.6
नत्वा श्रीगणनायकं दिनमणिं विष्णुं पशूनां पतिं दुर्गां दुर्गतितारिणीं भगवतीं गुह्येश्वरीमीश्वरीम् |
श्रीमत्साहप्रतापसिंहधरणीपालेन नानाऽऽगमान् दृष्ट्वा सर्वजनोपकारकपुरश्चर्याऽर्णवस्तन्यते ||
६ ||


1.7
औदार्येण तपःसुतं सुमहता शौर्येण कर्णद्विषं सौन्दर्येण मनोभवं जलनिधिं गाम्भीर्यधैर्यादिभिः |
कीर्त्या चन्द्ररुचं श्रिया हरिहयं भानुं प्रतापेन च क्ष्मायां निर्जरपादपान् वितरणैर्निर्जित्य यो राजते ||
७ ||


1.8
तस्य क्षोणीमघोनः समरविजयिनोऽशेषशास्त्रार्थविद्भिः सद्भिः संशोधनीयः सुविमलमतिभिः सम्यगेष प्रबन्धः |
विद्वद्विद्वेषदर्पैर्विमलपरगुणोत्कर्षविध्वस्तधैर्यैः रोषाद्दोषैकजिज्ञासुभिरतिमलिनैर्नैव दूष्यतां दुर्विदग्धैः ||
८ ||


1.9
विद्वद्भावानभिज्ञैः प्रसभमयमवज्ञायमानोऽप्यनार्यैर्नो स्यादस्मत्प्रबन्धः कथमिव विदुषां मानसोल्लासहेतुः |
गुञ्जापुञ्जानुरक्तैर्विपिनपरिसरे भिल्लदारैर्विमुक्ता मुक्ताः किं नाद्रियन्ते दरदलितनवाम्भोजपत्रायताक्ष्यः ||
९ ||


1.10
अत्रादौ देवतानां स्मरहरगदितान् साधु साम्नायभेदान् भेदानाद्ये तरङ्गे कति चन विदितान् दर्शयामस्तदूर्ध्वम् |
कालीकंसाऽरितारारघुवरमुरजिच्छैलजावल्लभानामैक्यं युग्मक्रमेणाऽऽगमगदितमभेदञ्च शक्तित्रयस्य ||
१० ||


1.11
रामस्य वक्ष्ये शिवशक्तिरूपतामैक्यं च सीताहिमशैलकन्ययोः |
श्रीरामकामान्तकयोरपि क्रमादैक्यं ततो दैवतपञ्चकस्य ||
११ ||


1.12
ततः परं तान्त्रिकमार्गभेदान् वक्ष्यामि तेषामधिकारिणश्च |
ततश्च भेदानपि वैष्णवानां ततः परं पाशुपतप्रभेदान् ||
१२ ||


1.13
उपासनां चापि बहुप्रभेदामदीक्षितानां तदनर्हतां च |
ततश्च दीक्षामनुसद्गुरूणां वक्ष्यामि माहात्म्यमनुक्रमेण ||
१३ ||


1.14
ततः प्रवक्ष्ये गुरुशिष्यलक्षणं निषिद्धयोर्लक्षणमेतयोस्ततः |
ततो गृहीतस्य मनोरहेयतामसद्गुरूपात्तमनोर्हि हेयताम् ||
१४ ||


1.15
पित्रादिमन्त्रग्रहणे निषेधं विधिं च मन्त्रेष्वधिकारिणश्च |
स्वप्नाप्तमन्त्रस्य च संस्क्रियाश्च वक्ष्यामि चक्राणि च तद्विधांश्च ||
१५ ||


1.16
ततो द्वितीये रुचिरे तरङ्गे वक्ष्यामि दीक्षोचितकालदेशान् |
मन्त्रेषु शापानपि देवतानां मुक्त्यै तदुद्धारविधिं च वक्ष्ये ||
१६ ||


1.17
ततश्च संस्कारविधिं मनूनां तत्राऽऽदितो भूमिपरीक्षणं च |
वक्ष्यामि शल्योद्धरणप्रकारान् वास्तोर्विधिं मण्डपलक्षणं च ||
१७ ||


1.18
कुण्डानि च स्रुक्स्रुवयोश्च लक्षणं तत्रैव वक्ष्यामि ततोऽङ्कुरार्पणम् |
दीक्षां प्रवक्ष्यामि ततः क्रियावतीं तरङ्गयोस्तत्र तृतीयतुर्ययोः ||
१८ ||


1.19
दीक्षाविधौ तत्र तृतीयवीचौ वक्ष्यामि तावद्वरणं गुरूणाम् |
ततश्च ऋत्विग्वरणं प्रवक्ष्ये यद्दन्तकाष्ठस्य परीक्षणं तत् ||
१९ ||


1.20
द्वारार्चनं यागगृहप्रवेशं पूजोपयुक्तानि च मण्डलानि |
ततः सपर्याविधिमागमोक्तं वक्ष्ये घटस्थापनपूर्वकं च ||
२० ||


1.21
तुर्ये तरङ्गेऽखिलमग्निकार्य्यं वक्ष्ये ततः पायसभोजनं च |
गुरोः सशिष्यस्य ततोऽभिधास्ये स्वापं ततः स्वप्नपरीक्षणं च ||
२१ ||


1.22
तत्रैव दीक्षादिवसोचितानि कर्माण्यशेषाणि मनोः प्रदानम् |
व्यक्तीकरिष्याम्यथ पञ्चमे तु प्रयोगमस्याः सकलं तरङ्गे ||
२२ ||


1.23
संक्षेपदीक्षां च ततः प्रवक्ष्ये ततः परं वर्णमयीं च दीक्षाम् |
कलावतीं नाम ततश्च दीक्षां ततः परं वेधमयीं च दीक्षाम् ||
२३ ||


1.24
वक्ष्यामि पाञ्चायतनीश्च दीक्षाः स्मार्तीं ततो मानसीकीं च दीक्षाम् |
योगीं च दीक्षां तदनन्तरं दृग्दीक्षां ततः स्पर्शमयीं च दीक्षाम् ||
२४ ||


1.25
दीक्षां प्रवक्ष्यामि ततश्च वाचिकीं मान्त्रीं च हौत्रीं च ततः समासतः |
शास्त्रीं वदिष्यामि तथाऽऽभिषेचिकीं तत्रैव संक्षिप्ततरां च शाम्भवीम् ||
२५ ||


1.26
ततः प्रवक्ष्याम्युपदेशदीक्षां ततोऽभिधानं क्रमदीक्षणस्य |
पूर्णाभिषेकं च ततोऽभिधास्ये मनोर् ग्रहं देशिकमन्तरेण ||
२६ ||


1.27
षष्ठे तरङ्गेऽथ पुरस्क्रियाया निरूपयिष्यामि विधिं समग्रम् |
तत्रापि तावत् समयं च देशान् वक्ष्यामि वक्ष्ये तत आसनानि ||
२७ ||


1.28
मालाप्रभेदानपि तत्र वक्ष्ये रुद्राक्षमाहात्म्यमपि प्रसङ्गात् |
तत्रैव मालाग्रथनप्रकारं वक्ष्यामि संस्कारविधिं च तस्याः ||
२८ ||


1.29
मुद्राणामपि लक्षणानि नियमान् हेयानि देयानि च प्रायश्चित्तमनेकमुक्तनियमभ्रष्टोपयुक्तं नरः |
सक्षोणीगृहकूर्मचक्ररचनां शाक्तानि पीठानि च प्रातःकृत्यमथोऽजपाविधियुतं वक्ष्यामि तत्रैव च ||
२९ ||


1.30
शौचं तत्र च दन्तधावनविधिं स्नानं च नानाविधं तन्त्रोक्तं तिलकस्य धारणविधिं तद्वद्विभूतेरपि |
सन्ध्योपासनदेवतर्पणविधिं नित्यार्चनं तादृशं होमं प्रस्तुतकर्मणश्च विधिवद्वक्ष्ये ततः सक्रमम् ||
३० ||


1.31
यन्त्रस्य निर्माणमथ प्रमाणं ततः प्रतिष्ठाविधिमागमोक्तम् |
वक्ष्ये मनूनामथ सूतकित्वं स्वापं प्रबोधं च शिखाश्रितं च ||
३१ ||


1.32
वक्ष्यामि तत्रैव च कुल्लुकामनुं सेतुं च निर्वाणमपि क्रमागतम् |
तत्रैव मन्त्रं रसनाविशोधनं ततश्च मन्त्रावयवान् हरेरितान् ||
३२ ||


1.33
जपस्य वक्ष्यामि ततो विधानं होमव्यवस्थामथ तर्पणं च |
ततोऽभिषेकस्य विधिं प्रवक्ष्ये ततः परं ब्राह्मणभोजनं च ||
३३ ||


1.34
ततोऽभिधास्यामि ससिद्धिलक्षणाः सोपायवर्गाश्च पुरस्क्रियाभिधाः |
सर्वास्तरङ्गे रुचिरे च सप्तमे सदूतिकायागसवीरसाधनाः ||
३४ ||


1.35
ततोऽष्टमे चारुतमे तरङ्गे गणाधिपस्याथ रवेश्च विष्णोः |
मत्स्यस्य कूर्मस्य वराहमूर्तेस्तदीयशक्तेश्च तथा धरित्र्याः ||
३५ ||


1.36
श्रीदिव्यसिंहस्य च वामनस्य त्रिविक्रमस्याथ कुठारपाणेः |
श्रीरामचन्द्रस्य च भूसुतायास्ततः प्रलम्बासुरवैरिणश्च ||
३६ ||


1.37
कृष्णस्य बुद्धस्य तथैव कल्किनस्ततो हयग्रीवरथाङ्गरूपयोः |
अनन्तसंज्ञस्य च गोपसुन्दरीमूर्तेस्ततः श्रीधरसंज्ञकस्य ||
३७ ||


1.38
शिवस्य मृत्युञ्जयनीलकण्ठश्रीदक्षिणामूर्तिपुरस्सरैश्च |
सक्षेत्रपालबटुकादिरूपैर्भेदैरनेकैः सहितस्य तद्वत् ||
३८ ||


1.39
मुरारिदेहार्द्धयुतः पुरारेस्ततो भवान्याश्च गरुत्मतश्च |
सकर्तवीर्यस्य समीरसूनोः स्मरस्य वक्ष्यामि मनूनेकान् ||
३९ ||


Lesungshinweise: [Die grammatische Lesung am Übergang von Vishnu zu Shiva ist unsicher.]

1.40
एषां च ऋष्यादिपुरस्सराणि ध्यानानि वक्ष्यामि पुरस्क्रियाश्च |
प्रत्येकपूर्वं विधिमत्र नैषां वक्ष्ये प्रबन्धस्य गुरुत्वभीतेः ||
४० ||


1.41
स्वैः स्वैः प्रभेदैः सहितास्ततो महाविद्यास्तरङ्गे नवमे दश क्रमात् |
वक्ष्यामि तासां च पुरस्क्रियाविधिं नीलक्रमादीनपि भावसंयुतान् ||
४१ ||


1.42
ततस्त्रिलोकार्चितपादुकाया वाग्देवताया दशमे तरङ्गे |
तत्रैव देव्यास्त्वरिताभिधायाः सिद्ध्याऽन्नपूर्णादिसमन्वितायाः ||
४२ ||


1.43
प्रत्यङ्गिराया अथ कुब्जिकायाः सुरापगायाश्च सवाग्भवायाः |
चण्डादिकानां च ततो ग्रहाणां ग्रहप्रसूनामथ दिव्युतानाम् ||
४३ ||


Lesungshinweise: [Die genaue Beziehung von „Müttern der Planeten“ und „Himmelsrichtungen“ ist in diesem gedrängten Überblick unsicher.]

1.44
मन्त्रान् प्रवक्ष्यामि पुरस्क्रियान्तानथाभिधास्ये जननीं श्रुतीनाम् |
न्यासानशेषान् क्रमश्च तस्या ध्यानं च यन्त्रं यजनक्रमं च ||
४४ ||


1.45
तस्याः सपर्याविधिमप्यशेषं मुद्राश्च वक्ष्यामि पुरस्क्रियाश्च |
तारस्य पौरश्चरणं विधानं मृत्युञ्जयश्रोतमनोस्तथैव ||
४५ ||


1.46
रुद्राध्यायपुरस्क्रिया बहुविधैः सौम्यैः समं वक्ष्यते सूक्तानां च पुरस्क्रियाविधिरथ श्रोतान् ग्रहाणां मनून् |
तेषां च त्रिपुराभिवाञ्छितपुरश्चर्याभिधानं ततो हव्यानामपि च प्रमाणमखिलं वक्ष्यामि संक्षेपतः ||
४६ ||


Lesungshinweise: [„Von Tripura gewünscht“ ist eine vorläufige Wiedergabe der hier gedrängten Formulierung.]

1.47
तरङ्ग एकादश उक्तरीत्या दुर्गामनूनामथ तान्त्रिकाणाम् |
वक्ष्यामि पौरश्चरणं विधानं दुर्गोत्सवस्यापि विधिं समग्रम् ||
४७ ||


1.48
बलिप्रदानस्य विधिं पशूनां वस्त्वन्तराणामपि दैवतानि |
तत्रैव वक्ष्यामि कुमारिकायाः पूजाविधानं च शिवाबलिं च ||
४८ ||


1.49
तत्रैव रेवन्तहयेभपूजाविधिं प्रयोगान् नवरात्रकृत्यम् |
तत्रैव वक्ष्यामि शिवाप्रदिष्टं नीराजनं खञ्जनदर्शनं च ||
४९ ||


1.50
ततस्तरङ्गे चरमे मनोरमे ब्राह्म्यादिमन्त्रान् सपुरस्क्रियाविधीन् |
गोरक्षनाथस्य मनूंस्तथाविधान् वक्ष्ये ततस्तादृशार्किलामनुम् ||
५० ||


Lesungshinweise: [Die gedruckte Form der letzten Mantrabezeichnung ist unsicher.]

1.51
यन्त्राण्यथो यन्त्रपुरस्क्रियाया विधिं ततो भूतलिपिं च तस्याः |
तत्रैव पौरश्चरणं विधानं वक्ष्ये लिपिन्यासपुरस्क्रियाश्च ||
५१ ||


1.52
विद्योतयन्तीमथ मातृकायास्त्रैलोह्यसुद्रामतुलप्रभावाम् |
तत्रैव संस्कारविधिं च तस्यास्तथैव वक्ष्ये नवरत्नमुद्राम् ||
५२ ||


1.53
षोढान्याससहस्रनामकवचस्तोत्रान्तराणां ततस्तद्वत् सप्तशतीस्तवस्य च पुरश्चर्याभिधानं क्रमात् |
तत्पाठस्य विधिं फलैश्च सहितं होमप्रयोगान्वितं मन्त्राणां च विभागमस्य तदनु प्रश्नस्य वक्ष्ये विधिम् ||
५३ ||


1.54
प्राणायामपुरस्क्रिया बुधवरैर्वेद्या ततो वक्ष्यते मन्त्राणां च पुरस्क्रियामपि विना सिद्धिप्रकारोऽपि वा |
नानाभैरवयोगिनीसुरवधूज्वालामुखीनां क्रमादन्यासामपि च क्षितेरपि पुरश्चर्याऽन्वितं साधनम् ||
५४ ||


S. 10, Einleitung
तत्र पुरश्चर्याया मन्त्रसिद्धिफलकदेवताऽऽराधनविशेषरूपत्वादाराध्यदेवताया अभ्यर्हितत्वेन षडाम्नायान्तर्गतदेवतास्तावन्निरूप्यन्ते |
तत्र गणेशविशेषस्य मन्त्रनिष्ठं किंचिद्वैलक्षण्यमादाय षडाम्नायवृत्तित्वमुक्तं मेरुतन्त्रे—

S. 10, Meru Tantra
एकबीजात्मकं वक्ष्ये विघ्नमन्त्रं सुसिद्धिदम् |
तत्रादौ वैदिकानां तु गकारः केवलो मतः |
दक्षिणानां बिन्दुयुक्तो द्विबिन्दुः पूर्वमार्गिणाम् ||
एतद्द्वययुतः पश्चादूर्ध्वाम्नाये च गौंमिति |
ग्लौमुत्तरे गौंमिति च पातालाम्नाय ईरितम् ||


Lesungshinweise: [Die drei zuletzt ausgeschriebenen Silbenfolgen sind nicht hinreichend sicher gelesen; sie werden deshalb hier nicht als rezitierbare Formeln wiedergegeben.]

S. 10–11, Ganesha-Formen
अत्र दक्षिणाम्नाये लक्ष्मीगणेशहारिद्रगणेशादयः, ऊर्ध्वाम्नाये महागणपत्यादयः, पूर्वाम्नाये विरिञ्चिगणनायकादयः, पश्चिमाम्नाये क्षिप्रप्रसादनगणेशादयः, उत्तराम्नाये उच्छिष्टगणेशादय इति भूयांसो गणेशभेदा मेरुतन्त्रे द्रष्टव्याः |


S. 11, Surya-Einleitung
सूर्यस्य द्वादशभेदवतोऽपि दक्षिण एवाम्नायः |
तदुक्तं तत्रैव—

S. 11, Meru Tantra über Surya
एक एवाऽस्य चाऽऽम्नायो दक्षिणः परिकीर्तितः |
यथाऽयं यवनं विप्रं सममेव करैः स्पृशेत् ||
उपासना तथैवाऽस्य स्वधर्माऽऽचारपूर्विका |
चतुर्जुगेषु प्रत्यक्षो देवोऽयं सर्वसंमतः ||
सर्वेषामेव देवानां नेत्रभूतो जगत्पतिः |


S. 11, zwölf Sonnenformen
द्वादशभेदाः— वरुणः सूर्यवेदाङ्गो भानुरिन्द्रो रविस्तथा |
गभस्तिस्तु यमः स्वर्णरेताश्चाथ दिवाकरः ||
मित्रो विष्णुरिति प्रोक्ता आदित्या द्वादशाः क्रमात् |
तपन्ति माघादारभ्य क्रमादमिततेजसः ||
इति तत्रैवोक्ताः |


S. 11, Vishnu und Shiva
विष्णोः शिवस्य चाम्नायप्रयुक्तभेदोऽनुपलभ्यमानः |
अवतारमन्त्रध्यानादिप्रयुक्तास्त्वनन्ता एव भेदाः, तेषु कतिचिद्भेदाः पुरश्चरणप्रकारकथनावसरे स्फुटीभविष्यन्तीति अत्र नोक्ताः |
देवीभेदानामनन्तत्वेन वक्तुमशक्यत्वेऽपि वाडवानलीयतन्त्रोक्ताः कतिचिद्भेदा इह प्रदर्श्यन्ते |
तदुक्तं वाडवानलीयतन्त्रे—

S. 11, Vadavanaliya Tantra
एकैवाऽऽद्या जगत्सूतिः सच्चिदानन्दविग्रहा |
तत्तद्विभूतिभेदेन भिन्ना ह्यनेकतामागता ||


S. 12, östlicher bis westlicher Amnaya
पूर्णेशी भुवनेशानी ललिता चाऽपराजिता |
लक्ष्मीः सरस्वती वाणी पारिजातपदाऽङ्किता ||
अन्नपूर्णा जयाद्याश्च पूर्वाम्नायसमाश्रिताः |
निशेशी दक्षिणा काली बगला छिन्नमस्तका ||
भद्रा तारा च मातङ्गी दक्षिणाऽऽम्नायदेवताः |
बहुप्रभेदसंयुक्ता कुब्जिका च कुलालिका ||
मातङ्ग्यमृतलक्ष्म्याद्याः पश्चिमाऽऽम्नायदेवताः |


S. 12, Matangi-Erläuterung
एतेन मातङ्ग्या आम्नायद्वयवृत्तित्वमाहितम्, दक्षिणाऽऽम्नायेऽपि तस्या अभिधानात् |
तथा—

S. 12, nördlicher Amnaya
सिद्धिलक्ष्मीर्गुह्यकाली महाभीमसरस्वती |
धूमा कामकला काली महाकाली कपालिनी |
महाश्मशानकाली च कालसंकर्षिणी तथा ||
प्रत्यङ्गिरा महारात्रिर्योगेशी सिद्धिभैरवी |
एता बहुविधायुक्ताः सर्वविद्योत्तमोत्तमाः |
उत्तराम्नायपीठस्थाश्चतुर्वर्गफलप्रदाः ||


S. 12, Mundamala-Einleitung
ताराच्छिन्नमस्तयोरपि उत्तराम्नायवृत्तित्वमुक्तं मुण्डमालायाम्—

S. 12, Mundamala-Zitat
भेदास्त्वेकोनपञ्चाशदुत्तराम्नायवर्त्मनि |
गुह्यकाली ततः प्रोक्ता सिद्धिलक्ष्मीस्ततः परम् ||
स्वर्णकोटीश्वरी तत्र राजराजेश्वरी तथा |
गुह्येश्वरी तथा प्रोक्ता तथा तारा त्रिरूपिणी ||
छिन्नमस्ता महादेवी ततः प्रोक्ताऽतिभीषणा |
एवंविधास्तु संकेताः सदा गोप्याः प्रकीर्तिताः ||


S. 13, oberer Amnaya
वाडवानलीये— कामेशी ललिता बाला महात्रिपुरसुन्दरी |
त्रिपुरा भैरवी ह्येता ऊर्ध्वाम्नायसमाश्रिताः ||


S. 13, Lalita-Erläuterung
ललितायाः पूर्वाम्नायेऽप्युक्तत्वादाम्नायद्वयवृत्तित्वं बोधितम् |
क्वचित्त्वरितेति पाठः |


Lesungshinweise: An manchen Stellen lautet die Lesung „Tvarita“.

S. 13, unterer Amnaya
योगिनी वज्रपूर्वा च पन्नगी नैऋतेश्वरी |
अधराम्नायपीठस्था जैनमार्गप्रपूजिताः ||


S. 13, Bhimadevi
अत्रैव प्रधानतया भीमादेवी महाकालसंहितायामुक्ता— निशामयाधराम्नायगोचरान् देवतामनून् |
यत्राद्यभूता विख्याता भीमादेवी भयानका ||
इति |


S. 13, Durga und Kumari
कुलबाला च दुर्गा च सर्वाम्नायप्रपूजिता |
कुलबाला, कुमारी |
तथा— तयोः पूजा तु सर्वत्र नित्यत्वेनाभिधीयते |
तयोर्दुर्गाकुमार्य्योः |
एतास्तु दश देवता महाविद्यात्वेन प्रसिद्धाः |
तदुक्तं शक्तिसङ्गमे—

S. 13, zehn Mahavidyas
काली तारा छिन्नमस्ता सुन्दरी बगला रमा |
मातङ्गी भुवनेशानी सिद्धविद्या च भैरवी |
धूमावती च दशमी महाविद्या दश स्मृताः ||


S. 13–14, Bhairava-Zuordnungen
तत्रैव एतासां प्रत्येकं भैरवमाह— कालिकाया महाकालः सुन्दर्या ललितेश्वरः |
तारायाश्च तथाऽक्षोभ्यश्छिन्नाया विकरालकः ||
भुवनाया महादेवो धूम्रायाः कालभैरवः |
नारायणो महालक्ष्म्या भैरव्या बटुकः स्मृतः ||
मातङ्ग्यास्तु मतङ्गः स्यादथ वा स्यात् सदाशिवः |
मृत्युञ्जयस्तु बगलाविद्यायाः परिकीर्तितः ||


S. 14, Erläuterung der Namen
ललितेश्वरस्त्रिपुरभैरवः, विकरालः क्रोधभैरवः, कालभैरवो घोरः |
यद्यपि रुद्रयामले ताराच्छिन्नमस्तादीनां सद्योजातकालरुद्रादय उक्ताः, तथापि एतेषामेव भैरवाणां नामान्तराणि तत्रोक्तानि न तु भैरवान्तराणीत्यविरोधः |


S. 14, Shaktisangama
शक्तिसङ्गमे— क्रोधभैरवसंयोगाद्यक्षिण्यः सिद्धिदा यथा |
तथा विद्याः प्रसिद्ध्यन्ति पुंयोगादेव पार्वति ||


S. 14, Rudrayamala
रुद्रयामले— केवलं यो जपेच्छाक्तं मनुं शैवं न योजयेत् |
जन्मकोटिषु जप्तोऽपि न मनुः सिद्धिभाग् भवेत् ||
यस्या देव्यास्तु यो देवः शिवस्तस्याः शिवो भवेत् |
तेन विद्या महादेवि कलौ सिद्ध्यति सत्वरम् ||


S. 14, Meru Tantra
मेरुतन्त्रे— स्त्रीमन्त्रो भोगदः प्रोक्तः पुंमन्त्रो मोक्षदः परम् |
उभयोपासनं देवि भुक्तिमुक्तिप्रदायकम् ||


S. 14–15, weiteres Tantra
तन्त्रान्तरे— शक्त्या विना शिवे शुष्के नाम धाम न विद्यते |
शिवं विना चित्कलानां कलात्वं न क्वचिद् भवेत् ||
बीजाङ्कुरन्याययोगाच्छिवशक्त्यात्मकं महः |
सदा जागर्ति देवेश नानारूपाणि दर्शयत् ||


S. 15, Früchte der Amnayas
षडाम्नायदेवताराधनफलान्याह मेरुतन्त्रे— दक्षिणोपासकः काल ऊर्ध्वः सायुज्यमाप्नुयात् |
देवतायास्तथा पूर्वः सारूप्यं लभेत परम् ||
सामीप्यं चोत्तरो लोके पश्चिमस्त्वैहिकं फलम् |
लाभस्त्यागश्चोपकारो ह्यधोमार्गेऽप्युदर्कयुक् ||


Lesungshinweise: [Die Bedeutung der letzten Zeile bleibt unsicher.] Im unteren Weg gehören Gewinn, Verzicht und Wohltätigkeit zu dem, was weitere Früchte hervorbringt.“ [Die Bedeutung der letzten Zeile bleibt unsicher.]

S. 15, Erläuterung zu Kala
काल इति, महाकालस्वरूपी शिव एव भवेदित्यर्थः |
यत्तु काले इति सप्तम्यन्तं पदं, तेन दक्षिणोपासक ऊर्ध्वाम्नायोपासकश्च काले देहान्तसमये सायुज्यमाप्नुयादित्यर्थ इति कैश्चिदुक्तं, तदसत् |
पञ्चलक्षणसंयुक्तो ब्राह्मणः काल एव सः |
इति पूर्वग्रन्थाविरोधात् |
यत्प्रसादादहं त्वं च जातः काल इवापरः |
इत्युत्तरग्रन्थविरोधाच्च |


S. 15–16, Übergang zur Mahakala Samhita
उत्तरो लोके इति, उत्तराम्नायदेवतोपासकः सालोक्यं प्राप्नुयादित्यर्थः |
इदमुत्तराम्नाये गुह्येश्वर्यादिदेवतोपासकविषयम् |
तदुपासकानां तु चतुर्विधमुक्तिप्राप्तिरुक्ता महाकालसंहितायामनुस्मृतिप्रकरणे—

S. 16, vier Arten der Befreiung
सालोक्यं चैव सामीप्यं सारूप्यं च तृतीयकम् |
सायुज्यमिति देवेशि मुक्तिरुक्ता चतुर्विधा ||
तास्वन्योपासकानां स्यादेकैका मुक्तिरीश्वरि |
गुह्यकाल्याराधकस्य क्रमान्मुक्तिचतुष्टयम् ||
जायते नात्र सन्देहस्त्रिपुरस्था त्वया समान् |
षडाम्नायेषु देवेशि भूयस्यः सन्ति देवताः ||
तासु काश्चित्तु कृतयुगे त्रेतायां काश्चिदीरिताः |
द्वापरे फलदाः काश्चित्तु कलौ काश्चित्तु फलप्रदाः ||
चतुर्जुगेषु फलदा दश विद्या मयेरिताः |
तासु तिस्रो विशिष्यन्ते काली तारा च सुन्दरी ||
तिसृष्वपि शिवे तासु कलौ काली विशिष्यते |
नवविधासु कालीषु गुह्यकाली प्रशस्यते ||
अनया सदृशी विद्या नास्ति ब्रह्माण्डगोलके |
विद्याराज्ञी गुह्यकाली भिद्यते न कदाचन ||


Lesungshinweise: [Der anschließende Vergleich mit Tripura ist im Druck nicht sicher verständlich.]

S. 16–17, neun Kali-Formen
नवविधा काली तत्रैवोक्ता— काली नवविधा प्रोक्ता सर्वतन्त्रेषु गोपिता |
आद्या दक्षिणकाली च भद्रकाली तथा परा ||
अन्या श्मशानकाली च कालकाली चतुर्थिका |
पञ्चमी गुह्यकाली च पूर्वं या कथिता मया ||
षष्ठी कामकलाकाली सप्तमी धनकालिका |
अष्टमी सिद्धिकाली च नवमी चण्डिकालिका |


S. 17, weitere Formen
एवमन्यासां भेदा ग्रन्थान्तरेभ्योऽवगन्तव्याः |
शक्तिसङ्गमे— चतुर्जुगानां राज्ञी वै कालिका परिकीर्तिता |
विद्याराज्ञी सिद्धिविद्या कलौ शीघ्रफलप्रदा ||


S. 17, Einheit von Kali und Krishna
कालीकृष्णयोरैक्यमुक्तं महाकालसंहितायाम्— स्त्रीणां त्रैलोक्यजातानां कामोन्मादैकहेतवे |
वंशीधरः कृष्णदेवः प्रकृतिर्विष्णुरुच्यते ||
उभयोर्मेलनाद्देवि शिवशक्तिर्हि गीयते |


S. 17–18, Einheit der drei Shaktis
कृष्णस्य कालीस्वरूपत्वं, रामस्य तारास्वरूपत्वं, तिसृणां शक्तीनामैक्यं चोक्तं शक्तिसङ्गमे— कदाचिदाद्या ललिता पुंरूपा कृष्णविग्रहा |
लोकसंमोहनार्थाय स्वरूपं बिभ्रती परम् ||
वेणुनादरसमारम्भसर्वसंमोहनक्षणम् |
कदाचिदाद्या श्रीकाली सैव तारा ह्यस्ति पार्वती ||
कदाचिदाद्या श्रीतारा पुंरूपा रामविग्रहा |
रावणस्य वधार्थाय देवानां स्थापनाय च ||
दैत्यसंहरणार्थाय पुंरूपं बिभ्रती परम् |
आद्या तारा महाशक्तिः सैव काली महेश्वरी ||
या महावैष्णवी माया सा महासुन्दरी मता |
नैव स्त्री न पुमानेषा नैव चापि नपुंसकम् ||
यद्यच्छरीरमाधत्ते युज्यते तेन तेन सा |


S. 18, Einheit von Hari und Hara
हरिहरयोरैक्यमुक्तं तत्रैव— एकस्मिन् समये पूर्वं विष्णुरूपावुभावपि |
विष्णुस्वरूपसिद्ध्यर्थं तपस्तेपे हरः स्वयम् ||
शिवस्वरूपसिद्ध्यर्थं तपस्तेपे हरिः स्वयम् |
षड्वृन्दयुगसंख्यातमुभौ तपःपरौ शिवे ||
शिवो विष्णुस्वरूपत्वं विष्णुश्च शिवरूपताम् |
उभौ हरिहरात्मानौ ह्यर्द्धनारीश्वरौ परौ ||
मुख्यरूपमिदं देवि द्वयोः सङ्गमात्मकम् |
तेजःपुञ्जमिदं देवि ब्रह्मरूपं सनातनम् ||


S. 18, Rama als Shiva-Shakti
रामस्य शिवशक्त्यात्मकत्वं तत्रैवोक्तम्— रामः शक्तिरिति ख्यातः स शिवः परिकीर्तितः |
शिवशक्त्यात्मकं ब्रह्म रामरामेति गीयते |


S. 18, Gauri und Sita
गौरीसीतयोः शिवरामयोश्चैक्यमुक्तं तत्रैव— गौरीरूपा परा सीता महारत्नाङ्गुलीयिका |
रामः परशिवो ज्ञेयो नावतारो नरोऽपि च ||
यत्परं ब्रह्म विख्यातं तद्रामेत्यक्षरद्वयम् |


S. 19, Rama-Upanishad
रामोपनिषदि— रमन्ते योगिनोऽनन्ते सत्यानन्दे चिदात्मनि |
रामनामपदेनासौ परं ब्रह्माभिधीयते ||


S. 19, Einheit der fünf Gottheiten
गणेशादिपञ्चदेवतानामैक्यमुक्तं रुद्रयामले— गणेशार्कहरीशानां दुर्गारूपा सरस्वती |
महाश्यामा महाविद्या पूजनीया यथाक्रमम् ||
न कुर्याद् भेदमेतेषां कौलिको वैष्णवस्तथा |
गणेशार्कहरीशानदुर्गाणां परमार्थवित् ||
पूजयेदैक्यभावेन देवीभक्तश्च बुद्धिमान् |
देवीचक्रेऽर्चयेत् सर्वान् शिवलिङ्गेऽथ वा शिवे ||
शालग्रामशिलायां वा सूर्यपीठेऽथ वा शिवे |
श्रीगणेश्वरचक्रे वा न भेदं कारयेत् सुधीः ||
भेदं वै कुरुते यस्तु स शैवः शिवहा भवेत् |
शैव इत्युपलक्षणम् |


Lesungshinweise: [Die Satzverknüpfung der ersten beiden Zeilen ist gedrängt; die anschließende Aussage über die Einheit der fünf Gottheiten ist eindeutig.]

S. 19, Mahavidyas und Avataras
दशमहाविद्यादशावताराणामैक्यमुक्तं मुण्डमालातन्त्रे— कृष्णस्तु कालिका साक्षाद् राममूर्तिश्च तारिणी |
वराहो भुवना प्रोक्ता नृसिंहो भैरवीश्वरी ||
धूमावती वामनः स्याच्छिन्ना भृगुकुलोद्भवः |
कमला मत्स्यरूपः स्यात् कूर्मस्तु बगलामुखी ||
मातङ्गी बौद्ध इत्येषा षोडशी कल्करूपिणी ||
इति |


S. 19–20, Name Kali
कालीपदव्युत्पत्तिमाह कामधेनुतन्त्रे— कालसंकलनात् काली कालग्रासं करोत्यतः |


S. 20, Name Tripura
त्रिपुराशब्दार्थमाह सुन्दरीस्तवे— ब्राह्मी रौद्री वैष्णवीति शक्तयस्तिस्र एव हि |
पुरं शरीरं यस्यां सा त्रिपुरेति प्रकीर्तिता ||


S. 20, Namen Taras
ताराशब्दार्थमाह मत्स्यसूक्ते— लीलया वाक्प्रदा चैव तेन नीलसरस्वती |
तारकत्वप्रदा तारा सुखमोक्षप्रदायिनी ||
उग्रापत्तारिणी यस्मादुग्रतारा प्रकीर्तिता |


S. 20, Amnayas und Wege
आम्नायभेदेन मार्गभेदनिर्णयमाह वाडवानलीये— पूर्वाम्नाये दक्षमार्गो वामः स्यात् पश्चिमे परे |
दक्षिणोत्तरयोरूर्ध्वे मार्गौ तौ वामदक्षिणौ ||
विहाय सर्वं सर्वत्र कौलमार्गः प्रशस्यते |


S. 20–21, drei Wege
मार्गत्रयव्यवस्था च तत्रैव— योगात् पञ्चमकाराणां वामहस्तेन पूजनात् |
जपाद्धोमाच्च वामः स्याद्दक्षिणस्तद्विपर्ययात् ||
तत्तत्तर्पणमन्त्रं तु वामहस्तेन दक्षिणे |
दक्षहस्तेन वामेऽपि विशेषः परिकीर्तितः ||
दक्षवामक्रियायुक्तः कौलश्चोभयमिश्रितः |
मकारावश्यकत्वाच्च दक्षतर्पणपूजनात् ||
क्वचिद्वामेन देवेशि कौलो मार्गस्तृतीयकः |


Lesungshinweise: [Die Verbindung von „Tarpana-Mantra“ und Handgebrauch in der zweiten Strophe ist sprachlich verkürzt.]

S. 21, Rudrayamala über Dakshinachara
रुद्रयामले— त्रीणि बीजानि दुर्गायास्तदाचारास्त्रयः स्मृताः |
प्रथमो दक्षिणाचारो वामाचारो द्वितीयकः ||
तृतीयस्तु कुलाचारो विधिं तेषां शृणु प्रिये |
प्रभाते स्नानसन्ध्यादि मध्याह्ने जप ईश्वरि ||
और्णमासनमात्मार्थं भक्ष्यं पायसशर्करम् |
माला रुद्राक्षसम्भूता पात्रं पाषाणसम्भवम् ||
भोगः स्वकीयकान्ताभिर्दक्षिणाचार इत्ययम् |
द्रव्येण मधुना देवि सिद्धिहानिकरो मतः ||


S. 21, Rudrayamala über Vamachara
वामाचारं प्रवक्ष्यामि श्रीदुर्गासाधनं परम् |
यं विधाय कलौ शीघ्रं मान्त्रिकः सिद्धिभाग्भवेत् ||
माला नृदन्तसम्भूता पात्रं पाषाणमुण्डकम् |
आसनं सिद्धचर्मादि कङ्कणं स्त्रीकचोद्भवम् ||
द्रव्यमासवतदाढ्यं भक्ष्यं मांसादिकं शिवे |
चर्वणं बालमत्स्यादि मुद्रा वीणारवः कथा ||
मैथुनं परकान्ताभिः सर्ववर्णसमानता |
वामाचार इति प्रोक्तः सर्वसिद्धिप्रदः शिवे ||
अन्यथा सिद्धिहानिः स्यान्मन्त्रस्यास्य महेश्वरि |
कुलाचारं प्रवक्ष्यामि सेव्यं योगिभिरुत्तमैः ||


Lesungshinweise: [Einzelne Materialbezeichnungen und die Reihung „Mudra, Vina-Klang, Erzählung“ bleiben unsicher.] Zum Ritualstoff gehört Asava, ein berauschendes Getränk; die genaue weitere Stoffangabe ist unsicher. Nun werde ich Kulachara erklären, das von den besten Yogis zu üben ist.“ [Einzelne Materialbezeichnungen und die Reihung „Mudra, Vina-Klang, Erzählung“ bleiben unsicher.]

S. 22, Rudrayamala über Kulachara
कुलस्त्रियं कुलगुरुं कुलदेवीं महेश्वरि |
नित्यं यत् पूजयेद्विश्वं स कुलाचार उच्यते ||
कुलस्त्रियं शिवे ज्ञात्वा नुत्वा नत्वा महेश्वरि |
हठादानीय संपूज्य ततो भोगं विधाय च ||
तेजसा तर्पयेद्देवीं श्रीदुर्गां चक्रनायिकाम् |
नीलकण्ठं च विधिना जपं कुर्याद्विशेषतः ||
तत्पूर्वकं चरेद्धोमं कुलकान्तां विभूषयेत् |
पानैः पेयैस्तथा भक्ष्यैः सन्तर्प्य कुलयोषितम् ||
प्रत्यहं वै चरेदेवं कुलाचार इति स्मृतः |


S. 22, fünf linke Wege
कौलादिभेदेन वाममार्गविधिरुक्तो मेरुतन्त्रे— कौलिकोऽङ्गुष्ठतां प्राप्तो वामः स्यात्तर्जनीसमः |
चीनक्रमो मध्यमः स्यात् सिद्धान्तीयोऽवरो भवेत् ||
कनिष्ठः शाबरो मार्ग इति वामस्तु पञ्चधा |


S. 22, traditionelle Berechtigungen
मार्गभेदेनाधिकारिभेद उक्तो वाडवानलीये— ब्राह्मणाः क्षत्रिया वैश्याः दक्षमार्गाधिकारिणः |
द्विजवर्जास्त्रयो वर्णा वामकौलाधिकारिणः ||
दक्षमार्गपरिभ्रष्टो ब्राह्मणो वाममार्गगः |
इहैव सिद्धिमाप्नोति नापवर्गं कदाचन ||
वेदमार्गपरित्यागी कैवल्येच्छाविवर्जितः |
सिद्धिकामी वाममार्गी ब्राह्मणो नारकी भवेत् ||


S. 23, Fortsetzung des Vadavanaliya-Zitats
वेदमार्गं परित्यज्य तन्त्रमात्रैकतत्पराः |
ब्राह्मणा निरयं भुक्त्वा भवेयुर्ब्रह्मराक्षसाः ||
वैदिकं तान्त्रिकं मार्गं दक्षिणं ब्राह्मणाश्चरन् |
इह सिद्धीश्चोपभुक्त्वा देहान्तेऽमृतमश्नुते ||


S. 23, Auslegung der Berechtigungen
एतेन वचननिचयेन दक्षिण एव मार्गो ब्राह्मणस्य, मार्गत्रयेऽपि क्षत्रियवैश्ययोः, वामे कौले च शूद्रस्याधिकार इति व्यवस्थाप्य सिद्ध्यादिलोभाद्वामे कौले वा प्रवर्तमानस्य ब्राह्मणस्य केवलं भोग एव न मोक्षः; तदुभयं तु श्रौतमार्गसंवलिततन्त्रोक्तदक्षिणमार्गेण समुचितदेवताराधकस्यैव ब्राह्मणस्येति सिद्धान्तितम् |


S. 23, Einwand aus dem Meru Tantra
न च— वामाचारैर्द्विजैः पूर्वं कर्तव्यं कुलदीक्षणम् |
पश्चाद्दीक्षा तु सावित्र्या व्यत्यासात् पतितो भवेत् ||
इति ब्राह्मणानां वाममार्गाधिकारित्वप्रकाशकेन मेरुतन्त्रवचनेन विरोध इति वाच्यम् |
तत्र द्विजपदस्य ब्राह्मणेतरद्विजपरत्वकल्पनेन विरोधाभावात् |


S. 23, weiteres Gegenargument
अत एव— ब्राह्मणानां वाममार्गो नरकायैव जायते |
इति तन्त्रान्तरवचनान्तरमपि संगच्छते, अधिकारिविशेषानुष्ठितस्य वाममार्गस्यापि भुक्तिमुक्तिजनकतया ब्राह्मणानां तदधिकारित्वे तस्य तन्निरयहेतुत्वानुपपत्तेः |


S. 23–24, Kalika-Purana-Zitat und Folgerung
तथा च— यो दक्षिणं विना विप्रो महामायां प्रपूजयेत् |
स पापः स्वर्गलोकात्तु च्युतो भवति रोगधृक् |
इति कालिकापुराणवचनाद्दक्षिणमार्ग एव ब्राह्मणस्याधिकार इति बोध्यम् |
एवं च क्षत्रियवैश्ययोरपि दक्षिणमार्ग एव प्रशस्तः, तयोर्वाममार्गाधिकारित्वकथनं तु रागात् प्रवृत्तयोरपि न पातित्यमित्यभिप्रायेण; ब्राह्मणस्यैव तथाविधस्य तच्छ्रवणात् |
वाममार्गस्तु शूद्राणामेव प्रशस्तः |
शूद्रादियवनान्तानां सिद्धिर्वामपथे स्थिता |
इति मेरुतन्त्रवचनात् |


S. 24, Mahakala und Siddhantasara
आचारमधिकृत्य— वामादिना यजेच्छूद्रो दक्षिणेन द्विजातयः |
इति महाकालवचनात् |
द्विजातय इति, ब्राह्मणक्षत्रियवैश्या इत्यर्थः |
वामादिनेत्यादिशब्देन कुलाचारः संगृह्यते, सोऽपि पूर्ववच्छूद्राणामेव प्रशस्तः; क्षत्रियवैश्ययोर्न प्रशस्तो नापि निषिद्धो, ब्राह्मणानां तु निषिद्ध एव |
ब्राह्मण्यहानिहेतुत्वात् कुलाचारं न चाचरेत् |
इति सिद्धान्तसारवचनात् |


S. 24, scheinbare Ausnahmen
ये विप्राः शापनिर्दग्धा ब्रह्मकर्मविवर्जिताः |
तेषां तु कौलधर्मोऽयं भुक्तिमुक्त्योस्तु साधनम् ||
ये विप्राः पापसंजाताः शापनिर्दग्धविप्लुताः |
तेषां कुलाधिकारोऽयं मार्गस्यास्य प्रजायते ||
इत्यादिमेरुतन्त्रवचनेन दक्षयज्ञे पारिषदशापाद्वेदमार्गबहिर्भूतानां विनष्टब्राह्मणत्वानामेव विप्राणां तदधिकारित्वबोधनात् |
यदि च स्वतन्त्रवक्तृत्वाद् वचनानां वैचित्र्याद् ब्राह्मणानामपि वामकौलाधिकारित्वबोधकवचनान्तरमुपलभ्येत तदा पञ्चसु लक्षणेषु यत्किंचिल्लक्षणोपलक्षिताः हीनब्राह्मणास्तत्र बोद्धव्याः; तादृशानां तु तदधिकारोऽस्त्येव |


S. 25, fünf Merkmale des Brahmanen
एतच्च मेरुतन्त्रे एवैश्वरचरणे व्यक्तीकृतम् |
यथा— ब्रह्मवीर्यं तथा क्षेत्रं संस्कारा ब्रह्मसंभवाः |
ब्राह्मणाचरणाद्ब्रह्मविद्याभिर्ब्राह्मणो भवेत् ||
यस्य वश्या वयं यस्य वाचमर्थोऽनुधावति |
एकस्मिँल्लक्षणे हीने वागर्थमनुधावति ||
द्विहीनलक्षणो देवि स्वाचाराद्ब्राह्मणो भवेत् |
लक्षणत्रयहीनो यस्तन्त्रमर्गेण सिद्ध्यति ||
चतुर्लक्षणहीनानां मार्गाः स्युः कौलिकादयः |
लक्षणहानिश्च निर्देशक्रमप्रातिलोम्येन बोध्या |


S. 25, Berechtigung zum linken Weg
तत्रैव— पूर्वोक्तलक्षणेष्वेकं यस्मिन् विप्रे प्रदृश्यते |
तप्यते चोपतापेन किंचिद्ब्राह्मणतां गतः ||
अधिकारो न मे जातः समस्तब्रह्मकर्मणाम् |
इह लोके परत्रापि कथं प्राप्स्याम्यहं सुखम् ||
अन्धश्च यः परद्रव्ये परस्त्रीषु नपुंसकः |
परापवादे यो मूको नित्यमित्थं विचारयेत् ||
तस्यैव ब्राह्मणस्यात्र वामे स्यादधिकारिता |
एकमिति, ब्रह्मवीर्योत्पन्नत्वम् |


S. 25–26, Merkmale und Ritualwege
तथा— पञ्चलक्षणसंयुक्तो ब्राह्मणः काल एव सः |
अहं ब्रह्मा तथा विष्णुस्तदाज्ञावरवर्तिनः ||
स चेद्वामपथं प्राप्तः पुनः श्वा चाभिजायते |
चतुर्लक्षणसंयुक्तो वामस्तस्य फलप्रदः ||
ताभ्यां दत्तो भाग्यवशात्तान्त्रिकः कोऽपि चेन्मनुः |
सद्यः फलति चाद्यस्य क्रियया चापरस्य तु ||
लक्षणत्रययुक्तो यस्तस्य वैदिकतान्त्रिके |
यथोक्ताचरणादेव फलदस्तेन वामकः ||
लक्षणद्वयसंयुक्तस्तस्य वामश्च दक्षिणः |
समौ तुल्यफलौ स्यातां न कदाचन वैदिकः ||
एकलक्षणसंयुक्तो वामस्तस्य फलप्रदः |
शूद्रादियवनान्तानां सिद्धिर्वामपथे स्थिता ||


Lesungshinweise: Für die Gruppen von den Shudras bis zu den Yavanas liegt die Vollendung auf dem linken Weg.“ Lesungshinweis: Die Satzverknüpfung im Vers über die drei Merkmale ist verkürzt; die Zuordnung des linken Weges bleibt sprachlich unsicher.

S. 26, Beständigkeit auf dem linken Weg
वाममार्गस्थितो विप्रस्तुलसीं न क्वचित् स्पृशेत् |
न स्पृशेद्वैष्णवं विप्रं प्रणमेन्न च वैदिकम् ||
निन्दन्तु बान्धवाः सर्वे त्यजन्तु स्त्रीसुतादयः |
जना हसन्तु मां दृष्ट्वा राजानो दण्डयन्तु वा ||
रोगदारिद्र्यदुःखाद्यैः पीडितोऽप्यनिशं त्वहम् |
लक्ष्मीस्तिष्ठतु वा यातु न मुञ्चामि पदं शिवम् ||
एवं यस्य दृढा भक्तिः स वामे सिद्धिमाप्नुयात् |


S. 26–27, Rudrayamala über Vamachara
रुद्रयामले— वामे चन्द्रमुखी मुखे च मदिरा पात्रं कराम्भोरुहे मूर्ध्नि श्रीगुरुचिन्तनं भगवतीध्यानास्पदं मानसम् |
जिह्वायां जपसाधनं परिणतिः कौलक्रमाभ्यागमे येषां वै नियतं पिबन्तु सुरसं ते भुक्तिमुक्ती गताः ||
वामे रामा रमणकुशला दक्षिणे चालिपात्रम् अग्रे मुद्राश्चणकवटकाः शूरणोष्ठश्च शुद्धिः |
तन्त्रीवीणा सरसमधुरा सद्गुरुः सत्कथायां वामाचारः परमगहनो योगिनामप्यगम्यः ||


Lesungshinweise: [Speisebezeichnung unsicher] Links eine im Liebesspiel erfahrene Frau, rechts die Weinschale; davor die Mudras, Kichererbsenküchlein und Shurana-[Speisebezeichnung unsicher] als rituelle Beigabe; die Saitenvina klingt lieblich und voller Gefühl, der wahre Guru spricht über das Gute: Der linke Weg ist überaus tief, selbst für Yogis schwer zugänglich.“

S. 27, Meru Tantra über bloßen Genuss
मेरुतन्त्रे— पेयं मद्यं पलं खाद्यं समालोक्यं प्रियामुखम् |
इत्येवाचरणं श्रेष्ठं पामराः प्रवदन्ति च ||
मद्यपानेन मनुजो यदि सिद्धिं लभेत चेत् |
मद्यपानरताः सर्वे किं सिद्धा न भवन्त्युमे ||
मांसभक्षणमात्रेण यदि पुण्या गतिर्भवेत् |
क्रव्यादानां तदा मोक्षो मांसादन्यन्न युज्यते ||
स्त्रीसंभोगेन भो देवि यदि मोक्षोऽभिजायते |
तदा सर्वेऽपि मुक्ताः स्युः कस्य जन्म भविष्यति ||
कृपाणधारागमनाद् व्याघ्रकण्ठावलम्बनात् |
भुजङ्गावरणान्नूनमशक्यं कुलवर्त्मनि |


S. 27, zehn Vaishnava-Überlieferungen
अथ वैष्णवभेदाः |
तदुक्तं शक्तिसंगमे— वैखानसो भवेदादौ श्रीराधावल्लभस्तथा |
गोकुलेशो महेशानि तथा वृन्दावनी भवेत् ||
पाञ्चरात्रः पञ्चमः स्यात् षष्ठः श्रीवीरवैष्णवः |
रामानन्दी हरिव्यासी निम्बार्कश्च महेश्वरि ||
ततो भागवतो देवि दश भेदाः प्रकीर्तिताः |


S. 27–28, Smarta und Radhavallabha
वैखानसादिदीक्षाद्यैर्भूषितः स्मार्तवैष्णवः ||
वैष्णवाचारनिरतो विष्णुमन्त्रैकपारगः |
अनन्यचेताः शान्तात्मा विष्णुचिह्नपरायणः ||
श्रीराधावल्लभो देवि गोकुलेशं शृणु प्रिये |


S. 28, Gokulesha
नानाभरणसंपन्नो नानासौगन्ध्यभूषितः ||
गवां कुलं प्रीणयतः कलिकृष्णस्य रूपधृक् |
शरीरमर्थं प्राणांश्च तन्निवेदनकारकः ||
अन्तः शक्तिपरो देवि बहिर्वैष्णवरूपधृक् |
गन्धर्वाचारनिरतो लतावेष्टिततत्परः ||
संप्रदायो गोकुलेशः सर्वसिद्धिकरो भुवि |


S. 28, Vrindavani und Pancharatra
विगताशः प्रसन्नात्मा विष्णुभक्तिपरायणः ||
कामिनीसङ्गचपलो वनक्रीडाविनोदधृक् |
सौगन्ध्यभूषिततनुः स्त्रीध्यानैकपरायणः ||
विष्णुसारूप्यतत्त्वज्ञः प्रोक्तो वृन्दावनी शिवे |
पञ्चरात्रव्रतं प्राप्ताः पाञ्चरात्राः प्रकीर्तिताः ||
दिनपञ्चकपर्यन्तं शैवा नाम त्रिलोचनाः |


S. 28, Vira-Vaishnava
गोपालपद्धतौ— कायेन मनसा वाचा भजते विष्णुमेव यः |
स वीरवैष्णवः प्रोक्तो देवतान्तरनिन्दकः ||
चराचरमिदं विश्वं जानन् नारायणात्मकम् |
कंचिन्न द्वेष्टि यः सोऽयमुत्तमो वीरवैष्णवः ||


S. 28, Ramanandi
तत्रैव— हृदयाम्भोजमध्यस्थे श्रीरामे परमात्मनि |
आनन्दं भजते यस्तु रामानन्दी स उच्यते ||


S. 29, Harivyasi
शक्तिसंगमे— पापसंहरणासक्तो विष्णुभक्तो जितेन्द्रियः |
यमादिनियमैर्युक्तो युक्ताचारपरायणः ||
स्वोपयुक्तपरिग्राही परकार्यपरायणः |
हरिव्यासी महेशानि शिवशक्तिस्वरूपधृक् ||


S. 29, Nimbarka
नित्यार्चनक्रमासक्तः स्वतन्त्रैकपरायणः |
बाह्यपूजादिनिरतोऽनन्यभक्तः प्रसन्नधीः ||
आस्यपक्षान्वितः स्वच्छः स्वच्छन्दाचारतत्परः |
स्वतन्त्रः स्मार्तविद्वेषी निम्बार्को भगवान् हरिः ||


Lesungshinweise: [‚Asya-Paksha‘: Bedeutung hier unklar]

S. 29, Bhagavata im Shaktisangama
विष्णुभक्तैकनिपुणो विजितात्मा प्रसन्नधीः |
स्मार्तगर्वान्वितो देवि तदन्याचारतत्परः ||
शैवद्वेषी तस्य सङ्गात् पुनः स्नानपरायणः |
केवलं विष्णुभक्तिज्ञः प्रोक्तो भागवतः शिवे ||


S. 29, der höchste Bhagavata
परमभागवतलक्षणं तु एकादशस्कन्धे— सर्वभूतेषु यः पश्येद् भगवद्भावमात्मनः |
भूतानि भगवत्यात्मन्येष भागवतोत्तमः ||


S. 29, die Welt als Vishnus Maya
अन्यच्च तत्रैव— गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न हृष्यति |
विष्णोर्मायामिदं पश्येत् स वै भागवतोत्तमः ||


S. 29–30, unerschütterliche Erinnerung
तथा— त्रिभुवनविभवहेतवेऽप्यकुण्ठस्मृतिरजितात्मसुरादिभिर्विमृग्यात् |
न चलति भगवत्पदारविन्दाल्लवनिमिषार्धमसौ तु वैष्णवाग्र्यः ||


S. 30, der mittlere Bhagavata
मध्यमलक्षणं तत्रैव— ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च |
प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ||


S. 30, der noch unentwickelte Verehrer
प्राकृतभागवतलक्षणं तत्रैव— अर्चायामेव हरये पूजां यः श्रद्धयेहते |
न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ||


S. 30, sieben Shaiva-Überlieferungen
अथ शैवभेदाः |
शक्तिसंगमे— शिखी मुण्डी जटी चैव द्वित्रिदण्डी क्रमेण च |
एकदण्डी महेशानि वीरशैवस्तथैव च ||
सप्त पाशुपताः प्रोक्ता दशधा वैष्णवास्तथा |
अथ पाशुपतानां च वासनां शृणु पार्वति ||


S. 30, Shikhin
शिखी पाशुपतो देवि शिखासूत्रधरः शुभः |
समाधितत्परो देवि समाधौ शिवपीठधृक् ||
रुद्राक्षं च तथा भस्म लिङ्गं शैवाभिधं शिवे |
प्रसन्नात्मा शान्तचित्तो ब्रह्मचारी प्रकीर्तितः ||


S. 30, Mundin
मतं श्रीबिन्दुमालिन्याः समाश्रित्य प्रतिष्ठितः |
मुण्डी त्रिंशद्विधो देवि तारासूक्ते प्रकाशितः ||
तत्र पाशुपताचारसंपन्नो मुण्डितो भवेत् |


S. 30–31, Jatin
त्रिजटैकजटाधारी तथा वक्रजटाधरः ||
नग्नस्तपस्वी शान्तात्मा देहक्लेशपरायणः |
कर्मत्रितयसंपन्नो जटी पाशुपतः स्मृतः ||


S. 31, die Träger der Stäbe und Virashaiva
द्विदण्डी तु महेशानि वाङ्मनोदण्डसंयुतः |
कायवाङ्मनसां दण्डी त्रिदण्डी परिकीर्तितः ||
मनोमात्रस्य दण्डी य एकदण्डी प्रकीर्तितः |
केवलं शिवसंपन्नः स्वस्य देवस्य निन्दकः ||
वीरशैव इति ख्यातः, इति |
अन्यत्र वैष्णवत्वेन प्रसिद्धास्त्रिदण्ड्यादयः शैवा अपि संभवन्तीति दर्शिताः |


S. 31, Wege in den vier Weltaltern
युगभेदेन मार्गभेदप्राधान्यमाह रुद्रयामले— कृते श्रुत्युक्तमार्गः स्यात् त्रेतायां स्मृतिभाषितः |
द्वापरे वै पुराणोक्तः कलावागमसंभवः ||
प्रधान इति शेषः |


S. 31, Agama als Glied des Veda
आगमस्य वेदाङ्गत्वमाह मेरुतन्त्रे— न वेदः प्रणवं त्यक्त्वा मन्त्रो वेदसमन्वितः |
तस्माद्वेदपरो मन्त्रो वेदाङ्गश्चागमः स्मृतः ||


S. 31, Bedeutung des Wortes Agama
आगमशब्दार्थो, रुद्रयामले— आगतः शिववक्त्रेभ्यो गतश्च गिरिजामुखे |
मग्नस्तस्या हृदम्भोजे तस्मादागम उच्यते ||


S. 31–32, vedische und Kaula-Verrichtungen
आगमस्य वेदाङ्गत्वेऽपि वैदिककौलिकयोर्विरोधमाह तत्रैव— कौलिकं कुर्वतः कर्म वैदिकं नाभिधीयते |
विरोधादुभयं नष्टं तस्मादेकपथा चरेत् ||


S. 32, Wechsel zwischen rechtem und linkem Weg
वामदक्षिणमार्गयोरपि विरोधमाह मेरुतन्त्रे— वाममार्गी यदा दक्षं प्रविशेत्तत्सुरैः स तु |
विहन्यते पीड्यते चापि न सिद्धिमधिगच्छति ||
दक्षमार्गी यदा वामं प्रविशेत्तत्सुरास्तथा |
लोकद्वयाद्धानिमन्तं तं घ्नन्ति च वामिनम् ||
तस्मात् स्वकुलमार्गं तु ज्ञात्वा कुर्यादुपासनाम् |


S. 32, Einführung in die tägliche Verehrung
उपासनाभेदास्तत्रैवोक्ताः— श्रीशिव उवाच |
महाकालेन यत् प्रोक्तं यन्महामायया श्रुतम् |
रहस्यातिरहस्यं तत् सर्वमन्त्रेषु गोपितम् ||
आम्नायानां रहस्यं तदाह्निकं प्रोच्यतेऽधुना |
शृण्वन्तु सर्वे भो देवाः साधकानां प्रसिद्धिदम् ||
तत्र नित्यं त्रिधा प्रोक्तं गुणत्रयविभेदतः |
अधिकारिविभेदेन तदपि त्रिविधं भवेत् ||
शुद्धं मिश्रं च गलितं तत्तथैव फलप्रदम् |
शुद्धं सम्पूर्णफलदं मिश्रं किंचित्फलप्रदम् ||
अकृते प्रत्यवायो न गलिते सत्फलं न च |


S. 32–33, sattvische Verehrung
अहङ्कारविहीनं यन्मानसं ज्ञानपूर्वकम् ||
स्वस्थचित्तेन यतिना कृतं तच्छुद्धमुच्यते |
तादृशं चेद् गृहस्थेन निर्द्रव्येणाथ वा कृतम् ||
रुग्णेन पथिकेनापि कारागृहगतेन वा |
भक्तितो वापि तन्मिश्रं बाह्यपूजाधिकारतः ||
शीतादिभीत्या द्राविष्टसंक्षयादल्पकार्यतः |
स्त्र्यादेर्नियोगाद् गलितो गृहीतो मानसं मतम् |


Lesungshinweise: [unklarer Lesung über den Aufwand an Mitteln] Wird die geistige Verehrung dagegen aus Furcht vor Kälte und Ähnlichem, wegen [unklarer Lesung über den Aufwand an Mitteln], wegen ihres geringen Arbeitsaufwands oder auf Anweisung einer Frau oder anderer angenommen, gilt sie als entartet.“ Lesungshinweis: Die gedruckte Verbindung vor saṃkṣaya bleibt unsicher; sie wurde nicht stillschweigend ergänzt.

S. 33, rajasische Verehrung
बाह्यपूजादिकं यच्च एकान्ते नियमेन च |
भक्त्या कृतं गृहस्थेन तच्छुद्धं राजसं मतम् ||
पूजार्थं यद्याचयित्वा श्रद्धाभक्ती विहाय वा |
लोकभीत्या देवभीत्या यत् तद्राजसमिश्रितम् ||
प्रतारणार्थं लोकानां याचितं देवनामतः |
द्रव्यं कृतं तद्वेषेण गलितं तत्तु राजसम् ||


S. 33, tamasische Verehrung
वाममार्गं समाश्रित्य कौलं धर्मं विचार्य च |
अन्यधर्मस्य चाद्वेषात् कृतं शुद्धं तु तामसम् ||
कृतं यत् कामतः कर्म वैदिकं पारलौकिकम् |
वाममार्गं समाश्रित्य मिश्रितं तत्तु तामसम् ||
जिह्वालोभेन यत् खानं पानं यत् कामतो रतम् |
अथ वा मारणाद्यर्थं गलितं तत्तु तामसम् ||


S. 33–34, Früchte der neun Formen
शुद्धसत्त्वेन मोक्षः स्यात् स्वर्गः स्यान्मिश्रसत्त्वतः |
सिद्धिर्गलितसत्त्वात् स्यादैहिकी च मनुष्यता ||
स्वर्गः स्याद्राजसाच्छुद्धात् कामः स्यान्मिश्रराजसात् |
गलिताद्राजसात् तिर्यग्योनावपि सुखं भवेत् ||
सात्त्विकात्तामसाद्देवयोनित्वं प्राप्नुयान्नरः |
मिश्रतामसतो दुःखी नारकी चान्ततामसात् ||


S. 34, fünf Verrichtungen und Befreiung
कर्म पञ्चविधं प्रोक्तं पञ्चधा मुक्तिदायकम् |
प्रसर्पणमुपादानमिज्याध्यायस्तथा भुवि ||
संमार्जनोपलेपादिसंस्कारा देवमन्दिरे |
भक्त्यार्चनं सर्पणं स्याद्देवसालोक्यकारकम् ||
पूजासाधनसामग्र्या मेलनं भक्तसेवनम् |
तत्प्रीतिः स्यादुपादानं देवतारूपदायकम् ||
पीठपूजनपूर्वं यत् षोडशाद्युपचारकैः |
मूर्तौ यन्त्रेऽथ वा पूजा सेज्या सामीप्यकारिका ||
तच्छास्त्राध्ययनं सम्यक् कृत्वा मन्त्रार्थभावनम् |
कृत्वा जपः स्यात् स्वाध्यायो देवसायुज्यकारकः ||
गुरुदेवात्मकालानां सम्यगेक्यविभावनम् |
संयोगो देहलिङ्गस्य नाशकः कालयोगकृत् ||


Lesungshinweise: [sowie der anschließend erklärte Samyoga]

S. 34–35, Verehrung unterwegs und in Not
अथ पथिकादिकर्तृकोपासना तत्रैवोक्ता— अथापराह्निकं वक्ष्ये तत् स्थानदशके भवेत् |
मार्गे प्रवासे दुर्गे च नान्नप्राप्तौ मनोभये ||
कारागृहेऽशुभेऽस्थाने चोरव्याघ्रादिजे भये |
परचक्रागमे कुर्याच्छौचाद्यं च यथा तथा ||
मन्त्रस्नानादिकं किंचित् कृत्वा मानसपूजनम् |
मनसा हृदयस्यान्तर्ध्यात्वा योगाख्यपीठकम् ||
तत्रैव पृथिवीमध्ये पूजां देवस्य चाचरेत् |
यथा पुष्पादिभिः पूजा बहिर्देहे विधीयते ||
तथा हृद्यपि कर्तव्याः सर्वास्ताः प्रतिपत्तयः |
मनसा जठरे होम एतद्विपदि चाह्निकम् ||


S. 35, Verehrung bei Krankheit
अथ रोगार्तकर्तृकोपासना तत्रैवोक्ता— अथातुराह्निकं वक्ष्ये नित्यं कण्ठाधिकस्य तत् |
यदि लङ्घनपर्यन्तो व्याधिरात्मनि दृश्यते ||
तदा पूजा न कर्तव्या स्थण्डिले प्रतिमासु च |
न स्नानं दन्तकाष्ठं वा कुर्याद्धोममथापि वा ||
रविमण्डलमालोक्य प्रतिमामथ वा पुनः |
मूलमन्त्रं सकृज्जप्त्वा पुष्पं साक्षतमुत्सृजेत् ||
श्रान्तो व्याधिभिरत्युग्रैर्जरसा चेन्द्रियच्युतः |
निजसामयिकैर्वापि स्वकर्तव्यं समापयेत् ||
रुग्विनिवृत्तस्ततः स्नात्वा पूजयित्वाग्निदेवताः |
गुरून् विप्रांस्तदग्रे च वाक्यमेतदुदीरयेत् ||
एतावत्कालविच्छिन्ना पूजा, युष्मत्प्रसादतः |
न दोषोऽस्त्विति संप्रार्थ्य पुनः पूर्ववदाचरेत् ||
यस्तु रोगवशाद्दोषो जातस्तत्क्षालनं चरेत् |
जपेन वाथ दानेन होमेन ध्यानतोऽपि वा ||


Lesungshinweise: [Zustand mit kanthadhika bezeichnet wird; Bedeutung unsicher] Nun die Verehrung durch einen von Krankheit Betroffenen; auch sie wird ebendort gelehrt: „Jetzt werde ich die tägliche Ordnung für den Kranken erklären, dessen [Zustand mit kanthadhika bezeichnet wird; Bedeutung unsicher].

S. 35–36, Verehrung während Sutaka
अथ सूतकिकर्तृकोपासना तत्रैवोक्ता— अथ सूतकिनो नित्यं वैदिकं तु स्मृतीरितम् |
कृत्वा तान्त्रिकपूजादि मनसैव समाचरेत् ||
कामनार्थे प्रयोगश्चेत् तदा पूर्ववदाचरेत् |
स्वगेहं परित्यज्य वामाचारेण सूतके ||
स्पृहां हित्वा ज्ञानपूर्वं कुलजो धर्ममागतम् |
यः पालयेद्वामधर्मं देवता तु स जायते ||


S. 36, fehlende Ritualmittel
अथ महाभये आपतिते पूजासामग्र्यभावे वा यत्कर्तव्यं तदाह— संत्रस्तेन न चेल्लब्धमर्घ्यपात्रादि साधनम् |
पूजोदकेन कर्तव्या, तोयं चेन्नैव विद्यते ||
तदा संपूजयेद्देवं भावनाकुसुमादिभिः |
भक्तिः श्रद्धा भावना च पूजानां जीव उच्यते ||


S. 36, vereinfachte tägliche Verehrung
जडाह्निकमाह— जडानामाह्निकं वक्ष्ये तथा संक्षिप्तकर्मणि |
रत्नमण्डपधर्मादिचतुष्कमुरगाम्बुजम् ||
मूलमूर्तिषडङ्गानि तेषां पूजा विधीयते |
एतन्न्यासक्रमेणैव स्पृशेदङ्गानि नित्यशः ||
सर्वेषामपि वस्तूनामलाभे भावनैव हि |
निर्मलेनोदकेनैव पूजयेत् स्थिरमानसः ||


S. 36, drei Grade der Puja
सामान्यतस्त्रिधा पूजा सोत्तमा मध्यमाधमा |
अधिकारिनिमित्ताभ्यां भिद्यते शतधा पुनः ||
योगोपकरणैः कृत्स्नैः क्रियमाणोत्तमा मता |
यथालब्धैर्विनिष्पाद्या द्रव्यैः पूजा तु मध्यमा ||
पत्रपुष्पाम्बुनिष्पाद्या पूजा चाधमसंज्ञका |


S. 37, Puja nach den drei Gunas
विहिताखिलवेदोक्तैर्ब्रह्मादिभिरकल्मषैः ||
क्रियमाणा तु या पूजा सात्त्विकी सा विमुक्तिदा |
राजादिभिस्तपोनिष्ठैर्भगवत्तत्त्ववेदिभिः |
या पूजा क्रियते सम्यग्राजसी सा सुखप्रदा ||
स्त्रीबालवृद्धमूर्खाद्यैर्भक्तैरक्षुब्धमानसैः |
या पूजा क्रियते नित्यं तामसी सा प्रकीर्तिता ||
अरण्ये स्वल्पकामानां सिद्ध्यर्थं पूजनं स्मृतम् |
निष्कामानां गृहस्थानां हितं गेहे तु पूजनम् ||
कदा चिदपि न त्याज्यो वेदमार्गो द्विजैः सदा |
वेदच्युतानां विप्रत्वं देवत्वं चापि दुर्लभम् ||


Lesungshinweise: Wer vom Veda abgefallen ist, erlangt nur schwer Brahmanenstand oder göttliches Dasein.“ Lesungshinweis: Die grammatische Verbindung am Anfang dieses Abschnitts ist im Druck schwierig; die Übersetzung gibt den erkennbaren Zusammenhang wieder.

S. 37, geistige Puja und die beiden Wege
तथा— उपासना त्रिधा प्रोक्ता श्रेष्ठा तत्र तु सात्त्विकी |
तस्यां च मानसो पूजाजपौ मुख्यतमौ स्मृतौ ||
राजसो दक्षिणो मार्गः प्रतिमायां प्रपूजनम् |
बाह्योपचारैः पुष्पाद्यैस्तदाद्यानां विशिष्यते ||
तामसोपासनं प्रोक्तं पीठादौ बलिदानतः |
वाममार्गेण तच्चाद्यं वर्णं हित्वा प्रशस्यते ||
एषा व्यवस्था संप्रोक्ता वामदक्षिणयोः परा |
उपासना द्विधा प्रोक्ता सकामाकामविश्रुता ||
मोक्षबीजं तु निष्कामा सकामा भवबीजकम् |


S. 37–38, Unterweisung und Berechtigung
उपासनायां च गुरूपदेशं विनानधिकारित्वमाह तत्रैव— द्विजानामनुपनीतानां स्वकर्माध्ययनादिषु |
तथा चादीक्षितानां च मन्त्रदेवार्चनादिषु ||
नाधिकारोऽस्त्यतः कुर्यादात्मानं मन्त्रसंस्कृतम् |
मन्त्रमुक्तावल्याम्— जपो देवार्चनविधिः कार्यो दीक्षान्वितैर्नरैः |


S. 38, zufällig erlangte Mantras
तथा गौरीयामले— यदृच्छया श्रुतं मन्त्रं छद्मनाथ बलेन च |
पत्रे स्थितं तु गाथावत् प्रजप्तमपि निष्फलम् ||
योगिनीतन्त्रे— अदीक्षिता ये कुर्वन्ति जपपूजादिकाः क्रियाः |
न भवन्तु फलं तेषां शिलायामुप्तबीजवत् ||


S. 38, Schrift und mündliche Unterweisung
महाकालसंहितायामपि— न शास्त्रमालोक्य वदेन्नाचरेन्न जपेदपि |
न पठेन्नोपदिश्याच्च न कुर्यान्नैव साधयेत् ||
गुरूपदेशतो लब्धे जपन्यासार्चनादिके |
पश्चात्तत्साधयेत्सर्वं सदा तद्भावभावितः ||


S. 38–39, Notwendigkeit der Diksha im Rudrayamala
दीक्षाया आवश्यकत्वमाह रुद्रयामले— यस्य दीक्षा शिवे नास्ति जीवनान्तं च जन्मिनः |
स जातु नोत्तरेद्देवि निरयाम्बुनिधेः क्वचित् ||
दीक्षाहीनस्य देवेशि पशोः कुत्सितजन्मनः |
पापौघोऽन्तिकमायाति पुण्यं दूरं पलायते ||
तस्माद्यत्नेन दीक्षैषा ग्राह्या कृतिभिरुत्तमा |


S. 39, Dattatreyayamala über fehlende Einweihung
दत्तात्रेययामले— अथ दीक्षाविहीनो यो वर्तते भुवि पापभुक् |
मोहान्धकारे नरके गर्ते पतति दुःखितः ||
अनीश्वरस्य मर्त्यस्य नास्ति त्राता यथा भुवि |
तथा दीक्षाविहीनस्य नेह स्वामी परत्र च ||


S. 39, Agamakalpadruma über fehlende Einweihung
आगमकल्पद्रुमे— उपचारसहस्रैस्तु योजितां भक्तिसंयुताम् |
अदीक्षितार्चनां देवा न गृह्णन्ति कदा चन ||
कर्माखिलं वृथा यस्मात् तस्मात् पशुरदीक्षितः |


S. 39, Matsyasukta über fehlende Einweihung
मत्स्यसूक्ते— अदीक्षितानां मर्त्यानां शृणु देवि महेश्वरि |
अन्नं विष्ठासमं तस्य जलं मूत्रसमं स्मृतम् ||
तत्कृतं तस्य वा श्राद्धं सर्वं संयात्यधोगतिम् |


S. 39, Kularnava über die Kraft der Diksha
दीक्षामाहात्म्यमाह कुलार्णवे— उपपातकलक्षाणि महापातककोटिकाः |
क्षणाद्दहति देवेशि दीक्षा हि विधिना कृता ||


S. 39–40, Diksha und Lehrerfolge
रुद्रयामले— दीक्षितो ब्राह्मणो याति ब्रह्मलोकं सुधामयम् |
ऐन्द्रं लोकं क्षत्रियोऽपि प्राजापत्यं विशस्तथा ||
याति गन्धर्वनगरं शूद्रो दीक्षाप्रसादतः |
दीक्षां विना न मोक्षः स्यात् प्राणिनां शिवशासनात् ||
सा च न स्याद्विनाचार्यमित्याचार्यपरम्परा |


S. 40, Früchte der Diksha
वैशम्पायनसंहितायाम्— सर्वसिद्धिकरी दीक्षा सर्वसंपत्प्रदायिनी |
प्रतिमास्वरवर्णानि कान्तिपुष्टिधनानि च ||
मोहनस्तम्भनाकृष्टिमारणोच्चाटनानि च |
वशीकारं च कवितां बुद्धिं वै धारणायुताम् ||
तारणं च समुद्रस्य वह्नेः शैत्यं रणे जयम् |
विपिने चाभयं चैव शोकदुःखापहं तथा ||
धर्मार्थकाममोक्षांश्च ददात्येषा न संशयः |


Lesungshinweise: [die Reihe beginnt mit pratima, dessen Bedeutung hier unklar ist]

S. 40, Bedeutung von Diksha im Rudrayamala
दीक्षाशब्दार्थ उक्तो रुद्रयामले— दिव्यज्ञानं यतो दद्यात् कुर्यात् पापस्य संक्षयम् |
तेन दीक्षेति लोकेऽस्मिन् कीर्तिता मन्त्रपारगैः ||


S. 40, wahrer Guru und Diksha
मेरुतन्त्रे— दीयते ज्ञानविज्ञानं क्षीयन्ते पापराशयः |
तेन दीक्षेति हि प्रोक्ता प्राप्ता चेत् सद्गुरोर्मुखात् ||
असद्गुरुः स्वयं नष्टः कथं तारयते परम् |


S. 40, Agamasara über Mantra-Sadhana
आगमसारे— गुरोर्मुखान्महाविद्यां गृह्णीयात् पापनाशिनीम् |
तस्माद्यत्नाद् गुरुं कृत्वा मन्त्रसाधनमाचरेत् ||


S. 41, Nebenvidyas und Einweihung
चामुण्डातन्त्रे— उपविद्यासु सर्वासु षट्कर्मादिप्रसाधने |
नात्र दीक्षाद्यपेक्षास्ति नात्राङ्गादिपूजनम् ||
उपविद्या यक्षिण्याद्याः |
षट्कर्मादिसाधनमन्त्राश्च महामन्त्रातिरिक्ताः साधनमन्त्राः |
अत्र दीक्षापदं क्रियावत्यादिदीक्षापरम् |
उपदेशदीक्षा तु सर्वेषामावश्यकी |


S. 41, Buchwissen und überlieferte Praxis
पुस्तके लिखितो मन्त्रो येन सुन्दरि जप्यते |
न तस्य जायते सिद्धिर्हानिरेव पदे पदे ||
गुरुमुख्याः क्रियाः सर्वा भुक्तिमुक्तिफलप्रदाः |
गुर्वनुक्ताः क्रियाः सर्वा निष्फलाः स्युर्यतो ध्रुवम् ||
इत्यादिवचनात् |
न च शास्त्राद्वा गुरुवक्त्राद्वा ज्ञात्वा मन्त्रं प्रसाधयेत् |
इति वचनात् पुस्तकादपि मन्त्रज्ञानं सिद्धिजनकमिति वाच्यम् |
गुरोर्गृहीतमन्त्रः साधको मन्त्रसाधनप्रकारं शास्त्राद्गुरुमुखाद्वा ज्ञात्वा मन्त्रं साधयेदित्यस्यैव तदर्थत्वात् |


S. 41, Bedeutung des Wortes Mantra
मन्त्रपदार्थमाह पिङ्गलामते— मननाद्विश्वविज्ञानं त्राणं संसारबन्धनात् |
यतः करोति संसिद्धिं मन्त्र इत्युच्यते ततः ||


S. 41, Größe des Mantras
मन्त्रमाहात्म्यमाह मेरुतन्त्रे— मन्त्र एवेश्वरः साक्षान्मन्त्र एव महौषधम् |
नहि मन्त्रात् परं किंचित् सर्वसिद्धिप्रदायकः ||
तत्रैव— साधकानां फलं दातुं तत्तद्रूपं धृतं सुरैः |
मुख्यस्वरूपं तेषां तु मन्त्रा एव न चेतरत् ||


S. 42, Folge der Hingabe
सारसंग्रहे— यथा देवे तथा मन्त्रे यथा मन्त्रे तथा गुरौ |
यथा गुरौ तथा स्वात्मन्येवं भक्तिक्रमः स्मृतः ||


S. 42, Guru im Rudrayamala
गुरुमाहात्म्यमाह रुद्रयामले— गुरुरेव परो मन्त्रो गुरुरेव परो जपः |
गुरुरेव परा विद्या नास्ति किंचिद्गुरुं विना ||
यस्य तुष्टो गुरुर्देवि तस्य तुष्टा महेश्वरी |
येन संतोषितो देवि गुरुः स हि सदाशिवः ||
तस्माद्गुरुं भजेद्भक्त्या तोषयेत् सततं गुरुम् |
गुरोर्यत्र परीवादो निन्दा यत्र प्रवर्तते ||
कर्णौ तत्र पिधातव्यौ यद्वा दूरं पलायनम् |


S. 42, Missachtung des Gurus
ब्रह्मवैवर्ते— यैः शिष्यैः शश्वदाराध्या गुरवो ह्यवमानिताः |
पुत्रमित्रकलत्रादिसंपद्भ्यः प्रच्युता हि ते ||
ये गुरुद्रोहिणो मूढाः सततं पापकारिणः |
तेषां तु यावत् सुकृतं दुष्कृतं स्यान्न संशयः ||


S. 42, tägliche Verehrung des Gurus
प्रातिकूल्यं गुरोर्नित्यं मनसा वन्दनं चरेत् |
सदाशिवधिया नित्यमेकग्रामनिवासिनम् ||
गुरुं वन्देत चेद्दूरे मनसा वन्दनं चरेत् |
ब्रह्मविष्णुशिवादीनां पूजने यत् फलं भवेत् ||
तत् फलं समवाप्नोति प्रत्यहं वन्दने गुरोः |


Lesungshinweise: [Die Hauptlesung des ersten Halbverses ist syntaktisch gestört: ‚Widersetzlichkeit gegenüber dem Guru …‘.] „[Die Hauptlesung des ersten Halbverses ist syntaktisch gestört: ‚Widersetzlichkeit gegenüber dem Guru …‘.] Täglich vollziehe man innerlich die Verneigung. Die Frucht, die aus der Verehrung Brahmas, Vishnus, Shivas und der anderen entsteht, erlangt man durch die tägliche Verneigung vor dem Guru.“ Lesartenhinweis: Der Druck nennt für den ersten Vers die verständliche Variante „Man soll sich dem Guru nicht einmal in Gedanken widersetzen“; die gestörte Hauptlesung wurde nicht stillschweigend durch sie ersetzt.

S. 42–43, Gegenwart des Gurus
अविद्यो वा सविद्यो वा गुरुरेव तु दैवतम् ||
अमार्गस्थोऽथ मार्गस्थो गुरुरेव परा गतिः |
यथा सिद्धरसस्पर्शात् ताम्रं भवति काञ्चनम् ||
सन्निधाने गुरोरेव शिष्यः शिवमयो भवेत् |


S. 43, der geistige Vater
तथा— उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता |
तस्मान्मन्येत सततं पितुरप्यधिकं गुरुम् ||


S. 43, Lehrer und Gottheit
वसन्तललितभैरव्याम्— दिव्यज्ञानोपदेष्टारं देशिकं परमेश्वरम् |
पूजयेत् परया भक्त्या तस्याज्ञां नैव लङ्घयेत् ||
यथा गुरुस्तथैवेशो यथैवेशस्तथा गुरुः |
पूजनीयावुभौ भक्त्या न भेदो विद्यते तयोः ||
नो द्वैतवादं कुर्वीत गुरुणा सह कुत्र चित् |
अद्वैतं भावयेद्भक्त्या गुरुमीशः स जायते ||


S. 43, Zuflucht beim Guru
अन्यत्रापि— शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन |
तस्मात् सर्वप्रयत्नेन गुरुमेव प्रसादयेत् ||


S. 43, Guru und acht Fesseln
मेरुतन्त्रे— घृणा शङ्का भयं लज्जा जुगुप्सा चेति पञ्चमी |
कुलं शीलं तथा शक्तिरष्टौ पाशाः प्रकीर्तिताः ||
पाशबद्धः पशुः प्रोक्तः पाशमुक्तः सदाशिवः |
तस्मात् पाशहरो योऽत्र स गुरुर्नान्य उच्यते ||
तथा— शङ्कया भक्षितं सर्वं त्रैलोक्यं सचराचरम् |
सा शङ्का भक्षिता येन स गुरुर्दुर्लभः क्षितौ ||


S. 44, Guru als göttliche Gegenwart
कुलरत्नावल्याम्— अत्रिनेत्रः शिवः साक्षादचतुर्बाहुरच्युतः |
अचतुर्वदनो ब्रह्मा श्रीगुरुः कथितः प्रिये ||
सदाशिवस्य देवस्य श्रीगुरोरपि पार्वति |
उभयोरन्तरं नास्ति यः करोति स पातकी ||
यथा घटश्च कलशः कुम्भश्चैकार्थवाचकाः |
तथा देवश्च मन्त्रश्च गुरुश्चैकार्थ उच्यते ||
न गुरोः सदृशं वस्तु न देवः शङ्करोपमः |
न च कौलात् परो योगो न विद्या कालिकासमा ||


S. 44, Hingabe als Voraussetzung
मेरुतन्त्रे— गुरुभक्तिविहीनस्य तपो विद्या व्रतं कुलम् |
व्यर्थं सर्वं शवस्येव नानालङ्कारभूषणम् ||


S. 44, Wortdeutung und Eigenschaften des Gurus
गुरुशब्दार्थमाह आगमसारे— गकारः सिद्धिदः प्रोक्तो रेफः पापस्य दाहकः |
उकारः शिव इत्युक्तस्त्रितयात्मा गुरुः परः ||
दृढव्रतं सदाचारं श्रद्धाभक्तिसमन्वितम् ||
कृतज्ञं पापभीतं च साधुसज्जनसङ्गमम् |
आस्तिकं दानशीलं च सर्वभूतहिते रतम् ||


S. 44, Kennzeichen des Gurus im Kularnava
गुरुलक्षणम् कुलार्णवे— श्रीगुरुः परमेशानि शुद्धवर्णो मनोहरः |
सर्वलक्षणसंपन्नः सर्वावयवशोभितः ||
सर्वागमार्थतत्त्वज्ञः सर्वमन्त्रप्रधानवित् |
लोकसंमोहनाकारो देववत्प्रियदर्शनः ||


S. 45, Fortsetzung der Guru-Kennzeichen
इङ्गिताकारचेष्टाभिर्दूरतः कृतदुर्जनः |
अन्तर्मुखो बहिर्दृष्टिः सर्वज्ञो देशकालवित् ||
आज्ञासिद्धस्त्रिकालज्ञो निग्रहानुग्रहक्षमः |
वेदवेदाङ्गविच्छान्तः सर्वजीवदयापरः ||
स्वाधीनेन्द्रियसंचारः षड्वर्गविजयक्षमः |
अग्रगण्योऽतिगम्भीरः पात्रापात्रविशेषवित् ||
निर्मलो नित्यसंतुष्टो निर्द्वन्द्वो नित्यशक्तिमान् |
सद्भक्तवत्सलो धीरः कृपालुः स्मितपूर्ववाक् ||
भक्तिप्रियः सर्वसमो दयालुः शिष्यशासिता |
स्वेष्टदेवगुरुः प्राज्ञो वनितापूजनोत्सुकः ||
नित्ये नैमित्तिके काम्ये रतः कर्मण्यनिन्दिते |
रागद्वेषभयक्रोधदम्भाहङ्कारवर्जितः ||
स्वविद्यानुष्ठानतपोविद्यानां च प्रकाशकः |
यदृच्छालाभसंतुष्टो गुणदोषविभेदकः ||
स्त्रीधनादिष्वनासक्तो दुःसङ्गव्यसनोझितः |
अलोलुपोऽहिंसकश्चापक्षपाती विचक्षणः ||
वित्तविद्यादिभिर्मन्त्रयन्त्रतन्त्राद्यविक्रयी |
निःसंकल्पो निर्विकल्पो निर्णीतात्मातिधार्मिकः ||
तुल्यनिन्दास्तुतिर्मौनी निरपेक्षो नियामकः |
इत्यादिलक्षणोपेतः कथितः श्रीगुरुः प्रिये ||


Lesungshinweise: [die Wendung ‚eigene erwählte Gottheit – Guru‘ ist syntaktisch unklar]

S. 45–46, ungeeignete Gurus
अथ निषिद्धगुरुलक्षणम् तत्त्वसारे— बह्वाशी दीर्घसूत्री च विषयादिषु लोलुपः |
हेतुवादरतो दुष्टो वाग्वादी गुरुनिन्दकः ||
अरोमा बहुरोमा च निन्दिताश्रमसेवकः |
कालदन्तोऽसितोष्ठश्च दुर्गन्धिश्वासवाहकः ||
दुष्टलक्षणसंपन्नो यद्यपि स्वयमीश्वरः |
बहुप्रतिग्रहासक्त आचार्यः श्रीक्षयावहः ||


S. 46–47, geeignete Schüler
अथ शिष्यलक्षणम् कुलार्णवे— सच्छिष्यं तं कुलेशानि सर्वलक्षणसंयुतम् |
शमादिसाधनोपेतं गुणशीलसमन्वितम् ||
शुद्धदेहान्ववायज्ञं धार्मिकं शुद्धमानसम् |
विश्वासविनयोपेतं वित्तशाठ्यविवर्जितम् ||
असाध्यसाधकं शूरं बलकान्तिसमन्वितम् |
अनुकूलक्रियायुक्तमप्रमत्तं विचक्षणम् ||
हितसत्यमितस्निग्धभाषिणं मुक्तदूषणम् |
सकृदुक्तगृहीतार्थं चतुरं बुद्धिविस्तरम् ||
गृहमत्यासवोत्सङ्गनिर्विकारमसेवकम् |
विमृश्यकारिणं वीरं मनोदारिद्र्यवर्जितम् ||
सर्वकार्यातिकुशलं धीरं सर्वोपकारकम् |
अत्यर्थं परनिन्दायां विमुखं सुमुखं प्रिये ||
जितेन्द्रियं सुसंतुष्टं धीमन्तं ब्रह्मचारिणम् |
त्यक्ताधिव्याधिचापल्यं दुःशङ्कातङ्कवर्जितम् ||
गुरुध्यानस्तुतिकथासेवनाभजनोत्सुकम् |
गुरुदेवतभक्तं च कामिनीभजनोत्सुकम् |
गुर्वाज्ञापालकं देवि गुरुकीर्तिप्रशंसकम् ||
गुरुवाक्यप्रमाणज्ञं गुरुशुश्रूषणे रतम् |
चित्तानुवर्तिनं प्रेक्ष्यकारिणं कुलनायिके ||
लज्जाभिमानगर्वादिवर्जितं गुरुसन्निधौ |
निरपेक्षं गुरुद्रव्ये तत्प्रसादाभिकाङ्क्षिणम् ||
गुरुध्यानादिनिरतं मोक्षमार्गाभिकाङ्क्षिणम् |
इत्यादिलक्षणोपेतं गुरुः शिष्यं परिग्रहेत् ||


Lesungshinweise: [die Endung des Kompositums ist unklar] [Die folgende gedruckte Wendung über Haus, Rauschtrank und Umarmung ist beschädigt beziehungsweise grammatisch unklar.]

S. 47, ungeeignete Schüler – erster Abschnitt
कुत्सितशिष्यलक्षणं तत्रैव— दुष्टान्ववायजं दुष्टं गुणहीनं विरूपितम् |
परशिष्यं च पाखण्डं धूर्तं पण्डितमानिनम् ||
हीनाधिकविकाराङ्गं विकलावयवान्वितम् |
पङ्गुमन्धं च बधिरं मलिनं व्याधिपीडितम् ||
उच्छिष्टं दुर्मुखं चापि स्वेच्छावेषधरं विटम् |
दुर्भिदग्धं कुवेषं च कुटिलं भीमवीक्षणम् ||
निद्रालस्ययुतं तन्द्राद्यूतादिव्यसनान्वितम् |
कपाटकुड्यस्तम्भादौ तिरोहिततनुं सदा ||
शून्यमुक्तकरं क्षुद्रं श्रद्धाभक्तिविवर्जितम् |
किमेकवादिनं स्तब्धं दूषकं चपलं शठम् ||
धनस्त्रीशुद्धिरहितं निषेधविधिवर्जितम् |
रहस्यभेदकं चापि वेदकार्यार्थघातकम् ||
मार्जारबकवृत्तिं च रन्ध्रान्वेषणतत्परम् |
मायान्वितं कृतघ्नं च प्रच्छन्नान्तरदायकम् ||


Lesungshinweise: [kimekavadin: Bedeutung unklar]

S. 48, ungeeignete Schüler – zweiter Abschnitt
विश्वासघातकं देवद्रोहिणं पापकारिणम् |
अविश्वासमविद्याङ्गमन्त्रसिद्धिकाङ्क्षिणम् ||
आततायिनमादित्सुं कुत्सितं कूटसाक्षिणम् |
सर्वत्र याचकं देवि सर्वाक्रष्टाभिगामिनम् ||
असत्यानिष्ठं चासक्तं ग्राम्यादिबहुभाषिणम् |
दुर्विचारवितर्कादिकारकं कलहप्रियम् ||
वृथाक्षेपकरं भ्रान्तं भ्रामकं वाग्विडम्बकम् |
परोक्षे दूषणकरं प्रत्यक्षे प्रियवादिनम् ||
वायुष्कवादिनं विद्याचोरमात्मप्रशंसकम् |
गुणासहिष्णुं सद्धीतमतिक्रोधसमन्वितम् ||
चार्वाकं दुर्जनसखं सर्वलोकविगर्हितम् |
पिशुनं परसंतापं सर्वप्राणिभयंकरम् ||
क्लेशवादिनं मित्रद्रोहिणं भ्रातृवञ्चकम् |
जिह्वोपस्थपरं देवि तस्करं पशुचेष्टितम् ||
अकारणद्वेषहास्यक्लेशक्रोधादिकारिणम् |
अतिहास्यस्य कर्तारं सीमान्तःपरिहासकम् ||
कामुकं चातिनिर्लज्जं मिथ्यादुष्टसूचकम् |
असूयामदमात्सर्यदम्भाहङ्कारसंयुतम् ||
ईर्ष्यापैशुन्यपारुष्यकार्पण्यक्रोधमानिनम् |
अधीरं दुःखितं द्वेष्यमशक्तं तत्त्ववर्जितम् ||
असिद्धकुमतिं मूढं चिन्ताकुलितमानसम् |
तृष्णालोभयुतं दीनमतुष्टं सर्वयाचकम् |


Lesungshinweise: [die Lesung des Kompositums ist unsicher] [Lesung unsicher] [vayushkavadin: Lesung und Bedeutung unsicher] [folgende Wendung unsicher] [eine weitere Art des Verspottens: Lesung unklar] „Vertrauen brechend, den Gottheiten feindlich und Schuld auf sich ladend; ohne Vertrauen, die Vollendung von Mantras begehrend, ohne ihre Glieder zu kennen [die Lesung des Kompositums ist unsicher]; gewalttätig, habgierig, verachtenswert und ein falscher Zeuge; überall bettelnd, o Göttin, und zu allem hingezogen [Lesung unsicher]. An der Unwahrheit festhaltend, anhänglich, viel über Niedriges und Ähnliches redend; schlechte Überlegungen und Einwände vorbringend und streitsüchtig; grundlos beschuldigend, selbst verwirrt und andere verwirrend, Worte verdrehend; hinter dem Rücken schmähend und ins Gesicht freundlich sprechend; [vayushkavadin: Lesung und Bedeutung unsicher], Wissen stehlend und sich selbst lobend; Vorzüge anderer nicht ertragend, [folgende Wendung unsicher] und von übermäßigem Zorn erfüllt; ein Charvaka, Freund schlechter Menschen und von allen getadelt; verleumderisch, anderen Leid zufügend und allen Lebewesen Furcht einflößend; verletzend redend, Freunde verratend und den Bruder betrügend; dem Gaumen und den Geschlechtsorganen ergeben, o Göttin, ein Dieb und von tierischem Verhalten; grundlos hassend, spottend, quälend, zürnend und Ähnliches tuend; übermäßig lachend und [eine weitere Art des Verspottens: Lesung unklar]; lüstern, völlig schamlos und andere durch falsche üble Anschuldigungen anzeigend; voll Missgunst, Übermut, Neid, Heuchelei und Ichüberheblichkeit; eifersüchtig, verleumderisch, grob, geizig, zornig und stolz; unbeständig, leidvoll, verhasst, kraftlos und ohne Einsicht in die Wirklichkeit; ohne Erfolg, von verkehrtem Verstand, töricht und im Geist von Sorgen verwirrt; voll Verlangen und Gier, elend, unzufrieden und jeden anbettelnd.“ Lesungshinweis: Mehrere Wörter dieser Aufzählung bleiben auch nach Prüfung der Buchseite unsicher; die Unterbrechungen sind an den betreffenden Stellen markiert.

S. 49, Abschluss der Ausschlusskriterien
बह्वाशिनं कपटिनं भ्रामकं कुटिलं प्रिये ||
भक्तिश्रद्धादयाशान्तिधर्माचारविवर्जितम् |
मातापितृगुरुप्राज्ञमहतां हास्यकारकम् ||
कुलद्रव्यादिवीभत्सं गुरुसेवाभिमानिनम् |
स्त्रीदुष्टं समयभ्रष्टं गुरुशप्तं महेश्वरि ||
इत्यादिविगुणोपेतं गुरुः शिष्यं परित्यजेत् |
स्नेहाद्वा लोभतो वापि यदि गृह्णाति दीक्षयेत् ||
तस्मिन् गुरौ सशिष्ये च देवताशाप आपतेत् |
तस्मादेवंविधं शिष्यं न गृह्णीयात् कदा चन ||
यदि गृह्णाति मोहेन तत्पापैः प्राप्यते गुरुः |
मन्त्रिपापं च राजानं पतिं जायाकृतं यथा ||
तथा शिष्यकृतं पापं प्रायो गुरुमपि स्पृशेत् |


S. 49–50, Prüfung des Schülers
ज्ञानेन कृपया वापि गुरुः शिष्यं परीक्षयेत् ||
संवत्सरं तदर्धं वा तदर्धं वा तदर्धतः |
उत्तमानधमे कार्ये नीचानुत्तमकर्मणि ||
प्राणद्रव्यप्रदानाद्यैरादेशैश्च समागमैः |
तन्मर्मसूचकैर्वाक्यैर्मायाभिः क्रूरचेष्टितैः ||
पक्षपातैरुदासीनैरनेकैश्च मुहुर्मुहुः |
आहृष्टः पीडितश्चापि यो विषादं न याति च ||
गुरुः कृपां करोतीति मुदा संवेदयेत् सदा |
श्रीगुरुस्मरणे वापि कीर्तने चापि वन्दने ||
परिचर्यामाह्वाने प्रेषणेऽन्वेषणे प्रिये |
आनन्दकम्परोमाञ्चस्वरनेत्रादिविक्रिया ||
येषां स्यात् ते न योग्याः स्युर्मन्त्रसिद्धिरपीश्वरि |


Lesungshinweise: Diejenigen, bei denen dies geschieht, sollen nicht geeignet sein; auch Mantra-Siddhi, o Herrin …“ Textunsicherheit: Der letzte Satz ist in der Druckfassung widersprüchlich und unvollständig.

S. 50, gegenseitiges Kennenlernen
मन्त्रमुक्तावल्याम्— तयोर्वत्सरमात्रेण ज्ञातान्योन्यं भविष्यति |
गुरुता शिष्यता वापि नान्यथेति विनिश्चयः ||


S. 50, eigennützige Lehrer und Schüler
मेरुतन्त्रे— धनार्थिनस्तु गुरवः शिष्याः सिद्ध्यर्थिनः कलौ |
तस्मान्न चोभयोः सिद्धिर्देवतानां विडम्बनम् ||


S. 50, Verlassen von Guru und Mantra
लिङ्गागमे— शिष्यश्च सद्गुरोर्मन्त्रं गृहीत्वा तं परित्यजेत् |
गुरुत्यागकरः शिष्यः प्रायश्चित्ती भवेद्ध्रुवम् ||
रुद्रयामले— गुरुत्यागाद्भवेन्मृत्युर्मन्त्रत्यागाद्दरिद्रता |
गुरुमन्त्रपरित्यागाद्रौरवं नरकं व्रजेत् ||


S. 50, Wechsel zu einem Kaula-Guru
कौलिकेन पशोर्मन्त्रग्रहणे तु तत्परित्यागोऽपि देव्यागमे उक्तः |
यदि दैवात् पशोर्विद्या लभ्यते कुलजैर्नरैः |
द्विजं तु कौलिकं प्राप्य पुनर्विद्यामुपालभेत् ||
यो गृह्णाति पशोर्दीक्षां तस्याधिर्गात्रपीडनम् |
भवत्येव न संदेहो बन्धनं चैव वा भवेत् ||
वटपत्रे लिखित्वा च तन्मन्त्रं स्रोतसि क्षिपेत् |
सद्गुरुं वा समाश्रित्य गृह्णीयात् संस्कृतं मनुम् ||


S. 50–51, kundiger und unkundiger Guru
कुलार्णवे— श्रीगुरुं लक्षणोपेतं संशयच्छेदकारकम् |
लब्ध्वा ज्ञानप्रदं देवि न गुर्वन्तरमाश्रयेत् ||
अनभिज्ञं गुरुं प्राप्य संशयाच्छेदकारकम् |
शिष्यो गुर्वन्तरं गत्वा तदेनो नानुलिप्यते ||


S. 51, Erkenntnis suchen
शैवागमे— गुरवो बहवः सन्ति कुमन्त्रौषधवेदिनः |
निगमागमशास्त्रोक्तमन्त्रज्ञो दुर्लभो भुवि ||
सुविज्ञश्चोद्धरेन्मूर्खं न मूर्खो मूर्खमुद्धरेत् |
शिलां संतारयेन्नौर्हि किं शिलां तारयेच्छिला ||
मधुलुब्धो यथा भृङ्गः पुष्पात् पुष्पान्तरं व्रजेत् |
ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् ||


S. 51, Namensgleichheit
वाराहीतन्त्रे— स्वनाम्ना न गुरुः कार्यो भार्या च मातृनामिका |


S. 51, Guru und Überlieferungsrichtung
अथोक्तलक्षणलक्षितस्यापि गुरोर्विशेषमाह |
रुद्रयामले— वैष्णवे वैष्णवो ग्राह्यः शैवे शैवश्च शाक्तिके |
शैवः शाक्तोऽपि सर्वत्र दीक्षास्वामी न संशयः ||
व्युत्क्रमेण महेशानि मन्त्रसिद्धिर्भवेन्न हि |
न पत्नीं दीक्षयेद्भर्ता न पिता दीक्षयेत् सुताम् ||
न पुत्रं च तथा भ्राता भ्रातरं च न दीक्षयेत् |


S. 51, Einweihung durch den Ehemann
न पत्नीं दीक्षयेद्भर्तेति पशुकल्पे |
वीरकल्पे तु— वीराणां कौलिकानां च भर्ता दीक्षामाचरेत् |
भर्तुर्दीक्षाप्रदाने तु न दोषः कौलिकागमे ||
शिवेन दीक्षा पूर्वं तु गौर्यै दत्ता शुभावहा—इत्युक्तम् |


S. 51–52, familiäre Nähe und Einweihung
तथा— पितुर्मन्त्रं न गृह्णीयात् तथा मातामहादपि |
सोदराच्च कनिष्ठाद्वा वैरिपक्षाश्रितात् तथा ||
गणेशविमर्शिन्याम्— पितुर्दीक्षा यतेर्दीक्षा दीक्षा च वनवासिनः |
विविक्ताश्रमिणो दीक्षा सा न कल्याणदायिनी ||
योगिनीतन्त्रे— निर्वीर्यं हि पितुर्मन्त्रं तथा मातामहस्य च |
सोदरस्य कनिष्ठस्य वैरिपक्षाश्रितस्य च ||
प्रमादाद्वा तथाज्ञानात् पितुर्दीक्षां यदाचरेत् |
प्रायश्चित्तं ततः कृत्वा पुनर्दीक्षां समाचरेत् ||
अत्र पितुरित्यनादरे षष्ठी तेन पित्रादिष्वभक्तिरूपोऽनादरोऽतिपरिचयादिर्यदि भवति तदा पुत्रादिना मन्त्रो न ग्राह्य इत्यर्थः |
इति सुधाणवकृतः |


S. 52, Ausnahmen für Shiva, Shakti, Tara und Shrividya
मत्स्यसूक्ते तु— निर्वीर्यं हि पितुर्मन्त्रं शैवे शाक्ते न दुष्यति—इत्युक्तम् |
ताराकल्पे— कथमपि मनुमेतं प्राप्य शिष्याय कस्मै निजकुलतिलकाय ज्येष्ठपुत्राय दद्यात्—इदं ताराविषयकम् |
श्रीविद्याविषयेऽपि न पितृदीक्षानिषेधः |
तदुक्तम् श्रीक्रमे— मनुर्विमृश्य दातव्यो ज्येष्ठपुत्राय धीमते |
स्वीयमन्त्रग्रहणे तु गुरुविचारो न कर्तव्यः |
स्वीयमन्त्रोपदेशे तु न कुर्याद्गुरुचिन्तनम् |
इति भैरवतन्त्रवचनात् |
तथा च— ब्रह्मणा कथितं पूर्वं वशिष्ठाय महात्मने |
वसिष्ठोऽपि स्वपुत्राय मत्पित्रे दत्तवान् स्वयम् ||


S. 53, Einweihung durch den Vater
प्रसन्नहृदयः स्वच्छः पिता मे करुणानिधिः |
कुरुक्षेत्रे महातीर्थे सूर्यपर्वणि दत्तवान् ||
इति विष्णुमन्त्रमधिकृत्य वैशम्पायनसंहितायां शौनकं प्रति व्यासवाक्याद्विष्णुमन्त्रेऽपि न पितृदीक्षानिषेधः |
स तूपदेश्यः पुत्रश्च व्यत्ययी च सुतस्तथा |
इति नारायणीयवचनादभक्तस्यैव पुत्रस्य पितृदीक्षानिषेधः |
इति संप्रदायविदः |
व्यत्ययी मन्त्रान्तरं दत्त्वा मन्त्रान्तरग्राहकः |


S. 53, eine Frau als Guru
योगिनीतन्त्रे— स्त्रियो दीक्षा शुभा प्रोक्ता मातुश्चाष्टगुणा स्मृता |
साध्वी चैव सदाचारा गुरुभक्ता जितेन्द्रिया ||
सर्वमन्त्रार्थतत्त्वज्ञा सुशीला पूजने रता |
गुरुयोग्या भवेत् सा हि विधवा परिवर्जिता ||


S. 53, im Traum empfangener Mantra
वैशम्पायनसंहितायाम्— स्वप्नलब्धं स्त्रिया दत्तं संस्कारेणैव सिद्ध्यति |
संस्कारश्च तत्रैव— स्वप्नलब्धे च कलशे गुरोः प्राणान् निवेशयेत् |
वटपत्रे कुङ्कुमेन लिखित्वा ग्रहणं कृतम् ||
ततः सिद्धिमवाप्नोति विफलं त्वन्यथा भवेत् |


S. 53, Guru mit verwirklichtem Mantra
सिद्धमन्त्रग्रहणे तु न कश्चिद्विचारः |
तदुक्तं शक्तियामले— सिद्धमन्त्रो यदि भवेत्तदा पत्नीं सुदीक्षयेत् |
शक्तित्वेन वरारोहे न च सा पुत्रिका भवेत् ||
पिता तथाविधः पुत्र्यै तथा दीक्षां समाचरेत् |
भ्राता सिद्धमनुर्भूयात् गुरुर्भ्रातुस्तु शक्तितः ||
सिद्धमन्त्रो नरः सर्वमयोग्यं योग्यतां नयेत् |


S. 54, Beschränkung vedischer Mantras
महाकपिलपञ्चरात्रे— न मन्त्रे चाधिकारोऽस्ति शूद्राणां नियमः परः |
मन्त्राभावादमन्त्रेण भाषितं सर्वकर्म हि ||
सातातपसंहितायाम्— यावन्त्यर्णानि मन्त्राणां स्त्रीशूद्रादेः प्रदापयेत् |
तावत्यो ब्रह्महत्याः स्युः स्वयमाह प्रजापतिः ||
इति वैदिकादिमन्त्रपरम् |


S. 54, Berechtigung und Mantraform
भविष्योत्तरे— ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये शुचयोऽमलाः |
तेषां मन्त्राः प्रदेया वै न तु संकीर्णवर्णिनाम् ||
देवीयामले— स्वाहाप्रणवसंयुक्तं मन्त्रं शूद्रे ददद्द्विजः |
शूद्रो निरयगामी स्याद्विप्रः शूद्रत्वमाप्नुयात् ||
ब्रह्मपुराणे— वैदिको मिश्रितो वापि विप्रादीनां विधीयते |
तान्त्रिको विप्रभक्तस्य शूद्रस्यापि प्रकीर्तितः ||


S. 54, drei Formen der Verehrung
भागवते ११ स्कन्धे— वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखः |
त्रयाणामीप्सितेनैव विधिना मां समर्चयेत् ||


S. 54, Rückkehr zum vedischen Weg
साम्बपुराणे— श्रुतिभ्रष्टः श्रुतिप्रोक्तप्रायश्चित्ते भयं गतः |
क्रमेण श्रुतिसिद्ध्यर्थं बाह्यशास्त्रं समाश्रयेत् ||
पञ्चरात्रं भागवतं तन्त्रं वैखानसाभिधम् |
वेदभ्रष्टान् समुद्दिश्य कमलापतिरुक्तवान् ||


S. 54–55, der vedische Brahmane
आचारकुसुमावल्याम्— ब्रह्मवीर्यसमुत्पन्नो ब्राह्मणीगर्भसंभवः |
वेदोक्ताशेषसंस्कारसंस्कृतः सर्वदा शुचिः ||
अधीतवेदवेदाङ्गो वेदान्तार्थविचक्षणः |
त्रिकालविहितस्नानसंध्योपासनतर्पणः ||
नित्यं सहस्रगायत्रीजापको वैश्वदेवकृत् |
अग्निहोत्री सावधानो दैवे पैत्रे च कर्मणि ||
स्वकर्मच्युतिभीतश्च भीतः कालव्यतिक्रमात् |
प्रायश्चित्तेष्वभीतश्च सदाचारेषु सादरः ||
गर्हिताचारविमुखः शान्तो दान्तः प्रसन्नधीः |
इत्यादिलक्षणोपेतः कथितो वैदिको बुधैः ||
एतदन्यब्राह्मणा ये वेदभ्रष्टाश्च ते मताः |
वेदभ्रष्टद्विजातीनां मिश्रोऽध्वा सिद्धिदः कलौ ||
वेदोक्त एव मार्गः स्याद्वैदिकस्य द्विजस्य च |
परित्यक्तश्रौतमार्गः पतितः कथ्यते द्विजः ||


S. 55, Mantras mit Namah
नारदपञ्चरात्रे— स्त्रीशूद्रेभ्यो मनुं दद्यात् स्वाहाप्रणववर्जितम् |
कुलार्णवे— स्त्रीशूद्राणामयं मन्त्रो नमोऽन्तश्च सुखावहः |
एतज्ज्ञात्वा महेशानि चाण्डालानपि दीक्षयेत् ||
याज्ञवल्क्यसंहितायाम्— न वैदिकं जपेच्छूद्रः स्त्रियश्चैव कदा च न |
नमोऽन्तं शैवमन्त्रं वा वैष्णवं चेष्यते बुधैः ||


S. 55–56, Ausschluss vom vedischen Vortrag
मेरुतन्त्रे— मोहाद्वा कामतः शूद्रः पुराणं संहितां स्मृतिम् |
पठन्नरकमाप्नोति पितृभिः सह पापकृत् ||
यः शूद्रो बुद्धिपूर्वं तु शृणुयाच्छ्रावयेद्द्विजः |
वेदं तौ दुःखितौ स्तोऽस्मिन् भवेऽन्यत्र तु नारकौ ||
अधिकारमदाद्यस्तु धनस्य मदतोऽपि वा |
शूद्रस्तु शृणुयाद्वेदं स निर्वंशश्च निर्धनः ||
अज्ञानाच्छ्रुतो वेदः श्रावितो वा द्विजन्मना |
प्राजापत्यत्रयं कृत्वा तौ द्वौ शुद्धौ भविष्यतः ||


S. 56, Bhutashuddhi Tantra über Pranava
भूतशुद्धितन्त्रोक्तानि तन्त्रचिन्तामणिलिखितवचनानि |
प्रणवोच्चारणाद्धोमाच्छालग्रामशिलार्चनात् |
ब्राह्मणीगमनाच्चैव शूद्रश्चाण्डालतां व्रजेत् ||
शूद्रस्य प्रणवोच्चारं पुराणासंमतं प्रिये |
तस्माद्यत्नेन कर्तव्यं तन्त्रोक्तं शूद्रजातिना ||
महाविद्याप्रभावेण शूद्रो वैश्यत्वमाप्नुयात् |
प्रणवार्धं महेशानि गृह्णीयुः शूद्रजातयः ||
एतद्दीक्षापरं तत्त्वं सुगोप्यं परमेश्वरि |


S. 56, Stände während des Bhairavi-Rituals
रुद्रयामले— प्रवृत्ते भैरवीतन्त्रे सर्वे वर्णा द्विजातयः |
निवृत्ते भैरवीतन्त्रे सर्वे वर्णाः पृथक् पृथक् ||
अत्र द्विजातय इति वर्णद्वयजाताः |
कुण्डादय इति नागोजिभट्टाः |


S. 56, Bija-Gruppen nach dem Sautramani Tantra
सौत्रामणितन्त्रे— मायाबीजं ब्राह्मणः स्यात्क्लीबीजं क्षत्रियः स्मृतः |
कामबीजं भवेद्वैश्यो वाग्भवं शूद्र ईरितः ||
चतुर्बीजपरित्यक्तो मन्त्रः पौलस्त्यसंज्ञकः |
चतुर्बीजं ब्राह्मणानां क्षत्रियाणां त्रिबीजकम् ||
बीजद्वयं तु वैश्यानां शूद्राणां त्वेकबीजकम् |


Lesungshinweise: Für Brahmanen sind vier Bijas vorgesehen, für Kshatriyas drei, für Vaishyas zwei und für Shudras eines.“ Lesungshinweis: kli steht im Druck als Bezeichnung vor bija.

S. 57, Name als Mantra
ब्रह्मपुराणे— ओंकारादिसमायुक्तं नमस्कारान्तमीरितम् |
स्वनाम सर्वसत्त्वानां मन्त्र इत्यभिधीयते ||


S. 57, Prüfung anhand der Chakras
यामले— स्वताराराशिकोष्ठानामनुकूलान् भजेन्मनून् |
शिष्यानुकूलं चक्रेभ्यो ज्ञात्वा दद्यान्मनुं गुरुः ||
अथ चक्रविचारः |
तदुक्तम् भुवनेश्वरीतन्त्रे— ताराशुद्धिर्वैष्णवानां कोष्ठशुद्धिः शिवस्य च |
राशिशुद्धिस्त्रैपुरे च गोपालेऽकडमः स्मृतः ||
अकडमो वामनस्य गणेशे दन्तचक्रकम् |
दन्तचक्रं वराहस्य महालक्ष्म्याः कुलाकुले ||
नामादिचक्रे सर्वेषां भूतचक्रे तथैव च |
दोषान् संशोध्य गृह्णीयाद्गुरुवाक्येन जल्पकः ||
वाराहसंहितायाम्— ताराचक्रं राशिचक्रं नामचक्रं तथैव च |
अत्र चेत् सगुणो मन्त्रो नान्यचक्रं विचारयेत् ||


S. 57–58, Buchstaben und Elemente
अथ वक्ष्ये विचारोऽयं चक्राणां सिद्धिहेतवे |
ततस्तु प्रथमं वक्ष्ये स्वकुलाकुलचक्रकम् ||
कारणात् पञ्चभूतानामुद्भूता मातृका यतः |
अतो भूतात्मका वर्णाः पञ्चपञ्चविभागतः ||
वाय्वग्निभूजलाकाशाः पञ्चाशल्लिपयः क्रमात् |
पञ्च ह्रस्वाः पञ्च दीर्घा बिन्द्वन्ताः संधिसंभवाः ||
पञ्चशः कादयः षक्षळसहान्ताः समीरिताः |
पञ्चपञ्चेति दशवर्णा इत्यर्थः |
वाय्वग्निभूजलाकाशाः इति |
अआएकचटतपयषा मारुताः |
इईऐखछठथफरक्षा आग्नेयाः |
उऊओगजडदबलळाः भौमाः |
ऋॠऔघझढधभवसा जलीयाः |
ऌॡअंङञणनमशहा नाभसाः |
पञ्चह्रस्वा इति अइउऋऌ |
पञ्चदीर्घा इति आईऊॠॡ |
बिन्द्वन्ता इति बिन्दुरन्ते यस्य तेन अं इत्यर्थः |
संधिसंभवा इति एऐओऔ |


S. 58, Zugehörigkeit und Freundschaft der Elemente
स्वनामाद्यक्षराणां तु मित्रं वा स्वकुलं वरम् |
तद्यथा— साधकस्याक्षरं पूर्वं मन्त्रस्यापि तथाक्षरम् |
यदेकभूतदेवत्यं जानीयात् स्वकुलं हि तत् ||
मित्रमिति परस्परमैत्रम् |
तदुक्तं दीपिकायाम्— पार्थिवं वारुणं मैत्रमाग्नेयस्यापि मारुतम् |
पार्थिवानामक्षराणां शत्रुत्वे मारुतं स्थितम् ||
आग्नेयस्याम्भसं शत्रुरम्भसस्तेजसं स्मृतम् |
एतेषामेव सर्वेषामविरोधि तु नाभसम् ||
परस्परविरुद्धानां न कुर्यान्मेलनं सुधीः |
उक्तं कुलाकुलं चक्रं समस्तपुरुषार्थकम् ||


S. 58, Tabelle des Kula-Akula-Chakras

वायुः अग्निः भूः जलम् आकाशः
अ इ उ ऋ ऌ
आ ई ऊ ॠ ॡ
ए ऐ ओ औ अं
क ख ग घ ङ
च छ ज झ ञ
ट ठ ड ढ ण
त थ द ध न
प फ ब भ म
य र ल व श
ष क्ष ळ स ह

S. 59, Anlage des Akathaha-Chakras
वक्ष्ये अकथहं चक्रं प्राग्लिखेच्चतुरस्रकम् |
मध्ये रेखाद्वयं दद्यात् प्रागग्रमुदगग्रगम् ||
चतुरस्रं भवेत्तत्र चतुष्कोष्ठसमन्वितम् |
पूर्वापरायतं दद्यान्मध्ये रेखाद्वयं ततः ||
उदग्दक्षिणदीर्घं च दद्याद्रेखाद्वयं ततः |
ततः षोडशकोष्ठाढ्यं जायते चक्रमुत्तमम् ||
आदिक्षान्तान्लिखेद्वर्णान् क्रमेणानेन मन्त्रवित् |
इन्द्वग्निरुद्रनवनेत्रयुगार्कदिक्षु ऋत्वष्टषोडशचतुर्दशभौतिकेषु |
पातालपञ्चदशवह्निहिमांशुकोष्ठे वर्णाल्लिखेल्लिपिभवान् क्रमशस्तु धीमान् ||


S. 59, vier Beziehungen zum Mantra
आदौ चतुश्चतुष्कोष्ठे सिद्धादीन् परिकल्पयेत् |
प्रदक्षिणक्रमादेव स्वनामाक्षरमाद्यतः ||
सिद्धसाध्यसुसिद्धारिक्रमेण गणयेद्बुधः |
सिद्धादीन् सिद्धिदः सिद्धो जपात् साध्यो हुतादिभिः ||
सुसिद्धः प्राप्तिमात्रेण साधकं भक्षयेदरिः |
सिद्धार्णा बान्धवा ज्ञेयाः साध्यास्ते सेवका मताः ||
सुसिद्धाः पोषकाश्चैवं शत्रवो घातकाः स्मृताः |
पिङ्गलामते— सिद्धः सिद्ध्यति कालेन साध्यस्तु जपहोमतः |
सुसिद्धो ग्रहणादेव शत्रुर्मूलानि कृन्तति ||


S. 59–60, Unterteilung der Mantraklassen
मेरुतन्त्रे— आदौ ज्ञेयं चतुष्केषु सिद्धाद्यं विदिशासु च |
तत्स्थानसमकोष्ठात् तु पुनर्गण्यं गुरूक्तितः ||
पिङ्गलामते— सिद्धादीन् शोधयेन्मन्त्री पुनः सिद्धादिभिः स्मृतः |
सिद्धिसिद्धो जपात् सिद्धिर्द्विगुणात् सिद्धसाध्यकः ||
सिद्धः सुसिद्धोऽर्धजपात् सिद्धारिर्हन्ति बान्धवान् |
साध्यसिद्धो द्विगुणकः साध्यसाध्यो निरर्थकः ||
साध्यसुसिद्धोऽर्धजपात् साध्यारिर्हन्ति गोत्रजान् |
सुसिद्धसिद्धोऽर्धजपात् फलं दद्याद्यथेप्सितम् ||
सुसिद्धसाध्यं सततं जपात् सिद्धिर्न चान्यथा |
सुसिद्धसिद्धो यो मन्त्रः पूर्वजन्मकृतश्रमः ||
तस्मात्तं सर्वसिद्धीनां साधने योजयेन्मनुम् |
सुसिद्धारिर्विशेषेण स्वकुलं नाशयेद्ध्रुवम् ||
अरिसिद्धः सुतं हन्ति अरिसाध्यस्तु कन्यकाम् |
पत्नीमपि सुसिद्धस्तु अर्यरिर्मूलघातकः ||


Lesungshinweise: Ari-Siddha tötet den Sohn, Ari-Sadhya die Tochter, Ari-Susiddha die Ehefrau; Ari-Ari vernichtet die Wurzel.“ Lesungshinweis: Die Hauptlesung nennt Susiddha-Siddha zweimal; beim zweiten Vorkommen wurde sie nicht stillschweigend in Susiddha-Susiddha geändert.

S. 60, Tabelle des Akathaha-Chakras

1: अ क थ ह 2: उ ङ प 3: आ ख द [?] 4: ऊ च फ
5: ओ ड व 6: ऌ झ म 7: औ ढ श 8: ॡ ञ य
9: ई घ न 10: ॠ ज भ 11: इ ग ध 12: ऋ छ ब
13: अः त स 14: ऐ ठ ल 15: अं ण ष 16: ए ट र

Lesungshinweise: Ein Zeichen im dritten Feld ist unsicher und bleibt offen.

S. 61, Schuldenbeziehung zwischen Mantra und Sadhaka
अथ ऋणिधनिचक्रम् |
तच्च मन्त्राणां साधकानां ऋणित्वे धनित्वे च हेतुमाह तन्त्रराजे— पूर्वजन्मकृताभ्यासात् पापादस्याफलाधिकात् |
पापे नष्टे फलावाप्तिः काले देहक्षयादृणी ||
मन्त्रसंप्राप्तिमात्रेण प्राक्कृतः सिद्धये भवेत् |
सिद्धमन्त्रान् गुरोर्लब्ध्वा मन्त्री यत्सिद्धिभाग्यभूः ||
लक्ष्मीवान् स सदा पूज्यो मन्त्रभोगमवाप्नुयात् |
स मन्त्रोऽस्य ऋणी ज्ञेयो भजनं तस्य पूर्वगम् ||
तस्मादृणविशुद्धिस्तु कार्या सर्वैस्तु सर्वतः ||


Lesungshinweise: [die Satzverknüpfung dieser Anfangsverse ist unsicher] Wenn die Schuld vergangen ist, wird die Frucht erlangt; durch den zeitbedingten Verfall des Körpers bleibt er Schuldner [die Satzverknüpfung dieser Anfangsverse ist unsicher].

S. 61–62, Anlage und Berechnung des Rini-Dhani-Chakras
तदुक्तं सुन्दरीरहस्यवृत्तौ— पूर्वापरायतं लेख्यं रेखाद्वादशकं क्रमात् |
क्रमेणैवात्र जायन्ते कोष्ठा एकादश क्रमात् ||
तेषु वर्णांल्लिखेन्मन्त्री स्वरादिक्रमयोगतः |
द्वौ द्वौ स्वरौ पञ्चसु कोष्ठकेषु शेषान् स्वरान् षट्सु षडेकमेकम् |
कादीन् हशेषान् विलिखेत्ततोऽर्णानेकैकेकादशमात्रकेषु ||
साध्याङ्कान् विलिखेदूर्ध्वे साधकाङ्कानधो लिखेत् |
इन्द्रक्षनेत्ररविपञ्चदशर्तुवेदवन्द्याभ्युधार्णनवभिर्गुणितांश्च साध्यान् |
दिग्भूमुनिश्रुतिगजाब्धिमुनीषुवेदवह्न्युद्धिभिश्च गुणितानथ साधकार्णान् |
साध्याङ्कान् साधकाङ्कांश्च पूरयेद्ग्रहसंख्यया ||
नामाक्षरादकथहाद्गजभक्तशेषं ज्ञात्वोभयोरधिकशेषमृणं धनं स्यात् |
मन्त्रो यद्यधिकाङ्कः स्यात्तदा मन्त्रं जपेत् सुधीः |
समेऽपि च जपेन्मन्त्री न जपेत् तदृणाधिके ||


Lesungshinweise: Auch bei Gleichheit darf der Mantrakundige Japa ausführen; bei überwiegender eigener Schuld soll er ihn nicht wiederholen.“ Lesungshinweis: Einzelne Zahlwörter und die Verknüpfung der Rechenschritte sind im Druck unklar.

S. 62, Ausgleich durch Purashcharana
मेरुतन्त्रे— ऋणी तु साधको ज्ञेयः साधकाङ्को यदाधिकः |
यावत् स्यादधिकस्तावत्संख्याकानि यदाचरेत् ||
पुरश्चरणसंज्ञानि तदास्य समता भवेत् |
पुरश्चर्यां पुनः कृत्वा तदा स्यात् कार्यसाधकः ||


S. 62, vereinfachte Zahlenwerte
सुन्दरीरहस्यवृत्तौ— गुणिते तु कृतेऽङ्कानां यच्छेषं जायते स्फुटम् |
तदङ्कं कथयाम्यत्र एकादशगृहस्थितम् ||
षट्कालकालवियदग्निसमुद्रवेदखाकाशशून्यदहनाः खलु साध्यवर्णाः |
युग्मद्विपञ्चवियदम्बरयुक्छशाङ्कव्योमाब्धिवेदशशिनः खलु साधकार्णाः ||
नामाक्षरादकथहाद्गजभक्तशेषं ज्ञात्वोभयोरधिकशेषमृणं धनं स्यात् |


S. 63, Tabelle des Rini-Dhani-Chakras
इति ऋणिधनिचक्रम् |


1 2 3 4 5 6 7 8 9 10 11
6 6 6 0 3 4 4 0 0 0 3
14 27 [?] 2 12 15 6 4 3 8 8 9
अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः
क ख ग घ ङ च छ ज झ ञ ट
ठ ड ढ ण त थ द ध न प फ
ब भ म य र ल व श ष स ह
10 1 7 4 8 3 7 5 4 6 3
2 2 5 0 0 2 1 0 4 4 1

S. 63, Varga-Chakra
अथ वर्गचक्रम् |
तदुक्तं तन्त्रराजे— मन्त्राणामरिशोधार्थं नामाद्यक्षरपूर्वकम् |
अष्टौ कोष्ठान् समालिख्य वर्गानष्टौ लिखेत्ततः ||
पक्षिमार्जारपञ्चास्यश्वानः सर्पाखुदन्तिनः |
मेषः क्रमादकारादिवसुवर्गयुता इमे ||
पक्षिमार्जारयोर्वैरं वैरं मार्जारपक्षिणोः |
वैरं पक्षिभुजङ्गानां शात्रवं गजसिंहयोः ||
मेषकुक्कुरयोर्वैरं प्रीतिं युक्त्या विचारयेत् |
भुजङ्गसिंहयोर्मैत्री मेषमूषकयोस्तथा ||
लोकादन्यच्च विज्ञेयं व्यवहारप्रयोगतः |
एवं यन्त्रवरं ज्ञात्वा गृह्णीयान्मन्त्रमुत्तमम् ||


S. 63–64, Tierbeziehungen im Varahi Tantra
तदुक्तं वाराहीतन्त्रे— मार्जारकुक्कुरव्यालैः पक्षिणां वैरिता भवेत् |
मार्जारस्य शुनाखुभ्यां सिंहस्य दन्तिना सदा ||
कुक्कुरस्य खगोतुभ्यां खगाखुभ्यां च भोगिनः |
उन्दुरस्योतुसर्पाभ्यां हरिणा सह दन्तिनः ||
गरुत्मत्सर्पयोर्वैरं तथा च गजसिंहयोः |


S. 64, Tabelle des Varga-Chakras

अ (16): पक्षी क (5): मार्जारः च (5): सिंहः ट (5): श्वा
त (5): नागः प (5): आखुः य (5): गजः ष (4): मेषः

Lesungshinweise: Lesungshinweis: Für die A-Gruppe nennt das Diagramm sechzehn Zeichen; die übrige Aufteilung wird wie gedruckt beibehalten, auch wenn die Gesamtzahl damit Fragen aufwirft.

S. 64, Anlage des Rashi-Chakras
अथ राशिचक्रं तत्रैव— सूत्रद्वयं पूर्वपरायतं तन्मध्ये द्वयं याम्यकुबेरभेदात् |
एकैकमीशाननिशाचरे तु हुताशवाय्वोर्विलिखेत्ततोऽर्णान् ||
वेदाग्निवह्नियुगलश्रवणाक्षिसंख्यान् पञ्चेषुबाणशरपञ्चचतुष्टयान्तान् |
मेषादितः प्रतिलिखेत् सकलांस्तु वर्णान् कन्यागतान् प्रविलिखेदथ शाद्यवर्णान् ||
वाराहीतन्त्रे— वेदाग्निवह्नियुगलश्रवणद्विपबाणबाणेषुबाणेषुपयोधिसंख्यान् |
मेषादिकोष्टेष्वभिलिख्य वर्णान् षडेव शादीन् युवतौ लिखित्वा ||


S. 65, Bewertung der Tierkreisbeziehungen
यदाहुराचार्याः |
चतुर्भिर्यादिभिः सार्धं स्यात् क्षकारस्तु मीनगः |
इति ||
एको वाप्यथ पञ्चमोऽथ नवमो राशिः स्वकाद्बान्धवो राशेः स्याद्दशमो द्वितीयसंहितः षष्ठो भवेत् सेवकः |
रुद्राग्निस्वरसंख्यया निगदितो मन्त्रः स्वयं पोषकः स्याच्चेदष्टमवत्सरश्रुतिमतो मन्त्रः स्वयं घातकः ||
लग्नो धनं भ्रातृशत्रुपुत्रमित्रकलत्रकाः |
मरणं धर्मकर्मायव्यया द्वादश राशयः ||
अत्र राशिचक्रे चतुर्थस्थानं शत्रु शैवार्चने तु बन्धुः |
एवं षष्ठस्थानं बन्धुर्न च शत्रुरिति केचित् |


S. 65, weitere Regeln des Rashi-Chakras
अन्यच्च |
जप्तुः स्वराशितो वर्ज्याः षष्ठाष्टारविगाः शुभाः |
एकद्वित्रिचतुष्पञ्चसप्ताङ्कदशरुद्रगाः ||
लग्नो धनं भ्रातृबन्धुपुत्रशत्रुकलत्रकाः |
मरणं धर्मकर्मायव्यया द्वादश राशयः ||
नामानुरूपमेतेषां शुभाशुभफलं दिशेत् |
स्वराशेर्मन्त्रपर्यन्तं गणनीयं विचक्षणैः ||
राशीनां शुद्धता ज्ञेया त्यजेच्छत्रुमृती व्ययम् |


S. 65, Buchstabenverteilung im Rashi-Chakra
तस्यायमुपदेशः |
पूर्वपश्चिमायतं रेखाद्वयम् |
दक्षिणोत्तरायतं रेखाद्वयम् |
ईशानराक्षसकोणयो रेखाद्वयम् |
अग्निवायव्यकोणयो रेखाद्वयम् |
एवं रेखाष्टकम् |
तत्कोष्ठेषु पञ्चाशद्वर्णान् मेषादितो वक्ष्यमाणक्रमेण लिखेत् |
तद्यथा |
अ आ इ ई मेषे |
उ ऊ ऋ वृषे |
ॠ ऌ ॡ मिथुने |
ए ऐ कर्के |
ओ औ सिंहे |
अं अः श ष स ह कन्यायाम् |
क ख ग घ ङ तुलायाम् |
च छ ज झ ञ वृश्चिके |
ट ठ ड ढ ण धनुषि |
त थ द ध न मकरे |
प फ ब भ म कुम्भे |
य र ल व क्ष मीने |


S. 66, Rashi-Chakra
इति राशिचक्रम् |


अङ्कः राशिः वर्णाः
1 मेष अ आ इ ई
2 वृष उ ऊ ऋ
3 मिथुन ॠ ऌ ॡ
4 कर्क ए ऐ
5 सिंह ओ औ
6 कन्या अं अः श ष स ह
7 तुला क ख ग घ ङ
8 वृश्चिक च छ ज झ ञ
9 धनुस् ट ठ ड ढ ण
10 मकर त थ द ध न
11 कुम्भ प फ ब भ म
12 मीन य र ल व क्ष

S. 66–67, Nakshatra-Chakra und neun Beziehungen
अथ नक्षत्रचक्रं तत्रैव |
पूर्वापरायता रेखा दश देयाः प्रयत्नतः |
उदग्दक्षिणदीर्घा च देया रेखाचतुष्टयी ||
नवत्रितयसंयुक्ता कोष्ठानां सप्तविंशतिः |
जायते च तथा कुर्याल्लिखेद्वर्णांस्तु तेषु च ||
पक्षैकत्र्यब्धिरूपावनिभुजशशियुग्युग्मभूयुग्मपक्षा युग्मैकद्वित्रिरूपत्र्यवनिशशिशशिद्व्येकपक्षाग्निवेदाः |
अश्विन्यादिक्रमेणाक्षरमिह गदितं रेवते बिन्दुसर्गौ जप्तुर्नक्षत्रभूतादथ परिगणयेज्जन्मसंपत्क्रमेण ||
जन्म संपद्विपत् क्षेमः प्रत्यरिः साधको वधः |
मैत्रातिमैत्रताराः स्युस्त्रिरावृत्या नवैव हि ||
गणयेत्तत्क्रमादेव फलं नामानुरूपतः |
जन्मर्क्षे च भवेद्धानिः संपत्तिः स्याच्च संपदि ||
विपत्तारे विपत्तिः स्यात् क्षेमे मङ्गलमादिशेत् |
प्रत्यरौ शत्रुवृद्धिः स्यात् साधके सिद्धिसाधनी ||
वधर्क्षेषु वधो ज्ञेयो मित्रर्क्षे मित्रवर्धनम् |
अतिमित्रे भवेत् सौख्यं ताराचक्रमिति स्मृतम् ||
विपद्वधः प्रत्यरिश्च परित्याज्यो मनीषिभिः |


S. 67, unbekannter Geburtsstern
राश्यज्ञाने |
निजनामादिकं वर्णमादाय पुरतः प्रिये |
मन्त्राद्यक्षरपर्यन्तं गणनीयाश्च सूरिभिः ||
इत्यविज्ञातराश्यादिविषयम् |
तथा च |
प्रकटं यस्य जन्मर्क्षं तस्य जन्मर्क्षतो बुधः |
प्रणष्टजन्मभं यस्य तस्य नामर्क्षतो बुधः ||


S. 67, weitere Nakshatra-Zahlenreihe
पिङ्गलामते |
प्रायं सोमं गुणं वेदं रूपं रूपं यमं शशी |
प्रायं प्रायं तथा चन्द्रं त्रिप्रायं सोमयुग्मकम् ||
गुणैकत्रिगुणं सोमं यमाख्यं सोमयुग्गुणम् |
वेदं चेति न्यसेदङ्कांस्तत्संख्यां च न्यसेल्लिपिम् ||
रसाष्टनवभद्राणि युग्मयुग्मप्रभेदतः |
इतराणि न भद्राणि ज्ञातव्यं मन्त्रकोविदैः ||
आरभ्य जन्मनक्षत्रं मन्त्रतारावसानिकम् |


Lesungshinweise: Man beginne beim Geburtsstern und ende beim Stern des Mantras.“ Lesungshinweis: Das Zahlwort prāya und die Zusammensetzung der Zahlenreihe bleiben im Druck unsicher.

S. 68, Tabelle des Nakshatra-Chakras
इति नक्षत्रचक्रम् |


अङ्कः नक्षत्रम् वर्णाः गणः
1 अश्विनी अ आ देव
2 भरणी इ मनुष्य
3 कृत्तिका ई उ ऊ राक्षस
4 रोहिणी ऋ ॠ ऌ ॡ मनुष्य
5 मृगशिरस् ए देव
6 आर्द्रा ऐ मनुष्य
7 पुनर्वसु ओ औ देव
8 पुष्य क देव
9 आश्लेषा ख ग राक्षस
10 मघा घ ङ राक्षस
11 पूर्वफल्गुनी च मनुष्य
12 उत्तरफल्गुनी छ ज मनुष्य
13 हस्त झ ञ देव
14 चित्रा ट ठ राक्षस
15 स्वाति ड देव
16 विशाखा ढ ण राक्षस
17 अनुराधा त थ द देव
18 ज्येष्ठा ध राक्षस
19 मूल न प फ राक्षस
20 पूर्वाषाढा ब मनुष्य
21 उत्तराषाढा भ मनुष्य
22 श्रवण म देव
23 धनिष्ठा य र राक्षस
24 शतभिषा ल राक्षस
25 पूर्वभाद्रपदा व श मनुष्य
26 उत्तरभाद्रपदा ष स ह मनुष्य
27 रेवती ळ क्ष अं अः देव

S. 68, Beginn des Gana-Chakras
अथ गणचक्रम् तत्रैव |
पूर्वोत्तरत्रयं पक्षाद्वयार्द्रादिश्च रोहिणी |
इमानि मानुषगण्यानक्षत्राणि मनीषिणः ||


Lesungshinweise: Nun das Gana-Chakra, ebenfalls dort: „Die drei Paare von Purva- und Uttara-Sternen, Ardra und die entsprechenden weiteren Sterne sowie Rohini rechnen die Weisen zur Menschengruppe.“ Textverständnis: Die komprimierte Aufzählung ist sprachlich unsicher; die vorausgehende Tabelle zeigt die einzelnen Zuordnungen.

S. 69, Abschluss des Gana-Chakras
ज्येष्ठाशतभिषामूलधनिष्ठाश्लेषकृत्तिकाः |
चित्रामघाविशाखाः स्युस्तारा राक्षसदेवताः ||
अश्विनीरेवतीपुष्यस्वातीहस्ताः पुनर्वसुः |
अनुराधामृगशिरःश्रवणा देवतारकाः ||
अन्यच्च ज्योतिःशास्त्रे |
दे मा रा मा दे मा दे दे रा रा मा मा दे रा दे रा दे रा रा मा मा दे रा रा मा मा दे गणभानि च |
तदुक्तं दीपिकायाम्— हस्तस्वातिमृगाश्विनीहरिगुरुः पौष्णानुराधादितिरार्द्रारोहिणिकोत्तराणि भरणी पूर्वाणि भानि त्रयम् |
ज्येष्ठाश्लेषविशाखमूलवरुणा वस्वग्निचित्रामघाः कथ्यन्ते मुनिभिर्यथाक्रममिमे देवा नरा राक्षसाः ||
इति गणचक्रम् |


S. 69–70, Akadama-Chakra
अथाकडमचक्रं तत्रैव |
चक्रं वक्ष्येऽकडमाख्यं प्रसिद्धं सर्वसिद्धिदम् |
मन्त्राणां ग्रहणे मन्त्री सर्वथा तं विचारयेत् ||
राशिचक्रं लिखेन्मन्त्री वर्णान् क्लीबविवर्जितान् |
अकारादिक्षकारान्तान् विलिखेत् क्रमतो बुधः ||
आदिकोष्ठे यथा वर्णा जायन्तेऽकडमाः क्रमात् |
विलिख्य गणयेज्जप्तुर्नामाद्यक्षरपूर्वकम् ||
सिद्धसाध्यसुसिद्धारिक्रमेणैव पुनः पुनः |
अन्यच्च |
अकारादिक्षकारान्तं दक्षपार्श्वक्रमेण तु |
मेषादितोऽभिमीनान्तं गणयेत् क्रमतो बुधः ||
जप्तुः स्वनामतो मन्त्री यावन्मन्त्राद्यमक्षरम् |
सिद्धसाध्यसुसिद्धारिक्रमेणैव पुनः पुनः ||
सिद्धः सिद्ध्यति कालेन साध्यः सिद्ध्यति वा न वा |
सुसिद्धो ग्रहणादेव रिपुर्मूलं निकृन्तति ||


S. 70, Diagramm des Akadama-Chakras
इत्यकडमचक्रम् |


अङ्कः वर्णाः
1 अ क ड म
2 आ ख ढ य
3 इ ग ण र
4 ई घ त ल
5 उ ङ थ व
6 ऊ च द श
7 ए छ ध ष
8 ऐ ज न स
9 ओ झ प ह
10 औ ञ फ ळ
11 अं ट ब क्ष
12 अः ठ भ [?]

S. 70–71, Udita-Chakra
अथोदितचक्रम् |
तदुक्तं सुन्दरीरहस्यवृत्तौ— उदिताख्यं महाचक्रं कथयामि समासतः |
षट्कोणं विलिखेच्चक्रं समरेखं मनोहरम् ||
पूर्वादि विलिखेदर्णानादिक्षान्तान् यथाक्रमम् |
उदिते सम्पदुद्दिष्टा द्वितीये सम्पदां क्षयः ||
तृतीये च धृतिं विद्याच्चतुर्थे बन्धुविग्रहः |
पञ्चमे संशयात्मा स्यात् षष्ठे सर्वविनाशकः ||
नामाद्यक्षरमारभ्य यावन्मन्त्राद्यदर्शनम् |
इत्युदितचक्रम् |


स्थानम् वर्णाः
ऊर्ध्वम् अ ए क छ ड ध म ष
ऊर्ध्वदक्षिणम् आ ऐ ख ज ढ न य स
अधोदक्षिणम् इ ओ ग झ ण प र ह
अधः ई औ घ ञ त फ ल ळ
अधोवामम् उ अं ङ ट थ ब व क्ष
ऊर्ध्ववामम् ऊ अः च ठ द भ श [?]

S. 71–72, Shatpada-Matrika-Chakra
अथ षट्पदमातृकाचक्रम् |
मेरुतन्त्रे— यस्तु बीजात्मको मन्त्रस्तत्र षट्पदमातृका |
विज्ञेयं तत्र पद्मं तु रचयेत् षड्दलं शुभम् ||
तत्र न्यसेन्मातृकार्णान् कूटषण्डविवर्जितान् |
स्वनामाद्यक्षरं यत्र तदारभ्य विचारयेत् ||
सम्पद्दारिद्र्यधैर्याणि बन्धुविग्रहसंशयाः |
सर्वनाशक्रमादेतन्नामाद्यर्णस्य कोष्ठतः ||
कूटं ङकारः |
षण्डवर्णा ऋकारादयश्चत्वारः |
इति षट्पदमातृकाचक्रम् |


स्थानम् वर्णाः
ऊर्ध्वम् अ ए क छ ड ध म ष
ऊर्ध्वदक्षिणम् आ ऐ ख ज ढ न य स
अधोदक्षिणम् इ ओ ग झ ण प र ह
अधः ई औ [?] ञ त फ ल क्ष
अधोवामम् उ अं [?] ट थ ब व
ऊर्ध्ववामम् ऊ अः च ठ द भ श

Lesungshinweise: [Lesung unsicher] Man beginne in dem Feld, in dem der erste Buchstabe des eigenen Namens steht, und prüfe: Wohlstand, Armut, Standhaftigkeit, Streit mit Verwandten, Zweifel und völliger Untergang – in dieser Reihenfolge vom Feld des Namensanfangs aus.“ Kuta bezeichnet den Laut Nga [Lesung unsicher]; die neutralen Buchstaben sind die vier Vokale beginnend mit vokalischem R. Das Diagramm zeigt sechs beschriftete äußere Felder um ein freies Zentrum; unsicher lesbare Feldinhalte sind in der folgenden Wiedergabe ausdrücklich offengelassen.

S. 72, Zuordnung der Prüfverfahren
वाराहीतन्त्रे— कोष्ठशुद्धिर्वराहे च महालक्ष्म्यां कुलाकुलम् |
नामादिचक्रं सर्वेषां भूतचक्रं तथैव च ||
ताराशुद्धिर्वैष्णवानां कोष्ठशुद्धिः शिवे भवेत् |
त्रैपुरे राशिशुद्धिः स्याद्गोपालेऽकडमः स्मृतः |


S. 72, Ausnahmen von den Prüfverfahren
अपवादमाह यामले— यदि मन्त्रा न शोभन्ते विचारेण कथंचन |
तदा निषेधमाश्रित्य गृह्णीयान्मन्त्रमुत्तमम् ||
नृसिंहार्कवराहाणां प्रासादप्रणवस्य च |
नित्यानां हंसमन्त्राणां सिद्धादीन् नैव शोधयेत् ||
तथा च कालिकापुराणे— नृसिंहार्कवराहाणां प्रासादप्रणवस्य च |
एकाक्षरद्व्यक्षराणां सिद्धादीन् नैव शोधयेत् ||
अग्निपुराणे— हंसस्याष्टाक्षरस्यापि तथा पञ्चाक्षरस्य च |
नपुंसकस्य मन्त्रस्य सिद्धादीन् नैव शोधयेत् ||
नपुंसको नमोऽन्तः |


S. 73, Arten und Endungen der Mantras
तदुक्तं शारदायाम्— मातृकावर्णभेदेभ्यः सर्वे मन्त्राः प्रजज्ञिरे |
मन्त्रविद्याविभेदेन द्विविधा मन्त्रजातयः ||
मन्त्राः पुंदेवता ज्ञेया विद्याः स्त्रीदेवताः स्मृताः |
पुंस्त्रीनपुंसकात्मानो मन्त्राः सर्वे समीरिताः ||
पुंमन्त्रा हूँफडन्ताः स्युर्द्विठान्ताः स्युः स्त्रियो मताः |
नपुंसका नमोऽन्ताः स्युरित्युक्ता मनवस्त्रिधा ||


Lesungshinweise: Die Nasalzeichenform des gedruckten Hum bleibt in der Mantrasammlung als Lesungsfrage gekennzeichnet.

S. 73, Gopala und weitere prüfungsfreie Mantras
सनत्कुमारसंहितायाम्— सिद्धः साध्यः सुसिद्धश्च अरिश्चैव च नारद |
गोपालेषु न बोद्धव्यः स्वप्रकाशो यतः स्वयम् ||
गणेशविमर्शिन्याम्— एकाक्षरे तथा कूटे मालामन्त्रे त्रिबीजके |
स्वप्नलब्धे स्त्रिया दत्ते सिद्धादीन् नैव शोधयेत् ||
मालामन्त्रलक्षणं च नारायणीतन्त्रे— विंशत्यर्णाधिका मन्त्रा मालामन्त्राः प्रकीर्तिताः |


S. 73, Ausnahmen im Devi-Purana
देवीपुराणे— कालिकायां च तारायां कुल्लुकायां त्रिकूटके |
तथैकाक्षरकूटे च शिवपञ्चाक्षरेऽपि च ||
षडक्षरे तु तस्यैव विष्णोरष्टाक्षरेऽपि वा |
विष्णोर्द्वादशवर्णे च राममन्त्रेऽथ तारके ||
वैष्णवेषु च भैरव्यां सुन्दरीमन्त्रवर्यके |
सारस्वते च बालायां सिद्धादीन् नैव शोधयेत् ||


S. 74, Gautamiya über Krishna-Mantras und Diksha
गौतमीये— सर्वेषु मन्त्रवर्णेषु श्रेष्ठो वैष्णव उच्यते |
वैष्णवेषु च सर्वेषु कृष्णमन्त्राः फलाधिकाः ||
विशेषतो दशार्णोऽयं जपमात्रेण सिद्ध्यति |
स्त्रिया दीक्षा शुभा प्रोक्ता मातुश्चाष्टगुणाधिका ||
स्वप्नलब्धा च या विद्या तत्र नास्ति विचारणा |


S. 74, weitere Ausnahmen im Yogini Tantra
योगिनीतन्त्रे— गारुडादिषु सौरेषु वैष्णवे बौद्धजैनयोः |
महामन्त्रेषु कूटेषु नैव सिद्धादिशोधनम् ||


S. 74, Abschlussvers des ersten Taranga
बिभ्रत्यद्भुतभूतिभूतवचोवैचित्र्यचित्रामृतस्रोतःशालिनि सन्निबन्धनसरित्संभेदमभ्यर्हितम् |
सद्युक्तिस्फुटमौक्तिकोत्कररुचोत्तुङ्गस्तरङ्गो गतः आद्यः श्रीनरदेवनिर्मितपुरश्चर्यार्णवे प्रस्फुरन् ||


Lesungshinweise: „Im vom verehrten König geschaffenen Ozean des Purashcharana, reich an bunten Nektarströmen der wunderbaren Vielfalt erhabener Worte und geehrt durch das Zusammenströmen der Flüsse guter Lehrwerke, ist die erste Welle vorübergezogen: strahlend und hoch aufragend im Glanz einer Fülle klarer Perlen trefflicher Darlegung.“ Lesungshinweis: Die langen Komposita des ersten Halbverses bleiben teilweise unsicher; das Bild von Nektarströmen, zusammenfließenden Lehrwerken und der perlenhellen ersten Welle ist erkennbar.

S. 74, Kolophon des ersten Taranga
इति श्रीमन्महाराजाधिराजप्रतापसिंहसाहविरचिते पुरश्चर्यार्णवे षडाम्नायदेवतातदाचारादिनिर्णयपूर्वकं चक्रविवेचनं नाम प्रथमस्तरङ्गः |


Svadhyaya und Meditation vertiefen einander.

2. Taraṅga: Zeit, Mantra-Reinigung und Ritualplatz

Diese Welle: Deutsch · IAST · Devanagari

S. 75, Einweihungszeit und Monatsfrüchte
अथ दीक्षाकालनिर्णयः |
तत्रादौ मासफलम् |
तदुक्तं यामले— वैशाखे तु शिवा दीक्षा विपुलां श्रियमादिशेत् |
ज्येष्ठे मृत्युप्रदा चैव आषाढे सुखसम्पदौ ||
श्रावणे रत्नलाभः स्याद्भाद्रे दुःखप्रदा मता |
आश्विने सर्वसिद्धिः स्यात् कार्तिके ज्ञानसिद्धिदा ||
शुभकृन्मार्गशीर्षे च पौषे ज्ञानविनाशिनी |
मेधावृद्धिकरी माघे फाल्गुने सर्ववश्यकृत् ||
चैत्रे च पीडाजननी मलमासं विवर्जयेत् |


S. 75, Monate im Siddhantashekhara
सिद्धान्तशेखरे— शरत्काले च वैशाखे दीक्षा श्रेष्ठफलप्रदा |
फाल्गुने मार्गशीर्षे च ज्येष्ठे दीक्षा च मध्यमा ||
आषाढे माघमासे च कनिष्ठा सा प्रकीर्तिता |
निन्दितश्चैत्रमासस्तु पौषो भाद्रपदस्तथा ||


S. 75, Monatsfrüchte für Gopala-Mantras
गोपालमन्त्रदीक्षायां तु चैत्रोऽपि प्रशस्तः |
तदुक्तं गौतमेन |
मन्त्रारम्भस्तु चैत्रे स्यात् समस्तपुरुषार्थदः |
वैशाखे रत्नलाभः स्यात् ज्येष्ठे तु मरणं ध्रुवम् ||
आषाढे बन्धुनाशः स्यात् पूर्णायुः श्रावणे भवेत् |
प्रजानाशो भवेद्भाद्रे आश्विने रत्नसंचयः ||
कार्तिके मन्त्रसिद्धिः स्यान्मार्गशीर्षे तथा भवेत् |
पौषे तु शत्रुपीडा स्यान्माघे मेधाविवर्धनम् ||
फाल्गुने सर्वकामाः स्युर्मलमासं विवर्जयेत् |


S. 76, helle und dunkle Monatshälfte
अथ पक्षफलम् |
तदुक्तं रुद्रयामले— शुक्लपक्षे शुभा दीक्षा कृष्णेऽप्यापञ्चमीदिनम् |
क्षीणेन्दौ व्रतदीक्षां च न कुर्यान्मन्त्रवित्तमः ||
कृष्णाष्टमीमारभ्य शुक्लचतुर्दशीं यावत् क्षीणचन्द्रः |


S. 76, Früchte der Mondtage
अथ तिथिफलम् |
तदुक्तं यामले— प्रतिपत्संस्कृता दीक्षा ज्ञाननाशकरी मता |
द्वितीयायां भवेज्ज्ञानं तृतीयायां सुखी भवेत् ||
चतुर्थ्यां धननाशः स्यात् पञ्चम्यां बुद्धिवर्धनम् |
षष्ठ्यां ज्ञानक्षयं सौख्यं लभते सप्तमीदिने ||
अष्टम्यां बुद्धिनाशः स्यान्नवम्यां वपुषः क्षयः |
दशम्यां राजसौभाग्यमेकादश्यां शुचिर्भवेत् ||
द्वादश्यां सर्वसिद्धिः स्यात् त्रयोदश्यां दरिद्रता |
तिर्यग्योनिश्चतुर्दश्यां कृमिर्मासावसानके ||
पक्षान्ते सर्वसिद्धिः स्यादनध्यायं विवर्जयेत् |
संध्यागर्जननिर्घोषे भूकम्पोल्कानिपातने ||
त्रिरात्रं वर्जयेन्मन्त्री श्रुत्युक्तानपि वर्जयेत् |


S. 76, Mondtage der Gottheiten
तत्त्वसारसंहितायाम्— तां तां तिथिं समालोच्य तद्भक्तांस्तत्र दीक्षयेत् |
ब्रह्मणः पूर्णिमाप्युक्ता द्वादशी चक्रधारिणि ||
चतुर्दशी शिवस्योक्ता वाचः प्रोक्ता त्रयोदशी |
द्वितीया च श्रियाः प्रोक्ता पार्वत्याश्च तृतीयका ||
चतुर्थी गणनाथस्य भानोः प्रोक्ता च सप्तमी |
निशामार्गेषु पार्वत्या अष्टमी च चतुर्दशी ||


S. 76–77, Sonnenmonat und Monatsende
अथ मासान्तपक्षान्तावित्युक्तत्वान्मासान्तं संक्रान्तेर्गतदिनं पक्षान्तं पूर्णिमामावास्ये |
तदुक्तं गौतमीये— सौरमासि शुभा दीक्षा न चान्द्रे न च तारके |
इति वचनान्मासान्तं सौरमासान्तं ज्ञेयम् |


S. 77, Wochentage
अथ वारफलम् |
रविवारे भवेद्वित्तं सोमे शान्तिर्भवेत् किल |
आयुरङ्गारके हन्ति तत्र दीक्षां विवर्जयेत् |
बुधे सौन्दर्यमाप्नोति ज्ञानं स्यात् तु बृहस्पतौ ||
शुक्रे सौभाग्यमाप्नोति यशोहानिः शनैश्वरे |


S. 77, Früchte der Nakshatras
अथ नक्षत्रफलम् |
तदुक्तं त्रिपुरार्णवे— अश्विन्यां सुखमाप्नोति भरण्यां मरणं ध्रुवम् |
कृत्तिकायां भवेद्दुःखी रोहिण्यां वाक्पतिर्भवेत् ||
मृगशीर्षे सुखावाप्तिरार्द्रायां बन्धुनाशनम् |
पुनर्वसौ धनाढ्यः स्यात् पुष्ये शत्रुविनाशनम् ||
आश्लेषायां भवेन्मृत्युर्मघायां दुःखमोचनम् |
सौन्दर्यं पूर्वफल्गुन्यां प्राप्नोतीति न संशयः ||
ज्ञानं चोत्तरफल्गुन्यां हस्तायां च बली भवेत् |
चित्रायां ज्ञानसिद्धिः स्यात् स्वात्यां शत्रुविनाशनम् ||
विशाखायां भवेत् सौख्यमनुराधा च बुद्धिदा |
ज्येष्ठायां सुतहानिः स्यान्मूलायां कीर्तिवर्धनम् ||
पूर्वाषाढोत्तराषाढे भवेतां कीर्तिदायिके |
श्रवणायां भवेद्दुःखी धनिष्ठायां दरिद्रता ||
बुद्धिः शतभिषायां स्यात् पूर्वभाद्रे सुखी भवेत् |
सौख्यं चोत्तरभाद्रे स्याद्रेवत्यां कीर्तिवर्धनम् ||


S. 77–78, ungünstige Verbindungen von Mondtag und Stern
रत्नावल्याम्— प्रतिपत्पूर्वाषाढा च पञ्चमीकृत्तिका तथा |
पूर्वभाद्रपदा षष्ठ्यां दशमीरोहिणी तथा ||
द्वादश्यां सार्पनक्षत्रमार्यम्णा च त्रयोदशी |
नक्षत्रलुप्ता इत्येते देवानामपि नाशदाः ||


S. 78, Aszendent und Planetenstellung
अथ लग्नफलम् राजमार्तण्डे— गुर्वर्कभार्गवाशुद्धौ दीक्षा दारिद्र्यकारिणी |
शुभेऽह्नि शुभलग्ने च दीक्षैश्वर्यप्रदायिनी ||
रुद्रयामले— वृषे सिंहे च कन्यायां धनुर्मीनाख्यलग्नके |
चन्द्रतारानुकूलेऽह्नि दद्याद्दीक्षां सदा गुरुः ||
मेरुतन्त्रे— सदा दुःखं सदा हानिर्वामिनां मिथुने शुभम् |
वामिनां यवनानां च निरुद्धं बहुधा शुभम् ||


S. 78, feste, bewegliche und doppelte Zeichen
स्मृतिसंहितायाम्— स्थिरलग्नं विष्णुमन्त्रे शिवमन्त्रे चरं स्मृतम् |
द्विस्वभावगतं लग्नं शक्तिमन्त्रेषु शस्यते ||
गौतमीये सौभाग्यरत्नाकरे च— त्रिषडायगताः पापाः सौम्याः केन्द्रत्रिकोणगाः |
दीक्षायां तु शुभाः प्रोक्ता रन्ध्रस्थाः सर्वनाशकाः ||
स्थिरे लग्ने शुभा दीक्षा द्विस्वभावे च मध्यमा |
नैव कुर्याच्चरे लग्ने दीक्षां चैव शुभेच्छुभिः ||
तृतीयैकादशः षष्ठो दशमस्थः शुभः शशी |


S. 78, astrologische Yogas
अथ योगफलम् मेरुतन्त्रे— विष्कम्भादिकयोगानां नामतुल्यं फलं भवेत् |
आनन्दादिकयोगानां सर्वत्राविकलं फलम् ||


S. 79, Manvadi- und Yugadi-Tage
मन्वाद्यासु युगाद्यासु दीक्षा सर्वसमृद्धिदा |
ताश्चोक्ता मुहूर्तचिन्तामणौ— मन्वाद्याश्च तिथी मधौ तिथिरवी ऊर्जे शुचौ दिक्तिथी ज्येष्ठेऽन्त्ये च तिथिस्त्विषे नव तपस्यश्वाः सहस्ये शिवाः |
भाद्रेऽग्निश्च सिते त्वमाष्ट नभसः कृष्णे युगाद्यास्तिते गौम्यो बाहुलमाधयोर्मदनदश्यौ भाद्रमाघासिते ||


Lesungshinweise: [die anschließende komprimierte Zahlwort- und Monatsfolge ist nicht hinreichend sicher lesbar] Die Yugadi-Tage sind [die anschließende komprimierte Zahlwort- und Monatsfolge ist nicht hinreichend sicher lesbar].“ Lesungshinweis: Die Zahlwortreihe wurde nicht anhand eines anderen Kalenders ersetzt.

S. 79, Beginn der vier Yugas
अग्निपुराणे— नवम्यां शुक्लपक्षस्य कार्तिके निरगात् कृतम् |
त्रेतासिततृतीयायां वैशाखे द्वापरं युगम् ||
दर्शे तु माघमासस्य त्रयोदश्यां नभस्यके |
कृष्णे कलिर्द्विसप्तास्तु ज्ञेया मन्वन्तरादयः ||


S. 79, Sonnenübergang, Finsternis und Mahashtami
योगिनीतन्त्रे— रविसंक्रमणे चैव सूर्यस्य ग्रहणे तथा |
तत्र लग्नादिकं किंचिन्न विचार्य कदाचन ||
महाष्टम्यां विशेषेण धर्मकामार्थसिद्धये |


S. 79, heilige Festtage
बृहच्छ्रीक्रमे— विषुवेऽयनयोर्द्वन्द्वे संक्रान्त्यां मदनोत्सवे |
गुरुपर्वदिने चैव दीक्षा शुभफलप्रदा ||


S. 79–80, Guru-Festtage
गुरुपर्वाणि च भुवनेश्वरीतन्त्रे— षष्ठीभाद्रपदे मासि इषे कृष्णा त्रयोदशी |
कार्तिके नवमी शुक्ला तृतीया मार्गशीर्षके ||
पौषस्य नवमी शुक्ला माघे चैव चतुर्थिका |
फाल्गुने नवमी शुक्ला चैत्रे कामत्रयोदशी ||
वैशाखे चाक्षया चैव ज्येष्ठे दशहरा तथा |
आषाढे पञ्चमी शुक्ला श्रावणे कृष्णपञ्चमी ||
एतानि गुरुपर्वाणि पुण्यान्याहुर्मनीषिणः |


S. 80, günstige Mondtage und Erweckung der Göttin
सारसंग्रहे— पञ्चम्येकादशी शुक्ला सप्तमी च त्रयोदशी |
दशमी शुक्लपक्षस्य द्वादशी तु विशेषतः ||
तृतीया विहिता नित्यं षष्ठी सर्वत्र निन्दिता |
विष्णुयामले |
देवीबोधं समारभ्य यावत् स्यान्नवमीतिथिः |


S. 80, sechzehn günstige Yogas
रत्नावल्याम्— योगाश्च प्रीतिरायुष्मान् सौभाग्यः शोभनः शुभः |
सुकर्मा च धृतिर्वृद्धिर्ध्रुवः सिद्धिश्च हर्षणः ||
वरीयांश्च शिवः सिद्धो ब्रह्मा इन्द्रश्च षोडश |


S. 80, Karanas
अथ करणनिर्णयः गौतमीयतन्त्रे— शुभानि करणान्याहुर्दीक्षायां च विशेषतः |
शकुन्यादीनि विष्टिं च विशेषेण विवर्जयेत् ||


S. 80, Sonnenzeichen
अथ सूर्यराशिफलम् सारसंग्रहे— मन्त्राद्यारम्भणे मेषो धनधान्यप्रदो भवेत् |
वृषे मरणमाप्नोति मिथुनेऽपत्यनाशनम् ||
कर्कटे सर्वसिद्धिः स्यात् सिंहे मेधाविवर्धनम् |
कन्या लक्ष्मीप्रदा नित्यं तुलायां सर्वसिद्धयः ||
वृश्चिके सर्वसिद्धिः स्याद्धनुर्ज्ञानविनाशनम् |
मकरः पुत्रदः प्रोक्तः कुम्भो धनसमृद्धिदः ||
मीनो दुःखप्रदो नित्यमेवं राशिफलं प्रिये |


S. 80–81, Finsternisse und zehn Vidyas
गार्ग्यसंहितायाम्— निन्दितेष्वपि मासेषु दीक्षोक्ता ग्रहणे शुभा |
सूर्यग्रहणकालस्य समानो नास्ति भूतले ||
तत्र यद्यत् कृतं कर्म अनन्तफलदं भवेत् |
एता एव महेशानि दश विद्याः प्रकीर्तिताः ||
नात्र सिद्धाद्यपेक्षास्ति नक्षत्रादिविचारणा |
कालादिशोधनं नास्ति साध्यादिदूषणं न हि |


S. 81, Zeiten und Orte ohne Kalenderprüfung
समयातन्त्रे— अयने विषुवे चैव युगाद्यासु तथैव च |
ग्रहणे च महातीर्थे न कालस्य विचारणा ||
तुलसीनिकटे बिल्वमूले धात्रीतले तथा |
अनादिदेवसांनिध्ये महाक्षेत्रे गवां गृहे ||
देवीपूजादिने वापि नास्ति कालस्य निर्णयः |


S. 81, wiederholte Manvadi- und Yugadi-Tage
यामले— मन्वाद्यासु युगाद्यासु दीक्षा सर्वसमृद्धिदा |
ताश्चोक्ता मुहूर्तचिन्तामणौ— मन्वाद्याश्च तिथी मधौ तिथिरवी ऊर्जे शुचौ दिक्तिथी ज्येष्ठेऽन्त्ये च तिथिस्त्विषे नव तपस्यश्वाः सहस्ये शिवाः |
भाद्रेऽग्निश्च सिते त्वमाष्ट नभसः कृष्णे युगाद्यास्तिते गौम्यो बाहुलमाधयोर्मदनदश्यौ भाद्रमाघासिते ||


Lesungshinweise: [die anschließende komprimierte Zahlwort- und Monatsfolge ist nicht hinreichend sicher lesbar] Die Yugadi-Tage sind [die anschließende komprimierte Zahlwort- und Monatsfolge ist nicht hinreichend sicher lesbar].“ Lesungshinweis: Die Zahlwortreihe wurde nicht anhand eines anderen Kalenders ersetzt.

S. 81, wiederholter Beginn der vier Yugas
अग्निपुराणे— नवम्यां शुक्लपक्षस्य कार्तिके निरगात् कृतम् |
त्रेतासिततृतीयायां वैशाखे द्वापरं युगम् ||
दर्शे तु माघमासस्य त्रयोदश्यां नभस्यके |
कृष्णे कलिर्द्विसप्तास्तु ज्ञेया मन्वन्तरादयः ||


S. 81, wiederholte Sonnenübergangsregel
योगिनीतन्त्रे— रविसंक्रमणे चैव सूर्यस्य ग्रहणे तथा |
तत्र लग्नादिकं किंचिन्न विचार्य कदाचन ||
महाष्टम्यां विशेषेण धर्मकामार्थसिद्धये |


S. 82, wiederholte heilige Festtage
बृहच्छ्रीक्रमे— विषुवेऽयनयोर्द्वन्द्वे संक्रान्त्यां मदनोत्सवे |
गुरुपर्वदिने चैव दीक्षा शुभफलप्रदा ||


S. 82, wiederholte Guru-Festtage
गुरुपर्वाणि च भुवनेश्वरीतन्त्रे— षष्ठीभाद्रपदे मासि इषे कृष्णा त्रयोदशी |
कार्तिके नवमी शुक्ला तृतीया मार्गशीर्षके ||
पौषस्य नवमी शुक्ला माघे चैव चतुर्थिका |
फाल्गुने नवमी शुक्ला चैत्रे कामत्रयोदशी ||
वैशाखे चाक्षया चैव ज्येष्ठे दशहरा तथा |
आषाढे पञ्चमी शुक्ला श्रावणे कृष्णपञ्चमी ||
एतानि गुरुपर्वाणि पुण्यान्याहुर्मनीषिणः |


S. 82, wiederholte günstige Mondtage
सारसंग्रहे— पञ्चम्येकादशी शुक्ला सप्तमी च त्रयोदशी |
दशमी शुक्लपक्षस्य द्वादशी तु विशेषतः ||
तृतीया विहिता नित्यं षष्ठी सर्वत्र निन्दिता |


S. 82, vollständiges Zitat zur Erweckung der Göttin
विष्णुयामले |
देवीबोधं समारभ्य यावत् स्यान्नवमीतिथिः |
कृता तासु बुधैर्दीक्षा सर्वाभीष्टफलप्रदा ||
बोधने चैव दुर्गायाः कालाकालं न शोधयेत् |
अशोकाख्याष्टमी यत्र रामाख्या नवमी तथा |


S. 82, Vyatipata und Vaidhriti
स्मृतिसंहितायाम्— व्यतीपातो वैधृतिश्च दीक्षायोगाः शुभावहाः |
तदुक्तं राजमार्तण्डे— श्रवणाश्विधनिष्ठार्द्रानागदैवतमस्तके |
यद्यमारविवारेण व्यतीपातः स उच्यते ||


S. 83, weitere Vyatipata-Regel
नागदैवतमाश्लेषा |
मस्तके प्रथमपदे |
कन्यायां यदि वा स्यातां मेषे भूमिजभानुजौ ||
तामसी शनिवारे च सप्तमी कुम्भभास्करे |
सूर्यग्रहशतैस्तुल्यो व्यतीपातः स उच्यते ||
तामसी कृष्णा |


S. 83, Einweihungszeit im Mahogratara-Kalpa
महोग्रताराकल्पे— कृष्णपक्षस्य चाष्टम्यां शुभलग्ने शुभे क्षणे |
पूर्वभाद्रपदे शुक्ले मित्रतारासुसंयुते ||
अथवा चानुराधायां रेवत्यां तु प्रशस्यते |
जानीयाच्छोभनं कालं मन्त्रस्य ग्रहणं प्रति ||
इषे चैव विशेषेण कार्तिके च विशेषतः |
महाचीनक्रमेणैव न दोषो नीलशारदे ||


Lesungshinweise: [die Verbindung bleibt unklar]

S. 83, Tageszeiten
शैवागमे— धर्मदः प्रातःकालः स्यात् संगमो राज्यदायकः |
मध्याह्ने सर्वसिद्धिः स्यात् सायाह्नो मध्यमो भवेत् ||
रजनी मन्त्रदाने तु निषिद्धा देशिकोत्तमैः |


S. 83, Einweihung für Befreiungssuchende
क्रियाकाण्डशेखरे— मोक्षार्थिनां प्रत्यथ न कालादिनियमः स्मृतः ||
निन्द्यानि तानि सर्वाणि प्रशस्तानि विमुक्तये |
सर्वास्तारा ग्रहाः सर्वे नक्षत्राणि च राशयः ||
यस्मिन्नहनि संतुष्टो गुरुः सर्वे शुभावहाः |
संतुष्टे तु गुरौ तत्र संतुष्टाः सर्वदेवताः ||
यदैवेच्छा तदा दीक्षा गुरोराज्ञानुरूपतः |
न कालनियमस्तत्र न देशनियमस्तथा ||
गुरुं संतोषयेद्भक्त्या स्वयमेव तथा भवेत् |


S. 84, geeignete Einweihungsorte
अथ दीक्षास्थाननिर्णयः |
तदुक्तं पूर्णपद्धतौ— गोशालायां गुरोर्गेहे देवागारे च कानने |
पुण्यक्षेत्रे तथोद्याने नदीतीरे च स्वाश्रमे ||
धात्रीबिल्वसमीपे च पर्वताग्रे गुहासु च |
गङ्गायां तत्कृतं सर्वं कोटिकोटिगुणं भवेत् ||
यामले— पुण्यतीर्थे कुरुक्षेत्रे देवीपीठचतुष्टये |
प्रयागे श्रीगिरौ काश्यां कालाकालं न शोधयेत् ||


S. 84, ausgeschlossene Einweihungsorte
योगिनीतन्त्रे— गयायां भास्करक्षेत्रे विरजे चन्द्रपर्वते |
चत्वरे च मतङ्गे च तथा कन्याश्रमेषु च ||
न गृह्णीयात्ततो दीक्षां तीर्थेष्वेतेषु पार्वति |


S. 84, Ursprung der Mantraflüche
अथ मन्त्रविशेषेषु देवताविशेषाणां शापाः प्रोक्ताः मेरुतन्त्रे— सुरया सुधया पूर्वदेवा देवा विमोहिताः |
यदा तदा तु भगवान् प्रोवाच मधुसूदनः ||
कः पूज्यो भवतां मध्ये श्रेष्ठस्तन्मे निगद्यताम् |
उन्मत्ताश्च तदा देवाः श्रेष्ठोऽहमिति चाब्रुवन् ||
किंचित् स्मित्वा तु भगवान् मोहयन्नात्ममायया |
इत्यवोचदथ यस्य वाक्यं शापे चानुग्रहे क्षमम् ||
स एव देवः श्रेष्ठोऽत्र पूर्वो वाप्यपरोऽपि वा |
इति श्रुत्वा वचो विष्णोरशपंश्च परस्परम् ||
मन्त्ररूपाण्यतो देवि संस्कारैः शापमोक्षणम् |
विना तु शापमोक्षेण कः सिद्धिं प्राप्नुयाज्जनः ||


S. 84–85, Frage der Göttin
श्रीदेव्युवाच |
शापः केन कथं दत्तः शापे जपे च किं फलम् |
निःशापत्वं कथं तेषां सिद्धिः स्यादिति मे वद ||
श्रीशिव उवाच |


S. 85, zerschnittener Mantra
आदिमध्यावसानेषु वायुर्यस्य व्यवस्थितः |
चतुराद्यौ चैकबीजोऽनेकधा यत्र संगतः ||
केनाप्यथवा समाक्रान्तः स मन्त्रश्छेदितोऽसिना |
कार्त्तिकेयेन तच्छापाच्छिद्यन्तेऽस्य मनोरथाः ||


Lesungshinweise: [die Wendung über vier und weitere Anordnungen ist unklar]

S. 85, blockierter Mantra
आदौ मध्येऽवसाने वा भूबीजयुगलं भवेत् |
आदौ यद्वा द्विधा वह्निर्त्रिधा मध्ये ततो द्विधा ||
रुद्धः शक्रस्य शापेन भुक्तिमुक्तिविवर्जितो |
जातो मन्त्रो वामदक्षमर्गयोरपि सेवितो ||


S. 85, seiner Shakti beraubter Mantra
[बीजपाठोऽस्पष्टः] वैकतमं यत्र बीजं न दृश्यते |
हूँकारो वा स मन्त्रस्तु शक्तिहीनः कृतः सुरैः ||
एतादृशश्चेत् संजप्तः सामर्थ्यं हन्ति मन्त्रिणः |
शक्तिहीनस्य वामस्य मरणं नात्र संशयः ||


Lesungshinweise: [die vier ausgeschriebenen Silben sind im vorliegenden Druck nicht hinreichend sicher gelesen] Für einen seiner Kraft beraubten Anhänger des linken Weges entsteht Tod, daran besteht kein Zweifel.“ Lesungshinweis: Die beschädigte Bija-Reihe wird in den Sanskritfassungen als lokale Lesungslücke gekennzeichnet und nicht aus bekannten Mantra-Listen ergänzt.

S. 85, abgewandter Mantra
नादौ ह्रीँ न च मध्ये क्लीँ क्रौँति वा नैव दृश्यते |
असौ पराङ्मुखो मन्त्रो जातः सूर्यस्य शापतः ||
पराङ्मुखं भजेन्मन्त्री देवता स्यात् पराङ्मुखी |
दैवात् कार्येऽपि संसिद्धे लोकः स्याच्च पराङ्मुखः ||


Lesungshinweise: Selbst wenn das Vorhaben durch ein Geschick gelingt, wenden sich die Menschen ab.“ Lesungshinweis: Die drei ausgeschriebenen Bija-Lesungen sind im Sanskrit lokal als unsicher gekennzeichnet; ihre Lautgestalt wird hier nicht als gesicherte Formel wiedergegeben.

S. 85, tauber Mantra
आदावन्ते तथा मध्ये हँ वा सँ वा न दृश्यते |
बधिरास्ते कृता मन्त्रा देवाचार्येण शापतः ||
जप्ते तु बधिरे मन्त्रे विस्मृतिस्तस्य जायते |
जायते बधिरो नूनं महाकालेन भाषितम् ||


S. 85–86, augenloser Mantra
सूर्यबीजं हकारः स्याच्चन्द्रबीजं तु सः स्मृतः |
रेफोऽग्निबीजमुद्दिष्टमेतन्नेत्रत्रयं मम ||
पञ्चाक्षरे यत्र मन्त्रे यत्रैकमपि नास्ति चेत् |
मम शापान्नेत्रहीनो दुःखशोकामयप्रदः ||


S. 86, festgenagelter Mantra
नादौ मध्ये न चान्ते वा ह्रैसौँ वा हंस वाथ हैँ |
ऐँ वा फ्रैँ वाथवा हूँ वा नमो वा ह्रीँ मनुः स तु ||
शापेन कीलितो देवि राजदेवेन पार्वति |
यदा तु कीलितो मन्त्रो न सिद्धिमुपगच्छति ||


Lesungshinweise: Ist ein Mantra festgenagelt, gelangt er nicht zur Vollendung.“ Lesungshinweis: Mehrere Bija-Silben dieser Reihe bleiben unsicher.

S. 86, erstarrter Mantra
मध्ये एको लकारो वा फट् वान्ते लद्वयं यदि |
फट्द्वयं वा त्रयं वान्ते न चेत् स स्तम्भितो मनुः ||
शापेन भैरवेणास्मात् सिद्धं भवति शोभनम् |
कदाचिन्नैव दुःखं च प्रायशो बहुलं भवेत् ||


Lesungshinweise: Durch Bhairavas Fluch entsteht aus ihm niemals eine gute Vollendung; meist entsteht vielmehr großes Leid.“ Textverständnis: Die Verknüpfung der Bedingungen im ersten Vers ist unsicher; sie wurde nicht zu einer vermeintlich eindeutigen Regel geglättet.

S. 86, verbrannter Mantra
आदौ तु यस्य मन्त्रस्य क्रमात् सप्ताक्षराणि चेत् |
रेफेण वा यकारेण संयुक्तानि मनुः स तु ||
वाडवाग्निशापसंदग्धः साधकं परितापयेत् |
तस्मात् संस्कारयेद्देवि सिद्धये साधकोत्तमः ||


S. 86, verschlungener Mantra
द्वाभ्यां त्रिभिरथो षड्भिरष्टभिर्वा प्रदृश्यते |
यदाक्षरैरन्तरितः फट्कारः स निगद्यते ||
नारसिंहस्य शापेन ग्रस्तः संत्रासयेत् सदा |
स्वप्नादौ साधनं नैव सिद्धिः संदृश्यते क्वचित् ||


S. 86, verängstigter Mantra
श्रौँ वा हँ वा सकारो वा नादौ भीतो मनुः स तु |
ब्रह्मशापाद्धीनसिद्धिर्भवेदत्यन्तकष्टदः ||


Lesungshinweise: Durch Brahmas Fluch fehlt ihm die Vollendung, und er bringt äußerst großes Leid.“ Lesungshinweis: Die erste Bija-Silbe bleibt unsicher gelesen.

S. 86–87, unreiner, zurückgewiesener und gespaltener Mantra
आदिमध्यावसानेषु मिलित्वा मचतुष्टयम् |
स मन्त्रो मलिनो मायाशापान्मालिन्यकारकः ||
हूँ चादौ वा मन्त्रमध्ये वान्ते फट्युगलं भवेत् |
तिरस्कृतो रुद्रशापात् साध्यं कुर्यात् तिरस्कृतम् ||
आदौ तारद्वयं चान्ते वषडस्त्रं च मध्यगम् |
कुटुम्बकलहं कुर्याद्वालाशापेन भेदितः ||


S. 87, schlafender, berauschter und ohnmächtiger Mantra
हकारेण सकारेण रहितस्त्र्यक्षरस्तु यः |
सुषुप्तः सिंहशापेन प्रोक्तोऽभीष्टफलापहः ||
अष्टादशाक्षरादिर्यः पञ्चफट्कारपूर्वकः |
चामुण्डाशापतो जातो मदोन्मत्तो न शोभनः ||
मध्ये चेत् पञ्च फट्काराः कालिकाशापतः स तु |
मूर्छितो मूर्छितं कुर्याद्वामिनं तु विशेषतः ||
एवमन्ते च फट्कारपञ्चकं स तु रम्भया |
हतवीर्यस्तु शापेन कृतः क्षीणत्वकारकः ||


S. 87, verminderter und zerstörter Mantra
चत्वारो यत्र फट्कारा आदिमध्यावसानिकाः |
अष्टादशाक्षरो हीनो हानिर्भैरवशापतः ||
एकोनविंशत्यर्णश्च ह्रीँक्लीमोङ्कारसंयुतः |
प्रध्वस्तः कामशापेन ध्वंसयेत् कामकारणात् ||


Lesungshinweise: Ein neunzehnsilbiger Mantra, der mit den beiden genannten Bijas und Om verbunden ist, ist durch Kamas Fluch zerstört und richtet durch Begierde zugrunde.“ Lesungshinweis: Die beiden ausgeschriebenen Bijas vor Om sind in der Sanskritfassung als unsicher gelesen gekennzeichnet.

S. 87, Altersstufen und durchbohrter Mantra
सप्तवर्णो मनुर्बालः कुमारोऽष्टाक्षरः स्मृतः |
षोडशार्णस्तु तरुणः प्रौढो व्योमाब्धिवर्णकः ||
त्रिंशत्कलाः शतं वेदकाष्ठावर्णास्तु यत्र तु |
सकृद्धि एते कालेन शप्ता दुःखानि कुर्वते ||
नवार्णि श्रौँकारयुतश्चामुण्डाशापतो मनुः |
निस्त्रिंशः साधकं छिन्द्यान्निस्त्रिंशेन न संशयः ||


Lesungshinweise: [das Zahlwort Kashtha bleibt hier unklar] Ein neunsilbiger Mantra, der mit dem genannten Bija verbunden ist, heißt durch Chamundas Fluch Schwert; er zerschneidet den Sadhaka mit dem Schwert, daran besteht kein Zweifel.“ Lesungshinweis: Die Zahlenreihe und das ausgeschriebene Bija im letzten Vers bleiben unsicher.

S. 88, samenloser Mantra
अन्ते नमो वा स्वाहा वा नास्ति वा यस्य मध्यतः |
वषट् वौषट् सहूँफट् च एतद्वा नास्त्यसौ मनुः ||
निर्बीज इति संज्ञोऽसौ भुवनेश्यास्य साधकः |
सेवां कुर्याल्लभेद्वंशनाशं वंशाद्यादितः ||


Lesungshinweise: Verehrt sein Sadhaka ihn, so erlangt er durch Bhuvaneshvari den Untergang seines Geschlechts, vom Anfang der Familienlinie an.“ Lesungshinweis: Die Verbindung unmittelbar vor und mit Phat sowie die Syntax des letzten Halbverses sind unsicher.

S. 88, erfolgloser, träger, Kuta- und kraftloser Mantra
आदिमध्यावसानेषु फट्फट्कारस्तु यस्य तु |
कौमार्यास्तु स शापेन सिद्धिहीनो न सिद्धिकृत् ||
दशाक्षरो यस्तु मन्त्रः स गणेशस्य शापतः |
मन्दो जपस्तु मूर्खत्वं कुर्याज्जन्मनि जन्मनि ||
आदिव्यञ्जनसंयोग एक एव स्वरो भवेत् |
तत् कूटं कूटतो हानिर्मातङ्ग्याः शापतः स्मृतः ||
द्विवर्णः सत्त्वहीनः स्यादाश्विनेयस्य शापतः |
नाशयेत् साधकबलं राज्ञः सैन्यं विनाशयेत् ||


S. 88, schielender und weiterer samenloser Mantra
चतुर्वर्णः केकरस्तु जातः सूर्यतिशापतः |
जपित्वा केकरं मन्त्रं चक्षुषा नैव पश्यति ||
षडक्षराणि बीजहीना जाता रावणशापतः |
नाशयेत् साधकबलं राज्ञः सैन्यं विनाशयेत् ||
वंशवृद्धिर्न तज्जापादन्यथा स्त्रीसुखं न हि |


S. 88, rauchiger, umarmter und verblendender Mantra
सार्धत्रिसप्तसूर्यार्णो धूमावत्याश्च शापतः ||
धूमताव्याकुलं चित्तं जायते साधकस्य तु |
विंशत् तथैकविंशच्च त्रिंशद्वर्णस्तु तारया ||
शप्त आलिङ्गितश्चायं जपात् स्वप्नरते मृतिः |
द्वाविंशत्यक्षरो मन्त्रः सरस्वत्यास्तु शापतः ||
मोहितं साधकं कुर्यात् पानादिव्यसनाकुलम् |


Lesungshinweise: [die Silbenzahl sar­dh­a-tri-sapta-surya ist nicht eindeutig auflösbar] [die Verknüpfung ist unsicher] „Ein Mantra von [die Silbenzahl sar­dh­a-tri-sapta-surya ist nicht eindeutig auflösbar] ist durch Dhumavatis Fluch rauchig; der Geist des Sadhaka wird verwirrt. Ein zwanzig-, einundzwanzig- oder dreißigsilbiger Mantra ist von Tara verflucht und wird umarmt genannt; durch seinen Japa entsteht Tod bei Vereinigung im Traum [die Verknüpfung ist unsicher].

S. 89, hungriger, hochmütiger und gliederloser Mantra
चतुर्विंशतिवर्णो यः सप्तविंशतिवर्णकः ||
क्षुधार्तो राजमातङ्ग्याः शापाद्दारिद्र्यकारकः |
त्रयोविंशास्त्रयो रुद्रा वर्णाः कौलिकशापतः ||
मन्त्रा हृष्टास्तज्जपेन छान्दसो जायते जनः |
षड्विंशदेकोनत्रिंशत् त्रिंशत् षट्त्रिंशदक्षरः ||
पूष्णः शापादङ्गहीनः कामनापूरको न हि |


Lesungshinweise: [‚dreimal Rudra‘: Zuordnung der Zahlwörter unsicher] Mantras mit dreiundzwanzig und [‚dreimal Rudra‘: Zuordnung der Zahlwörter unsicher] Silben sind durch den Fluch des Kaulika übermütig; durch ihren Japa wird ein Mensch eigenwillig.

S. 89, grausamer und zorniger Mantra
अष्टाविंशदेकत्रिंशद्वर्णो नन्दीशशापतः ||
अतिक्रूरः साध्यनाशं कृत्वा नश्येच्च साधकः |
अष्टत्रिंशाक्षरो मन्त्रो मातृकाणां तु शापतः ||
अतिक्रुद्धस्तज्जपेन स्वकृतः स्वस्य संक्षयः |


S. 89, beschämter, beruhigter und entwurzelter Mantra
चत्वारिंशत् समारभ्य त्रिषष्टिं यावदक्षरम् ||
सव्रीडा मालिकाशापात् सव्रीडास्तस्य साधकाः |
पञ्चषष्ट्यक्षरा ये स्युर्मन्त्रास्ते शान्तमानसाः ||
कामशापेन तज्जापाद्योगस्य फलं न हि |
षट्षष्टितो नवनवतिपर्यन्तं कुलस्य तु ||
स्थानभ्रष्टास्तु शापेन जातास्तादृक् च साधकः |


S. 89, furchterregende und überalte Mantras
कान्तिधृतिव्यतिधृतिः कङ्कयुग्मं दिगोकराः ||
शतत्रयं यत्र वर्णाः शापिताश्छिन्नमस्तया |
यूयं भवत निःस्नेहाः साधकानां भयावहाः ||
निष्काममतिभिर्जप्ताः संसारस्नेहनाशकाः |
चतुःशतान्यथारभ्य यावद्वर्णसहस्रकम् ||
अतिवृद्धा यज्ञशापात् पौष्टिकादिषु वर्जिताः |


Lesungshinweise: Mantras von vierhundert bis tausend Silben sind durch Yajnas Fluch überalt und werden bei nährenden und entsprechenden Riten ausgeschlossen.“ Lesungshinweis: Die erste Zahlwortreihe ist nicht sicher lesbar und wird nicht durch vermutete Zahlen ersetzt.

S. 89–90, gequälte und zerbrochene Mantras
सहस्रार्णाधिका मन्त्रा दण्डपाणेस्तु शापतः ||
दण्डकाख्याः पीडिताश्च तज्जपात् कष्टमाप्नुयात् |
द्विसहस्राधिका मन्त्रा भार्गवस्य तु शापतः ||
खण्डीकृताः सप्तधा ते सिद्धिखण्डकराः स्मृताः ||


S. 90, Flüche der Weisen und Reinigung
अन्यच्छृण्वन्तु भो देवा मुनीनां जपतां यदा ||
सिद्धिर्न जाता तु तदा दत्तः शापः सुदारुणः |
आश्वासनं देवतानां जातं सिद्धेरकारणात् ||
उपदेशो गुरुं कुर्यात् तस्मात् तन्मन्त्रशोधनम् |
मन्त्रशोधनप्रकारमाह |
तत्प्रकारं प्रवक्ष्यामि शृण्वन्तु सकलाः सुराः ||


Lesungshinweise: [die Satzverknüpfung bleibt unsicher] Darauf erfolgte eine Zusicherung der Gottheiten wegen des Ausbleibens der Siddhi [die Satzverknüpfung bleibt unsicher].

S. 90, Vorbereitung der Mantrareinigung
गुरुः सिद्धासने संस्थो गुदमेढ्रान्तरं हठम् |
वामेन पार्ष्णिनापीड्य तस्योपरि तु विन्यसेत् ||
पादं तु दक्षिणं गुल्फग्रन्थ्योरन्योन्यमर्दनम् |
यथा स्यात् तत् प्रकर्तव्यं ततो दक्षिणपार्ष्णिना ||
लिङ्गमूलं विनिष्पीड्य स्थिरकाय उपाविशेत् |
गुदमाकुञ्च्य पवनमपानाख्यं तथा गुरुः ||
उत्थापयेत् ततः प्राणवायुं सम्यङ्निरोधयेत् |
अपानप्राणयोः कुर्यात् संघट्टं चैकलक्ष्यमनाः ||
मूलाधारे चित्स्वरूपकुण्डल्यां परमात्मनि |
जातदोषं स्वस्य मन्त्रं चिन्तयेत् तत्र सद्गुरुः ||
तस्य मन्त्रस्याक्षराणि क्रमादेकैकशस्ततः |
सुषुम्णायास्तु मार्गेण मूलाधारे प्रवेशयेत् ||
स्वाधिष्ठाने ततश्चक्रे मणिपूरे ह्यनाहते |


S. 91, Aufstieg und Rückführung der Mantrasilben
विशुद्ध आज्ञाचक्रे च भित्त्वा भित्त्वा प्रवेशयेत् ||
एवं नीत्वा ब्रह्मरन्ध्रं तत्रत्यात् सोममण्डलात् |
निर्गतामृतसंसिक्तान् मन्त्रार्णान् सुविभावयेत् ||
पुनः सुषुम्णामार्गेण आज्ञाचक्रेऽवतारयेत् |
विशुद्धेऽनाहते वापि मणिपूरे च चक्रके ||
स्वाधिष्ठाने ततो भेदान्मूलाधारे प्रवेशयेत् |
ततस्तन्मन्त्रऋष्यादिन्यासपूर्वं जपेत् पुनः ||
अष्टोत्तरसहस्रं तु तेन शुद्धो भवेन्मनुः |
अनुक्तशापाद्विनिर्मुक्तं पश्चादुपदिशेच्च तम् ||
अनुक्तशापादिति मानसशापादित्यर्थः |
वाचिकशापानां तु वक्ष्यमाणदशसंस्कारनाश्यत्वादिति भावः |


S. 91, Yoni-Mudra und Mantrakraft
छिन्नत्वादिदोषाणामुक्तयोनिबन्धनाश्यत्वं चागमान्तरेऽप्युक्तम् |
छिन्ना रुद्धास्तम्भिताः कीलका ये सुप्ता मन्त्रा मूर्छिता हीनवीर्याः |
दग्धग्रस्ताः शत्रुपक्षे स्थिता ये बाला वृद्धा गर्विता यौवनेन ||
ये निर्जीवा ये च सत्त्वेन हीनाः पराङ्मुखीभूताश्चाङ्गमन्त्रैर्विहीनाः |
एते मुद्राबन्धनेनैव योन्या मन्त्राः सर्वे वीर्यवन्तो भवन्ति ||


S. 92, Mantras und ihre Fehler
शारदायाम्— दोषानिमानविज्ञाय यो मन्त्रान् भजते जडः |
सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ||


S. 92, zehn Mantra-Samskaras
मन्त्राणां दशसंस्कारास्तत्रैव |
जननं जीवनं पश्चात् ताडनं बोधनं तथा ||
तथाभिषेको विमलीकरणाप्यायने पुनः |
तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः ||


S. 92, Janana – Hervorbringen
जननादिप्रकारास्तु मेरुतन्त्रे— वाचिकानां तु शापानां नाशाद्यर्थमथोच्यते |
श्रीपर्ण्यां वा चन्दनस्य पीठे चूतादिकस्य वा ||
कस्तूरीकुङ्कुमाज्यैश्च विलिखेत् पाञ्चभौतिकम् |
चक्रमावाहयेत् तत्र मातृकाख्यां सरस्वतीम् ||
यथोक्तविधिना पूजां कृत्वा चारशतं शतम् |
जपित्वा मातृकां तस्या मध्यात् स्वाभीष्टमन्त्रकम् ||
स्वरव्यञ्जनबिन्दूंश्च सर्गयोगाक्षराणि च |
पृथक् पृथगथोद्धृत्य चैकीकृत्य गुरूक्तितः ||
गृहीतं जनयेन्मन्त्रं प्रोक्तं संजननं त्विदम् |


Lesungshinweise: [die gedruckte Zahlwortverbindung ist gestört]

S. 92, Jivana – Beleben
आद्यन्तं प्रणवं कृत्वा प्रणवान्तरितं जपेत् ||
अष्टोत्तरशतं मन्त्रं वर्णनैतत्तु जीवनम् |


Lesungshinweise: Dies ist das Beleben.“ Lesungshinweis: Die Verbindung mit varṇa im zweiten Halbvers ist im Druck gestört; die buchstabenweise Ausführung ist dem Zusammenhang entnommen.

S. 92–93, Tadana – Schlagen
रोचनाकुङ्कुमाभ्यां च भूर्जपत्रे लिखेन्मनुम् ||
प्रत्यक्षरं शतं वारं ताडयेच्चन्दनाम्भसा |
समुच्चरन् वायुबीजमेतत्ताडनमुच्यते ||
कुण्ठिताः शाबरा मन्त्रास्ताडिताः सिद्धिकारकाः |


S. 93, Bodhana – Erwecken
पूर्वोक्तपीठे संलिख्य तन्मन्त्राक्षरसंख्यया ||
आदाय करवीरस्य पुष्पाण्यथ समुच्चरन् |
प्रत्यक्षरं च तैः पुष्पैः शतवारं हनेदिति ||
उच्चरन् वह्निबीजं च बोधनं त्वेतदुच्यते |
शारदायां तु हनेदित्युक्ते हन्यादित्युक्तम् |
विलिखेन्मन्त्रयन्मन्त्री प्रसूनैः करवीरजैः |
तन्मन्त्राक्षरसंख्यातैर्हन्याद्वान्तेन बोधितम्—इति ||
रान्तेन वह्निबीजेन |


Lesungshinweise: Lesungshinweis: Die Hauptlesung des Zitats schreibt an einer Stelle vānta, während die anschließende Erklärung rānta voraussetzt; die Abweichung bleibt kenntlich.

S. 93, Abhisheka des Mantras
मेरौ— प्राग्वत् पीठे च तैर्द्रव्यैः पद्ममष्टदलं लिखेत् ||
तत्कर्णिकायां मालत्या लिखेत् कलिकयैकया |
एकैकर्णं तु मन्त्रस्य तन्मन्त्राक्षरसंख्यया ||
बोधिद्रुपल्लवान् गृह्य तमेवं मन्त्रमुच्चरन् |
अभिषिञ्चाम्यमुं मन्त्रं नम इत्यभिषेचयेत् ||
नानासुगन्धितोयेन पल्लवैकेन चाक्षरम् |
एकमष्टोत्तरशतमभिषिञ्चेदयं स्मृतः ||
अभिषेको मन्त्रशुद्धिं कुर्यान्नृणां यथा जलम् |


S. 93–94, Vimalikarana – Reinigung
ज्योतिर्मन्त्रश्चिन्तनीयो मूलाधारेऽग्निमण्डले ||
संस्कर्तव्यं मनुं तस्य ऊर्ध्वमेवं विभावयेत् |
आणवाख्यः साहजिक आगन्तुः कार्मणः स्मृतः ||
योगाख्यो मायिकः प्रोक्तः स्वमन्त्रे तु मलत्रयम् |
ज्योतिर्मन्त्रेण निर्दग्धमेकमेकं विचिन्तयेत् ||
एवं तु विमलो जातः स्वमन्त्र इति चिन्तयेत् |
ज्योतिर्मन्त्रस्तु वेदादिर्होमिति द्व्यक्षरो मतः ||
विमलीकरणं ह्येतत् प्रयोगान्तेऽपि कारयेत् |


Lesungshinweise: [die gedruckte Silbe bleibt unsicher] Dann denke man: ‚So ist mein eigener Mantra rein geworden.‘ Der Licht-Mantra gilt als zweisilbig, beginnt mit Pranava und enthält danach [die gedruckte Silbe bleibt unsicher].

S. 94, Apyayana – Erfüllung
प्राग्वत् पीठे कुङ्कुमादिद्रव्यैर्मन्त्रं विलेखयेत् ||
ताम्रादिपात्रं कर्पूरवासितेन जलेन च |
शुद्धेनापूर्य लिखितमन्त्रेणाष्टोत्तरं शतम् ||
अभिमन्त्र्य जलं तेन मन्त्रेण कुशबिन्दुभिः |
प्रत्यक्षरं प्रोक्षयेत् त्रिरेतदाप्यायनं मतम् ||
पुरश्चर्याक्लेशितानां समावर्तनवत् त्विदम् |


S. 94, Tarpana – Sättigung
कस्तूर्याद्यैस्ताम्रपात्रमध्ये मन्त्रं विलेखयेत् ||
पात्रान्तरे च कर्पूरादिकवासितं सज्जलम् |
गृहीत्वा चार्घ्यपात्रेण पठन्मन्त्रमिमं मनुम् ||
तर्पयामि नमश्चेति तर्पयेदिति तर्पणम् |


S. 94, Dipana und Gupti
ॐह्रीँश्रीँपूर्वकं मन्त्रं जपेदष्टोत्तरं शतम् ||
जपेदेतद्दीपनं स्यात् सर्वमन्त्रेष्वपीष्यते |
जप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाशनम् ||
संस्कारा दश संप्रोक्ताः सर्वतन्त्रेषु गोपिताः |
यान् कृत्वा संप्रदायेन मन्त्री वाञ्छितमश्नुते ||


S. 94, Einleitung zur Erweckung der Mantras
अथ मन्त्राणां जागृतिस्तत्रैव |
अथादौ सर्वमन्त्राणां जागृतिः प्रोच्यते मया |
गुरुणा सा प्रकर्तव्या शिष्यस्य सिद्धिहेतवे ||


S. 95, feurige und lunare Mantras
तारान्त्याग्नि वियद्युक् च यस्मिन्नाग्नेयकः स तु |
अन्यः सौम्यः स्वापकाले इडायामधिरूपिणः ||
सौम्यस्य पिङ्गलायां स्यात् तयोरन्यत्र जागृतिः |
प्रबोधकाले संजप्तो जाग्रतो जायते मनुः ||


Lesungshinweise: Die alternative Lesung nennt anstelle von Viyat die Endung Phat.

S. 95, zweite Weise der Mantra-Erweckung
अथ वा संपुटीकृत्य लान्तानाद्यान् स बिन्दुकान् |
पुनश्च सविसर्गान्तान् लकारं केवलं पठेत् ||
एवं जप्तो यदीष्टश्चेत् प्रबुद्धः शीघ्रसिद्धिदः |


Lesungshinweise: [den Mantra] Der erwünschte Mantra, auf diese Weise wiederholt, ist erwacht und verleiht rasch Siddhi.“ Lesungshinweis: Die genaue Buchstabenreihe im ersten Halbvers ist nicht sicher verständlich.

S. 95–96, Erweckung der Shabara-Mantras
शावरमन्त्रेषु विशेष उक्तस्तत्रैव |
अथ शावरमन्त्राणां जागृतिं शृणु पार्वति ||
कांस्यभाजनमानीय शुद्धं भस्मादिभिः कृतम् |
प्रजपेद्रविरात्रौ तु यामे यामे शताष्टकम् ||
खादिर्या ताडयेद्यष्ट्या कांस्यपात्रं वदेदिति |
जाग्रतो भव मन्त्रस्य भाषयाऽथ तुरीयके ||
यामे दद्याद्बलिं काल्या मन्त्रजं भैरवस्य तु |
कुक्कुटं त्वन्यदेवेषु स्फोटयेन्नारिकेरकम् ||
मन्त्रस्य भाषयेति |
यद्देशीयभाषात्मकः शावरमन्त्रस्तद्देशीयभाषयैव मन्त्रं संबोध्य त्वं जाग्रतो भवेति वदेदित्यर्थः |


Bodenprüfung und Vastu-Verehrung

S. 96, Bodenprüfung für den Einweihungspavillon
अथ दीक्षोपयुक्तमण्डपार्थं भूमिपरीक्षा |
ध्रुवस्थानं च गम्भीरं दीर्घतोयाशयाश्रयः |
अग्निशालाऽग्निहोतॄणां पुण्यस्थानं परिश्रुतम् ||
द्विजानां सव्रतानां च आश्रयः स्वाश्रमोऽथवा |
दीक्षायामतिशस्तानि स्थानान्येतानि पार्वति ||
न च दीक्षां प्रकुर्वीत निकुञ्जे गहने वने |
द्विसीम्नि च महारण्ये मात्सर्यमृगसेविते ||


Lesungshinweise: [bedrohlichen] Man soll Diksha dagegen nicht in einem Gebüsch, im dichten Wald, an der Grenze zweier Gebiete oder in einer großen Wildnis vollziehen, die von [bedrohlichen] Tieren aufgesucht wird.“ Lesungshinweis: Das letzte Kompositum mātsaryamṛgasevite bleibt hinsichtlich der Tierbezeichnung unsicher; dhruvasthāna und gambhīra werden hier ihrem allgemeinen Wortsinn nach wiedergegeben.

S. 96, weitere geeignete Orte
तन्त्रान्तरे |
महानदीनां तीराणि गङ्गासागरसङ्गमः |
प्रशस्तानि च तीर्थानि क्षेत्राणि चाश्रमा अपि ||
अरण्यानि च सर्वाणि पर्वताः सकला अपि |
सनिर्झरा अप्यगिरि देवतायतनान्यपि ||


Lesungshinweise: [oder Quellen] In einem anderen Tantra: „Die Ufer großer Flüsse, der Zusammenfluss von Ganga und Meer, angesehene Tirthas, heilige Bezirke und Ashrams; alle Wälder und sämtliche Berge, auch Orte mit Wasserfällen [oder Quellen], ferner Heiligtümer der Gottheiten.“ Lesungshinweis: Die Verbindung apyagiri in der letzten Zeile ist unsicher.

S. 96–97, Beschaffenheit und Gefälle des Bodens
महाकपिलपञ्चरात्रे |
तत्र भूमिं परीक्षेत वास्तुज्ञानविशारदः |
स्फुटिता च सशल्या च वल्मीकारोहिणी तथा ||
दूरतः परिवर्ज्या भूः कर्तुरायुर्धनापहा |
स्फुटिता मरणं कुर्यादूषरा धननाशिनी ||
सशल्या क्लेशदा नित्यं विषमा शत्रुतो भयम् |
ईशकोणप्लवा सा च कर्तुः श्रीदाऽऽशु निश्चितम् ||
पूर्वप्लवा वृद्धिकरी वरदा तूत्तरप्लवा |
दक्षिणप्लवा या भूमिर्नित्यं मृत्युभयप्रदा ||
गृहक्षयकरी सा च भूमिर्या नैर्ऋतप्लवा |
धनहानिकरी पृथ्वी कीर्तिता वरुणप्लवा ||
वायुप्लवा तथा भूमिर्नित्यमुद्वेगकारिणी |
अग्निकोणप्लवा या च पुत्राऽऽयुर्धननाशिनी ||


S. 97, vier Bodenarten nach Farbe
गौतमीये |
भूमेः परिग्रहं कुर्याद्यावदायतनं भवेत् |
शुक्लमृत्स्ना च या भूमिर्ब्राह्मी सा परिकीर्तिता ||
क्षत्रिया रक्तमृत्तिका च हारिद्री वैश्यकीर्तिता |
कृष्णा भूमिर्भवेच्छूद्रा चतुर्धा परिकीर्तिता ||


S. 97, vier Bodenarten nach Bewuchs
महाकपिलपञ्चरात्रे |
ब्राह्मणी भूः कुशोपेता क्षत्रिया स्याच्छराकुला |
कुशकाशाकुलता वैश्या शूद्रा सर्वतृणाकुला ||


S. 97, traditionelle Wirkungen der Bodenarten
गौतमीये तन्त्रे |
ब्राह्मी सर्वार्थसिद्ध्यैः स्यात् क्षत्रिया राज्यदा तथा |
धनधान्यकरी वैश्या शूद्रा तु निन्दिता मुने ||


S. 97, Funde beim Ausheben der Grube
वासिष्ठेऽपि |
खन्यमाने यदा कुण्डे पाषाणः प्राप्यते भुवि |
तदाऽपमृत्यवे चास्थिकेशाङ्गारैर्धनक्षयः ||
भस्मनाऽग्निभयं प्रोक्तं तृणैः प्रोक्ता दरिद्रता |


S. 97, Einführung in das Ahi-Chakra
शल्यज्ञानार्थमहिबलचक्रमाह आदियामले |
अहिचक्रं प्रवक्ष्यामि यथा सर्वज्ञभाषितम् |
द्रव्यं शल्यं तथा शून्यं येन जानन्ति साधकाः ||


S. 98, Anlage des Ahi-Chakra
निधिर्निवर्तनैकस्थः संश्रान्तो यत्र भूतले |
तत्र चक्रमिदं स्थाप्यं स्थानद्वारमुखस्थितम् ||
अहिगत्या च नक्षत्रं तत्काले यत्र चन्द्रमाः |
द्रव्यं शल्यं भवेत्तत्र चन्द्रभास्करसादजम् ||
ऊर्ध्वरेखाष्टकं लेख्यं तिर्यक् पञ्च तथैव च |
अहिचक्रे भवन्त्यस्यैवमष्टाविंशतिकोष्ठकाः ||


Lesungshinweise: So entstehen in diesem Schlangendiagramm 28 Felder.“ Lesungshinweis: Das Wort saṃśrāntaḥ im Eingangssatz ist syntaktisch auffällig; „vermutet“ gibt den erkennbaren Zusammenhang vorläufig wieder.

S. 98, Nakshatras in den vier Reihen
तत्र पौष्णाश्विनीयाम्यकृत्तिकामघभाग्यकम् |
उत्तराफाल्गुनी लेख्या पङ्क्तौ तत्सप्तके ध्रुवम् ||
अहिर्बुध्न्याजपादर्क्षं शतभं ब्राह्म्यसर्पभम् |
पुष्यं हस्तं समालेख्यं द्वितीयपङ्क्तिसंस्थितम् ||
अभिजिद्विष्णुधनिष्ठाः सौम्यं रौद्रं पुनर्वसुम् |
चित्रभं च तृतीयायां पङ्क्तौ धिष्ण्यादिसप्तके ||
विश्वर्क्षं तोयभं मूलं ज्येष्ठां मैत्रं विशाखभम् |
स्वातीं पङ्क्तौ चतुर्थ्यां तु कृत्वा चक्रं विलोकयेत् ||


S. 98, Ahibala-Diagramm
अहिबलचक्रम् |


रे २७ चं अ १ चं भ २ चं कृ ३ चं म १० चं पू ११ उ १२
उ २६ पू २५ चं श २४ रो ४ आं ९ चं पु ८ चं ह १३
अभि श्र २२ चं ध २३ चं मृ ५ आ ६ चं पु ७ चं चि १४
उ २१ चं पू २० चं मू १९ ज्ये १८ अ १७ वि १६ स्वा १५

S. 99, Auflösung der Nakshatra-Namen
रेवत्यश्विनीभरणीकृत्तिकामघापूर्वोत्तराः प्रथमपङ्क्तौ |
उत्तरभाद्रपदपूर्वभाद्रपदशतभिषारोहिण्याश्लेषापुष्यहस्ता द्वितीयपङ्क्तौ |
अभिजिच्छ्रवणधनिष्ठामृगशिरआर्द्रापुनर्वसुचित्रास्तृतीयपङ्क्तौ |
तत उत्तराषाढापूर्वाषाढामूलज्येष्ठानुराधाविशाखास्वात्यश्चतुर्थपङ्क्तौ |


S. 99, Schlangenform und lunare Felder
एवं प्रजायते चक्रे प्रस्तारः पन्नगाकृतिः |
द्वारशाखे मघायाम्ये द्वारस्था कृत्तिका मता ||
अश्रीशानपूर्वषाढादित्रिकपञ्चतुष्टयम् |
रेवतीपूर्वभाद्रेन्दोर्भानि शेषाणि भास्वतः ||


Lesungshinweise: [Es folgt eine schwer verständliche Aufzählung weiterer lunarer Felder.]

S. 99, zeitbezogene Berechnung
उदयादिगता नाड्यो भघ्नाः षष्ट्याप्तशेषके |
दिनेन्दुभुक्तयुक्तोऽसौ भवेत् तत्कालचन्द्रमाः ||
पञ्चघ्नं तं निशानाथं शरवेदाप्तकं पुनः |
युगैः शेषं भवेत्तत् तत् प्रागादिचक्रवक्त्रगम् ||
चन्द्रवत् साधयेत् सूर्यमृक्षस्थं चेष्टकालिकम् |
पश्चाद्विलोकयेत्तौ च स्वऋक्षेऽथान्यभे स्थितौ ||


Lesungshinweise: Dann prüfe man, ob beide in ihren eigenen oder in anderen Sternfeldern stehen.“ Lesungshinweis: Die Zahlwort- und Restanweisung ist im Druck stark verkürzt.

S. 99, Schatz und störender Fremdkörper
चन्द्रऋक्षे यदाऽर्केन्दू तत्र स्यान्निश्चितो निधिः |
भानुऋक्षे स्थितौ तौ चेत्तदा शल्यं न चान्यथा ||
स्वस्वभे द्वितयं ज्ञेयं नास्ति किं चिद्विपर्यये |
स्थितं न लभते द्रव्यं चन्द्रे क्रूरग्रहान्विते ||


S. 99–100, Art und Größe des verborgenen Gutes
हेमतारं च ताम्रारं रत्नं ताम्रायसं त्रपुः |
नागं चन्द्रे विजानीयाद्भास्करादिग्रहे स्थिते ||
मिश्रैर्मिश्रं भवेद्द्रव्यं शून्यं दृष्टिविपर्यये |
सर्वग्रहस्थिते चन्द्रे निर्दिष्टोऽसौ महानिधिः ||
शुभक्षेत्रगते चन्द्रे लाभो भवति निश्चितम् |
पापक्षेत्रे न लाभः स्याज्ज्ञातव्यं स्वरवेदिभिः ||
पुष्टे चन्द्रे भवेन्मुद्रा क्षीणे चन्द्रेऽल्पको निधिः |
ग्रहदृष्टिवशात् सोऽपि विज्ञेयो नवधा बुधैः ||
हेमतारं च ताम्रारं पाषाणं मृन्मयायसम् |
सूर्यादिगृहगे चन्द्रे द्रव्यभाण्डं प्रजायते ||
भुक्तराश्यंशमानेन भूमानं कांतिकैः करैरिति |


Lesungshinweise: Das Maß im Boden bestimme man nach den durchlaufenen Zeichenanteilen in den genannten Ellen.“ Lesungshinweis: Die erste Materialreihe und ihre genaue Zuordnung sind auffällig; für tāmrāyasam bietet der Druckapparat die Variante kāṃsyāyasam, „Bronze und Eisen“.

S. 100, Zusammenfassung und Flächenmaß
तद्यथा |
चन्द्रस्थाने निधिर्ज्ञेयः सूर्यस्थाने च शल्यकम् ||
इदं च निवर्तनं परिमितभूमावेव कुर्यात् |
निवर्तनस्वरूपं च |
दण्डस्तु दशहस्तः स्यात् त्रिंशद्दण्डैर्निवर्तनम् इति |


S. 100, Körperzeichen und Entfernung der Fremdkörper
अथ वा महाकपिलपञ्चरात्रोक्तप्रकारेण शल्योद्धारः कर्तव्यः |
तद्यथा |
प्रासादारम्भकाले च यदङ्गं स्पृशते पुमान् |
वास्तुदेहे दृढं तत्र शल्यं विद्याद्विचक्षणः ||
कण्डूयति शिरः पुंसः शिरःशल्यं समुद्धरेत् |
शल्यं तत्रास्थि विज्ञेयं खन्यमाने करत्रये ||
अग्निदाहश्च रोगश्च धनहानिश्च जायते |
यत्नेनोत्पाटयेच्छल्यं यदीच्छेत् सिद्धिमात्मनः ||


S. 100, Zeichen an Arm und Brust
बाहौ कण्डूयमाने तु निर्दिशेल्लोहशृङ्खलम् |
हस्तद्वयेन संतिष्ठेल्लक्षणं कथितं तव ||
स्वामिनो मरणं विद्याद्विदेशगमनं तथा |
यत्नेनोत्पाटयेच्छल्यं यदीच्छेद्भद्रमात्मनः ||
उरो कण्डूयमाने तु कांस्यशल्यं विनिर्दिशेत् |
हस्तैकेन च संतिष्ठेल्लक्षणं कथितं तव ||


S. 101, Fortsetzung des Brustzeichens und Handzeichen
असती च भवेद्भार्या यशोहानिश्च जायते |
यत्नेनोत्पाटयेच्छल्यं यदीच्छेद्भद्रमात्मनः ||
हस्ते कण्डूयमाने तु कङ्कालं च विनिर्दिशेत् |
त्रिहस्तेन च संतिष्ठेत् खन्यमाने न चान्यथा ||
अग्निदाहश्च रोगश्च सशल्यं मरणं ध्रुवम् |
यत्नेनोत्पाटयेच्छल्यं यदीच्छेद्भद्रमात्मनः ||


Lesungshinweise: [Beim zuvor genannten Brustzeichen]

S. 101, Rücken- und Fußzeichen
पृष्ठे कण्डूयमाने तु बाहुशल्यं विनिर्दिशेत् |
हस्तेनैकेन संतिष्ठेन्नात्र कार्या विचारणा ||
स्वामिनाशो भवेत्तत्र भार्या वा जायतेऽसती |
पादं कण्डूयमाने तु हस्तशल्यं विनिर्दिशेत् ||
सार्धहस्तेन संतिष्ठेल्लक्षणं गदितं तव |
गोनाशो राजदण्डश्च सस्यहानिश्च जायते ||
यत्नेनोत्पाटयेच्छल्यं यदीच्छेत् सिद्धिमात्मनः |


S. 101, Bauch- und Kniezeichen
कुक्षौ कण्डूयमाने तु पाषाणं तत्र निर्दिशेत् ||
हस्तद्वितयमानेन लक्षणं गदितं तव |
भुजङ्गदंशस्तत्र स्यात् तस्माच्छल्यं समुद्धरेत् ||
जानौ कण्डूयमाने तु भस्म तत्र विनिर्दिशेत् |
हस्तद्वयेन संतिष्ठेल्लक्षणं गदितं तव ||
अग्निदाहो महीतापः क्लेशदुःखभयानि च |
करोत्येवंविधं कर्म तस्मात्तं वै समुद्धरेत् ||


S. 101–102, günstige und ungünstige Bodenfunde
गोशृङ्गं पीतमण्डूकः शङ्खः शुक्तिश्च मण्डपः |
शम्बूकश्च प्रशस्ताः स्युर्याश्चान्या रत्नजातयः ||
अङ्गारं वै तुषं केशमस्थिशल्यं विवर्जयेत् |


Lesungshinweise: [der als maṇḍapa bezeichnete Fund] Holzkohle, Spelzen, Haare und Knochen als störende Fremdkörper soll man dagegen entfernen.“ Lesungshinweis: maṇḍapa bedeutet gewöhnlich „Pavillon“ und bleibt in dieser Fundliste sachlich unklar; es wird nicht stillschweigend durch einen vermuteten Tier- oder Edelsteinnamen ersetzt.

S. 102, Brahmayamala-Diagramm zur Bodenprüfung
अथ वा ब्रह्मयामलोक्तप्रकारेण शल्यं ज्ञात्वा तदुद्धारः कर्तव्यः |
तत्र शल्यज्ञानं यथा |
नवकोष्ठे कृते चक्रे पूर्वादिषु च दिक्षु च |
व क च त ए ह स प या वर्णा लेख्या अनुक्रमात् ||
ब्रह्मयामलोक्तशल्योद्धारचक्रम् |
प्रकारान्तरम् |


प व क
स य च
ह ए त

Lesungshinweise: Einzelne Druckformen, besonders das Zeichen links oben und das mittlere Zeichen der unteren Reihe, sind undeutlich.

S. 102, Befragung mit Blumen und Früchten
गन्धपुष्पादिनैवेद्यधूपदीपादिभिर्गृहे |
शिशुमानीय सुस्नातं प्रष्टव्यं फलपुष्पकैः ||
पूर्वार्धे पुष्पनाम्ना च शेषार्धे फलनामतः |
दिनस्य शल्यं नास्त्यस्ति फलपुष्पार्थवर्णतः ||
कोष्ठादौ पुष्पफलयोर्भवेदाद्यक्षरं यदि |
तदा शल्यं च तत्कोष्ठे यदि तत्रास्ति नास्ति तत् ||


Lesungshinweise: [Der Schluss unterscheidet Vorhandensein und Nichtvorhandensein.]

S. 102, Arten und Tiefen der Fremdkörper
सपादहस्तभूमिस्थं नृशल्यं नरनाशनम् |
खरशल्यं सर्पशल्यं भीतिदं सार्धहस्ततः ||
हस्तद्वये वाजिशल्यं गृहिणां मृत्युदुःखदम् |
सार्धद्विहस्ते हस्तिशल्यं गृहशून्यप्रवासदम् ||
श्वशल्ये महिषे मृत्युः सपादद्वयहस्तके |
बिडालशल्यं हस्तेन त्रिहस्ते मित्रनाशनम् ||
सार्धत्रये कपेः शल्यं दुःस्वप्नं धननाशकम् |


Lesungshinweise: Affenreste in dreieinhalb Ellen Tiefe bewirken böse Träume und Vermögensverlust.“ Lesungshinweis: Die Zuordnung bei den Katzenresten ist im Druck verkürzt; der Text wird nicht durch eine ergänzte Tierart harmonisiert.

S. 103, weitere Zuordnung und Verfeinerung
वास्तुमात्रे चालुशल्यं कुलवित्तविनाशनम् ||
नरादिशल्यं ज्ञातव्यं वकारादावनुक्रमात् |
यदङ्गं स्पृशते दूतस्तदङ्गोद्भवशल्यकम् ||
नवभागं गृहं कृत्वा तद्भागं च पुनः पुनः |
यद्भागे पुष्पफलयोराद्यवर्णं च तत्फलम् ||


Lesungshinweise: [Ein als cālu bezeichnetes Überbleibsel] Lesungshinweis: cāluśalya und die vorausgehende Maßangabe sind nicht sicher verständlich.

S. 103, Tattvakaumudi über Körperzeichen und Buchstaben
तत्त्वकौमुद्यां तु |
गृहारम्भे कण्डूतिश्च स्वाम्यङ्गे यत्र जायते |
शल्यमस्तीति वक्तव्यं प्रासादे भवनेऽपि वा ||
कवचतएहसपयाः शल्याक्षराणि |
नरखरोरणश्वमार्जारोरगोकपिपुरुषद्विजास्थीनि नदीपुष्पफलदेवतानां नामानि |


Lesungshinweise: Lesungshinweis: Die gedrängte Knochenliste ist in ihrer Gliederung unsicher und wiederholt die Menschenbezeichnung.

S. 103, Befragte und Restrechnung
शिशुसीमन्तिनीमर्खेवक्रात्तल्लक्षणमागतम् |
अक्षरं द्विगुणं कृत्वा मात्रां चैव चतुर्गुणाम् ||
नवभिश्च हरेद्भागं विषमे शल्यं समे न हि |


Lesungshinweise: Ist der Rest ungerade, ist ein Fremdkörper vorhanden; ist er gerade, nicht.“ Lesungshinweis: Das Wort für den dritten Befragten ist im Druck beschädigt; die Deutung als „Tor“ bleibt vorläufig.

S. 103, Formel und Abschluss der vier Methoden
धरणीधारणी[अस्पष्टम्] नमः, इति शल्योद्धारणमन्त्र इति विशेष उक्तः |
अन्यत्सर्वं ब्रह्मयामलोक्तवदिति |
चत्वारः शल्योद्धारप्रकारा दर्शिताः एतेषामन्यतमेन प्रकारेण शल्योद्धारं विधाय निर्दोषां भूमिं ज्ञात्वा वक्ष्यमाणप्रकारेण वास्तुयागं विधाय तत्र मण्डपं कुर्यात् |
शल्योद्धारप्रकारान्तरेण भूमेः परीक्षा कर्तव्या तत्प्रकारश्च प्रयोगसारे |


Lesungshinweise: Als besondere Vorschrift wird eine Formel zur Entfernung des Fremdkörpers genannt: „Verehrung …“ Lesungshinweis: Ihr Anfang nennt Dharani und Dharani; die anschließende Lautfolge ist auch im Scan nicht sicher zu lesen.

S. 103, Bodenprobe durch Wiederauffüllen
वितस्तिमात्रविस्तारं निर्माय विवरं भुवि |
निःक्षिपेत्तां मृदस्तस्मिंस्तासु शिष्टासु शोभनम् ||
समासु मध्यमं विद्यान्न्यूनास्वधममुच्यते ||


S. 103, Notwendigkeit der Bodenreinigung
गौतमीये तन्त्रे |
ततो भूमिं परीक्षेत वास्तुज्ञानविशारदः |
शल्यादिशोधनं कुर्यात्तुषाङ्गारादि दूरयेत् ||
एतस्याकरणे मन्त्री न किंचित्फलमाप्नुयात् |


S. 104, Grabung und Vastu-Yaga
महाकपिलपञ्चरात्रे |
खन्यमाने जलं यावत् शल्यदोषो विनश्यति |
दूरनीचस्थितं वारि खनितुं नैव शक्यते ||
पञ्चहस्तं प्रखातव्यं शल्यदोषोपशान्तये |
शल्योद्धारं ततः कृत्वा पूरयेत्सुसमं यथा ||
वास्तुयागं ततः कुर्यात्सर्वविघ्नोपशान्तये |


S. 104, Yama über die Verehrung der Vastu-Gottheit
वास्तुयागस्यावश्यकत्वमाह यमः |
गृहादिकरणे यत्र नार्चितो वास्तुदेवतः |
तत्र शून्यं भवेत्सर्वं रक्षोविघ्नादिभिर्हतम् ||
तस्माद्वास्त्वर्चनं सम्यक्कार्यं सम्पदभीप्सुभिः |


S. 104, Anlässe und Anlage des Vastu-Mandala
महाकपिलपञ्चरात्रे |
भूमेः परिग्रहे पूर्वं शिलानां स्थापने तथा |
जलाधारगृहार्थं च यजेद्वास्तुं विशेषतः ||
अपरेष्वपि कार्येषु यागहोमादिकेषु च |
वास्तुमण्डलकं कुर्यात् सूत्रयित्वा समं गुरुः ||


S. 104, Ursprung des Vastu-Rituals
वास्तुयागोत्पत्तिमाह मेरुतन्त्रे |
वास्तुनामा पुरा कश्चिदसुरोऽभून्महाबलः |
त्रैलोक्यं निर्जितं तेन त्रिपञ्चाशच्च देवताः ||
ये रणे संमुखे यातास्तेन ते विनिर्पीडिताः |
पुनःपुनर्जिताः युद्धे स एवासीत् प्रजापतिः ||
दिव्यवर्षसहस्रान्ते देवाः शरणमागताः |
विष्णोर्मम च पार्वत्या दैत्येन्द्रेणापि तच्छ्रुतम् ||
योद्धुकामः सोऽभ्यधावन्नारदेन प्रचोदितः |
कृतं युद्धं तेन सार्धमस्माभिर्वर्षपञ्चकम् ||
ततो दैत्यो मदोत्सिक्तो विष्णुमायाविमोहितः |


S. 105, Vastu bietet einen Wunsch an
उवाच वचनं तुष्टो व्रियतां व्रियतामिति ||
नेन्द्रेण न कुबेरेण मम तोषकरं कृतम् |
ससैन्येनापि तद्युद्धं त्वया तु जटिलेन हि ||
कृतं विष्णुसहायेन पार्वत्यर्धाङ्गधारिणा |
तेनाहं तुष्टिमापन्नस्त्रैलोक्यपरमेश्वरः ||
अदेयं नास्ति मे किंचिद्याचयन्तु त्रयोऽपि च |


S. 105, die erbetene Gabe
इत्याकर्ण्य वचस्तस्य शिवयोश्च प्रचोदितः ||
हरिः प्राह महाधन्य दैत्येन्द्र त्वत्समोऽस्ति कः |
सत्यं त्रिवारं कुरुषे तदा याच्यो मया वरः ||
शिवेनापि च पार्वत्या एक एवापरो न हि |
त्रिरुवाच ततो दैत्यस्तदा विष्णुर्व्यजिज्ञपत् ||
यथा ते त्वरितं मृत्युः स उपायः प्रदर्श्यताम् |


S. 105, Vastu hält sein Versprechen
विष्णोश्छलमिति ज्ञात्वा दैत्येन्द्रः समभाषत ||
अवश्यमेव गन्तव्यं सर्वैः कालमुखे हरे |
तथा च स्वप्रतिज्ञार्थं यो गच्छति स जीवति ||
परं त्रैलोक्यं मे वशे यैश्च मत्सेवनं कृतम् |
तस्य मार्गं दर्शयित्वा देहोऽयं विनिपात्यताम् ||


Lesungshinweise: Zeigt ihnen einen Weg; dann möge dieser Leib zu Fall gebracht werden.‘“ Lesungshinweis: Der Rückbezug von tasya, „ihm/diesem“, im letzten Satz ist nicht eindeutig; die Übersetzung bezieht die Bitte vorläufig auf die zuvor Genannten.

S. 105–106, die körperlose Stimme
काले तस्मिंश्च भो देवा वागुवाचाशरीरिणी |
दैत्येन्द्र कुरु मा शोकं भूमेर्जन्म तवाभवत् ||
तत्रैव त्वं लयं याहि तवत्तोषार्थं वरं शृणु |
ये वर्णाः स्वस्य भोगार्थं करिष्यन्ति नवं गृहम् ||
तत्र त्वदुत्सवमृते नानादुःखैरुपद्रुताः |
कालवर्ण्यादिका दास्यो विनायकमुखाश्च ते ||
सेवकाः पीडयिष्यन्ति इत्याज्ञा पारमेश्वरी |


S. 106, Vastu und die dreiundfünfzig Gottheiten
इत्याकर्ण्य वचः सोऽपि गर्तं गत्वा महाबिलम् ||
प्रविवेश ततो देवैर्भृत्पाषाणैः पपूरितम् |
तेन ये निर्जिता देवाः पुनरुद्गमशङ्कया ||
तस्यार्थं च त्रिपञ्चाशन्निवासं चक्रुरुद्यताः |
तस्मादवश्यं ते पूज्या गृहवाससुखेच्छया ||


Lesungshinweise: Deshalb müssen sie verehrt werden, wenn man in seinem Haus glücklich wohnen möchte.“ Lesungshinweis: Die Druckform bhṛtpāṣāṇaiḥ ist gestört; der Zusammenhang wird als „mit Erde und Steinen“ verstanden.

S. 106, Anrufung und Altar des Vastu-Yaga
अथ वास्तुयागविधिस्तत्रैव |
शृण्वन्तु तद्विधिं देवा वामदक्षिणमार्गतः |
पाषाणे प्रतिमायां वा वास्तोष्पते प्रतिजानीति ||
इति वैदिकमन्त्रेण तस्यावाहनपूजनम् |
नाममन्त्रेण चान्येषां पूजां कृत्वा प्रपूजयेत् ||
नैर्ऋत्यकोणे गेहस्य चतुरस्राकृतिं शुभाम् |
कृत्वा समतलां भूमिं वितस्त्युच्चां च वेदिकाम् ||
विस्तारायामतो हस्तमात्रां तत्र लिखेद्बुधः |


Lesungshinweise: [das Mandala]

S. 106, Größe und Raster des Mandala
महाकपिलपञ्चरात्रे तु विशेषः |
गृहप्रासादकूपानां मण्डपस्य जलस्य च |
वास्तुमण्डलकं कार्यमष्टहस्तं तु नापरम् ||
भद्रभूमिं प्रशोध्येत दशदण्डं समालिखेत् |
अधोऽधस्तिर्यगादौ च तेनैकाशीतिकोष्ठकम् ||


S. 106–107, innere Gottheiten des Mandala
मेरौ |
एकाशीतिपदं चक्रं वैदिकास्तत्र दैवताः |
मध्यकोष्ठेषु नवसु त्वादौ ब्रह्माणमर्चयेत् ||
आपवत्सं तदीशाने प्रागर्यम्णं त्रिकोष्ठके |
आग्नेये सवितारं च विवस्वन्तमवाक्त्रिषु ||
इन्द्रं नैर्ऋतिदिग्भागे मित्रं पश्चिमगं त्रिषु |
वायव्ये राजयक्ष्माणं सुमेरुं चोत्तरत्रये ||


S. 107, nordöstliche und östliche Randgottheiten
वेदकोष्ठेषु चैशान्यामीशकोणाच्च देवताः |
शिखी पर्जन्य आपश्च दितिः प्राक्कोष्ठयोर्ययोः ||
क्रमादेते पञ्च देवा ज्ञातव्याः सव्यमार्गतः |
जयन्तेन्द्रौ सूर्यः सत्यो भृश आग्नेयकोणके ||


Lesungshinweise: An der Südostecke …“ Lesungshinweis: Der Übergang zwischen Vierergruppe und östlicher Fünfergruppe ist im Druck sprachlich gestört.

S. 107, südliche und westliche Randgottheiten
अन्तरिक्षं तथा वातः पूषा सावित्र एव च |
चतुष्क ईशतो देवास्ततो दक्षिणपञ्चके ||
युग्मक्रमाच्च वितथो बृहत्क्षेत्र्यमौ तथा |
गन्धर्वो भृङ्गराजश्च नैर्ऋतेऽथ चतुष्टके ||
ईशानीतो जयो मृगः पितृर्दौवारिकस्तथा |
ततः पश्चाद्वर्तिके पञ्च सुग्रीवः पुष्पदन्तकः ||
वरुणोऽसुरश्च शोषश्च वायव्ये ईशतस्त्वहिः |
रुद्रश्च पापयक्ष्मा च रोगश्चोत्तरपञ्चसु ||


Lesungshinweise: [Felderpaaren]

S. 107, nördliche Randgottheiten und Abschluss
मुख्यो भल्लाटसोमौ च भुजगश्चादितिस्तथा |
देवा एते पञ्चचत्वारिंशदर्च्यास्तु भक्तितः ||
इदं त्वेकाशीतिपदं वैदिकं वास्तुमण्डलम् |


S. 107, tantrisches Vastu-Mandala
तान्त्रिकमार्गे चतुःषष्टिपदे वास्तुमण्डलं तत्रैवोक्तम् |
अथ तान्त्रिकमार्गे तु चतुःषष्टिपदे तथा |
कोणयोः सूत्रयुगलं मध्ये ब्रह्माणमर्चयेत् ||
गौतमीयतन्त्रे |
विप्राशिषा वेदघोषैर्मङ्गलाचारपूर्वकैः |
वास्तुमण्डलकं कुर्याद्यथाशोभं यथाविधि ||


S. 108, vedisches Vastu-Diagramm
एकाशीतिपदं वास्तुचक्रम् |


शिखी पर्जन्यः जयन्तः इन्द्रः सूर्यः सत्यः भृशः अन्तरिक्षः वातः
दितिः आपः जयन्तः इन्द्रः सूर्यः सत्यः भृशः सावित्रः पूषा
अदितिः अदितिः आपवत्सः अर्यमा अर्यमा अर्यमा सविता वितथः वितथः
भुजगः भुजगः सुमेरुः ब्रह्मा ब्रह्मा ब्रह्मा विवस्वान् बृहत्क्षत्रः बृहत्क्षत्रः
सोमः सोमः सुमेरुः ब्रह्मा ब्रह्मा ब्रह्मा विवस्वान् यमः यमः
भल्लाटः भल्लाटः सुमेरुः ब्रह्मा ब्रह्मा ब्रह्मा विवस्वान् गन्धर्वः गन्धर्वः
मुख्यः मुख्यः राजयक्ष्मा मित्रः मित्रः मित्रः इन्द्रः भृङ्गराजः भृङ्गराजः
अहिः रुद्रः शोषः असुरः वरुणः पुष्पदन्तः सुग्रीवः जयः मृगः
रोगः पापयक्ष्मा शोषः असुरः वरुणः पुष्पदन्तः सुग्रीवः दौवारिकः पिता

S. 108, geometrische Anlage nach der Sharada
शारदायाम् |
पूर्वापरायतं सूत्रं विन्यसेद्धस्तमानतः |
तन्मध्यं किंचिदालम्ब्य मत्स्यौ द्वौ परितो लिखेत् ||
तयोर्मध्ये स्थितं सूत्रं विन्यसेद्दक्षिणोत्तरम् |
द्वाभ्यां द्वाभ्यां तथाग्राभ्यां कोणेषु मकराँल्लिखेत् ||
मत्स्यमध्ये स्थिताग्राणि तत्र सूत्राणि पातयेत् |
चतुरस्रं भवेत्तत्र चतुष्कोष्ठसमन्वितम् ||
तत्पुनर्विभजेन्मन्त्री चतुःषष्टिपदं यथा |
ईशानाद्राक्षसं यावद्यावदग्नेः प्रभञ्जनम् ||


S. 109, Diagonalen und zentrale Gottheiten
एवं सूत्रद्वयं दद्यात्कर्णसूत्रं समाहितः |
ब्रह्माणं पूजयेदादौ मध्यकोष्ठचतुष्टये ||
दिक्चतुष्के तु पूर्वादि यजेदार्यमनन्तरम् |
विवस्वन्तं ततो मित्रं महीधरमनन्तरम् ||
कोणाग्रकोष्ठद्वन्द्वेषु ब्रह्मादि परितः पुनः |
सावित्रं सवितारं च शक्रमिन्द्रजयं पुनः ||
रुद्रं रुद्रजयं विद्वानापं चाप्यापवत्सकम् |


S. 109, weitere Gottheiten und achtfache Randgliederung
तत्कर्णसूत्रोभयतः कोष्ठद्वन्द्वेषु देशिकः |
शर्वं गुहं चार्यमाणं जम्भकं पिलपिच्छकाम् ||
चरकीं च विदारीं च पूतनां चार्चयेत्क्रमात् |
पूजयेद्बहिस्तु पूर्वादिसार्धाद्यन्तपदेष्विमान् ||
अष्टावष्टविभागेन देवतान् देशिकोत्तमः |


S. 109, östliche und südliche Gottheiten
क्रमादीशानपर्जन्यजयन्ताः शक्रभास्करौ ||
सत्यो भृशोऽन्तरिक्षं च दिशि प्राच्यां व्यवस्थिताः |
अग्निः पूषा च वितथो यमश्च गृहरक्षकः ||
गन्धर्वो भृङ्गराजश्च मृगो दक्षिणदिग्गताः |


S. 109, westliche und nördliche Gottheiten
निरृतिर्दौवारिकश्च सुग्रीवो वरुणो ततः ||
पुष्पदन्तोऽसुरो शोषो रोगः प्रत्यग्दिशि स्थिताः |
वायुर्नागश्च मुख्यश्च सोमो भल्लाट एव च ||
अर्गलाख्यो दित्यदिती कुबेरस्य दिशि स्थिताः |
देवा एते त्रिपञ्चाशत् पूजनीयाः प्रयत्नतः ||


S. 109, Haus und Tempel im Hayashirsha Pancharatra
हयशीर्षपञ्चरात्रे |
एकाशीतिपदं वास्तु गृहकर्मणि शस्यते |
चतुःषष्टिपदं वास्तु प्रासादेषु प्रशस्यते ||


S. 110, tantrisches Vastu-Diagramm
चतुःषष्टिपदं वास्तुचक्रम् |
शर्वः |
पिलपिच्छिका |
गुहः |
पूतना |
अर्यमा |
विदारी |
जम्भकः |
चरकी |


ईशानः / अदितिः पर्जन्यः जयन्तः शक्रः भास्करः सत्यः भृशः अन्तरिक्षम् / अग्निः
अदितिः पर्जन्यः / दितिः जयन्तः शक्रः भास्करः सत्यः भृशः / पूषा पूषा
अर्गलः अर्गलः आपवत्सः / आपः अर्यमा अर्यमा सविता / सावित्रः वितथः वितथः
भल्लाटः भल्लाटः महीधरः ब्रह्मा ब्रह्मा विवस्वान् यमः यमः
सोमः सोमः महीधरः ब्रह्मा ब्रह्मा विवस्वान् गृहरक्षकः गृहरक्षकः
मुख्यः मुख्यः रुद्रः / रुद्रजयः मित्रः मित्रः इन्द्रजयः / शक्रः गन्धर्वः गन्धर्वः
नागः नागः / शोषः असुरः पुष्पदन्तः वरुणः सुग्रीवः दौवारिकः / भृङ्गराजः (?) भृङ्गराजः
वायुः / रोगः शोषः असुरः पुष्पदन्तः वरुणः सुग्रीवः दौवारिकः मृगः / निरृतिः

Lesungshinweise: Einzelne kleine Beschriftungen sind unsicher und mit Fragezeichen gekennzeichnet.

S. 110–111, Farben des Vastu-Mandala
मेरुतन्त्रे |
ब्रह्मस्थानं रक्तवर्णैर्दिशः पीतैर्विदिक् सितैः |
ततो दिशस्तु हरितैर्विदिशः कृष्णवर्णकैः ||
अरुणः परिधिः कार्यः सुन्दरं मण्डलं भवेत् |
मध्ये पदानां नवकं मार्जयित्वा प्रपूरयेत् ||
सितेन रजसा भूयस्तद्दिक्षु चतसृष्वपि |
षट्कं संमार्ज्य रजसा रक्तेन परिपूरयेत् ||
तयोर्मध्ये चतुर्दिक्कोष्ठं द्वादशसंख्यकम् |
मार्जयित्वा हरिद्राभिर्यथाशोभं प्रपूरयेत् ||
कोणे कोणेऽथ युग्मं पीतवर्णेन पूरयेत् |
शिष्टानि च पदान्यत्र यथाशोभं प्रकल्पयेत् ||
विचित्राणि ततो मध्ये ब्रह्माणं संप्रपूजयेत् |


S. 111, farbige Felder und Speisegaben
गौतमीये तन्त्रे |
उक्तानामपि देवानां पदान्यापूर्य पञ्चभिः |
रजोभिस्त्वथो तेभ्यः पायसान्नैर्बलिं हरेत् ||
पायसैर्मधुरैः सर्वान् संयजेन्मधुरान्वितैः |
तत्तद्द्रव्यैर्वा मतिमान् पूजयेद्दोषशान्तये ||


S. 111, Homa und Bali im Meru Tantra
मेरुतन्त्रे |
व्रीहिमुद्गयवैः शान्तौ दधिघृतदुग्धप्लुतैः क्रमात् |
अष्टोत्तरशतं वाऽष्टोत्तरविंशतिमेव वा ||
प्रत्येकं तैर्हुनेद्द्रव्यैर्मन्त्रैस्तच्च पायसैः |
बलिं च तेषां कुर्वीत पायसैर्व्यञ्जनान्वितैः ||
ससितैर्दुग्धकदलीफलापूपादिसंयुतैः |


S. 111, jährliche Verehrung und verheißene Früchte
एवं सिंहगते भानौ पूर्णायां प्रतिवत्सरे ||
स्वगेहे वास्तुपूजार्थं मण्डपेषु समाचरेत् |
न बालमरणं व्याधिभूतप्रेतादिकानि च ||
न सर्पपीडा नान्योन्यकलहाद्यशुभानि च |
पुत्रपौत्रधनारोग्यं पशुदासीसमृद्धिभाक् ||
अरोगी विजयख्यातश्चिरं जीवति तद्गृहे |
राजवेश्मसु सर्वत्र तथा च महिषीगृहे ||
सचिवामात्यसेनानीभवनेषु परे तथा |
विदध्यात्प्रतिवर्षं तु प्रोक्तसिद्ध्यै तु देशिकः ||


S. 112, besondere Bali-Vorschriften
न चेदुक्तान्यथारूपैः क्लेशोऽनिशं भवेत् |
भैरवक्षेत्रपालानां योगिनीनां विशेषतः ||
वामाचारैर्बलिः कार्यो महिषैर्वाऽपि कुक्कुटैः |
आराधितास्तु वामेन जायन्तेऽतिबुभुक्षिताः ||
देवता बलिमिच्छन्ति तद्धीनं घ्नन्ति साधकम् |


S. 112, Dhyana des Vastu
वास्तुध्यानम् सोमशम्भुतन्त्रे |
आकुञ्चितकरं वास्तुमुत्तानमसुराकृतिम् |
स्मरेत्पूजासु कुड्यादिनिवेशे त्वधराननम् ||
जानुनीकूर्पराशक्ते दिशि वातहुताशयोः |
पैत्र्यां पादपुटौ रौद्र्यां शिरोऽस्य हृदयेऽञ्जलिः ||
पैत्र्यामिति |
प्रकृतिमण्डले पितृदेवताधिष्ठितायां रक्षोदिशि न तु दक्षिणस्यामिति ध्येयम् |


S. 112, Größe und Dauer des Vastu-Purusha
महाकपिलपञ्चरात्रेऽपि |
पूर्वमासीन्महानुग्रः सर्वभूतभयङ्करः |
स देवैर्निहतो भूमौ स वास्तुपुरुषः स्मृतः ||
यावद्भूमिः स्थिरा लोके तावद्वास्त्वसुरः स्थिरः |
संहारे तु लयं याति देवैः सर्वग्रहादिभिः ||
विस्तारोऽस्य समन्ताच्छतकोटिस्तु योजनम् |
संस्थितोऽसौ धरां व्याप्य प्रोत्तानः कृष्णवर्णकः ||


S. 112, Beginn des praktischen Ablaufs
अत्रायं क्रमः |
आदौ यजमान आचार्यं वृणुयात् |
तत आचार्यः प्रोक्तलक्षणां भूमिं परिगृह्य तस्याः शुद्धिं विधाय पञ्चगव्यैः संसिच्य तन्मध्ये शुक्लडोरकं प्रसार्य कनकशलाकया रजतेन रजतशलाकया वा तदभावे पुष्पफलसुधान्यानामन्यतमेन वा |
शान्ता यशोवती कान्ता विशाला प्राणवाहिनी |


Lesungshinweise: [zeichne] [Es folgen Namen der Linien:]

S. 113, Namen der Linien
सती वसुमती नन्दा सुभद्रा नवमी मता ||
इति नव रेखाः प्रागपरायताः दक्षिणोपक्रमा उदगपवर्गा विलिख्य |
हिरण्या सुव्रता लक्ष्मीर्विभूतिर्विमला प्रिया |
जया काला विशोका च नवमी संस्मृता बुधैः ||
इति नव रेखा दक्षिणोत्तरायताः पश्चिमोपक्रमाः पूर्वापवर्गा विलिख्य |


S. 113, Anrufung der Mandala-Gottheiten
एवं चतुःषष्टिपदं वास्तुमण्डलकं निर्माय पञ्चरजोभिः पदानि परिपूर्य मध्येऽष्टदलं वक्ष्यमाणरीत्या निर्माय तन्मध्ये ब्रह्माणं ध्यात्वावाह्य तत्तत्पदेषु तत्तद्देवतावावाह्य प्रणवादिनमोऽन्तैस्तत्तन्नाममन्त्रैः पूजयेत् |
मण्डलाद्बहिःकोष्ठेषु कोष्ठचतुष्टयमतिरिक्तं निर्माय तत्र गुरुगणेशदुर्गाक्षेत्रपालान् पूजयेत् |
ऐशान्यां कलशं संस्थाप्य वरुणं यथाविधि पूजयेदिति राघवभट्टाः |


S. 113, allgemeine Gestalt der Vastu-Gottheiten
एषां ध्यानानि तन्त्रान्तरे |
उक्तानां सर्वदेवानां स्वरूपं च निगद्यते |
अक्षमालां स्रुवं दक्षे वामे दण्डकमण्डलुम् ||
दधानमष्टनयनं यजेन्मध्येऽम्बुजासनम् |
सर्वे चतुर्भुजा देवा वास्तुदेहे व्यवस्थिताः ||
कृताञ्जलिपुटा ऊर्ध्वं खड्गखेटकपाणयः |
ब्रह्माणं संनिरीक्षन्ते तद्वक्त्राभिमुखाश्च ते ||
स्वस्वस्थानस्थिताश्चैव साधारणमुदाहृतम् |


S. 113, Farben der inneren Gottheiten
मरीचिः श्वेतवर्णः स्याद्विवस्वानभ्रवर्णकः ||
शातकुम्भनिभो मित्रः कृष्णवक्रस्तु भूधरः |
सविता नीलवर्णाभः सावित्रो धूम्रविग्रहः ||
इन्द्रश्चारुणवर्णाभः शुक्लश्चेन्द्रजयस्तथा |
रुद्रः प्रवालसदृशः पीतो रुद्रजयस्तथा ||
आपो गोक्षीरधवल आपवत्सो जवाद्युतिः |


S. 113–114, Farben der östlichen und südlichen Gottheiten
ईशानः क्षीरधवलः पर्जन्योऽञ्जनसंनिभः ||
जयन्तोऽञ्जनसंकाशो महेन्द्रः श्यामलद्युतिः |
आदित्यो रक्तवर्णः स्यात्सत्यकश्चित्रवर्णकः ||
वृषो बन्धूकपुष्पाभः कुन्दाभश्चान्तरिक्षकः |
उद्यद्दिनकराभोऽग्निः पूषा रक्ताभसन्निभः ||
वितथश्चेन्द्रचापाभो विद्युद्वर्णो गृहरक्षकः |
निरृतिः पावकाभश्च पीतो दौवारिकः स्मृतः ||
सुग्रीवो नीलकण्ठाभश्चन्द्राभः पुष्पदन्तकः |
वरुणः स्फटिकाभाङ्गो भ्रङ्गाभश्चासुरो मतः ||
यमश्चाञ्जनसंकाशो गन्धर्वः पद्मरागवत् |
भृङ्गराजश्च भृङ्गाभो मृगो जीमूतसन्निभः ||


Lesungshinweise: Bhringaraja gleicht einer Biene, Mriga einer Regenwolke.“ Lesungshinweis: Die Druckform bhraṅga beim Asura wird im Zusammenhang als Bienenvergleich verstanden.

S. 114, Farben der nördlichen Gottheiten
शोषश्चोत्पलसंकाशो रोगश्चैवेन्द्रनीलवत् |
वायुः कृष्णाभवर्णः स्यान्नागः शेषेन्दुसन्निभः ||
मुख्यो मौक्तिकसंकाशो भल्लाटः श्वेतपद्मवत् |
सोमः स्फटिकसंकाशोऽर्गलो रक्तोत्पलद्युतिः ||
दितिः कुन्देन्दुधवला कपिला चादितिः स्मृता |


S. 114, äußere weibliche und männliche Gestalten
चरकी शङ्खसदृशी विदारी पावकद्युतिः ||
पूतना हिमसंकाशा मेघाभा पिलपिच्छिका |
खड्गं च पानपात्रं च छुरिकां कर्तरीं तथा ||
दधाना भीमरूपास्ता राक्षस्यः परिकीर्तिताः |
सितो रक्तश्च पीतश्च कृष्णः स्कन्दादिका ग्रहाः ||
वज्रं शक्तिं च खड्गं च पाशं च विकृताननाः |
दधाना भीषणाः प्रोक्ता ग्रहाः स्कन्दादिकाश्च ते |


S. 114–115, Verehrung und Feueropfer
एवं ध्यात्वा पञ्चोपचारैः संपूज्य वास्तुपुरुषमपि यथोक्तं ध्यात्वा वैदिकमते उक्तवैदिकमन्त्रेण तान्त्रिकमते तु ओं वास्तोष्पतये नमः इति मन्त्रेण पञ्चोपचारैः संपूज्य तत्पूर्वदिशि तत्पश्चिमदिशि वा हस्तमात्रं त्रिमेखलं कुण्डं स्थण्डिलं वा निर्माय तत्र वक्ष्यमाणक्रमेणाग्निमुपसमाधाय मण्डलाद्ब्रह्मादिदेवतास्तत्रावाह्य तेभ्यः पूर्वोक्तसंख्यया आहुतीर्हुत्वा पूर्णाहुतिं विधाय पुनर्मण्डले देवानानीय तेभ्यः प्रत्येकं बलिं दद्यात् |


S. 115, Einleitung zu den Bali-Formeln
बलिमन्त्रा द्रव्यभेदाश्च गौतमीयमहाकपिलपञ्चरात्रयोः |


S. 115, Bali-Formel für Brahma
पायसोदनलाजैश्च युक्तं धूपप्रसूनकैः |
अन्नादिभिश्च संयुक्तं माषभक्तादिमण्डितम् ||
गृहाणेमं बलिं ब्रह्मन् वास्तुदोषं प्रणाशय |


S. 115, Bali-Formel für Aryaka
गन्धादिशर्करारूपं पायसोपरिसंयुतम् ||
आर्यकाख्य गृहाणेमं सर्वदोषं प्रणाशय |


Lesungshinweise: Beseitige jeden Fehler!“ Lesungshinweis: Der zusammengesetzte Ausdruck für die Beigabe zum Payasa ist verkürzt; Aryaka wird als gedruckte Namensform beibehalten.

S. 115, Bali-Formel für Vivasvat
चन्दनाद्यर्चितं नाथ कर्पूरागुरुमण्डितम् ||
विवस्वन् वै गृहाणेमं सर्वदोषं प्रणाशय |


S. 115, Bali-Formel für Mitra
सगुडं पायसं नाथ पुष्पादिसुसमन्वितम् ||
गृहाणेमं बलिं हव्यं मित्र शान्तिं प्रयच्छ मे |


S. 115, Bali-Formel für Mahibhrit
माषौदनं समांसं च गन्धादिक्षीरसंयुतम् ||
गृहाणेमं महीभृत् त्वं सर्वदोषं प्रणाशय |


S. 115, Reihenfolge der Bali-Gaben
एवं मध्ये तु संपूज्य ईशानादि बलिं हरेत् ||
एतेन पूजायामाग्नेयादिक्रमेऽपि बलावीशानादिक्रमः |
अन्यत्रापि |
ईशानाद्दक्षिणावर्तो बलिः सामान्यभाषितः |
सर्वेषां खलु वस्तूनां विशेषः पदनिर्णये ||
क्वचित्तु पूजापि तथैवोक्ता |
ईशकोणादिषु सुरान् पूजयेच्च विधानतः |
ईशानादिचतुष्कोणसंस्थितान् पूजयेद्बुधः इति ||
तथा |


S. 115, Bali-Formel für Apa
क्षीरखण्डसमायुक्तं पुष्पादिभिरलङ्कृतम् |
गृहाणेमं बलिं गृह्यमाप शान्तिं प्रयच्छ मे ||


S. 116, Bali-Formel für Vatsa
दधीदं गुडसंमिश्रं गन्धादिभिः सुसंयुतम् |
गृहाणेमं बलिं वत्स विघ्नमत्र प्रणाशय ||


S. 116, Bali-Formel für Savitra
पुष्पादिकुशपानीयं शर्करागुरुवासितम् |
सावित्र वै गृहाणेमं शान्तिमत्र प्रयच्छ मे ||


S. 116, Bali-Formel für Surya
पिष्टकं सगुडं नाथ रक्तगन्धादिशोभितम् |
गृहाणेमं बलिं सूर्य विघ्नमत्र प्रणाशय ||


S. 116, Bali-Formel für Shakra
शीतमन्नं तथा पुष्पं कुङ्कुमादिसुमण्डितम् |
गृहाणेमं बलिं गृह्यं शक्रदेव नमोऽस्तु ते ||


S. 116, Bali-Formel für Indrajaya
ओदनं घृतसंयुक्तं वस्त्रगन्धादिमण्डितम् |
गृहाणेमं बलिं गृह्यमिन्द्रजय नमोऽस्तु ते ||


S. 116, Bali-Formel für Rudra
पक्वापक्वमिदं मांसं वस्त्रपुष्पादिसंयुतम् |
गृहाणेमं बलिं गृह्यं रुद्रदेव नमोऽस्तु ते ||


S. 116, Bali-Formel für Rudrajaya
समांसं घृतसंपर्कं गन्धपुष्पादिसंयुतम् |
गृहाणेमं बलिं रुद्रजय स्वस्ति नमोऽस्तु ते ||


S. 116, Bali-Formel für Vidari
रक्तपुष्पं समांसं वै रक्तवस्त्रादिसंयुतम् |
विदारि वै गृहाणेमं रक्षोविघ्नं विनाशय ||


S. 116, Bali-Formel für Putana
पित्तरक्तास्थिसंयुक्तं रक्तगन्धादिमण्डितम् |
गृहाणेमं पूतने त्वं रक्षोविघ्नं विनाशय ||


S. 116, Bali-Formel für Sharva
सघृतं माषभक्तं च रक्तगन्धादिसंयुतम् |
बलिं गृहाण शर्व त्वं रक्षोविघ्नं विनाशय ||


S. 116, Bali-Formel für Skanda
मांसपुष्पादिसंयुक्तं माषभक्तोपशोभितम् |
गृहाणेमं बलिं स्कन्द रक्षोविघ्नं विनाशय ||


S. 116, Bali-Formel für Aryaman
श्वमांसं पिष्टकैर्युक्तं पक्वमांसौदकान्वितम् |
अर्यमन् वै गृहाणेमं सर्वविघ्नं विनाशय ||


S. 117, Bali-Formel für Jambhaka
रक्तमांसौदनं मत्स्यं गन्धधूपसमन्वितम् |
जम्भक त्वं गृहाणेमं रक्षोविघ्नं विनाशय ||


S. 117, Bali-Formel für Pilapiccha
छागकर्णान्वितं मांसं वस्त्रगन्धादिसंयुतम् |
पिलपिच्छे गृहाणेमं रक्षोविघ्नं विनाशय ||


S. 117, Bali-Formel für Charaki
घृतेन साधितं मांसं वस्त्रगन्धादिसंयुतम् |
चरकि त्वं गृहाणेमं रक्षोविघ्नं विनाशय ||


S. 117, Bali-Formel für Isha
सघृतं साक्षतं भक्तं वस्त्रगन्धाद्यलङ्कृतम् |
गृहाणेमं बलिं त्वीश वास्तुदोषापहारकम् ||


S. 117, Bali-Formel für den Wolkenkönig
उत्पलं पायसैर्युक्तं वस्त्रादिकसमन्वितम् |
गृहाणेमं बलिं गृह्यं मेघराज नमोऽस्तु ते ||


S. 117, Bali-Formel für Jishnus Sohn
पञ्चहस्तं सुपीतं च ध्वजं भक्तादिमण्डितम् |
गृहाणेमं बलिं गृह्यं जिष्णुसुत नमोऽस्तु ते ||


S. 117, Bali-Formel für den Götterkönig
ओदनं घृतसंपूर्णं पञ्चरत्नादिमण्डितम् |
गृहाणेमं बलिं हव्यं देवराज नमोऽस्तु ते ||


S. 117, Bali-Formel für Bhaskara
रक्तपुष्पयुतं भक्तं रक्तगन्धादिभिर्युतम् |
गृहाणेमं बलिं हव्यं भास्करस्य नमोऽस्तु ते ||


Lesungshinweise: Bhaskara, Verehrung sei dir!“ Lesungshinweis: Der Druck hat die grammatisch auffällige Form bhāskarasya; der gemeinte Adressat ist aus dem Namen erkennbar.

S. 117, Bali-Formel für Satya
वितानं धूम्रवर्णाभं गन्धादिकसुशोभितम् |
रक्तपुष्पं गृहाणेमं बलिं सत्य नमोऽस्तु ते ||


S. 117, Bali-Formel für Vrisha
इदं तु मांसभक्तं वै वस्त्रगन्धादिपूजनम् |
गृहाणेमं वृष बलिं वास्तुदोषं विनाशय ||


S. 117, Bali-Formel für Vyoma
इदं तु शादलं मांसं नैवेद्यादिसंयुतम् |
गृहाणेमं बलिं हव्यं व्योम शान्तिं प्रयच्छ मे ||


Lesungshinweise: [als śādala bezeichnete] Gewähre mir Frieden!“ Lesungshinweis: Die Fleischbezeichnung śādala bleibt unklar; keine Tierart wird ergänzt.

S. 117–118, Bali-Formel für den Siebenzüngigen
सुवर्णं पिष्टकं चाथ वस्त्रगन्धादिभिर्युतम् |
घृतान्वितं गृहाणेमं सप्तजिह्व नमोऽस्तु ते ||


S. 118, Bali-Formel für Pushan
क्षीरं लाजासमायुक्तं गन्धपुष्पादिसंयुतम् |
गृहाणेमं बलिं हव्यं पूषदेव नमोऽस्तु ते ||


S. 118, Bali-Formel für Vitatha
मांसौदनं गन्धमाल्ययुतं वस्त्रादिभूषितम् |
वितथेश बलिं गृह्णन् वास्तुदोषं विनाशय ||


S. 118, Bali-Formel für Yama
मत्स्यमांसयुतं भक्तं गन्धपुष्पाद्यलङ्कृतम् |
यमराज गृहाणेमं बलिं शान्तिं प्रयच्छ मे ||


S. 118, Bali-Formel für Griharaksha
पक्वमांसौदननवनीतं वस्त्रादिमण्डितम् |
गृहाणेमं प्रीतिकरं गृहरक्ष नमोऽस्तु ते ||


S. 118, Bali-Formel für Gandharva
नानागन्धसमायुक्तं रक्तगन्धादिभिर्युतम् |
बलिं गृहाण गन्धर्व सर्वदोषं प्रणाशय ||


S. 118, Bali-Formel für Bhringaraja
इमां तु शाकुनीं जिह्वां माषभक्तोपरिस्थिताम् |
गृहाणेमं भृङ्गराज बलिं शान्तिं प्रयच्छ मे ||


S. 118, Bali-Formel für Mriga
एवं तिलघृतोपेतं गन्धपुष्पादिभिर्युतम् |
गृहाणेमं बलिं हव्यं मृगदेव नमोऽस्तु ते ||


S. 118, Bali-Formel für den Rakshasa-König
शर्करामण्डितं खण्डं वस्त्रगन्धाद्यलङ्कृतम् |
प्रीतो बलिं गृहाणेमं रक्षोराज नमोऽस्तु ते ||


Lesungshinweise: [Zuckerspeise]

S. 118, Bali-Formel für Dauvarika
चन्दनागुरुकाखण्डं वस्त्रगन्धादिभिर्युतम् |
गृहाणेमं बलिं हव्यं दौवारिक नमोऽस्तु ते ||


S. 118, Bali-Formel für Sugriva
इदं तु पायसं नाथ गन्धपुष्पादिमिश्रितम् |
सुग्रीव वै गृहाणेमं बलिं शान्तिं प्रयच्छ मे ||


S. 118, Bali-Formel für den Wassergott
यवाग्वलङ्कृतं दुग्धं भक्तोपरिसमन्वितम् |
गृहाणेमं बलिं हव्यं जलदेव नमोऽस्तु ते ||


S. 119, Bali-Formel für Pushpadanta
माषभक्तं कुशास्तम्बं घृतगन्धादिसंयुतम् |
पुष्पदन्त गृहाणेमं वास्तुदोषं प्रणाशय ||


S. 119, Bali-Formel für den Asura-Herrn
मधुना साधितं पिष्टं गन्धाद्यैरुपशोभितम् |
बलिं गृहाणासुरेन्द्र सर्वदोषं प्रणाशय ||


S. 119, Bali-Formel für Shosha
घृतं चान्नसमायुक्तं कर्पूरादिसमायुतम् |
गृहाणेमं बलिं शोष सर्वशान्तिं प्रयच्छ मे ||


S. 119, Bali-Formel für Roga
यवजं तण्डुलं नाथ गन्धपुष्पादिशोभितम् |
गृहाणेमं बलिं रोग सर्वदोषं प्रणाशय ||


S. 119, Bali-Formel für Mrigavaha
सघृतं मोदकं चेदमन्नाद्यैरुपशोभितम् |
गृहाणेमं बलिं हव्यं मृगवाह नमोऽस्तु ते ||


S. 119, Bali-Formel für den Herrn Patalas
इदं तु कृसरान्नं मे दुग्धगन्धादिसाधितम् |
पातालेश गृहाणेमं विघ्नमत्र प्रणाशय ||


S. 119, Bali-Formel für Mukhya
नारिकेलोदकं भक्तं पीतवस्त्रादिसंयुतम् |
गृहाणेमं बलिं मुख्य वास्तुदोषं प्रणाशय ||


S. 119, Bali-Formel für Soma
दधिगन्धादिभिर्युक्तं पीतपुष्पसमन्वितम् |
बलिः प्रगृह्यतां सोम सर्वदोषं प्रणाशय ||


S. 119, Bali-Formel für Bhallataka
ओदनं घृतसंमिश्रं गन्धपुष्पसमन्वितम् |
गृहाणेमं बलिं गृह्यं भल्लाटक नमोऽस्तु ते ||


S. 119, Bali-Formel für Argala
माषान्नं तु घृताभ्यक्तं गन्धपुष्पादिमण्डितम् |
गृहाणेमं बलिं हव्यमर्गलाख्य नमोऽस्तु ते ||


S. 119, Bali-Formel für die Mutter der Daityas
क्षीरखण्डसमायुक्तं नानापुष्पोपशोभितम् |
दैत्यमातर्गृहाणेमं सर्वदोषं प्रणाशय ||


S. 120, Bali-Formel für die Göttermutter
पौरिकां मधुसंमिश्रां वस्त्रगन्धादिसंयुताम् |
गृहाणेमं बलिं गृह्यं देवमातर्नमोऽस्तु ते ||


S. 120, Bali-Formel für die versammelten Wesen
स्वर्गपातालमर्त्येषु देवता वास्तुदेवताः |
गृह्णन्त्विमं बलिं हव्यं तुष्टा यान्तु स्वमन्दिरम् ||
मातरो भूतवेताला ये चान्ये बलिकाङ्क्षिणः |
विष्णोः पारिषदा ये च तेऽपि गृह्णन्त्विमं बलिम् ||


S. 120, weitere Empfänger und Ersatzgaben
पितृभ्यः क्षेत्रपालेभ्यो बलिं दत्त्वा प्रकामतः |
अभावादुक्तमार्गस्य कुशपुष्पादिभिर्यजेत् ||


S. 120, Richtungsopfer nach dem Prayogasara
प्रयोगसारे |
वास्तुशेषः क्रियापूतः सर्वरक्षाविधानकृत् |
भूतिप्रीतिकरश्चास्मिन् दिशां बलिमुदीरयेत् ||
दिक्पालपरिषत्सर्वभूतोद्दिश्य नामभिः |
पूजाविसर्जनान्तो यः स विज्ञेयो दिशो बलिः ||
दध्यम्बुरजनीपुष्पलाजसक्तुतिलान्धसा |
द्रव्येण वितरेद्दिश्यं बलिं दिक्क्रमयोगतः ||


S. 120, Reihenfolge und Begleitworte des Richtungsopfers
सुराणां तेजसां चैव प्रजानां रक्षसामपि |
तथा जलानां प्राणानां नक्षत्राणां च तत्पुनः ||
विद्यानामधिपानां च नान्यथोक्तान् बलिं हरेत् |
सवाहनपदं प्रोक्त्वा परिवाराय शक्तये ||
तत्पार्षदेभ्यश्च ततः सर्वेभ्य इति संयुतः |
भूतेभ्यश्च क्रमाद्भूयः प्रादक्षिण्यात्क्षिपेद्बलिम् ||
द्विषत्पिशाचवेतालरक्षोरक्तार्थिनामिह |


S. 121, Nutzen und Anlässe des Richtungs-Bali
दिशां बलिर्विशेषेण सर्वसंपत्समृद्धिदः ||
वास्तौ गृहप्ररोहे भूतद्रोहे गृहप्रवेशे च |
वितते च शान्तिहोमे दिशां बलिः सिद्धये प्रयोक्तव्यः ||
इति बलिं दत्त्वा पुनस्तान् समभ्यर्च्य यथाशक्ति जप्त्वा स्तुत्वा प्रणम्य विसर्जयेत् |


Lesungshinweise: [der Abwehr]

S. 121, Verabschiedungs-Mantra
विसर्जनमन्त्रो यथा |
यान्तु देवगणाः सर्वे पूजामादाय पार्थिवीम् |
इष्टकामसमृद्ध्यर्थं पुनरागमनाय च ||
इति देवान् विसृज्य कुदालं पूजयेत् |


S. 121, Verehrung der Grabungshacke
तदुक्तं तन्त्रान्तरे |
भद्रं मुहूर्तमाश्रित्य खन्यतां वास्तुकोष्ठकम् ||
स्वर्णकुदालरूप त्वं भूमेः खननकर्मणि |
विश्वकर्मायुधो नित्यं नमस्ते चास्त्रमूर्तये ||
इति स्वर्णकुदालं प्रपूज्य खनितृपुरुषं विश्वकर्मधिया पूजयेत् |


S. 121, Vishvakarma-Dhyana und Anrufung
द्विभुजः पीतदेहस्तु जटाधारी कुजासनः |
विश्वकर्मा सदा गौरो ज्ञानमुद्राक्षसूत्रभृत् ||
विश्वकर्मन् जगद्व्यापिन् संसारसृष्टिकारक |
अत्र कुदालहस्तस्त्वं विश्वकर्मन्नमोऽस्तु ते ||
एकाशीतिकोष्ठभेदे वास्तौ विश्वात्मकर्मक |
कुदालं गृह्यतामत्र खननं कुरु साम्प्रतम् ||
इति तद्धस्ते कुदालं दक्षिणां च दद्यात् |
ततः पृथिवीं प्रार्थयेत् |


Lesungshinweise: [auf einem als kujāsana bezeichneten Sitz] Lesungshinweis: Die Sitzbezeichnung kujāsana und das Kompositum viśvātmakarmaka sind im Druck auffällig und werden nicht stillschweigend normalisiert.

S. 121, Bitte an die Erde
कुदालदारितैरत्र कीटकोटिशतैरपि ||
क्षम्यतां पृथिवीदेवि विष्णुस्थापनहेतवे |
इति पृथ्वीं संप्रार्थ्य विश्वकर्मात्मकखनितृपुरुषो वास्तुपुरुषस्य कक्षान्तरे खननं कुर्यात् |


Lesungshinweise: [dies] Lesungshinweis: Die Bitte ist grammatisch verkürzt; die Wiedergabe bewahrt den Bezug auf die durch die Hacke verletzten Lebewesen.

S. 122, günstige und ungünstige Grabungsstellen
तदुक्तं तन्त्रान्तरे |
शुभाशुभानि वास्तूनां क्रमेणैव वदाम्यहम् |
कक्षान्तरे च नित्यं च सर्वत्र भद्रमादिशेत् ||
शीर्षे चैव भवेन्मृत्युः कण्ठे वै दुःखभागिता |
हस्ते चौरभयं विद्यादुरसा पशुनाशनम् ||
जानौ विदेशगमनं पादाभ्यां च निरर्थकम् |
वामदक्षिणमित्येवं वास्तुक्षेत्रमुदीरितम् ||
निपुणः कारयेन्मन्त्री कल्याणं पूर्णताकृतम् |
समाहितमना भूत्वा खनयेद्वास्तुकक्षके ||
इति वास्तुयागविधिः |


Der Einweihungspavillon

S. 122, Bestimmung der Himmelsrichtungen
अथ दीक्षोपयुक्तमण्डपनिर्णयः |
तत्रादौ मण्डपरचनार्थं पूर्वादिदिग्ज्ञानोपायः |
तदुक्तं क्रियासारे |
कृत्वा भूमिं समां तत्र वृत्तं हस्तमितं समम् |
द्वादशाङ्गुलमानोच्चं शङ्कुं खादिरनिर्मितम् ||
अलाभे यज्ञवास्तं वा तत्र संस्थापयेत्सुधीः |
तच्छायासंस्पृशेद्यत्र तन्मध्यं मध्यमं स्मृतम् ||
तिर्यक्प्रसारयेत्सूत्रं मध्ये याम्योत्तरे स्मृते |
कोणाः स्युरन्ये चत्वारश्चतुःसूत्रप्रसारणात् ||
एवं मानपरिज्ञानं समाख्यातं यथा स्फुटम् |
ज्ञात्वैवं मण्डपादीनि कुर्यात्सम्यग्विचक्षणः ||


Lesungshinweise: [den Kreis] Nachdem der Kundige dies erkannt hat, errichte er Pavillon und weitere Anlagen sachgemäß.“ Lesungshinweis: Der Ausdruck yajñavāsta für das Ersatzholz ist im Druck gestört; die geometrische Anweisung selbst ist stark verkürzt.

S. 122–123, Aufstellen des Messpflocks
महाकपिलपञ्चरात्रे |
विषुवे तु गते सूर्ये शङ्कुमानं समाचरेत् |
खादिरं विन्यसेच्छङ्कुं द्वादशाङ्गुलविस्तृतम् ||
निश्चलीकृत्य हन्तव्यं गृहीत्वा लोहमुद्गरम् |
अथवा च स्वयं हन्यात् प्रशस्तं क्रमतो लघु ||
हन्यमाने यदा शङ्कौ हस्तात्पतति मुद्गरः |
तदा ताडयितुः शोको जायते दुस्तरो महान् ||


S. 123, Messschnur und ungünstige Zeichen
मौञ्जं कार्पासकौशेयं प्राणिवालजमेव च |
चतुर्यवपरीणाहं सूत्रं शङ्कौ तु वेष्टयेत् ||
वेष्ट्यमानं यदा सूत्रं शङ्कुं मुञ्चति तत्क्षणम् |
पुत्रस्य मरणं विद्याच्छिन्ने वै स्वविनाशनम् ||
तत्रापि नारसिंहेन होमेनाशुभनाशनम् इति |


S. 123, Zeitpunkt und Maße des Pavillons
शारदायाम् |
नक्षत्रराशिवाराणामनुकूले शुभेऽहनि |
ततो भूमितले शुद्धे तुषाङ्गारादिवर्जिते ||
पुण्याहं वाचयित्वा तु मण्डपं रचयेच्छुभम् |
पञ्चभिः सप्तभिर्हस्तैर्नवभिर्वाऽग्निनां वरम् ||


S. 123, Auslegung der Pavillonmaße
अत्र यथाश्रुतव्याख्याने कुण्डाष्टकवेद्यृत्विक्प्रचारस्थलाद्यनुपपत्त्या पञ्चभिः सप्तभिरित्यनेन द्वादशहस्तः पञ्चभिर्नवभिरित्यनेन चतुर्दशहस्तः सप्तभिर्नवभिरित्यनेन च षोडशहस्तो मण्डप इति राघवभट्टैः पदार्थादर्शे व्याख्यातम् |
ताराभक्तिसुधार्णवे नृसिंहठक्कुरैरपि तथैवोक्तम् |
एतेन द्वादशहस्तः कनीयान् चतुर्दशहस्तो मध्यमः षोडशहस्तश्चोत्तम इति त्रिविधो मण्डप उक्तः |
तदुक्तं प्रतिष्ठासारसंग्रहे |
स्वल्पो द्वादशहस्तोऽयं द्विद्विवृद्ध्या ततः क्रमात् |


S. 123, kleinere Pavillons und Höhe des Bauplatzes
यत्तु राज्ञां होमाभिषेकादिप्रयोगार्थं तु मण्डपम् |
विदध्यान्नवहस्तेन विस्तारायामसंयुतम् ||
इति तन्त्रराजवचनं तद्दीक्षातिरिक्तकर्मोपयुक्तमण्डपपरम् |
सिद्धान्तशेखरे |
स्थूलाष्टाङ्गुलोच्छ्रायं मण्डपस्थलमीरितम् |


S. 124, Pfostenmaße und Verankerung
महाकपिलपञ्चरात्रे तु |
उच्छ्रायो हस्तमानं स्यात्सुसमं च सुशोभनम् इत्युक्तम् |
शारदायाम् |
षोडशस्तम्भसंयुक्तं चत्वारस्तेषु मध्यगाः |
अष्टहस्ताः समुच्छ्रायाः संस्थाप्या द्वादशाभितः ||
पञ्चहस्तप्रमाणास्ते निरच्छिद्रा ऋजवः शुभाः |
तत्पञ्चमांशं निखनेन्मेदिन्यां तन्त्रवित्तमः ||
वास्तुशास्त्रे |
पञ्चमांशं न्यसेद्भूमौ सर्वसाधारणो विधिः |


S. 124, Überdachung
शारदायाम् |
नारिकेलदलैर्बाह्ये छादयेत्तत्समन्ततः |
नारिकेलदलैरित्युपलक्षणम् |
तथा च मेरुतन्त्रे |
नारिकेलदलैर्वंशैः कटैराच्छादयेत्पुनः |
भङ्गमारुतवृष्ट्यादेर्भयं न स्याद्यथा तथा ||
वास्तुशास्त्रेऽपि |
कटैः सच्छाद्यास्तु विजयाद्यास्तु मण्डपाः इति |


S. 124, Reihenfolge der Bauarbeiten
स्तम्भनिवेशनं चाग्नेयादिक्रमेण कार्यम् |
स्तम्भोच्छ्राये शिलान्यासे सूत्रयोजनकीलके |
खननावटसंस्कार आरम्भो वह्निगोचरे इति वचनात् ||


S. 124, innere Pfosten und geeignetes Holz
सिद्धान्तशेखरे |
मध्ये स्तम्भचतुष्कं स्यात्तन्मध्ये वेदिका मता |
वेदीकोणेषु विन्यस्य स्तम्भान् वेदस्वरूपकान् ||
पञ्चरात्रे |
सारदारुभवान् स्तम्भान् दृढान् कुर्यादृजून् समान् |
क्रियासारे |
याज्ञीयवृक्षो वेणुर्वा क्रमुकः स्तम्भकर्मणि |


S. 125, weitere und ungeeignete Pfostenhölzer
अन्ये विशुद्धवृक्षा वा भवेयुर्नपिभूरुहः ||
गृहशल्यः स्वयं शुष्कः कुटिलश्च पुरातनः |
असौम्यभूमिजनितः संत्याज्यः स्तम्भकर्मणि ||


Lesungshinweise: [die folgende Einschränkung ist unklar] Holz aus einem alten Haus, von selbst vertrocknetes, krummes oder altes Holz sowie Holz, das auf ungünstigem Boden gewachsen ist, soll man beim Pfostenbau meiden.“ Lesungshinweis: Der Schluss des ersten Halbverses napibhūruhaḥ ist nicht sicher verständlich; die Einschränkung wird nicht ergänzt.

S. 125, vier Eingänge und ihre Breite
मन्त्रमुक्तावल्याम् |
दिक्षु द्वाराणि चत्वारि विदध्यात्पञ्चमांशतः |
पञ्चरात्रे |
कनीयसि स्याद्द्विकरं चतुरङ्गुलवृद्धितः |
मध्यमोत्तमयोर्द्वारमिति कुर्यान्मनोहरम् ||


Lesungshinweise: [des Gesamtmaßes]

S. 125, Holzarten der Toranas
सोमशम्भुमते |
प्लक्षौदुम्बरिकाश्वत्थवटजास्तोरणाः क्रमात् |
पूर्वादितो विधातव्या यद्वाद्यन्तविपर्ययः ||
अलाभादेकमेवैषां सर्वाशासु निवेशयेत् |
सिद्धान्तशेखरे |
एकमेषामलाभे स्यात्तदभावे शमीद्रुमः |
जम्बूः खदिरसारश्च तालो वा तोरणे स्मृताः ||


S. 125, Gottheiten in den Toranas
महाकपिलपञ्चरात्रे |
देवास्तोरणरूपेण संस्थिता यज्ञमण्डपे |
विघ्नविध्वंसनार्थं च रक्षार्थं त्वध्वरस्य च ||
न्यसेन्न्यग्रोधमैन्द्र्यां तु याम्यां चौदुम्बरं तथा |
वारुण्यां पिप्पलं चैव कौबेर्यां प्लक्षकं न्यसेत् ||


S. 125, Benennungen und vedische Mantra-Anfänge
सुशोभनं तु पूर्वस्यामृग्वेदादिसुमन्त्रितम् |
इषे त्वेति च मन्त्रेण सुभद्राख्यं तु दक्षिणे ||
सुकर्माख्यं तु वारुण्यां सामवेदादिकेन तु |
शन्नो देवीति मन्त्रेण सुहोत्रमुत्तरे न्यसेत् ||
ऋग्वेदादीति |
अग्निमीळे पुरोहितमिति मन्त्रेणाभिमन्त्रितमित्यर्थः |
सामवेदादिकेन अग्न आयाहीति मन्त्रेण |


S. 126, Maße der Toranas
शारदायाम् |
द्वारेषु तोरणानि स्युः क्रमात्क्षीरमहीरुहाम् |
स्तम्भोच्छ्रायः स्मृतस्तेषां सप्तहस्तैः पृथक्पृथक् ||
दशाङ्गुलप्रमाणेन तत्परीणाह ईरितः |
तिर्यक्फलकमानं स्यात्स्तम्भमानार्धमानतः ||
शूलानि कल्पयेन्मध्ये तोरणे हस्तमानतः |
सप्तहस्तैरित्यधममण्डपपक्षे |


S. 126, abgestufte Toranamaße
तदुक्तं वास्तुशास्त्रे |
पञ्चहस्तप्रमाणास्ते विस्तारेण द्विहस्तकाः |
षडङ्गुलादिवृद्ध्या तु सप्तहस्तास्तथोत्तमे ||
षडङ्गुलादीति |
तेनाधममण्डपे तोरणस्तम्भयोरन्तरालभूमिर्द्विहस्ता |
मध्यमे षडङ्गुलाधिकद्विहस्ता |
उत्तमे द्वादशाङ्गुलाधिकद्विहस्ता |
एतेन मण्डपतिर्यक्फलकमानमप्युक्तं भवति |
अधमोत्तमयोः पञ्चहस्तसप्तहस्तोच्छ्रायकथनान्मध्यमे षड्ढस्तोच्छ्रायतोक्ता भवतीति सुधाणवकृतः |
शूलादि कल्पयेदिति |
त्रिशूलविन्यासः शैवशाक्तादौ |
वैष्णवे तु विशेष उक्तः |


S. 126, Zeichen der Vaishnavas und Sauras
मेरुतन्त्रे |
वैष्णवे द्वादशांशेन शङ्खचक्रगदाम्बुजान् |
प्रागादिक्रमयोगेन न्यसेत्सौरोऽपि वैष्णवः ||


S. 126–127, Fahnen und Schmuck
शारदायाम् |
दिक्षु ध्वजान्निबध्नीयाल्लोकपालसमप्रभान् |
वितानदर्भमालाभिरलङ्कुर्वीत मण्डपम् ||
प्रतिष्ठासारसंग्रहे |
पीतरक्तादिवर्णाश्च पञ्चहस्ता ध्वजाः स्मृताः |
द्विपञ्चहस्तैर्दण्डैस्ते वंशजैः संयुताः समाः ||
द्विपञ्चहस्तैर्दशहस्तैः |
अन्यत्रापि |
पञ्चहस्ता ध्वजाः कार्या वैकल्पे तु द्विहस्तकाः |
दण्डश्च दशहस्तश्च दशदिक्षु च तान् न्यसेत् ||


S. 127, Gefäße und ihre Gottheiten
हयशीर्षपञ्चरात्रे |
दर्पणैश्चामरैर्वस्त्रैः स्तम्भान् वंशैर्विभूषयेत् |
कलशैर्घण्टिकाभिश्च साधारैः कर्करैस्तथा ||
तत्र प्रतितोरणमेकैकः कलशः स्थाप्यः |
प्रतिद्वारपार्श्वे द्वौ द्वौ |
प्रतिकोणं चैवैकः |
तदुक्तम् |
गन्धपुष्पाम्बरोपेतान् कुम्भांस्तेषु विनिक्षिपेत् |
तेषु तोरणेषु |
ध्रुवं धरां वाक्पतिं च विघ्नेशं तेषु पूजयेत् |
मण्डपस्य तु कोणस्थकलशेषु क्रमादमून् ||
अमृतो दुर्जयश्चैव सिद्धार्थो मङ्गलस्तथा |
पूजाद्वारस्थकुम्भेषु शक्राद्यास्तन्मनूत्तमैः ||


Lesungshinweise: [Richtungswächter]

S. 127, Wasserkrüge und zentraler Altar
अन्यत्रापि |
मण्डपे कलशौ द्वौ द्वौ द्वारे द्वारे निवेशयेत् |
गालितोदकसंपूर्णावाम्रपल्लवशोभितौ ||
शारदायाम् |
तत्त्रिभागमिते क्षेत्रेऽरत्निमात्रसमुच्छ्रिताम् |
चतुरस्रां ततो वेदीं मण्डलाय प्रकल्पयेत् ||
त्रिपुरासारसमुच्चये |
चतुर्द्वारयुक्तं ततस्तस्य मध्ये बुधस्तत्त्रिभागैकभागेन वेदीम् |
अरत्निप्रमाणोन्नतां दर्पणान्तर्निभायां मनोहारिणीं चापि कुर्यात् ||
अत्रारत्निमात्रोन्नतां हस्तमात्रसमुच्छ्रिताम् |


S. 128, Maßbegriffe und Altarform
तैश्चतुर्भिर्भवेन्मुष्टिर्वितस्तिस्तैस्त्रिभिर्गुणैः |
अरत्निस्तद्द्वयेन स्याद्धस्तस्तद्वदतः शिवे ||
इति मन्त्रराजवचनादरत्निहस्तशब्दयोः पर्यायतोक्तेति सुधाणवकृतः |
क्रियासारेऽपि |
त्रिभागं मण्डपं कृत्वा मध्यभागे तु वेदिका |
हस्तमानं तदुत्सेधश्चतुरस्रं समं यथा ||
मेरुतन्त्रे |
त्रिद्वारं वामदीक्षायां शङ्खाभं वैष्णवे मखे |
चतुरस्रा चतुष्कोणा वेदी सर्वफलप्रदा ||


Lesungshinweise: [die Anlage] Ein viereckiger Altar mit vier Ecken gewährt alle Früchte.“ Lesungshinweis: Der Bezug der ersten beiden Formangaben ist grammatisch verkürzt; im Maßzitat ist die anfangs vorausgesetzte Einheit hier nicht erneut genannt.

S. 128, Ausstattung und Abschluss der Pavillonbeschreibung
तत्रैव |
मण्डपोपरि बध्नीयादतिश्वेतं वितानकम् |
अलङ्कुर्वीत पुष्पमालादिभिरेनं तु वेष्टयेत् ||
आम्राश्वत्थदलोद्भूतयुक्त्या दीर्घमालया |
स्तम्भान् दुकूलैः संवेष्ट्य मध्ये कुर्याच्च वेदिकाम् ||
इष्टकाभिरपक्वाभिर्हस्तविस्तृतपिण्डिकाम् |
मण्डपायामषडंशानवसप्तेषुरामकैः ||
अंशैः समुन्नतां वाऽपि तारतम्यं विलोक्य च |
सामग्र्यादेः समावेशो यथा स्यादिति मण्डपः ||
इति मण्डपलक्षणम् |


Lesungshinweise: Lesungshinweis: Die gedrängte Teilmaßangabe ist nicht eindeutig in eine Bauformel aufzulösen; die Zahlwörter werden bewahrt, ohne ein gesichertes Berechnungsverfahren vorzutäuschen.

Feuergruben und Opfergeräte

S. 128, Einleitung zu den Feuergruben
अथ कुण्डानि |
शारदायाम् |
प्राक्प्रोक्ते मण्डपे विद्वान् वेदिकाया बहिस्त्रिधा |
क्षेत्रं विभज्य मध्यांशे पूर्वादि परिकल्पयेत् ||
अष्टास्वाशासु कुण्डानि रम्याकाराण्यनुक्रमात् |
चतुरस्रं योनिमर्धचन्द्रं त्र्यस्रं च वर्तुलम् ||


S. 129, weitere Kunda-Formen und Acharya-Kunda
षडस्रं पङ्कजाकारमष्टास्रं तानि नामतः |
आचार्यकुण्डं मध्ये स्याद्गौरीपतिमहेन्द्रयोः ||
त्रिपुरासारसमुच्चयेऽपि |
वेदास्रं योनिमर्धोडुपनिभमनलास्रं सुवृत्तं षडस्रं पद्माकारं गजास्रं हरिहरहरिदारभ्य तस्यां विदध्यात् |
मध्ये वृत्तं च गौरीपतिसुरपदिशोः पण्डिताः केचिदूचुर्वायव्ये पञ्चकोणं दिशि मदनरिपोः सप्तकोणं च कुण्डम् ||


S. 129, Konstruktion des Quadrats
क्रमेणैषां लक्षणानि तत्रैव |
प्राक्सूत्रं प्रथमं निधाय विदधीतार्धेन तस्याङ्कितं मध्ये मत्स्ययुगं दिशोरमलधीः कीनाशवित्तेशयोः |
ताभ्यां सूत्रमपि प्रसार्य चतुरः कोणांस्ततो लाञ्छयेत् क्षेत्रं स्याच्चतुरस्रमत्र रचयेदन्यानि कुण्डान्यपि ||


S. 129, Konstruktion der Yoni-Form
क्षेत्रे क्षिप्त्वा बहिरिह पुरो भूतभागांशमेकं कोणादूर्ध्वं सुनिशितमतिभ्रामयेत्संगृह्य |
यावत्कोणं परमपि तथा सूत्रयुग्मस्य पातं मध्ये कुर्यादिति तदिदं मन्मथावासकुण्डम् ||


Lesungshinweise: Dies ist die Kunda in Gestalt des Wohnsitzes Manmathas.“ Lesungshinweis: Die Konstruktion ist sprachlich knapp; die Bezugspunkte der Bogenführung sind nicht vollständig eindeutig.

S. 129, Konstruktion der Halbmondform
परित्यज्य भागद्वयं पङ्क्तिभागीकृतेऽत्रोपरिष्टादधस्ताच्च विद्वान् |
परिभ्रामयेत्तेन मानेन सम्यग्भवेदर्धचन्द्राह्वयं कुण्डमेतत् ||


S. 129, Konstruktion des Dreiecks
शर्वरीशार्धभागीकृतक्षेत्रतः पार्श्वयोर्न्यस्य भागद्वयं पण्डितः |
तेन मानेन सूत्रद्वयं विन्यसेत्कुण्डमेतद्भवेद्रुद्रनेत्रास्रकम् ||


Lesungshinweise: So entsteht eine Kunda mit so vielen Ecken, wie Rudra Augen hat: ein Dreieck.“ Lesungshinweis: Die Zahlwortverbindung śarvarīśārdha ist nicht sicher aufzulösen; eine konkrete Teilungszahl wird nicht geraten.

S. 130, Konstruktion des Kreises
दिग्गजाभ्यधिकपङ्क्तिभागतः क्षेत्रतो निशितधीर्बहिर्न्यसेत् |
भागमेककमनेन सर्वतो भ्रामयेद्भवति वृत्तमुत्तमम् ||


Lesungshinweise: So entsteht ein vortrefflicher Kreis.“ Lesungshinweis: Die genaue Zahlwortkonstruktion diggajābhyadhikapaṅkti bleibt unsicher; die geometrische Anweisung wird ohne behauptete numerische Rekonstruktion wiedergegeben.

S. 130, Konstruktion des Sechsecks
भूयांशद्वयमिह बहिः पार्श्वयोर्न्यस्य मध्यात्क्षेत्राभ्यासे तु विमलमतिस्तेन मानेन कृत्वा |
पार्श्वद्वन्द्वे भयुगयुगलं सूत्रषट्कस्य पातं कुर्यात्कुण्डं भवति तदिदं तर्ककोणं मनोज्ञम् ||


Lesungshinweise: [der genannten Markierungen] Dies ergibt die ansprechende Kunda mit sechs Ecken.“ Lesungshinweis: Die gedrängte Bezeichnung bhayugayugala ist nicht eindeutig lesbar beziehungsweise deutbar; die betreffenden Markierungen bleiben lokal unbestimmt.

S. 130, Konstruktion der Lotusform
दशांशेऽत्र विन्यस्य बाह्यांशमेकं परिभ्राम्य तेनैव वृत्तं दलानाम् |
बहिर्मध्यमे कर्णिकां चापि कुर्याद्भवेदष्टपत्रं बुधः पद्मकुण्डम् ||


Lesungshinweise: So stelle der Kundige eine achtblättrige Lotus-Kunda her.“ Lesungshinweis: Die Wortverbindung zu Außenbereich und Mitte ist im Vers verkürzt; Blätterkreis und mittlere Karnika sind ausdrücklich genannt.

S. 130, Konstruktion des Achtecks
क्षेत्रे क्षिप्त्वात्र बाह्ये दिशि दिशि मिहिरद्वन्दकांशांशमेकं कृत्वा नेत्राष्टदिक्कोणं पुनरपि मतिमान् कोणतोऽर्धं गृहीत्वा |
तत्कोणाभ्यां विदध्यादिह खलु परितस्तेन मानेन चिह्नान्यष्टौ स्यात्समन्तादपि च वितनुयादष्टसूत्रप्रयोगम् ||


Lesungshinweise: Ringsum spanne er acht Schnüre.“ Lesungshinweis: Die Zahlwort- und Eckpunktreihe ist im Druck nicht sicher zu verstehen. Die acht Markierungen und acht Schnüre sind klar; die vorausgehenden Teilmaße bleiben unsicher.

S. 130, Konstruktion des Fünfecks
हयांशेऽत्र भागे बहिर्न्यस्य वृत्तं परिभ्राम्य भूयो युगांशीकृतांशैः |
त्रिभिः पट्टदैर्घ्यं भवेत्तत्पञ्चसूत्रप्रयोगादिदं तेन पञ्चास्रकुण्डम् ||


Lesungshinweise: Durch das Anlegen von fünf Schnüren entsteht damit die fünfeckige Kunda.“ Lesungshinweis: Der Bezug der Teilungen ist verkürzt.

S. 130, Konstruktion des Siebenecks
क्षेत्रव्यर्कदशांशैर्बहिरिह विनिधायैकमंशं सुवृत्तं मानेनानेन कृत्वा पुनरपि च चतुःषष्टिभागीकृतेऽत्र |
पट्टायामप्रमाणं दृढमतिरमुना सत्रिकैस्त्रिंशदंशैः कुर्यात्सप्तास्रकुण्डं भवति हि तदिदं सप्तसूत्रप्रयोगात् ||
अत्र चतुर्विंशत्यङ्गुलानि हस्तमात्रकुण्डस्य व्यासः |
तदुक्तं शारदायाम् |


Lesungshinweise: Dazu heißt es in der Sharada: Lesungshinweis: Die einleitende Zahlwortverbindung kṣetravyarkadaśāṃśaiḥ ist im Druck gestört.

S. 131, Bestimmung der Fingerbreite
चतुर्विंशत्यङ्गुलाढ्यं हस्तं यन्त्रविदो विदुः |
कर्तुर्दक्षिणहस्तस्य मध्यमाङ्गुलिपर्वणः ||
मध्यस्य दैर्घ्यमानेन मानाङ्गुलमुदाहृतम् |


S. 131, Maßfolge vom Staubteilchen zur Elle
तन्त्रान्तरे |
जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः |
प्रथमं तत्प्रमाणज्ञास्त्रसरेणुं प्रचक्षते ||
त्रसरेणवस्ते त्वष्टौ वालाग्रं तत्स्मृतं बुधैः |
वालाग्राण्यष्ट लिक्षा तु यूका लिक्षाष्टकं स्मृतम् ||
अष्टौ यूका यवं प्राहुरङ्गुलं तु यवाष्टकम् |
हस्तश्चतुर्विंशतिभिरङ्गुलैः समुदाहृतम् ||


S. 131, Vergrößerung über die Diagonale
द्विहस्तादौ तद्द्विगुणादिवृद्धिप्रकारस्तु एकहस्तकुण्डकोणसूत्रेण द्विहस्तकुण्डमध्यसूत्रं तत्तत्कोणसूत्रेण चतुर्हस्तकुण्डमध्यसूत्रमवगन्तव्यम् |
एवमग्रेऽपि |
तदुक्तं गौतमीयतन्त्रे |
कर्णसूत्रप्रमाणेन द्विहस्तं कुण्डमुद्धरेत् |
सर्वकुण्डेषु सर्वत्र वर्धयेद्विधिनाऽमुना ||
अत्र कर्णसूत्रपदं कोणसूत्रपरम् |
तदुक्तं तत्रैव |
पूर्वपूर्वस्य कुण्डस्य कोणसूत्रं तु यद्भवेत् |
उत्तरोत्तरकुण्डानां मानं तदुदीरितम् ||


S. 131, Größenreihe und Anwendungsbereich
एतेन द्विहस्तकुण्डस्य चतुस्त्रिंशदङ्गुलानि व्यासः |
एकचत्वारिंशदङ्गुलानि पञ्च यवाश्च त्रिहस्तस्य |
अष्टचत्वारिंशदङ्गुलानि चतुर्हस्तस्य |
त्रिपञ्चाशदङ्गुलानि षड्यवाश्च पञ्चहस्तस्य |
अष्टपञ्चाशदङ्गुलानि सप्त यवाश्च षड्ढस्तस्य |
त्रिषष्टिरङ्गुलानि चत्वारो यवाश्च सप्तहस्तस्य |
सप्तषष्टिरङ्गुलानि सप्त यवाश्चाष्टहस्तस्य |
द्वासप्ततिरङ्गुलानि नवहस्तस्य |
पञ्चसप्ततिरङ्गुलानि सप्त यवाश्च दशहस्तस्य |
एकहस्तकुण्डस्य क्षेत्रफलं तु षट्सप्तत्यधिकपञ्चशताङ्गुलानि |
एवं द्विहस्तादावपि बोद्धव्यम् |
यद्यपि हस्तमात्रकुण्डस्यैव दीक्षोपयुक्तत्वेन द्विहस्तादिकुण्डानि दीक्षायामनुपयुक्तानि तथापि च वक्ष्यमाणपुरश्चरणाङ्गहोमे उपयुज्यन्त इति प्रदर्शितानि |
खातमानं मेखलालक्षणं च त्रिपुरासारसमुच्चये |


S. 132, Tiefe und Umfassung der Kunda
यावन्मानं कुण्डविस्तार उक्तं तावत्खातस्यापि मानं प्रदिष्टम् |
कुण्डाकारं पण्डितो यद्विधत्ते तादृग्रूपं मेखलायां विदध्यात् ||


S. 132, vereinfachte Anzahl der Kundas
एतावत्कुण्डकरणाशक्तस्तु पञ्चकुण्डानि कुर्यात् |
तत्राप्यशक्तस्तु एकमेव कुण्डं कुर्यात् |
नव पञ्चाथ चैकं वा कर्तव्यं लक्षणान्वितम् |
इत्याम्नायरहस्यवचनात् |
अथाशक्तौ तु चत्वारि दिक्षु कुण्डानि तानि वै |
तदशक्तावेकमेव चतुरस्रं प्रकल्पयेत् ||
इति मेरुतन्त्रवचनाच्च |
पञ्चकुण्डपक्षे तन्निवेशनं ज्ञानरत्नावल्यामुक्तम् |
दिक्षु वेदास्रवत्तानि पद्मं त्वैशानगोचरम् |
इत्येककुण्डपक्षे तन्निवेशनमुक्तमाचार्यैः |
अथवा दिशि कुण्डमुत्तरस्यां प्रविदध्याच्चतुरस्रमेकमेव इति |


S. 132, runde Kunda und Halszone
पिङ्गलामते |
कुण्डमेककरं वृत्तं मेखलाकण्ठनाभिमत् |
नित्ये कर्मणि दीक्षायां शान्तौ पुष्टौ मतं शुभम् ||
कण्ठमानमाह महाकपिलपञ्चरात्रे |
चतुर्विंशतिभागेन कण्ठो वै परिकीर्तितः |
खाताद्बाह्योऽङ्गुलः कण्ठः सर्वकुण्डेष्वयं विधिः ||
चतुर्विंशतिमं भागमङ्गुलं परिकल्पयेत् |


S. 132, Anzahl der Mekhalas und Yoni
तिस्रः कुण्डे मेखला मेखले द्वे यद्वा चैकां मेखलां वै प्रकुर्यात् |
कुर्यादूर्ध्वं मेखलाया गजोष्ठाकारां योनिं चापि होतुर्दिशीह ||


S. 133, Rangordnung der Mekhalas
एतेन योनेः कुण्डाङ्गत्वमुक्त्वा तस्याः स्थानस्वरूपदिङ्नियमाश्चोक्ताः |
क्रियासारे |
नाभियोनिसमायुक्तं कुण्डं श्रेष्ठं त्रिमेखलम् |
कुण्डं द्विमेखलं मध्यं नीचं स्यादेकमेखलम् ||
सोमशम्भौ |
त्रिमेखलं द्विजे कुण्डं क्षत्रियस्य द्विमेखलम् |
मेखलैका तु वैश्यस्य … इति ||
कुण्डतारतम्यतो मेखलातारतम्यमुक्तम् |


S. 133, Mekhala-Maße kleiner Kundas
त्रिपुरासारसमुच्चये |
मुष्टिमात्रे तु ता मेखलास्त्र्यङ्गुलैकाङ्गुलार्धाङ्गुलोत्सेधताराः क्रमात्स्युः |
अरत्निमात्रे तु तास्त्र्यङ्गुलार्धाङ्गुलैकाङ्गुलोत्सेधतारा भवेयुः पुरस्तात् ||
युग[अस्पष्टम्]नेत्राङ्गुलोत्सेधताराः स्युरेताः क्रमाद्धस्तमात्रे तु कुण्डे |
करद्वन्द्वमात्रे रसाम्भोधिवह्न्यङ्गुलोत्सेधतारा भवेयुः पुरस्तात् ||


Lesungshinweise: [unsicheres Mittelmaß] Bei einer Ein-Hasta-Kunda betragen Höhe und Breite der Reihe nach vier, [unsicheres Mittelmaß] und zwei Fingerbreiten. Bei einer Zwei-Hasta-Kunda haben sie sechs, vier und drei Fingerbreiten als Höhe und Breite.“ Lesungshinweis: Die Reihenfolge bei der Aratni-Kunda ist auffällig, bleibt aber erhalten. Das mittlere Zahlwort der Ein-Hasta-Reihe ist beschädigt; die Druckanmerkung nennt Agni, also drei, als Erklärung beziehungsweise Lesung.

S. 133, Mekhala-Maße größerer Kundas und Lotusnabel
वेदकरेऽस्मिन् सिन्धुरतर्कत्र्यङ्गुलतारोत्सेधयुताः स्युः |
षट्करमात्रेऽस्मिन् दश[अस्पष्टम्]द्वङ्गुलतारोत्सेधसमेताः ||
भास्करपङ्क्तिगजाङ्गुलतारोत्सेधयुताः स्युरिमा वसुहस्ते |
नाभिमिहाम्बुजमेव विदध्यादष्टदलं सहकर्णिकयाऽन्तः ||


Lesungshinweise: [eine unklare Zahl] Im Innern bilde man als Nabel einen achtblättrigen Lotus mit Karnika.“ Lesungshinweis: In der Sechs-Hasta-Reihe ist die mittlere Maßangabe unleserlich; auch die klare letzte Zahl zwei ist im Zusammenhang auffällig und wird nicht zu einem erwarteten Wert geändert.

S. 134, Maße von Yoni und Nabel
नाभिमिति |
कुण्डमध्ये सकर्णिकाष्टदल कमलरूपां नाभिं कुर्यादित्यर्थः |
तत्रैव योन्यादेः कुण्डपरिमाणानुसारे परिमाणमुक्तम् |
मुष्टिमात्रे रसाम्भोधिनेत्राङ्गुलायामतारोन्नतिर्योनिरुक्ता बुधैः |
नेत्रवेदाङ्गुलोत्सेधतारान्विता नाभिरप्यत्र योन्यग्रमेकाङ्गुलम् ||
योन्या लक्षणमेतद्गदितमरत्निमात्रकुण्डस्य |
कुण्डस्यैव मयोक्तं तदेव खलु हस्तमात्रस्य ||


S. 134, Vergrößerung und besondere Formen
द्विहस्तादिकुण्डेषु योन्यादिवृद्धिप्रकारस्तत्रैव |
एकैकेनाङ्गुलेनामलनिशितमतिर्वर्धयेदन्यकुण्डेष्वेनां योनिं च नाभिं खलु यवयुगलेनेह योन्यास्तथोष्ठम् |
कुर्यान्नाभिं च वृत्ताकृतिमपि यदि वा कुण्डरूपानुरूपां योन्याकारेऽत्र योनिं सरसिजसदृशे नो विदध्याच्च नाभिम् ||
कुर्यादित्यनेन नाभ्याकारविकल्प उक्तः |
योन्याकार इति |
योनिकुण्डे योनिं पद्मकुण्डे नाभिं न कुर्यादित्यर्थः |


S. 134, abweichende Yoni- und Nabelmaße
मतान्तरमाह तत्रैव |
कुण्डस्यैके हस्तमात्रस्य योनिं प्राहुर्भूतत्र्यङ्गुलायामताराम् |
व्यासत्र्यंशैकांशकोत्सेधयुक्तां कुर्याद्धिक्ष्माजपत्रानुरूपाम् ||
तत्पक्षे नाभिं तद्रचनाप्रकारं चाह |
नेत्रभूताङ्गुलोत्सेधतारान्वितां नाभिमंशद्वये तद्दलान्यष्ट च |
व्यासवह्न्यंशतोऽंशेन तत्कर्णिकां मध्यभागे विदध्याद्बुधः कुण्डतः ||


Lesungshinweise: Die Karnika lege der Kundige in der Mitte der Kunda mit einem Drittel des Breitenmaßes an.“ Lesungshinweis: Die Baumbezeichnung hikṣmāja ist gestört; auch der Bezug der zwei Teile bei den Blättern ist verkürzt.

S. 134–135, Randbreite und vedische Ausführung
नेमिपरिमाणमाह तत्रैव |
कुण्डस्यैककरस्य चारु परितो नेमिर्भवेदङ्गुलेनैकेनैव ततो विलोचनकरादारभ्य संवर्धयेत् |
कुण्डे दिक्करकुण्डकावधि बुधः प्रत्येकमर्धाङ्गुलं तद्बाह्ये खलु मेखलात्रितयकं कुर्याद्यथोक्तक्रमात् ||
वैदिकमते तु नाभिकण्ठयोन्यो न कल्प्याः |
ख्यातान्येतानि कुण्डानि तान्त्रिके स्मार्तकर्मणि |
अनाभिकान्यकण्ठानि वियोनीति श्रुतारिते ||
इति मेरुतन्त्रवचनात् |


Lesungshinweise: [Ritualen]

S. 135, Abflussrinne
नालमानम् शारदापञ्चरात्रयोः |
स्थलादारभ्य नालं स्याद्योन्या मध्ये सरन्ध्रकम् |
स्थूलमूलं तु सूक्ष्माग्रं बाह्यमेखलया समम् इति ||
ज्ञानार्णवे |
मेखलानां बहिःस्थानं स्थलमित्यभिधीयते |
चतुरस्रस्थलादूर्ध्वं नालं मध्ये सरन्ध्रकम् ||


S. 135, Kundagröße nach der Opferzahl
आहुतितारतम्यतः कुण्डानां तारतम्यमुक्तम् त्रिपुरासारसमुच्चये |
शतार्धहोमे खलु मुष्टिमात्रमरत्निमात्रं शतहोमकुण्डम् |
हस्तं सहस्रे त्वयुते द्विहस्तं लक्षे चतुर्हस्तमिदं प्रदिष्टम् ||
दशलक्षे रसहस्तं वसुहस्तं कोटिहोमे स्यात् |
कोट्यर्धेष्वष्टकरं होमेऽप्यागमविदो ब्रुवते ||


S. 135–136, andere Abstufung nach Opferzahlen
मतान्तरमाह |
केचिद्धस्तं लक्षहोमे द्विहस्तं लक्षद्वन्द्वे वह्निलक्षे त्रिहस्तम् |
होमे कुण्डं वेदहस्तेऽब्धिलक्षं प्राहुर्दोष्णां पञ्चकं पञ्चलक्षे ||
रसहस्तं रसलक्षे सप्तकरं सप्तलक्षे स्यात् |
वसुहस्तं वसुलक्षे नवलक्षे नवकरं कुण्डम् ||
दशहस्तं दशलक्षे दशकरमेवेह कोटिहोमेऽपि |
दशहस्तान्न हि कुण्डं परमस्ति महीतलेऽमुष्मिन् ||


S. 136, Früchte der einzelnen Formen
कुण्डानां पृथक्पृथक्फलं तत्रैव |
सर्वसिद्धिकरमम्बुधिकोणं पुत्रदं मनसिजावसथान्तम् |
अर्धचन्द्रसदृशं शुभदं स्याद्वह्निकोणमरिवर्धनहेतुः ||
शान्तिकर्मणि भवेत्सुवृत्तं क्षेदमारणकरं षडस्रकम् |
पद्मकुण्डमिह वृष्टिकारणं रोगशान्तिकरमष्टकोणकम् ||


Lesungshinweise: Die Lotus-Kunda bewirkt Regen, die achteckige die Befriedung von Krankheiten.“ Lesungshinweis: arivardhana, „Anwachsen von Feinden“, ist im Zusammenhang auffällig und bleibt als Drucklesung erhalten.

S. 136, soziale Zuordnung und weitere Wirkungen
वर्णभेदेन कुण्डभेदमाह |
चतुरस्रं विप्राणां राज्ञामिह वर्तुलं कुण्डम् |
वणिजामर्धशशाङ्काकारं त्र्यस्रं तु शूद्राणाम् ||
चतुरस्रं सर्वेषां प्रशस्तमिति केचिदाहुराचार्याः |
वाञ्छितफलदं यत्तत्कुण्डं भुवि भुक्तिमुक्तिकरम् ||
षट्कोणमर्धचन्द्राकारं चापि प्रजाकरं कुण्डम् |
मुक्तिकरं पञ्चास्रं वसुकोणं राज्यदा योनिः ||


S. 136, einfache Feuerstätten für regelmäßige Rituale
तथा |
नित्ये नैमित्तिके च प्रविमलमतयः प्राहुरेकेऽब्धिकोणं कुण्डं हस्तप्रमाणं स्मरगृहसदृशं चाथ वृत्तं प्रशस्तम् |
षट्कोणं चार्धदोषाकरसदृशयुतं स्थण्डिलं रत्निमात्रायामं स्वादष्टपर्वोन्नतमपि सुसमं निर्मितं वालुकाभिः ||


Lesungshinweise: Auch ein aus Sand errichteter, gut geebneter Sthandila von einer Aratni Länge und acht Fingergliedern Höhe ist geeignet.“ Lesungshinweis: Die Verbindung zwischen der Formenreihe und dem Sthandila sowie das Kompositum vor der Höhenangabe sind im Druck gestört; die Wiedergabe bleibt an dieser Stelle vorläufig.

S. 136, Warnung vor fehlerhaften Maßen
मेरुतन्त्रे |
अनेकदोषं वै कुण्डं मानं न्यूनाधिकं यदि |
तस्मात्सम्यक्परीक्ष्येदं कर्तव्यं शुभमिच्छता ||
खाताधिके भवेद्रोगी हीने धेनुधनक्षयः |
वक्रकुण्डे तु सन्तापो मरणं छिन्नमेखले ||


S. 137, weitere Fehler und Abschluss der Kunda-Lehre
मेखलारहिते शोकोऽभ्यधिके वित्तसंशयः |
भार्याविनाशकं कुण्डं प्रोक्तं योन्या विना कृतम् ||
अपत्यध्वंसनं प्रोक्तं कुण्डं यत्कण्ठवर्जितम् |
शृङ्गाररहितं यच्च कुण्डं जर्जरमेखलम् ||
यजमानविनाशाय प्रोच्चाटः स्फुटितो भवेत् |
सूत्राधिके सुहृद्द्वेषः सूत्रहीने दरिद्रता ||
अनाले जठरे रोगश्छिन्नकुण्डे त्ववाच्यता |
इति कुण्डलक्षणम् |


Lesungshinweise: [wird als unheilvoll für den Auftraggeber beschrieben] Eine schmucklose Kunda mit beschädigter Mekhala und Rissen [wird als unheilvoll für den Auftraggeber beschrieben]. Lesungshinweis: Die Satzverbindung um proccāṭaḥ ist gestört; die ausdrücklich genannte Schädigung des Auftraggebers wird wiedergegeben, die unklare Einzelbezeichnung bleibt offen.

S. 137–138, Abbildungen der Kunda-Formen
चतुरस्रम् |
योनिः |
अर्धचन्द्रम् |
त्र्यस्रम् |
वृत्तम् |
षडस्रम् |
पद्मम् |
अष्टास्रम् |
पञ्चास्रम् |
सप्तास्रम् |


Buchseite und Position Gedruckte Bezeichnung Sichtbare Zeichnung
137, oben links चतुरस्रम् Ein Quadrat ist einem Kreis eingeschrieben.
137, oben rechts योनिः Eine spitz zulaufende Yoni-Konstruktion aus Kreisbögen, mit senkrechter Mittelachse, waagerechter Sehne und zwei unteren Hilfsbögen.
137, unten links अर्धचन्द्रम् Sichtbar ist ein in einen Kreis eingeschriebenes Dreieck; die gedruckte Halbmond-Beschriftung passt nicht dazu.
137, unten rechts त्र्यस्रम् Sichtbar sind ein Halbkreis über einer Grundlinie und ein überlagerter Vollkreis; die gedruckte Dreieck-Beschriftung passt nicht dazu.
138, oben links वृत्तम् Ein einfacher Kreis.
138, oben rechts षडस्रम् Ein Fünfeck im Kreis; die handschriftliche Korrektur bezeichnet es als Fünfeck.
138, Mitte links पद्मम् Lotus-Konstruktion mit Außenkreis, innerem Kreis, radialen Hilfslinien und acht Blättern.
138, Mitte rechts अष्टास्रम् Ein Achteck im Kreis.
138, unten links पञ्चास्रम् Ein Siebeneck im Kreis; die handschriftliche Korrektur bezeichnet es als Siebeneck.
138, unten rechts सप्तास्रम् Ein Sechseck im Kreis; die handschriftliche Korrektur bezeichnet es als Sechseck.

S. 139, Sthandila
स्थण्डिललक्षणम् शारदायाम् |
कुण्डमेकविधं कृत्वा स्थण्डिलं तु समाचरेत् |
चतुरस्रं स्थण्डिलं तु प्रशस्तं सर्वकर्मसु ||
चन्द्रपीठे तु |
त्रिरस्रं चतुरस्रं च वितस्त्युच्छ्रयसंमितम् |
सिकताद्यैर्विधातव्यं स्थण्डिलं हस्तमात्रकम् इत्युक्तम् ||


S. 139, Holz und Grundmaße des Sruc
अथ स्रुग्लक्षणम् शारदायाम् |
प्रकल्पयेत्स्रुचं यागे वक्ष्यमाणेन वर्त्मना |
श्रीपर्णीशिंशपाक्षीरशाखिष्वेकतमं गुरुः ||
गृहीत्वा विभजेद्धस्तमात्रं षट्त्रिंशता पुनः |
विंशत्यंशैर्भवेद्दण्डो वेदिस्तैरष्टभिर्भवेत् ||
एकांशेन मितः कण्ठः सप्तभागमितं मुखम् |
वेदित्र्यंशेन विस्तारः कण्ठस्य परिकीर्तितः ||
अग्रं कण्ठसमानं स्यान्मुखे मार्गं प्रकल्पयेत् |
कनिष्ठाङ्गुलिमानेन सर्पिषो निर्गमाय च ||


S. 139, Schale und Ausgestaltung des Sruc
वेदिमध्ये विधातव्या भागेनैकेन कर्णिका |
विदधीत बहिस्तस्या एकांशेनाभितोऽवटम् ||
तस्य खातं त्रिभिर्भागैर्भवेत्तद्भागतो बहिः |
अंशेनैकेन परितो दलानि परिकल्पयेत् ||
मेखलामुखवेद्योः स्यान्नेमिर्भागार्धमानतः |
दण्डमूलाग्रयोः कुम्भो गुणवेदाङ्गुलैः क्रमात् ||
गण्डीयुगं यमांशैः स्याद्दण्डस्यानाह ईरितः |
षड्भिरंशैः पृष्ठभागो वेद्याः कूर्माकृतिर्भवेत् ||


Lesungshinweise: Die Rückseite der Schale sei schildkrötenförmig.“ Lesungshinweis: Die Maßbezüge der Vertiefung und der Gelenkstücke sind im Druck verkürzt; sie werden nicht zu einem eigenständig berechneten Werkplan ergänzt.

S. 140, Tierkopf und Erläuterung der Maße
हंसस्य हस्तिनो वाऽपि पोत्रिणो वा लिखेन्मुखम् |
मुखस्य पृष्ठभागे तु संप्रोक्तं लक्षणं स्रुचः ||
श्रीपर्णी गम्भारीति प्रसिद्धा |
क्षीरशाखिनोऽश्वत्थोदुम्बरवटवृक्षाः |
हस्तमात्रमिति बाहुमात्रमित्यर्थः |
स्रुचं बाहुप्रमाणेन होमार्थं विदधीत वै |
इत्यगस्त्यसंहितावचनात् |
गण्डी कल्लः |


S. 140, Materialien der Opferlöffel
फेत्कारिणीतन्त्रे |
कारस्करेणामलकीपलाशखदिरैरपि |
सुवर्णरूप्यताम्रैर्वा अयोभिरपि कारयेत् ||
वायवीसंहितायाम् |
स्रुक्स्रुवौ तैजसौ ग्राह्यौ न कांस्यायससीसकौ |
यज्ञदारुमयौ वापि तान्त्रिकौ शिल्पिसंमतौ ||
पर्णौ वा ब्रह्मवृक्षादेरच्छिद्रे मध्य उच्छ्रिते |
अत्रायसे विधिनिषेधौ क्रूरसौम्यविषयौ |


Lesungshinweise: Auch zwei unbeschädigte, in der Mitte erhöhte Blätter des Brahmavriksha oder entsprechender Bäume sind möglich.“ Erlaubnis und Verbot von Eisen beziehen sich hier auf grausame beziehungsweise sanfte Ritualhandlungen.

S. 140, Metallwahl und einfache Blätterlöffel
तदुक्तं तन्त्रान्तरे |
सौवर्णौ स्रुक्स्रुवौ स्यातां सौम्यकर्मणि सर्वतः |
भवेतामायसावेतौ स्तम्भनादिषु कर्मसु ||
वसिष्ठसंहितायाम् |
पलाशपत्रे निश्छिद्रे रुचिरे स्रुक्स्रुवौ मतौ |
विदध्याद्वाऽश्वत्थपत्रे शान्तिके होमकर्मणि ||


Lesungshinweise: Für Stambhana und entsprechende Handlungen seien beide aus Eisen.“ In der Vasishtha-Samhita: „Zwei schöne, unbeschädigte Palasha-Blätter gelten als Sruc und Sruva.

S. 140, Kanal für das Ghee
मन्त्रमुक्तावल्याम् |
कण्ठाधः कारयेन्मार्गं विद्वानाज्यस्य दुर्गमे |
वेधं च मुखतः कुर्यात्तप्तलोहशलाकया ||


S. 140–141, Merkmale des Sruva
अथ स्रुवलक्षणम् शारदायाम् |
स्रुचश्चतुर्विंशतिभिर्भागैरारचयेत्स्रुवम् |
द्वाविंशत्या दण्डमानमंशैरेतस्य कीर्तितम् ||
चतुर्भिरंशैरानाहः कर्षाज्यग्राहितच्छिरः |
अंशद्वयेन निखनेत्पदं गोष्पदाकृतिः ||
दण्डमूलाग्रयोर्गण्डी भवेत्कङ्कणभूषिता |
स्रुवस्य विधिराख्यात … इति ||


Ankurarpana: die rituelle Aussaat

S. 141, Zeitpunkt des Ankurarpana
अथाङ्कुरार्पणम् शारदायाम् |
प्रागेव दीक्षादिवसात्सप्तभिर्विधिवद्दिनैः |
सर्वमङ्गलसंपत्त्यै विदध्यादङ्कुरार्पणम् ||
सिद्धान्तशेखरे |
प्रतिष्ठायां च दीक्षायां स्नापने चोत्सवे तथा |
संप्रोक्षणे च शान्त्यर्थं विवाहे मौञ्जिबन्धने ||
सर्वमङ्गलकार्येषु विदध्यादङ्कुरार्पणम् |


S. 141, Ort der Aussaat
मेरुतन्त्रे |
सप्तभिर्नवभिर्वाऽपि दिनैर्दीक्षादिनात्पुरा |
बीजारोपणकर्मेदं कर्तव्यं सर्वकामदम् ||
मण्डपोत्तरदिग्भागे सुसंवृतपरं परे |
भवने मण्डलं कुर्यादुदक्षिणं प्राग्वरुणायते ||
याम्योदीच्यायते वामदीक्षायां संप्रशस्यते |
भवन इति मण्डपान्तरे तच्च दक्षिणैकद्वारयुक्तं ज्ञेयम् |


Lesungshinweise: Lesungshinweis: Die Wortverbindung um udakṣiṇam ist gestört; die anschließende werkseigene Glosse klärt den südlichen Eingang.

S. 141, Linien und Felder für die Aussaat
तथा |
गोमयेनोपलिप्तायां भूमौ दक्षेऽथ वामके |
सतेलतण्डुलेनैव सतेलविजयाद्रवैः ||
तत्र रेखाः पञ्चकरदीर्घाकारास्तु पञ्च च |
वितस्त्यन्तरतो रेखाः कार्यास्तथाऽऽयताः ||
चत्वारिंशत्कोष्ठकाः स्युश्चतुर्विंशतिकोष्ठकैः |
बाह्यगैस्तत्र वीथी स्यात्पूरयेद्रक्तचूर्णकैः ||


Lesungshinweise: Vierundzwanzig äußere Felder bilden den Umgang; man fülle ihn mit rotem Farbpulver.“ Lesungshinweis: Die Zuordnung der beiden Zeichenmittel zu rechtem und linkem Verfahren ist knapp ausgedrückt; die überlieferten Feldzahlen werden beibehalten.

S. 142, Brahma-, Vishnu- und Rudra-Felder
पश्चात्कोष्ठचतुष्कं यद्ब्रह्मस्थानं तदीरितम् |
आग्नेयकोष्ठमारभ्य ईशानान्तं प्रपूरयेत् ||
पीतरक्तश्वेतकृष्णरजोभिः श्रेष्ठमार्गतः |
कोष्ठद्वयं ततो वीथी रक्तेनैव प्रपूरयेत् ||
विष्णुस्थानं तदग्रे तु ज्ञेयं कोष्ठचतुष्टयम् |
प्राग्वद्रजोभिरापूर्य तदग्रेऽपि च वीथिका ||
प्राक्स्थं कोष्ठचतुष्कं च रुद्रस्थानं तदीरितम् |
तत्पूर्णं पूर्ववद्वर्णैरारक्तैः सर्वरेखिकाः ||


S. 142, Aussaatgefäße für Vishnu
विस्तारोन्नतिदैर्घ्येण हस्तमात्रास्तु पालिकाः |
कार्या डमरुकाकाराश्चतस्रो विष्णुदेवताः ||
दूर्वाम्रपल्लवाश्वत्थदलोपेताश्च वेष्टिताः |
सूत्रेण विष्णुस्थानस्य चतुष्कोष्ठे निवेशयेत् ||


S. 142, Aussaatgefäße für Brahma und Shiva
वैरिञ्च्यः पञ्चमुख्यस्ताः कोष्ठजाः षोडशाङ्गुलैः |
आयामोच्छ्रायदैर्घ्यैर्युक्ताः पश्चान्निवेशयेत् ||
ब्रह्मस्थाने पल्लवादिसूत्रैः प्राग्वच्च योजिताः |
शैवाः शरावाश्चत्वारो भान्वङ्गुलसमुच्छ्रयाः ||
प्रक्षाल्य सूत्रैः संवेष्ट्य प्राग्वदग्न्यादिषु न्यसेत् |
शालिपुञ्जेषु गन्धादिदर्भकूर्चयुगेषु च ||


Lesungshinweise: Man wasche sie, umwinde sie mit Schnüren und stelle sie wie zuvor in der Reihenfolge auf, die im Südosten beginnt: auf Reishäufchen mit Duftstoffen und je zwei Darbha-Büscheln.“ Lesungshinweis: Der Ausdruck koṣṭhajāḥ vor den Brahma-Gefäßen ist nicht eindeutig; ein zusätzliches Material wird nicht daraus ergänzt.

S. 142, Erläuterung der Gefäßformen
डमरुकाकृतयोऽतिगम्भीराः शरावा एव पालिकाः |
मुखपञ्चकयुक्तास्तु कलशा एव पात्रविशेषाः पञ्चमुख्यः |
तदुक्तं तन्त्रान्तरे |
दिक्षु चत्वारि वक्त्राणि मुखमेकं तदूर्ध्वगम् इति |
मेरौ |
पूरयेत्तानि पात्राणि वालुकामृत्करीषकैः |
करीषं शुष्कगोमयम् |


S. 143, feierliches Holen der Erde
मृत्तिकाहरणे विशेष उक्तः सिद्धान्तशेखरे |
गन्धादिभिश्च कुदालं पूजयित्वा दिनान्तरे |
गीतनृत्यसमायुक्तं गजवाजिसमन्वितम् ||
गुर्वादयो रथारूढा गजारूढास्तथाऽपरे |
गत्वा तीरं तडागस्य नद्याः पुष्पवनस्य वा ||
तत्र शुद्धं भुवो भागं दर्भैः संमृज्य चाततः |
अभ्युक्ष्य चार्घ्यतोयेन तत्तन्मन्त्रमनुस्मरेत् ||
हृदा भूमिं समावाह्य गन्धपुष्पैः समर्चयेत् |
कुदालीमस्त्रमन्त्रेण खात्वा भूमिमथो मृदम् ||
गृहीत्वा वामदेवेन पूरयेत्कांस्यपात्रके |
हृदा मृदं च संपूज्य वस्त्रेणाच्छाद्य धारयेत् ||
पुरं वा निलयं वापि सर्वमङ्गलनिःस्वनैः |
गुरुप्रदक्षिणं कृत्वा मण्डपं त्वानयेत्ततः ||
एतत्कर्म दिवाकाले कुर्याद्रात्रौ न बुद्धिमान् |


Lesungshinweise: [weihe man] [und den Guru] Der Kundige führe diese Handlung tagsüber aus, nicht nachts.“ Lesungshinweis: Der syntaktische Anschluss von gurupradakṣiṇam in der Umzugsanweisung ist unklar.

S. 143, Tag für die Erde und Nacht für die Aussaat
एतत्कर्मेति मृत्तिकाहरणकर्मेत्यर्थः |
बीजारोपणं तु रात्रावेव |
कुजानामधिपः सोमस्तस्माद्रात्रौ तु निर्वपेत् |
इति तत्रत्यादेव वचनात् |


S. 143, Samenweihe und Aussaat
तथा |
शङ्खस्वनेन नादैश्च पञ्चभिर्ब्राह्मणाशिषा |
ततः स्वमृत्तिके पात्रे दश बीजानि वापयेत् ||
वं बीजं प्रजपेन्मन्त्री दुग्धेन क्षालयेत्ततः ||
मूलमन्त्राभिजप्तानि … इति शारदायाम् |


Lesungshinweise: [herbeigeholten] [die Samen]

S. 143–144, zehn Samenarten
तथा |
तानि प्रियङ्गुश्यामाकतिलसर्षपशालयः |
मुद्गाढकीसुनिष्पावा खल्वा माषाः प्रकीर्तिताः ||
श्यामाका भाषया सामा इति प्रसिद्धा |
आढकी भाषया रहर इति प्रसिद्धा |
निष्पावः सिम्बिः |
खल्वाः कुलित्थाः |


S. 144, Aussaatfolge und tägliche Gaben
तथा |
ब्रह्मपात्रे तु विकिरेत्प्रथमं वैष्णवे ततः |
ततः शैवे पञ्चवाद्यब्रह्मघोषपुरस्सरम् ||
हरिद्राद्यैश्च संसिच्य वस्त्रैराच्छादयेत्ततः |
संध्ययोरुभयोर्धरात्रौ चापि बलिं हरेत् ||
गुरूपदिष्टमार्गेण सम्यक्पात्रत्रयायतः |
नवाहं तु बलिं दद्यात्तत्तदुद्दिश्य दैवतम् ||


Lesungshinweise: Nach dem vom Guru gelehrten Verfahren, den drei Gefäßgruppen entsprechend, bringe man neun Tage lang Bali dar, jeweils an die betreffende Gottheit gerichtet.“ Lesungshinweis: Die Form ardharātrau ist im Druck verkürzt; der Apparat bietet eine abweichende Verbindung mit „danach, nachts“.

S. 144, Gaben an den ersten vier Tagen
शाल्योदनं तिला लाजाः सक्तवः प्रथमे दिने |
हरिद्राचूर्णसंयुक्तो भूतेभ्योऽयं बलिर्मतः ||
एवं द्वितीयदिवसे पितृभ्यस्तिलतण्डुलैः |
तृतीये सक्तवो लाजा यक्षेभ्यो दधिसंयुताः ||
नागेभ्यः सक्तवस्तुर्ये नारिकेलजलप्लुताः |


S. 144, Gaben vom fünften bis neunten Tag
दद्यात्पद्माक्षतबलिं पञ्चमे ब्रह्मणे मुदा ||
षष्ठे शिवाय वापूपयुक्तं भक्तं प्रशस्यते |
गुडोदकं सप्तमेऽह्नि विष्णवे विनिवेदयेत् ||
विष्णोरिवाष्टमदिने दुग्धौदनबलिः स्मृतः |
कृसरान्नं तु नवमे विष्णोरेव प्रशस्यते ||


S. 144–145, abweichende Gaben im Vama-Weg
वाममार्गे तु विशेष उक्तस्तत्रैव |
वाममार्गे चतुर्दिक्षु मण्डलस्य बलिं हरेत् ||
ब्रह्मस्थाने तु वेतालो मेषस्तस्य बलिः पुरः |
विष्णुस्थाने भैरवी स्यादजस्तस्य बलिर्मतः ||
भैरवस्तु शिवस्थाने महिषं बलिमिच्छति |
गौडी माध्वी च पैष्टी च सुरास्तत्र क्रमान्मताः ||
मत्स्यमांसं मद्ययुक्तं भूतेभ्यो बलिरिष्यते |
पितृभ्यः सासवपलं यक्षेभ्यः कुक्कुटो मधु ||
भेकोन्दुरुबलिर्नागे वाममार्गे बलिस्त्वयम् |


S. 145, Soma-Verehrung und Zutritt
सिद्धान्तशेखरे |
सोमं संपूजयेन्नित्यमधिवासदिनावधि |
अधिवासदिने प्राप्ते सोममुद्वासयेद्गुरुः ||
सारस्वतमते |
प्ररूढान्यङ्कुराण्यन्यो न वीक्षेत्कदाचन |
आचार्य एव प्रविशेत्तच्छिष्यो वा तदाज्ञया ||


S. 145, Prüfung des Keimens
मेरुतन्त्रे |
एवं गतेषु नवसु दिवसेषु विलोकयेत् |
सम्यक्कस्योद्गमो जातः किं नष्टं मध्यमं च किम् ||
सम्यगभ्युद्गते सिद्धिः कुण्ठिते विघ्नमाप्नुयात् |
कीटभुक्तेऽत्यल्पफलं शाटिते सर्वनाशनम् ||


Lesungshinweise: Von Insekten angefressene Keimlinge bedeuten sehr geringe Frucht, zerstörte völligen Misserfolg.“ Lesungshinweis: Die Form śāṭita in der letzten Aussage bleibt lexikalisch unsicher; „zerstört“ gibt den erkennbaren Sinnzusammenhang wieder.

S. 145, Bedeutung der einzelnen Keimlinge
सिद्धिः प्रियङ्गुभिर्ज्ञेया श्यामाकैः स्त्रीसुखं भवेत् |
तिलैः पूज्यजनोल्लासः सर्षपैर्नाभिचारकः ||
शालिभिः सर्वमान्यत्वं मुद्गैर्दैवकृपा भवेत् |
चतुष्पादास्तथाढक्या निष्पावात्क्षेत्रमन्दिरे ||
खल्वैः सत्कर्मसिद्धिश्च माषैः शान्तिरथो भवेत् |
सर्वैः समुद्गतेर्बीजैः सिद्धिः पातस्ततोऽन्यथा ||


S. 145, Shanti-Homa bei misslungenem Keimen
सिद्धान्तसारे |
अङ्कुरेष्वद्गते नष्टे शान्तिहोमं समाचरेत् |
मूलमन्त्रेण जुहुयादघोरास्त्रेण वा शतम् ||
इत्यङ्कुरार्पणविधिः |


Lesungshinweise: Lesungshinweis: Die Wortform im ersten Halbvers ist beschädigt; die Aussage über ausgebliebenes beziehungsweise misslungenes Keimen ist aus dem Zusammenhang verständlich.

S. 146, Abschlussvers des zweiten Taranga
बिभ्रदद्भुतभूतिभूतपवचोवैचित्र्यचित्रामृतस्रोतःशालिनि सन्निबन्धनसरित्सम्भेदमभ्यर्हितम् ||
सद्युक्तिस्फुटमौक्तिकोत्करचमत्कारे द्वितीयस्तरङ्गोऽयं श्रीनरदेवनिर्मितपुरश्चर्यार्णवेऽस्मिन्नगात् ||


Lesungshinweise: „Dieser zweite Wogenlauf ist nun in den vom erhabenen König geschaffenen Ozean des Purashcharana eingegangen: in jenen Ozean mit seinen wunderbaren, nektarartigen Strömen vielfältiger heiliger Aussagen, in dem die Flüsse trefflicher Darlegungen zusammenfinden und die Fülle klarer Perlen guter Begründungen staunen lässt.“ Lesungshinweis: Die lange Kompositumfolge der ersten Vershälfte ist teilweise gestört.

S. 146, Kolophon des zweiten Taranga
इति श्रीमन्महाराजाधिराजश्रीप्रतापसिंहसाहविरचिते पुरश्चर्यार्णवे दीक्षाकालदेशवास्तुयागकुण्डमण्डपादिनिर्णयपूर्वकमङ्कुरार्पणविधानं नाम द्वितीयस्तरङ्गः ||


3. Taraṅga: Vorbereitung und Gottheitsverehrung bei der Einweihung

Diese Welle: Deutsch · IAST · Devanagari

S. 147, vier Arten der Diksha
अथ तरङ्गत्रये क्रियावतीदीक्षा निरूप्यते |
शारदायाम् |
चतुर्विधा सा संदिष्टा क्रियावत्यादिभेदतः |
क्रियावती वर्णमयी कलात्मा वेधमय्यपि ||
ताः क्रमेणैव कथ्यन्ते तन्त्रेऽस्मिन् संपदावहाः |


S. 147, fünf Ausführungsstufen
मेरुतन्त्रे |
शृणु देवि प्रवक्ष्यामि सर्वतन्त्रेषु गोपितम् |
दीक्षाविधिं पञ्चविधं तद्राज्ञासुत्तमोत्तमम् ||
उत्तमं महदाढ्यानां सामान्यानां तु मध्यमम् |
ब्राह्मणानामल्पमुक्तं यतीनामपि चाल्पकम् ||
तस्मादादौ प्रवक्ष्यामि तुल्यं यच्चोत्तमोत्तमम् |
यस्मिन् ज्ञाते चोत्तमादिभेदानां विषयो भवेत् ||


Lesungshinweise: Sind sie bekannt, lassen sich die vorzügliche und die weiteren Abstufungen bestimmen.“ Lesungshinweis: Die Verbindung tadrājñāsuttamottamam ist im Druck grammatisch gestört; die Zuordnung der höchsten Form zu Königen ist im Zusammenhang erkennbar.

S. 147, Vorbereitung des Schülers
प्रकृतयोगिनी |
आदौ तु भक्तिमान् शिष्यो निजदेहस्य शुद्धये |
तीर्थे स्नात्वा सहस्रं तु गायत्रीं प्रजपन्नयेत् ||
एकभक्तोपवासादिव्रतेन दिवसद्वयम् |
अधिवासस्तृतीयेऽह्नि दीक्षां तुर्येऽह्नि चाचरेत् ||
असंस्कृतेन देहेन सद्यो दीक्षां न चाचरेत् |


Lesungshinweise: Mit einem nicht vorbereiteten Körper soll man die Diksha nicht unvermittelt ausführen.“ Lesungshinweis: Die Quellenbezeichnung Prakritayogini bleibt unsicher gelesen.

S. 147, verkürzte Durchführung
पिङ्गलामतमन्त्रतन्त्रप्रकाशयोस्तु |
सद्योऽधिवासमथवा प्रकुर्वीत यथाविधि |
दिनद्वयेनैव कुर्याद्दीक्षाकर्म विचक्षणः ||
सद्योऽधिवासनं वा स्यादेकस्मिन् दिवसे यदि इत्युक्तम् ||


S. 147–148, Gang zum Guru
मेरुतन्त्रे |
दीक्षादिनात्पूर्वदिने प्रातःकृत्यं निर्वर्त्य च |
समलङ्कृत्य देहं स्वं स्वगेहे पूजनं चरेत् ||
गणेशस्य विधानेन पुण्याहं वाचयेत्ततः |
नान्दीमुखांस्तर्पयित्वा पञ्चवाद्यपुरस्सरम् ||
यथोक्तकृतसंभारो गच्छेद्गुरुगृहं प्रति |


S. 148, fünf Musikarten
पञ्चविधवाद्यमुक्तं सङ्गीतशास्त्रे |
ततं शुषिरमानद्धमयःसारो घनस्तथा |
वाद्यमेतत्पञ्चविधं देवदेवस्य ताण्डवे ||
ततं वीणादि |
शुषिरं वंशशङ्खादि |
आनद्धं डिण्डिममृदङ्गादि |
अयःसारो घण्टादि |


S. 148, zehn Gruppen von Ehrengaben
मेरुतन्त्रे |
आचार्यऋत्विग्वरणसंभारो दशधा मतः |
श्रीपर्णीवृक्षपीठानि हस्तमानानि मानतः ||
अष्टाङ्गुलसमुच्छ्रायसहितानि समानि च |
सप्तविंशतिदर्भाणां वेण्यां ग्रन्थिभूषितः ||
विष्टरः सर्वयज्ञेषु लक्षणं परिकीर्तितम् |
सुखोष्णोदकसंभृतास्त्राः पाद्यार्थं ताम्रगण्डकाः ||
शङ्खा अर्घ्यप्रदानाय गन्धपुष्पजलान्विताः |
सुताम्रस्य कमण्डल्व आचाम्योदकपूरिताः ||
ते युता मधुपर्कार्थं कांस्या दध्यादिपूरिताः |
महर्घ्याणि वस्त्राणि मुद्रिकाद्यं सुभूषणम् ||
मयूरपत्रच्छत्राणि सोष्णीषाणि समाहरेत् |
पादुकाश्चाहरेत्तत्र चर्माभरणभूषिताः ||
कृत्वैतत्फलमाप्नोति महायज्ञार्हणोपमम् |


Lesungshinweise: Wer dies darbringt, erlangt eine Frucht, die der ehrenden Darbringung eines großen Opfers gleicht.“ Lesungshinweis: Die Wortform nach saṃbhṛta im Satz über das Fußwasser ist im Druck beschädigt; der Sinn der Gefäßangabe ist deutlich.

S. 148–149, besondere Ehrung des Acharya
अन्येभ्यो मधुपर्कस्य विप्रेभ्यः पूजनं स्मृतम् |
भक्त्या तद्द्विगुणं दद्यादाचार्याय सुभक्तिमान् ||
अन्यैर्द्विजैः समं यत्र देशिकस्य प्रपूजनम् |
तस्मिन्यज्ञे फलं स्वल्पमनावृष्ट्या यथा क्षितौ ||


S. 149, Wahl des Gurus
एवं गुरुगृहं गत्वा प्रणम्य गुरुपादुकाम् |
दत्त्वा वरणसामग्र्यं संकल्प्य वृणुयाद्गुरुम् ||
उच्चार्यामुकमन्त्रस्य ग्रहणाय द्विजोत्तम |
गुरुत्वेनेति संभाष्य त्वामहं च ततो वृणे ||
इत्युक्त्वा वृणुयाच्छिष्यो वृतोऽस्मीति ततो गुरुः |
यथोचितं गुरो कर्म कुरुष्वेति वदेच्छिशुः ||
करवाणीति चाचार्यो गुरोरेवाज्ञया ततः |


S. 149, Priester und Beginn der Prüfung
ब्राह्मणान् वृणुयादष्टौ वेदवेदाङ्गपारगान् |
तद्देवतोपासकांश्च ऋत्विक्त्वेनाथवा यदा ||
चत्वारि कुण्डानि तदा चत्वार ऋत्विजः स्मृताः |
ततः शिष्येण सहितो यायाद्यागगृहं गुरुः ||
उपविश्य च तद्द्वारे परीक्षामारभेत्ततः |
शिष्याय मूलसंजप्तं प्रदद्याद्दन्तधावनम् ||


S. 149, Prüfung mit dem Zahnhölzchen
दन्तान् विशोध्य पुरतः स्थण्डिले हस्तमात्रके |
चतुरस्रे पातयेत्तत्परीक्षेत गुरुस्ततः ||
तदग्रं यद्दिशासंस्थं तत्रेदं पूर्वतः फलम् |
भूतिहृदयसंतापो बन्धुनाशस्तथा मृतिः ||
शोकश्च व्ययता सौख्यं ज्ञानं लाभः क्रमात्फलम् |


Lesungshinweise: Je nachdem, in welche Richtung seine Spitze weist, ergeben sich, beginnend im Osten, der Reihe nach folgende Früchte: Gedeihen, Herzensqual, Verlust von Angehörigen, Tod, Trauer, Verlust durch Ausgaben, Glück, Erkenntnis und Gewinn.“ Lesungshinweis: Die Reihe enthält neun Ergebnisse, während nur die Richtung genannt wird.

S. 149, Ausgleich eines ungünstigen Zeichens
अमङ्गलस्थानपाते प्रायश्चित्तं समाचरेत् ||
अष्टाधिकसहस्रं वा शतं वा विंशतिरेव वा |
अस्त्रसंपुटितेनैषां नाम्ना स्वाहान्वितेन च ||
दोषान् जहि जहीत्येवं पदं नामावसानकम् |
केवलाज्येन जुहुयाददुष्टस्वप्नेऽप्येवमेव हि ||


Lesungshinweise: [ungünstigen] Ebenso verfahre man bei einem [ungünstigen] Traum.“ Lesungshinweis: Die gedruckte Form aduṣṭasvapna bedeutet dem Wortlaut nach „nicht schlechter Traum“, widerspricht aber dem Prayaschitta-Zusammenhang.

S. 150, Wiederholung der Prüfung
दन्तकाष्ठं पुनर्देयं पुनर्दुष्टे चतुर्गुणम् |
तृतीयमपि दुष्टं चेन्न ग्राह्या सा तु देवता ||
वाममार्गे सकृदपि गुरुशिष्यौ विनाशयेत् |


Lesungshinweise: [das Ausgleichsopfer] [zur Einweihung]

S. 150, Vorbereitung und Bitte um Reinigung
सिद्धान्तसंग्रहे गुरुमुपक्रम्य |
यज्ञवाटं परिक्रम्य प्रक्षाल्य चरणौ करौ |
आचान्तो द्वारदेशस्थो गुरुदेवं च दिक्पतिम् ||
नत्वा पापापनोदार्थं मन्त्रद्वयमुदीरयेत् |
हे देव प्राकृतं चित्तं पापाक्रान्तमिदं मम ||
तन्निःसारय चित्तान्मे पापं फट्फट्च ते नमः |


Lesungshinweise: [Es folgen die zweimal gesprochene Phat-Silbe und die Verehrung:]

S. 150, neun Zeugen des Handelns
सूर्यः सोमो यमः कालो महाभूतानि पञ्च च ||
एते शुभाशुभस्येह कर्मणो नव साक्षिणः |


S. 150, Abschluss der Reinigung
[बीजपाठोऽस्पष्टः] फट् इति ब्रुवन् क्रोधदृष्ट्या पश्येच्च पार्श्वयोः ||
एवं कृते महापापं यत्तद्दूरेऽवतिष्ठते |
तत्क्षणादेव नश्यन्ति पापान्यन्यानि मन्त्रिणः ||
पूजने त्यक्तपापस्य काममिष्टं क्षणाद्भवेत् |
तत आचमनं कृत्वा सामान्यार्घ्यं प्रकल्पयेत् ||


Lesungshinweise: Danach vollziehe man Achamana und bereite das allgemeine Arghya.“ Lesungshinweis: Die genaue Vokal- und Nasalzeichenform der Silbe unmittelbar vor Phat bleibt im Scan unsicher und wird nicht zu einer gesicherten Rezitationsformel ergänzt.

S. 150, Bereitung des allgemeinen Arghya
सामान्यार्घ्यस्थापनविधिः गौतमीये |
त्रिकोणवृत्तभूबिम्बं मण्डलं रचयेत्ततः |
आधारशक्तिं संपूज्य तत्राधारं विनिक्षिपेत् ||
अस्त्रेण पात्रं संशोध्य हृन्मन्त्रेण प्रपूरयेत् |
निक्षिपेत्तीर्थमावाह्य गन्धादीन् प्रणवेन तु ||
दर्शयेद्धेनुमुद्रां वै सामान्यार्घ्यमिदं स्मृतम् |
मन्त्रयेत्प्रणवेनैव … इति च ||


Lesungshinweise: [Quadrat]

S. 151, Verehrung des Eingangs
मेरुतन्त्रे |
अर्घ्योदकेन संप्रोक्ष्य द्वारपूजां समाचरेत् |
द्वारपूजाविधिस्तत्रैव |
द्वारमर्घ्याम्बुना प्रोक्ष्य तन्मध्ये विघ्नपं यजेत् |
तद्दक्षिणे महालक्ष्मीं वामे चापि सरस्वतीम् ||
द्वारे श्रियं च तन्मध्ये शाखयोर्दक्षिणान्ययोः |
ऊर्ध्वभागात्तलं यावत्पञ्चपञ्चविभागके ||
नामश्चाद्यक्षरं बिन्दुयुक्तं नाम च ङेन्तकम् |
समुच्चार्य हृदन्तं च देवानेतान् प्रपूजयेत् ||


Lesungshinweise: [den Eingang] Man spreche den Anfangsbuchstaben des Namens mit Bindu, dann den Namen im Dativ und die als Herz-Endung bezeichnete Schlussformel; damit verehre man die folgenden Gottheiten.“ Lesungshinweis: Die zusätzliche Anordnung Shris im Eingang ist syntaktisch verkürzt.

S. 151, Gottheiten an Türwangen und Schwelle
गणपतिं क्षेत्रपालं ततश्च वसुधारया |
युक्तं शङ्खनिधिं दक्षे वामे वसुमतीयुतम् ||
पूजयित्वा पद्मनिधिं तदधो दक्षवामतः |
मायाशक्तिं च चिच्छक्तिं गङ्गां च यमुनां तथा ||
धातारं च विधातारं ङे देहल्यै नमस्त्वधः |
आदौ तु पश्चिमद्वारे पूजा चेयं प्रकाशिता ||


Lesungshinweise: Diese Puja wird zunächst für den westlichen Eingang beschrieben.“ Lesungshinweis: Das isolierte Zeichen ṅe vor der Türschwellenformel bleibt als grammatischer Hinweis im Sanskrit stehen; die ausdrücklich genannte Verehrung der Schwelle wird übersetzt.

S. 151, Torwächter Shivas
नन्दी चापि महाकालो द्वारयोर्दक्षवामयोः |
पूज्यावेवमुदग्द्वारं प्राग्याम्यं च प्रपूजयेत् ||
द्वारपालौ क्रमात्तेषु गणेशवृषभावपि |
भृङ्गिरिटिस्तथा स्कन्द उमाचण्डेश्वरौ तथा ||


S. 151, Torwächter Vishnus und Ganeshas
विष्णोर्नन्दः सुनन्दश्च चण्डश्चापि प्रचण्डकः |
बलश्च प्रबलश्चैव भद्रश्चापि सुभद्रकः ||
वक्रतुण्डैकदंष्ट्रौ च महोदरगजाननौ |
लम्बोदरश्च विकटो गणेशद्वारपालकाः ||
विघ्नराजो धूम्रवर्णः क्रमात्पश्चिमद्वारतः |


S. 152, Torwächterinnen der Göttin und Suryas
देव्याः सूर्यस्य योगिन्योऽधिदेवता द्वारपालकाः ||
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा |
वाराही च तथेन्द्राणी चामुण्डा च श्रिया सह ||


S. 152, Entfernung der Hindernisse und Eintritt
तथा |
ततश्च देशिको विघ्नान् दिव्यानालोकनेन च |
अन्तरिक्षगतानर्घ्योदकैरुत्सादयेत्क्रमात् ||
पार्थिवान् पार्ष्णिघातैश्च त्रिभिरुत्सार्य यत्नतः |
अङ्गं संकोच्य किंचित्तु शाखां वामगतां स्पृशन् ||
उत्सारितानां विघ्नानां दद्याद्बलिं तु दक्षिणे |
पादेन दक्षिणेनाथ प्रविशेद्यागमण्डपम् ||
वाममार्गेऽथवा शाक्ते वामपादपुरस्सरम् |
ब्रह्माणं वास्त्वधीशं च नैर्ऋत्यां दिशि पूजयेत् ||


S. 152, fünf Arten der Reinigung
श्यामारहस्ये धृतवचनानि |
पञ्चशुद्धिं विना पूजा अभिचाराय कल्पते |
आत्मशुद्धिः स्थानशुद्धिर्मन्त्रस्य शोधनं तथा ||
द्रव्यशुद्धिर्देवशुद्धिः शुद्धिः पञ्चविधेरिता |
सुस्नानभूतसंशुद्धिप्राणायामादिभिः प्रिये ||
षडङ्गाद्यखिलन्यासैरात्मशुद्धिरुदीरिता |


S. 152, Reinigung des Ortes
मेरुतन्त्रे |
पञ्चगव्यार्घ्यतोयाभ्यां प्रोक्षयेन्मण्डपान्तरम् |
संमार्जनोपलेपाद्यैर्दर्पणोदरवत्कृतम् ||
विमलैर्धूपदीपाद्यैः पुष्पदामादिशोभितम् |
पञ्चवर्णमयं चित्रं स्थानशुद्धिरियं मता ||


Lesungshinweise: Dies gilt als Reinigung des Ortes.“ Lesartenhinweis: Für „Bild in fünf Farben“ nennt der Druckapparat eine Lesung mit ausdrücklicher Nennung von Farbpulver.

S. 153, Reinigung von Mantra und Materialien
गृहीत्वा मातृकावर्णान् मूलमन्त्राक्षराणि च |
क्रमात्क्रमाद्द्विरावृत्तिर्मन्त्रशुद्धिरियं मता ||
पूजाद्रव्यादि संप्रोक्ष्य मूलास्त्राभ्यां विधानतः |
दर्शयेद्धेनुमुद्रां च द्रव्यशुद्धिरियं मता ||


Lesungshinweise: Dies gilt als Reinigung der Materialien.“ Lesungshinweis: Der Druck wiederholt kramāt; eine möglicherweise gemeinte rückläufige Reihenfolge wird nicht still in den Text eingesetzt.

S. 153, Reinigung der Gottheit
पीठे देवीं प्रतिष्ठाप्य सकलीकृत्य मन्त्रवित् |
मूलमन्त्रेण दीप्तात्मा अभिभाव्योदकेन च ||
त्रिवारं प्रोक्षयेद्विद्वान् देवशुद्धिरितीरिता |
पञ्चशुद्धिं विधायेत्थं पश्चाद्यजनमाचरेत् ||
पञ्चशुद्धिविहीनेन यत्कृतं न च तत्कृतम् |


S. 153, Panchagavya zur Reinigung
तत्रैव |
अर्घ्याम्बुना च गव्येन यागस्थानं सुपिञ्छिते |
गव्येनेति पञ्चगव्येन |
तदुक्तं गौतमीये |
पलमात्रं दुग्धभागं गोमूत्रं तावदिष्यते ||
घृतं च पलमात्रं स्याद्गोमयं तोलकद्वयम् |
दधि प्रसृतिमात्रं स्यात्पञ्चगव्यमिदं स्मृतम् ||
अथवा पञ्चगव्यानां समानो भाग इष्यते |
मूलमन्त्रेण संमन्त्र्य कुशाग्रेण च शोधयेत् ||
तेन सर्वविशुद्धिः स्यात्सर्वपापनिकन्तनम् |


S. 153, Mantra-Anfänge für die fünf Kuhprodukte
स्मृतिशास्त्रे |
गायत्र्याऽऽदाय गोमूत्रं गन्धद्वारेति गोमयम् |
आप्यायस्वेति च क्षीरं दधिक्राव्णोति वै दधि ||
तेजोऽसीति घृतं चैव देवस्य त्वा कुशोदकम् |
मन्त्राद्यपरिज्ञाने तु प्रणवेनैव शोधयेत् ||


S. 154, vierfache Reinigung und Streumaterial
मेरुतन्त्रे |
वीक्षणाद्यैस्ततः शुद्धिं चतुर्धारां समाचरेत् |
संवीक्ष्य मूलमनुना ह्यस्त्रेण प्रोक्षयेत्ततः ||
कुर्यात्ताडनमस्त्रेण कवचेनावसेचयेत् |
श्रीखण्डागुरुचन्द्रैश्च धूपितेऽस्त्रेण सप्तधा ||
जप्तांश्चन्दनसिद्धार्थदूर्वाभस्माक्षतान् कुशान् |
सलाजान् विकिरेन्मन्त्री प्रत्यूहघ्नान् हि मण्डपे ||


S. 154, Sitz und Vikira
तन्त्रान्तरे |
आदौ विघ्नं समुत्सार्य पश्चादासनकल्पनम् |
अथवा चासने स्थित्वा विघ्नानुत्सारयेत्सुधीः ||
शारदायाम् |
लाजाचन्दनसिद्धार्थभस्मदूर्वाकुशाक्षताः |
विकिरा इति निर्दिष्टाः सर्वविघ्नौघनाशकाः ||


S. 154, Formel zur Entfernung der Hindernisse
विघ्नोत्सारणमन्त्रो मेरुतन्त्रे |
नाराचमुद्रया सम्यगस्त्रमन्त्रेण देशिकः |
अपक्रामन्तु भूतानि पिशाचाः प्रेतगुह्यकाः ||
ये चात्र निवसन्त्यन्ये देवता भुवि संस्थिताः |
अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः ||
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया |
श्लोकयोरन्ततश्चास्त्रं पठन् नाराचमुद्रया ||
क्षिप्त्वा तान्मण्डपस्य … इति |


S. 154, Abschluss der Streuung und Segensworte
तत्रैव |
मार्जयेदस्त्रमन्त्रेण तान् मन्त्री दर्भमुष्टिना |
आसनाय तु बद्ध्वा ईशाने स्थापयेच्च ताम् ||
पुण्याहं वाचयित्वा च विप्रान् संतोष्य यत्नतः |


S. 155, Grundraster des Sarvatobhadra-Mandala
वेदिकायां लिखेत्पश्चात्सर्वतोभद्रमण्डलम् ||
सर्वतोभद्रमण्डलमुक्तं शारदायाम् |
चतुरस्रे चतुष्कोष्ठे कर्णसूत्रसमन्विते |
चतुर्ष्वपि च कोष्ठेषु कोणसूत्रचतुष्टयम् ||
मध्ये मध्ये यथा मत्स्या भवेयुः पातयेत्तथा |
पूर्वापरायते द्वे द्वे मन्त्री याम्योत्तरायते ||
पातयेत्तेषु मत्स्येषु समं सूत्रचतुष्टयम् |
पूर्ववत्कोणकोष्ठेषु कर्णसूत्राणि पातयेत् ||
तदुद्भूतेषु मत्स्येषु दद्यात्सूत्रचतुष्टयम् |
ततः कोष्ठेषु मत्स्याः स्युस्तेषु सूत्राणि पातयेत् ||


S. 155, zentrale Bereiche des Mandala
षट्त्रिंशता पदैर्मध्ये लिखेत्पद्मं सुलक्षणम् |
बहिः पङ्क्त्या भवेत्पीठं पङ्क्तियुग्मेन वीथिकाः ||
द्वारशोभोपशोभास्ताः शिष्टाभ्यां परिकल्पयेत् |
शास्त्रोक्तविधिना मन्त्री ततः पद्मं समालिखेत् ||


S. 155, Kreise und Blätter des Lotus
पद्मक्षेत्रस्य संत्यज्य द्वादशांशं बहिः सुधीः |
तन्मध्यं विभजेद्वृत्तैस्त्रिभिः समविभागतः ||
आद्यं स्यात्कर्णिकास्थानं केशराणां द्वितीयकम् |
तृतीयं तत्र पत्राणामुक्तांशेन दलाग्रकम् ||
बाह्यवृत्तान्तरालस्य मानं यद्विधिना सुधीः |
निधाय केशराग्रेषु परितोऽर्धनिशाकरान् ||
लिखित्वा सन्धिसंस्थानि तत्र सूत्राणि पातयेत् |
दलाग्राणां च यन्मानं तन्मानं वृत्तमालिखेत् ||
तदन्तराले तन्मध्ये सूत्रस्योभयतः सुधीः |
आलिखेद्बाह्यहस्तेन दलाग्रेण समन्ततः ||


Lesungshinweise: [nach der abschließenden, verkürzten Anweisung] In dessen Zwischenraum, in der Mitte zu beiden Seiten der Schnur, zeichne er ringsum die Blattspitzen [nach der abschließenden, verkürzten Anweisung].“ Lesungshinweis: Die letzte Verbindung bāhyahastena ist geometrisch nicht sicher zu deuten.

S. 156, Staubfäden und Pitha
दलमूलेषु युगशः केशराणि प्रकल्पयेत् |
एतत्साधारणं प्रोक्तं पङ्कजं तन्त्रवेदिभिः ||
पदानि त्रीणि पादार्थं पीठकोणेषु मार्जयेत् |
अवशिष्टैः पदैर्विद्वान् पीठगात्राणि कल्पयेत् ||
पदानि वीथिसंस्थानि मार्जयेत्पङ्क्तिभेदतः |


S. 156, Eingänge und Schmuckfelder
दिक्षु द्वाराणि रचयेद्द्विचतुष्कोष्ठकैस्ततः |
पदैस्त्रिभिरथैकेन शोभाः स्युर्द्वारपार्श्वयोः ||
उपशोभाः स्युरेकेन त्रिभिः कोष्ठैरनन्तरम् |
अवशिष्टैः पदैः षड्भिः कोणानां स्याच्चतुष्टयम् ||
रञ्जयेत्पञ्चभिर्वर्णैर्मण्डलं तन्मनोहरम् |


S. 156, Farbpulver und Grenzlinien
पीतं हरिद्राचूर्णं स्यात्सितं तण्डुलसंभवम् |
कुसुम्भचूर्णमरुणं कृष्णं दग्धपुलाकजम् ||
बिल्वादिपत्रजं श्याममित्युक्तं वर्णपञ्चकम् |
अङ्गुलोत्सेधविस्ताराः सीमारेखाः सिताः शुभाः ||


S. 156, Farbschemata des Lotus und des Sitzes
कर्णिका पीतवर्णेन केशराण्यरुणेन च |
शुक्लवर्णेन पत्राणि तत्सन्धीन् श्यामलेन च ||
रजसा रञ्जयेन्मन्त्री यद्वा पीतैव कर्णिका |
केशराः पीतरक्ताः स्युररुणानि दलान्यपि ||
सन्धयः कृष्णवर्णाः स्युः पीतेनाप्यसितेन वा |
रञ्जयेत्पीठगर्भाणि पादाः स्युररुणप्रभाः ||
गात्राणि तस्य शुक्लानि वीथीषु चतसृष्वपि |
आलिखेत्कल्पलतिका दलपुष्पफलान्विताः ||


S. 157, Abschluss des allgemeinen Sarvatobhadra-Mandala
वर्णैर्नानाविचित्राश्च शोभा रक्ताः समीरिताः |
उपशोभाः पीतवर्णाः कोणान्यसितभानि च ||
तिस्रो रेखा बहिः कुर्यात्सितरक्तासिताः क्रमात् |
मण्डलं सर्वतोभद्रमेतत्साधारणं स्मृतम् ||


Lesungshinweise: [Die Wunschranken]

S. 157, kleinere Ausführung mit 144 Feldern
चतुरस्रां भुवं भित्त्वा दिग्भ्यो द्वादशधा सुधीः |
पातयेत्तत्र सूत्राणि कोष्ठानां दृश्यते शतम् ||
चतुश्चत्वारिंशदाढ्यं पश्चात्षट्त्रिंशताम्बुजम् |
कोष्ठैः प्रकल्पयेत्पीठं पङ्क्त्या नैवात्र वीथिका ||
द्वारशोभे यथापूर्वमुपशोभा न दृश्यते |
अवशिष्टैः पदैः कुर्यात्षड्भिः कोणानि तन्त्रवित् ||
विदध्यात्पूर्ववच्छेषमेवं वा मण्डलं स्मृतम् |


S. 157, Navanabha- und Panchabja-Mandala
चतुरस्रे चतुःषष्टिपदान्यारचयेत्सुधीः ||
पदैश्चतुर्भिः पद्मं स्यान्मध्ये तत्परितः पुनः |
वीथीश्चतस्रः कुर्वीत मण्डलान्तावसानिकाः ||
दिग्गतेषु चतुष्केषु पङ्कजानि समालिखेत् |
विदिग्गतचतुष्काणि भित्त्वा षोडशधा सुधीः ||
मार्जयेत्स्वस्तिकाकारं श्वेतपीतारुणासितैः |
रजोभिः पूरयेत्तानि स्वस्तिकानि शिवादितः ||
प्राक्प्रोक्तेनैव मार्गेण शेषमन्यत्समाचरेत् |
नवनाभमिदं प्रोक्तं मण्डलं सर्वसिद्धिदम् ||
पञ्चाब्जं मण्डलं प्रोक्तमेतत्स्वस्तिकवर्जितम् |
दीक्षायां देवपूजार्थं मण्डलानां चतुष्टयम् ||
सर्वतन्त्रानुसारेण प्रोक्तं सर्वसमृद्धिदम् |


S. 158, Dipanatha und Bhairava
यामले |
आरक्तवर्णं तद्वर्णं शक्तिद्वादशसंयुतम् |
संपूज्य दीपनाथं च भैरवं प्रार्थयेदिति ||
अतितीक्ष्ण महाकाय कल्पान्तदहनोपम |
भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ||
कान्तं चास्त्रं समुच्चार्य पूजावेदीं ततो विशेत् |


Lesungshinweise: [Formel] Gewähre bitte die Erlaubnis.‘ Nachdem man die mit kanta bezeichnete [Formel] und den Astra-Mantra gesprochen hat, betrete man den Puja-Altarbereich.“ Lesungshinweis: Der Bezug von kāntam ist unklar; daraus wird keine vollständige Formel erzeugt.

S. 158, Sitzplatz und Wasserweihe
वैष्णवीकल्पे |
संस्कृत्य चासनस्थानमास्तीर्य विहितासनम् |
जलमानीय सव्येन संस्कुर्यात्तद्यथाविधि ||
जलसंस्कारस्तत्रैवोक्तम् |
वायुबीजेन संशोध्य वह्निबीजेन निर्दहेत् |
प्लावयेज्जलबीजेन गायत्र्या प्रोक्षयेत्ततः ||
ततो धेन्वामृतीकृत्य प्रणवेनाभिमन्त्रयेत् |


Lesungshinweise: [Hand] [seine Unreinheit]

S. 158, dreifaches Achamana
तथा |
आत्मविद्याशिवैस्तत्त्वैः प्रणवादिशिरोऽन्तकैः |
तज्जलेन त्रिराचम्य आसनं शोधयेत्ततः ||
शिरोऽग्निजाया |
शोधनं चात्रास्त्रमन्त्रेण जलमन्तरकल्पमिति सांप्रदायिकाः |


Lesungshinweise: [Svaha] Lesungshinweis: Die letzte Verbindung jalamantarakalpam ist sprachlich verkürzt.

S. 158, Zuordnung des Sitz-Mantras
तथा |
मेरुपृष्ठ ऋषिः प्रोक्तः सुतलं छन्द ईरितम् |
कूर्मोऽत्र दैवता प्रोक्ता आसनोपनिवेशने ||
विनियोगश्च कथितः पठेद्धृत्वासनं ततः |


S. 158, Bitte an die tragende Erde
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ||
त्वं च धारय मां नित्यं पवित्रं चासनं कुरु |


S. 158, Verehrung des Sitzes
मायाबीजं समुच्चार्य आधारशक्तये ततः ||
कमलासनमाभाष्य ङेनमोऽन्तं प्रपूजयेत् |
आत्ममन्त्रेणोपविशेदासने देशिकोत्तमः ||


S. 159, Zweck der Sitzreinigung
दुःशिल्पिरचितत्वादिनानादोषोपशान्तये |


Lesungshinweise: [Dies dient]

S. 159, Bildung des eigenen Mantras
आत्ममन्त्रस्तु |
स्वनामाद्यक्षरं पुंसः सोमसामिसमन्वितम् |
आत्ममन्त्रं विजानीयात् .... .... .... ||
इति सिद्धान्तसंग्रहे प्रोक्तः |
सोमसामीति चन्द्रार्धमित्यर्थः |


S. 159, Sitz und Puja-Geräte
(मेरुतन्त्रे) वेदिकायामासने स प्राङ्मुखः संविशेदथ |
बद्धपद्मासनो मौनी ऋजुकायो जितेन्द्रियः ||
देशिकेन्द्रस्तु संस्थाप्य पूजोपकरणानि च |
दक्षिणे वामभागे तु स्थापयेत् कलशं शुभम् ||
सुगन्धिजलसंपूर्णं हस्तप्रक्षालनाय च |
पश्चात् पात्रं निधायाथ दीपान् प्रज्वालयेच्छुभान् ||
व्यजनं मुकुरं छत्रं चामरं दिक्षु मन्त्रवित् |
स्थापयेदिति शेषः |
प्राङ्मुख इति बद्धपद्मासन इति चोपलक्षणम् |
उदङ्मुखः प्राङ्मुखो वा स्वस्तिकासनमास्थितः |
इति भैरवोक्तेः |


Lesungshinweise: [stelle] [auf]

S. 159, Arghya an die Sonne
(निबन्धे) ततः संकल्प्य विधिवत् सूर्यायार्घं निवेदयेत् |
सूर्यायार्घदानमन्त्र उक्तो (मेरुतन्त्रे) हाँ हीँ सः सग्रहराशिनक्षत्रपदमुच्चरेत् |
ततश्च योगकरणपरिवृतासनेति च ||
संस्थितश्रीसूर्यायैष तेऽर्घः स्वाहा मनुः स्मृतः |
चतुस्त्रिंशदक्षरोऽयं सूर्यस्यार्घनिवेदने ||


S. 159, Reinigung der Opfergaben
तत्रैव पूजासंभारानुपक्रम्य |
यथायथं तु संस्थाप्य संस्कुर्यात् तानि चात्मवान् |
पुष्पनैवेद्यगन्धादीन् हाँ हूँ फडिति मन्त्रतः ||


S. 160, Betrachtung der Gaben
नाराचमुद्रया दृष्ट्या समय्या च विलोकयेत् |
दृष्टं वाचाऽऽत्मनि ज्ञातं सम्यक् पुष्पादिदूषणम् ||
अस्पृश्यस्पर्शनं चापि यदन्यायार्जितं च वा |
तथा निर्माल्यसंसृष्टं कीटाव्यारोहणं च यत् ||
तत्सर्वं नाशमायाति नैवेद्याद्यवलोकनात् |


S. 160, Reinigung der Lampenflamme
ततो रमिति मन्त्रेण शिखां दीपस्य संस्पृशेत् ||
स तु स्याच्छुभदो दीपो निष्क्रव्यादः सुखप्रदः |
पतङ्गकीटकेशादिदाहात् क्रव्यादिसंहते ||
वसामज्जादिसंभूतैर्घृताद्यैरुपयोजितम् |
अज्ञानरूपं तत्सर्वं दोषं स्पर्शाद्विनश्यति ||


Lesungshinweise: Dieser ganze, aus Unwissenheit entstandene Fehler vergehe durch die Berührung.“ Lesungshinweis: Die Verbindung kravyādisaṃhate ist sprachlich unklar.

S. 160, Wasser und Gefäß
चौँ बीजमुच्चरन् मन्त्री देवतीर्थेन संस्पृशेत् |
पानीयं घटमध्यस्थं दृष्ट्वा सम्यक् च साधकः ||
वामेन पाणिना धृत्वा वामपार्श्वस्थितं घटम् |
पात्राधारेण मन्त्रेण संस्कुर्वन् संस्पृशेज्जलम् ||
स्वसंज्ञाद्यक्षरं बिन्दुचन्द्रार्धपरियोजितम् |
तत्पात्रनाम ङेऽन्तं च हृदन्तः पात्रमन्त्रकः ||
यदज्ञानादमेध्यादिसंसृष्टिरिह संगता |
यदन्यदूषणं पात्रे तोये वाज्ञानतो भवेत् ||
जलाशयद्रवस्पर्शाज्जलस्थानाच्च संगतम् |
इत्यादिदूषणं नश्येत् तत् प्रिये देवपूजने ||


Lesungshinweise: Was hier unwissentlich an Vermischung mit Unreinem eingetreten ist, welcher andere Mangel an Gefäß oder Wasser unwissentlich besteht, was durch Berührung mit dem Gewässer, Flüssigkeiten oder dem Ort des Wassers entstanden ist: Solche Verunreinigungen werden, Geliebte, bei der Götterverehrung beseitigt.“ Lesungshinweis: Das Bija ist im Druck als cau mit Nasalzeichen gelesen; seine Lesung bleibt unsicher. Die Verbindung jalāśayadravasparśāt ist ebenfalls nicht eindeutig.

S. 160–161, Verehrung des Gurus
ततः कृताञ्जलिपुटो वामदक्षिणपार्श्वयोः |
गुरुं गणपतिं नत्वा पुरतः स्वेष्टदेवताम् ||
(यामले) अखण्डमण्डलाकारं व्याप्तं येन चराचरम् |
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ||
इति नत्वा गुरुं मन्त्री करशुद्ध्यादिकं चरेत् |


S. 161, Reinigung der Hände und Abwehrvers
करशुद्धेः प्रकारस्तु (मेरुतन्त्रे) सुगन्धिपुष्पाण्यादाय चन्दनाक्तानि मन्त्रवित् |
हँसौँ मन्त्रेण करयोरस्त्रमन्त्रेण मर्दयेत् ||
तत्पुष्पं वामहस्तेन समादाय च मस्तकम् |
भ्रामयेत् परितस्तारं जपन्नाघ्राय तत् पुनः ||
हौँ ॐ पूर्वं पठेच्छ्लोकमिमं स च निगद्यते |
ते सर्वे विलयं यान्तु ये मां हिंसन्ति हिंसकाः ||
मृत्युरोगभयक्लेशाः पतन्तु रिपुमस्तके |
अस्त्रमन्त्रेण नाराचमुद्रयेशदिशि त्यजेत् ||


Lesungshinweise: [Om] Tod, Krankheit, Furcht und Leiden mögen auf das Haupt des Feindes fallen.‘ Mit dem Astra-Mantra und der Naracha-Mudra werfe er die Blume nach Nordosten.“ Lesungshinweis: Die nasalisierten Mantrasilben vor dem Abwehrvers und bei der Handreinigung sind nicht vollständig sicher.

S. 161, Schutz und dreifache Atemübung
करशुद्धौ ततोऽस्त्रेण कुर्यात् तालत्रयं ततः |
ऊर्ध्वाधोऽस्त्रमन्त्रेण दिग्बन्धमपि देशिकः ||
तेन संजनितं तेजो वह्निप्राकारमुद्रया |
रक्षेदात्मनि मूलेन प्राणायामत्रयं चरेत् ||


S. 161, Definition des Pranayama
प्राणायामलक्षणमुक्तम् (सारसमुच्चये) प्राणो वायुः शरीरस्य आयामस्तस्य निग्रहः |
प्राणायाम इति प्रोक्तो द्विविधः कथ्यते हि सः ||
सगर्भो मन्त्रजापेन निर्गर्भो मात्रया भवेत् |


S. 161, Kleine Zeiteinheiten
मात्राकाललक्षणं च (अगस्त्यसंहितायाम्) नलिनीपत्रसंहत्यां सूक्ष्मसूच्यग्रभेदने |
दले दले च यः कालः स कालो लववाचकः ||
लवैस्त्रुटिस्तु त्रिंशद्भिः कलां तावत्त्रुटिं विदुः |
काष्ठा तावत्कला ज्ञेया तावत्काष्ठा निमेषकः ||
स्वाङ्गुलिस्फोटतुल्यश्च मात्राष्टादशभिः स्मृता |


Lesungshinweise: Dieser gleicht dem Schnippen der eigenen Finger; achtzehn davon gelten als eine Matra.“ Lesungshinweis: Das letzte Verhältnis ist im gedruckten Satz knapp formuliert; die unmittelbar folgenden Quellen nennen andere anschauliche Maße.

S. 162, Anschauliche Maße der Matra
(मेरुतन्त्रे) मध्यमाङ्गुल्यावद्यदङ्गुष्ठेन निपीड्यते |
मात्रा सा प्रोच्यते सद्भिर्योगेऽभीष्टं प्रयच्छति ||
जानुं प्रदक्षिणीकुर्याद्यावत्कालेन हस्तकः |
तावत्कालमिता मात्रा स्वनिःश्वाससमाऽपि च ||
(अगस्त्यसंहितायामपि) वामजानुनि हस्तस्य भ्रमणं यावता भवेत् |
कालेन मात्रा सा ज्ञेया मुनिभिर्वेदपारगैः ||


Lesungshinweise: Auch die Zeit, in der die Hand das Knie im Uhrzeigersinn umkreist, bemisst eine Matra, ebenso die Dauer des eigenen Ausatmens.“ Auch in der Agastya-Samhita: „Die Zeit, die eine Kreisbewegung der Hand am linken Knie beansprucht, erkennen die in den Veden bewanderten Weisen als eine Matra.“ Lesungshinweis: Die erste gedruckte Wortverbindung ist beschädigt; die Zuordnung von Mittelfinger und Daumen ist erkennbar.

S. 162, Bedeutung und Anzahl des Pranayama
तत्रैव |
प्राणायामैर्विना यद्यत् कृतं कर्म निरर्थकम् |
अतो यत्नेन कर्त्तव्याः प्राणायामाः शुभार्थिभिः ||
अत्र प्राणायामा इति बहुवचनम् |
कपिञ्जलाधिकरणन्यायेन त्रित्वपरम् |
तथा च |
प्राणायामत्रयं कुर्यात् .... .... .... इति |


S. 162, Mantras zur Atemübung
(कालीक्रमे) प्राणायामत्रयं कुर्यान्मूलेन प्रणवेन वा |
अथ वा मन्त्रबीजेन यथोक्तविधिना सुधीः ||
क्वचित् |
प्राणायामं ततः कुर्याद् वाग्भवेन समाहितः—इत्युक्तम् |


S. 162, Finger und Atemphasen
प्राणायामेऽङ्गुलिनियमो (ज्ञानार्णवे) कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणम् |
प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ||
(मेरौ) पूरकः कुम्भकश्चैव रेचकश्चेति स त्रिधा |


S. 162, Beginn der Ausführung
तत्प्रकारमाह (यामले) दक्षाङ्गुष्ठेन दक्षं च घ्राणं संपीड्य मन्त्रवित् |
इडया पूरयेद्वायुं मात्राषोडशभिः क्रमात् ||


S. 163, Abschluss der ersten Atemrunde
अङ्गुष्ठानामिकाभ्यां च धृत्वा नासाद्वयं ततः |
ततस्तु कुम्भयेद्वायुं पूरकाच्च चतुर्गुणैः ||
अनामया तथा वामनासां धृत्वा तु दक्षिणे |
द्वात्रिंशद्भिस्तु मात्राभिर्वायोश्च रेचनं चरेत् ||
स्वचित्तं मूलचक्रे तु निधायासून् समभ्यसेत् |


S. 163, Atemrunde nach der Mahakala-Samhita
(महाकालसंहितायामपि) मूलमन्त्रस्य जापेन मात्राषोडशकेन हि |
वामनासापुटेनैव पूरयित्वाऽनिलं बलात् ||
पुनस्तस्य चतुःषष्ट्याऽऽवृत्या वायुं विकुम्भ्य च |
पुनर्द्वात्रिंशदावृत्त्या मूलमन्त्रस्य पार्वति ||
नासापुटेन दक्षेण रेचयेत् सकलानिलम् |
प्रकारेणेदृशेनैकः प्राणायामो हि जायते ||
आवश्यकं तत्त्रयं हि फलाधिक्यं समुच्चये |


S. 163, Zweite Atemrunde
द्वितीयप्राणायाममाह (यामले) ततो रेचनमार्गेण प्राणायामं प्रपूरयेत् |
पुनः षोडशमात्राभिः कुम्भकं च समाचरेत् ||
चतुःषष्टितमेनैव मन्त्री नासापुटौ विधृत्य च |
पुनश्च रेचयेद्वायुं द्वात्रिंशन्मात्रया बुधः ||
वामनासापुटेनेति शेषः |


S. 163–164, Dritte Atemrunde und Parallelstelle
तृतीयप्राणायामस्तत्रैवोक्तः |
वामेनैव पिबेद्वायुं मात्राषोडशकैः क्रमात् |
नासापुटौ निपीड्याथ पूरकस्य चतुर्गुणैः ||
दक्षेण रेचयेद्वायुं द्वात्रिंशन्मात्रया बुधः |
तन्त्रान्तरे |
इडयाऽऽकर्षयेद्वायुं मात्राषोडशकैः क्रमात् |
नासापुटौ निपीड्याथ पूरकस्य चतुर्गुणैः ||
दक्षेण रेचयेद्वायुं द्वात्रिंशन्मात्रया बुधः |


S. 164, Wechsel der Atemwege
तन्त्रान्तरे |
इडयाऽऽकर्षयेद्वायुं बाह्यं षोडशमात्रया |
सुषुम्णामध्यगं सम्यग्द्वात्रिंशन्मात्रया शनैः ||
नाड्या पिङ्गलया चैनं रेचयेद्योगवित्तमः |
भूयोभूयः क्रमात् तस्य व्यत्यासेन समाचरेत् ||
तस्येति पूर्वप्राणायामस्येति |
व्यत्यासेन वैपरीत्येन |
तदुक्तम् (सनत्कुमारसंहितायाम्) येनैव रेचयेद्वायुं तेनैव पूरयेत् पुनः—इति |


S. 164, Bedeutung der Bhutashuddhi
(यामले) प्राणायामं विधायैवं भूतशुद्धिं समाचरेत् |
(शारदायाम्) शरीराकारभूतानां भूतानां यद्विशोधनम् |
अव्ययब्रह्मसंयोगाद्भूतशुद्धिरियं मता ||
(यामले) भूतशुद्धिलिपिन्यासौ विना यस्तु प्रपूजयेत् |
विपरीतफलं दद्यादभक्त्या पूजनं यथा ||


S. 164, Vergegenwärtigung der Erde
भूतशुद्धिप्रकारमाह (मेरुतन्त्रे) पादतो जानुपर्यन्तं चतुरस्रं सवज्रकम् |
लँ युतं पीतवर्णं च भूस्थानं ब्रह्मदेवतम् ||
अधिष्ठितनिवृत्त्याख्यकलया स्थानमुच्यते |
उत्पत्तेस्तत्र तु जीवानामेवं रूपं विचिन्तयेत् ||


S. 164–165, Vergegenwärtigung des Wassers
जान्वोरानाभिपर्यन्तमपां स्थानं सितप्रभम् |
अर्धचन्द्रनिभं शृङ्गद्वयं तत् पद्मलाञ्छितम् ||
षट्कोणं बिन्दुभिः षड्भिर्युक्तं वँ बीजसंयुतम् |
प्रतिष्ठाकलया युक्तं ध्यायेत् तद्विष्णुदेवतम् ||


S. 165, Vergegenwärtigung des Feuers
नाभ्यादिकण्ठपर्यन्तमारक्तं रुद्रदेवतम् |
रँ बीजयुक्तं कलया युतं विद्याख्यया तथा ||
दीप्तिमत्स्वस्तिकोपेतं त्रिकोणाकारतां गतम् |
महाप्रलयसंस्थानं वह्नितत्त्वं विचिन्तयेत् ||


S. 165, Vergegenwärtigung der Luft
कण्ठाद्भ्रूमध्यपर्यन्तं षट्कोणाकारतां गतम् |
षड्बिन्दुलाञ्छितं वृत्तवेष्टितं कृष्णवर्णकम् ||
वायुस्थानं शान्तिकलाधिष्ठितं शिवदेवतम् |
यँ बीजयुक्तं सर्वेषां प्राणरूपं विचिन्तयेत् ||


S. 165, Vergegenwärtigung des Raumes
भ्रूमध्याद्ब्रह्मरन्ध्रान्तमाकाशस्थानमुच्यते |
वृत्ताकारं धूम्रवर्णं महोच्चध्वजलाञ्छितम् ||
शान्त्यतीताख्यकलयाऽधिष्ठितं शिवदेवतम् |
हँ बीजयुक्तं ध्यात्वैवं देहे भूतानि विन्यसेत् ||


S. 165, Vereinigung des Jiva mit dem höchsten Selbst
धर्मकन्दसमुद्भूतं ज्ञाननालसुशोभितम् |
पद्मं तत्कर्णिकासंस्थं प्रदीपकलिकानिभम् ||
सुषुम्णावर्त्मना जीवं परमात्मनि योजयेत् |
योगयुक्तेन विधिना सोऽहंमन्त्रेण साधकः ||
तत्रैव सर्वभूतानि विलीनानि विचिन्तयेत् |


S. 165, Aufstieg mit der Shakti
तन्त्रान्तरे |
विनिधाय निजाङ्के तु समुत्तानं करद्वयम् |
मूलाधारस्थया शक्त्या चक्रभेदक्रमेण च ||
हंसेन ब्रह्ममार्गेण जीवं ब्रह्मणि योजयेत् |


S. 165–166, Aufstieg zum tausendblättrigen Lotus
(महाकालसंहितायाम्) हृत्पुण्डरीकादात्मानं ज्वलद्दीपशिखाकृतिम् |
सुषुम्णावर्त्मना ब्रह्मबीजमन्त्रेण मस्तके ||
सहस्रदलमध्यस्थे संयोज्य परमात्मनि |


S. 166, Auflösung sämtlicher Tattvas
(सिद्धान्तसंग्रहे) ततः समस्ततत्त्वानि तत्रैव प्रविलापयेत् |
पृथ्वीमप्सु च ता वह्नौ वह्निं वायौ समीरणम् ||
प्रविलाप्य तथाऽऽकाशे आकाशं प्रकृतौ ततः |
परब्रह्मरूपां तां मायाशक्तिं परात्मनि ||
एवं समस्तदेहादिप्रपञ्चं परमात्मनि |
प्रविलाप्य परब्रह्मरूपे तिष्ठेत् कियत् क्षणम् ||


S. 166, Gestalt des Papa-Purusha
(मेरुतन्त्रे) शरीरे वामकुक्षौ तु चिन्तयेत् पापपूरुषम् |
वामकुक्षिस्थितं पापपुरुषं कज्जलप्रभम् ||
ब्रह्महत्याशिरस्कं च स्वर्णस्तेयभुजद्वयम् |
सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् ||
तत्संसर्गपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् |
उपपातकरोमाणं रक्तश्मश्रुविलोचनम् ||
खड्गचर्मधरं क्रूरमङ्गुष्ठपरिमाणकम् |
अधोमुखं महाभीमं रूक्षं पापं विचिन्तयेत् ||


S. 166–167, Trocknung und Wiederbelebung durch Nektar
(महाकालसंहितायाम्) वामनासापुटेनाथ पूरयित्वा समीरणम् |
सबिन्दुवायुबीजं च धूम्रवर्णं विभाव्य च ||
तदेव बीजं देवेशि पञ्चाशद्वारमीरयेत् |
तदुत्पन्नेन वातेन शुष्कं देहं विचिन्त्य च ||
सहैव रेचयेद्वायुं ततो नासापुटेन च |
वामेन वायुमुत्तोल्य सहस्रदलमध्यगम् ||
विभाव्य परमात्मानं चन्द्ररूपं वरानने |
सानुस्वारं वायुबीजं पञ्चाशद्वारमुच्चरन् ||
तस्माच्चन्द्रात् सुधावृष्ट्या देहमाप्लाव्य सुन्दरि |
भूबीजेन सनादेन शुद्धं संयोज्य विग्रहम् ||
लीनीकृतानि यानीह पञ्चभूतानि वै पुरा |
यथास्थानं स्थापयित्वा ब्रह्मबीजं पुनर्गणन् ||
अहंकारादिभिस्तत्त्वैः सहैव परमात्मनि |
जीवात्मानं समाकृष्य स्थापयित्वा हृदम्बुजे ||
देवीरूपमथात्मानं चिन्तयेत् क्षणमात्रतः |
अत्र वायुबीजादेः पञ्चाशद्वारजपेन पूरकादिकमुक्तम् |


S. 167, Abweichende Zählung im Yamala
(यामलादौ तु) नाभिदेशे च यँकारं धूम्रं वायुं विचिन्तयेत् |
तेनैव शोधयेल्लिङ्गतनुं षोडशमात्रया ||
कर्मात्मकं चतुःषष्ट्या कुम्भयित्वा समाचरेत् |
द्वात्रिंशन्मात्रया दक्षे रेचनं तेन वा पुनः ||
इति षोडशादिमात्राभिः पूरकादिकमुक्तमिति संख्याविकल्पो द्रष्टव्यः |


S. 167–168, Der aus Licht erneuerte Körper
(सिद्धान्तसंग्रहे) पुनरुत्पादयेद्देहं पवित्रं परमात्मनः |
परब्रह्मात्मिका विद्या प्रकृतिर्मातृका परा ||
अजायत जगन्मातुराकाशं नभसोऽनिलः |
समीरणादभूद्वह्निर्वह्नेरापस्ततो मही ||
स्वीयमेभ्योऽपि भूतेभ्यस्तेजोरूपं कलेवरम् |
देवताराधने योग्यमुत्पन्नमिति भावयेत् ||
भूतशुद्धिरियं प्रोक्ता महापापौघनाशिनी |


S. 168, Verkürzte Bhutashuddhi
संक्षिप्तप्रकारमाह (उड्डीशे) अथ वा कुण्डलीं देवीं पञ्चभूतादिना सह |
परमात्मनि संयोज्य तयोरैक्यं विभाव्य च ||
ध्यानयोगेन मनसा सोऽहं सोऽहं विभावयेत् |
क्वचिच्छक्तिविशेषे तु हंस इति बीजादिकं परशिवे संयोज्य सोऽहमिति मन्त्रेण स्वस्थानमानयेदित्युक्तम् |


S. 168, Wiedereinsetzung des Lebens
(मेरौ) भूतशुद्धिं विधायैवं प्राणस्थापनमाचरेत् |
(ज्ञानार्णवे) प्राणप्रतिष्ठया पश्चाज्जीवं देहे नियोजयेत् |
मुखवृत्तं समुच्चार्य हंसस्तु विपरीततः ||
उद्धरेत् परमेशानि विद्येयं त्र्यक्षरी भवेत् |
प्राणप्रतिष्ठामन्त्रोऽयं सर्वकर्माणि साधयेत् ||


S. 168, Bedeutung des Matrika-Nyasa
(मेरुतन्त्रे) प्राणायामत्रयं कृत्वा मातृकान्यासमाचरेत् |
(फेत्कारिणीतन्त्रे) मन्त्रा मूकत्वमायान्ति विन्यासेन विना लिपेः |
सर्वमन्त्रप्रसिद्ध्यर्थं तस्मादादौ लिपिं न्यसेत् ||


S. 168, Beginn des inneren Matrika-Nyasa
तत्रादावन्तर्मातृकान्यासः |
(मेरुतन्त्रे) अथान्तर्मातृकान्यासं वक्ष्ये ते शुद्धिकारकम् |
यं कृत्वा योगिनां चित्तं पातके न प्रवर्तते ||
मूलाधारध्वनिं श्रुत्वा प्रबुद्धा शक्तिकुण्डली |
ज्वलत्पावकसंकाशा सूक्ष्मा तेजःस्वरूपिणी ||
मूलाधाराच्छिरःपद्मं स्पृशन्ती विद्युदाकृतिः |
तया स्पृष्टशिरःपद्मादमृतौघस्वरूपिणा ||


Lesungshinweise: [strömt etwas]

S. 169, Einsetzen der hervorgegangenen Buchstaben
विनिर्गतान्मातृकावर्णान् सुषुम्णावर्त्मना तनुम् |
स्थापयित्वा स्थितानेतानेवं ध्यात्वा प्रविन्यसेत् ||


Lesungshinweise: [aus dem Kopflotus]

S. 169, Vokale im Vishuddhi-Chakra
कण्ठे विशुद्धिचक्राख्यं पद्मं षोडशपत्रकम् |
ऊर्ध्वास्यं प्राग्दलात् तत्र संस्थिताः षोडश स्वराः ||
एवं संचिन्त्य तारादिं बिन्दुयुक्तं नमोऽन्तकम् |
वदेत् स्वरं च सर्वेषु वर्णेष्वप्येषु पद्धतिः ||


S. 169, Anahata und Manipura
हृदयेऽनाहतं चक्रं ध्यायेद्द्वादशपत्रकम् |
पूर्वपत्रान्तदलेषु प्राग्वत् कादीन् प्रविन्यसेत् ||
मणिपूरं ततश्चक्रं चिन्तयेन्नाभिमण्डले |
दशपत्रं तत्र डादिवर्णान् प्राग्वद्विचिन्तयेत् ||


Lesungshinweise: [dem retroflexen Laut]

S. 169, Svadhishthana und Muladhara
स्वाधिष्ठानं लिङ्गमूले चक्रं षड्दलमुच्यते |
चिन्तयेद्बादिलाँस्तत्र षड्वर्णानपि पूर्ववत् ||
मूलाधाराभिधं चक्रं पद्माकृति चतुर्दलम् |
वँ शँ षँ सँ तत्र चिन्त्यं पूर्वेशादिदलेषु च ||


Lesungshinweise: Darin betrachte man Va, Sha, das retroflexe Sha und Sa, jeweils nasalisiert, auf den im Text als östlich, nordöstlich und weiter bezeichneten Blütenblättern.“ Lesungshinweis: Die Richtungsangabe pūrveśādi ist knapp und lässt die genaue Anordnung nicht eindeutig erkennen.

S. 169, Ajna und Ausführung des inneren Nyasa
आज्ञाख्यचक्रं भ्रूमध्ये द्विदलं कमलाकृति |
हँ क्षँ ध्यायेदयं कार्यो मनसा केवलेन तु ||
स्वदेहेऽनामया कार्यः पुष्पेण सुरमूर्तिषु |
अनादित्वान्न ऋष्यादिर्ब्रह्मवद्ध्यानमस्य तु ||


S. 169, Zuordnungen des äußeren Matrika-Nyasa
अथ बहिर्मातृकान्यासः |
(शारदायाम्) ऋषिर्ब्रह्मा समुद्दिष्टो गायत्री छन्द ईरितम् |
सरस्वती समाख्याता देवता देशिकोत्तमैः ||
अक्लीवह्रस्वदीर्घान्तगतैः षड्वर्गकैः क्रमात् |
षडङ्गानि विधेयानि जातियुक्तानि देशिकैः ||


Lesungshinweise: Die Lehrer sollen der Reihe nach die sechs Glieder mit den sechs Buchstabengruppen versehen, verbunden mit den zugehörigen Lautklassen und kurzen beziehungsweise langen Endvokalen unter Auslassung der als geschlechtslos bezeichneten.“ Lesungshinweis: Die verdichtete Lautbildungsanweisung des zweiten Verses ist nicht vollständig eindeutig; daraus werden hier keine sechs neuen Formeln gebildet.

S. 170, Sarasvati als Matrika
(मेरुतन्त्रे) बहिर्न्यासमथो वक्ष्ये पूर्वोक्तब्रह्मरन्ध्रके |
वर्णारविन्दे संध्यायेन्मातृकाख्यां सरस्वतीम् ||
ध्यानं तत्रैव |
पञ्चाशद्वर्णभेदैर्विहितवदनदोःपादयुक्कुक्षिवक्षोदेशां भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् |
अक्षस्रक्कुम्भचिन्तालिखितकरतलां त्रीक्षणां पद्मसंस्थामच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि ||


Lesungshinweise: Sie hat drei Augen, sitzt auf einem Lotus, trägt strahlenden Schmuck und besitzt die Fülle von Brüsten und Hüften.“ Lesungshinweis: Die Handattribute im Kompositum cintālikhitakaratalā sind nicht sicher zu deuten; die unklare Angabe wird nicht durch eine aus anderen Darstellungen übernommene Attributliste ersetzt.

S. 170, Äußere Einsetzung der Buchstaben
ललाटे मुखवृत्तेऽक्षिश्रोत्रनासासु गण्डयोः |
ओष्ठयोर्दन्तपङ्क्त्योश्च मूर्ध्नि वक्त्रे न्यसेत् स्वरान् ||
बाह्वोः संधिषु साग्रेषु कचवर्गौ न्यसेत् सुधीः |
टतवर्गौ पदोस्तद्वत् पार्श्वयोः पृष्ठदेशतः ||
नाभौ कुक्षौ पवर्गं च हृदंसककुदं ततः |
न्यस्य यादिचतुर्वर्णान् शादिषट्कं ततो न्यसेत् ||
हृदादिकरयोरङ्घ्र्योर्जठरे वदने तथा |
न्यासस्त्वयं वर्णमात्राहीनपाठपूरकः ||


S. 170, Schöpfung und Auflösung im Nyasa
(शारदायाम्) न्यसेत् सर्गान्वितान् सृष्ट्या ध्यायेदेवं यथाविधि |
बिन्दुयुक्तान् न्यसेत् तत्र संहृत्याप्रतिलोमतः ||
(मेरुतन्त्रे) क्षमारभ्य अकारान्तो न्यासश्चेत् क्रियते यदि |
संहारन्यासनामा स्याद्बिन्दुन्यास इतीरितः ||


S. 170–171, Meditation zur Auflösungsfolge
संहारक्रमेण ध्यानमाह |
अक्षस्रजं हरिणपोतमुदग्रटङ्कं विद्यां करैरविरतं दधतीं त्रिनेत्राम् |
अर्धेन्दुमौलिमरुणामरविन्दसंस्थां वर्णेश्वरीं प्रणमत स्तनभारनम्राम् ||


Lesungshinweise: [das Buch der Erkenntnis]

S. 171, Erhaltungsfolge und ihre Meditation
(शारदायाम्) सर्गबिन्द्वन्तिकान् न्यस्य डकाराद्यान् स्थितिवर्त्मना |
विद्यात् पूर्वोदितान् विद्वानृष्यादीन्षडङ्गसंयुतान् ||
(मेरौ) बिन्दुसर्गयुतान् डादिठान्तान् वर्णान् स्थितौ न्यसेत् |
पूर्वोक्ता एव मुन्याद्याः षडङ्गं ध्यानमुच्यते ||
सिन्दूरकान्तिममिताभरणं त्रिनेत्रं विद्याक्षसूत्रमृगपोतवरान् दधानम् |
पार्श्वे स्थितां भगवतीमपि काञ्चनाभां ध्यायेत् कराब्जधृतपुस्तकवर्णमालाम् ||


Lesungshinweise: [retroflex] [jeweils retroflex]

S. 171, Reihenfolge nach Lebensstand
न्यासाः कार्यास्तु वटुभिः स्थितिसंहारसृष्टयः |
संहारसृष्टिस्थितयो गृहस्थस्तु न्यसेत् क्रमात् ||
वानप्रस्थाश्च यतयः सृष्टिस्थितिलयक्रमात् |
न्यासान् कुर्युरिति प्रोक्तः स्थितिन्यासः सविस्तरः ||


S. 171, Kala-Matrika-Nyasa und seine Zuordnungen
अथ कलामातृकान्यासस्तत्रैव |
वक्ष्ये कलामातृकाया न्यासं तस्य ऋषिः स्मृतः |
प्रजापतिश्च गायत्री छन्दस्तस्यास्तु देवता ||
सरस्वती मातृकाख्या नियोगोऽभीष्टतुष्टये |
तारैः षडङ्गं कुर्वीत ह्रस्वदीर्घान्तरस्थितैः ||


S. 171–172, Meditation über die fünfgesichtige Sharada
ध्यानमाह |
हस्तैः पद्मं रथाङ्गं गुणमथ हरिणं पुस्तकं वर्णमालां टङ्कं शुभ्रं कपालं दधदमृतलसद्धेमकुम्भं वहन्तीम् |
मुक्ताविद्युत्पयोदस्फटिकमणिजपाबन्धुरैः पञ्चवक्त्रैस्त्र्यक्षैर्वक्षोजनम्रां सकलशशिनिभां शारदां तां नमामि ||


Lesungshinweise: Unter der Fülle ihrer Brüste leicht geneigt, gleicht sie dem Vollmond.“ Lesungshinweis: Die Verbindung um dadhad ist grammatisch gestört; die erkennbaren Gegenstände werden wiedergegeben, ohne eine weitere Hand oder ein zusätzliches Attribut zu ergänzen.

S. 172, Bildung der Kala-Formeln
ध्यात्वैवं तारपूर्वां तामकाराद्यां च मातृकाम् |
बिन्दुयुक्तां ङेऽन्तकलानामाद्यां नमसान्विताम् ||
पूर्वोक्तशुद्धमात्राणां न्यासस्थानेषु विन्यसेत् |
तारपूर्वामित्यादि |
एतेन ॐ अं निवृत्त्यै नम इत्यादयः प्रयोगाः संपन्नाः |


Lesungshinweise: [nasalisiertes A]

S. 172, Namen der fünfzig Kalas
कलानामान्याह |
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथेन्धिका |
दीपिता रेचिका चापि मोचिका च पराऽभिधा ||
सूक्ष्मा सूक्ष्मामृता ज्ञानामृता चाप्यायनी ततः |
व्यापिनी व्योमरूपा चानन्ता सृष्टिः समृद्धिका ||
स्मृतिर्मेधा ततः कान्तिर्लक्ष्मीर्द्युतिः स्थिरा स्थितिः |
सिद्धिर्जया पालिनी च शान्तिरीश्वरिका रतिः ||
कामिका वरदा चान्या ह्लादिनी प्रीतिसंयुता |
दीर्घा तीक्ष्णा तथा रौद्री भया निद्रा च तन्द्रिका ||
क्षुधा स्यात् क्रोधिनी पश्चात् क्रियोत्कारी समृत्युका |
पीता श्वेताऽरुणा पश्चादसिताऽनन्तयाऽन्विता ||
उक्ता कलामातृकैवं स्थानेऽकारादिके न्यसेत् |


Lesungshinweise: Man setze sie an den mit A beginnenden Stellen ein.“ Lesungshinweis: Die Verbindung kriyotkārī wird als die beiden Namen Kriya und Utkari wiedergegeben.

S. 172, Ursprung der Vokal-Kalas
कलानामुत्पत्तिस्थानमाह |
तत्र नादात्मनो जाताः स्वरजास्तु सदाशिवात् |
अक्षमालां पुस्तकं च पाशं चापि कपालकम् ||
हस्तैर्दधत्यः श्वेताभाः श्वेताभरणभूषणाः |


S. 172, Ursprung der Ka- und Cha-Kalas
अकाराद्ब्रह्मणो जाताः कचवर्गकला दश ||
पीता अक्षस्रजं पद्ममभयं च कमण्डलुम् |


Lesungshinweise: [tragen]

S. 173, Gestalt und Herkunft weiterer Kalas
हस्तैर्दधत्यो ध्येयास्ताः पीतगन्धानुलेपनाः ||
विष्णोरुकारात् संजाताष्टतवर्गकला दश |
श्यामा अभयशङ्खारिवरहस्ताः समीरिताः ||
मकाराद्रुद्रतो जाताः पयवर्गकला नव |
शरच्चन्द्रनिभा हस्तैरभयं शूलमेव च ||
कपालं च वरं ध्येया दधत्य इति साधकैः |
शकारादिकपञ्चानामीश्वरादिन्दुतोऽभवन् ||
अभयं हरिणं टङ्कं वरं च करपल्लवैः |
दधत्यो रक्तवर्णाश्च ध्येया न्यासे कलात्मके ||


Lesungshinweise: [Die zehn Ka- und Cha-Kalas]

S. 173, Zuordnungen des Keshava-Matrika-Nyasa
अथ केशवादिमातृकान्यास उक्तस्तत्रैव |
केशवादिमातृकायाः साध्यनारायणो मुनिः |
अमृताद्या तु गायत्री छन्दो लक्ष्मीहरिः सुरः ||
द्विरुक्तैः शक्तिश्रीकामैः षडङ्गानि समाचरेत् |
शक्तिर्लज्जा |


S. 173, Meditation über Lakshmi-Hari
ध्यानमाह |
शङ्खचक्रगदापद्मकुम्भादर्शाब्जपुस्तकम् |
बिभ्रतं मेघचपलावर्णं लक्ष्मीहरिं भजे ||
शक्तयस्तु निजाङ्केषु निषण्णाः सस्मिताननाः |


S. 173, Paarweise Namensbildung
एवं ध्यात्वा न्यसेच्छक्तिश्रीकामपुटिताक्षरम् ||
तारादिहृदयान्ताश्च केशवाद्यास्तु शक्तयः |
भ्यान्ता नमोऽन्ता उच्चार्याः स्थानेऽकारादिके न्यसेत् ||
भ्यान्तामिति तान्त्रिकत्वात् साधुः |
अयं च संक्षिप्तप्रकारः |
अगस्त्यसंहितादौ तु चतुर्थ्येकवचनान्तयोर्नाम्नोः पृथगुच्चार उक्तः |
केशवाय च कीर्त्यै चेत्यादि वैष्णवैकल्पे |


Lesungshinweise: Lesungshinweis: Die letzte Quellen- beziehungsweise Verfahrensbezeichnung vaiṣṇavaikalpe ist unsicher.

S. 173–174, Weitere Bildungsvorschriften
(मेरुतन्त्रे) तारमायारमाकामानुक्त्वा वर्णान् समुच्चरेत् |
भ्यामन्तौ च तथा देवौ शक्त्यादित्रितयं पुनः ||
हृदयान्तं समुच्चार्य ललाटादिषु विन्यसेत् |
क्वचित्तु देवतानामान्ते पुनः शक्त्यादिबीजोच्चारो नोक्तः |
(वैष्णवैकसंज्ञे तु) तारादिर्मन्मथादिर्वा रमादिर्वा भवेदियम् |
इति प्रणवादीनां विकल्प उक्तः |


Lesungshinweise: [Matrika] Lesungshinweis: Die Quellenbezeichnung vaiṣṇavaikasaṃjñe ist nicht sicher aufzulösen.

S. 174, Unterscheidung der Überlieferungen
(शारदायां तु) स्मराद्यां मातृकां न्यस्य केशवादिनमोऽन्विताम् |
सधातुप्राणशक्त्याऽऽत्मयुक्तयाऽऽदिषु वैष्णवः ||
इति कामबीजमात्रमुपात्तम् |
कलामात्रा तु शाक्तानां विधयोऽयं विष्णुसेविनाम् |


Lesungshinweise: Lesungshinweis: Der gedruckte Satz ist grammatisch verkürzt; die Zuordnung der Körperstoffe wird im folgenden Beispiel erläutert.

S. 174, Keshava und die ersten sechzehn Paare
केशवादिनामान्याह |
केशवः कीर्तिसंयुक्तः कान्तिर्नारायणान्विता |
माधवस्तुष्टिसंयुक्तो गोविन्दः पुष्टिसंयुतः ||
विष्णुश्च धृतिसंयुक्तः शान्तियुङ्मधुसूदनः |
त्रिविक्रमः क्रियायुक्तो वामनो दययाऽन्वितः ||
श्रीधरो मेधया युक्तो हृषीकेशस्तु हर्षया |
पद्मनाभयुता श्रद्धा लज्जा दामोदरान्विता ||
वासुदेवश्च लक्ष्मीयुक् संकर्षणसरस्वती |
प्रद्युम्नः प्रीतिसंयुक्तोऽनिरुद्धो रतिसंयुतः ||


S. 174, Waffenführende Formen Vishnus
चक्री जया गदी दुर्गा शार्ङ्गी तु प्रभयाऽन्वितः |
खड्गी तु सत्यया युक्तः शङ्खी च चण्डया युतः ||
हली च वाण्या संयुक्तो विलाशिन्याऽथ मौशली |
शूली च जयया युक्तः पाशी विरजयाऽन्वितः ||
अङ्कुशी विश्वया युक्तो मुकुन्दो विनदान्वितः |


Lesungshinweise: „Der Radträger Chakri ist mit Jaya verbunden; der Keulenträger Gadi mit Durga; der Bogenträger Sharngi mit Prabha; der Schwertträger Khadgi mit Satya; der Muschelhornträger Shankhi mit Chanda; der Pflugträger Hali mit Vani; der Stößelträger Maushali mit Vilashini; der Speerträger Shuli mit Jaya; der Schlingenträger Pashi mit Viraja; der Elefantenstachelträger Ankushi mit Vishva; Mukunda mit Vinada.“ Lesartenhinweis: Für Shulis Shakti nennt die Druckfußnote auch Vijaya. Vilashini und Vinada bleiben in der Form der Hauptlesung erhalten.

S. 175, Weitere Vishnu-Shakti-Paare
नन्दजस्तु सुदयया नन्दी स्मया समन्वितः ||
नर ऋद्ध्या नरकजित् समृद्ध्या शुद्धियुग्घरिः |
कृष्णो बुद्ध्या भूत्या सत्यो मतियुक् शाश्वतः स्मृतः ||
शौरिः क्षमे शूरेमोऽपि जनार्दन उमान्वितः |
भूधरो ह्लेदिनीयुक्तो विश्वमूर्तिश्च क्लिन्नया ||
वैकुण्ठो वसुधायुक्तो वसुदापुरुषोत्तमौ |
बली तु परया युक्तो बलानुजपरायणे ||
बालसूक्ष्मे वृषघ्नश्च सन्ध्यायुक् प्रज्ञया वृषः ||
हंसः प्रभासमायुक्तो वराहो निशयाऽन्वितः |
विमलो मेधया युक्तो नृसिंहो विद्युता युतः ||
केशवाद्या मातृकोक्ता यादियोगश्च पूर्ववत् |


Lesungshinweise: Die Verbindung bei Ya und den folgenden Buchstaben ist wie zuvor.“ Lesartenhinweis: Die gedruckte Verbindung um Shauri, Shura und Uma ist gestört; ihre Aufteilung bleibt unsicher. Die Fußnoten nennen Sunanda für Sudaya, die Zuordnung Krishna–Bhukti und Satya–Buddhi, Satvata für Shashvata, Shura–Rama sowie Amogha für Medha. Diese Varianten werden nicht still in die Hauptlesung übernommen.

S. 175, Zwei Beispiele des Keshava-Nyasa
अस्य प्रयोगस्तु |
ॐ ह्रीँ श्रीँ क्लीँ अं केशवकीर्तिभ्यां ह्रीँ श्रीँ क्लीँ नम इत्यादि |
यादियोग इति |
ॐ ह्रीँ श्रीँ क्लीँ यं त्वगात्मभ्यां वसुदापुरुषोत्तमाभ्यां ह्रीँ श्रीँ क्लीँ नम इत्यादिक्रमेण यकारादिषु त्वगादियोग इत्यर्थः |


S. 175, Zuordnungen des Shrikantha-Nyasa
अथ श्रीकण्ठादिमातृकान्यासस्तत्रैव |
अथ शैवहितां वक्ष्ये श्रीकण्ठादिकमातृकाः |
मुनिः स्याद्दक्षिणामूर्तिर्गायत्री छन्द ईरितम् ||
अर्धाद्रिजो हरो देवो नियोगः सर्वसिद्धये |
हलो बीजानि गुह्ये तु पादयोः स्वरशक्तयः ||
ह्रस्वदीर्घान्तरे कृत्वा प्राग्वद्वर्णान् ह्सैरयम् |
षड्दीर्घसंयुतैः कृत्वा षडङ्गानि न्यसेत्तनौ ||


Lesungshinweise: Nachdem die sechs Glieder so gebildet sind, setze man sie in den Körper ein.“ Lesungshinweis: Die Lautbildungsanweisung ist verdichtet und teilweise unsicher; das folgende Beispiel wird als solches erhalten.

S. 176, Beispiel zur Lautbildung
ह्रस्वदीर्घान्तरे इति |
अँ कँ खँ गँ घँ ङँ आँ ह्सामित्यादिभिः षडङ्गं कुर्यादित्यर्थः |


Lesungshinweise: Lesungshinweis: Die genaue Nasalierung der letzten Silbe vor dem Zitatsandhi ist unsicher; eine vollständige Reihe weiterer Formeln wird nicht ergänzt.

S. 176, Meditation über die Einheit von Shiva und Ambika
ध्यानमाह |
बन्धूककाञ्चननिभं रुचिराक्षमालां पाशाङ्कुशौ च वरदं निजबाहुदण्डैः |
बिभ्राणमिन्दुशकलाभरणं त्रिनेत्रमर्धाम्बिकेशमनिशं वपुराश्रयामः ||


S. 176, Namen und Körperbestandteile im Shiva-Nyasa
ह्सौँ च मातृकामुक्त्वा देवान्ते चेशमुच्चरेत् |
ङेऽन्तं ङेऽन्तां च तच्छक्तिं नमोऽन्तान् मातृकास्थले ||
त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राण्यसून् वदेत् |
शक्तिं क्रोधं तथाऽऽत्मानं ङेऽन्तं यादिदशस्वपि ||
ह्सौँ अँ श्रीकण्ठेशाय पूर्णोदर्यै नम इति प्रयोगः |
त्वगिति |
ह्सौँ यँ त्वगात्मने वालीशाय सुमुख्यै नम इत्येवं यादिदशवर्णेषु त्वगादियोगः कर्तव्य इत्यर्थः |


Lesungshinweise: Lesungshinweis: Die Anfangssilbe Hsaum ist nach dem Druck wiedergegeben; ihre genaue graphische Form bleibt prüfbedürftig. Die Druckfußnote überliefert andere Einrahmungen der Beispiele, unter anderem mit Hrī, Ha und Hsaum; sie werden hier nicht mit dem Haupttext vermischt.

S. 176, Erste Shiva-Shakti-Paare
शिवशक्तिनामान्याह |
श्रीकण्ठपूर्णोदर्यौ चानन्तो विरजयाऽन्वितः |
सूक्ष्मेशः शाल्मलीयुक्तो लोलाक्षीयुक् त्रिमूर्तिकः ||
अमरेशो वर्तुलाक्ष्या चार्धीशो दीर्घघोणया |
भारमूर्तिर्दीर्घमुख्या तिथीशो गोमुखीयुतः ||
स्थाण्वीशो दीर्घजिह्वायुग्घरः कुण्डोदरयुतः |
ऊर्ध्वकेश्या च भिण्टीशो भौतिको विकृतास्यया ||
सद्योजातो ज्वालमुख्याऽनुग्रहोल्कामुखीयुतः |
अक्रूरः श्रीमुखी महासेनो विद्यामुखीयुतः ||


Lesungshinweise: Die Shiva-Shakti-Namen werden genannt: „Shrikantha und Purnodari; Ananta mit Viraja; Sukshmesha mit Shalmali; Trimurtika mit Lolakshi; Amaresha mit Vartulakshi; Ardhisha mit Dirghaghona; Bharamurti mit Dirghamukhi; Tithisha mit Gomukhi; Sthanvisha mit Dirghajihva; Hara mit Kundodara; Bhintisha mit Urdhvakeshi; Bhautika mit Vikritasya; Sadyojata mit Jvalamukhi; Anugraha mit Ulkamukhi; Akrura mit Shrimukhi; Mahasena mit Vidyamukhi.“ Lesartenhinweis: Die Fußnote nennt Bharabhuti statt Bharamurti und warnt bei Anugraha–Ulkamukhi vor einer fehlerhaften Worttrennung. Bhintisha und einzelne Namensformen sind unsicher gelesen.

S. 177, Weitere Shiva-Shakti-Paare
क्रोधीशश्च महाकाल्या चण्डेशेन सरस्वती |
पञ्चान्तके सर्वसिद्धिर्गौर्या युक्तः प्रकीर्तितः ||
शिवोत्तमेशो विन्यस्यो युक्तस्त्रैलोक्यविद्यया |
एकरुद्रो मन्त्रशक्त्या कूर्मेशश्चाष्टशक्तियुक् ||
एकनेत्रो भूतिमात्रायुक्तोऽथ चतुराननः |
लम्बोदर्या युतः प्रोक्तस्त्वजेशो द्राविणीयुतः ||
सर्वेशो नागरीयुक्तः सोमेशः खेचरीयुतः |
लाङ्गलीशश्च मञ्जर्या दारुकेशेन रूपिणी ||
वीरिण्या त्वर्धनारीशो ह्युमाकान्तः पुनर्युतः |
काकोदर्या तथाऽऽषाढी पूतनायुक्त ईरितः ||
दण्डीशो भद्रकालीयुगद्रीशो योगिनीयुतः |
मीनेशः शङ्खिनीयुक्तो मेषेशस्तर्जनीयुतः ||
लोहितः कालरात्र्या च शिखीशः कूर्दिनीयुतः |
छगलण्डः कपर्दिन्या द्विरण्डेशश्च वज्रया ||
महाकालो जयायुक्तो वालीशः सुमुखीयुतः |
भुजङ्गो रेवतीयुक्तः पिनाकी माधवीयुतः ||
खड्गीशो वारुणीयुक्तो वकेशो वायवीयुतः |
श्वेतो रक्षोवधारिण्या भृगुः सहजयायुतः ||
नकुलीशश्च लक्ष्मीयुक् शिवेशो व्यापिनीयुतः |
संवर्तको महामायायुक्त एतास्तु मातृकाः ||


Lesungshinweise: [die nächste männliche Zuordnung fehlt im gedruckten Satz] Dies sind die Matrikas.“ Lesartenhinweis: Die Fußnoten berichtigen Shivottamesha zu zwei Namen, Shiva und Uttamesha; dadurch ist auch die Lücke bei Gauri erklärbar, doch der Haupttext wird nicht still umgestellt. Weitere Fußnotenlesarten sind Atmashakti, Gatrisha, Garjini und Kunjini statt Ashtashakti, Adrisha, Tarjani und Kurdini. Einzelne seltene Eigennamen bleiben lokal unsicher.

S. 178, Isha-Endung und gemeinsame Gestalt
श्रीकण्ठाद्या य ईशान्तस्तत्र नेशं प्रयोजयेत् |
य इति |
य ईशान्तो भवति तदन्ते पुनरीशपदं न देयमित्यर्थः |
एतेन श्रीकण्ठादिनामान्ते ईशपददानमावश्यकमित्युक्तम् |
तथा |
सर्वे रुद्राः स्मृता रक्ता धृतशूलकपालकाः |
शक्तयो रुद्रपीठस्थाः सिन्दूरारुणविग्रहाः ||
रक्तोत्पलकपालाभ्यामलंकृतकराम्बुजाः |


S. 178, Bhuvaneshvari-Matrika-Nyasa
अथ भुवनेश्वरीमातृकान्यासमाह तत्रैव |
येनोपास्या महाविद्या इष्टा तस्याधिकारिता |
भुवनेशीबीजपूर्वमातृकान्यासने सुराः ||
ऋषिः शक्तिस्तु गायत्री छन्दः स्यान्मातृकामयी |
भुवनेशी देवताऽथ नियोगः स्वेष्टसिद्धये ||
ह्रस्वदीर्घान्तरगतैः षड्वर्गैर्दीर्घसंयुतैः |
प्राग्वद्ध्रैः षडङ्गं स्यादङ्गुष्ठादि तथैव च ||
ह्रैरिति |
आकारादिषड्दीर्घस्वरयुक्तैर्हकाररकारैरित्यर्थः |
प्रयोगस्तु |
अँ कँ खँ गँ घँ ङँ आँ ह्राँ हृदयाय नम इत्यादि |


Lesungshinweise: Das Beispiel endet nach der angegebenen Lautfolge mit: „Dem Herzen Verehrung.“ Lesungshinweis: Die genaue Bija-Schreibung im gedruckten Beispiel bleibt unsicher; die Bildungsanweisung wird nicht als bereits gesicherte Rezitationsformel ausgegeben.

S. 178, Meditation über die Herrin der Welt
ध्यानमाह |
उद्यत्कोटिदिवाकरप्रतिनिभा तुङ्गोरुपीनस्तनी बद्धार्धेन्दुकिरीटहाररसनामञ्जीरसंशोभिता |
बिभ्राणा करपङ्कजैर्जपवटीं पाशाङ्कुशौ पुस्तकं दद्यान्नो जगदीश्वरी त्रिनयना पद्मे निषण्णा सुखम् ||
लज्जाबीजं पूर्वमुक्त्वा मातृकान्यास एव हि |
भुवनेशीमातृकाणां न्यासकेऽप्यस्य साधने ||


Lesungshinweise: Lesungshinweis: Die abschließende Verfahrensangabe ist im Druck syntaktisch verkürzt.

S. 178, Beginn des Lakshmi-Matrika-Nyasa
अथ लक्ष्मीमातृकान्यासस्तत्रैव |
श्रीबीजपूर्वकः कार्यो लक्ष्मीकामैर्गृहस्थितैः |


S. 179, Zuordnungen des Lakshmi-Nyasa
ऋषिर्भृगुश्च गायत्री छन्दो मातृस्वरूपिणी ||
लक्ष्मीस्तु देवता प्रोक्ता हरस्थाने शरौ कुरु |
न्यासार्थं तु षडङ्गादिः शेषं श्रीबीजपूर्वकम् ||
हरस्थाने शरौ इति |
भुवनेशीमातृकोक्तहकाररकारयोः स्थाने शकाररकारौ दद्यादित्यर्थः |
तेन ह्रामित्यादेः स्थाने श्रामित्यादि सिध्यति |


Lesungshinweise: Die Quelle erläutert die Ersetzung am zitierten Laut; die hier nicht eindeutig ausgeschriebenen Nasalierungen werden nicht ergänzt.

S. 179, Meditation über Lakshmi
ध्यानमाह |
विद्युद्दामसमप्रभां हिमगिरिप्रख्यैश्चतुर्भिर्गजैः शुण्डादण्डसमुद्धृतामृतघटैरासिच्यमानामिमाम् |
बिभ्राणां करपङ्कजैर्जपवटीं पद्मद्वयं पुस्तकं भास्वद्रत्नसमुज्ज्वलां कुचनतां ध्यायेज्जगत्स्वामिनीम् ||


S. 179, Sammohana-Matrika-Nyasa
अथ संमोहनमातृकान्यासस्तत्रैव |
कामनामात्रसिद्ध्यर्थं कामबीजादि पूर्ववत् |
कुर्याच्च मातृकान्यासं मुनिः संमोहनो मतः ||
गायत्री छन्द उद्दिष्टं देवता मातृकामयी |
संमोहिनी नाम देवी पूर्वयुक्त्या षडङ्गकम् ||
पूर्वयुक्त्येति |
लक्ष्मीमातृकोक्तयुक्त्या संमोहनमातृकायाः कामबीजपूर्वकत्वेन हकाररकारयोः स्थाने संयुक्तककारलकारौ दत्त्वा षडङ्गन्यासः कार्य इत्यर्थः |


S. 179, Meditation über Sammohini
ध्यानमाह |
बालार्ककोटिरुचिरां स्फटिकाक्षमालां कोदण्डमिक्षुजनितं स्मरपञ्चबाणम् |
विद्यां च हस्तकमलैर्दधतीं त्रिनेत्रां ध्यायेत् समस्तजननीं नवचन्द्रचूडाम् ||


S. 179–180, Mahasammohana und Mantra-Mängel
संमोहनमातृकानन्तरमाह |
शक्तिश्रीकामबीजादिमातृकान्यासतो नृणाम् |
शत्रुत्वाद्या मन्त्रदोषा नश्यन्ति बहुवर्णजाः ||
महासंमोहन ऋषिर्गायत्री छन्द ईरितम् |
संमोहिनी नाम देवी न्यासः प्राङ्मातृकासमः ||


S. 180, Weitere Meditation über Sammohini
ध्यानं यथा |
ध्यायेयमक्षवलयेक्षुशराशपाशां पद्मद्वयाङ्कुशशरां नवपुस्तकं च |
आबिभ्रतीं निजभुजैररुणां कुचार्तां संमोहिनीं त्रिनयनां नवचन्द्रचूडाम् ||


Lesungshinweise: In ihren Armen trägt sie Gebetskette, Zuckerrohrbogen, Schlinge, zwei Lotusse, Elefantenstachel, Pfeil und ein neues Buch.“ Lesungshinweis: Die Zusammensetzung um den Zuckerrohrbogen ist im Druck sprachlich verkürzt.

S. 180, Zuordnungen des Ganesha-Matrika-Nyasa
अथ गणेशमातृकान्यासस्तत्रैव |
सर्वविघ्ननिरासार्थमवश्यं न्यासमाचरेत् |
गणेशमातृकायास्तु मुनिर्गणक ईरितः ||
निवृद्गायत्रिका छन्दो देवः शक्तिविनायकः |
स्मृत्या दीर्घान्वया त्वङ्गं कृत्वा ध्यायेद्गजाननम् ||
स्मृतिर्गकारः |


S. 180, Meditation und Bildung des Ganesha-Nyasa
ध्यानं यथा |
शूलाङ्कुशवराभीतिपाणिं रक्ताब्जहस्तया |
प्रिययाऽऽलिङ्गितं रक्तं त्रिनेत्रं गणपं भजे ||
एवं ध्यात्वा न्यसेत् स्वीयबीजपूर्वाक्षरान्वितम् |
स्वीयेति |
स्वीयबीजं गमिति बीजं पूर्वं येषां तादृशानि यान्यक्षराणि अकारादीनि तैरन्वितं यथा भवति तथा वक्ष्यमाणशक्तिसंयुक्तान् वक्ष्यमाणगणेशान् न्यसेदित्यर्थः |


Lesungshinweise: Lesungshinweis: Die Prosa schreibt gam iti; ob damit Ga im Zitatsandhi oder eine nasalisierte Bija-Endung gemeint ist, wird hier nicht durch Vermutung entschieden.

S. 180, Erste Ganesha-Shakti-Paare
तथा |
विघ्नेशो ह्रीसमायुक्तो विघ्नराजः श्रिया युतः |
विनायकः पुष्टियुक्तः शान्तियुक्तः शिवोत्तमः ||
विघ्नकृत् स्वस्तिसंयुक्तो विघ्नहर्त्री सरस्वती |
गणस्तु स्वाहया युक्त एकदन्तस्तु मेधया ||
द्विदन्तः कान्तिसंयुक्तो गजवक्त्रेण कामिनी |
निरञ्जनो मोहिनीयुक् कपर्दी तु नटीयुतः ||


Lesungshinweise: Weiter heißt es: „Vighnesha ist mit Hri verbunden; Vighnaraja mit Shri; Vinayaka mit Pushti; Shivottama mit Shanti; Vighnakrit mit Svasti; Vighnahartri mit Sarasvati; Gana mit Svaha; Ekadanta mit Medha; Dvidanta mit Kanti; Gajavaktra mit Kamini; Niranjana mit Mohini; Kapardi mit Nati.“ Lesungshinweis: Die Form vighnahartrī steht so im Druck; eine mögliche Korrektur des Namens wird nicht still eingesetzt.

S. 181, Weitere Ganesha-Shakti-Paare
दीर्घजिह्वः पार्वतीयुक् ज्वालिन्या शङ्कुकर्णकः |
वृषध्वजो नन्दया युक् सुयशागणनायकौ ||
गजेन्द्रः कामरूपिण्या शूर्पकर्णस्तथोमया |
त्रिलोचनस्तेजोवत्या लम्बोदरस्तु सत्यया ||
महानन्दश्च विघ्नेश्या चतुर्मूर्तिः सुरूपया |
सदाशिवः कामदायुगामोदो मदजिह्वया ||
दुर्मुखो भूतिसंयुक्तः सुमुखो भौतिकायुतः |
प्रमोदः सितया युक्त एकपादो रमायुतः ||
द्विजिह्वो महिषीयुक्तः शूरस्यापि भुजङ्गिनी |
वीरोऽपि कर्णया युक्तः षण्मुखो भृकुटीयुतः ||
वरदो लज्जया वामदेवः स्याद्दीर्घघोणया |
धनुर्धरावक्रतुण्डौ द्विरण्डो यामिनीयुतः ||
सेनानी रात्रिसंयुक्तः कामान्धो ग्रामणीयुतः |
मत्तः शशिप्रभायुक्तो विमले लोललोचना ||
मत्तवाहनचञ्चल्ये जटी दीप्तिसमन्वितः |
मुण्डी सुभगया युक्तः खड्गी दुर्भगया तथा ||
वरेण्यश्च शिवायुक्तो भगीयुग्वृषकेतनः |
भक्तिप्रियो भगिन्या तु गणेशो भोगिनीयुतः |
मेघनादः सुभगया व्यापी स्यात् कालरात्रियुक् |
गणेश्वरः कालिकेति प्रोक्ता विघ्नेशमातृका ||
त्वगादियोगो यादीनां पूर्ववत् परिकीर्तितः |


Lesungshinweise: Die Verbindung der mit Ya beginnenden Buchstaben mit Haut und den übrigen Körperbestandteilen gilt wie zuvor.“ Lesungshinweis: Einzelne seltene Namen, insbesondere Dhanurdhara/Vakratunda und die Form Chanchalya, sind in der gedruckten Verbindung nicht vollständig sicher.

S. 181–182, Vier Formen der Matrika
(निबन्धे) ओमाद्यन्तो नमोऽन्तो वा सबिन्दुर्बिन्दुवर्जितः |
पञ्चाशद्वर्णविन्यासः क्रमादुक्तो मनीषिभिः ||
चतुर्धा मातृका प्रोक्ता केवला बिन्दुसंयुता |
सविसर्गा सोभया च रहस्यं श्रुणु कथ्यते ||
विद्याकरी केवला च सोभया मुक्तिदायिनी |
सविसर्गा पुत्रदात्री सबिन्दुर्वित्तदायिनी ||


S. 182, Anfänge und drei Tara-Gruppen
(कुलावतारे) मायालक्ष्मीबीजपूर्वा वाग्भवाद्योऽथ वा पुनः |
त्रिताराद्यो रमाद्यो वा न्यस्तव्यः साधकोत्तमैः ||
त्रितारश्च |
वाग्भवं कामराजं च श्रीबीजं च त्रितारकम् |
शक्तिश्रीकामबीजं वा त्रितारं मुनयो विदुः ||
इति तन्त्रान्तरे प्रोक्तम् |
बीजकोशे तु |
वाग्भवं भुवनेशानि श्रीबीजं च त्रितारकम्—इत्युक्तम् |


S. 182, Zugeschriebene Früchte der Bija-Anfänge
(सिद्धान्तसारे) वाग्भवाद्या वाक्प्रदा स्यात् त्रिताराद्या तु कामदा |
श्रीबीजाद्या महैश्वर्यदायिनी मातृका स्मृता ||


S. 182, Drei Folgen und ihre Aufgaben
(वीरचूडामणौ) मातृकात्रितयं कुर्यात् सृष्टिसंहारकस्थितिम् |
न्यासं कुर्यान्महेशानि कल्पोक्तं च विशेषतः ||
(कुलावतारे) सृष्टेस्तु सुतपुष्ट्यादि स्थितेस्तत्पालनं भवेत् |
संहृतेर्दोषसंहारं तस्मात् त्रितयमाचरेत् ||
(सिद्धान्तसारे) सर्गे सर्गान्वितान् न्यसेत् संहृतौ च सबिन्दुकान् |
डादिठान्तान् न्यसेद्वर्णान् स्थितौ तदुभयान्वितान् ||


S. 183, Weitere Erhaltungsfolge
(त्रिशक्तिरत्ने तु) अकथादित्रिभेदेन विभज्य मनुवल्लिपिम् |
कवर्गं प्रथमं न्यसेदवर्गं च ततः परम् ||
तवर्गं विन्यसेत् पश्चात् स्थितिरेषा प्रकीर्तिता—इत्युक्तम् |


S. 183, Fingerstellungen des Matrika-Nyasa
मातृकान्यासमुद्रा उक्तास्तन्त्रान्तरे |
ललाटेऽनामिकामध्ये न्यसेच्च मुखवृत्तके |
तर्जनीमध्यमानामा विन्यसेच्चैव नेत्रयोः ||
तर्जन्यनामे संयोज्य न्यसेत् साधकसत्तमः |
अङ्गुष्ठं कर्णयोन्यस्य कनिष्ठाङ्गुष्ठकौ नसोः ||
मध्यमां गण्डयोर्न्यस्य मध्यमामोष्ठयोर्न्यसेत् |
अनामां दन्तयोर्न्यस्य मध्यमामुत्तमाङ्गके ||
मुखेऽनामां मध्यमां च हस्ते पादे च पार्श्वयोः |
कनिष्ठानामिकामध्या न्यस्तव्याः पृष्ठतस्तथा ||
ताः साङ्गुष्ठा नाभिदेशे सर्वाः कुक्षौ च विन्यसेत् |
हृदये साधकः सर्वा अंसयोश्च ककुत्स्थले ||
हृत्पूर्वहस्तपत्कुक्षिमुखेषु तलमेव च |
एतास्तु मातृकामुद्राः क्रमेण परिकीर्तिताः ||
अज्ञात्वा विन्यसेद्यस्तु न्यासः स्यात् तस्य निष्फलः |


S. 183, Andere Arten der Berührung
(मन्त्रतन्त्रप्रकाशे) पुष्पैरनामया वाऽपि मनसा वा न्यसेदमून् |
अनामयेत्यस्य साङ्गुष्ठयेति |
अङ्गुष्ठानामिकाभ्यां तु न्यासः सर्वत्र संमतः |
इति (पञ्चवाहिनी) वचनात् |
तेन च |
पुष्पैर्देवतामूर्तौ अङ्गुष्ठानामिकाभ्यां स्वदेहे मनसा मूलाधारादिषु न्यासो बोध्यः |
इदं च ऋष्यादिकरषडङ्गन्यासबहिर्मातृकादिव्यतिरिक्तेषु तत्र मुद्रान्तराभिधानात् |


Lesungshinweise: [Buchstaben]

S. 184, Weitere Nyasas nach der Matrika
(डामरे) कृत्वा तु मातृकान्यासं न्यासानन्यान् समाचरेत् |
मूलमन्त्रस्य ऋष्यादिकराङ्गादि ततो न्यसेत् |
(योगिनीतन्त्रे) ऋष्यादीन् विन्यसेद्देवि चतुर्थीहृदयान्तकान् |


S. 184, Körperstellen der Mantra-Zuordnungen
(बृहन्मत्स्यसूक्ते) ऋषिन्यासो मूर्ध्नि देशे छन्दस्तु मुखपङ्कजे |
देवता हृदये चैव बीजं तु गुह्यदेशके ||
शक्तिं च पादयोश्चैव सर्वाङ्गे कीलकं न्यसेत् |
(मेरुतन्त्रे) ऋषेर्गुरुत्वाच्छिरसि वर्णत्वाच्छन्दसो मुखे |
धारणं प्रोच्यते चित्ते ज्ञेयत्वाद्देवता हृदि ||


S. 184, Wer ein Rishi des Mantras ist
ऋषिस्तु |
महेश्वरमुखाज्ज्ञात्वा यः साक्षात् तपसा मनुम् |
संसाधयति शुद्धात्मा स तस्य ऋषिरीरितः ||
इति (कालानलतन्त्रे) प्रोक्तम् |
(तथा) गुरुत्वान्मस्तके चास्य न्यासश्च परिकीर्तितः ||
(मेरुतन्त्रे) ऋ गताविति धातोस्तु ऋवर्णः प्रापको मतः |
षिवर्णार्थस्तु विज्ञानमतस्तत्प्रापकस्तु सः ||


S. 184, Bedeutung von Chandas und Viniyoga
(बृहन्मत्स्यसूक्ते) सर्वेषां मन्त्रतत्त्वानां छादनाच्छन्द उच्यते |
अक्षरत्वात् पदत्वाच्च मुखे छन्दः समीरितम् ||
ऋषिच्छन्दोऽपरिज्ञानान्न मन्त्रफलभाग्भवेत् |
दौर्बल्यं चापि मन्त्राणां विनियोगमजानताम् ||


S. 185, Mudras für Rishi und weitere Zuordnungen
ऋष्यादिन्यासमुद्रा उक्तास्तन्त्रान्तरे |
ऋषिच्छन्दोदेवतानां न्यासे चाङ्गुलयः स्मृताः |
चतस्रोऽङ्गुष्ठरहिताः शक्त्यन्तं विन्यसेत् ततः ||
कीलकं व्यस्तहस्ताभ्यां सर्वाङ्गे साधकाग्रणीः |


S. 185, Mudras der sechs Glieder
अथाङ्गमुद्रास्तत्रैव |
हृदये मध्यमानामातर्जनीभिर्न्यसेद्बुधः |
मध्यमातर्जनीभ्यां च शिरसि न्यासमाचरेत् ||
अङ्गुष्ठेन शिखायां च दशभिः कवचे न्यसेत् |
नेत्रेषु तिसृभिश्च स्यादस्त्रमूर्ध्वोर्ध्वगं त्रिशः ||
मध्यमातर्जनीभ्यां स्यादङ्गमुद्राः स्मृता इमाः |


Lesungshinweise: Dies gelten als die Glieder-Mudras.“ Lesungshinweis: Die Bewegungsangabe ūrdhvordhvagam ist knapp; ihre genaue Ausführung wird nicht durch eine zusätzliche Handlungsanweisung ergänzt.

S. 185, Innere Bedeutung der sechs Glieder
षडङ्गार्थमाह |
हृदयायेति शब्देन हृत्स्थो देवः सविग्रहः |
उच्यते नम इत्यस्य ज्ञानं तद्विषयं परम् ||
शिरःशब्दो देवताया उत्कृष्टत्वाभिधायकः |
स्वाहेति विषयाः सर्वे देवतायां समर्पिताः ||
शिखायै तत्स्वरूपत्वं वषड्वापि तदुच्यते |
देवताया व्यापकत्वं कवचायाभिधीयते ||
हुमिति व्यापकं तेजो देवतायाः प्रकाश्यते |
नेत्रशब्देन देवस्य नित्यज्ञानं प्रकाश्यते ||
वौषडिति तदैश्वर्यमस्त्रशब्देन वारणम् |
अनिष्टस्य फट्शब्दे छादकं तेज उच्यते ||
ज्ञात्वैवमङ्गमन्त्रार्थमङ्गन्यासं करोति यः |
करस्थास्तस्य सङ्घार्थाः पूज्यते त्रिदशैरपि ||


Lesungshinweise: Wer in Kenntnis dieser Bedeutung der Glieder-Mantras den Anga-Nyasa vollzieht, dem liegen die gemeinsam erstrebten Ziele in der Hand; selbst die Götter verehren ihn.“ Lesungshinweis: Das Schlusskompositum saṅghārthāḥ ist nicht sicher zu deuten.

S. 185–186, Gottheit und Herz-Nyasa
(मेरुतन्त्रे) क्रीडार्थकाद्दिवो धातोः संपूर्णं देवतापदम् |
साधकाय ददातीति देवता परिकीर्तिता ||
रज्यमानो हृदाऽऽत्मानं हृदयेऽस्ति चिदात्मकः |
तस्मात् तत्र नमस्कुर्यान्मुख्याङ्गुष्ठेन संस्पृशेत् ||


Lesungshinweise: Deshalb soll man sich dort verneigen und die Stelle mit dem vorrangigen Daumen berühren.“ Lesungshinweis: Die Herleitung und der Satz um rajyamānaḥ sind in der Quelle verkürzt und sprachlich nicht eindeutig.

S. 186, Weitere Deutungen der Glieder
स्वाहया क्रियते सम्यग्विषयाहरणं यतः |
अनामातर्जनीभ्यां तैराकृष्टेः कं निषेव्यते ||
शिखा महो वषड्वाऽङ्गं शिखयाऽऽत्मनुग्रहः |
यस्मात् तस्माद्वषडिति क्रियतेऽङ्गुलमध्यया ||
ग्रहणार्थः कवचधातुर्हुं मन्त्रेण स युज्यते |
शरीरेऽतस्तु कवचं तर्जन्याऽनामयाऽपि तत् |
यथार्थज्ञानकृद्वौषट् तन्नेत्राभ्यां प्रजायते ||
तस्मादुक्तं तत्र वौषट् तर्जन्याद्यैस्तु तत् स्मृतम् |
एकाक्षत्वात् कुवेरादिदेवते ङेऽन्तमुच्चरेत् ||
भ्यामन्तं विष्ण्वादिके रुद्रादौ तु नेत्रत्रयात्मकम् |
आध्यात्मिकादिरूपं यत् साधकस्य विनाशयेत् ||
अविद्याजातमस्त्रं तत् फट्तालाभ्यां प्रपञ्च्यते |


Lesungshinweise: Was die aus Unwissenheit entstandenen, im eigenen Inneren und anderweitig auftretenden Leiden des Übenden vernichtet, ist Astra; dies wird durch Phat und Händeklatschen ausgedrückt.“ Lesungshinweis: Mehrere Wortverbindungen dieses Abschnitts, insbesondere śikhā maho und ātmanugrahaḥ, bleiben unsicher.

S. 186, Sechs Abschlusswörter
(यामले) न्यसेदङ्गुष्ठमुख्येषु जातिभिर्नमसाऽथ वा |
हृदादिषु षडङ्गेषु जातिषट्केन विन्यसेत् ||
नमः स्वाहा वषट् हूँ वौषट् फडेताश्च जातयः |
अन्यत्रापि |
जातिषट्कमिति प्रोक्तं हृदाद्यस्त्रान्तसंयुतम् |


S. 186–187, Ausgeschriebene Glieder-Mantras
तथा च (शारदायाम्) हृदयादिषु विन्यसेदङ्गमन्त्रांस्ततः सुधीः |
हृदयाय नमः पूर्वं शिरसे वह्निवल्लभाम् ||
शिखायै वषडित्युक्तं कवचाय हुमीरितम् |
नेत्रत्रयाय वौषट् स्यादस्त्राय फडिति क्रमात् ||
षडङ्गमन्त्रानित्युक्तान् षडङ्गेषु नियोजयेत् |


Lesungshinweise: [Svaha]

S. 187, Verbindlichkeit des Anga-Nyasa
अङ्गन्यासस्य नित्यतोक्ता (ज्ञानमालायाम्) पूजाजपार्चनाहोमाः सिद्धमन्त्रकृता अपि |
अङ्गन्यासेन विधुरा न दास्यन्ति फलान्यमी ||
(मेरुतन्त्रे) षडङ्गं विन्यसेन्मन्त्री पञ्चाङ्गं वा यथाविधि |
यस्य मन्त्रस्य पञ्चाङ्गं नेत्रं तस्य विहीयते ||
अङ्गैर्विहीनस्य मनोरङ्गं तेनैव कल्पयेत् |


S. 187, Schutz und Umfang des Nyasa
तथा |
आगमोक्तेन मार्गेण न्यासान् नित्यं करोति यः |
देवताभावमाप्नोति मन्त्रसिद्धिः प्रजायते ||
यो न्यासकवचच्छन्नो मन्त्रं जपति तं प्रिये |
दृष्ट्वा विघ्नाः पलायन्ते सिंहं दृष्ट्वा यथा गजाः ||
अकृत्वा न्यासजालं यो मूढात्मा कुरुते जपम् |
विघ्नैः स बाध्यते नूनं व्याघ्रैर्मृगशिशुर्यथा ||
न्यासानां प्रचुरत्वेन फलानामपि भूरिता |
उक्तन्यासो न हि त्याजस्त्वधिकं कामतश्चरेत् |


S. 187–188, Unterbau des inneren Yoga-Sitzes
(यामले) ततस्तु योगपीठाख्यं स्वदेहे न्यासमाचरेत् |
आधारशक्तिं प्रकृतिं तथा कूर्ममनन्तकम् ||
अन्यत्र तु मूलप्रकृत्यनन्तरं कालाग्निरुद्रोऽप्युक्तः |
ततश्च मूलप्रकृतिं रुद्रं कालानलाह्वयम्—इति |
मेरौ तु मूलप्रकृतेः प्रागेव कालाग्निरुद्र उक्तः |
तदनन्तरमाधारशक्तिरुक्ता |
तथा |
वराहं पृथिवीं क्षीरसिन्धुं द्वीपं च रत्नजम् |
वैष्णवे तु श्वेतद्वीप उक्तः |
मणिजं मण्डपं कल्पपादपं मणिवेदिकाम् |
रत्नपीठं तथैतानि मन्त्री हृद्येव विन्यसेत् ||
क्वचिन्मणिमण्डपानन्तरं नन्दनोद्यानमप्युक्तम् |


S. 188, Eigenschaften als Stützen des Sitzes
(शारदायाम्) अंसोरुयुग्मयोर्विद्वान् प्रादक्षिण्येन देशिकः |
धर्मं ज्ञानं च वैराग्यमैश्वर्यं विन्यसेत् क्रमात् ||
धर्मादयः स्मृताः पादाः पीठगात्राणि चापरे |
मुखपार्श्वनाभिपार्श्वेष्वधर्मादीन् प्रकल्पयेत् ||


S. 188, Sonne, Mond, Feuer und die drei Gunas
अनन्तं हृदये पद्मं यस्मिन् सूर्येन्दुपावकान् |
एषु स्वस्वकला न्यसेन्नामाद्यक्षरपूर्विकाः ||
अकाराद्यं न्यसेत् सूर्यमुकाराद्यं निशाकरम् |
मकाराद्यं न्यसेद्वह्निं कलामण्डलसंयुतम् ||
सत्त्वादींस्त्रीन् गुणान् न्यसेत्तथात्र गुरुत्तमः |
सत्त्वं रजस्तम इति यस्य भेदाः समीरिताः ||


S. 188, Selbst und Gottheit auf dem inneren Sitz
आत्मानमन्तरात्मानं परमात्मानमत्र तु |
आदिबीजत्रयं न्यस्य शक्तिबीजपुरस्सरम् ||
ज्ञानात्मानं प्रविन्यस्य न्यसेत् पीठमनुं ततः |
एवं देहमये पीठे चिन्तयेदिष्टदेवताम् ||


S. 188–189, Saguna- und Nirguna-Dhyana
देवताध्यानस्य द्वैविध्यमुक्तम् (मेरुतन्त्रे) ध्यानं कुर्यात् ततो तत्तत्कल्पोक्तेनैव वर्त्मना |
तदपि द्विविधं प्रोक्तं सगुणं निर्गुणं तथा ||
आत्मनो हृदयाम्भोजे कर्णिकाकेशरोज्ज्वले |
प्रफुल्ले सोमसूर्याग्निमण्डलेन विराजिते ||
स्वीयेष्टदेवतां तत्र विदध्यादागमोदिताम् |
एवं यद्वेदनं तद्धि सगुणं ध्यानमुच्यते ||
यज्जीवब्रह्मणोरैक्यं सोऽहं स्यामिति वेदनम् |
तदेव निर्गुणं ध्यानमिति ब्रह्मविदो विदुः—इति |


S. 189, Zeitpunkt der Mudras
अत्र न्यासानन्तरं ध्यानात् प्रागेव मुद्राप्रदर्शनमुक्तम् |
(मेरुतन्त्रे) कराङ्गन्यासमुख्यांस्तु न्यासानन्यान् समाचरेत् |
तत्तत्कल्पोदितान् पश्चात् तत्तन्मुद्राः प्रदर्शयेत्—इति |
अन्यत्र तु |
एवं ध्यात्वा महेशानि ततो मुद्राः प्रदर्शयेत्—इति |
ध्यानानन्तरं तदुक्तम् |
(महाथर्वणरहस्ये) तु न्यासध्यानान्तर्यागानुक्त्वा |
ततश्च तन्मयो भूत्वा मुद्रा एताः प्रदर्शयेत्—इत्युक्तमिति |
तत्र कालविकल्पो बोध्यः |


S. 189, Mantras beim Bilden und Lösen der Mudras
मुद्राबन्धने तत्प्रदर्शनत्यागयोश्च मन्त्रभेदा (मेरुतन्त्रे) उक्ताः |
ॐ ह्रीँमिति तु बीजाभ्यां मुद्राया बन्धनं स्मृतम् |
दर्शयेन्मूलमन्त्रेण ह्सौँ बीजेन संत्यजेत् ||


Lesungshinweise: Für das Bilden, Zeigen und Lösen einer Mudra nennt das Meru Tantra verschiedene Mantras: „Mit den beiden angegebenen Bijas Om und Hri wird die Mudra gebildet; mit dem Mula-Mantra wird sie gezeigt; mit dem Hsaum-Bija wird sie gelöst.“ Lesungshinweis: Das Zeichenbild des letzten Bija bleibt unsicher.

S. 189, Vorrang des inneren Opfers
(सनत्कुमारसंहितायाम्) अकृत्वा मानसं यागं न कुर्याद्बहिरर्चनम् |
अन्तर्यागविधिः (बृहदुत्तरतन्त्रे) हृत्पद्मकर्णिकामध्ये योगपीठोपरि स्थिताम् |
ध्यात्वा तां गन्धपुष्पाद्यैर्मानसैरुपचारकैः ||
संपूज्य विधिवत् पश्चान्मानसं होममाचरेत् |


S. 189–190, Fünfzehn innere Blumen
(श्यामारहस्ये) धृतवचनानि |
अमायामनहंकारमरागममदं तथा |
अमोहमदम्भं च अद्वेषाक्षोभकौ तथा ||
अमात्सर्यमलोभं च दश पुष्पं विदुर्बुधाः |
अहिंसापरमं पुष्पं पुष्पमिन्द्रियनिग्रहम् ||
दयापुष्पं क्षमापुष्पं ज्ञानपुष्पं च पञ्चमम् |
इत्युक्तैरुत्तमैः पुष्पैः पूजयेत् परदेवताम् ||


S. 190, Erstes geistiges Feueropfer
(मेरुतन्त्रे) मूलाधारे चतुष्कोणमग्निकुण्डं विचिन्तयेत् |
तत्राग्निं कुण्डलीरूपं ध्यायेन्मूलं समुच्चरेत् ||
धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा |
सुषुम्णावर्त्मना नित्यमक्षवृत्तिर्जुहोम्यहम् ||
पुण्यं जुहोमि स्वाहेति श्लोकान्ते प्रोच्चरेत् पुनः |
पुनर्मूलं पुनः श्लोकं पुनः पापं जुहोमि च ||
कृत्याकृत्ये च संकल्पो विकल्पो धर्म एव च |
हुत्वा पृथक् च स्वाहान्तं पुनः श्लोकमिमं पठेत् ||


Lesungshinweise: Danach spreche man den folgenden Vers.“ Lesungshinweis: akṣavṛttiḥ steht im Druck grammatisch nicht erwartungsgemäß; der erkennbare Sinn wird wiedergegeben, ohne den Sanskrittext still zu ändern.

S. 190, Opfer im Feuer der Fülle
प्रकाशामर्षहस्ताभ्यामवलम्ब्योन्मनीस्रुवम् |
धर्माधर्मकलास्नेहं पूर्णवह्नौ जुहोम्यहम् ||
स्वाहान्तेनाहुतिं दत्त्वा प्राणायामनिरोधतः |
निरस्तनिखिलोपाधिमात्मानं चिन्मयं स्मरेत् ||


Lesungshinweise: Nachdem man die Gabe mit Svaha am Ende dargebracht hat, vergegenwärtige man sich durch die Stillstellung im Pranayama das eigene Selbst als reines Bewusstsein, frei von allen begrenzenden Bestimmungen.“ Lesungshinweis: Die gedruckte Lesung prakāśāmarṣa ist gegenüber der erwartbaren Verbindung von Prakasha und Vimarsha auffällig; die Deutung bleibt vorläufig und wird nicht still in den Sanskrittext zurückgetragen.

S. 190, Erste Gabe nach dem Shyama-Rahasya
(श्यामारहस्यादौ) तु मूलान्ते |
नाभिचैतन्यरूपाग्नौ हविषा मनसा स्रुचा |
ज्ञानप्रदीपिते नित्यमक्षवृत्तिर्जुहोम्यहम् ||
स्वाहा इति प्रथमाहुतिः |


Lesungshinweise: Lesungshinweis: Die Verbindung haviṣā und die Form akṣavṛttiḥ bleiben im Sanskrit nach der gedruckten Lesung erhalten.

S. 190, Beginn der zweiten Gabe nach dem Shyama-Rahasya
मूलान्ते |
धर्माधर्महविर्दीप्ते स्वात्माग्नौ मनसा स्रुचा |
सुषुम्णावर्त्मना नित्यमक्षवृत्तिर्जुहोम्यहम् ||


S. 191, Abschluss der zweiten inneren Gabe
स्वाहा—इति द्वितीयाऽऽहुतिः |


S. 191, Dritte innere Gabe
मूलान्ते |
प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीस्रुचा |
धर्माधर्मकलास्नेहं पूर्णमग्नौ जुहोम्यहम् ||
स्वाहा—इति तृतीयाऽऽहुतिः |


Lesungshinweise: Lesungshinweis: Die Verbindung avalambyonmanīsrucā ist grammatisch auffällig.

S. 191, Vierte innere Gabe
मूलान्ते |
अन्तर्निरन्तरनिरिन्धनमेधमाने मोहान्धकारपरिपन्थिनि संविदग्नौ |
कस्मिंश्चिदद्भुतमरीचिविकाशभूमौ विश्वं जुहोमि वसुधादिशिवावसानम् ||
स्वाहा—इति चतुर्थाहुतिः |
इति श्लोकचतुष्टयेनाहुतिचतुष्टयमुक्तम् |


S. 191, Kundalini und innerer Göttersitz
(मेरुतन्त्रे) इडया वायुमाकृष्य गुदं किञ्चिदाकुञ्च्य जिह्वां तालुगतां विधाय मूलाधारात् कुण्डलिनीमुत्थाप्य सहस्रदलकमलकर्णिकान्तर्गतपरमशिवेन सह तां संयोज्य प्रोक्तपीठे देवतामर्चयेदिति विशेष उक्तः |
(यथा) वामनाडीः समाकृष्य किञ्चिदाकुञ्चयेद्गुदम् |
रेचयेत् सममार्गेण जिह्वां तालुगतां चरेत् ||
शक्तिं शिवपदे योज्य किञ्चिदाकुञ्चयेदधः |
कृत्वैवं तु यजेत् पीठं न्यासमार्गेण मन्त्रवित् ||
तस्मिन् पीठे स्थितामिष्टदेवतां मूर्तिविग्रहाम् |
ध्यात्वा यजेच्चन्दनाद्यैर्मानसैर्भोजनान्तकैः ||
भोजनावसरं त्वन्तर्वैश्वदेवेन समाचरेत् |


S. 191, Japa nach der inneren Verehrung
तत्रैव |
तदन्ते तन्मयो भूत्वा जपेदष्टोत्तरं शतम् |
मूलं तत् सर्वसंपत्त्यै देवतायै निवेदयेत् ||


S. 191–192, Innere Mala und andere Reihenfolge
(मातृकार्णवे) माला पञ्चाशिका प्रोक्ता सूत्रं शक्तिशिवात्मकम् |
ग्रन्थिः कुण्डलिनी प्रोक्ता कलान्ते मेरुसंस्थितिः ||
(कुमारीकल्पे) तु होमात् पूर्वं जप उक्तः |
ततो वै मानसं जपं कुर्याद्धोमादिमेव च |
नमस्कृत्य तथा स्तुत्वा बहिर्यागमथाचरेत्—इति ||


Lesungshinweise: Nachdem man sich verneigt und Lob gesungen hat, führe man die äußere Verehrung aus.“ Lesungshinweis: Die Angabe kalānte beim Meru ist nicht sicher aufzulösen; eine zusätzliche Buchstabenposition wird nicht ergänzt.

S. 192, Abschluss der inneren Verehrung
(चन्द्रिकायाम्) इत्यन्तर्यजनं कृत्वा साक्षाद्ब्रह्ममयो भवेत् |
न तस्य पापपुण्यानि जीवन्मुक्तो भवेद्ध्रुवि ||
इत्यन्तर्यागविधिः |


Lesungshinweise: Lesungshinweis: Die Schlussform dhruvi ist im Druck auffällig; der Satz über Jivanmukti ist eindeutig.

S. 192, Platzierung der Gefäße
अथ पात्रासादनम् |
तदुक्तम् (यामले) साध्यसाधकयोर्मध्ये षट्त्रिंशदङ्गुलं भवेत् |
द्वादशाङ्गुलमूर्ध्वं च तदधो द्वादशाङ्गुलम् ||
द्वादशाङ्गुलमध्यस्थं तत्र संस्थापयेद्बुधः |


Lesungshinweise: [das Gefäß]

S. 192, Gefäßmaterialien und zugeschriebene Wirkungen
(मेरुतन्त्रे) अथार्घादिकपात्राणां फलं वक्ष्ये शुभाशुभम् |
सर्वकामप्रदं स्वर्णं रौप्यमायुःसुतप्रदम् ||
सौभाग्यं ताम्रपात्रेण धर्मवृद्धिस्तु मृन्मये |
नारिकेले देवतुष्टिः पुष्टिकृत् काचसंभवम् ||
लक्ष्मीप्राप्तिर्बिल्वपात्रे ब्राह्मण्यं ब्रह्मवृक्षजे |
मारणोच्चाटने लौहं स्तम्भे पाषाणजं भवेत् ||
मन्त्रस्याराधने काष्ठं वाममार्गे तु तौम्बिकम् |
रत्नादीनां तु पात्राणि शुभरेखाङ्कितानि च ||
अर्घ्यनैवेद्यपूजार्थं बलिदाने प्रकल्पयेत् |


S. 192–193, Lob der Kokosnussschale
(महाहारतन्त्रे) कन्याकोटिप्रदानानि तथा हेमशतानि च |
यो ददाति महेशानि राहुग्रस्ते दिवाकरे ||
तत्फलं कोटिगुणितं नारिकेलार्घ्यपात्रतः |
शक्तिविषयमिदम् |


S. 193, Gefäße für bestimmte Gottheiten und Größen
देवताविशेषेण पात्रविशेषमाह (मेरुतन्त्रे) कांस्यस्य वाऽथ रौप्यस्य शैवे शङ्खवरो हरौ |
महाशङ्खो वाममार्गे स्फाटिकं ग्रहणायके ||
पात्राणामादरः कार्यः पात्राण्येवोत्तमानि तु |
बलिहोमक्रियाद्यं हि विना पात्रं न सिद्ध्यति ||
षट्त्रिंशदङ्गुलं पात्रमुत्तमं परिकीर्तितम् |
मध्यमं तु त्रिभागोनं कनिष्ठं द्वादशाङ्गुलम् ||
वस्वङ्गुलविहीनं तु न पात्रं कारयेत् क्वचित् |
नाभीविवररूपाणि पुण्डरीकाकृतीनि च ||
शङ्खनीलोत्पलाभानि पात्राणि परिकल्पयेत् |
श्वेतादीन्यतिरक्तानि विप्रादीनां क्रमेण च ||


Lesungshinweise: Für Brahmanen und die folgenden Stände seien die Farben der Reihe nach weiß und die weiteren bis kräftig rot.“ Lesungshinweis: Der Gottheitsname Grahanayaka ist unsicher gelesen.

S. 193, Weitere Gefäßarten
(तत्त्वसारसंहितायाम्) शङ्खं ज्ञानप्रदं मुक्ता शुक्तिर्विद्याप्रदायिनी |
कपालालाबुपात्राणि योगसिद्धिकराणि च ||
कपालादिविधिर्वीरपरः |


Lesungshinweise: Lesungshinweis: Die Trennung um muktā śuktiḥ ist im Druck auffällig; die Deutung als Perlenmuschel bleibt lokal vorläufig.

S. 193, Allgemeines Arghya und Beginn der Krugaufstellung
(समयाचारे) सामान्यर्घं ततः कृत्वा पयसा साधकोत्तमः |
तज्जलैर्मण्डलं कृत्वा पात्राणि स्थापयेत् ततः ||
सामान्यर्घविधिः प्रागुक्तः |
अथ कलशस्थापनविधिः (सिद्धान्तसारे) अस्त्रेण भूमिं संशोध्य सामान्यर्घोदकेन च |
स्ववामे बिन्दुषट्कोणवृत्तवेदास्रमण्डलम् ||
संलिख्य मूलमन्त्रान्ते देवतानाम कीर्तयेत् |
पूजयेत् कलशाधारमण्डलाय नमोऽर्णुना ||


Lesungshinweise: Nach dem Mula-Mantra nenne man die Gottheit und verehre mit: ‚Dem Mandala, das den Kalasha trägt, Verehrung.‘“ Lesungshinweis: Der letzte Ausdruck namo’rṇunā ist beschädigt; die Druckfußnote erklärt ihn als den Mantra Namah.

S. 194, Feuer und Sonne am Kalasha
आधारं स्थापयेत् तत्र क्षालितं हेतिमन्त्रतः |
यजेद्दशकलाभिस्तु व्याप्तं तत्राग्निमण्डलम् ||
प्रक्षाल्य कलशं तत्र स्थापयेद्देवताधिया |
सूर्यबिम्बं यजेत् तत्र कलाद्वादशसंयुतम् ||
शुद्धेन पाथसा कुम्भं मूलमन्त्रेण पूरयेत् |


Lesungshinweise: Mit reinem Wasser fülle man den Krug unter Verwendung des Mula-Mantras.“ Die Druckfußnote erklärt Heti als Astra.

S. 194, Alternative Füllung und Mondkreis
वाममार्गे तु |
शुद्धेन हेतुना मन्त्री मूलमन्त्रेण पूरयेत् |
इति मन्त्रान्तरवचनं सुधार्णवादौ स्थितम् |
शुद्धेनेति संस्कृतेनेत्यर्थः |
तथा |
चन्द्रबिम्बं यजेत् तत्र कलाषोडशसंयुतम् |
तारभागैस्त्रिभिर्मन्त्री बिम्बत्रितयमर्चयेत् ||


S. 194, Anrufung und Verehrung des Kruges
तीर्थं तत्र समावाह्य हेतिवर्मस्वमूलकैः |
मन्त्रैः संरक्ष्यावगुण्ठ्य संवीक्ष्याभ्युक्ष्य मन्त्रवित् ||
पूजयेद्गन्धपुष्पाद्यैराच्छाद्य मत्स्यमुद्रया |
मन्त्रेणानेन देवेशि कलशं चाभिमन्त्रयेत् ||


S. 194, Die Gottheiten im Kalasha
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः |
मूले तस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ||
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा |
ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ||
अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः |
इत्युक्त्वा मूलमन्त्रेण मन्त्रयेदष्टधा घटम् ||
कुम्भमुद्रां प्रदर्श्याथ भावयेद्देवतात्मकम् |


S. 195, Reihenfolge der Opfergefäße
कुम्भमुद्रा त्वग्रे वक्ष्यते |
(यामले) स्वदक्षे प्रोक्षणीपात्रमाधायाद्भिः प्रपूरयेत् |
किञ्चिदर्घ्याम्बु संगृह्य प्रोक्षण्याम्भसि योजयेत् ||
ततः साधारकं पात्रं पुरतः स्थापयेद्बुधः |
तत्पार्श्वे पाद्यदानं च तत्पार्श्वेऽर्घ्यप्रदानकम् ||
आचमनीयं तु तत्पार्श्वे तद्वामे मधुपर्ककम् |
पुनराचमनीयं च स्नानीयं तत्क्रमान्न्यसेत् ||


S. 195, Erläuterung und alternative Anordnung
अर्घ्याम्बु इति सामान्यर्घोदकमित्यर्थः |
सामान्यर्घोदकस्य पात्रासादनात् पूर्वमेव स्वदक्षिणे स्थापनीयत्वात् |
अत एव तद्दक्षिणपार्श्वे पात्रपात्रस्थापनार्थं किञ्चित् स्थलं परित्यज्य प्रोक्षणीपात्रं स्थापयेदिति |
तत्पार्श्वेऽर्घ्यप्रदानकमिति पाद्यपात्रवामभागेऽर्घ्यपात्रमित्यर्थः |
(मेरुतन्त्रादौ तु) अर्घ्यस्योत्तरदिग्भागे पाद्यमाचमनीयकम् |
मधुपर्कं च संस्थाप्य त्रिकोणेषु यथाक्रमम् ||
इत्यर्घ्यपात्रस्थापनानन्तरं तद्वामभागे पाद्यादिपात्रस्थापनमुक्तम् |
उपचारसमर्पणसमयेऽपि पाद्यदानात् पूर्वमर्घ्यदानं तत्रोक्तम् |


Lesungshinweise: Lesungshinweis: Das doppelte pātrapātra in der Prosa ist auffällig; es wird keine zusätzliche Gefäßart daraus abgeleitet.

S. 195, Mindestzahl und dreifache Gefäße
(नवरत्नेश्वरे) एकपात्रं न कर्तव्यं यदि साक्षान्महेश्वरः |
मन्त्राः पराङ्मुखा यान्ति आपदश्च पदे पदे ||
इह लोके च दारिद्र्यं मृते च पशुतां व्रजेत् |
तत्रैव |
पात्रद्वयमभावाद्वा कुर्यान्न्यूनं न चाचरेत् |
(गौतमीये) अर्घ्यपात्राणि च त्रीणि पाद्यस्यापि त्रयं तथा |
तथैवाचमनीयानि पात्राणि च विभागशः ||
तथाकरणाद्वैविध्यादिकमेव प्रशस्यते |


Lesungshinweise: Lesungshinweis: Das Schlusswort um dvaividhya ist nicht eindeutig; die angeführten Zahlen bleiben getrennt erhalten.

S. 196, Zutaten nach der Phetkarini
पाद्यादिद्रव्याण्युक्तानि (फेत्कारिण्याम्) उशीरं रोचनं चैव पाद्यपात्रे तु कल्पयेत् |
कुशाग्रानक्षतं चैव यवव्रीहितिलानपि ||
आज्यसिद्धार्थपुष्पाणि क्षिपेदर्घ्यस्य पात्रके |
जातीकर्पूरकङ्कोलबहुमूलतमालकान् ||
चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयके |
माक्षिकं शर्करासर्पिर्दधिक्षीरयुतं तथा ||
मधुपर्कं कल्पयित्वा प्रदद्याद्विधिपूर्वकम् |


Lesungshinweise: Madhuparka bereite man aus Honig, Zucker, Ghee, Dickmilch und Milch und bringe es vorschriftsgemäß dar.“ Lesungshinweis: Bahumula ist als Zutatenname nicht sicher bestimmt; eine botanische Identifizierung wird nicht ergänzt.

S. 196, Zutaten nach dem Meru Tantra
(मेरुतन्त्रे) पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरुच्यते |
तथा |
गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपाः |
दूर्वा इत्यर्घ्यपात्रस्य प्रोक्तं द्रव्याष्टकं सुराः ||
सुरा इति देवसंबोधनम् |
तथा |
जातीलवङ्गकङ्कोलैर्मतमाचमनीयकम् |
कुशपुष्पयवव्रीहिबहुमूलतमालकम् ||
दापयेत् प्रोक्षणीपात्राम्भसि तत्प्रणवेन च |


Lesungshinweise: Kusha, Blumen, Gerste, Reis, Bahumula und Tamala gebe man mit Pranava in das Wasser des Besprengungsgefäßes.“ Lesungshinweis: Die Verbindung kuśapuṣpa kann auch Kusha-Blüten bezeichnen; die Aufzählung bleibt an dieser Stelle nicht vollständig eindeutig.

S. 196, Badewasser und Ersatz bei fehlenden Zutaten
(महाकालसंहितायाम्) अन्यानिवेदितं तोयं प्रकृतिस्थं सुशीतलम् |
हेमादिकुम्भपात्रस्थं स्नानीयं जलमुच्यते ||
(चन्द्रिकायाम्) गन्धाद्भिः कारयेत् स्नानम् .... .... .... इति |
(मेरौ) शुद्धाभिरद्भिर्विहितं पुनराचमनीयकम् |
द्रव्याभावे प्रदातव्याः क्षालितास्तण्डुलाः शुभाः ||


S. 197, Muschelgefäß bei der Vishnu-Verehrung
विष्णुपूजायां शङ्खस्थापनमावश्यकम् |
तदुक्तं कुम्भसंभवेन |
विनैव शङ्खं पूजां यो वैष्णवः पूजयेद्धरिम् |
पूजाफलं न चाप्नोति स सम्यक् पूजकोऽपि सन् ||


S. 197, Mandala und Unterlage der Muschel
शङ्खस्थापनविधिरुक्तो (मेरुतन्त्रे) स्ववामे इत्युपक्रम्य |
वृत्तेन वेष्टितं सम्यक् त्रिकोणं चन्दनाम्भसा |
तद्बहिश्चतुरस्रं च विदध्यान्मत्स्यमुद्रया ||
संपूज्य गन्धैर्देवार्घ्यमण्डलाय नमोऽणुना |
षडङ्गानि चतुरग्न्यादिकोणेषु पुरतस्तथा ||
दिक्षु चास्त्रं समभ्यर्च्य शङ्खाधारं प्रविन्यसेत् |
आधारेण विना शश्वो न तृप्यन्ति च मातरः ||
तस्माद्विधिवदाधारं त्रिपदं वा चतुष्पदम् |
पद्माभं वा त्रिकोणं वा योन्याभं धातुजं तु तत् ||


Lesungshinweise: Deshalb verwende man vorschriftsgemäß eine metallene Unterlage, drei- oder vierfüßig, lotusförmig, dreieckig oder einer Yoni gleich.“ Lesungshinweis: Das Wort śaśvo vor der Aussage über die Mütter ist unklar.

S. 197, Weihe der Feuerunterlage
मूलान्ते चामुकाधारपात्रं संस्थापयामि च |
उक्त्वा शङ्खादिकाधारं मण्डले स्थापयेदथ ||
मँ रँ धर्मप्रदेत्युक्त्वा वदेद्दशकलात्मने |
ङेऽन्तं वह्नेर्मण्डलं च देवनाम च कीर्तयेत् ||
ततोऽर्घ्यपात्राधाराय नमः प्रोक्त्वा प्रपूजयेत् |
वह्नेर्दशकलाः पूज्यास्तत्र प्रोक्ताः प्रदक्षिणम् ||
अत्र शङ्खार्घ्ययोरभिधानमुक्तविधानशङ्खविशेषार्घ्यस्थापनसाधारण्यादिति बोध्यम् |


Lesungshinweise: [genannte]

S. 197–198, Aufstellung und Sonnenkreis
अस्त्रमन्त्रेण च ततः कनकादिविनिर्मितम् |
अर्घ्यादिपात्रमथ वा शङ्खमस्त्राणुना जलैः |
प्रक्षाल्यामुकदेवार्घ्यपात्रं प्रतिष्ठापयामि ||
एवमुक्त्वा तदाधारे संस्थाप्यैवं वदेत् पुनः |
अर्थप्रदद्वादशेति कलात्मने वदेत्ततः ||
सूर्यमण्डलमुच्चार्य ङेऽन्तं देवस्य नाम तु |
अर्घ्यपात्राय च नमो मनुनाऽनेन पूजयेत् ||
तत्पात्रमथ तत्रैव भावयेदग्निमण्डलम् |
षट्कोणं तत्र चाङ्गानि पूजयेत् पूर्ववत्ततः ||
कला द्वादशसूर्यस्य प्रोक्ताः पात्रे प्रदक्षिणम् |


Lesungshinweise: [genannten]

S. 198, Füllen der Muschel und Mond-Mantra
ततः सुधामयैस्तोयैर्मूलान्ते मातृकां पठन् ||
विलोमां पूरयेत् तस्मिन् पूजको मनुनाऽमुना |
उँ सँ कामप्रदेत्युक्त्वा षोडशेति कलात्मने ||
नमः पञ्चदशार्णोऽयं मन्त्रः शङ्खप्रपूरणे |
तथा तन्त्रान्तरेऽपि |
कर्णचन्द्रौ बिन्दुयुतौ कामप्रदपदं ततः |
षोडशान्ते कलाशब्दमात्मान्ते हृदयाणुना ||
गन्धपुष्पैः समभ्यर्च्य कलाषोडशकं यजेत् |


S. 198, Streit um eine oder zwei Bija-Silben
अत्र कर्ण उकारश्चन्द्रोऽर्धचन्द्रो बिन्दुरनुस्वारस्तेन उँमित्येकमेव बीजं विधाय मुक्तावल्यामुद्धृतम् |
स एव प्रकारो नृसिंहठक्कुरैरप्यविचार्य स्वीयग्रन्थे ताराभक्तिसुधार्णवे धृतः |
वस्तुतः कर्ण उकारश्चन्द्रः सकारस्तयोर्विन्दुयोगाच्च उँ सँमिति बीजद्वयमेव |
सकारः शक्तिनामा च चन्द्रपीयूषशीतलः |
इति वर्णकोशात् |


S. 198, Versbeleg für die verschlüsselte Buchstabenfolge
शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः स्मरो हंसः शक्रस्तदनु च परामारहरयः |
अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता भजन्ते वर्णास्ते तव जननि नामावयवताम् ||
इत्यादौ चन्द्रवाचकशीतकिरणपदस्य सकारपरत्वदर्शनाच्च |
न च चन्द्रपदस्य क्वचिदर्धचन्द्रपरत्वदर्शनादत्रैकमेव बीजमस्त्विति वाच्यम् |
बीजद्वयप्रकाशकमेरुतन्त्रविरोधात् |


S. 199, Verehrung und Belebung der Kalas
तथा |
ततस्तोयं गन्धपुष्पाद्यैः पूजयित्वा समर्चयेत् |
कलाषोडशकं चान्द्रं पश्चात् सर्वकलासु च ||
प्राणप्रतिष्ठां कुर्वीत पूजान्ते साधकस्ततः |
वह्न्यर्कचन्द्राणां कलाः प्रागुक्ताः |
तत्पूजनप्रकारश्च (कुलार्णवे) आग्नेय्या यादिवर्णोत्था दश धर्मप्रदाः कलाः |
कभाद्या वसुदाः सौराः षडान्ता द्वादशेरिताः ||
सौम्याः कामप्रदायिन्यः षोडश स्वरजाः कलाः |
बिन्दुयुक्तान् यादिदशवर्णान् पूर्वं दत्त्वाऽग्निकलाः |
कादिठान्तान् भादिठान्तान् प्रतिलोमवर्णांश्च बिन्दुयुक्तानादौ दत्त्वा सूर्यकलाः |
अकारादिषोडशस्वरान् बिन्दुयुक्तानादौ दत्त्वा चन्द्रकलाश्च पूज्या इत्यर्थः |


Lesungshinweise: [bezeichneten Abschluss] Lesungshinweis: Die Schlussangabe ṣaḍāntā des Verses und die Endbuchstaben der erläuternden Prosa sind nicht völlig eindeutig; daraus wird keine zusätzliche vollständige Formelreihe konstruiert.

S. 199, Vollendung des besonderen Arghya
(मेरुतन्त्रे) प्राग्वत् तीर्थं समावाह्य मूलमन्त्रेण तत्र तु |
संयोज्य नेत्रमन्त्रेण पुष्पं न्यस्य शिखाणुना ||
प्रदर्श्य गालिनीं मुद्रां मुद्रया धेनुसंज्ञया |
अमृतीकृत्य विधिवत् सुधाबीजेन साधकः ||
ध्यात्वेष्टदेवतां तत्र सकलीकरणं चरेत् |
अङ्गन्यासेन चास्त्रेण कल्पयेच्च दिशो दश ||
नेत्रमन्त्रेण संवीक्ष्य मुद्रया शङ्खसंज्ञया |
अवष्टभ्य ततो दीप्त्य मुद्रया योनिरूपया ||
गन्धपुष्पादिभिस्तत्र पूजयेदिष्टदेवताम् |
षडङ्गानि च संपूज्य मन्त्रयेन्मूलमन्त्रतः ||
अष्टकृत्वस्ततश्चार्घ्यं छादयेन्मत्स्यमुद्रया |


Lesungshinweise: Er bespreche das Arghya achtmal mit dem Mula-Mantra und bedecke es dann mit der Matsya-Mudra.“ Lesungshinweis: Die Verben im mittleren Teil sind teilweise verkürzt; die überlieferten Mantra- und Mudra-Bezeichnungen bleiben erhalten.

S. 199–200, Vaishnava-Ausführung und Gefäßordnung
वैष्णवे तु योनिमुद्रास्थाने धेनुमुद्रैव |
तदुक्तमागस्त्येन |
अस्त्रमन्त्रेण संरक्ष्य कवचेनावगुण्ठयेत् |
दर्शयेद्धेनुमुद्रां च बोधयेत् तत्स्वमुद्रया—इति ||
स्वमुद्रया शङ्खमुद्रया |
मुद्रास्त्वग्रे वक्ष्यामः |
(मेरौ) तच्छङ्खस्थं जलं किञ्चित् कुम्भतोये विनिःक्षिपेत् |
तन्त्रान्तरे |
स्वदक्षे प्रोक्षणीपात्रं संस्थाप्य साधकोत्तमः |
तदुत्तरे पाद्यपात्रमर्घ्यद्वन्द्वं च कल्पयेत् ||
अर्घ्यद्वन्द्वमिति |
सामान्यर्घं विशेषार्घं चेत्यर्थः |


S. 200, Maße der Arghya-Gefäße
अर्घ्यपात्रप्रमाणमुक्तम् (सिद्धान्तसारे) तलप्रमाणमर्घ्यस्य पात्रं वेदाङ्गुलोच्छ्रितम् |
वस्वङ्गुलं वा कुर्वीत नेत्राङ्गुलसमुच्छ्रितम् ||
वर्द्धयेत् प्रोक्षणीपात्रं तस्मान्न्यूनं न कारयेत् |
(महाकालसंहितायाम्) आद्यो मुख्यतमं ज्ञेयः षोडशाङ्गुलसंमितम् |
मध्यमं द्वादशमितमधमं स्याद्दशाङ्गुलम् ||
वस्वङ्गुलविहीनं तु पात्रं नैव च कारयेत् |
सर्वत्र स्वर्णवत् ताम्रमर्घ्यपात्रं ततोऽधिकम् ||


S. 200, Beginn der besonderen Shyama-Ausführung
तत्र सामान्यर्घस्थापनविधिः प्रागुक्तः |
विशेषार्घस्थापनं तु पूर्वोक्तशङ्खस्थापनवत् कार्यम् |
श्यामादिविद्यायां तु विशेषविधिरुक्तः |
यथा (त्रिशक्तिरत्ने) कलशाद्दक्षिणे भागे त्रिकोणं वृत्तसंयुतम् |
षट्कोणं चतुरस्रं च कृत्वा तन्मध्यभागतः ||
विलसच्चन्द्रशकलं गन्धैर्वै च समालिखेत् |
उड्जापूकादिकं पीठं तच्चतुर्दिक्षु पूजयेत् ||
षडङ्गमन्त्रैश्च षट्कोणे शक्तौ मूलत्रिभेदतः |
आधारशक्तिं संपूज्य पूर्ववद्वह्निकामपि ||
महाशङ्खं नारिकेलं सौवर्णं राजतं तथा |


Lesungshinweise: [Dreieck] [verwende man] Nachdem man die tragende Shakti und wie zuvor die Feuerkraft verehrt hat, [verwende man] Mahashankha, Kokosnussschale, ein goldenes oder silbernes Gefäß …“ Lesungshinweis: Die Pitha-Kürzel werden auf der folgenden Seite vom Verfasser selbst aufgelöst; die Verbindung vahnikām bleibt unsicher.

S. 201, Fortsetzung der Gefäße und Auflösung der Kürzel
ताम्रं शुक्त्युद्भवं वाऽपि पात्रं तत्र निधापयेत् ||
गन्धैरिति |
ईकारैरित्यर्थः |
उड्जापूकादीति |
उड्ड्यानजालन्धरपूर्णगिरिकामरूपाख्यानि पीठानीत्यर्थः |
शक्तौ इति |
त्रिकोणे कौलिकमतमभिप्रेत्य महाशङ्खमित्युक्तिः |


Lesungshinweise: [lang gesprochen]

S. 201, Weitere Aussagen über Gefäßmaterialien
पात्रभेदास्तन्त्रान्तरेऽप्युक्ताः |
पात्रं काञ्चनकाचरूप्यजनितं मुक्ताकपालोद्भवं वैश्वामित्रसुदं च कामदमिदं हैमं प्रियं स्फाटिकम् |
ताम्रं प्रीतिदमिष्टसिद्धिजनकं श्रीनारिकेलोद्भवं पापघ्नं स्फुटमन्त्रसिद्धिजनकं मुक्तिप्रदं मौक्तिकम् ||


Lesungshinweise: Das aus der edlen Kokosnuss hervorgegangene erfüllt das Erwünschte, vernichtet Verfehlungen und lässt Mantra-Siddhi deutlich hervortreten; das aus Perlenmaterial gewährt Befreiung.“ Lesungshinweis: Die Aufzählung und Wirkungszuordnung der ersten Vershälfte sind sprachlich gestört; insbesondere vaiśvāmitrasudam bleibt unsicher. Die Druckfußnote deutet die Vishvamitra-Bezeichnung auf die Kokosnuss.

S. 201, Füllen mit Matrika-Rezitation
(त्रिशक्तिरत्ने) समर्च्य पूर्ववन्मन्त्री पात्रं द्रव्येण पूरयेत् |
जपन् विलोमतो वर्णान् मूलमन्त्रसमुज्ज्वलान् ||


S. 201, Unterschiedliche Flüssigkeiten der beiden Wege
(मेरुतन्त्रे) सकूर्चं सुभगं पात्रे विन्यस्य शुद्धपाथसा |
कुण्डगोलोद्भवेनापि स्वयम्भूकुसुमेन वा ||
वीरः स्वाङ्गेन चापूर्य मूलविद्यां समुच्चरन् |
शुद्धपाथसेत्यादि |
दक्षिणमार्गी शुद्धजलेन |
वाममार्गी चेत् कुण्डगोलोद्भवादिना पाथसाऽऽपूर्येत्यर्थः |


Lesungshinweise: [stoff] Lesungshinweis: Die Verbindung svāṅgena und die Begriffe Subhaga/Kurcha sind an dieser Stelle nicht näher erklärt.

S. 201–202, Mandala, Anandabhairava und fünf Juwelen
(त्रिशक्तिरत्ने) संपूज्य पूर्ववत् तत्र वृत्तं षट्कोणमालिखेत् |
अकथादित्रिरेखाभ्यां त्रिकोणं वृत्तमध्यतः ||
मूलखण्डत्रयेणाथ त्रिकोणं परिपूजयेत् |
षट्कोणे च षडङ्गानि ततस्तीर्थमयं स्मरेत् ||
आनन्दभैरवं ध्यात्वा समभ्यर्च्य विधानतः |
पूजयेत् पञ्चरत्नानि कुलद्रव्याणि निःक्षिपेत् ||
पञ्चरत्नानीति |
गगनरत्नादीनि पद्धतौ वक्ष्यन्ते |


S. 202, Kula-Stoffe und Abschluss der Arghya-Weihe
(कुमारीकल्पे) अर्घ्यद्रव्यं चार्घ्यपात्रे निःक्षिपेद्यत्नतः सुधीः |
कुण्डगोलोद्भवं द्रव्यं स्वयम्भूकुसुमं तथा ||
नाधर्मं विद्यते सुभ्रु महामन्त्रस्य साधने |
(त्रिशक्तिरत्ने) रचयेत् पूर्ववच्छेषमयमर्घ्यविधिः स्मृतः |
(भैरवतन्त्रे) वामेन पाणिनाऽऽच्छाद्य मूलमष्टौ जपेत् ततः |
भूतिनीं धेनुमुद्रां च योनिमुद्रां प्रदर्शयेत् ||


S. 202, Abgrenzung von Vira- und Pashu-Verfahren
अत्र कुण्डगोलोद्भवस्वयम्भूकुसुमादिकुलद्रव्यनिःक्षेपविधिर्वीरपरः |
(पशुकल्पे तु) गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपाः |
दूर्वा इत्यर्घ्यपात्रस्य प्रोक्तं द्रव्याष्टकं सुराः ||
इति मेरुतन्त्रोक्तद्रव्याष्टकस्यैव निःक्षेपो बोध्यः |
एवं च वामेन पाणिनेत्यपि वाममार्गिपरम् |
दक्षिणमार्गे तु दक्षिणहस्तेनैवाच्छादनं संप्रदायसिद्धम् |


S. 202, Verteilung des geweihten Wassers
(भैरवतन्त्रे) किञ्चित्तोयं समादाय चान्यपात्रेषु निःक्षिपेत् |
पूजाद्रव्याणि चात्मानं प्रोक्षयेत्तेन वारिणा ||


S. 202–203, Madhuparka-Gefäße
(देवीपद्धतौ) विशेषार्घान्ते भागे पात्रमाचमनीयकम् |
मधुपर्कं च तद्वामे स्थापयेत् सुरवन्दिते ||
संयुक्तं मधुपर्कं स्यात् क्षौद्रे दध्ना घृतेन च |
प्रीतिकृत् सर्वदेवानां कांस्यपात्रे प्रकीर्तितम् ||
कांस्यपात्रं च सकलसाधारणम् |
देवतादिभेदेन मधुपर्कपात्रभेदो (मेरुतन्त्रे) कांस्यस्य वाऽथ रूप्यस्य शैवे शङ्खवरो हरौ |
महाशङ्खो वाममार्गे स्फाटिकं ग्रहनायके ||


S. 203, Ersatzstoffe für Madhuparka
तत्रैव |
मधुपर्कस्तु सक्षौद्रं दधि तच्चेन्न लभ्यते |
दधिदुग्धं गुडः क्षौद्रे घृतप्रतिनिधिर्न हि ||


S. 203, Deutung des Namens Madhuparka
मधुपर्कपदार्थ उक्तस्तत्रैव |
परमं यत् पदं देवा मधुसंज्ञं तदुच्यते |
तदाप्यते येन कर्म तत् प्रोक्तं मधुपर्ककम् ||
देवतोद्देश्यकं यद्दानं परमपदप्राप्तिफलकं स मधुपर्कपदार्थ इत्यर्थः |
इदं च मधुपर्कप्रदानजन्यफलानुकीर्तनपरम् |
वस्तुतस्तु मधुना पृच्यते दध्याद्यस्मिन्निति मधुपर्कपदव्युत्पत्तिः |
पृची संपर्के इति धात्वनुसारात् |


S. 203, Badewasser und gottheitsspezifische Verbote
(श्रीचरणसहचरणार्चनपद्धतौ) पुनराचमनीयं पात्रं संस्थापयेत्ततः |
स्नानं शङ्खोदकेनैव देवदेवस्य चक्रिणः ||
शैवे तु शङ्खोदकं निषिद्धम् |
तदुक्तम् (सिद्धान्तसंग्रहे) नाक्षतैरर्चयेद्विष्णुं न तुलस्या विनायकम् |
न दूर्वया यजेद्दुर्गां न शम्भुं शङ्खवारिणा ||


Lesungshinweise: Der Siddhantasangraha sagt: „Man verehre Vishnu nicht mit ungebrochenen Reiskörnern, Vinayaka nicht mit Tulasi, Durga nicht mit Durva und Shambhu nicht mit Muschelwasser.“ Lesungshinweis: Der lange Titel der angeführten Paddhati ist im Druck nicht sicher zu entziffern.

S. 203, Weihe aller Einzelgefäße
पाद्याचमनीयादिपात्रस्थापनं तु सामान्यर्घस्थापनवत् कार्यम् |
तदुक्तं तत्रैव |
सामान्यर्घोक्तविधिना कुर्यात् पाद्यादिपात्रकम्—इति |
(महाकालसंहितायाम्) तानि गन्धाक्षतजलकुसुमैः परिपूरयेत् |
पाद्ये पाद्योक्तवस्तूनि अर्घ्ये अर्घ्योदितानि च ||
स्नानीयाचमनादौ च द्रव्याण्युक्तानि वै पुरा |
तैरन्वितानि कार्याणि पात्राणि सकलानि च ||
(मेरुतन्त्रे) एकैकपात्रं मूलेन द्व्यष्टकृत्वोऽभिमन्त्रयेत् |
प्रदर्शयेद्धेनुमुद्राम् .... .... .... इति |


S. 204, Berechtigung zum Shripatra
तन्त्रान्तरे वीरकल्पे तु श्रीपात्रं शक्तिपात्रादिस्थापनमुक्तम् |
(महाकालसंहितायाम्) अस्मिन्नेव ह्यवसरे श्रीपात्रस्थापनं चरेत् |
कौलः प्रसन्नया कुर्यात् क्षीरमध्वादिभिर्द्विजैः ||
यतिस्तु नोभयं कुर्यान्नेच्छत्याभ्यामिति द्विजः |
प्रसन्नया सुरया |
द्विजैः राजन्यवैश्यैः |
द्विजो विप्रः |
आभ्यां क्षीरमधुभ्यामपि नेच्छतीत्यर्थः |
अस्मिन् कल्पे तस्यानधिकारादिति भावः |


S. 204, Begrenzung der Darstellung und Shripatra-Platz
तथा |
अतः कौलिककार्यार्थं विशिष्य तदहं ब्रुवे |
तद्विधिस्त्वसाधारणत्वान्नेह लिख्यते |
क्वचित्तु |
दक्षिणे मण्डलं कृत्वा श्रीपात्रं स्थापयेत् सुधीः |
विशेषार्घोक्तविधिना .... .... .... इत्युक्तम् ||


S. 204, Shakti-, Guru-, Bhoga-, Vira- und Kula-Gefäß
दक्षिणे श्रीपात्रस्थापनमुक्त्वा शक्तिपात्रादिस्थापनक्रममाह |
(महाकालसंहितायाम्) वामे संस्थापयेच्छक्तिपात्रं त्रिदशवन्दिते |
मध्ये चत्वारि पात्राणि पुनरन्यानि योजयेत् ||
गुरुर्भोगश्च वीरश्च कुलं चेति प्रकीर्तितम् |
श्रीपात्रस्य च ये मन्त्रास्ते मन्त्राः सर्वपात्रगाः ||
श्रीपात्रस्य क्रिया या हि सा क्रिया सर्वपात्रगा |
तादृक्क्रियायामशक्तो तु सामान्येनापि पूजयेत् ||
पृथक्कला न चार्च्यास्तु दश द्वादश षोडश |
शक्तेरावाहनं शक्तौ गुरोरपि गुरौ तथा ||
परिवारान् भोगपात्रे वीरे त्वावरणात्मकान् |
कौलिकान् कुलपात्रे च समावाह्य यजेच्छनैः ||


S. 204–205, Zuordnung der Gefäße zu Personen
तथा |
श्रीपात्रस्याधिकारी तु स्वयमेव न चेतरः |
शक्तेस्तु शक्तिपात्रं स्याद्गुरुपात्रं गुरोरपि ||
भोगपात्रं सुतादीनां शिष्याणां वीरपात्रकम् |
कुलपात्रं कौलिकानां निर्णयः प्रोक्त ईदृशः ||


S. 205, Andere Anordnung und Anzahl
तन्त्रान्तरे तु |
श्रीपात्रघटयोर्मध्ये सर्वपात्राणि स्थापयेत् |
गुरुपात्रं घटस्यान्ते तदन्ते भोगपात्रकम् ||
तदन्ते शक्तिपात्रं च योगिनीनां तदन्तिके |
तदन्ते वीरपात्रं च बलिपात्रं तदन्तिके ||
पाद्यं चाचमनीयं च पात्राणि स्थापयेत् क्रमात् |
उत्तमं नव पात्राणि सप्त पात्राणि मध्यमम् ||
अधमं त्रीणि पात्राणि एकपात्रं न कारयेत्—इत्युक्तम् |
पाद्यं चाचमनीयं चेत्युपलक्षणम् |
अर्घ्यस्नानीयादिपात्राण्यपि स्थापनीयानि |


S. 205, Vereinfachung und Kritik einer Gefäßzählung
एतावदशक्तौ (त्रिशक्तिरत्ने) अथवा कलशं शङ्खं शक्तिपात्रत्रयं भवेत् |
अस्मिन् कल्पेऽपि पाद्यादिपात्राणि स्थापनीयानि पूजोपयुक्तत्वादिति सुधाणर्वकृतः |
पाद्यं चाचमनीयं च अर्घ्यं च नवमं विदुरिति मन्त्रचिन्तामणिकृल्लिखितपाठः प्रामादिकः |
सुधाणर्वकल्पलतादिषु बहुषु ग्रन्थेषु एतादृशपाठस्यानुपलम्भात् |
अर्घ्यपात्रस्य नवमपात्रत्वे श्रीपात्रस्यातिरिक्तत्वापत्तेश्च |
अत एव (कुलरत्नावल्याम्) कुलकुम्भश्च श्रीपात्रं शक्तिपात्रं तथैव च |
गुरुपात्रं भोगपात्रं योगिनीपात्रमेव च ||
कुलपात्रं वीरपात्रं नवमं बलिपात्रकम्—इत्युक्तम् |


Lesungshinweise: Die vom Verfasser des Mantrachintamani angeführte Lesung „Padya und Achamana, und Arghya gilt als das neunte“ sei fehlerhaft: Eine solche Lesung finde sich in vielen Werken wie Sudharnava und Kalpalata nicht; außerdem würde Shripatra als zusätzliches Gefäß überzählig, wenn Arghya schon das neunte wäre.

S. 205–206, Nektartropfen und Tarpana
(त्रिशक्तिरत्ने) पुष्पादिना समुद्धृत्य बिन्दुं शङ्खामृतस्य च |
निःक्षिपेत् सर्वपात्रेषु सर्वं दिव्यं विभावयेत् ||
(तत्त्वार्णवे) ध्यात्वैवं तर्पयेन्मूर्ध्नि तावुभौ साधकः सुधीः |
तावुभाविति |
आनन्दभैरवमानन्दभैरवीं चेत्यर्थः |
तयोर्ध्याने त्वग्रे वक्ष्येते |


S. 206, Tarpana für die drei Guru-Ströme
(त्रिशक्तिरत्ने) ब्रह्मरन्ध्रे स्वके मन्त्री मुद्रया तत्त्वसंज्ञया |
तर्पयेद्गुरुपात्रीयद्रव्येणौघत्रयं सुधीः ||
स्वगुरूनपि संतर्प्य त्रिः सकृद्वा विशेषतः |
आत्मनो हृदयाम्भोजे परिवारगणावृताम् ||
देवीपात्रामृतेनापि तर्पयेत् कुलनायिकाम् |
देवीपात्रं श्रीपात्रम् |
तत्त्वमुद्रा वक्ष्यते |
ओघत्रयमिति |
दिव्यौघं सिद्धौघं मानवौघं चेत्यर्थः |


S. 206, Guru-Folge der Kalika
तत्र श्यामाया दिव्यौघा गुरवोऽप्युक्ता (भावचूडामणौ) तत्रादौ कालिका देवी तस्याः शृणु गुरुक्रमम् |
महादेवी महादेवस्त्रिपुरश्चैव भैरवः ||
दिव्यौघा गुरवः प्रोक्ताः सिद्धौघांश्च कथयामि ते |
ब्रह्मानन्दः पूर्णदेवश्चलचित्तश्चलाचलः ||
कुमारः क्रोधनश्चैव वरदः स्मरदीपनः |
माया मायावती चैव मानवौघान् शृणु प्रिये ||
विमलः कुशलश्चैव भीमसेनः सुधाकरः |
मीनो गोरक्षकश्चैव भोजदेवः प्रजापतिः ||
मूलदेवोऽवन्तिदेवो विघ्नेश्वरहुताशनौ |
संतोषः समयानन्दः कालिकागुरवः स्मृताः ||


S. 206, Aufenthaltsorte und Gurunamen
दिव्या वसन्ति खे नित्यं सिद्धा भूमाविहापि च |
मानवौघा मानवेषु मम रूपधराः सदा ||
आनन्दनाथशब्दान्ता गुरवः सर्वसिद्धिदाः |
स्त्रियोऽपि गुरुरूपाश्च अम्बान्ताः परिकीर्तिताः ||
मानवौघान्तिमे देवि स्वगुरूनपि योजयेत् |


S. 207, Guru-Folge der Tara
ताराविद्याया गुरुपङ्क्तयोऽपि तत्रैव |
अथ तारागुरून् वक्ष्ये दृष्टादृष्टफलप्रदान् |
ऊर्ध्वकेशो व्योमकेशो नीलकण्ठो वृषध्वजः ||
दिव्यौघाः सिद्धिदा वत्स सिद्धौघान् शृणु तत्त्वतः |
वशिष्ठः कूर्मनाथश्च मीननाथो महेश्वरः ||
हरिनाथो मानवौघानथ वक्ष्यामि सद्गुरून् |
तारावती भानुमती जया विद्या महोदरी ||
सुखानन्दः परानन्दः पारिजातः कुलेश्वरः |
विरूपाक्षः फेरवी च कथितं तारिणीकुलम् ||
आनन्दनाथशब्दान्ता गुरवः सर्वसिद्धिदाः |
स्त्रियोऽपि गुरुरूपाश्च देव्यन्ताः परिकीर्तिताः ||


Lesungshinweise: Auch Frauen sind Gurus; ihre Namen werden hier mit Devi am Ende genannt.“ Lesungshinweis: Der letzte Name Pheravi ist im Druck nicht sicher lesbar.

S. 207, Guru-Folge der Shrividya
अथ श्रीविद्यागुरवस्तत्रैव |
अथ वक्ष्यामि देवेशि श्रीषोडश्या गुरुक्रमम् |
आनन्दनाथदेवश्च परप्रकाशकस्तथा ||
ततः परशिवो देवः परशक्तिस्ततः परम् |
कौलेश्वरः शक्तिदेवः कुलेशानश्च कामुकः ||
सिद्धौघान् कथयिष्यामि भोगक्रीडश्च भैरवः |
समयो देवसहजौ मानवौघान् शृणु प्रिये ||
गगनेशो विष्णुविमलौ सहजो भुवनस्तथा |
नीलश्च सुप्रियः पश्चात् कथिता गुरवः क्रमात् ||


Lesungshinweise: Damit sind die Gurus in ihrer Reihenfolge genannt.“ Lesungshinweis: Gaganesha und einzelne seltene Namensformen bleiben lokal unsicher.

S. 207–208, Guru-Folge der Durga
अथ दुर्गागुरुपङ्क्तयस्तत्रैव |
शृणु वत्स महादेव गुरून् दुर्गामनूद्भवान् |
परमात्मा परानन्दः परमेष्ठी महोदयः ||
कृष्णः कालः कलानाथो दिव्यौघा भैरवान्तकाः |
नारदः काश्यपः शम्भुर्भार्गवः कुलकौलिकः ||
एते पञ्च महादेव सिद्धौघाः परिकीर्तिताः |
रुद्राचार्यः क्षमाचार्यः पवनाशनसंज्ञकः ||
कुमारीशः शक्तिधरो घनानन्दः प्रकाशकः |
हरिशर्मा विष्णुशर्मा दत्तात्रेयः प्रियंवदः ||
बहुला शाकिनी देवी चर्यानाथः प्रकीर्तितः |


S. 208, Anrufung namentlich bekannter Gurus
एवं तत्तद्विद्यागुरुपङ्क्तयस्तत्तत्कल्पेभ्योऽवगन्तव्याः |
एषां तर्पणं तु श्रीअमुकानन्दनाथश्रीपादुकां तर्पयामि |
एवं श्रीअमुक्यम्बाश्रीपादुकां तर्पयामि इत्यादि |


Lesungshinweise: [Name]

S. 208, Drei oder vier Guru-Stufen
गुरुचतुष्टयमुक्तम् (भावनिर्णये) गुरुः परमगुरुश्चैव परापरगुरुस्तथा |
परमेष्ठी गुरुश्चैव स्वस्वाम्नाये प्रतर्पयेत् ||
(कुलचूडामणौ) अज्ञाने गुरुनाम्नां वै गुरुत्रितयमर्चयेत् |
चतुष्टयं वा संकोचो न कर्तव्यस्ततः परम् ||
(भावनिर्णये) आदौ सर्वत्र देवेशि मन्त्रदः परमो गुरुः |
परापरगुरुस्त्वं हि परमेष्ठी अहं यतः ||


Lesungshinweise: Du bist der Paraparaguru, und ich bin der Parameshthin.“ Die letzte Aussage gehört zum Dialog der göttlichen Sprecher; die Druckfußnote bezeichnet die grammatische Form als tantrischen Sprachgebrauch.

S. 208, Sieben Formeln der Tattva-Reinigung
अथ तत्त्वशुद्धिर्यथा |
तत्र ॐ श्रुतिः प्राणापानव्यानोदानसमाना मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा |
ॐ पृथिव्यप्तेजोवाय्वाकाशानि मे शुध्यन्तां ज्योतिरित्यादि |
ॐ प्रकृत्यहंकारबुद्धिमनःश्रोत्राणि मे शुध्यन्तामित्यादि |
ॐ वाक्चक्षुःश्रोत्रजिह्वाघ्राणवचांसि मे शुध्यन्तामित्यादि |
ॐ पाणिपादपायूपस्थशब्दा मे शुध्यन्तामित्यादि |
ॐ स्पर्शरूपरसाकाशा मे शुध्यन्तामित्यादि |
ॐ वायुतेजःसलिलभूम्यात्मनो मे शुध्यन्तामित्यादि |
सप्त मन्त्रान् पठन् हस्ताभ्यां सप्तधा सर्वाङ्गं स्पृशेदिति तत्त्वशुद्धिः |


Lesungshinweise: Lesungshinweis: Das erste śrutiḥ ist ein Quellenhinweis, kein Teil der Formel.

S. 208–209, Bali und erneute Reinigung der Puja-Mittel
वामाचारे त्वस्मिन्नेव समये वटुकादिभ्यो बलिं प्रयच्छति तद्विधिरग्रे वक्ष्यते |
तन्त्रान्तरे |
तत्त्वशुद्धिं विधायेत्थं पूजाद्रव्याणि शोधयेत् |
(मेरुतन्त्रे) सेचयेत् प्रोक्षणीपात्रतोयैर्मूलास्त्रमुच्चरन् |
आत्मानं यागवस्तूनि पूजाद्रव्याणि मण्डलम् ||
दर्शयेद्धेनुमुद्रां च द्रव्यशुद्धिरियं मता |


S. 209, Verehrung der eigenen göttlichen Gestalt
योगपीठन्यासदेवांस्तत्तत्स्थानेषु पूजयेत् ||
मणिपीठे भावनया ततः पूज्या स्वदेवता |
आत्मानं देवतारूपं ध्यायेन्मूलेन पञ्च तु ||
पुष्पस्याञ्जलयो देया मस्तके हृदये गुदे |
पादयोः सर्वगात्रे च पूजयेच्चन्दनादिभिः ||
चतुर्भिरुपचारैश्च नैवेद्यं तु निवेदयेत् |
गुरूपदिष्टविधिना शेषमन्यत् समापयेत् ||


S. 209, Japa-Darbringung und Guru-Puja
प्रोक्षण्यम्भिः प्राग्वदिदं सर्वमेतत् समाहितः |
कृत्वा षडङ्गन्यासं च मनुमष्टोत्तरं शतम् ||
जपित्वा देवतायै तमर्पयेच्छङ्खतोयतः |
पानीयं प्रोक्षणीस्थं तु संस्थाप्य पूर्ववत् ||
उपचारैश्चन्दनाद्यैर्मण्डले पूजयेद्गुरुम् |


Lesungshinweise: Das Wasser im Besprengungsgefäß stelle er wie zuvor bereit und verehre den Guru im Mandala mit Sandel und den übrigen Gaben.“ Lesungshinweis: Der erste Satz ist im Druck verkürzt; keine zusätzliche Handlung wird ergänzt.

S. 209, Lotusmitte, Reis und Kurcha-Bündel
पूजयेत् कर्णिकां पूर्वं शालिभिस्तण्डुलैस्ततः ||
दर्भान् न्यसेदुदग्ग्रांश्च साक्षतं कूर्चकं ततः |
छिन्नमूलाः कुशा दीर्घाः सप्तविंशतिसंख्यकाः ||
ब्रह्मग्रन्थियुतास्त्वग्रदेशे कूर्च इहोच्यते |
यजेदाधारशक्त्यादिपीठमन्त्रावसानकम् ||


S. 209–210, Beginn der Pitha-Puja
पीठपूजाप्रकारमाह तत्रैव |
गुरुपङ्क्तिरुदक् पूज्या महागणपतिस्त्ववाक् |
पूजयेदतलादीनि देवस्याधस्तु सप्त च ||
मण्डूकं चापि तस्योर्ध्वं रुद्रं कालानलं ततः |


S. 210, Tragende Shakti, Kurma und Ananta
(शारदायाम्) अधः कूर्मशिलारूढां शरच्चन्द्रनिभप्रभाम् |
आधारशक्तिं प्रयजेत् पङ्कजद्वयधारिणीम् ||
कूर्मशिलारूढामिति |
कूर्माकारा या शिला तदुपरि स्थितामित्यर्थः |
(तथा) मूर्ध्नि तस्याः समारूढं कूर्मं नीलाभमर्चयेत् |
ऊर्ध्वं ब्रह्मशिलासीनमनन्तं कुन्दसन्निभम् ||
यजेच्चक्रधरं मूर्ध्नि धारयन्तं वसुन्धराम् |


S. 210, Erde, Edelsteininsel und Wunschbäume
तमालश्यामलां तत्र नीलेन्दीवरधारिणीम् ||
अभ्यर्चयेद्वसुमतीं स्फुरत्सागरमेखलाम् |
तस्या रत्नमयं द्वीपं तस्मिंश्च मणिमण्डपम् ||
यजेत् कल्पतरूंस्तस्मिन् साधकाभीष्टसिद्धिदान् |
अधस्तात् पूजयेत् तेषां वेदिकां मण्डलोज्ज्वलाम् ||
पश्चादभ्यर्चयेत् तस्यां पीठं धर्मादिभिः पुनः |


S. 210, Gestalten der vier Stützen und Gegenkräfte
रक्तश्यामहरिद्रेन्द्रनीलाभान् पादरूपिणः ||
वृषकेसरिभूतेभस्वरूपान् धर्मादिकान् यजेत् |
गात्रेषु पूजयेत्तांस्तु नञ्पूर्वानुक्तलक्षणान् ||
भूतो देवयोनिः |
नञ्पूर्वानिति अधर्मादीनित्यर्थः |
उक्तलक्षणानिति वृषभाद्याकारान् रक्तादिवर्णानित्यर्थः |
(मेरुतन्त्रे) त्वधर्मादयश्चित्रवर्णा उक्ताः |
धर्मं वृषतनुं रक्तं ज्ञानं कृष्णं च सिंहवत् |
वैराग्यं भूतवत् पीतमैश्वर्यं कृष्णहस्तिवत् ||
अधर्मादींश्चित्रवर्णान् पीठस्याधः समर्चयेत् |


S. 211, Der Lotus als Entfaltung des Bewusstseins
तथा |
आग्नेयादिषु कोणेषु दिक्षु चाथाम्बुजं यजेत् |
तत्प्रकारमाह |
आनन्दकन्दं प्रथमं संविन्नालमनन्तरम् |
सर्वतत्त्वात्मकं पद्ममभ्यर्चेत् तदनन्तरम् ||
मन्त्री प्रकृतिपत्राणि विकारमयकेशरान् |
पञ्चाशद्वर्णबीजाढ्यां कर्णिकां पूजयेत् ततः ||


S. 211, Kreise, Selbstformen und neun Shaktis
कलाभिः पूजयेत् सार्धं तस्यां सूर्येन्दुपावकान् |
प्रणवस्य त्रिभिर्भागैरथ सत्त्वादिकान् गुणान् ||
आत्मानमन्तरात्मानं परमात्मानमर्चयेत् |
ज्ञानात्मानं च विधिवत् पीठमन्त्रावसानकम् ||
पीठशक्तीः केशरेषु मध्ये च सवराभयाम् |
नवमी पीठशक्तिर्मध्ये पूज्येत्यर्थः |
तदुक्तम् (मेरुतन्त्रेऽपि) केशरेषु तथा मध्ये पूर्वादिषु यथाक्रमम् |
तत्तन्मन्त्रोक्तपीठस्य नव शक्तीः प्रपूजयेत् ||


Lesungshinweise: [die Shakti]

S. 211, Einsetzung der Gottheitsgestalt
पीठमन्त्रेण गन्धाद्यैः पीठमध्ये ततोऽर्चयेत् ||
चतुर्थीनमसा युक्तैः स्वैः स्वैरेव तु नामभिः |
मध्ये पुष्पाञ्जलिं दद्यात् पीठमन्त्रेण साधकः ||
मूलमन्त्रं समुच्चार्य षष्ठ्यन्तं पीठनाम च |
मूर्तिं च कल्पयामीति मूर्तिं मध्ये विनिःक्षिपेत् |


S. 211–212, Beschaffenheit und Maße des Kalasha
(महाकपिलपञ्चरात्रे) सौवर्णं कलशं रम्यं रौप्यं ताम्रमथापि वा |
निर्दोषं मृण्मयं चापि चन्दनेन विलेपितम् ||
कलशपरिमाणं तु |
पञ्चाशदङ्गुलो व्यास उत्सेधः षोडशाङ्गुलः |
कलशानां प्रमाणं तु मुखमष्टाङ्गुलं भवेत् ||
इति (सिद्धान्तसारे) प्रोक्तम् |


S. 212, Reinigung und Umwicklung des Kalasha
(शारदायाम्) हेमादिरचितं कुम्भमस्त्राद्भिः क्षालितान्तरम् |
चन्दनागुरुकर्पूरधूपितं शोभनाकृतिम् ||
अविष्टिताङ्गं नीरन्ध्रं तन्तुना त्रिगुणात्मना |
तत्र विशेष उक्तस्तन्त्रान्तरे |
कन्याकर्तितसूत्रेण त्रिगुणेन च वर्त्मना |
गुणत्रयात्मकेनैव वेष्टयेदभितः समम् ||


Lesungshinweise: In der Sharada: „Der schön gestaltete Krug aus Gold oder anderem Material sei innen mit Astra-Wasser gewaschen und mit Sandel, Aguru und Kampfer ausgeräuchert, unbeschädigt und ohne Löcher; er werde mit einem dreifachen Faden umgeben.“ Ein anderes Tantra präzisiert: „Mit einem von einem unverheirateten Mädchen gesponnenen, dreifachen Faden, der die drei Gunas verkörpert, umwickle man ihn ringsum gleichmäßig.“ Lesungshinweis: Die Form aviṣṭitāṅgam im ersten Zitat ist unsicher; ihr Sinn wird vorläufig als unversehrter Körper verstanden.

S. 212, Juwelen, Kurcha und Aufstellung
(शारदायाम्) अर्चितं गन्धपुष्पाद्यैः कूर्चाक्षतसमन्वितम् |
नवरत्नोदरं मन्त्री स्थापयेत् तारमुच्चरन् ||
(मेरुतन्त्रे) ध्रुवं जपन् विधानेन स्थापयेद्देशिकोत्तमः |
नवरत्नानि निःक्षिप्य कुम्भे कूर्चमथोपरि ||
दूर्वाचन्दनसंयुक्तं विन्यसेद्दक्षिणान्वितम् |
नवरत्नानि तत्रैवोक्तानि |
पुष्पं नीलं च वैदूर्यं विद्रुमं मौक्तिकं तथा |
ततो मरकतं वज्रं गोमेदं पद्मरागकम् ||
प्रोक्तानि नव रत्नानि देशिकैस्तन्त्रवित्तमैः |


Lesungshinweise: Er gebe die neun Juwelen in den Krug und darauf Kurcha, verbunden mit Durva, Sandel und einer Dakshina-Gabe.“ Die neun Juwelen werden ebendort genannt: „Pushpa, Nila, Vaidurya, Koralle, Perle, Smaragd, Diamant, Gomeda und Padmaraga: Diese neun Juwelen nennen die im Tantra bewanderten Lehrer.“ Die traditionellen Edelsteinnamen Pushpa, Vaidurya und Gomeda werden ohne unsichere moderne Mineralbestimmung bewahrt.

S. 212, Geistige Wiederholung bei der Füllung
आपूरयन् क्रमतो मन्त्री मातृकां मनसा जपन् ||
मूलमन्त्रं जपन्नन्ते चिन्तयेदैक्यमात्मनः |


S. 213, Einheit von Krug und Sitz
घटस्य पीठाभेदं च चिन्तयेत् साधकोत्तमः ||
पञ्चाशदोषधीक्वाथैः पूरयेत् तदनन्तरम् |
एकेन सहितास्ताश्च वर्णौषध्यश्च ता इमाः ||


S. 213, Liste der Buchstabenpflanzen
चन्दनं चापि रक्ताख्यचन्दनं चागुरुस्तथा |
कर्पूरोशीरकुष्ठानि वालकं चापि केसरम् ||
कङ्कोलकं जातिफलं जटामांसी मुरा तथा |
ग्रन्थिकं रोचना जातीपत्रं पिप्पलबिल्वकौ ||
पृश्निपर्णी चित्रकं च लवङ्गं कनतृणं तथा |
कट्फलं चापि गुञ्जा स्यादुदुम्बरककाश्मरी ||
पद्मकाष्ठं शङ्खपुष्पी मयूरस्य शिखा तथा |
प्लक्षोऽग्निमन्थश्च तथा मुद्गपर्णी कुशाः पुनः ||
पाषाणभेदकः कृष्णशङ्खपुष्प्यौ च रोहिणी |
स्योनाको बृहती चैव पाटली मूषकर्णिका ||
तुलसी शिखरी इन्द्रवल्ली भृङ्गाभिधो नृपः |
ततोऽपराजिता तालमूली चापि कृताञ्जली ||
दूर्वा श्रीदेविकन्याख्ये भार्ग्यो भद्रमुस्तकः |
लवङ्गरहिताश्चैताः पञ्चाशत्संख्यका इति ||


Lesungshinweise: Ohne die Gewürznelke beträgt ihre Zahl fünfzig.“ Lesungshinweis: Mehrere seltene Pflanzennamen und die Trennung von kṛṣṇaśaṅkhapuṣpyau sowie śrīdevikanyākhye bleiben unsicher. Die Fußnote erklärt „der Bhṛṅga genannte König“ als Bhringaraja.

S. 213–214, Andere Flüssigkeiten zum Füllen
दुग्धवृक्षत्वचां क्वाथैस्त्रैधभूरुट्त्वगुद्भवैः |
पूरयेदिति शेषः |
(शारदायाम्) ऐक्यं संकल्प्य कुम्भस्य पीठस्य च विधानवित् |
क्षीरिद्रुमकषायेण पलाशत्वग्भवेन वा ||
तीर्थोदकैर्वा कर्पूरगन्धपुष्पसुवासितैः |
आत्माभेदेन विधिवन्मातृकां प्रतिलोमतः ||
जपन्मूलमनुं तद्वत् पूरयेद्देवताधिया |


Lesungshinweise: [Man fülle] Dabei wiederhole er vorschriftsgemäß die Matrika rückwärts und ebenso den Mula-Mantra, in der Vorstellung der Einheit mit dem Selbst und der Gegenwart der Gottheit.“ Lesungshinweis: Die dreifache Baumangabe im ersten Halbvers ist nicht sicher aufzulösen.

S. 214, Kalas in der gefüllten Muschel
शङ्खे कषायाम्बुसंपूर्णे गन्धाष्टकमभीष्टदम् ||
विलोढ्य पूजयेत्तस्मिन्नावाह्य कलशे कलाः |
दश वह्नेः कलाः पूर्वं द्वादश द्वादशात्मनः ||
षोडशापि च सोमस्य पश्चात् पञ्चाशतं कलाः |
जपेद्वा प्रतिलोमेन मूलमन्त्रं च मन्त्रवित् ||
समाहितेन मनसा ध्यायन्मन्त्रस्य देवताम् |
प्राणप्रतिष्ठां कुर्वीत तत्र तन्त्रविचक्षणः ||
कलात्मकं शङ्खसंस्थं क्वाथं कुम्भे च निःक्षिपेत् |


S. 214, Duftstoffe für Ganesha und Shakti
(मेरुतन्त्रे) गन्धपङ्कप्रसूनादिवासितैर्वा शुभैर्जलैः |
क्वाथादितोयैरापूर्य शङ्खं तस्मिन् विलोढयेत् ||
गन्धाष्टकं तस्य तस्य देवस्याथ प्रकीर्त्यते |
चन्दनागुरुकर्पूररोचनाकुङ्कुमं मदम् ||
रक्तचन्दनयावादि गाणपत्यमुदाहृतम् |
चन्दनागुरुकर्पूरचोरकुङ्कुमरोचनाः ||
जटामांस्यथ कस्तूरी शक्तेर्गन्धाष्टकं विदुः |


Lesungshinweise: Als acht Duftstoffe der Shakti kennt man Sandel, Aguru, Kampfer, Chora, Safran, Rochana, Jatamansi und Moschus.“ Lesungshinweis: Die letzte Ganesha-Zutat yāvādi ist unsicher; Mada und Chora bleiben als Stoffbezeichnungen stehen, ohne eine ungesicherte Identifizierung.

S. 214, Duftstoffe für Shiva, Vishnu und Surya
जलकश्मीरकुष्ठैस्तु रक्तचन्दनचन्दनैः ||
मालवागुरुकर्पूरैः शाम्भवं चाष्टगन्धकम् |
हीवेरं चन्दनं कुष्ठमगुरुः कुङ्कुमं सुरम् ||
सेव्यकं च जटामांसी वैष्णवं तदुदीरितम् |
जलकश्मीरकुष्ठैस्तु रक्तचन्दनचन्दनैः ||
तमालागुरुकर्पूरैः सौरं गन्धाष्टकं विदुः |


Lesungshinweise: Die acht für Surya kennt man als Jala, Kashmira, Kushtha, roter Sandel, Sandel, Tamala, Aguru und Kampfer.“ Seltene Stoffbezeichnungen werden beibehalten; die unterschiedlichen Lesungen Malava und Tamala werden nicht vereinheitlicht.

S. 214–215, Weitere Duftmischung und rituelle Kraft
गोरोचनाककस्तूरीकर्पूरागुरुकुङ्कुमैः ||
चन्दनेभमदाभ्यां च दरदेन च पङ्कजैः |
गन्धाष्टकस्य संयोगात् सामर्थ्याद्देशिकस्य च ||
सशक्तिकं जलं कुम्भे भवेदेवं विदुर्बुधाः |


Lesungshinweise: „Mit Gorochana, Moschus, Kampfer, Aguru, Safran, Sandel, Elefanten-Brunstsekret, Darada und Lotussen: Durch die Verbindung der acht Duftstoffe und durch die Befähigung des Lehrers wird das Wasser im Krug mit Shakti erfüllt; so verstehen es die Kundigen.“ Lesungshinweis: Der Druck nennt weitere Zusätze zur als achtteilig bezeichneten Mischung; die Aufzählung wird nicht künstlich auf acht Zutaten gekürzt.

S. 215, Zehn Feuer-Kalas
आदौ कृशानुसंबन्धि कलादशकमर्चयेत् ||
धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी |
सुश्रीः सुरूपा कपिला हव्यकव्यवहे उभे ||


S. 215, Zwölf Sonnen-Kalas
कलाद्वादशकं सौरं पूजयेत् तदनन्तरम् |
तपिनी तापिनी धूम्रा मरीचिर्ज्वलिनी रुचिः ||
सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा |


S. 215, Sechzehn Mond-Kalas
कलाषोडशकं चान्द्रं यजेत् पश्चाद्गुरूत्तमः ||
अमृता मानदा पूषा पुष्टिस्तुष्टी रतिर्धृतिः |
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ||
पूर्णा पूर्णामृता कान्तिदायिन्यः सोमजाः कलाः |


S. 215–216, Fünfzig weitere Kalas
वेदादिभेदसंजाताः कलाः पञ्चाशदिन्दुयुक् ||
संनिधाप्य प्रतिष्ठाप्याभ्यर्चयेत्तु कलशे तु ताः |
निवृत्तिः प्रतिष्ठा विद्या शान्तिरिन्धिश्च दीपिका ||
रोचिका मोचिका पारा सूक्ष्मा सूक्ष्मामृता तथा |
ज्ञानामृताऽऽप्यायनी च व्यापनी व्योमरूपिका ||
अनन्ता सृष्टिऋद्धी तु स्मृतिर्मेधा च कान्तिका |
लक्ष्मीर्द्युतिः स्थिरा स्थितिः सिद्धिर्जरा च पालिनी ||
क्षान्तीश्वर्यौ रतिः कामा वरदा ह्लादिनी तथा |
प्रीतिर्दीर्घा तीक्ष्णा रौद्री भया निद्रा च तन्द्रिका ||
तुत् क्रोधिनी क्रियोत्कारी मृत्युः प्रीता च दारुणा |
असिता च तथाऽनन्ता मध्ये मध्ये प्रपूजयेत् ||


Lesungshinweise: Die Lesungen sṛṣṭiṛddhī, indhi und tut sind lokal unsicher.

S. 216, Veda-Anfänge bei der Kala-Verehrung
हंसः शुचिषदिति प्रतद्विष्णुस्तवेति च |
त्र्यम्बकं च गायत्री विष्णुर्योनिस्तथैव च ||
तारस्य पञ्चभेदोत्थकलानां पूजयेत् सुधीः |
कलादशकमावाह्य सृष्ट्याद्यं संनिधाप्य च ||
हंसः शुचिषदित्याभ्यां ऋचं संजप्य पूजयेत् |
प्राणसंस्थापनं कृत्वा कलानां पूजयेच्च ताः ||
एवं जराद्यास्तीक्ष्णाद्याः पीताद्याश्च विधानवित् |
निवृत्त्याद्याश्चापि यजेदुक्तयुक्त्या विचक्षणः ||


Lesungshinweise: Ebenso verehre der Verfahrenskundige nach der genannten Methode die mit Jara, Tikshna, Pita und Nivritti beginnenden Gruppen.“ Lesungshinweis: Die genaue Verbindung der beiden ersten Zitatworte ist im Vers verkürzt.

S. 216, Sieben Unterscheidungen des Dhruva
अकारोकारकौ प्रोक्तौ मकारो बिन्दुनादकौ |
शक्तिः शान्तो ह्यमी सप्त ध्रुवभेदाः प्रकीर्तिताः ||
अन्तिमौ द्वाविमौ भेदौ पृथगेव समीरितौ |
(सिद्धान्तसारे) ध्यात्वा देवं क्षिपेदम्भः शङ्खस्थं तत्कलात्मकम् |
घटे इति शेषः |


S. 216, Blätter, Früchte und Umhüllung des Kruges
(शारदायाम्) पश्चादश्वत्थपनसचूतकोमलपल्लवैः |
इन्द्रवल्लीसमाबद्धैः सुरद्रुमधिया गुरुः ||
कुम्भवक्त्रं पिधायास्मिंश्चषकं सफलाक्षतम् |
संस्थापयेत् फलधिया विधिवत् कल्पशाखिनाम् ||
ततः कुम्भं निर्मलेन क्षौमयुग्मेन वेष्टयेत् |
(मेरुतन्त्रे) एतत् प्रधानकुम्भस्य स्थापनं परिकीर्तितम् |
अथ पूर्वादिकाष्ठासु तोरणानां समीपतः ||


Lesungshinweise: [verfahre man]

S. 217, Krüge an Toren und Zwischenrichtungen
यथेच्छया मण्डलानि कुर्याद्वाऽष्टदलानि च |
तदूर्ध्वं शालिपुञ्जं तु प्रतिद्वारं समाचरेत् ||
तदूर्ध्वं पूर्णकलशं तत्र चैतान् प्रपूजयेत् |
प्राग्ध्रुवं च धरां दक्षे पश्चादाकूपतिमुत्तरे ||
विघ्नेशमथ चाग्नेयादिषु कुम्भान् सुविन्यसेत् |
अमृतं दुर्जयं सिद्धार्थकं मङ्गलमर्चयेत् ||


Lesungshinweise: Auch in den Zwischenrichtungen von Südosten an stelle man Krüge auf und verehre Amrita, Durjaya, Siddharthaka und Mangala.“ Lesungshinweis: Akupati ist als Name im westlichen Krug nicht sicher gelesen.

S. 217, Richtungswächter und Elefanten
पुनः पूर्वादिकाष्ठासु क्रमादिन्द्रादिकान् यजेत् |
लोकपालान् मण्डलेषु कुम्भेषूपरि च तदा ||
ऐरावतं पुण्डरीकं वामनं कुमुदाञ्जनौ |
पुष्पदन्तं सार्वभौमं सुप्रतीकं तदग्रतः ||


S. 217, Rückkehr zur Hauptgottheit
ततो गुरुः स्ववेद्यां तु गत्वा स्वस्यासने विशेत् |
संचिन्त्य मूलमन्त्रेण मूर्तिं तस्मिन् गुरूत्तमः ||
तस्यां मूर्तौ समावाह्य पूजयेदिष्टदेवताम् |
(शारदायाम्) मूलेन मूर्तिमिष्ट्वाऽस्मिन् शाखायां कल्पशाखिनम् |
आवाह्य पूजयेत्तस्यां मन्त्री मन्त्रस्य देवताम् ||


Lesungshinweise: Der hervorragende Guru vergegenwärtige dort mit dem Mula-Mantra die Gestalt, rufe in ihr die erwählte Gottheit an und verehre sie.“ In der Sharada: „Nachdem der Mantrakundige mit dem Mula-Mantra die Gestalt verehrt hat, rufe er im Zweig den Wunschbaum an und verehre darin die Gottheit des Mantras.“ Lesungshinweis: Die Verknüpfung von Gestalt, Zweig und Wunschbaum ist im zweiten Zitat syntaktisch verkürzt.

S. 217, Beginn der neun Anrufungshandlungen
(मेरुतन्त्रे) आवाहनादिकं कुर्यान्मूर्त्यादौ नवधा तु तत् |
आदावावाहनं कार्यं त्रिर्जपन्मूलमन्त्रकम् ||
स्वलोकात् सूक्ष्मरूपेण देव आगत्य मूर्तिषु |
स्थित एवं भावयित्वा सुषुम्णावर्त्मना सुधीः ||
आनीय देवं स्वस्थानान्नासिकारन्ध्रनिर्गतम् |
करे पुष्पाञ्जलिः स्थाप्यस्तं दद्याद्देवमूर्धनि ||


S. 218, Anrufung nach dem Siddhantasara
(सिद्धान्तसारे) पुष्पाञ्जलिं समादाय मुद्रया च त्रिखण्डया |
यथोक्तां देवतां ध्यात्वा मूलमन्त्रं समुच्चरन् ||
संबुद्ध्यन्तं देवनामात्रागच्छागच्छ चेदपि |
मूलं पुनः समुच्चार्य स्वस्थानादानयेच्छिवम् ||
अत्र शिवपदं तत्तद्देवतापरम् |


S. 218, Anrufung aus dem Herzlotus
(महाकालसंहितायाम्) ततः प्रसूनं संगृह्य त्रिखण्डामुद्रया सुधीः |
करकच्छपिकां बद्ध्वा ध्यानं देव्याः समाचरेत् ||
यस्य मन्त्रस्य यद्ध्यानं यादृशं परिकीर्तितम् |
तेनैव ध्यानयोगेन ध्यायीत जगदम्बिकाम् ||
वहन्नासापुटद्वारा हृदयाम्बुजमध्यतः |
देवीं पुष्पे समानीय पुष्पं यन्त्रे प्रविन्यसेत् ||


S. 218, Festigung der Gegenwart
(मेरुतन्त्रे) देवस्य तेजस्तन्मूर्तावावाहन्याख्यमुद्रया |
स्थापयेदुच्चरन्मूलमेतदावाहनं मतम् ||
ततः संस्थापनं कुर्यादिह तिष्ठेह तिष्ठ च ||
मूलान्ते देवतानाम तस्यान्ते च पठेदिति |
आस्थापनीयमुद्रां च दर्शयित्वा विभावयेत् ||
जातः स्थिरो भव इति पश्चात् संप्रार्थयेदिति |
देवेश भक्तिसुलभ सर्वावरणसंयुत ||
यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरो भव |
एवं संप्रार्थ्य देवेशं संनिधापनमाचरेत् ||
मूलमन्त्रं समुच्चार्य संबुद्ध्यन्तां च देवताम् |


S. 219, Nähe und Festhalten der Gottheit
इह त्वं संनिधेहीति द्विरुक्त्वा स्वस्य संनिधौ ||
स्थितं देवं तोषयेच्च संनिधापनमुद्रया |
संनिरोधं ततः कुर्यान्मूलमुच्चार्य देवताम् ||
संबुद्ध्यन्तां समुच्चार्य संनिरुद्धो भवेति च |
द्विरुच्चरेत् कृपापूर्णां भक्तिभावनिरोधिताम् ||
प्रतिमायां स्थिरीजातां देवतामिति चिन्तयेत् |


S. 219, Zuwendung und Verhüllung
संमुखीकरणं कुर्यान्मूलमुच्चार्य देवताम् ||
संबुद्ध्यन्तां वदेत् पश्चात् संमुखो भव इत्यपि |
ध्यायेत् स्वसंमुखं देवं सुप्रसन्नाननाम्बुजम् ||
संमुखीकरणीं मुद्रां दर्शयेदिति तत् स्मृतम् |
ततोऽवगुण्ठनं कुर्यान्मूलमुच्चार्य देवताम् ||
संबुद्ध्यन्तामवगुण्ठितो भवेति प्रदर्शयेत् |
अवगुण्ठनमुद्रां च प्रदर्श्य चिन्तयेदिति ||
भक्त्या संमोहितं देवं विस्मयोत्फुल्ललोचनम् |


S. 219, Vereinigung mit den Gliedgottheiten
सकलीकरणं चैतद्देवस्य हृदयादिषु ||
षडङ्गमन्त्रान् विन्यस्य मूलमुच्चार्य देवताम् |
संबुद्ध्यन्तां च सकलीकृतो भव वदेत् ततः ||
ध्यायेदङ्गिनि देवे तु प्रतिष्ठा अङ्गदेवताः |
यस्माद्भिन्नस्वभावानां यदभिन्नं प्रयोजनम् ||
अङ्गानामङ्गिना सार्धं सकलीकरणाद्भवेत् |


S. 219–220, Übergießen mit Nektar
अमृतीकरणं वक्ष्ये पीठे संस्थाप्य देवताम् ||
बद्ध्वा सम्यग्धेनुमुद्रां देवमूर्ध्नि प्रवर्षणम् |
जायते चामृतस्येति ध्यायन्नर्घोदकेन च ||
त्रिः सिञ्चेन्मूलमन्त्रेण दीपिनीमन्वतस्त्रिधा |
अकारादिक्षकारान्तमातृकाभिस्त्रिधा पुनः ||


S. 220, Bildung des Dipini-Mantras
वाग्भवं वदयुग्मं च वाग्वादिनि च वाग्भवम् |
क्रीँ क्लिन्ने क्लेदिनि क्लेदय महाक्षोभमित्यपि ||
कुरु युग्मं कामबीजं सौँ मोक्षं कुरु युग्मकम् |
प्रासादश्च पराप्रासादः सप्तत्रिंशदक्षरः ||
दीपिनीमनुराख्यातो देवतेजोऽभिवृद्धिकृत् |
मूलं संबोधनान्तं च देवनामाऽमृतीकृतः ||
भवेति च वदेदित्थममृतीकरणं स्मृतम् |


Lesungshinweise: Man spreche den Mula-Mantra, den Gottheitsnamen im Vokativ und ‚Sei mit Nektar erfüllt!‘ So wird Amritikarana gelehrt.“ Lesungshinweis: Die Bijas sind nach dem Druck wiedergegeben.

S. 220, Erfüllung mit höchstem Nektar
परमीकरणं वक्ष्ये महामुद्रां च बन्धयेत् ||
उच्चार्य मूलदेवं च पूर्ववत् परमामृती |
कृतो भवेति च प्रोक्त्वा ध्यायेदस्य मस्तके ||
परमामृतवृष्टिं च .... .... .... इति |


S. 220, Gesten der Anrufung
आवाहनादिमुद्रालक्षणान्युक्तानि (लक्षणसंग्रहे) हस्ताभ्यामञ्जलिं बद्ध्वाऽनामिकामूलपर्वणि |
अङ्गुष्ठौ निःक्षिपेत् सेयं मुद्रा त्वावाहनी मता ||
अधोमुखी त्वियं वै स्यात् स्थापनीति निगद्यते |
उच्छ्रिताङ्गुष्ठमुष्ट्योस्तु संयोगात् संनिधापनी ||
अन्तःप्रवेशिताङ्गुष्ठा सैव संरोधिनी मता |
उत्तानमुष्टियुगला संमुखीकरणी भवेत् ||
सव्यहस्तकृता मुष्टिर्दीर्घाऽधोमुखतर्जनी |
अवगुण्ठनमुद्रेयमभितो भ्रामिता सती ||
देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिः |


S. 221, Dhenu- und Mahamudra
अमृतीकरणं धेनुमुद्रया सा च संमता |
अन्योन्याभिमुखाश्लिष्टकनिष्ठाऽनामिका पुनः |
तथा तत्तर्जनीमध्याद्धेनुमुद्राऽमृतप्रदा ||
अन्योन्यग्रथिताङ्गुष्ठा प्रसारितकराङ्गुलिः |
महामुद्रेयमुदितापरमीकरणे प्रिये ||
प्रयोजयेदिमा मुद्रा देवताह्वानकर्मणि |
अत्राद्यपञ्चमुद्रासु इहाऽऽगच्छ इह तिष्ठ इह संनिधेहि, इह संनिरोहि, इह संमुखो भवेति क्रमाद्वदन्ति |


Lesungshinweise: Wende dich hier mir zu!“ Lesungshinweis: Die vierte Formel steht im Druck als saṃnirohi, eine auffällige Form; sie wird nicht stillschweigend an die längere Anweisung auf S.

S. 221, Innere Bedeutung der Anrufung
(उड्डीशे) अत एवाभिपूर्णाया देवतायाः प्रपूजने |
सादरं संमुखीभावमावाहनमिहोच्यते ||
अत एवावाहनमुद्राप्रदर्शनादेव |
विभोर्निवेशनं यन्त्रे स्थापनं कथितं बुधैः ||
पूजां प्रपूज्यमानां तु गृहीत्वाऽनुग्रहादिकम् |
कर्तुं सामर्थ्यमस्यास्तु तत् सांनिध्यं प्रचक्षते ||
आकर्मकाण्डपर्यन्तं सांनिध्यं हि विभावयेत् |
स संनिरोध उद्दिष्टो भक्तितो मन्त्रवित्तमैः ||
आनन्दायतनं तच्च तत्त्वं सच्चिदानन्दलक्षणम् |
तदत्र सकलं व्याप्तं ध्येयं स्यादवगुण्ठने ||
सकलीकरणं कृत्वा मन्त्रैरेभिरथैकताम् |
अङ्गानामङ्गिना सार्धं विदध्यादमृतीकृतिम् ||
क्षमा तस्यापराधानां विज्ञेया परमीकृतिः |


S. 221–222, Begrenzte Gestalt und Belebung
अपराधानामिति |
अपरिच्छिन्नस्य ब्रह्मण आवाहनादिमुद्रया परिच्छिन्नताभावनारूपापराधानामित्यर्थः |
(मेरौ) देवस्य हृदयं स्पृशन्नित्युपक्रम्य |
कुर्यात् प्राणप्रतिष्ठां च मम स्थाने वदेत् तथा ||
देवतानामशेषं तु सर्वं प्राग्वदिहैव हि |
मम स्थान इति |
भूतशुद्ध्यनन्तरं च स्वदेहे कर्तव्यम् |
यत् प्राणप्रतिष्ठापनं तस्मादेतावान् विशेष इत्यर्थः |
तत्र च ज्ञानार्णवोक्तसंक्षिप्तप्रकारोऽस्माभिर्लिखितः |


S. 222, Zuordnungen der Prana-Pratishtha
विस्तरस्तु (मेरुतन्त्रे) प्राणप्रतिष्ठामन्त्रस्य मुनयोऽजेशपद्मजाः |
छन्दो ऋग्यजुः साम प्राणशक्तिस्तु देवता ||
ऋषिः शिरसि वक्त्रे तु छन्दांसि हृदि देवताः |
आं बीजाय नमो गुह्ये पदोः ह्रीं शक्तये नमः ||
नाभौ नमः क्रौं कीलाय नियोगोऽसुस्थिताविति |


Lesungshinweise: Die Anwendung dient dem festen Verweilen der Lebenskraft.“ Lesungshinweis: Die Druckzeichen der drei Bijas sind nicht überall klar; insbesondere das dritte erscheint hier mit au, in der folgenden Folge hingegen mit o.

S. 222, Verschlüsselter sechsgliedriger Nyasa
ॐ आँ ह्रीँ क्रोँ मँ कवर्गं सानुस्वारं नभोमुखम् ||
पञ्चतत्त्वं समुच्चार्य स्वात्मने आँ हृदि न्यसेत् |
ॐ आँ ह्रीँ क्रोँ चबीजं चवर्गं तदृक्छब्दादिपञ्चकम् ||
आत्मने ईँ समुच्चार्य शिरसे वह्निगेहिनी |
तानि बीजानि उँ तादृक् टवर्गं श्रोत्रकादि च ||
उक्त्वा तदात्मने ऊँ च शिखायै च वषड्वदेत् |
तानि बीजानि एतं च वागादींस्तदात्मने ||
ऐमुक्त्वा कवचायेति हुँ वदेत् तदनन्तरम् |
चतुर्बीजं च पूर्वोक्तमोँ पवर्गं च तादृशम् ||
वचनादि च तद्वत् स्यादौँ नेत्राय तदन्तकम् |
चतुर्बीजं च अं तादृग्यवर्गो मन आदि च ||
तदात्मने स्वरश्चान्तोऽस्त्राय फट् चेति संवदेत् |
अङ्गुष्ठादौ हस्ततलान्तं न्यसेदेवमेव हि ||


Lesungshinweise: Ebenso vollziehe man das Einsetzen vom Daumen bis zur Handfläche.“ Lesungshinweis: Dies ist eine verschlüsselte Bildungsanweisung, keine vollständig ausgeschriebene Rezitationsformel. Mehrere Bija-Zeichen und die Angabe etaṃ in der vierten Gliedfolge sind im Druck unsicher. Die dort nicht eindeutig bezeichnete Buchstabengruppe wird nicht ergänzt; „Gattin des Feuers“ bleibt die Bezeichnung des Quelltextes.

S. 223, Weitere Einsetzungen und Meditation über Pranashakti
नाभ्यधश्चापि कण्ठाधो मूर्धाधोऽथ तदन्तकम् |
आँ ह्रीँ क्रोँ क्रमतो न्यस्य हृत्पद्माष्टदलेषु च ||
पूर्वतः क्रमतो वर्णान् कर्णिकायां हृदन्तकान् |
यँ लँ हँ पँ वँ च मँ यँ सँ शँ क्षमिति वर्गतः ||
दिक्षु न्यसेत् ततो ध्यायेत् प्राणशक्तिं हृदि स्थिताम् |
रक्ताम्भिधिपोतारुणपद्मसंस्थां पाशाङ्कुशाविक्षुधनुश्शरांश्च ||
शूलं कपालं दधतीं कराब्जै रक्तां त्रिनेत्रां प्रणमामि देवीं ||


Lesungshinweise: Dann meditiere man über Pranashakti, die im Herzen weilt: Ich verneige mich vor der roten, dreiäugigen Göttin auf einem roten Lotus in einem Schiff auf dem roten Meer; in ihren Lotushänden hält sie Schlinge, Stachel, Zuckerrohrbogen und Pfeile, Dreizack und Schädelschale.“ Lesungshinweis: Die Buchstabenfolge der Einsetzungen ist im Druck auffällig und zum Teil unsicher; sie wird nicht zu einer erschlossenen Standardfolge verändert. Auch die gedruckte Form des Kompositums für „rotes Meer“ ist beschädigt.

S. 223, Einsetzen der eigenen Lebenskräfte
हस्तं निधाय हृदये प्राग्बीजं यादिकाष्टकम् |
हंसः सोऽहं मम प्राणा वदेदिह स्थिता—इति ||
उक्त्वा तथैव च पुनर्मम जीव इह स्थितः |
पुनस्तदुक्त्वा मम तु वदेत् सर्वेन्द्रियाणि च ||
पुनस्तदुक्त्वा मम तु वाङ्मनश्चक्षुरुच्चरेत् |
श्रोत्रघ्राणप्राणा इहागत्य सुखं चिरं ततः ||
तिष्ठन्तु वह्निजायान्तमुक्त्वा तारं ततो जपेत् |
वपुर्ज्योतिर्मयं ध्यायेदिति स्यात् प्राणसंस्थितिः ||
ममेत्यादि स्वीयप्राणस्थापनाभिप्रायेण |


S. 223, Übergang zu den Opfergaben
(तथा) तत्तद्देवताकल्पोक्तास्ततो मुद्राः प्रदर्शयेत् |
ततः संपूजयेद्देवं शक्त्या लभ्योपचारकैः ||
तन्त्रान्तरे |
विधाय देवतामूर्तौ मूलन्यासमशेषतः |
आसनादिप्रसूनान्तानुपचारान् समर्पयेत् ||
उपचारास्तु (नवरत्नेश्वरे)

S. 224, Fünf Opfergaben
गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च |
एते पञ्चोपचाराश्च कैवल्यफलदायिनः ||
इति पञ्चोपचाराः |


S. 224, Zwei Folgen von zehn Opfergaben
पाद्यमर्घ्यं तथा स्नानं मधुपर्काचमनं तथा |
गन्धादयो निवेद्यान्ता उपचारा दश क्रमात् ||
(महाकालसंहितायाम्) पाद्याघ्याचमनीयं स्नानीयं चत्वार्यनुक्रमात् |
गन्धं पुष्पं च धूपं च दीपं नैवेद्यमेव च ||
पुनराचमनीयं च दशैतान् संप्रचक्षते |
इति दशोपचाराः |


S. 224, Zwölf Opfergaben
(कुलरत्नावल्याम्) पाद्यार्घ्याचमनं स्नानं पुनराचमनीयकम् |
गन्धाक्षतप्रसूनानि धूपदीपनिवेद्यकम् ||
ताम्बूलं द्वादश प्रोक्ता उपचाराः प्रपूजने |
इति द्वादशोपचाराः |


S. 224, Sechzehn Opfergaben im Navaratneshvara
(नवरत्नेश्वरे) आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् |
मधुपर्काचमनस्नानवसनाभरणानि च ||
सुगन्धसुमनोधूपदीपनैवेद्यचन्दनम् |
प्रयोजयेदर्चनायामुपचारांस्तु षोडश ||
इति षोडशोपचाराः |


S. 224, Sechzehn Opfergaben in der Sharada
(शारदायां तु) पाद्यार्घ्याचमनस्नानवसनाभरणानि च |
गन्धपुष्पे धूपदीपौ नैवेद्याचमनं तथा ||
ताम्बूलमर्चना स्तोत्रं तर्पणं च नमस्क्रिया |
प्रयोजयेदर्चनायामुपचारांस्तु षोडश ||


S. 225, Achtzehn Opfergaben
इत्युक्तम् |
(नवरत्नेश्वरे) आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् |
स्नानं वासोपवीतं च भूषणानि च सर्वशः ||
गन्धं पुष्पं तथा धूपं दीपमन्नं च तर्पणम् |
माल्यानुलेपनं चैव नमस्कारं विसर्जनम् ||
अष्टादशोपचारैस्तु मन्त्री पूजां समाचरेत् |
इत्यष्टादशोपचाराः |


S. 225, Sechsunddreißig Opferdienste
(सुन्दरीरहस्यवृत्तौ) आसनाभ्यञ्जने तद्वदुद्वर्त्तननिरीक्षणे |
संमानं वै सर्पिरादेः स्नपनावाहने ततः ||
पाद्यार्घ्याऽऽचमनीये च स्नानीयमधुपर्ककौ |
पुनराचमनीयं च वस्त्रं यज्ञोपवीतकम् ||
अलंकारा गन्धपुष्पे धूपदीपौ तथैव च |
ताम्बूलानि च नैवेद्यं पुष्पमाला तथैव च ||
अनुलेपनशय्ये च चामरं व्यजनं तथा |
आदर्शदर्शनं चैव नमस्कारोऽप्यनन्तरम् ||
गीतवाद्यवितानानि स्तुतिर्होमः प्रदक्षिणम् |
दन्तकाष्ठप्रदानं च ततो देवविसर्जनम् ||
उपचारा इमे ज्ञेयाः षट्त्रिंशत् सुरपूजने |
इति षट्त्रिंशदुपचाराः |
एवं चतुःषष्ट्युपचारादयस्तन्त्रान्तरे द्रष्टव्याः |


S. 225, Geistige Darbringung fehlender Gaben
(कुलोड्डीशे) उपचारेषु सर्वेषु यत् किं चिद्दुर्लभं भवेत् |
तत् सर्वं मनसा ध्यात्वा पुष्पक्षेपेण कल्पयेत् ||
तत्र तत्र जलं दद्यादुपचारान्तरान्तरा |


S. 226, Darbringen des Sitzes
उपचारसमर्पणविधिरुक्तः (सारसंग्रहे) देवस्य वामभागे तु दद्यान्मूलेन चासनम् |
पौष्पं दारुमयं वास्रं चार्मं कौश्यतैजसम् ||
षड्विधं चासनं प्रोक्तं देवताप्रीतिकारकम् |
पौष्पं सुगन्धिपुष्परचितम् |
दारुमयं कण्टकिभिन्नं चन्दनादिघटितम् |
वास्रं कार्पासम् |
कौशेयं कम्बलादि |
कौश्यं सप्तविंशतिकुशपत्राणां विष्टरः |
तदुक्तम् (डामरे) सप्तविंशतिदर्भाणां वेण्यमग्रे ग्रन्थिभूषिता |
विष्टरः सर्वयज्ञेषु लक्षणं परिकीर्तितम्—इति |
तैजसं सुवर्णादिरचितं लोहसीसादिनिन्द्यम् |
चार्मं मृगव्याघ्राद्यजिनम् |


Lesungshinweise: Lesungshinweis: Die Prosa unterscheidet zusätzlich kauśeya und kauśya; diese auffällige Erläuterung wird nicht still an die sechs Kategorien des Verses angeglichen.

S. 226, Willkommen
(ज्ञानमालायाम्) उपचारविधिं वक्ष्ये दत्त्वा चाऽथ शुभासनम् |
स्वागतं कुशलप्रश्नं निगदेदग्रतस्ततः ||
(मेरुतन्त्रे) साङ्गं सावरणं देवं पूजार्थमिह चागतम् |
ध्यात्वा इति तु मूलान्ते स्वागतं परिकल्पयेत् ||


S. 226, Fußwasser und Arghya
ज्ञानमालायाम् |
पाद्यं पादाम्बुजे दद्याद्देवस्य हृदयाणुना |
हृदयाणुना नम इति मन्त्रेणेत्यर्थः |
(यामले) हस्ताब्जयोस्ततो दद्यादर्घ्यं तोयैः सुवासितैः |
(ज्ञानमालायां तु) अर्घ्यं दिशेत् ततो मूर्ध्नि शिरोमन्त्रेण देशिकः—इत्युक्तम् |
शिरोमन्त्रेणेति स्वाहेत्यर्थः |
महाकालेनापि |
अर्घ्यं मूर्ध्नि प्रदातव्यं स्वाहामन्त्रेण साधकैः—इत्युक्तम् |


S. 227, Abweichende Reihenfolge und Mundspülwasser
(क्रमदीपिकायाम्) अर्घ्यदानानन्तरं पाद्यदानमुक्तम् |
दत्त्वाऽऽसनं स्वागतमित्युदीर्य तथार्घ्यपाद्याचमनीयकानि—इति ||
(सिद्धान्तसारे) पाद्यं हृन्मनुना दद्यादर्घ्यं ज्वलनजायया |
स्वधयाऽऽचमनीयं च तेनैव मधुपर्ककम् ||
(शारदायाम्) स्वधामन्त्रेण वदने दद्यादाचमनीयकम् |
जातीलवङ्गकङ्कोलैस्तदुक्तं मन्त्रवेदिभिः ||


Lesungshinweise: [bringe man]

S. 227, Madhuparka
तथा |
स्वधाणुना ततः कुर्यान्मधुपर्कं मुखाम्बुजे |
आज्यं दधि मधून्मिश्रमयमुक्तो मनीषिभिः ||
(कुलोड्डीशे) तु |
क्षीरशर्करयोरपि मधुपर्काङ्गत्वमुक्तम् |
माक्षिकं शर्करा सर्पिर्दधि क्षीरयुतं तथा ||
मधुपर्कं कल्पयित्वा प्रदद्याद्विधिपूर्वकम् |
सर्वतः क्षौद्रमधिकं दधिसर्पिःसिताः समम् ||
क्षीरं तु सर्वतः स्वल्पं मधुपर्क उदाहृतः |


S. 227, Unterschiedliche Formeln für Mundspülwasser
(शारदायाम्) तेनैव मनुना कुर्यादद्भिराचमनीयकम् |
तेनैव मनुनेति स्वधामन्त्रेणैवेत्यर्थः |
अत्र सुधार्णवकृतः |
वारुणेन च बीजेन दद्यादाचमनीयकम् |
मधुपर्कं मुखे दद्याज्जलमन्त्रेण देशिकः ||
इति यामलस्वतन्त्रवचनसङ्गत्यनुरोधेन स्वधामन्त्रेणेति पाठमाश्रित्य सुधाशब्दस्यामृतवाचकत्वात् तद्बीजेन बिन्दुयुक्तवकारेण मधुपर्कमाचमनीयं च दद्यादित्याहुः |


Lesungshinweise: Hierzu führen die Verfasser des Sudharnava an: „Mit dem Varuna-Bija gebe man das Mundspülwasser; mit dem Wasser-Mantra gebe der Lehrer Madhuparka an den Mund.“ Im Hinblick auf die Übereinstimmung mit den eigenständigen Yamala-Aussagen stützen sie sich auf die Lesung „mit dem Svadha-Mantra“ und erklären, weil das Wort Sudha Nektar bezeichne, solle man Madhuparka und Mundspülwasser mit dessen Bija, dem Va mit Bindu, darbringen. Lesungshinweis: Die Argumentation wechselt im Druck zwischen svadhā und sudhā.

S. 228, Diskussion über Darbringungswörter
तन्त्रसारकृतस्तु त्यागार्थकस्वाहाशब्देनार्घ्यदानविधानात् तत्समीपसमभिव्याहृताचमनीयदाने त्यागबोधकः स्वधाशब्दो गृह्यते न तु वरुणबीजं तस्य त्यागार्थकत्वाभावात् |
तथा च (कुलसारे) आदौ मन्त्रं समुच्चार्य पश्चाद्देवं समुच्चरेत् |
सम्प्रदानं तदन्ते तु त्यागार्थकपदं ततः ||
एवं क्रमेण देवेशि उपचारान् प्रकल्पयेत् |
यत् तु |
मधुपर्कं ततः कुर्याज्जलमन्त्रेण देशिकः |
स्वधाणुना ततः कुर्यान्मधुपर्कं मुखाम्बुजे ||
तेनैव मनुना कुर्यादद्भिराचमनीयकम् |
वारुणेन च बीजेन दद्यादाचमनीयकम्—इति ||
वचनद्वयं, तद्वर्णभेदेन व्यवस्थापनीयम् |
शूद्राणां स्वधेत्युच्चारणेऽनधिकारात् |
इत्थं च नमः स्वाहा स्वधा वौषडित्यादीनां त्यागार्थकतया तैरेव मन्त्रैरुपचारदानं तद्व्यतिरिक्तमन्त्रेणोपचारसमर्पणं तु प्रमाणशून्यमिति व्याजह्रुः |


S. 228, Weitere Erklärungen zu Wasser-Bija und Svadha
के चित् स्वधामन्त्रेण मधुपर्काचमनीयदानस्य सकलतन्त्रसंमतत्वात् जलमन्त्रेणेत्यादौ तृतीयायाः साहित्यमर्थस्तेन च जलबीजसहितेन स्वधामन्त्रेण दद्यादिति वदन्ति |
अन्ये त्वाचमनीयसाधने जलमन्त्रस्तद्दाने तु स्वधेति संगमयन्ति |


S. 228, Formeln für weitere Gaben
तत्रैव |
स्नानं वासोऽलङ्करणं गन्धं पुष्पं हृदाऽर्पयेत् |
हृदा नमःशब्देन |
(कालीकल्पे तु) स्नानं गन्धं हृदा दद्यात् पुष्पाणि वौषडित्यपि—इत्युक्तम् |
ततो निवेदयामीति सर्वं दद्यान्महेश्वरि ||
सर्वमिति |
वस्त्रालङ्कारधूपदीपादीत्यर्थः |
नैवेद्यदाने तु विशेष उक्तः |
(सिद्धान्तसारे) निवेदयामि हृद्वह्निजायाभिस्तत्त्वमुद्रया |
देवतायै महेशानि दद्यान्नैवेद्यमुत्तमम्—इति |


S. 229, Salbung und Bad
(मेरुतन्त्रे) सुगन्धितैलैरभ्यञ्ज्य सुगन्धामलकादिभिः |
उद्वर्त्तनं विधायाथ स्नापयेदुष्णवारिणा ||
गन्धोदकैश्च मूलेन यथाशक्त्याभिषेचयेत् |
क्षीरदध्याज्यमधुभिः खण्डेन च पृथक् पृथक् ||
(शारदायाम्) गन्धाद्भिः कारयेत् स्नानं वाससी परिधापयेत् |


S. 229, Farben der Gewänder
वस्त्राण्युक्तानि (मेरुतन्त्रे) विष्णवे बगलामुख्यै पीतकौशेयमम्बरम् |
शिवाय च सरस्वत्यै पार्श्वनाथाय शुभ्रकम् ||
रक्तं शक्त्यर्कविघ्नानां भौमसंहितयोरपि |
कृष्णं भैरवकाल्यादे राघादे नीलमम्बरम् ||
अच्छिद्रं मलहीनं च सदशं यन्न धारितम् |
कार्पासजं वा कौशेयं राङ्कवं वा विशिष्यते ||


Lesungshinweise: Aus Baumwolle, Seide oder Rankava-Wolle ist es besonders geeignet.“ Lesungshinweis: Die Namen saṃhita und rāgha sind im Druck auffällig; ihre Zuordnung bleibt unsicher und wird nicht durch geläufigere Gottheitsnamen ersetzt.

S. 229, Ungeeignete Gewänder
तैलादिदूषिताद्रोगः सच्छिद्राद्वाध्यता भवेत् |
परकीयाच्च दारिद्र्यं जीर्णादायुःक्षयो भवेत् ||
दग्धाद्विपद्भवेद्दास्यदत्ते गात्रावलम्बिते |
सूचीविद्धात् स्फोटकादि मलिनात् कान्तिहीनता ||
ऊर्णकेशे पुत्रनाशश्चाधौते दीनता भवेत् |
मिथ्याभिशापो भवति श्लेष्ममूत्रादिदूषिते ||


Lesungshinweise: [Gewand wird] [genannt] Wolle beziehungsweise Haare am Gewand bringen den Verlust eines Sohnes, ein ungewaschenes Elend; ein mit Schleim, Urin und Ähnlichem verunreinigtes falsche Beschuldigung.“ Lesungshinweis: Die Verbindung um dāsyadatte und die Angabe ūrṇakeśe sind im Druck unklar; ihre Wiedergabe bleibt vorläufig.

S. 229, Heilige Schnur und Schmuck
तत्रैव |
यज्ञोपवीतं दत्त्वाऽथ भूषणानि समर्पयेत् |
ङेन्तं नमोन्तं तन्नाम पूजनादौ प्रयोजयेत् ||
तानि नानाविधानि स्युर्मुकुटादिप्रभेदतः |
स्त्रीपुंभेदतश्चापि विज्ञेयानि विचक्षणैः ||


S. 230, Fünf Arten von Duftstoffen
गन्धः पञ्चविध उक्तः (सिद्धान्तसंग्रहे) संघर्षजः परिमलः क्षोदजः प्राणिसंभवः |
कृष्णसाराभिधानश्च गन्धः पञ्चविधो मतः ||
संघर्षजो घृष्टचन्दनादिः |
परिमलः सुगन्धिद्रव्यविमर्दजन्यः |
क्षोदजो गोरोचनादिचूर्णोत्पन्नः |
प्राणिसंभवः कस्तूरिकादिः |
कृष्णसारस्तु श्रीखण्डादिसुरभिद्रव्याद्याकृष्टः |
सारभागो भाषया अतर इति प्रसिद्धः |


S. 230, Drei Duftpasten
तत्रैव |
याक्षं दैवं च गान्धर्वं कर्दमं त्रितयं परम् |
धर्मार्थकाममोक्षाणां साधनं देवतार्पितम् ||
कर्दमत्रयं तत्रैवोक्तम् |
कुरङ्गमदकङ्कोलकालागुरुसिताभ्रकैः |
प्रमोदकृद्देवतानां विज्ञेयो यक्षकर्दमः ||
स एव रोचनायुक्तो देवकर्दम उच्यते |
पटीरयुग्देवपङ्को ज्ञेयो गन्धर्वकर्दमः ||
कुरङ्गमदः कस्तूरी |
सिताभ्रं कर्पूरं |
पटीरं चन्दनम् |


S. 230, Sandelduft und weitere Duftmischung
(पुरश्चरणचन्द्रिकायाम्) चन्दनं मलयोत्पन्नमनाघ्रातं सुशीतलम् |
कर्पूरागुरुकस्तूरीहिमाम्बुक्षोदितं शुभम् ||
(मेरुतन्त्रे) कस्तूरिका चैकभागो द्वौ भागौ मुस्तकस्य च |
तदर्धेला जटामांसी त्वक्कुष्ठं च शिलारसः ||
चतुर्भागं वालुकं च घृतभृष्टा तथा नखी |
सुगन्धि कोकिला लोहवाणो राजवचा तथा ||
अष्टौ भागाः केशरस्य मुरायाश्चाथ षोडश |
कालागुरुश्चाकसीरं कालीयमथ वाज्यः |
भागाः सेवन्तिकार्कस्य चन्दनेन विमर्दयेत् ||


Lesungshinweise: In der Purashcharana-Chandrika: „Glückverheißend ist das in Malaya gewachsene, noch nicht beschnupperte und sehr kühlende Sandelholz, mit Kampfer, Aguru, Moschus und kaltem Wasser zerrieben.“ Im Meru Tantra: „Ein Teil Moschus, zwei Teile Mustaka; halb so viel Ela, Jatamansi, Tvak, Kushtha und Shilarasa; vier Teile Valuka, ebenso in Ghee geröstete Nakhi, Sugandhi, Kokila, Lohavana und Rajavacha; acht Teile Keshara und sechzehn Teile Mura; schwarzes Aguru, Akasira, Kaliya, Vajya sowie Teile von Sevantika und Arka: Man zerreibe dies mit Sandelholz.“ Lesungshinweis: Die Zuordnung der Mengen zu den einzelnen Stoffen und mehrere Namen im Schlussvers sind unsicher. Die Sanskritnamen werden bewahrt; aus der beschädigten Angabe wird keine präzise Rezeptur rekonstruiert.

S. 231, Abschluss der Duftmischung
कामोदनामा संमर्दो देवताराजतोषकृत् ||


S. 231, Fünf Rangstufen von Blumen
पुष्पभेदास्तत्रैवोक्ताः |
पुष्पं पञ्चविधं प्रोक्तं परं चापरमेव च |
उत्तमं मध्यमं हीनं तेषां वक्ष्यामि लक्षणम् ||
परं सुवर्णपुष्पं स्यात् तत् सदा योग्यमेव हि |
अभ्युक्षणपूर्वकं देयमर्चनार्हं पुनर्भवेत् ||
अपरं राजतं पुष्पं ताम्रजं च प्रकीर्तितम् |
सदा योग्यं चेदमपि त्रिवर्षं चैकवर्षकम् ||
तुलसी केतकी पद्मं करवीरं च मालती |
पञ्चैतान्युत्तमान्याहुर्मध्यमानि तथा दश ||
मल्लिकाकुन्दमन्दारतगरार्जुनकिंशुकाः |
पारिजातमशोकं च बिल्वं चम्पकमेव च ||
एतद्भिन्नं सुवर्णं च सुगन्धं हीनमुच्यते |
तत्तन्मन्त्रविधानेषु विहितानि समर्पयेत् ||


S. 231–232, Ausgeschlossene Blumen und Ausnahmen
अथ निषिद्धानि तत्रैव |
नार्पयेद्भूमिपतितं कोरकं कृमिभक्षितम् |
अङ्गुलग्नं समाघ्रातं म्लानं पर्युषितं तथा ||
उग्रगन्धमगन्धं च कृमिकेशादिदूषितम् |
अशुद्धपात्रप्राण्यङ्गवासोभिः कुत्सितात्मभिः |
आनीतं तन्निषिद्धं स्यान्मध्याह्नस्नानतस्तथा |
अधोमुखार्पितं नेष्टं पुष्पाञ्जलिविधौ न तत् ||
न पर्युषितदोषोऽस्ति तुलसीबिल्वचम्पके |
जलजे वकुलेऽगस्त्ये मालाकारगृहेषु च ||
केतकीकुटजैर्नेशं न वर्ज्यैश्चाक्षतैर्हरिम् |
न दूर्वया यजेद्दुर्गां बिल्वपत्रैर्दिवाकरम् ||
लम्बोदरं तुलस्या च वृन्तहीनैः समर्चयेत् |


Lesungshinweise: [Blumen] Man verehre mit [Blumen] ohne Stiel.“ Lesungshinweis: Die Verbindung zum Mittagsbad und der letzte Satz sind verkürzt und in ihrem Geltungsbereich unsicher; daraus wird keine zusätzliche allgemeine Blumenregel abgeleitet.

S. 232, Blumen für Ganesha und Sarasvati
देवताभेदेन पुष्पभेदा उक्ताः (पाद्मे) दूर्वारम्भाबिल्वपत्रैस्तुलसीवर्जितैः शुभैः |
जलजैः स्थलजैः पुष्पैः श्वेतरक्तैर्गणाधिपम् ||
मालतीकुन्दमन्दारकुमुदैः शारदां यजेत् |


Lesungshinweise: [-Purana]

S. 232, Blumen für die Sonne
करवीरं जवापुष्पं पद्मं कोकनदं तथा ||
नीलोत्पलमशोकं च बन्धूकं दाडिमं तथा |
केतकं मल्लिकाऽर्कं च त्रिसन्ध्यं च रवेः प्रियम् ||
कनकं कुमुदं कुन्दं तगरं कण्टकारिका |
गिरिकर्णी बिल्वपत्रं निषिद्धं रविपूजने ||


S. 232, Blumen für Shiva
हयारिकुसुमं पद्मं कैरवं नागकेशरम् |
जातीसेवन्तिकाद्रोणपुष्पं नीलोत्पलं तथा ||
अर्कपुष्पमपामार्गमुन्मत्तं कुटजं तथा |
शमीपुष्पं बिल्वपत्रं हरस्यातीव वल्लभम् ||
केतकं च जपापुष्पं शिरीषं दमनं तथा |
विभीतकं चातिमुक्तं सर्जबन्धूकयूथिकाः ||
विष्णुकान्तामपि श्वेतां वर्जयेच्छिवपूजने |


S. 232–233, Blumen für Vishnu und Narasimha
मालती मल्लिका यूथी चम्पकं नागकेशरम् ||
पाटला कुन्दमन्दारं कह्लारमतिमुक्तकम् |
कर्णिकारं कुरुवकं कदम्बं करवीरकम् ||
तमालं वकुलं नीलोत्पलं कमलकैरवे |
सेवन्तिका केतकं च दमनं मुनिपुष्पकम् ||
धात्रीपुष्पं शमीपत्रमपामार्गस्य पत्रकम् |
क्षुद्राणां चैव दूर्वाणामङ्कुराः शतपत्रिका ||
मञ्जरी सहकारस्य तुलसी च हरेः प्रिया |
उन्मत्तमर्कपुष्पं च निर्गन्धमतिलोहितम् ||
यदप्युत्कटगन्धं तद्वर्जयेद्विष्णुपूजने |
रक्तपुष्पं बिल्वपत्रं नृसिंहाय निवेदयेत् ||
वर्जयेत् केतकं पुष्पमन्यत् सर्वं च पूर्ववत् |


S. 233, Gaben für Kali im Kali-Tantra
(कालीतन्त्रे) नानोपहारबलिभिर्नानापुष्पैर्मनोहरैः |
अपामार्गदलैर्भृङ्गैस्तुलसीवर्जितैः शुभैः ||
पूजनीया सदा भक्त्या नृणां शीघ्रफलाप्तये |


S. 233, Blumenliste der Mundamala
(मुण्डमालायाम्) पुष्पाण्यपि तथा दद्याद्रक्तकृष्णासितानि च |
श्वेतपुष्पं जवापुष्पं करवीरं तथा प्रिये ||
तगरं मालती जाती सेवन्ती यूथिका तथा |
धत्तूराशोकवकुलश्वेतकृष्णापराजिताः ||
बकपुष्पं तथा बिल्वं चम्पकं नागकेशरम् |
मल्लिका गिरिटिका काश्वी रक्तं यत् परिकीर्तितम् ||
अर्कपुष्पं वर्वरं च बन्धूकं च प्रियंवदा |
अर्घ्यं च विशेषेण तुष्टा भवति पार्वती ||
पद्मपुष्पेण रक्तेन संतुष्टाः सर्वदेवताः |
कृष्णैर्वा यदि वा शुक्लैः कालिका वरदा भवेत् ||


Lesungshinweise: Durch eine rote Lotusblüte werden alle Gottheiten erfreut; durch schwarze oder weiße Blumen wird Kalika zur Gewährerin von Gaben.“ Lesungshinweis: Die Farbangaben enthalten im Druck eine Überschneidung; einzelne seltene Blumennamen, insbesondere kāśvī, bleiben unsicher.

S. 233–234, Blumengaben nach dem Matsya-Sukta
(मत्स्यसूक्ते) सुगन्धिश्वेतलौहित्यकुसुमैरर्चयेत् कुलेः |
बिल्वैर्मरुवकाद्यैश्च तुलसीवर्जितैः शुभैः ||
क्षौद्रपुष्पैर्विशेषेण वज्रपुष्पेण मिश्रितम् |
सर्वं पुष्पं प्रदद्याच्च भक्तियुक्तेन चेतसा ||
पूजनीया सदा भक्त्या नृणां शीघ्रफलप्रदा |
कुलैर्वज्रपुष्पाद्यैः |


Lesungshinweise: Lesungshinweis: Die Bezeichnung kṣaudrapuṣpa ist unsicher.

S. 234, Rote Blumen und Vajra-Pushpa
(कालिकापुराणे) पुष्पं कोकनदं पद्मं जपा बन्धूकमेव च |
सर्वेषां पुष्पजातीनां रक्तपुष्पं विशिष्यते ||
(यामले) वज्रपुष्पं कालिकायै प्रदद्यात् सिद्धिहेतवे |
योनिपुष्पं महेशाय वज्रपुष्पं निगद्यते ||


S. 234, Drei Arten des Svayambhu-Kusuma
वज्रपुष्पस्य त्रैविध्यमुक्तम् (मुण्डमालायाम्) आषोडशादनूढाया उत्तमं सर्वसिद्धिदम् |
बलात्कारेण ऊढाया मध्यमं भोगवर्द्धनम् ||
रजोयोगवशादन्यदधमं सुखदायकम् |
स्वयम्भूकुसुमं देवि त्रिविधं भुवि जायते ||
अनूढाया अनुपभुक्तायाः |
ऊढाया उपभुक्तायाः |


Lesungshinweise: [Gewonnene]

S. 234, Ersatzgaben und Unterschiede der Überlieferungswege
तन्त्रान्तरे |
वज्रपुष्पेणार्पितेन यथा तुष्यति कालिका |
न स्वर्णेन च रत्नैश्च न स्पर्शमणिभिस्तथा ||
अभावे वज्रपुष्पस्य जवापुष्पेण पूजयेत् |
अर्कपुष्पेण वा पूज्या कालिका सर्वमङ्गला ||
कालिकेति दक्षिणाम्नायाधिष्ठात्री |
उत्तराम्नाये अर्कपुष्पनिषेध उक्तो (महाकालसंहितायाम्) तुलसीभिरपामार्गैर्धत्तूरैः सिन्धुवारकैः |
अर्कपुष्पैर्वासकैश्च नैव देवीं प्रपूजयेत्—इति ||


S. 234–235, Blumen der Mahakala-Samhita
विहितानि तत्रैवोक्तानि |
शिरीषैः कर्णिकारैश्च चम्पकैः कोविदारकैः |
वकुलैश्चैव मन्दारैः कुन्दपुष्पैः कुरण्टकैः ||
लताभिर्ब्रह्मवृक्षस्य सद्दूर्वाङ्कुरैरपि |
काञ्चनारैरशोकैश्च पुन्नागैः केतकीदलैः ||
सेफालिकाभिर्यूथीभिर्जातीभिर्दमनैरपि |
शतपत्रैर्मल्लिकाभिरम्लानैर्बन्धुजीवकैः ||
किरिटीभिश्च जपापुष्पैः करवीरैश्च किंशुकैः |
पारिजातैः पाटलैश्च पद्मैर्नीलोत्पलैरपि ||
माधवीभिर्मरुवकैरपराजितया ऽपि च |
अर्जुनैश्च कदम्बैश्च द्रोणपुष्पैः सकेशरैः ||
अर्चयेत् कुसुमैरेभिर्देवीं साधकसत्तमः |
बिल्वपत्रं यथा प्रीतिकरं देव्या वरानने ||
न तथाऽन्यत् किञ्चिदस्ति पुष्पेषु प्रीतिकारकम् |
अतो यत्नेन दातव्यं बिल्वपत्रं त्रिपत्रयुक् ||


S. 235–236, Arten der Blumengirlanden
तथा |
नानापुष्पैर्विरचिता दातव्या पुष्पमालिका |
मालाभेदास्तु तत्रैवोक्ताः |
एकजातीयकैः पुष्पैर्भिन्नजातीयकैरपि |
माला तथैकवर्णा स्याच्चित्रवर्णाऽपि वा प्रिये ||
सा पुनस्त्रिविधा ज्ञेया परिणाहवशेन तु |
पतेद्धृदयपर्यन्तं या मालाऽऽमोदशालिनी ||
वैकक्षिका सा विज्ञेया सर्वावरतया स्थिता |
अधोऽवलम्बिनी नाभेः कौसुमी या स्रगुच्यते ||
साऽधारिणी परिज्ञेया मध्यमा पूर्वतोऽधिका |
आगुल्फस्रंसिनी या तु पादपद्मोपरि स्थिता ||
वनमालेति सा ख्याता सर्वाभ्यः स्रग्भ्य उत्तमा |


S. 236, Blumen der zweiten Vidya
अथ द्वितीयविद्यायाः |
(नीलतन्त्रे) अष्टम्यां च चतुर्दश्यां पूजयेच्च यथाविधि |
आज्ञासिद्धिमवाप्नोति जवापुष्पं च वर्वरी ||
चन्दनं चार्ककुसुमं दद्याच्छ्वेतापराजिताम् |
बन्धूकमालया तुष्येत् तथा छागप्रदानवत् ||
(त्रिशक्तिरत्ने) वज्रपुष्पेण संमिश्रैरर्चयेत् सिद्धिहेतवे |
अभावाद्वज्रपुष्पस्य स्मरणात् सिद्धिमाप्नुयात् ||
तुलसीमालतीवर्जं पुष्पं दद्यात् प्रसन्नधीः |


Lesungshinweise: [Blumen]

S. 236, Weitere Regeln der zweiten Vidya
(मत्स्यसूक्ते) पुष्पं श्रेष्ठं रक्तकोकं बन्धूकं शतपत्रकम् |
वर्वरीद्वितयं चैव कर्णिकारद्वयं तथा ||
वकमन्दारचूतानि करवीराणि शस्यते |
(कुलचूडामणौ) वर्जयेन्मालतीपुष्पं वर्जयेत् तुलसीदलम् |
तन्त्रान्तरे |
वज्रपुष्पेण सर्वत्र पूजयेच्चीनसुन्दरीम् |
उपचारान्तरसमर्पणेऽपि वज्रपुष्पं प्रतीच्छ स्वाहेति वक्तव्यमित्यर्थः |


S. 236, Blumen in der Shrividya-Paddhati
(श्रीविद्यापद्धतौ) जलजानीह यावन्ति श्वेतकृष्णारुणानि च |
जपाबन्धूकमुख्यानि रक्तानि स्थलजान्यपि ||
श्वेतान्यपि सुगन्धीनि मल्लिकावर्जितानि च |
पीतान्यपि तथा बिल्वपत्राणि च समर्पयेत् ||
निर्गन्धं कृष्णपुष्पं च तुलसीं च परित्यजेत् |
तुलसीगन्धमात्रेण क्रुद्धा भवति सुन्दरी ||


S. 237, Tulasi und Mallika in verschiedenen Vorschriften
नार्चयेत् त्रिपुरामम्बां पलाशकुसुमैरपि |
काम्ये तु मल्लिका न निषिद्धा |
तदुक्तम् (ज्ञानार्णवे) मल्लिकामालतीजातीकुन्दैश्च शतपत्रकैः |
श्वेतोत्पलसुशोभैश्च पूजयेन्मासमात्रकम्—इति ||
(कौलावलीये) सुन्दरीभैरवीकालीब्रह्मविष्णुविवस्वताम् |
तुलसीवर्जिता पूजा सा पूजा सफला भवेत् ||
विफलेति क्वचित् पाठस्तत्राप्यकारप्रश्लेषात् सफलेत्यर्थः पर्यवस्यति |
ब्रह्मविष्णुविवस्वतामिति पुष्पचिन्तामणिलिखितपाठः प्रामादिकः |
विष्णुपूजायां तुलसीनिषेधस्य स्वप्नेऽप्यश्रुतत्वात् |


Lesungshinweise: Die im Pushpa-Chintamani niedergeschriebene Lesung „Brahma, Vishnu und Vivasvat“ ist jedoch fehlerhaft; denn ein Verbot von Tulasi bei der Verehrung Vishnus hat man nicht einmal im Traum gehört.

S. 237, Gaben für weitere Mahavidyas
(निबन्धे) रक्तपुष्पैर्विशेषेण सन्तुष्टा भुवनेश्वरी |
तथैव च्छिन्नमस्ताऽपि पीतैस्तु बगलामुखी ||
गुञ्जया तु विशेषेण मातङ्गी वरदा भवेत् |
(मुण्डमालायाम्) श्मशानधत्तूरैरेव तुष्टा धूमावती परा |
एवशब्दः प्राशस्त्यपरो न त्वन्ययोगव्यवच्छेदकः |
श्रीविद्योदितपुष्पैस्तु सर्वा विद्याः प्रपूजयेत् |
इति तन्त्रान्तरवचनात् |


S. 237, Blumen für Lakshmi
(मेरुतन्त्रे) कुन्दमन्दारकुमुदमालतीपद्मकेतकम् |
नन्द्यावर्त्तताह्वयं जाती कह्लारं चम्पकं तथा ||
रक्तोत्पलादिपुष्पाणि लक्ष्म्याश्चातिप्रियाणि हि |


Lesungshinweise: Im Meru Tantra: „Kunda, Mandara, Kumuda, Malati, Lotus, Ketaka, Nandyavarta, die als Tahvaya bezeichnete Blume, Jati, Kahlara und Champaka, rote Utpala-Blüten und weitere Blumen sind Lakshmi besonders lieb.“ Lesungshinweis: Die Verbindung nach nandyāvarta ist im Druck unsicher; tahvaya wird vorläufig als überlieferte Bezeichnung wiedergegeben.

S. 237–238, Blumen für Durga
दुर्गायास्तु (भविष्यपुराणे) मल्लिकामुत्पलं पद्मं शमीपुन्नागचम्पकम् |
अशोकं कर्णिकारश्च द्रोणपुष्पं विशेषतः ||
करवीरं जपापुष्पं कुङ्कुमं नागकेशरम् |
यः प्रयच्छति पूजार्थं पुष्पाण्येतानि भारत ||
चण्डिकायै नरश्रेष्ठ श्रद्धाभक्तिसमन्वितः |
स कामानखिलान् प्राप्य श्रीदुर्गानुचरो भवेत् ||
तथा |
पुन्नागचम्पकः कुन्दो यूथिका नवमल्लिका |
तगरार्जुनमल्ली च बृहती शतपत्रिका ||
तथा कुमुदकह्लारबिल्वपाटलमालती |
जवाविचकिलाशोकरक्तनीलोत्पलानि च ||
दमनो मरुपत्रं च शतपुष्पं विचर्चये |


Lesungshinweise: [sind zu verwenden] Für Durga hingegen steht im Bhavishya-Purana: „Mallika, Utpala, Lotus, Shami, Punnaga, Champaka, Ashoka, Karnikara und besonders Drona-Blüten, Karavira, Japa-Blüten, Kunkuma und Nagakeshara: Wer diese Blumen voller Vertrauen und Hingabe zur Verehrung Chandikas darbringt, Bharata, Bester der Menschen, erlangt alle seine Wünsche und wird zum Gefährten Shri Durgas.“ Ferner: „Punnaga, Champaka, Kunda, Yuthika, Navamallika, Tagara, Arjuna, Malli, Brihati, Shatapatrika, Kumuda, Kahlara, Bilva, Patala, Malati, Jaba, Vichakila, Ashoka, roter und blauer Utpala, Damana, Maru-Blätter und Shatapushpa [sind zu verwenden].“ Die Schlussform vicarcaye ist grammatisch unsicher; die vollständige Blumenliste bleibt erhalten.

S. 238, Gepriesene Früchte der Blumengabe
तथा |
सुगन्धिगन्धपुष्पैस्तु पूजयेद्यस्तु चण्डिकाम् |
मुक्तिभिर्मालया वाऽपि सोऽश्वमेधफलं लभेत् ||
तथा |
नीलोत्पलसहस्रेण यो मालां संप्रयच्छति |
चण्डिकायै नरश्रेष्ठ तस्य पुण्यफलं शृणु ||
वर्षकोटिसहस्राणि वर्षकोटिशतानि च |
श्रीदुर्गानुचरो भूत्वा रुद्रलोके स मोदते ||


Lesungshinweise: [Blüten] Ferner: „Wer Chandika mit wohlriechenden Duftstoffen und Blumen verehrt, mit einzelnen [Blüten] oder auch mit einer Girlande, erlangt die Frucht eines Pferdeopfers.“ Ferner: „Höre, Bester der Menschen, die Verdienstfrucht dessen, der Chandika eine Girlande aus tausend blauen Utpala-Blüten darbringt: Tausende und Hunderte von Kotis an Jahren erfreut er sich in Rudras Welt als Gefährte Shri Durgas.“ Lesungshinweis: Das gedruckte muktibhiḥ im ersten Vers ist auffällig; „mit einzelnen Blüten“ gibt den vermutlichen Gegensatz zur Girlande wieder, bleibt aber unsicher.

S. 238, Blumen für die Planetengottheiten
ग्रहाणामपि तत्रैव |
हयारिकुसुमैः सूर्यं कदम्बैश्चन्द्रमर्चयेत् |
क्षितिजं तु जपापुष्पैश्चम्पकेन तु सोमजम् ||
शतपत्रैर्गुरुः पूज्यो जातीपुष्पैस्तु भार्गवः |
मल्लिकाकुसुमैः पङ्गुः कुन्दपुष्पैर्विधुन्तुदः |
केतुश्च विविधैः पुष्पैः शान्तिकालेषु सर्वदा |


Lesungshinweise: [Mars] [Merkur] [Jupiter] [Venus] [Saturn] [Rahu]

S. 238–239, Göttliche Gegenwart in der Blume
(यामले) पुष्पैर्देवाः प्रसीदन्ति पुष्पे देवाश्च संस्थिताः |
किं चातिबहुनोक्तेन पुष्पस्योक्तिमतल्लिका ||
परं ज्योतिः पुष्पगतं पुष्पेणैव प्रसीदति |
त्रिवर्गसाधनं पुष्पं पुष्टिश्रीस्वर्गमोक्षदम् ||
पुष्पमूले वसेद्ब्रह्मा पुष्पमध्ये तु केशवः |
पुष्पाग्रे तु महादेवः सर्वे देवाः स्थिता दले ||
तस्मात् पुष्पैर्यजेद्देवं नित्यं भक्तियुतो नरः |


S. 239, Hingabe als entscheidender Grund
(क्रियासारे) सर्वैः पुष्पैः सदा पूज्या विहितैर्विहितैरपि |
कर्तव्या सर्वदेवानां भक्तियोगोऽत्र कारणम् ||
देवीपूजा सदा शस्ता जलजैः स्थलजैरपि |
विहितैर्वा निषिद्धैर्वा भक्तियुक्तेन चेतसा ||


Lesungshinweise: [nicht zugelassenen] Die Puja der Göttin ist stets empfehlenswert, mit Wasser- oder Landblumen, seien sie zugelassen oder verboten, wenn der Geist von Hingabe erfüllt ist.“ Lesungshinweis: Im ersten Satz wiederholt der Druck vihita; der Gegensatz wird durch den folgenden Vers ausdrücklich bestätigt.

S. 239, Ersatz bei fehlenden Blumen
(मेरुतन्त्रे) पुष्पाभावे प्रवालैर्वा तदभावे च कोरकैः |
तदभावे फलैः पत्रैस्तदभावे तृणाङ्कुरैः ||
तन्त्रान्तरे |
पुष्पं वा यदि वा पत्रं यथोत्पन्नं तथाऽर्पणम् |
बिल्वस्य खदिरस्यापि तथा धात्रीतरस्य च ||
तमालस्य च पद्मस्य छिन्नभिन्ने न दुष्यतः |


Lesungshinweise: [verehre man] [Blätter beziehungsweise Blüten]

S. 239, Bis zur rein geistigen Puja
(मालिनीतन्त्रे) पूजयेत् परमेशानि पुष्पाभावे तु पत्रकैः |
पत्राणामप्यलाभे तु द्रुमगुल्मोद्भवादिभिः ||
तद्भवानामप्यलाभे तु तत्फलेन प्रपूजयेत् |
अक्षतैर्वा जलैर्वाऽपि तदभावे तु सर्पिभिः ||
सितैस्तेषामप्यलाभे मानसं पूजनं चरेत् |


Lesungshinweise: [Zucker] Ist auch davon nichts erhältlich, vollziehe man die Puja im Geist.“ Lesungshinweis: Das alleinstehende sitaiḥ bezeichnet vermutlich weißen Zucker; das Bezugswort fehlt im gedruckten Satz.

S. 240, Beginn der Avarana-Puja
(मेरुतन्त्रे) अथ पुष्पोपचारान्ते कुर्यादावरणार्चनम् |
इदं च गौडादिसंप्रदाये |
अन्यत्र तु धूपदीपनैवेद्याद्यन्तं पूजनं बोध्यम् |
(सिद्धान्तसारे) प्रथमं मन्त्रमुच्चार्य श्रीपूर्वं पादुकापदम् |
द्वितीयान्तं समुच्चार्य पूजयामीति पूजयेत् ||
(सोमभुजङ्गावल्याम्) ततश्च मूलमन्त्रेण त्रिवारं पूजयेत् सुधीः |
गृहीत्वाऽऽज्ञां महादेव्याः परिवारान् समर्चयेत् ||
षडङ्गैः प्रथमः कल्पो गुरुभिस्तु द्वितीयकः |
परिवारस्तृतीयः स्याल्लोकपालैश्चतुर्थकः ||
तदस्त्रैः पञ्चमः प्रोक्त इति सामान्यतः क्रमः |


S. 240, Verehrung der Gliedgottheiten
(यामले) पाद्यादिना तथा पश्चात् पूजयेदङ्गदेवताः |
(मेरुतन्त्रे) मन्त्रसंपुटितैर्वर्णैर्मातृकायाः सबिन्दुकैः |
क्रमेण गन्धपुष्पाद्यैर्देवस्याङ्गं समर्चयेत् ||
तथा |
केशरेष्वग्निकोणादौ हृदयादीनि पूजयेत् |
नेत्रमध्ये दिक्ष्वस्त्रं ध्यातव्या अङ्गदेवताः ||
तुषारस्फटिकश्यामनीलकृष्णारुणार्चिषः |
वरदाभयधारिण्यः प्रधानतनवः स्त्रियः ||
अग्नीशासुरवायव्यमध्यदिक्षु क्रमात् स्थिताः |


Lesungshinweise: [des Lotus]

S. 240–241, Darbringung jedes Gottheitskreises
(तूर्णार्णवे) अभिष्टसिद्धिं मे देहि शरणागतवत्सल |
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ||
इति पुष्पाञ्जलिं दद्यात् प्रणमेदतिभक्तितः |
प्रत्यावरणमेवं तु तत्तन्नाम्ना समर्पयेत् ||


S. 241, Richtungen bei der Kreisverehrung
(मेरुतन्त्रे) देवस्य पुरतः प्राची ज्ञेयाऽऽवरणपूजने |
तदादिपरिवाराणां प्रादक्षिण्येन पूजनम् ||
(मानसोल्लासे) पूज्यपूजकयोर्मध्ये प्राची संकीर्त्यते बुधैः |
तद्दक्षिणे दक्षिणं स्यादुत्तरे चोत्तरं भवेत् ||
(ज्ञानार्णवे) उत्तराभिमुखो देवि यदा चक्रं समुद्धरेत् |
उत्तराशा तदा देवि पूर्वाशैव न संशयः ||
पश्चिमाभिमुखो मन्त्री यदा चक्रं समुद्धरेत् |
पश्चिमाशा तदा ज्ञेया पूर्वाशैव न संशयः ||
वायुकोणं तदाऽऽग्नेयमीशानं राक्षसं भवेत् |
दक्षिणाशामुखो मन्त्री यदा चक्रं समुद्धरेत् ||
पूर्वाशैव तदा रक्षो रक्षःकोणं तु वह्निमत् |


S. 241, Auslegung der Richtungsangaben
पश्चिमाभिमुखत्वं च काम्यपूजाविशेषपरम् |
नित्यादिपूजायां तु प्रागाननो धनददिग्वदनोऽथवे त्यादिना दिग्द्वयस्यैव नियमात् |
(श्यामारहस्ये) तन्त्रान्तरे च |
होतुः पूर्वं पूर्वभागं प्रदिष्टं सव्यं भागं दक्षिणं त्वागमज्ञः |
दक्षं विद्यादुत्तरं भागमग्र्यं प्रज्ञावद्भिः पश्चिमं पाठमुक्तम् ||
पूर्वमिति पुरतः |
अग्र्यं स्वसंमुखं तेन देवपृष्ठमेव प्रतीच्यर्थः |
यत् तु इन्द्रादीन् साहजिकप्राच्यादिक्रमेण पूजयन्ति के चित् तत् प्रमाणशून्यम् |


Lesungshinweise: [Norden] Lesungshinweis: Die Begriffe agrya und pāṭha sowie die räumliche Erläuterung sind im Druck nicht eindeutig.

S. 241–242, Weltenhüter mit ihren Begleitern
(शारदायाम्) पश्चादभ्यर्चनीयाः स्युः कल्पोक्तावृतयः क्रमात् |
अन्ते यजेल्लोकपालान्मूलपारिषदान्वितान् ||
हेतिजायाधिपोपेतान् दिक्षु पूर्वादितः क्रमात् |


S. 242, Meditationen über die zehn Weltenhüter
इन्द्रादिलोकपालानां ध्यानानि (मेरुतन्त्रे) इन्द्रं सुराधिपं पीतमैरावतगतं विभुम् |
सहस्रनेत्रं द्विभुजं पीतवज्रधरं भजे ||
अग्निं तेजोऽधिपं रक्तं श्वेतशक्तिकरं प्रभुम् |
सुभूषणं मेषवाहं वन्दे रक्ताङ्गलोचनम् ||
यमं प्रेताधिपं कृष्णं महिषोपरि संस्थितम् |
कालदण्डधरं क्रूरं वृतं दूतैर्भयानकैः ||
रक्षोऽधिपं च निरृतिं शवासनसमाश्रितम् |
धूम्राभं खड्गहस्तं च पिङ्गश्मश्रुकूर्चकम् ||
मकरे संस्थितं विद्युत्प्रभया सकराम्बुजम् |
शुभ्राङ्गं तुन्दिलं वन्दे वरुणं यादसां पतिम् ||
वायुं प्राणाधिपं धूम्रं रक्ताङ्कुशकरं परम् |
वातप्रमिसमारूढं धावन्तं वेगतो भजे ||
यक्षनाथं कुबेरं च शुक्लं शुक्लगदाधरम् |
नरसिंहासनारूढं मेदुरं चित्रिणीयुतम् ||
विद्याधिपं नीलशूलधरं वृषभवाहनम् |
त्रिनेत्रं भालचन्द्रं च जटाजूटधरं सितम् ||
लोकाधिपं विधातारं रक्तपद्मकरं शुभम् |
हंसारूढं वेदपाठं कुर्वन्तं तमहं भजे ||
गौरं नागाधिपं मूर्ध्नि फणामण्डलभूषितम् |
पीनोत्तुङ्गं चक्रधरमनन्तं विश्वगं भजे ||


Lesungshinweise: [Ich verehre] [Ishana] Ich verehre Ananta, den hellen Herrn der Nagas, dessen Haupt ein Kranz von Schlangenhauben schmückt, mächtig und hoch aufragend, mit dem Diskus, den alles Durchdringenden.“ Lesungshinweis: Die Beschreibung von Varunas Hand und der Name des Reittiers Vayus sind unsicher; keine aus anderen Darstellungen bekannten Attribute wurden eingesetzt.

S. 242, Beginn der Waffenliste
(शारदायाम्) वज्रं शक्तिं दण्डमसिं पाशमङ्कुशकं गदाम् |


S. 243, Waffen und Mudra der Weltenhüter
शूलं चक्रं पद्ममेषामायुधानि क्रमाद्विदुः ||
पीतशुक्लसिताकाशविद्युद्रक्तसितासिताः |
कुरुविन्दपाटलाभा वज्राद्याः परिकीर्तिताः ||
(यामले) पाणिमूले तु संलग्ने शाखाः सर्वाः प्रसारिताः |
लोकेशानामियं मुद्रा तेषामर्चासु दर्शयेत् ||


S. 243, Abschluss der Kreisverehrung
तन्त्रान्तरे |
गणेशं वटुकं क्षेत्रपालं च योगिनीं तथा |
पूर्वादिक्रमयोगेन गन्धपुष्पैः समर्चयेत् ||
(मेरुतन्त्रे) पुनर्मूलं समुच्चार्य साङ्गायै सपरीति च |
वारायै नाम देव्याश्च चतुर्थ्यन्तमुदीरयेत् ||
नम इत्यर्चयेद्गन्धपुष्पाद्यैः साधकस्त्रिधा |
तन्त्रान्तरे |
कृत्वाऽऽवरणपूजां तु धूपदीपौ निवेदयेत् |


S. 243, Bevorzugte Räucherstoffe und zehnteilige Shakti-Mischung
धूपभेदा उक्ताः (मेरुतन्त्रे) धूपं दहेद्गणेशस्य प्रियः प्रोक्तस्तु गुग्गुलुः |
सर्जो देव्या महेशस्य निर्यासो देवदारुजः ||
विष्णोः कृष्णागुरुः शीतं भास्करस्य प्रियं मतम् |
शक्तेर्दशाङ्गं वक्ष्यामि शैलेयं मलयोद्भवम् ||
नखं कुष्ठं सर्जरसमेकैकांशं प्रकल्पयेत् |
शिलारसागुरुजटामांसीभागद्वयं मतम् ||
षण्माक्षिकं सिताश्चाष्टौ धूपोऽयं शक्तिमोहनः |


Lesungshinweise: [Sandelholz]

S. 243–244, Weitere zehnteilige Räuchermischungen
हरीतकीसर्जरससुरमांस्यः कुभागिकाः ||
लाक्षात्रिभागाश्चत्वारो भागाः शैलजमुस्तयोः |
पञ्चभागं नखं प्रोक्तं षड्भागं कुष्ठमुच्यते ||
द्वादशांशो गुडोऽर्केशाविधिविष्णुदशाङ्गकः |
मधुमुस्ताघृतं गन्धो गुग्गुल्वगुरुशैलजम् ||
सरलं सिह्लसिद्धार्थौ शैवो दशदशाङ्गकः |


Lesungshinweise: [Dies ist] Honig, Musta, Ghee, Duftstoff, Guggulu, Aguru, Shailaja, Sarala, Sihla und Siddhartha: [Dies ist] die zehnteilige Mischung für Shiva.“ Lesungshinweis: Die erste Gottheitszuordnung und das Schlusskompositum śaivo daśadaśāṅgakaḥ sind beschädigt beziehungsweise auffällig.

S. 244, Sechsteiliges und weiteres Räucherwerk
(तन्त्रान्तरे) गुग्गुल्वगुरुकोशीरशर्करामधुचन्दनैः |
धूपयेदाज्यसंमिश्रैर्नीचैर्देवस्य देशिकः ||
सिताज्यमधुसंमिश्रं गुग्गुल्वगुरुचन्दनम् |
षडङ्गधूपमेतत् तु सर्वदेवप्रियं सदा ||
रोगारोगहरारागदकेशाः सुरतरुजतुलघुपत्रविशेषाः |
वक्रविवर्जितवारिदमुस्ताधूपवर्त्तिरिह सुन्दरि शस्ता ||


Lesungshinweise: Roga, Arogahara, Ragada und Kesha; vom Götterbaum stammender Stoff und besondere leichte Blätter; Varida und Musta, ohne Vakra: Eine solche Räucherrolle wird hier empfohlen, Sundari.“ Lesungshinweis: Der letzte Vers enthält mehrere stark unsichere Stoffnamen und Worttrennungen.

S. 244, Sechzehn- und zehnteilige Räuchermischungen
गुग्गुलं सरलं दारुपत्रं मलयसंभवम् |
हीवेरमगरुं कुष्ठं गुडं सर्जरसं घनम् ||
हरीतकीं नखीं लाक्षां जटामांसीं च शैलजम् |
षोडशाङ्गं विदुर्धूपं दैवे पैत्रे च कर्मणि ||
मधु मुस्तं घृतं गन्धो गुग्गुल्वगुरुशैलजम् |
चन्दनं सिह्लसिद्धार्थौ दशाङ्गो धूप इष्यते ||


S. 244, Räucherwerk für die Vidyas
(यामले) दशाङ्गधूपः श्यामायाः सुन्दर्याः षोडशाङ्गकः |
अष्टादशाङ्गस्ताराया भैरव्याश्च गजाङ्गकः ||
पञ्चाङ्गश्छिन्नमस्तायाः प्रियोऽन्यासां षडङ्गकम् |
अभावे सर्वविद्यासु गुग्गुल्वगुरुचन्दनम् ||


Lesungshinweise: [zu verwenden]

S. 245, Verehrung und Klang der Glocke
(मेरुतन्त्रे) हृदाणुना ऽथवाऽस्त्रेण घण्टां संपूज्य वादयेत् |
तत्रैव |
तारो जयध्वनिपदं मन्त्रमातोऽग्निगेहिनी |
एकादशाक्षरो मन्त्रो घण्टायाः सर्वसिद्धिदः ||
आवाहनेऽर्घ्यधूपे च पुष्पे नैवेद्यदीपयोः |
घण्टानादं प्रकुर्वीत विशेषाद्धूपदीपयोः ||
पूजाकालं विनाऽन्यत्र कुर्यादस्याः प्रवादनम् |
नानया च विना पूजां कारयेत् सिद्धिलालसः ||
राघवभट्टः |
धूपभाजनमस्त्रेण प्रोक्ष्याभ्यर्च्य हृदाऽणुना |
अस्त्रेण पूजितां घण्टां वादयन् गुग्गुलुं दहेत् ||


Lesungshinweise: Während man die mit dem Waffen-Mantra verehrte Glocke läutet, verbrenne man Guggulu.“ Lesungshinweis: Die Glockenformel ist als Bildungsschema überliefert; das mittlere Formelwort mantramātaḥ ist unsicher.

S. 245, Bedeutung des Räucherwerks
धूपपदार्थ उक्तः (कुलार्णवे) धूताशेषमहादोषपूतिगन्धापहारितः |
परमामोदजननाद्धूप इत्यभिधीयते ||


S. 245–246, Sieben Lampenarten und fünf Dochtarten
दीपभेदा उक्ताः (कुलोड्डीशे) घृतप्रदीपः प्रथमस्तिलतैलसमुद्भवः |
सार्षपः फलनिर्यासजातो वा वारिजोद्भवः ||
दधिजश्चान्नजश्चैव दीपाः सप्त प्रकीर्तिताः |
पद्मसम्भवा वर्त्तिर्दर्भसम्भवाऽथवा ||
जलजाः वादरीर्वाऽपि तरुकोषोद्भवाऽथवा |
वर्त्तिका दीपकृत्येषु सदा पञ्चविधा स्मृता ||
(यामले) वर्त्तिः श्वेता ऽथवा रक्ता न पीता नासिताऽपि च |
बीजशून्यं च कार्पासं तदीयास्तन्तवोऽपि च ||
पटो वा नूतनः शुक्लो वर्त्तिकायां प्रशस्यते |
जीर्णं च मलिनं वस्त्रं नैव दद्यात् कदा चन ||


Lesungshinweise: Ein abgetragenes oder schmutziges Tuch verwende man niemals.“ Lesungshinweis: Die seltenen Materialangaben vārijodbhava und vādarī sind nicht näher erklärt; sie bleiben ohne spekulative stoffliche Zuordnung.

S. 246, Lampengefäße und Aufstellung der Gaben
(मेरौ) तैजसं राजसं लौहं मार्त्तिक्यं नारिकेलजम् |
तृणराजोद्भवं वाऽपि दीपपात्रं प्रशस्यते ||
एवं दीपं प्रकुर्वीत नेत्ररञ्जनकारणम् |
(यामले) निवेदयेत् पुरो भागे गन्धं पुष्पं च भूषणम् |
वामतस्तु तथा धूपमग्रे वा न तु दक्षिणे ||
(मेरुतन्त्रे) न धूपं वितरेद्भूमौ नासने न घटे तथा |
यथातथाधारगतं कृत्वा तं विनिवेदयेत् ||
मेदो मज्जायुतो नेष्टो विष्णवे दारुसंभवः |


Lesungshinweise: [auch nicht] Mit Fett oder Mark versetztes ist nicht erwünscht; für Vishnu [auch nicht] aus Holz entstandenes.“ Lesungshinweis: Die Beziehung der letzten Ausschlussangabe ist knapp; die Lesung rājasam bei den Gefäßen wird vorläufig auf Silber bezogen.

S. 246, Platz und Brennstoff der Lampe
(यामले) दीपं दक्षिणतो दद्यात् पुरतो वा न वामतः |
तथा |
दक्षिणे घृतयुक्तश्च तैलयुक्तश्च वामतः |
दक्षिणे च सिता वर्त्तिर्वामतो रक्तवर्त्तिकः |
(मेरुतन्त्रे) पूजयित्वा स्वमन्त्रेण घण्टां तन्नादपूर्वकम् |
दीपं दद्यात् तु विभवे नानावाद्यपुरस्सरम् ||
तत्रैव |
गोसर्पिषा वा तैलेन वर्त्त्या कर्पूरगर्भया |
उच्चैः प्रदर्शयेद्दीपं न च मेदादिना क्व चित् ||
न मिश्रीकृत्य दद्यात् तु दीपं स्नेहान् घृतादिकान् |
कृत्वा मिश्रीकृतं स्नेहं तामिस्रं नरकं व्रजेत् ||


S. 247, Darbringung des Lichts
पारावतभ्रमाकारं भ्रामयेच्च प्रदर्शयेत् |
देवस्य सर्वावयवान् श्लोकमेवं ततः पठेत् ||
सुप्रकाशो महादीपः सर्वत्र तिमिरापहः |
सबाह्याभ्यन्तरज्योतिर्दीपोऽयं प्रतिगृह्यताम् ||
दक्षिणे सार्पिषं दीपं तिलतैलस्य वामतः |
सिता वर्त्तिर्दक्षिणतो रक्ता वर्त्तिस्तु वामतः ||
वृक्षेषु दीपो दातव्यो न तु भूमौ कदा चन |
कृत्वा तु पृथिवीतापं दीपमुत्सृजते नरः ||
संतापपापं नरकं प्राप्नोत्येव शतं समाः |
नैव निर्वापयेद्दीपं लक्ष्मीनाशकरो यतः ||


Lesungshinweise: Man lösche die Lampe nicht aus, denn dies vernichtet Lakshmi.“ Lesungshinweis: Die Bezeichnung vṛkṣeṣu lautet wörtlich „auf Bäumen“; eine bestimmte Lampenhalterform ist nicht belegt.

S. 247, Weitere Lampenvorschriften
(कालिकापुराणे) लभ्यते यस्य तापस्तु दीपस्य चतुरङ्गुलात् |
न स दीप इति ख्यातो ह्याघवह्निस्तु स श्रुतः ||
शाणं वा दौर्घं वस्त्रं जीर्णं मलिनमेव वा |
उपभुक्तं न दद्यात् तु वर्त्तिकार्थं कदा चन ||
नैव निर्वापयेद्दीपं देवार्थमुपकल्पितम् |
दीपहर्त्ता भवेदन्धः काणो निर्वापको भवेत् ||
सर्वसहा वसुमती सहते न द्वयं त्विदम् |
अकार्ये पादघातं च दीपतापं तथैव च ||
तन्त्रान्तरे |
अङ्गुष्ठाग्रेण देवेशि धृत्वा दीपं निवेदयेत् |
पारावतभ्रमाकारमुद्धास्य नयनावधि ||


Lesungshinweise: [?] Die alles tragende Erde erträgt diese beiden Dinge nicht: einen grundlosen Fußtritt und die Hitze einer Lampe.“ In einem anderen Tantra: „Herrin der Götter, man halte die Lampe mit der Daumenspitze und bringe sie dar, indem man sie wie den Flug einer Taube kreisend bis zur Höhe der Augen emporführt.“ Lesungshinweis: Das gedruckte daurghaṃ bei der Tuchart ist unsicher.

S. 247–248, Bedeutung der Lampe
दीपपदार्थ उक्तः (कुलार्णवे) दीर्घाज्ञानमहाध्वान्ताहंकारपरिवर्जनात् |
परतत्त्वप्रकाशाच्च दीप इत्यभिधीयते ||


S. 248, Aufstellung und Gefäße der Speisegabe
(यामले) नैवेद्यं दक्षिणे भागे पुरतो वा न पृष्ठतः |
पक्वं च देवतावामे आमन्नं देवदक्षिणे ||
पक्वापक्वविभेदेन नैवेद्येष्वपि च स्थितिः |
पुरतो नियमो नास्ति धूपनैवेद्ययोः क चित् ||
(रुद्रयामल-) वचनानि |
तैजसेषु च पात्रेषु सौवर्णे राजते तथा |
ताम्रे वा प्रस्तरे वाऽपि पद्मपत्रेऽथ वा पुनः ||
यज्ञदारुमये वाऽपि नैवेद्यं कल्पयेद्बुधः |
सर्वाभावे तु माहेयं स्वहस्तघटितं यदि ||


Lesungshinweise: [verwende er]

S. 248, Reinigung der Speisegabe
(सारसंग्रह-) वचने तु |
निधाय स्वर्णजे पात्रे साधारं तच्च मण्डले |
निधाय चतुरस्रे च संस्कुर्याच्छास्त्रमार्गतः ||
अस्त्रमन्त्रेण संप्रेक्ष्य चक्रमुद्राभिरक्षितम् |
वायुबीजेन संशोध्य वह्निबीजेन तद्दहेत् ||
स्पृशान् दक्षकरयेण सुधाबीजेन मन्त्रयेत् |
धेनुमुद्रां प्रदर्श्याथ गन्धपुष्पैः समर्चयेत् ||


Lesungshinweise: [die Speise] [gedanklich]

S. 248, Bitte um Annahme der Speise
(मेरुतन्त्रे) देवमभ्यर्च्य कुर्याच्च पुष्पाञ्जलिमनन्यधीः |
हेमपात्रस्थितं दिव्यं परमां सुसंस्कृतम् ||
पञ्चधा षड्रसोपेतं गृहाण मम सिद्धये |
मूलमन्त्रं समुच्चार्य स्वाहान्तं जलमर्पयेत् ||
कराभ्यां संस्पृशन् पात्रं नैवेद्यान्ते नमो वदेत् |
देवस्य दक्षिणे हस्ते जलं दत्त्वा पठेदिदम् ||


Lesungshinweise: Nachdem man Wasser in die rechte Hand des Gottes gegeben hat, rezitiere man Folgendes …“ Lesungshinweis: Die Form paramāṃ im Speisevers ist grammatisch auffällig.

S. 249, Wasserformel und Grasa-Mudra
अमृतोपस्तरणमसि स्वाहा इति नवाक्षरम् |
दर्शयेद्वामहस्तेन विकचोत्पलसन्निभाम् ||
दर्शयित्वा ग्रासमुद्रां पञ्चप्राणाहुतिं चरेत् |


Lesungshinweise: [Man spreche]

S. 249, Die fünf Prana-Mudras
प्राणादिमुद्रास्तत्रैवोक्ताः |
कनिष्ठानामिकाङ्गुष्ठयोगः प्राणस्य मुद्रिका |
तया ग्रासं गृहीत्वा प्राणाय स्वाहेति संवदेत् ||
तर्जनीमध्यमाङ्गुष्ठयोगेनापानकं वदेत् |
ङेन्तं स्वाहान्तमग्र्य च व्यानाय च ततो वदेत् ||
स्वाहाऽथ मध्यमानामाङ्गुष्ठयोगेन निर्वपेत् |
हित्वा कनिष्ठां सर्वाभिरुदानायाग्निगेहिनीम् ||
सर्वाभिस्तु समानाय स्वाहोक्त्वा ग्रासमावपेत् |


Lesungshinweise: [spreche man] Mit allen Fingern sage man ‚Samana, Svaha‘ und gebe den Bissen hin.“ Die syntaktische Verbindung um agrya im zweiten Satz ist unsicher; die Zuordnung der Finger folgt den ausdrücklich genannten Gruppen.

S. 249, Weitere Beschreibung der Prana-Mudras
तन्त्रान्तरे |
स्पृशेत् कनिष्ठोपकनिष्ठिके द्वे स्वाङ्गुष्ठमूर्धा प्रथमेह मुद्रा |
तथाऽपरा तर्जनिमध्यमे स्यादनामिकामध्यमिके च मध्या ||
अनामिकातर्जनिमध्यमाश्च तद्वच्चतुर्थी सकनिष्ठिकास्ताः |
स्यात् पञ्चमी मध्यमतः प्रदिष्टाः प्राणादिमुद्रा निजमन्त्रयुक्ताः ||


Lesungshinweise: So sind die Mudras für Prana und die weiteren Lebenskräfte, jeweils mit ihrem eigenen Mantra, der Reihe nach beschrieben.“ Die Wendung madhyamataḥ im Schluss ist nicht eindeutig; sie ändert die ausdrücklich genannten Fingergruppen nicht.

S. 249–250, Gebet zur Wassergabe
(मेरुतन्त्रे) ततः स्वर्णादिजे पात्रे सुतोयं धेनुमुद्रया |
अमृतीकृत्य देवाय देयं मन्त्रमिमं पठेत् ||
नमस्ते देवदेवेश सर्वतृप्तिकरं परम् |
अन्यानिवेदितं शुद्धं प्रकृतिस्थं सुशीतलम् ||
परमानन्दसंपूर्णं गृहाण जलमुत्तमम् |
उक्त्वैवं देवतावामे जलपात्रं निवेशयेत् ||


S. 250, Speisegabe und stiller Japa
त्रिभिर्वर्णैः प्रदातव्यं देवार्थं पाकभोजनम् |
घृतपक्वं दुग्धसिद्धं साधितं केवलाग्निना ||
युक्तं चैक्षवपङ्केन तच्छूद्रस्य प्रशस्यते |
ततः पुष्पाञ्जलिं दद्यादस्त्रमन्त्रेण बन्धनम् ||
दिशां कृत्वा जवनिकां देवस्य परितो न्यसेत् |
अमृतात्मकनैवेद्यं नम इत्युच्चरेत् पुनः ||
धेनुमुद्रां प्रदर्श्याथ भुञ्जानां देवतां स्मरेत् |
अष्टोत्तरशतं जप्त्वा मूलमन्त्रं ददेज्जलम् ||
नैवेद्यान्ते त्वाचमनं दत्त्वा होमविधिं चरेत् |


S. 250, Vaishvadeva und tägliches Homa
तत्रैव |
विधाय पूजामेवं हि धूपदीपनिवेद्यकैः |
तथा |
वेदिकाया दक्षभागे कृत्वा स्थण्डिलमुत्तमम् ||
संस्थाप्य वह्निं संस्कृत्य वैश्वदेवं समारभेत् ||
यथाविधि ततस्तत्र गन्धाद्यैर्देवतां यजेत् |
तत्र प्रणवपूर्वाभिर्हुत्वा व्याहृतिभिः पुरा ||
जुहुयान्मूलमन्त्रेण पायसेन घृतेन च |
पञ्चविंशतिभिः पश्चाद्धुत्वा व्याहृतिभिः पुनः ||
संपूज्य तां चन्दनाद्यैः पीठमूर्त्तौ नियोजयेत् |
अग्निं विसृज्य सखण्डेन पायसेन बलिं हरेत् ||
पार्षदेभ्यश्चन्दनादिपुष्पाक्षतसमन्वितम् |


S. 251, Zeitpunkt der Bhuta-Bali
अत्र वैश्वदेवो नित्यहोम एव |
(सिद्धान्तसारे) समाप्य वैश्वदेवं तु भूतेभ्यो बलिमाहरेत् |
शाक्ते तु बलिदानान्ते दद्याद्भूतबलिं सुधीः ||
यत्र वैष्णवादिकल्पे वक्ष्यमाणबलिदानविधिर्नास्ति तत्रास्मिन्नेव समये भूतबलिर्देय इत्यर्थः |


S. 251, Entfernung der Speisereste
(मेरुतन्त्रे) देवं तृप्तमिति ध्यात्वा नैवेद्यं गतसारकम् |
संचिन्त्य रक्षोदिग्भागे पात्रं तत् स्थापयेत् ततः ||
गोमयाद्भिस्तदस्त्रेण नैवेद्यस्थानशोधनम् |
देवोच्छिष्टं गृहीत्वा तु निर्माल्यभोजिने नमः ||
इत्यैशान्यां विनिःक्षिप्य हस्तं प्रक्षालयेत् ततः |
पुनराचमनं दद्यात् करोद्वर्त्तनमेव च ||
शुद्धमाचमनं दत्त्वा सुगन्धैर्गन्धयेत् करौ |


Lesungshinweise: [Südwesten]

S. 251, Abschließendes Wasser und weitere Dienste
(गौतमीये) क्षणं विमृश्य मतिमान् दद्याद्गण्डूषकं ततः |
अमृतापिधानमसि स्वाहेति मनुनाऽमुना ||
(यामले) सर्वोपकरणादीनि मूलान्ते च निवेदयेत् |
अशक्तो मनसा दद्यादेतत् कर्म न लोपयेत् ||


S. 251, Besondere Formel für die zweite Vidya
द्वितीयविद्याविषये तु विशेष उक्तो (नीलतन्त्रे) सर्वं मन्त्रमयं कृत्वा देवतायै निवेदयेत् |
श्रीमदेकजटे वज्रपुष्पं प्रतीच्छ चोच्चरेत् ||
मूलेनाग्निप्रियान्तेन सतारेण च साधकः |
तारः प्रणवस्तस्य चान्वय आदावेव संप्रदायसिद्धः |
अर्थश्च पञ्चः सर्वासामपि तारादिदेवतानां पूजायामविरुद्ध एवेति सुधार्णवकृतः |


Lesungshinweise: Lesungshinweis: Das im Druck vor „für alle“ stehende pañcaḥ ist syntaktisch beschädigt; daraus wird keine zusätzliche Fünfergruppe erschlossen.

S. 252, Anrede und drei Taras in Shrividya
श्रीविद्याविषये तु (मानसोल्लासे) सम्बुद्ध्या प्रवदेन्मन्त्री उपचारान् सदैव तु |
तथा |
सर्वोपचारमन्त्राश्च त्रिताराढ्याः समीक्षिताः—इत्युक्तम् |
तारत्रयं च श्रीँ ह्रीँ क्लीँ इति |
(यामले) |
(ज्ञानार्णवे) वाग्भवाया कमले चेत्युक्तम् |


Lesungshinweise: Die zweite Reihe ist im Druck zu vāgbhavāyā kamale zusammengezogen und in ihrer Worttrennung unsicher; die Bija-Bezeichnungen werden nicht zu einer zusätzlich erschlossenen Formel ausgeschrieben.

S. 252, Betelgaben
पुनश्च चुल्लुकं दद्याद्दत्त्वा ताम्बूलमुत्तमम् |
एलालवङ्गकर्पूरजातीफलादिसंयुतम् ||
तमालदलकर्पूरपूगभागैस्तरङ्गितम् |
(मेरुतन्त्रे) ततो दद्याच्च ताम्बूलं विष्णवे द्वादशाङ्गकम् |
खदिरेलालवङ्गेन्दुचूर्णीपर्णतमालकम् ||
जातीकोशदलालङ्गैः कस्तूरीकेशरैर्युतम् |
पूगीफलमथ प्रोक्तं दशाङ्गं भास्करस्य तु ||
मृगनाभितमालाभ्यां हीनं विघ्नेश्वरस्य तु |
पञ्चाङ्गं चूर्णखदिरपर्णपूगीफलेन्दुकम् ||
शैवं देव्याः जातिकोशयुतं तच्च महेशितुः |
तत्रैव |
दर्शयेच्च तथाऽऽदर्शं कल्पयेच्छत्रचामरैः |


Lesungshinweise: [Kampfer] [gelte] Für die Göttin [gelte] der zu Shiva gehörige; mit Jatikosha versehen sei dieser für Maheshitri.“ Ebendort: „Man zeige ebenso den Spiegel und richte Schirm und Yakschweifwedel her.“ Lesungshinweis: Einzelne Stoffnamen, ihre Trennung in der Zwölferliste und die Gottheitszuordnung im letzten Vers sind unsicher.

S. 252–253, Mudras für Sitz und Wassergaben
अथोपचारमुद्राः |
आसने पद्ममुद्रा स्याद्धस्तद्वयमधोमुखम् |
मुद्रेषा कुशलप्रश्ने तदेवोर्ध्वमुखं पुनः ||
मुद्रा स्यात् स्वागते चार्घ्यमुद्रा त्वञ्जलिरुच्यते |
अनामाङ्गुष्ठयोगाच्च सैवोक्ता पाद्यमुद्रिका ||
उत्तानं दक्षहस्तं तु कृत्वा निम्नतलं सुधीः |
कनिष्ठहीनाः संयुक्ताश्चतस्रोऽङ्गुल्य उन्नताः ||
मुद्रैषाऽऽचमने प्रोक्ताऽधोमुखी च त्वनामया |
स्पृष्टाङ्गुष्ठा भवेन्मुद्रा मधुपर्के वरानने ||
अधोमुखी दक्षहस्तकृता मुष्टिः कनिष्ठया |
विमुक्ता स्नानमुद्रेषा गदिता परमेश्वरि ||


S. 253, Mudras für Gewand und Duft
उत्तानं दक्षिणं हस्तं कृत्वा तन्मध्यमां पुनः |
अङ्गुष्ठेन स्पृशेदेषा मुद्रा वस्त्रस्य कीर्त्तिता ||
एषैवानामिकास्पर्शान्मुद्रा भूषणसंज्ञिता |
कनिष्ठास्पर्शतो ह्येषा उपवीतस्य मुद्रिका ||
ज्येष्ठाग्रेण कनिष्ठायां स्पृशेद्गन्धस्य मुद्रिका |
तन्त्रान्तरे |
मध्यमानामिकाङ्गुष्ठैरङ्गुल्यग्रेण पार्वति |
दद्याच्च विमलं गन्धं मूलमन्त्रेण साधकः ||


S. 253–254, Blumen-, Lampen- und Räucher-Mudras
अङ्गुष्ठतर्जनीभ्यां तु यन्त्रे पुष्पं निवेदयेत् |
अधोमुखं करं कृत्वा तर्जन्यग्रे तु योजयेत् ||
अङ्गुष्ठाग्रं तु मुद्रेयं पुष्पाख्या परमेश्वरि |
यथा गन्धं तथा देवि धूपं दद्याद्विचक्षणः ||
मध्यमानामिकाभ्यां तु मध्ये पर्वणि देशिकः |
अङ्गुष्ठाग्रेण देवेशि धृत्वा दीपं निवेदयेत् ||
तथा |
अङ्गुष्ठाग्रेण तर्जन्याः स्पृशेदग्रं महेश्वरि |
धूपमुद्रेयमाख्याता सर्वदेवप्रियङ्करी ||


Lesungshinweise: Der Lehrer halte die Lampe zwischen Mittel- und Ringfinger an deren mittlerem Gelenk und mit der Daumenspitze und bringe sie dar, Herrin der Götter.“ Ferner: „Mit der Daumenspitze berühre man die Spitze des Zeigefingers, Maheshvari: Dies wird als Räucher-Mudra beschrieben, die alle Götter erfreut.“ Eine Druckfußnote überliefert vor dem letzten Satz zusätzlich: „Mit der Daumenspitze berühre man die Spitze des Mittelfingers, von den Göttern Verehrte.

S. 254, Mudras der Speisegabe
अनामाग्रं स्पृशेद्देवि ज्येष्ठाग्रेण तु देशिकः |
नैवेद्यमुद्रा कथिता देवतातुष्टिकारिणी ||
अन्यत्र |
उत्तोलनं त्रिधा कृत्वा गायत्र्या मूलयोगतः |
तत्त्वाख्यमुद्रया देवि नैवेद्यं तु निवेदयेत् ||
मूलेनाचमनं दद्यात् ताम्बूलं तत्त्वमुद्रया |


Lesungshinweise: [die Speisegabe]

S. 254, Bali für Gottheit und Gefolge
(सिद्धान्तसारे) मूलमन्त्रेण संपूज्य स्वस्वकल्पोक्तमन्त्रतः |
देवतायै बलिं दत्त्वा विघ्नादिभ्यो बलिं हरेत् ||
(ज्ञानार्णवे) ईशानवह्निनैऋत्यवायुकोणेषु पूर्ववत् |
मण्डलानि विधायाथ पूर्ववत् पूजयेत् प्रिये ||
पूर्ववद्बलिदानं च दद्यात् सर्वसमृद्धये |
वटुकानीन् महेशानि योगिनीभ्यश्च वल्लभे ||
गणेशक्षेत्रपालाभ्यां पूर्ववद्बलिमुत्सृजेत् |


Lesungshinweise: Zum vollständigen Gedeihen bringe man wie zuvor Bali dar, für Vatuka und die weiteren, Maheshani, für die Yoginis, Geliebte, für Ganesha und Kshetrapala, wie zuvor.“ Die gedruckte Form vaṭukānīn ist beschädigt; die Empfängerfolge wird durch den weiteren Wortlaut gestützt.

S. 254, Richtungen und Finger bei Bali
(समयाचारे) दक्षिणे वटुकं दद्यादुत्तरे योगिनीगणे |
पूर्वे भूतबलिं दद्यात् क्षेत्रपालाय पश्चिमे ||
तथा |
अङ्गुष्ठानामिकाभ्यां तु वटुकाय बलिर्मतः |
कनिष्ठाङ्गुष्ठयोगेन योगिनीबलिमाहरेत् ||
अङ्गुष्ठतर्जनीभ्यां तु क्षेत्रपालबलिं हरेत् |
अङ्गुलीभिश्च सर्वाभिरुक्तो भूतबलिः प्रिये ||
तत्यमुष्टेस्तु मध्यस्थामङ्गुलिं दण्डवत् कुरु |


Lesungshinweise: [Bali] Aus der ausgestreckten Faust mache den mittleren Finger gerade wie einen Stab …“ Lesungshinweis: Die erste Wortverbindung des letzten Satzes ist unsicher; seine Fortsetzung folgt auf der nächsten Seite.

S. 255, Gajadanta-Mudra
गजदन्तमहामुद्रा गणपस्य बलौ भवेत् ||
अङ्गुलीभिश्च सर्वाभिरुक्तो भूतबलिः प्रिये |


Lesungshinweise: Mit allen Fingern wird die Bhuta-Bali gelehrt, Geliebte.“ Der zweite Satz wird im Druck wiederholt; eine Fußnote belegt ihn eigens in einem weiteren Exemplar.

S. 255, Bali-Stoffe der beiden Wege
बलिद्रव्याण्युक्तानि (महाकालसंहितायाम्) तत्रादौ दक्षिणाचारे |
माषभक्तं तथा लाजा धानाः शक्तव एव वा |
पृथुकास्तण्डुला वाऽपि स्विन्ना व्रीहय एव वा ||
आमिक्षा वा यवागूर्वा कृशरं पायसं तथा |
आज्याभिषिक्तं दधि वा पक्वान्नानि फलानि वा ||
वामाचारे |
दग्धमीनो भर्जितं वा तेमनीकृतमेव वा |
मदिरा वा प्रदातव्या बलित्वेन वरानने ||
सर्वसाधारणत्वेन बलिर्नैव प्रकीर्त्त्यते |
अधिकारिविशेषेण दातुं शक्यो बलिस्त्वयम् ||


Lesungshinweise: [Speise]

S. 255, Bildung des Vatuka-Bali-Mantras
बलिदानमन्त्रास्तु (ज्ञानार्णवे) एह्येहि देवीपुजान्ते वटुकान्ते च नाथ च |
कपिलान्ते जटाभार भासुरान्ते त्रिनेत्र च ||
ज्वालामुखं च सर्वान्ते विघ्नान् नाशय नाशय |
सर्वोपचारसहितं बलिं गृह्ण द्विधा पदम् ||
वह्निजायान्वितो मन्त्रो वटुकस्य समीरितः |
अनेन मनुना देवि वटुकस्य बलिं हरेत् ||


Lesungshinweise: [setze] Mit diesem Mantra bringe man Vatukas Bali dar, Göttin.“ Dies ist eine Wortfolge-Anweisung; die Form devīpujānte und einzelne Wortverbindungen bleiben unsicher.

S. 255–256, Yogini-Bali nach dem Meru Tantra
(मेरौ) योगिनीनां बलेर्मन्त्रं साधनान्ते पठेदिमम् |
याँ योगिनीभ्यः स्वाहेति कुङ्काराङ्गं स्रग्धरान्वितम् ||
ऊर्ध्वं ब्रह्माण्डतो वा दिवि गगनतले भूतले निष्कले वा पाताले वाऽनले वा सलिलपवनयोर्यत्र तत्र स्थिता वा |
क्षेत्रे पीठोपपीठादिषु च कृतपदाः पुष्पधूपादिकेन प्रीतादेव्यःसदानःशुभबलिविधिनापान्तु वीरेन्द्रवन्द्याः ||


Lesungshinweise: [der bezeichneten Silbenzahl] Im Meru Tantra: „Am Ende des Sadhana rezitiere man diesen Mantra zur Bali für die Yoginis: ‚Yām̐, den Yoginis Svaha‘, mit [der bezeichneten Silbenzahl] und dem Sragdhara-Vers verbunden: Mögen die Göttinnen, die von den führenden Viras verehrt werden, uns stets durch dieses glückverheißende Bali-Verfahren schützen – ob sie oberhalb des Brahmanda, im Himmel, am Firmament, auf der Erde, im Ungeteilten, in der Unterwelt, im Feuer, im Wasser oder im Wind, hier oder dort weilen; die in Kshetras, Pithas, Upapithas und weiteren Stätten ihren Platz genommen haben und durch Blumen, Räucherwerk und andere Gaben erfreut sind.“ Lesungshinweis: Die gedruckte Zahlenbezeichnung kuṅkārāṅga ist unklar. Die Druckfußnote erklärt 91 Silben als sieben Silben der Kurzformel plus 84 des vierzeiligen Sragdhara-Verses. Eine weitere Fußnote bietet für „durch das glückverheißende Bali-Verfahren“ die Wortfolge „durch eine Bali nach glückverheißender Vorschrift“.

S. 256, Yogini-Bali nach dem Jnanarnava
(ज्ञानार्णवे) तूक्तश्लोकमुक्त्वा—एतदन्ते महेशानि याँ बीजं योगिनी ततः |
भ्यः स्वाहा सर्ववर्णान्ते योगिनीपदमालिखेत् ||
कवचं चास्त्रमालिख्य वह्निजायां पुनर्लिखेत् |
अनेन मनुना देवि योगिनीबलिमाहरेत्—इत्युक्तम् ||


Lesungshinweise: [setze man] Mit diesem Mantra bringe man die Yogini-Bali dar, Göttin.“ Das Wort varṇa in sarvavarṇānte und die anschließende Wortbildung sind im Druck knapp und unsicher; die verschlüsselten Endformeln werden nicht ergänzt.

S. 256, Kshetrapala- und Ganapati-Bali
तथा |
षड्दीर्घस्वरसंभिन्नं क्षकारं पुनरालिखेत् |
पुनः क्षेत्रपदं पालधूपदीपादि चालिखेत् ||
सहितं बलिमालिख्य गृह्ण गृह्ण ततो वदेत् |
वह्निजायान्वितो मन्त्रः क्षेत्रपालस्य सुन्दरि ||
अनेन मनुना देवि क्षेत्रपालबलिं हरेत् |
गाँ गीँ गुँ त्रयमालिख्य ङेन्तं गणपतिं वदेत् ||
वरान्ते वरदान्ते च सर्वान्ते जनमालिखेत् |
मे वशं चानयेत्युक्त्वा बलिं गृह्ण द्विधा पदम् ||
वह्निजायान्वितो मन्त्रो गणपस्य बलिं हरेत् |


Lesungshinweise: [Gaben] [Bijas] [setze man die entsprechenden Endungen] [sie] [spreche man] Mit diesem durch die ‚Gattin des Feuers‘ abgeschlossenen Mantra bringe man Ganapas Bali dar.“ Lesungshinweis: Die Nasalzeichen und besonders die Vokallänge des dritten Ganesha-Bijas sind unsicher; auch die Wortbildung nach vara/varada ist verkürzt.

S. 256–257, Reihenfolge der Bali-Empfänger
सिद्धान्तसारोद्धृतसामान्यपद्धतौ तु पूर्वादिप्रादक्षिण्येन गणेशादिभ्यो बलिप्रदानमुक्तम् |
गणेशवटुकक्षेत्रपालेभ्यो बलिमाहरेत् |
योगिनीभ्यश्च पूर्वादिप्रादक्षिण्येन देशिकः—इति ||
महाकालेनापि गणेशादिक्रम उक्तः |
गणाधिपतये पश्चाद्वटुकाय निवेदयेत्—इत्यादि |
वस्तुतो दक्षिणमार्गे गणेशादिक्रमो वाममार्गे वटुकादिक्रमः |
एवञ्च यमादौ वामादौ कुर्याद्वटुकपूजनम् |
मार्गेऽस्मिन् वटुको मुख्यः सुरायै तेन निर्मितम् ||
इति वाममार्गप्रकरणीय-(मेरुतन्त्र-) वचनात् |


Lesungshinweise: [des genannten Verfahrens] Auf diesem Weg ist Vatuka der Vornehmste; für Sura wurde dies von ihm geschaffen.“ Lesungshinweis: Die Wortfolge yamādau vāmādau sowie der Bezug des Schlusssatzes auf surā, das berauschende Getränk, bleiben unsicher.

S. 257, Bali für die Wesen
अथ भूतबलिः (मेरुतन्त्रे) उपविश्यासने मन्त्री दद्याद्भूतबलिं ततः |
ईशाने मण्डलं कृत्वा साधारं तत्र निःक्षिपेत् ||
अन्नं व्यञ्जनतोयाढ्यं पात्रं पुष्पादिपूरितम् |
तत्र भूतानि संपूज्य ततस्तेभ्यो बलिं हरेत् ||
ये रौद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः |
योगिन्योऽप्युग्ररूपाश्च गणानामधिपाश्च ये ||
भूचराः खेचराश्चैव ये तिष्ठन्त्यन्तरिक्षगाः |
सर्वे ते प्रीतमनसो भूता गृह्णन्त्विमं बलिम् ||


S. 257, Bitte und Verabschiedung der Wesen
वामहस्तेन तत्पात्रे जलधारां समर्पयेत् |
पुष्पाञ्जलिं समादाय भूतानि प्रार्थयेदिति ||
भूतानि यानीह वसन्ति भूतले बलिं गृहीत्वा विधिवत्प्रयुक्ताम् |
सन्तोषमासाद्य व्रजन्तु सर्वे क्षमन्तु तान्यत्र नमोऽस्तु तेभ्यः ||
दत्त्वा पुष्पाञ्जलिं नत्वा विहरन्तु यथासुखम् |
भूतानीति च नाराचमुद्रया विसृजेत्ततः ||


S. 258, Japa und Übergabe seiner Frucht
(शारदायाम्) सहस्रावृत्त्या संजप्य मूलमन्त्रमनन्यधीः |
तं जपं सर्वसंपत्त्यै देवतायै समर्पयेत् ||
(मेरुतन्त्रे) अष्टोत्तरसहस्रं तु तदर्धं त्रिशतं तु वा |
अष्टोत्तरशतं वाऽपि जपेन्मूलमतन्द्रितः ||
समाप्ते तु जपे मालां निदध्यान्मस्तकोपरि |
अर्घ्यपात्राज्जलं हस्ते गृहीत्वेदं पठेत् ततः ||
गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् |
सिद्धिर्भवतु मे देव त्वत्प्रसादाज्जगत्पते ||
देवस्य दक्षिणे हस्ते तोयं दत्त्वा समर्पयेत् |


Lesungshinweise: [den Japa]

S. 258, Lobpreis nach dem Japa
तथा |
ततस्तु गीतस्तुतिभिर्घण्टावादनपूर्वकम् |
ब्राह्मणो वेदमन्त्राद्यैः क्षत्रियः संहितादिभिः ||
पौराणिकैर्वैश्यस्तु शूद्रस्तु प्राकृतादिभिः |
(यामले) ततश्च देवतां भक्त्या परिक्रम्य नमेद्बुधः |
परिक्रम्येति प्रदक्षिणीकृत्य |


Lesungshinweise: [verehre man] [volkssprachlichen Texten]

S. 258, Frucht und Formen der Umkreisung
प्रदक्षिणफलमुक्तं तन्त्रान्तरे |
वेदविद्भ्यो धरां दत्त्वा यत् फलं लभते नरः |
तत् फलं लभते भक्त्या कृष्णं कृत्वा प्रदक्षिणम् ||
कृष्णमित्युपलक्षणम् |
प्रदक्षिणभेदा उक्ता (यामले) त्रिकोणाकारकं देवि शक्तेः कुर्यात् प्रदक्षिणम् |
अर्धचन्द्रं महेशस्य पृष्ठतश्च समीरितम् ||


Lesungshinweise: [für die verehrte Gottheit]

S. 259, Regeln der Umkreisung
शिवप्रदक्षिणे मन्त्री अर्धचन्द्रक्रमेण च |
सव्यासव्यक्रमेणैव सोमसूत्रं न लङ्घयेत् ||
प्रसार्य दक्षिणं हस्तं स्वयं नम्रशिराः पुनः |
दर्शयेद्दक्षिणं पार्श्वं मनसाऽपि च दक्षिणः ||
त्रिधा च वेष्टयेत् सम्यग्देवतायाः प्रदक्षिणे |
एकहस्तप्रणामो वा एकं वाऽपि प्रदक्षिणम् ||
अकाले दर्शनं विष्णोर्हन्ति पुण्यं पुराकृतम् |
तन्त्रान्तरे |
एकं चण्ड्यां रवौ सप्त त्रीणि दद्याद्विनायके |
चत्वारि केशवे दद्याच्छिवस्यार्धं प्रदक्षिणम् ||


Lesungshinweise: [der Gottheit]

S. 259, Acht- und fünfgliedrige Verneigung
प्रणामभेदास्तु विष्णुकल्पलतायामुक्ताः |
पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा |
वचसा मनसा चेति प्रणामोऽष्टाङ्ग ईरितः ||
बाहुभ्यां च सजानुभ्यां शिरसा वचसा दृशा |
पञ्चाङ्गोऽयं प्रणामः स्यात् पूजासु प्रवराविमौ ||
तथा |
भूमौ निपत्य यः कुर्यात् कृष्णे दृष्टे नतिं सुधीः |
सहस्रजन्मजं पापं त्यक्त्वा वैकुण्ठमाप्नुयात् ||


S. 259, Gepriesene Frucht der Verneigung
(विष्णुधर्मे) जानुभ्यां चैव पाणिभ्यां शिरसा च विचक्षणः |
कृत्वा प्रणामान् देवस्य सर्वान् कामानवाप्नुयात् ||
परमाणूनि यावन्ति ललाटे पुरुषस्य तु |
पार्थिवानि भवन्तीह नमतो मधुसूदनम् ||
तावतोऽब्दांस्तु विप्रेन्द्र स्वर्गलोके महीयते |


S. 260, Waffengottheit im Karkari-Gefäß
(शारदायाम्) ततः शम्भोर्दिशि गुरुर्विकिरे पूर्वसञ्चिते |
हेमवस्त्रादिसंयुक्तां कर्करीं तोयपूरिताम् ||
संस्थाप्य तस्यां सिंहस्थां खड्गखेटकधारिणीम् |
घोररूपां पश्चिमास्यां पूजयेदस्त्रदेवताम् ||
चलासनेन संपूज्य तामादाय गुरुः पुनः |
रक्षेति लोकपालानां नालमुक्तेन वारिणा ||
देवाज्ञां श्रावयन्नन्तः परिगृह्य प्रदक्षिणम् |
अस्त्रमन्त्रं समुच्चार्य यथापूर्वं निवेशयेत् ||
अभ्यर्च्य भूयो गन्धाद्यैर्वक्त्रे तस्य स्थिरासनः |
कर्करी वर्द्धनी सा च सनाला घटा |
(क्रियासंग्रहे) यथास्थानं निवेश्याथ कर्करीमस्त्ररूपिणीम् |
आचार्य आत्मनः कुण्डे वह्निसंस्कारमाचरेत् ||


Lesungshinweise: [Nordosten] Im Kriya-Samgraha: „Nachdem der Lehrer die Karkari in Gestalt der Waffengottheit an ihren Platz gestellt hat, vollziehe er in seinem eigenen Kunda die Weihe des Feuers.“ Lesungshinweis: Die Verbindungen um calāsana und vaktre sind knapp und lokal unsicher. Die Druckfußnote erklärt vikira als zuvor ausgestreute Stoffe zur Beseitigung von Hindernissen.

S. 260, Abschlussvers des dritten Taranga
विभ्रत्यद्भुतभूतिभूतवचोवैचित्र्यचित्रामृतस्रोतःशालिनि सन्निबन्धनसरित्संभेदमभ्यर्हितम् |
सद्युक्तिस्फुटमौक्तिकोत्करचमत्कारे तृतीयस्तरङ्गोऽयं श्रीनरदेवनिर्मितपुरश्चर्यार्णवेऽस्मिन्नगात् ||


Lesungshinweise: „In diesem vom erhabenen König geschaffenen Ozean der Purashcharya, der den ehrwürdigen Zusammenfluss der Ströme guter Lehrwerke in sich trägt, reich an bunten Nektarströmen aus der Vielfalt wundervoll heilsamer Worte, glänzend durch Scharen klarer Perlen trefflicher Erwägungen, ist nun diese dritte Welle eingegangen.“ Lesungshinweis: Das lange Anfangskompositum ist im Druck sprachlich beschädigt; seine bildhafte Aussage wird vorläufig wiedergegeben, ohne eine gesicherte kritische Lesung zu behaupten.

S. 260, Kolophon des dritten Taranga
इति श्रीमन्महाराजाधिराजश्रीप्रतापसिंहविरचिते पुरश्चर्यार्णवे दीक्षाविधौ गुरुवरणादिपूर्वकदेवतार्चनविधानं नाम तृतीयस्तरङ्गः ||
३ ||


Lesungshinweise: [3]

4. Taraṅga: Feuerweihe und Abschluss der Einweihung

Diese Welle: Deutsch · IAST · Devanagari

S. 261, Achtzehn Weihen des Kunda
अथाग्निसंस्कारविधिः प्रदर्श्यते |
तत्र प्रथमं कुण्डसंस्कार उक्तो (मेरुतन्त्रे) वह्नेस्तु स्थापनं कुर्याद्वैदिकः कल्पमार्गतः |
तान्त्रिकः कुण्डसंस्कारानष्टादश समाचरेत् ||
मूलमन्त्रेण संपश्येत् प्रोक्षयेदस्त्रमन्त्रतः |
कुशैः संताडयेत् कुण्डमस्त्रमन्त्रं पठंस्त्रिधा ||
ततः कवचमन्त्रेण कुण्डस्याभ्युक्षणं मतम् |
अस्त्रमन्त्रेण खननं कुण्डस्याङ्गुलमानतः ||
अङ्गुष्ठानामिकाभ्यां तां मृदमस्त्रेण चोद्धरेत् |
पुनः शुद्धमृदा तं च पूरयेद्धृदयाणुना ||
समीकुर्यात् ततोऽस्त्रेण सेचयेत् कवचेन च |
काष्ठादिना कुट्टयेत् तमस्त्रेण स्याद्यथा दृढम् ||
कुशैः संमार्जयेत् कुण्डं ततश्च कवचाणुना |
विलेपनं गोमयाद्भिः कवचेनैव कारयेत् ||
कवचेनाग्निसूर्येन्दुकलाः कुण्डे विचिन्तयेत् |
त्रिसूत्रीकृतसूत्रेण वेष्टयेत् प्रतिमेखलम् ||
त्रिवारं वर्ममन्त्रेण कुण्डपूजां ततश्चरेत् |


S. 261, Verehrung und Festigung der Feuergrube
तारश्चामुककुण्डाय आसनं च नमो इति ||
एषोऽर्घ इत्याद्यैश्च सकलं पूजनं चरेत् |
नाभेश्च मेखलानां च कुर्यादेवं प्रपूजनम् ||
संचिन्तयेत् ततोऽस्त्रेण तत् कुण्डं वज्रवद्दृढम् |


Lesungshinweise: Eine Druckfußnote bezeichnet diese Form der Anwendung als tantrisch.

S. 261–262, Verkürzte Kunda-Weihe
(शारदायाम्) अस्त्रेण वज्रीकरणं हृन्मन्त्रेण कुशैः शुभैः |
चतुष्पथं तनुत्रेण कुर्यादक्षपाटनम् ||
यागे कुण्डानि संस्कुर्यात् संस्कारैरेभिरीरितैः |
अथ वा तानि संस्कुर्याच्चतुर्भिर्वीक्षणादिभिः ||
(अक्षपाटनं तु) अच्छिन्नाग्रैस्ततो दर्भैरस्त्रमन्त्राभिमन्त्रितैः |
कुण्डभित्तिगणं सर्वं वर्मणा परिभूषयेत् ||
इत्येवमक्षपाटाख्यः कुण्डसंस्कार ईरितः |
इति नारदपञ्चरात्रे प्रोक्तम् |
(मेरुतन्त्रे) वामहोमे तु संस्कारा आद्याश्चत्वार एव हि |


S. 262, Nachholen unterlassener Weihen
(नारदपञ्चरात्रे) कुण्डस्यारम्भकाले तु संस्कारा न कृता यदि |
निष्पन्नस्य च ते सर्वे विधेयाः स्युः क्रमेण वै ||
एते संस्काराः कुण्डनिर्माणकाले यदि न कृतास्तदा सिद्धे तस्मिन्नवश्यमाचरणीया इत्यर्थः |


S. 262, Sechs Linien im Kunda
(शारदायाम्) तिस्रस्तिस्रो लिखेद्रेखा हृदा प्रागुदगग्रगाः |
अत्र लिखनक्रमः (सौत्रामणीतन्त्रे) प्राचीमुदङ्मध्यसंस्थां दक्षिणारम्भमालिखेत् |
उदगग्रां पुरःसंस्थां पश्चिमारम्भमालिखेत् ||
तिस्रस्तिस्रो लिखित्वैवं प्रोक्षयेद्वाग्भवेन च |
(शारदायाम्) प्रागग्राणां स्मृता देवा मुकुन्देशपुरन्दराः |
रेखाणामुदगग्राणां ब्रह्मवैवस्वतेन्दवः ||
(यामले) मूलेन विलिखेदेता दर्भस्यैव स्रुवस्य वा |


Lesungshinweise: Nachdem man so je drei Linien gezeichnet hat, besprenge man sie mit Vagbhava.“ In der Sharada: „Die Gottheiten der ostwärts gerichteten Linien sind Mukunda, Isha und Purandara; die der nordwärts gerichteten Brahma, Vaivasvata und Indu.“ Im Yamala: „Mit dem Mula-Mantra zeichne man sie mit Darbha oder mit dem Sruva-Löffel.“ Lesungshinweis: Die genaue Reihenfolge innerhalb der ersten Liniengruppe ist syntaktisch knapp; es wird kein neu erschlossenes Diagramm eingesetzt.

S. 262–263, Dreieck und Sechseck
(मेरुतन्त्रे) त्रिकोणोपरि षट्कोणं त्रिकोणद्वितयस्य तु |
विष्ण्वीशवासवादीनां षण्णां तत्र प्रपूजनम् ||
(शारदायामल्योस्तु) अथ वा षट्कोणावृतं त्रिकोणं तत्र संलिखेत् |
षट्कोणेनावृतं देवि त्रिकोणं वा समालिखेत्—इति ||
त्रिकोणषट्कोणादिलिखनं मतान्तराभिप्रायेणोक्तम् |


Lesungshinweise: [zeichne man]

S. 263, Yogapitha im Kunda
(शारदायाम्) सर्वमभ्यर्च्य तारेण योगपीठमथार्चयेत् |
(मेरुतन्त्रे) स्वाग्रादिप्रादक्षिण्येन तत्पद्मकेशरेषु च |
मध्यान्तं पूजयेदेतान् जयां च विजयां तथा ||
अजिताख्यां चापराजितां नित्यां च विलासिनीम् |
दोग्ध्रीमघोरां च तथा मङ्गलामथ तत्र तु ||
ह्रीँ सर्वशक्तिकमलासनाय नम उच्चरन् |
दत्त्वा पुष्पाञ्जलिं कुण्डे पूजयेद्भुवनेश्वरीम् ||
तन्त्रान्तरे |
वागीश्वरीश्वरयोर्योगपीठात्मने नमः |
ह्रीमाद्यः पीठमन्त्रोऽयमावाह्यास्मिन् प्रपूजयेत् ||


Lesungshinweise: [Shaktis] [die Gottheiten]

S. 263–264, Vagishvari und Vagishvara
(मेरुतन्त्रे) पूजयेद्भुवनेश्वरीमित्यधिकृत्य |
कामोन्मत्तं शिवं तत्र देवीमृतुमतीं तथा |
गणेशशैवशाक्तेषु ध्यायन् संपूजयेदिति ||
(शारदायाम्) वागीश्वरीमृतुस्नातां नीलेन्दीवरसन्निभाम् |
वागीश्वरेण संयुक्तामुपचारैः प्रपूजयेत् |
भुवनेश्वरीवागीश्वर्योर्विकल्पो (गणेशविमर्शिन्याम्) शक्तिबीजेन वागीशीं वागीशं साध्यमन्त्रतः |
पूजयेदिति शेषः |
(रुद्रयामले) तु ततः शिवाय शक्त्यै च नमोन्तौ कथितौ मनू |
आभ्यां त्रिस्त्रिश्च संपूज्य प्रणमेन्मनुनाऽमुना ||
वागीश्वरीमृतुस्नातां समस्ताभरणान्विताम् |
वागीश्वरेण संयुक्तां नमाम्यखिलसिद्धये—इत्युक्तम् |


S. 264, Lakshmi und Narayana im Vaishnava-Ritus
वैष्णवे तु वागीश्वरवागीश्वर्योः स्थाने लक्ष्मीनारायणौ पूज्यौ |
तदुक्तम् (तत्त्वसारसंहितायाम्) लक्ष्मीमृतुमतीं तत्र प्रभोर्नारायणस्य च |
ग्राम्यधर्मेण संयुक्तमग्निं तत्र विचिन्तयेत् ||
एवं सौरेऽपि |
तदुक्तम् (मेरुतन्त्रे) वैष्णवे च तथा सौरे लक्ष्मीमृतुमतीं स्मरेत् |
नारायणस्य संयोगाज्जातमग्निं विचिन्तयेत् ||
अत्र च |
विभूतिरुन्नतिः कान्तिः सृष्टिः कीर्तिश्च सन्नतिः |
तुष्टिरुत्कृष्टिवृद्धी च संप्रोक्ता नव शक्तयः ||
इति पीठशक्तयः |
बीजाद्यमासनं दत्त्वेति वचनात् श्रीलक्ष्मीनारायणयोर्योगपीठात्मने नम इति पीठमन्त्रः |


S. 264, Kameshvari und Herbeibringen des Feuers
श्रीविद्यायां तु (ज्ञानार्णवे) कामेश्वरीं कुण्डमध्ये सकामामृतुसंयुताम् |
समावाह्य च संपूज्य तद्गर्भे वह्निमावहेत् ||
(शारदायाम्) सूर्यकान्तादिसंभूतं यद्वा श्रोत्रियगेहजम् |
आनीय वह्निं पात्रेण क्रव्यादांशं परित्यजेत् ||


S. 265, Herkunft des Ritualfeuers
(गौतमीये) पाषाणभवमग्निं च यदि वाऽरणीसंभवम् |
श्रोत्रियाणां गेहजं च वनस्थमथ वा भवेत् ||
यदृच्छालाभसंप्राप्तश्चायोग्यो यागकर्मणि |
निरग्निब्राह्मणाल्लब्धो ह्रस्वलाभकरो भवेत् ||
क्षत्राल्लब्धे चतुर्थांशं फलं दद्याद्धुताशनः |
वैश्याच्छूद्राच्च विफलं जायते होमकर्म तत् ||
(उड्डीशे) श्रोत्रियागारजं वाऽपि सूर्यकान्तोद्भवं तु वा |
अरणीसम्भवं वाऽपि चितं स्वर्णादिभाजने ||
ताम्रपात्रादिना मन्त्री पिहितं तु समानयेत् |
अथ वाऽऽनीतमग्नितः स्थापयेत् कांस्यभाजने ||


S. 265, Trägerin und Gefäß des Feuers
(मेरुतन्त्रे) अरण्या मणितो विप्रगेहादग्निं कुमारिका |
सुवासिनी वा सद्वस्त्रा कृतशौचा समाहरेत् ||
पात्रान्तरेण पिहिते ताम्रपात्रादिके शुभे |
अग्निप्रणयनं कुर्याच्छरावे वाऽथ नूतने ||
दद्यादस्त्रेण पात्रेऽग्निं कवचेन पिधाय च |
जीर्णे शरावे कापाले भिन्नपात्रे तथोल्मुके ||
नाग्निप्रणयनं कुर्याद्व्याधिहानिभयावहम् |


S. 265–266, Ausscheiden des fleischverzehrenden Anteils
क्रव्यादांशपरित्यागे विशेषस्तन्त्रान्तरे |
अस्त्रेणाग्निं समाधाय कवचेन पिधाय तु |
क्रव्यादांशं तु चास्त्रेण नैऋत्ये संक्षिपेत् प्रिये ||
(मन्त्रमुक्तावल्यामपि) आनीयास्त्रेण नैऋत्ये क्रव्यादांशं परित्यजेत् |
देवांशं मूलमन्त्रेण स्थापयेत् पुरतः सुधीः ||
(उड्डीशे) च कूर्चास्त्राभ्यां तु नैऋत्यां क्रव्यादांशं परित्यजेत्—इत्युक्तम् |
(गणेश्वरेऽपि) हूँ फडन्तेन मूलेन क्रव्यादांशं परित्यजेत् |
(क्रियासारेऽपि) श्मशानादावाममांसमत्ति यो वह्निरुच्यते |
क्रव्यादं तस्य नामास्य त्यजेत् किञ्चिद्धुताशनात् ||


S. 266, Vereinigung der drei Feuer
(शारदायाम्) संस्कुर्यात् तं यथान्यायं देशिको वीक्षणादिभिः |
औदर्यबैन्दवाभ्यां च भौमस्यैक्यं स्मरन् वसोः ||
यो जपेद्वह्निबीजेन चैतन्यं पावके तदा |
(मेरुतन्त्रे) प्रदीपकलिकाकारं तेज आवाह्य यत्नतः |
ऐक्यं जाठरबैन्दववह्निभ्यां पार्थिवस्य च ||
स्मृत्वाऽग्निबीजकेनास्य चैतन्यं योजयेदथ |
बैन्दवस्तु भ्रूमध्यस्थो वह्निः |
(उड्डीशे) दीपाद्दीपान्तरन्यायात् स्फुरन्तं सर्वतो मुखम् |
श्वासमार्गेण मनुवित् कवचेन ततोऽर्चयेत् ||


Lesungshinweise: [erwecke] [führe man] [Feuer] [herbei] Im Uddisha: „Wie eine Lampe an einer anderen entzündet wird, [führe man] das nach allen Seiten strahlende [Feuer] durch den Atemweg [herbei]; dann verehre der Mantrakundige es mit dem Schutzpanzer-Mantra.“ Lesungshinweis: Der Satz der Sharada und das Herbeiführen im Uddisha sind grammatisch verkürzt; die fehlenden Verben sind in der Übersetzung sichtbar ergänzt.

S. 266, Einsetzen des geweihten Feuers
(शारदायाम्) तारेण मन्त्रितं मन्त्री धेनुमुद्रामृतीकृतम् |
अस्त्रेण रक्षितं पश्चात् तनुत्रेण च गुण्ठितम् ||
अर्चितं त्रिः परिभ्राम्य कुण्डस्योपरि देशिकः |
प्रदक्षिणं तदा तारमन्त्रोच्चारणपूर्वकम् ||
आत्मनोऽभिमुखं वह्निं जानुस्पृष्टमहीतलः |


Lesungshinweise: [nehme] [setze er]

S. 267, Feuer als schöpferische Kraft
शिवबीजधिया देव्या योनावेनं विनिःक्षिपेत् ||
(मेरुतन्त्रेऽपि) देव्या योनौ तत्र जानुस्पृष्टभूमिश्च देशिकः |
शिवबीजमिति ध्यात्वा निःक्षिपेदाशुशुक्षणिम् ||
(उड्डीशे) भूमौ च जानुनी कृत्वा कूर्चबीजं च वह्निं च |
चैतन्यान्ते नमोऽन्तः स्यादनेनोत्थापयेच्छुचिम् ||
शिवबीजधिया तस्या योनौ वह्निं विनिःक्षिपेत् |
(त्रिपुरासारसमुच्चये) योनावेनं विन्यसेत् स्वाभिवक्त्रं पश्चाद्वह्निं मूलमन्त्रेण मन्त्री—इत्युक्तम् |
शिवबीजधियेति शैवशाक्तविषयम् |
वैष्णवादौ तु विष्ण्वादिबीजधियेति बोध्यम् |


Lesungshinweise: [Mantra]

S. 267, Einsetzen durch die Yoni und Abschluss der Vereinigung
(वायवीयसंहितायां तु) वह्निबीजं समुच्चार्य त्वादधीताग्निमासने |
योनिमार्गेण चैव तद्ददादात्मनः संमुखेन वा ||
योनिमार्गेण मेखलोपरि स्थापितयोनिरन्ध्रेण |
(मेरुतन्त्रे) देवदेव्योराचमनं मैथुनान्तधिया चरेत् |
(शारदायाम्) पश्चाद्देवस्य देव्याश्च दद्यादाचमनीयकम् |


S. 267, Mantras zum Entflammen
ज्वालयेन्मनुना तेन तमग्निमथ देशिकः ||
चित्पिङ्गलहनदहपचयुग्मान्युदीर्य च |
सर्वज्ञाज्ञापय स्वाहा मन्त्रोऽयं प्रागुदीरितः ||
(रुद्रयामले) ह्रौँ ह्रौँ ज्वलयुगं देवि प्रज्वलोदितयं ततः |
हुँ फट्स्वाहेति मन्त्रेण ज्वालयेत् पावकं सुधीः—इत्युक्तम् |


Lesungshinweise: [folgen] Dieser Mantra wurde bereits zuvor gelehrt.“ Im Rudrayamala wird gesagt: „Hraum̐, Hraum̐; zweimal ‚Lodere!‘, Göttin, danach zweimal ‚Flamme auf!‘; Hum̐, Phat, Svaha: Mit diesem Mantra entfache der Verständige das Feuer.“ Lesungshinweis: Die beiden Anfangs-Bijas des Rudrayamala-Zitats sind im Druck unsicher.

S. 268, Anfachen des Feuers
ज्वालनं तु मुखेन कुशमुष्टिपलाशपत्रादिना वा |
तदुक्तम् (मेरुतन्त्रे) मुखेनैव धमेद्वह्निं मुखादेषो ह्यजायत |
कुशैः पलाशादिपर्णैर्नापवित्रेण केन चित् ||
तन्त्रान्तरेऽपि |
जुहुयुश्च हुताग्निं च पाणिचर्मस्रुचादिभिः |
न कुर्यादग्निधमनं न कुर्याद्व्यजनादिभिः ||
मुखेनैव धमेदग्निं मुखादेषो ह्यजायत |
नाग्निं मुखेनेति तु यल्लौकिका योजयन्ति तत्—इति |


Lesungshinweise: [oder] [Man opfere im Opferfeuer.] Die Regel ‚Nicht das Feuer mit dem Mund‘ wenden die Menschen des gewöhnlichen Lebens an.“ Lesungshinweis: Der erste Halbsatz des zweiten Zitats ist grammatisch beschädigt; die anschließenden Verbote sind klar.

S. 268, Jvalini-Mudra und Verehrung des Feuers
तत्र ज्वालिनी मुद्राऽपि प्रदर्शनीया सा च |
मणिबन्धौ समौ कृत्वा करौ तु प्रसृताङ्गुली |
मध्यमे मिलिते कृत्वा तन्मध्येऽङ्गुष्ठकौ क्षिपेत् ||
इयं सा परमा मुद्रा ज्वालिनी होमकर्मणि—इति |
उक्तलक्षणा (यामले) तत उत्थाय विधिवत् कृत्वा पाणिपुटं सुधीः |
अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ||
सुवर्णवर्णममलं समिद्धं विश्वतो मुखम् |
उपविष्टेत विधिवत् मनुनाऽनेन पावकम् ||
(उड्डीशे) प्रादेशमात्रां समिधं मूलाग्र्यघृतसंप्लुताम् |
तूष्णीं वह्नौ समुत्क्षिप्य जिह्वायां देवतां न्यसेत् ||


Lesungshinweise: [spreche] [verehre er]

S. 268–269, Sattvische Feuerzungen und ihre Bijas
(शारदायाम्) विन्यसेदात्मनो देहे मन्त्री जिह्वा हविर्भुजः |
लिङ्गपायुगशिरोवक्त्रघ्राणनेत्रेषु सर्वतः ||
वह्नीशार्धीशसंयुक्ताः सादियान्ताः सबिन्दवः |
वर्णा मन्त्राः समुद्दिष्टा जिह्वानां सप्त देशिकैः ||
जिह्वास्तास्त्रिविधाः प्रोक्ता गुणभेदेन कर्मसु |
हिरण्या कनका रक्ता कृष्णाऽन्या सुप्रभा मता ||
बहुरूपाऽतिरक्ता च सात्त्विक्यो यागकर्मसु |
वह्नी रेफः |
हरो यकारः |
अर्धीशो दीर्घीकारः |
अत्र सात्त्विकरसनायां बहुरूपातिरक्तयोः पौर्वापर्यं बीजक्रमानुरोधेन न तु न्यासक्रमानुरोधेन बहुरूपायाः सर्वाङ्गे न्यसनीयत्वात् |


S. 269, Diskussion der Nyasa-Reihenfolge
तदुक्तं तन्त्रान्तरे |
सलिङ्गगुदमूर्धास्यनासानेत्रेषु च क्रमात् |
विन्यसेदतिरक्तां तां सर्वाङ्गे बहुरूपिणीमिति राघवभट्टः |
वस्तुतः |
हिरण्या गगना रक्ता कृष्णा चैव तु सुप्रभा |
बहुरूपा महेशानि अतिरिक्ता तथैव च—इत्यनन्तरम् |
एकैकं विन्यसेद्देवि लिङ्गपायुशिरःस्वथ |
वक्त्रे घ्राणे तथा नेत्रे सर्वाङ्गे च न्यसेत् ततः ||
इति (वीरचूडामणि-) वचनात् |
ततः प्रविन्यसेज्जिह्वां देहे मन्त्री विभावसोः |
सलिङ्गगुदमूर्धास्यनासानेत्रेषु च क्रमात् ||
सर्वाङ्गेषु च जिह्वास्ता वक्ष्यन्ते त्रिविधात्मिकाः |
हिरण्या गगना रक्ता कृष्णा चैव तु सुप्रभा ||
बहुरूपाऽतिरक्ता च जिह्वाः सप्तेति सात्त्विकाः |
इति (तन्त्रमन्त्रप्रकाश-) वचनाच्चातिरक्तायाः सर्वाङ्ग एव न्यासः साधीयान् |
राघवभट्टलिखितवचनान्तरं च यदि प्रमाणं तदा विकल्प एवेति सुधार्णवकृतः |
(मेरुतन्त्रेऽपि) तन्त्रमन्त्रप्रकाशिकोक्त एव क्रम उक्तः |


S. 269–270, Rajasische und tamasische Feuerzungen
(शारदायाम्) पद्मरागा सुवर्णाऽन्या तृतीया भद्रलोहिता |
लोहितानन्तरं श्वेता धूमिनी च करालिका ||
राजस्यो रसना वह्नेर्विहिताः काम्यकर्मसु |
विश्वमूर्तिः स्फुलिङ्गिन्या धूम्रवर्णा मनोजवा ||
लोहिताऽन्या करालाख्या काला तामस्य ईरिताः |
एताः सप्त नियुज्यन्ते क्रूरकर्मसु मन्त्रिभिः ||
स्वस्वनामसमाभाः स्युर्जिह्वाः कल्याणरेतसः |


S. 270, Gottheiten der Feuerzungen
अमर्त्यपितृगन्धर्वयक्षनागपिशाचकाः ||
राक्षसाः सप्त जिह्वानामीरिता अधिदेवताः |
अधिदेवतोक्तिस्तत्तज्जिह्वास्थाने न्यासार्थं पूजार्थं च |
जिह्वासु त्रिदशादीनां तत्तत्कार्यं समीक्ष्य च |
जुहुयाद्वाञ्छितां सिद्धिं दद्युस्ता देवता मताः |
इति (प्रपञ्चसार-) वचनात् तत्तज्जिह्वायां तत्तद्द्रव्येण होमपक्षे होमार्थं चेति सुधार्णवकृतः |


Lesungshinweise: [Wesen]

S. 270, Rishi und sechs Anga-Mantras des Feuers
(क्रियासारे) अस्य भृगु ऋषिश्छन्दो गायत्र्यग्निस्तु देवता |
बीजं शक्तिस्तु रं स्वाहा ऋष्यादीन् पूर्ववन्न्यसेत् ||
(शारदायाम्) वह्नेरङ्गमनून्न्यस्येत् तनावुक्तेन वर्त्मना |
सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठ पुरुषः पुनः ||
धूमव्यापी सप्तजिह्वो धनुर्धर इति क्रमात् |
षडङ्गमनवः प्रोक्ता जातिभिः सह संयुताः ||


S. 270–271, Acht Gestalten und Feuer-Pitha
मूर्त्तीरष्टौ ततो न्यस्येद्देशिको जातवेदसः |
मूर्धांसपार्श्वकव्यन्धुकटिपार्श्वाङ्गकेषु च ||
प्रदक्षिणवदान्न्यस्येदुच्यन्ते ता यथाक्रमात् |
जातवेदाः सप्तजिह्वो हव्यवाहनसंज्ञकः ||
अश्वोदरजसंज्ञोऽन्यः पुनर्वैश्वानराह्वयः |
कौमारतेजाः स्याद्विश्वमुखो देवमुखः स्मृतः ||
ताराद्ये पदाद्याः स्युर्हृदन्ता वह्निमूर्त्तयः |
आसनं कल्पयित्वामूर्त्तिं तस्य विचिन्तयेत् ||
आसनं पीठं तनाविति शेषः |
तत्राधारशक्त्यादिवह्निमण्डलान्तं विन्यस्य केशरेषु मध्ये च पीठशक्तीः |
तत्रैव वह्नियोगपीठाय नम इति पीठं च न्यसेत् |


Lesungshinweise: [unklar bezeichneten Körperpunkt] [erhalten Mantras] Lesungshinweis: Die Körperstellenfolge um kavyandhu und die Mantrabildungsangabe tārādye padādyāḥ sind beschädigt; die acht Gottheitsnamen werden vollständig bewahrt, ohne zusätzliche Körperpunkte zu erfinden.

S. 271, Neun Shaktis und Meditation über Agni
तदुक्तं तत्रैव |
स्वमण्डलान्तं प्रयजेत् पीठं नवशक्तिकम् |
पीता श्वेताऽरुणा कृष्णा धूम्रा तीव्रा स्फुलिङ्गिनी ||
रुचिरा ज्वालिनी प्रोक्ताः कृशानोर्नव शक्तयः |
स्वबीजेनासनं दत्त्वा मूर्तिं मूलेन कल्पयेत्—इति ||
अथ ध्यानं तत्रैव |
इष्टां शक्तिं स्वस्तिकाभीतिमुच्चैर्दीर्घैर्दोर्भिर्धारयन्तं जपाभम् |
हेमाकल्पं पद्मसंस्थं त्रिनेत्रं ध्यायेद्वह्निं बद्धमौलिं जटाभिः ||


S. 271–272, Symbolische Gestalt des Feuers im Rudrayamala
ध्यानान्तरमुक्तम् (रुद्रयामले) बन्धूकपुष्पसंकाशं सुतप्तकनकप्रभम् |
पद्मस्थं यजमानार्थं वदनद्वयशोभितम् ||
सप्तच्छन्दोमयं देवं विमानोपरिसंस्थितम् |
त्रिधाग्रीवं त्रिपादाब्जं हव्यकव्यविनाशकम् ||
ब्रह्माध्वर्यूद्गातृहोतृचतुःशृङ्गविराजितम् |
पञ्चरात्रं पाशुपतं कापिलं च महामतम् ||
बौद्धं वैदिकमित्येतत् षट्पिङ्गलविलोचनम् |
वेदार्थं च चतुःश्रोत्रैः श्रौतशास्त्रमयध्वनिम् ||
सप्तातलजटाबद्धमौलिकोटीरभास्वरम् |
हेमालङ्कारसंयुक्तं हेमकुण्डलमण्डितम् ||
रक्ताम्भोरुहमध्यस्थं स्वस्तिकासनसंस्थितम् ||
पृष्ठदेशसमालम्बितृतीयचरणाम्बुजम् ||
सदा शब्दायमानं च राजमानं स्वतेजसा |
शक्तिं वज्रं स्रुक्स्रुवौ च चतुर्भिर्दिक्षु बाहुभिः ||
तोमरं तालवृन्तं च सौवर्णं घृतपात्रकम् |
वामैस्त्रिभिर्वाहुभिश्च दधानं रक्तवाससम् ||
हिरण्या कनका रक्ता कृष्णा दक्षानने स्थिताः |
सुप्रभा वाऽतिरक्ता च बहुरूपा च जिह्विका ||
इमा रसनास्तद्वामवदने नियमास्थिताः |
एताभिः सप्तजिह्वाभिरुपेतं पाटिताननम् ||


Lesungshinweise: [Man meditiere über ihn,] [verkörpert er] [-Unterwelten] Mit diesen sieben Zungen ausgestattet ist sein Mund weit geöffnet.“ Lesungshinweis: Mahamata bleibt die im Druck genannte Schulbezeichnung. Die Verbindung saptātala und einzelne Kasusformen der bildhaften Beschreibung sind unsicher; die Symbolgruppen werden vollständig wiedergegeben.

S. 272, Darbha-Streuung und Lampenreihen
(शारदायाम्) परिषिञ्चेत् ततस्तोयैर्विशुद्धैर्मेखलोपरि |
दर्भैरगर्भैर्मध्यस्थमेखलायां परिस्तरेत् ||
(कुलोड्डीशे) एवं विन्यस्य देहः सन् परिस्तरणमाचरेत् |
अर्घ्योदकेन संप्रोक्ष्य मध्यस्थमेखलोपरि ||
उत्तराग्रं पूर्वदेशे पूर्वाग्रं दक्षिणे ततः |
उत्तराग्रं पश्चिमे तु प्रागग्रमुत्तरे तथा ||
मूलमाच्छादितं कृत्वा त्रिवारं तु परिस्तरेत् ||
तथा |
मेखलासु च सर्वासु दीपमालां प्रकल्पयेत् |
(गणेश्वरविमर्शिन्याम्) पूर्वाग्रैरुत्तराग्रैश्च दर्भैः परिस्तरेत् |
दक्षिणोत्तरयोः पूर्वाग्रैः पूर्वपश्चिमयोरुत्तराग्रैरित्यर्थः |


S. 273, Darbha und Umfassungshölzer
(मेरुतन्त्रे) एकमेखलके कुण्डे मेखलाधः परिस्तरेत् |
द्विमेखले द्वितीयायां मध्यमायां त्रिमेखले ||
स्थण्डिले सिकतानां तु बाह्यभूमौ परिस्तरेत् |
(शारदायाम्) निःक्षिपेद्दिक्षु परिधीन् प्राचीवर्जं गुरूत्तमः |
कात्यायनः |
परिधीन् परिदध्यादार्द्रानेकवृक्षीयान् बाहुमात्रान् पालाशवैकण्टककार्मर्यबैल्वानिति |
(मेरुतन्त्रे) पलाशकार्मरीबिल्वविकण्टकसमुद्भवान् |
एकवृक्षोद्भवानार्द्रान् परिधीन् बाहुमात्रकान् ||
(त्रिपुरासारसमुच्चयेऽपि) स्थण्डिलके सिकतानां बाह्ये पात्रे न्यसेत् परिधीन् |
(शारदायाम्) प्रादक्षिण्येन संपूज्यास्तेषु ब्रह्मादिमूर्त्तयः |


Lesungshinweise: [Darbha] [Gottheiten]

S. 273, Sitzkräfte des Feuers
(सौत्रामणीतन्त्रे) .... .... .... कुण्डमध्ये विधानवित् |
पद्मासनान्तः साधारशक्त्यादिमनुभिः क्रमात् ||
उपर्युपरिसंपूज्या वह्नेरासनशक्तयः |
पूर्वादिदलमूलेषु मध्ये पूज्याः क्रमेण तु ||
आसनशक्तयः पूर्वोक्तपीठशक्तयः |


Lesungshinweise: [verehre]

S. 273–274, Inneres Bild des Feuer-Pitha
अत्र विशेष उक्तो (मेरुतन्त्रे) कुण्डमध्ये तु षट्कोणभित्तं स्वर्णकर्णिकम् |
नानाकेशरसंयुक्तं चतुर्द्वारसमावृतम् ||
चिन्तयेदष्टदलकं चतुरस्रत्रयावृतम् |
पूजापीठं तु तद्वह्नेस्तत्र मण्डूककादिकान् ||
ज्ञानात्मानं योगपीठं संपूज्य .... .... इति |
तथाऽष्टदलेषु पूर्वोक्तपीठशक्तिपूजनमुक्तम् |
सर्वशक्तिकमलासनाय हृद्द्वादशाक्षरः |
समस्तपीठपूजार्थं वह्नेर्मन्त्र उदाहृतः—इति ||


Lesungshinweise: [Grundlagen]

S. 274, Zentraler Feuer-Mantra und Zungenverehrung
(शारदायाम्) ध्यातं वह्निं यजेन्मध्ये गन्धाद्यैर्मनुनाऽमुना |
वैश्वानरजातवेदपदे पश्चादिहावह ||
लोहिताक्षपदस्यान्ते सर्वकर्माणि साधय |
वह्निजायावधिः प्रोक्तो मन्त्रः पावकवल्लभः ||
मध्ये षट्स्वपि कोणेषु जिह्वाज्वालारुचो यजेत् |
अत्र षट्सु कोणेषु मध्ये च यजेदित्यन्वयः |
कोणेषु ईशानादिक्रम इत्युक्तम् (सोमशम्भौ) रुद्रेन्द्रवह्निमासादवरुणानिलगोचरे |
हिरण्याद्याः स्थिता वह्ने रसना षडनुक्रमात् ||
मध्यतो बहुरूपा तु .... .... .... इति |


Lesungshinweise: [der folgenden Richtung] Der vierte Richtungsname māsāda ist beschädigt und wird nicht stillschweigend ersetzt; die folgende Quelle nennt die Südwestrichtung ausdrücklich.

S. 274, Feuerzungen in der Vayaviya-Samhita
(वायवीयसंहितायाम्) हिरण्या प्रागुदग्जिह्वा कनका पूर्वतः स्थिता |
रक्ताऽऽग्नेयी नैऋती च कृष्णाऽन्या सुप्रभा मता ||
अतिरिक्ताऽमरुज्जिह्वा स्वनामस्वगुणप्रभा |
त्रिशिखा मध्यमा जिह्वा बहुरूपा समाह्वया ||
तस्थुष्येका दक्षिणतो ज्वलन्ती वामतः परा |
स्वबीजानन्तरं वाच्या .... .... .... इति |


Lesungshinweise: Die Wortverbindung um atiriktā/marut ist unsicher; der Windbereich wird von den anschließenden Zitaten bestätigt.

S. 274–275, Farben und Orte der Feuerzungen
(गणेश्वरविमर्शिन्यामपि) कोणषट्के च मध्ये च जिह्वाः संपूजयेत् ततः |
हिरण्या तप्तहेमाभा शूलपाणेर्दिशि स्थिता ||
वैदूर्यवर्णा गगना प्राच्या दिशि व्यवस्थिता |
तरुणाऽऽदित्यसंकाशा रक्ता जिह्वाऽग्निदिक्स्थिता ||
कृष्णा नीलाब्जसंकाशा नैऋत्यां दिशि संस्थिता |
सुप्रभा पद्मरागाभा वारुण्यां दिशि संस्थिता ||
अतिरिक्ता च कौसुम्भवर्णा वायव्यसंस्थिता |
बहुरूपा यथार्थाभा दक्षिणोत्तरसंस्थिता ||
एता ज्वालारुचाक्रान्ता वराभयकरा अपि |


Lesungshinweise: [Nordosten] [Südosten]

S. 275, Weitere Versbeschreibung der Feuerzungen
(त्रिपुरासारसमुच्चयेऽपि) सुतप्तचामीकरचारुवर्णा स्थिता हिरण्यादिशि शूलपाणेः |
वैदूर्यवर्णा कनकाभिधाना या सा निषण्णा दिशि वासवस्य ||
या रक्ता तरुणदिवाकराभवर्णा सा जिह्वा हरिति सुसंस्थिता कृशानोः |
या कृष्णा विकसितनीलनीरजाभा सा रक्षःपरिवृतदिग्विभागदृश्या ||
पद्मरागसदृशप्रभोज्ज्वला सुप्रभा वरुणदिग्व्यवस्थिता |
या महारजतपुष्पसन्निभा गन्धवाहदिशि साऽतिरिक्तिका ||
यथार्थसंज्ञा बहुरूपिका सा जिह्वोत्तरे दक्षिणतः स्थिता सा |


Lesungshinweise: [Windes] Die ihrem Namen entsprechende, vielgestaltige Bahurupika-Zunge steht im Norden und Süden.“ Lesungshinweis: Die Blütenbezeichnung mahārajata ist unsicher; sie wird nicht stillschweigend durch den Saflor des vorigen Zitats ersetzt.

S. 275–276, Stoffe der Feuerzungen
होमे विशेष उक्तो (गणेशविमर्शिन्याम्) एधांसि च हिरण्यायां गगनायां चरुं घृतम् |
सिद्धार्थं बहुरूपायां रक्तायां तु यवास्तथा ||
कृष्णायां तु हुनेल्लाजाः सुप्रभायां तु सक्तुभिः |
तिलांश्चैवातिरक्तायां कनकायां तु सर्वदा ||
सर्वद्रव्याणि जुहुयात् साधकः सर्वकर्मसु |


Lesungshinweise: [opfere man]

S. 276, Beabsichtigte Wirkungen und Flammenzeichen
तन्त्रान्तरे |
फलं तु कामभेदेन क्रमादासामुदीर्यते |
वश्याकर्षणयोराद्या गगना स्तम्भने मता ||
विद्वेषमोहयो रक्ता कृष्णा मारणकर्मसु |
सुप्रभा शान्तिके पुष्टौ सुरक्तोच्चाटने मता ||
एकैकबहुरूपा तु सर्वकामफलप्रदा |
(मेरुतन्त्रे) यथा कार्यं तथा जिह्वा दृश्यते चेत् स्वदिग्गता |
ज्वालारूपा तथा सिद्धिर्विपरीता विपर्ययः ||


Lesungshinweise: Die Wendung ekaikabahurūpā ist grammatisch knapp und lokal unsicher.

S. 276, Vaishnava-Feuerzungen und weitere Gottheiten
वैष्णवे तु जिह्वान्तराण्युक्तानि तत्रैव |
प्रभा दीप्तिः प्रकाशा च मरीचिस्तापनी तथा |
कराला लेलिहा चेति जिह्वा वैष्णवकर्मणि ||
ईशप्राग्वह्निनैऋत्यपश्चाद्वायव्यमध्यतः |
संस्थिताः सकला जिह्वा वराभयलसत्कराः ||
(शारदायाम्) केशरेषूक्तमार्गेण पूजयेदङ्गदेवताः |
दलेषु पूजयेन्मूर्तिं शक्तिस्वस्तिकधारिणीम् |
लोकपालांस्ततो दिक्षु पूजयेदुक्तलक्षणान् ||
अत्र लोकपालपूजा मेखलास्थदर्भोपरि कार्या |
तदुक्तं तन्त्रान्तरे |
कोणेषट्के च मध्ये च जिह्वाभिः केशरेष्वपि |
अङ्गमन्त्रैस्ततो बाह्ये त्वष्टाभिर्मूर्तिभिः क्रमात् ||
मेखलाश्रितदर्भेषु दिक्पतीन् पूर्वतो यजेत् |


Lesungshinweise: [verehre man]

S. 277, Pranita-Wasser und Reinigung der Geräte
(तत्त्वसारसंहितायाम्) पात्राण्यासाद्य विधिवद्धुताश्चापि मन्त्रवित् |
तान्यवेक्ष्य पवित्रेण चोत्तानानि विधाय च ||
पुनः प्रक्षालयेत् पात्रं परिपूर्य शुभाम्बुना |
दत्त्वाऽक्षतान् पवित्रे च तदुत्पूय निधापयेत् ||
दिश्युत्तरस्यां तत् पात्रं प्रणीतेत्युच्यते बुधैः |
ततः किञ्चित् प्रणीताम्बु प्रोक्षण्याऽऽदाय तज्जलैः ||
यज्ञसाधनसंभारं प्रोक्षयेन्मूलमन्त्रतः |
ततो ब्रह्माणमावाह्याभ्यर्चयेन्मूलमन्त्रतः |


Lesungshinweise: [vollziehe die genannten Opferhandlungen] Danach rufe man Brahma an und verehre ihn mit dem Mula-Mantra.“ Lesungshinweis: Die Form hutāś cāpi im ersten Satz ist beschädigt; daraus wird keine zusätzliche Opferhandlung mit bestimmten Gaben erschlossen.

S. 277, Anordnung der Opfergeräte
अन्यत्रापि |
वामे चास्तीर्य दर्भान् बलरिपुहरिदग्रांस्तदूर्ध्वं निधाय पात्राणि द्वन्द्वशोऽधोवदनमथ तथोत्तानवक्त्राणि कृत्वा |
हृन्मन्त्रेणाभिपूर्यान्यतममथ जलैर्मन्त्रपूतैरथेभिरभ्युक्ष्यान्यैश्च कूर्चैः सकलमपि हृदा सव्यं हव्यजातम् ||
इति तन्त्रान्तरे |
कुण्डस्योत्तरतः स्थाप्या प्रणीता वारिपूरिता |
प्रणीतापात्रतः सर्वे स्थाप्याः पात्रगणाः क्रमात् ||
आज्यस्थाली चरुस्थाली गव्यक्षीरसमन्विता |
स्रुक्स्रुवौ च घृतं गव्यं तण्डुलाः कुशमूलकाः ||
पालाशाः समिधस्तिस्रः पूर्णपात्रमतः परम् |


Lesungshinweise: [Osten]

S. 277–278, Weitere Gefäßanordnung
(मेरुतन्त्रे) सव्ये होकविधानेन वायुदेशाच्च पूर्वतः |
स्रुक्स्रुवौ च प्रणीता च प्रोक्षणीपात्रयुग्मकम् ||
आज्यस्थाली च परिधीनिध्मं च कुशमुष्टयः |
अधोमुखानि पात्राणि होमद्रव्यं बलिं तथा ||
गन्धपुष्पाक्षतादीनि सर्वाण्यासादयेदथ |
तान्यभ्युक्ष्य पवित्रेण चोत्तानानि निधाय च ||
प्रोक्षणीपात्रयुगलं परिपूर्य शुभाम्बुना |
तन्त्रान्तरे |
स्ववामभागे प्रागग्रान् दर्भानास्तीर्य चोपरि |
यथावित्तानुसारेण सौवर्णादीनि कर्मणि ||
अधोमुखानि पात्राणि द्वन्द्वरूपाणि विन्यसेत् |
उत्तानीकृत्य पात्राणि जलाद्यैः संप्रपूरयेत् ||


Lesungshinweise: [genannten] Man wende sie nach oben und fülle sie mit Wasser und den entsprechenden Stoffen.“ Lesungshinweis: Die Bezeichnung hokavidhāna am Beginn des Meru-Zitats ist beschädigt; die sonst klare Aufzählung bleibt vollständig.

S. 278, Linke Seite und geheiligtes Wasser
(यामले) वह्नेरुत्तरतः स्वस्य वामे देशिकसत्तमः |
दर्भानास्तीर्य पूर्वाग्रान् पात्राण्यासादयेत्ततः ||
स्वस्येति पूर्वाभिमुखस्येति वेदितव्यम् |
(त्रिपुरासारसमुच्चयेऽपि) ततो वामभागे परिस्तीर्य दर्भान् पुलोमात्मजावल्लभाशागताग्रान् |
तदूर्ध्वं न्यसेद्द्वन्द्वरूपेण पात्राण्यथोऽधोगतास्यानि सर्वाणि धीमान् ||
अथोत्तानितेष्वेषु पात्रेषु पात्रं जलैरेकमापूर्य तीर्थानि तत्र |
सुसंचिन्त्य तैः प्रोक्षयेत् कूर्चवर्महृदा सव्यभागस्थितं द्रव्यजातम् ||


Lesungshinweise: [Indra, Osten]

S. 278, Materialien der Ritualgefäße
पात्रेष्वपि विशेषस्तत्रैव |
सौवर्णान्यपि राजतान्यपि तथा पात्राणि शौल्वानि वा मृत्पात्राण्यपि शान्तिकादिषु परं शस्तानि कर्मस्विह |


S. 279, Weitere Gefäßmaterialien
शेल्वक्षद्रुमशिग्रुभूरुहकृतान्येतानि विद्वेषणोच्चाटोत्सादनमारणादिषु भृशं शस्तानि पात्राण्यपि ||
शौल्वं ताम्रम् |
शेलुर्बहुवारकः |
अक्षद्रुमो बिभीतकद्रुमः |
शिग्रुः शोभाञ्जनः |


S. 279, Wahl des Brahman-Priesters
(मेरुतन्त्रे) वृणुयाद्ब्राह्मणं शान्तं देवतामन्त्रदीक्षितम् |
कुण्डस्य दक्षिणे भागे वेशयेत् तं कुशासने ||
अमुकामुकगोत्रोऽहममुकामुकगोत्रिणम् |
दीक्षाङ्गभूतहोमेऽस्मिन् ब्रह्माणं त्वां वृणे इति ||
वस्त्रालङ्कारादिकेन नत्वा तं परिपूजयेत् |
कुर्यात् कुशवटुं वाऽपि लभ्यते ब्राह्मणो न चेत् ||


Lesungshinweise: [Man spreche:]

S. 279, Weihe von Sruk und Sruva
(शारदायाम्) पश्चादादाय पाणिभ्यां स्रुक्स्रुवौ तावधोमुखौ |
त्रिशः प्रतापयेद्वह्नौ दर्भानादाय देशिकः ||
तदग्रमूलमध्यानि शोधयेत् तैर्यथाक्रमात् |
गृहीत्वा वामहस्तेन प्रोक्षयेद्दक्षिणेन तौ ||
पुनः प्रताप्य तौ मन्त्री दर्भानग्नौ विनिःक्षिपेत् |
आत्मनो दक्षिणे भागे स्थापयेत् तौ कुशास्तरे ||
तन्त्रान्तरे |
गृहीत्वा स्रुक्स्रुवावूर्ध्वमुखौ चाधोमुखौ क्रमात् |
प्रताप्याग्नौ त्रिधा दर्भमूलमध्याग्रकैः स्पृशेत् ||
पुनस्त्रिधा प्रताप्याधोमुखौ वह्नौ कुशान् क्षिपेत् |
मूलमध्याग्रके न्यस्येच्छक्तीरिच्छादिकाः क्रमात् ||
स्रुचि शक्तिं स्रुवे शम्भुं विन्यसेद्धृदयाणुना |
इच्छादिका इति इच्छाज्ञानक्रिया इत्यर्थः |


S. 280, Weitere Löffelweihen
(शैवागमे तु) गृहीत्वा स्रुक्स्रुवावूर्ध्ववक्त्रावधोमुखौ क्रमात् |
प्रतप्याग्नौ त्रिधा दर्भमूलमध्याग्रकैः स्पृशेत् ||
त्रिसूत्रवेष्टितग्रीवौ पूजितौ कुसुमादिभिः |
कुशानामुपरिष्टात् तौ स्थापयित्वा स्वदक्षिणे—इत्युक्तम् ||
(मेरुतन्त्रे) कुशाग्रैस्तु तयोरग्रं मध्यं मध्यैश्च मार्जयेत् |
मूलं मूलैस्त्रिधा चैवं मार्जयित्वा प्रतापयेत् ||
धृत्वा तौ वामहस्तेन प्रोक्षयेत् प्रोक्षणीजलैः |
दक्षिणेन कराग्रेण पुनः संतापयेच्च तौ ||
कुशान् क्षिप्त्वा ततो वह्नौ स्वदक्षे तौ कुशास्तरे |
संस्थाप्य स्रुक्स्रुवौ पश्चाद्घृतसंस्कारमाचरेत् ||


S. 280, Herkunft und Vorbereitung des Ghee
(शारदायाम्) आज्यस्थालीमथादाय प्रोक्षयेदस्त्रवारिणा |
तस्यामाज्यं विनिःक्षिप्य संस्कृतं वीक्षणादिभिः ||
तन्त्रान्तरे |
गव्यमाज्यं समादाय मूलेनैवाभिमन्त्रितम् |
स्वकां ब्रह्ममयीं मूर्तिं संचिन्त्याग्नौ प्रतापयेत् ||
(शैवागमेऽपि) गव्यमाज्यं समादाय मूलेनैवाभिमन्त्रितम् |
स्वकां ब्रह्ममयीं मूर्तिं संचिन्त्य च—इति ||
गव्यमित्युत्तमकल्पमभिप्रेत्योक्तम् |
तदुक्तम् (पिङ्गलामते) उत्तमं गोघृतं प्रोक्तं मध्यमं महिषीभवम् |
अधमं छागलीजातं तस्माद्गव्यं प्रशस्यते—इति ||


S. 281, Sechs Reinigungen des Ghee
(वायवीयसंहितायाम्) न्यस्य मन्त्रं घृते मुद्रां दर्शयेद्धेनुसंज्ञिकाम् |
(शारदायाम्) निरुह्य वायवेऽङ्गारान् हृदा तेषु निवेदयेत् |
इदं तापनमुद्दिष्टं देशिकैस्तन्त्रवेदिभिः ||
संदीप्य दर्भयुगलमाज्ये क्षिप्त्वाऽनले क्षिपेत् |
गुरुर्हृदयमन्त्रेण पवित्रीकरणं त्विदम् ||
दीप्तेन दर्भयुग्मेन नीराज्याज्यं सवर्मणा |
अग्नौ विसर्जयेद्दर्भमभिद्योतनमीरितम् ||
घृते प्रज्वलितान् दर्भान् प्रदर्श्यास्त्राणुना गुरुः |
जातवेदसि तान् न्यस्येदुद्योतनमिदं मतम् ||
गृहीत्वा घृतमङ्गारान् प्रयोज्याग्नौ जलं स्पृशेत् |
अङ्गुष्ठोपकनिष्ठाभ्यां दर्भौ प्रादेशसंमितौ ||
धृत्वोत्पुनीयादस्त्रेण घृतमुत्पवनं त्विदम् |
तद्धृदयमन्त्रेण कुशाभ्यामात्मसंमुखम् ||
घृते संप्लवनं कुर्यात् संस्काराः षडुदीरिताः |


Lesungshinweise: [das Ghee]

S. 281–282, Bewegungsrichtung und Nadis im Ghee
अङ्गुष्ठोपकनिष्ठाभ्यामिति हस्तद्वयस्येति शेषः |
उत्पुनीयादित्यग्निसंमुखमिति शेषः |
तदुक्तम् (शैवागमे) प्रादेशमात्रदर्भाभ्यामङ्गुष्ठानामिकाग्रकैः |
धृताभ्यां संमुखं वह्नेरस्त्रेणोत्प्लवमाचरेत् ||
(शारदायाम्) प्रादेशमात्रं सग्रन्थिदर्भयुग्मं घृतान्तरे |
निःक्षिप्य भागौ द्वौ कृत्वा पक्षौ शुक्लेतरौ स्मरेत् ||
वामे नाडीमिडां भागे दक्षिणे पिङ्गलां पुनः |
सुषुम्नां मध्यतो ध्यात्वा कुर्याद्धोमं यथाविधि ||


Lesungshinweise: [dunkle]

S. 282, Halten des Sruva
तत्र स्रुवधारणप्रकारो (नारदीये) हीयते यजमानो वै स्रुवमूलस्य दर्शनात् |
तस्मात् संगोपयेन्मूलं होमकाले स्रुवस्य च ||
अग्रे व्याधिकरं प्रोक्तं मध्ये शोककरं स्मृतम् |
मूले हानिकरं प्रोक्तं स्रुवं धारयते कथम् ||
वेदाङ्गुलं परित्यज्य अग्रे चैव द्विरष्टकम् |
वेदाङ्गुलं तु तन्मध्यं धारयेच्छङ्खमुद्रया ||
तन्त्रान्तरे |
पञ्चाङ्गुलं बहिस्त्यक्त्वा धारयेच्छङ्खमुद्रया |
(होमसारे) मूलात् षडङ्गुलं त्यक्त्वा चतुरङ्गुलमेव वा |
प्रकोष्ठे मूलमाच्छाद्य धारयेच्छङ्खमुद्रया ||


Lesungshinweise: [am unteren Ende]

S. 282, Unterschiedliche Handhaltungen beim Homa
तन्त्रान्तरे |
स्रुवेणाज्यं समादाय जुहुयान्न्युब्जपाणिना |
(भैरवतन्त्रे) हविरुत्तानहस्तेन वैश्वानरमुखे हुतम् |
होतुश्चक्षुर्विनाशाय यजमानो विनश्यति ||
(परिशिष्टे तु) उत्तानेनैव हस्तेन अङ्गुष्ठाग्रेण पीडितम् |
संहताङ्गुलिपाणिस्तु वाग्यतो जुहुयात्....इत्युक्तम् ||


S. 282–283, Drei Homa-Mudras
भैरवः |
होमे मुद्रात्रयं प्रोक्तं मृगी हंसी च शूकरी |
मृगी कनिष्ठातर्जन्योर्हंसी मुक्तकनिष्ठिका ||
शूकरी करसङ्कोचमिति मुद्राः प्रकीर्तिताः |
मृगी च पुत्रकामार्थी हंसी सर्वफलप्रदा ||
अभिचारेषु सर्वेषु शूकरी कथिता बुधैः |


Lesungshinweise: [entsteht durch Freilassen]

S. 283, Opfer in die Augen und den Mund des Feuers
(शारदायाम्) स्रुवेण दक्षिणाद्भागादादायाज्यं हृदा गुरुः |
जुहुयादग्नये स्वाहेत्यग्नेर्दक्षिणलोचने ||
वामतस्तद्वदादाय वामे वह्निविलोचने |
जुहुयादथ सोमाय स्वाहेति हृदयाणुना ||
(मेरुतन्त्रे) गृहीत्वाऽऽज्यं वामभागाद्धृदा वामेऽग्निलोचने |
हुनेत् सोमाय स्वाहेति त्यागः सर्वत्र नो मतः ||
(शारदायाम्) मध्यादाज्यं समादाय वह्नेर्भालविलोचने |
जुहुयादग्नीषोमाभ्यां स्वाहेति हृदयाणुना ||
हृन्मन्त्रेण स्रुवेणाज्यं भागादादाय दक्षिणात् |
जुहुयादग्नये स्विष्टकृते स्वाहेति तन्मुखे ||
होतिं संपातयेद्भागेष्वाज्यस्थाल्याहुतिक्रमात् |
इत्यग्निनेत्रवक्त्राणां कुर्यादुद्योतनं गुरुः ||


S. 283, Opferreste und fünf Vyahriti-Gaben
संपातयेद्भागेष्विति |
यस्माद्भागादाज्यं गृहीत्वा हुतं तद्धुतं तद्भागे हुतशेषं क्षिपेदित्यर्थः |
तदुक्तम् (शैवागमे) स्वाहेत्यथो हुतिशेषभागमाज्यं क्षिपेत् क्रमात्—इति |
(शारदायाम्) सताराभिर्व्याहृतिभिराज्येन जुहुयात् पुनः |
अत्र ॐ स्वाहा |
भूः स्वाहा |
भुवः स्वाहा |
स्वः स्वाहा |
ॐ भूर्भुवः स्वः स्वाहेति व्यस्तसमस्ताभिः पञ्चाहुतयः पञ्चभिर्मनुभिर्हुयादिति (नारायणीयतन्त्र-) वचनात् |


Lesungshinweise: [zurück]

S. 284, Abweichendes Vyahriti-Homa
(उड्डीशे) देव्या व्याहृतिहोमं च ताराद्येन चतुर्हुनेत् |
भूरग्नये पृथिव्यै च महते वह्निवल्लभा ||
भुवः पदाद्वायवे च अन्तरिक्षाय शब्दतः |
अग्न्यादित्यचन्द्रमसो ङेन्ता नक्षत्र इत्यपि ||
भ्यसन्तश्चैव दिग्भ्यश्च महते वह्निवल्लभा |


Lesungshinweise: [Es folgen] Agni, Aditya und Chandramas im Dativ, ferner Nakshatra mit der Endung bhyas, ‚den Richtungen, dem Großen‘ und die ‚Geliebte des Feuers‘.“ Lesungshinweis: Die vier Formeln sind im Druck nur durch ein verkürztes Bildungsschema angegeben; die Trennung der letzten beiden lässt sich nicht zuverlässig bestimmen.

S. 284, Lebensweihen des Feuers in der Sharada
(शारदायाम्) जुहुयादग्निमन्त्रेण त्रिवारं देशिकोत्तमः |
गर्भाधानादिकं वह्नेः क्रिया निर्वर्तयेत् क्रमात् ||
अष्टाभिराज्याहुतिभिः प्रणवेन पृथक् पृथक् |
गर्भाधानं पुंसवनं सीमन्तोन्नयनं पुनः ||
अनन्तरं जातकर्म स्यान्नामकरणं तथा |
उपनिष्क्रमणं पश्चादन्नप्राशनमीरितम् ||
चूडोपनयनं भूयो महानाम्न्यं महाव्रतम् |
अथौपनिषदं पश्चाद्गोदानोद्वाहकौ स्मृतिः ||


Lesungshinweise: [Ritus zur Förderung männlicher Nachkommenschaft]

S. 284, Lebensweihen im Meru Tantra
(मेरौ) गर्भाधानं पुंसवनं सीमन्तोन्नयनं चरेत् |
जातं वागीश्वरीगर्भात् प्राग्वद्ध्यायेद्धुताशनम् ||
जातकर्म ततः कृत्वा नालच्छेदं समाचरेत् |
सूतकं शोधयित्वाऽथ कुर्यान्नाम यथाविधि ||
तृप्तये यस्य देवस्यास्याग्निस्तन्नामपूर्वकः |
चौलोपनयनं वह्नेर्महानाम्नीव्रतं तथा ||
महाव्रतं चौपनिषद्व्रतं गोदानमेव च |
समावर्त्तनमुद्वाहः शाक्ते वाग्भवपूर्वकाः ||


Lesungshinweise: [Es folgen]

S. 285, Formel und Umfang der Lebensweihen
तथा |
प्रणवं पूर्वमुच्चार्य कर्मनाम समुद्धरेत् |
संपादयामि स्वाहेति सर्वकर्मस्वयं विधिः ||
(शारदायाम्) शुभेषु स्युर्विवाहान्ताः क्रियास्ताः क्रूरकर्मसु |
मरणान्ताः समुद्दिष्टा वह्नेरागमवेदिभिः ||


Lesungshinweise: [sie]

S. 285, Entlastung und Namensgebung des Feuers
(उड्डीशे) जातकर्म समाप्याथ श्रमापनोदनाय च |
प्रादेशमात्रं समिधं मूलाग्रघृतसंप्लुताम् ||
ॐ कामेश्वरकामेश्वरीभ्यां स्वाहेति त्रिर्विनिःक्षिपेत् |
वह्नेश्च पितरौ मन्त्री स्वदेहे विनियोजयेत् ||
इष्टदेवस्य नाम्ना तु वह्नेर्नाम समाचरेत् |
कामेश्वरकामेश्वरीभ्यामिति तु श्रीविद्यायाम् |
अन्यत्र वागीश्वरवागीश्वरीभ्यामिति ज्ञेयम् |
(पूर्णयागे) आज्याहुत्यष्टकं हुत्वा नामकर्म समाचरेत् |
देशिकस्त्वमुकोऽसीति मूलमन्त्रेण कल्पयेत् ||


S. 285–286, Nabelschnurtrennung und Opferholz
(वायवीयसंहितायाम्) जातं ध्यात्वैवमाकारं जातकर्म समाचरेत् |
नालापनयनं कृत्वा ततः संशोध्य सूतकम् ||
शिवाग्निरिति नामास्य कृत्वा हुतिपुरःसरम् |
पित्रोर्विसर्जनं कृत्वा चूडोपनयनादिकम् ||
अथोद्वाहावसानं च कृत्वा संस्कारमस्य तु |
नालापनयनप्रकारस्तु (शैवागमे) वह्नेर्हृदा स्वमन्त्रेण ततो नालापनुत्तये |
समिधः पञ्च जुहुयात् प्रान्ते मूले घृतप्लुताः—इति ||
(वायवीयसंहितायाम्) ताः पालाश्यः परा वाऽपि याज्ञीया द्वादशाङ्गुलाः |
अवक्रा न स्वयं शुष्काः सत्वचं निर्व्रणाः समाः ||
दशाङ्गुला वा विहिताः कनिष्ठाङ्गुलिसंमिताः |
प्रादेशमात्रा वाऽलाभे होतव्याः सकला अपि—इति ||


S. 286, Abschied der Feuer-Eltern
(शारदायाम्) वह्नेः सकलसंस्कारशेषे तत्पित्रोर्विसर्जनमुक्त्वा नालापनयनीये पञ्चसमिधां होम उक्तः |
ततश्च पितरौ तस्य संपूज्यात्मनि योजयेत् |
समिधः पञ्च जुहुयान्मूलाग्रघृतसंप्लुताः—इति ||
(क्रियासारे) पित्रोर्विसर्जनं कृत्वा चूडोपनयनादिकम् |
कुर्याद्वा सर्वसंस्कारं शेषे देवौ विसर्जयेत् ||
श्रमापनोदनार्थं च हुत्वा तिस्रः समिध्वराः |


S. 286, Einzelgaben und Mantra-Endungen
(मेरुतन्त्रे) स्वबीजरसनानाम्ना चैकेकामाहुतिं हुनेत् |
ततश्चाङ्गानि जुहुयाद्वह्नेर्मूर्त्यष्टकं तथा ||
इन्द्रादिलोकपालांश्च आयुधानि ततः परम् |
मन्त्रेणोङ्कारपूर्वेण स्वाहान्तेन विचक्षणः ||
स्वाहावसाने जुहुयाद्ध्यायन् वै मन्त्रदेवताम् |
स्वाहान्तमन्त्रे तु स्वाहान्तरं न देयम् |
तदुक्तम् (मन्त्रप्रकाशे) नमोन्ते न नमो दद्याद्द्विठान्ते द्विठमेव च |
पूजायामाहुतौ चापि सर्वत्रायं विधिः शिवे ||
द्विठः स्वाहा |
अत्र ठकारेण लिपिसाम्याद्बिन्दुरुच्यते |
बिन्दुद्वयं विसर्गः |
स च शक्तिरूपस्तेन द्विठशब्देनाग्निशक्तिः स्वाहोच्यत इति राघवभट्टः |
वस्तुतो द्विठ इति पारिभाषिकी संज्ञेति सांप्रदायिकाः |


Lesungshinweise: [Mantra]

S. 286–287, Große Feuergabe und Ganesha-Opfer
(मेरुतन्त्रे) चतुर्वारं स्रुवेणाज्यं गृहीत्वा स्रुचि निःक्षिपेत् |
तेनैव तां पिधायाग्नौ हुनेत् तिष्ठन् गुरुः स्वयम् ||
वौषडन्तेन वह्नेस्तु मनुना संवदेत् ततः |
जिह्वायां मध्यसंस्थायां मन्त्री ज्वालावलीतनौ ||
ताराद्यैर्दशभिर्भेदैः पूर्वपूर्वसमन्वितैः |
मनुना गाणपत्येन हुनेत् पूर्वं दशाहुतीः ||
जुहुयाच्च चतुर्वारं समस्तेनैव तेन तु |
(शारदायामपि) विघ्नेश्वरस्य मन्त्रेण जुहुयादाहुतीर्दश |
सामान्यं सर्वतन्त्राणामेतदग्निमुखं स्मृतम् ||


Lesungshinweise: [Sruva] [die Gabe erfolgt]

S. 287, Bereitung und Aufteilung des Charu
तत्रैव |
ततश्च संस्कृते वह्नौ गोक्षीरेण चरुं पचेत् |
अस्त्रेण क्षालिते पात्रे नवे ताम्रमयादिके ||
तण्डुलाञ्छालिसंभूतान् मूलमन्त्राभिमन्त्रितान् |
प्रसृतीः पञ्चतदाभिः क्षिप्त्वा चास्त्रमनुं जपन् ||
प्रक्षाल्य पात्रवदनं पिधाय कवचाणुना |
प्राङ्मुखो मूलमन्त्रेण देशिकेन्द्रश्चरुं पचेत् ||
स्रुवेणाज्येन संपन्ने दद्यात् तत्साभिघारणम् |
मूलेन पश्चात् तत् पात्रं कवचेनावतारयेत् ||
अस्त्रजप्तकुशास्तीर्णमण्डले विधिवद्गुरुः |
तं विभज्य त्रिधा भागमेकं देवाय कल्पयेत् ||
अन्यमग्नौ प्रजुहुयादपरं देशिकः स्वयम् |
शिष्येण सार्धं भुञ्जीत .... .... इति ||
होमभोजनयोः प्रकारस्त्वग्रे वक्ष्यते |


Lesungshinweise: Das Zitat ist bereits im Druck verkürzt; die Mengenangabe prasṛtīḥ pañcatadābhiḥ ist beschädigt, wobei „fünf Hohlhandmaße“ die vorläufige Lesung wiedergibt.

S. 287–288, Einheit von Selbst, Feuer und Gottheit
(मेरुतन्त्रे) संपूज्य देवतापीठं वह्नौ सम्यक् ततो गुरुः |
अग्निरूपधरां तत्र पूजयेदिष्टदेवताम् ||
आज्येन साध्यमनुना पञ्चविंशतिसंख्यकम् |
हुनेन्मन्त्री चाग्निमुखे वक्त्रैकीकरणं त्विदम् ||
आत्माग्निदेवतानां च चिन्तयन्नैक्यमात्मवित् |
एकादशाथ मूलेन हुनेदाज्येन चाहुतीः ||
नाडीसंघानमेतद्धि प्रोक्तं देशिकसत्तमैः |
अङ्गप्रभृत्यावृतीनामेकेकामाहुतिं हुनेत् ||
अन्ते मूलेन दशाहुतयो देयास्तदुक्तम् (त्रिपुरासारसमुच्चये) परिवारस्यैकेकां देव्या दशाहुतीर्जुहुयात्—इति |


S. 288, Verteilung des Feuers auf weitere Kundas
(मेरुतन्त्रे) पूर्वादिदिक्षु कुण्डेषु सर्वेष्वपि यथाविधि |
गुरुर्वह्निं परिहरेत् संस्कृतेषूक्तवर्त्मना ||
सर्वर्त्विजश्चन्दनाद्यैः संपूज्य प्रोक्तदेवताम् |
सर्वावरणसंयुक्तां मूलेन जुहुयुस्ततः ||
पञ्चविंशतिधा सर्पिःसंयुतेन पयोऽन्धसा |
अत्र सर्वेष्वपि कुण्डेषु वह्निवितरणमाचार्यकर्तृकम् |
कुण्डान्तरसंस्कारस्तु ऋत्विक्कर्तृको बोध्यः |
जुहुयुरिति |
आचार्य ऋत्विजश्चेति शेषः |
पयोऽन्धसा चरुणा पूर्वोक्तचरोर्द्वितीयभागेनेति यावत् |
चरुहोमात् पूर्वं पञ्चविंशतिराज्याहुतयो देयाः |
तथा च (शारदायाम्) ततोऽन्येष्वपि कुण्डेषु संस्कृतेषु यथाविधि |
आचार्यो विहरेदग्निं पूर्वादिषु समाहितः ||
ऋत्विजो गन्धपुष्पाद्यैरङ्गाद्यावरणान्विताम् |
तत्रोक्तदेवतामिष्ट्वा पञ्चविंशतिसंख्यया ||
मूलेनाज्येन जुहुयुः साज्येन चरुणा तथा |


S. 289, Charu-Mahlzeit und Zahnhölzchen
(सोमशम्भौ) चरोस्तृतीयभागं तु ग्रासत्रितयसंमितम् |
अष्टग्रासप्रमाणं वा दर्शनस्पर्शवर्जितम् ||
पलाशपुटके भुक्तौ मुक्तौ पिप्पलपत्रके |
हृदा संभोजयन्मन्त्री पूतैराचामयेज्जलैः ||
(शारदायाम्) आचान्तं शिष्यमानीय सकलीकृत्य देशिकः |
तालप्रमाणं ऋज्वक्षं क्षीरवृक्षादिसंभवम् ||
दन्तकाष्ठं तदा दद्याच्छिष्याय विनयात्मने |
दन्तान् विशोध्य यत्नेन तत् प्रक्षाल्य विसर्जयेत् ||
(मेरुतन्त्रेऽपि) वितस्तिमात्रं ऋज्वक्षं यथोक्तं दन्तधावनम् |
शिष्याय दद्यात् स रदान् विशोध्य क्षालितं त्यजेत् ||


Lesungshinweise: [fremdem] Nachdem der Schüler sorgfältig die Zähne gereinigt hat, wasche er es und lege es weg.“ Auch im Meru Tantra: „Man gebe dem Schüler das wie beschrieben gerade Zahnhölzchen von einer Spanne Länge; er reinige die Zähne, wasche es und werfe es weg.“ Die Druckfußnote bestimmt Tala als die Spanne zwischen Daumen und Mittelfinger.

S. 289, Zeitpunkt der Zahnhölzchenprüfung und Adhivasa
दन्तकाष्ठपरीक्षा च मण्डपप्रवेशात् प्रागेव कर्तव्या |
अत्र तु दन्तशोधनमात्रमिति संप्रदायः |
अत्रैव परीक्षा कर्तव्येति केचित् |
अन्ये तु कालद्वयेऽपि तत्परीक्षा कर्तव्यैवेत्याहुः |
(शारदायाम्) यथाविधि तमाचान्तं शिखाबन्धाभिरक्षितम् |
विधाय सार्धममुना वेद्यां दर्भास्तरे गुरुः ||
शयीत तस्यां तां रात्रिमधिवासः समीरितः |
(नारायणीये) पुनस्तं शिष्यमाचान्तं शिखाबन्धाभिरक्षितम् |
कृत्वा वेद्यां सहानेन स्वपेद्दर्भास्तरे गुरुः ||
(पिङ्गलामते) स्वप्नमानवमाश्रित्य स्वापयेत् पूर्वमस्तकम् |


S. 290, Nachtlager und Traumbericht
(वायवीयसंहितायाम्) देवस्य दक्षिणे भागे शिष्यं तमधिवासयेत् |
अहतास्तरणास्तीर्णसदर्भशयने शुचिः ||
(मेरुतन्त्रे) आचान्तमत्र च यथाविधि तं शिखायां बन्धैः सुरक्षितममुं प्रविधाय मन्त्री |
वेद्यां शयीत कुशसंस्तरणे रजन्यां शिष्येण सार्धममुना गदितोऽधिवासः ||
(महाकपिलपञ्चरात्रे) गुरुपादार्चनं कृत्वा उपवासी जितेन्द्रियः |
दर्भशय्यां गतो रात्रौ दृष्ट्वा स्वप्नं निवेदयेत् ||


S. 290, Bitte um Traumweisung
(योगिनीतन्त्रे) (मेरुतन्त्रे) च यन्त्राग्रतो दूरुदेति देवमावृत्य मन्त्रान् प्रयतस्त्विमेतान् |
लघ्वेकभुग्दक्षिणपार्श्वशायी स्वप्नं परीक्षेत यथोपदेशम् ||
भगवन् देवदेवेश शूलभृद्वृषवाहन |
इष्टानिष्टे समाचक्ष्व मम सुप्तस्य शाश्वतः ||
एवं सुप्तः कुशास्तीर्णे ततः प्रयतमानसः |
निशान्ते पश्यति स्वप्नं शुभं वा यदि वाऽशुभम् ||


Lesungshinweise: [wende man sich an] Mit nur einer leichten Mahlzeit und auf der rechten Seite liegend prüfe man den Traum nach der Unterweisung: ‚Erhabener Herr der Götter, Dreizackträger, auf dem Stier Reitender, Ewiger: Zeige mir im Schlaf das Erwünschte und das Unerwünschte.‘ Wer so mit gesammeltem Geist auf der Kusha-Streuung schläft, sieht gegen Ende der Nacht einen glückverheißenden oder unglückverheißenden Traum.“ Lesungshinweis: Die Anfangsverbindung dūr udeti ist beschädigt; die räumliche Angabe und das Mantragebet sind erkennbar.

S. 290, Traum-Mantra und Verehrungsvers
(पिङ्गलामते) (मेरुतन्त्रे) च |
तारो हिलिद्वयं शूलपाणये द्विठ ईरितः |
स्वप्नमानवमन्त्रोऽयं शम्भुना परिकीर्तितः ||
नमो जय त्रिनेत्राय पिङ्गलाय महात्मने |
वामाय विश्वरूपाय स्वप्नाधिपतये नमः ||


S. 291, Bitte um zuverlässige Traumweisung
स्वप्ने कथय मे तथ्यं सर्वकार्येष्वशेषतः |
क्रियासिद्धिं विधास्यामि त्वत्प्रसादान्महेश्वर ||


S. 291, Traumgebet an Vishnu
(मन्त्रतन्त्रप्रकाशे) ॐ हृत्सकललोकाय विष्णवे प्रभविष्णवे |
विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः ||
स्वप्नमानवमन्त्रोऽयं कथितो नारदादिभिः |


Lesungshinweise: [hṛtsakalalokāya: Wortverbindung unsicher] Im Mantra-Tantra-Prakasha: „Om, dem [hṛtsakalalokāya: Wortverbindung unsicher], Vishnu, dem machtvoll Wirkenden, dem All, dem Allgestaltigen, dem Herrn der Träume sei Verehrung.“ Dieser Traum-Mantra wurde von Narada und anderen gelehrt. Lesungshinweis: Die erste Anrufung nach Om ist auch im Druck nicht sicher aufzulösen; sie wird nicht durch eine vermutete Standardformel ersetzt.

S. 291, Traumgebet und innere Sammlung
(नारदीये) परब्रह्मस्वरूपस्त्वं मन्त्रश्चर्षी विश्वधृक् |
शुभाशुभगतिं देव स्वप्ने मे विनिवेदय ||
इत्युच्चार्य नमस्कुर्याजानुभ्यामवनीं गतः |
प्रसन्नो वाग्यतस्तस्मिन् शयीतेष्टं विचिन्तयेत् ||


Lesungshinweise: [carṣī: Lesung beziehungsweise Bedeutung unklar] Im Naradiya: „Du bist die Gestalt des höchsten Brahman, Mantra, [carṣī: Lesung beziehungsweise Bedeutung unklar], der Träger des Alls. Die Verbindung nach mantra ist im Druck unsicher; eine Ergänzung wird nicht vorgenommen.

S. 291, Arten der Träume und Zeitpunkt ihrer Erfüllung
अथ शुभस्वप्नाः |
(योगिनीतन्त्रे) त्रिविधं दर्शनं तस्य यथार्थमयथार्थकम् |
अपाकजं यत् स्वस्थानां संयतानां हि दर्शनम् ||
यथार्थमयथार्थं तदस्वस्थानां विकारजम् |
अपाकजं मानसं च यथार्थफलमुच्यते ||
(आगमसिद्धान्ते) प्राद्ये वर्षात्तत्सरार्धाद्द्वितीये यामे पाको वर्षपादात् तृतीये |
यामे पाकः शर्वरीतुर्यपादे सद्यः पाको यो विसर्गेषु दृष्टः ||


Lesungshinweise: [Schauen] [der Traum] Das aus Apaka entstandene und das geistige [Schauen] werden als ihrem jeweiligen Ergebnis entsprechend bezeichnet.“ Die Bezeichnung apākaja und die Zuordnung im letzten Halbvers bleiben sprachlich unsicher; die Dreiteilung wird nicht zu einer modernen Traumtheorie umgedeutet.

S. 291–292, Gottheit und Guru als glückverheißende Traumbilder
तथा |
स्वप्ने पश्यति वै देवं निजेष्टं सर्वतो मुखम् |
गुरुं प्रसादसुमुखं निर्मलं चन्द्रमण्डलम् ||
गङ्गां भागीरथीं भानुं लिङ्गिनं लिङ्गमीश्वरम् |
प्रसन्नं तत्र जानीयात् सिद्धिं स्वप्ननिदर्शने ||


S. 292, Weitere Zeichen nach dem Narada-Pancharatra
(नारदपञ्चरात्रे) क्षितिलाभः क्षतं चाब्धितरणं चाग्निपूजनम् |
होमश्च ज्वलिते वह्नौ संग्रामविजयस्तथा ||
हंसकोकमयूराणां रथारोहणमेव च |


S. 292, Günstige Traumbilder im Mahakapila-Pancharatra
(महाकपिलपञ्चरात्रे) कन्यां छत्रं रथं दीपं प्रासादं कमलं नदीम् |
कुञ्जरं वृषभं मालां समुद्रं फेनिलं द्रुमम् ||
पर्वतं च हयं मद्यमाममांससुरासवम् |
एवमादीनि सर्वाणि दृष्ट्वा सिद्धिमवाप्नुयात् ||
यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति |
समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने ||
नदीसमुद्रतरणमाकाशगमनं तथा |
भास्करोदयनं चैव प्रज्वलन्तं हुताशनम् ||
ग्रहनक्षत्रताराणां चन्द्रमण्डलदर्शनम् |
हर्म्यप्ररोहणं चैव प्रासादशिरसोऽपि वा ||
नागाश्ववृषभेन्द्राणां तरुशैलाग्ररोहणम् |
विमानगमनं चैव सिद्धमन्त्रस्य दर्शनम् ||
एवमादीनि संदृष्ट्वा नरः सिद्धिमवाप्नुयात् |


S. 292–293, Ungewöhnliche und königliche Traumbilder
स्वप्ने तु मदिरापानमाममांसस्य भोजनम् ||
कृमिविष्ठानुलेपं च रुधिरेणाभिषेचनम् |
भोजनं दधिभक्तस्य श्वेतवस्त्रानुलेपनम् ||
सिंहासनं रथं यानं ध्वजं राज्याभिषेचनम् |
रत्नान्याभरणादीनि दृष्ट्वा स्वप्ने प्रसीदति ||


S. 293, Glückverheißende Personen, Gegenstände und Speisen
(नारदपञ्चरात्रे) गुरुदेवो द्विजः कन्या गोगजाश्वाश्च केशरी |
दर्पणं शङ्खभेर्यौ च तन्त्रीवाद्यं च रोचनम् ||
ताम्बूलभक्षणं चैव तथा वध्याभिवन्दनम् |
सिद्धान्नमाममांसं च मद्यस्त्रीमदिरावसाः ||
छत्रं यानं सितं वस्त्रं तथाज्यं श्वेतचन्दनम् |
मालामुक्ताफले हारः पूर्णः समुदितः शशी ||
प्रचण्डकिरणः सूर्यो निम्नगाथ महोदधिः |
प्रफुल्लपादपः शाली रोचना कुङ्कुमं मधु ||
लाजाः सिद्धार्थका बीजं नवभाण्डं च पायसम् |
उपासन्नोऽप्यथाचार्यो गायत्री च वरं गता ||
सर्वे स्वप्ने शुभाः प्रोक्ताः सिद्धिमोक्षफलप्रदाः |


S. 293, Weitere günstige Träume im Naradiya
(नारदीये) ग्रहणं तु परस्त्रीणामगम्यागमनं तथा |
दंशनं श्वेतनागेन बन्धनं शृङ्खलादिभिः ||
रोदनं ताडनं चैव धावनं चाङ्गघातनम् |
मृच्छौचप्रकांस्यस्य शीशकस्यापि कुत्सितात् ||
धातोर्लाभस्तथा पुष्पं फलरत्नानुभावपि |
व्यजनं स्वयमन्येन धमनं च विभावसोः ||
एवमादीनि चान्यानि शुभान्याहुर्मनीषिणः |


Lesungshinweise: [die folgende Verbindung über Erde beziehungsweise Reinigung und Bronze ist nicht sicher verständlich] [Wortschluss unsicher] Im Naradiya: „Das Ergreifen fremder Frauen und der Verkehr mit einer als unzugänglich geltenden Frau; der Biss einer weißen Schlange, Fesselung mit Ketten und dergleichen; Weinen, Geschlagenwerden, Laufen und Verletzung eines Körperteils; [die folgende Verbindung über Erde beziehungsweise Reinigung und Bronze ist nicht sicher verständlich], der Erwerb von Blei oder einem geringgeschätzten Metall, ebenso Blumen, Früchte und Edelsteine [Wortschluss unsicher]; das Fächeln durch einen selbst oder einen anderen und das Anfachen des Feuers: Diese und weitere ähnliche Dinge nennen die Weisen glückverheißend.“ Mehrere Wörter der Aufzählung sind bereits im Druck beschädigt oder grammatisch unklar; die erkennbaren Glieder werden wiedergegeben, ohne die Lücken mit vermuteten Traumbildern zu füllen.

S. 293–294, Günstige Traumbilder im Meru Tantra
(मेरुतन्त्रे) पूर्णकुम्भो दर्पणं च मीनमाज्यं च रोचना |
शवं रोदनहीनं च शस्त्राणि च पताकिका ||
भारद्वाजो नृपालश्च वेदशब्दश्च गायनम् |
कथामाङ्गल्यगीतानि चाङ्कुशं यद्गृहः प्रियम् ||
स्वप्ने दृष्टानि चैतानि साधकः सिद्धिमाप्नुयात् |
व्याध्यार्ते नास्ति दुःखं स्यात् सामान्यं सुखमाप्नुयात् |
यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति |
कामयन्तीं नदीसिन्धुतरणं भ्रमणं च खे ||
भास्करोदयनं चैव ग्रहणं चन्द्रसूर्ययोः |
हर्म्यप्रासादनागाश्ववृषशैलाग्ररोहणम् ||
भोजनं दधिभक्तस्यापकमांसस्य भोजनम् |
कृमिविष्ठानुलेपश्च रुधिरेणाभिषेचनम् ||
ताम्बूलभक्षणं मद्यपानं वध्याभिवन्दनम् |
प्रचण्डकिरणः स्वस्थः कार्यसिद्धेस्तु लक्षणम् ||


Lesungshinweise: [yadgṛhaḥ priyam: Verbindung unklar] [mehr] [die Sonne]

S. 294, Weiße Gestalten, Feuer und Schlangenbiss
श्वेताम्बरधरा नारी श्वेतमाल्यानुलेपना |
अवगूहति यं स्वप्ने तस्य श्रीः सर्वतो मुखी ||
आसने शयने पाने शरीरे वाहने गृहे |
ज्वलमाने विबुध्येत तस्य श्रीः सर्वतो मुखी ||
सितोरगस्य दंशश्च जायते दक्षिणे करे |
दशाहोभिर्भवेल्लाभो रोगी रोगाद्विमुच्यते ||
निगडैर्बाहुपाशेन बध्यते वा सुतो भवेत् |
प्रतिष्ठा वर्धते तस्य दुग्धपानाद्धनक्षयः ||


Lesungshinweise: [im Traum]

S. 294–295, Speisen und ihre unterschiedlichen Bedeutungen
सुरारक्तं पिबन् विद्यां लभेद्विप्रो धनं परम् |
दधि दृष्ट्वा भवेत् प्रीतिर्गोधूमैश्च धनागमः ||
सिद्धाविष्टागमं विद्यालाभः सिद्धार्थकैस्तथा |
दधिलाभाद्भवेदर्थो घृतलाभाद्भवेज्जयः ||
घृताशनाद्धनक्लेशो जयस्तु दधिभक्षणे |
लिङ्गाद्यभ्यर्चनं दृष्ट्वा व्यवहारे जयो भवेत् ||


Lesungshinweise: [erlangt] [siddhāviṣṭāgamam: Wortverbindung nicht sicher verständlich]

S. 295, Herrschaft und wahrheitskräftige Traumgestalten
यस्तु मध्ये तडागादेर्भुञ्जीत घृतपायसम् |
निष्कम्पपुष्करे पत्रे तं विद्यात् पृथिवीपतिम् ||
देवतालिङ्गिनो गावः पितरो ब्राह्मणा नृपाः |
यद्वदन्ति नरं स्वप्ने तत् तथैव भविष्यति ||
अन्त्रैः संवेष्टयेद्यस्तु ग्रामं नगरमेव वा |
ग्रामे मण्डलराज्यं स्यान्नगरे पार्थिवो भवेत् ||


S. 295–296, Weitere Zeichen für Erfolg und Besitzgewinn
चन्द्रताराग्रसनं परिमार्गणमेव च |
भूम्यम्बुधीनां ग्रसनं शत्रूणां च वधक्रिया ||
जयो विवादद्यूतेषु शत्रूणां च तथा जयः |
वडवामहिषीसिंहीगोहस्तिन्यादिदोहनम् ||
प्रसादो गुरुविप्रेष्टदेवसिद्धादिकाच्छुभः |
स्नानं राज्याभिषेकश्च स्वशिरश्छेदनं मृतिः ||
तीर्थोदकानां तरणं तथा विषमलङ्घनम् |
गोहस्तिवडवासूतिर्वह्निलाभस्तथैव च ||
परस्त्र्यालिङ्गनं तस्या लाभो रोदनमेव च |
विष्ठालेपः कुन्दजातीबकुलक्ष्मेशदर्शनम् ||
रणद्यूतविमर्देषु जयो निगडबन्धनम् |
पशुमत्स्यमृगाणां च लाङ्गूलस्यासनं तथा ||
शिखिलाभः श्वेतवस्त्रपुष्पचन्दनधारणम् |
मणितारसुवर्णादिपात्रे भोजनकं यदा ||
पश्येत् तदा साधकस्य ज्ञेया सिद्धिरुपस्थिता |
कार्यार्तानां कार्यसिद्धिरितरेषां धनागमः ||


Lesungshinweise: [das Sitzen auf dem Schwanz von] Wer um ein Vorhaben besorgt ist, erreicht dessen Vollendung; die anderen gewinnen Besitz.“ Die Verbindung über den Schwanz der Tiere lautet im Druck lāṅgūlasyāsanam und bleibt in ihrer genauen Bildvorstellung unsicher.

S. 296, Ungünstige Träume: Farben einer Frau
अथाशुभस्वप्नाः |
कृष्णाम्बरधरा नारी कृष्णगन्धानुलेपना |
अवगूहति यं स्वप्ने सा रात्रिस्तस्य पश्चिमा ||
एवं तु रक्तया व्याधिः शोकोऽरुणसमानया |
नीलया कलहो हन्या पीतया कीरया विपत् ||


Lesungshinweise: [hanyā: Verbindung unklar]

S. 296, Ungünstige Personen und Gegenstände
तथा |
बन्ध्याचर्मतुषास्थ्यादिलवणाङ्गारमिन्धनम् |
विट्क्लीबोन्मत्ततेलानि जटिलारिवनौषधम् ||
रोगी तृणं च सन्यासी नग्नोऽभ्यक्तः क्षुधातुरः |
विमुक्तकेशः पतितो व्यङ्गासृक् शरटात्ततम् ||
मार्जारयुद्धं कार्पासो गर्भिणी च रजस्वला |
गुडस्तक्रं च काषायी पङ्कः रण्डा कलिर्गृहे ||
वस्त्रादिकस्य स्खलनं लूलापसमरं तथा |
अन्धः कुब्जो दुर्वचनो बधिरः खञ्जकुब्जकौ ||
वमनं च घटो रिक्तो रजकी मलिनाम्बरा |
एतैर्दृष्टैर्न कार्यं स्याद्रोगी मृत्युमवाप्नुयात् ||


Lesungshinweise: [und eine nicht sicher lesbare Verbindung mit śaraṭa] [sowie lūlāpasamara: Verbindung unklar] Zwei beschädigte Wortverbindungen bleiben lokal offen; die doppelte Nennung des Buckligen ist im Druck vorhanden.

S. 296, Pflanzen, Wasser und die südliche Richtung
अशोकं करवीरं च पलाशं वापि पुष्पितम् |
स्वप्नेऽपि सलिलं दृष्ट्वा नरः शोकमवाप्नुयात् ||
रूपान्तरप्रवेशश्च दक्षिणाशागतिस्तथा |
पङ्के निमज्जनं स्नानं पुत्रभार्याविनाशदम् ||
गोहस्तिसिद्धजेदेवादिवर्ज्यं कृष्णं न शोभनम् |


Lesungshinweise: [eine beschädigte Liste, in der Kuh, Elefant, Siddha und Gottheit erkennbar sind] Schwarzes ist nicht günstig, ausgenommen [eine beschädigte Liste, in der Kuh, Elefant, Siddha und Gottheit erkennbar sind].“ Die Ausnahme-Liste am Seitenende ist im Druck nicht zuverlässig aufzulösen; ihre fehlenden Verbindungen werden nicht ergänzt.

S. 297, Träume als Todeszeichen
कर्पासभस्मास्थ्यादीनि त्यक्त्वा भुक्तं शुभावहम् ||
रक्तगन्धाम्बरस्रग्वी कृष्णो वा दक्षिणामुखः |
खरोष्ट्रमहिषारूढस्त्रिमासं न स जीवति ||
श्वभ्रे वा पतनं गेहे द्वारं चास्य पिधीयते |
न चोत्तिष्ठति यस्तस्मात् तदब्दं तस्य जीवितम् ||
वान्तिर्मूत्रं पुरीषं च सन्तानजननं च्युतिः |
शुक्रस्य पश्येद्यः स्वप्ने तस्यायुर्दशमासिकम् ||
ताड्यते विकृतैः कृष्णैः पुरुषैरुद्यतायुधैः |
पाषाणैस्ताड्यते वापि तस्य मृत्युर्न संशयः ||
महिषोष्ट्रारूढस्तैलाभ्यक्तश्च मुण्डितः |
दक्षिणाशां प्रस्थितो यस्तस्य मृत्युर्न संशयः ||


S. 297, Verlust, Reinigung und Flussüberquerung
पश्येत् प्रासादपतनं गृहस्य शशिसूर्ययोः |
पर्वतानां च वृक्षाणामधिकाराच्च्युतिर्भवेत् ||
हानिश्चैव स्वगात्राणां व्याधिनाभिभवस्तथा |
गृहसंमार्जनं लेपो गोमयेन मृदापि वा ||
तीर्त्वा नदीं समायातस्तीरेऽन्यद्वसनं धृतम् |
रोगी रोगाद्विमुच्येत हानिः स्वस्थस्य जायते ||


Lesungshinweise: [deuten] [darauf]

S. 297, Tiere zur linken und rechten Seite
पुंनामानो मृगखगाः पोतकी शुकरी रला |
पिङ्गला छुच्छुका पङ्क्ती वामाङ्गे कोकिला शिवा ||
स्त्रीनामानो मृगखगाः श्रीकराठो वानरो रुरुः |
छिक्करः पिप्पलो भासो दक्षे काकक्ष्वकुक्कुटाः ||
दृष्टाश्चेद्रोगिणो रोगनाशः साधकसिद्धये |
स्वस्थस्य चोभयाल्लाभो दिग्व्यत्यासान्न शोभनम् ||


Lesungshinweise: [kṣva: unklare Lesung] „Tiere und Vögel mit männlicher Bezeichnung sowie Potaki, Shukari, Rala, Pingala, Chhuchchhuka, Pankti, Kokila und Shiva zur linken Seite; Tiere und Vögel mit weiblicher Bezeichnung sowie Shrikaratha, Affe, Ruru, Chhikkara, Pippala, Bhasa, Krähe, [kṣva: unklare Lesung] und Hahn zur rechten Seite: Werden sie gesehen, bedeutet dies für den Kranken das Ende der Krankheit, für den Sadhaka Siddhi.

S. 298, Mitteilung des Traums an den Guru
अथ स्वप्ननिवेदनम् (निबन्धे) शिष्यस्य शुचिराचान्तः पुष्पहस्तो गुरूत्तमः |
प्रणम्य शिरसा हृष्टस्तस्मै स्वप्नं निवेदयेत् ||
स्वप्ने चाक्षितसमक्षं वा आश्चर्यमपि हर्षदम् |
अकस्माद्यदि वा पश्येन्नाख्यातव्यं गुरोर्विना ||


Lesungshinweise: [Der Schüler,] Auch die Verbindung für das Sehen vor den Augen ist beschädigt.

S. 298, Besänftigung eines ungünstigen Traums
अथ दुःस्वप्नशान्तिः (महाकपिलपञ्चरात्रे) दृष्ट्वा दुःस्वप्नकं चैव होमात् सिद्धिमवाप्नुयात् |
(पिङ्गलामते) शुभे शुभं भवेत्तस्य जुहुयादशुभे शतम् |
अस्त्रेणेति क्रमाद्विद्वान् .... .... .... इति ||
(मेरुतन्त्रे) सक्षीराणां घृताक्तानां समिधां च शतं हुनेत् |
पलाशानां तु गायत्र्या शूद्रः स्नात्वा हविष्यभुक् ||
दीपं दद्याद्द्विजगृहे विष्णोर्गेहे शिवालये |
एवं दृष्ट्वा शुभं स्वप्नं गृह्णीयान्मनुमन्यथा ||
गृहीते हानिरेव स्याद्वान्यदेवं विचिन्तयेत् |


S. 298, Alternative Mantras zur Traumbesänftigung
(नारदपञ्चरात्रे) दृष्ट्वा समाचरेद्धोमं दन्तकाष्ठोदितं मुने |
केवलेनाथ वान्येन सिंहमन्त्रेण शान्तये ||
अस्त्रमन्त्रगायत्रीसिंहमन्त्राणां विकल्पः |
तारावज्रनखं दंष्ट्रायुधाय महासिंहाय हुंफट् नमः |
सिंहस्य मनुरिति (मेरौ प्रोक्तः) |


Lesungshinweise: [einen solchen Traum] Die erste Verbindung nach Tara ist im Druck grammatisch unsicher. Eine Herausgeberfußnote bietet zusätzlich eine Variante zur Reinigung mit Zahnhölzchen aus Jati, Tagara und Mandara, durch die ein schlechter Traum beseitigt werde.

S. 298, Beginn des Einweihungstages
अथ दीक्षादिनकृत्यम् (मेरुतन्त्रे) समुत्थायोषसि पुनः सन्ध्यास्नानादिकं चरेत् |
गुरुः शिष्यो ऋत्विजश्च गच्छेद्यागगृहं प्रति ||
सर्वे ते स्वस्वकुण्डेषु जुहुयुः सघृतैस्तिलैः |
पुनः साध्येन मनुना द्व्यष्टोत्तरसहस्रकम् ||


S. 299, Opferzahl und Darbringung mit Löffel oder Hand
द्रव्यैर्विधानप्रोक्तैर्वा हुनेदष्टाधिकं शतम् |
(श्रीभविष्ये) आहुतीस्तु घृतादीनां स्रुवेणाधोमुखेन च |
हुनेत् तिलाद्याहुतीश्च दैवेनोत्तानपाणिना ||
(वायवीयसंहितायाम्) स्रुवेणाज्यं समिद्याद्यं स्रुचा शेषं करेण वा |
तत्र दिव्येन होतव्यं तीर्थेनार्षेण वा तथा ||


Lesungshinweise: [der Hand] [die Verbindung samidyādyam ist unklar]

S. 299, Opfer nur im entzündeten Feuer
(महाकपिलपञ्चरात्रे) [अस्पष्टम्] होतव्यं मध्यमेनाप्यनिन्धिते |
प्रदीप्ते लेलिहानाग्नौ होतव्यं कर्मसिद्धये ||
(बह्वृचपरिशिष्टेऽपि) अधोमुखः सधूमे तु जुहुयाद्यो हुताशने |
यजमानो भवेदन्धः सपुत्र इति च श्रुतिः ||
(छन्दोगपरिशिष्टेऽपि) योऽनर्चिषि जुहोत्यग्नौ व्यङ्गारिणि च मानवः |
मन्दाग्निरामयावी च दरिद्रश्चोपजायते ||


Lesungshinweise: [Der Anfang ist im Digitalisat beschädigt; anschließend eine nicht sicher verständliche Vorschrift über mittleres beziehungsweise unentzündetes Feuer.] Im Mahakapila-Pancharatra: „[Der Anfang ist im Digitalisat beschädigt; anschließend eine nicht sicher verständliche Vorschrift über mittleres beziehungsweise unentzündetes Feuer.] Zur Vollendung der Handlung soll man in ein hell brennendes Feuer mit leckenden Flammen opfern.“ Auch im Bahvricha-Parishishta: „Wer mit gesenktem Gesicht in rauchendes Feuer opfert, dessen Opferherr wird samt seinem Sohn blind – so die Shruti.“ Auch im Chhandoga-Parishishta: „Wer in ein Feuer ohne Flammen und ohne Glut opfert, wird von schwacher Verdauung, Krankheit und Armut betroffen.“ Die Folgen werden als traditionelle Ritualwarnungen des Textes wiedergegeben. Die beschädigte Anfangszeile wird nicht ergänzt.

S. 299, Körperteile des Feuers
(त्रिपुरासारे) अग्नेः कर्णे होमतो व्याधिबाधा नेत्रेऽन्धत्वं नासिकायामथ व्याधिः |
द्रव्यच्छेदो मस्तके स्यान्मुखान्तर्होमं कुर्यात्तेन नित्यं विपश्चित् ||
तन्त्रान्तरे |
यतः काष्ठं ततः श्रोत्रं यत्र धूमोऽत्र नासिका |
यत्राल्पज्वलनं नेत्रं यत्राङ्गारस्ततः शिरः ||
यत्र प्रज्वलिता ज्वाला जिह्वा सा जातवेदसः |


S. 300, Abweichende Zuordnungen der Feuerorgane
अन्यत्रापि |
सधूमोऽग्निः शिरो ज्ञेयं निर्धूमश्चक्षुरेव च |
ज्वलत्करो भवेत् कर्णः काष्ठमस्तु नासिका ||
अग्निर्ज्वालायते यत्र शुद्धस्फटिकसन्निभः |
तन्मुखं तत्र विज्ञेयं चतुरङ्गुलमानतः ||
(नवदुर्गाकल्पे) यत्र काष्ठं तत्र श्रोत्रे यत्र धूमस्तु नासिके |
यत्राल्पज्वलनं नेत्रे यत्र भस्म तु तच्छिरः ||
यत्रैव ज्वलितो वह्निस्तत्र जिह्वा प्रकीर्तिता |


Lesungshinweise: [Feuer]

S. 300, Meditation über die Haltung des Feuers
(शारदायाम्) वैश्वानरं स्थितं ध्यायेत् समिद्धोमेषु देशिकः |
शयानमाज्यहोमेषु निषण्णं शेषवस्तुषु ||


S. 300, Günstige Eigenschaften des Opferfeuers
तथा |
स्वर्णसिन्दूरबालार्ककुङ्कुमक्षौद्रसन्निभः |
सुवर्णरेतसो वर्णः शोभनः परिकीर्तितः ||
भेरीवारिदहस्तीन्द्रध्वनिर्वह्नेः शुभावहः |
नागचम्पकपुन्नागपाटलायूथिकानिभः ||
पद्मेन्दीवरकह्लारसर्पिर्गुग्गुलुसन्निभः |
पावकस्य शुभो गन्ध इत्युक्तस्तन्त्रवेदिभिः ||
प्रदक्षिणास्वल्पकम्पाच्छत्राभाः शिखिनः शिखाः |
शुभदा यजमानस्य राज्यस्यापि विशेषतः ||
कुन्देन्दुधवलो धूमो वह्नेः प्रोक्तः शुभावहः |


S. 300–301, Ungünstige Feuerzeichen und Ausgleich
कृष्णः कृष्णगतेर्वर्णो यजमानं विनाशयेत् ||
श्वेतो राज्यं निहन्याशु वायसस्वरसन्निभः |
खरस्वरसमो वह्नेर्ध्वनिः सर्वविनाशकृत् ||
पूतिगन्धो हुतभुजो होतुर्दुःखप्रदो भवेत् |
छिन्नवृत्तां शिखां कुर्यान्मृत्युं धनपरिक्षयम् ||
शुकपक्षनिभो धूमः पारावतसमप्रभः |
हानिं तुरगजातीनां गवां च कुरुते सदा ||
एवं विधेषु दोषेषु प्रायश्चित्ताय देशिकः |
मूलेनाज्येन जुहुयात् पञ्चविंशतिमाहुतिम् ||
(त्रिपुरासारसमुच्चये) वस्वधिकं शतमाज्यैर्जुहुयाच्छान्तिकर्ममीषु दोषेषु |
अस्त्रेण साधकेन्द्रस्तनुयादथ चक्रपूजां च—इत्युक्तम् |


Lesungshinweise: [Flammenfarbe]

S. 301, Heranführen des Schülers und Aufnahme seines Bewusstseins
(शारदायाम्) ततः संशोधितं दन्ताद्यं स्नातं शिष्यं समाहितम् |
पाययित्वा पञ्चगव्यं कुण्डस्यान्तिकमानयेत् ||
(प्रयोगसारेऽपि) पञ्चगव्यं यथाप्रोक्तं पीत्वाचान्तं यथाविधि |
द्वारेण दक्षिणेनाथ यागस्थानं प्रवेशयेत् ||
(शारदायाम्) विलोक्य दिव्यदृष्ट्या तं तच्चैतन्यं हृदम्बुजात् |
गुरुरात्मनि संयोज्य कुर्यादध्वविशोधनम् ||
तन्त्रान्तरे |
हृदि स्थितं तच्चैतन्यं प्रस्फुरत्तारकाकृतिम् |
आदाय स्थापयेत् स्वीये हृदये हंसमुद्रया ||


S. 301, Bedeutung der Reinigung der Adhvans
(षडन्वयमहारत्ने) शोधनं नाम तत्त्वानां कारणैकत्वचिन्तनम् |
वर्णादीनां कलानां च तस्यां चिदैक्यचिन्तनम् ||


Lesungshinweise: [Adhvans] [Ursache]

S. 302, Die sechs Adhvans
(शारदायाम्) उक्तं कलाध्वा तत्त्वाध्वा भुवनाध्वेति च त्रयम् |
वर्णाध्वा च पदाध्वा च मन्त्राध्वेति परं त्रयम् ||
(वायवीयसंहितायाम्) तत्र शाब्दास्त्रयोऽध्वानस्त्रयस्त्वार्थाः समीरिताः |
तन्त्रान्तरे |
मन्त्राध्वा च पदाध्वा च वर्णाध्वेति च शब्दतः |
भुवनाध्वा च तत्त्वाध्वा कलाध्वा चार्थतस्तथा ||
अत्र तु संहारक्रमेणोक्तिः |
(शारदायाम्) सृष्टिक्रमेणेति ज्ञेयम् |


S. 302, Reinigung der fünf Kalas
(मेरुतन्त्रे) शिष्यस्य पादयोश्चिन्त्या गुरुणा तु कला इमाः |
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ||
शान्त्यतीतेति पञ्चाथ शोधनक्रम उच्यते |
कुर्वन् च गुरुः शिष्यं स्पृशन् कुण्डे स्वके हुनेत् ||
तिलैर्घृताक्तैस्ताराद्यममुकाध्वानमत्र च |
शोधयामि द्विठान्तेन मन्त्रेणाष्टाहुतीर्हुनेत् ||
तत्त्वाध्वनि विलीनं तु कलाध्वानं विचिन्तयेत् |
ततो लिङ्गप्रदेशे तु तत्त्वान्येतानि चिन्तयेत् ||


S. 302, Ganapatya- und Shaiva-Tattvas
गाणेशानि च शैवानि तत्रैतानि रसाग्नयः |
तद्यथा शिवशक्ती च सदाशिवमहेश्वरौ ||
विद्येति पञ्चशुद्धानि शुद्धाशुद्धानि सप्त च |
माया विद्या कला रागः कालो नियतिरेव च ||
पुरुषश्चाथ शुद्धानि प्रकृतिर्बुद्ध्यहङ्कृती |
मनश्चेन्द्रियदशकं तन्मात्राभूतपञ्चकम् ||


Lesungshinweise: [Zeit] [unreinen; der Druck liest śuddhāni, ‚reinen‘]

S. 302–303, Erklärung der drei Unreinheiten
शुद्धानीति |
आणवकार्मणमायीयाख्यमलत्रयरहितानीत्यर्थः |
तत्राणवो नाम सदाशिवत्वेन स्वस्यानवमर्शः |
कार्मणो नाम पुण्यपापवानहमिति प्रतीतिः |
मायीयो नामाहङ्कारादावात्मत्वबुद्धिः |
शुद्धाशुद्धानीति |
कारणत्वेन मलत्रयराहित्याच्छुद्धानि |
कार्यरूपत्वेन तद्युक्तत्वादशुद्धानीत्यर्थः |


Lesungshinweise: [Tattvas]

S. 303, Vaishnava- und Saura-Tattvas
अथ वैष्णवतत्त्वानि द्वात्रिंशत्समितानि तु |
जीवः प्राणो मनो बुद्धिस्तन्मात्रा भूतपञ्चकम् ||
दशेन्द्रियाणि हृत्पद्मं सूर्यसोमाग्नयस्तथा |
वासुदेवः सङ्कर्षणश्च प्रद्युम्नश्चानिरुद्धकः ||
सौराणि भूततन्मात्रामनोगर्वेन्द्रियाणि च |
प्रकृतिर्बुद्धिरिति च चतुर्विंशतिसंमितम् ||


Lesungshinweise: [Ichbewusstsein]

S. 303, Weitere Tattva-Systeme
(शारदायाम्) निवृत्त्याद्याः कलाः पञ्च ततो बिन्दुः कला पुनः |
नादः शक्तिः सदापूर्वशिवश्च प्रकृतेर्विदुः ||
आत्मविद्या शिवः पश्चाच्छिवो विद्या स्वयं पुनः |
सर्वतत्त्वं च तत्त्वानि प्रोक्तानि त्रिपदात्मनः ||
तत्त्वाध्वा कथितो ह्येष तत्तदागमवेदिभिः |
(मेरुतन्त्रे) दशैव शक्तितत्त्वानि आत्मविद्या शिवा इति |
शिवाविद्या तथात्मेति चात्मविद्या शिवा पुनः ||
सर्वतत्त्वं चेति पुनः प्राग्वदूहेन होमयेत् |
तत्त्वाध्वानं विलीनं तु चिन्तयेद्भुवनाध्वनि ||


Lesungshinweise: [Sadashiva] [Tattvas] [der Formel]

S. 303, Reinigung der vierzehn Welten
शिष्यस्य नाभौ चिन्त्यानि भुवनानि चतुर्दश |
तानि क्रमेण पातालरसातलमहातलम् ||
तलातलं च सुतलं वितलं चातलं च भूः |
भुवश्च स्वर्महश्चापि जनस्तप इति क्रमात् ||
सत्यं च भुवनाध्वाने होमाद्यूहस्तु पूर्ववत् |
विलीनं भुवनाध्वानं वर्णाध्वनि विचिन्तयेत् ||


S. 304, Laute, Wörter und Mantras bis zur Auflösung in Shiva
अकारादिक्षकारान्तान् वर्णान् संचिन्तयेद्धृदि |
वर्णाध्वानं विलीनं तु पदाध्वनि विचिन्तयेत् ||
होमाद्यूहो प्राग्वदेवात्र ललाटे चिन्तयेत् ततः |
पदाध्वानं मूलमन्त्रपदवर्णस्वरूपकम् ||
पदाध्वात्रोहहोमादि प्राग्वदेव समाचरेत् |
मन्त्राध्वनि विलीनं तु पदाध्वानं विचिन्तयेत् ||
संपूर्णमन्त्रो मन्त्राध्वा चिन्तयेच्छिष्यमूर्धनि |
होमोहः प्राग्वदेवात्र विलीनोऽहं परे शिवे ||
ब्रह्मरन्ध्रस्थिते ध्यायेदतः स्यादध्वशोधनम् |


Lesungshinweise: Man meditiere: ‚Ich bin im höchsten Shiva aufgelöst, der sich im Brahmarandhra befindet.‘ So wird die Reinigung der Adhvans vollzogen.“ Die Herausgeberfußnote nennt als Variante vilīno ’yam, ‚dieser ist aufgelöst‘, gegenüber vilīno ’ham, ‚ich bin aufgelöst‘ im Haupttext.

S. 304, Erneute Schöpfung und Rückgabe des Bewusstseins
सृजेत्तु सृष्ट्या विलीनान्ताच्छिवान्ताच्च गुरूत्तमः |
देशिकेन्द्रश्च तं शिष्यं दृष्ट्वा दृष्ट्या च दिव्यया ||
तच्चैतन्यं स्थितं तस्मिंस्तस्मिन्नेव च योजयेत् |
(शारदायामपि) .... .... .... क्रमात् तान् विलयं नयेत् |
शिवे शिवान्तान् संलीनान् जनयेत् सृष्टिमार्गतः ||
विलोकयन् दिव्यदृष्ट्या तं शिशुं देशिकोत्तमः |
आत्मस्थितं तच्चैतन्यं पुनः शिष्ये नियोजयेत् ||


Lesungshinweise: [die Ebenen] [aufgenommenes] [Ebenen]

S. 304, Abweichendes Verfahren und Abschlussopfer
(क्रियासंग्रहे) शूद्रसङ्करजातीनां नाध्वशुद्धिर्विधीयते |
पादोदकप्रदानाद्यैः कुर्यात् पापविमोचनम् ||
मूलेन दशधा हुत्वा चैकेकामाहुतिं ततः |
हुत्वावरणदेवेभ्यस्ततः पूर्णाहुतिं चरेत् ||
(शारदायाम्) स्रुचा पूर्णाहुतिं दत्त्वा मूलमन्त्रेण देशिकः |


S. 305, Ausführung der vollständigen Opfergabe
(वायवीयसंहितायाम्) ततो होमावशिष्टेन घृतेनापूर्य वै स्रुचम् |
निधाय पुष्पं तस्याग्रे स्रुवेणाधोमुखेन ताम् ||
सदर्भेण समाच्छाद्य मूलेनाञ्जलिनोत्थितः |
वौषडन्तेन जुहुयाद्धारां जवसमन्विताम् ||
(मेरुतन्त्रे) सर्पिषा स्रुचमापूर्य पुष्पं चोपर्यधोमुखम् |
स्रुगुपरि स्रुवं दत्त्वा पुष्पं तत्र प्रपातयेत् ||
सव्योत्तरकराभ्यां च संपुटाभ्यां च शङ्खवत् |
संगृह्योत्थाय संलग्नौ नाभौ तिर्यङ्निधाय च ||
पूर्णा दर्वीति मन्त्रेण मूलेन च सुसंयतः |
दद्यात् पूर्णाहुतीस्तिस्रः सर्वकामप्रपूरणीः ||
श्रोत्रियस्यैतदुद्दिष्टमन्यः पूर्णाहुतिं चरेत् |
मूलेन वौषडन्तेन स्वाहान्तेन तु वामतः ||


Lesungshinweise: [die Geräte]

S. 305, Weitere Vorschriften zur Purnahuti
(अग्निपुराणे) मूर्धान्तं दिव्यमन्त्रेण संस्रवेण च धारया |
दद्यादुत्थाय पूर्णां तु नोपविश्य कदाचन ||
(हयशीर्षपञ्चरात्रे) हुत्वा च हविषा दद्यात् स्रुचा पूर्णाहुतित्रयम् |
वौषडन्तेन मन्त्रेण .... .... .... .... इति ||
(नारदपञ्चरात्रे) अभावे तु घृतस्यैव होमद्रव्येण पूरयेत् |
तस्योपरि घृतं दद्यात् तदूर्ध्वं कुङ्कुमादिकम् ||


Lesungshinweise: [mūrdhāntam: genaue Handhabung unklar] [den Löffel]

S. 305–306, Fußstellung bei der Abschlussgabe
(पूर्णयागे) मूलं नमोन्तमुच्चार्य वामपादपुरःसरम् |
दद्यात् पूर्णाहुतिं मन्त्री परामृतधिया ततः ||
(मेरुतन्त्रे) दक्षपादं पुरस्कृत्य दक्षः पूर्णाहुतिं चरेत् |
शक्तिहोमे वामपादं वाममार्गी च सर्वतः ||


Lesungshinweise: [stellt] [Fuß vor]

S. 306, Brahmarpana: Darbringung aller Handlungen
(गौतमीयतन्त्रे) स्रुक्स्रुवौ तु समादाय घृतेनापूर्य तत् पुनः |
होमद्रव्याणि निःक्षिप्य नाभौ संस्थाप्य तौ पुनः ||
ब्रह्मार्पणेन मनुना दद्यात् पूर्णाहुतिं पुनः |
इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतः ||
जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत् स्मृतं यदुक्तं यत् कृतं तत् सर्वं ब्रह्मार्पणं भवतु स्वाहा |
ब्रह्मार्पणमनुः सोऽयं ब्रह्मार्पणविधौ स्मृतः |


Lesungshinweise: [den Sruk]

S. 306, Rückführung der Gottheiten in den Kalasha
एवं होमविधिं कृत्वा कुण्डस्याण्डलदेवताः ||
दिक्पालदेवताश्चापि अङ्कुरार्पणदेवताः |
आनयेत् कलशे चापि कृष्णैक्यं भावयेद्गुरुः ||
कृष्णेति प्रकृताभिप्रायेण |
(मेरुतन्त्रे) पुनः संपूज्य गन्धाद्यैर्मूलमन्त्रेण मन्त्रवित् |
कुण्डादुद्वास्य चाचार्यो देवतां कलशे न्यसेत् ||


Lesungshinweise: [Mandala; die Wortverbindung ist im Druck beschädigt] „Nachdem der Guru auf diese Weise den Homa-Ritus vollzogen hat, führe er die Gottheiten des Kunda-[Mandala; die Wortverbindung ist im Druck beschädigt], die Hüter der Himmelsrichtungen und die Gottheiten der Keimaussaat in den Kalasha und meditiere über ihre Einheit mit Krishna.“ „Krishna“ ist hier auf die im betreffenden Verfahren behandelte Gottheit bezogen.

S. 306–307, Abschluss des Feuerrituals und Mahavyahritis
(शारदायाम्) उद्वास्य देवतां कुम्भे साङ्गां सावरणां गुरुः |
पुनर्व्याहृतिभिर्हुत्वा जिह्वादीनां विभावसोः ||
एकैकामाहुतिं दत्त्वा परिषिच्याग्निरात्मनि |
पावकं योजयित्वा स्वे परिधीन् सपरिस्तरान् ||
नैमित्तिकं दहेन्मन्त्री नित्ये तु न दहेदिमान् |
व्याहृतिभिर्महाव्याहृतिभिः |
पुनः समापयेद्धोमं महाव्याहृतिपूर्वकम्—इति वचनात् |
तत्प्रकारस्तु (गौतमीये) पूर्णाहुतिं ततो दद्यादग्निश्चैवं विधानवित् |
ॐ भूरग्नये पृथिव्यै च महते स्वाहया तथा ||
भुवो वायवे चान्तरिक्षाय महते स्वाहया तथा |
स्वश्चन्द्रमसे दिग्भ्यश्च नक्षत्रेभ्यश्च स्वाहा ||
ॐ भूर्भुवःस्वश्चन्द्रमसे नक्षत्रभ्यो दिग्भ्यश्च महते स्वाहा |


Lesungshinweise: [meditierend] [agnis: syntaktisch auffällig]

S. 307, Bitte um die erneute Gegenwart des Feuers
पावकं योजयित्वेति तत्प्रकारस्तु (गणेशविमर्शिण्याम्) भो भो वह्ने महाशक्ते सर्वकर्मप्रसाधक |
कर्मान्तरेऽपि संप्राप्ते सान्निध्यं कुरु सादरम् ||
इति मन्त्रेण संप्रार्थ्य वह्निमुद्वासयेदपि—इति |


S. 307, Gabe an den Brahman und das volle Gefäß
(मेरुतन्त्रे) ततो ब्रह्माणमुद्वास्य ब्राह्मणाय प्रदापयेत् |
द्वात्रिंशत्पलमानेन निर्मितं ताम्रपात्रकम् ||
तण्डुलैस्तत् समापूर्य सहिरण्यं सदक्षिणम् |
दद्याद्विप्राय तत्तुष्ट्यै पूर्णपात्रमितीरितम् ||
ततः परिस्तरानग्नौ परिधीन् न क्षिपेदिति |
तन्त्रान्तरे |
अष्टौ मुष्टिर्भवेत् कुञ्चित् कुञ्चिदष्टौ तु पुष्कलः |
पुष्कलानि च चत्वारि पूर्णपात्रं तदुच्यते ||


Lesungshinweise: [den leitenden Ritualpriester beziehungsweise seine rituell eingesetzte Funktion]

S. 307, Verbinden der Augen des Schülers
(शारदायाम्) नेत्रे शिष्यस्य बध्नीयान्नेत्रमन्त्रेण वाससा |
(महाकपिलपञ्चरात्रे) नवेन शुक्लवस्त्रेण नेत्रे बद्ध्वा .... .... इत्युक्तम् |


S. 308, Blumenopfer des Schülers
(पिङ्गलामते) नेत्रवस्त्रेण तन्नेत्रे नेत्रमन्त्रेण बन्धयेत् |
(शारदायाम्) करे गृहीत्वा तं शिष्यं कुण्डतो मण्डलं नयेत् |
तस्याञ्जलिं पुनः पुष्पैः पूरयित्वा यथाविधि ||
कलशे देवताप्रीत्यै क्षेपयेन्मूलमुच्चरन् |
(नारायणीये) न्यासं शिष्यतनौ कृत्वा तं प्रदक्षिणमानयेत् |
पश्चिमं द्वारमानीय क्षेपयेत् कुसुमाञ्जलिम् ||


S. 308, Der Guru öffnet das Auge der Erkenntnis
(मेरुतन्त्रे) नेत्रबन्धमपास्यैवं वेशयेत् कुशसंस्तरे |
ततश्च पाठयेच्छिष्यं मन्त्रमेनं गुरूत्तमः ||
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया |
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ||


Lesungshinweise: [den Schüler]

S. 308–309, Blumenzeichen und erneute Bhutashuddhi
(पिङ्गलामते) पुष्पैरञ्जलिमापूर्य योगपीठे प्रदापयेत् |
पश्चिमोत्तररुद्रेन्द्रैः पुष्पपातः शुभः शुभे ||
आत्मयागः क्रमादूह्यः संहृत्योत्पाद्य देशिकः |
तत्तन्मन्त्रोदितान् न्यासान् कुर्याद्देहे शिशोस्तदा ||
आत्मयागो भूतशुद्धिः |
(प्रयोगसारे) गुणांशेन पृथिव्यादिभूतानि विलयं नयेत् |
यथावत् पिण्डसंस्थानि संहारक्रमयोगतः ||
ततः सृष्टिक्रमेणैव पिण्डं संभवयेत् तदा |
(मन्त्रतन्त्रप्रकाशे) उपाविश्यासने शुद्धे संहरेत् तस्य विग्रहम् |
गन्धादिघ्राणसंयुक्तां पृथिवीमप्सु संहरेत्—इत्यादि ||


Lesungshinweise: [Nordosten] [Osten] [Ritus]

S. 309, Verehrung der Gottheit im Krug
(शारदायाम्) पञ्चोपचारैः कुम्भस्थां पूजयित्वेष्टदेवताम् |
तस्यां तन्त्रोक्तमार्गेण विदध्यात् सकलीकृतिम् ||
एतदनन्तरं देवसकाशाद्वरप्रार्थनमुक्तमाचार्यैः |


S. 309, Bitte um Gnade für den Schüler
कारुण्यनिलये देवि सर्वसन्निधिसंश्रये |
शरण्ये वत्सले मातः कृपामस्मिन् शिशौ कुरु ||
आणवप्रमुखैः पाशैः पाहि तस्य सुरेश्वरि |
दीनस्यास्य दयाधारे कुरु कारुण्यमीश्वरि ||
ऐहिकामुष्मिकैर्भोगैरपि संवर्ध्यतामसौ |
स्वभक्तिः सकला चास्मै दीयतां निष्कलाश्रये—इति ||


S. 309, Übergabe der vollzogenen Verehrung
(क्रियासंग्रहमेरुतन्त्रयोः) ततोऽर्घ्यपात्रमादाय मूलमुच्चार्य मन्त्रवित् |
साधु वासाधु वा कर्म यद्यदाचरितं मया ||
तत् सर्वं देवदेवेश गृहाणाराधनं परम् |
इत्यर्घोदकमुत्सृज्य किंचिद्देवस्य दक्षिणे ||
करे समर्पयेद्विद्वान् कृतमाराधनं ततः |
भक्त्या प्रणम्य देवेशं श्लोकैरेभिः क्षमापयेत् ||


S. 309, Hingebungsvolle Bitte um Annahme und Vergebung
यद्दत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलम् |
निवेदितं च नैवेद्यं तद्गृहाणानुकम्पया ||
आवाहनं न जानामि न जानामि विसर्जनम् |
पूजां चापि न जानामि त्वं गतिः परमेश्वर ||
कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम |
अन्तश्चरेण भूतानां द्रष्टा त्वं परमेश्वर ||


S. 310, Rückkehr der Gottheit in das Herz
(मेरुतन्त्रे) उद्वासयेत् ततो देवं परिवारगणैः सह |
तथा |
देवस्याङ्गे विलीनं तद्रश्मिवृन्दमशेषतः |
तेजोरूपं शिवं ध्यात्वा क्षमस्वेति पुनः पुनः ||
क्षमाप्यारोपयेत् स्वीयहृदम्भोजे तु देवताम् |


S. 310, Gottheiten der Opferreste
(क्रियासंग्रहे) देवतारूपमात्मानं पूजयित्वा विधानतः |
अर्घ्यादिकं विसृज्याथ यजेन्निर्माल्यवासिनम् ||
ऐशान्यां मण्डलं कुर्याद्द्वारपद्मविवर्जितम् |
निर्माल्यभोक्तुः पूजार्थं पञ्चायतनपूजने ||
कर्तव्यानि तु पञ्चैव ईशादीमध्यमर्चयेत् |
लम्बोदरो गणेशस्य तेजश्चण्डो विवस्वतः ||
विष्वक्सेनो हरेः प्रोक्तश्चण्डेश्वरो महेशितुः |
चण्डेश्वरी भवान्यास्तु मन्त्रोहं तादृशं चरेत् ||


Lesungshinweise: [Mandalas] [sie]

S. 310, Darbringung und Tragen der Opferreste
लेह्यचोष्यान्नपानादि निर्माल्यं स्रग्विलेपनम् |
निर्माल्यभोजिने तुभ्यं ददानि श्रीशिवाज्ञया ||
इति नैवेद्यशेषं तु दत्त्वा नत्वा विसर्जयेत् |
तथा |
निर्माल्यं मस्तके धार्यं मूलमन्त्रेण मन्त्रिणा ||


Lesungshinweise: [die Gottheit]

S. 310–311, Sitz und Ausrichtung zur Besprengung
(प्रयोगसारे) अथैशान्यां दिशि यथामन्त्रविन्यस्तविग्रहम् |
पीठस्य चतुरस्रायां वेद्यां दर्भाग्रपाणिना ||
अभिषिञ्चेत् स्वकं शिष्यमात्मतत्त्वानुवर्तिनम् |
(सोमशम्भौ) यागालयादिशीशस्य चरितं स्नानमण्डपे |
कुर्यात् करद्वयायामां वेदीमष्टाङ्गुलोच्छ्रयाम् ||
श्रीपर्ण्यासने तत्र विन्यस्यानन्तमासने |
शिष्यं निवेश्य पूर्वास्यं सकलीकृत्य पूजयेत् ||
तत्रैव |
स्नानं तूदङ्मुखं भुक्तौ पूर्ववक्त्रश्च मुक्तये |
अन्यत्रापि |
मण्डलं त्वैशानिकं कृत्वा मुमुक्षूत्तराननाम् |
भुक्तये पूर्ववक्त्रांश्च शिष्यांस्तत्र निवेशयेत् ||


Lesungshinweise: [Anfangsverbindung sprachlich auffällig]

S. 311, Abhisheka mit dem Kalasha
(शारदायाम्) नदत्सु पञ्चवाद्येषु सार्धं विप्राशिषा गुरुः |
विधिवत् कुम्भमुद्धृत्य तन्मुखस्थान् सुरद्रुमान् ||
शिशोः शिरसि विन्यस्य मातृकां मनसा जपन् |
मूलेन साधितैस्तोयैरभिषिञ्चेत् तमात्मवित् ||
मातृकां विलोममातृकाम् |
क्षायैरान्तैर्वर्णैरभिपूततच्छिरोक्तमन्त्राद्यैः |
इति (क्रमदीपिका-) वचनात् |
शिष्यशिरसि संयोज्य विलोममातृकां जपन् |
मूलमन्त्रं तथा जप्त्वा कुर्याद्देवाभिषेचनम् ||
इति (गौतमीयतन्त्र-) वचनाच्च |
तथा |
पूजितां पुनरादाय वर्धिनीमस्त्ररूपिणीम् |
तस्याः सुसाधितैस्तोयैः सिञ्चेद्रक्षार्थमञ्जसा ||
अवशिष्टेन तोयेन शिष्यमाचामयेद्गुरुः |
ततस्तं सकलीकृत्य देवतात्मानमात्मवित् ||


Lesungshinweise: [die anschließende Verbindung über Reinigung, Kopf und die genannten Mantras ist nicht sicher verständlich] [die Zweige]

S. 312, Vorbereitung zur Mantra-Übertragung
उत्थाय शिष्यो विमले वाससी परिधाय च |
आचम्य वाग्यतो भूत्वा निषीदेत् सन्निधौ गुरोः ||
देवतामात्मनः शिष्ये संक्रान्तां देशिकोत्तमः |
पूजयेद्गन्धपुष्पाद्यैरेक्यं संभावयंस्तयोः ||
दद्याद्विद्यां ततस्तस्मै विनीतायाम्बुपूर्वकम् |
(विशिष्टसंहितायाम्) ततस्तच्छिरसि स्वस्य हस्तं दत्त्वा शतं जपेत् |
अष्टोत्तरशतं वापि दद्यादुदकपूर्वकम् ||


Lesungshinweise: [den Mantra]

S. 312, Übermittlung ins Ohr
(गौतमीये) न्यासजालं तस्य देहे गुरुः संन्यस्य यत्नतः |
दक्षकर्णे वदेन्मन्त्रं त्रिवारं पूर्णमानसः ||
(मेरौ) दक्षकर्णे वदेद्विद्वान् विप्रायोदकपूर्वकम् |
अन्येभ्यस्तु वदेदेवमेव मन्त्रं विचक्षणः ||
(कुलागमे) विद्यां त्रिः कथयेत् कर्णे चाविज्ञाने च वा पुनः |
(दीपिकायाम्) ऋष्यादियुक्तमथ मन्त्रवरं यथावद्भूयस्त्रिशो गुरुरनर्घ्यमवामकर्णे |
अन्यत्रापि |
दक्षकर्णे त्रिशो विद्यामेकोच्चारेण चोच्चरेत् |
एष विधिर्द्विजातीनां स्त्रीशूद्राणां च वामतः ||
तन्त्रान्तरे |
अनयोस्तुल्यफलदो भवत्वेवमुदीरयेत् |
प्रसन्नवदनस्तस्मै शिष्याय मुनिपुङ्गवः ||


S. 313, Übertragung als Licht und Einheit
(मेरुतन्त्रे) स्वतो ज्योतिर्मयीं विद्यां गच्छन्तीं भावयेद्गुरुः |
आगतां भावयेच्छिष्यो नतोऽस्मीति विशेषतः ||
अष्टोत्तरशतं शिष्यः प्रजपेद्गुरुणोदितम् |
अष्टाविंशतिवारं वा ह्यष्टकृत्वोऽथवा जपेत् ||
गुरुदेवात्ममन्त्राणामैक्यं शिष्यो विभावयेत् |
प्रणामं गुरवे कुर्यात् साधको भक्तिमान् मुदा ||


S. 313, Aufrichtung und Segen des Schülers
(क्रियासंग्रहे) पादयोः पतितं शिष्यं तत उत्थापयेद्गुरुः |
उत्तिष्ठ वत्स मुक्तोऽसि सम्यगाचारवान् भव ||
कीर्तिश्रीकान्तिमेधायुर्बलारोग्यं सदास्तु ते |
(गौतमीये) गणेशादिमनुं चोक्त्वा समयान् कथयेद्गुरुः |
गणेशादिमन्त्रदानं पञ्चायतनदीक्षापक्षे |


S. 313, Namensgebung und schriftliche Darstellung der Vidya
(दक्षिणामूर्तिसंहितायाम्) समीपे चक्रराजं च सम्यगभ्यर्च्य देशिकः |
आद्याक्षरेण संलग्नं सुन्दरं नाम कल्पयेत् ||
आत्मानं योजयित्वा तु गुरुभिर्मानवैस्ततः |
स्मर्तव्या गुरवः सर्वे सम्यक् प्रणतिपूर्वकम् ||
भूमौ लिखितां विद्यां च सम्यक् पुष्पादिभिर्यजेत् |
शिष्याय दर्शयेद्विद्यां प्रजपेतां शतधा प्रिये ||
यदि स्यान्महती प्रीतिः शिष्यस्य प्रागातस्य च |
तदैकोच्चारमात्रेण दक्षकर्णे जपेत् पराम् ||


Lesungshinweise: [prāgātasya: Bezug unsicher] [Vidya] Wenn große Zuneigung zu dem Schüler besteht [prāgātasya: Bezug unsicher], spreche man die höchste [Vidya] mit nur einer Rezitation in sein rechtes Ohr.“

S. 313–314, Shrividya-Diksha und drei Tage beim Guru
(तन्त्रराजे) उक्तलक्षणसंपन्नं शिष्यमाचारभूषणम् |
पञ्चषट्कूटविद्याभ्यां शोधितं बहुवासरैः ||
कलशैरभिषिच्याशु श्रीचक्रे संनिवेश्य वै |
आधारे हृदये मूर्ध्नि चक्रं संचिन्त्य मध्यतः ||
स्वान्तादावाद्य संस्थाप्य संपूज्य न्याससंयुताम् |
त्रिशो विद्यां वदेत् कर्णे देव्यात्मापूर्णमानसः ||
देवतागुरुमन्त्रात्मतत्त्वैक्यं भावयेन्मुदा |
शतं जपेत् तदभ्यस्थो निकटे त्रिदिनं वसेत् ||
न चेत् संचारिणी शक्तिर्गुरुमेति न संशयः |
तस्मात् तदन्तिके तस्य पूजादेशादिकृद्वसेत् ||
(गौतमीये) त्रिदिनं निवसेद्भक्त्या सिद्धये गुरुसन्निधौ |
अन्यथा तद्गतं तेजो गुरुमेति न संशयः ||


Lesungshinweise: [die folgende Verbindung über Entnahme und Einsetzen aus dem eigenen Herzen ist sprachlich unsicher] [die Vidya] [der Schüler sie] Man betrachte das Chakra im Adhara, im Herzen und am Scheitel, von der Mitte her [die folgende Verbindung über Entnahme und Einsetzen aus dem eigenen Herzen ist sprachlich unsicher].

S. 314, Dakshina nach der Mantra-Übertragung
(मन्त्रतन्त्रप्रकाशे) आचार्यादनभिप्राप्तः प्राप्तश्चादत्तदक्षिणः |
सततं जप्यमानोऽपि मन्त्रः सिद्धिं न यच्छति ||
सर्वस्वं वा तदर्धं वा वित्तशाठ्यविवर्जितम् |
गुरवे दक्षिणां दत्त्वा ततो मन्त्रग्रहो मतः ||
(तन्त्रान्तरे) गोभूहिरण्यं विपुलं गृहक्षेत्रादिकं बहु |
न चेदर्धं तदर्धं वा तद्दशांशमथापि वा ||
अङ्केशादन्नवस्त्रादि दद्याद्वित्तानुसारतः |


Lesungshinweise: [als vollzogen] [aṅkeśāt: unklare Verbindung] Nachdem man dem Guru ohne Täuschung über das Vermögen alles Eigene oder dessen Hälfte als Dakshina gegeben hat, gilt der Empfang des Mantras [als vollzogen].“ In einem anderen Tantra: „Kühe, Land, reichlich Gold, viele Häuser, Felder und dergleichen; ist dies nicht möglich, die Hälfte, wiederum deren Hälfte oder ein Zehntel davon; [aṅkeśāt: unklare Verbindung], Speise, Kleidung und Weiteres gebe man entsprechend seinen Vermögensverhältnissen.“ Die Forderungen stehen im historischen Ritualtext; die beschädigte Verbindung vor der Speise- und Kleidergabe bleibt offen.

S. 314–315, Dakshina im Brahma-Samhita-Zitat
(ब्रह्मसंहितायाम्) अदक्षिणं कृतं कर्म वृथा नारद निश्चितम् |
वीणां मे दक्षिणां देहि साक्षसूत्रकमण्डलुम् ||
ततो मन्त्रं गृहाण त्वं यथाविधि महामुने |
विधिहीनं कृतं कर्म सिद्धिं नैव प्रयच्छति ||


S. 315, Gaben an Guru, Angehörige und Ritualpriester
(गौतमीये) गुरवे दक्षिणां दद्याद्वित्तार्धं मुक्तितत्परः |
तदर्धं वा ततो दद्याद्यथाशक्त्याथ भक्तितः ||
वित्तशाठ्यं न कुर्वीत कृतेऽनर्थं समावहेत् |
गोभूहिरण्यवस्त्रादि गुरवेऽथ निवेदयेत् ||
गुरुपुत्राय तत्पत्न्यै तच्छिष्येऽपि स्वशक्तितः |
वस्त्रालङ्करणं दद्याद्राज्यमिष्टं यथारुचि ||
ऋत्विग्भ्यो दक्षिणां दद्याद्वस्त्रालङ्कारसंयुताम् |


Lesungshinweise: [Bezug im Druck nicht eindeutig] Dem Sohn des Gurus, dessen Frau [Bezug im Druck nicht eindeutig] und auch seinem Schüler gebe man nach Kräften Kleidung, Schmuck und eine gewünschte Herrschaft, wie es beliebt.

S. 315, Weitere Gaben und innere Ausrichtung auf den Guru
(मेरुतन्त्रे) अलङ्कारांश्च वासांसि दद्यादृत्विग्भ्य आदरात् |
ईश्वरार्पणबुद्ध्या तु द्विजाशीर्भिश्च नन्दितः ||
प्रदद्याद्गुरवे शिष्यः स्वधनार्धं तदर्धकम् |
दशांशं वा प्रदद्याच्च वित्तशाठ्यविवर्जितः ||
गोभूहिरण्यविपिनगृहक्षेत्रादिकं तथा |
अङ्केशादन्नवस्त्रादि दद्याद्वित्तानुसारतः ||
प्रकारान्तरमालम्ब्य गुरुं यत्नेन तोषयेत् |
तदर्थैकमना नित्यं तच्चिन्तनपरायणः ||
तत्पादाब्जरजोभूषो भवेत् साधकसत्तमः |
ततो नानाविधैर्भक्ष्यैर्लेह्यैश्चोष्यैस्तथा परैः ||
ब्राह्मणान् भोजयेत् सम्यक् प्रदद्यात्तहृतर्विजाम् |
(वायवीयसंहितायाम्) मण्डपं गुरवे दद्याद्यागोपकरणैः सह |


Lesungshinweise: [aṅkeśāt: unklare Verbindung] [auch den Ritualpriestern; der Wortschluss ist beschädigt] Dann bewirte man die Brahmanen reichlich mit verschiedenen Speisen zum Kauen, Lecken und Saugen sowie Weiterem und gebe [auch den Ritualpriestern; der Wortschluss ist beschädigt].“ In der Vayaviya-Samhita: „Man gebe dem Guru den Pavillon samt den Opfergeräten.“

S. 315, Japa des Lehrers nach der Übertragung
(नारायणीयमहाकपिलपञ्चरात्रयोः) मन्त्रं दत्त्वा सहस्रं वै स्वसिद्ध्यै देशिको जपेत् |


S. 316, Japa und Unterweisung nach der Diksha
अन्यत्रापि |
अष्टोत्तरं सहस्रं स्वशक्तिहीनानवाप्तये जप्यात् |
(कुलागमे) दण्डवत् प्रणतं शिष्यं सर्वाचारांश्च शिक्षयेत् |
स्नानसन्ध्यासदाचारं नित्यं काम्यं तथैव च ||
मन्त्रसिद्धिप्रकारांश्च शिष्यायाभिवदेद्गुरुः |


Lesungshinweise: [den Mantra]

S. 316, Kein Fasten am Einweihungstag
दीक्षादिवसे उपवासो निषिद्धस्तदुक्तम् (योगिनीतन्त्रे) मन्त्रं दत्त्वा गुरुश्चैव उपवासं य आचरेत् |
महान्धकारे नरके कृमिर्भवति नान्यथा ||
दीक्षां दत्त्वा यदा मन्त्री चोपवासं समाचरेत् |
तस्य देवः सदा रुष्टः शापं दत्त्वा पुरं व्रजेत् ||
(बृहत्सिद्धान्तसारे) हुतशेषं ततः प्राश्य कुक्कुटाण्डप्रमाणकम् |
चतुर्विधं च नैवेद्यं देवतायै यदर्पितम् ||
तद्भक्तेभ्यः प्रदत्त्वा तद्भुञ्जीयातां यथारुचि |
गुरुशिष्याविति शेषः |


S. 316, Shiva-Prasada und Heimkehr
(मेरुतन्त्रे) शैवस्तु शैवनिर्माल्यप्रसादस्याधिकारवान् |
अन्यो निरयमायाति न दोषः पञ्चसंगमे ||
स्वयम्भूतीर्थलिङ्गे वा प्रसादं वापि भक्तितः |
अशैवा वाथ शैवा वा मुच्यन्ते पापराशितः ||
(सिद्धान्तसारे) दिनत्रयं गुरुकुले स्थित्वा तुर्येऽह्नि देवताम् |
अर्चयित्वा गृहं गच्छेद्गुर्वाज्ञां शिरसा वहन् ||


Lesungshinweise: [Gottheiten] [Annahme des]

S. 316–317, Besondere Vorbereitung der Vira-Diksha
अथ वीरदीक्षायां विशेषः |
तत्र भूतशुद्धिमातृकान्यासषोढान्यासादिकं सर्वं गुरुः स्वशरीरे शक्तिशरीरे च विधाय कलशस्थापनं श्रीपात्रादिस्थापनं च कृत्वा दूतीयागक्रमेण कुण्डगोलोत्थद्रव्यमुत्पाद्य संस्कृत्य मत्स्यमांसादीनामपि संस्कारं विधाय वीरपूजाक्रमेण देवतां संपूज्य शिष्याय मन्त्रदानसमये |
शिष्यहस्ते महेशानि पात्रं दत्त्वा कुलेश्वरि—इति |
(वीरचूडामण्यु-) क्तवीरपात्रम् |
इदं पवित्रममृतं पीयतां भवभेषजम् |
पशुपाशसमुच्छेदकारणं भैरवोदितम् ||
इति (कुलार्णव-) क्रमेण शिष्यहस्ते दद्यात् |


Lesungshinweise: [Ritualpartnerin] [rituell bezeichnete sexuelle Körperflüssigkeiten]

S. 317, Inneres Opfer beim Trinken
शिष्योऽप्यनेनैव मन्त्रेण पीयतामित्यत्र पिबामीति पठित्वा— धर्माधर्महविर्दीप्ते स्वात्माग्नौ मनसा स्रुचा |
सुषुम्णा वर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् ||
इत्यादिमन्त्रेण पिबेत् |
ततो गुरुर्मन्त्रं दद्यात् |


S. 317, Schriftliche, mündliche und Gandusha-Übertragung
तत्र (यामले) ऋष्यादिसंहितामेनां लिखित्वा भूमिमध्यगाम् |
पुष्पादिना समभ्यर्च्य शिष्यायाथ प्रदर्शयेत् ||
यदि शिष्ये महाप्रीतिस्तदा कर्णे वदेद्गुरुः |
ततोऽप्यतितरं शिष्यो गुरोश्चेत् प्रीतिभाजनम् ||
तदा गण्डूषपूर्वं हि दद्यादेनां गुरूत्तमः |
निर्विकल्पोऽपि शिष्यस्तां गृह्णीयाद्धृष्टमानसः ||
तदभावे न सिद्धिः स्याद्देवताशापमाप्नुयात् |


Lesungshinweise: [Vidya] [einer im Mund gehaltenen Flüssigkeit]

S. 317–318, Besprengung und Vorbehalte bei Gandusha
(दक्षिणामूर्तिसंहितायाम्) कलशस्थैः पल्लवैस्तु त्रिवारं प्रोक्षयेच्छुभम् |
भवेद्यदाभिषिक्तस्तु तदासौ देशिकाग्रणीः ||
गण्डूषतत्त्वसंयुक्तस्तदा ह्यर्होऽयं शिवार्चने |
अन्यथा नैव सिद्धिः स्यात् सविकल्पस्य पार्वति ||
गण्डूषदाने शिष्यस्य विकल्पो यदि जायते |
न सिद्धिस्तस्य कुत्रापि श्रीविद्यापि पराङ्मुखी ||
शेषं पशुदीक्षासमानम् |


S. 318, Besonderheiten bei der zweiten Vidya
द्वितीयविद्यादीक्षायां विशेष उक्तो (नीलतन्त्रे) अष्टोत्तरसहस्रहोमं बिल्वपत्रेण कारयेत् |
अथ वाष्टशतं कुर्यादष्टाविंशतिमेव वा ||
पायसं कृशरं दद्यान्मोदकं खण्डशर्कराम् |
बलिं दत्त्वा छागलं वै गोधामांसमनुत्तमम् ||
रम्भापुष्पं सारमत्स्यं जुहुयाच्च प्रयत्नतः |
यवक्षीरं ततो हुत्वा शाल्यन्नं मधुना सह ||
गोभूहिरण्यवस्त्राद्यैस्तोषयेद्गुरुमात्मनः—इति |


Lesungshinweise: [genaue Art unsicher] Nachdem man ein Ziegen-Bali dargebracht hat, opfere man sorgfältig vorzügliches Waranfleisch, Bananenblüten und Sara-Fisch [genaue Art unsicher].

S. 318, Abschluss der Kriyavati-Diksha
(मेरुतन्त्रे) एवं क्रियावती दीक्षा संपद्दात्री निरूपिता |
राज्ञां धनाढ्यवैश्यानां विप्राणां व्यवसायिनाम् ||
अथ दीक्षाक्रमः प्रोक्तो भोगयुक्तिसिद्धिमिच्छताम् |
इति क्रियावती दीक्षा परिपूर्णा |


Lesungshinweise: [yukti: im Druck auffälliger Ausdruck]

S. 318, Poetischer Abschluss des vierten Taranga
विभ्रद्रुद्रभूतिभूतवचोवीचिचित्रामृतस्रोतःशालिनि सन्निबन्धनसरित्संभेदमभ्यर्हितम् |
तुर्यः श्रीनरदेवनिर्मितपुरश्चर्यार्णवे प्रस्फुरत्सद्युक्तिस्फुटमौक्तिकोत्कररुचोत्तुङ्गस्तरङ्गो गतः ||


Lesungshinweise: [die erste lange Wortverbindung ist nicht vollständig sicher verständlich] „Im Ozean des Purashcharana, geschaffen vom erhabenen Herrscher, reich an wunderbaren Nektarströmen der Wellen heiliger Worte [die erste lange Wortverbindung ist nicht vollständig sicher verständlich] und geehrt durch den Zusammenfluss der Flüsse guter Lehrwerke, ist die vierte Welle vorübergezogen: hoch aufragend im Glanz der hellen Perlen schlüssiger Darlegungen.“ Der Anfang des kunstvollen Schlussverses ist im Druck sprachlich beschädigt; das Ozean-, Fluss-, Wellen- und Perlenbild wird wiedergegeben, die ungesicherte Verbindung ausdrücklich offengelassen.

S. 318, Kolophon des vierten Taranga
इति श्रीमन्महाराजाधिराजश्रीप्रतापसिंहसाहविरचिते पुरश्चर्यार्णवे क्रियावतीदीक्षाविधिनाम चतुर्थस्तरङ्गः ||
४ ||


Lesungshinweise: [4]

5. Taraṅga: Weitere Verfahren der Diksha

Diese Welle: Deutsch · IAST · Devanagari

Band II, S. 1, Beginn des fünften Taranga
अथ पुरश्चर्यार्णवस्य पञ्चमस्तरङ्गः |
दीक्षाप्रयोगः प्रकाश्यते |


Band II, S. 1, Dreitägige Vorbereitung und Gang zum Guru
तत्रादौ भक्तियुक्तः शिष्यः प्रथमदिने क्षौरादिकं विधाय शरीरशुद्ध्यर्थं तीर्थादौ स्नात्वा गायत्रीसहस्रं प्रजप्य हविष्यं सकृद्भुक्त्वा द्वितीयदिने कृतोपवासस्तृतीयदिवसे कृतनित्यक्रियो वस्त्रालङ्कारादिभिर्देहमलङ्कृत्य विघ्ननिवारणार्थं स्वगृहे गणेशमभ्यर्च्य पुण्याहं वाचयित्वा नान्दीश्राद्धं च विधाय यथोक्तवरणसम्भारानादाय पञ्चवाद्यपुरःसरं गुरुगृहं गच्छेत् |
तत्र च हस्तौ पादौ प्रक्षाल्य कृताञ्जलिर्भक्तिनम्रः—

Band II, S. 1, Bitte um die Übertragung des großen Mantras
भगवन् परमात्मरूपिन् परमकरुणिक श्रीगुरो सकलपुरुषार्थसाधनमहामन्त्रप्रदानेन मामनुगृह्णीष्व इति |
इत्युक्त्वा गुरुं साष्टाङ्गं प्रणम्य तदाज्ञया प्राङ्मुख उदङ्मुखो वाऽऽसने उपविश्य कुशत्रयतिलजलान्यादाय स्वस्तिवाचनपूर्वकं संकल्पं कुर्यात् |
तद्यथा—

Band II, S. 1, Sankalpa und Wahl des Gurus
ॐ विष्णुर्विष्णुः |
ॐ अद्येत्यादि—अमुकगोत्रोत्पन्नोऽमुकदेवशर्मा धर्मार्थकाममोक्षप्राप्तिकामः श्रीमदमुकदेवताया अमुकमन्त्रदीक्षामहं करिष्ये—इति संकल्प्य गुरुं वृणुयात् |
तद्यथा— ॐ साधु भवानास्तात्—इति शिष्यो वदेत् |
ॐ साध्वहमासे—इति गुरुः |
ॐ अर्चयिष्यामो भवन्तम्—इति शिष्यः |
ॐ अर्चय—इति गुरुः |


Band II, S. 1, Verehrung und förmliche Wahl des Lehrers
ततः शिष्यः— श्रीगुरवे नमः—इति मन्त्रेण गुरवे आसनं दत्त्वा तेनैव मन्त्रेण पाद्यादिभिर्गन्धपुष्पधूपदीपवस्त्रालङ्करणाभिश्च गुरुमभ्यर्च्य दक्षिणजानुं भूमौ धृत्वा पठेत्— ॐ अद्येत्यादि—अमुकगोत्रोत्पन्नोऽमुकदेवशर्मा धर्मार्थकाममोक्षप्राप्तिकामः श्रीमदमुकदेवताया अमुकमन्त्रग्रहणायामुकगोत्रममुकप्रवरममुकवेदाध्यायिनममुकदेवशर्माणमेभिः पाद्यादिभिरर्चितं भवन्तं गुरुत्वेनाहं वृणे |
ॐ वृतोऽस्मि—इति प्रतिवचनम् |


Band II, S. 1–2, Auftrag an den Acharya
पुनर्बद्धाञ्जलिना— ॐ अद्येत्यादि—अमुकमन्त्रदीक्षाकर्मणि त्वमाचार्यो भव |
ॐ भवामि—इति प्रतिवचनम् |
भगवन् श्रीगुरो यथाविहितं कर्म कुरु—इति शिष्यो वदेत् |
यथाज्ञानतः करवाणि—इति प्रतिवचनम् |


Band II, S. 2, Wahl der acht Ritualpriester
ततः शिष्यो गुरवे नमस्कारं कुर्यात् |
तथा ततोऽवशिष्टां वरणसामग्रीं गुरवे निवेद्य तच्चरणौ प्रणम्य तदाज्ञया ऋत्विजो वृणुयात् |
तद्यथोक्तोपचारैरुक्तप्रकारेण च तान् प्रत्येकमभ्यर्च्य पठेत्— ॐ अद्येत्यादि—अमुकगोत्रोत्पन्नोऽमुकदेवशर्मा चतुर्वर्गफलप्राप्तिकामः श्रीमदमुकदेवताया मत्कर्तृकामुकमन्त्रदीक्षाकर्मण्यमुकगोत्रममुकप्रवरममुकवेदाध्यायिनममुकशर्माणमेभिः पाद्यादिभिरर्चितं भवन्तमृत्विक्त्वेनाहं वृणे |
ॐ वृतोऽस्मि—इति प्रतिवचनम् |
यथाविहितं कर्म कुरु—इति शिष्यः |
यथाज्ञानतः करवाणि—इति प्रतिवचनम् |
एवमष्टौ ऋत्विजः प्रत्येकं वृणुयात् |
ततः कर्मोपयुक्तसामग्रीं तेभ्यो दत्त्वा तान् प्रणमेत् |


Band II, S. 2, Beginn der Zahnhölzchenprüfung
ततो गुरुः शिष्येण ऋत्विग्भिश्च सहितो यागमण्डपं गत्वा तद्द्वारि उपविश्य दन्तकाष्ठपरीक्षा कर्तव्या पायसभोजनान्तरमेव दन्तकाष्ठपरीक्षा कर्त्तव्या |
(कर्त्तव्या—इति एषां मतैस्तु तस्मिन्नेव काले कर्त्तव्या |
) सा यथा—अश्वत्थोदुम्बरवटप्लक्षादिक्षीरवृक्षसम्भवं द्वादशाङ्गुलप्रमाणं दन्तकाष्ठं देवमूलमन्त्रेणाभिमन्त्र्य गुरुः शिष्याय दद्यात् |


Band II, S. 2, Reinigung und Niederlegen des Zahnhölzchens
शिष्योऽपि हस्तौ पादौ प्रक्षाल्याचम्य गुरुं नत्वा तद्दन्तकाष्ठमादाय दन्तान् विशोध्य वालुकादिनिर्मिते हस्तमात्रे चतुरस्रस्थण्डिले दन्तकाष्ठं त्यक्त्वा शुद्धजलेन गण्डूषपूर्वकमाचमनं कुर्यात् |
ततो गुरुः पूर्वादिदिक्पतितद्दन्तकाष्ठाग्रमालोक्य शुभाशुभफलानि विचारयेत् |
यथा—

Band II, S. 2–3, Deutung der Fallrichtung
दन्तकाष्ठाग्रे पूर्वदिक्पतिते ऐश्वर्यलाभः |
आग्नेयदिक्पतिते हृदयसन्तापः |
दक्षिणदिक्पतिते बन्धुनाशः |
रक्षोदिक्पतिते मरणम् |
पश्चिमदिक्पतिते शोकः |
वायवीयदिक्पतिते व्यग्रता |
उत्तरदिक्पतिते सौख्यम् |
ईशानदिक्पतिते च ज्ञानलाभ इति फलं विचार्य अशुभदिक्पतिते तु तज्जन्यदोषनिवारणार्थम्—

Band II, S. 3, Besänftigendes Homa und allgemeines Arghya
फट् अमुकदोषं जहि जहि फट् स्वाहा—इति मन्त्रेणाष्टोत्तरसहस्रसंख्याकमष्टोत्तरशतसंख्याकं वा होममाज्येन कुर्यात् |
ततो गुरुर्मण्डपद्वारदेशे आसने उपविश्य आचमनप्राणायामौ विधाय सामान्यार्घस्थापनं कुर्यात् |
ततः—

Band II, S. 3, Weihe von Unterlage, Gefäß und Wasser
अस्त्रजलेन भूमिं संप्रोक्ष्य त्रिकोणवृत्तचतुरस्रमण्डलं विलिख्य— ॐ आधारशक्तये नमः—इति मण्डलं संपूज्य तदुपरि आधारं संस्थाप्य— रँ वह्निमण्डलाय दशकलात्मने नमः—इत्याधारं संपूज्य फट्—इति मन्त्रेणार्घपात्रं प्रक्षाल्याधारोपरि संस्थाप्य—नमः—इति जलेनापूर्य— सँ सोममण्डलाय षोडशकलात्मने नमः—इति जलं संपूज्य तस्मिन् जले—

Lesungshinweise: [rufe man die heiligen Gewässer an]

Band II, S. 3, Vers 1: Anrufung der heiligen Flüsse
ॐ गङ्गे च यमुने चैव गोदावरि सरस्वति |
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु ||
१ ||
इत्यङ्कुशमुद्रया सूर्यमण्डलात् तीर्थमावाह्य प्रणवेन गन्धपुष्पं निधाय तेनैव संपूज्य तेनैवाष्टधा दशधा वाभिमन्त्र्य धेनुमुद्रां प्रदर्शयेत् |
ततस्तज्जलेन फट्—इति द्वारमभ्युक्ष्य द्वारपूजां कुर्यात् |
तद्यथा—

Lesungshinweise: [Vers 1]

Band II, S. 3, Gottheiten am oberen Türbalken
ॐ विघ्नेशाय नमः—इति द्वारस्योर्ध्वोदुम्बरे |
मँ महालक्ष्म्यै नमः—इति तद्दक्षिणे |
सँ सरस्वत्यै नमः—इति तद्वामे |
द्वारश्रियै नमः—इति मध्ये |
द्वारस्य दक्षिणशाखायां वामशाखायां चोर्ध्वभागादारभ्य तलपर्यन्तमेता द्वारदेवताः पूजयेत् |
तद्यथा—

Band II, S. 3, Erste Gottheiten an den Türpfosten
गँ गणपतये नमः—इति दक्षिणे |
क्षँ क्षेत्रपालाय नमः—इति वामे |
शँ वसुन्धरायुक्ताय शङ्खनिधये नमः—इति पुनर्दक्षिणे |
पँ वसुमतियुक्ताय पद्मनिधये नमः—इति वामे |
मँ मायाशक्तये नमः—इति दक्षिणे |
चँ चिच्छक्तये नमः—इति वामे |


Band II, S. 4, Weitere Gottheiten an Pfosten und Schwelle
गँ गङ्गायै नमः—इति दक्षिणे |
यँ यमुनायै नमः—इति वामे |
धँ धात्रे नमः—इति दक्षिणे |
वँ विधात्रे नमः—इति वामे |
दँ देहल्यै नमः; अँ अस्त्राय नमः—इति वा देहल्याम् |
एवं पश्चिमद्वारमारभ्य प्रतिद्वारं संपूज्य द्वारपालान् पूजयेत् |


Band II, S. 4, Torhüter verschiedener Gottheiten
तत्र विशेषः शिवपूजायाम्—नन्दिमहाकालगणेशवृषभभृङ्गिस्कन्दभवानीचण्डेश्वरान्—पश्चिमद्वारमारभ्य प्रतिद्वारं क्रमेण द्वौ द्वौ पूजयेत् |
एषां पूजने मन्त्रस्तु—नँ नन्दिने नमः—इत्यादि |
विष्णुपूजायाम्—नन्दसुनन्दचण्डप्रचण्डबलप्रबलभद्रसुभद्राख्यान्—द्वारपालान् पूजयेत् |
गणेशपूजायाम्—वक्रतुण्डैकदंष्ट्रमहोदरगजाननलम्बोदरविकटविराजधूम्रवर्णान्—पूजयेत् |
सूर्यपूजायां देवीपूजायां च—ब्राह्मीमाहेश्वरीकौमारीवैष्णवीवाराहीन्द्राणीचामुण्डामहालक्ष्मीः—पूजयेत् |
त्रिपुरादिपूजायां तु—गणेशक्षेत्रपालवटुकयोगिनीगङ्गायमुनालक्ष्मीसरस्वतीः—पूजयेदिति |


Band II, S. 4, Beseitigung der Hindernisse und Eintritt
ततो देवमन्त्रेण दिव्यदृष्ट्यावलोकनात् दिव्यान् विघ्नानुत्सार्य—अस्त्राय फट्—इति जलक्षेपेणान्तरिक्षगान् विघ्नानुत्सार्य तेनैव मन्त्रेण त्रिभिर्वामपार्ष्णिघातैर्भौमान् विघ्नानुत्सारयेत् |
ततो दक्षिणाङ्गं किंचित् संकोच्य द्वारस्य वामशाखां स्पृशन्नुत्सारितभूतानां निर्गमनार्थं दक्षिणमार्गं ददद्दक्षिणपादपुरःसरं मण्डपान्तः प्रविशेत् |
वाममार्गे तु शक्तिवामपादपुरःसरं मण्डपान्तःप्रवेशः |
तथैव स्त्रीकर्तृकदीक्षायामपि |


Lesungshinweise: [die Wortverbindung ist gedrängt]

Band II, S. 4, Vastu-Verehrung und vier Reinigungen
ततो नैर्ऋत्यां दिशि— ॐ वास्तुपुरुषाय वास्त्वधीशाय ब्रह्मणे नमः—इति पुष्पाक्षतैः संपूज्य प्रणम्य पञ्चगव्यसामान्यार्घतोयाभ्यां मण्डपाभ्यन्तरं संप्रोक्ष्य संस्कारचतुष्टयं कुर्यात् |
तद्यथा—मूलमन्त्रं समुच्चरन् मण्डपाभ्यन्तरं पश्येत् |
फट्—इति सामान्यार्घजलेन तत्रोक्षणं कुर्यात् |
तेनैव मन्त्रेण दर्भैस्ताडयेत् |
हुँ—इति मन्त्रेण सिञ्चेत् |


Band II, S. 4–5, Räucherung und Ausstreuen der sieben Stoffe
ततः श्रीखण्डागुरुकर्पूरादिधूपेन मण्डपाभ्यन्तरं प्रधूप्य लाजाचन्दनसिद्धार्थभस्मदूर्वाकुशाक्षतानिति सप्त विकिरानेकीकृत्य—फट्—इत्यस्त्रमन्त्रेण सप्तधाभिमन्त्र्य— ॐ अपसर्पन्तु ते भूताः ये भूताः भुवि संस्थिताः |
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ||
इति त्रिधा विकिरेत् |
ततस्तान् विकिरानस्त्रमन्त्रमुच्चरन् दर्भमुष्टिना सम्मार्ज्य वर्धन्यासनार्थमीशानकोणे पुञ्जीकृत्य स्थापयेत् |


Band II, S. 5, Bitte an Dipanatha-Bhairava
ततः पुण्याहं वाचयित्वा विप्रान् सन्तोष्य— ॐ दीपनाथभैरवाय नमः—इति तन्नायकं भैरवं संपूज्य बद्धाञ्जलिः प्रार्थयेत् |
तस्मिन् क्षेत्रे दीपनाथ निर्विघ्नसिद्धिहेतवे |
दीक्षायागसमृद्ध्यर्थमनुज्ञां दातुमर्हसि ||
अतितीक्ष्ण महाकाय कल्पान्तदहनोपम |
भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ||


Band II, S. 5, Mandala, Geräte und Reinigung des Wassers
इत्यनुज्ञामादाय—फट्—इति मन्त्रमुच्चरन् वेदिकोपरि गत्वा वेदिकायां मृदा चतुरस्रं स्थण्डिलं निर्माय तदुपरि सर्वतोभद्रमण्डलं विलिख्य पूजोपकरणानि यथास्थानं निवेश्यासनमास्तीर्य वामभागस्य जलपात्रमादाय जलशोधनं कुर्यात् |
तद्यथा— यँ—इति वायुबीजेन संशोध्य—रँ—इत्यग्निबीजेन संदह्य—वँ—इति वरुणबीजेनाप्लाव्य—ॐ आत्मतत्त्वाय स्वाहा, ॐ विद्यातत्त्वाय स्वाहा, ॐ शिवतत्त्वाय स्वाहा—इति त्रिराचम्य—

Lesungshinweise: [seine Unreinheit]

Band II, S. 5, Vers 5: Die Erde als tragender Sitz
अस्त्राय फट्—इत्यासनं संप्रोक्ष्य तदुपरि अष्टदलकमलं विलिख्य— पृथिव्या मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसनपरिग्रहे विनियोगः |
इत्यासनं धृत्वा— ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता |
त्वं च धारय मां नित्ये पवित्रे कुरु चासनम् ||
५ ||
—इति पठित्वा— ह्रीँ आधारशक्तिकमलासनाय नमः—इत्यासनं संपूज्य तदुपरि आत्ममन्त्रमुच्चरन् स्वस्तिकपद्मासनादिक्रमेणोपविश्य संकल्पं कुर्यात् |
यथा—

Lesungshinweise: [den Mantra der] [Vers 5] [rein]

Band II, S. 5–6, Sankalpa zur Puja im Einweihungsritual
ॐ अद्येत्यादि अमुकदेवशर्मामुकगोत्रोऽमुकशर्मकर्तृकामुकदेवताया अमुकमन्त्रदीक्षाकर्मणि यथासम्भवोपचारैरमुकदेवतायाः पूजामहं करिष्ये—इति संकल्पः |


Band II, S. 6, Sonnen-Arghya und Reinigung der Puja-Gaben
ॐ हाँ हीँ सः समग्रराशिनक्षत्रयोगकरणपरिवृतासनस्थितश्रीसूर्याय एष तेऽर्घः स्वाहा—इति सूर्यार्घं दत्त्वा पूजाद्रव्याणि संस्कुर्यात् |
तद्यथा—नाराचमुद्रां बद्ध्वा—हाँ हुँ फट्—इति मन्त्रमुच्चरन् गन्धपुष्पनैवेद्यादीनि समदृष्ट्या विलोकयेत् |
रँ—इति मन्त्रेण दीपशिखां स्पृशेत् |
ततः—

Band II, S. 6, Wassergefäß und dreifache Guru-Verehrung
आँ बीजमुच्चरन् देवतीर्थेन जलं संस्पृश्य जलपात्रं वामहस्तेन धृत्वा— जँ जलाधारपात्राय नमः—इति मन्त्रं पठेत् |
ततः शिरस्यञ्जलिमाधाय वामे— ॐ गुरुभ्यो नमः, ॐ परमगुरुभ्यो नमः, ॐ परापरगुरुभ्यो नमः—इति गुरुत्रयं नत्वा दक्षिणे—गँ गणपतये नमः—मध्ये—अमुकदेवतायै नमः—इति प्रणम्य—

Band II, S. 6, Vers 6: Der Guru zeigt die allumfassende Wirklichkeit
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् |
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ||
६ ||
इति गुरुं पुनर्नत्वा करशुद्धिं कुर्यात् |
यथा—

Lesungshinweise: [Vers 6]

Band II, S. 6, Vers 7: Handreinigung und Schutzgebet
हसौँः—इति मन्त्रेण चन्दनाक्तं पुष्पमादाय—फट्—इति मन्त्रेण कराभ्यां सम्मर्द्य तत् पुष्पं वामहस्तेनादाय शिरसि परिभ्राम्य प्रणवं जपन्नाघ्राय— हौँ ॐ ते सर्वे विलयं यान्तु ये मां हिंसन्ति हिंसकाः |
मृत्युरोगभयक्लेशाः पतन्तु रिपुमस्तके ||
७ ||
इति पठित्वा—फट्—इति मन्त्रेण नाराचमुद्रया ईशाने त्यजेत् |


Lesungshinweise: [Vers 7]

Band II, S. 6–7, Schutz der Richtungen und Auflösung der Tattvas
ततोऽस्त्रमन्त्रेण ऊर्ध्वोर्ध्वक्रमेण तालत्रयपुरःसरं छोटिकाभिर्दशदिग्बन्धनं विधाय तज्जनिततेजो वह्निप्राकारमुद्रया संरक्ष्य मूलेन तद्बीजेन प्रणवेन वा प्राणायामत्रयं कृत्वा भूतशुद्धिं कुर्यात् |
यथा—स्वाङ्के उत्तानौ करौ कृत्वा—सोऽहम्—इति जीवात्मानं प्रदीपकलिकाकारं हृत्पद्मासनमूलाधारस्थितकुण्डलिन्या सह सुषुम्णावर्त्मना मूलाधारस्वाधिष्ठानमणिपूरकानाहतविशुद्धाज्ञाख्यं षट्चक्राणि भित्त्वा शिरोऽवस्थिताधोमुखसहस्रदलकमलकर्णिकान्तर्गतपरमात्मनि संयोज्य तत्र पृथिव्यप्तेजोवाय्वाकाशगन्धरसरूपस्पर्शशब्दनासिकाजिह्वाचक्षुस्त्वक्श्रोत्रवाक्पाणिपादपायूपस्थप्रकृतिमनोबुद्ध्यहङ्काराख्यानि चतुर्विंशतितत्त्वानि उक्तक्रमेण लीनानि विभाव्य—

Band II, S. 7, Wind- und Feuerreinigung
यँ—इति वायुबीजं धूम्रवर्णं वामनासापुटे विचिन्त्य तस्य षोडशवारजपेन वायुना देहमापूर्य नासापुटौ धृत्वा पञ्चाशद्वारजपेन चतुःषष्टिवारजपेन वा कुम्भकं कृत्वा वामकुक्षिस्थकृष्णवर्णपापपुरुषेण सह देहं संशोध्य पञ्चाशद्वारजपेन द्वात्रिंशद्वारजपेन वा दक्षनासया वायुं रेचयेत् |
एवमग्रेऽपि संख्याविकल्पो बोध्यः |
ततो दक्षनासापुटे—रँ—इति वह्निबीजं रक्तवर्णं ध्यात्वा तस्य षोडशवारजपेन देहमापूर्य नासापुटौ धृत्वा चतुःषष्टिवारजपेन कुम्भकं कृत्वा पापेन सह दग्ध्वा तस्य द्वात्रिंशद्वारजपेन वामनासया भस्मना सह वायुं रेचयेत् |


Lesungshinweise: [den Körper]

Band II, S. 7, Erneuerung durch Mondnektar und Rückkehr des Jiva
ठँ—इति चन्द्रबीजं शुक्लवर्णं वामनासिकायां धृत्वा तस्य षोडशवारजपेन ललाटे चन्द्रं नीत्वा सहस्रदलकमलकर्णिकान्तं परमात्मानं चन्द्ररूपं विभाव्य—वँ—इति वरुणबीजस्य चतुःषष्टिवारजपेन तस्माल्ललाटचन्द्राद्गलितसुधया मातृकावर्णात्मिकया समस्तदेहमाप्लाव्य—लँ—इति पृथ्वीबीजस्य द्वात्रिंशद्वारजपेन देहं सुदृढं विचिन्त्य दक्षिणेन वायुं रेचयेत् |
ततः परमात्मनि लीनानि पञ्चभूतान्युक्तक्रमेण यथास्थानं निवेश्य देवताराधनयोग्यं तेजोरूपं देहमुत्पन्नं विभाव्य—हँसः—इति जीवात्मानं परमात्मनः समाकृष्य हृत्पद्मे स्थापयित्वा देवतारूपमात्मानं विचिन्तयेत् |
इति भूतशुद्धिं विधाय—

Band II, S. 7, Einsetzen von Prana und Sinnen
आँ सोऽहं मम प्राणा इह प्राणा इह स्थिताः, आँ सोऽहं मम जीव इह जीव इह स्थितः, आँ सोऽहं मम सर्वेन्द्रियाणि वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणानि इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा |
इति स्वहृदि प्राणस्थानं कृत्वा मातृकान्यासं कुर्यात् |
यथा—

Band II, S. 7, Zuordnungen des Matrika-Sarasvati-Mantras
अस्य श्रीमातृकासरस्वतीमन्त्रस्य ब्रह्मा ऋषिर्गायत्री छन्दो मातृकासरस्वती देवता हलो बीजानि स्वराः शक्तयो व्यक्तयः कीलकानि शरीरशुद्धिपुरःसरमभीष्टसिद्ध्यर्थे लिपिन्यासे विनियोगः |
शिरसि—ब्रह्मणे ऋषये नमः |
मुखे—गायत्र्यै छन्दसे नमः |
हृदि—मातृकासरस्वत्यै देवतायै नमः |
गुह्ये—हल्भ्यो बीजेभ्यो नमः |
पादयोः—स्वरेभ्यः शक्तिभ्यो नमः |
सर्वाङ्गेषु—व्यक्तिभ्यः कीलकेभ्यो नमः |
लिपिन्यासे विनियोगः—इति बद्धाञ्जलिः |
ततः कराङ्गन्यासौ—

Band II, S. 7–8, Kara- und Anga-Nyasa der Matrika
अँ कँ खँ गँ घँ ङँ आँ अङ्गुष्ठाभ्यां नमः |
इँ चँ छँ जँ झँ ञँ ईँ तर्जनीभ्यां स्वाहा |
उँ टँ ठँ डँ ढँ णँ ऊँ मध्यमाभ्यां वषट् |
एँ तँ थँ दँ धँ नँ ऐँ अनामिकाभ्यां हुँ |
ओँ पँ फँ बँ भँ मँ औँ कनिष्ठिकाभ्यां वौषट् |
अँ यँ रँ लँ वँ शँ षँ सँ हँ लँ क्षँ अँः करतलकरपृष्ठाभ्यां अस्त्राय फट् |
एवं हृदयादिषु—अँ कँ खँ गँ घँ ङँ आँ हृदयाय नमः—इत्यादि न्यसेत् |


Band II, S. 8, Vers 8: Dhyana der Sprachgöttin
ततो ध्यानम् |
यथा— पञ्चाशल्लिपिभिर्विभक्तमुखदोष्पन्मध्यवक्षःस्थलीं भास्वन्मौलिनिबद्धचन्द्रशकलामापीनतुङ्गस्तनीम् |
मुद्रामक्षगुणं सुधाढ्यकलशं विद्यां च हस्ताम्बुजैर्बिभ्राणां विशदप्रभां त्रिनयनां वाग्देवतामाश्रये ||
८ ||
एवं ध्यात्वा केवलान् सविसर्गान् वा अकारादिक्षकारान्तान् वर्णान् ललाटादिस्थानेषु न्यसेत् |
तद्यथा—

Lesungshinweise: [Vers 8] [in Gestalt eines Buches]

Band II, S. 8, Vokal-Nyasa an Kopf und Gesicht
अः नमः—ललाटे |
आः नमः—मुखवृत्ते |
इः नमः—दक्षनेत्रे |
ईः नमः—वामनेत्रे |
उः नमः—दक्षकर्णे |
ऊः नमः—वामकर्णे |
ऋः नमः—दक्षनासापुटे |
ॠः नमः—वामनासापुटे |
ऌः नमः—दक्षगण्डे |
ॡः नमः—वामगण्डे |
एः नमः—ओष्ठे |
ऐः नमः—अधरे |
ओः नमः—ऊर्ध्वदन्ते |
औः नमः—अधोदन्ते |
अँः नमः—ब्रह्मरन्ध्रे |
अः नमः—मुखे |


Band II, S. 8, Laut-Nyasa an den Armen
कः नमः—दक्षबाहुमूले |
खः नमः—दक्षकूर्परे |
गः नमः—दक्षमणिबन्धे |
घः नमः—दक्षाङ्गुलिमूलेषु |
ङः नमः—दक्षाङ्गुल्यग्रेषु |
चः नमः—वामबाहुमूले |
छः नमः—वामकूर्परे |
जः नमः—वाममणिबन्धे |
झः नमः—वामाङ्गुलिमूलेषु |
ञः नमः—वामाङ्गुल्यग्रेषु |


Band II, S. 8–9, Laut-Nyasa an den Beinen
टः नमः—दक्षपादमूले |
ठः नमः—दक्षजानुनि |
डः नमः—दक्षगुल्फे |
ढः नमः—दक्षपादाङ्गुलिमूलेषु |
णः नमः—दक्षपदाङ्गुल्यग्रेषु |
तः नमः—वामपादमूले |
थः नमः—वामजानुनि |
दः नमः—वामगुल्फे |
धः नमः—वामपादाङ्गुलिमूलेषु |
नः नमः—वामपादाङ्गुल्यग्रेषु |


Band II, S. 9, Laut-Nyasa an Rumpf und ausstrahlenden Bahnen
पः नमः—दक्षपार्श्वे |
फः नमः—वामपार्श्वे |
बः नमः—पृष्ठे |
भः नमः—नाभौ |
मः नमः—उदरे |
यः नमः—हृदये |
रः नमः—दक्षांशे |
लः नमः—ककुदि |
वः नमः—वामांशे |
शः नमः—हृदयादिदक्षिणकरे |
षः नमः—हृदयादिवामकरे |
सः नमः—हृदयादिदक्षिणपादे |
हः नमः—हृदयादिवामपादे |
लः नमः—हृदयाद्युदरे |
क्षः नमः—हृदयादिमुखे व्यापकः |
इति सृष्टिक्रमः |


Band II, S. 9, Vers 9: Matrika in der Erhaltung
अथ स्थितिक्रमः—तत्र ऋष्यादिकराङ्गन्यासान्तं पूर्ववद्विधाय ध्यायेत् |
यथा— सिन्दूरकान्तिममिताभरणां त्रिनेत्रां विद्याक्षसूत्रमृगपोतवरान् दधानाम् |
पार्श्वे स्थितां भगवतीमपि काञ्चनाभां ध्यायेत् कराब्जधृतपुस्तकवर्णमालाम् ||
९ ||
एवं ध्यात्वा—

Lesungshinweise: [Vers 9]

Band II, S. 9, Reihenfolge und Nasale beim Erhaltungs-Nyasa
ॐ नमः—दक्षगुल्फे इत्यादि क्षँ नमः—हृदयादिमुखे इत्यन्तं विन्यस्य पुनः—अँः नमः—ललाटे इत्यादि ठँ नमः—दक्षजानुनि इत्यन्तं विसर्गानुस्वारयुक्तान् डादिठान्तान् वर्णान् न्यसेत् |
इति स्थितिक्रमः |


Lesungshinweise: Lesungshinweis: Am Anfang steht in der neuen Ausgabe das Zeichen Om, während die ältere Ausgabe an der entsprechenden Stelle einen nasalierten Laut liest; die genaue Lautform wird nicht vereinheitlicht.

Band II, S. 9, Vers 10: Matrika in der Auflösung
अथ संहारक्रमः—अत्रापि ऋषिन्यासादिकं पूर्ववद्विधाय ध्यानम् |
यथा— अक्षस्रजं हरिणपोतमुदग्रटङ्कविद्यां करैरविरतं दधतीं त्रिनेत्राम् |
अर्धेन्दुमौलिमरुणामरविन्दवासां वर्णेश्वरीं प्रणमत स्तनभारनम्राम् ||
१० ||
एवं ध्यात्वा—

Lesungshinweise: [Vers 10]

Band II, S. 9, Umgekehrte Lautfolge
क्षँ नमः—हृदयादिमुखे इत्यादिबिन्दुयुक्तान् क्षकाराद्यकारान्तवर्णान् तत्तत्स्थानेषु न्यसेत् |
इति संहारक्रमः |


Band II, S. 10, Reihenfolge der drei äußeren Nyasas
अत्र पूर्वं सृष्टिक्रमेण ततः स्थितिक्रमेण ततः संहारक्रमेण न्यासो यतिवानप्रस्थादिभिः कार्यः |
पूर्वं स्थितिक्रमेण ततः संहारक्रमेण ततः सृष्टिक्रमेण न्यासो ब्रह्मचारिभिः कार्यः |
गृहस्थैस्तु प्रथमं संहारक्रमेण ततः सृष्टिक्रमेण ततः स्थितिक्रमेण न्यासः कार्यः |
अयं त्रिविधोऽपि बहिर्मातृकान्यासः |


Band II, S. 10, Innerer Matrika-Nyasa
अथान्तर्मातृकान्यासः—तत्र मूलाधारध्वनिश्रवणप्रबुद्धकुण्डलिनीसंमृष्टसहस्रदलकमलात् सुषुम्णामार्गेण निर्गतानमृतमयान् मातृकावर्णान् निजदेहमभिव्याप्य स्थितान् ध्यात्वा कण्ठस्थविशुद्धाख्यषोडशदलकमलदलेषु पूर्वदलादिक्रमेण प्रणवादिनमोऽन्तान् सबिन्दूनकारादिषोडशस्वरान् मनसा विन्यसेत् |
यथा—ॐ अँ नमः—इत्यादि |
ततो हृदयस्थानाहताख्यद्वादशदलकमलदलेषु तेनैव क्रमेण ककारादिठकारान्तान् वर्णान् न्यसेत् |
ततो नाभिस्थमणिपूरकाख्यदशदलकमलदलेषु डकारादिफकारान्तान् दशवर्णान् न्यसेत् |
ततो लिङ्गमूलस्थस्वाधिष्ठानाख्यषड्दलकमलदलेषु बकारादिलकारान्तान् वर्णान् न्यसेत् |
ततो मूलाधाराख्यचतुर्दलकमलदलेषु वकारादिसकारान्तांश्चतुरो वर्णान् न्यसेत् |
ततो भ्रूमध्यस्थिताज्ञाख्यद्विदल कमलदलयोर्द्वौ वर्णौ हकारक्षकारौ विन्यसेत् |
इत्यन्तर्मातृकान्यासः |


Band II, S. 10, Grundlagen des inneren Pitha
ततश्च स्वस्वकल्पोक्तन्यासान्तराणि विधाय मूलमन्त्रस्य ऋष्यादिन्यासं च कृत्वा पीठन्यासं कुर्यात् |
यथा—ॐ आधारशक्तये नमः |
ॐ मूलप्रकृत्यै नमः |
ॐ कूर्माय नमः |
ॐ अनन्ताय नमः |
ॐ वराहाय नमः |
ॐ पृथिव्यै नमः |
ॐ क्षीरसमुद्राय नमः |
ॐ श्वेतद्वीपाय नमः |
ॐ मणिमण्डपाय नमः |
ॐ कल्पवृक्षाय नमः |
ॐ मणिवेदिकायै नमः |
ॐ रत्नसिंहासनाय नमः |
एतत् सर्वं हृदि |


Band II, S. 10–11, Eigenschaften als Träger des Sitzes
ॐ धर्माय नमः—दक्षिणस्कन्धे |
ॐ ज्ञानाय नमः—वामस्कन्धे |
ॐ वैराग्याय नमः—वामोरौ |
ॐ ऐश्वर्याय नमः—दक्षिणोरौ |
ॐ अधर्माय नमः—मुखे |
ॐ अज्ञानाय नमः—वामपार्श्वे |
ॐ अवैराग्याय नमः—नाभौ |
ॐ अनैश्वर्याय नमः—दक्षिणपार्श्वे |
ॐ अनन्ताय नमः—हृदि |


Band II, S. 10–11, Lotus, Lichtkreise, Gunas und Selbst
ॐ पद्माय नमः |
ॐ आनन्दकन्दाय नमः |
ॐ संविन्नालाय नमः |
ॐ सर्वतत्त्वात्मकपद्माय नमः |
ॐ प्रकृतिमयपत्रेभ्यो नमः |
ॐ विकारमयकेशरेभ्यो नमः |
ॐ पञ्चाशद्वर्णबीजाढ्यकर्णिकायै नमः |
ॐ अँ सूर्यमण्डलाय द्वादशकलात्मने नमः |
ॐ उँ सोममण्डलाय षोडशकलात्मने नमः |
ॐ मँ वह्निमण्डलाय दशकलात्मने नमः |
सँ सत्त्वाय नमः |
रँ रजसे नमः |
तँ तमसे नमः |
आँ आत्मने नमः |
अँ अन्तरात्मने नमः |
पँ परमात्मने नमः |
ह्रीँ ज्ञानात्मने नमः |
इत्यन्तं विन्यस्य हृत्पद्मस्य पूर्वादिकेशरेषु स्वकल्पोक्तपीठशक्तीर्विन्यस्य पीठमन्त्रं पठित्वा—

Band II, S. 11, Innere Puja und Einheit mit der Gottheit
अमुकदेवतायोगपीठाय नमः—इति पीठन्यासं विधाय देहात्मके पीठे देवतां ध्यात्वा मानसैरुपचारैः पूजयेत् |
तत्रायं क्रमः |
उक्तपीठन्यासक्रमेण स्वदेहे आधारशक्त्यादियोगपीठान्तं मनसैव संपूज्य तस्मिन् पीठे यथोक्तां देवतां ध्यात्वा—सोऽहम्—इत्यैक्यं विभाव्य गन्धपुष्पधूपदीपनैवेद्यादीन् मानसोपचारान् समर्प्य मानसहोमं कुर्यात् |


Band II, S. 11, Vers 11: Geistiges Homa
यथा—अहङ्कारासत्यपैशून्यकामक्रोधलोभमोहमदमात्सर्यादिरूपं हविर्मनोरूपं स्रुवं सुषुम्णारूपां स्रुचं परिकल्प्य मूलाधारे आत्मान्तरात्मपरमात्मज्ञानात्मरूपचतुःकोणमग्निकुण्डं विचिन्त्य तत्र कुण्डलिनीरूपं प्रज्वलद्वह्निं ध्यात्वा मनसैव मूलमन्त्रमुच्चार्य तदन्ते— धर्माधर्महविर्दीप्ते स्वात्माग्नौ मनसा स्रुचा |
सुषुम्णावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् ||
११ ||
इति श्लोकं पठित्वा—

Lesungshinweise: [11]

Band II, S. 11–12, Die sieben geistigen Opfergaben
पुण्यं जुहोमि स्वाहा—इति प्रथमाहुतिः |
पुनर्मूलान्ते तमेव श्लोकं पठित्वा—पापं जुहोमि स्वाहा—इति द्वितीयाहुतिः |
एवं मूलान्ते तमेव श्लोकं पठित्वा—कृत्यं जुहोमि स्वाहा—इति तृतीयाहुतिः |
एवम्—अकृत्यं स्वाहा—इति चतुर्थाहुतिः |
संकल्पं जुहोमि स्वाहा—इति पञ्चमाहुतिः |
विकल्पं जुहोमि स्वाहा—इति षष्ठाहुतिः |
धर्मं जुहोमि स्वाहा—इति सप्तमाहुतिः |
एवमाहुतीर्हुत्वा पूर्णाहुतिं कुर्यात् |


Band II, S. 12, Vers 12: Vollständige Hingabe im inneren Feuer
यथा मूलमन्त्रान्ते—प्रकाशामर्षहस्ताभ्यामवलम्ब्योन्मनीस्रुवम् |
धर्माधर्मकलास्नेहं पूर्णवह्नौ जुहोम्यहं स्वाहा ||
१२ ||
इति पूर्णाहुतिं विधाय समस्तोपाधिविनिर्मुक्तं सच्चिदानन्दात्मकमात्मानं स्मृत्वा मूलमन्त्रमष्टोत्तरशतं प्रजप्य तं जपं देवतायै निवेदयेत् |
क्वचित् तु होमात् पूर्व उक्तजपः |
इत्यन्तर्यागविधिः |


Lesungshinweise: [Vers 12] Lesungshinweis: Amarsha ist hier eine unsichere Bezeichnung; eine vermutete Lesung Vimarsha wird nicht eingesetzt.

Band II, S. 12, Vorbereitung der Kalasha-Unterlage
ततो द्वारपूजोक्तविधिना स्वदक्षिणे सामान्यार्घं संस्थाप्य कलशस्थापनं कुर्यात् |
तद्यथा स्ववामे—अस्त्राय फट्—इति सामान्यार्घजलेन भूमिं संप्रोक्ष्य तत्र बिन्दुषट्कोणवृत्तचतुरस्रात्मकं मण्डलं विलिख्य मूलान्ते—अमुकदेवताकलशाधारमण्डलाय नमः—इति संपूज्य—फट्—इत्याधारं प्रक्षाल्य मूलान्ते—अमुकदेवताकलशाधारं स्थापयामि नमः—इत्याधारं संस्थाप्य मँ वह्निमण्डलाय दशकलात्मने नमः इति संपूज्य—

Band II, S. 12, Aufstellung und Füllung des Kalasha
पूर्ववत् कलशं प्रक्षाल्य वस्त्रमाल्यादिभिरलङ्कृत्य मूलान्ते—अमुकदेवताकलशं स्थापयामि नमः—इति संस्थाप्य अँ सूर्यमण्डलाय द्वादशकलात्मने नमः इति संपूज्य मूलमन्त्रमुच्चरन् शुद्धजलेन कलशं पूरयेत् |
वामाचारे तु हेतुद्रव्येण पूरयेत् |
श्यामारहस्यादौ तु तथा दर्शनात् |
ततः—ॐ सोममण्डलाय षोडशकलात्मने नमः—इति तज्जलं संपूज्य—

Lesungshinweise: [dem rituell verwendeten berauschenden Getränk]

Band II, S. 13, Vollendung der Kalasha-Weihe
गङ्गे च यमुने चैव—इत्यादिनाङ्कुशमुद्रया सूर्यमण्डलात् तीर्थमावाह्यास्त्रेण संरक्ष्य कवचेनावगुण्ठ्य मूलमन्त्रेण संवीक्ष्य तेनैवाभ्युक्ष्य मूलान्ते—अमुकदेवताकलशामृताय नमः—इति गन्धपुष्पादिभिरभ्यर्च्य मत्स्यमुद्रयाच्छाद्य—ॐ कलशस्य मुखे विष्णुः—इत्यादि पठित्वा मूलमन्त्रमष्टधा जपित्वा कुम्भमुद्रां प्रदर्श्य कलशं देवतात्मकं भावयेत् |
इति कलशस्थापनविधिः |


Band II, S. 13, Aufstellung der Muschelunterlage
ततः शङ्खस्थापनं कुर्यात्—तद्यथा कलशाद्दक्षिणे स्ववामे—अस्त्राय फट्—इति सामान्यार्घजलेन भूमिं संप्रोक्ष्य तत्र त्रिकोणवृत्तचतुरस्रमण्डलं मत्स्यमुद्रया विलिख्य—ॐ अमुकदेवताशङ्खाधारमण्डलाय नमः—इति गन्धपुष्पाभ्यां मण्डलं संपूज्य चतुरस्रस्याग्नेयादिषु चतुर्षु कोणेषु पुरतो दिक्षु च षडङ्गमन्त्रैः संपूज्य—फट्—इत्याधारं जलेन प्रक्षाल्य मूलमन्त्रान्ते—अमुकदेवताशङ्खाधारं स्थापयामि नमः—इत्याधारं संस्थाप्य मँ रँ धर्मप्रददशकलात्मने वह्निमण्डलायामुकदेवताशङ्खाधाराय नमः—इत्याधारं संपूज्य पूर्वादितः प्रादक्षिण्यक्रमेण वह्नेर्दशकलाः पूजयेत् |
तद्यथा—

Band II, S. 13, Zehn Feuer-Kalas
यँ धूम्रार्चिषे नमः |
रँ ऊष्मायै नमः |
लँ ज्वलिन्यै नमः |
वँ ज्वालिन्यै नमः |
शँ विस्फुलिङ्गिन्यै नमः |
षँ सुश्रियै नमः |
सँ सुरूपायै नमः |
हँ कपिलायै नमः |
लँ हव्यवाहायै नमः |
क्षँ कव्यवाहायै नमः |
इति अशक्तश्चेत्—वह्नेर्धूम्रार्चिरादिदशकलाभ्यो नमः—इति पूजयेत् |


Lesungshinweise: [hier mit langem A]

Band II, S. 13–14, Muschelgefäß und zwölf Sonnen-Kalas
ततः शङ्खम्—फट्—इति प्रक्षाल्य मूलान्ते—अमुकदेवताशङ्खं स्थापयामि नमः—इत्याधारोपरि शङ्खं संस्थाप्य—अँ अर्थप्रदद्वादशकलात्मने सूर्यमण्डलायामुकदेवताशङ्खपात्राय नमः—इति शङ्खं संपूज्य शङ्खे षट्कोणं च संभाव्य षट्कोणेषु षडङ्गमन्त्रैः संपूज्य पूर्वादितः प्रादक्षिण्यक्रमेण सूर्यस्य तपिन्यादिद्वादशकलाः पूजयेत् |
तद्यथा—कँ भँ तपिन्यै नमः |
खँ बँ तापिन्यै नमः |
गँ फँ धूम्रायै नमः |
छँ दँ सुषुम्णायै नमः |
ञँ थँ भोगदायै नमः |
झँ तँ विश्वायै नमः |
घँ पँ मरीच्यै नमः |
ङँ नँ ज्वालिन्यै नमः |
चँ धँ रुच्यै नमः |
जँ णँ बोधिन्यै नमः |
टँ ढँ क्षमायै नमः |
ठँ डँ धारिण्यै नमः |
अशक्तश्चेत्—सूर्यस्य तपिन्यादिद्वादशकलाभ्यो नमः—इति पूजयेत् |


Lesungshinweise: [hier mit langem A]

Band II, S. 14, Umgekehrte Matrika beim Füllen der Muschel
ततो मूलान्ते—क्षँ हँ सँ षँ शँ वँ लँ रँ यँ मँ भँ बँ फँ पँ नँ धँ दँ थँ तँ णँ ढँ डँ ठँ टँ ञँ झँ जँ छँ चँ ङँ घँ गँ खँ कँ अँः अँ औँ ओँ ए ऐ लृँ लँ ॠँ ऋँ ऊँ उँ ईँ इँ आँ अँ |
इति विलोममातृकावर्णानुच्चार्य—अमुकदेवताशङ्खममृतेन पूरयामि नमः—इति विमलजलेन शङ्खमापूर्य—उँ सँ कामप्रदषोडशकलात्मने चन्द्रमण्डलाय नमः—इति गन्धपुष्पादिभिः शङ्खजलं संपूज्य उक्तक्रमेण चन्द्रस्यामृतादिषोडशकलाः पूजयेत् |
यथा—

Band II, S. 14, Sechzehn Mond-Kalas
अँ अमृतायै नमः |
आँ मानदायै नमः |
इँ पूषायै नमः |
ईँ पुष्ट्यै नमः |
उँ तुष्ट्यै नमः |
ऊँ रत्यै नमः |
ऋँ धृत्यै नमः |
ॠँ शशिन्यै नमः |
ऌँ चन्द्रिकायै नमः |
ॡँ कान्त्यै नमः |
एँ ज्योत्स्नायै नमः |
ऐँ श्रियै नमः |
ओँ प्रीत्यै नमः |
औँ अङ्गदायै नमः |
अँ पूर्णायै नमः |
अँः पूर्णामृतायै नमः—इति |
अशक्तश्चेत्—चन्द्रस्यामृतादिषोडशकलाभ्यो नमः—शक्तश्चेत् प्रत्येकमावाह्य प्राणप्रतिष्ठां कृत्वा पाद्यादिभिः पूजयेत् |
ततो गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपदूर्वास्तत्र निःक्षिप्य—

Band II, S. 15, Belebung des Muschelwassers
ॐ गङ्गे च यमुने चैव—इत्यादिनाङ्कुशमुद्रया सूर्यमण्डलात् तीर्थमावाह्य मूलमन्त्रेण तस्मिञ्जले तीर्थं संयोज्य—वौषट्—इति पुष्पं निःक्षिप्य—वषट्—इति गालिनीमुद्रां प्रदर्श्य—वँ—इति धेनुमुद्रयामृतीकृत्य मूलान्ते—अमुकदेवते इहागच्छ इह तिष्ठ—इति हृदयाद्देवतां तत्रावाह्य वाहनादिमुद्राः प्रदर्श्य षडङ्गमन्त्रैः सकलीकृत्य दिक्षु अस्त्रेण संरक्ष्य कवचेनावगुण्ठ्य—वौषट्—इति संवीक्ष्य शङ्खमुद्रयावष्टभ्य योनिमुद्रया प्रदीप्य मूलमन्त्रेण गन्धपुष्पादिभिरिष्टदेवतां तत्र संपूज्य षडङ्गानि च संपूज्य मत्स्यमुद्रयाच्छाद्य मूलमन्त्रमष्टधा जपेत् |
इति शङ्खस्थापनविधिः |


Lesungshinweise: [so die gedruckte Lesung] Nach dem Mula-Mantra rufe man die Gottheit aus dem Herzen herbei: „So und so genannte Gottheit, komm hierher, verweile hier.“ Man zeige die Mudras von Vahana an [so die gedruckte Lesung], vollziehe Sakalikarana mit den sechs Anga-Mantras, schütze die Richtungen mit dem Waffen-Mantra und verhülle mit dem Schutzpanzer-Mantra.

Band II, S. 15, Aufstellung des Besprengungsgefäßes
ततः शङ्खजलं किंचित् कलशजले निःक्षिप्य सामान्यार्घस्य दक्षिणपार्श्वे पाद्यपात्रार्थं किंचित् स्थलमुक्त्वा प्रोक्षणीपात्रं स्थापयेत् |
तद्यथा—सामान्यार्घोदकेन त्रिकोणवृत्तात्मकं मण्डलं कृत्वा—नमः—इति प्रपूज्य साधारं प्रोक्षणीपात्रमस्त्रमन्त्रितजलेन प्रक्षाल्य तदुपरि संस्थाप्य—ॐ गङ्गे च यमुने—इत्यादिना जलेनापूर्य—नमः—इति गन्धपुष्पाभ्यां संपूज्य प्रणवेन कुशपुष्पयवादिकं प्रक्षिप्य प्रणवेनैव त्रिधाभिमन्त्र्य धेनुमुद्रां प्रदर्श्य किंचित् सामान्यार्घजलं तज्जले निःक्षिपेत् |
इति प्रोक्षणीपात्रस्थापनविधिः |


Band II, S. 15, Fußwaschwasser und besonderes Arghya
ततस्तत्पार्श्वे सामान्यार्घस्थापनवत् पाद्यपात्रं संस्थाप्य उशीरगोरोचनश्यामाकदूर्वाविष्णुक्रान्तादिद्रव्याणि तज्जले निःक्षिप्य तद्वामपार्श्वस्थितसामान्यार्घवामपार्श्वे स्वपुरतो विशेषार्घस्थापनं कुर्यात् |
तद्विधिस्तु—शङ्खस्थापनवद्गालिन्यादिमुद्राप्रदर्शनस्थाने योन्यादिमुद्राप्रदर्शनम् |
विष्णुविषये तु योनिमुद्रास्थाने धेनुमुद्राप्रदर्शनमिति तत्र विशेषः |
अयं च साधारणो विधिः |
श्यामादिविद्यायां तु विशेषः |


Band II, S. 15–16, Besonderes Arghya für Shyama und die vier Pithas
यथा—सामान्यार्घजलेन बिन्दुयुक्तमीकारं तद्बहिस्त्रिकोणं तद्बहिर्वृत्तं तद्बहिःषट्कोणं तद्बहिश्चतुरस्रं विलिख्य चतुरस्रस्य चतुर्षु कोणेषु स्वाग्रादिप्रादक्षिण्येन पीठचतुष्टयं पूजयेत् |
हँ उड्डियानपीठाय नमः, गँ जालन्धरपीठाय नमः, ऋँ पूर्णागिरिपीठाय नमः, अँ कामरूपपीठाय नमः—इति |
ततस्तेनैव क्रमेण षट्कोणस्य षट्सु कोणेषु षडङ्गमन्त्रैः पूजयेत् |
ततस्त्रिकोणस्य त्रिषु कोणेषु मूलमन्त्रस्य त्रिभिर्भागैः पूजयेत् |
यत्र च विभागासम्भवस्तत्र समस्तेन मूलमन्त्रेणैव त्रिष्वपि कोणेषु पूजयेत् |


Band II, S. 16, Weihe von Unterlage und Arghya-Gefäß
ततो मूलमन्त्रं तद्बीजमात्रं वा उच्चार्य—अमुकदेवताविशेषार्घाधारशक्तये नमः—इति त्रिकोणमध्यस्थमीकारं संपूज्यास्त्रमन्त्रितजलेनाधारं प्रक्षाल्य मूलान्ते अमुकदेवताविशेषार्घाधारं स्थापयामि नमः—इत्याधारं संस्थाप्य मँ रँ धर्मप्रददशकलात्मने वह्निमण्डलायामुकदेवताविशेषार्घाधाराय नमः—इत्याधारं संपूज्य शङ्खस्थापनोक्तक्रमेण वह्नेर्धूम्रार्चिरादिदशकला अपि पूजयेत् |
ततः पूर्ववत् पात्रं प्रक्षाल्य मूलान्ते—अमुकदेवताविशेषार्घपात्रं स्थापयामि नमः—इति संस्थाप्य—अँ सूर्यमण्डलायार्थप्रदद्वादशकलात्मनेऽमुकदेवताविशेषार्घपात्राय नमः—इति पात्रं सम्पूज्य शङ्खस्थापनोक्तक्रमेण सूर्यस्य तपिन्यादिद्वादशकला अपि पूजयेत् |


Band II, S. 16, Inhalt des besonderen Arghya und sein Yantra
ततो मूलमन्त्रान्ते विलोममातृकावर्णान् पठित्वा कलशस्थजलेन विशेषार्घं पूरयेत् |
वाममार्गिभिस्तु कुण्डगोलोद्भवस्वयम्भूकुसुमादिद्रव्येण तस्य स्वकल्पोक्तकारणद्रव्येण वा विशेषार्घं पूरणीयम् |
ततः—उँ सँ कामप्रदषोडशकलात्मने चन्द्रमण्डलायामुकदेवताविशेषार्घामृताय नमः—इति सम्पूज्य शङ्खस्थापनोक्तक्रमेण चन्द्रस्यामृताद्याः षोडशकलाः प्रत्येकमर्चयेत् |
ततः पात्रामृते त्रिकोणवृत्तषट्कोणात्मकं यन्त्रं विलिख्य त्रिकोणस्य तिसृषु रेखासु अकारादिषोडशस्वरान् ककारादितकारान्तान् थकारादिसकारान्तान् वर्णान् विलिख्य मध्ये हँ लँ क्षँ इति बीजत्रयं विलिख्य मूलखण्डत्रयेण त्रिकोणमभ्यर्च्य षट्कोणे षडङ्गानि सम्पूज्य—

Lesungshinweise: [sexuellen Flüssigkeiten] [rituell bezeichnetem Menstrualblut]

Band II, S. 16, Heilige Gewässer und Ananda-Bhairava
ॐ गङ्गे च यमुने चैव—इत्यादिनाङ्कुशमुद्रया सूर्यमण्डलात् तीर्थान्यावाह्य तीर्थमयं विभाव्य गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपदूर्वास्तत्र निःक्षिप्य वामाचारे तु मीनमुद्रया मांसखण्डं निःक्षिप्य कारणेन पूरितं चेत् कुम्भमुद्रया पूर्वोक्तकुलद्रव्यं संशोध्य निःक्षिपेत् |
तत आनन्दभैरवीसहितमानन्दभैरवं ध्यात्वा तत्रावाह्य—ह् स् क्ष् म् ल् व् र् यूँ आनन्दभैरवाय वषट्, स् ह् क्ष् म् ल् व् र् यीँ सुधादेव्यै वौषट्—इति मन्त्राभ्यां गन्धपुष्पादिभिस्तौ समभ्यर्च्य बालात्र्यक्षरीमुच्चार्य—

Lesungshinweise: [den Gefäßinhalt] Die Ausgabe gibt die komplexen Anfangslaute der beiden Formeln als getrennte Konsonantenzeichen wieder und erklärt in einer Fußnote, dass sie eigentlich verbunden auszusprechen seien.

Band II, S. 17, Verse 13–16: Bitte um Nektar und das Aufleuchten des Bewusstseins
ब्रह्माण्डरससम्भूतमशेषरससम्भवम् |
आपूरितं महापात्रं पीयूषरसमावह ||
१३ ||
अखण्डैकरसानन्दकरे परसुधात्मनि |
स्वच्छन्दस्फुरणं मन्त्र निधेह्यकुलरूपिणि ||
१४ ||
अकुलस्थामृताकारे सिद्धिज्ञानकलेवरे |
अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ||
१५ ||
तद्रूपेणैकरस्यं च कृत्वा तैस्तत्स्वरूपिणि |
भूत्वा परामृताकारा मयि चित्स्फुरणं कुरु ||
१६ ||


Lesungshinweise: [Vers 13] [Vers 14] [des] [Vers 15] [Vers 16]

Band II, S. 17, Fünf Edelsteine und Vollendung des besonderen Arghya
एभिर्मन्त्रैरभिमन्त्र्य पञ्चरत्नानि पूजयेत् |
यथा—ग्लूँ गगनरत्नाय नमः, स्लूँ स्वर्गरत्नाय नमः, प्लूँ पातालरत्नाय नमः, म्लूँ मर्त्यरत्नाय नमः, न्लूँ नागरत्नाय नमः इति स्वाग्रादिचतुर्दिक्षु मध्ये च पूजयेत् |
ततो मूलमन्त्रेण हृदयादिष्टदेवतां तत्रावाह्य आवाहनादिमुद्राः प्रदर्श्य षडङ्गैः सकलीकृत्य अस्त्रेण संरक्ष्य कवचेनावगुण्ठ्य—वँ—इति धेनुमुद्रयामृतीकृत्य योनिमुद्रां प्रदर्श्य मूलेन गन्धपुष्पादिभिः सम्पूज्य पुष्पाञ्जलित्रयं दत्त्वा धूपदीपादिनैवेद्यानि दक्षिणमार्गी दक्षिणहस्तेन वाममार्गी चेद्वामहस्तेन मत्स्यमुद्रया वार्घ्यमाच्छाद्य मूलमन्त्रमष्टधा दशधा वा प्रजप्य देवतारूपमर्घ्यं विभाव्य भूतिनीधेनुयोनिमुद्राः प्रदर्शयेत् |
इति विशेषार्घस्थापनविधिः |


Band II, S. 17, Weitere Gefäße und gemeinsames Besprechen
ताराश्रीविद्यादिविषयेऽप्यनेनैव विधिना विशेषार्घं स्थापयेत् |
ततो विशेषार्घवामे सामान्यार्घजलेन त्रिकोणं विलिख्य वैष्णवादौ तु वृत्तमात्रं कृत्वा सामान्यार्घवदाचमनीयपात्रस्थापनं कृत्वा जातीलवङ्गकक्कोलादिद्रव्याणि तज्जले निःक्षिपेत् |
ततस्तद्वामे पूर्ववन्मण्डलं कृत्वा मधुदधिघृतैः पूर्णं मधुपर्कपात्रं संस्थाप्य तद्वामे पुनराचमनीयपात्रमाचमनीयपात्रवत् संस्थाप्य शुद्धजलेन पूरयेत् |
ततः सर्वाणि पात्राणि मूलमन्त्रेण प्रत्येकमष्टधाभिमन्त्र्य धेन्वादिमुद्रां प्रदर्शयेत् |


Band II, S. 17–18, Tarpana für Bhairava und die Guru-Folge
ततो दूर्वाकूर्चेन पुष्पादिना वा शङ्खामृतं विशेषार्घामृतं च किंचित् समादाय पात्रान्तरेषु निःक्षिप्य विशेषार्घामृतेनैव पूर्वोक्तमन्त्राभ्यामानन्दभैरवमानन्दभैरवीं च तत्त्वमुद्रया शिरसि सन्तर्प्य शङ्खामृतेन स्वस्वकल्पोक्तान् दिव्यौघसिद्धौघमानवौघान् गुरून् ब्रह्मरन्ध्रे तत्त्वमुद्रयैव सन्तर्प्य स्वगुरुपरमगुरुपरापरगुरुपरमेष्ठिगुरूनपि तर्पयेत् |
तद्यथा—श्री-अमुकानन्दनाथश्रीगुरुपादुकां तर्पयामि नमः |
एवम्—परमगुरुश्रीपादुकां तर्पयामि नमः परापरगुरुश्रीपादुकां तर्पयामि नमः परमेष्ठिगुरुश्रीपादुकां तर्पयामि नमः—इति त्रिः सकृद् वा तर्पयेत् |
यत्र वामाचारादौ गुरुपात्रादिकमतिरिक्तमेव स्थापितं तत्र गुरुपात्रीयद्रव्येणैव गुरुपङ्क्तिस्तर्पयेत् |


Band II, S. 18, Tarpana und Puja der Gottheit im eigenen Körper
ततो विशेषार्घजलेन हृदये मूलदेवतां तर्पयेत् |
मूलमन्त्रमुच्चार्य—साङ्गां सपरिवारां सायुधां सवाहनां श्री-अमुकदेवीं तर्पयामि नमः—इति त्रिः सकृद्वा सन्तर्प्य प्रोक्षणीपात्रस्थजलेनात्मानं पूजामण्डलपूजोपकरणानि च मूलमन्त्रास्त्रमन्त्राभ्यां संप्रोक्ष्य धेनुमुद्रां प्रदर्शयेत् |
ततः पूर्वोक्तपीठन्यासक्रमेण स्वदेहे तत्तत्स्थानेषु गन्धपुष्पादिभिः पीठदेवताः सम्पूज्य हृत्पद्मकर्णिकामध्ये मणिपीठं विभाव्य तत्र देवतां ध्यात्वा देवतारूपमात्मानं विभाव्य मूलमन्त्रेण गन्धपुष्पधूपदीपैश्चतुर्भिरुपचारैर्देवतामभ्यर्च्य मस्तके हृदये मूलाधारे पादयोः सर्वाङ्गेषु चैकैकं पुष्पाञ्जलिं दत्त्वा मूलमन्त्रमष्टोत्तरशतं यथाशक्ति वा प्रजप्य तज्जपं देवतायै समर्प्य प्रोक्षणीपात्रस्थजलं भूमौ निःक्षिप्य जलान्तरेण पात्रमापूर्य सर्वतोभद्रमण्डलं गन्धपुष्पादिभिः पूजयेत् |
ॐ सर्वतोभद्रमण्डलाय नमः—इति |


Band II, S. 18–19, Äußere Pitha-Puja: Unterbau und Gurus
ततः शालिभिस्तत्कर्णिकामापूर्य तदुपरि तण्डुलपुञ्जं तदुपरि दर्भानास्तीर्य तदुपरि साक्षतं यथोक्तं कूर्चं निधाय पीठपूजां कुर्यात् |
यथा मण्डलस्योत्तरदिशि—श्रीगुरुभ्यो नमः, श्रीपरमगुरुभ्यो नमः, श्रीपरापरगुरुभ्यो नमः, श्रीपरमेष्ठिगुरुभ्यो नमः—इति संपूज्य दक्षिणस्यां दिशि—गँ महागणपतये नमः—इति पूजयेत् |
ततो भावनया मण्डलस्याधस्तात्—ॐ अतलादिसप्तपातालेभ्यो नमः |
ॐ मण्डूकाय नमः |
ॐ कालाग्निरुद्राय नमः |
ऊर्ध्वोर्ध्वक्रमेण—ॐ कूर्माय नमः |
ॐ अनन्ताय नमः |
ॐ वराहाय नमः |
ॐ आधारशक्तये नमः |
ॐ मूलप्रकृतये नमः |
ॐ पृथिव्यै नमः |
ॐ अमृतार्णवाय नमः |
ॐ रत्नद्वीपाय नमः |
ॐ मणिमण्डपाय नमः—इति संपूज्य

Lesungshinweise: Durch innere Vergegenwärtigung verehre man unterhalb des Mandalas: „Om, Verehrung den sieben Unterwelten von Atala an; Om, Verehrung Manduka, dem Frosch; Om, Verehrung Kalagni-Rudra.“ In aufsteigender Folge: „Om, Verehrung Kurma, der Schildkröte; Om, Verehrung Ananta; Om, Verehrung Varaha, dem Eber; Om, Verehrung der tragenden Shakti; Om, Verehrung der Urnatur; Om, Verehrung der Erde; Om, Verehrung dem Nektarmeer; Om, Verehrung der Edelsteininsel; Om, Verehrung dem Juwelenpavillon.“ Die im Druck zweispaltig angeordneten Formeln werden hier spaltenweise wiedergegeben; die Stellung der Anweisung zur aufsteigenden Folge ist dadurch nicht eindeutig.

Band II, S. 19, Wunschbäume, Thron und seine Eigenschaften
मण्डलस्य चतुर्दिक्षु मध्ये च—ॐ कल्पवृक्षेभ्यो नमः—भावनया तेषामधस्तात्—ॐ मणिवेदिकायै नमः—तदुपरि—ॐ रत्नसिंहासनाय नमः—आग्नेयादिषु चतुर्षु कोणेषु—ॐ धर्माय नमः |
ॐ ज्ञानाय नमः |
ॐ वैराग्याय नमः |
ॐ ऐश्वर्याय नमः |
दिक्षु पूर्वादिक्रमेण—ॐ अधर्माय नमः |
ॐ अज्ञानाय नमः |
ॐ अवैराग्याय नमः |
ॐ अनैश्वर्याय नमः |


Band II, S. 19, Lotus und Kreise im Zentrum
मध्ये ऊर्ध्वोर्ध्वक्रमेण—ॐ आनन्दकन्दाय नमः |
ॐ संविन्नालाय नमः |
ॐ सर्वतत्त्वात्मकपद्माय नमः |
ॐ प्रकृतिमयपत्रेभ्यो नमः |
ॐ विकारमयकेशरेभ्यो नमः |
ॐ पञ्चाशद्वर्णबीजाढ्यकर्णिकायै नमः—कर्णिकायाम् |
अँ सूर्यमण्डलाय द्वादशकलात्मने नमः |
ॐ सोममण्डलाय षोडशकलात्मने नमः |
मँ वह्निमण्डलाय दशकलात्मने नमः |
सँ सत्त्वाय नमः |
रँ रजसे नमः |
तँ तमसे नमः |
आँ अन्तरात्मने नमः |
अँ आत्मने नमः |
पँ परमात्मने नमः |
ह्रीं ज्ञानात्मने नमः |
इति संपूज्य पद्मस्य केशरेषु मध्ये च पूर्वादिक्रमेण तत्तत्कल्पोक्तपीठशक्तिः पूजयेत् |
ततः पीठमन्त्रं पठित्वा अमुकदेवतायोगपीठाय नमः—इति मध्ये पूजयेत् |


Band II, S. 19–20, Aufstellung des Kumbha
ततो मूलमन्त्रमुच्चार्य—अमुकदेवताप्रीत्यर्थं मूर्तिं कल्पयामि नमः—इति पीठमध्ये गन्धपुष्पादिकं निःक्षिपेत् |
ततस्तस्मिन् मण्डले पूर्वादितः प्रादक्षिण्येन वह्नेर्दशकला गन्धपुष्पादिभिः प्रत्येकं पूजयेत् |
ततः स्वर्णादिरचितं यथोक्तं कुम्भमादाय—फट्—इति शुद्धजलेन संप्रोक्ष्य चन्दनेनोपलिप्य—हुँ—इति कवचमन्त्रमुच्चरन्नभितस्त्रिगुणात्मकसूत्रेण संवेष्ट्य चन्दनागुरुकर्पूरैः प्रधूप्य गन्धपुष्पादिभिरभ्यर्च्य नवरत्नान्युदरे निःक्षिप्य दूर्वाचन्दनाक्षतयुक्तं कूर्चमुपरि विन्यस्य—प्रणवम्—उच्चरन् पीठे कुम्भं स्थापयेत् |


Band II, S. 20, Füllung des Kumbha und eines weiteren Muschelgefäßes
ततः कुम्भे पूर्वादिप्रादक्षिण्यक्रमेण सूर्यस्य तपिन्यादिद्वादशकलाः संपूज्य कुम्भपीठयोन्यात्मककुम्भयोश्चैक्यं विभाव्य मातृकावर्णान् प्रातिलोम्येन पठित्वा तदन्ते मूलमन्त्रमुच्चार्य पञ्चाशदौषधीक्वाथेन क्षीरिद्रुमकषायेण पलाशत्वग्भवेन गन्धपुष्पसुवासिततीर्थजलेन वा देवताबुद्धया कुम्भं पूरयेत् |
ततः कुम्भजले पूर्वादितः प्रादक्षिण्येन चन्द्रस्यामृतादिषोडशकलाः संपूज्यौषधीक्वाथेन गन्धपुष्पसुवासिततीर्थोदकेन वा शङ्खान्तरमापूर्य तज्जले गन्धाष्टकं विलोड्य वह्नेर्धूम्रार्चिरादिदशकलास्तत्रावाह्य—

Lesungshinweise: Lesungshinweis: Das zusammengesetzte Wort zur Einheit von Pitha und Kumbha ist im Druck syntaktisch gedrängt; die Zuordnung der Yoni bleibt erklärungsbedürftig.

Band II, S. 20, Pranapratistha der Feuer-Kalas
आँ ह्रीँ काँ यँ रँ लँ वँ शँ षँ सँ हँ लँ क्षँ हंसः सोऽहं वह्नेर्धूम्रार्चिरादिदशकलानां प्राणा इह इह स्थितः |
एवम्—जीव इह इह स्थितः, —एवम्—सर्वेन्द्रियाणि—इत्यादिप्राणप्रतिष्ठां कृत्वा—वह्नेर्धूम्रार्चिरादिदशकलाभ्यो गन्धं नमः—इत्यादिपञ्चोपचारैः संपूज्य शङ्खस्थापनोक्तक्रमेण—यँ धूम्रार्चिषि नमः—इत्यादि प्रत्येकं गन्धपुष्पादिभिः संपूज्य अनेनैव प्रकारेण सूर्यस्य तपिन्यादिद्वादशकलाश्चन्द्रस्यामृतादिषोडशकलाश्चावाह्याभ्यर्च्य पञ्चाशत् कलाः पूजयेत् |
तद्यथा—

Lesungshinweise: Lesungshinweis: Die dritte Bija wird nach der vergrößerten Buchseite als Kā mit Nasal wiedergegeben; ein zusätzliches R ist dort nicht erkennbar.

Band II, S. 20–21, Vedischer Mantra und zehn Schöpfungs-Kalas
[आरम्भपाठः अस्पष्टः] शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् |
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् इति वैदिकमन्त्रेण सृष्ट्यादिदशकला आवाह्य ॐ सृष्ट्यादिदशकलाभ्यो नमः—इति पञ्चोपचारैः संपूज्य गन्धपुष्पादिभिः प्रत्येकं पूजयेत् |
यथा—कँ सृष्ट्यै नमः |
खँ ऋद्ध्यै नमः |
गँ स्मृत्यै नमः |
घँ मेधायै नमः |
ङँ कान्त्यै नमः |
चँ लक्ष्म्यै नमः |
छँ धृत्यै नमः |
जँ स्थिरायै नमः |
झँ स्थित्यै नमः |
ञँ सिद्ध्यै नमः |
इति संपूज्य—

Lesungshinweise: [Der Anfangsausdruck ist im vorliegenden Druck nicht zuverlässig gelesen.] Lesungshinweis: Die Druckzeichen am Anfang der vedischen Formel lassen sich nicht sicher in gewöhnliche Devanagari übertragen; sie werden nicht zu einer vermeintlich gesicherten Rezitationsfassung ergänzt.

Band II, S. 21, Vishnu-Mantra und zehn Kalas von Jara an
ॐ प्रतद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः |
यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वाः—इति मन्त्रेण जरादिदशकला आवाह्य प्राणप्रतिष्ठादिकं कृत्वा—ॐ जरादिदशकलाभ्यो नमः—इति पञ्चोपचारैः संपूज्य प्रत्येकं पूजयेत् |
यथा—टँ जरायै नमः |
ठँ पालिन्यै नमः |
डँ क्षान्त्यै नमः |
ढँ ईश्वर्यै नमः |
णँ रत्यै नमः |
तँ कामिकायै नमः |
थँ वरदायै नमः |
दँ ह्लादिन्यै नमः |
धँ प्रीत्यै नमः |
नँ दीर्घायै नमः |
इति संपूज्य—

Band II, S. 21, Tryambaka-Mantra und zehn Kalas von Tikshna an
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् |
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्—इति मन्त्रेण तीक्ष्णादिदशकला आवाह्य—ॐ तीक्ष्णादिदशकलाभ्यो नमः इति पञ्चोपचारैः संपूज्य प्रत्येकं पूजयेत् |
यथा—पँ तीक्ष्णायै नमः |
फँ रौद्र्यै नमः |
बँ भवायै नमः |
भँ निद्रायै नमः |
मँ तन्द्रायै नमः |
यँ क्षुधायै नमः |
रँ क्रोधिन्यै नमः |
लँ क्रियायै नमः |
वँ उत्करिण्यै नमः |
शँ मृत्यवे नमः |
इति संपूज्य—

Lesungshinweise: Unter „Om, Verehrung den zehn Kalas von Tikshna an“ verehre man sie mit den fünf Upacharas und dann einzeln: „Paṃ̐, Verehrung Tikshna, der Scharfen; Phaṃ̐, Verehrung Raudri, der Furchtbaren; Baṃ̐, Verehrung Bhava, dem Werden; Bhaṃ̐, Verehrung Nidra, dem Schlaf; Maṃ̐, Verehrung Tandra, der Schläfrigkeit; Yaṃ̐, Verehrung Kshudha, dem Hunger; Raṃ̐, Verehrung Krodhini, der Zornigen; Laṃ̐, Verehrung Kriya, dem Handeln; Vaṃ̐, Verehrung Utkarini; Śaṃ̐, Verehrung dem Tod.“ Die Herausgeber nennen Vajasaneyi-Samhita 3.60 und verzeichnen für die dritte Kala die abweichende Lesung „Maya“. Lesungshinweis: Die Namensform Utkarini wird nach dem sichtbaren Druck bewahrt; ihre genaue Bedeutung bleibt hier offen.

Band II, S. 21, Vishnus höchster Ort und vier Kalas
ॐ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः दिवीव चक्षुराततम्—इति मन्त्रेण गायत्र्या वा पीताद्याश्चतुष्कलाः पूर्ववदावाह्य पूजयेत् |
यथा—षँ पीतायै नमः |
सँ दारुणायै नमः |
हँ असितायै नमः |
क्षँ अनन्तायै नमः |
इति संपूज्य—

Band II, S. 22, Anrufung der sechzehn Vokal-Kalas
ॐ तद्विप्रासो विपन्यवो जागृवांसः समिन्धते |
विष्णोर्यत् परमं पदम् |
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंषतु |
आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ||
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति |
गर्भं ते अश्विनौ देवावधत्तां पुष्करस्रजौ ||
इति मन्त्रेण निवृत्त्यादिषोडशस्वरकला आवाह्य प्राणप्रतिष्ठादिकं कृत्वा पञ्चोपचारैः संपूज्य प्रत्येकं पूजयेत् |


Band II, S. 22, Namen der sechzehn Vokal-Kalas
यथा—अँ निवृत्त्यै नमः |
आँ प्रतिष्ठायै नमः |
इँ विद्यायै नमः |
ईँ शान्त्यै नमः |
उँ इन्धिकायै नमः |
ऊँ दीपिकायै नमः |
ऋँ रेचिकायै नमः |
ॠँ मोचिकायै नमः |
लृँ परायै नमः |
लॄँ सूक्ष्मायै नमः |
एँ सूक्ष्मामृतायै नमः |
ऐँ ज्ञानामृतायै नमः |
ओँ आप्यायिन्यै नमः |
औँ व्यापिन्यै नमः |
अँ व्योमरूपायै नमः |
अँ अनन्तायै नमः |
इति संपूज्य कलात्मकं तच्छङ्खस्थं जलं कुम्भे निःक्षिपेत् |


Lesungshinweise: [vokalisches L mit Nasal] [langes vokalisches L mit Nasal] Lesungshinweis: Die beiden vokalischen L-Zeichen werden in der Sanskritfassung mit der im Druck sichtbaren L-Schreibweise wiedergegeben.

Band II, S. 22–23, Bekleidung des Kumbha und Schutzgottheiten
ततोऽश्वत्थपनसचूतादिपल्लवैरिन्द्रवल्लीवेष्टितैः कल्पवृक्षधिया कुम्भवक्त्रं पिधाय तस्मिन् कुम्भमुखे सफलाक्षतं चषकं कल्पवृक्षफलधिया स्थापयेत् |
ततः क्षौमवस्त्रयुग्मेन कुम्भं संवेष्ट्य वेदिकाया अधस्तात् पूर्वादिचतुर्दिक्षु द्वारसमीपेऽष्टदलमण्डलानि कृत्वा तेषु शालिपुञ्जानि निधाय तदुपरि पूर्णकलशान् संस्थाप्य तेषु पूर्वादिक्रमेण—ध्रुवधरावागीशविघ्नेशान्—आवाह्य पञ्चोपचारैः संपूज्य तेनैव प्रकारेणाग्नेयादिकोणेषु कलशान् संस्थाप्य तेषु—अमृतदुर्जयसिद्धार्थमङ्गलान्—आवाह्य पूजयेत् |
पुनः पूर्वादिष्वष्टदिक्षु कलशान्तराणि संस्थाप्य तेषु इन्द्रादिलोकपालान् अभ्यर्च्य तत्पुरतः ऐरावतपुण्डरीकवामनकुमुदाञ्जनपुष्पदन्तसार्वभौमसुप्रतीकाख्यान्—अष्टदिग्गजानपि पूजयेत् |
ततः प्रधानकलशे मूलदेवतार्चनं कुर्यात् |


Band II, S. 23, Herbeirufen der Gottheit und Vers 17
तत्रादौ मूलमन्त्रमुच्चार्य—अमुकदेवताया मूर्तिं कल्पयामि नमः—इति गन्धपुष्पादिभिर्मूर्तिं परिकल्प्यावाहनं कुर्यात् |
तद्यथा—त्रिखण्डामुद्रान्तः पुष्पं निधाय देवतां ध्यात्वा त्रिः सकृद्वा मूलमन्त्रमुच्चार्य—भगवत्यमुकदेवते इहागच्छागच्छ—इत्युक्त्वा सुषुम्णामार्गेण हृदयाम्भोजात् पुष्पाञ्जलौ देवतामानीय मूलमन्त्रमुच्चार्य आवाहनमुद्रया मूर्तौ स्थापयेत् |
ततः संस्थापनमुद्रया मूलान्ते अमुकदेवते इह तिष्ठ तिष्ठ—इत्युक्त्वा—देवेश भक्तिसुलभ सर्वावरणसंयुतम् |
यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरो भव ||
१७ ||
इति संप्रार्थ्य

Band II, S. 23, Mudras der Gegenwart und Vollständigkeit
पुनर्मूलमुच्चार्य सन्निधापनमुद्रया—अमुकदेवते इह सन्निधेहीह सन्निधेहि—इति सन्निधापनं कृत्वा पूर्ववन्मूलमन्त्रमुच्चार्य—अमुकदेवते इह सन्निरुद्धा भव भव—इति सन्निरोधनमुद्रां प्रदर्श्य संमुखीकरणमुद्रया मूलान्ते—अमुकदेवते संमुखीकृता भव भव—इति संमुखीकृत्य पुनर्मूलमुच्चार्य—अमुकदेवते अवगुण्ठिता भव भव—इत्यवगुण्ठनमुद्रयाऽवगुण्ठ्य देवताया हृदयाद्यङ्गेषु षडङ्गमन्त्रान् विन्यस्य मूलमुच्चार्य—अमुकदेवते सकलीकृता भव भव—इति सकलीकृत्यामृतीकरणं कुर्यात् |


Band II, S. 23, Nektarbesprengung und Dipini-Mantra
यथा—मूलमन्त्रेण दीपिनीमन्त्रेण अकारादिक्षकारान्तैर्मातृकावर्णैश्च त्रिधा त्रिधा धेनुमुद्रयाऽर्घ्योदकेनामृतवर्षणबुद्धया देवतामूर्ध्नि सिञ्चेत् |
इयतैव देवताशुद्धिरित्युच्यते |
दीपिनीमन्त्रश्च—ऐँ वद वद वाग्वादिनि ऐँ क्लीँ क्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरु कुरु क्लीँ सौँ मोक्षं कुरु कुरु हौँ स्हौँ—इति |
ततो मूलमुच्चार्य धेनुमुद्रयैव—अमुकदेवते अमृतीकृता भव भव—इत्यमृतीकृत्य महामुद्रां बद्ध्वा देवतामस्तके परमामृतवर्षणधिया मूलमन्त्रमुच्चार्य—अमुकदेवते परमीकृता भव—इति ब्रूयात् |


Lesungshinweise: [Bija] [Bijas]

Band II, S. 23–24, Verkürztes Verfahren und Viniyoga der Pranapratistha
अशक्तश्चेत् सर्वत्र मूलमन्त्रमुच्चार्य—आवाहिता भव, स्थापिता भव, सन्निहिता भव, सन्निरुद्धा भव, संमुखीकृता भव, अवगुण्ठिता भव, सकलीकृता भव, अमृतीकृता भव, परमीकृता भव—इत्यावाहनादिमुद्राः प्रदर्शयेत् |
ततः प्राणशक्तिन्यासं कुर्यात् |
अस्य प्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः ऋग्यजुःसामानि छन्दांसि प्राणशक्तिर्देवता आँ बीजं ह्रीँ शक्तिः क्रोँ कीलकममुकदेवताप्राणप्रतिष्ठायां विनियोगः |


Band II, S. 24, Rishi-Nyasa der Prana-Shakti
ब्रह्मविष्णुमहेश्वरेभ्य ऋषिभ्यो नमः—शिरसि |
ऋग्यजुःसामभ्यश्छन्दोभ्यो नमः—मुखे |
प्राणशक्त्यै देवतायै नमः—हृदि |
आँ बीजाय नमः—गुह्ये |
ह्रीँ शक्तये नमः—पादयोः |
क्रोँ कीलकाय नमः—नाभौ |
अमुकदेवताप्राणप्रतिष्ठायां विनियोगः—इति सर्वाङ्गे व्यापकम् |


Band II, S. 24, Kara-Nyasa der Prana-Shakti
ॐ आँ ह्रीँ क्रोँ अँ कँ खँ गँ घँ ङँ आकाशवायुतेजोजलपृथिव्यात्मने आँ अङ्गुष्ठाभ्यां नमः |
ॐ आँ ह्रीँ क्रोँ इँ चँ छँ जँ झँ ञँ शब्दस्पर्शरूपरसगन्धात्मने ईँ तर्जनीभ्यां स्वाहा |
ॐ आँ ह्रीँ क्रोँ उँ टँ ठँ डँ ढँ णँ श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मने ऊँ मध्यमाभ्यां वषट् |
ॐ आँ ह्रीँ क्रोँ एँ तँ थँ दँ धँ नँ वाक्पाणिपादपायूपस्थात्मने ऐँ अनामिकाभ्यां हुँ |
ॐ आँ ह्रीँ क्रोँ ओँ पँ फँ बँ भँ मँ वचनादानगमनविसर्गानन्दात्मने औँ कनिष्ठिकाभ्यां वौषट् |
ॐ आँ ह्रीँ क्रोँ अँ यँ रँ लँ वँ शँ षँ सँ हँ लँ क्षँ मनोबुद्ध्यहङ्कारात्मने अः करतलकरपृष्ठाभ्यां फट् |


Band II, S. 24–25, Durchdringender Nyasa und Herzlotus
एवं हृदयादिषडङ्गन्यासं विधाय—आँ नमः—नाभेरधः |
ह्रीँ नमः—कण्ठादधः |
क्रोँ नमः—शिरसोऽधो व्यापकं विधाय हृत्पद्मस्य पूर्वादिदलेषु कर्णिकायां च—लँ नमः, रँ नमः, हँ नमः, षँ नमः, वँ नमः, यँ नमः, सँ नमः, शँ नमः, क्षँ नमः—इति क्रमेण विन्यस्य ध्यायेत् |


Band II, S. 25, Dhyana der Prana-Shakti
ध्यानं यथा—रक्ताब्धिपोतारुणपद्मसंस्थां पाशाङ्कुशाविक्षुशरासबाणान् |
शूलं कपालं दधतीं कराब्जै रक्तां त्रिनेत्रां प्रणमामि देवीम् ||
इति ध्यात्वा मृगमुद्रया पुष्पादिना देवताया हृदयं स्पृष्ट्वा प्राणप्रतिष्ठां कुर्यात् |


Lesungshinweise: Lesungshinweis: Dieser Dhyana-Vers trägt hier im Druck keine Nummer; die nächste gedruckte Versnummer ist 19.

Band II, S. 25, Pranapratistha der Hauptgottheit
तन्मन्त्रो यथा—ॐ आँ ह्रीँ क्रोँ यँ रँ लँ वँ शँ षँ सँ हँ सः सोहं मूलान्ते अमुकदेवतायाः प्राणा इह इह स्थिताः |
एवम्—जीव इह इह |
एवम्—सर्वेन्द्रियाणि वाङ्मनश्चक्षुःश्रोत्रघ्राणप्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा |
प्रणवं मूलमन्त्रं वा त्रिवारं जप्त्वा देवतामूर्तौ मूलमन्त्रस्य ऋष्यादिकरषडङ्गन्यासान् विधाय स्वस्वकल्पोक्तमुद्राः प्रदर्श्योपचारान् समर्पयेत् |


Band II, S. 25, Verse 19–20: Sitz, Begrüßung und Fußwasser
तत्र प्रथमतः—देवेदमासनं रम्यं मया तुभ्यं प्रकल्पितम् |
भवैतस्मिन्निषण्ण त्वं यावत् पूजां करोम्यहम् ||
१९ ||
इत्युक्त्वा मूलमन्त्रमुच्चार्य—अमुकदेवतायै इदमासनं नमः—इति देवस्य वामभागे आसनं दद्यात् |
ततः साङ्गां सावरणां सायुधां देवतां पूजार्थमागतां ध्यात्वा मूलान्ते—अमुकदेवते स्वागतम्—इति तन्मुद्रया स्वागतं परिकीर्त्य—इदं श्यामाकदूर्वाब्जविष्णुक्रान्तासमन्वितम् |
पाद्यं गृहाण देवेश तीर्थतोयैः प्रकल्पितम् ||
२० ||
इत्युक्त्वा मूलान्ते—अमुकदेवतायै पाद्यं नमः—इति पाद्यपात्रस्थजलेन पादयोः पाद्यं दद्यात् |


Band II, S. 26, Verse 21–23: Arghya, Mundspülung und Madhuparka
गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपैः |
दूर्वाभिश्च समायुक्त एषोऽर्घः प्रतिगृह्यताम् ||
२१ ||
इत्युक्त्वा मूलमुच्चार्य—अमुकदेवतायै अर्घ्यं स्वाहा—इति हस्तयोः शिरसि चार्घ्यं दद्यात् |
जातीलवङ्गकङ्कोलकर्पूरादिसुवासितम् |
गृहाण देवदेवेश एतदाचमनीयकम् ||
२२ ||
इत्युक्त्वा मूलान्ते—अमुकदेवतायै इदमाचमनीयं स्वधा—इति वा मुखे आचमनीयं तत्पात्रस्थजलेन दद्यात्—आज्येन मधुना दध्ना त्वदर्थं परिकल्पितम् |
गृहाण कांस्यपात्रस्थं मधुपर्कं सुरेश्वर ||
२३ ||
इति पठित्वा मूलमन्त्रमुच्चार्य—अमुकदेवतायै मधुपर्कं स्वधा—इति मुखे मधुपर्कं दद्यात् |
ततः पुनराचमनीयपात्रस्थजलेनाचमनीयवत् पुनराचमनीयं दत्त्वा—

Band II, S. 26, Verse 24–26: Einreibung und Bad
तिलतैलसमायुक्तं सुगन्धिद्रव्यनिर्मितम् |
उद्वर्तनमिदं देव गृहाण त्वं प्रसीद मे ||
२४ ||
इति श्लोकान्ते मूलमन्त्रमुच्चार्य—अमुकदेवतायै तत्सुगन्धितैलः संयुक्तमुद्वर्तनं नमः—गव्यं क्षीरं दधि घृतं शर्कराक्षौद्रसंयुतम् |
पञ्चामृतं यदेतच्च तेन त्वां स्नापयाम्यहम् ||
२५ ||
इति पठित्वा मूलमुच्चार्य पञ्चामृतेन—अमुकदेवतां स्नापयामि नमः—इति पृथग्युगपद्वा संस्नाप्य—अन्यानिवेदितं तोयं प्रकृतिस्थं सुशीतलम् |
सुगन्धिद्रव्यसंयुक्तं स्नानार्थं प्रतिगृह्यताम् ||
२६ ||
इत्युक्त्वा मूलान्ते—अमुकदेवतायै स्नानं नमः अमुकदेवतां स्नापयामि नमः—इति वा शङ्खोदकेन स्नानं कारयेत् |
शैवे तु शङ्खोदकनिषेधादन्यदुदकेनैव स्नापनम् |
ततो मूलान्ते—अमुकदेवतायै पुनराचमनीयं स्वधा—इति—वँ—इति वा पुनराचमनीयं तत्पात्रस्थजलेन दद्यात् |
तत्तत्पात्राभावे तु शङ्खादिजलेनैव पाद्यादि दद्यात् |


Band II, S. 26–27, Verse 27–28: Gewänder und Schmuck
इमे सुसूक्ष्मे मृदुनी कीटकोशसमुद्भवे |
कृपया देवदेवेश परिधत्स्व सुवाससी ||
२७ ||
इति पठित्वा मूलमुच्चार्य—अमुकदेवतायै वस्त्रं निवेदयामि नमः—इति क्षौमादिवस्त्रयुग्मं निवेद्य मूलान्ते अमुकदेवतायै यज्ञोपवीतं नमः—इति यज्ञोपवीतं निवेद्य सौवर्णाभरणं दिव्यं मुक्तारत्नोपशोभितम् |
रमणीयमिदं देव गृहाण प्रीतिमावह ||
२८ ||
इति पठित्वा मूलमन्त्रान्ते—अमुकदेवतायै स्वर्णादिघटितान्याभरणानि निवेदयामि—इत्याभरणानि निवेद्य—

Band II, S. 27, Verse 29–30: Sandelholz und Blumen
कुरङ्गमदकर्पूररोचनादिसमन्वितम् |
गृहाण मलयोत्पन्नमेतत् सुरभिचन्दनम् ||
२९ ||
इति पठित्वा मूलमुच्चार्य—अमुकदेवतायै गन्धं नमः—इति गन्धं निवेद्य—नानाविधानि चैतानि जलस्थलरुहाणि च |
सुगन्धीनि सुपुष्पाणि गृहाण जगदीश्वर ||
३० ||
इत्युक्त्वा मूलमन्त्रान्ते—अमुकदेवतायै पुष्पाणि वौषट्—इति |
नमः—इति वा पुष्पाणि निवेदयेत् |
स्त्रीदैवते तु देवेत्यादौ देवीत्यादि पठनीयम् |
ततः पूजां कुर्यात् |


Band II, S. 27, Vers 31: Anga-Gottheiten und Guru-Folge
यथा—मूलमन्त्रमुच्चार्य—श्रीपादुकां पूजयामि नमः—इति पुष्पाञ्जलिना त्रिवारमभ्यर्च्य मूलमन्त्रपुटितैर्मातृकावर्णैर्देवतायास्तत्तत्स्थानेषु संपूज्य परिवारार्चनार्थमाज्ञामादायावरणपूजां कुर्यात् |
यथा—तुषारस्फटिकश्यामनीलकृष्णारुणार्चिषः |
वरदाभयधारिण्यः प्रधानतनवः स्त्रियः ||
अग्नीशासुरवायव्यमध्यदिक्षु क्रमात् स्थिताः ||
३१ ||
इत्यङ्गदेवतां ध्यात्वा अग्नीशासुरवायव्यकोणेष्वग्रे दिक्षु च क्रमेणाङ्गदेवताः पूजयेत् |
ततो वायव्ये पुरत ईशाने च गुर्वोघत्रयं च संपूज्य वायव्यादीशानपर्यन्तम्—ॐ श्रीगुरुभ्यो नमः |
ॐ श्रीपरमगुरुभ्यो नमः |
ॐ श्रीपरापरगुरुभ्यो नमः |
ॐ श्रीपरमेष्ठिगुरुभ्यो नमः |
इति गुरुपङ्क्तीः पूजयेत् |


Lesungshinweise: Vom Nordwesten bis zum Nordosten verehre man die Guru-Folgen: „Om, Verehrung den erhabenen Gurus; Om, Verehrung den Parama-Gurus; Om, Verehrung den Parapara-Gurus; Om, Verehrung den Parameshthi-Gurus.“ Lesungshinweis: Die räumliche Zuordnung der sechs Anga-Gottheiten ist im Vers und der anschließenden Prosa nicht völlig gleich formuliert; beide Angaben bleiben erhalten.

Band II, S. 28, Tripura-Gurus und zehn Weltenhüter
त्रिपुरातिविषये तु—ऐँ ह्रीँ श्रीगुरुभ्यो नमः |
गुरुपादुकाभ्यो नमः—इत्येवं पूजयेत् |
ततः स्वकल्पोक्तपरिवारदेवताः सम्पूज्य पूर्वादिषु इन्द्रादिदशलोकपालान् पूजयेत् |
यथा—लँ इन्द्राय नमः |
रँ अग्नये नमः |
मँ यमाय नमः |
क्षँ नैर्ऋताय नमः |
वँ वरुणाय नमः |
यँ वायवे नमः |
सँ कुबेराय नमः |
हँ ईशानाय नमः |
आँ ब्रह्मणे नमः—ऊर्ध्वम् |
अँ अनन्ताय नमः—अधः |
इति संपूज्य वज्रादिदशशस्त्राणि पूजयेत् |


Lesungshinweise: Lesungshinweis: Die einleitende gedruckte Form „tripurātiviṣaye“ ist ungewöhnlich; der Bezug auf die Tripura-Verehrung ist erkennbar, die Wortform bleibt in der Sanskritfassung erhalten.

Band II, S. 28, Zehn Waffen und erneutes Tarpana
तद्यथा—वँ वज्राय नमः |
शँ शक्तये नमः |
दँ दण्डाय नमः |
खँ खड्गाय नमः |
पँ पाशाय नमः |
अँ अङ्कुशाय नमः |
गँ गदायै नमः |
शँ शूलाय नमः |
पँ पद्माय नमः—ऊर्ध्वम् |
चँ चक्राय नमः—अधः |
इति गन्धपुष्पादिभिः संपूज्य पुनर्मूलमन्त्रमुच्चार्य—साङ्गायै सवाहनायै सालङ्कारायै सायुधायै सपरिवारायै श्री-अमुकदेवतायै श्रीपादुकां पूजयामि नमः—इति त्रिः सकृद्वा संपूज्य मूलमन्त्रमुच्चार्य तत्त्वमुद्रया—अमुकदेवतां तर्पयामि नमः—इति त्रिवारं तर्पयेत् |


Band II, S. 28, Vers 32: Räucherwerk und Glocke
ततो धूपपात्राग्नौ धूपं निधायास्त्रमन्त्रेण संप्रोक्ष्य—नमः—इति गन्धपुष्पाक्षतैः संपूज्य मूलमन्त्रेणाभिमन्त्र्य धेनुमुद्रयाऽमृतीकृत्य—ॐ जयध्वनिमन्त्रमातः स्वाहा—इति मन्त्रेणास्त्रेण वाद्यघण्टां सम्पूज्य वामहस्तेन तां वादयन्—वनस्पतिरसोद्भूतो गन्धाढ्यः सुमनोहरः |
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ||
३२ ||
इति पठित्वा मूलमन्त्रान्ते—अमुकदेवतायै धूपं निवेदयामि—इति नीचैर्धूपं निवेद्य देवस्य वामभागे पुरतो वा स्थापयेत् |
ततो दीपपात्रे दीपं प्रज्वाल्य धूपवत् संस्कृत्य घण्टां वादयन्—

Band II, S. 29, Vers 33: Darbringung des Lichtes
सुप्रकाशो महादीपः सर्वत्र तिमिरापहः |
सबाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ||
३३ ||
इति पठित्वा मूलान्ते—अमुकदेवतायै दीपं निवेदयामि—इति दीपं निवेद्य देवस्य दृष्टिपर्यन्तमुत्तोल्य परिभ्राम्य घृतयुक्तं चेद्दक्षिणं तैलयुक्तं चेद्वामे सिता वर्तिश्चेद्दक्षिणे रक्ता वर्तिश्चेद्वामे दीपं स्थापयेत् |
पुरतस्तु न नियमः |


Band II, S. 29, Vorbereitung der Speisegabe
ततो देवतायाः पुरतः सामान्यार्घजलेन भूमिं संप्रोक्ष्य चतुरस्रमण्डलं कृत्वा तत्र स्वर्णादिनिर्मितं साधारं नैवेद्यपात्रं संस्थाप्य तस्मिन् पात्रे यथोक्तं यथासम्भवं वा नैवेद्यं निधायास्त्रमन्त्रेण संप्रोक्ष्य चक्रमुद्रया संरक्ष्य—यँ—इति वायुबीजेन संशोध्य—रँ—इति वह्निबीजेन संदह्य दक्षकराग्रेण स्पृष्ट्वा—वँ—इति वरुणबीजमुच्चरन् धेनुमुद्रयाऽमृतीकृत्य मूलमन्त्रेणाष्टधा कराभ्यामभिमन्त्र्य धेनुमुद्रां प्रदर्श्य—नमः—इति मन्त्रपुष्पादिभिरभ्यर्च्य मूलमन्त्रेण पुष्पाञ्जलित्रयं देवतायै दत्त्वा—

Band II, S. 29, Verse 34–35: Speise und fünf Prana-Gaben
नैवेद्यं षड्रसोपेतं चतुर्विधमिदं तव |
स्थापितं पुरतो भक्त्या गृहाण तुष्टिमावह ||
३४ ||
हेमपात्रस्थितं दिव्यं परमान्नं सुसंस्कृतम् |
पञ्चषड्रससंयुक्तं गृहाण मम सिद्धये ||
३५ ||
इति पठित्वा नैवेद्यपात्रं कराभ्यां स्पृष्ट्वा मूलमन्त्रमुच्चार्य—अमुकदेवतायै इदं यथासम्भवं निवेदयामि नमः स्वाहा—इति दक्षिणहस्तेन जलमादाय नैवेद्यं समर्पयेत् |
ततो देवस्य दक्षिणहस्ते—ॐ अमृतोपस्तरणमसि स्वाहा—इति जलं दत्त्वा वामहस्तेन विकचोत्पलनिभां ग्रासमुद्रां प्रदर्श्य दक्षिणहस्तेनोक्तमुद्राभिः—ॐ प्राणाय स्वाहा |
ॐ अपानाय स्वाहा |
ॐ उदानाय स्वाहा |
ॐ व्यानाय स्वाहा |
ॐ समानाय स्वाहा—इति पञ्चप्राणाहुतीर्हुत्वा

Band II, S. 29–30, Vers 36: Wasser und Verweilen bei der Speisung
पात्रान्तरे जलं निधाय धेनुमुद्रयाऽमृतीकृत्य—नमस्ते देवदेवेश सर्वतृप्तिकरं वरम् |
अन्यानिवेदितं शुद्धं प्रकृतिस्थं सुशीतलम् ||
परमानन्दसम्पूर्णं गृहाण जलमुत्तमम् ||
३६ ||
इत्युक्त्वा देवताया वामभागे जलपात्रं निवेश्य मूलेन पुष्पाञ्जलिं दत्त्वाऽस्त्रमन्त्रेण दिग्बन्धनं विधाय देवतायाः परितो यवनिकां कृत्वा—अमृतात्मकनैवेद्यं नमः—इत्युच्चार्य धेनुमुद्रां प्रदर्श्य भुञ्जानां देवतां स्मृत्वाऽष्टोत्तरशतं दशधा वा मूलमन्त्रं प्रजप्य—ॐ अमृतापिधानमसि स्वाहा—इति जलं दद्यात् |


Band II, S. 30, Vaishvadeva-Homa und Gabe an das Gefolge
ततो दक्षिणे स्थण्डिलं कृत्वा वक्ष्यमाणप्रकारेणाग्निं संस्थाप्य तस्मिन्नग्नौ देवतामावाह्य पाद्यादिभिर्गन्धपुष्पादिभिश्च संपूज्य घृतयुक्तेन पायसेन वैश्वदेवाख्यं होमं कुर्यात् |
तत्र प्रथमं सप्रणवाभिर्व्याहृतिभिर्हुत्वा मूलमन्त्रेण पञ्चविंशत्याहुतीर्दद्यात् |
पुनर्व्याहृतिभिर्हुत्वा पञ्चोपचारैर्देवतां संपूज्य पीठमूर्तौ तां संयोज्य वह्निं विसृजेत् |
ततः शिष्टेन पायसेन—ॐ अमुकदेवतायाः पार्षदेभ्य एष बलिर्नमः—इति पार्षदेभ्यो गन्धपुष्पाक्षतसहितं बलिं विसृजेत् |


Band II, S. 30, Vers 37: Speisereste und Tambula
ततो यवनिकामुद्वास्य देवेन यथेष्टं भुक्तं नैवेद्यं सम्भाव्य नैवेद्यपात्रं नैर्ऋतीदिशि संस्थाप्य नैवेद्यस्थानमस्त्रमन्त्रेण गोमयाद्भिः संशोध्य देवोच्छिष्टं किंचित् समादाय—ॐ निर्माल्यभोजिने नमः—इत्यैशान्यां दिशि क्षिपेत् |
ततो हस्तौ प्रक्षाल्य ताम्बूलमादाय पुरतः संस्थाप्य—एलालवङ्गखदिरचूर्णपूगादिसंयुतम् |
ताम्बूलं देवदेवेश गृहाण त्वं प्रसीद मे ||
३७ ||
इति पठित्वा मूलान्ते—अमुकदेवतायै इदं ताम्बूलं निवेदयामि स्वाहा—इति निवेद्य मूलेन गन्धपुष्पादिभिस्त्रिवारं पूजयेत् |
ततो दर्पणं प्रदर्श्य छत्रचामरादिकं निवेद्य

Band II, S. 30, Bali-Gaben bei der Shakti-Verehrung
शक्तिविषये तु स्वकल्पोक्तमन्त्रेण देवतायै माषभक्तादिबलिं दत्त्वा आग्नेयादिषु पूर्वदक्षिणोत्तरपश्चिमभागेषु वा यथाक्रमं गणेशवटुकक्षेत्रपालयोगिनीभ्यो बलिं दद्यात् |
तत्र क्रमस्तु मण्डलानि कृत्वा बलिपात्राणि संस्थाप्य—गँ गणेशाय बलिमूर्तये नमः—इत्यादिमन्त्रेण बलिं सम्पूज्य—गाँ गणेशाय नमः |
वाँ वटुकाय नमः |
क्षाँ क्षेत्रपालाय नमः |
याँ योगिनीभ्यो नमः |
इति मन्त्रैर्गन्धपुष्पादिभिस्तानभ्यर्च्य—गाँ गीँ गूँ गणपतये वर वरद सर्वजनं मे वशमानय बलिं गृह्ण गृह्ण स्वाहा—एष बलिर्गणपतये नमः—इति गणेशाय बलिं दत्त्वा—

Band II, S. 31, Bali an Vatuka und Kshetrapala
ऐह्येहि देवीपुत्र वटुकनाथ कपिलजटाभार भासुर त्रिनेत्र ज्वालामुख सर्वविघ्नान् नाशय सर्वोपचारसहितं बलिं गृह्ण गृह्ण स्वाहा—एष बलिं वटुकाय नमः—इति वटुकाय बलिं दत्त्वा—क्षाँ क्षीँ क्षेँ क्षैँ क्षौँ क्षः क्षेत्रपालाय धूपदीपादिसहितं बलिं गृह्ण गृह्ण स्वाहा—एष बलिः क्षेत्रपालाय नमः—इति क्षेत्रपालाय बलिं दत्त्वा—

Lesungshinweise: Lesungshinweis: Die gedruckte Bija-Reihe enthält zwischen langem I und E kein U; ein vermeintlich fehlendes Glied wird nicht ergänzt.

Band II, S. 31, Vers 38: Bali an die Yoginis
याँ योगिनीभ्यः स्वाहा—ऊर्ध्वं ब्रह्माण्डतो वा दिवि गगनतले भूतले निष्कले वा पाताले वाऽनले वा सलिलपवनयोर्यत्र तत्र स्थिता वा |
क्षेत्रे पीठोपपीठादिषु च कृतपदाः पुष्पधूपादिकेन प्रीता देव्यः सदा नः शुभविधि बलिना पान्तु वीरेन्द्रवन्द्याः ||
३८ ||
एष बलिर्योगिनीभ्यो नमः—इति योगिनीभ्यो बलिं दद्यात् |
वैष्णवादौ तु भूतबलिमात्रम् |


Lesungshinweise: Lesungshinweis: Die Verbindung „śubhav idhi“ beziehungsweise „śubhav idhim“ ist im Druck nicht eindeutig konstruiert; die deutsche Fassung gibt hier den erkennbaren Sinn wieder, ohne eine Sanskrit-Ergänzung einzusetzen.

Band II, S. 31, Verse 39–40: Speisegabe an die Bhutas
ततो भूतबलिं दद्यात् |
तद्यथा—ईशाने मण्डलं कृत्वा अन्नव्यञ्जनपुष्पाक्षतजलादियुक्तं साधारं बलिपात्रं संस्थाप्य तत्र—ॐ सर्वेभ्यो भूतेभ्यो नमः—इति गन्धपुष्पादिभिः संपूज्य—ये रौद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः |
योगिन्योऽप्युग्ररूपाश्च गणनाथाधिपाश्च ये ||
३९ ||
भूचराः खेचराश्चैव ये तिष्ठन्त्यन्तरिक्षगाः |
सर्वे ते प्रीतमनसो भूत्वा गृह्णन्त्विमं बलिम् ||
४० ||
इति पठित्वा वामहस्तेन तत्पात्रे जलधारां समर्प्य—ॐ सर्वेभ्यो भूतेभ्य एषोऽन्नबलिर्नमः—इति दक्षहस्तेनोत्सृजेत् |


Band II, S. 31–32, Verse 41–42: Entlassung und Darbringung des Japa
ततः पुष्पाञ्जलिमादाय प्रार्थयेत् |
भूतानि यानीह वसन्ति भूतले बलिं गृहीत्वा विधिवत् प्रयुक्ताम् |
सन्तोषमासाद्य व्रजन्तु सर्वे क्षमन्तु तान्यत्र नमोऽस्तु तेभ्यः ||
४१ ||
इति सम्प्रार्थ्य पुष्पाञ्जलिं दत्त्वा नत्वा च—भूतानि यथासुखं विहरन्तु—इति नाराचमुद्रया विसृजेत् |
ततो मूलमष्टोत्तरसहस्रं प्रजप्य—गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् |
सिद्धिर्भवतु मे देव त्वत्प्रसादाज्जगत्पते ||
४२ ||
इति जपं निवेद्य यथाशक्ति स्तुत्वा प्रणम्य आसनादुत्थाय त्रिः परिक्रम्य साष्टाङ्गं प्रणमेत् |


Band II, S. 32, Vardhani und schützende Umkreisung
तत ईशानस्थे पूर्वसञ्चितविकिरपुञ्जेषु सुवर्णगर्भां वस्त्रवेष्टितां जलपूरितां वर्द्धनीं संस्थाप्य—सिंहस्थां खड्गखेटकधारिणीं घोररूपां पश्चिमास्याम्—अस्त्रदेवतां ध्यात्वा तस्यामावाह्य—फट् अस्त्रदेवतायै नमः—इति मन्त्रेण पञ्चोपचारैश्चलासनेनैव सम्पूज्य तां कर्करीमादाय—अमुकदेवताज्ञया इन्द्रामुकदेवयजनं रक्ष—इत्यादिसकललोकपालान् भावयन् नालाद्वारिधारां विमोच्य मण्डपाभ्यन्तरं प्रदक्षिणीकृत्य—फट्—इत्यस्त्रमन्त्रमुच्चार्य यथास्थानं निवेशयेत् |
ततः स्थिरासनो भूत्वा गन्धाद्यैरुपचारैः पूर्ववत् सम्पूज्य प्रणमेत् |


Lesungshinweise: Lesungshinweis: Die genaue praktische Bedeutung des hier genannten beweglichen Sitzes bleibt offen.

Band II, S. 32, Sankalpa für das Diksha-Homa
तत आचार्यः स्वीयकुण्डे पूर्वेशानमध्यस्थे विधिवदग्निसंस्कारं कुर्यात् |
तत्रादौ कुण्डस्थानमागत्यासने उपविश्य तत्त्वत्रयेणाचम्य कुशत्रयतिलजलान्यादाय सङ्कल्पं कुर्यात् |
तद्यथा—ॐ अद्य—इत्यादिदेशकालौ सङ्कीर्त्य—अमुकगोत्रोऽमुकदेवशर्माऽमुकगोत्रामुकशर्मकर्तृकामुकदेवतामुकमन्त्रदीक्षाकर्माङ्गभूतहोमकर्माहं करिष्ये—इति सङ्कल्प्य पूर्वोक्तमन्त्रेण सूर्यार्घं दत्त्वा सामान्यार्घं संस्थाप्य कुण्डस्य वीक्षणाद्यष्टादशसंस्कारान् कुर्यात् |
तद्यथा—

Band II, S. 32, Weihen der Kunda: Betrachten bis Bestreichen
मूलमन्त्रमुच्चरन् कुण्डं पश्येदिति वीक्षणम् |
फट् इत्यस्त्रमन्त्रेण प्रोक्षणम् |
तेनैव मन्त्रेण दर्भैस्त्रिधा ताडनम् |
हुँ इति कवचमन्त्रेण अभ्युक्षणम् |
फट् इत्यस्त्रमन्त्रेणाङ्गुलमानेन खननम् |
तेनैव मन्त्रेणाङ्गुष्ठानामिकाभ्यां मृत्तिकोद्धरणम् |
नमः इति हृन्मन्त्रेण पुनर्मृत्तिकाभिः पूरणम् |
अस्त्रमन्त्रेण समीकरणम् |
हुँ इति जलेन सेचनम् |
फट् इति कुट्टनम् |
तच्च काष्ठादिना हस्तेनैव वा दृढीकरणम् |
ततः हुँ इति मन्त्रेण कुशमुष्टिना कुण्डे मृदं मार्जयेदिति मार्जनम् |
तेनैव मन्त्रेण गोमयेनोपलेपयेदिति लेपनम् |


Band II, S. 32–33, Weihen der Kunda: Kalas bis Ausbreiten des Grases
तत्रस्थेनैव मन्त्रेण कुण्डमध्ये सोमसूर्याग्निकलाश्चित्कलाश्चिन्तयेदिति कलाख्यकल्पनम् |
हुँ इति कवचमन्त्रमुच्चरन् सूत्रत्रयेण कुण्डमेखलास्त्रिवारं वेष्टयेदिति त्रिसूत्रीकरणम् |
ॐ अमुककुण्डाय नमः—इति मन्त्रेण कुण्डं पूजयेदित्यर्चनम् |
कुण्डार्चनानन्तरम्—ॐ अमुककुण्डनाभये नमः—ॐ अमुककुण्डमेखलाभ्यो नमः—इति पूजयेत् |
अस्त्रमन्त्रेण कुण्डं वज्रवद्दृढं चिन्तयेदिति वज्रीकरणम् |
कुण्डमध्ये पूर्वाग्रं कुशं निधाय तदुपर्युत्तराग्रं कुशं निधायोपरि विष्टरं न्यस्य तदुपरि पुष्पं दत्त्वा—नमः—इति हृन्मन्त्रेण पूजयेदिति चतुष्पथीकरणम् |
अस्त्रमन्त्राभिमन्त्रितानच्छिन्नाग्रान् कुशान् मेखलासु कवचमन्त्रमुच्चरन्नास्तरेदिति क्षपाटनम् |
इत्यष्टादशसंस्कारान् कुर्यात् |
अष्टादशसंस्कारकरणाशक्तस्तु पूर्वोक्तवीक्षणादिसंस्कारचतुष्टयमेव कुर्यात् |
वाममार्गे तु संस्कारचतुष्टयमेव कुर्यात् |


Lesungshinweise: Lesungshinweis: Der Name des letzten Schrittes wird nach dem Druck bewahrt; die Handlung selbst ist eindeutig beschrieben.

Band II, S. 33, Linien und alternative Zeichnungen in der Kunda
ततः कुण्डमध्ये दर्भमूलेन स्रुवमूलेन वा—नमः—इत्युच्चरन् प्रागग्रास्तिस्रो रेखा उदगग्रास्तिस्रो रेखा लिखेत् |
तत्र प्रागग्रा रेखा दक्षिणोपक्रमा उदगपवर्गा उदगग्राश्च पश्चिमोपक्रमाः प्रागपवर्गा इति लिखनक्रमः |
अथ वा त्रिकोणगर्भं वृत्तवेष्टितं षट्कोणं लिखेदिति शारदायामुक्तम् |
उक्तरेखाषट्कं तादृशषट्कोणं च लिखेदिति मेरुतन्त्रे प्रोक्तम् |
त्रिकोणमध्ये लज्जाबीजं प्रणवं च लिखेदित्यपि क्वचिदुक्तम् |
ततः प्रागग्ररेखासु—ॐ मुकुन्दाय नमः |
ॐ ईशानाय नमः |
ॐ पुरन्दराय नमः |
ॐ ब्रह्मणे नमः |
ॐ वैवस्वताय नमः |
ॐ इन्दवे नमः |
इति लिखनक्रमेणैव गन्धपुष्पादिभिः पूजयेत् |
ततो मूलमुच्चार्य—अमुकदेवताकुण्डाय नमः—इति पूजयेत् |
श्रीविद्याविषये तु—ऐँ ह्रीँ श्रीँ ऐँ क्लीँ सौः मुकुन्दाय नमः—इत्यादिक्रमेणैव पूजयेत् |


Band II, S. 33, Yoga-Pitha in der Feuergrube
ततः प्रणवमुच्चरन् सामान्यार्घजलेनाभ्युक्ष्य योगपीठदेवताः पूजयेत् |
तद्यथा—कुण्डमध्ये घटस्थापनोक्तक्रमेण—ॐ आधारशक्तये नमः—इत्यादि—ॐ रत्नसिंहासनाय नमः—इत्यन्तं सम्पूज्य अग्न्यादिकोणेषु धर्मादीनभ्यर्च्य पूर्वादिदिक्षु अधर्मादीन् पूजयेत् |
ततोऽष्टदलकमलं विचिन्त्य—ॐ अनन्ताय नमः—इत्यादि—ह्रीँ ज्ञानात्मने नमः—इत्यन्तं सम्पूज्य पूर्वादिकेशरेषु—ॐ जयायै नमः |
ॐ विजयायै नमः |
ॐ अजितायै नमः |
ॐ अपराजितायै नमः |
ॐ नित्यायै नमः |
ॐ विलासिन्यै नमः |
ॐ दोग्ध्र्यै नमः |
ॐ अघोरायै नमः |


Band II, S. 34, Pitha-Shaktis und Pitha-Mantras
मध्ये—ॐ मङ्गलायै नमः—इति पीठशक्तीः पूजयेत् |
वैष्णवे तु—ॐ विभूत्यै नमः |
ॐ उन्नत्यै नमः |
ॐ कान्त्यै नमः |
ॐ सृष्ट्यै नमः |
ॐ कीर्त्यै नमः |
ॐ सन्नत्यै नमः |
ॐ पुष्ट्यै नमः |
ॐ उत्कृष्ट्यै नमः |
ॐ ऋद्ध्यै नमः |
इति पीठशक्तीः पूजयेत् |
ततः—ह्रीँ वागीश्वरीवागीश्वरयोर्योगपीठात्मने नमः—इति पीठमन्त्रेण पीठं पूजयेत् |
ह्रीँ सर्वशक्तिकमलासनाय नमः—इति मन्त्रेण वा पूजयेत् |
वैष्णवे तु—श्रीलक्ष्मीनारायणयोर्योगपीठात्मने नमः—इति पूजयेत् |


Band II, S. 34, Verse 43–44: Meditation über das göttliche Paar
ततः—वागीश्वरीमृतुस्नातां नीलेन्दीवरसन्निभाम् |
वागीश्वरेण संयुक्ताम् … ||
४३ ||
इति ध्यात्वा—श्रीविद्यायां तु—कामेश्वरीं कुण्डमध्ये सकामामृतुसंयुताम्—इति ध्यात्वा—वैष्णवे तु—लक्ष्मीमृतुमतीं तत्र प्रभोर्नारायणस्य च |
ग्राम्यधर्मेण संयुक्ताम् … ||
४४ ||
इति ध्यात्वा तत्रावाह्य आवाहनादिमुद्राः प्रदर्श्य—ह्रीँ वागीश्वरीवागीश्वराभ्यां नमः |
श्रीविद्यापक्षे तु—क्लीँ कामेश्वरीकामेश्वराभ्यां नमः |
वैष्णवे तु—श्रीँ लक्ष्मीनारायणाभ्यां नमः—इति मन्त्रेण पञ्चोपचारैः पूजयेत् |
एवं सौरेऽपि |
अथ वा शैवशाक्तादौ—कामोन्मत्तां शिवमृतुमतीं भुवनेश्वरीम्—ध्यात्वा—ह्रीँ भुवनेश्वरीशिवाभ्यां नमः—इति मन्त्रेण पूजयेत् |


Lesungshinweise: [die Verbindung mit dem gedruckten Wort Shiva ist unklar]

Band II, S. 34–35, Herkunft und Reinigung des Feuers
ततः सूर्यकान्तादिसम्भूतमरणिसम्भवं वा श्रोत्रियगेहजं वा वह्निं स्वर्णपात्राद्यन्यतमपात्रे निधाय पात्रान्तरेणाच्छाद्य समानीय—फट्—इत्यस्त्रमन्त्रेणाग्निं स्वदक्षिणे समाधाय—हुँ—इति कवचमन्त्रेणाच्छाद्य तस्मात् क्रव्यादंशमादाय—हुँ फट्—इति नैर्ऋत्ये क्षिपेत् |
ततोऽवशिष्टमग्निं देवांशं विचिन्त्य मूलमन्त्रेण पुरतः संस्थाप्य कुण्डसंस्कारोक्तक्रमेण वीक्षणादिभिश्चतुर्भिः संस्कृत्य औदर्यबैन्दवाग्निभ्यां भौमस्य वह्नेरैक्यं भावयेत् |
बैन्दवो भ्रूमध्यस्थो वह्निः |


Band II, S. 35, Belebung und Einsetzung des Feuers
ततः—रँ वह्निचैतन्यं कल्पयामि—इति |
हुँ रँ चैतन्यं ते नमः—इति मन्त्रेण वा पावकचैतन्यं संयोज्य प्रणवेनाष्टोत्तरशतं दशधा वाऽभिमन्त्र्य धेनुमुद्रयाऽमृतीकृत्य—फट्—इति संरक्ष्य—हुँ—इत्यवगुण्ठ्य गन्धपुष्पादिभिः पूजयेत् |
रँ वह्निमूर्तये नमः—इत्यभ्यर्च्य कुण्डस्योपरि प्रादक्षिण्येन त्रिः परिभ्राम्य जानुस्पृष्टमहीतलः प्रणवोच्चारणपूर्वकमात्मनोऽभिमुखं शिवबीजधिया देव्या योनौ निःक्षिपेत् |
शिवबीजधिया शैवशाक्तादौ, वैष्णवादौ तु विष्णवादिबीजधियेति बोध्यम् |


Band II, S. 35, Entfachung und Vers 45
ततः—ह्रीँ वागीश्वरीवागीश्वराभ्यामाचमनीयं नमः—इत्याचमनीयं दत्त्वा—वह्निरूपां देवताम्—देव्या गर्भे धृतां ध्यात्वा गर्भरक्षार्थं दर्भकङ्कणं दत्त्वा—चित्पिङ्गल हन हन दह दह पच पच सर्वज्ञाज्ञापय स्वाहा—इति मन्त्रेण ज्वालिनीमुद्रया प्रज्वालयेत् |
रुद्रयामले तु—ह्रीँ ह्रीँ ज्वल ज्वल प्रज्वल प्रज्वल हुँ फट् स्वाहा—इति मन्त्रेणाग्निप्रज्वालनमुक्तम् |
ततः कृताञ्जलिः—ॐ अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् |
सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् ||
४५ ||
इत्यनेन वह्निमुपतिष्ठेत् |


Band II, S. 35, Nyasa der sieben sattvigen Feuerzungen
ततः प्रादेशमात्रां मूलाग्रयोर्घृतसम्प्लुतां समिधं वह्नौ तूष्णीं हुत्वा पूजाप्रकरणोक्तक्रमेण गणेशादिवन्दनदिग्बन्धनभूतशुद्धिप्राणायाममातृकान्यासमूलन्यासान् विधाय स्वदेहे वह्निजिह्वान्यासं कुर्यात् |
तत्र सात्त्विकीनां जिह्वानां न्यासः |
यथा—[बीजम् अस्पष्टम्] हिरण्यायै नमः—लिङ्गे |
[बीजम् अस्पष्टम्] गगनायै नमः—पायौ |
[बीजम् अस्पष्टम्] रक्तायै नमः—मूर्ध्नि |
[बीजम् अस्पष्टम्] कृष्णायै नमः—वक्त्रे |
[बीजम् अस्पष्टम्] सुप्रभायै नमः—घ्राणे |
[बीजम् अस्पष्टम्] बहुरूपायै नमः—नेत्रे |
[बीजम् अस्पष्टम्] अतिरिक्तायै नमः—सर्वाङ्गे |
एताः सात्त्विक्यो जिह्वाः सात्त्विककर्मसु |


Lesungshinweise: Lesungshinweis: Die sieben vorangestellten Bija-Verbindungen sind auch in der vergrößerten Buchseite nicht zuverlässig auflösbar und deshalb in den Sanskritfassungen einzeln als unklar markiert.

Band II, S. 35–36, Rajasige und tamasige Feuerzungen
काम्यादौ तु—पद्मरागा सुवर्णा भद्रलोहिता लोहिता श्वेता धूमिनी करालिका—इति राजस्यो जिह्वा न्यसनीयाः |
क्रूरकर्मणि—विश्वमूर्तिः स्फुलिङ्गिनी धूम्रवर्णा लोहिता कराला काली—इति तामस्यो जिह्वा न्यसनीयाः |
बीजानि तु पूर्वोक्तान्येव |
ततस्तान्येव बीजान्यादौ दत्त्वा तेष्वेव स्थानेषु अमर्त्यपितृगन्धर्वयक्षनागपिशाचराक्षसान्—सप्तजिह्वाधिष्ठातृन् देवानपि क्रमेण न्यसेत् |
[बीजम् अस्पष्टम्] अमर्त्याय नमः—इत्यादि |


Lesungshinweise: Lesungshinweis: In der tamasigen Reihe stehen im Druck nur sechs Namen; ein siebter wird nicht erfunden. Die Unsicherheit der zuvor genannten Bijas gilt auch für den Rückverweis und das ausgeschriebene Beispiel.

Band II, S. 36, Rishi-Nyasa des Agni-Mantras
ततः ऋष्यादिन्यासं कुर्यात् |
यथा—अग्निमन्त्रस्य भृगुरृषिर्गायत्री छन्दोऽग्निर्देवता रँ बीजं स्वाहा शक्तिरग्नियजने विनियोगः |
भृगवे ऋषये नमः—शिरसि |
गायत्रीछन्दसे नमः—मुखे |
अग्नये देवतायै नमः—हृदये |
रँ बीजाय नमः—गुह्ये |
स्वाहायै शक्तये नमः—पादयोः |
अग्नियजने विनियोगः—इति बद्धाञ्जलिः |


Band II, S. 36, Kara-Nyasa und Murti-Nyasa des Feuers
ततः करन्यासः |
ॐ सहस्रार्चिषि अङ्गुष्ठाभ्यां नमः |
ॐ स्वस्तिपूर्णाय तर्जनीभ्यां नमः स्वाहा |
ॐ उत्तिष्ठपुरुषाय मध्यमाभ्यां वषट् |
ॐ धूमव्यापिने अनामिकाभ्यां हुँ |
ॐ सप्तजिह्वाय कनिष्ठिकाभ्यां वौषट् |
ॐ धनुर्धराय करतलकरपृष्ठाभ्यां फट् |
एवं हृदयाद्यङ्गन्यासः |
ततो मूर्तिन्यासं कुर्यात् |
तद्यथा—ॐ अग्नये जातवेदसे नमः—मूर्ध्नि |
ॐ अग्नये सप्तजिह्वाय नमः—दक्षांशे |
ॐ अग्नये हव्यवाहनाय नमः—दक्षपार्श्वे |
ॐ अग्नये अश्वोदरजाय नमः—दक्षकटौ |
ॐ अग्नये वैश्वानराय नमः—लिङ्गे |
ॐ अग्नये कौमारतेजसे नमः—वामकट्याम् |
ॐ अग्नये विश्वमुखाय नमः—वामपार्श्वे |
ॐ अग्नये देवमुखाय नमः—वामांशे |
इति मूर्तिन्यासः |


Lesungshinweise: Lesungshinweis: Die zweite Handformel enthält im Druck sowohl „Verehrung“ als auch „Svaha“; beide bleiben erhalten.

Band II, S. 37, Neun Shaktis des Feuer-Pitha
ततः पीठन्यासं कुर्यात् |
तद्यथा—आधारशक्त्यादिवह्निमण्डलान्तमुक्तस्थानेषु विन्यस्य हृत्पद्मस्य पूर्वादिकेशरेषु—ॐ पीतायै नमः |
ॐ श्वेतायै नमः |
ॐ धूम्रायै नमः |
ॐ तीव्रायै नमः |
ॐ स्फुलिङ्गिन्यै नमः |
ॐ अरुणायै नमः |
ॐ कृष्णायै नमः |
ॐ रुचिरायै नमः |
ॐ ज्वालिन्यै नमः—मध्ये |
इति वह्नेर्नव शक्तीः पीठे विन्यस्य तत्रैव रँ वह्नेर्योगपीठाय नमः—इति पीठन्यासं विधाय वह्निं ध्यायेत् |


Band II, S. 37, Vers 46: Agni-Meditation nach der Sharada
ध्यानं यथा—इष्टं शक्तिं स्वस्तिकाभीतिमुच्चैर्दीर्घैर्दोर्भिर्धारयन्तं यवाभम् |
हेमाकल्पं पद्मसंस्थं त्रिनेत्रं ध्यायेद्वह्निं बद्धमौलिं जटाभिः ||
४६ ||
इदं शारदोक्तध्यानम् |


Lesungshinweise: Lesungshinweis: Das gedruckte „yavābham“ wird als gerstenfarben wiedergegeben; eine anderslautende geläufige Dhyana-Fassung wird nicht eingesetzt.

Band II, S. 37, Verse 47–50: Agni-Meditation nach dem Rudrayamala
रुद्रयामलोक्तध्यानम् |
यथा—बन्धूकपुष्पसङ्काशं सुतप्तकनकप्रभम् |
पद्मस्थं यजमानार्थं वदनद्वयशोभितम् ||
४७ ||
सप्तच्छन्दोमयं देवं विमानोपरिसंस्थितम् |
त्रिधा ग्रीवं त्रिपादाब्जं हव्यकव्यविनाशनम् ||
४८ ||
ब्रह्माध्वर्यूद्गातृहोतृचतुःशृङ्गविराजितम् |
पञ्चरात्रं पाशुपतं कापिलं च महामतम् ||
४९ ||
बौद्धं वैदिकमित्येतत् षट्पिङ्गलविलोचनम् |
वेदार्थं च चतुःश्रोत्रं श्रौतशास्त्रमयध्वनिम् ||
५० ||


Lesungshinweise: Die im gelehrte Meditation lautet: „Der Bandhuka-Blüte gleich, wie stark erhitztes Gold strahlend, auf einem Lotus, dem Opfernden zugute, geschmückt mit zwei Gesichtern; (47) der Gott, dessen Wesen die sieben Versmaße sind, auf einem himmlischen Wagen, mit dreifachem Hals und drei Lotusfüßen, der die Opfergaben für Götter und Ahnen verzehrt; (48) mit vier Hörnern glänzend, die Brahman, Adhvaryu, Udgatri und Hotri, die vier Opferpriester, darstellen; Pancharatra, Pashupata und die große Lehre Kapilas, (49) die buddhistische und die vedische Lehre — diese als sechs goldbraune Augen; mit vier Ohren, auf den Veda-Sinn bezogen, und einem Klang, dessen Wesen die Lehre des vedischen Opfers ist.“ (50) Lesungshinweis: Die Quelle nennt hier fünf Lehrbezeichnungen, spricht aber von sechs Augen; die Differenz bleibt erhalten.

Band II, S. 37–38, Verse 51–56: Arme und sieben Zungen Agnis
सपाटलजटाबद्धमौलिकोटीरभास्वरम् |
हेमालङ्कारसंयुक्तं हेमकुण्डलमण्डितम् ||
५१ ||
रक्ताम्भोरुहमध्यस्थं स्वस्तिकासनसंस्थितम् |
पृष्ठदेशसमालम्बि तार्तीयचरणाम्बुजम् ||
५२ ||
महाशब्दायमानं च राजमानं स्वतेजसा |
शक्तिं वज्रं स्रुक्स्रुवं च चतुर्भिर्दक्षबाहुभिः ||
५३ ||
तोमरं तालवृन्तं च सौवर्णं घृतपात्रकम् |
वामैस्त्रिभिर्बाहुभिश्च दधानं रक्तवाससम् ||
५४ ||
हिरण्या कनका रक्ता कृष्णा दक्षानने स्थिता |
सुप्रभा चातिरक्ता च बहुरक्ता च जिह्विका ||
५५ ||
इमा रसज्ञास्तद्वामवदने नित्यमास्थिताः |
एताभिः सप्तजिह्वाभिरुपेतं पाटिताननम् ||
५६ ||


Band II, S. 38, Selbstverehrung und Darbha-Ausbreitung
इति ध्यात्वा वह्निदेवतात्मकमात्मानं विचिन्त्य मानसैरुपचारैरभ्यर्च्य—रँ आत्ममूर्तये वह्नये नमः—इति मन्त्रेण नैवेद्यरहितैर्गन्धादिभिर्बाह्योपचारैरप्यात्मानं सम्पूज्य सामान्यार्घजलेन मेखलाः परिषिञ्च्य गर्भशून्यैर्दर्भैरग्र्यैः परिस्तरणं कुर्यात् |
परिस्तरणं च एकमेखलकुण्डे मेखलाया अधस्तात् द्विमेखले कुण्डे द्वितीयमेखलोपरि त्रिमेखलाकुण्डे मध्यमेखलायां कुर्यात् |
तत्क्रमश्च—दक्षिणोत्तरयोः पूर्वाग्रैः पूर्वपश्चिमयोरुत्तराग्रैर्दर्भैर्मूलभागानग्रभागैराच्छादयन् परिस्तरेदिति |
ततः प्राचीं विहाय दक्षिणोत्तरपश्चिमेषु पलाशादिवृक्षसम्भवान् हस्तमात्रान् सविष्टारान् परिधीन् निःक्षिप्य तेषु प्रादक्षिण्येन—ॐ ब्रह्मणे नमः |
ॐ विष्णवे नमः |
ॐ रुद्राय नमः |
इति पूजयेत् |


Band II, S. 38, Sitz und Verkörperung des Feuers
ततो मेखलासु—ॐ वामायै नमः |
ॐ ज्येष्ठायै नमः |
ॐ रौद्रायै नमः |
ॐ अम्बिकायै नमः |
इति पूर्वादिप्रदक्षिण्येन सम्पूज्य—रँ वह्नये आसनं कल्पयामि नमः—इति आसनं दत्त्वा कुण्डमध्ये सचतुर्द्वारं चतुरस्रत्रयावृतमष्टदलकमलं विचिन्त्य प्राग्लिखितपीठपूजाक्रमेणाधारशक्त्यादिवह्निमण्डलान्तं मण्डूकादिज्ञानात्मान्तं वा सम्पूज्य वह्न्यासनपद्मस्य पूर्वादिदलमूलेषु मध्ये च पूर्वोक्तनवशक्तीरभ्यर्च्य—रँ वह्नेर्योगपीठात्मने नमः—इति |
सर्वशक्तिकमलासनाय नमः—इति मन्त्रेण वा पीठं सम्पूज्य मूलमन्त्रान्ते—रँ वह्नेर्मूर्तिं कल्पयामि नमः—इति मूर्तिं परिकल्प्य पुनर्वह्निं ध्यात्वा—

Band II, S. 38–39, Anrufung und Pranapratistha Agnis
ॐ वैश्वानरजातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा भगवन्नग्ने इहागच्छागच्छ—ॐ वैश्वानरजातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा—इत्यावाहयेत् |
आद्यन्तयोर्मूलमन्त्रोच्चारणं च पूर्वोक्तप्रमाणसिद्धम् |
ततः—रँ आवाहितो भव, संस्थापितो भव—इत्यादिक्रमेणावाहनादिमुद्राः प्रदर्श्य प्राणप्रतिष्ठां कुर्यात् |
यथा—ॐ आँ ह्रीँ क्रोँ यँ रँ लँ वँ शँ षँ सँ हँ हंसः सोऽहं रँ वह्नेः प्राणा इह इह स्थिताः |
एवम्—जीव इह इह स्थितः |
एवम्—सर्वेन्द्रियाणि वाङ्मनश्चक्षुःश्रोत्रप्राणप्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा |


Lesungshinweise: Ebenso: „Das Lebensprinzip ist hier, hier gegenwärtig.“ Ebenso: „Alle Sinneskräfte, Rede, Manas, Auge, Gehör, Prana und Lebenskräfte sollen hierherkommen und lange in Wohlbefinden verweilen, Svaha.“ Lesungshinweis: In der letzten Aufzählung druckt die Quelle eine doppelte Prana-Verbindung; sie wird nicht stillschweigend zu einer üblichen Organliste berichtigt.

Band II, S. 39, Upacharas und Avarana der sieben Feuerzungen
एवं प्राणप्रतिष्ठां विधाय—ॐ वैश्वानरजातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा—इदं पाद्यं वह्नये नमः—इत्यादिक्रमेण पाद्यार्घ्याचमनस्नानगन्धपुष्पधूपदीपनैवेद्यताम्बूलानि निवेद्य—ॐ वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा—श्रीपादुकां पूजयामि नमः—इति पुष्पाञ्जलिना वारत्रयमभ्यर्च्य आवरणार्चनं कुर्यात् |
तद्यथा—षट्कोणेषु मध्ये च ईशानादिक्रमेण हिरण्यादिसप्तजिह्वाः पूजयेत् |
यथा—[बीजम् अस्पष्टम्] हिरण्यायै नमः |
[बीजम् अस्पष्टम्] गगनायै नमः |
[बीजम् अस्पष्टम्] रक्तायै नमः |
[बीजम् अस्पष्टम्] कृष्णायै नमः |
[बीजम् अस्पष्टम्] सुप्रभायै नमः |
[बीजम् अस्पष्टम्] बहुरूपायै नमः |
[बीजम् अस्पष्टम्] अतिरिक्तायै नमः |
वैष्णवे तु—प्रभा दीप्तिः प्रकाशा मरीचिस्तापिनी कराला लेलिहाना चेति सप्त जिह्वाः पूज्याः |


Lesungshinweise: Lesungshinweis: Auch an dieser zweiten Druckstelle sind die Bija-Ligaturen der sieben zuerst genannten Zungen nicht zuverlässig aufgelöst; die lokalen Lücken bleiben sichtbar.

Band II, S. 39–40, Anga-Gottheiten des Feuers
ततः केशरेष्वङ्गदेवताः पूजयेत् |
यथा—ॐ सहस्रार्चिषे हृदयाय नमः—आग्नेये |
ॐ स्वस्तिपूर्णाय शिरसे स्वाहा—ईशाने |
ॐ उत्तिष्ठपुरुषाय शिखायै वषट्—नैर्ऋत्ये |
ॐ धूमव्यापिने कवचाय हुँ—वायव्ये |
ॐ सप्तजिह्वाय नेत्रत्रयाय वौषट्—मध्ये |
वैष्णवादौ तु नेत्राभ्यामिति ज्ञेयम् |
चतुर्दिक्षु—ॐ धनुर्धरायास्त्राय फट्—इति सम्पूज्य—

Band II, S. 40, Acht Gestalten Agnis und Abschluss der Avarana-Puja
पूर्वादिदलेषु—ॐ अग्नये जातवेदसे नमः |
ॐ अग्नये सप्तजिह्वाय नमः |
ॐ अग्नये हव्यवाहनाय नमः |
ॐ अग्नये अश्वोदरजाय नमः |
ॐ अग्नये वैश्वानराय नमः |
ॐ अग्नये कौमारतेजसे नमः |
ॐ अग्नये विश्वमुखाय नमः |
ॐ अग्नये देवमुखाय नमः |
इत्यष्टमूर्तीरभ्यर्च्य मेखलाश्रितदशसु पूर्वादिक्रमेणेन्द्रादीन् तद्बहिर्वज्रादीन् सम्पूज्य—ॐ वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा साङ्गाय सायुधाय सवाहनाय सालङ्काराय सपरिवाराय वह्नये श्रीपादुकां पूजयामि नमः—इति सम्पूज्य पात्राण्यासादयेत् |


Band II, S. 40, Aufstellung und Reinigung der Opfergefäße
तद्यथा—स्ववामभागे प्रागग्रान् दर्भानास्तीर्य तदुपर्यस्त्रमन्त्रितजलेन प्रक्षालितानि युग्मरूपाणि स्रुक्स्रुवप्रोक्षणीप्रणीताज्यस्थालीचरुस्थाल्यादिपात्राण्यधोमुखीकृत्य विन्यसेत् |
यद्यपि पूजोपयुक्तप्रोक्षणीपात्रस्य स्वदक्षिणे स्थापनमुक्तं तथापि होमोपयुक्तं तत्प्रणीतादिपात्रवद्वाम एव स्थापनीयम् |
स्रुक्स्रुवयोरेव दक्षिणेऽभिधानादिति श्रीविद्यापद्धतिकृतः |
स्रुक्स्रुवावपि पूर्वं वाम एवासाद्य संस्कारोत्तरं दक्षिणे स्थाप्यौ |
ततस्तानि पात्राणि पवित्रेणोत्तानानि विधाय पुनः प्रक्षाल्य सामान्यार्घजलेन क्रमेण सम्प्रोक्ष्य—नमः—इति हृन्मन्त्रमुच्चरन् शुद्धजलेन प्रोक्षणीपात्रमापूर्य आधारपात्रजलेषु क्रमेण बिम्बत्रयमभ्यर्च्य—ॐ गङ्गे च यमुने चैव—इत्यादिनाङ्कुशमुद्रया सूर्यमण्डलात् तीर्थमावाह्य अस्त्रेण संरक्ष्य कवचेनावगुण्ठ्य प्रणवेन गन्धपुष्पाक्षतपवित्राणि निःक्षिप्य कूर्चं निधाय प्रणवेनाष्टधाभिमन्त्र्य धेनुमुद्रां प्रदर्श्य प्रणीतापात्रमपि शुद्धजलेनापूर्य गन्धपुष्पाक्षतपवित्राणि निःक्षिपेत् |
ततः प्रणीतापात्रस्थं किञ्चिज्जलं प्रोक्षणीपात्रे निःक्षिप्य तज्जलेन हृन्मन्त्रं मूलमन्त्रमुच्चरन् यागद्रव्याणि प्रोक्षयेत् |
इति पात्रासादनम् |


Band II, S. 40–41, Wahl des Brahman-Priesters
ततः द्रव्यशोधनं च विधाय ब्रह्माणं वृणुयात् |
यथा—तद्देवतामन्त्रदीक्षितं ब्रह्माणं कुण्डदक्षिणभागे कुशासने उपावेश्य—ॐ अद्येत्यादि अमुकगोत्रोऽमुकदेवशर्माऽमुकदेवताऽमुकमन्त्रदीक्षाकर्माङ्गभूतेऽस्मिन् होमकर्मणि अमुकगोत्रममुकदेवशर्माणं भवन्तं ब्रह्माणमहं वृणे |
वृतोऽस्मि—इति प्रतिवचनम् |
इति वृत्वा ॐ ब्रह्मणे नमः—इति मन्त्रेण गन्धादिभिर्वासोऽलङ्कारादिभिश्च पूजयेत् |
ततः स्रुक्स्रुवौ संस्कुर्यात् |


Band II, S. 41, Weihe der beiden Opferlöffel
यथा—ऊर्ध्वमुखौ स्रुक्स्रुवौ हस्ताभ्यां गृहीत्वाऽधोमुखौ विधाय वारत्रयमग्नौ प्रताप्य वामहस्तेन तौ धृत्वा दक्षिणहस्तेन दर्भानादाय तैर्दर्भैस्तयोरग्रमूलमध्यानि शोधयेत् |
शोधनक्रमश्च—अग्रेणाग्रं मूलेन मूलं मध्येन मध्यमिति |
ततः सामान्यार्घप्रोक्षणीजलाभ्यां सम्प्रोक्ष्य पुनर्वह्नौ प्रताप्य दर्भानग्नौ प्रक्षिपेत् |
ततः स्वदक्षिणे कुशानास्तीर्य तदुपरि तौ स्थापयेत् |
तत आज्यं संस्कुर्यात् |


Band II, S. 41, Ghee-Weihe: Erhitzen, Reinigen und Beleuchten
तद्यथा—आज्यस्थालीमादायास्त्रमन्त्रितजलेन सम्प्रोक्ष्य तस्यामाज्यं निधाय मूलमन्त्रेण वीक्ष्य—अस्त्राय फट्—इति सम्प्रोक्ष्य तेनैव मन्त्रेण दर्भैः सन्ताड्य—हुँ—इत्यर्घ्यजलेनाभ्युक्षणं कुर्यात् |
इति संस्कारचतुष्टयं कृत्वा कुण्डादङ्गारानुद्धृत्य वायुकोणे संस्थाप्य तेष्वङ्गारेषु—नमः—इति मन्त्रेणाज्यस्थालीं स्थापयेत् |
इदं तापनम् |
ततो दर्भयुगलं प्रज्वाल्याज्ये निःक्षिप्य दग्धशेषम्—नमः—इति मन्त्रेण वह्नौ निःक्षिपेत् |
इदं पवित्रीकरणम् |
पुनर्ज्वलितेन दर्भयुगलेन—हुँ—इति मन्त्रमुच्चरन् घृतं नीराज्य अग्नौ निःक्षिपेत् |
इत्यभिद्योतनम् |
ततः प्रज्वालितकुशमुष्टिं गृहीत्वा—अस्त्राय फट्—इति मन्त्रमुच्चरन् प्रदर्श्याग्नौ प्रक्षिपेत् इत्युद्योतनम् |
तस्मादङ्गारादाज्यस्थालीमानीयात्मसम्मुखे संस्थाप्य तानङ्गारानग्नौ प्रक्षिप्याङ्गारस्थानमार्जनं कृत्वा जलं स्पृशेत् |


Band II, S. 41, Durchziehen des Ghee und innere Zuordnung
तत उत्तानहस्तयोरङ्गुष्ठोपकनिष्ठाभ्यां प्रादेशमात्रं पवित्रं पृथक् पृथक् धृत्वा—अस्त्राय फट्—इति मन्त्रमुच्चरन् वह्नेः सम्मुखमुत्प्लुनीयात् |
ततः पवित्रं स्थानान्तरे संस्थाप्य पुनस्तेनैव प्रकारेण दर्भद्वयं गृहीत्वा तेन दर्भयुग्मेन—नमः—इति मन्त्रमुच्चरन्नात्मसम्मुखं घृतं सम्प्लाव्य पूर्वस्थापितपवित्रद्वयमेतत्पवित्रयुग्मं च वह्नौ क्षिपेत् |
इत्युत्प्लवनसम्प्लवने उभयमपि प्लावनमेव |
ततः प्रादेशमात्रं सग्रन्थिदर्भयुगलमाज्यस्थाल्यां घृतमध्ये निःक्षिप्याज्यदक्षिणभागं शुक्लपक्षमाज्यवामभागं कृष्णपक्षं विचिन्त्य वामे इडां दक्षिणे पिङ्गलां मध्ये सुषुम्णां ध्यात्वा होमं कुर्यात् |


Band II, S. 41–42, Ghee-Gaben für die Augen des Feuers
यथा—स्रुवेण—नमः—इति मन्त्रमुच्चरन् दक्षिणभागाद्घृतमादाय—ॐ अग्नये स्वाहा अग्नये इदं नमः—इत्यग्नेर्दक्षिणलोचने जुहुयात् |
सम्पातमाज्यं तत्रैव दक्षिणभागे निःक्षिपेत् |
पुनः—नमः—इति वामभागाद्घृतमादाय—ॐ सोमाय स्वाहा सोमायेदं नमः—इति वामलोचने जुहुयात् |
सन्तापाज्यं तत्रैव वामभागे स्थापयेत् |
पुनरेवं मध्यभागाद्घृतमादाय—ॐ सोमाय स्वाहा सोमायेदं नमः—इति वामलोचने जुहुयात् |
सम्पाताज्यं तत्रैव वामभागे स्थापयेत् |
पुनरेवं मध्यभागाद्घृतमादाय—ॐ अग्नीषोमाभ्यां स्वाहा अग्नीषोमाभ्यामिदं नमः—इति वह्नेर्ललाटे नेत्रे हुत्वा सम्पातमाज्यं पूर्ववन्मध्यभागे क्षिपेत् |


Lesungshinweise: Lesungshinweis: Die Soma-Gabe wird im sichtbaren Druck zweimal beschrieben, beim zweiten Mal mit Entnahme aus der Mitte.

Band II, S. 42, Vers 57 und Sonderregel für Narasimha
वैष्णवादौ तु ललाटनेत्राहुतिं न कुर्यात् |
तत्रापि श्रीनृसिंहचरणाराधनोपयुक्तहोमे तु कुर्यादेव |
नेत्रत्रयोद्भासमानं परमात्मानमच्युतम् |
श्रीनृसिंहमहं वन्दे देवदेवं वृषाकपिम् ||
इत्युक्तत्वात् तत्रापि प्रज्वलद्वह्निनेत्राभ्यां दहन्निव जगत्त्रयम् ||
५७ ||
इत्यादिद्विनेत्रध्यानपक्षे तु नेत्राहुतिर्न कार्या |
पुनः—नमः—इति दक्षिणभागादाज्यमादाय—ॐ अग्नये स्विष्टकृते स्वाहा अग्नये स्विष्टकृते इदं नमः—इति वह्नेर्वक्त्रे जुहुयात् |


Band II, S. 42, Vyahriti-Gaben und Beginn der sechzehn Lebensweihen Agnis
शारदायां तु—स्वाहा—इति हुत्वा—हा—इति हुतशेषं क्षिपेदित्युक्तम्—तत्रापि सम्पादयेदिति प्रतिभाति |
ततः प्रणवयुक्ताभिर्व्यस्तसमस्ताभिर्व्याहृतिभिः पञ्चाहुतीर्दद्यात् |
तद्यथा—ॐ स्वाहा, भूः स्वाहा, भुवः स्वाहा, स्वः स्वाहा, ॐ भूर्भुवःस्वः स्वाहा—इति हुत्वा—ॐ वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा—इत्यग्निमन्त्रेणाहुतित्रयं दत्त्वा वह्नेर्गर्भाधानादिषोडशसंस्कारान् कुर्यात् |
यथा—ॐ अग्नेर्गर्भाधानं सम्पादयामि स्वाहा—इत्यष्टाहुतीर्जुहुयात् |
एवमग्रेऽपि |
ॐ अग्नेः पुंसवनं सम्पादयामि स्वाहा—इति |
ॐ अग्नेः सीमन्तोन्नयनं सम्पादयामि स्वाहा, ॐ अग्नेर्जातकर्म सम्पादयामि स्वाहा—इति जातकर्माहुतीर्हुत्वा—ॐ अग्नेर्नालच्छेदं सम्पादयामि फट् स्वाहा—इति मूलाग्रयोर्घृतसम्प्लुताः पञ्च समिधो जुहुयात् |
ततः—

Band II, S. 43, Namengebung des Feuers
ॐ वह्नेः सूतकं शोधयामि स्वाहा—इत्येकाहुतिं दत्त्वा स्वेष्टदेवतानाम्ना—वह्ने त्वममुकनामाऽसि—इति नाम कृत्वा वह्नीष्टदेवतयोरैक्यं विचिन्त्य—ॐ अग्नेर्नामकरणं सम्पादयामि स्वाहा—इति पूर्ववदष्टाहुतीर्जुहुयात् |
ॐ अग्ने त्वं शिवनामाऽसि, अग्ने त्वं वरदनामाऽसि, अग्ने त्वं विश्वरूपनामाऽसि—इत्येवं वा नाम कुर्यात् |
श्रीविद्यापक्षे तु—अग्ने त्वं कामाग्निनामाऽसि—इति नाम कुर्यात् |


Band II, S. 43, Weitere Lebensweihen und Rückführung der Eltern Agnis
ततः—ॐ अग्ने निष्क्रमणं सम्पादयामि स्वाहा |
एवं—ॐ अग्नेरन्नप्राशनम् |
ॐ अग्नेश्चूडाकरणम् |
ॐ अग्नेरुपनयनम् |
ॐ अग्नेर्महानाम्न्यव्रतम् |
ॐ अग्नेर्महाव्रतम् |
ॐ अग्नेरुपनिषद्व्रतम् |
ॐ अग्नेर्गोदानव्रतम् |
ॐ अग्नेः समावर्तनम् |
ॐ अग्नेर्विवाहं सम्पादयामि स्वाहा—इति प्रत्येकमष्टाहुतीर्हुत्वा मूलाग्रयोर्घृतसम्प्लुतां समिधमादाय—ॐ ह्रीँ वागीशवागीश्वरीभ्यां स्वाहा—इति त्रिवारं जुहुयात् |
ततोऽग्नेः पितरौ वागीशौ पूर्ववत् पञ्चोपचारैः सम्पूज्य प्रणम्य स्वहृदये उद्वासयेत् |


Band II, S. 43–44, Opfergaben an Feuerzungen und Angas
ततो वह्नेः सप्तसु जिह्वासु तन्मन्त्रैरेकैका माहुतिं दद्यात् |
यथा—[बीजम् अस्पष्टम्] हिरण्यायै स्वाहा |
[बीजम् अस्पष्टम्] गगनायै स्वाहा |
[बीजम् अस्पष्टम्] रक्तायै स्वाहा |
[बीजम् अस्पष्टम्] कृष्णायै स्वाहा |
[बीजम् अस्पष्टम्] सुप्रभायै स्वाहा |
[बीजम् अस्पष्टम्] बहुरूपायै स्वाहा |
[बीजम् अस्पष्टम्] अतिरिक्तायै स्वाहा |
इति सप्तजिह्वामन्त्रेण जुहुयात् |
ततोऽङ्गमन्त्रैर्जुहुयात् |
तद्यथा—ॐ सहस्रार्चिषे हृदयाय नमः स्वाहा—एवं क्रमेण जुहुयात् |
ॐ स्वस्तिपूर्णाय शिरसे स्वाहा |
ॐ उत्तिष्ठपुरुषाय शिखायै वषट् |
ॐ धूमव्यापिने कवचाय हुँ स्वाहा |
ॐ सप्तजिह्वाय नेत्रत्रयाय वौषट् स्वाहा |
वैष्णवादौ तु नेत्राभ्याम्—इति ज्ञेयम् |
ॐ धनुर्धरायास्त्राय फट् स्वाहा |


Lesungshinweise: „Om, dem Bogenträger, der Waffe Phat, Svaha.“ Lesungshinweis: Die Bija-Ligaturen der sieben Feuerzungen bleiben wie an den zuvor geprüften Stellen ungesichert und sind in den Sanskritfassungen einzeln markiert.

Band II, S. 44, Opfergaben an Gestalten, Weltenhüter und Waffen
ततो वह्नेर्मूर्तिमन्त्रैर्जुहुयात् |
तद्यथा—ॐ अग्नये जातवेदसे स्वाहा |
ॐ अग्नये सप्तजिह्वाय स्वाहा |
ॐ अग्नये हव्यवाहनाय स्वाहा |
ॐ अग्नये अश्वोदरजाय स्वाहा |
ॐ अग्नये वैश्वानराय स्वाहा |
ॐ अग्नये कौमारतेजसे स्वाहा |
ॐ अग्नये विश्वमुखाय स्वाहा |
ॐ अग्नये देवमुखाय स्वाहा |
इति हुत्वा—ॐ इन्द्राय स्वाहा |
ॐ अग्नये स्वाहा |
ॐ यमाय स्वाहा |
ॐ वरुणाय स्वाहा |
ॐ नैर्ऋतये स्वाहा |
ॐ वायवे स्वाहा |
ॐ कुबेराय स्वाहा |
ॐ ईशानाय स्वाहा |
ॐ ब्रह्मणे स्वाहा |
ॐ अनन्ताय स्वाहा |
ॐ वज्राय स्वाहा |
ॐ शक्तये स्वाहा |
ॐ दण्डाय स्वाहा |
ॐ खड्गाय स्वाहा |
ॐ पाशाय स्वाहा |
ॐ अङ्कुशाय स्वाहा |
ॐ गदायै स्वाहा |
ॐ त्रिशूलाय स्वाहा |
ॐ पद्माय स्वाहा |
ॐ चक्राय स्वाहा |


Band II, S. 44, Erhobene Ghee-Gabe
इति हुत्वा स्रुवेण चतुर्वारमाज्यमादाय स्रुचि निधाय स्रुवेण पिधाय स्रुगग्रे पुष्पादिकं दत्त्वोत्तिष्ठेत् |
ॐ वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा वौषट्—इति वौषडन्तेनाग्निमन्त्रेण जुहुयात् |


Band II, S. 44–45, Zehnteilige Mahaganapati-Gabe
ततो महागणपतिमन्त्रेण दशधा विभक्तेन दशाहुतीर्दद्यात् |
तद्यथा—ॐ स्वाहा |
ॐ श्रीँ स्वाहा |
ॐ श्रीँ ह्रीँ स्वाहा |
ॐ श्रीँ ह्रीँ क्लीँ स्वाहा |
ॐ श्रीँ ह्रीँ क्लीँ ग्लौँ स्वाहा |
ॐ श्रीँ ह्रीँ क्लीँ ग्लौँ गँ स्वाहा |
ॐ श्रीँ ह्रीँ क्लीँ गैलौँ गँ गणपतये स्वाहा |
ॐ श्रीँ ह्रीँ क्लीँ गैलौँ गँ गणपतये वर वरद स्वाहा |
ॐ श्रीँ ह्रीँ क्लीँ गैलौँ गँ गणपतये वर वरद सर्वजनं मे स्वाहा |
ॐ श्रीँ ह्रीँ क्लीँ गैलौँ गँ गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा |
इति हुत्वा पुनस्तेनैव समस्तेन मन्त्रेण चतुर्वारं जुहुयात् |
इति सर्वसाधारणोऽग्निमुखविधिः |


Lesungshinweise: Lesungshinweis: Der Druck wechselt bei dem Ganesha-Bija von einer Gla-Schreibung zu einer ungewöhnlichen Gaila-Schreibung. Diese Abweichung wird in den Sanskritfassungen sichtbar bewahrt und nicht als gesicherte Rezitationslesung ausgegeben.

Band II, S. 45, Bereitung und Dreiteilung des Charu
ततश्चरुपाकं कुर्यात् |
यथा—आचार्यः प्राङ्मुखो भूत्वा नव्यं ताम्रादिपात्रमादायास्त्रमन्त्रितजलेन प्रक्षाल्य तस्मिन् पात्रे तण्डुलानुसारेण गोक्षीरं निधाय साधारं तत्पात्रं वह्नौ संस्थाप्य पञ्चदशमुष्टिप्रभृतिपरिमितान् शालितण्डुलान् मूलमन्त्रेणाभिमन्त्र्य तस्मिन् पात्रे क्षिप्त्वा पिधानपात्रमादायास्त्रमन्त्रितजलेन प्रक्षाल्य—हुँ—इति कवचमन्त्रमुच्चरंस्तेन पात्रेण पाकपात्रमुखं पिधाय मूलमन्त्रमुच्चरंश्चरुं पचेत् |
ततः स्रुवेणाज्यमादाय स्विन्नं चरुं मूलमन्त्रमुच्चरन्नभिधारयेत् |
ततः—हुँ—इति कवचमन्त्रेण तत्पात्रमवतार्य अस्त्रमन्त्राभिमन्त्रितकुशास्तीर्णमण्डले स्थापयेत् |
ततश्चरुं त्रिधा विभज्य भागमेकं पात्रान्तरे निधाय देवतायै समर्पयेत् |
द्वितीयं भागं वक्ष्यमाणहोमार्थं तृतीयं भागं भोजनार्थं स्थापयेत् |


Band II, S. 45, Vereinigung von Feuer und Ishta-Devata
ततो वह्नौ देवताया आधारशक्त्यादिपीठमन्त्रान्तं सम्पूज्य तत्रेष्टदेवतामावाह्योपचारैः सम्पूज्यावरणदेवता अपि पूजयेत् |
ततो देवमूलमन्त्रेण स्वाहान्तेन पञ्चविंशत्याज्याहुतीर्वह्निमुखे जुहुयात् |
इदमेव वह्नीष्टदेवतयोर्वक्त्रैकीकरणमित्युच्यते |
तत आत्माग्निदेवतानामैक्यं विचिन्त्य एकादशाज्याहुतीर्मूलेनैव दद्यात् |
इदं च नाडीसन्धानमित्युच्यते |
तत आवरणदेवताभ्य एकैकामाहुतिं दत्त्वा ऋत्विग्भिरुक्तप्रकारेण संस्कृतेषु पूर्वादिकुण्डेषु क्रमेणाचार्यो वह्निं विहरेत् |


Band II, S. 45, Gemeinsames Charu-Homa
ततः सर्वे ऋत्विजः स्वस्वकुण्डाग्नौ सावरणामिष्टदेवतामुपचारैः संपूज्य मूलमन्त्रेणाज्येन पञ्चविंशत्याहुतीर्हुत्वाऽऽवरणदेवताभ्य एकैकामाहुतिं दद्युः |
ततो गुरुः पूर्वोक्तचरोर्द्वितीयभागं नवधा विभज्य भागमेकं स्वयं गृहीत्वा एकैकं भागं सर्वेभ्य ऋत्विग्भ्यो दद्यात् |
ततस्तस्मिंश्चरौ घृतं निधाय सघृतेन चरुणाऽऽचार्य ऋत्विजश्च स्वे स्वे कुण्डे मूलमन्त्रेण प्रत्येकं पञ्चविंशत्याहुतीर्जुहुयुः |
तत आवरणदेवताभ्य एकैकामाहुतिं दत्त्वा मूलमन्त्रेणाज्येन दश दशाहुतीर्हुत्वा वह्निरूपामिष्टदेवतां प्रणमेयुः |


Band II, S. 45–46, Gemeinsame Speise und Zahnreinigung
तत आचार्यश्चरोस्तृतीयभागं द्विधा विभज्य पलाशपत्रे पिप्पलपत्रे वा निधाय भागमेकं स्वयं गृहीत्वा परं भागं शिष्याय दद्यात् |
ततो गुरुः शिष्यश्च नमः इति हृन्मन्त्रमुच्चरन् ग्रासत्रयं ग्रासाष्टकं वा दन्तस्पर्शं विना भुक्त्वा मन्त्रपूतेन जलेनाचमनं कुर्यात् |
ततो गुरुः कृताचमनं शिष्यं मूलमन्त्रेण सकलीकृत्य तस्मै पूर्वोक्तलक्षणं हृन्मन्त्रितं दन्तकाष्ठं दद्यात् |
ततः शिष्यस्तेन दन्तकाष्ठेन दन्तान् विशोध्य जलेन प्रक्षाल्य दन्तकाष्ठं विसृज्याचमनं कुर्यात् |
अस्मिन्नेव समये पूर्वोक्तदन्तकाष्ठपरीक्षां केचित् कुर्वन्ति |


Band II, S. 46, Vorbereitung des Traums und Vers 58
ततः सायं सन्ध्योपासनं कृत्वा गुरुर्मूलमन्त्रेण स्वकल्पोक्तमन्त्रान्तरेण वा शिष्यस्य शिखां बद्ध्वा मण्डपाद्बहिर्देवताया दक्षिणभागे वेदिकान्तरोपरि कुशशय्यायां पूर्वशिरस्कः शिष्येण सार्धं शयनं कुर्यात् |
शिष्यश्च शयनसमये स्वप्नमानवमन्त्रेण शुभस्वप्नं प्रार्थयेत् |
स्वप्नमानवमन्त्रो यथा— भगवन् देवदेवेश शूलभृद्वृषवाहन |
इष्टानिष्टे समाचक्ष्व मम सुप्तस्य शाश्वतम् ||
५८ ||


Band II, S. 46, Alternative Traumformel und Verse 59–60
यद्वा— ॐ हिलि हिलि शूलपाणये स्वाहा |
नमो जय त्रिनेत्राय पिङ्गलाय महात्मने |
वामाय विश्वरूपाय स्वप्नाधिपतये नमः ||
५९ ||
स्वप्ने कथय मे तथ्यं सर्वकार्येष्वशेषतः |
क्रियासिद्धिं विधास्यामि त्वत्प्रसादान्महेश्वर ||
६० ||


Band II, S. 46, Vaishnava-Traumgebete Verse 61–62
वैष्णवे तु— ॐ नमः सकललोकाय विष्णवे प्रभविष्णवे |
विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः ||
६१ ||
यद्वा— परब्रह्मस्वरूपस्त्वमन्तश्चरसि विश्वधृक् |
शुभाशुभगतिं देव स्वप्ने मे विनिवेदय ||
६२ ||


Band II, S. 46–47, Traumdeutung und Besänftigung
इत्युच्चार्य जानुभ्यामवनीं स्पृष्ट्वा विष्णुं प्रणम्य प्रसन्नो वाग्यतो निजेष्टं विचिन्त्य शयनं कुर्यात् |
ततः स्वप्नं दृष्ट्वा समुत्थायाचम्य पुष्पं धृत्वा गुरुं प्रणम्य गुरवे स्वप्नं निवेदयेत् |
ततो गुरुः शुभमशुभं वा स्वप्नं निर्णीय स्वप्नो यदि शुभस्तदा देवतां प्रसन्नां जानीयात् |
स्वप्नो यद्यशुभस्तदा शान्तिं कुर्यात् |
दुःस्वप्नशान्तिस्तु— फट् दुःस्वप्नदोषान् जहि जहि फट् स्वाहा—इति मन्त्रेण |
ॐ वज्रनखदंष्ट्रायुधाय महासिंहाय हुँ फट् नमः स्वाहा—इति सिंहमन्त्रेण वा तद्देवतागायत्र्या वा पलाशसमिच्छतमाज्याहुतिशतं वा जुहुयात् |
तत्र सङ्कल्पस्तु— ॐ अद्येत्यादि अमुकगोत्रोऽमुकदेवशर्मा दुःस्वप्नशान्तिकामो गुरुद्वारा सक्षीरघृताक्तपालाशसमिदाहुतिशतमहं होष्यामि |
इत्यधिवासनविधिः |


Band II, S. 47, Morgen des Einweihungstags
ततो दीक्षादिने गुर्वादयः सर्वे प्रातरुत्थाय प्रातःकृत्यस्नानसन्ध्यादिनित्यकर्म समाप्य यागमण्डपं प्रविश्य देवतां नत्वा स्वे स्वे कुण्डे सघृतैस्तिलैस्तद्देवताकल्पोक्तद्रव्यान्तरैर्वा स्वाहान्तेन मूलमन्त्रेण प्रत्येकमष्टोत्तरसहस्राहुतीरष्टोत्तरशताहुतीर्वा जुहुयुः |
ततो होमसमाप्तौ गुरुः समुत्थाय मण्डपाद्बहिर्गत्वा कृतस्नानं शिष्यं पञ्चगव्यं पाययित्वा दक्षिणद्वारेण मण्डपं प्रवेश्य स्वीयं कुण्डान्तिकमानयेत् |
ततो दिव्यदृष्ट्या शिष्यं विलोक्य तद्धृदयाद्वहन्नाड्याऽङ्कुशमुद्रया तच्चैतन्यमाकृष्य स्ववहन्नाडीमार्गेण स्वहृदये संयोज्याध्वशोधनं कुर्यात् |


Band II, S. 47, Kaladhvan und Shaiva-Tattvas
तद्यथा—शिष्यस्य पादयोः— निवृत्तिप्रतिष्ठाविद्याशान्तिशान्त्यतीताख्याः—पञ्चकलाः विचिन्त्य कूर्चेन तत्पादौ संस्पृश्य— ॐ कलाध्वानं शोधयामि स्वाहा—इति सघृतैस्तिलैरष्टाहुतीर्जुहुयात् |
ततः कलाध्वानं तत्त्वाध्वनि विलीनं विभाव्य शिष्यस्य शिश्नस्योपस्थप्रदेशे— शिवशक्तिसदाशिवेश्वरविद्यामायाविद्याकलारागकालनियतिपुरुषप्रकृतिबुद्ध्यहङ्कारमनश्चक्षुःश्रोत्रघ्राणजिह्वात्वग्वाक्पाणिपादपायूपस्थशब्दस्पर्शरूपरसगन्धाकाशवायुतेजोजलपृथिव्याख्यानि—षट्त्रिंशद्गणेश—शैवतत्त्वानि |


Lesungshinweise: Lesungshinweis: Die Liste nennt 35 unterscheidbare Glieder; die Vorlage bezeichnet sie als 36.

Band II, S. 47, Vaishnava- und Saura-Tattvas
जीवप्राणमनोबुद्धिशब्दस्पर्शरूपरसगन्धाकाशवायुतेजोजलपृथिवीचक्षुःश्रोत्रजिह्वाघ्राणत्वग्वाक्पाणिपादपायूपस्थसूर्यसोमाग्निवासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाख्यानि—द्वात्रिंशद्वैष्णवतत्त्वानि |
आकाशवायुतेजोजलपृथिवीशब्दस्पर्शरूपरसगन्धमनोऽहङ्कारचक्षुःश्रोत्रजिह्वाघ्राणत्वग्वाक्पाणिपादपायूपस्थप्रकृतिमहत्तत्त्वाख्यानि—चतुर्विंशतिः सौरतत्त्वानि |


Lesungshinweise: Lesungshinweis: Die gedruckte Aufzählung ergibt 31 Glieder; ein fehlendes Glied wird hier nicht ergänzt.

Band II, S. 47–48, Prakriti- Shakta- und Tripura-Tattvas
निवृत्तिप्रतिष्ठाविद्याशान्तिशान्त्यतीताख्यकलापञ्चकबिन्दुकलानादशक्तिसदाशिवाख्यानि—दशप्रकृतितत्त्वानि |
आत्मविद्याशिवशिवाविद्यात्मात्मविद्याशिवसर्वाख्यानि—दशशाक्ततत्त्वानि |
आत्मविद्याशिवशिवाविद्यात्मसर्वाख्यानि—त्रैपुरतत्त्वानि च विचिन्त्य शिष्यस्योपस्थप्रदेशं कूर्चेन संस्पृश्य— ॐ तत्त्वाध्वानं शोधयामि स्वाहा—इत्यष्टाहुतीर्जुहुयात् |


Lesungshinweise: Svaha.“ Lesungshinweis: Die wiederholten Namen der Shakta- und Tripura-Listen stehen so auch in der älteren Ausgabe, S.

Band II, S. 48, Bhuvanadhvan
ततस्तत्त्वाध्वानं भुवनाध्वनि विलीनं विभाव्य शिष्यस्य नाभौ क्रमेण— पातालरसातलमहातलतलातलसुतलवितलतलातलभूर्भुवःस्वर्महर्जनस्तपःसत्याख्यानि—चतुर्दश भुवनानि विचिन्त्य नाभिं स्पृष्ट्वा— ॐ भुवनाध्वानं शोधयामि स्वाहा—इत्यष्टाहुतीर्जुहुयात् |


Lesungshinweise: Svaha.“ Lesungshinweis: Talatala ist in beiden verglichenen Drucken zweimal aufgeführt; die Wiederholung bleibt erhalten.

Band II, S. 48, Varna- Pada- und Mantradhvan
ततो भुवनाध्वानं वर्णाध्वनि विलीनं विभाव्य शिष्यस्य हृदयेऽकारादिक्षकारान्तान् विचिन्त्य हृदयं स्पृष्ट्वा— ॐ वर्णाध्वानं शोधयामि स्वाहा—इत्यष्टाहुतीर्जुहुयात् |
ततो वर्णाध्वानं पदाध्वनि विलीनं विभाव्य शिष्यस्य ललाटे मन्त्रपदानि विचिन्त्य ललाटं संस्पृश्य— ॐ पदाध्वानं शोधयामि स्वाहा—इत्यष्टाहुतीर्जुहुयात् |
ततः पदाध्वानं मन्त्राध्वनि विलीनं विभाव्य शिष्यस्य मूर्ध्नि संपूर्णमन्त्रं विचिन्त्य मूर्धानं संस्पृश्य— ॐ मन्त्राध्वानं शोधयामि स्वाहा—इति पूर्ववदष्टाहुतीर्हुत्वा ब्रह्मरन्ध्रस्थिते परमशिवे मन्त्राध्वा विलीन इति चिन्तयेत् |


Band II, S. 48, Erneute Entfaltung und Rückführung des Bewusstseins
एवं संहारक्रमेण शिष्यदेहे षड्विधमध्वशोधनं विधाय पुनः सृष्टिक्रमेण परमशिवान्मन्त्राध्वा मन्त्राध्वनः पदाध्वा पदाध्वनो वर्णाध्वा वर्णाध्वनो भुवनाध्वा भुवनाध्वनस्तत्त्वाध्वा तत्त्वाध्वनः कलाध्वा उत्पन्न इति चिन्तयेत् |
अत्र के चित्— ॐ परमशिवान्मन्त्राध्वानमुत्पादयामि स्वाहा—इत्याहुतिभिः क्रमेणाध्वनो जनयेदिति वदन्ति |
ततः शिष्यं दिव्यदृष्ट्या विलोकयन्नात्मस्थितं तच्चैतन्यं स्ववहन्नाड्या तद्वहन्नाडीमार्गेण तद्धृदये योजयेत् |


Band II, S. 48, Purnahuti am Ende der Reinigung
ततो मूलमन्त्रेण दशाहुतीर्हुत्वाऽऽवरणदेवताभ्य एकैकामाहुतिं दत्त्वा पूर्णाहुतिं कुर्यात् |
तत्क्रमस्तु—होमावशिष्टेन घृतेन स्रुचमापूर्य पुष्पतिलयवफलादिकं निधायाधोमुखेन स्रुवेण स्रुचं पिधाय तदग्रे पुष्पं दत्त्वा मूलाच्चतुरङ्गलं परित्यज्य शङ्खमुद्रया स्रुक्स्रुवौ धृत्वा तन्मूले नाभिसंलग्ने कृत्वोत्थितः सन् दक्षिणपादपुरःसरं वौषडन्तेन मूलमन्त्रेण पूर्णाहुतित्रयं दद्यात् |


Band II, S. 49, Varianten der vollen Opfergabe und Brahmarpana
शाक्ते वाममार्गादौ च वामपादपुरःसरं पूर्णाहुतिं दद्यात् |
वाममार्गे स्वाहान्तेन मूलमन्त्रेण |
वैदिकक्रमस्तु— मूर्धानं दिव—इति मन्त्रेण |
पूर्णादर्वी—इत्यादिमन्त्रेण वा पूर्णाहुतिं दद्यादिति विशेषः |
ततो ब्रह्मार्पणमन्त्रैः पूर्णाहुतिं दद्यात् |
मन्त्रो यथा— इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत् स्मृतं यदुक्तं यत् कृतं तत् सर्वं ब्रह्मार्पणं भवतु स्वाहा |


Band II, S. 49, Zusammenführung der Gottheiten und Mahavyahriti-Homa
एवं ब्रह्मार्पणमन्त्रेण पूर्णाहुतिं दत्त्वा वह्निस्थामिष्टदेवतां पञ्चोपचारैः संपूज्य प्रणम्य षडङ्गमन्त्रेण सकलीकृत्य संहारमुद्रया कुण्डादुद्वास्य कलशे संयोज्य पूर्वादिदिक्षु स्थापितान् ध्रुवादीनीन्द्रादिलोकपालान् बहिःस्थिता अङ्कुरार्पणदेवताश्च तत्तत्स्थानादुद्वास्य प्रधानकलशे समानीय तासां देवतानामिष्टदैवतैक्यं विचिन्त्य वह्नेर्विसर्जनार्थं महाव्याहृतिभिर्होमं कुर्यात् |
तद्यथा— ॐ भूरग्नये पृथिव्यै च महते स्वाहा |
ॐ भुवो वायवे अन्तरिक्षाय च दिवे च महते स्वाहा |
ॐ स्वरादित्याय चन्द्रमसे दिग्भ्यश्च नक्षत्रेभ्यश्च स्वाहा |
ॐ भूर्भुवः स्वश्चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यश्च महते स्वाहा |


Band II, S. 49–50, Entlassung des Feuers und Gabe an den Brahman-Priester
इति हुत्वा पूर्वोक्तप्रकारेण वह्नेर्जिह्वाङ्गमूर्तिमन्त्रैर्लोकपालान् तदायुधमन्त्रैश्चैकैकामाहुतिं हुत्वा पयसा जलेन वा मेखलासु वह्निं परिषिच्य तन्मन्त्रेण पञ्चोपचारैः संपूज्य— स्वस्ति श्रद्धां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलम् |
आयुष्यं तेजआरोग्यं देहि मे हव्यवाहन ||
६३ ||
भो भो वह्ने महाशक्ते सर्वकर्मप्रसाधक |
कर्मान्तरेऽपि संप्राप्ते सान्निध्यं कुरु सादरम् ||
६४ ||
इति संप्रार्थ्य भगवन्नग्ने पूजितोऽसि क्षमस्व—इत्युक्त्वा वह्निं प्रणम्य संहारमुद्रया विसृजेत् |
ततो ब्रह्माणमुद्वास्य द्वात्रिंशत्पलप्रमाणेन निर्मितं ताम्रपात्रं तण्डुलैरापूर्य तदुपरि सुवर्णदक्षिणां निधाय ब्रह्मप्रतिनिधिब्राह्मणाय दद्यात् |
दानवाक्यं यथा— ॐ अद्येत्यादि—कृतैतद्दीक्षाकर्माङ्गभूतहोमकर्मप्रतिष्ठार्थमिदं पूर्णपात्रं प्रजापतिदैवतं हिरण्यमग्निदैवतममुकगोत्रायामुकशर्मणे विप्राय तुभ्यमहं संप्रददे—इति पूर्णपात्रं दद्यात् |


Band II, S. 50, Öffnung der Augen und Vers 65
तत आचार्यः परिस्तरणकुशान् परिधींश्च तूष्णीमग्नौ प्रक्षिपेत् |
नित्यहोमे तु तान् न दहेदिति विशेषः |
ततः—वौषट्—इति नेत्रमन्त्रमुच्चरन् नव्येन शुक्लवस्त्रेण शिष्यस्य नेत्रे बद्ध्वा पुष्पैस्तदञ्जलिं पूरयित्वा तत्करं धृत्वा तिरस्करणीं विमोच्य शिष्यं देवतान्तिकमानीय स्वयं मूलमन्त्रमुच्चरन् देवतायै पीठोपरि पुष्पाञ्जलिं क्षेपयेत् |
ततो गुरुणा निराकृतनेत्रबन्धः शिष्यः— अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया |
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ||
६५ ||
इति पठित्वा गुरुचरणौ प्रणम्य देवतां साष्टाङ्गं प्रणमेत् |


Band II, S. 50, Vorbereitung der Begießung und Vers 66
ततो गुरुः शिष्यं दर्भास्तरे निवेश्य भूतशुद्धिक्रमेण पञ्चभूतात्मकं तद्देहं संहृत्य पुनः सृष्टिमार्गेणोत्पाद्य तद्देहे स्वकल्पोक्तन्यासान् विधायाभिषेकार्थमीशानदिशि विरचिते मण्डपान्तरे हस्तद्वयायामायामष्टाङ्गुलोच्छ्रितायां चतुरस्रवेदिकायां श्रीपर्ण्यादिकाष्ठनिर्मितपीठोपरि शिष्यं निवेश्य स्वयं देवतास्थानमागत्य पाद्यादिभिरुपचारैर्देवतां संपूज्य मूलेन पुष्पाञ्जलित्रयं दत्त्वाऽऽराधनार्पणं कुर्यात् |
तद्यथा—मूलमन्त्रमुच्चार्य— साधु वाऽसाधु वा कर्म यद्यदाचरितं मया |
तत्सर्वं देवदेवेश गृहाणाराधनं परम् ||
६६ ||
इत्युक्त्वा देवस्य दक्षिणकरे शक्तिविषये वामकरेऽर्घ्योदकमुत्सृजेत् |


Band II, S. 50, Vergebungsgebet Verse 67–69
ततो देवतां प्रणम्य पुष्पाञ्जलिमादाय क्षमापयेत् |
यथा— यत्तु भक्तिमात्रेण पत्रं पुष्पं फलं जलम् |
निवेदितं च नैवेद्यं तद्गृहाणानुकम्पया ||
६७ ||
आवाहनं न जानामि न जानामि विसर्जनम् |
पूजां चैव न जानामि त्वं गतिः परमेश्वर ||
६८ ||
कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम |
अन्तश्चारेण भूतानां द्रष्टा त्वं परमेश्वर ||
६९ ||
इत्युक्त्वा पुष्पाञ्जलिं क्षिप्त्वा प्रणमेत् |
ततः शिष्यार्थं वरं प्रार्थयेत् |


Band II, S. 51, Segen für den Schüler Verse 70–72
तद्यथा— कारुण्यनिलये देवि सर्वसन्निधिसंश्रये |
शरण्ये वत्सले मातः कृपामस्मिन् शिशौ कुरु ||
७० ||
आणवप्रमुखैः पाशैः पाशितस्य सुरेश्वरि |
दीनस्यास्य दयाधारे कुरु कारुण्यमीश्वरि ||
७१ ||
ऐहिकामुष्मिकैर्भोगैरपि संबध्यतामसौ |
स्वभक्तिः सकला चास्मै दीयतां निष्कलाश्रये ||
७२ ||
इति |
पुंदैवते तु— कारुण्याश्रयदेवेश—इत्यादिपाठोऽनुसन्धेयः |


Band II, S. 51, Rücknahme der Gottheit und Nirmalya Vers 73
इति संप्रार्थ्य सर्वा आवरणदेवताः प्रधानदेवताङ्गे लीना इति विचिन्त्य तेजोरूपां देवतां ध्यात्वा— भगवत्यमुकदेवते पूजिताऽसि क्षमस्व |
इत्युक्त्वा संहारमुद्रया विसृज्य वहन्नाडीमार्गेण स्वहृदये तां स्थापयेत् |
तत ऐशान्यां दिशि मण्डलं कृत्वा तद्देवताकल्पोक्तं निर्माल्यवासिनं संपूज्य— लेह्यचोष्यान्नपानादि निर्माल्यं स्रग्विलेपनम् |
निर्माल्यभोजिने तुभ्यं ददामि देवताज्ञया ||
७३ ||
इति निर्माल्यं दत्त्वा संहारमुद्रया निर्माल्यवासिनं विसृजेत् |


Band II, S. 51, Abhisheka und Übergabe des Mantras
ततो मूलमन्त्रेण स्वशिरसि किंचिन्निर्माल्यं धृत्वा कुम्भमुत्थाप्य शिष्यनिकटं गत्वा कुम्भमुख्यान् पल्लवान् शिष्यस्य शिरसि विन्यस्य मातृकावर्णान् मूलमन्त्रं चोच्चरन् पञ्चवाद्यादिनादैर्विप्राशीर्भिश्च सार्धं कुम्भतोयेन शिष्यमभिषिञ्चेत् |
ततो वर्धनीमुत्थाप्य तज्जलेनाभिषिञ्चेत् |
ततोऽवशिष्टजलेन शिष्यमाचम्य षडङ्गैः सकलीकृत्य तं देवतात्मानं चिन्तयेत् |
ततः शिष्यः समुत्थाय धौतवाससी परिधायाचम्य गुरोः सन्निधौ तदाज्ञया पूर्वाभिमुख उत्तराभिमुखो वा आसने उपविशेत् |
ततो गुरुरात्मनः सकाशात् तद्देहे संक्रान्तां देवतां विचिन्त्य तयोरैक्यं विभाव्य गन्धपुष्पाद्यैः संपूज्य मन्त्रं दद्यात् |
तद्यथा— अमुकदेवतामन्त्रमहं ददामि—इति प्रतिज्ञां श्रावयन् गुरुः शिष्यहस्ते जलं दद्यात् |
ददस्वानुग्रहपूर्वकम्—इति शिष्यो वदेत् |


Band II, S. 51–52, Einflüstern des Mantras und Dank Verse 74–75
ततो गुरुः शिष्यस्य शिरसि हस्तं दत्त्वा देयमन्त्रमष्टोत्तरशतं प्रजप्य दक्षिणकर्णे त्रिवारं मन्त्रं श्रावयेत् |
स्त्रीशूद्रयोस्तु वामकर्णे मन्त्रं कथयेत् |
जलदानपूर्वकमन्त्रदानं ब्राह्मणमात्रविषयम् |
तदितरेभ्यस्तु तद्विनैव मन्त्रं दद्यात् |
ततो गुरुर्ज्योतिर्मयीं विद्यां स्वतः शिष्यतनुं प्रविशन्तीं विचिन्त्य— मन्त्रोऽयमावयोस्तुल्यफलदोऽस्तु—इति ब्रूयात् |
शिष्योऽपि तादृशीं विद्यां गुरुमुखात् स्वहृदयं प्रविशन्तीं विचिन्त्य— नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे |
सर्वदेवस्वरूपाय सर्वमन्त्रमयाय च ||
७४ ||
घोरान्मृत्युमहापाशान्मोचितः कृपया त्वया |
त्वत्प्रसादादहं नाथ कृतकृत्योऽस्मि सर्वतः ||
७५ ||
इति स्तुत्वा गुरुचरणयोर्दण्डवत् पतित एव तिष्ठेत् |


Band II, S. 52, Segenswort Vers 76 und Dakshina
ततो गुरुः— उत्तिष्ठ वत्स मुक्तोऽसि सम्यगाचारवान् भव |
कीर्तिश्रीकान्तिमेधायुर्बलारोग्यं सदाऽस्तु ते ||
७६ ||
इत्युक्त्वा शिष्यमुत्थापयेत् |
ततः शिष्यो गुरुदेवमन्त्राणामैक्यं संभाव्य गुरोराज्ञया तत्सन्निधौ मन्त्रमष्टोत्तरशतं जपेत् |
गुरुरपि मन्त्रदानानन्तरमष्टोत्तरसहस्रमष्टोत्तरशतं वा मन्त्रं जपेत् |
ततः शिष्यो वित्तशाठ्यं विहाय सर्वस्वं तदर्धं तदर्धं वा गुरवे दक्षिणां दद्यात् |
कुशत्रयतिलजलान्यादाय— ॐ अद्येत्यादि—अमुकगोत्रोऽमुकशर्मा कृतैतदमुकदेवतामुकमन्त्रग्रहणप्रतिष्ठार्थमिमां दक्षिणाममुकगोत्रायामुकशर्मणे श्रीगुरवे तुभ्यमहं संप्रददे |


Band II, S. 52, Abschluss der Kriyavati-Diksha
एवं ब्रह्मप्रतिनिधिविप्राय ऋत्विग्भ्यश्च गोभूहिरण्यवासोऽलङ्कारादीन् दद्यात् |
ततः पूजोपकरणसहितं मण्डपं गुरवे दद्यात् |
ततो ब्राह्मणान् भोजयित्वा तेभ्यो दक्षिणां दत्त्वा तदाशिषः समादाय देवनिवेदितं नैवेद्यं तद्भक्तेभ्यो दत्त्वा गुरुशिष्यौ भुञ्जीयाताम् |
दीक्षादिने गुरुशिष्ययोरुपवासो निषिद्धः |
ततः शिष्यो दिनत्रयं गुरुकुले निवासं कृत्वा चतुर्थदिनं देवतार्चनं कारयित्वा गुरुं प्रणम्य तदाज्ञामादाय स्वगृहं गच्छेत् |
इति क्रियावतीदीक्षाप्रयोगः परिपूर्णः |


Band II, S. 52–53, Verkürzte Einweihung Verse 77–80
एतदशक्तौ संक्षेपदीक्षा विधेया |
सा च प्रोक्ता निबन्धे— मुहूर्ते सर्वतोभद्रे नवकुम्भं निधाय च |
सोदकं गन्धपुष्पाभ्यामर्चितं वस्त्रसंयुतम् ||
७७ ||
सर्वौषधीनवरत्नपञ्चपल्लवसंयुतम् |
ततो देवार्चनं कृत्वा हुनेदष्टोत्तरं शतम् ||
७८ ||
सर्वौषधीति तन्त्रान्तरे— जटामांसी वचा कुष्ठं शैलेयं रजनीद्वयम् |
शटीचम्पकमुस्तं च सर्वौषधिगणः स्मृतः ||
७९ ||
रजनीद्वयं हरिद्रा दारुहरिद्रा च |
पृश्निपर्णी पिप्पली सहदेवी घृतकुमारीति |
नवरत्नानि पूर्वमुक्तानि |
पञ्चपल्लवमिति वाशिष्ठे— पनसाम्रं तथाऽश्वत्थं वटं वकुलमेव च |
पञ्चपल्लवमित्युक्तं मुनिभिस्तन्त्रवेदिभिः ||
८० ||
तन्त्रान्तरे— अश्वत्थोदुम्बरवटप्लक्षाम्राः पञ्चपल्लवाः |
इत्युक्तम् |


Band II, S. 53, Abschluss der verkürzten Einweihung Verse 81–83
निबन्धे— शिष्यं स्वलङ्कृतं वेद्यामुपासम्युपवेशयेत् ||
८१ ||
मन्त्रितैः प्रोक्षणीतोयैः शान्तिं कुम्भजलैस्तथा |
मूलमन्त्रेणाष्टशतं मन्त्रितैरभिषेचयेत् ||
८२ ||
अष्टशतमष्टोत्तरशतम् |
अथ संपादयन् मन्त्रं हस्तं शिरसि धारयन् |
शमस्त्वित्यक्षतान् दद्यात् ततः शिष्योऽर्चयेद्गुरुम् ||
८३ ||
इति संक्षेपदीक्षाविधिः |


Band II, S. 53, Varnamayi-Diksha Verse 84–89
अथ वर्णमयी दीक्षा मेरुतन्त्रे— अथ वर्णमयीं दीक्षां शृण्वन्तु ज्ञानदायिनीम् |
पुंप्रकृत्यात्मकत्वं च वर्णानां समुदीरितम् ||
८४ ||
तादृक्तत्त्वं च शरीरस्य प्रोक्तमेवास्ति देशिकैः |
ततस्तनौ शिशोर्न्यस्येद्वर्णान् देशिकसत्तमः ||
८५ ||
संहरेद्वैपरीत्येन वर्णांस्तत्स्थानसंस्थितान् |
देशिकेन्द्रः स्वसामर्थ्यादाज्ञया देवतात्मनः ||
८६ ||
देवतात्मा भवेच्छिष्यस्तदासंलीनतत्त्वकः |
ततस्तु शिष्यचैतन्यं परमात्मनि योजयेत् ||
८७ ||
तान्वर्णांस्तत उत्पाद्य न्यसेच्छिष्यशरीरके |
तस्मिंश्च सृष्टिक्रमतस्तच्चैतन्यं पुनर्न्यसेत् ||
८८ ||
भवेच्छिष्यो देवतात्मा नित्यानन्दात्मकः शिवः |
ज्ञानदाऽर्णमयी दीक्षा कथिता सर्वसिद्धिदा ||
८९ ||
इति वर्णमयीदीक्षाविधिः |


Band II, S. 54, Kalavati-Diksha Verse 90–96
अथ कलावती दीक्षा तत्रैव— अथ वक्ष्ये कलादीक्षामणिमाद्यष्टसिद्धिदाम् |
वेदे पञ्चकला दीक्षा दक्षेऽष्टत्रिकला मता ||
९० ||
कुपञ्चाशत्कला वामे सिद्धमन्त्रगुरोस्तु सा |
ग्राह्या द्रुतं सिद्धिकर्त्री विपरीते विपर्ययः ||
९१ ||
कला निवृत्तिप्रमुखा भूतानां पञ्च चेरिताः |
शिष्यकाये भूतमये वेधयेत् ताः क्रमात् सुधीः ||
९२ ||
पादादिजानुपर्यन्तं निवृत्तिः संस्थिता कला |
जान्वोः सकाशादानाभि प्रतिष्ठाख्या कला स्थिता ||
९३ ||
नाभितः कण्ठपर्यन्तं विद्याख्या संस्थिता कला |
कण्ठतो ह्याललाटं तु शान्त्याख्या संस्थिता कला ||
९४ ||
भालाच्छिरोऽवधि प्रोक्ता शान्त्यतीता कला तथा |
संहृतिक्रमतः विद्वान् वेधयेत् स्थानतोऽन्यतः ||
९५ ||
स्थाने स्वीयाज्ञया चैव दीक्षा पञ्चकला स्मृता |
अष्टत्रिंशत्कलादीक्षायुक्तिं शृण्वन्तु देवताः ||
९६ ||


Lesungshinweise: In Vers 90 ist die Zahl verkürzt beziehungsweise beschädigt gedruckt; Vers 96 nennt achtunddreißig ausdrücklich.

Band II, S. 54, Achtunddreißig Kalas Verse 97–99
क्रमेण कादिका वर्णा यत्र द्वादश संस्थिताः |
विलोमा भादिका यत्र तत्र स्थानद्वये कलाः ||
९७ ||
भावनीयास्तु सूर्यस्य षोडशासु विधोस्तथा |
यकारादिस्थले वह्नेर्भावनीयाः कला दश ||
९८ ||
ततो वर्णकलानां तु वर्णस्थानाच्च संहृतिः |
पुनश्च जनयेच्छिष्यं कलादीक्षाविधिः स्वयम् ||
९९ ||
इति कलावती दीक्षा |


Band II, S. 54–55, Vedhamayi-Diksha Verse 100–105
अथ वेधमयी दीक्षा तत्रैव— दीक्षां वेधमयीं वक्ष्ये यां लब्ध्वा त्यजते जनः |
तत्कालमेव संसारं जीवन्मुक्तोऽभिजायते ||
१०० ||
मूलाधारेऽपि शिष्यस्य ध्यायेत् कञ्जं चतुर्दलम् |
तस्य मध्ये त्रिकोणं च तन्मध्ये चापि कुण्डलीम् ||
१०१ ||
त्रिरावर्तमयीं देवीं विद्युत्पुञ्जस्वरूपिणीम् |
महादेवमयीं साक्षाज्ज्ञानमात्रशरीरिणीम् ||
१०२ ||
अणोरणीयसीं देवीं चक्रषट्कप्रभेदिनीम् |
सुषुम्णावर्त्मना दिव्यां यान्तीं शिवगृहं प्रति ||
१०३ ||
सान्तवादितलस्थार्णान् पद्मस्थाने समाहरेत् |
षड्दले कमले तां तु लान्तवाद्यर्णयुग्दले ||
१०४ ||
स्वाधिष्ठाने गुरुः सम्यग्योजयित्वा तु वेधयेत् |
तदर्णानानयेद्विष्णौ विष्णुं तं नाभिपङ्कजे ||
१०५ ||


Band II, S. 55, Durchdringung der höheren Chakras Verse 106–111
फान्तडाद्यर्णसंयुक्ते दिग्दले वेधयेत् स्वयम् |
वर्णांस्तान् योजयेद्रुद्रे रुद्रं तं हृत्सरोरुहे ||
१०६ ||
कान्तथार्णपत्राब्जे वेधयेदीश्वरे स्वयम् |
वर्णांस्तानाहरेदस्मिन् कण्ठपद्मे च तं तथा ||
१०७ ||
कलादलमये पद्मे स्वरान् संयोज्य यत्नतः |
सदाशिवेऽथ संयोज्य तांस्तद्भ्रूमध्यपङ्कजे ||
१०८ ||
द्विदले हक्षसंयुक्ते वेधयित्वा तु देशिकः |
शक्त्या सहैवमात्मानं नयेत् परशिवावधि ||
१०९ ||
देशिकाज्ञावशाच्छिष्यो दग्ध्वाऽज्ञानं तदा क्षितौ |
पतेदवाप्तविज्ञानः सर्वज्ञो जायते ततः ||
११० ||
सदाशिवः स्वयं भूयात् सत्यमेव न संशयः |
इयं ज्ञानप्रदा प्रोक्ता दीक्षा वेधात्मिका शुभा ||
१११ ||
इति वेधमयी दीक्षा |


Band II, S. 55, Panchayatana-Diksha und Verse 112–114
अथ पञ्चायतनी दीक्षा |
तत्र मुख्यकलशं मध्ये संस्थाप्य चतुर्षु कोणेषु चतुरः कलशान् संस्थाप्य पञ्चदेवता आवाह्य पूजयेत् |
अथ वा एकमेव कलशं संस्थाप्य वक्ष्यमाणक्रमेण देवताः पूजयेत् |
प्रोक्तेनैवं कलशविधिनैकेन वा नैककुम्भैः इति प्रपञ्चसारवचनात् |
तत्र देवतास्थापनक्रम उक्तो ज्ञानमालायाम्— यदा तु शङ्करं मध्ये ऐशान्यां श्रीपतिं यजेत् |
आग्नेय्यां च तथा हंसं नैर्ऋत्यां पार्वतीसुतम् ||
११२ ||
वायव्यां च सदा पूज्या भवानी भक्तवत्सला |
यदा तु मध्ये गोविन्दमैशान्यां शङ्करं यजेत् ||
११३ ||
आग्नेय्यां गणनाथं च नैर्ऋत्यां तपनं तथा |
वायव्यामम्बिकां चैव यजेन्मन्त्री समाहितः ||
११४ ||


Band II, S. 56, Weitere Fünferanordnungen Verse 115–119
सहस्रांशुं यदा मध्ये ऐशान्यां पार्वतीपतिम् |
आग्नेय्यामेकदन्तं च नैर्ऋत्यामच्युतं यजेत् ||
११५ ||
वायव्यां पूजयेद्देवीं भोगमोक्षैकदायिनीम् |
भवानीं तु यदा मध्ये ऐशान्यां माधवं यजेत् ||
११६ ||
आग्नेय्यां पार्वतीनाथं नैर्ऋत्यां गणनायकम् |
प्रद्योतनं च वायव्यामाचार्यस्तु प्रपूजयेत् ||
११७ ||
हेरम्बं तु यदा मध्ये ऐशान्यामच्युतं यजेत् |
आग्नेय्यां पञ्चवक्त्रं नैर्ऋत्यां जगदम्बिकाम् ||
११८ ||
वायव्यां द्युमणिं चैव यजेन्मन्त्री ह्यतन्द्रितः |
स्वस्थानवर्जिता देवाः शोकदुःखभयप्रदाः ||
११९ ||
तन्मण्डलस्थितो राजा साधकश्च विनश्यति |


Band II, S. 56, Merksprüche zur Anordnung Verse 120–121
तन्त्रान्तरे— शम्भौ मध्यगते हरीनहरभूदेव्यो हरौ शङ्करेभास्येनागसुता रवौ हरगणेशाजाम्बिकाः स्थापिताः |
देव्यां विष्णुहरैकदन्तरवयो लम्बोदरेऽजेश्वराद्येनाः शङ्करभागतो निगदिता व्यस्तास्तु ते हानिदाः ||
१२० ||
मेरुतन्त्रे— ईशेऽजेनेशजशिवा हरावीशेशजेनसाः |
रवावीशेजजाजोमा देव्यां विशिगभास्कराः |
गणेशेऽजेशभादेव्योऽभ्यर्च्या ईशादिकोणतः ||
१२१ ||


Lesungshinweise: Der Wortlaut des Sonnen-Abschnitts in Vers 121 ist beschädigt; seine Zuordnung folgt der unmittelbar vorausgehenden ausführlichen Liste, nicht einer Ergänzung des Sanskrittextes.

Band II, S. 56–57, Reihenfolge der Puja Verse 122–125
पूजाक्रमस्तु तन्त्रान्तरे— मुख्ये पुष्पाञ्जलिं दत्त्वा गणेशाद्यर्चनं भवेत् |
गणेश एव मुख्यश्चेत् तत्र सूर्यक्रमाद्भवेत् ||
१२२ ||
इति |
इदं च— एकपीठे पृथक्पूजां विना यन्त्रं करोति यः |
अङ्गाङ्गं तु परित्यज्य देवताशापमाश्नुयात् ||
१२३ ||
इति कलावतीवचनेन यन्त्रातिरिक्ताधारे पृथक्पूजाया निषेधात् प्रतिष्ठितयन्त्रादिविषयं पीठस्यार्चनमङ्गदेवयजनमित्यादि सनत्कुमारीयवचनात् |
अङ्गदेवतापूजाकालस्तु पीठार्चनानन्तरमिति तन्त्रसारकृतः |
महाकालसंहितायां तु पीठार्चनात् प्रागेव गणेशादिपूजनमुक्तम् |
पञ्चायतनवानस्मिन्नेवावसर उत्सुकः |
गणेशविष्णुसूर्येशान् पूजयेदुपचारकैः ||
१२४ ||
इति |
वस्तुतस्तु पीठस्यार्चनमङ्गदेवयजनमित्यादिवचनमेककलशपक्षे |
पञ्चकलशपक्षे तु पञ्चसु सर्वतोभद्रमण्डलेषु पञ्चकलशानुक्तक्रमेण संस्थाप्य पञ्चदेवताः पृथक् पूजयेदिति न कश्चिद्विरोधः |
श्यामादौ तु पञ्चायतनदीक्षाभाव उक्तश्चामुण्डातन्त्रे |
श्यामायां भैरवीताराच्छिन्नमस्तासु भैरवे |
मञ्जुघोषे तथा रौद्रे पञ्चाङ्गो नेष्यते बुधैः ||
१२५ ||
इति पञ्चायतनदीक्षाविधिः |


Band II, S. 57, Einteilung der Diksha Verse 126–127
षडन्वयमहारत्ने— आणवी बहुधा दीक्षा शाक्तेयी शाम्भवी पुनः |
एकधैवेति विद्वद्भिः पठ्यते शास्त्रकोविदैः ||
१२६ ||
आणवी बहुधेत्युक्त्वा तद्भेदं त्वधुनोच्यते |
स्मार्ती मानसिकी यौगी चाक्षुषी स्पार्शनी तथा ||
१२७ ||
वाचिकी मान्त्रिकी होत्री शास्त्री चेत्यभिषेचिकी |


Band II, S. 57, Smarti- Manasi- und Yoga-Diksha Verse 128–131
अथ स्मार्ती दीक्षा तत्रैव— विदेशस्थं गुरुं स्मृत्वा शिष्यं पाशत्रयं क्रमात् ||
१२८ ||
विश्लिष्य लयभोगस्य विधानेन परे शिवे |
सम्यग्योजनरूपैषा स्मार्ती दीक्षेति कीर्तिता ||
१२९ ||
इति स्मार्ती दीक्षा |
अथ मानसी दीक्षा तत्रैव— स्वसन्निधौ समासीनमालोक्य मनसा शुचिम् |
मलत्रयादुपायैर्या मोचकी सा तु मानसी ||
१३० ||
इति मानसी दीक्षा |
अथ योगदीक्षा तत्रैव— योगोक्तक्रमतो योगी शिष्यदेहं प्रविश्य तु |
गृहीत्वा तस्य चात्मानं स्वात्मना योजनात्मिका |
योगदीक्षेति सा प्रोक्ता मलत्रयविनाशिनी ||
१३१ ||
इति योगदीक्षा |


Band II, S. 58, Einweihung durch den Blick Verse 132–134
अथ दृग्दीक्षा मेरुतन्त्रे— निमील्य नयने ध्यात्वा परमात्मनि देवताम् |
तद्दर्शनानन्दपूर्णनेत्राभ्यां वीक्षयेद्गुरुः स्वयम् ||
१३२ ||
शिष्यं प्रसन्नचित्तः सन् पश्चादुपदिशेदिति |
मन्त्रः शिष्यस्य सिद्ध्यै स्यात्तादृग्दीक्षेयं फलप्रदा ||
१३३ ||
षडन्वयमहारत्ने— शिवोऽहमिति निश्चित्य वीक्षणं करुणार्द्रया |
दृशा सा चाक्षुषी दीक्षा सर्वपापप्रणाशिनी ||
१३४ ||
इति दृग्दीक्षा |


Band II, S. 58, Einweihung durch Berührung Verse 135–138
अथ स्पर्शदीक्षा तत्रैव— स्वयं परशिवो भूत्वा निःसंदिग्धमना गुरुः |
शिवहस्तेन शिष्यस्य समन्त्रं मूर्ध्नि संस्पृशेत् |
स्पर्शदीक्षेति सा प्रोक्ता शिवाभिव्यक्तकारिणी ||
१३५ ||
शिवहस्तेनेति— गन्धैर्मण्डलकं स्वीये विदध्याद्दक्षिणे करे |
विधिना चार्चयेद्देवमित्थं स्याच्छिवहस्तकः ||
१३६ ||
इति सोमशम्भुप्रोक्तरूपेणेत्यर्थः |
मेरुतन्त्रे— गुरुः स्वस्य गुरुं ध्यायेत् स्वहस्ते शिवरूपिणम् |
मूलविद्यां षडङ्गं च मातृकादिमनून् जपन् ||
१३७ ||
शिष्यस्य मस्तके दत्त्वा कृपया दक्षिणं करम् |
पश्चादुपदिशेत् प्रोक्ता स्पर्शदीक्षाऽतिसिद्धिदा ||
१३८ ||
इति स्पर्शदीक्षा |


Band II, S. 58–59, Wort-Einweihung Verse 139–141
अथ वाचिकी दीक्षा षडन्वयमहारत्ने— गुरुवक्त्रं निजं वक्त्रं विभाव्य गुरुरादरात् |
गुरुवक्त्रप्रयोगेण दिव्यमन्त्रादिकं शिशौ |
मुद्रान्यासादिभिः सार्धं दद्यात् सेयं हि वाचिकी ||
१३९ ||
मेरुतन्त्रे— सदाशिवे तु चिद्रूपे गुरुश्चित्तं निधापयेत् |
मन्त्रान् समस्तांस्तज्जातान् ध्यायेत् स्वयं तदात्मकः ||
१३० ||
जातो गुरोश्च कृपया केवलोऽहं सदाशिवः |
इति ध्यायन्नुपविशेद्वाग्दीक्षा त्वियमीरिता ||
१४१ ||
इति वाचिकी दीक्षा |


Band II, S. 59, Mantra-Einweihung Vers 142
अथ मान्त्री दीक्षा षडन्वयमहारत्ने— दीक्षा परा तथा मन्त्रन्याससंयुक्तविग्रहः |
स्वयं मन्त्रतनुर्भूत्वा सक्रमं मन्त्रमादरात् |
दद्याच्छिष्याय सा दीक्षा मान्त्री मलविघातिनी ||
१४२ ||
इति मान्त्री दीक्षा |


Band II, S. 59, Feuer-Einweihung Verse 143–144
अथ होत्री दीक्षा तत्रैव |
कुण्डे वा स्थण्डिले वाऽपि निःक्षिप्याग्निं विधानतः |
लयभोगक्रमेणैव प्रत्यध्वानं यथाक्रमम् ||
१४३ ||
मन्त्रवर्णकलातत्त्वपदविष्टपमेव च |
शुद्ध्यर्थं होमयेदेषा होत्री दीक्षा समीरिता ||
१४४ ||
लयभोगक्रमेणेति |
वेधदीक्षाक्रमेण मूलाधाराधिष्ठितवर्णदेवतासंहाररूपेणेत्यर्थः |
इति होत्री दीक्षा |


Band II, S. 59, Begießung und Shambhavi-Diksha Verse 145–146
अथ अभिषेचिकी दीक्षा तत्रैव— शिवं च शिवपत्नीं च कुम्भे संपूज्य सादरम् |
शिवकुम्भाभिषेकात् सा दीक्षा स्यादभिषेचिकी ||
१४५ ||
इत्यभिषेचिकी दीक्षा |
अथ शाम्भवी दीक्षा मेरुतन्त्रे— गुरोरालोकमात्रेण भाषणात् स्पर्शनादपि |
सद्यः संजायते ज्ञानं सा दीक्षा शाम्भवी स्मृता ||
१४६ ||
इति शाम्भवी दीक्षा |


Band II, S. 59–60, Upadesha-Diksha Verse 147–149
अथोपदेशदीक्षा विश्वसारे— तत्राप्यशक्तः कश्चिच्चेदब्जमभ्यर्च्य साक्षतम् |
तदम्बुनाऽभिषिञ्चाष्टवारं मूलेन के करम् |
निधायाष्टौ जपेत् कर्णे उपदेशे त्वयं विधिः ||
१४७ ||
तत्रेति |
पूर्वोक्तसंक्षेपदीक्षायामित्यर्थः |
अब्जमिति शङ्खम् |
के करं निधायेति |
शिरसि हस्तं न्यस्येदित्यर्थः |
अथोपदेशदीक्षान्तरं तत्रैव |
महादीक्षा तथा दीक्षा उपदेशस्ततः परम् |
युगे युगे च कर्तव्या उपदेशः कलौ युगे ||
१४८ ||
चन्द्रसूर्यग्रहे तीर्थे सिद्धिक्षेत्रे शिवालये |
मन्त्रमात्रप्रकथनमुपदेशः स उच्यते ||
१४९ ||


Band II, S. 60, Prüfung von Guru und Schüler Verse 150–153
मेरुतन्त्रे— भुक्तिमुक्तिप्रसिद्ध्यर्थं परीक्ष्य विधिवद्गुरुः |
पश्चादुपदिशेन्मन्त्रमन्यथा निष्फलं भवेत् ||
१५० ||
अन्यायेन च यो दद्यात् गृह्णात्यन्यायतश्च यः |
ददतो गृह्णतो वाऽपि कुलशापो भविष्यति ||
१५१ ||
गुरुशिष्यावुभौ मोहादपरीक्ष्य परस्परम् |
उपदेशं ददद्गृह्णन् प्राप्नुयातां पिशाचताम् ||
१५२ ||
अशास्त्रीयोपदेशं तु यो गृह्णाति ददाति च |
भुञ्जाते तावुभौ घोरान् नरकानेकविंशतिम् ||
१५३ ||


Band II, S. 60, Eignung und Motivation Verse 154–157
असंस्कृत्योपदेशं तु यः करोति विमूढधीः |
विनश्यन्ति च तन्मन्त्राः सैकते शालिबीजवत् ||
१५४ ||
अनर्हे मन्त्रविज्ञानं न तिष्ठति कदाचन |
तस्मात् परीक्ष्य वक्तव्यमन्यथा निष्फलं भवेत् ||
१५५ ||
सच्छिष्यायातिभक्ताय यज्ज्ञानमुपदिश्यते |
तत् प्राप्नोति प्रतीतित्वं गोक्षीरात्तु यथा घृतम् ||
१५६ ||
धनेच्छाभयलोभाद्यैरयोग्यं यदि दीक्षयेत् |
देवताशापमाप्नोति कृतं च विकृतं भवेत् ||
१५७ ||
इत्युपदेशदीक्षाविधिः |


Band II, S. 60–61, Krama-Diksha Verse 158–164
अथ क्रमदीक्षाविधिः |
तन्त्रचिन्तामणिधृतशक्तिसङ्गमकुलार्णवादिवचनानि |
सुन्दरी तारिणी काली क्रमदीक्षाभिगामिनी |
क्रमपूर्णो महेशानि क्रमाच्छम्भुर्भविष्यति ||
१५८ ||
चन्द्राग्निपक्षषोढाख्यपरानिर्वाणतत्परा |
षट्शाम्भवं ततो देवि चक्रसंभेदमेव च ||
१५९ ||
स्वचक्रदेहविज्ञानं परकायप्रवेशनम् |
एतज्ज्ञानाद्भवेन्मेधा दीक्षा प्रोक्ता मया तव ||
१६० ||
हादाविदं निगदितं शृणु कादौ महेश्वरि |
चन्द्राग्निरसराज्ञी च महाराज्ञी ततः शिवे ||
१६१ ||
महाकामकला काली गुह्यकाली ततः शिवे |
गुह्यकाली द्विधा प्रोक्ता सकला निष्कला क्रमात् ||
१६२ ||
दशवक्त्रा तु सकला प्रोक्ता वा सृष्टिकारिका |
उग्रा सौम्या महाक्रूरा त्रिधा साऽपि प्रकीर्तिता ||
१६३ ||
निष्कला गुह्यसंज्ञातो काली भेदेन कीर्तिता |
केवलेयं भवेन्मेधाह्वयी साम्राज्यरूपिणी ||
१६४ ||


Lesungshinweise: Die Stufennamen in Vers 159 sind verdichtet und teilweise mehrdeutig.

Band II, S. 61, Vidya-Stufen Verse 165–170
चन्द्राग्निवेदपञ्चार्णा तथा नीला क्रमेण च |
हंसतारा महानीला तदन्ते चीनसम्भवी ||
१६५ ||
केवला तु भवेन्मेधा ऋद्धिसिद्धिरक्रिया द्विधा |
त्रितया दिव्यसाम्राज्ये मेधा दीक्षा प्रकीर्तिता ||
१६६ ||
देवरूपा दिव्यरूपा मन्त्ररूपा महापरा |
सर्वरूपा सर्वपूर्वा महासाम्राज्यमेधया ||
१६७ ||
ऋद्धिसिद्धिक्रमेणैव भेदबाहुल्यमीरितम् |
विद्या राज्याभिधा दीक्षा छिन्नमस्ताविधौ स्मृता ||
१६८ ||
चन्द्रवह्निरसारक्तश्यामा च षोडशी तथा |
परा षोढा सप्तदशी तदा जाता परा भवेत् ||
१६९ ||
दीपिनी मालिनी कुल्ला क्रमाद्विद्यादिराज्यदा |
बगला या महेशानि साम्राज्यपरमे स्थिता ||
१७० ||


Band II, S. 61–62, Höchste gestufte Einweihung Verse 171–179
चन्द्रवेदसूक्ष्ममेरुमन्त्रहीनं शिवान्तरम् |
हृदयं च शतार्णं च पञ्चाङ्गं कुल्लुका तथा ||
१७१ ||
गायत्री क्रमयोगेन साम्राज्यपरमेष्ठ्यधृक् |
एतत्पञ्चकसंयुक्तः सर्वसाम्राज्यबुद्धिधृक् ||
१७२ ||
श्रीदिव्यसर्वसाम्राज्यदीक्षा सर्वात्तरा भवेत् |
ततोऽपि दीक्षा देवेशि नास्ति ब्रह्माण्डगोलके ||
१७३ ||
दश विद्याप्रभेदाश्च महाविद्याप्रभेदजाः |
सिद्धिविद्याप्रभेदाश्च महामन्त्रास्तथैव च ||
१७४ ||
तदङ्गमन्त्रा देवेशि शावरं देशशावरम् |
कालशावरकं देवि तथैव सिद्धिशावरम् ||
१७५ ||
त्रिधा दर्शनमन्त्राश्च तथाऽऽम्नायक्रमोद्भवाः |
कादिहादिक्रमत्वेन ऊर्ध्वाम्नाये कलौ शिवे ||
१७६ ||
तथाऽऽयतनमन्त्राश्च यत्किंचिन्मन्त्रजालकम् |
सर्वाधिकारो देवेशि एतद्दीक्षाविधौ भवेत् ||
१७७ ||
एतद्दीक्षासमायुक्तः साक्षाच्छ्रीकालिका स्वयम् |
प्रहराष्टक्रमेणैव दशविद्यास्वरूपधृक् ||
१७८ ||
कामकलाभिधा विद्या सभेदा वृत्तिदेवता |
अङ्गमन्त्रास्तथाऽन्येऽपि तस्य चात्रगताः सदा ||
१७९ ||


Lesungshinweise: Der Zusammenhang der ersten Halbzeile ist unsicher; die dortigen Bezeichnungen bleiben ohne spekulative Entschlüsselung.

Band II, S. 62, Folgen fehlender und vollzogener Krama-Diksha Verse 180–186
क्रमदीक्षा महेशानि पञ्चविद्यासु भेदतः |
तदङ्गमन्त्रा गायत्रीकुल्लुकापञ्चकं शिवे ||
१८० ||
अन्यविद्याविधौ प्रोक्तं रहस्यातिरहस्यकम् |
श्रीविद्यायां कालिकायां तारायां परमेश्वरि ||
१८१ ||
क्रमदीक्षां विना देवि यो जपेत् साधकाधमः |
स दरिद्री महाघोरी लक्ष्मीहीनस्तु निन्दितः ||
१८२ ||
अथ वा वातुलो भूयान्मन्त्रक्षोभमवाप्नुयात् |
क्रमदीक्षासमायुक्तो राजा भवति निश्चितम् ||
१८३ ||
महाविभवसंयुक्तः सर्वसिद्धिसमन्वितः |
विजयी विनयी साधुः सिद्धश्च सिद्धिदः शुभः ||
१८४ ||
प्रहृष्टात्मा सर्ववेत्ता त्रिकालज्ञः कविः सुखी |
कोटिसिद्धीश्वरः शूरः सुन्दरः काममोहनः ||
१८५ ||
आनन्दात्मा परात्मा च पराजितगुणोत्तरः |
राजराजेश्वरः साक्षान्महाकालसमः कलौ ||
१८६ ||


Band II, S. 62–63, Guru und Stufenfolge Verse 187–191
नैतद्विद्योपासकस्य दारिद्र्यं दीनता क्वचित् |
गुरुहीनात् क्रमत्यागात् संप्रदायवियोगतः ||
१८७ ||
दारिद्र्यं प्रथमं भूयान्नात्र कार्या विचारणा |
चिन्तामणिगृहं यत्र यत्र रत्नस्य मन्दिरम् ||
१८८ ||
नवरत्नात्मसोपानं सर्वैश्वर्यास्पदं गृहम् |
कल्पवृक्षवनं यत्र पारिजातवनं तथा ||
१८९ ||
स्पर्शमणेस्तु प्राकारो दारिद्र्यं तत्र कुत्र वै |
तस्मात् क्रमविहीनस्य दारिद्र्यं तु पदे पदे ||
१९० ||
क्रमयुक्तं गुरुं प्राप्य क्रमं संप्रार्थयेत् सुधीः |
अन्यथा गुरुमौढ्येन दरिद्रत्वमवाप्नुयात् |
अल्पायुर्वा भवेद्देवि नात्र कार्या विचारणा ||
१९१ ||


Band II, S. 63, Abschluss der Krama-Diksha Verse 192–193
दीक्षापद्धतौ वाडवानलीयवचनम्— गविसूमापतीशाश्च कथ्यन्ते दिक्षु च क्रमात् |
देशिकेन क्रमज्ञेन दीयन्ते यद्विधानतः ||
१९२ ||
क्रमदीक्षेति सा प्रोक्ता व्युत्क्रमो नैव सिद्धिदः |
क्रमदीक्षाविधिर्यत्र तत्र पूर्णाभिषेचनम् ||
१९३ ||
इति क्रमदीक्षाप्रकारः |


Band II, S. 63, Notwendigkeit des Purnabhisheka Verse 194–199
अथ पूर्णाभिषेकदीक्षाविधिः मेरुतन्त्रे पूर्वोक्तदीक्षाभेदानुक्त्वा— एवं दत्त्वा गुरुदीक्षां कुर्यात् पूर्णाभिषेचनम् |
विना येनाभिषेकेण साधकः पूर्णबोधताम् ||
१९४ ||
आचार्यत्वं न चाप्नोति सद्गतिं च समीहिताम् |
तस्माद्गुरुः प्रियं शिष्यं बोधयित्वाऽभिषेचयेत् ||
१९५ ||
शक्तिसङ्गमकुलार्णवादौ— विना पूर्णाभिषेकेण पशुरूपः शिवोऽपि च |
विना पूर्णाभिषेकेण देवता न प्रसीदति ||
१९६ ||
विना पूर्णाभिषेकेण कालीं तारां च यो जपेत् |
तस्य क्रियां हरिष्यामि वातुलो जायते नरः ||
१९७ ||
विना पूर्णाभिषेकेण गुरुधर्मेण पार्वति |
न जपो न तथा होमो न पूजा पूर्णता क्वचित् ||
१९८ ||
विशेषतः कौलिकानां पूर्णाभिषेक आवश्यकः— पूर्णाभिषेकहीनस्तु कौलिको म्रियते यदि |
पिशाचत्वमवाप्नोति यावदाभूतसंप्लवम् ||
१९९ ||
इति कुलार्णववचनात् |
तथा— पूर्णाभिषेको देवेशि दशविद्याविधौ स्मृतः |


Band II, S. 64, Zeitpunkte der Begießungsweihe Verse 200–202
पूर्णाभिषेककाला उक्तास्तन्त्रराजे— ग्रहाणां वैपरीत्येषु जन्मर्क्षे ग्रहणे द्वयोः ||
२०० ||
कुहूप्राप्तौ रिपुक्लेशे कुर्यात् पूर्णाभिषेचनम् |
तेन दोषाः स्पृशन्त्येनं न कदाचन तद्बलात् ||
२०१ ||
शक्तिसङ्गमादौ— पूर्णाभिषेकदीक्षा तु चन्द्रसूर्यग्रहे भवेत् |
अन्येष्वपि पुण्यकालेषु पूर्णाभिषेकदीक्षा कर्तव्यैव— सप्तसूक्तेषु कालेषु पुण्येष्वन्येषु वाऽऽदरात् ||
२०२ ||
विधानमाह—इति तन्त्रराजवचनात् |


Band II, S. 64, Vorbereitung und Verehrung der Gurus Verse 203–206
पूर्वोक्तमण्डपे स्थित्वा गुरुर्ध्यानपरायणः |
अङ्कुरारोपणं वास्तुयागं कुर्यात् परेऽहनि ||
२०३ ||
कुण्डं निर्माय यत्नेन यथाविहितमादरात् |
होमं कृत्वा गुरुकुलं मान्यं पूज्यमथादरात् ||
२०४ ||
वेदिकायामिष्टदेवं गुरुत्रितयमादरात् |
वस्त्रालङ्करणैः पूज्या गुरुशक्तय एव च ||
२०५ ||
तथा दिव्यौघचरणं सिद्धौघचरणं शिवे |
मानवौघं महेशानि स्वगुरूणां चतुष्ककम् ||
२०६ ||


Band II, S. 64, Mandala und Kalashas Verse 207–210
मेरुतन्त्रे— विरच्य विपुलं चक्रं मण्डपेऽतिमनोहरम् |
खारीतोयभृतं कुम्भं स्थापयेच्चक्रमध्यतः ||
२०७ ||
अन्येषु कलशांस्तत्र वस्त्रहेमसमन्वितान् |
दलेषु विविधाः स्थाप्यास्तत्रावाह्येष्टदेवताम् |
अभ्यर्च्य मध्ये चान्तेषु साङ्गावरणदेवताः ||
२०८ ||
तन्त्रान्तरे— मध्ये मूलघटः स्थाप्यस्ततः पूजाक्रमेण च |
सर्वावरणकुम्भाश्च स्थापनीयाः समन्ततः ||
२०९ ||
तन्त्रराजे— विरच्य विपुलं चक्रं प्रतियोनि च षोडश |
त्रिकोणानि विधायात्र मध्ये कुम्भं च विन्यसेत् ||
२१० ||


Band II, S. 65, Gefäße und Maßangaben Verse 211–216
तन्त्रराजे— सौवर्णं राजतं ताम्रं काचं मार्त्तिकमेव च |
पूरितं खारितोयेन क्वथितेनाक्षरौषधैः ||
२११ ||
निःक्षिप्य नव रत्नानि धान्यानि विविधानि च |
हिरण्यानि सताम्राणि वासोभ्यामभिवेष्टयेत् ||
२१२ ||
रक्ताभ्यां चन्दनैश्चूतपनसाश्वत्थपल्लवैः |
शतक्रतुलताबद्धैर्मातुलुङ्गफलान्वितैः ||
२१३ ||
विधाय कलशानन्यानन्येष्वेकैकशो न्यसेत् |
सार्धसहस्रं षट्त्रिंशत्पञ्चसंख्याः क्रमोदिताः ||
२१४ ||
खारीतोयमिति |
खारीलक्षणमुक्तं स्कन्दपुराणे— पलद्वयं तु प्रसृतिः कुडवं द्विगुणं मतम् |
चतुर्भिः कुडवैः प्रस्थ आढकस्तैश्चतुर्गुणैः ||
२१५ ||
चतुर्गुणो भवेद्द्रोणः कुम्भस्तद्द्वयतः स्मृतः |
कुम्भैस्तैरष्टभिः खारी ... ... ... ||
२१६ ||
इति |


Band II, S. 65–66, Vollzug der Begießung Verse 217–224
तन्त्रराजे— मध्ये चक्रेषु तोयादि कृत्वा वात्वाऽभिपूज्य च |
कालात्मनि च मन्त्रांश्च जपित्वा पूर्ववासरे ||
२१७ ||
जन्मर्क्षे प्रातरुत्थाय स्वनित्यान्ते प्रपूजयेत् |
सहस्रं प्रजपेत् पश्चाद्धोमं कृत्वा समन्ततः ||
२१८ ||
त्रिशक्तिरत्ने— नानोपचारैः संपूज्य सहस्रं जुहुयाच्छुचौ |
अभिषिञ्चेद्गुरुः शिष्यं नामास्मै प्रदिशेत् स्वयम् ||
२१९ ||
तन्त्रराजे— शृङ्गकाहलशङ्खादिवाद्यसङ्गीतनर्तनैः |
मुदितैर्योगिनीवृन्दैरेकैकं देवतात्मभिः |
धृतैः सुपूजितैः सार्धमभिषिञ्चेद्गुरुः स्वयम् ||
२२० ||
मेरुतन्त्रे— स्पृशंश्च मध्यकलशमाचार्यः प्रपठेदिति |
साङ्गांश्च चतुरो वेदांस्ततस्तेन जलेन तु |
अभिषिञ्चेद्गुरुः शिष्यमिति पूर्णाभिषेचनम् ||
२२१ ||
तन्त्रराजे— अथ वा खण्डवत्यष्ट कलशांस्तत्र विन्यसेत् |
तेषु शक्तीः समावाह्य संपूज्यैवाभिषेचयेत् ||
२२२ ||
एकं वा कलशं जन्मदिने कृत्वाऽभिषेचयेत् ||
२२३ ||
तथा— सोमसूर्याग्निरूपत्वं जलस्य परिकीर्तितम् |
तस्मादशेषदुःखार्तिशान्त्यै स्यादभिषेचनम् ||
२२४ ||


Band II, S. 66, Zwei Begießungen Verse 225–230
तन्त्रान्तरे— अभिषेकक्रियाभिज्ञ उद्वर्तनपुरःसरम् |
स्नानद्वयं यथोक्तेन कृत्वा यत्नेन पार्वति ||
२२५ ||
पञ्चपल्लवयोगेन दूर्वाबिल्वफलैस्तथा |
वैदिकैस्तान्त्रिकैर्मन्त्रैः सेचयेच्छिष्यमादरात् ||
२२६ ||
अयमेव महादेवि पूर्णदीक्षाक्रमः स्मृतः |
अन्यत्सर्वं महेशानि दीक्षापटलगोचरम् ||
२२७ ||
स्नानद्वयमिति |
क्रियावत्यादिदीक्षोक्तमेकमपरं पूर्णाभिषेकरूपमित्यर्थः |
तदुक्तं तन्त्रराजे— अथाभिषेकं द्विविधं समवाप्य तदाज्ञया |
अनुग्रहादि कुर्वीत सिद्धये नान्यथा भवेत् ||
२२८ ||
विधाय चक्रं तन्मध्ययोन्यां कुम्भं विधाय तु |
वर्णक्वाथैः समापूर्य अभिषिञ्च्य वदेन्मनुम् ||
२२९ ||
क्रमागतसमाचारनिरते भक्तिशालिनि |
द्वितीयमभिषेकं च कुर्याद्दिव्यात्मसिद्धये ||
२३० ||


Band II, S. 66–67, Acharya-Befähigung und heilige Gewässer Verse 231–238
मेरुतन्त्रे— देवेभ्यः सर्वतन्त्राणि तन्त्रेभ्यो मनवस्तथा |
यतो यातास्ततः शिष्यः सर्वमन्त्रैकभाजनम् ||
२३१ ||
भवेदाचार्यनामा च कुर्यान्नामान्तरं गुरुः |
एतादृशस्य यो दीक्षां गृह्णीयात् स तु सिद्धिभाक् ||
२३२ ||
सर्वमन्त्रप्रदानेषु समर्थः स तु जायते |
सर्वे देवा वशास्तस्य वेदपन्थास्तु सात्त्विकः ||
२३३ ||
एष एव विधिस्तत्र मार्गे स्याद्दक्षिणाभिधे |
विशेषस्तत्र तोयानि तीर्थानामाहरेत् सुधीः ||
२३४ ||
गङ्गाया यमुनायाश्च सरस्वत्या महोदधेः |
सिन्धुगोदावरीरेवानदतीर्थेभ्यः पृथूदकात् ||
२३५ ||
महेन्द्रजायाः सरयूचर्मण्वत्योश्च पुष्करात् |
महानद्या वेदिकायाः क्षिप्रवेत्रवतीजलम् ||
२३६ ||
कुरुक्षेत्रस्य गण्डक्याः पूर्णाया मानसस्य च |
घटे दत्त्वा जपेन्मन्त्रान् नानातन्त्रगतानपि ||
२३७ ||
अभिषिक्तस्तु तैस्तोयैः सिद्धास्ते मनवोऽस्य तु |
प्रयोगार्थं तथा न्यस्य दानार्थम् ... ||
२३८ ||
इति |


Band II, S. 67, Niruttaratantra und Aufstellung des Kruges Verse 239–244
निरुत्तरतन्त्रे— वैष्णवो गाणपत्यश्च सौरश्चैव कुलेश्वरि |
अभिषेकं प्रकुर्वीत शाक्तश्च कुलभूषणः ||
२३९ ||
तथा— अभिषेकं चरेद्देवि अधिवासपुरःसरम् |
वृद्धिश्रान्तिं ततः कृत्वा शिवशक्तीः प्रपूजयेत् ||
२४० ||
गुरुं संपूज्य विधिवत् स्वर्णालङ्कारभूषणैः |
ततः संकल्पविधिना गुरूणां वरणं चरेत् ||
२४१ ||
तथा— शिवशक्ती च संपूज्य स्थापयेद्घटमुत्तमम् |
नातिह्रस्वं नातिदीर्घं स्वर्णरूप्यादिनिर्मितम् ||
२४२ ||
विशेषार्घस्य यन्त्रे वा त्रिकोणे वाऽपि विन्यसेत् |
कामबीजेन संप्रोक्ष्य वाग्भवेनैव ताडयेत् ||
२४३ ||
शक्त्या घटं समालोच्य मायया पूरणं जलैः |
मन्त्रेणानेन तीर्थानि देशिकस्तत्र विन्यसेत् ||
२४४ ||


Lesungshinweise: Der Ausdruck nach „vorbereitender Weihe“ ist im Druck beschädigt; seine genaue Form bleibt unsicher.

Band II, S. 67–68, Anrufung der Gewässer und Krugweihe Verse 245–250
गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च |
सर्वे समुद्राः सरितः सरांसि जलदा नदाः ||
२४५ ||
ह्रदाः प्रस्रवणाः पुण्याः स्वःपातालमहीगताः |
सर्वतीर्थानि पुण्यानि घटे कुर्वन्तु सन्निधिम् ||
२४६ ||
श्रीबीजेन प्रजप्तेन पल्लवं प्रतिपादयेत् |
कूर्चेन फलदानं स्यात् स्त्रीबीजेन स्थिराकृतिः ||
२४७ ||
सिन्दूरं वह्निबीजेन पुष्पं प्रेतेन विन्यसेत् |
मूलेन प्रणवेनापि दूर्वां दद्याद्विचक्षणः ||
२४८ ||
हूँ फट्स्वाहेति मन्त्रेण कुर्याद्दर्भेण ताडनम् |
विचिन्त्य देवीपीठं च तत्रावाह्य प्रपूजयेत् ||
२४९ ||
अनेनैव विधानेन सर्वकर्मसु सुन्दरि |
घटं संस्थापयेद्देवीभक्तेनेव विशेषतः ||
२५० ||


Band II, S. 68, Große Puja und Anheben des Kruges Verse 251–256
महापूजां चरेद्धीमान् षोडशोपचारसंयुताम् |
गुरूणां च महापूजां शक्तीनां च ततः परम् ||
२५१ ||
तत्पश्चात् साधकानां च क्रमेण परिपूजनम् |
कुमारीभ्यो बलिं दत्त्वा कुलजाभ्यो विशेषतः ||
२५२ ||
अभिषेकं ततो देवि कुर्याच्च गुरुमार्गतः |
स्वतन्त्रोक्तविधानेन मन्त्रस्योच्चारणैः सह ||
२५३ ||
चालयेच्च घटं मन्त्री मन्त्रेणानेन देशिकः |
ॐ उत्तिष्ठ ब्रह्मकलश सेविताशेषसिद्धिद ||
२५४ ||
सर्वतीर्थाम्बुपूर्णस्त्वं पूरयस्व मनोरथम् |
ईशानेन्द्रस्मरक्षोणी तदन्ते भुवनेश्वरी ||
२५५ ||
मन्त्रेणानेन वाद्यानां निर्घोषैश्चालयेद्घटम् |
अभिषिञ्चेद्गुरुः शिष्यं यजमानं पुरोहितः ||
२५६ ||


Band II, S. 68–69, Abhisheka-Mantra Einleitung und Verse 257–264
तथा— अभिषेकस्य दक्षिणामूर्तिर्ऋषिरनुष्टुप्छन्दः शक्तिर्देवता सर्वसिद्धिसंकल्पसिद्धये विनियोगः |
ॐ राजराजेश्वरीशक्तिर्भैरवी कालभैरवी |
श्मशानभैरवी देवी त्रिपुरानन्दभैरवी ||
२५७ ||
त्रिपुरा त्रिपुरादेवी तथा त्रिपुरसुन्दरी |
त्रिपुरेशी महादेवी तथा त्रिपुरमालिका ||
२५८ ||
नित्या च नित्यरूपा च वज्रप्रस्तारिणी तथा |
सर्वचक्रेश्वरी देवी तथा नीलसरस्वती ||
२५९ ||
सर्वसिद्धिकरी देवी सिद्धगन्धर्वसेविता |
उग्रतारा महादेवी तथा दक्षिणकालिका ||
२६० ||
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा |
उग्रदंष्ट्रा महादंष्ट्रा शुभदंष्ट्रा कपालिनी ||
२६१ ||
भीमनेत्रा विशालाक्षी मङ्गला विजया जया |
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
२६२ ||
मङ्गला नन्दिनी भद्रा लक्ष्मीः कीर्तिर्यशस्विनी |
पुष्टिर्मेधा शिवा साध्वी यशःशोभा जया धृतिः ||
२६३ ||
श्रीनन्दा च सुनन्दा च नन्दिन्यानन्दपूजिता |
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
२६४ ||


Band II, S. 69, Abhisheka-Mantra Göttinnen Verse 265–270
विजया मङ्गला भद्रा स्मृतिः शान्तिः क्षमा धृतिः |
सिद्धिस्तु परमा पुष्टिः श्रीर्ऋद्धिश्च रतिस्तथा ||
२६५ ||
दीप्ता कान्तिर्यशोलक्ष्मीरीश्वरी बुद्धिरेव च |
शक्तिर्मायावती ब्राह्मी जयन्ती चापराजिता ||
२६६ ||
अजिता मानवी श्वेता दितिस्त्वदितिरेव च |
माया चैव महामाया मोहिनी क्षोभिणी तथा ||
२६७ ||
कमला विमला गौरी लावण्याम्बुधिसुन्दरी |
दुर्गा क्रियाऽरुन्धती च घण्टाकर्णा कपालिनी ||
२६८ ||
चर्चिका चापरा ज्ञेया तथैव सुरपूजिता |
वैवस्वती च कौमारी तथा माहेश्वरी परा ||
२६९ ||
वैष्णवी च महालक्ष्मीः कार्तिकी कौशिकी तथा |
शिवदूती च चामुण्डा मुण्डमालाविभूषणा ||
२७० ||


Band II, S. 69–70, Abhisheka-Mantra Weltenhüter und Zeitmächte Verse 271–277
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा |
इन्द्रो वह्निर्यमश्चैव नैर्ऋतो वरुणस्तथा ||
२७१ ||
पवनो धनदेशानौ ब्रह्माऽनन्तो दिगीश्वराः |
एतास्त्वा सिञ्चन्तु मन्त्रपूतेन वारिणा ||
२७२ ||
संवत्सरश्चायनौ च मासपक्षदिनानि च |
तिथयश्चाभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
२७३ ||
रविः सोमः कुजबुधौ गुरुः शुक्रः शनैश्चरः |
राहुः केतुश्च सततमभिषिञ्चन्तु ते ग्रहाः ||
२७४ ||
नक्षत्रं करणं योगोऽमृतसिद्धिस्ततः परम् |
दग्धाः पापास्तथा भद्रा योगा वाराः क्षणास्तथा ||
२७५ ||
वारवेला कालवेला दण्डा ऋक्षादयस्तथा |
अभिषिञ्चन्तु सततं मन्त्रपूतेन वारिणा ||
२७६ ||
असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्त एव च |
कपाली भीषणाख्यश्च संहारश्चाष्ट भैरवाः ||
२७७ ||


Band II, S. 70, Abhisheka-Mantra Yogini-Nachkommen und Tattvas Verse 278–284
एते त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा |
द्राविणीपुत्रिका चैव डाकिनीपुत्रिकास्तथा ||
२७८ ||
शाकिनीपुत्रिकाश्चान्याः काकिनीपुत्रिकाः पराः |
शाकिनीपुत्रिका भूयो हाकिनीपुत्रिकास्तथा ||
२७९ ||
ततश्च राकिणीपुत्री देवपुत्री ततः परम् |
मातृणां च तथा पुत्री चोर्ध्वमुख्याः सुतास्तथा ||
२८० ||
अधोमुख्याः सुताश्चैव ज्वालामुख्याः सुताः पराः |
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
२८१ ||
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः |
एते त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
२८२ ||
पुरुषः प्रकृतिश्चैव विकाराश्चैव षोडश |
आत्मा परात्मा ज्ञानात्मा ध्यानात्मा परमात्मनः ||
२८३ ||
आत्मानश्चात्मनश्चैव स्थूलसूक्ष्मौ च ये पराः |
एते त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
२८४ ||


Band II, S. 70, Abhisheka-Mantra Bijas Verse 285–287
वेदादिबीजं हुँ बीजं स्त्रीबीजं तन्निकेतनम् |
शक्तिबीजं रमाबीजं मायाबीजं सुधाकरम् ||
२८५ ||
चिन्तारत्नं महाबीजं नारसिंहं च तारकम् |
मार्तण्डभैरवं दौर्गं बीजं श्रीपौरुषोत्तमम् ||
२८६ ||
गाणपत्यं च वाराहं कालीबीजं भयापहम् |
एतानि त्वाऽभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
२८७ ||


Band II, S. 70–71, Abhisheka-Mantra Flüsse und heilige Orte Verse 288–293
गङ्गा गोदावरी रेवा यमुना च सरस्वती |
आत्रेयी भारती चैव सरयू गण्डकी तथा ||
२८८ ||
करतोया चन्द्रभागा श्वेतगङ्गा च कौशिकी |
भोगवती च पाताले स्वर्गे मन्दाकिनी तथा ||
२८९ ||
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा |
भैरवी भीमरूपा च शोणः सुमुख एव च ||
२९० ||
सिन्धुश्चैव ह्रदः पुण्यास्तथा पातालसम्भवः |
एते त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा इति ||
२९१ ||
यानि कानि च तीर्थानि पुण्यापुण्यतराणि च |
तानि त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
२९२ ||
जम्बूद्वीपादयो द्वीपाः सागरा लवणादयः |
अनन्ताख्यस्तथा नागाः सर्पा ये तक्षकादयः ||
२९३ ||


Band II, S. 71, Schluss des Abhisheka-Mantras Verse 294–302
एते त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा |
तारश्च वह्निजाया च वषट् कूर्चमतः परम् ||
२९४ ||
वौषट्कारस्तु फट्कारो ह्यभिषिञ्चतु सर्वदा |
नश्यन्तु प्रेतकूष्माण्डा राक्षसा दानवाश्च ये ||
२९५ ||
पिशाचा गुह्यका भूता अभिषेकेण ताडिताः |
अलक्ष्मीः कालकर्णी च पापानि सुमहान्ति च ||
२९६ ||
नश्यन्तु चाभिषेकेण तारबीजेन ताडिताः |
रोगाः शोकाश्च दारिद्र्यं दौर्बल्यं चित्तविक्रिया ||
२९७ ||
नश्यन्तु चाभिषेकेण वाग्बीजेनैव ताडिताः |
लोकानुरागत्यागाश्च दौर्भाग्यमपि दुर्यशः ||
२९८ ||
नश्यन्तु चाभिषेकेण मन्मथेनैव ताडिताः |
तेजोह्रासः शक्तिह्रासो बुद्धिह्रासस्तथैव च ||
२९९ ||
नश्यन्तु चाभिषेकेण शक्तिबीजेन ताडिताः |
विषाणि च महारोगा डाकिन्यो भीतयस्तथा ||
३०० ||
घोराभिचाराः क्रूराश्च ग्रहा नागास्तथैव च |
नश्यन्तु चाभिषेकेण कालीबीजेन ताडिताः ||
३०१ ||
नश्यन्तु विपदः सर्वाः संपदः सन्तु सुस्थिराः |
अभिषेकेण शाक्तानां पूर्णाः सन्तु मनोरथाः ||
३०२ ||


Band II, S. 71–72, Puja und Mantra-Übergabe nach der Begießung Verse 303–309
एवं संसिच्य शिष्यं तु पुनः पूजां समाचरेत् |
शिष्योऽपि तत्र संपूज्य गुरवे दक्षिणां ददेत् ||
३०३ ||
गोभूमिस्वर्णरूप्यं च नानारत्नानि पार्वति |
सर्वस्वं गुरवे दद्यात् तदर्धं वाऽपि दक्षिणाम् ||
३०४ ||
श्रीविद्यां वा सिद्धिकालीं तारां वा महिषार्दिनीम् |
शिष्याय भक्तियुक्ताय प्रदद्याद्देशिकः स्वयम् ||
३०५ ||
तन्त्रान्तरे— एवं कृत्वाऽभिषेकं च प्रधानकलशाम्भसा |
तत्तन्मन्त्रं समुच्चार्य परिचारघटोदकैः ||
३०६ ||
अभिषिञ्चेत् ततस्तस्मै प्रदद्यान्मन्त्रमुत्तमम् |
कृते पूर्णाभिषेके तु सर्वमन्त्राधिकारवान् ||
३०७ ||
शिष्यः संजायते तस्मादभिषिच्य मनुं ददेत् |
पूर्वमल्पविधानेन उपदिष्टोऽपि चेन्मनुः ||
३०८ ||
पश्चात् सर्वाधिकारार्थं कुर्यात् पूर्णाभिषेचनम् |
महामन्त्रोपमन्त्राश्च सिद्धिं दद्युर्न संशयः ||
३०९ ||


Band II, S. 72, Besonderheiten des Vamamarga Verse 310–313
वाममार्गे तु प्रधानकलशो हेतुद्रव्येण पूरणीयः |
कलशान्तराणि जलेनैव |
तदुक्तं मेरुतन्त्रे— मध्ये तीर्थघटः स्थाप्यः शेषास्तोयघटा मताः |
ये ये आवाहिता देवा गुरुणा तु सुराघटे ||
३१० ||
ते ते कुर्वन्ति सान्निध्यं मन्त्ररूपाश्च तन्मुखे |
स्वयं सिद्ध्यति वागस्य मूर्धानं नैव नामयेत् ||
३११ ||
तदर्थं नामितो मूर्धा तस्य मृत्युर्न संशयः |
वाममार्गे गुरुर्यस्य ईदृक् सिद्धो यदा भवेत् ||
३१२ ||
शिष्यश्च निरहङ्कारः सदा दैवतत्परः |
देवार्थं यस्य नान्यत्र यस्य भोगे मनो न च |
स एव सिद्धो वामे स्यादन्यो निरयभाजनम् ||
३१३ ||


Band II, S. 72–73, Kaula-Begießung und Kula-Bäume Verse 314–317
कौलमार्गे विशेष उक्तस्तत्रैव— सजीवमीनयुक्तेन सुरया पूरितेन च |
पञ्चामृतैस्तु संपूर्णं शङ्खेन कलशेन वा ||
३१४ ||
अभिषेकं ततः कुर्यात् कुलवृक्षोत्थपल्लवैः |
अयं पूर्णाभिषेकोऽत्र कुलमार्गे प्रकीर्तितः ||
३१५ ||
कुलवृक्षाश्च— सहकारः कर्णिकारः केशरस्तिलकस्तथा |
कदम्बः सिन्धुवारश्च कङ्कोलश्चम्पकाह्वयः ||
३१६ ||
श्लेष्मान्तकं कुरवको निम्बश्चलदलस्तथा |
यज्ञाङ्गो जटिलो बिल्वः कुलवृक्षा मता अमी ||
३१७ ||
इति कुलचूडामणौ प्रोक्ताः |


Band II, S. 73, Initiationsname und Zugehörigkeit Verse 318–322
तन्त्रान्तरे— अभिषिञ्चेद्गुरुः शिष्यं नामास्मै प्रदिशेत् स्वयम् |
आनन्दनाथशब्दादि त्र्यक्षरं चतुरक्षरम् ||
३१८ ||
नियोज्यैवामुकोऽसीति गुरुरादौ तदाह्वयेत् |
यथा नारी पितुर्गोत्रात् पत्युर्गोत्रं समाश्रयेत् ||
३१९ ||
तथा शक्त्युपदेशेन कौलो गोत्रान्तरे व्रजेत् |
अथोच्यते महेशानि कौलानां गोत्रमुत्तमम् ||
३२० ||
दुर्लभं सर्वतन्त्रेषु शाम्भवं तत् प्रकीर्तितम् |
कौलावधूतमार्गेषु तीर्थयात्रां न च व्रजेत् ||
३२१ ||
तीर्थाटनं च संन्यासं व्रतधारणमेव च |
उपवासं मुण्डनं च सर्वथा परिवर्जयेत् |
पूर्णाभिषिक्ते शिरसि तेन तत्र न मुण्डनम् ||
३२२ ||


Lesungshinweise: Die Verbindung der drei- oder viersilbigen Namensangabe mit „Anandanatha“ ist im Vers nicht eindeutig aufgelöst.

Band II, S. 73, Lob der vollständigen Begießungsweihe Verse 323–329
पूर्णाभिषेकमाहात्म्यमाह मेरुतन्त्रे— रसेन्द्रेण यथा विद्धमयः सौवर्णतां व्रजेत् |
दीक्षाविद्धस्तथा ह्यात्मा शिवत्वं लभते ध्रुवम् ||
३२३ ||
तथा— गतं शूद्रस्य शूद्रत्वं गता विप्रस्य विप्रता |
दीक्षासंस्कारसंपन्ने जातिभेदो न विद्यते ||
३२४ ||
पूर्णाभिषेकं कृत्वा तु यत्र कुत्र मृतोऽपि च |
स एव देवीरूपः स्यात् स देवो धन्यतामियात् ||
३२५ ||
तन्त्रान्तरे— पूर्णाभिषेकयुक्तस्य यत्किञ्चिदनृतं भवेत् |
तस्य क्रिया च सफला देवता सुप्रसीदति ||
३२६ ||
पूर्णाभिषेकयुक्तो हि मन्त्रान् दत्त्वा जपेच्छिवे |
तत्क्षणात् सिद्धिमाप्नोति नात्र कार्या विचारणा ||
३२७ ||
गुरुं विनाऽपि देवेशि त्वभिषेकी तु यं जपेत् |
तं सभेदं साधयित्वा सिद्धिं दातुमथार्हति ||
३२८ ||
पूर्णाभिषेकसंयुक्तश्चाण्डालोऽपि भवेद्यदि |
स ब्रह्मर्षिर्महेशानि नात्र कार्या विचारणा ||
३२९ ||


Band II, S. 74, Schluss des Purnabhisheka-Abschnitts Verse 330–335
पूर्णाभिषेकहीनो य ऋषिवर्योऽपि पार्वति |
स ब्राह्मणाधमः प्रोक्तस्त्वभिषेकी द्विजोत्तमः ||
३३० ||
पूर्णाभिषेकी देवेशि यस्मिन् देशे विराजते |
स देशो धन्यतां याति समन्तात् कोटियोजनम् ||
३३१ ||
न व्याधिर्न च वै मृत्युर्न शत्रूणां भयं क्वचित् |
पूर्णरूपः शिवः प्रोक्तः शिव एव न संशयः ||
३३२ ||
को वा देहः कस्य देहः सुखं दुःखं च कस्य च |
को जातः को मृतो देवि सर्वं ब्रह्मस्वरूपकम् ||
३३३ ||
यस्मिन् काले भवेद्देवि मन्त्रवर्यस्य विस्मृतिः |
तदैव मरणं प्रोक्तं मरणं मरणं न हि ||
३३४ ||
पूर्णाभिषेकयुक्तानामधिकारो हि सर्वतः ||
३३५ ||
इति पूर्णाभिषेकदीक्षाविधिः |


Band II, S. 74, Empfang weiterer Mantras ohne Guru Verse 336–340
अथ गुरुं विना मन्त्रिणां मन्त्रान्तरग्रहणोपायो मेरुतन्त्रे— अथ तान्त्रिकमन्त्राणां दीक्षां शृणु गुरुं विना |
शुक्लपक्षे त्रयोदश्यां चन्द्रताराबलान्विते ||
३३६ ||
गत्वा च दक्षिणामूर्तेः सन्निधौ पूजयेच्च तम् |
कलशस्थापनं कृत्वा तदग्रे वोपरि क्षिपेत् ||
३३७ ||
तालपत्रे मनुं लेख्यं मन्त्रदेवं च पूजयेत् |
देवो गुरुरिति ध्यात्वा मन्त्रं व्यक्तं तु वाचयेत् ||
३३८ ||
अष्टोत्तरशतं चैतन्मन्त्रग्रहणमुच्यते |
एतत्तत्त्वं समाख्यातं गोप्यं मातरि जारवत् ||
३३९ ||
गुरौ लोभादयो दोषास्तस्मादुद्विजते मनः |
अतः शास्त्रगुरुं कृत्वा दक्षिणामूर्तितो मनुः ||
३४० ||


Band II, S. 74, Schlussvers 341
विश्व[अस्पष्टम्]वचोवीचिचयचित्रामृतस्रोतःशालिनि सन्निबन्धनसरित्संभेदमभ्यर्हितम् |
गोरक्षाचलभूपनिर्मितपुरश्चर्यार्णवे पञ्चमः सद्युक्तिस्फुटमौक्तिकोत्कररुचोज्जृम्भस्तरङ्गो गतः ||
३४१ ||


Lesungshinweise: [der einleitende zusammengesetzte Ausdruck ist unklar] 412, unsicher; er wird nicht ergänzt.

Band II, S. 74, Kolophon des fünften Taraṅga
इति श्रीमन्महाराजाधिराजप्रतापसिंहसाहविरचिते पुरश्चर्यार्णवे क्रियावतीदीक्षाप्रयोगपूर्वकदीक्षाभेदनिर्णयो नाम पञ्चमस्तरङ्गः सम्पन्नः ||
५ ||


Shiva und Parvati stehen für die Verbundenheit von Bewusstsein und Kraft.

Vertrautheit wächst mit Wiederbegegnung

Leserbegleitung und heutige Praxisanregung:

Vielleicht erkennst du nach dieser Lektüre einige Wörter schneller wieder; vielleicht hat sich auch eine Frage erst deutlich gezeigt. Beides gehört zum Lernen. Kehre zu einer kurzen Stelle zurück und vergleiche Schrift, Umschrift und Bedeutung ohne Eile.

Als heutige Anregung: Schließe das Studium mit einem Moment der Dankbarkeit für die Möglichkeit zu lernen. In Teil 2 der Devanagari-Fassung folgen die Taraṅgas 6–9.

Wegweiser durch die zwölf Wellen

Die Seiten sind unterschiedlich aufgeteilt. Über diese Übersicht erreichst du jede Welle direkt in allen drei Fassungen.

Taraṅga Schwerpunkt Deutsch IAST Devanagari
1 Mit Vertrauen und Unterscheidungsvermögen beginnen Lesen Lesen Lesen
2 Der Praxis einen guten Rahmen geben Lesen Lesen Lesen
3 Verehrung mit Aufmerksamkeit erfüllen Lesen Lesen Lesen
4 Die Einweihung zum Abschluss führen Lesen Lesen Lesen
5 Verschiedene Wege der Einweihung verstehen Lesen Lesen Lesen
6 Beständigkeit in der Mantrapraxis entdecken Lesen Lesen Lesen
7 Über die Reifung der Praxis nachdenken Lesen Lesen Lesen
8 Die Vielfalt der Gottheitsverehrung kennenlernen Lesen Lesen Lesen
9 Die Überlieferungen der Göttin aufmerksam lesen Lesen Lesen Lesen
10 Mantra, Hymne und Verehrung zusammen betrachten Lesen Lesen Lesen
11 Der Verehrung der Göttin Zeit und Raum geben Lesen Lesen Lesen
12 Die letzte Welle mit Sammlung lesen Lesen Lesen Lesen

Siehe auch

Textumfang und Quellenhinweise

Umfang und dokumentierte Auslassungen: Alle zwölf Taraṅgas sind bis zum Werk-Kolophon auf Band III, S. 1231 bearbeitet. Die frühere Überlieferungslücke dieser Arbeitsausgabe auf S. 748–756 wurde anhand des vorliegenden PDF neu bearbeitet und geschlossen. Gesondert verbleiben neun ausdrücklich markierte Inhaltsauslassungen: Taraṅga 7, Verse 344–349, 394–399, 405–418; Taraṅga 9, S. 815, 816–817, 818, 829–830, 831 und 854–855. Sie betreffen sexualisierte Darstellungen minderjährig oder nicht eindeutig erwachsen bezeichneter Personen. Daher wird keine ausnahmslos lückenlose Vollübersetzung beansprucht. Lokale beschädigte oder unsichere Quellenlesungen bleiben gekennzeichnet.

Literatur und Quellen

  • Pratapasimha Shah: Puraścaryārṇava. Herausgegeben von Muralidhara Sharma, ältere Ausgabe in drei Bänden, Varanasi. Verwendeter Textumfang: Band I, S. 1–318. Die beiden Digitalisate von Band I ergänzen sich; die Seiten 8–9 wurden nach dem vollständigeren Exemplar wiedergegeben. Für Band II dient die von Rajanatha Tripathi herausgegebene Ausgabe von 2013 als Grundlage; deren S. 1 entspricht S. 319 der älteren Ausgabe. Die abweichende Seitenzählung wird in den Fundstellen mit der Bandangabe kenntlich gemacht.
  • Puraścaryārṇava, Band II, herausgegeben von Rajanatha Tripathi, Sampurnanand Sanskrit University; Hauptgrundlage der Taraṅgas 5–8, S. 1–330; gezielt mit der älteren Ausgabe, S. 319–412, verglichen.
  • Purashcharana im Yoga-Vidya-Wiki – ergänzende heutige Erläuterung, nicht Ersatz für den Sanskrittext.
  • Band III der älteren Ausgabe: gedruckte S.723–1231, Digitalisat 2015.487364.Purascharyarnava-Part-III_text.pdf, PDF48–556; einschließlich der neu bearbeiteten S.748–756.
  • IAST wurde aus dem bearbeiteten Devanagari transliteriert und ist kein unabhängiger Textzeuge. Unnummerierte Prosa und Verse werden durch die gedruckte Seite nachgewiesen. Die deutschen Lesungshinweise kennzeichnen örtliche Unsicherheiten. Eine kollationierte kritische Edition wird nicht beansprucht.

Ausgewählte Lesarten

  • Vers 1.49: Zur Lesung „Verrichtungen zu Navaratri“ verzeichnet der Druck die Variante „Verrichtungen“ im Plural; die sachliche Aussage bleibt gleich.
  • Vers 1.51: Die Hauptlesung bhūtalipi („Elementeschrift“) steht neben der verzeichneten Variante bhūtabali („Darbringung an die Wesen“). Hier wird der Hauptlesung gefolgt.
  • Band I, S. 12: Zur Hauptlesung Svarṇakoṭīśvarī ist Koṭeśvarī als Variante genannt.
  • Band I, S. 14: Zu śuṣke („kraftlos/trocken“) bei Shiva ohne Shakti verzeichnet der Druck sūkṣme („fein/subtil“). Die Übersetzung folgt der Hauptlesung.
  • Band I, S. 19: Statt „ein verständiger Verehrer der Göttin“ steht als Variante „ein Verehrer der Göttin, voller Hingabe“.
  • Band I, S. 21: Der Druck nennt neben „beides vermischt“ die Lesung „beides aufsuchend/auf beidem beruhend“; bei der Mittagsrezitation steht neben „Japa, o Herrin“ auch „Japa, o Göttin“.
  • Band I, S. 79–82: Mehrere Zitate werden innerhalb des gedruckten Werkes erneut angeführt. Diese Wiederholungen bleiben erhalten; das auf S. 80 abgebrochene Vishnuyamala-Zitat wird auf S. 82 vollständig gegeben.
  • Band I, S. 26: Neben padaṃ śivam (Shivas Stätte) steht die Variante pathaṃ śivam (Shivas Weg).
  • Band I, S. 33: Neben tadveṣeṇa (unter diesem Vorwand/in dieser Verkleidung) steht taddveṣeṇa (aus Hass darauf).
  • Band I, S. 34: Zur Reihe Guru, Gottheit, Selbst und Kala wird eine abweichende Lesung ohne Guru genannt; die Hauptlesung wird beibehalten.
  • Band I, S. 24: Neben vāmapathe („auf dem linken Weg“) ist vāmapade („im linken Bereich/Weg“) verzeichnet.

Zur Wiedergabe: Die Nummern 1–54 sind die Nummern des gedruckten Eingangsteils. Danach stehen genaue Seiten- und Abschnittsangaben für unnummerierte Zitate und Prosa. Unsichere Lesungen sind unmittelbar an der betreffenden Stelle bezeichnet. Zuordnungen, Wirkungsaussagen und Wertungen innerhalb der Übersetzung geben die jeweilige traditionelle Quelle wieder.

Weiterführende Angebote

Seminare

Kundalini Yoga

06.11.2026 - 08.11.2026 Kundalini Yoga Einführung

Gründliche Einführung in die Theorie und Praxis des Kundalini Yoga, Yoga der Energie. Die praktischen Übungen des Kundalini Yoga umfassen Pranayama (…
Arjuna Wingen
13.11.2026 - 15.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Manuel Hirning

Indische Schriften

26.12.2026 - 02.01.2027 Indische Rituale Ausbildung

Du interessierst dich für indische Rituale? Du hast die einzigartige Gelegenheit, in dieser Rituale Ausbildung bei Yoga Vidya die kleine Puja, große P…
Sukadev Bretz, Shankari Winkelbauer
01.01.2027 - 10.01.2027 Yogalehrer Weiterbildung Intensiv A1 - Jnana Yoga und Vedanta

Kompakte, vielseitige Weiterbildung für Yogalehrer rund um Jnana Yoga und Vedanta.
Tauche tief ein ins Jnana Yoga und Vedanta, studiere die indischen S…
Vedamurti Dr Olaf Schönert

Chakras

20.11.2026 - 22.11.2026 Heilreise durch die Chakren

Tauche ein in eine transformative Reise durch die sieben Hauptchakren und erfahre, wie du deine Energiezentren aktivieren, ausbalancieren und für dein …
Nese Niekrens, Gajendra Sebastian Niekrens
26.12.2026 - 01.01.2027 Kundalini Yoga Intensiv Praxis - Live Online

Intensives Praktizieren der im Mittelstufen-Seminar gelernten Übungen für noch tiefere Erfahrung und Erweiterung des Bewusstseins ohne viel Theorie. L…
Sukadev Bretz, Shaktipriya Vogt, Radharani Birkner

Energiearbeit

04.11.2026 - 04.11.2026 Einführung in die Chakratherapie - Online Workshop

Uhrzeit: 18 - 21 Uhr
Ein Chakra ist ein feinstoffliches Kraftzentrum des Körpers, welches wichtige Körperfunktionen steuert und bestimmten Organen zug…
Beate Menkarski
06.11.2026 - 08.11.2026 Kundalini Yoga Einführung

Gründliche Einführung in die Theorie und Praxis des Kundalini Yoga, Yoga der Energie. Die praktischen Übungen des Kundalini Yoga umfassen Pranayama (…
Arjuna Wingen

Teil 1 · Teil 2 · Teil 3 · Nächster Teil →

Zur Ausgabe: Deutsch · Sanskrit in IAST · Devanagari · 108 Passagen zur Besinnung · Mantrasammlung