Meru Tantra Sanskrit Devanagari Teil 3
Deutsche Gesamtausgabe: Prakāśas 1–18 und Einleitung · Prakāśas 19–35 · 108 ausgewählte Verse und Mantras
Meru Tantra Sanskrit Devanagari Teil 3 erschließt die Prakāśas 26–35 des Meru Tantra in Devanagari-Schrift. Die Begegnung mit dem Sanskrit kann das Verständnis von Mantra, Puja und Diksha vertiefen: Sie macht Wortwahl und Klanggestalt sichtbar, auf denen Übersetzung und Auslegung beruhen. Für das Studium empfiehlt es sich, einen zusammenhängenden Abschnitt zu lesen und erst danach zu einzelnen Begriffen zurückzukehren.
Zur Übersicht: Meru Tantra · Meru Tantra Sanskrit IAST · Meru Tantra Sanskrit IAST Teil 2 · Meru Tantra Sanskrit Devanagari · Meru Tantra Sanskrit Devanagari Teil 2 · Meru Tantra Sanskrit Devanagari Teil 3 · Meru Tantra 108 Inspirierende Verse und Mantras
Die deutsche Erläuterung steht unter Meru Tantra. Historische Ritualvorschriften werden hier dokumentiert; initiationsgebundene und auf Beeinflussung oder Schädigung gerichtete Verfahren sind keine Empfehlung zur Selbstanwendung. Die in eckigen Klammern überlieferten Zusätze gehören zum Kommentar- und Editionsapparat.
Verwandte Tantra-Schriften
Das Meru Tantra gehört zu einer weit verzweigten tantrischen Literatur. Für das vergleichende Studium sind besonders Kularnava Tantra, Rudrayamala Tantra, Mahanirvana Tantra, Dakshinamurti Samhita, Nitya Shodashikarnava, Yogini Hridaya, Tantraloka, Vijnana Bhairava Tantra, Svacchanda Tantra und Netra Tantra hilfreich. Jayakhya Samhita und Paushara Samhita zeigen zum Vergleich die vaiṣṇavische Pāñcarātra-Tradition. Eine ausführlichere Gegenüberstellung steht im Hauptartikel Meru Tantra und andere Tantra Schriften.
Kapitelübersicht
- Prakāśa 26: Mantras der zehn Avatāras
- Prakāśa 27: Mantras der vierundzwanzig Gestalten
- Prakāśa 28: Mantras der Viṣṇu Nahestehenden
- Prakāśa 29: Mantras der Waffen
- Prakāśa 30: Mantras der Kräfte Viṣṇus
- Prakāśa 31: Śiva-Mantras
- Prakāśa 32: Mantras für Bhairava und weitere Gottheiten
- Prakāśa 33: Yantras der Gottheiten
- Prakāśa 34: Hanumān-Mantras
- Prakāśa 35: Kārtavīryārjuna-Mantras
Sanskrittext

Prakāśa 26 – Mantras der zehn Avatāras
श्रीदेव्युवाच ||
भगवञ्छ्रोतुमिच्छामि कल्पे कस्मिन्भवन्ति वै || दशावताराः श्रीविष्णोस्तान्समस्तान्वद प्रभो || १ ||
श्रीशंकर उवाच ||
एकत्र भाव उत्पन्नो मत्स्यो वै कल्प आदिमे || तस्य मन्त्रम्प्रवक्ष्यामि भुक्तिमुक्तिप्रदायकम् || २ ||
तारो [ओं नमो भगवते मं मत्स्याय श्रीम् इतिद्वादशाक्षरमन्त्रः ||] नमो भगवते मं मत्स्याय रमां वदेत् || द्वादशाक्षरमन्त्रोयं मुनिर्ब्रह्मा समीरितः || ३ ||
गायत्रं छन्द उद्दिष्टं देवता मीनविग्रहः || भगवान्स रमानाथो बीजं श्रीं मं च कीलकम् || ४ ||
नात्यघोरो हि न सम आकण्ठं वा नराकृतिः || घनश्यामश्चतुर्बाहुः शङ्खचक्रगदाधरः || ५ ||
शृङ्गिमत्स्यनिभो मूर्धा लक्ष्मीर्वक्षसिसि राजते || पद्मचिह्नितसर्वाङ्गः सुन्दरश्चारुलोचनः || ६ ||
जपेद् द्वादशसाहस्रं त्रिमध्वक्तैस्तिलैर्हुनेत् || प्रत्यहं तद्दशांशेन वैशाखे कार्तिके तथा || ७ ||
माघे च मार्गशीर्षे च हविष्याशी जितेन्द्रियः || आरभ्य भाद्रबहुलामष्टमीं षोडशाहकम् || ८ ||
लक्ष्मीमनुं जपेन्नित्यं त्विमं वापि कलाशतम् || प्. ६०६) तथैव होमः कर्तव्यस्तथान्यदिवसेषु तु || ९ ||
तर्पयेद् द्वादशशतं तिलतण्डुलचन्दनैः || आद्यन्तयोः शतान्यष्टौ तर्पयेच्च तथा श्रियम् || १० ||
रक्तोत्पलैर्वा पद्मैर्वा मालत्यादिसुगन्धिभिः || एवं कृते चैकवर्षान्मंत्रसिद्धिः प्रजायते || ११ ||
नित्यं द्वादशविप्रांश्च श्रीरूपां च सुवासिनीम् || भोजयेत्पूजनं चास्य चरेत्तोयाशये सदा || १२ ||
षट्पत्रकर्णिकायान्तु श्रीयुतं देवमर्चयेत् || षट्पत्रेषु षडङ्गानि यजेद्बाह्यचतुर्दले || १३ ||
मण्डूकं मकरं कूर्मं शिशुमारं च पूर्वतः || तद्बाह्यगदले पूज्याः क्षीराद्याः सप्तसिन्धवः || १४ ||
तद्बाह्येष्टदले पूज्या वासुक्याद्याः फणीश्वराः || तस्य बाह्ये शक्रदले रत्नानि तु चतुर्दश || १५ ||
समुद्रजानि पूज्यानि लक्ष्मीकौस्तुभकानि च || गङ्गाद्याः षोडश ततो पूजयेच्च महापगाः || १६ ||
ततश्चाष्टदले वेदानुपवेदसमन्वितान् || दिगीशांश्च तदस्त्राणि नवावरणपूजनम् || १७ ||
एवं सिद्धमनुर्मन्त्री जायते सिद्धिभाजनम् || एतं सुसंस्कृतं मन्त्रञ्जपेदष्टोत्तरं शतम् || १८ ||
तद्देवतादिने सिद्धः पुस्तकादेव जायते || अकुण्ठितः प्रयोगेण न पुनस्तस्य संस्कृतिः || १९ ||
एतत्पल्लविता मन्त्रामम सिध्यन्ति पार्वति || एतत्सम्पुटिताः सर्वे वैदिकाः सिद्धिदाः कलौ || २० ||
अनेन ग्रथिता जप्ताः कौलेषु द्रुतसिद्धिदाः || गाणेशा वैष्णवाः सौराः सिद्धिं दद्युर्विदर्भिताः || २१ ||
यद्बलात्सर्वमन्त्राणां स्वयं सिद्धिः प्रजायते || तस्मात्प्रोक्तो नान्यतन्त्रे मेरुतन्त्रे प्रकाशितः || २२ ||
अथातः सम्प्रवक्ष्यामि कुर्ममन्त्रम्महाद्भुतम् || एकः कूर्मावतारोभून्मथ्यमाने महोदधौ || २३ ||
तारो [ओं नमो भगवते कुं कुर्माय धराधरधुरन्धराय नमः ||] नमो भगवते कुं कूर्माय धराधर || धुरन्धराय नत्यन्तः सिद्धवर्णो मनुः स्मृतः || २४ ||
प्रकृतिश्छन्द उद्दिष्टं कश्यपोस्य मुनिर्मतः || देवता भगवान्विष्णुर्जातः कच्छपरूपधृक् || २५ ||
धराधरेत्यादिशक्तिः कुं बीजं स्वेष्टसिद्धये || नियोगो देवताध्यानं शंखचक्रगदाधरम् || २६ ||
पीतांबरं कूर्मपृष्ठं लसल्लांगूलशोभितम् || दीर्घग्रीवं महाग्राहं गिरन्तं रक्तलोचनम् || २७ ||
मन्त्रवर्णैः षडङ्गानि जपो लक्षचतुष्टयम् || आज्यहोमस्तर्पणन्तु चन्दनोत्पलवारिभिः || २८ ||
प्. ६०७) कर्णिकायां यजेत्कूर्मं दिग्गजांश्च दिगष्टके || तद्बाह्ये तु चतुर्दिक्षु मदनं बभ्रुकं [ब्रह्माणम् ||] हरिम् || २९ ||
महेश्वरं च तद्बाह्ये यजेदष्टदले पुनः || धरां शेषं क्षीरनिधिं मण्डूकं देवताद्रुमम् || ३० ||
चिन्तामणिं कामधेनुं सुमेरुं च दिगीश्वरान् || भूपुरे तस्य बाह्ये तु हेतयो वा समीरिताः || ३१ ||
एवं सिद्धमनुर्मन्त्री प्रयोगान्कर्तुमर्हति || श्मशाने कूर्मचक्रस्य शत्रुनामादिवर्गतः || ३२ ||
अष्टम्यां च चतुर्दश्यां भौमे क्रूरोग्रमे तथा || राजिकाप्रतिमां कुर्याच्छत्रुपांशुसमन्विताम् || ३३ ||
अष्टोत्तरशताङ्गानि तत्तैलाक्तानि होमयेत् || आदौ वामं ततो दक्षं स्त्रिया चैतद्विपर्ययात् || ३४ ||
पादांगुलीनां दशकं प्रपदौ पादमध्यके || पार्ष्णिगुल्फकजंघोरुयुगं सक्थियुगं तथा || ३५ ||
आदौ लिङ्गगुदौ स्फिक्के बस्तिर्नाभिस्तथोदरम् || कटित्रिकं च हृदयं हुनेत्पार्श्वद्वयं ततः || ३६ ||
दशांगुल्यश्च करभगोत्रद्रव्यायुषा तथा || रेखास्थानानि चोच्चार्य मणिबन्धप्रकोष्ठकौ || ३७ ||
कूर्परौ तु भुजौ कक्षौ स्तनौ वक्षःस्थलं गलम् || हनुद्वयं तथा चोष्ठौ चोर्ध्वाधःस्थं रदद्वयम् || ३८ ||
अश्रुकूर्चं तथा नासां कपोलौ गण्डशङ्खकौ || नेत्रे भ्रूमध्यकं भालं ब्रह्मरन्ध्रमिति क्रमात् || ३९ ||
एवं कृते त्रिसप्ताहाद्याति शत्रुर्यमालयम् || न ब्राह्मणे प्रयोक्तव्या यतोसौ विष्णुदैवतम् || ४० ||
अङ्कोलफलपिष्टेन कृत्येयं मोहकारिणी || हरिद्रया कृतं चेदं स्तम्भयेदखिलं जगत् || ४१ ||
विद्वेषे रक्तसंयुक्तपादधूपादितो भवेत् || श्मशानस्य मृदोच्चाटे गोधूमैर्वश्यता भवेत् || ४२ ||
सहस्रमयुतं वापि लक्षं कार्यानुसारतः || सत्कार्ये प्रजपेन्मन्त्रं सिद्धिः स्यान्नात्र संशयः || ४३ ||
अथातः सम्प्रवक्ष्यामि वराहस्य मनूञ्च्छुभान् || कल्पजाताश्चतुर्वर्णा अवतारा रमापतेः || ४४ ||
तारो नमो भगवते वराहेति च संवदेत् || रूपाय भूर्भुवः सुवः पतये भूपतीति च || ४५ ||
त्वं मे देहि दापयेति स्वाहान्तः सुरवर्णकः || ऋष्याद्या भार्गवानुष्टुब्वराहाः परिकीर्तिताः || ४६ ||
पञ्चाङ्गान्येकशृङ्गाय नमश्चोक्त्वा हृदि न्यसेत् || प्. ६०८) मांव्योल्काय नमःशीर्षे तेजोधिपतये नमः || ४७ ||
शिखाया कवचं तस्य विश्वरूपाय वै नमः || महादंष्ट्राय च नमोस्त्रमेतत्पल्लवान्वितम् || ४८ ||
सप्तषट्सप्तपञ्चाष्टमूलार्णैश्च पुनश्चरेत् || न्यासः केशवमात्राख्यो न्यासो नित्यस्तु वैष्णवे || ४९ ||
पादाग्राज्जानुपर्यन्तं स्वर्णाभं च ततः स्मरेत् || आनाभिकर्पूरनिभं नाभितस्तु गलावधि || ५० ||
अग्निवर्णं मस्तके च पूर्णचन्द्रसमद्युतिम् || शङ्खारिखड्गांश्च गदां वरशक्ती तथैव च || ५१ ||
अभयं दंष्ट्रया क्षोणीं दधतं श्वसनेऽनिलम् || वागीशां हुंकृतौ बाह्वोश्चन्द्रसूर्यौ शिवं मुखे || ५२ ||
पद्ममष्टदलं कृत्वा मध्ये देवं समर्चयेत् || दंष्ट्रायां तस्य वसुधां दिक्पत्रेषु यजेत्क्रमात् || ५३ ||
ईशानपूर्वयोर्मध्ये पञ्चाङ्गानि विदिक्षु च || पुनः कोणेषु पूज्यानि रक्षःप्राच्यन्तरान्तिमम् || ५४ ||
दलाग्रेषु क्रमाच्चक्रं शंखं खड्गं च खेटकम् || गदा शक्तिं वरं चैव चापं बाह्येषु दिक्पितीन् || ५५ ||
भूपुरेथ तदस्त्राणि पूजाक्रम इतीरितः || लक्षं जपेच्च पद्मानि स्वाद्वक्तानि च होमयेत् || ५६ ||
तर्पणादि ततः कुर्यान्मन्त्रसिद्धिः प्रजायते || अथास्यान्यप्रकारेण पुरश्चरणमुच्यते || ५७ ||
बिल्ववृक्षस्य सान्निध्ये जपेन्माससहस्रकम् || दशांशं जुहुयादग्नौ पुरश्चरणवान्भवेत् || ५८ ||
अर्थो ध्यानाज्जपाद्भूमिर्जपपूजाहुतिव्रतैः || धनधान्यधरालक्ष्म्यो भवन्त्यत्र न संशयः || ५९ ||
भूमण्डले सदा ध्यातः प्रयच्छति कुले शुभम् || वारुणे मृत्युतः शान्तिराग्नेये ज्वरवश्यता || ६० ||
वायुमण्डल उच्चाटे खे भूतग्रहरक्षणम् || अथातः सम्प्रवक्ष्यामि मण्डलध्यानमद्भूतम् || ६१ ||
चतुष्कोणं पीतवर्णं मध्ये लंबीजसंयुतम् || नन्द्यावर्तांश्च कोणेषु चिन्तयेद्भुमिमण्डलम् || ६२ ||
कुक्कुटाण्डसमाकारमर्धचन्द्रनिभन्तथा || वारुणं मण्डलं श्वेतं मध्ये वंबीजलाञ्छितम् || ६३ ||
रक्तवर्णं त्रिकोणं च मध्ये रंबीजमत्रहि || तैजसं मण्डलं प्रोक्तं ध्येयं भावुकसत्तमैः || ६४ ||
यंबीजसंयुतं मध्ये वृत्तं षड्बिन्दुलाञ्छितम् || समीरमण्डलं धूम्रवर्णं ध्येयं सदा जनैः || ६५ ||
आकाशमण्डलं वृत्तं मध्ये हंबीजसंयुतम् || नीलवर्णं महाशून्यमनाहतरवं स्मरेत् || ६६ ||
सिंहगे शुक्लपक्षे हि रवौ श्वेतशिलां शुभाम् || प्. ६०९) पञ्चगव्यपरिक्षिप्तां जपितामयुतेन च || ६७ ||
उदङ्मुखो जपेन्मन्त्रं क्षेत्रे तां निखनेत्पुनः || शत्रूणां सन्निरोधो हि क्षेत्रं चास्य विनश्यति || ६८ ||
अर्कोदयेङ्गारवारे जपेन्मन्त्रं समाहितः || वैरिरुद्धादपि क्षेत्रान्मृदमानीय यत्नतः || ६९ ||
तां च त्रिधा विभज्यात्र चुल्लमेकं विलिप्य च || पाकपांत्रं द्वितीयं च पयस्यन्ने तथापरम् || ७० ||
संस्कृते हव्यवाहे च तण्डुलैश्च पचेच्चरुम् || तत्र देवं यथावच्च धूपदीपादिभिर्यजेत् || ७१ ||
साज्येन तेन हविषा हुनेदष्टाधिकं शतम् || एवं भौमाष्टवारेषु कुर्यान्नियतधीः क्रमात् || ७२ ||
ततः शत्रुगृहीतं तत्क्षेत्रं सम्प्राप्यतेचिरात् || अह्नो मुखे भौमवारे मृदं संगृह्य पूर्ववत् || ७३ ||
पूर्ववच्च चरुं कृत्वा जुहुयात्प्रोक्तवर्त्मना || बलिं च दद्यात्क्षेत्रस्य विरोधो नश्यति क्षणात् || ७४ ||
देवस्य हुतशेषेण बलिदानमिहोदितम् || सप्तभिर्दिवसैश्चात्र डाकिनीविकृतिं हरेत् || ७५ ||
तामेव मृत्तिकां दुग्धे विलोड्याज्येन संहुनेत् || अष्टाधिकशतं मन्त्री शालिभिर्द्विनिशं सुधीः || ७६ ||
तत्तु संवत्सरात्पूर्णं शालिभिश्च गृहं भवेत् || अनेन जुहुयादाज्यं सहस्रं प्रत्यहं नरः || ७७ ||
तेन सर्वसमृद्धिः स्यादञ्जूल्याश्च [लज्जालोः ||] प्रसूनकैः || सहस्रं स्वादुसंयुक्तैर्वाससां सिद्धिरुच्यते || ७८ ||
लाजहोमाच्च कन्याप्तिर्बिल्वजैः श्रीर्भवत्यलम् || जिनादिक्षेत्रमासाद्य वादिनः प्रजयेत्सदा || ७९ ||
तत्रासीनो जपेन्मन्त्रं चाष्टोत्तरसहस्रकम् || एवं कृते ततस्तस्य भूमिवादो विनश्यति || ८० ||
स्वात्मानं मेरुसदृशं कोलरूपं विचिन्तयेत् || अङ्गारवारे प्रजपेत्क्षेत्रं कुर्यात्प्रदक्षिणम् || ८१ ||
ततो मृदं प्रगृह्णीयात्स्वस्य क्षेत्रं क्षिपेच्च ताम् || नित्यं भूमिं स्पृशन्मन्त्री जपेदष्टसहस्रकम् || विन्दते महतीं लक्ष्मीं शमयेत्सर्वकण्टकान् || ८२ ||
प्रतिष्ठाभूमिकामस्तु भृगौ भौमेधिकं जपेत् || नित्यमष्टसहस्रं च यो जपेद्धरिमर्चयन् || महतीं श्रियमाप्नोति महाराजो भवत्यलम् || ८३ ||
लक्षं होमो जपान्ते स्याद्द्रव्यैश्चैव सपायसैः || सप्तद्वीपानवाप्नोति नात्र कार्या विचारणा || ८४ ||
दधिमध्वाज्यसिक्ताश्च चतुरंगुलसम्मिताः || गुडूचीरष्टसाहस्रं हुनेद् व्याधिर्विनश्यति || आम्रपर्णैर्हुतेनित्यं ज्वरशान्तिः प्रजायते || ८५ ||
प्. ६१०) गृहीत्वा हस्तयोर्नीरं जपेदक्षरसंख्यया || मुखप्रक्षालनं कृत्वा मुखश्रीस्तस्य वर्द्धते || एवम्प्रोक्तो वराहस्य मनुः सर्वार्थसिद्धिदः || ८६ ||
अथातः सम्प्रवक्ष्यामि वराहाष्टाक्षरम्परम् || ओं भूर्वराहाय नमो मुनिर्ब्रह्मा समीरितः || ८७ ||
जगती छन्द उद्दिष्टं वराहो देवता स्मृतः || पदैः समस्तमन्त्रेण पञ्चाङ्गानि प्रकल्पयेत् || ८८ ||
कृष्णाङ्गं नीलवस्त्रं च मलिनम्पद्मसंस्थितम् || पृथ्वीशक्तियुतं ध्यायेच्छंखचक्राम्बुजं [दधानमिति शेषः] गदाम् || ८९ ||
भूलक्ष्मीकान्तिभिश्चैव समस्तैः परिवारितम् || चर्मासिमद्भिश्च कलौ द्रुतसिद्धिप्रदायकम् || ९० ||
जपपूजादिकं सर्वमस्य पूर्ववदाचरेत् || एवम्मनुं यः प्रभजेत्स भवेच्च धरापतिः || ९१ ||
इमित्येकाक्षरो मन्त्रो वराहस्यप्रकीर्तितः || हयग्रीवो मुनिः प्रोक्तश्छन्दोनुष्टुप् च देवता || ९२ ||
वराहो दीर्घयुक्तेन बीजेनैवाङ्गकल्पनम् || प्राग्वद्ध्यायेद्रक्तवर्णं पूजाद्यं पूर्ववद्भवेत् || ९३ ||
भूरित्येकाक्षरं बीजं सर्वं प्राग्वत्समीरितम् || पीतवर्णं सदाध्यायेद्द्वापरे द्रुतसिद्धिदम् || ९४ ||
एषाञ्चतुर्णां शक्तिस्तु पृथिवी परिकीर्तिता || क्रमाद्वक्ष्ये हि तन्मन्त्रान्वराहस्य प्रियानति || ९५ ||
ओं नमो भगवत्यै च धरण्यै धरणीधरा || धृषे स्वाहेति मन्त्रोयमूनविंशतिवर्णकः || ९६ ||
धराहृदयमन्त्रोयं भूपतित्वप्रदायकः || मुनिर्वराहोस्य निवृच्छन्दो देवी धरा मता || त्र्यब्धित्रीषुद्विद्विवर्णैः षडङ्गविधिरीरितः || ९७ ||
इन्दीवरयुतां शालिमञ्जरीं दधतीं शुकम् || धराम्पद्मासनां ध्यायेन्नानाभूषणभूषिताम् || ९८ ||
पूजा तु वैष्णवे पीठे पूर्वमङ्गानि पूजयेत् || ततो यजेदष्टदले पूर्वतः कुं च भूकलाः || ९९ ||
वह्निं वह्निकलाश्चैव तोयं सूर्यं च तत्कलाः || इन्द्रादींश्चापि वज्रादीनिति पूजाविधिः स्मृतः || १०० ||
लक्षञ्जपेत्प्रजुहुयाद् घृतसिक्तौदनेन च || तर्पणं मार्जनं कुर्याद्विप्राणां तर्पणन्तथा || विधिना तेन संसिद्धे मनौ काम्यानि कारयेत् || १०१ ||
रक्तोत्पलानि जुहुयात्स्वाद्वक्तानि सहस्रकम् || इष्टां भुवमवाप्नोति तद्वन्नीलोत्पलैर्हुनेत् || १०२ ||
प्रियंगुपुष्पहोमेन मधुराक्तेन मन्त्रवित् || बहुधान्यधराश्रीणां सत्यम्भवति भाजनम् || १०३ ||
प्. ६११) मधुरार्द्रतरां हुत्वा नूतनां शालिमंजरीम् || धरापतिर्भवेन्मन्त्री मण्डलेन न संशयः || १०४ ||
प्रातर्भृगुदिने मन्त्री साध्यक्षेत्रान्मृदं हरेत् || शुद्धतोये समालोड्य तां च तत्र पचेच्चरुम् || १०५ ||
अग्नौ दुग्धघृतात्यक्तं जुहुयात्तं यथाविधि || मासषट्कं भृगोर्वारे ह्येवं कृत्वा लभेद्धराम् || १०६ ||
अथातः सम्प्रवक्ष्यामि धरामन्त्रं महाद्भुतम् || ओं-महीं [ओं ग्लौं नमः भगवत्यै धरायै धरणि धरेधरे स्वाहा ग्लौं ह्रीं ओं म् ||] ग्लौं नमः प्रोच्य भगवत्यै पदं वदेत् || १०७ ||
धरायै धरणीं प्रोच्य धरेयुग्माग्निगेहिनीम् || ग्लौं ह्रीं तारं समुच्चार्य चतुर्विंशाक्षरो मनुः || १०८ ||
चतुर्वर्णैः षडङ्गानि ध्यानादि पूर्ववन्मतम् || एष उक्तस्तु वाराहो मन्त्रः सिद्धोखिलेष्टदः || १०९ ||
ग्लौमित्येकाक्षरो मन्त्रः प्राग्वत्पूजादिकम्भवेत् || षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः || ११० ||
लमित्येकाक्षरं बीजं सर्वाभीष्टप्रदायकम् || सर्वं प्राग्वत्षडङ्गानि दीर्घषट्कान्वितेन च || १११ ||
अथातः सम्प्रवक्ष्यामि नृसिंहस्य मनून्द्रुतम् || प्रतिमन्वन्तरं वायमवतारो हरेर्भवेत् || ११२ ||
द्वीपान्तरे नृसिंहस्तु चतुर्दशसु मूर्तिषु || आकल्पं विद्यते तत्र भक्तानुग्रहकारकः || ११३ ||
आदिमन्वन्तरे जातो नृसिंहो वक्ष्यतेधुना || द्वात्रिंशदर्णको गोप्यो भुक्तिमुक्तिप्रदो मतः || ११४ ||
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् || नृसिंहं भीषणं रुद्रं? मृत्युमृत्युं नमाम्यहम् || ११५ ||
ब्रह्मा मुनिरनुष्टुप् चच्छन्दोस्ति नृहरिः सुरः || मन्त्रस्य तु पदैश्चैव प्रणवेनाङ्गपञ्चकम् || प्रथमो न्यास उद्दिष्टः सर्वाभीष्टप्रदायकः || ११६ ||
वेदवेदार्णषट्षट्कवेदार्णैः स्यात्षडङ्गकम् || षडङ्गाख्यो द्वितीयोयमङ्गन्यास उदाहृतः || ११७ ||
शीर्षे भाले दक्षनेत्रे वामनेत्रे मुखे क्रमात् || दक्षिणे बाहुमूले च तन्मध्ये मणिबन्धके || ११८ ||
दक्षांगुलीनां मूले च तदग्रे वामगे भुजे || तन्मध्ये मणिबन्धे चांगुलीमूले तदन्तके || ११९ ||
दक्षोरुजानुगुल्फेषु चांगुलीमूलकेग्रके || कण्ठे हृदि तथा नाभौ दक्षपार्श्वे च वामके || १२० ||
पृष्ठे ककुदि मन्त्रस्य न्यसेद्वर्णान्भयापहान् || तृतीयो न्यास उदितः साक्षाद्देवमयो भवेत् || १२१ ||
दक्षांगुष्ठं समारभ्य कनिष्ठान्तन्त्रिपर्वसु || वामां कनिष्ठामारभ्य वामांगुष्ठावधि न्यसेत् || १२२ ||
एवं दक्षकरतले वामेपि करजं हरेत् || प्. ६१२) पातकं तुर्य उदितो न्यासोंगुल्यादिकः परः || १२३ ||
ब्रह्मरन्ध्रे च शिरसि भाले भ्रमध्यके ततः || नयने नयनाधश्च कपोले कर्णमूलके || १२४ ||
दन्तपङ्क्तौ च चिबुके उत्तरोष्ठेऽधरोष्ठके || कण्ठे नाभौ भुजे दक्षे वामे च हृदये स्तने || १२५ ||
एवं दक्षकरतले वामे वापि कटौ ततः || लिङ्गे चोरौ तथा जानौ जङ्घायां चापि गुह्यके || १२६ ||
पादांगुलीषु सर्वासु तथा हस्तांगुलीषु च || सर्वाङ्गे रोमकूपेषु रक्तहृत्पललास्थिषु || १२७ ||
मज्जाशुक्रे क्रमाद्वर्णान्मन्त्रस्यैकैकशो न्यसेत् || अयन्तु पञ्चमो न्यासः सर्वारिष्टनिवारकः || १२८ ||
पादयोर्गुल्फयोश्चैव जङ्घयोर्जानुनोस्तथा || ऊर्वोः कटिद्वये नाभौ हृहि बाह्वोस्तथा गले || १२९ ||
चिबुके दन्तपङ्क्त्योश्चौष्ठाग्रयोश्च कपोलयोः || कर्णयोर्वदने नासाद्वयेक्ष्नोश्चापि मूर्द्धनि || पादादिवर्णन्यासोयं पञ्चमः परिकीर्त्तितः ||१३० ||
मनोभवबलाकर्षी नृहरेरतिवल्लभः || मुखे मूर्द्धनि नासायां नेत्रे श्रोत्रे तथा मुखे || हृदि नाभौ कटौ जान्वोः पादयोः क्रमतो न्यसेत् || १३१ ||
षष्ठोयन्तु पदन्यासो भुक्तिमुक्तिप्रदायकः || अस्मिन्न्यासे कृते देहे रोगैः स्थातुं न शक्यते || १३२ ||
नासाग्रे नयनद्वन्द्वे नाभौ हृदि च मूर्द्धनि || बाह्वोश्चरणयोर्न्यस्येन्मन्त्रार्णानाचतुष्ककम् || १३३ ||
सप्तमोयं न्यास उक्तश्चतुर्वर्णात्मको हरेः || धर्मार्थकाममोक्षाणां दायको नात्र संशयः || १३४ ||
मूर्ध्नि वक्षसि नाभौ च सर्वाङ्गे वा प्रवेशयेत् || पादन्यासोष्टमश्चायं सिंहव्याघ्रभयापहः || १३५ ||
पादतो हृदयाच्चापि न्यसेदर्धद्वयं मनोः || अर्द्धन्यासोयमुदितो नवमोघसमूहहृत् || १३६ ||
उग्रादिपदमाभाष्य द्वितीयान्ते नमाम्यहम् || अन्ते ब्रूयान्नवस्थाने न्यसेदास्ये च मस्तके || १३७ ||
नासायां नेत्रयोः श्रोत्रे ब्रह्मरन्ध्रे तथा हृदि || नाभौ कट्यादिपादान्तं न्यासोयं दशमः स्मृतः || १३८ ||
नृसिंहपूर्वाण्याभाष्य चोग्रादीनि पदानि च || नमाम्यहं ततः प्रोच्य नवस्वङ्गेषु विन्यसेत् || १३९ ||
पूर्वोक्तेष्वेव डाकिन्यादिकभीतिहरो भवेत् || अयमेकादशो न्यासो नृहरेरतिपावनः || १४० ||
उग्रादिकपदैरेवं पूर्वदत्तैर्भवेत्पुनः || न्यासश्चाष्टविधोप्येवमूनविंशप्रकारकः || १४१ ||
आनाभिमूलाधाराच्च न्यसेद्वर्ण त्रयं बुधः || प्. ६१३) नाभेर्हृदयपर्यन्तं न्यसेद्वर्णचतुष्टयम् || १४२ ||
हृदो भ्रूमध्यपर्यन्तं वर्णषट्कं प्रविन्यसेत् || मूर्द्धादिपादपर्यन्तं चिन्तयेन्नृहरिं विभुम् || १४३ ||
एवं विंशतिरुद्दिष्टा न्यासानां पातकापहा || १४४ ||
यस्मान्नृसिंहो भगवान्पापं कृत्वास्य सेवके || तत्कालं कुरुते कोपं विक्षिप्तं कुरुते जगत् || १४५ ||
तस्मादपरिहार्यैनमज्ञातानां तु पाप्मनाम् || न्यासैर्भवति नाशोऽतः सर्वन्यासान्समाचरेत् || १४६ ||
वामेऽरिशंखा दक्षे तु जानुविन्यस्तबाहुकम् || ग्रसन्तं दैत्यराजानं कृशानूपमतेजसा || १४७ ||
दंष्ट्राप्रदीप्तवदनं ललज्जिह्वं त्रिलोचनम् || सुरैश्च मुनिभिर्लक्ष्म्या कृताञ्जलिकया शुभम् || १४८ ||
मूर्तिं मूलेन सङ्कल्प्य देवमावाह्य पूजयेत् || वामाङ्गे नृहरेः पूज्या लक्ष्मीर्भूषणभूषिता || १४९ ||
वामे पद्मधरा दक्षबाहुना नृहरिं विभुम् || आश्लिष्यन्ती शान्तिमूर्तिस्ततोङ्गानि प्रपूजयेत् || १५० ||
यजेदाशासु गरुडं शिवानन्तौ विधिं क्रमात् || श्रियं ह्रियं धृतिं पुष्टिं तथा वह्निदिगादिषु || तृतीयेष्टदले पूज्यं नृसिंहानान्तथाष्टकम् || १५१ ||
शंखिनञ्चक्रिणं स्वर्णं श्यामं वा शुभवाससम् || नृसिंहस्तम्भनाख्यं तु श्वेतम्प्राच्यां समर्चयेत् || १५२ ||
सिन्दूरारुणमाग्नेये यजेद्वश्यनृसिंहकम् || बाणचापधरं लक्ष्म्या सेवितम्मकरध्वजम् || १५३ ||
दक्षे यजेदब्जमालाशंखार्यसिगदाधरम् || भिन्नदैत्यहृदं कृष्णं त्रिनेत्रं मारणक्षमम् || विद्वेषोच्चाटनकरं नीलोत्पलसमप्रभम् || १५४ ||
वायवीये तथा कोणे शंखचक्रगदाधरम् || विप्राणां पुष्टिदं नेत्रत्रितयालंकृताननम् || १५५ ||
उदग्दले नृसिंहं तं पाञ्चजन्यं सुदर्शनम् || गदां निधिं च बिभ्राणं लक्ष्म्या युक्तं निधिप्रदम् || १५६ ||
विद्याभूतिमुदक्पूर्वे क्षीराभम्पीतवससम् || पाशांकुशस्फुरद्बाहुं शंखचक्रधरम्प्रभुम् || १५७ ||
हृत्सरोरुहमध्यस्थं चन्द्रपुञ्जसुनिर्मलम् || लक्ष्म्या युक्तं नारसिंहं पूजयेत्साधकः सदा || १५८ ||
चक्रं शंखं महापद्मं मुसलं देवदक्षिणे || शंखं खेटं गदां शार्ङ्गं पूजयेद्देववामतः || १५९ ||
चतुर्थावरणञ्चैतल्लक्ष्म्यादिभिरनन्तरम् || लक्ष्मीदक्षिणतस्तुष्टिं वामे तत्रैव कौस्तुभम् || १६० ||
श्रीवत्सं दक्षिणे मध्ये वनमालां च पूजयेत् || पीताम्बरं ब्रह्मसूत्रं नाभिपद्मं किरीटकम् || १६१ ||
प्. ६१४) भूषणानि च सर्वाणि पुरोभागे प्रपूजयेत् || षष्ठीश्रद्धादिभिः श्रद्धा मेधा तुष्टिश्च कार्मुका || १६२ ||
भीमाक्षी चैव सभया चक्राक्षी दीप्तिलक्षणा || एवं सम्पूज्य विधिवत्साधकोभीष्टमाप्नुयात् || १६३ ||
अष्टलक्षं जपेन्मन्त्रं दीक्षितो विजितेन्द्रियः || तत्सहस्रं प्रजुहुयाद्घृताक्तहविषानले || १६४ ||
तर्पणम्मार्जनं कृत्वा ब्राह्मणाराधनन्ततः || कुर्यात्संसिद्धमन्त्रस्तु प्रयोगानाचरेत्ततः || १६५ ||
काम्यप्रयोगसिद्ध्यर्थं ध्यानभेदान्वदाम्यहम् || उद्यत्सहस्रार्कभासं त्रिनेत्रम्भीषणाकृतिम् || १६६ ||
वज्रतुल्येक्षणं वह्निकान्तिं नानाभुजैर्वृतम् || नखैर्दारितदैत्येशं रक्तधाराक्तकायकम् || १६७ ||
क्रूरकर्मादिविषये स्मरेदेवम्भयानकम् || विश्वरूपमयं ध्यानं नृहरेः प्रोच्यतेधुना || १६८ ||
नृसिंहन्तम्महाभीमं कालानलसमप्रभम् || अन्त्रमालाधरं रौद्रं कण्ठे हारेण शोभितम् || १६९ ||
नागयज्ञोपवीतं च पञ्चाननसुशोभितम् || चन्द्रमौलिं नीलकण्ठं प्रतिवक्त्रे त्रिलोचनम् || १७० ||
भुजैः परिघसंकाशैर्दशभिश्चोपशोभितम् || अक्षसूत्रं गदां पद्मं शङ्खं गोक्षीरसन्निभम् || १७१ ||
धनुश्च मुसलं चैव बिभ्राणं चक्रमुत्तमम् || खड्गं शूलं च बाणं च नृहरिं रुद्रगोपनम् || १७२ ||
इन्द्रनीलकनीलाभञ्चन्द्राभं वर्णसन्निभम् || पूर्वोदयोत्तरज्वालादूर्ध्वास्यं सर्ववर्णकम् || एवमुग्रहरिं ध्यायेत्सर्वव्याधिनिवृत्तये || १७३ ||
ध्येयो यदा महत्कर्म तदा षोडशहस्तवान् || नृसिंहः सर्वलोकेशः सर्वाभरणभूषितः || १७४ ||
द्वौ विदारणकर्माणौ द्वौ जनोद्धरणक्षमौ || शंखचक्रधरौ रम्यावन्यौ बाणधनुर्धरौ || १७५ ||
खड्गखेटधरावन्यौ द्वौ गदापद्मधारिणौ || पाशांकुशधरावन्यौ द्वौ रिपोर्मुकुटार्पितौ || १७६ ||
इति षोडशदोर्दण्डमण्डितं नृहरिं विभुम् || ध्यायेदम्बुजनीलाभमुग्रकर्मण्यनन्यधीः || १७७ ||
ध्येयो महत्तमे कार्ये तदा षड्विंशहस्तवान् || नृसिंहः सर्वभूषाढ्यः सर्वसिद्धिकरः प्रभुः || १७८ ||
दक्षिणे खड्गचक्रे च परशुं पाशमेव च || हलं च मुसलं सम्यगभयं चांकुशन्तथा || १७९ ||
पट्टिशं भिन्दिपालं च खेटतोमरमुद्गरान् || वामभागकरैः शंखं खड्गं पाशं च शूलकम् || १८० ||
प्. ६१५) हुताशनवरं शक्तिं सम्यङ्मृण्मयकुण्डिकाम् || कार्मुकन्तर्जनीमुद्रां गदां डमरुमर्थिकान् || करद्वन्द्वैः क्रमाच्छत्रोर्जानुमस्तकपत्तलम् || १८१ ||
ऊर्ध्वीकृताभ्यां हस्ताभ्यां चान्त्रमालाधरं हरिम् || अधःस्थिताभ्यां हस्ताभ्यां हिरण्यकविदारणम् || १८२ ||
प्रियंकरञ्च भक्तानां दैत्यानां च भयङ्करम् || नृसिंहं संस्मरेन्नित्यं महामृत्युभयापहम् || १८३ ||
यथोच्यते ध्यानमन्यन्मुखारोगभयंकरम् || विषरोगभियां मृत्योर्हरं शत्रुभयापहम् || १८४ ||
स्वर्णौघतुल्यगरुडे स्थितं पूर्णेन्दुचन्द्रकम् || सुमुखं विद्युदाभासं नेत्रत्रयविराजितम् || १८५ ||
सुभूषं पीतवसनं शंखचक्राभयावरान् || धारयन्तं चतुर्भिश्च करैः क्षेत्रादिनाशकम् || अपमृत्युमहाकृत्यानाशकं नृहरिं स्मरेत् || १८६ ||
लक्ष्मीफलैस्त्रिमधुरैः सुगन्धैः कुसुमैर्हुनेत् || अयुतं मधुराद्यैश्च दरिद्रो न भवेत्कलौ || १८७ ||
उदुम्बरसमिद्धोमाद्धान्यसिद्धिर्भवेद्ध्रुवम् || अपूपलक्षहोमेन धनदेन समो भवेत् || १८८ ||
क्रुद्धस्य सन्निधौ राज्ञो जपेदष्टोत्तरं शतम् || सद्यो नैर्मल्यमाप्नोति प्रसादं चाधिगच्छति || १८९ ||
कुन्दप्रसूनहोमेन स सौंदर्यमवाप्स्यति || मधूकपुष्पहोमेन चेष्टसिद्धिः प्रजायते || १९० ||
तुलसीपत्रहोमेन कीर्तिर्भवति नान्यथा || शतहोमेन कालीनां वशीकरणमुत्तमम् || १९१ ||
हरिद्राखण्डहोमेन स्तम्भनम्भवति ध्रुवम् || बदरीफलहोमेन सर्वविघ्नः प्रणश्यति || १९२ ||
रोगे मध्वाज्यसिक्ताश्च गुडूचीश्चतुरंगुलाः || जुहुयादयुतं योसौ चिरञ्जीवति वत्सरान् || १९३ ||
शनैश्चरदिनेश्वत्थं स्पृष्ट्वा चाष्टोत्तरं शतम् || जपेज्जित्वा स मृत्युं वै शतवर्षाणि जीवति || १९४ ||
श्रीप्रसूनैः प्रजुहुयात्तत्काष्ठैर्ज्वलितेनले || सहस्रमात्रेण ततो लक्ष्मीमाप्नोति निश्चितम् || दूर्वाहोमादरोगी स्याल्लक्ष्मीवाञ्छ्रीफलैर्भवेत् || १९५ ||
अनेन मनुना जप्तान्वहं भूतिः शिवस्य च || वशिता प्रातरुत्थाय वाक्सिद्धिं सा प्रयच्छति || १९६ ||
जले नृसिंह सम्पूज्य चन्दनेन सुपुष्पकैः || अष्टोत्तरशतं नित्यं दूर्वाभिर्जुहुयात्सुधीः || १९७ ||
क्षुद्रभूतज्वरास्तस्य विनश्यन्त्युपसर्गजाः || रात्रौ दृष्टे तु दुःस्वप्ने मन्त्री स्नात्वा मनुं जपेत् || रक्षां करोति दुष्टेभ्यो दुस्तरेभ्योपि मन्त्रिणः || १९८ ||
मनुमेतं जपेद्यस्तु तस्य नाशयति क्षणात् || प्. ६१६) प्रेतग्रहमहारोगान्घोरं चैवाभिचारकम् || गदानन्यान्भयोत्पातदुःखानि हरते ध्रुवम् || १९९ ||
मनुं प्रजपतो दुःखं नाशमेति सुमन्त्रिणः || क्रूरं नृसिंहं सञ्चिन्त्य शत्रुञ्च मृगशावकम् || २०० ||
कन्धरायां गृहीत्वार्तं क्षिपन्तं दिक्षु चिन्तयेत् || सबान्धवस्य झटिति तस्योच्चाटः प्रजायते || २०१ ||
कृत्वावाग्दिशमुत्तानं युगपद्धरिणा स्वयम् || नखरैर्दीर्यमाणं तं संस्मरेन्निशितैर्द्रुतम् || २०२ ||
अष्टाधिकशतं चामुं जपेन्मनुमनन्यधीः || भवेन्मण्डलमध्येयं दिवाकरसुतातिथिः || २०३ ||
करवीरभवैः काष्ठैः सम्यक्सन्दीपितेनले || रिपुसंघक्षयकरं नृसिंहं चन्दनादिभिः || २०४ ||
सम्यगभ्यर्च्य जुहुयाच्छरान्साग्रान्सशूलकान् || सहस्रमेकं च मनुं भक्षयेच्छत्रुमुत्कटम् || २०५ ||
एवं शरान्विनिःक्षिप्य शत्रुसेनां विदारयेत् || जुहुयात्सप्तदिवसांस्ततो राज्ञश्चमूं सुधीः || २०६ ||
सुदिने च शुभे लग्ने शत्रुसैन्यजिगीषया || प्रस्थापयेत्तां सुदृढां रक्षितां बलिभिर्नरैः || २०७ ||
तदग्रे चिन्तयेद्देवं नृसिंहं शत्रुसञ्चयम् || भक्षयन्तं यजेन्मन्त्री कुर्यादायाति सा चमूः || २०८ ||
यावत्तावद्रिपुं जित्वा सर्वान्राजश्रिया सह || आगच्छेद्भूपतिः शूरः पश्चान्मन्त्रिणमादरात् || २०९ ||
तोषयेत्क्षेत्रवसुभिर्वस्त्रालंकरणैः शुभैः || मन्त्रिणो यदि सन्तोषो न भवेद्भपतेस्तदा || २१० ||
अनर्थः सुमहानेव जायते दुःसहो भृशम् || अथातः सम्प्रवक्ष्यामि द्वितीयं नृहरिं विभुम् || २११ ||
क्ष्रौमित्येकाक्षरो मन्त्रो मुनिरत्रिः प्रकीर्तितः || गायत्री छन्द उद्दिष्टं देवता नृहरिः स्मृतः || २१२ ||
षड्दीर्घयुक्तबीजेन षडङ्गानि समाचरेत् || एकलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः || २१३ ||
जुहुयात्तद्दशांशं तु घृताक्तैः पायसैः शुभैः || तर्पयेत्क्षुद्रसलिलैः कृत्वा चात्माभिषेचनम् || २१४ ||
ब्राह्मणान्सम्यगाराध्य सिद्धमन्त्रः समाचरेत् || मन्त्रराजोदितान्सर्वान्प्रयोगानत्र साधकः || २१५ ||
अष्टाधिक्सहस्रेण जपितैः कलशोदकैः || विपार्तमभिषिञ्चेत मुच्यते हि विषेण सः || २१६ ||
मुच्यतेन्यैस्तथा तैस्तु लूतामूषकजैरपि || बहुपद्बृश्चिकोत्थैश्च विषैर्मुक्तो भवेद्ध्रुवम् || २१७ ||
जपितं मनुनानेन भस्म चाष्टोत्तरं शतम् || प्. ६१७) शिरोक्षिकर्णहृत्कुक्षिकण्ठरोगान्विनाशयेत् || २१८ ||
विसर्पञ्च वमिं हिक्कां ज्वरांश्चैव विनाशयेत् || मन्त्रौषधादिसम्भूतानभिचारान्विकारकान् || शमयेद्भस्मसंलिप्तं नात्र कार्या विचारणा || २१९ ||
मृत्यु स्थाने लिखेन्मन्त्री संसाध्यं च दहन्निव || क्रूरेण चक्षुषा पश्यञ्जपेदष्टदिनावधि || अष्टाधिकसहस्रञ्च म्रियते रिपुरस्य हि || २२० ||
वश्यमाकर्षविद्वेषौ महाचण्डादिकर्म च || कुर्यादयुतजापेन तत्तदर्हणकर्मणा || अयमेकाक्षरो मन्त्रः प्रोक्तस्सर्वसमृद्धिदः || २२१ ||
अथातः सम्प्रवक्ष्यामि तृतीयं नृहरेर्मनुम् || आं ह्रीं ज्रों क्रों ह्रां फडिति षडर्णो मन्त्र ईरितः || २२२ ||
पंक्तिश्छन्दो मुनिर्ब्रह्मा श्रीनृसिंहस्तु देवता || मन्त्रवर्णैरङ्गषट्कं कृत्वा ध्यायेन्नृसिंहकम् || २२३ ||
भीषणास्यः क्रोधदीप्तो रक्तवर्णेदुशेखरः || सोमसूर्याग्निनेत्रश्च नानामणिविभूषितः || २२४ ||
दक्षाद्यूर्ध्वक्रमेणैव चक्रशंखौ गुणांकुशौ || वज्रं गदां दारयन्तं द्वाभ्यां दैत्येश्वरोदरम् || २२५ ||
पूर्वोदिते यजेत्पीठे मूर्तिं मूलेन कल्पयेत् || तस्यां सम्पूज्य नृहरिं कुर्यादावरणार्चनम् || २२६ ||
तद्बाह्ये षड्दलेंऽङ्गानि तदस्त्राण्यष्टपत्रके || २२७ ||
अरि शंखं गुणं चैव सृणिं च कुलिशं गदाम् || खड्गं खेटं च तद्बाह्ये भूपुरं तु दिगीश्वरान् || २२८ ||
तदायुधानि तद्बाह्ये नृहरेरिति पूजनम् || लक्षषट्कं जपेन्मन्त्रं केवलेन घृतेन च || २२९ ||
जुहुयात्षट्सहस्राणि तर्पणादि ततश्चरेत् || एवं सिद्धमनुर्मन्त्री प्रयोगानाचरेत्ततः || २३० ||
अपामार्गसमिद्भिश्च पूताभिः पञ्चगव्यकैः || जुहुयाच्च सहस्रैकं सप्ताहं भूतशान्तये || २३१ ||
गुडूचीसमिधो दुग्धलोडिताश्च सहस्रकम् || चतुर्दिनं प्रजुहुयाज्ज्वरशान्तिः प्रजायते || २३२ ||
रक्तोत्पलैः प्रत्यहं यो मधुरत्रयलोडितैः || सहस्रसङ्ख्यं जुहुयात्पायसेनेष्टमाप्नुयात् || मन्त्रजापी वत्सरेण धनधान्यसमृद्धियुक् || २३३ ||
प्रफल्लैस्तरुणाम्भोजैर्मधुरत्रयलोडितैः || सहस्रद्वादशमितं हुत्वा सर्वजनप्रियः || २३४ ||
प्रातस्त्रिमधुरोपेतलाजैर्हि पक्षमात्रकम् || सहस्रं जुहुयात्कन्यां कन्यार्थी लभते ध्रुवम् || वरार्थिनी लभेताशु वरं सर्वमनोहरम् || २३५ ||
तिलराजैरपामार्गैः पायसान्नैर्हुनेद् ध्रुवम् || प्. ६१८)स दीर्घायुरवाप्नोति विमुक्तः सकलैर्गदैः || कलत्रमित्रपुत्राद्यैर्धनधान्यसमन्वितः || २३६ ||
अथातः सम्प्रवक्ष्यामि तुल्यमन्वन्तरोद्भवम् || ज्वालामालं नृसिंहं तु शत्रुभूतादिनाशकम् || २३७ ||
ओं [ओं क्ष्रौं नमो भगवते नारसिंहाय ज्वालामालिने दीप्तदंष्ट्राय अग्निनेत्राय सर्वरक्षोघ्नाय सर्वभूतविनाशनाय सर्वघोरविनाशनाय दह दह पच पच रक्ष रक्ष हुं फट् स्वाहा ||] क्षौं नमो भगवते नारसिंहाय संवदेत् || ज्वालेति मालिने दीप्तदंष्तायाग्निपदं वदेत् || २३८ ||
नेत्राय सर्वरक्षोघ्नाय सर्वपदमुच्चरेत् || भूतविनाशनो ङेन्तः सर्वघोरविनाशनः || २३९ ||
ङेन्त एव द्विर्दहेति पच रक्षयुगं तथा || हुंफट्स्वाहेति मन्त्रोयं षष्टिषट्काक्षरो मतः || २४० ||
ऋषिः प्रजापतिश्छन्दो गायत्री नृहरिः सुरः || विश्वदिग्भवधृत्याशावेदार्णैः स्यात्षडङ्गकम् || २४१ ||
उद्यत्कालानलनिभं प्रलयाब्दसमस्वनम् || शंखं चक्रमसिं खेटं दधानं दैवतैस्तुतम् || २४२ ||
षडक्षरोक्तविधिना पूजाद्यं चास्य कीर्तितम् || लक्षं जपेद्दशांशं तु कपिलासर्पिषा हुनेत् || २४३ ||
तर्पणादि ततः कुर्यात्प्रयोगो मन्त्रराजवत् || विशेषतोयं भूतादिज्वरहा परिकीर्तितः || २४४ ||
अथातः सम्प्रवक्ष्यामि यो जातश्चरमे विभुः || मन्वन्तरे सलक्ष्मीकः सेव्यते यो गृहस्थितैः || २४५ ||
ओं [ओं श्रीं ह्रीं श्रीं जय लक्ष्मीप्रियाय नित्यप्रमुदितचेतसे लक्ष्मीश्रितार्धदेहाय श्रीं ह्रीं श्रीं नमः ||] श्रीं ह्रीं श्रीं जय लक्ष्मीप्रियाय नित्यशब्दतः || प्रमुदितपदं प्रोच्य चेतसे च ततो वदेत् || २४६ ||
लक्ष्मीश्रितार्धदेहाय श्रीं ह्रीं श्रीं च ततो नमः || देववर्णो मनुः प्रोक्तो जपतां सर्वकामदः || २४७ ||
लक्ष्मीनृसिंहो देवोस्य छन्दोनुष्टुप्प्रकीर्तितम् || मुनिः प्रजापतिः प्रोक्तः श्रींबीजेन षडङ्गकम् || २४८ ||
पुरस्तात्केशवः पातु शंखचक्रगदाधरः [क्रीडाकृदनलप्रभः इत्यपि पाठः ||] || पश्चान्नारायणः शश्वन्नीलजीमूतसन्निभः || २४९ ||
इन्दीवरदलश्याम ऊर्ध्वं मे माधवो गदी || गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान् || २५० ||
उत्तरे हलधृग्विष्णुः पद्मकिञ्जल्कसन्निभः || आग्नेययामरविन्दाक्षो मुसली मधुसदनः || २५१ ||
त्रिविक्रमः खड्गपाणिर्नैरृत्यां ज्वलनप्रभुः || वायव्यां वामनो वज्री तरुणादित्यदीप्तिमान् || २५२ ||
प्. ६१९) ऐशान्यां पुण्डरीकाक्षः श्रीधरः पट्टिशायुधः || विद्युत्प्रभो हृषीकेशो वायव्यां दिशि मूर्धनि || २५३ ||
हृत्पद्मं पद्मनाभो मे सहस्रार्कसमप्रभः || सर्वायुधः सर्वशक्तिः सर्वज्ञः सर्वतोमुखः || २५४ ||
इन्द्रगोपकसङ्काशः पाशहस्तोपराजितः || सबाह्याभ्यन्तरं देहं व्याप्य दामोदरः स्थितः || २५५ ||
एवं सर्वत्र निश्छिद्रं नामद्वादशपञ्जरम् || प्रविष्टोहं न मे किञ्चिद्भयमस्ति कदाचन || २५६ ||
इति न्यासं विधायादौ लक्ष्मीनरहरिं स्मरेत् || सर्पेन्द्रभागेशयनः सर्पेन्द्राभोगछत्रवान् || २५७ ||
आलिङ्गितश्च रमया दीप्तभासेन्दुसन्निभः || पद्मचक्रवराभीति धरस्त्र्यक्षेन्दुशेखरः || २५८ ||
एवं ध्यात्वा यजेत्पीठे पूर्वोक्ते तु गृहाश्रमी || अङ्गानि षड्दलेभ्यर्च्य शक्तीश्चाष्टदले यजेत् || २५९ ||
भास्वरी भास्करी चित्रा द्युतिरुन्मीलिनी तथा || रमा कान्तिर्धृतिश्चेति भूपुरे तु दिगीश्वरान् || २६० ||
तदायुधानीति भवेच्चतुरावृतिपूजनम् || यष्ट्युत्तरं त्रिलक्षं च प्रजपेत्तत्सहस्रकम् || २६१ ||
मध्वक्तमल्लिकापुष्पैर्जुहुयान्मन्त्रवित्तमः || अभ्यर्च्य सलिले देवं तर्पयेन्मन्त्रनामतः || २६२ ||
अभिषिञ्चेच्च मूर्द्धानं ब्राह्मणान्भोजयेत्ततः || ततः प्रयोगान्कुर्वीत साधको निजवाञ्छितान् || २६३ ||
मल्लिकाकुसुमैर्होमः सर्वकामकरः शुभः || अनुष्टुबुक्तांस्तत्रापि सर्वान्कुर्याद्गृहाश्रमी || २६४ ||
अथातः सम्प्रवक्ष्यामि षष्ठे मन्वन्तरेभवत् || लक्ष्म्या सह नृसिंहो यस्तन्मन्त्रं सर्वकामदम् || २६५ ||
ओं श्रीं लक्ष्मीनृसिंहाय मनुरष्टाक्षरो मतः || मुनिः प्रजापतिश्छन्दो लक्ष्मीर्वा नृहरिः सुरः || २६६ ||
षड्दीर्घयुक्तक्ष्रौंबीजैः षडङ्गविधिरीरितः || ध्यानपूजादिकं सर्वं षडक्षरवदीरितम् || २६७ ||
वर्णलक्षं जपेन्मन्त्रं तद्दशांशं घृतप्लुतैः || पायसैर्जुहुयात्तत्र मन्त्रतर्पणमाचरेत् || २६८ ||
अथातः सम्प्रवक्ष्यामि यो जातः सप्तमे हरिः || जय जयश्रीनृसिंह मनुरष्टाक्षरो मतः || २६९ ||
ऋष्याद्यष्टार्णवत्पोकं पूजा चास्य षडर्णवत् || एकार्णवत्प्रयोगांश्च गृहस्थः साधयेच्छुचिः || २७० ||
अथातः सम्प्रवक्ष्यामि त्वष्टमे यस्त्वजायत || दशावतारो नृहरिर्दक्षसावर्णिकोत्र चेत् || २७१ ||
ओं क्ष्रौं नमो भगवते नरसिंहाय संवदेत् || ओं क्षौं च मत्स्यरूपाय ओं क्षौं कुंर्मोपि ङेन्तकः || २७२ ||
प्. ६२०) ओंक्ष्रौं वराहरूपाय ओं क्ष्रौं चैव पुनवदेत् || तशा नृसिंहरूपाय ओंक्ष्रौं वामनतस्तथा || २७३ ||
रूपाय ओं-ओं-ओं-क्ष्रौं-क्ष्रौं-क्ष्रौं रामायेति कीर्तयेत् || २७४ ||
ओं-क्ष्रौं कृष्णाय ओं-क्ष्रौं च कल्किने संवदेत्ततः || नयशब्दद्वयान्ते तु शालग्रामनिवासिने || २७५ ||
दिव्यसिंहायेति चोक्त्वा वदेत्पश्चात्स्वयंभुवे || पुरुषाय नम ओं-क्ष्रौं एकोनशतवर्णकः || २७६ ||
छन्दोतिजगती प्रोक्तं ऋषिरत्रिः प्रकीर्तितः || दशावतारनृहरिर्देवता सर्वकामदः || २७७ ||
षड्दीर्घयुक्तबीजेन षडङ्गानि प्रकल्पयेत् || मन्त्रराजवदेतस्य ध्यानपूजादिकं भवेत् || २७८ ||
यजेत्षडङ्गपूजान्ते मत्स्यादीनवतारकान् || अयुतं प्रजपेन्मन्त्रं साधयेद्धविषा ततः || २७९ ||
जुहुयात्तद्दशांशेन तर्पणादि ततश्चरेत् || काम्यकर्माणि सर्वाणि मन्त्रराजवदेव हि || २८० ||
अस्य संसेवनाद्विप्रा ब्रह्मचर्यादिविच्युताः || नृसिंहरूपतां प्राप्य जाताः स्थाने नृसिंहकाः || २८१ ||
प्रविशन्ति च ते नेह सम्यक्कुर्वन्ति पूजिताः || अत्र बीजाक्षरत्यागान्नानाबीजादियोजनात् || जायन्ते कोटिशो मन्त्राः शूद्रसिद्धिविधायकाः || २८२ ||
लोभाधिक्यात्कलियुगे न गुरुर्न च देवता || एकं श्रेयस्करं प्रोक्तं नृहरेर्नामगर्जनम् || २८३ ||
अथातः सम्प्रवक्ष्यामि जायते नवमे तु यः || नरसिंहो वीरनामा शृणु तत्साधनं प्रिये || २८४ ||
बाले च तरुणे वृद्धे प्रयोगार्थं मनुत्रयम् || तारो नमो भगवते वीरान्ते नृपदं वदेत् || २८५ ||
तद्युक्तं च वदेत्पश्चान्ङेन्तं सिंहपदं ततः || पीनोर्ध्वाङ्गाय चेत्युक्त्वा चाग्निनेत्राय संवदेत् || २८६ ||
सर्वभूतविनाशेति नायेत्युक्त्वा द्विधा दह || रक्षयुग्मं च ह्रींयुग्मं रक्षरक्षाग्निगेहिनी || २८७ ||
एवं हि प्रथमो मन्त्रो नृसिंहस्य समुद्धृतः || वर्णांस्त्रयोदश [ओं नमो भगवते वीरनृसिंहाय नीलदीप्तदंष्ट्राय अग्नि नेत्राय सर्वरक्षोघ्नाय सर्वभूतविनाशनाय सर्वघोरविनाशाय हनहन दहदह पचपच वधवध फट् स्वाहा ||] प्रोच्य नीलदीप्तपदं वदेत् || २८८ ||
दंष्ट्राय चाग्निनेत्राय सर्वरक्षो वदेत्ततः || घ्नायोक्त्वा सर्वभूतेति वदेद् ङेन्तं विनाशनम् || २८९ ||
सर्वघोरविनाशाय हनद्वन्द्वं दहद्वयम् || प्. ६२१) पचयुग्मं वधयुग्मं फट्स्वाहान्तो द्वितीयकः || २९० ||
तृतीयमथ वक्ष्यामि पूर्वोक्ताश्च [ओं नमो भगवते वीरनृसिंहाय सर्वभूतविनाशय सर्वघोरविनाशनाय सर्वरक्षोघ्नाय हनहन दहदह पचपच वधवध रक्षरक्ष मां हुं फट् स्वाहा ||] त्रयोदश || सर्वभूतेति सम्प्रोच्य ङेन्तं चैव विनाशनम् || २९१ ||
सर्वघोरेति पूर्वोक्तं तथा सर्वपदं वदेत् || रक्षोघ्नाय पदं चोक्त्वा हनद्वन्द्वं दहद्वयम् || २९२ ||
पचद्वयं वधद्वन्द्वं रक्षयुग्मं च मां तथा || हुं-फट्-स्वाहा तृतीयोयं मन्त्रश्चात्र समुद्धृतः || २९३ ||
मन्त्रराजोक्तवच्चैषां पूजाद्यं सम्प्रकीर्तितम् || मालामन्त्रा इमे ख्याता द्वैतसिद्धिविधायकाः || २९४ ||
अथातः सम्प्रवक्ष्यामि दशमे जायते तु यः || ओं-क्ष्रौं महानृसिंहाय नमोन्तो दशवर्णकः || २९५ ||
वामदेवो मुनिश्छन्दो विराड्देवो नृसिंहकः || षड्दीर्घयुक्स्वबीजेन षडङ्गन्यासमाचरेत् || २९६ ||
ध्यानपूजापुरश्चर्या होमो लक्ष्मीनृसिंहवत् || वर्णलक्षं जपेन्मन्त्रं प्रयोगोष्टाक्षरोदितः || २९७ ||
अथातः सम्प्रवक्ष्यामि मन्त्रमेकादशस्य तु || ओं-क्ष्रौं नमो भगवते नरसिंहाय मन्त्रकः || त्रयोदशार्ण उद्दिष्टो भुक्तिमुक्तिप्रदायकः || २९८ ||
वामदेवो मुनिः प्रोक्तो जगती छन्द ईरितम् || देवता नरसिंहोत्र स्वबीजेनाङ्गकल्पनम् || ध्यानपूजाप्रयोगादि षडक्षरवदीरितम् || २९९ ||
अथातः सम्प्रवक्ष्यामि द्वादशे योभिजायते || काश्यां स नित्यं वसते दुष्टबुद्धिप्रचारकः || ३०० ||
तारं सहस्रारज्वालावर्तिने क्ष्रा हनद्वयम् || हुंफट्स्वाहा चोनविंशवर्णो मन्त्र उदीरितः || ३०१ ||
मुनिर्जयन्त आख्यातश्छन्दो गायत्रमीरितम् || सुदर्शननृसिंहोस्य देवता परिकीर्तितः || ३०२ ||
चक्रराजाय हृत्प्रोक्तं ज्वाला चक्राय वै शिरः || जगच्चक्राय च शिखा कवचं त्वस्य सम्मतम् || ३०३ ||
असुरान्त कचक्राय ह्यस्त्राय फडितीरितम् || सुदर्शनायेति मनुः पञ्चाङ्गं समुदीरितम् || ३०४ ||
चक्राणां तु सभामध्ये कालाग्निसदृशप्रभम् || चतुर्भुजं विवृत्ता स्यं चतुश्चक्रधरं हरिम् || तप्तकाञ्चनसङ्काशं त्रिनेत्रं चाद्यविग्रहम् || ३०५ ||
ध्यायेत्समस्तदुःखघ्नं तादृग्लक्ष्म्या समन्वितम् || पूर्वोक्ते वैष्णवे पीठे पूजयेदुक्तवर्त्मना || प्. ६२२) विदिक्ष्वग्रे च पञ्चाङ्गं क्रमाद्दिक्षु प्रपूजयेत् || ३०६ ||
जयाच विजयां पश्चादजितां चापराजिताम् || विदिक्षु पूजयेत्पश्चान्मुदितां मोदिनीं तथा || सहस्रां सिद्धिसञ्ज्ञां च लोकेशानायुधानि च || ३०७ ||
रविलक्षं जपेन्मन्त्रं दशांशैस्तु तिलैः शुभैः || हुनेत्पुष्पैस्ततश्चापि चत्वारिंशत्सहस्रकैः || ३०८ ||
पुनराज्येन जुहुयात्सहस्रेण नमस्क्रियाम् || तर्पणादि ततः कृत्वा प्रयोगानाचरेत्पुनः || ३०९ ||
विप्रो जपितु मीक्षेत कुशानास्तीर्य भूतले || तस्मिन्देशे समाराध्य सुदर्शननृसिंहकम् ||| ३१० ||
मन्त्रं सहस्रावृत्त्या तु जुहुयाद्दे वसन्निधौ || सहस्रं मूलमन्त्रेण ह्यपामार्गसमिद्वरैः || ३११ ||
तद्भस्म तिलकं कृत्वा निर्गच्छेच्छत्रुसन्निधौ || दासवत्कुरुते शत्रून्सर्वान्नास्त्यत्र संशयः || ३१२ ||
अथ शत्रुमनुं स्मृत्वा तर्पणं चापि कारयेत् || अयुतं जयमाप्नोति नात्र कार्या विचारणा || ३१३ ||
अथौदुम्बरपीठे च देवदेवं निवेशयेत् || तस्याग्रे वर्तुले कुण्डे होतव्याज्यादिभिः शमीम् || ३१४ ||
अयुतं यो घृताक्तां तु मध्वक्तां वा जितेन्द्रियः || जयमाप्नोति संग्रामे नित्यम्परशुरामवत् || ३१५ ||
मन्त्रेणानेन जपितं तारहेमादिकञ्च यत् || तेनांगुलीयकं कृत्वा जपहोमादिसाधितम् || ३१६ ||
धारयेद्दक्षिणे हस्ते मृत्युरोगाञ्जयेदरीन् || राज्ञः सकाशात्पूजां च लभते धारयेत्सदा || ३१७ ||
जलं त्रिसप्तजपितं सर्वोदरगदान्तकृत् || पुनर्नवाशिफानिष्कत्रयं लवणसंयुतं || ३१८ ||
स्पृष्ट्वा जप्तन्तच्च हरेद्गुल्मशूलादि मासतः || मासमेकं प्रतिदिनं दुर्वाहोमसहस्रकम् || कृत्वा सम्पूजयेद्देवं राजयक्ष्मा प्रणश्यति || ३१९ ||
तैलैर्वा मधुना वापि तादृग्घोमः प्रमेहहृत् || नेत्ररोगः सहस्रेण पद्महोमेन नश्यति || ३२० ||
द्विसप्तजप्ततोयेन क्षालनं नेत्ररोगहृत् || दशधा जपतोयेन करकेणैव सेचयेत् || ३२१ ||
तावत्सम्मन्त्रितेनापि नवनीतेन लेपनात् || सप्ताहमध्यात्सद्यो हि नाशयेत्तु विसर्पकान् || ३२२ ||
अपामार्गेण जुहुयान्नित्यमष्टोत्तरंशतम् || यस्तु तावन्नमस्कारान्कुर्यान्न्यासमतन्द्रितः || अपस्मारादिकान्सर्वान्ग्रहानन्यान्विनाशयेत् || ३२३ ||
शुद्धाद्भिः पूरिते कुम्भे चन्द्रमण्डलमध्यगम् || सुदर्शननृसिंहन्तु सुधाविग्रहधारिणम् || यथावच्चिन्तयेत्तत्र पूजयेदुपचारकैः || ३२४ ||
प्. ६२३) जप्त्वा शत सहस्रञ्च दष्टं तेनैव सेचयेत् || तथा स्पृशेद्वामहस्तं ह्यङ्गस्पर्शाद्विषं हरेत् || ३२५ ||
अथातः सम्प्रवक्ष्यामि भुक्तिमुक्तिप्रदायकम् || जातं त्रयोदशे देवं नृसिंहं क्ष्रौं तु सम्पुटम् || ३२६ ||
मायया भोगदाता स्यात्प्रणवेन च मोक्षदः || अस्य पूजाप्रयोगाद्यमेकाक्षरसमं भवेत् || ३२७ ||
अथातः सम्प्रवक्ष्यामि जातं मन्वन्तरे विभुम् || अभयाक्षो नृसिंहोयं समस्तभयनाशनः || ३२८ ||
तारो नमो भगवते नरसिंहाय हृद्भवेत् || तेजस्तेजस इत्युक्त्वा आविराविर्भवेति च || ३२९ ||
वज्रनख वज्रदंष्ट्र कर्माशयान् || द्वीरन्धय || तमोद्विर्ग्रसवह्निस्त्रीं वदेदभयमात्मनि || ३३० ||
भूयिष्ठा ओंक्ष्रौमिति च द्विषष्ट्यर्णो मनुमतः || मुनिः शुकोतिजगती छन्दः प्राग्वद्दिवाखिलम् || ३३१ ||
चतुर्दशनृसिंहानां साधनं वेदबोधितम् || तदत्र कथितं देवि भुक्तिमुक्तिप्रदायकम् || ३३२ ||
अथातः सम्प्रवक्ष्यामि वामनस्य शुभान् || मनून् || मन्वन्तरन्तु प्रत्येकं सुरेशादपहृत्य वै || ३३३ ||
पुनर्ददाति हरये त्रैलोक्यं स बलिर्नृपः || एकमन्वन्तरे शक्रः स्वयमेवाभवद्बलिः || ३३४ ||
एवं षड्वामनाः कल्पे तेषां मन्त्रान्वदाम्यहम् || ओं [ओं नमो विष्णवे सुरपतये महाबलाय स्वाहा ||] नमो विष्णवे ब्रूयात्सुरान्ते पतये महा || ३३५ ||
बलाय वह्निगृहिणीं धृतिवर्णोमनुर्मतः || मुनिरिन्दुर्विराट् छन्दो देवता चैव वामनः || ३३६ ||
एकद्वित्र्याशुगशरनेत्रार्णैरङ्गकल्पनम् || भ्रूमध्यकण्ठहृदयनाभ्यंघ्र्याधारकेषु च || ३३७ ||
न्यसेन्मनोः षट् पदानि पदन्यासोयमीरितः || मूर्ध्नि नेत्रद्वये कर्णद्वये नसि मुखे तथा || ३३८ ||
कण्ठे हृदि तथा बाह्वोर्नाभौ पृष्ठे च गुह्यके || जान्वोश्च पादयोरग्निकाष्ठाङ्गन्यास ईरितः || ३३९ ||
मूर्ध्नि भाले दृशोः श्रोत्रे नस्यास्ये तालुकण्ठयोः || बाहुहृज्जठरे नाभौ गुह्योर्वोर्जानुजंघयोः || पादे पृष्ठे न्यसेद्वर्णान्वर्णन्यासोयमीरितः || ३४० ||
ज्वलन्मयूखकनकच्छत्राधः पुण्डरीकगम् || पूर्णचन्द्रनिभं ध्यायेच्छ्रीभूम्याश्लिष्टपार्श्वकम् || ३४१ ||
द्वीष्वंगुल्युच्छ्रयायामो मयूखस्फटिकप्रभः || दघ्यन्नं वामहस्तेन स्वर्णस्य चषकं दधत् || प्. ६२४) पीयषपूणस्वर्णस्य कलशं दक्षिणे दधत् || वैष्णवे पूजयत्पाठ तत्र सूर्याग्निमण्डले || ३४२ ||
सोमस्य मण्डलं पृष्ठं योगपीठस्वरूपकम् || विष्णवे सह सोमाय त्त्रैलोक्याप्यायनाय च || मन्त्रो ह्योङ्कारहृत्पूर्वः स्वाहान्तो नववर्णकः || ३४३ ||
अनेन योगपीठस्य पूजनं समुदीरितम् || ततः षड्दलमध्ये तु पूजयेद्वामनं विभुम् || ३४४ ||
षड्दलेषु षडङ्गानि बाह्ये षोडशपञ्चके || पूषा सुमनसा प्रीतिः पुष्टिस्तुष्टिस्तथैव च || ३४५ ||
ऋद्धिर्धृतिश्च सौम्या च मरीचिर्मुण्डमालिनी || शशिनी सुभगा चैव लक्ष्मीरिच्छा तथैव च || ३४६ ||
सम्पूर्णमनुका चैवममृता षोडशी मता || ततश्चाष्टदले पूजेत् पूजाद्यैर्वासुदेवकम् || ३४७ ||
तदर्धं वा तदर्धं वा जपेन्मन्त्रमनन्यधीः || दशाशं पायसं हुत्वा तर्पणादि समाचरेत् || ३४८ ||
स्वगृहे मण्डलं कृत्वा तन्मध्ये वामनं यजेत् || दघ्योदनं निशापक्वं नैवेद्यं स्याद्विभूतिकृत् || ३४९ ||
अन्नकामो हुनेन्नित्यमष्टाविंशतिसंख्यया || सितान्नं घृतसम्मिश्रं प्राप्नुयादन्नमक्षयम् || ३५० ||
अपूपं षड्रसोपेतं हुनेदष्टसहस्रकम् || अलक्ष्मीर्नाशमायाति [तस्येत्यव्याहार्यम् ||] महतीं श्रियमाप्नुयात् || ३५१ ||
अयुतं मन्त्रविद्धुत्वा दघ्यन्नं शर्करान्वितम् || अन्नपर्वतमाप्नोति यत्रयत्र स गच्छति || ३५२ ||
हुनेद्विल्वसमीपस्थः पद्माक्षैरयुतं नरः || वसुधारां महालक्ष्मीं वर्षाद्वर्षति तत्र च || ३५३ ||
विद्यार्थी प्रजपेल्लक्षं ध्यायन्देवं जनार्दनम् || जुहुयात्पायसं मन्त्री साक्षाद्वागीश्वरो भवेत् || ३५४ ||
पुत्रकामो जपेल्लक्षं पुत्रजीवदलैर्हुनेत् || तत्काष्ठदीपिते वह्नौ स सत्पुत्रमवाप्नुयात् || ३५५ ||
ध्यात्वा त्रिविक्रमं देवं रक्ताभं करवीरकैः || हुनेदयुतसंख्यैश्च सर्वत्र विजयी भवेत् || ३५६ ||
रक्षाकामोपि पद्मानामयुतं जुहुयात्ततः || ध्यात्वा चैन्द्रपदं राज्यं लभेताशु ह्यकण्टकम् || ३५७ ||
अपामार्गदलैर्हुत्वा लवेङ्गैर्वा मधुप्लुतैः || अयुतं साध्यनामाद्यं स वश्यो भवति ध्रुवम् || ३५८ ||
आरोग्यकामो जुहुयादपामार्गशतंशतम् || सप्ताहान्मुच्यते रोगैस्तावदेवं जपेत्सुधीः || ३५९ ||
आयुष्कामस्त्रिमध्वक्तैस्तिलदूर्वांकुशोक्षितैः || अयुतं जुहुयात्तावज्जपेदायुर्लभेत् वै || ३६० ||
स्मृत्वा त्रिविक्रमं रूपं चाष्टोत्तरसहस्रकम् || प्. ६२५) जपान्निर्मुक्तबन्धः स्याद्वामनस्य प्रसादतः || ३६१ ||
दधि वामनसेवातो नासाध्यं भुवनत्रये || अथातः सम्प्रवक्ष्यामि सर्वज्ञेश्वरवामनम् || ३६२ ||
ओंक्लींश्रींवं समायोज्य पूर्वमन्त्रो मनुर्मतः || च्यवनो मुनिराख्यातो गायत्रं छन्द ईरितम् || ३६३ ||
देवता चास्य सम्प्रोक्तः सर्वज्ञेश्वरवामनः || द्वाविंशत्यर्णकोङ्गानि षड्दीर्घान्वितकामतः || ३६४ ||
कर्पूरधवलं देवं निविष्टं सरसीरुहे || प्रसन्नञ्च सुनेत्रञ्च चारुस्मितमनोहरम् || ३६५ ||
दण्डं चामृतकुम्भञ्च शरच्चन्द्रसमप्रभम् || दधिभक्तं सोपदंशं वसुपात्रं पवित्रकम् || चिन्तयेज्जगतां नाथं सर्वस्यार्तिहरं हरिम् || ३६६ ||
अस्य पूजादिकं सर्वं पूर्वोक्तेनैव वर्त्मना || कुर्यात्ततो मन्त्रसिद्धः काम्यान्स्वाभीष्टदायकान् || ३६७ ||
सहस्रं हविषा होमो लक्ष्मीदो धान्यलाभकृत् || ३६८ ||
धान्यहोमोन्नबीजैश्च शतपत्रसमुद्भवैः || सहस्रहोमाद्भीतीनां नाशो भवति निश्चितम् || ३६९ ||
दध्यक्ताज्येन जुहुयाद्दुर्गत्या मुच्यते नरः || त्रैविक्रमं वामनस्य रूपं ध्यायेन्मनुं स्मरेत् || ३७० ||
घोरोत्पातैर्मुच्यतेसौ देवेशञ्च पटे लिखेत् || भित्तौ वालिख्य गन्धाढ्यैः पूजयेद्यज्ञवामनम् || महतीं श्रियमाप्नोति यद्यदन्यदभीप्सितम् || ३७१ ||
अथातः सम्प्रवक्ष्यामि तृतीयं भोगवामनम् || तारो नमो भगवते विष्णवे च दशाक्षरः || ३७२ ||
संयुक्तः पूर्वमन्त्रश्चेद्भवेद्द्वाविंशदर्णकः || ऋषिः कपिल आख्यातो गायत्रं छन्द ईरितम् || ३७३ ||
उदीरितः सर्ववन्द्यो देवता भोगवामनः || त्रिवेदत्रिषुबाणद्विमन्त्रार्णैरङ्गकल्पनम् || ३७४ ||
नीलवर्णश्चतुर्बाहुः शंखचक्रगदाब्जभृत् || सर्वान्भोगन्ददात्येष भक्तानां भोगवामनः || ३७५ ||
अस्य पूजादिकं सर्वं मन्त्री पूर्ववदाचरेत् || एतादृशस्तु नास्त्यन्यो जन्मन्यस्मिन्फलप्रदः || ३७६ ||
अथातः सम्प्रवक्ष्यामि तुर्यं बालकवामनम् || तारो हृदयमाये च बालकान्ते विधे पदम् || ३७७ ||
पूर्वमन्त्राग्रिमाद्वर्णाद्द्वाविंशत्यक्षरो मनुः || त्र्यंकषट्पञ्चपञ्चद्विमन्त्रार्णैरङ्गकल्पनम् || ३७८ ||
पीताम्बरोत्तरीयोसौ मौञ्जीकौपीनधृग्घरिः || कमण्डलुं च दघ्यन्नं दण्डं छत्रं करैर्दधत् || यज्ञोपवीती नीलाभो ध्यातव्यश्छद्मवामनः || ३७९ ||
प्. ६२६) पूजादिकं पूर्ववच्च कुर्यान्मन्त्री यथाविधि || अन्नविद्याभूमिदोयं भक्तानामभयप्रदः || ३८० ||
नाश्नीयात्तण्डुलीशाकं तथा चौदुम्बरं फलम् || श्राद्धान्नं कर्कटीं चैव भक्षयेन्न कदाचन || ३८१ ||
पद्मपत्रे न भुञ्जीत तथा चार्कदलेष्वपि |
तुषकार्पासबीजानि न स्पृशेच्च कदाचनं || ३८२ ||
वल्मीकं गोमयं विप्रच्छायामपि न लंघयेत् || देवाग्निगूरुपूजां च कुर्याद्भक्तिसमन्वितः || एवं यो नियमैर्युक्तस्तस्य मन्त्रः प्रसिध्यति || ३८३ ||
अथातः सम्प्रवक्ष्यामि विश्वरूपं तु वामनम् || तारो नमो भगवते मायाबालेति विष्णवे || तदग्रिमे पूर्वमन्त्रः षड्विंशत्यक्षरो मनुः || ३८४ ||
ब्रह्मा मुनिश्च गायत्री छन्दो बीजं ध्रुवः स्मृतः || स्वाहा शक्तिर्देवता श्रीमायाबालकवामनः || ३८५ ||
त्रिवेदनागपञ्चेषुद्विवर्णैरङ्गकल्पनम् || ध्यानपूजाप्रयोगादि सर्वं पूर्ववदाचरेत् || अन्नविद्याभूमिदोयं भक्तानामभयङ्करः || ३८६ ||
अथातः सम्प्रवक्ष्यामि षष्ठन्तु बलिवामनम् || तारो नमो भगवते वदेच्च बलिवामनम् || ३८७ ||
सर्वापत्तिपदं प्रोच्य ङेन्तं विनाशनं वदेत् || ततः श्रीबीजमाभाष्य त्रयोविंशतिवर्णकः || ३८८ ||
वाङ्मुनिर्जगती छन्दो देवता बलिवामनः || पदैः षड्भिः षडङ्गानि शेषं पूर्ववदीरितम् || ३८९ ||
अथातः सम्प्रवक्ष्यामि राममन्त्रं समाहृतम् || आकल्पमेक एवायं जामदग्न्यो महाबलः || दुष्टक्षत्रतमोध्वंसी रेणुकोद्भूतभास्करः || ३९० ||
ब्रह्मक्षत्राय विद्महे क्षत्रियान्ताय धीमहि || तन्नो रामः प्रचोदयात् || ३९१ ||
भरद्वाजो मुनिः प्रोक्तो गायत्रं छन्द ईरितम् || श्रीमान्परशुरामोस्य देवता भक्तवत्सलः || अष्टेषुत्र्यक्षिवेदार्णैर्मनोः प्रोक्तं षडङ्गकम् || ३९२ ||
नेत्रयोः कर्णयोर्नासाद्वये चाधरयुग्मके || स्तनयोर्भुजयोः पार्श्वद्वयेंऽघ्र्योर्विन्यसेत्पदम् || ३९३ ||
आधारे हृदये मूर्ध्नि क्रमात्पादान्प्रविन्यसेत् || के दृशि श्रोत्रनासायां कपोले हनुवक्त्रयोः || ३९४ ||
कण्ठां सबाहुहस्तेषु पार्श्वहृत्पृष्ठकोदरे || नाभिकट्योर्गुदे लिङ्गे ऊर्वोर्वा जानुजंघयोः || ३९५ ||
पादे च विन्यसेद्वर्णांस्ततो ध्यायेत्त्रिधा तनुम् || सात्त्विके श्वेतवर्णं च भस्मोद्धुलितविग्रहम् || ३९६ ||
किरीटिनं कुण्डलिनं वरं स्वक्षवराभयान् || प्. ६२७) करैर्दधानं तरलं विप्रं क्षत्रवधोद्यतम् || पीताम्बरधरं कामरूपं बालानिरीक्षितम् || ३९७ ||
ध्यायेच्च तामसं क्षत्ररुधिराक्तपरश्वधम् || आरक्तनेत्रकर्णस्थब्रह्मसूत्रं यमप्रभम् || ३९८ ||
धनुष्टङ्कारनिर्घोषसंत्रस्तभुवनत्रयम् || चतुर्बाहुं मुसलिनं राजसं कुद्धमेव च || ३९९ ||
वैष्णवे तु यजेत्पीठे देवाग्राच्च चतुर्दले || जमदग्निं च कालं च रेणुकां काममर्चयेत् || ४०० ||
तद्दलेषु षडङ्गानि तद्बाह्येष्टदले यजेत् || दिक्षु वेदान्विदिक्पत्रेषूपवेदांस्ततो यजेत् || ४०१ ||
ततश्चाष्टदले पूज्या विद्बुद्धाश्चावतारकाः || ब्रह्मास्त्रं वैष्णवास्त्रं च रौद्रं वायव्यमेव च || ४०२ ||
आग्नेयं चैव नागास्त्रं मोहनं स्तम्भनं तथा || ऐन्द्रपालिकमस्त्रं च महापाशुपतं तथा || ४०३ ||
पूजयेद्दशपत्रेषु द्वादशारे ततोर्चयेत् || कश्यपं च भरद्वाजं विश्वामित्रं च गौतमम् || ४०४ ||
वशिष्ठं नारदं चात्रिं पुलस्त्यं पुलहं क्रतुम् || याज्ञवल्क्यं भार्गवं च षोडशारे ततो यजेत् || ४०५ ||
संहिताश्च पुराणानि मीमांसां न्यायमेव च || सांख्यं पातञ्जलं शिल्पं वेदाङ्गानि च षट् क्रमात् || ४०६ ||
सर्वाण्यूपपुराणानि चेतिहासपुराणकम् || स्मृतीस्तु भूपुराग्रे च दिगीशानायुधानि च || ४०७ ||
वर्णलक्षं जपेन्मन्त्रं सिताढ्यघृतपायसैः || हुनेद्ब्राह्मणभोज्यान्तं कृत्वा सिद्धो भवेन्मनुः || ४०८ ||
ब्रह्मकर्मरतो नित्यं गायत्रीजपतत्परः || स एव जायते सिद्धो नान्यविप्रः कदाचन || ४०९ ||
गायत्रीप्रथमं पादं पूर्वं कृत्वा जपेन्मनुम् || लक्षं प्राग्वद्धुनेद्रामं सात्त्विकं तत्र चिन्तयेत् || ४१० ||
सन्तानार्थं विवाहार्थं कृष्यर्थं वर्षणाय च || विषयार्थं धनार्थं च वाक्सिद्ध्यर्थमुदाहृतम् || ४११ ||
सहस्रमयुतं लक्षं प्रयुतं कोटिमेव च || साध्यकृच्छ्रेतिकृच्छ्रे च दैवसाध्ये त्वसाध्यके || ४१२ ||
कार्या जपस्य संख्येयं क्रमाज्ज्ञेया दशांशतः || होमः सर्वत्र विज्ञेयः प्रत्यवायनिराकृतौ || ४१३ ||
तावदेव जपेद्विद्वान्गायत्रीजपतत्परः || मनागपि न कर्तव्यो ब्रह्मद्वेषः कदाचन || ४१४ ||
गायत्रीमध्यचरणयुक्तं मन्त्रं जपेद्धुनेत् || तिलौदनाज्यं रामं तु राजसं तत्र भावयेत् || ४१५ ||
देशग्रामपुरादीनां बालानां च गवामपि || रक्षणं स्यान्महामारीशीतलाशान्तये तथा || ४१६ ||
गायत्र्यन्तिमपादेन युक्तं मन्त्रं जपेद्ध्रुवम् || प्. ६२८) होमः सर्षपतैलाक्तैस्तामसं चिन्तयेद्विभुम् || ४१७ ||
सर्वशत्रुविनाशः स्याद्रोगादीनां तथा क्षयः || एवं कुर्याद्यमुद्दिश्य तस्य नाशो भवेद्ध्रुवम् || ४१८ ||
वैशाखशुक्लपक्षे च तृतीयायां तु वार्षिकी || भवेदस्य महापूजा तां भक्तः प्रयतश्चरेत् || ४१९ ||
रामभक्तं द्विजं नत्वा संग्रामे याति चेन्नृपः || अवश्यं स रिपूञ्जित्वा कुशली स्वगृहं व्रजेत् || ४२० ||
रामभक्तेन यो दत्तः पुस्तके लिखितो मनुः || स तु सिद्धिप्रदो ज्ञेयो नास्ति तस्य पुरस्क्रिया || ४२१ ||
यत्किञ्चित्पुस्तकारूढं रामभक्तमुखोद्गतम् || यन्त्रं मन्त्रोथ वा विद्या तत्सिद्धं नास्ति संशयः || ४२२ ||
ज्ञात्वा षोडशसंस्कारैः संस्कृतं चार्यवंशजम् || कुलद्वयविशुद्धं तु राममन्त्राधिकारिणम् || ४२३ ||
फिरङ्गा यवनाश्चीनाः खुरासानाश्च म्लेच्छजाः || रामभक्तं प्रदृष्ट्वैव त्रस्यन्ति प्रणमन्ति च || ४२४ ||
कृत्वा तु वालुकामूर्तिं श्रीरामस्यार्चयेद्वने || शान्तं शत्रुमदं कुर्यात्कुसुमानि च वै हुनेत् || ४२५ ||
राज्ञोमुकस्य कटकं जुहोमीति तथा वदेत् || सप्ताहार्वाक्तस्य सैन्यं नष्टं तावन्मितं भवेत् || ४२६ ||
महेन्द्राग्रे च काश्यां च यो जपेन्निर्जने वने || वर्षादर्वाक् तस्य रामः प्रत्यक्षो जायते द्ध्रुवम् || ४२७ ||
सोमवारे काशिकायां गयायां पितृपक्षके || सूर्पारके पौर्णमास्यां प्रयागे तु मृगे रवौ || ४२८ ||
गोदावर्ययां सिंहगेर्के गङ्गाद्वारे घटस्थिते || सूर्ययग्रहे कुरुक्षेत्रे रामो गच्छति सर्वदा || ४२९ ||
आद्यो रामो जामदग्न्यः क्षत्रियाणां कुलान्तकः || परश्वधधरो दाता मातृहा मातृजीवकः || ४३० ||
समुद्रतीरनिलयो महेशपठिताखिलः || गोत्राणकृद्गोप्रदाता विप्रक्षत्रियकर्मकृत् || ४३१ ||
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः || नापमृत्युर्न दारिद्र्यं नच वंशक्षयो भवेत् || ४३२ ||
श्रीमत्परशुरामस्य गायत्र्येषा महाद्भुता || राज्यकृत्कलिभूपानां सर्वतन्त्रेषु गोपिता || ४३३ ||
अथातः सम्प्रवक्ष्यामि भुक्तिमुक्तिप्रदायकान् || राममन्त्रान्स भगवन्प्रतिमन्वन्तरे ह्यभूत || ४३४ ||
युगानां परिवर्तेन कल्पे रामावतारकः || ततो ह्यस्य प्रवक्ष्यामि मन्त्रराजं षडक्षरम् || ४३५ ||
रामाय नम इत्येष रां-क्लीं-ह्रीं-ऐं-प्रपूर्वकः || प्. ६२९)श्रींताराद्यश्च षड्वर्णो मन्त्रोयं षड्विधो मतः || ४३६ ||
ब्रह्मा सम्मोहनः शक्तिर्दक्षिणामूर्तिरेव च || अगस्त्यः श्रीशिवः प्रोक्ता मुनयोनुक्रमादिमे || ४३७ ||
छन्दो गायत्रसंज्ञंच श्रीरामो देवता मतः || पञ्चाशन्मातृकामन्त्रवर्णप्रत्येकपूर्वकः || ४३८ ||
लक्ष्म्यादिर्वाग्भवादिश्च मन्मथादिर्ध्रुवादिकः || रामचन्द्रमनोर्भेदाः शतद्वयमिता अमी|| ४३९ ||
रामभद्रेतिशब्देन चैवं भेदाः शतद्वयम् || रमाबीजादिकानां तु विश्वामित्रो मुनिर्मतः || ४४० ||
वाग्बीजपूर्वकाणां तु दक्षिणामूर्तिरुच्यते || कामबीजादिपूर्वाणां मुनिः सम्मोहनो मतः || ४४१ ||
तारादिपूर्वकाणां तु श्रीशिवः प्रोच्यते मुनिः || श्रीमायामन्मथैकैकबीजाद्यन्तर्गतो यदा || रामभद्रो रामचन्दः षोढा षड्वर्ण उच्यते || ४४२ ||
षोढा नमोन्तः प्राक्प्रोक्तः फट्कारान्तः स एव हि || षोढा स्याद्वह्निजायान्तः स एवं षड्विधो मतः || ४४३ ||
चतुर्विंशतिसंख्याका भेदास्तेन निरूपिताः || ४४४ ||
ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृन्नाभ्योर्गुह्यपादयोः || बीजैः षड्दीर्घसंयुक्तैः षडङ्गविधिरीरितः || ४४५ ||
वीरासनसमारूढं व्याख्यामुद्रोपशोभितम् || वामोरुन्यस्ततद्धस्तं सीतालक्ष्मणसंयुतम् || ४४६ ||
वर्णलक्षं जपेन्मन्त्रं दशांशं मधुरप्लुतैः || बिल्वपत्रैः फलैः पुष्पैस्तिलैर्वा पङ्कजैर्हुनेत् || ४४७ ||
पूजयेद्वैष्णवे पीठे मूर्तिं मूलेन कल्पयेत् || श्रीं सीतायै द्विठान्तेन वामपार्श्वगतां यजेत् || ४४८ ||
ततस्त्रिकोणकोशाग्रे पृष्ठतो लक्ष्मणं यजेत् || ४४९ ||
वामपार्श्वत्रिकोणस्थं शार्ङ्गं दक्षिणतः शरान् || ततः षड्दलमध्ये तु षडङ्गानि प्रपूजयेत् || ४५० ||
तद्बाह्येष्टदलं प्रोक्तं पूजयेदिष्टदिक्षु च || ४५१ ||
आत्मानं च निवृत्तिं च ह्यन्तरात्मानमेव च || प्रतिष्ठां परमात्मानं ततो विद्यां प्रपूजयेत् || ४५२ ||
नानात्मानं तथा शान्तिं केशरेषु प्रपूजयेत् || ४५३ ||
दलमध्ये वासुदेवं श्रियं संकर्षणं तथा || शान्तिं प्रद्युम्नमग्रेनिरुद्धं च रतिमर्चयेत् || ४५४ ||
हनूमन्तं च सुग्रीवं भरतं च बिभीषणम् || ४५५ ||
निषादाङ्गदशत्रुघ्नाञ्जाम्बवन्तं दलाग्रतः || आञ्जनेयं तदग्रे च वाचयन्तं कृताञ्जलिम् || ४५६ ||
प्. ६३०)धृतिं जयन्तं विजयं सुराष्ट्रं राष्ट्रवर्द्धनम् || अकोपं धर्मपालाख्यं मन्त्रिणश्च क्रमाद्यजेत् || ४५७ ||
वशिष्ठं वामदेवं च जाबालिं गौतमं तथा || भरद्वाजं काश्यपं च वाल्मीकिं कौशिकं तथा || ४५८ ||
नारदं सनकं चैव सनातनमतः परम् || सनत्कुमारं च यजेत्तद्बाह्ये द्वादशारके || ४५९ ||
नीलं नलं सुषेणं च मैन्दं च शरभं ततः || द्विविदं च गवाक्षं च सकिरीटं सकुण्डलम् || ४६० ||
श्रीवत्सं कौस्तुभं शंखं गदाचक्रे च पद्मकम् || अर्चयेत्षोडशदले पूर्वतस्तु कृताञ्जलीन् || ४६१ ||
ध्रुवो धरश्च सोमश्च आपश्चैवानिलोनलः || प्रत्यूषश्च प्रभातश्च वसवोष्टौ प्रकीर्त्तिताः || ४६२ ||
वीरभद्रश्च शण्डश्च गिरीशश्च महायशाः || अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः || ४६३ ||
भुवनाधीश्वरश्चैव कपाली च दिशाम्पतिः || स्थाणुर्भगश्च भगवान्रुद्रा एकादश स्मृताः || ४६४ ||
विवस्वान् सूर्यवेदाङ्गौ भानुरिन्द्रो रविस्तथा || गभस्तिस्तु यमः सर्वसाक्षी चापि दिवाकरः || ४६५ ||
चित्रो विष्णुरिति प्रोक्ता आदित्या द्वादश क्रमात् || ४६६ ||
धातारमन्ते प्रयजेद्द्वात्रिंशत्पत्रके ष्विमान् || ४६७ ||
इन्द्रादीन्भूगृहे बाह्ये तदस्त्राणि च संयजेत् || ४६८ ||
एवं सिद्धमनुर्मन्त्री प्रयोगान्कर्त्तुमर्हति || ४६९ ||
धनाय कमलैर्जातीपुष्पैश्चन्दनलोलितैः || भवेद्धनाधिपतिवन्नीलोत्पलहुतेन च || ४७० ||
वशयेद्विश्वमखिलं बिल्वपुष्पैर्घनात्यये || ४७१ ||
हुता दीर्घायुषे दूर्वा रक्ताब्जैर्धनवृद्धये || ४७२ ||
आधाय कुण्डे विधिवदग्निं पूर्वोक्तवर्त्मना || ततो देवं समवाह्य पूजयेदुपचारकैः || ४७३ ||
पञ्चभिर्वा षोडशभिः पूजोपकरणैःपृथक् पलाशाश्वत्थखदिरोदुम्बराम्रवटेन्धनैः || अग्निं हुत्वालये सम्यग्यज्ञियैरथवन्धनैः || ४७४ ||
तत्र सम्पूजयेत्सम्यग्राघवं प्रोक्तवर्त्मना || ४७५ ||
लक्षन्तदर्धमथ वा जापयित्वा दशांशतः || तिलैर्हुत्वा यद्यदिष्टं तत्तदेवाप्नुयान्नरः || ४७६ ||
बिल्वप्रसूनैरैश्वर्ययमर्चितेग्नौ हुते भवेत् || ४७७ ||
पलाशकुसुमैर्हुत्वा मन्त्री वै वेदविद्भवेत् || ४७८ ||
दूर्वाभिश्च गुडूचीभिः प्रत्येकमपि वा हुतैः || निरामयश्च दीर्घायुर्भवत्येव न संशयः || ४७९ ||
ध्यात्वाथ मन्मथं रामं सीतामपि रतिं स्मरेत् ||
प्. ६३१)कवचस्य प्रयोगे यो जपहोमादिकर्मसु || ४८० ||
रामं च बोधदातारं स्मरन्नाराध्य भक्तितः || उपैति सदृशीं कन्यां लाजहोमेन साधकः || ४८१ ||
रामं विधिवदाराध्य ज्वलितेग्नौ प्रयोगवित् || मधुरत्रययुक्तैर्हि पायसैर्जुहुयात्सुधीः || सर्वाधिपत्यं वै द्रव्यं भवेदेव न संशयः || ४८२ ||
तिलैश्च तण्डुलैराज्यैर्हुत्वा लोकाभिपूजितम् || आरात्संवत्सरं यावत्षट्सहस्रं दिनेदिने || ४८३ ||
जपेच्च जुहुयादग्नौ तद्दशांशं घृतान्धसा || अयमेवान्नदो लोके सर्वेषामपि जायते || ४८४ ||
बिल्वप्रसूनैः कुमुदैस्तथा बिल्वदलैरपि || हुत्वा तु लभते लक्ष्मीमचिरादत्र साधकः || ४८५ ||
आराध्य रामं साङ्गं च विधिवद्वत्सरात्सुधीः || उदयाद्यावदस्तं स्याज्जपेन्मन्त्रमनन्यधीः || फलम्भवति तस्याशु देवानामपि दुर्लभम् || वैराज्येनाधिपत्येन मर्त्यानामुत्तमो भवेत् || ४८६ ||
पूर्णिमायां निशीथिन्यामुदयास्तमनं विधोः || संवत्सरं प्रकुर्वीत जपहोमादिकं बुधः || ४८७ ||
रात्रौ यजेद्दिवा होमं कुर्यादेवं परेहनि || ब्राह्मणान्भोजयित्वा तु व्रतमेतत्समापयेत् || ४८८ ||
सोमसूर्ययादिकं यस्तु व्रतं कुर्वीत मानवः || भुक्तिम्मुक्तिं च लभते त्विहलोके परत्र च || ४८९ ||
रक्तपद्मैश्च बन्धूकैस्तथा रक्तोत्पलैरपि || अभीष्टलोकवश्यार्थं जुहुयादर्चितेनले || ४९० ||
बाह्यै श्वर्ययाय भोगार्थं जपेल्लक्षमनन्यधीः || पत्रैर्बिल्वप्रसूनैर्वा दशांशं जुहुयात्सुधीः || ४९१ ||
समुद्रतीरे गोष्ठे वा लक्षजापी पयोव्रतः || पायसेनाज्ययुक्तेन हुत्वा विद्यानिधिर्भवेत् || ४९२ ||
मन्त्रवित्स्वाधिपत्यार्थं शाकाहारो जलान्तरे || जपेल्लक्षं च जुहुयाद्बिल्वपत्रैर्दशांशतः || तदेव पुनरायाति स्वाधिपत्यं न संशयः || ४९३ ||
उपोष्य गङ्गामध्यस्थो राममभ्यर्च्य संजपेत् || लक्षञ्जपित्वा जुहुयात्कमलान्यथवा तिलान् || जातीपुष्पाणि मधुरत्रितयाक्तानि संहुनेत् || ४९४ ||
मन्दभाग्यः स्थिरम्भाग्यमथ रामार्चनाल्लभेत् || जपित्वा जुहुयादिन्दुं राज्यश्रियमवाप्नुयात् || वैशाखे राघवं कुर्ययात्पश्यन्ननिमिषे क्षणः || ४९५ ||
निराहारो जपेल्लक्षं मौनी पञ्चाग्निमध्यगः || दशांशं कमलैर्हुत्वा स चारोगी भवेद् ध्रुवम् || ४९६ ||
माघमासे जले स्थित्त्वा कन्दमूलफलाशनः || जपेल्लक्षं च जुहुयात्पायसेनार्चितेनले || ४९७ ||
प्. ६३२)दशांशं पुत्रपौत्राद्यैरुपेतः प्राप्नुयाच्छ्रियम् || श्रीरामसदृशः पुत्रपौत्राढ्योपि प्रजायते || ४९८ ||
बलिष्ठैः शत्रुभिर्मन्त्री परिभूतार्थमानसः || तदा हनहनेत्युक्त्वा तन्नामान्तरितं जपेत् || ४९९ ||
ध्यात्वा रघुपतिं क्रुद्धं कालानलमिवापरम् || आकर्णसशराकृष्टकोदण्डभुजमण्डितम् || ५०० ||
नाशयन्तं रिपून्सर्वांस्तीव्रमार्गणवृष्टिभिः || रक्तनेत्रम्महावीरवर्ययमैन्द्रे रथे स्थितम् || ५०१ ||
लक्ष्मणादिमहावीरैर्वृतं हनुमदादिभिः || कोटिकोटिमहावीरैः करोद्धृततरूत्तमैः || ५०२ ||
वज्राङ्गैरपि हुंकारभीकारसुमहारवैः || नदद्भिरभिधावद्भिः समरेरिगणं प्रति || ५०३ ||
एवं ध्यात्वा निराहारो मारणाय रिपोः पुनः || जुहुयाच्छाल्मलीपुष्पैर्दशांशं मन्त्रसाधकः || अत्यन्तसुसमृद्धोपि न शत्रुरवशिष्यते || ५०४ ||
वैरिणं रावणं ध्यात्वा तथात्मानं रघूद्वहम् || विधाय पूर्ववत्सर्वमनायासेन मारयेत् || ५०५ ||
सीताहरणशोकाच्च क्रुद्धीभूतमचेतसम् || जपेद्रघुपतिं ध्यायन्निराहारो जले वसन् || दशांशं च तिलैर्हुत्वा स्तम्भयेच्छत्रुसंहतिम् || ५०६ ||
निधाय वायुबीजेन यन्नम त्रासयेति च || जपेन्मन्त्रं निराहारो जुहुयाच्च तिलैरपि || ५०७ ||
रामं ध्यात्वा विषण्णन्तं सीतान्वेषणकातरम् || रामभद्रं चिरं साक्षाद्रावणं चापि वैरिणम् || ५०८ ||
समुद्रतीरे लङ्कायां हेमप्राकारसन्निधौ || सुग्रीवादिभिरन्यैश्च दैवतैर्नारदादिभिः || ५०९ ||
उपास्यमानं सदसि ध्यात्वा देवं सलक्ष्मणम् || बिभीषणायागताय ददतं शरणार्थिने || ५१० ||
वरदानं जपेल्लक्षं जुहुयात्पङ्कजैरपि || स्वस्थानमानयेच्छीघ्रं राजानमथवा प्रभुम् || ५११ ||
निमील्य चक्षुः स्नेहात्तु चोपलभ्य पुनःपुनः || प्रमोदयन्तं सहसा त्वचिरादानयेत्प्रियम् || ५१२ ||
रामं ध्यात्वा जपेल्लक्षं हुत्वा रक्ताम्बुजैरपि || संमोहयति वेगेन राजानमपि वा प्रभुम् || ५१३ ||
तारादिर्मुक्तये मन्त्रो रमादिर्भुक्तये भवेत् || वाक्सिद्धये च वागादिः सर्ववश्याय मन्मथः || ताराद्यैः पुटितान्मन्त्रान्सर्वार्थान्विनियोजयेत् || ५१४ ||
अथातः सम्प्रवक्ष्यामि स्वारोचिषसमुद्भवम् || रामस्यैकाक्षरं मन्त्रं कीर्त्यते स तु रामिति || ५१५ ||
ब्रह्मा मुनिः स्याद्गायत्रं छन्दो रामोस्य देवता || मूर्त्तिपञ्जरनामानं तत्त्वन्यासं च कारयेत् || ५१६ ||
षड्दीर्घसुसमायुक्तबीजेनैव षडङ्गकम् || प्. ६३३)ध्यानपूजादिकं प्राग्वद्रामलक्षं जपेन्मनुम् || ५१७ ||
अथातः सम्प्रवक्ष्यामि तृतीयं तु मनोर्विधिम् || राम इत्येष कथितो द्व्यक्षरो भुक्तिमुक्तिदः || ५१८ ||
एकाक्षरोक्तमृष्यादि स्यादाद्यन्तं षडङ्गकम् || ध्यानपूजाप्रयोगादि सर्वं ज्ञेयं षडर्णवत् || ५१९ ||
श्रीवेदशतविंशानामयुतस्य लिखेत्क्रमात् || एकोपचयकोष्ठेषु मन्त्रमेनं प्रपूजयेत् || उपचारैः षोडशभी रामं ध्यात्वा यथाविधि || ५२० ||
कृष्णपक्षतिमारभ्य पौर्णमास्यां समापयेत् || जायन्ते तेन कार्ययाणि ह्यनुश्लोकदलैः प्रिये || ५२१ ||
गजाश्व वृषबालानां क्षुद्ररोगो विनश्यति || षड्कर्माणि विनश्यन्ति कृत्याश्चारिप्रणोदिताः || ५२२ ||
बन्धमोक्षो रोगनाशः सन्तानोद्यमलब्धयः || गतराज्यधनादीनां प्राप्तिः ख्यातिर्धनागमः || विधानं वा महासिद्धिर्भवेद्वा चक्रवर्त्तिता || ५२३ ||
अथातः सम्प्रवक्ष्यामि चतुर्थन्तु मनोर्विधिम् || तारमायारमानङ्गवाक्स्वबीजैश्च षड्विधः || द्व्यक्षरो मन्त्रराजस्तु त्र्यक्षरः परिजायते || ५२४ ||
न्यासपूजाप्रयोगादि सर्वं पूर्ववदाचरेत् || ५२५ ||
अथातः सम्प्रवक्ष्यामि षष्ठमन्वन्तरोद्भवम् || रामाय नम इत्येष मन्त्रः पञ्चाक्षरो मतः || ५२६ ||
विश्वामित्रो मुनिः प्रोक्तः पंक्तिश्छन्दोस्य देवता || रामभद्रो बीजशक्ती प्रथमार्णस्ततोन्तिमः || ५२७ ||
भ्रूमध्ये हृदि नाभ्यंघ्र्योः पादयोर्विन्यसेन्मनुम् || षडङ्गं पूर्ववत्कार्ययं मन्त्रार्णैर्मनुनास्त्रकम् || ५२८ ||
मध्ये वने कल्पतरोर्मूले वै पुष्पकासने || लक्ष्मणेन प्रगुणितं चाक्ष्णः कोणेन सायकम् || अवेक्षमाणं जानक्या कृतव्यजनमीश्वरम् || ५२९ ||
जटाभारलसच्छीर्षं श्यामं मुनिगणावृतम् || लक्ष्मणेन धृतच्छत्रमथ वा पुष्पकोपरि || ५३० ||
दशास्यमथनं शान्तं ससुग्रीव बिभीषणम् || विजयार्थी विशेषेण वर्णलक्षं जपेन्मनुम् || प्राग्वद्धोमस्तर्पणादि प्रयोंगाद्यं च साधयेत् || ५३१ ||
अथातः सम्प्रवक्ष्यामि सप्तमे जातमन्त्रकम् || रामचन्द्रो रामभद्रो ङेन्तो नतियुतो द्विधा || ५३२ ||
सप्ताक्षरो निगदितो मन्त्रः सप्तर्षिसेवितः || ध्यानपूजाप्रयोगादि निखिलन्तु षडर्णवत् || ५३३ ||
अथातः सम्प्रवक्ष्यामि मन्त्रं सावर्णिकोद्भवम् || तारादिषड्भिः संयुक्तो द्विधा सप्ताक्षरो मतः || ५३४ ||
अष्टाक्षरो द्वादशधा कीर्त्तितो वाञ्छितार्थदः || प्. ६३४)सर्वं षडर्णवज्ज्ञेयं ध्यानपूजाजपादिकम् || ५३५ ||
अथातः सम्प्रवक्ष्यामि मन्त्रान्नवमसम्भवान् || तारो रामश्चतुर्थ्यन्तः क्रोधान्तो वह्निवल्लभः || ५३६ ||
अष्टार्णोयं परो मन्त्रो मुन्यादिः स्यात्षडर्णवत् || नाशनः सर्वदोषाणां संग्रामे विजयप्रदः || ५३७ ||
अथातः सम्प्रवक्ष्यामि मन्त्रान्दशमसम्भवान् || क्रूंह्रीं नमश्च रामाय ह्रीमित्यष्टाक्षरः परः || ५३८ ||
ऋषिः सदाशिवः प्रोक्तो गायत्रं छन्द उच्यते || रामचन्द्रोस्य मन्त्रस्य देवता परिकीर्त्तितः || ५३९ ||
नमो रामाय ह्रींहृच्च नमो रामाय ह्रीं शिरः || दीर्घया माययाङ्गानि तारपञ्चार्णयुक्तया || ५४० ||
रामं त्रिनेत्रं सोमार्धधारिणं शूलिनं वरम् || भस्मोद्धूलितसर्वाङ्गं कपर्दिनमुपास्महे || ५४१ ||
रामाभिरामां सौन्दर्ययसीमां सोमावतंसिनीम् || पाशांकुशधनुर्बाणधरां ध्यायेत्त्रिलोचनाम् || रामशक्तिन्तु सीताख्यां वर्णलक्षं जपेन्मनुम् || ५४२ ||
होमपूजादिकं सर्वं षडक्षरवदीरितम् || विशेषतो भोगदोसौ संग्रामे विजयप्रदः || ५४३ ||
अथैकादश सम्भूतान्राममन्त्रान्वदाम्यहम् || सप्तार्णो यो मनुः प्रोक्तः षड्भिस्तारादिकैः पृथक् || ५४४ ||
सम्पुटिता द्वादशधा नवार्णा मनवः स्मृताः || ध्यानपूजादिकं सर्वं तेषां सप्तार्णवच्चरेत् || ५४५ ||
अथातः सम्प्रवक्ष्यामि द्वादशान्तरसम्भवम् || जानकीवल्लभो ङेन्तः स्वाहान्तश्च हुमादिकः || ५४६ ||
दशाक्षरोयं मन्त्रः स्याद्वशिष्ठोस्य मुनिः स्वराट् || छन्दश्च देवता रामः सीतापाणिपरिग्रहः || ५४७ ||
आदिबीजन्द्विषः शक्तिरङ्गं षड्दीर्घके मतम् || शिरोललाटभ्रूमध्यनेत्रकण्ठस्तनेष्वपि || ५४८ ||
नाभ्यूरुजानुपादेषु दशार्णान्विन्यसेन्मनोः || अयोध्यानगरे चैव विचित्रे स्वर्णमण्डपे || ५४९ ||
मन्दारपुष्पैराबद्धविताने तोरणाञ्चिते || सिंहासने समारूढं पुष्पकोपरि राघवम् || ५५० ||
रक्षोभिर्हरिभिर्देवैर्दिव्ययानगतैः शुभैः || संस्तूयमानं मुनिभिः प्रहृष्टैरुपसेवितम् || ५५१ ||
सीतालंकृतवामाङ्गं लक्ष्मणेनोपशोभितम् || श्यामं प्रसन्नवदनं सर्वाभरणभूषितम् || ५५२ ||
ध्यायन्नेवं जपेन्मन्त्रं वर्णलक्षमनन्यधीः || जपपूजाप्रयोगादि सर्वमस्य षडर्णवत् || ५५३ ||
अथ त्रयोदशे जातं राममन्त्रं वदाम्यहम् || रामो ङेन्तो धनुष्पाणिस्तथा स्याद्वह्निसुन्दरी || ५५४ ||
प्. ६३५)दशाक्षरो मुनिर्ब्रह्मा विराट् छन्दोस्य देवता || राक्षसान्तकरो रामो रां बीजं परिकीर्त्तितम् || ५५५ ||
स्वाहा शक्तिः स्वबीजेन षडङ्गानि समाचरेत् || वर्णन्यासं तथा ध्यानं पुरश्चर्ययाविधिं तथा || ५५६ ||
दशाक्षरोक्तवत्कुर्ययाच्चापबाणधरं स्मरेत् || विशेषाज्जयदश्चायं सर्ववाञ्छितदायकः || ५५७ ||
अथातः सम्प्रवक्ष्यामि चान्यमन्वन्तरोद्भवम् || ओं हृद्भगवते रामचन्द्रायेति मनुर्मतः || ५५८ ||
अर्कार्णो द्विविधोप्यस्य मुनिर्ध्यानजपादिकम् || दशाक्षरवदेव स्यादयं कल्याणकारकः || ५५९ ||
अथ वक्ष्ये वायुजातोपासितं मन्त्रनायकम् || श्रीराम जयरामेति जयराम जयेति च || ५६० ||
त्रयोदशाक्षरो मन्त्रः सर्वमस्य दशार्णवत् || पदत्रयैर्द्विरावृत्त्या चाङ्गन्यासं समाचरेत् || ५६१ ||
अथातः सम्प्रवक्ष्यामि भरतोपासितं मनुम् || सतारं हृद्भगवते रामो ङेन्तो महा ततः || पुरुषाय पदं पश्चाद्विठान्तोष्टादशाक्षरः || ५६२ ||
विश्वामित्रो मुनिश्छन्दो गायत्रं देवता मता || दशास्यदर्प्पदलनो रामभद्रः प्रकीर्त्तितः || ५६३ ||
तारो बीजं नमः शक्ती रामचन्द्रः षडङ्गकम् || मूलमन्त्रैः कोशलेन्द्रः सत्यसन्धस्ततः परम् || ५६४ ||
रावणान्तकनामा च सर्वलोकहितस्तथा || शश्वत्प्रसन्नवदनश्चतुर्थीं नमसावदेत् || ५६५ ||
नन्दिग्रामस्योपवने भरतायतनेर्चिते || रम्ये सुगन्धपुष्पाद्यैर्वृक्षवृन्दैश्च मण्डिते || ५६६ ||
निष्कोणभेरीपटहशङ्खतूर्ययादिनिःस्वने || पवित्ररूपे परितो जयमङ्गलभाषिते || ५६७ ||
पाटीरघुसृणोशीरकर्पूरागुरुगन्धिते || नानाकुसुमसौरभ्यवाहिगन्धवहान्विते || देवगन्धर्वनारीभिर्गायत्र्यादिविभूषिते || ५६८ ||
सिंहासनसमारूढं पुष्पकोपरि राघवम् || सौमित्रिसीतासहितं जटामुकुटशोभितम् || ५६९ ||
चापबाणधरं श्यामं ससुग्रीवबिभीषणम् || हत्वा रावणमायान्तं कृतत्रैलोक्यरक्षणम् || ५७० ||
रामभद्रं हृदि ध्यायन्दशलक्षं जपेन्मनुम् || होमपूजाप्रयोगादि सर्वं ज्ञेयं षडर्णवत् || ५७१ ||
अथ वक्ष्ये बिभीषणोपासितं मोक्षदायकम् || राज्यश्रियाः प्रदातारं भक्तानामभयप्रदम् || ५७२ ||
रामभद्र महेश्वास रघुवीर नृपोत्तम || प्. ६३६)दशास्यान्तक रां रक्ष देहि दापय मे श्रियम् || ५७३ ||
द्वात्रिंशदक्षरो मन्त्रो विश्वामित्रो मुनिर्मतः || छन्दोऽनुष्टुब्देवता तु रामभद्रः प्रकीर्त्तितः || ५७४ ||
चतुःसागरवेदाब्धिवस्विभैरङ्गकल्पनम् || मस्तके च ललाटे च नेत्रयोः कर्णयोस्तथा || ५७५ ||
गण्डयोश्च नसोरास्ये ततश्च भुजमूलयोः || कूर्परद्वितये वापि मणिबन्धद्वये तथा || ५७६ ||
कण्ठे च स्तनयोर्हृत्के नाभौ च जठरे कटौ || मेढ्रे पायावूरुमूलद्वये जान्वोश्च गुल्फयोः || ५७७ ||
मन्त्रवर्णान्न्यसेत्तेन जपादावधिकारवान् || पूर्वोक्तध्यानमत्रापि लक्षं च प्रयतो जपेत् || पीतं वा चिन्तयेद्रामं धनार्थं यो मनुं जपेत् || ५७८ ||
अथातः सम्प्रवक्ष्यामि लक्ष्मणोपासितं मनुम् || तारो नमो भगवते डेन्तः स्याद्रघुनन्दनः || ५७९ ||
रक्षोघ्नविशदायेति मधुरेति पदं ततः || प्रसन्नवदनायेति ततश्चामिततेजसे || ५८० ||
बलायेति च रामाय विष्णवे नम इत्ययम् || सप्तचत्वारिंशदर्णो मालामन्त्र उदीरितः || ५८१ ||
मुनिः पितामहश्छन्दः स्यादनुष्टुप् च देवता || राज्याभिषिक्तो रामश्चों बीजं शक्तिर्नमस्त्विति || ५८२ ||
सप्तषट्सप्तदशषट्रुद्रसङ्ख्यैः षडङ्गकम् || शिरोमुखभ्रूमध्येषु नेत्रयोः कर्णयोर्नसोः || ५८३ ||
गण्डयोरोष्ठयो र्दन्तपंक्त्योरास्ये च कक्षयोः || तथा कूर्परयोरस्य तथैव मणिबन्धयोः || ५८४ ||
अंगुलीमूलयोश्चैवाथांगुलीनां तथाग्रयोः || कण्ठे हृदि स्तनद्वन्द्वे पार्श्वयोः पृष्ठके करे || ५८५ ||
जठरे च तथा नाभौ स्वाधिष्ठाने ध्वजे गुदे || ऊर्वोर्जान्वोस्तथांघ्र्योश्च सर्वाङ्गेपि न्यसेत्क्रमात् || ५८६ ||
ध्यानं दशाक्षरप्रोक्तं लक्षमेकं जपेन्मनुम् || बिल्वप्रसूनैः पत्रैर्वा तिलैस्त्रिमधुना युतैः || ५८७ ||
मधुरत्रययुक्तेन पायसेनाथ वाम्बुजैः || होमं दशांशतः कुर्यात्तथा सर्वत्र तर्पणम् || मार्जनं भोजयेद्विप्रान्प्रयोगादि च पूर्ववत् || ५८८ ||
अथातः सम्प्रवक्ष्यामि शत्रुघ्नोपासितां पराम् || जयदां रामगायत्रीं जपितां सूर्यवंशजैः || ५८९ ||
दाशरथाय विद्मेह तथा सीतेति वल्लभा || य धीमहीति तन्नो रा तदग्रे मः प्रचोदयात् || ५९० ||
एषा स्याद्रामगायत्री भक्तानां भुक्तिमुक्तिदा || जन्मप्रभृति यत्पापं दशभिर्याति संक्षयम् || ५९१ ||
प्. ६३७)पुरा कृतं शतेनैव सहस्रेण जपेन वा || चतुर्लक्षं जपेद्यस्तु मोक्षभाक् स न संशयः || ५९२ ||
यच्च यावच्च पूजादि सर्वं पूर्ववदाचरेत् || तारादिरेषा गायत्री मुक्तिमेव प्रयच्छति || ५९३ ||
मायादिरपि वै द्रव्यं रमादिश्च श्रियं पराम् || मन्मथेनापि संयुक्ता संमोहयति मेदिनीम् || ५९४ ||
अथातः सम्प्रवक्ष्यामि श्रीसीतोपासितं मनुम् || श्रीरामाय हुंफट् च स्वाहान्तोयं नवाक्षरः || ५९५ ||
अगस्त्योस्य मुनिः प्रोक्तः पंक्तिश्छन्द उदाहृतम् || श्रीमद्दाशरथी रामो देवता परिकीर्त्तितः || ५९६ ||
स्वाहा शक्तिश्च रां बीजं बीजेनैव षडङ्गकम् || सबिन्दुभिर्यकाराद्यैः पञ्चाङ्गन्यास ईरितः || ५९७ ||
नीलोत्पलदलश्यामं जटामुकुटमण्डितम् || पीताम्बरधरं देवं चापबाणविभूषितम् || ५९८ ||
दक्षिणे लक्ष्मणं ध्यायेत्कनकाभं किरीटिनम् || वामभागे जगद्योनिं प्रकृतिं परमेश्वरीम् || ५९९ ||
सीतां चम्पकगौराङ्गी श्वेतवस्त्रविभूषिताम् || सर्वाभरणसंयुक्तां द्विभुजां रत्नकुण्डलाम् || धनुर्बाणकरं देवं सीतां पद्मकरां स्मरेत् || ६०० ||
यद्वा रामं चतुर्बाहुं शंखचक्रासिशार्ङ्गिणम् || सीतालक्ष्मणसंयुक्तं ध्यायेत्कल्पतरोरधः || ६०१ ||
ध्यात्वैवं हृदये राममन्तरा वा बहिर्यजेत् || षट्कोणमध्ये रामं च कोणेष्वङ्गानि चार्चयेत् || ६०२ ||
तद्बाह्येष्टदले पूर्वदिगादौ भरतं यजेत् || हनूमन्तं लक्ष्मणं च जाम्बवन्तं क्रमेण च || ६०३ ||
सुग्रीवमर्चयेत्पश्चात्पूजयेच्च विभीषणम् || सीतां च सुग्रीवाग्रे तु दिक्पालान्हेतिभिः सह || ६०४ ||
जपेद्द्वादशलक्षाणि होमश्चाशोकपुष्पकैः || तर्पणादि ततः कृत्वा प्रयोगार्हो भवेन्मनुः || ६०५ ||
रक्तापामार्गपत्रैश्च मधुरत्रयसंयुतैः || वा कंजपत्रैर्जुहुयाद्धोमोयं लोकवश्यकृत् || ६०६ ||
जप पुष्पहुतं भस्म तिलकं लोकवश्यकृत् || मल्लिकाभिर्जगद्वश्यं भवत्येव न संशयः ||६०७ ||
लक्षत्रयं जपेन्मन्त्री सर्वज्ञानमवाप्नुयात् || अश्रुतान्यपि शास्त्राणि षड्भिर्लक्षैस्तु विन्दति || नवभिर्देवकन्याभिर्देववत्स प्रमोदते || ६०८ ||
चन्द्र सूर्योपरागे तु मोक्षौषद्ध्यभिमन्त्रितम् || कपिलाज्यं पिबेद्यस्तु दूर्वारसविमिश्रितम् || ६०९ ||
अद्याज्ज्योतिष्मतीतैलमङ्कोलरसमिश्रितम् || शुद्धब्राह्मीरसं वापि स सर्वज्ञो भवेद्द्रुतम् || ६१० ||
सन्ध्यात्रये प्रतिदिनं सहस्रत्रितयं जपेत् ||
प्. ६३८)मासेन महदैश्वर्यं जायते नात्र संशयः || ६११ ||
श्रीकामो जुहुयात्पद्मैरयुतं त्रिमधुप्लुतैः || धनवाञ्जायते मन्त्री द्वितीय इव यक्षराट् || ६१२ ||
बिल्वपत्रैश्च जुहुयादथवा तद्दलैर्हुनेत् || लक्षमेकं विधिस्थाने निधिलाभो भवेद्ध्रुवम् || ६१३ ||
अथातः सम्प्रवक्ष्यामि मयैवोपासितं सुराः || ज्ञानप्रदं महामन्त्रं सनकाद्यैरुपासितम् || ६१४ ||
ओं नमो ब्रह्मदेवाय रामायाकुण्ठमेधसे || उत्तमश्लोकवर्ययाय न्यस्तदण्डार्चितांघ्रये || ६१५ ||
शुकदेवो मुनिश्चास्य छन्दोनुष्टुबुदाहृतम् || श्रीरामो देवता बीजं रां वर्ययः शक्तिरुच्यते || ६१६ ||
चतुष्पादैः समस्तेन पञ्चाङ्गविधिरीरितः || वाग्वद्ध्यानादिकं लक्षं पुरश्चर्या प्रकीर्त्तिता || ६१७ ||
आज्यपायसहोमं च ब्राह्मणार्चां समाचरेत् || प्रयोगाः पूर्वमन्त्रोक्ता मोक्षार्थी साधयेदमुम् || ६१८ ||
अथातः सम्प्रवक्ष्यामि शक्रेणोपासितं मनुम् || येन कारागृहान्मुक्तो रावणस्य सुरेश्वरः || ६१९ ||
तारो नमो भगवते रामभद्राय संवदेत् || बन्दीविमुक्तशृंखले स्वाहा द्वाविंशदक्षरः || ६२० ||
विभीषणो मुनिः प्रोक्तो जगती छन्द ईरितम् || स्वाहा शक्तिर्ध्रुवो बीजं रामभद्रोस्य देवता || पदैरस्य षडङ्गानि जपेल्लक्षमितं सदा || ६२१ ||
प्राग्वद्धोमादिकं सर्वं यदर्थं जप्यतेयुतम् [मन्त्र इति शेषः ||] || सप्ताहाज्जायते मोक्षो [तस्येति शेषः ||] नात्र कार्यया विचारणा || ६२२ ||
अथातः सम्प्रवक्ष्यामि सीतामन्त्रं महाद्भुतम् || श्रीसीतायै नमः स्वाहा सीतामन्त्रः षडक्षरः || ६२३ ||
जनकोस्य मुनिश्छन्दो गायत्रं देवता मता || सीता भगवती प्रोक्ता श्रीं बीजं शक्तिरन्यकौ || दीर्घस्वरयुताद्येन षडङ्गानि प्रकल्पयेत् || ६२४ ||
पूजयेद्वैष्णवे पीठे ध्यायेद्राघव संयुताम् || स्वर्णाभामम्बुजकरां रामालोकनतत्पराम् || ६२५ ||
वर्णलक्षं जपेन्मन्त्रमिष्टार्थं साधयेत्ततः || आरोग्याय घृतं धान्यन्ताम्बूलं वश्यसिद्धये || श्रीफलानि तिलान्मुक्त्यै भुक्त्यै च जुहुयात्सदा || ६२६ ||
अथातः सम्प्रवक्ष्यामि कृष्णमन्त्रान्महाद्भुतान् || कृष्णः स एव भगवान्कलिद्वापरसन्धिगः || ६२७ ||
वृद्धये कलिधर्म्माणाम्भक्तानान्तारणाय च || एकसप्ततिरूपोसौ प्रतिमन्वन्तरेभवत् || ६२८ ||
तदुक्ताचरणान्मोक्षस्तत्कृत्याचरणाच्च्युतिः || प्. ६३९)इति तत्त्वं समाख्यातं विष्णोः सन्धिभवस्य च || ६२९ ||
जातश्चाद्ये कलियुगे नानागोपीरते रतः || सत्कर्म कुर्वतां पातस्तदुक्तिर्मोक्षसाधनम् || ६३० ||
स्वधर्मनिरतानान्तु कलौ जन्म न जायते || तस्य मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिप्रसाधनम् || ६३१ ||
गोपीजनवल्लभाय स्वाहा मन्त्रो दशाक्षरः || नारदोस्य मुनिः प्रोक्तो विराट् छन्द उदाहृतम् || ६३२ ||
देवता नन्दपुत्रः क्लीं बीजं शक्तिः शिखिप्रिया || अचक्राय हृदाख्यातं विचक्राय शिरोपि च || ६३३ ||
सुचक्राय शिखा पश्चात्त्रैलोक्यरक्षणन्ततः || चक्राय कवचं प्रोक्तमसुरान्तकशब्दतः || ६३४ ||
चक्रायास्त्रमिदं कुर्ययादङ्गानां पञ्चकं मनोः || सर्वाङ्गेषु मनुं न्यस्य मन्त्रन्यासं समाचरेत् || ६३५ ||
जातियुक्तं च पञ्चाङ्गन्तथा पञ्चांगुलीषु च || हृदये शीर्षके चैव शिखायां कवचे तथा || ६३६ ||
अस्त्रे पार्श्वद्वये कण्ठे पृष्ठे मूर्द्धनि च क्रमात् || ततः करतले पृष्टे व्यापकत्वेन विन्यसेत् || ६३७ ||
प्रणवाद्यं नमोन्तं च सकलं च मनुं बुधः || वामांगुष्ठं समारभ्य दक्षांगुष्ठान्तकं न्यसेत् || ६३८ ||
तारसम्पुटितैर्वर्णैर्दशभिश्च नमोयुतैः || एष संहारनामा तु न्यासः प्रथम ईरितः || ६३९ ||
दक्षांगुष्ठादिवामान्तं सृष्टिन्यास उदाहृतः || अंगुष्ठाभ्यां समारभ्य कनिष्ठान्तं स्थितिर्भवेत् || ६४० ||
एवं न्यासत्रयञ्चेति पञ्चन्यासाः प्रकीर्त्तिताः || ६४१ ||
पूर्व्वमुक्तं तु पञ्चाङ्गं वामदक्षिणहस्तयोः || न्यसेद्दशांगुलीष्वेवं षष्ठो न्यासः प्रकीर्त्तितः || ६४२ ||
आदौ मूलं समुच्चार्यय मातृकाञ्च सबिन्दुकाम् || विपरीतं पुनर्मूलं सप्तमः परिकीर्तितः || ६४३ ||
पादयोः पाणियुग्मे हृन्मुखयोर्मस्तके तथा || पुनर्हृदि च सर्वाङ्गे सर्वाङ्गसकलाङ्गके || ६४४ ||
दश तत्त्वानि भूस्तोयं तेजो वायुर्नभस्तथा || अहङ्कारो महत्तत्त्वं प्रकृतिः पुरुषः परः || तत्त्वन्यासोष्टमोयं हि मया तुभ्यं प्रकीर्त्तितः || ६४५ ||
सर्वाङ्गादि तु पादान्तं न्यासमेनं प्रविन्यसेत् || विलोमतत्त्वन्यासोयं नवमः परिकीर्त्तितः || ६४६ ||
मस्तकादि तु पादान्तं कराभ्यां व्यापकं न्यसेत् || तारसंपुटितम्मन्त्रं त्रिवारं दशमस्त्वयम् || ६४७ ||
पादयोर्जानुनोर्लिंगे जठरे हृदये मुखे || नासयोः कर्णयोरक्ष्णोः शिरसि क्रमतो न्यसेत् || सबिन्दुकान्मन्त्र वर्णान्संहारोयं शिरोन्वितः || ६४८ ||
प्. ६४०)मस्तके नेत्रयोः कर्णे नासयोश्च मुखे हृदि || जठरे व्यञ्जने जान्वोः पादयोश्च क्रमान्न्यसेत् || मन्त्रवर्णान्द्वादशोयं सृष्टिन्यासः प्रकीर्त्तितः || ६४९ ||
हृदये जठरे लिङ्गे जानुनोः पादयोश्च के || अक्ष्णोः श्रुत्योर्नसि मुखे मन्त्रवर्णान्क्रमान्न्यसेत् || स्थितिन्यासः समाख्यातो मूलस्यायं त्रयोदशः || ६५० ||
मूलाधारे ध्वजे नाभौ हृदये च गले मुखे || अंसयोरूरुयुग्मे च न्यासोयं स्याच्चतुर्दशः || ६५१ ||
स्कन्धे नाभौ कुक्षिहृदोः कटौ पार्श्वद्वये तथा || पृष्ठेग्रे च न्यसेन्मन्त्रवर्णान्पञ्चदशस्त्वयम् || ६५२ ||
मूर्ध्नि भ्रूमध्यके चाक्ष्णोः कर्णयोर्नासिकाद्वये || गण्डयोश्च न्यसेद्वर्णान्न्यासोयं षोडशः स्मृतः || ६५३ ||
दक्षिणे भुजमूले च तन्मध्ये मणिबन्धके || मूलांगुलीनामग्रे च तथांगुष्ठादिपञ्चसु || ६५४ ||
क्रमेण विन्यसेद्वर्णान्न्यासः सप्तदशः स्मृतः || इत्थं वामकरे न्यस्य न्यासस्त्वष्टादशो भवेत् || ६५५ ||
दक्षोरुमूलजानौ च गुल्फे चांगुलिमूलके || अंगुल्यग्रे तथांगुष्ठादौ न्यासस्तूनविंशकः || ६५६ ||
एवं न्यसेद्वामपादे न्यासो विंशमितः स्मृतः || मस्तके तत्सर्वभागादौ सम्पूर्णे शिरस्यथ || बाहुयुग्ये सन्धियुग्मे न्यासोयञ्चैकविंशकः || ६५७ ||
शीर्षा क्षिमुखकण्ठोरोजठरे मूलधारके || लिङ्गे जानुनि पादे च द्वाविंशोयं प्रकीर्त्तितः || ६५८ ||
कर्णयोर्गण्डयोर्न्यस्येदंसयोः स्तनयोस्तथा || पार्श्वयोर्भुजयोश्चोर्वोर्जानुनोर्जङ्घयोः पदोः || युग्मन्यासोयमाख्यातस्त्रयोविंशतिसंख्यकः || ६५९ ||
चतुर्दशं समारभ्य दशन्यासास्तु ये स्मृताः || विभूतिपञ्जरो नाम चैष एव प्रकीर्त्तितः || ६६० ||
अशेषसुखकमार्थकीर्त्तिकान्त्यादिकारकः || नरनारीनरेन्द्राणां वश्यकर्मणि शस्यते || भुक्तिमुक्तिप्रदो भक्तिप्रदो विष्णोः पदाम्बुजे || ६६१ ||
कुर्ययान्मन्त्री ततो न्यासं नारसिंहं तु पञ्चमम् || मूर्त्तिपञ्जरनामाख्यं प्रोक्तं पापप्रणाशनम् || ६६२ ||
पुनः सृष्टिस्थितिन्यासौ दशाङ्गन्यासमाचरेत् || प्रोक्तमाद्यप्रकारेण न्यासानामुपकल्पने || ६६३ ||
वैष्णवीर्दर्शयेन्मुद्राः पूर्वोक्ताः सकला अपि || एवं कृत्वा विधानेन मन्त्री मन्त्रकलेवरम् || ६६४ ||
त्रययन्ते बोधितं नित्यं कृष्णं ध्यायेज्जगत्पतिम् || पूर्वं वृन्दावनं रम्यं स्मरेत्पुष्पविराजितम् || ६६५ ||
प्. ६४१)नवीनपल्लवोद्रेकफलसम्पत्तिसंयुतम् || मधुपैः कृतराङ्कारैः कीराद्यैश्च निनादितम् || ६६६ ||
आदित्यतनयापार्श्वलहरीकणशीतलम् || तस्मिन्वने कल्पतरुं नवपल्लवशोभितम् || ६६७ ||
सर्वशाखाग्रसंयुक्तं नवरत्नफलान्वितम् || दिव्यामृतौघवर्षेण सिञ्चन्तं विश्वमुच्छ्रितम् || ६६८ ||
ज्वलद्रत्नसमाबद्धां पुष्परेणुविभूषिताम् || षडूर्मिरहितां ध्यायेत्तस्याधस्ताद्वसुन्धराम् || ६६९ ||
माणिक्यकुट्टिमं तत्र योगपीठं विचिन्तयेत् || पद्ममष्टदलं तत्र यथोक्तं रत्नपर्णकम् || ६७० ||
तस्य मध्ये सुखासीनं कृष्णं ध्यायेदनन्यधीः || उद्यदादित्यसङ्काशं प्रसन्नवदनं विभुम् || ६७१ ||
इन्द्रनीलमणिप्रख्यं स्निग्धदीर्घशिरोरुहम् || मायूरेण सुपिच्छेन राजमानशुभाङ्गकम् || ६७२ ||
कुटिलालकविभ्राजदास्यं कर्णकृतोत्पलम् || ६७३ ||
गोरोचनाक्ततिलकं पूर्णचन्द्रनिभं स्मरेत् || पद्मनेत्रं दीप्तमणिं मकराकृतिकुण्डलम् || ६७४ ||
कपोलस्थललावण्यविजितस्वच्छदर्पणम् || अत्यद्भुतोन्नासिकं च पक्वबिम्बफलाधरम् || ६७५ ||
दाडिमीबीजरदनं कम्बुसुन्दरकण्ठकम् || आरण्यैः पल्लवैः पुष्पैः कृतग्रैवेयसम्पदम् || ६७६ ||
कौस्तुभप्रभया दीप्तविशालोन्नतवक्षसम् || श्रीवत्साङ्काङ्कितोरस्कं वृषस्कन्धं च हारिणम् || ६७७ ||
आजानुलम्बदोर्दण्डं वलित्रययुतोदरम् || क्षुद्रघण्टिकया बद्धकटिं ग्रैवेयराजितम् || ६७८ ||
चक्रशङ्खलसत्पद्मामृतकुण्डाम्बरादिभिः || कुलिशप्रमुखैश्चिह्नैरङ्कितस्वच्छपत्तलम् || ६७९ ||
मुखाम्बुजसमायुक्तवंशच्छिद्रार्पितांगुलिम् || तन्मृदुध्वनिसन्तानविवशीकृतमानसम् || ६८० ||
अपाङ्गैः प्राणिजातन्तु मोहयन्तमनारतम् || परमानन्दसन्दोहसम्पूर्णीकृतमानसम् || मुखपद्मसमासक्तस्वान्तनेत्राभिराजितम् || ६८१ ||
गोभिरूधोमहाभारमन्दयानाभिरेव च || कवलीकृतसन्त्यक्तन्यासलेशाभिरप्यलम् || ६८२ ||
प्रस्नुतस्तनपापेन सम्भृतानननिःस्वनैः || डिण्डीरवाभिसंयुक्तद्रवैर्दृष्टिमनोहरैः || ६८३ ||
वंशवादनप्रोन्नीतगीताकर्णनलालसैः || उत्तम्भनीकृतश्रोत्रपुटयुग्मैश्च तर्णकैः || ६८४ ||
किञ्चिद्विषतरूद्धूतिजातकण्डूतिमस्तकैः || परस्परविमर्दार्थखुरस्पृष्टमहीतलैः || ६८५ ||
स्निग्धैर्गुरुभिरत्यन्तसुशोभिगलकम्बलैः || प्. ६४२)वत्सीवत्ससमूहैश्च संवतं तदनन्तरम् || ६८६ ||
कृतसम्भ्रमसन्दोहं लघुदीर्घकलेवरैः || उच्चकर्णपुटैः पीतवंशशब्दसुधारसैः || ६८७ ||
स्ववयस्यैश्च गायद्भिर्धृत्यद्भिः सविभाषणैः || नानावेषधरैर्बालैः संस्तुवद्भिः समावृतम् || मधुराकृतिभिः सर्वैः पीयूषाद्भुतभाषणैः || ६८८ ||
शार्दूलनखसंकॢप्तगलाकल्पैस्तथावृतम् || ततो गोपपुरन्ध्रीणां स्मरेद्वन्दं समाहितः || ६८१ ||
तद्धावभावकल्लोलसञ्जीवितमनोभवम् || वल्लवीवल्लवगवां देववृन्दं बहिः स्मरेत् || ६९० ||
सम्मुखे देवदेवस्य कांक्षन्तं धनसञ्चयम् || ऋषिसङ्घं तथा दक्षे वेदाध्ययनतत्परम् || ६९१ ||
धर्मार्थिनं स्मरेत्पश्चान्मेनकाप्रमुखास्तथा || वामभागे च योगीन्द्रान्यक्षगन्धर्वकिन्नरान् || ६९२ ||
सिद्धविद्याधरांश्चापि चारणाप्सरसां गणम् || अनेकश्रुतिसम्पूर्णवीणावादनतत्परम् || ६९३ ||
आकाशे नारदं ध्यायेन्मुनिवर्ययं गत स्मयम् || एवं ध्यात्वा यजेत्पीठे देहे मानसिकार्चनम् || ६९४ ||
बाह्यपूजां ततः कुर्ययान्मूर्तिं मूलेन कल्पयेत् || न्यासोक्तं क्रमतः पश्चाद्गन्धाद्यैर्देवमर्चयेत् || ६९५ ||
एवं ध्यात्वा यजेत्पीठे वैष्णवे नवशक्तिके || आदौ स्वीये पीठमये देहे मानसिकार्चनम् || ६९६ ||
सृष्ट्या स्थित्या च सम्पूज्य पञ्चाङ्गं च दशाङ्गकम् || वंशं च वनमालां च श्रीवत्सं कौस्तुभं तथा || ६९७ ||
पूजयेत्कृष्णवर्णस्थं ततश्चावरणार्चनम् || कर्णिकायां चतुर्दिक्षु देवस्य परितोर्चयेत् || ६९८ ||
दामं सुदामं श्रीदामं वसुदामं तथापरम् || तेजोरूपधरांश्चैतान्केसरेष्वङ्गपूजनम् || ६९९ ||
रुक्मिणीप्रमुखाश्चाष्टपत्रेषु महिषीर्यजेत् || रुक्मिणीं सत्यभामां च नग्नजित्तनयार्कजे || ७०० ||
मित्रविन्दां लक्ष्मणां च जाम्बवत्या सुशीलिकाम् || कमलं चार्घपात्रं च बिभ्रतीर्दक्षिणान्ययोः || ७०१ ||
सुन्दरीर्दिव्यरक्ताभा वस्तुलेपादिभिर्युताः || स्तनभारनता नानारत्नजालविभूषणाः || ७०२ ||
पत्राग्रेषु ततः पूज्या वसुदेवश्च देवकी || नन्दगोपो यशोदा च बलभद्रः सुभद्रिका || ७०३ ||
गोपाला गोपिकाः कृष्णशुश्रूषासक्तमानसाः || स्वर्णाभो वसुदेवस्तु रक्तो नन्दः प्रकीर्त्तितः || ७०४ ||
रक्तश्यामनिभेप्रोक्ते मातरौ दक्षिणे करे || वरं वामे वहन्त्यौ तु पात्रं गोपयसा भृतम् || प्. ६४३)मुक्ताहारधरे रत्नकुण्डलादिविभूषिते || ७०५ ||
बलभद्रस्तु कुन्दाभो मुशली हलसंयुतः || नीलाम्बरो मदोन्मत्तश्चञ्चलश्चैककुण्डलः || नानोपायनहस्ताब्जगोपापत्यैः सुपूजितः || ७०६ ||
मध्ये बहिश्च पूर्वादौ मन्दारं पारिजातकम् || सन्तानं कल्पवृक्षं च चन्दनं च प्रपूजयेत् || ७०७ ||
दीर्घनम्रबृहच्छाखान्भूपुरे तु दिगीश्वरान् || तदायुधानि विधिना क्रमतः सम्यगर्चयेत् || ७०८ ||
शर्करादधिसंयुक्तं सघृतं गोपयो हविः || नालिकेरं गुडं पूरीर्नवनीतं सितोपलम् || ७०९ ||
क्षौद्रं सङ्कल्प्य नैवेद्यं गोमुद्रां संप्रदर्शयेत् || ओं नमः परमेत्युक्त्वात्मने निरुपमं वदेत् || ७१० ||
नैवेद्यं कल्पयामीति विंशत्यर्णो मतो मनुः || समये च निवेद्यं हि कुर्यादन्यत्पुरोक्तवत् || ७११ ||
ततश्चन्दनपङ्केन स्वीये देहे विभूषयेत् || मूलमन्त्रेण मन्त्रज्ञो मूर्तिं निर्माय मन्त्रकैः || ७१२ ||
कुर्ययात्पुष्पाञ्जलिं पञ्च तुलसीपत्रतो बुधः || मूलमन्त्रं समुच्चार्यय पादपद्मद्वयं विभोः || ७१३ ||
करवीरद्वयेनाथ मध्यदेहे प्रकल्पयेत् || अम्भोजयुग्मतः पश्चादुत्तमाङ्गे निवेदयेत् || ७१४ ||
एभिः सर्वैः कृते गात्रे तावतः कुसुमाञ्जलीन् || देवस्य दक्षिणे दद्याच्छेतपुष्पाणि मन्त्रवित् || ७१५ ||
सप्तावरणसंयुक्तमित्थं कृष्णस्य पूजनम् || सर्वसम्पत्करं पुंसां भोगमोक्षफलप्रदम् || ७१६ ||
अङ्गैश्चेन्द्रादिभिर्वज्रप्रमुखैरावृतित्रयम् || संक्षेपपूजनं तेन कृत्वा कृष्णाष्टकं यजेत् || ७१७ ||
कृष्णाय वासुदेवाय देवकीनन्दनाय च || दामोदराय गोविन्द हृषीकेश कुभारहृत् || ७१८ ||
धर्मसम्पत्करश्चेति ङेनमोन्तो ध्रुवादिकः || एतैरेव विधातव्या कृष्णार्चा ह्यथवा बुधैः || ७१९ ||
समर्पयेदर्घ्यजलैर्गन्धपुष्पाक्षतान्वितैः || सम्पूज्य स्वे हृदम्भोजे समुद्वास्य नमेत्ततः || ७२० ||
ततः पूर्वोक्तविधिना दीक्षितः प्रजपेन्मनुम् || मन्त्रार्थं चिन्तयन्मन्त्री नियमस्थो जितेन्द्रियः || ७२१ ||
चत्वारिंशत्सहस्राणि श्वेतपद्माक्षमालया || पश्चान्मन्त्रस्य शुद्ध्यर्थं दशलक्षं जपेत्सुधीः || ७२२ ||
लक्षंहुनेद्रक्तपद्मैः सितासर्पिर्मधुप्लुतैः || शर्कराघृतसंयुक्तैरब्जैर्वा जुहुयाद्वरैः || ७२३ ||
तर्पयेत्सलिलैः शुद्धैश्चन्द्रचन्दनसंयुतैः || आत्माभिषेकं कृत्वाथ भूदेवान्पूजयेत्ततः || ७२४ ||
प्. ६४४)नानाविधैर्भक्ष्यभोज्यैस्ताम्बूलैश्च सदक्षिणैः || ततो निजगुरुं सम्यक्प्रणिपत्य यथाविधि || ७२५ ||
धनधान्याम्बराद्यैश्च वित्तशाठ्यविवर्ज्जितः || तोषयेत्परया भक्त्या निजकार्यस्य सिद्धये || ७२६ ||
ततः सिद्धमनुर्मन्त्री प्रयोगान्निजवाञ्छितान् || कुर्याद्भक्तियुतः सम्यङ्-नित्यनैमित्तिके रतः || ७२७ ||
तत्काले देवकीजातं शङ्खचक्रगदाम्बुजान् || दधतं पीतवसनं सुन्दरं गगनप्रभम् || ७२८ ||
निशायामे चतुर्थे तु ध्यात्वा लक्षं जपेन्मनुम् || त्रिमध्वक्तैस्तद्दशांशैः किंशुकप्रसवैर्हुनेत् || वीर्यं प्रज्ञां स्मृतिं प्राप्य कविनामग्रणीर्भवेत् || ७२९ ||
मातुरङ्कगतं दिव्यं चलत्पादकरं शिशुम् || ध्यात्वा क्षीरधियां तोयैस्तर्पयेल्लभते सुतम् || ७३० ||
पिबन्तं पूतनास्तन्य यस्तु तस्याः शिरः स्मरेत् || शतं साग्रं जपेन्मन्त्रं रुदतीं पूतनां तथा || छिन्नमर्मप्रणादाढ्यां तदा नश्यन्ति राक्षसाः || ७३१ ||
अपामार्गस्य समिधः पञ्चगव्यान्विता हुनेत् || ध्यायेत्ततस्ताः कृष्णस्य हुतशेषांस्तु प्राशयेत् || ७३२ ||
सहस्रमन्त्रितैस्तोयैरभिषिक्ताय रोगिणे || ग्रहपीडादिमुक्तिः स्याद्बालानां रुग्विनाशनम् || ७३३ ||
स्वकीयवरसंक्षिप्तं सकलं भावयेन्मनुम् || अयुतं प्रजपेन्मन्त्रं विघ्नसंघाः शमं ययुः || ७३४ ||
नीलगात्रं स्वहस्ताभ्यां नवनीतं नवं दधि || दधानं किङ्किणीसंघं लसत्स्वच्छविभूषणम् || ७३५ ||
दूर्वात्रयैश्च दुग्धाद्यैर्हुत्वैवं प्रजपेन्मनुम् || सन्तोष्य गुरुविप्राश्च व्याध्यादिरहितो भवेत् || ७३६ ||
कर्मबन्धं पातयन्तं कृष्णं ध्यात्वा जपेन्मनुम् || तेनापि मन्त्रितं तोयं क्षिप्त्वा पीडां व्यपोहति || ७३७ ||
गोगणं साधु रक्षंतं चारयन्तमितस्ततः || वेणुं धमन्तं गोविन्दं ध्यायेत्पूर्वोदितं फलम् || ७३८ ||
कालीयस्य फणामध्ये नृत्यन्तं कृष्णमञ्जसा || सुधादृष्ट्या वीक्षमाणं तद्रात्रौ प्रजपेन्मनुम् || ७३९ ||
वामहस्तस्य तर्जन्या तर्जयेन्मतिसत्तमः || सुखीकरोति धिषणं कालदष्टमपि क्षणात् || ७४० ||
कालीयदमनं कृष्णं ध्यात्वा कुशचये जपेत् || अष्टोत्तरशतं स्नायाद्विषार्तो निर्विषो भवेत् || ७४१ ||
गोवर्धनगिरिं वामबाहुदण्डेन बिभ्रतम् || दक्षिणेन व्रजप्राणिप्राणसन्त्राणसूचकम् || ७४२ ||
कृष्णं सञ्चिन्तयेन्मन्त्रं गच्छञ्च्छत्रुं मृधे जयेत् || प्. ६४५)भीतिदास्तं न बाधन्ते विषवर्षणवायुवत् || ७४३ ||
व्यर्थमेघोद्यमाद्यान्तं वासवं चिन्तयेद्धुनेत् || अयुतं लवणैः शुद्धैंरनावृष्टिर्भवेद्ध्रुवम् || ७४४ ||
यमुनायां तु गोपीभिर्जलक्रीडाकरं हरिम् || मुहुर्मुहुः सिच्यमानं क्षीराक्तैरयुतं हुनेत् || भूयसीं वृष्टिमिष्टां हि कुर्यादसमयेपि सः || ७४५ ||
एवमेव स्मरन्कृष्णं पीडितस्य तु मस्तके || मोहनार्त्तिगरस्फोटभूतराक्षसपन्नगैः || मन्त्रं जपेत्तदानीं तु सुखी भवति नान्यथा || ६४६ ||
वैनतेयगतं कृष्णं सप्रद्युम्नं बलान्वितम् || आत्मभूतपराभूतैर्जनैः सर्वैः स्तुतं तथा || ७४७ ||
एवं ध्यात्वा ग्रहाक्रान्तमस्तके संजपेन्मनुम् || महाघोरग्रहो दुष्टस्तदानीं नाशमाप्नुयात् || ७४८ ||
एवं ध्यात्वानले कृष्णं साङ्गमभ्यर्च्य चायुतम् || क्षीराच्छिनाखण्डहोमात्सर्वं क्रूरज्वरं हरेत् || ७४९ ||
क्षीरार्णवप्रविष्टाङ्गं ग्रीष्मपीडाहरं हरिम् || ध्यात्वा स्पृशेज्जपन्नार्तं पाणिभ्यां स सुखी भवेत् || ७५० ||
अर्चितेग्नौ हुनेत्कृष्णं सान्दीपिनिसुतप्रदम् || ध्यात्वा दुग्धगुडूचीभिरपमृत्युर्विनश्यति || ७५१ ||
कृष्णं पुत्रान्प्रयच्छन्तं विप्राय मृतसूनवे || ध्यात्वा पार्थयुतं मन्त्रं जपेत्पुत्रसमृद्धये || ७५२ ||
पुत्रजीवककाष्ठाग्नौ सक्षौद्रैस्तु फलैर्हुनेत् || अयुतं लभते पुत्रान्नीरोगांश्चिरजीविनः || ७५३ ||
दुग्धवृक्षत्वचां क्वाथैः कृष्णमावाह्य रात्रिषु || पूजयित्वायुतं जप्त्वा शतयोषापतिर्व्रजेत् || ७५४ ||
अभिषिञ्चेद्घृतेनैव पाययेदर्कवासरे || एवं कतिपयैर्मासैर्वन्ध्यापि लभते सुतम् || ७५५ ||
बोधिपत्रगतं तोयं जप्तमष्टोत्तरं शतम् || मौनं कृत्वा पिबेन्नारी प्राग्वर्षाल्लभते सुतम् || ७५६ ||
कृत्यां क्रूरां महाभीमां काशिराजेन योजिताम् || पराजित्यात्मचक्रेण काशीं तद्भववह्निना || ७५७ ||
शेषेण भस्मीकुर्वन्तं कृष्णं सम्यग्विचिन्तयेत् || जुहुयान्निशि सिद्धार्थैः स्वीयतैलविलोलितैः || ७५८ ||
एवंकृते तु सप्ताहं वैरिणा केनचित्कृता || कृत्या भूयस्तमेवाशु क्षपयेन्नात्र संशयः || ७५९ ||
संस्थितं त्वालये दिव्ये बदरीवृक्षभूषिते || घण्टाकर्णं च हस्ताभ्यां स्पृशन्तं संस्मरेद्धरिम् || ७६० ||
मधुराक्तैस्तिलैर्लक्षं जुहुयादेधितेऽनले || अशेषपापनाशार्थं पुष्ट्यर्थं च जपेत्तथा || ७६१ ||
प्. ६४६)खगेश्वरसमारुढं कुर्वन्तं बाणवर्षणम् || धावमानं [धावु गतिशुद्ध्योरित्यतः शानच् ||] रिपुगणमनुधावन्तमाशुगम् || ७६२ ||
जपेत्सप्तसहस्राणि कृष्णं ध्यात्वा मनुं बुधः || सप्ताहाद्वैरिणां भूयो ह्युच्चाटो देशतो भवेत् || ७६३ ||
कपित्थफलसम्पातमेवमेवाब्दके क्षिपन् || कृष्णं ध्यात्वायुतं जप्तो मनुरुच्चाटकृद्रिपोः || ७६४ ||
वैरिसंकटरूपं च कर्षणं प्राणवर्जितम् || अयुतं प्रजपेन्मन्त्रं हुनेद्वा तत्समं बुधः || ७६५ ||
समिद्भिर्जन्मनक्षत्रे मारणस्य प्रयोगवित् || शत्रुर्निधनमाप्नोति सुधाभक्षोपि नान्यथा || ७६६ ||
कलिद्रुमसमिद्वर्यैर्निम्बतैलप्लुतैहुनेत् || ७६७ ||
यामिन्यामयुतं स्वस्थो रिपुर्यमपुरं व्रजेत् || ७६८ ||
कार्पासबीजरजनीनिम्बपत्रं कटुत्रयम् || एवं तैलन्तु जुहुयाच्छ्मशाने निशि मारणे || ७६९ ||
मारणं नैव कुर्वीत बलात्कृत्यायुतं जपेत् || हुनेच्च तावद्धविषा तत्पातकनिवृत्तये || ७७० ||
पुरन्दरमुखाञ्जित्वा हरन्तं सुरपादपम् || कृष्णं ध्यायञ्जपल्लंक्षं सर्वतो जयमाप्नुयात् || ७७१ ||
अर्जुनाय च गीतार्थं कथयन्तं जपेन्मनुम् || ध्यात्वा धर्मस्य वृद्धिः स्याद्योगसिद्धिश्च जायते || ७७२ ||
त्रिस्वादुयुक्तैर्लक्षं यः कण्डकप्रसवैर्हुनेत् || ७७३ ||
महाकविः स वागीशो वेदवेदाङ्गपारगः || ७७४ ||
विश्वरूपं हरिं ध्यायेत्सहस्रं साष्टकं जपेत् || देहगेहपुरग्रामवास्तुरक्षा भवेद्ध्रुवम् || ७७५ ||
आरण्यकारुणैः पुष्पैर्मध्याह्ने विधिनार्चयेत् || ७७६ ||
हरिं गृहे जपेत्साष्टसहस्रं द्विजवश्यकृत् || ७७७ ||
मालती * * * श्रेष्ठैर्गोपवेषं यथा पुरा || कृष्णमभ्यर्च्य नृपतीन्वशन्नयति दासवत् || ७७८ ||
रक्ताश्वमारैर्वैश्यांश्च शूद्रान्नीलोत्पलैस्तथा || अत्र ध्यायेच्च गायन्तं श्रीकृष्णं जनमोहनम् || ७७९ ||
तण्डुलैर्घृतपुष्पैश्च घृताक्तैर्यः सहस्रकम् || अन्वहं सप्तशतकं हुत्वा तद्भस्म धारयेत् || ७८० ||
तद्भस्मधारणान्नारी स्वपुमांसं वशं नयेत् || ७८१ ||
पुरुषश्च तथा नारीं दासीं कुर्यान्न संशयः || ७८२ ||
पुष्पताम्बूलवासांसि कज्जलालयनादिकम् || सहस्रमभिमन्त्र्याथ येभ्यो दद्याच्च ते वशाः || ७८३ ||
आपणव्यवहारादौ विवादे राजवेश्मसु || प्. ६४७)जपित्वाऽष्टोत्तरशतं बरीभर्त्ति च सद्वचः || ७८४ ||
उपविष्टं कदम्बाधो बल्लवीभिः स्मरेद्धरिम् || त्रिमध्वपामार्गसमिद्धोमाल्लोकत्रयं वशम् || रासक्रीडारतं ध्यात्वा जपेन्नित्यं सहस्रकम् || ७८५ ||
इष्टां कन्यामवाप्नोति मासमात्रेण साधकः || कुसुमाभ्युच्चयारूढं ध्यात्वा सायं सहस्रकम् || जपेत्कन्यामण्डलेन लभते वाञ्छितं वरम् || ७८६ ||
कृतमालप्रसूनैश्च करण्टकुसुमैरपि || हुत्वा वशीकरोत्येव भूपालान्सपरिच्छदान् || ७८७ ||
बकुलोद्भवसत्पुष्पैः पालाशोत्थैश्च तैरपि || इक्षुजैर्वैश्यशूद्रौ च स्वायत्तौ कुरुते क्षणात् || रक्तोत्पलैर्वा कुसुमैश्चम्पकैः पाटलोद्भवैः || ७८८ ||
हुत्वायुतं च मध्वक्तैर्वशयेद्वणयोषितः || अश्वमारप्रसूनैर्यो मध्वक्तः प्रत्यहं हुनेत् || ७८९ ||
रात्रौ सहस्रसंख्याकैः सप्तरात्रमतन्द्रितः || सोङ्गनानां सहस्रञ्च नवयौवनगर्वितम् || पञ्चबाणप्रविद्धाङ्गं दासीकुर्ययान्न संशयः || ७९० ||
सिद्धार्थलवणोपेतैर्मध्वक्तैस्त्रिसहस्रकम् || होमं कुवात रात्रौ च वह्नौ विप्रान्वशं नयेत् || ७९१ ||
त्रिस्वाद्वक्तैर्बिल्वफलैर्वा पत्रैर्वा प्रसूनकैः || पद्मैः सतण्डुलैर्होमात्तर्प्पणाच्छ्रीः स्थिरा भवेत् || ७९२ ||
वासांसि बल्लवस्त्रीणां मनोभिः सह केशवम् || समादाय कदम्बन्तु समारूढं विचिन्तयेत् || ७९३ ||
जपेत्सहस्रमानं यो रात्रौ स दशभिर्दिनैः || शचीमप्यानयेन्मन्त्री किमन्यां नरयोषितम् || ७९४ ||
अथातः सम्प्रवक्ष्यामि द्वितीये यस्तु जायते || ७९५ ||
तारसम्पुटितश्चायं मन्त्रः स्याद्द्वादशाक्षरः || ७९६ ||
पुरश्चर्याजपन्यासपूजाद्यं पूर्ववद्भवेत् || ७९७ ||
प्रयोगाश्च विशेषेण प्रयोगोत्र निरूप्यते || ७९८ ||
चन्द्रकुन्दसुगौराङ्गं रक्तपद्मदलेक्षणम् || अरिकम्बुगदापद्मं बाहुदण्डैश्च बिभ्रतम् || ७९९ ||
दिव्यैश्च चन्दनालेपैः पद्मनाम्ना विभूषितम् || पीताम्बरलसद्गात्रं तरुणं मुनिसेवितम् || ८०० ||
विकसत्पद्ममध्यस्थं ध्यात्वा नन्दात्मजं प्रभुम् || स्वहृत्पद्मगतं देवं पुराणं पुरुषं नवम् || ८०१ ||
नीलमेघनिभं वापि द्रुतहेमनिभं तु वा || लक्षद्वादशकं जप्त्वा तत्सहस्त्रं समिद्वरैः || ८०२ ||
दुग्धाप्लुर्तैहुनेन्मन्त्री पयोद्रुमसमुद्भवैः || मध्वादिलोलितेनापि हविषा वा जितेन्द्रियः || ८०३ ||
पश्चाद्विश्वाधिपं नित्यं चिदानन्दकलेवरम् || भवान्धकारद्युमणिं स्वीये हृत्सरसीरुहे || ८०४ ||
प्. ६४८)आत्माभेदेन सञ्चिन्त्य प्रत्यहं परमेश्वरम् || त्रिसहस्रं जपेन्मन्त्री जपेत्सन्ध्योक्तवर्त्मना || ८०५ ||
मनुमेतं जपेद्यस्तु श्रद्धाभक्तिसमन्वितः || संसाराब्धिं समुल्लंघ्य जीवन्मुक्तः स जायते || ८०६ ||
अथातः सम्प्रवक्ष्यामि तृतीयेयं जगत्पतिः || अयोनिजशरीरेण प्रकटो जायते भुवि || ८०७ ||
दशाक्षरोयं यामादिस्तस्य मन्त्रो भवाक्षरः || ८०८ ||
कामदेवो मुनिः प्राग्वदन्यत्सर्वं समीरितम् || ८०९ ||
अथातः सम्प्रवक्ष्यामि चतुर्थेप्ययमेव हि || हरशिष्य इति ख्यातो वाममार्गप्रवर्त्तकः || ८१० ||
दशाक्षरोयं लज्जादिस्तस्य मन्त्रो भवाक्षरः || ८११ ||
प्राग्वत्सर्वं विना शक्तिं नायं मन्त्रोस्य सिध्यति || ८१२ ||
अथातः सम्प्रवक्ष्यामि पंचमोयं जगत्पतिः || सुदामदारिद्र्यहरो मन्त्रोयं तदुपासितः || ८१३ ||
दशाक्षरोयं लक्ष्म्याद्यो भवेदेकादशाक्षरः || ८१४ ||
न्यासपूजाप्रयोगादि पूर्ववत्परिकीर्त्तितम् || ८१५ ||
अथातः सम्प्रवक्ष्यामि कलौ षष्ठे जगत्पतिः || संसारानन्दसन्दोहदर्शकोस्य मनुस्त्वयम् || ८१६ ||
श्रीकृष्णाय वदेत्पश्चाद्गोविन्दाय दशाक्षरः || एवमष्टादशार्णोयं मन्त्रः प्रोक्तोखिलेष्टदः || ८१७ ||
कृष्णो देवस्तु गायत्री छन्दः स्यान्नारदो मुनिः || ८१८ ||
स्वाहा शक्तिश्च क्लीं बीजं वेदाब्ध्यब्धिविलोचनैः || ८१९ ||
मन्त्रार्णैः स्याच्च पंचाङ्गं त्वम्गुलीषु करद्वये || मूलमन्त्रेण सर्वाङ्गे त्रिवारं व्यापकं चरेत् || ८२० ||
एतान्यङ्गानि विन्यस्य प्रणवेन ततः पुनः || ८२१ ||
के ललाटे भ्रुवोर्मध्ये कर्णयोर्नेत्रयोर्नसि || ८२२ ||
मुखे कण्ठे हृदि नाभौ कट्यां लिङ्गे ततः परम् || जानुयुग्मे पदद्वन्द्वे न्यसेदेकैकमक्षरम् || ८२३ ||
पादादिमस्तकान्तं च न्यसेच्चैव पदानि तु || शिरोवदनहृद्गुह्यपादेषु मनुवित्तमः || ८२४ ||
पञ्चाङ्गानि पुनर्न्यस्य मुन्यादिन्यासमाचरेत् || न्यासान्तरादिकं सर्वं दशवर्णोक्तवद्भवेत् || ८२५ ||
ध्यानं चोक्तप्रकारेण पूजनं च तथा भवेत् || अयुतद्वयसंख्यातमधिकारार्थमादरात् || ८२६ ||
पंचलक्षं जपेत्पश्चाद्दशांशं पूर्ववद्धुनेत् || तर्प्पणादि ततः सर्वं पूर्वोक्तविधिना चरेत् || ८२७ ||
अथ साधितमन्त्रस्य साधकस्य कलाप्तये || त्रिकालार्चाविधिं वक्ष्ये गोविन्दस्य जगत्पतेः || ८२८ ||
उक्तवृन्दावने रम्ये स्वर्णभूमौ सुमण्डपम् || रम्यं रत्नमयं दिव्यं स्मरेत्कल्पतरोरधः || ८२९ ||
नानारत्नस्थलीमध्ये रत्नसिंहासने शुभे || यथोक्तपद्ममध्यस्थं वासुदेवं विचिन्तयेत् || ८३० ||
इन्द्रनीलनिभं कान्तं शिशुं सुमधुराकृतिम् || स्निग्धवस्त्रं ललाटान्तलुठन्मूद्धजसञ्चयम् || ८३१ ||
भृङ्गसङ्गसमासक्तपद्मसुन्दरसम्मुखम् || इन्दीवरदलाकारशोभिनेत्रद्वयान्वितम् || ८३२ ||
चलत्कुण्डलसंशोभिपृथुगंडसुमण्डितम् || रक्ताधरं सुनासं च हसन्तं हृतमानसम् || ८३३ ||
नानारत्नगणाकीर्णकण्ठाभरणभूषितम् || गोधूलिधमरोरस्कं शार्दूलनखधारिणम् || ८३४ ||
विशिष्टमुष्टसन्देहं स्वर्णनेपथ्यदीपितम् || कटिदेशलसज्जंघाद्वये बद्धमनोहरम् || ८३५ ||
रत्नकांचनसंछन्नकिंकिणीजालमालिनम् || तिरस्करन्तं वनजबन्धूकप्रसवश्रियम् || ८३६ ||
अत्यन्तारुणसच्छाखहस्तपादाब्जशोभितम् || पयसोद्भतपिण्डं च नवनीतमयं शुभम् || दक्षिणोत्तरयोः पार्ष्ण्योर्वहन्तं साधु सुस्पृहम् || ८३७ ||
पथिव्यघकराणां च दैत्यानां दुष्टचेतसाम् || पूतनाशकटादीनां विनाशाय कृतोद्यमम् || ८३८ ||
गोपीगोपालधेनूनां समूहेनावृतं सदा || आखण्डलमुर्खैर्देवैः ||सेवितं कामतत्परैः || ८३९ ||
प्रातरेवंविधं कृष्णं ध्यात्वा सुस्थिरमानसः || प्रागुक्त एव पीठेमुं हरिं संपूजयेत्प्रभुम् || ८४० ||
स्वाङ्गावरणमाद्यं स्याद्द्वितीयं लोकपालकैः || ८४१ ||
वज्रादिभिस्तृतीयं च पूजयित्वा प्रसन्नधीः || पक्वरम्भाफलं खण्डं नवनीतं हविर्दधि || मेलयित्वा सुनैवेद्यं निवेद्य प्रीणयेद्विभुम् || ८४२ ||
उषस्येवं विधानेन श्रद्धा भक्तिसमन्वितः || श्रीकृष्णं पूजयेद्यत्र पूजोपकरणैः शुभैः || ८४३ ||
ऐहिकीं सर्वसम्पत्तिं प्रागेव प्राप्नुयात्ततः || देहान्ते विष्णुसायुज्यं प्रयाति नियतं कृती || ८४४ ||
प्रातः प्रत्यहमेवं हि पूजयित्वा नरो हरिम् || गव्यं दधि निवेद्यास्मै गुडयुक्तमथापि वा || ८४५ ||
तद्बुद्ध्या शुद्धनीरेण तर्प्पयेत्सुमुखं हरिम् || अष्टोत्तरसहस्रं तु मूलमन्त्रं जपेत्ततः || ८४६ ||
दिनमध्ये भजेच्चापि सुन्दराकृतिमद्भुतम् || इन्द्रादिदेवसिद्धैश्च सेवितं खचरैस्तथा || ८४७ ||
गवां गोपालगोपीनां समूहैः परितो वृतम् || नीलाम्बुवाहसत्कान्तिविशिष्टाङ्गश्रियं विभुम् || ८४८ ||
प्. ६५०)नीलकण्ठस्य सत्पिच्छैः केशभारसुमण्डितम् || उद्भ्रमद्भ्रूलतं देवं पद्मपत्रायतेक्षणम् || ८४९ ||
पूर्णचन्द्रलसद्वक्त्रं रत्नकुण्डलमण्डितम् || गण्डमण्डलसंशोभं सुघोषं सस्मिताननम् || पीतवस्त्रधरं चारुमुक्ताहारविभूषितम् || ८५० ||
काञ्चीकटककेयूरमुद्रिकानूपुरादिभिः || अलंकृतशरीरं तं पिशङ्गाम्बरसंवृतम् || ८५१ ||
मुक्तामाणिक्यसञ्छन्नवनमालाद्भुतांशुकम् || कामबाणप्रविद्धाङ्गं वेणुवादनतत्परम् || ८५२ ||
ह्रस्वं विचित्रितं वेषं वामे शंखं सुवेत्रकम् || अभिरामतरं दक्षं रत्नश्रेष्ठमभीष्टकम् || ८५३ ||
ध्यात्वैवं विधिना देवं पूजयेदिष्टसिद्धये || दामाद्यैरङ्गकैश्चापि महिषीभिश्च तत्परम् || ८५४ ||
वसुदेवादिभिः पश्चात्कल्पवृक्षैरनन्तरम् || इन्द्राद्यैश्च तदस्त्रैश्च सप्तावरणसंयुतम् || ८५५ ||
अर्चयित्वा तु गोविन्दं विधिवत्साधकोत्तमः || नैवेद्यं काञ्चने पात्रे पूर्वोक्तं च निवेदयेत् || ८५६ ||
अष्टाधिकशतं पश्चाद्धनेत्साधु पयोन्धसा || शर्कराघृतयक्तेन बलिं पश्चात्प्रकल्पयेत् || ८५७ ||
देवर्षियोगिदेवेभ्य उपदेवेभ्य आदरात् || देवाग्रभागमारभ्य सव्यमार्गाद्बलिर्मतः || ८५८ ||
स्वस्वदिक्क्रमतो विद्वान्भक्तियुक्तः प्रसन्नधीः || नवनीतहविर्बुद्ध्या तोयैः सन्तर्प्प्येन्मुखे || सहस्रं शतमानं वा साष्टकं पूजयेज्जपन् || ८५९ ||
मध्याह्ने कृष्णमेवं यः पूजयेद्भक्तितत्परः || गीर्वाणवृन्दवन्द्योसौ सम्मतः सर्वजन्तुषु || ८६० ||
आयुर्बुद्ध्यादिश्रीकान्तिसुभगत्वादिसंयुतः || सत्सन्ततिसुहृद्वर्गपशुक्षेत्रधनादिभिः || सर्वैश्वर्ययसमेतोत्र सुखं भुक्त्वा हरिं व्रजेत् || ८६१ ||
अपराह्णार्चनं सन्ध्यापर्यन्तं मनुनामुना || दशाक्षरेण मनुना रात्रौ पूजनमाचरेत् || ८६२ ||
सन्ध्यायां द्वारकामध्ये रम्ये रामाश्रये शुभे || गृहैः षोडशसाहस्रैः सर्वतः परिवेष्टिते || ८६३ ||
पद्मेन्दीवरकल्हारसंसृतैः सुजलाशयैः || हंसादिपक्षिभिर्व्याप्तैः संवृताद्भुतमन्दिरे || ८६४ ||
उद्यदादित्यसङ्काशे चित्रिताद्भुतमण्डपे || कोमलास्तरणे दिव्यस्वर्णपंकजमण्डिते || ८६५ ||
सूपविष्टं परात्मानं कृष्णं ध्यायेत्समाहितः || नारदादिमुनिश्रेष्ठैः संवृतं मोक्षकांक्षिभिः || ८६६ ||
अद्वैतार्थविचारेण मुनिवर्ययेभ्य एव च || अग्निरूपं परं तेजो दिशन्तं मन्त्रगौरवात् || ८६७ ||
प्. ६५१)नीलेन्दीवरसंकाशं शान्तमूर्तिं गुणालयम् || सरोजदलसंकाशनेत्रं मकरकुण्डलम् || ८६८ ||
स्निग्धालकाग्रसम्बद्धमुकुटाद्भुतमस्तकम् || अत्यन्तमधुराकारं प्रसन्नमुखपंकजम् || ८६९ ||
श्रीवत्सवक्षसं दिव्यवनमालाविभूषितम् || दूरीकृतधराभारं प्रसन्नहृदयं विभुम् || ८७० ||
शंखचक्रगदापद्मधारिणं तु चतुर्भुजम् || इत्थं सञ्चिन्त्य देवेशं गोविन्दं सम्यगर्चयेत् || ८७१ ||
अष्टप्रियाभिरङ्गैश्च तृतीये गरुडं पुरः || पर्वतं विष्णुनिशठं वृद्धवृन्दारकं तथा || ८७२ ||
विष्वक्सेनं च शैनेयं [सात्यकिम् ||] प्रादक्षिण्येन पूजयेत् || लोकपालांस्तदस्त्राणि पञ्चमावरणार्चनम् || ८७३ ||
नैवेद्यं पायसं दत्वा सम्यक् पूजावसानकम् || खण्डाक्तक्षीरसद्बुद्ध्या नीरैः कृष्णं तु तर्प्पयेत् || ८७४ ||
अष्टोत्तरशतं पश्चाज्जपेत्तावद्विचिन्तयन् || सर्वार्चासु हुनेन्मन्त्री मध्याह्ने तु यथाविधि || ८७५ ||
अवसानार्घ्यविध्यन्तं विधाय स्तुतिमाचरेत् || नत्वा निवेद्य चात्मानं विष्णुं तु स्वहृदि स्वयम् || न्यस्येद्देवमयो भूत्वा स्वात्मानं पूजयेत्ततः || ८७६ ||
सन्ध्याकाले हरिं त्वेवं प्रत्यहं योर्चयेन्नरः || इह भोगान्बहून्भुक्त्वा व्रजेच्चान्ते स सद्गतिम् || ८७७ ||
नन्दात्मजं यजेद्रात्रौ कामाकुलितचेतसम् || रासक्रीडासमाक्रान्तं बल्लवीचक्रवेष्टितम् || ८७८ ||
स्थलपंकजपुष्पाणां दिव्यरेणुयुतेन च || रिङ्गत्तरङ्गबिन्दूनां सम्पृक्ताग्र्येण वायना || कालिन्दीसैकते शुभ्रे शीतले तापहारिणि || ८७९ ||
कामबाणप्रविद्धाङ्गदिव्यस्त्रीकोटिकादिभिः || सेविते चन्द्रकिरणसमुद्द्योतितदिङ्मुखे || चलद्भृङ्गाङ्गनाशब्दवाचालितदिगन्तरे || ८८० ||
सिद्धगन्धर्वदेवौघयक्षकिन्नरपन्नगैः || विद्याधरैः सपत्नीकैर्विमानेषु कृतासनैः || आकाशे सञ्चरद्भिस्तैः पुष्पवृष्टिकृताद्भुते || ८८१ ||
रासक्रीडाविधौ रत्नशंकुगं परमेश्वरम् || एतद्देहसमाकॢप्तदिव्यानेककलेवरम् || नारीणां युग्मयोर्देवं प्रत्येकं चान्तरागतम् || ८८२ ||
तत्तत्कण्ठसमालम्बिबाहुद्वयविराजितम् || आत्मसम्बन्धसञ्जातकामानलसुदीपितम् || रोमोद्गमसमाक्रान्तनागवल्लीतरुं मुहुः || ८८३ ||
नानामुनिगणैर्मिश्रं मधुरस्वरसंयुतम् || सुवर्णरचितैर्दिव्यैर्महामणिपरिष्कृतैः || कृतचारुस्वनैः सर्वालंकारैर्हृदयंगमम् || ८८४ ||
प्. ६५२)इत्थं पृथक्छरीरं तं संयुतं मणिभिर्यथा || हिरण्यरचितं सम्यक्सरो मरकतावृतम् || मणिशङ्खौ सुविस्तीर्णे रक्तपद्मगतं प्रभुम् || ८८५ ||
अतसीपुष्पसङ्काशं यौवनश्रीसमन्वितम् || तदानीं रक्तफुल्लारविन्दच्छदविलोचनम् || ८८६ ||
भूषणैर्विविधैश्चारुपल्लवानेकगुच्छकैः || शितिकण्ठशिखण्डैश्च बद्धमूर्द्धजसञ्चयम् || ८८७ ||
पूर्णिमाचन्द्रसङ्काशसुन्दराननपङ्कजम् || रत्नकुण्डलसंशोभिगण्डमण्डलमण्डितम् || ८८८ ||
पक्वबिम्बफलाकाररक्ताधरविराजितम् || नानारत्नसमाकॢप्तसंभूषणसुभूषितम् || ८८९ ||
स्वर्णवर्णलसद्वस्त्रं विद्रुमश्रीगृहं परम् || नवप्रवालरुचिरहस्तपादतलं विभुम् || ८९० ||
भ्रमरालीलसत्पुष्पमालिकावृतपद्द्वयम् || अङ्गनाकुचसंश्लेषलग्नकुंकुमवक्षसम् || ८९१ ||
महोक्षांसनिभस्कन्धं वंशवादनतत्परम् || अनङ्गबाणसंविद्धं सर्वलोकैकसद्गतिम् || इत्थं ध्यात्वा यजेत्पीठे चाङ्गावरणसंयुतम् || ८९२ ||
श्रींक्लींपूर्वाः केशवाद्याः सबिन्दुस्वरसंयुताः || मातृकास्तु न्यसेत्पूर्वं ततः पूजनमाचरेत् || इन्द्राद्या भूपुरे पूज्या वज्रादीन्यायुधान्यपि || ८९३ ||
ततः सुक्वथितं दुग्धं सितोपलसमन्वितम् || राजते भाजने सम्यक्संस्कृत्य विनिवेदयेत् || ८९४ ||
कांस्यपात्रेषु नैवेद्यं स्वरसंख्येषु कल्पयेत् || प्रत्येकं मिथुनेभ्यश्चान्यत्सर्वं पूर्ववन्मतम् || ८९५ ||
रात्रावेवं भोजयेद्वै सर्वकामवशंकरः || इन्दिरामन्दिरो भूत्वा सर्वाराध्यः सुभुक्तिमान् || ८९६ ||
रात्रौ सन्ध्यासु यश्चैवं प्रत्यहं तु प्रपूजयेत् || तुल्यं फलं स चाप्नोति भवाब्धेः पारगो भवेत् || ८९७ ||
अर्चान्तरे देवकस्य तर्प्पणानां विधिम्ब्रुवे || पुरोक्तानां च काम्यानां साधकेषु फलप्रदम् || ८९८ ||
पूजनव्यतिरेकेपि तत्फलं लभ्यते बुधैः || पीठाद्भिस्तर्प्पणादौ तु कृत्वा मूलेन चैकशः || ८९९ ||
तत्रावाह्य यजेद्देवं जलेचैवोपचारकैः || धेनुमुद्रां प्रदर्श्यात्र स्मृत्वा तर्प्पणसाधकम् || ९०० ||
तद्धिया जलमादाय स्वर्णपात्रे कृतेन तु || सम्यगञ्जलिना देवं तर्पयेन्मूलमुच्चरेत् || ९०१ ||
त्रिकालं तर्पयेन्नित्यमष्टाविंशतिसंख्यया || तत्तत्कालोचितान्पश्चात्तर्पयेत्परिवारकान् || ९०२ ||
एकैकवारं मन्त्रज्ञो मूलेनापि प्रतर्पयेत् || गुडयुक्तं दधि प्रातर्नवनीतयुतं हरेः || ९०३ ||
प्. ६५३)अह्नो मध्ये समाख्यातं सन्ध्यायां दुग्धमुत्तमम् || सितोपलविमिश्रं तु तर्पणद्रव्यमीरितम् || ९०४ ||
बाह्येत्र पूर्ववद्विद्यादन्यत्सर्वं यथा भवेत् || तत्प्रसादजलैः सिञ्चेदात्मानमिह मन्त्रवित् || ९०५ ||
मूलमन्त्राभि जपितं जलं मन्त्री पिबेत्ततः || हरिमुद्वास्य मन्त्रज्ञो जपेन्मन्त्रन्तु तन्मयः || ९०६ ||
काम्यतपणवस्तूनि ततो वक्ष्यामि यानि तु || भजेदुक्तप्रकारेषु समालभ्यैकमेव तु || ९०७ ||
सकृज्जलेन सन्तर्प्य दुग्धैर्वारचतुष्टयम् || पश्चात्षोडशभिर्द्रव्यैः प्रत्येकं च चतुष्टयम् || ९०८ ||
पायसं दधि भक्तं च तिलास्तण्डुलकास्तथा || गुडो भक्तं च दुग्धं च दध्यथो नवनीतकम् || ९०९ ||
घृतं च कदलं मोचामलकं मधुवल्लभा || मृद्वी मोदकपूर्यश्च पृथुकाश्चैव लाजकाः || ९१० ||
द्रव्याणि षोडशैतानि मूलमन्त्रेण तर्प्पयेत् || प्रातरेवं तर्प्पयेद्यः सायं वा सप्तसंख्यया || ९११ ||
कृष्णं प्रतिदिनं विद्वाञ्छुद्धबुद्धिश्च तत्परः || तस्य मण्डलमात्रेण वाञ्छितं भवति ध्रुवम् || ९१२ ||
अथान्यत्तत्फलं वक्ष्ये पूर्ववत्तत्फलप्रदम् || धारोष्णं क्वथितं दुग्धं दधि दध्युदकं पुनः || ९१३ ||
सर्पिस्तथा पायसं च तक्रं त्रिक्षौद्रमेव च || पञ्चामृतं नवैतानि प्रत्येकं शतमष्ट च || ९१४ ||
तर्पयेल्लोकमान्योसौ यशस्वी च प्रजायते || खण्डमिश्रितधारोष्ण दुग्धबुद्ध्या जलैः शुभैः || ९१५ ||
कृष्णं सन्तर्प्य गच्छेद्यो ग्रामं वा नगरं तथा || स तु नानारसोपेतं भक्ष्यं भोज्यं च विन्दति || ९१६ ||
तर्पणं यावदाख्यातं जपस्तावानिह स्मृतः || इह सन्तर्पणादेव फलमाप्नोति वाञ्छितम् || ९१७ ||
भिक्षुको ब्राह्मणो नित्यं स्वयं गोविन्दरूपधृक् || भत्वा नानाविधैर्भावैरभिरामैर्मुहुर्मुहुः || ९१८ ||
मनोभिः सह गोपीनां दधिदुग्धघृतादिकम् || बलाद् गृह्णन्ददद्भिक्षामायाति महतीं तुलाम् || ९१९ ||
गोपीहस्तसरोजानि धृत्वा नृत्यन्तमञ्जसा || कृष्णं सञ्चिन्त्य मन्त्रज्ञो जपेदष्टादशाक्षरम् || ९२० ||
लाजैर्मधुप्लुतैर्वापि चूर्णैर्लाजसमुद्भवैः || हुत्वायुतं जपेत्तावत्कन्यामिष्टां लभेत सः || ९२१ ||
अष्टादशाणमन्त्रेण पलाशसमिधोयुतम् || मधुप्लुतकुशैर्वापि हुनेद्वा तिलतण्डुलैः || ९२२ ||
वशीभवन्ति भपाला दत्त्वा सर्वस्वमादरात् || एवमष्टादशार्णस्य प्रयोगः कथितो मया || ९२३ ||
अथातः सम्प्रवक्ष्यामि सप्तमेयं जनार्दनः || प्रत्यक्षो जायते मन्त्रः क्लीं कृष्णाय नमस्त्विति || ९२४ ||
मुनिः कामोस्य गायत्रं छन्दः कृष्णोस्य देवता || षड्दीर्घान्वितबीजेन [क्लींमितिबीजेन षडङ्गन्यासः यथा-क्लीं हृदयाय नमः क्लीं शिरसे स्वाहेत्यादि ||] षडङ्गानि च पूजनम् || ९२५ ||
प्राग्वज्जपेद्वर्णलक्षं तर्पणं चात्र पूर्ववत् || सम्पत्प्रदो विशेषेण मन्त्रोयं परिकीर्त्तितः || ९२६ ||
अथातः सम्प्रवक्ष्यामि जातो यश्चाष्टमे कलौ || एकावतारे सम्पूर्णे सूक्ष्मरूपी जनार्दनः || ९२७ ||
हिमाचले वरे तीर्थे समाधिं स समाश्रयेत् || पुनश्च कलिधर्माणा वृत्त्यर्थं च जनार्दनः || ९२८ ||
कञ्चिद्वेषं समापद्य प्रकटो जायते भुवि || भक्तेभ्यश्चाभयं दत्त्वा मोहयित्वा च दुष्कृतान् || ९२९ ||
पाखण्डमार्गं प्रकटं किञ्चित्सिद्धिसमन्वितम् || दर्शयित्वा च मर्त्यानां पुनस्तत्रैव यात्यसौ || ९३० ||
एकादशाक्षरो मन्त्रो मायाश्रीबीजपूर्वकः || स्याद्योष्टमे कलियुगे सर्वसिद्धिविधायकः || ९३१ ||
मुन्यादिकं जपो न्यासो ध्यानं होमश्च तर्पणम् || वक्ष्यमाणस्य कृष्ण द्वादशार्णमनोः समम् || ९३२ ||
अथातः सम्प्रवक्ष्यामि यो जातो नवमे विभुः || क्लीं कृष्णाय गोविन्दाय मन्त्रोस्याष्टाक्षरो मतः || ९३३ ||
प्राग्वन्मुन्यादिकं ध्यानं चानुलोमविलोमकैः || पादैः कराङ्गन्यासस्तु प्रयोगाद्यं च पूर्ववत् || ९३४ ||
अथातः सम्प्रवक्ष्यामि दशमे देवकीसुतः || जातः कृष्णस्तस्य मनुरों नमो ङेन्तकृष्णकः || ९३५ ||
देवकीपुत्राय हुंफट्स्वाहा [ओं नमः कृष्णाय देवकीपुत्राय हुं फट् स्वाहा ||] षोडशवर्णकः || नारदोस्य मुनिश्छन्दोनुष्टुप् कृष्णस्तु देवता || ९३६ ||
ताराद्यैः [ओं नमः हृदयाय नमः |
ओंकृष्णाय शिरसे स्वाहा |
ओंदेवकीपुत्राय शिखायै वषट् |
ओं हुं कवचाय हुम् |
ओं फट् नेत्रत्रयाय वौषट् |
ओं स्वाहा अस्त्राय फट् ||] षट्पदैश्चास्य षडङ्गविधिरुच्यते || वर्णलक्षं जपेन्मन्त्रमन्यत्प्रोक्तं दशार्णवत् || ९३७ ||
अथातः सम्प्रवक्ष्यामि जातमेकादशे कलौ || स्वयमेव मुनिर्जातः स्वगायत्र्युपदेशतः || ९३८ ||
उद्धृता बहवो लोकाः सगर्वा भ्रंशिता द्विजाः || शूद्रोपि राज्यं सम्प्राप्य गायत्रीं सम्यगभ्यसेत् || ९३९ ||
स शूद्रः क्षत्त्रियो ज्ञेयः संग्रामे जायते जयः || तस्य वंशे स्थिरं राज्यं मृतो विष्णुपदं व्रजेत् || ९४० ||
प्. ६५५)
दामोदराय विद्महे वासुदेवाय धीमहि || तन्नः कृष्णः प्रचोदयात् || ९४१ ||
गायत्रं छन्द उद्दिष्टं श्रीकृष्णो देवता स्मृतः || पञ्चत्रिपञ्चरामाब्धिवेदवर्णैः षडङ्गकम् || ९४२ ||
गायत्रीवत्पुरश्चर्या न्यासमुद्रादिदर्शनम् || ध्यानपूजादिकं सर्वं ज्ञेयं कृष्णदशार्णवत् || प्रयोगांश्चात्र गायत्र्यास्तथा कुर्ययान्न संशयः || ९४३ ||
अथातः सम्प्रवक्ष्यामि यो जातो द्वादशे कलौ || नन्दगोपकुमाराख्यः प्रकटोभूज्जर्नादनः || ९४४ ||
ग्लौंक्लीं नमो भगवते नन्दपुत्राय बालक || रूपाय च बलायेति गोपीजनपदं वदेत् || ९४५ ||
वल्लभायाग्निजायान्तो मन्त्रोयं रदवर्णकः || षड्दीर्घाढ्याद्यबीजेन षडङ्गविधिरीरितः || ९४६ ||
ध्यानपूजादिकं सर्वं दशार्णवदुदीरितम् || अष्टादशार्णमन्त्रस्य प्रयोगानाचरेत्तथा || ९४७ ||
अथातः सम्प्रवक्ष्यामि तं यो जातस्त्रयोदशे || गोपानां मध्यतो गोपश्चमत्कारप्रदर्शकः || ९४८ ||
योगीश्वरास्तु जानन्तः प्रशंसन्ति महर्षयः || गोपीभिश्च तदा गोपैः स पृष्टश्च जनार्दनः || केनेदृशी तु भवता सिद्धिर्लब्धा तु तद्वद || ९४९ ||
यदा गोपाङ्गना भूत्वा ब्रह्मज्ञा मुनयोपि च || त्वामेव प्रणमन्तिस्म क्रीडन्नारीशतैस्तदा || ९५० ||
सर्वास्स्खलन्ति तास्त्वन्तु वीर्यं नैव प्रमुञ्चसि || कामार्त्तः कथ्यते नातः सर्वज्ञस्त्वं कथं पुनः || ९५१ ||
वयं निष्कपटा भक्ताः सत्यमेतत्तदा वद || एवमुक्तो हरिस्तत्र स्वप्नलब्धं मनुं जगौ || ९५२ ||
तेसुकीदेवदेवीततवेदेवरतोरतः || तरतो रूढतो ख्यातो न ख्यातो देवकीसुतः || ९५३ ||
जप्तव्यः सिद्धमन्त्रोयमेकान्ते निर्जने वने || वर्णलक्षजपेन प्राग्जन्मपापं विनश्यति || ९५४ ||
ततो लक्षत्रयजपाद्भूतप्रेतपिशाचकाः || सर्वे प्रत्यक्षतां यान्ति साधकानां तु मन्त्रिणाम् || ९५५ ||
लक्षद्वादशजापेन दृश्यन्ते यमकिंकराः || लोकानां वशमायान्ति तत्स्मृतं कथयन्ति च || ९५६ ||
जप्त्वा षोडशलक्षाणि शक्राद्याः प्रकटाः सुराः || योगिनो योगिनीसंघो ब्रह्मविष्ण्वादिदर्शनम् || ९५७ ||
द्वात्रिंशत्प्रमिते जप्ते मत्समो नात्र संशयः || प्राप्यते चन्द्रदेवेन श्रीकृष्णस्य सरूपताम् || ९५८ ||
अथातः सम्प्रवक्ष्यामि यो जातस्तु चतुर्दशे || सिद्धा यज्जपमात्रेण पुरानेके महर्षयः || ९५९ ||
प्. ६५६)क्षीरगोपपगोरक्षी रक्षमाक्षक्षमाक्षर || गोमानो गगनो मा गो यक्षगत्यत्यगक्षय || ९६० ||
अथातः सम्प्रवक्ष्यामि कलौ पञ्चदशे तु यः || निवसन्कुन्दकुंजेषु मुकुन्दो यः प्रकीर्तितः || ९६१ ||
श्रीमन्मुकुन्दचरणौ सदा शरणमित्यपि || अहं प्रपद्ये मन्त्रोयं प्रोक्तश्चाष्टादशाक्षरः || ९६२ ||
नारदोस्य मुनिश्छन्दो गायत्रं देवता भवेत् || मुकुन्द आचक्रायेत्यादिकैः पञ्चाङ्गमीरितम् || दशार्णवत्पूजनं स्यादङ्गेन्द्रादि तदायुधैः || ९६३ ||
चतुर्लक्षं जपेन्मन्त्रं तद्दशांशं च होमयेत् || पलाशपुष्पैस्तच्चूर्णैस्तर्प्पणादि ततश्चरेत् || ९६४ ||
मन्त्रेणानेन जपितमष्टोत्तरशतं जलम् || दिनादावन्वहं पीत्वा मासमात्रं प्रसन्नधीः || सद्यः श्रुतिधरो मन्त्री जायते वेदपारगः || ९६५ ||
अथातः सम्प्रवक्ष्यामि षोडशे बालकृष्णकम् || ध्रुवो नमो भगवते बालकृष्णाय हुं तथा || फडन्तोयं महामन्त्रः षोडशाक्षर उच्यते || ९६६ ||
अस्य षोडशवर्णस्य मुनिः स्यान्नलकूबरः || छन्दो गायत्रमुद्दिष्टं बालकृष्णस्तु देवता || ९६७ ||
पञ्चाङ्गानि तु युक्तानि ध्यानं पूर्वोदितं भवेत् || पूजा चाङ्गस्ववर्गाद्यैः पुरश्चर्यादि पूर्ववत् || ९६८ ||
अथ सप्तदशे जातं कृष्णं वच्म्यन्नदायकम् || अन्नरूप रसरूप तुष्टिरूप नमोनमः || ९६९ ||
अन्नाधिपतयेऽन्नं च तथा मह्यं समुच्चरेत् || प्रयच्छाग्निवधूर्मन्त्रस्त्रिंशद्वर्णोन्नदायकः || ९७० ||
नारदो मुनिरस्य स्याच्छन्दोनुष्टुबुदाहृतम् || अन्नाधिपतिकृष्णोस्य देवतापरिकीर्त्तितः || ९७१ ||
पञ्चाङ्गन्यासपूजादि सर्वं ज्ञेयं दशार्णवत् || अन्नदो जायते मन्त्री मन्त्रमेतं सदा जपेत् || ९७२ ||
अथ चाष्टादशे जातवासुदेवमनुं ब्रुवे || तारो नमो भगवते वासुदेवाय हुं च फट् || ९७३ ||
स्वाहा षोडशवर्णोयं गायत्रं छन्द ईरितम् || मुनिर्ब्रह्मा ग्रहघ्नाख्यो देवता देवकीसुतः || ९७४ ||
दशार्णवच्च पञ्चाङ्गं वर्णलक्षं जपेन्मनुम् || अर्चनाङ्गैर्लोकपालैर्ग्रहाद्यैश्च समीरिता || ९७५ ||
सर्वग्रहभये घोरे भूतप्रेतादिसंकुले || राजद्वारे रणे द्यूते जप्तव्योयं मनूत्तमः || अथातः सम्प्रक्ष्यामि ऊनविंशे मनुं परम् || ९७६ ||
तारो नमो भगवते वासुदेवाय संवदेत् || पुरुषोत्तम आयुर्मे देहीत्युक्त्वा च विष्णवे || ९७७ ||
प्. ६५७)प्रभविष्णव इत्युक्त्वा नमोन्तस्त्रिंशदर्णकः || ९७८ ||
मुन्याद्या नारदोनुष्टुप् श्रीकृष्णः परिकीर्तितः || पञ्चाङ्गं द्वादशान्ते हि हृदानन्दात्मने तु हृत् || ९७९ ||
पुरुषोत्तमप्रीत्यात्मने हृदन्तं तु शिरः स्मृतम् || द्वादशार्णान्त आयुर्मे देहि स्याज्ज्योतिरात्मने || ९८० ||
शिखाथ द्वादशार्णान्ते विष्णवे प्रभविष्णवे || मायात्मने च कवचं द्वादशार्णं ततो वदेत् || नमश्चिदात्मने नेत्रं पञ्चाङ्गविधिरीरितः || ९८१ ||
अङ्गलोकेशवज्राद्यैरर्चयित्वा जपेन्मनुम् || लक्षमेकं दशांशेन जुहुयात्पायसैः शुभैः || ९८२ ||
दुग्धादिसम्प्लुतैर्दूर्वात्रितयैरेधितेनले || जुहुयाद्दीर्घशालित्वं लभते नात्र संशयः || प्राग्वद्दशार्णमन्त्रोक्ताङ्गन्यासं तु समाचरेत् || ९८३ ||
अथातः सम्प्रवक्ष्यामि विंशेकलियुगे मनुम् || बालवपुषे स्वाहेति सप्तार्णोयं मनुर्मतः || ९८४ ||
अस्यैकर्णेन पञ्चाङ्गं षष्ठं द्व्यर्णेन कीर्त्तितम् || मुन्याद्यं ध्यानपूजादि सर्वं स्याद्बालकृष्णवत् || ९८५ ||
सप्तलक्षं जपेन्मन्त्रं जुहुयान्नवनीतकम् || बालानां भयनाशार्थं रक्षार्थं च ततो जपेत् || ९८६ ||
अथातः सम्प्रवक्ष्यामि त्वेकविंशकलौ मनुम् || गोपालकपदं ब्रूयात्ततो वेदधराय च || ९८७ ||
वासुदेवाय हुं फट् च स्वाहान्तोष्टादशाक्षरः || नारदोस्य मुनिश्छन्दो गायत्रं कृष्णदेवता || ९८८ ||
आचक्रादिभिरङ्गानि पूजा पूर्वोक्तवर्त्मना || ग्रहगोपालरक्षादौ प्रशस्तः शान्तिकेपि च || ९८९ ||
अथातः सम्प्रवक्ष्यामि द्वार्विशे तु कलौ मनुम् || यः कालियफणामध्ये दिव्यं नृत्यं करोति तम् || ९९० ||
नमामि देवकीपुत्रं नृत्यराजानमद्भुतम् [समासान्तविधेरनित्यत्वान्न टच् ||] || मुनिर्नारद आख्यातश्छन्दोनुष्टुबुदीरितम् || कालीयमर्दनः कृष्णो देवता परिकीर्तितः || ९९१ ||
चतुष्पादैश्च सर्वेण पञ्चांगविधिरीरितः || अङ्गैरिन्द्रादिभिः पश्चाद्वज्राद्यैरर्चयेच्च तम् || ९९२ ||
एकलक्षं जपित्वाग्नौ जुहुयादयुतं घृतैः || विषनाशकरा योगाः कर्तव्या मनुनामुना || ९९३ ||
एतन्मन्त्रप्रयोगेण त्रस्यन्त्यथ महोरगाः || एतन्मन्त्रसमो लोके विषघ्नो नैव विद्यते || ९९४ ||
प्. ६५८)शुष्कवृक्षस्य पञ्चाङ्गैर्गोमूत्रेण सुवेष्टितैः || निर्मिता गुटिका सम्यङ्मन्त्रेणानेन मन्त्रिता || नेत्रे चाञ्जनमात्रेण सैषा विषविनाशिनी || ९९५ ||
अथातः सम्प्रवक्ष्यामि त्रयोविंशकलौ मनुम् || श्रीमायाकामबीजानि [श्रीं ह्रीं क्लीं कृष्णाय गोविन्दाय स्वाहा ||] ङेन्तं कृष्णमुदीरयेत् || ९९६ ||
ङेयुतं चापि गोविन्दं स्वाहान्तो द्वादशाक्षरः || मुनिर्ब्रह्मा च गायत्रं छन्दः कृष्णोस्य देवता || भूभूभूरामवेदाक्षिमन्त्रार्णैरङ्गकल्पनम् || ९९७ ||
कोटिभास्करसङ्काशे द्वारकायां गृहोत्तमे || बहुभिः कल्पतरुभिर्वेष्टिते रत्नमण्डपे || ९९८ ||
विलसन्मणिवर्यौघचित्रितस्वर्णभित्तिके || विकसत्पुष्पमालाभिः सहितेऽनङ्गमौक्तिकैः || पुष्परागधराशोभिरत्नविद्योतितान्तरे || ९९९ ||
निरन्तरतरद्रत्नसुधाधाराभिवर्षिणः || अधो वै कल्पवृक्षस्य शाखाव्याप्तस्य पत्रिणः || १००० ||
फलरत्नप्रदीपालीसमुद्योतितदिङ्मुखे || तद्योगे रविबिम्बाभरत्नसिंहासनाम्बुजे || १००१ ||
सूपविष्टं रमाकान्तं द्रुतस्वर्णनिभं स्मरेत् || समेघरविचन्द्रोद्यद्विद्युत्कोटिनिभच्छविम् || १००२ ||
हृद्यङ्गं सर्वतः सौम्यं नानालङ्कारमण्डितम् || अरिशंखगदापद्मधारिणं पीतवाससम् || १००३ ||
स्पृशन्तं कलशं द्योतन्मणिधारमहर्निशम् || रुक्मिणीसत्यभामे द्वे दक्षे वामे स्थिते प्रभोः || १००४ ||
कालिन्दी मित्रविन्दा च सत्या जाम्बवती तथा || सुशीला लक्ष्मणा चेति समावृत्य स्त्रियः स्थिताः || १००५ ||
ततः षोडशसाहस्रमिता नार्यः समन्ततः || स्मर्तव्याः स्वर्णरत्नादिधरा दुग्धलसत्कराः || १००६ ||
यजेदष्टनिधींस्तासां धनान्यावर्षतो बहिः || ततोग्रे दिक्पतीन्देवान्पूजयेदपि पूर्ववत् || १००७ ||
पूर्वं सञ्चिन्त्य देवेशं ततः पूजां समाचरेत् || पूर्वोदितप्रकारेण पीठन्यासावसानकम् || १००८ ||
कर्म निर्वर्त्य मन्त्रज्ञो मूलमन्त्रेण मन्त्रवित् || प्राणायामत्रयं कृत्वा ऋष्यादिन्यासमाचरेत् || १००९ ||
करांगुलीषु करयोः षडङ्गन्यासमाचरेत् || व्यापकं मूलमन्त्रेण विन्यस्य च करात्पुनः || १०१० ||
पुनः षडङ्गं विन्यस्य देहे देशिकसत्तमः || पुटितं मूलमन्त्रेण मातृकावत्प्रविन्यसेत् || १०११ ||
मूलेन व्यापकं कृत्वा मन्त्रवर्णं ततो न्यसेत् || प्. ६५९)मूर्तिपञ्जरकस्थाने मूर्तिपञ्जरमाचरेत् || १०१२ ||
देवस्य बाह्यपूजार्थं चोच्यते यन्त्रमुत्तमम् || गोमयेनोपलिप्तायां भूमौ पीठं प्रविन्यसेत् || १०१३ ||
अष्टगन्धादिकेनैव षट्कोणं यन्त्रमुद्धरेत् || कामबीजं कर्णिकायां ससाध्यं सुलिखेत्ततः || १०१४ ||
क्लींह्रीमष्टादशार्णेन तत्त्वं सम्यक्च वेष्टयेत् [पट्टे स्वर्णेचेति वा पा० ||] || शक्रराक्षसवायूनां कोणे श्रीबीजमालिखेत् || १०१५ ||
अन्त्येष्वग्न्यादिकोणेषु मायाबीजं प्रकल्पयेत् || कोणसन्धिषु षड्वर्णमन्त्रस्यैकैकमक्षरम् || १०१६ ||
बहिरष्टदलं पद्मं केशरेषु त्रिशस्त्रिशः || १०१७ ||
सुलिखेत्कामतः पश्चाद्वर्णानथ दलेषु च || १०१८ ||
क्रमोत्क्रमाभ्यां मन्त्रस्य कामदेवस्य वर्णितान् || लिखेद्वर्णान्धृतिदले बहिर्वृत्तद्वयं लिखेत् || १०१९ ||
तद्वीथ्यां मातृकावर्णैर्बिंदुयुक्तैश्च वेष्टयेत् || धरापुरे चतुर्दिक्षु रमां मायां च कोणगाम् || १०२० ||
संलिख्यैवं महावश्यं पत्रे स्वर्णादिजे बुधः || सम्यक्संपूज्य प्रजपेद्धृतं च मनुजोत्तमैः || १०२१ ||
करोमि लोकपूज्यं तं राजवश्यं च सर्वदा || १०२२ ||
अस्मिन्यन्त्रे पीठपूजां कृत्वा पूर्वोक्तवर्त्मना || तत्र मूर्त्ति प्रकल्प्यास्यां कृष्णमावाह्य पूजयेत् || १०२३ ||
आसनप्रमुखैर्मन्त्री भोज्यान्तैरुपचारकैः || चतुर्थेऽङ्गाच्च मूलान्तं भूषणादि प्रपूजयेत् || १०२४ ||
किरीटाय नमः शीर्षं कुण्डलाभ्यां च कर्णयोः || दक्षोर्ध्वहस्ते चक्राय वामोर्ध्वे कम्बवे नमः || १०२५ ||
गदां वामाधःकरतले दक्षे पद्माय वै नमः || स्कन्धादिपादपर्यन्तं नाभ्यन्तोपरि मालिकाम् || १०२६ ||
वक्षःस्थले श्रीवत्साय कौस्तुभाय गले नमः || षट्सु पूर्वादिकोणेषु षडङ्गानि समर्चयेत् || १०२७ ||
वासुदेवादिका मूर्त्तीः कोणकेशरगा यजेत् || शान्तिं श्रियं भारतीं च रतिं दिग्दलकेशरे || १०२८ ||
ततः पूर्वादिपत्रेषु रुक्मिणीप्रमुखा यजेत् || दक्षवामक्रमात्पश्चाद्देवदेवं समर्चयेत् || १०२९ ||
षोडशस्त्रीसहस्राणि देवदेवस्य शार्ङ्गिणः || दलाग्रस्थास्ततः पूज्याः पूजनीयाः [पूजनीयाः क्रमादमीत्येतेषामुत्तरत्र सम्बन्धः] क्रमादमी || १०३० ||
इन्द्रनीलौ च कुमुदो मकरोऽनङ्गकच्छपौ || प्. ६६०)शङ्खपद्मौ च तद्बाह्ये लोकेशानायुधान्यपि || १०३१ ||
इत्थं सम्पूज्य गोविन्दं नैवेद्यं हविरर्प्पयेत् || हरेः पायसखण्डादिदधिभिः परिकीर्त्तितम् || १०३२ ||
करोद्वर्त्तनताम्बूलवस्त्रादीनि निवेदयेत् || तथा प्रणम्य चोद्वास्य हरिं सावरणं हृदि || पुनः सञ्चिन्त्य सम्पूज्य प्रजपेच्छक्तितो मनुम् || १०३३ ||
परमभ्यर्च्य देवेशं वेदलक्षं जपेन्मनुम् || सर्पिषा जुहुयात्पश्चाद्दशांशं तर्पयेत्ततः || १०३४ ||
स्वाभिषेकं विधायाथ ब्राह्मणान्भोजयेत्ततः || इत्थं साधितमन्त्रस्तु प्रयोगान्विदधीत वै || १०३५ ||
पूजयित्वानले कृष्णं श्वेतैस्तत्पुष्पतण्डुलैः || अयुतं घृतसंयुक्तैर्हुत्वा तद्भस्म धारयेत् || १०३६ ||
समस्तधनधान्यादिस्त्रीवश्यं च भवेद्ध्रुवम् || मन्त्रार्णैर्लक्षसङ्ख्यं यो हुनेन्मधुरसान्वितैः || १०३७ ||
गोघृतैर्वापि जुहुयात्तस्य लक्ष्मीः स्थिरा भवेत् || रक्तादिवसनाकांक्षी हुनेत्पुष्पैश्च तादृशैः || १०३८ ||
मधुराक्तैर्घृताक्तैर्वाप्यष्टोत्तरसहस्रकम् || मधुना संयुतैश्चैव सुगन्धाष्टकसंयुतैः || १०३९ ||
सहस्रं जुहुयान्नित्यं मासमात्रेण साधकः || राज्ञः पुरोहितो भूत्वा भुक्तिभाङ्नात्र संशयः || १०४० ||
प्रयोगजपहोमादि दशाक्षरसमं मतम् || मन्त्रेणानेन कुर्वीत ताभ्यां मन्त्रोत्तमाद्वरात् || १०४१ ||
न्यासध्यानजपार्चाभिर्होमतो यो भजेन्मनुम् || रत्नकाञ्चनधान्यादिसमृद्धं तस्य मन्दिरम् || जायते हस्तगा तस्य सकला वसुधा चिरम् || १०४२ ||
पुत्रपौत्रकलत्राद्यैर्भुक्त्वा भोगान्बहूनिह || अन्ते याति परं धाम वैष्णवं मुनिदुर्लभम् || १०४३ ||
अथातः सम्प्रवक्ष्यामि चतुर्विंशकलौ मनुम् || लक्ष्मीशक्तिमनोजातबीजान्ते दशवर्णकम् || १०४४ ||
कामाद्यश्च हृदन्तोयं षोडशार्णो मनुर्मतः || ऋष्यादिकं दशार्णोक्तं पञ्चाङ्गमपि तादृशम् || १०४५ ||
वराभयकराभ्यां तमालिङ्गन्तं प्रियाङ्गकम् || अब्जोत्पललसद्धस्तपद्मयालिङ्गितं मुदा || १०४६ ||
धारयन्तं रथाङ्गं च शंखं स्रव्यकरे परे || एवं ध्यात्वा जपेन्मन्त्रं दशलक्षं समाहितः || १०४७ ||
तावत्संख्यसहस्राणि हुनेदाज्यमनुत्तमम् || तर्पणाद्यैर्भवेन्मन्त्रः सिद्धोशेषफलप्रदः || १०४८ ||
पूजा चात्र विधातव्या पूर्वोक्तद्वादशार्णवत् || प्. ६६१)दशार्णवज्जपश्चापि विधेयो नात्र संशयः || १०४९ ||
अथातः सम्प्रवक्ष्यामि पञ्चविंशे कलौ मनुम् || मायाश्रीसहितो मन्त्रो दशार्णो द्वादशाक्षरः || १०५० ||
विधानमस्य विज्ञेयं षोडशार्णोक्तवर्त्मना || १०५१ ||
यस्मिन्मन्त्रे यस्य मनो रमते दिष्टकर्मतः || देवः प्रागुक्तवत्तत्र मन्त्रसिद्धिर्द्रुतं भवेत् || १०५२ ||
अथातः सम्प्रवक्ष्यामि क्रमाज्जाता युगत्रये || ये मन्त्रा दशवर्णस्य भेदाः सिद्धिविधायकाः || १०५३ ||
काममायोन्दिरापूर्वो मायाश्रीकामपूर्वकः || लक्ष्मीमायास्मराद्यश्च मन्त्रराजो दशाक्षरः || १०५४ ||
त्रयोदशाक्षरा मन्त्रास्त एवैते युगत्रये || मुन्याद्यन्तु विधिस्तेषां पङ्क्त्यामुक्तविधानतः || १०५५ ||
ध्यानन्तृतीयमन्त्रे तु दशार्णे समुदाहृतम् || विंशार्णोक्तं द्वितीये तु प्रथमेथ निगद्यते || १०५६ ||
दरारिवाद्यशब्देन रञ्जिताशामुखाम्बुजम् || वंशमादाय हस्ताभ्यां वादयन्तं मुदान्वितम् || १०५७ ||
रविमण्डलगं कृष्णं ध्यायेदिष्टफलाप्तये || अङ्गेन्द्रादिकवज्राद्यैरर्चना सर्वसिद्धिदा || १०५८ ||
बाणलक्षं जपित्वाग्रे दशांशं हविषा हुनेत् || तर्पणादि ततः कृत्वा सिद्धमन्त्रः समाचरेत् || १०५९ ||
कान्तिपुष्टिघृताद्यन्नकामो मन्त्रैः प्रयोगकान् || दशाष्टादशवर्णोक्तानष्टाविंशे कलाविति || १०६० ||
अथातः सम्प्रवक्ष्यामि चोनत्रिंशमिते कलौ || अष्टादशाक्षरो मन्त्रः कामान्तोत्र प्रकीर्त्तितः || १०६१ ||
नारदोस्य मुनिश्छन्दो गायत्रं कृष्णदेवता || षड्दीर्घान्वितकामेन षडंगविधिरीरितः || १०६२ ||
बिभ्राणं दक्षिणे हस्ते ससितं दुग्धमोदकम् || वामे नवीनमाज्यस्य पिण्डं सुन्दरमद्भुतम् || १०६३ ||
वैयाघ्रनखसंशोभिगलं सान्द्रघनच्छविम् || एवं ध्यात्वा जपेन्मन्त्रमेकलक्षमनन्यधीः || शर्क्कराघृतयुक्तेन दशांशं हविषा हुनेत् || तर्प्पणादि ततः कुर्ययात्प्राग्वद्ब्राह्मणभोजनम् || १०६४ ||
अंगलोकेशवज्राद्यैरर्चनास्य समीरितता || १०६५ ||
सरोजमध्यगं कृष्णं पूजयित्वा विधानतः || तस्यैव स्त्रीमुखाम्भोजमर्चयेन्मन्त्रमुच्चरन् || १०६६ ||
गोदुग्धेन सुपक्वेन सुपक्वैः कदलीफलैः || दध्ना च नवनीतेन पुत्रमाप्नोति वत्सरात् || यद्यदिच्छति तत्सर्वं तर्प्पणेनैव सिध्यति || १०६७ ||
प्. ६६२)दध्ना श्रीर्मधुना तेजो घृतेनायुर्विवर्धते || अथातः सम्प्रवक्ष्यामि मन्त्रं त्रिंशत्तमेकलौ || ऐंक्लीं कृष्णाय चेत्युक्त्वा गोविन्दाय रमां वदेत् || १०६८ ||
गोपीजनवल्लभाय स्वाहान्तो विंशवर्णकः || सर्वैश्वर्यप्रदो नित्यं साधकानामभीष्टदः || अष्टादशलिपिः प्रोक्तं मुन्याद्यं चाङ्गकल्पनम् || १०६९ ||
विंशाक्षरोक्तवज्ज्ञेया सपर्यया ध्यानमुच्यते || दक्षोर्ध्वेस्फाटिकीं मालां वामेन धृतपुस्तकम् || अधःकराभ्यां मुरलीं वादयन्तं मनोहरम् || १०७० ||
पीताम्बरं मेघकान्तिं गायन्तमतिकोमलम् || मयूरपक्षसम्बद्धकेशजालश्रियान्वितम् || १०७१ ||
सर्वज्ञं मुनिवृन्देन सेवितं सर्वदैवतम् || युवतीवेषलावण्यरमणीयतरं स्मरेत् || पञ्चपञ्चेषुवेदत्रिवर्णै(ं)ः पञ्चाङ्गकल्पनम् || १०७२ ||
वेदलक्षं मनुं जप्त्वा किंशुकैर्मधुनाप्लुतैः दशांशं जुहुयादग्नौ साधको मन्त्रसिद्धये || तर्पणादि ततः कुर्यान्मन्त्री पूर्वोक्तवर्त्मना || १०७३ ||
मनुमेनं जपेद्यस्तु देवं सम्पूज्य यत्नतः || देवस्यानुग्रहात्तस्य सुखं पद्माक्षिकोद्भवम् || १०७४ ||
गङ्गातरङ्गकल्लोलवाग्विलासमनोहरा || गद्यपद्यात्मिका तस्य ब्रुवतो भारती सदा || १०७५ ||
अशेषवेदवेदार्थसर्वशास्त्रविशारदः || राज्यैश्वर्यं परं प्राप्य भुङ्क्ते भोगाननेकशः || ध्यानं पूर्वोक्तमप्यन्ते देहं त्यक्त्वा हरि व्रजेत् || १०७६ ||
अथातः सम्प्रवक्ष्यामि चैकत्रिंशोन्मिते कलौ || तारो नमो भगवते नन्दपुत्राय नन्द च || १०७७ ||
व्रजगोपीजनेत्युक्त्वा तदन्ते ङेन्तवल्लभम् || स्वाहाष्टाविंशदर्णोयं मुनिरस्य तु नारदः || २०७८ ||
उष्णिक् छन्दो देवता च नन्दपुत्रोखिलेष्टदः || आचक्रादिपदैः प्राग्वत्पञ्चाङ्गं परिकीर्तितम् || १०७९ ||
रत्नपात्रं करे दक्षे हेमजातं च वामतः || बहन्तं मध्यगं कृष्णं स्त्रीभ्यामालिङ्गितं सदा || १०८० ||
अङ्गलोकेशवज्राद्यैः पूजनं परिकीर्तितम् || लक्षं जपेत्प्रजुहुयाद्धविषा सर्वसिद्धये || १०८१ ||
अथातः सम्प्रवक्ष्यामि द्वात्रिंशत्प्रमिते कलौ || नन्दपुत्रस्य [नन्दपुत्राय श्यामलाङ्गाय बालवपुषे कृष्णगोविन्दायगोपीजनवल्लभायस्वाहा ||] शब्दान्ते श्यामलाङ्गाय कीर्तयेत् || १०८२ ||
ततश्च बालवपुषे कृष्णाय पदमुच्चरेत् || गोविन्दाय दशार्णं च द्वात्रिंशद्वर्ण ईरितः || १०८३ ||
प्. ६६३)मुन्याद्या नारदोनुष्टुप्कृष्णः पूजादिकाप्तये || अष्टादशार्णकप्रोक्तप्रयोगा इह वर्णिताः || १०८४ ||
अथातः सम्प्रवक्ष्यामि त्रयस्त्रिंशमिते कलौ || ओं श्रीं ह्रीं हृद्भगवते नन्दपुत्राय बालव || १०८५ ||
पुषे च श्यामलाङ्गाय ततश्चाष्टादशाक्षरः || द्विचत्वारिंशदर्णोयं छन्दोनुष्टुब्विधिर्मुनिः || १०८६ ||
कृष्णो देवोस्य पूजाद्यं प्राग्वत्सर्वं प्रकल्पयेत् || रामैकादशपञ्चेषुधृत्यर्णैरङ्गकल्पनम् || १०८७ ||
अन्यत्सर्वं प्रयोगाद्यमष्टाविंशतिवर्णवत् || मन्त्रोयं सकलैश्वर्यकांक्षितार्थैकसाधनः || १०८८ ||
अथातः सम्प्रवक्ष्यामि चतुस्त्रिंशात्मके कलौ || तारो नमो भगवते रुक्मिणीवल्लभाय च || १०८९ ||
स्वाहान्तः षोडशार्णोयं मन्त्रराण्नारदो मुनिः || छन्दोनुष्टुब्देवतास्य रुक्मिणीवल्लभः स्मृतः || १०९० ||
भूद्व्यब्धिसप्तनेत्रार्णैः पञ्चाङ्गं परिकीर्तितम् || कलया श्यामलं कृष्णं नानालङ्कारमण्डितम् || १०९१ ||
पीतकौशेयसद्वस्त्रं स्वर्णवेत्रविभूषितम् || १०९२ ||
करपद्मेन दक्षेण लिम्पन्तं वामपाणिना || वराभीष्टवतीं देवीं मञ्चगां काञ्चनप्रभाम् || वामहस्तधृताम्भोजां तां समालिङ्गितां प्रियाम् || १०९३ ||
अङ्गैर्नारदमुख्यैश्च लोकपालैस्तदायुधैः || पूजनं धर्मकर्मार्थं निःश्रेयसफलप्रदम् || १०९४ ||
सप्तलक्षं जपेन्मन्त्रं हुनेन्मधुरलोलितैः || दशांशं कमलैः पश्चात्तर्पणादि समाचरेत् || १०९५ ||
महदैश्वर्ययमोक्षादिकांक्षिभिः सेवितो मनुः || अभीष्टकृत्प्रयोगाद्यं विज्ञेयन्तु दशार्णवत् || १०९६ ||
अथातः सम्प्रवक्ष्यामि पञ्चत्रिंशन्मिते कलौ || लीलादण्डं सुशिक्षन्तं गोपीजनपदं व्रजेत् || १०९७ ||
दोर्दण्डं बालरूपेति मेघश्यामपदं तथा || भगवन्प्रभविष्णो स्यादेवन्तु त्रिंशदक्षरः || १०९८ ||
नारदोस्य मुनिश्छन्दो गायत्री देवता मता || लीलादण्डधरः कृष्णो देवस्तु परिकीर्तितः || १०९९ ||
वामहस्ताम्बुजस्थेन लीलादण्डेन गोपिकाः || पुराङ्गनाश्च साकूतं मोहयन्तं महाप्रभुम् || ११०० ||
आत्मनः प्रियमित्रस्य स्कन्धन्यस्तान्यहस्तकम् || हतकंसं स्मरेत्कृष्णमप्रमेयपराक्रमम् || ११०१ ||
अङ्गैरिन्द्रादिवज्राद्यैरर्चनं च समीरितम् || लक्षमेकं जपेन्मन्त्रं दशांशं तिलतण्डुलैः || त्रिमध्वक्तैर्हुनेत्पश्चान्मार्जनादि समाचरेत् || ११०२ ||
प्. ६६४) शुभगः स जगद्वन्द्यो रमाया भवनं भवेत् || ११०३ ||
अथातः सम्प्रवक्ष्यामि षट्त्रिंशे यः कलौ भवेत् || गोवल्लभाय स्वाहेति मन्त्रः सप्ताक्षरो मतः || ११०४ ||
नारदो मुनिरस्य स्यादुष्णिक् छन्दस्तु देवता || गोवल्लभो हरिः प्रोक्तो गवां वृद्धिकरः परः || दशार्णोक्तविधानेन पञ्चाङ्गविधिरीरितः || ११०५ ||
इन्द्रनीललसत्कान्तिं पीतवाससमच्युतम् || सर्प्पारिपिच्छनिकरैः सम्यक्कॢप्तावतंसकम् || ११०६ ||
वंशं वामकरे यष्टिं दक्षे पाशं च बिभ्रतम् || कपिलां वनमध्यस्थामाह्वयन्तं च गां मुदा || ११०७ ||
एवं यजेत्ततस्तस्य पीठे पूर्वोदिते शुभे || आदावङ्गानि सम्पूज्य पूजयेद्यो गणाष्टकम् || ११०८ ||
पीतो रक्तश्च सिन्दूरः श्वेतो नीलो हरिद्भवेत् || कालः कर्णात्मकश्चेति ततः प्रोक्तं गणाष्टकम् || ११०९ ||
पुरन्दरमुखास्तेषामायुधानि ततः परम् || १११० ||
ध्यात्वा मन्त्रं जपेत्तस्य वर्णलक्षं जितेन्द्रियः || तत्सहस्रं हुनेन्मन्त्री गोदुग्धेन पुरोक्तवत् || ११११ ||
गोदुग्धैः प्रत्यहं साग्रं सहस्रं जुहुयाच्च यः || मोक्षार्थं च गवां वृद्धिर्जायते तस्य भूयसी || १११२ ||
दशाक्षरोक्तवत्सर्वं विधानं चास्य कीर्त्तितम् || सर्वे प्रयोगाः सिद्ध्यन्ति सम्पूर्णाः स्युर्मनोरथाः || १११३ ||
अथातः सम्प्रवक्ष्यामि सप्तत्रिंशोन्मिते कलौ || तारो नमो भगवते श्रीगोविन्दाय संवदेत् || १११४ ||
द्वादशार्णो मनुः प्रोक्तो नारदोस्य मुनिर्मतः || गायत्री छन्द उद्दिष्टं श्रीकृष्णो देवता मनोः || १११५ ||
चन्द्रनेत्राब्धिबाणार्णैः सम्पूर्णेनाङ्गकल्पनम् || कल्पद्रुमतले रम्ये रत्नसिंहासने शुभे || १११६ ||
सर्वलक्षणसंयुक्ते निविष्टं नन्दनन्दनम् || प्रस्नुतस्तनभारेण गोवृन्देन युतं भजेत् || १११७ ||
मेघश्यामं वरं दण्डं हस्ताभ्यां बिभ्रतं तथा || पद्मायताक्षं शक्रस्य हस्तिकुम्भामृतस्य तु || १११८ ||
धारया सिच्यमानं च ध्यायेद्विष्णुं तमव्ययम् || रुक्मिणीसत्यभामादिभागयोर्वामदक्षयोः || १११९ ||
शक्रमग्रे पृष्ठतस्तु सुरभिं च समर्च्चयेत् || रुद्रादिवरुणान्तेषु केशरेषु चतुर्ष्वपि || ११२० ||
देवाग्राद्दशपत्रेषु कालिन्दी रोहिणी तथा || नाग्नजिती सुनन्दा च मित्रविन्दा सुलक्षणा || ११२१ ||
जाम्बवती सुशीला च चतुष्कोणेषु भूपुरे || आग्नेयादिषु सम्पूज्याः किंकिणीदामयष्टिकाः || ११२२ ||
प्. ६६५) पद्मञ्च तत्पुरोभागे श्रीवत्सं कौस्तुभं तथा || वनमालां भूपुरेथ देवाग्रादिप्रदक्षिणम् || ११२३ ||
शार्ङ्गं गदां तु चक्रं च वसुदेवं च देवकीम् || नन्दं यशोदां धेनूश्च गोपालांश्चापि गोपिकाः || ११२४ ||
दशदिक्षु प्रपूज्यैवं लोकपालायुधानि च || देवाग्रतस्तस्य वामे कुमुदं कुमुदाक्षकम् || पुण्डरीकं वामनं च शंकुकर्णं ततः परम् || ११२५ ||
सर्पनेत्रञ्च सुमुखं सुप्रतिष्ठितमेव च || देवस्यान्तरतो वामे विष्वक्सेनं समर्चयेत् || ११२६ ||
एवं सञ्चिन्त्य देवेशं वर्णलक्षं जपेन्मनुम् || तत्सहस्राणि गोक्षीरैर्जुहुयात्तर्पयेत्ततः || ११२७ ||
आसनाराधनान्तन्तु प्राग्वत्कुर्यादतन्द्रितः || दिनादावथ मध्याह्ने समयत्रितयेथवा || ११२८ ||
गोष्ठाभ्यां सततं कृष्णमर्चयेद्विधिनामुना || भक्त्या परमयोपेतो गोपालांश्च समर्चयेत् || ११२९ ||
दीर्घायुर्निर्भयश्चैव धनधान्यधरादिभिः || पुत्रपौत्रैश्च सन्मित्रै राज्यान्ते विष्णुमन्दिरम् || तस्माद्भजेदमुं मन्त्रं द्रुतं सिद्धिप्रदं शिवे || ११३० ||
अथातः सम्प्रवक्ष्यामि त्वष्टाविंशन्मिते कलौ || वदेद्गोकुलनाथाय नमोन्तोष्टाक्षरो मनुः || ११३१ ||
अजो मुनिश्च गायत्री छन्दो देवो हरिर्मतः || वर्णद्वयेन पञ्चाङ्गं सकलेन प्रकल्पयेत् || ११३२ ||
कुण्डलाभ्यां लसन्नेत्रं नीलाङ्गाभं महाद्युतिम् || प्रञ्चान्तिके च धावन्तं मदनेन पुरान्वितम् || ११३३ ||
ग्रैवेयाङ्गदहारादिभूषणैर्जयशोभितम् || नानामुनिगणैर्दृष्टं सेवितं सर्वलीलया || ११३४ ||
पूर्वोदिते यजेत्पीठे चतुर्दिक्केशरेषु च || चतुरङ्गानि सम्पूज्य चास्त्रं कोणेषु पूजयेत् || ११३५ ||
दिक्पत्रेषु यजेन्मूर्तीर्वासुदेवादिकास्तथा || रुक्मिणी सत्यभामां च लक्ष्मणां जाम्बवतीं तथा || तद्बहिर्लोकपालानां वज्रादीनां च पूजनम् || ११३६ ||
वर्णलक्षं जपेन्मन्त्रं तत्सहस्रं ततो हुनेत् || पद्मैर्बिल्वसमिद्भिर्वा पायसैर्घृतसंयुतैः || तर्प्पणादि ततः कृत्वा समृद्धिर्महती भवेत् || ११३७ ||
अथातः सम्प्रवक्ष्यामि कलौ गोत्रिमितं हरिम् || तारं रमां ह्रियं कामं श्रीकृष्णाय ततो वदेत् || ११३८ ||
श्रीगोविन्दाय चेत्युक्त्वा श्रीगोपीजनवल्लभः || ङेन्तो बीजत्रयं चाद्यं पञ्चविंशाक्षरो मनुः || ११३९ ||
प्. ६६६) नारदो मुनिराख्यातो गायत्री छन्द उच्यते || श्रीकृष्णो बलदेवेन युक्तः प्रोक्तोस्य देवता || वेदवेदेषु गोरामसम्पूर्णेन षडङ्गकम् || ११४० ||
सेवितौ वैनतेयेन मेदिनीमण्डलाविनौ || रमन्तौ दिव्यभावेन बलकृष्णौ च संस्मरेत् || पूजाजपप्रयोगादि सर्वं ज्ञेयं दशार्णवत् || ११४१ ||
अथातः सम्प्रवक्ष्यामि चत्वारिंशत्कलौ मनुम् || एकच्छन्दर्षिदेवादिप्रयोगन्यासकावपि || ११४२ ||
कृमित्येकाक्षरो मन्त्रः सर्वकामसमृद्धिदः || नारदोस्य मुनिर्देवो गायत्रं छन्द उच्यते || ११४३ ||
देवस्तु बालगोपालः षड्दीर्घान्वितकामतः || षडङ्गानि ततो ध्यायेत्संस्थितं कमलादिके || ११४४ ||
कृष्णं पद्मासनं गुञ्जत्किङ्किणीविलसत्कटिम् || हस्ताभ्यां नवनीतं च पायसं चापि बिभ्रतम् || ११४५ ||
कण्ठदेशे व्याघ्रनखं स्वर्णपट्टविराजितम् || मेघश्यामं च परितो गोपगोपीजनावृतम् || ११४६ ||
यजेत्पूर्वोदिते पीठे वह्नीशासुरवायुषु || हृदादिकवचान्तानि चार्चेदङ्गानि साधकः || ११४७ ||
कृष्णं तत्पुरतोभ्यर्च्य दिक्ष्वतस्तद्बहिः सुरान् || आखण्डलमुखांश्चैव वज्रादीन्यायुधानि च || ११४८ ||
लक्षं जपेद्धुनेद्धेनोः पयसा हविषा तथा || कृत्वा ब्राह्मणभोज्यान्तं स्वेप्सितार्थाल्लंभेन्नरः || ११४९ ||
अथातः सम्प्रवक्ष्यामि कलावेकचतुर्मिते || स एव कृष्णः प्रकटः कृष्णो द्व्यर्णो मनुर्मतः || विप्रादिपादजान्तास्तु नाममन्त्राधिकारिणः || ११५० ||
अथातः सम्प्रवक्ष्यामिद्विचतुस्सम्मिते कलौ || ओंकृष्ण इति मन्त्रोयं त्रिवर्णः परिकीर्त्तितः || ११५१ ||
मुन्यादिकप्रयोगान्तं सर्वं पूर्ववदस्य तु || मुनिभिस्तु विशेषेण संसेव्यो भुक्तिमुक्तिदः || ११५२ ||
अथातः सम्प्रवक्ष्यामि त्रिचतुस्सम्मिते कलौ || ओं कृष्णायेति मन्त्रोयं चतुर्वर्णोखिलेष्टदः || मुन्यादिकं प्रयोगान्तं सर्वं प्राग्वत्समाचरेत् || ११५३ ||
अथातः सम्प्रवक्ष्यामि वेदवेदमिते कलौ || कृष्णाय हृदयं पञ्चवर्णः प्राग्वज्जपादिकम् ||११५४ ||
अथातः सायककृतसम्मिते कामबीजयोः || मध्येकृष्णाय पञ्चार्णः सर्वं पूर्ववदेव हि || ११५५ ||
अथातः षट्कृतमिते गोपालायाग्निगेहिनी || षडक्षरोयं मुन्यादिप्रयोगान्तं च पूर्ववत् || ११५६ ||
अथातो नगवेदाख्ये क्लीं कृष्णायाग्निगेहिनी || षडक्षरो मन्त्रराजो जपध्यानादि पूर्ववत् || ११५७ ||
प्. ६६७) अथाष्टवेदतुल्ये तु कृष्णायेति पदं वदेत् || गोविन्दायेति सप्तार्णः प्राग्वन्मुन्यादिकं मतम् || ११५८ ||
अथ गोवेदतुल्ये तु श्रीमायाकामबीजतः || कृष्णाय कामबीजं च प्राग्वत्सप्ताक्षरो मनुः || ११५९ ||
अथातः सम्प्रवक्ष्यामि पंचाशत्प्रमिते दधि || भक्षणाय द्विठान्तोयमष्टवर्णः प्रकीर्त्तितः || ११६० ||
अथैकपंचप्रमिते सुप्रसन्नात्मने नमः || अष्टवर्णः समाख्यातो मुन्याद्यं पूर्ववन्मतम् || ११६१ ||
अथ द्विपंचप्रमिते कामं कृष्णाय संवदेत् || गोविन्दाय पुनः कामो नवार्णः परिकीर्त्तितः || ११६२ ||
अथ त्रिपंचप्रमिते कृष्णो गोविन्द एव च || ङेन्तश्च हृदयान्तश्च मनुः प्रोक्तो नवाक्षरः || ११६३ ||
अथ वेदेषु युक्तेषु कामं ग्लौं काममुच्चरेत् || श्यामलाङ्गाय हृदयं दशार्णः परिकीर्त्तितः || ११६४ ||
अथ पंचेषु संयुक्ते बालान्ते वपुषे वदेत् || कृष्णाय वह्निजायान्तो मन्त्रः प्रोक्तो दशाक्षरः || ११६५ ||
अथ षड्बाणयुक्ते तु क्लीं कृष्णा य परेति च || नन्देति बालवपुषे स्वाहा पंचदशाक्षरः || ११६६ ||
अथातः सम्प्रवक्ष्यामि सप्तबाणमिते कलौ || कामबीजद्वयं कृष्णपदं वेदार्ण उच्यते || ११६७ ||
मुन्यादयः षडङ्गानि चकार्णोक्तेन वर्त्मना || तद्वद्ध्यानं विशेषोत्र कल्पवृक्षतले स्थितम् || ११६८ ||
अङ्गैरावरणं पूर्वं निधिभिस्तदनन्तरम् || महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ || ११६९ ||
मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव || लोकपालैश्च वज्राद्यैः पश्चादावरणद्वयम् || ११७० ||
एवं ध्यात्वा जपेन्मन्त्रं वेदलक्षं जितेन्द्रियः || दशांशं जुहुयादग्नौ श्रीफलैर्मधुरप्लुतैः || ११७१ ||
तर्प्पणादि ततः कुर्ययात्पूर्वोक्तं मन्त्रसिद्धये || मधुरत्रयसद्बुद्ध्या शुद्धतोयैर्दिनागमे || ११७२ ||
दशपूर्णप्रयोगाश्च कर्त्तव्याः साधकेनतु || भुक्तिप्रदो मुक्तिदश्च सर्वकामप्रदस्त्विति || ११७३ ||
अथातः सम्प्रवक्ष्यामि वसुबाणमिते कलौ || कृष्णस्यादौ द्वयोः कामबीजयोरंकयोजनात् || ११७४ ||
मन्त्रान्तरो युगे वृत्तो नारदाद्यैरुपासितः || षड्दीर्घभाजा बीजेन तादृशेनाङ्गकल्पनम् || ११७५ ||
ततो ध्यायेत्कल्पवृक्षमूले चान्दोलिकास्थितम् || किंङ्किणीसंवृतकटिं नीलकुञ्चितमूर्द्धजम् || ११७६ ||
चित्रव्यासं सरोजाक्षं तिलकाभूषणान्वितम् || आरक्तवर्णं गोपीभ्यां दशायां कलितं मुहुः || प्. ६६८) प्राग्वत्पूजादिकं सर्वं पुरश्चर्यया तथेरिता || ११७७ ||
रक्तपद्मैर्हुनेन्मन्त्री रक्तपत्रैर्दशांशतः || तर्प्पणादि ततः कृत्वा गुरुं यत्नेन तोषयेत् || ११७८ ||
मधुरत्रयसंसिक्तामारक्तां शालिमञ्जरीम् || जुहुयान्नित्यशः सार्धं शतमेकेन मन्त्रतः || मण्डलात्सर्वसस्यादि वस्तुजातं तदा भवेत् || ११७९ ||
अथातः सम्प्रवक्ष्यामि नवबाणमिते कलौ || वाग्लज्जाक्लींरमाह्रींग्रींज्रींत्रींजयजयेति [ओं ऐं ह्रीं श्रीं क्लीं ह्रीं ग्रीं ज्रीं त्रीं जयजय कृष्ण कृष्ण निरन्तरं क्रीं त्रीं नित्यप्रमुदितरेतस्रे नित्यक्रियाय कृष्णाय क्लीं गोपीजनवल्लभाय स्वाहा ग्रीं ह्रीं ||] च || ११८० ||
कृष्णकृष्णेति चाभाष्य निरन्तरपदं वदेत् || क्रीं त्रीं नित्यप्रमुदितरेतसे पदमुच्चरेत् || ११८१ ||
नित्यक्रियाय कृष्णाय क्लीं गोपीजनवल्लभा || य स्वाहा ग्रीं च ह्रीं चेति द्विपञ्चाशल्लिपिर्मनुः || ११८२ ||
आनन्दनारदमुनिर्विराट् छन्दोस्य देवता || सम्मोहनहरिः प्रोक्तो मन्त्रवर्णैः षडङ्गकम् || ११८३ ||
आद्यन्तैश्च त्रिभिर्बीजैः संयुक्तैश्च क्रमेण च || अष्टभी रविभिर्नेत्रैर्नवभिश्च नखेन्दुभिः || ११८४ ||
न्यासादिकं ततः कृत्वा देहे पीठं प्रकल्प्य च || हस्तद्वये दशार्णोक्तविधिना न्यासमाचरेत् || ११८५ ||
षडङ्गान्यस्य कामानां पञ्चपञ्च प्रविन्यसेत् || त्रिवारं मूलमन्त्रेण व्यापकं च ततश्चरेत् || ११८६ ||
कामसम्पुटितान्न्यस्य मातृकार्णान्यथा पुरा || दशतत्त्वादिकं न्यस्य तदन्ते मूर्तिपञ्जरम् || ११८७ ||
सृष्टिस्थितिषडङ्गानि वर्णान्न्यस्येच्च पूर्ववत् || सर्वमन्यत्पुरोक्तेन विधानेन विधाय वै || ११८८ ||
साधकः सर्वलोकेशं ध्यायेत्सम्मोहनं हरिम् || पुरे च मणिजे रम्ये पर्वताम्बुधिमध्यगे || ११८९ ||
नानाशोभाविचित्रेण मणिभिर्दीपितान्तरे || उद्यानवापिकावाटीनानाजनमनोहरे || ११९० ||
तत्रातिरम्ये विपुले विश्वकर्म्मविनिर्मिते || नानारत्नगणाकीर्णे गेहे सञ्चिन्तयेद्धरिम् || ११९१ ||
नानालङ्कारशोभाढ्यं श्रीवत्साङ्कितवक्षसम् || नानासुगन्धरुचिरमङ्कन्यस्तकराम्बुजम् || ११९२ ||
विहिताम्भोजयुग्माभ्यां विस्तृताभ्यां च कामतः || आलिंग्य तां च बाहुभ्यां श्वेतमुक्ताविभूषितम् || ११९३ ||
स्वदक्षस्थितयाश्लिष्टं श्यामया सत्यभामया || प्. ६६९) चक्रवज्जाम्बवत्या च श्लिष्टं वामस्थया तथा || ११९४ ||
कालिन्द्या च परिश्लिष्टमग्रदेशस्थया विभुम् || पद्मं गदां शंखचक्रे चतुर्भिर्दधतं करैः || ११९५ ||
करद्वयलसद्वंशविभावितमुखाम्बुजम् || चतुर्दिक्षु बहिर्देवैर्मुनिभिः सेवकैर्वृतम् || ११९६ ||
एवं ध्यात्वा तु पूर्वाक्ते पीठे देवं समर्चयेत् || विंशार्णोदितयन्त्रं च सम्यगत्र सुलेखयेत् || ११९७ ||
मध्यस्थपीठपरितः पूर्वादिषु लिखेत्क्रमात् || ह्रींत्रींह्रींत्रीं च बीजानि शिष्टैर्वर्णैः प्रवेष्टयेत् || ११९८ ||
दशबीजैर्विरहितैर्द्विचत्वारिंशसम्मितैः || षट्कोणेथ क्रमाल्लेख्यं ऐंह्रींश्रीमीशकोणतः || ११९९ ||
पुनस्तान्येव नैरृत्याच्छेषं प्राग्वत्समाचरेत् || अर्घ्यपात्रादि संस्थाप्य मध्यबीजे हरिं यजेत् || १२०० ||
यथाध्यानं च तत्पूर्वादिष्वर्च्या रुक्मिणीमुखाः || अङ्गानि षट्सु कोणेषु वामांके सर्वगां यजेत् || १२०१ ||
दलमध्ये तु लक्ष्म्याद्यास्तदग्रे धनुरादिकाः || यजेत्कृष्णाग्रमध्ये तु पृष्ठगं चांजनं धनुः || १२०२ ||
शङ्खपद्मौ निधी पूज्यौ शुक्लवर्णौ तु पार्श्वयोः || सर्वदा चापि वर्षन्तौ धाराभिर्वस्तुसञ्चयम् || १२०३ ||
हेरम्बं साम्बनामानं दुर्गां च तदनन्तरम् || विष्वक्सेनं च कोणेषु वर्णगान्पक्षिणो यजेत् || १२०४ ||
रक्तमारक्तसुप्रख्यदूर्वाकनकवर्णकान् || तद्बहिर्वासवादीनां वज्रादीनां च पूजनम् || १२०५ ||
दीक्षितो विधिना मन्त्रं प्राप्यामुं सद्गुरोः कृती || दर्शनं भाषणं स्पर्शवचनश्रवणादिकम् || वर्जयेत्प्रजपेल्लक्षं स्त्रीमात्रस्य गुरोरपि || १२०६ ||
सिताब्जमधुमिश्रैश्च दशांशं पायसैर्हुनेत् || तर्प्पणं मार्ज्जनं कृत्वा ब्राह्मणान्भोजयेत्ततः || १२०७ ||
मन्त्रमेनं जपेद्यस्तु प्रत्यहं विधिनामुना || समर्चयति गीर्वाणांल्लोकानन्दकरश्च सः || १२०८ ||
दिवादौ कृष्णचन्द्रं च दुग्धबुद्ध्या जलैः शुभैः || अन्वहं तर्प्पयेद्यस्तु शतं साग्रं भवेद्ध्रुवम् || १२०९ ||
इन्दुश्रीजलबिंन्द्वाभस्तद्विभूतिमहार्णवः || चन्द्रचन्दनपंकाक्तमालतीकुसुमैर्यवैः || १२१० ||
अयुतं मन्त्रवर्णेन यो जुहोति विभावसौ || त्रैलोक्यं तद्वशे तिष्ठेत्ख्यातः कविवरो भवेत् || १२११ ||
मन्त्रिणो ध्यानमात्रेण मन्त्रस्यास्य यथाविधि || वश्या भवंति सततं स्मरार्ताः सुरयोषितः || १२१२ ||
जपादिकर्म्मभिर्नूनमस्मात्किंकिं न लभ्यते || प्. ६७०)स्पर्द्धां स्वाभाविकीं त्यक्त्वा चित्रमेतत्सुमंत्रिणः || ग्रहेन्दिरा सदस्या स्यात्सेवने भक्तितत्परा || १२१३ ||
व्याधिदारिद्र्यपापौघक्रूरग्रहविषादिभिः || विपत्तिदुःखदौर्भाग्यमृत्यवादिरहितः सदा || १२१४ ||
पुत्रपौत्रधनारोग्यवरस्त्रीगन्धवाहिभिः || सम्पन्नः सर्वसम्पत्या यशस्वी दीर्घजीवनः || १२१५ ||
अथातः सम्प्रवक्ष्यामि कलौ षष्टिमिते मनुम् || यज्जपादेव पुत्रादेरुत्पत्तिर्भवति ध्रुवम् || १२१६ ||
देवकीसुत गोविन्द वासुदेव जगत्पते || देहि मे तनयं कृष्ण त्वामहं शरणं गतः || १२१७ ||
द्वात्रिंशदक्षरो मन्त्रो नारदोस्य मनोर्मुनिः || छन्दोनुष्टुब्देवता च कृष्णः सन्तानदायकः || १२१८ ||
पादैश्चतुर्भिः [देवकीसुत गोविन्द हृदयाय नमः, वासुदेव जगत्पते शिरसे स्वाहा, देहि मे तनयं कृष्ण शिखायै वषट्,त्वामहं शरणं गतः कवचाय हुम् || देवकीसुत गोविन्द वासुदेव जगत्पते || देहि मे तनयं कृष्ण त्वामहं शरणं गतः नेत्राभ्यां वौषट् || तन्त्रांतरेषु तु पूर्वमन्त्रार्द्धेन नेत्रयोरुत्तरमन्त्रार्द्धेनास्त्रस्य न्यासः |
किञ्चास्य मन्त्रस्य प्रथमे क्लींबीजयुक्तस्य जपाच्छीघ्रमेव तनयप्राप्तिर्जायते |
तथा हीमोमाद्यस्याऽपि जपोन्यत्र ||] सर्वैश्च पञ्चाङ्गानि मनोर्विदुः || शङ्खचक्रधरं देवं श्यामवर्णं चतुर्भुजम् || १२१९ ||
सर्वाभरणसन्दीप्तं पीतवाससमच्युतम् || मयूरपिच्छसंयुक्तं विष्णुतेजोपबृंहितम् || समर्प्पयन्तं विप्राय नष्टानानीय बालकान् || १२२० ||
ध्यात्वा ततोर्च्चनादीनि कुर्ययाद्भक्तिपरायणः || अर्चना चेन्द्रवज्राद्यैरुदितास्य महात्मनः || १२२१ ||
लक्षं जप्त्वा तद्दशांशं जुहुयाङ्गोघृतेन च || तर्प्पणादि ततः कुर्ययान्मन्त्रः सिद्ध्यति मन्त्रिणः || १२२२ ||
दशम्यामर्धरात्रे तु शुक्लपक्षस्य मन्त्रवित् || पुत्रार्थं शान्तिकं कृत्वा तत्रस्थो विष्णुमर्च्चयेत् || १२२३ ||
य एवं भजते मन्त्री साधकः पुत्रकाम्यया || स वर्षाल्लभते पुत्रं विनीतं चिरजीविनम् || १२२४ ||
अथातः सम्प्रवक्ष्यामि ह्येकषष्टितमे कलौ || वासुदेवाय निगडच्छेदन ङेन्तमुच्चरेत् || वासुदेवाय हुंफट् च स्वाहा विंशार्णको मनुः || १२२५ ||
नारदोस्य मुनिः प्रोक्तो गायत्री छन्द उच्यते || श्रीकृष्णो देवता प्रोक्तो निगडच्छेदकारकः || न्यासध्यानजपार्च्चादि दशवर्णोक्तवद्भवेत् || १२२६ ||
प्. ६७१)अथातः सम्प्रवक्ष्यामि नेत्रषष्टिमिते कलौ || कमबीजात्मको मन्त्रो मुनिर्मोहननारदः || १२२७ ||
छन्दो गायत्रकं देवः कृष्णः सम्मोहनो मतः || षड्दीर्घभाजा बीजेन षडंगानि प्रकल्पयेत् || १२२८ ||
आसनं न्यासपर्ययन्तं चोक्तरीत्या विधाय तु || अंगुलीषु न्यसेदंगं हस्तयोस्तलयोरपि || १२२९ ||
पञ्चांगुलीषु बाणांश्च पूर्वोक्तान्क्रमतो न्यसेत् || बीजसम्पुटितान्न्यस्य मातृकार्णाननन्तरम् || १२३० ||
षडङ्गानि पुनर्न्यस्य यथास्थाने शरान्न्यसेत् || १२३१ ||
शिरोवदनहृल्लिङ्गपादेषु क्रमतः सुधीः || शेषतत्प्रमुखानेतान्पञ्चबीजप्रपूर्वकान् || १२३२ ||
जगत्सम्मोहनं कृष्णं ध्यायेत्पश्चात्समाहितः || वृन्दारकद्रुमौघेन विलसत्कल्पशाखिनः || मूले लसत्स्थलीराजद्रत्नसिंहासनोपरि || ११३३ ||
वामस्कन्धे पक्षिपत्रे स्थितं बम्धूकसन्निभम् || अरिशङ्खसृणीन्पाशं पुष्पबाणेक्षुकार्मुकम् || १२३४ ||
पद्मं गदां च हस्ताब्जैरष्टभिर्दधतं निजैः || घूर्णनेत्रं कुण्डलिनं हारिणं सुकिरीटिनम् || १२३५ ||
किङ्किणीनूपुराद्यैश्च मुद्रिकारत्नमाल्यकैः || पीताम्बरै रक्तलेपैर्युक्तं वामोरुगां रमाम् || आलिङ्गन्तं वामबाहुधृतपद्मावलिं विभुम् || १२३६ ||
विंशाक्षरोदिते पीठे भूषणाद्यैर्यजेद्धरिम् || पश्चादङ्गानि बाणांञ्च न्यासमार्गेण पूजयेत् || १२३७ ||
किरीटं मस्तके श्रोत्रद्वये कुण्डलयुग्मकम् || चक्राद्यं त्रिषु हस्तेषु श्रीवत्सं कौस्तुभं तथा || १२३८ ||
वक्षोहृदि तथा कण्ठे वनमालां नितम्बके || पीताम्बरं महालक्ष्मीं वामांके बीजपूर्विकाम् || १२३९ ||
अभ्यर्च्य कर्णिकामध्ये दिग्विदिक्ष्वङ्गदेवताः || ततो बहिश्चरान्बाणान्दिक्षु कोणेषु पूजयेत् || १२४० ||
यजेदग्राग्रपत्रेषु लक्ष्म्याद्याः प्रोक्तलक्षणाः || इन्द्रादीन्पूजयेद्बाह्ये वज्रादीन्यायुधान्यपि || १२४१ ||
प्रजपेद्दशलक्षाणि पलाशकुसुमैर्हुनेत् || त्रिस्वाद्वक्तैस्तर्प्पयेच्च सहस्रद्वादशावधि || १२४२ ||
आत्माभिषेकं कृत्वाथ विप्रानभ्यर्च्य तोषयेत् || अनेन मनुना तोयैर्मोहिनीपुष्पसंयुतैः || १२४३ ||
दिनादारभ्य मन्त्री तु तर्प्पयेच्च फलप्रदम् || त्रैलोक्यं मोहयेद्यस्तु जपेन्मन्त्रं समाहितः || १२४४ ||
सर्वान्कामानवाप्नोति वाञ्छितानत्र वर्णितान् || प्. ६७२) अयुतं सर्पिषा हुत्वा ससम्पातं हुताशने || १२४५ ||
तावज्जले जपित्वा च तद्घृतं भोजयेत्स्रियम् || यस्तु तद्वशगा सा स्यात्सापि तं वशमानयेत् || १२४६ ||
अष्टादशलिपिप्रोक्ते वश्यं चानेन साधयेत् || एवं यो भजते मन्त्रं भोगान्भुक्त्वा हरिं व्रजेत् || अथातः सम्प्रवक्ष्यामि रामषष्टिमिते कलौ || १२४७ ||
त्रैलोक्यमोहनाय विद्महे || स्मराय धीमहि || तन्नो विष्णुः प्रचोदयात् || १२४८ ||
जपेदस्यैव गायत्रीं चतुर्वर्गफलप्रदाम् || मुन्यादि सकलं प्राग्वद्गायत्री सपुरस्क्रिया || नाशयेत्सर्वपापानि सिद्धेयं कल्पवल्लिका || १२४९ ||
यद्यदिष्टं भवेत्कार्ययं सहस्रादयुतादपि || यथायोग्यं जपेत्साध्यमसाध्यं च प्रसिद्ध्यति || १२५० ||
अथातः सम्प्रवक्ष्यामि वेदषष्टिमिते कलौ || ग्लौमित्येकाक्षरो मन्त्रो जगती छन्द ईरितम् || १२५१ ||
ऋषिस्तु नारदः प्रोक्तः श्रीकृष्णो देवता मतः || बीजं गकार ओं कारः शक्तिः प्रोक्तं षडङ्गकम् || १२५२ ||
षड्दीर्घान्वितबीजेन गकारं मूर्ध्नि विन्यसेत् || ग्लौं नाभौ तु तथौं गुल्फे बिन्दुं पादद्वये न्यसेत् || १२५३ ||
कदम्बमूले क्रीडन्तं वृदावननिवासिनम् || पद्मोपरि स्थितं वन्दे वेणुं गायन्तमीश्वरम् || १२५४ ||
पीताम्बरधरं देवं वनमालाविभूषितम् || गोपीभिर्गोपवृन्दैश्च सेवितं कृष्णमर्च्चयेत् || १२५५ ||
दशार्णवच्च पूजा स्यात्पिङ्गगोपालसम्मता || लक्षायुतसहस्राणि चत्वार्ययस्य जपो मनोः ||१२५६ ||
घृतहोमदशाशेन तर्प्पणादि ततश्चरेत् || एवं संसिद्धमन्त्रस्तु दशार्णोक्तप्रयोगकान् || १२५७ ||
कुर्ययादिह तु सौभाग्यमन्ते याति हरेः पुरम् || १२५८ ||
अथातः सम्प्रवक्ष्यामि पञ्चषष्टिभिते कलौ || कामबीजान्तरे कृष्णमन्त्रोयं त्र्यक्षरो मतः || १२५९ ||
नारदोस्य मुनिश्छन्दो गायत्री देवता मता || कृष्णः ककारो बीजं स्यादीकारः शक्तिरुच्यते || १२६० ||
षड्दीर्घस्वरयुक्तेन मूलेनापि षडङ्गकम् || ध्यानपूजा प्रयोगादि पिङ्गगोपालवन्मतम् || १२६१ ||
अथातः सम्प्रवक्ष्यामि रसषष्टिमिते कलौ || तारो नमश्च कृष्णाय मन्त्रो रसमितार्णकः || १२६२ ||
नारदोस्य मुनिश्छन्दो गायत्री देवता मताः || श्रीकृष्णः प्रणवो बीजं माया शक्तिश्च पूर्ववत् [उपलब्धयोः पुस्तकयोर्मध्ये सप्तषष्टिमितकल्पावतीर्णकृष्णमन्त्रवर्णनविषयकः पाठः स्खलितः ||] || प्. ६७३)अथातः सम्प्रवक्ष्यामि वसुषष्टिमिते कलौ || १२६३ ||
उत्तिष्ठ श्रीकृष्ण स्वाहा मनुरष्टाक्षरो मतः वामदेवो मुनिः पंक्तिश्छन्दो विष्णुश्च देवता || हुं भीषयद्वयं हृच्च हुमन्तं त्रासयद्वयम् || १२६४ ||
शिरः शिखा च वर्मोक्तं प्रमर्दययुगं मतम् || वर्म प्रध्वंसययुगं वर्मान्तं रक्षयद्वयम् || १२६५ ||
हुमन्तमंत्रं सम्प्रोच्य षडङ्गानि समाचरेत् || अष्टाङ्गानि न्यसेन्मन्त्री मन्त्रवर्णैर्यथाविधि || १२६६ ||
पचाङ्गनेत्रजठरपृष्ठेषु क्रमतो न्यसेत् || विदध्यात्करयोर्न्यासं मन्त्रार्णैरष्टभिः सुधीः || १२६७ ||
दक्षतर्ज्जनिकायाश्च यावत्स्याद्वामतर्जनी || सृष्टिरेतद्वैपरीत्यं संहारो गदितः स्थितिः || १२६८ ||
दक्षान्यतर्जनीपूर्वां कनिष्ठायुग्मकान्तकाम् || द्रावण्याद्यबीजयुतामंगुष्ठादिषु विन्यसेत् || १२६९ ||
सबीजपूर्वकान्कामानंगुष्ठादिषु विन्यसेत् || तातो बाणार्णपुटितां मातृकां च प्रविन्यसेत् || १२७० ||
प्रकृतिश्च महत्तत्त्वमहङ्कारखवायवः || तेज आपो धरा चेति तत्त्वाष्टकमुदीरितम् || १२७१ ||
व्यस्तमन्त्रार्णसंयुक्तं पादे लिङ्गे तथा हृदि || मुखे शीर्षे हृदि पुनर्हृदये सकलाङ्गके || १२७२ ||
न्यसेत्संहार उक्तोयं सर्गस्तद्विपरीतकः || तारसम्पुटमूलेन त्रिशो न्यस्येत्तनौ पुनः || कट्यास्यहृन्नाभिगुल्फजानुपादेषु विन्यसेत् || एषा सृष्टिश्च नाभ्याद्या हृदन्ता स्थितिरीरिता || १२७३ ||
सर्गत्यक्तमतिश्चापि संहारो मन्त्रिभिर्मतः || मन्त्रार्णानामयं प्रोक्तस्त्रिधा न्यासो धनप्रदः || १२७४ ||
मूलाधारे हृदि मुखे बाहुद्वन्द्वोरुनाभिषु || मन्त्रार्णान्विन्यसेन्मत्री न्यासोयं दार्ढ्यकारकः || १२७५ ||
गले च जठरे हस्ते स्तनयोः पार्श्वयोस्तथा || पृष्ठे च विन्यसेद्वर्णान्न्यासोयं शुभकारकः || १२७६ ||
मूर्द्धनेत्रश्रोत्रमुखहस्ताग्रे मणिबन्धयोः || कूर्परे चांसके न्यस्य मनोर्वर्णान्धनप्रदान् || १२७७ ||
पादाग्रयोर्गुल्फयोश्च जानुनोश्च नितम्बयोः || मन्त्रस्य विन्यसेद्वर्णान्न्यासोयं काम्यकः स्मृतः || १२७८ ||
दक्षबाहौ तथा मूले मध्ये च मणिबन्धके || अंगुष्ठादौ न्यसेद्वर्णान्पञ्चमो धर्मवृद्धिकृत् || १२७९ ||
एवं न्यासो वामहस्ते षष्ठः पापनिवर्तकः || दक्षोरुमूले जानौ च गुल्फे पञ्चांगुलीषु च || १२८० ||
प्. ६७४)अयन्तु सप्तमो न्यासो वामगस्त्वष्टमो मतः || दक्षांगुष्ठं समारभ्य वाममध्याच्च विन्यसेत् || १२८१ ||
क्रमेण मन्त्रवर्णांश्च न्यासोयं नवमः स्मृतः || एवन्तु पादयोर्न्यस्येन्न्यासोयं दशमो भवेत् || १२८२ ||
मूर्द्धाक्षिकण्ठहृदये जठरे चोरुजानुनोः || पादयोश्च न्यसेद्वर्णान्न्यास एकादशः स्मृतः || १२८३ ||
त्वगसृङ्मांसमेदोस्थिमज्जाशुक्रमरुत्सु च || कर्मणा विन्यसेद्वर्णान्न्यासोयं द्वादशः स्मृतः || १२८४ ||
दक्षगण्डे च दक्षांसे तत्स्तने दक्षपार्श्वके || दक्षस्फिचि च जंघायां पादेयन्तु त्रयोदशः || १२८५ ||
एवं प्रविन्यसेद्वामगुल्फादौ स चतुर्दशः || प्रथमार्णं पादतले पदपादाग्रजानुषु || १२८६ ||
गुदगुह्ये तृतीयन्तु पार्श्वनाभौ चतुर्थकम् || वक्षः पृष्ठहृदयेषु कण्ठे वक्त्रे नसोस्तले || १२८७ ||
श्रोत्रनेत्रद्वये चान्यं ललाटे चाष्टमं न्यसेत् || सर्वोपद्रवहन्तायं न्यासः पञ्चदशः स्मृतः || १२८८ ||
शिरोक्षिमुखहृन्नाभिगुह्यजान्वंघ्रिषु न्यसेत् || षोडशोयमिति प्रोक्तस्तत्त्वपञ्जरसज्ञकः || १२८९ ||
ततस्तनौ मूलमन्त्रं व्यापकत्वेन विन्यसेत् || नृसिंहं पञ्चमे प्रोक्तमाचेरन्मूर्तिपञ्जरम् || १२९० ||
मुखे ब्राह्मणवर्णं च हस्तयोः क्षत्रियं न्यसेत् || ऊर्वोर्वैश्यं शूद्रवर्णं पादयोरिति विन्यसेत् || १२९१ ||
न्यसेत्किरीटं शिरसि श्रुत्योर्मकरकुण्डले || ग्रैवेयं कौस्तुमं कण्ठे हृदि श्रीवत्सहारकम् || १२९२ ||
अङ्गदे भुजयोर्न्यस्य केयूरान्सर्वबाहुषु || कङ्कणे हस्तयोर्न्यस्य मेखलां च कटौ न्यसेत् || १२९३ ||
न्यस्यांगुलीषु मुद्राश्च न्यसेत्पीताम्बरद्वयम् || परिधाने चोत्तरीयं पादयोर्नूपुरं तथा || १२९४ ||
न्यसेच्छङ्खं च चक्रं च वामदक्षोर्ध्वहस्तयोः || अधःपाण्योर्गदापद्मे ततो ध्यानं समाचरेत् || १२९५ ||
दुग्धाम्भोधौ सितद्वीपं नानामणिगणैर्युतम् || वनं सञ्चिन्तयेत्तत्र सकलर्त्तुसमन्वितम् || १२९६ ||
न्यासोक्ताभरणैः शस्त्रैरुपेतं दीप्ततेजसम् || सुरासुरर्षिप्रमुखैः सेवितं चाप्सरोगणैः || १२९७ ||
प्रसन्नवदनं ध्यात्वा तत्त्वदेवं प्रपूजयेत् || पूर्वोक्तपीठे मूलेन मूर्तिं सङ्कल्य चाह्वयेत् || १२९८ ||
अङ्गानि कर्णिकायाञ्च दिक्पत्रेषु चतुर्ष्वपि || श्रियं पीताम्बराक्तां च धृतिं कान्तिं सितासिते || १२९९ ||
प्. ६७५)इन्द्रादींश्चापि दिक्पत्रे वज्रादींस्तद्बहिर्यजेत् || अष्टलक्षं जपेन्मन्त्रं नियमस्थो जितेन्द्रियः || १३०० ||
दुग्धाक्तबिल्वसमिधां होमः प्रोक्तो दशांशतः || जलैः सघृतदुग्धान्नैस्तर्प्पणादि समाचरेत् || १३०१ ||
गुरुं सन्तोष्य यत्नेन सिद्धमन्त्रो भवेद् ध्रुवम् || ततः कुर्वीत मन्त्रज्ञः प्रयोगांश्च प्रसिद्धये || १३०२ ||
दुग्धपूतैः सरसिजैरयुतं जुहुयाच्छ्रिये || मधुरत्रयसंयुक्तैः पलाशकुसुमैर्हुनेत् || १३०३ ||
कान्त्यर्थं केवलाज्येन जुहुयाद्दुग्धमायुषे || त्रिस्वादुयुक्तं लवणं हुनेन्निशि सहस्रकम् || १३०४ ||
अष्टाधिकं च मासेन सोमरस्त्रीवृतो भवेत् || का कथा सर्वयोषासु चान्यासु वशगासु च || अयुतं जुहुयादाज्यं दूर्वाभक्तैश्च शोधितम् || १३०५ ||
भुञ्जीत प्रत्यहं भक्तं गुरुं सन्तोषयेद्धनैः || वस्त्रालङ्करणाद्यैश्च ब्राह्मणानपि भोजयेत् || १३०६ ||
यो जपेन्मृत्युरोगादौ न्यसेच्चायुश्च विन्दति || सूर्ययबिम्बे न्यस्तदृष्टिरब्देन सततं जपेत् || १३०७ ||
उत्क्षिप्तबाहुः षण्मासाद्धनाढ्यः सुमहान् भवेत् || दुग्धमध्ये प्रातरमुं रमेशं तर्प्पयेद्बुधः || अष्टाधिकं सहस्रं तु स भवेद्गोरमान्वितः || १३०८ ||
सुमिष्टमन्नं लभते वने वै भृत्यवर्गयुक् || षट्कर्माणि च सिद्ध्यन्ति याति विष्णोः परम्पदम् || १३०९ ||
अथो गोषट्कलौ मन्त्रस्तारादिरयमेव [ओं उत्तिष्ठ कृष्णाय स्वाहा ||] हि || यज्जपेनावतारोत्र सर्वकालफलप्रदः || १३१० ||
अथ सप्ततिके चायं लक्ष्म्यादिर्जप्यते जनैः || नावतारः स एवात्र देवः प्रत्यक्षता गतः || १३११ ||
अथातः सम्प्रवक्ष्यामि चैकसप्तमिते कलौ || अवतारोत्र मन्त्रस्तु श्रीकृष्णः शरणं मम || १३१२ ||
चतुष्पदैः समस्तेन पञ्चाङ्गविधिरीरितः || ध्यानपूजाप्रयोगादि दशाक्षरवदीरितम् || १३१३ ||
अथातः संप्रवक्ष्यामि बौद्धमन्त्रं महाफलम् || सभ्यत्वान्न द्विजातीनामधिकारोस्ति कर्हिचित् || १३१४ ||
वाममार्गरता विप्राः कुण्डका जातिविच्युताः || हीना वैदिकसंस्कारैः प्रमादान्म्लेच्छतां गताः || गोलकाश्च तथा जात्या कायस्थादय एव च || १३१५ ||
बौद्धं विष्णुं समारभ्य भुक्तिं मुक्तिं प्रयान्ति ते || पतितानामयं मन्त्रः सम्प्रोक्तः शरणप्रदः || १३१६ ||
नमोभगवते बुद्धसंसारार्णवतारक || प्. ६७६)कलिकालादहं भीतः शरण्यं शरणंगतः || १३१७ ||
आद्यैः पदैश्चतुर्भिश्च चरणद्वितयेन च || षडङ्गविधिराख्यातः सर्वेण व्यापकं चरेत् || १३१८ ||
पद्मे पद्मासनस्थं च ऊर्वोर्न्यस्तकरद्वयम् || गौरं मुण्डितसर्वाङ्गं ध्यानस्तिमितलोचनम् || १३१९ ||
पुस्तकासक्तहस्तैश्च नानाशिष्यैश्च शोभितम् || इन्द्रादिलोकपालैश्च ताम्रवर्णाम्बरावृतम् || १३२० ||
एवं ध्यात्वा यजेत्पद्मे द्वात्रिंशद्दलसम्मिते || कर्णिकायां षडङ्गानि दले शिष्यान्यजेत्क्रमात् || १३२१ ||
मीनांकं ललितां वीरं योगिनीं ज्ञानदायिनीम् || सर्वज्ञं सुगतं बुद्धं पार्श्वनाथं तथागतम् || १३२२ ||
चार्वाकं धर्मराजं च जिनं पद्मावतीं तथा || कामिनीं च महामायां श्रीकृष्णं च विनायकम् || १३२३ ||
समन्तभद्रं वर्त्मर्षिं निधिचन्द्रं मनोहरम् || षडभिज्ञं दशबलं शास्तारं श्रीघनं क्षयम् || १३२४ ||
दण्डिनं मुण्डिनं क्रान्तं श्रावकं लोकपोषणम् || तद्बाह्ये भूपुरे दिक्पांस्तदस्त्राणि च पूजयेत् || १३२५ ||
वर्णलक्षं जपेन्मन्त्री होमयेच्च घृतौदनम् || तुलसीमिश्रतोयैश्च भगवन्तं प्रतर्प्पयेत् || १३२६ ||
परस्य दुःखकरणं मनसापि न चाचरेत् || एवं तु वर्तमानस्य वाक्सिद्ध्यादि प्रजायते || १३२७ ||
राजानो वशगास्तस्य नाशं यान्ति ह्युपद्रवाः || भूतप्रेतादिपीडायां महागदभये तथा || १३२८ ||
अनेन मन्त्रितं भस्म दत्त्वा दुःखात्प्रमुच्यते || अथातः सम्प्रवक्ष्यामि कल्किमन्त्रं महाफलम् || कंकल्किने हृदन्तोयं मन्त्रः प्रोक्तः षडक्षरः || १३२९ ||
मन्त्रार्णैश्च षडङ्गानि पूर्णेन व्यापकं चरेत् || मन्त्रोयमतिगोप्यस्तु स्तुत्यश्च नृपनाशकः || १३३० ||
ध्यानं नीलहयारूढं श्वेतोष्णीषविराजितम् || महामुद्राढ्यहस्तं च कौस्तुभोद्दामकण्ठकम् || १३३१ ||
मर्दयन्तं म्लेच्छगणं क्रोधपूरितलोचनम् || अन्तर्हितैर्देवमुनिगन्धर्वैः संस्तुतं हरिम् || १३३२ ||
वैष्णवे तु यजेत्पीठे पद्मे तं केशरेषु च || षडङ्गानि च पत्रेषु पूजयेत्तस्य सेवकान् || १३३३ ||
उद्दामं काञ्चनं दीर्घं भीमं घोरं भयानकम् || कालं नीलं लोकपालान्भूपुरे हेतयस्तथा [पूज्या इति शेषः ||] || १३३४ ||
प्. ६७७)षड्लक्षं च जपेन्मन्त्रं ससितैः पायसैर्हुनेत् || तर्पयेत्सलिलैः शुद्धैः प्रीणयेद्भूसुरानपि || १३३५ ||
एवमाराधितो मन्त्रः संग्रामे विजयप्रदः || एतत्साधकमालोक्य दूरतो दुःक्षितीश्वराः || १३३६ ||
प्रणमन्ति तथा म्लेच्छाः शत्रवो यान्ति संक्षयम् || दिनेदिने वर्धते श्रीर्मृतो वैकुण्ठमाप्नुयात् || १३३७ ||
एते तु मनवः प्रोक्ताः श्रीविष्णोः परमात्मनः || दशावताररूपस्य किमन्यच्छ्रोतुमिच्छसि || १३३८ ||
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते दशावतारमन्त्रप्रकाशः षड्विंशः || २६ ||
Prakāśa 27 – Mantras der vierundzwanzig Gestalten
प्. ६७७) श्रीदेव्युवाच ||
देवदेव महादेव भक्तानुग्रहकारक || चतुर्विंशतिमूर्त्तिनां मन्त्रांश्च मेधुना वद || १ ||
ईश्वर उवाच ||
शृणु देवि प्रवक्ष्यामि मूर्त्तिमन्त्रानशेषतः || भुक्तिमुक्तिप्रदान् विप्रैराराध्यान्सचतुर्थकैः || २ ||
को ब्रह्मा तु समुद्दिष्ट ईशः शो वो हरिः स्मृतः || वर्णत्रयात्मको मन्त्रः केशवः परिकीर्त्तितः || ३ ||
पृथक्ताभ्यां षडङ्गानि पूर्णेन व्यापकं चरेत् || आनाभिपादपर्ययन्तं मङ्गलं मधुसम्मितम् || ४ ||
शंखचक्रे हि शूले च त्वक्षमालां कमण्डलुम् || भुजैष्षड्भिर्दधानं च रक्तवर्णं च सत्कटिम् || ५ ||
अन्तर्बाह्योत्तरीयं च नागयज्ञोपवीतिनम् || मयूरमुकुटं रम्यं मकराकृतिकुण्डलम् || ६ ||
एवं ध्यात्वा यजेत्पीठे पद्मे चापि चतुर्दले || सनकादीन्कर्णिकायां गणेशं नन्दिकेश्वरम् || ७ ||
कार्त्तिकेयं भृङ्गिणं च दलमध्ये समर्चयेत् || दलाग्रेषु क्रमाच्चापि प्रह्रादं नारदं बलिम् || ८ ||
पार्श्वयोः पृष्ठतश्चापि रमोमे वेदमातरम् || अग्रदक्षक्रमाद्गां च हंसं पक्षीश्वरं तथा || ९ ||
भूपुरे लोकपालांश्च तद्धेतीश्च समर्चयेत् || जपेल्लक्षत्रयं मन्त्रं मधुरत्रितयैर्हुनेत् || १० ||
सन्तोष्य विप्रान्सिद्धिः स्यात्कर्त्ता हर्ता तथात्मवान् || इह लोके सुखं प्राप्य मृतो मोक्षमवाप्नुयात् || ११ ||
अथातः सम्प्रवक्ष्यामि नारायणमहामनुम् || नमो नारायणायेति ताराद्यष्टाक्षरो मनुः || १२ ||
छन्दश्च देवीगायत्री साध्यनारायणो मुनिः || देवता परमात्मास्य पञ्चाङ्गविधिरुच्यते || १३ ||
कुब्जोल्कश्च महोल्कश्च अविरक्तोल्क एव च || प्. ६७८)सहस्रोल्कश्चतुर्थोक्तः स्वाहोल्को हेतिसंयुतः || पञ्चाङ्गमन्त्राः सम्प्रोक्ता अंगुष्ठादावपि न्यसेत् || १४ ||
अष्टाक्षरेण व्यस्तेन कुर्ययादष्टाङ्गकेषु च || सृष्टिन्यासोयमुद्दिष्टस्संहारश्चारणादिकः || १५ ||
नाभौ च गुह्यदेशे च जानूर्वोः पादयोस्तथा || मूर्ध्नि नेत्रद्वये चैव सुमुखान्ते तथा हृदि || १६ ||
स्थितिन्यासस्त्वयं प्रोक्तो विभूतेः पञ्जरं शृणु || सर्वन्यासेषु तारेण पुटितार्णान्प्रविन्यसेत् || १७ ||
मूलाधारे हृदि मुखे भुजयोश्चोरुमूलयोः || नभिदेशे प्रथमको न्यासोय परिकीर्त्तितः || १८ ||
गले नाभौ हृदि कुचद्वये पार्श्वद्वये तथा || पृष्ठे चेति द्वितीयोयं न्यासस्तु परिकीर्त्तितः || १९ ||
शीर्षे मुखे नेत्रयुगे कर्णयोर्नासिकाद्वये || क्रमेण विन्यसेद्वर्णान्न्यासोयं स्यात्तृतीयकः || २० ||
बाहुमूले बाहुमध्ये मणिबन्धेंगुलीषु च || दशहस्ते चतुर्थः स्याद्वामबाहौ च पञ्चमः || २१ ||
दक्षोरुमूलजान्वोश्च गुल्फे चाम्गुलिषु न्यसेत् || न्यासः षष्ठोयमुदितो वामांघ्रौ सप्तमः स्मृतः || २२ ||
त्वगसृङ्मांसमेदोस्थिमञ्जा शुक्रानिलेषु च || हृदि ध्यात्वा न्यसेद्वर्णान्न्यासोयं चाष्टमः स्मृतः || २३ ||
शीर्षदेशे मुखे हृत्कजठरोरुषु जंघयोः || पादयोश्च न्यसेद्वर्णान्न्यासोयं नवमः स्मृतः || २४ ||
गण्डयोरंसयोरूर्वोः पादयोश्च ततः परम् || वामोर्ध्वकरगं चक्रं दक्षेधः करशंखकम् || २५ ||
गदां वै वामोर्ध्वकरे पङ्कजं दक्ष हस्तके || विभूतिपञ्जराख्योयं न्यासो दशविधः स्मृतः || २६ ||
क्षित्त्यप्तेजोमरुद्व्योमाहंमहत्प्रकृतिस्तथा || तत्त्वाष्टकमिदं बिन्दुयुग्वर्णाड्यं तथोक्तवत् || २७ ||
ङेयुतं हृदयान्तं च स्थानेष्वेतेषु विन्यसेत् || पल्लिङ्गहृन्मुखे शीर्षे नेत्रहृद्व्यापकेषु च || २८ ||
संहारनामा तत्त्वानां न्यासः सृष्टिस्तथा क्रमात् || बिन्दुनादशक्तिशान्तिरूपमात्मचतुष्टयम् || २९ ||
न्यसेत्पूर्वं तनौ मन्त्री देवताभावसिद्धये || मूर्त्तिपञ्जरविन्यासं प्रणवाद्यं समाचरेत् || ३० ||
नारायणाय चार्यम्णे अं हृन्मध्ये च नाभिगमम् || इं माधवाय मित्राय नमः प्रोच्य हृदि न्यसेत् || ३१ ||
ईं गोविन्दाय वरुणाय नमश्चैव गले न्यसेत् || उं विष्णवे चांशुमते नमो दक्षिणपार्श्वके || ३२ ||
ऊं मधुसूदनाय च भगाय दक्षिणांसके || एं त्रिविक्रमाय विवस्वते हृद्दक्षगण्डके || ३३ ||
प्. ६७९)ऐं वामनाय चेन्द्राय हृदन्तं वामपार्श्वके || ओं श्रीधराय पूष्णे च नमो वामांसके न्यसेत् || ३४ ||
हृषीकेशाय पर्ज्जन्यायौं हृदा वामगण्डके || अं पद्मनाभाय त्वष्ट्रे नमो ह्यश्च प्रविन्यसेत् || दमोदराय ककुदि सर्गान्तो विष्णवे नमः || ३५ ||
किरीटहारकेयूरमकराकृतिकुण्डलम् || शंखचक्रगदापद्महस्तं पीताम्बरावृतम् || ३६ ||
श्रीवत्साङ्कं लसद्वक्षस्स्थलं श्रीभूमिसंयुतम् || आत्मज्योतिःसम्प्रदीप्तसहस्रादित्यतेजसम् || ३७ ||
सम्बुद्ध्योक्त्वा च सर्वाणि तदन्ते च वदेन्नमः || द्विसप्तत्यक्षरो मन्त्रो व्यापकत्वेन चोदितः || ३८ ||
अतः परं प्रवक्ष्यामि तत्त्वानाञ्च मनूत्तमम् || तारोक्त्या खादिकान् वर्णान् सबिन्दून् हृदयान्तकान् || ३९ ||
परायेति पदस्यान्तेमुकतत्त्वात्मनेनमः || उक्त्वा ह्यमुं न्यसेत्पश्चात्तत्त्वनामस्थलानि तु || जीवं प्राणं सर्वतनौ न्यसेदेवं द्वयं बुधः || ४० ||
बुद्ध्यहङ्कारमनसां हृदि तत्त्वत्रयं न्यसेत् || मस्तकाननहृद्गुह्यपादांसेषु च वैक्रमात् || ४१ ||
शब्दस्पर्शरूपरसगन्धतत्त्वानि विन्यसेत् || श्रोत्रत्वगक्षिजिह्वाख्यघ्राणानां तत्त्वपञ्चकम् || ४२ ||
कर्णयोः सकलाङ्गाक्षिजिह्वाघ्राणेषु विन्यसेत् || वाक्पाणिपायुपादाख्योपस्थानां तत्त्वपञ्चकम् || ४३ ||
मुखे पाण्योः पादयोश्च गुदे लिङ्गे न्यसेत्क्रमात् || आकाशवायुतेजांसि जलक्ष्मातत्त्वपञ्चकम् || ४४ ||
मूर्ध्नि वक्त्रे च हृदये न्यसेल्लिङ्गे च पादयोः || ततस्तु हृदये न्यस्येन्मण्डलत्रितयं पुनः || ४५ ||
सूर्ययसोमकृशानूनामर्कषोडशदिक्कलम् || हंसरं वर्णपूर्वं च योजयित्वा च पूर्ववत् || ४६ ||
ततः कुर्ययाद्वासुदेवादिकं न्यासं स उच्यते || न्यसेदोंखांनमः प्रोक्ता पराय परमेष्ठिने || ४७ ||
वासुदेवेति तत्त्वात्मने नमो मस्तके मतम् || तारोयं नम इत्युक्त्वा पुरुषायपदं वदेत् || ४८ ||
सङ्कर्षणेति तत्त्वात्मनेनमश्चमुखेन्यसेत् || ओंरं नमः परायेति निवृत्तिं ङेन्तनामनि || ४९ ||
रुद्धतत्त्वात्मने प्रोच्य नमोन्तं व्यञ्जने न्यसेत् || ओंलं नमः परायेति शर्वायेति पदं वदेत् || ५० ||
नारायणाय तत्त्वात्मने नमः पादयोर्न्यसेत् || ओंक्ष्रौं नमः परायेति नृसिंहाय पदं वदेत् || ५१ ||
कोपतत्त्वात्मने हृच्च सर्वाङ्गे व्यापकं चरेत् || एवं विन्यस्य विधिवत्साक्षान्नारायाणो भवेत् || ५२ ||
प्. ६८०)ज्वररोगाभिचाराद्या भूताद्या यान्ति सङ्क्षयम् || वैष्णवीर्दर्शयेन्मुद्राः पूर्वोक्ताश्च ततः परम् || ५३ ||
किरीटमनुना दद्यात्स्वके पुष्पाञ्जलित्रयम् || ऊर्ध्वं चाधो दक्षभेदाद् घण्टां च कमलं गदाम् || ५४ ||
शंखं चक्रं सूर्ययकान्तिं पार्श्वयोर्धरणीं रमाम् || केयूरहारमुकुटं सपीताम्बरकुण्डलम् || ५५ ||
कौस्तुभोद्भिन्नहृदयं श्रीवत्साङ्कितवक्षसम् || नवशक्तिसमायुक्ते पीठे देवं यजेत्ततः || ५६ ||
विमलोत्कर्षिणी ज्ञाना क्रियायोगा तथैव च || प्रभा सत्या तथेशानानुग्रहा नव शक्तयः || ५७ ||
तारो नमो भगवते विष्णवे पदमुच्चरेत् || सर्वात्मने वासुदेवाय साक्षिणे पदमुच्चरेत् || ५८ ||
सर्वात्मने योगपीठपद्मपीठात्मने नमः || पीठमन्त्रः समाख्यातः सप्तत्रिंशद्भिरक्षरैः || ५९ ||
अनेन पीठं सम्पूज्य देवमावाहयेत्ततः || तुभ्यं तमभिधास्यामि मन्त्रमावाहनस्य च || ६० ||
एह्येहि भगवन्देव लोकानुग्रहकारक || यज्ञभागं गृहाण त्वं वासुदेव नमोस्तु ते || ६१ ||
आवाह्य तत्र विधिवदुपचारैर्यथोदितैः || कर्णिकायां यथास्थानं यजेदङ्गानि पूर्ववत् || ६२ ||
केशरेषु यजेत्पश्चान्मन्त्रवर्णान्यथोदितान् || दिक्पत्रेष्वर्चयेद्वासुदेवं सङ्कर्षणं तथा || ६३ ||
प्रद्युम्नमनिरुद्धं च कम्ब्वब्जारिगदाधरान् || गौरहारिद्रकृष्णाख्यशुक्लनीलनिभान्क्रमात् || ६४ ||
शान्तिं क्षिप्रां भारतीं च शक्तिं कोणेषु पूजयेत् || शुक्लस्वर्णपयःश्यामसङ्काशाश्चारुभूषणाः || ६५ ||
अब्जं चक्रं दरं चैव गदां पीताम्बरं तथा || अर्चेन्मुसलखड्गौ च वनमालां दलाग्रतः || ६६ ||
भूपुरे प्रागिमे पूज्याः खगः कृष्णोरुणो विराट् || अतः शङ्खनिधि पद्मनिधी रक्तोथ रक्तभाक् || ६७ ||
ईच्छ्यामो बाणदुर्गो विष्वक्सेनो निशानिभः || आग्नेयादिदलेष्वेते पूज्याश्चाग्रे दिगीश्वराः || ६८ ||
तदग्रे हेतयश्चेति षडावरणपूजनम् || नारायणस्य गायत्रीं ब्रवीम्येकमनाः श्रुणु || ६९ ||
नारायणाय विद्महे वासुदेवाय धीमहि || तन्नो विष्णुः प्रचोदयात् || ७० ||
क्षत्रियादेस्तु संस्कारं प्रग्वत्कुर्ययात्तथानया || योग्यः स्याद्विष्णुदीक्षायां द्विजवत्पापवर्जितः || ७१ ||
दन्तलक्षं जपेन्मन्त्रं त्रिमध्वक्तैः सरोरुहैः || प्. ६८१)जुहुयात्तर्प्पयेत्कृष्णचन्द्रं च केशराम्बुभिः || ७२ ||
मार्ज्जनान्ते सदाचारान्भोजयेद्वैष्णवान्द्विजान् || एवं सिद्धमनुर्मन्त्री प्रयोगन्तु समाचरेत् || ७३ ||
सायुधाष्टभुजं सौम्यं सर्वाङ्गधवलद्युतिम् || सम्मुखीकरणे ध्यायेद्विष्णुं गरुडगामिनम् || ७४ ||
एवमेव हरिं ध्यायेद्भोगः संसारकर्मभिः || दधिमध्वाज्ययुक्ताश्च चतुरंगुलसम्मिताः || गुडूचीरयुतं हुत्वा मृत्युमेवातितर्ज्जयेत् || ७५ ||
शनैश्चरदिनेश्वत्थं सम्यगालभ्य पाणिना || जपेदष्टोत्तरशतं स भवेदपमृत्युजित् || ७६ ||
पञ्चविंशमितं जप्त्वा मन्त्री शुद्धाः पिबेदपः || निरस्तपातको भूत्वा नीरोगो ज्ञानवान्भवेत् || ७७ ||
जप्त्वायुतं च कुम्भाद्भिः सेचनं सर्वरोगनुत् || जपित्वा यस्तु भुञ्जानो धीमानारोग्यवान्भवेत् || ७८ ||
चन्द्रसूर्ययोपरागे तु त्रिदिनं दिनमेव च || उपोष्याष्टसहस्रन्तु स्पृष्ट्वा शालीन्घृतं जपेत् || यः पिबेल्लभते मेधां कविताबोधनं च सः || ७९ ||
बिल्वैरयुतहोमेन सद्यो धनपतिर्भवेत् || पद्मतन्तुमयं सूत्रमयुतेनाभिमन्त्रितम् || धारयेद्दक्षिणे हस्ते सर्वतः स्यात्सुरक्षितः || ८० ||
एवं सङ्क्षेपतः प्रोक्तमन्ते मन्त्राष्टकं शृणु || एते ह्यष्टौ मन्त्रवर्णा मन्त्राष्टकमुदीर्ययते || ८१ ||
छन्दर्षिदेवताश्चैषां ध्यानाद्यं च वदामि ते || गौतमोथ भरद्वाजो विश्वामित्रः क्रमेण च || जमदग्निर्वशिष्ठश्च कश्यपोत्रिर्घटोद्भवः || ८२ ||
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च || त्रिष्टुप् च जगती चैव विराट् छन्दांस्यनुक्रमात् || ८३ ||
धरा ध्रुवस्तथा सोम आपोग्निर्वायुरेव च || प्रत्यूषश्च प्रभासश्च विज्ञेया देवताः क्रमात् || ८४ ||
अग्निर्भूर्वायुराकाश आदित्यो द्यौर्विधुश्च ते || तत्त्वानि सप्तलोकास्तु क्षेत्राणि खचरात्मकाः || ८५ ||
शुक्ले हिरण्मयं कृष्णं रक्तं कुंकुमसन्निभम् || पद्मकिञ्जल्कनीलाभं रक्तवर्णाष्टको मतः || ८६ ||
षडाद्ययोरुदात्तः स्यात्स्वरितस्तु द्वितीययोः || प्रचयस्त्रिचतुर्वर्णैर्निहतं पञ्चमाक्षरम् || ८७ ||
उदात्तं सप्तमं चेति ज्ञात्वा वेदं जपेन्मनुम् || दधच्चक्रं गदां पद्मं दरं दक्षिणवामयोः || सान्तराः स्युः शंखचक्रगदापद्मकराः क्रमात् || ८८ ||
यां मूर्तिं पूजयेत्पूर्वमन्यास्तस्या भवन्ति हि || अङ्गान्यन्तिमपत्रे तु मध्यस्थं पुनरर्चयेत् || ८९ ||
प्. ६८२)तत्र प्रणवपूजायां चाङ्गावृत्तिस्तथादिमा || द्वितीयावरणं प्रोक्तमन्त्रवर्णाष्टमूर्त्तिभिः || ९० ||
वासुदेवादिकैः शान्त्यादिसंयुक्तैस्तृतीयकम् || तृतीयेष्टदले प्रोक्ता रतिश्चापि धृतिस्तथा || ९१ ||
कान्तिस्तुष्टिश्च पुष्टिश्च स्मृतिदीप्त्याख्यकीर्त्तयः || वज्रादिभिश्चतुर्थी स्यात्प्राग्वत्षष्ठी सपञ्चमी || ९२ ||
मोकारावृत्तिपूजायां तृष्णावृत्तिचतुष्टयम् || नाकारावृत्तिपूजायामावृत्तित्रयपूजने || ९३ ||
राकारावृत्तिपूजायां तुल्यमेवावृतिद्वयम् || तृतीयावरणे पूज्या श्रीर्माया च मनोन्मनी || ९४ ||
ह्रीर्मोहिनी महामाया रमाद्या आवृतित्रयम् || यवर्णमूर्तिपूजायान्तुल्यमेवावृतिद्वयम् || ९५ ||
तृतीयावरणे चक्रं शंखश्चापि गदा हलः || शार्ङ्गं च मुसलं खड्गस्त्रिशूलमिति पूजनम् || शोकारमूर्त्तिपूजायां प्राग्वदावरणद्वयम् || ९६ ||
तृतीयेष्टदलेनन्तो वासुकिस्तक्षकस्तथा || कर्कोटकस्तथा पद्मो महापद्मस्ततः परम् || शंखपालश्च कुलिकः प्रोक्तमत्रावृतिद्वयम् || ९७ ||
यकारमूर्तिपूजायामङ्गैस्स्यात्प्रथमावृतिः || वासुदेवादिभिः शान्त्यादियुक्तैरमया मता || ९८ ||
तृतीयार्कदले कोणे वाद्यांश्चैव प्रपूजयेत् || चतुर्थ्यामष्टपत्रे तु वज्रादीनां समर्चनम् || ९९ ||
पञ्चम्यां दिग्दलेष्वर्च्या मत्स्याद्या ह्यवतारकाः || षष्ठ्यामिन्द्रादिकाश्चाग्रे तदस्त्राणीति पूजनम् || १०० ||
जपेत्षोडशलक्षाणि हुनेदत्र तु पूर्ववत् || इह लोके सुखं प्राप्य विष्णुसायुज्यमाप्नुयात् || १०१ ||
अथान्यं मुक्तिदं वक्ष्ये नारायणमनुं परम् || नारायणस्य चरणौ शरणं च ततो वदेत् || १०२ ||
प्रपद्ये तारमुच्चार्यय श्रीमन्नारायणाय च || नमो जिनार्णको मन्त्रो मुन्याद्यं पूर्ववन्मतम् || १०३ ||
षड्दीर्घयुक्तकामेन षडङ्गविधिरस्य तु || ध्यानपूजाप्रयोगादि पूर्ववत्परिकीर्त्तितम् || १०४ ||
अथातः सम्प्रवक्ष्यामि माधवस्य महामनुम् || क्षिप्रसिद्धिकरः काश्यां यद्वासौ ध्रुवपूर्वकः || १०५ ||
रमां बिन्दुपदं चोक्त्वा माधवाय नमो नमः || द्वादशार्णो महामन्त्रः पञ्चाङ्गानि क्रमात्पदैः || १०६ ||
शंखचक्र गदापद्मधरं पीताम्बरावृतम् || बद्धाञ्जली रमा वामे वादयन्ती च वल्लकीम् || १०७ ||
नारदस्तुम्बुरुर्दक्षभागे तैरपि संयुतम् || प्रसन्नवदनं ध्यायेद्वरदानसमुद्यतम् || १०८ ||
प्. ६८३)पूर्वोक्ते पूजयेत्पीठे मध्ये लक्ष्म्या समावृतम् || पञ्चाङ्गपूर्वमभ्यर्च्य यजेदष्टदले क्रमात् || १०९ ||
किरणां धूतपापां च यमुनां च सरस्वतीम् || गङ्गामसीं च वरुणां गण्डकीं च दलाष्टके || ११० ||
विदुरं नारदं भीष्मं दिवोदासार्जुनौ बलिम् || विभीषणं च प्रह्रादं बाह्ये षोडशपत्रके || १११ ||
मोदं प्रमोदं सुमुखं दुर्मुखं गणनायकम् || ढुण्ढिराजं विशालाक्षं ढुण्ढिभैरवमीश्वरम् || ११२ ||
साम्बादित्यं योगिनीं च दण्डपाणिं विनायकम् || जैनेन्द्रं च महामायं भूपुरे दिक्पतीनपि || ११३ ||
दन्तलक्षं जपेन्मन्त्रं होमं प्राग्वत्समाचरेत् || शान्त्यादिगुणसम्पन्नो धवनान्मुक्तिभाग्भवेत् || ११४ ||
अथातः सम्प्रवक्ष्यामि गोविन्दस्य परं मनुम् || गोविन्दाय नमश्चेति षडर्णो मनुरीरितः || ११५ ||
शौनकोस्य मुनिश्छन्दो विराङ्गोविन्द ईश्वरः || षडङ्गं मन्त्रवर्णैः स्यात्सर्वेण व्यापकं चरेत् || ११६ ||
शंखचक्रगदापद्मधरं ध्यायेत्किरीटिनम् || गरुडोपरि संस्थं च सनकाद्यैरुपासितम् || ११७ ||
लक्ष्मीधराभ्यां सहितमुद्यदादित्यकुण्डलम् || लोकरक्षाकरं दिव्यं दिव्यमाल्यानुलेपनम् || ११८ ||
पूर्वोदिते यजेत्पीठे वैष्णवेनोक्तवर्त्मना || देवमावाह्य मन्त्राङ्गैः प्रथमावृतिरीरिता || ११९ ||
चक्राद्यैश्च द्वितीया स्यात्तृतीया सनकादिभिः || सनकः स्यात्ततोप्यग्रे सनन्दनसनातनौ || १२० ||
सनत्कुमारश्च पराशरो व्यासश्च नारदः || शौनकोष्टम एव स्याच्चतुर्थी लोकपालकैः || १२१ ||
तदायुधैः पञ्चमी स्यादेवं पूजा समीरिता || लक्षमेकं जपेन्मन्त्रं तद्दशांशं हुनेद् घृतैः || १२२ ||
तर्प्पणं मार्जनं कुर्ययाद्ब्राह्मणानपि भोजयेत् || एवं कृतप्रयोगस्य रोगनाशो भविष्यति || १२३ ||
कन्यार्थी लाजहोमेन लक्ष्म्यर्थी बिल्वहोमतः || वस्त्रार्थी पुष्पहोमेन आरोग्यार्थी तिलैर्हुनेत् || १२४ ||
रविवारे जले स्थित्वा नाभिमात्रे जपेद्बुधः || अष्टोत्तरसहस्राणि ज्वरनाशो भवेद्ध्रुवम् || १२५ ||
विवाहार्थं जपेन्मासं शशिमण्डलसन्निभम् || ध्यायेल्लभेद्रमां [रमयतीति रमा ताम् सुन्दरीमिति यावत् ||] कन्यां कुलीनां च कुटुम्बिनीम् || १२६ ||
अथातः सम्प्रवक्ष्यामि विष्णुमन्त्रं महाद्भुतम् || विष्णवे नम इत्येष मन्त्रः पंचाक्षरो मतः || १२७ ||
नारदोस्य मुनिश्छन्दो गायत्री विष्णुरीश्वरः || प्. ६८४)पञ्चवर्णैः समस्तेन षडङ्गविधिरीरितः || १२८ ||
शंखचक्रगदापद्मधरं लक्ष्मीसमावृतम् || पीताम्बरं घनश्यामं ध्यायेत्तं भूषणान्वितम् || १२९ ||
पूर्वोक्ते च यजेत्पीठे षट्कोणाष्टदलान्विते || बलिं विभीषणं भीष्मं प्रह्लादं नारदार्जुनौ || १३० ||
षड्दले चाष्टपत्रे तु विदिक्षु सनकादिकान् || एवं शीलं सुशीलं च जयं च विजयं दिशि || भूपुरे दिक्पतीनिष्ट्वा तदस्त्राणि ततो बहिः || १३१ ||
पंचलक्षं जपेन्मन्त्रं त्रिमध्वक्तैस्तिलैर्हुनेत् || तर्प्पणैर्मार्जनैर्विप्रभोजनैराशु सिद्ध्यति || १३२ ||
अनेन लक्षपद्मानि शान्तिकामः समर्चयेत् || न कदाचिद्दरिद्रः स्याद्दूर्वाभिः स्यादरोगता || १३३ ||
रक्तैर्हयारिकुसुमै राजानं वशमानयेत् || चम्पकैः स्त्रियमाप्नोति मालत्यापि सुखी भवेत् || १३४ ||
तुलसीमञ्जरीभिस्तु सर्वकामानवाप्नुयात् || केतक्या जायते कामो ह्यमरो जायते नरः || पारिजातैस्तु सौन्दर्ययं नातः परतरो मनुः || १३५ ||
अथातः सम्प्रवक्ष्यामि मधुसूदनसन्मनुम् || तारो नमो भगवते ङेन्तश्च मधुसूदनः || १३६ ||
त्रयोदशाक्षरो मन्त्रो मुनिर्ब्रह्मा समीरितः || छन्दोनुष्टुब्देवता तु भगवान्मधुसूदनः || १३७ ||
पदैर्मन्त्रस्य सर्वेण पञ्चाङ्गविधिरीतः || शेषतल्पप्रसुप्तं तु लक्ष्मीसंवाहितांघ्रिकम् || १३८ ||
नाभिपद्मस्थितविधिं शंखचक्रगदाधरम् || पीताम्बरं घनश्यामं मधुकैटभमारकम् || १३९ ||
कर्णिकायां यजेद्विष्णुं बहिरष्टदलेर्चयेत् || योगनिद्रां महामायां कालरात्रिं च कालिकाम् || १४० ||
महारात्रिं मोहरात्रिं महाविद्यां च मोहिनीम् || एवं सम्पूज्य देवेशं जपेल्लक्षचतुष्टयम् || १४१ ||
पद्मैर्हुनेत्त्रिमधुराप्लुतैस्तस्य दशांशतः || तर्प्पणं मार्जनं कुर्यामन्त्रसिद्धिः प्रजायते || १४२ ||
आम्रपुष्पैर्गोघृताक्तैर्हुत्वा भोगमवाप्नुयात् || पलाशकुसुमैर्हुत्वा शत्रूणां स्तम्भयेद्बलम् || १४३ ||
अथार्कैः शोकनाशः स्यात्सिन्दूरैर्वश्यता भवेत् || मालत्या चातुला लक्ष्मीरन्यत्पूर्ववदेवतु || १४४ ||
अथातः सम्प्रवक्ष्यामि मन्त्रं त्रैविक्रमं परम् || तारं नमो भगवते व्याहृतित्रितयं वदेत् || १४५ ||
व्यापकाय पदं पश्चान्ङेन्तं चापि त्रिविक्रमम् || १४६ ||
विंशत्यर्णो महामन्त्रो गतराज्यप्रदायकः || पदपञ्चकसर्वेण षडङ्गविधिरीरितः || १४७ ||
मुनयो वालखिल्याः स्युश्छन्दो गायत्रमीरितम् || प्. ६८५)देवता विश्वरूपोस्य त्रिविक्रम उदाहृतः || १४८ ||
दक्षांघ्रिव्याप्तपातालं वामांघ्रिव्याप्तभूतलम् || दक्षिणं पुनरुत्थाप्य स्वर्गव्याप्तकरं हरिम् || १४९ ||
बलिदत्तैः कुशतिलैस्तोयैः सम्प्रस्रवत्करम् || अभयं वामहस्तेन कुर्वन्तं च सुरेश्वरम् || गङ्गौघधौतपादाब्जं ध्यायेद्ब्रह्मादिकैः स्तुतम् || १५० ||
वैष्णवे च यजेत्पीठे दलेष्वष्टसु च क्रमात् || बलिं विधिं च प्रह्लादं कश्यपं चादितिं शिवम् || लक्ष्मीं भुवं भूपुरे तु दिगीशानायुधानि च || १५१ ||
विंशल्लक्षं जपेन्मन्त्रं तिलतण्डुलसर्षपैः || त्रिमध्वक्तैर्हुनेत्पश्चात्तर्प्पणाद्यं च कारयेत् || १५२ ||
एवं सिद्धमनुर्मन्त्री लभते वाञ्छितं फलम् || १५३ ||
अथातः सम्प्रवक्ष्यामि वामनस्य मनुं परम् || तारो नमो भगवते बलिसर्वस्वहारिणे || १५४ ||
अमुकं देहि ममाभीष्टमनेकं च वामन || मायां रमां समुच्चार्यय मन्त्रो द्वात्रिंशदर्णकः || १५५ ||
कामो मुनिरनुष्टुप् च छन्दो देवस्तु वामनः || सप्ताष्टार्कत्रिभूचन्द्रैः षडङ्गविधिरीरितः || १५६ ||
प्रगृह्णन्तं बलिं चार्थान्हर्षेण ददतं बलिम् || पूर्णकामावुभौ ध्यायेदिति प्रीतिसमन्वितौ || १५७ ||
पूर्वोक्तमर्चनन्तत्रं कोटिमात्रं जपेन्मनुम् || लक्षं हुनेद्बिल्वफलैर्मधुरत्रयसंयुतैः || १५८ ||
तर्प्पणं मार्जनं कृत्वा तथा ब्राह्मणभोजनम् || तद्दशांशं च मन्त्रस्य सिद्धिः स्यात्पापनाशिका || १५९ ||
एवं सिद्धमनुर्मन्त्री ध्यायन्देवं जपेन्मनुम् || साध्ये ददतमिष्टार्थं ध्यात्वा वर्णमितं जपेत् || भावयेद्वाञ्छितं स्वार्थं स दद्यान्नात्र संशयः || १६० ||
अहोरात्रं जपेद्वापि स देवादिर्यदा भवेत् || प्रातस्तदा स्वयं मन्त्रं साधकाय प्रयच्छति || १६१ ||
दद्यादभीष्टं ललिताप्यन्य दवेस्य का कथा || अथातः सम्प्रवक्ष्यामि श्रीधरस्य मनुं परम् || रमां शक्तिं कामबीजं श्रीधराय ततो वदेत् || १६२ ||
त्रैलोक्यमोहनायेति नमोन्तः षोडशाक्षरः || ऋषिर्ब्रह्मा भवेच्छन्दो गायत्रं श्रीधरस्सुरः || १६३ ||
श्रीबीजेन षडङ्गानि कुर्ययात्षड्दीर्घसंयुजा || दुग्धाब्धौ च सिते द्वीपे सर्वर्त्तुफलितद्रुमे || १६४ ||
तत्र कल्पद्रुमाधस्तात्पक्षीन्द्ररचितासने || शङ्खचक्रगदापद्मपाणिं चामीकरद्युतिम् || १६५ ||
किरीटिनं कुण्डलिनं श्रीवत्सांकितवक्षसम् || प्. ६८६)हृदि लक्ष्मीधरं ध्यायेच्छ्रीधरं पुरुषार्थदम् || १६६ ||
यजेच्चवैष्णवे पीठे कर्णिकायां सुरेश्वरम् || षडङ्गानि यजेत्तत्र देवाङ्गेषु ततो यजेत् || १६७ ||
वक्षस्स्थले दक्षभागे श्रीवत्सायेति पूजयेत् || वामे च कौस्तुभायेति ग्रीवायां पूजयेत्ततः || १६८ ||
नमोन्तं वनमालायै मुकुटायेति संयजेत् || भाले च कर्णिकायां च पक्षिराजाय वै नमः || १६९ ||
नमः पंकजनाभाय गरुडायेति पूजयेत् || पुरुषोत्तमकं लक्ष्मीनिवासं तदनन्तरम् || १७० ||
सकलञ्चजगन्नाथं जगत्क्षोभणमेव च || सर्वस्त्रीहृदयोन्मादं मदोन्मादक मेवच || १७१ ||
सर्वसौभाग्यदं सर्वकामदं च प्रपूजयेत् || तदुत्सङ्गगतां देवीं पूजयेच्छ्रीं श्रियै नमः || १७२ ||
लोकेश्वरांश्च वज्रादीन्भूपुरे परिपूजयेत् || लक्षमेकं जपेन्मन्त्रं तद्दशांशं घृतैर्हुनेत् || १७३ ||
तर्प्पणादि ततः कुर्ययात्पूर्ववत्साधकोत्तमः || ततः सिद्धमनुर्मन्त्री काम्यकर्म समाचरेत् || १७४ ||
गन्धैश्च शतपुष्पैश्च होमो लक्ष्मीकरः परः || वराहोक्तान्प्रयोगांश्च विदध्यादत्र साधकः || भजते श्रीधरं यस्तु स च लोकद्वये सुखी || १७३ ||
अथातः सम्प्रवक्ष्यामि हृषीकेशस्य सन्मनुम् || कामबीजं हृषीकेशो ङेहृदन्तो गजाक्षरः || १७६ ||
छन्दोनुष्टुबृषिर्ब्रह्मा हृषीकेशश्च देवता || षड्दीर्घयुक्तकामेन षडङ्गविधिरीरितिः || १७७ ||
शंखचक्रगदापद्मधरिणं संस्मरेद्विभुम् || गरुडोपरि संविष्टं शुभ्रवर्णं सुभूषणम् || १७८ ||
श्रीधरोक्ते यजेत्पीठे ह्यङ्गाद्यावरणान्वितम् || अष्टलक्षं जपेन्मन्त्रं तद्दशांशं हुनेत्पुनः || आज्याक्तैः कमलैः पूर्णैस्तर्प्पणादि ततश्चरेत् || १७९ ||
एवं सिद्धमनुर्मन्त्री प्रयोगान्पूर्ववच्चरेत् || विजयायाः प्रसूनैश्च तर्प्पणं सर्वकामदम् || १८० ||
अथ मन्त्रान्तरं वक्ष्ये श्लोकरूपं महाफलम् || यज्जपादेव सिध्यन्ति साधकाभीष्टकोटयः || १८१ ||
स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च || रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः || १८२ ||
अर्जुनोस्य मुनिः प्रोक्तोनुष्टुप् छन्दश्च देवता || हृषीकेशोखिलं सर्वं ज्ञेयं वै पूर्वमन्त्रवत् || १८३ ||
षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः || प्रलयाब्धौ शेषतल्पे लक्ष्मीसंवाहितांघ्रिकम् || १८४ ||
प्. ६८७)नाभिपुष्करसंस्थेन धात्रा स्तुतमरिन्दमम् || पद्मं कौमोदकीं हस्तैर्दधतं दीप्ततेजसम् || १८५ ||
पीताम्बरधरं श्याममर्धोन्मीलितलोचनम् || ध्यात्वार्चयेच्छ्रीधरोक्तपीठे तद्वज्जपादिकम् || १८६ ||
प्रयोगांश्च विजानीयात्पद्मनाभार्चनं त्विति || १८७ ||
अथातः सम्प्रवक्ष्यामि दामोदरमनुं परम् || राधादामोदरायेति कामबीजेन सम्पुटः || नवाक्षरो महामन्त्रो भोगभाजां सुसिद्धिदः || १८८ ||
कामदेवो मुनिश्छन्दो गायत्रं देवता मतः || राधादामोदरः साक्षाद्भुक्तिमुक्तिफलप्रदः || १८९ ||
पीताम्बरधरं श्यामं नानालंकारभूषितम् || वामोत्सङ्गगतां राधां चालिङ्गन्तं मुदान्वितम् || १९० ||
उद्याने संस्मरेद्देवं नानापुष्पलतायुतम् || षडङ्गं कामबीजेन यजेद्देवं सशक्तिकम् || १९१ ||
कर्णिकायां केशरेषु गौर्ययाद्या मातृका यजेत् || ब्रह्मादिकान्पद्ममध्ये पत्राग्रे तु ह्रियं रतिम् || १९२ ||
पञ्चकामान्वसन्तं च तद्बाह्ये भूपुरेर्चयेत् || दिगीशांश्चापि वज्रादीनेवं पूजा समीरिता || १९३ ||
नवलक्षं जपेन्मन्त्रं तण्डुलं सघृतं हुनेत् || तर्प्पणं मार्जनं कृत्वा दम्पत्योर्भोजनं चरेत् || १९४ ||
एकलक्षादिपंचान्तं कार्ययलाघवगौरवात् || पुरश्चरणवत्कुर्याज्जपाद्यं कार्ययसिद्धये || १९५ ||
चतुर्ष्वपि युगेष्वेतत्समोद्भुतफलो न हि || अथातः सम्प्रवक्ष्यामि संकर्षणमनुं परम् || १९६ ||
कामबीजं समुचार्यय ङेन्तन्त्रैलोक्यमोहनम् || ततश्चाप्रतिरूपाय पराय च वदेत्पदम् || १९७ ||
संकर्षणात्मने हृच्च पञ्चविंशाक्षरो मनुः || त्रैमुनिस्तु मुनिश्छन्दो मितं संकर्षणः सुरः || १९८ ||
षड्भिः पदैः षडङ्गानि तथांगुष्ठादिषु न्यसेत् || अंकुशं दक्षिणे हस्ते वामेनाभयमेव च || १९९ ||
मेघश्यामं पीतवासो नानाभरणसंयुतम् || नारदादियुतं ध्यायेद्वाणीलक्ष्म्यौ च पार्श्वयोः || २०० ||
सुवर्णमग्र्ये विपिने स्थितं कल्पदुमावृतेः || यजेच्च वैष्णवे पीठे नवलक्षं जपेन्मनुम् || २०१ ||
हुनेत्तिलैस्त्रिमधुराप्लुतैः स्यात्तर्प्पणादिकम् || २०२ ||
एवं सिद्धमनुर्मन्त्री दूर्वाखण्डायुतं हुनेत् || समस्तरोगनाशस्तु लक्ष्मीः पद्माक्षहोमतः || २०३ ||
आकर्षणं बिल्वफलैस्ताम्बूलैः स्याद्वशीकृतिः || दीर्घायुष्यं गोघृतेन महिषेणापि मन्मथः || २०४ ||
पुत्रजीवकबीजानां घताक्तानां च होमतः || वन्घ्यापि लभते पुत्रं होमसंख्यायुतादिकम् || २०५ ||
प्. ६८८)अथातः सम्प्रवक्ष्यामि वासुदेवमनुं परम् || तारो नमो भगवते वासुदेवायसंस्मृतः || २०६ ||
द्वादशार्णस्तु गायत्री छन्दश्चास्य प्रजापतिः || मुनिर्देवो वासुदेवः पञ्चाङ्गविधिरीरितः || २०७ ||
पदैः समस्तैस्तु तथा द्वादशाङ्गं ततो न्यसेत् || स्तनयोर्हृदये पृष्ठे बाह्वोरूर्वोश्च जानुनोः || पादयोस्तु मनोर्वर्णान्न्यसेद्बिन्दून्नमोन्तकान् || २०८ ||
मन्त्रं सम्पूर्णमेवं तु यथास्थाने न्यसेद्बुधः || त्रिशस्तारत्रिपुटितमूलेन व्यापकं चरेत् || २०९ ||
मन्त्रार्णेस्त्रिविधं न्यासं न्यसेन्मन्त्री ततः परम् || कयोलकर्णदृक्कण्ठदोर्हृज्जठरनाभिषु || २१० ||
लिङ्गजान्वंघ्रिषु प्रोक्तः सृष्टिन्यासस्तु मन्त्रिभिः || हृदादिकोयं शीर्षान्तः स्थितिन्यास उदाहृतः || २११ ||
पादावारभ्य शीर्षान्तो न्यासः संहारसञ्ज्ञकः || एष क्रमो यतीनां तु व्यस्ततो ब्रह्मचारिणाम् || २१२ ||
संहारसृष्टिस्थितथो ग्रहस्थानां प्रकीर्तिताः || संहृतां दोषसंहारः सृष्टौ च शुभ सृष्टयः || स्थितौ च शान्तिविन्यासः स स्यात्कार्यस्त्रिधा बुधैः || २१३ ||
जीवतत्त्वात्मने प्रोच्य पुरुषाय नमश्च के || प्राणतत्त्वात्मने भाले सर्वगाय नमो न्यसेत् || बुद्धितत्त्वात्मनेच्युताय नमो नेत्रयोर्न्यसेत् || २१४ ||
चित्ततत्त्वात्मने वासुदेवाय च नमो मुखे || कर्णे ह्रत्पद्मतत्त्वाय वदेत्संकर्षणाय च || २१५ ||
नमोन्यसेदथो दक्षभुजे सूर्यकलात्मने || सूर्यमण्डलतत्त्वाय प्रद्युम्नाय ततो न्यसेत् || ततो न्यसेद्वामबाहौ तत्षोडशकलात्मने || २१६ ||
चन्द्रमण्डलतत्तत्त्वानिरुद्धाय हृदि न्यसेत् || न्यसेत्ततश्च हृदये मध्यदेशे कलात्मने || अग्निमण्डलतत्त्वाय ङेन्तो नारायणो मतः || २१७ ||
कुक्षौ न्यस्येद्वासुदेवं तत्त्वञ्च ब्रह्मणे नमः || संकर्षणाख्यतत्त्वाय लिङ्गे स्याद्विष्णवे नमः || २१८ ||
ततः प्रद्युम्नतत्त्वाय नृसिंहाय नमो न्यसेत् || दक्षपादे च वामेनिरुद्धतत्त्वात्मने न्यसेत् || २१९ ||
वाराहाय नमश्चेति तत्त्वन्यास उदाहृतः || मूर्त्तिपञ्जरनामानं केशवादिकमाचरेत् || २२० ||
न्यासं ततो वासुदेवं ध्यायेत्तद्ध्यानमुच्यते || दुग्धाम्भोधौ सितद्वीपे दिव्ययोषाविराजिते || २२१ ||
तत्रास्तेसौ महारम्ये सर्वर्त्तुद्रुमसंकुले || तत्र कल्पद्रुमाधस्ताद्रत्नमंचे तु पङ्कजम् || २२२ ||
स्वर्णाभं चिन्तयेत्तत्र वासुदेवं स्मिताननम् || चन्द्रकान्तिं शंखचक्रगदापद्मलसत्करम् || २२३ ||
प्. ६८९)श्रीवत्साङ्गदकेयूरमुकुटं चारुकुण्डलम् || सकौस्तुभं पीतवस्त्रं धृतग्रैवेयकं कणम् || २२४ ||
सनकाद्यैः सिद्धविद्याधरगन्धर्वसेवितम् || यजेन्नारायणे पीठे मूर्त्तिं मूलेन कल्पयेत् || २२५ ||
पूर्वेमङ्गानि सम्पूज्य वासुदेवादिहेतयः || दिग्विदिक्षु च सम्पूज्यास्ततो द्वादशमूर्तयः || Kएशवाद्याः समभ्यर्च्य लोकेशा आयुधैः सह || एवं सम्पूज्य विधिवज्जपेद्द्वादशलक्षकम् || तत्सहस्रं च कमलैर्जुहुयान्मधुरप्लुतैः || २२६ ||
तदभावे तिलैः शुद्धैर्जुहुयादाज्यसंप्लुतैः || तर्प्पणादि ततः कृत्वा प्रयोगानाचरेत्तथा || क्षीरवृक्षसमिद्भिश्च होमः स्यात्पापमुक्तये || २२७ ||
दुग्धकाष्ठैः शमीमिश्रैः सहस्राण्ययुतानिच || आज्येन हविषो होमाच्चित्तशुद्धिः प्रजायते || पायसेन तिलैः शुद्धैः समिदाज्यैः सशालिभिः || पृथगष्टसहस्राणि हुत्वाभीष्टमवाप्नुयात् || नारायणोक्तान्निखिलान्प्रयोगानाचरेत्ततः || २२८ ||
अथातः सम्प्रवक्ष्यामि वासुदेवमनुं परम् || तारं मायाद्वयं लक्ष्मीद्वयं लक्ष्मीपदं वदेत् || २२९ ||
वासुदेवाय हृदयं शक्रवर्णः स्मृतो मनुः || ऋषिः प्रजापतिश्छन्दो गायत्री बीजकं ध्रुवः || २३० ||
देवो लक्ष्मीर्वासुदेवः शक्तिर्देवी प्रकीर्त्तिता || द्विद्विद्वीषुद्विभिर्वर्णेस्ताराद्यैरङ्गकल्पनम् || २३१ ||
उद्यत्सौदामिनीकान्तिं नानाभूषणभूषितम् || लक्ष्म्यालिङ्गनतश्चैकीभूतं चाङ्कगतां [पश्यन्तमिति शेषः ||] हि ताम् || २३२ ||
पुस्तकं दर्प्पणं पद्मं रत्नकुंभं रमां करैः || दधतीं शंखचक्राब्जगदाहस्तं गदाधरम् || २३३ ||
द्वादशाक्षरवत्पूजा शक्रलक्षं जपो मतः || दशांशं पङ्कजैर्होमो मधुरत्रयसंयुतैः || २३४ ||
पायसेन कृतो होमो लक्ष्मी वश्यप्रदो भवेत् || मधुराक्तैस्तिलैर्हुत्वा सर्वकार्याणि साधयेत् || २३५ ||
अथातः सम्प्रवक्ष्यामि प्रद्युम्नमनुमद्भुतम् || क्लीं प्रद्युम्नाय हृदयं मनुः सप्ताक्षरो मतः || २३६ ||
कामो मुनिर्विराट् छन्दः प्रद्युम्नश्चास्य देवता || नियोगः समरे जेतुं कामयुद्धे तथा स्त्रियाः || २३७ ||
ध्यायेन्मधुवने देवं सर्वर्तुकुसुमावृते || आलिङ्गितं प्रभावत्या नानारूपं सुभूषितम् || २३८ ||
शरचापधरं कान्तं कान्ताभिरपि वीक्षितम् || गन्धर्वैरभितो गीतं प्रसन्नमुखपंकजम् ||२३९||
प्. ६९०)
यजेत् पूर्वोदिते कामपीठे मन्त्रायुतं जपेत् || शरत्काले वसन्ते वा दिनानामेकविंशतिम् || २४० ||
आद्यन्तयोः पूजनं स्याद् भोजयेद् दम्पतीयुगम् || एवं सिध्यति मन्त्रोयं सर्वाभीष्टप्रदायकः || २४१ ||
सहस्रादिक कोट्यन्तं होमः कार्ययो वशो भवेत् || यक्षिण्यो वशगाश्चैव वश्यः स्याद् योगिनीगणः || २४२ ||
राजिकाभिः स्त्रियो वश्याः सर्प्पाः स्युर्गारुडीदलैः || विप्राः पलाशकुसुमैः सेवन्तीभिर्नृपास्तथा || २४३ ||
वैश्याश्च चम्पकैः शूद्राः पुष्पैः सहचरोद्भवैः || तुरुष्का यान्ति दासत्वं जयन्त्याः कुसुमैर्हुनेत् || २४४ ||
अथातः सम्प्रवक्ष्यामि चानिरुद्धमनुं तथा || बाणरुद्धानिरुद्धाय मनोन्यस्मिन्मनोरथे || उषाहृदयरुद्धाय कामरूपाय ते नमः || २४५ ||
वात्स्या यनो मुनिश्छन्दोनुष्टुब् देवो निरुद्धकः || स्मरेदुषागृहे तं च चित्रलेखादिसंयुते || २४६ ||
पर्यंके सुखमासीनं नानालंकारभूषितम् || आलिङ्गितप्रियोषं च स्त्रीकौतुकरमान्वितम् || २४७ ||
नमोन्तैः षट्पदैः कामबीजाद्यैः स्यात्षडङ्गकम् || कामपीठे यजेद् देवं वर्णलक्षं जपेन्मनुम् || २४८ ||
घृताक्तः कामकुसुमैरभावे चूतसम्भवैः || जुहुयान्मन्त्रराजस्य सिद्धितोस्य जगद्वशम् || २४९ ||
अयं लौकिकमार्गेण साधको निशि होमयेत् || अष्टोत्तरसहस्रं तु तदा कुलवतो नृपाः || दासीभूताः साधकस्य जपेदृतुमतीं यभेत् || २५० ||
अष्टोत्तरसहस्रं त भूतप्रेतपिशाचकाः || प्रत्यक्षीभूय कार्याणि कुर्वते दासवच्चिरम् || २५१ ||
किञ्चिद्भक्ष्यन्तु तेभ्यश्च दद्यात्ते सर्वकारकाः || अथ वक्ष्ये महामन्त्रं सौख्यदं पौरुषोत्तमम् || मायारमातारकामबीजं हृत्पुरुषोत्तम || २५२ ||
आद्यानिरुद्धलक्ष्मीति निवाससकलेति च || जगत्क्षोभण सर्व स्त्रीहृदयेति विदारण [इदमुत्तरान्वयि] || २५३ ||
ङेन्तं मनोन्मादकरं सुरासुरपदं वदेत् || मनुजसुन्दरीत्युक्त्वा मनोन्मथमनांसि च || २५४ ||
तापयद्वितयं प्रोच्यद्विर्द्विर्दापय शोषय || द्विर्मारय स्तम्भय द्विर्द्विर्नाशयपदं वदेत् [इदमुत्तरान्वयि] || २५५ ||
आकर्षयद्वयं प्रोच्य द्विरावेशय संवदेत् || परमोक्त्वा च सुरभे सौभाग्यकर सर्व च || २५६ ||
कामप्रदेति चोच्चार्य चालक्ष्मीं हनयुग्मकम् || चक्रेण गदया चेति खड्गेनेति समुच्चरेत् || २५७ ||
प्. ६९१)सर्वबाणैर्भिन्धिभिन्धि पाशेन त्रासयद्वयम् || बन्धबन्धेत्यंकुशेन द्विस्त्रासय कुरुद्वयम् || २५८ ||
किन्तिष्ठसीति चोच्चार्यय तावद्यावत्समीप्सितम् || मे सिद्धं भवति क्लीं हुं फट् नमो ह्रीं रमां वदेत् || २५९ ||
कामंकामं कुशुभ्रांशुद्विवर्णोयं मनुर्मतः || भेदानस्य प्रवक्ष्यामि कामनावर्णभेदतः || २६० ||
आदौ मायां तथान्ते च सप्तबीजानि वर्जयेत् || ज्ञानदीक्षी च सन्न्यासी यस्तु केवलवैष्णवः || २६१ ||
मोहनार्थन्तु देवानां त्यजेदावरणद्वयम् || स्तम्भयद्वितयं ब्रूयात्तथा सम्मोहयद्वयम् || २६२ ||
निष्कामो ह्रीं रमादौ तु न ब्रूयात्परमस्य च || पूर्वं समस्तशब्दं च योजयेद्द्विधरेति च || २६३ ||
अनिष्टकरणार्थन्तु शत्रोर्नाम प्रयोजयेत् || स्थाने लक्ष्म्या इति प्रोच्य भेदाश्चत्वार एव हि || २६४ ||
जैमिनिर्मुनिरेतेषां छन्दश्चामितमीरितम् || त्रैलोख्यमोहनो नाम देवता पुरुषोत्तमः || २६५ ||
ओंक्लींपूर्वाणि हुंफट् च नमोन्तानि प्रविन्यसेत् || षडङ्गेषु पदान्यत्र वदेच्च पुरुषोत्तम || २६६ ||
त्रिभुवनोन्मादकर हृदये परिकीर्तितम् || सकलजगत्क्षोभणेति लक्ष्मीदयित शीर्षके || २६७ ||
शिखायां स्यान्मन्मथोत्तमाङ्गज कामदीपन || कवचं स्यात्परमसुभगसर्वपदं वदेत् || २६८ ||
सौभाग्यकराप्रतिमरूप केशव संस्मरेत् || अत्रैव कवचान्ते तु न्यसेदस्त्रं सुरासुर || २६९ ||
सुन्दरीं मनुजेत्युक्त्वा हृदयेति विदारण || सर्वप्रहरणेत्युक्त्वा धर सर्वमनांसि वा || २७० ||
हनद्वयं च हृदयं धनान्याकर्षयद्वयम् || महानन्तेति चास्यान्ते नेत्रे मं फट् च कीर्त्यते || २७१ ||
भुवनेश्वर सर्वज्ञ वदेज्जनमनांसि च || हनयुग्मं दारयद्विर्मे विद्यां वशमानय || २७२ ||
नेत्रमन्त्रः समाख्यातस्तथांगुष्ठादिषु न्यसेत् || कनिष्ठयोर्नेत्रमनुमस्त्रं तु करपृष्ठयोः || २७३ ||
तत्त्वन्यासं ततः कुर्ययाद्वासुदेवस्य भूतिदम् || न्यसेत्करांगुलिषु च कामबीजानि शक्तिकाः || २७४ ||
द्रां द्राविणीं तथा कामं क्षोभिणीं द्रीं च मन्मथाम् || वशीकरां क्लीं कन्दर्प्पं क्लीं बीजंमकरध्वजम् || २७५ ||
आकर्षिणीं चाथ मीन केतुं सम्मोहिनीं च सः || कामबीजप्रपुटितं मातृकान्यासमाचरेत् || २७६ ||
प्. ६९२)पूर्वोक्तकाममन्त्रार्णैः स्थितिन्यासं समाचरेत् || विन्यसेन्मातृकान्यासं पूर्वोक्तं च ततश्चरेत् || २७७ ||
ततः श्रीकरविष्णूक्ततत्त्वन्यासं समाचरेत् || संहाराख्यं च सृष्ट्याख्यं स्थानेष्वेतेषु च क्रमात् || २७८ ||
पार्श्वद्वये नाभिलिङ्गगुदेषूरुद्वये तथा || जानुनोर्गुल्फयोः सर्वाङ्गुलिष्विति ततः क्रमात् || २७९ ||
ततश्च वासुदेवोक्तमन्त्रन्यासान्समाचरेत् || संहारसृष्टिस्थित्याख्यांस्तथा नारायणोदितम् || २८० ||
मूर्त्तिपञ्जरविन्यासङ्गायत्रीन्यासमाचरेत् || प्रतिवर्णं प्रकुर्वति तां गायत्रीमथो शृणु || सिद्ध्यन्ति सर्वकार्ययाणि जपाद्विष्णुप्रसादतः || २८१ ||
त्रैलोक्यमोहनाय विद्महे स्मराय धीमहि || तन्नो विष्णुः प्रचोदयात् || २८२ ||
शीर्षे भाले नेत्रयोश्च दक्षदोर्मूलमध्ययोः || मणिबन्धांगुलीमूले चांगुल्यग्रे प्रविन्यसेत् || २८३ ||
एवं दक्षोरुमूले च जानुगुल्फांगुलीतले || अंगुल्यग्रे तथा वामे भुजमूलादिके न्यसेत् || २८४ ||
ततः पुनश्च पूर्वोक्तषडङ्गद्वादशाङ्गकान् || न्यासान्कुर्ययात्तथा कामबाणन्यासमतः परम् || २८५ ||
श्रीं स्वं श्रिये नमश्चोक्त्वा वामोरौ तु प्रविन्यसेत् || स्वां लक्ष्म्यै च नमः के स्वीं सरस्वत्यै नमो मुखे || २८६ ||
स्वूं रत्यै च नमः कण्ठे स्वें प्रीत्यै लिङ्गके नमः || ककुदि स्वैं नमः कीर्त्त्यै स्वौं कान्त्यै च नमो हृदि || २८७ ||
स्वं तुष्ट्यै च नमो नाभौ स्वः पुष्ट्यै च नमोङ्गके || ततश्च मूलमन्त्रेण प्राग्वद्व्यापकमाचरेत् || २८८ ||
आयुधानि यथास्थानं तत्त्वमुद्रादिकं न्यसेत् || कामबीजैर्न्यसेत्पश्चाच्छ्रीवत्सं कौस्तुभं तथा || २८९ ||
वनमालां ततः पश्चादृष्यादिन्यासमाचरेत् || ऊर्ध्वांगुष्ठौ त्वथाश्लिष्टौ मूर्त्तिमूर्द्धनि योजयेत् || २९० ||
त्रैलोक्यमोहनाख्योयं मन्त्रस्तं मूर्ध्नि धारयेत् || एवं न्यस्य शरीरादौ ध्यायेच्छ्रीपुरुषोत्तमम् || २९१ ||
उदयार्कसहस्राभं गरुडो परिसंस्थितम् || सर्वाङ्गसुन्दरं सौम्यं सर्वाभरणभूषितम् || २९२ ||
सुरासुरनुतं शश्वत्स्त्रीभिश्चैव समावृतम् || चक्रं शंखं धनुः खड्गंगदां मुसलमंकुशम् || २९३ ||
पाशं च बिभ्रतं दोर्भिर्वामाङ्गस्थितया श्रिया || सर्वभूषाढ्यया पद्मकरयालिङ्गितं स्मरेत् || २९४ ||
पीठमध्ये तु देवस्य गरुडं परिपूजयेत् || प्. ६९३)पक्षिराजायस्वाहेति तस्य पूजामनुर्मतः || २९५ ||
ततो देवं समावाह्य दद्यात्पुष्पाञ्जलिं ततः || तद्वामोरौ पूजनीया मन्त्रिणा श्रीः श्रिये नमः || २९६ ||
देवाग्रादिचतुर्दिक्षु कोणेषु पुरतस्तथा || क्रमादभ्यर्च्चयेदङ्गषट्कं स्यात्प्रथमावृतिः || २९७ ||
अष्टभिश्चापि चक्राद्यैरायुधैरपरावृतिः || तृतीयावरणे लक्ष्मीवाग्रतिप्रीतिकीर्त्तयः || २९८ ||
कान्तिस्तुष्टिश्च पुष्टिश्च पूज्या अथ चतुर्थके || इन्द्राद्यांश्चापि वज्रादीन्पञ्चमे चेति पूजनम् || २९९ ||
ततः पुष्पाञ्जलिं दद्यात्तत्तन्यासोक्तनामभिः || आदौ क्लीमत्र त्रैलोक्यमोहनाय ततो वदेत् || ३०० ||
ततो लज्जारमाकामबीजाद्यैः पञ्चनामभिः || नमोन्तैः पञ्च पुष्पाणामञ्जलींश्च समर्प्पयेत् || ३०१ ||
पुरुषोत्तहृषीकेशौ विष्णुश्रीधर रामकाः || पंच नामानीति चात्र पुरुषोत्तपूजने || ३०२ ||
चतुर्लक्षं जपेन्मन्त्रं हुनेदर्कसहस्रकम् || बिल्वैर्वा कमलैः पश्चात्तर्प्पणाद्यैर्भवेन्मनुः [इदमुत्तरान्वयि ||] || ३०३ ||
सिद्धः प्रयोगान्कुर्वीतायुतं प्रातर्जपेन्मनुम् || समस्ताधौ प्रजुहुयादष्टोत्तरसहस्रकम् || ३०४ ||
सम्यग्ज्योतिष्मतीतैलेनारोगो बुद्धिमान्भवेत् || समूलकाण्डां शिरसि दद्यादंजलिनीं तु यः || अष्टाधिकशतं जप्त्वा सर्वलोकप्रियो भवेत् || ३०५ ||
अश्वमारप्रसूनैश्च सम्पूज्य पुरुषोत्तमम् || अष्टाधिकसहस्रं तु कुमुदैर्जुहुयात्ततः || राजानो वशगाः सर्वे मासमात्रान्न संशयः || ३०६ ||
मालतीपुष्पहोमेन तद्वद्वैश्यान्नयेद्वशम् || पलाशपुष्पहोमेन प्राग्वद्विप्राश्च वश्यकाः || ३०७ ||
अभिवाञ्छति यां योषां तस्या नामायुतं मनुम् || जपेत्पक्षं प्रतिदिनं चाष्टाधिकसहस्रकम् || दिनादौ सा वशीभूयाद्दास्यस्मीत्यादिवादिनी || ३०८ ||
चौरापहृतवित्तस्तु साष्टाधिकसहस्रकम् || अश्वत्थोत्थसमिद्भिस्तु हुनेत्पक्षत्रयं यमी || ३०९ ||
अथवा कटुतैलेन त्रिपक्षान्तं क्रमाद्धुनेत् || अथ वार्णसहस्रं तु प्रजपेन्मनुमन्वहम् || चौरो याति धनं दत्त्वा प्रणम्य स्वगृहं प्रति || ३१० ||
सहस्रजप्तं मनुना त्वमुना मनुजास्थि च || निखातं शत्रुसदने शत्रुमुच्चाटयेद्ध्रुवम् || ३११ ||
राजिकाष्टशतं जप्ता निखाता शत्रुमन्दिरे || क्रूर वारे च लग्नेपि शत्रुमुच्चाटयेद्ध्रुवम् || ३१२ ||
प्. ६९४)हयारिकुसुमं चापि पक्षयोरुभयोरयि || शुक्लं रक्तं केशयुक्तं रिपुमुच्चाटयेद्ध्रुवम् || ३१३ ||
षण्मासं जुहुयाद्रात्रौ कलिद्रुमसमिद्वरैः || रिपुर्निधनमायाति साष्टाधिकसहस्रतः || ३१४ ||
मासषट्कं हुनेदर्कसमिद्भिश्च सहस्रकम् || यद्वा ज्योतिष्मतीतैलं हुनेदष्टसहस्रकम् || ३१५ ||
शत्रुर्मरणमाप्नोति सर्वो मासचतुष्टयात् || मन्त्री विविक्ते भूदेशे जपहोमार्चने रतः || ३१६ ||
अङ्कोलाज्यं सहस्रं तु हुनेन्मासत्रयावधि || ततः पूर्वाच्च मध्याह्ने पावकाच्चन्द्रसन्निभा || ३१७ ||
प्रादुर्भवेच्च गुटिका यस्तामभ्यर्च्य धारयेत् || अनेनैवाथ शिरसि स भवेत्खेचरः सदा || ३१८ ||
अदृश्यः सिद्धसङ्घैश्च तथा स्वर्णादिधातुकृत् || आज्याक्ताभिश्च दूर्वाभिर्होमो भयविनाशकः || ३१९ ||
यस्य नामयुतं मन्त्रं जपेदयुतसङ्ख्यया || शमयेदापदस्तस्य नात्र कार्यया विचारणा || ३२० ||
इमं मन्त्रं जपेद्भूयः समस्तैश्वर्ययवान्भवेत् || अयं मनुवरो गोप्यो न देयः पापिने क्वचित् || ३२१ ||
अथातः सम्प्रवक्ष्यामि मन्त्रं श्रीपुरुषोत्तमम् || तारं मारं रमां ङेन्तं वदेच्च पुरुषोत्तमम् || ३२२ ||
हुं फट् स्वाहेति मन्त्रोयं विश्ववर्णः प्रकीर्त्तितः || ब्रह्मा मुनिश्च गायत्री छन्दोसौ पुरुषोत्तमः || ३२३ ||
देवता कीर्त्तितश्चास्य नियोगोभीष्टसिद्धये || भूभूभूषड्द्विद्विवर्णैः षडङ्गविधिरीरितः || ३२४ ||
संस्मरेत्सरमं विष्णुं रक्तवर्णं चतुर्भुजम् || शङ्खचक्रोत्पलगदाधारिणं पुरुषोत्तमम् || ३२५ ||
पूर्वोदिते यजेत्पीठे प्राग्वदङ्गानि चार्चयेत् || वासुदेवादीनि दिक्षु शक्तीर्वै कोणगा यजेत् || ३२६ ||
नारायणोक्तशङ्खादीन्पार्षदान्कुमुदादिकान् || दिगीशांश्च तदस्त्राणि प्राग्वत्षड्वर्णपूजनम् || ३२७ ||
वर्णलक्षं जपेन्मन्त्रं सहस्रं पङ्कजैर्हुनेत् || तर्प्पणादि ततः कृत्वा मन्त्रसिद्धिः प्रजायते || ३२८ ||
ततः प्रयोगानखिलान्पूर्वमन्त्रोदितांश्चरेत् || अथातः सम्प्रवक्ष्यामि मन्त्रमाधोक्षजं वरम् || रमा तारं ह्रियं कामं हृद् ङेन्तस्स्यादधोक्षजः || ३२९ ||
दशार्णोयं मुनिब्रह्मा पंक्तिश्छन्दः समीरितम् || साधकानां कामदायी देवता स्यादधोक्षजः || ३३० ||
षड्भिः पदैः षडङ्गानि ध्यायेद्देवमनन्यधीः || शङ्खचक्रगदापद्मपाणिं पीताम्बरावृतम् || ३३१ ||
प्. ६९५)मेघश्यामं सुरुचिरं गरुडासनसंस्थितम् || वासुकिप्रमुखैर्नागैः सेवितं रमया युतम् || ३३२ ||
यजेच्च वैष्णवे पीठे षडङ्गानि प्रपूजयेत् || सनकादीन्नारदं च जयं च विजयं तथा || ३३३ ||
अग्रतश्चापि पक्षीन्द्रं तद्बाह्येष्टदले यजेत् || नागाष्टकं दिगीशांश्च भूपुरे हेतिसंयुतान् || ३३४ ||
पञ्चलक्षं जपेन्मन्त्रं तिलाज्यैरयुतं हुनेत् || तर्प्पणादि ततः कृत्वा सहस्रं भोजयेद्द्विजान् || ३३५ ||
एवं सिद्धमनुर्मन्त्री दशधा मन्त्रितं जलम् || विषार्त्ताय च सर्प्पादिदष्टकाय प्रदापयेत् || ३३६ ||
तत्कालं निर्विषोसौ स्यात्सेवते तज्ज्लं यदि || कुष्ठादिकगदैर्युक्तो मुच्यते नात्र संशयः || ३३७ ||
अथातः सम्प्रवक्ष्यामि नृसिंहमनुमद्भुतम् || तारं [ओं श्रीं ह्रीं जयलक्ष्मीप्रियाय नित्यप्रमुदितचेतसे लक्ष्मीश्रितार्धदेहाय श्रीं श्रीं नमोनमः |
] लक्ष्मीं च हृल्लेखां जयलक्ष्मीप्रियाय च || नित्यप्रमुदितेत्युक्त्वा चेतसे प्रवदेत्ततः || ३३८ ||
लक्ष्मीश्रितार्धदेहाय रमां लज्जां नमोनमः || त्रिरामवर्णौ मन्त्रोयं मुनिर्ब्रह्मा समीरितः || छन्दोतिजगती देवो नृहरिः शक्तिरद्रिजा || ३३९ ||
रमाबीजं षडङ्गानि श्रीबीजेन प्रकल्पयेत् || ३४० ||
क्षीराब्धौ संस्मरेद्देवमग्रे च वसुवेष्टितम् || रुद्रैश्च दक्षिणे भागे शङ्खचक्रगदाम्बुजान् || हस्तैर्दधानं सर्प्पस्य फणाचित्रविराजितम् || ३४१ ||
पीताम्बरधरं त्र्यक्षं नीलकण्ठं रमान्वितम् || वर्षाहतुल्यसाहस्रं जपोऽस्य परिकीर्त्तितः || ३४२ ||
मध्वक्तैर्मल्लिकापुष्पैर्होमयेत्तद्दशांशतः || तर्प्पणादि ततः कुर्ययादङ्गैः स्यात्प्रथमावृतिः || ३४३ ||
भास्वती भास्करी चिन्ता द्युतिरुन्मीलिनी रमा || कान्ती रुचिश्चाष्टपत्रे भूपुरे दिव्यहेतयः || ३४४ ||
एवं सिद्धमनुर्मन्त्री प्रयोगानाचरेत्ततः || मल्लिकाकुसुमैर्होमश्चायुतं त्विष्टदायकः || ३४५ ||
अन्यानपि प्रयोगांश्च कुर्ययादष्टार्णकोदितान् || ३४६ ||
अथातः सम्प्रवक्ष्यामि नृसिंहमभयप्रदम् || तारो [नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रनख वज्रदंष्ठ्र कर्माशयान् रोधयरोधय तमो ग्रसग्रस स्वाहा अभयमात्मनि भूयिष्ठाः ओं क्ष्रौम् ||] नमो भगवते नरसिंहाय हृद्वदे || ३४७ ||
तेजस्तेजस आभाष्याथाविराविर्भवेति च || वज्रनख वज्रदंष्ट्र ततः कर्म्माशयान्वदेत् || ३४८ ||
प्. ६९६)रोधय द्वितयं पश्चात्तमो ग्रसयुगं वदेत् || स्वाहां तथाभयं चात्मनि भूयिष्ठा ध्रुवं वदेत् || ३४९ ||
नृसिंहबीजमथ च द्विषष्ट्यर्णो मनुर्मतः || शुकदेवो मुनिः प्रोक्तोऽमितं छन्दश्च देवता || ३५० ||
अभयाख्यो नारसिंहो ध्यानपूजादिकं भवेत् || दशावतार नृहरेस्तुल्यं लक्षमितो जपः || ३५१ ||
अथातः संप्रवक्ष्यामि जनार्द्दनमनुं परम् || जं जनार्द्दनाय नमो मन्त्रश्चाष्टाक्षरो मतः || ब्रह्मा ऋषिरनुष्टुप् चच्छन्दो देवो जनार्द्दनः || ३५२ ||
जंपूर्वकैर्नमोन्तैश्च पञ्चार्णैरङ्गपञ्चकम् || वराभये चक्रगदे दधतं पीतवाससम् || ३५३ ||
आलिङ्गितञ्च रमया नारदाद्यैरभिष्टुतम् || अस्य पूजाप्रयोगादि जपहोमादिकं भवेत् || ३५४ ||
नारायणाष्टार्णवच्च विशेषात्पितृतोषकृत् || तत्पुत्रस्य च लोकोस्ति पौरुषोयं मनूत्तमः || तथा संसेविते मुक्तिराजन्मब्रह्मचारिभिः || ३५५ ||
अथातः संप्रवक्ष्यामि गतराज्यप्रदायकम् || उपेन्द्रमन्त्रं प्रणवमुमुपेन्द्राय हृन्नमः || ३५६ ||
दशाक्षरो मनुश्चास्य मुनिः कश्यप उच्यते || पंक्तिश्छन्द उपेन्द्रस्तु देवो बीजं तथा स्मृतम् || ३५७ ||
पृथक्पदैः समस्तेन षडङ्गविधिरीरितः || ध्यानपुजाप्रयोगाद्यं बलिवामनवद्भवेत् || ३५८ ||
अथातः संप्रवक्ष्यामि हरिमन्त्रमभीष्टदम् || हरये नम इत्येष मन्त्रः पञ्चाक्षरोमतः || ३५९ ||
समस्तपापौघवनदहने वडवानलः || श्रीबीजाद्यस्तु दारिद्र्ये सर्वनाशाय पक्षिराट् || ३६० ||
लज्जाबीजादिकश्चायं भुक्तिमुक्तिप्रदायकः || ऐंसमन्वितमन्त्रोयं द्रुतं विद्याप्रदायकः || ३६१ ||
स एव प्रणवाद्यस्स्यादज्ञानेन्धनपावकः || जपन्कामादिकं तत्र मोहयेद्धनिनां गणान् || ३६२ ||
वाग्बीजपूर्वकं जप्त्वा वाक्सिद्धिं समवाप्नुयात् || हूङ्कारपूर्वकं जप्त्वा समरे विजयी भवेत् || ३६३ ||
तारपूर्वं जपित्वा तं द्रुतं प्राप्नोति वाञ्छितम् || कामपूर्वं च जपतो वंशः कश्यपवद्भवेत् || ३६४ ||
सर्वेषामेव छन्दस्तु गायत्री नारदो मुनिः || हरिर्देवस्त्वाद्यपदं बीजशक्ती मनोर्मते || ३६५ ||
हकाराद्यैः पञ्चवर्णैरखिलेन षडङ्गकम् || मेघश्यामं सुनयनं काकपक्षविराजितम् || ३६६ ||
राधिकादिप्रियायुक्तं पययटन्तं वनेवने || प्. ६९७)विचित्रपरिधिं वंशीं दधतं वामदक्षयोः || ३६७ ||
अथ कृष्णोक्तवत्पूजा जपो लक्षाष्टको मतः || होमः पञ्चामृतेनाथ प्रयोगोस्य निगद्यते || ३६८ ||
यस्मिन्कार्यये तु यो मन्त्रो गदितः कार्ययगौरवात् || एकायुतादिपञ्चान्तं पुरश्चरणवज्जपेत् || ३६९ ||
अथ वक्ष्येऽयोनिजस्य कृष्णस्य मनुमद्भुतम् || कामो गोवल्लभो ङेन्तो मोहिताखिलयोषितम् || ३७० ||
भूषितं नूपुराद्यैश्च श्यामलं पञ्चवार्षिकम् || काकपक्षधरं नानाकेलिकौतुककारकम् || ३७१ ||
कर्णिकायां यजेद्देवं दलमध्ये यजेदिमान् || वासुदेवं रुक्मिणीं च तथा संकर्षणाभिधम् || ३७२ ||
सत्यभामां च प्रद्युम्नं लक्ष्मणामनिरुद्धकम् || जाम्बवतीं च तद्बाह्ये भूपुरे दिक्पतीनथ || ३७३ ||
तदायुधानि च ततो जपेल्लक्षाष्टकं मनुम् || ब्रह्मवृक्षसमिद्भिश्च हुनेदष्टसहस्रकम् || ३७४ ||
तप्प्णादि ततः कृत्वा मन्त्रसिद्धिः प्रजायते || विदधीत प्रयोगांश्च पूर्वान्कृष्णमनूदितान् || ३७५ ||
मूर्तीनां मनवश्चैते मया प्रोक्ताः सुसिद्धिदाः || उक्ताः केचिच्च तन्त्रेषु वक्तव्यं किमतः परम् || ३७६ ||
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते चतुर्विंशतिमूर्तिमनुकथनं नाम सप्तविंशः प्रकाशः || २७ ||
Prakāśa 28 – Mantras der Viṣṇu Nahestehenden
श्रीदेव्युवाच ||
श्रीविष्णोरवतारा ये स्थिता युगचतुष्टये || तन्मन्त्राञ्छ्रोतुमिच्छामि भुक्तिमुक्तिप्रदायकान् || १ ||
शिव उवाच ||
सम्यक्पृष्टं त्वया देवि शृण्वादौ मन्त्रमद्भुतम् || मम विष्णोः प्रियतमं मन्त्रं हरिहरात्मकम् || २ ||
प्रणवं [ओं ह्रीं हों शंकरनारायणाय नमो हों ह्रीं ओं ||] चापि हृल्लेखा होंबीजं शंकरेति च || नारायणाय च नमो होंह्रीं ओं षोडशाक्षरः || ३ ||
ऋषिर्नारायणश्छन्दोनुष्टुब्भरिहरः सुरः || षड्दीर्घयुङ्ग्मायया च षडङ्गानि प्रकल्पयेत् || ४ ||
शूलं चक्रं पाञ्चजन्यमभयं दधतं करैः || स्वस्वरूपार्धनीलार्धदेहं हरिहरं भजे || ५ ||
नवशक्त्यभिधे पीठे पूर्वमङ्गानि संयजेत् || लक्ष्मीनारायणं भूमिं धराख्यामम्बिकां तथा || ६ ||
गौराङ्गीं गोमतीं गौरीं गान्धारीं भूपुरे पुनः || प्. ६९८)लोकेशानपि चेन्द्रादीन्वर्णलक्षं जपेन्मनुम् || ७ ||
तिलैश्च तण्डुलैर्होमं तर्प्पणादि ततश्चरेत् || एवं सिद्धमनुर्मन्त्री हृदि कृत्वा तु वाञ्छितम् || ८ ||
जपेदष्टाक्षरं शान्तो दिनानामेकविंशतिम् || लभते वाञ्छितानर्थान्सद्यः प्रीतिकरो मनुः || ९ ||
अथोच्यते हयग्रीवमन्त्रः सर्वार्थसिद्धिदः || सहावुकारसंयुक्तौ बिन्दूना परिशोभितौ || १० ||
विप्रसेव्यो बीजमन्त्रो हयग्रीवस्य चादिमः || हसावौकारसंयुक्तौ सबिन्दू क्षत्रियस्य च || ११ ||
हसावेकारसंयुक्तौ सबिन्दू वैश्यजन्मनः || त्रिष्टुप्छन्दो मुनिर्ब्रह्मा हयग्रीवोस्य देवता || १२ ||
षड्दीर्घयुक्तबीजने षडङ्गविधिरीरितः || कमलं जपमालां चाभयं कमेव च || १३ ||
श्वेतपद्मस्थितं गौरं श्वेतपद्मानुलेपनम् || भक्तप्रियं हयग्रीवं वन्देहं दानवान्तकम् || १४ ||
गायत्रीमस्य वक्ष्येहं स रुद्रः संस्कृतो यया || मन्त्राधिकारी भवति देवमावाहयेत्तया || १५ ||
वागीश्वराय विद्महे हयग्रीवाय धीमहि || तन्नो हंसः प्रचोदयात् || १६ ||
यजेद्वाजिहरेः पीठे चाङ्गैः स्यात्प्रथमावृतिः || प्रज्ञा मेधा स्मृतिर्विद्या श्रीर्वागीशा हयाननः || १७ ||
विद्याविलासाख्यहयग्रीवो वै मानमर्दनः || लक्ष्म्यादिभिस्तृतीया स्यात्ताश्च लक्ष्मीः सरस्वती || १८ ||
रतिः प्रीतिः कीर्तिकान्त्यौ तुष्टिः पुष्टिश्चतुर्थिका || त्र्यावृत्तिः कुमुदाद्यैः स्यात्प्रोक्तास्ते दधिवामने || १९ ||
पञ्चमी लोकपालैः स्यात्षष्ठी स्याच्च तदायुधैः || वेदलक्षं जपेन्मन्त्रं दशांशं जुहुयाद्घृतैः || २० ||
सुगन्धाद्यैस्तर्प्पणं स्यान्मार्ज्जनं विप्रभोजनम् || सिद्धो मन्त्रः प्रयोगार्हो जायते भुक्तिमुक्तिदः || २१ ||
शशिमण्डलमध्यस्थं हेमकुण्डलिनं मनुम् || करं ध्यात्वा न्यसेद्वक्त्रे सभापूज्यः सजायते || २२ ||
अथवा तं करं कम्भे न्यस्य तज्जलसेचनात् || प्रातर्हरति लूतादिदौर्भाग्यं पञ्चधा विषम् || २३ ||
योम्भस्त्रिसप्तजपितं प्रभाते प्रत्यहं पिबेत् || सप्ताहाज्जायते तस्य दिव्या वाणी मनोरमा || २४ ||
चन्द्रमण्डलमध्यस्थलकारे न्यस्य मन्त्रकम् || पीतं चापि मुखं ध्यात्वा स्तम्भयेत्परभारतीम् || २५ ||
प्रभावद्द्वयमध्यस्थं प्रभाबीजेन संयुतम् || संलिखेद्दर्भमूलेन भर्जपत्रे हरिद्रया || २६ ||
यन्तं प्रतिष्ठितप्राणं शरावद्वयसंपुटम् || प्. ६९९)वेष्टितं पीतसूत्रेण मूकत्वं कुरुतेचिरात् || २७ ||
शृङ्गाटपुरमध्यस्थं रेखाक्रान्तं तु बीजकम् || ज्वालामालाकुलं ध्यायेत्स्तम्भनं परमं मतम् || २८ ||
वायुमण्डलमध्यस्थं वायुबीजसमन्वितम् || संहारकमिदं ध्यानं विषादीनां न संशयः || २९ ||
जलमण्डलमध्यस्थं ध्यात्वा चंद्रांशुनिर्मलम् || आप्यायते करे ह्येतत्सर्वरोगविनाशनम् || ३० ||
शून्य गर्भगतं यन्त्रं हेमगोक्षीरसन्निभम् || ध्यायेद्धृत्पद्ममध्यस्थं निर्विषीकरणम्परम् || ३१ ||
लिखेद्रोचनया भर्ज्जे मन्त्रं बाहौ विधारयेत् || महारक्षा भवेदेषा सर्वदोषविनाशकृत् || ३२ ||
बीजं रेफसमायुक्तं मध्यस्थं सहकारयोः || हकारद्वयमध्यस्थं जप्तं मासन्तु वैरकृत् || ३३ ||
अथान्यं शृणु देवेशि मन्त्रं वाग्बुद्धिकारकम् || उद्गिरत्प्रणवोद्गीथ सर्ववागीश्वरेश्वर || ३४ ||
सर्ववेदमयाचिन्त्य सर्वं बोधयबोधय || स्वबीजप्रणवाभ्यां च श्लोकमेनं पुटेदथ || ३५ ||
षड्त्रिंशदक्षरो मन्त्रः स्वाहान्तोष्टत्रिवर्णकः || छन्दोनुष्टुम्मुनिर्ब्रह्मा हयग्रीवस्तु देवता || ३६ ||
पञ्चाङ्गानि मनोस्तारमनुपादैर्भवन्ति हि || हयग्रीवं चतुर्बाहुम्पारदाम्भोधरद्युतिम् || शङ्खारिपाणिमश्वास्यं जानुन्यस्तकरं भजेत् || ३७ ||
पूर्वपीठे यजेन्मूर्तिं बीजमन्त्रेण कल्पयेत् || यजेदष्टदले पद्मे देवाग्रादिप्रदक्षिणम् || ३८ ||
चतुर्वेदास्तु सम्पूज्यास्तत्कोणेषु यजेत् क्रमात् || वेदाङ्गानि स्मृतिं न्यायं सर्वशास्त्राणि चार्च्चयेत् || ३९ ||
तस्य बाह्ये तु षट्कोणे षडङ्गानि समर्च्चयेत् || भूपुरे लोकपालांश्च तदस्त्राणि ततो यजेत् || ४० ||
षट्त्रिंशल्लक्षकञ्जप्त्वा कुन्दैस्त्रिस्वादुसंयुतैः || होमयेत्तर्प्पणाद्यन्तं कृत्वा सिद्धो भवेन्मनुः || ४१ ||
लक्ष्मीकामः प्रजुहुयाद्बिल्वपत्रैस्तथायुतम् || श्रीकामो जुहुयान्नित्यं कुन्दैस्त्रिमधुरप्लुतैः || ४२ ||
आज्यं ब्राह्मीरसे पक्वं मन्त्रेणानेन साधितम् || सेवितं विधिना प्रातरतिबुद्धिकरं त्विदम् || ४३ ||
साधितां मन्त्रवर्ययेण वचामनुदिनं सुधीः || भक्षयेत्सर्वशास्त्राणां व्याख्याता भवति ध्रुवम् || ४४ ||
अथ मन्त्रान्तरं वक्ष्ये त्वरितं धारणाप्रदम् || ऋग्यजुस्सामरूपाय वेदाभरणकर्म्मणे || ४५ ||
प्रणवो ह्रीं नृवपुषे महाश्वशिरसे नमः || हंसादिः सोहमन्तश्च मन्त्रः षट्त्रिंशदक्षरः || ऋष्याद्यङ्गविधिध्यानपूजाकाम्यानि पूर्ववत् || प्. ७००)अथ मन्त्रान्तरं वक्ष्ये तीक्ष्णबुद्धिकरं परम् || ४६ ||
बिल्वोत्तीर्णस्वात्मरूपचिन्मयानन्दरूपिणे || ४७ ||
तुभ्यं नमो हयग्रीव विद्याराजाय विष्णवे || स्वाहा सोहं च हंसादिरष्टत्रिंशाक्षरो मनुः || ४८ ||
तारमन्त्रपदैश्चात्र पञ्चाङ्गविधिरीरितः || पुरश्चर्यया तु षट्त्रिंशल्लक्षमन्यच्च पूर्ववत् || ४९ ||
अथातः सम्प्रवक्ष्यामि परं ज्ञानप्रदम्मनुम् || स्वबीजं हयशिरसे नमश्चाष्टाक्षरो मनुः || ५० ||
एकाक्षरोक्तमृष्यादि च्छन्दोनुष्टुबुदाहृतम् || हस्तैर्दधानं मालां च पुस्तकं वरपङ्कजम् || ५१ ||
कर्पूराभं सौम्यरूपं नानाभूषणभूषितम् || एवं ध्यात्वाखिलं कर्ययादेककर्णोक्तवर्त्मना || ५२ ||
अथ विष्णोः प्रवक्ष्यामि मन्त्रं रोगापहारकम् || अच्युतानन्तगोविन्दपदं ङेन्तं हृदन्तकम् || भवाक्षरो मनुः प्रोक्तो भवरोगैकभेषजम् || ५३ ||
शौनकर्षिर्विराट् छन्दः परमात्मा तु देवता || षडङ्गविधिरुक्तोस्य द्विरुक्तैर्मनु नामभिः || ५४ ||
शङ्खचक्रधरं देवञ्चतुर्बाहुं किरीटिनम् || सर्वायुधैरुपेतं च गरुडो परिसंस्थितम् || ५५ ||
सनकादिमुनीन्द्रैस्तु सर्वदेवैरुपासितम् || श्रीभूमि सहितं देवमुद्यदादित्यसन्निभम् || ५६ ||
प्रातरुद्यत्सहस्रांशुमण्डलोपमकुण्डलम् || सर्वलोकस्य रक्षार्थमनन्तं नित्यमेव हि || ५७ ||
अभयं वरदन्देवं धारयन्तं युगान्वितम् || गोविन्दमनुवलोक्तम्पञ्चावरणसंयुतम् || ५८ ||
लक्षमेकञ्जपेन्मन्त्रं तद्दशांशं हुनेद् घतैः || तर्प्पणादि ततः कुर्याद्रोगनाशः [तस्येति शेषः ||] प्रजायते || ५९ ||
लाजहोमन्तु कन्यार्थी धनार्थी बिल्वहोमकम् || वस्त्रार्थी पुष्पहोमं च नैरुज्यार्थी तिलैर्हुनेत् || ६० ||
रविवारे जले स्थित्वा नाभिमात्रे जपेद् बुधः || अष्टोत्तरसहस्रन्तु ज्वरनाशो भविष्यति || ६१ ||
विवाहार्थी जपेन्मासं शशिमण्डलसन्निभम् || ध्यायेल्लभेच्छुभां कन्यां कुलीनां च कुटुम्बिनीम् || ६२ ||
अथातः सम्प्रवक्ष्यामि विष्णोः प्रीतिकरं परम् || अनन्ताय नमश्चेति षड्वर्णोयमुदाहृतः || ६३ ||
न्यासो मुनिश्च गायत्री छन्दोनन्तश्च देवता || नियोगो रोगनाशार्थमन्यद्गोविन्दवद्भवेत् || ६४ ||
अथान्यं सम्प्रवक्ष्यामि विष्णोः प्रीतिकरं परम् || वेदव्यासस्य विद्यादिप्रदं पदमिहोच्चरेत् || ६५ ||
प्. ७०१)वेदव्यासाय हृदयमष्टार्णो मुनिरीरितः || मुनिर्ब्रह्मा तथानुष्टुप्छन्दः सत्यवतीसुतः || ६६ ||
देवो बीजं भवेदाद्यं नमः शक्तिः प्रकीर्तिता || षड्दीर्घाद्येन बीजेन षडङ्गविधिरीरितः || ६७ ||
व्याख्यामुद्रादक्षहस्तं वामजानुतले स्थितम् || योगपट्टासनारूढं प्रफुल्लकुसुमद्यतिम् || ६८ ||
दीर्घकण्ठं विशालाक्षन्तुन्दिलं मुनिवन्दितम् || नानाशिष्यैः परिवृतं कृष्णद्वैपायनम्भजे || ६९ ||
जपेदष्टसहस्राणि पायसैर्होममाचरेत् || पूर्वोक्ते तु यजेत्पीठे पूर्वमङ्गानि पूजयेत् || ७० ||
प्राच्यादिषु यजेत्पैलं वैशम्पायनजैमिनी || सुमन्तुं कोणभागेषु श्रीशुकं लोमहर्षणम् || ७१ ||
उग्रश्रवसमन्यांश्च मुनीन्बाह्ये तु भूपुरे || इन्द्रादींश्च तदस्त्राणि पूजा चैवं समीरिता || ७२ ||
एवं सिद्धमनुर्मन्त्री वर्षमात्रं यदा जपत् || त्रिकालेष्टोत्तरशतं कवित्वं शोभनाः प्रजाः || ७३ ||
स्वयमेव पुराणानामर्थः स्फुटति गोपितः || व्याख्यानशक्तिं कीर्तिं च लभते सम्पदोन्वयम् || ७४ ||
अथ मन्त्रान्तरं वक्ष्ये चिरंजीवित्वकारकम् || तारं नमः समाभाष्य मन्त्रमेतन्ततो वदेत् || ७५ ||
सोहं तारं पुनश्चोक्त्वा मन्त्रश्चेन्द्राक्षरो मतः || कहोडोस्य मुनिर्देवी गायत्री छन्द ईरितम् || ७६ ||
अपमृत्युहरो व्यासश्चिरंजीवी च देवता || हं बीजं सश्च शक्तिः स्याद्दीर्घषट्कसमन्वितः || हकारस्तु षडङ्गार्थं ध्यानपूजादि पूर्ववत् || ७७ ||
षट्च पञ्चसहस्राणि जपोस्य परिकीर्तितः || कष्ठादिकमहारोगनाशार्थं लक्षमेककम् || ७८ ||
जपेन्मन्त्रं प्रत्यहन्तु चाष्टोत्तरशतं जलैः || मन्त्रितैः स्नापयेद्दुग्धैर्नीरुक्स्यान्नात्र संशयः || स्वल्पमृत्युविनाशश्च पूर्णमायुः प्रजायते || ७९ ||
अथ विष्णु प्रियान्वक्ष्ये गरुडस्य मनून् परान् || तत्र व्रात्या द्विजा ये च सपुत्रा ये च व?(वै)ष्णवाः || ८० ||
तेषां सस्कृतये मन्त्रसिद्ध्यै विषविनाशिनीम् || सर्पभीतिहैरी वक्ष्ये गायत्रीं सर्वकामदाम् || पक्षिराजस्य सर्वेषां नृणामिष्टसुसिद्धये || ८१ ||
सुपर्णाय विद्महे पक्षिराजाय धीमहि || तन्नो गरुडः प्रचोदयात् || ८२ ||
चतुर्विंशतिलक्षेण जपेनेयं च सिद्ध्यति || ध्यानपूजादिरहिता जपमात्रफलप्रदा || ८३ ||
अथातः सम्प्रवक्ष्यामि गरुडस्य परम्मनुम् || तारो नमो भगवते महागरुडङेन्तकम् || ८४ ||
प्. ७०२)श्रीविष्णुवरवाहेतिनाय त्रैलोक्यमेव च || पूजिताय वज्रनखवज्रतुण्डपदं वदेत् || ८५ ||
वज्रपक्षाय पिङ्गेति शरीराय वदेत्ततः || एह्येहि महागरुड दुष्टनागान्पदं वदेत् || ८६ ||
छिन्धिद्वयं दुष्टविषान्द्विश्छिन्धिदुष्टराक्षसान् || द्विर्भिन्ध्यावेशययुगं बद्धो हुंफड् वसुप्रिया || ८७ ||
षण्णवत्यक्षरो मन्त्रो मुनिर्ब्रह्मा प्रकीर्त्तितः || गायत्री छन्द उद्दिष्टं देवता गरुडो मतः || ८८ ||
हलो बीजानि चोक्तानि स्वरा मन्त्रस्य शक्तयः || मन्त्रोक्तविषनाशार्थं विनियोगः प्रकीर्त्तितः || ८९ ||
गरुडात्मा वैनतेयस्तार्क्ष्यश्छन्दोमयस्तथा || कपिलाक्षस्तथा नागगरलान्तकरो मतः || ९० ||
प्रणवादिचतुर्थ्यन्तैर्नमसापि समन्वितैः || एतैः षण्नामभिर्न्यासश्चाङ्गुल्यादिर्हृदादिकः || ९१ ||
हिमाद्रिशिखराकारं पूर्णचन्द्रनिभाननम् || दीर्घबाहुं वृषस्कन्धं नागाभरणभूषितम् || ९२ ||
अनन्तो वामकटकं यज्ञसूत्रं तु वासुकिः || तक्षकः कटिसूत्रं च हारः कर्कोट उच्यते || ९३ ||
पद्मश्च दक्षिणेपार्श्वे महापद्मश्चवामतः || शङ्खपालः शिरोदेशे कुलिकस्तु भुजान्तरे || ९४ ||
आजानु काञ्चनाभासं ह्यानाभं तुहिनप्रभम् || आकण्ठाद्रक्तवर्णं च विष्णध्वजगतं भजे || ९५ ||
अङ्गदिक्पायुधैश्चैव गरुडस्य तु पूजनम् || मन्त्रार्णसङ्ख्याशततो जपः सप्तगुणो मतः || ९६ ||
आज्ञया दर्शनात्तस्य स्थावरं जङ्गमं विषम् || नाशमायान्ति रोगाश्च विसर्प्पाद्या न संशयः || ९७ ||
वक्ष्येथ गारुडं मन्त्रं क्षिप तारोग्निगेहिनी || पञ्चाक्षरो मनुः पंक्तिश्छन्दोनन्तो मतो मुनिः || ९८ ||
देवता गरुडस्तारो बीजं शक्तिर्वसुप्रिया || स्वाहान्तो हृदये न्यस्य ज्वलज्वल महामते || ९९ ||
रुद्रचूडानन स्वाहा नत्यन्तं मस्तके न्यसेत् || गरुडान्ते शिखे स्वाहा शिखाया मनुरीरितः || १०० ||
सर्वमन्त्रस्तु गरुड प्रभुं जययुगं वदेत् || द्विः प्रभेदय वित्रासयद्वयं द्विर्विमर्दय || १०१ ||
स्वाहा सप्त त्रिंशदर्णान्तेत्र मन्त्रोथ कथ्यते || उग्ररूपधरेत्युक्त्वा सर्वविषहरेति च || १०२ ||
भीषयद्वितयं सर्वं दहयुग्मं ततो वदेत् || भस्मीकुरुकुरु स्वाहादन्तवर्णो मनुर्मतः || १०३ ||
अस्तु मन्त्रोप्रतिहतबलाप्रतिहतेति च || त्रासनान्ते वदेद्धुंफट् स्वाहान्तोष्टादशाक्षरः || १०४ ||
पादे कण्ठे हृदि मुखे मूर्ध्नि वर्णान्क्रमान्न्यसेत् || प्. ७०३) तप्तस्वर्णनिभं नागप्रज्ञप्ताङ्गविभूषणम् || १०५ ||
चंच्वग्रप्रचलद्भोगिभोगं मुकुटमण्डितम्|| पक्षोच्चारितसत्साम गानं विषहरं भजे || १०६ ||
पक्षिराजाय स्वाहेति पीठे सप्ताक्षरो मनुः || पूजयेन्मातृका पद्मे गरुडं वेदविग्रहम् || १०७ ||
अङ्गान्यादौ कर्णिकायां तत्तन्मन्त्रैश्च पूजयेत् || अनन्तो वासुकिस्तक्षकाख्यः कर्कोटपद्मकौ || १०८ ||
महापद्मः शंखपालः कुलिकोथ दिगीश्वराः || तदायुधानि भूगेहे पञ्चलक्षं जपेन्मनुम् || १०९ ||
तिलैर्हुनेत्तर्प्पणादि कृत्वा सिद्धमनुर्भवेत् || दर्शनाद्दूरगस्तस्य सर्प्पो नश्येद्विषद्वयम् [चेत्यध्याहार्ययम् ||] || ११० ||
विष्णुभक्तिपरो भूयो भवेदरिविनाशनः || इह लोके सुखी दीर्घजीवी भूपतिपूजितः || १११ ||
परत्र याति वैकुण्ठमिति विष्णुप्रिया मया || गदिता मनवो देवि किमन्यच्छ्रोतुमिच्छसि || ११२ ||
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते विष्णुप्रियमन्त्रकथनं नामाष्टाविंशः प्रकाशः || २८ ||

Prakāśa 29 – Mantras der Waffen
श्रीदेव्युवाच ||
सुदर्शनाद्यायुधानां सूचिताः पुरुषोत्तम || मन्त्रास्तान्विधि पूर्वान्मे ब्रूहि यत्साधनाज्जयः || १ ||
श्रीशिव उवाच ||
सर्वेषामायुधानां च नाथः प्रोक्तो महायुधम् || सुदर्शनं नाम यच्च मया प्राग्विष्णवेर्प्पितम् || २ ||
अवतारो यदंशस्य कार्तवीर्ययार्ज्जुनाभिधः || यत्सपर्यास्तु लङ्केशः सहस्राब्दं चचार ह || ३ ||
तस्यादौ प्रोच्यते मन्त्रो भुक्तिमुक्तिप्रदायकः || तारः सहस्रार हुंफट् तस्य मन्त्रो नवाक्षरः || ४ ||
अहिर्बुध्न्यो मुनिश्छन्दोनुष्टुब्देवः सुदर्शनम् || चक्रायान्तैराविशुद्धिसुज्वालावकुलैः पृथक् || ५ ||
षडङ्गमनवस्तस्य जातियुक्ता द्विठान्तकाः || ऐन्द्रं चक्रेण बध्नाति नमश्चक्राग्निगेहिनी || ६ ||
वह्निमुच्चार्यदिग्बन्धं चैवं कुर्ययाद्दशस्वपि || दिशासु तर्जन्यंगुष्ठयोगेनात्र स्थलेषु च || ७ ||
तारत्रय तथा रक्षद्वयं चक्रपदंवदेत् || फट्स्वाहेति द्वादशार्णो वह्निप्राकारसंज्ञितः || ८ ||
प्. ७०४)अनेन मनुना ह्यस्य परितोग्निमयं बुधः || प्राकारं परिकल्प्याथ न्यासानन्यान्समाचरेत् || ९ ||
सुं-उंरक्ताशनाभं च गुह्ये शिरसि विन्यसेत् || ईंमध्याननहृद्गुह्यजानुगुल्फतलेषु च || १० ||
अग्निवर्णान्न्यसेद्वर्णांस्ततो ध्यायेत्सुदर्शनम् || दक्षाद्यूर्ध्वक्रमादष्टभुजैरायुधधारिणम् || ११ ||
चक्रं शंखं गदा पद्मं मुसलं च शरासनम् || पाशमंकुशमादीप्तं भीमदंष्ट्रं रविप्रभम् || १२ ||
पूजयेद्वैष्णवे पीठे मूर्त्तिमूलेन कल्पयेत् || कर्णिकायां षडङ्गानि चक्राद्यस्त्राणिकेशरे || १३ ||
हयग्रीवोदिता लक्ष्मीर्दिक्पत्रेषु [लक्ष्म्याद्या इति तात्पर्यम् ||] च संयजेत् || भूपुरे लोकपालांश्च तदस्त्राणि तदग्रतः || १४ ||
ध्यानप्राणप्रतिष्ठान्ते पूजान्ते च प्रदर्शयेत् || त्रिस्थाने चकगायत्र्याचकमुद्रां च तां शृणु || १५ ||
सुदर्शनायविद्महे महाज्वालाय धीमहि || तन्नश्चक्रं प्रचोदयात् || १६ ||
जपेद्द्वादशलक्षं च तत्सहस्रं पृथग्घुनेत् || तिलैस्त्रिमधुरोपेतैः सर्षपैर्मधुरान्वितैः || १७ ||
त्रियुक्तैर्बिल्वपत्रैश्च तथा दुग्धौदनेन च || ततश्च केवलाज्येन तर्प्पणादि ततश्चरेत् || १८ ||
एवं सिद्धमनुर्मन्त्री प्रयोगानाचरेत्क्रमात् || खातादिशोधितं स्थानं गोमयेनोपलेपयेत् || १९ ||
हस्तद्वयान्तराले च कुर्ययाद्याम्योत्तरद्वयम् || वृत्तवेष्टितषट्कोणं तद्बाह्ये भूपुरावृतम् || २० ||
कर्णिका पीतवर्णा स्याद्रक्ताभं कोणषट्ककम् || तदन्तरालं श्यामेन शेषं श्वेतेन पूरयेत् || २१ ||
कर्णिकायां लिखेत्तारं मन्त्रार्णान्कोणषट्कके || आदावुत्तरचक्रे च दक्षिणे च ततो न्यसेत् || २२ ||
शालिं शालिजलैःपूर्णमेकैकं कलशं न्यसेत् || दीक्षाविधिप्रकारेण पीठपूजां समाचरेत् || २३ ||
सम्यगावाहयेत्तत्र तत्सुदर्शनरूपकम् || सम्पूज्य सांगावरणमन्यचक्रे ततस्तथा || २४ ||
चक्रे संस्थापयेद्वह्निं वैष्णवं तद्विधानतः || प्रतिद्रव्यं भवेद्धोमः षट्त्रिंशदधिकं शतम् || २५ ||
आज्यं चापामार्गसमिच्चाक्षता राजिकास्तिलाः || हविष्पृथक्पंचगव्यं हुनेदाज्यं तु तत्क्रमात् || २६ ||
प्रतिद्रव्यस्य सम्पातान्कुम्भतोये विनिक्षिपेत् || होमं समाप्य च ततः प्रक्षाल्यार्घ्यस्य पिण्डिकम् || कुम्भोपरि निधायाथ साध्यं समुपवेशयेत् || २७ ||
स्वस्य दक्षे ततः कुम्भं साध्यस्योपरि च त्रिधा || प्. ७०५)भ्रामयित्वा ततश्चोदङ्मार्ज्जनं कलशं क्षिपेत् || २८ ||
दूरदेशे ततोग्न्यादि दूरदेशे समुत्क्षिपेत् || हुतशिष्टान्नेन दद्याद्बलिं च मनुनामुना || २९ ||
नमो [नमो विष्णुगणेभ्यो नः सर्वशान्तिकरेभ्यो बलिं प्रतिगृह्णन्तु शान्त्यै नमः ||] विष्णुगणेभ्यो नः सर्वशान्तिकरे वदेत् || भ्यो बलिं प्रतिगृह्णन्तु शान्त्यै हृत्तत्त्ववर्णकः || ३० ||
विप्रान्सम्भोज्य गुरवे दक्षिणां च प्रकल्पयेत् || ज्वरादिरोगसंघातान्प्रओगोयं विनाशयेत् || ३१ ||
अपस्माररुजं चैव पिशाचग्रहवैकृतम् || रक्षोभूतादिपीडां च नाशयेत्स त्वयं विधिः || ३२ ||
स्तनजद्रुमसम्भूतैः फलकैः पंजरं शतम् || कृत्वा मन्त्री पंचगव्यैः पूजयेत्साध्यमत्र च || ३३ ||
निवेशयेच्छुद्धमन्त्रैर्वस्त्रं शुद्धं स्पृशेज्जपेत् || मन्त्रमग्निं प्रतिष्ठाप्याग्न्यादिकोणेषु मन्त्रवित् || विप्रवर्ययैः कारयेच्च होमं पूर्वोदितं क्रमात् || ३४ ||
द्रव्यैस्तांस्तोषयेद्विप्रान्यजमानो गुरुं तथा || एष योगः सर्वरोगापमृत्युद्रोहनाशकः || ३५ ||
गव्यैः समस्तैः क्षीरेन्दुवल्कलोत्थकषायकैः || त्रिभिः सम्पूरितैर्जप्तैः कुम्भैः सम्पातसंयुतैः || ३६ ||
प्राग्वद्धोमस्तस्य चान्ते ग्रहान्विष्णुं च साधयेत् || अभिषिञ्चेद्भानुदिने चामयाद्यातुरं तथा || ३७ ||
स्वस्थो भवेद्द्रुतं भूतप्रेतराक्षसपीडितः || घृतं [भक्षयेदिति शेषः ||] पक्वं पञ्चगव्यैर्जपिते मनुनामुना || ३८ ||
ग्रहपीडानिरुद्धानां गर्भिणीना हिताय च || मन्त्रं जपेद्दशशतं पञ्चगव्यं स्पृशेत्सुधीः || ३९ ||
पद्मपत्रे ब्रह्मवृक्षपत्रे बिल्वफले तथा || संन्यस्य तत्स्वीयगृहे निखनेच्च परस्य वा || रक्षा भवति तद्गेहे सम्पद्वृद्धिः प्रजायते || ४० ||
पलाश स्तनजं रक्तचन्दनं गुग्गुलुन्तथा || घुसृणं च हरिद्रां च रोचनं बिल्वराजिके || ४१ ||
अपामार्गांस्तिलान्दूर्वा विष्णुकान्तां तुलस्यपि [अमभाव आर्षः ||] || कृष्णां च तुलसीं प्रोक्तां जवमर्कद्रुमं तथा || ४२ ||
सहदेवीं तथा लक्ष्मीं कुशगोमयसद्वचाः || कमलं रोचनां पञ्चगव्ये संक्वाथयेन्मुहुः || ४३ ||
संस्कृतेग्नौ तस्य भस्म कुर्ययात्तत्सर्वदायकम् || जपितं मनुनानेन सम्यक्च शिरसा धृतम् || ४४ ||
सर्वभूतग्रहव्याधिकृत्यादुःखादिवारणम् || प्. ७०६)द्रोहोन्मादरिपुत्राससर्वपापहरं मतम् || आपन्नाशकमेतत्स्याद्वश्यदं शिवदं परम् || ४५ ||
फलत्रययुतैः कल्कं पञ्चगव्ये पचेद्घृतम् || प्रस्थं च कल्कद्रव्याणि मुस्ता शुण्ठी निशा तथा || ४६ ||
चित्रकैलाशतावर्ययो वचा वाढ्या वृषा तथा || मांस्याह्वा च विडङ्गं च मञ्जिष्ठा कटुरोहिणी || ४७ ||
मनुनानेन जपितं वन्ध्यापुत्रप्रदायकम् || भूतप्रेतपिशाचादिभयघ्नं नात्र संशयः || ४८ ||
पञ्चगव्याज्यमेतद्धि गर्भरक्षाकरं परम् || गुटिकां गुग्गुलोः कृत्वा हुनेदष्टसहस्रकम् || ४९ ||
दिवसत्रितयं वापि चतुर्दिवसमेव च || भवेत्सर्वोपद्रवाणां नाशो मन्त्रगदस्य च || ५० ||
अपामार्गसमिद्भिश्च हुनेदयुतसंख्यया || भूतज्वरभयव्याधिकृत्यापस्मारनाशनम् || ५१ ||
घृताक्तैः कमलैर्हुत्वा श्रीवृद्धिं लभते नरः || आज्याक्ताभिश्च दूर्वाभिर्होमाद्दीर्घायुराप्नुयात् || ५२ ||
पलाशस्य समिद्भिश्च मेधावृद्धिः प्रजायते || वस्त्रार्थी श्वेतकुमुदैराज्याक्तैर्जुहुयान्नरः || ५३ ||
पशूनां वृद्धिमन्विच्छन्हुनेत्सकमलैर्घृतैः || औदुम्बरसमिद्धोमात्पुत्रलाभो भवेद् ध्रुवम् || ५४ ||
अष्टोत्तरसहस्रं च हुनेदश्वत्थजैस्तथा || समिद्वरैर्महारोगमुक्तयेयं विधिः स्मृतः || ५५ ||
चक्रमध्ये स्थितं स्वं च चिन्तयन्यो मनुं जपेत् || एकोपि दुर्जयो युद्धे भवत्येव न संशयः || ५६ ||
कल्पान्ताग्निनिभं चक्रं वैरिणो यस्य मूर्द्धनि || स्मरेत्सप्तदिनं तस्य ज्वलनप्रतिमो ज्वरः || भवेत् त्रिंशद्दिनैश्चाथ प्राप्नोति मरणं ध्रुवम् || ५७ ||
सकारं स्वरसंयुक्तं याहीति पदवेष्टितम् || संस्मरेद्यस्य शीर्षे तु तस्योच्चाटो दशाहतः || ५८ ||
मण्डलान्मरणं याति सान्तं काकनिभं रिपोः || मूर्ध्नि स्मरेच्च सप्ताहादुच्चाटो वा मृतिर्भवेत् || ५९ ||
शरच्छशा प्रतिमं सुधाधाराभिवर्षिणम् || सकारं संस्मरेन्मूर्ध्नि स जीवेच्छरदां शतम् || ६० ||
षट्कोणं सुलिखेत्कोणषट्के ठं तु समालिखेत् || कर्णिकायां तथा ठं च शेषमन्त्रार्णकं तथा || ६१ ||
साध्यनाम लिखेन्मध्ये काश्मीरैर्भूर्ज्जपत्रके || आपन्निवारणं यन्त्रं भूतप्रेतभयापहम् || ६२ ||
अथान्यं सम्प्रवक्ष्यामि सुदर्शनमहामनुम् || तारो [ओं नमो भगवते महासुदर्शनाय हुं फट् ||] नमो भगवते महासुदर्शनं वदेत् || ६३ ||
प्. ७०७)ङेन्तं हुंफट् पोडशार्णो मुन्याद्यं पूर्ववन्मतम् || तथा न्यासश्च पूजायां सर्व रक्षाकरो मनोः || ६४ ||
जपेद् द्वादशलक्षाणि प्रत्येकं क्रमतो हुनेत् || चतुर्विंशच्छतानीति तिलांश्चापि ससर्षपान् || ६५ ||
बिल्वाज्यपालाशसमित्पायसानीति कीर्त्तितम् || अनुरूपजपध्यानान्मन्त्रोयं वाञ्छितप्रदः || ६६ ||
लिखेदादौ तु षट्कोणं मध्यकोणेषु तं लिखेत् || एकैकं सुलिखेद्वर्णं बहिर्भूपुरवेष्टनम् || ६७ ||
सम्पातसाधितं चैतद्गर्भिणीगर्भरक्षकम् || उन्मादग्रहभूतादीनभिचारांश्च नाशयेत् || ६८ ||
अथातः सम्प्रवक्ष्यामि मालामन्त्रं सुदर्शनम् || तारो नमो [नमो भगवते महासुदर्शनाय महाचक्राय महाज्वालाय दीप्तरूपाय सर्वनाथ रक्षरक्ष मामहाबलाय स्वाहा हुं फट् ||] भगवते महापूर्वपदत्रयम् || ६९ ||
ङेन्तं सुदर्शनं चक्रं ज्वालं ङेन्तं ततो वदेत् || दीप्तरूपं सर्वनाथ रक्षयुग्मं च मां महा || ७० ||
बलायाग्निवधूं हुंफट् सप्त वेदाक्षरो मनुः || ध्यानपूजादिकं प्राग्वज्जपो वर्णसहस्रकम् || ७१ ||
अथातः सम्प्रवक्ष्यामि मालामन्त्रं सुदर्शनम् || ओंक्लीं सुदर्शनमहाचक्रराज [ओं क्लीं सुदर्शन महाचक्रराज दहदह सर्वदुष्टभयं कुरुकुरु छिन्धिछिन्धि भिन्दिभिन्दि विदारयविदारय परमन्त्रान् ग्रसग्रस भक्षयभक्षय भूतानि त्रासयत्रासय हुंफट् स्वाहा चक्राय नमः || इति मन्त्रः ||] दहद्वयम् || ७२ ||
सर्वदुष्टभयं द्विर्द्विः कुरु च्छिन्धि च भिन्धि च || विदारयद्वयं प्रोच्य परमन्त्रान्ग्रसद्वयम् || ७३ ||
भक्षयद्वितयं प्रोच्य भूतानि त्रासयद्वयम् || हुंफट् स्वाहेति चक्राय नमो वेदनुगाक्षरः || ७४ ||
सुदर्शनमहामन्त्रः संग्रामे विजयप्रदः || ध्यानपूजादिकं सर्वं ज्ञेयमस्य षडर्णवत् || ७५ ||
जपेद्वर्णसहस्राणि ततः सिद्धो भवेन्मनुः || जप्त्वादौ चाष्टसाहस्रं रणे गच्छेद्द्रुतं जयी || ७६ ||
अथातः सम्प्रवक्ष्यामि शंखमन्त्रं जयप्रदम् || ओंक्लीं जलचरायेति स्वाहान्तोयं नवार्णकः || ७७ ||
विष्णुहस्तगतं ध्यात्वा यः शंखं नित्यमर्चयेत् || पूजान्ते प्रजपेन्मन्त्रमष्टोत्तरसहस्रकम् || ७८ ||
पाञ्चजन्येन चैकत्वं ध्यायेज्जपसमापनम् || कुर्यादेवं मासषट्कं ततः सिद्धो भवेन्मनुः || ७९ ||
पाञ्चजन्यसमं शंखमात्मानं विष्णुमेव च || ध्यात्वाभिवादयेच्छंखं रणे विजयकारकम् || ८० ||
प्. ७०८)तारो [ओं क्लीं खड्ग तीक्ष्ण भिन्धिभिन्धि हुं फट् ||] मारः खड्ग तीक्ष्ण भिन्धिभिन्धीति हुं च फट् || द्वादशार्णः खड्गमन्त्रो यो जपेद्द्वादशाक्षरम् || ८१ ||
प्रत्यहं पूजयेत्खड्गं कलयेन्मरणं विना || खड्गसिद्धिस्तस्य भवेन्न कदाचित्पराजयः || ८२ ||
दैवान्निष्कासिते तस्मिन्फलाद्यं छेदयेत्तदा || पूजयित्वा ततः कोणे स्थापयेत्प्रणमेदपि || ८३ ||
अथातः सम्प्रवक्ष्यामि धनुर्मन्त्रं नवाक्षरम् || शार्ङ्गाय [शार्ङ्गाय सशराय हुं फट् ||] सशरायेति हुंफट् जप्यो नवायुतम् || ८४ ||
तिलाज्यहोमात्संसिद्धो मन्त्रः स्यान्नित्यपूजनात् || ततो धनुषि बाणाढ्ये शार्ङ्गध्यानं समाचरेत् || अजेयो जायते धन्वी शार्ङ्गमन्त्रं समुच्चरेत् || ८५ ||
अथ वक्ष्ये गदामन्त्रं तारं [ओं क्ली कौमोदकि महासर्वबले महासुरान्तके प्रसीद प्रसीद हुं फट् स्वाहा ||] कामं समुच्चरेत् || कौमोदकि महासर्वबले सर्वासुरान्तिके || ८६ ||
प्रसीद हुंफट्स्वाहेति पञ्चविंशार्णको मनुः || जपेल्लक्षमिमं मन्त्रं पूजयेन्नित्यशो गदाम् || ८७ ||
कौमोदकीं स्मरेत्तत्र द्वन्द्वयुद्धे जयी भवेत् || साधको वा गजारूढो गदाहस्तो विशेद्रणम् || ८८ ||
स्वयं विष्णुरिति ध्यायंस्तत्काले सर्वशत्रवः || भयभीताः पलायन्ते चतुरङ्गबला अपि || ८९ ||
अथातः सम्प्रवक्ष्यामि मुसलस्य मनुं ध्रुवम् || कामसंवर्त्तकपदं [कामसंवर्त्तक मुसल पोथय पोथय हुं फट् स्वाहा ||] मुसलं पोथयद्वयम् || हुंफट् स्वाहान्तको मन्त्र ऊनविंशतिवर्णकः || ९० ||
प्रजपेदयुतं मन्त्रं खादिरीः समिधो हुनेत् || घृताक्ताश्चायुतं मन्त्रसिद्धिस्तस्य प्रजायते || ९१ ||
गृहीत्वा मुसलं हस्ते जपेन्मन्त्रं रणे विशेत् || पलायन्तेस्य रिपवो दक्षो रुद्राद्यथा तथा || ९२ ||
शत्रोः प्रतिकृतिं चैव कुर्ययान्नाम क्रियान्वितम् || लिखित्वा हृदये तस्य क्रोधान्मुसलधारणम् || कुर्यादरेर्वा गदादेः स्तम्भः स्यान्नात्र संशयः || ९३ ||
अथांकुशमनुं वक्ष्ये तारं मदनमंकुशम् || कंचुद्वयं च वर्म्मास्त्रं स्वाहान्तो विश्ववर्णकः || ९४ ||
अंकुशस्य मनोश्छन्दो मतिर्गणपतिर्मुनिः || देवश्चात्रांकुशो विष्णुरूपी गजविमर्दकः || ९५ ||
भूभूत्रिवेदयुग्माक्षिवर्णैः कुर्ययात्षडङ्गकम् || प्. ७०९)केवलांकुशपूजात्र जपो लक्षं त्रयोदश || ९६ ||
साध्ये सद्द्रव्यहोमः स्यत्सिद्धमन्त्रो नृपान्रिपून् || त्रासयेन्नात्र सन्देहो भवन्ति वचनाद्वशे || ९७ ||
अथ प्रवक्ष्ये पाशस्य मन्त्रं तारं मनोभवम् || पाशं वधयुगं चैवाकर्षयद्वितयं च हुम् || फट्स्वाहेत्यूनविंशार्णो वरुणो मुनिरुच्यते || ९८ ||
समुद्रश्चामितं छन्दो भूभूषट्सप्तनेत्रकैः || नेत्रैरङ्गानि तं चैव ध्यायेद्वरुणहस्तगम् || ९९ ||
लक्षत्रयं भवेद्धोमः कैरवाख्यप्रसूनकैः || सिद्धमन्त्रो हुनेदाज्यं वश्यार्थमयुतं तथा || मारणाय मधुसिते द्वेषे तैलं ततो गुडम् || १०० ||
अथ च्छत्रमनुं वक्ष्ये छं छत्राय नमस्त्विति || मुनिर्मन्त्रश्च छन्दोस्य गायत्री देवता हरः || १०१ ||
छत्ररूपं ध्यानमस्य स्वर्णदण्डं सितप्रभम् || आरक्तकलशं ध्यायेन्मस्तके स्वे च पूजयेत् || १०२ ||
वर्णलक्षं जपेन्मन्त्रं होमः स्याद्घृतपायसैः || तर्प्पणाद्यं ततः कुर्ययाच्छत्रमन्त्रस्य सिद्धये || १०३ ||
साधयित्वा मनुं चैनं गतराज्यो विशेद्रणम् || एकोपि स रिपूञ्जित्वा राज्यं तु लभते द्रुतम् || १०४ ||
अथातः सम्प्रवक्ष्यामि लोकरूपमनुं परम् || चामरस्य ग्रहावेशदृष्ट्यादिकनिवारणम् || १०५ ||
शशाङ्ककरसङ्काश क्षीरडिण्डिमपाण्डुर || प्रोत्सारयाशु दुरितं चामर श्रीं नमोस्तु ते || १०६ ||
द्वात्रिंशच्च सहस्राणि जपित्वा सुरभेर्घृतम् || हुत्वा सिद्धो भवेन्मन्त्रो नित्यं चामरमर्चयेत् || १०७ ||
तेन ग्रहाभिभूता वादुस्साध्या दीर्घरोगिणः || सप्ताहमर्ज्जिताः सायं प्रातः स्युर्दोषवर्ज्जिताः || १०८ ||
अथातः सम्प्रवक्ष्यामि ध्वजमन्त्रद्वयं प्रिये || शक्रकेतवे च महावीर्ययाय श्याम वर्णकम् || १०९ ||
ङेन्तं च च्छत्रराजाय नमो नारायणध्वज || गरुडासन रक्षद्विरायुधानि रिपून्दह || ११० ||
द्वयं वर्म्मास्त्राग्निजाया द्विपञ्चाशार्णको मनुः || ध्वजमन्त्रं जपेत्पञ्चसहस्रं सिद्धये हुनेत् || १११ ||
आज्यैः पश्चाल्लिखेद्यन्त्रं स्वसैन्याङ्कैश्च सम्मितम् || ध्वजं तु पूजयेन्नित्यं शत्रुभीतिनिवारणम् || ११२ ||
अथ वक्ष्ये पताकाया मन्त्रं तारं रमात्रयम् || हिरण्यकशिपोर्युद्धे पूतने दैवतासुरे || ११३ ||
रणारपतिकालेति नेति मृत्यु पदं वदेत् || कालहं त्रिर्दहद्वन्द्वं रिपून्सर्वान्पताकिके || ११४ ||
हुं फट् स्वाहेति मन्त्रोत्र चैनं पञ्चायुतं जपेत् || प्. ७१०) ततस्त्रिमधुरैर्होमादिकैः सिद्धो भवेन्मनुः || ११५ ||
बीजवर्णं पताकायां लिखेदङ्गक्रमेण तु || स्थितप्राणां च ता दृष्ट्वा रिपुर्याति दिशो दश || ११६ ||
अथातः सम्प्रवक्ष्यामि शूलमन्त्रं ध्रुवं वदेत् || त्रिशूलाय नमश्चेति मन्त्रः सप्ताक्षरो मतः || ११७ ||
उष्णिक् छन्दो वामदेवो मुनिर्देवः पिनाकधृक् || शिवहस्तगतं ध्यायेच्छूलं लक्षत्रयं जपेत् || होमस्तु बिल्वपत्रैः स्यात्सिद्धो मन्त्रस्त्वयं भवेत् || ११८ ||
ओं क्लीं सर्वायुधायैच पिनाकिनिर्मिते वदेत् || शूलाकृष्टे चण्डि [ङ्यापोरिति ह्रस्वः ||] वृते सर्वदुष्टनिबर्हिणि || ११९ ||
सर्वसत्त्वाङ्गभूते च देवताप्रतिपादिते || क्षुरिके रक्ष मां नित्यं सर्वाशुभविनाशिनि || १२० ||
शान्तिपक्षे द्वयं द्वेधा हृत्सप्तत्यक्षरो मनुः || जप्त्वा वर्णसहस्रं च सिद्धः शत्रुनिवारणः || १२१ ||
अथ वक्ष्ये कटारस्य मनुं श्लोकस्वरूपकम् || शस्त्रिणामेव सर्वेषां योस्ति रक्षाकरः परः || १२२ ||
रक्षाङ्गानि गजान्रक्ष रक्ष वाजिधनानि च || मम देहं सदा रक्ष कटारक नमोस्तु ते || १२३ ||
जपेद्वर्णसहस्राणि तिलाज्यैर्होममाचरेत् || स्थापयेत्सिद्धमन्त्रस्तु ततः स्थाने कटारकम् || तत्र सम्पूजयेत्तच्च नाग्निचौरादिजं भयम् || १२४ ||
अथ वक्ष्ये श्लोकरूपं कन्तमन्त्रं जयप्रदम् || प्रापयानय शत्रूंस्त्वमनया देवमायया || गृहाण जीवनं तेषां मम सैन्यं च रक्ष माम् || १२५ ||
प्राग्वज्जपादिना सिद्धः प्रयोगार्होमनुर्भवेत् || कुर्ययादष्टांगुलन्यासान्धातुजान्नखजानपि || दिगष्टके रणे यात्वा रिपूणां कदनं भवेत् || १२६ ||
अथातः सम्प्रवक्ष्यामि वर्मार्णं वमसम्पुटम् || वर्म्मञ्छर्मप्रद त्वं मां रक्षरक्ष समन्ततः || १२७ ||
अष्टादशाक्षरो मन्त्रो जप्यस्तावत्सहस्रकम् || आज्यैस्तावद्धुनेत्सिद्धस्तत्सम्पातेन संस्कृतम् || १२८ ||
संग्रामे कवचं धृत्वा रिपून्हत्वा प्रयात्यसौ || तत्रैव स्वीयवर्षाणामंकयन्त्रं क्षितिप्रदम् || १२९ ||
अथातो दण्डगायत्रीं वक्ष्येहं हितकाम्यया || नानादण्डविनिर्मुक्तो जपाद्यस्याः प्रजायते || जपमात्रेण संसिद्धिर्हुनेच्च घृतपायसैः || १३० ||
ब्रह्मोद्भवाय विद्महे स्वर्णरूपाय धीमहि || प्. ७११)तन्नो दण्डः प्रचोदयात् || १३१ ||
सहस्रायुतमारभ्य कार्ययलाघवगौरवात् || कोट्यन्तं प्रजपेन्मन्त्री सर्वदण्डैर्विमुच्यते || १३२ ||
ओं क्लीं रामा युधायेति श्रीं पं परशवे नमः || तिथ्यक्षरोयं परशोर्मन्त्रः संग्रामसिद्धिदः || १३३ ||
इत्यायुधानां मनवः समाख्याताः सुरेश्वरि || गोपिता बहुतन्त्रेषु किमन्यच्छ्रोतुमिच्छसि || १३४ ||
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते आयुधमन्त्रकथनं नामैकोनत्रिंशः प्रकाशः || २९ ||
Prakāśa 30 – Mantras der Kräfte Viṣṇus
श्रीदेव्युवाच ||
शक्तिं विना न देवोस्ति शक्तिश्चापि पतिं विना || नचास्तीति पुरा प्रोक्तमत्र शक्तीर्वदाधुना || १ ||
श्रीशिव उवाच ||
लक्ष्मीरुक्ता विष्णुशक्तिरन्या अपि वदामि ते || यतिभिः केवलो देवः सेव्यो नान्यैस्तथा त्रिभिः || २ ||
शक्तिश्च केवला सेव्या वाममार्गरतैर्द्विजैः || यतस्तु धर्म्मपतितो वाममार्गी पुमान्मतः || ३ ||
ये हरिं वाममार्गेण पूजयन्त्यद्विजातयः || तेषां भुक्तिश्च मुक्तिश्च तदन्ते त्वं मनुं शृणु || ४ ||
आद्याक्षरं च सकलं कूटं मायान्वितं वदेत् || वदयुग्मं च चित्रेशे वाग्बीजं दहनाङ्गना || ५ ||
द्वादशार्णो मनुः प्रोक्तो मुनिर्ब्रह्मा समीरितः || चित्रेश्वरी देवता स्याच्छन्दो गायत्रमुच्यते || ६ ||
षड्दीर्घयुक्तकूटेन षडङ्गविधिरीरितः || नीलोत्पलदलश्यामां मदाघूर्णितलोचनाम् || ७ ||
नानालङ्करणोपेतां रक्तवस्त्रोपशोभिताम् || क्रीडन्तीं हरिणा सार्धं स्थगितां च वनेवने || ८ ||
एवं ध्यात्वा ततो मन्त्री कुर्ययात्पूजां यथाविधि || नोपास्या जातु चिद्विप्रैर्वाममार्गप्रभावतः || ९ ||
अथ विष्णोः प्रवक्ष्यामि कुलजां शक्तिमुत्तमाम् || सेव्या कौलिकमार्गेण तदधीनस्तदा हरिः || १० ||
वाग्बीजं कुलजे वह्नौ सरस्वत्यनलाङ्गना || एकादशाक्षरो मन्त्रो मुनिः स्याद्वामकेश्वरः || ११ ||
त्रिष्टुप्छन्दस्तु कुलजा देवता परीकीर्त्तिता || पञ्चाङ्गं स्यात्पञ्चपदैरंगुष्ठादिषु विन्यसेत् || १२ ||
गौराङ्गी नीलवसना नानालङ्कारभूषिता || क्रीडन्ती हरिणा सार्धं महावटसमाश्रिता || १३ ||
प्. ७१२)पूजादिकं चरेदस्या उग्रातारासमो जपः || अत्रैकादशलक्षाणि सुरा मांसं च होमयेत् || भगपूजां विशेषेण कुर्ययाद्वीरांश्च भोजयेत् || १४ ||
एकान्ते यो वटाधस्ताल्लिङ्गं योनौ प्रवेश्य च || लक्षमात्रं जपेद्यस्तु त्रिकालज्ञः स जायते || १५ ||
पञ्चमासं पूजयित्वा वटाधस्ताच्च तां निशि || षण्मासं नियतं देवीं वाग्बुद्धिस्तस्य जायते || १६ ||
सन्ध्याद्वये चार्धरात्रे यो वर्षैकं प्रपूजयेत् || कुलजां पञ्चमैः स स्याद्धनधान्यसमन्वितः || राजमान्यो महातेजाः पूज्यते सकलैर्जनैः || १७ ||
अथ मार्गद्वयोपास्यां वक्ष्ये गोपालसुन्दरीम् || मायाश्रीकामबीजानि कृष्णायेति पदं वदेत् || १८ ||
एकोनविंशकं वर्णं रुद्रदेवस्वरौ तथा || पञ्चमं च ततो बीजमेभिः सप्तमकूटकम् || १९ ||
गोविन्दाय पदं पश्चाच्चित्रैश्वर्ययादिकूटकम् || गोपीजनवल्लभाय ततश्च कमलत्रयम् || २० ||
कूटरूपं समुच्चार्यय वदेद्वै हंसवाहिनीम् || त्रयोविंशाक्षरो मन्त्रो भुक्तिमुक्तिफलप्रदः || २१ ||
मुनिर्विधाता दक्षे तु वामे चानन्दभैरवः || छन्दस्तु देवी गायत्री देवो गोपालसुन्दरी || २२ ||
त्रित्रिवेदाब्धिवेदाब्धिवर्णैः कुटविहीनकैः || षडङ्गविधिरुद्दिष्टो मन्त्रवर्णान्न्यसेत्तनौ || २३ ||
कूटत्रयविहीनांश्च विंशत्यङ्गेषु विन्यसेत् || मूर्ध्नि भाले भ्रुवोरक्ष्णोः कर्णयोर्नासयोर्मुखे || २४ ||
चुबुके च गले बाह्वोर्हृदये जठरे तथा || नाभौ लिङ्गे गुदे सक्थ्नोर्जानुनोर्जङ्घयोरपि || २५ ||
गुल्फयोः पादयोः सृष्टिन्यासोयं परिकीर्त्तित || हृदयाद्यो भुजान्तश्च न्यासोयं स्थितिसञ्ज्ञकः || २६ ||
पादादिमस्तकान्तश्च संहारः परिकीर्त्तितः || एवं न्यासत्रयं कृत्वा पुनः सृष्टिस्थितिं चरेत् || २७ ||
ततश्च करशुद्ध्याख्यं न्यासं कुर्वीत तं शृणु || ह्रीं श्रींपूर्वं अं च आं च स्वरौ न्यस्येत्क्रमेण तु || २८ ||
मध्यानामाकनिष्ठासु पुनस्तानेव विन्यसेत् || मायां रमां तथा ह्रीं च कामबीजं हकारयुक् || २९ ||
ह्रौं च चक्रासनायेति हृदुक्त्वा जङ्घयोर्न्यसेत् || मायां लक्ष्मीं समुच्चार्यय हसयुक्तानि चोच्चरेत् || ३० ||
वाक्कामौ सौं च बीजानि सर्वमन्त्रासनाय च || नमोन्तः शक्रवर्णोयं विन्यसेज्जानुनोस्तथा || ३१ ||
प्. ७१३)लज्जा लक्ष्मीं समुचार्यय साध्यसिद्धासनाय च || नमः प्रोच्य न्यसेल्लिङ्गे रुद्रवर्णोयमीरितः || ३२ ||
ततो वाग्देवतान्यासं कुर्ययात्तस्य मनुं शृणु || मेघवण वदेन्ङेन्तं सबिन्दुं षण्मितस्वरम् || ३३ ||
आद्यं बीजं षोडशार्णं बीजयुक्तं ततो वदेत् || तदेव बीजं वशिनी देवतायै नमस्तथा || ३४ ||
सप्तविंशतिवर्णोयं मन्त्रः शिरसि विन्यसेत् || कवर्गं बिन्दुसंयुक्तं कामं कामेश्वरीं तथा || ३५ ||
वाग्देवतायै हृदयं न्यसेद्भाले घनार्णकम् || चवर्गं बिन्दुसंयुक्तं दशरामेषुवर्णकान् || बिन्दुतुर्ययान्स्वरोपेतान्षष्ठं बीजमुदाहृतम् || ३६ ||
नोदिनीवाग्देवतायै नमः षोडशवर्णकम् || भ्रूमध्ये विन्यसेन्मन्त्रं टवर्गं बिन्दुसंयुतम् || ३७ ||
द्वितीयपंचमौ षष्ठस्वरबिन्दु समन्वितौ || विमलावाग्देवतायै नमश्चेति गले न्यसेत् || ३८ ||
तवर्गं बिन्दुसंयुक्तं त्रिसप्तमनुवर्णकान् || बिन्दुतुर्ययस्वरोपेतान्बीजं प्रोक्तं तथारुणा || ३९ ||
वाग्देवतायै च नमो न्यसेद्धृदि नृपार्णकम् || पवर्गबिन्दुसंयुक्त माद्यमन्त्यं च पंचमम् || ४० ||
तृतीयं च द्वितीयं च षष्ठबिन्दुसमन्वितम् || जयन्तीवाग्देवतायै नमोयं नृपवर्णकः || ४१ ||
यवर्गं बिन्दुसंयुक्तमीशागत्र्यक्षिवर्णकम् || बिन्दुषष्ठस्वरोपेतं कूटकान्तमुदाहृतम् || ४२ ||
सर्वैश्वर्ययै च वाग्देवतायै हृत्षोडशाक्षरः || मूलाधारे न्यसेदेनं सवर्गं बिन्दुसंयुतम् || ४३ ||
क्षीबीजं कौलिनीवाग्देवतायै च हृदन्तकम् || न्यसेदूर्वादिपादान्तं न्यासं वाग्देवताभिधम् || ४४ ||
ततो मन्त्रस्थितं कूटत्रयं काम्यं हृदि न्यसेत् || कूटत्रयद्विरावृत्त्या षडङ्गं पुनराचरेत् || ४५ ||
कमलावसुधायुक्तं ध्यायेच्छ्रीचक्रगं हरिम् || क्षीराम्भोधौ सितद्वीपे वने कल्पद्रुमादिभिः || ४६ ||
व्याप्ते तस्मिन्स्वर्णमयं चिन्तयेद्रत्नमण्डपम् || मण्डपे तत्र श्रीपीठे स्थितं कृष्णं विभावयेत् || ४७ ||
पद्ममष्टदलं शंखं बाणान्वंशीं च दक्षिणैः || भुजैर्दधानं वामैस्तु चापं पाशं तथांकुशम् || ४८ ||
विपञ्चीं च महारत्ननानाभरणभूषितम् || पीताम्बरधरं गोपीसमूहैः परितो वृतम् || ४९ ||
आदावष्टदले पद्मे कर्णिकायां षडङ्गकम् || पूर्वादिकदले वासुदेवं शान्तिं क्रमाद्यजेत् || ५० ||
सङ्कर्षणं श्रियं प्रद्युम्नाख्यं चापि सरस्वतीम् || अनिरुद्धं रतिं पत्राग्रेष्वर्च्या अष्टनायिकाः || ५१ ||
प्. ७१४)रुक्मिणी सत्यभामा च कालिन्दी जाम्बवन्तिका || मित्रविन्दा लक्ष्मणा च सत्या नाग्नजिती तथा || ५२ ||
तद्बाह्येष्टदले पूज्यास्तदग्रे निधयो नव || महापद्मश्च पद्मश्च शंखो मकरकच्छपौ || ५३ ||
मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव || योगिन्यस्तु रहस्याख्यास्तदग्रेष्टदलेर्चयेत् || ५४ ||
यक्षिणी चापि कामेशी कामिनी मादिनी बलात् || जयिनी चैव सर्वेशी कौलिनीत्यष्ट शक्तयः || ५५ ||
ततो दशदले पूज्या निर्गभाख्यास्तु योगिनीः || सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्ययफलप्रदा || ५६ ||
सर्वज्ञानमयी पश्चात्सर्वज्ञानविनाशिनी || सर्वाधारस्वरूपा च सर्वपापहरापरा || ५७ ||
सर्वानन्दमयी पश्चात्सर्वरक्षास्वरूपिणी || सर्वेप्सितार्थफलदा पश्चिमादिविलोमगाः || ५८ ||
तदग्रिमे दशदले पूजयेत्कुलयोगिनीः || सर्वसिद्धिप्रदा त्वाद्या सर्वसम्पत्प्रदापरा || ५९ ||
सर्वप्रियङ्करी चव सर्वमङ्गलकारिणी || सर्वकामप्रदा पश्चात्सर्वदुःखविमोचिनी || ६० ||
सर्वमृत्युप्रशमनी सर्वविघ्नविनाशिनी || सर्वाङ्गसुन्दरी चैव सर्वसौभाग्यदायिनी || ६१ ||
अग्रे चतुर्दशारे तु योगिनीः साम्प्रदायिकाः || पश्चिमादिविलोमेन पूजयेत्क्रमतस्तु ताः || ६२ ||
सर्वसंक्षोभिणीं चैव सर्वविद्राविणीं तथा || सर्वाकर्षिणिकां प्रोक्तां सर्वाह्लादकरां तथा || ६३ ||
सर्वसम्मोहिनीं चैव सर्वस्तम्भनकारिणीम् || सर्वजृम्भणिकां प्रोक्तां ततः सर्ववशंकरीम् || ६४ ||
सर्वरञ्जनिकां चैव सर्वोन्मादनिकां तथा || सर्वार्थसाधिनीं चैव सर्वसम्पत्तिरूपिणीम् || ६५ ||
सर्वमन्त्रमयीं चापि सर्वद्वन्द्वक्षयंकरीम् || ततोष्टारे पु(?)रा प्रोक्ता योगनीः परिपूजयेत् || ६६ ||
पूर्वादिष्वनुलोमेन बन्धूककुसुमप्रभाः || अनङ्गकुसुमा त्वाद्या द्वितीयानङ्गमेखला || ६७ ||
अनङ्गमदना तद्वदनङ्गमदनातुरा || अनङ्गलेखा चानङ्गवेगानङ्गांकुशा तथा || ६८ ||
अनङ्गमालिनी त्वष्टौ पाशांकुशलसत्कराः [पूज्या इति शेषः ||] || तदग्रे षोडशारे तु पश्चिमादिविलोमतः || ६९ ||
कामाकर्षिणिका पूर्वंबुद्ध्याकर्षिणिकापरा || अहङ्काराकर्षिणी च शब्दाकर्षिणिका तथा || ७० ||
स्पर्शाकर्षिणिका तद्वद्रूपाकर्षिणिका भवेत् || रसाकर्षिणिका प्रोक्ता गन्धाकर्षिणिका मता || ७१ ||
प्. ७१५)चित्ताकर्षिणिका चापि धैर्ययाकर्षिणिका मता || नामाकर्षिणिका चैव बीजाकर्षिणिका तथा || ७२ ||
अमृताकर्षिणी चापि स्मृत्याकर्षिणिका मता || शरीराकर्षिणी पश्चादात्माकर्षिणिका तथा || ७३ ||
तदग्रेष्टदले पूज्या योगिन्यः प्रकटा इह || क्षोभणद्रावणाकर्षमनोन्मादमहांकुशाः || ७४ ||
खेचरीं बीजसञ्ज्ञां च योन्याख्यामूर्ध्वतो यजेत् || तद्वच्चाधः समभ्यर्च्य तद्बहिर्भूपुरे यजेत् || ७५ ||
ब्राह्म्याद्यष्टौ तद्बहिश्च प्राग्वच्चागारभूपुरे || द्वारे द्वयं प्रागणिमा महिमा लघिमेशिता || ७६ ||
वशिता गुरुता भुक्तिः प्राकाम्यं प्राप्तिरेव च || रससिद्धिश्च दशमी सपर्ययैवं समीरिता || ७७ ||
लक्षमेकं जपेन्मन्त्रं जुहुयात्पायसेन वै || तर्प्पणादि ततः कुर्ययान्मन्त्रसिद्धः प्रजायते || ७८ ||
नवलक्षं जपेत्तां तु रुद्ररूपो नरो भवेत् || करवीरजपुष्पैश्च होमान्मोहयते जगत् || ७९ ||
चन्द्रकुंकुमकस्तूरीहोमात्कामाधिको भवेत् || चम्पकैः पाटलैर्बिल्वैर्वशमानयते चिरात् || ८० ||
करञ्जफलहोमेन भूतप्रेतादयो वशाः || बिल्वैः स्यादतुला लक्ष्मीरिक्षुखण्डैस्तथा वशाः || ८१ ||
लाजहोमो राज्यदायी मधुनोपद्रवक्षयः || निशि [निशि च्छागपलैरिति वा निशि शाकफलैरिति पुस्तकाशुद्ध्या पाठो न ज्ञायते तदह्यं यथामति सुधीभिः ||] स्वर्णफलैर्होमो रिपुसेनाविनाशकृत् || ८२ ||
दध्याज्यदुग्धमधुभिः कृताद्धोमादवाप्नुयात् || आरोग्यं सम्पदं कामं धनं शर्क्करया सुखम् || ८३ ||
कमलैर्धनसम्पत्तिर्दाडिमै राजवश्यता || क्षत्रियो मातुलुङ्गैश्च वैश्यो नारिङ्गजैः फलैः || ८४ ||
शूद्रः कूष्माण्डसम्भूतैर्वश्याः स्युरचिराद्ध्रुवम् || पनसानां लक्षहोमाद्वश्याः स्युश्चक्रवर्तिनः || ८५ ||
द्राक्षाफलैरिष्टसिद्धी रम्भाभिर्मन्त्रिणो वशाः || नारिकेरैस्तु पाण्डित्यं तिलैः सर्वेष्टसिद्धयः || ८६ ||
गुग्गुलैर्दुःखनाशः स्यात्सर्वेष्टं शर्करागुडैः || पायसैर्धनधान्यादि बन्धूकैः प्राणिनो वशाः || ८७ ||
पक्वचूतफलैर्होमाद्रक्तमात्राद्धरा वशा || लवणै राजिकायुक्तैर्होमाद्दुष्टविनाशनम् || ८८ ||
कर्पूरहोमाल्लभते वाक्पतित्वं नरोऽचिरात् || घृतहे मादीप्सिताप्तिः शक्तिः स्यात्तिलतण्डुलैः || ८९ ||
अथान्यां सम्प्रवक्ष्यामि वाममार्गफलप्रदाम् || कृष्णस्य शक्तिं सुमुखीं द्विजानां नाधिकारिता [नचेतिशेषः ||] || ९० ||
प्. ७१६)उच्छिष्टचाण्डालिनि सुमुखि देवि महापिशा || चिनि ह्रीं ठश्चठःठश्च द्वाविंशत्यक्षरो मनुः || ९१ ||
भैरवोस्य मुनिश्छन्दो गायत्री सुमुखी सुरी || मुनिरामद्विषट्चन्द्रबन्ध्वर्णैरङ्गकल्पनम् || ९२ ||
ततश्च सुमुखीं ध्यायेत्पुष्पहारविभूषिताम् || रक्ताम्बरां रक्तवर्णां रक्तपुष्पानुलेपनाम् || ९३ ||
नृकपालं च खड्गं च कराभ्यां दधतीं नवाम् || शवासनां पीनकुचां देवीं श्रीसुमुखीं भजे || ९४ ||
कालीपीठे यजेद्देवीं पंचकोणाढ्यकर्णिके || अष्टपत्रे षोडशारे वृत्तभूपुरशोभिते || ९५ ||
मूलेन मूर्त्तिं संकल्प्य पाद्यादीनि प्रकल्पयेत् || चन्द्रां चन्द्राननां चारुमुखीं चामीकरप्रभाम् || ९६ ||
चतुरां पंचकोणेषु केशरेष्वङ्गदेवताः || ब्राह्म्याद्या अष्टपत्रेषु षोडशारे कलादिकाः || ९७ ||
कला कलानिधिः काली कमला च क्रिया कृपा || कुला कुलीना कल्याणी कुमारी कलभाषिणी || ९८ ||
कराली च करालास्या कान्ता कामप्रदा कुजा || भक्तोच्छिष्टोऽयुतं जप्त्वा जायते सम्पदां पदम् || ९९ ||
उच्छिष्टेनैव भक्तेन बलिम् दद्यान्निरन्तम् || गव्याज्याक्तैः प्रजुहुयाल्लक्षं सिद्धार्थतण्डुलैः || १०० ||
भवन्ति वशगास्तस्य राजानो राजमन्त्रिणः || शास्त्राणि वशगानि स्युर्होमं मार्ज्जारमांसतः || १०१ ||
धनर्द्धिश्छागमांसेन विद्याप्राप्तिस्तु पायसैः || मधुपायससंयुक्तस्त्रीरजोयुक्तवाससा || १०२ ||
होममाचरतः पुंसो जनता वशवर्त्तिनी || मधुसर्पिर्युतैर्नागवल्लीपत्रैर्महाश्रियः || १०३ ||
सद्योनिहतमार्जारमांसेन मधुसर्पिषा || युक्तेनान्त्यजकोणाद्यैर्हुतैराकर्षति स्त्रियः || १०४ ||
मध्वाक्तशशमांसेन तत्फलं विद्यया सह || उम्मत्ततरुजैर्दीप्तचिताग्नौ जुहुयाच्छदैः || १०५ ||
कोकिलाकाकमांसेन मारयेदचिरादरीन् || वायसोलूकयोः पत्रैर्होमाद्विद्वेषयेदरीन् || गर्भपातः सगर्भाया उलूकच्छदहोमतः || १०६ ||
आज्याक्तैर्बिल्वपत्रैर्वा मासमेकं सहस्रकम् || प्रत्यहं जुहुयात्तेन वन्ध्यापि लभते सुतम् || सौभाग्यार्थं दुर्भगाया बन्धूककुसुमैर्हुनेत् || १०७ ||
चतुष्पथे बलिं दत्वा जपतश्चाष्टकायुतम् || उच्छिष्टस्य च सा देवी प्रत्यक्षा जायतेचिरात् || १०८ ||
यत्र नोक्ता होमसंख्या मन्त्रोक्तान्तत्र निर्दिशेत् || वाममार्गेण सुमुखी क्षिप्रं कामविधायिनी || १०९ ||
प्. ७१७)भोजनान्ते तदोछिष्टैर्जाप्या सा स्वेष्टसिद्धये || न क्षिप्रफलदा देवी सुमुखी सुदृढापरा || ११० ||
अथातः सम्प्रवक्ष्यामि वाममार्गेण सिद्धिदाम् || कृष्णप्रियामेकजटां ह्रींत्रींहुंफट् च हृन्मनुः || १११ ||
अस्य न्यासादि मुन्यादि तारापञ्चाक्षरीसमम् || पूजावात्र पुरश्चर्यया प्रोक्ता लक्षचतुष्टयम् || तद्वत्प्रयोगकरणं कृष्णशक्तिरियम्परा || ११२ ||
अथ वक्ष्ये चैकजटामन्त्रं सव्यवशीकरम् || तारो लज्जा नमो भेति गवत्येकजटे मम || पुष्पं प्रतीक्षस्व स्वाहा द्वाविंशत्यक्षरो मनुः || ११३ ||
ऋषिः पतञ्जलिश्छन्दो गायत्र्येकजटा सुरी || षडङ्गविधिरुद्दिष्टो दीर्घषड्युक्तमायया || ध्यानपूजाप्रयोगादि सर्वं पूर्वोक्तवद्भवेत् || ११४ ||
अथ तत्रैकवीरायाः कृष्णशक्तेर्मनुं शृणु || या तु भार्गवरामेण कार्त्तवीर्ययवधाय च || कृत्वा स्वं शाबरं रूपं वाममार्गेण सेविता || ११५ ||
तेन तन्त्रान्तरे प्रोक्ता सेवारीतिर्मया सुराः || जरासन्धभयात्कृष्णो यदा सिन्धुं समाश्रितः || ११६ ||
तदा रामेण निर्दिष्टा श्रीकृष्णस्य जयैषिणः || तामावाह्य स कृष्णोपि भोगेन पर्ययतोषयत् || ११७ ||
आरे सुदर्शिता नार्या तस्मात्सा रेणुकाभवत् || सम्भोगे तु जपेन्मन्त्री यथा सन्तोषयेत्स्त्रियम् || ११८ ||
सन्तुष्यते तदा देवी रेणुका वरदा भवेत् || प्रणवः कमला माया क्रौमैं पञ्चाक्षरो मनुः || ११९ ||
भैरवोस्य मुनिः पङ्क्तिश्छन्दो देवी च रेणुका || पञ्चवर्णैः समस्तेन षडङ्गविधिरीरितः || १२० ||
हेमाद्रिसानावुद्याने नानाद्रुममनोहरे || रत्नमण्डपमध्यस्थवेदिकायां स्थितां स्मरेत् || १२१ ||
गुञ्जाहारां कर्णयुग्मे मयूरच्छदभूषिताम् || कोदण्डबाणौ करयोर्नववल्कलधारिणीम् || १२२ ||
शोणपुष्पीनूपुरा च मल्लिकाकलिकाभराम् || यजेदष्टदले पद्मे कर्णिकायां षडङ्गकम् || १२३ ||
हुङ्कारी खेचरी चण्डा छेदनी क्षेपणी तथा || स्त्री तुङ्कारी क्षेमकारी तदग्रे भूपुरे यजेत् || १२४ ||
दिक्पतींश्च तदस्त्राणि पञ्चलक्षं जपेन्मनुम् || बिल्वकाष्ठैधिते वह्नौ हुनेद्बिल्वफलैस्तथा || १२५ ||
तर्प्पणाद्यैः सिद्धमन्त्रः प्रयोगानाचरेत्ततः || मल्लीपुष्पैर्हुतो वश्यमिक्षुदण्डैर्धनाप्तये || १२६ ||
पञ्चगव्यैर्धनानि स्युरशोककुसुमैः सुताः || इन्दीवरैः कृतो होमो नृपपत्नीवशंकरः || प्. ७१८)अन्नादिरत्नैः सकलं मधूकैर्वांछितं भवेत् || १२७ ||
अथातः सम्प्रवक्ष्यामि कृष्णस्यातीव वल्लभाम् || षोडशस्त्रीसहस्राणा यत्प्रभावात्प्रभुर्भवेत् || १२८ ||
तारो [ओं ह्रीं योगिनि योगेश्वरि योगेश्वरि योगे भयंकरि सकलस्थावजङ्गमस्य मुखं हृदयं मम वश्यमाकर्षयाकर्षय स्वाहा ||] ह्रीं योगिनी द्वेधा योगेश्वरियुगं वदेत् || १२९ ||
योगे भयंकरीत्युक्त्वा सकलस्थावरेति च || जङ्गमस्य मुखं प्रोच्य हृदयम्मम चोच्चरेत् || १३० ||
वशमाकर्षयद्वन्द्वं स्वाहान्तः खशरार्णकः || पितामहो मुनिः प्रोक्तश्छन्दोतिजगती मता || १३१ ||
हरेः प्राणसमा शैलपुत्री देवी स्वयंवरा || ओं ह्रां जगत्त्रयवश्यमोहिन्यै हृदयाय हृत् || १३२ ||
त्रैलोक्यवश्यमोहिन्यै तारमायादिकं शिरः || उरङ्गवश्यमोहिन्यै ओं ह्रैमाद्यं शिखा भवेत् || १३३ ||
ओं ह्रैं सर्वराजवश्यमोहिन्यै कवचम्मतम् || ओं ह्रौं सर्वस्त्रीपुरुषमोहिन्यै चेति नेत्रकम् || १३४ ||
प्रणवो ह्रः सर्ववश्यमोहिन्यै चास्त्रमीरितम् || ततश्च मूलमन्त्रेण सर्वाङ्गे व्यापकं चरेत् || १३५ ||
संसारसागरे कृष्णं क्रीडन्तं वीक्ष्य शंकरः || तत्तत्सुखेच्छया कृष्णरूपं जग्राह मोहनम् || १३६ ||
आनन्दकाननं ध्यायंस्तद्दृष्ट्वा गिरिजा भवत् || मोहिता स्वस्वरूपञ्च कृत्वाष्टगुणसुन्दरम् || १३७ ||
तस्मिन्नवसरे विष्णुमयः पीताम्बरं दधत् || जगौ मङ्गलगीतानि यावत्स्यान्मैथुनालयः || १३८ ||
मृतः कामो मङ्गलैस्तैः पूर्णश्चित्ते तयोरभूत् || देव्यै मधूकजाम्माला नागहारं हरोर्प्पयत् || १३९ ||
विष्णुर्योगकरस्तत्र तयोर्जातः पुरोहितः || तस्मै देवी वरं प्रादात्तेन जाता हरिप्रिया || १४० ||
एवं ध्यात्वा त्रिवेदाङ्गकोणं यन्त्रं समुद्धरेत् || अष्टदशदिग्भूपालदन्ताष्टकृतिसम्मितैः || १४१ ||
दलैः पद्मानि कुर्वीत बाह्यवृत्तत्रयं पुनः || भूपुरं वर्त्तुलं कार्यं पूजायन्त्रमितीरितम् || शेषा स्वयंवरा पूज्या त्रिकोणाभ्यन्तरे ततः || तद्बाह्ये चतुरस्रस्य दिक्षु मेधां यजेत्ततः || १४२ ||
विद्यां लक्ष्मीं महालक्ष्मीं षट्कोणेङ्गानि संयजेत् || द्विद्विस्वरानष्टदले शक्रादीन्दिग्दले पुनः || १४३ ||
तदायुधानि तद्बाह्ये दिग्दले षोडशारके || ताराद्येन नमोन्तेन श्रीबीजेन यजेच्छ्रियम् || १४४ ||
प्. ७१९)पाशं मायामंकुशं च शिवायै नम इत्यपि || अष्टाक्षरेण मनुना रदपत्रे शिवां यजेत् || १४५ ||
रमां मायां च मदनं त्रिपुरायै नमस्तथा || नवाक्षरेण त्रिपुरां चतष्षष्टिदलेर्चयेत् || १४६ ||
वृत्तत्रये महालक्ष्मीं भवानीं पुष्पसायकम् || चतुरस्रे चतुर्द्वारि विघ्नक्षेत्रेशभैरवान् || योगिनीं पूजयेदित्थं नवावरणपूजनम् || १४७ ||
जपेल्लक्षचतुष्कं च पायसाज्जुहुयात्तथा || एवं यो भजते देवीं वश्यास्तस्यामिता जनाः || १४८ ||
लाजैस्त्रिमधुरोपेतैर्जुहुयादयुतं तु यः || लभते वाञ्छितां कन्यां धनमानसमन्विताम् || १४९ ||
सर्वोपास्या त्वियं देवी सिद्धा मार्गद्वयेपिच || लक्ष्मीभेदास्तु ये पूर्वं प्रोक्तास्तु विष्णुसाधने || दक्षमार्गेण संसिद्धा वामेनैते प्रकीर्त्तिताः || १५० ||
त्यज्यते दक्षिणो मार्गो यतः पापक्षयो भवेत् || सिद्धिर्मध्ये यदा मृत्युस्तदा जन्मान्तरे भवेत् || १५१ ||
न भजेद्वाममार्गन्तु यतोनिष्टो दुरत्ययः || तन्मार्गिणां महापापं पापात्मानोत्र ये स्थिताः || १५२ ||
एवं ते वैष्णवो मन्त्रो मया सम्यगुदीरितः || यस्मिन्भुक्तिश्च मुक्तिश्च किं वक्तव्यमतः परम् || १५३ ||
इति श्रीमहामायामाहाकालानुमते मेरुतन्त्रे शिवप्रणीते विष्णुशक्तिमनुकथनं नाम त्रिंशः प्रकाशः || ३० ||
Prakāśa 31 – Śiva-Mantras
श्रीदेव्युवाच ||
श्रुता गाणेश्वराः सौरा वैष्णवा मनवो मया || इन्दानीं श्रोतुमिच्छामि तव मन्त्रान्ससिद्धिदान् || १ ||
श्रीमहादेव उवाच ||
कथयिष्यामि ते देवि शैवान्मन्त्रान्महाद्भुतान् || यान्साधयित्वा भोगांस्तु भुक्त्वा मोक्षमवाप्नुयात् || २ ||
नमः शिवायेति मन्त्रः पञ्चार्णस्तारपूर्वकः || षडक्षरोयं विप्राणां भुक्तिमुक्तिप्रसाधकः || ३ ||
वामदेवो मुनिश्छन्दः पंक्तिर्देवः सदाशिवः || षडर्णैस्तु षडङ्गानि पञ्चार्णैरङ्गपञ्चकम् || ४ ||
तर्ज्जन्योर्विन्यसेन्नं तत्पुरुषाय नमस्त्विति || ५ ||
मध्यमानामिकयोर्विन्यसेच्चक निष्ठयोः || शिंप्रोच्य सद्योजाताय नमोथानामयोर्न्यसेत् || वामुक्त्वा वामदेवाय नमोथांगुष्ठयोर्न्यसेत् || ६ ||
यमीशानाय हृदये चैवमेव मुखे न्यसेत् || हृदये पादयोर्गुह्ये न्यासोयं स्यात्तृतीयकः || ७ ||
प्रग्याम्यवारुणोदीचीमध्ये चक्रेषु पञ्चसु || एवमेव न्यसेत्प्रोक्तो न्यासोयं पञ्चमोघहृत् || ८ ||
प्. ७२०)ओंसर्वशक्तिधाम्ने हृदयाय च नमोवदेत् || नमुक्त्वा नित्यतृप्तेति शक्तिधाम्ने शिरो भवेत् || ९ ||
ममित्युक्त्वानादिबोधशक्तिधाम्ने शिखा भवेत् || शिमनन्तशक्तिधाम्ने कवचाय नमस्त्विति || १० ||
वामनन्तशक्तिधाम्ने नमो नेत्रत्रयाय च || यमनन्तशक्तिधाम्ने वदेदस्त्राय फट् तथा || ११ ||
षोढा न्यासं ततः कुर्यान्मन्त्रार्णैर्बिन्दुसंयुतैः हृदि वक्त्रे दक्षिणांसे वामांसे दक्षिणोरुके || १२ ||
वामोरौ प्रथमश्चायं कण्ठे नाभौ च दक्षिणे || पार्श्वे च वामपार्श्वे च पृष्ठे हृदि द्वितीयकः || १३ ||
मूर्ध्नि वक्त्रे दक्षनेत्रे वामनेत्रे तथैव च || दक्षनासापुटे वामनसि प्रोक्तस्तृतीयकः || १४ ||
दक्षदोर्मूलके मध्ये मणिबन्धेंगुलीतले || मध्येंगुलीनामग्रे च चतुर्थः परिकीर्त्तितः || १५ ||
एवमेव प्रकर्त्तव्यो वामदोर्मूलकादिषु || दक्षोरुमूले मध्ये च गुल्फे चांगुलिमूलके || १६ ||
अंगुल्यग्रे च वमोरावेवमेव न्यसेद्बुधः || पञ्चमोयं भवेन्न्यासो मूर्ध्नि वक्त्रे हृदि न्यसेत् || १७ ||
उदरे वापि दक्षोरुमूलादिचरणान्तकम् || वामोरुमूलपादाग्रपर्ययन्तः षष्ठकस्त्वयम् || १८ ||
ततो हृदि मुखे कण्ठे न्यसेद्बाहुद्वये तथा || पुनर्वक्त्रांसहृत्पादद्वयोरुजठरे न्यसेत् || १९ ||
पुनर्मूर्ध्नि च भाले च जठरे चांसयोर्हृदि || एवं द्वादशधा न्यस्य वामेन पङ्कजं चरेत् || २० ||
नमोस्तु स्थानभूताय ज्योतिर्लिङ्गामृतात्मने || चतुर्मूर्त्तिवपुस्स्थाय भसिताङ्गाय शम्भवे || २१ ||
ततो ध्यायेत्तु गोक्षीररजताद्रिसमप्रभम् || चारुचन्द्रकलाराजज्जटामुकुटमण्डितम् || २२ ||
पञ्चवक्त्रधरं शम्भुं प्रतिवक्त्रं त्रिलोचनम् || शार्दूलचर्म्मवसनं रत्नाभरणभूषितम् || २३ ||
दक्षोर्ध्वहस्ते टङ्कं च वरं च दधतं करैः || वामोर्ध्वहस्ते हरिणन्दधानमभयम्परे || २४ ||
सुप्रसन्नमुखाम्भोजं निविष्टं कुशविष्टरे || ब्रह्मविष्णुमहेशाद्यैः स्तुतं कृष्णं सुरासुरैः || २५ ||
विश्वद्यं विश्वावपुषं भवभीतिहरं भवम् || ध्यात्वार्चयेत्ततः पीठे षोडशैरुपचारकैः || २६ ||
नवैताः शम्भुपीठस्य शक्तयः परिकीर्त्तिताः || वामा ज्येष्ठा ततो रौद्री काली कलविकर्णिका || २७ ||
ततो बलविकर्णा च बलप्रमथनी तथा || प्. ७२१)सर्वभूतदमन्याख्या ततः प्रोक्ता मनोन्मनी || २८ ||
तारो नमो भगवते सकलेति पदं वदेत् || गुणात्मशक्तियुक्ताय योगपीठात्मने नमः || २९ ||
योगपीठस्य पूजायां मन्त्रो रसकरार्णवान् || आवाह्य देवं सम्पूज्य पुष्पान्तैरुपचारकैः || ३० ||
ततश्चाष्टदले पूज्य दिक्पत्रेषु शिवाग्रतः || तत्पुरुषो ह्यघोरश्च सघोजातस्ततः परम् || ३१ ||
वामदेवस्तथेशानो [व्मेपदे पूर्वत्र सम्बध्येते ||] मध्यकोणेषु संयजेत् || निवृत्तिं च प्रतिष्ठां च विद्यां शान्तिं तु मध्यतः || ३२ ||
शान्त्यतीता तथा बाह्येष्टदले केशरेषु च || अग्नीशासुरवायव्यमध्ये सर्वत्र केशरे || ३३ ||
षडङ्गान्वयपत्रेषु देवाग्रात्तु प्रदक्षिणम् || अनन्तसूक्तं च शिवम्महोक्षं चैकनेत्रकम् || एकरुण्डं त्रिमूर्त्तिं च श्रीकण्ठं च शिखण्डिनम् || ३४ ||
रक्तपीतासितारक्तकृष्णरक्ताञ्जनासितान् || किरीटार्पितबालेन्दून्पद्मस्थांश्चारुभूषणान् || ३५ ||
त्रिनेत्रान्प्रतिवक्त्रेषु चापहस्तान्मनोरमान् || उमां चण्डेश्वरं नन्दिमहाकालौ महेश्वरम् || ३६ ||
वृषभं भृङ्गिरीटिं च स्कन्दन्तद्बाह्यपङ्कजे || उत्तरदलमालभ्य बीजनीलाहृतान्सितान् || ३७ ||
चित्रं निशाकराभं च पीतनीलान्यजेत्क्रमात् || तद्बाह्ये चतुरस्रे च यजेदिन्द्रादिदिक्पतीन् || ३८ ||
अनन्तं च विधातारमीशं नैरृत्यपार्श्वतः || तत्पार्श्वे तद्वाहनानि बाह्येस्त्राणि प्रपूजयेत् || ३९ ||
लक्षष्ट्कं जपेन्मन्त्रं नियमस्थो जितेन्द्रियः || तत्सहस्रं प्रजुहुयात्तिलैः शुद्धैर्घृतप्लुतैः || ४० ||
पायसैः क्षीरवृक्षोत्थसमिद्भिर्वाथ होमयेत् || तावत्संख्यातिलैः शुभ्रैस्तर्प्पयेच्च तथासितैः || ४१ ||
मार्ज्जयेत्तद्दशांशेन भोजयेच्छिवतत्परान् || एवं संसाधितो मन्त्रः सर्वान्कामान्प्रयच्छति || ४२ ||
पर्वते लक्षमेकन्तु महानद्यां द्विलक्षकम् || तीर्थे त्रिलक्षं सञ्जप्य हुनेद्दूर्वांकुरैस्तिलैः || तद्दशांशेन पूर्णायुर्नीरोगः साधको भवेत् || ४३ ||
अश्वत्थवृक्षं संस्पृश्य जपेल्लक्षद्वयं शनैः || आम्रैर्हुनेत्तद्दशांशैर्दीघायुश्च युवा भवेत् || ४४ ||
आदित्यसम्मुखो भूत्वा जपेल्लक्षमनन्यधीः || अर्कैरष्टशतं नित्यं हुनेद्रोगैर्विमुच्यते || ४५ ||
समस्तव्याधिनाशार्थं पालाशसमिधा हुनेत् || ७२२)अयुतं रोगहीनः स्यादथ पूर्वोदितैर्यजेत् || ४६ ||
शान्त्यष्टकं च जुहुयादुपतिष्ठेत भास्करम् || नित्यं तस्य महारोगा नाशं यान्ति न संशयः || ४७ ||
नवतोयेन सम्पूर्णं घटं संस्पृश्य सञ्जपेत् || अयुतं तज्जलैः स्नानं रोगाणामौषधं स्मृतम् || ४८ ||
अष्टाविंशं जपित्वा तमश्नीयात्प्रत्यहं नरः || हुनेच्चारुपलाशैश्च तावदारोग्यमाप्नुयात् || ४९ ||
पिबेदष्टोत्तरशतं जपित्वा योर्कसन्निधौ || औदरैरामयैः सर्वैर्मासेनैकेन मुच्यते || ५० ||
एकादशेन भुञ्जीयादन्नं चैवाभिमन्त्रितम् || भक्ष्यं चोष्यं तथा पेयं विषमप्यमृतं भवेत् || ५१ ||
चन्द्रसूर्ययग्रहे पूर्वमुपोष्य विधिना शुचिः || यावद्ग्रहणमोक्षस्तु तावन्नद्यां समाहितः || ५२ ||
जपेत्समुद्रगामिन्यां विमोक्षे ग्रहणस्य तु || अष्टोत्तरसहस्रेण पिबेद्ब्राह्मीरसं ततः || ५३ ||
ऐहिकीं लभते मेधां सर्वश्रुतिवहां शुभाम् || सारस्वती भवेद्देवी तस्य वागतिमानुषी || ५४ ||
ग्रहाणां चैव पीडासु जप्त्वायुतमथो हुनेत् || तिलाज्यैरष्टसाहस्रं ग्रहपीडा विनश्यति || ५५ ||
दुःस्वप्नदर्शने स्नात्वा जपेच्चैवायुतं नरः || घृतेनाष्टशतं हुत्वा दुःस्वप्नफलनाशनम् || ५६ ||
चन्द्रसूर्ययग्रहे लिङ्गं समभ्यर्च्यायुतं जपेत् || यत्किञ्चित्प्रार्थयेत्तस्य निकटेन तदाप्नुयात् || ५७ ||
गजानां तुरगाणां वा गवां वा व्याधिसम्भवे || समिद्भिर्जुहुयान्मासमयुतं व्याधिशान्तये || ५८ ||
जप्त्वान्ते शस्त्रबाधायां जुहुयादयुतं शुचिः || पलाशस्य समिद्भिस्तु तस्य शान्तिर्भविष्यति || ५९ ||
आत्मवादिकसन्ध्यायामेतदेव समाचरेत् || प्रध्वंसयति तच्छक्तिं शत्रुस्तस्य मरिष्यति || ६० ||
विद्वेषणार्थं जुहुयाद्विभीतसमिधाष्टकम् || परापकारः पापाय शृणु तत्पापनाशनम् || ६१ ||
मां ध्यात्वैकाग्रचित्तेन चाभिषिञ्चेत्समन्त्रतः || अष्टोत्तरशतं जप्तैस्तोयैः पापं लयं व्रजेत् || सन्ध्योपासनविच्छेदे सहस्रैकं जपेत्तथा || ६२ ||
विड्वराहैश्च चाण्डालैर्मार्ज्जारैःकुक्कुटैरपि || स्पृष्टमन्नं न भुञ्जीत तत्र चाष्टशतं जपेत् || ६३ ||
ब्रह्महत्याविशुद्ध्यर्थं जपेल्लक्षायुतं नरः || योनिजेषु तदर्धं स्यात्तदर्धं भूपयोनिके || ६४ ||
सहस्रपञ्चकं क्षुद्रपापेषु जप ईरितः || जितेन्द्रियो जपेल्लक्षपञ्चकं शिवदृङ्मनाः || ६५ ||
ब्राह्मणो वान्यकुलजो वायुपञ्चकजिद्भवेत् || निगृहीतेन्द्रियः पञ्चलक्षं जप्त्वेन्द्रियं जयेत् || ६६ ||
प्. ७२३)पञ्चविंशलक्षजपात्तत्त्वानां विजयी भवेत् || मध्यरात्रेयुतं जप्त्वा निकटे ब्रह्मसिद्धिभाक् || ६७ ||
जपेद्वने शिवमना निर्वाते ध्वनिवर्ज्जिते || मध्यरात्रे विवश्यश्च तद्वशो भवति ध्रुवम् || ६८ ||
शिवमभ्यर्च्य साहस्रजपो नित्यं रमाप्रदः || सहस्रद्वयजापेन महारोगैः प्रमुच्यते || ६९ ||
सहस्रत्रयजापेन दीर्घमायुर्लभेत ना || चतुस्सहस्रजापेन वाञ्छितानि समाप्नुयात् || ७० ||
तिलैः शुद्धैर्घृताज्याक्तैः प्रत्यहं त्रिसहस्रकम् || मासं हुत्वा विनश्येत्तु रोगस्तस्य न सम्भवेत् || ७१ ||
अयं [एतत्पूर्वं मन्त्राकथनात्पाठविच्छेदो ज्ञायते ||] षडक्षरो मन्त्रः षोढा स्यादक्षरात्मकः || लक्षमेकं पुरश्चर्यया मुनयोमी प्रकीर्त्तिताः || ७२ ||
ब्रह्मा च गौतमोत्रिश्च विश्वामित्रस्तथाङ्गिराः || भरद्वाजोथ छन्दांसि पंक्तिगायत्र्यनुष्टुभः || ७३ ||
त्रिष्टुप् च बृहती चेति विराट् चैवात्र देवताः || परब्रह्मेन्द्रविष्णू च विधात्र्यश्विगुहाः क्रमात् || ७४ ||
ज्योतिर्वर्णः कुंकुमाभो मेचको धूम्रवर्णकः || पीतोरुणः क्रमाद्वर्णा देवतानां प्रकीर्त्तिताः || ७५ ||
क्रमान्नियोगो मोक्षार्थं गतराज्याप्तये श्रिये || ऐश्वर्ययाय च विद्यायै निजपापक्षयाय च || ७६ ||
लज्जयाद्यन्तयोर्युक्तः पञ्चार्णः सप्तवर्णकः || षडर्णश्चाष्टवर्णः स्यादेवं मन्त्रद्वयं भवेत् || ७७ ||
वामदेवो मुनिः पंक्तिश्छन्दो देव उमापतिः || तारषड्दीर्घमायाद्यैः स्यान्मन्त्रार्णैः षडङ्गकम् || ७८ ||
बन्धूककुसुमारक्तं चन्द्रार्धकृतशेखरम् || शूलं कपालमभयं वरं च दधतं करैः || ७९ ||
वामोरुसंस्थितां देवीं श्लिष्यन्तं वामबाहुना || स्मेरवक्त्रं त्रिनयनं सर्वाभरणभूषितम् || ८० ||
एवं ध्यात्वा यजेत्पीठे पूर्वोक्ते नवशक्तिके || आदौ पञ्चदले पद्मे केशरेष्वङ्गषट्ककम् || ८१ ||
मध्ये प्राग्दक्षिणे दिव्ये पश्चात्पत्रेर्हणीयकाः || हृल्लेखा गगनायुक्ता चतुर्थी तु कुलालिका || ८२ ||
महोच्छुष्मा क्रमादेताः पञ्चभूतसमप्रभाः || पाशांकुशवराभीतिधारिण्योमितभूषणाः || ८३ ||
तद्बाह्येष्टदले चैव वृषभाद्यष्टदेवताः || सम्यग्ध्यात्वा क्रमादर्च्या देवाग्रादिप्रदक्षिणम् || ८४ ||
हिमालयाभं वृषभं तीक्ष्णास्यं तं त्रिलोचनम् || सर्वाभरणसन्दीप्तं साक्षाच्छन्दस्स्वरूपिणम् || ८५ ||
प्. ७२४)कपालशूलविलसत्करं कालघनप्रभम् || क्षेत्रपालं त्रिनयनं दिगम्बरमथार्चयेत् || ८६ ||
शूलटङ्काक्षवलयकमण्डलुलसत्करम् || रक्ताकारं त्रिनयनं चण्डीशं परिपूजयेत् || ८७ ||
शङ्खचक्रवराभीतिकरां मरकतप्रभाम् || दुर्गां प्रपूजयेत्सौम्यां त्रिनेत्रां रत्नभूषणाम् || ८८ ||
पाशांकुशवराभीतिधारिणं कुंकुमप्रभम् || विघ्ननाशकमभ्यर्चेच्चन्द्रार्द्धकृतशेखरम् || ८९ ||
श्यामं रक्तोत्पलाकारं वामांकन्यस्तसत्करम् || त्रिनेत्रं रक्तवस्त्राढ्यं सेनापतिमथार्च्चयेत् || ९० ||
तद्बाह्येष्टदले पूज्या ब्राह्म्याद्याश्चाष्टमातरः || तद्बहिश्चतुरस्त्राणि त्रीणि तद्वीथिकाद्वये || ९१ ||
इन्द्रादीन्दशदिक्पालांस्तदस्त्राणि बहिर्यजेत् || मनुलक्षं जपेन्मन्त्रं तत्सहस्रं यथाविधि || ९२ ||
जुहुयान्मधुरासिक्तैरारग्वधसमिद्वरैः || तर्प्पणं मार्ज्जनं प्राग्वद्विप्रसन्तर्प्पणन्तथा || ९३ ||
एवं सिद्धमनुः कुर्ययात्प्रयोगाद्यञ्च पूर्ववत् || एतत्संसाधनात्सम्पत्सन्ततिः सम्प्रजायते || ९४ ||
हौमित्यैकाक्षरो मन्त्रः प्रोक्तः प्रासादसञ्ज्ञकः || वामदेवो मुनिश्छन्दः पंक्तिर्देवः सदाशिवः || ९५ ||
हंबीजं शक्तिरौकारः सर्वाभीष्टे नियोजनम् || षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः || ९६ ||
पञ्चब्रह्मविधानाख्यं न्यासं शृण्वन्तु देवताः || यस्मिन्कृते तु पञ्चत्वे जाते पञ्चमुखो भवेत् || ९७ ||
आदौ तु पञ्चमन्त्रेण मस्तके स्वे मुनिं न्यसेत् || मुनिश्छन्दो देवतास्तु ध्यानपूर्वं हृदिन्यसेत् || अयन्तु प्रथमो न्यासो देवताप्रीतिकारकः || ९८ ||
ईश्वरः सर्वविद्यानामीश्वरोस्य मनोर्मुनिः || स एव देवो भूपंक्त्यनुष्टप्छन्दांसि चिन्तयेत् || ९९ ||
शक्तिं डमरुकाभीतिवरान्संदधतं करैः || ईशानं त्रीक्षणं शुद्धं नागयज्ञोपवीतिनम् || १०० ||
मनोस्तत्पुरुषायेति मुनिस्तत्पुरुषः स्मृतः || आपो देव्योस्य गायत्री छन्दो ध्यानं निरूप्यते || १०१ ||
परश्वधवराभीति दधानं विद्युदुज्ज्वलम् || चतुर्मुखं तत्पुरुषं त्रिनेत्रं वृषगामिनम् || १०२ ||
अघोरेभ्योथ घोरेभ्यो मनोरग्निर्मुनिर्मतः || अनुष्टुप्छन्द आख्यातं देव आपः प्रकीर्त्तिताः || १०३ ||
मालां दण्डं पाससृणी डमरुं खट्वकाङ्गकम् || खड्गं कपालं हस्तैश्च दधतं त्रीक्षणं भजे || १०४ ||
अञ्जनाभं चतुर्वक्त्रं वामदेवं त्रिलोचनम् || प्. ७२५)वराभयाक्षवलयकुठारं दधतं करैः || १०५ ||
सद्योजातं प्रपद्यामि मन्त्रस्य तु हरो मुनिः || अञ्जनाभं चतुर्वक्त्रं भीमदंतं भयापहम् || नानाभीमगणैर्युक्तमघोरं चिन्तयेद्धृदि || १०६ ||
वामदेवायेति मनोर्वामदेवो मुनिः स्मृतः || विकृतिश्छन्द उद्दिष्टं भर्गो देवः प्रकीर्त्तितः || १०७ ||
अथ द्वितीयं वक्ष्यामि न्यासं सर्वार्थसिद्धिदम् || त्रैं श्रीं ह्रीं च तथाहं क्षैं हुं हौं च श्रीत्रयं वदेत् || १०८ ||
पराबीजद्वयं प्रोच्य सर्वज्ञाय हृदीरितम् || अमृततेजोज्वालेति मालिने च पदं ततः || १०९ ||
तृप्ताय ब्रह्मशिरसे शिरोमन्त्र उदीरितः || ज्वलितशिखिशिखायानादिबोधाय तच्छ्रिये || ११० ||
वज्राय वज्रहस्ताय स्वतन्त्राय तनुच्छिदे || सौंचौंसौमिति संभाष्य मुनयेऽलुप्तशक्तये || १११ ||
नेत्रत्रयायेति मन्त्रो नेत्रस्यैव प्रकीर्त्तितः || श्रीं परशुं च ङेन्तं हुं फट् तथानन्तशक्तये || ११२ ||
अस्त्रमुक्तं षडङ्गानि कुर्ययादेवं समाहितः || पूर्वदक्षिणपश्चाशासौम्यमध्येषु पञ्चसु || मुखेषु विन्यसेदीशानादीन्पञ्च हि च क्रमात् || ११३ ||
तृतीयोथ तथेशानादिकानंगुष्ठकादिके || न्यसेत्तिर्ययक्छिरोवक्त्रहृदयांघ्रिषु पञ्चमः || ११४ ||
पञ्चब्रह्ममनोर्न्यासानेवं कृत्वा ततः परम् || अष्टत्रिंशत्कलान्यासं कुर्ययात्तेजोभिवृद्धये || ११५ ||
ईशानादिकलाः पञ्च ह्यंगुष्ठादिषु विन्यसेत् || प्रणवाद्यं मन्त्रपदं कला ङेन्ता नमोन्तकाः || ११६ ||
ईशानः सर्वविद्यानां शशिनी प्रथमा कला || ईश्वरः सर्वभूतानामङ्गदाख्या ततः परम् || ११७ ||
ब्रह्माधिपत्याद्यर्णानां त्रिदशानां तथेष्टदा || शिवो मेत्रास्तु मारीची चतुर्थी कथिता कला || ११८ ||
सदाशिवों तथैतस्य पञ्चमी चांशुमालिनी || तत्पुरुषाय विद्महे शान्तिं पूर्वमुखे न्यसेत् || ११९ ||
महादेवाय धीमहि विद्याख्यां पश्चिमे मुखे || तन्नो रुद्रः प्रतिष्ठाख्यां याम्यास्ये त्वष्टमीं न्यसेत् || १२० ||
प्रचोदयान्नित्यविद्यां नवमीमुदगानने || अघोरेभ्यस्तामसीं तु दशमीं हृदि विन्यसेत् || १२१ ||
ग्रीवायामथ घोरेभ्यो मोहामेकादशीं न्यसेत् || दक्षिणांसे घोररूपां विन्यसेद्द्वादशीं कलाम् || १२२ ||
घोरतरेभ्यो वामांसे निद्राख्यां तु त्रयोदशीम् || सर्वेभ्यो नाभिमध्ये तु व्याचिताख्यां चतुर्दशीम् || १२३ ||
प्. ७२६)कुक्षौ तु सर्वसर्वेभ्यो भूतिः पञ्चदशी भवेत् || नमस्ते अस्तु पृष्ठे तु सुधाख्या षोडशी कला || १२४ ||
वक्षःस्थले रुद्ररूपेभ्यः कला सप्तदशी मता || वामदेवाय विरजां गुह्ये त्वष्टादशीं न्यसेत् || १२५ ||
वामदेवाय निरजां दक्षां दक्षांसके न्यसेत् || श्रेष्ठाय नम इत्युक्त्वा वामांसे तु रतिं न्यसेत् || १२६ ||
रुद्राय नम इत्युक्त्वा दक्षोरौ पालिनीं न्यसेत् || कालाय नमो द्वाविंशसंज्ञां वामोरुके न्यसेत् || १२७ ||
त्रयोविंशी कलेत्युक्त्वा कलाख्यां दक्षजानुनि || न्यसेच्छ्रियं विकर्णाय नमो वामे च जानुनि || १२८ ||
बलेत्युक्त्वा बुद्धिनाम्नीं दक्षजंघागतां स्मरेत् || न्यसेज्ज्ञानां विकर्णाय नमो वामे च जंघके || १२९ ||
हृदि रात्रिं सप्तविंशीं बलाय नम इत्यपि || कट्यां बलप्रमथनाय नमो गुह्यके न्यसेत् || १३० ||
सर्वभूतदमनाय मोहिनीं दक्षपार्श्वके || वामपार्श्वे मनोन्मनाय नमश्चोभयं न्यसेत् || १३१ ||
सद्योजातं प्रपद्यामि सिद्धिं पादतलेत्ववाक् || ऋद्धिं चोदक्पादतले सद्योजाताय वै नमः || १३२ ||
भवे श्रुतिं [भवेभवे नातिभवेत्यादि ||] त्रयस्त्रिंशीं दक्षहस्ततले न्यसेत् || वामहस्ततले लक्ष्मीं चतुस्त्रिंशत्कलां न्यसेत् || १३३ ||
पञ्चत्रिंशीं नासिकायां मेधां नाभिभवे न्यसेत् || षट्त्रिंशीं मूर्द्धनि क्षान्तिं विन्यसेच्च भुजे रमाम् || १३४ ||
सप्तत्रिंशीं भवेत्युक्त्वा शुद्धां न्यस्येदवाग्भुजे || उद्भवाय नमः प्रोच्य तिर्ययग्वामभुजे न्यसेत् || १३५ ||
ततश्च मूलमनुना पुटान्सव्ये च मन्त्रकान् || सद्योजातादिकान्न्यस्य व्यापकन्यासमाचरेत् || १३६ ||
सदाशिवात्मकं ध्यात्वा स्वात्मानं सर्वदैवतैः || अवस्थितं शिवोहं च ध्यात्वान्तः पूजनं चरेत् || १३७ ||
ततश्चावाह्य पूजायामीशानाद्यैश्च पञ्चभिः || प्रथमावरणं ज्ञेयं द्वितीयं स्यात्षडङ्गकैः || १३८ ||
अनन्ताद्यैस्तृतीयं स्याच्चतुर्थं स्यादुमादिभिः || इन्द्राद्यैः पंचमं चापि वज्राद्यैः षष्ठकं मतम् || १३९ ||
लक्षद्वयं जपेन्मन्त्रं हविष्याशी जितेंद्रियः || पंचविंशतिसाहस्रसम्मितैः करवीरजैः || १४० ||
जपापुष्पैस्तु पद्मैर्वा जुहुयात्तर्प्पणादिकम् || कृत्वा संसिद्धमन्त्रस्तु कुर्ययात्काम्यानि पूर्ववत् || १४१ ||
प्. ७२७)तारमायाधराबीजपूर्वं पञ्चाक्षरो मनुः || अष्टवर्णो भवेदस्य वामदेवो मुनिर्मतः || देवः सदाशिवः प्रोक्तः पंक्तिश्छन्द उदाहृतम् || १४२ ||
मायाप्रमादबीजाभ्यां भेदिताभ्यां च षट्स्वरैः || षड्भिस्तथा मन्त्रवर्णैः षडङ्गानि सजातिभिः || १४३ ||
ध्यायेत्ततश्च सिन्दूरारुणं शम्भुं त्रिलोचनम् || टंकं मृगं तथा देवीं चालिङ्गन्तं वरप्रदम् || १४४ ||
हस्तैश्चतुर्मिरारक्तपद्मं च दधतीं करैः || पीतवृत्तघनोत्तुङ्गस्तनीं वामांकसंस्थिताम् || १४५ ||
रक्तपद्मसमासीनं रक्तस्रग्गन्धलेपनम् || एवन्ध्यात्वा च पंचार्णपीठे तद्वद्यजेद्धरम् || १४६ ||
अष्टलक्षं जपेन्मन्त्रं तत्सहस्रं तथा हुनेत् || घृताप्लुतैः पायसान्नैस्तर्प्पणादि ततश्चरेत् || १४७ ||
एवं सिद्धमनुः कुर्ययात्प्रयोगान्हि षडर्णवत् || १४८ ||
ओं जूं स इति मन्त्रस्य प्रोक्तो मृत्युञ्जयाभिधः || ऋषिः कहोडो देव्यादिगायत्री छन्द ईरितम् || १४९ ||
मृत्युंजयो महादेवो देवता परिकीर्त्तितः || षड्दीर्घयुक्तभृगुणा षडङ्गानि समाचरेत् || १५० ||
स्मरेत्पद्मद्वयस्थं च चन्द्रार्काग्नित्रिलोचनम् || हस्तेषु ज्ञानमुद्रां च पाशरुद्रा क्षमालिके || १५१ ||
कर्पूराभं शीर्षचन्द्रं करोद्गामृतधारया || अर्धाङ्गं बहुभूषाढ्यं कान्ताभिश्च विमोहितम् || १५२ ||
एवं संपूजयेत्पीठे मूर्तिं मूलेन कल्पयेत् || अङ्गेन्द्राद्यैस्तदस्त्रैश्च त्रिरावरणपूजनम् || १५३ ||
जपेत्त्रिलक्षं जुहुयादमृतां खण्डकैः प्लुताम् || शुद्धदुग्धेन च ततस्तर्प्पणादि समाचरेत् || एवं संसिद्धमन्त्रस्तु प्रयोगान्वैचरेदथ || १५४ ||
सुधाफलैः सुधाखण्डैर्मन्त्री मासं सहस्रकम् || आराधिताग्नौ जुहुयाद्विधिवद्विजितेन्द्रियः || १५५ ||
सन्तुष्टः शंकरस्तस्य सुधाप्लावितविग्रहः || आयुरारोग्यसम्पत्तियशःपुत्रान्विवधयेत् || १५६ ||
सुधावटौ बिल्वदूर्वाः पयः सर्प्पिः पयो हविः || इत्युक्तैः सप्तभिर्द्रव्यैर्जुहुयात्सप्त वासरान् || १५७ ||
अष्टोत्तरसहस्रं तु नित्यं सप्ताधिकान्द्विजान् || भोजयेन्मधुराक्तैश्च सर्वरोगैः प्रमुच्यते || १५८ ||
होमाद्यं पूर्ववद्दद्याद्विप्रेभ्योधिकदक्षिणाम् || आरण्यैः पशुभिर्गोभिर्हस्तिभिर्वाजिभिस्तथा || गुरुं सम्प्रीणयेत्पश्चाद्धनाद्यैर्देवताधिया || १५९ ||
अनेन विधिना सद्यः कृत्याद्रोहज्वरादिभिः || विमुक्तः सुचिरं जीवेत्साधिकं शरदां शतम् || १६० ||
प्. ७२८)अभिचारज्वरे तीव्रे घोरोन्मादे शिरोगदे || असाध्यरोगे संजाते तथा चैवमहाभये || होमोयं शान्तिदः प्रोक्तः सर्वसम्पत्प्रदायकः || १६१ ||
द्रव्यैरेतैः प्रजुहुयात्त्रिजन्मा च यथाविधि || भोजयेन्मधुरैर्भोज्यैर्ब्राह्मणान्वेदपारगान् || १६२ ||
दीर्घमायुरवाप्नोति काश्मरीबकुलोद्भवैः || समिद्वरैः कृतो होमः सर्वमृत्युगदापहः || १६३ ||
सिद्धान्नैर्विहितो होमो महाज्वरविनाशनः || अपामार्गसमिद्धोमः सर्वामयविनाशनः || १६४ ||
अथातो दक्षिणामूर्तिमन्त्रं वक्ष्याम्यभीष्टदम् || ओंङ्कारमायाबीजाभ्यां [ओं ह्रीं दक्षिणामूर्त्तये तुभ्यं वटमूलनिवासिने || ध्यानैकनिरतांगाय नमो रुद्राय शम्भवे ओं ह्रीं ||] पुटं षट्त्रिंशदक्षरम् || १६५ ||
दक्षिनामूर्त्तये तुभ्यं वटमूलनिवासिने || ध्यानैकनिरताङ्गाय नमो रुद्राय शम्भवे || १६६ ||
मुनिः शुक्लः समुद्दिष्टोनुष्टुप् छन्दः प्रकीर्त्तितम् || देवता जगतामादिर्दक्षिणामूर्त्तिरव्ययः || १६७ ||
प्रणवो बीजमित्युक्तं हृल्लेखा शक्तिरीरिता || विनियोगः समुद्दिष्टः पुरुषार्थचतुष्टये || १६८ ||
आदौ तु मूलमन्त्रेण करशुद्धिं समाचरेत् || रसनेत्राष्टकवसु बाणवह्निमितैः क्रमात् || १६९ ||
तत्रैव तु च मन्त्रार्णैस्तारमायादिकैः पुनः || षड्दीर्घैस्तारमायान्तैः षडङ्गानि समाचरेत् || १७० ||
मूर्ध्नि भाले दक्षनेत्रे वामे चैव तु कर्णयोः || १७१ ||
दक्षगण्डे वामगण्डे नासिकायां कटौ तथा || लिङ्गे दक्षोरुमूले च जानुमूले च गुल्फके || १७२ ||
पादांगुलीनां मूले च जानुमध्ये च गुह्यके || पाण्यंगुलीनां मूले च न्यसेत्स्थान चतुष्टये || एवं वामोरुमध्यादौ कुर्ययान्न्यासोयमीरितः || १७३ ||
हिमाचलतले रम्ये सिद्धकिन्नरगुह्यकैः || नानाद्रुमैः पुष्पफलपत्रोपेतैर्विराजिते || १७४ ||
शिलाविवरनिर्गच्छन्निर्झरैः शीतलानिले || नानाभृङ्गैः पक्षिगणैर्विधुरीकृतसम्मुखे || शुकादिमुनिभिर्युक्ते वटं तत्र विचिन्तयेत् || १७५ ||
गारुत्मतमयैः पत्रैः पद्मरागमयैः फलैः || नवरत्नमयाकल्पैस्तोरणाद्यैरलंकृतम् || १७६ ||
तस्य मूले स्वर्णभूमौ रत्नसिंहासने शुभे || आसीनममिताकल्पं शरच्चन्द्रनिभाननम् || १७७ ||
रजताद्रिप्रतीकाशं मुनिदेवगणैः स्तुतम् || प्. ७२९)जटामुकुटिनं वीरासनं नासावलोकनम् || १७८ ||
त्रिनेत्रं सुप्रसन्नास्यं निविष्टं शुभपङ्कजे || दक्षिणोर्ध्वकरे टङ्कं व्याख्यामुद्रामधः करे || १७९ ||
वामोर्ध्वहस्ते हरिणं वामजानुन्यधःकरम् || प्राक्प्रोक्ते पूजयेत्पीठे प्रथमे तु दले यजेत् || १८० ||
केशरेषु षडङ्गानि देवाग्रादिप्रदक्षिणम् || पूजयेदष्टपत्रेषु पूजयेद्वृषभादिकान् || १८१ ||
वीथीद्वये च लोकेशांस्तदस्त्राणि च पूजयेत् || पुरश्चरणसिद्ध्यर्थं प्रजपेदयुताष्टकम् || १८२ ||
जुहुयात्तद्दशांशेन तिलैः क्षीरपरिप्लुतैः || पायसेनाथ वा देवाः केवलेन घृतेन वा || तर्प्पणादि ततः कुर्ययात्प्रयोगार्हो भवेन्मनुः || १८३ ||
मासमेकञ्च भिक्षाशी सहस्रं चाष्टकं जपेत् || मन्त्रं प्रतिदिनं मन्त्री विद्वत्त्वं लभते ध्रुवम् || १८४ ||
मूलमन्त्रेण पुटितां मातृकां मनुवित्तमः || जलं स्पृष्ट्वा त्रिधा जप्त्वा पिबेदब्दाद्भवेद्ध्रुवम् || अखिलानां च शास्त्राणां व्याख्याता च महाकविः || १८५ ||
रोमपिप्पलिकाब्राह्मीवचासर्ज्जरसैर्घृतैः || सुगन्धद्रव्यसंयुक्तैर्नन्दिकेश्वरकल्पितैः || १८६ ||
तत्कल्कसहितैर्ब्राह्मीरसे पक्वं च गोघृतम् || अनेन मन्त्रवर्ययेण जीवितंत्वयुतावधि || १८७ ||
तत्र संसेवितं कीर्त्तिकविताश्रीधृतिप्रदम् || कान्तिरक्षायुष्यदं च गदितं सर्वसिद्धिकृत् || १८८ ||
अथो विभेदाद्द्वाविंशद्वर्णो मन्त्रो निगद्यते || तारो नमो भगवते दक्षिणामूर्त्तये वदेत् || १८९ ||
मह्यं मेधां प्रयच्छेति स्वाहान्तोथ द्वितीयकः || मेधास्थाने पठेत्प्रज्ञां फलं नामानुसारतः || १९० ||
मेधाकण्ठेन सामर्थ्यं प्रज्ञा प्रोक्ता तु स्मृतिः || बीजद्वयाल्पितो मन्त्रः सिद्ध्यते वाममार्गिणाम् || १९१ ||
ऋषिर्ब्रह्मा समुद्दिष्टो गायत्रं छन्द ईरितम् || देवता श्रीमहादेवो दक्षिणामूर्त्तिसञ्ज्ञकः || १९२ ||
प्रणवः प्रोच्यते बीजं स्वाहा शक्तिरिति स्मृता || मेधापदं कीलकं स्यात्पुरुषार्थे नियोजनम् || १९३ ||
ताररुद्धैः स्वरैर्दीर्घैः षड्भिरङ्गानि कल्पयेत् || शिरोरुमध्यवक्त्रेषु हृदि नाभौ च गुह्यके || १९४ ||
जान्वोश्चरणयोर्न्यस्येत्पदान्यष्टौ मनोः क्रमात् || वर्णन्यासमथो मूर्ध्नि भालेक्ष्णोः श्रोत्रयोर्नसोः || ओष्ठे दन्ते च जिह्वायां चुबुकाग्रेंसयोर्गले || १९५ ||
प्. ७३०)बाहूरोनाभिगुह्येषु गुदोर्वोर्जानुजङ्घयोः || पादपाण्योश्च सर्वाङ्गे ततो देवं विचिन्तयेत् || १९६ ||
शङ्करन्तु शरच्चन्द्रनिभमम्भोजमध्यगम् || गङ्गाधरं शरच्चन्द्रकरोल्लसितशेखरम् || १९७ ||
प्रसन्नवदनाम्भोजं त्रिनेत्रं सुस्मिताननम् || दिव्याम्बरधरं देवं गन्धमाल्यैरलंकृतम् || १९८ ||
नानारत्नमयाकल्पमनुकल्पविभूषितम् || मुक्ताक्षमालां दक्षोर्ध्वे ज्ञानमुद्रामधः करे || १९९ ||
वामोर्ध्वे च सुधाकुम्भं पुस्तकं तदधःकरे || दधानं चिन्तयेद्देवं मुनिवृन्दनिषेवितम् || २०० ||
एवंध्यात्वा यजेत्पीठे पूर्वोक्ते नवशक्तिके || पद्मत्रयसमोपेते भूगेहत्रितयान्विते || २०१ ||
चतुर्द्वारयुतेङ्गानि केशरेषु यजेत्ततः || स्वरान्षोडश तत्रैव द्वन्द्वशः केशरस्थितान् || २०२ ||
यजेद्वर्गाष्टकं पश्चादष्टपत्रेषु चापरे || सरस्वतीं चतुर्वक्रं सनकं च सनन्दनम् || २०३ ||
सनातनं चैव सनत्कुमारं च शुकं तथा || व्यासं च परतोष्टौ तु पार्वतीं शुभगां तथा || २०४ ||
भद्रां क्रिया शान्तिरौद्र्यौ कालीं कलभिकामपि || चतुरस्रे चतुष्कोणमाग्नेये शांतमर्च्चयेत् || २०५ ||
सिद्धगन्धर्वयोगीन्द्रान्विद्याधरगणानपि || इन्द्रादींश्च तदस्त्राणि प्राग्वद्वीथीद्वये यजेत् || २०६ ||
एकलक्षं जपेन्मन्त्रं दशांशं जुहुयात्ततः || क्षीराज्याक्तैस्तिलैः पद्मैः पायसैर्वां घृतप्लुतैः || तर्प्पणादि ततः कृत्वा काम्यकर्म्माणिसाधयेत् || २०७ ||
कण्ठमात्रोदके स्थित्वा जपेन्मन्त्रं सहस्रकम् || प्रत्यहं मण्डलादर्वाक्कवीनामग्रणीर्भवेत् || २०८ ||
पञ्चविंशतिधा जप्तमन्नपायसमेव च भक्षितं क्षीरसंसिक्तं परं वा काव्यकारकम् || सर्वापन्नाशकं चैव सर्वरोगविनाशनम् || २०९ ||
त्रयोदश्यां प्रदोषे च सोपवासः शिवालयम् || मौनी गत्वार्चयेद्देवं विद्यायुः परिवृद्धये || २१० ||
आज्येन पायसान्नेन वाक्कामो जुहुयात्सदा || श्रीकामो जलजैर्बिल्वैर्नन्द्यावर्त्तैः सदा हुनेत् || २११ ||
आज्यक्षीराक्तदूर्वाभिर्हुत्वा दद्याच्च दक्षिणाम् || गुरवे गां च महिषीं तस्य मृत्युभयं कुतः || २१२ ||
आदित्याभिमुखो भूत्वा दद्याद्दशजलाञ्जलीन् || मूलमन्त्रेण मन्त्रज्ञः सर्वदोषैर्न बाध्यते || २१३ ||
प्रातः सायं च सप्तैवं मध्याह्ने चैकविंशतिम् || दुग्धबुद्ध्या जलैर्देवं तर्प्पयित्वा ततो हुनेत् || पलाशपुष्पैरचिरात्कविर्होमादिभिर्भवेत् || २१४ ||
प्. ७३१)गौर्यया पार्श्वस्थया सार्धं श्रीकामश्चिन्तयेत्प्रभुम् || अयुतं प्रजपेन्मन्त्रं भूयसीं श्रीयमाप्नुयात् || २१५ ||
भुञ्जानः प्रयतो मन्त्री गोमूत्रे पक्वमोदनम् || भिक्षान्नमथ वा मन्त्रमयुतद्वितयं जपेत् || २१६ ||
अश्रुतान्वेदशास्त्रादीन्व्याचष्टे नात्र संशयः || एवमाराधितो मन्त्रो भुक्तिमुक्तिप्रदायकः || २१७ ||
अथातो दक्षिणामूर्त्तेर्द्व्यक्षरो मनुरुच्यते || हंस इत्यस्य गायत्री छन्दो ब्रह्मा मुनिर्मतः || २१८ ||
देवता दक्षिणामूर्त्तिर्हंबीजं शक्तिरन्तिमः || हसव्यञ्जनयोर्योगे षड्दीर्घांद्यङ्गकल्पनम् || २१९ ||
ध्यानपूजादिकं सर्वं तथाकाम्यनियोजनम् || द्वात्रिंशदक्षरप्रोक्तदक्षिणामूर्त्तिमन्त्रवत् || २२० ||
विशेषतः स्वयं रोगहरः सारस्वतप्रदः || ज्ञानप्रदश्च भवति तथा मोक्षप्रदोपि च || २२१ ||
अथातः सम्प्रवक्ष्यामि वामिनां सिद्धिदस्य तु || दक्षिणामूर्त्तिभेदस्य तस्य मन्त्रचतुष्टयम् || २२२ ||
ऊर्ध्वपश्चिमयोः सौम्यप्रागाम्नायोक्तसिद्धिकृत् || २२३ ||
क्रमादेतेत्र प्रोच्यन्ते महादेवाय हुं त्विति || वामो मुनिर्विराट् छन्दो देवता वामनायकः || २२४ ||
कालिकाबीजपूर्वैश्च षड्वर्णैस्स्यात्षडङ्गकम् || लिङ्गन्यस्तमहाकालिं मदिरासक्तमानसम् || २२५ ||
लोहदण्डं मांसपिण्डं पानपात्रं त्रिशूलकम् || दधतं भर्ज्जितम्मत्स्यं चषकं रुधिरस्य च || २२६ ||
स्पृशन्तमेकेन भगमपरेण कुचद्वयम् || इत्थं संचिन्त्य देवेशं कालपीठे समर्चयेत् || २२७ ||
भगमालां भगलतां भगां कोणत्रये यजेत् || लिङ्गस्थितं लिङ्गभगमात्मानं चात्ममेखलम् || २२८ ||
मत्स्यप्रियं च तद्बाह्ये पञ्चकोणे समर्च्चयेत् || मदोन्मत्तं रतिकरं चलन्मध्यं स्खलत्पदम् || २२९ ||
वेदपृष्ठं धर्मशस्त्रं शान्त्यतीतं निरञ्जनम् || तत्र स्थितं च तद्बाह्ये पूजयेन्नवयोनिके || २३० ||
लक्षाष्टकञ्जपेन्मन्त्रं प्रथमं तु सुरान्वितैः || होमाद्धि मांसशकलैर्मन्त्रसिद्धिः प्रजायते || २३१ ||
सम्भोगी यो जपेल्लक्षं जुहुयाच्चायुतं परम् || तर्प्पयेच्चन्दनेनैव तत्परम्मन्त्रसिद्धये || २३२ ||
जपादिकं प्रकर्तव्यं यथाकार्यानुसारतः || अवश्यञ्जायते कार्ययं तस्माच्चेद्विकलेन्द्रियः || तदा न कार्ययं भवति वाममार्गेण साधितम् || २३३ ||
प्. ७३२)अथातो दक्षिणामूर्त्तेरपरो मन्त्र उच्यते || तारो नमो भगवते दक्षिणामूर्त्तये वदेत् || मह्यं मेधां वदेत्प्रज्ञां प्रयच्छानलवल्लभाम् || २३४ ||
चतुर्विंशतिवर्णोयं मुनिर्ब्रह्मा समीरितः || देवता दक्षिणा मेधा गायत्री छन्द उच्यते || २३५ ||
मेधाबीजं तथ शक्तिः स्वाहा मेधासमृद्धये || नियोगोथ षडङ्गानि आं ईं ऊं ऐं च औं च अः || २३६ ||
एतैर्वर्णैस्तु दिग्बन्धम्भूर्भुवःसुवरोमिति || व्याख्यापीठेतिशुभ्रं च भस्मोद्धलितविग्रहम् || २३७ ||
ज्ञानमुद्राक्षमालाढ्यं वीणापुस्तकधारिणम् || प्राग्वत्पूजादिक सर्वं पुरश्चरणमुच्यते || २३८ ||
कृष्णाष्टमीं समारभ्य यावत्कृष्णचतुर्दशी || चत्वारिंशत्सहस्राणां जपात्स्याच्च पुरस्क्रिया || २३९ ||
आज्यं दशांशं होतव्यं मन्त्रसिद्धिः प्रजायते || पापाधिक्यान्न चेत्सिद्धिस्तदैवन्तु समाचरेत् || २४० ||
बिल्वाधस्स्थो जपेल्लक्षं ततः सिद्धिर्भवेदिति || दूरे दृष्टा च चेत्सिद्धिः पश्चाद्द्वारे शिवालये || लक्षमेकं मनुञ्जप्त्वा हुत्वाज्यं सिद्धिभाग्भवेत् || २४१ ||
ततः प्रयोगं कुर्वीत हुनेत्पालाशपुष्पकैः || यमुद्दिश्यायुतं सोपि मूर्खो विद्यानिधिर्भवेत् || २४२ ||
कण्ठमात्रे जले स्थित्वा जपेन्मन्त्रसहस्रकम् || प्रत्यहं मण्डलादर्वाक्कवीनामग्रणीर्भवेत् || २४३ ||
भुञ्जानः प्रयतो मन्त्री गोमूत्रे पक्वभोजनम् || भिक्षान्नमथ वा मन्त्रमयुतद्वितयं जपेत् || अश्रुतं वेदशास्त्रादि व्याचष्टे नात्र संशयः || २४४ ||
स्वहस्ते जलमादाय प्रातस्तदभिमन्त्रयेत् || पञ्चविंशतिवारान्हि पाययेद्बालकाय तत् || मासषट्कं तस्य विद्या भवेद्गङ्गाप्रवाहवत् || २४५ ||
अथातः सम्प्रवक्ष्यामि नृसिंहाद्बलिनो मम || मन्त्रं शरभसञ्ज्ञस्य द्रुतसिद्धिप्रदायकम् || २४६ ||
ओंखंखांखं [ओं खं खां खं फट् शत्रून् ग्रससिग्रससि हुं फट् सर्वास्त्रसहरणाय शरभाय शान्ताय पक्षिराजाय हुं फट् स्वाहा नमः ||] फडुच्चार्यय द्विः शत्रून्ग्रससीति च || तथा हुं फट् सर्वास्त्रसंहरणाय शरभेति च || शान्ताय पक्षिराजाय हुं फट् स्वाहा नमो मनुः || २४७ ||
एकचत्वारिंशदर्णो वासुदेवो मुनिर्मतः || कालाग्निरुद्रः शरभो देवता परिकीर्तितः || २४८ ||
छन्दस्तु जगती स्वाहा शक्तिर्बीजं खमुच्यते || वेदांकदशसप्तागसागरैरङ्गकल्पनम् || २४९ ||
प्. ७३३)पुनः समस्तमन्त्रेण दिग्बन्धं तु समाचरेत् || चन्द्रार्काग्नित्रिनयनं कालीदुर्गाद्विपक्षकम् || २५० ||
विद्युज्जिह्वं वज्रनखं वडवाग्न्युदरन्तथा || व्याधिमृत्युरिपुघ्नं च चण्डवातातिवेगिनम् || २५१ ||
हृद्भैरवस्वरूपं च वैरिवृन्दनिषूदनम् || मृगेन्द्रत्वक्छरीरेस्य पक्षाभ्यां चंचुना रवः || २५२ ||
अधोवक्त्रश्चतुष्पाद ऊर्ध्वदृष्टिश्चतुर्भुजः || कालान्तदहनप्रख्यो नीलजीमूतनिःस्वनः || २५३ ||
अरिर्यद्दर्शनादेव विनष्टबलविक्रमः || सटाक्षिप्तग्रहर्क्षाय पक्षविक्षिप्तभूभृते || अष्टपादाय रुद्राय नमः शरभमूर्त्तये || २५४ ||
एवं ध्यायेत्सहस्रं तु प्रजपेत्पायसं हुनेत् || प्रत्यहं मासषट्केन मन्त्रसिद्धिः प्रजायते || २५५ ||
तदाजेयस्तु संग्रामे भूतप्रेतपिशाचकाः || नश्यन्ति दर्शनादेव चाधयो व्याधयस्तथा || २५६ ||
अथातः सम्प्रवक्ष्यामि मालामन्त्रं सुसिद्धिदम् || तारो नमो भगवते ङेन्तं शरभ शाल्व च || २५७ ||
सर्वभूतोच्चाटनाय ग्रहराक्षस चोच्चरेत् || निवारणाय ज्वालेति ङेन्तं मालास्वरूपकम् || २५८ ||
दक्षनिष्काशनायेति साक्षादिति पदं वदेत् || कालरुद्रस्वरूपाष्टमूर्त्तये च तथा वदेत् || २५९ ||
कृशानुरेतसे चेति महेतिपदमुच्चरेत् || क्रूरभूतोच्चाटनायेत्यप्रतिशयनाय च || २६० ||
शत्रूंश्च नाशयद्वन्द्वं वदेच्छत्रुपशूंस्ततः || गृह्णयुग्मं खादयुग्मं तारं हुं फड्वसुप्रियाम् || २६१ ||
अष्टोत्तरशतार्णोयमष्टोत्तरशतं जपेत् || प्रत्यहं मासषट्केन सिद्धः स्यात्तत्फलं शृणु || २६२ ||
पात्रे पूतं जलं स्थाप्य सप्तवाराभिमन्त्रितम् || पानार्थं तत्प्रसादेन दातव्यं लापयेत्तथा || २६३ ||
प्रयान्ति सर्वभूतानि ज्वराश्चातुर्थिकादयः || सप्ताहात्तत्प्रयोगेण नात्र कार्यया विचारणा || २६४ ||
अथातः सम्प्रवक्ष्यामि ह्यघोरास्त्राह्वयं मनुम् || मायां स्फुरद्वयं चैव प्रस्फुरद्वितयं वदेत् || २६५ ||
पश्चाद्वदेत्तरद्वन्द्वं तरप्रान्तं च प्रद्वयम् || प्रचटद्वितयं पश्चात्कहद्वन्द्वं महद्वयम् || २६६ ||
बन्धद्वयं घातय द्विर्हुंहुं भूशरवर्णकः || मनुः प्रोक्तोघोरमुनिरुष्णिक् छन्दोस्य देवता || २६७ ||
अघोररुद्रो वं बीजं ह्रीं शक्तिश्च प्रकीर्तिता || शरर्त्तुदशदिग्दन्तिदिवाकरमितैर्मनोः || वर्णैः कुर्ययात्षडङ्गानि पदन्यासोथ वक्ष्यते || २६८ ||
भाले वक्त्रे गले हृद्यथो नाभिकरजानुषु || सजंघपादयोश्चैव पदान्येकादश न्यसेत् || २६९ ||
प्. ७३४)शरर्त्तुनेत्रवस्वब्धिशरवेदाब्धिवेदकैः || रसनेत्रमितैर्वर्णैस्तत्पदैश्च भवत्यसौ [पदन्यास इति शेषः ||] || २७० ||
मेघाकारं ततो ध्यायेद्भीमदंष्ट्रं त्रिलोचनम् || भुजङ्गभूषणं रक्तवसनालेपशोभितम् || २७१ ||
परशुं करवालं च बाणं त्रिशिखमेव च || दधानं दक्षिणैर्हस्तैरूर्ध्वादिक्रमतः परैः || ऽऽदमरुं खेटकं चापं नृकपालं च बिभ्रतम् || २७२ ||
काम्यकर्मसु रक्ताभं कृष्णाभमभिचारके || निग्रहे ग्रहभूतादिमुक्तौ मुक्तानिभं स्मरेत् || २७३ ||
एवं सञ्चिन्त्य देवेशं शिवपीठे पुरोदिते || षट्कोणान्तस्थिते पद्मद्वितये भूपुरैर्वृते || २७४ ||
केशरेष्वङ्गपूजा स्याद्देवाग्रादिप्रदक्षिणैः || डमरुं परशुं खड्गं खेटं बाणं तथा धनुः || २७५ ||
शूलं कपालं ब्राह्म्याद्या द्वितीयेष्टदलेर्च्चयेत् || वीथीद्वये लोकपालांस्तदस्त्राणि च पूजयेत् || २७६ ||
लक्षमेकं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः || जुहुयात्तद्दशांशेन तिलैः शुद्धघृतप्लुतैः || २७७ ||
तर्प्पणं मार्ज्जनं कृत्वा भोजयेन्मधुरैर्द्विजान् || एवं सिद्धे मन्त्रवरे काम्यकर्म्माणि साधयेत् || २७८ ||
क्रमात्सर्पिरपामार्गतिलसर्षपपायसैः || साज्यैः सहस्रं प्रत्येकं यामिन्यां जुहुयात्सुधीः || होमोयं नाशयेत्सद्यो भूतकृत्यादिनायकान् || २७९ ||
श्वेतकिंशुकनिर्गुण्डी हेमापामार्गसम्भवैः || समिद्वरैः कृतो होमः पूर्ववद्द्रुतशान्तिदः || २८० ||
अपामार्गाश्वत्थयोश्च पञ्चगव्ये समुक्षिताः || समिधो जुहुयात्कृष्णपञ्चम्यां निशि संयतः || पृथक्सहस्रहोमेन भूतानां निग्रहो भवेत् || २८१ ||
क्रमात्सर्प्पिरपामार्गपञ्चगव्यहविर्घृतैः || हुत्वा सहस्रं प्रत्यकं पात्रे सम्पातयेद्द्रुते || २८२ ||
सम्पातसर्पिषा साध्यं भोजयेद्द्रुतशान्तये || अघोरास्त्राह्वयो मन्त्रः सर्वकाम्यानि साधयेत् || २८३ ||
अथातः सम्प्रवक्ष्यामि मन्त्रं पाशुपतास्त्रकम् || तारः श्रीं पशुशब्दान्ते हुंफड्मन्त्रः षडक्षरः || २८४ ||
वामदेवो मुनिः पंक्तिश्छन्दः पशुपतिः सुरः || मन्त्रार्णैः षड्भिरङ्गानि हुंफडन्तैः सबिन्दुकैः || २८५ ||
जातियुक्तानि चाङ्गेषु तथांगुष्ठादिषु क्रमात् || ध्यायेत्पशुपतिं सम्यङ्मन्त्री चैकाग्रमानसः || २८६ ||
पञ्चवक्त्रं दशभुजं प्रतिवक्त्रं त्रिलोचनम् || अग्निज्वालानिभश्मश्रुमूर्द्धजं भीमदंष्ट्रकम् || २८७ ||
प्. ७३५)खङ्गं बाणानक्षसूत्रं शक्तिं परशुमवे च || दधानं दक्षिणैर्हस्तैरूर्ध्वादिक्रमतः परैः || २८८ ||
खेटचापौ कुण्डिकां च त्रिशूलं ब्रह्मदण्डकम् || नानाभरणसन्दीप्तं बालचन्द्रैरलंकृतम् || २८९ ||
मध्याह्नार्कसमं ध्यात्वा शिवपीठे तथार्च्चयेत् || पद्ममष्टदलं कृत्वा कर्णिकाकेशरान्वितम् || २९० ||
चतुर्द्वारसमायुक्तं चतुरस्रत्रयावृतम् || एवं पात्रे समालिख्य स्वर्णरौप्यादिके शुभे || २९१ ||
पटे वा फलजे वापि श्रीकण्ठादिसमुद्भवे || सर्वोपचारैराराध्य यजेदङ्गानि पूर्ववत् || २९२ ||
दलेषु मातृकाः पूज्या लोकेशास्त्राणि तद्बहिः || पूजयेद्विधिनानेन सर्वान्कामानवाप्नुयात् || २९३ ||
लक्षषट्कं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः || दशांशैर्जुहुयाद्द्रव्यैर्घृताक्तैः संस्कृतेनले || तर्प्पणादि ततः कृत्वा प्रयोगार्हो भवेन्मनुः || २९४ ||
अनेन मन्त्रितं तोयं ग्रहभूतास्पदे क्षिपेत् || सद्यस्तन्मुञ्चति क्रन्दत्यहो मन्त्रप्रभावतः || २९५ ||
अनेन मन्त्रितान्बाणान्विसृजेद्युधि भूपतिः || जयेत्क्षणेन सकलानरीन्नास्त्यत्र संशयः || एवं मन्त्रस्तु संसिद्धो भुक्तिमुक्तिप्रदो भवेत् || २९६ ||
अथास्य भेदं वक्ष्यामि पश्वन्ते [ओं श्रीं पशुपतिः हुं फट् ||] पतिशब्दयुक् || भवेदष्टाक्षरो मन्त्रो मुन्याद्यं पूर्ववन्मतम् || २९७ ||
हुं शक्तिः श्रीं च बीजं स्यात्तद्भिनैश्च [ओं ओं हृदयायनमः ओं पं शिरसे स्वाहा ओं शुं शिखायै वषट् ओं पं कवचाय हुम् ओं तिः नेत्रत्रयाय वौषट् ओं हुं फट् अस्त्राय फट् ||] षडऽऽक्षरैः || प्रणवाद्यैः षडङ्गानि प्राग्वद्ध्यात्वा च पूजयेत् || २९८ ||
सद्योजातादिभिः पञ्चब्रह्मभिः प्रथमावृतिः || षडङ्गैश्च द्वितीयास्यात्तदस्त्राद्यैस्तृतीयिका || २९९ ||
उमादिभिश्चतुर्थी स्यात्स्वायुधैश्चापि पञ्चमी || षष्ठी चेन्द्रादिभिः प्रोक्ता सप्तमी च तदायुधैः || ३०० ||
अष्टलक्षं पुरश्चर्यया पायसेन हुनेत्ततः || अन्यत्सर्वं प्रयोगादि पूर्ववत्परिकीर्त्तितम् || ३०१ ||
नीलकण्ठमनुं वक्ष्ये समस्तविषनार्शनम् || शंनींठ इति मन्त्रोयं त्रिवर्णः सर्वकामदः || ३०२ ||
अरुणो मुनिरुद्दिष्टोनुष्टुप्छन्दस्तु देवता || नीलकण्ठः शं च बीजं ठः शक्तिः परिकीर्त्तिता || ३०३ ||
हरायेति हृदयं च शिरः प्रोक्तं कपर्द्दिने || नीलकण्ठायेति शिखा कवचं कालकूटवि || ३०४ ||
प्. ७३६)षभक्षणाय हुंफट् स्याच्छ्रीकण्ठाय त्रिनेत्रकम् || अस्त्रं च शितिकण्ठाय स्वाहान्ता इति सम्मताः || ३०५ ||
न्यस्याः षडङ्गमनवश्चांगुष्ठादिषु विन्यसेत् || मूर्ध्नि कण्ठे च हृदये न्यसेद्बीजत्रयं पुनः || ३०६ ||
ध्यायेद्देवं नीलकण्ठं बालार्कायुतवर्चसम् || जटाभूतलसच्चन्द्राकारकैः फणिसत्तमैः || ३०७ ||
क्टकल्पकराम्भोजैर्दधानं जपमालिकाम् || शूलं कपालं खट्वाङ्गमक्षमालां च बिभ्रतम् || ३०८ ||
प्रतिवक्त्त्रं त्रिनयनं व्याघ्रचर्म्माम्बरावृतम् || पद्ममध्ये समासीनमतिसुन्दरविग्रहम् || ३०९ ||
एवं ध्यात्वार्चयेत्पीठे शैवे सर्वोपचारकैः || पद्मे वसुदले रम्ये चतुरस्रत्रयावृते || ३१० ||
चतुर्द्वारे पूर्व मङ्गलोकेशानायुधानि च || एवं प्रपूजयेमन्त्री सर्वकामस्य सिद्धये || ३११ ||
लक्षत्रयं जपेन्मन्त्रं हविष्यैराज्यसंयुतैः || तद्दशांशं तर्प्पणादि भोजयेन्मधुरैर्द्विजान् || ३१२ ||
एवं सिद्धमनुर्मन्त्री त्वष्टोत्तरसहस्रकम् || स्पृष्ट्वा जपेद्विषग्रस्तं तत्क्षणान्निर्विषो भवेत् || ३१३ ||
बीजाभ्यां प्रथमान्त्याभ्यां पार्श्वयोर्विषमाहरेत् || ३१४ ||
एवं मन्त्राभिजपितकलशोदकसेचनात् || तक्षकेणापि सन्दष्टस्तत्क्षणान्निर्विषो भवेत् || ३१५ ||
विलोक्य विषिणं मन्त्रं प्रजपेत्सुसमाहितः || विषद्वयान्मुच्यतेसावचिरान्नात्र संशयः || ३१६ ||
दृष्ट्वा च डुण्डुभग्रस्तं स्वशिरःकण्ठहृत्सु च || मनुवर्णत्रयं न्यस्य देवतारूपकं गुरुम् || ३१७ ||
स्मरेत्स्वदक्षिणानामामध्यमातर्जनीषु च || मन्त्राक्षरत्रयं न्यस्य तदंगुलिभिरुत्तमम् || ३१८ ||
त्रिशूलमुद्रामासाद्य ग्रस्तस्याभिमुखं नयेत् || प्रदर्श्य मन्त्रं प्रजपेत्पञ्चाशद्वारमत्र तु || ३१९ ||
स्थावरं जङ्गमं चैव कृत्रिमं च तथा विषम् || रोगग्रहाद्यपस्मारानपमृत्युं च नाशयेत् || ३२० ||
पञ्चाशन्मनुना जप्तमन्नमौषधमेव च || भक्षितं चेत्तु रोगादिनाशनं परमं मतम् || ओं नमो नीलकण्ठाय मनुरष्टाक्षरः परः || मुनिर्ब्रह्मा च गायत्री छन्दो देवः प्रकिर्त्तितः || ३२१ ||
नीलकण्ठो ध्यानपूजाजपाद्यं पूर्ववन्मतम् || प्रयोगाश्च विशेषेण महाविषहराः स्मृताः || ३२२ ||
स एव वह्निजायान्तो दशवर्णः प्रकीर्त्तितः || अरुणोस्य मुनिश्छन्दो गायत्रं देवतामहान् || ३२३ ||
नीलकण्ठोस्य बीजं तु तारः शक्तिर्दहप्रिया || हुं नमो नीलकण्ठाय शिरः स्वाहा नमस्त्विति || ३२४ ||
प्. ७३७)शिखोंनमो नीलकण्ठाय नमः कवचं मतम् || स्वाहा नमो नेत्रमिति ओं नमोस्त्रं समीरितम् || ३२५ ||
दक्षिणं पादमारभ्य वामपादावधि क्रमात् || वर्गाष्टकं न्यसेन्मन्त्री पादोरुगुल्फसन्धिषु || ३२६ ||
हृत्कण्ठमुखशीर्षेषु न्यसेद्वर्गाष्टकं पुनः || पूर्वाद्यैराननैर्ययुक्तः पीतश्वेतारुणासितैः || ३२७ ||
अभयं परशुं चापं वासुकिं च दधद्भुजैः || ध्येयो देवोस्य पार्श्वस्था गौरी चाप्यतिसुन्दरी || ३२८ ||
संहारनिर्विषस्तम्भावेशात्कुर्ययात्क्रमान्मुखैः || दशलक्षं पुरश्चर्यया सर्वत्राक्षरवन्मता || ३२९ ||
मन्त्राक्षराणि हृत्पृष्ठे के कण्ठे कुक्षियुग्मके || हृदि बाह्वोर्नेत्रयोश्च मस्तके च क्रमाद्यजेत् || ३३० ||
विषाक्रान्तस्य पूर्वोक्तमीशं ध्यायञ्च्छताष्टकम् || जपेन्मन्त्रं दृशा सर्वविषाणां वारणम्भवेत् || ३३१ ||
आथान्यो वक्ष्यते मन्त्रो नानाकार्ययकरः परः || तारो नमो भगवते सर्वज्ञेतिपदं वदेत् || ३३२ ||
कण्ठं निं नीलकण्ठाय अमलेति पदं वदेत् || डेन्तं द्विः क्षिप ओं स्वाहा चोनत्रिंशाक्षरो मनुः || ३३३ ||
विमलोस्य मुनिः प्रोक्तः कृतिश्छन्द उदाहृतम् || अमलाख्यो नीलकण्ठो रुद्रो देवः प्रकीर्त्तितः || ३३४ ||
स्वाहा शक्तिस्तु वौं बीजं मन्त्रार्णैरङ्गपञ्चकम् || सप्तभिः पञ्चभिः षड्भिश्चतुर्भिश्चापि सप्तभिः || ३३५ ||
ध्यानार्च्चनादिकं सर्वं पूर्ववत्समुदाहृतम् || लक्षमेकं पुरश्चर्यया हुनेदाज्यं दशांशतः || ३३६ ||
एवं सिद्धमनुर्मन्त्री दशवाराञ्जपेद्यदि || दुष्टं विषं द्रव्यसंस्थं हरेदत्र न संशयः || ३३७ ||
जप्त्वा पञ्चदशोन्मानं हरेद्वृश्चिकजं विषम् || विषमूषीविषं हन्ति जपः सप्तदशोन्मितः || ३३८ ||
अष्टादशजपाद्धन्याद्विसर्पं नात्र संशयः || एकविंशतिजापेन त्वभिचारक्षयो भवेत् || ३३९ ||
परन्तस्य जपाद्धन्ति षड्विंशात्सूतिकागदम् || दन्तमूलगदं त्रिंशच्चतुस्त्रिंशच्च शीतलाम् || षट्त्रिंशच्च शिरोरोगं गर्भदुःखं खवेदतः || नेत्ररोगं वेदवेदैः खबाणैः सकलं विषम् || ३४० ||
शतसंख्याकजापेन सर्वरोगविनाशनम् || अग्निना निहतानान्तु जपेदष्टोत्तरं शतम् || ३४१ ||
अथ चिन्तामणेः कटं प्रवक्ष्याम्यतिसिद्धिदम् || प्. ७३८)यद्यत्प्रोक्तं वैदिकानान्तत्तत्सिद्धिविधायकम् || ३४२ ||
प्रथमः प्रणवः सप्त वेदनेत्रैश्चतुर्दशम् || षष्टिबिन्दुयुतं कूटं प्रोक्तं दक्षिणमार्गिणाम् || ३४३ ||
चत्वारश्चापि चत्वार एकवेदद्विवर्णकाः || द्वितीयः स्वरबिन्दुभ्यां युक्तः कूटमुदाहृतम् || ३४४ ||
शैवादीनां वामिनां तु तुर्ययवर्णं समुच्चरन् || एकोनत्रिंशकञ्चैतत्सप्तवेदाक्षिसम्मितम् || ३४५ ||
ततः स्वराः समुच्चार्ययाः शक्रास्तु तिथिसम्मिताः || एतत्कूटं समुद्दिष्टं मुन्याद्यमथ कथ्यते || ३४६ ||
कश्यपोस्य मुनिश्छन्दोनुष्टुब्देव उमापतिः || बीजं क्षकारो रः शक्तिर्मकारः कीलकम्मतम् || ३४७ ||
रेफादिव्यञ्जनैः षड्भिः कुर्ययादङ्गानि षट् क्रमात् || विद्रुमारक्तवामार्धदेहं नीलाम्बराङ्गकम् || ३४८ ||
अधिगङ्गाशशाङ्कार्धं विलसत्तुङ्गमौलिकम् || हावभावविलासार्धनारीरूपं महेश्वरम् || ३४९ ||
त्रिशूलपाणिं पद्मानि नृकपालं करेषु च || भीषणं परदेहार्धमालालेपविराजितम् || ३५० ||
एवं ध्यात्वा यजेत्पीठे शैवे सर्वोपचारकैः || अङ्गानि पूजयेदादौ वामेष्टदलकेशरे || ३५१ ||
अर्चयेदष्टपत्रेषु कार्त्तवीर्ययवृषादिकान् || ब्राह्म्याद्या मातरः पूज्या द्वितीयेष्टदले पुनः || ३५२ ||
लोकेशांश्च तदस्त्राणि प्राग्वद्वीथीद्वये यजेत् || पूजाद्रव्यादिकं ग्राह्यं स्वस्वाम्नायविभेदतः || ३५३ ||
शैवादिभिर्वामिभिश्च ध्यायेदष्टभुजं शिवम् || परशुं पन्नगं शूलं कपालं च शरासनम् || ३५४ ||
शरान्वह्निं च खड्गं च दधतं स्त्रीविलासिनम् || गङ्गातरङ्गविलसच्चन्द्रखण्डाभिशेखरम् || ३५५ ||
त्रिनेत्रं त्रिदशैः पूज्यां चिन्तयेत्पार्श्वगां शिवाम् || अरुणामरुणाकल्पामरुणांशुकधारिणीम् || ३५६ ||
अरुणाम्बुजमालाढ्यां त्रिनेत्रां सद्विभूषणाम् || शूलैः षोडशभिर्व्यग्रभुजषोडशमण्डिताम् || ३५७ ||
लक्षमेकं जपेन्मन्त्रं त्रिमध्वक्तैः सतण्डुलैः || तिलैर्दशांशं जुहुयात्तर्प्पणादि ततश्चरेत् || एवं संसिद्धमन्त्रस्य प्रयोगो वक्ष्यतेधुना || ३५८ ||
रेफस्थाने हंस इति पदं दत्त्वा जपेन्मनुम् || शीघ्रन्तेन भवेत्सिद्धिर्ज्ञानं च विषनाशनम् || प्रसाद्य यो जपेन्मन्त्रमयुतम्भाग्यदायकम् || ३५९ ||
ततो नाशो भवेत्सद्योभूतादीनां रुजामपि || प्. ७३९)द्विधा ग्रहार्तौ जपति बीजमेतन्न संशयः || त्रिकोणं चिन्तयेन्मूर्ध्नि ग्रस्तस्याग्न्यर्कसन्निभम् || ३६० ||
तन्मध्ये चिन्तयेद्बीजं ग्रहानावेशयेत्तदा || एतन्मन्त्राभिजपितं बन्धुजीवप्रसूनकम् || ग्रस्तस्य मूर्ध्नि क्षिप्तं च क्षणादावेशकारकम् || ३६१ ||
पौष्टिके शान्तिके मन्त्रं शुक्लवर्णं विचिन्त्य च || सकारमादौ संयोज्य जपेत्सिद्धिः प्रजायते || ३६२ ||
आपुष्टौ च वशीकारे रक्तं रेफादिकन्तथा || हकाराद्यं च हेमाभं स्तम्भने चैव चिन्तयेत् || ३६३ ||
धूम्रवर्णं यकाराढ्यं विद्वेषोच्चाटयोरपि || शुद्धस्फटिकसङ्काशो ध्येय उग्रो मुमुक्षुभिः || ३६४ ||
अकारादिः प्रजप्तव्यः स मन्त्रो देशिकैः सदा || वायुमण्डलमध्यस्थं मन्त्रं कृष्णं विचिन्तयेत् || ३६५ ||
नेत्रयोर्विषमं त्वान्ध्यं बाधिर्ययं कर्णयोरपि || कुक्षौ शूलं मुखे छर्दिं कुर्ययाद्वायुं च मर्म्मसु || ३६६ ||
चिन्तयेत् कण्ठमालायां चतुरस्रस्य मध्यगम् || चन्द्रमण्डलमध्यस्थं स्वरैः षोडशभिर्युतम् || ३६७ ||
नेत्रोत्पातं नेत्ररोगं हरत्याशु न संशयः || रक्तस्रावं कृशाङ्गीनां योनौ ध्यानं हरेत्क्षणात् || ३६८ ||
कक्षौ ध्यानं च शूले स्याद्विस्फोटविषमज्वरे || तथा रक्तामये चैवमामे दाहे शिरोगदे || स्मरेद्यन्त्रं बाहुगतं तत्र तद्दोषशान्तये || ३६९ ||
अत्यारक्तं त्रिकोणान्तःस्थितं यन्मूर्ध्नि चिन्तयेत् || निधाय पाणिं सा वश्या योषाकर्षणमुच्यते || दुष्टाङ्गनाहृदम्भोजे स्थितं मन्त्रं विचिन्त्य च || ३७० ||
मन्त्रवर्णैरथो बद्ध्वा तेजोरूपां च तां स्मरेत् || तच्छीर्षकेशपाशेनाकर्षयेद्योषितं ध्रुवम् || वशयेत्तत्क्षणाद्योषां स्रावयेच्छुक्रमेव च || ३७१ ||
निजलिङ्गशिरस्स्थं च बीजं संचिन्तयेत्तदा || प्रवेशयेद्योनिमध्ये तत्संसर्गाच्च सा वशा || ३७२ ||
कुलालमृदमानीय तत्र बीजं समालिखेत् || तन्मकारस्य रेफे तु साध्याख्यां कर्म्मसंयुताम् || ३७३ ||
विलिख्य तत्त्रिकोणेन वेष्टयेत्तद्बहिस्तथा || षट्कोणैकं समावेष्ट्य षट्कोणे तु समाचरेत् || ३७४ ||
रेफं सबिन्दुकं तच्च विलोमैर्वेष्टयेत्स्वरैः || प्राणप्रतिष्ठा कृत्वास्य चुल्ल्यधो निखनेत्ततः || ३७५ ||
प्. ७४०)स वश्यो जायते क्षिप्रं तत्सिद्धान्नस्य भक्षणात् || पतिः प्रियायाः कुरुते तदाज्ञां दासवत्सदा || ३७६ ||
मधुरत्रययुक्तेन शालिपिष्टेन पुत्तलीम् || प्रपदाभ्यां च जंघाभ्यां जानुभ्यामूरुयुग्मतः || ३७७ ||
नाभेरधस्तद्धृदयात्कण्ठादाशीर्षकं ततः || एवं द्वादशधा छित्त्वा तीक्ष्णशस्त्रेण संहुनेत् || ३७८ ||
मूलमन्त्रेण स क्षिप्रं वश्यः स्याज्जीवितान्तकम् || चतुरस्रे नागवल्लीदले कृत्वास्य मध्यतः || वकारमध्यसाध्याख्यां लिखित्वा मनुमध्यतः || ३७९ ||
कामराधः स्थितो रेफस्तदधश्चतुरस्रकम् || लिखेत्तस्य चतुष्कोणे ठकारं बिन्दुभूषितम् || ३८० ||
विलिख्य स्थापितप्राणं मूलमन्त्राभिमन्त्रितम् || अष्टोत्तरसहस्रेण शिरोरोगी प्रभक्षयेत् || ३८१ ||
शिरोरोगविनिर्मुक्तो यावज्जन्म भवेत्सुखी || सरेफेण ककारेण कण्ठे साध्यस्य बन्धयेत् || ३८२ ||
वक्षःस्थलं ककारेण वामं चापि मकारतः || दक्षांसं रेफतो वामं तथैव च वकारतः || ३८३ ||
ठौकारेण मुखं नाभिं डकारेण प्रबन्धयेत् || वक्षो बिन्द्वर्धचन्द्राभ्यां बद्ध्वा कर्षन्स्मरेद्धिया || मरणान्तं स वश्यस्स्यादचिरान्नात्र संशयः || ३८४ ||
बन्धुजीवस्य पुष्पेण त्रिकोणं रचयेल्लिखेत् || तत्पुष्पेण च तद्बीजं चन्दनागुरुकुंकुमैः || ३८५ ||
अस्मिन्संस्थाप्य तत्रैव पूजयित्वा हुनेच्च तैः || अष्टोत्तरशतं तस्य सम्पातं पातयेत्ततः || ३८६ ||
त्रिलोहं मुष्टिकायां तु पुनस्तनभिमन्त्रयेत् || अष्टोत्तरसहस्रेण तं करे धारयेन्नृपः || ३८७ ||
जयेत्स युधि भूपालान्दुर्जयान्प्रधनेपि च || विषवेतालभूतादिदुरितैर्बाध्यते न च || ३८८ ||
पञ्चविंशत्सुवर्णस्य रजतस्य तु षोडश || भागा दशैव ताम्रस्य त्रिलोहेत्र प्रकीर्त्तिताः || ३८९ ||
अथान्यत्सम्प्रवक्ष्यामि मुनिभिर्युदुपासितम् || अन्त्यसप्तमवेदाक्षिवर्णषष्ठस्वरान्वितम् || ३९० ||
बिन्दुयुक्तं भवेत्कूटं मुन्याद्याः पूर्ववन्मताः || षड्दीर्घभाजा बीजेन षडङ्गविधिरीरितः || ३९१ ||
अंगुल्यादिकरान्तं च करन्यासं ततश्चरेत् || मूलाद्यन्तं तु भूकूटं कनिष्ठायां पुनर्न्यसेत् || ३९२ ||
ततश्चत्वारि बीजानि तथैवानामिकादिषु || क्षकारं मूलबीजं तु भसहाभिसमन्वितम् || ३९३ ||
चत्वार्ययेतानि बीजानि क्रमात्तेषां तु देवताः || प्. ७४१)जयाख्या विजयाख्या च ह्यजिता च पराजिता || ३९४ ||
पादान्मूर्द्धावधि न्यस्येन्मुष्टिकामूलमन्त्रकम् || मूर्द्धादिपादपर्ययन्तं तलाभ्यां व्यापकं न्यसेत् || ३९५ ||
षडङ्गानि पुनर्न्यस्य देवं देवीं च पूजयेत् || शिरोवदनहृन्नाभिगुदेष्वेवं क्रमान्न्यसेत् || ३९६ ||
ध्यायेत्सूर्ययप्रतीकाशं प्रतिवक्त्रं त्रिलोचनम् || चन्द्रार्धालंकृतं हस्तैश्चतुर्भिर्दधतं क्रमात् || सृणिं पाशं कपालं च खट्वाङ्गं रत्नभूषितम् || ३९७ ||
रक्ताङ्गं रक्ताभरणांशुकं चिपिटनासिकम् || शैवपीठे यजेद्देवं वक्ष्यमाणेन चात्मना || ३९८ ||
नपुंसकस्वरैर्विद्वाननुलोमविलोमगैः || धर्मादिकैरधर्म्माद्यैः पादगात्राणि कल्पयेत् || ३९९ ||
इकारेण यजेद्देवीतत्त्वरूपगुणानपि || चतुर्थपञ्चमाभ्यान्तु मायाविद्यामयो भवेत् || ४०० ||
अत ऊर्ध्वं च पीठस्य जकारेण ततोम्बुजम् || सन्ध्यक्षरैश्चतुर्दिषु स्थिता वामादिका यजेत् || ४०१ ||
वामा ज्येष्ठा च रौद्रीच्छा ज्वालामालाविराजिता || इत्थं सङ्कल्पिते पीठे तुम्बुरुं तत्र पूजयेत् || ४०२ ||
चतुर्द्वारसमायुक्तचतुरस्रत्रयावृते || अष्टपत्राम्बुजेङ्गानि केशरेषु समर्चयेत् || ४०३ ||
दिक्पत्रेषु स्वबीजानि रक्ता वामादिका यजेत् || अरुणांशुकपुष्याढ्यास्ताम्बूलाकुलिताननाः || ४०४ ||
वल्लकीवादनरता मदविभ्रममन्थराः || अष्टपत्रेषु चाभ्यर्च्या देव्यो दुर्गादिकाः क्रमात् || ४०५ ||
दुर्गगा सुभगा चैव कराली मोहिनी तथा [उपलब्धपुस्तकद्वयेपि दुर्गादिचतुर्देव्यर्चनमेवास्ति चतुर्देवीपूजनोनत्वेन पाठविच्छेदोनुमीयते || पूर्वत्राष्टदलेषु तत्पूजनवर्णनात् ||] || बद्धाञ्जलिपुटाः किञ्चिदानम्रवदनाम्बुजाः || ४०६ ||
देवीसदृशभूषाढ्यास्तद्बीजानि सबिन्दवः || शषसहास्तु तद्बाह्ये यजेद्वीथीद्वये मनुम् || ४०७ ||
लोकेश्वरांस्तदस्त्राणि चेत्थं पूजाक्रमः स्मृतः || लक्षमेकं जपेन्मन्त्रं दशांशं तु हुनेद्घृतैः || ४०८ ||
तर्प्पणादि ततः कृत्वा प्रयोगानाचरेत्ततः || युगवह्निपुटान्तस्थं बीजं स्मृत्वा सहस्रकम् || अष्टोत्तरं जपेद्वाराज्ज्वरो नश्येन्न संशयः || कुपितस्य हृदम्भोजे स्मृत्वा बीजमिदं जपेत् || ४०९ ||
अष्टोत्तरसहस्रं तु तत्कोपो नश्यति ध्रुवम् || एतम्मन्त्रं जपित्वा तु प्रातः काले पिबेज्जलम् ||
प्. ७४२)हृद्रोगास्तस्य नश्यन्ति सर्वे विष्टम्भकादयः || ४१० ||
मण्डलं नवनाभाख्यं कृत्वा संस्थापयेद्घटम् || पुत्रिणी कन्यकामाता भवेदत्र तु का कथा || ४११ ||
राजाभिषेके विजयी विप्रो वेदविदांवरः || भूतप्रेतादिकाः कृत्या रोगा नश्यन्ति तत्क्षणात् || श्रीतुम्बुरुशिवस्यायं मन्त्रः सर्वार्थसिद्धिदः || ४१२ ||
अथातो दक्षिणामूर्त्तेर्नवार्णो मन्त्र उच्यते || प्रणवाद्यरमाभ्यां [ओं श्रींनमः शिवाय ओंश्रीं इति नवाक्षरमन्त्रः |
] तु सम्पुटो नववर्णकः || ४१३ ||
भोत्पञ्चाक्षरो मन्त्रो विराट् छन्दो मुनिः शुकः || दक्षिणामूर्तिरुद्रोस्य देवता समुदीरितः || ४१४ ||
श्रींपूर्वपञ्चवर्णैश्च [ओं श्रीं-आं हृद्रयाय नमः, ओं श्रीं ईं शिरसे स्वाहा, ओं श्रीं ऊं शिखायै वषट्, ओं श्रीं-ऐं कवचाय हुम्, ओंश्रीं-औं नेत्रत्रयाय वौषट्, ओं श्रीं अः अस्त्रायफट् || एवमङ्गुष्ठादिन्यासोपि |
] बिन्दुयुक्तैर्ध्रुवादिकैः || दीर्घस्वरैः षडङ्गानि ततोर्णन्यासमाचरेत् || दृक्कर्णनासिकाद्वन्द्वे मुखे लिङ्गे गुदे पुनः || ४१५ ||
पुनर्वर्णान्न्यसेच्छीर्षे ललाटे दृशि घोणके || मुखे हृद्युदरे जानौ पादे चायं द्वितीयकः || सृष्टिन्यासं ततः कुर्यात्तृतीयं भुजयोः क्रमात् || ४१६ ||
पादमूले च तन्मध्ये पादान्ते दक्षवामयोः || सर्वांगुलीषु विन्यस्य मूलेन व्यापकं चरेत् || ४१७ ||
स्थितिन्यासं ततः कुर्ययाच्चतुर्धा स निगद्यते || दक्षपार्श्वे वामपार्श्वे पृष्ठे च जठरे हृदि || कण्ठे दक्षे बाहुमूले न्यसेत्ककुदि चान्तरे || ४१८ ||
बाहुमूले प्रथमके न्यासं वक्ष्ये द्वितीयकम् || शीर्षे ललाटे नेत्रे च वामे दक्षे च कर्णयोः || नासामुखे तृतीयं तु कण्ठहृन्नाभिषु न्यसेत् || ४१९ ||
दक्षिणे च तथा वामे बाहुमूले च पार्श्वयोः || कटेश्च भागद्वितये चतुर्थं कथयाम्यथ || ४२० ||
बाहुमूले च तन्मध्ये वामाङ्गुल्यग्रदक्षिणे || विन्यसेत्प्रथमं वर्णं द्वितीयार्णं ततो न्यसेत् || ४२१ ||
आबाहूदक्पादमूलतत्सन्ध्यंगुलिकाग्रके || तृतीयं विन्यसेद्वर्णं चांगुलीनां च सन्धिषु || ४२२ ||
चतुर्थाद्यास्तथा वर्णा वामदक्षिणहस्तयोः || कनिष्ठाद्यंगुलीनां च न्यसेत्सन्धित्रिके त्रिके || ४२३ ||
ततश्च व्यापकं कृत्वा संहारन्यासमाचरेत् || वामपादतले पृष्ठे वामदक्षिणपार्श्वयोः || ४२४ ||
प्. ७४३)तेषां च समुदायेपि जङ्घायामूरुक द्वये || तथा दक्षिणपादे च क्रमादर्णानिमान्न्यसेत् || ४२५ ||
एवं च दक्षिणे पादे द्वितीयो न्यास उच्यते || वामे करतले पृष्ठे तथा जानुनि दक्षिणे || ४२६ ||
तत्समूहे तथा नाभौ हृदयेथ पुनर्न्यसेत् || वामदक्षिणकट्यां च तृतीयो वै प्रकीर्तितः || एवं दक्षिणहस्ते च चतुर्थः परिकीर्तितः || ४२७ ||
वामदक्षिणकट्यां तु स्तनान्तं वर्णयुग्मकम् || स्तनाभ्यां हृदयाभ्यां च न्यसेद्वर्णं तृतीयकम् || ४२८ ||
हृदयान्मस्तकान्तं च चतुर्थं वर्णमादिशेत् || मस्तकस्य चतुर्दिक्षु चत्वारोर्णाः समीरिताः || नवमं ब्रह्मरन्ध्रे च न्यासोयं पञ्चमः स्मृतः || ४२९ ||
ततश्च व्यापकं कृत्वा सृष्टिन्यासं समाचरेत् || व्यापकं च पुनः कृत्वा स्थितिन्यासं समाचरेत् || ४३० ||
पुनश्च व्यापकं कृत्वा पञ्च शान्त्यादिकान्न्यसेत् || मूर्द्धास्यहृद्गुह्यपादे पुनस्तानेव विन्यसेत् || ४३१ ||
ऊर्ध्वप्रागादिकास्येषु पुनर्व्यापकमाचरेत् || पुनर्मुन्यादिकं न्यस्य षडङ्गानि ततश्चरेत् || ४३२ ||
ततो ध्यायेद्योनिलिङ्गं दक्षिणामूर्तिविग्रहम् || शतयोजनकोच्छ्रायं पञ्चसप्तति विस्तृतम् || ४३३ ||
वटवृक्षमनुस्मृत्य तदधस्ताद्विचिन्तयेत् || मण्डपं रुचिरं तद्वत्सहस्रस्तम्भसंयुतम् || ४३४ ||
चतुस्तम्भयुतं तस्य मध्ये सिंहासनं शुभम् || तत्रासीनं महादेवं दक्षिणामूर्त्तिविग्रहम् || ४३५ ||
शुद्धस्फटिकसङ्काशं शशिखण्डविभूषितम् || व्याघ्रचर्म्मधरं शान्तं जटामुकुटमण्डितम् || ४३६ ||
मुखपंकरुहोल्लासं सोमसूर्ययाग्निलोचनम् || मुद्रापरश्वधमृगान्बिभ्राणं बाहुभिस्त्रिभिः || ४३७ ||
अङ्गाष्टके दधानं तु रामबीजं शुशोभनम् || व्याकुर्वन्तं समस्तानि ब्रह्मतन्त्राणि सादरम् || ४३८ ||
धृतपंकजहस्तं च सर्वमोहप्रणाशनम् || शुकादिमुनिमुख्यैस्तु पुस्तकोज्ज्वलपाणिभिः || ४३९ ||
उमयेन्दिरया वाचा वाग्देव्या चापि वामतः || ब्रह्माण्या पद्मनाभेन चानन्देन च संवृतम् || ४४० ||
वेदैश्चाङ्गैश्च वेदान्तैर्विदिशासु च वेष्टितम् || मीमांसाधर्म्म शास्त्राभ्यां दिशि प्राच्यामुपासितम् || ४४१ ||
इतिहासपुराणाभ्यां यमाशायां तु पश्चिमे || साङ्ख्यपातञ्जलाभ्यां तु सौम्याशायामुपासितम् || ४४२ ||
प्. ७४४)त्रयस्त्रिंशद्भिरिन्द्राद्यैर्देवैः संवेष्टितं प्रभुम् || ४४३ ||
यावन्तो वैश्वदेवस्य नीवीसम्बन्धिनः सुराः || ४४४ ||
त्रीणि चैव सहस्राणि षष्ट्यग्राणि शतानि च || तावद्भिर्विविधैः साक्षाद्गन्धर्वाद्यैश्च संयुतम् || ४४५ ||
परभूतं महादेवं दक्षिणामूर्त्तिमादरात् || भावयेद्योपि सद्भावं सर्वज्ञश्च भवेद्ध्रुवम् || ४४६ ||
अस्य पूजाप्रयोगादि द्वात्रिंशार्णसमं मतम् || पञ्चलक्षं पुरश्चर्यया होमो द्वात्रिंशदर्णवत् || अष्टोत्तरशतं नित्यं जपेत्पुष्पाञ्जलिस्तथा || ४४७ ||
अथान्यं सम्प्रवक्ष्यामि मन्त्रं द्वात्रिंशदक्षरम् || सर्वं पूर्ववदेवं स्याद्विशेषो ज्ञानदस्त्वयः || ४४८ ||
अज्ञानेन्धनदीप्ताय ज्ञानाग्निज्वालरूपिणे || आनन्दाघहर प्रीत सम्यज्ज्ञानं प्रयच्छ मे || ४४९ ||
खड्गरावणमन्त्रोथ कथ्यते तन्त्रगोपितम् || तारो [ओं नमो भगवते पशुपतये ओं नमो भूताधिपतये ओं नमो रुद्रायखङ्गरावण ललं विहर विहर सर सर नृत्य नृत्य व्यसनं भस्मार्चितशरीराय घण्टाकपालमालाधराय व्याघ्रचर्मपरिधानाय शशांककृतशेखराय कृष्णसर्प्पयज्ञोपवीतिने चलचल बलबल अतिर्वीतकपालिने हनहन भूतान्नाशय नाशय मण्डलाय फट्फट् रुद्रांकुशेन शमयशमय प्रवेशय प्रवेशय आवेणय आवेणय रक्षासि धराधिपतिः रुद्रो ज्ञापयति स्वाहा |
] नमो भगवते ङेन्तः पशुपतिर्ध्रुवः || ४५० ||
हृद्भूताधिपतिर्ङेन्त ओं हृद्रुद्राय चोच्चरेत् || खड्गरावण लंलं च विहरद्वितयं सर || ४५१ ||
सर नृत्यद्वयं पश्चाद्व्यसनं पदमुच्चरेत् || भस्मार्चितशरीराय ततो घण्टापदं वदेत् || ४५२ ||
कपालमालाधराय व्याघ्रचर्मपदं ततः || परिधानायाथ ङेन्तः शशांककृतशेखरः || ४५३ ||
कृष्णसर्प्पपदं प्रोच्य वदेद्यज्ञोपवीतिने || चलद्वयं बल द्वेधा अतिवर्तिकपालिने || ४५४ ||
जहिद्वयं वदेद्भूतान्नाशयद्वितयं ततः || ४५५ ||
मण्डलेति पदान्ते तु मध्ये फड्द्वितयन्ततः || ४५६ ||
रुद्रां कुशेन शमय प्रवेशययुगं वदेत् || द्विरावेणय रक्षांसि धाराधिपति संवदेत् || ४५७ ||
रुद्रो ज्ञापयति स्वाहा मन्त्रोयं खड्गरावणः || रावणोस्यामितं छन्दो देवता खड्गरावणः || ४५८ ||
षड्दीर्घबिन्दुयुक्तेन खकारेण षडङ्गकम् || सद्योजातादिकान्देहे चेशानादीन्मुखेषु च || ४५९ ||
रक्ताम्बरं रक्तवर्णं चन्द्रमौलिं त्रिलोचनम् || पञ्चाननं करैर्घण्टां कपालांकुशमस्तकम् || ४६० ||
प्. ७४५)कृपाणं खेटखट्वाङ्गौ त्रिशूलं डमरुं करैः || दधानमभयं चापि ध्यायेत्पञ्चाननं शिवम् || ४६१ ||
भताधिपतये स्वाहा पूजामन्त्रोयमीरितः || पञ्चाक्षरोदिते पीठे पूजयेत्खड्गरावणम् || ४६२ ||
मूलेन मूर्त्तिं संकल्प्य तच्छान्तं मन्त्रबिन्दुमत् || अङ्गानि दलमूलेषु द्वितीयेष्टदले यजेत् || ४६३ ||
श्यामां द्वितीयां बलिनीं तृतीयां कृष्णपिङ्गलाम् || फाल्गुनीं झिण्टिरिल्लीं च पञ्चमीं मन्त्रमालिकाम् || ४६४ ||
सप्तमा खड्गिनीं पश्चाच्चन्द्राङ्कितजटामिमाः || पूर्वपत्रादिसव्येन खड्गरावणवल्लभाः || ४६५ ||
ऐन्द्रीं कौमारिकां ब्राह्मीं वाराहीं वैष्णवीं तथा || वैनायकीं च चामुण्डां माहेशीं दिक्षु पूजयेत् || ४६६ ||
द्वारपालान्यजेद्दिक्षु द्वाद्वा प्रागादिदेशतः || रौद्रपिङ्गलनामानौ श्मशानानलभीषणौ || ४६७ ||
दृढकर्णं भृङ्गरीटिमुदगामर्दकं यजेत् || महाकालं च केशेषु कुम्भकर्णमशेषकम् || ४६८ ||
भल्लाटं जानुहारं च भूपुरद्वयवीथिषु || इन्द्रादिकांस्तदस्त्राणि बाह्ये भूतबलिं हरेत् || ४६९ ||
अयुतद्वितयं मन्त्रं जपित्वा तद्दशांशतः || पायसेन घृताक्तेन जुहुयात्तस्य सिद्धये || ४७० ||
इत्थं सिद्धमनुर्मन्त्री कृत्याग्रहमपोहयेत् || आदेशं तस्य कुर्वन्ति भूता भीता महात्मनः || मन्त्रेणानेन सदृशो नान्यो भूतप्रमर्दकः || ४७१ ||
अथ प्रवक्ष्ये रुद्रस्य मृतसञ्जीविनीमनुम् || प्रणवं [ओं भूर्भुवः स्वः हौं ओं जूंसः त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् || उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ओंजूंसः हौं भूर्भुवः स्वरोम् |
] व्याहृतीस्तिस्रः प्रासादं मृत्युजिन्मनुम् || त्रियम्बकं मृत्युजितं प्रासादं व्याहृतित्रयम् || ४७२ ||
प्रणवं चोच्चरेदेष मृतसञ्जीविनीमनुः || वशिष्ठोस्य मुनिश्छन्दोनुष्टुबुद्रोस्य देवता मृत्युञ्जयाख्यः प्रणवो बीजं शक्तिस्तु हौं मतः || तारव्याहृतिमन्त्रांघ्रिचतुष्कोणांगुलीमुखे || ४७३ ||
न्यासं कृत्वा षडङ्गानि तत्र कृत्ये समाचरेत् || त्रियम्बकमनोर्न्यासान्पूर्वोक्तानपि संचरेत् || ४७४ ||
अवैदिकानां वक्ष्येहं न्यासं मन्त्रविनिर्णयम् || तारो [ओं नमो भगवते त्र्यम्बकाय शूलपाणये रुद्रायामृतमूर्तये मांजीवय चन्द्रजटिल त्रिपुरान्तकाय हंह्रीं रुद्राय ऋग्यजुःसामरूपाय रुद्रायाग्नित्रितयाय ज्वलज्वल प्रज्वलप्रज्वल मां रक्षरक्ष अघोरास्त्राय हुंफट्स्वाहा |
] नमो भगवते त्र्यम्बकाय ततो वदेत् || ४७५ ||
प्. ७४६)शूलपाणिश्च रुद्रश्च ङेन्तश्चामृतमूर्त्तये || मा जीवय पदस्यान्ते स्याच्चन्द्रजटिलं पदम् || ४७६ ||
त्रिपुरान्तकाय हंह्रीं ङेन्तं रुद्रपदं वदेत् || ऋग्यजुस्सामरूपाय रुद्रायाग्नित्रयाय च || ४७७ ||
ज्वलद्वन्द्वं प्रज्वलद्विर्मां रक्षयुगलं वदेत् || आघोरास्त्राय हुंफट् च स्वाहान्तोब्ध्यष्टवर्णकः || ४७८ ||
तारो नमो भगवते ततो मन्त्राक्षराणि तु || स्वाहान्तमङ्गत्रितये कवचानि च फट् त्रिषु || ४७९ ||
मन्त्राक्षराणि विन्यस्य तत्संङ्ख्येयं क्रमात्स्मृता || नृपार्केषु गजस्थाणुदन्तसङ्ख्याक्रमेण च || ४८० ||
व्याहृतित्रयमुच्चार्यय चास्त्राय फडिदं वदेत् || अयं दिग्बन्धमन्त्रः स्याद्ध्यानमस्य निरूप्यते || ४८१ ||
ऊर्ध्वं विधोर्मण्डलस्य बद्धपद्मासनं विभुम् || स्रवत्पीयूषबिन्दोश्च कलाध्रं चन्द्रसुप्रभम् || ४८२ ||
योगमुद्राधरं द्वाभ्यां घटं चामृतपूरितम् || सोमसूर्ययाग्निनेत्रं च बद्धपिङ्गजटाधरम् || ४८३ ||
व्याघ्रचर्माम्बरधरं नानाभरणभूषितम् || भस्मानुलेपनं भक्तकृपाकरमनुस्मरेत् || ४८४ ||
त्रियम्बकस्य वेदोक्तपीठे सम्पूजयेच्छिवम् || चत्वारिंशत्सहस्राणि पौरश्चरणिको जपः || ४८५ ||
प्रोक्तद्रव्यैस्तद्दशांशो होमःशेषं तु पूर्ववत् || विशेषेण तर्प्पणं तु शीघ्राभीष्टफलप्रदम् || ४८६ ||
रूपत्रयं यथेत्युक्तं जले ध्यात्वा महेश्वरम् || सम्पूज्य जुहुयात्तत्र मृत्युरोगापनुत्तये || प्रयोगाश्चापि सिद्ध्यन्ति पुरामृत्युञ्जयोदिताः || ४८७ ||
अथातः सम्प्रवक्ष्यामि रुद्रमन्त्रं दशाक्षरम् || तारो नमो भगवते रुद्रायेति प्रकीर्त्तितः || ४८८ ||
बौद्धायनो मुनिः पंक्तिश्छन्दो रुद्रोस्य देवता || पृथक्पदैः समस्तेन पञ्चाङ्गविधिरीरितः || ४८९ ||
मस्तके चापि नासायां ललाटे च मुखे गले || हृदये दक्षिणे हस्ते वामे नाभ्यां च पादयोः || ४९० ||
मन्त्रवर्णान्प्रविन्यस्य ध्यानपूजाजपादिकाः || प्रयोगाश्चात्र विज्ञेयाः पञ्चार्णोक्ता यथा पुरा || ४९१ ||
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते शिवमंत्रकथनं नामैकत्रिंशः प्रकाशः || ३१ ||

Prakāśa 32 – Mantras für Bhairava und weitere Gottheiten
प्. ७४७)श्रीशिव उवाच ||
मम भैरवरूपस्य मन्त्राञ्च्छृण्वन्तु देवताः || तामसान्राजसांश्चापि सात्त्विकान्सिद्धिदायकान् || १ ||
सार्धवर्षाष्टके ब्रह्मण्यायाते त्वथ देवताः || अहङ्कारो महानासीत्तत्राविद्याप्रभावतः || २ ||
तदा तस्मिन्कलियुगे शिश्नोदरपरायणाः || न वेदः श्रूयते क्वापि स्मृतिज्ञानं न विद्यते || ३ ||
भक्ष्यं पानं मैथुनं च देशेदेशे पुरेपुरे || न कश्चिन्मन्यते विष्णुं गणेशं न रविं शिवम् || ४ ||
मत्वा सर्वे जगच्छाक्तं भगपूजां प्रकुर्वते || ४ ||
तदा बटुकरूपेण मया पृष्टः पितामहः || ब्रह्मन्नादिश्यतां धर्मो वयं येन तरेमहि || ५ ||
तदा तु ब्रह्मणा प्रोक्तं ममोर्ध्वमुखनिर्गतः || आगमः पञ्चमो वेदो भुक्तिमुक्तिप्रदायकः || ६ ||
तदाद्ये कलिसंङ्घे तु मया प्रोक्तः पितामहः || ब्रह्मन्निदं त्वया वाच्यं सृष्टिकर्त्ता सदाशिवः || ७ ||
तदा पितामहेनोक्तं कर्ताहं चापि रक्षकः || ममोर्ध्वमुखतो जातो मन्यतां वेद आगमः || ८ ||
एतदाचारनिष्ठा ये यास्यन्ति परमां गतिम् || बटुस्त्वं वेत्सि नो सौख्यं भक्ष्यपानाङ्गनाभवम् || ९ ||
इति श्रुत्वा ब्रह्मवचो धर्म्मसंस्थापनाय तु || युगत्रये तदाजातः क्रोधसंरक्तलोचनः || १० ||
अवज्ञां वीक्ष्य च मया प्रखरेण नखेन तु || शिरो निपातितं धातुः करांगुल्या धरातले || ११ ||
तन्मुखात्पञ्चमो वेदो मम देहे लयं गतः || तदा विप्रैर्धिक्कृतोहं ससुरासुरमानुषैः || लग्ना च ब्रह्महत्या मे पृष्ठतश्चातिभीषणा || १२ ||
तदा तु विष्णुना प्रोक्तो भीषणत्वाच्च भैरवः || भव त्वं बटुकाख्यश्च सेव्यश्चागममार्गतः || १३ ||
सात्त्विकस्त्वं काशिकायां मुक्तिमार्गप्रदो भव || यज्ञादिकर्म्मरक्षाकृद्राजसस्त्वं दिवप्रदः || १४ ||
मारणोच्चाटकर्ता त्वं तामसो बटुको भव || तस्मात्समर्चयेदेनं पञ्चाम्नायोक्तवर्त्मना || तन्मन्त्रान्सम्प्रवक्ष्यामि साधकाभीष्टदायकान् || १५ ||
मायां च वटुकं ङेन्तमापदोद्धारणाय च || कुरुद्वयं च बटुकाय ह्रीं प्रकृतिवर्णकः || बृहदारण्यकमुनिश्छन्दोनुष्टुप् च देवता || १६ ||
भैरवो ह्रींबीजशक्तिरांकीलकमुदाहृतम् || १७ ||
अथ न्यासान्प्रवक्ष्यामि भैरवस्य तु यैर्विना || न जायते मनोः सिद्धिस्तत्रादौ वर्णमातृकः || १८ ||
विसर्गमातृकान्यासो द्वितीयः प्रागुदाहृतः || जकारादिछकारान्तान्न्यस्येद्वर्णांस्तृतीयकः || १९ ||
प्. ७४८)कलामातृकान्यासश्च चतुर्थस्तदनन्तरम् || पञ्चमो न्यास उदितः श्रीबीजादिकमातृकः || २० ||
केवलो मातृकान्यासः षष्ठः स्यात्तदनन्तरम् || वामहस्तांगुलीमूलमारभ्यामणिबन्धकम् || श्रीबीजाद्यान्न्यसेद्वर्णानादिक्षान्तांस्तु सप्तमः || २१ ||
श्रीबीजान्तान्क्षकाराद्यानकारान्तान्विलोमतः || न्यसेद्वर्णान्मातृकायाः स्थानेयं त्वष्टमः स्मृतः || कामबीजादिमातॄणां न्यासस्तु नवमः स्मृतः || २२ ||
मुन्यादित्रितयन्यासे गुह्ये ह्रींबीजमादिशेत् || ह्रींशक्तिं पादयोर्नाभौ आं कीलं दशमस्त्वयम् || २३ ||
ह्रां वामीशानाय नमो न्यसेदंगुष्ठयोस्तथा || ह्रींवीं तत्पुरुषायेति नमस्तर्जनिकाद्वये || २४ ||
ह्रूं वूमघोराय नमो विन्यसेन्मध्ययोरपि || २५ ||
ह्रैंवैं च वामदेवाय नमश्चानामयोर्न्यसेत् || ह्रौंवौं च सद्योजाताय नमोन्यासः कनिष्ठयोः || २६ ||
अयमेकादशो न्यासस्त्वेवमेव प्रविन्यसेत् || के मुखे हृदये गुह्ये पादयोर्द्वादशस्त्वयम् || २७ ||
एवमेव न्यसेत्पश्चादूर्ध्ववक्त्राय वै नमः || इति प्रयोगाः प्रागादिवक्त्रेष्वेवं त्रयोदशः || २८ ||
षड् दीर्घस्य हृदि नाभ्यां ह्रीं वा तारप्रपूर्वकम् || जातियुक्तषडङ्गं च न्यसेन्न्यासश्चतुर्दशः || २९ ||
चतुर्दशस्वरोपेतैराद्यन्ताद्यैः सबिन्दुभिः || प्रेतबीजमिदं तेन न्यासस्तिथिमितस्स्मृतः || ३० ||
आद्यन्तप्रणवानाद्यांश्चतुर्थस्वरसंयुतान् || सबिन्दून्विन्यसेन्मूर्ध्नि बाह्वोश्चैव तु वक्षसि || ३१ ||
नाभौ हस्तांगुलीमध्ये तथा पादांगुलीषु च || स्थानषट्के क्रमान्न्यस्य न्यासोयं स्यात्तु षोडशः || ३२ ||
एकादशचतुर्थौ तु शक्रस्वरसबिन्दुकौ || ध्यानबीजमिदं प्रोक्तं ब्रह्मरन्ध्रे मुखे दृशोः || ३३ ||
ग्रीवानासा कपोलेषु चिबुके ब्रह्मरन्ध्रके || पुनर्न्यसेदयं न्यासः प्रोक्तः सप्तदशः सुराः || ३४ ||
मायाबीजं सप्तपञ्चप्रथमास्तारसंयुताः || पादयोर्हस्तयोर्नेत्रश्रोत्रकुक्षीन्द्रियेषु च || स्थानषट्के प्रविन्यस्य न्यासश्चाष्टादशः स्मतः || ३५ ||
श्रीबीजं चिबुके पादे गले पादद्वये पुनः || हृदये पादयोर्नाभौ पादयोश्च प्रविन्यसेत् || पञ्चस्थानेष्वष्टधायं न्यास एकोनविंशकः || ३६ ||
त्रिंशत्तमचतुर्थौ च षष्ठस्वरसबिन्दुकौ || घृणाबीजमिदं न्यस्य हृदये नाभिमण्डले || ३७ ||
हृदये पादयोर्न्यस्य हृदये दक्षकुक्षिके || हृदये वामपादे च हृदये दक्षनेत्रके || ३८ ||
प्. ७४९)हृदये वामनेत्रे च हृदये दक्षघोणके || हृदये वामघोणे च हृदये दक्षकर्णके || हृदये वामकर्णे च हृदये विंशकस्त्वयम् || ३९ ||
त्रयोदशचतुर्थौ तु षष्ठस्वरसबिन्दुकौ || घण्टाबीजमिदं न्यस्य घण्टिकानाभिघण्टिषु || ४० ||
हृत्पादे हृत्कटौ शीर्षे मस्तके च कटौ स्तने || गुल्फे स्तने तु स्यादेकविंशकोयं सुसम्मतः || ४१ ||
प्रकृत्यक्षिसमुद्रार्णाः षष्ठस्वरसबिन्दुकाः || ख्यातिबीजमिदं मूर्ध्नि स्फिग्जिह्वानाभिकण्ठके || ४२ ||
हृज्जङ्घानेत्रकर्णेषु बाहु युग्मे स्तनद्वये || क्रमेण विन्यसेन्न्यासो द्वाविंशोयं प्रकीर्तितः || ४३ ||
प्रणवो मूलबीजं स्याद्धृदये पादयोर्न्यसेत् || हस्तयोः कर्णयोर्नासाद्वयेऽयं तु त्रिविंशकः || ४४ ||
अर्कवेदेष्वन्त्यपूर्ववर्णांस्तुर्ययस्वरान्वितान् || नादबिन्दुयुतान्बीजमासुर्ययाः परिकीर्त्तितम् || ४५ ||
मुखे नेत्रद्वये कर्णद्वये चैव कपोलयोः || गण्डयोः कण्ठदेशे च स्तनयोर्हृदि पादयोः || ४६ ||
चिबुके मस्तके बाह्वोस्स्कन्धयोर्दन्तमूलयोः || ब्रह्मरन्ध्रे तथाधारे भ्रूमध्येयं जिनोन्मितः || ४७ ||
मर्म्मन्यासानतो वक्ष्ये त्रिदेवस्यातिदुर्ल्लभान् || दिक्सप्तपञ्चपञ्चागवेदप्रलयसागराः || ४८ ||
एकत्रिंशत्कृताद्यन्ताश्चतुर्थस्वरसंयुताः || बिन्दुनादसमायुक्ताः कूटमाकूटनामकम् || न्यसेच्छीर्षे गण्डयोश्च मुखेयं तत्त्वसम्मितः || ४९ ||
जिनत्रिंशाब्धिबाणाक्षिवेदशैलमितायुताः || बिन्दुतुर्ययस्वराभ्यां तु कालबीजमुदाहृतम् || ५० ||
नेत्रयोः कर्णयोर्नाभौ लिङ्गे चापि गुदे न्यसेत् || षड्विंशोयं समाख्यातः सप्तविंशोथ कथ्यते || ५१ ||
संवर्तवेदवेदेन्द्राः प्रथमाभ्यां च संयुताः || तुर्ययस्वरेण बिन्द्वाढ्या विद्याबीजमुदाहृतम् || ५२ ||
कपोलयोर्ब्रह्मरन्ध्रे दंतपंक्त्योश्च विन्यसेत् || अष्टाविंशमथो वक्ष्ये शृङ्खलान्यासमद्भुतम् || ५३ ||
अन्त्यान्ध्याद्यादिमेषूनत्रिंशद्बाणान्तकास्तथा || तुर्ययस्वरैस्तथैकत्रिंशन्मिताब्धित्रिसागरैः || ५४ ||
त्रिपञ्चरामषष्ठाढ्यं नादबिन्दुविभूषितम् || महापरोक्षं तत्कूटमङ्गेष्वेषु प्रविन्यसेत् || ५५ ||
मस्तके नेत्रयोः श्रुत्योः कपोलद्वयगण्डयोः || चिबुके च गले स्कन्धद्वये च स्तनयोर्हृदि || ५६ ||
कुक्षिद्वये तथा नाभौ जंघयोव्यर्ञ्जने तथा || अण्डद्वये न्यसेत्पश्चान्मूलाधारे च गुल्फयोः || ५७ ||
पादयोश्च पृथङ्न्यस्य पादयोरंगुलीषु च || प्. ७५०)ब्रह्मरन्ध्रे पुनश्चांङ्घ्र्योः पादयोरंगुलीषु च || ५८ ||
ब्रह्मरन्ध्रे पुनर्मूलाधारे च ब्रह्मरन्ध्रके || ओंकारमादौ संयोज्य मातृकान्यासमाचरेत् || न्यासश्चूडामणिश्चायमूनत्रिंशः प्रकीर्तितः || ५९ ||
ऊनत्रिंशाष्टधृत्यक्षिवेदान्त्याङ्कर साब्धयः || आद्येकत्रिंशवर्णास्तु सतुर्यस्वरबिन्दवः || ६० ||
एतत्सरस्वतीकूटमेतत्पूर्वास्तु मातृकाः || वाक्सिद्ध्यर्थं न्यसेद्देहे त्रिंशोयं समुदीरितः || ६१ ||
एते तु वामिनो न्यासा न्यूना हानिविधायकाः || अवामिनां त्रयो नित्याः शेषाः काम्यप्रयोगके || ६२ ||
एवं न्यस्ततनुर्ध्यायेच्छुद्धस्फटिकसंनिभम् || दीप्तमुद्रावराभीतिकिंकिणीजालनूपुरैः || ६३ ||
युतं रत्नमयैः स्मेरवदनं कुटिलालकम् || दक्षे शूलं च परशुं दधतं बटुरूपिणम् || ६४ ||
द्विभुजं संस्मेरेद्देवकार्ययार्थं सात्त्विकं द्विजः || वैष्णवस्तु चतुर्बाहुं जटामुकुटधारिणम् || ६५ ||
त्रिशूलं पाशदण्डौ च दधतं च कमण्डलुम् || मूलाद्यसद्योजातेन स्थापयेत्तदनन्तरम् || ६६ ||
समूलवामदेवेन सन्निधापनमुद्रया || मूलेन सन्निधायाथ सन्निरोधनमाचरेत् || ६७ ||
अघोरान्तेन मूलेन सन्निरोधनमुद्रया || षडङ्गैः सकलीकुर्यादमृतीकृत्य मूलतः || ६८ ||
परमीकरणं मूलात्स्वस्वमुद्राभिरेव हि || ध्यात्वा संस्थापनं कुर्ययान्मुद्राः सन्दर्शयेत्ततः || ६९ ||
लिङ्गाद्या पूर्वमुद्दिष्टा योनिमुद्रा तु तत्र या || तां दर्शयेत्तत्पुरुषमूलाभ्यां च ततो बलिम् || ७० ||
ईशानेन समूलेन कृत्वा देवं तथार्चयेत् || ततो देवाज्ञया न्यासस्थानेष्वङ्गानि पूजयेत् || ७१ ||
सद्योजातादिकान्पञ्च चांगुष्ठादिषु संयजेत् || देवस्य देहे वक्त्रेषु यजेच्चैव पुनश्च तान् || ७२ ||
व्योमाङ्गं कर्णिकायां तु पूर्वदक्षहरेषु च || पश्चिमायां देवदेहे सद्योजतादिकान्यजेत् || ७३ ||
असिताङ्गं रुरुं चण्डं क्रोधमुन्मत्तभैरवम् || कपालिनं भीषणं च संहारं च समर्चयेत् || ७४ ||
देवाग्रतोष्टपत्रेषु यजेत्कोणत्रये पुनः || देशग्रामाधिपौ स्थानाधिपतिं संयजेत्पुनः || ७५ ||
त्रिकोणे तुर्ययरेखासु मेघनादं प्रचण्डकम् || कालदूतं च षट्कोणे षडङ्गानि समर्चयेत् || ७६ ||
षट्कोणस्य बहिश्चाष्टदिक्षु देवाग्रतो यजेत् || डादिनीपुत्रकान्सर्वाञ्छाकिनापुत्रकानपि || ७७ ||
लाकिनीपुत्रकानिष्ट्वा हाकिनीपुत्रकान्यजेत् || मालिनीपुत्रकानिष्ट्वा देवीपुत्रांस्ततो यजेत् || ७८ ||
प्. ७५१)देवस्य वामभागे तु यजेदेतान्क्रमेण तु || इन्द्रेशानदिशोर्मध्य ऊर्ध्वमुख्या न्यजेत्सुतान् || ७९ ||
रक्षोजलेशयोर्मध्ये त्वधोमुख्या न्यजेत्सुतान् || एतेषामन्तरालेर्च्याः पुत्रवर्णास्त्रयोदश || ८० ||
ततश्चाष्टदलेपद्मे देवाग्रादिप्रदक्षिणम् || ब्रह्माणीतनयं माहेशीपुत्रं वैष्णवीसुतम् || ८१ ||
कौमारीन्द्राणिकापुत्रौ महालक्ष्मीसुतं तथा || वाराहीतनयं चामुण्डापुत्रं बटुकाभिधम् || ८२ ||
पूजयित्वा ततो बाह्ये पद्मस्येशाग्रतो यजेत् || भूपुरार्वागष्टदिक्षु हेतुकं त्रिपुरान्तकम् || ८३ ||
वेतालमग्निजिह्वं च कालान्ते च करालकम् || एकपादं भीमरूपं प्रागीशानान्तरे यजेत् || ८४ ||
अचलं हाटकेशं च पाशिरक्षोदिगन्तरे || चतुरस्रादिरेखायां देवाग्रादिप्रदक्षिणम् || ८५ ||
श्रीकण्ठममरेशञ्चानन्तसर्वगसूक्ष्मकौ || भारभूतं त्रिमूर्त्तिं च तिथीशं च तदग्रिमे || ८६ ||
चतुरस्रे च देवस्य दक्षिणादिप्रदक्षिणम् || स्थाण्वीश्वरं च बिल्वीशं दिगीशं भौतिकेश्वरम् || ८७ ||
सद्योजातेश्वरं चैव ग्रहेशाक्रूरकेश्वरौ || महासेनेश्वरं पश्चात्तृतीये चतुरस्रके || ८८ ||
देवस्योत्तरमारभ्य यजेदेतान्प्रदक्षिणम् || क्रोधेश्वरं च चण्डीशं कूर्म्मेशं लाङ्गलीश्वरम् || ८९ ||
दारुकेशं च मीनेशमरोषं भृगुमेव च || वामभागे तु देवस्य नकुलीशं शिवेश्वरम् || ९० ||
संवर्तेशं समभ्यर्च्य तद्बाह्ये पूजयेदिमान् || वामाग्रकोणमारभ्य प्रादक्षिण्येन कोणजान् || ९१ ||
सशक्तिकां दिव्यसिद्धां नतां दीक्षाख्ययोगिनीम् || भयश्च योगिनीपश्चात्तदन्ते सर्वयोगिनीम् || तदग्रे लोकपालांश्च पूजाविधिरितीरितः || ९२ ||
वर्णलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः || हुनेत्तिलैस्त्रिमध्वक्तैस्तर्प्पणादि ततश्चरेत् || ९३ ||
वाममार्गे द्रुतं सिद्धिः सपादं दशलक्षकम् || पुरश्चर्या तथा होमो घृतयुक्तपलाशजैः || ९४ ||
वामकौलिकमार्गेण साध्यो दुःखप्रदो मनुः || विघ्नं दुर्गां समाराध्य बलिं दत्त्वा विधानतः || ९५ ||
काम्यानि साधयेन्मन्त्री यथोक्तां सिद्धिमाप्नुयात् || वश्याय जुहुयादिक्षुशकलैर्वशयेज्जगत् || ९६ ||
जुहुयात्सर्पिषा मन्त्री यथोक्तां सिद्धिमाप्नुयात् || जुहुयात्पुत्रलाभाय प्रफुल्लैः कैरवैः सुधीः || ९७ ||
धनधान्यादिसम्पत्त्यै जुहुयात्तिलतण्डुलैः || बिल्वप्रसूनैर्जुहुयान्महतीं विन्दते श्रियम् || ९८ ||
लवणैर्मधुसम्मिश्रैर्वशयेद्वनिताजनान् || प्. ७५२)वृष्टिकामेन होतव्यं वेंतसानां समिद्वरैः || ९९ ||
अन्नेन जुहुयान्मन्त्री धनधान्यादिसम्पदे || वश्याय जुहुयान्मन्त्री मधुना दिवसत्रयम् || १०० ||
रोगोक्तौषधिहोमेन रोगा नश्यन्ति तत्क्षणात् || कृत्याद्रोहे ग्रहद्रोहे भूतापस्मारसम्भवे || १०१ ||
व्याघ्राजिने समासीनो जुहुयादयुतं तिलैः || भूतादयः पलायन्ते द्रुतं नो यान्ति तद्दिशम् || १०२ ||
कृष्णाष्टमीं समारभ्य यावत्कृष्णा चतुर्दशी || तिलैस्तण्डुलसम्मिश्रैर्मधुरत्रयलोलितैः || १०३ ||
त्रिसहस्रं प्रतिदिनं जुहुयादयुतं तिलैः || भूतादयः पलायन्ते दर्शनात्तस्य पार्वति || १०४ ||
बटुकेश्वरमभ्यर्च्य भक्ष्यभोज्यफलान्वितम् || नित्यं निवेद्य नैवेद्यं मध्यरात्रे बलिं हरेत् || १०५ ||
शाल्यन्नं सर्पिषा युक्तं लाजाश्चूर्णानि शर्कराः || गुडमिक्षुरसापूपैर्मध्वक्तैः परिमिश्रितः || १०६ ||
एवं बटुकमाराध्य देवं प्रागुक्तवर्त्मना || रक्तचन्दनपुष्पाद्यैर्बलिरेष प्रकीर्तितः || १०७ ||
एवं जपित्वा प्रयतः सहस्राण्येकविंशतिम् || समाप्तदिवसे रात्रौ पूजयित्वा हरेद्बलिम् || ततः कारयिता राजा तोषयेत्साधकं धनः || १०८ ||
विधिनानेन सन्तुष्टो बटुकेशः प्रयच्छति || तेजो बलं यशः पुत्रान्कान्तिं लक्ष्मीमरोगताम् || १०९ ||
नश्यन्ति शत्रवः सर्वे वर्द्धन्ते बन्धुबान्धवाः || भवन्ति ग्रहरोगा नो विषये तस्य भूपतेः || ११० ||
जुहुयाल्लवणैरेवायुतं च स्तम्भनेच्छया || निगडादिविमोक्षाय प्रयोगोयमुदाहृतः || १११ ||
वचाचूर्णपलञ्जप्तं गव्येनाज्येन लोडितम् || विभज्य भक्षयेद्वन्ध्या मण्डलात्पुत्रकांक्षिणी || ११२ ||
विनीतम्पुत्रमाप्नोति मेधारोग्यबलान्वितम् || आदावन्ते प्रयोगस्य बटुकाय बलिं हरेत् || ११३ ||
बलिस्तु त्रिविधः प्रोक्तः सात्त्विको राजसस्तथा || तामसश्चेति पूर्वोक्तो मांसहीनो यदा बलिः || ११४ ||
मुद्गपायससंयुक्तो मधुरत्रयलोडितः || खाद्यैः फलत्रयैर्युक्तः सात्त्विकः परिकीर्त्तितः || ११५ ||
अयं विप्रैः प्रदेयस्तु तेन तुष्यति भैरवः || एवं समांसोभूपादियोग्य उक्तस्तु राजसः || ११६ ||
रक्तमांससुरायुक्तस्सर्वैमत्स्यैः समन्वितः || बलिस्तामस आख्यातः शूद्रादीना प्रशस्यते || ११७ ||
अथातः सम्प्रवक्ष्यामि भस्मसाधनमुत्तमम् || प्. ७५३)उशीरं चन्दनं कुष्ठं घनसारं च कुंकुमम् || ११८ ||
श्वेतार्कमूलं वाराहीं लक्ष्मीं क्षीरमहीरुहम् || त्वचं बिल्वफलं मलं शोषयित्वा तु चूर्णयेत् || ११९ ||
पूर्णव्योमगृहीतेन गोमयेन विमिश्रितम् || कृत्वा पिण्डांश्च संशोष्य संस्कृते हव्यवाहने || १२० ||
मूलेन दग्ध्वा तद्भस्म शुद्धपात्रे विनिक्षिपेत् || केतकीमालतीपुष्पैर्वासयेद्भस्म शोभितम् || १२१ ||
अयुतं प्रजपेन्मन्त्रं स्पृष्ट्वा भस्म सुपूजितम् || एतदादाय दिवसे प्रातः पुण्डं करोति यः || १२२ ||
तस्य रोगाः प्रणश्यन्ति ग्रहाः सन्ति शुभप्रदाः || रिपुचौरमृगादिभ्यो भयमस्य न जायते || १२३ ||
वर्द्धन्ते सम्पदः सर्वाः पूज्यते सकलैर्जनैः || राजा वश्यो भवेत्तस्य सामात्यः सपरिच्छदः || १२४ ||
अथाभिषेकं वक्ष्यामि भूतानां विजयप्रदम् || पूर्व्वोक्ते मण्डले लिप्ते वितानध्वजशोभिते || १२५ ||
सर्वतोभद्रमालिख्य कर्णिकां तस्य पूरयेत् || अष्टद्रोणप्रमाणेन शालिभिः प्राचितैः शुभैः || १२६ ||
तदर्धांस्तण्डुलांस्तस्मिन्न्यस्य दूर्वाक्षतान्वितान् || हेमादिविहितं कुम्भं नवरत्नसमन्वितम् || १२७ ||
संस्थाप्य विमलैस्तोयैरापूर्ययास्मिन्विनिक्षिपेत् || क्षीरद्रुमप्रवालानि लक्ष्मीं दूर्वां तथैव च || १२८ ||
कर्पूरं चन्दनं बिल्वमुशीरं कुंकुमम्पुनः || कंकोलमगुरुं जातीं मल्लिकां चम्पकोत्पले || १२९ ||
एवं न्यस्य त्विमं पश्चात्पट्टसूत्रेण वेष्टयेत् || तस्मिन्नावाह्य बटुकं राजसं संप्रपूजयेत् || १३० ||
बहिरष्टसु कुम्भेषु भैरवानष्ट पूजयेत् || त्रयोदशसुकुम्भेषु त्रयोदशगणान्यजेत् || १३१ ||
बाह्ये दशसु कुम्भेषु लोकेशानर्चयेत्सुधीः || तद्बहिर्व्यस्तकुम्भेषु ||श्रीकण्ठादीन्सुरान्यजेत् || १३२ ||
पञ्चत्रिंशघटेष्वर्च्याः कादिवर्णाः स्वराः क्रमात् || इतिगन्धादिभिः सम्यक्पञ्चावरणमर्चयेत् || अयुतं प्रजपेत्स्पृष्ट्वा तान्घटान्देशिकोत्तमः || १३३ ||
सुदिने शोभने लग्ने वाचयित्वा द्विजातिभिः || स्वस्तिमङ्गलवाक्यानि विशुद्धैर्वेदपारगैः || १३४ ||
ततस्तु मञ्चमारूढं प्रणम्य बटुकेश्वरम् || जितेन्द्रियं शुद्धकायं राजानं ब्राह्मणप्रियम् || १३५ ||
आस्तिकं सत्यवचनमभिषिञ्चेत्प्रसन्नधीः || तदा स्वयं च नृपतिः प्रणिपत्य गुरुं प्रियम् ||
भूयसीं दक्षिणान्दद्यात्प्रसीदति यथा गुरुः || १३६ || प्. ७५४)राजाभिषिक्तो भवति साक्षाद्भूमिपुरन्दरः || परान्विजयते भूपान्स्तूयते सकलैर्जनैः || १३७ ||
कृताभिषेकः षण्मासं प्रतिमासम्महीपतिः || चतुरम्भोधिवलयां शास्ति सर्वां वसुन्धराम् || १३८ ||
अथातः सम्प्रवक्ष्यामि गजोष्ट्रवृषवाजिनाम् || रोगादीनां यथा शान्तिस्तत्तच्छालासु कारयेत् || १३९ ||
कुण्डं कृत्वा विधानेन होमं कृत्वा यथाविधि || पायसाज्यतिलैर्विद्वानयुतत्रितयावधि || १४० ||
ब्राह्मणान्भोजयेन्नित्यं भक्ष्यभोज्यफलादिभिः || प्राक्प्रोक्तविधिना कुम्भान्स्थापयित्वात्र देशिकः || १४१ ||
अभ्यर्च्य गन्धपुष्पाद्यैस्तज्जलैः प्रोक्षयेद्गजान् || अश्वशालामनेनैव वर्द्धन्ते ते दिनेदिने || युद्धेषु महती शक्तिर्जायते पूर्वतोधिका || १४२ ||
सर्वे रोगाः प्रणश्यन्ति कृत्याद्रोहाः परैः कृताः || अस्मात्परतरा रक्षा नास्ति तेषां महीतले || १४३ ||
अभिषिच्य महीपालं परेषां विजयोद्यतम् || उक्तेन विधिना मन्त्री यामिन्यां बलिमाहरेत् || १४४ ||
अन्यूनाङ्गमजं हत्वा राजसं प्रागुदाहृतम् || बलिप्रदानसमये रिपूणां सर्वसैन्यकम् || १४५ ||
निवेदयेद्बलिं तेन बटुकाय विशिष्टधीः || विदर्भयेच्छत्रुनाम्ना बलिमन्त्रं तथा सुधीः || १४६ ||
शत्रुपक्षस्य रुधिरं पिशितं च दिनेदिने || भक्षयेच्छ्वगणैः सार्द्धं सारमेयसमन्वितः || बलिमन्त्रोयमाख्यातः सर्वेषां विजयप्रदः || १४७ ||
अनेन बलिना हृष्टो बटुकः परसैन्यकम् || श्वगणेभ्यो विभजते सामिषं क्रुद्धमानसः || १४८ ||
एवं कृते परबलं क्षीयते नात्र संशयः || विजयश्रियमेतेन राजा प्राप्नोत्ययत्नतः || १४९ ||
अथातः सम्प्रवक्ष्यामि नानाभैरवसाधनम् || श्मशाने ये तु तिष्ठन्ति कालेकाले पुरेपुरे || १५० ||
नियमं कञ्चिदेकं यो न त्यजेद्धर्मगर्भितम् || वाममार्गादिनिरतोप्यद्वेषतरवर्त्मना || १५१ ||
हीने गुरावपूर्णे वा साधनो लोकभीतितः || स भवेद्भैरवो देवस्तस्य देशस्य शासकः || १५२ ||
तत्रत्यभूतवेताला भैरवं सेवयन्ति तम् || स्वर्गमोक्षच्युतानां स शासनं कुरुते सदा || १५३ ||
क्षीणे कर्म्मणि तस्मिंश्च गतो ग्रामे विलीयते || अन्यस्मिन्नेव बीजेन ग्रामे वसति निश्चितम् || १५४ ||
यदाम्नाये भैरवोसौ तस्य स्थानं तु तद्दिशि || प्. ७५५)तेन मार्गेण वशयेत्कार्ययार्थं भैरवञ्च तम् || १५५ ||
वाग्रमाकाममायाख्यास्मारो बीजं क्रमाद्भवेत् || पूर्वाद्यूर्ध्वांन्तकं त्वेतदाम्नायानां क्रमेण च || १५६ ||
आम्नायबीजं गामस्य बीजं भं भैरवाय च || ग्रामनाम ततः प्रोच्य पितृगेहनिवासिने || १५७ ||
नमस्तेभ्यो मनुमिमं जपेदर्णसहस्रकम् || निशि श्मशाने च बलिं तदाम्नायोक्तवर्त्मना || जपादौ च जपान्ते च नित्यं दद्यादनन्यधीः || १५८ ||
बटुकोक्तं हुनेद्द्रव्यं तर्प्पणादि ततश्चरेत् || एवं सिद्धमनुर्मन्त्री भूतानां निग्रहक्षमः || १५९ ||
तस्मिन्देशे भवेत्तस्य प्रत्यक्षीकरणं शृणु || कृतनित्यक्रियः प्रातः सोपवासो जितेन्द्रियः || १६० ||
सायं सन्ध्यादिकं कृत्वा शान्तिपाठौ विधाय च || प्रगृह्य सर्वसामग्रीं सायमुत्तरसाधकः || १६१ ||
व्रजेच्छमशानसामग्रीं शृणु सुस्थिरचेतसा || वटकाश्चणका भक्तं पायसापूपशष्कुलि || १६२ ||
कन्यकाकर्षितं सूत्रं कुंकुमेन सुरञ्जितम् || अष्टौ वितस्तिदीर्घाश्च समिधः खादिरा मताः || १६३ ||
कीलालको हस्तमात्रो गन्धपुष्पादिकं तथा || बलिद्रव्यं च पूर्वोक्तं पूर्वाम्नाये समत्स्यकम् || १६४ ||
समांसं पश्चिमाम्नाये समद्यं चोत्तरे भवेत् || ग्राममध्ये श्मशाने तदूर्ध्वाम्नाये सरक्तकम् || १६५ ||
यथायोग्यं च नैवेद्यं दद्याच्च भयवर्ज्जितः || पादप्रक्षालनं कृत्वा ततः स्मृत्वास्य देवताम् || १६६ ||
बद्धाञ्जलिरिदं वाक्यं प्रवदेत्साधकोत्तमः || अत्र श्मशाने याः काश्चिद्देवता निवसन्ति हि || ताः प्रयच्छन्तु मे सिद्धिं प्रसन्नाः सन्तु पान्तु माम् || १६७ ||
पूर्वे मांशङ्करः पातु तथाग्नेययां च शूलधृक् || कपाली दक्षिणे पातु नैरृत्ये जटिलोवतु || १६८ ||
पश्चिमे पार्वतीशस्तु वायव्यां प्रमथाधिपः || उत्तरे मुण्डमालाढ्य ईशाने वृषभध्वजः || १६९ ||
ऊर्ध्वं पातु तथा शम्भुरधस्ताद्धूलिधूसरः || अग्रतो भैरवः पातु पृष्ठतः पातुखेचरः || १७० ||
दक्षिणे भूधरः पातु वामे च पिशिताशनः || केशान्पातु विशालाक्षो मूर्द्धानञ्च मरुत्प्रियः || १७१ ||
मस्तकं पातु भृंगीशो नेत्रे पातु महामनाः || कपोलौ पातु वीरेशो गण्डौ गण्डादिमर्दनः || १७२ ||
उत्तरोष्ठं विरूपाक्षोप्यधरं यामिनीप्रियः || दन्तेषु दन्तिविध्वंसी चिबुके नृकपालयुक् || १७३ ||
प्. ७५६)कण्ठे रक्षतु मां देवो नीलकण्ठो जगद्गुरुः || दक्षस्कन्धे गिरीन्द्रेशो वामस्कन्धेरिसूदनः || १७४ ||
भुजे च दक्षिणे सर्वमन्त्रनाथः सदावतु || वामे भुजे सार्वभौमो हृदयम्पातु पाण्डुरः || १७५ ||
दक्षस्तनम्पशुपतिर्वामम्पातु महेश्वरः || उत्तरे सर्वकल्याणकारकोवतु मां सदा || १७६ ||
मनः कामप्रविध्वंसी जंघे पातु दयामयः || जानुनी पात्वजामित्रो गुल्फौ गौरीपतिः सदा || १७७ ||
पादपृष्ठं ज्ञाननिधिस्तथा पादांगुलीर्हरः || पादाधः पातु सततं व्योमकेशो जगत्प्रियः || १७८ ||
इति रक्षां समाधाय मन्त्ररक्षां समाचरेत् || ओं-ह्रां-ह्रूं-ह्रूं-हुं च पूर्वे ओं-ह्रीं-ह्रूं-ह्रीं हुताशने || १७९ ||
ओं-ह्रीं-श्रीं दक्षिणे न्यस्य ओं-ग्लूं-ग्लूं-श्लूं च नैरृते || ओं-प्रुं-म्रुं-प्रूं-स-आप्यत्येरांप्रां-यरूं-सः समीरणे || १८० ||
ओं-त्रां भैरव सौम्यायां मों-व्रुं-प्रुं चैव फट् शिवे || ओं-ग्लौं-ब्लुमूर्ध्वदेशेथो स्रां-स्रूं-स्रूं-स्रस्त्वधः स्मृतम् || १८१ ||
एवं रक्षां समाधायोत्कील्य कीलान्दिगष्टके || मध्ये महाकीलमथो दिक्पालार्चनमाचरेत् || १८२ ||
ततो मन्त्रजपं कुर्ययात्प्रार्थयेच्च पुनःपुनः || मां भैरव द्विरुच्चार्यय भयङ्करहरेति च || मां रक्षरक्ष हुं फट् च स्वाहा द्वाविंशदर्णकः || १८३ ||
पलाशभाजने माषान्कृत्वा प्राचीं व्रजेद्दिशम् || कीलस्य निकटे चन्द्रमावाह्य पूजयेत्ततः || १८४ ||
ध्यानं प्रागुक्तवत्कृत्वा तत्पुरे चतुरस्रके || मन्त्रेणानेन चन्द्राय मण्डले बलिमर्पयेत् || १८५ ||
ओं-ह्रीं-ह्रीं-ह्रीं समुच्चार्य भो इन्द्र सुरनायक || प्रसन्नो भव मे शीघ्रं देहि सिद्धिं सनातनीम् || इमं बलिं गृह्णगृह्ण हुं फण्नागाग्निवर्णकः || १८६ ||
जलं दत्त्वा बलिं त्यक्त्वा न यावद्वह्निकीलकम् || अग्निं तत्र समावाह्य प्राग्वद्ध्यात्वा प्रपूजयेत् || १८७ ||
तदग्रे मण्डलं कृत्वा दद्यान्मन्त्रेण वै बलिम् || ओं-रं-रां-रिं-रीं-रुं-रूं तदा ग्रे ग्रे च पदं वदेत् || १८८ ||
तेजोनायक शीघ्रं मे सिद्धिं देहि इमं वदेत् || मुद्गबलिं गृह्णगृह्ण हुं फड् देवार्णको मनुः || १८९ ||
ततो दक्षिणकीलस्य निकटे यममर्चयेत् || दंबीजेन समावाह्य मनुना निर्वपेद्बलिम् || १९० ||
ओं-प्रं-प्रां-प्रिं च प्रीं-प्रुं-प्रूं भो यमेति पदं वदेत् || प्रेताधिपतये शीघ्रं प्रसन्नो भव संवदेत् || १९१ ||
इमां तु मे सुरां पात्रे बलिं गृह्णयुगं वदेत् || प्. ७५७) हुंफडन्तः समाख्यातो मन्त्रो गोरामवर्णकः || १९२ ||
ततो नैरृत्यकोणस्य निकटे निरृतिं यजेत् || क्षंबीजेन समावाह्य बलिमन्त्रो थकथ्यते || १९३ ||
ओं प्रें-प्रें-प्रें ततो हुं त्रिः श्रीं द्विर्ह्रीं च रमायुगम् || रक्षोनाथपदं शीघ्रं प्रसन्नो भव संवदेत् || १९४ ||
इमं मे चणकबलिं गृह्णगृह्ण पुनर्मतः || षट्त्रिंशदर्णो मन्त्रोयं ततः पश्चिमकीलके || १९५ ||
वंबीजेन समावाह्य वरुणं तत्र पूजयेत् || बलिमन्त्रो ध्रुवो व्रां-व्रीं भोभो वरुण संवदेत् || १९६ |
जलनाथपदस्यान्ते प्रसन्नो भव संवदेत् || इमं मे चौदनबलिं गृह्णगृह्ण च हुं च फट् || १९७ ||
त्रिंशदर्णो मनुः प्रोक्तो वरुणस्य बलेरयम् || ततो व्रजेद्वायुकोणे कलिस्य निकटेर्चयेत् || १९८ ||
यंबीजेन समावाह्य वायुं शृणु बलेर्मनुम् || ओं वां-वीं-वूं ततः क्रां-क्रीं भोभो वायो भुवः पुनः || १९९ ||
क्षिप्रं प्रसन्नो भवेति ममेदं वायवेपि च || बलिं गृह्णयुगं हुंफट्पञ्चत्रिंशाक्षरो मनुः || २०० ||
उदक्कीलं ततो गत्वा कुंबीजेन धनेश्वरम् || आवाहयेत्पूजयित्वा मनुना निर्वपेद्बलिम् || २०१ ||
ओं क्रीं-क्रूं-क्रीं नमः क्रां-क्रां भोभो यक्षपदं वदेत् || नाथ शीघ्रं प्रसन्नो मे भवेति च पदं वदेत् || ममापूपबलिं गृह्णयुगं हुं फड्वेदाग्निवर्णकः || २०२ ||
ईशानकीलनिकटे गत्वेशानं समर्चयेत् || हुंबीजेन समभ्यर्च्य बलिं यच्छेत्तथामुना || २०३ ||
ओं श्रां-श्रीं-श्रूं-ततः श्रीं-श्रीं-श्रूंस्याद्वै शष्कुलीपदम् || बलिं गृह्णयुगं हुंफठ्चन्द्रनागमिताक्षरः || २०४ ||
पुष्पाक्षतान्समादाय मध्यस्तम्भं ततो व्रजेत् || ओं स्तां-स्तीं-ह्रीं तथा स्तम्भाय नमोयं नवाक्षरः || अनेन मनुना स्तम्भं निर्भयः परिपूजयेत् || २०५ ||
महाकवचमन्त्रेण कुर्ययाद्देहस्य रक्षणम् || ओं ह्रां-ह्रीं-ह्रूं नमो हुं च क्षां-क्षीं-क्षूं-क्षश्च प्रोच्चरेत् || २०६ ||
ख्रां-ख्रीं-ख्रूं-ख्रस्तथा घ्रां-घ्रीं-घ्रूं-घ्रों-स्रों-स्रीं ततो वदेत् || स्रुं-स्रां-स्रें-स्रं ततो म्रां-म्रौं त्रिर्हो मुक्त्वा त्रिधात्रिधा || २०७ ||
हुंसप्तकं समुच्चार्यय फडन्तं सर्वतो वदेत् || रक्षरक्ष पदं प्रोच्य रक्षरक्षेति भैरव || २०८ ||
नाथनाथ फडन्तोयमेकपञ्चाशदक्षरः || जप्त्वात्मरक्षां कृत्वाथ स्तम्भस्य च समीपतः || २०९ ||
आसनं सम्यगास्तीर्यय तत्र प्राङ्मुख आस्थितः || स्वाग्रे समे तु भूम्यग्रे गोमयाद्युपलेपिते || २१० ||
प्. ७५८)पद्ममष्टदलं कृत्वा तद्बहिः षोडशच्छदम् || तद्बाह्येष्टदलं चापि ह्यसिताङ्गादिभैरवान् || २११ ||
पत्राष्टके पूजयित्वा पूजयेत्षोडशच्छदे || कुलीशं सुकुलीशं च जामित्रं डामरं रिभम् || २१२ ||
प्रचण्डं चण्डकेशं च चण्डात्मानं च चामरम् || चारित्रं च चमत्कारं चञ्चलं चारु भूषणम् || २१३ ||
चामीकरं चारुवहं चकितं चेति षोडश || एते स्वनामभिः पूज्याः षोडशानन्दपूरिताः || २१४ ||
ब्राह्म्याद्याश्चाष्टपत्रेषु बहिर्वीथ्यां दिगीश्वरान् || तद्बाह्ये च तदस्त्राणि तद्बाह्येपि त्विमान्यजेत् || २१५ ||
चण्डप्रचण्डोर्ध्वकेशभीषणोद्भीषणाभिधान् || व्योमकेशं व्योमबाहुं व्योमव्यापकमेव च || २१६ ||
एतान्वीरान्समाहूय चायाहीति समुच्चरन् || अभ्यर्चयेन्निर्भयः संस्ततो न्यासान्समाचरेत् || २१७ ||
पश्चिमाभिमुखो भूत्वा मालां सम्पूज्य सञ्जपेत् || उच्चैः स्वरांस्तदायाति प्रत्यहं भैरवः स्वयम् || २१८ ||
वामहस्तेन दद्याच्च यथाम्नायोचितं बलिम् || सम्भोजयेज्जपं कुर्यान्निर्भयः प्रीतमानसः || २१९ ||
तृप्तो देवो यदा ब्रूयाद्वरंवरय वाञ्छितम् || दक्षिणे पयसा चैव तस्य तृप्तिः प्रजायते || २२० ||
वामादीनां मांसमद्यरक्ताद्यैः स्थिरतापि वा || प्रणम्य दण्डवद्भूमौ वाञ्छितं वरमुच्चरेत् || २२१ ||
आगत्य च गृहं पश्चात्त्र्यहं कर्यान्महोत्सवम् || एवं कलियुगे सिद्धिः श्मशानस्य प्रकीर्तिता || २२२ ||
जपेदेवं समारूढो देवः प्रत्यक्षगो भवेत् || समस्तभैरवाणां तु मन्त्राद्येवं मयोदितम् || २२३ ||
अथातः सम्प्रवक्ष्यामि क्षेत्रपालमनुं परम् || ङेन्तस्तु क्षेत्रपालः स्यात्क्षौंबीजाद्यो गजाक्षरः || २२४ ||
स एव प्रणवाद्यस्तु दक्षे वामे नवाक्षरः || मुनिर्ब्रह्मा च गायत्रं छन्दः स्यात्क्षेत्रपालकः || २२५ ||
देवो बीजमिह क्षौं च नमः शक्तिः प्रकीर्त्यते || षड्दीर्घभाजा बीजेन षडङ्गविधिरीरितः || २२६ ||
ततः सञ्चिन्तयेद्देवमञ्जनाद्रिसमप्रभम् || वर्तुलास्यं त्रिनयनमूर्ध्वपिङ्गजटाधरम् || २२७ ||
दंष्ट्राकरालवदनं भीमरूपं दिगीश्वरम् || दक्षे गदां कपालं च वामे सर्प्पविभूषणम् || २२८ ||
शैवपीठे यजेदष्टदिक्पदिक्सुरभूषिते || मध्ये देवं षडङ्गानि कर्णिकायां दलेषु च || २२९ ||
अनलं चाग्निकेशं च करालं कान्तिकारकम् || प्. ७५९)महाकोपं पिशितास्यं पिङ्गाक्षं चोर्ध्वकेशकम् || २३० ||
यजेद्भूपुरवीथ्यां च लोकेशानस्रसंयुतान् || धूपदीपादिकं दत्वा नैवेद्यं मनुनामुना || २३१ ||
एह्येहीति समुच्चार्यय विद्विषोन्तः पुरद्वयम् || भञ्जय द्विर्नर्तय द्विर्विप्रविप्र महा वदेत् || २३२ ||
भैरव क्षेत्रपालेति बलिं देव ततो वदेत् || गृह्णद्वयं वह्निजाया पञ्चत्रिंशाक्षारो मनुः || २३३ ||
एकलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः || चरुणा घृतसिक्तेन तर्प्पणादि ततश्चरेत् || २३४ ||
अथ प्रयोगं वक्ष्यामि सर्वोपद्रवनाशनम् || रात्रौ गृहाङ्गणे रम्यं कृत्वा स्थण्डिलमुत्तमम् || २३५ ||
आवाह्य तत्र सम्पूज्य क्षेत्रेशं प्रोक्तवर्त्मना || दक्षमार्गी च दुग्धाद्यैः कृत्वा वै सिक्तकं महत् || २३६ ||
वामाचारी कुलद्रव्यैः स्वाम्नायोक्तैस्तथा परे || पक्ष्यमाणेन मनुना तस्य हस्ते बलिं हरेत् || २३७ ||
एह्येहि तुरुयुग्मं च मुरुद्वन्द्वं तथा वदेत् || भुंघिं द्विर्हन विघ्नं च विनाशयविनाशय || २३८ ||
महाबल क्षेत्रपाल बलिं गृह्णद्वयं ततः || अग्निजाया बलेर्मन्त्रो भवेत्पञ्चाब्धिवर्णकः || २३९ ||
दद्याच्च परिवारेभ्यस्तेषां तेषां तु नामभिः || बलिनानेन सन्तुष्टःक्षेत्रपालो मुदान्वितः || २४० ||
ऐश्वर्ययविजयारोग्यसौभाग्यादिकसम्पदः || ददाति रौद्रभूतादि कृत्याद्याशु निवारयेत् || २४१ ||
अथ वक्ष्ये गरहरं वह्निमन्त्रं चमत्कृतम् || खःखं स्याद्व्यक्षरो मन्त्रो मुनिरग्निः प्रकीर्त्तितः || २४२ ||
पंक्तिश्छन्दो देवताग्निः खो बीजं शक्तिका तु खम् || षड्दीर्घस्वरयुक्तेन खकारेणाङ्गकल्पनम् || २४३ ||
ध्यानार्चनादिकं सर्वं वैश्वानरसुमन्त्रवत् || जपो द्वादशसाहस्रं तद्दशांशं घृतैर्हुनेत् || तर्प्पणादि ततः कृत्वा प्रयोगं तु समाचरेत् || २४४ ||
स्वस्य वामे करे ध्यायेत्पद्मं पञ्चदलं स्थितम् || तस्यापि कर्णिकायां तु सविसर्गं खकारकम् || २४५ ||
सानुस्वारं खकारं च ध्यायेत्पञ्चदले स्थितम् || सुधामयं च तज्ज्वालां पश्चादस्त्रं विभावयेत् || २४६ ||
सम्पूर्णं चामृतमयं विषयुक्तं स्पृशेद्वपेत् || जपेदष्टोत्तरशतं मन्त्रं यस्य तनुं स्पृशेत् || २४७ ||
सर्वान्विषग्रहान्भूतान्सर्प्पवृश्चिकवेदनाः || ज्वराजीर्णविसर्प्पादि शूलं दन्तादिसम्भवम् || नेत्ररोगादिकं पीडां सर्वाङ्गस्थां हरेदथ || २४८ ||
प्. ७६०)अथ वक्ष्ये चण्डमन्त्रमों हुंफट् त्र्यक्षरो मनुः || ऋषिस्त्रिकोनुष्टुबुक्तं छन्दश्चण्डोस्य देवता || २४९ ||
आद्यं बीजं शक्तिरन्त्यमिष्टार्थं विनियोजनम् || दीप्तफट्-हृदयं प्रोक्तं ज्वालाफट् शिर ईरितम् || २५० ||
शिखा ज्वालामालि फट् च तत्फट् कवचमीरितम् || हन फण्णेत्रमुद्दिष्टं सर्वज्वालिनि फट् परम् || २५१ ||
एभिर्मन्त्रैः षडङ्गानि जातियुक्तानि कल्पयेत् || ध्यायेच्चण्डेश्वरं रक्तं त्रिनेत्रं रक्तवाससम् || २५२ ||
चन्द्रमौलिं च बिभ्राणं शूल टंकं कमण्डलुम् || स्फटिकस्रजमाबद्धजटाजूटं सनागकम् || २५३ ||
शैवे पीठे यजेद्देवं गायत्र्यावाहनं मतम् || षष्ठस्वरो बिन्दुयुक्तो ङेन्तश्चण्डेश्वरः सुहृत् || २५४ ||
पूजामन्त्रोस्याष्टवर्णो यजेदङ्गानि पूर्ववत् || दलेषु मातरः पूज्या वीथ्यां लोकेशहेतयः || यन्त्रपूजाविधिस्तस्य चैवमेव समीरितः || २५५ ||
चण्डेश्वराय विद्महे चण्डचण्डाय धीमहि || तन्नश्चण्डः प्रचोदयात् || २५६ ||
इत्येवं चण्डगायत्रीमन्त्रं लक्षत्रयं जपेत् || सतिलैस्तण्डुलैर्होमस्त्रिमध्वक्तैर्दशांशतः || २५७ ||
राजवृक्षसमिद्भिर्वा तर्प्पणादि ततश्चरेत् || एवं सिद्धमनुर्मन्त्री प्रयोगानाचरेत्तदा || २५८ ||
शालिपिष्टमयीं कृत्वा पुत्तलीं प्राणसंयुताम् || देवकाष्ठैरेधितेग्नौ सम्यक्त्रिमधुरप्लुताम् || २५९ ||
दक्षिणांगुष्ठमारभ्य पुंसश्छित्वा पृथक् पृथक् || जुहुयाद्वामपादादि योषितश्चापि संहुनेत् || २६० ||
एवं होमो द्विजादीनां वशकृन्नात्र संशयः || यो मर्त्योनुदिनं पुष्पैर्हुनेदष्टोत्तरं शतम् || २६१ ||
सप्ताहं तदवश्यं हि प्राप्नुयाद्यश्च तर्प्पयेत् || मनुनानेन च शिवं चतुर्मासाल्लभेच्छ्रियम् || २६२ ||
साध्यनक्षत्रवृक्षाद्यैः *?उत्तलीं प्राणसंयुताम् || स्पृशेत्तां च जपेत्पश्चात्पूजयित्वा हुनेन्निशि || २६३ ||
नारीं नरं वा वशयेद्यावज्जीवं न संशयः || पञ्चाक्षरप्रयोगांश्च मनुनानेन साधयेत् || २६४ ||
अथ वक्ष्ये भैरवस्य शक्तेर्बन्द्याः परं मनुम् || या बन्धयति पापिष्ठान्स्वभक्तान्मोचयेदघात् || यस्याः प्रभावतः काश्यां भैरवोस्त्यधिकारवान् || २६५ ||
तारो हिलियुगं देवी बन्दी ङेतो नमोन्तकः || एकादशाक्षरो मंत्रो भैरवोस्य मुनिर्मतः || २६६ ||
त्रिष्टुप्छन्दोस्य देवी स्याद्भूद्विद्विद्विद्विनेत्रकैः || षडङ्गानि ततो ध्यायेद्रत्नसिंहासने स्थिताम् || २६७ ||
मेघश्यामां सुधाकुम्भमभयं दधतीं स्मरेत् || प्. ७६१)एकवीरोदिते पीठे यजेद्बन्धनमुक्तये || २६८ ||
अङ्गपूजां केशरेषु यजेत्पत्रेषु सत्तमः || कालीं तारां भगवतीं ततः कुब्जां च शीतलाम् || २६९ ||
त्रिपुरां मातृकां लक्ष्मीं भूपुरे तु दिगीश्वरान् || अग्रवीथ्यामायुधानि बन्दीमेवं समर्चयेत् || २७० ||
लक्षद्वयं जपेन्मन्त्रं पायसान्नैर्हुनेत्तथा || विधाय तर्प्पणाद्यं च प्रयोगानाचरेत्ततः || २७१ ||
एकविंशतिघस्रान्तमयुतं प्रत्यहं जपेत् || ब्रह्मचर्ययरतो मन्त्री गणेशाचर्नपूर्वकम् || २७२ ||
कारागृहनिबद्धस्य मोक्ष एवं कृते भवेत् || अपूपोपरि संलेख्यं घृतेन चतुरस्रकम् || २७३ ||
तस्य मध्ये ठकारं तु लिखेत्तदुदरे तथा || अमुकं मोचयेत्येवं दिक्षु ह्रींकारमालिखेत् || २७४ ||
चतुरस्रं पुनस्तच्च मन्त्रेणानेन वेष्टयेत् || वाङ्माया श्रीबन्दि अमुकेति बन्धपदं वदेत् || मोक्षं कुरुयुगं स्वाहा धृतिवर्णो मनुः स्मृतः || २७५ ||
तस्मिन्नपूपे सम्पूज्य बन्दीमावरणान्विताम् || कारानिकेतनस्थाय प्रदद्यात्सुहृदे च तम् || २७६ ||
स शुद्धो वाग्यतो भत्वा भक्षयेत्तमपूपकम् || तस्मिन्संभक्षिते बद्धो मच्यते बन्धनाद्द्रुतम् || २७७ ||
अथातः सम्प्रवक्ष्यामि कार्तिकेयमनुं परम् || वं वह्नये नमश्चेति तारादिः सप्तवर्णवान् || २७८ ||
ब्रह्मा मुनिश्च गायत्री छन्दो देवो गुहः स्मृतः || हृच्छक्तिस्तारको बीजं सतारार्णैः षडङ्गकम् || २७९ ||
ध्येयो देवो गुहः शक्तिं कुक्कुटाक्षवरान्दधत् || रक्तो रक्तांशुको रक्तप्रवराकल्पभषितः || २८० ||
प्रथमावृत्तिरङ्गैः स्यात्षड्दलेष्टदले पुनः || जयन्तश्चाग्निकेशश्च कृत्तिकापुत्र एव च || २८१ ||
भूतः पतिश्च सेनाना गुहो हरण्यशूलकः || चित्राक्षो भूपुरे शक्रादिकपूजा प्रकीर्त्तिता || २८२ ||
पुरश्चर्ययायुतं प्रोक्ता घृतहोमो दशांशतः || तर्प्पणाद्यैर्मनुः सिद्धः श्रीरक्षाजयपुत्रदः || २८३ ||
अथ वक्ष्ये महेशस्य वस्त्रप्रक्षालिका तु या || शीतलेति च विख्याता तस्या मन्त्रं सुसिद्धिदम् || २८४ ||
तारो माया रमा शीतलायै हृच्च नवाक्षरः || उपमन्युर्मुनिश्छन्दो बृहती शीतला सुरी || २८५ ||
षड्दीर्घयुग्भिर्लक्ष्म्याश्च बीजाभ्यां स्यात्षडङ्गकम् || ध्यायेच्च शीतलां देवीं रासभस्थां दिगम्बराम् || २८६ ||
मार्जनीशूर्प्पहस्तां च रक्तपुष्पहिमार्चिताम् || प्. ७६२)तैलादिमलसंयुक्तवस्त्रपोटलिशीर्षिकाम् || २८७ ||
त्रिकोणान्तर्यजेद्देवीं कोद्रवां च मसूरिकाम् || शराविकां च कोणेषु भूपुरे त्वष्टभैरवान् || २८८ ||
अयुतं प्रजपेन्मन्त्रं पायसेन दशांशतः || हुत्वा कृत्वा तर्प्पणादि मन्त्री सिद्धः प्रजायते || २८९ ||
नाभिमात्रे जले स्थित्वा यः सहस्रं जपेन्मनुम् || तेन सम्मार्जिताश्चैव स्फोटा नश्यन्ति तत्क्षणात् || २९० ||
साधितो येन मन्त्रोयं तस्य वंशे न शीतला || तेनाभिमन्त्रितं भस्म यद्गृहे तत्र सा न हि || २९१ ||
अथातः सम्प्रवक्ष्यामि भर्त्तुरस्याः परं मनुम् || तारः प्रासादबीजं यं वं व्योमव्यापिने द्विठः [स्वाहाद्वयम् ||] || २९२ ||
एकादशार्णो मन्त्रोयं न्यासध्यानजपादिकम् || प्रासादमन्त्रवज्ज्ञेयमर्धलक्षं पुरस्कृतिः || दशांशं जुहुयादाज्यैस्तर्प्पणादि ततश्चरेत् || २९३ ||
सिद्धमन्त्रेणौषधं तु दशवाराभिमन्त्रितम् || यथोक्तगुणतामेति निर्वीर्ययमपि नान्यथा || २९४ ||
अथ वानेन जपितं यदेकादश वारकान् || रोगिभ्यो भेषजं दत्तं तत्तत्पूर्णगुणं भवेत् || २९५ ||
प्रातःकाले समुत्थायोदकमेकादशावधि || मन्त्रयित्वा पिबेन्मन्त्रैः प्रत्यहं द्वादशाब्दकम् || वलीपलितनिर्मुक्तो जीवेद्वर्षशतं युवा || २९६ ||
त्रिवर्षाच्च महारोगाः कुष्ठाद्या यान्ति संक्षयम् || जले चैकादशाहेन रोगहृज्जायते मनुः || २९७ ||
अथ वक्ष्ये लघुश्यामामन्त्रं तं भैरवप्रियम् || नम [ऐं-नमः उच्छिष्टचाण्डालिमातंगि सर्ववशंकरिस्वाहा ||] उच्छिष्टचाण्डालि मातङ्गि प्रवदेत्ततः || सर्ववशङ्करे स्वाहा वाग्बीजाद्यो नखार्णकः || २९८ ||
मदनोस्य मुनिश्छन्दो गायत्री निवृतादिका || देवता तु लघुश्यामा वाग्बीजं बीजमुच्यते || २९९ ||
स्वाहा शक्तिर्नियोगस्तु निखिलाभीष्टसाधने || वाक्पूर्विकां रतिं मूर्ध्नि प्रीतिं मायादिकां हृदि || ३०० ||
पादयोर्विन्यसेन्मन्त्री कामपूर्वां मनोभवाम् || इच्छाशक्तिं ज्ञानशक्तिं क्रियाशक्तिं क्रमान्न्यसेत् || ३०१ ||
वाङ्मायाकामबीजाद्यां मुखे कण्ठां सदेशके || द्रां द्रावणं न्यसेच्छीर्षे द्रां च शोषणमास्यके || ३०२ ||
क्लीं तापनं हृदि न्यस्य ब्लूं संमोहनमिन्द्रिये || स उत्पादनकं पादे ततः कुर्ययात्षडङ्गकम् || ३०३ ||
रामाग्निगुणरामाङ्गनेत्रवर्णैर्मनुस्थितैः || आंक्षाब्राह्मीकन्यकायै नमोमूर्ध्नि प्रविन्यसेत् || ३०४ ||
प्. ७६३)इं-लां महेश्वरीकन्यकायै वामांसके नमः || कूं-हां कौमारीकन्यकायै नमो दक्षांसके न्यसेत् || ३०५ ||
ओं वाराहीकन्यकायै वामे पार्श्वे च विन्यसेत् || ओं सां चेन्द्राणीकन्यायै नमो दक्षिणपार्श्वके || ३०६ ||
ओं चां चामुण्डाकन्यायै नमश्च ककुदि न्यसेत् || अः लामुक्त्वा महालक्ष्मीकन्यायै च नमो हृदि || ३०७ ||
तारवागादिका अष्टौ सिद्धीश्च कन्यकान्तिमाः || चतुर्थस्वरसंयुक्ता न्यसेच्छीर्षललाटयोः || भ्रूमध्ये कण्ठहृन्नाभिमूलाधारांतरेषु च || ३०८ ||
अणिमा महिमा चैव गरिमा लघिमा तथा || वशिता चाथ प्राकाम्यं प्राप्तिरित्यष्टसिद्धयः || ३०९ ||
कामाद्या कन्यकाः प्रोक्ता अष्टावप्सरसो न्यसेत् || के भाले नेत्रयोर्वक्त्रे कर्णयोः ककुदि ध्रुवम् || ३१० ||
उर्वशीं मेनकां रम्भां घृताचीं पुञ्जिकस्थलाम् || सुकेशीं मञ्जुघोषां च महारङ्गवतीं तथा || ३११ ||
यक्षगन्धर्वसिद्धानां कन्यका नरनागयोः || विद्याधरकिम्पुरुषपिशाचानां क्रमेण च || ३१२ ||
अंसयोर्हृदये न्यस्य स्तनयोर्जठरे तथा || गुह्ये चाधारदेशे च क्लीमाद्याश्च नमोन्तकाः || ३१३ ||
ताराद्यान्नमसा युक्तान्मूलवर्णान्सबिन्दुकान् || न्यसेत्सन्धिषु साग्रेषु करयोः पादयोरपि || ३१४ ||
अंसश्च कूर्प्परश्चैव मणिबन्धोंगुलीतलम् || करस्य सन्धयश्चैते स्फिग्जानु च ततो भवेत् || ३१५ ||
गुल्फमंगुलिमूलं च चत्वारः पादसन्धयः || न्यासानेवं विधान्कृत्वा लघुश्यामां ततः स्मरेत् || ३१६ ||
सुधार्णवान्तर्द्वीपस्थरत्नमन्दिरमध्यगाम् || माणिक्याभरणां स्मेरां नीलोत्पलनिभाम्बराम् || ३१७ ||
अलक्तैर्लिप्तपादाब्जां वीणावादनतत्पराम् || त्र्यक्षां ताम्बूलपूर्णास्यां स्मरेच्च शशिशेखराम् || ३१८ ||
मातङ्गीं प्रोदिते पीठे लघुश्यामां प्रपूजयेत् || त्रिकोणे पञ्चकोणेषु दले षोडशपत्रके || ३१९ ||
वेदद्वारधरागेहावृतेग्न्यादिककोणके || इच्छाज्ञानक्रियाशक्तीस्तदग्रे बाणपञ्चकम् || ३२० ||
केशरेष्वङ्गदेवांश्च ब्राह्म्याद्याश्चाष्टपत्रके || अणिमाद्याश्च यन्त्राग्रे यजेत्षोडशपत्रके || ३२१ ||
उर्वश्याद्याश्च कन्याश्च चतुर्दिक्षु च भूगृहे || गजाननां सिंहमुखीं गृध्रास्यां काकतुण्डिकाम् || ३२२ ||
उष्ट्रग्रीवां हयग्रीवां वाराहीं शरभाननाम् || प्. ७६४)उलकीं च शिवारावां मयूरीं विकटाननाम् || ३२३ ||
अष्टवक्त्रीं कोटराक्षीं वक्रां विकटलोचनाम् || समर्चयेद्दिशि प्राच्यामेताः षोडश योगिनीः || ३२४ ||
शुष्कोदरी ललज्जिह्वा ह्यदंष्ट्रा वानरानना || त्र्यक्षा च केकराक्षी च बृहत्तुण्डा सुराप्रिया || ३२५ ||
कपालहस्ता रक्ताक्षी शुकी श्येनी कपोतिका || पाशहस्ता दण्डहस्ता प्रचण्डेति च दक्षिणे || २६ ||
पूज्याश्चाथ प्रवीथ्यां तु दश चण्डविधिक्रमैः || शिशुघ्नी पापहन्त्री च काली रुधिरपायिनी || ३२७ ||
वसांधया गर्भभक्षा शवहस्तान्त्रमालिनी || शूलकेशी बृहत्कुक्षी सर्प्पास्या प्रेतवाहिनी || ३२८ ||
दन्दशूककरा क्रौञ्ची भूतरम्या वृषानना || व्याघ्रास्या भीमनिःश्वासा व्योमैकचरणार्धदृक् || ३२९ ||
लापिनी शेषिणी दृष्टिः कातरा स्थूलनासिका || विद्युत्प्रभा बलाकास्या मार्ज्जारी कटिलानना || ३३० ||
अट्टाट्टहासा कामाक्षी श्वसमानश्रुतिस्तथा || क्रमाड्डाकिन्य एताश्च पूज्या वह्न्यादिकोणके || ३३१ ||
स्वस्वमन्त्रेण बटुकं गणेशं क्षेत्रपालकम् || दुर्गां तद्बहिरिन्द्रादीन्वज्रादीन्यपि पूजयेत् || ३३२ ||
चतुर्द्वारेषु वाद्यानि तन्वानानि धनिंधनम् || सुचिरं चेति पूजोक्ता द्वादशावरणैरियम् || ३३३ ||
सर्वासांसम्पदां पाता चैतदाराधको भवेत् || मातङ्गीमन्त्रसम्प्रोक्ताः प्रयोगाश्चात्र कीर्तिताः || ३३४ ||
अथ वक्ष्यामि गायत्रीं प्रोक्षयेदनयाखिलम् || यागद्रव्यं च भूपालस्तद्वशे राजपुत्रकाः || ३३५ ||
भवन्ति वशगास्तस्य येन गायत्र्युपासिता || देवीवन्माननीयाश्च स्त्रियो निन्द्या न जातुचित् || ३३६ ||
अथातः सम्प्रवक्ष्यामि पञ्चकामेश्वरीमनुम् || कामस्य बाणबीजानां मन्त्रोयं परिकीर्तितः || ३३७ ||
ऋषिः सम्मोहनश्छन्दो गायत्री देवता भवेत् || बाणेशी सर्वव्यस्तेन मनुनोक्तं षडङ्गकम् || ३३८ ||
मूर्ध्नि पादे मुखे गुह्ये हृदये पञ्च देवताः || न्यस्तव्याः पञ्चबज्राद्या द्रावणी क्षोभणी तथा || ३३९ ||
वशकारिण्याकार्षिण्यौ सम्मोहिन्यपि प~चमी || अरुणा रक्तवसना नानारत्नैरलंकृता || बाणान्धनुः सृणिं पाशं हस्तैस्सन्दधतीर्भजे || ३४० ||
प्. ७६५)मोहिनी क्षोभिणी श्यामा स्तम्भिन्याकर्षिणी तथा || द्राविणी ह्लादिनी क्लिन्ना क्लेदिनी पीठशक्तयः || बाणेशीयोगपीठाय नमो मूलादिको मनुः || ३४१ ||
दत्त्वानेनासनं मन्त्री तस्मिन्देवीं प्रपूजयेत् || आदौ षडङ्गान्याराध्य दिक्ष्वग्रे द्राविणीमुखाः || ३४२ ||
दलेष्वनङ्गरूपा स्यादनङ्गमदना तथा || अनङ्गमन्मथानङ्गकुसुमा मदनातुरा || ३४३ ||
अनङ्गाद्या तथानङ्गनिशितानङ्गमेखला || अनङ्गभूमिका भूमिपुरे दिक्पाश्च सायुधाः || ३४४ ||
पञ्चलक्षं जपेन्मन्त्रं हुनेदाज्यं दशांशतः || तर्प्पणादि ततः कृत्वा प्रयोगार्हो मनुर्भवेत् || ३४५ ||
दधियुक्तैरशोकस्य पुष्पैर्वा दिवसत्रयम् || सहस्रं जुहुयात्तस्य वश्याः स्युः प्राणिनोखिलाः || ३४६ ||
लाजैर्दधियुतैर्मन्त्री होमात्कन्यामवाप्नुयात् || कन्यापि वशमायाति मासद्वितयमध्यतः || ३४७ ||
गव्याज्येन ससम्पातं हुत्वा चाष्टशतं ततः || आज्यं सम्पातितं दद्यात्स्त्रियै संपाद्य तत्त्विदम् || ३४८ ||
सा तदाज्यं कान्तभावं भावयित्वा वशं नयेत् || सुगन्धकुसुमैर्हुत्वा धनमाप्नोति वाञ्छितम् || ३४९ ||
अथ वक्ष्ये रुद्रशीर्षनिवासिन्याः परं मनुम् || तारो नमः शिवाये च नारायण्यै पदं वदेत् || ३५० ||
दशहरायै गङ्गायै स्वाहान्तो विंशदर्णकः || व्यासो मुनिः कृतिश्छन्दो देवी गङ्गा प्रकीर्त्तिता || ३५१ ||
त्रिवह्निवेदबाणाग्निनेत्रवर्णैः षडङ्गकम् || चतुर्भुजां त्रिनेत्रां च सर्वाभरण भूषिताम् || ३५२ ||
रत्नकुम्भसिताम्भोजवराभयलसत्कराम् || चामरैर्वीज्यमानां च श्वेतच्छत्रोपशोभिताम् || ३५३ ||
लक्षं जपेद्दशांशेन जुहुयात्सघतैस्तिलैः || जयादिशक्तिभिर्युक्ते पीठे भागीरथीं यजेत् || ३५४ ||
पूजयेत्केशरेष्वङ्गं दले रुद्रं हरिं विधिम् || सूर्ययं हिमाचलं मेना भगीरथमपां पतिम् || ३५५ ||
दलाग्रतो मीनकूर्ममण्डूकमकरानपि || हंसान्कारण्डवांश्चक्रवाकान्सारसकान्यजेत् || ३५६ ||
चतुरस्रे शक्रमुख्यानायुधैः संयुतान्यजेत् || एवं संसाधितो मन्त्रोभीष्टं यच्छति मन्त्रिणे || ३५७ ||
ज्येष्ठशुक्लदशम्यां तु विशेषेण भजेद्बुधः || दद्याद्दशभ्यो विप्रेभ्यो दशप्रस्थमितांस्तिलान् || ३५८ ||
जप्त्वा सहस्रं हुत्वा च तथोपोष्य विकल्मषः || प्. ७६६)सर्वभोगसमायुक्तो जायते मानवो भुवि || ३५९ ||
गङ्गातीरे वर्णलक्षं जपित्वाब्जानि होमयेत् || श्रीबीजपूर्वमनुना तस्य श्रीः सर्वतोमुखी || ३६० ||
जपित्वैवं पक्वबिल्वैर्हुत्वा वश्यं जगद्भवेत् || तिलैर्हुत्वा दहेत्पापं दूर्वाभिश्च महागदान् || ३६१ ||
ताम्बूलहोमादाप्नोति भोगान्नृपतिदुर्ल्लभान् || अर्चयित्वा तु यो गङ्गां तुलसीमंजरीं क्षिपेत् || ३६२ ||
मन्त्रं पठित्वा लक्षैकमेकान्ते स्थिरमानसः || गंगाप्रवाहवत्तस्य स्याद्वाग्भूतिविजृम्भिता || ३६३ ||
अथान्यं सम्प्रवक्ष्यामिवामाचाराघनाशनम् || बहिर्यजनकर्त्तारः सिद्धाः स्युर्यत्प्रभावतः || ३६४ ||
तारो नमो भगवति वाग्भवं च लिहिद्वयम् || हिलिद्वयं च गंगे मां पावयद्वितयं वदेत् || ३६५ ||
स्वाहान्तः सप्तविंशार्णो मनुः पापप्रणाशनः || ईश्वरोस्य मूनिश्छन्दोमितं गंगा च देवता || रामवेदेषुसप्तांगनेत्रार्णैरंगकल्पनम् || ३६६ ||
रक्ताम्बरां रक्तवर्णां शूलकुम्भवराभयान् || करैः सन्दधतीं स्मेरां कच्छपस्थां सुरादिभिः || सदैव सर्वपापस्य नाशाय सुनिषेविताम् || ३६७ ||
कर्णिकायां यजेद्देवीं षडस्रेष्वङ्गपूजनम् || ततोब्ध्यस्रे तु कावेरीं यमुनां गण्डकीमपि || ३६८ ||
कौशिकीं च समभ्यर्च्य तद्वद्बाह्यदलेषु च || सुरासिन्धुमासवाब्धिं दुग्धसिन्धुं मधूद्भवम् || ३६९ ||
दधिसिन्धुं चाज्यसिन्धुं मद्यसिन्धुमिराभवम् || धातुसिन्धुं रत्नसिन्धुं सिन्धुमिक्षुरसोद्भवम् || माध्वीसिन्धुं क्षारसिन्धुं सुधायाः सिन्धुमुद्भवम् || ३७० ||
दिगीश्वरान्भूपुरे च पूजितैवं सरिद्वरा || अलोभाद्वाममार्गेपि कृतं पापं विनाशयेत् || ३७१ ||
वर्णलक्षं जपेद्धोमः पद्मैः प्रोक्तो दशांशतः || एवंसिद्धमनुर्मन्त्री मर्वादिनिर्जलस्थले || ३७२ ||
देशे गत्वा जलार्थं तु पुरश्चर्ययां समाचरेत् || होमादि सर्वं इर्वर्त्य गंगामावाहयेत्ततः || ३७३ ||
तत्र कूपादिकं कृत्वा भवेत्तदमृतोपमम् || कल्पस्थापिततोयौघं समस्तगदनाशनम् || ३७४ ||
इयमादिमसप्तार्णहीना स्याच्च नखाक्षरी || प्राग्वन्मुन्यादिकं बाणवेदत्रित्रित्रिबाहुभिः || ३७५ ||
मन्त्रार्णैः स्युः षडंगानि पुरश्चर्यया तु लक्षकम् || होमद्रव्यादिकं प्राग्वत्सिद्धमन्त्रः समाचरेत् || ३७६ ||
प्रयोगाञ्जलमध्ये तु स्थित्वा जप्त्वायुतम्मनुम् || प्. ७६७)त्र्यहादवर्षाकालेपि वृष्टिर्भवति भूयसी || ३७७ ||
अयुतं च मनुं जप्त्वा सहस्रैर्जलजैर्हुनेत् || सम्पाताज्यं पिबेद्या स्त्री गौर्वा क्षीरनिधिर्भवेत् || ३७८ ||
अनेन मन्त्रितं तोयं वर्षमेकं पिबेत्तु या || तस्याः पुत्राः प्रजायन्ते भीष्मतुल्यपराक्रमाः || ३७९ ||
एतन्मन्त्रजपासक्तः पादतीर्थं क्षिपेद्धृदि || भूताविष्टस्य तत्कालं मुक्तो भवति नान्यथा || ३८० ||
तारो हिलिमिलिद्वन्द्वं गङ्गे देवि नमो मनुः || तिथिवर्णोस्य मुन्यादिपूजा पूर्ववदीरिता || ३८१ ||
त्रिद्विद्व्यक्षिकृतद्व्यर्णैः षडङ्गविधिरीरितः || एतस्य भजनाज्जन्तोर्नातीर्थे मरणम्भवेत् || ३८२ ||
तारो लज्जा रमा हार्दं ततो भगवतीपदम् || सम्बुद्धौ गङ्गदयिते नमो वर्म तथास्त्रकम् || ३८३ ||
अष्टादशार्णो मन्त्रोयम्मुन्याद्यम्पूर्ववन्मतम् || जपादिना सिद्धमन्त्रः प्रयोगानाचरेदथ || ३८४ ||
पुत्र जीवफलैर्होमात्पुत्रः शीलयुतो भवेत् || गुडूच्या रोगनाशः स्याद्रमा पद्मादिहोमतः || ३८५ ||
लक्ष्मीप्राप्तिः श्रीफलैश्च सर्षपैरभिचारकः || जातीप्रसूनैर्वश्यं स्याज्जपापुष्पैर्जयो भवेत् || ३८६ ||
अथातः सम्प्रवक्ष्यामि वाङ्मत्याश्च मनुद्वयम् || वाग्बीजं प्रथमं हृच्च नारदोस्य मनोर्मुनिः || ३८७ ||
छन्दोनुष्टुब्देवतात्र वाङ्मयी परिकीर्तिता || बीजपूर्वैश्च षड्दीर्घैः षडङ्गविधिरीरितः || ३८८ ||
श्वेताम्बरां श्वेतवर्णां श्वेतगन्धानुलेपनाम् || सुधाकुम्भं च पद्मं च वीणां पुस्तकमेव च || करैर्दधानां मीनस्थां मुक्ताभरणभूषिताम् || ३८९ ||
एवं ध्यात्वा कर्णिकायां यजेद्देवीं षडस्रके || रुद्रधारां मतिमतीं फल्गुं विष्णुमतीं तथा || प्रभावतीं भानुमतीं भूपुरे तु दिगीश्वरान् || ३९० ||
लक्षत्रयं जपेन्मन्त्रं पञ्चखाद्यैस्तथा हुनेत् || तर्प्पणादि ततः कृत्वा सिद्धमन्त्रः प्रजायते || ३९१ ||
सद्योजातस्यबालस्य जिह्वायां बीजमालिखेत् || मधुना स्वर्णलेखन्या सोष्टवर्षः कविर्भवेत् || ३९२ ||
वाङ्मत्यां वाथ गङ्गायां पुरश्चर्ययां करोति यः || द्वितीयादप्रतिग्राही भिक्षाशी वाथ मौनवान् || ३९३ ||
ब्रह्मचारी भूमिशायी श्वेताम्बरधरः शुचिः || वाक्सिद्धिं लभतेवश्यं दाता भोक्ता त्वयाचकः || ३९४ ||
प्. ७६८)रमात्रपावाग्बीजानि वदेन्ङेन्तां च वाङ्मतीम् || नमो ममेति च पदं धारणां च धियन्तथा || ३९५ ||
वाचं गुणान्प्रदेहीति स्वाहान्तस्तत्त्ववर्णकः || मुन्यादिकन्तथा पूजा पुरश्चर्यया च पूर्ववत् || ३९६ ||
स्खलज्जिह्वमनुष्यस्य जिह्वायां तुलसीदलैः || वचाकल्केन मन्त्रं तु लिखित्वा भानुवासरे || ३९७ ||
हविष्यमन्नम्भुञ्जीत मौनी लवणवर्ज्जितम् || सप्तभिर्भानुवारैश्च साक्षात्स्याद्धिषणोपमः || ३९८ ||
अश्रुतग्रन्थबोधाय ब्रह्मचारी जितेन्द्रियः || रवौ तु पायसे मन्त्रं लिखेत्स्वर्णशलाकया || ३९९ ||
तदेव पायसं भुक्त्वा ध्यात्वा देवीं स्वपेन्निशि || स्वप्ने तमर्थं शृणुयात्प्रातर्बीजं स्वयं स्मरेत् || ४०० ||
अथातः सम्प्रवक्ष्यामिमणिकर्णीमनुद्वयम् || तारो वाघ्रीं रमाकामस्तारो मं मणिकर्णिके || ४०१ ||
नमोन्तश्शक्रवर्णोयं मनुः परमदुर्लभः || मुनिर्व्यासोतिशक्वरी छन्दः स्यान्मणिकर्णिका || ४०२ ||
देवता चन्द्रनेत्राक्षिद्वीषुद्व्यर्णैः षडङ्गकम् || बीजपूरं दक्षहस्ते वामे चेन्दीवरस्रजम् || ४०३ ||
बद्धाञ्जलिः श्वेतवस्त्रा त्र्यक्षा चन्द्रनिभानना || पश्चिमाभिमुखी स्मेरापद्मस्था पद्ममालिका || ४०४ ||
नानाभरणभूषाढ्या ध्येया श्रीमणिकर्णिका || लक्षत्रयं जपेन्मन्त्रं जुहुयात्तद्दशांशतः || ४०५ ||
पुण्डरीकैरुक्तयंत्रे यजेत्तां गङ्गया समम् || आवाह्य कलशे देवीं पूजयेदयुतं जपेत् || ४०६ ||
जपन्कारागृहस्थो वा स्यात्प्रसूतिविरोधिनी || पायसं भक्षयेन्मुक्ती रोगपीडा च नश्यति || ४०७ ||
भूतप्रेतपिशाचानां मोक्षदं परमोमतः || भुक्तिमुक्तिप्रदो मन्त्रो धनधान्यसमृद्धिदः || वंशवृद्धिकरः प्रोक्तः काशीवासप्रदायकः || ४०८ ||
तारो मं मणिशब्दान्ते कर्णिके प्रणवात्मिके || नमश्चतुर्दशार्णोयं मुन्याद्यं पूर्ववन्मतम् || ४०९ ||
पदैः सम्पूर्णमन्त्रेण षडङ्गविधिरीरितः || ऐं-श्रीं मेकलकन्यायै नर्मदायै हृदादिकम् || ४१० ||
सोमोद्भवायै देवापगायै हृदयपूर्वकम् || हृदादिषु प्रकल्पायै हृदयं देववर्णकः || ४११ ||
भृग्वृर्षिरमितं छन्दो देवता नर्मदा मता || डेन्तैः पृथक् पञ्चपदैः समस्तैरङ्गकल्पनम् || ४१२ ||
कनकाभां कच्छपस्थां त्रिनेत्रां बहुभूषणाम् || पद्माभयसुधाकुम्भवराद्यान्बिभ्रतींकरैः || ४१३ ||
प्. ७६९)मध्ये देवीं षड्दलेषु षडङ्गानि प्रपूजयेत् || घोणां ज्योतिष्मतीं चापि वामदक्षिणतो यजेत् || ४१४ ||
इन्द्रादयो दिगीशाश्च पूज्याभूपुरवीथिषु || लक्षं जपेद्धुनेद्यो वै भुक्तिंमुक्तिं ततो भजेत् || ४१५ ||
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते भैरवादिमनुकथनं नाम द्वाविंशः प्रकाशः || २२ ||
Prakāśa 33 – Yantras der Gottheiten
श्रीदेव्युवाच ||
राज्ञां भाग्यवतां देव यैश्च रक्षाभिजायते || दुर्ग्रहाश्च यथा दुःखं दातुं शक्तानविद्विषः || १ ||
कथंस्यात्स्थिरसम्पत्तिः सन्ततिश्च कथं क्रिया || साधकैस्तु प्रकर्तव्या कथं सिद्धिः प्रजायते || २ ||
ईश्वर उवाच ||
अथ यन्त्रविधिं वक्ष्ये सर्वतन्त्रेषु गोपितम् || सिद्धस्य लेखनादेव यन्त्रसिद्धिः प्रजायते || ३ ||
न भावि यत्र कार्ययं तु सिद्धं चापि तदा भवेत् || दुःस्वप्नदर्शनं पूर्वं तदा यन्त्रन्न कारयेत् || ४ ||
साधकस्य शुभे घस्रे समाराध्येष्टदेवताम् || स्वप्यात्त्रिदिवसं भूमौ हविष्याशी जपेत्ततः || ५ ||
एतद्यन्त्रं करिष्यामि मम तत्कीदृशं प्रभो || स्वप्ने वदेत्तु देवेशस्तदङ्गत्वेन पूजनम् || कृत्वा प्रदोषसमये लिखेत्त्रिदिवसं भुवि || ६ ||
तृतीयदिवसे रात्रौ यथा स्वप्नः प्रजायते || तथैवाज्ञां गृहीत्वा तु सत्स्वप्नो वा लिखेद्बुधः || ७ ||
अस्वप्नेवाथ सुस्वप्ने नैव कुर्ययाल्लिखेन्न तत् || जीवसंस्थापनं यन्त्रे कुर्ययाद्येन फलं लभेत् || ८ ||
षष्ठ्यन्तं साधकपदं मध्ये बीजार्णयोर्लिखेत् || द्वितीयान्तं साध्यमध्ये कुरुद्वन्द्वं च पार्श्वयोः || ९ ||
हंसो यन्त्रस्य बीजं स्यान्मध्यभागादधो लिखेत् || हंसः सोहं मनोरस्य लिखेदेकैकमक्षरम् || १० ||
ईशानादिषु कोणेषु दक्षपार्श्वे च ईंद्वयम् || ठद्वयं वामपार्श्वे च लिखेत्पूर्वादितः क्रमात् || ११ ||
लं-नं-मं-क्षं तथा वं-यं-सं-हं पूर्वादिके लिखेत् || ईशानसोमयोर्मध्ये आं-ह्रीं वायव्यसोमयोः || एवं दिक्पालबीजानि विन्यसेद्दिक्षु च क्रमात् || १२ ||
यन्त्रराजाय विद्महे वरप्रदाय धीमहि || तन्नो यन्त्रम्प्रचोदयात् || १३ ||
एतस्याः प्रतिकाष्ठायां लिखेद्वर्णत्रयंत्रयम् || बहिः प्राणप्रतिष्ठाया मन्त्रं सर्वत्र वेषयेत् ||
प्. ७७०)एवन्तु लिखितं यन्त्रं सर्वसिद्धिप्रदायकम् || १४ ||
स्थूलानुक्तौ भूर्जपत्रे क्षौमे वाम्भोजपत्रके || यन्त्रं सुलिख्य गुटिकां बद्ध्वा सूत्रेण वेष्टयेत् || १५ ||
लाक्षयाच्छादितं स्वर्णे रौप्ये ताम्रेथ वा क्षिपेत् || यद्देवताकं यन्त्रं स्यात्तद्बीजेन च पूजयेत् || १६ ||
तदभावे मातृकार्णैर्यन्त्रपूजां समाचरेत् || अष्टोत्तरसहस्रं तु मूलं जप्त्वा हुनेद्घृतम् || १७ ||
तत्र पात्रे न संसिक्तं कृत्वा मन्त्रं नियोजयेत् || मूर्ध्नि बाहौ गले वापि तत्तदिष्टार्थसिद्धये || १८ ||
उपास्या वा भूतलिपिर्यन्त्रसिद्धिविधायिनी || अक्लेशेनैव सर्वेषां मन्त्राणां सिद्धिमाप्नुयात् || १९ ||
मन्त्रोद्धारं प्रवक्ष्यामि यंत्रोद्धारं सबिन्दुकम् || अक्प्रत्याहारमुच्चार्यय रों-रौं-डौं-डौं ततो वदेत् || २० ||
हं-यं-रं-वं ततो लं-टं-कं-खं-गं-घमिति क्रमात् || वर्गान्त्यमाद्यद्वित्र्यब्धिवर्णान्वर्गचतुष्टये || २१ ||
वर्गेषु प्राक्पारं शंखं समेवं द्व्यब्धिवर्णकः || ऋषिः स्याद्दक्षिणामूर्त्तिर्गायत्री छन्द ईरितम् || २२ ||
वर्णेश्वरी देवतास्य षडङ्गानि समाचरेत् || स्वरहीनैर्हयाब्ध्यश्वैर्मन्त्रार्णैः पञ्चपञ्चभिः || २३ ||
गुदे लिङ्ग उरोनाभिकण्ठेषु मध्यकेशयोः || शिरसि ब्रह्मरन्ध्रे च क्रमान्न्यस्या नव स्वराः || २४ ||
ऊर्ध्वप्राग्दक्षिणेशानपश्चिमेषु मुखेषु च || हं-यं-टं-रं-वं-लमिति न्यसेद्बीजानि वै क्रमात् || २५ ||
ततः कराग्रे मूले च कूर्प्परेंगुलिसन्धिषु || दक्षवामक्रमेणैव टादिवर्गं तथादिमम् || २६ ||
वर्गं न्यसेत्तथा पादाग्रके मूले च जानुनोः || तथा सन्धावंगुलीनां गुल्फे सर्गादिनादिकान् || २७ ||
ठद्वयं पार्श्वयुग्मे च नाभौ पृष्टे च मादिकान् || गुह्ये हृत्ककुदोर्मध्ये शषसान्विन्यसेत्क्रमात् || २८ ||
ततो भूतलिपिं ध्यायेत्त्रिनेत्रां चन्द्रशेखराम् || वराक्षमालापद्मानि कपालं बिभ्रतीं करैः || २९ ||
लक्षं प्रजप्यादयुतं घृतं हुत्वा च तर्प्पयेत् || एवं भूतलिपिः सेव्या यन्त्रसिद्धिः प्रजायते || श्रीविद्याराधने चापि समर्थो जायते नरः || ३० ||
अथाहं सम्प्रवक्ष्यामि हैरम्बं यन्त्रमुत्तमम् || भूर्जपत्रे लिखेद्यन्त्रं कुंकुमेन मदेन च || ३१ ||
लिखेद्भूमिगतं मध्ये मुकस्येति तदुत्तरम् || अमुकं चेत्यधः स्थाने वशं कुर्विति पार्श्वयोः || ३२ ||
इत्यादिकं स्वेष्टकर्म्मपदं ज्ञात्वा लिखेद्बुधः || षट्षड्भागे केशराणां गां-गीं-गूं-गैं च गौमिति || ३३ ||
प्. ७७१)गश्चेति विलिखेद्यन्त्रे पूर्वाशादिप्रदक्षिणम् || हेरम्बमालामन्त्रं च गं नमो वह्निगेहिनीम् || ३४ ||
अं आं ह्रीं क्रीं नमो ङेन्तं सर्वविद्याधिपं वदेत् || सर्वार्थसिद्धिदायेति सर्वदुःखपदं वदेत् || ३५ ||
प्रशमनायेह्येहि भगवान्सर्वानुवादय || संक्षोभयद्वयं ह्रीं-गां नमो ज्वलनगेहिनी || ३६ ||
अमां ह्रीमिति मन्त्रोयं प्रोक्तः षट्पञ्चवर्णकः || पद्माद्वहिः प्रकर्त्तव्यं वर्त्तुलद्वितयन्ततः || ३७ ||
ततः प्रथमवीथ्यां तु लिखेत्स्वाग्रात्प्रदक्षिणम् || लक्ष्मीबीजानि परत ऐं-बीजेन प्रवेष्टयेत् || ३८ ||
ततश्च गुटिकां कृत्वा श्वेतसूत्रेण वेष्टयेत् || अकृत्वा चाग्निसम्बन्धंतांत्रिलोहे निधापयेत् || ३९ ||
जपादिमालामन्त्रस्य कुर्ययाद्धेरम्बयन्त्रवत् || अमितं छन्द इत्युक्तं यन्त्रं दयादभीप्सितम् || ४० ||
षट्कोणमध्ये श्रीबीजपुटितं प्रणवं लिखेत् || साध्यनाम च तन्मध्ये तद्बाह्येष्टदलं लिखेत् || ४१ ||
कामबीजं प्रतिदलं बाह्ये खाङ्कुशपत्रकम् || ग्लौंबीजं तद्दले लेख्यं तद्बाह्ये च लिखेत्पुनः || ४२ ||
चतुर्विंशद्दलं पद्मं तत्र चार्णांल्लिखेत्सुधीः || चतुर्विंशत्यक्षरं च गणेशस्य मनुं शृणु || ४३ ||
लक्ष्मीर्गं गणपतये वरं वरद सर्वज || नं मे वशमेत्युक्त्वा नय स्वाहा मनुर्मतः || ४४ ||
द्वात्रिंशद्दलपद्मं तु तद्बाह्ये तत्र संलिखेत् || कादिकांस्तान्मातृवर्णान्सबिन्दूंस्तस्य बाह्यतः || ४५ ||
चन्द्राष्टकयुतं कुर्ययाच्चतुरस्रं मनोहरम् || तस्य कोणेषु लं बीजं लिखेत्तस्य बहिष्पुनः || ४६ ||
वारुणं मण्डलं लेख्यमर्द्धचन्द्रसमप्रभम् || तद्वेष्टयेद्बंबीजेन तद्बहिर्वृत्तयुग्मकम् || ४७ ||
ह्रींबीजेनादिवीथ्यां तु वेष्टयेत्परमंकुशैः || बीजं चाद्यन्तयोर्लेख्यं महागणपतेरिदम् || ४८ ||
यन्त्रं भूर्ज्जे धरायां वा वसने वा समालिखेत् || गोरोचना गोमयन्तु कस्तूरी केशरं तथा || ४९ ||
एतैश्च विलिखेद्यन्त्रं लेखनीस्वर्णरौप्यजा || एतद्यन्त्रं धृतं येन सत्वजेयो नरो भवेत् || ५० ||
न दह्यते वह्निनासौ न भयं तस्करान्नृपात् || रणे राजकुले द्यूते संग्रामे शत्रुसंकटे || गृहे वने जलादौ वा सर्वदा स जयी भवेत् || ५१ ||
अनामिकारक्तयुक्तै रक्तद्रव्यैर्लिखेच्च तत् || रक्तपुष्पादिमिश्चैव नैवेद्यैः परिपूजयेत् || ५२ ||
मनोज्ञां च ततो मूर्त्तिं कृत्वा तदुदरे क्षिपेत् || प्. ७७२)प्रतापयेच्च दीपाग्नौ सप्ताहात्स्त्रियमाप्नुयात् || ५३ ||
जप्त्वा मनुं चाष्टशतं होमयेच्च घृतं तदा || अवश्यं वशयेन्नारीं विद्वेषणमथोच्यते || ५४ ||
विद्वेषिरक्तसंघृष्टश्मशानाङ्गारकेण च || लिखेद्यन्त्रं तु मृतकवस्त्रपुङ्खे बहिष्कृते || ५५ ||
सम्यक्संपूजयेद्द्वन्द्वं द्वेषयेत्तद्ध्वजाग्रके || स्थापयेद्वैरिसङ्घस्य विद्वेषो जायते महान् || ५६ ||
स्तम्भनं वक्ष्यते चाथ लिखेद्यन्त्रं शिलातले || पीतद्रव्यैः पीतपुष्पैरर्कपुष्पैः प्रपूजयेत् || ५७ ||
पीतसूत्रैर्वेष्टयित्वा साध्यस्य स्थापयेदसून् || तद्देहल्यास्त्वधस्ताच्च निखनेत्स्तम्भकारकम् || वाक्स्तम्भं वा गतिस्तम्भं सेनास्तम्भं करोति तत् || ५८ ||
श्मशानाङ्गारमष्या तु मृतवस्त्रे समालिखेत् || नरास्थ्नि क्रोधसंयुक्तः पूजयेच्चन्दनादिभिः || ५९ ||
निखातं शवभूमौ तदवश्यं मारयेद्रिपून् || उत्खातमेतत्पयसा धौतं यन्त्रं च शान्तिकृत् || महागणपतेर्यन्त्रं प्रोक्तं षट्कर्मसिद्धिदम् || ६० ||
द्वितीयमथ वक्ष्यामि साधकाभीष्टदायकम् || कृत्वा षट्कोणमादौ तु तस्य मध्ये त्रिकोणकम् || ६१ ||
ओंकारं तस्य मध्यस्थं मध्यगं बीजमालिखेत् || त्रिकोणोर्ध्वं चतुर्दिक्षु श्रीं-ह्रीं-क्लीं-ग्लौं समालिखेत् || ६२ ||
षट्कोणस्य च कोणेषु पूर्वाशादिक्रमेण च || ओं-श्रीं-ह्रीं-क्लीं-ग्लौं च गं च लिखित्वा षड्दले क्रमात् || ६३ ||
तस्योपरि लिखेत्तत्र मनोर्वर्णांस्त्रिकांस्त्रिकान् || गणपतय इत्यादि वर्णैकं चाष्टमे दले || ६४ ||
कार्ययं तस्य बहिर्वृत्तपञ्चकं प्रथमे लिखेत् || वीथ्यग्रे तु ह्यकारादीन्क्षकारान्तान्द्वितीयके || ६५ ||
अकारादिक्षकारान्तान्व्यत्यस्तांस्तु तृतीयके || ऐंबीजैर्वेष्टयेत्तुर्ययं ह्रींबीजेन ततो बहिः || ६६ ||
चतुरस्रद्वयं कुर्ययात्स्त्रीणामर्थे यदा भवेत् || पुरुषार्थकृतं यन्त्रं त्वष्टास्रेणैव वेष्टयेत् || ६७ ||
महागणपतेर्यन्त्रं लेख्यं हेमशलाकया || अलक्तं चैव काश्मीरकस्तूरीरोचनान्वितम् || ६८ ||
मेलयित्वा विभागेन पिष्ट्वा चन्दनवारिणा || स्वर्णपट्टेथ वा सूत्रे धृतं प्राणप्रतिष्ठया || आयुरारोग्यसम्पत्तिकीर्त्तिकृत्प्रीतिवर्धनम् || ६९ ||
अथ यन्त्रं प्रवक्ष्यामि हरिद्रागणपस्य च || लिखेदष्टदलं पद्मं कर्णिकायां तु वर्तुलम् || ७० ||
तस्य मध्ये साध्यनामवेष्टितं प्रणवं लिखेत् || प्रणवस्योत्तरे ग्लौं चाग्रे तस्य जठरे तु गम् || ७१ ||
गकारमध्ये ह्रींकारं ततःपद्मस्य दिग्दले || प्. ७७३)भूबीजोदरगं हं च पूर्वाशादिषु विन्यसेत् || ७२ ||
आग्नेयादिकपत्रेषु केवलं गं समालिखेत् || कमलं वा ततो लेख्यं चतुरस्रद्वयाकृति || ७३ ||
अष्टकोणं तस्य कोष्ठाष्टके भूपुरमालिखेत् || तस्य गर्भे वकारं च सबिन्दुं कोणमस्तके || ७४ ||
कुर्ययाच्च हस्तिमुण्डानि तेषां मध्ये च हं लिखेत् || तद्बहिश्चतुरस्रं च ग्लौं तत्कोणेषु संलिखेत् || ७५ ||
गंकारं दिक्षु विलिखेदास्ये कर्णे विलोचने || आदित्यबुधशुक्राणां मध्ये कस्यापि वासरे || ७६ ||
निशीथे निर्जने देशे प्रलिप्ते गोमयाम्भसा || प्रदीपदीपिते तत्र तथैवार्द्रकसंयुताम् || ७७ ||
संस्थापयेद्धरिद्रां च सम्यक्प्रक्षालितां जलैः || स्थानाष्टके गणेशस्य वरिष्ठां पादसम्मिताम् || ७८ ||
मृदमानीय संमील्य कन्यया पेषयेच्च ताम् || पश्चात्संशोधयित्वा तां पञ्चविंशतिसंख्यया || ७९ ||
तां हरिद्रागणेशस्य मूलमन्त्रेण मन्त्रयेत् || पश्चात्तां लेपयेन्मन्त्री शुभे सूक्ष्मे सितेम्बरे || ८० ||
अस्मिन्पटे लिखेद्यन्त्रमेतत्पूर्वोक्तमेवहि || अत्र प्राणान्प्रतिष्ठाप्य पूजितं गुटिकीकृतम् || ८१ ||
गणेशस्यापि प्रतिमां चाङ्गप्रत्यङ्गसंयुताम् || विनिर्माय त्रिभिर्भागैर्निशायां तद्धृदि क्षिपेत् || ८२ ||
प्राणसंस्थापनं भूयः कुर्ययान्मूर्त्तेर्विचक्षणः || गन्धपुष्पादिनैवेद्यैरभ्यर्च्य गणनायकम् || ८३ ||
सदा तन्निलये न्यस्य सहस्रं साष्टकं मनुम् || संजप्य पूजयेद्भक्त्या पीतवर्णैश्च पुष्पकैः || ८४ ||
सिद्धौदनेन नैवेद्यं निवेद्याथ बलिं हरेत् || तण्डुलाञ्च्छालिसम्भूतान्प्रस्थमानमिताञ्च्छुभान् || ८५ ||
विदलीकृतमूर्द्धांश्च तदर्धं तत्र मेलयेत् || गुडं चैव तथा भूयो नारिकेलं च तत्समम् || ८६ ||
मरिचं मुष्टिमानं च सैन्धवं च तदर्धकम् || तदर्धं जीरकं चाज्यं कुडवार्धसमं भवेत् || ८७ ||
एतत्सर्वं चतुष्प्रस्थगोदुग्धे मन्दवह्निना || पचेत्सिद्धौदनश्चायं गणेशस्य महाप्रियः || ८८ ||
अमुना पायसेनाथ लड्डुकापूपकादिभिः || कर्पूरवासितैः पूगैस्ताम्बूलैश्चन्दनादिभिः || ८९ ||
तोषयित्वा विधानेन हरिद्रागणपं विभुम् || प्रणमेद्दण्डवद्भूमौ स्तुत्वा स्तुतिभिरादरात् || ९० ||
एवं यः कुरुते नित्यं पञ्चभिः सप्तभिर्दिनैः || विघ्नेश्वरप्रसादेन त्रैलोक्यं सचराचरम् || स्तम्भयेत्साधकः सत्यं युद्धभूमौ महानिशि || ९१ ||
प्. ७७४)स्थापयेद्वैरिणः सेना व्याकुला स्तम्भिता भवेत् || देशे ग्रामे पुरे गेहे सभायां स्थापयेद्भुवि || तत्तत्स्थानगतान्सर्वाञ्जनान्सस्तंम्भयेन्नरः || ९२ ||
शाखिशाखागतं सम्यक्स्तम्भयेद्वर्षणं महत् || अश्ववारणशालासु क्षणात्सर्वानुपद्रवान् || ९३ ||
सम्यग्निवेश्य चैतेषु स्थानेषु बलिमाहरेत् || स्तम्भयेदखिलं विश्वं किम्पुनर्वाञ्छितं जनम् || ९४ ||
अथाकृष्टिकरं वक्ष्ये हरिद्रागणपस्य च || हरिद्रां शोधयेद्वेश्ममृदा प्रोक्तेन वर्त्मना || ९५ ||
लिखेदष्टदलं पद्मं कर्णिकायां तु वर्त्तुलम् || तस्य मध्ये साध्यनाम प्रणवावेष्टितं लिखेत् || ९६ ||
प्रणवस्योदरे ह्रीं च तस्याश्च जठरे तु गम् || तद्वेष्टयेत्साध्यनाम ह्रंगंभ्यां हरिदक्षरैः || ९७ ||
हरिद्राविघ्नमन्त्रार्णैर्वृत्तं कुर्ययात्तदूर्ध्वतः || ह्रींकारैर्वेष्टनं कृत्वा लिखेदष्टदले पुनः || ९८ ||
ओं-ह्रींबीजं दलाग्रेषु वंबीजं दिक्षुचालिखेत् || विदिक्पात्रं वेष्टयेच्च पूर्ववच्चाष्टकोष्ठकम् || ९९ ||
तस्य पूर्वादिकोष्ठेषु द्रां-द्रीं-क्लीं-ग्लूं क्रमाल्लिखेत् || विदिक्पत्रेषु संलिख्य शूलान्कोष्ठाग्रतो लिखेत् || १०० ||
शूलाग्रेष्वपि ह्रंकारं तत्सन्धावर्धचन्द्रयोः || सम्पुटीकृत्य संलिख्य मायया कोणयुग्मके || १०१ ||
पञ्चमावरणं ह्येतल्लिखितं पूर्ववर्त्मना || कृतप्राणप्रतिष्ठं तद्धरिद्राविघ्नकुक्षिगम् || १०२ ||
ओंह्रं सम्पूज्य यत्नेन समीरं स्थापयेद्बुधः || चक्रिहस्तमृदापोह्य गणेशागारमृत्तिकाम् || १०३ ||
शरावयुगलं रम्यं निर्मायान्यत्र चोभयोः || विन्यस्य तं गणेशानं कुसुमैररुणैर्यजेत् || १०४ ||
बलिं दत्त्वाथ सम्पूज्य विघ्नेशं चन्दनादिकैः || द्वितीयेन शरावेण विदधीत सुसाधकः || १०५ ||
प्रत्यहं कुर्वतस्त्वेवं सप्तभिर्दिवसैर्भुवि || साधकस्य समायाति सन्निधौ वाञ्छितो जनः || १०६ ||
भूपालस्तत्सुतो वापि महिषी वा वराङ्गना || अमात्यस्तस्य योषा वा तस्य कन्यापि वाद्भुता || आगच्छन्ति न सन्देहो मन्त्रिणः क्लिन्नचेतसः || १०७ ||
यन्त्रमेतल्लिखित्वा तु तारपत्रे गुडाम्भसा || पूजितं स्थापितप्राणं दुग्धेनैवाभिषेचयेत् || १०८ ||
साध्यस्याभिमुखे भूत्वा कथयेत्प्रजपेन्मनुम् || प्. ७७५)तदानीमानयेन्नूनं कामयानां तु सुन्दरीम् || १०९ ||
सामुद्रं रामठं न्यस्य तस्यागारे हरिद्रया || स्विन्नेन मर्दयित्वा तु कृत्वा साध्याकृतिं शुभाम् || ११० ||
श्वेतार्कच्छदयुग्मान्तः सप्राणां सन्निवेशयेत् || दीपाग्नौ तापयेन्मन्त्रं जपेदष्टसहस्रकम् || क्षणादायाति कामार्त्ता वाञ्छिता वरवर्णिनी || १११ ||
नागवल्लीदले क्षौद्रलिप्ते यन्त्रमिदं लिखेत् || साध्यं संस्मृत्य सम्पूज्य स्वैरं जप्तं प्रभक्षयेत् || सीमन्तिनी समायाति शीघ्रं यौवनगर्विता || ११२ ||
पत्रे पुष्पे तु वस्त्रादौ क्षौमे वापि लिखेत्क्रमात् || यमुद्दिश्यात्र तस्यापि क्षणादाकृष्टिकारकम् || ११३ ||
प्रवाहाभिमूखो वापि सरित्सङ्गमनीरगः || तर्प्पयेत्तज्जलैः शुद्धैरष्टोत्तरसहस्रकम् || शतयोजनदूरात्तु साध्यमाकर्षयेद्ध्रुवम् || ११४ ||
बहुनोक्तेन किं चात्र स्मृत्वा यं प्राणिनं जपेत् || मनुमेनं विधानेन स तदाकर्षयेद्धि तम् || ११५ ||
अथ वक्ष्यामि वश्यार्थं यन्त्रसाधनमुत्तमम् || यन्त्रं सुलिख्य पूर्वोक्तं मायाबीजमुदस्य च || तत्स्थाने कामबीजं च काममध्ये तु गं लिखेत् || ११६ ||
बहिः श्लिष्टैर्मन्त्रवर्णैर्वेष्टयेद्यन्त्रबाह्यतः || वेष्टयेत्कामबीजेन शेषं पूर्ववदेव हि || ११७ ||
पूर्ववत्कृतविघ्नेशकुक्षिमध्ये निवेशयेत् || विधिना स्थापितप्राणं शरे विन्यस्य तं जपेत् || ११८ ||
रक्तमाल्यानुलेपाद्यैर्नैवेद्यैः पूर्ववत्कृतैः || मनौ साध्याभिधां दत्त्वा स्थानेपूर्वसमीरिते || ११९ ||
वशमानययुग्मं च जपेदष्टसहस्रकम् || साध्यदिक्सम्मुखो भूत्त्वा मन्त्रं मन्त्री समाहितः || १२० ||
विघ्नेशाय बलिं दत्त्वा छादयेत्तं च पूर्ववत् || एवं दिनत्रयं कुर्वन्सप्तभिर्दिवसैर्बुधः || १२१ ||
रक्षोभूतपिशाचाद्यान्देवदानवपन्नगान् || राजानं मन्त्रिणं राज्ञां स्त्रियं जप्त्वा तथेप्सिताम् || वशयेत्साधकः शीघ्रं यावज्जीवं न संशयः || १२२ ||
निशांशेनावशिष्टेन निजदेहे सुलेपयेत् || अचलां कमलां लब्ध्वा वशयेद्विश्वमञ्जसा || १२३ ||
हरिद्रया समं चूर्णं शालितण्डुलसम्भवम् || तत्समेन गुडेनापि मधुना सैन्धवेन च || १२४ ||
सम्यग्विमर्दयित्वा च पिण्डाकारं पचेद्धृते || निर्माय गणपं तेन यन्त्रं तद्धृदिनिःक्षिपेत् || १२५ ||
समीरं च प्रतिष्ठाष्य गन्धाद्यैः पूर्ववद्यजेत् || प्. ७७६)त्रिदिनं पूजयित्ववं यन्त्रमध्यात्पृथक्पृथक् || प्रतिमां भक्षयेत्पश्चात्साध्या वश्या भवेद्ध्रुवम् || १२६ ||
शालिपिष्टादिपिण्डेन कृत्वा साध्याकृतिं शुभाम् || अष्टाधिकशतं जप्त्वा पूजितां स्थापितानिलाम् || १२७ ||
निवेद्य विघ्नराजाय साध्यं संस्मृत्य भक्षयेत् || वशयेद्वाञ्छितं साध्यं सदा सर्वस्वदायिनम् || १२८ ||
वश्यमन्त्रं लिखेन्मन्त्री खाद्यपानादिवस्तुषु || एवं कृत्वा जपेन्ना त्रिसहस्रं साष्टकं बुधः || लक्षेण वशयेत्साध्यं वसुमात्रस्य साधकम् || १२९ ||
चन्दनागुरुकर्पूरनिशाकुंकुमरोचनाः || मृगेभमदसंयुक्ता ह्यष्टाङ्गं विघ्ननाशने || १३० ||
सम्पिष्य तद्वशीकारयन्त्रमालिख्य पूर्ववत् || अर्च्चनादि तथा कृत्वा जपित्वाष्टोत्तरं शतम् || १३१ ||
लिम्पेदनेन गात्रं स्वं कुर्वन्वश्यविशेषकम् || ईक्षणात्स्पर्शनात्सद्यस्त्रिलोकीं वशमानयेत् || १३२ ||
एवं कृत्वा विधिं सद्यो वशयेद्योषितः पुमान् || चन्दनेनैव वा कुर्ययाद्विधिमेनं फलप्रदम् || १३३ ||
द्विरेफश्च सदाभद्रा मुसली चन्द्रिका जटी || बन्धूकवालकोशीरविष्णुक्रान्ताबलास्तथा || १३४ ||
वाराही शतवीर्यया च मायूरी चण्डलोचना || सर्वौषधिरसेनैव निशा भागार्धसम्मिता || १३५ ||
पिष्ट्वा वश्याभिधं यन्त्रं निर्माय प्रतिमामपि || प्राणसंस्थापनं कृत्वा जपेदष्टसहस्रकम् || १३६ ||
शिष्टद्रव्येण तिलकं कुर्ययात्प्रातस्तु यो नरः || त्रैलोक्यसम्पदा सोपि तिरस्कुर्ययाद्धनाधिपम् || १३७ ||
कपिलागोमयं व्योम्नि नलिनीदलसम्पुटे || आदाय ब्रह्मचर्ययेण भेषजैरुदितं समम् || १३८ ||
पञ्चगव्येन सम्मर्द्य पिण्डाकारं प्रकल्पयेत् || घृतप्लुतं दहेन्मन्त्री शोषयित्वैधितेनले || १३९ ||
समुद्धृत्य च तद्भस्म तन्मध्ये यन्त्रमालिखेत् || समीरणं प्रतिष्ठाप्य गणपं तत्र पूजयेत् || १४० ||
अष्टाधिकशतं मन्त्री जपित्वा मन्त्रमुत्तमम् || काष्ठजे रूप्यरचितपात्रे कांस्यमये तथा || निधाय लेपयेद्भस्म ललाटादिषु साधकः || १४१ ||
कान्तिपुष्टिधनारोग्यपुत्रपौत्रयशःपशून् || लब्ध्वा लोकप्रियो भूत्वा दीर्घजीवी भवेद्ध्रुवम् || १४२ ||
पुरोधा नृपते रक्षां भस्मना सायमन्वहम् || कुर्ययादायुष्यवृद्ध्यर्थं यो वै विजयसम्पदे || १४३ ||
तस्मै निष्कत्रयं नित्यं मन्त्री दद्यात्पुरोधसे || प्. ७७७)रक्ताम्बरसुवर्णैस्तु प्रोक्तभेषजपूर्वकम् || १४४ ||
निधाय कपिलाज्येन तद्वर्त्या नृकपालके || दीपं प्रज्वाल्य तेनैव जपेन्मन्त्रं पुनः पुनः || १४५ ||
अष्टोत्तरशतं जप्त्वा गृहीत्वा कज्जलं च तत् || नेत्रे दत्त्वा च वशयेन्निखिलं विश्वमोजसा || १४६ ||
उमारसेन गुटिकां पिष्ट्वा चन्दनवारिणा || अभिमन्त्र्य नरं यं वा तिलकं प्रकरोति या || १४७ ||
सर्वलोकप्रिया भूयादङ्गस्पर्शान्निजं पतिम् || अङ्गानुवर्त्तिनं कुर्ययाद्यावञ्जीवं न संशयः || १४८ ||
शुद्धया निशया कृत्वा विघ्नेशं प्रोक्तलक्षणम् || प्रोक्तं गणपतेर्मन्त्रं नरो जप्त्वा सहस्रकम् || १४९ ||
अष्टाधिकं समभ्यर्च्य चन्दनादिभिरादरात् || शिखायां बन्धयेन्नित्यं सर्वतो जयमाप्नुयात् || १५० ||
संग्रामे विपिने दुष्टश्वापदोत्थभये परे || आपणव्यवहारेषु द्यूते वादे महार्णवे || १५१ ||
राज्ञश्चरसमुहेषु सभायां शत्रुसङ्कटे || विजयी जायते वीरो रोगकृत्याविवर्जितः || पराङ्गनासमूहेषु शोभते मन्मथो यथा || १५२ ||
नागवल्लीदले यन्त्रं लिखित्वा नागवारिणा || सप्राणमर्चितं सप्तमष्टोत्तरसहस्रतः || अखिलं वाञ्छितं साध्यं वश्यं नयति तत्क्षणात् || १५३ ||
गोदुग्धे सलिले मन्त्री क्वथिते सुदृढीकृते || यन्त्रं विलिख्य तेनैव निर्माय गणनायकम् || अभिमन्त्र्य शतं साग्रं लक्षयेद्वशयेज्जगत् || १५४ ||
नारिकेलं गुडोपेतं सघृतं त्रिशतं हुनेत् || अन्वहं कृतसम्पातमष्टाधिकशतं बुधः || सम्पातं लक्षयेद्यन्त्रं वशमायाति सोचिरात् || १५५ ||
अन्यात्किमु बहूक्तेन साध्यं सञ्चिन्तयन्मनुम् || जपेत्स वशतां याति यावदायुर्न संशयः || वशीकरणमन्त्रस्य प्रयोगोयमुदाहृतः || १५६ ||
अथातः सम्प्रवक्ष्यामि यन्त्रमुच्चाटनम्परम् || उक्तरीत्या लिखेद्यन्त्रं हुंकारं तस्य मध्यतः || १५७ ||
ह्रांकारमथ संलिख्य तस्य मध्ये यथा तथा || तस्य मध्ये साध्यनाम यं लिखेत्पत्रमध्यतः || १५८ ||
गंबीजं च दलाग्रेषु तदग्रे चाष्टकोणकम् || कोणेकोणे त्रिशूलञ्च शूलाग्रेषु निवेशितम् || १५९ ||
षड्बिन्दुलाञ्छितं कार्ययं बहिर्वृत्तं सुशोभनम् || षड्बीजस्थान आलिख्यं यंबीजेन च वेष्टितम् || १६० ||
प्रणवं च तदा लेख्यं निशालेपनपूर्वकम् || श्मशानाङ्गारसारेण ध्वाङ्क्षपक्षशलाकया || प्. ७७८)यन्त्रमेतत्समालिख्य स्थापयेदीरणं ततः || १६१ ||
पिकमध्य स्थितध्वाङ्क्षगृहकाष्ठं प्रयत्नतः || श्मशानवह्नौ संदह्य भस्मादाय तदुद्भवम् || १६२ ||
विघ्नाधीशगृहद्वाःस्थशर्करारजसान्वितम् || यन्त्रमध्ये प्रविन्यस्य पुनस्तद्गुटिकीकृतम् || १६३ ||
शवालिप्तनिशालेपचिताभस्मास्थिनी तथा || पेषयेच्च चिताङ्गारं कपिकच्छुं च वानरीम् || १६४ ||
साधको मन्त्रसारेण निर्माय गणपाकृतिम् || तत्तस्या मध्यगं कृत्वा पुनः प्राणान्प्रवेशयेत् || १६५ ||
चक्रिहस्तमृदा चैव साध्यपादोत्थपांशुना || शरावयुगलं मन्त्री निर्मायान्यत्र चोभयोः || १६६ ||
अन्यत्र तत्प्रविन्यस्य कृष्णपुष्पैः प्रपूजयेत् || मनावुच्चाटयद्वन्द्वं योजयित्वा जपेन्मनुम् || १६७ ||
अष्टोत्तरसहस्रं तु च्छादयित्वा परेण तम् || निखनेद्यस्य च द्वारि मासेनोच्चाटयेच्च तम् || १६८ ||
अथातः सम्प्रवक्ष्यामि यन्त्रं विद्वेषणाह्वयम् || यन्त्रं पूर्वदिने लेख्यं मध्ये यं च सबीजकम् || १६९ ||
पद्ममष्टदलं पश्चात्त्रिशूलानि दलोर्ध्वतः || त्रिशूलाग्रे तु हंकारं हंकारेण तु वेष्टयेत् || १७० ||
निशातुर्ययांशमानेन मरिचं निम्बमेव च || द्वित्रित्रिद्विगुणं पिष्ट्वा हेमपत्राम्बुना ततः || १७१ ||
मृतकर्पटकं पिष्ट्वा शेषमन्त्रमिमं लिखेत् || पञ्चाङ्गं पारिभद्रस्य काकिणीञ्च तथा पुनः || १७२ ||
चिताग्नौ सन्दहेद्भस्म यन्त्रमध्ये निवेशयेत् || संवृत्य विघ्नराजस्य कुक्षौ पूर्ववदर्चयेत् || १७३ ||
पिचुमन्दभवैः पत्रैः कृष्णपुष्पैर्विशेषतः || विद्वेषयद्वयं मन्त्रे जपेत्संयोज्य साष्टकम् || १७४ ||
सहस्रं तु शरावं च निखनेच्छादितं ततः || प्रीतयोर्विधिनानेन विद्वेषो भवति ध्रुवम् || १७५ ||
आदाय गणपं मन्त्री प्रीतयोरन्तराक्षिपेत् || वैरम्प्रजायते शीघ्रं देशनाशो भवेद्द्वयोः || १७६ ||
स तद्यन्त्रगतं भस्म गृहीत्वा पथि विन्यसेत् || गच्छतां पादसंस्पर्शाद्विवादस्तु महान्भवेत् || १७७ ||
देशे ग्रामे पुरे यत्र स्थापितो गणपो भवेत् || वैरं च प्राणिवत्तत्र स्वैरं भवति सर्वदा || १७८ ||
पारिभद्रस्य पञ्चाङ्गमेकभागमितं भवेत् || भागैकं मरिचस्यापि निशायाश्च तथैव च || १७९ ||
सन्दह्य भसितं पूर्ववर्त्मना संस्कृतं पुनः || विकीर्णं वैरिणो मूर्ध्नि कुर्यादुन्मादमूकताम् || प्. ७७९)इति विद्वेषणं प्रोक्तं मारणं कथ्यतेधुना || १८० ||
पूर्वोक्तमन्त्रमालिख्य ह्रांकारं तस्य मध्यतः || मायाविघ्नेशबीजे द्वे ह्रांकारे तु समालिखेत् || लेख्यं दलेष्वग्निबीजं तद्बाह्येष्टास्रकं भवेत् || १८१ ||
चतुरस्रद्वये चाथ रंतत्कोणाष्टके लिखेत् || त्रिकोणं तद्बहिः कार्यं त्रिकोणे च वरे लिखेत् || १८२ ||
मन्त्रप्रोक्तानि बीजानि वह्निकोणे लिखेदथ || तद्वहिर्वह्निकोणेषु वह्निबीजं समालिखेत् || १८३ ||
निशां शुद्धां समालिख्य मृतकर्पटके शुभे || चिताङ्गारोत्थय मष्या काकपक्षशलाकया || १८४ ||
यथोक्तं सुलिखेद्यन्त्रमेतन्मारणनामकम् || कणारामठचव्याख्यनिशामरिचसद्वचाः || १८५ ||
स्नुहीक्षीरेण संलिप्य पिष्ट्वा शवपटेथ वा || कारस्करस्य पञ्चाङ्गैरण्डबीजान्वितामृताम् || १८६ ||
पिष्ट्वा कर्पटकेशौ च लिम्पेच्छेषं पुरोक्तवत् || समीरं च प्रतिष्ठाप्य कृत्वा गणपतिं ततः || १८७ ||
यन्त्रस्य त्रिदले न्यस्य पुनः प्राणप्रतिष्ठितम् || मातृसद्मसमुद्भूतां गणेशागारमृत्तिकाम् || १८८ ||
निम्बान्मृदं च कर्कन्धूवृक्षमूलसमुद्भवाम् || श्मशानमृत्तिकां तद्वत्करवीरद्रुमूलजाम् [द्रुशब्दो वृक्षपर्यायः ||] || १८९ ||
कुम्भकारकरस्पृष्टामूषरस्थानजां मृदम् || पिष्ट्वा शरावयुगलं कृत्वा चान्यत्र चोभयोः || १९० ||
यन्त्रं निवेशयेच्चापि कृष्णपुष्पैः प्रपूजयेत् || कारस्करभवैः पत्रैर्नैवेद्यैश्च यथा पुरा || १९१ ||
उक्तमन्त्रपदस्थाने साध्यनाम निवेश्य हि || मानयेत्पूजयेच्चैव सहस्रं साष्टकं जपेत् || १९२ ||
दक्षिणाशामुखो भूत्वा रजन्यां भूतवासरे || चत्वरे प्रेतभूमौ च मातृविघ्नगृहेथ वा || १९३ ||
वल्मीके कोटरे वापि कारस्करतरूद्भवे || विधायान्यशरावे च निखन्य बलिमाहरेत् || साध्यो यमपुरं याति सप्ताहाज्ज्वरपीडितः || १९४ ||
अमोघवीर्ययमेतद्धि विधानं भुवि दुर्लभम् || भूदेवव्यतिरिक्तेषु राजवैरिषु योजयेत् || १९५ ||
नृपोपि कारयेद्यस्तु कर्तारं तोषयेद्धनैः || कर्त्तापि तद्दशांशेन प्रायश्चित्तं समाचरेत् || १९६ ||
एतान्युक्तानि यन्त्राणि हरिद्रागणपस्य च || षट्षट्कर्मकराण्याशु गोपनीयानि यत्नतः || १९७ ||
प्. ७८०)अथ वक्ष्ये मातृकाया यन्त्रं साधकसिद्धिदम् || अष्टपत्रं लिखेत्पूर्वं मातकूटं तु मध्यतः || १९८ ||
ह्र्सौमिति च पत्रेषु केशरेषु त्रिशः स्वरान् || तस्योर्ध्वं भूपुरं कुर्यांद्रचनेयं प्रदर्शिता || १९९ ||
एतद्यन्त्रस्य मध्यस्थं नाम कृत्वा प्रयोजयेत् || प्रातर्मूर्ध्नि शिरोबिन्दुमध्यस्थं सर्वसम्पदे || २०० ||
अभिषेकाच्च धनकृत्पूजनाल्लोकवश्यकृत् || २०१ ||
स्थापनाद्गृहदेशादौ यन्त्रं सर्वार्थसिद्धिदम् || सौवर्णे राजते ताम्रे पट्टे वा यन्त्रमुद्धरेत् || २०२ ||
यस्य प्रतिष्ठा देवस्य लिखेत्तन्नामपूर्वकम् || यन्त्रमध्ये महादेवं सम्यग्ध्यात्वा तु तत्र च || २०३ ||
प्राणप्रतिष्ठां कुर्वीत देवीं तत्रार्चयेत्पुनः || स्पृष्ट्वा यन्त्रं जपेन्मन्त्रमष्टोत्तरसहस्रकम् || २०४ ||
मातृकानामतो यन्त्रं निखनेच्च धरातले || तत्र सम्यक्पूजयित्वा मृदा भूमिं च पूजयेत् || २०५ ||
मातरश्चोपरि स्थाप्याः स्वाभीष्टा देवता ततः || सान्निध्यं देवतायाः स्यात्साधकः सुखमाप्नुयात् || २०६ ||
अथो लिपीश्वरस्यान्यं वक्ष्ये यन्त्रं सुसिद्धिदम् || लिखेदष्टदलं पद्मं तन्मध्ये ज्ञानिनो मनुम् || २०७ ||
हह ज्ञानिन इत्येष नमोन्तः सप्तवर्णकः || ज्ञानिमन्त्रं वसुदले पूर्वादिषु लिखेत्क्रमात् || २०८ ||
ह्रंकारपुटितं यं च ह्येकारं हं ततः पुनः || इं-ईं-उं-ऊं च ऐं लेख्यं चाष्टपत्रेषु मन्त्रिणा || २०९ ||
सिद्धादिचक्रे साध्यस्य नामाद्यर्णस्थितो भवेत् || यन्त्रकोष्ठे तत्र संस्थैर्वर्णैः साध्यस्य नामकम् || २१० ||
पुटयित्वाष्टमं पत्रं लिखेदथ च वेष्टयेत् || वृत्तेन यन्त्रमुक्तं तन्मातृकायास्तथैव च || २११ ||
चन्दनेन पटे लेख्यं चिरं जयति दुःखदम् || सर्वशान्तिकरं राहोरोहिण्यामुदिते सति || २१२ ||
साधकस्य करे बद्धं पूर्वोक्तं फलमादिशेत् || एतस्या एव देव्यास्तु वक्ष्य उच्चाटमारणम् || २१३ ||
यन्त्रं प्राग्वच्चाष्टदले कर्णिकायां मनुं श्रियम् || हंकापेश्वराय नमः प्रोक्तश्चाष्टाक्षरस्त्विह || २१४ ||
ततो मध्यादष्टदिक्षु वर्णान्सम्पुटितांल्लिखेत् || ईं मध्ये पूर्वतो यै च कं चं दं तंयमेव च || यं शं वं हं च प्राच्यां हि प्राग्वद्वा सं समालिखेत् || २१५ ||
सिद्धादिचक्रकोष्ठस्था वर्णाः संपुटितास्तु ये || बहिस्तु ते वेष्टनीया वायुमण्डलचक्रतः || २१६ ||
षड्बिन्दुलांछितं वृत्तवेष्टितं रसकोणकम् || प्. ७८१)वायुमण्डलमेतत्स्यात्स्नात्वा मन्दोदये सति || २१७ ||
तालपत्रे लिखित्वारेर्गृहमध्ये निधापयेत् || अवश्यन्तस्य मृत्युस्स्याद्देहल्यधः प्रपूजितम् || यदा तदा भवेच्छत्रोरुच्चाटो नात्र संशयः || २१८ ||
अष्टपत्रं लिखेत्पद्मं कर्णिकायां लिखेन्मनुम् || करौ स्वठौ नैफड् नमो मनुरष्टाक्षरः स्मृतः || २१९ ||
अष्टपत्रेषु लेख्यानि रंकारपुटितानि तु || उं ईं खं छं ठं च यं च हंसं चेति प्रवेष्टयेत् || २२० ||
त्रिकोणेनाष्टमे पत्रे शत्रोर्नाम लिखेदथ || सिद्धादिचक्रे कथिता ये वर्णास्तैश्च संयुतम् || २२१ ||
भौमोदये कृत्तिकायां शववस्त्रे समालिखेत् || श्मशानाङ्गारकेणापि स साध्यः स्याद्यमातिथिः || २२२ ||
एवमष्टदले च स्यान्नाममित्रार्णवेष्टितम् || काश्मीरीयावकाभ्यान्तु भूर्ज्जपत्रे लिखेत्पुनः || २२३ ||
अर्चयित्वा करे चैव बध्नीयाद्वामके तु यंः || सर्वत्र कुरुते रक्षां यन्त्रमेतत्सुदुर्लभम् || २२४ ||
अथ यन्त्रान्तरं वक्ष्ये प्राग्वदष्टदलं कुरु || तत्कर्णिकायां तु लिखेदों-वों-विं-विं विधुन्तुदा || २२५ ||
य नमश्चेति रुद्रार्णान्दलेषु विलिखेत्क्रमात् || प्रादक्षिण्येन पूर्वादौ वर्णान्बीजेन संयुतान् || २२६ ||
अं ओं वं-धं-कं च टं च धं-भं चैवाष्टपत्रके || प्राग्वत्साध्यं च मित्रार्णयुक्तं सम्यक् क्रमाल्लिखेत् || २२७ ||
ततस्तु वेष्टयेत्सर्वमधचन्द्रैः सुशोभनैः || २२८ ||
पूर्वाषाढाख्यनक्षत्रे लिखेच्छुक्रोदये सति || कुचन्दनोदकेनैतद्भुक्तम्भक्ष्येण भाग्यदम् || २२९ ||
अष्टपत्रं लिखेत्पद्मं कर्णिकायां लिखेन्मनुम् || अंठं जगौच ठं प्रोच्य मूलमन्त्रो नवाक्षरः || लिखेदष्टदले प्राग्वत्प्रादक्षिण्येन संपुटान् || २३० ||
ठं-लं-गं जं च टं दं लं प्राग्वच्चाष्टदले तथा || साध्यनामार्णकान्मित्रवर्णाद्यानपि चाग्रतः || २३१ ||
भूपुरं चाष्टवज्राख्यं लिखेद्भूर्जे च गैरिकैः || धृत्वा हस्ते प्रोक्ष्य करं श्मशानमृत्तिकास्थले || लिखितं गैरिकैरेतत्सर्वोपद्रवनाशनम् || २३२ ||
वक्ष्ये त्रिपुरभैरव्या यन्त्रं सर्वार्थसाधकम् || नवयोन्यात्मकं सम्यक्त्रिकोणन्तस्य मध्यतः || २३३ ||
या योनिस्ता समारभ्य प्राच्यां भागात्प्रदक्षिणम् || ससार्वकूटमेकैकं लिखेत्तानि वदाम्यहम् || २३४ ||
हकारञ्च सकारं च तथौकारसमन्वितम् || नादविन्दुसमायुक्तं मध्ययोनाविदं लिखेत् || २३५ ||
प्. ७८२) हकारञ्च सकारं च ककारञ्च तथा लरौ || नादबिन्दुयुतौ चैव तद्दले च समालिखेत् || २३६ ||
हकारञ्च सकारं च रेफमौकारसंयुतम् || विसर्गाद्यमिदं कूटं तृतीये सुलिखेत्ततः || २३७ ||
पुनरेतानि कूटानि चतुस्सप्तादियोनिषु || वृत्तद्वयन्तु तद्बाह्ये वीथिकायाम्प्रवेष्टयेत् || २३८ ||
सबिन्दुकैर्मातृकार्णैस्तद्बहिश्चाष्टकोणकम् || चतुरस्रद्वयेनैव कर्त्तव्यन्तत्र संलिखेत् || २३९ ||
कामबीजन्तु कोणेषु यन्त्रमेतत्प्रवेष्टयेत् || लाक्षया च त्रिलोहेन होमसम्पातसाधितम् || २४० ||
बाहुमूले धृतं यन्त्रम्पुत्रायुस्सुखदम्भवेत् || नानाभोगाञ्जयं दद्यात्संग्रामे नात्र संशयः || अथान्यत्त्रैपुरं वक्ष्ये भूर्ज्जे षट्कोणमालिखेत् || २४१ ||
ससाध्यं तस्य मध्ये तु कामबीजं समालिखेत् || कोणेष्वपि लिखेत्कामं बहिः षोडशपत्त्रकम् || कुर्ययात्पत्रेषु सुलिखेत्कामबीजानि तद्वहिः || २४२ ||
कृत्वा वृत्तद्वयं वीथ्यां हंबीजेन प्रवेष्टयेत् || तद्वहिश्चतुरस्रन्तु कुर्ययाद्यन्त्रं सुलेखतः || २४३ ||
गोरोचनाकुंकुमाभ्यां सम्पत्सौभाग्यकारकम् || करोति कविताकीर्त्तिं साधकस्य न संशयः || २४४ ||
अथान्यत्सम्प्रवक्ष्यामि त्रैपुरं स्त्रीवशङ्करम् || आदौ लिखित्वा षट्कोणन्तन्मध्ये कामबीजकम् || २४५ ||
काममध्ये तु ह्रीङ्कारं दलेषु विलिखेच्च तत् || षट्कोणसन्धौ हुंकारं सर्वं स्त्रींकारवेष्टितम् || २४६ ||
त्रिपुरदेविविद्महे कामेश्वरि धीमहि || तन्नः क्लीं प्रचोदयात् || २४७ ||
त्रिपुरायास्तु गायत्रीं जप्त्वा यन्त्रे च संलिखेत् || तेन यन्त्रं भवेत्सिद्धमीरितं नात्र संशयः || २४८ ||
अथातः सम्प्रवक्ष्यामि पञ्चबाणेश्वरीमनुम् || यन्त्रं पञ्चदलं चादौ कृत्वा तत्र तु संलिखेत् || २४९ ||
ससाध्यं कामबीजं च दलेषु तु लिखेत्क्रमात् || अग्न्यादिप्रादक्षिण्येन द्रां-द्रीं-क्लीं-क्लूं-स-इत्यपि || २५० ||
वृत्तद्वयञ्च तद्बाह्ये कृत्वा वीथीद्वयम्भजेत् || वेष्टयेत्प्रथमां वीथीं द्रां-द्रीं-क्लीं-ब्लूं-स इत्यपि || २५१ ||
द्वितीयां मातृकावर्णैस्तद्बहिश्चतुरस्रकम् || चतुरस्रेशकोणात्तु कामबीजं समालिखेत् || २५२ ||
सुवर्णनिर्मिते पट्टे कस्तूर्या यत्रमालिखेत् || कण्ठे वा दक्षिणे बाहौ धृतं तत्स्त्रीवशङ्करम् || दद्याद्यथेप्सितान्कामान्साधकाय रणे द्रुतम् || २५३ ||
अथातो राजमातङ्ग्या यन्त्रं वक्ष्ये सुसिद्धिदम् || प्. ७८३)सुवर्णरचिते पट्टे लेखन्या स्वर्णरूप्यया || २५४ ||
राजते ताम्रके वापि भूर्ज्जे वापि मनोहरे || काश्मीरीरोचनैणेययुतचन्दनवारिमिः || २५५ ||
लिखेद्यन्त्रं [लिखेद्यन्त्रमिति च पूर्वान्वयि ||] तु तत्रादौ त्रिकोणं तु समालिखेत् || साध्यनामान्वितं तत्र ह्रीं क्लींबीजद्वयं लिखेत् || २५६ ||
ह्रीं श्रीं तस्माद्बहिः कुर्ययात्पञ्चपत्रसरोरुहे || अं नमः प्रथमे पत्रेऽन्यस्मिन्भगवतीति च || २५७ ||
मातङ्गेश्वरी तृतीये सर्वजनमनोहरी || चतुर्थे पञ्चमे पत्रे स्यात्सर्वमुखरञ्जिनी || २५८ ||
बहिश्चाष्टदलं कृत्वा क्लीं ह्रीं-श्रीं प्रथमे लिखेत् || एतामपि लिखेत्तत्र सर्वराज वशंकराम् || २५९ ||
द्वितीये तु दले सर्वस्त्रीपूरुषवशङ्कराम् || तृतीये सर्वदुष्टेति लिखेन्मृगवशङ्कराम् || २६० ||
चतुर्थे सर्वसर्वेति लिखेच्चापि वशङ्कराम् || पञ्चमे सर्वलोकेति लिखेन्मन्त्रंवशंकराम् || २६१ ||
लिखेत्षष्ठे तथा यन्त्रेमुकं मे वशमानय || स्वाहा सप्तमपत्रेस्य श्रीं ह्रीं-ऐं-सौं च क्लीं च ऐं || २६२ ||
वृत्तद्वयन्तु तद्बाह्ये वीथ्यान्तत्र प्रवेष्टयेत् || बीजषट्कोणके प्रोक्तमष्टपत्रं द्वितीयके || २६३ ||
उक्त्वा श्रीं च तृतीयादिपत्रसंस्थैश्च वर्णकैः || ततोष्टपत्रजैर्वर्णैर्लिखेच्चैवाग्रतस्तदा || २६४ ||
वृत्तद्वये तु तद्बाह्ये तत्र वीथ्यां तु संलिखेत् || साध्यनामाक्षरयुतान्मातृकार्णान्क्रमात्क्रमात् || २६५ ||
तद्बहिश्च तुरस्रं च तत्कोणेषु समालिखेत् || साध्यनामयुतं कामबीजमत्यन्तशुद्धिमत् || २६६ ||
तेन लेख्यमिदं यन्त्रं साधु सर्वेषु जन्तुषु || एतद्यन्त्रं लिखेच्चैव जप्त्वा मन्त्रमनन्यधीः || २६७ ||
हुत्वा घृतादिकं चैव गुटिकीकृत्य साधकः || साभिषेकः स्वयं बाहौ दक्षिणे तद्विधारयेत् || पूज्यते त्रिदशाद्यैश्च किं पुनर्मानवोत्तमैः || २६८ ||
आयुरारोग्यमैश्वर्ययमिच्छेद्यद्यत्स वाञ्छितम् || अवश्यमेव लभते पुरुषो नात्र संशयः || २६९ ||
अथातः सम्प्रवक्ष्यामि भुवनेश्यास्तु यन्त्रकम् || कुर्ययाच्च षड्दलं पद्मं कर्णिकायां च हृल्लिखेत् || २७० ||
साध्ययुक्तं षड्दलेषु केवलं शक्तिबीजकम् || बहिर्वृत्तद्वयं कृत्वा वीथिकाया प्रवेष्टयेत् || २७१ ||
स्वरैः षोडशभिर्बिन्दुयुक्तैस्तद्बाह्यमों लिखेत् || भूपुरं यन्त्रमेतत्तु वन्ध्यानामपि पुत्रदम् || २७२ ||
अथातो भुवनेश्वर्यया वश्यकृद्यन्त्रमुच्यते || प्. ७८४)आदौ सुलिख्य षट्कोणं मायां साध्यसमन्विताम् || २७३ ||
कर्णिकायां षड्दलेषु तद्बहिर्भूपुरं लिखेत् || एतद्यन्त्रं वश्यकरं पूजितं बाहुमध्यगम् || २७४ ||
अथान्यद्भुवनेश्वर्ययाः प्रोच्यते यन्त्रमुत्तमम् || आदौ कुर्ययाच्च षट्कोणं कोणा वज्रसमन्विताः || २७५ ||
मध्ये ससाध्यां मायां च लिखेत्कोणेषु तां पुनः || वृत्तत्रयं बहिष्कुर्ययात्तत्र वीथीद्वयं भवेत् || २७६ ||
वेष्टयेन्मायया वीथीद्वयमेतच्चतुर्थकम् || श्रीखण्डरोचनाभ्यां तु लेख्यं सर्वजयप्रदम् || २७७ ||
दद्याच्च मनसोद्दिष्टं बाहौ वा हृदये धृतम् || मायास्थाने तु मन्त्रं वा भुवनेश्याः समालिखेत् || २७८ ||
अथातः सम्प्रवक्ष्यामि भुवनेश्यास्तु यन्त्रकम् || अष्टपत्रं लिखेत्पद्मं कर्णिकायां समालिखेत् || २७९ ||
आं-ह्रीं-क्रीमिति बीजानि त्रिस्त्रिधा केसरेषु च || लिखेत्स्वरान्पत्रमध्ये कादिवर्गाष्टकं लिखेत् || २८० ||
भूपुरं च बहिष्कुर्ययाल्लिखेत्प्राग्वच्च धारयेत् || सर्ववाञ्छाप्रदं यन्त्रं सम्पत्सन्ततिदं परम् || २८१ ||
अथातः सम्प्रवक्ष्यामि लक्ष्मीयन्त्रं रमाप्रदम् || भूर्ज्जपत्रे लिखेत्पद्मं कर्णिकायां ध्रुवं न्यसेत् || २८२ ||
तत्पत्रेषु लिखेत्क्रीं ह्रीं क्लीं-तथा साध्यनाम च || तत्केसरेषु संलेख्यं श्रीं-ह्रीं-क्लीं च दिगष्टके || २८३ ||
लिखेद्द्वादशपत्रेषु क्रमादेकैकमक्षरम् || वाचं मायां रमां कामं हसनौ इति कूटकम् || २८४ ||
जगत्प्रभूत्यै हृदयं द्वादशार्णो मनुस्त्वयम् || तद्बाह्ये षोडशदले केसरेषु द्वयंद्वयम् || २८५ ||
ककारादिसकारान्तान्द्वात्रिंशर्द्वणकांल्लिखेत् || तारो ह्रीं कवचं कें-कें-क्षें-क्षें-श्रीं-ह्रीं ततः परम् || २८६ ||
क्षं-ह्रीं-फडिति सूर्यार्णो लक्ष्मीमन्त्रः समीरितः || यन्त्रमेतन्महालक्ष्म्याः प्रोक्तं सम्पत्करं परम् || सर्वसौभाग्यदं चापि सर्वदुःखविमोचनम् || २८७ ||
अश्वारूढायन्त्रमथो प्रोच्यते साधकेष्टदम् || षट्कोणमध्ये साध्याख्यां भुवेनेशीं समालिखेत् || २८८ ||
आं ह्रीं क्रीमैं क्लीं च सौं च षड्दलेषु लिखेत्क्रमात् || बहिर्द्वादशपत्रे च वर्णानेतान्समालिखेत् || २८९ ||
अं-आं-क्रां-हहि परमेशवरि स्वाहा ततःपरम् || बहिश्चत्वारि कार्ययाणि वृत्तान्येवं तु वीथिकाः || द्रां-द्रीं-क्लीं-ब्लूं-स इत्येतैर्बाणबीजैः प्रवेष्टयेत् || २९० ||
द्वितीयवीथ्यां हृल्लेखा नित्यक्लिन्ने मदद्रवे || स्वाहेत्येकादशार्णेन वेष्टयेन्मातृकार्णकैः तृतीया तद्बहिः कुर्ययाद्भूपुरे चैव शङ्करम् || २९१ ||
प्. ७८५)अथान्यत्त्वरितायास्तु मनोज्ञं यन्त्रमुच्यते || एकाशीतिपदं चक्रं लिखित्वा तस्य मध्यमे || कोष्ठे लिखेच्चकारन्तु साध्यनामास्य चोदरे || २९२ ||
तत्कोष्ठकाच्चतुर्दिक्षु लिखेत्कोष्ठचतुष्टये || ज्ञां सं चं वं तथैकैकमक्षरं चेशकोणतः || २९३ ||
आग्नेयान्तं लिखेच्छ्लोकं पूर्वोक्तं मध्यमां विना || एवमेव च नैरृत्याद्वायव्यान्तं पुनर्लिखेत् || २९४ ||
तद्बाह्ये तु चतुर्दिक्षु मनुमेनं समालिखेत् || ओं-ह्रीं-ह्रं-खें च क्षें क्षः स्त्रीं-ह्रं-क्षं-ह्रीं च वषण्मनुः || २९५ ||
वृत्तद्वयं तु तद्बाह्ये कृत्वा वीथ्यां समालिखेत् || चं मालिकां तु तद्बाह्ये कुम्भं कुर्ययात्सुशोभनम् || २९६ ||
तस्य मूलमुखे चापि लिखेत्पद्मं समाहितः || कुंकुमैर्लाक्षया चापि लिखितं स्वर्णपट्टके || २९७ ||
धवले वसने वापि लेखन्या स्वर्णजातया || सम्पूज्य जपसंसिद्धिं प्राप्नुयाद्यत्र तत्र वै || २९८ ||
भवेल्लक्ष्मीरतिप्रीता नीरोगाश्च प्रजास्तथा || गजाश्वपशवस्त्वन्ये सुखिनः प्राणिनो भृशम् || २९९ ||
भूतप्रेतपिशाचादिपीडासु बिभृयादिदम् || अलक्ष्मी शान्तये चाशु सिद्धये सर्वसम्पदाम् || ३०० ||
कृत्यामृत्युग्रहे दुष्टे सर्वरोगविमुक्तये || पुत्रपौत्रैश्वर्ययदीर्घायुष्यसंसिद्धयेपि च || एतद्यन्त्रोत्तमं प्रोक्तं त्वरिताया घटार्गलम् || ३०१ ||
अथान्यत्सम्प्रवक्ष्यामि त्वरितायन्त्रमुत्तमम् || कृत्वा तु दिग्दलं पद्मं कर्णिकायां समालिखेत् || ह्रींकारं तस्य मध्ये तु साध्यनाम समालिखेत् || ३०२ ||
क्रमाद्दलेषु सुलिखेद्धीङ्कारसहितं मनुम् || त्वरिताया बहिः कुर्यात्षट्कोणं च बहिश्चरेत् || ३०३ ||
भूपुरं यन्त्रमेतत्तु कृत्याद्रोहग्रहान्हरेत् || चौरव्याघ्रादिकभयं जप्त्वा तद्वारयेद् ध्रुवम् || रक्षोजयः स्यात्संग्रामे विवादे विजयस्तथा || ३०४ ||
अथातः सम्प्रवक्ष्यामि त्वरितायाश्च मत्कृतम् || नवव्यूहाभिधं यन्त्रं नववर्गादिनामके || ३०५ ||
साधकप्रोक्तफलदं तत्प्रकारो निरूप्यते || कृत्वा चाष्टदलं पद्मं कर्णिकायान्तु ह्रीं लिखेत् || ३०६ ||
तस्य मध्ये लिखेत्तारं तन्मध्ये साध्यनामकम् || ततश्चाष्टदले लेख्यमौं ह्रीं फट्कारवर्जितम् || ३०७ ||
शेषमन्त्राक्षरं कोष्ठे तत्पद्मं वेष्टयेत्पुनः || ह्रींकारैस्तस्य बाह्ये तु लेख्या चौंकारशृङ्खला || ३०८ ||
प्. ७८६)कुम्भं कुर्ययाच्च तद्बाह्ये प्रथमं यन्त्रमीरितम् || एवमस्यैव मन्त्रस्य कर्णिकायां समालिखेत् || ३०९ ||
ह्रींकारस्योदरे विद्यात्तृतीयार्णं ससाध्यकम् || तथा तारादिवर्णांश्च प्राग्वत्पत्रेषु संलिखेत् || ३१० ||
ह्रींकारमध्ये फठ्-कारं यदा स्याच्च तदा लिखेत् || ह्रींकारपुटितान्वर्णानोंकारान्तान्दलेषु च || ३११ ||
नवभेदमिदं यन्त्रं नामवर्गादिभेदतः || सर्वरक्षाकरं प्रोक्तं दुःखदारिद्र्यनाशनम् || शुभलक्ष्मीयशोधान्यवाससां पुरुदायकम् || ३१२ ||
अथान्यत्सम्प्रवक्ष्यामि त्वरितायन्त्रमद्भुतम् || तिर्ययगूर्ध्वा द्वादशैव रेखास्तत्र तु कोष्ठगाः || एकादशानां वर्गेण तुल्या लेख्यास्तथाग्रके || ३१३ ||
त्रिशूलानि लिखेन्मध्यकोष्ठके प्रणवं लिखेत् || तस्य मध्ये साध्यनाम चतुर्दिक्कोष्ठकेषु च || ३१४ ||
प्रवेशगत्या च लिखेत्पञ्चपञ्चाक्षराणि च || क्षंस्त्रींह्रंक्षं तथा फट् च बाह्ये प्राकारके ततः || ३१५ ||
ईशानकोणात्सुलिखेत्क्रमात्कोष्ठेषु पञ्चसु || आमध्यान्तं ध्रुवं वर्म कं खं चं छेति वर्णकान् || ३१६ ||
एवं चतुर्षु कोणेषु रान्तं दत्त्वा लिखेत्पुनः || सव्यासव्ये तथा हं-खं-वं-क्षें वर्णचतुष्टयम् || ३१७ ||
एवं द्वितीयप्राकारे तारकोणचतुष्टये || ह्रं-क्षं चेति त्रयो वर्णालेख्या वामे च दक्षिणे || ३१८ ||
एवं तृतीयप्राकारकोणेषु प्रणवं लिखेत् || ह्रस्वैर्वर्णैः सव्यमपसव्यं चैव तथा लिखेत् || ३१९ ||
पुनश्चतुर्थे प्राकारे लिखेत्तारं च साधकः || ह्रंकारं पञ्चमे ध्यात्वा प्राकारे केवलं ध्रुवम् || ३२० ||
पूजनीयाः प्रयत्नेन केवलं भाग्य काम्यया || मायाहीनांश्च द्विद्व्यर्णांस्त्वरिताया मनोः क्रमात् || ३२१ ||
ईशानकोणात्प्राकारप्रदक्षिणक्रमेण च || प्रवेशमार्गतस्तुर्ययतुल्यसंख्यावृतिर्भवेत् || ३२२ ||
मूलमन्त्रेण तद्यन्त्रं सम्पाताज्यपरिप्लुतम् || ग्रहभीतिहरं नित्यं जयलक्ष्मीयशःप्रदम् || ३२३ ||
अथातः सम्प्रवक्ष्यामि त्वरिताया विनिग्रहे || शत्रूणां यत्क्षमं यन्त्रं यन्न क्वापि च कुण्ठितम् || ३२४ ||
एकाशीतिपदं चक्रं लिखेत्तन्मध्यकोष्ठके || महोदरे साध्यनाम निर्गमे च दिशासु च || चतसृषु लिखेद्बीजचतुष्कन्तन्निगद्यते || ३२५ ||
अं-आं-ब्रूं-ह्रूं ततश्चेशकोणतः कालिकामनुम् || समालिखेच्छलोकरूपं तथा नैऋत्यकोणतः || ३२६ ||
प्. ७८७)एवं पुरोक्तवद्यन्त्रं लिखेत्तद्बाह्यतः पुरे || वेष्टयेद्यममन्त्रेणाभिचार्ययश्चेत्पुमान्भवेत् || ३२७ ||
अभिचार्यया यदा स्त्री स्यात्तदा तुर्ययममन्त्रकम् || कालिकायाश्च मन्त्रेण बाह्यतो वेष्टयेत्ततः || यं-रं-भ्यां वेष्टयेद्दुःखं कालीयममनू यथा || ३२८ ||
कालीमाललमालीकालीनमोक्षक्षमोनली || मोदोदेननदेदोमोरक्षमत्वत्वमक्षर || ३२९ ||
यमाधाररधामायमाटमोटटमोटमा || वामोमूरिरिमूमोवाटीटलीलललीटटी || ३३० ||
सीसपट्टेथ वा श्याववस्त्रे वा प्रस्तरेपि वा || विषमष्या समालेख्यं लेखिन्या काकपक्षया || ३३१ ||
काल्यादिशक्तिदेहल्या वामभागे प्रपूरयेत् || शत्रुर्दुःखमवाप्नोति सद्यो यन्त्रप्रभावतः || ३३२ ||
निखातं चत्वरे तच्चेच्छत्रोर्व्याधिकरं भवेत् || पूरितं करिवृक्षाधः पुत्रस्त्रीणां वियोगकृत् || ३३३ ||
अथान्यत्संप्रवक्ष्यामि देशादीनां विनाशनम् || त्वरितायन्त्रमपरं तूर्द्ध्वाधोष्टाष्टकोष्ठकम् || ३३४ ||
पुंसामर्थे लिखेत्पूर्वं साधकः कालिकामनुम् || पश्चाच्च यममन्त्रार्णैर्वेष्टयेच्चैव तद्ध्रुवम् || ३३५ ||
स्त्रीणामर्थे यदा यन्त्रं यमस्याभ्यन्तरार्णकम् || कालीमन्त्रेणावगुंठ्य यन्त्रमावेष्टयेद्बहिः || ३३६ ||
लेपनीयं विषैस्तच्च हेममक्षिकया पुनः || कपिकच्छ्वा पुनर्लिप्त्वा जपितव्यमधोमुखम् || ३३७ ||
लवणं त्र्यूषणं चव्यस्तथा वैकन्तपत्रकम् || श्मशानाङ्गारनिम्बाद्यनिर्यासो गेहधूमकः || ३३८ ||
विश्वाख्यं सप्तमं चैतदनुक्तमपि योजयेत् || कोष्ठमध्ये तु नामानि बहूनां यत्प्रयोजनम् || ३३९ ||
एतद्यन्त्रं स्थितं यत्र तत्रालक्ष्मीर्गदैः सह || उपद्रवा महामारी त्वसाध्या तत्र जायते || ३४० ||
अथातः सम्प्रवक्ष्यामि बगलायन्त्रमुत्तमम् || भूर्ज्जपत्रे समालेख्यं हरितालनिशारसैः || ३४१ ||
षट्कोणन्तस्य मध्ये तु वलयाकारतो लिखेत् || षट्त्रिंशदक्षरो मन्त्रो बगलायाः स उच्यते || ३४२ ||
तारं लज्जां च बगलामुखि सर्वपदं वदेत् || दुष्टानामिति चोच्चार्यय वाचम्मुखमथो पदम् || ३४३ ||
स्तम्भयेति समुच्चार्यय जिह्वां कीलय चेत्यपि || बुद्धिं विनाशयान्ते तु तारबीजाग्निसुन्दरीः || ३४४ ||
अयम्मन्त्रः समुद्दिष्टः साध्यनाम्ना तु वेष्टितः || वेष्टयेत्पीतसूत्रेण कुलालस्य गृहं व्रजेत् || ३४५ ||
चक्रे मृदं समारोप्य भ्रामयेद्वृषभन्तया || कारयेच्च मृदा तत्र हरितालेन लेपयेत् || ३४६ ||
प्. ७८८)तन्मध्ये निक्षिपेद्यन्त्रं नासायामथ वा ततः || अर्चयेत्तच्चतुष्कालं साध्यनाम्नात्र साधकः || दुष्टानां स्तम्भयेद्वाचं साक्षाद्वाचस्पतेरपि || ३४७ ||
अथान्यद्बगलायास्तु वक्ष्यते यन्त्रमुत्तमम् || पट्टे वाप्यथ पाषाणे ह्रींकारपुटितं लिखेत् || ३४८ ||
साध्यनामोन्मत्तरसहरिद्रातालकैस्ततः || पूर्वमन्त्रेण संवेष्ट्य चोर्ध्वं त्रिवलयं लिखेत् || ३४९ ||
गर्भस्तम्भं गतिस्तम्भं कुर्ययादेतन्न संशयः || व्याघ्राद्युपद्रवं ग्रामे गतिं तस्यापि वारयेत् || अथान्यद्वक्ष्यते यन्त्रं श्मशानस्थमधोमुखम् || ३५० ||
घटखर्परमानीय गृहीत्वा वामहस्तके || लिखेद्दक्षिणहस्तेन श्मशानाङ्गारकेण च मन्त्रितं निहितम्भूमौ रिपूणां स्तम्भयेद्गतिम् || ३५१ ||
प्रेतवस्त्रे लिखेद्यन्त्रमङ्गारेण च तत्पुनः || मण्डूकवदने न्यस्येत्पीतवस्त्रेण वेष्टितम् || पूजितम्पीतपुष्पैस्तद्वाचं संस्तम्भयेद्द्विषाम् || ३५२ ||
अथातः सम्प्रवक्ष्यामि वाराहीयन्त्रमुत्तमम् || विलिख्य तारं साध्याख्यां ग्लौंबीजेन प्रवेष्टयेत् || ३५३ ||
ठकारेण च संवेष्ट्य भूपुरे च ततो लिखेत् || वज्रादिकन्तथा तस्य प्रान्ते प्रणवमालिखेत् || ३५४ ||
वज्रमध्ये साध्यनाम लिखेत्कर्मसमन्वितम् || धराबीजेन संवेष्ट्य भूपुरं मूलविद्यया || ३५५ ||
ओमैं ग्लौमैं नमः प्रोच्य ततो भगवतीति च || वार्त्तालि वाराहियुगं वाराहमुखि वाग्भवम् || ३५६ ||
ग्लौमैमन्धे अन्धिनीति नमो रुन्धे च रुन्धिनि || नमो जृम्भे जृम्भिणीति नमो मोहे च मोहिनि || ३५७ ||
नमः स्तम्भे स्तम्भिनीति नम ऐं-ग्लौं च वाग्भवम् || सर्वदुष्टप्रदुष्टानां सर्वेषां सर्ववाग्वदेत् || ३५८ ||
चित्तचक्षुर्मुखगतिजिह्वास्तम्भं कुरुद्वयम् || शीघ्रं वश्यं कुरुकुरु ऐंग्लौमैं ठचतुष्ठयम् || हुंफट् स्वाहेति मूलाख्या विद्या वेदेशवर्णिका || ३५९ ||
बहिर्वृत्रत्रयं कृत्वा क्लींबीजेनाद्यवीथिकाम् || हुंकारेण द्वितीयान्तु वीथिकाम्परिवेष्टयेत् || ३६० ||
एतद्यन्त्रं समालेख्यं बाह्यभूपुरसंयुतम् || कृष्णपुष्पैः समभ्यर्च्य निक्षिपेत्पथि विद्विषः || रिपुमुच्चाटयेच्छीघ्रं स्थितं वर्षशतादपि || ३६१ ||
वादित्रे मन्त्रमालिख्य वादयेत्समरान्तरे || सन्त्रस्तास्तद्रवं श्रुत्वा पलायन्ते विरोधिनः || ३६२ ||
अथ चैतत्पताकास्थं युध्यमानस्य वैरिभिः || दृष्ट्वा च शत्रवः सर्वे पलायन्ते न संशयः || ३६३ ||
प्. ७८९)अथातः स्वप्नवाराह्या यन्त्रं वक्ष्ये चमत्कृतम् || कृत्वा त्रिकोणं षट्कोणं षोडशारं वसुच्छदम् || दशारद्वितयम्पञ्चदशास्रभूगृहद्वयम् || ३६४ ||
त्रिकोणे कामबीजस्थं वाग्भवं सम्यगालिखेत् || षट्कोणे पूर्वतो वाचं च ह्रींक्रींश्रीं च हुं तथा || ३६५ ||
लिखेत्षोडशपत्रेषु शक्तीरुच्चाटनीं तथा || उच्चाटनीश्वरीं चापि शोषिणीं शोषिणीश्वरीम् || ३६६ ||
मारणीं मारणीशीं च भीषणीं भीषणीश्वरीम् || त्रासिनीं त्रासिनीशीं च कम्पिनीं कम्पिनीश्वरीम् || ३६७ ||
आज्ञाविवर्तिनीं पश्चादाज्ञाविवर्तिनीश्वरीम् || वस्तुजातेशव्रीं पश्चात्सर्वसम्पादिनीश्वरीम् || ३६८ ||
यजेदष्टदले पद्मे मातॄर्भैरवसंयुताः || दशारे विन्यसेत्स्वस्य बीजपूर्वान्दिगीश्वरान् || ३६९ ||
रंलंमंक्षं ततो वंयंसंहंश्रींह्रीमिति क्रमात् || द्वितीये दशपत्रे तु वज्रादीन्यायुधानि च || ३७० ||
तिथिपत्रे तु वाराह्या मूलमन्त्रं समालिखेत् || ओंह्रीं नमश्च वाराहि घोरे स्वप्नं विसर्गयुक् || ३७१ ||
ठद्वयं वह्निजायान्तो मन्त्रः पञ्चदशाक्षरः || एतद्यन्त्रं पुनः सम्यङ्मातृकार्णैः प्रवेष्टयेत् || ३७२ ||
भूपुरस्य च कोणेषु चतुर्ष्वपि वरं लिखेत् || भूर्ज्जादौ यन्त्रमालिख्य जपसम्पातसाधितम् || ३७३ ||
बाह्वादौ वितं दद्यान्नृभ्यः कीर्तिं धनं सुखम् || बहुना किमिहोक्तेन वाराहीष्टं प्रयच्छति || ३७४ ||
अथ वक्ष्ये मातृकाया यन्त्रं रक्षाकरं परम् || हकारमध्ये विलिखेत्सकारं साध्यसंयुतम् || ३७५ ||
तद्बाह्येष्टदलं पद्मं केशरेषु स्वरांल्लिखेत् || षड्दीर्घयुक्क्षकारेण बहिस्तद्वेष्टयेत्पुरे || ३७६ ||
रोचनाकुंकुमाभ्यां च भूर्जापत्रे लिखेदिदम् || रक्षा भवति यत्रैतद्धनं स्वर्णादिवेष्टितम् || ३७७ ||
अथातः सम्प्रवक्ष्यामि तारायन्त्रन्तु सिद्धिदम् || भूर्ज्जपत्रे लिखेद्यन्त्रमलक्तकरसेन तु || ३७८ ||
षट्कोणमध्ये ओंह्रींरंत्रींहुंफट् च ससाध्यकम् || तद्बहिश्चाष्टपत्रस्य केशरेषु द्विषट्ः स्वरान् || ३७९ ||
पत्रेषु काद्यष्टवर्गान्बहिर्भूपुरमालिखेत् || पीताम्बरेण संवेष्ट्य बध्नीयात्पट्टसूत्रतः || ३८० ||
शिशूनां कण्ठतो बद्धं रक्षाकृद्भूतभीतितः || वामबाहौ तु नारीणां बद्धं पुत्रप्रदं मतम् || ३८१ ||
दक्षबाहौ नृणां बद्धं निर्धनानां धनप्रदम् || प्. ७९०)ज्ञानदं ज्ञानमिच्छूनां राज्ञां तु विजयप्रदम् || ३८२ ||
अथातो भुवनेश्वर्यया वश्यकृद्यन्त्रमुच्यते || चतुरस्रदलेनैव कुर्ययादष्टदलं बुधः || ३८३ ||
साध्यनामयुतां मायां लिखेद्यन्त्रं पुनस्तु तत् || वेष्टयेच्चतुरस्रेण चतुष्कोणेषु वं लिखेत् || ३८४ ||
चतुरस्रस्य भुर्जादौ रोचनाकेशरेण च || जातीकाष्ठस्य लेखन्या वश्यकृत्परमं मतम् || ३८५ ||
अथातः सम्प्रवक्ष्यामि सौरं यन्त्रोत्तमं पुनः || चतुष्पत्रस्य पद्मस्य कर्णिकायां समालिखेत् || ३८६ ||
ससाध्यं प्रणवं चांहिंहंसः पत्रेषु संलिखेत् || एकैकमक्षरं तस्य बाह्येऽष्टदलमालिखेत् || ३८७ ||
ओं घृणिः सूर्यय आदित्यः क्रमादष्टदले लिखेत् || वृत्तद्वयं तु तद्बह्ये मध्यवीथ्यां समालिखेत् || ३८८ ||
भूपुरस्य चतुष्कोणे अंआंह्रींह्रीं समालिखेत् || सौरं यन्त्रमिदन्नृणां सर्वामयविनाशनम् || ३८९ ||
तेजःप्रतापसौभाग्यपुत्रायुष्कीर्त्तिवर्धनम् || धनधान्यप्रदं वश्यं सर्वरक्षाकरं परम् || ३९० ||
अथातः करुकुल्याया यन्त्रं सर्प्पनिवारणम् || षट्कोणं विलिखेत्तस्य मध्ये पूर्वादित क्रमात् || ३९१ ||
तारश्च कुरुकुल्यायै स्वाहा सप्ताक्षरो मनुः || मध्यपूर्वक्रमेणैव लेख्यमेकैकमक्षरम् || ३९२ ||
प्रस्तरे लिखितं गेहे पूजितं यन्त्रकं गृहे || अर्चितं वा धृतं देहे नाशयेद्विविधं विषम् || ३९३ ||
अथातः सम्प्रवक्ष्यामि यन्त्रं शत्रुभयावहम् || ओंह्रीं च मेखले स्वाहा सप्तार्णोयं मनुर्मतः || ३९४ ||
लिखेत्प्राग्वच्च षट्कोणे सर्वशत्रुनिवारणः || सम्यक्सुनिष्ठितो गेहे कलहादि न जायते || ३९५ ||
अथातः सम्प्रवक्ष्यामि गर्भस्तम्भकरं परम् || समन्त्रं त्रिपुरायन्त्रं पञ्चपञ्चालयं लिखेत् || ३९६ ||
तिर्ययगूर्ध्वं कोष्ठकास्तु जायन्ते तत्र षोडश || कुर्ययाद्दलानि चत्वारि कोष्ठार्धं च तथा तले || ३९७ ||
ऊर्ध्वकोष्ठचतुष्के तु ह्रंह्रंह्रंह्रं समालिखेत् || अधः कोष्ठचतुष्के तु हंकारं तु समालिखेत् || ३९८ ||
अन्योन्यसम्मुखे लेख्यो ह्रींकारो याम्यसौम्ययोः || अष्टसप्तमयोर्लेख्यं साध्यनाम्नो द्वयं द्वयम् || ३९९ ||
रक्षेति दशमे लेख्यं पुनरेकादशे तथा || कस्तूरीरोचनाचन्द्रकेशरैर्भूर्ज्जपत्रके || प्. ७९१)लिखेद्धूपं ततो दत्त्वा कण्ठे यन्त्रं तु धारयेत् || ४०० ||
ऐंह्रींश्रीं च समुच्चार्यय त्रिपुरायै नमो वदेत् || गर्भंस्तम्भययुग्मं च डाकिनीदोषमित्यपि द्विर्मुञ्चयाग्निगृहिणीकुत्रिवर्णो मनुर्मतः || ४०१ ||
एकविंशतितन्तूनां रक्तानां दोरकं चरेत् || चतुर्दशासितांस्तन्तूंस्तन्तुना तेन बन्धयेत् || ४०२ ||
मन्त्रयेत्सप्त वारांश्च धूपो दीपो गुरोस्तथा || त्रिः कट्यां वेष्टयेद्भार्ययागर्भरक्षाकरं परम् || ४०३ ||
अथातः सम्प्रवक्ष्यामि वाराहं यन्त्रमुत्तमम् || आदौ षट्कोणमालिख्य तन्मध्ये प्रणवं लिखेत् || ४०४ ||
प्रणवाभ्यन्तरे ह्रं च ह्रं मध्ये साध्यनामकम् || सहस्रारे हुंफडिति कोणेष्वेकैकमक्षरम् || ४०५ ||
तत्राविस्वपिसंज्वालापदानामुत्तरं वदेत् || चक्राय स्वाहेति पदं तदा षण्मन्त्रसम्भवः || ४०६ ||
षट्कोणसन्धिषु च ते लेख्यास्तद्बहिरालिखेत् || चतुर्दलन्तु क्रमतो द्विद्विवर्णान्दलेदले || ४०७ ||
नमो नारायणायेति ताराद्योष्टाक्षरो मनुः || केशरेषु लिखित्वाथ पत्रमध्ये ततो लिखेत् || ४०८ ||
तारो नमो भगवते वेति बाह्यदले लिखेत् || राहरूपाय भूर्भुवः संलिखेच्च द्वितीयके || ४०९ ||
स्वःपतये भूपतित्वं तृतीये विलिखेद्दले || मे देहि दापय स्वाहा लिखेत्पत्रे चतुर्थके || ४१० ||
तद्बाह्येष्टदलं कृत्वा केशरे द्वन्द्वशः स्वरान् || दलमध्येधुना प्रोक्तवारहार्णः कृताक्षरः || ४११ ||
प्रत्येकं विलिखेद्यन्त्रं लिखेच्चैव द्वितीयके || तद्बहिः षोडशदले कादिसान्तान्द्विशो लिखेत् || ४१२ ||
केशरेषु दलस्यान्ते वाराहार्णद्वयं तथा || अधुना चाष्टपत्रन्तु पद्मं तस्य बहिश्चरेत् || ४१३ ||
वृत्तानां पञ्चकं तत्र चतस्रो वीथयो मताः || साध्याक्षरेण पुटितं ह्रींबीजेन तृतीयकम् || ४१४ ||
अत्रोक्तकोलमन्त्रेण साध्यस्याख्या विदर्भिता || तया संवेष्टयेत्पंक्तिं तदग्रे भूपुरं लिखेत् || ४१५ ||
लिखेत्तस्य चतुष्कोणे ग्लौं साध्याख्याविदर्भितम् || चतुरस्राद्बहिष्कुर्ययाद्दशदिक्षु त्रिशूलकान् || ह्रींग्लौं तेषु लिखेदेतद्यन्त्रं वाराहमद्भुतम् || ४१६ ||
लाक्षा कृष्णागुरुश्चन्द्रो रोचना कुंकुमं हिमम् || गोमयस्याम्भसा पिष्टं लेखनद्रव्यमीरितम् || ४१७ ||
प्. ७९२)लेखनी करकोद्भूता यन्त्रस्यास्य तथोच्यते || स्वर्णपत्रेखिलावाप्ती राजते चायुराप्यते || ४१८ ||
ग्रामप्राप्तिर्भवेत्ताम्रे पिचुमन्ददले सुखम् || भूफले क्षौमवस्त्रे स्याद्भूर्ज्जे संसारमान्यता || ४१९ ||
साधु जप्तमिदं यन्त्रं सम्पातेनाभिषेचितम् || जन्मचन्द्रं विना धार्ययं तद्भवेदखिलेष्टदम् || ४२० ||
स्वस्य ध्यात्वा कोलरूपं साध्यदेशे प्रपूरयेत् || यन्त्रं वराहमावाह्य तत्राङ्गानि प्रपूरयेत् || दिक्षु मुक्ताशुद्धरागैर्भाजयेन्नात्र संशयः || ४२१ ||
अथातः सम्प्रवक्ष्यामि पृथिवीयन्त्रमद्भुतम् || अष्टकोणं चाष्टदलं कर्णिकायां समालिखेत् || ससाध्यं प्रणवं तस्य मध्यकोणाष्टके च ह्रम् || ४२२ ||
अंह्रींग्लौं पूर्वपत्रे च नमो भेति हुताशने || गवत्यै दक्षिणदले धारिण्यै दक्षपश्चिमे || ४२३ ||
धरणीं पश्चिमे चैव धरे देहि समीरणे || स्वाहा वायुदले लेख्या ग्लौंह्रीमोमीशपत्रके || ४२४ ||
वृत्तत्रयन्तु तद्बाह्ये तत्र वीथीद्वयं भवेत् || तत्राद्यवीथ्यां प्रणवं नमो भगवते वरा || ४२५ ||
हरूपाय भूर्भुवःसुवःपतये च भूपति || त्वं मे देहि दापय स्वाहेति देवमितार्णवान् || परवीथ्यां मातृकार्णांस्ततो भूपुरमालिखेत् || ४२६ ||
गृहान्तः स्थापितं हेमधान्यादेर्वृद्धिकारकम् || बाहौ धृते जगद्वश्यं पूर्णायुः सुखमेधते || ४२७ ||
अथ यन्त्रं नारसिंहं प्रवक्ष्ये सर्वकामदम् || आदौ षट्कोणमालिख्य तन्मध्ये प्रणवं चरेत् || ४२८ ||
ससाध्यं क्षौं समालिख्य कोणषट्केक्षरैककम् || बाह्ये ध्रुवं जभधृती वहिर्वृत्तद्वयं चरेत् || ४२९ ||
तदन्तरालवीथीं तु माया बीजेन वेष्टयेत् || तद्बहिर्द्वादशदलं तत्रैकैकाक्षरं न्यसेत् || ४३० ||
तारो नमो भगवते वासुदेवाय तद्बहिः || वृत्तद्वयान्तरालं च मायाबीजैः प्रवेष्टयेत् || ४३१ ||
तद्वहिष्षोडशदले संलिख्य षोडश स्वरान् || मायां सबिन्दुं च प्राग्वेष्टयेदथ तद्बहिः || द्वात्रिंशत्पत्रके लेख्यं शलामेकैकमक्षरम् || ४३२ ||
उग्रवीरं महाविष्णुं ज्वलंतं सर्वतोमुखम् || नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् || ४३३ ||
बहिर्वृत्तत्रयं कृत्वा वेष्टयेद्दलमादिमम् || एवमग्रे तु प्राग्भागे ककारादीन्सबिन्दुकान् || ४३४ ||
रकारादीन्दक्षभागे लिखेद्बिन्दुमितांस्ततः || शकारादीन्वामभागे न्यस्य ह्यौं च तथा लिखेत् || ४३५ ||
प्. ७९३)कर्णयुग्मं च तद्बाह्ये तयोर्लक्षं समालिखेत् || एतत्संसाधितं यन्त्रं पूजाहोमजपादिभिः || रोगाधिहृद्वस्त्रवर्णचतुर्वर्गफल प्रदम् || ४३६ ||
अथातः सम्प्रवक्ष्यामि सर्वबाधाविनाशनम् || प्रागष्ट पत्रं रेखाश्च पञ्च स्युर्दक्षिणेतराः || ४३७ ||
द्वात्रिंशत्प्रमितान्येवं जायन्ते कोष्ठकानि तु || तस्याग्रिमगता रेखाः फणाकारा विवर्धयेत् || ४३८ ||
पश्चाकारास्तथा रेखाः कुर्यान्नव तु पञ्च च || फणासु लेख्यं क्रौं बीजं कोष्ठे श्लोकमनुष्टुभम् || ४३९ ||
साध्यनाम लिखेत्पुच्छे सिद्धं स्याद्यवहोमतः || समस्तरोगभूतादिकृत्यापीडापहारकम् || ४४० ||
अथान्यत्संप्रवक्ष्यामि क्षुद्ररोगविनाशनम् || अष्टपत्रकर्णिकायां साध्याख्यां कर्मसंयुताम् || ४४१ ||
क्षौंबीजं च लिखेदष्टपत्रेषु विधिवत्पुनः || चतुरश्चतुरो वर्णाननुपत्रं ततो लिखेत् || ४४२ ||
भूर्जपत्रेषु मन्त्रेण दीर्घान्तादिसुसाधितम् || यन्त्रं क्षुद्रामयहरं सर्वरक्षाकरं परम् || ४४३ ||
अथातः सम्प्रवक्ष्यामि महारोगहरं त्विदम् || वेश्मभूपुरयुग्मेन कोणेषु क्षौं समालिखेत् || ४४४ ||
एतद्यन्त्रमुमे सम्यङ्मण्डलैर्लक्षणान्वितम् || रम्यं नवपदं कृत्वा कलशं स्थापयेदिह || ४४५ ||
एतन्मन्त्रेण बध्नीयात्कायेन परिपूरयेत् || वस्त्रयुग्मसमायुक्तमावाह्य नृहरिं विभुम् || ४४६ ||
संपूजयेच्चन्दनाद्यैः शान्तिकार्यये मनोहरे || पूर्वादिदिक्षु चेन्द्रादीन्यजेन्मन्त्री समाहितः || अष्टाधिकं ततो मन्त्रं सहस्रं प्रजपेत्सुधीः || ४४७ ||
एवं जलैः शोधितं तु यन्त्रं मन्त्रविदुद्धरेत् || अमिषिञ्चन्मृत्युमुखादवश्यं स निवर्त्तते || ४४८ ||
ग्रहामिचारभूतादिभयं नश्यति तत्क्षणात् || भोजयेद्देवताबुद्ध्या भूदेवांस्तोषयेत्तथा || ४४९ ||
प्राणान्प्रदद्याद्गुरवे वित्तशाठ्यविवर्जितः || स्वकार्ययस्यानुसारेण प्रदद्याद्दक्षिणां नरः || लभेतैहिकसिद्धिं स परत्रापि च मोदते || ४५० ||
अथातः सम्प्रवक्ष्यामि नृहरेर्यन्त्रमद्भुतम् || षट्कोणकर्णिकामध्ये हृल्लेखां साध्यसंयुताम् || ४५१ ||
आंह्रींक्षौंक्रोंहुंफडिति षट्कोणेषु षड्लिखेत् || बहिरष्टदलं कृत्वा स्वरद्वन्द्वं लिखेत्ततः || ४५२ ||
केशरेश्वथ पत्रेषु चतुरर्णान्समालिखेत् || प्. ७९४)नृसिंहानुष्ट्म्मनोर्बहिर्वृत्तद्वयं लिखेत् || ४५३ ||
उग्रवीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् || नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् || ४५४ ||
वीथ्यां तु मातृकावर्णान्बहिर्भूपुरमालिखेत् || लिखेच्चिन्तामणेः कूटं कोणेषु प्रागुदीरितम् || ४५५ ||
भूर्ज्जपत्रे लिखित्वेदं धृतं च शिरसा हरेत् || विषरोगरिपुक्लेशभूतग्रहभयादिकम् || ४५६ ||
सुदर्शननृसिंहस्य यन्त्रं संप्रोच्यतेधुना || सर्वरोगप्रशमनं सर्वशत्रुविनाशनम् || ४५७ ||
त्रिकोणान्तेतु षट्कोणं तस्य मध्ये च दिग्दलम् || तत्कर्णिकायां प्रणवं तन्मध्ये चामुकं जहि || ४५८ ||
ततो नवदले लेख्या मन्त्रवर्णा द्विकाद्विकाः || एवं वर्णांस्तु दशमे सहस्रारे च संलिखेत् || लिखेज्ज्वालावर्त्तिने च क्रौं बीजं च जहिद्वयम् || ४५९ ||
हुंफट्स्वाहेति षट्कोणे क्रौंबीजेन समं लिखेत् || हुंफ स्वाहा त्रिकोणेषु तथैव च पदद्वयम् || जपसम्पातसंसिद्धं रक्षोहृद्रोगशत्रुहृत् || ४६० ||
अथान्यत्संप्रवक्ष्यामि यन्त्रं स्त्रीपुत्रमित्रदम् || दधिवामनदेवस्य वैदिकानां विशेषतः || ४६१ ||
कुर्ययात्सम्यक्सप्तदशदलं पद्मं मनोहरम् || ससाध्यं प्रणवं मध्ये षोडशस्वरवेष्टितम् || ४६२ ||
द्विद्विवर्णान्केशरेषु कालकालीविहीनकान् || दलेष्वेकेकशो वर्णान्क्रमेण च लिखेन्नमः || ४६३ ||
विष्णवे सुरपतये महाबलाय संलिखेत् || स्वाहेति च नमोयुक्तं प्रणवाभ्यां च सम्पुटम् || ४६४ ||
श्रीबीजाभ्यां पुरस्कारकृताभ्यां मध्यगं तु तत् || भूर्जे गन्धाष्टकाद्येन लिखितं श्रीधराप्रदम् || ४६५ ||
अथातो वक्ष्यते यन्त्रं वामनस्येष्टदायकम् || कृत्वा चाष्टदलं पद्मं तन्मध्ये साध्यसंयुतम् || ४६६ ||
सुलिख्य प्रणवं तस्य केशरेषु क्रमाद् ध्रुवम् [ओंकारम् ||] || नमो नारायणायेति लिखेदेकैकमक्षरम् || ४६७ ||
द्वये दलद्वयं लेख्यं चतुर्वर्णांस्तथाष्टमे || ओं नमो विष्णवे ब्रूयात्सुरान्ते पतये महा || ४६८ ||
बलाय वह्निगृहिणी धृतिवर्णो मतो मनुः || वृत्तत्रयं ततः कुर्ययादन्तर्वीथ्यां सुवेष्टयेत् || ४६९ ||
तारो नमो भगवते वासुदेवाय वर्णकैः || बाह्यवीथ्यां मातृकाभिरिति यन्त्रं प्रकीर्त्तितम् || ४७० ||
प्. ७९५)अथातः सम्प्रवक्ष्यामि रामयन्त्रं महाद्भुतम् || आदौ सुलिख्य षट्कोणं तन्मध्ये वृत्तमालिखेत् || ४७१ ||
रामेतदस्य जठरे साध्यनाम तले लिखेत् || साधकाख्यां कर्मनाम मध्ये चैव समालिखेत् || ४७२ ||
पार्श्वयोश्च क्रिया लेख्या रेफं वर्णान्तरे लिखेत् || श्रीबीजं तच्च सकलं प्रणवाभ्यां च सम्पुटेत् || ४७३ ||
ऊर्ध्वाधःसम्मुखाभ्यन्तःष कोणेङ्गमनूंल्लिखेत् || षट्कोणपार्श्वयोर्मायाबीजं चाग्रे च मन्मथम् || ४७४ ||
षट्सन्धिषु च ह्रांबीजं तत्सर्वं वेष्टयेत्पुनः || वाग्भवेन बहिष्पद्ममष्टपत्रं सकेशरम् || ४७५ ||
केशरेषु स्वरान्वर्णान्पत्रेषु विलिखेत्क्रमात् || पत्राग्रेषु लिखेन्मालामन्त्रवर्णांस्तथैव च || ४७६ ||
तारो नमो भगवते ङेन्तः स्याद्रघुनन्दनः || रक्षोघ्नविशदायेति मधुरेति पदं ततः || ४७७ ||
प्रसन्नवदनायेति ततश्चामिततेजसे || बलायेति च रामाय विष्णवे नम इत्ययम् || ४७८ ||
सप्तचत्वारिंशदर्णो मालामन्त्र उदीरितः || तद्बाह्येष्टदलं पद्मं श्रीबीजं केशराष्टके || ४७९ ||
पत्रमध्ये लिखेदष्टवर्णानादौ ध्रुवं लिखेत् || नमो नारायणायेति तद्बाह्येर्कदलं लिखेत् || ४८० ||
तत्केशरेषु मन्त्रार्णांश्चतुरश्चतुरो लिखेत् || अकारादिक्षकारान्तानन्त्यपत्रे च सप्तकम् || ४८१ ||
पत्रमध्ये वासुदेवद्वादशाक्षरवर्णकान् || तारो नमो भगवते वासुदेवाय स स्मृतः || ४८२ ||
तद्बहिः षोडशदलं मायां च नृपकेशरै || तारो नमो भगवते रामचन्द्राय हुं च फट् || नमः प्रत्येकवर्णं तु दलमध्ये समालिखेत् || ४८३ ||
हंसंभंविंनि अशज धृंजंविंसुधरां तथा || अंघं क्रमाच्च बीजानि बाह्ये षोडशपत्रके || ४८४ ||
प्रत्येकं पत्रमूले तु ह्रीं श्रीं क्लीं विलिखेद्बुधः || दलस्य पुर्वभागेषु रामस्यानुष्टुबर्णकान् || ४८५ ||
रामभद्रमहेष्वास रघुवर नृपोत्तम || दशास्यान्तक मां रक्ष देहि दापय मे श्रियम् || ४८६ ||
दलोत्तरार्धे संलेख्यो नृसिंहानुष्टुभो मनुः || पुरा नृसिंहयन्त्रे च कथितोत्र निगद्यते || ४८७ ||
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् || नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् || ४८८ ||
बहिर्भूपुरमालिख्य वज्राष्टकविवर्जितम् || क्ष्रौंबीजं च चतुर्दिक्षु हंबीजं च विदिक्षु च || ४८९ ||
प्. ७९६)एवं लिखेद्रामयन्त्रं सर्वयन्त्रोत्तमोत्तमम् || साधितं जपपूजाभ्यां होमसंपातकेन च || ४९० ||
धृतं शिरसि बाहौ वायुरारोग्यप्रदं नृणाम् || रक्षाकरं महेशानि महदैश्वर्यवर्धनम् || ४९१ ||
वन्ध्यानामपि नारीणां पुत्रदं सुखदं परम् || भुक्तिमुक्तिप्रदं चैव गोपनीयं प्रयत्नतः || ४९२ ||
अथान्यत्सम्प्रवक्ष्यामि रामभद्रस्य मन्त्रकम् || आदौ सुलिख्य षट्कोणं तन्मध्ये बीजमालिखेत् || ४९३ ||
रामित्येतस्य जठरे तले साध्यं समालिखेत् || साधकाख्यां तदूर्ध्वं तु कर्म मध्ये समालिखेत् || ४९४ ||
पार्श्वयोश्च क्रिया लेख्या मनुं पर्णान्तरे लिखेत् || श्रीबीजेन च रामाय नमो वर्णैः प्रवेष्टयेत् || ४९५ ||
तद्बाह्ये हुं जानकीति वल्लभायाग्निगेहिनी || एतैवर्णैश्च दशभिर्वेष्टयेत्कोणषट्ककम् || ४९६ ||
षड्दीर्घानुस्वारयुतं रांबीजं तु समालिखेत् || ह्रीं श्रीमिति च कोणाग्रे कोणपार्श्वेषु हं लिखेत् || ४९७ ||
बहिरष्टदलं कृत्वा केशरे द्वन्द्वशः स्वरान् || दलेषु पूर्वयन्त्रोक्तमालामन्त्रार्णकांल्लिखेत् || ४९८ ||
बहिर्वृत्तद्वयान्तःस्थवीथ्यां काद्यैः प्रवेष्टयेत् || सबिन्दुकैश्च तद्बाह्ये भूपुरे क्ष्रौं दिशासु च || ४९९ ||
हुं कोणेषु जपाद्धोमसाधितं यन्त्रमुत्तमम् || सर्वेष्टफलदं मोक्षदायकं श्रीकरं परम् || ५०० ||
षट्कोणमध्ये प्रणवं प्राग्वत्साध्यादिकं लिखेत् || मूलार्णान्वसुकोणेषु षड्दीर्घंरी च सन्धिषु || ५०१ ||
स्ववामपार्श्वे कोणस्य शक्तिबीजं समालिखेत् || दक्षिणे कामबीजं च बहिरष्टदलं लिखेत् || ५०२ ||
द्विशः स्वरान्केशरेषु मालामन्त्रं च पूर्ववत् || दलमध्ये लिखेत्तस्य बहिर्वृत्तत्रयं चरेत् || ५०३ ||
प्राग्यन्त्रोक्तदशार्णेन चान्तर्वीथ्यां प्रवेष्टयेत् || कादिक्षान्तैर्बहिर्वीथ्यां तद्बहिर्भूपुरं चरेत् || ५०४ ||
दिशासु क्ष्रौं हुं विदिक्षु ह्येतत्स्याद्विभवप्रदम् || कीर्त्तिलक्ष्मीविजयदं रामयन्त्रं न संशयः || ५०५ ||
अथातः सम्प्रवक्ष्यामि यन्त्रं गोपालदैवतम् || षट्कोणान्तर्लिखेत्कामं साध्याख्यां कर्मसंयुताम् || ५०६ ||
तारो नमश्च कृष्णाय लिखेद्वर्णांश्च षड्दले || बाह्ये दशदलं पद्मं तत्किञ्जल्केषु संलिखेत् || ५०७ ||
द्विशो वर्णान् ङेन्तेदामोदरोस्यब्जगदाभृते || वासुदेवाय कवचं फट्स्वाहान्तो नखाक्षरः || ५०८ ||
गोपीजनवल्लभाय स्वाहैकैकं तु पत्रके || प्. ७९७)कोणेषु मदनाक्रान्तं भूगृहं रचयेत्ततः || ५०९ ||
रोचनालिखितं यन्त्रं सम्यग्वर्णशलाकया || हेमपट्टे विधानेन गुटिकीकृत्य पूजितम् || ५१० ||
सम्यक्सम्पातसंसिक्तं दशार्णेनाभिमन्त्रितम् || गोपालयन्त्रमेतद्धि पुण्यवद्भिः करे धृतम् || ५११ ||
शान्त्यादिवश्यकर्मादौ समर्थं चापि गोपितम् || कीर्त्यादिवर्धनं चैव पुत्रपौत्रविवर्धनम् || ५१२ ||
कान्तिरक्षाकरं नॄणां सर्वसौभाग्यसौख्यदम् || अपस्मारादिकरक्षोभूतक्रान्तादिमस्तके || एतद्यन्त्रं स्मरेत्तत्र जपेन्नश्यति तत्क्षणात् || ५१३ ||
अथातः सम्प्रवक्ष्यामि कृष्णयन्त्रं महाद्भुतम् || आदौवृत्तं समालिख्य तन्मध्ये ग्लौं समालिखेत् || ५१४ ||
बीजमध्ये साध्यनाम बहिः षट्कोणमालिखेत् || तारो नमश्च कृष्णाय दलेष्वेकैकमक्षरम् || ५१५ ||
दलसन्धौ लिखेन्मन्त्रानाग्नेयीतः क्रमादिमान् || आचक्राय ततः स्वाहा प्रथमोयं षडक्षरः || ५१६ ||
विचक्राय ततः स्वाहा द्वितीयोपि षडक्षरः || सुचक्राय ततः स्वाहा तृतीयोपि षडक्षरः || ५१७ ||
शैलरक्षणचक्राय स्वाहान्तोयं दशाक्षरः || असुरान्तकचक्राय स्वाहान्तोयं नवाक्षरः || ५१८ ||
कामबीजेन षष्ठं तु सन्धिमेवं प्रपूरयेत् || तद्बाह्येष्टादशदलं तत्र वर्णानिमांल्लिखेत् || ५१९ ||
क्लीं कृष्णायपदं चोक्त्वा गोविन्दाय पदं लिखेत् || गोपीजनवल्लभेति य स्वाहा धृतिवर्णकः || तद्बाह्येजिनपत्रेषु कृष्णगायत्रिवर्णकान् || ५२० ||
दामोदराय विद्महे वासुदेवाय धीमहि || तन्नः कृष्णः प्रचोदयात् || ५२१ ||
तद्बाह्ये वृत्तयुग्मान्तर्वीथ्यां कामेन वेष्टयेत् || तद्बाह्ये दन्तपत्रेषु गोपालानुष्ठुभं लिखेत् || ५२२ ||
ग्लौंक्लीं नमो भगवते नन्दपुत्राय बालक || वपुषे श्यामलायेति गोपीजनपदं वदेत् || वल्लभायाग्निजायान्तो मन्त्रोयं रदवर्णकः || ५२३ ||
वेदवृत्तानि तद्बाह्ये तत्र वीथीत्रयं भवेत् || यत्तु गोपालमन्त्रे तु ग्लौं तेनाद्यां प्रवेष्टयेत् || द्वितीयां मातृकावर्णैरांक्रींभ्यां च तृतीयिकाम् || ५२४ ||
यन्त्रराजमिदं ख्यातं सर्वविश्वविमोहनम् || धर्मकामार्थफलदं शत्रून्दस्यून्निवारयेत् || ५२५ ||
कीर्त्तिकान्तिधरारोग्यरक्षाश्रीविजयप्रदम् || पुत्रपौत्रप्रदं लोके भूतवेतालनाशनम् || ५२६ ||
लिखितं भूर्जपत्रादौ पूजितं चाभिमन्त्रितम् || प्. ७९८)धारितं सर्वकामानां सिद्धिदं नात्र संशयः || अभक्ताय न दातव्यं न देवब्राह्मणद्विषे || ५२७ ||
अथान्यत्कृष्णयन्त्रं तु सर्वोपद्रवनाशनम् || लिखेत्ससाध्यं ग्लौंबीजं तच्च सम्यक्प्रवेष्टयेत् || ५२८ ||
अष्टादशार्णमन्त्रेण षट्कोणं च तदूर्ध्वतः || कोणेषु संलिखेद्वर्णान्पत्राक्षरमनोस्तथा || ५२९ ||
तद्बाह्ये दिग्दलं कृत्वा दशवर्णान्क्रमाल्लिखेत् || गोपीजनवल्लभाय स्वाहा मन्त्रो दशाक्षरः || ५३० ||
वृत्तद्वयान्तर्वीथ्यां तु कामबीजेन वेष्टयेत् || तद्बहिष्षोडशदलं केशरेषु स्वरांल्लिखेत् || ५३१ ||
दलेषु षोडशार्णेषु वर्णान्प्राग्वत्तथा लिखेत् || द्वात्रिंशत्कदलं बाह्ये कादिसान्तांश्च वर्णकान् || तत्केशरेषु चालिख्यदलमध्ये च पूर्ववत् || ५३२ ||
द्वात्रिंशदर्णमन्त्रस्य लिखेदर्णांस्ततो बहिः || वृत्तद्वयान्तर्वीथ्यामांक्रांबीजाभ्यां प्रवेष्टयेत् || ५३३ ||
चतुरस्रद्वयेनाथ तद्बाह्येष्टास्रमालिखेत् || अष्टार्णकैकवर्णन्तु मनुमेतं सुदुर्लभम् || ५३४ ||
चौरमारीभयहरं चतुर्वर्गफलप्रदम् || अथातः सम्प्रवस्क्.यामि हनुमद्यन्त्रमद्भुतम् || पद्ममष्टदलं कृत्वा कर्णिकायां समालिखेत् || ५३५ ||
ससाध्यं प्रणवं तत्र केशरेषु द्विशः स्वरान् || दलेषु संलिखेद्वर्णांश्चतुरश्चतुरोमनोः || ५३६ ||
नमो भगवते तुभ्यमाञ्जनेय हनूमते || खगपतङ्गाद्युपद्रवान्नाशयपदं वदेत् || ३५७ ||
हुं फट् स्वाहा रदार्णोयं बहिर्वृत्तद्वयं चरेत् || तदन्तरालवीथ्यां तु कादिक्षान्तांल्लिखेत्क्रमात् || ५३८ ||
वृत्तत्रयं बहिःकृत्वा तत्रमालामनुं लिखेत् || नमो भगवते प्रोच्य वदेद्धनुमते ततः || ५३९ ||
पवनात्मजाय वदेद्राघवप्राण संवदेत् || प्रदाय लक्ष्मणेत्युक्त्वा दात्रे सीतापदं वदेत् || ५४० ||
दुःखविनाशनायेति रावणेति पदं ततः || दर्प्पहायेति सर्वेति ङेन्तो दुष्टविनाशनः || ५४१ ||
रिपुचौरव्याघ्रवराहकृमि चोच्चरेत्तथा || पतङ्गादिदुष्टसत्त्वविनाशनपदं वदेत् || ५४२ ||
ङेन्तं हुंफट् ततः स्वाहा द्व्यशीत्यर्णो मनुर्मतः || तद्बहिश्चतुरस्रं च यन्त्रमेतत्सुलेखयेत् || ५४३ ||
भूर्ज्जे ताम्रेथ वा वस्त्रे भित्तौ पट्टे शिलातले || गोगले वाथ संलेख्यं रोचनानाभिकेशरैः || ५४४ ||
रक्षःकृत्याग्रहादीनां पीडारोगादिभीतिहृत् || बालग्रहामयव्याघ्रभयाद्यं क्रमशो हरेत् || ५४५ ||
अथातो दक्षिणामूर्त्तेर्यन्त्रं वक्ष्ये चमत्कृतम् || कुर्ययादष्टदलं पद्मं कर्णिकायां समालिखेत् || ५४६ ||
प्. ७९९)साध्यनामस्वरा लेख्या द्वन्द्वशः केशरेषु च || ततश्चाद्यदले लेख्या अ-उमास्तारवर्णकाः || ५४७ ||
पत्रे द्वितीये नमो भ तृतीये गवते लिखेत् || चतुर्थे दक्षिणा चेति मूर्त्तये पञ्चमे लिखेत् || ५४८ ||
मह्यं मे विलिखेत्षष्ठे सप्तमे धां प्रयेति च || च्छ स्वाहेत्यष्टमे पत्रे वृत्तयोरन्तरे ततः || ५४९ ||
वीथ्यां कादिकवर्णांश्च तद्बाह्ये भूपुरं लिखेत् || चतुष्कोणे चतुर्थस्य वर्गस्य प्रथमाक्षरम् || ४५० ||
चतुर्थे च द्वितीयं च तृतीयं वह्निकोणतः || लिखेच्छैवाष्टगन्धेन भूर्ज्जे धार्ययं सदागले || ५५१ ||
पुत्रपौत्रप्रदं नॄणामायुः श्रीविजयप्रदम् || कृत्यापस्मारभूतादिनाशनं सर्वकामदम् || ५५२ ||
अथातः सम्प्रवक्ष्यामि यन्त्रं मृत्युञ्जयाभिधम् || लिखेदष्टदलं पद्मं कर्णिकायां लिखेद्ध्रुवम् || ५५३ ||
तस्य मध्ये साध्यनाम दिग्दलेषु च क्षं लिखेत् || विदिक्पत्रेषु सो लेख्यो बहिर्भूपुरमालिखेत् || ५५४ ||
वकारं तच्चतुर्दिक्षु उकारं विदिशासु च || यन्त्रं मृत्युञ्जयस्येदं जपहोमादिसाधितम् || ५५५ ||
धृतं भूर्ज्जेथ वा कण्ठे बाहौ कोष्ठे प्रकोष्ठके || ग्रहरोगविषादीनां नाशनं मृत्युभञ्जनम् || ५५६ ||
कीर्त्तिध्यादीन्दिराकान्तिपुत्रदं नात्र संशयः || एतद्यः पूजयेन्नित्यमपमृत्युर्विनश्यति || ५५७ ||
अथातः सम्प्रवक्ष्यामि यन्त्रं बाटुकभैरवम् || आलिख्याष्टदलं पद्मं कर्णिकायां समालिखेत् || ५५८ ||
श्रीं ह्रीं क्लींक्षौं चाष्टदले द्विरावृत्त्या समालिखेत् || बटुकायेत्यक्षराणि बहिः षोडशपत्रके || ५५९ ||
आपदुद्धारणायेति द्विर्वदेद्बटुकाय ह्रीम् || लेख्य एकैकवर्णोयं बहिःषोडशपत्रके || ५६० ||
लिखेत्स्वरांश्च तद्बाह्ये द्वात्रिंशद्दलकं लिखेत् || ककारादिसकारान्तान्बहिर्भुपूरमालिखेत् || ५६१ ||
जयदं सुखदं वश्यं मृत्युदारिद्र्यनाशनम् || श्रीपदं दुरितव्याधिदुष्टग्रहनिकर्त्तनम् || ५६२ ||
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते दैवतयन्त्रकथनं नाम त्रयस्त्रिंशः प्रकाशः || ३३ ||
Prakāśa 34 – Hanumān-Mantras
प्. ८००)श्रीदेव्युवाच ||
ब्रूह्येकादशरुद्रस्य मन्त्रान्हनुमतो मम || रक्षसा निहता येन त्वत्तो लब्धवरा अपि || १ ||
श्रीशिव उवाच ||
वक्ष्यामि तव देवेशि मन्त्रान्हनूमतस्त्विह || चातुर्युगांतानाकल्पसंस्थितान्सिद्धिदायकान् || २ ||
तत्रादौ कथयिष्यामि मालामन्त्रं महाफलम् || तारं च वाग्भवं लक्ष्मीं ह्रींह्रींहुं च समुच्चरेत् || ३ ||
आद्यन्ताकृतिवेदार्णं बिन्दुरुद्रस्वरान्वितैः || हनुमतस्त्वाद्यकूटमेतत्साधक उच्चरेत् || प्रकृत्याकृतिवेदार्णैर्बिन्दुरुद्रस्वरान्वितैः || ४ ||
द्वितीयकूटमेतत्स्यादाद्यन्तकृतवर्णकैः || ५ ||
विसर्गेन्द्रस्वरोपेतैस्तृतीयं कूटमुच्यते || आद्यन्तसिद्धाकृत्यब्धिवर्णैरीशस्वरान्वितैः || ६ ||
सानुस्वारैस्तुर्ययकूटं ससाध्यैः पञ्चमं मतम् || तारो नमो हनुमते प्रकटेति पराक्रम || ७ ||
आक्रान्तदिङ्मण्डलयशोवितानधवेति च || लीकृतजगत्त्रितय वज्रदेह ज्वलेति च || ८ ||
दग्निसूर्येति कोटीति समप्रभतनूरुह || रुद्रावतार लंकेति पुरीदहन संवदेत् || ९ ||
उदधिलङ्घन दश प्रोच्य चाथ शिरः कृतान् || तक सीताश्वासनेति वदेद्वायुसुतेति च || १० ||
अञ्जनीगर्भसम्भूत श्रीरामलक्ष्मणा वदेत् || नन्दकर कपिसैन्यप्राकति ततो वदेत् || ११ ||
सुग्रीवसख्यकारेति णेति वालिनिबर्हण || कारणद्रोणपर्वेति तोत्पाटनपदं वदेत् || १२ ||
अशोकवनमित्युक्त्वा दारणेति पदं वदेत् || अक्षकुमारकच्छेति दहनेति पदं ततः || १३ ||
रक्षोवरसमूहेति विभेदनपदं वदेत् || ब्रह्मास्त्रेति ब्रह्मशक्तिग्रहमुक्त्वा च लक्ष्मण || १४ ||
शक्तिभेदविदारेति ण विशल्योषधीति च || समानयन बालेति संवदेद्भानुमण्डल || १५ ||
ग्रसनोग्रमेघनादहोमविध्वंसनेति च || इन्द्रजिद्वधकारेति णेति सीतेतिरञ्जक || १६ ||
राक्षसीसङ्घवीथ्यन्ते दारणेति वदेत्पदम् || कुम्भकर्णादिवधकृत्परायणपदं वदेत् || १७ ||
रामभक्तितदित्युक्त्वा वदेत्परपदं ततः || समुद्रव्योमपदतः समुल्लङ्घन संवदेत् || १८ ||
महासामर्थ्येति महातेजःपुञ्जविराजमा || न स्वामिवचनेत्युक्त्वा सम्पादितार्जनेति च || १९ ||
संयुगेति सहायेति कुमारेति ग्रहा वदेत् || दीन्भीषय पदान्ते शब्दोदयपदं वदेत् || २० ||
दक्षिणाशेति मार्त्तण्डमेरुपर्वतवीथिका || चलेति सकलेत्युक्त्वा मन्त्रागपदतो वदेत् || २१ ||
माचार्यय मम सर्वग्रहविनाशन सर्व च || प्. ८०१)ज्वरोच्चाटन सर्वेति वदेच्च विघ्ननाशन || २२ ||
सर्वापत्ति पदान्ते तु निवारणपदं वदेत् || सर्वदुष्टपदान्ते च निबर्हणपदं तथा || २३ ||
सर्वव्याघ्रादिपदतो वदेद्भयनिवारण || सर्वशत्रुच्छेदनेति वदेन्मम परस्य च || २४ ||
त्रियुगेतिपदान्ते तु नपुंस्त्रीतिपदं वदेत् || नपुंसकात्मकं सर्वान्ते वदेज्जीवंपदं ततः || २५ ||
वशयद्वयमानय ममाज्ञाकारकं वदेत् || सम्पादयद्वयम् नानामुनिध्येय ततो वदेत् || २६ ||
सर्वेति मम सम्प्रोच्य परिवारान्ममेति च || सेवकान्कुरुयुग्मं च सर्वशस्त्रास्त्र संवदेत् || २७ ||
विषान्विध्वंसयेति द्विरुक्त्वा ह्रां त्रितयं वदेत् || हाहाहा पाहि पाहीति प्रागुक्तं कूटपञ्चकम् || २८ ||
विलोमेन वदेत्सर्वं सर्वशत्रुहरं परम् || वृत्तानि परसैन्यानि क्षोभयद्वितयं मम || २९ ||
सर्वकार्ययजातमिति साधयद्वितयं ततः || सर्वदुष्टदुर्जनेति मुख्यानि कीलयद्वयम् || ३० ||
यत्रयं ह्रांत्रयं त्रीन्ह्रीं हुंफट्त्रयं चाग्निगेहिनी || मालामन्त्रो हनुमतो नागनागशराक्षरः || ३१ ||
मुनिरस्येश्वरश्छन्दोनुष्टुब्देवोञ्जनीसुतः || तारो नमो भगवते चाञ्जनेयाय हृन्मनुः || ३२ ||
तारो नमो भगवते शिरः स्याद्भद्रमूर्त्तये || तारो नमो भगवते शिखा वायुसुताय च || ३३ ||
अग्निगर्भाय भद्राय कवचस्य मनुः स्मृतः || तारो नमो भगवते रामदूताय नेत्रके || ब्रह्मास्त्रनिवारणाय नरवक्त्त्रास्त्रमन्त्रकः || ३४ ||
स्फटिकाभं स्वर्णकान्तिन्द्विभुजञ्च कृताञ्जलिम् || कुण्डलद्वयसंशोभि मुखाम्भोजं स्मरेन्मुहुः || ३५ ||
पूजा तु वैष्णवे पीठे शैवे वा चावृतिं विना || अयुतञ्च पुरश्चर्यया रामस्याग्रे शिवस्य च || ३६ ||
घृतहोमः सहस्रं स्यात्तर्प्पणादि ततश्चरेत् || जितेन्द्रियश्चणकाशी हनुमद्ध्यानतत्परः || ३७ ||
क्षुद्ररोगनिवृत्त्यर्थमष्टोत्तरशतं जपेत् || एकान्ते त्रिदिनैर्जापान्नाशो भूतादिकस्य च || महारोगादिशान्त्यर्थमष्टोत्तरसहस्रकम् || ३८ ||
सप्ताहं नियताहारो जपेन्निशि च राक्षसाः || ग्रहादयश्च नश्यन्ति तथा सर्वेभिचारकाः || ३९ ||
जयादिकाङ्क्षी त्वयुतं जपेन्निशि यतासनः || ध्यायंस्तथाक्षहन्तारं संग्रामे विजयेत च || ४० ||
सम्यक् च रामसुग्रीवसन्धिकारं जपेत्स्मरन् || प्. ८०२)अयुतेनाप्यविच्छिन्नसन्धिमाप्नोत्यसंशयम् || ४१ ||
लङ्कया दाहकं ध्यायन्द्वादशार्णं महामनुम् || हौंबीजं सम्यगुच्चार्यय पूर्वोक्तं कूटपञ्चकम् || ४२ ||
हनूमते नमो मन्त्रो रामचन्द्रो मुनिः स्मृतः || जगतीछन्द उद्दिष्टं हनुमान्देवता मतः || ४३ ||
बीजं तु पञ्चमं कूटं शक्तिराद्यं तु कूटकम् || षड्बीजैः प्रथमैर्न्यासः षडङ्गोस्य प्रकीर्तितः || ४४ ||
मूर्ध्निभाले दृशोरास्ये कण्ठे बाहौ तथा हृदि || कुक्षौ नाभौ ध्वजे जान्वोः पादयोर्मनुवर्णकान् || ४५ ||
मूर्ध्नि भाले मुखे हृत्के नाभावूर्वोश्च जंघयोः || पादयोर्विन्यसेन्मन्त्रं षड्बीजानि पदद्वयम् || ४६ ||
बालार्काभं त्रिभुवनक्षोभकं सर्वराक्षसान् || नादेनैव त्रासयन्तं सुग्रीवादिकसेवितम् || ४७ ||
सुन्दरं रामचरणध्यानं ध्यायेत्समीरजम् || यजेदष्टदले पद्मे केशरेष्वङ्गपूजनम् || ४८ ||
रामभक्तो महातेजाः कपिराजो महाबलः || द्रोणाद्रिहारको मेरुपीठकार्चनकारकः || ४९ ||
दक्षिणाशाभास्करश्च सर्वविघ्ननिवारकः || एवं पत्रेषु नामानि पूजयेच्च दलाग्रतः || ५० ||
सुग्रीवमङ्गदं नीलं जाम्बवन्तं तथा नलम् || सुषेणं द्विविदं चैव भुपूरे दिक्पतीनपि || ५१ ||
तद्बाह्ये च तदस्त्राणि जपेदर्कसहस्रकम् || दशांशं जुहुयाद्व्रीहीन्पयोदध्याज्यसंयुतान् || एवं सिद्धमनुर्मंत्री प्रयोगानाचरेत्तथा || ५२ ||
कदलीबीजपूराभ्रफलैर्हुत्वा सहस्रकम् || द्वाविंशतिं ब्रह्मचारी विप्रान्सम्भोजयेत्ततः || ५३ ||
एवं कृते महाभूतविषचौराद्युपद्रवाः || नश्यन्ति क्षणमात्रेण विद्विष्टग्रहदानवाः || अष्टोत्तरशतेनाभिमन्त्रितं विषनाशनम् || ५४ ||
रात्रौ नवशतं मन्त्रं जपेद्दशदिनावधि || यो नरस्तस्य नश्यन्ति राजशत्रुप्रभीतयः || ५५ ||
अभिचारे तु भूतोत्थज्वरे तन्मन्त्रमन्त्रितैः || भस्मभिः सलिलैर्वापि ताडयेज्ज्वरिणं क्रुधा || ५६ ||
दिनत्रयाज्ज्वरान्मुक्तः सुखं संलभते नरः |
तन्मन्त्रितौषधं जग्ध्वा नीरोगो जायते ध्रुवम् || ५७ ||
तन्मन्त्रितं पयः पीत्वा योद्धुं गच्छन्मनुं जपेत् || तज्जप्तभस्मलिप्ताङ्गः शत्रुसंघैर्न बाध्यते || ५८ ||
शत्रुक्षतव्रणोद्भूतलूतास्फोटं च भस्मना || त्रिर्मन्त्रितेन संस्पृष्टस्त्रिदिनाद्याति शुष्कताम् || ५९ ||
सूर्ययास्तमयमारभ्य जपेत्सूर्ययोदयावधि || कीलकं भस्म चादाय सप्ताहावधि संयुतम् || ६० ||
प्. ८०३)निखनेद्भस्मकीलौ तु विद्वीषां द्वार्ययलक्षितः || विद्वेषाद्भयमापन्नाः पलायन्तेऽरयोचिरात् || ६१ ||
अभिमन्त्रितभस्माम्बु देवचन्दनसंयुतम् || दीयते तु यदा यस्मै स तदा तस्य दासवत् || क्रूराः स्वयं तु चौराद्या भवन्ति विविधा वशाः || ६२ ||
ईशानदिशि मूलेन भूतांकुशतरोः शुभाम् || अंगुष्ठमात्रां प्रतिमां सम्विधाय हनूमतः || ६३ ||
प्राणसंस्थापनं कृत्वा सिन्दूरैः परिपूज्य च || गृहस्याभिमुखीं द्वारे निखनेन्मन्त्रमन्त्रिताम् || ६४ ||
संजायन्ते कदाचिन्न गेहे तस्मिन्नुपद्रवाः || प्रत्यहं धनपुत्राद्यैरेधते तद्गृहं चिरम् || ६५ ||
निशि श्मशानभूमिस्थमृत्स्नया वापि भस्मना || शत्रोः प्रतिकृतिं कृत्वा हृदि नाम समालिखेत् || ६६ ||
कृतप्राणप्रतिष्ठान्तां भिन्द्याच्छस्त्रैर्मनुं जपेत् || मन्त्रान्ते प्रोच्चरेच्छत्रोर्नाम च्छिन्धि च भिन्धि च || ६७ ||
मारयेति च तस्यान्ते दन्तैरोष्ठं निपीड्य च || एवं सप्तदिनं कुर्वन्हन्याच्छत्रून्न संशयः || ६८ ||
अर्द्धचन्द्राकृतौ [वेद्यामिति शेषः ||] कुण्डे स्थण्डिले वा हुतं चरेत् || मुक्तकेशः श्मशानस्थो बलासौराष्ट्रिकायुतैः || ६९ ||
उन्मत्तफलपुष्पैश्च नखरोमविषैरपि || काककौशिकगृध्राणां पक्षैः श्लेष्मान्तकाक्षजैः || ७० ||
समिद्वरैश्च त्रिशतैर्दक्षिणाशामुखो निशि || होमं कुर्ययात्स्मरन्मन्त्रं मारयेद्रिपुमुद्धतम् || ७१ ||
शतषट्कं जपेद्रात्रौ श्मशाने दिवसत्रयम् || ततो वेताल उत्थाय वदेद्भावि शुभाशुभम् || उदितं कुरुते सर्वं किंकरीभूय मन्त्रिणः || ७२ ||
हनुमत्प्रतिमां भूमौ संलिखेत्तत्पुरो मनुम् || साध्यनामद्वितीयान्तं विमोचयविमोचय || ७३ ||
तत्सर्वं मार्जयेद्वामहस्तेनाथ पुनर्लिखेत् || एवमष्टोत्तरशतं लिखित्वा मार्जयेत्पुनः || ७४ ||
एवं कृते पराधीनो निगडैर्मुच्यते क्षणात् || एवं विद्वेषणादीनि कुर्ययात्तत्पल्लवं लिखेत् || ७५ ||
वश्यार्थं सर्षपैर्होमो विद्वेषे करवीरजैः || कुसुमैस्तस्य काष्ठैर्वा जीरकैर्मरिचैरपि || ७६ ||
ज्वरे दूर्वागुडूचीभिर्दध्ना क्षीरेण वा घृतैः || तैलाक्ताभिश्च निर्गुण्डीसमिद्भिर्वा समाचरेत् || ७७ ||
सौभाग्यैश्चन्दनैः श्वेतै रोचनैलालवङ्गकैः || सुगन्धिपुष्पैर्वश्यार्थं सप्तधान्यैस्तदाप्तये || ७८ ||
प्. ८०४)किं बहूक्तैर्विषव्याधौ शान्तौ मोहे च मारणे || विवादे स्तम्भने चैव भूतभूतौ च संकटे || ७९ ||
वश्ये युद्धे क्षते दिव्ये बन्धमोक्षे महाबले || मन्त्रोयं साधितो दद्यादिष्टसिद्धिं नृणां ध्रुवम् || ८० ||
अथातः सम्प्रवक्ष्यामि मालामन्त्रानुपासितान् || नवग्रहैर्हनुमतो जपात्सिद्धिविधायकान् || ८१ ||
तेषां मुन्यादिकं न्यासः षडङ्गं पूजनन्तथा || प्रयोगाश्च परिज्ञेयाः साधकैर्द्वादशार्णवत् || ८२ ||
तत्रादौ सम्प्रवक्ष्यामि भास्करोपासितम्मनुम् || पूर्वोक्तमालामन्त्रस्य बीजमेकादशन्तु तत् || ८३ ||
नवानामपि मन्त्राणामादौ जानन्तु देवताः || वदेन्नमो हनुमते वदेन्नमः परस्य च || ८४ ||
क्षयदुष्टगणान्प्रोच्य तथा चारिक्षतज्वर || एकाहिकद्व्याहिकेति त्र्याहिकेति चतुर्थकः || ८५ ||
सन्ततज्वरसन्नीति पातिकज्वरभूवदेत् || तज्वरेति च मन्त्रेति ज्वरशूलभगन्दर || ८६ ||
मूत्रकृच्छ्रकपोलेति वृन्दस्थलपदन्ततः || कर्णशूलेत्यक्षिशूलवदेच्चरदशूलक || ८७ ||
हस्तशूलेति पादेति शूलादीन्सर्वमुच्चरेत् [शसन्तं सर्वशब्दपदमित्यर्थः ||] || व्याधीन्क्षणात्त्रासयेति भिन्धि छिन्धि विनाशय || ८८ ||
द्विधा निकर्त्तय त्रेधा छेदयद्विश्च भेदय || महावीरपदन्तारं हनुमन् ह्रांद्वयं वदेत् || ८९ ||
ह्रंह्रं द्वे च वदेद्ध्रीं द्वे ह्रंह्रं फट् वह्निगेहिनी || मालामन्त्रोयमुद्दिष्टः सर्वरोगविनाशकः || ९० ||
अथातः सम्प्रवक्ष्यामि चन्द्रेणोपासितम्मनुम् || वदेन्नमो भगवते राक्षसेति कुलेति च || ९१ ||
दानवानलद्वादशार्ककोट्युज्ज्वलप्रभेति च || रं तु रूंहं भीमनादं वदेन्मम परस्य च || ९२ ||
दुष्टदुर्जनमोहाय वदेत्कारक वादिवि || वादिद्वेषकारकेति कार्ययभञ्जक संवदेत् || ९३ ||
कुरु प्रकृतिकेत्युक्त्वा प्रवृत्तपेदमुच्चरेत् || कोपावेशेन हत्वेति चामुकान्वै समुच्चरेत् || ९४ ||
दूरस्थेति समीपस्थांस्ततो भूतभवीति च || ष्यद्वर्त्तमानान्पुंस्त्रीनपुंसकान्पदमुच्चरेत् || चतुर्वर्णान्क्षणेनेति सत्वरं जहियुग्मकम् || दह संहारय द्विर्द्विर्द्विर्मोहयपदं वदेत् || ९५ ||
शमय द्विर्द्वेषय द्विर्वदेत्सर्पालिमूषक || वत्सद्यः पदमुच्चार्यय प्राणिनः पदमुच्चरेत् || ९६ ||
प्. ८०५)द्विर्विध्वंसय हिलिद्विर्द्विर्द्विर्मूकम्पराजय || बन्धय द्विःपातय द्विर्ममेति च परस्य च || ९७ ||
दासीभूतं वदेद्द्वेधा सम्पादयत्रिधात्रिधा || ह्रांह्रुं त्रिधा च फट्स्वाहा मन्त्रोयं समुदीरितः || ९८ ||
अहातः सम्प्रवक्ष्यामि मङ्गलोपासितं मनुम् || वदेन्नमो हनुमते महाबलपराक्रम || ९९ ||
मम परस्य च भूत वदेत्प्रेतपिशाचशा || किनी डापदमुच्चार्यय किनी यक्षिणिका च पू || १०० ||
तना मारी महामारी कृत्या यक्षेति राक्षस || वदेद्भैरववेतालग्रहेति ब्रह्मराक्षसा || १०१ ||
दिकजातक्रूरबन्धान्क्षणेन जहियुग्मकम् || भञ्जयद्वितयं प्रोच्य वदेद्द्वेधा निरासय || १०२ ||
द्वेधा वारय बन्ध द्विस्तुद सूद द्वयंद्वयम् || बन्धंद्वेधा मोचय द्विर्मामेनं च पदं वदेत् || १०३ ||
रक्तरक्तमहामोहेश्वररुद्रावतार हा || हाहाह्रंह्रं त्रिधा हुंफट्स्वाहायमुदितो मनुः || १०४ ||
अथातः सम्प्रवक्ष्यामि बुधेनोपासितं मनुम् || नमो हनुमते प्रोच्य त्रैलोक्यक्रमणेति च || १०५ ||
सर्वशत्रूंश्चतुर्वर्णसम्भवानिति चोच्चरेत् || पुंस्त्रीनपुंसकान्भूतभविष्यद्वर्त्तमोच्चरेत् || १०६ ||
नान्दूरस्थसमीपस्थान्नानानामपदं लिखेत् || तथा सङ्करजातिजातान्पदं चैव समुच्चरेत् || १०७ ||
कलत्रपुत्रमित्रेति भृत्यबन्धुसुहृत्पदम् || समतापुरुशक्तीति समेतान्धनुरा वदेत् || १०८ ||
ज्यादिसम्पत्तियुतान्नाराजराजेति पुत्रसे || वकान्मन्त्रिसचिवसखीनुक्त्वात्यन्तिकान्क्षणात् || १०९ ||
वदेदधिपतिं मां च कुरुद्वयप्दं ततः || नानोपायैर्मारयद्विः शत्रूंश्छेदयच्छेदय || ११० ||
भूतसङ्घैः सहेत्युक्त्वा वदेद्भक्षयभक्षय || भिन्धिभिन्धि च सम्प्रोच्य त्वग्निना ज्वालयद्वयम् || १११ ||
दाहयद्वितयं प्रोच्य वदेदक्षकुमारवत् || पादतलाक्रमणेन तनुं चैव शिलातले || ११२ ||
व्यात्रोटय घातय द्विद्विर्बन्धयपदं वदेत् || क्रुधा चेति पदं प्रोच्य नखैर्द्वेधा विदारय || ११३ ||
देशादस्मादिति प्रोच्य वदेदुच्चाटयद्वयम् || द्विर्ध्वंसय त्रासय द्विर्वदेत्पश्चाद्भयातुरान् || ११४ ||
विसंज्ञान्सद्य उच्चार्यय द्वेधा कुरुपदं वदेत् || भस्मीभूतांस्ततो द्वेधा वदेदुत्पाटयेति च || ११५ ||
भक्तजनवत्सलेति सीताशोकापहारक || सर्वत्र मां वदेदेनं रक्षरक्ष च हा पुनः || ११६ ||
प्. ८०६)हाहाहुंहुं त्रिधा द्विः फट्स्वाहान्तो मनुरीरितः || वेदपञ्चत्रिवर्णोयं सर्वाभीष्टप्रदायकः || ११७ ||
अथातः सम्प्रवक्ष्यामि गुरुणोपासितं मनुम् || नमो हनुमते प्रोच्य वदेन्मम परस्य च || ११८ ||
महाभयानि सर्वेति व्याघ्रतस्कर संवदेत् || ११९ ||
ज्वालाग्निविषजङ्गेति मस्थावरमहेति च || कृत्रिमोपविषमहासंग्रामे च पदं वदेत् || १२० ||
दुष्टवादे विवादे च शत्रोः कामान्हरद्वयम् || द्विर्ग्रासय त्रोटय द्विर्भञ्जय स्तम्भय त्रिधा || १२१ ||
कण्डय त्रोटय द्विर्द्विर्वानर क्षम संवदेत् || महावीरेति मामेनं रक्षरक्ष त्रिधात्रिधा || १२२ ||
हाहुं द्वे त्रिश्च फट्स्वाहा प्रोक्तोयं मनुसत्तमः || सर्वपीडाहरो रामवशकृद्भाग्यदायकः || १२३ ||
अथातः सम्प्रवक्ष्यामि शुक्रेणाराधितं मनुम् || तारो नमो हनुमते वदेत्सर्वग्रहानिति || १२४ ||
भूतेति च भविष्यच्च वर्त्तमानान्पदं वदेत् || १२५ ||
दूरस्थांश्च समीपस्थान्सर्वकालं वदेत्पदम् || उच्चाटयद्वयं प्रोच्य परेति च बलानि च || १२६ ||
क्षोभयद्वितयं सर्वकार्ययाणि साधय द्विधा || ह्रांह्रींह्रूंद्विस्त्रयं फट् च स्वाहान्तोयं मनुर्मतः || १२७ ||
महाबलकरश्चायमपमृत्युविनाशकः || अथातः सम्प्रवक्ष्यामि शनिनाराधितं मनुम् || परकृतयन्त्रमन्त्रपराहंकारसंवदेत् || १२८ ||
भूतप्रेतपिशाचेति सर्वज्वरपरेति च || दृष्टिरोगादिकान्प्रोच्य द्विस्त्रासय निवारय || १२९ ||
बन्ध बन्धय च द्वेधा इलवुचिलवु वदेत् || कुयन्त्राणि सर्वदुष्टवाचं हुंफड् दहाङ्गना || इत्येवायं मनुः प्रोक्तस्सर्वापत्तिनिवारकः || १३० ||
अथातः सम्प्रवक्ष्यामि राहुणोपासितं मनुम् || नमो भगवते प्रोच्य वदेद्धनुमते पदम् || १३१ ||
पवनात्मजायेति राघवप्राणसमाय तु || लक्ष्मणप्राणदात्रे च सीताशोकविनाशकः || १३२ ||
ङेन्तो रावणदर्प्पघ्नो ङेन्तः सर्वपदं वदेत् || दुष्टविनाशनायेति रिपुचौरपदं वदेत् || १३३ ||
व्याघ्रवराहकृत्येति चान्तकाय पदं वदेत् || दुष्टसत्त्वविनाशेति नाय हुंफड् हुताङ्गना || १३४ ||
उक्तोयं मनुराजस्तु लक्ष्मीविद्याजयप्रदः || विशेषतोपमृत्योश्च नाशको रामवल्लभः || १३५ ||
अथातः सम्प्रवक्ष्यामि केतुनोपासितं मनुम् || प्. ८०७)नमो भगवते प्रोच्य वदेद्धनुमतेपदम् || १३६ ||
चोररिपुकृमिखगपतङ्गादीन्समुच्चरेत् || उच्चाटय हुंफट् च स्वाहान्तो मनुरीरितः || १३७ ||
रामचन्द्रो मुनिश्चैषां गाथा छन्दः प्रकीर्तितम् || महावीरोत्र हनुमान्देवता सम्प्रकीर्तितः || १३८ ||
नवमं कूटमुद्दिष्टं बीजं शक्तिस्तथाष्टमम् || एकादशकूटपूर्वं नामन्यासं समाचरेत् || १३९ ||
ङेन्तं नाम तथांगुष्ठादिके चापि षडङ्गकम् || हनुमान्रामदूतश्च लक्ष्मणप्राणदायकः || १४० ||
अञ्जनीसूनुरित्येवं सीताशोकविनाशनः || नेत्रान्तमेवं कृत्वा तु लङ्काप्रासादभञ्जकः || १४१ ||
अर्कास्तमयमारभ्य यावत्सूर्ययोदयो भवेत् || तावन्मन्त्रं जपेद्रात्रौ कार्ययमुद्दिश्य मन्त्रवित् || सप्ताहाज्जायते सिद्धिर्वायुपुत्रप्रसादतः || १४२ ||
रात्रौ रात्रौ जपेन्मंत्रं षष्ठ्यां चाष्टोत्तरंशतम् || दश वासरपर्ययन्तं राजशत्रुभयं हरेत् || १४३ ||
औषधावसरे मन्त्रं दशवारं जपेद्बुधः || तेनाभिमन्त्रितं दत्तं सर्वं सफलतां व्रजेत् || १४४ ||
भस्माभिमन्त्रितं यस्य देह चन्दनमिश्रितम् || चर्चितं परबाधादि तस्य नश्यत्यसंशयम् || १४५ ||
स वश्यो जायते नूनं प्राणैरपि धनैरपि || दासतां याति देवोपि मनुष्येषु च का कथा || १४६ ||
कूरसत्त्वानि सर्वाणि वशयेदमुना खलु || प्रकारेण महाबीरज्वरितः शान्तितामियात् || १४७ ||
बन्धमुक्तौ जपेन्मन्त्रं रात्रौरात्रौ न संशयः || द्वादशार्णप्रयोगांश्च निखिलांस्तत्र कारयेत् || १४८ ||
स्तम्भने तु यवो माषा न्यग्रोधस्य फलानि च || शाल्मलीकुसुमं तालं हरिद्रामलकीफलम् || १४९ ||
मधुरत्रयसंयुक्तं यथालाभं तु होमयेत् || उच्चाटार्थं निशि हुनेच्छ्लेष्मान्तकविभीतकान् || १५० ||
अष्टोत्तरशतं रात्रौ कार्ययमिष्टं च सिद्ध्यति || वश्यार्थं होमयेद्द्राक्षामपूपानथ गुग्गुलम् || १५१ ||
विद्वेषे कटुतैलेन संयुक्तं हिंगु होमयेत् || पञ्चखाद्यैर्नालिकेरैरिक्षुभिः कदलीफलैः || १५२ ||
सर्वसन्तोषकृद्धोमो मधुरत्रितयान्वितैः || सौभाग्यार्थं तु काश्मीरकस्तूरीत्वक्समीरणैः || १५३ ||
पत्रागुरुनखैर्मांसीजातीपत्रफलैस्तथा || धत्तूरफलपुष्पाणि समिधो मोहने स्मृताः || १५४ ||
अथातः सम्प्रवक्ष्यामि प~चकूटात्मकं मनुम् || ****?द्धृतानि कूटानि पञ्च तान्येव मन्त्रतः || १५५ ||
हनुमान्रामदूतश्च लक्षमणप्राणदायकः || प्. ८०८)ततोञ्जनासुतः प्रोक्तः सीताशोकविनाशकः || १५६ ||
ततः षष्ठः परिज्ञेयो लंकाप्रासादभञ्जनः || कपेरेतानि नामानि कूटपूर्वाणि सन्ति च || १५७ ||
पञ्चकूटानि चैकेन षडङ्गमनवः स्मृताः || ध्यानपूजादिकं सर्वं विज्ञेयं द्वादशार्णवत् || १५८ ||
अथातः सम्प्रवक्ष्यामि मन्त्रं रुद्रैरुपासितम् || नवग्रहादिमन्त्राणां बीजान्येकादशैव तु || १५९ ||
स एव मन्त्रो रुद्रेण सहायार्थमुपासितः || तद्ध्यानपूजान्यासाद ज्ञय च द्वादशार्णवत् || १६० ||
अथान्यं सम्प्रवक्ष्यामि मन्त्रमष्टादशाक्षरम् || नमो भगवते प्रोच्य आञ्जनेयाय संवदेत् || १६१ ||
महाबलाय स्वाहेति मुनिरस्येश्वरः स्मृतः || छन्दोनुष्टुब्देवता तु हनुमान्हं च बीजकम् || स्वाहा शक्तिश्चाञ्जनेयो रुद्रमूर्त्तिः सुरो मतः || १६२ ||
अग्निगर्भो रामदूतो ब्रह्मास्त्रविनिवारकः || द्विरावृत्त्या षडङ्गानि तथांगुष्ठादिषु न्यसेत् || १६३ ||
तप्तकाञ्चनसंकाशं हृदये विहिताञ्जलिम् || किरीटिनं कुण्डलिनं ध्यायेद्वानरनायकम् || १६४ ||
वैष्णवे पूजयेत्पीठे द्वादशार्णोक्तवर्त्मना || अयुतं प्रजपेन्मन्त्रं दशांशं जुहुयात्तिलैः || १६५ ||
विप्रसन्तर्प्पणाद्यं तु प्राग्वत्सिद्धो भवेन्मनुः || जितेन्द्रियो नक्तभोजी प्रत्यहं साष्टकं शतम् || जपित्वा क्षुद्ररोगेभ्यो मुच्यते दिवसत्रयात् || १६६ ||
भूतप्रेतपिशाचादिनाशायैवं समाचरेत् || महारोगनिवृत्त्यै तु सहस्रं त्रिदिनं जपेत् || १६७ ||
यताशनोयुतं नित्यं जपेद्ध्यायन्कपीश्वरम् || राक्षसौघं विनिघ्नन्तमचिराज्जयति द्विषः || १६८ ||
सुग्रीवेण समं रामं मेलयन्तं स्मरन्कपिम् || प्रजप्यायुतमात्रं तु सन्धिं कुर्ययाद्विरुद्धयोः || १६९ ||
लंकां दहन्तं तं ध्यायेदयुतं प्रजपेन्मनुम् || शत्रूणां प्रदहेद्ग्रामानचिरादेव साधकः || १७० ||
प्रयाणसमये ध्यायन्हनुमन्तं मनुं जपेत् || यो याति सोचिरात्स्वेष्टं साधयित्वा गृहं व्रजेत् || १७१ ||
यः कपीशं सदा गेहे पूजयेज्जपतत्परः || आयुर्ल्लक्ष्म्यः प्रवर्घन्ते तस्य नश्यन्त्युपद्रवाः || १७२ ||
अथान्यं सम्प्रवक्ष्यामि मन्त्रमष्टाक्षरं परम् || षड्दीर्घयुक्ता हृल्लेखा प्रणवेनैव सम्पुटा || १७३ ||
अष्टार्णोयं हनुमतो मन्त्रराजः प्रकीर्तितः || षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः || १७४ ||
ध्यानपूजाजपाद्यत्र सर्वं स्याद्द्वादशार्णवत् || प्. ८०९)एतत्प्रभावाज्झटिति चाधिव्याधिविवर्जितः || १७५ ||
शादूलतस्करादिभ्यो न भयं जपतो मनुम् || प्रस्थानकाले जपतां नश्येयुस्तस्करादयः || १७६ ||
कोकिलच्छदलेखन्या त्वलक्तकरसेन च || अष्टगन्धैर्लिखेद्रूपं कपिराजस्य सुन्दरम् || १७७ ||
तन्मध्ये चाष्टकोणेषु शत्रुनाम पुनर्लिखेत् || तन्मन्त्रजपितं यन्त्रं दध्याच्छिरसि भूमिपः || जयत्यरिगणान्सर्वान्दर्शनादेव निश्चितम् || १७८ ||
यद्वा जिगीषुर्नृपतिः पूर्वोक्तं लेखयेद्ध्वजे || ध्वजमादायोपरागे संस्पर्शान्मोक्षणावधि || १७९ ||
मातृकाः प्रजपेत्पश्चाद्दशांशेन हुतं चरेत् || सर्षपैस्तिलसंमिश्रैस्संस्कृते हव्यवाहने || गच्छेद्रणे ध्वजं दृष्ट्वा पलायन्तेरयोचिरात् || १८० ||
अथातः सम्प्रवक्ष्यामि मन्त्रं प्लीहादिवारणम् || हांहुं हनुमते हृच्च ङेन्तं कपिपतिं ततः || १८१ ||
वगवगि अं-आंप्रोच्य प्लीहं हुं चापि दं वदेत् || हान्तं जिनमितार्णोयं मुन्यादि द्वादशार्णवत् || १८२ ||
प्लीहयुक्तोदरे स्थाप्यं नागवल्लीदलं शुभम् || गदं दुष्टं नूतनेन पटेनाच्छादयेत्ततः || १८३ ||
वंशजं शकलं तस्य जठरे स्थापयेद्बुधः || तदादाय ज्वलद्वह्नौ यश्चैवं त्रिः प्रतापयेत् || १८४ ||
बदरीतरुसम्भूतसमिधा मनुनामुना || सप्तशो जपितेनैवं ताडयेज्जठरस्थितम् || सप्तकृत्वस्ततो मन्त्री शकलद्वितयं खलु || १८५ ||
एवं कृते प्लीहरोगो नश्यत्येव न संशयः || यकृद्वृद्धौ चैवमेव दक्षपार्श्वे समाचरेत् || १८६ ||
अथान्यं सम्प्रवक्ष्यामि मालामन्त्रं वदेद्ध्रुवम् || वज्रकाय वज्रतुण्ड वदेत्कपिलपिङ्गल || १८७ ||
ऊर्ध्वकेश महावीर सुरक्तमुख कीर्त्तयेत् || तडिज्जिह्व महारौद्र दंष्ट्रोत्कट कहद्वयम् || १८८ ||
करालिने महादृढप्रहारिन्निति कीर्त्तयेत् || लंकेश्वरवधायान्ते महासेतुपदन्ततः || १८९ ||
बन्धान्ते च महाशैलप्रवाह गगनेचर || एह्येहि भगवन्प्रोच्य महाबलपराक्रम || १९० ||
भैरवाज्ञापय प्रोच्य एह्येहीतिपदं वदेत् || महारौद्रपदम्प्रोच्य दीर्घपुच्छेन वेष्टय || १९१ ||
वैरिणम्भञ्जयद्वन्द्वं हुंफट् चायं ध्रुवादिकः || बाणनेत्रेन्दुवर्णोत्र मालामन्त्रोऽखिलेष्टदः || १९२ ||
एवमाराधयन्प्रोक्तं रुद्रस्यैकादशस्य तु || अतः परम्प्रवक्ष्यामि कार्तवीर्ययार्जुनस्य च || १९३ ||
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते हनुमन्मन्त्रकथनं नाम चतुस्त्रिंशः प्रकाशः || ३४ ||
Prakāśa 35 – Kārtavīryārjuna-Mantras
प्. ८१०)श्रीदेव्युवाच ||
सुदर्शनांशसम्भूतः कार्त्तवीर्ययार्ज्जुनो नृपः || एतत्त्वया पुरा प्रोक्तं तस्य मन्त्रान्प्रब्रूहि मे || १ ||
श्रीशिव उवाच ||
शृणु देवि प्रवक्ष्यामि सर्वतन्त्रेषु गोपितान् || पञ्चाम्नायगतान्मन्त्रानर्जुनस्य ब्रवीमिते || २ ||
धर्मपादाग्रभेदेन देव्याम्नायाः प्रकीर्त्तिताः || धर्मादीनां पादभेदाद्देवि तुल्यं ब्रवीमि ते || ३ ||
लोकानिन्द्यस्त्वेकपादः शास्त्रानिन्द्यो द्विपाद्भवेत् || त्रिपाद् द्वयोरनिन्द्यस्तु भक्तिश्रद्धासमन्वितः || ४ ||
सालोक्यमेकपात्प्रोक्तं सामीप्यन्तु द्विपात्स्मृतम् || सारूप्यम्पादहीनं स्यात्सायुज्यम्पूर्णमुच्यते || ५ ||
एषां कैवल्यरूपाणां लक्षणं शृणु पार्वति || यमैश्च नियमैर्युक्तः पूर्णधर्मस्तु केवलः || ६ ||
सिद्धो भवत्ययत्नेन स्वयं चेह परत्र हि || अकृत्वा परसंतापमगत्वा स्मरमन्दिरम् || स्वधर्मेणार्ज्जितं द्रव्यं केवलं तत्र साधनम् || ७ ||
देहाभिमाननाशेन लिङ्गदेहविनाशनम् || तेन कालस्वरूपत्वं तत्कैवल्यम्प्रकीर्त्तितम् || ८ ||
उत्तरेण च पूर्वेण पश्चिमेन यथाक्रमम् || ऊर्द्ध्वेन दक्षिणेनैकदीपादिक्रमतोखिलाः || ९ ||
सिध्यन्ति केवलैश्चैवं पञ्चाम्नायैर्वृषादयः || तत्र संकरशूद्राद्या विप्रान्ताश्चाधिकारिणः || १० ||
यथोक्ताम्नायसेवाभिर्ल्लभन्ते तत्परम्पदम् || हीनसेवा तूत्तमानां रासभारोहणं यथा || ११ ||
अथेष्टपान्मनून्वक्ष्ये कार्त्तवीर्ययार्जुनस्य च || यः सुदर्शनचक्रस्यावतारः क्षितिमण्डले || १२ ||
वह्नितारयुता रौद्री लक्ष्मीरग्नीन्दुशान्तियुक् || वेधा धरेन्दुशान्त्याढ्यो निद्रार्घीशाग्निबिन्दुयुक् || १३ ||
पाशो मायांकुशम्पद्मा वर्मास्त्रे कार्त्तवीपदम् || रेफो बिन्द्वासनोनन्तो वह्निजौ कर्णसंस्थितौ || १४ ||
मेषः सदीर्घपवनो मनुरुक्तो हृदन्तकः || ऊनविंशतिवर्णोयन्तारादिर्नखवर्णकः || १५ ||
दत्तात्रेयो मुनिश्चास्य च्छन्दोनुष्टुबुदाहृतम् || कार्त्तवीर्ययार्जुनो देवो बीजं शक्तिध्रुवश्च हृत् || १६ ||
फ्रांज्रामिति स्याद्धृदयं क्लींभ्रीमिति शिरः स्मृतम् || ऊंहं शिखा समाख्याता क्रोंश्रीं कवचमीरितम् || १७ ||
हुंफडस्त्रं समाख्यातं शेषेण व्यापकञ्चरेत् || हृदये जठरे नाभौ जघने गुह्यदेशके || १८ ||
दक्षपादे वामपादे सक्थ्नि जानुनि जंघयोः || विन्यसेद्बीजदशकम्प्रणवद्वयमध्यगम् || १९ ||
ताराद्यान्नव शेषार्णान्मस्तके च ललाटके || प्. ८११)भ्रुवोः श्रुत्योस्तथैवाक्ष्णोर्नसि वक्त्त्रे गलेंसयोः || २० ||
सर्वमन्त्रेण सर्वाङ्गे व्यापक~च ततश्चरेत् || सर्वेष्टसिद्धये ध्यायेत्कार्त्तवीर्ययार्ज्जुनेश्वरम् || २१ ||
प्रभाकररुचिः कण्ठे स्वर्णमालाविराजितः || ध्येयो रक्तांशुकोष्णीषी नानाकल्पविराजितः || २२ ||
सहस्रार्धभुजैर्बाणान्सहस्रार्धैंर्धनूंषि च || दधट्टंकारशब्दैश्च त्रासिताखिलदुर्जनः || २३ ||
स्यन्दने च समारूढः सप्तद्वीपधरापतिः || भूपालमुकुटाघृष्टपादपद्मोब्जलोचनः || २४ ||
स्थूलकायोतिभीष्मश्च रथस्थो भक्तवत्सलः || वैष्णवे तु यजेत्पीठे पद्मं दशदलं चरेत् || २५ ||
तस्याङ्गमूर्त्तिकाः पञ्च कर्णिकायाम्प्रपूजयेत् || अग्नीशासुरवायव्यकोणेषु हृदयादिकाः || २६ ||
अस्त्राण्यपि चतुर्दिक्षु पञ्च ताः स्फटिकोज्ज्वलाः || खड्गचर्म्मधरा ध्येयाश्चन्द्राभा अङ्गमूर्त्तयः || २७ ||
चापबाणधरा वीरास्सर्वाभरणभूषिताः || रक्तांशुका रक्तमाल्या रक्तचन्दनचर्चिताः || चतुर्भुजा रोचमोनाः सर्वे रक्तविलोचनाः || २८ ||
षट्कोणेषु षडङ्गानि ततो दिक्षु विदिक्षु च || चौरमदविभञ्जनो मारीमदविभञ्जनः || २९ ||
अरिमदविभर्ञ्जनो दैत्यमदविभञ्जनः || दुःखनाशो दुष्टनाशो दुरितामयनाशकः || ३० ||
दिक्ष्वष्टशक्तयः पूज्याः प्राच्यादिषु सितप्रभाः || क्षेमङ्करा वश्यकरी श्रीकरी च यशस्करी || ३१ ||
तद्बहिर्भूपुरे पूज्या लोकपा अस्त्रसंयुताः || ३२ ||
चतुर्लक्षं जपेन्मन्त्रं होमः कार्ययः पयोंन्धसा || तिलाज्यतण्डुलैर्वापि पुरश्चर्यया सरित्तटे || ३३ ||
तर्प्पणादि ततः कुर्ययान्मन्त्रसिद्धिः प्रजायते || प्रयोगानपि कुर्वीत शृणु तानधुनेश्वरि || ३४ ||
अथातो दक्षिणे मार्गे वक्ष्यते काम्यपूजनम् || शुद्धभूमावष्टगन्धैर्लिखेद्यन्त्रं तदुच्यते || ३५ ||
लिखेद्दशदलम्पद्मं कर्णिकायां समालिखेत् || फ्रोंक्लीं ओं ऐं च पत्रेषु प्रणवाद्यानि संलिखेत् || ३६ ||
मन्त्रस्य नवबीजानि ततः पत्रान्तरेषु च || ओंमादिदशवर्णाश्च केशरेषु समालिखेत् || ३७ ||
शषसहान्स्वरांश्चापि तदग्रे च लिखेत्पुनः || वेष्टयेत्कादिकैर्वर्णैः शेषैः सहविवर्जितैः || ३८ ||
तद्बाह्ये चतुरस्रे तु वेष्टयेद्भूतवर्णकैः || नानाकामप्रभेदेन भूवायवग्निनभोम्भसाम् || ३९ ||
पञ्च ह्रस्वाः पञ्च दीर्घा एकाराद्याश्च पञ्च च || प्. ८१२)आयुष्करी तथा प्रज्ञाकरी विद्याकरी पुनः || धनकराष्टमी पश्चाल्लोभेशा पञ्च पङ्कजम् || पञ्चवर्गाः पञ्च याद्याः षसहाश्च लक्षौ क्रमात् || ४० ||
स्तम्भने पार्थिवै रौप्यैः शान्तौ वश्ये च तैजसैः || उच्चाटने वायवीयैर्विद्वेषे चापि नाभसैः || मारणे तैजसैः शान्तौ वातैः पुष्टौ च पार्थिवैः || ४१ ||
इदं यन्त्रं तोयपूर्णघटे क्षिप्त्वा प्रपूजयेत् || कुम्भं स्पृष्ट्वा जपेन्मन्त्रं सहस्रं तेन सेचयेत् || ४२ ||
सम्यक् साध्यं तदा स स्यात्पुत्रवान्रोगवर्जितः || यशस्वी दीर्घजीवी च सत्कलत्रानुरञ्जकः || वाक्सिद्धश्चापि तेजस्वी प्रतापी विजितेन्द्रियः || ४३ ||
शत्रूपद्रवमापन्ने ग्रामे वा पुटभेदने || संस्थापयेदिदं यन्त्रं वैरिभीतिनिवृत्तये || ४४ ||
अथ वक्ष्ये वामगानां यन्त्रभेदं शृणुष्व तम् || लिखेदष्टदलं पद्मं ससाध्यं चान्द्रमप्युत || ४५ ||
योयमाद्यन्तयोस्तस्या लिखेत्पद्मेषु च क्रमात् || मनुबीजाष्टकं चान्ते दले लेख्यं पुनश्च फट् || ४६ ||
त्रिशोन्तरे शेषवर्णानन्ते वर्णद्वयं लिखेत् || त्रिशः स्वरानन्तरेषु त्रिधोष्मार्णसमन्वितान् || ४७ ||
घणाद्वयं च तद्बाह्ये तयोर्वीथ्यां च कादिकान् || ऊष्मार्णांश्चतुरस्रे तु वज्राष्टकसमन्वितान् || ४८ ||
तद्बाह्ये सुलिखेज्जादि पूर्वकाद्भूतवर्णकान् || स्नानार्थं घटपानीयमन्यत्पूर्ववदीरितम् || ४९ ||
काम्यहोमं प्रवक्ष्यामि संख्याकार्यानुसारतः || सर्षपारिष्टलशुनकार्पासैर्मार्यते रिपुः || ५० ||
कार्त्तवीर्ययस्य यत्किञ्चिद्धोमद्रव्यं तु काम्यकम् || कटुतैलमहिष्याज्यैः प्लुतं कृत्वा तु होमयेत् || ५१ ||
धत्तूरैस्तभ्यते निम्बैर्द्वेष्यते वश्यतेम्बुजैः || ५२ ||
उच्चाट्यते विभीतस्य समिद्भिः खदिरस्य च || यवैर्हुतैः श्रियः प्राप्तिस्तिलैराज्यैरघक्षयः || ५३ ||
तिलतण्डुलसिद्धार्थलाजैर्वश्यो नृपो भवेत् || अपामार्गार्कदूर्वाणां होमो लक्ष्मीप्रदोघनुत् || स्त्रीवश्यकृत्प्रियंगूनां गुग्गुलोर्भूतशान्तिदः || ५४ ||
अश्वत्थोदुम्बरप्लक्षवटबिल्वसमुद्भवाः || समिधो लभते हुत्वा पुत्रानायुर्धनं सुखम् || ५५ ||
सर्प्पकञ्चुकसिद्धार्थंधत्तूरस्य फलानि च || हुत्वा लवणमिश्राणि चोरनाशः प्रजायते || रोचनागोमयैः स्तम्भो भूप्राप्तिः शालिभिर्हुतैः || ५६ ||
अथातः सम्प्रवक्ष्यामि कार्त्तवीर्ययमनोर्भिदः || एकोनविंशत्यर्णोयं तारादिर्नखवर्णकः || ५७ ||
कार्तवीर्ययार्जुनं ङेन्तमन्ते च नमसान्वितम् || प्. ८१३)स्वबीजाद्यो दशार्णोसावन्ये नवशिवाक्षराः || ५८ ||
आद्यबीजद्वयेनासौ द्वितीयो मन्त्र ईरितः || स्वकामाभ्यां तृतीयोसौ स्वभ्रूभ्यां तु चतुर्थकः || ५९ ||
स्वपाशाभ्यां पञ्चमोसौ षष्ठः स्वेन च मायया || स्वांकुशाभ्यां सप्तमः स्यात्स्वरमाभ्यामथाष्टमः || ६० ||
स्ववाग्भवाभ्यां नवमो वर्मास्त्राभ्यां तथान्तिमः || एतेषु मन्त्रवर्ययेषु स्वानुकूलं मनुं भजेत् || ६१ ||
एषामाद्ये विराट् छन्दोन्येषु त्रिष्टुबुदाहृतम् || दशमन्त्रा इमे प्रोक्ता यदा स्युः प्रणवादिकाः || ६२ ||
तदादिमः शिवार्णः स्यादन्ये तु द्वादशाक्षराः || एवं विंशतिमन्त्राणां यजनं पूर्ववन्मनोः || ६३ ||
त्रिष्टुप्छन्दस्तदाद्ये स्यादन्येषु जगती मता || दीर्घाढ्यमूलबीजेन कुर्ययादेषां षडङ्गकम् || ६४ ||
तारो हृत्कार्त्तवीर्ययार्जुनाय वर्मास्त्रठद्वयम् || चतुर्दशार्णो मन्त्रोयमस्येज्या पूर्ववन्मता || ६५ ||
भूनेत्रसप्तनेत्राक्षिवर्णैरस्याङ्गपञ्चकम् || तारो हृद्भगवान्ङेन्तः कार्त्तवीर्ययार्जुनस्तथा || ६६ ||
वर्मास्त्राग्निप्रिया मन्त्रः प्रोक्तोष्टादशवर्णवान् || त्रिवेदसप्तयुग्माक्षिवर्णैः पञ्चाङ्गकं मनोः || ६७ ||
नमो भगवते श्रीति कार्तवीर्ययार्जुनाय च || सर्वदुष्टान्तकायेति तपोबलपराक्रमैः || ६८ ||
परिपालितसप्तान्ते द्वीपाय सर्वरापदम् || जन्यचूडामणिर्ङेन्तः सर्वशक्तिमते ततः || ६९ ||
सहस्रबाहवे प्रान्ते वर्मास्त्रान्तो महामनुः || त्रिषष्टिवर्णवान्प्रोक्तः स्मरणात्सर्वसिद्धिकृत् || ७० ||
राजन्यचक्रवर्त्ती च वीरः शूरस्तृतीयकः || माहिष्मतीपतिः पश्चाच्चतुर्थः समुदीरितः || ७१ ||
रेवाम्बुपरितृप्तश्च कारागेहप्रबाधित || दशास्यश्चेति षड्भिः स्यात्पदैरेतैः षडङ्गकम् || ७२ ||
सिच्यमानं युवतिभिः क्रीडन्तं नर्मदाजले || हस्तैर्जलौघं रुन्धन्तं ध्यात्वा मत्तं नृपोत्तमम् || ७३ ||
एवं ध्यात्वाथ तं मन्त्रं जपेदन्यत्तु पूर्ववत् || पूर्ववत्सर्वमेतस्य समाराधनमीरितम् || ७४ ||
अथास्य वक्ष्यते ध्यानं सर्वैश्वर्ययविधायकम् || माहिष्मत्यां मन्त्रिमध्ये समासीनमलंकृतम् || ७५ ||
नानासुरस्त्रीप्रवृतं सिंहासनगतं सदा || बाहुभिः शरचापासिगदामुद्गरशूलकान् || ७६ ||
भुशुण्डीपाशखेटादीन्दधतं सुप्रसन्नकम् || परचक्रस्तेनराजभयं ध्यानमुदीरितम् || ७७ ||
अथान्यद्वक्ष्यते ध्यानं सर्वरक्षाकरं परम् || प्. ८१४)त्रैलोक्यभीषणं ध्यायेदयुताश्वरथस्थितम् || ७८ ||
गर्जन्तं प्रति शत्रूंश्च सहस्रार्कसमद्युतिम् || दोर्दण्डमण्डलैर्बाणान्क्षिपन्तं तीव्रधारकान् || ७९ ||
नानायुधधरैर्युक्तं रथिभिश्च पदातिभिः || गजयूथैरश्ववाहैः कुण्डलद्योतितास्यकम् || ८० ||
ध्यात्वैवं प्राङ्मुखो भूत्वा सहस्रं नाशयेद्भयम् || आहवे शत्रुसंघातं जित्वा स सुखमेधते || ८१ ||
अयमेव तु सर्वादिश्चतुष्षष्ठार्णको मनुः || एकादशाविख्यातं ध्यानपूजादिकं मनोः || ८२ ||
यन्त्रमस्य प्रवक्ष्यामि सर्वकार्ययार्थसिद्धये || आदौ चतुर्दलं पद्मं चाष्टारं रदपत्रकम् || ८३ ||
तद्बाह्ये वेददलककर्णिकायां समालिखेत् || ह्रांबीजमथ पत्रेषु प्रणवं साध्यनाम च || ८४ ||
कार्यययुक्तं नमश्चान्ते तद्बाह्येष्टदलं लिखेत् || एकोनविंशत्यर्णस्य द्वौ नमो हरितार्णकान् || ८५ ||
लिखेत्प्रतिदलं द्वौद्वौ वर्णौ बिन्दुसमन्वितौ || तद्बहिः षोडशदले कामबीजं समालिखेत् || ८६ ||
वक्ष्यमाणमनोरस्य ततोऽनुष्टुभमालिखेत् || बहिस्तस्य प्रकुर्व्वीत ततो वृतचतुष्टयम् || ८७ ||
तदाद्यवीथ्यां हि लिखेच्चतुष्षष्ठार्णकं मनुम् || द्वितीयायां क्षकारादिककारान्तान्विलोमतः || ८८ ||
तृतीयायां ककारादिक्षकारान्तान्क्रमेण च || ततो बीजानि च लिखेत्तत्परे च चतुर्दले || ८९ ||
कुं खुं श्रुं ध्रुं क्रमेणैव तद्बाह्येऽष्टदले पुनः || चुं छुं जुं झुं तथाटुंठुंडुंढुं षोडशदले पुनः || ९० ||
एवं तुपुयशान्तानि चर्चाबीजानि षोडश || पुनरुक्तदले कादिहान्तबीजानि संलिखेत् || ९१ ||
अष्टाविशतिसङ्ख्यानि पुनः कादिचतुष्टयम् || कार्ययानुरूपं सुलिखेत्तद्बाह्ये भूतलं शुभम् || ९२ ||
द्विरावृत्त्या लिखेत्तस्य वीथ्या भूर्जेर्णकांस्तथा || कार्त्तवीर्ययार्जुनस्यैतद्यन्त्रं कोपि न वेत्त्यलम् || अहं जानामि विष्णुश्च तत्रेपद्वेत्ति तद्गुहः || ९३ ||
स्वर्णपत्रे स्थितं यन्त्रं ह्येतत्सर्वार्थसिद्धिदम् || राजते राज्यलाभाय ताम्रे रक्षाकरं भवेत् || ९४ ||
अट्टालके च लिखितं गृहरक्षाकरं भवेत् || कण्ठे निबद्धमेतत्तु भृशं रक्षति बालकान् || ९५ ||
भित्तौ तु रामरक्षाकृत्सर्वरक्षाय भूर्जके || कारस्करस्य फलके रोगनाशाय संलिखेत् || ९६ ||
चतुष्कोट्यघनाशाय लिखेद्वैकङ्कतोद्भवे || विशाले कलिनाशाय समक्षित्यां शिलातले || ९७ ||
प्. ८१५)शरावे लिखिते यन्त्रे लोकपूज्यो भवेद्ध्रुवम् || पताकायां ध्वजे वापि जयदं नात्र संशयः || ९८ ||
चन्दनागरुकर्पूररोचनासृगुशीरकैः || लाक्षामृगमदाद्यैश्च लिखेद्वश्यादिकर्मकृत् || ९९ ||
लिखेदष्टविषैश्चापि मारणादिकर्मसु || तद्यन्त्रकलशासेकाद्वन्ध्या पुत्रं प्रसूयते || १०० ||
राजाभिषिक्तो भवति धैर्यशौर्यादिसंयुतः || कात्तवीर्ययार्ज्जुनो नाम राजा बाहुसहस्रवान् || तस्य संस्मरणादेव हृतं नष्टं च लभ्यते || १०१ ||
द्वात्रिंशदर्णो मन्त्रोयं छन्दोनुष्टुप्च पूर्ववत् || मुन्यादिकं च पञ्चाङ्गन्यासः सर्वेण कीर्तित || १०२ ||
गर्जस्यन्दनसप्तिगैश्चपत्तिसंघैस्समावृतम् || महागजसमारूढं मदाघूर्णितलोचनम् || १०३ ||
पाशाङ्कुशधनुश्चापान्दधतं भीषणाकृतिम् || धावमानमरातीनां वधार्थं संस्मरेन्नृपम् || १०४ ||
वने महाचौरभये गजयुद्धे द्विषां गृहे || एवं ध्यात्वायुतं जप्त्वा भयान्यन्यानि संतरेत् || १०५ ||
सहस्रहस्तैर्नियमान्दधतं नियमस्थितम् || सुप्रसन्नं मणिगणालङ्कृतं दीप्ततेजसम् || १०६ ||
योगनिष्ठं भजेद्भूपं स्वर्णाप्त्यै गोप्रवृद्धये || आयुर्वृद्धये रोगशान्त्यै द्वादशार्णः प्रकीर्त्तितः || १०७ ||
पादैः सर्वेण पञ्चाङ्गं ध्यानयोगादि पूर्ववत् || द्वात्रिंशदर्णमन्त्रस्य विधिरेवमुदाहृतः || १०८ ||
कार्त्तवीर्ययाय विद्महे महावीर्ययाय धीमहि || तन्नोर्जुनः प्रचोदयात् || १०९ ||
गायत्र्येषार्जुनस्योक्ता प्रयोगादौ जपेत्तु ताम् || आनुष्टुभं मनुं रात्रौ जपतां चौरसञ्चयाः || पलायन्ते गृहाद्दूरं हवनात्तर्प्पणादपि || ११० ||
कार्त्तवीर्ययस्य गायत्री प्रोक्ता चैषा त्रयोदशी || प्राग्वन्मुन्यादिकं छन्दो गायत्त्रं पूर्ववद्धतिः || १११ ||
सर्वमन्त्रप्रयोगेषु जपितव्या हितैषिणा || गायत्रीजपमात्रेण मन्त्रवीर्यप्रवर्द्धनम् || ११२ ||
मन्त्रस्यास्य जपाद्देवि नष्टं द्रव्यं च लभ्यते || हताश्चौरा भविष्यन्ति हृतं द्रव्यं च सिध्यति || १३ ||
तारो नमो भगवते कार्त्तवीर्ययार्ज्जुनाय च || महाबलाय धीमहि तन्नोर्ज्जुनः प्रचोदयात् || ११४ ||
यसवेतिषंता (?) दुष्ट-इवाशनः || हुं फट् स्वाहा रदार्णोयं प्रोक्तो मन्त्रश्चतुर्द्दशः || ११५ ||
मुन्यादिकं प्राग्वदेव च्छन्दोनुष्टुबुदाहृतम् || प्. ८१६) सप्तसप्तेषुनवभिश्चतुर्भिश्चाङ्गपञ्चकम् || ११६ ||
अनुष्टभं जपेद्रात्रौ जपस्वाध्यायतत्परः || तिष्ठन्नुदङ्मुखो नित्यं शतमष्टोत्तरं सुराः || मण्डलान्म्रियते शत्रुर्विकलाङ्गोथ वा भवेत् || ११७ ||
यस्या दिशो भयं तस्याः संमुखो निशि संजपेत् || अखर्वभयनाशः स्यादेकविंशतिभिर्द्दिनैः || ११८ ||
होमार्द्धं तर्प्पणं कुर्ययादनेन सतिलाम्बुभिः || हृतं च पूर्वसंप्रोक्तं द्रव्यं लभ्येत् सत्त्वरम् || ११९ ||
तारो नमो भगवते नमः श्रीपदमुच्चरेत् || कार्त्तवीर्ययार्ज्जुनायेति हैहयेति पदं वदेत् || १२० ||
नाथाय कार्त्तवीर्ययायार्ज्जुनायेति सहस्रतः || करेति सर्वदुष्टान्तकायेति च पदं पठेत् || १२१ ||
सर्वेष्टदायेति सर्वान्दण्डयद्वितयं तथा || आगन्तुकांश्च प्रवदेद्दस्यून्वसुविलुम्पकान् || १२२ ||
वीरसमूहान्स्वखड्गसहस्रैश्छिन्धियुग्मकम् || स्वहस्तोद्भूतमुसलसहस्रैर्मर्द्दयद्वयम् || १२३ ||
स्वशंखोद्भूतनादानां सहस्रैर्भीषयद्वयम् || स्वहस्तोद्भूतचक्राणां सहस्रैर्विनिकर्तय || १२४ ||
परकृत्यां शमयेति भूपांश्चाकर्षयद्वयम् || त्रासय द्विर्मोहय द्विरुद्वासययुगं वदेत् || १२५ ||
उन्मादयद्वयं त्रेधा तापय द्विर्विनाशय || द्विर्भेदय स्तम्भय द्विर्जृम्भयद्वयमावदेत् || १२६ ||
मारयद्वितयं प्रोच्य वशंकुरुवश कुरु || उच्चाटयोच्चाटयेति विनाशयविनाशय || १२७ ||
दत्तात्रेयश्रीपदान्ते पादप्रिय तमेति च || श्रीकार्तवीर्ययार्जुनेति सर्वग स्वालये वदेत् || १२८ ||
आगन्तुकामान्प्रवदेदस्मद्द्रव्यविलुम्पकान् || चोरसमूहान्सम्यग्वदेदुन्मूलयद्वयम् || १२९ ||
हुंफट् स्वाहेति मन्त्रोयं युगाष्टनगवर्णवान् || दत्तात्रेयो मुनिश्छन्दो गायत्र्यन्यच्च पूर्ववत् || १३० ||
दत्तात्रेयप्रियतमं फडन्तं हृदि विन्यसेत् || माहिष्मतीनिवासोयं शिरोमन्त्रो नगाक्षरः || १३१ ||
नमः श्रीकार्त्तवीर्याय कीर्त्तितोयं शिखामनुः || हहैयाधिपतिर्ङेन्तः कवचस्य मनुर्मतः || १३२ ||
सहस्रबाहवे तु स्यादेवं पञ्चाङ्गमीरितम् || उदग्रबाणांश्चापानि दधतं सूर्यसन्निभम् || १३३ ||
प्रपूरयन्तं वसुधां धनुर्ज्यानिःस्वनैस्तथा || कार्त्तवीर्यनृपं ध्यायेद्गण्डशोभितकुण्डलम् || १३४ ||
एवं ध्यात्वा समभ्यर्च्य सर्वकर्माणि साधयेत् || त्रिसहस्रो जपः प्रोक्तः शेषं पूर्ववदाचरेत् || १३५ ||
दधतं दक्षिणैर्वामैर्हस्तैरस्त्राणि भूपतिम् || प्. ८१७)चक्रेषून्मुसलं शूलकुठारौ पाशमेव च || १३६ ||
प्रासचर्मधनुःशंखान्मध्यभास्करसन्निभम् || बलाढ्यमरुणं घोरं तत्त्वमातङ्गसंस्थितम् || १३७ ||
रक्ताम्बरं रक्तनेत्रं ध्यात्वैवं प्रजपेन्मनुम् || निशीथेष्टोत्तरशतं नष्टद्रव्यादिसिद्धये || १३८ ||
जपेच्चेदेकपादेन षाण्मासान्नष्टवित्तकः || संप्रार्थ्य मन्त्रिणे चोराःप्रयच्छन्त्यखिलं धनम् || १३९ ||
चौरैर्हृतपशुर्मन्त्री यदानेतुं समिच्छति || जपेदष्टोत्तरशतं ध्यात्वा भूपं समाहितः || १४० ||
पश्येत्सम्यक्सर्वपशून्गृहाभिमुखमागतान् || ध्यात्वैवं सर्वपशवो ध्रुवमायान्ति मोचिताः || १४१ ||
चौरैर्हृतस्वो ब्रह्माणीच्छदैर्होमं चरेन्निशि || हृतं प्रकाशमायाति स्वं स्वस्थाने नचान्यथा || १४२ ||
बाणान्क्षिपन्तं तं रात्रौ धनुषो ध्यानतत्परम् || दशदिक्षु जपेन्मंत्रं राष्ट्रादे रक्षणं भवेत् || १४३ ||
मन्त्रेण जपितानीत्थं पार्थिवानि रजांसि च || क्षिप्तानि मन्त्रिणा यत्र तत्र रक्षा भवेन्निशि || १४४ ||
दौभित्येकाक्षरो मन्त्रः कार्त्तवीर्यस्य षोडशः || मुनिपूजादिकं प्राग्वल्लक्षमेकं पुरस्क्रिया || १४५ ||
षड्दीर्घयुक्तेनानेन षडङ्गविधिनिर्णयः || प्राग्वत्प्रयोग इत्येवमूर्द्ध्वाम्नायः प्रकीर्त्तितः || १४६ ||
पश्चिमाम्नायमन्त्रास्तु प्रोक्ताश्चारब्बभाषया || अष्टौ शतान्यशीतिश्च येषां संसाधना कलौ || १४७ ||
पञ्च खानाः सप्त मीनाः नव शाहा महाबलाः || हिन्दुधर्मप्रलोप्तारो जायन्ते चक्रवर्त्तिनः || १४८ ||
पूर्वाम्नाये नवशतषडशीतिप्रवर्त्तिनः || फिरङ्गभाषया मन्त्रास्तेषां संसाधनाद्भुवि || १४९ ||
अधिपा मन्दराणां च संग्रामेष्वपराजिताः || इंग्रेजा नव गद्याश्च लण्डनेष्वपि भाविनः || १५० ||
बहुविद्यानिदृश्वानः प्रवक्तारो मनोरथ || तद्बीजपूर्व्वाः सर्वेपि मनवो वामसिद्धिदाः || १५१ ||
दक्षिणाचारफलदः कार्त्तवीर्ययार्ज्जुनो मतः || वामाचारेण शूद्राणामिह लोके फलप्रदः || १५२ ||
न वामिनां हितार्थं तु मन्त्रवीर्ययं प्रयोजयेत् || सप्तजन्मसुदारिद्र्यं पैशाच्यं प्राप्नुयाद्द्विजः अथो दीपविधिं वक्ष्ये कार्त्तवीर्ययप्रियङ्करम् || १५३ ||
वैशाखे श्रावणे मार्गे कार्त्तिकाश्विनपौषतः || माघे च फाल्गुने मासे दीपारम्भः प्रशस्यते || १५४ ||
तिथौ रिक्ताविहीनायां वारे शनिकुजौ विना || हस्तोत्तराश्विरौद्रेषु पुष्यवैष्णववायुभे || प्. ८१८)द्विदैवते च रोहिण्यां दीपारम्भः प्रशस्यते || १५५ ||
चरमे च व्यतीपाते धृतौ वृद्धौ सुकर्मणि || प्रीतौ हर्षे च सौभाग्ये शोभनायुष्मतोरपि || १५६ ||
करणे विष्टिरहिते ग्रहणेर्द्धोदयादिषु || एषु योगेषु पूर्वाह्णे दीपारम्भः कृतः शुभः || १५७ ||
कार्त्तिके शुक्लसप्तम्यां निशीथेतीव शोभनः || यदि तत्र रवेर्वारः श्रवणं भं तु दुर्लभम् || १५८ ||
श्रुत्वा वश्यककार्ययेषु मासादीनां न शोधनम् || आद्ये ह्युपोष्य नियतो ब्रह्मचारी शयीत कौ || १५९ ||
प्रातः स्नातः शुद्धभूमौ लिप्तायां गोमयोदकैः || प्राणानायम्य संकल्पं न्यासान्पूर्वोदितांश्चरेत् || १६० ||
षट्कोणं रचयेद्भूमौ रक्तचन्दनतण्डुलैः || मध्ये कामं समालिख्य षट्कोणेषु समालिखेत् || १६१ ||
मन्त्रराजस्य षड्वर्णान्कामबीजविवर्जितान् || क्रों श्रीं हुंफट् च पूर्वादिदिशासु विलिखेत्क्रमात् || १६२ ||
नवार्णैर्वेष्टयेत्तच्च त्रिकोणं तद्बहिः पुनः || एवं विलिखिते यन्त्रे निदध्याद्दीपभाजनम् || १६३ ||
स्वर्णजं रजतोत्थं वा ताम्रजं तदभावतः || कांस्यपात्रं मृन्मयं च कनिष्ठं लोहजं मृतौ || १६४ ||
शान्तये मुद्गचूर्णोत्थं सन्धौ गोधूमचूर्णजम् || १६५ ||
ब्रध्नेषूर्ध्वसमानन्तु पात्रं कुर्ययात्प्रयत्नतः || अर्कदिग्वसुषट्पञ्चचतूरामांगुलैर्मितम् || १६६ ||
आज्ये पलसहस्रं तु पात्रं शतपलैः कृतम् || आज्येयुतपले पात्रं पलपञ्चशतीकृतम् || १६७ ||
पञ्चसप्ततिसंख्ये तु पात्रं षष्टिपलं मतम् || त्रिसहस्रे घृतपले शरार्कपलभाजनम् || १६८ ||
द्विसहस्रे शरशिवं शतार्द्धे त्रिंशता मतम् || शतेक्षिशरसंख्यातमेवमन्यत्र कल्पयेत् || १६९ ||
नित्यमेवं तु यो दद्यात्कार्त्तवीर्ययाय दीपकम् || शत्रवस्तस्य नश्यन्ति नात्र कार्यया विचारणा || १७० ||
व्याधयश्चाधयश्चैव विलीयन्तेचिरादपि || जीवेद्वर्षशतं मन्त्री पापानि क्षयमाप्नुयुः || १७१ ||
एका तिस्रोथ वा पञ्च सप्ताद्यविषमा अपि || तिथिमानाद्यासहस्रं तन्तुसंख्या विनिर्मिता || १७२ ||
गोघृतं प्रक्षिपेत्तत्र शुद्धवस्त्रविशोधितम् || सहस्रपलसंख्यादिदशान्तं कार्ययगौरवात् || १७३ ||
सुवर्णादिकृतां रम्यां शलाकां षोडशांगुलाम् || तदर्धां वा तदर्धां वा सूक्ष्माग्रां स्थूलमुलिकाम् || १७४ ||
विमुञ्चेद्दक्षिणे भागे पात्रमध्ये कृताग्रिकाम् || पात्राद्दक्षिणदिग्देशे मुक्त्वागुलचतुष्टयम् || १७५ ||
प्. ८१९)अथोग्रां दक्षिणाधारां निखनेच्छुरिकां शुभाम् || दीपं प्रज्वालयेत्तत्र गणेशस्मृतिपूर्वकम् || १७६ ||
दीपात्पूर्वत्र दिग्भागे सर्वतो भद्रमण्डले || तण्डुलाष्टदले वापि विधिवत्स्थापयेद् घटम् || १७७ ||
तत्रावाह्य नृपाधीशं पूर्ववत्पूजयेन्निशि || एतत्प्रोक्तं द्विजातीनां वामिभिर्वामभागके || १७८ ||
क्षेप्या शलाकाच्छुरिका पश्चात्पश्चिमभागके || जलाक्षततिलान्हस्ते गृहीत्वा मन्त्रमुच्चरेत् || १७९ ||
अथ मन्त्रं प्रवक्ष्यामि तारं पाशं च ह्रीं वषट् || कार्त्तवीर्ययार्जुनायेति वदेन्माहिष्मतीपदम् || १८० ||
नाथायेति सहस्रेति बाहवे पदमुच्यते || सहस्रक्रतुशब्दान्ते दीक्षिताय प्दं वदेत् || १८१ ||
दत्तात्रेयप्रियायेति आत्रेयाय वदेत्ततः || अनुसूयागर्भरत्नाय हुंफट् च प्रवदेत्ततः || १८२ ||
इमं दीपं गृहाणेति अमुकं रक्षरक्ष च || दुष्टान्नाशययुग्मं स्यात्तथा पातय घातय || १८३ ||
शत्रूञ्जहिद्वयं मायां तारं फ्रोंक्लीं हुताङ्गनाम् || अनेन दीपवर्ययेण पश्चिमाभिमुखेन च || १८४ ||
अमुकं रक्ष चेत्युक्त्वा अमुकेति वरप्रदा || नाय हींहीं च ह्रीं तारं क्लीं च्रीं स्वाहा सबिन्दुकान् || वदेद्वर्णांस्तकारादीन्दश तारं हुताङ्गनाम् || १८५ ||
दीपदानस्य मन्त्रोयं नेत्रबाणधराक्षरः || दत्तात्रेयो मुनिश्छन्दोभितं देवोर्जुनः स्मृतः || १८६ ||
चींबीजेन षडङ्गानि दीर्घषट्कयुजा चरेत् || ध्यात्वा देवं मन्त्रमेतमष्टोत्तरसहस्रकम् || १८७ ||
जपेत्तारं तथा पाशं रमां फ्रींच्रीं दहाङ्गनाम् || अंकुशं च पुनस्तारं मनुः प्रोक्तो नवाक्षरः || १८८ ||
प्राग्वच्चर्षिर्देवताङ्गे छन्दोनुष्टुप्समीरितम् || एवं दीपप्रदानस्य कर्त्ताप्नोत्यखिलेप्सितम् || १८९ ||
दीपप्रबोधकाले तु वर्जयेदशुभाङ्गिरम् || विप्रादीनां तु पञ्चाशत्पदार्थानां निरीक्षणम् || तस्मिन्नवसरे कार्ययं सिद्धम्भवति नान्यथा || १९० ||
शूद्रादीनां तु पञ्चाशत्पदार्थानां निरीक्षणम् || अतियत्नात्कार्ययसिद्धिं कुर्ययाच्चैव विलम्बतः || १९१ ||
भारद्वाजादिपञ्चाशत्पदार्थानां तु दर्शने || व्यत्यये सति कार्ययस्य नैव सिद्धिः प्रजायते || १९२ ||
कार्ययनाशो बन्धवधौ म्लेच्छादीनां तु दर्शने || आख्वोत्वोर्दर्शनं दुष्टं गवयस्य सुखावहम् || १९३ ||
दीपज्वाला समा सिद्ध्यै वक्रा नाशविधायिनी || प्. ८२०)सशब्दा भयदा कर्तुरुज्ज्वला सुखदा गता || १९४ ||
कृष्णा शत्रुभयोत्पत्त्यैवमन्ती पशुनाशिनी || कृते दीपे यदा पात्रं भग्नं दृश्येत दैवतः || पक्षादर्वाक् तदा गच्छेद्यजमानोयमालयम् || १९५ ||
वर्त्यन्तरं यदा कुर्ययात्कार्ययं सिध्येद्विलम्बतः || १९६ ||
नेत्रहीनो भवेत्कर्त्ता तस्मिन्दीपान्तरे कृते || अशुचिस्पर्शने व्याधिर्दीपनाशे तु चौरभीः || १९७ ||
श्वमार्जाराखुसंस्पर्शे भवेद्भूपतितो भयम् || पात्रारम्भे वसुपलैः कृतो दीपोखिलेष्टदः || १९८ ||
पलानां पञ्चविंशत्या दीपो देयोर्थसिद्धये || पञ्चाशता कृतो दीपः शत्रुवश्याय चेष्यते || १९९ ||
पराजयश्च शत्रूणां पञ्चसप्ततिभिर्भवेत् || शतेन शत्रुनाशः स्यात्सहस्रेणाखिलाः क्रियाः || २०० ||
तस्माद्दीपो रक्षणीयः प्रयत्नेनान्तरायतः || आसमाप्तेः प्रकुर्वीत ब्रह्मचर्ययञ्च भूशयम् || २०१ ||
स्त्रीशूद्रपतितादीनां सम्भाषामपि वर्जयेत् || जपेत्सहस्रं प्रत्येकं मन्त्रराजं नवाक्षरम् || २०२ ||
स्तोत्रपाठं प्रतिदिनं निशीथिन्यां विशेषतः || एकपादेन दीपाग्रे स्थित्वाथो मन्त्रनायकम् || सहस्रं प्रजपेद्रात्रौ सोभीष्टं क्षिप्रमाप्नुयात् || २०३ ||
समाप्य शोभने घस्रे संपूज्य द्विजनायकान् || कुम्भोदकेन कर्त्तारमभिषिञ्चेन्मनुं स्मरन् || २०४ ||
कर्त्ता च दक्षिणां दद्यात्पुष्कलां तोषहेतवे || पलानां तु दशांशेन मुख्यं प्राङ्मुख्यभाजने || २०५ ||
विंशत्यंशेन मध्यं स्याच्छतांशेनापरं स्मृतम् || गुरौ तुष्टे ददातीष्टं कृतवीर्ययसुतो नृतः || २०६ ||
गुर्वाज्ञया स्वयं कुर्ययाद्यदि वा कारयेद्गुरुम् || गुर्वाज्ञामन्तरा कुर्ययाद्यो दीपं स्वेष्टसिद्धये || प्रत्युतानुभवत्येव हानिमेव पदेपदे || २०७ ||
दीपदानविधिं ब्रूयात्कृतघ्नादिषु नो गुरुः || दुष्टेभ्यः कथितो मन्त्रो वक्तुर्दुःखावहो भवेत् || २०८ ||
उत्तमं गोघृतं प्रोक्तं मध्यमं महिषीभवम् || तिलतैलं तु तादृक् स्यात्कनीयोजादिजं घृतम् || २०९ ||
आस्यरोगे सुगन्धेन दद्यात्तैलेन दीपकम् || सिद्धार्थसम्भवेनाथ द्विषतां नाशहेतवे || २१० ||
सहस्रेण पलैर्दीपे विहिते चेन्न दृश्यते || कार्ययसिद्धिस्तदा कुर्ययात्त्रिवारं दीपजं विधिम् || २११ ||
तदा तु दुर्लभं कार्यं सिध्यत्येव न संशयः || यथाकथंचिद्यः कुर्ययाद्दीपदानं स्ववेश्मनि || २१२ ||
विघ्नाः सर्वेरिभिः साकं तस्य नश्यन्त्यदूरतः || प्. ८२१) सर्वदा जयमाप्नोति पुत्रान्पौत्रान्धनं यशः || २१३ ||
दीपप्रियः कार्तवीर्ययो मार्त्तण्डो नतिवल्लभः || स्तुतिप्रियो महाविष्णुर्गणेशस्तर्प्पणप्रियः || २१४ ||
दुर्गार्च्चनप्रिया नूनमभिषेकप्रियः शिवः || तस्मात्तेषां प्रतोषाय कुर्ययात्तत्तु च तादृशम् || २१५ ||
इति भोः कथितं देवा दीपदानं महीक्षितुः || अतः परं किं वक्तव्यं तत्पृच्छत सुरोत्तमाः || २१६ ||
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते कार्त्तवीर्ययार्जुनमन्त्रकथनं नाम पञ्चत्रिंशत्तमः प्रकाशः || ३५ ||
समाप्तश्चायं ग्रन्थः ||
शुभमस्तु ||
Weiterführendes Studium
Die Vielfalt der Gottheiten und Riten lädt dazu ein, Hingabe und sorgfältiges Verstehen miteinander zu verbinden. Vergleiche beim Lesen wiederkehrende Begriffe und beachte, ob der Text spricht oder eine Anmerkung der Edition vorliegt. Für die eigene Praxis bleibt ein vertrautes, gegebenenfalls von einem Guru erhaltenes Mantra ein sinnvoller Ausgangspunkt.
Zur Übersicht: Meru Tantra · Meru Tantra Sanskrit IAST · Meru Tantra Sanskrit IAST Teil 2 · Meru Tantra Sanskrit Devanagari · Meru Tantra Sanskrit Devanagari Teil 2 · Meru Tantra Sanskrit Devanagari Teil 3 · Meru Tantra 108 Inspirierende Verse und Mantras
Textgrundlage und Hinweise zur Ausgabe
Grundlage ist der elektronische Sanskrittext M00195 des Muktabodha Indological Research Institute: Merutantra with ṭippani, mit Bearbeitung und Anmerkungen von Raghunātha Śāstrī; Datenerfassung unter Leitung von Mark S. G. Dyczkowski, Revisionsstand 5. April 2010. Der elektronische Kopf nennt Śrīveṅkateśvara, Bombay, 1908. Das wiedergegebene Titelblatt nennt Khemarāja Śrīkṛṣṇadāsa, Bombay, und „saṃskaraṇa san 1935“. Diese unterschiedlichen Angaben werden hier nicht zu einer ungesicherten bibliographischen Einheit verschmolzen.
Die digitalen Vorlagen stehen laut Quellenkopf unter Creative Commons BY-NC 4.0. Die vorliegende Aufbereitung entfernt Druckseitenmarker und technische Kopfzeilen, vereinheitlicht Zeilenumbrüche und ergänzt Kapitelüberschriften und Navigation. Sanskritlesungen und Versnummern bleiben erhalten. Die deutschen Kapitelbezeichnungen dienen der Orientierung; die überlieferten Sanskritkolophone stehen jeweils am Kapitelende.
Eckige Klammern kennzeichnen überlieferte Ṭippanī bzw. editorische Zusätze, nicht den Grundtext. Sie werden einschließlich ihrer stellenweise fehlerhaften Verschachtelung bewahrt. Besonders im Bereich von 5.106 ist die Klammerung unregelmäßig; bei der Auslegung muss dort der genaue Umfang eines Zusatzes eigens geprüft werden. Die hier vollständig wiedergegebenen Zusätze sind keine deutsche Kommentarübersetzung.
Das in der fortlaufenden Reihenfolge 32. Kapitel trägt im Kolophon die Bezeichnung „dvāviṃśaḥ“ und die Zahl 22. Die Überschrift verwendet zur Orientierung 32, der Sanskrittext bewahrt die abweichende Überlieferung. Zwei nicht UTF-8-konforme Apostrophbytes der Devanagari-Vorlage, im Bereich 23.510 und 23.688, sind als typographische Apostrophe wiedergegeben; ihre sprachliche Bedeutung ist damit nicht geklärt. Die entsprechende IAST-Fassung hat ebenfalls Apostrophe. Keine neue kritische Edition und kein vollständiger Abgleich mit einem Druckexemplar werden beansprucht.
Literatur
- Merutantra, mit Ṭippanī, bearbeitet von Raghunātha Śāstrī. Bombay; zu den voneinander abweichenden Jahres- und Verlagsangaben siehe den Quellenabschnitt.
- Muktabodha Indological Research Institute: Merutantra with ṭippani, elektronischer Text, Katalog M00195, IAST und Devanagari, Revision 2010.
Siehe auch
- Tantra
- Tantra Schriften
- Agama
- Shaivismus
- Shaktismus
- Kularnava Tantra
- Rudrayamala Tantra
- Kulacudamani Tantra
- Mundamala Tantra
- Mahanirvana Tantra
- Dakshinamurti Samhita
- Kama Kala Vilasa
- Varivasyarahasya
- Nitya Shodashikarnava
- Yogini Hridaya
- Tantraloka
- Vijnana Bhairava Tantra
- Svacchanda Tantra
- Netra Tantra
- Mrigendra Tantra
- Shiva Sutra
- Spandakarika
- Pratyabhijnahridaya
- Jayakhya Samhita
- Paushara Samhita
- Tripura Rahasya
- Guru
- Diksha
- Mantra
- Puja
- Nyasa
- Yantra
- Kundalini
Seminare
Kundalini Yoga
- 25.10.2026 - 30.10.2026 Kundalini Yoga Meditation Kursleiter Ausbildung
Kundalini Yoga Meditationen sind ein faszinierendes weites Gebiet, dessen Potential noch bei weitem nicht ausgeschöpft ist. Kundalini Meditationen kön…- Adishakti Stein, Viveka Wilde
- 30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe
Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…- Arjuna Wingen
Indische Schriften
- 26.12.2026 - 02.01.2027 Indische Rituale Ausbildung
Du interessierst dich für indische Rituale? Du hast die einzigartige Gelegenheit, in dieser Rituale Ausbildung bei Yoga Vidya die kleine Puja, große P…- Sukadev Bretz, Shankari Winkelbauer
- 01.01.2027 - 10.01.2027 Yogalehrer Weiterbildung Intensiv A1 - Jnana Yoga und Vedanta
Kompakte, vielseitige Weiterbildung für Yogalehrer rund um Jnana Yoga und Vedanta.
Tauche tief ein ins Jnana Yoga und Vedanta, studiere die indischen S…- Vedamurti Dr Olaf Schönert
Energiearbeit
- 18.10.2026 - 23.10.2026 Tantra Vinyasa Yoga Ausbildung - Teil 2
Buchung nur nach Besuch von Teil 1 möglich (Termin: 18.-23.5.2025) möglich. www.yoga-vidya.de/ausbildung-weiterbildung
Vorkenntnisse: Lektüre der Bü…- Ravi Ott
- 23.10.2026 - 30.10.2026 Klangtherapie Chakra Kur
Klang und Klangschwingungen haben einen intensiven Bezug zu den Chakras, den Energiezentren. Im Yoga ist es daher eine alte Tradition, Chakras mit Klang…- Maik Hofmeister, Jeannine Hofmeister