Meru Tantra Sanskrit Devanagari Teil 2

Aus Yogawiki

Deutsche Gesamtausgabe: Prakāśas 1–18 und Einleitung · Prakāśas 19–35 · 108 ausgewählte Verse und Mantras

Meru Tantra Sanskrit Devanagari Teil 2 erschließt die Prakāśas 13–25 des Meru Tantra in Devanagari-Schrift. Die Begegnung mit dem Sanskrit kann das Verständnis von Mantra, Puja und Diksha vertiefen: Sie macht Wortwahl und Klanggestalt sichtbar, auf denen Übersetzung und Auslegung beruhen. Für das Studium empfiehlt es sich, einen zusammenhängenden Abschnitt zu lesen und erst danach zu einzelnen Begriffen zurückzukehren.

Zur Übersicht: Meru Tantra · Meru Tantra Sanskrit IAST · Meru Tantra Sanskrit IAST Teil 2 · Meru Tantra Sanskrit Devanagari · Meru Tantra Sanskrit Devanagari Teil 2 · Meru Tantra Sanskrit Devanagari Teil 3 · Meru Tantra 108 Inspirierende Verse und Mantras

Die deutsche Erläuterung steht unter Meru Tantra. Historische Ritualvorschriften werden hier dokumentiert; initiationsgebundene und auf Beeinflussung oder Schädigung gerichtete Verfahren sind keine Empfehlung zur Selbstanwendung. Die in eckigen Klammern überlieferten Zusätze gehören zum Kommentar- und Editionsapparat.

Verwandte Tantra-Schriften

Das Meru Tantra gehört zu einer weit verzweigten tantrischen Literatur. Für das vergleichende Studium sind besonders Kularnava Tantra, Rudrayamala Tantra, Mahanirvana Tantra, Dakshinamurti Samhita, Nitya Shodashikarnava, Yogini Hridaya, Tantraloka, Vijnana Bhairava Tantra, Svacchanda Tantra und Netra Tantra hilfreich. Jayakhya Samhita und Paushara Samhita zeigen zum Vergleich die vaiṣṇavische Pāñcarātra-Tradition. Eine ausführlichere Gegenüberstellung steht im Hauptartikel Meru Tantra und andere Tantra Schriften.


Kapitelübersicht

  • Prakāśa 13: Die neun Planetengottheiten
  • Prakāśa 14: Pratyaṅgirā-Mantras
  • Prakāśa 15: Vedische Yantras
  • Prakāśa 16: Gaṇapati-Mantras der südlichen Überlieferung
  • Prakāśa 17: Gaṇapati-Mantras der oberen Überlieferung
  • Prakāśa 18: Gaṇapati-Mantras der östlichen Überlieferung
  • Prakāśa 19: Gaṇapati-Mantras der westlichen Überlieferung
  • Prakāśa 20: Gaṇapati-Mantras der nördlichen Überlieferung
  • Prakāśa 21: Sūrya-Mantras
  • Prakāśa 22: Die neun Planetengottheiten
  • Prakāśa 23: Mantras der acht Mātṛkās, beginnend mit Brāhmī
  • Prakāśa 24: Mantras der zehn Richtungshüter
  • Prakāśa 25: Ritus der Lampendarbringung

Sanskrittext

Shiva und Parvati: Das Meru Tantra entfaltet seine Lehren in Dialogform.

Prakāśa 13 – Die neun Planetengottheiten

श्रीदेव्युवाच ||

अहो दुःखप्रदाः खेटाः प्रायः कलियुगे सदा || तेषां तु वेदमार्गेण कीदृक्पूजा मनुश्च कः || १ ||

कथन्ते दोषमायादिपीडा यच्छन्ति नो नृणाम् || वेदमार्गेण च ब्रूहि तेषां पूजाविनिर्णयम् || २ ||

श्रीशिव उवाच ||

साधु पृष्टं त्वया देवि ग्रहपूजाविनिर्णयः || विना कालं तु दुःखेन सर्वान्सम्पीडयन्ति हि || ३ ||

नीचं कुर्वन्ति चोच्चस्थाः खेचराश्चक्रवर्तिनम् || चक्रवर्तिसुतं दासं यदा ते नीचसंस्थिताः || ४ ||

आत्मा सूर्योस्ति कालस्य मनः शुभ्रांशुरुच्यते || सत्त्वं भौमो वचश्चान्द्रिर्जीवो ज्ञानसुखे तथा || ५ ||

सितः कामः शनिर्दुःखं छाया राहुः शिखी शिखा || खेटोपासनतो मर्त्यस्त्रिकालज्ञः प्रजायते || ६ ||

वैदिकेन तु मार्गेण ये ग्रहान्समुपासते || ग्रहलोके तु ते सौख्यं ग्रहैश्च सह भुञ्जते || ७ ||

तत्र भास्करमन्त्रस्य हिरण्यस्तूपको मुनिः || त्रिष्टुप्छन्दो देवता तु सविता परिकीर्तितः || ८ ||

आकृष्णेन [आ कृष्णेन रजसा इति अंगुष्ठाभ्यां नमः वर्तमानो निवेश्यन् इति तर्जनीभ्यां नमः अमृतं मर्त्यं च इति मध्यमाभ्यां नमः, हिरण्ययेन सविता इति अनामिकाभ्यां नमः रथेनादेवो याति इति कनिष्ठिकाभ्यां नमः भुवनानि पश्यन् इति करतलकरपृष्ठाभ्यां नमः |
एवं हृदयादिन्यासमपि कुर्यात् || अथ पदन्यासः || आ मूर्ध्नि कृष्णेन नेत्रयोः रजसा कर्णयोः वर्तमानो नासिकायाम् निवेशयन् मुखे अमृतं गले मर्त्यं बाह्वोः च हस्तयोः हिरण्ययेन नाभौ, सविता लिङ्गे रथेन पायौ देवः उरुयुग्मे याति जानुयुग्मे भुवनानि जङ्घ युग्मे, पश्यन् पादयुग्मे |
इति पदन्यासः ||] कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च || प्. ३१३) हिरण्ययेन सवितारथेन देवो याति भुवनानि पश्यन् || ९ ||

अंगुष्ठादिषडङ्गादिषड्वर्णान्विभजंश्चरेत् || भुवनस्याथ मन्त्रस्य पदन्यासं समाचरेत् || १० ||

श्रीसूक्तोक्त-ऋचां स्थाने ततो ध्यायेद्दिवाकरम् || ११ ||

पद्मासनं पद्मकरं पद्मगर्भसमद्युतिम् || सप्ताश्वं सप्तखड्गं च जातं देशे कलिङ्गके || १२ ||

विश्वामित्रार्यकं त्रिष्टुप्छंदः काश्यपगोत्रजम् || रक्ताम्बरधरं रक्ताभरणैरुपशोभितम् || १३ ||

रक्तगन्धानुलेपाङ्गं रक्तध्वजपताकिनम् || किरीटिनं सकेयूरं मण्डितं रक्तच्छत्रिणम् || १४ ||

रथारूढं तस्य सव्यं त्वधिदैवाग्न्यधिष्ठितम् || प्रत्यधिदैवेश्वरेणासव्ययुक्तं च प्राङ्मुखम् || १५ ||

ध्यात्वैवं पूजयेद्भानुं फुल्लाक्षतविनिर्मिते || द्वादशांगुलयुक्ते च श्रीपर्णादिकपीठके || १६ ||

अत्राधिदैवतं पूज्यं तथा प्रत्यधिदैवतम् || वर्णलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः || १७ ||

होमस्वाल्प्ये जपः कार्यस्त्वधिप्रत्यधिदैवते || करवीरादिकुसुमै रक्तचन्दनमिश्रितैः || १८ ||

दूर्वांकुरैश्चाक्षतैश्च तर्पणं स्याद्दिनेशितुः || मधुच्छन्दा मुनिश्छन्दो गायत्र्यग्निश्च देवता || १९ ||

विनियोगस्तु सवितुः प्रीतये चेति कीर्तयेत् || २० ||

अग्निमीले पुरोहितं यज्ञस्य देवमृत्विजम् || होतारं रत्नधातारम् || २१ ||

वामदेवो मुनिश्छन्दोनुष्टुब्रुद्रस्तु देवता || विनियोगस्तु सवितुः प्रीतये चेति कीर्तयेत् || २२ ||

आ वो राजानामध्वरस्य रुद्रगूंहोतारगूं सत्ययजरोदस्योः || अग्निं पुरा तनयित्नो सविता हिरण्यरूपमवसे कृणुध्वम् || २३ ||

होमस्त्वर्कसमिद्भिः स्यादभावे कमलाक्षकैः || तदभावे यवतिलघृतैर्वा मधुरत्रयैः || २४ ||

अदृष्टसूर्यो नाश्नीयान्न रात्त्रौ भानुवासरे || त्यजेच्च लवणं तक्रं दिवा स्वापं च मैथुनम् || २५ ||

त्रिकालं प्रजपेत्सूक्तं पूजयेत्तु विशेषतः || एवं सिद्धे मनौ जाते नृपाः स्युस्तस्य किंकराः || २६ ||

तस्य पादोदकादेव रोगसंघो विलीयते || सिद्धमन्त्रो मुमूर्षुस्तु च्छायां पश्यत्यशीर्षिकाम् || २७ ||

कुष्ठादिरोगग्रस्तस्तु साधकोर्घ्याणि दापयेत् || आरोग्यार्थं त्वृचा पादैरथ ऋक्त्रितयैः स्वयम् || २८ ||

एवं चतुर्विंशतिभिरिष्ट्वा सूर्यं तु तर्त्पयेत् || त्रिकालाद्यैस्तदा हन्ति दुःसाध्यानपि भास्करः || २९ ||

पुष्पाणि करवीरस्य रक्तचन्दनचन्दने || प्. ३१४) दूर्वाक्षते कुशाग्राणि तिलांस्तत्त्रयमेव च || ३० ||

एतान्यावश्यकान्याहुरर्चनेष्टौ यथोत्तरम् || निक्षिप्य ताम्रपात्रे तु कस्तूरीं केशरं विधुम् || ३१ ||

मन्त्रैर्वापि च गायत्र्या जानुभ्यां धरणीं गतः || दृष्ट्वा सूर्यं नमस्कृत्य दद्यादर्घ्यमनन्यधीः || ३२ ||

अभिषिञ्चेच्च शिरसि ऋचाभिर्दत्ततोयकैः || त्यजेत्पूर्वोदितं सर्वं भानुवारे विशेषतः || ३३ ||

कुष्ठाद्या ये महारोगाः षण्मासाद्यान्ति संक्षयम् || उपकुष्ठादयो ये च कृते सन्ध्याद्वयेपि ते || ३४ ||

एकसन्ध्यार्चनेनापि सूर्यावर्तादयो गताः || केचित्तु सप्ततिदिनैर्मण्डलेन त्रिसप्तकैः || ३५ ||

सप्तमेनापि चैकाहात्तारतम्यं विचारयेत् || स्वप्यान्नैवोदयेस्ते च पूजयित्वेष्टमाप्नुयात् || ३६ ||

उद्यन्नद्य मित्रमहमारोहन्नुत्तरां दिवम् || हृद्रोगं मम सूर्य हरिमाणं च नाशय || ३७ ||

शुकेषु मे हरिमाणं रोपणाकासु दध्मसि || अथो हारिद्रवेषु मे हरिमाणं निदध्मसि || ३८ ||

उदगादयमादित्यो विश्वेन महसा सह || द्विषन्तं मह्यं रन्धयन्मो अहं द्विषतेरघम् || ३९ ||

एकादशर्चसूक्तस्य हिरण्यस्तूपको मुनिः || त्रिष्टुब्जगत्यौछन्दसी देवता सविता मतः || ४० ||

ह्वयाम्यग्निं प्रथमं स्वस्तये ह्वयामि मित्रावरुणाविहावसे || ह्वयामि रात्रीं जगतो निवेशनीं ह्वयामि देवं सवितारमूतये || ४१ ||

आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतंमर्त्यं च || हिरण्ययेन सविता रथेन देवो याति भुवनानि पश्यन् || ४२ ||

याति देवः प्रवता यात्युद्वता याति शुभ्राभ्यां यजतो हरिभ्याम् || आ देवो यातु सविता परावतोऽपविश्वा दुरिता बाधमानः || ४३ ||

अभी वृतं कृशनैर्विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् || आस्थाद्रथं सविता चित्रभानुः कृष्णा रजांसि तविषीन्दधानः || ४४ ||

विजनाञ्छ्यावाः शितिपादो अरव्यंरथं हिरण्यप्र उ गं वहन्तः || शश्वद्विशः सवितुर्दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः || ४५ ||

तिस्रो द्यावः सवितुर्द्वा उपस्थां एकायमस्य भुवने विराषाट् || आणिं न रथ्यममृताधितस्थुरिह ब्रवीतु या उतच्चिके तत् || ४६ ||

विसुपर्णो अन्तरिक्षाण्यरव्यङ्गभीरेवषा असुरः सुनीथः || क्वेदानीं सूर्यः कश्चिकेत कतमां द्यां रश्मिरस्याततान || ४७ ||

प्. ३१५) अष्टौ व्यरव्यत्ककुभः पृथिव्यास्त्रीधन्वयोजना सप्तसिन्धून् || हिरण्याक्षः सविता देव आगाद्दधद्रत्ना दाशुषे वार्याणि || ४८ ||

हिरण्यपाणिः सविता विचर्षणिरुभे द्यावापृथिवी अन्तरीयते || अपामीवां बाधते वेति सूर्यमभिकृष्णेन रजसा द्यामृणोति || ४९ ||

हिरण्यहस्तो असुरः सुनीथः सुमृडीकः स्ववां यात्वर्वाङ् || अपसेधन्रक्षसो यातुधानानस्थाद्देवः प्रतिदोषं गृणानः || ५० ||

ये ते पन्थाः सवितः पूर्व्यासो रेणवः सुकृता अन्तरिक्षे || तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च ब्रूहि देव || ५१ ||

करवीरजपामुस्तदेवदारुमनःशिलाः || केशरैलापद्मकाष्ठमधुपुष्पौघबालकैः [मधूकः |
] || ५२ ||

एतज्जापी प्रतिदिनमेतद्युक्तजलैश्चरेत् || स्नानं सूर्यस्य सन्तुष्ट्यै दुष्टो वा यस्य भास्करः || ५३ ||

कौसुम्भवस्त्रं कनकं माणिक्यं गां तथैव वा || सर्वञ्चैकतरं दद्यान्नित्यं भास्करसेवकः || ५४ ||

दद्यादशक्तो गोधूमांस्तथा भास्करपीडितः || गुडान्नाशी तु नित्यं स्याद्धारयेदर्कमूलकम् || ५५ ||

अथ वक्ष्ये चन्द्रमन्त्रं गौतमोस्य मुनिर्मतः || गायत्री छन्द इत्येकं सोमो देवः प्रकीर्तितः || ५६ ||

आप्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् || भवावाजस्य सङ्गथे || ५७ ||

षड्दीर्घबिन्दुयुक्तेन सकारेण षडङ्गकम् || पदन्यासश्च [सां अंगुष्ठाभ्यां नमः, सीं तर्जनीभ्यां नमः सूं मध्यमाभ्यां नमः, सैं अनामिकाभ्यां नमः सौंकनिष्ठिकाभ्यां नमः स करतलकरपृष्ठाभ्यां नमः |
अनया रीत्या हृदयादियासमपि कुर्यात् ||] कर्तव्यो रुद्रोक्ताङ्गेषु दिक्षु च || ५८ ||

किरीटिनं श्वेतवस्त्रं दशाश्वं श्वेतभूषणम् || पाशपाणिं द्विबाहुं तमत्रिगोत्रसमुद्भवम् || ५९ ||

जातं यवनदेशे च श्वेतगन्धानुलेपनम् || श्वेतध्वजपताकाढ्यं केयूरमणिभूषितम् || ६० ||

श्वेताकृतिं रथारूढमधिदेवेन [चन्द्राधिदेवता आपः |
तत्प्रत्यधिदेवतोमा ||] संयुतम् || तथा प्रत्यधिदेवेन वायव्याभिमुखं युतम् || ६१ ||

एवं ध्यात्वा चतुर्विंशत्यंगुलीचतुरस्रके || श्वेताक्षतकृते चन्द्रमर्चेद्देवद्वयान्वितम् || ६२ ||

वर्णलक्षञ्जपेन्मत्रं सर्वेष्वेतेष्वयं विधिः || जपाद्यम्पूर्ववत्सर्वमधिप्रत्यधिदेवयोः || ६३ ||

श्वेताक्षतैश्च पुष्पैश्च श्रीखण्डेन च कम्बुना || प्. ३१६) श्वेतदूर्वान्वितैस्तर्प्यः पलाशसमिधो हुनेत् || ६४ ||

घृताक्तास्तदभावे तु वरस्य परिकीर्तिताः || अशक्तौ तदभावे वा जपेन्मन्त्रं दशांशतः || ६५ ||

मेधातिथिर्-ऋषिः प्रोक्तोऽनुष्टुब्छन्द उदाहृतम् || आपोत्र देवताश्चन्द्रप्रीतये विनियोजनम् || ६६ ||

अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा || अग्निञ्च विश्वशम्भुवम् || ६७ ||

ऋषिर्दीर्घतमाः प्रोक्ता जगती छन्द ईरितम् || देवतोमा समाख्याता नियोगश्चन्द्रतुष्टये || ६८ ||

गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी चतुष्पदी || अष्टापदी दशपदी बुभूवृषी सहस्राक्षरा परमे व्योमन् || ६९ ||

पौर्णिमायां निराहारस्सायं चंद्रं प्रपूजयेत् || क्षीरेणार्घ्यंतु शङ्खेन दद्याद्देवस्य तुष्टये || ७० ||

सूक्तं चन्द्रमसो जप्यं प्राग्वच्चन्द्रस्य सवनात् || शान्तो दान्तः सुकीर्तिश्च श्रीमान्दाता सुरूपवान् || ७१ ||

त्रयोविंशर्चसूक्तस्य गौतमोस्य मुनिर्मतः || छन्दस्त्रिष्टुब्देवता च चन्द्रमाः परिकीर्तितः || ७२ ||

त्वं सोम प्रचिकितो मनीषा त्वंं रजिष्ठमनुनेषि पन्थाम् || तव प्रणीती पितरो न इंद्रो देवेषु रत्नमभजन्त धीराः || ७३ ||

त्वं सोम क्रतुभिः सुक्रतुर्भूस्त्वं दक्षैः सुदक्षो विश्ववेदाः || त्वं वृषा वृषत्वेभिर्महित्वाद्युम्नेभिद्युम्न्यभवोनृचक्षाः || ७४ ||

राज्ञो न ते वरुणस्य व्रतानि बृहद्गभीरन्तव सोम धाम || शुचिष्ट्वमसि प्रियो न मित्रो दक्षाययो अर्यमेवासि सोम || ७५ ||

या ते धामानि दिवि या पृथिव्याम्पर्वतेष्वोषधीष्वप्सु || तेभिर्नो विश्वैः सुमना अहेलन्राजन्सोम प्रतिहव्या गृभाय || ७६ ||

त्वं सोमामि सत्पतिस्त्वं राजोत वृत्रहा || त्वम्भद्रो असि क्रतुः || ७७ ||

त्वञ्च सोमनो वसो जीवातुं न भरामहे || प्रियस्तोत्रो वनस्पतिः || ७८ ||

त्वं सोम महे भगं त्वं यून ऋतायते || दक्षं दधासि जीवसे || ७९ ||

त्वन्नः सोम विश्वतो रक्षा राजन्नधायतः || नरिष्ये त्त्वावतः सखा || ८० ||

सोम यास्ते मयो भुव ऊस्यः सन्ति दाशुषे || ताभिर्नोविता भव || ८१ ||

इमं यज्ञमिदं वचो जुषाण उपागहि || सोम त्वं नो वृधे भव || ८२ ||

सोमगीर्भिष्ट्वा वयं वर्धयामो वचोविदः || समृडीको न आविश || ८३ ||

गयस्फानो अमीवहा वसुवित्पुष्टिवर्धनः || सुमित्रः सोम नो भव || ८४ ||

प्. ३१७) सोमरारन्धि नो हृदि गावो न यवसेष्वा || मयये इव स्व ओक्ये || ८५ ||

यः सोमसख्ये तव रारणद्देवमर्त्यः || तं दक्षः स च ते कविः || ८६ ||

उरुष्याणो अभिशस्तेः सोम निपाह्यंहसः || सखा सुशेव एधि नः || ८७ ||

आप्याय स्व समेतु ते विश्वतः सोम वृष्ण्यम् || भवा वाजस्य संगथे || ८८ ||

आप्यायस्व मदिन्तम सोम विश्वेभिरंशुभिः || भवा नः सुश्रवस्तमः सखावृधे || ८९ ||

सन्ते पयांसि समु यन्तु वाजाः संवृष्ण्यान्यभिमातिषाहः || आप्यायमानो अमृताय सोम दिवि श्रवागूंस्युत्तमानि धिष्व || ९० ||

या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञम् || गयस्फानः प्रतरणः सुवीरो वीरहा प्रचरासोमदुर्यान् || ९१ ||

सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं दधाति || सादन्यं विदथ्यं सभेयम्पितृश्रवणं यो ददाशदस्मे || ९२ ||

अषाह्लंयुत्सु पृतनासु प्रियं स्वषामप्सां वृजिनस्य गापाम् || भरेषुजां सुक्षितिं सुश्रवः संजयन्तम् त्वामनुमदेम सोम || ९३ ||

त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वङ्गाः || त्वमाततन्थोर्वन्तरिक्ष त्वंज्योतिषा वितमो ववर्थ || ९४ ||

देवेन नो मनसा देव सोम रायो भागंसहसावन्नभियुध्य || मा त्वा तनदीशिषे वीर्यस्योभयेभ्यः प्रचिकित्सागमिष्ठौ || ९५ ||

पंचगव्यञ्च रजतम्मौक्तिकं शङ्खशुक्तिके || कुमुदानि जले क्षिप्त्वा स्नानञ्चन्द्रस्य तुष्टये || ९६ ||

श्वेतं वृषं घृतघटं शङ्खङ्कांस्यस्य भाजनम् || मुक्ताहारं च विभवे तारं वा शक्तितो ददेत् || ९७ ||

चन्द्रसेवाकरो नित्यम्भक्षयेत्पायसं सितैः || सुगन्धैश्च फलैर्युक्तं सोममूलं च धारयेत् || ९८ ||

एवं चन्द्रस्य सूर्यस्य कुरुते य उपासनाम् || महापातकजान्रोगान्स तु नाशयितुं क्षमः || ९९ ||

शुक्लपुष्पान्वितोदेन सङ्कल्पस्य च योजनम् || आदौरोगं समुच्चार्य तन्नाशाय ततो वेदेत् || १०० ||

देशकालादि चोच्चार्य गोत्राचारादि पूर्वकम् || साध्यनाम तु षष्ठ्यन्तं ह्यृचा कल्पेन चोच्चरेत् || १०१ ||

अर्घ्यदानं करिष्यामि तर्पयामि च वा वदेत् || शिखाबन्धन्ततः कृत्वा भूतोत्सादनमाचरेत् || १०२ ||

प्रार्थयित्वा च पृथिवीं संविशेच्च निजासने || सुदर्शनस्य मन्त्रेण दिशाम्बन्धं समाचरेत् || १०३ ||

प्. ३१८) सर्वरोगनिवारणाय [सर्वरोगनिवारणाय शार्ङ्गायसशरायास्त्रराजाय सुदर्शनाय नमः इति सुदर्शनमन्त्रः |
] शार्ङ्गाय पदं वदेत् || सशरायास्त्रराजाय चतुर्थ्यन्तं सुदर्शनम् || १०४ ||

सप्तविंशतिवर्णोयं हृदन्तो मनुरुच्यते || भूतशुद्धिन्ततः कृत्वा प्राणस्थापनमाचरेत् || १०५ ||

ऋचा स्वाङ्गानि संस्पृश्य गुरुं चापि परं गुरुम् || परात्परं गुरुं ध्यात्वा न्यासं कुर्यात्ततः परम् || १०६ ||

उद्यन्नद्य मित्र महो दक्षिणे तु करे न्यसेत् || कृतमत्र मया यच्च मित्रो रक्षतु मान्ततः || १०७ ||

वामहस्ते न्यसेच्चैव आरोहन्नुत्तरां दिवम् || विहिताकरणात्पापाद्रवी रक्षतु मां सदा || १०८ ||

हृद्रोगम्मम सूर्येति हृदये तु प्रविन्यसेत् || अज्ञानकृतपापात्तु सूर्यो रक्षतु मां सदा || १०९ ||

हरिमाणंच नासायां विन्यसेन्मस्तकोपरि || भानुस्तु सर्वभूतेभ्यः सर्वदा मां च रक्षतु || ११० ||

शुकेषु मे हरिमाणं दक्षिणे चरणे न्यसेत् || निषिद्धगमनात्पापाद्भानू रक्षतु मां सदा || १११ ||

रोपणा कासु दध्मसि वामपादे तु विन्यसेत् || ऋतुस्त्रीसङ्गसम्भूतात्पापात्पूषाभि रक्षतु || ११२ ||

अथो हारिद्रवेषु मे नाभिदेशे तु विन्यसेत् || हिरण्यगर्भोवतु मां तमोजात्पापतः सदा || ११३ ||

हरिमाणन्निदध्मसि जिह्वायां च मुखे न्यसेत् || मुखजिह्वोद्भवात्पापान्मरीचिर्मां सदावतु || ११४ ||

उदगादयमादित्यो न्यसेद्दक्षिणचक्षुषि || मामादित्योवतु सदा दृक्समुद्भवपातकात् || ११५ ||

विश्वेन सहसा सह विन्यसेद्वामचक्षुषि || यद्दृष्टव्यन्न तद्दृष्टन्तत्पापात्सवितावतु || ११६ ||

द्विषन्तं मह्यं रन्धयन् विन्यसेत्कवचोपरि || त्वग्लोमसम्भवात्पापाद्भानुर्मा परिरक्षतु || ११७ ||

मो अहं द्विषतेरघं विन्यसेच्च तथास्त्रके || विद्वेषणकृतात्पापाद्भास्करो मां सदावतु || ११८ ||

न्यासं पुरुषसूक्तस्य देवमूर्तौ समाचरेत् || ततः स्वदेहे विन्यस्य प्राग्वद्ध्यायेद्दिवाकरम् || ११९ ||

ततः पुरुषसूक्तेन षोडशर्चेन पूजयेत् || गन्धाक्षतादिपुष्पाणि रक्तान्येव प्रयोजयेत् || १२० ||

नैवेद्यं पायसं प्रोक्तं ऋक्त्रयस्य मुनिर्मतः || कण्वः प्रस्कण्वनामा तु च्छन्दोनुष्टुप्च देवता || १२१ ||

श्रीसूर्यस्त्वथ मित्राय इदमर्घ्यं वदेत्सिते || मित्रं सन्तर्पयामीति चैवं प्रोक्तं सितेतरे || १२२ ||

प्. ३१९) एवं रवौ च सूर्ये च कल्पनीयं ततः परम् || वदेदर्धर्चके मित्ररविभ्यामर्घ्यमित्यपि || १२३ ||

त्रयः सर्वर्चके चैवमुन्नेयाः स्वधिया बुधैः || कृष्णं सर्वत्र सूर्यन्तु तर्पयाभीति संवदेत् || १२४ ||

सर्वर्चेनापि सन्तर्प्यो विशेषोयमुदाहृतः || प्रतिभानोश्च वारे तु कार्यं नान्यत्र वासरे || १२५ ||

क्षुद्ररोगा विनश्यन्ति विप्रान्द्वादश भोजयेत् || माहारोगे सहस्रं तु शीतत्वादिमहागदे || १२६ ||

देशस्योपद्रवे जाते पुनरर्घ्याणिभास्करे || सहस्रमपि तानीह सर्वनीरुक्प्रजायते || १२७ ||

पुत्रो भार्या च मित्रं च तस्य नीरुक्प्रजायते || प्राप्नोति बिपुलां लक्ष्मीं ब्रह्म प्राप्नोत्यनामयम् || १२८ ||

श्रावणे शुक्लसप्तम्यां विशाखायां भृगोर्दिने || श्रीसूर्यः क्रियया जातः पूजा तत्र विशिष्यते || १२९ ||

माघशुक्लस्य चाष्टम्यां कृत्तिकायाम् गुरोर्दिने || क्षेत्रे समभवच्चन्द्रः पूजा तत्र विशिष्यते || १३० ||

भौममन्त्रं प्रवक्ष्यामि विरूपोस्य मुनिर्मतः || अङ्गारको देवता च गायत्री छन्द ईरितम् || १३१ ||

अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्या अयम् || आपागूंरेतागूंसि जिन्वति || १३२ ||

अम्बीजेन षडङ्गानि चांगुलिन्यास एव च || रुद्रस्थानेषु कर्तव्यः पदन्यासो द्वितीयकः || १३३ ||

रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् || रक्तपुष्पैः पूज्यमानं चतुर्बाहुं किरीटिनम् || १३४ ||

वराभयगदाशूलहस्तं मेषोपरि स्थितम् || वशिष्ठगोत्रसम्भूतं जमदग्न्यर्षिकं कुजम् || १३५ ||

जगतीछन्दसं वक्रं रक्तध्वजपताकिनम् || अवन्तीदेशसम्भूतं ध्यात्वा देवम्प्रपूजयेत् || १३६ ||

रक्तचन्दनसम्मिश्रतण्डुलैस्त्र्यस्रके कृते || अधिदेवतया भूम्या युक्तं षाण्मातुरेण च || तथा प्रत्यधिदेवेन तत्रावाह्य प्रपूजयेत् || १३७ ||

वर्णलक्षं जपेन्मन्त्रं मधुरत्रयसंयुताः || खादिर्यः समिधो होमे तर्पणाद्यं च पूर्ववत् || मेधातिथिर्मुनिश्छन्दो गायत्री भूश्च देवता || १३८ ||

स्योना पृथिवी भवानृक्षरा निवेशनी यच्छा नः शर्म सप्रथाः || अपनः शोशुचदघम् || १३९ ||

मुनिर्दीर्घतमाः प्रोक्तस्त्रिष्टुप्छन्द उदाहृतम् || देवः स्कन्दः कुजप्रीत्यै जपार्थं विनियोजनम् || १४० ||

यदक्रन्दप्रथमं जायमान उद्यन्समुद्रादुत वा पुरीषात् || श्येनस्य पक्षा हरिणस्य बाहू उपम्तुत्यं महि जातन्ते अर्वन् || १४१ ||

प्. ३२०) भौमस्य प्रीतिमन्विच्छन्हव्यान्नाशी भवेन्नरः || गोजिह्वान्धारयेन्नित्यं भौमवारे तु रोगिकः || १४२ ||

कुजमन्त्रे तु संसिद्धे संग्रामे विजयी भवेत् || स्वयं नश्यन्ति रिपवो नेत्रच्छायाग्निसन्निभाः || १४३ ||

त्रिंशर्चकस्य सूक्तस्य विरूपाङ्गिरसावृषी || गायत्री छन्द उद्दिष्टं देवोग्निः कुजतुष्टये || १४४ ||

समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् || अस्मिन्हव्या होतता || १४५ ||

अग्नेस्तोभं जुषस्व मे वर्धस्वानेन जन्मना प्रतिसूक्तानि हर्यनः || १४६ ||

अग्निन्दूतम्पुरोदधे हव्यवाहमुपबुवे || देवां आसादयादिह || १४७ ||

उत्ते बृहन्तो अर्चयः समिधानस्य दिवः || अग्ने शुक्रास ईरते || १४८ ||

उप त्वा जुष्टे मम घृताचीर्यन्तु हर्यतः || अग्ने हव्या जुषस्व नः || १४९ ||

मन्द्रं होमारेमृत्विजं चित्रभानुं विभावसुम् || अग्निमीले स उस्रवत् || १५० ||

प्रत्नं होतारमीष्यं जुष्टमग्निकविं क्रतुम् || अधराणामभिश्रियम् || १५१ ||

जुषाणो अङ्गिरस्तमे मा हव्यान्यानुषक् || अग्ने यज्ञं नय क्रतुपः || १५२ ||

समिधा न उशन्त्यशुक्रशोचे इहावह || चिकित्वान्दैव्यञ्जनम् || १५३ ||

विप्रं होतारमद्रुहं धूमकेतुं विभावसुम् || यज्ञानां केतुमीमहे || १५४ ||

अग्ने निपाहि नस्त्वं प्रतिष्य देवरीषतः || सधिद्वेषः सहष्कृतः || १५५ ||

अग्निः पत्नेन मन्मनाशुम्भा नस्तन्न्वां स्वाम् || कविर्विप्रेण वा वृधे || १५६ ||

ऊजो निपातमाहुवेग्निम्पावक शोचिषम् || अस्मिन्यज्ञे स्वध्वरे || १५७ ||

स नो मित्रमहस्त्वमग्ने शुक्रेण शेचिषा || देवैरासत्सि बर्हिषी || १५८ ||

यो अग्निन्तन्नो द इ-मे देवम्मत्तः समर्पयति || तस्मा इद्दीदयद्वसू || १५९ ||

अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् || अपागूंरेतागूंसि जिन्वति || १६० ||

उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते || तव ज्योतीगूंष्यर्चयः || १६१ ||

ईषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः || स्तोतास्यां तव शर्मणि || १६२ ||

त्वामग्ने मनीषिणस्त्वां हिन्वन्ति चितिभिः || त्वां वर्धन्तु नो गिरः || १६३ ||

अदध्वस्य स्वा धावतो दूतस्परेभतः सदा || अग्नेः सख्यं धृणीमहे || १६४ ||

अग्निः शुचिव्रततमः शुचिः शुचिर्विप्रः || शुचिःशुची रोचत आहुतः || १६५ ||

उतत्वाधितयो मम गिरो वर्धन्तु विश्वहा || प्. ३२१) अग्ने सख्यस्य बोधिनः || १६६ ||

यदग्ने स्यामहावं वा यत्स्या अहम् || स्पष्टे सत्याशिषा इहाशिषः || १६७ ||

वसुर्वसुपतिर्हि त्वमस्यग्रे विभावसुः || स्याम ते सुमतावपि || १६८ ||

अग्ने धृतव्रताय ते समुद्रायेवसिन्धवः || गिरो वास्रास ईरते || १६९ ||

युवानं विस्पतिं कविं श्वादम्पुरुवेयुसम् || अग्निं शुम्भामि मन्मभिः || १७० ||

यज्ञानां रथ्ये वयन्तिग्मजम्भाय वीलवे || स्तोमैरिषे माग्नये || १७१ ||

अयमग्ने त्वे च अयि जरिताभूतु सन्त्या || तस्मै पावकमृडय || १७२ ||

धीरो ह्यस्य प्रसिद्विप्रो न जागृभिः सदा || अग्नेदीदयसिविद्यवि || १७३ ||

पुराग्ने दुरितेभ्यः पुरो मृधेभ्यः कवे || प्रण आयुर्वसोत्तिरा || १७४ ||

विश्वम्बला [शुण्ठी ||] चन्दनञ्च रामठासनपुष्पकम् [हिङ्गु ||] || फलिनीबकुलैर्युक्तं स्नानम्भौमस्य तुष्टये || १७५ ||

आरक्ताम्बुभवं ताम्रं प्रवालञ्च मसूरिका || सुरक्तवस्त्रमसृजस्तुष्ट्यै चाश्वारिपुष्पकम् || १७६ ||

पूर्वाषाढाख्यनक्षत्रे मासे भाद्रपदे सिते || दशम्यां बुधवारे तु जातस्तत्र महोत्सवः || १७७ ||

बुधमन्त्रम्प्रवक्ष्यामि बौद्धस्तस्य मुनिर्मतः || त्रिष्टुप्छन्दो देवतास्य बुद्धो बुद्धिप्रदो मतः || १७८ ||

उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्ते सगूंसृजेथामयञ्च || अस्मिन्सधस्थेऽध्युत्तरस्मिन्विश्वेदेवा यजमानश्च सीदत || १७९ ||

बुम्बीजेन षडङ्गेन ध्यानमस्य निरूप्यते || पीताम्बरं पीतवर्णम्पीतगन्धानुलेपनम् || १८० ||

पीतपुष्पैः पूज्यमानं खड्गचर्मगदावरान् || सिन्धूत्थं दधतं हस्तैरत्रिगोत्रसमुद्भवम् || १८१ ||

भारद्वाजार्षकं जातं मगधे च किरीटिनम् || बृहतीछन्दसम्पीतच्छत्रध्वजपताकिनम् || १८२ ||

केयूरमणिशोभाढ्यमधिदैवेन विष्णुना || तेन प्रत्यधिदेवेन युक्तं ज्ञं चिन्तयाम्यहम् || १८३ ||

एवं ध्यात्वा शराकारे हरिद्राक्षतनिर्मिते || मण्डले चतुरस्रे ज्ञं [बुधम् ||] सम्यगावाह्य पूजयेत् || १८४ ||

वर्णलक्षं जपेन्मन्त्रं हुनेत्तस्य दशांशतः || अपामार्गसमिद्भिश्च तर्पणानि ततश्चरेत् || १८५ ||

त्रिविक्रमाख्यो यो विष्णुस्स बुधस्याधिदेवतम् || मेधातिथिर्मुनिस्तस्य गायत्रं छन्द ईरितम् || १८६ ||

प्. ३२२) इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् || समूढस्य पांसुरे स्वाहा || १८७ ||

अथ प्रत्यधिदैवन्तु विष्णुर्नारायणाभिधः || मुनिर्दीर्घतमाः प्रोक्तश्छन्दस्त्रिष्टुबुदाहृतम् || १८८ ||

विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजागूंसि || यो अस्कभा यदुत्तरगूंसधस्थं विचक्रमाणस्त्रेधोरुगायः || १८९ ||

दुग्धौदनं समश्नीयान्नैव तुम्बीं कदाचन || नाम्बरं मलिनं दध्याद्वृद्धदारुजटान्तथा || १९० ||

बुधस्य मन्त्रे संसिद्धे वाग्मी भवति पण्डितः || अजेयः प्रतिपक्षाणां स्वयं जेतात्र जायते || १९१ ||

द्वादशर्चस्य सूक्तस्य विश्वेदेवास्तथर्षयः || देवो ज्ञो बृहतीत्रिष्टुब्जगद्गायत्रगानि च || १९२ ||

उद्बुध्यध्वं समनसः सखायः समग्निमिन्ध्वं बहवः सनीलाः || दधिक्रामग्निमुषसं च देवीमिन्द्रावतो वसे निह्वये वः || १९३ ||

मन्द्रा कृणुध्वन्धियः प्रातनुध्वं नावमरित्रपरणीं कृणुध्वम् || इष्कृणुध्वमायुं धारं कृणुध्वम्प्राञ्चं यज्ञं प्रणयता सखायः || १९४ ||

युनक्त सीरा वियुगा तनुध्वं कृते योनौ वपतेह बीजम् || गिरा च श्रुष्टिः सभरा असन्नो नेदीय इत्सृण्यः पक्वमेयात् || १९५ ||

सीरा युञ्जन्ति कवयो युगा वितन्वते पृथक् || धीरा देवेषु सुम्नया || १९६ ||

निराहावान्कृणोत न संवरत्रा दधातन || सिञ्चामहा-अवत मुद्रिणं वयं सुषेकमनु पक्षितम् || १९७ ||

इष्कृता हावमवतं सुवस्त्रं सुषेचनम् || उद्रिणं सिञ्चे अक्षितम् || १९८ ||

प्रीणीताश्वान्हि तञ्जयाथ स्वस्थिवाहं रथमित्कृणुध्वम् || द्रोणा हावमवतमश्म चक्रम सत्रकोशं सिञ्चता नृपाणम् || १९९ ||

व्रजं कृणुध्वंस हि वो नृपाणो वर्म सीव्यध्वम्बहुला पृथूनि || पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहतातम् || २०० ||

आवो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतां यज्ञियामिह || सा नो दुहीयद्यवसेव गत्वी सहस्रधारापयसा मही गौः || २०१ ||

आतूषिञ्च हरिमीन्द्रोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः || परिष्वजध्वं दशकक्ष्याभिरुभे धुरो प्रतिवह्निं युनक्त || २०२ ||

उभौ धुरौ वह्निरायिब्दमानोन्तर्योनेव चरति द्विजानिः || वनस्पतिं वन आस्थापयध्वं निषोदधिध्वमखनन्त उत्सम् || २०३ ||

कपृन्नरः कपृथमद्दधातन चोदयत खुदतवाजसातये || निष्टिग्न्यः पुत्रमाच्यवयोतय इन्द्रं स बाध इह सोमपीतये || २०४ ||

प्. ३२३) हरीतकी कलिफलैर्गोमयाक्षतरोचनैः [बिधीतकैः ||] || स्वर्णामलकमुक्ताभिर्युक्तैः सक्षौद्रकैः [कं नाम जलम् तथा चोक्तम्-मूर्ध्नि चित्ते जले काये मुखे ब्रह्मणि मारुते || कामे काले सुवर्णे च कशब्दो द्रविणे ध्वनौ || इत्यनेकार्थध्वनिमञ्जरीकोशे ||] स्नपेत् [स्नपयेत् ||] || २०५ ||

नीलवस्त्रं च मुद्गान्नं कनकं चोर्णवस्त्रकम् || बुधस्य प्रीतये दद्यान्मालत्याः कुसुमानि वा || २०६ ||

नभस्यशुक्लद्वादश्यां सोमवारे द्विजन्मने || ताराया हिमगोर्जातो बुधस्तस्योत्सवोत्र तु || २०७ ||

मन्त्रं बृहस्पतेर्वक्ष्ये मुनिर्गृत्समदोस्य तु || त्रिष्टुप्छन्दो देवपतिवन्दितोस्ति हि देवता || २०८ ||

बृहस्पते अतियदर्यो अर्हाद्युमद्विभाति क्रतुमज्जनेषु || यद्दीदयच्छवस ऋतं प्रजाततदस्मासु द्रविणं धेहि चित्रम् || २०९ ||

बृम्बीजेन षडङ्गादिन्यासमत्र समाचरेत् || शृणु ध्यानं प्रवक्ष्यामि यत्तदस्य बृहस्पतेः || २१० ||

कमण्डलुधरं देवं वरदण्डाक्षसूत्रकम् || पीतवर्णं च सौवर्णकिरीटेन विराजितम् || २११ ||

वशिष्ठार्यं सिन्धुदेशभवं पीताम्बरावृतम् || अनुष्टुप्छन्दसं चाङ्गिरसगोत्रं सुरेडितम् || २१२ ||

पतिध्वजपताकाढ्यं पीतच्छत्रानुलेपनम् || केयूराङ्गदशोभाढ्यमधिदेवेन्द्रसंयुतम् || ब्रह्मप्रत्यधिदेवेन युतं सञ्चित्य चाह्वयेत् || ३१३ ||

मन्त्रैर्विरचिते दीर्घचतुरस्रषडंगुले || हरिद्राक्षतसंसिद्धे मण्डले तं प्रपूजयेत् || २१४ ||

वर्णलक्षं जपेन्मन्त्रं होमस्त्रिमधुरान्वितैः || पिप्पलस्य तु काष्ठैः स्यात्तर्पणं पीतपञ्चभिः || २१५ ||

मुनिर्गृत्समदस्त्रिष्टुप्छन्द इन्द्रश्च देवता || २१६ ||

अधिसञ्ज्ञा गुरोस्तस्य तुष्टये विनियोजनम् || २१७ ||

इन्द्र श्रेष्ठाणि द्रविणानि धेहि चितिंदक्षस्य सुभगत्वमस्मे || पोषं रयीणामरिष्टं तनूनां स्वाद्भग्नानं वाचः सुदिनत्वमह्नाम् || २१८ ||

मुनिर्गृत्समदः प्रोक्तो देवताब्रह्मणस्पतिः || त्रिष्टुप्छन्दो गुरोश्चेयं प्रोक्ता प्रत्यधिदेवता || २१९ ||

ब्रह्मणस्पते त्वमस्य यन्ता सूतस्य बोधितनयं च जिन्व || विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदे मावेदथे सुवाराः || २२० ||

दद्यात्स दधिभक्तं च स्वर्णपीताम्बरादिकम् || नित्यं सन्धारयेद्बाहौ ब्रह्ममूलं तु धारयेत् || २२१ ||

एवंसिद्धे गुरोर्मन्त्रे वाक्सिद्धिरुपजायते || देहे शक्ती राजमानं स्वशक्त्या वार्थबोधनम् || २२२ ||

प्. ३२४) एकादशर्चसूक्तस्य वामदेवो मुनिर्मतः || जगती छन्द इत्युक्तं देवतात्र बृहस्पतिः || २२३ ||

यस्तस्तम्भ सहसाविज्मो अन्तान्बृहस्पतिस्त्रिषधस्थो रवेण || तं प्रत्नास ऋषयो दीध्याना पुरोर्मविप्रा दधिरमन्द्रजिह्वम् || २२४ ||

धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि येनस्ततस्रे || पृषन्तेसृप्रमदध्वमूर्यं बृहस्पतेरक्षता तस्य योनिम् || २२५ ||

बृहस्पते यापरमा परावदत आत ऋतस्य स्पृशो निषेदुः || तुभ्यं खाता अवता अत्रिदुग्धामध्वश्चोतंत्यभितो विषम् || २२६ ||

बृहस्पतिमधमं जायमानो महोज्योतिषः परमे व्योमन् || सप्तास्यास्तु विजातो रवेण विसप्तरश्मिरमत्तमांसि || ससुष्ठुभा ऋक्वता गणेन वनं रुरोज फलितं रवेण || २२७ ||

बृहस्पतिरुश्रिया हव्यसूदः कनिक्रदद्वा वशतीरुदाजत् || एवापित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम मनसा हविर्भिः || बृहस्पते सुमः प्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् || २२८ ||

स इन्द्राजा मतिजन्यानि विश्वा शुष्मेण तस्थावभिवीर्येण || बृहस्पतिं यः सुकृतं बिभर्ति वल्गूयति वन्दते पूर्वभाजम् || २२९ ||

स इत्क्षेति सुधित ओकांसि श्वेतस्मा इलायिल्वतेविश्वदानीम् || तस्मै विशः स्वयमेवानमन्ते यस्मिन्ब्रह्मराजं निपूर्व एति || २३० ||

अप्रतीतो जयति सन्धनानि प्रतिजन्यान्युत या सजन्या || अवस्यवे यो वीरवः कृणोति ब्रह्मणे राजा तमवन्ति देवाः || २३१ ||

इन्द्रश्च सोमं पवते बृहस्पतेस्मिन्यज्ञेमन्दसाना वृषण्वसूः || आवां विशन्त्विदवः स्वाभुगोस्मे रयिं सर्ववीरं नियच्छतम् || २३२ ||

बृहस्पत इन्द्रा वर्धतं नः स चासावां सुमतिर्भूत्वस्मे || अविष्टं धियो जिवृतं पुरं धीर्जजस्तमर्योवनुषामरातिः || २३३ ||

मदयन्तीपल्लवानि मधूकं श्वेतसर्षपाः || मालतीपुष्पयुक्ताश्च स्नानेन गुरुतोषणम् || २३४ ||

हरिद्रा शर्करा पीतवस्त्रं स्वर्णं च पित्तलम् || गुरुतुष्ट्यै प्रदेयं स्यादभावे चणकास्तथा || २३५ ||

फाल्गुनस्य सिते पक्षे चैकादश्यां च पुष्यभे || शुक्रवारे गुरुर्जातस्तत्र कार्यस्तदुत्सवः || २३६ ||

शुक्रमन्त्रं प्रवक्ष्यामि भरद्वाजो मुनिर्मतः || त्रिष्टुप्छन्दो निगदितं दैत्याचार्यस्तु दैवतम् || २३७ ||

शुक्रं ते अन्यद्यजतन्ते अन्यद्विषुरूपे अहनि द्यौरिवासि || विश्वा हि माया अवसि स्वधा वो भद्रा ते पूषन्निह राति रस्ति || २३८ ||

शुम्बीजेन षडङ्गानि कृत्वा ध्यानं समाचरेत् || शुक्लाम्बरं शुक्लवर्णं शुक्लगन्धानुलेपनम् || २३९ ||

शुक्लपुष्पैः पूज्यमानं शौनकार्यं किरीटिनम् || चतुर्भुजं दण्डिनं च साक्षसूत्रकमण्डलुम् || २४० ||

पङ्क्तिच्छन्दं [अयं सान्तोपि पचाद्यचिच्छन्दोवाच्यदन्तम् आर्षत्वात् ||] च वरदं तथा कीकटदेशजम् || श्वेतच्छत्रध्वजपताकिनं भार्गवगोत्रजम् || २४१ ||

सकेयूरं रथारूढं श्वेताभरणभूषितम् || एवं ध्यात्वा श्वेतवर्णे पञ्चकोणे नवांगुले || २४२ ||

अधिदैवतमिन्द्राणी शक्रः प्रत्यधिदैवतम् || ताभ्यां युतं दैत्यगुरुं मण्डले पूजयेत्ततः || २४३ ||

अर्णलक्षं जपेन्मन्त्रं हुनेत्त्रिमधुरान्वितैः || उदुम्बरस्य काष्ठैश्च तर्पणादि तु चन्द्रवत् || २४४ ||

वृषाकपिर्मुनिः प्रोक्तः पक्तिश्छन्द उदाहृतम् || इन्द्राणी देवता प्रोक्ता नियोगः शुक्रतुष्टये || २४५ ||

इन्द्राणीमासु नारिषु सुभगामहमश्रवम् || नह्यस्या अपरं च न जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः || २४६ ||

मधुच्छन्द्रा ऋषिः प्रोक्तो गायत्रं छन्द ईरितम् || शुक्रो देवो नियोगोस्य विश्वतः शुक्रतुष्टये || २४७ ||

इन्द्रं वो विश्वतस्परिहवामहे जनेभ्यः || अस्माकमस्तु केवलः || २४८ ||

शुक्रसन्तुष्टये नित्यं भक्षणीयः कृतौदनः || अश्वेतं नाम्बरन्दध्यान्मुनिमूलं [अगस्त्यमूलम् ||] च धारयेत् || २४९ ||

शुक्रमन्त्रस्य सिद्धस्य चिह्नानि स्युः स्त्रियो वशाः || यात्रासिद्धिः प्रकाशश्च चान्तर्भूपतयो वशाः || २५० ||

निगमर्चस्य सूक्तस्य भरद्वाजो मुनिर्मतः || त्रिष्टुब्जगत्यश्छन्दांसि पूषा दैवतमुच्यते || २५१ ||

शुक्रन्ते अन्यद्यजतन्ते अन्यद्विरूपे अहनि द्यौरिवासि || विश्वा हि माया अवसि स्वधा वो भद्रा ते पूषन्निह रातिरस्ति || अजास्यः पशुषावाजपत्स्योधियं जिन्वो विश्वभुवने विश्वे अर्पितः || २५२ ||

अष्ट्रां पूषासि पिरामुद्वरीवृजत्सञ्चक्षाणो भुवना देव ईयते || २५३ ||

यास्ते पूषन्नावो अन्तःसमुद्रे हिरण्यैमनुलिक्षचरन्ति || ताभिर्वापि इत्या सूर्यास्य कामेन कृतश्रव इच्छयामः || २५४ ||

पूषा सुबन्धुर्दिव आपृथिव्या इलस्पतिर्मघवः दस्यवर्चाः || यो देवासो अददुः सूर्यायै कामनकृतन्तवसस्य चम् || २५५ ||

प्. ३२६) समूलत्रिफला चैला केशरं च मनःशिला || एभिर्युक्तैर्जलैः स्नायाद्भार्गवस्य तु तुष्टये || २५६ ||

श्वेतो वाजी तथा रौप्यं चन्दनं च सिताम्बरम् || घृतन्दद्याच्छुक्रतुष्ट्यै तदभावे तु तण्डुलान् || २५७ ||

मधौ सितनवम्यां च रामो जातश्च भार्गवः || रामः पुनर्वसौ शुक्रे मघायामेतदन्तरम् || २५८ ||

शनिमन्त्रं प्रवक्ष्यामि सिन्धुद्विपो मुनिर्मतः || गायत्री छन्द इत्युक्तं देवता तु शनैश्चरः || २५९ ||

शन्नो देवीरभिष्टय आपो भवन्तु पीतये || शंये रभिस्रवन्तु नः || २६० ||

शंबीजेन षडङ्गानि कुर्याद्ध्यानं ततश्चरेत् || शशासनं शूलधरमिन्द्रनीलसमद्युतिम् || सौराष्ट्रदेशजं प्रोक्तं वरदं गृध्रवाहनम् || २६१ ||

भृग्वार्यं मुकुटेनालंकृतं काश्यपगोत्रकम् || कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम् || गायत्रीछन्दसं देवं कृष्णाभरणभूषितम् || २६२ ||

केयूरिणं मुकुटिनं कृष्णवस्त्रावृतं तथा || प्रजापत्याधिदेवेन सहितम्पद्ममास्थितम् || पद्म प्रत्यधिदेवेन युक्तं ध्यात्वा समर्चयेत् || २६३ ||

कस्तूरीमिलितैः कृष्णचूर्णै रचितमण्डले || होमश्शमीसमिद्भिः स्यादायसार्घेण तर्पणम् || कृष्णपुष्पैश्चन्दनन्तु कालीयैरगुरुं हुनेत् || २६४ ||

मुनिर्हिरण्यगर्भोस्य त्रिष्टुप्छन्द उदाहृतम् || नियोगः शनिप्रीत्यर्थे नानापीडाविनाशने || ब्रह्म जज्ञानमिति च मन्त्रमत्र तु कीर्तयेत् || २६५ ||

यमाय सोमं सुनुत यमाय जुहुता हविः || यमं ह यज्ञो गच्छत्यग्निदूतो अरं कृतः || २६६ ||

शनेरुपासको नित्यं कृशरं भक्षयेन्नरः || व्याघ्रीजटे [श्रीबृहती ||] गले धार्येऽभ्यङ्गः कार्यश्च नित्यशः || २६७ ||

शनिमन्त्रे तु संसिद्धे सं सिद्धा मनवोखिलाः || तस्य फूत्कारमात्रेण विनश्यन्त्यखिला गदाः || २६८ ||

नवर्चस्य तु सूक्तस्य सिन्धुद्वीपो मुनिर्मतः || बद्धमाना प्रतिष्ठा वानुष्टुप चैव समीरिताः || २६९ ||

छन्दासि देवता आपो नियोगः शनितुष्टये || एतासां [नवानामृचाम् ||] जपतः पापं कामजातं विनश्यति || २७० ||

आपेहिष्ठामयोभुवस्ता न उर्जे दधातन || महेरणाय चक्षसे || २७१ ||

योवः शिवतमो रसस्तस्य भाजयतेह नः || उशतीरिव मातरः || २७२ ||

तस्मा अरङ्गमामवो यस्य क्षयाय जिन्वथ || आपो जनयथा च नः || २७३ ||

प्. ३२७) शन्नो देवीरभिष्टय आपो भवन्तु पीतये शंयोरभिस्रवन्तु नः || २७४ ||

ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् || अपो याचामि भेषजम् || २७५ ||

अप्सु मे सोमे अब्रवीदन्तर्विश्वानि भेषजा || अग्निञ्च विश्वशम्भुवम् || २७६ ||

आपः पृणीत भेषजं वरूथन्तन्वे मम || ज्योक्चसूर्यं दृशे || २७७ ||

इदमापः प्रवहत यत्किञ्चिद्दुरितं मयि || यद्वाहमभिदुद्रोह यद्वाशेष उतानृतम् || २७८ ||

आपो अद्यान्वचारिषं रसेन समगस्महि || पयस्वानग्न आगहि तं मासं सृज वर्चसा || २७९ ||

रसाञ्जनं कृष्णतिलाः शतपुष्पा घनो [वारिवाहः |
] बला || लज्जालुलोध्रयुक्ताभिरद्भिः [लज्जावती |
] स्नाने शनेर्मुदः || २८० ||

कृष्णा गौर्महिषी लोहन्तैलं सीसन्तु तुष्टये || शनेर्दद्यादशक्तस्तु लोहं वा मरटानपि || २८१ ||

ज्येष्ठमासे कृष्णपक्षे चतुर्दश्यामसृग्दिने || रोहिण्यां सूर्यतो जातः शनिस्तत्रार्चनं [तस्येति शेषः ||] मुदे || २८२ ||

राहोर्मन्त्रं प्रवक्ष्यामि वामदेवो मुनिर्मतः || गायत्री छन्द इत्युक्तं सैंहिकेयस्तु देवता || २८३ ||

कया नश्चित्र आभुवदूतीसदावृधः सखा || कया शचिष्ठया वृता || २८४ ||

रांबीजेन षडङ्गानि ध्यानमस्य निरूप्यते || करालवदनं खड्गचर्मशूलबृहद्धरम् || २८५ ||

कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम् || कृष्णपूष्पैः पूज्यमानङ्केयूरमुकुटान्वितम् || २८६ ||

पूर्वदेशे समुत्पन्नं क्रूरमान्तीरसार्षकम् || पाटलीगोत्रसंभूतमनुष्टुप्छन्दसंग्रहम् || २८७ ||

कृष्णच्छत्ररथारूढं कृष्णध्वजपताकिनम् || सर्पाधिदेवतायुक्तं कालप्रत्यधिदैवतम् || २८८ ||

इत्थं सञ्चिन्त्य नैर्-ऋत्ये नक्राकारे तु मण्डले || द्वादशांगुलविस्तीर्णे पूजयेच्छ्यामलाक्षतैः || २८९ ||

दूर्वाभिर्मधुराक्ताभिरस्य होमो विधीयते || तर्पणादिरिह द्रव्यैः कौलिकांस्तर्पयेद्द्विजान् || २९० ||

सर्पराजो मुनिः प्रोक्तो गायत्रं छन्द ईरितम् || सर्पाश्च देवताः प्रोक्ता नियोगो राहुतुष्टये || २९१ ||

आयं गौः पृष्णिरक्रमीदसदम्मातरम्पुरः || पितरञ्च प्रयन्त्स्वः || २९२ ||

कण्वाचार्यो मुनिः प्रोक्तो गायत्रं छन्द ईरितम् || देवता तु भवेत्कालो नियोगो राहुतुष्टये || २९३ ||

माषूणः परापरानिर्-ऋतिर्दुहेणावधीत् || प्. ३२८) यदीष्टतृष्णया सह || २९४ ||

भक्षयेत्तु सदा माषान्दूर्वामूलं च धारयेत् || न निन्देन्निन्द्यकर्मस्थान्वंदीमोक्षणमाचरेत् || २९५ ||

राहोर्मन्त्रस्य सिद्धौ तु दैत्यराक्षसगुह्यकाः || कुर्वते साधकाज्ञां तु सदैव समरे जयः || २९६ ||

पंचदशर्चसूक्तस्य वामदेवो मुनिर्मतः || छन्दो निवृच्च गायत्री देवता देवनायकः || २९७ ||

कयानश्चित्र आभुव दूतीसदावृधः सखा || कया सचिष्ठया वृता || २९८ ||

कस्त्वा सत्यो मदानामं हिष्ठो मत्सदन्धसः || दृढाचिदारुजे वसु || २९९ ||

अभीषुणः सखीनामविता जरितॄणाम् || शतं भवास्यूतिभिः || ३०० ||

अभी न आव वृत्स्व चक्रं न वृतमहतः || नयुद्भिश्चर्षणीनाम् || ३०१ ||

प्रवता हि क्रतुना माहापदेव गच्छसि || अभक्षि सूर्ये स च || ३०२ ||

संयत्त इन्द्र मन्यवः संचक्राणि दधन्विरे || अधन्वे अधसूर्ये || ३०३ ||

उ तस्मा हि त्वामाहुरिन्मघवानं शचीपते || दातारमविदीदयुम् || ३०४ ||

तस्मा सद्य इत्यरिशशमानाय सुन्वते || पुरोचिन्महसे वसुः || ३०५ ||

महिष्मते शतं वनराधो वरन्त आसुरः || न व्यौत्मानि करिष्यतः || ३०६ ||

अस्मां अवन्तु ते शतमस्मात्सहस्रमूतयः || अस्मान्विश्वा अभीष्टयः || ३०७ ||

अस्मां इहा वृणीष सख्याय स्वस्तये || महोराये दिविन्मते || ३०८ ||

अस्मां अविदि विश्वहेन्द्रराया परिणश || अस्मान्विश्वाभिरूतिभिः || ३०९ ||

अस्मभ्यं ता अपा विविव्रजां अस्ते व गोमतः || नवामिरिन्द्रोतिभिः || ३१० ||

अस्माकं धृष्णुया रथो द्युमां इन्द्रानपच्युतः || गव्युरपुरीयतो || ३११ ||

अस्माकमुत्तमं कृधि श्रवो देवेषु सूर्य || वर्षिष्ठां द्यामिवोपरि || ३१२ ||

नागवल्लीनागबलाकुमारीचक्रभास्करैः || वचागुडूचीतगरैः स्नानं पात्रचतुष्टये || ३१३ ||

सीसकं कम्बलं स्वर्णं मेषं दद्यात्तु तुष्टये || राहोरेतदभावे तु त्रिपुरान्सम्प्रदापयेत् [त्रिपुरान्गुग्गुलोस्त्रीन्खिण्डान् - इत्यर्थः कोद्वितीयो बहुव्रीहौ |
] || ३१४ ||

आश्विने पौर्णमास्यां तु भरण्यां सिंहिका सुतम् || जनयामास तस्मिंस्तं विशेषेणार्चयेन्मुदे || ३१५ ||

केतुमन्त्रं प्रवक्ष्यामि मधुच्छन्दा मुनिर्मतः || देवता केतवः प्रोक्ता गायत्रं छन्द ईरितम् || ३१६ ||

प्. ३२९) केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे || समुषद्भिरजायथाः || ३१७ ||

कंबीजेन षडङ्गानि ध्यानमत्र निरूप्यते || धूम्राक्षबाहवः पाशधराश्च विकृतानना || ३१८ ||

किरीटिनो गृध्रवाहा मध्यदेशोद्भवा दृढाः || चित्राम्बराश्चित्रवर्णाश्चित्रगन्धानुलेपनाः || ३१९ ||

नानाछन्दस्कका [प्रथमः स्वार्थिकशैषिकः |
] गोतमार्या जैमिनिगोत्रजाः || कृष्णपिङ्गध्वजपताकिनो मुकुटिनस्तथा || ३२० ||

केयूरिणो रथारूढाः स्थूला ब्रह्माधिदेवताः || चित्रगुप्ताख्यप्रत्यधिदेवताश्चेति चिन्तयेत् || ३२१ ||

सार्धांगुले ध्वजाकारे वायव्यां मण्डले कृते || चित्रवर्णाक्षतैः पुष्पैस्तत्रावाह्य समर्चयेत् || ३२२ ||

वर्णलक्षं जपेन्मन्त्रं कुशहोमं समाचरेत् || मधुरत्रयसंयुक्तैश्चित्रद्रव्यैः प्रपूजयेत् || ३२३ ||

वामदेवो मुनिः प्रोक्तस्त्रिष्टुप्छन्द उदाहृतम् || ब्रह्मास्य देवता केतुप्रीतये विनियोजनम् || ३२४ ||

ब्रह्मजज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आवः || सबुन्ध्या उपमा अस्य विष्ठास्सतश्च योनिमसतश्च विवः || ३२५ ||

प्रस्कण्वस्तु मुनिः प्रोक्तो बृहती छन्द ईरितम् || देवता चित्रगुप्तोत्र नियोगः केतुतुष्टये || २२६ ||

उषो वाजं हिवंस्वयश्चित्रो मानुषे जने || तेनावह सुकृतो अध्वरां उप ये त्वा गृणन्ति वह्नयः || ३२७ ||

सदैव ब्रह्मवेषः स्यान्निम्नेनोपविशेत्क्वचित् || नाश्नीयाद्दग्धमन्नादि केतुसेवनतत्परः || ३२८ ||

केतुमन्त्रस्य सिद्धौ तु लिङ्गं सर्वत्रमान्यता || बहुधा तु भवेद्गुप्तो दृश्यो न साधकोत्तमः || ३२९ ||

दशर्चस्य तु सूक्तस्य मधुच्छन्दा मुनिः स्मृतः || देवते चन्द्रमरुतौ गायत्रं छन्द उच्यते || ३३० ||

युञ्जन्ति ब्रध्न मरुषंचरन्तम्परितस्थुषः || रोचन्ते रोचना दिवि || ३३१ ||

बीलुचिदारुजन्तुभिर्गुहाविदिन्द्रवह्निभिः || अविन्द उ श्रिया अनु || ३३२ ||

देवयन्तो यथामतिमच्छाविदद्वसुङ्गिरः || महामनूषत सृतम् || ३३३ ||

इन्द्रेण स हि दृक्षसे यजमानो अविभ्युषा || मन्दूस मानचर्वस || ३३४ ||

अनवद्यैरभि रघूमिमास्वस्वहस्व दर्चतिम् || गणैरिन्दस्य काम्यैः || ३३५ ||

अतः परिज्मन्नागहि दिवो वारोचनादधि || समस्मिन्रञ्जते गिरः || ३३६ ||

प्. ३३०) इतो वासातिमीमहे देवो वा पार्थिवादधि || इन्द्रं माहो वारजसः || ३३७ ||

सहदेवी च लज्जालुबला मुस्ताप्रियङ्गवः || एतद्युक्तजलस्नानात्प्रसीदति सदा शिखी || ३३८ ||

ऊर्णवस्त्रमजापुत्रं ध्वजञ्चापि पताकिकाम् || पीताभां केतुतुष्ट्यै तु दद्याद्वा राजमाषकान् || ३३९ ||

आषाढस्य सिते पक्षे रौद्रभे केतवोभवन् || अतश्चार्कदिने कार्यः केतूनान्तु महोत्सवः || ३४० ||

इत्थं वैदिकमार्गेण कथितं ग्रहपूजनम् || ये कुर्वन्तिं सदा तेषां सिद्धिः करतले स्थिता || ३४१ ||

ग्रहाराधनशीलानामिह लोके परत्र च || सुखं स्यादथ किं वच्मि तद्ब्रुवन्त्विह देवताः || ३४२ ||

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते नवग्रहकथनप्रकारस्त्रयोदशः || १३ ||

Prakāśa 14 – Pratyaṅgirā-Mantras

श्रीदेव्युवाच ||

भगवन्देवदेवेश गुरुणा ज्ञानिना यदा || लोभेन दत्तो मन्त्रश्चेदतो दुःखमवाप्यते || १ ||

तदा किं देव कर्तव्यं यदा सौख्यं न जायते || इह लोके परत्रापि येन संलभ्यते सुखम् || २ ||

श्रीमहादेव उवाच ||

प्रायः कलियुगे देवि गुरवो लोभसंयुताः || शिष्यास्सुखेप्सवोऽभक्ता ह्यतो न क्वापि सिद्धयः || ३ ||

प्रायोमन्त्रग्रहस्तेन दुःखायैवोपजायते || तदर्थं सम्प्रवक्ष्यामि सर्वतन्त्रेषु गोपितम् || ४ ||

मन्त्रत्यागं प्रथमतः कृत्वा प्रत्यङ्गिराम्भजेत् || मन्त्रत्यागविधिं वक्ष्ये येन सञ्जायते सुखम् || ५ ||

विद्वांसं ब्राह्मणं ज्ञात्वा तन्त्रेषु परिनिष्ठितम् || प्रातस्तस्य गृहं गत्वा स्वीयं दुःखं निवेदयेत् || ६ ||

ततस्तेन प्रकर्तव्यो मन्त्रत्यागविधिः परः || तत्रादौ रम्यभवने कुम्भं दीक्षाविधानतः || ७ ||

मण्डले स्थापयित्वा तु युतं तीर्थजलैः शुभैः || विलोमंतन्त्रमन्त्रेण तत्रावाह्येष्टदेवताम् || ८ ||

सकलीकृत्य सम्पूज्यावरणञ्च प्रपूजयेत् || एवं सावरणां मन्त्री समभ्यर्च्येष्टदेवताम् || ९ ||

हुनेद्विलोममन्त्रेण गोघतेन सहस्रकम् || अष्टान्वितं शतं वापि ततः सन्तर्पयेदमुम् || १० ||

ब्रह्मार्पणेन [ओं तत्सत्प्राणबुद्धिदेहधर्माधिकारजाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणाभ्यन्तरा यच्चोदरेण शिश्ना वा यच्च स्मृतं यदुक्तं यच्च कृतन्तत्सर्वं ब्रह्मार्पणं भवेद्भूस्स्वाहा |
] मनुना देवताभ्यो बलिन्ततः || यवान्नैश्चापि दुग्धान्नैर्दिग्विदिक्ष्वध ऊर्ध्वतः || ११ ||

प्. ३३१) आयाहीन्द्र सुराधीश शतमन्यो शचीपते || नमस्तुभ्यं गृहाणेमं पुष्पधूपादिकं बलिम् || १२ ||

आयाहि तेजसा नाथ हव्यवाह वरप्रद || गृहाण पुष्पधूपादि बलिमेनं प्रयोजितम् || १३ ||

प्रेतनाथ त्वमायाहि भिन्नाञ्जनसमद्युते || बलिन्दत्तं गृहाणेमं सुप्रीतो वरदोभव || १४ ||

नमस्ते रक्षसां नाथ निर्-ऋते त्वमिहागतः || गृहाण बलिपूजादि मया भक्त्या निवेदितम् || १५ ||

एहि पश्चिमदिक्पाल जलनाथ नमोस्तु ते || भक्त्या निवेदितां पूजां गृहीत्वा सुखमाप्नुहि || १६ ||

प्रभञ्जन प्राणपते त्वमेहि सपरिच्छदः || मया प्रयुक्तं विधिवद्गृहाण बलिमादरात् || १७ ||

कुबेरतारकाधीशावागच्छेतां सुरोत्तमौ || पुष्पधूपादिभिः प्रीतौ भवतां वरदौ मम || १८ ||

ईश त्वमेहि भगवन्सर्वविद्याश्रय प्रभो || पूजितः पुष्पधूपाद्यैः प्रीतोभव विभूतये || १९ ||

आयाहि सर्वलोकानां नाथ ब्रह्मन्समर्चनम् || गृहाण सर्वविप्राग्र्य जगत्कर्ते नमोस्तु ते || २० ||

आगच्छ वरदश्रेष्ठ विष्णो विश्वस्य नायक || पूजितः परया भक्त्या भव त्वं सुखदो मम || २१ ||

ततः सपरिवारां यः पूजयेन्मन्त्रदेवताम् || मन्त्रेण विपरीतेन पुष्पधूपोपचारकैः || २२ ||

ततस्तु प्रार्थयेद्विद्वान्पूजितां मन्त्रदेवताम् || अनुकल्पादिनालोच्य मया तरलबुद्धिना || २३ ||

उपात्तो दुःखदो मन्त्रस्तद्दोषं विनिवर्तय || पापं प्रतिहतं मेस्तु भूयाच्छ्रेयः सनातनम् || २४ ||

तनोतु मम कल्याणं पावनी भक्तिरेव तु || इति सम्प्रार्थ्य मंत्रेशं मंत्रं यंत्रे विलोमतः || २५ ||

विलिख्यामलकर्पूरचंदनेन समर्पयेत् || कलशोपरि संस्थाप्य भक्त्या परमया युतः || २६ ||

तद्यन्त्रं स्वस्य शिरसि बद्ध्वा स्नायाद्घटोदकैः || मन्त्रपूतैः पुनश्चान्यं कुम्भं तोयैः प्रपूरयेत् || २७ ||

तन्मध्ये मंत्रयंत्रं च निक्षिप्याथ प्रपूरयेत् || तं कुम्भं निम्नगायां च शुद्धे वान्यजलाशये || २८ ||

विसृजेदथ विप्रांश्च यथाशक्ति प्रपूजयेत् || इत्थं कृतविधानस्य दुर्लभस्य मनोरुजः || २९ ||

विनश्यन्ति न संदेहः क्रमाच्चित्तप्रसन्नता || जायतेऽतीवसम्पन्ना वर्धते तत्कुलं सदा || ३० ||

अथ प्रत्यङ्गिरां वक्ष्ये सारभूतां सुखप्रदाम् || यद्भक्तस्य दृशः पाताद्भूतप्रेताधिदेवताः || ३१ ||

प्. ३३२) कदाचिन्नाभिगच्छन्ति साध्यसिद्धिः प्रजायते || शान्तिं पुष्टिं समृद्धिं च साधकाय प्रयच्छति || ३२ ||

कुलद्वयविदात्मादि मन्त्रार्थज्ञानकोविदः || आचारसंयुतः शुद्धवाक्छुद्धो मनसा तथा || ३३ ||

शान्तबुद्धिः प्रसन्नात्मा जितक्रोधो जितेन्द्रियः || दम्भाहङ्कारमोहादिविकलो ज्ञानवित्तमः || ३४ ||

ध्यानयोगसमारूढः सर्वाभीष्टप्रसाधकः || मंत्रराजमिमं लब्ध्वा जायते स च भूपतिः || ३५ ||

विनियोगमथो वक्ष्ये चत्वारिंशदृचस्तथा || प्रत्यङ्गिरा मुनिः प्रोक्तश्छन्दोनुष्टुप्प्रकीर्तितम् || ३६ ||

उग्रा कृत्या देवतास्ति महादेवोथ वा हरिः || विनियोगोत्र सर्वेषु त्वभीष्टेषु तथाविधः || ३७ ||

आदौ शरीरशुद्ध्यर्थं प्राजापत्यं व्रतं चरेत् || कुशोदकेन संशोध्य पञ्चगव्येन वै पुनः || ३८ ||

चरुं हविष्यं भुञ्जानः शतमष्टोत्तरं जपेत् || दिनत्रयं ततः सिद्धं मन्त्रं कार्येषु योजयेत् || ३९ ||

दिक्पालमुद्रासनपल्लवानां विधिं परिज्ञाय जपेत्सुमन्त्रम् || न चान्यथा सिद्ध्यति तस्य मंत्रः पूतः सदायङ्किल मंत्रराजः || ४० ||

लङ्घयेत्प्रत्यरीन्सर्वानभीष्टं चैव जायते || प्रयुक्तो ब्राह्मणे मंत्रो विपरीतफलो भवेत् || ४१ ||

जपादौ वा प्रयोगादौ पुरश्चर्यादिके तथा || आदौ शांतिं प्रकुर्वीत तद्विधानं निगद्यते || ४२ ||

बार्हस्पत्यः शान्तिमुनिर्विश्वेदेवाः सुरा मताः || छन्दश्च शक्वरी प्रोक्ता शान्त्यर्थं विनियोजनम् || ४३ ||

तच्छंययोरावृणीमहे गातुं यज्ञाय || गातुं पज्ञपतये दैवी स्वस्तिरस्तु नः || ४४ ||

स्वस्तिरस्तु मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् || शं नो अस्तु द्विपदे शं चतुष्पदे || ४५ ||

नमो ब्रह्मणे नमो अस्त्वग्नये || नमः पृथिव्यै नम ओषधीभ्यः || ४६ ||

नमो वाचस्पतये नमो विष्णवे महते करोमि || भद्रं नो अपि वातये मनः || ४७ ||

उच्चरंस्त्रिस्तारपूर्वं मन्त्रान्ते शांतिरित्यपि || गायत्र्यष्टोत्तरशतं जप्त्वा कर्म समाचरेत् || ४८ ||

कर्मांतेपि पुनश्चैवं कृत्वा कर्म समापयेत् || सर्वेषामेव मन्त्राणां बीजमोंशक्तिरत्र ह्रीम् || ४९ ||

तारमायापुटाः [१- ओं |
२. ह्रीं |
] सर्वे जप्तव्याः केवला न हि || तदा क्षिप्रं प्रसिद्ध्यन्ति मंत्रास्तंत्रेषु निर्णयः || ५० ||

प्. ३३३) अश्विनौ तु मुनी प्रोक्तावनुष्टुप्छन्द ईरितम् || कृत्यात्र देवता चास्य नियोगोभीष्टसिद्धये || ५१ ||

यां [अस्य मन्त्रस्य ब्रह्मा ऋषिरनुष्टुप्छन्दः प्रत्यङ्गिरा देवतों बीजं ह्रींशक्तिः कृत्यानाशने विनियोगः ओं ह्रीमितिबीजाभ्यां सम्पुटितः सप्ताधिकत्रिंशदक्षरो मन्त्रो भवति |
अष्टत्रिचतुश्चतुः पञ्चाष्टाक्षरैः प्रणवाद्यैर्ह्रीमन्तैरङ्गन्यासं कुर्यात् |
यथा - ओं यां कल्पयन्ति नोरयः ह्रीं हृदयाय नमः ओं क्रूरां कृत्यां ह्रीं शिरसे स्वाहा ओं वधूमिव ह्रीं शिखायै वषट् ओं तां ब्रह्मणा ह्रीं कवचाय हुम् ओं अपनिर्णुघ्न ह्रीं नेत्रत्रयाय वौषट् ओं प्रत्यक्कर्तारमृच्छतु ह्रीं अस्त्रायफट् - शिर आदिषु मन्त्रपदैरों ह्रींमाद्यन्तैर्न्यसेत् ||] कल्पयन्ति नोरयः क्रूरां कृत्यां वधूमिव || तां ब्रह्मणा अपनिर्णुघ्न प्रत्यक्कर्तारमृच्छतु || ५२ ||

नागत्र्यब्ध्यब्धिवेदेषु नागवर्णैर्ध्रुवादिकैः || ह्रींबीजान्तैः षडङ्गानि मन्त्रस्य तु समाचरेत् || ५३ ||

शिरोभ्रुमध्यक्त्रेषु कण्ठे बाहुद्वये हृदि || नाभावूर्वोर्जानुनोश्च पदानि पदयोर्न्यसेत् || ५४ ||

चतुर्दशक्रमान्मंत्री तारमायापुटान्यपि || ततो ध्यायेत्सिंहमुखीं मुक्तकेशां दिगम्बराम् || ५५ ||

असिचर्मकरां श्यामां दंष्ट्राग्रां सर्वभीषणाम् || ग्रसन्तीमहितान्नुद्रतेजसा ध्यानमीरितम् || ५६ ||

अयुतं प्रजपेन्मन्त्रं होमस्तस्य दशांशतः || अपामार्गसमिद्भिस्तु होमो हव्यघृतादिभिः || ५७ ||

त्रिकोणे चार्चयेद्देवीं षड्दलेष्वङ्गपूजनम् || लोकपालास्तदस्त्राणि पूजयेदित्थमर्चनम् || ५८ ||

एवंसिद्धमनुर्मन्त्री प्रयोगेषु शतं जपेत् || जुहुयाच्च शतं दिक्षु दशमन्त्रैर्बलिंहरेत् || ५९ ||

यो [यो मे पूर्वगतः पाप्मापापकेनेह कर्मणा || इन्द्रस्तं देवराजा भञ्जयतु अञ्जयतु मोहयतु नाश यतु मारयतु अतः बलिं तस्मै प्रयच्छतु कृतं मम शिवं मम शान्तिः स्वस्त्ययनं चास्तु एतन्मत्रेण पूर्वमिन्द्रं यजेत् |
] मे पूर्वगतः पाप्मा पाकेनेह कर्मणा || इन्द्रस्तन्देवमुच्चार्य राजान्ते भञ्जयत्विति || ६० ||

अञ्जयत्विति चोच्चार्य मोहयत्विति चोच्चरेत् || नाशयतु पदं पश्चान्मारयत्वित्यतो बलिम् || ६१ ||

तस्मै प्रयच्छतु कृतं ममान्ते च शिवं गम || शान्तिः स्वस्त्ययनं चास्तु बलिमन्त्र उदाहृतः || ६२ ||

प्रणवाद्याष्टषष्ट्यर्णस्तेनैव वितरेद्बलिम् || अस्मिन्मन्त्रेपूर्वंपदस्थानेऽग्न्या [पुनरेवानयैवरीत्या |
शक्रपदस्थाने वह्न्यादिपदानि संमेल्य दिक्पालानां तत्तदिक्षु बलिं हरेत्] दिपदं वदेत् || ६३ ||

इन्द्र इत्यादिकस्थाने अग्निरित्यादिकं पठेत् || एवं तु दश मन्त्राः स्युस्तत्तद्दिक्षु बलिं हरेत् || ६४ ||

प्. ३३४) एवं कृते शत्रुकृता कृत्या क्षिप्रं विनश्यति || ६५ ||

प्रत्यङ्गिरा मुनिः प्रोक्तोऽनुष्टुप्छन्दः प्रकीर्तितम् || कृत्या तु देवता चास्य नियोगो रिपुनिग्रहे || ६६ ||

शीर्षण्वतीं कर्णवतीं विष्णुरूपां भयङ्करीम् || यः प्राहिणोदिहाद्य त्वं नित्यं योजय स्वस्तिभिः || ६७ ||

वामदेव ऋषिः प्रोक्तो गायत्री छन्द ईरितम् || कृत्या तु देवता प्राग्वन्नियोगोरिनिवर्तने || ६८ ||

येन दिष्ट्येह वदसि प्रतिपूरमधापिनि || तमेवातो निवर्तस्व मा स्याम्यत्सो अनागसः || ६९ ||

मुनिर्वृद्धवशिष्ठोस्यच्छन्दोनुष्टुप्प्रकीर्तितम् || देवः कालाग्निरुद्रोत्र नियोगोरिविनाशने || ७० ||

अभिवर्तस्य कर्तरि निरस्तां ताभिरोजसा || आयुरस्य निकृन्तस्य प्रजाश्च पुरुषादिनि || ७१ ||

ऊर्ध्वास्योस्य मुनिः प्रोक्तो नुष्टुप्छन्द उदाहृतम् || देवता यातुधान्योभिचारनाशे नियोजनम् || ७२ ||

यस्त्वा कृत्ये चकारेह त्वं तं गच्छ पुनर्नवे || आसतीः कृत्यानाशाय सर्वास्तु यातुधान्यः || ७३ ||

आसाम्प्रयोगं वक्ष्यामि पञ्चानामद्भुतं भुवि || इदं पञ्चर्चकं सूक्तं शुक्लाष्टम्यां समाचरेत् || ७४ ||

सुमासि पौर्णमास्यां च यदुम्बरभवं समम् || आनयेद्दण्डमेकंतु पुरुषस्य प्रमाणतः || ७५ ||

शतनाम स्मरन्दण्डं गृहीत्वाष्टोत्तरं शतम् || सूक्तं जपेत्तदारातिर्दह्यते स महाग्रहैः || ७६ ||

यदि प्रतिपदारम्भात्कर्म चैतत्समाचरेत् || अष्टप्रादेशमात्रन्तु दण्डं बैभीतकं समम् || ७७ ||

गृहीत्वोच्चार्यारिनाम जपेत्सूक्तं तदा रिपुः || महाव्याधिगृहीतोसौ म्रियते नात्र संशयः || ७८ ||

कारस्करस्य चार्कस्य समिधोग्निमुखोद्भवैः || तैलैराक्ता हुनेत्सप्तरात्रमष्टोत्तरं शतम् || ७९ ||

शत्रुनाशो भवत्यवमथवा केवलं जपम् || मासमेकं प्रकुर्वीतरिपुर्मृत्युमवाप्नुयात् || ८० ||

श्मशानकाष्ठमयया तु तालपत्रे लिखेद्रिपोः || ईश्वरस्यालये नामवर्णान्मन्त्रेण गर्भितान् || ८१ ||

अष्टोत्तरशतं जप्त्वा भूमौ प्रादेशमात्रके || निखतेत्तत्क्षणादेव ज्वरः सत्रोः प्रजायते || ८२ ||

तत्क्षणं नाशमायाति प्रयोगान्ते तु दक्षिणाः || दद्याद्गोभूहिरण्यादि यथा शक्त्येति तद्विधिः || ८३ ||

महादेवो मुनिः प्रोक्तोनुष्टुप्छन्दः प्रकीर्तितम् || कृत्या तु देवता चास्य नियोगो रिपुनिग्रहे || ८४ ||

प्. ३३५) क्षिप्रं कृत्ये निवर्तस्व कर्तुरेव गृहं प्रति || पशूंश्चैवास्य नाशय वीर्यं चास्य निबर्हय || ८५ ||

अगस्त्योस्य मुनिः प्रोक्तोनुष्टुप्छन्दः प्रकीर्तितम् || कृत्या तु देवता प्रोक्ता नियोगो रिपुतक्षणे || ८६ ||

यस्त्वां कृत्ये चकारेह विद्वानपि उपग्रहान् || तस्यैवातः परावृत्य तनुं कृन्धि यथा तरुम् || ८७ ||

वशिष्ठोस्य मुनिः प्रोक्तोनुष्टुप्छन्दः प्रकीर्तितम् || रुद्रस्तु देवता प्रोक्तो नियोगोरिनिकर्तने || ८८ ||

प्रतिचित्वावसे धातुब्रह्मणे विष्णुमित्रहम् || अग्निश्च कृत्यं रक्षोहा चोज एकपात् || ८९ ||

ब्रह्मास्य मुनिराख्यातोऽनुष्टुप् छन्दः प्रकीर्तितम् || कृत्या तु देवता प्रोक्ता नियोगोरिनिकृंतने || ९० ||

यथा त्वांगिरसः पूर्वे भृगवश्चायसेधिरे || अत्रयश्च वशिष्ठश्च तथैव नायसेधि माम् || ९१ ||

अग्निरस्य मुनिः ख्यातस्त्रिष्टुप्छन्दः प्रकीर्तितम् || कृत्या तु देवता प्रोक्ता नियोगोरिनिकर्तने || ९२ ||

यस्ते परूंषि स दधौ रथस्यैवं विभूर्धिया || तन्त्रच्छतगते जननज्ञास्तेजनो यतः || ९३ ||

अथ वक्ष्येऽस्य चोक्तस्य पञ्चर्चस्य विधिं शुभम् || भुञ्जानः कपिलाक्षीरमनुवाकं त्र्यहं जपेत् || ९४ ||

क्षुत्तृड्द्वन्द्वादिरहितो ब्रह्मचर्यरतो भवेत् || प्रयोगेस्मिंस्तु विज्ञेयाः कामक्रोधादयोरयः || ९५ ||

पलाशस्य समिद्भिस्तु मधुरैर्दधभिः प्लुतैः || हुनेदष्टसहस्रं तु ब्रह्मवर्चसवान्भवेत् || ९६ ||

गोरत्र दक्षिणा प्रोक्ता पलाशसमिधो हुनेत् || दुग्धाक्ताश्चाष्ट शतकं सप्तभिर्दिवसैर्ग्रहाः || ९७ ||

उपग्रहाः पलायन्ते शान्तिः सर्वत्र जायते || एवं हुत्वा पिप्पलस्य समिद्भिर्यश आप्नुयात् || ९८ ||

नदीतीरे श्मशाने च भद्रकालालयेपि वा || कृत्वा तद्भस्मनो राशिं ध्यात्वायंनाम चेतसा || ९९ ||

जपेदष्टसहस्रं स सप्ताहाज्जायतेक्षरी || तदेव भस्माहोरात्रं मन्त्रितं गोष्ठके क्षिपेत् || १०० ||

सद्यो गोश्च सुखं तत्र जायते नात्र संशयः || पौर्णमास्यामुपोष्याथ रजन्यामंगुलीयकम् || १०१ ||

स्वरक्षार्थं च सन्धार्य जपेदष्टसहस्रकम् || महाराजसमः स स्यादाज्ञया विभवेन च || १०२ ||

नित्यमष्टोत्तरशतं विष्णोर्देवालये जपेत् || षण्मासाभ्यन्तरेणैव तस्य पूर्णा नमोरथाः [स्युरिति शेषह् ||] || १०३ ||

संवत्सरजपादेवं ब्रह्मणा सदृशो भवेत् || प्. ३३६) तिलान्भारशतं दद्याद्दक्षिणां तेस्य पाठिने || १०४ ||

भृगुर्मुनिरनुष्टुप् च छन्दः कृत्या च देवता || संग्रामविजये चैव विनियोगः प्रकीर्तितः || १०५ ||

यो नः कृत्ये रणस्थो वा जनो वान्यो हि हिंसति || तस्य त्वं देवि विद्ध्वाग्निं तनुमृच्छ स्वहेतिना || १०६ ||

अगस्त्यस्तु मुनिः प्रोक्तश्छन्दोनुष्टुबुदाहृतम् || देवी कृत्या नियोगस्तु विवादादौ जयाय च || १०७ ||

मनाः शर्यादेनहविमस्य क्षियन्तं या कृत्वने || सरस्वतीत्यवकृत्यमच्छिषस्तस्य किञ्चन || १०८ ||

महादेवो मुनिः कृत्या देवताछन्द ईरितम् || अनुष्टुप् च नियोगस्तु विवादादौ जयाय च || १०९ ||

मनः कश्चिदुहारातिर्मनसा प्रतिभूरिति || दूरस्थो वान्तिकस्थो वा तस्य हृद्यसृक् पिब || ११० ||

मुनिरग्निरनुष्टुप् च छन्दः कृत्या च देवता || दुस्साध्यकार्यसिद्ध्यर्थं विनियोगोस्य कीर्तितः || १११ ||

येनासि कृत्ये प्रहिता छद्मनास्मज्जिघांसया || तस्य व्यनेच्चाव्यनहीनस्तहरसाशनिः || ११२ ||

गौतमो मुनिराख्यातोनुष्टुप् छन्दोस्यदेवता || कृत्यामार्गस्थचौरादिनाशे तु विनियोजनम् || ११३ ||

यो नोसि वासः प्रस्थानः परा याति पराचतम् || तैर्देविरात्र्याः कृत्ये नो गमयेमान्निकृन्तय || ११४ ||

अथैतस्यानुवाकस्य प्रयोगः कीर्त्यतेधुना || शुक्लपक्षप्रदिपदमारभ्य प्रत्यहं जपेत् || ११५ ||

अष्टोत्तरसहस्रन्तु पौर्णमास्यन्तमेव च || भक्षयेत्कपिलाक्षीरं हविष्यौदनमेव च || ११६ ||

श्रोत्रियालयभिक्षां वा सर्वकृत्यानिवारणे || समर्थोदर्शनादेव भवेद्भूतस्य का कथा || ११७ ||

जयेत्तथापमृत्युं च यक्षगन्धर्वराक्षसान् || स्कन्दग्रहब्रह्मरक्षोपस्मारादिगदांस्तथा || ११८ ||

सर्वे रोगा विनश्यन्ति वृद्धिश्चैवोत्तरोत्तरम् || सर्वोपद्रवशान्तिः स्याद्भवने साधकस्य तु || ११९ ||

नित्यमष्टोत्तरं हुत्वा घृताक्ताञ्छालितण्डुलान् || सर्वव्याधिविनाशः स्याच्छिवमेव दिनेदिने || १२० ||

अष्टोत्तरसहस्रं तु तिलमाषचरुं हुनेत् || घृताक्तं सर्वरोगाणां त्वरितं शान्तिकं स्मृतम् || १२१ ||

पलाशपुष्पं च तिलान्सुरभीघृतसंयुतान् || हुत्वा चाष्टोत्तरशतं मासं तत्सर्वदुःखहृत् || १२२ ||

महोत्पातस्य शान्तिश्च जीवेद्वर्षशतं तथा || देया स्वर्णांगुलीयादि दक्षिणा मन्त्रपाठिने || १२३ ||

प्. ३३७) अङ्गिरा मुनिरुद्दिष्टो गायत्री छन्द ईरितम् || देवोग्निर्विनियोगस्तु सर्वशत्रुनिकर्त्तने || १२४ ||

यद्युवेशद्विपदेस्मानर्दिवेष चतुष्पदी || निरेस्था नो व्रजास्माभिः कर्तुं त्वष्टपदीगृहान् || १२५ ||

मुनिर्ज्वरस्तु भगवांस्त्रिष्टुप्छन्द उदाहृतम् || मृत्युर्देवो नियोगस्तु जराभवतु शत्रवे || १२६ ||

यन्द्विष्मो यश्च द्वेष्ट्यघायुर्यस्य न संशयः || शुने पिपृमि वक्ष्यामि तं प्रत्यस्मत्वमृत्यवे || १२७ ||

ब्रह्मास्य मुनिराख्यातोनुष्टुप्छन्दः प्रकीर्तितम् || अग्निर्देवो नियोगस्तु शत्रुविद्वेषणे मतः || १२८ ||

यश्च यायज्ञः शपथो यश्च मामीश याति नः || ब्रह्माचपकुद्धशयाशर्वतत्कन्धस्पतिम् || १२९ ||

देवता भौम उद्दिष्टो मुनिः कश्यप ईरितः || अनुष्टुप्च्छन्द उद्दिष्टं नियोगोरिपलायने || १३० ||

सबन्धुश्चाप्यबन्धुश्च यो अस्म अभिदा मति || तस्य त्वसिन्धयिष्टाय दावित्सर्प ताक्षिरः || १३१ ||

पञ्चर्चस्य प्रयोगोस्या धना चात्र प्रवक्ष्यते || समुद्रगामिनीं गत्वा जपेदष्टोत्तरं शतम् || १३२ ||

जपेन्नित्यमहोरात्रं समुद्दिश्य जलाञ्जलीन् || अष्टाविंशतिसंख्याकांदद्यात्तद्वत्पुनर्जपेत् || १३३ ||

सप्ताहान्म्रियते शत्रुरस्य रोगी न संशयः || बिभीतदण्डमाधाय चैकप्रादेशसम्मितम् || १३४ ||

शत्रुनाम स्मरन्धृत्वा नित्यमष्टोत्तरं शतम् || जपेन्मनुं रिपुकुलं ज्ञाताज्ञाविनश्यति || १३५ ||

अपराधं विना द्वेष्टा स तु कुष्ठी प्रजायते || अष्टाविंशतिसङ्ख्या यः पश्यन्भानुं रिपुं स्मरन् || अन्वहं प्रजपेच्छत्रुर्ज्वरेण परिपीड्यते || १३६ ||

तिलतैलाक्तसमिधां होमश्चाष्टशतं भवेत् || शत्रोः पुत्रकलत्राश्वगजताद्यं विनयश्यति || १३७ ||

हिरण्यं दक्षिणां दद्यात्प्रयोतांते च शान्तिकम् || प्रायश्चित्तं पुनः कुर्यान्मुक्तदोषः प्रजायते || द्विजानः देवभक्तानां जातु कुर्यान्न विप्रियम् || १३८ ||

कालाग्निरुदो देवस्तूपमन्युग कथितो मुनिः || बृहती छंद उद्दिष्टं नियोगोस्यारिनाशने || १३९ ||

अभिप्रेहिशुभप्राक्षं युक्ताशु शपथं रथे || शत्रुर्न तिष्ठति कृत्ये वृको वा विमतो गृहात् || १४० ||

मुनिः सभ्यतपाः प्रोक्तो बृहती छंद ईरितम् || ज्वलनो देवता चास्य नियोगोऽरिपलायने || १४१ ||

परिणो वृद्धिशपथादहन्नग्निरिव ह्रदे || प्. ३३८) शत्रूनेवाभिनोज्ञेहि दिव्यावृक्षमिवाशनिः || १४२ ||

अङ्गिरास्तु मुनिश्छंदोनुष्टुप् कृत्या च देवता || गजाऽजतुरगादीनां नियोगो रिपुमोहने || १४३ ||

असपत्नं पुरस्तान्नः शिवं दक्षिणतस्कृधि || अभयं सततं पश्चाद्भर उत्तरतो गृहे || १४४ ||

मुनिः कश्यप इत्युक्तो बृहती छंद ईरितम् || देवी कृत्या नियोगस्तु रिपूणां त्रासनाय च || १४५ ||

परे हि कृत्ये मातिष्ठ वृद्धसेवपदं नय || मृगास्यहि मृगोरिः प्रांतत्वानि कर्तुमर्हति || १४६ ||

एतस्यैवानुवाकस्य प्रयोगः कीर्त्यतेधुना || कृष्णाष्टमीं समारभ्य यावच्छुक्लाष्टमी भवेत् || १४७ ||

इष्ट्वा माहेश्वरं लिङ्गं जपन्नाशयति क्षणात् || अभिचारिक कृत्यादीन्हयानां हस्तिनामपि || १४८ ||

विनाशयेन्महाव्याधिं संस्ष्ट्वा रुद्रकालिकाम् || जपेन्नश्येदरिस्तस्य रक्षितोपीश्वरेण चेत् || १४९ ||

दक्षिणाभिमुखो रुद्राज्जपे दष्टोत्तरं शतम् || नित्यंजपेदेक विंशद्दिनावधि तथा रिपोः || १५० ||

कलत्रादिकनाशः स्याद्दक्षिणा कम्बलद्वयम् || आत्मरक्षा च कर्तव्या रुद्रन्यासावधानतः || १५१ ||

मुनिः शर्वः सर्वसुरश्छंदोनुष्टुप्प्रकीर्तितम् || दाहनार्थं पुरादीनां नियोगोस्य भवेत्तथा || १५२ ||

अग्न्यास्यघोररूपेपि पुरुषेपि विनाशिनी || जृम्भिता प्रतिगृह्णस्व प्रमादाय हि चाद्भुतम् || १५३ ||

अर्को मुनिरनुष्टुप् च च्छन्दः कृत्यास्य देवता || अतिक्रुद्धस्य राजादेः कोपशान्त्यै नियोजनम् || १५४ ||

त्वमिन्द्रो यमो वरुणस्त्वमापोपि च रथोनिलः || त्वं ब्रह्मा चैव रुद्रश्च त्वष्टा चैव प्रजापतिः || १५५ ||

छन्दस्तु देवी गायत्री देवते चाश्विनौ मतौ || मुनिरिन्द्रो नियोगस्तु त्वरितं रोगनाशने || १५६ ||

आवर्तध्वं निवर्तध्वमृतवः परिवत्सराः || अहोरात्रास्तथाब्दाश्च दिशः प्रतिदिशश्च मे || १५७ ||

गालवो मुनिराख्यातो मित्रो देवः प्रकीर्तितः || त्रिष्टुप्छन्दो नियोगस्तु कर्तव्योद्भुतकर्मणे || १५८ ||

त्वं यमं वरुणं सोमं त्वमापोग्निमथानिलम् || अत्राहृत्य पशूंश्चैव चोत्पादयसि चाद्भुतम् || १५९ ||

मुनिर्विष्णुः सुरो विष्णुरनुष्टुप्छंद उच्यते || नियोगो यस्य कस्यापि रक्षणार्थमुदाहृतम् || १६० ||

यो मेरुगर्भशयानं विश्वस्य हितं पुरुषं विजहुः || कुम्भीवपाकं नरकं जनाग्रीयं पञ्चवर्षाश्च एवं पुरुषोसोमपस्य || १६१ ||

पञ्चर्चमनुवाकन्तु ये जपन्तीह नित्यशः || प्. ३३९) पूर्वकर्मसमुद्भूतमाधिव्याधिभयं हरेत् || १६२ ||

यथात्रपरिशिष्टस्था ऋगेका प्रोच्यतेधुना || तां जपन्सततञ्जन्तुर्नारिभिः परिभूयते || १६३ ||

येन्द्र सुत्र्यजवेमह्यमग्ने कदा धियो दुर्मदो अग्रनासः || अवध्यैतानुशोचिषायिण्यतौ भूत्यैवस्वतस्यसनेमयस्याः || १६४ ||

मुनिः शुक्रो ब्रह्म देवश्छन्दोनुष्टुबुदाहृतम् || स्त्रियो वै मोहनाशाय नियोगोस्य प्रकीर्तितः || १६५ ||

अत्यक्ता रक्तास्वलंकृतः सर्वतो दुरितं वह || जातीयाश्चैव कृत्यानां शत्रुहन्याय चेतसः || १६६ ||

वसवो मुनयः प्रोक्ताः परमात्मा च देवता || छन्दोनुष्टुब्नियोगोस्य दुर्वध्यारिविनाशने || १६७ ||

यथा हति पुरासीनं तथैवस्वत्सकृन्नरः || तथा त्वया युजा वयं तस्य निकुप्नः स्थातुजङ्गमम् || १६८ ||

अग्निस्तु देवता प्रोक्ता मुनिरिन्दुः प्रकीर्तितः || छन्दोनुष्टुब्नियोगस्तु चास्य शत्रुविनाशने || १६९ ||

उत्तिष्ठेवनरहीनो जातेह्निभिहेच्छसि || या वास्ते कृत्ययादौ तु प्रतिकृत्स्यामिविद्रवः || १७० ||

मुनिः शान्तायनः प्रोक्तः परमातत्र देवता || छन्दोनुष्टुब्नियोगस्तु तपोविघ्नकराश्च ये || १७१ ||

लोभालस्यादयो वाथ दृश्यन्ते ये तपोपहाः || १७२ ||

तपोविघ्नकराः पाठे स्वायुधाश्शमिदं पठेत् || १७३ ||

स्वायुधाः सन्ति नोरयो विघ्नं चैवं परूंषि ते || तैस्तैर्निकपला पापिनोजीवयस्यरीन् || १७४ ||

भगीरथो मुनिर्ब्रह्मा छन्दोनुष्टुबुदाहृतम् || पापारीणां च पापस्य नाशाय विनियोजनम् || १७५ ||

मास्याच्छिषो द्विपदं तनोचकि चतुष्पदम् || माज्ञातीतन्तु जानस्यान्मनवे क्षिप्रवेशिनौ || १७६ ||

पञ्चर्चमनुवाकन्तु नित्यमष्टोत्तरं शतम् || यो जपेत्पूजयेद्रुद्रं तस्य शत्रुक्षयो भवेत् || १७७ ||

सर्वकृत्याप्रशन्तिश्च सर्वलोकवशीकृतिः || रुद्रालये सहस्रन्तु जपन्व्याधिं निबर्हयेत् || १७८ ||

कार्पासबीजं लवणम् घृतमष्टसहस्रकम् || हुत्वा सूर्यस्याभिमुखमष्टाविंशतिसङ्ख्यया || १७९ ||

जपेद्दृष्टेस्तु संस्तम्भः समुद्रमपि शोषयेत् || अत्रैव मननाभ्यासाद्विद्वत्ता सूपपद्यते || १८० ||

अङ्गिरास्तु मुनिः प्रोक्तः कालो मृत्युश्च देवते || छन्दोनुष्टुब्नियोगस्तु सुदुर्लभप्रसाधने || १८१ ||

शत्रूयता प्रहितासि मां ये ताभिमधर्वतः || ततस्तथा त्वदनु यो मततुर्यायश्रितः || १८२ ||

प्. ३४०) अङ्गिरास्तु मुनिः प्रोक्तो महादेवोस्य देवता || नियोगच्छन्द उद्दिष्टं नियोगः पापकर्तने || १८३ ||

एवं त्वनिकृतास्माभिर्ब्रह्मणा देवि सर्वशः || वधेत माष्विनो गत्वा पापधीनेव नो न हि || १८४ ||

अङ्गिरास्तु मुनिः प्रोक्तोनुष्टुप्छन्दः प्रकीर्तितम् || देवी कृत्या नियोगस्तु शत्रूणां शोषणे मतः || १८५ ||

यथा विद्युद्धतो वृक्ष आमूलादनुशुष्यति || एवं प्रतिशुष्यति स यो मे पापं चिकीर्षति || १८६ ||

कठो मुनिर्महादेवो देवोनुष्टुबुदाहृतम् || स्त्रिया कृताभिचारादौ यामंयामं पठेदिदम् || १८७ ||

यथा प्रतिशुको भूत्वा तमेव प्रतिधावति || पापन्तमेव धावतु यो मे पापं चिकीर्षति || १८८ ||

भृगुरस्य मुनिः प्रोक्तो विश्वे देवास्तु देवताः || छन्दोनुष्टुप् तथा योगो दुर्गस्थाने सुखाय च || १८९ ||

या नश्चेक्षरणे यश्च निष्ण्यौ निघनागूंसति || देवास्ते सर्वं धुन्वन्तु ब्रह्मवर्म ममाचरम् || १९० ||

पञ्चर्चस्यास्य वर्गस्य प्रयोगो वक्ष्यतेधुना || हुनेदष्टोत्तरशतं घृताक्ततिलतण्डुलान् || १९१ ||

मासाष्टकेन चान्नादिवृद्धिर्भवति भूयसी आयुष्कामो हुनेद्देव्यामृतमष्टोत्तरं शतम् || १९२ ||

स्वजन्मदिवसेब्देस्मिन्नपमृत्युं जयत्यसौ || सर्वपापक्षयश्चैव चित्तशान्तिः प्रजायते || १९३ ||

पलाशकुसुमैरष्टशतं हुत्वा द्विजर्षभः || ब्रह्मतेजोमयस्तस्य भाति देहोतिभास्वरः || १९४ ||

ब्रह्मवृक्षसमिद्भिस्तु कुसुमैर्बाकुलाक्षतैः || वृताक्तैरष्टसाहस्रं हुत्वा पातकनाशनम् || १९५ ||

अमुनैवानुवाकेन यः कुर्यादनलार्चनम् || सर्वपापक्षयस्तस्य वर्षमध्ये प्रजायते || १९६ ||

अष्टोत्तरसहस्रं तु मनुं जप्त्वा समापयेत् || मनोरस्यार्णसंख्याकान्देवताप्रीतिकारकैः [इदमुत्तरान्मयि ||] || १९७ ||

दिव्यैस्तु भोजयेद्विप्रान्देवताराधनक्षमान् || तदभावे वैदिकांश्च मनुर्वेदमयो यतः || १९८ ||

तदाम्नायप्रवृत्तोन्यांस्तदभावे तु भोजयेत् || एवं गुरुत्याग उक्तः सर्वतन्त्रेषु गोपितः || १९९ ||

असिद्धो यः स्वयं शिष्यं कथं सन्तारयिष्यति || देवत्यागं प्रवक्ष्यामि सर्वतन्त्रेषु गोपितम् || २०० ||

कृतनित्यक्रियः पूजां देवतायाः समाचरेत् || सङ्कल्पन्तु ततः कुर्याद्देवत्यागादिपूर्वकम् || २०१ ||

प्. ३४१) स्वनामगोत्रं चोच्चार्य मनसा संस्मरन्हरिम् || परोक्षं वा समक्षं वा गुरोः सम्प्रार्थयेत्सुरम् || २०२ ||

त्रैलोक्यनाथ जगदीश महेश्वरस्त्वं मत्कान्तकोटिजठराद्भुतशान्तिचिद्भिः || यत्त्वं मयाल्पमतिना द्विभुजादिदेही ध्यातोपराधशतकं मम तत्क्षमस्व || २०३ ||

त्वं सूर्यचन्द्रदहनेशगणेशविष्णुब्रह्मेन्द्रशक्तिनरनागगतस्वरूप् अः || ध्यातोसि चाल्पविषये परिपूजितोसि तन्मेपराधशतकं भगवन्क्षमस्व || २०४ ||

देवोपि नो न मनवो न च भारती त्वां जानन्ति मन्दमतिनात्र च किं बहूक्त्या || ध्यातोल्पकं त्वमपराधकृता मयेदं पापं क्षमस्व करुणाकर दीनबन्धो || २०५ ||

ध्यानं करोमि मनसा न च वेद्मि रूपं मन्त्राक्षरात्मकमिदं परिभावयामि || रूपं त्वदीयमिति यत्प्रवदन्ति वेदाः सिद्धिर्जपान्न च बहिष्कृतपूजनाद्यैः || २०६ ||

एवं सम्प्रार्थ्य देवेशं प्रणामैर्दण्डवत्पुनः || मन्त्रमूर्त्यादिकं सर्वं गुरवे तत्समर्पयेत् || २०७ ||

तदभावे पूजकाय तद्भक्ताय प्रदापयेत् || कुर्याज्जपं द्विगुणितं सर्वत्रापि च तद्दिनात् || २०८ ||

प्राग्वच्च भोजयेद्विप्रान्गुर्वादींश्चापि तोषयेत् || एवन्तु देवतात्यागो मया तुभ्यं निवेदितः || २०९ ||

इति वैदिकमन्त्रेण सुसभ्यानां कलौयुगे || विधिर्मया निगदितः किमन्यच्छ्रोतुमिच्छसि || २१० ||

इति ऽऽरीमहामायामहाकालानुमते मेरुतन्त्रे श्रीशिवप्रणीते प्रत्यङ्गिरामन्त्रकथनप्रकाशश्चतुर्दशः || १४ ||

Prakāśa 15 – Vedische Yantras

श्रीदेव्युवाच ||

मन्त्राः श्रुता मया देव वेदोक्ताः कलिसिद्धिदाः || यन्त्राणिश्रोतुमिच्छामि वाञ्छितार्थप्रदानि तु || १ ||

श्रीशिव उवाच ||

वेदान्विना ब्राह्मणानां गतिरन्या न विद्यते || स्मृतिर्गतिर्नृपाणां च पुराणानि विशान्तथा || २ ||

शूद्राणां चापि तन्त्राणि कलिदोषवशान्मतिः || सर्वेषामुपरि तृष्णा तेन दुःखं प्रजायते || ३ ||

वेदकर्मरतो विप्रः कलौ ब्रह्मा न संशयः || वेदकर्मविहीनस्तु विज्ञेयो ब्रह्मराक्षसः || ४ ||

त्रिकालसन्ध्योपासी च गुरुभक्तिपरायणः || अनध्यायेष्वपाठी च गुरून्स्वांश्च कृपावतः || वशीकृत्यसुसेवेतानिशमध्यायतत्परः || ५ ||

प्. ३४२) परान्नभोजरहितत्यक्तशूद्रपरिग्रहः || विना जपं विना पूजां कृतमात्रेण सिध्यति || तत्कार्यं वैदिकैर्मन्त्रैर्नान्यस्य तु कदाचन || ६ ||

अथादौ सम्प्रवक्ष्यामि गायत्रीयन्त्रमुत्तमम् || पद्ममष्टदलं कुर्याद्ध्रींकारं कर्णिकास्थितम् || ७ ||

द्वौ द्वौ स्वरौ दिग्विदिशं प्रतिपत्रं समालिखेत् || किञ्जल्केषु तदग्रेषु गायत्र्यर्णांस्त्रिशस्त्रिशः || ८ ||

तद्बहिर्वृत्तयुगलान्तरालेषु समालिखेत् || ककाराद्यांस्तथोमापोज्योतीरसोमृतं ब्रह्म || ९ ||

भूर्भुवः सुवरोमिति गायत्रीयन्त्रमुच्यते || सुवर्णे वापि लोहे वा कृत्वा हस्ते तु बन्धयेत् || १० ||

अनायासाद्भवेदाप्तिर्धर्मे च रमते मनः || अविच्छिन्नो भवेद्वंशः कीर्तिस्तस्य विवर्धते || अथातः सम्प्रवक्ष्यामि सरस्वत्या महाद्भुतम् || ११ ||

यन्त्रं मेधाकरंतत्र पद्ममष्टदलं लिखेत् || तत्कर्णिकायां षट्कोणे ससाध्यं प्रणवं लिखेत् || तस्य मध्ये कोणषट्के वाग्भवं बीजमालिखेत् || १२ ||

यश्छन्दसामृषभो विभुश्छन्दोभ्योध्यमृतात्सम्बभूव || स मेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूयासम् || १३ ||

एतस्याः पञ्चवर्णां स्तुलिखेदष्टदलेषु च || दलेषु मन्त्रवर्णान्वा बहिर्वृत्रचतुष्टयम् || १४ ||

कुर्यात्तदन्तर्वीथ्योस्तु द्वयोश्चापि ऋचाद्वयम् || ऋमाल्लेख्यं बहिर्वृत्रं मातृकार्णैः प्रपूरयेत् || १५ ||

शरीरं मे विचक्षणं जिह्वा मे मधुमत्तमा || मनसः काममाकूतिं वाचः सत्यमसीमहि || १६ ||

यो देवानां प्रथमं पुरस्ताद्विश्वाधिपो रुद्रो महर्षिः || हिरण्यगर्भं पश्यति जायमानं स नो देवः शुभया स्मृत्या संयुनक्ति || १७ ||

तद्बहिर्भूपुरं कृत्वा तत्कोणेषु समालिखेत् || ऐंक्लींसौंह्रीं च बीजानि पटस्वर्णादिनिर्मिते || १८ ||

शुभे दिने समालेख्य धारये द्यो यथाविधि || मेधावी श्रुतिधारा च नीरोगश्च प्रियंवदः || १९ ||

बहुश्रुतो भवेत्सोपि क्रमाद्वेदागमानपि || न विस्मरति सर्वज्ञस्त्वभ्यासो भवति ध्रुवम् || २० ||

अथ त्रैयम्बकं यन्त्रं वक्ष्यते सिद्धिकृत्परम् || आलिख्याष्टदलं पद्मं तारं तत्कर्णिकान्तरे || २१ ||

तस्योदरे साध्यनाम साधकाभीष्ट कर्मयुक् || द्वौ द्वौ स्वरौ केशरेषु गलेषु त्र्यम्बकाक्षरान् || २२ ||

चतुश्चतुरो बाह्ये वेष्टितव्यं जनाक्षरैः || वक्ष्यमाणामृचं साध्यो नामवर्णविभूषिताम् || २३ ||

प्. ३४३) तया संवेष्टयेद्यंत्रं लिखेत्तद्वत्तदन्तरा || मुनिर्गृत्समदस्त्रिष्टुप्छन्दो रुद्रस्तु देवता || २४ ||

माता रुद्रे चक्रधीमा नमोस्तु भीमनिष्कृती वृषभवासद्वती || उतो वीरां अर्पय भेषजेभिर्भिषक्तमं त्वा भिषजां शृणोमि || २५ ||

भूपुराद्येषु ठं बीजं दिक्षु बं बीजमेव च || एतत्त्रैयम्बकं यन्त्रं गोपनीयं प्रयत्नतः || २६ ||

आयुरारोग्यसौभाग्यधर्मार्थसुखमोक्षदम् || २७ ||

किमत्र बहुनोक्तेन वाञ्छितार्थं परां श्रियम् [चेति शेषः ||] || लभते नात्र सन्देहो यन्त्रस्यास्य प्रभावतह् || २८ ||

एकोनपञ्चषट्कोष्ठे फलके ब्रह्मशाखिनः || तत्र मध्यमकोष्ठे तु ससाध्यं ह्रीं समालिखेत् || २९ ||

पूजयेत्परया भक्त्या घृताक्तांस्तिलतण्डुलान् || मासाष्टकेन हुत्वा तु सिद्धिर्भवति भूयसी || ३० ||

आयुष्कामो हुनेद्देव्यामृतमष्टोत्तरं शतम् || स्वजन्मदिवसेब्देस्मिन्नपमृत्युं जयत्यसौ || सर्वपापक्षयश्चैव चित्तशान्तिः प्रजायते || ३१ ||

पलाशकुसुमैरष्टशतं हुत्वा द्विजर्षभः [य इति शेषः ||] || ब्रह्मतेजोमयस्तस्य भाति देहोति भास्वरः || ३२ ||

ब्रह्मवृक्षसमिद्भिस्तु कुसुमैर्बाकुलाशतैः || घृताक्तैरष्टसाहस्रहोमात्पातकनाशनम् || ३३ ||

अनेनैवानुवाकेन यः कुर्यादघमर्षणम् || सर्वपापक्षयस्तस्य वर्षमध्ये प्रजायते || ३४ ||

आदित्याभिमुखो यस्तु ह्यष्टाविंशतिसङ्ख्यया || स्थित्वा जपेत्तदा तस्य गङ्गास्नानफलं भवेत् || ३५ ||

आत्मार्थं वा परार्थं वा जानुदघ्ने जले जपेत् || सर्वग्रहकृता दोषा न तं पीडयितुं क्षमाः || ३६ ||

कुंकुमेन्दुसमायुक्तं चन्दनं स्थापयेत्पुरः || ३७ ||

अष्टोत्तरशतं जप्त्वाभिषिञ्चेत्कुशकूर्चकैः || रुग्णं तदा विनश्येत्तु ग्रहोपग्रहदूषणम् || ३८ ||

भूतप्रेतपिशाचादिभूतबाधादि तत्क्षणात् || अपस्मारादयो रोगो [नश्येयुरिति शेषः ||] बन्ध्याचेल्लभते सुतम् || कुमारी पतिमाप्नोति कन्यार्थ्याप्नोति कन्यकाम् || ३९ ||

नाभिमात्रजले स्थित्वा ह्युदयास्तमये जपेत् || अष्टौसहस्राणि तदा महावृष्टिर्नगैर्दिनैः || ४० ||

वञ्जुलस्य समिद्भिस्तु हुनेदष्टसहस्रकम् || दुग्धाक्ताभिर्महावृष्टिः सप्ताहात्तु प्रजायते || घृतेन हवनं कार्यमेवं सर्वसुखाप्तये || ४१ ||

पंचर्चस्यानुवाकस्य वक्ष्यमाणस्य देवता || कृत्या छन्दस्त्वनुष्टुप्स्यान्मुनिः प्रत्याङ्गिरा मतः || ४२ ||

प्. ३४४) यो मे करालि प्रद्वारे योगारे यो निवेशने || ये मे केशा नखेनैव रंजने दन्तधावने || ४३ ||

प्रतिसहस्रतिधावकुमार इव पितृगृहान् || मूर्द्धानमेषां स्फोटय पदमेषां कुलाजलि || ४४ ||

एतेन संजस नूनवेमधुनग्नेसनासः || आविर्धतानुच्छो विधं भून्नैवस्यमस्यदनं परमस्य || ४५ ||

ये नोरविन्दश्चरितासो अग्ने जहुर्मर्त्यासो अमृतं वदन्तः || तेषां चायूगूंष्यर्चिषा जातवेदः शुष्कं तुष्टं क्षमभिसंदस्व || ४६ ||

रुद्रस्वरूपे रुद्रेशि कृष्णवर्णे भयंकरि || देविदेवि महादेवि महाशत्रुर्विनश्यतु || ४७ |

स्पृष्ट्वाश्वत्थस्य वृक्षं तु चाष्टोत्तरशतं जपेत् || शनैश्चरदिने चायुरारोग्यैश्वर्यमाप्नुयात् || ४८ ||

संस्मृत्य च मुनिच्छन्दोदेवतादि ततः परम् || न्यासश्चापि प्रकर्तव्यो मन्त्राणामिति निर्णयः || ४९ ||

खं फड् जहि मम कृत्ये विधूमाग्निसमप्रभे || देविदेवि महादेवि ममशत्रुर्विनश्यतु || ५० ||

आदौ पादेन चार्धेन नामयुक्तेन चाचरेत् || षडङ्गान्यंगुलिन्यासं वक्ष्ये नामान्यनुक्रमात् || ५१ ||

कृष्णाम्बरे च हृदये सिंहवहिनि शीर्षके || महाबले शिखायां च महाभैरवि वर्मणि || ५२ ||

सर्वकृत्योच्छेदिनीति नेत्रयोरीरितं सुराः || तथा सर्वपरोन्मुक्तमन्त्रच्छेदिन्यथास्त्रके || ५३ ||

आत्मरक्षां च दिग्बन्धं भूतशुद्ध्यस्त्रसंस्थितिम् || सर्वांश्च मातृकान्यासान्पूर्वमेव समाचरेत् || ५४ ||

पठेदादौ च गायत्रीं पश्चादेनम्मनुं [ त्र्यम्बकं यजामहे इति ||] जपेत् || ततः पठेज्जात् [जातवेदसे सुनवाम सोमम् इति ||] वेदं पुनर्गायत्रिकां पठेत् || ५५ ||

पुनर्मूलं [मूलं त्र्यम्बकम् इति ||] ततस्तामग्निवर्णां [तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् || दुर्गां देवीं शरणमहं प्रपद्ये सुतर सितरसे नमः |
] तपसेत्यृचम् || गायत्रीपूर्वकं मूलमग्रे त्वं [त्वं पारयानव्य इति मन्त्रः |
] पारयेति च || ५६ ||

पुनस्तामृचिकां [तामग्निवर्णाम् इति ||] मूलं विश्वानरो दुर्जुहोति || गायत्रीपूर्वकं मूलं यजनाजिनमित्यृचम् || ५७ ||

अनेन तु प्रकारेण सहस्रान्नियुतावधि || जपेन्मन्त्रं तारतम्ये कामनाया विचार्य च || ५८ ||

यं यं कामयते कामं तं तं प्राप्नोति सर्वथा || प्रयोगस्य विधौ कामः सिद्ध्यत्येव न संशयः || ५९ ||

प्. ३४५) पञ्चर्चस्यानुवाकस्य प्रयोगाः पूर्वमीरिताः || पञ्चर्चभिश्च पञ्चाङ्गं पञ्चम्या पुनरस्त्रकम् || ६० ||

सर्वत्रापि जपस्यादौ चाष्टोत्तरशतं जपेत् || इमामृचं न वै सोपि बाध्यते मदनादिकैः || ६१ ||

उक्तामदन्तु स्तोमाः कृणुष्व रोषे आद्रिवः || अवब्रह्म द्विषो जहि || ६२ ||

स्वेच्छादयोत्र दुष्टाश्च धर्मविघ्नं प्रकुर्वते || स्वास्थ्येन जपतस्तस्य शत्रुनाशोस्ति तत्र च || ६३ ||

ग्रन्थिकर्णे विरूपाक्षि स्तम्बस्तनि महोदरि || जहि शत्रूंस्त्रिशूलेन कुप्यस्व पिब शोणितम् || ६४ ||

अङ्गिरास्तु मुनिश्छन्दोनुष्टुप्कृत्या च देवता || समस्तरोगनाशार्थे नियोगो नन्दिवृद्धये || ६५ ||

कुबेरन्ते मुखं रौद्रं नन्दिमानन्दिमावह || द्वारं मृत्युं भयं क्रोधं विषं नाशय नोक्षरे || ६६ ||

पादैरथ द्वयेनापि कृष्णाम्बरादिनामभिः || युक्तैश्च पूर्वतत्कुर्यादंगुल्यादिषडङ्गकम् || ६७ ||

धार्यं पूर्ववदेव स्यादात्मरक्षादिकं तथा || गायत्र्यादिमतैस्तत्तु प्राग्वत्संदर्भितं मतम् || ६८ ||

जपेद्दशशतं चाष्टसहस्रं कार्यगौरवात् || अवश्यं जायते कार्यसिद्धिः पुण्या गिरां त्वियम् || ६९ ||

विक्षिप्तता मनोर्दोषे गुरुदोषे कदर्थिता || आधिव्याधी देवदोषे तस्मात्तं परिवर्जयेत् || ७० ||

पूर्वमुक्तो मनुत्यागो गुरुत्यागस्तथोच्यते || मन्त्रो यद्देवतायाः स्यात्तिथौ तस्यां भवेद्भुवि || ७१ ||

गुरुत्यागस्य संकल्पं कुर्यात्तद्दोषपूर्वकम् || गुर्वन्तरं करोमीति नरं वा देवमेव च || ७२ ||

राशिकूटेन संशुद्धं देवताष्टकमध्यतः || कुर्यादेकं गुरुं तत्र पूर्वाभावे परं परम् || ७३ ||

आपो हि दक्षिणामूर्तिः सूर्यश्चन्द्रो हुताशनः || मन्त्रावरणदेवाश्च जातिदेवः कुलेश्वरः || ७४ ||

देशदेव इमे त्वष्टौ नरो वा लक्षणान्वितः || गुरोर्युग्मं पूजयित्वा प्रणमेद्दण्डवत्क्षितौ || ७५ ||

देवतानाम सम्प्रोच्य द्रव्यं तन्नामतो यजेत् || त्रिपर्णस्य पलाशस्य प्राग्रे मुष्टेस्तु दक्षिणे || ७६ ||

प्रादेशप्रमिते चात्र कुशानास्तीर्य मूर्द्धनि || तोयपूर्णं घटं प्राच्यां दुग्धपूर्णन्तु पश्चिमे || ७७ ||

उत्तरे तु सुरापूर्णं क्रमादेतत्प्रकीर्तितम् || प्राग्गुरोश्चापि चैतन्यं प्रविष्टं नूतने गुरौ || इति सञ्चिन्त्य शिष्यस्तु वेदिकां कारयेत्सुधीः || ७८ ||

तत्र मन्त्राक्षरोपेतं यच्च कोणचतुष्टयम् || प्. ३४६) विहाय देवीमावाह्य सम्पूज्य हवनं चरेत् || ७९ ||

आज्येन मूलमन्त्रेण सम्पातं यन्त्रके क्षिपेत् || अष्टोत्तरशतं पश्चात्तद्यन्त्रं निखनेद्भुवि || ८० ||

गृहग्रामादिराष्ट्राणां रक्षार्थं तत्रतत्र च || नक्षत्रग्रहराशीनां लोकेशानां बलिं हरेत् || ८१ ||

विहिता यत्र रक्षेयं वर्धन्ते तत्र सम्पदः || क्षुद्रग्रहमहारोगचौरभूतसरीसृपाः || अमुना विलयं यान्ति विधिना नात्र संशयः || ८२ ||

जातवेदसमन्त्रस्य यन्त्रमेतदुदीरितम् || वैदिकैरेव कर्तव्यमन्यथा दुःखदं भवेत् || ८३ ||

जातवेदसमन्त्रस्य विपरीतस्य ये सुराः || अंशै. पादाः समुद्दिष्टास्तेषां यन्त्रं वदाम्यहम् || ८४ ||

नवकोष्ठयुतं कुर्याच्चतुरस्रं तु मण्डलम् || ससन्ध्यां विलिखेन्मायां मध्यकोष्ठे त्वधः स्थितात् [इदमुत्तरान्वयि ||] || ८५ ||

कोष्ठात्क्रमेण मन्त्रस्य लिखेत्पादाष्टकं ततः || प्रादक्षिण्येन तद्बाह्ये वृत्तयुग्मान्तरे लिखेत् || ८६ ||

मातृकार्णैः सुसंवेष्ट्य बहिर्भूपुरमालिखेत् || भुविचास्त्रमिदं यन्त्रं भूतरोगनिवारणम् || ८७ ||

रक्षायुःकीर्तिधिश्रीदं लिखेत्स्वर्णादिपत्रके || धारयेद्बाहुमूले च कण्ठे वा मस्तकेपि वा || ८८ ||

अथातः सम्प्रवक्ष्यामि गायत्र्यादित्रिशक्तिकम् || यन्त्रं सर्वार्थदं तत्र पद्ममष्टदलं लिखेत् || ८९ ||

तस्य मध्ये तु षट्कोणं तन्मध्ये साध्यसंयुतम् || लिखेत्तारं ततः कुर्यात्सप्तव्याहृतिवेष्टितम् || षट्कोणेष्वेवतारादि शिवपञ्चाक्षरस्य तु || ९० ||

एकैकमक्षरं लेख्यं तदग्रेषु च शुद्धितः || पूर्वार्धञ्चैव गायत्र्याः प्रथमे पत्रके लिखेत् || जातवेदसमन्त्रस्य पूर्वार्धन्तु द्वितीयके || ९१ ||

त्र्यम्बकस्य तु पूर्वार्धं तृतीये तु दले लिखेत् || ओं ह्रीं ठं चं कं समिति ह्यौं यं मं ततः पचम् || ९२ ||

सोहं वं ठं नमः प्रोच्य शिवायेति पदं वदेत् || माया लं येति सं कण्ठं तारो माया ध्रुवस्तथा || ९३ ||

एकोनत्रिशेदर्णोयं मन्त्रः कोष्ठे चतुर्थके || त्र्यम्बकस्योत्तरार्धन्तु पञ्चमेथोत्तरार्धकम् || ९४ ||

जातवेदसमन्त्रस्य षष्ठेथो ह्युत्तरार्धकम् || गायत्र्या सप्तमे लेख्यमोमापोज्योतिरित्यपि || ९५ ||

गायत्र्यास्तु शिरस्त्वेतद्भवेत्सप्तदशाक्षरः || लिखेदष्टमपत्रे तु बहिर्वृत्तद्वयं लिखेत् || ९६ ||

तदन्तरे मातृकार्णैर्वेष्टयेद्भूपुरं बहिः || भूपुरस्य तु कोणेषु कूटं चिन्तामणिं लिखेत् || ९७ ||

प्. ३४७) अग्निर्ब्रह्मा वृषो निद्रा पुनरक्षिगतं तथा || शक्रं ततः परं चन्द्रैः कूटं चिन्तामणेर्महत् || ९८ ||

केशरेषु द्वन्द्वशश्च स्वरान्प्रागादितो लिखेत् || शताक्षरमनोर्यन्त्रं भवेदीदृशमेव च || ९९ ||

धारयेद्योयमारोग्यधराधान्यधनादिकम् || लब्ध्वा च निश्चलां लक्ष्मीं स जीवेच्छरदां शतम् || १०० ||

ताम्रादिपत्रेथालिख्य जप्त्वा चाष्टोत्तरं शतम् || हुत्वा घृतेन तावत्तु कृत्वा सम्पातमेव च || १०१ ||

तावद्भूयो जपित्वा च पुरग्रामाकरादिषु || स्थापितं यन्त्रमेतत्तु गोसत्यारोग्यपुष्टिदं || १०२ ||

कण्ठे वा दक्षिणे बाहौ धारितं यन्नरैः सदा || कुर्याच्च रक्षणं तेषां वैरिव्याघ्रादिभीतितः || १०३ ||

अथातः सम्प्रवक्ष्यामि वारुणं यन्त्रमुत्तमम् || अष्टपत्रस्य पद्मस्य षट्कोणं कर्णिकान्तरम् || कृत्वा षट्कोणमध्ये तु ससाध्यं प्रणवं लिखेत् || १०४ ||

वरुणाय नमः प्रोक्तो वरुणस्य षडक्षरः || एकैकमक्षरं चास्य कोणषट्के लिखेन्मनोः || १०५ ||

केशरेषु द्वन्द्वशश्च स्वरान्प्रागादितो लिखेत् || पूर्वपत्रे ध्रुवं दत्त्वा स्ववर्णान्पञ्च संलिखेत् || १०६ ||

द्वितीये क्षितिषु क्षिप्तं तोवर्णांश्च तृतीयके || विस्मृत्याशं चतुर्थे तु लिखेद्वरुणमुमोच तत् || १०७ ||

अवोचन्पञ्चमे षष्ठे आदिमे रूप इत्यपि || यूयं प्राप्ताः सप्तमे तु अन्ते स्वस्तिभिः सदा नः || १०८ ||

बहिर्वृत्तद्वयं कृत्वा तयोर्मध्वे लिखेद्ध्रुवम् || ऋणमोचनमेतत्तु यन्त्रं सर्वसमृद्धिदम् || १०९ ||

सर्वरक्षाकरं वश्यं शत्रुसङ्घविनाशनम् || किमत्रबहुनोक्तेन वाञ्छितार्थप्रदं नृणाम् || ११० ||

यदद्यकच्चेति ऋचा यन्त्रं वक्ष्यामि भाग्यम् || कर्णिकायां साध्यगर्भं तारं पत्रेषु चाष्टसु || १११ ||

यदद्य प्रथमे कच्च द्वितीये नत्रवृत्रह || चतुर्थे नुदगाग्रे तु अभिसूर्याथ षष्ठके || ११२ ||

शर्वन्तु सप्तमे त्विन्द्रमष्टमे च वशे लिखेत् || बाह्ये वृत्तद्वयं कृत्वा मातृकार्णांस्तदन्तरे || ११३ ||

वेष्टयेद्भूपुरेणाथ वश्यसौभाग्यकारकम् || सुवर्णरत्नधान्यादिसर्वसम्पत्करं परम् || ११४ ||

बाहुमूले गले वापि धारयेत्स्वर्णवेष्टितम् || गणेशस्य प्रियं चैतत्तथा वाग्विभवप्रदम् || ११५ ||

मन्त्रमादौ प्रवक्ष्यामि महासम्पत्तिकारकम् || वैदिकं विष्णुगृहिणी भक्तानां तु विशिष्यते || ११६ ||

चतुर्दलं लिखेत्पद्मं कर्णिकायां लिखेत्तत्तः || तारगर्भंसाध्यनाम दलेष्वेवेत्यृचं तथा स्वाग्रादि प्राग्दक्षिणेन लिखेद्दलचतुष्टये || ११७ ||

प्. ३४८) वामदेवो मुनिश्छन्दस्त्रिष्टुब्देवो बृहस्पतिः || अभीष्टसिद्धये चास्य मन्त्रस्य विनियोजनम् || ११८ ||

श्वापित्रे विश्वदेवाय वृङ्क्ते यज्ञैर्विधेम नमसा हविर्भिः || बृहस्पतेस्तु प्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् || ११९ ||

तद्बाह्येष्टदले दिक्षु यूयमस्मादृचोङ्घ्रयः || एवेन्द्राग्नीत्यृचः पादा लेख्यास्तत्र विदिक्षु च || १२० ||

गौतमो मुनिराद्यायास्त्रिष्टुप्छन्दोग्निदेवता || इन्द्राग्नी देवते त्रिष्टुप्छन्दश्चन्द्रो मुनिर्मतः || १२१ ||

यूयमस्मान्नवत वस्यो अच्छानि रंहतिभ्यो मरुतो मृगृवानाः || जुषध्वं नो हव्यदाति जयत्रा वयं स्याम पतयो रयीणाम् || १२२ ||

एवेन्द्राग्निपपिवीत्सा सूतस्य विश्वास्मभ्यं सञ्जपतं जनामि || तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः || १२३ ||

तद्बाह्येष्टदलं कृत्वा क्रमात्तत्र तु संलिखेत् || त्वं सोमेति-ऋचो वर्णाचोन्पञ्चाङ्गाब्धिशरर्तवः || १२४ ||

वेदाः षट् षट् तदग्रेषु प्रजायतं ऋचस्तथा || लिखेद्वर्णान्वेदपञ्चसप्तसप्तगवेन्द्रषट् || १२५ ||

अग्निर्मे गौतमः सोमस्त्रिष्टुबग्न्यादयो मताः || हिरण्यगर्भकस्त्रिष्टुम्मुन्याद्यास्तदग्रिमे || १२६ ||

त्वं सोम प्रचिकिन्नो मनीषा त्वं रचिष्टुमननेपि पन्थाम तवप्रणीति पितरो न इन्द्रो देवोद्यरन्नमभजन्त धीराः || १२७ ||

प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव || यक्तामास्ते जुहुमस्तन्नो अस्तु वयं स्यामपतयो रयीणाम् || १२८ ||

वृत्तद्वयं बहिष्कृत्य तयोर्मध्ये च मातृकाः || लेख्याः सबिन्दुकास्तस्य वेष्टनाकारतां गताः || १२९ ||

तद्वहिश्चैव कोणेषु श्रीं श्रीं बीजमिदं लिखेत् || बाहुमूलेथ वा कण्ठे मूर्ध्नि वा यदि धारयेत् || १३० ||

गोगजाश्वादिमहिषसस्यसम्पद्वसुन्धराम् || लभते पुत्रपौत्रादिशालिनीं सन्ततिं तदा || १३१ ||

अथान्यत्सम्प्रवक्ष्यामि यन्त्रं लक्ष्मीप्रदं सुराः || षट्कोणमध्ये साध्यस्य नामयुक्प्रणवं लिखेत् || १३२ ||

लिखेत्कोणेषु श्रीबीजं बहिरष्टदलं लिखेत् || तत्केशरेषु विलिखेद्द्वन्द्वशश्च स्वरान्क्रमात् || १३३ ||

या लक्ष्मीः सिन्धुसम्भूता भूतधेनुः पुरावसुः || या मा विश्वावसुर्देवी सदा नो जुषतां गृहे || १३४ ||

चतुरश्चतुरो वर्णान्दलेष्वस्या ऋचो लिखेत् || बहिर्वृत्तद्वयं कृत्वा तयोरन्तश्च वेष्टयेत् || १३५ ||

प्. ३४९) अश्वदायेति ऋचा च वृत्तमेकं च तद्बहिः || अकारादिक्षकारान्तवर्णैर्मध्यं प्रवेष्टयेत् || १३६ ||

तद्बहिश्चतुरस्रं च श्रीबीजं कोणगं लिखेत् || श्रीयश्चैतत्प्रियं यन्त्रं स्थापितं यत्र मन्दिरे || १३७ || धनैर्धान्यैश्च विविधैरन्यैश्चाश्वगवादिभिः || आपूर्य सततं चैव तत्रैव रमते रमा || १३८ ||

अथ यन्त्रं प्रवक्ष्यामि भारत्याः सर्वकामदम् || षट्कोणमध्ये प्रणवं साध्यनामाभिगर्भितम् || १३९ ||

पूर्वादिकोणषट्के च ऐं क्लीं सौं विलिखेत्क्रमात् || सौं क्लीं ऐमथ तद्भाये लिखेदष्टदलं पुनः || १४० ||

वक्ष्यमाण-ऋचोः पादांल्लिखेत्प्रतिदले ततः || सो मो मुनिर्देवता वात्रिष्टुप्छन्दः प्रकीर्तितम् || १४१ ||

यद्वाग्वदन्त्यपि चेतनानि राष्ट्री देवानां निषसाद मन्दा || चतस्र ऊर्ज्जन्दुदुहे पयांसि कश्चित्स्विदस्याः परमञ्जगाम || १४२ ||

देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो नुदन्ति || सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपष्टुतैतु || १४३ ||

वृत्तानां पञ्चकं बाह्ये कृत्वा वीथीचतुष्टयम् || ऋषिर्दीर्घतमास्त्रिष्टुप्छन्दो वाणी च देवता || १४४ ||

चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः || गुहा त्रीणि निहितानेङ्गयन्ति तुरीयां वाचो मनुष्या वदन्ति || १४५ ||

इमामृचं चाद्यवीथ्यां द्वितीयायां लिखेत्ततः || विश्वामित्रो मुनिस्त्रिष्टुप्छन्दो वाग्देवता मता || १४६ ||

ससर्परीरमतीं बाधमाना बृहन्मिमाय यमदग्निदत्ता || आसूर्यस्य दुहिता तताश्रवो देवेष्वमृतमर्ज्जया || १४७ ||

लिखेदिमामृचं पश्चात्तृतीयायां लिखेदथ || प्राग्वन्मुन्यादिसर्वासां नियोगो वास्तुसिद्ध्ये || १४८ ||

ससर्परीरभरत्तूपमेभ्योधिश्रवः पाञ्चजन्यासु कृष्टिषु || सापक्ष्या-इनव्यमायुर्दधाना यां मे पलस्तियमदग्नयो ददुः || १४९ ||

मातृकाणैश्चतुर्थीन्तु वेष्टयित्वाथ तद्बहिः || भूपुरस्तस्य कोणेषु वाग्भवं बीजमालिखेत् || १५० ||

एवं स्वर्णादिके पत्रे लिखेद्वा यन्त्रमुत्तमम् || तत्र वाचं समावाह्य पूजयित्वा विधानतः || १५१ ||

ऋष्यादिकं तु संयोज्य धारयेच्च शुभे दिने || कवीनां तार्किकाणां च चक्रवर्ती भवेदसौ || १५२ ||

वचां पिष्ट्वा लिखेदेतन्नागवल्लीरसेन तु || प्. ३५०) द्युसरिल्लोलकल्लोलनिभा निर्याति भारती || १५३ ||

यदद्य कदृचो यन्त्रं वक्ष्ये वश्यकरं परम् || अष्टपत्रस्य पद्मस्य कर्णिकायान्तु संल्लिखेत् || १५४ ||

षट्कोणं तस्य मध्ये तु ससाध्यं ह्रीं समालिखेत् || षट्सु पूर्वादि सुकोणेषु अं श्रीं ह्रीं क्लीं क्रमेण च || १५५ ||

ग्लौंगंबीजानि संलिख्य पद्मस्य प्रथमे दले || श्रीविद्याप्रथमं कूटं क-ए-ईल च ह्रीमिति || १५६ ||

लिखेद्द्वितीयपत्रे तु यदद्य कच्च वृत्रहन् || श्रीविद्यायां द्वितीयन्तु लिखेत्कूटं तृतीयके || १५७ ||

असकदलह्रीमिति तदेतत्परिकीर्तितम् || उदगा अधिसूर्येति लिखेत्पत्रे चतुर्थके || १५८ ||

श्रीविद्यायास्तृतीयं तु कूटं पञ्चमपत्रके || सकलह्रीमिति प्रोक्तं लिखेत्षष्ठदले पुनः || १५९ ||

सर्वन्तदिन्द्र ते वशे सप्तमे गणपतये || वरद इदं लेख्यं ततश्चाष्टमपत्रके || १६० ||

सर्वजनं मे वशमानय स्वाहेति संल्लिखेत् || तद्बहिर्वृत्रयोरन्तर्वेष्टयेन्मातृकाक्षरैः || १६१ ||

ततो भूपुरकोणेषु श्रींह्रींक्लींग्लौमिति क्रमात् || लिखेद्धेमपटादौ च हेमसूच्या वशङ्करम् || १६२ ||

अथ संवादसूक्तस्य यन्त्रं वक्ष्ये गणेशितुः || चतुर्दले तु कमले कर्णिकायाञ्च षड्दलम् || १६३ ||

ससाध्यं प्रणवन्तत्र मध्यकोष्ठे च संलिखेत् |
अं श्रींह्रींक्लींग्लौगञ्च ततः पूर्वदले लिखेत् || १६४ ||

गणपतये याम्ये तु वर वरदेति संल्लिखेत् || तृतीये सर्वजनं मेब्धौ वशमानय स्वाहा || १६५ ||

तद्बाह्येष्टदलं कुर्यादर्धमर्धमृचां लिखेत् || तत्र संवादसूक्तस्य तदिदानीं निगद्यते || १६६ ||

सतसिद्युवरोवरोवृषं नग्ने विश्वान्यर्य-आ || रन्तस्य देव समिध्यसमनो वसून्या भव || १६७ ||

संगष्टध्वं संवदसध्वं सं वो मनांसि जानताम् || देवा भागं यथा पूर्वे शन्नानाना उपासते || १६८ ||

समा नो मन्त्राः समितिः समाना || समानं मनः सहवितमेषां समनिमात्रं अभिमन्त्रये वः || १६९ ||

समानेन वो हविषा जुहोमि समानीव त्र्याकूतिः समाना || हृदयानि वः समानि वस्तु वो मनो यथावत्सुसहा सति || १७० ||

एतत्संवादसूक्तस्य मुनिः संवर्त्तनः स्मृतः || अग्निर्देवस्तथाजायसञ्ज्ञानमितरासु च || १७१ ||

छन्दस्त्रिष्टुप् तृतीयाया अन्यासां स्यादनुष्टुभम् || प्. ३५१) वृत्तत्रयन्तु तद्बाह्ये कृत्वा वीथिद्वयं लिखेत् || आद्यवीथ्यां जातवेदसे सुनवेत्यृचा पुनः || १७२ ||

आवेष्टयेन्मातृकार्णैः परवीथीन्प्रवेष्टयेत् || तद्बहिर्भूपुरं कृत्वा तत्र पादचतुष्टयम् || १७३ ||

कोणेषु च विकोणेषु लिखेद्यच्च तदुच्यते || १७४ ||

भद्रं नो अपि वाताय मनः मरुतामोनसे स्वाहा || इन्द्रो विश्वस्य राजेति || शन्नोभवद्विपदे शञ्चतुष्पदे || १७५ ||

सङ्घातभेदे मर्त्यानां मैत्रीकरणमुत्तमम् || जगत्सम्मोहनं वश्यं कान्तिसौभाग्यपुष्टिदम् || १७६ ||

गायत्रीभुवनेश्वर्या योगयन्त्रमथोच्यते || लिखेदष्टदलं मध्ये तत्र कोणेषु संल्लिखेत् || १७७ ||

रमणीयत्रिकोणानि षट्के षड्गुरुमार्गतः || षट्कोणेऽस्य तु तन्मध्ये साध्यं साधककर्मयुक् || १७८ ||

ह्रींबीजमालिखेत्तच्च विलोमाभिः प्रवेष्टयेत् || त्रिभिर्व्याहृतिभिश्चैवं [तिस्रादेशाभाव आर्षः] मन्त्रं मध्येऽथवा पुनः || त्रिभिर्व्याहृतिभिश्चैवं लिखेन्मनुमथो सुधीः || १७९ ||

त्रिकोणद्वादशदले खं-ईं-बीजद्वयं तथा || त्रिकोणानां बहिश्चापि लिखेत्पार्श्वद्वये पुनः || १८० ||

प्रादक्षिण्येन गायत्र्या देवमातुर्विलोमतः || वर्णद्वयं बिन्दुयुतं लिखेदथ लिखेत्पुनः || १८१ ||

शनिबीजं त्रिकोणानामग्रे तारयुतं लिखेत् || शृङ्खलाकाररेखाभिरेकैकेनान्तराणि च || १८२ ||

भवत्येवं च षड्बीजं शृङ्खलाद्वितयं बहिः || वृत्तद्वयं लिखेत्तत्र वीथ्या लेख्यं विलोमतः || १८३ ||

प्रत्यक्षरं बिन्दुयुतं जातवेदसमन्त्रकम् || वृत्तद्वये तु तद्बाह्ये कुर्याद्वीथीचतुष्टयम् || १८४ ||

मातृकार्णानाद्यवीथ्यां सबिन्दून्वै लिखेत्क्रमात् || द्वितीयायां विलोमेन कुर्याद्बाह्येष्टकोणकम् || १८५ ||

कोणाष्टकेषु तु लिखेच्चिन्तामणिककूटकम् || तस्य बाह्ये त्रिशूलानि कुर्यात्षोडशसंख्यया || १८६ ||

एतद्वेदविदां यन्त्रं सर्वकार्यप्रसिद्धिकृत् || सर्वसौभाग्यजननं सर्वशत्रुविनाशकृत् || १८७ ||

भुवनेशीमन्त्रपूजा यन्त्रेस्मिंश्च परा भवेत् || वैदिकैस्तेन कर्तव्या पूजा यन्त्रस्य सिद्धये || १८८ ||

तद्विधिं सम्प्रवक्ष्यामि स्वर्णादिकृतपत्रके || एतद्यन्त्रं वैदिकेन सुलेख्यं कुंकुमादिभिः || १८९ ||

यन्त्रमन्ये यजेद्देवीं कुर्याद्वीथित्रयं बहिः || प्. ३५२) आद्यायां तु षडङ्गानि परस्यां दिक्चतुष्टयम् || १९० ||

हृल्लेखां गगनां रक्तां पूजयेच्च करालिकाम् || तृतीयवीथ्यां ब्राह्माद्याः पूजनीया दिगष्टके || १९१ ||

तद्बाह्ये षोडशदलं कृत्वा तत्र यजेदिमाः || करालीं विकरालीं च धूमां सरस्वतीं श्रियम् || १९२ ||

दुर्गामुखीं तथा लक्ष्मीं श्रुतिस्मृतिश्रियो ह्यपि || श्रद्धां मेधां मतिं कान्तिं चार्यां तस्य बहिः पुनः || १९३ ||

द्वात्रिंशद्दलपद्मं तु कृत्वा तत्र यजेदिमाः || विद्याह्रीपुष्टयः प्रज्ञा सिनीवाली तथा कुहूः || १९४ ||

रुद्रवीथ्याप्रभानन्दाप्यायिनि सिद्धिदा शुभा || कालरात्रिर्भद्रकाली महारात्रिः कपालिनी || १९५ ||

विकृतिर्दण्डमुण्डिन्यौ दुःखण्डा च शिखण्डिनी || निशुम्भशुम्भमथनी महिषासुरमर्दिनी || १९६ ||

इन्द्राणी चैव रुद्राणी शङ्करार्धशरीरिणी || नारी नारायणी चैव त्रिशूलिन्यपि पालिनी || अम्बिका ह्लादिनी चैव द्वात्रिंशच्छक्तयस्त्विमाः || १९७ ||

तद्बाह्ये तु चतुष्षटिदलं कृत्वा यजेदिमाः || पिङ्गलाक्षीं विशालाक्षीं समृद्धिं वृद्धिमेव च || १९८ ||

श्रद्धां स्वाहां स्वधां मायां निद्रां चैव वसुन्धराम् |
त्रिलोकधात्रीं गायत्रीं सावित्रीं त्रिदशेश्वरीम् || १९९ ||

सुरूपां बहुरूपां च स्कन्दमात्रच्युतप्रिये || विमला श्यामलां पश्चादरुणीमारुणीं तथा || २०० ||

प्रकृतिं विकृतिं सृष्टिं स्थितिं संहृतिमेव च || २०१ ||

सन्ध्यां च मातृकां हंसीं सतीं सोमर्द्धिका पराम् || देवमातृभगवत्यौ देवकीं कमलासनाम् || २०२ ||

त्रिमुखीं सप्तकमुखीं सुरासुरविमर्दिनीम् || लम्बोष्ठीं चार्धमुखिकां बहुशिश्नां कृशोदरीम् || २०३ ||

रथरेखा शशिरेखां परा गगनवेगिनीम् || क्षितिवेगां च पातालवेगां च मदनातुराम् || २०४ ||

अनङ्गां च तथानङ्गमदनानङ्गमेखले || अनंगकुसुमां विश्वरूपां दैत्यभयङ्कराम् || २०५ ||

अक्षोभ्यां सत्यवादां च तन्द्रारूपा शुंचिव्रताम् || वरदां चापि विश्वेशीं तद्बाह्ये च दिगीश्वरान् || २०६ ||

तदायुधानां पूजाग्रे प्रोक्तोयं पूजने विधिः || वाञ्छितं काममाप्नोति तान्त्रिकोप्यनयेज्यया || २०७ ||

अथ वक्ष्ये जातवेददुर्गायन्त्रमभीष्टदम् || कृत्वा चाष्टदलं पद्मं कर्णिकायां लिखेद्ध्रुवम् || २०८ ||

तस्य मध्ये तु ह्रींकारं तन्मध्ये साध्यनामकम् || प्. ३५३) क्रमाद्दलेषु सुलिखेत्तारंह्रीमी तथैव च || २०९ ||

दुर्गायै नम एतस्य मन्त्रस्यैकैकमक्षरम् || बहिर्वृत्रत्रयं कृत्वा पूर्ववीथ्यां समालिखेत् || २१० ||

जातवेदसमन्त्रस्य मातृकार्णान्द्वितीयके || तद्बहिश्चतुरस्रं च दौर्गं यन्त्रमिदं स्मृतम् || २११ ||

अपस्मारमहाभूतक्षुद्रग्रहनिवारणम् || नृणां विजयदं स्त्रीणां पुत्रदं नात्र संशयः || २१२ ||

अथातः सम्प्रवक्ष्यामि यन्त्रं श्रूसूक्तजं परम् || कृत्वाष्टपत्रं कमलं श्रीं बीजं कमलान्तरे || २१३ ||

साध्यनामान्वितं लेख्यं दलेष्वष्टसु संल्लिखेत् || कर्दमेत्यादिपञ्चर्चामर्द्धमर्द्धं दश त्वथ || २१४ ||

श्रिये जनः श्रिय आनिर्याय श्रियञ्च यो जरितृभ्यो ददाति || श्रीयं वसाना अमृतत्वमायां भवन्ति सत्या समधास्मे तद्रो || २१५ ||

श्रिय एवेति ऋचोस्तत्र चतुर्थार्द्धं समालिखेत् || श्रीश्च ते इति मन्त्रस्य द्वयोः स्यादर्धमर्धकम् || २१६ ||

वृत्तद्वयं तद्बहिश्च कुर्यात्प्रथमवीथिकाम् || वक्ष्यमाण ऋचा चाद्या मातृकार्णैश्च तत्परा || २१७ ||

यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् || श्रियः पञ्चदशर्चं च श्रीकामः सततं जपेत् || २१८ ||

तद्बहिश्चतुरस्रं च लिखेच्छ्रीबीजमालिखेत् || तस्य कोणचतुष्केषु श्रियो मन्त्रं तु वैदिकम् || २१९ ||

मया यन्त्रमिदं प्रोक्तं धारयेद्यो यथाविधि || पुत्रारोग्यधराधान्यधनगोसस्यशालिनीम् || लब्ध्वातिबहुलां लक्ष्मीं जीवेच्च शरदां शतम् || २२० ||

ताम्रपात्रे लिखित्वेदं जपेदष्टोत्तरं शतम् || अष्टाविंशतिसंख्याकं हुत्वा सम्पातसेचितम् || २२१ ||

संस्थाप्याङ्गणमध्ये तु लक्ष्मीमावाह्य पूजयेत् || परिवारयुतां लक्ष्मीं बलिदानेन तोषयेत् || २२२ ||

एवंकृते तु तत्स्थाने वर्धन्ते सर्वसम्पदः || पुत्राः स्त्रियश्च सुहृदो भृत्या धान्यं रथा गजाः || गावश्च वृषभाः सौख्यं त्वसंख्यन्तत्र जायते || २२३ ||

अथातः सम्प्रवक्ष्यामि यन्त्रं पौरुषसूक्तजम् || षट्कोणकर्णिकामध्ये तारं साध्यसमन्वितम् || २२४ ||

सहस्रारहुंफडिति वर्णैकैकं दलेदले || स्वाग्रादिप्रादक्षिण्येन लिखेत्तत्रैव सन्धिषु || २२५ ||

षण्नाममन्त्रान्स्वाहान्तानचक्रायेति चादिमः || विचक्राय सुचक्राय घीचक्राय चतुर्थकः || २२६ ||

सञ्चक्रायेति च ज्वालाचक्रायेति च षष्ठकः || प्. ३५४) चतुर्दलं तु कमलं तद्बहिष्केशरेषु च || २२७ ||

चतुर्दिक्षु क्रमाल्लेख्यं क्लींकृष्ण क्लीं तथाक्षरम् || वासुदेवस्य मन्त्रस्य त्रीणित्रीण्यक्षराणि च || २२८ ||

तत्पत्रेषु लिखेन्मन्त्रं वदेत्तारं तथा नमः || भगवते वासुदेवायेत्यणुर्द्वादशाक्षरः || २२९ ||

तद्बाह्येष्टदलं पद्मं केशरेष्वस्य संल्लिखेत् || एकैकमक्षरं तारो नमो नारायणाय च || २३० ||

दलेषु चतुरो वर्णान्नारसिंहमनोर्लिखेत् || श्रीं ह्रीं श्रीं जयलक्ष्मीति प्रियाय नित्यमुदितम् || २३१ ||

मनसे लक्ष्मीसितार्धदेहायेति वै वदेत् || श्रीं ह्रीं श्रीं नमो मन्त्रस्स्यान्नृसिंहस्य रदाक्षरः || २३२ ||

तद्बहिः षोडशदलं केशरेषु क्रमाल्लिखेत् || तारं नमो भगवते महासुदर्शनाय च || २३३ ||

हुंफट् षोडशवर्णोयं दलेषु क्रमतो न्यसेत् || ऋचः पुरुषसूक्तस्य बहिर्वृत्तद्वयं चरेत् || २३४ ||

तदन्तरालवीथ्यान्तु मातृकार्णैः प्रवेष्टयेत् || सबिन्दुकैर्बहिस्तस्य भूपुरं तच्चतुर्ष्वपि [इदमुत्तरत्र संबध्यते] || २३५ ||

कोणेषु सुलिखेत्तारं यन्त्रं पौरुषमुच्यते || सर्वपापहरं पुण्यं पुत्रायुष्कान्तिकीर्तिदम् || २३६ ||

यन्त्रं हैयङ्गवीनेन लिप्त्वा पुरुषसूक्तकम् || अष्टोत्तरशतं जप्त्वा त्वृतुस्नातां तु भोजयेत् || २३७ ||

तद्यन्त्रनवनीतं च गर्भं धत्ते तदाङ्गना || सुपुत्रो जायते वाग्मी सर्वागमविशारदः || एवं हैयङ्गवीनं च विषार्ते सन्निपातिके || २३८ ||

शूले क्षये च पाण्ड्वादौ नीरुग्भक्षणतो भवेत् || कुष्ठोपकुष्ठरोगेषु व्रणे भग्ने भगन्दरे || फिरङ्गशीतलाद्येषु लेखनात्सुखमाप्नुयात् || २३९ ||

अथातः सम्प्रवक्ष्यामि क्षेत्रस्य च पतेरिति || पञ्चर्चस्य च सूक्तस्य यन्त्रं सर्वार्थसिद्धिदम् || २४० ||

कृत्वाष्टदलपद्मस्य कर्णिकायां तु षड्दलम् || तन्मध्ये प्रणवं लेख्यं स्तस्मिन्हुं बीजमालिखेत् || २४१ ||

साध्यनाम च बीजे लिखेत्कोणेषु चैककम् || सहस्रारहुंफडस्य चक्रमन्त्रस्य चाक्षरम् || २४२ ||

षण्नाममन्त्रान्पूर्वोक्तांलिखेत्षट्कोणसन्धिषु || चतुरश्चतुरो वर्णांल्लिखेदष्टदले पुनः || २४३ ||

वराहमन्त्रस्यान्ते तु पत्रके वर्णपञ्चकम् || तारो नमो भगवते वराहरूपमुच्यते || ङेन्तं व्याहृतयः प्रोक्ताः पतये पदमुच्चरेत् || २४४ ||

भूपतित्वं मे देहीति दापयान्तेऽग्निगेहिनी || त्रयत्रिंशद्वर्णकोयं वराहस्य मनुः स्मृतः || २४५ ||

प्. ३५५) तद्बाह्ये षोडशदले चार्धामर्धां लिखेदृचम् || ऋचस्ता अत्र वक्ष्यामि सावधानतया शृणु || २४६ ||

क्षेत्रस्य पते मधुमन्त्रमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व || मधुच्युतं घृतमिव सुपूतमृतस्य नः पतयो मृडयन्ति || २४७ ||

क्षेत्रस्य पतिना वयं हितेनेव यजायसि || गामश्वं योषयित्नवा सनो मूलतीदृशे || २४८ ||

मधुमतीरोषधीर्द्याव आपो मधुमन्नो भवत्वन्तरिक्षम् || क्षेत्रस्य पतिर्मधुमान्नो अस्य रिप्यं अत्त्वेनं चरेम || २४९ ||

शुनं वाहाः शुनं नाराः शुनं कृषतु लाङ्गलम् || शुनं वरत्रा वध्यन्तां शुनमष्ट्रामुदिङ्गया || २५० ||

शुनासीराविमां वाचं जुषेथां यदि विचक्रथुः || पयो यमस्ते न मामुपसिञ्चतम् || २५१ ||

अर्वाची सुभगे भव सीते वन्दामहे त्वा || यथा न सुभगा स यथा न सुफलाससि || २५२ ||

इन्द्रमीतां गृह्णातु तां पूषा नियच्छतु || सा नः पयस्वती दुहामुत्तरां समाम् || २५३ ||

शुनं नः फाला विकृषन्तु भूमिं शुनं कीनाशा अभियन्तु वाहैः || शुनं पर्जन्यो मधुना पयोभिः शुनासीरा शुनमस्मासु धत्तम् || २५४ ||

क्षेत्रस्य तु पतिर्देवो वामदेवो मुनिः स्मृतः || पुलस्त्यर्षिरनुष्टुप् च त्रिष्टुप्छन्दोस्ति सूक्तके || २५५ ||

बहिर्वृत्तत्रयं कृत्वा तत्र वीथीद्वयं भवेत् || ग्लौंबीजेनाद्यवीथ्यां तु वेष्टयेन्मातृकार्णकैः || २५६ ||

द्वितीयं भूपुरं तस्य बाह्ये कोणेषु ग्लौमिति || लिखेद्दिक्षु च हुंबीजं यन्त्रमेतच्छुभे दिने || २५७ ||

ताम्रपत्रे समालेख्य स्वर्णसूच्या यथाविधि || स्थापितं भवने द्वारे क्षेत्रे वा नगरेपि वा || २५८ ||

देशे वा तत्र वर्धन्ते दिनशः सर्वसम्पदः || गजाश्वधेनुमहिषवृषोष्ट्राश्वतरादिभिः || २५९ ||

धनधान्यधराशस्यवासोरत्नविभूषणैः || आह्लादयन्ति विभवैरन्यैश्च स्यात्समागमः || २६० ||

अथातः सम्प्रवक्ष्यामि यन्त्रमागावसूक्तकम् || षट्कोणे सुलिखेत्कामबीजं साध्यसमन्वितम् || २६१ ||

एकैकमक्षरं लेख्यं षट्कोणेषु ध्रुवो नमः || कृष्णायेति लिखित्वाग्रे कुर्यात्पद्मं चतुर्दलम् || २६२ ||

वृत्तेषु सुलिखेत्क्लीं च कृष्ण क्लीमिति वर्णकान् || वासुदेवमनोवर्णा दले लेख्यास्त्रयस्त्रयः || २६३ ||

तद्बहिर्दिग्दलं कृत्वा पद्मं तत्केशरेषु च || प्. ३५६) गोपीजनवल्लभाय स्वाहा मन्त्रं दशाक्षरम् || २६४ ||

आलिख्य तस्य पत्रेषु नखार्णार्णं द्वयं द्वयम् || माया रमाथ गोपाल ततो विषधराय च || २६५ ||

वासुदेवाय हुंफट् च स्वाहा विंशार्णको मनुः || तद्बहिः षोडशदलं कृत्वा तत्र लिखेत्स्वरान् || २६६ ||

केशरेष्वथ पत्रेषु वक्ष्यमाणा ऋचो लिखेत् || अर्धमर्धं प्रतिदलं रमणीयं यथा भवेत् || २६७ ||

आ गावो अग्मन्नुत भद्रमकरत्सीदतु गो एरणयन्त्वस्मे || प्रजावतीः पुरुरूपा इहस्यरिंद्राय पूर्विरषसो दुहानाः || २६८ ||

इन्द्रो यज्वने पृणतेश्च शिक्षत्फलं मे ददाति नस्त्वं मुषायति || भूयोभूयो रयिमिदस्य वार्धयन्नभिन्ने खिल्ये निदधाति देवयम् || २६९ ||

नता नशन्ति तस्करो नासामामित्रो व्यथिरादर्षति || देवांश्च याभिः स च ते ददाति च ज्योगिताभिः स च ते गोपतिः सह || २७० ||

न ता अर्वा रेणुकाकाटो अस्तु तेन संस्कृत्तत्र मुच्यन्ति ता अभि || उरुगायमभयं तस्य ता अनुगावो मर्त्तस्य विचरन्ति यज्वनः || २७१ ||

गावो भगो गाव इन्द्रो मे अच्छानागवः सोमस्य प्रथमस्य भक्षः || इमा या गावः सजनास इन्द्र इच्छामीधृदा मनसा चिदिन्द्रम् || २७२ ||

यूयं गावो मे दयथा कृशं चिदश्रीरंचित्कृणुथा सुप्रतीकम् || भद्रं गृहे कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु || २७३ ||

प्रजावतीः सूयवसं रिसन्तीः सुप्रयाणे पिबन्तीः || मावस्तेन ईशतमाघशंसः पारवोहंतीसवृज्याः || २७४ ||

उपेदमुपयर्त्वनमाशुगो यूयमृच्यताम् || उप ऋषभस्य रेतः स्युपेन्द्र तव वीर्ये || २७५ ||

वृत्तद्वयं बहिष्कृत्यतद्वीथ्यां कादिकांल्लिखेत् || अकारान्तांस्तद्बहिश्च भूपुरं सम्यगालिखेत् || २७६ ||

कोणेषु ग्लौं समालिख्य लिखेद्भूरिति दिक्षु च || गोपालयन्त्रमेतद्धि विधिना स्थापितं गृहे || २७७ ||

तत्र गावः पयस्विन्यः सवृषाश्च निरामयाः || पीनोध्न्यो बहुरूपाश्च विशालाश्च भवन्ति हि || २७८ ||

धनधान्यधरारत्नशालिनी तस्य मन्दिरे || लक्ष्मीः कीर्तिः स्थिरा भूत्वा निवसेत्सततं तदा || २७९ ||

अथान्यद्वक्ष्यते यन्त्रं गवादेर्बहुभूतिकृत् || मध्येष्टदलपद्मस्य ससाध्यं प्रणवं लिखेत् || २८० ||

आ गाव इति सूक्तस्य एकैकां च दले ऋचम् || प्. ३५७) वृत्तद्वयं बहिष्कृत्य तद्वीथ्यां मातृवेष्टनम् || २८१ ||

तद्बहिश्चतुरस्रं च कुर्याद्यन्त्रमिदं गृहे || स्थापितन्तत्तु गोश्वादिवृषैः पूर्णं सदा भवेत् || २८२ ||

अथ वक्ष्ये दिनेशस्य यन्त्रं रोगनिवारणम् || षट्कोणमध्ये सुलिखेत्साध्यं सप्रणवं ततः || २८३ ||

कोणेषु तारं ह्रींसोहंहंसोवर्णान्क्रमाल्लिखेत् || चतुर्दलन्तु कमलं तद्बहिः केशरेषु च || २८४ ||

ह्रीं ह्रीं हंसश्च पूर्वादौ लिखेत्पत्रेषु सर्वतः || उद्यन्नद्य ऋचः पादा लेख्यास्तद्बाह्यतो लिखेत् ||२८५ ||

अष्टपत्रं तु कमलं केशरेषु लिखेत्क्रमात् || घृणिः सूर्यस्तथादित्य इदमेकैकमक्षरम् || २८६ ||

शुकेषुमेत्यादि ऋचः प्रापयैके दले दले || वृत्तद्वयन्तु तद्बाह्ये वीथ्यां मातृप्रवेष्टनम् || २८७ ||

तद्बहिर्भूपुरास्रेषु अंह्रीं ह्रींसः इदं लिखेत् || एतद्यन्त्रं तु सूर्यस्य नाशयेत्सकलान्ग्रहान् || २८८ ||

तेजो लक्ष्मीं च भोगञ्च प्रतापं वर्द्धयेद्धृतिम् || एतद्गोमयलिप्तायां लिखेदारक्तचन्दनैः || २८९ ||

धरायां ताम्रसूच्या तु सम्यगावाह्य पूजयेत् || पूजान्ते च विशिष्टार्घ्यं प्रकल्प्यास्मै प्रदीयते || २९० ||

कुष्ठयक्ष्मादिशान्त्यै च क्षुद्ररोगविनाशनम् || इदं यन्त्रं ताम्रपात्रे लिखित्वा स्थापितं गृहे || २९१ ||

विधिवत्पूजयन्नित्यं हन्यात्कुष्ठमुखान् गदान् || अपस्मारं विस्मृतिं च रोगांश्चैवाभिचारिकान् || २९२ ||

सुवर्णपत्रे चालिख्य तैलमध्ये विनिःक्षिपेत् || सहस्रसंख्यं प्रजपेदुद्यन्नद्यमिति त्र्यृचम् || २९३ ||

तत्राशक्तशरीरस्य कुष्ठरोगविनाशनम् || इदमेव लिखेद्यन्त्रं नवीने नवनीतकम् || २९४ ||

अष्टोत्तरशतं जप्त्वा त्र्यृचं निष्कास्य भक्षयेत् || गदिनो रोगशान्तिः स्यात्सत्यमेतन्न संशयः || २९५ ||

अथान्यत्सम्प्रवक्ष्यामि गायत्रीसौरमन्त्रयोः || यन्त्रं समस्तरोगाणां नाशनं सूर्यवल्लभम् || २९६ ||

वृत्तं कृत्वा तु तन्मध्ये ससाध्यं प्रणवं लिखेत् || बहिस्तस्य त्रिकोणं तु मन्त्रागारेति संलिखेत् || २९७ ||

एकैकमक्षरं कोणे बहिर्वृत्तं पुनर्लिखेत् || यक्षराजायेति तत्र लिखेत्पञ्चाक्षराणि तु || २९८ ||

बहिस्तस्य तु षट्कोणे लिखेदेकैकमक्षरम् || सहस्रारं हुंफडिति अष्टकोणे ततो लिखेत् || २९९ ||

घृणिं सूर्यं तथादित्यं लिखेदेकैककोष्ठके || पत्राग्रेषु लिखेच्श्रीह्रींमिति बीजद्वयं पुनः || ३०० ||

सौरं यन्त्रमिदं प्रोक्तमायुरारोग्यवृद्धिदम् || बन्ध्यानां पुत्रजननं स्त्रीणां सौभाग्यदायकम् || ३०१ ||

राज्ञां विजयदं सम्यग्रोगिणां रोगनाशनम् || किं बहूक्तेन विधिना धृते हस्ते फलप्रदम् || ३०२ ||

तथैव संप्रवक्ष्यामि सारात्सारतरं परम् || यद्बुद्ध्वा च मया प्रोक्तं सारमाथर्वणस्य च || ३०३ ||

शाबरं रूपमास्थाय पृथ्वीं पर्यटता मया || कलौ लोका भविष्यन्ति सर्वे कामार्थसाधकाः || ३०४ ||

असद्गुरूणां तन्मन्त्रैर्दृष्टैर्वा पुस्तकादिषु || समयाचारविभ्रष्टा विक्षिप्तास्ते च निर्धनाः || ३०५ ||

अधर्मेण भविष्यन्ति भूताक्रान्तास्तहापरे || अभिचारिककृत्यादिरोगैर्ग्रस्तमहाग्रहैः || तेषामर्थे मया देवायन्त्रं तु प्रकटीकृतम् || ३०६ ||

मृदङ्गसदृशं कुर्याच्छिर्षं प्रेतस्य वर्जितम् || घ्राणादिकं चतुर्भिश्च इन्द्रियैस्तस्य मध्यगम् || ३०७ ||

तिर्यग्रेखां प्रकुर्वीत मुण्डमित्या बहिर्गताम् || पार्श्वद्वयेपि कर्तव्यमग्रयोः शूलकद्वयम् || ३०८ ||

शूलविस्तारतुल्या च तदधस्तूर्ध्वरेखिका || मुण्डो हस्ताभिधः प्रोक्तो मध्यं कुर्याच्च शूलवत् || ३०९ ||

गुप्तेन्द्रियस्थले कुर्यात्पश्चाकारान्तु रेखिकाम् || त्रिशूलौ पीठिकायुक्तौ पादयोस्तत्स्थले न्यसेत् || ३१० ||

एवं कृत्वा प्रेतरूपं बीजान्येतानि संलिखेत् || शीर्षे हस्ते दक्षबाहावूर्ध्वमष्टदलं लिखेत् || ३११ ||

रेखार्धभागमुण्डन्तु ङेन्तं डं नं लिखेत्तथा || वामबाहूपरिष्टाच्च होमो इत्यक्षरद्वयम् || ३१२ ||

अर्धे भागे तु मुण्डस्य सस्मिवाष्टाश्च संलिखेत् || शिखा कार्या हृदस्थानं तिर्यगूर्ध्वं तु सं सदा || ३१३ ||

लिखेत्ततो मध्यभागे पार्श्वयोश्च लिखेदिदं || क्रमान्नव विभागेषु अलीयं प्रथमा भवेत् || ३१४ ||

भूबीजं च द्वितीये स्यादहीनञ्च तृतीयके || सराहीयं चतुर्थन्तु विहकस्तत्तु पञ्चकम् || ३१५ ||

त्रैयाक इति षष्ठं स्यात्तथा नाम्बुदसप्तमम् || त्रैयाक इत्यष्टमञ्च नस्तरं न तथान्तिमम् || ३१६ ||

बहिः स्थाने प्रकर्तव्यं द्विकाद्यं कोष्ठषट्ककम् || ऊर्ध्वपंक्तौ क्रमाल्लेख्यं षट्कत्राद्वितयं तथा || ३१७ ||

अधःपंक्तौ सप्तगोष्टौ पेश्यां लेख्यं त्रसे सदा || पेश्याबहिर्मम हृदपेश्यधस्तात्तु दक्षिणे || ३१८ ||

पादपार्श्वे साध्यनाम वामे तन्मन्त्रमालिखेत् || एतद्यन्त्रं दले लेख्यं मस्या तन्नीलकर्पटे || ३१९ ||

प्. ३५९) सम्यक्संवेष्टयेत्सा तु वर्तिभूता कुशाभिधा || आदित्यवासरे सायं गोमयेनोपलेपयेत् || ३२० ||

स्थाने श्वेताक्षतैस्तत्र पद्ममष्टदलं लिखेत् || तत्कर्णिकायां प्रथमं पूजयेच्च गणाधिपम् || ३२१ ||

तस्यैव दक्षिणे पाश्चे क्षेत्राधिपतिमर्चयेत् || पत्रेष्विन्द्रादिकानर्चेत्कर्णिकायां तु दीपिकाम् || ३२२ ||

सम्यग्न्यसेत्तदूर्ध्वन्तु स्थापयेत्तैलपात्रकम् || तैलन्तु कुडवोन्मानं तिलानां तत्र तिष्ठति || ३२३ ||

तादृशे मृण्मये पात्रे धातुजे वा प्रकल्पयेत् || पूजयित्वा दीपिकादि सायं तत्रोपवेशयेत् || ३२४ ||

तद्दर्शयन्निष्टयन्त्रं धायेद्दीपं विलोकयन् || दीपाधिष्ठातृदेवस्य तुष्ट्यै सावरणस्य च || ३२५ ||

दद्यादामान्नमर्कन्तु वैदिकाय कुटुम्बिने || यावच्च प्रज्वलेद्दीपः पश्येत्तावदतन्द्रितः || ३२६ ||

देवदोषे समुत्पन्ने दीपो वदति स स्वयम् || यत्किञ्चित्त्वरितं कार्यं शान्तिर्भवति निश्चितम् || ३२७ ||

दोषा यदा राक्षसादेः शरीरे सत्यवादिनि || तदा तदैव कर्तव्यं रोगी सुखमवाप्नुयात् || ३२८ ||

अभिचारिककृत्यादौ दीपकम्पः प्रजायते || कम्पते तु क्षणेनैव महांश्चापि क्षणेक्षणे || ३२९ ||

एकेन भानुवारेण क्षुद्रदोषः प्रणश्यति || भानुवारद्वयं कृत्याकृतदोषविनाशनम् || ३३० ||

साधकेनाप्यचरितं त्रिभिर्दोषः क्षयं व्रजेत् || मन्त्रभक्षणदोषोथ चतुर्दीपैर्विनश्यतु || ३३१ ||

कुगुरुप्राणमन्त्रेण षड्भिर्दोषो विनश्यति || रोगोपि सप्तद्वीपेन नश्येदेतन्महाद्भुतम् || ३३२ ||

त्रिनिमितं स्वयं गच्छेद्वेधे वातायने त्रयः || अभ्यन्तरे कालिमवच्छिद्रं वापि प्रदृश्यते || ३३३ ||

त्रिशिखो वा द्विवर्णो वा निस्तेजा यदि जायते || पूर्णमायुर्विनिर्देश्यं स रोगी नैव जीवति || ३३४ ||

सिद्धयन्त्रमिदं प्रोक्तं तांत्रिकाणां तु सिद्धिदम् || स्वधर्मत्यागिनां नैव यन्त्रं कार्यं तु पण्डितैः || ३३५ ||

ब्राह्मं धर्ममुपातिष्ठेत्तस्य नास्ति पुरस्क्रिया || स्वयं यंत्राणि मन्त्राश्च सिद्ध्यन्त्यत्र न संशयः || ३३६ ||

अष्टादशपुराणानि व्यासेन रचितानि तु || गौतमेन प्रणीतो यो न्यायोसौ धर्मसाधनम् || ३३७ ||

भविष्यन्ति कलौ नानाकुतर्का वेदनाशकाः || तानधीत्य द्विजो भूयः प्रेतो वा ब्रह्मराक्षसः || ३३८ ||

मीमांसा सेश्वरा या तु पुरुषार्थप्रसाधिका || निरीश्वरा कर्मपरा भोगं स्वर्गं प्रयच्छति || ३३९ ||

प्. ३६०) स्मृतयोष्टादश प्रोक्ताः पंक्तौ चाद्यः पराशरः || शङ्खश्च लिखितो व्यासो वशिष्ठः कश्यपो मुनिः || ३४० ||

अगस्त्ययमहारीता दिवोदासः प्रजापतिः || पैठीनसिश्च भगवाञ्जमदग्निश्च गौतमः || ३४१ ||

भारद्वाज इमे प्रोक्ता धर्मशास्त्रप्रवर्तकाः || मतभेदस्तथा तेषां विज्ञेयो दशभेदतः || ३४२ ||

क्वचित्कालविभेदेन विद्यते तु मुनेर्वचः || तस्माज्जातिं कुलं देशं ज्ञात्वा धर्मं समादिशेत् || ३४३ ||

शिक्षा कल्पोव्याकरणं निरुक्तं छन्द एव च || गणितं संहिता होरा त्रिविधं ज्यौतिषं तथा || ३४४ ||

वेदाङ्गानि षडेतानि वेदाश्चत्वार एव च || चतुर्दश सु वै यद्यत्तत्प्रोक्तन्धर्मसाधनम् || ३४५ ||

सिद्धे यस्मिंस्तु सिद्धाश्च ऋष्याद्याः स्वयमेव हि || एतद्विरुद्धं वर्णानाम्भवेन्नो धर्म साधनम् || ३४६ ||

आयुर्वेदो धनुर्वेदो गान्धर्वो नीतयस्तथा || शिल्पविद्याश्च गणितं शकुनं चेति सप्त च || ३४७ ||

प्रोक्तानि चार्थशास्त्राणि यथोक्ताचरणाद्ध्रुवम् || यद्दर्शितम्भवेत्तत्र समर्थं पुरुषार्थकृत् || ३४८ ||

साहित्यमागमो वाजीकरणं कामचारणम् || चतुर्धा कामशास्त्रं स्यात्प्राप्त्यर्थं गुरुशास्त्रतः || ३४९ ||

धर्मार्थाद्यविरोधेन भवेत्तत्कामसाधनम् || विना गुरुं विना बुद्धिं पुरुषार्थः प्रणश्यति || ३५० ||

योगशास्त्रञ्च वेदान्तं द्वयम्मोक्षस्य साधनम् || अन्ये ये प्राकृता ग्रंथा धर्माभासाश्च ते सुराः || ३५१ ||

अस्मिन्कलियुगे घोरे शिश्नोदरपरायणे || कश्चिदेकः कोटिमध्ये सर्वकर्मविवर्धनः || ३५२ ||

बुधोधर्मपरो भूयात्तदर्थमिदमुच्यते || उत्पादयेत्सुपुत्रन्तु कुलदीपं तदुच्यते [विधानमिति शेषः] || ३५३ ||

गर्भाधानाख्यसंस्कारं कुर्वीत प्रथमार्तवे || सीमन्तोन्नयनं कार्यं तथा पुंसवनं स्मृतम् || ३५४ ||

एते त्रयस्तु संस्कारा ब्राह्मगर्भत्वकारकाः || एतैरेव तु यो जातः संस्कृतो ब्रह्मबीजतः || ३५५ ||

जातकर्मादयस्तस्य चान्नप्राशनमेव च || चत्वारस्ते बालकस्य संस्कारा ब्राह्मसिद्धये [ब्रह्मतेजोवर्द्धनाय] || ३५६ ||

व्रतबंधः समावर्तो वेदपाठो विधानतः || एते त्रयस्तु संस्काराः कौमारे ब्रह्मकारकाः || ३५७ ||

एवं यो दशसंस्कारैः संस्कृतो दशकर्मकृत् || स एव ब्राह्मणो ज्ञेयो मंत्राः सर्वेपि तद्वशाः || ३५८ ||

प्. ३६१) तद्दृष्ट्वा राक्षसा वीरा म्लेच्छा बाधितुमक्षमाः || कर्माणि दश ते दृष्ट्वा पलायन्ते तु दूरतः || ३५९ ||

दशप्रकारान्यतरप्रकारेण धनार्जनम् || निर्वाहाय कुटुम्बस्य प्रथमं कर्म चोच्यते || ३६० ||

याज्यस्य याजनं कृत्वा साधयेत्प्रथमं धनम् || पाठयित्वा योग्यशिष्यं द्वितीयं पारितोषिकम् || ३६१ ||

दुर्दातारं च दुष्कालं दुर्दानं दुष्टभूमिकाम् || हित्वा प्रतिग्रहं कुर्यात्तृतीयन्धनसाधनम् || ३६२ ||

दायादक्रमतः प्राप्तं सञ्चितं तत्तुरीयकम् || एतद्वंशे तु यद्वित्तं तल्लब्धं पञ्चमं स्मृतम् || ३६३ ||

अर्थोपायास्तु ये प्रोक्तास्साधितं तैस्तु षष्ठकम् || सन्मंत्रस्योपदेशेन यल्लब्धन्तत्तु सप्तमम् || ३६४ ||

कृषिं यथोक्तमार्गेण कुर्यात्तच्चष्टमं मतम् || कालानुगुणतः प्राप्तं नवमं पारितोषिकम् || ३६५ ||

विशिष्टं पूर्वपूर्वं तु दानं स्याद्द्विगुणं भवेत् || धनार्जनाख्यं कर्मैतत्प्रथमं परिकीर्तितम् || ३६६ ||

पोष्यकर्म द्वितीयं स्यादादौ स्वीये कलेवरे || ततः पतिव्रता भार्या माता जनयिता ततः || ३६७ ||

भ्रातरो गुरवः पुत्राः कन्या मातामहस्तथा || श्वश्रूश्चायं पोष्यवर्गो विपत्तौयच्च लभ्यते || ३६८ ||

एकाद्यंशान्समीकृत्य भागन्तेभ्यः प्रदापयेत् || अत्र पुत्रस्य यो भागस्तस्य पोष्यसमीकृतिम् [इदमुत्तरान्वयि] || कृत्वा विप्रेण रज्येत ब्राह्मण्यान्न तु हीयते || ३६९ ||

नित्यस्नानं तृतीयं स्यादस्नायि शूद्रतां व्रजेत् || दशस्नानानि चैतानि गुणेनोपचितानि च || आदौ वर्णतरुस्नानं साभ्यजं च द्वितीयकम् || ३७० ||

हैमोदकं च मात्रं च भुमाख्यं च विभूतिमत् || गायत्रं चापि वायव्यं कायिकं मानसं तथा || ३७१ ||

सन्ध्याकर्म चतुर्थं स्याद्दशधा तत्प्रकीर्तितम् || प्रागुक्तविधिना पूजा मुद्रा दर्शनपूर्विका || अष्टाधिकसहस्रं च जपो मुख्यमिदं स्मृतम् || ३७२ ||

द्व्येकयोरेवमाचारात्सन्ध्याभेदत्रयं मतम् || सार्चना मुद्रिकायुक्ता तथा चान्या विमुद्रिका || २७३ ||

अष्टोत्तरसहस्रन्तु तथा चाष्टोत्तरं शतम् || अष्टाविंशतिरष्टौ वा जपे भेदचतुष्टयम् || जपाभावे न सन्ध्यार्घ्यं गायत्र्या सम्प्रदीयते || ३७४ ||

प्. ३६२) दशमीयं भवेत्सन्ध्या शूद्रस्तल्लोपतो भवेत् || देवपूजाद्वयं प्रोक्तं नित्यं काम्यं च पञ्चमम् || पञ्चधा पञ्चयज्ञाश्च दशकर्मेति कीर्त्यते || ३७५ ||

देवभूतर्षिमनुजपितॄणामिति भेदतः |
तेपि पञ्चविधाः प्रोक्ता उत्तमोत्तममुख्यकाः || ३७६ ||

पञ्चभेदैश्च सम्भिन्ना एकैकस्य परिच्युतेः || तत्रोच्यते देवयज्ञप्रकारो देवतर्पणम् || ३७७ ||

वैश्वदेवाहुतिर्नित्योपासनस्याहुतिस्तथा || अग्निहोत्राहुतिश्चैव तत्सूक्तस्य तथा जपः || ३७८ ||

त्रिविधस्तुबलिः प्रोक्तः शौचान्ते तु त्यजेज्जलम् || तथा च वैश्वदेवान्ते यन्वता इति मन्त्रतः || ३७९ ||

आत्मोच्छिष्टस्य यच्छेषं तृतीयं तत्प्रकीर्तितम् || अयन्तु भूतयज्ञः स्यात्क्षुद्रबाधानिवारणः || ३८० ||

अष्टकं प्रपठेन्नित्यं पूजान्ते यतमानसः || तदभावे ध्यानमात्रं वेदानां च पठेदृचः || ३८१ ||

तदभावे स्ववेदस्य पाठो नित्यमुदीरितः || ऋषियज्ञस्तेन भवेद्विप्रो जन्मनिजन्मनि || ३८२ ||

आममन्नं यथाशक्त्या प्रातर्देयं तथा पुनः || यज्ञादौ वैश्वदेवान्ते यज्ञोयं मानुषः स्मृतः || तर्पणं हन्तकारश्च पितृयज्ञो द्विधा मतः || ३८३ ||

यथा बालस्य पठनं पण्डितस्य परावरम् || तथैव सत्कुलीनानां मनो वैदिकवर्त्मनि || ३८४ ||

भक्ष्यपानाङ्गनारम्ये कौलिके रमते मनः || प्रायः कलियुगे नॄणां नृयोनिस्तेन दुर्लभा || ३८५ ||

अज्ञानी कौलिकोयंतुपतितः शूकरो भवेत् || वामाचारान्निपतितो ज्ञानी कुक्कुरतां व्रजेत् || ३८६ ||

वामे वा कौलमार्गे वा द्वयोः स्यात्सिद्धिरैहिकी || योतिगुप्तः प्रत्यहं च बलिपूजादितत्परः || ३८७ ||

अथवा परिभूतो वा सर्वलोकबहिष्कृतः || प्रायः कलियुगे देवा धातुवादे धनक्षयः || ३८८ ||

निन्दा च तान्त्रिके मार्गे नानादुःखानि कौलिके || शैवादिवैष्णवादीनां द्वेषान्निरयगामिनः || ३८९ ||

एकः शुद्धो मया दृष्टो लोकद्वयफलप्रदः || वेदमार्गोस्त्यत्र सिद्धिः परत्रापि परा गतिः || ३९० ||

इति ते तत्त्वमाख्यातं सर्वतन्त्रेषु गोपितम् || कलौ सर्वोपकाराय किमन्यच्छ्रोतुमिच्छसि || ३९१ ||

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते वैदिकयन्त्रकथनप्रकाशः पञ्चदशः || १५ ||

Prakāśa 16 – Gaṇapati-Mantras der südlichen Überlieferung

श्रीशिवशिवासंवादोपनिबद्धं

मेरुतन्त्रम्

ओझोपख्य पण्डित रघुनाथशास्त्रिद्वारा संशोध्य टिप्पन्यादिभिः परिष्कृतम्

खेमराज श्रीकृष्णदास प्रकाशन बम्ब-ई

Pअर्त् ३: छप्तेर्स् १६ तो २०

श्रीदेव्युवाच ||

असिद्धगुरुणा दत्तो मनुः शिष्याय वा गुरुः || सिद्धा मन्त्रान्तरैर्देव नैव सिद्धो यथा गुरुः || १ ||

भिन्नाम्नायो यदा शिष्यस्तद्भिन्नाम्नायदेवताम् || यजते तत्र देवेश कीदृक्सिद्धिस्तु तं व्रजेत् || २ ||

ईश्वर उवाच ||

गुरुश्चेद्दक्षिणाम्नायी सर्वाम्नायेषु दीक्षितः || ऊर्ध्वाम्नायी तथा न्येषु पूर्वाम्नायी परेषु च || ३ ||

द्वयोस्तु पश्चिमाम्नायी उत्तरे त्वधरे भवेत् || अधरे नैव कुत्रापि गुरुत्वं च विलोकितम् || ४ ||

दक्षिणोपासकः काल ऊर्ध्वः सायुज्यमाप्नुयात् || देवतायास्तथा पूर्वः सारूप्यं लभते परः || ५ ||

सामीप्यं त्वपरो लोकमधोगत्यैहिकं फलम् || लोभत्यागश्चोपकारो ह्यधोंमार्गेप्युदर्ककृत् || ६ ||

मन्त्रान्तरे च संसिद्धो गुरुर्मन्त्रं प्रयच्छति || यथोक्ताचरणात्तस्य सिद्धिः शिष्यस्य जायते || ७ ||

कृपावशात्सिद्धमन्त्रं ददाति च यदा गुरुः || विना जपं विना पूजां सिद्धयस्तत्करे स्थिताः || असिद्धगुरुणा दत्तो मन्त्रः स्याद्बहुविघ्नदः || ८ ||

तत्रादौ साधयेद्विघ्नराजमन्त्रं ततः पुनः || निष्पापस्य पुरश्चर्या स्वतः सिद्ध्येन्मनूत्तमः || ९ ||

तत्राम्नायविभेदेन सर्वतन्त्रेषु गोपितम् || एकबीजात्मकं वक्ष्ये विघ्नमन्त्रं सुद्धिदम् || १० ||

तत्रादौ वैदिकानां तु गकारः केवलो मतः || दक्षिणानां बिन्दुयुक्तो द्विबिन्दुः पूर्वमार्गिणाम् || ११ ||

एतद्द्वययुतः पश्चादूर्ध्वाम्नायेपि गौमिति || ग्लौमुत्तरे गौमिति च पातालाम्नाय ईरितः || १२ ||

गणपोस्य मुनिच्छन्दो निवृद्विघ्नश्च देवता || गणं जयाय स्वाहा हृत्कमेकदंष्ट्राय [शिरः] हुंफट् || १३ ||

अचलकर्णिने नमः शिखा प्रोक्ताथ वर्म च || गजवक्त्राय च नमस्तथा नेत्रमुदीर्यते || १४ ||

महादशनचण्डाय हुंफड्वैरिकमस्त्रकम् || षड्दीर्घयुक्तबीजेन तान्त्रिको न्यासमाचरेत् || १५ ||

ततो गणपतिं ध्यायेद्यतवाक्च प्रसन्नधीः || रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् || १६ ||

रक्तपुष्पैः पूज्यमानं तुन्दिलं चन्द्रमौलिनम् || त्रिनेत्रं वामनं विघ्नाधीशं पूज्यं च शुण्डिनम् || १७ ||

वामे दक्षे द्वयोः पाशां कुशौ पाण्योस्तु बिभ्रतम् || पद्मासनं सर्वभूषं ध्यायेद्विघ्नविनायकम् || १८ ||

प्. ३६४) श्रीपर्णादिकृते पीठे पूजयेत्कुंकुमादिना || यन्त्रमेतद्बुधः कुर्याच्चतुरस्रत्रयं शुभम् || १९ ||

तन्मध्येष्टदले कार्यः पूजापीठं गणेशितुः || तत्र पूर्वोक्तविधिना मण्डपादि प्रकल्पयेत् || २० ||

पृथिव्यन्तं समुद्रादि लिखेदिक्षुरसात्मकम् || रत्नद्वीपादि च परं त्वर्चेदिष्टदलात्मके || २१ ||

अर्चयेत्कर्णिकायां तु देवं पत्रेषु वै क्रमात् || तीव्रा च ज्वालिनी नन्दाभोगदा कामरूपिणी || २२ ||

उग्रा तेजस्वती सत्या नवमी विघ्ननाशिनी || आद्या मध्यातथा चान्तमनाः पीठमनुं शृणु || २३ ||

ओं सर्वशक्तिकमलासनाय नम इत्यमुम् || पूर्वादिषु चतुर्दिक्षु यजेत्पीठं गणाधिपम् || २४ ||

गणेशानं गौरवर्णं रक्तं च गणनायकम् || गणक्रीडं नीलवर्णं केशरेषु ततो यजेत् || २५ ||

अग्नीशासुरवायव्यमध्ये चान्तरदिक्षुं च || मन्त्रस्यास्य षडङ्गानि ध्यातव्यास्ताश्च देवताः || २६ ||

तुषारस्फटिकश्यामनीलकृष्णारुणत्विषः || वरदाभयधारिण्यः प्रधानतनवः स्त्रियः || २७ ||

वक्रतुण्डैकदंष्ट्रौ च महोदरगजाननौ || लम्बोदराख्यविकटौ विघ्नराड्धूम्रवर्णकौ || २८ ||

पूर्वादिषु दलेष्वर्च्या ब्राह्म्याद्याश्च दलाग्रतः || ध्यानं तासां प्रवक्ष्यामि प्रोक्तं सव्यक्रमेण तु || २९ ||

ब्राह्मी वर्णसिता ध्येया मृगचर्मविभूषिता || अक्षमालामयोदण्डं कुण्डिकां दधती करैः || ३० ||

त्रिशिखं परशुं हस्तैर्डमरुं नृकपालकम् || विभ्राणां चन्द्रगौराङ्गीं महेशीं भावयेच्छुभाम् || ३१ ||

गुणं ख्ट्.वाङ्गकं दण्डमंकुशं दधतीं करैः || इन्द्रगोपारुणां ध्यायेत्कौमारीं करुणालयाम् || ३२ ||

अरिशङ्खकपालानि घण्टां च करपङ्कजैः || विभ्राणां वैष्णवीं ध्यायेन्नीलमेघसमप्रभाम् || ३३ ||

तोमरांकुशवज्राङ्कविद्युद्युक्तकराम्बुजाम् || इन्द्राणीं भावयेन्मन्त्री नीलवर्णां सुभूषणाम् || ३४ ||

हलं च मुसलं दोर्भिर्दधानां खड्गखेटकौ || वाराहीं भावयेच्छक्तिमञ्जनाचलसंनिभाम् || ३५ ||

धारयन्तीं शूलखेटौ कपालं नृशिरः करैः || चामुण्डां शोणवर्णां च मुण्डमालायुतां स्मरेत् || ३६ ||

स्वर्णाभामक्षमालां च बीजपूरकपालके || पद्मं च दधतीं हस्तैर्महालक्ष्मीं स्मरेत्सुधीः || ३७ ||

चतुरस्रत्रयान्तस्थवीथिद्वन्द्वे समर्चयेत् || दिक्पालांश्च तदस्त्राणि पूजाविघ्नहरस्य तु || ३८ ||

यश्चैवं पूजयेदेवं गणेशं विघ्ननाशनम् || असिद्धादपि सम्प्राप्तो मन्त्रोसौ सिद्धिकृद्भवेत् || ३९ ||

प्. ३६५) लक्षमेकं मनुं जप्त्वा जुहुयात्तद्दशांशतः || मोदकैः पृथुकैर्लाजैः सक्तुभिश्चेक्षुपर्वभिः || ४० ||

नारिकेरैस्तिलैर्मोचैर्होमं कुर्यात्पृथक्पृथक् || सहस्रमेकं द्विशतं पञ्चाशप्रमितं तथा || ४१ ||

तिलैस्त्रिमधुराक्तैश्च होमः कार्योथ कथ्यते || दौग्धान्नेन घृताक्तेन होमोभीष्टफलप्रदः || ४२ ||

लक्ष्मीकामो नारिकेरैश्चतुर्थ्यां तु चतुश्शतम् || सितपक्षादिमारभ्य प्रत्यहं जुहुयात्क्रमात् || ४३ ||

चतुर्थ्यन्तं ततः सर्वप्राणिनो वशगा नृणाम् || तिलैश्च घृतसंयुक्तैर्होमः श्रीवश्यकीर्तिदः || ४४ ||

स्वादुत्रययुतैर्लाजैर्हुनेत्सप्तदिनावधि || कन्यार्थी लभते कन्यां पुत्रार्थी लभते सुतम् || ४५ ||

दधिसंसिक्तलवणैर्जुहुयाच्च चतुर्दिनम् || निशीथिन्यां च वश्यादौ भवेद्वश्यं तथेप्सितम् || ४६ ||

गौरवं लाघवं साध्यं जाप्यं चासाध्यमेव च || कार्यं ज्ञात्वा होमसंख्यां कल्पयेच्च सहस्रतः || ४७ ||

कोट्यन्तमेवं विज्ञेयं यत्र संख्या तु नोदिता || सितार्कद्रुममूलेन कुचन्दनसुदारुभिः || ४८ ||

गजाक्षत्रोटिनं चैव दन्तकेनापि दन्तिनाम् || विधाय विघ्नं सम्पूज्य तं पृष्ट्वा प्रजपेन्मनुम् || ४९ ||

उपोषितः शुचिश्चन्द्रग्रहणे तं समुद्धरेत् || शिखायां व्यवहारादौ समरे विजयी भवेत् || ५० ||

रोचनारजसानेन कृतं च मनुना ततः || तिलकं सर्वराजानो लोकाः स्युर्वशगास्सदा || ५१ ||

नवनीतेन वै साध्यनामालिख्यानुलोमगम् || विलोमं विघ्नबीजं च तद्धृतं स्थापितं जले || ५२ ||

जपित्वाष्टोत्तरशतं तूष्णीं तद्भक्षयेत्तदा || सप्ताहाद्वशगः साध्यः साधकस्य भवेद्ध्रुवम् || ५३ ||

गणेशं तर्पयेत्तोयैः प्राग्वत्कार्यवशेन तु || मण्डादिभिरवाप्नोति मन्त्रोयं प्रणवादिकः || ५४ ||

संन्यासिने च पूजायां हृदन्तः परिकीर्तितः || वक्ष्येथ दक्षिणाम्नाये लक्ष्मीगणपतिं सुराः || ५५ ||

गजलक्ष्मीसमायुक्तमयं योगोति दुर्लभः || श्रीं गं सौम्याय चोच्चार्य महागणपतिं तथा || ५६ ||

ङेन्तमुक्त्वा वरवरदोक्त्वा सर्वजनं वदेत् || मे वशमानय स्वाहेत्येकोनत्रिंशदक्षरः || ५७ ||

अन्तर्यामी मुनिश्छन्दो गायत्री त्रिवृदन्विता || देवो लक्ष्मीगणेशोत्राथाद्यबीजद्वयेन तु || षड्दीर्घयुक्तेनांगानि जातियुक्तानि कारयेत् || ५८ ||

प्. ३६६) हेमाभं पीतवसनं शंखचक्रगदाभयान् || दक्षोर्ध्वकरमारभ्य दक्षिणेधः करावधि || ५९ ||

दधतं शुण्डया स्वर्णघटं पद्मोपरि स्थितम् || वामाङ्केविष्णुलक्ष्म्या चाश्लिष्टं दक्षभुजेन तु || ६० ||

प्राक्प्रोक्ते पूजयेत्पीठे तीव्रादिनवशक्तिके || अष्टपत्राम्बुजद्वन्द्वे कर्णिकाकेशरोज्ज्वले || चतुर्द्वारसमायुक्तचतुरस्रत्रयावृते || ६१ ||

मूलेन मूर्ति संकल्प्य तस्यामावाह्य पूजयेत् || प्रथमावृत्तिरङ्गैः स्याद्वक्रतुण्डादिभिः परा || ६२ ||

अणिमा महिमा चैव लघिमा गरिमा तथा || ईशित्वं च वशित्वं च प्राकाम्यं प्राप्तिरग्रतः || ६३ ||

चतुर्थी मातृभिश्चाग्रे लोकेशानायुधानि च || लक्षं जपेद्धुनेद्बिल्वसमिधो मधुरप्लुताः || तर्पणादि ततः कृत्वा काम्यकर्माणि साधयेत् || ६४ ||

हुनेच्चैव सहस्राणि श्रीफलैर्मधुरान्वितैः || महालक्ष्मीकरो होमः पुत्रमित्रकलत्रदः || ६५ ||

शुद्धतोयेन सन्तर्प्य चत्वारिंशच्चतुःशतम् || चत्वारिंशद्दिनान्मन्त्री वाञ्छितां लभते श्रियम् || ६६ ||

ताराद्योयं रमाहीनस्तथाष्टाविंशदक्षरः || न्यासध्यानादिकं प्राग्वत्पूजाभेदो निगद्यते || ६७ ||

आदावङ्गानि च ततो बलाका विमला तथा || कमलावनमाला च बिभीषिका च मालिका || ६८ ||

वशङ्करा वसुमाला पार्श्वयोः शङ्खपद्मकौ || लोकेशांश्च तदस्त्राणि पूजयेत्काम्यमुच्यते || ६९ ||

उरोमात्रे जले स्थित्वा ध्यात्वा सवितृमण्डले || देवं त्रिलक्षं जपतो धनवृद्धिः प्रजायते || ७० ||

बिल्वमूलं समास्थाय तावज्जप्ते फलं हि तत् || अशोककाष्ठैर्ज्वलिते वह्नावाज्याक्ततण्डुलैः || ७१ ||

होमतो वशयेद्विश्वमर्ककाष्ठं तथापि वा || खादिराग्नौ नरपतिर्लक्ष्मीं [लभते इति शेषः] पायसहोमतः || ७२ ||

श्रीमित्येकाक्षरः प्रोक्तो मन्त्रश्च्छन्दो निवृन्मतम् || भृगुर्मुनिर्देवता तु लक्ष्मीः सर्वप्रदा मता || षड्दीर्घबीजयुक्तेन षडंगानि समाचरेत् || ७३ ||

पद्मारूढां सुवर्णाभां सपद्मोर्ध्वकरद्वयाम् |
अधोदक्षेणाभयदां वामेन वरदायिनीम् || ७४ ||

हिमाचलनिभैर्नागैः शुण्डाग्रामृतकुम्भकैः || चतुर्भिः सिच्यमानां च क्षौमवस्त्रां किरीटिनीम् || ७५ ||

ध्यायेद्धरिप्रियां देवीं भक्तानुग्रहकातराम् || धर्मादिकल्पिते पीठे भूपुराढ्ये दलाष्टके || ७६ ||

प्. ३६७) रमामावाह्य गन्धाद्यैः कर्णिकायां यजेत्ततः || विभूतिरुन्नतिश्चैव हृष्टिः कीर्तिश्च सन्नतिः || ७७ ||

व्युष्टिरुत्कृष्टिर्-ऋद्धिश्च क्रमात्पूज्या दिगष्टके || मध्ये सिंहासनं पूज्यं सर्वशक्तिमयं तथा || ७८ ||

बीजाद्यमासनं दद्यान्मूर्तिं मूलेन कल्पयेत् || षडङ्गानि च सम्पूज्य पुनरष्टदलेर्चयेत् || ७९ ||

चतुर्दिक्षु च देव्यग्राद्वासुदेवं हलायुधम् || प्रद्युम्नं चानिरुद्धं च विदिशासु तथा क्रमात् || ८० ||

दमकं सलिलं चैव गुग्गुलं च कुरण्टकम् || देवीदक्षिणहस्ताग्रे शङ्खाख्यं निधिमर्चयेत् || ८१ ||

वामे पद्मनिधिं चैव द्वितीयेष्टदले ततः || बलाकां विमलां चैव कमलां वनमालिकाम् || ८२ ||

बिभीषिकां मालिकां च शाङ्करीं वसुमालिकाम् || लोकपालानायुधानि प्रोक्तमेतच्छ्रियोर्चनम् || ८३ ||

जपेद्भास्करलक्षं तत्सहस्रं जुहुयात्पुनः || पद्मैस्त्रिस्वादुसंयुक्तैस्त्रिनवैः श्रीफलैरपि || ८४ ||

त्रिभिर्वा मधुराक्तैश्च तर्पणादि ततश्चरेत् || एवं सिद्धमनुर्मन्त्री साधयेन्निजवाञ्छितम् || ८५ ||

वक्षोजदघ्ने पयसि तिष्ठन्नर्कगतां श्रियम् || संस्कृत्य मनुमेनं च जपेल्लक्षत्रयावधि || सोचिरेणैव कालेन दारिद्र्यात्परिमुच्यते || ८६ ||

मधुसूदनगेहे च बिल्वाध उपविश्य च || त्रिलक्षं प्रजपेन्मन्त्रीवत्सराद्वाञ्छितार्थदः [तस्मा अयं मन्त्रो भवेदिति शेषः ||] || अधिकं वसुसंघातं लभते नान्यथाचिरात् || ८७ ||

अशोकैधश्चिते वह्नौ सघृतैस्तण्डुलैर्हुनेत् || मन्त्री त्रिभुवनं सर्वं वशं कुर्यान्नचान्यथा || ८८ ||

खादिरैः कमलैः सम्यगेधितेग्नौ यथाविधि || तण्डुलैस्त्रिस्वादुयुक्तैर्जुहुयान्मन्त्रवित्तमः || तेन राजकुलं वश्यं धनवानर्थवान्भवेत् || ८९ ||

अर्कवह्नौ हुनेन्मन्त्री सुशुद्धैः शालितण्डुलैः || नियतं राज्यलक्ष्मीं स चायुष्पुर्त्रांल्लभेत् कम् [सुखम्] || ९० ||

त्रिस्वादुयुक्तैर्नलिनैर्लक्षमेकं हुनेत्सुधीः || अलक्ष्मीसहितो मर्त्योलक्ष्मीमाप्नोति निश्चितम् || धनधान्यादिसम्पत्त्या तुष्टो भवति साधकः || ९१ ||

ब्राह्मणस्य गृहे बिल्वं समारोप्य विवर्धयेत् || श्रीसूक्तं च पठेन्नेव तत्रैव जुहुयात्पुनः || ९२ ||

त्रिस्वादुयुक्तैः कुसुमैः फलैश्चापिः समिद्वरैः || स्कन्धभेदैस्तस्य नरस्तिष्ठन्मूलेपि संहुनेत् || ९३ ||

बिल्वाभिमिश्रहविषा हविष्याण्यचिरं रमा || प्रत्यक्षा च भवेत्तस्य कथमश्रीः कुले भवेत् || ९४ ||

प्. ३६८) वक्ष्येथ शक्तिगणपमन्त्रं ह्राह्रीं ततश्च ह्रीम् || त्र्यक्षरोयं विराट् छन्दो मुनिर्भार्गव ईरितः || ९५ ||

देवता शक्तिगणपः षडङ्गानि समाचरेत् || षड्दीर्घयुग्गकारेण ततो ध्यायेद्गजाननम् || ९६ ||

दक्षोर्घे चांकुशं वामे पाशं वामे त्वधः करे || बीजपूरं स्वयं तत्तु दक्षिणे स्वर्णवर्णकम् || ९७ ||

पुष्करं मोदकान्बिभ्रत्कर्णयोदीर्घचामरे || पूर्वोक्ते पूजयेत्पीठे पूर्वादिनवशक्तिके || ९८ ||

अष्टपत्राम्बुजे देवं चतुरस्रत्रयावृते || प्रथमाङ्गावृतिः प्रोक्ता द्वितीया चापि मातृभिः || ९९ ||

तृतीया लोकपालैः स्याच्छस्त्रौघैश्च चतुर्थ्यपि || लक्षमेकं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः || १०० ||

तद्दशांशं प्रजुहुयादपूपैर्घृतसम्प्लुतैः || एवं सिद्धमनुर्मंत्री काम्यकर्माणि साधयेत् || १०१ ||

शुक्लपक्षे चतुर्थां च पूजयित्वा विनायकम् || अपूपैर्गुडसंमिश्रैः पक्कान्नैश्च घृतप्लुतैः || १०२ ||

मरिचैः क्षुरकैश्चैव सैन्धवेनापि मिश्रितैः || देवस्य सन्निधौ मन्त्री जुहुयात्त्रिसहस्रकम् || १०३ ||

गद्यपद्यमयी वाणी सप्ताहाद्भवति ध्रुवम् || वश्यार्थी मधुहोमेन राजानं वशमानयेत् || १०४ ||

कन्याथी जुहुयाल्लाजैस्तन्नामपुरमन्त्रतः || सप्त सम्भोजयेत्कन्या यद्वैकां स लभेत ताम् || १०५ ||

कर्षमात्रं च वा स्वर्णं पलमात्रं तथैव च || सूर्यग्रहे तथा चन्द्रग्रहणे चाभिमन्त्रयेत् || १०६ ||

अष्टोत्तरसहस्रन्तु सप्तधा विभजतेत्ततः || एकं भागं गृहे स्वीये देवताध्यानपूर्वकम् || १०७ ||

शेषान्भागान्द्वितीयेऽह्नि क्रमाच्चैकैकशः पिबेत् || ध्यानपूर्वं देवतायाः प्रातः प्रातस्तदा भवेत् || १०८ ||

बुद्ध्या बुधेन सदृशः पण्डितो गुरुणा समः || कविना च कवित्त्वेन शनिना प्रतिवादकः || १०९ ||

बन्ध्यर्त्तुस्नानदिवसे पूजयित्वा विनायकम् || निष्कार्धपादमानेन हरिद्राञ्च वचान्तथा || ११० ||

गोमूत्रे कुष्ठकं पिष्टं सहस्रमभिमन्त्रितम् || बन्ध्या कन्या [स्त्रियामत्रास्य शक्तिः] भक्ष्यभोज्यैर्मुक्त्वा संभोज्य स्वं गुरुम् || गुरवे दक्षिणां दत्त्वा पिबेन्नारी तदौषधम् || १११ ||

ततस्सा लभते पुत्रं सर्व लक्षणसंयुतं || आयुष्मन्तं सुरूपं च बुद्धिमन्तं श्रिया युतम् || ११२ ||

प्. ३६९) ताराद्योयं चतुर्वर्णो गायत्रं छन्द उच्यते || पूर्ववच्च षडङ्गानि हेमाभो हेमवस्त्रवान् || ११३ ||

बृहज्जानुस्तुन्दिलश्च लम्बबाहुर्विलोचनः || दक्षोर्ध्वहस्तपाशं चाधोवामे चाक्षसूत्रकम् || ११४ ||

दक्षिणाधो निजं दन्तमूर्द्ध्वे बाहौ तथा सृणिम् || पुष्करेण तु विभ्राणं मोदकं हेमभूषणम् || शक्तियुक्तं विश्ववन्द्यं गणेशं चिन्तयाम्यहम् || ११५ ||

प्राग्वत्पूजा समुद्दिष्टा जपेल्लक्षत्रयम्मनुम् || घृताक्तैश्च तिलैर्होमं तर्पणादि ततश्चरेत् || ११६ ||

आज्यान्नैर्जुहुयान्नित्यमन्नवान्स नरो भवेत् || पायसान्नेन महतीं श्रीयमाप्नोति मानवः || ११७ ||

गं क्षिप्रप्रसादनाय हृदन्तोयं दशाक्षरः || ऋषिर्गणक आख्यातश्छन्दः प्रोक्तं विराडिति || ११८ ||

देवता कथितः क्षिप्रप्रसादनविनायकः || षड्दीर्घभाजा बीजेन कुर्यादङ्गक्रियां बुधः || ११९ ||

ध्यानं सर्वत्रायुधानां वामोर्ध्वात्तु प्रदक्षिणम् || पाशांकुशौ विलसतां पत्राग्रं च दधत्करैः || १२० ||

बीजपूरं पुष्करे च त्रिनेत्रो रक्तवस्त्रवान् || भक्तं सदा पूर्णचन्द्रमौलिरव्याद्गणेश्वरः || १२१ ||

पूर्वोक्ते पूजयेत्पीठे नवशक्तिसमन्विते || मूर्तिं मूलेन सङ्कल्प्य तस्यां विघ्नेश्वरं यजेत् || प्रथमावृत्तिरङ्गैः स्याद्द्वितीया चाष्टभिर्गणैः || १२२ ||

विघ्नो विनायकः शूरो वीरश्च वरदस्तथा || इभवक्त्रश्चैकदन्तो लम्बोदर इति क्रमात् || १२३ ||

मातृपूजा दलाग्रे स्याल्लोकेशास्त्राणि चाग्रतः || लक्षमेकं जपेन्मन्त्रं त्रिस्वाद्वक्तैस्तिलैर्हुनेत् || १२४ ||

पूर्वोदिताष्टद्रव्यैर्वा तर्पणादि ततश्चरेत् || शर्कराघृतयुक्तेन हविषा जुहुयात्सुधीः || १२५ ||

लक्ष्मीवान्केवलाज्येन होमो लोकवशीकरः || घृताक्तं तत्प्रजुहुयाल्लक्ष्मीवान्साधको भवेत् || १२६ ||

चत्वारिंशद्दिनं मन्त्री नारिकेलं हुनेत्ततः || सर्वसम्पत्समृद्धिः स्यात्प्रत्यहं वाञ्छितार्थकृत् || १२७ ||

सलाजकैः कंगुभिश्च पृथुकैर्वाञ्छिताप्तये || होमो भवेदष्टभिश्च द्रव्यैस्त्रिमधुरप्लुतैः || १२८ ||

हुनेत्ततश्च वशयेद्राज्ञस्तत्प्रमदा अपि || चतुश्चत्वारिंशदाख्यं चतुःशतमतन्द्रितः || १२९ ||

प्रातःप्रातस्तु सलिलैर्विघ्नेशस्य तु मन्त्रकैः || तर्पयेत्सुसमिद्भिश्च भवेत्तस्य [कार्यमिति शेषः] न संशयः || १३० ||

पूर्वादिगं गणेशानमायातं रविबिम्बतः || प्. ३७०) पूर्वोक्तचक्रमध्यस्थं चिन्तयित्वा तु तर्पयेत् || त्र्यक्षरोक्तप्रयोगांश्च कुर्यादत्रापि साधकः || १३१ ||

ओं ठां नमश्चतुर्वर्णो हेरम्बस्य मनुर्मतः || मुनिर्गणक आख्यातो गायत्री छन्द ईरितम् || १३२ ||

पञ्चक्त्रोस्य हेरम्बो देवता सिंहवाहनः || षड्दीर्घबीजयुक्तेन षडङ्गविधिरीतितः || १३३ ||

मुक्ताविद्युन्मेघदुग्धकाश्मीरीसन्निभैर्मुखैः || गजवत्पंचभिर्युक्तः किरीटी चासिहस्तकः || १३४ ||

अंकुशं च त्रिशूलं च मुद्गरं च कपालकम् || स्वयन्तमभयं चापि वरं मोदकमेव च || १३५ ||

परशुं चाक्षमालां च दधतं करपङ्कजैः || कोटिसूर्यप्रतीकाशं ध्यायेद्धेरम्बमव्ययम् || १३६ ||

पद्ममष्टदलं कृत्वा चतुरस्रत्रयावृतम् || चतुर्द्वारसमायुक्तं तत्रादावासनं यजेत् || १३७ ||

ओं हुं हूं च महासिंहाय गं हेरम्बमुच्चरेत् || आसनाय नमश्चेति प्रोक्तः सप्तदशाक्षरः || १३८ ||

अनेन चासनं दद्यादनेनैव प्रपूजयेत् || ध्रुवयुक्तेन बीजेन कुर्यान्मूर्तिप्रवर्तनम् || १३९ ||

आदावङ्गानि सम्पूज्य लोकपालान्यजेत्पुनः || तेषामस्त्राणि तद्बाह्ये हेरम्बार्चनमीरितम् || १४० ||

लक्षत्रयं जपं कृत्वा तिलैर्हुत्वा दशांशतः || मधुरत्रयसंयुक्तैस्तर्पणादि समाचरेत् || १४१ ||

एवं सिद्धमनुर्मन्त्री प्रयोगानाचरेत्ततः || चतुर्दश्यष्टमी षष्ठीष्वेकैकं जुहुयाद् बुधः || अपूपैः कृशरैश्चापि मोदकैरिष्टसिद्धये || १४२ ||

पूर्वोक्तैर्जुहुयाद्द्रव्यैः पर्वस्वपि च मन्त्रवित् || यद्यदिच्छति तत्सर्वं साधकस्तत्र साधयेत् || क्षिप्रप्रसादनप्रोक्तान्प्रयोगान्वा समाचरेत् || १४३ ||

तारो ङेन्तो गणेशो हृत्प्रोक्तः सप्ताक्षरो मनुः || प्रणवान्तोष्टवर्णोयं शक्तिबीजादिकोपि वा || १४४ ||

ऋषिरग्निः समाख्यातो गायत्री छन्द उच्यते || सब्रह्मण्यो मनोरस्य देवता तु विनायकः || दीर्घभाजाग्निबीजेन षडङ्गानि समाचरेत् || १४५ ||

रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् || रक्तपुष्पैः पूज्यमानं भक्तपातकहारिणम् || १४६ ||

मुद्गरं च तथा शक्तिं कमलं चांकुशं तथा || हस्तैर्दधानं चन्द्रास्यं नानाभूषणभूषितम् || १४७ ||

रिपुक्षयकरं देवं सुब्रह्मण्यगणाधिपम् || ध्यात्वैवं पूजिते पीठे पश्चात्सम्पूजयेद्विभुम् || १४८ ||

केशरेषु षडङ्गानि पूर्वाद्यष्टदले ततः || जयन्तश्चाग्निवेषश्च कृत्तिकापुत्र एव च || १४९ ||

प्. ३७१) तथा भूतपतिस्सेनानीर्गुहो हेमसूत्रकः || विशालाक्षश्च सम्प्रोक्ताः शक्तिशूलकरा इमे || १५० ||

दलाग्रेषु च पूर्वादि यजेदेताननन्तरम् || देवसेनापतिं शक्तिं विघ्नं कुक्कुटमेव च || १५१ ||

मेधां मयूरं वज्रं च धियं लोकेश्वरांस्ततः || तदस्त्राणि च सम्पूज्य सुब्रह्मण्यार्चनं त्विदम् || १५२ ||

लक्षमेकं जपेन्मन्त्रं सर्पिषा पयसान्धसा || अयुतं जुहुयान्मन्त्री तर्पयेद्विप्रपुङ्गवान् || १५३ ||

एवं सिद्धे मनौ मन्त्री कुर्यात्कामान्यथेप्सितान् || दिनेदिने स मधुरैर्भक्ष्यभोज्यैः प्रतोषयेत् || देवं देवधिया सम्यगर्चयेद्ब्रह्मचारिणम् || १५४ ||

सुब्रह्मण्यमनोः सम्यगुपास्तिं ये प्रकुर्वते || ऐहिकामुष्मिकान्भोगांल्लभन्ते नात्र संशयः || १५५ ||

ओं हुंगंग्लौंहरिद्रेति चोक्त्वा गणपतये वदेत् || वर वरद इत्युक्त्वा सर्वजनपदं वदेत् || १५६ ||

हृदयं स्तम्भय द्वन्द्वं स्वाहा द्वात्रिंशदर्णकः || ऋषिर्मदन आख्यातश्छन्दोऽनुष्टुप्समीरितम् || १५७ ||

हरिद्रागणपो देवः षडङ्गानि समाचरेत् || सड्दीर्घयुक्तबीजेन विप्रादीनां प्रकीर्तितः || १५८ ||

विधिना येन मन्त्रोयं गृह्यते तदहम्ब्रुवे || चतुर्थीदिवसे प्राप्ते शुक्लपक्षस्य मन्त्रवित् || १५९ ||

शुद्धां हरिद्रामानीय सुपिष्टं कन्यया शुभाम् || सर्वाङ्गे तां समालिप्य स्नायाच्छुद्धजलैस्ततः || १६० ||

भक्त्या परमयोपेतः प्रसन्नेनान्तरात्मना || प्रथमं गुरुपादाब्जमर्चयित्वा विधानतः || स्वर्णांगुलीयहारौघैर्भूषणैश्च शुभाम्बरैः || १६१ ||

पूर्वोक्तविधिना तस्माद्गृह्णीतेमं मनुं शुभम् || सुगन्धैः सुमनोभिस्तं यजेद्देवधिया पुनः || १६२ ||

पीताम्बरं पीतवर्णं पीतगन्धानुलेपनम् || पीतपुष्पैः पूज्यमानं मणिसिंहासनस्थितम् || १६३ ||

पीतभूषं त्रिनेत्रञ्च || षड्भुंज च वराभयम् || क्रोधमुद्रां सृणिं पाशं परशुं विभ्रतं करैः || १६४ ||

ध्यायेच्छुद्धमना मन्त्री हरिद्रागणपं प्रभुम् || पूर्वोक्तपीठे [एकार्णेति वा] प्रयजेदङ्गमातृदिगीश्वरैः || १६५ ||

वेदलक्षं जपित्वान्ते हरिद्राचूर्णमिश्रितैः || दशांश तण्डुलैर्हुत्वा ब्राह्मणानपि भोजयेत् || १६६ ||

साग्रं सहस्रं सञ्जप्य दशांशं हव्यवाहने || सर्पिर्गुडपुटैः सम्यगपूपैर्जुहुयाद्बहिः || १६७ ||

प्. ३७२) हरिद्रागणपं तावत्तर्पयेद्भक्तितत्परः || कुमारीं भोजयेत्तावद्ब्रह्मचारिणमेव च || १६८ ||

अभीष्टफलमाप्नोति नात्र कार्या विचारणा || लाजैः कन्यामवाप्नोति कन्यापि लभते वरम् || १६९ ||

वन्ध्या नारी रजः स्नाता पूजयित्वा गणाधिपम् || पलप्रमाणगोमूत्रे पिष्टाः सिन्धुवचानिशाः || १७० ||

सहस्रं मन्त्रयेत्कन्या वटून्सम्भोज्य मोदकैः || पीत्वा तदौषधं पुत्रं लभते गुणसागरम् || १७१ ||

वाणीस्तम्भं रिपुस्तम्भं कुर्यान्मनुरुपासितः || जलाग्निसिंहचौरास्त्रप्रमुखानपि रोधयेत् || १७२ ||

एतेऽष्टौ गणपाः प्रोक्ता दक्षिणाम्नायगोचराः || १७३ ||

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते दक्षिणाम्नायगणपतिमन्त्रप्रकाशष्षोडशः || १६ ||

Matrika: die Buchstaben als Träger heiliger Sprache in der tantrischen Tradition.

Prakāśa 17 – Gaṇapati-Mantras der oberen Überlieferung

ईश्वर उवाच ||

ऊर्ध्वाम्नाये प्रवक्ष्यामि गणेशान्सिद्धिदायकान् || भुक्तिमुक्तिप्रदं तत्र महागणपतिं शृणु || १ ||

तारश्रीबीजहृल्लेखा कामो भूबीजमेव च || गणेशबीजं गणपतये वरवरेति च || २ ||

द सर्वजनं मे वशमानयाग्निवधूरिति || अष्टाविंशतिवर्णोयं गणकोस्य मुनिर्मतः || ३ ||

निवृद्गायत्रिका छन्दो महागणपतिः सुरः || गं बीजं ह्रीं च शक्तिः स्याद्दीर्घषट्कयुतस्तु गः || ४ ||

तारादिबीजषट्केन पृथग्युक्तेन कारयेत् || षडङ्गानि मनोरस्य जातियुक्तानि चाचरेत् || ५ ||

अथ वा तारपूर्वेण दीर्घषट्कयुतेन च || स्वबीजेनांगुलिन्यासं षडङ्गानि तथाचरेत् || ६ ||

वर्णा द्वाविंशतिर्न्यस्या गणपत्यादयो मनोः || ब्रह्मरन्ध्रे श्रोत्रयोश्च नेत्रयोश्चनसोर्मुखे || ७ ||

मूले दक्षभुजस्यादौ मध्ये च मणिबन्धके || अंगुलीमूलकेग्रे च वामबाहावपीदृशं || ८ ||

विन्यसेदग्रिमान्वर्णांस्ततश्चादौ तदग्रिमान् || मणिपूरे स्वाधिष्ठाने मूलाधारे तदग्रिमान् || ९ ||

तारं पार्ष्णौ मुखे श्री च हृदि ह्रीं श्रीं गुदे न्यसेत् || पादयोर्ग्लौ हृदि पुनः प्रत्यङ्गं बीजमेव च || १० ||

अवशिष्टैर्मन्त्रवर्णैःशरीरे व्यापकं न्यसेत् || एवं न्यासविधिं कृत्वा हृदि देवं विचिन्तयेत् || ११ ||

ऐक्षवे जलधेर्द्वीपे नवरत्नमये शुभे || तत्तरङ्गलसत्तोयैर्धौते शीते महीतले || १२ ||

तत्तोयगुणसंपृक्तगन्धवाहनिषेविते || कल्पपादपपुष्पौधैः पतद्भिः समलङ्कृते || १३ ||

नानाकुसुमसङ्कीर्णे नानापक्षिविराजिते || प्. ३७३) अनेकफलसङ्कीर्णे सेविते चाप्सरोगणैः || १४ ||

ज्वालामालासहस्राढ्ये चोद्यज्ज्योत्स्नासमाकुले || विलसत्पद्मरागौघकुट्टिमारुणभूतले || १५ ||

कल्पपादपपुष्पस्थषट्पदस्वनमञ्जुले || पारिजातं कल्पतरुं तत्र मध्ये विचिन्तयेत् || १६ ||

युगपट्टे तु षट्केन खचितं पुष्पशोभितं || नवरत्नमयं तस्याधस्तात्सिंहासनं स्मरेत् || १७ ||

तन्मध्ये लिपिपद्मं च षडारं तस्य मध्यतः || कर्णिकायां गणेशञ्च तत्संस्थं च महागणम् || १८ ||

नानारत्नविभूषाढ्यमेकदन्तं गजाननम् || चक्रं चांकुशपद्मादीन्बीजपूरं गदां तथा || शरासनं च शूलं च बिभ्रंतं हस्तपङ्कजैः || १९ ||

पद्मोद्यत्करया शक्त्या चाश्लिष्टं वरं प्रभुम् || अर्धेन्दुमौलिं त्र्यक्षं च दीप्यमानं कृपाकरम् || २० ||

पुष्करोद्धृतरत्नौघमयकुम्भमुखच्युतान् || मणिमुक्ताप्रवालादीन्वर्षन्तं धारया मुहुः || २१ ||

सर्वतः साधकास्याग्रे स्वदानजललोलुपाम् || षट्पदालीं कर्णतालैर्वारयन्तं मुहुर्मुहुः || २२ ||

अमरासुरसंसेव्यं सद्रत्नमुकुटोज्ज्वलम् || ऊरूकरं गजमुखं नानाभरणभूषितम् || २३ ||

इति ध्यात्वा गणपतिं यजेत्सर्वोपचारकैः || धर्मादिकॢप्ते पूर्वोक्ते तीव्रादिनवशक्तिके || २४ ||

पूजायन्त्रं गणेशस्य मातृकापद्ममुच्यते || चतुर्द्वारसमायुक्तं चतुरस्रत्रयावृतम् || २५ ||

तत्कर्णिकायां षट्कोणं तदन्तश्च त्रिकोणकम् || देवस्याग्रे त्रिकोणाच्च बहिर्मन्त्रैर्यजेत्सुरान् || २६ ||

लक्ष्मीनारायणायेति ओं श्रींपूर्वो हृदन्तकः || मन्त्रस्तेन यजेत्तञ्च ध्यायेद्बिल्वतले स्थितम् || २७ ||

पद्मद्वयेकला लक्ष्मीः शङ्खचक्रधरो हरिः || ओं ह्रींगौरहिराभ्यां च हृदन्तो नववर्णकः || २८ ||

देवस्य दक्षिणे तौ च ध्यायन्नेवं प्रपूजयेत् || संस्थितौ च जटाधस्तात्सुवर्णरजतप्रभौ || २९ ||

पाशांकुशधरा देवी टंकशूलधरो हरः || तारः क्लीं रतिकामाभ्यां हृदन्तोयं नवाक्षरः || ३० ||

पृष्ठस्थपिप्पलाधस्ताद्रतिकामौ समर्चयेत् || नालयुक्तोत्पलद्वन्द्वचापपुष्पेषुसंयुतौ || ३१ ||

ओं ग्लौंमहीवराहाभ्यां हृदन्तोयं दशाक्षरः || उत्तरेधः प्रियङ्गोस्तु महीकोलौ यजेत्ततः || ३२ ||

शुक्रवीज्याग्रकगदाचक्रालंकृतसद्भुजौ || ओं गं लक्ष्मीगणकाभ्यां हृदन्तोयं दशाक्षरः || ३३ ||

देवस्याग्रे त्रिकार्णान्तर्लक्ष्मीयुग्गणकं यजेत् || प्. ३७४) षट्कोणेषु यजेन्मन्त्रमोंगं पूर्वो हृदन्तकः || ३४ ||

आमोदं सिद्धिसहितमग्रकोणे समर्चयेत् || समृद्ध्यायुतमभ्यर्चेत्प्रमोदं वह्निकोणके || ३५ ||

सुमुखं कान्तिसंयुक्तमीशकोणे समर्चयेत् || दुर्मुखं मदनावत्या यजेद्वारुणकोणगम् || ३६ ||

विघ्नं मदद्रवायुक्तं कोणे नैशाचरे यजेत् || वायव्ये विघ्नकर्त्तारं द्राविण्या सहितं यजेत् || ३७ ||

पाशांकुशधरा विद्या शक्तयश्चाभयप्रदाः || रक्तारक्ताम्बरालेपभूषणा मदविह्वलाः || ३८ ||

षट्कोणस्य बहिर्देवैर्दक्षिणे तु समर्चयेत् || वसुधारान्वितं शंखनिधिं वामेर्चयेत्तथा || ३९ ||

वसुमत्यायुतं पद्मनिधिं तद्ध्यानमुच्यते || तत्राद्यो मौक्तिकाभोन्यो माणिक्याभस्तुधारया || वर्षन्तौ धनसम्पत्तिं लोकानां मेघवत्सदा || ४० ||

केशरेष्वङ्गपूजा स्याद्ब्राह्म्याद्याः पत्रमध्यगाः || चतुरस्रे लोकपालांस्तदस्त्राणि च पूर्ववत् || षडावरणसंयुक्तमित्थं देवं समर्चयेत् || ४१ ||

एकादशायुतं जप्त्वा [इडभाव आर्षः] सहस्रोत्तरमादरात् || दशांशं जुहुयादष्टद्रव्यैरेकाक्षरोदितैः || ४२ ||

तर्पयित्वा दशांशेन चाभिषिक्तोणुना ततः || ब्राह्मणान्भोजयेत्सम्यक् षड्रसैर्भूरिदक्षिणाम् || दत्त्वा प्रणम्य विसृजेदेवं सिद्धो भवेन्मनुः || ४३ ||

ततः प्रणम्य विधिवद्गुरुं सन्तोष्य यत्नतः || काम्यकर्माणि कुर्वीत सिद्धयः स्युर्न चान्यथा || ४४ ||

रक्तप्रसूनैर्गणपं पूजयित्वा मनुं जपेत् || सहस्राष्टकमस्यान्ते जुहुयात्करवीरजैः || ४५ ||

तद्दशांशेन कुसुमैर्मधुरत्रयसंस्कृतैः || राजा तदा चरो भूत्वा सामात्यः सन्निषेवकः || ४६ ||

एवं पलाशपुष्पैश्च मधुरत्रयसम्प्लुतैः || होमात्सर्वेपि विघ्नाः स्युर्वशास्तस्य न संशयः || ४७ ||

जितेन्द्रियो मन्त्रिवरो घृतमेवं च होमयेत् || कीर्तिम्प्राप्नोति विपुलां चिरकालानुबन्धिनीम् || ४८ ||

एवमाज्यप्लुतं धान्यं हुत्वामात्यः प्रजायते || अष्टोत्तरसहस्रं तु जप्त्वा होमं समाचरेत् || लवणाज्यसुराभिश्च शोधयित्वास्य भस्म तु || ४९ ||

करे गृहीत्वा सघृतं तेन नारीं च ताडयेत् || भवत्यामरणांतं सा दासीतोष्यधिकं वशा || ५० ||

शिवालये लक्षमिताज्जपाद्धोमो दशांशतः || पायसेन त्रिमधुरयुतेन लभते सदा || अर्थांश्च विविधान्मन्त्री भोगं मोक्षमवाप्नुयात् || ५१ ||

प्. ३७५) अष्टोत्तरसहस्रन्तु हुत्वा जातीप्रसूनकैः || मेधा वेदार्थकरणे बुद्धिं प्राप्नोति साधकः || ५२ ||

अयुतत्रितयं यस्तु हुनेद्दूर्वा घृतेन च || तस्याल्पमृत्युरोगाद्या नश्यन्त्यायुश्च वर्धते || ५३ ||

समाहितोयुतं हुत्वा पीतपुष्पैर्घृतान्वितैः || संस्तम्भयेद्वैरिसेनां सभृत्यगजयोधिकाम् || धारास्तम्भं च वाक्स्तम्भं कुर्यादत्र न संशयः || ५४ |

बिभीतकसमीद्भिश्च जुहुयादयुतत्रयम् || उच्चाटयेद्वैरिसङ्घान्ग्रामं देशं पुरादिकम् || ५५ ||

अष्टोत्तरसहस्रं तु समिधोऽरुष्कवृक्षजाः || हुत्वा रण्डास्तस्य वश्या जीवेन च धनेन च || ५६ ||

निम्बपत्रेषु संलिख्य साध्यनामानि तु द्वयोः || एकस्य चाश्वरक्तेन महिषष्यापरस्य [पूर्वपदार्थान्तर्गतस्यापि ऊत्तरपदार्थस्य बुद्ध्या प्रविभागात्प्रत्यवमर्शः] च || ५७ ||

कटुतैलयुतैर्विंशत्सहस्रं होममाचरेत् || मन्त्रान्ते प्रवदेदेतदमुकं चामुकेन च || ५८ ||

द्वेषयेति ततः स्वाहा चैकान्ते होममाचरेत् || तयोस्तु जायते वैरं मित्रयोर्जीवनाशकम् || ५९ |

अष्टांगुलं मनुष्यास्थि कीलं शवशिरोरुहैः || संवेष्ट्य मन्त्रयेदष्टोत्तरं तच्च सहस्रकम् || ६० ||

मुहूर्ते कुलिके रात्रौ शत्रोर्द्वारि प्रपूजयेत् || सप्ताहतोसौ भवति निश्चयेन यमातिथिः || ६१ ||

नागस्य विवरद्वारिलक्षमेतं मनुं जपेत् || तस्याग्रतः समायान्ति नागकन्याः सहस्रशः || ६२ ||

निर्लज्जा भोगकांक्षिण्यः प्रयच्छन्ति रसायनम् || नानामणींश्च रत्नानि यद्यदिष्टतमं भवेत् || ६३ ||

लक्षमेकं गिरेर्मूर्ध्नि जपेन्मन्त्री दृढव्रतः || कृपाणसिद्धिं लभते प्रार्थनीयां सुरासुरैः || ६४ ||

घनसारञ्च लज्जालुं शुक्लां च गिरिकर्णिकाम् || नन्द्यावर्तं मधुपुष्पीं मेलयित्वा सुपेषयेत् || ६५ ||

कृत्वा तु गुटिकां विंशत्सहस्रमभिमन्त्रयेत् || नेत्रे तया चाञ्जयित्वा निधानं पश्यति ध्रुवम् || ६६ ||

अष्टोत्तरशतं जप्त्वा पीडाक्रांतं च रोगिणम् || त्रिः फूत्कृत्य हरेत्पीडां सर्वां नास्त्यत्र संशयः || ६७ ||

गुप्तप्रदेशे रम्ये च गोमयेनोपलेपिते || स्नात्वा मन्त्री नवं कुम्भं चन्दनाद्यैश्च चर्चितम् || ६८ ||

सुगंधतोयैः सम्पूर्य शरावेण पिधापयेत् || कपिलाज्येन सम्पूर्णं दीपं न्यस्येत्तथोपरि || ६९ ||

पूजयेदुपचारैस्तं कुमारीं च कुमारकम् || तत्रोपविश्य तं स्पृष्ट्वा जपेदष्टोत्तरं शतम् || ७० ||

प्. ३७६) तदासौ कथयेत्सर्वं दीपं दृष्ट्वा तु बालकः || भूतं च वर्तमानं च भविष्यन्नात्र संशयः || ७१ ||

ध्यात्वा महागणपतिमथ वा दीपसन्निधौ || जपेद्गणेशः कथयेत्स्वप्ने चापि शुभाशुभम् || ७२ ||

ग्रहणे जलमध्यस्थो जपेन्मन्त्रं तदा भवेत् || आकर्षणस्य संसिद्धिः सधान्यपशुयोषिताम् || ७३ ||

न्यग्रोधस्य तले जप्त्वा लक्षमेकं वटाभिधा || यक्षिणी तु समागत्य धनाद्याकृष्य यच्छति || ७४ ||

उपोष्य रात्रौ विधिवत्स्नात्वा चानीय सद्वचाम् || पूजयित्वा गणेशं तां स्पृष्ट्वा मन्त्रायुतं जपेत् || ७५ ||

पश्चात्कृत्वा तु तच्चूर्णं गृह्णीयात्कर्षमात्रकम् || कपिलाज्यैः पिबेत्प्रातः सप्तभिर्दिवसैः कविः || ७६ ||

अवश्यमेव [इदं पूर्वान्वयि] भवति पारदस्य क्रियां शृणु || कर्पटे शोधयेदादौ रसमष्टोत्तरं शतम् || ७७ ||

कर्पासपत्रजरसैर्दिनमेकं च मर्द्दयेत् || कुमारिकाकाशवल्ल्योस्तदा रौप्यसमो भवेत् || ७८ ||

एतस्य युग्मांशं तु शुद्धं शुल्वं नियोजयेत् || शुल्वादेतत्सार्धभागं शुल्वार्धं कनकन्त्वयः || ७९ ||

कज्जलाभं वर्धतीयं कर्पासीकन्यकाद्रवैः || दिनैकमारनाले तु मर्दयित्वारनालके || ८० ||

स्थापयेद्गुटिकां कृत्वा ततो गच्छेच्छिवालये || लक्षमेकं जपेन्मन्त्रं सिद्धा सा जायते तदा || ८१ ||

तां मुखे धारयन्मन्त्री रणे च विजयी भवेत् || अवध्यः सर्वभूतानां शस्त्रास्त्रैश्चैव जायते || ८२ ||

तमक्त्वा म्रियते नैव विषैः सर्पादिसम्भवैः || तत्प्रभावाद्वज्रदेह आकाशे लभते गतिम् || ८३ ||

नष्टच्छायस्तथादृश्यो जलगोपि प्रजायते || यस्मिन्गेहे स्थिता सा तु तत्र लक्ष्मीः स्थिरा भवेत् || लोकानां दृष्टिबन्धं च सा कुर्यात्साधकेच्छया || ८४ ||

ब्रह्मदण्डीं च लज्जालुं गृह्णीयात्पुष्यभास्करे || वज्राणुकं त्रिलोहं च ताभ्यां सम्यग्विमर्दयेत् || ८५ ||

तद्यदा कज्जलीतुल्यं स्यात्तदा गुटिकां चरेत् || ८६ ||

गणेशं पूजयित्वास्य गृह्णीयाद्गुटिकां शुभाम् || इत्थं विचिन्त्य स्वकरे गृह्णीयात्तन्मनुं जपेत् || ८७ ||

वक्त्रे शिखायां च करे स्कन्धे वा धारयेच्च ताम् || तस्याः प्रभावान्नायान्ति चौरव्याघ्रोरगादयः || ८८ ||

साधकस्य समीपं तु न विघ्नैः परिभूयते [स इति शेषः] || प्. ३७७) राजानो वश्यतां यान्ति सुन्दरीणामतिप्रियः || ८९ ||

धत्तूररोचने शङ्खपुष्पी श्वेतापराजिता || सहदेवी ब्रह्मदण्डी हिमं कृष्णागुरुः समम् || ९० ||

सम्पीड्य सम्यक्कुर्याच्च गुटिकां विधिना ततः || कुर्याद्द्वादशसाहस्रंजपं तत्तिलके कृते || जनानांजायते मोहो गणेशस्य प्रभावतः || ९१ ||

दीर्घतुण्डामृताग्राह्याः पुष्यार्के पेषयेच्च ताः || तच्चूर्णेन करौ लिप्त्वाष्टाधिकं च सहस्रकम् || ९२ ||

मनुं जपित्वा तौ हस्तौ गजेभ्यः परिदर्शयेत् || विद्रवन्ति तदा नागा ऐरावतसमा अपि || ९३ ||

गजान्ग्रहीतुकामश्चेद्राजा गजवने तदा || सम्यक् च कारयेच्छालांदृढां गजनिबन्धिनीम् || ९४ ||

चतुरस्रां विशालां च दृढावरणसंयुताम् || कुर्यात्तत्र स्थलां सम्यक्चतुरस्रां समुन्नताम् || तस्यामुत्तरदिग्भागे कुण्डं कुर्याद्यथोदितम् || मण्डलं सर्वतोभद्रं कृत्वा तत्र प्रपूजयेत् || ९५ ||

नानोपचारैर्गणपं बहिः स्थापनमाचरेत् || त्रिस्त्रिर्हुनेत्क्रमात्तारश्रीमायाकामबीजकैः || ग्लौंगंभ्यां गणपतये पदेनापि च होमयेत् || ९६ ||

वरवरदेति ततः पदेनापि च होमयेत् || सर्वं जनं मे वशमानय स्वाहा त्वनेन च || सप्तविंशत्याहुतयो हव्या एधैश्च गोघृतैः || ९७ ||

ततः समृद्धिमन्त्रेण तिस्रश्चानेन होमयेत् || भुर्भूवः स्वस्तथा चाग्निर्जातवेदास्ततः परम् || ततश्च मूलमन्त्रेण जुहुयाच्च नवाहुतीः || ९८ ||

मूलाणुना समस्तेन जपेन्मन्त्रार्णसंख्यया || आज्येनैव ततश्चाष्टद्रव्यैः स्वादुत्रयान्वितैः || ९९ ||

देवस्थानस्थदेवानां संख्यया प्रत्यहं ततः || बहून्सम्भोजयेद्विप्रांस्तदाशीर्भिर्विवर्धितः || १०० ||

गुरवे दक्षिणां दद्यात्पञ्चाशद्दन्तिनोथ वा || तन्मूल्यं तद्दशांशं वा दत्त्वा सन्तोष्य सद्गुरुम् || १०१ ||

चतुर्णां मिथुनानां षड्गणेशनिधियुग्मयोः || अङ्गमातृदिगीशानां तन्मंत्रैः सर्पिषा हुनेत् || १०२ ||

लक्ष्मीनारायणौ गौरीहरौ कामस्तथा रतिः || पृथ्वी वराहाविति तु चत्वारि मिथुनानि च || १०३ ||

सिद्धिमोदौ तथा ऋद्धिप्रमोदौ कान्तिसंयुतः || सुमुखोथो दुर्मुखस्य प्रियोक्ता मदनावती || १०४ ||

मदनद्रवया युक्तोविघ्नोथो द्राविणीयुतः || विघ्नकर्तेति षट्प्रोक्ता गणेशाश्च निधिद्वयम् || १०५ ||

शङ्खःपद्मश्च तन्मन्त्रास्तद्बीजं नाम हृत्तथा || एवं होमं समाप्याथ नैवेद्यं तु समाचरेत् || १०६ ||

प्. ३७८) पुनरभ्यर्च्य विघ्नेशं साङ्गं सावरणं तथा || निजे हृदि समुद्वास्य विचरेच्च यथासुखम् || १०७ ||

ततो दिनैर्वेदवेदैः करिणो निपतन्ति हि || विनायकप्रभावेण कलभाः शतशस्तथा || १०८ ||

करिणीनां समूहश्च पतत्यम्बु घटे यथा || प्रोक्तकुण्डे प्रोक्तरूपं गणेशं सम्यगर्चयेत् || १०९ ||

तत्र वह्निं समाधाय जुहुयाल्लक्षसङ्ख्या || पयोघृताभ्यां संयुक्तैः पुष्पैः शर्करयापि च || ११० ||

क्षौद्रेण पृथगेकैकद्रव्येणागर्त्त्वगाष्टपः || वेतालसञ्ज्ञा गुटिका कुण्डमध्यात्प्रयाति च || १११ ||

अणिमादिकसिद्धीनां प्राप्य तं नायको भवेत् || ब्राह्मे काले समुत्थाय क्षीणचन्द्रे च पर्वणि || ११२ ||

कपिलायाः पद्मखण्डं गोमयं प्रतिगृह्य च || संजप्य मन्त्रमयुतं निखातद्वारि वारयेत् || व्याघ्रक्रोडारिचोरादीन्नात्र कार्याविचारणा || ११३ ||

जातीधत्तूरमञ्जिष्ठा प्रचण्डा हस्तयोजिनी || शिखादिकर्णिकाख्यादि त्वग्जिह्वाचक्षुषामलैः || ११४ ||

नासिकाघ्राणजैश्चापि गुटीं सम्यग्विधाय च || स्पृष्ट्वा सम्प्रजपेन्मन्त्रं त्वष्टाधिकसहस्रकम् || ११५ ||

गुंजिकादिप्रमाणं च यवमानं च लेहयेत् || सर्षपार्धं त्वङ्गनाया भक्षितं वश्यकारकम् || ११६ ||

जितेन्द्रियो जपेन्मन्त्रमष्टोत्तरसहस्रकम् || दशांशं जुहुयाल्लाजाहयारिकुसुमान्वितान् || प्राप्नुयात्सत्कुलां कन्यामथ ध्यायेद्विनायकम् || ११७ ||

गन्धादिनाभ्यर्च्य तं च मन्त्रं लक्षमितं जपेत् || निगडान्मुच्यते कस्मादथ बिल्वस्य पुष्पकम् || ११८ ||

तगरं देवदारुं च प्रियंग्वगरुचन्दने || नागकेशरमेतानि मधुना भावयेत्समम् || ११९ ||

गुटीं कृत्वाथ संस्पृश्य सहस्राष्टकमाजपेत् || भवेत्सा सिद्धगुटिका तद्धूपाद्रोगनाशनम् || १२० ||

एतद्धूपाच्च निस्स्वोपि धनी स्याज्जनवल्लभः || दुर्भगा सुभगा स्त्री स्यात्कुमारी लभते वरम् जलाशये || १२१ ||

लक्षजपाद्वृष्टिः सप्ताहतो भवेत् || अथास्य लक्षहोमस्य प्रयोगं कामिकं शृणु || १२२ ||

हुनेद्गोपयसा गोर्थे स्वर्णार्थं मधुना हुनेत् || घृतेन लक्ष्म्यै पयसे हुनेच्छर्करया द्विजः || १२३ ||

दघ्ना सर्वर्द्धये होमो घृतान्नैरन्नवृद्धये || लाजैश्च यशसे होमो धनार्थन्तिलतण्डुलैः || १२४ ||

कौसुम्भैः करवीरैर्वा वस्त्रार्थं होममाचरेत् || यवैस्तु वशयेद्भूपमुत्पलैश्चापि तद्वधूम् || १२५ ||

प्. ३७९) कैरवैर्मन्त्रिणस्तस्य पुत्तल्यादि च पितृजम् || कृत्वा हुनेद्वधूर्वश्या वटात्प्लक्षादुदुम्बरात् || १२६ ||

कस्मादपि गृहीत्वा च समिधो होममाचरेत् || विप्राद्यान्वशयेद्वर्णाल्लोणहोमादवर्षणम् || १२७ ||

विनश्येद्भूयसी वृष्टिर्महागणपतेस्तदा || वर्णानस्य प्रवक्ष्यामि काम्यकर्माणि संस्मरेत् || १२८ ||

पीतं स्तम्भेरुणं वश्ये धूम्रमुच्चाटने स्मरेत् || मारणे कृष्णमारक्तमाकृष्टौ पाटलं द्विषि || हरिद्वर्णं धनप्राप्त्यै मुक्त्यै शुक्लं च संस्मरेत् || १२९ ||

गणेशतर्पणं वक्ष्ये सर्वकामफलप्रदम् || त्रिवेदाङ्कसमं यच्च प्रकटं वक्ष्यतेधुना || १३० ||

एकान्ते विजने रम्ये सर्वोपद्रववर्जिते || कृतस्नानादिको मन्त्री पूर्ववन्न्याससंयुतः || १३१ ||

तडागमध्ये सञ्चिन्त्य पुष्पितं नलिनीवनम् || तस्य मध्ये महापद्मन्तरुणादित्यसन्निभम् || १३२ ||

समुन्नतं सुगन्धाढ्यं रमणीयम्मनोहरम् || सद्यो विकसितं ध्यायेन्मन्त्री पूर्वोक्तमन्त्रवत् || १३३ ||

शुद्धं रजतसोपानं पश्यन्तं रविमण्डलात् || विनिर्गत्यावरुह्याह कर्णिकामध्यसंस्थितम् || १३४ ||

इति ध्यात्वा सावरणम्महागणपतिम्पुनः [तर्पयामि इति शेषः] || प्रवरैर्गन्धकुसुमैः प्राग्वत्सावरणं यजेत् || १३५ ||

निधाय पुष्करमुखं साधकेन्द्रस्य मूर्धनि || वर्षन्तं रत्नधाराभिर्ध्यात्वा देवस्य मूर्धनि || १३६ ||

चन्द्रचन्दनकाश्मीरकस्तूरी मिलितैर्ज्जलैः || तर्पयेत्परया भक्त्या देवदेवं प्रसन्नधीः || १३७ ||

यथादिष्टस्य नामान्ते तर्पयामीति संवदेत् || तर्पणस्य विधिश्चायं शृणु वैदिकतर्पणम् || १३८ ||

तर्पयाम्येतदन्ते तु स्वाहां वैदिक ईरयेत् || इतरस्तु नमो ब्रूयाद्वामाचारी नमो वदेत् || १३९ ||

मूलमन्त्रं समुच्चार्य महागणपतिन्ततः || देवस्य मूर्ध्नि प्रथमन्दशवारं प्रतर्पयेत् || १४० ||

पुनश्चतुश्चतुर्वारं ज्ञेयं सर्वत्र तर्पणम् || एकं वर्णं समुच्चार्य मूलमन्त्रस्य तर्पयेत् || १४१ ||

पुनः सम्पूर्णमूलेन चतुर्वारन्तु तर्पणम् || एवं षट्पंचसंख्याकं चतुष्कन्तर्पणम्भवेत् || १४२ ||

पुनर्मूलेन सन्तर्प्य ततो युग्मानि तर्पयेत् || तत्र चायं प्रयोगः स्यादमुकं [अमुकेनेति शेषः] सहितामिति || अमुकीन्तर्पयामीति पुनर्मूलेन तर्पयेत् || १४३ ||

प्. ३८०) अमुक्या युक्तममुकन्तर्प्पयामि ततो वंदेत् || पुनर्मूलम्भवेदेवं चतुष्कमपि तर्पणम् || १४४ ||

एवं षङ्गणपानां च सजायानान्तदन्तरा || तर्पणं मूलमन्त्रेण चतुष्काजिनसंख्यकम् || १४५ ||

वसुन्धराशङ्खनिधेर्भार्या पद्मनिधेस्तथा || भवेद्वसुमती ताभ्याम्मध्ये मूलेन चाष्टधा || १४६ ||

तर्पणं स्यात्तु मूलेन पुनश्चापि तु तर्पयेत् || एवं भूभूचतुष्कांकैर्वेदवेदकृतैर्मितम् || १४७ ||

तर्पणस्य विधिं वच्मि तान्त्रिकाणान्तु यद्धितम् || आदौ मूलेन सन्तर्प्य मन्त्रवर्णैश्च तर्पयेत् || १४८ ||

भूभूभूभूकुभूपंचपंच दिग्द्वितयेन च || अन्तरान्तरमूलेन चैवं सिद्धिश्चतुष्किका || १४९ ||

ततो मूलेन सन्तर्प्य गणेशायुधतर्पणम् || कुर्यादन्तरशूलेन ह्यायुधानां क्रमस्त्वयम् || १५० ||

आदौ तद्बीजमुच्चार्य प्रणवं च वदेत्ततः || अमुकात्मने च प्रवदेदमुकाय नमस्त्विति || १५१ ||

नमोमुकन्तर्पयामि स्वाहेति कथितो मनुः || विघ्नम्भूमों [भूमित्यत्रोङभाव आर्षः] रमां मायां श्रीं ह्रीं क्लीं वसुधां च गम् || १५२ ||

एकादशे गणेशस्य षड्बीजान्यपि संवदेत् || मन्त्रं फलञ्च शक्तिं च प्राणबन्धं वदेत्ततः || १५३ ||

चक्रव्याप्तिश्च तारं च भूविद्या च त्रिलोककम् || तदात्मन इमे प्रोक्तास्तेषान्नामान्यहं ब्रूवे || १५४ ||

बीजपूरं च परशुं कार्मुकं च त्रिशूलकम् || चक्राब्जपाशोत्पलानि कलभाग्रविषाणयुक् || १५५ ||

शुण्डायां रत्नकलशमित्थमायुधनिर्णयः || सर्वं द्वाविंशसंख्याकन्तर्पणं च प्रजायते || १५६ ||

षड्बीजान्ते चतुर्थ्यन्तं तत्तन्नाम समुच्चरेत् || पठित्वा सकलम्मूलममुकङ्गणपंवदेत् || तर्पयाम्यग्निजायान्तो मन्त्रो मूलान्तरान्तरः || १५७ ||

विघ्नो विनायको वीरः शूरो वरद एव च || इभवक्रश्चैकदन्तो लम्बोदरगणेश्वरौ || १५८ ||

क्षिप्रप्रसादनश्चैव महागणपतिस्तथा || एवं विंशचतुष्काः स्युस्ततो युग्मानि तर्पयेत् || १५९ ||

युग्मबीजं वदेदादौ गणेशस्य तदुत्तरम् || प्राग्वत्तद्युग्ममाभाष्य मूलेनान्तरितानि च || १६० ||

श्रीं ह्रीं क्लीं ग्लौमिदन्तेषां क्रमाद्बीजचतुष्ककम् || एवं षोडशसंख्यानि चतुष्काणि भवन्त्यपि || १६१ ||

प्. ३८१) श्रीगणेशबीजपूर्वान्तांस्तर्पयेच्च विनायकान् || मूलेनान्तरिताश्चैव चतुष्का जिनसंख्यकाः || १६२ ||

तर्पयेद्विधिवत्प्राग्वन्मूलमन्त्रान्तरान्तरे || ह्रींगं वसुन्धराशंखौ तर्पणीयौ च पूर्ववत् || १६३ ||

अत्रादौ स्त्रीपुमानन्ते बीजयोर्विपरीतता || ग्लौंगं वसुमती पद्मनिध्योर्बीजन्तु तर्पणे || १६४ ||

एवमष्टौ तर्पणानि मूलेनान्ते प्रतर्पयेत् || भवन्ति वेदवेदाब्धिसंख्यकास्तर्पणक्रमाः || १६५ ||

मूलमन्त्रञ्चतुर्वारम्पूर्वं सन्तर्पयेत्ततः || स्वबीजाद्यस्वाहान्तानि युग्मान्येवम्प्रतर्पयेत् || १६६ ||

गणपानां ततः षट्के निधिं युग्मं प्रतर्पयेत् || मध्ये मध्ये मूलमन्त्रं चतुर्वारमिति क्रमात् || भवेदष्टोत्तरशतं लघुतर्पणमीरितम् || १६७ ||

महागणपतिं पुष्टिं चत्वारि मिथुनानि च || षड्गणेशान्निधियुगमेवमेतत्त्रयोदश || १६८ ||

अथाव्यस्तानि चैतानि चान्तरा मूलतर्पणम् || कृतञ्च द्विशतञ्चाष्टाधिकमाद्यन्तयोस्तथा || १६९ ||

मूलन्तदा तु द्विशतञ्जायते षोडशाधिकम् || तर्पणम्मध्यमञ्चैतन्महागणपतेर्मतम् || १७० ||

अथवा पूर्ववत्कुर्यादादौ मूलेन तर्पणम् || ततश्च मूलमन्त्रस्य चैकैकेनाक्षरेण च || १७१ ||

मूलमन्त्रस्यान्तरेण कुर्यादेवञ्चतुश्चतुः || गजाश्विनेयतुल्यन्तज्जायते च ततः परम् || १७२ ||

पुनर्मध्यप्रकारेण तर्पयेदिति जायते || महागणपतेः पूर्णं तर्पणन्तन्त्रवैदिकम् || १७३ ||

कामनांगप्रभेदैस्तु तर्पणं वक्ष्यतेधुना || पुष्करे तर्पयेद्देवम्मोक्षार्थं शुद्धवारिभिः || १७४ ||

लक्ष्मीकामेन गोदुग्धैर्मूध्नि तर्प्यो गजाननः || गुह्यप्रदेशे मधुना कामार्थं तर्पयेद्विभुम् || १७५ ||

आकर्षणार्थं वश्यार्थं नेत्रयोर्मधुना तु तम् || घृतेन राजवश्याय देवं पृष्ठे प्रतर्पयेत् || १७६ ||

तथा चैरण्डतैलेन रण्डावश्याय तर्पणम् || प्रीतेर्विवृद्ध्यै स्कन्धे तु पयोभिस्तर्पयेद्विभुम् || १७७ ||

क्षीरेण दध्ना मधुना तुण्डे तत्पुत्रवृद्धिकृत् || एवं यः पूजयेत्सम्यग्गणेशम्ममवल्लभम् || तस्य भुक्तिश्च मुक्तिश्च जायते नात्र संशयः || १७८ ||

अनेनैव सुतेन्द्रेण दिवोदासो विवासितः || कल्पयित्वा वेदबाह्यं मार्गं कलियुगप्रियम् || १७९ ||

आनीताश्च महत्योत्र दक्षाम्नायस्य देवताः || तदुपासनतो लोकैः स्वस्वधर्मो विगर्हितः || १८० ||

अस्वादज्ञस्तु पृक्षस्थवारुण्याः काङ्क्षते फलम् || प्. ३८२) क्षुधातुरस्तु भूमिष्ठन्दूरीकृत्य कशेरुकम् || १८१ ||

दिवोदासीयलोकैस्तु दृष्ट्वा त्वरितकौतुकम् || अन्तःप्रधारितो धर्मो वामान्ते कौलिकादिकः || १८२ ||

राज्ञो धर्मं प्रजा भुंक्ते प्रजापापन्तु भूपतिः || तत्पातकेन भूपोसौ काशीतः प्रेषितो दिवम् || मया च काश्यां वसतिः कृता पुत्रप्रसादतः || १८३ ||

येये वामपथे देवा गणकेन नियोजिताः || काशीप्रवेशकामार्थं तेते सन्तोषिताः परैः || १८४ ||

तत्र चीनागणैर्देवैर्वाममार्गेण तर्पणम् || याचितन्तन्मया दत्तन्तन्त्रेषु प्रतिपादितम् || १८५ ||

तन्मार्गनिरता वीरा जायन्ते क्षत्त्रियादयः || स्त्रियो भवन्ति योगिन्यो विप्रस्तत्परिवर्जयेत् || १८६ ||

दिवोदासस्य राज्यान्ते प्राप्ते कलियुगे च तैः || उपद्रुता वेदमार्गे विहिताच्च द्विजातयः || १८७ ||

दुर्जनानान्तु ते भीत्या हिमाचलमुपाश्रिताः || तत्रापि तैरभिद्रुत्य धर्मलोपार्थमुद्यतम् || १८८ ||

तदा विप्रैः स्तुतश्चाहम्बहुभिर्वैदिकैः स्तवैः || तेषाम्मध्यात्समुद्भूतम्मम लिङ्गं मुखान्वितम् || १८९ ||

तद्विलोक्य तु ते वीराः साष्टाङ्गं प्रणता जगुः ||

देवदेव त्वदुक्तस्य ||

मार्गस्यायं व्यतिक्रमः || १९० ||

क्रियते वैदिकैर्मूर्खैस्तदुद्धारार्थमुद्यताः गङ्गाजलादप्यधिकम्पावनं कारणं त्विदम् || १९१ ||

कन्दमूलफलादिभ्यः पवित्रं स्वादु पोषकृत् || एतन्मांसं वयं दद्म उद्धारार्थं त्रिजन्मनाम् || १९२ ||

नानातीर्थसमुद्भूता अनेकविधिसंस्कृताः || भोगमोक्षप्रदा मत्स्यास्तानेभ्यो दातुमुद्यताः || १९३ ||

संसारस्य ह्यसारस्य सारंसारङ्गलोचनाः || अर्द्धाङ्गे या त्वया देव विष्णुना हृदये कृता || १९४ ||

उत्सङ्गे ब्रह्मणा चापि देवेन्द्रेण निजासने || वयं कारुणिकास्तात ह्येतेभ्यो दातुमुद्यताः || १९५ ||

षण्मांसैश्च षडन्नैश्च षट्तीर्थैर्देवसंयुताः || षट्सुगन्धा षड्रसाश्च मुद्रा दातुं समुद्यताः || १९६ ||

ता एते नैव गृह्णन्ति यष्टव्यं पशवो यथा || स्वर्णपात्रस्थपरममन्नं हित्वा तृणाशिनः || १९७ ||

तदा मया धर्मपादरक्षार्थं गदितं वचः || शृण्वन्तु मद्वचो वीराः सर्वप्राणिकृपायुतम् || १९८ ||

अस्मिन्पापे कलौ लोका नेया नो कौलिके पथि || अतिक्षुद्रादियोनीनान्दशस्वेकः प्रजायते || १९९ ||

कृमियोनिषु तेषान्तु दशके चोन्दुरादिकः || प्. ३८३) दशके चोन्दुरादीनां विडालादिः प्रजायते || २०० ||

तेषान्तु दशके पक्षी कश्चिदेकः प्रजायते || तन्मध्ये दशके कश्चिन्मृगजातिषु जायते || २०१ ||

तेषान्दशकमध्ये च महिषो वा वृषो भवेत् || तेषान्तु दशके कश्चित्खरो वा करभो भवेत् || २०२ ||

भवेत्तद्दशके कश्चिद्धयादीनाञ्च जातिषु || तेषान्तु दशके कश्चिन्नरो वाकुञ्जरो भवेत् || २०३ ||

आयुर्वैयस्य कालेन भावयन्तु सदा त्विमम् || तेषामपि मनुष्याणाम्मध्यादेकः प्रजायते || २०४ ||

कञ्चिद्धर्मं पुरस्कृत्य मुक्तोहमिति जायते || तेषान्दशकमध्ये तु कश्चिद्वर्णः प्रजायते || २०५ ||

तेषान्तु दशके कश्चिदनुलोमो भवेज्जनः || तेषान्तु दशके कश्चित्प्राप्नुयाद्द्विजतां नरः || २०६ ||

द्विजानान्दशके कश्चिद्विप्रो भवति कष्टतः || तेषान्तु दशके कश्चित्कर्मनिष्ठः प्रजायते || २०७ ||

कर्मिणा दशके कश्चिद्भवेदाशीलवान्नरः || तेषां तु दशके कश्चिद्योगी भवति बालकः || २०८ ||

योगिनां दशके कश्चिदेको ज्ञानी प्रजायते || ज्ञानिनां दशके कश्चिन्मुक्तो भवति वा न वा || २०९ ||

एवं मोक्षस्सुदुस्साध्यः संसारोयं चिरं स्थितः || सर्व एव हि मुक्ताः स्युः प्रवृत्ताः कौलिके पथि || ब्रह्मसृष्टिविनाशश्च तूर्णमेव भविष्यति || २१० ||

एवं प्रतारिता वीरा ननृतुर्मदमोहिताः || वयम्मुक्तावयम्मुक्ता अन्योन्यञ्जघ्नुरोजसा || २११ ||

पुनः प्रमुदिताः सर्वे वचनञ्चेदमब्रुवन् || अहो पशुजना यूयं निरयम्परमं गताः || २१२ ||

ते वरं याचतास्मभ्यं स्वोद्धारार्थम्भवान्तरे || ततः प्रमुदितैर्विप्रैर्याचितोयं वरस्तदा || २१३ ||

अयं यः स कपालीनो लिङ्गरूपी प्रदृश्यते || अस्माकन्तत्र रमताम्मनःस्वव्यभिचारितम् || २१४ ||

इति श्रुत्वा तदा वीरा वचनञ्चेदमब्रूवन् || सत्यम्भवतु तच्चात्र पशुभिर्याचितन्तु यत् || २१५ ||

ब्रह्मविष्णुमहेशादिशक्तिसूर्यदिवौकसाम् || नाथानस्मान्विहायाद्य पशुभिः किन्नु याच्यते || २१६ ||

वीराय मदिरा मन्त्रो मुद्रा मत्स्यः पलानि च || अहो दैन्यं वयम्भोगमोक्षदाः कौलिका जनाः || भोगेन मुक्तिरस्माकं सा त्यक्ता पशुभिर्जनैः || २१७ ||

भगे लिङ्गं समाधाय यत्सुखं समवाप्यते || तेनार्चितोन्तरात्मायम्मुक्तो भवति तत्क्षणात् || २१८ ||

जठराग्नौ हूयते यत्त्वनेकविधिसंस्कृतम् || प्. ३८४) फलं तेन तु तुष्टश्चेदन्तरात्मा विमुच्यते || २१९ ||

यदैव हृदयङ्गच्छेत्सुधातोप्यधिका सुरा || तदैवं सकलाः क्लेशानाशं यान्ति विमुच्यते || २२० ||

यदैव गन्धो मुद्राया नासिकाञ्च प्रधावति || अमृतानामयं सारः शफरः परिकीर्तितः || २२१ ||

तद्भोगादमृतत्वं चेन्नास्ति किं वैदिके पथि || अहो शृण्वन्तु पशवस्तन्त्रसारमिदं वचः || २२२ ||

पण्डितो वापि मूर्खो वा दीक्षितो वाप्यदीक्षितः || मुद्राः शतसहस्रन्तु कृत्वा मोक्षमवाप्नुयात् || २२३ ||

मुद्रायाः करणञ्चैवं शिक्षणीयं कदाचन || चामुण्डाद्या महादेव्यो भैरवाद्या महाबलाः || २२४ ||

मुद्राभिरेव तृप्यन्ति न पुष्पादिकपूजनैः || महापूजा कृता तेन येन मुद्राष्टकं कृतम् || २२५ ||

स यत्पदमवाप्नोति तन्न ब्रह्मा न शंकरः || अवश्यमेव मुक्तिः स्यात्सहस्रभगदर्शनात् || २२६ ||

पुरा कौलिकमार्गस्य निन्दा वै विष्णुना कृता || तत्पातकवशाज्जातो मत्तो दशरथात्मजः || २२७ ||

यत्तेन निन्दिता शक्तिस्तत्सीता रक्षसा हृता || दुःखञ्च समनुप्राप्तं वियोगश्चानुकालिकः || २२८ ||

शरीरं वैभवं लब्ध्वा पुनस्तेन कृतन्तपः || तदा गोपकुले जातः सदा शक्तिनिषेवकः || २२९ ||

शरीरार्धेन बलिभिर्नित्यमासवसेवकः || षोडशस्त्रीसहस्राणाञ्जातोसौ भगदर्शनात् || २३० ||

मोक्षाधिकारिपशवः शृणुतैतद्धितं वचः || विना मांसं विना मासं विना मत्स्यं च मैथुनम् || २३१ ||

विना मुद्रामन्यतमं भवेन्नास्तीष्टसाधनम् || पशुभिर्याचितं यत्तु किमु चैतत्तदेव हि || २३२ ||

एवमुक्तेन वीरेषु मुनयः शंसितव्रताः || अन्तः प्रफुल्लवदनाः शान्तिपूर्वं वचो जगुः || २३३ ||

वयन्तु पशवो विप्रा अन्नप्राणा विलोकिताः || यूयं सिंहाः सिंहवच्च सदा मासनिषेवकाः || २३४ ||

पशूनां च यथा तृप्तिः शाद्वलेनैव जायते || अन्नेन च तथास्माकं न मांसं भक्षितुं क्षमाः || २३५ ||

सिंहानां तु यथा भक्ष्यं मांसं नान्नं कदाचन || तथैव वीरसिंहानां भक्ष्यं मांसादिकं किल || २३६ ||

इति श्रुत्वा वचस्तेषां प्रोचुस्ते च महेश्वरम् || त्वां सेवयितुंमिच्छन्ति पशवो विप्ररूपिणः || २३७ ||

तस्मात्पशुपतिस्त्वं च नेपालेत्र स्थिरो भव || इत्युक्त्वा ते पुनः पीत्वा मद्यं मत्तास्तथाभवन् || २३८ ||

तदा नानाविधैः स्तोत्रैर्विप्रैः सन्तोषितो ह्यहम् || प्. ३८५) तदा तेभ्यो मया प्रोक्तं व्रियतांव्रियतामिति || २३९ ||

उक्तं तैश्च पुनर्देव कथं मुक्तिः कलौ भवेत् || येनास्माकं भवेच्छ्रेयस्तन्धर्मं वद नः प्रभो || २४० ||

इति तेषां वचः श्रुत्वा मया तत्त्वं निरूपितम् || ज्ञानं विना न मोक्षोत्र ज्ञानं धर्मादृते न हि || तस्माद्द्विजाः प्रकर्तव्यं वेदोक्तं कर्म नित्यशः || २४१ ||

यथा पिष्टेन बडिशमत्र गुप्तं निपात्यते || मत्स्यानां ग्रहणार्थन्तु तद्वत्तन्त्रनिषेवणम् || २४२ ||

कश्चिन्मत्स्यो दैवयोगाच्चूर्णभोक्ता न विद्यते || तदास्य जायते तृप्तिर्जीवनं च भवेद्यथा || २४३ ||

तथैव वाममार्गे च ज्ञाननिर्दग्धकल्मषाः || भवन्ति मुक्ता नान्ये च तस्मात्तं परिवर्ज्जयेत् || २४४ ||

ये वाममार्गनिरता वेदबाह्यानुसारतः || स्वधर्ममेव शंसन्ति वचस्तेषां न मानयेत् || २४५ ||

अस्मिन्कलियुगे घोरे यथाशक्ति करोति यः || सेवनं वेदमार्गस्य कलौ तस्य जनिर्न हि || २४६ ||

यमलोके न निरये पाताले नैवनैव च || यद्ब्राह्मणे जन्म कलौ स एव निरयः स्मृतः || २४७ ||

अतः परं प्रवक्ष्यामि गणेशेन हृताश्च ये || सत्कार्यार्थं दिवोदासनिस्सारार्थंदेवताः || २४८ ||

आनीतास्तास्तु मम वै पार्वत्याश्चापि वल्लभाः || गणेश शासनात्कामो दग्धोपि पुनरुत्थितः || २४९ ||

दिवोदासस्य भवने सर्वेषां हृदये स्थितः || तस्य मन्त्रान्प्रवक्ष्यामि लोकद्वयफलप्रदान् || २५० ||

आदौ क्लीम्बीजरूपोस्य मन्त्र एकाक्षरो मतः || सम्मोहनो मुनिश्छन्तो गायत्रं देवता स्मरः || षड्दीर्घभाजा बीजेन षडङ्गानि प्रकल्पयेत् || २५१ ||

रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् || नानारत्नौघमुकुटभूषणैर्भूषितं शुभम् || २५२ ||

पाशांकुशाविक्षुचापं पुष्पेषून्दधतं करैः || उपविष्टं रक्तपद्मे कामदेवं विभावये || २५३ ||

पद्ममष्टदलं कृत्वा मध्येनङ्गं समर्चयेत् || कर्णिकायां च षट्पत्रे कोणेष्वङ्गानि पूजयेत् || २५४ ||

देवाग्रतस्तु मध्यान्तमर्चयेत्केशरेषु च || मोहिनीं क्षोभिणीं चैव त्रासिनीं स्तम्भिनीं ततः || २५५ ||

आकर्षिणीं द्राविणीं ह्रादिनीं क्लिन्नां च क्लेदिनीम् || षट्पत्रे मदनानङ्गमन्मथा कुसुमाह्वयाः || २५६ ||

अनङ्गकुसुमातुरा ह्यनङ्गशिशिरापि च || अनङ्गमेखलानङ्गदीपिका च ततः परम् || २५७ ||

सर्वा ध्येयाः पद्महस्ताः सालंकाराश्च तद्बहिः || प्. ३८६) पद्मे षोडशपत्राढ्ये स्वाग्रतः परिपूजयेत् || २५८ ||

युवती विप्रलम्भा च ज्योत्स्ना सूरुमदद्रवा || सुरता वारुणी लोला लीला सौदामनी तथा || २५९ ||

कामच्छत्रा चन्द्ररेखा शुकी च मदनाह्वया || योनिर्मायावती चेति तरुण्यः सस्मिताननाः || २६० ||

कह्लारहस्ताः कामार्ताः पत्राग्रे परिचारकान् || विलासविभ्रमौ मोहं शोकं कामस्य पूजयेत् || २६१ ||

मदनातुरापत्रपौ युवानं चन्दनं तथा || रतिप्रियं चूतपुष्पं ग्रीष्मं तापनमूर्जकम् || २६२ ||

हेमन्तं शिशिरं चापि मदन्ते पुष्पसायकाः || एते चार्पिततूणीराः शोणस्त्रीसक्तमानसाः || २६३ ||

इक्षुचापाश्च तद्बाह्ये चाष्टपत्रदलेर्चयेत् || परभूः सारसाक्षश्च शुको मेघस्ततः परम् || २६४ ||

आपांगोरुविलासौ च हीनचीरो रतिप्रियः || भूगृहस्य च कोणे च चतस्रः पूजयेदिमाः || २६५ ||

माधव्याख्या मालती च हरिणाक्षी मदोत्कटा || श्वेतचामरसद्धस्ताः श्यामा भूषितविग्रहाः || २६६ ||

इन्द्रादींश्च ततो बाह्ये वज्रादीन्यपि पूजयेत् || एवमाराधयेद्यस्तु गन्धपुष्पादिभिः स्मरम् || २६७ ||

सौभाग्यमतुलं कामान्महालक्ष्मीं स विन्दति || पुरश्चरणमेतस्य लक्षं द्वादश चोच्यते || २६८ ||

तद्दशांशं त्रिमध्वक्तैः किंशुकप्रसवैर्हुनेत् || तर्पणं मार्जनं कृत्वा ब्राह्मणानपि भोजयेत् || २६९ ||

ततोभ्यर्च्य गुरुं विप्रैः प्रणम्य च सुतोषयेत् || एवं सिद्धमनुर्मन्त्री प्रयोगानाचरेत्ततः || २७० ||

अशोककुसुमैः स्वादुत्रयाक्तैस्त्रिदिनं हुनेत् || अष्टाधिकं सहस्रं यः सर्वेषां स प्रियो भवेत् || २७१ ||

गोघृतेन सुसंपातमष्टोत्तरशतं हुनेत् || सम्यक्प्रपूजिते वह्नौ मन्त्रेणानेन मन्त्रवित् || २७२ ||

सम्पातं सर्पिषां यो वै स्वां नारीं भोजयेत्प्रिये || आज्ञानुवर्तिनी सास्य भवेज्जन्मनि जन्मनि || २७३ ||

दध्यक्तलाजहोमेन प्रत्यहं मण्डलावधि || वाञ्छितांल्लभते मन्त्री कन्या सापि प्रियं पतिम् || २७४ ||

मालामन्त्रं प्रवक्ष्यामि कामदेवस्य सिद्धिदम् || हृदयं कामदेवाय सर्वजनप्रियाय च || २७५ ||

सर्वजनसम्मोहनाय ज्वलद्वह्निमयं वदेत् || प्रज्वल सर्वजनस्य हृदयं ममकीर्तयेत् || २७६ ||

वशंकुरुकुरु स्वाहा मन्त्रो नागकृताक्षरः || षड्दीर्घयतक्लींबीजैः षडङ्गविधिरीरितिः || २७७ ||

आदौ करांगुलाष्वेतान्वर्णान्कामस्य चिन्तयेत् || प्. ३८७) द्रामाद्यां द्राविणीं देवीं द्रोमायां क्षोभिणीमपि || २७८ ||

क्लीं च वशीकरीं न्यस्येत्क्रूं क्लीमाद्यां महेश्वरीम् || आकर्षिणीं च सः पूर्वां सम्मोहिनींहमादिकाम् || २७९ ||

काममन्मथकन्दर्पमकरध्वजसञ्जकाः || मीनकेतुरिमे न्यस्याः पञ्चाङ्गेष्वंगुलीषु च || २८० ||

चत्वारिंशन्मन्त्रवर्णानकारादिस्थले न्यसेत् || मातृकाया नासिकाङ्गेप्यङ्गेष्वथ ततः परम् || २८१ ||

जठरे हृदये कण्ठे वक्रेनसि च पञ्चसु || न्यस्येद्वर्णत्रयं शेषं व्यापकत्वेन सन्न्यसेत् || २८२ ||

पुनः सम्पूर्णमनुना व्यापकं पुनराचरेत् || ततश्च मातृकार्णानां बृहन्न्यासं समाचरेत् || २८३ ||

कामबीजप्रकुटितां मात्रामुक्त्वा च युग्मकम् || भ्यान्तं नमः समुच्चार्य मातृकाङ्गेषु विन्यसेत् || २८४ ||

रतियुक्तं न्यसेत्कामं कामदम्प्रीतिसंयुतम् || कान्तां च कामयुक्तां हि कान्तिमन्तञ्च मोहिनीम् || २८५ ||

कामाङ्गं कमलायुक्तं कामचारं विलासिनीम् || कामयुक्तां कल्पनाञ्च श्यामलां कामुकान्विताम् || शुचिस्मितां न्यसेत्कामवर्धनेन समन्विताम् || २८६ ||

रमायुक्तं विशालाक्षं रमणं लोलजिह्विकाम् || दिगम्बरां रतिनाथं रमाञ्चातिरतिप्रियम् || रात्रिनाथं कुब्जिकाञ्चरमाकान्तञ्च कान्तया || २८७ ||

नित्यया रममाणञ्च कल्परूपां निशाकरम् || नन्दकं भोगिनीयुक्तं नन्दनं कामदायुतम् || सुलोचनां नन्दिनञ्च नन्दयन्तं प्रलापिनीम् || २८८ ||

पञ्चबाणं च मदनींरतिभङ्गकलिप्रियाम् || पुष्पधन्वा मृगाक्षी च सुमुखा च महाधनुः || क्रमणो नलिनीयुक्तो भ्रमणो यजिनीयुतः || २८९ ||

मन्मथो मदनायुक्तो मोर्भङ्गश्चापि मालया || शान्तश्च मुग्धया युक्तो भ्रामको रमया युतः || २९० ||

शृङ्गश्च भ्रमया युक्तो भ्रांताचारस्तु लोलया || भ्रमावहश्चञ्चलया मोहनोदीर्घजिह्वया || २९१ ||

रतिप्रियां मोदकं च मोहाक्षीं लोलमेव च || मोहवर्धनशृङ्गिण्यो मदनं पाटलां तथा || २९२ ||

मन्मथं मदनां चापि मालां मातङ्गमेव च || भृङ्गनायकहंसिन्यौ गायकं विश्वतोमुखीम् || २९३ ||

गीतिज्ञं जगदानन्दं नर्तकं रमणीमपि || क्ष्वेलकं कान्तिसंयुक्तं चोन्मत्तं कलकण्ठिकाम् || २९४ ||

मत्तं वृकोदरायुक्तं मेज्यौ श्यामां विलासिनम् || प्. २८८) सर्वोत्तमायुतं लोभवर्धनं न्यस्य चिन्तयेत् || २९५ ||

प्राग्वत्पूजादिकं तद्वत्कृष्णपीठे समर्चयेत् || प्रयोगाश्चापि कर्तव्याः कृष्णगोपालसम्भवाः || २९६ ||

त्रयोदश्यां शुक्लपक्षे सोमवारे सहस्रकम् || अष्टोत्तरं च ताम्बूलं गजपुष्करभक्षितम् || २९७ ||

पुरुषत्वमवाप्नोति सत्पुत्रं द्रावयेत्प्रियाम् || अथ कामस्य गायत्री प्रोच्यते पूजनादिकम् || संन्यास-एकाक्षरवन्मुनिर्वात्स्यायनो मतः || २९८ ||

कामदेवाय विद्महे पुष्पबाणाय धीमहि || तन्नोऽनङ्गः प्रचोदयात् || २९९ ||

षण्न्वति सहस्राणि जपोस्य परिकीर्तितः || सर्वान्कामानवाप्नोति परत्रापि च सद्गतिम् || ३०० ||

प्रथमन्तु गणेशेन दिवोदासमहीपतेः || अन्तःपुरे प्रेषितोयं नारीणां हृदयं गतः || ३०१ ||

अपास्य च ततो धर्मं राज्ञो हृदयमाविशत् || मन्दधर्मः शापितो यस्तदा काश्या विवासितः || ३०२ ||

तस्माद्गणे शादन्येन कामो मत्तोपि चापरः || विष्णुः काममयो यस्मात्तस्मात्कामः सतां गतिः || ३०३ ||

अन्तःपुरे गते कामे दिवोदासस्य तेजसा || दन्दह्यमानो गणपस्तत्सहायार्थमुद्यतः || ३०४ ||

तदा ध्यात्वा महाकालं महामायां च शाश्वतीम् || तदा तयोः प्रभावेण दृष्टवान्परमं पतिम् || ३०५ ||

तस्मिन्नुदभवत्काचिद्वर्णाली ब्रह्मवादिनः || तामेव च जपंस्तस्थौ वर्षमात्रं विमुक्तितः || ३०६ ||

मणिकर्णिका तटे तस्य सिद्धयः समुपस्थिताः || तदा ख्यातः काशिकायामसौ सिद्धिविनायकः || ३०७ ||

सिद्धये स मनुष्याणां नानारूपधरो भवेत् || लोभद्वेषादिकान्सर्वान्वासयामास तत्र तु || ३०८ ||

स मन्त्रः केवलं कोलवाचको मोक्षदायकः || यत्प्रसादाद्दिवोदासो गुप्तसेनः प्रपञ्चितः || ३०९ ||

तस्मात्प्रपञ्चमन्त्रोयं तन्त्रेषु प्रकटीकृतः || उद्धारार्थमविप्राणां गायत्र्येषा मयोदिता || ३१० ||

सर्वेपि मन्त्रा भो देवा देवसायुज्यकारकाः || तस्य चान्तर्गताः पञ्च मन्त्रो योभ्यो मया कृतः || ३११ ||

पञ्चाम्नायस्य विषयस्तं मन्त्रं कथयाम्यथ || महाकालस्य यो वाची स आदौ प्रणवो मनुः || ३१२ ||

माहामायावाचिका तु हृल्लेखा परिकीर्तिता || जीववाची हंस इति द्व्यक्षरोयं तृतीयकः || ३१३ ||

जीवकर्मच्छेदकरं ज्ञानं यत्प्रोच्यते बुधैः || स एव सोहमिति चेद्व्यर्णो मन्त्रश्चतुर्थकः || ३१४ ||

प्. ३८९) यस्मात्प्रपञ्च उद्भूतो देवतृप्तिकरश्च यः || स्वाहा द्व्यक्षरो मन्त्रः पञ्चमः परिकीर्तितः || ३१५ ||

एवमष्टाक्षरश्चायं मन्त्रराजो निरूपितः || यतो ब्रह्माप्रपञ्चादिः स एवास्य मुनिः स्मृतः || ३१६ ||

गायन्तन्त्रायते यस्माद्गायत्रं छन्द ईरितम् || यस्मादपि स एकोपि तेजसोन्तो न विद्यते || परम्पदेन यत्प्रोक्तं परं ज्योतिश्च देवता || ३१७ ||

आदौ तु मातृकान्यासः केवल प्रथमं स्मृतः || सबिन्दुमातृकान्यासो द्वितीयः परिकीर्तितः || ३१८ ||

कलादिमातृकान्यासस्तृतीयः परिकीर्तितः || केशवादिकमातॄणां चतुर्थो न्यास उच्यते || ३१९ ||

शिवशक्त्यात्मको न्यासः पञ्चमोत्र समीरितः || मायाबीजादिकः षष्ठो मातृकान्यास उच्यते || ३२० ||

श्रीबीजादिकमातॄणां सप्तमो न्यास उच्यते || मातृकाकामबीजाद्यास्तन्न्यासश्चाष्टमो मतः || ३२१ ||

नवमो ह्रींरमाकामबीजपूर्वास्तु मातृकाः || प्रपञ्चपूर्वाणां मन्त्रो मातॄणां दशमः स्मृतः || ३२२ ||

व्यापकत्वाच्च कालस्य न ध्यानं न च पूजनम् || ३२३ ||

लक्षाष्टकं मनोरस्य पुरश्चरणमुच्यते || उग्रताराद्यतिक्रूरस्तारादिश्चैव साधकः || ३२४ ||

अनेन पुटितो जप्तो वर्णलक्षमितो यदि || आगत्य मन्त्रदेवस्तु जायते साध्यकिङ्करः || महाकालप्रभावेण स्वर्गिभ्यो नान्यथा [अन्यून इत्यर्थः] भवेत् || ३२५ ||

समिधस्तु वटप्लक्षपिप्पलोदुम्बरोद्भवाः || तिलसिद्धार्थाज्यहविर्होमद्रव्याष्टकं मतम् || ३२६ ||

होमार्थं पूजयेद्विप्रान्सिद्धमन्त्रस्ततो भवेत् || सिद्ध्यन्ति सर्वकार्याणि प्रयोगः कथ्यतेधुना || ३२७ ||

दशायुतं विधानेन तदर्धमथवा पुनः || कार्यस्यैवानुसारेण हुनेद्रव्याष्टकेन च || ३२८ ||

चौरशत्रुभयव्याधिसर्पराक्षसदोषतः || चतुःशतन्तदर्धं वा तदर्धं वा हुनेत्ततः || ३२९ ||

क्षुद्ररोगेषु जातेषु तत्तद्दोषानुसारतः || रससङ्ख्यसहस्राणि हुनेद्द्रव्याष्टकेन च || ३३० ||

एतद्द्विगुणतश्चाथ चतुर्गुणत एव वा || भूतावेशग्रहावेशकृत्यादीन्सुविनाशयेत् || ३३१ ||

शास्त्रोक्तं तु क्रमं हित्वा जपपूजादिकृत्तु यः || वामे वा कौलिके मार्गे ग्रस्यते भैरवादिभिः || ३३२ ||

स्मृतिभ्रंशो भवेद्यस्य होमद्रव्याष्टकेन च || सहस्रसङ्ख्यहोमेन स्वप्नो भवति तत्क्षणात् || ३३३ ||

प्. ३९०) प्रत्येकं द्विसहस्रं यो हुनेद्द्रव्याष्टकेन च || अपस्मारं स्मृतिभ्रंशं शोषदोषं स नाशयेत् || ३३४ ||

द्रव्याष्टकं त्रिमध्वक्तं हुनेत्तस्य तु भोग्यतः || देवेन्द्रस्य महालक्ष्मीस्तल्लक्ष्म्या लज्जतेतराम् || ३३५ ||

लक्षं लक्षार्धकं वापि त्रिमध्वक्तं तु यो हुनेत् || द्रव्याष्टकं त्रिवर्षार्वाक्तस्य लोकत्रयं वशे || ३३६ ||

वश्यादिसाधनं प्रोक्तं त्विह द्रव्याष्टकेन च || वृद्ध्यादिकं विजानीयाद्धोमं तं कार्यगौरवात् || ३३७ ||

शुद्धैस्तिलैस्तु लक्षं यो होमं कुर्याद्यथाविधि || महापापानि तस्याशु प्रलयं यान्ति नान्यथा || ३३८ ||

लक्षं कमलहोमेन महालक्ष्मीः प्रजायते || हविष्यैः पुष्टिदो होमो घृतहोमो यशस्करः || ३३९ ||

मालतीपुष्पहोमोपि सर्ववश्यप्रदो भवेत् || ३४० ||

सामुद्रं लवणं हुत्वा तथा वश्यं प्रसाधयेत् || अथ शालिसमुद्भूतांस्तण्डुलान्साधु चूर्णयेत् || ३४१ ||

मधुरत्रयसंयुक्ततच्चूर्णेनैव साधकः || साध्यप्रतिकृतिं कुर्यात्सम्यक्संपूज्य तां स्पृशेत् || ३४२ ||

प्राणस्थापनमन्त्रन्तु जपेत्साष्टशतं ततः || विभज्य जुहुयान्मन्त्री तां न्यासक्रमतो निशि || ३४३ ||

सप्तरात्रं प्रकुर्वाणो नरं वा स्त्रियमेव वा || वशीकरोति सोप्येवं नात्र कार्या विचारणा || ३४४ ||

सामुद्रलवणस्यापि पुत्तल्या फलमीदृशम् || प्रादुर्भूते ततस्तस्मिन्वटाग्नौ जुहुयाद्घृतम् || ३४५ ||

अष्टोत्तरशतं मन्त्री भासितं पतितं च यत् || पूर्णौषधिविपक्वेन पञ्चगव्येन पूरिते || ३४६ ||

चुल्ल्यां संस्थापितेधस्ताद्वह्निः कुम्भे प्रदापयेत् || तावत्संख्यं च सञ्जप्य गृह्णीयात्सर्वसिद्धिदम् || ३४७ ||

लक्षणाद्गात्रलेपाच्च तिलकक्रियया तथा || मस्तके धारणात्सद्यः सर्वे नश्यन्त्युपद्रवाः || ३४८ ||

भूतप्रेतपिशाचादिविषरोगादिनाशनम् || सर्ववश्यकरं पुसां श्रीसौभाग्यजयप्रदम् || ३४९ ||

सहस्रसंख्यके होमे तदानीं गुरवे बुदः || पलं पलार्धकं वापि दद्याद्धेम्नो वरस्य च || ३५० ||

कल्पवृक्षाद्यथा देवा लभन्ते वाञ्छितं फलम् || एवं सिद्धिं प्रपञ्चाख्यमन्त्रेण गणपस्य हि || ३५१ ||

तत्सन्निधौ समाजग्मू राजकीया महाजनाः || स एव सर्वशास्त्राणां वक्ताभूज्जगतो गुरुः || ३५२ ||

विना विप्रान्सर्वजनास्तन्त्रमार्गे प्रकीर्तिताः || मकारपञ्चकेनैव जातं सर्वत्र पूजनम् || ३५३ ||

प्. ३९१) शनैश्शनैः समभवत्पृथिव्यां क्वचिदीदृशः || मपंचमन्त्रमाहात्म्याद्राजापि भ्रान्तमानसः || ३५४ ||

मन्नाम्ना कल्पितैर्ग्रन्थैः क्षुद्रदेवरता जनाः || मपंचकस्य सेवातो धर्मं पश्यन्ति ते न हि || ३५५ ||

प्राप्नुवान्त द्रुतं सिद्धिं गणेशस्य प्रभावतः || अहो साक्षात्परब्रह्म अहो गुरुपतिस्त्वयम् || अहोष्टसिद्धिनाथोयं सर्वविद्याविशारदः || ३५६ ||

मथित्वा चतुरो वेदानस्मद्भाग्यात्कृपालुना || दर्शितः कौलिकः पन्था भुक्तिमुक्तिप्रदायकः || ३५७ ||

इति नॄणां वचः श्रुत्वा जग्मुर्विप्राश्च तं प्रति || स तेषां सम्यगातिथ्यं कृत्वा तुष्टाव चागमम् || ३५८ ||

अहो विप्रा जीवहिंसाप्रधानं यज्ञकर्म तु || न कर्तव्यो गुरुप्रोक्तो यज्ञो यागो मपंचकः || ३५९ ||

तपश्चापि न कर्तव्यमात्मा दुःखी प्रजायते || तान्त्रिकं कर्म कर्तव्यं वैदिकं न कदाचन || ३६० ||

वैदिकाः पशवः प्रोक्ता जीवन्मुक्तास्तु तान्त्रिकाः || कुर्वन्त्याभ्यन्तरं कर्म तत्त्वमेतद्विचार्यताम् || ३६१ ||

यद्दीयते प्राप्यते तद्वेदशास्त्रादिसम्मतम् || दुःखं यदात्मनो दत्त्वा कथं सौख्यं प्रलभ्यते || ३६२ ||

सुखबीजेन संसाध्यं महत्सौख्यं द्विजोत्तमाः || तस्मात्कौलं समासाद्य लोकद्वयसुखप्रदम् || मुक्ता भवन्तु भो विप्रास्त्यज्यतां वेदकर्म तत् || ३६३ ||

जातानि बहुवर्षाणि चाहोरात्राणि कुर्वताम् || काचिद्दृष्टा तत्र सिद्धिः प्रत्यक्षं दृश्यतामिदम् || ३६४ ||

प्राणाग्निहोत्रं तन्त्रोक्तं कर्म षट्कप्रकाशतम् || त्यक्त्वा तदग्निहोत्रन्तु चर्यतां दृश्यतामिदं || ३६५ ||

इति तद्वचनं श्रुत्वा सरस्वत्या विमोहिताः || त्यक्त्वाखिलं वेदमार्गं प्रविष्टा वामकौलयोः || ३६६ ||

प्राणाग्निहोत्रं ववक्ष्यामि गणेशेन प्रदर्शितम् || ज्ञानिनां त्वरिता सिद्धिरन्येषां पतनं द्रुतम् || उपविष्टः प्रसन्नात्मा प्राङ्मुखः स्थिरमानसः || अतिमृद्वासनं बद्ध्वा पद्मासनमृजुर्भवेत् || ३६७ ||

शक्तिरूपात्मकं चिन्त्यं मूलाधारे त्रिकोणकम् || मायाबीजन्तु तन्मध्ये चिन्तनीयं गुणात्मकम् || ३६८ ||

प्राग्रकोणात्त्रिकोणेषु त्रिकोणांस्त्रीन्विचिन्तयेत् || हकारं चापि तन्मध्ये ध्यायेत्सत्त्वगुणात्मकम् || ३६९ ||

प्. ३९२) हकारान्तर्गतं ज्योतिश्चेतो भास्करसन्निभम् || सात्त्विकेन हकारेण वेष्टितं तच्च चिन्तयेत् || ३७० ||

स हकारो राजसेन ईकारेण समन्वितः || तामसेन तु रेफेण समाक्रान्तन्तु तद्द्वयम् || ३७१ ||

मूलाधार इति ध्यात्वा पंचकुण्डानि तत्र तु || मध्ये प्राच्यां प्रतिच्यां च कौबेर्यां दक्षिणे तथा || २७२ ||

सर्वदा ज्वलदग्नीनि तानि कुण्डानि भावयेत् || मध्यादिपूर्वतस्तत्र ज्ञेयाः पंचाग्नयो ह्यमी || ३७३ ||

आवसथ्यश्च सत्यश्च गार्हपत्यो हुताशनः || तथा चाहवनीयोग्निरन्वाहार्यश्च पंचमः || ३७४ ||

प्रभाजालनिदानांश्च ज्ञानरूपान्निरंजनान् || द्वादशान्तः स्थितां स्तांश्च कल्पादित्यान्विचिन्तयेत् || ३७५ ||

मातृकार्णानाज्यरूपान्व्यत्ययात्तत्र होमयेत् || त्रं क्षं हं सं षमिति तु ज्ञेया वर्णाश्च पंच च || ३७६ ||

ध्येया मरकतप्रख्याः शास्त्रादिज्ञानकारकाः || शं वं लं रं यं च ध्येयाः पंच गोमेदसन्निभाः || सैंहिकेयस्य पंचैते संग्रामे विजयप्रदाः || ३७७ ||

मं भं बं फं पमिति च वर्णाः पं शनेर्मताः || नीलेन्द्रेण समा ध्येया मन्त्रसिद्धिप्रदायकाः || ३७८ ||

नं धं दं थं तमिति च ध्येया विद्रुमसन्निभाः || भौमस्यैते द्यूतकलिराजद्वारेषु सिद्धिदाः || ३७९ ||

णं ढं डं ठं टमित्येते वर्णाः शुक्रस्य कीर्तिताः || चिन्तनीया वज्रनिभा यात्राकार्यशुभंकराः || ३८० ||

ञं झं जं छं चमिति च पुष्परागसमत्विषः || गुरोरेते विवाहादिकार्यादिषु सुशोभनाः || ३८१ ||

ङं घं गं खं कमित्येते ध्येया वैदुर्यसन्निभाः || केतोरेते शत्रुनाशकरा ध्येया मनीषिभिः || ३८२ ||

अः अं औं ओं च ऐं ए च ऌं ॡं मौक्तिकसन्निभाः || ऋं ॠं ऊं उं च ईंच आं अं चैतेर्कसन्निभाः || वर्णा हीरकसंकाशा राजकार्यकरा इमे || ३८३ ||

एवं ध्यात्वा सखेटार्णांस्ततो होमं समाचरेत् || क्षं शं मं नं णं च ञं ङं अः एं ऊं आवसथ्यके || ३८४ ||

लं वं भं धं ढं च झं घं अं ऌं उं सत्यकुण्डके || हं लं बं दं डं च जं गं औं ऌं ईं जुहुयात्ततः || ३८५ ||

अग्नावाहवनीयाख्ये सं रं फं थं ततश्च ठम् || छं खं ओं ऋं च इं कारमन्वाहार्ये हुनेत्सुधीः || ३८६ ||

पं यं पं तं टं च चं कं ऐं ऋं आं गार्हपत्यके || प्. ३९३) क्षकाराद्यान्नकारान्तान्व्यस्यान्वर्णान्क्रमाद्धुनेत् || ३८७ ||

तारं मायां च तं वर्णं हंसः सोहं ततः परम् || स्वाहेत्युक्त्वा प्रोक्तकुण्डे हुनेदेकैकमक्षरम् || ३८८ ||

अकारस्तु परब्रह्मरूपो ध्येयस्ततो हुनेत् || एवं हुत्वा शब्दजातं सर्वं शास्त्रादिकं हुनेत् || ३८९ ||

आवसथ्याभिधे कुण्डे हं बीजेन गुरूक्तितः || स्पर्शादिकान्वायुगुणान्यं बीजेनेन्द्रकुण्डके || ३९० ||

सर्वरूपाणि जुहुयाद्रं बीजेन च पश्चिमे || वंबीजेन रसान्सर्वान्हुनेत्कुण्डे तथोत्तरे || २९१ ||

लम्बीजेन हुनेत्सर्वान्गन्धान्दक्षिणकुण्डके || प्रलयानलसंकाशज्वलदग्निष्वहर्निशम् || ३९२ ||

होमं कुर्वीत कुण्डेषु मातृकावर्णसंयुतम् || नित्यशुद्धपरानन्दचिद्रूपोसौ विराजते || ३९३ ||

ध्रुवयज्ञादिकं होमं जपान्तं तत्तु पूर्ववत् || पञ्चाशत्सङ्ख्यया कृत्वा न्यस्य तावद्यथाविधि || ३९४ ||

जीवन्मुक्तो भवेन्मन्त्री चिरञ्जीवी च जायते || तेजसा सूर्यकल्पोसौ कर्ता हर्ता च शम्भुवत् || ३९५ ||

प्रत्यहं विधिनानेन भोजनं कुरुते यदि || गार्हपत्यादिकुण्डेषु क्रमाद्ग्रासांस्तु होमयेत् || अथर्वपरिशिष्टोक्तैर्मंत्रैरेतैस्तु पञ्चभिः || ३९६ ||

गार्हपत्येनेहिरण्यवर्णाः शुचयः पावकाः || अग्निं विहृत्यात्मानमुपचर्योर्ध्वं गच्छन्तु स्वाहा || ३९७ ||

अन्वाहार्येऽपाने गगनरुचयः पावकाः || अग्निं विहृत्यात्मानमुपचर्योर्ध्वौधस्तिर्यग्गच्छन्तु स्वाहा || ३९८ ||

आअहवनीये व्याने रक्तवर्णाः शुचयः पावकाः || अग्निं विहृत्यात्मानमुपचर्य तिर्यगूर्ध्वाधो गच्छंतु स्वाहा || ३९९ ||

आवसथ्ये समाने सुप्रभावर्णाः शुचयः पावकाः || अग्निं विहृत्यात्मानमुपचर्य तिर्यगूर्ध्वाधस्समं गच्छन्तु स्वाहा || ४०० ||

एवं होमं विधायाथ मंत्रमेतमुदीरयेत् || एवं भावनया सर्वमश्नीयादुच्यते मनुः || ४०१ ||

अहं वैश्वानरो भूत्वा जुहोम्यन्नं चतुर्विधम् || पञ्चमेन विधानेनोर्ध्वाधस्तिर्यक्षु गच्छतु || ४०२ ||

स्वाहांतोयं चतुस्त्रिंशद्वर्णमंत्र उदाहृतः || तूष्णीं होमं विधायाथ संस्कृतान्नेन मंत्रवित् || ४०३ ||

अमृते त्यादिमन्त्रेण पीत्वा च चुलुकोदकम् || आचम्य विधिना पश्चाच्छुद्धाचमनमाचरेत् || ४०४ ||

मूलाधारं समारभ्य द्वादशान्तावधि स्मरेत् || जीवात्मानं जगद्व्याप्तं नित्यमेकमनन्यगम् || ४०५ ||

प्. ३९४) प्रकृतिस्थं शुभं चादिमध्यान्तरहितं परम् || हवनीयेन शुद्धेन जुहुयात्तेन तर्पितम् || ४०६ ||

एवं गलत्सुधारूपं पञ्चाशद्वर्णसिक्तकम् || भुक्त्वा हविर्हुतं मंत्री सज्वलत्पञ्चवह्निकः || ४०७ ||

प्रातः सायं च कुर्वाणो मंत्री प्राणाग्निहोत्रकम् || गर्भस्थितिभवं क्लेशं विंदते न कदाचन || ४०८ ||

अत्र तत्त्वं प्रवक्ष्यामिकौलिकोद्धारहेतुकम् || या काचिद्वाममार्गेण साध्यते देवता तु सा || ४०९ ||

मपञ्चकेन सा तृप्ता साधकस्येष्टदायिनी || नाधिकारस्तु विप्राणां मपञ्चकनिषेवणे || ४१० ||

अज्ञानान्मोहतो वापि दुर्गरोर्वा प्रसङ्गतः || मपञ्चकस्य सङ्गश्चेज्जातो निरयमश्नुते || ४११ ||

तदुद्धाराय वक्ष्यामि युक्तिं प्राणाग्निहोत्रकम् || मांसस्य भक्षणे चिंत्यं हुनेत्पश्चिमकुण्डके || ४१२ ||

अग्निमुख्यादेवतया हुतं तद्भुज्यते त्विति || मैथुने स्वस्य वीर्यं तु घृतरूपं विचिन्तयेत् || ४१३ ||

दक्षिणाग्निं तु तेनेद्धं भावयेत्सम्भवेत्त तत् || एवमातृप्तिपर्यंतं बालाया मैथुनं चरेत् || ४१४ ||

पूर्णतत्त्वे मनो नीत्वा ध्वजपातः प्रजायते || न तत्र रात्रिजं पापं देवता चेत्प्रसीदति || ४१५ ||

पूर्वकुण्डेहुनेन्मुद्रां मूलमंत्रेण साधकः || देवता तेन तुष्टा स्यान्न पापैरभिभूयते || ४१६ ||

मद्यमुत्तरकुण्डे तु जुहुयाद्देवतामुखे || न चाप्नोत्यस्य गन्धेन पापं वै धर्म एव सः || ४१७ ||

मध्यमे तु हुनेन्मत्स्यान्ध्यायंश्च वडवानलम् || त्यक्तसौख्यः साधकश्चेद्भुक्तिमुक्तिप्रदः स तु || ४१८ ||

इत्थं वो बोधितं विप्रा वाममार्गे प्रकीर्तिताः || नानामंत्रैः कृताः शिष्या ज्ञातॄणां भुक्तिमुक्तिदैः || ४१९ ||

शक्तित्रयात्मको मन्त्रो वाग्वादिन्याः प्रकीर्त्यते || प्रणवं वदयुग्मं च वाग्वादिनि पदं वदेत् || ४२० ||

ह्रींक्लींक्लीन्ने क्लेदिनीति महाक्षोभं वदेत्कुरु || सौरुक्त्वा मोक्षमुच्चार्य कुरुष्व प्रणवं वदेत् || ४२१ ||

वाग्वादिन्या मनुः प्रोक्त एकोनत्रिंशदक्षरः || नवभिश्च नगैर्बाणैर्जायतेस्य मनुत्रयम् || ४२२ ||

ब्रह्मादीनां त्रयाणां तु वाग्देव्यस्तत्र देवताः || उत्पत्तिस्थितिनाशानां कारिकास्ताः प्रकीर्तिताः || ४२३ ||

नास्याः पूजा न च ध्यानं नच्छन्दो न च किञ्चन || प्. ४९५) गणेशस्य प्रसादेन वर्णलक्षजपाद्द्रुतम् || ४२४ ||

वाक्सिद्धिं [वाक्सिद्धिं समवाप्नोति इति पूर्वान्वयि ||] समवाप्नोति कार्योत्पत्त्यादिकं [कार्योत्पत्त्येति तु चिन्तयित्वेत्यनेन संबध्यते ||] हृदि || चिंतयित्वा तथा मंत्रखण्डं जप्त्वा वदेत्सकृत् || ४२५ ||

तदा सा भारती सत्या शापानुग्रहवादिनी || मौनादस्य स्थिरा सिद्धिरशक्तौ मितभाषणात् || ४२६ ||

ततः प्रोक्ता गणेशेन त्रिंशद्व्याख्या तु भैरवी || वदवद वाग्वादिनि ऐमित्येको नवाक्षरः || ४२७ ||

क्लिन्ने क्लेदिनि इत्युक्त्वा महाभागे वदेत्कुरु || भैरवी देवता चात्र वर्णलक्षजपो भवेत् || ४२८ ||

न च पूजादिकं न्यासा मपञ्चकनिषेवणम् || केवलं सिद्धये प्रोक्तं सर्वतन्त्रेषु गोपितम् || ४२९ ||

ज्ञातं यैर्गुरुमार्गेण सिद्धास्ते नात्र संशयः || एताभ्यामेव मन्त्राभ्यां बहवः कौलिकाः कृताः || ४३० ||

अथ वक्ष्ये विप्रगोप्यां देवीं त्रिपुरभैरवीम् || कौलिके वाममार्गे च सिद्धान्ते द्रुतसिद्धिदाम् || ४३१ ||

हकारं च सकारं च रेफमैकारसंयुतम् || नादबिन्दुसमायुक्तं वाग्भवं कूटमुच्यते || ४३२ ||

हकारञ्च सकारञ्च ककारञ्च तथा रवौ || नादबिन्दुसमायुक्ते ईकारे योजयेत्तदा || पञ्चवर्णात्मकं कूटं कामराजाभिधं मतम् || ४३३ ||

हकारञ्च सकारञ्च रेफमैकारसंयुतम् || विसर्गाढ्यं तृतीयन्तु कूटं वर्णत्रयात्मकम् || ४३४ ||

तृतीयबीजे बिन्द्वाढ्यं स्त्रीणामुक्तं न सर्गयुक् || ४३५ ||

आदौ सकारः पश्चाद्धस्त्रिभिः कटत्रयेपि च || पठनीयस्तथा तासां देयो मन्त्रं सुसिद्धये || ४३६ ||

पंक्तिश्छन्दो मुनिः प्रोक्तो दक्षिणामूर्तिसञ्ज्ञकः || देववन्दितपादाब्जा देवी त्रिपुरभैरवी || ४३७ ||

आपादं नाभितस्त्वोघमानानि हृदयात्परम् || आहृन्मूर्द्धागतं चान्त्यं चैवं बीजत्रयं न्यसेत् || ४३८ ||

आद्यं सव्ये परं दक्षे तृतीयमुभयोर्न्यसेत् || ऐं हृत् क्लीं च शिरः प्रोक्तं सौरन्त्येन शिखा मता || ४३९ ||

ऐं वर्म क्लीं च नेत्रं स्यात्सौरास्त्रं परिकीर्तितम् || मूर्ध्न्याधारे हृदि न्यस्यं मनो कूटत्रयं पुनः || ४४० ||

कुर्वीत देहसन्नाहं त्रीभिर्बीजैस्तदुच्यते || मणिबन्धे करतले कराग्रे च क्रमान्न्यसेत् || ४४१ ||

आदौ दक्षे ततो वामे कक्षकूर्परपाणिषु || पुनर्दक्षे च वामे च पादयोश्च तथा न्यसेत् || पादान्ते हृदये लिङ्गे संहारक्रमतो न्यसेत् || ४४२ ||

प्. ३९६) अथ सृष्टिक्रमेणैव बीजान्यंङ्गेषु विन्यसेत् || आदौ वामे ततो दक्षे कर्णयोश्चिबुके ततः || ४४३ ||

शङ्खयोश्च मुखे चैव नेत्रयोश्च तथा न्यसेत् || बाहुद्वये च हृदये कूर्परद्वितये कटौ || ४४४ ||

जानुनोर्व्यञ्जने चापि पादयोर्मलनिर्गमे || पार्श्वद्वये च हृदये स्तनयुग्मे गले तथा || ४४५ ||

नवयोन्यात्मको न्यासः प्रोक्तो बीजत्रयेण तु || लिङ्गे रत्यै नम इति चाद्यबीजेन विन्यसेत् || ४४६ ||

प्रीत्यै नमश्च हृदये मध्यबीजेन विन्यसेत् || मनोभवायै हृदये भ्रुवोर्मध्ये तृतीयकम् || ४४७ ||

सौः क्लीं ऐमिति बीजैश्च स्थानेष्वेव पुनर्न्यसेत् || अमृतेशीं च योगेशीं विश्वयोनिं क्रमादिमाः || विलोमबीजैर्विन्यस्य मूर्तिन्यासमथाचरेत् || ४४८ ||

स्ह्रोमितीशानरूपाय ततो मनोवाय च || नम इत्यन्तः प्रोच्या धरेशानं न्यसेद्बुधः || ४४९ ||

स्ह्रें तत्पुरुषरूपाय मकरध्वजकात्मक || नमः प्रोच्य न्यसेद्वक्त्रे हृदये तु ततो न्यसेत् || ४५० ||

ह्स्रूं अघोररूपाय कन्दर्पस्यात्मने नमः || ह्स्रीं वामदेवरूपाय मन्मथस्यात्मने नमः || ४५१ ||

एतद्गुह्ये प्रविन्यस्य न्यस्येच्च पदयोस्तथा || ह्स्कं सद्योजातात्मने कामदेवाय नम इत्यपि || ४५२ ||

ऊर्ध्वप्राग्दक्षिणोदीच्यपश्चिमेषु मुखैः क्रमात् || प्रविन्यस्येत्ततः पञ्च बाणानङ्गेषु विन्यसेत् || ४५३ ||

ह्रां ह्रीं क्लीं हूम इति च पञ्च बाणाः प्रकीर्तिताः || अंगुष्ठादिकनिष्ठान्तमंगुलीषु क्रमान्न्यसेत् || ४५४ ||

क्षोभणद्रावणाकर्षवश्योन्मादाश्च नामतः || ललाटे च भ्रुवोर्मध्ये मुखकर्णाक्षिकण्ठके || ४५५ ||

हृन्नाभिलिङ्गे विन्यस्या एता अष्टौ च शक्तयः || शुभगाद्या भगा त्वन्या तृतीया भगसर्पिणी || ४५६ ||

चतुर्थी तु पराजेया पञ्चमी भगमालिनी || अनङ्गानङ्गकुसुमा प्रोक्ता चानंगमेखला || ४५७ ||

अनंगमदना सर्वा मदविभ्रममन्थराः || ध्येयाः कुसुम्भवसना हरित्काञ्चिकिकाः शुभाः || ४५८ ||

वाक्कामवूं पुनः स्त्रीं सस्ताराः पञ्चोदितास्त्वमी || न्यासं कुर्याद्भूषणाख्यं ततः स तु निगद्यए || ४५९ ||

न्यस्येच्छिरसि भ्रूमध्ये कर्णाक्षियुगले नसि || गण्डयोरोष्ठयोर्दन्तपंक्त्योरास्ये न्यसेत्स्वरान् || ४६० ||

चिबुकेथ गले कण्ठे पार्श्वयोः स्तनयुग्मके || दोर्मूलयोः कूर्परयोः पाण्योस्तत्पृष्ठदेशतः || ४६१ ||

हस्तद्वये हमित्येकं तत्पृष्ठे च तु नित्यकम् || प्. ३९७) नाभौ गुह्ये पुनश्चोर्वोर्जानुनोर्जंघयोस्तथा || ४६२ ||

स्फिजोश्च गुल्फयोः पश्चाच्चरणांगुष्ठयोर्द्वयोः || ग्रैवेये च तथा कट्यां हृदये दलकुण्डले || वामकुण्डलके मूर्ध्नि बलये पानके तथा || ४६३ ||

हृदयस्थारुणाम्भोजकर्णिकामध्यसंस्थिताम् || जपाकुसुमसङ्काशामरुणाम्बरभूषणाम् || ४६४ ||

स्मितसौधमहामोहां त्रिनेत्रां चन्द्रशेखराम् || विश्वसौन्दर्यसर्वस्वजन्मसागररूपिणीम् || ४६५ ||

ब्रह्माब्जनेत्ररुद्रेशशिवाक्षैर्मण्डसञ्ज्ञितैः || मण्डिताङ्गीं महादेवीं मुक्ताजपवटीधराम् || ४६६ ||

पुस्तकालंकृतकरां वरदाभयधारिणीम् || आनन्दमधुरां देवीं मदाघूर्णितलोचनाम् || रक्ताङ्गरागसुभगां ध्यायेत्त्रिपुरभैरवीम् || ४६७ ||

पूजायन्त्रं प्रवक्ष्यामि भैरवीबालयोरथ || नवयोन्यात्मकं कुर्यान्मण्डलं गुरुमार्गतः || ४६८ ||

हकारञ्च सकारञ्च रेफमौकारसंयुतम् || बिन्दुद्वययुतं चाग्रे त्रिकोणे मध्यमे न्यसेत् || ४६९ ||

योन्यष्टके कामबीजं बहिरष्टदलं लिखेत् || केशरेषु स्वरालेख्या द्वन्द्वशोग्रदलेषु च || ४७० ||

कचटांस्तपयान्वर्णाञ्छक्षौ च विलिखेत्क्रमात् || क्रमाद्दलानां ग्रन्थीश्च प्रणवाभ्यां ततश्चरेत् || ४७१ ||

दलाग्रेषु त्रिशूलानि बहिर्भूपुरमालिखेत् || शूलाग्रेषु लिखेद्वर्णान्क्रमात्त्रिभ्यश्च पूर्वतः || ४७२ ||

खगघाङ्ङछजांश्चापि झञठाण्डढणास्तथा || थदधान्नफवाश्चापि भसराल्लंवषांस्तथा || ४७३ ||

वृत्तद्वयं च तद्बाह्ये वीथिकायां च मातृकाः || चतुरस्रत्रयं कुर्यात्तद्बाह्ये देवतार्चनम् || ४७४ ||

यन्त्रमध्ये देवपृष्ठाः प्रादक्षिण्येन पूजयेत् || द्वादशैताश्चाद्यवीथ्यामेकस्यां दिशि तु त्रयम् || ४७५ ||

वामा ज्येष्ठा तथा रौद्री अम्बिकेच्छे ततः परम् || ज्ञानोत्क्रियाकुब्जिका च बिम्बा देवी विषघ्निका || ४७६ ||

दुस्तरा च तथा नन्दा ध्यानमासां निरूप्यते || विप्रा वेदविदो यूयं तच्छृणुध्वं समाहिताः || ४७७ ||

मुक्ताफलामलमणिस्फुरच्छत्रं शशिप्रभम् || गङ्गातरङ्गधवलं चामरद्वयमद्रिजे [पार्वति] || ४७८ ||

नवरत्नस्फुरद्दीप्तताम्बूलस्य करण्डकम् || मल्लिकामालतीजातीशतपत्राढ्यदामभिः || ४७९ ||

पूर्णं रत्नमयं भाण्डं तथालङ्कारपूरितम् || प्. ३९८) पटीञ्च व्यजनद्वन्द्वं नवरत्नविचित्रितम् || ४८० ||

नीलकण्ठस्य पूच्छैश्च तथोशीरविराजितम् || कर्पूरमृगनाभ्याढ्यं कर्पूरक्षोदसंयुतम् || ४८१ ||

चषकं स्वर्णरचितं कङ्कतीं हीरराजिताम् || कज्जलस्य शलाकां च करण्डं चन्द्रपूरितम् || ४८२ ||

दधानाः परमेशान्यः शक्तयः पीठसंस्थिताः || पूर्वादिक्रमतः सर्वाः सर्वाभरणभूषिताः || ४८३ ||

सम्पूज्य मध्ये देवेशीं प्रेतसिंहासनं यजेत् || रक्तस्धर्णाकृति स्वर्णदीप्तिमत्कलमव्ययम् || पञ्चप्रेतासनं साक्षान्मोक्षदायि न संशयः || ४८४ ||

ह्स्कोः सदाशिवमहाप्रेतपद्मासनाय च || हृदन्तः षोडशार्णोयं मन्त्रः स्यात्पीठपूजनम् || ४८५ ||

सिंहासनं च सम्पूज्यं चक्रैर्व्याकुलसुन्दरीम् || आवाहनाद्या मुद्राश्च दर्शयित्वा प्रदर्शयेत् || वरमुद्रां चाभयाख्यां ध्यायेत्त्रिपुरभैरवीम् || ४८६ ||

हृदयस्यारुणाम्भोजकर्णिका मध्यसंस्थिताम् || जपाकुसुमसंकाशारुणां स्वर्णविभूषणाम् || ४८७ ||

स्मितसौधमहामोहां त्रिनेत्रां चन्द्रशेखराम् || विश्वसौन्दर्य सर्वस्वजन्मसागररूपिणीम् || ४८८ ||

ब्रह्मार्कविष्णुरुद्रेशशिवाख्यैर्मञ्चसंज्ञिकैः || मण्डिताङ्गीं महादेवीं मुक्ताजपवटीधराम् || ४८९ ||

पुस्तकालङ्कृतकरां वरदाभयधारिणीम् || आनन्दमधुरां देवीं मदाघूर्णितलोचनाम् || ४९० ||

रक्तांगसुभगां साक्षाद्ध्यायेत्त्रिपुरभैरवीम् || मुद्राविंशतिसंख्याकास्ततो देव्यै प्रदर्शयेत् || ४९१ ||

वराभये पुस्तकाक्षमाले चांकुशपाशकौ || चापबाणे कपालं च कमलं चायुधं तथा || कपालाख्यं वामहस्ततलं कुर्यात्कपालवत् || ४९२ ||

आवाहनाद्या आदौ स्युश्चतस्रोन्ते च पं च || दर्शनीया योनिमुद्रास्तासां लक्षणमुच्यते || ४९३ ||

योनिमुद्रा हृदि क्षिप्ता त्रैलोक्यं क्षिभिणी भवेत् || त्रैलोक्यद्राविणी चास्य त्रिलोक्याकर्ष्णी भ्रुवोः || ४९४ ||

त्रैलोक्यवशकृद्भालेह्लादकृद्ब्रह्मरन्ध्रके || ततः षडंगावरणं पीठस्योपरितोर्चयेत् || ४९५ ||

अग्नीशासुरवायव्यमध्ये दिग्दिक्षु च क्रमात् || अग्निकोणे रतिं पश्चात्प्रीतिमुत्तरकोणके || ४९६ ||

मनोभवान्दक्षकोणे ततो बाणान्समर्चयेत् || द्वौद्वावर्वागुदक्चैकमग्रे कामांश्च बाणवत् || ४९७ ||

तत्र सम्पूजयेदेताः पूर्वादिक्रमतो बुधः || अनङ्गकुसुमा चाद्या द्वितीयानङ्गमेखला || ४९८ ||

प्. ३९९) तृटीयानङ्गमदनाग्रेनङ्गमदनातुरा || शुभगा पञ्चमी देवी भगाग्रे भगसर्पिणी || ४९९ ||

भगमालात्र सर्वत्र देवपृष्ठं च पूर्वदिक् || अष्टयोनिषु ब्राह्माद्या बाह्ये चाष्टदलद्वयम् || ५०० ||

ब्राह्म्यायुक्तश्चासिताङ्गो रुरुर्माहेश्वरीयुतः || चण्डः कौमारिकायुक्तः क्रोधः स्याद्वैष्णवीयुतः || ५०१ ||

वाराह्या च तथोन्मत्तो माहेन्द्र्या च कपालभृत् || चामुण्डाभीषणौ महालक्ष्मीः संहारसंयुता || ५०२ ||

दीर्घस्वराष्टको बिन्दुयुक्तानामहृदान्विताः || क्रमात्स्युरष्टशक्तीनां पूजनेष्टौ मनूत्तमाः || ५०३ ||

न हृद्भैरवमन्त्रेषु स्वरा ह्रस्वाः सबिन्दुकाः || कामरूपश्च मलयस्ततः कोल्लगिरिः स्मृतः || ५०४ ||

कुल्मान्तकवचौ हारे ह्यतो जालन्धरः परः || उड्डीयानं देवकोटं पीठाष्टकमुदाहृतम् || ५०५ ||

ग्रन्थिस्थानेषु सम्पूज्यं पश्चिमादिक्रमेण तु || हेतुकं भैरवं त्वाद्यं द्वितीयं त्रिपुरान्तकम् || ५०६ ||

वेतालमग्निजिह्वं च कालान्तककपालिनौ || एकपादं भीमरूपं ततो [एतदग्रे तूत्तरान्वयि] बाह्ये तु भूपुरे || ५०७ ||

पूजयेल्लोकपालांश्च ऊर्ध्वाधः क्रमतो यजेत् || ब्रह्माणं चैव विष्णुं चाप्यर्चयेत्पश्चिमादितः || वम्पूर्वोवटुको ङेन्तो हृदयान्तस्तथैव च || ५०८ ||

आदौ त्रिकोणं तद्बाह्ये वृत्तं च चतुरस्रकम् || पूर्वमन्त्रैः समभ्यर्च्य वटुकादींस्ततः परम् || बलिमन्त्रैश्च बलयो देया यन्त्रान्वदाम्यथ || ५०९ ||

एह्येहि देवीपुत्रान्ते वटुकान्ते च नाथ च || कपिलान्ते जटाभारभास्वरान्ते त्रिनेत्र च || ज्वालामुखेति सर्वान्ते विघ्नान्नाशयनाशय || ५१० ||

सर्वोपचारसहितं बलिं गृह्णद्वयं वदेत् || पंचपंचादशार्णोयं स्वाहान्तो वटुकस्य तु || ५११ ||

पात्रान्तरेण गृह्णीयात्पूर्वं स्थापितपात्रतः || तोयं गृहीत्वा वामांगुष्ठेन वै विसृजेद्बलिम् || ५१२ ||

ओं यां योगिनीभ्यः स्वाहा सवर्णंयोगिनीपदम् || हुं फट् स्वहेति धृत्यर्णो योगिनीनां बलौ मनुः || ५१३ ||

वामांगुष्ठानामिकाभ्यां मध्ये च पातयेद्बलिम् || सद्वीर्ययुक्तं क्षं प्रोच्य स्थाने क्षेत्रे निपानभूः || ५१४ ||

धूपदीपादि सहितं बलिं गृह्णद्वयं वधूः || अग्नेरष्टनवार्णोयं क्षेत्रपालबलेर्मनुः || ५१५ ||

प्. ४००) अंगुष्ठतर्जनीभ्यां च तर्जन्या चैकयापि च || गां गीं गूं गणपतये वर वरद शर्व च || ५१६ ||

जनं मे वशमानय बलिं गृह्ण द्वयं वदेत् || स्वाहान्ता एकत्रिंशच्च मनौ वर्णाः प्रकीर्तिताः || ५१७ ||

वामांगुष्ठमध्यमाभ्यां प्रोक्ष्याग्रे बलिमुत्सृजेत् || निर्माल्यभोजिनी चास्य देवी त्रिपुरचण्डिका || ५१८ ||

न जपेत्त्रिंशतो न्यूनं साधकस्तु कदाचन || तत्सम्प्रदायशुद्धात्मगुरोर्लध्वा मनुं सुधीः || ५१९ ||

प्रजपेत्सिद्धये सूर्यलक्षं मन्त्रं दृढव्रतः || तत्सहस्रं प्रजुहुयात्पलाशकुसुमैर्नवैः || त्रिस्वादुयुक्तैरश्वारिकुसुमैरथवा हुनेत् || ५२० ||

रक्ताम्बरः प्रीतमना मौक्तिकाभरणैर्युतः || चन्दनागुरुकर्पूरकृतगात्रानुलेपनः || ५२१ ||

ब्रह्मचर्यरतः शान्तो विरतः परषड्गुणे || सर्वभूतसुहृन्मौनी कुमारीपूजको भवेत् || ५२२ ||

अथैतस्या एकबीज प्रयोगो वक्ष्यतेधुना || नवकुन्दनिभां देवीं मुक्ताजालविभूषिताम् || मुक्ताकलापविद्याक्षमालाराजच्चतुर्भुजाम् || ५२३ ||

एतस्याः प्रथमम्बीजं लक्षं जपति संयतः || कविता जायते तस्य नानावृत्तार्थशोभना || ५२४ ||

अथ द्वितीयबीजस्य ध्यानादिकमिदं स्मृतम् || रक्तां सुरतरोर्मूलविलसन्मणिपीठगाम् || ५२५ ||

पाशञ्च बीजपूरश्च बाणानंकुशमेव च || कपालञ धनुश्चेति षड्भुजैर्दधतीं भजे || ५२६ ||

रक्तैरलंकृतां पुष्पैर्मदाघूर्णितलोचनाम् || हेलाविलाससम्पन्नां नवयुवनसुन्दरीम् || ५२७ ||

देवीं ध्यात्वा जपेद्बीजं यो लक्षं मध्यतो वशी || त्रैलोक्यं क्षोभयेदाशु पूर्ववत्सिद्धिभागसौ || ५२८ ||

अथो तृतीयबीजस्य वक्ष्ये ध्यानादिकं खलु || अक्षमालासुधाककुम्भमुद्रापुस्तकधारिणीम् || ५२९ ||

नवकुन्देन्दुसंकाशां राजन्मौक्तिकभूषणाम् || शक्तिं सच्चिन्मयं ध्यात्वा बीजं सारस्वतं वशी || यो जपेज्जायते तस्य कविता भुवि सम्मता || ५३० ||

पलाशपुष्पैस्त्रिस्वादुयुतैर्होमायुतद्वयम् || कुर्यात्सरस्वतीतुष्ट्यै सौभाग्यानां गृहं हि सः || ५३१ ||

जाती करञ्जकशमीवटोद्भवसमिद्वरैः || बिल्वप्रसूनैस्त्रिस्वादुयुतैर्होमं समाचरेत् || परनारीनृपाणां च रञ्जनं भवति ध्रुवम् || ५३२ ||

मालतीवकुलोद्भूतैर्दलैश्चन्दनवारिणा || सिक्तैर्हुनेत्क्रमात्तस्य कवित्वमभिजायते || ५३३ ||

अनुलोमविलोमेन मध्यस्थं साध्यकर्मयुक् [अमभाव आर्षः] || प्. ४०१) मनुं प्रजप्य होतव्यं लोणराजिकया ततः || नरनारीनृपांश्चैव वशयेन्नात्र संशयः || ५३४ ||

त्रिस्वादुयुग्बिल्वफलैर्होमो मर्त्त्यावरञ्जनः || साधकस्य समृद्धिश्च कमलाया भवेदपि || ५३५ ||

त्रिस्वादुयुग्गुडूचीभिर्होमो रोगारिनाशनः || गुप्तरूपा स्थिता काश्यामेवं त्रिपुरभैरवी || ५३६ ||

अथ सम्पत्प्रदां वक्ष्ये देवीं त्रिपुरभैरवीम् || आहूतां गणनाथेन कौलिकाचारपूजिताम् || ५३७ ||

हकारं च सकारं च खकारं च फरौ तथा || ऋकारस्वरसंयुक्तं बिन्दुनादविभूषितम् || पञ्चवर्णात्मकं कूटं प्रथमं परिकीर्तितम् || ५३८ ||

द्वितीयं बीजमृजमैः कात्कौ स्याच्च तृतीयकम् || एवं मंत्रः समाख्यातो द्विरावृत्त्या षडङ्गकम् || ५३९ ||

प्राग्वदस्याश्चरेन्न्यासं ध्यानमस्या निरूप्यते || उद्यत्सूर्यसहस्राभां चन्द्रचूडां त्रिलोचनाम् || ५४० ||

नानालङ्कारसुभगां सर्ववैरिनिकर्तनीम् || स्रवद्रुधिरमुण्डालिललितां रक्तवाससम् || ५४१ ||

डमरुञ्च त्रिशूलं च खड्गं खेटकमेव च || पिनाकं च शरान्पाशानंकुशं पुस्तकं तथा || ५४२ ||

अक्षमालां च बिभ्राणां शवसिंहासनस्थिताम् || एवं ध्यात्वा यजेत्पीठं प्रथमं पीठमन्त्रतः || ५४३ ||

अघोरे ऐं ओं चं घोरे मायां घोरद्वयान्तरम् || श्रीं सर्वतः सर्वसर्वेभ्यो नमस्ते पदं वदेत् || रुद्ररूपेभ्यो ह्रीं श्रीं च देवार्णः पीठमन्त्रकः || ५४४ ||

ततः पूज्यास्तु पीठस्य शक्तयः पृष्ठदेशतः || वामां ज्येष्ठां च रौद्रीं च कालीं च वरलोचनाम् || ५४५ ||

कलाढ्यां च बलाढ्यां च यजेद्धिंकारिणीं ततः || बलप्रमथिनीञ्चैव सर्वभूतदमां तथा || ५४६ ||

द्वादशैताः क्रमाद्देव्यो मदनीं च मनोन्मनीम् || पूजापीठं समुद्धृत्य प्राग्वदङ्गानि पूजयेत् || ५४७ ||

रत्यादित्रयमभ्यर्च्य तथानंगादिकान्यजेत् || ब्राह्म्यादियुग्मं सम्पूज्य वसुपत्रेषु मातृकाः || भूपुरे लोकपालांश्च सायुधान्परमेश्वरि || ५४८ ||

अन्यः सर्वः प्रयोगोयं त्रिपुराभैरवीसमः || चतन्यभैरवीमन्त्रस्त्र्यक्षरः कथ्यतेऽधुना || सहावकारसंयुक्तौ प्रथमं बीजमीरितम् || ५४९ ||

सकलैरीसमायुक्तैर्द्वितीयं बीजमुच्यते || सहरौद्रीसमायुक्ता विसर्गांतास्तृतीयकम् || ५५० ||

उद्यद्भानुसहस्राभां नानालङ्कारभूषिताम् || प्. ४०२) मुकुटोर्ध्वलसच्चन्द्ररेखां रक्ताम्बराचिताम् || ५५१ ||

पाशांकुशधरां नित्यां वामहस्तकपालिनीम् || वरदाभयशोभाढ्यां पीनोन्नतघनस्तनीम् || ५५२ ||

एवं ध्यात्वा यजेद्देवीं पूर्वसिंहासने स्थिताम् || द्विरावृत्त्या षडङ्गानि न्यस्येत्सर्वांगलक्षणम् || ५५३ ||

त्रिकोणं चैव षट्कोणं वसुपत्रं ततः परम् || चतुरस्रं चतुर्द्वारमेवं मण्डलमालिखेत् || ५५४ ||

प्रथमावरणं चात्रषडंगैः परिकल्पयेत् || रत्यादिकास्ततः पूज्यास्त्रिकोणाग्रे वसन्तकम् || वामे कामं विधुं दक्षे यजेद्बाणांश्च पूर्ववत् || ५५५ ||

डाकिनीं शाकिनीं चैव लाकिनीं काकिनीं ततः || शाकिनीं हाकिनीं चापि पश्चिमादिक्रमाद्यजेत् || अनङ्गकुसुमाद्याश्च वसुपत्रेषु पूर्ववत् || ५५६ ||

परभृत्सारसाख्यौ च शुकमेघाह्वयौ पुनः || अपाङ्गभ्रूविलासौ च हावभावौ प्रपूजयेत् || ५५७ |||

पुरश्चर्यादिकं प्राग्वत्प्रयोगांश्चापि साधयेत् || तद्वदेव च पूजापि शेषं न्यासादिकं तथा || ५५८ ||

अथातः सम्प्रवक्ष्यामि भुवनेश्वरभैरवीम् || हसावकारसंयुक्तौ प्रथमं बीजमीरितम् || ५५९ ||

हंसकला ह्रींसमेता द्वितीयं बीजमुच्यते || हसावौकारसंयुक्तौ विसर्गान्तं तृतीयकम् || षड्दीर्घान्वितमध्येन बीजेनोक्तं षडङ्गकम् || ५६० ||

जपाकुसुमसङ्काशां दाडिमीकुसुमप्रभाम् || चन्द्ररेखां जटाजूटां त्रिनेत्रां रक्तवाससम् || ५६१ ||

नानालङ्कारसुभगां पीनोन्नतघनस्तनीम् || पाशांकुशवराभीतीर्दधानां च शिवां श्रये || ५६२ ||

चैतन्यभैरवीवत्स्याद्यद्यन्नोक्तमिहाथ तत् || षडङ्गावरणं चात्र पूर्ववत्परितो यजेत् || ५६३ ||

रत्याद्याः पूजयेद्देवि त्रिकोणे तदनन्तरम् || ब्रह्मविष्णुमहेशाद्यास्तत्र पूजा बहिः पुनः || ५६४ ||

डाकिन्याद्या वसुदले षड्दले हाकिनीमुखाः || अनङ्गकुसुमाद्याश्च ब्राह्म्याद्याश्च समंततः || ५६५ ||

भूबिम्बे लोकपालांश्च बटुकाद्यांश्च पूजयेत् || चतुःषष्टियोगिनीभ्यो हृदन्तोयं दशाक्षरः || ५६६ ||

अष्टपत्रेषु भूबिम्बे त्वेकोच्चारेण पूजयेत् || एकादशमहाकोटियोगिनीभ्यो नमोर्चयेत् || ५६७ ||

जपादिकं प्रयोगाश्च ज्ञेयाः प्राग्वत्त एव हि || अथातः सम्प्रवक्ष्यामि भैरवीं कमलेश्वरीम् || ५६८ ||

हसस्थाने सहेत्युक्त्वा सर्वं मन्त्रादि पूर्ववत् || राज्ञाज्ञाता ततः शप्ता तुहिनागेऽभवन्नदी || ५६९ ||

त्यक्तस्तया वाममार्गो राजभीत्या तु मत्कृते || प्. ४०३) यतो लब्धं तया दुःखं कलौ ख्यातिं गमिष्यति || ५७० ||

पुनस्तेषु च देवेषु प्रत्यक्षेयं भविष्यति || अवर्णाद्याश्च वर्णाश्च भविष्यन्ति वरप्रदाः || ५७१ ||

त्यक्त्वा मपञ्चकं पूजां कृत्वा ये चैव मत्पराः || अस्यास्तीरे पुरीश्वर्या न च तेषु प्रसीदति || ५७२ ||

भुवनेशी भैरवी तु कृत्वा रूपान्तरं मम || कार्यार्थं बहवः शिष्याः कौलिका वामनाः कृताः || तस्माद्ध्यानाद्यर्चनादि प्राग्वद्दक्षिणमार्गतः || ५७३ ||

अथातः सम्प्रवक्ष्यामि हसराद्यां च भैरवीम् || भुवनेश्वरभैरव्या बीजादौ हसरान्पठेत् || ५७४ ||

त्रयाणामपि बीजानां प्रथमं व्यञ्जनात्मकम् || हसराद्यांस्तथा विद्यात्प्राग्वत्पूजादिकं मतम् || ५७५ ||

अथातः सम्प्रवक्ष्यामि सिद्धां कौलेशभैरवीम् || आद्यन्तबीजयो रेफरहिता हसरादिकाः || ५७६ ||

कौलेश्वरी भवेद्विद्या कौलिकानां सुद्धिदा || सम्पत्प्रदा भैरवीवत्सर्वं ध्यानादिकं मतम् || ५७७ ||

कुर्वन्तोपीदृशं कर्म दिवोदासस्य तेजसा || न शक्तास्तत्र संस्थातुं तदा देवेन ढुण्ढिना || ५७८ ||

जयदुर्गा समाहूता भजतां जयदायिनी || ऊर्द्ध्वाम्नायस्य ये देवास्तान्वक्ष्यामि समासतः || ५७९ ||

दुर्गेदुर्गेतिदुर्घटेच प्रणवादिनवाक्षरम् || एकादशार्ण्णं स्वाहांतं मन्त्रयुग्मं तदीयकम् || ५८० ||

नारदो मुनिराख्यातो विराट् छन्द उदाहृतम् || जयदुर्गा देवतास्य भुक्तिमुक्तिफलप्रदा || ५८१ ||

ताराद्यैः पञ्चमन्त्रस्य पदैः सर्वेशधीर्मता || जातियुक्तैरङ्गकॢप्तिः षट्पदैस्तैः षडङ्गकम् || ५८२ ||

अष्टपत्राम्बुजद्वन्द्वं चतुरस्रत्रयावृतम् || चतुर्द्वारसमायुक्तं कुंकुमादिभिरुद्धरेत् || ५८३ ||

कुर्यात्स्वपीठपूजायां नवशक्तिसमर्चनम् || प्रभा माया जया चैव सुप्रभा च विशुद्धिका || ५८४ ||

नादिनी सुप्रभावापि विजया सिद्धिदा तथा || एकवह्निशरक्लीबहीनैरद्भिः प्रपूजयेत् || ५८५ ||

तारो वज्रनखदंष्ट्रायुधाय महासिंहाय || हुं फट् नमः सिद्धमनुः पीठं चानेन पूजयेत् || ५८६ ||

आसनं मनुना तेन दद्यान्मूलेन कल्पयेत् || मूर्तिमावाह्य तस्यान्तः पूजयेच्चन्दनादिभिः || ५८७ ||

क्रमादावरणाङ्गैश्च जयादिसुप्रभादिभिः || देवायुधैर्दिगीशैश्च हेतिभिर्ध्यानमुच्यते || ५८८ ||

मेघाभां चन्द्रमुकुटां सिंहास्यां त्रीक्षणां करैः || चक्रं खड्गं चर्म दरं दधानां च क्रमाद्भजे || ५८९ ||

प्. ४०४) जया च विजया कीर्तिः प्रीतिश्चापि प्रभा मता || श्रद्धा मेधा श्रुतिश्चेति ओमाद्यक्षरपूर्विकाः || ५९० ||

असिर्दरो गदा खड्गपाशांकुशशरा धनुः || इत्यायुधानि प्रोक्तानि लक्षाणां पञ्चकं जपेत् || ५९१ ||

दशांशं जुहुयादाज्यैस्तर्पणादि ततश्चरेत् || ततः सिद्धमनुर्मन्त्री प्रयोगानाचरेत्सुधीः || ५९२ ||

इमं मन्त्रं जपेद्भूयः प्रविशेत्क्षत्त्रसङ्गरम् || अशेषेण रिपुं हन्यान्नात्र कार्या विचारणा || ५९३ ||

विवादे व्यवहारादौ जप्तो विजयदो भवेत् || अनया विद्ययास्त्राणि शस्त्राणि सुबहून्यपि || ५९४ ||

सञ्जप्तानि च संग्रामे सम्यग्विजयदानि तु || एतदाराधनाद्देवा दिवोदासोभवत्क्षणात् || संग्रामे सैन्यवर्गस्य क्षयमालोक्य मोहितः || ५९५ ||

योच्चारणार्थमनीता दिवोदासस्य भूभुजः || वनदुर्गा स्थिता गंगापारे तस्या मनुं शृणु || ५९६ ||

उत्तिष्ठ पुरुषीत्युक्त्वा किं स्वपिषि भयं वदेत् || मे शमयेति चोच्चार्य पश्चाद्ब्रूयात्स्थितं तथा || ५९७ ||

यदि शक्यमशक्यं वा तन्मे भगवतीति च || शमयाग्निवधूश्चेति मन्त्रो नगगुणार्णकः || ५९८ ||

स्वकार्यं साधयित्वेवं गणनाथेन कीलिता || ५९९ ||

एनां जपेच्च निष्कीलां तदा सिद्धिः प्रजायते || ६०० ||

ओं ह्रीं दुं दुं पुनर्दुं च प्रथमं बीजपञ्चकम् || मन्त्रादौ योजयेदन्ते दुंहीमोमि इति मन्त्रवित् || ६०१ ||

निष्कीला जायते विद्यासाधकानां सुसिद्धिदा || आरण्यको मुनिः प्रोक्तो ह्यनुष्टुप् छन्द ईरितम् || ६०२ ||

वनदुर्गा देवतास्य सर्वशत्रुविनाशिनी || ऋत्वष्टाष्टभूबाणैर्मन्त्रार्णैः स्यात्षडङ्गकम् || ६०३ ||

दक्षपादांगुलीमूले गुल्फे जानुनि चोरुके || गुदेलिङ्गे तथा मूलाधारे च जठरे तथा || ६०४ ||

पार्श्वयुग्मे हृदि कुचद्वन्द्वे कण्ठे च सन्धिषु || करयोर्वदने नासागण्डयुक्कर्णयुग्मके || ६०५ ||

भ्रूमध्ये मूर्धनि मनोर्वर्णा न्यस्या यथाविधि || विद्युन्निभां त्रिनेत्रां च ह्यरुणे पङ्कजे स्थिताम् || ६०६ ||

चक्रं दरं वराभीती हस्तेषु दधतीं शुभाम् || स्वर्णोद्यत्कान्तिवसनां शशिमौलिं वनस्थिताम् || ६०७ ||

प्रसन्नां पुष्पभूषाढ्यां पार्श्वोद्यन्मृगशाविकाम् || इति ध्यात्वा यजेद्देवीं पीठे पूर्वोदिते ततः || ६०८ ||

पूर्वमङ्गानि पूज्यानि तत आर्यादिका यजेत् || चक्राद्यस्त्राणि मातॄश्च लोकेशानायुधानि च || ६०९ ||

प्. ४०५) आर्या दुर्गा च भद्रा च भद्रकाल्याम्बिका तथा || क्षेम्या च वेदगर्भा च शाङ्करी चाष्टमी मता || ६१० ||

शङ्खचक्रासिखेटेषु धनुः शूलं गदेति च || वेदलक्षं जपेन्मन्त्रं तद्दशांशं हुनेत्तिलैः || ६११ ||

व्रीह्याज्यतिलदुग्धान्नैर्दुर्गां सञ्चिंत्य चानले || तर्पणं मार्जनं कृत्वा ब्राह्मणाराधनं तथा || ६१२ ||

धनधान्यादिभिः सम्यक्तोषयित्वा निजं गुरुम् || एवं सिद्धमनुर्मन्त्री वाञ्छितार्थान्प्रसाधयेत् || ६१३ ||

दुर्गां प्रयोगभेदेन चिन्तयेद्वनवासिनीम् || ध्यायेच्छ्रियं श्यामलाङ्गीं हयारेर्मूर्धनि स्थिताम् || ६१४ ||

शङ्खचक्रासिबाणांश्च तर्जनीचर्म खेटकम् || चापं च दधतीं हस्तैः सुप्रसन्नाननां भजे || ६१५ ||

प्रत्यहं प्रजपेन्मन्त्री स्वरक्षार्थं शतं सदा || सहस्रं च तदन्ते च प्रयोगान्कर्त्तुमर्हति || ६१६ ||

यद्यदुद्दिश्य च मनुं सहस्रं वायुतं जपेत् || अचिराल्लभते तत्तदसाध्यमपि साधकः || ६१७ ||

प्रातःस्नायी न्यासपूर्वं स्मरन्देवीमनन्यधीः || नित्यं सहस्रं प्रजपेन्मन्त्रं साधकसत्तमः || ६१८ ||

क्रूरसर्पग्रहाद्यांश्च दोषान्प्रशमयेत्सुधीः || हुनेदारण्यकतिलैराजिकाभिश्च वा हुनेत् || ६१९ ||

अपामार्गसमिद्भिर्वा नाशयेत्सकलान्गदान् || अपस्मारादिकान्मन्त्री नात्र कार्या विचारणा || ६२० ||

न्यग्रोधोत्थसमिद्भिश्च सशुंगाभिर्हुनेत्सुधीः || दशाहतो वाञ्छितार्थसिद्धिर्भवति नान्यथा || ६२१ ||

त्र्यहं वा सप्तरात्रं वा चेधै रास्नासमुद्भवैः || एकैकं सकलं मन्त्री हुनेद्वञ्छितसिद्धये || ६२२ ||

त्रिंशच्छरान्सिताग्रांश्च विधाय जुहुयाद्बुधः || कुटुतैलैः सहस्रं वा ह्ययुतैस्तदनन्तरम् || ६२३ ||

सम्पाततैलरसनान्समभ्यर्च्य यथाविधि || पूर्ववत्प्रजपेन्मन्त्रं ताञ्च्छरानपि भूपतिः || ६२४ ||

शुद्धाचारश्च धीरश्च धन्वी संग्राममानसः || गृहीत्वा परसेनायां मध्ये गच्छेदभीतवत् || साधनानि दिशः सर्वाः समन्तात्सफलास्तदा || ६२५ ||

स आगत्य पुनर्भूयो गुरुं धान्यैर्धनैरपि || वस्त्रालङ्करणैश्चापि तोषयेज्जयदायिनम् || ६२६ ||

अष्टाधिकशतेनाथ जपेन शवभस्म च || निक्षिपेद्यस्य शिरसि स विद्विष्टो भवेज्जनैः || देशाद्देशान्तरं चैव सदा भ्राम्यति काकवत् || ६२७ ||

कारस्करद्रुमोत्थैश्च पत्रैर्वायुनिपातितैः || सहस्रं जुहुयात्पादरजोभिः सहवैरिणः || ६२८ ||

प्. ४०६) उच्चाटोथ [१- अस्य पूर्वपद्यघटकवैरिण इत्यत्र सम्बन्धः |
२- अथानन्तरं विषवृक्षकुसुमहोमात्स्तम्भनमिति भावः] भवेत्सद्यो विषवृक्षसमुद्भवैः || पुष्पैर्हुनेत्सहस्रं च सेना संस्तम्भयेद्बुधः || ६२९ ||

तावद्भिस्तस्य पत्रैश्च मन्त्री सेनां निवर्तयेत् || विषवृक्षसमुद्भूतां शत्रोः प्रतिकृतिं शुभाम् || ६३० ||

कृत्वा प्रतिष्ठितप्राणां खण्डखण्डीकृतां निशि || कृष्णपक्षे चतुर्दश्यां ककोलूकवसायुतैः || ६३१ ||

होमाद्रिपुर्नाशमेति ह्युन्मत्तसमिधा तथा || होमान्मत्तो रिपुर्नूनं भवत्येव सहस्रतः || ६३२ ||

वैरिणः प्रतिमा कृत्वा सम्यक् संस्थापितानिलाम् || विषत्रिकटुकालिप्तां सम्यगुष्णजले क्षिपेत् || ६३३ ||

प्रजपेच्च मनुं सद्यो ज्वराक्रान्तो भवेद्रिपुः || दुग्धाभिषेकतः शान्तिर्भवत्यस्य न संशयः || ६३४ ||

प्रतिमां विषवृक्षोत्थां निक्षिपेदुष्णवारिणि || उन्मादश्च रिपोः सद्यः पूर्ववच्छान्तिरीरिता || ६३५ ||

सूर्यबिम्बवदारक्तां शूलतर्जनीकाधराम् || ध्यात्वायुतं प्रजप्याथ मारयेद्रिपुसञ्चयम् || ६३६ ||

असिखेटकरार्कस्था क्रुद्धा सा वनवासिनी || संस्मृता मन्त्रजापेन शमयेच्छत्रुसञ्चयम् || ६३७ ||

शरचापकरां सिंहस्थितां पावकसन्निभाम् [ध्यात्वेति शेषः] || कारस्करद्रुसमिधा ह्ययुतं जुहुयात्सुधीः || ६३८ ||

रोगिणोः वैरिणः [शत्रूणामिति शेषः] सर्वे जायन्ते चाचिरात्तदा || विषवृक्षोत्थितैः पत्रैरभिनाशं प्रयान्ति च || ६३९ ||

तद्वृक्षसुमनोभिः स्यादुच्चाटः करिणां ध्रुवम् || राजवृक्षसमिद्धोमाद्रोगा नश्यन्ति दंतिनाम् || ६४० ||

विषवृक्षप्रसूनैश्च त्रिमध्वक्तैरिभव्रजः || वशी भवेत्तथा श्रीघ्रं पत्रैरादित्यकोत्थितैः || ६४१ ||

त्रिस्वादुयुक्तैः करिणो जातिमंतो भवन्ति च || अभ्यंगः पञ्चगव्येन लोकरक्षाकरः स्मृतः || ६४२ ||

करिणां [अर्द्धं पूर्वान्वयि |
] मनुजानां च प्राग्वै तन्त्रविदुत्तमैः || सर्पिस्तिलैर्नित्यकटुराजिकापञ्चगव्यकैः || ६४३ ||

हविस्तण्डुलकैश्चैव प्रत्येकं तु सहस्रशः || जुहुयादिभसङ्घानां वृद्धिर्भवति नान्यथा || ६४४ ||

महान्तं ब्रह्मवृक्षं च च्छित्त्वा निर्भिद्य पञ्चधा || दिक्क्रमेणैव पञ्चाथ आयुधानि प्रकल्पयेत् || ६४५ ||

सम्यङ्नित्यं गदा शङ्खो नन्दकश्चक्रशार्ङ्गकौ || कौमोदकीति क्रमतोप्युक्तमायुधपञ्चकम् || ६४६ ||

प्. ४०७) निक्षिप्य पञ्चगव्ये च जपेत्पञ्चसहस्रकम् || तावच्चाज्येन जुहुयात्सम्पातं तत्र पातयेत् || ६४७ ||

भूयश्च पूर्वसंख्याकं जपं कुर्याद्विचक्षणः || विदध्याद्दैवतान्पञ्च पञ्चगव्यप्रपूरितान् || ६४८ ||

मध्ये हि तेष्वायुधानि निक्षिपेद्भूतले समे || कुर्याच्छातिं ततो मन्त्रैर्बलिं हव्यं निजैः शुभैः || ६४९ ||

नगरग्रामदेशानां कारयेत्क्षेममीदृशम् || यत्रेयं क्रियते रक्षा कमला तत्र वर्धते || ६५० ||

धनधान्यसमृद्धिः स्याद्रिपुचौरभयं न च || पद्मैर्नृपं वशीकुर्यात्तत्पनीमुत्पलैरपि || ६५१ ||

ब्राह्मणान्कुमुदैर्हुत्वा कह्लारैर्विश एव च || शूद्राल्लंवणहोमेन ग्रामं जातीप्रसूनकैः || ६५२ ||

शङ्खचक्रगदाम्भोजहस्तं सञ्चिन्तयेच्छुभम् || रविबिम्बे मुकुन्दं च मनुप्रोक्तेष्टलिङ्गकम् || ६५३ ||

प्रजपेद्वाथ पुरुषो भगवत्पादयोरथ || सर्वसिद्धिकरः प्रोक्तः प्रकारोयं सुमन्त्रिभिः || ६५४ ||

साध्यनामाक्षरैः सम्यग्विदर्भितमनुं लिखेत् || यन्त्रे मृदं कुलालस्य करलग्नां प्रगृह्य च || ६५५ ||

तया कृता या प्रतिमा तस्या हृदि च सन्न्यसेत् || संस्थापित्वाभिमुख्येन सप्ताहं प्रजपेन्मनुम् || सन्ध्यात्रये शतं चाष्टाधिकं वश्यो भवेत्तु सः || ६५६ ||

व्रीहीन्हुनेदष्टशतं प्रत्यहं वत्सराद्भवेत् || व्रीहिमान्गोपयोभिश्च पशुमान्भवति ध्रुवम् || ६५७ ||

घृतहोमान्मन्त्रिणः स्यात्काञ्चनाप्तिर्महीयसी || दध्ना च सर्वसिद्धिः स्यादन्नैरन्नसमृद्धियुक् || ६५८ ||

मधुहोमेन रत्नानां निधिर्भवति नान्यथा || दूर्वाहोमेन दीर्घायुर्मन्त्री भवति निश्चितम् || ६५९ ||

श्वेतगुञ्जाः समानीय कुडवप्रमिताः शुभाः || एतन्मन्त्रं तु जप्त्वा ता विकिरेच्छत्रुसैन्यके || ६६० ||

मन्त्रोत्तमः सुजप्तः स तेनासौ वैरिणश्चमूः || ज्वरादिकैर्महारोगैः पिडिता सा नृणां चिरम् || ६६१ ||

सेनाधिपतिमुख्यानां परस्परविरोधतः || एवं ह्युपद्रवैर्नानाविधैर्नाशं प्रयाति च || ६६२ ||

अथातः सम्प्रवक्ष्यामि बीजरूपं महामनुम् || दुरित्येकाक्षरो मन्त्रस्सर्वमन्त्रोत्तमो मतः || ६६३ ||

ऋषिः काश्यप उद्दिष्टो गायत्री छन्द ईरितम् || देवता तु भवेद्दुर्गा षडङ्गानां विधिस्तथा || षड्दीर्घयुक्तबीजेन विसर्गेणान्वितेन च || ६६४ ||

दूर्वाश्यामां त्रिनेत्रां च कमलेष्टदले स्थिताम् || प्. ४०८) शूलं बाणं खड्गचक्रे शङ्खं खेटं शरासनम् || कपालानि च दक्षाधः क्रमेण दधतीं स्मरेत् || ६६५ ||

चतुर्लक्षं जपेन्मन्त्रं दशांशं जुहुयात्तिलैः || पूजादिकं प्रयोगादि नवदुर्गासमं स्मृतम् || ६६६ ||

येये भूपोपकाराय लक्ष्मीमन्त्राः सुरोधिताः || गणेशेनैव काश्यां ते चार्थदास्तान्व्रवीस्यहम् || ६६७ ||

नमः कमलवासिन्यै स्वाहा चेति दशाक्षरः || ऋष्याद्या दक्षवद्देवी कमला समुदीरिता || ६६८ ||

देवीं च पद्मिनीं विष्णुपत्नीं तु वरदां मताम् || तथा कमलरूपां च ङेनमोन्तां च विन्यसेत् || पञ्चाङ्गेषु च ताराद्या ध्यानमस्या निरूप्यते || ६६९ ||

तडित्कान्तिं पद्मयुगवरदाभयसत्कराम् || शरीरभासा भुवनं भासयन्तीं सरोजगाम् || ६७० ||

काञ्चीमुकुटमञ्जीरनूपुरै रुचिरां श्रये || आदावङ्गानि तद्बाह्ये कमलाद्यष्टशक्तयः [द्वितीयार्थे प्रथमा] || ६७१ ||

तद्बाह्ये लोकपालांश्च तदस्त्राणि च तद्बहिः || एवमभ्यर्चयेल्लक्ष्मी भवेत्सद्यो धनाधिपः || ६७२ ||

पञ्चलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः || तद्दशांशं सरसिजैस्त्रिस्वाद्वक्तैर्हुनेत्सुधीः || ६७३ ||

नद्यां समुद्रगामिन्यां कण्ठदघ्ने जले स्थितः || लक्षत्रयं जपेन्मन्त्री भवेदर्थान्वितो नरः || ६७४ ||

नन्द्यावर्त्तप्रसूनैश्च जुहुयादूत्तराक्रमे || रमां सम्पूज्य साहस्रं तावद्बिल्वैर्मधुप्लुतैः || ६७५ ||

फलैर्हुनेत्पौर्णमास्यां पञ्चम्यां वा सिताम्बुजैः || शुक्रवारेब्जपुष्पैश्च मासं यो जुहुयात्सुधीः || संवत्सराद्धनं पूर्णं लभते नात्र संशयः || ६७६ ||

किम्बहूक्तेन भजते मनुमेनं जितेन्द्रियः || स वाञ्छितार्थाल्लंभते वसुधान्यसमृद्धियुक् || ६७७ ||

अथ वक्ष्ये गणेशेन काशीराज्याप्तये मम || सांबादित्यस्य रक्षोदिग्भागे लक्ष्मीरुपासिता || लक्ष्मीविनायकस्तत्र प्रसिद्धोसौ गजाननः || ६७८ ||

दक्षिणेनैव मार्गेण तस्याः सिद्धिर्न वामतः || सकारश्च हकारश्च कलरा वर्णपञ्चकम् || ६७९ ||

ईकारस्वरसंयुक्तं प्रथमं कूटमुच्यते || हंबीजं तु द्वितीयं स्यात्प्रोक्तोयं त्र्यक्षरो मनुः || ६८० ||

ऋषिर्हरिश्च गायत्री छन्दो लक्ष्मीश्च मोहिनी || साम्राज्यदा देवतोक्ता कूटं बीजं प्रकीर्तितम् || ६८१ ||

प्. ४०९) शक्तिं श्रीं च षडङ्गानि षड्भिर्दीर्घैः समाचरेत् || अतसीपुष्पसङ्काशां रत्न भूषणभूषिताम् || ६८२ ||

शंखचक्रगदापद्मशार्ङ्गबाणधरां करैः || षड्भिः कराभ्यां देवेशीं वरदाभयशोभिताम् || ६८३ ||

पूजायन्त्रं त्रिकोणं स्यादष्टपत्रं सुभूपुरम् || मध्ये प्रपूजयेद्देवीं षडंगानि ततो यजेत् || ६८४ ||

त्रिकोणकोणे गायत्रीं सावित्रीं च सरस्वतीम् || ईशकोणात्क्रमेणैव ब्राह्म्याद्याश्च दलाष्टके || ६८५ ||

एकोच्चारक्रमेणैव भूपुरे मनुना पुरा || अष्टादशमहाकोटियोगिनीभ्यो नमोस्त्विति || ६८६ ||

मन्त्रेण पूजयेत्पश्चादिन्द्रादीनायुधान्यपि || पुनर्देवीं समभ्यर्च्य गन्धपुष्पाक्षतादिभिः || ६८७ ||

बटुकक्षेत्रपालेभ्यो योगिनीभ्यो बलिं हरेत् || एवमष्टभुजां ध्यात्वा त्रिलक्षं प्रजपेत्सुधीः || ६८८ ||

तद्दशांशेन पद्मैस्तु हुनेत्साम्राज्यसिद्धये || एवमर्चयतो लक्ष्मीं साम्राज्यं स्यादसंशयम् || ६८९ ||

अथातः सम्प्रवक्ष्यामि नित्यक्लिन्नामनुं परम् || भवार्णोसौ मुखे मायानित्यक्लिन्ने मददवे || ६९० ||

स्वाहान्तोस्य मुनिर्ब्रह्मा छन्दस्त्रिष्टुप् च देवता || नित्यक्लिन्ना ह्रीं च बीजं स्वथा शक्तिः समीरिता || ६९१ ||

क्लिन्नेति कीलकं प्रोक्तं हृदाद्यने समीरितम् || द्वाभ्यांद्वाभ्यां च शेषाणि कुर्यादंगानि साधकः || ६९२ ||

हृदये दृग्द्वये कर्णद्वये नासाद्वयेपि च || लिंगे गुह्ये पादयोश्च मन्त्रार्णान्क्रमतो न्यसेत् || ६९३ ||

अरुणामरुणाकल्पामरुणांशुकधारिणीम् || अरुणस्रग्विलेपां तां चारुस्मरेमुखाम्बुजाम् || ६९४ ||

नेत्रत्रयोल्लसद्वक्त्रां भाले धर्माम्बुमौक्तिकैः || विराजमानां मुकुटलसदर्धेन्दुशेखराम् || ६९५ ||

चतुर्भिर्बाहुभिः पाशमंकुशं पानपात्रकम् || अभयं बिभ्रतीं पद्ममध्यासीनां मदालसाम् || ६९६ ||

ध्यात्वैवं पूजयेन्नित्यं प्रागुक्ते शक्तिपीठके || त्रिकोणमादौ तस्यान्तः षट्कोणं बाह्यके लिखेत् || ६९७ ||

पद्ममाष्टदलं बाह्ये भूपुरेण च वेष्टितम् || तत्र मध्ये यजेद्देवीं चन्दनादिभिरुत्तमैः || ६९८ ||

कर्णिकायोनि मध्यस्थदेशे वायवीशवह्निषु || नैर्-ऋत्यां पुरतो दिक्षु यजेदंगानि षट् क्रमात् || ६९९ ||

क्षोभिणीं मोहिनीं लोकां त्रिषु कोणेषु पूजयेत् || नित्यां निरञ्जनां क्लिन्नां क्लेदिनीं मदनातुराम् || मदद्रवां द्राविणीं च द्रावितां चाष्टपत्रके || ७०० ||

४१०) मदाविला मंगलां च मन्मथार्तां मनस्विनीम् || महोन्मोदां मानमयीं माया मन्दां सितावतीम् || द्वारपार्श्वेषु कोणेषु दिक्षु द्वादश पूजयेत् || ७०१ ||

देव्यग्रद्वारके वामं पार्श्वमारभ्य पूजयेत् || लोकेशानपि तद्बाह्ये तदस्त्राणि ततो बहिः || ७०२ ||

ध्यात्वैवं प्रजपेल्लक्षमनुमेतं दशांशतः || बन्धूकपुष्पैः स्वाद्वक्तैर्जुहुयाद्धविषाथ वा || ७०३ ||

तद्दशांशं कल्पयित्वा जलैः कर्पूरवासितैः || आत्मानमभिषिच्याथ ब्राह्मणान्भोजयेत्ततः || ७०४ ||

वित्तभूषाम्बराद्यैश्च तोषयेद्गुरुमात्मनः || सिद्धे मन्त्रे प्रकूर्वीत प्रयोगान्मन्त्रवित्तमः || ७०५ ||

ततो विद्याप्रयोगार्हो नित्यार्चानिरतस्तथा || सहस्रजापी तद्भक्तः कुर्यादुक्तं न चान्यथा || ७०६ ||

पद्मै रक्तैस्त्रिमध्वक्तैर्होमाल्लक्ष्मीमवाप्नुयात् || तथैव कैरवैरक्तैराज्ञश्च स्ववर्शं नयेत् || ७०७ ||

समानरूपवत्सायाः शुक्लाया गोः पयःप्लुतैः || मल्लिकामालतीजातीशतपत्रैर्हुनेद्भवेत् || स्वर्णाप्तिः स्तम्भनं शत्रोर्नृपादीनां क्रुधोपि च || ७०८ ||

आज्याक्तैः करवीरोत्थैः प्रसूनैराहुतैर्ध्रुवम् || रक्ताम्बराणि वाणिज्यं भूतमर्त्यं वशं नयेत् || भूषावाहनवाणिज्यसिद्धयः स्युः स्ववांछिताः || ७०९ ||

लवणैः सर्षपैर्गौरेरितरैर्वाथ होमतः || तत्तैलाक्तैर्निशामध्ये त्वानयेद्वांछितां वधूम् || ७१० ||

तैलाक्तैर्जुहुयात्कृष्णदरपुष्पैर्निशान्तरा || मासादरातिस्तीव्रार्तिज्वरेण परिपीड्यते || ७११ ||

अरुष्कसुघृताक्तैस्तद्बीजैर्निशि च होमतः || व्रणाः शरीरे नश्येयुर्दुस्साध्याश्च चिकित्सकैः || ७१२ ||

तैलैन दलितांगस्तु रिपुर्याति यमालयम् || तथा तत्तैलसं सिक्तैर्बीजैरंकोलकैरपि || ७१३ ||

मरिचैः सर्षपाज्यक्तैर्निशि होमात्तु मानसे || वांछितां वनितां कामज्वरार्तामानयेद्ध्रुवम् || ७१४ ||

मरिचैः सर्षपोपेतैः सप्तरात्रं हुतैर्निशि || धनमानकुलैर्नित्यं दुष्प्राप्यामानयेद्वधूम् || ७१५ ||

अन्नाद्यैर्जुहुयान्नित्यं शतमष्टोत्तरं तु वा || तेनान्नपूर्णे भवने भोक्ता च भवति ध्रुवम् || तण्डुलैराज्ययुक्तैश्च होमाच्छालीनवाप्नुयात् || ७१६ ||

साध्यक्षवृक्षसम्भूतविष्टपादरजः कृताम् || राजीमरीचलवणैर्जुहुयात्पुत्तलीं निशि || प्रपदाभ्यां च जंघाभ्यांजानुभ्यामूरुयुग्मतः || ७१७ ||

नाभेरधस्तद्धृदयाद्गलात्कण्ठात्तथैव च || प्. ७११) छित्त्वा शिरस्सुतीक्ष्णेन शस्त्रेण जुहुयात्क्रमात् || एवं द्वादशधा होमान्नरनारीनराधिपाः || ७१८ ||

वश्या भवेयुः सर्वे हि ज्वरार्त्ताश्चास्य वांछया || प्रयान्ति निधनं चास्य वांछया नान्ययोगतः || पिष्टेन गुडयुक्तेन मरिचैर्जीरकैर्युताम् || ७१९ ||

कृत्वा पुत्तलिकां साध्यज्ञानमुक्तामथो हृदि || सनामहोमसम्पातघृते सम्पच्य तां पुनः || स्पृशन्निजकारग्रेण सहस्रं प्रजपेन्मनुम् || ७२० ||

अभ्यर्च्य तत्घृताक्तेन भक्षयेत्तद्धिया जपन् || नरनारीनृपास्तस्य वश्यास्स्युर्मरणावधि || ७२१ ||

तैरेव पिष्टैर्वृत्तं तु कृत्वा तन्मध्यतस्तथा || साध्यनामस्फुटं कृत्वा प्राग्वत्सम्पाच्य भक्षणात् || ७२२ ||

वश्यास्ते [इदम्पूर्वान्वयि] वत्सरं भूयः स्वनामार्थान्वितैस्तथा || कृत्वा पिपच्य खादंस्तु वशयेत्तं तदर्थकम् || ७२३ ||

नारिकेरपयोभिस्तु तर्पणाद्वनिता वशा || कर्पूरवासितैस्तोयैर्मनुष्यान्वशयेत्स्थितान् || ७२४ ||

तर्पणाल्लवणाम्भोभिस्सर्वे स्युस्तस्य किंकराः || तथा लवणयुक्तेन तोयेन वनिता वशा || ७२५ ||

शुद्धेन वारिणा मासं तदर्धं तप्तवारकान् || तर्पयेद्यस्य नाम्नैवं स तस्य स्याद्वशेऽनिशम् || ७२६ ||

केतकीवासितैर्जम्बूयुतै रम्भाफलोदकैः || तर्पणाद्वनिता वश्या दद्युः प्राणानपि प्रियान् || ७२७ ||

तर्पणाल्लवणाम्भोभिस्सतिलैः किन्नरा वशाः || शुद्धेन वारिणा मासं तर्पणात्स्यान्निजं धनम् || नमेरुवासितैस्तोयैस्तर्पणाद्भूमिपा वशाः || ७२८ ||

कस्तूरीवासितैस्तोयैस्तर्पणाद्भूमिपा वशाः || चम्पकैर्वासितजलैस्तर्पणं सर्वरञ्जनम् || ७२९ ||

पाटलीशतपत्राभ्यां वासितैर्ज्जलतर्पणैः || सर्वलोकचमत्कारी ध्रुवं भवति नित्यशः || ७३० ||

कस्तूरीवासिताम्भोभिस्तर्पणं सर्वसिद्धिकृत् || इन्द्रचन्दनसौरभ्यवासिताम्भः प्रतर्पणैः || ७३१ ||

वाञ्छितार्थसुसंसिद्धिस्तर्पयेद्वैरिमृत्यवे [इदम्पूर्वान्वयि] || केवलोष्णोदकैस्तस्य तीव्रज्वरसमुद्भवः || ७३२ ||

निम्बपत्ररसोपेतैरम्बुमिस्तर्पणाद्द्विषाम् || जायतेन्योन्यवैरुद्ध्यं येन ते नाशमाप्नुयुः || ७३३ ||

तथैवात्युष्णसलिलैस्तर्पणाद्द्वेषिणो भृशम् || अतीसारादिभिर्दोषैरुदर्यैरोगमाप्नुयुः || सर्वविद्यास्वियं मुख्या देवी श्रीविद्यया समा || ७३४ ||

प्. ४१२) अथातः सम्प्रवक्ष्यामि नित्यक्लिन्नामनुं परम् || ओं ह्रीं मैमिति बीजानि नित्यक्लिन्ने मदद्रवे || ७३५ ||

ओं ह्रीं स्वाहेति तिथ्यर्णो मंत्रोयं वाञ्छितार्थदः || ऋषिः सम्मोहनश्छन्दो विराडुक्तं तु देवता || नित्यक्लिन्नाभिधा देवी चतुर्वर्गफलप्रदा || ७३६ ||

विना वाग्भवबीजं तु द्विद्वियुग्मेषुबाणकैः || समस्तेनांगषट्कं स्यान्नित्यक्लिन्नां स्मरेत्ततः || ७३७ ||

सुरासमुद्रमध्ये तु पृथुद्वीपं स्मरेद्बुधः || तेजोमयं तत्र वनं नानाकल्पद्रुमान्वितम् || ७३८ ||

भृंगालिमंजुनादेन मंदवातेन सेवितम् || मनोज्ञतृणपुष्पाद्यैर्युक्ते माणिक्यमण्डपे || ७३९ ||

रत्नसिंहासनं तस्य मध्ये राजत्त्रिकोणके || तन्मध्येष्टदले देवीमुपविष्टां च संस्मरेत् || ७४० ||

शीतांशुचूडामरुणाम्भोजाभाम्बिभ्रतीं करैः || पाशांकुशौ कल्पवल्लीं कपालं दोर्युगेन च || वादयन्तीं कलां वीणां त्र्यक्षां नित्यां स्मराम्यहम् || ७४१ ||

इति ध्यात्वा यजेत्पीठं चतुश्शक्तियुतं सुधीः || सयोनिकर्णिकं पद्ममष्टपत्रविराजितम् || ७४२ ||

आं द्राविण्यै च वामायै हृदुक्त्वैशानके यजेत् || ईं स्यादाह्लादकारिण्यै ज्येष्ठायै हृद्गुदासने || ७४३ ||

ऊं क्षोभिण्यै च रद्र्यै च नमः पश्चिमकोणके || ऐं गुह्यशक्त्यै हृत्प्रोक्तं यजेन्मध्ये त्रिकोणके || ह्रीं सर्वशक्तिकमलासनाय हृदयान्ततः || ७४४ ||

पूज्यं त्रयोदशार्णेन देव्याश्चासनमुत्तमम् || नित्यक्लिन्नां तत्र यजेद्वक्ष्यमाणेन वर्त्मना || ७४५ ||

केशरेष्वंगपूजा स्यात्पत्रेष्वेताः प्रपूजयेत् || ईं नित्या मीं सुभद्रां च मंगलां वनचारिणीम् || ७४६ ||

उ ऊं पूर्वा मे सुभगा मैं पूर्वा चापि दुर्भगाम् || मनोन्मनी च ओं पूर्वा मौं पूर्वारुद्ररूपिणीम् || चतुर्थ्यन्तहृदन्तेन नाममन्त्रेण पूजयेत् || ७४७ ||

वल्लकी वादनपरा ह्युष्णा रक्ता मनोहरा || मदमन्थरगामिन्यः सुभूषाश्चारुभूषणाः || ७४८ ||

हव्यञ्जनाढ्यं कामस्य बीजं बिन्दुद्वयान्वितम् || उच्चार्य ङेहृदन्तांश्चानंगादीन्पूजयेत्क्रमात् || ७४९ ||

पञ्चपत्रेषु देव्यग्रप्रादक्षिण्येन ते तथा || अनंगश्च स्मरो मन्मथाख्यः कामश्च मारकः || पञ्चपुष्पेषुपाशाह्वनांकुशेक्षुधनुर्भृतः || ७५० ||

पृष्ठभागे भ्रूणयुक्ता शक्तिस्तत्पार्श्वसंस्थिताः || भूषायुक्ताः स्मरेद्वक्त्रकमलाः साधु पूजयेत् || ७५१ ||

प्. ४१३) ततो बाह्ये दशदले देव्यग्रादि प्रदक्षिणम् || षण्डान्तस्वरहीनञ्च ककारं बिन्दुभूषितत् || ७५२ ||

एकैकं पूर्वमुच्चार्य ङेहृदन्तञ्च नाम च || अयन्तु पूजामन्त्रः स्यात्सर्वासां चाप्यनुक्रमात् || ७५३ ||

रतिश्च विरतिः प्रीतिः विप्रीतिश्च मतिस्तथा || दुर्भतिर्निधृतिर्विधृतिस्तुष्टिश्चापि वितुष्टिका || ७५४ ||

अरुणाभरणोपेता वीणाहस्ताः स्मिताननाः || लोकपालास्ततो बाह्ये तदस्त्राणि ततो बहिः || ७५५ ||

वह्निलक्षं जपेन्मन्त्रं तद्दशांशं हुनेत्पुनः || घृतेन तर्पणाद्यं च कृत्वा संतोष्य देशिकम् || ७५६ ||

धनधान्यादिभिः [इदं पूर्वान्वयि || रतिं स याच्यते इत्यर्थः |
] सम्यक्प्रयोगानाचरेत्ततः || पूर्वमन्त्रोदितान्सम्यक्पूर्वोक्तविधिना सुधीः || ७५७ ||

एवं यः पूजयेद्भक्त्या नित्यक्लिन्नां मनोहराम् || प्राप्नोति महतीं लक्ष्मीं याच्यते [अत्र गौणे कर्मणि लः] प्रमदाजनैः || ७५८ ||

षडाम्नायैश्चिरं सेव्या पारंपर्यं विचार्य च || अथातोस्याः प्रवक्ष्यामि द्वादशार्णं महामनुम् || ७५९ ||

ऐं क्लीं बीजं समुच्चार्य नित्यक्लिन्ने मदद्रवे || स्वाहान्तोयं मनुः प्रोक्तो मुनिः सम्मोहनो मतः || ७६० ||

छन्दो निवृत्समाख्यातं नित्यक्लिन्ना च देवता || वाग्भवेन षडंगानि कृत्वा देवीं विचिन्तयेत् || ७६१ ||

रक्ताम्बरां रक्तवर्णां रक्तगन्धानुलेपनाम् || कमलञ्च सृणिं पाशं कपालं बिभ्रतीं करैः || ७६२ ||

मदाकुलितसर्वांगीं त्रिनेत्रां शशिशेखराम् || शाक्तपीठे यजेद्देवीं प्रोक्तांगानि पुरा यजेत् || ७६३ ||

पूर्वोक्ताश्च ततो बाह्ये शक्तीर्नित्यादिका यजेत् || अरुणा नीलकमलकपालाढ्यकराम्बुजा || ७६४ ||

शतक्रत्वादिकान्बाह्ये वज्रादींश्च ततः परम् || अथ वक्ष्ये महाकालीं समस्तजनमोहिनीम् || ७६५ ||

आनीतां श्रीगणेशेन वाममार्गप्रचारिणीम् || त्वरितं वाममार्गेण ह्यस्याः सिद्धिः प्रजायते || ७६६ ||

दिवोदासोच्चाटकरां दुगार्या उत्तरस्थिताम् || ओं क्ष्रेंक्ष्रेंक्रेंक्रेञ्च पशुं गृहाणकवचं वदेत् || अस्त्रं स्वाहा शक्रवर्णो मन्त्रः काल्या उदीरितः || ७६७ ||

न न्यासो न च मुद्रादिर्नात्र काचिद्विचारणा || यथेष्टभक्ष्यपानाभ्यां मैथुनेन प्रसीदति || ७६८ ||

प्. ४१४) उष्णतोयेन सम्पूर्णे कुम्भे चैवाथ कालिकाम् || ब्राह्म्यादिभिः शक्तिभिश्च युक्ता भक्त्या प्रपूजयेत् || ७६९ ||

पञ्चवक्त्रां महारौद्रीं प्रतिवक्त्रां त्रिलोचनाम् || शक्तिशूलधनुर्बाणखेटखड्गवराभयान् || ७७० ||

दक्षां दक्षभुजैर्देवीं बिभ्राणाम्भोगभूषिताम् || ध्यात्वैवं सिद्धकः साध्यं साधयेन्मनसि स्थितम् || ७७१ ||

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा || वाराही च तथेन्द्राणी चामुण्डा चण्डिकाष्टमी || ७७२ |||

प्रोक्ता ईशानपर्यन्तं कुम्भकुक्षिस्थिता इमाः || कार्तिकेया तमोदेवी महाकाली भयापहा || ७७३ ||

वर्णलक्षं जपेन्मन्त्रं घृताक्तैस्तिमिभिर्हुनेत् || तर्पणादि ततः कृत्वा सिद्धो मन्त्रः [तस्येति शेष्ऽः] प्रजायते || ७७४ ||

नामोच्चारणसंरब्धरज्वा प्रज्वलितेनले || जुहुयाद्वैरिणः क्रुद्धो देवीमन्त्रं जपंस्तथा || ७७५ ||

समिधः पिचुमन्दस्य बिभीताङ्गारहोमतः || सप्ताहाद्वैरिणं हन्ति कालिकामन्त्रयोगतः || ७७६ ||

उच्चाटोह्यपराह्णे च सन्ध्यायां मारणन्तथा || दक्षिणस्यां दिशि स्थित्वा ग्रामादेर्दक्षिणामुखः || एतैरेव भवेद्धोमस्तत्तत्कर्म सुसिध्यति || ७७७ ||

अथातः सम्प्रवक्ष्यामि महागणपसेविताम् || महाकृत्यां यथा नार्यः पातिव्रत्यव्रताच्च्युताः || ७७८ ||

नानाविधाश्चमत्कारा नारीभ्यश्च प्रदर्शिताः || पातिव्रत्याद्भ्रंशितास्ताः पापराशिर्महानभूत् || ७७९ ||

स्त्रीषु कृत्यासु जातासु गार्हस्थ्ये भंगुरे सति || पुरुषा यां समासाद्य गृहस्थाः सुखिनो भवन् || ७८० ||

तां कृत्यां सम्प्रवक्ष्यामि गृहस्थाश्रममण्डनाम् || ह्रीं महायोगिनीं प्रोच्य गौरीमुक्त्वा भुवेति च || ७८१ ||

न भयङ्करि हुञ्चेति मन्त्रोयं षोडशाक्षरः || अङ्गिराश्च मुनिर्देवी गायत्री छन्द ईरितम् || ७८२ ||

एवं फडन्तं भुवनभयङ्करि शिरो मतम् || पुनरेवन्त्रिरावृत्या षडङ्गानि समाचरेत् || ७८३ ||

सिंहासीनां कृष्णमुखीं लम्बमानपयोधराम् || दंष्ट्राकरालवदनां त्रिनेत्रां सर्वतोज्ज्वलाम् || ७८४ ||

कृष्णकंचुकसंवीतां विधूमाग्निसमप्रभाम् || त्रिशूलचक्रचषकखट्वाङ्गवरपङ्कजाम् || ७८५ ||

लेलिहानां महाजिह्वां विद्युत्प्रेक्षणभीषणाम् || ध्यात्वा कृत्यां विधानेनपूजयेन्मन्त्रवित्तमः || ७८६ ||

प्. ४१५) भीषणां श्रीमतीं देव्या अग्रादारभ्य पूजयेत् || प्रतिष्ठाञ्च तथा विद्यां तद्बाह्ये तु चतुर्दले || ७८७ ||

पूर्वस्यां शाङ्करीं नाम शुभ्रवर्णाम्बरावृताम् || द्विभुजां सौम्यवरदां पाशांकुशधरां शिवाम् || ७८८ ||

दक्षिणे मालिकां नाम लम्बजिह्वां भयंकरीम् || पूजयित्वा जपेन्मन्त्रं नित्यमष्टोत्तरं शतम् || ७८९ ||

लोकेशार्चादिकं बाह्ये नियोगोस्याथ कथ्यते || कालं विदित्वा प्रतिमां मारणे चाप्यधोमुखीम् || ७९० ||

तस्याधोमेखलायुक्तं [सन्धिरार्षः] त्रिकोणं वह्निकोणके || चन्द्रगौरं विधायाग्निं परिस्तीर्य शरैस्तृणैः || ७९१ ||

बिभीतकपरिध्या च कल्पयेद्वाऽस्य मारणे || जुहुयान्निम्बतैलाक्तैः काकोलूकोत्थविट्ककैः || ७९२ ||

दारयैनं शोषयैनं मारयेत्थं विधाय च || अष्टोत्तरशतं चैव ममुना जुहुयाद्बुधः || ७९३ ||

होमान्तं विधिवत्कृत्वा मारणाग्नेश्च सन्निधौ || यो मे कण्ठग्रहो वापि दूरस्थोप्यन्तिकेपि च || विषक्रव्यमसृक्तस्येत्थमुक्त्वा च निवेदयेत् || ७९४ ||

संरक्ष्याग्निविधानेन नवरात्रं समापयेत् || मृतस्तिष्ठति तेनाशं तावदस्य रिपोर्मतिः || ७९५ ||

अर्कक्षीरेण मरिचं पिष्ट्वा सिद्धार्थमेव च || जले संलोड्य मन्त्रेण रिपुं ध्यात्वा निरुद्धदृक् || ७९६ ||

कृष्णाम्बरोत्तरीयोग्रपादेनाक्रम्य चेद्रिपुम् || वज्रं शूलमिति ध्यात्वा अद्भिस्तस्योपरि क्षिपेत् || नवरात्रान्तरे शत्रुर्म्रियते नात्र संशयः || ७९७ ||

हरसिद्धे चितावह्नौ तैलसिक्तैर्बिभीतकैः || जुह्वतो म्रियते शत्रुः सत्यमौशनसोदितम् || ७९८ ||

रिपोः प्रतिकृतिन्ध्यात्वा साध्यर्क्षफलकेनले || अर्कक्षीरेण मरिचं पिष्ट्वा तत्रैव लेपयेत् || ७९९ ||

फट्कारं हृदये कृत्वा शिवं निर्माय कूपके || क्षिपेत्कृष्णचतुर्दश्यां जप्त्वा मन्त्रं सहस्रशः || ८०० ||

सद्योवगाहनं कृत्वा तस्यामेव च लक्षकम् || मन्त्रं जप्त्वा विधानेन भेदयेच्छिवमुद्रया || षण्मासान्म्रियते शत्रुः सन्ध्ययोरुभयोरपि || ८०१ ||

वायुना सूद्धृतं पत्रं शुष्कं बैभीतकन्ततः || गृहीत्वा विलिखेन्मन्त्री कृष्णसर्पास्यशोणितैः || ८०२ ||

नामधेयं रिपोरंते वायुबीजं नियोजयेत् || लिखने तस्य गेहे तु काकवद्भ्रमते ध्रुवम् || ८०३ ||

वातोद्धूतैः शुष्कपत्रैः काष्ठैरशनिपातितैः || उष्ट्रास्थ्ना च शवाङ्गारैः शत्रोरुच्चाटनं भवेत् || ८०४ ||

प्. ४१६) दूर्वां गुडूचीं सम्पिष्य सर्पिषा तिलतण्डुलैः || अन्नैः समिद्भिः पालाशैः शान्तिं कुर्याद्विचक्षणः || ८०५ ||

लक्ष्मीं बिल्वफलैः पत्रैर्नन्द्यावर्तैः श्रियं तथा || रक्तपुष्पैरपामार्गैरिंगालैश्च समुद्रकैः || मधुरत्रयसंसिक्तैरेभिः कुर्यात्तु वश्यकम् || ८०६ ||

शान्तिं कृत्वा विधानेन कृत्यामन्त्रमिमं जपेत् || महाव्याधिप्रशमनं नित्यमष्टाधिकं शतम् || ८०७ ||

जपेदेकाग्रचित्तस्तु लोकवश्यकरं परम् || मनसा चिन्तयेत्कृत्यां गजारूढां विहंगमाम् || ८०८ ||

तस्य वश्यम्भवेत्क्षिप्रमश्वारूढां [एतत्पदचतुष्टयं पूर्वान्वयि] तथा भजेत् || चौरव्याघ्रमृगादीनां सलिलादिभयापहाम् || ८०९ ||

सप्ताभिमन्त्रितं तोयं पीत्वा मन्त्रसमाहितः || मेधावी च भवेद्वाग्मी तावज्जप्त्वाभिषेकतः || सप्ताभिमंत्रितं कृत्वा विषमप्यमृतम्भवेत् || ८१० ||

पक्षं मासं द्विमासं वा षण्मासं वत्सरन्तु वा || एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् || ८११ ||

अथ वक्ष्ये महाशान्तिं सर्वोपद्रवनाशिनीम् || वामाचारस्य सङ्गोप्त्रीं समस्तसुरतुष्टिदाम् || ८१२ ||

वाममार्गभवं पापं हरेत्पुण्यं विवर्द्धयेत् || अकालमृत्युमथिनी सदा विजयवर्द्धिनी || ८१३ ||

आयुष्यपालिनी पुष्टिलक्ष्मीसौभाग्यवश्यकृत् || ८१४ ||

पुत्रदा पौत्रदा चैव लक्ष्मीमलविनाशिनी || महाव्याधिप्रशमिनी ह्यपस्मारविनाशिनी || ८१५ ||

योगिनीभूतवेतालाः प्रेतकूष्माण्डपन्नगाः || तत्र स्थाने न तिष्ठन्ति डाकिन्याद्या विशेषतः || ८१६ ||

कृत्यामभ्यर्चयेद्वस्त्रे यथाविधिपुरःसरम् || षोडशारं लिखेत्पद्मं योनियुक्तं सबिन्दुकम् || ८१७ ||

तन्मध्येष्टदलं लेख्यमकारादि न्यसेत्क्रमात् || तन्मध्ये रसकोणं तु लिखेन्मूलमनुं स्मरन् || ८१८ ||

चन्द्रबिम्बं लिखेत्पद्मं तस्योर्ध्वं प्रेतमालिखेत् || न्यस्येत्तन्मध्यगं कुम्भं वस्त्ररत्नविभूषितम् || ८१९ ||

कुम्भमध्ये न्यसेत्कृत्यां सर्वलक्षणसंयुताम् || अर्चयेच्च यथान्यायं पायसन्तु निवेदयेत् || ८२० ||

लोके शान्तां यजेद्देवीं तदग्रे होममाचरेत् || जुहुयादाज्यसंसिक्तापामार्गतिलसर्पिषा || ८२१ ||

दूर्वाम्रखदिराश्वत्थैः प्रत्येकं तु शताष्टकम् || कुण्डे च स्थण्डिले वापि होमकर्म्म समाचरेत् || ८२२ ||

प्. ४१७) तस्य दक्षिणपार्श्वे तु लक्ष्मीन्ध्यायेद्यथाविधि || कुम्भमध्ये न्यसेद्देवीं दक्षिणे तु श्रियं स्मरेत् || ८२३ ||

वामपार्श्वे यजेद्देवीं हृल्लेखां परमेश्वरीम् || तस्या वै वामपार्श्वे तु पूजयेद्गणनायकम् || ८२४ ||

अयुतं मूलमन्त्रन्तु जपेन्मृत्युविनाशनम् || लक्षं तु भ्रूणहत्यायां मद्यपाने सहस्रकम् || ८२५ ||

गुरुद्रोहे कोटिमितं तथा चाष्टोत्तरं शतम् || ब्रह्मद्रोहे तु प्रयुतं गुरुतल्पगमे तथा || मदात्ययादधर्मादौ पञ्चलक्षमितं जपेत् || ८२६ ||

वामे वा कौलिके मार्गे कापाले गन्तुमिच्छति || सचादौ साधयेन्मन्त्रमिमं परिमलाह्वयम् || ८२७ ||

पापनाशकरो यस्माच्छत्रुभीतिनिवारकः || गुरुदोषाः शिष्यदोषा अधर्मांगभवाश्च ये || ते सर्वे नाशमायान्ति मनोरस्य जपे कृते || ८२८ ||

दक्षिणाचारनिष्ठोपि दुःखनाशाय सेवयेत् || शुष्कुल्यः फेणिका मुद्गा मांसन्तु वटकेण्डिराः || ८२९ ||

सौवीरं कांजिकं मद्यं स्वस्त्री शक्तिः प्रकीर्तिता || वृन्ताकशाको मत्स्यार्थे वा मादधिकसिद्धिदः || ८३० ||

अथतः सम्प्रवक्ष्यामि विघ्नं त्रैलोक्यमोहनम् || प्रपञ्चितं प्रपञ्चेपि शक्तिभिर्बहुधा तथा || ८३१ ||

दिवोदासस्य तपसा शाक्ते मार्गे न येविशन् || तदा सम्मोहनो नाम केदारस्य तु पश्चिमे || ८३२ ||

गणेशोभूत्तदा तेन सम्पूर्णं मोहितं पुरम् || तस्य मन्त्रं प्रवक्ष्यामि सोर्ध्वाम्नायेन सिद्धिदम् || ८३३ ||

वक्रतुण्डैकदंष्ट्राय क्लीं ह्रीं श्रीं गं वदेत्ततः || गणपतिं वरयुग्मं दान्तं सर्वजनं वदेत् || ८३४ ||

मे वशमानय स्वाहा त्रयस्त्रिंशल्लिपिर्मनुः || मुनिस्तु गणपः प्रोक्तो गायत्रं छन्द ईरितम् || ८३५ ||

त्रैलोक्यमोहनो विघ्नो देवता परिकीर्तितः || रुद्रेषुपंचवेदांगनेत्रवर्णैर्मनोः क्रमात् || ८३६ ||

षडंगविधिरुद्दिष्टो ध्यानपूजादिकं ब्रुवे || महागणेशवत्सर्वं प्रयोगादिकमाचरेत् || ८३७ ||

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते ऊर्ध्वाम्नायगणपतिमन्त्रप्रकाशः सप्तदशः || १७ ||

Prakāśa 18 – Gaṇapati-Mantras der östlichen Überlieferung

श्रीशिव उवाच ||

अथातः सम्प्रवक्ष्यामि पूर्वाम्नायगणेश्वरान् || हृल्लेखां विरियुग्मं च गणपते वरद्वयम् || १ ||

दकारं सर्वलोकं मे वशमानय ठद्वयम् || पंविंशाक्षरो मन्त्रः प्रोक्तोयं पुत्रपौत्रदः || २ ||

मुनिर्गणक आख्यातश्छन्दो गायत्रमुच्यते || देवताविरिविघ्नेशो दृष्टादृष्टफलप्रदः || ३ ||

वेदवेदेषु पंचार्णैः शरलोचनसंख्यकैः || विभक्तैर्मूलमन्त्रार्णैः षडंगानि समाचरेत् || ४ ||

सिन्दूराभं त्रिनयनं वामोर्ध्वपाशधारिणम् || दक्षोर्ध्वे चांकुशं दक्षतले मध्ये कपालकम् || ५ ||

पुष्ट्या योनिं वामतलहस्तेनैव च बिभ्रतम् || चन्द्रमौलिं हस्तिमुखं दक्षिणेन करेण च || ६ ||

पुष्ट्या लिंगितसर्वांगं स्पृशन्त्या वामपाणिना || लिंगाग्रन्तु गणेशस्य ऊर्ध्वयोः करयोर्द्वयोः || ७ ||

सन्दधानं पद्मयुग्ममेवं गणपतिं भजेत् || यजेत्पीठे पुरा प्रोक्ते नवशक्तिसमन्विते || ८ ||

मूलमन्त्रेण कऌप्तायां मूर्त्तावावाह्य पूजयेत् || मिथुनानि यजेदादावामोदादीन्दिगम्बरान् || ९ ||

अंगानि पूजयेत्पश्चान्मातॄश्चैव ततः सुवीः || अर्चयेल्लोकपालांश्च तदस्त्राणि ततो बहिः || १० ||

षडावरणसंयुक्तं विरिविघ्नेश्वरं यजेत् || अथमन्त्रान्तरं वक्ष्ये विरिविघ्नेश्वरस्य तु || ११ ||

वरद्वयं दकारञ्च तदा लोकपदं वदेत् || एकोनविंशत्यर्णोयं निवृच्छन्द उदाहृतम् || १२ ||

न्यासः षट्त्रिंशदर्णोक्त एकैकं बीजपूर्वकः || अथ ध्यानं प्रवक्ष्यामि ह्यूर्ध्वादूर्ध्वकरेषु तु || १३ ||

बीजपूरं गदां चापं चक्रं मालां च दक्षिणे || वामे पद्मं पाशबाणान्रदं रत्नाढ्यकुम्भकम् || १४ ||

पद्मद्वयकरां पुष्टिमङ्कस्थामरुणप्रभाम् || आलिंगयन्तमरुणं स्रवन्मदकपोलकम् || १५ ||

त्रिनेत्रं पीतवसनं दृढमुत्थापितध्वजम् || किरीटिनं कुण्डलिनं ध्यायेद्देवं गजाननम् || १६ ||

अथातः सम्प्रवक्ष्यामि ब्रह्मणा समुपासितम् || काश्या बाह्ये च सौम्यस्थं विरिञ्चिगणनायकम् || १७ ||

ह्रीं विरिञ्चिपदं प्रोच्य ङेन्तं गणपतिं पुनः || प्राग्वद्वदेद्वरादीनि षड्विंशत्यर्णको मनुः || १८ ||

वेदपञ्चेषुपञ्चेषुद्व्यर्णैरुक्तं षडङ्गकम् || ध्यानपूजादिकं प्राग्वद्विशेषादस्य साधकः || १९ ||

सङ्गान्सार्थान्सकृच्छ्रुत्वा वेदान्पठति याज्ञिकः || स्वयमेव प्रजायेत कर्ता हर्ता यथाविधि || २० ||

४१९) वेदे लक्षमिता प्रोक्ता सर्वेषां तु पुरस्क्रिया || मधुरत्रयसंयुक्तैः पूर्वोक्तैरष्टभिर्हुनेत् || २१ ||

एवं साधितमन्त्रस्तु प्रयोगान्कर्तुमर्हति || विकचोत्पलहोमेन वशयेत्सकलं जगत् || २२ ||

तिलतण्डुलहोमेन श्रियमाप्नोत्यनिन्दिताम् || मोदकानाज्यसंयुक्तान्हुत्वा विजयमाप्नुयात् || २३ ||

मधुरत्रयहोमेन राजानं वशमानयेत् || अभीष्टसाधनो होमो भक्ष्यभोज्यादिकैः कृतः || २४ ||

अथ शक्तिगणेशस्य त्र्यक्षरो मन्त्र उच्यते || ह्रीं ग्रीं ह्रीमितिच्छन्दोस्य विराड्भार्गव उच्यते || २५ ||

मुनिर्देवः शक्तिगणेशोस्य मन्त्रस्य कीर्तितः || षड्दीर्घभाजा बीजेन षडंगानि प्रकल्पयेत् || २६ ||

गजेन्द्रवदनं साक्षाच्चतुर्बाहुं सुचामरम् || हेमवर्णं त्रिनेत्रं च पाशांकुशधरं विभुम् || २७ ||

स्वदन्तं दक्षिणे हस्ते बीजपूरञ्च वामके || पुष्करे मोदकाश्चैव धारयन्तं त्वनुस्मरेत् || २८ ||

पूर्वोक्ते पूजयेत्पीठे तीव्रादिनवशक्तिके || अष्टपत्राम्बुजे देवं चतुरस्रत्रयावृते || २९ ||

प्रथमांगावृतिः प्रोक्ता द्वितीया मातृभिः स्मृता || तृतीया लोकपालैः स्याद्वज्राद्यैश्च चतुर्थिका || ३० ||

लक्षमेकं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः || तद्दशांशं प्रजुहुयादपूपैर्घृतसम्प्लुतैः || ३१ ||

एवं सिद्धमनुर्मंत्री काम्यकर्माणि साधयेत् || शुक्लपक्षे चतुर्थ्यां तु पूजयित्वा विनायकम् || ३२ ||

अपूपैर्गुडसंमिश्रैः पक्वान्नैश्च घृतप्लुतैः || मरिचैर्जीरकैश्चैव सैन्धवेन विमिश्रितैः || ३३ ||

देवस्य सन्निधौ मंत्री जुहुयात्त्रिसहस्रकम् || गद्यपद्यमयी वाणी सप्ताहाद्भवति ध्रुवम् || ३४ ||

वश्यार्थी मधुहोमेन राजानं वशमानयेत् || कन्यार्थी जुहुयाल्लाजैस्तन्नामायुतमन्त्रतः || ३५ ||

एकां कन्यामथो सप्त भोजयेल्लभते वधूम् || चन्द्रसूर्यग्रहे प्राप्ते पलन्तु कपिलाघृतम् || ३६ ||

कर्षमात्रं वचाचूर्णं मिश्रीकृत्याभिमन्त्रयेत् || पिबेत्तु नियतो भूत्वा देवताध्यानतत्परः || ३७ ||

यावज्जीवं भवेत्तावन्नाश्नीयात्किमपीह सः || सप्ताहाज्जायते शीघ्रमपरो वाक्पतिर्यथा || ३८ ||

बन्ध्या तु स्नानदिवसे पूजयित्वा विनायकम् || निष्कार्धपादमानेन हरिद्रां सैन्धवं वचाम् || ३९ ||

गोमूत्रे कुडवे पिष्ट्वा सहस्रमभिमन्त्रयेत् || अन्नैः सुभक्ष्यभोज्यैश्च भोजयित्वा च कन्यकाः || ४० ||

प्. ४२०) गुरवे दक्षिणां दत्वा पिबेन्नारी तदौषधम् || ततः सा लभते पुत्रं सर्वलक्षणसंयुतम् || ४१ ||

अथास्य भेदं वक्ष्यामि ताराद्यश्चतुरर्णकः || ऋषिः शुक्रो निगदितश्छन्दो गायत्रमुच्यते || ४२ ||

देवता शक्तिगणपः सर्वसिद्धिकरः परः || पूर्ववच्च षडंगानि ध्यानमस्य निरूप्यते || ४३ ||

हेमाभं हेमवस्त्रं च त्रिनेत्रं तुन्दिलं भुजैः || पाशाक्षसूत्रदशनान्धारयन्तं तथांकुशम् || ४४ ||

पुष्करेण दधानञ्च मोदकं हेमभूसणम् || मध्याह्नादित्यसंकाशं चारुशक्त्या समन्वितम् ||४५ ||

ततः पूर्वोदिते पीठे देवमावाह्य पूजयेत् || प्रथमावृत्तिरंगैः स्याद्दलषट्के ततः परम् || ४६ ||

पद्मे चाष्टदले वक्रतुण्डादींश्च दलाग्रतः || मातृकाः पूजयेद्बाह्ये भूपुरे लोकपालकान् || ४७ ||

आयुधानि च तद्बाह्ये प्राग्वच्छेषं समापयेत् || लक्षमेकं जपेन्मन्त्रं तद्दशांशं समाहितः || ४८ ||

जुहुयाद्धृतसंयुक्तैस्तिलैर्मन्त्रविदुत्तमैः || तर्पणादि ततः कुर्यादेवं सिद्धो भवेन्मनुः || ४९ ||

काम्यकर्म ततः कुर्याद्देशिको यतमानसः || आज्यान्नैर्जुहुयान्नित्यमन्नवान्वत्सराद्भवेत् || ५० ||

पायसाज्येन महतीं श्रियमाप्नोति मानवः || रम्भातुल्यां लभेत्कन्यामेनं यो भजते नरः || ५१ ||

अथातः सम्प्रवक्ष्यामि भेदमस्यार्कवर्णकम् || ह्रीं गं ह्रीं च महेत्युकत्वा ङेन्तं गणपतिं पुनः || ५२ ||

स्वाहान्तोस्य भवेच्छन्दो गायत्रीपूर्विका निवृत् || ऋषिर्गणक आख्यातो देवः शक्तिविनायकः || ५३ ||

एकेनैकेन चैकेन सप्तभिर्द्वितयेन च || समस्तेन च मन्त्रार्णैरङ्गकॢप्तिरिहोदिता || ५४ ||

मुक्तावलीचन्द्रधरं व्यालनेत्रं च दक्षिणे || ऊर्ध्वाधरैः पद्मसृणी दधानं वाम ऊर्ध्वके || ५५ ||

दशकुम्भं तलस्थेन प्रियायोनिं प्रसन्नयेत् || नागवक्त्रं मणिमयं मुकुटं बिभ्रतं प्रभुम् || ५६ ||

एवं सञ्चिन्त्य विधिवत्साधकः सर्वसिद्धये || यजेत्पूर्वोदिते पीठे विरिविघ्नेशवर्त्मना || ५७ ||

लक्षमेकं जपेन्मन्त्रमयुतं जुहुयात्ततः || अपूपैर्घृतसंयुक्तैर्विधिवत्पूजितेनले || ५८ ||

तर्पणं मार्जनं कृत्वा ब्राह्मणान्भोजयेत्ततः || एवं सिद्धमनुर्मन्त्री प्रयोगान्विधिवच्चरेत् || ५९ ||

इक्षुदण्डैः कृतो होमो राजलक्ष्मीं प्रयच्छति || कदल्या नारिकेलैश्च होमो लोकवशङ्करः || ६० ||

सतिलैः पृथुकैर्होमो राजानं वशमानयेत् || प्. ४२१) सक्तुभिश्च कृतो होमो ब्राह्मणानां वशङ्करः || ६१ ||

सर्पिषा जुहुयात्सम्यग्धनधान्यादिसम्पदे || पूर्वोक्ताश्चापि कर्तव्याः प्रयोगाः साधकैरिह || ६२ ||

अथान्यं सम्प्रवक्ष्यामि मन्त्रं शक्तिगणेशितुः || ओं ह्रीं गं ह्रीं च वशमानय स्वाहा भवाणर्कः || ६३ ||

पूर्वोदितास्तु मुन्याद्या मन्त्रार्णैरङ्गकल्पनम् || एकेन द्वित्रियुग्मेन मन्त्रार्णेन समेन च || बन्धूकाभं त्रिनेत्रं च नागास्यं शशिशेखरम् || भोगिमालं गुणसृणी वरेक्षून्हस्तपंकजैः || ६४ ||

दधानं शुण्डया स्पृष्टभगं चालिङ्गितं तथा || श्यामलाङ्ग्या लिङ्गपद्महस्तया भावयेद्धृदि || ६५ ||

पूर्वोक्तपीठे पूर्वोक्ता पूजा कार्या मनीषिणा || लक्षत्रयं जपेन्मन्त्रमपूपैस्तद्दशांशतः || घृताप्लुतैश्च जुहुयात्तर्पणादि ततश्चरेत् || ६६ ||

ततो निजगुरुं ध्यात्वा धनधान्यैश्च तोषयेत् || ततः काम्यप्रयोगास्तु तत्कल्पोक्तान्प्रसाधयेत् || ६७ ||

स्वादुत्रयाप्लुतापूपैर्होमः कान्तावशङ्करः || शक्तिं विना गणेशो न शक्तिश्चापि न तं विना || ६८ ||

तस्माद्बुधैः साधनीयः सर्वथा शक्तिसङ्गमः || तस्मादादौ प्रवक्ष्यामि शक्तिं श्रीभुवनेश्वरीम् || ६९ ||

ह्रीमित्येकाक्षरं बीजं तस्या मन्त्रः प्रकीर्तितः || ऋषिः शक्तिर्वशिष्ठश्च सूतश्छन्दोस्य कथ्यते || ७० ||

गायत्री देवता बोधसंविद्वाच्या कलापरा || हकारस्तु भवेद्बीजमीकारः शक्तिरुच्यते || ७१ ||

रेफस्तु कीलकं प्रोक्तं नियोगोखिलसिद्धये || षड्दीर्घयुक्तबीजेन षडंगानि समाचरेत् || ७२ ||

संहारमातृकां सृष्टिमातृकां विन्यसेत्ततः || देव्येकतापादनाय मन्त्रन्यासोथ वक्ष्यते || ७३ ||

भाले हों हृल्लेखायै मुखे ह्रं भगनाम च || ह्रं रक्ता हृदये स्थाप्या गुदे ह्रीं च करालिका || ७४ ||

हुं पादयोर्महोच्छुष्मा पञ्चवक्त्रेषु विन्यसेत् || ऊर्ध्वोदग्याम्यपूर्वाशाप्रत्येकस्थेषु च क्रमात् || ७५ ||

न्यस्येत्कण्ठे च गायत्रीं सावित्रीं वामगे कुचे || सरस्वतीं दक्षकुचे ब्रह्माणीं वामगेंसके || ७६ ||

हृदि विष्णुं महेशं च दक्षिणेंसे प्रविन्यसेत् || ब्रह्माणं विन्यसेद्भाले गायत्र्या सहितं सुधीः || ७७ ||

विष्णुं कपोलदेशे तु सावित्र्या सहितं न्यसेत् || महेशं वामगण्डे च वागीश्वर्या युतं न्यसेत् || ७८ ||

वामे धनपतिं युक्तं श्रिया श्रोत्राग्रके न्यसेत् || ७९ ||

स्मरं रत्या युतं वक्त्रे गणं पुष्टया युतं न्यसेत् || प्. ४२२) दक्षश्रोत्राग्रके मन्त्री निधी शक्तियुतौ न्यसेत् || ८० ||

श्रवःकपोलान्तरयोर्वक्त्रमूले न्यसेत्ततः || गलमूले कुचयुगे वामांसे हृदिदक्षिणे || ८१ ||

अंसे पार्श्वयुगे चैतान्न्यसेन्मन्त्री समाहितः || न्यस्येन्मातृरष्टभाले चांसे पार्श्वे तथोदरे || ८२ ||

पार्श्वे चासे च मन्त्रज्ञस्तथा पादे गले हृदि || व्यापयेन्मूलमन्त्रेण तनुं देवीं ततः स्मरेत् || ८३ ||

उद्यदादित्यरुचिरां शीतांशुकृतशेखराम् || पद्मासनां त्रिनेत्रां च पाशांकुशवराभयैः || अलंकृतचतुर्बाहुं मन्दस्मितलसन्मुखीम् || ८४ ||

कुचभारविनम्राङ्गलतां देवीं हृदि स्मरेत् || आदौ कृत्वा तु षट्कोणं तद्बाह्येष्टदलाम्बुजम् || ८५ ||

तद्बाह्ये षोडशदलं चतुरस्रत्रयं बहिः || चतुर्द्वारसमोपेतं मण्डलं प्रोक्तमुत्तमम् || ८६ ||

तत्र पीठं यजेत्पूर्वं नवशक्तिसमन्वितम् || जया च विजया चैवाजिताख्या चापराजिता || ८७ ||

नित्या विलासिनी दोग्घ्री ह्यघोरा मङ्गला ततः || एतास्तु शक्तयः पूज्याः केशरेषु च मध्यके || ८८ ||

दद्यान्मूले नासनं तु मूर्तिं तेनैव कल्पयेत् || देवीमावाहयेत्तस्यामङ्गावरणसंयुताम् || ८९ ||

पाशांकुशवराभीतिधरा भूतनिभाश्च ताः || हृल्लेखाद्या समभ्यर्च्य विविधाभरणोज्ज्वलाः || ९० ||

मध्याग्रयाम्योदक्प्रत्यक्स्थानेषु क्रमतस्तथा || अग्नीशासुरवायव्यकोणेष्वग्रेहृदादिकान् || ९१ ||

यजेदस्त्रन्तथाशासु कोणाग्रे मिथुनानि च || गायत्रीमरुणाभासामरुणाकल्पभूषिताम् || ९२ ||

चतुर्मुखीं करैर्दण्डं कुण्डिकामक्षिमालिकाम् || अमीतिं बिभ्रतीं तद्वद्ब्रह्माणं पुरतो यजेत् || ९३ ||

सावित्रीं हस्तकमलैररिशंखगदाम्बुजम् || बिभ्राणां पीतवसनां केयूराङ्गदभूषिताम् || ९४ ||

किरीटहाररशनानूपुरैरुपशोभिताम् || तादृग्रूपमयं विष्णुं रक्षःकोणेग्रके यजेत् || ९५ ||

शुभ्रां त्रिनेत्रामभ्यन्तः शुभ्रवस्त्रविराजिताम् || टङ्काक्षसूत्राभयदवरयुक्तां चतुर्भुजाम् || ९६ ||

सरस्वतीं यजेद्वायोः कोणे चेशं च तादृशं || लक्ष्मीं प्रियांकसंस्थां च दक्षेणालिङ्ग्यबाहुना || ९७ ||

पतिं [इदं पूर्वान्वयि] कामेन कमलं धनदं च पृषोदरम् || पीतं रत्नघटं रत्नकरञ्जं बिभ्रतीं यजेत् || ९८ ||

आग्नेये रमणांकस्थां रतिं सव्येन पाणिना || प्. ४२३) आलिङ्गय रमणं पद्ममन्यतो दधतीं स्मरेत् || बन्धूकाभं बाणगुणसृणिचापकरञ्जकम् || ९९ ||

ऐशान्यां पूजयेत्सम्यग्विघ्नराजं प्रियान्वितम् || सृणिपाशधरं कान्तावराङ्गस्पृक्करांगुलिम् || १०० ||

माध्वीपूर्णकपालाढ्यं विघ्नराजं दिगम्बरम् || पुष्करे विगलद्रत्नस्फुरच्चषकधारिणम् || १०१ ||

सिन्दूरसदृशाकारामुद्दाममदविह्वलाम् || धृतरक्तोत्पलामन्यपाणिना तद्ध्वजस्पृशम् || आश्लिष्टकान्तामरुणां पुष्टिमर्चेद्दिगम्बराम् || १०२ ||

कर्णिकायां निधिं पूज्य षट्कोणस्याथ पार्श्वयोः || आद्याः त्वनङ्गकुसुमा ह्यनङ्गकुसुमातुरा || १०३ ||

अनङ्गमदनान्या तु ह्यन्या भुवनपालिनी || सष्ठी गगन वेगा स्याच्छशिशीर्षा च सप्तमी || १०४ ||

अन्ते गगनरेखेषु पत्रेषु परितः स्थिताः || पाशांकुशवराभीतिकरा रक्ताः सुभूषिताः || १०५ ||

ततः षोडशपत्रेषु कराली विकसलिका || सरस्वती श्रीदुर्गोषा लक्ष्मीश्रुत्यौ स्मृतिर्धृतिः || १०६ ||

श्रद्धा मेधा मतिः कान्तिरार्या षोडशशक्तयः || खड्गखेटकधारिण्यः श्यामाः पूज्याः प्रदक्षिणैः || १०७ ||

ब्राह्म्याद्यास्तद्बहिप्पूज्यपत्रसन्धिषु दिक्क्रमात् || पद्माद्बहिः समभ्यर्च्याः शक्तयः परिचारिकाः || १०८ ||

अनङ्गरूपानङ्गादिमदना मदनातुरा || तथा भुवनवेगा स्यादग्रे भुवनपालिका || १०९ ||

षष्ठी च सर्वशिशिरा तदग्रे नंगवेदना || अनङ्गमेखला चेति तद्बाह्ये तु दिगीश्वरान् || ११० ||

रक्तां रक्तोज्ज्वलाकल्पां रक्तान्तायतलोचनाम् || रक्तोत्पलकरां वामे दक्षिणे क्रमतस्त्विदम् || १११ ||

चषकं तालवृन्तं च ताम्बूलं छत्रचामरे || दर्पणं चांशुकं पुष्पं बिभ्राणां दक्षिणैः करैः || ११२ ||

वज्रादीन्यपि तद्बाह्ये पूजयेच्चोत्तमोत्तमे || कौर्प्ये दिव्यावृते चित्ते चतुर्भिरपि चोत्तमा || ११३ ||

हृल्लेखाद्यैस्तदङ्गैश्च लोकपालैस्तदायुधैः || मध्यास्त्रावरणैः पूजाङ्गलोकेशतदस्त्रकैः || ११४ ||

द्वाभ्यां कनिष्ठाङ्गलोकपालाभ्यां सा प्रवासके || अनन्यगतिका पूजा ह्यंगेनैकेन कीर्तिता || ११५ ||

पूजालोपं न कुर्वीत भुवनेश्याः कदाचन || सन्ध्यालोपे यथा पापं पूजालोपे तथा भवेत् || ११६ ||

सप्ताहपूजालोपे तु शापः पतति दारुणः || शुक्रे तु दक्षिणी वामी रवौ पूजां न लोपयेत् || ११७ ||

प्. ४२४) सप्तशुक्रं मानवो यो निष्पूजो भवतीह सः || द्वात्रिंशल्लक्षमानेन जपेन्मन्त्रं समाहितः || ११८ ||

तद्दशांशं हुनेदष्टद्रव्यैस्त्रिस्वादुसंयुतैः || तर्पणादि ततः कुर्यान्मन्त्री शास्त्रोक्तवर्त्मना || ११९ ||

अथान्यदपि मन्त्रस्य पुरश्चरणमुच्यते || एकलिङ्गे शिवागारे दक्षिणामूर्तिमाश्रितः || १२० ||

बद्धपद्मासनो भस्मशायी च कुशविष्टरः || कृष्णाष्टमीं समारभ्य यावत्कृष्णा चतुर्दशी || १२१ ||

नित्यमिष्ट्वा शिवं शक्तिं जपेन्मन्त्रं सहस्रकम् || दधिक्षौद्रघृताभ्यक्ता व्याघातसमिधो हुनेत् || १२२ ||

ततः साग्रसहस्रेण ध्यायेत्सर्वेश्वरीमुखीम् || ततः सिद्धो भवेन्मन्त्रो नात्र कार्या विचारणा || १२३ ||

अश्वत्थोदुम्बरप्लक्षन्यग्रोधसमिधस्तथा || तिलसर्षपदुग्धाज्यद्रव्याण्यष्टमितानि च || १२४ ||

प्रतिद्रव्यन्तु होमेस्य ह्ययुतानां चतुष्टयम् || एवं सिद्धमनुर्मन्त्री सर्वान्कामान्प्रसाधयेत् || १२५ ||

नित्यं सौभाग्यदं पञ्चविंशज्जप्त्वाभिषेचनम् || मेधावी च भवेद्वाग्मी तावज्जप्ताम्बुपानतः || १२६ ||

जिह्वाग्रे न्यस्य सञ्जप्तं वाक्सिद्धिः कविता भवेत् || तज्जप्तमञ्जनं वश्यं कर्पूरागुरुमिश्रितम् || १२७ ||

सासृग्भस्मारुणालेपैर्वश्याय तिलकक्रिया || जानुमात्रजले स्थित्वा निश्चलो मीलितेक्षणः || जपेत्सहस्रं तद्रात्र्यामिष्टामाकर्षयेत्स्त्रियम् || १२८ ||

लाजैः कन्यामवाप्नोति तिलैरारोग्यमश्नुते || पुष्टिमान्दधिहोमेन तण्डुलैश्च तथा भवेत् [वश्यकरमित्यर्थः ||] || १२९ ||

ब्राह्मीरसयुतांल्लाजान्वचयाच समन्वितान् || त्रिसहस्रेणाभिसंमन्त्र्य मासमेकं प्रभक्षयेत् || बृहस्पतिसमोमन्त्री सर्वविद्याधिपो भवेत् || १३० ||

अश्वत्थसमिधः स्वादुयुक्ता हुत्वा द्विजानसौ || वशयेत्पद्महोमेन राज्ञस्तन्मन्त्रिणस्तथा || १३१ ||

कुमुदैराजपत्न्याश्च ब्रह्मक्षेत्रप्रसूनकैः || तण्डुलानां पिष्टकृतां प्रतिमां स्वादुसंयुताम् || १३२ ||

कृतप्राणप्रतिष्ठां तां सञ्जप्तां मनुनामुना || भक्षयेत्तामर्कवारे ततः कुर्याद्वशं नरम् || राजानं प्रमदां वापि यं यं वाञ्छत्यनुत्तमम् || १३३ ||

फलके भस्मना शक्तिं ससाध्यां सुलिखेत्सुधीः || गर्भिण्यै दर्शयेदाशु सा सुखप्रसवा भवेत् || १३४ ||

अभिषेकविधानं तु वक्ष्यते वाञ्छितार्थदम् || प्. ४२५) मण्डपे मण्डलं कुर्याद्देवीपीठान्वितं शुभम् || १३५ ||

यथावत्पीठमभ्यर्च्य कलशान्विन्यसेत्सुधीः || कर्णिकायां दलाग्रे तु स्वर्णरौप्यसुताम्रजान् || १३६ ||

मार्तिकांस्तत्र विन्यस्य पञ्चैकं वापि तन्त्रवित् || महता वाद्यघोषेण मनुना स्थापयेत्सुधीः || पूर्वोक्तैरुपचारैस्तु निजेष्टायै च मन्त्रवित् || १३७ ||

घटेष्वेषु च सम्पूज्या मातरो दिक्क्रमाद्बुधैः || यदि स्युः पञ्चकलशा मध्यादिषु यजेत्क्रमात् || १३८ ||

हृल्लेखाद्याः पञ्चसुधीरभिषिञ्चेत्तदुत्तरम् || प्रथमं घृतकुम्भेन कषायेण ततः परम् || १३९ ||

तैलेन च कषायेण मधुना च ततः परम् || द्विजवृक्षत्वचः क्वाथैरभिषिञ्चेत्ततः सुधीः || १४० ||

द्वारकुम्भदलैः पश्चादन्तराले समाचरेत् || वक्त्रहस्तपदक्षालाचमनान्यपि मन्त्रवित् || १४१ ||

एकैककलशस्नानानन्तरं पुनरेव हि || कारयेत्तेन नीरेण त्वेवं शक्तो नरो भवेत् || १४२ ||

ब्राह्मणान्भोजयेन्नानाविधैर्भक्ष्यैश्च तोषयेत् || प्राप्नोति महतीं लक्ष्मीं सर्वदा विजयी भवेत् || १४३ ||

पलाशाश्वत्थबिल्वानां फलं ग्राह्यं पलार्धकम् || अग्निमन्थलक्षसेव्यनाम्नोः कर्म विदुत्तमः || १४४ ||

प्रसारिणीकाश्मरिकारोहिणीनां तदर्धकम् || उदुम्बरीपाटलीन्दुकुभागाः परिकीर्तिताः || १४५ ||

बृहत्क्वाथोदकेनैव पूरयेत्कलशं ततः || आप्नोति प्रतिवर्षं च सेकाद्दीर्घायुरुत्तमम् || १४६ ||

सुन्दरोनामयश्चैव सहितस्तेजसा रविः || कमला किङ्करी तस्य तं दृष्ट्वा विविधाभयाः || नश्यन्ति वर्धते तस्य धनं धान्यसमाकुलम् || १४७ ||

सर्वे देवा नमस्यन्ति तं दृष्ट्वा फणिनोपि वै || न दशन्ति च तत्पुत्राः शयानाः पथिसाधकम् || १४८ ||

अथ चात्र प्रवक्ष्यामि त्र्यक्षरं मन्त्रमुत्तमम् || ऐंह्रींश्रीमिति पूर्वोक्ता मुन्याद्याश्चात्र कीर्तिताः || आद्याद्येन च मध्येन दीर्घषट्कान्वितेन च || अंगुल्यादिषडङ्गानि शेषन्यासाश्च पूर्ववत् || १४९ ||

बन्धूकाभां त्रिनयनां चन्द्रार्धकृतशेखराम् || रत्नपात्रं वामहस्ते दक्षे पद्मं ततो मनुम् || १५० ||

जपेद्द्वादशलक्षं च जुहुयात्तद्दशांशतः || त्रिस्वादुयुक्तहविषा तर्पणादि ततश्चरेत् || १५१ ||

ततः प्रयोगान्कुर्वीत मन्त्री स्वेष्टफलाप्तये || ब्रह्मवृक्षप्रसूनैश्च होमो लक्ष्मीप्रदो मतः || १५२ ||

सञ्जपाद्वत्सरं ब्राह्मीसर्पिः पानात्कवित्वभाक् || प्. ४२६) गौरसर्षपयुग्लोणहोमस्तु वशयेत्स्त्रियम् || नरं नरपतिं वान्यं वशयेन्नात्र संशयः || १५३ ||

आरग्वधोत्थैः कुसुमैः संसिक्तैश्चन्दनाम्भसा || दुकूलयुक्तै रत्नौघै राज्यलक्ष्मीं च विन्दति || १५४ ||

तिलतण्डुलसम्मिश्रैर्होमात्पूर्वोदितं फलम् || पूर्वोदितान्प्रयोगांश्च कुर्यादत्रापि साधकः || १५५ ||

अथान्यं त्र्यक्षरं वक्ष्ये द्रुतं वाग्विभवप्रदम् || ऐंह्रीं-ऐमिति मुन्याद्या ज्ञेयाः पूर्वोदितास्तथा || १५६ ||

आद्यन्तपुटितेनैव दीर्घयुग्मध्यमेन च || जातिभाञ्जि षडङ्गानि विदध्यान्मन्त्रवित्तमः || १५७ ||

एकाक्षरोदितं न्यासं कुर्यान्मन्त्रविदुत्तमः || उद्यद्द्युतिं त्रिनयनां पीनवक्षोजनामिताम् || १५८ ||

पद्मं च रत्नपात्रं च ह्यभयं च वरं तथा || हस्तैर्दधानां रक्ताजसंस्थां च शशिशेखराम् || मुक्ताहारसमायुक्तां भावयेद्भुवनेश्वरीम् || १५९ ||

एकाक्षरोदिते पीठे पूजयेद्भुवनेश्वरीम् || पूर्वोक्ताः पूर्ववत्पूज्या हृल्लेखाद्याश्च मन्त्रिणा || १६० ||

सम्पूजयेत्कोणषट्के पूर्ववन्मिथुनानि च || किञ्जल्केषु षडङ्गानि पूजयेच्च दलेषु ताः || ब्राह्म्याद्या निजनाथाङ्कस्थिताः स्मेराननालसाः || १६१ ||

असिताङ्गो रुरुश्चण्डःक्रोधोन्मत्तौ कपाल्यथ || विब्भीषणश्च संहारः प्रोक्तास्तत्पतयस्त्विमे || १६२ ||

शूलं कपालं प्रेतं च क्षुद्रदुन्दुभिमेव च || १६३ ||

विभ्राणाः पाणिभिर्हस्तित्वग्वस्त्रा भीमविग्रहाः || स्मर्तव्या वक्रकेशाश्च पूजाकाले सुंमन्त्रिणा || १६४ ||

दीर्घाद्या मातरः पूज्या ह्रस्वाद्या भैरवास्तथा || तद्बाह्ये स्वरपत्रेषु करालाद्याः पुरोदिताः || १६५ ||

पूज्यास्त्वनङ्गरूपाद्या लोकेशा हेतिभिः सह || मनुं जपेत्तत्त्वलक्षं ब्रह्मवृक्षप्रसूनकैः || १६६ ||

त्रिमध्वक्तै राजवृक्षपुष्पैर्वा तद्दशांशतः || जुहुयात्तर्पणादीनि कुर्यान्मन्त्रस्य सिद्धये || १६७ ||

एवं सूक्तविधानेन यो भजेद्भुवनेश्वरीम् || मदविह्वलयोषाः स राज्ञश्च वशयेत्सुधीः || एकाक्षरोदितान्सर्वान्प्रयोगानाचरेत्तथा || १६८ ||

अथान्यं सम्प्रवक्ष्यामि त्र्यर्णयन्त्रादिसिद्धिदम् || ओं ह्रींक्रोमिति वह्न्यर्णो मुन्याद्येकाक्षरोदितम् || १६९ ||

कल्पयेन्माययाङ्गानि ध्यानमंत्र निरूप्यते || अंकुशं च गुणाभीतिवरांश्च दधतीं करैः || प्. ४२७) कमलस्थां प्रोद्यदर्ककान्तिं हृदि विभावयेत् || १७० ||

पूर्वोदिते यजेत्पीठे हृल्लेखाद्या यथा पुरा || किञ्जल्केषु षडङ्गानि ब्राह्म्याद्या दलमध्यतः || १७१ ||

ततः शक्रादयो बाह्ये हेतयोर्च्यास्तु तद्बहिः || एवं यः पूजयेद्भक्त्या स भवेत्तु कुबेरवत् || १७२ ||

अनुरक्ताः सर्वलोका भवेयुस्तस्य मन्त्रिणः || मन्त्रं जपेत्तत्त्वलक्षं जुहुयात्तत्सहस्रकम् || १७३ ||

त्रिस्वादुयुग्दुग्धवृक्षसमिद्भिः प्रोक्तसङ्ख्यया || शुद्धैस्तिलैः पयोयुक्तैस्तर्पणादि ततश्चरेत् || १७४ ||

अश्वत्थोदुम्बरप्लक्षवटाश्चत्वार एव च || होमे वृक्षाः समाख्याताः प्रत्येकं षट्सहस्रकम् || १७५ ||

होमोयं स्यादागमेन चतुर्विंशतिसङ्ख्यकः || सहसा [युग्मकम्] सूर्यसदृशस्तेनाधिष्ठितमन्दिरम् || १७६ ||

रजन्यां निष्प्रदीपं च प्रदीपशतसंकुलम् || विलोक्यते सर्वजनैरेतन्मन्त्रप्रसादतः || १७७ ||

लवणैर्मिश्रसिद्धार्थै रजन्या च घृतप्लुतैः || जुहुयाच्चैव राजानं राजपत्नीं वशं नयेत् || १७८ ||

अन्नहोमेन मन्त्रज्ञः समृद्धानगृहो भवेत् || विकचोत्पलहोमेन लक्ष्मीरेनं न सन्त्यजेत् || १७९ ||

चतुरंगुलपुष्पैश्च होमः स्यात्कविताप्रदः || तिलहोमेन पापानां नाशो मन्त्रिण एव हि || १८० ||

आयुष्कामो घृतेनेव जुहुयान्मन्त्रवित्तमः || पूर्वोदितान्प्रयोगांश्च कुर्यादत्रापि मन्त्रतः || अस्मिन्सिद्धे मनौ मन्त्री भुक्तिं मुक्तिमवाप्नुयात् || १८१ ||

अथातः सम्प्रवक्ष्यामि वक्रतुण्डाय हुंत्विति || सर्वसिद्धिकरो मन्त्रः प्रोक्तश्चायं षडक्षरः || १८२ ||

ह्रस्वं तु कवचं स्त्रीभिर्जप्तव्यं सर्वसिद्धिदम् || भार्गवो मुनिराख्यातोनुष्टुप्छन्द उदाहृतम् || देवता वक्रतुडोस्य सुरासुरनमस्कृतः || १८३ ||

विधाय मूलमन्त्रेण करशुद्धिं जितेन्द्रियः || षड्भिर्मन्त्रगतैर्वर्णैः षडङ्गानि प्रकल्पयेत् || १८४ ||

भ्रूमध्ये कण्ठहृदये नाभ्यामाधारके तथा || षडक्षराण्यथो न्यस्य सर्वेण व्यापकं तथा || १८५ ||

उद्यद्दिनेश्वररुचिं पाशांकुशवराभयम् || हस्तैर्दधानं स्मेरास्यमरुणं चिन्तयेद्धृदि || १८६ ||

पूर्वोक्ते पूजयेत्पीठे वक्रतुण्डं गणेश्वरं || अष्टपत्राम्बु चद्वन्द्वं चतुर्द्वारयुतेन च || चतुरस्रत्रयेणाथ वेष्टितं च क्रमाल्लिखेत् || १८७ ||

मध्ये देवं समभ्यर्च्य पूजितैरुपचारकैः || प्. ४२८) आदावङ्गानि सम्पूज्य यथास्थानं विशालधीः || पूर्वदिग्दलमूलेषु शक्तीरष्टौ क्रमाद्यजेत् || १८८ ||

विद्याख्या विश्वधात्री च भोगदा विघ्ननाशिनी || निधिप्रदा च पापघ्नी तथा पुण्या शशिप्रभा || १८९ ||

दलेषु च यजेत्तत्र ह्यणिमाद्याः पुरोदिताः || द्वितीयेष्टदले तद्वद्वक्रतुण्डादिकान्यजेत् || १९० ||

चतुरस्रे लोकपालांस्तदस्त्राणि च पूजयेत् || प्राग्वद्वीथीद्वये सम्यग्वक्रतुण्डार्चनं त्विति || १९१ ||

वर्णलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः || अष्टद्रव्यैः पुरा प्रोक्तैर्मधुराक्तैर्यथाविधि || १९२ ||

एवं सिद्धे मनौ मन्त्री काम्यकर्माणि साधयेत् || तर्पयेत्पूर्वमार्गेण वक्रतुण्डं गणेश्वरम् || १९३ ||

चतुरस्रं हस्तमात्रं कुण्डं कुर्यात्तदग्रतः || आदधीत मथित्वाग्निमनूचानगृहाद्धरेत् || १९४ ||

प्राणायामत्रयं मन्त्री कर्म समाचरेत् || ततः पूर्वोक्तवत्कृत्वा मन्त्रन्यासं षडङ्गकम् || १९५ ||

गन्धपुष्पादिकैरग्निं सम्पूज्य स्थापयेत्ततः || कृशानुमध्ये तत्राथ नागयज्ञोपवीतिनम् || १९६ ||

लम्बोदरं भास्करं तं चैकदन्तं त्रिलोचनम् || पद्मासनसमारूढं चतुर्बाहुं त्रिलोचनम् || १९७ ||

किरीटहारकेयूराङ्गदालंकारभूषितम् || एवं सञ्चिन्त्य मनसा समावाह्य गणेश्वरम् || १९८ ||

गन्धादिभिः समभ्यर्च्य जलेनाग्निं प्रसिच्य च || षडर्णेन द्विठान्तेन जुहुयाच्च घृताहुतीः || अष्टाधिकसहस्रं च ततः सिद्धो भवेन्मनुः || १९९ ||

सहस्राष्टचतुर्थीषु पक्षयोरुभयोरपि || शतं त्वपूपैर्जुहुयाद्वत्सराल्लभते धनम् || २०० ||

मध्याह्नकाले नित्यं हि तदग्रे प्रजपेन्मनुम् || सहस्रं त्रिशतं वाथ शतं वाष्टोत्तरं सुधीः || अचिरणैव महतीं लक्ष्मीं प्राप्नोत्ययत्नतः || २०१ ||

प्रसन्नतात्र मनसः स्तुतिरन्येप्सिता तथा || स्वापे वैमुख्यता चापि स्वप्ने द्विरददर्शनम् || एतानि मन्त्रसिद्धेर्हि चिह्नान्युक्तानि मन्त्रिभिः || २०२ ||

पूर्वोक्तसिद्धौदनेन त्रिमासं त्रिशतंहुनेत् || महानिधीनां भवनं भवेद्वैश्रवणोपमः || २०३ ||

गुडाक्तैः पृथुकैर्नारिकेलैर्मरिचसंयुतैः || अपूपैः क्षीरसंयुक्तैर्गणेशस्य च सन्निधौ || अग्नौ सहस्रं जुहुयात्स मन्त्री धनवान्भवेत् || २०४ ||

शुभशालिमयैः शूर्णैर्मरिचाद्यैः ससैन्धवैः || सजीरकैर्बहुगुडैः शुभैरतिघृताप्लुतैः || २०५ ||

अपूपैर्जुहुयान्मन्त्री गणेशस्य च सन्निधौ || सहस्रमात्रं लभते महतीमचिराच्छ्रियम् || २०६ ||

प्. ४२९) साध्यनामार्णपुटितमनुना जुहुयात्सुधीः || अपामार्गसमिद्भिर्वा पक्वैः पनसजैः फलैः || २०७ ||

सहस्रं कदलैर्वाथ नरं नारीं वशं नयेत् || लाजकैर्जुहुयादग्नौ सहस्रं कन्यकाप्तये || २०८ ||

सहस्रमाज्याहुतीनां हुनेत्क्षीराहुतीरपि || सहस्रं रोगशान्त्यर्थं मन्त्रशास्त्रविशारदः || सर्वाहुतीनां जुहुयाल्लक्षं मृत्युञ्जयो भवेत् || २०९ ||

ब्रह्मवृक्षोत्थसमिधो मधुरत्रयलोलिताः || सहस्र जुहुयान्मन्त्री मासाछत्रूञ्जयेध्रुवम् || २१० ||

विभीतकस्य समिधां सहस्रं साष्टकं निशि || लोहिताक्तं श्मशानाग्नौ जुहुयान्मारयेद्रिपुम् || २११ ||

भूमौ शत्रुस्वरूपं च लिखित्वास्योदरेनलम् || प्रज्वाल्य सिद्धार्थवरैः सहस्रं जुहुयात्सुधीः || तं मारयेत्सप्तदिनैर्नात्र कार्या विचारणा || २१२ ||

शोणमेघसमानाभं गणेशं निजशुण्डया || रिपुं गृहीत्वा वडवामुखे वह्नौ महोत्कटे || २१३ ||

प्रक्षिपन्तं गणपतिं ध्यात्वामु प्रजपेन्मनुम् || सहस्रं त्रिदिनेनासौ शत्रुमुच्चाटयेद्ध्रुवम् || २१४ ||

समुद्रगां नदीं प्राप्य गृहीत्वाञ्जलिना जलम् || सहस्रकृत्वोभिमन्त्र्य परिषिञ्चेत्स्वमूर्धनि || अनेन विधिना मन्त्री पापौघं नाशयेद्ध्रुवम् || २१५ ||

शनैश्चरदिनेश्वत्थमालम्ब्य त्रिसहस्रकम् || जपन्मनुं गणं ध्यायेद्दोषान्ग्रहभवान्हरेत् || २१६ ||

वेतसोत्थसमिद्धोमात्सहस्रं वृष्टिमाप्नुयात् || धनार्थीं जुहुयाद्धान्यैरन्नार्थ्यन्नैर्हुनेद्ध्रुवम् || २१७ ||

कमलैरुत्पलैर्वापि होमो वस्त्रप्रदो मतः || क्षेत्राभिकांक्षी पललैर्गुडाभ्यक्तैर्हुनेत्सुधीः || २१८ ||

तमर्चयित्वा गणपं हरिद्रां सैन्धवं वचाम् || निष्कार्धार्धप्रमाणेन सम्पिष्यैतानि नित्यशः || २१९ ||

प्रसृत्युन्मितगोमूत्रे सहस्रेणाभिमन्त्रयेत् || स्नातामृतुस्नानदिने विशुद्धां रक्तवाससम् || पाययेत्तां च सा बन्ध्या प्रसूते वत्सरात्सुतम् || २२० ||

उपोष्य सोमग्रहणे भास्करग्रहणेथ वा || कपिलाज्यं पलं चूर्णं वचायाश्च पलार्धकम् || २२१ ||

एतत्सहस्रजपितं सहस्रं प्रपिबेत्सुधीः || अवाप्य मेधां महतीं कवितां लभते ध्रुवम् || २२२ ||

गोचर्ममात्रं भूतेशं चोपलिप्यांशुकावृतम् || कृत्वात्र स्थापयेत्कुम्भं पूजितं चन्दनादिभिः || २२३ ||

कुमारं वा कुमारीं वा दीपस्याग्रे निधाय च || जपेत्तन्मन्त्रप्रवरमष्टोत्तरसहस्रकम् || २२४ ||

तेन स्पृष्टा कुमारी वा कुमारो वा ब्रवीति तत् || प्. ४३०) मनोगतं हि सकलं भविष्यद्भूतमेव च || वर्तमानं मनोरस्य प्रसादान्नात्र संशयः || २२५ ||

मन्त्रान्तरमथो वक्ष्ये वक्रतुण्डगणेशितुः || मेघोल्काय तथा स्वाहा मन्त्रः प्रोक्तः षडक्षरः || भार्गवो मुनिरस्याणोरनुष्टुप्च्छन्द ईरितम् || २२६ ||

वक्रतुण्डगणेशोस्य देवता देववन्दितः || मन्त्रवर्णैः षडङ्गानि सड्भिः कुर्याद्यथा पुरा || ध्यानपूजादिकं सर्वं मन्त्री पूर्ववदाचरेत् || २२७ ||

अथातः सम्प्रवक्ष्यामि मन्त्रं द्वात्रिंशदर्णकम् || रायस्पोषस्य दयिता निधिदोरत्नदो मतः || २२८ ||

रक्षोहनोबलगहनोथाद्यश्च षडक्षरः || ऋष्यादिकं पुरा प्रोक्तं ध्यानपूजादि पूर्ववत् || जपेदर्कसहस्राणि जुहुयात्तद्दशांशतः || २२९ ||

हविषा घृतसिक्तेन तदन्ते तोषयेद्गुरुम् || एवं सिद्धे मनौ मन्त्री साधयेदिष्टमात्मनः || २३० ||

षडर्णप्रोक्तमन्त्रेण सर्वं काम्यं समाचरेत् || अथास्य मेदं वक्ष्यामि मन्त्रमन्यं तथाविधम् || २३१ ||

रायस्पोषस्य दयिता निधिदो रत्नदो नृमान् || रक्षोहणोबलगहनोवक्रतुण्डाय हूमिति || २३२ ||

सायकैस्त्रिभिरष्टाभिश्चतुर्भिः पञ्चमी रसैः || मन्त्रार्णैः स्युः षडङ्गानि मुन्याद्याः पूर्ववन्मताः || २३३ ||

प्राग्वत्प्रयोगो निधिदो विशेषेण मनुस्त्वयम् || अथ वक्ष्ये वक्रतुण्डगायत्रीं गणप्रियाम् || २३४ ||

तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि || तन्नो दन्ती प्रचोदयात् || २३५ ||

आद्यन्तयोर्जपेदेनां सर्वमन्त्रप्रसिद्धये || अष्टोत्तरशतं नित्यं पुरश्चरणकृन्नरः || २३६ ||

अष्टाविंशतिसंख्याकान्गणेशानदिने जपेत् || जपाद्यन्तेथाष्टसंख्यानन्यजापी सुसिद्धये || २३७ ||

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते पूर्वाम्नायगणपतिमन्त्रप्रकाशोष्टादशः || १८ ||

Prakāśa 19 – Gaṇapati-Mantras der westlichen Überlieferung

श्रीशिव उवाच ||

अथातः सम्प्रवक्ष्यामि पश्चिमाम्नायसिद्धिदान् || नानाश्चर्यकरान्काशीसंस्थितान्गणनायकान् || १ ||

महागणपतेरंशाश्चतुःषष्टिविनायकाः || एकैकांते गृहीत्वा तु योगिनीं चेटिकामपि || २ ||

स्वर्गभूमिं समासाद्य यावदन्तं गृहं मम || अष्टावरणकैरष्टौ संस्थिताः सिद्धिदायकाः || ३ ||

तत्राष्टौ काशिकाबाह्ये स्वर्गभूमौ समास्थिताः || योजनैकं बहिष्काश्याकीर्तितः परिधिस्तु सः || ४ ||

प्. ४३१) गं विघ्नाय नमः प्रोक्तो मन्त्र एव षडक्षरः || क्षिप्रप्रसादनसममष्टानां साधनं स्मृतम् || ५ ||

वेदायुतं जपेन्मन्त्रं होमश्च घृतपायसैः || प्रयोगाः पूर्ववच्चात्र क्षिप्रमेव च सिद्धयः || ६ ||

गजानना योगिनी तु योगिनीरूपधारिणी || नान्द्यर्णस्सबिन्दुस्तन्नाममन्त्र इतीरितः || ७ ||

प्रिया चैतस्य गदिता तत्सिद्धिं कथयाम्यथ || ओं शिवे शिवपत्नीति शं शिवे स्वकरेति च || ८ ||

पङ्कजं फलं देहीति मनोजवमिदं वदेत् || चरणयोर्देहिदेहि तुभ्यं नम् इतीरितः || षट्त्रिंशदक्षरो मन्त्रो ध्यानमस्या निरूप्यते || ९ ||

उद्यद्भानुसहस्राभां कमलासनपूजिताम् || हस्ते मोहमयं पाशं दधानां प्रभजे शिवाम् || १० ||

जपेत्त्रिंशत्सहस्राणि शतपत्रीवनांतरे || कौसुम्भकुसुमैर्होमं तर्पणादि ततश्चरेत् || एवं सिद्धमनुर्मन्त्री चेटिकां च प्रसाधयेत् || ११ ||

श्रावणे मासि चाष्टम्यां कृष्णपक्षे निशान्तरे || पूजयित्वा जपेन्मन्त्रन्तदा नादाञ्छृणोति च || १२ ||

भीषयन्ति च भूतानि तदा चेद्दृढमानसः || तदानेकसुरैर्युक्ता प्रत्यक्षाख्य शिवा भवेत् || १३ ||

तुष्टा फलन्ददात्येकन्तेनासौ साधकोत्तमः || दूरं याति क्षणेनैव मनसोप्यतिवेगवान् || १४ ||

अदृश्यः सर्वलोकानामपि राजगृहान्तरे || एवं विप्रगणेशेन मोहिता बहवो जनाः || १५ ||

विनायकाय हृदयं गं बीजाद्योष्टवर्णकः || वर्णलक्षम्पुरश्चर्या गणेशानां प्रकीर्तिता || १६ ||

सर्वासां योगिनीनान्तु स्वबीजाद्या हृदन्तकाः || नाममन्त्रास्स्मृता मन्त्रवर्णलक्षम्पुरस्क्रिया || १७ ||

गणेशस्य प्रभावेन सिद्धिः स्यात्पारलौकिकी || योगिनीसेवनादत्र न विघ्नैः परिभूयते || १८ ||

चेटिका प्रोक्तफलदा सर्वत्रैव विनिश्चयः || सिंहास्या योगिनी चात्र जटिला विषधारिणी || १९ ||

अथ काम्या चेटिकाया मनुं विंशतिवर्णकम् || ब्रवीमि वर्णद्वितयात्पातालतलवासिनीम् || २० ||

श्यामले श्रीसिद्धिमिति देहि स्वाहेति चिन्तयेत् || तालारण्यान्तरे स्वस्थां करतालीमनोरमाम् || २१ ||

आलिभिः सहितां गीतकारिणीं श्यामलाम्भजे || जपेदयुतसंख्याकं शान्तात्मा तालकानने || २२ ||

तद्दशांशेन जुहुयात्स तालीफलखण्डकैः || प्. ४३२) कर्पूरागुरुयुक्तैश्च पूर्णं तत्त्रिः प्रदक्षिणम् || २३ ||

कुर्यात्तालीवने तच्चाथैतन्मध्ये वनांतरे || ज्येष्ठामायां जपेद्रात्रौ सहस्रद्वितयं मनुम् || २४ ||

अर्धरात्रे चरेद्धोमम्पूर्णं तालफलेन च || झञ्झामारुत आयाति प्रकाशोतीव जायते || २५ ||

तन्मध्ये तु महादेवी श्यामा षोडशवार्षिकी || नीलांशुकपरीधाना कस्तूरीचन्दनप्रिया || २६ ||

तान्नमस्कृत्य विश्वेशीं तुष्टा भव वरानने || इत्युक्त्वा मन्त्रिणे तुष्टा सा ददाति फलत्रयम् || २७ ||

परमानसविज्ञानविद्यां जातिमगोरमाम् || कंदर्पवत्स्वरूपं च जगतीमोहनक्षमम् || २८ ||

गं वीराय नमश्चेति प्रोक्तो मन्त्रः षडक्षरः || योगिनी चास्य गृद्धा स्याद्वेषतः सा तपस्विनी || २९ ||

तस्याश्चेटी तु बालोक्ता ह्येकोनत्रिंशदक्षरा || ओं पंचवार्षिकीत्युक्त्वा बाले वचनमाधुरीम् || ३० ||

मम देहि द्वयांते तु हुरूणां हुरुयुग्मकम् || भुवनेशीद्वयं चेति ध्यानमस्या निरूप्यते || ३१ ||

गोरोचनाचर्चितांगीं हेमगौरीं सुरार्चिताम् || चंद्रावतंसां ललितवचनां नेत्रसुंदरीम् || ३२ ||

गोमयेन समालिप्य शून्यगेहस्य भूमिकाम् || चन्दनेन समालिख्य तत्पश्चात्कुंकुमेन च || ३३ ||

तत्र दूर्वादलैः पूज्या बाला लक्षं जपेत्ततः || धत्तूरकुसुमैर्होमं सहस्रैकं समाचरेत् || ३४ ||

तद्बीजैः पूजनं कार्यं कौशेयवसनो यजेत् || काषायवस्त्रो नग्नो वा सिद्धमन्त्रः समाचरेत् || ३५ ||

धत्तूरतैलेनाभ्यङ्गं पौर्णमास्यां विधूदये || पुष्पस्य तद्गृहे गत्वा नग्नो बालामनुं जपेत् || ३६ ||

ततो रात्रिप्रान्तभागे दूरतः पंचवार्षिकी || दृश्यते सा द्रुमारूढा धावंस्तत्सन्निधौ व्रजेत् || ३७ ||

सापि मोदप्रहृष्टा हि चुम्बत्याशु तदाननम् || चच्चुम्बनात्तस्य जिह्वा रससन्दोहिनी भवेत् || ३८ ||

तद्वार्तया याति मोहं राजा राज्येखिलो जनः || व्याघ्रादिपशुजातीनां मोहनं तद्वचो भवेत् || ३९ ||

मुखं तस्य समालोक्य सर्वे मुह्यन्ति जन्तवः || गं सुराय नमश्चेति प्रोक्तो मन्त्रः षडक्षरः || ४० ||

योगिनी काकतुण्डा स्यास्फुटाक्षी चेटिकेरिता || विशालाक्षि गजान्तेति तिले देहियुगं वदेत् || ४१ ||

दारिद्र्यं दाहयेत्युक्त्वा ह्रीं स्फुटं हुं कलत्रकम् || प्. ४३३) वह्नेर्मन्त्रः समाख्यातो नागनेत्रमिताक्षरः || ४२ ||

जम्बीरनारिकेलानां वने वाथ नदीतटे || अथ वा विजने रम्ये तादृग्वनविभूषिते || ४३ ||

अथवा कमलामोदभूषिते सुसरित्तटे || लक्षमेकं जपित्वा तु होमं कुर्याद्दशांशतः || ४४ ||

नारिकेलैस्ततः सिद्धमन्त्रो मन्त्री समाचरेत् || माघे मासि तथाष्टम्यां कृष्णपक्षे विधौ निशि || ४५ ||

सहस्रं प्रजपेन्मन्त्रं वेतालाः खड्गपाणयः || साधकं ते भीषयन्ति न भेतव्यं तदा क्वचित् || ४६ ||

वामहस्तासृजा तांश्च सिञ्चेत्ते यान्ति दूरतः || पुनर्जपे समारब्धे तदा कात्यायनी स्वयम् || ४७ ||

आयाति शवमुण्डानि चर्वयन्त्यतिभीषणा || वामजङ्घासृजा सिञ्चेत्ततः सापि प्रयाति च || ४८ ||

पुनर्जपे समारब्धे भैरवी याति भीषणा || गजमुण्डञ्चर्वयन्ती वमन्ती शोणितम्भुवि || ४९ ||

तया सह समायान्ति भीषणा भैरवास्तदा || सिञ्चेद्वै भैरवांस्तांश्च ततो भालोद्भवासृजा || ५० ||

पुनः सहस्रजापान्ते नारिकेलत्रयं हुनेत् || तदा देवी समागत्य नारिकेलं प्रयच्छति || तस्मिन्स्थिते जगद्वश्यं जायते नगरेन्दिरा || ५१ ||

गमुक्त्वा प्रवदेन्ङेन्तं वरदाक्षविनायकम् || हृदन्तो रुद्रवर्णोयं मन्त्रः प्रोक्तोस्य योगिनी || ५२ ||

उष्ट्रग्रीवाभिधा प्रोक्ता सैरन्ध्रीरूपधारिणी || वेदास्या हरितालाक्षी मन्त्रः सप्तदशाक्षरः || ५३ ||

तारं ह्रीं हरितालाक्षि वदेद्रतिकलां ततः || दहयुग्मं वह्निजायां ध्यानमस्या निरूप्यते || ५४ ||

जपापुष्पसहस्रौघद्योतमानां महेश्वरीम् || ध्यायेत्तां हरितालाक्षीं सिद्धिदां शं वितन्वतीम् || ५५ ||

मृगद्वितीयचरणप्रवेशे भवति [शत्रन्तं सप्तम्यन्तञ्चैतत्] ध्रुवम् || आदिमे दिवसे रात्रौ गत्वा वै निर्जने वने || ५६ ||

दिवसे च समानीय हरितालं मुखे स्वके || लेपयित्व प्रथमतो जपेदयुतसंख्यकम् || ५७ ||

घृतकर्पूरकाश्मीरैः कौसुम्भैर्होममाचरेत् || पूर्णं कुर्यात्कुलिङ्गेन हरितालरसस्पृशा || ५८ ||

ततो देवी समायाति ललिता हरितालिका || नानावाक्यैर्योहयन्ती साधकस्तां न विश्वसेत् || ५९ ||

ततः प्रभातसमये मूलमन्त्रप्रभावतः || भगिनीं स्वां रतिकलां साधकाय प्रयच्छति || ६० ||

प्. ४३४) वशीभूता रतिकला गृहीत्वा मन्त्रिणं ध्रुवम् || खेचरं कुर्वती सद्यो नयेद्देशे विचिन्तिते || ६१ ||

यक्षिणी भूतवेतालभैरवानतिभैरवान् || आनयति क्षणेनैव मन्त्रिणो वशमादरात् || ६२ ||

देवकिन्नरगन्धर्वविद्याधरपुरे नयेत् || आनयेच्च पुनर्भूमौ नाना वस्तु प्रदर्शयेत् || ६३ ||

गमुक्त्वा चेभवक्त्राय हृदन्तोयं गजाक्षरः || योगिन्यस्य हयग्रीवा भवेन्मासोपवासिनी || ६४ ||

अस्यास्तु कुण्डली चेटी मन्त्रो विश्वमिताक्षरः || ओं कुण्डिनि नागवाहने फुर्फुर्वह्निगेहिनी || ६५ ||

महानागसमारूढामानिम्नस्फुटलोचनाम् || दीप्यन्तीमन्धकारे च फूत्काराहतभूरुहाम् || ६६ ||

एकलिंगो महादेवो यत्र स्याद्बिल्वकानने || तत्रेमं प्रजपेन्मन्त्रं लक्षहोमं समाचरेत् || बिल्वमूलेन मन्त्रस्य तदा सिद्धिः प्रजायते || ६७ ||

रात्रौ शिवचतुर्दश्यामेकान्ते शिवमन्दिरे || जपेत्सहस्रत्रितयं हुनेत्तस्य दशांशतः || ६८ ||

बिल्वमूलेन होमांते कुण्डो नाम महाफणी || विस्तीर्णवदनो लम्बो दृश्यते युगविंशकः || ६९ ||

फणां प्रसार्य नागोसौ पुनस्तिष्ठति मन्त्रिणः || पुरस्तात्तस्य निर्भीत्या स्थातव्यं तेन मन्त्रिणा || ७० ||

फूत्काराणां सहस्राणि फणाभिः कुरुते ध्रुवम् || तस्य वक्त्राच्छतं ज्वाला निस्सरन्ति पुनः पुनः || ७१ ||

तथा विषाणि बहुधा नीलपीतच्छवीनि च || पललानि ततो धूमपत्रिणश्चापि शाखिनः || ७२ ||

एवंविधं महोत्पातं दृष्ट्वा नैव बिभेति चेत् || तदा सा दृश्यते देवी तन्नागफणसंस्थिता || ७३ ||

तां स्तुयात्स्तुतिभिर्देवीं तोषिता सा ददाति च || अमृतन्तोलकमितन्तेन स्यादजरामरः || निधीन्पश्यति भूमिष्ठान्वाणी सत्या प्रजायते || ७४ ||

गमेकदन्तं ङेन्तञ्च हृदयांतो गजाक्षरः || वाराही योगिनी जाता वेषाच्छूकरचारिणी || अस्य देवस्य चेटी तु प्रोक्तात्र मधुवासिनी || ७५ ||

त्रयोदशाक्षरो मन्त्रः प्रणवो मधुवासिनी || कामदेवीति चोच्चार्य क्लींस्वाहेति मनुः स्मृतः || ७६ ||

स्तूयमाना च कामेन बिभ्रती स्वर्णपंकजम् || ध्यायेन्नवरसां देवीं मृगाक्षीं ब्रह्मसौख्यदाम् || ७७ ||

मधुवृक्षतले स्थित्वा जपेल्लक्षमितम्मनुम् || वासन्तीकुसुमैर्होमो मधुपुष्पैरथापि वा || ७८ ||

प्. ४३५) कर्पूरागुरुसम्मिश्रैः कुर्यादयुतसंख्यया || मधुमासि सिताष्टम्यामेकांते निर्जने जपेत् || ७९ ||

मधुवृक्षतले नीरे गोदावर्या विशेषतः || होमः प्राग्वत्सहस्रं स्याज्जपेन्नवसहस्रकम् || ८० ||

मधुनेति तदा यक्षो ज्वालामालेतिभीषणाः || माहिषेण विषाणेन दक्षहस्तेन सम्पिबन् || ८१ ||

रक्तञ्च वामहस्तेन सुरां पिबति भीषणः || जिह्वयैव च यक्षो हि लतावृक्षादि गुल्मकान् || ८२ ||

उत्पाट्य चर्वन्घोरो हि भक्ष्यन्देहीति भाषते || न भयं प्राप्नुयात्तस्मान्मिथ्यात्रासादिभिस्तदा || ८३ ||

तस्मै रक्तं प्रदातव्यम्मन्त्रिणा स्वकरोद्भवम् || ततस्तस्मिन्गते यक्षे देवी वृक्षतले तदा || ८४ ||

प्रत्यक्षा जायते तस्मै दद्यात्पौष्पञ्च कार्मुकम् || वितस्तिमात्रन्तेन स्यात्सर्वमोहनकारकः || ८५ ||

नवयौवनशालिन्यः कुङ्कुमारुणविग्रहाः || धनन्देहं प्रयच्छन्ति तस्मै कामविमोहिताः || ८६ ||

गञ्च लम्बोदरं ङेन्तं हृदयांतोष्टवर्णकः || योगिनी शरभास्यास्या ज्वालामालावपुर्धरा || चेटी तु मन्थरा प्रोक्ता मंत्रो जिनमिताक्षरः || ८७ ||

ओं मन्थरे वदेत्पश्चाद्दिक्षुक्षितिनिवासिनि || ममेष्टवरयुग्मञ्च तुं घं मं वह्निगेहिनीम् || ८८ ||

करे वहन्ती कोदण्डमैक्षवं लोललोचना || जपाकुसुमशोणांगी मम चित्तस्य मन्थरा || ८९ ||

इक्षुवाटीस्थले चैव गुडपाकस्थले तथा || रसपञ्चसमीपे तु रचयित्वा शुभं स्थलम् || ९० |||

लक्षमात्रम्पुरश्चर्या हीक्षुखण्डैश्च होमयेत् || मल्लारिषष्ठीरात्रौ तु जपेत्सोमे शतद्वयम् || ९१ ||

तद्दशांशैर्हुनेदिक्षुखण्डैरायाति मन्थरा || ददाति मधुपात्रं हि दिव्यमाध्वीकमिश्रितम् || ९२ ||

तत्पूजयेत्त्रिसन्ध्यं हि तन्मुखान्मन्थरा वदेत् || भाषया स्पष्टया दद्यात्पूजांते यन्मनोगतम् || ९३ ||

भूतञ्च वर्त्तमानञ्च भविष्यदपि तत्त्वतः || स जानाति न सन्देहो मनोरस्य प्रभावतः || ९४ ||

यदायदातिसंकष्टञ्जायते मन्त्रिणो ध्रुवम् || तदातदा तु तां देवीं मधुपानैः प्रपूजयेत् || ९५ ||

संकष्टं हरते तूर्णं विग्रहादौ प्रपूजयेत् || रसपञ्चसमीपे तु भूमिपूजां विषेतः || ९६ ||

कुंकुमैश्चादिसिन्दूरै रक्तचन्दनवन्दनैः || ९७ ||

माध्यन्दिनीजपापुष्पकरवीरप्रसूनकैः || यावदालोहितं वस्तु तावद्भिः परिपूजयेत् || ९८ ||

प्. ४३६) वक्ष्येथ कौलिकप्रोक्तान्स्थितानष्टौ विनायकान् || नमो भगवते पूर्वं ङेन्तन्तन्नाम चोच्चरेत् || ९९ ||

अष्टानामपि मन्त्रोयमैन्द्र्यां सिद्धिविनायकः || उलूकी योगिनी तत्र नापितीरूपधारिणी || १०० ||

विधिस्तत्र समाख्यातो ह्यणिमाद्यष्टसिद्धयः || साधको यां सिद्धिमिच्छेत्तद्युक्ताय पदं वदेत् || १०१ ||

मन्त्रमध्ये वर्णलक्षं जपेद्धोमं समाचरेत् || महागणपवत्सर्वं ततस्तां सिद्धिमाप्नुयात् || १०२ ||

काश्यामाग्नेयदिग्भागे विज्ञेयोर्कविनायकः || योगिनी च शिवा ह्येषा मूर्तिकारूपधारिणी || १०३ ||

हंसावागस्य चेटी स्यान्मन्त्रः स्याद्द्वादशाक्षरः || ओं हंसगेंबोधमिति वाक्छ्रीबीजाग्नि वल्लभाः || १०४ ||

शतचन्द्रसमज्योत्स्नां चन्द्रार्धकृतशेखराम् || वरदाभयहस्तां च संसेवे हंसगामिनीम् || १०५ ||

सहस्राणां तु पञ्चाशत्पुरश्चरणमस्य तु || अयुतार्धन्ततो होमं पद्माक्षैराज्यसंयुतैः || १०६ ||

कुर्याद्धोमं यवैस्तद्वत्पद्मयुक्तसरित्तटे || हिरण्यकशिपुप्राणनाशकालतिथौ ध्रुवम् || १०७ ||

सन्ध्यामारभ्य जप्तव्यं प्रहरत्रितयावधि || भूर्जपत्रैश्च होतव्यं पद्माक्षैः खखखाष्टकम् || १०८ ||

ततो हंससमारूढा शतचन्द्रसमप्रभा || सा देवी मन्त्रिणे तस्मै पद्ममालां प्रयच्छति || १०९ ||

तन्मालाजपतो मन्त्री जायते शास्त्रपारगः || अज्ञानाच्चेत्सगर्वोपि जायते सत्त्वमस्य तु || दुर्गया स्थापितः काश्या याम्ये दुर्गविनायकः || ११० ||

मायूरी योगिनी तत्र लोकानामौषधप्रदा || ओं ह्रीन्दुमुक्त्वा दुर्गायै हृदयान्तोष्टवर्णकः || १११ ||

मुनिः प्रोक्तो नारदाख्यो गायत्री छन्द ईरितम् || दुर्गा देवी यया दुर्गवधार्थं सेवितो गणः [गणेशः] || ११२ ||

प्रणवं पूर्वमुच्चार्य दीर्घषट्कसमन्वितम् || क्रमादाद्यन्तयोर्मायां दुर्गायै चेति मध्यतः || ११३ ||

पल्लवाद्याः षडङ्गानि चेति मन्त्राः प्रकीर्तिताः || ११४ ||

सिंहासीनां मरकतद्युतिं चन्द्रार्धशेखराम् || शङ्खचक्रधनुर्बाणान्दधतीं त्रीक्षणां भजे || ११५ ||

अष्टपत्राम्बुजद्वन्द्वे चतुरस्रत्रयावृते || चतुर्द्वारसमायुक्ते कुंकुमामादिभिरुद्धृते || कुर्यात्स्वपीठपूजायां तत्र शक्तिसमर्चनम् || ११६ ||

प्रभा समा जया सूक्ष्मा विशुद्धा नन्दिनी तथा || सुप्रभा विजया पूर्वदलात्सर्वार्थसिद्धिदा || ११७ ||

प्. ४३७) एवं वह्निसरक्लीबहीनैरद्भिः प्रपूजयेत् || ओं वज्रनखदंष्टायुधायप्रोक्त्वामहापदम् || ११८ ||

सिंहाय हुंफट् हृदयमूनविंशतिवर्णकः || सिंहमन्त्रः समाख्यातस्तेन सिंहं प्रपूजयेत् || ११९ ||

मूर्तिमावाह्य तस्यान्तु पूजयेच्चन्दनादिभिः || प्रथमावृत्तिरङ्गैः स्याद्द्वितीया तु प्रभादिभिः || १२० ||

सबिन्दुनाद्यवर्णेन जयादीनान्तु नामभिः || ङेन्तैर्नमोन्तैस्तृतीयावरणं परिकीर्तितम् || १२१ ||

जया च विजया कीर्तिः प्रीतिश्चापि प्रभा मता || श्रद्धा मेधा श्रुतिश्चापि चतुर्थावरणं क्रमात् || १२२ ||

शङ्खं चक्रं गदां खड्गं पाशांकुशशरान्धनुः || बाह्यवीथीद्वये लोकपालानस्त्राणि च क्रमात् || १२३ ||

जितेन्द्रियो हविष्याशी वसुलक्षं जपेन्मनुम् || तत्सहस्रं तिलैः स्वादुलोलितैर्वा पयोन्धसा || १२४ ||

जुहुयादेधिते वह्नौ तर्पणादि ततश्चरेत् || एवं सिद्धे मनौ मन्त्री प्रयोगानाचरेत्सुधीः || १२५ ||

यथोक्तेन विधानेन नवकुम्भान्मनोरमान् || पञ्चरत्नसमायुक्तान्नवस्थानेषु विन्यसेत् || १२६ ||

मन्त्री दुर्गां यजेन्मध्येष्वन्यत्र च जयादिकाः || चन्दनाद्यैः समभ्यर्च्य धूपदीपैश्च मन्त्रवित् || १२७ ||

अभिषिञ्चेत्प्रियं साध्यं राजानं वा शिशुं बुधः || विजयश्रीसमायुक्तो राजा भवति नान्यथा || १२८ ||

भूतापस्मारवेतालपिशाचाद्यैर्वियुज्यते || वन्ध्या च ललना पुत्रं विनीतं प्राप्नुयाच्छुभम् || १२९ ||

आमयान्मुच्यते मर्त्त्यो दीर्घायुश्च न संशयः || अनेनैव विधानेन जनानामनुरञ्जनम् || दुर्गामनुं च भजतां बह्वायुश्चाघनाशनम् || १३० ||

काश्या नैर्-ऋत्यभागे तु ज्ञेयश्चण्डविनायकः || वेश्या वृत्तिकरी चास्य योगिनी चक्रितानना || हंसीनाम्नी तस्य चेटी तस्याः साधनमुच्यते || १३१ ||

सुधाकरसमज्योत्स्नां शुकशोभितसत्कराम् || वामे हंसं दधानां च पीनोन्नतपयोधराम् || १३२ ||

एकान्ते च नदीतीरे जपेन्मन्वयुतत्रयम् || मुस्तकन्दैः सहोशीरैर्दशांशं होममाचरेत् || १३३ ||

एवं सिद्धप्रयोगस्तु नदीतीरे च कानने || गहने बिल्ववृक्षाणामेकान्तेप्यथ वा सुधीः || १३४ ||

तुङ्गभद्रानदीतीरे यत्र लक्ष्मीश्वरः शिवः || तत्र स्नात्वा तटे तस्या ह्यङ्गाद्यां च दिने यजेत् || भानोर्वारे निशि हुनेत्प्राग्वद्देवीं तथा यजेत् || १३५ ||

नत्वास्तुत्वा प्रार्थयित्वा निर्भयो जनवर्जिते || प्. ४३८) ददाति मन्त्रिणे शीघ्रं स्फटिकाख्यं मनोहरम् || १३६ ||

तस्मिन्पश्यति भूतं च भविष्यद्वर्त्तमानकम् || तथा स्वस्य परस्यापि सर्वज्ञो जायते नरः || १३७ ||

काश्याः पश्चिमदिग्भागे स देहलिविनायकः || योगिनी त्वष्टवक्त्रास्य वणिक्कर्म प्रकुर्वती [प्रकुरुते |
] || १३८ ||

विचित्रानाम चेट्यस्य त्रयोविंशतिंवर्णकः || ह्रीं विचित्रे चित्रचैले चैलं देहि पदं वदेत् || वायुं पूरययुग्मं च हुं स्वाहेत्युदितो मनुः || १३९ ||

अयुतं प्रजपेत्तीरे सरितस्तद्दशांशतः || कमलाक्षैर्भवेद्धोमस्तत्तत्काम्यं समाचरेत् || १४० ||

चैत्रे चाश्विनमासे च चतुर्दश्यां निशान्तरे || सरस्तीरे जपेन्मन्त्रं समस्तां रात्रिमन्ततः || १४१ ||

ततो देवी समायाति विचित्रं वसनाञ्चलम् || ददाति तत्पूजयित्वा रात्रौ संस्थापयेद्गृहे || तद्गृहं पूर्यते वस्त्रैराजमन्दिरगैरपि || १४२ ||

काश्या वायव्यकोणेयमुद्दण्डाख्यो विनायकः || योगिनी कोटराक्ष्यस्य चेटी स्याद्दधिदुग्धदा || १४३ ||

केशमुच्चार्य चावर्त्तनखरेहिपदं ततः || ह्रीं श्रीं स्वाहेति मन्त्रोथ तस्य ध्यानमिहोच्यते || १४४ ||

स्वच्छतोयैश्च सम्पूर्णं वामे धत्ते कमण्डलुम् || स्वर्णकुण्डलक्षिप्ताढ्यगण्डान्तं विधिपूर्वकम् || १४५ ||

जपेल्लक्षमितं मन्त्रं नदीतीरे मनोरमे || होमयेच्च त्रिमधुरैः प्रयोगं तत आचरेत् || १४६ ||

कृष्णातीरे महातीर्थेथ वा पञ्चनदे शुभे || मघामासे द्वितीयायां कृष्णपक्षे निशान्तरे || १४७ ||

कृत्वा तृणकुशूलं तु निक्षिपेत्तत्स्थलान्तरे || कृत्वा सायन्तनं कर्म कुशूलं पूजयेत्ततः || १४८ ||

तत्र देवीं स्मरन्मन्त्री कुशूलान्तर्विशेद्ध्रुवम् || तत्र बद्धासनो योगी शीतवाधामुपेक्ष्य हि || १४९ ||

जपेत्पंचसहस्रं तु देवतां विधिपूर्वकं || पंचवक्त्रां त्रिनेत्रां च पश्येदष्टभुजां शिवाम् || १५० ||

ततः सा देवता तस्मै ददाति च कमण्डलुम् || जलपूर्णं ततस्तस्मै जलेनासेचयेत्सुतम् || १५१ ||

स नरस्तत्क्षणादेव सप्तजन्मसमुद्भवाम् || जातिं वदति तत्कालं तत्तत्कर्म करोति च || १५२ ||

काश्यामुत्तरभागे तु पाशपाणिर्विनायकः || योगिन्यस्य भवेत्कुब्जा व्यालग्राहा स्वरूपतः || १५३ ||

यदा न महिषं शक्ता घातितुं [णिज्लोप आर्षः] विन्ध्यवासिनी || प्. ४३९) वज्रस्तदा कृतोनेन महिषो येन घातितः तस्मान्महिषमर्दिन्या मन्त्रं वक्ष्ये समासतः || १५४ ||

महिषमर्दिनीत्युक्त्वा स्वाहान्तोऽष्टाक्षरो मनुः || मार्कण्डेयो मुनिश्छन्दो गायत्रं दैवतं मनोः || सुरासुरनुता देवी प्रोक्ता महिषमर्द्दिनी || १५५ ||

महिष मर्दिनि हुंफट् हृदयं परिकीर्तितम् || महिषारीशानि हुंफट् शिरोगं समुदीरितम् || मन्त्रैरेभिर्जातियुक्तैः पंचाङ्गानि प्रकल्पयेत् || १५६ ||

गारुडोपलदीप्तिं च मणिमौक्तिककुण्डलाम् || तिष्ठन्तीं माहिषे शीर्षे नौमि भालविलोचनाम् || २५७ ||

चक्रं शङ्खं कृपाणं च बाणं शूलं च तर्जनीम् || कार्मुकं खेटकं हस्तैर्बिभ्रतीं शशिशेखराम् || १५८ ||

जटामुकुटशोभाढ्यां सर्वाभरणभूषिताम् || पीताम्बरधरां देवीं पीनोन्नतकुचद्वयाम् || १५९ ||

ततः पूर्वोदिते पीठे यजेन्महिषमर्दिनीं || प्रथमावृत्तिरङ्गैः स्याद्दुर्गाद्याभिः परेरिता || १६० ||

स्वाग्रादिप्रादक्षिण्येन दुर्गा च वरवर्णिनी || आर्या च कनकाख्यातु कृत्तिका चाभयप्रदा || १६१ ||

कन्यास्वरूपा आ-ईं-ऊंदिंघों द्विस्वरपूर्विकाः || क्लीबान्तरहितं चात्र ग्राह्यं दीर्घस्वराष्टकम् || १६२ ||

परादिकं प्रथमतः सबिन्दुं वर्णमुच्चरेत् || ततो देव्यायुधं प्रोच्य तृतीयावरणे यजेत् || १६३ ||

चतुर्थी लोकपालैः स्यात्पञ्चमी च तदायुधैः || प्रजपेद्वसुलक्षं च तत्सहस्रं तिलैर्हुनेत् || १६४ ||

एवं सिद्धे मनौ मन्त्री प्रयोगानाचरेत्ततः || तिलहोमाद्वशीकारो नृणां स्त्रीणां भवेत् ध्रुवम् || १६५ ||

आमयान्मुच्यते मर्त्यः सद्यः सर्षपहोमतः || पद्महोमात्तथा राज्ञः संग्रामे विजयो भवेत् || १६६ ||

दूर्वाहोमेन मर्त्यानां रोगशान्तिर्भवेद्ध्रुवम् || ब्रह्मवृक्षोत्थकुसुमैर्लभते पुष्टिमुत्तमाम् || १६७ ||

धान्यहोमेन धान्यानि काकपक्षहुतेन च || विद्वेषो जायते लोके चात्यन्तसुहृदोरपि || शत्रुर्गच्छति पंचत्वं सत्यं मरिचहोमतः || १६८ ||

एवं यो भजते देवीं दुर्गां महिषमर्दिनीम् || स नाशयेत्क्षुद्रभूतांश्चौरादीन्दर्शनादपि || उपासितोपासितातिनिकटे द्रुतसिद्धिदा || १६९ ||

काश्यामीशानदिग्भागे ज्ञेयः खर्वविनायकः || दासी रूपं समास्थाय स्थिता विकटलोचना || योगिनी जयदुर्गा च सिद्धिदा तत्र संस्थिता || १७० ||

प्. ४४०) तारो दुर्गे द्वयं प्रोच्य रक्षिणीत्यग्निगेहिनी || दशाक्षरो मनुः प्रोक्तो भजतामिष्टसिद्धिदः || १७१ ||

नारदर्षिर्विराट् छन्दो जयदुर्गा च देवता || ताराद्यैः पंच [भिस्विभक्तिलोप आर्षः] मन्त्रस्य पदैः सर्वेण सम्मता || जातियुक्ता चाङ्गकॢप्तिः काम्यकर्म ह्यथोच्यते || १७२ ||

दुर्गेति हृदयं प्रोक्तं दुर्गा च शिर ईरितम् || दुर्गायै स्याच्छिखा वर्म्म भूतरक्षाक्षि कीर्तितम् || १७३ ||

तारादिदुर्गद्वितयं रक्षिण्यक्षि प्रकीर्तितम् || तारादियुगलं दुर्गे रक्षिण्यस्त्रमुदीरितम् || मेघश्यामां ग्लौकीरीटां त्रिनेत्रां सिंहवाहिनीम् || १७४ ||

चक्रं दरं खड्गशूलौ बाहुभिर्बिभ्रतीं भजे || दौर्गे पीठे यजेद्देवीमुक्तमार्गेण मन्त्रवित् || प्रजपेत्पञ्चलक्षं च तद्दशांशं हुनेद्घृतैः || १७५ ||

तर्प्णादि ततः कुर्यात्ततः सिद्धो भवेन्मनुः || ततः सिद्धमनुर्मन्त्री प्रयोगानाचरेत्ततः || १७६ ||

इमं मनुं जपेद्भूयः प्रविशेच्छत्रुसङ्गरम् || अशेषेण रिपुं हन्यान्नात्र कार्या विचारणा || १७७ ||

विवादे व्यवहारादौ यशोविजयदो भवेत् || अनया विद्यया जप्तं पताकाध्वजदुन्दुभिः || १७८ ||

शृङ्गं शङ्खादिकं सर्व यानं सेना च सैन्यपः || संमुह्येत्स च संग्रामे लभते विजयं खलु || १७९ ||

अथास्याः प्रोच्यते भेदो यदा घोरस्थले पतेत् || ऋणं वा जायते तारान्नम उक्त्वा च पूर्ववत् || १८० ||

द्वादशार्णो भवेन्मन्त्रः संग्रामविजयप्रदः || मुन्याद्यं पूर्ववत्प्रोक्तं ध्यानपूजादिकं तथा || १८१ ||

व्यस्तेन च समस्तेन मन्त्रेणाङ्गानि षट् क्रमात् || काशीप्रान्तस्थिता एते कीर्तिता गणनायका.ः || १८२ ||

देहलीसञ्ज्ञगणपनिकटेन्ये तु षोडश || विनायकास्तु काश्यां वै वेदकर्मप्रवर्तकाः || १८३ ||

तान्त्रिकाणां नात्र सिद्धिर्वामिनां तु विशेषतः || वेदस्त्वनादिस्तस्यात्र द्रुतं सिद्धिः प्रजायते || १८४ ||

अभक्तविघ्नकर्ता च भक्तानां विजयप्रदः || पापिनां पापहर्ता च वाममार्गप्रसाधकः || १८५ ||

तपोवनपरित्राता सीतारक्षाकरस्तथा || आयुष्कर्त्ता रोगहर्ता निधिदाता द्विजाधिपः || १८६ ||

तुन्दिलो विश्वरक्षाकृद्गणनाथो गणाधिपः || दुग्धदश्चेति नामानि सर्वसिद्धिकराणि च || १८७ ||

हृदन्तानि प्रजप्तानि मन्त्रार्णायुतसंख्यया || प्. ४४१) नामानुसारिणी सिद्धिरवश्यं स्यान्न संशयः || १८८ ||

अथातः सम्प्रवक्ष्यामि ये विमुक्तान्तसंस्थिताः || सीमाविनायका अष्टौ मन्त्रस्तेषां निरूप्यते || १८९ ||

धराबीजं समुच्चार्य तद्बीजञ्च समुच्चरेत् || ङेन्तं तन्नामगं प्रोच्यहृदयान्तो मनुः स्मृतः || १९० ||

अविमुक्ते पूर्वदिशि लम्बोदरविनायकः || शुष्कोदरी योगिनी तु धात्रीरूपं समाश्रिताः || १९१ ||

तत्रैव शूलिनी दुर्गातस्यास्साधनुमुच्यते || ज्वलद्वयं शूलिनीति वदेद्दुष्टग्रहे ततः || १९२ ||

हुं फट् स्वाहेति मन्त्रोयं तिथिवर्णः प्रकीर्तितः || मुनिर्दीर्घतमाश्छन्दः ककुबुक्तं च देवता || १९३ ||

शूलिन्याह्वा महादुर्गा सर्वारिष्टविनाशिनी || दुर्गे स्याद्धृदयं शीर्षं वरदे विन्ध्यवासिनी || १९४ ||

शिखा वर्मासुरान्ते च दमन्यन्ते ततो वदेत् || शुद्धं प्रियं वदेत्पश्चात्त्रासय रूपमीरितम् || १९५ ||

अस्त्रं च देवसिद्धान्ते वदेन्मन्त्री सुपूजिते || नन्दिन्यंतरे रक्षयुग्मं समस्तयोगेश्वरीति च || शूलिनीतिपदाद्याश्च वर्मास्त्रान्ताः प्रकीर्तिताः || १९६ ||

पञ्चाङ्गमत्रमुद्दिष्टमेवं न्यस्तं च मन्त्रिणः || रक्षाकृद्ग्रहदोषघ्नमङ्गकर्तुर्भवेद्ध्रुवम् || एवं न्यस्य शरीरादौ ध्यायेद्दुर्गां सुरैर्नुताम् || १९७ ||

गदां दरमरिंखड्ग बाणाञ्छूलं च खेटकम् || करालिकां पाशधनुर्दिग्भिर्हस्तैश्च बिभ्रतीम् || १९८ ||

मेघाभामिन्दुमुकुटां सिंहारूढां चतसृभिः || कन्यकाभिः परिवृतां त्र्यक्षां भूषणभूषिताम् || १९९ ||

एवं ध्यात्वा पुनर्न्यासान्कृत्वा कुर्वीत साधकः || दुर्गापीठे पुरा प्रोक्ते ध्यात्वा देवीं प्रपूजयेत् || २०० ||

दुर्गाद्याभिर्द्वितीया स्यादायुधाद्यैः समन्ततः || दुर्गा च वरदा विन्ध्यवासिन्य सुरमर्दिनी || २०१ ||

प्रोक्ता युद्धप्रिया देवसिद्धाद्या पूजितापि च || नन्दिनी सुमहायोगेश्वरीति गदिताश्च ताः || २०२ ||

चक्रं शङ्खं खड्गगदे शरांश्चापं त्रिशूलकम् || पाशं देव्यग्रतश्चैतान्पूजयेच्च प्रदक्षिणम् || २०३ ||

दिशादिनाथैर्वज्राद्यैः पञ्चावरणपूजितम् || वर्णलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः || २०४ ||

आज्येन साज्यहविषा तर्पणादि ततश्चरेत् || आराध्य विप्रान्विधिवद्भक्त्याभ्यर्च्य गुरुं ततः || २०५ ||

एवं सिद्धमनुर्मन्त्री प्रयोगान्निजवाञ्छितान् || विदधीत विधानेन गुरोराज्ञापुरःसरम् || २०६ ||

प्. ४४२) शूलाद्यायुधसंयुक्तामुग्रास्यां शूलिनीं तथा || विचिन्त्य प्रजपेन्मन्त्रं यस्तं स्पृष्ट्वा विधानतः || २०७ ||

तमाविश्य क्षणं सर्वं वदेत्पश्चाद्विनश्यति || मन्त्रावृत्त्या तदानीं च भूतसङ्घः पलायते || २०८ ||

स्मृत्वा च रोगिणां मध्ये शूलिनीं स्वायुधैर्युताम् || जपतो विद्रवन्त्याशु ग्रहाश्चोपग्रहादयः || २०९ ||

क्षेमंकरीं पूजयित्वा मनुमेनं जपेत्सुधीः || परायुधानि गृह्णाति सेना [अप्रत्यये तथैवेष्टेति वार्तिकेन परशब्दलोपेन शब्दसम्बन्धिमहिम्ना वात्र परसेनेत्यर्थः ||] निश्चेष्टिता भवेत् || २१० ||

तिलयुक्तैस्सर्षपैश्च वैरिनामसुसंयुतैः || लक्षं प्रजुहुयाच्छत्रुर्यमस्यातिथ्यमाप्नुयात् || २११ ||

त्रिस्वादुयुक्तिलैरष्टसहस्रं प्रत्यहं हुनेत् || शक्तिरस्याप्रतिहता वत्सरात्प्राग्भवेदलम् || २१२ ||

घृतेनाष्टशतं मन्त्री हुत्वा वाञ्छितमप्राप्नुयात् || वत्सरात्प्राग्दूर्वया च मधुरत्रययुक्तया || सम्यगष्टोत्तरशतं हुत्वोस्पितमुपव्रजेत् || २१३ ||

अष्टोत्तरशतं मन्त्री गुलिकां गोमयस्य च || जुहुयात्सप्तदिवसैरिष्टैः सङ्गस्तदादरात् [भवेदिति शेषः] || २१४ ||

अस्पृष्टभूम्यन्तरिक्षे गृहीत्वा गोमयं शुभम् || त्रिसहस्रमितं जप्तं यियासोर्द्वारिसङ्खनेत् || २१५ ||

तस्य संस्तम्भनं तत्र भवने नात्र संशयः || सेनामुखे निखातं च सेनास्तम्भं करोत्यलम् || २१६ ||

ग्रामं वा नगरं गच्छेत्संस्मरेदम्बिकां सुधीः || पानीयान्नकरां चैव प्रसन्नां प्रजपेन्मनुम् || २१७ ||

तर्पयित्वा प्रविष्टस्तं प्राप्नुयान्मिष्टभोजनम् || सहस्रभृत्यवर्गेण सहितो नात्र शंशयः || २१८ ||

अर्कवृक्षसमिद्भिश्च त्रिमध्वक्ताभिरुक्तवत् || जुहुयाद्रविसाहस्रं यान्समुद्दिश्य साधकः || भवन्त्येव हि ते वश्यास्तथाश्वत्थसमिद्वरैः || २१९ ||

प्रसन्नचेताश्च तिलैः पूर्वकर्मणि वा हुनेत् || दुर्गाकल्पोदितान्सर्वान्प्रयोगान्साधयेत्सुधीः || २२० ||

अथ वक्ष्ये कूटदन्तं गणेशं कूटसिद्धिदम् || योगिन्यस्य ज्वलज्जिह्वा नर्त्तकी रूपधारिणी || गृद्धदुर्गास्य निकटे साधकाभीष्टदायिनी || २२१ ||

तारो नमो भगवति ज्वालामालिनी संवदेत् || गृद्धं गणपतिं वृत्ते स्वाहान्तो द्विनखाक्षरः || २२२ ||

त्रिचतुष्पञ्चवस्वक्षिमितैर्वर्णैर्मनोः क्रमात् || पञ्चाङ्गानि सुधीरस्य जातियुक्तानि कल्पयेत् || अन्यच्छूलिनिदुर्गावत्सवर्मस्याः प्रकीर्तितम् || २२३ ||

प्. ४४३) अथातः सम्प्रवक्ष्यामि देवं शालंकटंकटम् || स्वदंष्ट्रा योगिनी चास्य नानासङ्गीतकोविदा || २२४ ||

विधात्री चेटिका चास्य तस्याः साधनमुच्यते || ओं विधात्रि नीरक्षीरविधायिनि पदं वदेत् || स्वाहान्तस्थितिवर्णोयं जपे लक्षमितो मतः || २२५ ||

धात्रीतरुसमीपस्थां विधात्रीं कमलासनाम् || विशाललोचनां वन्दे नीरक्षीरविधायिनीम् || २२६ ||

नदीतीरे तु यत्रास्ते धात्रीवृक्षो मनोरमे || सफलस्तस्य [इदं पूर्वान्वयि] भूमौ तु कार्तिक्यां पूर्णिमातिथौ || २२७ ||

सोमवारे तदा मंत्री निशायां त्रिशतं जपेत् || होमो धात्रीफलैः कार्यस्ततस्तु तरुतो ध्रुवम् || जायते हि महाशब्दः प्रसन्नास्मीति शोभनः || २२८ ||

तन्मन्त्रपठनान्मन्त्री नीरक्षीरं भजेदिह || इत्युक्तकीलमुद्धृत्य [मयेति शेषः] सम्पठेन्मन्त्रमुत्तमम् || नीरान्वितं ततः क्षीरं जायते क्षीरमादरात् || २२९ ||

अथातः सम्प्रवक्ष्यामि कुष्माण्डाख्यविनायकम् || बालग्रहपतिश्चास्य योगिनी चारुणानना || वेणुवादनमेवेयं कृत्वा काश्यां सदा रता || २३० ||

चेटी तु वैनतेयाक्षी तस्याः साधनमुच्यते || तारं च वैनतेयाक्षि सर्पसेवित इत्यपि || नागदेवी ङेन्तमुक्त्वास्वाहान्तोष्टादशाक्षरः || २३१ ||

नानाकमलसर्पादिवेष्टितां विन्ध्यवासिनीम् || ध्यायामि वैनतेयाक्षीं विषदोषहरां शिवाम् || चतुःषष्टिसहस्राणि पुरश्चरणमस्य तु || २३२ ||

श्रावणे मासि नागानां पञ्चमी या प्रकीर्तिता || तस्यां जपेन्महामत्री रात्रौ वल्मीकभूमिषु || २३३ ||

अयुतं [इदं पूर्वान्वयि] वैनतेयाक्षीं [स्मरन्निति शेषः] होमः स्यान्मातुलुङ्गकैः || ततः सा गारुडीं विद्यां प्रसन्ना सम्प्रयच्छति || सर्पाकर्षणशक्तिं च समस्तविषनाशिनीम् || २३४ ||

मुण्डं विनायकं वक्ष्ये ऋक्षाक्षीयोगिनीयुतम् || काशते काशिकायान्तु वीणावादनतत्परा || किंकरी नाम चैतस्य चेटी तत्साधनं ब्रुवे || २३५ ||

किंकरी जलदेवीति जलं पूरयपूरय || धंधं सप्तदशार्णोयं जपेद्वर्णसहस्रकम् || २३६ ||

अवृष्टिकाले रात्रौ हि नरो नद्यां जले जपेत् || कण्ठमात्रेयुतं चैकं ध्यायन्देवीं समाहितः || २३७ ||

किंकरीं वारुणं पाशं बिभ्रतीं जलरूपिणीम् || विषक्षतस्वरूपाभां घोरगर्जनभीषणाम् || प्रभाते वृष्टिरायाति सा हि पञ्चदिनावधि || २३८ ||

प्. ४४४) अथ वक्ष्ये गणेशानं विख्यातं विकटद्विजम् || योगिनी केकराक्ष्यस्य मृदंगं वादयेद्वरम् || वाग्वादिनी चास्य शक्तिर्मन्त्राद्यस्य निरूप्यते || २३९ ||

वदयुग्मं वाग्वादिनि स्वाहेति च दशाक्षरः || ऋषिः कण्वो विराट् छन्दो देवता तु सरस्वती || २४० ||

मातृकोक्तविधानेन मन्त्री कुर्यात्षडङ्गकम् || के [शिरसि] श्रोत्रयोनसोर्दृष्टयोः कपोलास्ये तथेन्द्रिये || २४१ ||

गुदे च विन्यसेद्वर्णांस्ततो वागीश्वरीं यजेत् || सितपद्मगतां श्वेतां लेखनीपुस्तकान्विताम् || नम्रां च कुचभारेण वाग्देवीं चन्द्रशेखराम् || २४२ ||

ओंह्रींवर्णजाय चोक्त्वा सरस्वत्यासनाय च || नमः पञ्चदशार्णोयमासनस्य मनर्मतः || अंगानि पूजयेदादौ स्वरद्वन्द्वं ततोर्चयेत् || २४३ ||

वर्गाष्टकं ततोभ्यर्च्य ततोष्टौ शक्तयस्त्विमाः || योगसन्ध्या च विमला ज्ञानवृद्धिः स्मृतिस्तथा || २४४ ||

मेधा प्रज्ञा ततः पूज्या मातृकाश्च दिगीश्वराः || तदायुधानि पूज्यानि भूपुरादौ यथाक्रमम् || २४५ ||

दशलक्षं जपेदन्ते विमध्वक्तैश्च कैरवैः || जुहुयात्तद्दशांशैस्तु शुद्धैश्चाथ तिलैर्हुनेत् || २४६ ||

तर्पणं मार्जनं कृत्वा ब्राह्मणान्भोजयेत्ततः || एवं सिद्धे मनौ मन्त्री ब्रह्मचर्यव्रते स्थितः || २४७ ||

जपहोमरतो रामां चिन्तयेद्देवताधिया || अचिरादेव स भवेत्कवीनामग्रणीर्ध्रुवम् || २४८ ||

न्यासान्वितमिमं मन्त्रं दिनादौ प्रत्यहं जपेत् || लभते नात्र सन्देहो वाक्सिद्धिमतुलां नरः || २४९ ||

ब्रह्मवृक्षरमावृक्षसुमनोभिः समिद्वरैः || मधुरत्रयसंयुक्तैर्जुहुयात्साधकः स्वयम् || अचिराद्वाग्विलासेन कवीनामग्रणीर्भवेत् || २५० ||

अथातः सम्प्रवक्ष्यामि राजपुत्रं गणेश्वरम् || योगिन्यस्य बृहत्तुण्डा तालवादनतत्परा || २५१ ||

मातृकासिद्धिदश्चायं तस्मात्तन्मंत्रं उच्यते || यस्यामन्तर्गता मन्त्रास्त्रयस्त्रिंशच्च कोटयः || २५२ ||

गायत्री मातृका वापि साधिता स नरो भवेत् || समस्तागममन्त्राणां दातानास्त्यत्र संशयः || २५३ ||

अकारादिक्षकारान्ता वर्णा वायुश्च देवता || वदन्ति मातृकां देवीं यया सर्वमिदं ततम् || २५४ ||

ब्रह्मा मुनिश्च गायत्री छन्दो देवी च मातृका || प्. ४४५) हलो बीजान्यचः प्रोक्ताः शक्तयः कीलकं भवेत् || २५५ ||

अव्यक्तं सत्त्वनिर्वाच्यं व्यञ्जनैः स्वरसंगमः || प्रागुक्तमातृका न्यासास्सर्वे मुख्या भवन्ति च || २५६ ||

सुधाकुम्भाक्षवटिकावरपुस्तकधारिणीम् || पञ्चाशदर्णव्याप्तांगीं चन्द्रार्धांकितशेखराम् || २५७ ||

त्र्यक्षां कुंदेन्दुरुचिरां पद्मस्थां कुचनामिताम् || मुक्तावृतस्फुरद्भूषां भजे मातृसरस्वतीम् || २५८ ||

लिखेत्स्वर्णादिजे पत्रे रोचनाकुंकुमादिभिः || अष्टपत्रं शुभं पद्मं भूपुरत्रितयावृतम् || २५९ ||

कर्णिकायां तु स्फें बीजं केशरेषु द्वयम् द्वयम् || कचढादिकवर्गांश्च लिखेदष्टदलेषु च || २६० ||

तत्कमलस्याग्रदिक्षु वं बीजं ठं विदिक्षु च || पूजापीठमिदं प्रोक्तमादावंगानि संयजेत् || १६१ ||

स्वरद्वन्द्वं ततो वर्गान्केशरेषु यजेदिमाः || २६२ ||

मेधा प्रज्ञा प्रभा विद्याधीर्धृतिस्मृतिबुद्धयः || विद्येश्वरी मध्यमांते पूज्याः पीठे ततः परम् || २६३ ||

वर्गाष्टके त्विमाः पूज्या व्यापिनी पालनी तथा || पावनी क्लेशिनी चापि धारिणी मालिनी तथा || २६४ ||

हंसिनी शान्तिनी पत्रस्याग्रेर्च्या मातरः परम् || वीथ्यां लोकेश्वरानग्रे वीथ्यामस्त्राणि पूजयेत् || २६५ ||

तद्दशांशेन जुहुयान्मधुरत्रयलोलितैः || तिलैः शुद्धैस्तर्पणादि कृत्वा सिद्धो भवेन्मनुः || २६६ ||

तत्त्वैर्भूपैश्च दिग्भिः कनकरजतताम्रांसकैर्भिन्नसूत्रैः सम्यक्कृत्वा त्रिवेणीस्तबकमथ जपेद्गव्यमाज्यं हुनेच्च || वस्वभ्राणां च पातं सुजनितहविषा चाभिषिंचेद्घृतैस्तां देवीमभ्यर्च्य धार्यं [यन्त्रमिति शेषः] ग्रहगदशमनं संगरे स्याज्जयाय || २६७ ||

तोयम्पिबेद्दिनादौ च द्विवारं जप्तमेतया || वत्सराज्जायते सम्यक्स मूर्खोपि कवित्वभाक् || २६८ ||

ब्राह्मीरसेन वचया पयसा पाचयेद्घृतम् || अयुतं जप्तमनया भक्षितं कविताप्रदम् || २६९ ||

वर्णौषधीक्वाथसुवर्णकुम्भैर्जपन्सहस्रं च नरं प्रसिंचेत् || कीर्तिश्च लक्ष्मीः कविता तथायुर्भवेच्च बन्ध्या लभते सुताग्र्यम् || २७० ||

अथ प्रवक्ष्ये प्रवरं गणेशं सुरा प्रिया साखिलकर्मविज्ञा || स्याद्योगिनी चास्य शुभंकरी च चेटी नदी याम्यतटे क्षयोस्याः [निवासः] || २७१ ||

प्. ४४६) आकृत्यर्णो मनुस्तारः शुभंकरा परेति च || देवते ममेष्टं देहि दुर्भुग्नी शिखिवल्लभा || २७२ ||

कलाकलापान्परिपालयन्ति विभावयन्ती विषयाननेकान् || नारीनरेन्द्रानपि मोहयन्ती सा मानसे मेस्तु शुभंकरी श्रीः || २७३ ||

जप्त्वा [इडभावश्छान्दसः] लक्षं च रक्तैर्हयरिपुकुसुमैर्होमयेत्सिद्धमन्त्रः कृष्णायाम्भाद्रकृष्णे हयरिपुगहने चापि शेफोलिसिन्ध्वोः || याम्ये तीरे च नद्या निशि जपमयुतन्तद्दशांशेन होमं कुर्यात्प्रातस्तु नीराज्जयति सुखकरान्साधकेन्द्रो गतोसौ || २७४ ||

नानाभोगकरः कामं यं यं प्रार्थयते तु तम् || स्वयं ददाति सा देवी सुस्त्रीवित्ताम्बरादिकम् || २७५ ||

अथातः सम्प्रवक्ष्यामि वाराणस्यां तु ये स्थिताः || आवृता वक्रतुण्डाद्याश्चेटीशक्तिसमन्विताः || २७६ ||

ङेन्तन्तन्नाम हृच्चेति तेषाम्मन्त्रः प्रकीर्तितः || वक्रतुण्डविधिः पूर्वमुक्तोष्टानां स एव हि || २७७ ||

कपालहस्तयुक्तानां प्रदिष्टा ऋक्षयोगिनी || शतनादे योगिनीति देहि देहि वदेत्ततः || २७८ ||

ह्रींह्रूंस्वाहेति मन्त्रोयं ध्यानमस्या निरूप्यते || वीणातन्त्रीस्फुरद्धस्तां तन्नादचलकुण्डलाम् || २७९ ||

कुसुम्भवसनां नम्रां स्तनभारेण योगिनीम् || नदीतीरे चाम्रवणे जपेन्मन्त्रं दशायुतम् || आम्रपत्रैः समूलैश्च हुनेत्सिद्धो भवेन्मनुः || २८० ||

अमायां श्रावणे मासि रात्रौ दूरे नदीतटे || तत्र रात्रौ मनुं देव्या जपेदष्टसहस्रकम् || १८१ ||

प्राग्वद्धूनेदष्टशतं ततः शब्दाञ्छृणोति च || वीणावेणुमृदङ्गानां किन्नरीणाञ्च भूयसः || २८२ ||

इत्यादयः शतं नादा जायंते नादिभीषणाः || ततः सा योगिनीरूपा प्रत्यक्षा मन्त्रिणो भवेत् || २८३ ||

ददाति योगमुद्रां सा दर्शयेत्कुण्डलीपथम् || ततः स्वानुभवो मन्त्री योगी ज्ञानी प्रजायते || वाक्सिद्धिश्च भवेदस्य ब्रह्मभूयाय कल्पते || २८४ ||

अथातः सम्प्रवक्ष्यामि चैकदन्तुरविघ्नपम् || योगिनी तस्य रक्ताक्षी गानवादरता सा || २८५ ||

नेत्ररम्या चेटिकास्य वेदाग्न्यर्णो मनुश्च ओम् || नेत्ररम्ये अञ्जनं च देहियुग्मं निधिं वदेत् || २८६ ||

दर्शयद्वितयं चोक्त्वा पटलम्पदमुच्चरेत् || दूरीकुरु युगम्पञ्च स्हाहेति कथितो मनुः || २८७ ||

प्. ४४७) पुरश्चरणमेतस्या अयुतत्रितयं चरेत् || घृताक्तगुग्गुलैर्होमो देवतां साधयेत्ततः || २८८ ||

कनने करवीराणां रात्रौ वैशाखमासि तु || चतुर्दश्याञ्जपेद्देवीं [ध्यात्वेति शेषः] नेत्ररम्यां शतत्रयम् || २८९ ||

भौमस्तु वासरः प्रोक्तस्त्वथ वा शुक्रवासरः || घृताक्तगुग्गुलैर्होमं ततः कुर्याच्छतत्रयम् || २९० ||

ददाति मन्त्रिणे तस्मै स्वाञ्जनं नेत्रबोधकम् || निधिं भूमिगतं वस्तु दूरदेशगतं तथा || आलोकते स मन्त्री च सद्यो भवति भूपतिः || २९१ ||

अथातः सम्प्रवक्ष्यामि कपिसिंहद्विपाननम् || एवं त्रिवदनन्तस्य योगिनी तु शुकी मता || रसज्ञा चेटकी चास्य पङ्कजाक्षी प्रकीर्तिता || २९२ ||

ओं पङ्कजाक्ष्यमृतफलं देहीति युगं तथा || श्रीं स्वाहा मेघवर्णोयं जपः षष्टिसहस्रकः || होमः पलाशपुष्पैः स्यादभावे च समिद्वरैः || २९३ ||

सञ्जीवयन्तीव मदं लोलनेत्राभिसुन्दरी || पंकजाक्षी कार्यकरी नानालंकारशोभिता || २९४ ||

वसतर्न्तौ च गङ्गायास्तटे ब्रह्मरुहांवने || कृष्णाष्टम्याञ्चैत्रमासे भौमे शुक्रे थवा निशि || २९५ ||

त्रिसहस्रं जपित्वातु पालाशैर्होममाचरेत् || ततो देवी समायाति ददाति फलमुत्तमम् || २९६ ||

जरामरणराहित्यं तत्कालम्भक्षिते सति || फले तस्मिन्समायाति सद्गुरुःप्रार्थितःपुनः || २९७ ||

अथातः सम्प्रवक्ष्यामि पञ्चास्यञ्च गजाननम् || श्वेन्यस्य योगिनी प्रोक्ता रागालापनतत्परा || पयोदिनीचेटिकास्य ह्येकत्रिंशाक्षरो मनुः || २९८ ||

तारम्पयोदिनीत्युक्त्वा जलधाराधरे तथा || अग्निं शमय वाडवं वह्निं च शमय द्वयम् || २९९ ||

श्रीं स्वाहा नम इत्येतज्जपेदन्ते सहस्रकम् || सरस्तीरे पयः कार्ये हुनेत्सघृतपायसम् || ३०० ||

वर्षन्ती जलबिन्दूंश्च मेघमाला मनोरमा || श्यामाम्बरपरीधाना मे चित्तेस्तु पयोदिनी || ३०१ ||

श्रावणे बहुलाष्टम्यां रोहिणी ऋक्षसम्भवे || भौमे बृहस्पतौ वापि शुक्रे वा तत्र वासरे || ३०२ ||

रात्रौ स्नान विधिं कृत्वा सरस्तीरे मनोरमे || अयुतम्प्रजपेन्मन्त्रम्पायसैर्होममाचरेत् || ३०३ ||

सहस्रैकन्ततो [इदं पूर्वान्वयि] देवी साक्षात्सा तु पयोदिनी || ददाति वरकां चैकाम्मन्त्रिणे तोष मागता || ३०४ ||

अग्निदाहोस्य नैवास्ति भवेच्च करकान्वितः || अवृष्टावपि कर्तव्यन्ध्यात्वादेवीं भवेज्जलम् || ३०५ ||

अथातः सम्प्रवक्ष्यामि हेरम्बं गणनायकम् || प्. ४४८) चत्वरादिककाम्यास्य योगिन्यस्ति कपोतिका || हंसवागीश्वरीशक्तिर्मन्त्राद्यस्य निरूप्यते || ३०६ ||

ओं ह्रीं ओं ह्रीं ओं तथोक्त्वा सरस्वत्यै नमस्त्विति || ऋषिः शक्तिश्च देव्यादिर्गायत्री छन्द ईरितम् || ३०७ ||

हंसवागीश्वरी देवी देवता परिकीर्तिता || विद्वांस्तृतीयबीजेन षडङ्गन्यासमाचरेत् || ३०८ ||

सुषुम्णाग्रे भ्रुवोर्मध्ये रन्ध्राणां नवमे तथा || मन्त्राक्षराणि विन्यस्य चिन्तयेदिष्टदेवताम् || ३०९ ||

हंसपृष्ठस्थपद्मस्थां कान्तकर्पूरसन्निभाम् || चन्द्राननां मन्दहासा चन्द्रार्धकृतशेखराम् || ३१० ||

पुस्तकं च करैर्वीणां जपमालां सुधाघटम् || इति ध्यात्वा यजेत्पीठे मातृका याः पुरोदिताः || ३११ ||

वर्णाद्येनाशनं दद्यान्मूर्ति मूलेन कल्पयेत् || तस्यामावाह्य तां देवीमर्चयेद्गन्धपुष्पकैः || ३१२ ||

संपूज्य पार्श्वयोर्वाचौ संस्कृते प्राकृते उभे || ततोङ्गानि च तच्छक्तीर्मातृर्लोकेश्वरानपि || तदस्त्राणि ततो बाह्ये देवीमित्थं प्रपूजयेत् || ३१३ ||

प्रज्ञा मेधा श्रुतिः शक्तिः पञ्चमी स्मृतिरीरिता || वागीशी सुमतीः स्वस्तिरष्टौ तच्छक्तयो मताः || ३१४ ||

वर्णैकाधिकलक्षन्तु जपेन्मन्त्रं समाहितः || तत्सहस्रं प्रजुहुयात्सिताक्तैर्नागचम्पकैः || तर्पणादि ततः कुर्यात्साधको नियतव्रतः || ३१५ ||

इमं मनुं यो भजते पातकैर्मुच्यतेचिरात् || लक्ष्मीयशःकान्तियुतः कवित्वस्यालयं भवेत् || ३१६ ||

कुर्यात्पूर्वानुगदितान्प्रयोगानत्र मन्त्रवित् || अथ मन्त्रान्तरं वक्ष्ये यत्तस्याः षोडशार्णकम् || ३१७ ||

ऐंकारं पूर्वमुच्चार्य नमो भगवतीति च || वेदयुग्मं च वाग्देवी स्वाहान्तो मन्त्र ईरितः || ३१८ ||

पूर्वमन्त्रोदिताश्चात्र मुन्याद्याः सम्प्रकीर्तिताः || पदैर्मन्त्रस्य षड्द्भिः स्यात्षडङ्गं चैव जातिमत् || ३१९ ||

कुन्देन्दुभासिवसनां श्वेतमाल्यानुलेपनाम् || वनमालां तथा व्याख्यां मुद्रां पुस्तकमेव च || ३२० ||

सुधाकुंभं हस्तपद्मैर्दधतीं श्वेतपद्मगाम् || त्र्यक्षां चन्द्रार्धभालां च पीनोन्नतपयोधराम् || ३२१ ||

प्राग्वत्पूजाप्रयोगादिविशेषोत्र निगद्यते || अष्टलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः || ३२२ ||

यथाविधि जपान्ते च तादृशाशं हुनेत्तिलैः || आज्याप्लुतैस्तपर्णादि सर्वं पूर्ववदाचरेत् || ३२३ ||

अह्नो मुखे प्रत्यहं य एतज्जप्त्वा जलं पिबेत् || संवत्सराद्भवेद्विद्वान्नात्र कार्या विचारणा || ३२४ ||

प्. ४४९) स्नानकाले मन्त्रजप्तैस्तोयैः सिञ्चेत्स्वमूर्धनि || सर्वैस्तोयैस्तर्पयेत्तां मेषा वंशे भवेद्ध्रुवम् || जपित्वा मन्त्रमेतं च पुष्पगन्धादिकं सुधीः || ३२५ ||

शिरसा धारयेत्तेन सभापूज्यः स जायते || वादे च विजयो नित्यं भवेत्तस्य न संशयः || ३२६ ||

अन्यन्मन्त्रान्तरं चास्या वक्ष्यते रुद्रवर्णकम् || ऐं वाचस्पते अमृते प्लुवः प्लुरिति कीर्तितः || दशाक्षरवदस्यान्यत्पञ्चांगं तु मनोः परैः || ३२७ ||

पद्मसंस्थां पद्मयुगाक्षमालापुस्तकानि च || करैर्दधानां चन्द्रार्धमुकुटां त्रीक्षणां सिताम् || नानामुनिनुतां नम्रां स्तनभारेण ताम्भजे || ३२८ ||

यजेच्च मातृकापीठे दशार्णोक्तेन वर्त्मना || प्रयोगादि प्रकुर्वीत पूर्ववद्वै दशार्णवत् || ३२९ ||

अथातः सम्प्रवक्ष्यामि विघ्नराजं विनायकम् || योगिनी पाशहस्तास्य वंशारोहणकारिणी || सरस्वती शक्तिरस्य त्र्यर्णा चेटीत्रयान्विता || ३३० ||

चारुस्वामीति मन्त्रोस्य विप्राणां परिकीर्तितः || वाक्तुस्वामीति संजप्यः क्षत्त्रियैः परतापकैः || ३३१ ||

ग्वारुं स्वमीति वैश्यानामैंरुं स्वाम्यंघ्रिजन्मनाम् || ऋष्यादिकं दशार्णोक्तं देवी त्र्यर्णा सरस्वती || ३३२ ||

द्विरुच्चरितमूलेन षडङ्गं जातिसंयुतम् || करन्यासं विधायाथ ध्यायेद्देवीं सरस्वतीम् || ३३३ ||

मुक्ताहारसमायुक्तां चन्द्रार्धकृतशेखराम् || व्याख्यामुद्रा रत्नकुम्भं त्वक्षमालां च पुस्तकम् || ३३४ ||

पीनोत्तुङ्गकुचानम्रां श्वेताब्जस्थां सरस्वतीम् || ३३५ ||

पुरा प्रोक्ते मातृकायाः पीठे देवीं समर्चयेत् || यथापूर्वं प्रत्यहं यः स भवेद्वाक्पतिर्ध्रुवम् || ३३६ ||

वर्णलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः || आज्याक्तहविषा वह्नौ दशांशं जुहुयात्ततः || ३३७ ||

तर्पणादि ततः कुर्यात्प्रागुक्तविधिना ततः || एवं सिद्धमनुर्मन्त्री प्रयोगान्कर्तुमर्हति || ३३८ ||

चतुरंगुलसम्भूतैः सुमनोभिर्हुनेत्तु यः || वाचः सोऽप्रतिमां सिद्धिमचिराल्लभते ध्रुवम् || ३३९ ||

कुचन्दनोदकेनाक्तैर्जातीपुष्पैः सिताम्बुजैः || नंद्यावर्तोद्भवैः कुन्दसंयुतैः कुसुमैर्हुनेत् || ३४० ||

अचिरादतुलां वाचां सिद्धिं प्राप्नोत्यसंशयम् || एवं मन्त्रं जपेन्मन्त्री सभायां जयमाप्नुयात् || ३४१ ||

वचां श्वेतां तथा ब्राह्मीं जपितां मनुनामुना || अह्नो मुखे च यः खादेत्स मेधां वाञ्छितां लभेत् || ३४२ ||

प्. ४५०) पाण्डवी पृथुमध्या च पार्थिवा चेति चेटिकाः || ओं पाण्डवीति बगले ततश्च बगलामुखि || ३४३ ||

शत्रोः पादं स्तम्भयद्विः क्लीं ह्रीं भुवंचरे वदेत् || स्फ्रीं स्वाहेति त्रिंशार्णो मन्त्रो ध्यानं निरूप्यते || ३४४ ||

पीताम्बरां पीतवर्णां पीतगन्धानुलेपनाम् || प्रेतासनां पीतवर्णां विचित्रां पाण्डवीं भजे || ३४५ ||

अयुतत्रितयं जप्त्वा कुसुम्भकुसुमैर्हुनेत् || एवं कृत्वा पुरश्चर्यां पश्चात्साधनमाचरेत् || ३४६ ||

वत्सरादौ प्रतिपदि शुक्रवारे जपेन्निशि || अयुतं तद्दशांशेन कुसुम्भकुसुमैर्हुनेत् || ३४७ ||

प्रसन्ना जायते देवी वस्त्रमेकं ददाति च || वैरिणोद्वेगतो बद्धं गतिस्तम्भः प्रजायते || ३४८ ||

कार्तिके कृष्णषष्ठ्यान्तु वटवृक्षतले स्थितः || जप्त्वायुतं चूतपत्रैः ससुगन्ध्यगुरूद्भवैः || तैलयुक्तैर्भवेद्धोमः पृथुमध्या प्रसीदति || ३४९ ||

ददाति पीठं तत्रस्थो दृष्ट्या रामाश्च मोहयेत् || वहन्ति पञ्चभूतानि तत्पीठं तेन खे गतिः || ३५० ||

उन्मत्तजनगां देवीं स्थूलाङ्गीं कलहप्रियाम् || कार्तिकेयगुहाखेलां पृथुमध्यां भजाम्यहम् || ३५१ |||

ओं पार्थिवे च पृथिवीतलचारिणि वायुमा || ततो लिनि च तारुण्यं कुरुयुग्मं च धं च धम् || ३५२ ||

स्वाहैकोनत्रिंशदर्णः पार्थिवाया मनुः स्मृतः || नदीतीरे वृष्टिकाले चतुर्दश्यां निशान्तरे || ३५३ ||

कूलं खनित्वा कुहरं कर्त्तव्यं युगसप्तकम् || जपस्यार्धायुतो होमः कदलीखण्डकैस्तथा || ३५४ ||

पृथिवीतलसञ्चारशालिनीं वायुमालिनीम् || भजामि पार्थिवीं देवीं तारुण्याङ्कप्रदां शिवाम् || ३५५ ||

तुष्टा ददाति सा शक्तिं पृथिव्यन्तरचारिणीम् || जरामरणराहित्यं सम्भवेच्चैव सर्वगः || ३५६ ||

विनायकस्तु प्रवरो दण्डहस्तास्य योगिनी || रज्जुरोहास्वरूपा सा चेटी कंकालिका मता || ३५७ ||

ऐं कंकालीमहाकालीकलिकलाभ्यामुच्चरेत् || स्वाहान्तःस्थितिवर्णोयं लक्षमस्य जपो मतः || ३५८ ||

हुनेदस्य सहस्रैकं कंकाली वरदा भवेत् || ईप्सितं तत्साधकस्य तदेकं सा प्रयच्छति || ३५९ ||

अथातः सम्प्रवक्ष्यामि गणेशं मोदकप्रियम् || प्रचण्डा योगिनी चास्य चेटिका पंकवासिनी || ३६० ||

ओं पंकवासिनी पंकजावती वनदेवते || केदारं देहि सिद्धिं च कुरु द्विः कामबीजकम् || रमा बीजं वह्निजाया चैकत्रिंशाक्षरो मनुः || ३६१ ||

प्. ३५१) वैशाखे पद्मसरसि स्वल्पोदे जलवर्जिते || सप्तरात्रं जपेन्मन्त्रं दिवसे लक्षसङ्ख्यया || होमस्तत्पत्रपुष्पैश्च देव्या ध्यानं निरूप्यते || ३६२ ||

पंकजाक्षि निशि वै शिवदूति स्मरेवक्त्रनयनाम्बुजलीले || मानसे म वस स्मरदेवि प्रत्यहं कमलकाननसंस्थे || ३६३ ||

सदा देवी समागत्य त्रिजगद्वशकारकम् || ददाति केशरं चैकं कल्पपुष्पाति गन्धवत् ||| ३६४ ||

घर्षयित्वास्य तिलके कृते स्यादखिलं जगत् || वश्यं राजस्त्रियो भूपाः पण्डिता देवता अपि || ३६५ ||

अथातः सम्प्रवक्ष्यामि पूर्वदिक्स्थान्विनायकान् || महाश्मशानमावृत्य स्हितानभयदायकान् || ३६६ ||

प्रथमं मनवश्चैषां स्वबीजहृदयादिकम् || चतुर्थ्यन्तं भवेन्नाम योगिनी वसुविक्रमा || ३६७ ||

चेष्टां वातुलवत्कुर्यात्पारिजातसरस्वती || अस्य शक्तिस्तु तन्मन्त्रः प्रोक्त एकादशाक्षरः || ३६८ ||

ओं ह्रीं हंसवर्णाश्च सैकारा बिन्दुसंयुताः || पुनर्ह्रीं मां सरस्वत्यै हृदयान्तो मनुर्मतः || २६९ ||

ऋषिध्यानन्यासजपं हंसवागीश्वरीमतम् || प्रयोगाश्चापि सिद्ध्यन्ति पूर्वोक्ताः सर्व एव हि || ३७० ||

वरानना चेटिकास्य तस्याः साधनमुच्यते || वरानने पदं चोक्त्वा वामलोचन इत्यपि || ३७१ ||

परस्य मारिणी चोक्त्वा मालिनीद्वितयं ततः || धुंधुंधीं वह्निजायान्तो मनुः षट्त्रिंशदर्णकः || ३७२ ||

सौन्दर्यामृतसन्दोहसारभूतामिमां पराम् || विवर्धितां स्थिरां देवीं सम्भजे तां वराननाम् || ३७३ ||

रथ्याद्वारे कुजे कृष्णसप्तम्यां तु शुचिर्यजेत् || सहस्रत्रितयं होमः शङ्खैश्चापि कपर्दकैः || ३७४ ||

ततः स्त्रीरूपिणी दद्यात्कपर्दैकं वरानना || कपर्दं स्थापयेद्यत्र कणादीनां कुशूलके || ३७५ ||

त्रिदिनावधि तद्धान्यं विक्रीतं नैव हीयते || ततो धान्यान्तरं स्थाप्यं वृद्धिस्तत्रापि जायते || ३७६ ||

सिंहतुण्डो गणाध्यक्षो वेणुप्राचास्य योगिनी || पृथिव्यावेष्टनकरी सप्तकोटेश्वरी मता || ३७७ ||

शक्तिश्चेटी विधुश्रेष्ठा ततः साधनमुच्यते || कः स उक्त्वा चण्डिकां च सः कः सप्ताक्षरो मनुः || ३७८ ||

ऋषिर्ब्रह्मा च गायत्री छन्दः प्रोक्तं च देवता || प्. ४५२) सप्तकोटेश्वरी देवी वागैश्वर्यकरी मता || ३७९ ||

षड्दीर्घयुक्चकारेण [चां हृदयाय नमः चीं शिरसे स्वाहा चूं शिखायै वषट् चैं कवचाय हुम् चौं नेत्रत्रयाय वौषट् चः अस्त्राय फट्] षडङ्गं सम्प्रकीर्ततम् || अस्याः पूजादिकं सर्वं त्रिपुरावत्प्रकीर्तितम् || ३८० ||

विधुश्रेष्ठामौं वक्ष्ये विधुश्रेष्ठे [ओं विधुश्रेष्ठे विपद्गते मानं पूरय कर्णताटङ्कं देहिदेहि थं श्रीं स्वाहा] विपद्गते || मानं पूरय कर्णान्ते ताटङ्कं देहि युग्मकम् || थं लक्ष्मीर्वह्निजायान्तः सप्तविंशाक्षरो मनुः || ३८१ ||

चित्रायां सोमवारे च यदा सोमग्रहो भवेत् || यावद्विधुविमोक्षः स्यात्तावन्मन्त्रञ्जपेज्जले || ३८२ ||

तदा देवी तु ताटङ्कं दद्यात्सव्यश्रुतिस्थितम् || पूर्णचन्द्रप्रभाभन्तदमाम्पूर्णां करोति च || ३८३ ||

साधको लोकमान्यश्च ध्यानमस्या निरूप्यते || चन्द्रमण्डलसंस्थान्तां विधुश्रेष्ठा वियद्गताम् || काश्मीरचारुताटङ्कां ध्यायामि शिववल्लभाम् || ३८४ ||

अथातः सम्प्रवक्ष्यामि कुपिताक्षङ्गजाननम् || पापहन्त्री योगिनी तु पुत्रदारूपधारिणी || ३८५ ||

कुपिताक्षस्य शक्तिस्तु बाला स्याद्वामलोचना || अस्य चेटी समाख्याता तस्याः साधनमुच्यते || ३८६ ||

ऐंक्लींसौरिति बालायाख्यक्षरो मन्त्र उच्यते ऋषिस्तु [अस्य श्रीबालामन्त्रस्य दक्षिणामूर्तिर्-ऋषिः पंक्तिश्छन्दः बाला देवता ऐं बीजम् सौः शक्तिः |
क्लीं कीलकं बालादेवताप्रीतये चेष्टसाधने विनियोगः ||] दक्षिणामूर्तिः पंक्तिश्छन्दोस्य देवता || ३८७ ||

बालाबीजं वाङ्मयं स्यात्तार्तीयं शक्तिरुच्यते || कीलकं कामराजः स्याद्द्विरावृत्त्या [ऐं क्लीं सौः ऐं क्लीं सौः एभिः षड्बीजैः षडङ्गन्यासं कुर्यात् यथा ऐं हृदयाय नमः क्लीं शिरसे स्वाहा सौः शिखायै वषट् ऐं कवचाय हुं क्लीं नेत्रत्रयाय वौषट् सौः अस्त्राय फट् |
] षडङ्गकम् || ३८८ ||

यथा त्रिपुरभैरव्यास्त्र्यर्णन्यासाः पुरोदिताः || एतद्बीजेन ते सर्वे कर्तव्यास्तत्फलाप्तये || ३८९ ||

अभयं पुस्तकं मालां वरं च दधतीङ्करैः || अरुणामरुणाब्जस्थां रक्तवस्त्रां द्विजेशकाम् [द्विजेशः के यस्या इति विग्रहः ||] || ३९० ||

यन्त्रोद्धारञ्च पूजायाम्पूजयेत्सकलन्तथा || ज्ञेयं त्रिपुरभैरव्यास्त्र्यक्षरायाश्च तत्समम् || ३९१ ||

जपो लक्षत्रयं होमे द्रव्याद्यं तद्वदेव हि || कुमारीपूजनं नित्य काम्यसिद्ध्यर्थमुच्यते || ३९२ ||

मालतीजातिकामल्लिकुसुमैर्मधुमिश्रितैः || प्. ४५३) घृतचूर्णैश्च जुहुयाद्वागीशत्वं प्रजायते || मूकस्यापि हि मूढस्य शिलारूपस्य नान्यथा || ३९३ ||

जपापुष्पैराज्ययुतै रक्तक्षीरैर्यथाविधि || हवनान्मोहयेन्मन्त्री लोकत्रयनिवासिनः || ३९४ ||

कस्तूरीकुंमेन्दूनां [मृगमदकाश्मीरकर्पूराणाम्] हवनात्कामवद्भवेत् || चम्पकैः पाटलैर्होमान्महतीं श्रियमाप्नुयात् || ३९५ ||

गुग्गुल्वगुरुकर्पूरचन्दनानां च होमतः || राजनागेन्द्रदेवानां पुरन्ध्रीर्वशमानयेत् || ३९६ ||

लाक्षाहोमाल्लभेद्राज्यं पक्वान्नमधुहोमतः || उपसर्गनिवृत्तिः [महामारीशान्तिः] स्यात्कल्हारहवनाद्धनम् || ३९७ ||

दुग्धेनायुर्धनं दघ्ना मेधारोग्यं घृतेन तु || समिद्भिर्जायते क्षीरं मधुना मृत्युनाशनम् || ३९८ ||

दधिमाक्षिकहोमेन [मधुः] सौभाग्यं धनमाप्नुयात् || कह्लारहवनाद्भाग्यं मधुरत्रयरक्तयुक् || ३९९ ||

छागमांसं [अजपललम् |
परंत्विदं ब्राह्मणदिवर्ज्यम् शूद्रोऽपि विशुद्धचित्तो नैतदंधिकारी भवितुं शक्नोति |
कुतः अहिंसा परमो धर्मश्चाहिंसा परमं तपः इति भाषणात् ||] हुनेत्सर्वं परराष्ट्रं वशं नयेत् || वैरिस्तम्भः सिताहोमाल्लाक्षाक्षीरपयोदधि [इदमुत्तरान्वयि] || हुतं तदल्पमृत्योश्च रोगाणां चापि नाशनम् || ४०० ||

कमलैररुणैर्होमःसम्यक्सम्पत्तिदायकः || रक्तोत्पलैर्जगद्वश्यं लक्ष्मीर्भाग्यं सितोत्पलैः || ४०१ ||

दाडिमं मातुलुङ्गं [बीजपूरकप्रभेदः] च नारङ्गं सकलं क्रमात् || कूष्माण्डं जुहुयाद्विप्रादिका वश्या न संशयः || ४०२ ||

खर्जूरीफललक्षस्य होमात्सर्वे नृपा वशाः || द्राक्षा लाक्षासिद्धयष्टीकदलीफलहोमतः || ४०३ ||

लक्षाद्विंशतिराजानो वश्यास्तस्य महीपतेः || नालिकेरेण लक्षं चेद्धुतोग्निर्नृपवद्भवेत् || ४०४ ||

पक्वाम्रलक्षहोमेन सम्पूर्णा धरणी वशा || पनसस्य फलैर्लक्षहोमाद्वश्याः शतं नृपाः || ४०५ ||

गुग्गुलूनां तु होमेन सर्वदुःखानि नाशयेत् || वश्याः सर्वे तिलाज्याभ्यां चन्दनेन तु शत्रवः || ४०६ ||

रक्तचन्दनहोमेन वश्याः स्युः पुरुषाः स्त्रियः || खर्जूरस्य तु होमेन वाग्वश्यं जायते नृणाम् || ४०७ ||

कस्तूरीहोमतो भूपा मन्त्रिणः परिचारकाः || नीलतण्डुलहोमेन शान्तिर्भवति मन्दिरे || ४०८ ||

शर्कराघृतहोमेन सर्वकार्याणि साधयेत् || घृतपायसहोमेन धान्यसिद्धिर्भवेद्ध्रुवम् || ४०९ ||

तत्तदन्नस्य होमेन तत्तत्सिद्धिः प्रजायते || प्. ४५४) सोपस्करैश्च वटकैरुपसर्गान्विनाशयेत् || ४१० ||

बन्धूककुसुमैर्होमात्सर्वसत्त्वं वशं नयेत् || जपापुष्पैर्जगद्वश्यं बाणपुष्पैश्च मोहनम् || ४११ ||

बहुलस्य हुनेत्पुष्पैः सौभाग्यं जायते महत् || दशागधूपहोमाच्च सौभाग्यमतुलं भवेत् || ४१२ ||

जम्बूफलैः स्त्रियो वश्याः कुष्माडैर्दैत्यकन्यकाः || श्रीफलैरतुला लक्ष्मीरिक्षुदण्डैः सुखं भवेत् || ४१३ ||

रसादिक्षो राजकन्या नालिकेरफलेन वा || केवलं घृतहोमेन वरदाः सर्वशक्तयः || ४१४ ||

वामीतु संगमात्पूर्वं प्रजपेद्वामचक्षुषः || शतमात्रं पौर्णमास्यां विशाखादित्यसंगमे || ४१५ ||

सद्यः प्रसन्ना देवी स्याद्वीर्यस्तम्भं ददाति सा || अपि कांताशतासंगे नासौ स्खलति मानवः || ४१६ ||

रतिदेवीं रतिप्रीतिं कामकीर्तिं मनोरमाम् || मम कामप्रदां सद्यः सम्भजे वामलोचनाम् || ४१७ ||

ईं लीं भीं रं समुच्चार्य वमुक्त्वा वामलोचने || वीर्यं स्तम्भय द्विश्चोक्त्वा नादे माकुरु चोच्यते || ४१८ ||

पञ्चविंशतिवर्णोयं स्वाहांतो मंत्र ईरितः || मदनांधो लक्षजपात्सिध्येद्वा वामलोचना || ४१९ ||

प्रागुक्तो यस्तु विघ्नेशो नाम्ना क्षिप्रप्रसादनः || काली च योगिनी तस्य शक्तिर्वागीश भैरवी || चित्राक्षी चेटिका चास्य पुरे वसति योगिनी || ४२० ||

स्थैं [स्थैं ह्रीं नित्यक्लिन्ने मदद्रवे स्ह्रोम् इति मन्त्रः ||] ह्रीं चैव समुच्चार्य नित्यक्लिन्नेपदं वदेत् || मदद्रवे च सहरा औकारेण समन्विताः || ४२१ ||

एकादशाक्षरो मंत्रो न्यासध्यानादिकं तथा || चैतन्यभैरवीतुल्यं विशेषोयं च पूजने || ४२२ ||

अग्रकोणे च चैतन्यनित्यक्लिन्नां मदद्रवाम् || षडंगावरणं पश्चादन्यत्सर्वं यथोक्तवत् || ४२३ ||

तुल्यश्चैतन्यभैरव्याः प्रयोगादिः प्रकीर्तितः || चित्राक्ष्याः [चित्राक्षि चित्ररूपेण रुद्रादिप्रेतसंस्थे श्रींश्रींस्वाहा ||] साधनं वच्मि तदेकांते नदीतटे || ४२४ ||

षट्कोणं मण्डलं कृत्वा तोयपूर्णान्घटान्न्यसेत् || कोणषट्के तत्र सुराञ्छक्रादींस्तु प्रपूजयेत् || इन्द्रं विधिं यमं कालं विष्णुमीशं क्रमेण च || ४२५ ||

अक्षययमावृतोयोयमारम्भस्य प्रकीर्तितः || तदूर्ध्वमासनं कृत्वा मध्याह्ने प्रजपेन्मनुम् || नित्यं शतत्रयं होमस्त्रिरेलायाः फलैर्भवेत् || ४२६ ||

प्. ४५५) कुर्यादेवं प्रत्यहन्तु तृतीया त्वाष्ट्रसंयुता || सोमेन रविणा वापि यदा युक्ता भवेत्तदा || ४२७ ||

प्रातः कालाज्जपः कार्यो घटाद्देवी वदेत्स्फुटम् || येषु कुम्भेषु यद्द्रव्यं स्थापनीयं तथा तु तत् || भविष्यति तदक्षययं ध्यानमस्या निरूप्यते || ४२८ ||

रुद्रादिप्रेतमौलिस्थां कलशांकुरमालिनीम् || चित्राक्षीं चित्रवेषां तां सम्भजे परमेश्वरीम् || ४२९ ||

चित्राक्षी चित्ररूपेण रुद्रादि प्रेतसं वदेत् || स्थे प्रसीदेति युगलं श्रीं स्वाहा त्रिद्विवर्णकः || ४३० ||

अथातः सम्प्रवक्ष्यामि चिन्तामणिविनायकम् || योगिनी लक्षणज्ञास्य नाम्ना रुधिरवाहिनी || ४३१ ||

षट्कूटभैरवी शक्तिश्चित्रकण्ठ्यस्य चेटिका || हसकलरकारांश्च डकारैकारसंयुतान् || ४३२ ||

बिन्दुयुक्तान्कूटरूपो मनुरस्याः प्रकीर्तितः || सम्पत्प्रदा भैरवीवत्सर्वं न्यासादिकं मतम् || ४३३ ||

समस्तं चिंतितं दद्याद्रिपुभारविनाशिनी || सेनाविनायकः काश्यां स्थापितस्त्वनया पुरा || ४३४ ||

अथातः साधनं वक्ष्ये चित्रकन्यां समासतः || चैत्रशुक्लचतुर्दश्यां वसन्ते निशि सञ्जपेत् || ४३५ ||

सहस्रत्रितयो होमो मधूकक्रुसुमैर्भवेत् || त्रिंशत्सहस्रं सा देवी तदा दद्याच्च मंत्रिणे || ४३६ ||

कोकिलास्वरमत्यन्तमोहनं जगतामपि || अपि पक्षिमृगादीनामुरगाणा च मोहनम् || ४३७ ||

चूतांकुरावतंसा सा वीणानादनिनादिनी || शुक्लाम्बरा शिवाङ्कस्था रक्तकञ्चुकधारणी || ४३८ ||

चित्रकण्ठि चित्रनादस्वरं देहियुगं तथा || भरिंस्विंहेति मन्त्रोयं मन्वर्णः [चतुर्दशाक्षरः ||] परिकीर्तितः || ४३९ ||

अथातः सम्प्रवक्ष्यामि दन्तिहस्तं विनायकम् || ४४० ||

वसाधया योगिनी च चित्ररेखास्वरूपिणी || पञ्चबाणेश्वरी शक्तिश्चिह्नगम्या च चेटिका || ४४१ ||

द्रां ह्रीं क्लीं क्लूंस इत्येष बाणेश्वर्या मनुर्मतः || ऋषिः कामस्तु गायत्री छन्दो बाणेश्वरी सुरी || ४४२ ||

एकाक्षरेण सर्वैश्च मनोर्वर्णैः षडङ्गकम् || ४४३ ||

रक्तवस्त्रामिक्षुधनुष्पुष्पकोदण्डधारिणीम् || सालङ्कारां च सूर्याभां बाणेशीं सुन्दरीं भजे || ४४४ ||

त्रिपुरेशीं च संपूज्य मोहयेत्सकलं जगत् || पञ्चलक्षं जपेद्धोमो बन्धूककुसुमैर्मतः || ४४५ ||

कृष्णपक्षे चतुर्थ्यां तु चित्रायां सोमवासरे || ध्यात्वायुतं जपेद्रात्रौ तदा सा वरदा भवेत् || प्. ४५६) प्रयोगाद्यं सर्वमस्यास्त्रिपुरावत्प्रकीर्तितम् || ४४६ ||

तत्र रात्रौ गृहे सम्यग्दिव्यान्नं यावदीप्सितम् || तावद्ददाति हेमन्त्रिन्दिव्यभोगानपि ध्रुवम् || ४४७ ||

मन्त्रस्तु दिव्यकमले चिह्नाङ्गे मे प्रसीद च || श्रींस्वाहा तिथिवर्णोयं ध्यायेत्कण्ठेब्जकम्रजाम् || ४४८ ||

हस्ते चामृतकुम्भं च सालंकारां मनोहराम् || अथातः सम्प्रवक्ष्यामि पिचिण्डिलविनायकम् || ४४९ ||

सिद्धिप्रदं राक्षसानां गर्भहस्तास्य योगिनी || मनोहरा कर्मकरी चेटी चास्य त्रिलोचना || ४५० ||

नारी रम्याभिधा मन्त्रस्त्रयोविंशतिवर्णकः || आदौ [ओं नारि रम्ये कमलवासिनि त्वं नारीं मोहयमोहय क्लीं स्वाहा इति मन्त्रः] तारं ततो नारीं रम्या कमलवासिनीम् || ४५१ ||

त्वं नारीं मोहयद्वन्द्वं क्लीं स्वाहा ध्यानमुच्यते || लग्नां कल्याणमूर्तिं च मोहरूपां स्थितां वने || पद्मानां प्रार्थितां शम्भुविष्णुब्रह्मादिकैः सुरैः || ४५२ ||

मार्गकृष्णचतुर्दश्यां भौमरात्रौ सरस्तटे || त्रिसहस्रं जपेत्पश्चान्नारङ्गैर्होममाचरेत् || ४५३ ||

चिह्निता स्त्री भवेद्वश्या प्राणैरपि धनैरपि || यदा चेच्छा भवेत्स्त्रीणां नारीं रम्यां तदा जपेत् || ४५४ ||

उद्दण्डमुण्डहेरम्बमथ वक्ष्ये समासतः || योगिनी शरहस्तास्य रूपतः सा वशंकरा || निधिप्रान्ता चेटिकास्य मन्त्रोऽस्यास्तिथिवर्णकः || ४५५ ||

वदेत्तारं [ओं निधिप्रान्ते निधिं देहिदेहि श्रीं स्फ्रीं स्वाहा] || निधिप्रान्ते निधिं देहिद्वयं रमा || स्फ्रींस्वाहेति च मन्त्रोयं ध्यायेद्देवीं त्रिमालिनीम् || ४५६ ||

रसायननिधि प्रीतां भवलक्ष्मीनिधिप्रदाम् || आषाढशुक्लसप्तम्यां चतुर्थ्यां वा समाहितः || ४५७ ||

जपेत्सप्तशतं मन्त्रं पलाशतरुसन्निधौ || पलाशमूलैरत्यन्तैः कोमलेर्होममाचरेत् || ४५८ ||

ततो देवी निधिप्रान्ता मन्त्रिणे तोषमागता || ददाति निधिमेकं हि त्रैलोक्येपि सुदुर्लभम् || ४५९ ||

एतासामष्टचेटीनां द्वात्रिंशच्च सहस्रकम् || निर्जने च वटाधस्ताद्वा गणेशसमीपतः || जपः कार्यस्तदा सिद्धिरर्चयित्वा गणेश्वरम् || ४६० ||

अथातः सम्प्रवक्ष्यामि नगरावरणे स्थितान् || स्थूलदन्तादिकानष्टौ गणेशान् योगिनीयुतान् || शक्तिभिश्चेटिकाभिश्च युक्तान्गम्बीजपूर्वकान् || ४६१ ||

तद्बीजं च पठेन्नाम ङेन्तं भगवते पदम् || हृदयान्तस्तथाष्टानां मन्त्रोयं परिकीर्तितः || ४६२ ||

प्. ४५७) पञ्चकामेश्वरी चास्य शक्तिस्तन्मन्त्र उच्यते || ह्रीं क्लीं ऐं ब्रूमिति प्रोच्य श्रीं मन्त्रः पञ्चवर्णकः || ४६३ ||

ऋषिः सम्मोहनश्छन्दो गायत्रं देवता मता || कामेशी च षडङ्गानि पृथग्वर्णैस्ततोखिलैः [ह्रीं अंगुष्ठाभ्यां नमः क्लीं तर्जनीभ्यां नमः ऐं मध्यमाभ्यां नमः ब्रूं अनामिकाभ्यां नमः श्रीं कनिष्ठिकाभ्यां नमः || ह्रीं क्लीं ऐं ब्रूं श्रीं करतलकरपृष्ठाभ्यां नमः अनयैव रीत्याहृदयादिन्यासमपि कुर्यात्] || ४६४ ||

रक्तां रक्तदुकूलाङ्गलेपनां रक्तभूषणाम् || पाशांकुशशरानक्षमालिकामभ्यं धनुः || ४६५ ||

पुस्तकं च वरं हस्तैर्बिभ्राणां वशकारिणीम् || पञ्चकामैः परिवृतामस्याः [एतस्योत्तरत्र सम्बन्धः] पूजादिकं भवेत् || ४६६ ||

बाणेश्वरीसमानं तु वामे कामौ तथार्चयेत् || उदग्दक्षिणयोर्देव्याः स्थलेषु त्रिषु योगिनीः || अञ्जनानां सिद्धिकरी नष्टवेषास्य चेटिका || ४६७ ||

तारं [ओं नष्टवेषे भ्रामिणि ह्रीं ह्रीं स्त्रीं स्त्रीं स्वाहा || अयं चतुर्दशाक्षरो मन्त्रः क्लीं ऐं सौः क्लिं ऐं सौः द्विरावृत्तैः षड्भिरेभिर्बीजैः षडङ्गन्यासः |
यथा क्लीं हृदयाय नमः ऐं शिरसे स्वाहा सौः शिखायै वषट् क्लीं कवचाय हुम् ऐं नेत्रत्रयाय वौषट् सौः अस्त्रायफट् ||] च नष्ट वेषे च भ्रामिणीं ह्रीं द्वयं वदेत् || स्त्रीं स्त्रीं स्वाहा विश्ववर्णो मन्त्रो ध्यानं निरूप्यते || ४६८ ||

मांसं च रुधिरं सद्यश्चर्वयन्तीं सुभीषणाम् || प्रेतासनां महादेवीं नष्टवेषां भजाम्यहम् || ४६९ ||

जपेत्सहस्रत्रितयं कृष्णाष्टम्यां महानिशि || होमश्च गजदन्तेन दशांशस्तुष्यति त्वियम् || ४७० ||

ददाति मन्त्रिणे चार्द्रमस्थि तेन तु साधकः || भूतप्रेतपिशाचादीन्खेलन्संवशयेदपि || ४७१ ||

अथातः सम्प्रवक्ष्यामि कलिप्रियगजाननम् || योगिन्यस्य बृहत्कक्षी गुटी सिद्धिप्रदा मता || त्रिवर्णेशी शक्तिरस्य क्लीं ऐं सौश्च मनुर्मतः || ४७२ ||

द्विरावृत्त्या षडङ्गानि पञ्चबाणान्प्रविन्यसेत् [पञ्चबाणानां पञ्चकामानां च नामानि पूर्वं लिखितानि ||] || पञ्चकामांश्च विन्यस्य मूलेन व्यापकं चरेत् || ४७३ ||

उद्यत्सूर्यसहस्राभां माणिक्यवरभूषणाम् || स्फुरद्रत्नदुकूलाढ्यां नानालङ्कार भूषिताम् || ४७४ ||

इक्षुकोदण्डबाणांश्च ह्यक्षमालां च पुस्तकम् || दधतीं पूजयेत्पश्चात्षडङ्गानि प्रपूजयेत् || ४७५ ||

पञ्चबाणास्ततः पूज्या रत्यादित्रितयं ततः || कामाष्टकं ततो भैरवाष्टकञ्चापि मातरः || ४७६ ||

पीठाष्टकं च लोकेशान्मध्ये देवान्समर्चयेत् || प्. ४५८) पुरश्चरणकृत्यादि काम्यकर्म तथाखिलम् || ४७७ ||

एतस्यास्त्रिपुरेशी च चेटिकास्यनिनादिनी || निनादिनि [निनादिनि गुटिकां देहिदेहि स्त्रीं स्वाहा इति मन्त्रः] च गुटिकां देहि स्त्रीं वह्निगेहिनीम् || ४७८ ||

द्वादशार्णो मनुर्ध्यानमूर्ध्वकेशीं त्रिलोचनाम् || खेचरीं तां चञ्चलाक्षीं महानादां भजाम्यहम् || ४७९ ||

अमायां च नरः सायं नद्यां स्नायाद्विशेषतः || कृष्णायां निशि कुर्वीत तत्तीरे चायुतं जपम् || ४८० ||

कस्तूरीकमलैर्होमो दशांशस्तत्र देवता || महाशब्दं प्रकुरुते भीतिदं ध्यानतत्परः || न बिभेति यदा मन्त्री तदा देवी प्रसीदति || ४८१ ||

ददाति गुटिकामेकां सिद्धिदां च मनोहराम् || तामादाय भवेन्मत्री त्रिलोकीगमनक्षमः || ४८२ ||

अथातः सम्प्रवक्ष्यामि चतुर्दन्तं गजाननम् || सर्पास्या योगिनी चास्य धातुवादक्रियाकरी || ४८३ ||

एककामेश्वरी शक्तिः कामबीजं मनुर्मतः || क्रषिः सम्मोहनश्छन्दो गायत्री देवता मता || ४८४ ||

एककामेश्वरी बीजं कः शक्तिर्बिन्दुरुच्यते || लः कीलकं षडङ्गानि षड्दीर्घान्वितमूलतः || ४८५ ||

पूर्वोक्तपञ्चबाणांश्च न्यसेद्ध्यानं समाचरेत् || ४८६ ||

जपाकुसुमसङ्काशां धनुर्बाणकरां स्मरेत् || नानालङ्कारशुभगां मोहयन्तीं जगत्त्रयम् || ४८७ ||

त्रिकोणं चाष्टपत्रं च ततो भूबिम्बमालिखेत् || मोहिनीं क्षोभिणीं चैव शशिनीं स्तम्भिनीं तथा || ४८८ ||

आकर्षिणीं द्राविणीं च तथैवाह्लादिनीं मताम् || क्लिन्नां च क्लेदिनीं चापि ततः सिहासनं यजेत् || ततो देवीं समावाह्यार्चयेन्मुद्राश्च दर्शयेत् || ४८९ ||

अग्नीशासुरवायव्यमध्यदिक्ष्वङ्गपूजनम् || त्रिपूरायास्ततश्चाङ्गान्यर्चयेच्च दलाष्टके || अनङ्गपदमुच्चार्य रूपिणी [श्लोकोक्तरूपिण्यादिनाम्नाम्पुरीनङ्गपदयुञ्जीत यथा अनङ्गरूपिणी |
अनङ्गमदना इत्यादि] मदना तथा || ४९० ||

मन्मथा कुसुमा चेति तदग्रे मदनातुरा || शिरा मेषबला तद्वद्द्विपिकाष्टौ समीरिताः || ४९१ ||

दिगीश्वरास्ततः पूज्या जपेदर्कसहस्रकम् || हुनेद्बन्धूककुसुमैस्तर्पणादि ततश्चरेत् || काम्यप्रयोगा विज्ञेयास्त्रिपुरेश्या यथा तथा || ४९२ ||

अथातः संप्रवक्ष्यामि चैकविंशतिसङ्ख्यकान् || गणेशान्त्राजमातङ्या संबधान्योगिनीयुतान् || ४९३ ||

प्. ४५९) बीजषट्कं गणेशस्य ङेन्तं तन्नाम चोच्चरेत् || नमोन्ता मनवस्तेषां क्रमान्नामानि वच्म्यहम् || ४९४ ||

अग्रे पृष्ठे द्विदन्तादिद्वितुण्डाक्षो विनायकः || ज्येष्ठो विनायकश्चैव तथा गजविनायकः || ४९५ ||

विनायकः कालसंज्ञो नागेशाख्यो विनायकः || अथान्तर्गृहमावृत्य स्थिताञ्छृणु विनायकान् || ४९६ ||

तथा सृष्टिगणेशश्च यक्षविघ्नेश एव च || गजकर्णश्चित्रघण्टः स्यान्मङ्गलविनायकः || ४९७ ||

विनायकश्च मित्रादिरथ वानन्दकानने || व्यवस्थिता गणेशा ये ते वक्ष्यन्ते मयाधुना || ४९८ ||

मोदः प्रमोदः सुमुखो दुर्मुखो गणनायकः || विनायको ज्ञानपूर्वो द्वारविघ्नेश एव च || ४९९ ||

अविमुक्तेशनिकटे त्वविमुक्तविनायकः || योगिन्यश्च क्रमादेषां कीर्त्यन्ते प्रेतवाहनाः [इदं परान्वयि] || ५०० ||

दन्दशूककरा रौद्री मृगशीर्षा वृषानना || व्यालास्या धूर्त्तविश्वासा व्योमैकचरणार्धदृक् || ५०१ ||

तापिनी तुष्टिपूर्वा च शोषिणी कोटरी तथा || विद्युत्प्रभा स्थूलनासा मार्जारी कंठपूरणा || ५०२ ||

कामाक्ष्यट्टाट्टहासा च बलाका गतिपुण्यदा || मूकास्याचेति योगिन्यो ङेन्तं नाम नमोन्तकम् || ५०३ ||

स्वबीजाद्यं भवेन्मन्त्रो यथानामार्थकारकः || अथातः सम्प्रवक्ष्यामि शक्तिमेषां सुसिद्धिदाम् || ५०४ ||

विख्यातां राजमातङ्गी सद्यः प्रत्ययकारिकाम् || ऐं ह्रीं श्रीं मनवः प्रोक्ता भगवतीप्रदं वदेत् || ५०५ ||

श्रीमातङ्गे वदेदेतच्छूरि सर्वजनेति च || मनोहरि सर्वमुखराजि सर्वमुखेति च || ५०६ ||

रजनीं सर्वराजेति वशंकरि वदेत्ततः || सर्वस्त्रीपुरुषेत्युक्त्वा वशंकरि पदं वदेत् || ५०७ ||

सर्वदुष्टमृगवशंकरि सर्वपदं ततः || सत्त्ववशंकरि सर्वलोकमुक्त्वामुकं वदेत् || ५०८ ||

मे वशमानय स्वाहेत्यष्टाशीत्यक्षरो मनुः || एकविंशद्विश्वधृतिधृतिविश्वकरैर्मनोः || ५०९ ||

ओं नमो मुखमंत्रार्णैः ऐं ह्रींश्रींबीजपूर्वकैः || षडङ्गन्यास उदितः पदन्यासं ब्रवीम्यहम् || ५१० ||

शिरोललाटभ्रूमध्यतालुकण्ठमनोगले || हृदयेऽनाहते बाह्वोर्जठरे नाभिमण्डले || ५११ ||

स्वाधिष्ठाने व्यञ्जने च पादयोर्दक्षिणान्ययोः || मूलाधारे गुदे न्यस्य पदान्यष्टादश क्रमात् || ५१२ ||

त्र्येकद्विचतुवर्सुषट् नगाष्टदशदिग्गजैः || प्. ४६०) वेदाग्नीन्दुद्वित्रिनेत्रैर्वर्णैर्मन्त्रपदानि तु || ५१३ ||

ऐं ह्रीं श्रींराजमातङ्यै नम उक्त्वा न्यसेत्ततः || मूलाधारे पूर्वबीजत्रयं प्रीत्यै पदं वदेत् || ५१४ ||

मातङ्यै नम इत्युक्त्वा हृदये विन्यसेत्पुनः || बीजत्रयं ततो मनो भवायै च नमो वदेत् || ५१५ ||

भ्रूमध्ये विन्यसेत्पश्चाद्देवीन्यासं समाचरेत् || शिरोवदनहृद्गुह्यपादेषु क्रमतो न्यसेत् || ५१६ ||

हृल्लेखां गगनां रक्तां ततश्चापि कपालिकाम् || महोच्छुष्मां स्वनामादिवर्णबीजपुरस्सराम् || ५१७ ||

मातंग्यन्तां प्रविन्यस्य बाणशक्तिं तथा न्यसेत् || मूर्धपादास्यगुह्ये हृदये द्राविणीं क्रमात् || ५१८ ||

शोषिणीं बंधिनीं मोहिनीं चैवा कर्षिणीन्तथा || मातंग्यन्तां स्वबीजाद्यां ततः कामाष्टकं न्यसेत् || बीजत्रयाद्यां मातंगी पदांते मन्मथं मुखे || ५१९ ||

मकरध्वजं वामांसे मदनं वामपार्श्वके || वामकट्यां पुष्पचापं नाभौ च कुसुमायुधम् || कन्दर्प्पं दक्षकट्यां च दक्षपार्श्वे मनोभवम् || ५२० ||

रतिप्रियं च दक्षांसे तच्छक्तिन्यास उच्यते || मातंग्यंता अनंगाद्याः स्थानेष्वेष्वेव विन्यसेत् || ५२१ ||

कुसुमा मेखला प्रोक्ता मदना मदनातुरा || मदनोद्वेगिताग्रे सम्भवा भुवनपालिनी || ५२२ ||

शशिरेखा ततः कुर्यान्न्यासं लक्ष्म्यादिकं यथा || ङेमातंगीनमोन्तांश्च लक्ष्मी चापि सरस्वतीम् || रतिं प्रीतिं कीर्तिशांत्यौ पुष्टिं तुष्टिं क्रमेण च || ५२३ ||

मूलाधारे तथा मूले मणिपूरे तथा हृदि || कण्ठे मुखे भ्रुवोर्मध्ये शिरस्येवं च विन्यसेत् || ५२४ ||

ब्राह्म्याद्याः पूर्वमुद्दिष्टा मातंगीपदपश्चिमाः || मूलाधारे त्वधिष्ठाने नाभौ हृदि गले मुखे || ५२५ ||

भ्रूमध्ये मस्तके चैवमसितांगादिभैरवान् || मातंग्यन्तान्न्यसेत्पश्चान्मातंग्यंता इमां अपि || ५२६ ||

आधारे विन्यसेद्द्वामां ज्येष्ठां लिंगस्य मूलके || नाभौ रौद्रीं तथा शांतिं हृदये सिद्धिदां गले || ५२७ ||

वागीश्वरीं च भ्रूमध्ये क्रियाशक्तिं च बिन्दुके || लक्ष्मीं कलापदे सृष्टिं रोधिकायां तथा न्यसेत् || ५२८ ||

अर्धेन्दौ मोहिनीं न्यस्य नादे तु प्रथमां न्यसेत् || भाविनीं चापि नादांते ततो मान्यां तडिल्लताम् || विष्णुं वज्रे विष्णुशक्तिं ध्रुवमण्डलके न्यसेत् || ५२९ ||

ऐं ह्रीं श्रीं पूर्विकाश्चैता ङेमातंगीनमोन्तकाः || चतस्रः शक्तयो न्यस्या मातंगी शिरसि न्यसेत् || ५३० ||

प्. ४६१) ललाटे महामातंगीं महालक्ष्मीं तथा हृदि || सिद्धलक्ष्मीं तथा मूले मूलाधारे प्रविन्यसेत् || ५३१ ||

मूलमंत्रं समुच्चार्य सर्वांगे व्यापकं चरेत् || एवं न्यस्तशरीरोसौ चिन्तयेन्मन्त्रदेवताम् || ५३२ ||

अमृतोदधिमध्यस्थे रत्नद्वीपे मनोहरे || स्वर्णप्राकारसंवीते मण्डपे रत्ननिर्मिते || ५३३ ||

कदम्बबिल्वकह्लारकल्पवृक्षोपशोभिते || वेदीमध्ये सुखास्तीर्णे रत्नसिंहासने शुभे || ५३३ ||

अष्टपत्रं महापद्मं केशराढ्यं सकर्णिकम् || तन्मध्ये तु त्रिकोणं स्यादष्टपदं ततो बहिः || ५३५ ||

पुनः षोडशपत्रं स्यात्तद्बाह्ये स्याच्चतुर्दलम् || वेदास्रं सचतुर्द्वारं मण्डलं प्रोक्तमुत्तमम् || ५३६ ||

तस्य मध्ये मुखासीनां श्यामवर्णां शुचिस्मिताम् || कदम्बमालाभरणां पूजितां च सुरासुरैः || ५३७ ||

प्रलम्बालकसंयुक्तां चन्द्ररेखावतंसिकाम् || ललाटे तिलकोपेतामीषत्प्रहसिताननाम् || ५३८ ||

किंचित्स्वेदाम्बुमधुरललाटफलकोज्ज्वलाम् || वलीतरंगमध्याभां रोमराजीविराजिताम् || ५३९ ||

सर्वाभरणसंयुक्तां मुक्ताहारविभूषिताम् || नानामणिगणोन्नद्धकटिसूत्रैरलंकृताम् || ५४० ||

बलयै रत्नखचितैः केयूरैर्मणिभूषितैः || भूषितां द्विभुजां बालां मदाघूर्णितलोचनाम् || ५४१ ||

आपीनमण्डलाभोगसमुन्नतपयोधराम् || प्रलम्बकर्णाभरणां स्वर्णोत्तंसविराजताम् || ५४२ ||

तमालनीलां तरुणीं मधुमत्तां मतङ्गिनीम् || चतुष्षष्टिकलारूपां पार्श्वस्थशुकसारिकाम् || ५४३ ||

कोटिबालार्कसङ्काशां जपाकुसुमसन्निभाम् || एवं वा पीतवर्णां वा ध्यायेन्मातंगिनीं पराम् || ५४४ ||

धर्मादिकॢप्तपूर्वोक्ते पीठेर्च्याः शक्तयो नव || ऐंह्रींश्रींबीजपूर्वाश्च ङेमातंगिनमोन्तकाः || ५४५ ||

विभूतिरुन्नतिः कांतिः कीर्तिः सृष्टिश्च सम्मतिः || पुष्टिरुत्कृष्टिर्-ऋद्धिश्च मातङ्ग्या नव शक्तयः || ५४६ ||

वाङ्माये [ऐं ह्रीं श्रीं सर्वशक्तिकमलासनाय नमः इति मन्त्रः] कमलां सर्वशक्त्यन्ते कमलापदम् || सनाय नम इत्युक्त्वा मातंग्याः पीठमर्चयेत् || ५४७ ||

देव्यामूर्तिं च मूलेन कल्पयित्वा यथाविधि || तस्यामावाहद्देवीमर्चयेत्तदनन्तरम् || ५४८ ||

पाशांकुशवराभीतिखड्गचर्मधनुःशरान् || प्. ४६२) मौसलीं दुर्गबाणाख्यां योनिमुद्रां [योनिमुद्रालक्षणं बहुस्थलेष्वलेखिषम् ||] प्रदर्शयेत् || ५४९ ||

त्रिकोणे पूर्वरक्षोदिक्कोणे रत्यादिका यजेत् || पाशांकुशा च श्वेताभा प्रथमायान्तु साञ्जलिः || ५५० ||

अन्त्यारुणेक्षुकोदण्डपञ्चबाणलसत्करा [इक्षुकोदण्डादिलसत्करा या तां पूजयेदिति अर्थः ||] || त्रिकोणकाष्टदलयोरन्तराले तु पूजयेत् || ५५१ ||

मध्ये दिक्षु क्रमात्पञ्चहृल्लेखादिकशक्तयः [पूज्या इति शेषः ||] || गुणं सृण्यभयेष्टानि वहन्त्यो भूतसन्निभाः || ५५२ ||

अग्नीशरक्षःपवनकोणेष्वग्नेर्दिशासु च || यजेदंगानि मन्त्रज्ञः पंचबाणास्ततोर्चयेत् || ५५३ ||

दिक्ष्वग्रे क्रमतो मुक्तास्वर्णविद्रुमहीरकान् || अमलारुणभायुक्तान्धनुर्बाणायुधांस्तथा || ५५४ ||

दलेष्वग्रे पूजनीया अनङ्गकुसुमादिकाः || गुणसृण्यभयेष्टानि धारयन्त्योरुणप्रभाः || ५५५ ||

अग्रे दलानां सम्पूज्या लक्ष्म्याद्याश्चारुभूषणाः || लक्ष्मी हेमप्रदा पद्माकरा कौसुम्भकाम्बरा || ५५६ ||

सरस्वती शङ्खनिभा चिन्मुद्रा पुस्तकेरतिः || श्वेताभा पुष्पबाणेक्षुहस्ता चामललोचना || ५५७ ||

धनुर्बाणकरा प्रीतिर्मेचकाभा सिताम्बरा || कीर्तिः कुण्डसमा पद्मचिन्मुद्राकरशालिनी || ५५८ ||

चिन्मुद्राभययुक्छान्तिर्ध्यानस्तिमितलोचना || बालाभयङ्करा [वराऽभयेति पा०] पुष्टिः पीताङ्गा चारुभूषणा || ४५९ ||

तुष्टिर्वराभयकरा प्रसन्नमुखपङ्कजा || द्वितीयाष्टदले पूज्या मन्मथाद्या मदोद्धताः || ५६० ||

पुर-आकृष्टचापेज्याः पृष्ठदेशनिषङ्गकाः || पत्रसंस्था मातरस्तु तदग्रे चाष्ट भैरवाः || ५६१ ||

कपालशूलडमरुवेतालासक्तपाणयः || दीर्घस्वराद्या ब्राह्म्याद्या ह्रस्वाद्या भैरवा अपि || ५६२ ||

ततः षोडशपत्रस्था वामाद्याः श्यामविग्रहाः || आदर्शरत्नदीपं च व्यजनं च ततः परम् || ५६३ ||

नागवल्लीदलं चैव चामरं ज्ञानकोशकम् || वासोमाल्यातपत्राणाभरणाशुकशालिकैः || ५६४ ||

चामरं रत्नकलशं तालवृन्तं प्रदीपकम् || बिभ्राणा वामहस्तैश्च देवेशाः खड्गपाणयः || ५६५ ||

रक्तवर्णाः सुविमला भावयेदर्चयेदिमाः || वादयन्तीः सदा वीणाञ्चतुःपत्रे ततोर्चयेत् || ५६६ ||

मातङ्ग्याद्यास्तत्र पूज्याः पाशांकुशवराभयैः || प्. ४६३) अलंकृतभुजा रक्ता द्वितीया चेन्दुसन्निभ्हा || ५६७ ||

असिखेटकशूलाह्वमुण्डहस्ता तथा परा || पाशांकुशसरोजानि योनिमुद्राञ्च विभ्रती || ५६८ ||

अरुणा चान्तिमा हेमरत्नपत्रे वराभये || दधाना श्यामवर्णा च ध्यातव्या मन्त्रिसत्तमैः || ५६९ ||

अग्निनैर्-ऋत्यवायव्यरुद्रकोणेषु संयजेत् || गणेशदुर्गावटुकक्षेत्रपालान्बहिर्यजेत् || ५७० ||

चतुरस्रे लोकपालांस्तदस्त्राणि च तद्बहिः || प्रजपेदयुतम्मन्त्री मन्त्रम्पश्चाद्दशांशतः [पदद्वयमुत्तरान्वयि] || ५७१ ||

त्रिस्वादुयुक्तैर्जुहुयाद्बन्धूककुसुमैर्वशी || तर्पणम्मार्जनं कृत्वा ब्राह्मणाराधनन्तथा || ५७२ ||

एवं सिद्धमनुर्मन्त्री साधयेन्निजवाञ्छितम् || भाग्यार्थी जुहुयाज्जातीमल्लिकानागकेशरैः || ५७३ ||

श्रीफलैश्चापि तत्पत्रैर्होमाद्राज्यश्रियं व्रजेत् || राजपुत्रः पङ्कजैः स्वां श्रियमाप्नोत्यनुत्तमाम् || ५७४ ||

लक्ष्मीपुष्पौत्पलैश्चैव वशयेत्सकलं जगत् || जपाबन्धूकबकुलैर्वज्रवृक्षसमुद्भवैः || ४७५ ||

सुमनोभिश्च जुहुयाद्वश्यायैव हि मन्त्रवित् || मधुना जुहुयात्तस्य सर्वसिद्धिर्भवत्यलम् || ५७६ ||

त्रिस्वादुसंयुतैः सम्यग्वेतसोत्थसमिद्वरैः || जुहुयाद्वृष्टिकामस्तु गुडूचीभिर्ज्वरं हरेत् || ५७७ ||

कदम्बकुसुमैर्हुत्वा वशयेत्प्रमदाजनान् || आयुष्कामः प्रजुहुयाद्दूर्वाभिर्नात्र संशयः || अन्नं प्रजुहुयान्मन्त्री चान्नवाञ्जायतेचिरात् || ५७८ ||

शालितण्डुलहोमेन धनाकुलगृहो भवेत् || होमद्रव्यन्तु यत्प्रोक्तं त्रिस्वाद्वक्तं तु तद्भवेत् || ५७९ ||

नन्द्यावर्त्तप्रसूनैः स्याद्धोमो वाक्सिद्धिदः परः || निम्बप्रसूनहोमाच्च कमलां वाञ्छितां लभेत् || ५८० ||

हुनेत्किंशुकहोमैर्यः स भवेत्तेजसां निधिः || चन्दनागुरुकर्पूररोचनाकुंकुमैरपि || ५८१ ||

होमात्तु विश्वं सकलं वशयेन्नात्र संशयः || अष्टाभिर्जपितैरेतैस्तिलकं जनमोहनम् || ५८२ ||

सिन्धुवारस्य मूलानि होमयेद्बन्धमुक्तये || उग्रगन्धस्य तैलेन संसिक्तैर्लवणैर्हुनेत् || अचिराच्छत्रुसङ्घं स नाशयेन्नात्र संशयः || ५८३ ||

संचूर्णितनिशामिश्रैर्लवणैः स्तम्भयेद्रिपुम् || परिपक्वैरतिरसैः फलैः पुष्पैः सुगन्धिभिः || होमाद्वाञ्छितमाप्नोति नात्र कार्या विचारणा || ५८४ ||

प्. ४६४) अथ मन्त्रान्तरं वक्ष्ये मातङ्ग्या अतिसिद्धिदम् || ऐंक्लीं सौः ऐं समुच्चार्य ह्रींश्रीं तारं समुच्चरेत् || ५८५ ||

नमो भगवतीत्यादिश्चतुर्विंशतिवर्णकः || उच्चरेत्सर्पमन्त्रस्य रञ्जनीं क्लीं ततो वदेत् || ५८६ ||

तथा श्रीबीजमुच्चार्य सर्वराजादिकान्वदेत् || पूर्वमन्त्रस्य वर्णांस्तु चत्वारिंशत्क्रमात्ततः || ५८७ ||

वशंकरिपदं प्रोच्य प्राङ्मन्त्रस्यामुकादिकान् || एकादशार्णान्प्रवदेच्छ्रींह्रींऐंसौस्ततो वदेत् || क्लीमवेति द्व्यूनशतं मन्त्रे वर्णाः प्रकीर्तिताः || ५८८ ||

अयं मन्त्रस्त्रिभुवनवशीकारकरः परः || आचार्यानुग्रहात्प्राप्यो महापुण्यतमैर्जनैः || दुष्प्राप्योऽकृतपुण्यैश्च मुनीन्द्राद्यैश्च सेवितः || ५८९ ||

वाञ्छावितरणे कल्पपादपः परिकीर्तितः || ऋष्याद्याः पूर्वमुदिता मन्त्रस्यास्य भवन्ति हि || ५९० ||

ततस्तु मातृका न्यस्य देवताभावसिद्धये || पञ्चबाणानंगुलीषु तलयोर्मकरध्वजम् || ५९१ ||

न्यसेन्मन्त्रं दशार्णं सौर्वाग्भवं ङेन्तमुच्चरेत् || मकरध्वज इत्येतत्क्लीं नमोन्तः प्रकीर्तितः || ५९२ ||

शिखाशिरोललाटेषु भ्रूमध्ये नेत्रयुग्मके || श्रोत्रयोर्घ्राणयोर्वक्त्रे गण्डयोः ककुदि क्रमात् || ५९३ ||

असयोरुरसि न्यस्य स्तनयोर्हृदयाम्बुजे || नाभिमण्डलके गुह्ये मूलाधारे पदोरपि || ५९४ ||

त्रयोविंशतिसंख्यानि त्रित्र्येकह्यब्धिभिस्तथा || षडष्टकैकचन्द्राष्टनवाष्टादशपत्रिभिः || ५९५ ||

वस्वष्टवह्निचन्द्राक्षित्रिद्वित्रिन्क्रमान्न्यसेत् || एकोनविंशतियुतान्मन्त्रार्णानादितः क्रमात् || ५९६ ||

पदैः षड्भिः षडङ्गानि ऐं ह्रीं श्रींपूर्वकैश्चरेत् || कामशक्तींदिराबीजान्युक्तानि च शिखा मनोः || ५९७ ||

षड्दीर्घकामयुक्तेन षडङ्गानि प्रकल्पयेत् || द्राविण्याद्याः पुनः पञ्च कुक्षौ पार्श्वद्वये हृदि || ५९८ ||

मणिपूरे न्यसेदत्र ब्राह्म्याद्याश्चात्र विन्यसेत् || दक्षपादांगुलीमूले गुल्फसन्धौ च जानुनि || ५९९ ||

दक्षोरुमूले वामोरुमूले जानुनि गुल्फके || वामपादांगुलीमूले ततो लक्ष्म्यादिका न्यसेत् || ६०० ||

वामदोर्मूलके मध्ये सन्धौ च मणिबन्धके || वामहस्तांगुलीमूले दक्षहस्तांगुलीतटे || ६०१ ||

मणिबन्धे मध्यसन्धौ कक्षयोर्मूलके क्रमात् || मस्तके च भ्रुवोर्मध्ये नेत्रयोः श्रोत्रयोगुदे || ६०२ ||

प्. ४६५) नासायुग्मे मुखे गण्डद्वन्द्वे जिह्वाग्रदेशके || मूलाधारे त्वधिष्ठाने तालौ वामादिका न्यसेत् || ६०३ ||

लक्ष्म्यादिकस्थले न्यस्या असिताङ्गादिभैरवाः || मातङ्यादिचतुष्कं च हृदि नाभौ शिरोगुदे || ६०४ ||

गणेशदुर्गाबटुकक्षेत्रपालांस्ततो न्यसेत् || कभ्रूकण्ठेषु [कं शिरः] मूले च मन्त्रेण व्यापकं चरेत् || ६०५ ||

सरस्वतीं महालक्ष्मीं निधियुग्मं प्रविन्यसेत् || आनने च भ्रुवोर्मध्ये दक्षपादे तथोत्तरे || ६०६ ||

एवं न्यस्य मनुं मन्त्री ध्यायेद्देवीमनन्यधीः || अमृतस्य समुद्रे तु रत्नद्वीपे महावने || ६०७ ||

पञ्चानां कल्पवृक्षाणां मण्डपे मणिसंयुक्ते || मणिसिंहासनस्योर्ध्वमुपविष्टां विचिन्तयेत् || ६०८ ||

मधुपानेन मुदितां पूर्णमाननिरीक्षणाम् || शुभ्रांशुवदनां नीपपुष्पगुम्फितवेणिकाम् || ६०९ ||

वीणालसत्करां रक्तवस्त्रां बिम्बाधरा शुभाम् || कस्तूरीतिलकां चन्द्रमुकुटामुन्नतस्तनीम् || ६१० ||

शंखपत्रश्रुतिं मध्यां नम्रां संएचकच्छविम् || वलयाङ्गदहारादिमञ्जीररशनान्विताम् || ६११ ||

हास्यैर्भक्तांस्तोषयन्तीं पार्श्वसंस्थालकांशुकाम् || पूर्वोक्ते च शुभे पीठे यन्त्रमेतत्प्रकल्पयेत् || ६१२ ||

त्रिकोणं पञ्चकोणं वाप्यष्टपत्रं कलाछदम् || अष्टपत्रं वेदतलं चतुरस्रं मनोहरम् || ६१३ ||

चतुर्द्वारसमायुक्तं सर्वदृष्टिमनोहरम् || अत्रावाहाह्य यजेद्देवीं मन्त्री शृङ्गारवेषतः || ६१४ ||

मूलेन मूर्तिं संकल्प्य कृत्वार्घ्यस्थापनादिकम् || माताङ्गीपीठमभ्यर्च्य कृत्वा मूलप्रकल्पनम् || ६१५ ||

ततः पुष्पो पचारान्ते लयाङ्गं सम्यगर्चयेत् || त्रिकोणेभ्यन्तरे प्राग्वत्षडङ्गानि प्रपूजयेत् || ६१६ ||

मातङ्ग्याद्याश्चतुष्पत्रे चतुरस्रे त्रिकोणतः || गणेशादिचतुष्कं च चतुर्द्वारेषु चार्चयेत् || ६१७ ||

सरस्वत्यादिकन्यासप्रोक्तांश्चाग्रे दिगीश्वरान् || तदस्त्राणि च तद्बाह्ये न्यासपूर्वं जपेन्मनुम् || ६१८ ||

पुनरभ्यर्च्याङ्ग षट्कं सुमिष्टान्नैश्च खाद्यकैः || सदुग्धैश्च निवेद्याथ देवीं नत्वा ततो बलिम् || ६१९ ||

दद्याद्भक्तेन मन्त्रज्ञस्तेनेष्टं लभतेचिरात् || नमो भगवतीत्युक्त्वा मातङ्गेश्वरि तत्परम् || ६२० ||

इमं बलिं गृह्णयुग्मं स्वाहान्तः सिद्धवर्णकः || ततो देव्या उत्तरतो वायव्यादिसकोणके || ५२१ ||

पंक्तिक्रमेण ऐं ह्रीं क्लीं गुरुभ्यो नम उच्चरेत् || प्. ४६६) परमेष्ठिगुरुभ्यश्च परमाचार्यगुरुभ्यः || ६२२ ||

आदिसिद्धगुरुभ्यः सद्गुरुभ्यो नम उच्चरेत् || सर्वत्र पञ्चस्थानेषु गुरून्सम्पूजयेदिति || ६२३ ||

पूर्वमेव जपेल्लक्षं पुरश्चरणसिद्धये || पलाशपुष्पैस्त्रिस्वादुयुक्तैरन्तेऽयुतं हुनेत् || ६२४ ||

तर्पणं मार्जनं कुर्याद्भोजयेद्भूसुरानपि || कुमारीर्भोजयेच्चापि वशयेत्क्षोभयेज्जयत् || ६२५ ||

मातङ्यनुग्रहीभूय सर्वकर्माणि साधयेत् || कुण्डे वा स्थण्डिले वापि विधेयं काम्यकर्मकम् || ६२६ ||

रक्तवस्त्रपरीताङ्गो रक्तमाल्यानुलेपनः || घृताक्तगुग्गुलोर्होमाद्राज्ञश्च वशयेत्सुधीः || ६२७ ||

मल्लिकाजातिपुन्नागैर्जुहुयाद्भाग्यवान्भवेत् || राज्यार्थी बिल्वपत्रैश्च हुनेत्पद्मैर्विशेषतः || ६२८ ||

श्रीकामः श्वेतपद्मैश्च रक्तैर्वा जुहुयात्पुनः || उत्पलैर्धनकामस्तु लक्ष्मीपुष्पैश्च [क्वचिद्देशविशेषे प्राकृतवाचा छीतू?रनामास्य प्रसिद्धम्] होमयेत् || ६२९ ||

बन्धुकैश्चैव [बन्धुजीवकैः] वागर्थी किंशुकैर्बकुलैर्हुनेत् [केसरैः] || आकर्षणे तु लवणैस्तिलैर्मधुरसंयुतैः || ६३० ||

वञ्जुलैर्वृष्टिमाप्नोति गुडूचीभिर्हरेज्ज्वरम् || अन्नार्थी जुहुयादन्नैर्धान्यार्थी शालितण्डुलैः || ६३१ ||

गन्धद्रव्येण होमस्तु सर्वसौभाग्यदायकः || कुंकुमैरोचनाभिर्वा [काश्मीरैः] होमो वश्यार्थिनो मतः || नन्द्यावर्त्तप्रसूनैश्च वागर्थी जुहुयादथ || ६३२ ||

पलाशपुष्पैस्तेजोर्थी कपिलाज्येन वा हुनेत् || शत्रोरुन्मादकृद्धोम उन्मत्तकुसुमैरपि || ६३३ ||

विषमेघाह्वनिम्बाक्षश्लेष्मान्तकविभीतकैः [५- वारिबाहैः ६- पिचुमन्दैः ७- दाडिमैः ८- बिभीतकैः] उलूककाकगृद्ध्रोत्थपक्षैस्तैलपरिप्लुतैः || ६३४ ||

त्र्यस्रकुण्डे च शर्वर्यां [रात्रौ] रिपुनाशाय होमयेत् || पायसैर्गुडसम्मिश्रैः खण्डैरिक्षुदलैस्तथा || ६३५ ||

उन्मादनाशनो होमः पायसैर्वा घृतप्लुतैः || मरिचं तिलतै लाक्तं काशश्वासज्वरापहम् || ६३६ ||

निर्गुण्डीमूलहोमेन निगडस्य विमोचनम् || ६३७ ||

अथातः सम्प्रवक्ष्यामि जीवस्याकर्षणं परम् || साध्यप्रतिकृतिः [प्रतिमाः] कुर्याच्चतस्रो मन्त्रवित्तमः || ६३८ ||

एकां साध्यर्क्षवृक्षोत्थां [साध्यस्य नाम्नो यदृक्षं तद्वृक्षस्य समिधा द्वितीया प्रतिमा निर्मेया ||] मधूच्छिब्देन चापराम् || परां कुलालमृद्भूतां शालिपिष्टेन चापराम् || ६३९ ||

प्. ४६७) लिखेत्तासा तु हृदयेमुकं मे वशमानय || साध्यनामामुकस्थाने साध्ये प्राणांश्च तत्र च || ६४० ||

संस्थाप्य तास्ततः स्पृष्ट्वा मूलमष्टोत्तरं शतम् || जपेन्मूलेमुकस्थाने साध्यनाम तु योजयेत् || ६४१ ||

अमुकं पदरूपं यद्यन्त्रमन्त्रेषु दृश्यते || साध्याभिधानं तद्रूपं तत्र स्थाने निवेशयेत् || ६४२ ||

कुण्डमध्ये द्व्यंगुलाधः पुत्तलीं दारुजां खनेत् || उत्तानामथ पिष्टोत्थां स्वासनाधस्तथा खनेत् || ६४३ ||

पादन्यासस्य संस्थाने मृण्मयीं भुवि पूरयेत् || लवणेन सहैतास्तु तिस्रः पूर्यास्ततः परम् || ६४४ ||

ततो मधूच्छिष्टमयीमूर्ध्वपादामधोमुखीम् || ६४५ ||

अर्कतूलकदोरेण [आदित्यफलकार्पासदोरकेण] बद्धपादां प्रलम्बयेत् || कुण्डोपरि च धूमेन तथा सा व्याकुला भवेत् || ६४६ ||

ततस्तु लवणं ग्राह्यं कुडवैकं [तुलायां चतुष्पलैः कुडवो भवति] घृतं मधु || गुडं च पेषयेल्लक्षं पुत्तलीन्तेन कारयेत् || ६४७ ||

स्पष्टाङ्गीं साध्यरूपेण तुल्यां श्लक्ष्णां मनोहराम् || ६४८ ||

रक्तमाल्याम्बरालेपः कृतन्यासविधिः स्वयम् || प्रतिमायां तु संहारभागेन न्यासमाचरेत् || ६४९ ||

नामप्रतिष्ठितप्राणा साध्यानां सप्तधाभजेत् [भागं कुर्वीतेत्यर्थः] || दक्षोरुमूलात्पादांतः प्रथमो भाग ईरितः || ६५० ||

बस्तितः कण्ठपर्यंतो दक्षभागो द्वितीयकः || भुजो दक्षस्तृतीयः स्याच्चतुर्थो मस्तकम्मतम् || ६५१ ||

भुजो वामः पञ्चमः स्यात्षष्ठो वामोदरादिकम् || स्यात्सप्तमस्तथोर्वादिपादांतः सव्यदेहतः || ६५२ ||

स्त्रीणां विभाग उद्दिष्टः कृच्छ्रसाध्योथ वक्ष्यते || गुल्फद्वयं तथा जानुद्वयं जंघाद्वयं तथा || ६५३ ||

मध्यद्वयं च भुजयोर्द्वयं मौलिं तथा भजेत् || शरीरमेकादशधा ह्यसाध्यस्याथ वक्ष्यते || ६५४ ||

प्राकृतानां तु सप्तानां चैकैकस्य तु सप्तधा || एकैकं जुहुयाद्भागं स्मरञ्छत्रुं निशामुखे || ६५५ ||

दक्षपादाच्च पुरुषान्वामपादात्तथा स्त्रियः || एवं सप्ताहतो नार्यः संक्षुब्धा मदनातुराः || ६५६ ||

स्विद्यदङ्ग्यो वेपमानाःसाधकं तुष्टमानसम् || त्राहित्राहि क्षमस्वेति पश्य माम्मा परित्यज्य || ६५७ ||

एवं सर्वा व्याहरन्त्यः करुणायुक्तमानसाः || पतन्ति साधकस्याग्रे मदनानलपीडिताः || तिष्ठंति दासवच्चास्य मन्त्रिणो योषितः सदा || ६५८ ||

लवणन्तिलतैलाक्तं होमयेच्छत्रुनाशनम् || प्. ४६८) हरिद्राचूर्णसंयुक्तं लवणं स्तम्भने मतम् || ६५९ ||

मातंगी प्रीयते नित्यम्भौमवारे प्रपूजयेत् || कन्यामेकां तथा तिस्रः पञ्च सप्ताथ वा पुनः || ६६० ||

स्वादुभिर्भक्ष्यभोज्यैश्च स्वादपानैर्मनोहरैः || अर्चनीयाश्च मन्त्रज्ञैः कन्यकाश्चैव सर्वदा || ६६१ ||

सर्वा नार्यो भावनीयाः श्यामा एवात्र मन्त्रिणा || भौमवारे तथा पिष्टमयान्दीपांश्च कल्पयेत् || ६६२ ||

प्रज्वालयेद्घृतेनैतान्मातङ्गीप्रीतये बुधः || मातंगीप्रीतये मंत्री योगिन्यष्टकमायजेत् || ६६३ ||

दिव्यां च महतीं सिद्धां गणेशीं प्रेतखादिनीम् || डाकिनीं कालिकां कालरात्रिञ्चेशानगोचराम् || ६६४ ||

निशाचरीं चोर्ध्वकेशीं शुष्कांगीं भोजिनीं तथा || वीरभद्रां विरूपाक्षीं धूम्रां प्राच्याञ्जटाधराम् || ६६५ ||

कलहां घोररक्ताक्षीं विश्वरूपां भयंकरीम् || प्रियां च राक्षसीं वीरकुमारीं वह्निकोणगाम् || ६६६ ||

मुण्डरारी रुद्रकार्यां भीषणां च भयातुराम् || त्रिपुरांता क्रोधिनीं च दुर्मदां ध्वंसिनीं यमे || ६६७ ||

दीर्घां लम्बोष्ठिकां हंसीं तापिनीं मन्त्रयोगिनीम् || आदित्यां चापि खट्वांगीं कालाग्निमिति नैर्-ऋते || ६६८ ||

ग्राहिणीं चक्रिणीं पश्चात्कंकालीं भुवनेश्वरीम् || हंकालीं यमदूतीं च कौमारीं च कपालिनीम् || ६६९ ||

केशिनीं मदिराद्यां च चारिणीं लोमजङ्घिकाम् || नामकीं कामुकीं वायौ लोमकाधोमुखीं तथा || ६७० ||

व्याघ्रजटीं सर्पजटीं कुण्डामरिविनाशिनीम् || घोरोग्ररूपविकटां चोदग्दिशि कपालिनीम् || ६७१ ||

लक्षाधि प्रजपेन्मन्त्रं क्षोभयेत्सर्वयोषितः || पृथ्वीश्वरांस्तदर्धेन वशयेन्नात्र संशयः || ६७२ ||

तदर्धेन च सत्त्वानि वशगानि भवन्ति हि || दूरस्था योषितः सर्वा आयान्त्ययुतजापतः || ६७३ ||

स्वदेशीयास्तदर्धेन समायान्त्येव निश्चितम् || सहस्रत्रितयात्सर्ववाञ्छिताप्तिर्भवेद्ध्रुवम् || ६७४ ||

अथातः सम्प्रवक्ष्यामि मन्त्रभेदम्महाफलम् || अष्टाशीत्यक्षरे मन्त्रे सर्वसत्त्ववशङ्करि || ६७५ ||

एतस्याग्रे वदेत्सौश्च राजलक्ष्मीप्रदे तथा || सप्ताक्षराणीति पुनः सर्वलोकादिकं वदेत् || ६७३ ||

पञ्चोनशतसंख्याकवर्णोयं मन्त्र ईरितः || क्रव्यादिकम्पूर्वमुक्तं षड्बीजैश्च षडङ्गकम् || ६७७ ||

ध्यानपूजादिकं सर्वमष्टाशीतिमनोर्मतम् || ६७८ ||

प्. ४६९) प्रयोगाश्च त एवात्र पुरश्चर्यादिकन्तथा || अथान्यत्सम्प्रवक्ष्यामि चतुःपञ्चाशदक्षरम् || ६७९ ||

ओं ह्रीं नमश्च पद्मे श्रीं राजिते राजपूजिते || जये विजये गौर्येवं गान्धारीति पदं वदेत् || ६८० ||

त्रिभुवनवशङ्करि सर्वस्त्रीपुरुषेति च || वशङ्करि सुखदुघे घेंघें वा वाग्निगेहिनी || ६८१ ||

अजो मुनिस्तथा छन्दो निवृद्गायत्रमीरितम् || देवता राजमातङ्गी षडङ्गानि तु मायया || ६८२ ||

सर्वमेवात्र पूर्वोक्तं ध्यानपूजादिकन्तथा || अथास्य प्रोच्यते भेद एकषष्टिकवर्णकः || ६८३ ||

त्रिभुवनवशङ्करि एतदन्ते वदेत्पुनः || भवेत्प्रणवहीनोयम्मन्त्रः सर्वत्र पूर्ववत् || ६८४ ||

किञ्चिद्वर्णविभेदेनायं प्रोक्तः पार्वतीमनुः || सतारोयं समाख्यातो विजयस्य पदं वदे || ६८५ ||

गौरिगान्धारीति पुनः प्राग्वदेव समापयेत् || एकषष्ट्यक्षरो मन्त्रो निवृच्छन्दो ह्यजो मुनिः || ६८६ ||

गौरी देवी षडङ्गानि शक्राशेभेभदिग्भवैः [चतुर्दशभि दशभिः अष्टभिः अष्टभिः दशभिः एकाधिकदशभिः] || मन्त्राक्षरैः षडङ्गानि ध्यानमस्या निरूप्यते || ६८७ ||

पाशांकुशकरां रत्नयुक्ताभरणवेणिकाम् || बन्धूकाभां त्रिनयनां स्वर्णलेखां भजाम्यहम् || ६८८ ||

प्राग्वत्षडङ्गं पीठे तु भुवनेश्या यजेदिमान् || आदावङ्गानि षट्कोणे ब्राह्म्याद्यास्त्वष्टपत्रके || ६८९ ||

आशाधिपांस्तदस्त्राणि भूपुरादौ समर्चयेत् || अयुतं प्रजपेन्मन्त्रं जुहुयात्पायसैर्घृतैः || ६९० ||

तर्पणा ततः कुर्यादेवं सिद्धो भवेन्मनुः || प्रयोगांश्चान्नपूर्णाया मातङ्ग्या वा समाचरेत् || ६९१ ||

अथातः सम्प्रवक्ष्यामि वश्यमातङ्गिकामनुम् || ओं राजमुखी राजाभिमुखी वश्यमुखीति च || ६९२ ||

मायां ह्रीं [श्रीं] क्लीं देवदेवि महादेवि ततो वदेत् || देवाधिदेवि सर्वेति जनस्य मुखमुच्चरेत् || ६९३ ||

मम वश्यं कुरुद्वन्द्वं स्वाहान्तोगकृतार्णकः || दिक्सप्तक्रतुवैदेषुमैत्रार्णैरङ्गकल्पनम् || ६९४ ||

विज्ञेयं राजमतङ्गीतुल्यं पूजाजपादिकम् || प्रयोगांश्चापि जानियाद्विशेषाद्वश्यकृत्त्वयम् || ६९५ ||

माया नमो हिलिहिलि चण्डमातङ्गिनीति च || स्वाहेति तिथिवर्णोस्य न्यासपूजादिकं भवेत् || ६९६ ||

राजमातङ्गिकातुल्यं जपश्चायुतसङ्ख्यया || घृत पायसहोमश्च प्रयोगाद्यं च पूर्ववत् || ६९७ ||

प्. ४७०) अथातः सम्प्रवक्ष्यामि कर्णमातङ्गिकामनुम् || वाग्भवं हृदयं चाथ श्रीमातङ्गीपदं वेदेत् || ६९८ ||

अमोघे सत्यवादिनि मम कर्णे पदं ततः || अवतारपदं द्वेधा सत्यं कथय युग्मकम् || ६९९ ||

एह्येहि श्रीश्च मातङ्ग्यै नमस्त्र्यब्ध्यर्णको मनुः || अङ्गानि वाग्भवेनात्र पूजाद्यं च कृताकृतम् || ७०० ||

लक्षं जपः पायसाज्यैर्होमः सिद्धोभवेन्मनुः || कर्णे तु कथयेद्देवी पृच्छकस्य शुभाशुभम् || ७०१ ||

अथातः सम्प्रवक्ष्यामि सर्वमन्त्रोत्तमोत्तमम् || ऐंह्रींश्रींमां समुच्चार्य ह्रींक्रोंक्लीं चरमां वदेत् || ७०२ ||

श्रीमातङ्गेश्वरि सर्ववशंकर्यग्निगेहिनि || त्रयोविंशाक्षरो मन्त्रः सर्वकार्यप्रसाधकः || ७०३ ||

निवृद्गायत्रिका छन्दो दक्षिणामूर्तिको मुनिः || कर्णमातङ्गिका चास्य देवता परिकीर्तिता || ७०४ ||

ऐंह्रींश्रीं आं समुच्चार्य ह्रींक्रोंबीजैस्तथा भवेत् || द्विरुक्तैश्च षडङ्गस्य विधिः पूजाजपादिकम् || ७०५ ||

लक्षत्रयं जपेन्मन्त्रं मधुरत्रयलोलितैः || बन्धूकपुष्पैर्होमः स्यात्सितया पायसेन च || ७०६ ||

हुनेत्कदल्याश्च फलैर्मन्त्रसिद्धिः प्रजायते || समस्तमन्त्रदानादौ सिद्धः स्यात्साधकोत्तमः || ७०७ ||

अथान्यत्सम्प्रवक्ष्यामि मातङ्गीमन्त्रमुत्तमम् || कामिनी रञ्जिनी स्वाहाष्टाक्षरोयमुदीरितः || ७०८ ||

ऋषिस्सम्मोहनश्छन्दो निवृत्प्रोक्तास्य देवता || सर्वसम्मोहनी चाङ्गं द्विरावृत्तिपदैर्भवेत् || ७०९ ||

श्यामाङ्गी वल्लकीं दोर्भ्यां वादयन्तीं सुभूषणाम् || चन्द्रावतंसां विविधैर्गायनैर्विश्वमोहिनीम् || ७१० ||

पूजामातङ्गिनीपीठे रत्याद्यास्तु त्रिकोणके || पञ्चावरणतः पूज्याः केशरेष्वङ्गपूजनम् || ७११ ||

अनङ्गकुसुमाद्यास्तु पत्रेष्वग्रेषु मातरः || लोकपालैश्च वज्राद्यैस्सप्तावृत्तिरियं मता || ७१२ ||

प्रजपेदयुतद्वन्द्वं दशांशं जुहुयात्ततः || मधूकजैस्त्रिमध्वक्तैः सर्वं सम्मोहयेज्जगत् || ७१३ ||

अथोच्छिष्टां प्रवक्ष्यामि मातङ्गीं गोजवर्णिकाम् || ७१४ ||

नम उच्छिष्टचाण्डालि मातङ्गीति पदं || सर्ववशंकरि स्वाहा मन्त्रोयं मोहयेज्जगत् || ७१५ ||

छन्दो निवृच्च गायत्री मुनी नारदतुम्बुरू || देवता चात्र मागङ्गी चोच्छिष्टा गोब्जवर्णिका || ७१६ ||

नेत्ररामकृशानुत्रिरसनेत्रमितैः क्रमात् || प्. ४७१) अङ्गानि स्युर्मन्त्रवर्णैस्ततो धायेद्धृदम्बुजे || ७१७ ||

कृष्णाम्बरां यावकार्द्रचरणामुन्नतस्तनीम् || मुक्ताप्रवालमालाढ्या शङ्खकुण्डलधारिणीम् || ७१८ ||

त्र्यस्रे रत्यादिकाः पूज्याः कर्णिकायान्तु तद्बहिः || पञ्चबाणास्तथाङ्गानि ब्राह्म्याद्याश्चाष्टपत्रके || ७१९ ||

द्वितीयेष्टदले पूज्या अनङ्गकुसुमादिकाः || चतुरस्रे लोकपालास्तदस्त्राणि ततो बहिः || ७२० ||

अथास्य भेदा वक्ष्यन्ते क्लींह्रींश्रींपूर्वकं जपेत् || क्लीं पूर्वं वा जपेन्मन्त्रावेतयोर्मदनो मुनिः || ७२१ ||

पूजाजपादिकं प्राग्वद्भेदांश्चास्यापराञ्च्छृणु || ७२२ ||

आं क्लीं ह्रीमादिकं मन्त्रं क्लीं ह्रीमैंमन्तकं जपेत् || वाग्मित्वं च कवित्वं च गानशक्तिं करोति च || ७२३ ||

मुनिः स्याद्दक्षिणामूर्तिरन्यत्सर्वं पुरोक्तवत् || आंह्रींक्रोंभिर्द्विरावृत्त्या षडङ्गानि समाचरेत् || ७२४ ||

अंसे तु वेशीकुसुमां मुक्ताभूषोन्नतस्तनिम् || चूलिकां नीलचूडां च वादयन्तीं च वल्लकीम् || ७२५ ||

माध्वीमत्तां मधुवशां श्यामलाङ्गीं सुकोमलाम् || त्रिकोणं पञ्चकोणञ्च बहिरष्टदलद्वयम् || ७२६ ||

षोडशारं चाष्टदलं भूपुरत्रितयं लिखेत् || पूज्यबीजं तथा नाम वदेदुच्छिष्टपादुकाम् || ७२७ ||

पूजयामीति चोच्चार्य देवतापूजनं मतम् || त्रिकोणेषु च रत्याद्याः कोणान्ते तु त्रिशक्तयः || ७२८ ||

इच्छाज्ञानक्रियाख्याश्च पूज्याश्चाङ्गानि बाह्यतः || द्राविण्याद्याः पञ्चकोणे सम्पूज्याः कामशक्तयः || ७२९ ||

तद्बाह्याष्टदले पूज्याश्चाष्टदीर्घस्वरान्विताः || ब्राह्म्याद्याः कन्यकानाम्न्यो द्वितीयेष्टदले तथा || ७३० ||

अनङ्गकुसुमाद्याश्च कन्याख्यास्ताः प्रपूजयेत् || उर्वश्याद्याः षोडशारे कन्यकाख्याः प्रपूजयेत् || ७३१ ||

उर्वशी मेनका रम्भा घृताची मञ्जुकेशिका || काश्यपी च सुकेशी मञ्जुघोषा नागकन्यका || ७३२ ||

यक्षकन्या च गन्धर्वकन्या वै सिद्धकन्यका || परकायप्रवेशिन्याः कन्यकां दूरदर्शनाम् || ७३३ ||

गुटिकां सिद्धकन्यां च पादुकासिद्धकन्यकाम् || ततश्चतुर्षु द्वारेषु पूजयेद्द्वारदेवताः || ७३४ ||

ततं च विततं चैव धनं च सुषिरं तथा || बटुकं च गणेशं च क्षेत्रपालं च योगिनीम् || ७३५ ||

उच्छिष्टशब्दपुरतः पादुकां पूजयाम्यथ || स्वनामाद्यक्षरं बीजं कृत्वाग्नेयादिके यजेत् || ७३६ ||

पुनः सर्वोपचारैश्च मध्ये भगवतीं यजेत् || प्. ४७२) स्वराः सर्वे श्रुतियुता वामभागे ततः परम् || ७३७ ||

रतिश्च रागिणीयुक्ता पूज्या पार्श्वे च दक्षिणे || अभ्यर्चेत्परमेश्वर्याः पाश्वर्योः शुकसारिके || ७३८ ||

पुरतो गुरुपंक्तिं च स्वगुरुं पूजयेत्ततः || बीजत्रयन्तु बालायाः साधकस्य शुभं भवेत् || ७३९ ||

यत्किञ्चिद्वाथ वामायाः कामो वाग्वा रमापि वा || मनोरुच्छिष्टमातङ्ग्या दत्त्वादौ पूजयेन्मनुम् || ७४० ||

तेनानेके मन्त्रभेदाः पूजाद्यं च यथेच्छया || गौरवाल्लाघवाद्वापि कर्तव्यन्तु यथोचितम् || ७४१ ||

शुचिः स्रग्वी सुवस्त्रश्च जपेल्लक्षमतन्द्रितः || उच्छिष्टभक्तेन बलिं निशि नित्यं निवेदयेत् || ७४२ ||

नित्यं जपं च काम्यं च उच्छिष्टेनैव चाचरेत् || पलाशकुसुमैः स्वादुयुक्तैर्होमं तथात्र तु || ७४३ ||

एतावता न सिद्धिश्चेद्वर्णलक्षं जपेन्मनुम् || कुमारी पूजनं प्रोक्तं कुर्यात्तदपि साधकः || ७४४ ||

योगिन्यष्टाष्टकस्यापि पूजाकार्यात्र मन्त्रिणा || उच्छिष्टभक्तशेषेण रात्रौ तस्यै बलिं हरेत् || ७४५ ||

पूर्वोदितेन मनुना मन्त्रोयं तेन सिध्यति || जपेच्चतुर्दशावृत्तिं पूजनानन्तरं मनुम् भूपतीनां पूजनीया नारीणां च विशेषतः || ७४६ ||

अष्टोत्तरसहस्रेण ताम्बूलं मनुनामुना || जपितं भक्षयेद्या स्त्री याचितानङ्गभोगिका || ७४७ ||

मन्त्रिणश्च वशे तिष्ठेद्यावदायुर्न संशयः || सहदेवी तथा दूर्वा मुसली मधुयष्टिका || ७४८ ||

भद्रा च विष्णुदयिता लक्ष्मीवल्लीन्द्रवल्यपि || अञ्जलिन्यपि सम्प्रोक्ता पृथगेताः स्पृशञ्जपेत् || ७४९ ||

अष्टोत्तरशतं मन्त्री ततस्तन्मूर्ध्नि धारयेत् || नरो नारी नृपो वाथ धत्ते हर्षसमूहकम् || ७५० ||

इन्द्राग्निविष्णुयुग्माङ्कमन्वष्टवसुदिग्गताः || पृथग्जप्ताः शतशतमेताः संयोज्य पेषयेत् || ७५१ ||

शुष्कास्तु गुटिका मन्त्रजप्ताश्चाथ सहस्रशः || ललाटे च धृताः सम्यक्सर्वस्त्रीजनरञ्जिकाः || ७५२ ||

भवन्ति सर्वलोकस्य दक्षारञ्जनकर्मणि || ७५३ ||

कुर्याच्च गुटिकां रेणुसंमितां मन्त्रवित्तमः || तूलवर्त्त्या च कृष्णाज्ययुक्तया कज्जलं धृतम् || ७५४ ||

सहस्रमनुना जप्तं मन्त्रितं नेत्रयोः शुभम् || प्रत्यहं च जगद्वश्यं नारीसंक्षोभकारकम् || ७५५ ||

प्रेतग्रहगणादींश्च नाशयेदचिरादपि || पूर्वोक्तैर्दशभिर्द्रव्यैः पञ्चगव्यैश्च कापिलैः || ७५६ ||

युक्तं च भसितं जप्तं सहस्रं मनुनामुना || प्. ४७३) घृतं ललाटे भुवनं वशयेच्चैव नान्यथा || ७५७ ||

क्षौमे पटे प्रविन्यस्य वर्तिकारचिताशुभा || विष्ण्वाह्वाकुमुदश्यामपद्मरेणुसुगर्भिता || ७५८ ||

कृष्णगोसर्पिषादीप्ता तदुत्पन्ना च या मषी || मातङ्गीमनुना जप्ता नेत्राक्ता रञ्जनी नृणाम् || ७५९ ||

तद्वन्नमस्कारिणी संगदिता नात्र संशयः || सविष्णुदयितालक्ष्मीर्भृङ्गराजोद्भवं रजः || ७६० ||

एतद्भावितवर्तिः सा कपिलाज्यप्रदीपिता || तज्जातापि मषीपूर्वं फलदा नात्र संशयः || ७६१ ||

कर्पूरं चन्दनं पद्मयुगं बकुलरोचने || त्रैलोक्यं वशयत्येषामषी तत्सम्भवा भृशम् || ७६२ ||

विजयं चेन्द्रियाणां च फलंक्रमुकसम्भवम् || मूलैर्निर्वास्य नीरैश्च तन्तुभिर्वेष्टयेत्फलम् || ७६३ ||

भुवः सूनोर्दिने भूमौ स्थापयेत्तत्फलं ततः || आभौमवारसंजप्तं कर्पूरं तत्फलं ततः || ७६४ ||

पिष्ट्वा चैवाम्बुना जप्त्वा गुटिकाः कारयेद्बुधः || ससूरकमिता एताः खादिता वश्यदाः परम् || ७६५ ||

हेमपञ्चाङ्गकं चात्ममलपञ्चकसंयुतम् || सहस्रवारसंजप्तं भक्षयेत्पानकेषु च || यस्मै दत्तं नरेशाय स वश्यो नात्र संशयः || ७६६ ||

पूर्वमन्त्रोदितान्सर्वान्प्रयोगान्मन्त्रवांश्चरेत् || अथातः सम्प्रवक्ष्यामि द्वात्रिंशद्वर्णकं मनुम् || ७६७ ||

तारो [ओं ह्रीं ऐं श्रीं नमो भगवति उच्छिष्टचाण्डालि श्रीमातंगीश्वरि सर्वजनवशंकरि स्वाहा |
इति मन्त्रः] माया वाग्रमा च नमो भगवतीति च || उच्छिष्टचाण्डालि पदं श्रीमातङ्गि तथेश्वरि || ७६८ ||

सर्वजनवशंकरि स्वाहान्तोयं मनुः स्मृतः || मातंगो मुनिरस्योक्तोनुष्टुप्च्छन्दश्च देवता || ७६९ ||

मातङ्ग्याः स्यादंगषट्कं मन्त्रार्णैर्वेदषड्रसैः [ओं ह्रीं ऐं श्री हृदयाय नमः नमो भगवति शिरसे स्वाहा उच्छिष्टचाण्डालि शिखायै वषट् श्रीमातङ्गीश्वरि कवचाय हुम् सर्वजनवशंकरि नेत्रत्रयायवौषद स्वाहा-अस्त्राय फट्] || षडष्टबाहुभिश्चेति ध्यायेच्छ्यामां सुलोचनाम् || ७७० || शुकोदितं च शृण्वन्तीं रत्नपीठोपरि स्थिताम् || रक्ताम्बरां सुरापानमत्तां पद्मस्थसत्पदाम् || वल्लकीं वादयन्तीं तां मातङ्गीं हृदि भावयेत् || ७७१ ||

जपोयुतसहस्रन्तु होमः पुष्पैर्मधूकजैः || मध्वक्तैश्च यजेत्पीठे वक्ष्यमाणविधानतः || ७७२ ||

त्रिकोणाष्टदलद्वन्द्वं कलारं चतुरस्रकम् || पीठं कृत्वा यजेत्तस्मिन्पीठशक्तीर्नवेष्टदाः || ७७३ ||

विभूतिरुन्नतिः कान्तिः सृष्टिः कीर्तिश्च सन्नतिः || व्यूढिरुत्कृष्टिर्-ऋद्धिश्च मातंग्यन्ता इमाः स्मृताः || ७७४ ||

प्. ४७४) सर्वशक्तिकमन्त्रान्ते [ओं ह्रीं ऐं श्रीं सर्वशक्तिकमलासनाय नमः] चासनाय हृदन्तकः || तारमायावाग्रमाद्यः पीठमन्त्रः कलार्णकः || ७७५ ||

विष्टरासनमेतेन पाद्यादीनि प्रकल्पयेत् || मूलेन पीठपूजान्ते कुर्यादावरणार्चनम् || ७७६ ||

त्रिकोणेष्वर्चयेत्तिस्रो रतिप्रीतिमनोभवाः || केशरेषु षडंगानि मातॄश्च दलमध्यगाः || ७७७ ||

द्वितीयेष्टदले पूज्या असितांगादिभैरवाः || षोडशारे तु वामाख्या ज्येष्ठा रौद्री प्रशान्तिका || ७७८ ||

श्रद्धा माहेश्वरी चापि क्रियाशक्तिश्च सप्तमी || सुलक्ष्मीः सृष्टिमोहिन्यौ प्रथमाचारिणी तथा || ७७९ ||

विद्युल्लता च चिच्छक्तिः सुरापा नन्दया सह || नन्दबुद्धिः षोडशी तु पूजनीयाः प्रयत्नतः || ७८० ||

चतुरस्रचतुर्दिक्षु मातंगी सा महादिका || लक्ष्मीस्तथा महालक्ष्मीः पुनर्वह्न्यादिकोणतः || ७८१ ||

ध्रुवादिकं यजेदादौ मातंगीं परमं ततः || सर्वावरणशक्तीनां ङेन्तं नाम हृदंतकम् || ७८२ ||

विघ्नेशदुर्गाबटुकक्षेत्रेशादिक्सुरास्तथा || वज्राद्याः पूजनीयास्स्युरित्थं सिद्धिर्मनोर्भवेत् || ७८३ ||

रम्भादण्डैः शुभैर्होमाद्भोगो राज्यन्तु बिल्वकैः || पत्रैः फलैर्वा वश्या स्याज्जनता ब्रह्मवृक्षजैः || ७८४ ||

रोगनाशोऽमृताखण्डैर्निम्बैः श्रीस्तण्डुलैरपि || अवृष्टिं लवणैर्विद्यात्तगरैर्वेतसैर्जलम् || ७८५ ||

लवणैर्निम्बतैलाक्तैः शत्रुनाशोधिकाशनम् || निशाचूर्णयुतैः काशैर्होमात्स्यात्स्तम्भनं द्विषाम् || ७८६ ||

रक्तचन्दनकर्पूरमांसीकुंकुमरोचनाः || चन्दनागुरुकर्पूरं गन्धाष्टकमुदीरितम् || ७८७ ||

एतद्धोमाज्जगद्वश्यं जायते मन्त्रिणो ध्रुवम् || एतत्पिष्ट्वायुतं जप्त्वा तिलकेन जगत्प्रियः || ७८८ ||

कदलीफलहोमेन सर्वेष्टं समवाप्नुयात् || किं बहुक्तेन मातङ्गी पूजिता कामदा नृणाम् || ७८९ ||

मध्वष्टलोलरचितां पुत्तलीं दक्षिणार्धतः || हूयादष्टोत्तरशतं खादिराग्नौ नरो निशि || ७९० ||

शालिपिष्टमयीं तां तु भक्षयेत्स्त्री वशीकृते || कृष्णभूतनिशि ध्वांक्षोदरे क्षिप्त्वा शुभप्रभाम् || ७९१ ||

नीलसूत्रेण संवेष्ट्य चिताग्नौ प्रजपेदमुम् || सहस्रजप्तं तद्वह्निं यस्मै दद्यात्स दासवत् || ७९२ ||

एवं गणेश्वराः प्रोक्ताः पश्चिमाम्नायसंस्थिताः || प्. ७७५) मुनिदेव्यादिसेव्यानां काश्यां सङ्ख्या न विद्यते || ७९३ ||

प्रणवादिचतुर्थ्यन्तैर्नमसापि समन्वितैः || स्वबीजाख्यैर्वर्णलक्षजपस्तेषामुदाहृतः || ७९४ ||

इक्षुखण्डैस्तिलैर्वापि कमलाद्यैः प्रमोदकैः || तेषां होमः प्रकर्तव्यो मधुरत्रयसंयुतैः || ७९५ ||

भवन्ति फलदास्ते तु बिन्द्वादिकविनायकाः || आकर्षाद्याश्च बटुका देवतास्ताः फलप्रदाः || ७९६ ||

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते पश्चिमाम्नाय गणपतिमन्त्रकथनमेकोनविंशः प्रकाशः || १९ ||

Prakāśa 20 – Gaṇapati-Mantras der nördlichen Überlieferung

श्रीशिव उवाच ||

अथातः सम्प्रवक्ष्यामि उत्तराम्नायसिद्धादन् || वदेद्धस्तिपिशाचीति लिःलिःस्वाहा नवाक्षरः || १ ||

कंकालोस्य मुनिश्छन्दो विराडुच्छिष्टनामकः || गणेशो देवता प्रोक्तस्सर्वसम्पत्प्रदायकः || २ ||

द्वित्रीन्द्विन्दुद्विभिश्चापि पचाङ्गविधिरीरितः || ध्यानं पूजापुरश्चर्यादिकं स्याद्वक्रतुण्डवत् || नवलक्षोः जपः प्रोक्तः काम्यकर्माण्यथ ब्रुवे || ३ ||

प्रतिमां कारयेद्धिमान्निम्बकाष्ठमयीं शुभाम् || साध्यांगुष्ठप्रमाणां च गणेशस्य महात्मनः || ४ ||

स्पृष्ट्वा तां प्रजपेन्मन्त्रं काम्यसिद्धिस्ततो भवेत् || षष्ठ्यां चैव चतुर्दश्यां कृष्णपक्षे च मन्त्रवित् || ५ ||

उच्छिष्टो रात्रिमध्ये तु जपेन्मन्त्रमिमं शुभम् || वाञ्छितं वशमायाति साधकस्य न संशयः || ६ ||

भूर्जपत्रे समालिख्य साध्यनाम यथाविधि || मन्त्रेण वेष्टितं कृत्वा जपेन्मन्त्रमनन्यधीः || पादेनाक्रम्य तत्पत्रं हस्तकृष्टिरियं मता || ७ ||

लिखित्वा पूर्ववत्पत्रं पूजयित्वा विधानतः || साध्यं स्मृत्वा जपेन्मन्त्रं सर्वलोकं वशं नयेत् || ८ ||

धारयेन्मस्तके यन्त्रं जपन्मन्त्रमनन्यधीः || राजानं राजपत्नीं वा कर्षयेत्तत्क्षणात्सुधीः || ९ ||

ताम्बूलपत्रपुष्पाणि वस्त्राण्याभरणानि च || फलमूलादिवस्तूनि समादाय जपेन्मनुम् || एकविंशतिवारान्हि दद्यादिष्टाय नान्यथा || १० ||

वशकृत्सर्वलोकानां प्रयोगोयं प्रकीर्तितः || श्रीखण्डधूपदानेन राजानं वशमानयेत् || ११ ||

समिधो निम्बकाष्ठस्य कटुतैलसमन्विताः || काकपक्षसमायुक्ता हुत्वा मन्त्री यथाविधि || चिताग्नौ भूरि शत्रुं स उच्चाटयति नान्यथा || १२ ||

उलूककाकयोः पक्षांस्तद्वसारक्तसंयुतान् || प्. ४७६) श्मशानाग्नौ तु जुहुयाद्विद्वेषः स्निग्धयोर्भवेत् || १३ ||

शत्रुपादरजोयुक्ता चक्रिहस्तमृदं बुधः || श्मशानभस्मसंयुक्तामुद्वर्तनसमन्विताम् || शत्रोस्तत्पुत्तलीं कुर्यात्सर्वावयवशोभिताम् || १४ ||

तस्या हृदि लिखेन्नाम मूलमन्त्रेण वेष्टयेत् || कृत्वा प्राणप्रतिष्ठान्तु विषरक्ताढ्यपात्रके || १५ ||

स्थापयित्वा जपेन्मन्त्रं सम्यगेकाग्रमानसः || म्रियतेरिर्न सन्देहो देवताभिः सुरक्षितः || १६ ||

चितायां दग्धदम्पभ्योर्भस्मादाय यथाविधि || रोचनाकुंकुमाभं च भूर्जे नाम समालिखेत् || १७ ||

वेष्टितं मूलमन्त्रेण प्राणस्थापनमाचरेत् || साध्यं स्मृत्वा जपेन्मन्त्रं सम्यगष्टोत्तरं शतम् || द्विष्टयोर्जनयोः सम्यक्स्नेहो भवति तत्क्षणात् || १८ ||

अथ मन्त्रातरं वक्ष्ये चोच्छिष्टस्य गणेशितुः || ओं ह्रीं क्लींह्रीं समुच्चार्य ह्रींह्रीं घेंघें तथा च फट् || १९ ||

स्वाहान्तो भववर्णोयं प्राग्वद्ध्यानादिकं मतम् || मुन्यादयः प्रयोगाश्च वर्णलक्षमितो जपः || २० ||

अथान्यत्सम्प्रवक्ष्येहं चोच्छिष्टस्य महामनुम् || ओं ह्रीं क्रीं च समुच्चार्य ह्रीं हुंघेंघें तथा च फट् || २१ ||

एकदष्ट्रायेति [एकदंष्ट्राय हस्तिमुखलम्बोराय उच्छिष्टात्मने क्रांक्लूं ह्रींह्रीं घेंघें स्वाहा ||] हस्तिमुखलम्बोदराय च || उक्त्वोच्छिष्टात्मने क्रांक्रूंह्रींह्रींघेघेग्निगेहिनी || २२ ||

सप्तविंशतिवर्णोयं वक्रतुण्डषडर्णवत् || चतुर्थ्यन्तं [पूर्वोक्त उच्छिष्टात्मने एतत्पदस्याग्रे हस्तिमुखाय योजनेन त्रिनेत्रामितमनुर्भवति ||] हस्तिमुखददमात्रं यदोच्चरेत् || २३ ||

त्रयोविंशतिवर्णस्तु तस्य मंत्रः प्रकीर्तितः || मुन्यादिदेवतोच्छिष्टगणनाथः प्रकीर्तितः || २४ ||

प्राग्वज्ज्ञेयं प्रयोगादि सिद्धिः कलियुगे द्रुतम् || अथान्यत्सम्प्रवक्ष्यामि मन्त्रं षड्विंशवर्णकम् || २५ ||

तारो [ओं नमो भगवते एकदंष्ट्राय हस्तिमुखलम्बोदराय उच्छिष्टमहात्मने क्रौंकॢंह्रौंह्रं घेघे स्वाहा ] नमो भगवते एकदंष्ट्राय हस्ति च || मुखलम्बोदरायेइ तथोच्छिष्टमहात्मने || २६ ||

क्रौं क्लौं ह्रौं ह्रुं ततो घेंघें स्वाहान्तोयम्मनुर्मतः || ऋष्यादिकं पुरा प्रोक्तं क्रौंक्लुंह्रुं [क्रौं हृदयाय नमः क्लूं शिरसे स्वाहा ह्रुं शिखायै वषट् घें कवचाय हुम् घें नेत्रत्रयाय वौषट् क्रौक्लूं ह्रौं ह्रूं घेघे अस्त्राय फट्] च घे द्वयम् || एतैः षडङ्गं कुर्वीत प्राग्वद्ध्यानं च पूजनम् || २७ ||

अथान्यमस्य वक्ष्यामि द्वादशार्णं महामनुम् || ह्रींगं हस्तिपिशाचि लिखेत्स्वाहेति मन्त्रकः || २८ ||

नवार्णमन्त्रवत्सर्वं ध्यानपूजादिकं मतम् || पुरश्चर्यार्कलक्षास्यात्प्रयोगादि च पूर्ववत् || २९ ||

प्. ४७७) तारो [ओं नमः उच्छिष्टगणेशाय ||] नमोच्छिष्टगणेशाय दशाक्षरो मनुः || ध्यानपूजाप्रयोगादि सर्वमस्य दशार्णवत् || ३० ||

दशाक्षरस्यास्य चान्ते कथितश्चेन्नवाक्षरः || एकोनविंशवर्णः स्यात्तदा मन्त्रः सुसिद्धिकृत् || ३१ ||

ध्यानपूजादिकं सर्वं विज्ञेयं तु नवार्णवत् || द्वयगद्वित्रिद्विद्विभिश्च [ओं हस्तिमुखाय लम्बोदराय उच्छिष्टमहात्मने आंक्रोंह्रींक्लीं ह्रींहुंघेघे-उच्छिष्टाय स्वाहा] मन्त्रार्णैः स्यात्षडङ्गकम् || ३२ ||

अथान्यत्सम्प्रवक्ष्यामि द्वात्रिंशद्वर्णकं मनुम् || तारं हस्तिमुखेति च ङेन्तं लम्बोदरं वदेत् || ३३ ||

उच्छिष्टेति महात्मेति ने आंक्रींह्रीं समुच्चरेत् || क्लीह्रीं हं घेद्वयं चापि उच्छिष्टायाग्निगेहिनी || ३४ ||

रसेषुसप्तषट्षट्कनेत्त्रार्णैरङ्गकल्पनम् || उच्छिष्टगणनाथस्य मन्त्रेष्वेषु न शोधनम् || ३५ ||

सिद्ध्यादि चक्रमायादौ प्राप्तास्ते सिद्धिदा गुरोः || मनवोमी सदा गोप्या न प्रकाश्या इतस्ततः || ३६ ||

वाममार्गाराधनं तु विनानेन न सिध्यति || जातिभ्रंशो निर्धनत्वं वंशच्छेदोन्यथा भवेत् || ३७ ||

अथातः सम्प्रवक्ष्यामि कृतयुक्तास्तु शक्तयः || ब्राह्मणेभ्यः सदा गोप्या विशेषाद्वेदकर्मणः || ३८ ||

उच्छिष्टचाण्डलिनीति सुमुखी च महापिशा || चिनि ह्रीं वत्रयं बिन्दुविसर्गाभ्यां च संयुतम् || ३९ ||

विंशत्यर्णो मनुः [उच्छिष्टचाण्डालिनि सुमुखि महापिशाचिनि ह्रींवंवंवः] प्रोक्तो भजतामिष्टसिद्धिकृतम् || यस्य तिष्ठति मन्त्रोयं न स विघ्नैस्तु बाध्यते || ४० ||

शवोपरि समासीनां रक्ताम्बरपरिच्छदाम् || रक्तालङ्कारसंयुक्तां गुणहारविराजिताम् || ४१ ||

रक्तां षोडशवर्षां च पीन्नोन्नतघनस्तनीम् || उच्छष्टेन बलिं दत्त्वा जपेत्तद्गतमानसः || ४२ ||

उच्छिष्टेन प्रकर्तव्यो जपोस्याः सिद्धिमिच्छता || उच्छिष्टं जपतो ह्यस्य जायन्ते सर्वसिद्धयः || ४३ ||

स्थण्डिलं मण्डलं कृत्वा चतुरस्रं समाहितः || पूजयेन्मण्डलं देव्या मूलमन्त्रेण मन्त्रवित् || ४४ ||

तत्र चाग्निं समाधाय वह्निरूप व्यवस्थिताम् || देवीं ध्यात्वा चरेद्धोमं दधिसिद्धार्थतण्डुलैः || सहस्रैकं विधानेन राजा भवति वश्यगः || ४५ ||

मार्जारस्य तु मांसेन यो देव्यै होममाचरेत् || स प्राप्नोति परां विद्यां शस्त्रशास्त्रवशीकृताम् || ४६ ||

कुर्याच्छागस्य मांसेन होमं मधुसमन्वितम् || सहस्रैकं विधानेन भवन्ति धनसिद्धयः || ४७ ||

प्. ४७८) विद्याकामश्चरेद्धोमं शर्कराघृतपायसैः || मासात्तस्य भवन्त्येव सिद्धा विद्याश्चतुर्दश || ४८ ||

रजस्वलाया वस्त्रेण मधुना पायसेन च || होमं कृत्वा महादेवि त्रैलोक्यं वशमानयेत् || ४९ ||

नागवल्या चरेद्धोमं मधुना सहसर्पिषा || अयुतैकं विधानेन सिद्धयोष्टौ भवन्ति च || ५० ||

नरमार्जारमांसेन घृतेन मधुना सह || चाण्डालकेशयुक्तेन भवदाकर्षणं धुर्वम् || ५१ ||

तथा बकस्य मांसेन मधुना लोलितेन च || कृत्वा होममवाप्नोति विद्यावित्तवरानाः || ५२ ||

मधुरार्कस्य होमेन चितावह्नौ तु मन्त्रवित् || कोकिलाकाकपक्षैश्च होमाच्छत्रून्विनाशयेत् || ५३ ||

उच्चाटनाय शत्रूणां होमं कुर्याच्च मन्त्रवित् || पूर्वोक्तेन विधानेन चिताकाष्ठहुताशने || ५४ ||

उलूककाकपक्षाभ्यां कृत्वा होमं निरन्तरम् || शत्रून्विद्वेषयेद्द्वेष्टा चान्योन्यकलहाकुलान् || ५५ ||

उलूकपक्षहोमेन गर्भपातो भवेत्स्त्रियाः || सहस्रैकं विधानेन कुर्याद्धोर्म समाहितः || ५६ ||

बिल्वपत्रैः समध्वाज्यैर्मासमेकं निरन्तरम् || वन्ध्यापि लभते पुत्रं चिरञ्जीविनमुत्तमम् || ५७ ||

प्रातरुत्थाय यः कश्चित्कुर्याद्धोमं दिनेदिने || जपापुष्पैराज्ययुतैरष्टोत्तरशतं प्रिये || षण्मासस्य प्रयोगेण भवेदाकर्षणं ध्रुवम् || ५८ ||

देवगन्धर्वकन्याश्च तथा नागादिकन्यकाः || हठाच्चागस्य कामार्त्ता बलादालिङ्गयन्ति तम् || ५९ ||

विद्यायै क्रियते होमस्तिलैः पायसमिश्रितैः || स प्राप्नोति महाविद्यां शास्त्रौघदशशालिनीम् || ६० ||

मधुना रुरुमासेन होमं कुर्यात्प्रयत्नतः || विद्यावान्धनवान्वापि सर्वशास्त्रवशंकरः || ६१ ||

भोजनानन्तरं चास्या बलिं कृत्वा दिनेदिने || शतमष्टोत्तरं मन्त्रमुच्छिष्टेन जपेत्सदा || ६२ ||

उत्कटे वा श्मशाने वा शून्यागारे चतुष्पथे || बलिप्रदानतो देवी प्रत्यक्षा भवति ध्रुवम् || ६३ ||

गोपनीयं प्रयत्नेन कथनीयं न कस्यचित् || गुरुभक्तिश्च कर्तव्या कायेन च धनेन च || ६४ ||

अथातः सम्प्रवक्ष्यामि वामदक्षिणनिर्णयम् || कलौ विष्णुप्रार्थनया सर्वतन्त्रेषु गोपितम् || ६५ ||

मनुष्याः पशवो ज्ञेयाः पशवोपि नराः सुराः || पशवोप्यसुराश्चापि भक्ष्यं पानं च मैथुनम् || ६६ ||

जानन्ति तुल्यं भेदेन शीतोष्णाद्याः षडूर्मयः || सर्वानेव हि बाधन्ते ममानन्दवनेमुतः || ६७ ||

द्वयोस्तुल्या गतिः प्रोक्ता कामक्रोधादिकामतः || प्. ४७९) तत्कथं मनुजाः श्रेष्ठास्त्र त्वां प्रब्रवीमि च || ६८ ||

पशुदेहादन्यलोकसाधनं नैव जायते || नृदेहात्तद्भवेद्यस्मात्तस्माच्छ्रेष्ठा नरा मताः || ६९ ||

यो यस्य धर्मो विहितस्तेन धर्मेण यो व्रजेत् || तस्यैव परलोकोस्ति यावत्पुण्यं वसेद्दिवि || ७० ||

पुनराढ्यगृहे जन्म सत्संगस्चोपजायते || सावधानस्तत्र यदा शास्त्रश्रवणतो भवेत् || तदायं जायते विप्रः श्रोत्रियाणां कले सुराः |
७१ ||

तत्रापि सावधानश्चेद्ब्राह्मधर्मपरो यदा || तदा ममानन्दवने दीक्ष्यते स सभान्तरे || ७२ ||

पुनः कोपि स्वधर्मस्थो ज्ञानाभावाद्वियोनिषु || जायते धर्मसाहाययान्मया काश्यां विमोच्यते || कालस्यांशोधिकस्तत्र जपेच्च बहुजीवति || ७३ ||

उपासना द्विधा प्रोक्ता सकामा कामविच्युता || मोक्षबीजं तु निष्कामा सकामा भवबीजकम् || ७४ ||

पन्थास्तु दक्षिणः श्रेष्ठो वामः श्रेष्ठतरो मतः || यस्तु वामं विजानाति स एव परमो गुरुः || ७५ ||

अहं जानामि सम्पूर्णं पादोनं सनकादयः || अर्धं चापि वशिष्ठाद्याः शक्राद्याः पादसम्मितम् || ७६ ||

जानन्ति नाथाः षष्ठांशं कोट्यंशमितरे जनाः || जानंति कोटयश्चात्र जायंते कृमियोनिषु || ७७ ||

यः करोति सुरापानं जीवन्मुक्तः स जायते || सुरतं यः प्रकुरुते त्रैलोक्यकरणक्षमः || ७८ ||

यो भक्षयति मत्स्यांश्च स शिवो नात्र संशयः || मुद्रां भक्षयते यस्तु स सिद्धीनां पतिर्भवेत् || ७९ ||

मांसं खादति यो मर्त्यस्तस्य मृत्युभयं कुतः || एतस्य चार्थत्रितयं सात्त्विको राजसस्तथा || ८० ||

तामसश्चेति तत्राद्यो वाममार्गो निरूप्यते || तं मार्गं ये विजानन्ति ते मुक्ता नात्र संशयः || ८१ ||

श्रीकृष्णो वाममार्गन्तु फाल्गुनायोपदिष्टवान् || मया चिन्तयता दृष्टस्समुनिश्च निरूपितः || ८२ ||

चाण्डालो वा तुरुष्को वा ब्रह्महा वाथ मत्सरी || श्रोत्रियो वा वाममार्गी भुक्तिमुक्त्योः स भाजनम् || ८३ ||

ज्ञातोयं शुकदेवेन गर्भस्तंभेन धीमता || तं निन्दयति यः पापी विष्ठायां जायते कृमिः || ८४ |||

वाममार्गे च तन्त्राणि मया त्रीणि कृतानि तु || दत्तात्रेयाय चैकन्तु श्रीकृष्णाय तथा परम् || ८५ ||

देव्यै दत्तं तृतीयन्तु दत्तेन तु युगद्वये || बहवो वृष्णिकाद्याश्च वाममार्गेण मोचिताः || ८६ ||

श्रीकृष्णाय तु यद्दत्तं तेन च द्वापरे युगे || प्. ४८०) इह लोकेषु सन्दाय देवलोके प्रवेशिताः || ८७ ||

यत्तन्त्रं तु मया देव्यै दत्तं तेन विमोहिताः || पण्डिता अपि संसारे चान्येषां तु कथास्ति का || ८८ ||

तत्सारं सम्प्रवक्ष्यामि सर्वतन्त्रेषु गोपितम् || कुण्डली शक्तिमुत्थाप्य हठयोगेन भोः सुराः || कृत्वा बुभुक्षितां तान्तु जीवं तस्यैप्रदर्शयेत् || ८९ ||

साजीवभक्षणार्थन्तु मुखं व्याकुरुते यदा || शिरश्चन्द्रामृतं तस्यामुखं यात्येतदीरितम् || ९० ||

जरामृत्युहरं देवाः सुरापानन्तु वामिनाम् || पीत्वापीत्वा पुनः पीत्वा देहो भवति काष्ठवत् || ९१ ||

प्राक्कर्मवेगतो देहे नानाकर्माणि भान्ति च || जीवः प्राप्यात्मसाम्यत्वं नित्यानन्दमयो भवेत् || देहाभिमाने गलिते साधकः स्यान्महेश्वरः || ९२ ||

भ्रामितन्तु कुलालेन चक्रं चरति वेगतः || तथास्य देहश्चरति व्यहङ्कारस्तु कर्मतः || ९३ ||

यथा केशनखादीनां निर्गतानां तु कर्त्तने || तद्वन्न दुःखं भवति ज्ञानिनां देहताडने || ९४ ||

जीवः सर्वगतः केशनखादीनां यथा भवेत् || वृद्धिस्तथास्य देहस्य व्यापारः सम्प्रवर्त्तते || ९५ ||

यथा वृक्षः सजीवोपि पीडया नानुभूयते || तथा चन्द्रसुरामत्तः कामाद्यैर्नानुभूयते || ९६ ||

इडापिङ्गलयोः प्राणान्सुषुम्णायां प्रवर्त्तयेत् || सुषुम्णा शक्तिरुद्दिष्टा जीवोयन्तु परः शिवः || तयोस्तु सङ्गमो देवाः सुरतं नाम कीर्तितम् || ९७ ||

वीर्यपातस्य समये सुषुम्णासन्नमारुते || उत्पद्यते तु यत्सौख्यं तस्मात्कुटिगुणं तु तत् || ९८ ||

समाधिस्थास्तु योगीन्द्रास्तेन सौख्येन निर्वृताः || सहस्रयुगकालन्तु मन्यन्ते ते निमेषवत् || एतदेव रतं प्रोक्तमन्यत्स्याद्रासभं रतम् || ९९ ||

पञ्चक्लेशास्तु मत्स्याः स्युर्विवेकेनैव ताञ्जपेत् || मत्स्यभक्षणमित्युक्तं मुक्तिमार्गनिदर्शकैः || १०० ||

क्लेशकर्मविपाकैश्च ह्याशयैः स्यादसङ्गतिः || तदानीं ह्यानन्दमय आत्मत्वं प्रतिपद्यते || १०१ |

आत्मनो जायते मोदस्ता मुद्राः परिकीर्तिताः || ता ज्ञेया धारणाध्यानसमाध्याख्यास्तु मोक्षदाः || १०२ ||

देहबन्धकरं यत्तु तन्मांसं परिकीर्तितम् || अज्ञानेन यतो जीवो देहपाशेन बध्यते || १०३ ||

अज्ञानभक्षणं प्रोक्तं तन्मांसस्य च भक्षणम् || अज्ञाननाशाज्ज्ञानस्योदयान्मोक्षः प्रजायते || १०४ ||

प्. ४८१) दत्तात्रेयाय यत्प्रोक्तं सात्त्विकं तन्निरूपितम् || अनेन वाममार्गेण मोक्षो भवति सर्वथा || १०५ ||

श्रीकृष्णार्पितसारार्थं तन्त्रराजस्य गृह्यताम् || ददाति यत्तल्लभते हीति शास्त्रेषु निश्चयः || १०६ ||

न मांसभक्षणे दोषो न मद्ये न च मैथुने || प्रवृत्तिरेषा भूतानां निवृत्तिश्च महाफला || १०७ ||

व्यामोहकारकं मद्यं निषिद्धं नरकप्रदम् || ब्राह्मणो न स्पृशेन्मद्यं वैदिके वर्त्मनि स्थितः || १०८ ||

यावद्वेदश्च वेदी च कलौ भूमौ प्रवर्तते || तावन्न ब्राह्मणो मद्यं कलौ सेवेत कर्हिचित् || यथामृतन्तथा मद्यम्प्रोक्तं काले निषेवितम् || १०९ ||

अमृतेन सहोत्पन्नं स्थाने मद्यं सुधायते || विषेणापि समुत्पन्नं तेन मद्यं विषायते || ११० ||

अग्निर्नाम च गायत्री सा प्राप्ताचेद्गुरोर्मुखात् || कुलद्वयविशुद्धेन वैदिकेनैव वर्त्मना || १११ ||

अज्ञाते तन्मुखाग्नौ तु सद्यो बिन्दुः पितेद्यदि || प्रतारको वचोभिर्वा धनबुद्ध्या तथा परम् || इह लोके स दुःखी स्यात्प्रेत्य राक्षसतां व्रजेत् || ११२ ||

यदि तन्त्रक्रियायुक्तो गुरुणा संस्कृतो भवेत् || तदा किञ्चित्सुखं प्राप्य प्रेत्य लक्षाधिपो भवेत् || ११३ ||

विष्णोरप्यर्चनं कुर्यात्तर्पणं सुरया पुनः || अविप्रः सौख्यमाप्नोति प्रेत्य ब्रह्मणि लीयते || गौडी पैष्टी च माध्वी च सुरा इत्यभिधीयते || ११४ ||

राजन्यवैश्ययोर्नेष्टा ब्राह्मणस्य तु का कथा || मन्त्रेण संस्कृतं कृत्वा शक्त्युच्छिष्टं तु यः पिबेत् || मद्यं पुनः पुनः स्तन्यं न पिबेत्स पयो नरः || ११५ ||

दैवात्कदाचिद्विप्रोपि धूर्त्तमन्त्रैः प्रतारितः || दैवेन मद्यपो जातस्तस्योद्धारो मयोच्यते || ११६ ||

त्यजेत्स वैदिकं कर्म तुलसीं नैव संस्पृशेत् || चाण्डालो वा तुरुष्को वा यः कश्चित्कौलमास्थितः || तस्यैव सङ्गः कर्त्तव्यो नान्यविप्रस्य कुत्रचित् || ११७ ||

प्रत्यहम्पूजयेद्देवीं शाक्तैः सङ्गस्तथान्वहम् || देवताञ्चिन्तयेच्छक्तिं तां पुमान्स्वयमेव हि || ११८ ||

एवम्भावनया युक्तः शाक्तैः सङ्गं समाचरेत् || प्राणस्यायमनाद्वापि भेषजान्मन्त्रतस्तथा || ११९ ||

संस्तभ्य शुक्रम्प्रजपेद्यावत्स्खलति पीङ्गना || शक्त्यग्नौ तद्दशांशेन स्खलनं होम एव तत् || १२० ||

पुनारतं समारभ्य स्खलिताभ्यां च तर्पणम् || पुना रतान्मार्जनञ्च एतदष्टदिनैश्चरेत् || १२१ ||

सम्भोज्याः शक्तयः पञ्च नवमे तु दिने तथा || प्. ४८२) एवं कृते विधाने च देवता वरदा भवेत् || १२२ ||

रौहितकैस्तु तृप्तिः स्याद्वर्षं मासं च माद्गुरेः || त्रिरात्रन्तिमिभिस्तृप्तिः शृंग्या वापि दिनद्वयम् || १२३ ||

भागाष्टकं माषपिष्टं षड्भागोजपलस्य च || सुरस्य च सुपक्वस्य ग्राह्यं भागचतुष्टयम् || १२४ ||

भागद्वयं तण्डुलानां मेथिकाहिंगुजीरकम् || लवणं च तथा योग्यं सुरया मर्दितं दृढम् || १२५ ||

चक्रीकृतं नागवल्लिदलैश्च परिवेष्टितम् || जलयन्त्रे विपक्वं तच्छक्तिमुद्रेयमीरिता || १२६ ||

कालखण्डं कर्करस्य चव्य यन्त्रविपाचितम् || माषाढकीमसूरैश्च चणकान्नैः समन्वितम् || १२७ ||

समभागेन चूर्णेन तच्च हिंग्वादिभिर्युतम् || वटकाः कटुतैलेन पक्वाः स्यान्मुद्रिका परा || १२८ ||

सर्वासामेव मुद्राणां करणं तु जले स्थले || सुरा देयाथ वा मद्यमासवं वा न चेतरत् || १२९ ||

गोधूमचूर्णं मांसं च पक्वं सम्मेलयेद्दृढम् || दिनत्रयं जले स्थाप्यं यावदम्लं प्रजायते || १३० ||

सूक्ष्मं मत्स्यं माषपिष्टं मसूराणां च चूर्णकम् || गोधूमशष्कुलीमध्ये दत्त्वाज्ये परिपाचयेत् || इयं तु परमा मुद्रा शक्तीनामतितृप्तिदा || १३१ ||

धारिका पूरिकाचैव वेष्टनी पूर्ण पूरिका || दक्षमार्गस्थशक्तीनां मुद्रिकाः परिकीर्तिताः || १३२ ||

सम्यक्सुपक्वं मांसं च तथा मत्स्यभवं पलम् || स्विन्नेन हरिमन्थानं द्विदलेन च मेलयेत् || १३३ ||

सम्यक्पिष्ट्वा कटाहे तद्धृतेन परिपाचयेत् || समं च समितं दत्त्वा मरिचानि च पत्रजम् || १३४ ||

लवङ्गं चापि क्षुद्रैलां जातीं कंकोलकं विधुम् || यथोचितं तत्र दत्त्वा मोदकान्कारयेद्दृढान् || वाममार्गगणेशानां मुद्रा परमतोषकृत् || १३५ ||

माषान्मकुष्ठांश्चणकान्मुद्गाढकपरं समम् || सम्यक्पिष्ट्वा निबद्धं च दधि दत्त्वा विलोडितम् || १३६ ||

सूक्ष्मास्य तु वटी बद्धा पङ्कितासितया तथा || एलादिकसुगन्धैश्चोद्धूलिका मुद्रिका मता || १३७ ||

सम्यक्खिन्नस्य मांसस्य राजिकावत्कृतस्य च || शुष्कस्य भानुकिरणैराज्ये पक्वस्य षड्गुणे || १३८ ||

दुग्धं दत्त्वा पचेत्सम्यग्यावद्भवति पिण्डितम् || समिता च समां दत्त्वा कर्पूरादि यथारुचि || मुद्रेयं गणनाथस्य प्रिया तोषकरी सदा || १३९ ||

सम्यक्तित्तिरिमांस च जलयन्त्रेण पाचयेत् || घृतसम्भर्जितं तेन तुल्यं चणकचूर्णकम् || १४० ||

प्. ४८३) संमेल्य भर्जयित्वा च घृते सम्यग्विपाचयेत् || सितया मुद्रिका चेयं गणेशानां प्रियंकरा || १४१ ||

हरिमत्स्यकबिन्दूनां मुद्गानां चूर्णकस्य च || तथा गोधूमचूर्णानां मुद्गचूर्णस्य लड्डुकाः || दक्षिणानां गणेशस्य प्रीतिदा मुद्रिका मता || १४२ ||

अब्राह्मणनराणान्तु मांसं सर्वोत्तमं मतम् || मृगाणां च तथा प्रोक्तं तित्तिरादिकपक्षिणाम् || मांसं तृप्तिकरं ज्ञेयं त्र्यहं कालीयकस्य तु || १४३ ||

दिनाष्टकं यथान्यायं यस्मिन्देशे तु यद्भवेत् || खाद्यमांसं दैवतायै सम्यक्तच्च निवेदयेत् || १४४ ||

पूजायन्त्रं दक्षमार्गे प्रोक्तं गन्धाष्टकेन तत् || लिखेद्वा केशरहिमरोचनाभिः समालिखेत् || १४५ ||

वाममार्गी लिखेदाद्यपुष्पेण यदि यन्त्रकम् || षण्मासपूजनात्तस्य त्वरितं सिद्धिमाप्नुयात् || १४६ ||

युवत्याश्च प्रसूताया अभावे गृह्यते रजः || तदभावे तरुण्यास्तु नीरोगाया रजो मतम् || १४७ ||

तदभावे च कुसुमं ग्राह्यञ्चैवापराजितम् || तस्योर्ध्वभागे निक्षिप्य घर्षितं रक्तचन्दनम् || १४८ ||

तदा गणं मूलमार्गात्तेन यन्त्रं समालिखेत् || तदभावे तु सुरया घृतरक्तकचन्दनैः || १४९ ||

यथोक्तं सलिखेद्यन्त्रं तुष्टा भवति देवता || नवमेत्र प्रकाशेस्ति वाममार्गे सुरोत्तमाः || १५० ||

वाममार्गे प्रवृत्तस्तु पूजालोपं करोति चेत् || नित्यं न कुरुते तस्य देवतातिबुभुक्षिता || सन्ततिञ्चापि सम्पत्तिं भक्षयेन्नात्र संशयः || १५१ ||

प्रतिवर्षं पूजनं तु यन्त्रद्रव्योक्तवर्त्मना || वर्षार्धार्धार्धमासेन देवतातृप्तिकारम् || निर्धनेनैव कर्तव्यो वाममार्गः क्षयावहः || १५२ ||

रतिमात्रे वामिनात्र कर्तव्या बुद्धिरीदृशी || लिङ्गं शिवो भगः शक्तिर्गांगं वारि जलं मतम् || १५३ ||

इति भावनया वामी रतिं कुर्वन्विमुच्यते || अन्यथा स्त्रीगमनेन नरके परिपच्यते || १५४ ||

जीवस्य हनेन पापं वामिनां तन्न विद्यते || यदीदृशी तदा बुद्धिर्नोचेन्निरयमाप्नुयात् || १५५ ||

अवश्यमेव कर्तव्यं मृत्युरोगागतेन च || तस्मादस्य पशोः पापक्षयार्थं गमनाय च || १५६ ||

सुरलोके घातयामि तत्सुखस्यापि सिद्धये || देवतापरलाभेन तमो हन हनाम्यहम् || १५७ ||

इत्थं विचार्य यो हन्यात्तस्य तुष्यति देवता || प्. ४८४) पूर्वजन्मनि यैर्वामिभिः कृतं यदुपासनम् || १५८ ||

सिद्ध्यन्ति ते तु पशवो बलियोग्या भवन्ति हि || देवतासन्निधौ त्यक्त्वा प्राणान्यांति सुरालयम् || १५९ ||

वामिना तु सा कार्या सर्वासु प्रमदास्वपि || देवीबुद्धिः कठोरं वाप्रियं नैव सुसंवदेत् || १६० ||

आत्मजाया तथा नार्यो यक्षिणीप्रमुखाः पराः || वामिना ताश्च भोक्तव्या एष धर्मः सनातनः || १६१ ||

उत्तरायां नैव कोपि पातं वीर्यस्य कारयेत् || चाण्डालीनामपि स्त्रीणां स्पर्शदोषं न मानयेत् || १६२ ||

रजस्वलाभगं दृष्ट्वा कुर्यादेकां पुरस्क्रियाम् || केवलं सुरया होमस्तत्प्रत्यक्षं समाचरेत् || १६३ ||

उत्तिष्ठति तदा कुण्डाद्देवतार्द्धांगदर्शनी || ब्रूयाद्वरं गृहाणेति मनोभीष्टन्तु योर्चयेत् || १६४ ||

स्मशाने वा शून्यगेहे चैत्याधस्ताच्छवोपरि || मुण्डोपर्ययथ वा शौचस्थाने वा शून्यमन्दिरे || सुरास्थाने प्रकर्तव्यं तत्र तिष्ठन्ति देवताः || १६५ ||

शालग्रामो नार्चनीयस्तुलसीं नैव संस्पृशेत् || तीर्थयात्रां न कुर्वीत गङ्गास्नानं न चाचरेत् || १६६ ||

स्नानाभावे जपं कुर्यात्प्रथमर्तुसमन्वितम् || आसनाधोम्बरं कृत्वा जपन्सिद्धिमवाप्नुयात् || १६७ ||

प्रायशो वाममार्गे तु सिद्धमन्त्रो यदा गुरुः || तदैव जायते सिद्धिरन्यथा प्रेतवद्भवेत् || १६८ ||

वाममार्गे द्रुतं सिद्धिः कर्मणा येन जायते || तदहं ते प्रवक्ष्यामि सूक्ष्मसाधनमद्भुतम् || १६९ ||

अष्टम्यां वा चतुर्दश्यां कृष्णायाम्भौमवासरे || गृहीत्वा नृकपालन्तु मद्यम्मांसं तथौदनम् || कुल्माषोन्मिश्रितं कृत्वा गच्छेदश्वत्थभूमिकाम् || १७० ||

एकान्ते निर्जने तस्य तले संलिप्य भूमिकाम् || दण्डमात्रानष्टदिक्षु [दण्डलक्षणं चोक्तं श्रीभास्कराचार्येण || यवोदरैरंगुलमष्टसंख्यैर्हस्तोंगुलैः षड्गुणितैश्चतुर्भिः || हस्तैश्चतुर्भिर्भवतीह दण्डः क्रोशः सहस्रद्वितयेन तेषाम् इति ||] कीलान्मूलेन पूरयेत् || १७१ ||

अष्टोत्तरसहस्रेण सप्ततन्तुकदोरकम् || निबध्नीयात्तत्र पूजां देवतायाः समाचरेत् || १७२ ||

देवीं तु हृदि संस्थाप्य तस्मिन्स्थाने तु दीपकम् || कुर्याच्चैरण्डतैलेनाभावे कापिलहव्यकैः || १७३ ||

तदभावे तु तैलेन कुडवप्रमितेन च || दीपं कुर्यादष्टशतसूत्राणां वर्तिका मता || १७४ ||

तस्योपरि कपालं तत्कज्जलार्थं निवेशयेत् || प्. २८५) दीपं दृष्ट्वा जपेन्मन्त्रं नान्यतस्तु विलोकयेत् || १७५ ||

अर्धे प्रज्वलिते तैले भूतप्रेतपिशाचकाः || नानारूपा भिन्नशब्दाः साधकं भीषयन्ति ते || १७६ ||

न भेतव्यं तदन्नं तुं वामहस्तेन निःक्षिपेत् || तेषामग्रे नान्यदृष्तिः प्रपश्येद्दीपमेव हि || १७७ ||

किञ्चिच्छेषे दीपतैले देवी सा वरदा भवेत् || तस्यै तं च बलिन्दत्त्वा स्तुत्वा संयाचयेद्वरम् || १७८ ||

पूर्वकर्मविपाकेन यदि नायाति देवता || दीपान्ते कज्जलं ग्राह्यं तत्र देवीं प्रपूज्य च || १७९ ||

आनयेत्तद्गृहे सिद्धं दत्त्वाक्ष्णोः स्याज्जगद्वशम् || दत्त्वाक्ष्णोः कज्जलं तच्च प्रयोगानाचरेत्ततः || १८० ||

सर्व एव प्रसिद्ध्यन्ति लोलुपेतिगुरौ सति || रक्षयेदञ्जनं सम्यङ्नोचेद्भवति भैरवः || १८१ ||

इत्येतद्वो निगदितं गणेशरचितं महत् || तद्ब्रुवन्तु सुराः सर्वे वक्तव्यं किमतः परम् || १८२ ||

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते उत्तराम्नायगणपतिमन्त्रकथनं नाम विंशतितमः प्रकाशः || २० ||

Ein dreidimensionales Shri Yantra als begleitendes Bild tantrischer Verehrung; keine Rekonstruktion eines im Text beschriebenen Yantras.

Prakāśa 21 – Sūrya-Mantras

श्रीदेव्युवाच ||

भगवन्देवदेवेश गणेशस्य मया श्रुताः || सरहस्या महामन्त्राः कलौ सिद्धिप्रदायकाः || १ ||

अतः परं देववरः कथं पूज्यो दिवाकरः || ब्रूहि तस्य च के मन्त्राः केष्वाम्नायेषु कीर्तिताः || २ ||

श्रीशिव उवाच ||

एक एवास्य चाम्नायो दक्षिणः परिकीर्तितः || यथायं पावनं विप्रं स्वयमेव करैः स्पृशेत् || ३ ||

उपासना तथैतस्य स्वधर्माचारपूर्विका || चतुर्युगेषु प्रत्यक्षो देवोयं सर्वसम्मतः || ४ ||

सर्वेषामेव देवानां नेत्रभूतो जगत्पतिः || तस्य मन्त्रान्प्रवक्ष्यामि सावधाना भवाम्बिके || ५ ||

ओं घृणिः सूर्य आदित्यो मन्त्रश्चाष्टाक्षरो मतः || देवभागो मुनिश्छन्दो गायत्री देवता रविः || ६ ||

तेजोज्वालामणे हुंफट् स्वाहेति च दशाक्षरः || हृन्मन्त्रः [सत्यतेजोज्वालामणे हुं फट् स्वाहा हृदयाय नमः || ] सत्यपूर्वोयं ब्रह्मपूर्व [ ब्रह्मतेजोज्वालामणे हुंफट् स्वाहा शिरसे स्वाहा || ] शिरोमनुः || ७ ||

विष्णुपूर्व [विष्णुतेजोज्वालामणे हुंफट् स्वाहा शिखायै वषट्] शिखामन्त्रो वर्माणू [रुद्रतेजोज्वालामणे हुंफट् स्वाहा कवचाय हुम् || ] रुद्रपूर्वकः || प्. ४८६) अग्निपूर्वो [अग्नितेजोज्वालामणे हुंफट् नेत्रत्रयाय वौषट्] नेत्रमनुरस्त्रं [सर्वतेजोवालामणे हुंफट्स्वाहा अस्त्राय फट् |
इति षडङ्गं विधाय मूर्तिन्यासं विदधीत स यथा || ] सर्वपदैर्भवेत् || ८ ||

विधायैवं षडङ्गानि न्यसेन्मूर्तीर्यथा क्रमम् || मस्तकाननहृद्गुह्यपाददेशेषु देशिकः || ९ ||

पञ्चह्रस्वैः [ओं आदित्याय नमः मस्तके |
एं रवये नमः मुखे |
उं भानवे नमः हृदये |
इं भास्कराय नमः लिङ्गे |
ओं अंसूर्ययाय नमः पादयोः || इति श्रीसूर्ययस्य मूर्त्तिन्यासविधिः || ] सहादित्यो रविर्भानुश्च भास्करः || सूर्ययस्ततश्च मन्त्रार्णान्प्रणवाद्यान्न्यसेद्बुधः [अथ मन्त्राक्षरन्यासः ओं घृशीर्षणि, ओं णिः मुखे, ओं सू कण्ठे, ओं र्ययः हृदये, ओं आकुक्षौ, ओं दि लिङ्गे, ओं त्यः पादयोः, इत्थं न्यासान्कृत्वा ध्यायेत् || ] || १० ||

ध्यायेत्ततः कुण्डलिनं शतपत्रलसत्करम् || पद्मे चैव समासीनं वरकेयूरभूषणम् || ११ ||

त्रिनेत्रं रक्तवर्णञ्च सुप्रसन्नं दिवाकरम् || पूजयित्वा योगपीठन्तत्पीठे चार्चयेद्रविम् || १२ ||

धर्म्मादीनां स्थले तत्र यजेत्कोणचतुष्टये || ईशानान्मध्यपर्ययन्तं समाराध्यं प्रभूतकम् || १३ ||

विमलञ्च तथा सारं परमं सुखमेव च || तद्बाह्येष्टदलं कृत्वा दलमूलेषु चार्चयेत् || १४ ||

पूर्वादिषु तथा मध्ये दीप्ता सूक्ष्मा जया तथा || भद्रा विभूतिर्विमला ह्यमोघा विद्युता तथा || १५ ||

सर्वतोमुखिका चैता अग्निवर्णाः सुभूषिताः || आसां बीजानि रांरींरूंरैंरोंरौंतु क्रमेण च || १६ ||

रंरश्च नवपीठाणुर्ब्रह्मविष्णुशिवात्मने || सौराय योगपीठाय हृदन्तोष्टादशाक्षरः || १७ ||

अनेन पीठं सम्पूज्य खखोल्कायाग्निगेहिनीम् || मूर्त्ति च कल्पयामीति चोक्त्त्वा मूर्ति प्रकल्पयेत् || १८ ||

तस्यामावाह्य देवेशं तत्र सूर्ययं समर्चयेत् || तद्बाह्येष्टदलं कृत्वा दिग्दलेषु यजेदिमान् || १९ ||

आदित्यञ्च रविं भानुं भास्करं सूर्ययमेव च || आद्यार्णबीजा हृन्ङेन्ता विदिक्पत्रे यजेदिमाः || २० ||

उषां प्रज्ञां प्रभां सन्ध्यां ब्राह्म्यादीश्च दलाग्रतः || सूर्ययस्याग्रेरुणः पूज्योप्यथ विध्वादयो ग्रहाः || २१ ||

तद्बाह्ये भूपुरे पूज्या लोकपालास्तदग्रतः || तदस्त्राणि च तद्बाह्ये भास्करार्चनमीरितम् || २२ ||

अष्टलक्षं जपित्वान्ते दुग्धवृक्षसमिद्वरैः || जुहुयात्तत्सहस्राणि दुग्धाक्तैः साधकोत्तमः || २३ ||

तर्प्पयेच्छुद्धसलिलैश्चन्द्रचन्दनवासितैः [कर्पूर || ] || स्वाभिषेकं ततः कृत्वा ब्राह्मणान्भोजयेत्ततः || २४ ||

प्. ४८७)

एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्त्तुमर्हति || रक्ताम्बरधरो रक्तमाल्यो रक्तानुलेपनः || २५ ||

घृतक्षीरसमायुक्तगुडभक्ताशनो निशि || भिक्षाहारस्तथा वीतसङ्गः सन्तोषवान्सदा || २६ ||

मन्त्रमावर्तयेन्नित्यमाराधनपरायणः || रथमभ्यर्च्य भास्वन्तञ्चार्घ्यं तस्मै निवेदयेत् || २७ ||

प्रत्यहं रविवारे वा तद्विधानमुदीर्ययते || अग्रे मण्डलमालिख्य यजेत्पीठं यथाविधि || २८ ||

तत्र संस्थापयेत्पात्रं शुद्धन्ताम्रसमुद्भवम् || रम्यं प्रस्थजलग्राहि मूलमन्त्रं समुच्चरेत् || २९ ||

शुद्धोदकेन सम्पूर्यय प्रक्षिपेत्तत्र कुंकुमम् || रोचनां राजिकां रक्तचन्दनं वंशतण्डुलान् || ३० ||

श्यामाकतण्डुलाच्छालीन्करवीरजपाभवान् || सञ्चिन्त्य देवतात्मैक्यं भास्करं सम्यगर्चयेत् || ३१ ||

उपचारैर्निवेद्यान्तैस्तत्पिधाय जपेन्मनुम् || सम्यगष्टोत्तरशतं भूयः पुष्पादिभिर्यजेत् || ३२ ||

उद्धृत्यामस्तकं पात्रं जानुस्पृष्टमहीतलः || दृष्टिं निधाय व्योम्न्यर्कं साङ्गं सावरणं स्मरेत् || ३३ ||

ततो जपन्मूलमनुं धिया दद्याच्च भानवे || अर्घ्यं प्रसन्नचेताः सन्दद्याच्च सुमनोञ्जलिम् || ३४ ||

पुनर्नियतधीस्तावद्यावद्भानुर्निजैः करैः || अर्घादिकं समादत्ते जपेदष्टोत्तरं शतम् || ३५ ||

ततः प्रसन्नो भगवान्पयच्छेदिष्टमात्मनः || अनेन तु प्रयोगेण भवेदायुर्निरुग्णता || ३६ ||

वृद्धिः पुत्रकलत्राणान्तेजो वीर्ययं धनं यशः || तन्मन्त्रसहिताम्भोभिः सप्तधाञ्जलिसेचनम् || ३७ ||

पापान्धकारदारिद्र्यनाशनं श्रीकरं परम् || स्थण्डिले स्थापयेत्कुम्भं तीर्थोदकसुपूरितम् || ३८ ||

हिरण्यरत्नगन्धादि तत्र निक्षिप्य पूरयेत् || देवं सपरिवारन्तु प्रागुक्तविधिना ततः || ३९ ||

स्थण्डिलेग्निं समारोप्य कपिलापयसा चरुम् || पचेत्तेनैव जुहुयाद्रव्याज्यसहितेन च || ४० ||

सहस्रं कृतसम्पातं शुद्धपात्रे तु कारयेत् || ऋतुस्नातां सुनियतां पूर्वाङ्गसमुपोषिताम् || ४१ ||

अष्टमे दिवसे तान्तु सहस्रमभिमन्त्रितैः || अभिषिञ्चेत्कुम्भजलैर्दद्यात्तस्यै तु मन्त्रवित् || ४२ ||

सहस्रमन्त्रितं होमसम्पातांतं ततोनिशि || नरोपि सूर्यय एवाहमिति ध्यात्वा तया सह || ४३ ||

सम्भोगमाचरेत्तेन सुपुत्री गुणवान्भवेत् ||

प्. ४८८)

अथ मन्त्रान्तरं वक्ष्ये दिनेशस्य षडक्षरम् || ४४ ||

हंखंखः खोल्कायेति तथान्ते चाग्निगेहिनी || मुनिर्ब्रह्मा च गायत्रं छन्दः सवितृदैवतम् || ४५ ||

सूक्ष्मरूपायाग्निवधूर्मन्त्रेण हृदयं मतम् || सूक्ष्माकारायाग्निवधूरिति मन्त्रेण शीर्षकम् || ४६ ||

सूक्ष्मबालाय स्वाहेति कवचञ्च सनेत्रकम् || सूक्ष्माकाराय हुंफडित्येवं शस्त्रं प्रकीर्त्तितम् || ४७ ||

मन्त्रवर्णैः [ह खं खःखोल्काय अयं षडक्षरो मन्त्रः स्वाहान्तः स्याद्गजाक्षरः || तथातारयुतोष्टार्णो नवार्णोपि प्रजायते || ] षडङ्गंस्याद्ध्यानमस्योच्यतेधुना || रक्तपद्मद्वयं हस्तैर्बिभ्रतञ्च वराभये || ४८ ||

बन्धूकामन्त्रिनेत्रञ्च रविन्ध्यायेत् सुभूषितम् || पूर्वोक्ते पूजयेत् पीठे देवमावाह्य मन्त्रवित् || ४९ ||

लक्षमेकं जपेन्मन्त्रं नियतात्मा जितेन्द्रियः || जुहुयात्तद्दशांशेन बिल्वैरथ पलाशजैः || ५० ||

उदुम्बरसमुद्भूतैस्त्रिमध्वक्तैः समिद्वरैः || ५१ ||

तर्प्पणादि ततः कुर्ययात्प्राक्प्रोक्तविधिना सुधीः || अर्घादिकं च कुर्वीत पूर्ववद्वाञ्छिताप्तये || ५२ ||

एतत्संसेवनान्नॄणां खेचरीसिद्धिरीरिता || न भास्करसमः कश्चिद्भुक्तिमुक्तिप्रदायकः || ५३ ||

प्रणवश्च खखोल्काय मन्त्रः पञ्चाक्षरोस्य च || न्यासो ध्यानं च पूजा च प्राग्वदेव समीरिता || ५४ ||

खंबीजादिक एषोस्ति षडर्णः सप्तवर्णकः || भवेत्तन्न्यासपूजादि ध्यानाद्यङ्गं षडर्णवत् || ५५ ||

सप्ततुरङ्गाय विद्महे सहस्रकिरणाय धीमहि || तन्नो रविः प्रचोदयात् || ५६ ||

इयन्तु सूर्ययगायत्री जपतामिष्टदायिनी || भग्नत्रानां राजपुत्राणां क्षत्रतेजोविधायिनी || ५७ ||

यत्पृष्ठं नारिभिर्दृष्टं स्पृष्टं नैव कदाचन || परस्त्रीभिर्यच्छरीरं पुरश्चर्ययाचतुष्टयम् || ५८ ||

जातिमात्रं राजपुत्रः पुरश्चर्ययाप्रभावतः || सार्वभौमत्वमाप्नोति ब्राह्मणान्प्रतिपालयेत् || ५९ ||

ओं ह्रींहेंसश्चतुर्वर्णो मन्त्रः प्रोक्तो दिनेशितुः || ऋषिर्ब्रह्मा च गायत्री छन्दः सूर्ययश्च देवता || ६० ||

ताराद्यया षडंगानि षड्दीर्घान्वितमायया || देदीप्यमानरत्नौघमुकुटेन विराजितम् || ६१ ||

पाशांकुशवराभीतिकरं रक्तं भजे रविम् || नवशक्तिसमायुक्ते पीठे पूर्वोदिते यजेत् || ६२ ||

प्रकल्प्य मूर्ति मूलेन तत्रावाह्य दिवाकरम् || सम्पूज्य तस्याव रणान्यर्चयेत्क्रमतः सुधीः || ६३ ||

प्. ४८९)

हृल्लेखा गगना रक्ता कराली च चतुर्थिका || महोच्छुष्मा पञ्चमी च मध्यात्पूर्वादिके यजेत् || ६४ ||

अङ्गे द्वितीयावरणं मातृकाभिस्तृतीयकम् || सोमज्ञगुरुशुक्राश्च दिक्ष्वारशनिराहवः || केतुर्विदिक्षु पूज्याश्च चतुर्थावरणं रवेः || ६५ ||

स्वनामाद्यक्षरं बिन्दुभूषितं प्रथमं वदेत् || ङेन्तं हृदन्तं खेटस्य नामपूजामनुर्मतः || ६६ ||

पञ्चमी लोकपालैः स्यात्षष्ठी चापि तदायुधैः || चतुलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः || ब्रह्मवृक्षसमद्भूतैः पुष्पैस्त्रिमधुरप्लुतैः || ६७ ||

सरोजैर्वा तदा देवं तर्प्पयेदभिषेचयेत् || ब्राह्मणाराधनं कुर्ययात्ततः सिद्धो भवेन्मनुः || एवं साधितमन्त्रस्तु काम्यकर्म्माणि साधयेत् || ६८ ||

जपेदेवं प्रतिदिनं रविवारेथवा सुधीः || दद्यादर्घद्वयमपि भवेत्तस्योदितं फलम् || ६९ ||

अथ श्रेयो जनानां [येन जनानां श्रेयो जायते स मनुर्वदिष्यते || ] तु येनासौ वक्ष्यते मनुः || त्र्यक्षरोस्य तु ह्रांह्रींसः प्रोक्तः सर्वार्थदायकः || ७० ||

अजोस्य मुनिरुद्दिष्टो गायत्री छन्द उच्यते || देवतास्य मनोः प्रोक्तः सविता सुरपूजितः || ७१ ||

गुह्यात्पादतले यावद्गलादेर्गुह्यकं ततः || मूर्धादिकण्ठपर्ययन्तं मन्त्रार्णान्विन्यसेत्सुधीः || ७२ ||

मायाबीजेन षड्दीर्घभाजाङ्गानि प्रविन्यसेत् || स्थितः पद्मेरुणे त्र्यक्षोरुणवर्णसुभूषणः || ७३ ||

पद्मद्वयवराभीतिहस्तश्चारुणसेवितः || पूर्वोदिते यजेत्पीठे नवशक्तिसमन्विते || ७४ ||

षडङ्गावरणं चाद्यं प्राग्वच्चैव द्वितीयकम् || दिक्पालैश्च तृतीयं स्याच्चतुर्थन्तु तदायुधैः || ७५ ||

ततश्च तेजश्चण्डाय निर्माल्यं विनिवेदयेत् || जपेद्द्वादशलक्षं च तत्सहस्रं हुनेत्तिलैः || घृताक्तमधुराक्तैश्च यवान्नैश्चैव तादृशैः [घृतमध्वक्तैर्यवैः || ] || ७६ ||

तप्पर्णादि ततः कुर्ययात्प्रयोगान्साधयेदथ || दद्यात्पूर्वोदितं चार्घ्यं दिनेशाय सुसाधकः || ७७ ||

सोप्यस्य धनधान्यादिपुत्रपौत्रविवर्धनम् || करोति रत्नवस्त्रादिभूषणानि विवर्धयेत् || ७८ ||

अष्टपत्राम्बुजं कुर्ययात्तत्र कुम्भान्नव न्यसेत् || पत्रमध्ये कर्णिकायां तांश्च तोयेन पूरयेत् || ७९ ||

नवग्रहान्समावाह्य तेषु कुम्भेषु मन्त्रवित् || कर्णिकाकलशं मूलमन्त्रेणैव सहस्रकम् || प्रजप्यान्येषु तन्मन्त्राञ्छतकृत्वो जपेत्सुधीः || ८० ||

तज्जलैरभिषिञ्चेत्तु साधको मन्त्रवित्तमः ||

प्. ४९०)

मुच्यते नात्र सन्देहः साधको ग्रहदोषतः || ८१ ||

रोगा नश्यन्ति सततं लक्ष्मीश्चापि स्थिरा भवेत् || ग्रहहोमः प्रकर्त्तव्यो ग्रहाणां वै कृते तथा || ८२ ||

चन्द्रभान्वोश्चोपरागे निजर्क्षे वाथ मन्त्रवित् || विग्रहादौ भये चापि घोररूपे महागदे || ८३ ||

पूर्वं मण्डलकं कृत्वा ग्रहान्सम्पूज्य तत्र च || स्वदिक्षु चाग्नीन्संस्थाप्य जुहुयाच्च समिद्वरैः || ८४ ||

अर्कद्विजद्रुमापूराश्वत्थोदुम्बरखादिरैः || शमीदूर्वाकुशोद्भूतैः क्रमाद्धोमः समीरितः || ८५ ||

अष्टाधिकं सहस्रञ्च हुत्वा सूर्ययस्य चाहुतीः || अन्ते चान्यव्याहृतिभिर्हुत्वा होमं समापयेत् || ८६ ||

गुरुं सन्तोष्य ऋत्विग्भ्यो यथा शक्त्या च दक्षिणाम् || दद्याच्च भोजयेद्विप्रान्संग्रामे विजयी भवेत् || ८७ ||

रोगाः शान्तिं व्रजन्त्याशु दीर्घमायुश्च विन्दति || कृत्याद्रोहारिकाणाञ्च शान्तिरेवाशु जायते || ८८ ||

सर्वेषाञ्च ग्रहाणाञ्च होममेकत्र भावयेत् || धनधान्यैश्वर्ययपूर्ण आयुर्दीर्घं स विन्दति || अथान्यत्सम्प्रवक्ष्यामि संग्रामविजयाभिधम् || ८९ ||

मन्त्रं सूर्ययस्य रां हुं च द्व्यक्षरोयं महामनुः || ऋषिश्छन्दो देवताश्च ह्यजगायत्रभानवः || सर्वं पूजादिकञ्चास्य श्रेयोजनकमन्त्रवत् || ९० ||

अथातः सम्प्रवक्ष्यामि हंसोयं द्व्यक्षरो मनुः || ब्रह्मा मुनिः समुद्दिष्टो गायत्रं छन्द उच्यते || ९१ ||

देवी पूर्वन्देवतास्य परमात्मा समीरितः || षड्दीर्घेण सकारेण हंपूर्वेण षडङ्गकम् || ९२ ||

रक्ताब्जकाञ्चननिभं गुणं टङ्कवराभयम् || करैर्दधानं पद्मस्थं हरं गौर्ययङ्कगम्भजे || ९३ ||

पूर्वोदिते यजेत्पीठे दिक्कालादिप्रकल्पिते || तत्र देवं यजेन्मूर्तिं मूलेनाकल्प्य मन्त्रवित् || ९४ ||

पूर्वमंगैर्यजेन्मन्त्री दलेषु च प्रपूजयेत् || ऋतुं वसुं नरञ्चापि परञ्च विदिशासु च || ९५ ||

अब्जां गोजाञ्च ऋतजामद्रिजाञ्च प्रपूजयेत् || ततो लोकेश्वरांश्चापि तदग्रे चायुधान्यपि || ९६ ||

जपेद्द्वादशलक्षञ्च तद्दशांशं तथा हुनेत || सर्पिरक्तेन हविषा तप्पर्णादि ततश्चरेत् || पूर्वोदितेन विधिना सूर्ययायार्घं निवेदयेत् || ९७ ||

गोमयेनोपलिप्तायाम्भूमावष्टदलं लिखेत् || सूर्ययाष्टगन्धैरथ वा चन्दनाभ्यां मनुन्त्विमम् || ९८ ||

लिखेत्तत्कर्णिकायान्तु तस्योर्ध्वं स्थापयेद्घटम् || तीर्थादिजलसम्पूर्णन्तस्योर्ध्वं स्थापयेत्करम् || ९९ ||

प्. ४९१)

दक्षिणं वामहस्तेन मूलमष्टोत्तरं शतम् || जपेत्सुधामयन्तञ्च कलशं हृदि भावयेत् || १०० ||

तेनाभिषिञ्चेत्साध्यन्तु जायते गतभीस्त्वसौ || गतरोगो दीर्घजीवी विपद्बाधापरिच्युतः || १०१ ||

चेत्स्त्री वै नित्यसौभाग्या मन्त्रयेद्दक्षिणङ्करम् || आदौ तेन विधातव्यः करेण करकः शुभः || १०२ ||

अष्टोत्तरसहस्रञ्च मन्त्रयेत्करकं पुनः || भावयित्वा जलन्तच्चामृतन्तेनाभिषेचयेत् || विषिणं निर्विषो भूयात्स्थावराज्जङ्गमादपि || १०३ ||

महासर्प्पेण दष्टश्चेन्मनुना मन्त्रयेत्करम् || विन्यस्येद्दंशिनो मूर्ध्नि मन्त्रयित्वा विषं हरेत् || १०४ ||

मन्त्रं सुधाकरकरशुद्धधाराप्लुतं स्मरेत् || प्लुतञ्चामृतधाराभिर्भावयित्वा मनुञ्जपेत् || १०५ ||

गदिनं मार्ज्जयेत्पश्चात्क्षुद्रामयविनाशनम् || अपस्मृतिन्त्रिदोषोत्थान्रोगान्हन्यान्न संशयः || १०६ ||

शीर्षस्थचन्द्रबिम्बं च स्मरेद्धंसमुरूपकम् [अकारो वासुदेवः स्यादुकारः शंकरः स्मृतः || एतत्कोशप्रमाणेन शिवरूपं बुध्येत || ] || सञ्चिन्त्य प्रजपेन्नित्यं क्षेपयेत्पलितञ्जराम् || १०७ ||

ध्यायेन्मत्रादिमं वर्णं सुधाधारापरिप्लुतम् || द्वितीयञ्चन्द्रधाराभिर्मार्ज्जयेत्तेन मन्त्रवित् || १०८ ||

मार्त्तण्डभैरवस्याथ मन्त्रं वक्ष्यामि सिद्धिदम् || हकारो रेफसंयुक्तः पकारेण समन्वितः || १०९ ||

औकारस्वरसंयुक्तस्तलेब्जाकारसंयुतः || बिन्दुयुक्तं कूटमुक्तं मार्तण्डस्य त्रिवर्णकम् || ११० ||

पुटितं बिम्बबीजेन सर्वकामफलप्रदम् || बिम्बबीजं दक्षमार्गे भजतां सिद्धिदायकम् || वाममार्गेण भजतामादेश्यं किमिदं बुधैः || १११ ||

ब्रह्मामुनिर्निवृच्छंदो मार्त्तण्डाख्यस्तु भैरवः || देवतोक्तोथ हंबीजं बिन्दुः शक्तिः प्रकीर्त्तिता || ११२ ||

मूर्त्तयः पञ्च चोद्दिष्टाः सूर्ययभास्करभानवः || रविर्दिवाकरश्चापि न्यस्तव्या ह्यंगुलीषु ताः || ११३ ||

पञ्चह्रस्वाद्यबीजेन पञ्चदीर्घान्वितेन च || शिरोवदनहृद्गुह्यपाददेशेषु ता न्यसेत् || ११४ ||

ततः षडङ्गनेत्रान्तं कुर्ययाद्दीर्घयुताणुना || अस्त्रन्यासानन्तरन्तु नेत्रन्यासः प्रकीर्त्तितः || व्यापकं मूलबीजेन कुर्वीत तदनन्तरम् || ११५ ||

जपाकुसुमसङ्काशमष्टबाहुं चतुर्मुखम् || मुखेमुखे त्रिनयनं मणिवन्मुकुटान्वितम् || ११६ ||

खट्वांगपद्मचक्राणि शंखं पाशं तथा सृणिम् || अक्षमालां कपालं च दधतं करपंकजैः || ११७ ||

प्. ४९२)

अर्धांगस्थितया शक्त्यालिंगितं हारशोभितम् || पद्मस्थितं हास्यमुखं मार्तण्डं द्युमणिं भजे || ११८ ||

पीठे दीप्तादिभिर्युक्ते प्राग्वद्देवं प्रपूजयेत् || आदावंगानि सम्पूज्य कर्णिकायामुषादिकाः || ११९ ||

पूर्वादिदिक्षु सूर्ययादीन्विदिक्षु परिपूजयेत् || नेत्रमीशानकोणे च तद्बाह्ये खेचरानपि || १२० ||

दिगीशानायुधानीत्थं मार्त्तण्डार्चनमीरितम् || लक्षाणां त्रितयं मन्त्री जपेद्बीजं च बिम्बयोः || दशांशं कमलैः फुल्लैर्जुहुयान्मधुरोक्षितैः || १२१ ||

प्राग्वत्कुर्ययादर्घ्यदानं प्रयोगानाचरेत्ततः || चतुरंगुलसंभूतेः सुमनोभिः श्रियं लभेत् || १२२ ||

लक्षं हुत्वा च शाल्याज्यतिलबिल्वैर्विधानतः || राजानं वशयेच्छीघ्रं जपाकुसुमहोमतः || जुहुयान्मातुलुंगैश्च लभतेर्थं सुवांछितम् || १२३ ||

एवं यः साधयेन्मन्त्री तस्य विद्या यशो बलम् || पुत्रो लक्ष्मीश्च सौभाग्यं सर्वदा विजयो भवेत् || १२४ ||

पूर्वोक्ताष्टाक्षरे तारादग्रे ह्रींबीजमुच्चरेत् || श्रीं मन्त्रोयं दशार्णस्तुपञ्चाम्नायेषु कीर्त्तितः || १२५ ||

ओं ह्रीं ह्रीं ह्रौं सबिन्दुः ससूर्ययायेत्यग्निगेहिनी || दशाक्षरस्तु जप्तोयं द्वादशायुतसंख्यया || दुष्टग्रहास्तु सौम्याः स्यू राजमान्यः सजायते || १२६ ||

उपास्यस्तु कृते विष्णुस्त्रेतायां तु महेश्वरः || इन्द्रयज्ञौ द्वापरे तु कलौ चण्डीविनायकौ || भास्करः सर्वतुल्यस्तु सर्वोषां फलदायकः || १२७ ||

यद्यत्तेजोमयं तत्तज्ज्ञेयं सूर्ययस्वरूपकम् || इत्येतत्तुभ्यमाख्यातं किं वाच्यमथ तद्वद || १२८ ||

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते सूर्ययमन्त्रप्रकाश एकविशः || २१ ||

Prakāśa 22 – Die neun Planetengottheiten

श्रीदेव्युवाच ||

सूर्ययमन्त्राः श्रुता देव तदंशानां खचारिणाम् || श्रोतुमिच्छामि च मनून्सप्रयोगांश्च तान्वद || १ ||

श्रीशिव उवाच ||

साधुपृष्टं त्वया देवि त्रैलोक्यस्योपकारकम् || कालेन कथितं मह्यं तन्मया कीर्त्यतेधुना || २ ||

मायया मम रूपं च ब्रह्मविष्णुमहेश्वराः || तत्त्वतो नैव जानन्ति किम्पुनः शक्तितो जनाः || ३ ||

अप्रत्यक्षं महाविष्णोस्तद्ब्रह्माह्वयमुच्यते || तथा मम ग्रहा रूपं तव मायेति कीर्त्तितम् || ४ ||

ग्रहास्तुष्टास्तदा देवा भूपालाश्चाखिलं जगत् || प्. ४९३) तुष्टं भवति रुष्टेषु शत्रुत्वमुपजायते || ५ ||

कदाचिद्ब्रह्मलिखितं मिथ्या दैवाद्भविष्यति || न तु ग्रहकृतं दुःखं सौख्यं मिथ्याप्रजायते || ६ ||

सौमित्येकाक्षरं बीजं चन्द्रस्य परिकीर्त्तितम् || पंक्तिश्छन्दो देवता च चन्द्रमा भार्गवो मुनिः || सदीर्घनिजबीजेन [आंसौं हृदयाय नमः, ईंसौं शिरसे स्वाहा, ऊंसौं शिखायै वषट्, ऐंसौं कवचायहुम् औं सौं नेत्रत्रयाय वौषट्, अः सौं अस्त्राय फट् इमं न्यासं कृत्वा चां चीं चूं चैं चौं चः एभिः षडक्षरैरङ्गुष्ठादि न्यासं हृअदयादिन्यासं च विदधीत स यथा - चां अंगुष्ठाभ्यां नमः, चीं तर्जनीभ्यां नमः, चूं मध्यमाभ्यां नमः, चैं अनामिकाभ्यां नमः, चौं कनिष्ठिकाभ्यां नमः, चः करतलकरपृष्ठाभ्यां नमः |
चां हृदयाय नमः, चीं शिरसे स्वाहा, इत्यादि || ] षडंगानि समाचरेत् || ७ ||

श्वेताब्जसंस्थं रजतकान्तिहारविराजितम् || नीलकेशं च कुमुदं वामे दक्षकरे वरम् || दधानं भावयेदेवं मृगांकं मणिमौलिकम् || ८ ||

पीठे धर्म्मादिसंयुक्ते गगनं परिपूज्य च || चन्द्रमण्डलपर्ययंतं ततः सम्पूजयेद्विधुम् || ९ ||

राज्ञी कुमुद्वती भद्रा सुधा सञ्जीविनी क्षमा || आप्यायिनी चन्द्रिका च ह्लादिनी नव शक्तयः || १० ||

पूर्वादिक्रमतो मन्त्री मध्यान्ताः पूजयेदिमाः || अमृता तारका ज्योत्स्ना विमला व्यापिनी तथा || चित्रा च कृत्तिका कान्तिः श्रवणा पीठशक्तयः || ११ ||

अमृतान्ते कलात्मने संवित्पीठाय वै नमः || अनेन पीठं सम्पूज्य नाममन्त्रैश्च शक्तयः || १२ ||

किञ्जल्केषु षडंगानि तच्छक्तीः पत्रगा यजेत् || रोहिणी कृत्तिका चैव रेवती भरणी तथा || रात्रिरार्द्रा तथा ज्योत्स्ना कला ध्यानमथोच्यते || १३ ||

सुसिताः श्वेतवसनाः श्वेतमाल्यानुलेपनाः || मुक्ताहारालंकृतांग्यः पाण्यञ्जलिपुटाः शुभाः || १४ ||

आपीनोन्नतवक्षोजहाराक्रांतावलग्नकाः || मंदं मदनगामिन्यः प्राणनाथाक्तमानसाः || प्रसन्नचन्द्रवदनाः फुल्लेन्दीवरलोचनाः || १५ ||

ग्रहानष्टौ कलाग्रेषु लोकेशाश्च ततो यजेत् || वज्रादीनि ततो बाह्येप्येवं पूजा समीरिता || १६ ||

वर्णलक्षं जपेन्मन्त्रं जुहुयात्तत्सहस्रकम् || हविषा घृतसिक्तेन तर्प्पणादि ततश्चरेत् || ततः सिद्धो भवेन्मन्त्रः प्रयोगानाचरेत्ततः || १७ ||

चन्द्रं शिरसि सञ्चिंत्य जपेन्मन्त्रमनन्यधीः || प्. ४९४) त्रिसहस्रं तेन लभते राज्यैश्वर्ययमकिञ्चनः || १८ ||

लघुमिष्टहविस्याशी जलस्थो विजितेंद्रियः || वेदलक्षमितं मन्त्रं प्रजपेद्यतमानसः || धरागतं निधानं स ध्रुवं प्राप्नोति तत्क्षणात् || १९ ||

घोरे ज्वरे महाक्लेशे शिरोरोगे च दारुणे || शत्रूत्पादितकृत्यासु कामलाद्यामयेषुच || अयुतं प्रजपेन्मन्त्रं यच्छांतिरचिराद्भवेत् || २० ||

पूर्णियां जपेन्मत्रं यथाशक्ति जितेंद्रियः || सौभाग्यारोग्यसम्पत्तिभाजनं मनुजो भवेत् || २१ ||

मैत्रवारुणविस्तीर्णमण्डलानां त्रयं बुधः || लिप्ते भूमण्डले कृत्वा निषीदेत्पश्चिमे ततः || २२ ||

मध्यस्थे मण्डले न्यस्य पूजोपकरणानि च || अग्रस्थमण्डले पद्मसंयुते पूर्ववद्यजेत् || २३ ||

विधुं ततो रौप्यजातं पात्रं संस्थाप्य पूरयेत् || शुद्धगोपयसा मन्त्री स्पृशन्पात्रं मनुं जपेत् || २४ ||

अष्टाधिकशतं पश्चाद्राकायामुदये विधोः || चन्द्राय विद्यामनुना [विद्याशब्देन श्रीविद्या गृह्यते तन्मन्त्रेणेति भावः || ] दद्यादर्घं यथाविधि || कान्तिं यथेप्सितां कन्यां सत्कीर्तिं लभते ध्रुवस् || २५ ||

विद्ये विद्यामालिनीयुक् चन्द्रिन्यन्ते च चन्द्रयुक् || मुखि शिरोन्तस्ताराद्यो विद्यामनुरयं स्मृतः || २६ ||

वंसंवमिति चन्द्रस्य त्र्यर्णो मन्त्रोस्य देवता || सोमः श्रीश्छन्द उद्दिष्टमेकतत्त्वो मुनिर्मतः || २७ ||

आकारः शक्तिरुद्दिष्टो रुं बीजं परिकीर्त्तितम् || बीजेनैव षडङ्गानि ध्यानपूजादिपूर्ववत् || २८ ||

चन्द्रस्य मण्डलास्यान्तु ह्युकारं पुटितं स्मरेत् || अमृतं निस्सृतं तेन प्लावितं सकलं वपुः || २९ ||

एवं भावनया तोयं मन्त्रयेत्तिथिवारकम् || समस्तविषरोगाद्यकालमृत्युविनाशनम् || ३० ||

इत्थं सूर्ययोदयात्पूर्वं जलपानं तु यश्चरेत् || पापक्षयायुर्वृद्धी च वलीपलितनाशनम् || ३१ ||

ओंश्रींश्रींश्रूं सबिन्दुः स सो सोमायेत्यग्निगेहिनी || दशाक्षरश्चन्द्रमन्त्रो जप्यश्चाग्रे दयायुतैः || ३२ ||

होमादिकप्रयोगांश्च सर्वं पूर्ववदाचरेत् || एते प्रोक्ताश्चन्द्रमन्त्रा सर्वकल्याणदायकाः || ३३ ||

अथ भौममनुं वक्ष्ये सर्वरोगनिवारणम् || अं च अङ्गारको ङेन्तो हृदन्तश्चाष्टवर्णकः || ३४ ||

प्. ४९५)

ऋष्याद्या ब्रह्मगायत्रीभूमिपुत्राः [ब्रह्मा ऋषिः गायत्रीछन्दः भूमिपुत्रो देवता || ] प्रकीर्त्तिताः || अङ्गषट्कन्त्वस्य मनोरादि [अमिति बीजेन षडङ्गन्यासः || ] बीजेन सम्मतम् || ३५ ||

नमाम्यङ्गारकं रक्तं रक्ताम्बरविभूषणम् || जानुस्थवामहस्ताढ्यंभाजनेतरपाणिकम् || ३६ ||

लक्षाष्टको जपः प्रोक्तः खादिरैरिन्धनैर्हुनेत् || ३७ ||

साज्यैस्सन्तर्प्पणं रक्तचन्दनाद्यैः समाचरेत् || एवं कृते प्रयोगस्य समरे न पराजयः || अनुग्रहात्तस्य लोकस्त्वनृणी व्याधिविच्युतः || ३८ ||

ओंश्रींक्लीं मनुमुच्चार्यय ङेंतो भौमो हृदन्तकः || दशाक्षरो मनुः प्रोक्तो विरूपाक्षो मुनिर्मतः || ३९ ||

गायत्री छन्द उद्दिष्टं देवता मङ्गलो भवेत् || ह्रींबीजं श्रीश्च शक्तिः स्यात्कीलकं क्लीं प्रकीर्त्तितम् || ४० ||

कालादिकं समुच्चार्यय नियोगो ऋणनाशने || षड्दीर्घयुक्तबीजेन अंगुल्यादिषडङ्गकम् || ४१ ||

ब्रह्मरन्ध्रे कर्णयोश्च अक्ष्णोर्नासिकयोर्मुखे || लिंगे गुदे च मन्त्रस्य दशवर्णान्क्रमान्न्यसेत् || ४२ ||

मंगलो भूमिपुत्रश्च ऋणहर्त्ता धनप्रदः || स्थिरासनो महाकायः सर्वकर्म्मावरोधकः || ४३ ||

लोहितो लोहिताक्षश्च सामगानां कृपाकरः || धरात्मजः कुजो भौमो भूमिदो भूमिनन्दनः || ४४ ||

अंगारको यमश्चैव सर्वरोगापहारकः || वृष्टिकर्त्तापहर्ता च सर्वकर्म्मफलप्रदः || ४५ ||

शिखायां मूर्ध्नि भाले च नेत्रयोः कर्णयोर्नसोः || मुखे च चिबुके कण्ठे स्कन्धयोर्भुजयोस्तथा || ४६ ||

पाण्योर्हृद्युदरे नाभौ कट्यां लिङ्गे स्फिचोस्तथा || जान्वोश्च जङ्घयोरंघ्र्योः क्रमान्नामानि विन्यसेत् || ४७ ||

चतुर्थ्यंन्तहृदन्तानि संविद्यादक्षराणि च || ततो ध्यायेद्रक्तवर्णं रक्तमाल्यांशुकावृतम् || ४८ ||

कण्ठे कमलमालाढ्यङ्करयोः शक्तिशूलके || मंगलानां मंगलञ्च सर्वकामफलप्रदम् || ४९ ||

एवन्ध्यात्वा जपेल्लक्षं जुहुयात्करवीरजैः || जपाप्रसूनैः पुरुभिर्मधुरत्रितयान्वितैः || ५० ||

रक्तचन्दनगन्धाद्यैर्यजेदरुणभूषणम् || विधिना भूमितनयं सर्वांभीष्टफलप्रदम् || ५१ ||

अंगान्यभ्यर्च्य पूर्वन्तु मंगलाद्यांस्ततोर्चयेत् || एकविंशतिकोष्ठेषु ततो चाष्टौ ग्रहान्न्यसेत् || ५२ ||

भैरव्यष्टकमर्च्यन्तु ब्राह्मी नारायणी तथा || माहेश्वरी च चामुण्डा कौमारी चापराजिता || ५३ ||

वाराही नारसिंही च ततोष्टौ भैरवा अपि || पूज्या विधानतः सर्वे मन्त्रिणैभिर्मनूत्तमैः || ५४ ||

प्. ४९६)

असितागं रुरुं चण्डं क्रोधमुन्मत्तसञ्ज्ञकम् || कपालिनं भीषणं च तथा संहारभैरवम् || ५५ ||

इन्द्रादिलोकपालांश्च तद्बाह्ये चायुधानि च || पूजयेद्भैरवानेतान्क्रमात्पूर्वोक्तवर्त्मना || एवं सिद्धमनुर्मन्त्री प्रयोगान्कर्तुमर्हति || ५६ ||

पूजोत्तरं भौमवारेंगारकेण त्रिरेखिकाम् || स्वागतो वामपादेन प्रव्रज्याष्टोत्तरं शतम् || ५७ ||

जपेद्दशांशं होमस्य तर्प्पणं पयसा चरेत् || ब्राह्मणं भोजयेदेकं गुडप्रचुरवस्तुभिः || ५८ ||

स्तुत्वा नत्वार्चयेद्देवं साधकः स्थिरमानसः || अनेन क्रमयोगेन निहत्य ऋणमादरात् || लभते महतीं लक्ष्मीं वत्सरेण न संशयः || ५९ ||

विशेषान्मंगले वारे देवमेनं समर्चयेत् || जुहुयात्तर्प्पयेन्मन्त्री प्राप्नुयान्निजवाञ्छितम् || ६० ||

त्रिकोणं पूर्वमुद्धृत्य पञ्चधा विभजेत्ततः || ततस्तृतीयरेख्हन्तु चिह्नाभ्यां लाञ्छयेत्ततः || ६१ ||

आद्यरेखां तु युगलं तृतीयांचिह्नयोर्न्यसेत् || द्वितीयाग्रे समाकृष्य तृतीयांचिह्नयोर्न्यसेत् || ६२ ||

युता रेखा तृतीया तु समभाज्या समन्ततः || तुर्यया चिह्नद्वयेनाथ त्रिभिश्चिह्नैश्च पञ्चमी || ६३ ||

तृतीयाग्रे प्रकुर्वीत पञ्चम्या मध्यचिह्नजे || तुर्ययाग्रे योजयेत्सम्यक्पञ्चम्याश्चिह्नयोर्द्वयोः || ६४ ||

अथ मीनद्वये दद्यात्सूत्रयुग्मं विचक्षणः || एवमेकाधिका सम्यक्कोष्ठानां विंशतिर्भवेत् || ६५ ||

तृतीयातूर्यययोर्मध्ये स्थितं वह्निगृहेर्चयेत् || देवं तदग्रतो मन्त्री त्रिकोणे दक्षिणे क्रमात् || मङ्गलाद्यांस्तारपूर्वान्नमोन्तानेकविंशतिम् || ६६ ||

भौमभक्तस्यैकविंशत्पौरुषी नास्ति निस्स्वता || अथ मन्त्रान्तरंवक्ष्ये भामजस्य महाद्भुतम् || ६७ ||

तारं मायां रमां म्लां च मं मङ्गलपदं वहेत् || ङेन्तं हृदन्तं रुद्रार्णैः प्रोक्तो भौमप्रियो मनुः || ६८ ||

प्राग्वत्पूजादिकं सर्वं चावाहनमनुस्त्वयम् || भगवन्देवदेवेश एह्येहि त्वंमहाप्रभो || ६९ ||

ऐश्वर्ययं वशमायातु भूतलेषु समाश्रितम् || एकविंशतिभिः पुष्पैरक्तैः प्रत्येकमर्चयेत् || रक्तगन्धादिवस्त्रैश्च नैवेद्यं च गुडोदनम् || ७० ||

कृत्वा तु त्रिगुणं भूमावे कविंशतिरोटिकाः || गोधूमचूर्णजास्तत्र स्थापयित्वा प्रभक्षयेत् || ७१ ||

सगुडाः प्रत्यहं जप्यमष्टोत्तरसहस्रकम् || भौमस्तोत्रपुराणादिचर्चया तु दिनं नयेत् || ७२ ||

एकविंशद्दिनं प्रोक्तं यस्य कस्यापि चाग्रतः || याचनीयं योग्यवस्तु सत्वरञ्च प्रयच्छति || ७३ ||

प्. ४९७)

अथ मन्त्रान्तरं वक्ष्ये भूमिपुत्रस्य सिद्धिदम् || ओंहांहंसः खंख इति मन्त्रः प्रोक्तः षडक्षरः || ७४ ||

मुनिर्विरूपो गायत्री छन्दो देवो धरात्मजः || षड्भिर्वर्णैः षडङ्गानि मनोः कुर्वीत साधकः || ७५ ||

जपाकुसुमसङ्काशं शक्तिशूलगदाधरम् || मेषसंस्थं रक्तवस्त्रं तं वन्देहं धरात्मजम् || ७६ ||

रसलक्षं जपेद्धोमः समिद्भिः खदिरस्य च || शैवपीठे यजेद्भौमं प्रागङ्गानि तु पूजयेत् || ७७ ||

एकविंशतिकोष्ठेषु मंगलादीन्प्रपूजयेत् || तद्बहिः ककुभां नाथान्कुलिशादींस्ततोर्चयेत् || इत्थं सुसिद्धं मन्त्रेशं स्वेष्टसिद्ध्यै प्रयोजयेत् || ७८ ||

नारी पुत्रमभीप्सन्ती मङ्गलव्रतमाचरेत् || मार्गशीर्षेथ वैशाखे तस्यारम्भः प्रशस्यते || लभते नात्र सन्देहः पुत्रं सर्वगुणान्वितम् || ७९ ||

अरुणोदयवेलायामुत्थाय शुचिविग्रहा || दन्तान्धावेद्द्वेदमार्गसमिधा मौनसेविता || ८० ||

नद्यादिसलिले स्नात्वा धारयेद्रक्तवाससी || नैवेद्यकुसुमालेपादिकान्सम्पाद्य संयता || विधिज्ञं विप्रमाहूय भौममर्चेत्तदाज्ञया || ८१ ||

रक्तगोगोमयालिप्तदेशे पीठं निवेशयेत् || मङ्गलादीनि नामानि स्वप्रतीकेषु विन्यसेत् || ८२ ||

अंघ्र्योश्च जानुनोरूर्वोः कटौ गुह्ये तथोरसि || वामबाहौ दक्षबाहौ गले च वदने नसोः || ८३ ||

अक्ष्णोर्भाले भ्रुवोर्मध्ये केशिखायां [शिरसि || ] कलेवरे || बाहुद्वयेथ मूर्द्धादिपादपर्ययन्तविग्रहे || ८४ ||

पादतो मूर्द्धपर्ययन्तं तथा दिक्षु प्रविन्यसेत् || आरं वक्रं भूभिजं च नाभौ वक्षसि मूर्द्धनि || एवं न्यस्तशरीरोसौ ध्यायेद्धरणिनन्दनम् || ८५ ||

अर्घ्यं संस्थाप्य विधिवत्पूजयेदुपचारकैः || एकविंशतिकोष्ठाढ्ये त्रिकोणे ताम्रपात्रके || ८६ ||

आवाह्य धरणीपुत्रं स्वर्णपुष्पैश्च चन्दनैः || अङ्गानि पूजयेत्प्राग्वदेकविंशतिकोष्ठतः || ८७ ||

मङ्गलदींस्त्रिकोणेषु वक्रमरं च भूमिजम् || ब्राह्म्याद्या मातृका बाह्ये शक्रादीनायुधान्यपि || ८८ ||

धूपदीपौ निधायाथ गोधूमान्नं निवेदयेत् || जलपूर्णे ताम्रपात्रे धूपदीपाक्षतान्विते || फलं निधाय मन्त्राभ्यां भौमायार्घ्यं निवेदयेत् || ८९ ||

भूमिपुत्र महातेजः स्वेदोद्भव पिनाकिनः || सुतार्थिनी त्वां प्रपन्ना गृहाणार्घ्यं नमोस्तु ते || ९० ||

एकविंशतिकृत्वोथ प्रणमेत्पूर्वनामभिः || प्रदक्षिणा विधातव्या तावद्भिर्नगपात्मजे || ९१ ||

प्. ४९८)

खादिराङ्गारकेणाथ कुर्ययाद्रेखात्रयं समम् || वामपादेन मन्त्राभ्यामेताभ्यां तत्प्रमार्जयेत् || ९२ ||

दुःखदौर्भाग्यनाशाय पुत्रसन्तानहेतवे || कृतरेखात्रयं वामपादेनैव प्रमार्ज्म्यहम् || ९३ ||

ऋणदुःखविनाशाय मनोभीष्टार्थसिद्धये || मार्जयाम्यसिता रेखास्तिस्रो जन्मत्रयोद्भवाः || ९४ ||

ततः पुष्पाञ्जलिं कृत्वा स्तुवीत धरणीसुतम् || ध्यायन्ती चरणाम्भोजं पूजासाङ्गत्वसिद्धये || ९५ ||

धरणीगर्भसंभूतं विद्युत्तेजःसमप्रभम् || कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् || ९६ ||

ऋणहन्त्रे नमस्तुभ्यं दुःखदारिद्र्यनाशिने || नमो विद्योतमानाय सर्वकल्याणकारिणे || ९७ ||

देवदानवगन्धर्वयक्षराक्षसपन्नगाः || सुखं यान्ति यतस्तस्मै नमो धरणिसूनवे || ९८ ||

यो वक्रगतिमापन्नो नृणां दुःखं प्रयच्छति || पूजितः सुखसौभाग्ये तस्मै क्ष्मासूनवे नमः || ९९ ||

प्रसादं कुरु मे नाथ मङ्गलप्रद मङ्गल || मेषवाहन रुद्रात्मन्पुत्रं देहि धनं यशः || १०० ||

एवं सम्पूज्य सम्भूय गृह्णीयाद्ब्राह्मणाशिषः || गुरवे दक्षिणान्दत्त्वा भुञ्जीतान्नं निवेदितम् || १०१ ||

प्रतिभौमदिनं कुर्ययादेवं संवत्सरावधि || तिलैर्विधाय होमं च शतार्धं भोजयेद्द्विजान् || १०२ ||

माहेयमूर्त्तिं [मह्यपत्यप्रतिमाम् || ] सौवर्णीमाचार्ययाय निवेदयेत् || मण्डलस्थे घटेभ्यर्च्य सुतसौभाग्यसिद्धये || १०३ ||

अङ्गारकाय विद्महे शक्तिहस्ताय धीमहि || तन्नो भौमः प्रचोदयात् || १०४ ||

एषाङ्गारकगायत्री जपिताभीष्टदायिनी || एतस्यास्तु जपादेव प्रसीदति धरासुतः || १०५ ||

ओंक्रांक्रींक्रौं सबिन्दुः सकुजायेत्यग्निगेहिनी || दशाक्षरो भौममन्त्रो जप्यश्चायं नवायुतम् || १०६ ||

अथातः संप्रवक्ष्यामि बुधमन्त्रं महाद्भुतम् || बुं ङेन्तो बुधशब्दश्च हृदयान्तः षडर्णकः || १०७ ||

बुधमन्त्रोस्य मुन्याद्या ब्रह्मपंक्तिबुधा मताः || षडङ्गानि स्वबीजेन विन्यस्यैवं विचिन्तयेत् || १०८ ||

वन्दे बुधं सदा देवं पीताम्बरसुभूषणम् || जानुस्थवामहस्ताब्जं साभयेतरपाणिकम् || १०९ ||

प्रजपेद्वर्णसाहस्रं दशांशं जुहुयाद्घृतैः || अर्चनं त्वङ्गखेटाशापतिभिस्त्र्यावृतं स्मृतम् || ११० ||

प्. ४९९)

ओंब्रांब्रींब्रूं सबिन्दुः स बुधायेत्यग्निगेहिनी || दशाक्षरः सौम्यमन्त्रो जपो लक्षैकसङ्ख्यया || १११ ||

ओंजांजींजूं सबिन्दुः स चतुर्थ्यन्तो बृहस्पतिः || वह्निस्त्रीविश्ववर्णोयं जप्यः पञ्चदशायुतम् || ११२ ||

अथातः संप्रवक्ष्यामि गुरुमन्त्रं गुरुत्वकृत् || बृं बृहस्पतये हृच्च मन्त्रश्चाष्टाक्षरो मतः || छन्दोनुष्टुम्मुनिर्ब्रह्मा देवः प्रोक्तो बृहस्पतिः || ११३ ||

बृंबीजं तेन कुर्वीत बीजेनैवाङ्गकल्पनम् || सुवर्णाभं पीतवस्त्रं रत्नस्वर्णाम्बरादिकम् || ११४ ||

किरन्तं दक्षहस्तेन रत्नादीन्वामपाणिना || स्पृशन्तं सम्यगपरं वृषणौ कनकादिकम् || ११५ ||

नानालङ्कारशोभाढ्यं विद्यासागरपारगम् || जपित्वाशीतिसाहस्रं हुत्वा तेन घृतेन वा || ११६ ||

धर्म्मी धर्मादिपीठे तं पूजयेदङ्गदिक्सुरैः || सिद्धे मनौ प्रकुर्वीत प्रयोगानिष्टसिद्धये || ११७ ||

हरिद्राकुंकुमैर्हुत्वा घृताक्तैर्दिवसत्रयम् || सप्तविंशच्छतान्मन्त्री वासांसि लभते मणीन् || ११८ ||

शत्रुरोगादिपीडासु कलहे स्वजनोद्भवे || जुहुयात्पिप्पलोत्थाभिस्समिद्भिस्तन्निवृत्तये || ११९ ||

गुरोरुपासकानां तु जायन्ते सर्वसम्पदः || वस्त्रं [वस्त्रं मे देहि शुं शुक्राय नमः |
इति एकादशाक्षरो मन्त्रः |
] मे देहि शुक्राय हृदयान्तः शुमादिकः || १२० ||

एकादशाक्षरो मन्त्रो विराट् छन्द उदाहृतम् || ब्रह्मा मुनिर्देवता तु शुक्रो दैत्यातिपूजितः || १२१ ||

षड्भिः [वस्त्रं हृदयाय नमः, मे शिरसे स्वाहा, देहि शिखायै वषट्, शुं कवचाय हुम्, शुक्राय नैत्रत्रयाय वौषट्, नमः अस्त्राय फट्] पदैः षडङ्गानि ततो देवं विचिन्तयेत् || शुक्रं नमाम्यासनस्थं मुक्ताभरणभूषितम् || १२२ ||

स्वर्णवासोरत्नधाराचिन्मुद्रात्तकरद्वयम् || अयुतं प्रजपेमन्त्रं सहस्रं जुहुयाद्घृतैः || अङ्गग्रहाशेशहेतिचतुरावरणं [अङ्गग्रहदिक्पालतदायुधैर्मन्त्रस्य चतुरावरणपूजनम् |
] मनोः || १२३ ||

शुक्रस्यो पासको यस्तु तस्य म्लेच्छादयो वशाः || भवन्ति मन्त्रमाहात्म्यान्नश्यन्ते च क्ष यादयः || १२४ ||

मन्त्रान्तरं तु ताराद्यं स्वाहान्तं स्याद्भवार्णकः || बीजं तारोग्निभार्यया तु शक्तिर्मुन्यादि पूर्ववत् || अङ्गेन्द्राद्यायुधैः पूजा त्रिरावृत्यास्य कीर्त्तिता || १२५ ||

सुगन्धैः श्वेतकुसुमैर्जुहुयाच्छुक्रवासरे || एकविंशतिवारान्यो लभते सांशुकं मणिम् ||

प्. ५००)

एतन्मन्त्रोपासकाना प्रभुत्वमुपजायते || १२६ ||

ओं ह्रां [ओं ह्रां ह्रीं ह्रौंसः शुक्राय स्वाहा इति दशाक्षरमन्त्रः || ] ह्रीं ह्रौं सबिन्दुस्सशुक्रायेत्यग्निगेहिनी || दशाक्षरः शुक्रमन्त्रो जप्योयं द्वादशायुतम् || १२७ ||

उदुम्बरसमिद्भिश्च जुहुयात्सकलापदः || भूपैः कृता विनश्यन्ति स्त्रीसौख्यमुपजायते || १२८ ||

शनैश्चराय [शं शनैश्चराय नमः || ] हृदयं समाद्यश्चाष्टवर्णकः || मुन्याद्या [ब्रह्मामुनिर्गायत्रीछन्दः शनैश्चरो देवता अभीष्टसिद्धये शनिप्रीतये विनियोगः || ] ब्रह्मगायत्रीशनैश्चरसमाह्वयाः || षड्दीर्घयुक्तबीजेन षडङ्गानि समाचरेत् || १२९ ||

वन्दे शनैश्चरं वक्रदंष्ट्रं नीलविभूषणम् || वामजानुस्थितं वामकरं दक्षे वरं दधत् || १३० ||

जपेदक्षरसाहस्रं तद्दशांशं हुनेद्धृतैः || षडंगग्रहदिक्पालसायुधैः परिपूजनम् || शनैश्चरस्य भक्तानामापदो न दरिद्रता || १३१ ||

ओंप्रांप्रींप्रौंस इत्युक्त्वा शनैश्चरपदं वदेत् || ङेन्तं स्वाहा द्वादशार्णो जपः प्रयुतसम्मितः || १३२ ||

हुनेच्छमीसमिद्भिश्च क्लीबाः सर्वेस्य वश्यगाः || क्लीबानत्रानयेत्युक्तं साधकोस्य प्रभावतः || १३३ ||

अपरं तु मनुं वक्ष्ये राहवे नम उच्चरेत् || एंपूर्वकः षडर्णोयं वर्णैरेवाङ्गकल्पनम् || मुन्याद्या ब्रह्मगायत्रीराहवः परिकीर्त्तिताः || १३४ ||

वन्दे राहुं धूम्रवर्णं सर्पकार्यं कृता~जलिम् || विकृतास्यं रक्तनेत्रं धूम्रालङ्कारमन्वहम् || १३५ ||

जपेद्वर्णसहस्रं तु होमयेद्गोघृतेन च || ग्रहाशाधिपशस्त्रैश्च पूजावृत्तिरुदीरिता || राहोरुपासको भूपः संग्रामे विजयी भवेत् || १३६ ||

ओंसांसींसौं सबिन्दुः सराहवे चाग्निगेहिनी || दशाक्षरो राहुमन्त्रो जप्यश्चायं दशायुतम् || १३७ ||

दूर्वाभिर्होमयित्वा च द्विजान्सन्तर्प्य सिद्ध्यति || यात्रासिद्धिश्च संग्रामे नियतं विजयो भवेत् || कं केतवे हृदित्येवं केतुमन्त्रः षडर्णकः || १३८ ||

ब्रह्मामुनिर्मतश्छन्दः पंक्तिः केतुश्च देवता || कं बीजं केतुशक्तिश्च बीजेनैव षडंगकम् || १३९ ||

वन्दे केतुं कृष्णवर्णं कृष्णवस्त्रविभूषितम् || वामोरुन्यस्तसद्धस्तं साभयेतरपाणिकम् || १४० ||

अंगैर्ग्रहैश्च दिक्पालैः पूजावृत्तित्रयात्मिका || अत्र तु ग्रहपूजायां पूज्यं मध्ये निवेशयेत् || १४१ ||

तदग्रिमं चोत्तरस्यामीशानादि तदग्रतः || ओं प्रांप्रींप्रौं सबिन्दुः सकेतवे वह्निगेहिनी || १४२ ||

प्. ५०१)

दशाक्षरः केतुमन्त्रो जप्तोयं द्वादशायुतम् || १४३ ||

होमः कुशैः प्रकर्त्तव्यो घृताक्तैस्तर्प्पणादि च || उपासकानामेतस्य केतवोग्रे चलन्ति हि || १४४ ||

अथातः सम्प्रवक्ष्यामि ग्रहमातृसुसाधनम् || ग्रहमातरि तुष्टायां किं ग्रहैर्दुस्स्थितैरपि || ग्रहमातरि रुष्टायां सुग्रहैः किं प्रयोजनम् || १४५ ||

मंगला पिंगला धान्या भ्रामरी भद्रिका तथा || उल्का सिद्धा संकटा च विकटागर्भपालिका || १४६ ||

रुद्रनेत्रान्विताश्चाष्टौ जन्मर्क्षाच्च क्रमाद्दशाः || फलं नामनि रूपं स्यादेकोपचयता द्वयोः || १४७ ||

पिंगला सूर्ययजननी महाधिव्याधिकारिका || तुष्टा चेच्छत्रुवर्गस्य रुष्टा कुर्ययात्तु साधके || १४८ ||

क्षें बीजन्तु समुच्चार्यय पिंगले वैरिवारणि || प्रसीद फडिति प्रोच्याणुस्त्रयोदशवर्णकः || दीर्घषट्कयुजा [क्षां क्षीं क्षूं क्षैं क्षौं क्षः |
एभिरक्षरैः षडंगन्यासं चरेत् || ] पूर्वबीजेनैव षडंगकम् || १४९ ||

पिंगवर्णां पिंगकेशीं पिंगनेत्रां धनुः शरान् || हस्ताभ्यां दधतीं पद्मयुगलं तां भजाम्यहम् || १५० ||

अथ पूजाविधिं वक्ष्ये सर्वासामेव तन्त्रतः || जपापुष्पाणि शस्तानि धूपो गुग्गुलसम्भवः || १५१ ||

घृतप्रदीपोमधुरा नैवेद्याः पायसादयः || अलंकारस्तथा रक्तास्तथा वस्त्राणि चन्दनम् || १५२ ||

स्वर्णालंकरणैश्चापि सद्रव्यैर्बहुचम्पकैः || तर्प्पयेत्परमेशानीं तत्तन्मन्त्रैः सहस्रधा || १५३ ||

सुवर्णपात्रे निश्छिद्रे हस्तायामे मनोरमे || कृत्वा यन्त्रं यथोक्तन्तु योगिनीं तत्र पूजयेत् || १५४ ||

तत्तन्मन्त्रं जपित्वा तु विघ्नशान्त्यै सहस्रशः || सप्ताहेन प्रजायेत त्रिविधोत्पातवारणम् || १५५ ||

ततश्च कुण्डं विधिवत्कृत्वा च चतुरस्रकम् || अथ वा स्थण्डिले शुद्धे सुलिप्ते गोमयाम्बुभिः || १५६ ||

चतुर्हस्तप्रमाणेन योजयेत्स्थिरमानसः || योगिन्यग्निन्तु संस्थाप्य कृत्वा पूर्वोदिताः क्रियाः || अन्यासां दशवारांस्तु विरुद्धायाः सहस्रधा || १५७ ||

बिल्वपत्रैस्तत्फलैश्च कमलैर्नागकेशरैः जुहुयात्पायसान्नेन तथैव कुलवस्तुना || सहस्रमयुतं वापि लक्षं वा कामनाक्रमात् || १५८ ||

अथ पूजां प्रवक्ष्यामि मध्ये देवीं प्रपूजयेत् || इच्छां ज्ञानं क्रियाशक्तिं त्रिषु कोणेषु पूजयेत् || १५९ ||

प्. ५०२)

मन्मथान्पञ्च तदधः पञ्चकोणेषु पूजयेत् || षडङ्गं पूजयेत्पश्चादष्टपत्रेन्ययोगिनीः || तद्बाह्ये भूपुरे लोकपालानस्त्राणि पूजयेत् || १६० ||

पूजाप्रकारो होमश्च सर्वासामयमेव हि || विशेषः पुनरत्रास्ति शत्रूच्छेदाभिचारकैः || १६१ ||

खड्गचर्मधरामुग्रां ध्यायेत्षड्भुजधारिणीम् || गरुडासनमासीनां वैरिनिग्रहकरिणीम् || १६२ ||

लक्षमेकं प्रजप्यादौ जपेल्लक्षं हि तर्प्पयेत् || सर्वशत्रुविनाशः स्याद्दुःखं नाप्नोति कुत्रचित् || १६३ ||

अथातः सम्प्रवक्ष्यामि चन्द्रमातुश्च साधनम् || मायाद्यो [ह्रीं मंगले मंगलालयै स्वाहा || ] वह्निजायान्तो मङ्गले मङ्गलालये || १६४ ||

एकादशाक्षरो मन्त्रो मङ्लायाः प्रकीर्तितः || कृत्वाद्येन षडङ्गानि दीर्घषट्कयुजा तथा || १६५ ||

ध्यायेदेनां त्रिनयनामुद्यदादित्यसन्निभाम् || दरस्मेरमुखाम्भोजां सिन्दूरसुन्दराधराम् || १६६ ||

पद्मद्वये धनुर्बाणान्दधतीं भुजपल्लवैः || सुगुञ्जन्मञ्जुमञ्जीरां काञ्चीगुणविराजिताम् || १६७ ||

एवं ध्यात्वा महेशानीं पूर्ववत्परिपूजयेत् || ततो लक्षं मनुं जप्त्वा तारमायापुरःसरम् || १६८ ||

योगिनीक्षेत्रबटुकगणाधिपबलिं हरेत् || सर्वासामेव पूजान्ते मङ्गलैवं प्रसीदति || १६९ ||

योगिन्यास्तु प्रसादार्थं वर्णलक्षं मनुं जपेत् || दुर्योगिन्यनुकूलार्थं जपेत्तत्सङ्ख्यकायुतम् || १७० ||

अदृष्टप्रतिबद्धस्तु शुभायाश्च फलस्य च || प्राप्तये प्रजपेत्तावत्सहस्रन्तु मनुं सुधीः || १७१ ||

प्रकर्तव्यो [जपः प्रकर्तव्य इति शेषः] वर्णशतं यावत्तुष्टास्ति योगिनी || तुष्टाया वर्णशतकै रोगिणं चाभिमन्त्रयेत् || १७२ ||

वर्णतुल्येन मन्त्रेण यस्याः सेवापरो भवेत् || तस्याः पीडानि वृत्तिः स्याद्वर्णाभ्यन्तर्गतैर्जपैः || १७३ ||

एवंविधिर्नवानां तु विज्ञेयः सुरसत्त माः || योगिनी तुल्यफलदा वामे मार्गे च दक्षिणे || १७४ ||

अथातः सम्प्रवक्ष्यामि भ्रामरीं भौममातरम् || क्षीं भ्रामरीपदं चोक्त्वा सपत्नान्मे अधीश्वरि || भ्रामय क्लीं षड्दशार्णो मन्त्रोस्याः परिकीर्तितः || १७५ ||

पिङ्गलावत्सर्वमस्याः सिद्धये शर्करा दश || मन्त्रयित्वा तथा मार्गे दशदिक्षु च सन्त्यजेत् || १७६ ||

प्रातस्ततो व्रजेन्मार्गं मार्गस्थास्सर्व एव हि || सर्वे मोहं समायान्ति व्याघ्राः सर्प्पाश्चतस्कराः || शुल्किनो दुष्टभूपाश्च नित्यमेवं समाचरेत् || १७७ ||

उपानत्कतले यस्य लिखित्वा नाम च व्रजेत् ||

प्.५०३)

योजनैकं जपन्मन्त्रं स भ्रमेच्च वसुन्धराम् || १७८ ||

अथातः सम्प्रवक्ष्यामि भद्रिकां बुधमातरम् || ब्लं बीजं तोयभृयोगाज्जातमादौ समुच्चरेत् || १७९ ||

भद्रिके मे मम भद्रं देहीत्येवं पदं वदेत् || पुनश्च परभद्राणि नाशयद्वितयं ततः || १८० ||

स्वाहान्तो जिन वर्णोयं भद्रिकाया मनुर्मतः || षड्दीर्घयुक्तबीजेन [ब्लां, ब्लीं, ब्लूं, ब्लैं, ब्लौं, ब्लः, एभिः षडक्षरैः षडंगन्यासं चरेत् |
यथा ब्लां हृदयाय नमः, ब्लीं शिरसे स्वाहा इत्यादि || ] षडङ्गविधिरीरितः || १८१ ||

मङ्गलावच्छुभानां स्याद्ध्यानन्तु फलदायिनाम् || पिङ्गलावत्समुद्दिष्टं जपाद्यं प्रोक्तवर्त्मना || १८२ ||

अथातः सम्प्रवक्ष्यामि धान्याख्यां गुरुमातरम् || श्रीं [श्रीं धनदे धान्ये स्वाहा इति मन्त्रः || ] धनदे समुच्चार्यय धान्ये स्वाहाष्टवर्णकः || १८३ ||

षड्दीर्घाढ्याद्यबीजेन षडङ्गविधिरीरितः || नास्ति धान्यासमाकाचिदिह लोके धनप्रदा || १८४ ||

पुरश्चर्ययात्रयं कृत्वा प्राग्जन्मार्ज्जितपातकम् || दहेत्तु धान्या ददते धन्यत्वं साधकाय च || १८५ ||

बृहस्पतीश्वरात्पश्चात्काश्यां धान्यां विलोकयेत् || पुरश्चर्ययां तत्र कृत्वा यशोधन्यः प्रजायते || १८६ ||

अथातः सम्प्रवक्ष्यामि सिद्धां शुक्रस्य मातरम् || ह्रीं [ह्रीं सिद्धिदे सर्वं मम साधयसाधय नमः || ] सिद्धिदे सर्वं मम समुक्त्वा साधयद्वयम् || १८७ ||

हृदन्तोयं षोडशार्णः सिद्धः सिद्धामनुर्मतः || बीजेनैव षडङ्गानि जपाद्यं पूर्ववच्चरेत् || नास्ति सिद्धोपासकानां कर्म्मासिद्धिस्तु कुत्रचित् || १८८ ||

उपासकाय सिद्धाय येनाम्नायेन जायते || तेनाम्नायेन देवानां पाके स्यात्सर्वमेव हि || सिध्येत् षट्कर्म्म मर्त्यस्य मनोराराधनं विना || १८९ ||

अथातः सम्प्रवक्ष्यामि चोल्कां मन्दस्य मातरम् || ऐं ह्रीमुल्कापदं [ऐं ह्रीं उल्कादेव्यै नमः इति अष्टाक्षरमन्त्रः |
ऐं ह्रीं बीजाभ्यां षडंगकल्पना भवति |
यथा ऐं ह्रीं हृदयाय नमः, ऐं ह्रीं शिरसे स्वाहा, ऐं ह्रीं शिखायै वषट्, ऐं ह्रीं कवचाय हुम्, ऐं ह्रीं नेत्रत्रयाय वौषट्, ऐं ह्रीं अस्त्राय फट् || ] पश्चाद्देव्यै हृच्चाष्टवर्णकः || मन्त्रः प्रोक्तः प्रजप्तोयं धनारोग्यप्रदो मतः || १९० ||

ओं मम सर्वरोगान्नाशय भञ्जयैकादशाक्षरः || सर्वरोगापहो मन्त्रो मार्जनात्संप्रपद्यते || १९१ ||

उल्कामन्त्रो यस्य सिद्धो न गदास्तस्य मन्दिरे || शीतलाया महामार्या महिषं लक्षणान्वितम् || १९२ ||

प्. ५०४)

उल्काप्रीत्यै समुत्सृज्य नगरे भ्रामयेत्पुनः || नानावाद्यैः परिवृतं वस्त्रादिभिरलङ्कृतम् || उत्सृजेत्तं यमाशायामुपद्रवशमो भवेत् || १९३ ||

अथातः सम्प्रवक्ष्यामि सङ्कटां राहुमातरम् || ह्रीं सङ्कटे च रोगं मे परमं नाशयद्वयम् || १९४ ||

षोडशार्णस्तु मन्त्रोयं सर्वदुःखापहो मतः || कारागृहे जपेल्लक्षं बन्धमोक्षः प्रजायते || १९५ ||

वीरे श्वरादुदक्काश्यां सङ्कटा यत्र संस्थिता || तत्र षोडशलक्षाणि जप्त्वा होमस्तु दूर्वया || १९६ ||

तस्य सिद्धो भवेन्मन्त्रस्तन्मुखाद्यदि निस्सरेत् || अमुकस्यामुकं कष्टं गतं तद्गतमेव हि || १९७ ||

अथातः सम्प्रवक्ष्यामि विकटां केतु मातरम् || तारो [ओं नमो भगवति विकटे वीरपालिके प्रसीदप्रसीद || ] नमो भगवति विकटे वीरपालिके || १९८ ||

प्रसीदयुगलं मन्त्रः प्रकृत्त्यर्णः प्रकीर्त्तितः || काश्यां वीरेश्वरासन्ना पश्चिमे विकटा स्थिता || १९९ ||

तत्र मन्त्रमिमं जप्त्वा ग्रहतप्ताश्च बालकाः || उदरं चापि बन्ध्यायाः प्रजावत्यास्तथा शिरः || २०० ||

पित्रादित्यक्तबालाश्च तथा मातृविवर्ज्जिताः || साधकस्य करस्पृष्टा नीरोगाश्चिर जीविनः || २०१ ||

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते नवग्रहप्रकाशो द्वाविंशः || २२ ||

Prakāśa 23 – Mantras der acht Mātṛkās, beginnend mit Brāhmī

मुनय ऊचुः ||

देवदेव महादेव भक्तानुग्रहकारक || ब्राह्म्याद्यष्टौ भास्करस्य तटे तिष्ठन्ति शक्तयः || १ ||

रणे मृतानां योगेन मृतानां सहगामिनाम् || स्वर्णं याश्च प्रयच्छन्ति तन्मनून्ब्रूहि शङ्कर || २ ||

श्रीशिव उवाच ||

ब्रह्मशक्तिस्तु शक्तीनां नायिका परिकीर्त्तिता || योगिनां मुक्तिदात्री सा भोगिनां भोगदा मता || ३ ||

ब्रामित्येकाक्षरं बीजं मुनिर्वाचस्पतिर्मतः || गायत्री छन्द उद्दिष्टं वः शक्तिः कीलकं चरः || ४ ||

ध्यायेद्ब्राह्मीं पद्मसंस्थां हंसारूढां चतुर्मुखाम् || अक्षमालावराभीतिकमण्डलुकरारुणाम् || ५ ||

बीजे [ब्रां हृदयाय नमः, ब्रां शिरसे स्वाहा ब्रां शिखायै वषट्, ब्रां कवचाय हुम्, ब्रां नेत्रत्रयाय वौषट्, ब्रां अस्त्राय फट् || ] नैव षडङ्गानि मध्ये देवीं प्रपूजयेत् ||

प्. ५०५)

षट्कोणेषु षडङ्गानि शक्तयोर्च्याः कलादले || ६ ||

चिन्तामणिज्ञाननीलघटकिन्यन्तरिक्षतः [चिन्तामणिसरस्वती, ज्ञानसरस्वती, नीलसरस्वती, घटसरस्वती, किनिसरस्वती, अन्तरिक्षसरस्वती || ] || महत्पूर्वाश्चसप्तैतास्सरस्वत्यः प्रकीर्त्तिताः || ७ ||

लोकेश्वरीं शिवान्ते च त्रिपुराद्वितयं भवेत् || वागीश्वरीरुद्रविष्णुमुखान्ते चाक्षया मता || ८ ||

पद्मावत्येव रूढा च षोडशी कीर्त्तिनायिका || तत्तन्मन्त्रैः पूजनीया बाह्ये दिक्पाःसहेतयः || ९ ||

लक्षमेकं जपेन्मन्त्रं पलाशकुसुमैर्हुनेत् || तत्पुष्पयुक्तसलिलैस्तर्प्पयेन्मार्ज्जयेत्कुशैः || १० ||

ऐश्वर्ययार्थं तु सिध्यर्थं गायत्री प्रथमांघ्रियुक् || संरक्षणार्थं पुष्ठ्यर्थं द्वितीयचरणान्वितम् || मारणोच्चाटनाद्यर्थं तृतीयेन समन्वितम् || लक्षमात्रं जपेन्मन्त्रं कार्ययसिद्धिः प्रजायते || ११ ||

अथादौ सम्प्रवक्ष्यामि चिन्तामणिसरस्वतीम् || तारं [ओं ह्रीं ह्रैं ह्रीं ओं सरस्वत्यै नमः इति एकादशाक्षरमन्त्रः || ] मायां च हसरानैकाराढ्यान्सबिन्दुकान् || १२ ||

पुनर्मायां च तारं च वदेन्ङेन्तां सरस्वतीम् || १३ ||

हृदयान्तो भवार्णोयं मन्त्रस्तु परिकीर्त्तितः || त्रिष्टुप्छन्दो मुनिः कंठश्चिन्तामणि सरस्वती || १४ ||

देवताद्यं च बीजं स्याध्रीं शक्तिस्त्वङ्गकल्पनम् || स्वरसम्पुटितैः [अं कं खं गं घं ङं आं हृदयाय नमः इं चं छं जं झं यं ईं शिरसे स्वाहा इत्थं न्यासकल्पनम् |
पुनः ऐं ह्रीं बीजाभ्यांसंपुटितैः स्ह्रां, स्ह्रीं, स्ह्रूं, स्ह्रैं, स्ह्रौं, स्ह्रः, एभिः कूटाक्षरैर्न्यासीन्कुर्ययात् यथा ओं ह्रीं स्ह्रां ओं ह्रीं हृदयाय नमः इत्यादि || ] कादिवर्गैः स्यादंगकल्पनम् || १५ ||

पुनश्च तारहृल्लेखा पुटितं दीर्घषट्कियुक् || स्वकूठं तेन चांगानि मन्त्रार्णान्विन्यसेत्तनौ ||

मूर्द्धभ्रूमध्यकर्णाक्षिनासिकास्यगुदांघ्रिषु [ओं मूर्ध्नि ह्रीं भ्रूमध्ये, स्ह्रैं दक्षकर्णे, ह्रीं वामकर्णे, ओं दक्षनेत्रे, स वामनेत्रे, रनासिकायाम् स्वमुखे, त्यै गुदे, न दक्षपादे, मः वामपादे, इत्यक्षरन्यासः || ] || १६ ||

हंसारूढां मौक्तिकाभां मन्दहासेन्दुशेखराम् || वीणामृतघटाक्षस्रग्दीप्तहस्ताम्बुजस्थिताम् || १७ ||

ध्यात्वैवं मनसापूज्य कुर्ययाद्बाह्यार्चनं ततः || वाग्देव्यौ पार्श्वयोः पूज्ये संस्कृतप्राकृताह्वये || १८ ||

ततः षडंगावरणं [ततोर्चयेदित्यनयोरुत्तरत्रान्वयः || ] ततश्चाष्टदलेर्चयेत् || प्रज्ञां मेधां श्रुतिं चैव स्मृतिं शक्तिं ततोर्चयेत् || १९ ||

वागीश्वरीं वसुमतीं स्वस्तिब्राह्म्यादिका अपि ||

प्. ५०६)

दिक्पालैश्च चतुर्थं स्याज्जपेद्द्वादशलक्षकम् || २० ||

घृताक्तैरविसाहस्रं हुनेद्व्रीह्याढ्यचम्पकैः || एवं सिद्धमनुर्मन्त्री काम्यकर्माणि साधयेत् || २१ ||

सूर्ययमण्डलगां देवीं ध्यायेत्प्रतिदिनं यजेत् || सहस्रत्रितयं यस्तु त्रिमासात्स्यान्महाकविः || २२ ||

अथातः सम्प्रवक्ष्यामि ज्ञान पूर्वां सरस्वतीम् || ऐकारयुक्ता हसरा बिन्द्वन्ताः पूर्वबीजकम् || २३ ||

हसक्षलर इत्येवं पंच ईकारसंयुताः || विसर्गान्तास्तृतीयं स्याद्बीजं ज्ञानप्रदो मनुः || २४ ||

ऋषिस्तु दक्षिणामूर्त्तिर्देवी ज्ञानसरस्वती || अन्तबीजं भवेच्छक्तिराद्यबीजन्तु कीलकम् || २५ ||

आद्यबीजेन चांगानि कृत्वा बीजानि विन्यसेत् |
दक्षिणे च करे वामे द्वये बीजत्रयं पुनः || २६ ||

पादादिनाभिपर्ययन्तं नाभ्यादि हृदयान्तकम् || हृदयादि च शीर्षान्तं क्रमाद्बीजत्रयं न्यसेत् || २७ ||

ततो ध्यायेत्सूर्ययनिभां त्र्यक्षां चन्द्रकलाधराम् || करैर्धर्त्रीं जपवटीं पुस्तकं वरदाभये || पीनोत्तुंगस्तनीं पूर्णचन्द्रास्यामरुणाम्बराम् || २८ ||

एवं ध्यात्वा गिरं देवीं ततो बाह्ये समर्चयेत् || नवयोनित्रिकोणेषु वामा ज्येष्ठादिका यजेत् || २९ ||

प्राङ्मध्ययोन्योरन्तस्तु यजेच्छक्तिचतुष्टयम् || आद्या बह्वी विषघ्नी स्यात्ततो दूरतरा मता || ३० ||

सर्वादौ तेन ता बाह्ये पञ्चकोणं समाचरेत् || आग्नेयेशाननैर्-ऋत्यवायव्ये पश्चिमे क्रमात् || ३१ ||

यजेत्कोणे पञ्चबाणाञ्छोषणं मोहनन्तथा || सन्दीप्तसम्मोहनकौ तथा चोन्मादनोन्तिमः || ३२ ||

ततोङ्गावरणं पूज्यं पूर्वाशाद्यष्टयोनिषु || क्रमेण शक्तयः पूज्याः शुभगा च तथा भगा || ३३ ||

भगपूर्वा सर्पिणी च ततश्च भगमालिनी || अनंगानंगकुसुमा ततश्चानंगमेखला || अनंगमदना चेति ध्यानमासां [ध्यानमाह] निरूप्यते || ३४ ||

अक्षस्रक्पुस्तककरा रक्ताभाः सर्वशक्तयः || दिव्यांबराः सर्वभूषाः सर्वाभीष्टप्रदायिकाः || ३५ ||

ब्राह्म्याद्याश्च ततोभ्यर्च्यास्तदग्रे पूजयेत्पुनः || भैरवानसितांगाद्याञ्छक्रादीनायुधान्यपि || ३६ ||

यजेद्द्वादशलक्षं स्याज्जपस्त्रिमधुरान्वितैः || हुनेत्पलाशपुष्पैश्च दशांशं वा शतांशकम् || ३७ ||

एवं सिद्धमनुर्मन्त्री प्रयोगानाचरेदथ ||

प्. ५०७)

पलाशपुष्पैरयुतं सौभाग्याय च होमयेत् || ३८ ||

लक्ष्म्यै तथैव जुहुयान्महासारस्वताय च || मधुरत्रितयोपेतबिल्वैश्चैवायुतं हुनेत् || भवन्ति सकला लोका वश्या नास्त्यत्र संशयः || ३९ ||

एवं कुर्ययात्समृद्ध्यर्थं बीजैकैकस्य कथ्यते || पृथक्प्रयोगो ध्यानं च पंचाशद्वर्णशोभिताम् || ४० ||

नवकुन्दनिभां देवीं मुक्ताजालैश्च भूषिताम् || मुद्राकपालविद्याक्षमालाराजन्महाभुजाम् || ४१ ||

एवं ध्यात्वा जपेल्लक्षं पूजनाद्यं च पूर्ववत् || कविता तस्य जायते नानावृत्तार्थशोभिता || ४२ ||

रक्तां सुरतरोर्मूले विलसन्मणिपीठगाम् || सृणिपाशकपालेषुमातुलुंगधनुष्कराम् || ४३ ||

रत्नैरलंकृतां काममदघूर्णितलोचनाम् || हेलाविलाससम्भिन्नां नवयौवनसुन्दरीम् || ४४ ||

देवीं ध्यात्वा जपेल्लक्षं यो बीजं मध्यमं वशी || त्रैलोक्यं क्षोभयेदाशु पूर्ववत्सिद्धिभागसौ || ४५ ||

अक्षमालासुधाकुम्भमुद्रापुस्तकधारिणीम् || नवकुन्देन्दुसंकाशां राजन्मौक्तिकभूषणाम् || ४६ ||

शक्तिं संविन्मयीं ध्यात्वा बीजं सारस्वतं वशी || यो जपेत्प्राय एतस्य कविता भुवि सम्मता || ४७ ||

अथातो वाममार्गस्थां वक्ष्ये नीलसरस्वतीम् || तातो [ओं श्रीं ह्रीं स्ह्रौं हुं फट् नीलसरस्वत्यै स्वाहा |
इति चतुर्दशाक्षरो मन्त्रः || ] लक्ष्मीश्च हृल्लेखा हसावोंङ्कारसंयुतौ || ४८ ||

हुंफट् नीलसरस्वत्यै स्वाहान्तो मनुवर्णकः || ऋष्याद्या ब्रह्मगायत्र्यौ तथा नीलसरस्वती || ४९ ||

नेत्रचन्द्रेन्दुनेत्रांगनेत्रार्णैरंगकल्पनम् [द्वेकैकद्विषड्द्विवर्णैः षडङ्गानि न्यस्येत् |
यथा ओं श्रीं हृदयाय नमः, ह्रीं शिरसे स्वाहा इत्यादि || ] || मन्त्रोत्थितैरथो ध्यायेद्देवीं सर्वेष्टसिद्धिदाम् || ५० ||

घण्टां शिरः शूलमसिं कराब्जैर्दधतीं भजे || पोथयन्तीं पादतले पशुं चन्द्रकलाधराम् || ५१ ||

जपपूजादिकं सर्वमस्यास्तारावदाचरेत् || विशेषाज्जयदा वादे विद्येयं साधिता नृभिः || ५२ ||

अथान्यत्सम्प्रवक्ष्यामि तारं [ओं ह्रीं श्रीमदेकजटे नीलसरस्वति महोग्रतारे देवि खेखः सर्वभूतपिशाचराक्षसान् ग्रसग्रस मम जाड्यं छेदयछेदय श्रीं ह्रीं फट् स्वाहा |
इति द्विपञ्चाशदक्षरो मन्त्रः || ] च भुवनेश्वरीम् || श्रीमदेकजटे नीलसरस्वति पदं वदेत् || ५३ ||

महोग्रतारे देवीति खेखः सर्वपदं वदेत् || भूतपिशाचराक्षसान्ग्रस युग्मं ममेति च || ५४ ||

जाड्यं छेदय युग्मं च श्रींह्रींफट् वह्निगेहिनी ||

प्. ५०८)

द्विपंचाशल्लिपिश्चायं ध्यानपूजादिपूर्ववत् || ५५ ||

अथातः सम्प्रवक्ष्यामि त्रिवर्णं मन्त्रनायकम् || ह्रींश्रींहुमिति मुन्याद्यं यथा त्रिपुरभैरवी [त्रिपुरभैरवीमन्त्रस्ये त्यर्थः || ] || ५६ ||

अथान्यं सम्प्रवक्ष्यामि ब्लूं [ब्लूंवं वदवद त्रींहुंफट् |
इति नवाक्षरो मन्त्रः || ] वं वदयुगं तथा || त्रींहुंफट् च नवार्णोयं ध्यानपूजादि पूर्ववत् || ५७ ||

अथातः सम्प्रवक्ष्यामि वामां घटसरस्वतीम् || हसखफरवर्णाश्च [हंस्फ्रें ह्स्रौं हौंस्फ्रौं ऐं ह्रीं श्रीं द्रां ह्रीं क्लीं ब्लूं सः घीं घटसरस्वति घटे वदवद तुर तुर रुद्राज्ञया ममाभिलाषं कुरु कुरु स्वाहा अयं वह्निवेदार्णः || ] ऐंकारेण समन्विताः || ५८ ||

तस्याः स्यादादिमं कूटं हसरा औंसमन्विताः || विसर्गान्ता द्वितीयं स्याद्धसौ फो रफ एव च || ५९ ||

ईकारेण च संयुक्तास्तृतीयं कूटमुच्यते || वाचं मायां रमां द्रां ह्रीं कामं ब्लूं संस्तथैव च || ६० ||

घ्रीं बीजं च समुच्चार्यय ततो घटसरस्वति || घटे वदद्वयम्पश्चात्त्वरयुग्मं वदेत्ततः || ६१ ||

रुद्राज्ञया ममाभीतिलाषं कुरुयुगं तथा || स्वाहान्तोग्निकृतार्णोयं प्राग्वत्पूजादिकं भवेत् || ६२ ||

अथातः सम्प्रवक्ष्यामि विद्यां किनिसरस्वतीम् || वामाचारेण फलदां वाग्बीजं हैं समुच्चरेत् || ६३ ||

ह्रीमुच्चार्यय किनिद्वन्द्वं विद्ये मन्त्रो नवाक्षरः || चामुण्डामन्त्रवत्सर्वं जपन्यासादिकं भवेत् || ६४ ||

अथातः सम्प्रवक्ष्यामि ह्यन्तरिक्षसरस्वतीम् || वाचं मायामन्तरिक्षसरस्वत्यग्निगेहिनी || ६५ ||

द्वादशार्णो मनुर्जप्तो वर्णलक्षमितो यदा || शृणुयादीप्सितां वार्तां दूरस्थामपि साधकः || ६६ ||

महासरस्वतीं वक्ष्ये सर्वकामफलप्रदाम् || ऐं ह्रीं श्रीं क्लीं समुच्चार्य सौंक्लींह्रीं ऐं पुनर्वदेत् || ६७ ||

ब्लूं तु स्त्रीं नीलतारे च सरस्वतिपदं ततः || द्रांह्रींक्लींब्लूं स उच्चार्यय ऐंह्रींश्रींक्लीं पुनर्वदेत् || ६८ ||

सौः सौः ह्रीं वह्निजायान्तो मन्त्रो द्वात्रिंशदर्णकः || ब्रह्मानुष्टुप्सरस्वत्यो मुन्याद्याः परिकीर्त्तिताः || ६९ ||

पञ्चपञ्चाष्टपञ्चेषुयुगार्णैरंगकल्पनम् || नवासनां सर्प्पभूषां कर्त्रीं चापि कपालकम् || ७० ||

चषकं च त्रिशूलं च दधतीं च चतुष्करैः || मुण्डमालाधरां त्र्यक्षां भजे नीलसरस्वतीम् || ७१ ||

चतुर्लक्षं जपेद्विद्यां किंशुकैर्मधुरान्वितैः || दशांशं जुहुयात्पूजां पीठे कुर्ययाच्च सोच्यते || ७२ ||

प्. ५०९)

आदौ त्रिकोणं षट्कोणमष्टषोडशपत्रकम् || द्वात्रिंशत्पत्रमन्ते स्याच्चतुःषष्टिदलं तथा || ७३ ||

त्रिरेखाढ्यं धरागेहं चतुरस्रमतः परम् || एवं यन्त्रं समालिख्य बाह्यतः पूजनं चरेत् || ७४ ||

चतुरस्रस्याग्निकोणे विघ्नेशं परिपूजयेत् || वायुकोणे क्षेत्रपालमैशाने भैरवं तथा || ७५ ||

नैर्-ऋते योगिनीस्सर्वा वामभागे गुरुं यजेत् || भूगृहस्याद्यरेखायामणिमा लघिमा तथा || ७६ ||

महिमा चेशिता पूज्या वशिता कामरूपिणी || गरिमा प्राप्तिरित्येताः पूज्याः पूर्वादिदिक्क्रमात् || ७७ ||

धरागृहस्य रेखायां द्वितीयायां तु भैरवाः [असितांगो रुरुश्चण्डः क्रोधोन्मत्तकपालिनौ || भीषणश्चाथ संहार एतेष्टौ भैरवा मताः || ] || भूमिगेहे तृतीयाया रेखायां मातरः [ब्राह्मी, माहेश्वरी, कौमारी, वैष्णवी, वाराही, इन्द्राणी, चामुण्डा, महालक्ष्मीः इमा अष्टौ मातरः || ] पुनः || ७८ ||

इत्थमाद्यावृतिं चेष्ट्वा योनिमुद्रां प्रदर्शयेत् || चतुःषष्टिदले पद्मे शक्तीरर्च्चेच्च तावतीः || ७९ ||

कुलेशी कुलनन्दा च वागीशा भैरवी तथा || उमाश्रीशान्तयश्चण्डा धूम्रा काली करालिनी || ८० ||

महालक्ष्मीश्च कंकाली रुद्रकाली सरस्वस्वती || वाग्वादिनी च नकुली भद्रकाली शशिप्रभा || ८१ ||

प्रत्यंगिरा सिद्धलक्ष्मीर्ह्यमृतेशी च चण्डिका || खेचरी भूचरी सिद्धा कामाक्षी हिंगुलाबला || ८२ ||

जया च विजया चाप्यजिता नित्याऽपराजिता || विलासिनी तथा घोरा चित्रा मुग्धा धनेश्वरी || ८३ ||

सोमेश्वरी महाचण्डा विद्या हंसी विनायिका || वेदगर्भा तथा भीमा उग्रा वैद्या च सद्गतिः || ८४ ||

उग्रेश्वरी चन्द्रगर्भा ज्योत्स्ना सत्या यशोवती || कुलिका मालिनी [कामिनी इति क्वचित्पाठः || ] काम्या ज्ञानवत्यथ डाकिनी || ८५ ||

राकिनी लाकिनी चाथ काकिनी शाकिनी ह्यपि || हाकिनी च चतुःषष्टिशक्तयः सिद्धिदायिकाः || ८६ ||

दर्शयेत्खेचरीं मुद्रां द्वितीयावराणेर्चिते || द्वात्रिंशत्पत्रमध्ये तु पूज्या एतास्तु शक्तयः || ८७ ||

किराता योगिनी वीरा वेताला यक्षिणी हरा || ऊर्ध्वकेशी च मातंगी मोहिनी वंशवर्द्धिनी || ८८ ||

मालिनी ललिता दूती मनोज्ञा पद्मिनी धरा || शर्वरी छत्रहस्ता च रक्तनेत्रा विचर्चिका || ८९ ||

मातृका दूरदर्शा च क्षेत्रेशी रंगिणी नटी ||

प्. ५१०)

शान्तिर्वित्या वज्रहस्ता धूम्रा श्वेता सुमङ्गला || ९० ||

इष्ट्वा तृतीयावरणं बीजमुद्रां [परिवर्त्य करौ स्पृष्ट्वावर्धचन्द्राकृती प्रिये || तर्ज्जन्यांगुष्ठयुगलं युगपत्कारयेत्ततः || अधः कनिष्ठावष्टब्धे मध्यमे विनियोजयेत् || तथैव कुटिले योज्यं सर्वाधस्तादनामिके || बीजमुद्रेयमुदिता सर्वसिद्धिप्रदायिनी || ] प्रदर्शयेत् || ततः शोडशपत्रेषु पूज्याः षोडशशक्तयः || ९१ ||

मुग्धा श्रीः कुरुकुल्ला च त्रिपुरा तु तलक्रिया || रतिः प्रीतिस्तथा बाला सुमुखी श्यामलाविला || ९२ ||

पिशाची च विदारी च शीतला वज्रयोगिनी || सर्वेश्वरीति सम्पूज्य सृणिमुद्रां [अंकुशमुद्रा || ] प्रदर्शयेत् || ९३ ||

अष्टपत्रे स्वस्वमन्त्रैर्यजेदष्टसरस्वतीः || नमः [ओं नमः पद्मासने पद्मरूपे ऐं ह्रीं क्लीं वदवद वाग्वादिनि स्वाहा |
इति मन्त्रः || ] पद्मासने पद्मरूपे वाग्भुवनेश्वरी || ९४ ||

कामो वदद्वयं वाग्वादिनि स्वाहा ध्रुवादिकः [प्रणवाद्यः आदावोंकारयुक्तश्चेत्तदा चतुर्विंशत्यक्षरो मनुर्भवति || ] || वागीश्वर्यया मनुः प्रोक्तश्चतुर्विंशतिवर्णकः || महाकविर्वर्णलक्षजपात्प्राच्यां च पूजनम् || ९५ ||

हसकलहरायुक्तो [हसकलरानिमांश्चतुरो वर्णान्संयुज्य ह्रीं बीजं पश्चाद्वदवदेति ततश्चित्रे श्वरि ऐं स्वाहेति पदयोजनाद्द्वादशाक्षरो मन्त्रो भवति || ] ईंकारेण वदद्वयम् || चित्रेश्वरीति वाग्बीजं स्वाहान्तो द्वादशाक्षरः || ९६ ||

चित्रेश्वर्यया मनुलर्क्षजपाच्चित्रकलाप्रदः || स्त्रीवश्यकृत्तथानेन वह्नि कोणे प्रपूजयेत् || ९७ ||

वाग्बीजं [ऐं कुलजे ऐं सरस्वति स्वाहा इति मन्त्रः || ] कुलजे वाक्च सरस्वत्यनलाङ्गना || एकादशार्णमन्त्रेण कुलजां दक्षिणेर्चयेत् || ९८ ||

वाङ्मायाश्रीं [ऐं ह्रीं श्रीं वदवद कीर्त्तीश्वरि स्वाहा |
] वदद्वन्द्वं कीर्त्तीश्वर्ययनलप्रिया || त्रयोदशार्णेन यजेन्नैर्-ऋत्ये कीर्त्तिनायिकाम् || ९९ ||

पश्चाद्यजेच्च पूर्वोक्तामन्तरिक्षसरस्वतीम् [ऐं ह्रीं अन्तरिक्षसरस्वति स्वाहा इति || मन्त्रः || ] || वायव्यकोणे पूर्वोक्तां [घटसरस्वतीमन्त्रः पूर्वं लिंखितः || ] यजेद्धटसरस्वतीम् || १०० ||

उदङ्गीलसरस्वत्या नवार्णेन च तां यजेत् || ईशाने पूजयेत्पूर्वप्रोक्तां [ब्लूं वें वदवद त्रींहुंफट्स्वाहा इति मंत्रः || ] किनिसरस्वतीम् || पंचम्यावृत्तिमाराध्य [ऐं हें हीं किणि किणि विच्चे किणि सरस्वत्यां अयं नवाक्षरो मन्त्रः || ] क्षोभमुदां प्रदर्शयेत् || १०१ ||

तस्य बाह्ये तु षट्कोणे डाकिनी राकिनी तथा || लाकिनी काकिनी चैव शाकिनी हाकिनी तथा || दर्शयेद्द्राविणीं मुद्रां षष्ठावरणपूजने || १०२ ||

प्. ५११)

त्रिकोणे तद्बहिः पूज्याः परा बाला च भैरवी || दर्शयेत्कर्षिणीं मुद्रां पूजा चेत्थं प्रकीर्तिता || १०३ ||

गणेशाय क्षेत्रपाय योगिन्यै भैरवाय च || तारायै चापि वितरेद्बलिं नित्यं चतुष्पथे || १०४ ||

परमान्नं च शाकाज्यपायसापूपकादिकान् || बलिद्रव्यं समाख्यातं येनेष्टं सा प्रयच्छति || १०५ ||

अस्या ध्यानं त्रिधा वच्मि सत्त्वादिगुणभेदतः || श्वेताम्बराढ्यां हंसस्थां मुक्ताभरणभूषिताम् || चतुर्वक्त्रामष्टभुजैर्दधानां मुद्रिकां भजे || १०६ ||

वराभये पाशशक्ती ह्यक्षस्रक्पुष्पमालिके || शब्दपाथोनिधौ ध्यायेत्सृष्टिध्यानमुदीरितम् || १०७ ||

अथ चान्यत्प्रवक्ष्यामि ध्यानं दतवधारय || रक्ताम्बरां रत्नसिंहासनस्थां हेमभूषिताम् || १०८ ||

एकवक्त्रां वेदसंख्यैर्भुजैः सम्बिभ्रतीं क्रमात् || अक्षमालाम्पानपात्रमभयं वरमुत्तमम् || श्वेवद्वीपस्थितां ध्यायेत्स्थितिध्यानमितीरितम् || १०९ ||

कृष्णांबराढ्यां नौसंस्थामस्थ्याभरणभूषिताम् || नववक्त्राम्भुजैरष्टादशभिर्दधतीं वरम् || ११० ||

अभयम्परशुं दर्वीं खड्गं पाशुपतं हलम् || भिन्दिपालञ्च मुशलं कर्त्रीं शक्तिं त्रिशीर्शकम् || १११ ||

संहारास्त्रं वज्रपाशौ खट्वाङ्गं गदया सह || रक्ताम्भोधौ स्थितान्ध्यायेत्संहारध्यानमीरितम् || ११२ ||

कर्म्मसु क्रूरसौम्येषु ध्यायेन्मन्त्री तथातथा || एवं सिद्धे मनौ मन्त्री गिरा वाचस्पतिर्भवेत् || ११३ ||

दूर्वोत्थया तु लेखन्या रोचनारसयुक्तया || बालस्याच्छिन्ननालस्य जिह्वायां विलिखेन्मनुम् || सम्प्राप्ते सोष्टमे वर्षे सर्वशास्त्रज्ञतामियात् || ११४ ||

अयुतमन्त्रसञ्जप्तां वचां बालस्य कण्ठतः || बध्नीयात्पूर्वसम्प्रोक्तं बलिं दत्त्वा विधानतः || द्वादशे वत्सरे प्राप्ते भक्षिता सा कवित्वकृत् || ११५ ||

ज्योतिष्मतीभवन्तैलं कर्षमात्रं सुमन्त्रितम् || उपरागे जलस्थो योऽश्नीयाद्वाचस्पतिर्भवेत् || ११६ ||

चतुष्पथे श्मशाने वा हित्वा लज्जाम्भयन्तथा || जपेच्छवं समारुह्य विद्यान्तत्परमानसः || ११७ ||

शृणोत्यसावमुं शब्दं निशीथे जपतत्परः || पारगो भव विद्यानां सर्वसिद्धिमवाप्नुहि || ११८ ||

विद्वत्कुलसमुद्भूतमष्टवर्षं शिशुद्वयम् || उपविश्य तयोर्मुर्ध्नि करौ दत्त्वा जपेन्मनुम् || ११९ ||

वेदान्तन्यायसंयुक्त्या विवदेते उभावपि ||

प्. ५१२)

यः कौतुकी स आश्चर्ययं विद्यायाः पश्यतु ध्रुवम् || १२० ||

विधाय वेदिकां रम्यां विजने कदलीवने || तत्रासीनो जपेद्विद्यामर्कलक्षं विधानतः || १२१ ||

दासीचालितदोलायामारूढा सुस्मिताननाम् || पुन्नागचम्पकाशोकरम्भाविपिनसंस्थिताम् || १२२ ||

एवं ध्यात्वा भगवतीं बलिं दद्याज्जपान्ततः || एवं कुर्वन्नरः सर्वमभीष्टं लभते ध्रुवम् || १२३ ||

निर्वासा विशिखः प्रेतभूमिस्थो यो जपेन्मनुम् || अयुतं कृष्णभूताहे स वाक्सिद्धिमवाप्नुयात् || १२४ ||

विद्यां सौख्यं धनम्पुष्टिमायुः कीर्त्तिं बलं श्रियम् || रूपं कामयमानेन सेव्येयन्तु सरस्वती || १२५ ||

अथ लोकेश्वरीं वक्ष्ये त्रिकूटाख्यां सरस्वतीम् || श्रींह्रींक्लीमिति मन्त्रोस्यास्त्रिबीजः परिकीर्त्तितः || १२६ ||

मुनयस्त्वस्य सम्प्रोक्ता भृगुसम्मोहनादयः || छन्दो निवृच्च गायत्री देवी लोकेश्वरी मता || १२७ ||

ह्रींबीजं क्लीं च शक्तिः स्याद्द्विमन्त्रार्णैः [त्रिबीजानां द्विरावृत्या षडंगानां न्यासान्विदधीत यथा श्रीं हृदयाय नमः ह्रीं शिरसे स्वाहा, क्लीं शिखायै वषट् श्रीं कवचाय हुम्, ह्रीं नेत्रत्रयाय वौषट् क्लीं अस्त्राय फट् || ] षडङ्गकम् || ध्यानमस्याः प्रवक्ष्यामि नानारत्नचये स्थितः || १२८ ||

सुवर्णजः कल्पतरुर्मणिकुट्टिमभूमिगः || तस्याधस्ताद्रत्नमये स्थितां सिंहासनोपरि || १२९ ||

श्वेतपद्मे समासीनाम्मणिकुण्डलभूषिताम् || केयूरहारमुकुटरसनानूपुरान्विताम् || १३० ||

पद्मद्वयं पाशवरौ चांकुशेक्षुशरासने || अभीतिं पुष्पबाणांश्च दधानां करपल्लवैः || १३१ ||

हेमाभां सप्तदूती भिस्तरुणीभिः समावृताम् || चामरादर्शकरकताम्बूलकरचारुभिः || १३२ ||

प्रसन्नदृष्ट्या पश्यन्ती साधकं त्विति चिन्तयेत् || सूर्ययलक्षं जपेन्मन्त्रं हुनेत्त्रिमधुरान्वितैः || १३३ ||

राजवृक्षसमिद्भिश्च तद्दशांशं प्रहोमयेत् || षट्कोणमध्ये देवेशीं कोणेष्वङ्गानि पूजयेत् || १३४ ||

लक्ष्मीं हरिं पार्वतीं च शङ्करं च रतिं स्मरम् || पार्श्वद्वये शङ्खपद्मनिधी पूज्यौतदनन्तरम् || १३५ ||

ब्रह्मादिभिस्तृतीयं स्यात्स्त्रीरूपैर्लोकपालकैः || चतुर्थं पञ्चमन्तेषामायुधैरिति पूजनम् || १३६ ||

ततः काम्यानि कुर्वीत जपेत्सूर्ययसहस्रकम् || तावद्धुनेद्बिल्वफलैः सम्पत्तिः परमा भवेत् || १३७ ||

राजवृक्षसमिद्धोमात्कांक्षिताकर्षणम्भवेत् ||

प्. ५१३)

जपाकुसुमहोमस्तु समस्तजनवश्यकृत् || १३८ ||

पलाशपुष्पहोमेनात्युत्कृष्टकविता भवेत् || अथातः संप्रवक्ष्यामि त्रिपुरां शिवसञ्ज्ञिताम् || १३९ ||

सबिन्दवो [अं आं इं ईं उं ऊं एं ऐं ओं औं अं अः क्लीं सौः || ] द्वादशैव स्वराः प्रथमबीजकम् || द्वितीयं कामबीजं स्यात्तृतीयं सौरिति स्मृतम् || तुल्यं ज्ञानसरस्वत्या ध्यानन्यासार्चनादिकम् || १४० ||

अथातः सम्प्रवक्ष्यामि रुद्रविश्वेश्वरीमनुम् || ओं वांश्रींह्रीं [ओं वां श्रीं ह्रीं स्फ्रेंसौं स्वाहा || ] समुच्चार्यय स्फ्रेंसौं स्वाहान्तको मनुः || १४१ ||

अष्टाक्षरो मुनिश्चास्य त्रिविक्रम उदाहृतः || रुद्रवागीश्वरी देवी गायत्री छन्द ईरितम् || १४२ ||

स्वाहा शक्तिश्च वां बीजं षड्भिर्मन्त्रार्णकैः क्रमात् || सांसींसूं [वामित्यादिप्रागभावाधिकरणक्षणे ओं सांसीमिति संयोज्य तैः षडङ्गन्यासान्कुर्वीत यथा- साम् ओं हृदयाय नमः, सींवां शिरसे स्वाहा, सूं श्रीं शिखायै वषट्, सैं ह्रीं कवचाय हुम्, सौंस्फ्रें नेत्रत्रयाय वौषट्, सः सौं अस्त्राय फट् || ] चापि सैंसौंसः पूर्वकैरंगकल्पनम् || १४३ ||

सर्वज्ञामृततेजोज्वालामालिनि [सर्वज्ञामृततेजोज्वालामालिनि तृप्ता वदवद अनादिबोधे वज्रिणे वज्रधराय स्वतन्त्रनित्यमलुप्तशक्तिसहजातिरूपिणे अनन्तशक्तिबलिं पशुं हुंफट्पाशुपतास्त्राय सहस्राक्षाय || ] तदुत्तरम् || तृप्तेत्युक्त्वा वदवद अनादिबोधवज्रिणे || १४४ ||

वज्रधराय स्वतन्त्रनित्यमलुप्तशक्ति च || सहजातिरूपिणे चानन्तशक्तिबलिं वदेत् || १४५ ||

पशुं हुंफट् पाशुपतास्त्रायेति पदमुच्चरेत् || सहस्राक्षायेति मन्त्रः प्रोक्तः सप्ततिवर्णकः || सर्वकामप्रदश्चैवं ध्यानमस्या निरूप्यते || १४६ ||

शुभ्राभां त्रीक्षणां दोर्भिर्बिभ्रतीं फलपुस्तके || वराभये सर्पभूषां रुद्रवागीश्वरीं भजे || जपपूजाप्रयोगादि ज्ञेयं वाग्वादिनीसमम् || १४७ ||

अथातः सम्प्रवक्ष्यामि विष्णुवागीश्वरीमनुम् || ओं श्रींस्फुं श्रीं नमश्चेति षडर्णो मन्त्र उच्यते || १४८ ||

कश्यपोस्य मुनिः प्रोक्तो गायत्री छन्द ईरितम् || विष्णुवागीश्वरी देवी श्रीं शक्तिः स्फुं च बीजकम् || श्रींबीजेन षडङ्गानि ध्यानमस्या निरूप्यते || १४९ ||

हेमाभां बिभ्रतीं दोर्भिः फलपुस्तककुंभकान् || अभयं सर्प्पभूषाढ्यां विष्णुवागीष्वरीं भजे || अस्या पूजादिकं षष्ठवर्णवाग्वादिनीसमम् || १५० ||

अथातः सम्प्रवक्ष्यामि मुख्यवागीश्वरीमनुम् ||

प्. ५१४)

ह्रीं वाचस्पते अमृतप्लूः प्लूंह्रींसौं च संवदेत् || १५१ ||

द्वादशार्णो मन्त्र उक्तो मुनिः कंठः प्रकीर्त्तितः || विष्णुवागीश्वरी देवी विराट् छन्दः प्रकीर्त्तितम् || १५२ ||

प्लुः शक्तिर्वाक्च बीजं स्याद्धृत्तु वाचस्पते इति || अमृतेति शिरः प्रोक्तं प्लूः शिखा प्लूं च वर्म्मकम् || वाचस्पते अमृतेति नेत्रं प्लूः प्लूं तथास्त्रकम् || १५३ ||

ध्यानपूजादिकं प्राग्वत्प्रयोगः कथ्यतेधुना || संवत्सरं हविष्याशी सहस्रम्प्रत्यहञ्जपेत् || १५४ ||

जपान्ते दशवारञ्च जप्त्वा तेनोदकं पिबेत् || तेन लोकोत्तरा मेधा जायते नात्र संशयः || १५५ ||

जपेद्गोमूत्रपक्वाशी तिथिलक्षं मनुं त्विमम् || साज्यकोलसमिद्भिस्तु हुनेदष्टसहस्रकम् || भूतम्भव्यं वर्त्तमानं सर्वं जानाति साधकः || १५६ ||

कपिलाज्ययुतं ब्राह्मीरसम्प्रातस्तु यः पिबेत् || चुलुकैकम्मन्त्रितन्तु दशवारम्मलत्रयम् || १५७ ||

धारयेद्वेदशास्त्रादि प्रोक्तञ्च त्वेकवारकम् || सकृच्छ्रुतन्तु यत्तेन न च विस्मर्ययते क्वचित् || १५८ ||

अथातः सम्प्रवक्ष्यामि पद्मावत्या मनुं शुभम् || ह्रीं च पद्मावति स्वाहा सप्तार्णः परिकीर्त्तितः || १५९ ||

ऋषिर्ब्रह्मा च च गायत्री छन्दः पद्मावती सुरी || स्वाहा शक्तिश्च ह्रीं बीजं षड्दीर्घस्वरयुक्तया || प्रकुर्ययान्माययाङ्गानि [ह्रीं बीजेन षडंगन्यासं कुर्ययात्] ध्यानमस्या निरूप्यते || १६० ||

रकोत्पलकरद्वन्द्वां पद्मस्थां कमलाननाम् || बन्धूकाभां त्रिनयनां नानाकल्पोज्ज्वलां स्मरेत् || १६१ ||

शक्तिपीठे यजेद्देवीं पुरोङ्गानि च मातृकाः || लोकपालांस्तदस्त्राणि पद्मावत्यर्चनं स्मृतम् || १६२ ||

लक्षमेकम्पुरश्चर्यया दशांशं जुहुयाद्धृतैः || एवम्मनुं यो भजते सुभगः सर्वयोषिताम् || पद्मावतीसमान्या तु नास्ति सौभाग्यदा भुवि || १६३ ||

अथातः सम्प्रवक्ष्यामि ह्यश्वारूढामहामनुम् || तारमुक्त्वा [ओं एहि परमेश्वरि स्वाहा |
इति मन्त्रः || ] तथा चैहि परमेश्वर्ययग्निगेहिनीम् || १६४ ||

दशार्णोयं मुनिर्ब्रह्मा विराट् छन्दश्च देवता || अश्वारूढा षडंङ्गानि ताराद्यैस्त्रिपदैर्द्विधा || १६५ ||

अश्वारूढां चन्द्रभालां त्र्यक्षां पाशेन साध्यकम् || बध्वानयन्तीं वामेन दक्षे कनकवेत्रिकाम् || १६६ ||

शक्तिपीठे यजेद्देवीं पुरोंगानि प्रपूजयेत् ||

प्. ५१५)

मातॄरिन्द्रादिदिग्बाह्ये तदस्त्राणि ततो बहिः || १६७ ||

जपेदयुतसङ्ख्याकं दशांशं जुहुयाद्घृतः || तर्प्पणादि ततः कुर्ययात्पूर्वोक्तविधिना सुधीः || इत्थं ध्यात्वैव सकलं विश्वं वशयतेऽचिरात् || १६८ ||

आज्यान्नं जुहुयान्मन्त्री लभते वाञ्छितं फलम् || त्रिमध्वक्तैस्तथा लोनैर्वश्या भूपा हुनेत्तु यः || १६९ ||

पूर्वोक्तेन विधानेन वश्याः स्युर्वनिता अपि || अनया विद्यया सर्प्पिर्होमः काञ्चनदो मतः || १७० ||

त्रिस्वादुभिः सहस्रं च हुनेत्स्त्रीवशसिद्धये || पूर्वोक्तेनैव होमेन नारीमाकर्षयेद्ध्रुवम् || १७१ ||

तारादिरथ [ओं ह्रीं एहि परमेश्वरि स्वाहा || ] माया दिरयमेकादशार्णकः || षड्दीर्घमाययैवास्य षडङ्गविधिरीरितः || १७२ ||

ओं ओं ह्रीं क्रों पूर्वकोयं प्रोक्तो विश्वमितार्णकः || द्विभूभूत्रीषुयुग्मैश्च षडङ्गविधिरीरितः || १७३ ||

पञ्चलक्षं पुरश्चर्यया पूजाद्यं पूर्ववन्मतम् || पूर्वे चावरणे प्रोक्ताः साक्षयाः कीर्त्तिनायिकाः || इन्द्रादिबाह्यावरणे प्रोक्तो ब्राह्म्या विधिस्त्वयम् || १७४ ||

अथातः सम्प्रवक्ष्यामि सम्यङ्माहेश्वरीविधिम् || ओं ह्रींनमो भगवति माहेश्वर्ययेहि संवदेत् || १७५ ||

परमे पदमुच्चार्यये श्वरि स्वाहान्तको मनुः || तारादिरेकविंशार्णोऽश्वारूढावत्परं मतम् || १७६ ||

वृषारूढां भालचन्द्रां त्रिनेत्रां शशिसन्निभाम् || दधतीं शूलडमरुं महाहिवलयां भजे || १७७ ||

वर्णलक्षं जपेन्मन्त्रं बिल्वपत्रैर्घृतप्लुतैः || जुहुयात्तद्दशांशेन परमैश्वर्ययवान्भवेत् || १७८ ||

आदावङ्गानि सम्पूज्य राशिपत्रे ततो यजेत् || आदौ बालां तथा शक्तिं नित्यक्लिन्नाग्निवासिनीम् || १७९ ||

अन्नपूर्णां तथा गौरीं वज्रप्रस्तारिणीमपि || वज्रेश्वरीं च त्वरितां शिवदूतीं त्रिकण्टिकाम् || १८० ||

वश्ये त्रिकण्टिकीं चापि स्वस्वमन्त्रैः समर्चयेत् || ततो दिक्पांस्तदस्त्राणि चेत्थं माहेश्वरी मता || १८१ ||

अथातः सम्प्रवक्ष्यामि बालामन्त्रान्सुसिद्धिदान् || वाक्कामसौस्त्रिबीजानि सौः क्लीं ऐं च पुनः पठेत् || १८२ ||

षडर्णोयं मनुः प्रोक्तो दक्षिणामूर्तिको मुनिः || गायत्री छन्द उद्दिष्टं देवी त्रिपुरबालिका || १८३ ||

पाशांकुशौ पुस्तकाक्षसूत्रे च दधती करैः || रक्ता त्र्यक्षा चन्द्रभाला ध्येया बाला सुरार्चिता || १८४ ||

प्. ५१६)

न्यासानत्र प्रकुर्वीत षडङ्गान्मातृकासमान् || जपेल्लक्षं दशांशेन होमः पुष्पैर्हयारिजैः || १८५ ||

पूजा पूर्वोदिते पीठेनङ्गै रत्यादिसायकैः || प्रभादिभिर्दिगीशास्त्रैः प्रयोगः पूर्ववन्मतः || १८६ ||

श्रीं क्लीं ह्रीं ऐं कामसौश्च [क्लींबीजम् || ] ह्रीं क्लीं श्रीं च नवाक्षरः || ध्यानपूजादिकं सर्वं पूर्वप्रोक्तषडर्णवत् || १८७ ||

अथान्यत्सम्प्रवक्ष्यामि वाक्कामौसौस्समुच्चरेत् [ऐं क्लीं सौंः बालत्रिपुरे स्वाहा] || बालत्रिपुरे स्वाहेति दशार्णोऽन्यच्च पूर्ववत् || १८८ ||

अथान्यत्सम्प्रवक्ष्यामि क्लीं ह्रीं ऐं च समुच्चरेत् || ततश्च बाले त्रिपुरे सिद्धिं देहि नमस्त्विति || १८९ ||

चतुर्दशाक्षरो मन्त्रो मुन्याद्यं च षडर्णवत् || प्रयोगाश्चात्र सिध्यन्ति त्रिवर्णोक्तास्तथाखिलाः || १९० ||

अथान्यो वक्ष्यते ह्रींश्रीक्लींमुक्त्वा त्रिपुरेति च || भारति कवित्वं देहि स्वाहान्तोऽन्यच्च पूर्ववत् || १९१ ||

ह्रीं ह्रीं ह्रीं प्रौढत्रिपुरे ह्यारोग्यमैश्वर्ययं देहि || स्वाहान्तोष्टादशार्णोयं न्यासाद्यं स्यात्षडर्णवत् || १९२ ||

ह्रींश्रींक्लीं बालत्रिपुरे मदायत्तां वदेत्ततः || विद्यां कुरु नमः स्वाहा विंशत्यर्णश्च पूर्ववत् || १९३ ||

अथान्यत्सम्प्रवक्ष्यामि मायां श्रीं क्लीं परात्परे || त्रिपुरे सर्वमित्युक्त्वा ईप्सितं साधयेति च || १९४ ||

स्वाहा विंशतिवर्णोयं मुन्याद्यन्तु षडर्णवत् || सिद्धे मन्त्रे लक्षजपादभीष्टं सिध्यति ध्रुवम् || १९५ ||

अथान्यं सम्प्रवक्ष्मामि क्लीं क्लीं श्रीं च ह्रींद्वयम् || त्रिपुरे ललिते प्रोच्य मदीप्सितां च योषितम् || १९६ ||

देहि वाञ्छितमित्युक्त्वा कुरु ज्वलनकामिनीम् || अष्टाविंशतिवर्णोयं श्रीदः सर्वन्तु पूर्ववत् || १९७ ||

अथान्यं सम्प्रवक्ष्यामि शक्तेरष्टाक्षरं मनुम् || आं श्रीं ह्रीं क्लींक्लीं च ह्री च श्रीममष्टाक्षरो मनुः || १९८ ||

अजो मुनिश्च गायत्री छन्दः शक्तिश्च देवता || स्त्रीवश्या कर्षणादौ च विनियोग उदाहृतः || १९९ ||

षड्दीर्घमाययाङ्गानि सर्वैरष्टाङ्गमीरितम् || हृच्छिरश्च शिखा वर्म्म नेत्रास्त्रोदरपृष्ठकम् || अष्टाङ्गं विन्यसेन्मन्त्रं मूलेन व्यापकं चरेत् || २०० ||

आनन्दरूपिणीं देवीं पाशांकुशधनुःशरान् || बिभ्रतीं दोर्भिररुणां कुचाढ्यां हृदि भावयेत् || २०१ ||

शाक्ते पीठे यजेद्देवीं हृल्लेखादिभिरंगकैः || मातृभिर्लोकपालैश्च वज्राद्यैः पञ्चमावृतिः || २०२ ||

प्. ५१७)

अष्टलक्षं जपेत्साज्यैर्दशांशं जुहुयात्तिलैः || नित्यक्लिन्नामथो वच्मि नित्यक्लिन्ने मदद्रवे || २०३ ||

नमश्चेति दशार्णोयं मुनिरत्रिः प्रकीर्त्तितः || नित्यक्लिन्ना देवता च त्रिष्टुप् छन्द उदाहृतम् || २०४ ||

नित्याद्यैर्हृदयं स्वाहासाम्नायैः शिर ईरितम् || क्लिन्ने स्वाहा शिखा नित्यक्लिन्ने च कवचं मतम् || २०५ ||

नित्यक्लिन्ने नमश्चास्त्रं ध्यानं पूर्ववदाचरेत् || पूजादिकमथो मन्त्री पूर्ववत्परिकल्पयेत् || २०६ ||

एकलक्षं जपेन्मत्रन्तद्दशांशं हुनेत्तिलैः || तर्प्पणादि ततः कुर्ययात्पूर्वोक्तविधिना सुधीः || प्राग्वत्प्रयोगाः सेव्येयं दारिद्रे सुखकारिणी || २०७ ||

अथातो वह्निवासिन्या नवार्णो मनुरुच्यते || ओं ह्रीं च वह्निवासिन्यै नमश्चेति मुनिर्मतः || २०८ ||

वशिष्ठश्च तथा छन्दो गायत्री देवता त्वियम् || शक्तिबीजन्तु शक्तिस्स्यात्कीलकं मध्यमेरितम् || २०९ ||

विद्याद्द्वितीयबीजेन [ह्रां ह्रीं अंगुष्ठाभ्यां नमः, ह्रीं ह्रीं तर्जनीभ्यां नमः, ह्रूं ह्रीं मध्यमाभ्यां नमः, ह्रैं ह्रीं अनामिकाभ्यां नमः, ह्रौं ह्रीं कनिष्ठिकाभ्यां नमः, ह्रः ह्रीं करतलकरपृष्ठाभ्यां नमः, एवंरीत्या हृदयादिन्यासानपि कुर्ययात् || ] दीर्घस्वरयुता सुधीः || मायान्तेन षडङ्गानि कुर्ययान्मन्त्री कराङ्गयोः || २१० ||

नेत्रयोः कर्णयोर्नासाकपोलास्यध्वजे गुदे || मन्त्राक्षराणि विन्यस्य सर्वेण व्यापकं चरेत् || २११ ||

तप्तकाञ्चनसङ्काशां नवयौवनसुन्दरीम् || चारुस्मेरमुखाम्भोजां विलसन्नयनत्रयाम् || २१२ ||

अष्टभिर्बाहुभिर्युक्तां माणिक्याभरणोज्ज्वलाम् || वामहस्तेषु रत्नाब्जं शङ्खं पुण्ड्रेक्षुजं धनुः || २१३ ||

ग्लौमण्डलं दक्षिणेषु कह्लारं हेमशृङ्गकम् || पुष्पेष्टं मातुलुङ्गं च स्वसमानसखीवृताम् || २१४ ||

नवकोणे कर्णिकायामादावङ्गानि चार्चयेत् || अष्टयोनिषु सम्पूज्यास्तदग्रास्तु प्रदक्षिणम् || २१५ ||

ज्वालिनी विश्वलिङ्ग्यन्या मङ्गला च मनोहरा || कमला कितवा विश्वा विविधा चेति शक्तयः || २१६ ||

तद्बहिर्द्वादशदले सम्पूज्या राशिशक्तयः || मेषा वृषा च मिथुना कर्कटाद्याश्च ता मताः || २१७ ||

दशदिक्षु तथा चाग्रे दशशक्तीः प्रपूजयेत् || घस्मरां सर्वभक्षां च विश्वाख्या विविधोद्भवाम् || २१८ ||

चित्ररूपां निस्सपत्नां निरातङ्कां च पावनीम् ||

प्. ५१८)

अचिन्त्यां वै भवस्तुतां तदग्रे लोकपालकान् || २१९ ||

तदस्त्राणीति पूजोक्ता देव्याः सर्वसमृद्धिदा || एकलक्षं जपेन्मन्त्रं दशांशं जुहुयाद्घृतैः || २२० ||

तर्प्पणं मार्ज्जनं कृत्वा ब्राह्मणाराधनं तथा || सिद्धमन्त्रः प्रकुर्वीत प्रयोगान्निजवाञ्छितान् || २२१ ||

काम्यहोमविधिं वक्ष्ये सम्यग्वाञ्छितदायकम् || शालितण्डुलमादाय प्रस्थं भाण्डे नवे क्षिपेत् || २२२ ||

तत्फूत्कृत्य सुसंस्कृत्य विद्ययाष्टोत्तरं शतम् || जप्त्वा होमो विधातव्यो महालक्ष्मीकरो भवेत् || २२३ ||

नित्यमष्टोत्तरशतं पञ्चम्यां प्रतिपद्यपि || शुक्ले सहस्राण्यष्टौ च वर्षमेवं समाचरेत् || २२४ ||

तदा नृपसमानः स्याद्धनधान्यादिभिर्महान् || घृतहोमादवाप्नोति सकलं वाञ्छितं फलम् || २२५ ||

पञ्चमीषु विशेषेण पूजां कुर्ययाद्व्रती भवेत् || अथातः सम्प्रवक्ष्यामि ह्यन्नपूर्णेश्वरीमनुम् || २२६ ||

ओं श्रीं ह्रीं क्लीं नमः श्चोक्त्वा भगवतिपदं वदेत् || माहेश्वरि चान्नपूर्णे स्वाहा विंशतिवर्णकः || २२७ ||

छन्दस्त्रिष्टुम्मुनिर्ब्रह्मा ह्यन्नपूर्णा च देवता || ह्रींबीजं चापि शक्तिः श्रीं कीलकं क्लीं प्रकीर्तितम् || २२८ ||

षड्दीर्घयुक्तहृल्लेखा षडंगेषु प्रकीर्तिता || ब्रह्मरन्ध्रे च सीमन्ते भाले भ्रूमध्ययोर्नसि || २२९ ||

वक्त्रे कण्ठे च हृदये कुक्षिनाभ्योश्च लिंगके || आधारे स्फिग्द्वये बाहुद्वये जानुद्वये तथा || २३० ||

पादयोश्च नवद्वारे पदन्यास उदाहृतः || पुनर्मूर्धनि भाले च भ्रूमध्ये च मुखे गले || २३१ ||

हृन्नाभिलिंगे पदयोः पदानि क्रमतो न्यसेत् || व्युत्क्रमेण पुनःपायुलिङ्गनाभ्यादिषु न्यसेत् || २३२ ||

ब्रह्मरन्ध्रास्यहृदयं मूलाधारेषु विन्यसेत् || चतुर्बीजानि शेषांस्तु मातृकोक्तस्वरस्थले || व्यापकं च ततः कुर्ययात्सर्वमन्त्रेण साधकः || २३३ ||

तप्तकाञ्चनसंकाशां बालेन्दुकृतशेखराम् || नवरत्नप्रभादीप्तमुकुटां कुंकुमारुणाम् || २३४ ||

चित्रवस्त्रपरीधानां मीनाक्षीं कमलस्तनीम् || नृत्यन्तीमीशमनिशं दृष्ट्वानन्दमयीं पराम् || २३५ ||

सानन्दमुखलोलाक्षीं मेखलाढ्यनितम्बिनीम् || अन्नदानरतां नित्यां भूमिश्रीभ्यां नमस्कृताम् || २३६ ||

दुग्धान्नभरितं पात्रं सरत्नं वामहस्तके || दक्षिणे तु करे देव्या दर्वीं ध्यायेत्सुवर्णजाम् || २३७ ||

त्रिकोणं च चतुष्पत्रवसुपत्रं ततःपरम् || कलापत्रं च भूबिम्बं चतुरस्रत्रयावृतम् || २३८ ||

प्. ५१९)

आदावंगानि सम्पूज्य त्रिकोणाग्रे शिवं यजेत् || ओं ह्रां शिवायेति पूजामन्त्रोयं वै नगाक्षरः || २३९ ||

अनेन पूजयेद्देवं ध्यानं तस्य निरूप्यते || गोक्षीरधामधवलं पञ्चवक्त्रं त्रिलोचनम् || २४० ||

प्रसन्नवदनं शान्तं नीलकण्ठविराजितम् || कपर्द्दिनं स्फुरत्सर्पभूषणं मल्लसन्निभम् || नृत्यन्तमीश्वरं देवं त्रिकोणाग्रे सुरेश्वरम् || २४१ ||

वामभागे त्रिकोणस्य वराहं परिपूजयेत् || तारो नमो भगवते वराहपदमुच्चरेत् || २४२ ||

रूपाय भूर्भुव इति स्वःपतये च कीर्त्तयेत् || भूपतित्वं मे देहीति प्रदापय शिखिप्रियाम् || वराहपूजने प्रोक्तो मन्त्रो रामाग्निवर्णकः || २४३ ||

नारायणं दक्षकोणे नमो नारायणाय च || ताराद्येनाष्टवर्णेन मन्त्रेण परिपूजयेत् || वामदक्षिणयोः पूज्ये भूश्रियौ स्वस्वमन्त्रतः || २४४ ||

अन्नं [अन्नं मह्यमन्नं देहि अन्नाधिपतये ममान्नं प्रदापय स्वाहा || ] मह्यमन्नमिति देहीत्युक्त्वा पुनर्वदेत् || अन्नाधिपतये चेति ममान्नं च प्रदापय || २४५ ||

स्वाहान्त आकृत्यर्णोयं ग्लौंपुटो [अस्मात्पूर्वं मन्त्रे ग्लौंबीजयोजनेन पृथ्वीपूजनमन्त्रस्तथा श्रींसंपुटितः श्रींविद्यापूजनमन्त्रोयमेव भवेत् || ] भूमिपूजने || श्रीपूजने शीपुटः स्याच्चतुष्पत्रे ततोर्चयेत् || २४६ ||

पश्चिमादिक्रमेणैव परविद्यां ध्रुवेण [ओंकारेण || ] च || भुवनेशी स्वबीजेन [ह्रींबीजेन || ] रमया [श्रींबीजेन || ] कमला तथा || २४७ ||

शुभगां कामबीजेन ब्राह्म्याद्यास्त्वष्टपत्रके || चन्द्रमण्डलरूपिण्यः पश्चिमादिक्रमेण च || २४८ ||

कलाः षोडश सम्पूज्या ह्यन्नपूर्णायै संवदेत् || तन्नामान्ते नमश्चोक्त्वा इति मन्त्रेण पूजयेत् || २४९ ||

अमृता मानदा तुष्टिः पुष्टिः प्रीती रतिश्च ह्रीः || श्रीश्च स्वाहा स्वधा ज्योत्स्ना ततो हैमवती भवेत् || २५० ||

छाया च पूर्णिमा नित्या अमावस्येति षोडश || भूपुरे लोकपालाश्च तदस्त्राणि तदग्रतः || २५१ ||

लक्षं जपेत्सनियमो दशांशेन च होमयेत् || रम्यपायससर्पिर्भ्यां सिद्धिदा भवति ध्रुवम् || २५२ ||

तर्प्पणादि ततः कुर्ययात्पूर्वोक्तविधिना सुधीः || अन्नपूर्णेश्वरी देवी पूजितान्नसुवर्णदा || २५३ ||

बीजहीनेयमेव स्यात्षोडशार्णा तथा परा || मायाद्या चाथ ताराद्या मता सप्तदशाक्षरा ||

प्. ५२०)

मायातारादिका चान्या गदिताष्टादशाक्षरा || २५४ ||

मुन्याद्याः पूर्वमुदिता माययांगक्रिया मता || अष्टनागेन्द्रवज्राद्यैः साधयेत्पूर्ववच्च ताः || २५५ ||

अन्नप्रदाख्यमन्त्रस्य पूर्वोक्तस्योच्यते विधिः || ऋषिर्ब्रह्माकृतिश्छन्दो देवते भूश्रियौ मते || २५६ ||

पंचांगानि मनोर्वर्णैर्वेदेष्वृत्वंगवायुभिः || क्षीराब्धौ स्वर्णरजतद्रवद्वीपे सुरान्विते || २५७ ||

शुभकल्पद्रुमावृत्तिशोभिते मणिकुट्टिमे || वित्तपस्याग्रतस्तत्र स्वासीने वसुधाश्रियौ || २५८ ||

धनौधान्संसृजन्त्यौ च भक्तार्थं प्रतिचिन्तयेत् || आवाह्य वैष्णवे पीठे देव्या गन्धादिभिर्यजेत् || २५९ ||

पूर्वमंगानि सम्पूज्य पूजयेच्च दलाष्टके || दिग्दलेषु क्रमात्खं च वायुमग्निं तथा जलम् || २६० ||

विदिग्दले निवृत्तिं च प्रतिष्ठामीशकोणतः || विद्यां शान्तिं ततो बाह्येष्टदले चाष्ट शक्तयः || २६१ ||

एकाक्षरं श्रियः प्रोच्य बलाकाद्याः समर्चयेत् || इन्द्रादयस्तदस्त्राणि पूजा चैवं समीरिता || २६२ ||

लक्षं जपेदाज्यपक्वेनान्नेन जुहुयात्तथा || तर्प्पणादि ततः कृत्वा विप्रान्सम्भोजयेत्ततः || गुरुं सन्तोष्य यत्नेन मन्त्रसिद्धिमवाप्नुयात् || २६३ ||

दिनादौ प्रजपेन्मन्त्रमष्टोत्तरशतं बुधः || छत्रधान्यान्नरत्नौघसमृद्धो भवति ध्रुवम् || २६४ ||

अथान्यं सम्प्रवक्ष्यामि तारो ह्रीं श्रीं मनोभवः || नभो भगवतीत्युक्त्वा माहेश्वरि ममेति च || २६५ ||

अभीप्सितं तथान्नं च देहियुग्ममनन्तरम् || अन्नपूर्णे वह्निजाया चैकत्रिंशार्णको मनुः || २६६ ||

युगाङ्गवेदसप्ताब्धिषडर्णैरङ्गकल्पनम् || ध्यानपूजाप्रयोगादि प्राग्वत्सर्वं समीरितम् || २६७ ||

अथान्यं सम्प्रवक्ष्यामि पञ्चविंशतिवर्णकम् || तारो रमा च हृल्लेखा नमो भगवतीति च || २६८ ||

माहेश्वरि प्रसन्नेति वरदे पदमुच्चरेत् || अन्नपूर्णेग्निजायांतो मन्वर्णैरंगकल्पनम् || २६९ ||

त्रिषड्वेदर्त्तुवेदाक्षिवर्णैर्ध्यानजपादिकम् || सर्वं प्राग्वत्परिज्ञेयं विशिष्टं जपतः फलम् || २७० ||

अथातः सम्प्रवक्ष्यामि गौरीमन्त्रान्महाफलान् || ह्रीं गौरिरुद्रदयिते योगेश्वरिपदं वदेत् || २७१ ||

हुंफट् स्वाहा षोडशार्णो गौरीमन्त्र उदाहृतः || अजोस्य मुनिराख्यातोनुष्टुप्छन्दोस्ति देवता || २७२ ||

गौरी सद्भाग्यशब्दस्य सर्वसम्पत्प्रदायिका || षड्दीर्घमायया कुर्ययात्षडङ्गानि मनोरथ || २७३ ||

प्. ५२१)

हेमाभां बिभ्रतीं दोर्भिर्दर्प्पणाञ्जनसाधने || पाशांकुशौ सर्वभूषां तां गौरीं सर्वदा स्मरेत् || २७४ ||

शाक्ते पीठे यजेद्देवीं चन्दनाद्यैर्मनोहरैः || अङ्गानि पूर्वमभ्यर्च्य सुभगाद्यास्ततो यजेत् || २७५ ||

सुभगा ललिता चान्या कामिनी काममालिनी || पाशांकुशा दर्प्पणाख्या चाञ्जना च शलाकिका || २७६ ||

शक्तयो दिक्षु सम्पूज्या आयुधाख्या विदिक्षु च || शक्रादयस्तदस्त्राणि गौरीपूजा समीरिता || २७७ ||

एकलक्षं जपेन्मन्त्रं दशांशं जुहुयाद्घृतैः || तर्प्पणादि ततः कुर्ययाद्गुरुं सन्तोष्य यत्नतः || २७८ ||

सिद्धे मन्त्रे प्रकुर्वीत मन्त्री काम्यानि नान्यथा || वामाक्षीणामक्षिमष्या वामोरौ सुलिखेन्मनुम् || २७९ ||

आच्छादयन्वामदोष्णा तन्मनाः प्रजपेन्मनुम् || शतं सहस्रं लोलाक्षीमानयेत्काममोहिताम् || २८० ||

एतन्मन्त्रेण जपितं गन्धपुष्पफलादिकम् || दत्तं संसेवितं सर्वजनतावश्यकारकम् || २८१ ||

अथान्यं सम्प्रवक्ष्यामि सर्वस्त्रीवश्यकारकम् || कांक्षितस्त्रीवशङ्करि सुभगे च पृथग्द्वयम् || २८२ ||

स्त्रीस्वाहेत्यूनविंशार्णो न्यासः प्राग्वत्समीरितः || गौं गौरीमूर्त्तये हृच्च पीठमन्त्र उदाहृतः || २८३ ||

सुभगायै विद्महे काममालिन्यै धीमहि || तन्नो गौरी प्रचोदयात् || २८४ ||

गायत्र्या त्वनया सर्वानुपचारान्प्रकल्पयेत् || अङ्गानि पूर्वमभ्यर्च्य सुभगाद्यास्ततो यजेत् || २८५ ||

तदग्रेष्टदले पूज्या मध्यान्तं स्वाग्रतः क्रमात् || दीर्घाष्टकोपेतमेवं प्रथमं योजितं च वै || सबिन्दुङेन्तं तन्नाम नमोन्तं तन्मनुर्मतः || २८६ ||

प्रभा ज्ञाना च वाग्वागीश्वरी स्याज्ज्वालिनी ततः || वामा ज्येष्ठा च रौद्री च गुह्यशक्तिः क्रमादिमाः || २८७ ||

लोकपालास्तदस्त्राणि होमाद्यं पूर्ववन्मतम् || अस्याद्यवर्णतस्त्वर्वाक् साध्याय च प्रयोजयेत् || जपेन्मन्त्रं शतं चापि स वश्यो भवति ध्रुवम् || २८८ ||

ब्रह्मश्रीनामिकां गौरीमथ वक्ष्ये समासतः || माया नमश्च ब्रह्मश्रीराजिते राजपूजिते || २८९ ||

जये च विजये गौरी गान्धारी त्रिभुवेति च || न वशङ्करि चेत्युक्त्वा सर्वलोकवशंकरि || २९० ||

सर्वस्त्रीपुरुषेत्युक्त्वा सर्वलोकवशं करि || पदं वदेत्सुदु द्वे द्वेहीं स्वाहा भूरसार्णवान् || ऋषिर्ब्रह्मा निवृच्छन्दो गौरी देवी प्रकीर्त्तिता || २९१ ||

प्. ५२२)

स्वाहाशक्तिश्च बीजं ह्रीं मन्त्रार्णैः स्यात् षडङ्गकम् || इन्द्रदिग्वसुहस्ताशारुद्रार्णैर्ध्यानमुच्यते || २९२ ||

पूर्णचन्द्रलसन्मौलिं बन्धुजीवारुणाङ्गिकाम् || पाशांकुशधरां त्र्यक्षां शुकपुष्पविराजिताम् || शोणलेपां जगद्वन्द्यां कुसुम्भारुणवस्त्रिकाम् || २९३ ||

आदावङ्गानि सम्पूज्य मातृकावेष्टनं ततः || लोकपालांस्तदस्त्राणि पूजाक्रम उदाहृतः || २९४ ||

अयुतं च जपः कार्ययः पायसैर्जुहुयात्ततः || मधुरत्रयसंयुक्तैर्होमः स्यात्तिलतण्डुलैः || २९५ ||

रक्तोत्पलैर्वा लवणैरथ वा मधुरैः फलैः || दिनत्रयं सहस्रं तु शीघ्रं वश्यकरः स्मृतः || २९६ ||

प्रातःकाले तु सूर्ययस्य मण्डलस्थां च देवताम् || ध्यात्वा चाष्टोत्तरशतं जपेत्सर्वजगद्वशम् || २९७ ||

अथ राजमुखीं गौंरीं वक्ष्ये सप्ताब्धिवर्णिकाम् || ओं राजमुखि राजाधिमुखि वश्यमुखीति च || २९८ ||

शक्तिश्रीकामबीजानि देविदेवि समुच्चरेत् || महादेवीति देवाधिदेवि सर्वजनस्य च || २९९ ||

मुखं मम वशं चेति कुरुयुग्माग्निगेहिनी || मत्रवणस्तु हृदयं त्रिंशद्भिः शिर ईरितम् || ३०० ||

मन्त्रारम्भात्पुनः सप्तदशभिस्तु शिखा स्मृता || वर्म्माष्टभिः शरैर्नेत्रं मेघैरस्त्रं प्रकीर्त्तितम् || ३०१ ||

ऋष्यादि ध्यानपूजादि प्राग्वद्वक्ष्ये प्रयोगकम् || सर्वजनपदस्थाने साध्यनाम नियोजयेत् || ३०२ ||

जपहोमतर्प्पणादिकरणे परमं वशम् || मधुरत्रयसंयुक्तमष्टोत्तरशतं हुनेत् || ३०३ ||

सपुष्पासहदेव्यास्तु समिधः सप्तरात्रकम् || तद्भस्मना प्रयोगस्तु समस्तजनवश्यकृत् || ३०४ ||

अथास्य भेदं वक्ष्यामि हसरा वाग्भवान्विताः || आद्यकूटं द्वितीयं स्याद्राजमुख्यादि पूर्ववत् || अष्टचत्वारिंशदर्णो मन्त्रस्तद्वत्समीरितः || ३०५ ||

यो विशेषस्तं तु वक्ष्ये भवर्ध्यब्ध्यब्धिसायकैः || मेघैश्चापि मनोर्वर्णैः षडङ्गविधिरीरितः || ३०६ ||

जपहोमादिकं प्राग्वत्प्रयोग इह तूच्यते || सुसम्पन्नं घृतं हुत्वा सहस्रं सप्तवारकम् || सम्पाताज्यन्तु साध्यस्य प्राणिनां वशकारकम् || ३०७ ||

साध्यनक्षत्र वृक्षेण कुर्ययात्साध्याकृतिं शुभाम् || तस्या मनुं प्रतिष्ठाप्य प्राङ्गणे निखनेच्च ताम् || ३०८ ||

तत्रानलं समाधाय रक्तचन्दनसंयुतैः || जपापुष्पैर्निशीथिन्यां जुहुयात्सप्त वासरान् || ३०९ ||

सहस्रं प्रत्यहं पश्चात्तां निष्कास्य सरित्तटे ||

प्. ५२३)

निखनेत्साधकस्तस्य साध्यो दासो भवेद् ध्रुवम् || ३१० ||

अथातः सम्प्रवक्ष्यामि वज्रप्रस्तारिणीमनुम् || वाग्बीजं चापि हृल्लेखा नित्यक्लिन्ने मदद्रवे || ३११ ||

स्वाहांतो द्वादशार्णोयमङ्गिरास्तु मुनिर्मतः || त्रिष्टुप्छन्दो देवता च वज्रप्रस्तारिणी मता || ३१२ ||

बीजेनाद्येन चाङ्गानि षट् च दीर्घान्वितेन च || अस्या पूजादिकं सर्वं नित्यक्लिन्नावदाचरेत् || ३१३ ||

अथातः सम्प्रवक्ष्यामि वज्रेश्वर्यया महामनुम् || ह्रीं क्लीं क्लिन्ने तथा क्रों च पश्चान्नित्यमदद्रवे || ३१४ ||

ह्रीं चेति द्वादशार्णोयं बीजं शक्तिश्च ह्रीं मता || ऋषिर्ब्रह्मा च गायत्री छन्दो वज्रेश्वरी सुरी || ३१५ ||

आद्यो माया भवेद्बीजं चान्तिमा शक्तिरुच्यते || वाग्भवं कीलकं ज्ञेयं ह्रीं क्लीं ह्रीं च हृन्मनुः || ३१६ ||

ह्रीं [ह्रीं क्लीं ह्रौं || एतन्मन्त्रेण शिखायां न्यासः कार्यः कुत एतन्न्यासे मन्त्राक्षरं ह्रींबीजसम्पुटितं दृश्यते तेनायमपि तथैव भवेत् || ] क्लीं शिरः शिखा ह्रीं क्रों ह्रीमथ कवचं भवेत् || ह्रीं नित्यक्लिन्ने ह्रीं नेत्रं ह्रीं मदे ह्रीमितीरितम् || ३१७ ||

ह्रीं द्रवे ह्रीमिदं चास्त्रं वर्णन्यासक्रमं ब्रुवे || इत्येवं शक्तिपुटितान्मन्त्रार्णान्दश विन्यसेत् || ३१८ ||

श्रोत्रनासाकपोलाक्षिनाभिगुह्येषु च क्रमात् || ततः सञ्चिन्तयेद्देवीं सर्वसौख्यप्रदायिनीम् || ३१९ ||

रक्तां रक्ताम्बरां रक्तगन्धमाल्यविभूषिताम् || चतुर्भुजां त्रिनयनां माणिक्यमुकुटोज्ज्वलाम् || ३२० ||

पाशांकुशाविक्षुचापदाडिमीपुष्पसायकान् || दधानां बाहुभिर्नेत्रैर्दर्प्पणामोदशीतलैः || ३२१ ||

पश्यन्तीं साधकं त्र्यस्रे षट्कोणाढ्यमहीपुरे || चक्रमध्ये सुखासीनां स्मेरवक्त्रसरोरुहाम् || ३२२ ||

शक्तिभिः स्वस्वरूपाभिरावृतां पोतमध्यगाम् || सिंहासनेऽभितः प्रेङ्खत्पोतस्थाभिश्च शक्तिभिः || ३२३ ||

वृतान्ताभिर्विनोदाप्तां यातायातादिभिस्तथा || शोणाब्धौ हेमपोते च सिंहासनमनन्तरम् || तत्र चक्रं तत्र देवीं सम्यगावाह्य पूजयेत् || ३२४ ||

त्रिकोणस्याग्रमारभ्य चेच्छां ज्ञानां क्रियाभिधाम् || शक्तिं सम्पूज्य देव्यास्तु वामकोणादितोर्चयेत् || ३२५ ||

शक्तिषट्कं च षट्कोणे डाकिनीं राकिनीं तथा || लाकिनीं काकिनीं चैव शाकिनीं हाकिनीं तथा || ३२६ ||

प्. ५२४)

बहिर्द्वादशपत्रे च देव्यग्रात्सव्यतो यजेत् || हृल्लेखां क्लेदिनीं क्लिन्नां क्षोभिणीं मदनातुराम् || ३२७ ||

निरञ्जनीं रागवतीं तथैव मदनावतीम् || मेखला द्राविणीं वेगवतीं द्वादक्षशक्तिकाः || ३२८ ||

तद्वहिः षोडशदले कमलां कामिनीं यजेत् || कृत्यां कान्तां च कलितां कौताख्यां च किरातिकाम् || ३२९ ||

कलां च कलनां चैव कौशिकीं कम्बुवादिनीम् || कातरां ककटां कीर्त्तिं कुमारीं कुंकुमामपि || ३३० ||

चतुरस्रे तु देव्यग्रे द्वारदक्षिणपार्श्वतः || क्रमाद्यजेद्द्वारयोर्द्धेकोणेकोणे तथैकिकाम् || ३३१ ||

भगिनीं वेगिनीं नागां चपलां पेशलां सतीम् || रतिं श्रद्धां भोगलोलां मन्दां मत्तां मनस्विनीम् || यजेदाशाधिपान्बाह्ये तदणास्त्रि ततो बहिः || ३३२ ||

एवं सम्पूजयन्मर्त्यो दारिद्र्यान्मुच्यतेऽचिरात् || रोगापमृत्युदौर्भाग्यजराशोकादिविच्युतः || ३३३ ||

मन्त्री लक्षत्रयं जप्त्वा तद्दशांशं हुनेद्घृतैः || आरग्वधप्रसूनैर्वा प्रसूनैर्बकुलोद्भवेः || ३३४ ||

तर्प्पयेद्विधिना तद्वत्सलिलैर्भक्तिमान्सुधीः || आत्मानमभिषिच्याथ तर्प्पयेद्ब्राह्मणानपि || ३३५ ||

एवं संसिद्धन्मत्रस्तु नित्यार्चानिरतः सदा || गुरुभक्तः प्रकुर्वीत प्रयोगान्निजवाञ्छितान् || ३३६ ||

सहस्रजापी स्थितधीर्मन्त्रवीर्ययविदात्मवान् || यः सोपि काम्यान्कुर्वीत प्रयोगान्निजवाञ्छितान् || ३३७ ||

यदज्ञानेन मोहेन चापलेनाथ वा चरेत् || अनर्थक्लेशरोगादि पीडाः प्राप्नोति निश्चितम् || ३३८ ||

अरुणैः पङ्कजैर्होमं कुर्ययात्त्रिमधुरप्लुतैः || षण्मासाल्लभते लक्ष्मीं महतीं श्लाघ्यविग्रहाम् || ३३९ ||

कह्लारैः क्षाद्रसंयुक्तैः पूर्णाब्दं तद्दिनावधि || जुहुयान्नित्यशो भक्त्या सहस्रं विकचैः शुभैः || ३४० ||

तद्दिनेषु च पूर्वोक्तान्भोजयेदुक्तरूपतः || तावज्जपेच्च होमान्ते यावत्संख्यं हुतं कृतम् || ३४१ ||

चम्पकैः क्षौद्रसंसिक्तैः सहस्रहवनाद् ध्रुवम् || लभते स्वर्णनिष्काणां शतं मासेन पूववत् || ३४२ ||

पाटलैर्घृतसंयुक्तैर्जुहुयात्त्रिसहस्रकम् || दर्शादिमासाल्लभते चित्राणि वसनानि च || ३४३ ||

कर्पूरचन्दनादीनि सुगन्धीनि च मासतः || वस्तूनि लभते हृद्यैर्वस्तुभिर्भागयोगिभिः || ३४४ ||

शालिभिः क्षीरसंसिक्तैर्मन्त्रविच्च शतं हुनेत् || तेन शालिसमृद्धिः स्यान्मासैः षड्भिरसंशयम् || ३४५ ||

तिलैर्हुतैस्तु दिवसैर्वर्षादारोग्यमाप्नुयात् ||

प्. ५२५)

स्वजन्मसूचिषु तथा दूर्वाभिर्जुहुयात्सुधीः ||

निरातङ्को महाभागो शतं वर्षाणि जीवति || ३४६ ||

गुडूचीतिलदूर्वाभिः स्वजन्मसु सदा हुनेत् || चिरायुः श्रीयशोभाग्यपुण्यदृष्ट्यादिभाग्भवेत् || ३४७ ||

घृतपायसदुग्धैश्च हुनेत्तेषु त्रिषु क्रमात् || आयुरारोग्यविभवैर्जनमान्यो भवेत्तदा || ३४८ ||

सप्तम्यां कदलीहोमात्सौभाग्यं लभते ध्रुवम् || दूर्वात्रिकैस्तु प्रादेशमात्रैस्त्रिस्वादुसंयुतैः || षण्मासादब्दतो वापि रोगमुक्तः सुखी भवेत् || ३४९ ||

तद्दिनेषु जपेद्विद्यां नित्यशः सलिलं स्पृशन् || सहस्रवारं तैस्तोयैः स्नानं पानं समाचरेत् || पाकाद्यमपि तेनैव कुर्ययाद्रोगविमुक्तये || ३५० ||

साध्यर्क्षवृक्षसञ्चूर्णं त्र्यूषर्णं [नागरपिप्पलीमरिचानि त्र्यूषणशब्देनोच्यन्ते || ] सर्षपास्तिलाः || पिष्टं च साध्यपादोत्थरजसा च समन्वितम् || कृत्वा पुत्तलिकान्तैस्तु हृदयेन च संयुताम् || ३५१ ||

प्राग्वच्छित्त्वायसैः शस्त्रैस्तीक्ष्णैः पुत्तलिकां हुनेत् || त्रिसहस्रं त्रियामायां सर्षपैस्तद्रसप्लुतैः || शतयोजनदूरादप्यानयेद्वनिता बलात् || ३५२ ||

तान्तु पुत्तलिकां मद्यमधूच्छिष्टसमन्विताम् || कृतप्राणप्रतिष्ठां च श्मशाने निखनेन्निशि || क्लेशैस्तैः स विनिर्मुक्तः सुखी जीवति भूतले || ३५३ ||

साध्यवृक्षेण कृत्वा तां सर्षपाढ्येन चेप्सिताम् || तोयमध्ये निधायैतां क्वाथयेद्युतवासरे || वैरी घोरज्वरेणार्त्तः कृते प्राग्वत्सुखी भवेत् || ३५४ ||

तथैव चण्डिकागेहे यथाविधियुतो यजेत् || साध्यो वशः स्यान्नृपतिर्भास्करायतने तथा || तद्विधानेन सहितेशत्रुरुन्मादवान्भवेत् || ३५५ ||

अथातः सम्प्रवक्ष्यामि त्वरितामन्त्रमुत्तमम् || ओं ह्रीं ह्रूं खें चें क्षैं क्षः श्रीं ह्रूं क्षें ह्रीं फट् मनुर्भवेत् || ३५६ ||

त्वरिताया द्वादशार्णो मुनिरर्जुन ईरितः || विराट् छन्दश्च ओं बीजंह्रीं शक्तिस्त्वरिता सुरी || ३५७ ||

ओं ह्रीं ह्रूं हृदयं प्रोक्तं शिरः खेंचें समीरितम् || क्षैं क्षः शिखा च वर्म्म श्रीं ह्रूं क्षें नेत्रम्प्रकीर्त्तितम् || ३५८ ||

ह्रींफडस्त्रं षडङ्गानि कृत्वा वर्णांस्ततो न्यसेत् || कपालकण्ठहृन्नाभिगुह्योरुषु सजानुषु || जङ्घयोः पादयोर्मन्त्री सर्वेण व्यापकञ्चरेत् || ३५९ ||

लसच्छ्यामतनुं रक्तपङ्कजोद्यत्पदाम्बुजाम् || ताटङ्कातङ्कविद्योतिरशनानूपुरात्मकैः || ३६० ||

विप्रक्षत्रियविट्शूद्रजातिभिर्भीमविग्रहैः ||

प्. ५२६)

द्विद्विक्रमादष्टनागैः कल्पितोद्यत्सुभूषणाम् || ३६१ ||

पल्लवांकुशसंवीतशिखिपुच्छकृतैः शुभैः || वलयैर्भूषितभुजाम्माणिक्यमुकुटोज्ज्वलाम् || ३६२ ||

बर्हिबर्हकृतापीडां छत्रान्तान्तत्पताकिनीम् || गुञ्जाफललसद्धारविलसत्कुचमण्डलाम् || ३६३ ||

त्रिनेत्रां चारुवदनां मन्दस्मितमुखांबुजाम् || वराभयकरां गण्डद्वयाम्मुकुटशोभिताम् || ३६४ ||

फणासहस्रसंयुक्तावथ तक्षकवासुकी || शङ्खपालः स्वर्णवर्णः फणाष्टकशतावृतः || आसने हेमरचिते त्वष्टसिंहवृतेऽभितः || ३६५ ||

आदौ तु पीठमन्त्रेण देवीपीठम्प्रपूजयेत् || क्षंह्रुंहंवज्रदेहेति [क्षंहुं हं वज्रदेह क्षिं कुरुकुरु गर्जगर्ज हुंहुंछां पञ्चाननाय नमः || ] क्षिं चोक्त्वाथ कुरुद्वयम् || ३६६ ||

गर्ज्जद्वयन्तथा हुं हुं छां च पञ्चाननाय च || नमः षड्विंशदर्णोयं कुर्ययादष्टदलन्ततः || ३६७ ||

कर्णिकायाञ्च पूर्वादिकेशरेष्वष्टसुक्रमात् || षडङ्गानि प्रणीतां च तद्गायत्रीक्रमाद्यजेत् || ३६८ ||

ह्रुंकालीं खेचरीं चण्डां छेदिनीं क्षेपिणींस्त्रियम् || हूंकारीं वा शचीं क्षेमकरीं पूर्वादिपत्रके || ३६९ ||

तद्बहिर्भूपुरद्वन्द्वं पश्चिमद्वारसंयुतम् || फट्कारीं पूजयेद्द्वारमध्ये देव्यास्तु किङ्करीम् || ३७० ||

कृष्णां कर्बुरकेशीं च हस्त तालवतीं जयेत् || जयां च विजयां द्वारपार्श्वयोर्वेत्रधारिणीम् || ३७१ ||

तयोरग्रे किंकरं च गदाहस्तम्प्रपूजयेत् || किङ्कराय रक्षरक्ष त्वरिताज्ञास्थिरो भव || ३७२ ||

हुंफडष्टादशाणार्येम्मन्त्रः किंकरपूजने || तदग्रे लोकपालांश्च तदस्त्राणि ततो यजेत् || गायत्र्यृचा च सम्पूज्य देवसान्निध्यकारिणीम् || ३७३ ||

त्वरितादेवि विद्महे तुणिविद्यायै धीमहि || तन्नो देवी प्रचोदयाम् || ३७४ ||

प्रणवेन विना मन्त्रो भवार्णः परिकीर्त्तितः || मोहनः सर्वलोकानान्तेन मोहननामकः || ४७५ ||

प्रणवानान्तु नवकमादौ च स्यान्नखार्णवान् || सर्वसिद्धिप्रदातृत्वात्सर्वसिद्धीश्वरो मतः || ३७६ ||

आरक्तैर्वनसम्भूतैर्मनोज्ञैश्च सुगन्धिभिः || धूपदीपादिभिर्नृत्यगीतैः सम्पूजयेञ्छिवाम् || ३७७ ||

एवम्पूजां विधायाग्रे यजेद्विद्यां सहस्रकम् || शतं वा कृतहोमस्तु प्राग्वत्पूजां समापयेत् || ३७८ ||

एवं संस्मृत्य लक्षैकम्प्रजपेन्मनुमुत्तमम् || मध्वक्तबिल्वसमिधो जुहुयात्तद्दशांशतः || ३७९ ||

प्. ५२७)

सुगन्धिसलिलैश्चैव तर्प्पयेत्त्वरिताम्पराम् || आत्मानमभिषिच्याथ ब्राह्मणानपि भोजयेत् || ३८० ||

एवंसिद्धे मनौ तस्मै नरनारीनराधिपाः || नमस्क्रियाम्प्रकुर्वन्ति नात्र कार्यया विचारणा || ३८१ ||

देवदानवगन्धर्वयक्षचारणयोषितः || सिद्धविद्याधारणां च योषितोप्सरसस्तथा || ३८२ ||

विस्पष्टजघनोरस्काः पृष्ठदोर्मूलमञ्जुलाः || प्रस्खलत्पदविन्यासाः संस्फुरद्दशनांशुकाः || ३८३ ||

प्रलोभयन्ति चागत्य मन्त्रिणं ताभिरन्तिके || प्रलोभ्यमानो मन्त्रज्ञो यदा विक्रियते न सः || तदैव वाञ्छितन्तस्मै ददाति त्वरिताखिलम् || ३८४ ||

सञ्जप्य कर्णयोर्विद्यां पद्भ्यां च जपसिद्धये || सन्ताड्य शीर्षे सहसा मृतमुत्थापयेदसौ || ३८५ ||

काम्यहोमविधिं वक्ष्ये यथाविधि विधानवित् || कृत्वा योनिं कुण्डमध्ये समाधायाग्निमत्र वै || ३८६ ||

सम्पूज्य पूर्वविधिना देवतां विधिवत्सुधीः || तिलसर्षपगोधूमशालिधान्ययवैर्हुनेत् || ३८७ ||

त्रिमध्वक्तैरेकशो वा समेतैर्वा समृद्धये || बकुलैश्चम्पकै रक्तैः कह्लारैररुणोत्पलैः || ३८८ ||

कैरवैर्मल्लिकाकुन्दमधुकैरिन्दिराप्तये || अशोकैः पाटलैर्बिल्वैस्तत्तदाप्नोति निश्चितम् || ३८९ ||

दूर्वां गुडूचीमश्वत्थं वटमारग्वधं तथा || सिताज्यलक्षकं हुत्वा रोगान्मुक्तो नरोऽचिरात् [भवेदिति शेषः || ] || ३९० ||

इक्षुजम्बूनारिकेरमोचागुडसिता हुनेत् || अचलां लभते लक्ष्मीं भोक्ता च भवति ध्रुवम् || ३९१ ||

एतैरुदीरितैराज्यमधुक्षीरप्लुतैर्हुनेत् || एकैकैर्वनिता वश्या यावज्जीवं धनादिभिः || ३९२ ||

एतैराज्यप्लुतैर्भूयो वश्यास्स्युर्हवनात्तथा || क्षीराक्तैस्तैर्हुनेन्मर्त्यो वशे तिष्ठन्त्यशेषतः || ३९३ ||

सर्षपाज्यैर्हुनेन्मृत्युकाष्ठाग्नौ वैरिमृत्यवे || तदुक्तवैरिणो नित्यम्माषैरपि च तत्कृते || ३९४ ||

यक्षेन्धनाग्नौ यो नित्यं क्षतजोत्पादितं चरुम् || कारस्करघृतोपेतं फणिशीर्षस्रुचा हुनेत् || ३९५ ||

कृष्णांशुकशिरोवेश्टः खड्गपाणिश्च रोषवान् || निशायां जुहुयात्सद्यो निहन्तुं वैरिणं हठात् || ३९६ ||

मृत्युकाष्ठानले तस्य फलैः पत्रैश्च होमतः || सप्तरात्रादरातेस्तु गजाश्वा रोगमाप्नुयुः || ३९७ ||

प्. ५२८)

चतुरंगुलजे होमे चतुरङ्गबलैर्नृपः || सप्ताहाद्रोगमाप्नोति दुःखार्त्तो नैव संशयः || ३९८ ||

मन्त्रजप्तोदकैः सेकाद्रोगशांतिर्भविष्यति || तज्जप्तमष्टधा तावद्यज्जलं चुलुकोदकात् || ३९९ ||

होमसङ्ख्या यावती स्याज्जपसंख्या च तावती || तत्कर्णरन्ध्रजापाच्च नश्येयुश्च विषग्रहाः || ४०० ||

तद्यन्त्रस्थापनं चैव विषभूतारिनाशनम् || अथातः सम्प्रवक्ष्यामि शिवदूतीमनुम्परम् || ४०१ ||

माया च शिवदूत्यै हृत्सप्तार्णोयम्मनुर्मतः || ऋषी रुद्रोस्य गायत्री छन्दः स्याद्देवता शिवा || ४०२ ||

ह्रीं बीजं च नमः शक्तिः शिवदूत्यै च कीलकम् || षड्दीर्घयुक्तमनुना षडंगविधिरीरितः || ४०३ ||

तेनैव पुटितैरङ्गे मन्त्रार्णैर्विन्यसेत्तनौ || श्रोत्रनासाकपोलाक्षिनाभिषु क्रमतः सुधीः || पृष्ठे मनसि विन्यस्य व्यापकं विद्यया चरेत् || ४०४ ||

निदाघकालमध्याह्नदिवाकरसमप्रभाम् || नवरत्नकिरीटां च त्रीक्षणामरुणाम्बराम् || ४०५ ||

नानाभरणसम्भिन्नदेहकान्तिविराजिताम् || शुचिस्मितामष्टभुजां स्तूयमानाम्महर्षिभिः || ४०६ ||

पाशं खटङ्गदां रत्नचषकं वामबाहुभिः || दक्षिणैरंकुशं खड्गकुठारं कमलन्तथा || ४०७ ||

दधानां साधकाभीष्टदानोद्यमसमन्विताम् || ध्यात्वैवम्पूजयेद्देवीं दूतीं दुरितनाशिनीम् || ४०८ ||

वृत्तद्वयं बहिष्कुर्ययादन्तरालेङ्गषट्ककम् || त्रिकोणस्याग्रकोणादिप्रादक्षिण्येन तद्बहिः || इच्छाज्ञानक्रियाशक्तीस्त्रिषु कोणेषु पूजयेत् || ४०९ ||

तद्बाह्ये कोणषट्के तु स्वाग्रतः पूजयेदिमाः || सिद्धा वाणी पूर्णसिद्धाग्रे विग्रहवती तथा || ४१० ||

नादा मनोन्मनी चेति तद्बहिश्चापि षड्ढले || डाकिन्याद्यास्तदग्रे तु यजेदष्टदलाम्बुजे || ४११ ||

शिवदूतीसमाकारवर्णायुधसमन्विताः || सुमुखीं सुन्दरीं सारां सुमनां च सरस्वतीम् || ४१२ ||

समयां सर्वगां सिद्धां तद्बाह्येष्टदले यजेत् || वागीशां वरदां विश्वां विनदां विघ्नकारिणीम् || ४१३ ||

वीरां विघ्नहरां विद्यां तदग्रे भूपुरे यजेत् || द्वारस्य दक्षिणम्भागं समारभ्य प्रदक्षिणम् || ४१४ ||

विह्वलां कर्षिणीं लोलां नित्यां मदनमालिनीम् || प्रमोदां कौतुकां पुण्यां लोकेशास्त्राणि तद्बहिः || ४१५ ||

लक्षञ्जपेत्प्रयत्नेन घृताक्तेन च होमयेत् ||

प्. ५२९)

तर्प्पयेद्गन्धसलिलैरात्मानमभिषेचयेत् || ४१६ ||

ब्राह्मणान्भोजयेच्चापि गुरुं यत्नेन तोषयेत् || वशयेद्वनिता होमात्कौशिकैर्मधुमिश्रितैः [गुग्गुलुभिः || ] || नारिकेलफलोपेतैर्गुडैर्लक्ष्मीमवाप्नुयात् || ४१७ ||

तथाज्यसिक्तैः कह्लारैः क्षीराक्तैररुणोत्पलैः || त्रिमध्वक्तैश्चम्पकैश्च प्रसूनैर्बकुलोद्भवैः || ४१८ ||

मधूकजैः प्रसूनैश्च होमात्कन्यामवाप्नुयात् || पुन्नागजैर्हुतैर्वस्त्राण्याज्यैरिष्टमवाप्नुयात् || ४१९ ||

महिषीर्माहिषैराज्यैरजागव्यैश्च गास्तथा || अवाप्नोति हुतैराज्यैरम्लै रत्नादि साधकः || ४२० ||

शालिपिष्टमयीं कृत्वा पुत्तलीं च सितायुताम् || हृद्देशेन्यस्य साध्याख्याम्पचेत्तैलाज्ययोर्निशि || ४२१ ||

रात्रिंदिवं तु ताम्मन्त्री विद्याजप्तान्तु भक्षयेत् || सप्तरात्रप्रयोगेण नरो नारी नृपोथ वा || दासवच्च समायाति प्रियं प्राणादि चार्पयेत् || ४२२ ||

हयारिपुष्पैररुणैस्सितैर्वा जुहुयात्ततः || त्रिसप्तरात्रान्महतीमवाप्नोति श्रियं नरः || ४२३ ||

छागमांसैस्त्रिमघ्वक्तैर्होमात्स्वर्णमवाप्नुयात् || क्षीराक्तैः सस्यसम्पन्नाम्भुवमाप्नोति मण्डलात् || पद्माक्षैर्जुहुयाल्लक्ष्मीमवाप्नोति त्रिभिर्दिनैः || ४२४ ||

समस्तापत्तारणीयम्मोहिनी विश्वमोहिनी || श्रीकरा शिवरूपाह्वा प्रोक्ता सर्वसमृद्धिदा || ४२५ ||

अथातः सम्प्रवक्ष्यामि त्रिवर्णान्तु त्रिकण्टिकाम् || हुंखेंक्षः फट् चेति मन्त्र ऋष्यादि त्वरितासमम् || ४२६ ||

षडंगन्तु द्विरुक्तार्णैर्ध्यानमस्या निरूप्यते || पादादिनाभिपर्ययन्तमरुणां नाभितो गलम् || ४२७ ||

नीलां गलाद्ब्रह्मरन्ध्रं श्वेतां च चतुराननाम् || हस्तेषु शङ्खचक्रे च दीपौ चन्द्रार्धशेखराम् || ४२८ ||

अर्चयेत्त्वरितापीठे प्रयागोद्यन्तथैव च || वर्णलक्षं जपेदन्ते दशांशेन घृतैर्हुनेत् || ४२९ ||

आत्मानन्देवतारूपं ध्यात्वा कृत्वा करद्वये || शूलमुद्रां ग्रहग्रस्तान्दृष्ट्वेमम्प्रजपेन्मनुम् || २३० ||

आशुग्रहात्प्रमुच्येत नरो मन्त्रप्रभावतः || नातः परतरा विद्या ग्रहनिर्वापणक्षमा || ४३१ ||

अथातः सम्प्रवक्ष्यामि विद्यां वश्यत्रिकण्टिकाम् || खेंस्त्रींक्षें त्र्यर्णमन्त्रोयं निखिलं त्वारतासमम् || ४३२ ||

अथातः सम्प्रवक्ष्यामि कौमार्यया विधिमुत्तमम् || कौं कौमार्ययै नम इति षडर्णो मन्त्र ईरितः || ४३३ ||

मुनिर्ब्रह्मा च गायत्री छन्दः कौमारिका भवेत् ||

प्. ५३०)

देवता कौमिदं बीजं कौमार्यये शक्तिरुच्यते || ४३४ ||

मन्त्रवर्णैः षडङ्गानि हृदि ध्यायेच्च देवताम् || शक्त्यक्षस्रग्वराभीतिकरां बन्धूकसन्निभाम् || ४३५ ||

मयूरध्वजिनीं चैव रक्तामौदुम्बरस्थिताम् || हरित्कञ्चुकिकां रम्यां नानालङ्कारभूषिताम् || ४३६ ||

आदावङ्गानि चाभ्यर्च्य पञ्चकोणे यजेत्पुनः || अहल्यान्द्रौपदीं सीतान्तारा मन्दोदरीमपि || ४३७ ||

ब्राह्म्यादिका अष्टदले दिक्पतीनायुधानि तु || मुख्या पूजा भवेदस्याः कुमार्यया एव नान्यतः || ४३८ ||

कुमार्यभावेन्यदेशे पूजेयं तु समीरिता || लक्षषट्कञ्जपः प्रोक्तः पञ्चखाद्यैस्तथा हुनेत् || ४३९ ||

मधुरत्रयसंयुक्तैः सिद्धमन्त्रस्ततो भवेत् || तर्पणम्मार्जनं कृत्वा कुमारीरपि भोजयेत् || ४४० ||

अथ मोटनकं वक्ष्ये देवाविर्भावकारणम् || पाकक्रिया प्रकर्त्तव्या चतुर्भक्ष्यसमन्विता || भार्यया साधकेन्द्रस्य पातिव्रत्यादियुक्तया || ४४१ ||

अप्रसूताः स्त्रियः पञ्च आहूय सुकुमारिकाः || अलंकृताः पवित्रास्ता एकपंक्त्योपवेशयेत् || ४४२ ||

तदादौ विघ्नपस्थानमन्त्रे तु बटुकस्य च || ताः सम्पूज्य महत्पात्रं पवित्रं च तथा चरेत् || ४४३ ||

स्वस्वद्विगुणमानेन मध्वाज्यसमितं दधि || दुग्धं च निक्षिपेत्तत्र नैवेद्यन्तत्र निक्षिपेत् || ४४४ ||

कुमारिकाया हस्तेन मन्थयेयुः स्त्रियश्च तत् || तन्मन्थनान्महेशानि देवावेशः प्रजायते || ४४५ ||

देवावेशे जायमाने सुगन्धो वाति मारुतः || सर्वं मनोगतं वक्ति देवता सुप्रसीदति || ४४६ ||

सिद्ध्यन्ति सर्वकार्ययाणि मोटकानां शतेन च || नखैर्भवेद्विवाहस्तु पञ्चाशद्भिः सुतास्तथा || ४४७ ||

अशीत्या गतराज्याप्तिर्विंशत्या लभते धनम् || अष्टोत्तरशतेनापि साधकेन तु मेलयेत् || ४४८ ||

कौमारिका चेष्टदेवं कुमार्यया ईरितो विधिः || अथातः सम्प्रवक्ष्यामि वैष्णवीमन्त्रमद्भुतम् || अकचटतपयशैर्वैष्णव्या मन्त्र ईरितः || ४४९ ||

अष्टाक्षरो मुनिश्चास्य नारदोनुष्टुबुच्यते || छन्दस्तु वैष्णवी देवी न्यासः प्रणवपूर्वकः || ४५० ||

मूलमन्त्राक्षरैः कुर्ययात्त्रिभिस्त्रिभिरनुक्रमात् || विन्यसेदक्षराण्यष्टावोङ्कारं च तथा स्मरेत् || ४५१ ||

प्. ५३१)

शोणपद्मप्रतीकाशां मुक्तामूर्द्धजम्बिनीम् || लसत्काञ्चनसम्भूतकुण्डलोज्ज्वलशालिनीम् || ४५२ ||

स्वर्णरत्नसमुन्नद्धकिरीटसूत्रधारिणीम् || कृष्णशुक्लारुणैर्नेत्रैस्त्रिभिश्चापि विभूषिताम् || ४५३ ||

बन्धूकदन्तरसनाशिरीषसुमनासिकाम् || कम्बुग्रीवां विशालाक्षीं सूर्ययकोटिसमप्रभाम् || ४५४ ||

चतुर्भुजां विवसनां पीनोन्नतपयोधराम् || दक्षिणाभ्यां कराभ्या तु खड्गं च जपमालिकाम् || ४५५ ||

बिभ्रतीं वामहस्ताभ्यां त्वभयं च वरं तथा || अनल्पनागनासोरुं गुप्तगुल्फां सुपल्लिकाम् || गात्रेण रत्नस्तम्भं च सम्यगालम्ब्य संस्थिताम् || ४५६ ||

किमिच्छसीति वचनं व्याहरन्तीं मुहुर्मुहुः || पञ्चाननं पुरः संस्थं निरीक्षन्तीं स्ववाहनम् || ४५७ ||

ईदृशीं चण्डिकां ध्यात्वा नमः फडिति मस्तके || स्वबीजे सुमनो दद्यात्साहमेवं विचिन्तयेत् || ४५८ ||

पञ्चाननं मण्डलस्थं मध्ये वश्यं प्रपूजयेत् || आवाहनं ततः कुर्ययाद्गायत्र्या शिरसा सह || ४५९ ||

महामायायै विद्महे चण्डिकांयै धीमहि || तन्नो देवी प्रचोदयात् || ४६० ||

ततस्तु मूलमन्त्रेण गन्धं पुष्पं सदीपकम् || नैवेद्यं च ततो दद्यान्मोदकं पायसं तथा || ४६१ ||

पुष्पाञ्जलित्रयं दद्यान्मूलमन्त्रेण शोभनम् || एवं सम्पूज्य मध्ये तु मन्त्रेणांगानि पूजयेत् || ४६२ ||

शैलपुत्रीं चन्द्रघण्टां स्कन्दमातरमेव च || कालरात्रिं च दिक्पत्रेष्वर्चयेच्चन्दनादिभिः || ४६३ ||

चण्डिकामथ कूष्माण्डां तथा कात्यायनीं शुभाम् || महागौरीं चाग्निकोणनैर्-ऋत्यादिषु पूजयेत् || ४६४ ||

ततः सम्पूज्य लोकेशीं तदस्त्राणि च मन्त्रवित् || महामायां नमामीति मूलमन्त्रेण चाष्टधा || ४६५ ||

पूजयेत्पद्ममध्ये तु सुमनाञ्जलिभिस्तथा || अष्टभिश्च महामायां नमामीति च मन्त्रतः || ४६६ ||

देव्यै समर्प्य धूपादि सर्वं प्राग्वत्समापयेत् || लक्षद्वयं भवेदस्य पुरश्चरणकर्म्म तु || ४६७ ||

दशांशो होम आज्येन कर्त्तव्यं तर्प्पणादिकम् || अशुचिर्न महामायां पूजयेत्तु कदाचन || ४६८ ||

अवश्यं तु स्मरेन्मन्त्रं योतिभक्तियुतो भवेत् || दन्तरक्ते समुत्पन्ने स्मरणं न चविद्यते || ४६९ ||

दुःखान्नेत्रजले जाते क्रोधादिक्षुद्रकर्म्मणि || धूमोद्वारे मैथुने च सूतके मृतके च वै || ४७० ||

प्. ५३२)

जलौकादर्शने सर्प्पकृमिभूनागदर्शने || कामाज्जातेङ्गनास्पर्शे मृते पितरि वत्सरम् || ४७१ ||

आसेव्ये गुरुविप्राणां क्षीणे वीर्ययेच्युते तथा || आकर्षे मातृमरणे षण्मासं च गुरौ मृते || ४७२ ||

भार्ययामृतौ त्रिमासं च मासमेकं तु राजनि || न स्मरेच्च महामायां शुचितापत्यसिद्धिदाम् || ४७३ ||

ओं नमोन्ते महामायायै मनुर्वसुवर्णकः || प्राग्वन्मुन्यादिकं प्रोक्तं पूजाजपमुखं तथा || ४७४ ||

ओं नमोन्ते च वैष्णव्यै मन्त्रः प्रोक्तः षडक्षरः || मन्त्रार्णैरत्र चाङ्गानि शेषं पूर्ववदाचरेत् || ४७५ ||

अथातः सम्प्रवक्ष्यामि सर्वसिद्धिप्रदं मनुम् || नमस्ते चास्तु ह्यभये त्वनघे पूजिते वदेत् || अमिते पदमुच्चार्यय तदग्रे चापराजिते || ४७६ ||

ततश्च सिद्धकथिते साधकपदमुच्चरेत् || सिद्धस्मृते महाविद्ये अनेकांसे उमे ध्रुवे || ४७७ ||

अरुन्धती च सावित्रि गायत्रि जातवेदसि || मानस्तोके सरस्वति रमणी रामणीति च || ४७८ ||

धरणी धारणी चेति सौदामिनि तथादिति || दितीति विनते चेति गौरि गन्धारि संवदेत् || ४७९ ||

मातङ्गि कृष्णयशोदे सत्यवादिनि संवदेत् || ब्रह्मवादिनि कालीति कपालिनि करालि च || ४८० ||

नेत्रसद्यो मातरिति ततः स्थलगतं वदेत् || अन्तरिक्षगतं चेति जलगतं वदेत्पुनः || ४८१ ||

वामपादान्ते रक्षयुग्मं सर्वभूतपदं वदेत् || सर्वोपद्रवेषु स्वाहा ताराद्यन्तो मनुर्मतः || ४८२ ||

मुनिर्नारद आख्यातो गाथा छन्दः प्रकीर्तितम् || अघोरवैष्णवी देवी चायुतं जप ईरितः || ४८३ ||

प्राग्वत्पूजादिकं सर्वं फलमस्य निरूप्यते || यस्याः प्रणश्येत्पुष्पं हि गर्भश्चापि पतेद्यदि || ४८४ ||

म्रियते बालको यस्याः काकवन्ध्या च या भवेत् || भूर्ज्जपत्रे त्विमा विद्यां लिखित्वा धारयेद्यदि || ४८५ ||

एतैर्दोषैर्न लिम्पेत सुभगा पुत्रिणी भवेत् || पुमांश्च धारयेद्यश्च सोभीष्टं फलमाप्नुयात् || ४८६ ||

रणे राजकुले द्यूते संग्रामे शत्रुसंकटे || अग्निचौरभये घोरे नित्यं तस्य जयो भवेत् || ४८७ ||

नित्यं निवारयेत्तस्य समरे काण्डधारिणी || गुल्मशूलाक्षिरोगाणां क्षिप्रं नाशयति व्यथाम् || शिरोरोगज्वराणां च नाशनं सर्वदेहिनाम् || ४८८ ||

अथातः सम्प्रवक्ष्यामि त्रैलोक्यविजयाभिधाम् [त्रैकोक्य-] ||

प्. ५३३)

वैष्णवीं चन्द्रवेदाग्निवर्णां साधकसिद्धिदाम् || ४८९ ||

एकाहिकद्व्याहिकत्र्याहिकचातुर्थिकेति [एकाहिकद्व्याहिकत्र्याहिकचातुर्थिकमासिकद्विमासिकवातिकपैत्तिक-श्लैष्मिकसान्निपातिकसततज्वरसम्भवविषज्वरग्रहर्क्षादि-सर्वदोषान्तकारिणि कालि सर सर गौरि सर सर गौरिधम धम विद्याशालै तालमाले रुद्ररूपे पच पच विघ्नं नाशय पापं हर दुःस्वप्नविनाशिनि कमलासने रजनीसन्ध्ये दुन्दुभिमादे मानसवेगे शङ्खिनि चक्रिणि वज्रिणि गदिनि शूलिनि अपमृत्युविनाशिनि विश्वेश्वरि द्राविडि द्रविडकेशि पशुपतिदयिते मे दुःखविमर्दिनि मोदर्शवरि किरातिनि मातङ्गि ओं ह्रीं क्षं क्षौं कुरु कुरु ये मां प्रत्यक्षं द्विषन्ति ये मां परोक्षं द्विषन्ति तान्सर्वान्हन हन दम दम पच पच मर्दय मर्दय तापय तापय शोषय शोषयोत्सादयोत्सादय ब्रह्माणि माहेश्वरि वाराहि वैनायकि ऐन्द्रि आग्नेयि चामुण्डे वारुणि वायवि रक्षरक्ष चण्डे इन्द्रोपेन्द्रभगिनि जये विजये शान्ति स्वस्तिपुष्टिधृतिविवर्धिनि कामुकि कामदुघे सर्वकामफलप्रदे || ] च || मासिकद्विमासिकेति वातिकपैत्तिकेषु च || ४९० ||

श्लैष्मिके सान्निपातिके सततज्वरसंम्भवे || विषज्वरग्रहर्क्षादिसर्वदोषान्तकारिणि || ४९१ ||

कालि सरयुगं गौरी धमयुग्मं वदेत्तथा || विद्याशाले तालमाले रुद्ररूपे पच द्वयम् || ४९२ ||

विघ्नं नाशय पापं च हर दुस्स्वप्नमित्यपि || विनाशिनि पदं ब्रूयात्ततश्च कमलासने || रजनी सन्ध्ये दुन्दुभिनादे मानस इत्यपि || ४९३ ||

वेगे शङ्खिनि चक्रिणि वज्रिणी गदिनीति च || ततश्च शूलिनि वदेदपमृत्युविनाशिनि || विश्वेश्वरी द्राविडीति वदेद् द्रविडिकेशि च || ४९४ ||

दयितेऽतः पशुपतेर्मे दुःखेति पदं वदेत् || विमर्द्दिनि पदं पश्चाद्वदेत्साधकसत्तमः || ४९५ ||

मोदयुक्ता शर्वरीति किरातिनि पदं वदेत् || मातङ्गी प्रणवं ह्रां ह्रीं ह्रूं क्षौं कुरुयुगं तथा || ४९६ ||

ये मां द्विषन्ति प्रत्यक्षं परोक्षं वेति तान्वदेत् || सर्वान्हनयुगं चोक्त्वा दमयुग्मं पचद्वयम् || ४९७ ||

मर्दयद्वितयं चापि तापयद्वयमेव च || द्विःशोषयोत्सादय द्विर्ब्रह्माषडिति च संवदेत् || ४९८ ||

माहेश्वरीति वाराहि वैनायकि परैन्द्रि च || आग्नेयीति च चामुण्डे वारुणी वायवी तथा || ४९९ ||

रक्षयुग्मं च चंडेति इन्द्रोपेन्द्रभगिन्यपि || जये च विजये शान्ति स्वस्तिपुष्टि धृतीति च || ५०० ||

विवर्तिनी कामुकी च कामदुघे परं वदेत् || सर्वकाम फलेत्युक्त्वा प्रदे सर्वपदं वदेत् || ५०१ ||

भूतेषु मां प्रियं चेति कुरुद्वन्द्वाग्निवल्लभे ||

प्. ५३४)

ध्यानपूजादिकं प्राग्वत्पुरश्चर्ययायुतद्वयम् || प्राग्वद्धोमफलं चास्य साधकः सात्त्विको भवेत् || ५०२ ||

मानयन्ति च भूपास्तं स शापानुग्रहक्षमः || सन्तत्या चापि सम्पत्त्या भवेत्कीर्त्त्या समन्वितः || दर्शनादेव नश्यन्ति भूताद्या भैरवा अपि || ५०३ ||

अथातः सम्प्रवक्ष्यामि वैष्णवीमपराजिताम् || तारमाकर्षिणिपदं आवेशिनि पदं वदेत् || ५०४ ||

ज्वालामालिनि रमणी रामणी धरणीति च || धारिणी तपनीत्युक्त्वा तापिनि मदोन्मादिनि || ५०५ ||

शोषिणीतिपदं चोक्त्वा ततः सम्मोहिनीति च || तथा नीलपताकेति महानीले महाप्रिये || ५०६ ||

महाग्नेयि महाचण्डे महारौद्रि महेति च || वज्रिणीति तथादित्याद्ये च जाह्नवि संवदेत् || ५०७ ||

यमघण्टे किलिकिलि चिन्तामणिपदं वदेत् || सुरभि सुरोत्पन्ने च सरस्वति पदं ततः || ५०८ ||

सवकामदुघे प्रोच्य यथा मम मनीषितम् || कार्ययं तन्मम सिद्ध्यत्विति स्वाहान्तोयं मनुर्मतः || ५०९ ||

षड्द्वाद’सार्णो मुन्यादिप्राग्वत्सौख्यप्रदो मनुः || जपेद्वर्णशतं होमादिकं पूर्ववदाचरेत् || ५१० ||

असिद्धसाधिनीं देवीं प्रवक्ष्याम्यथ वैष्णवीम् || ताराद्या वह्निजायान्ता पृथक् च षड्युगं वदेत् || ५११ ||

तिस्रो व्याहृतयः श्लोकः स्वधास्वाहावसानकः || यत एवागतं पापं तत्रैव प्रतिगच्छतु || ५१२ ||

ओं बले अबले महाबले असिद्धसाधिनि || स्वाहान्तः षड्बाणवर्णो लक्षमेकं जपः स्मृतः || ५१३ ||

तृतीया व्याहृतिश्चात्र स्वरित्येषा [ओं ओं ओं ओं ओं ओं भूर्भुवः स्वः यत एवागतं पापं तत्रैव प्रतिगच्छतु ओं बले अबले महाबले असिद्धसाधिनि स्वधा स्वाहा स्वाहा स्वाहा स्वाहा स्वाहा स्वाहा || तृतीया व्याहृतिरर्थाद्भूर्भुवस्त्वरित्येतत्समुदायघटकं स्वःपदमिदमेव तृतीयमस्ति तत्सर्वे लोका बुध्यन्ते एव पुनः तृतीया व्याहृतिः स्वरिति कथिता तत्कथनस्यैतत्तात्पर्यं विद्यते किं तृतीयव्याहृतेर्भेदद्वयं ग्रन्थेषु दृश्यते एकः स्वः द्वितीयः पुनः भुवरिति अतोत्र स्वरित्यस्य पुनर्लेखः || ] प्रकीर्तिता || होमपूजादिकं प्राग्वद्येन सिद्ध्यति देवता || ५१४ ||

स्वाहान्तैर्मन्त्रखण्डैस्तु हुनेदष्टसहस्रकम् || वसुदेवसहस्राणि चावदानानि तत्र तु || ५१४ ||

देवकल्पोदितैर्द्रव्यैस्तदा सा देवता वशा || प्राक्कर्म्मप्रतिबद्धापि वैष्णवीत्रासतस्तु सा || ५१६ ||

साधकस्य मनोभीष्टं कामं यच्छति सत्वरम् || इयं देवी मया पूर्वं ललिता वश्यकामदा ||

प्. ५३५)

उपासिता तदा जप्ता ललिता ललिता [अभूदिति शेषः || ] च सा || ५१७ ||

त्रयास्त्रशत्कोटिदेवनायिका ललिता तु या || बलात्कारेण कामस्य वशीकृत्य यया पुनः || ५१८ ||

चेटीवन्मदधीना तु स्थापिता त्वं वरानने || यस्य कस्यापि देवस्य होमद्रव्यं विलोक्य च || मन्त्रेणानेन जुहुयात्तत्तत्कर्म्म प्रसिद्ध्यति || ५१९ ||

इयं होमप्रिया देवी भुक्तिमुक्तिप्रदायिका || मारणोच्चाटने चापि न प्रयोज्या कदाचन || ५२० ||

अथ वार्तालिकां वक्ष्ये वाराहीं शत्रुघातिनीम् || ऐंलौंठंठंठमिति हुंस्वाहान्तोष्टाक्षरो मनुः || ५२१ ||

छन्दोनुष्टप् च कपिलो मुनिर्वार्त्तालिकासुंरी || वाराह्यत्र षडङ्गानि क्रमाद्विद्वीन्दुभू?कभिः || ५२२ ||

द्वाभ्यां ध्यायेत्ततो देवीं विद्युद्भासां कराम्बुजैः || दधानामंकुशं पाशं मुद्गरं शक्तिमेव च || ५२३ ||

विद्युद्भासां त्रिनेत्रां च नाशयन्तीं तथा रिपून् || अङ्गषट्कदिशाधीशायुधानीत्यावृतित्रयम् || ५२४ ||

वसुलक्षं जपित्वान्ते बिल्वपत्रैर्हयारिजैः || धात्रीफलैर्भृङ्गराजैः कशैश्चापि दशाशतः || ५२५ ||

होमः कार्ययस्तर्प्पणादि कुर्ययाद्ब्राह्मणभोजनम् || एवं सिद्धमनुर्मन्त्री प्रयोगान्कर्त्तुमर्हति || ५२६ ||

अंकुशेनारिमानीय बद्ध्वा पाशेन तं दृढम् || मुद्गरेण घ्नतीं मूर्ध्नि तां स्मरन्नयुतं जपेत् || ५२७ ||

वन्योपलैः प्रजुहुयादयुतं भस्म तत्क्षिपेत् || वापीकपतडागादौ तत्पानीयस्य पानतः || ५२८ ||

म्रियन्ते रिपवस्तस्य वा हिंसन्ति परस्परम् || स्थानं त्यक्त्वा च गच्छन्ति नात्र कार्यया विचारणा || ५२९ ||

अथास्याः सम्प्रवक्ष्यामि मालामन्त्रं सुसिद्धिदम् || ओं ऐं ग्लौं ऐं नमश्चोक्त्वा ततो भगवतीति च || ५३० ||

वाराहिवाराहि युगं वराहमुखि वाग्भवम् || ग्लौं ऐं अन्धे अन्धिनीति नमो रुन्धे च रुन्धिनि || ५३१ ||

नमो जृम्भे जृम्भिणीति नमो मोहे च मोहिनि || नमः स्तम्भे स्तम्भिनीति नम ऐंग्लौं च वाग्भवम् || ५३२ ||

सर्वदुष्टप्रदुष्टानां सर्वेषां सर्ववाग्वदेत् || चित्तचक्षुर्मुखगलजिह्वास्तम्भं कुरुद्वयम् || ५३३ ||

शीघ्रं वश्यं कुरुकुरु ऐंग्लौं मैंठचतुष्टयम् || हुंफट्स्वाहेति मन्त्रोयं वेदरुद्राक्षरः स्मृतः || ५३४ ||

प्. ५३६)

मुनिः शिवोस्य जगती छन्दो वार्तालिकासुरी || वाराह्यस्य षडङ्गानि वार्त्ताली हृदयं स्मृतम् || ५३५ ||

वाराहीति शिरः प्रोक्तं शिखावाराहमुख्यपि || अन्धे अन्धिनि वर्म्मोक्तं रुन्धे रुन्धिनि नेत्रकम् || ५३६ ||

जृम्भे जम्भिणि चास्त्रं स्यात्ततो ध्यायेच्च देवताम् || रक्ताब्जकर्णिकायान्तु शवासनसमास्थिताम् || ५३७ ||

मुण्डमालालसत्कण्ठां नीलाभान्दधतीङ्करैः || अभयं मुसलञ्चापि फलञ्चापि वरन्तथा || ५३८ ||

वराहास्यान्तुङ्गकुचां त्रिनेत्रामरुणाम्बराम् || जपेन्मन्त्रं सहस्राणि बन्धूककुसुमैस्तिलैः || ५३९ ||

हुनेत्समधुरैः पूजा जयादिनवशक्तिके || पीठे स्वर्णमये रौप्ये ताम्रे भूर्ज्जेथ वारुणे || ५४० ||

लिखेद्गोरोचनारात्रिचन्दनागुरुकुंकुमैः || योनिपञ्चास्रषट्कोणाष्टपत्रशतपत्रकम् || ५४१ ||

सहस्रदलभूबिम्बं संवीतं द्वारशोभितम् || कैलासाचलमध्यस्थं पीठमेतद्विचिन्तयेत् || ५४२ ||

तत्राबाह्य यजेद्देवीमुपचारैर्मनोहरैः || त्रिकोणमध्ये देवेशीं षडङ्गान्यपि तत्र तु || ५४३ ||

वार्त्ताल्यर्च्या च वाराही त्र्यस्रे वाराहमुख्यपि || जृम्भिणी मोहिनी चैव स्तम्भिनी पञ्चकोणके || ५४४ ||

पूजयित्वा तथा चेमाः षट्कोणेषु ततो यजेत् || डाकिन्याद्याः पार्श्वयोश्च स्तम्भिनीं क्रोधिनीमपि || ५४५ ||

षट्कोणाग्रे यजेच्चण्डं छत्रन्तस्याः सुतोत्तमम् || शूलं मुण्डञ्च डमरुं कपालं दधतं करैः || ५४६ ||

इन्द्रनीलनिभं नग्नं जटाभारविराजितम् || अष्टपत्रे तु वार्तालीमुखं देव्यष्टकं यजेत् || ५४७ ||

शतपत्रे तु सम्पूज्या रुद्रार्कवसवोश्विनौ || शतकोणाग्रतः सिंहः पूज्यो महिषसंयुतः || ५४८ ||

सहस्रपत्रे वाराहीम्पूजयेच्च सहस्रशः || क्रों वाराह्यै नम इति पूजामन्त्रः षडक्षरः || ५४९ ||

भूपुरद्वारदेशे तु बटुकं क्षेत्रपालकम् || योगिनीं गणनाथञ्च तत्तन्मन्त्रैः प्रपूजयेत् || ५५० ||

बं बटुकाय हृदयं सप्तार्णो बटुकार्चने || क्षें क्षेत्रपालाय नमोष्टार्णः क्षेत्रपपूजने || ५५१ ||

योंयोगिनीभ्यो हृदयं सप्तार्णोयन्तदर्चने || गं गणपतये नमोष्टवर्णोयं गणेशितुः || ५५२ ||

दिक्पालानायुधैर्युक्तान् दिक्षु सम्पूजयेत्ततः || पूजान्ते बटुकादिभ्यो बलिमन्त्रैबलिं हरेत् || ५५३ ||

एह्येहि [एह्येहि देवीपुत्रबटुकनाथ कपिलजटाभारभासुर त्रिनेत्रज्वालामुख सर्वविघ्नान् नाशय नाशय सर्वोपचारसहितं बलिं गृह्णगृह्ण स्वाहा || ] देवीपुत्रेति बटुकेति च नाथ च ||

प्. ५३७)

कपिलजटाभारेति भासुरेति वदेत्ततः || ५५४ ||

त्रिनेत्र ज्वालामुखेति सर्वविघ्नांस्ततो वदेत् || नाशयद्वितयं सर्वोपचारसहितं बलिम् || ५५५ ||

गृह्णयुग्मन्ततः स्वाहा पञ्चपञ्चाक्षरो मनुः || बटुकस्य बलिं दद्यादनेन श्रद्धयान्वितः || ५५६ ||

हूं स्थानक्षेत्रपालेश सर्वकामं च [आं ईं ऊं ऐं औं अः क्षें हूं स्थानक्षेत्रपालेश सर्वकामं पूरय स्वाहा || ] पूरय || स्वाहान्तः षड्दीर्घयुक्तः क्षाद्यस्त्रिद्विमितार्णकः || ५५७ ||

क्षेत्रपालबलेर्मन्त्रो गणेशस्याथ कथ्यते || गांगींगूंगमिति [गां गीं गूं गं गणपतये वरवरद सर्वजनं मे वशमानय सर्वोपचारसहितं बलिं गृह्णगृह्ण स्वाहा || ] प्रोच्य ङेन्तं गणपतिं तथा || ५५८ ||

वरवरद सर्वेति जनं मे वशमानय || सर्वोपचारसहितं बलिं गृह्णयुगं पुनः || ५५९ ||

स्वाहान्तः खाब्धिवर्णोयं बलिमन्त्र उदाहृतः || एवं तेभ्यो बलिं दत्त्वा स्वस्वमुद्राः प्रदर्शयेत् || ५६० ||

अंगुष्ठानामिके मध्यानामे क्षेत्रबलौ मते || किञ्चिद्वक्रीकृता मध्या गणनाथबलौ स्मृता || ५६१ ||

अनामामध्यमांगुष्ठा योगिनीनां बलौ पुनः || योगिनीनां बलेर्मन्त्रं साधनान्ते पठेदिमम् || ५६२ ||

यों योगिनीभ्यः स्वाहेति सप्तार्णः स्रग्धरा त्वियम् || ५६३ ||

ऊर्ध्वं ब्रह्माण्डतो वा दिवि गगनतले भूतले निष्कले वा पाताले वा नलेवा सलिलपवनयोर्यत्र कुत्र स्थिता वा || क्षेत्रे पीठोपपीठादिषु च कृतपदा धूपदीपादिकेन प्रीता देव्यस्सदा नः शुभयुतविधिना यान्तु वीरेन्द्रवन्द्याः || ५६४ ||

एवं सम्पूज्य संस्तूय नत्वात्मन्युपसंहरेत् || सिद्धमन्त्रः प्रकर्वीत प्रयोगाञ्छिवभाषितान् || ५६५ ||

हरिद्रया चन्दनेन लाक्षया गुरुणापि च || पूरेण विविधैर्मांसैर्जुहुयादिष्टसिद्धये || ५६६ ||

हरिद्रामालया कर्ययाज्जपं स्तम्भनकर्म्मणि || स्फाटिकैः पद्मबीजैश्च रुद्राक्षैः शुभकर्म्मणि || ५६७ ||

स्वर्णादिपात्रे सुरया बन्धूककुसुमैस्तिलैः || वाराहीं तर्प्पयेत्सर्वकामं सम्पूरयेन्नरः || ५६८ ||

चतुश्शतन्तु तापिच्छैर्जुहुयात्स्तम्भनेच्छया || लाजचूर्णतिलैः कुर्ययाद्वरमेषासृगन्वितैः || ५६९ ||

पिण्डं मनोहरं तं तु पूरयेत्तर्प्पयेदपि || सम्पन्नमदनं साङ्गमेतस्यै विनिवेदयेत् || ५७० ||

कुण्डे पिण्डं विधायामुं जुहुयात्तत्र वायुतम् ||

प्. ५३८)

एकविंशतिरात्रीषु लाजै रक्तसमन्वितैः || ५७१ ||

एवं कृते वैरिवृन्दं भक्ष्यते योगिनीगणैः || एवं वार्त्तालिकायास्तु साधनं वाममार्गतः || ५७२ ||

अथातः सम्प्रवक्ष्यामि वाराहीं स्वप्नसञ्ज्ञिताम् || ओं [ओं ह्रीं नमो वाराहिघोरे स्वप्नं ठःठः स्वाहा || ] ह्रीं नमश्च वाराहि घोरे स्वप्नं विसर्गयुक् || ५७३ ||

ठद्वयं वह्निजायान्तो मन्त्रः पञ्चदशाक्षरः || ईश्वरोस्य मुनिः प्रोक्तो जगती छन्द ईरितम् || ५७४ ||

देवता स्वप्नवाराही बीजं तारः प्रकीर्तितः || हृल्लेखाशक्तिरुद्दिष्टाठद्वयं कीलकं मतम् || ५७५ ||

द्विपञ्चनेत्रदस्राक्षियुग्मार्णैश्चाङ्गकं [ओं ह्रीं हृदयाय नमः, नमो वाराहि शिरसे स्वाहा, घोरे शिखायै वषट्, स्वप्नं कवचाय हुम्, ठःठः नेत्रत्रयाय वौषट्, स्वाहा अस्त्राय फट् || ] मनोः || पादयोर्व्यञ्जने कट्योः कण्ठे गण्डद्वये तथा || ५७६ ||

नेत्रयोः कर्णयोर्नासाद्वयमन्त्रार्णकान्न्यसेत् || ततो ध्यायेद्घनश्यामां त्रिनेत्रामुन्नतस्तनीम् || ५७७ ||

कोलास्यां [वराहमुखीम् || ] चन्द्रभालाञ्ज दंष्ट्रोद्धृतवसुन्धराम् || खङ्गांकुशौ दक्षिणयोर्वामयोश्चर्म्मपाशकौ || अश्वारूढां च कोलास्यां नानालंकारभूषिताम् || ५७८ ||

त्रिकोणे तां समाराध्य षट्कोणेष्वङ्गदेवताः || षोडशारे यजेच्छक्तीर्वक्ष्यमाणाश्च षोडश || ५७९ ||

उच्चाटनी तदीशी [उच्चाटनीश्वरी || एवमग्रेनया रीत्या || ] च शोषिणी शोषिणीश्वरी || मारणी मारिणीशी च भीषणी भीषणीश्वरी || ५८० ||

त्रासिनी त्रासिनीशी च कम्पिनी कम्पिनीश्वरी || आशाविवर्तिनी पश्चादाशाविवर्त्तिनीश्वरी || ५८१ ||

वस्तुजातेश्वरी पश्चात्सर्वसम्पादिनीश्वरी || एताःपूज्याश्चतुर्थ्यन्ताः प्रणवाद्या नमोन्तकाः || ५८२ ||

यजेदष्टदले पद्मे मातॄर्भैरवसंयुताः || लोकपालान्दशदले द्वितये हेतिसंयुतान् || ५८३ ||

लक्षं जपेद्दशांशे न नीलपद्मैस्तिलैर्हुनेत् || एवं सिद्धमनुर्मन्त्री काम्यकर्म्माणि साधयेत् || ५८४ ||

तर्प्पयेन्नारिकेरोत्थैर्जलैस्तीर्थोद्भवैरपि || आनयेत्तरुणीं वर्षात्सर्वकामसमृद्धये || ५८५ ||

कृष्णपक्षे विश्वघस्रे भूताहे वा कृतव्रतः || चतुष्पथान्नदीकूलद्वयात्कुलालवेश्मनः || ५८६ ||

मृदमानीय धत्तूररसैः संयुक्तयानया || रचयेत्पुत्तलीं रम्यां साध्यासुस्थापनान्विताम् || ५८७ ||

ततः प्रेताम्बरे यन्त्रं नृमार्ज्जारासजा लिखेत् || पीताङ्गारयुजा योनिं षट्कोणं भूपुरान्वितम् || ५८८ ||

प्. ५३९)

तदन्तर्मन्त्रमालिख्य वेष्टयेन्मनुनामुना || साध्यमुच्चाटययुगं शोषयद्वितयं ततः || सहस्रं चाष्टकं भूयः पूजयेत्तां समाहितः || ५८९ ||

एवं कृते नरा नार्ययो राजानो राजवल्लभाः || सिंहा गजा मृगाः क्रूरा भवेयुर्वशगा ध्रुवम् || ५९० ||

चित्ते ध्यात्वा निजं कार्ययं शयीत विजने वृती || यथा भावि तथा देवी स्वप्ने वदति मन्त्रिणे || ५९१ ||

अथातः सम्प्रवक्ष्यामि इन्द्राणीमिष्टराज्यदाम् || इं इन्द्राण्यै नम इति मन्त्रः प्रोक्तः षडक्षरः || ५९२ ||

गुरुर्मुनिश्च गायत्री छन्दो देवीन्द्रवल्लभा || इंबीजं शक्तिरिन्द्राणी नमः कीलकमुच्यते || ५९३ ||

वज्रपाशवराभीतिहस्तां श्यामाम्बरां वराम् || चतुर्दन्तगजानल्पच्छायासंस्थां हिरण्यभाम् || ५९४ ||

कोणषट्केष्वङ्गपूजा तद्बाह्येष्टदले यजेत् || बगलां छिन्नमस्तां च तारां दक्षिणकालिकाम् || ५९५ ||

धूमावतीं भद्रकालीं महाकालीं प्रतिक्रियाम् || तत्तन्मन्त्रैस्तु तद्बाह्ये लोकेशानायुधान्यपि || ५९६ ||

लक्षषट्कं जपेन्मन्त्रं मालतीकुसुमैर्हुनेत् || त्रिमध्वक्तैस्तावदेव राज्यार्थं राजवृक्षजैः || ५९७ ||

अथातः सम्प्रवक्ष्यामि स्तम्भिनीं बगलामुखीम् || तारं मायां समुच्चार्यय वदेच्च बगलामुखि || ५९८ ||

तदग्रे सर्वदुष्टानां ततो वाचं मुखं पदम् || स्तम्भयेतिपदं [ओंह्रीं बगलामुखि सर्वदुष्टानां वाचं मुखं स्तम्भय जिह्वा कीलय बुद्धिं विनाशय ह्रीं ओं स्वाहा || ] जिह्वां कीलयेति ततः परम् || ५९९ ||

बुद्धिं विनाशय ह्रीं ओं स्वाहा वेदाग्निवर्णकः || नारायणो मुनिस्त्रिष्टुप्छन्दश्च बगलामुखी || ६०० || [ओं ह्रीं हृदयाय नमः, बगलामुखि शिरसे स्वाहा, सर्वदुष्टानांशिखायै वषट्, वाचं मुखं स्तम्भय कवचाय हुम्, जिह्वां कीलय नेत्रत्रयाय वौषट्, बुद्धिं विनाशय ह्रीं ओं स्वाहा अस्त्राय फट् || ]?

देवीबीजन्तु हृल्लेखा स्वाहा शक्तिः समीरिता || विनियोगोस्य विख्यातः पुरुषार्थचतुष्टये || ६०१ ||

हृल्लेखा हृदयम्प्रोक्तं शिरश्च बगलामुखि || शिखातु सर्वदुष्टानां ततो वाचम्मुखम्पदम् || ६०२ ||

स्तम्भयेति च वर्म्मोक्तं जिह्वां कीलय नेत्रकम् || बुद्धिं विनाशयास्त्रं स्यात्षडङ्गन्यास ईरितः || ६०३ ||

मूर्ध्नि भाले भ्रुवोर्मध्ह्ये नेत्रयोः श्रोत्रयोर्नसोः || गण्डद्वये तथा चोष्ठेऽधरास्यचिबुकेषु च || ६०४ ||

प्. ५४०)

गले च दक्षदोमूले तन्मध्ये मणिबन्धके || अंगुलीनान्तथा मूले हस्ताग्रे चैवमेव हि || ६०५ ||

न्यसेद्वामभुजादौ च दक्षोरुमूलके ततः || दक्षजानुनि गुल्फे चांगुलिमूले पदाग्रतः || ६०६ ||

गम्भीराञ्च मदोन्मत्तान्तप्तकाञ्चनसन्निभाम् || चतुर्भुजां त्रिनयनां कमलासनसंस्थिताम् || ६०७ ||

मुद्गरन्दक्षिणे पाशं वामे जिह्वां च वज्रकम् || पीताम्बरधरां सान्द्रवृत्तपीनपयोधराम् || ६०८ ||

हेमकुण्डलभूषां च पीतचन्द्रार्धशेखराम् || पीतभूषणभूषाञ्च स्वर्णसिंहासनस्थिताम् || ६०९ ||

एवं ध्यात्वा च देवेशीं शत्रुस्तम्भनकारिणीम् || भूप्रदेशे मनोरम्ये पुष्पामोदसुधूपिते || ६१० ||

गोमयेनाथ संलिप्ते मण्डले त्वासनं चरेत् || सौवर्णे वाथ रौप्ये वा पैत्तले वापि भूर्ज्जके || ६११ ||

कर्पूरागरुकस्तूरीश्रीखण्डकुंकुमैरपि || लिखेद्यन्त्रं प्रयत्नेन लेखन्या हेमतारयोः || ६१२ ||

मध्ये योनिं समालिख्य तद्बाह्ये तु षडस्रकम् || तद्बाह्येष्टदलम्पद्मन्तद्बाह्ये षोडशच्छदम् || चतुरस्रत्रयं बाह्ये चतुर्द्वारोपशोभितम् || ६१३ ||

यत्रनोक्तन्देवतायाः पीठं वा पीठशक्तयः || तत्र मायोदितं पीठं ज्ञेयास्ता एव शक्तयः || ६१४ ||

तद्बीजेन यजेत्पीठं यद्वा मायाणुनाथ वा || तत्रावाह्य येजेद्देवीं सुपीतैरुपचारकैः || ६१५ ||

यजेदङ्गानि षट्कोणे पूर्वद्वारादिषु क्रमात् || गणेशं बटुकं चापि योगिनीः क्षेत्रपालकम् || ६१६ ||

ईशानादिनिर्-ऋत्यन्तं गुरुपंक्तिं समर्चयेत् || बगलां पूर्वपत्रे तु स्तम्भिनीं च ततः परम् || ६१७ ||

जृम्भिनीं मोहिनीं चव प्रगल्भामचलां जयाम् || दुर्धर्षाकल्मपाधीराकल्याण्याकालकर्षिणीः || भ्रामिकां मन्दगमनां भोग्याख्यां चैव योगिकाम् || ६१८ ||

एताः षोडशपत्रेषु गन्धपुष्पाक्षतैर्यजेत् || षोडशस्वरसंयुक्ताः सम्प्रदायात्कुलागमे || ६१९ ||

यजेत्तु पत्रमध्येषु कल्पिते चाष्टपत्रके || पूर्वाद्ब्राह्म्यादिका अष्टौ वाहनायुधसंयुताः || ६२० ||

लोकेशांश्च तदस्त्राणि पूजयेद्बाह्यतस्तथा || योनिमध्ये मूलदेवीं त्रिरञ्जलिभिरर्च्चयेत् || ६२१ ||

धूपदीपसुनैवेद्यैर्गन्धताम्बूलदीपकैः || नीराज्य विधिवत्पश्चाद्यथासंख्यं निवेदयेत् || ६२२ ||

पवित्रारोपणं कार्ययं दमनेन तु पूजयेत् || देयं चापि सितान्नेन प्रत्यहं बलिपञ्चकम् || ६२३ ||

प्. ५४१)

हरिद्राग्रन्थिजा [भवेदिति शेषः || ] माला पीताम्बरधरः स्वयम् || पीतासनः स्मरेत्पीतं चायुतं जपमाचरेत् || ६२४ ||

दशांशेन कृते होमे पीतद्रव्यैः प्रतर्प्पयेत् || सर्वपीतोपचारेण मन्त्रः सिद्ध्यति मन्त्रिणः || ६२५ ||

साध्यसञ्ज्ञां समुच्चार्ययस्तम्भयेति ततः परम् || गतिस्तम्भकरी विद्या अरिस्तम्भनकारिणी || ६२६ ||

मेधां प्रज्ञां च शास्त्रादीन्देवदानवपन्नगान् || स्तम्भयेच्च महाविद्या सत्यं सत्यं न संशयः || एकान्ते परमे रम्ये शुचौ देशेथ वा गृहे || ६२७ ||

कुण्डं सलक्षणं कृत्वा मेखलात्रयशोभितम् || योनिर्वितस्तिमात्रा तु षट्कर्म्माण्यत्र साधयेत् || तथाकर्षणकामस्तु लोणं त्रिमधुरान्वितम् || ६२८ ||

निम्बपत्रन्तैलयुक्तं विद्वेषणकरं परम् || हरितालं हरिद्रां च लवणेन च संयुताम् || स्तम्भने होमयेद्देवीं प्रज्ञायाश्च गतेर्मतेः || ६२९ ||

आसुर्ययाश्चापि तैलेन महिषी रुधिरेण च || रिपूणां मारणार्थन्तु श्मशानाग्नौ हुनेन्निशि || गृध्राणामपि काकानां गृहधूमयुतेन वै || ६३० ||

पक्षेण जुहुयाद्देवि शत्रोरुच्चाटनाय वै || पूर्वा कुलालमृत्तावत्येरण्डश्चतुरंगुलः || ६३१ ||

लाजास्त्रिमधुयुक्ताश्च सर्वरोगोपशान्तये || लक्षमेकं जपेद्देवि ब्रह्मचारी दृढव्रतः || ६३२ ||

पर्वताग्रे महारण्ये सिद्धे शैवालये गृहे || सङ्गमे च महानद्योर्निशायामपि साधयेत् || ६३३ ||

श्वेतब्रह्मतरोर्मूले पादुकाञ्चैव कारयेत् || अलक्तस्य च रागेण रञ्जिताञ्च हरिद्रया || ६३४ ||

अनया विद्यया चापि लक्षैकेन च मन्त्रिताम् || शतयोजनमात्रन्तु स गच्छेच्चिन्तिते पथि || ६३५ ||

रसं मनःशिला तालं माक्षिकेण समन्वितम् || पिष्ट्वाभिमन्त्र्य लक्षैकं सर्वाङ्गे लेपने कृते || ६३६ ||

अदृश्यकारकं तत्स्याल्लोके च महदद्भुसम् || सुरभेरेकवर्णाया धारोत्थं क्षीरमाहरेत् || ६३७ ||

शर्करामधुसंयुक्तंत्रिशतैर्मन्त्रितं प्रिये || पाययित्वा तु हरते विषं स्थावरजङ्गमम् || ६३८ ||

दारिद्र्यमोचनं चैव लक्षमेकञ्जपेत्ततः || दशांशेन कृते होमे एभिर्द्रव्यैः पृथक्पृथक् || ६३९ ||

अथातः सम्प्रवक्ष्यामि वाममार्गेण सिद्धिदाम् || इन्द्राण्याः परमां शक्तिं छिन्नमस्तां महेश्वरीम् || ६४० ||

प्. ५४२)

प्रणवश्च [ओं श्रीं ह्रीं ह्रीं ऐं वज्रवैरोचनीये ह्रीं ह्रीं फट् स्वाहा || ] रमा लज्जाबीजद्वन्द्वञ्च वाग्भवम् || वज्रवैरोचनीये ह्रीं ह्रीं फट् स्वाहा धनाक्षरः || ६४१ ||

भैरवोस्य मुनिः प्रोक्तो विराट् छन्द उदाहृतम् || छिन्नमस्ता भवेद्देवी वाममार्गेण सिद्धिदा || ६४२ ||

आंखड्गाय [ओं आं खड्गाय स्वाहा हृदयाय नमः, ओं ईं सुखड्गाय स्वाहा शिरसे स्वाहा, ओं ऊं वज्राय स्वाहा शिखायै वषट्, ओं ऐं पाशाय स्वाहा कवचाय हुम्, ओं अंकुशाय स्वाहा नेत्रत्रयाय वौषट्, ओं अः त्रासरक्षकाय हूं हूं स्वाहा अस्त्राय फट् || अनया रीत्याषडङ्गन्यासा विधेयाः || ?] ह्रदाख्यातमीं सुखड्गाय मस्तकम् || ऊं वज्राय शिखा प्रोक्ता ऐं पाशाय तनुच्छदम् || ६४३ ||

औं अंकुशाय नेत्रं स्यादस्त्रासरक्षकाय च || हूंहूं नवार्णोस्त्रमन्त्रः सर्वे स्युः प्रणवादिकाः || स्वाहान्ता सर्व एवैते ततो ध्यानं समाचरेत् || ६४४ ||

भास्वन्मण्डलमध्यस्थां विपरीत रते स्थिताम् || रतिकामसमारूढां विकीर्णसकलालकाम् || ६४५ ||

वामे करे निजशिरच्छिन्नं सन्दधतीं पुनः || गलान्निर्गतरक्तञ्च पिबन्तीन्तन्मुखेन च || डाकिनीवर्णिनीभ्याञ्च सखीभ्यां परिधारिताम् || ६४६ ||

आधारशक्तिमारभ्य परतत्त्वान्नपूजिते || पीठे जयाख्या विजया अजिता चापराजिता || ६४७ ||

नित्या विलासिनी षष्ठी दोग्ध्री घोरा च मङ्गला || दिक्षु मध्ये च सम्पूज्या नवपीठस्य शक्तयः || ६४८ ||

सर्वबुद्धिप्रदे [ओं सर्वबुद्धिप्रदे वर्णनीये सर्वसिद्धिप्रदे डाकिनीये ओं वज्रवैराचनीये एह्येहि नमः इति मन्त्रः || ] वर्णनीये सर्वपदं ततः || सिद्धिप्रदे डाकिनीये प्रणवं वज्रं वै वदेत् || ६४९ ||

रोचनीये तथैह्येहि नमोन्तः प्रणवादिकः || पीठमन्त्रो वेदवह्निवर्णः पीठार्चने मतः || ६५० ||

त्रिकोणं रसकोणञ्चाष्टदलं भूपुरन्ततः || बाह्यावरणमारभ्य पूजयेत्प्रतिलोमतः || ६५१ ||

भूपुराद् बाह्यभागेषु वज्रादीनि प्रपूजयेत् || तदन्तः सुरराजादीन् द्वारेषु द्वारपान्यजेत् || ६५२ ||

करालं विकरालञ्चातिकालं महाकालकम् || एकलिङ्गां योगिनीञ्च डाकिनीम्भैरवीं तथा || ६५३ ||

महाभैरविकेन्द्राक्ष्यावसिताङ्गीञ्च हारिणीम् [सं पुनर्हारिणीमेकत्रकरणेन संहारिणीमिति सिद्धम् || ६५४ ||

ष कोणेषु षडङ्गानि त्रिकोणे छिन्नमस्तकाम् || डाकिनी [ओं ऐं डाकिन्यै नमः || ओं ऐं वर्णिन्यै नमः इति मन्त्रः || ] वर्णिनी तारवाग्भ्यां तत्पार्श्वयोर्यजेत् || ६५५ ||

प्. ५४३)

एवम्पूजा प्रकर्तव्या जपेल्लक्षचतुष्टयम् || पालाशाबल्वजर्वापि जुहुयात्कुसुमैः फलैः || ६५६ ||

तर्प्पणादि ततः कुर्ययादेवं सिद्धो भवेन्मनुः || श्रीपुष्पैर्लभते लक्ष्मीं तत्फलैश्च समीहितम् || ६५७ ||

वाक्सिद्धिं मालतीपुष्पैश्चम्पकैर्हवनात्सुखम् || घृताक्तं छागमांसं यो जुहुयात्प्रत्यहं शतम् || मासमेकन्तु वशगास्तस्य स्युः सर्वपार्थिवाः || ६५८ ||

हयारिकुसुमैः श्वेतैर्लक्षसंख्यं जुहोति यः || रोगजालं पराभूय सुखी जीवेच्छतं समाः || ६५९ ||

रक्तैस्तत्सङ्ख्यया हुत्वा वशयेन्मन्त्रिणो नृपान् || फलैर्हुत्वाप्नुयाल्लक्ष्मीमुदुम्बरपलाशजैः || ६६० ||

गोमायुमांसैस्तामेव [पूवोक्तलक्ष्मीमेव प्राप्नुयादित्यर्थः || ] विवाहं पायसान्धसा || बन्धूककुसुमैर्भाग्यं कर्णिकारैः समीहितम् || ६६१ ||

तिलतण्डुलहोमेन वशयेन्निखिलाञ्जनान् || नारीरजोभिराकृष्टं मृगमांसैः समीहितम् [वाञ्छितम् || ] || ६६२ ||

स्तम्भनं माहिषैर्मांसैः पंकजैः सघतैरपि || चिताग्नौ परभृत्पक्षैर्जुहुयादरिमृत्यवे || उन्मत्तकाष्ठदीप्तेग्नौ तत्फलं वायसच्छदैः || ६६३ ||

द्यूते वने नपद्वारे समरे वैरिसंकटे || विजयं लभते मन्त्री ध्यायेद्देवीं जपन्मनुम् || ६६४ ||

भुक्तौ मुक्तौ सितां ध्यायेदुच्चाटे नीलरोचिषम् || रक्तां वश्ये मतौ धूम्रां स्तम्भने कनकप्रभाम् || ६६५ ||

निशि दद्याद्बलिं तस्यै सिद्धये मदिरादिना || गोपनीयः प्रयोगोथ प्रोच्यते सर्वसिद्धिदः || ६६६ ||

भताहे कृष्णपक्षस्य मध्यरात्रे ततो गते [प्राप्ते || ] || स्नात्वा रक्ताम्बरधरो रक्तमाल्यानुलेपनः || ६६७ ||

आनीय पूजयेन्नारीं छिन्नमस्तास्वरूपिणीम् || सुन्दरीं यौवनाक्रान्तां नरपञ्चकगामिनीम् || ६६८ ||

सस्मितां मुक्तकबरीं भूषादानप्रतोषिताम् || विवस्त्रां पूजयित्वैनां चायुतं प्रजपेन्मनुम् || ६६९ ||

बलिं दत्त्वा निशां नीत्वा सम्प्रेक्ष्य धनतोषिताम् || भोजयेद्विविधैरन्नैर्ब्राह्मणान्देवताधिया || ६७० ||

अनेन विधिना लक्ष्मीं पुत्रान्पौत्रान् || यशः सुखम् || नारीमायुश्चिरं धर्म्ममिष्टमन्यदवाप्नुयात् || ७३१ ||

तस्यां रात्रौ व्रतं कार्ययं विद्याकामेन मन्त्रिणा || मनोरथेषु चान्येषु गच्छेत्तां प्रजपेन्मनुम् || ६७२ ||

किं बहूक्तेन विद्याया अस्या विज्ञानमात्रतः || शास्त्रज्ञानं पापनाशः सर्वसौख्यं लभेद्ध्रुवम् || ६७३ ||

प्. ५४४)

उषस्युत्थाय शययायामुपविश्य जपेच्छतम् || अङ्गमासान्तरे मन्त्री कवित्वेन जयेत्कविम् || ६७४ ||

शिवेन कीलिता विद्या तदुत्कीलनमुच्यते || माया तारपटां मन्त्रे जपेदष्टोत्तरं शतम् || ६७५ ||

मन्त्रस्यादौ तथैवान्ते भवेत्सिद्धिप्रदा तु सा || एष नूनं विधिर्गोप्यः सिद्धिकामेन मन्त्रिणा || ६७६ ||

उदिता छिन्नमस्तेयं मार्गेस्मिन्नतिसिद्धिदा || अथ वक्ष्ये षोडशार्णं चतुर्भेदं मनूत्तमम् || ६७७ ||

श्रींह्रींह्रूं-ऐं [श्रीं ह्रीं एं ऐं वज्रवैरोचनीये ह्रीं ह्रूं स्वाहा अयं मन्त्रः पञ्चदशाक्षरः || ] वज्रवैरोचनीये ह्रीं च ह्रूं प्रिया || दहनस्य तिथिर्वर्णो लक्ष्मीबीजादिको [श्रीं बीजमादौ संयोज्य पूर्वोक्तमन्त्रो धनाप्तिकर इति भावः || ] धने || ६७८ ||

लज्जाबीजादिको [ह्रीं श्रीं ह्रूं ऐं वत्रवैरोचनीये ह्रीं ह्रूं स्वाहा अयं वशीकरणमन्त्रः || ] वश्ये ह्रूमाद्येनाघनाशनम् || वाग्बीजाद्येन मोक्षः स्याच्चत्वारः प्रणवादिकाः || ६७९ ||

भवन्ति षोडशार्णाश्च चतुर्मुखमुखेरिताः || उपास्याश्चतुराम्नायैर्मुनिर्ब्रह्मा समीरितः || ६८० ||

न्यासपूजादिकं प्राग्वत्किञ्चित्काम्यमिहोच्यते || गुरवे दक्षिणां दद्याद्वस्त्राणि विविधानि च || धर्म्मार्थकाममोक्षाणां गुरुरेव समाश्रयः || ६८१ ||

साधितोयं महामन्त्रः सर्वसिद्धिप्रदायकः || ददात्यष्टौ महासिद्धीः किम्पुनः क्षुल्लकाः प्रियाः || ६८२ ||

भुक्तौ मुक्तौ च शान्तौ च श्वेतपुष्पं विनिर्दिशेत् || काम्यकर्म्मणि सर्वत्र ध्यानं स्यात्पुष्पवर्णकम् || ६८३ ||

जाग्रच्छयान उत्तिष्ठन्भुञ्जानः संयमन्नपि || सदाकालं जपेन्मन्त्रमापत्तस्य न विद्यते || ६८४ ||

संलिख्य स्वकरे मन्त्रं मुष्टिबन्धं समाचरेत् || स्तम्भयेत्पशुशस्त्राणि यावन्मुष्टिं न मुञ्चति || ६८५ ||

लिखित्वा स्वकरे मन्त्रमातुरं संस्पृशञ्जपेत् || विमुच्यते हठाद्रोगान्मुक्तरोगः सुखी भवेत् || ६८६ ||

अथातः सम्प्रवक्ष्यामि विश्ववर्णं महामनुम् || वज्रवैरोचनीये ह्रूंह्रींश्रींस्वाहाध्रुवादिकः || ध्यानपूजादिकं प्राग्वत्किञ्चित्काम्यमुदीर्ययते || ६८७ ||

शुक्लेन ध्यानमात्रेण मन्त्रमेनं जपेच्च यः || महोरग’सतैर्दष्टं मृतमुत्थापयेन्नरः || ६८८ ||

रक्तेन वशमायान्ति सर्वभतलवासिनः || पीतेन स्तम्भयेन्नित्यं नौकावाजिगजादिकम् || ६८९ ||

लिखित्वा स्वकरे मन्त्रं यावन्मुष्टिं न मुञ्चति ||

प्. ५४५)

कृतेन ध्यानमात्रेण रिपूनुच्चाटयेन्नरः || मारयेदप्ययत्नेन कृष्णध्यानान्न संशयः || ६९० ||

तर्प्पणं च प्रकुर्वीत पयसा पायसेन च || घृतेन मधुना वापि सुरया तत्र साधकः || ६९१ ||

ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रश्चेति यथाक्रमम् || तर्प्पणस्य विधानेन हठात्सिद्धः प्रजायते || ६९२ ||

ततो होमं प्रकुर्वीत समिद्भिः कुसुमैस्तथा || श्रीफलानां च होमेन तथैवोदुम्बरस्य च || ६९३ ||

सर्वसिद्धिप्रदो होमो विधातव्यः प्रयत्नतः || शतमष्टोत्तरं कृत्वा [जपमिति शेषः |
] जुहुयात्तर्प्पणोत्तरम् || ६९४ ||

पुष्पहोमविधिं वक्ष्ये सर्वकामसमृद्धिदम् || नित्यमष्टोत्तरशतं मासषट्कं समाचरेत् || ६९५ ||

अथ वा लक्षमात्रन्तु कुर्ययात्सिद्धिर्भवेद्ध्रुवम् || आज्ययुक्तः सामिषश्च होमान्ते प्रत्यहं बलिः || ६९६ ||

श्वेताश्वमारकुसुमैर्जीवयेत्कालदष्टकम् || मध्वक्ततिलपुष्पैस्तु भवेत्सम्पत्तिरुत्तमा || ६९७ ||

कर्णिकारैश्च सतिलैः सहस्रैः सुन्दरीं लभेत् || साज्यैर्बन्धूककुसुमैरयुतैः सुभगो भवेत् || ६९८ ||

बन्धूकपुष्पैः सतिलैस्तण्डुलैश्च विमिश्रितैः || रक्तचन्दनरक्ताश्वमारपुष्पैर्नृपो वशः || ६९९ ||

अथातः सम्प्रवक्ष्यामि तारामन्त्रान्कवित्वदान् || सम्यग्गुरुमुखात्प्राप्तान् वामाचारेण साधितान् || ७०० ||

यद्यदृष्टवशाल्लाभो मन्त्रस्यास्य प्रजायते || ज्येष्ठपुत्राय दातव्यो नान्येभ्यश्च कदाचन || ७०१ ||

ये मन्त्रा वाममार्गेण उपास्यन्ते तु तेऽखिलाः || स्वपुत्रादौ प्रदातव्या दक्षिणा न कदाचन || ७०२ ||

यो विप्रः स्वकुलं हित्वा दक्षिणाय प्रयच्छति || वाममार्गोपासनन्तु तौ द्वौ लोकद्वयाच्च्युतौ || ७०३ ||

ओं मायात्रीं हुंफडिति पञ्चवर्णो मनुर्मतः || मुनिरक्षोभ्यसंज्ञोस्य बृहती छन्द ईरितम् || ७०४ ||

तारा देवी ह्रीं च बीजं ह्रुं शक्तिश्चात्र कीर्तिता || षड्दीर्घयुग्लज्जयात्र [ह्रांह्रींह्रूंह्रैंह्रौंह्रः एष्वेकैकेन षडङ्गन्यासं कुर्ययात् || ] षडङ्गविधिरीरितः || ७०५ ||

न्यासषट्कं ततः कुर्ययात्तारायाः सर्वसिद्धिदम् || तत्रादौ प्रथमो न्यासः [श्रीकण्ठादिन्यासस्तु पूर्वमुक्तः तेनात्र नावाचि || ] श्रीकण्ठादिः पुरोदितः || ७०६ ||

मातृकाक्षरमुच्चार्यय ह्रींत्रींहुंपूर्वकं वदेत् || श्रीकण्ठादिसपत्नीकं नमोन्तं मातृकास्थले || ७०७ ||

विन्यस्य च चतुर्थ्यन्तं न्यासोयम्प्रथमः स्मृतः ||

प्. ५४६)

अस्मिन्न्यासे क्रियमाणे देवीमेवंविधा स्मरेत् || ७०८ ||

शवपीठसमासीनां नीलकान्तिन्त्रिलोचनाम् || अर्धेन्दुशेखरां नानाभूषणाढ्यां चतुर्भुजाम् || ७०९ ||

द्वितीयन्तु ग्रहन्यासं कुर्यात्तां [ह्रीं त्रीं हुं अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः रक्तवर्णाय सूर्ययाय हृदि, ह्रींत्रीं हुं यं रं लं वं शुक्लवर्णाय सोमाय नमः भ्रुवोः, ह्रीं त्रीं हुं कं खं गं घं ङं रक्तवर्णाय मङ्गलाय नमः लोचनत्रये, ह्रीं त्रीं हुं चं छं जं झं ञं श्यामवर्णाय बुधाय नमः वक्षसि, इत्थं शेषग्रहन्यासः कर्त्तव्यः || ] समनुस्मरन् || त्रिबीजस्वरपूर्वं तु रक्तं सूर्ययं हृदि न्यसेत् || ७१० ||

तथाह्यवर्गपूर्वं तु सोमं शुक्लं भ्रुवोर्द्वयोः || एवम्मन्त्रविधानज्ञः कवर्गाद्यञ्च मङ्गलम् || ७११ ||

रक्तं नेत्रत्रये चापि चवर्गाद्यं च वक्षसि || बुधं श्यामं न्यसेत्पीतं टवर्गाद्यं गले गुरुम् || ७१२ ||

तवर्गाद्यं श्वेतवर्णं घण्टिकायान्तु भार्गवम् || नीलवर्णं पवर्गाद्यं नाभिदेशे शनैश्चरम् || ७१३ ||

शवर्गाद्यं धूम्रवर्णं ध्यात्वा राहुं न्यसेन्मुखे || लक्षाद्यं धूम्रवर्णाभं केतुं नाभौ पुनर्न्यसेत् || ७१४ ||

न्यासन्तृतीयं वक्ष्यामि बीजत्रितयपूर्वकम् || समानवर्णानुच्चार्यय [ह्रीं त्रीं हुं अं इं उं ऋं ऌं ऐं ओं अं मूर्ध्निं पूर्वे इन्द्राय नमः, ह्रीं त्रीं हुं आं ईं ऊं ॠं ॡं ऐं औं अः मूर्ध्न्याग्नेययामग्नये नमः, ह्रीं त्रीं हुं कं खं गं घं ङं दक्षिणे यमाय नमो मुखे, इत्यादि || ] प्रागिन्द्राय नमोस्तु के || ७१५ ||

दीर्घस्वरसमायुक्तं चाग्नेययामग्नये नमः || दक्षिणे यमाय नमः कवर्गाद्यं ललाटके || ७१६ ||

चवर्गाद्यं च नैर्-ऋत्यां नैर्-ऋत्याय नमो मुखे || टवर्गाद्यं गले पश्चाद्वरुणाय नमस्त्विति || ७१७ ||

न्यसेद्धृदि तवर्गाद्यं वायव्यां वायवे नमः || पवर्गाद्यं कुबेराय नमो वै दक्षिणे करे || ७१८ ||

वामहस्ते यवर्गादीशाने रुद्राय हृद्भवेत् || शवर्गाद्यूर्ध्वकामाय नमो नाभौ तु विन्यसेत् || हुं लक्षाद्यं पृथिव्यै हृत्पादयोरिति विन्यसेत् || ७१९ ||

शिवशक्त्याभिधो न्यासश्चतुर्थः कथ्यतेधुना || ह्रींत्रींहुंपूर्वकः कार्य इन्द्रियाघहरः परः || ७२० ||

ब्रह्माणं डाकिनीयुक्तं वादिसान्तार्णपूर्वकम् || मूलाधारे [ह्रीं त्रीं हुं वं शं षं सं डाकिनीयुक्ताय ब्रह्मणे नमः मूलाधारे, ह्रीं त्रीं हुं बं भं मं यं रं लं शाकिनीयुक्तविष्णवे नमः स्वाधिष्ठाने, डं ढं णं तं थं दं धं नं पं फं लाकिनीयुक्त रुद्राय नमः मणिपूरके || ] न्यसेच्चैव चतुर्दलसमन्विते || ७२१ ||

श्रीविष्णुं श्कतिनीयुक्तं वादिलान्तार्णपूर्वकम् ||

प्. ५४७)

स्वाधिष्ठानाभिधे चक्रे लिङ्गस्थे षड्दले न्यसेत् || ७२२ ||

रुद्रन्तु लाकिनीयुक्तं डादिफान्तार्णपूर्वकम् || न्यसेच्चक्रे दशदले नाभिस्थे मणिपूरके || ७२३ ||

ईश्वरं कादिठान्तार्णपूर्वंकं काकिनीयुतम् || विन्यसेद्द्वादशदले हृदयस्थे त्वनाहते || ७२४ ||

सदाशिवं शाकिनीं च षोडशस्वरसंयुताम् || कण्ठस्थे षोडशदले विशुद्धाख्ये प्रविन्यसेत् || ७२५ ||

आज्ञाचक्रे परशिवं हाकिनीसंयुतं तथा || हक्षार्णपूर्वं भ्रूमध्यसंस्थितेतिमनोहरे || ७२६ ||

वक्ष्येथ पञ्चमं न्यासं समस्तारिष्टनाशनम् || अं आंकवर्गं [ह्रीं त्रीं हुं अं आं कं खं गं घं ङं तारायै नमः ब्रह्मरन्ध्रे, ह्रींः त्रीं हुं इं ईं चं छं जं झं ञं उग्रायै नमः ललाटे, ह्रीं त्रीं हुं उं ऊं टं ठं डं ढं णं महोग्रायै नमो भ्रुवोः, अग्रेप्येवं ज्ञेयम् || ] ह्रींत्रींहुं तारायै नम उच्यते || ७२७ ||

विन्यसेद् ब्रह्मरन्ध्रेथ इं ईं चापि चवर्गकम् || ह्रींत्रींहुं नम उग्रायै ललाटे चापि विन्यसेत् || ७२८ ||

उं ऊं टवर्गं ह्रींत्रींहुं महोग्रायै नमो भवेत् || विन्यसेच्च भ्रुवोर्मध्ये कण्ठे ऋं ॠं तवर्गकम् || ह्रींत्रींहुं च वज्रायै नमोन्तं सकलेष्वपि || ७२९ ||

ऌं ॡं पवर्गं ह्रींत्रींहुं नमः काल्यै हृदि न्यसेत् || एं ऐं यवर्गं ह्रींत्रींहुं सरस्वत्यै च नाभिके || ओमौं सवरं ह्रींत्रींहुं कामेश्वर्ययै च लिङ्गके || ७३० ||

अं अः लक्षौ च ह्रींत्रींहुं चामुण्डायै नमो न्यसेत् || मूलाधारे न्यसेत्पश्चात्पीठन्यासं समाचरेत् || ७३१ ||

आधारे [ह्रीं त्रीं हुं अं इं उं ऋं ऌं एं ओं अं कामरूपपीठाय नम आधारे || ] कामरूपाख्यं बीजह्रस्वार्णपूर्वकम् || हृदि जालन्धरं पीठ [ह्रीं त्रीं हुं आं ईं ऊं ऋं ऌं ऐं औं अः जालन्धरपीठाय नमः हृदि || ] दीर्घपूर्वं प्रविन्यसेत् || ७३२ ||

ललाटे पूर्णगिर्ययाख्यं कवर्गाद्यं [ह्रीं त्रीं हुं कं खं गं घं ङं पूर्णगिरिपीठाय नमः ललाटे || ] न्यसेत्सुधीः || उड्डियानं [ह्रीं त्रीं हुं चं छं जं झं ञं उड्डियानपीठाय नमः केशसन्धौ || ] चवर्गाह्यं केशसन्धौ प्रविन्यसेत् || ७३३ ||

भ्रुवोर्वाराणसीपीठं टवर्गाद्यं [ह्रीं त्रीं हुं टं ठं डं ढं णं वाराणसीपीठाय नमः भ्रुवोः || ] समाहितम् || तवर्गपूर्विकां [ह्रीं त्रीं हुं तं थं दं धं नं अवन्तीपीठाय नमः नयनद्वये इत्यादि || ] न्यस्येदवन्तीं नयनद्वये || ७३४ ||

पवर्गपूर्वकं मायापुरीपीठं मुखेन्यसेत् || कण्ठे तु मथुरापीठं यवर्गाद्यं प्रविन्यसेत् || ७३५ ||

नाभावयोध्या पठिन्तु शवर्गाद्यं प्रविन्यसेत् || कटौ काञ्चीपुरीपीठं दशमन्तु प्रविन्यसेत् || ७३६ ||

प्. ५४८)

षोढा न्यासस्तु तारायाः प्रोक्तोभीष्टप्रदायकः || महाप्रलयपानीये लसच्छ्वेताम्बुजस्थिताम् || ७३७ ||

कर्त्रीं खङ्गं नीलपद्मं कपालं दधतीं करैः || सर्प्पकाञ्चीं सर्प्पकरां सर्प्पकंकणकुण्डलाम् || ७३८ ||

सर्प्पकेयूरमञ्जीरां नीलाभां रक्तलोचनाम् || पिङ्गोग्रैकजटां त्र्यक्षां व्याघ्रत्वक्परिधायिनीम् || ७३९ ||

दंष्ट्राकरालवदनां ललज्जिह्वां स्मिताननाम् || नरास्थिपट्टं बध्नन्तीं भालेऽक्षोभ्यमुनीश्वराम् || ७४० ||

स्थापयन्तीं च तदधो ध्यायेच्छवहृदासनाम् || नानाप्रकारपूजास्यास्तन्त्रेतन्त्रे प्रकाशिता || ७४१ ||

जपात्सिद्धिरवश्यं स्यात्सा पूजात्र निगद्यते || संस्कारा वैदिका यस्य तस्मै विद्या न सिध्यति || ७४२ ||

लोभाद्वा मोहतो दद्याद् गृह्णीयाद्यदि वैदिकः || उभयोः कुलनाशः स्याद्दरिद्रो जन्मजन्मनि || ७४३ ||

शक्रे तु वैभवोन्मत्ते ब्रह्मविष्णुमहेश्वरैः || साधिता वाममार्गेण देवानां विजयाय च || ७४४ ||

जनयित्वा वारणादीन्मानयित्वा सुरेश्वरम् || स्वविक्रमं ख्यापयित्वा शक्रो देवपतिः कृतः || ७४५ ||

उत्कर्षकारिणी तस्माद्वाममार्गेण साधिता || कृत्वा तु तान्त्रिकस्नानम्पूजार्थं जलमाहरेत् || ७४६ ||

तारं [ओं वज्रोदके हुं फट् || ] वज्रोदके हुंफट् सप्तार्णोयञ्जलग्रहे || उपानत्पादुके त्यक्त्वा पूजको जलमाहरेत् || ७४७ ||

त्रिधा चाचमनम्पश्चादनेन मनुना चरेत् || तारं [ओं ह्रीं सुविशुद्धधर्म्मसर्वपापानिशाम्याशेषविकल्पानयनाय स्वाहा || ] मायां सुविशुद्धधर्म्मसर्वपदं वदेत् || ७४८ ||

पापानि शाम्याशेषेति विकल्पानयनेति च || यः स्वाहेति च षड्विंशदर्ण आचमने मनुः || ७४९ ||

ततः कुर्ययाच्छिखाबन्धम्मन्त्रेणानेन [ओं मणिधरि वज्रिणि शिखरिणि सर्ववशङ्करिणि हुंफट् स्वाहा || ] ओं मणि || धरिवज्रिणि शिखरिणि च सर्ववशङ्करे || ७५० ||

णि हुंफट् वह्निजायान्तस्त्रयोविंशतिवर्णकः || भूमिशुद्धिं नवार्णेन ततः कुर्ययात्तु साधकः || ७५१ ||

ओंरक्षरक्ष [ओं रक्षरक्ष हुं फट् स्वाहा || ] हुं चास्त्रं स्वाहा मन्त्रोनवाक्षरः || त्रयोदशार्णमन्त्रेण विघ्नानुत्सारयेत्ततः || ७५२ ||

ओंसर्वविघ्नानुत्सारय [ओं सर्वविघ्नानुत्सारय हुंफट् स्वाहा || ] हुंफट् ज्वलनप्रिया || ७५३ ||

मायाबीजं [ह्रीम् || ] जपापुष्पनिभं नाभौ विचिन्तयेत् || तदुत्थेनाग्निना देहन्दहेत्सार्द्धं स्वपाप्मना || ७५४ ||

त्रीं बीजन्तु सुवर्णाभं चिन्तयेदधृदि मन्त्रवित् ||

प्. ५४९)

पवनेन तदुत्थेन पापभस्म क्षिपेद्भुवि || ७५५ ||

हुंबीजमिन्दुकुन्दाभं भाले ध्यायेच्च भावतः || अनया भूतशुद्ध्या तु देवीसादृश्यमाप्नुयात् || ७५६ ||

ततस्तु देव्याः पूजार्थं मन्त्रयेत्काश्यपी [पृथिवीम् || ] ध्रुवम् [ओंङ्कारम् || ] || पवित्रवज्र [ओं पवित्रवज्रभूमे हुंफट्स्वाहा || ] भूमे हुंस्वाहा मन्त्रो भवाक्षरः || ७५७ ||

द्वादशार्णेन मन्त्रेण भूमौ कुर्ययाच्च मण्डलम् || आसुरे [ओं आसुरेखे वज्ररेखे हुं स्वाहा || ] खे वज्ररेखे हुंस्वाहाप्रणवादिकः || ७५८ ||

चतुर्दशार्णमनुना कसुमानि सुशोधयेत् || यथागताभिषेकेति [ओं यथाभिषेकसामग्री मे हुंफट्स्वाहा || ] सामग्री मे पदं वदेत् || तारादिहुंफट्स्वाहान्तो नृपवर्णो मनुर्मतः || ७५९ ||

ततः संशोधयेच्चित्तं पञ्चार्णेन सुसाधकः || ओं [ओं ओं ह्रीं स्वाहा || ] आं ह्रीं वह्निगृहिणी पञ्चार्णश्चित्तशोधने || ७६० ||

अथार्घ्यस्थापनार्थन्तु लंवं चोक्त्वा प्रमार्जयेत् || भूमिं पूर्वोक्तमन्त्रेण मण्डलस्य तु मण्डलम् || ७६१ ||

कुर्ययाद्वृत्तं त्रिकोणं च भूपुरन्तस्य बाह्यतः || कुर्ययात्तत्राधारशक्तिं कूर्म्मं शेषं च संयजेत् || ७६२ ||

आधारं स्थापयेत्तत्र ओं ह्रीं फडिति मन्त्रतः || आधारं पूजयेत्तत्र वं वह्निमण्डलाय [ओं वं वह्निमण्डलाय नमः || ] च || ७६३ ||

नमोन्तेन नवार्णेन ततो नरकपालकम् || हुंफट्मन्त्रेण संक्षाल्य स्थींबीजेन निवेशयेत् || ७६४ ||

ततोर्चयेन्नृकपालन्तज्जपेन्मन्त्रचतुष्टयम् || कालीकपालाय [ह्रांह्रींह्रूं कालीकपालाय नमः || ] नमो ह्रांह्रींह्रूंपूर्वकं वदेत् || एकादशाक्षरो मन्त्रस्तेनपूजादिकम्मतम् || ७६५ ||

स्त्रांस्त्रींस्त्रूंतारिणीत्युक्त्वा [स्त्रांस्त्रींस्त्रूं तारिणीकपालाय नमः || ] कपालाय नमोन्तकः || द्वादशार्णेनात्रभवेत्कपालार्चा द्वितीयिका || ७६६ ||

ह्रांह्रींह्रूं [ह्रां ह्रीं ह्रं नीलाकपालाय नमः || ] प्रोच्य नीलकपालाय नम इत्ययम् || एकादशार्णोनेनोक्ता कपालार्च्चा तृतीयिका || ७६७ ||

मायांस्त्रींहुं [ह्रीं स्त्रीं हुं स्वर्गकपालाय सर्वाधाराय सर्वाय सर्वोद्भवाय सर्वशुद्धिमयाय सर्वासुररुधिरारुणाय शुभ्राय सुराभाजनाय देवीकपालाय नमः || ] स्वर्गकपालाय सर्वापदं वदेत् || ततो धाराय सर्वाय तथा सर्वोद्भवाय च || ७६८ ||

सर्वशुद्धिमयायेति सर्वासुररुधीति च || रारुणाय च शुभ्रायेतिसुराभाजनाय च || ७६९ ||

देवीकपालाय नमश्चतुर्थो मन्त्र ईरितः ||

प्. ५५०)

षट्पञ्चाशत्कवर्णोयं कपालस्य तु पूजने || ७७० ||

ततस्तस्मिन्कपाले तु पूजयेदर्कमण्डलम् || ओंसूर्ययमण्डलायेति नमोन्तोयं नवाक्षरः || ७७१ ||

सूर्ययमण्डलपूजायां नृकपाले मनुर्मतः || मूलमन्त्रं [ओं ह्रीं त्रीं हुं फट् || ] पठंस्तस्मिन्सुधाबुद्ध्या सुरां क्षिपेत् || ७७२ ||

गन्धपुष्पाक्षतान् क्षिप्त्वा त्रिखण्डाख्यां प्रदर्शयेत् || मुद्रां सा तु करौ व्यस्तावंगुष्ठौ कारयेत्समौ || ७७३ ||

अनामान्तर्गते कृत्वा तर्ज्जन्यौ कुटिलाकृती || कनिष्ठिके निजस्थाने त्रिखण्डाह्वानकर्म्मणि || ७७४ ||

ततस्तस्यां सुरायान्तु पूजयेच्चन्द्रमण्डलम् [ओं सोममण्डलाय नमः || अयं चन्द्रमण्डलार्चनमन्त्रः || ] || एकादशार्णेन ततः शंखतोयन्तु मन्त्रयेत् || ७७५ ||

ह्रींश्रींह्रौमों [ऐं ह्रीं श्रीं ह्रौं ओं ह्रीं त्रीं हुं फट् ह्सौ हुमित्येकादशाक्षरो मन्त्रः || ] समुच्चार्यय ह्रींत्रींहुंफट् समुच्चरेत् || ह्सौ र्हुमिति वागाद्यो मन्त्र एकादशाक्षरः || ७७६ ||

ह्रींबीजेन ततो मद्यं किञ्चिच्छङ्खाम्बुना क्षिपेत् || शंखमुद्रां [वामांगुष्ठं तु संगृह्य दक्षहस्तस्य मुष्टिना |
कृतोत्तानां तथामुष्टिमंगुष्ठं तु प्रसारयेत् || वामागुंल्यस्तथा शिष्टाः संयुताः सप्रसादिताः || दक्षिणांगुष्ठके लग्ना मुद्रा शंखस्य भूतिदा || ] योनिमुद्रां [मिथः कनिष्ठिके बध्वा |
तर्जनीभ्यामनामिके || अनामिकोर्ध्वं संश्लिष्टदीर्घामध्यमयोरध || अंगुष्ठाग्रद्यं प्रस्य योनिमुद्रेयमीरिता |
] शंखतोयाय दर्शयेत् || ७७७ ||

तत्र वृत्ताष्टषट्कोणं ध्यात्वा देवीं विचिन्तयेत् || पूर्वोक्तां पूजयित्वैनां मूलेनाथ प्रतर्प्पयेत् || ७७८ ||

तर्जनी मध्यमानामाकनिष्ठाभिर्महेश्वरीम् || सांगुष्ठाभिश्चतुर्वारं महाशंखस्थिते जले || ७७९ ||

पञ्चाक्षराणुना पश्चात्संतर्प्यानन्दभैरवम् || ओंह्रौंह्सौं च नमोन्तोयं मन्त्रो भैरवपूजने || ७८० ||

ततस्तेनार्घ्यतोयेन प्रोक्ष्य पूजनसाधनम् || योनिमुद्रां प्रदर्श्याथ प्रणमेद्भवतारिणीम् || ७८१ ||

ततस्तां पूजयेत्पीठे पद्मे षट्कोणकर्णिके || धरागृहावृते पीठमादावर्च्यं सशक्तिकम् || ७८२ ||

ऐंकौं सरस्वतीत्युक्त्वा योगपीठात्मने नमः || चतुर्दशाक्षरो मन्त्रः प्रोक्तः पीठस्य पूजने || ७८३ ||

मेधा प्रज्ञा प्रभा विद्या धीधृतिस्मृतिबुद्धयः || विद्येश्वरीति सम्प्रोक्ता पीठस्य नव शक्तयः || ७८४ ||

महीगृहचतुर्दिक्षु गणेशं बटुकन्तथा || क्षेत्रपालं योगिनीं च ध्यात्वा सम्यक्प्रपूजयेत् || ७८५ ||

पाशांकुशौ त्रिशूलं च कपालं दधतं करैः ||

प्. ५५१)

अलंकारचयोपेतं गणेशं प्राक्प्रपूजयेत् || ७८६ ||

कपालशूले हस्ताभ्यां दधतं सर्प्पभूषणम् || श्वयूथवेष्टितं रम्यं बटुकं दक्षिणेऽर्चयेत् || ७८७ ||

डमर्वसित्रिशूलांश्च कपालं दधतं करैः || कृष्णं दिगम्बरं क्रूरं क्षेत्रपं पश्चिमे यजेत् || ७८८ ||

डमरुं पाशलिङ्गे च कपालं दधतीं करैः || रक्तमाल्यां रक्तवस्त्रां योगिनीमुत्तरे यजेत् || ७८९ ||

ततः सम्पूजयेद्देव्या मस्तकेक्षोभ्यसंज्ञकम् || मुनिं द्वादशवर्णेन मनुना स निगद्यते || ७९० ||

अक्षोभ्य [अक्षोभ्य वज्रपुष्पं प्रतीच्छ स्वाहा || ] वज्रपुष्पं च प्रतीच्छानलवल्लभा || अथ सम्पूजयेत्कोणषट्कदेव्या षडङ्गकम् || ७९१ ||

ततश्चाष्टदलाद्दिक्षु [चतुर्ष्विति शेषः मन्त्रो यथा ओं वैं वैरोचन वज्रपुष्पं प्रतीच्छ स्वाहा, ओं अं अमितवज्रपुष्पं प्रतीच्छ स्वाहा, ओं पं पद्मनाभवज्र०, ओं शं शंखपाण्डुरवज्रपुष्पं प्रतीच्छ स्वाहा || ] यजेद्वैरोचनामितौ || पद्मनाभं शंखपाण्डुरं पूर्वादौ समर्चयेत् || ७९२ ||

आग्नेयादिकपत्रेषु [ओं लांलामके वज्रपुष्पं प्रतीच्छ स्वाहा, ओं मां मामके वज्र०, ओं पां पाण्डुरे वज्र०, ओं तां तारके वज्रपुष्पं प्र० |
] लामकां मामकान्तथा || पाण्डुरां तारकां चापि भूगृहद्वारतोर्चयेत् || ७९३ ||

प्रागादिषु [भूपुरस्य चतुर्द्वारेषु पूर्वादिषु क्रमेणं यजेत्तन्मन्त्रानाह ओं पं पद्मान्तक वज्रपुष्पं प्रतीच्छ स्वाहा, ओं यं यमान्तक वज्र०, ओं विं विघ्नान्तक वज्र०, ओं नं नरान्तक वज्रपुष्पं ग्रतीच्छ स्वाहा || ] क्रमेणैव पद्मान्तकयमान्तकौ || विघ्नान्तकं नरान्तं च वक्ष्यन्ते मनवोर्चने || ७९४ ||

आदौ प्रणवमुच्चार्यय नामबीजं समुच्चरेत् || सम्बुद्ध्यतं च तन्नाम वज्रपुष्पम्प्रतीच्छ च || ७९५ ||

स्वाहान्तो मनुराख्यातो द्वादशानामयं क्रमः || शक्रादींश्चापि वज्रादीन् पूजयेत्तदनन्तरम् || ७९६ ||

ततश्च नित्यपूजान्तेन्वहं देव्यै बलिं हरेत् || मद्याम्बुमीनपिशितमुद्रापिष्टम्भवेद्यथा || ७९७ ||

तृप्तिः स्वस्य तु तन्मानन्तत्र मन्त्रो निगद्यते || श्रीमदेकजटे [ओं ह्रीं श्रीमदेकजटे नीलसरस्वति महोग्रतारे देवि खखसर्वभूतपिशाचराक्षसान् ग्रसग्रस मम जाड्यं छेदयछेदय श्रींह्रींफट्स्वाहा || ] नीलसरस्वति महोग्र च || ७९८ ||

तारे देवि खखेत्युक्त्वा सर्वभूतपिशाचराक्षसान् ग्रसग्रस मम जाड्यं छेदयछेदय || ७९९ ||

श्रींह्रीं फड्वह्निजायान्तस्तारमायादिको मनुः || भवेद्द्विपञ्चाशदर्णः पूजैवेष्टार्णतामियात् || ८०० ||

रतं कुर्वन्नदन्भक्ष्यमनेकन्दधि मध्वपि || मद्यं मांसं च ताम्बूलञ्जपेल्लक्षचतुष्टयम् || ८०१ ||

प्. ५५२)

दशांशं जुहुयाद्रक्तपद्मैः क्षीराज्यलोलितैः [हरिद्रया] || आदौ यन्त्रम्पूजयित्वा जपस्थाने जपञ्चरेत् || ८०२ ||

नारीं पश्यन्स्पृशन् गच्छन् महानिशि बलिं हरेत् || न कार्ययः सुभ्रुवां द्वेषो यत्नतः परिपूजयेत् || ८०३ ||

जपे न कालनियमो न स्थितौ सर्वदा जपेत् || श्मशाने शून्यसदने देवागारेथ निर्जने || ८०४ ||

पर्वते वनमध्ये वा शवमारुह्य मन्त्रवित् || समरे शत्रुनिहतं यदा षण्मासिकं शिशुम् || ८०५ ||

विद्यां संसाधयेच्छीघ्रं साधितैवम्प्रसिद्ध्यति || एवं सिद्धमनुर्मन्त्री प्रयोगान्कर्त्तुमर्हति || ८०६ ||

जातमात्रस्य बालस्य दिवसत्रितयादधः || जिह्वायां स लिखेन्मन्त्रम्मध्वाज्याभ्यां शलाकया || ८०७ ||

सुवर्णकृतया यद्वा मन्त्री धवलदूर्वया || गतेष्टमेब्दे बालोसौ जायते कविराड् ध्रुवम् || ८०८ ||

सूर्ययग्रहे भवेत्काष्ठम्पद्मयुक्तं सरोवरे || तरच्च जलमध्ये तत्समानीय तटे पुनः || ८०९ ||

दन्तैर्धृत्वा ततः कुर्ययाल्लेखनीं द्वादशांगुलाम् || मधुतैलसुराभिश्च संलिखेत्पद्मिनीदले || ८१० ||

मूलमन्त्रं मातृकार्णैर्मन्त्री सम्यक्प्रवेष्टयेत् || निखाय तद्दलं कुण्डे चतुरस्रे समेखले || ८११ ||

संस्थाप्य पावकन्तत्र हुनेन्मूलाणुना ततः || गोदुग्धमदिराक्तन्तु रक्तपद्मसहस्रकम् || होमान्ते तेन मनुना पूर्वद्रव्यैर्बलिं हरेत् || ८१२ ||

पद्मेपद्मे महापद्मे पद्मावति च इत्यपि || स्वाहान्तः प्रणवादिश्च मन्त्रोयं षोडशाक्षरः || ८१३ ||

ततो निशीथेपि बलिं पूर्वोक्तमनुना हरेत् || एवंकृते पण्डितानामजेयः कविराड् भवेत् || निवासो भारतीलक्ष्म्योर्जनतारञ्जनक्षमः || ८१४ ||

गोरोचनामनेनैव मनुना तु शतञ्जपेत् || ललाटे तिलकं कृत्वा यं पश्येत्स तु दासवत् || ८१५ ||

श्ममानाङ्गारमाहृत्य शर्वर्ययां भौमवासरे || कृष्णाम्बरेण संवेष्ट्य निबद्धं रक्ततन्तुभिः || ८१६ ||

शताभिजप्तम्मूलेन निक्षिपेद्वैरिवेश्मनि || उच्चाटयति सप्ताहात्सकुटुम्बं न संशयः || ८१७ ||

क्षाराढ्यया निशामन्त्रं [हरिद्रया || ] लिखित्वा पौरुषेस्थिनि || रविवारे निशीथिन्यां सहस्रमभिमन्त्रयेत् || ८१८ ||

तत्क्षिप्तं शत्रुभवने मण्डलभ्रंशकं भवेत् || क्षेत्रे क्षिप्तं सस्यहान्यै जवहृत्तुरगालये || ८१९ ||

प्. ५५३)

अथातः सम्प्रवक्ष्यामि दैत्यानां वरसिद्धये || ब्रह्मणोपासितान्तारां बल्यादिभिरुपासिताम् || ओं [ओं त्रींह्रींह्रूंह्रींहुं फट् || ] त्रीं ह्रीं ह्रूं समुच्चार्यह्रींहुंफट् सप्तवर्णकः || ८२० ||

मुनिर्ब्रह्मा च गायत्री छन्दस्तारा च देवता || न्यासांस्तु पूर्ववत्कुर्ययाद्ध्यानमस्या निरूप्यते || श्वेताम्बरां चन्द्रकान्तिचन्द्रार्धकृतशेखराम् || ८२१ ||

कर्तरीं च कपालं च कराभ्यां दधतीं भजे || नानालंकारशोभाढ्यां त्रीक्षणाम्पद्मसंस्थिताम् || ८२२ ||

जपपूजादिकं त्वस्याः सर्वं पूर्ववदाचरेत् || मधुपुष्करपत्रान्नहोमाद्विद्यानिधिर्भवेत् || ८२३ ||

रक्तां वश्ये स्वर्णनिभां स्तम्भने मारणेऽसिताम् || उच्चाटने धूम्र वर्णां शान्तौ श्वेतां विचिन्तयेत् || ८२४ ||

अथातः सम्प्रवक्ष्यामि तारकस्य [तारकासुरायवरं दातुमित्यर्थः || ] वराय तु || ब्रह्मणोपासितान्तारां द्वादशार्णां सुदुर्लभाम् || ८२५ ||

वाचं [ऐं ह्रीं श्रीं क्लीं ह्सौः उग्रतारे हुंफट् || ] लज्जां रमां कामं ह्सौर्हुं चोग्रमुच्चरेत् || तारे हुंफडिति प्रोक्तो मन्त्रोयं द्वादशाक्षरः || ८२६ ||

अथातः सम्प्रवक्ष्यामि ब्रह्मणा समुपासिताम् || हिरण्यकशिपोर्दातुं वरं सप्तार्णसम्मिताम् || ८२७ ||

प्रणवं [ओं ह्रुं ह्रीं ह्रीं क्लीं सौः हुंफट् || ] कवचं मायां क्लीं प्राक्कूटं च पञ्चमम् || हुंफडन्तः सर्वमस्य न्यासाद्यम्पूर्ववद्भवेत् || ८२८ ||

अथातः सम्प्रवक्ष्यामि हरिणा या ह्युपासिता || बौद्धमार्गप्रचारार्थं सिद्धिदा द्वादशाक्षरी || ८२९ ||

उपासिता ब्रह्मणा या [ऐं ह्रीं श्रीं क्लीं सौः हुं उग्रतारे हुंफट् || ] तस्याः कूटे तु पञ्चमे || सौरुक्त्वा साधिता विद्या द्वादशार्णातिबुद्धिदा || ८३० ||

यत्प्रभावाद्दिवोदासः काश्या उच्चाटितः पुरा || तस्यास्तु पूर्ववज्ज्ञेयं न्यासध्यानजपादिकम् || ८३१ ||

अथातः सम्प्रवक्ष्यामि सप्तार्णां [ओं हुं ह्रीं क्लीं सौः हुं फट् || ] रामसेविताम् [बलभद्रसेविताम् || ] || लक्ष्मीप्रभृतिरा [राससमये लक्ष्मीनामगोप्यादिविलासार्थम् || ] सार्थं तया मत्तस्तदा हली || ८३२ ||

ब्रह्मोपासितसप्तार्णमध्ये कूटं तु पञ्चमम् || त्यक्त्वा तत्र सौश्चोक्त्वा विद्या रामेण [दाशरथिना || ] सेविता || ८३३ ||

सर्वसिद्धिकरी चेयं शत्रुसंहारकारिणी || ध्यानपूजादिकम्प्राग्वत्प्रयोगादिकमेव च || ८३४ ||

अथातः सम्प्रवक्ष्यामि नारायणसुसेविताम् || पञ्चार्णां यत्प्रभावेण दैत्यानां कदनं कृतम् || ८३५ ||

त्रीं हुं फट् क्लीं वाग्भवं च पञ्चार्णा सर्वसिद्धिदा ||

प्. ५५४)

एषां त्रयाणां तु मुनिर्विष्णुः प्राग्वज्जपादिकम् || ८३६ ||

अथातः सम्प्रवक्ष्यामि मया या समुपासिता || दत्ता च रविणादित्यै सा विद्या तु षडक्षरी || ८३७ ||

ओं ह्रीं ह्रुं ह्रीं हुं फडिति मुनिः सोहं च पूर्ववत् || ज्ञेयं न्यासादिकं पूर्वं प्रयोगादि च पूर्ववत् || ८३८ ||

अथान्यं सम्प्रवक्ष्यामि चास्याः पञ्चाक्षरं मनुम् || जलन्धरवधार्थं तु मया सिद्धीकृतं पुरा || ८३९ ||

त्रीं हुं मायां [त्रीं हुं फट् क्लीं ऐं || ] हुंफडिति मनुः पञ्चाक्षरो मतः || मया पञ्चमुखैर्जप्तो दक्षमार्गेण भोः सुराः || ८४० ||

देवांशेषु च विप्रेषु तथा धर्म्मपुरेषु च || यमानां नियमानां च तत्रस्था नान्यदेवता || ८४१ ||

वाममार्गाराधितास्तु कार्ययं साधयितुं क्षमाः || दक्षिणाराधिता देवा रणसाहाययकारकाः || ८४२ ||

तेजोनिधीन्रिपून्हत्वा नयन्ति ब्रह्म शाश्वतम् || क्षत्रियाणां क्षयार्थं तु मया रामाय चार्पिताः || ८४३ ||

पञ्चामृतं सुरास्थाने मांसस्थाने च सूरणम् || मत्स्यस्थाने खण्डकाद्यं धर्म्मपत्न्यां रतं मतम् || ८४४ ||

अन्यच्च पूर्ववद्देवा भुजते तत्प्रकाशितम् || कस्तु तारां न सेवेत लोकद्वयपरीप्सया || ८४५ ||

अस्याः पूजादिकं प्राग्वद्विशेषोत्र निरूप्यते || तारायाः सद्गुरौ सिद्धिः स्त्रीरते भ्रान्तता भवेत् || ८४६ ||

अथातः सम्प्रवक्ष्यामि महातारामनुं सुराः || सिद्धा मार्गद्वयेनापि वर्णवर्णाधिकारतः || ८४७ ||

त्रीं [त्रीं ह्रीं ह्रां हुं नमस्तारायै महातारायै सकलदुस्तरात् तारय तारय तर तर स्वाहा || ] ह्रीं ह्रां हुं नमस्तारायै महापदमुच्चरेत् || तारायै सकलेत्युक्त्वा दुस्तरात्तारयद्वयम् || ८४८ ||

तरद्वयं वह्निजाया द्वात्रिंशार्णो मनुर्मतः || न्यासपुजाजपाद्यं तु प्राग्वत्सर्वं समाचरेत् || ८४९ ||

अथातः सम्प्रवक्ष्यामि देवीं दक्षिणकालिकाम् || क्रीं [क्रीं क्रीं क्रीं हुं हुं ह्रीं ह्रीं दक्षिणे कालिके क्रीं क्रीं क्रीं हुं हुं ह्रीं ह्रीं स्वाहा || ] क्रीं क्रीं हुं द्विरुच्चार्यय लज्जाबीजद्वयं तथा || ८५० ||

दक्षिणे कालिके पश्चात्पुनर्बीजानि संवदेत् || क्रमेणैवाग्निगृहिणी मन्त्रो द्वाविंशदर्णकः || ८५१ ||

भैरवोस्य मुनिः प्रोक्तस्त्रिष्टुप्छन्द उदाहृतम् || देवता कालिका देवी ह्रीं बीजं हुं च शक्तिका || ८५२ ||

दीर्घषट्कयुताद्येन [क्रां क्रीं क्रूं क्रैं कौं क्रः एभिर्बीजैः षडङ्गं विदधीत |
यथा क्रां हृदयाय नमः, क्री शिरसे स्वाहा इत्यादि || ] बिन्दुना संयुतेन च || षडङ्गानि न्यसेन्मन्त्री द्विः सकृद्वा यथाविधि || ८५३ ||

प्. ५५५)

पञ्चाशद्भिर्मातृकार्णैर्हृदये [अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं हृदये, एं ऐं ओं औं अं अः कं खं गं घ दक्षभुजे, ङं चं छं जं झं ञं टं ठं डं ढं वामभुजे, णं तं थं दं धं नं पं फं बं भं दक्षजंघायाम्, मं यं रं लं वं शं षं सं हं क्षं वामजंघायाम् || ] च भुजद्वये || दशभिर्दशभिः कुर्ययात्तथा जङ्घाद्वये क्रमात् || ८५४ ||

एष्वङ्गेषु [क्रीं क्रीं क्रीं हूं हूं नमो हृदये, ह्रीं ह्रीं दक्षिणे नमो दक्षभुजे, कालिके क्रीं क्रीं वामभुजे, क्रीं हूं हूं ह्रीं ह्रीं स्वाहापादद्वये, इमं न्यासं कृत्वा पुनः समस्तमूलमन्त्रेण व्यापकं कुर्ययात् || ] च मूलेन पञ्चभिः पञ्चभिः शरैः || सप्तभिश्चापि मन्त्रार्णर्व्यापकं च समन्ततः || ८५५ ||

करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् || कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषिताम् || ८५६ ||

खड्गाभयवराञ्छिन्नं मुण्डं च दधतीं करैः || महामेघप्रभां श्यामां तथा चैव दिगम्बराम् || ८५७ ||

कण्ठावसक्तमुण्डालीगलद्रुधिरचर्चिताम् || कर्णावतंसतानीतशवयुग्मविराजिताम् || ८५८ ||

घोरदंष्ट्राकरालास्यां पीनोन्नतपयोधराम् || शवानां करसङ्गातैः कृतकाञ्चीं हसन्मुखीम् || ८५९ ||

सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम् || घोररूपां महारौद्रीं श्मशानालयवासिनीम् || ८६० ||

दन्तुरां दक्षिणां व्यालीयुक्तालम्बिकचोच्चयाम् || शवरूपमहादेवहृदयोपरिसंस्थिताम् || ८६१ ||

शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्विताम् || महाकालसमायुक्तां शर्वोपरिरतान्विताम् || ८६२ ||

सुखप्रसन्नवदनां स्मेरारुणसरोरुहाम् || एवं सञ्चिन्तयेत्कालीं श्मशानालयवासिनीम् || ८६३ ||

आदौ विरचयेत्पञ्च त्रिकोणानि ततः परम् || पद्ममष्टदलं बाह्ये भूपुरं तत्र पूजयेत् || ८६४ ||

ततो मध्यत्रिकोणान्तर्न्यसेद्देवीं च दक्षिणे || महाकालं च तत्रैव न्यसेदेष विधिः स्मृतः || ८६५ ||

ततः पूर्वादिकोणेषु वामावर्तेन पूजयेत् || कालीं कपालिनीं कुल्लां प्रथमे तु त्रिकोणके || ८६६ ||

नीलां घनां बलाकां च द्वितीये तु त्रिकोणके || कुरुकुल्लाविरोधिन्यौ विप्रचित्तां तृतीयके || ८६७ ||

उग्रामुग्रप्रभां दीप्तां चतुर्थे तु त्रिकोणके || मात्रां मुर्द्रा च मित्रां च त्रिकोणे पञ्चमे यजेत् || ८६८ ||

सर्वाः श्यामा असिकरा मुण्डमालाविभूषणाः || तर्ज्जनीं वामहस्तेन धारयन्ति च सस्मिताः || ८६९ ||

ब्राह्मीं नारायणीं माहेश्वरीं मुण्डां कुमारिकाम् ||

प्. ५५६)

अपराजितां च वाराहीं नारसिंहीं दलाष्टके || सम्पूज्य यत्नतश्चापि बलिं सम्प्रतिपादयेत् || ८७० ||

हृदयं चापि देवेश्यै समर्प्य विधिवद्बुधः || निर्माल्यं वै शुचौ देशे धारयेच्च सदैव हि || ८७१ ||

एकलक्षं जपेन्मन्त्रं हविष्याशी दिवा शुचिः || अशुचिश्च तथा रात्रौ लक्षमेनं जपेन्मनुम् || दशांशं जुहुयादाज्यैस्तर्पयेदभिषेचयेत् || ८७२ ||

होमश्च तर्प्पणं पूजा कर्त्तव्या च विशेषतः || ततः प्रयोगान्कुर्वीत काम्यानिष्टफलाप्तये || ८७३ ||

नागयज्ञोपवीतिनीं चन्द्रार्धकृतशेखराम् || देवीमेवं च सञ्चिन्त्य महाकालसमीपगाम् || ८७४ ||

हुंहुंक्रीं च तथा क्रींक्रीं पञ्चबीजानि योजयेत् || अन्ते तु मूलमन्त्रस्य जपपूजादिकं चरेत् || ८७५ ||

वश्यकामः साधकश्चेद्रक्तपुष्पैः प्रपूजयेत् || कामबाणसमाविद्धा निर्लज्जा विह्वलाः स्त्रियः || स्वंस्वं सन्त्यज्य भर्त्तारमालिङ्गन्ति सदैव तम् || ८७६ ||

एवमाकर्षणे योज्यमादौ हुंक्रीं ततः परम् || लोहितां शूलहस्तां च महाकालाग्रसंस्थिताम् || ध्यात्वा सम्पूजयेत्पुष्पैः पीतैराकर्षणं भवेत् || ८७७ ||

कपिलां द्विभुजां कर्त्रीं [बिभ्रतीमिति शेषः |
] सव्ये दक्षे कपालकम् || ध्यात्वैवं सर्वमन्त्रान्ते ठद्वयं परिकीर्तयेत् || ८७८ ||

एवं प्रजप्य पुष्पेण कृष्णेनैव तु पूजयेत् || मरणं तु भवेत्तस्य यमुद्दिश्य कृता क्रिया || ८७९ ||

उच्चाटयति पिङ्गाक्षी सन्त्रासयति केकरा || विद्रावयति शुष्कास्या प्रोन्मत्तयति घूर्णिका || ८८० ||

विक्षोभयति संक्षुब्धा सम्पादयति सम्मता || सङ्कोचयति संरुद्धा विरुद्धा च विरोधयेत् || ८८१ ||

योयो भावो यत्र ज्ञेयस्तं भावं स्थापयेदिति || अत्र सर्वत्र कर्त्तव्यं भावमात्रस्य चिन्तनम् || उच्चाटनं विनान्यत्र सर्वत्र सुरतं मतम् || ८८२ ||

स्नातः शुक्लाम्बरधरः कृतनित्यक्रियो दिवा || रात्रौ नग्न शयानश्च मैथुने च व्यवस्थितः || अवाक्यो मुक्तकेशश्च तेन स्युः सर्वसिद्धयः || ८८३ ||

नग्नां वरस्त्रियं पश्यन्प्रजपेदयुतं मनुम् || स भवेत्सर्वसिद्धीनां पारगः सर्वदैव हि || ८८४ ||

तस्य दर्शनमात्रेण वादिनो निष्प्रभा मताः || गद्यपद्यमयी वाणी तस्य सर्वविधा भवेत् || ८८५ ||

अवाक्यो मुक्तकेशश्च हविष्यं भक्षयन्नरः ||

प्. ५५७)

प्रजपेदयुतं तावदेवं प्रतिनिधिर्भवेत् || ८८६ ||

ऋतुमत्या भगं पश्यन्नयुतं प्रजपेन्नरः || अनर्घकविता तस्य गद्यपद्यमयी भवेत् || ८८७ ||

अष्टोत्तरशतं जप्त्वा भगमालोक्य चान्ततः || प्रयाति मैथुनं योसौ धनधान्यसुतान्वितः || ८८८ ||

सुरते जपितव्यञ्च सदापापविशुद्धये || यदि योषित्प्रसङ्गेन रेतः पतति यत्नतः || ८८९ ||

समुत्सार्यय ततो जप्तं सर्वकामसमृद्धये || श्मशानाङ्गारमादाय मुक्तकेशो दिगम्बरः || ८९० ||

जपेदयुतसंख्यं तु सर्वकामसमृद्धये || प्रेतमारुह्य तत्रैव यो जपेन्मन्त्रवित्तमः || ८९१ ||

अयुतं वाग्यतो भूत्वा कविभिः स तु पूजितः || स याति परमां सिद्धिं देवैरपि सुदुर्लभाम् || ८९२ ||

स्वदेहरुधिराक्तैश्च बिल्वपत्रैः सहस्रशः || श्मशानेऽभ्यर्चयेद्देवीं वागीशसमतां व्रजेत् || ८९३ ||

सुरतत्यक्तशुक्रेण ह्यर्कपुष्पैः सहस्रकैः || श्मशानेऽभ्यर्चयेद्देवीं सर्वां सिद्धिं स विन्दति || ८९४ ||

धन्वाब्जपत्रैः सम्पूज्य देवीं सर्वफलप्रदाम् || लोके स कुलवान्वाग्मी सर्वयोषित्प्रियो भवेत् || सुखी स्यान्नात्र सन्देहो महाकालवचो यथा || ८९५ ||

श्मशाने योषितं नीत्वा मन्त्रैः प्रार्च्य सहस्रकैः || रक्तचन्दनदिग्धाङ्गीं रक्तपुष्पैरलङ्कृताम् || ८९६ ||

तावत्पुष्पैर्मनुं प्रार्च्य ततो ध्यायेच्च चण्डिकाम् || ततो गत्वाप्नुयाद्राज्यं यद्यसौ न बिभेति वै || ८९७ ||

श्मशाने ह्ययने चैवं शवासनगतः स्थिरः || असकृत्तु जपेन्मन्त्रं सर्वसिद्धिप्रदो [मन्त्र इति वा पुरुषः इति वा शिष्यते मन्त्रशेषपक्षे तस्येत्यर्घ्याहार्यमिति गौरवम् २ || तदन्यत्र नेति ज्ञेयम् || ?] भवेत् || ८९८ ||

तर्पयेच्च शवास्यं तु रक्तमांसादिभिस्त्रिधा || त्रिस्त्रिर्मन्त्रानुदीर्ययैवं सर्वसिद्धिर्भवेत्ततः || ८९९ ||

तर्प्पयेच्च पयोभिर्हि सुधाधारायुतैस्तथा || रेतोभिश्च तथा तद्वत् स्वकीयेन कचेन च || ९०० ||

मैथुनोपचिताद्भिश्च भगप्रक्षालनाम्बुभिः || मेषमाहिषरक्तेन नररक्तेन चैव हि || मूषमार्ज्जाररक्तेन वाग्मित्वं तस्य जायते || ९०१ ||

धनित्वं जायते तस्य सर्वसिद्धिः प्रजायते || वचसा स भवेज्जीवो धनेन च धनाधिपः || ९०२ ||

आज्ञया देवराजोसौ रूपेण च मनोभवः || बलेन पवनो ज्येष्ठस्सर्वतत्त्वार्थसाधकः || ९०३ ||

साधितासाधितं मांसं सास्थि दद्यात्सदा बलिम् || मूषमांसं मेषमांसं छागं माहिषमेव च || ९०४ ||

सर्वं सास्थि प्रदातव्यं सदा त्वग्लोमसंयुतम् || अजकस्य नखं छिन्नं केशं स्वमार्जनीगतम् ||

प्. ५५८)

निवेदयेच्छमशाने तत्सर्वसिद्धिप्रदो [कर्मेति शेषः || ] भवेत् || ९०५ ||

नारीरजोयुजां कृत्वा पर्णानां शतमुत्तमम् || प्रत्येकं प्रजपेन्मन्त्रं ततस्तद्धोमयेद्बुधः || ९०६ ||

युगानांगयुतं तेन पूजिता दक्षिणा भवेत् || सर्वसिद्धिर्भवेत्तस्य वाग्मी धीरस्स जायते || ९०७ ||

न तस्य दुर्लभं किञ्चित्पृथिव्यां जातु जायते || योनिरूपं हि कृत्वा तु कुण्डं वितस्त्यरत्नितः || ९०८ ||

तस्तविस्तारतो वापि कृत्वा चैव यथाविधि || तत्र कार्यया हि मन्त्रेण वह्निस्थापनिकाः क्रियाः || ९०९ ||

महाकालाय देवाय दद्यात्प्रथममाहुतिम् || स्रुवेणाज्येन मांसेन भक्तेन रुधिरेण च || ९१० ||

कृष्णपुष्पेण साज्येन सरक्तेन विषेशतः || आमिषादिभिरप्येवं जुहुयाच्च श्मशानके || ९११ ||

स्नातः शुक्लाम्बरधरः शुचिः प्रयतमानसः || दिवा सर्वं प्रकुर्वीत सर्वकामार्थसिद्धये || ९१२ ||

रात्रौ नग्नो मुक्तकेशो मैथुनेनापि संयुतः || प्रकुर्वीत प्रयत्नेन सर्वकामार्थसिद्धये || ९१३ ||

द्विजानामत्र [ब्रह्मक्षत्रियविशाम् || ] सर्वेषां विधी रात्रौ प्रदर्शितः || शूद्राणां चैव संप्रोक्तो रात्रावेव विधिर्मया || ९१४ ||

महाकालं यजेद्यत्नात्पश्चाद्देवीं प्रपूजयेत् || त्रिधा विभज्य मन्त्राद्यैर्यत्नात्साधकसत्तमः || ९१५ ||

मांसं रक्तं तिलं केशो नखो भक्तं च पायसम् || आज्यं चेति प्रयत्नेन होतव्यं सर्वसिद्धये || ९१६ ||

एवं कृत्वा विधानेन भजते सिद्धिमुत्तमाम् || यद्यत्प्रार्थयते जन्तुस्तत्तत्प्राप्नोति नित्यशः || ९१७ ||

देवत्वं दानवत्वं च सिद्धचारणतां तथा || हवनात् सर्वमाप्नोति नित्यमेवमतन्द्रितः || ९१८ ||

एकचित्तो जपेन्मन्त्रं चत्वारिंशत्सहस्रकम् || होमं तु रक्तपुष्पेण कुण्डे कुर्ययाद्यथाविधि || ९१९ ||

एतन्मन्त्रजपान्मन्त्री मुच्यते ब्रह्महत्यया || पितृमातृवधाद्यैश्च किमन्यैः क्षुद्रपातकैः || ९२० ||

कपिलारत्नसम्पूर्णपृथ्वी दानस्य यत्फलम् || कोटिहोमसहस्रैर्ययद्ध्यानेन फलभाग्भवेत् || यंयं स्पृष्ट्वा जपेन्मन्त्री स तं तं वशमानयेत् || ९२१ ||

जपित्वाष्टोत्तरशतं जुहुयाद्रक्तपुष्पकैः || कुर्ययान्नृपं वशे मन्त्री नासाध्यं भुवनत्रये || ९२२ ||

शून्यागारे देवगृहे स्वयम्भूस्थान एव च || ब्रह्मचारी हविष्याशी भवेदिन्द्रसमो जपात् || ९२३ ||

प्. ५५९)

कुण्डे त्रिकोणसंज्ञे तु शान्तौ पुष्टौ तथैव च || अयुतं जुहुयान्मन्त्री सहस्रत्रितयं पुनः || ९२४ ||

काम्ये सहस्रमारक्तैः पुष्पैर्हुत्वा दशांशतः || तर्पयेच्च पुनस्तद्वद्देवीं ध्यात्वा हुताशने || ९२५ ||

सम्पूज्य मूलमन्त्रेण बिल्वपत्रैर्घृतान्वितैः || सहस्रं प्रत्यहं हुत्वा प्राप्नोति परमां गतिम् || घृताक्तमालतीपुष्पैर्होमाद्द्रुतकविर्भवेत् || ९२६ ||

नासाध्यं विद्यते किञ्चिदिह मन्त्रविदस्सदा || देव्याराधनशक्तिश्च गुरुभक्तस्य नान्यथा || ९२७ ||

अथातः संप्रवक्ष्यामि मन्त्रमष्टाक्षरं परम् || दक्षिणे कालिके स्वाहा मन्त्रोष्टाक्षर ईरितः || ९२८ ||

न्यासः प्राग्वद्ध्यानमत्रशवरूपशिवस्थिताम् || महाकालरतासक्तां शिवाभिर्दिक्षु वेष्टिताम् || ९२९ ||

नवशक्तियुते पीठेनन्ता च विजया जया [शब्दक्रमादर्थक्रमस्य बलीयस्त्वेन जयार्चनोत्तरं विजयार्चनं विधेयमत्रजयाशब्दस्य पूर्वं पाठस्तु छन्दस्स्वारस्यात् इति सुधियो ह्यम् || ] || तथापराजया नित्या विलासिन्यपि कीर्त्तिता || ९३० ||

क्षुब्धा घोरा मङ्गलेति पीठमन्त्रोऽर्कवर्णकः || ह्रींकालिकायोगपीठात्मने नम उदाहृतः || ९३१ ||

अङ्गानि पूर्वमाराध्य षड्दलेषु ततोर्चयेत् || कालीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीम् || ९३२ ||

विप्रचित्तां च सम्पूज्य नवकोणेष्वथोर्चयेत् || उग्रामुग्रप्रभां दीप्तां नीलां घनां वाचालिकाम् || ९३३ ||

मात्रां मुद्रां तथामितां पूज्याः पत्रेषु मातरः || पूर्वोक्तभूपुरे पूज्या भैरव्योष्टौ च भैरवीः || ९३४ ||

ततो महाभैरवी च तृतीया सिंहभैरवी || धूम्राख्या भैरवी तुर्यया पञ्चमी भीमभैरवी || ९३५ ||

उन्मत्तभैरवी षष्ठी वशीकरणभैरवी || सप्तमी भैरवी ख्याताष्टमी मोहनभैरवी || ९३६ ||

दिक्पतींश्च तदस्त्राणि पूजैवं परिकीर्तिता || पुरश्चर्ययादिकं प्राग्वत्प्रयोगानाचरेत्तथा || ९३७ ||

स्त्रीप्रहारं च निन्दां च कौटिल्यं चाप्रियं वचः || आत्मनो हितमन्विच्छन्कालीभक्तो विवर्जयेत् || ९३८ ||

असृजा महिषादीनां कालिकां यस्तु तर्प्पयेत् || तस्य स्युरचिरादेव करस्थाः सर्वसिद्धयः || ९३९ ||

अथान्यं सम्प्रवक्ष्यामि चैकविंशतिवर्णकम् || ओंह्रीं ह्रीं हुं युगं त्रिः क्रीं दक्षिणे कालिके वदेत् |
९४० ||

त्रि क्रीं हुंहुं च होमश्चात्र घृतेनैव विधेयः || साधकेन हि क्तियुग्ममस्य न्यासादि पूर्ववत् || ९४१ ||

प्. ५६०)

बिल्वमूले शवारूढो वटमूले तथैव च || लक्षं मनुं जपित्वेमं सर्वसिद्धीश्वरो भवेत् || पञ्चमप्रतिमित्यायं [पञ्चमकारप्रतिमित्या || ] दक्षिणाम्नायसिद्धिदः || ९४२ ||

अथातः संप्रवक्ष्यामि शक्रार्णं मनुमुत्तमम् || क्रीं हुं ह्रीं दक्षिणे कालिके क्रींहुंह्रीं दहनप्रिया || ९४३ ||

पूजनं पूर्ववत्प्रोक्तं न्यासध्यानजपादिकम् || विशेषान्नसुरादीनामयमाकर्षणक्षमः || ९४४ ||

हुं [हुंहुंक्रींक्रींक्रींहुंहुंदाक्षिणे कालिके हुंहुंहुंह्रींह्रींस्वाहा] हुं त्रिः क्रीं द्विश्च लज्जा दक्षिणे कालिके पुनः || हुंच त्रिर्द्विश्च लज्जा स्वाहेत्याकृतिवर्णवान् || ९४५ ||

न्यासपूजादिकं प्राग्वद्विशेषेण वशीकृतिः || जपादेतस्य भूतिश्च सर्वमन्यत्तु पूर्ववत् || ९४६ ||

क्रीं क्रीं क्रीं हुं समुच्चार्यय हुंलज्जाद्वयमुच्चरेत् || दक्षिणे कालिके स्वाहा नृपवर्णः [षोडशार्णः || ] प्रकीर्त्तितः || ९४७ ||

मन्त्रराजोयमाख्यातः पूर्ववत्यादुपासना || विशेषाङ्गतराज्यानामयं राज्यप्रदो मतः || ९४८ ||

क्रीमित्येकाक्षरो मन्त्रः कालिकायाः प्रकीर्तितः || जपेत्कृष्णचतुर्दश्यां शून्यागारे मनुं निशि || उपवासपरश्चैवमेकाहात्सिद्धिमाप्नुयात् || ९४९ ||

यद्वा श्मशाने विपिने जपेल्लक्षं तु वाग्यतः || आर्द्रोष्णीष आर्द्रवासास्तेन मन्त्रः प्रसिध्यति || ९५० ||

होमश्चात्र घृतेनैव तर्पणादि ततश्चरेत् || अथवा प्रजपेन्मन्त्रं श्मशाने विगतज्वरः || ९५१ ||

निशाभोजी दशांशेन तिलैर्हवनमाचरेत् || जपपूजादिप्राग्वद्विशेषाद्भोगमोक्षदम् || ९५२ ||

क्रीमुक्त्वा कालिके स्वाहाषडर्णो मन्त्र ईरितः || न्यासपूजादिकं प्राग्वद्द्विशेषाद्भोगदो मतः || ९५३ ||

क्रींहुंह्रीं त्र्यक्षरात्मायं मन्त्रः काल्याः प्रकीर्त्तितः || प्राग्वज्जपादिकं चास्य विशेषात्सन्ततिप्रदः || ९५४ ||

कालीबीजं च हुं माया हुंफट् पञ्चाक्षरो मनुः || न्यासध्यानादिकं प्राग्वद्विशेषाद्भूतनाशनः || ९५५ ||

क्रींहुंह्रीं च हुं फट् स्वाहान्तः सप्ताक्षरो मतः || प्राग्वन्न्यासादिकं सर्वं विशेषाच्छान्तिकारकः || ९५६ ||

अथातः सम्प्रवक्ष्यामि धूमावत्या मनुं परम् || धूंधूं धूमावति स्वाहा मन्त्रोष्टाक्षर ईरितः || ९५७ ||

पिप्पलादो मुनिश्छन्दो निवृज्ज्येष्ठास्य देवता || षड् दीर्घबिन्दुयुक्तेन धकारेण षडङ्गकम् || ९५८ ||

आद्यबीजद्द्वयान्तस्थैः षडर्णैर्न्यासमाचरेत् ||

प्. ५६१)

अंगुष्ठादिषडङ्गेषु पुनर्देवीं विचिन्तयेत् || ९५९ ||

विवर्णां चञ्चलां कृष्णां दीर्घां च मलिनाम्बराम् || विमुक्तकुन्तलां दीर्घां विधवां विरलद्विजाम् || ९६० ||

काकध्वजरथारूढां विलम्बितपयोधराम् || शूर्प्पहस्तां तु रूक्षाक्षीं धूतहस्तां त्वरान्विताम् || ९६१ ||

प्रवृद्धरोम्णीं तु भृशं जटिलां कुटिलेक्षणां || क्षुत्पिपासार्दितां नित्यं सदा कलहतत्पराम् || ९६२ ||

एवंविधां सदा ध्यायेत्ततः कर्म्म समाचरेत् || पूर्वोक्ते पूजयेत्पीठे ज्येष्ठां शत्रुनिवर्त्तने || ९६३ ||

केशरेषु षडङ्गानि पत्रस्था अष्ट शक्तयः || क्षुधा तृषा रतिर्निद्रा निर्-ऋतिर्दुर्गतीरुषा || अक्षमेति ततो देवा इन्द्राद्या आयुधान्विताः || ९६४ ||

एवं ज्येष्ठां समाराध्य सिद्धमन्त्रः प्रजायते || उपोष्य कृष्णभूताहे नग्नो मुक्तशिरोरुहः || शून्यागारे श्मशाने वा कान्तारे भूधरेथवा || ९६५ ||

प्रत्यहं प्रजपेन्निर्भीर्ध्यायेद्देवीं शवासनाम् || एवं लक्षं जपेन्मन्त्रं नाशयेदचिरादरीन् || ९६६ ||

जुहुयाल्लवणोपेतां राजिकां निशि तत्फलम् || ९६७ ||

आख्यापर्ययन्तमालिख्य तत्र स्थाप्य शिवं यजेत् || अवष्टभ्य शिवं शत्रुनाम्नाथ प्रजपेन्मनुम् || सहस्रादूर्ध्वतः शत्रुज्वरेण परिगृह्यते || ९६८ ||

पञ्चगव्येन शान्तिः स्याज्ज्वरस्य पयसापि वा || मन्त्राद्यक्षरमालिख्य शत्रुनाम ततः परम् || द्वितीयान्तं मनौ शत्रोर्नामैवं मनुमालिखेत् || ९६९ ||

रणेऽयुत जपाच्छत्रोर्निश्चितं मरणं भवेत् || कृत्वा यन्त्रे रिपोराख्यामारण्ये पद्मिनीदले || उन्मादो जायते शत्रोर्मनोरयुतजापतः || ९७० ||

दग्ध्वा कङ्कं श्मशानाग्नौ तद्भस्मादाय मन्त्रितम् || विरोधिनाम्नाष्टाशासु क्षिप्रमुच्चाटनं रिपोः || ९७१ ||

श्मशानभस्मना कृत्वा शिवं तस्योपरि न्यसेत् || विरोधिनाम संरुद्धं कृष्णपुष्पैः समर्चयेत् || ९७२ ||

महिषी क्षीरधूपं च दद्याच्छत्रुविपत्करम् || महिषीरूपेणागत्य स्वप्ने शत्रुं विनाशयेत् || ९७३ ||

मन्त्रेणानेन संलिख्य तद्भस्म रिपुमन्दिरे || समुच्चाटयते तूर्णं नात्र कार्यया विचारणा || ९७४ ||

न्यस्य पाणितले शत्रोराख्यानं चितिभस्मना || वह्नावधोमुखः क्रुद्धस्तापयेदयुतं जपन् || धूमावतीमनुं मन्त्री शत्रुर्यमपुरं व्रजेत् || ९७५ ||

प्राग्वत्करतले नामार्द्धद्वयं तु रिपोर्न्यसेत् || जलस्थः प्रजपेन्मन्त्रं हुंकारान्नाशयेदरीन् || ९७६ ||

प्. ५६२)

श्मशानभस्मना लिङ्गं कृत्वा पुष्पादिनार्चयेत् || भगवन्निति सम्भाष्य मनसा कर्म्म चिन्तयेत् || ९७७ ||

निम्बकाकच्छदानेकीकृत्य चाष्टशतं जपेत् || दद्याद्धूपं साध्यनाम्ना सद्यो विद्वेषयेदरीन् || चिताकाष्ठानले क्षीरहोमाच्छान्तिः प्रजायते || ९७८ ||

रजोधूमप्रदानेन गृध्ररूपेण कालिका || मारयत्यरिमागत्य शान्तिर्निर्माल्यधूपतः || ९७९ ||

वाराहवालधूपेन हन्याच्छूकररूपिणी || अश्वत्थपत्रधूपेन शान्तिर्भवति नान्यथा || ९८० ||

शान्तिस्सर्वाभिचारस्य पञ्चगव्येन जायते || क्षीरेण शान्तिर्भवति मधुरत्रितयेन वा || ९८१ ||

कीले क्ष्वेडतरोश्चापि शत्रोर्नाम समालिखेत् || निर्दह्य मूलमन्त्रेण शत्रोर्नामाक्षराणि वै || जप्त्वा पदद्वये मन्त्री खनेदुच्चाटनं रिपोः || ९८२ ||

शत्रुपादद्वयाद्धूलिं घृताक्तां भक्तमिश्रिताम् || वायसेभ्यो बलिं दत्त्वा शत्रोरुच्चाटनं भवेत् || ९८३ ||

शत्रुपादद्वयाद्धूलिं चिताभस्मयुतां क्षिपेत् || शत्रुगेहेपि सञ्जप्तां शत्रोरुच्चाटनं भवेत् || ९८४ ||

ज्येष्ठावासे श्मशाने वा निर्माल्यं पादगोचरम् || गर्दभावासभूमौ वा प्रेतस्थाने चतुष्पथे || ९८५ ||

ऊषरे मेहनोर्व्यां वा हदनस्थानमध्यकौ || आनीय शर्करां मन्त्री दिग्वासा दक्षिणामुखः || श्मशानस्थो विनिःक्षिप्य चिताग्नौ मर्जयेत्तथा || ९८६ ||

मन्त्रं तं तु जपेल्लक्षं निक्षिपेच्छत्रुवेश्मनि || सेनामध्येपि सर्वेषां क्षणादुच्चाटनं भवेत् || ९८७ ||

गर्ते पिपीलिकानान्तु पादधूलियुतान्कणान् || सघृतान्सप्तवारांस्तु जुहुयान्मन्त्रविन्निशि || भ्रमते काकवत्सर्वां महीमावरणादिषु || ९८८ ||

कृत्वा प्रतिकृतिं शत्रोर्जन्मवृक्षेण मन्त्रवित् || कृत्वा प्रतिष्ठां प्राणस्य विद्ध्वा मर्मसु कण्टकैः || आयासैर्मन्त्रमावृत्य वक्ष्यमाणैः प्रवेष्टयेत् || ९८९ ||

पूर्वोक्तशर्कराभिस्तु जप्त्वा नित्यं प्रतापयेत् || सप्तरात्रेण तस्यापि भवेदुच्चाटनं ध्रुवम् || ९९० ||

मुख्यशैलाह्वये लेख्यौ सारमेयवराहयोः || मन्त्रेण दमितौ साध्यौ भौमवारोदये रवेः || ९९१ ||

धत्तूररससंयुक्तचिताङ्गारेण मन्त्रितम् || व्यत्यस्य पृष्ठतो बद्ध्वा केशपाशेन तं जपेत् || ९९२ ||

श्मशाने शत्रुमार्गे वा तद्गृहे निखनेन्निशि || विद्वेषणं भवेत्सद्यो गौरीशंकरयोरपि || ९९३ ||

प्. ५६३)

अश्वत्थत्वचि मन्त्रार्णैर्दर्मितं साध्यमालिखेत् || अन्यद्विषतरोस्तद्वज्जपित्वोद्धृत्य विन्यसेत् || ९९४ ||

पूर्वोक्तकण्टकैर्विद्ध्वा जपेत्स्पृष्ट्वा शतं शतम् || विद्विष्टौ भवतस्तौ च नाम्नामपि च तत्क्षणात् || एते प्रयोगाः कथिता धूमावत्या मया सुराः || ९९५ ||

अथातः सम्प्रवक्ष्यामि भद्रकाल्या महामनुम् || ह्रौं कालीति [ह्रौं कालि महाकालि किणिकिणि फट् स्वाहा इति चतुर्दशाक्षरो मन्त्रः || ] महाकालि द्विः किणिः फड् वसुप्रिया || चतुर्दशाक्षरो मन्त्रो भद्रकाल्या उदाहृतः || ९९६ ||

पदैः षड्भिः षडङ्गानि जातियुक्तानिकल्पयेत् || ध्यातव्येयं सदा देवी भद्रकाली भयापहा || ९९७ ||

क्षुत्क्षामा कोटराक्षी च नाहं तृप्तेति वादिनी || जम्बूफलाभदशनाज्वलत्पाशं च बिभ्रती || मषीमुखी मुक्तकेशी जगद्वसनलालसा || ९९८ ||

अशेषं कालिकातन्त्रे यत्प्रोक्तं तदिहापि च || जपपूजाप्रयोगाद्यं यो विशेषः स उच्यते || ९९९ ||

आराध्य प्रजपेन्मन्त्रं नित्यमष्टोत्तरं शतम् || रिष्टमाला विधातव्या जपार्थं सिद्धिमिच्छता || इयं देवी महादेवी शत्रुविग्रहकारिणी || १००० ||

यथेष्टचेष्टया चिन्त्या धर्म्मकामार्थसिद्धिदा || अथ मन्त्रान्तरं वक्ष्ये भद्रकाल्याः सुगोपितम् || गृध्रकर्णि [गृध्रकर्णि विरूपाक्षि लम्बस्तनि महोदरि उत्पादयोत्पादय उपरि वेत्ति वेत्ति हुंफट् स्वाहा || ] विरूपाक्षि लम्बस्तनि महोदरि || १००१ ||

उत्पादयोत्पादयेति द्विधोपरिपदं भवेत् || द्विधा वेत्ति पदं हुंफट् स्वाहा सप्ताग्निवर्णकः || १००२ ||

पिप्पलादो मुनिः प्रोक्तो निवृच्छन्द उदाहृतम् || भद्रकाली देवता स्याद्द्विरुत्पादय हृत्स्मृतम् || १००३ ||

उपरिभ्यां शिरः प्रोक्तं वेत्तिभ्यां तु शिखा स्मृता || हुंफड्भ्यां कवचं प्रोक्तं स्वाहयास्त्रमुदीरितम् || १००४ ||

अतिरौद्रां महादंष्ट्रां भृशं दीर्घां कृशोदरीम् || सुवृत्तनयनां शूरां दीर्घघोणां मदातुराम् || १००५ ||

स्निग्धगम्भीरनिर्घोषां नीलजीमूतसन्निभाम् || कुटिलभ्रुकुटीदीप्तां महारदनभीषणाम् || १००६ ||

दष्टौष्ठकोपताम्राक्षीं रक्तदीर्घशिरोरुहाम् || त्रिशूलव्यग्रदोर्दण्डां नरकीं पिप्पलाशिनीम् || १००७ ||

अतिरक्ताम्बरां देवीं रक्तमांसासवप्रियाम् || शिरोमालाभूषिताङ्गीं पिबन्तीं शोणितासवम् || १००८ ||

प्. ५६४)

नृत्यन्तीं च हसन्तीं च पिशाचगणसेविताम् || पिशाचस्कन्धमारुह्य भ्रमन्तीं वसुधातले || १००९ ||

शंकरस्य मुखोत्पन्नां योगिनीं योगवल्लभाम् || इत्थंभूतां भद्रकालीं मातृभिः परिवारिताम् || १०१० ||

ध्यात्वा सम्यक्समाराध्य ततो मन्त्रंजपेद्बुधः || अयुतं मन्त्रसिद्ध्यर्थं मातृकान्यासतत्परः || १०११ ||

घृतहोमं तथा कृत्वा तर्पणादि समाचरेत् || धूमावत्या च यत्प्रोक्तमनयापि तदाचरेत् || १०१२ ||

उक्तः प्रयोग एवात्र विशेषविधिरुच्यते || आज्याप्लुतं तु निर्दोषमेकमूलं वनान्तरात् || विषवृक्षं समादाय ततो होमं समाचरेत् || १०१३ ||

शून्यागारे वने वापि कुण्डं कृत्वा त्रिकोणकम् || विषवृक्षेन्धनेनाग्निं प्रज्वाल्यावाहयेत्सुधीः || १०१४ ||

ततो दण्डं जपेन्मन्त्री विषवृक्षस्य साधकः || अष्टोत्तरशतं वह्नौ तं दण्डं निक्षिपेद्बुधः || १०१५ ||

सुविनीतं द्विजं वीरं कृत्वा चोत्तरसाधकम् || दिक्षु सर्वासु संस्थाप्याः स्वमेदाः खड्गहस्तकाः || १०१६ ||

कृतरक्षः समाराध्य वह्निं क्रोधसमन्वितः || अष्टोत्तरशतं जप्त्वा दण्डाग्रं जातवेदसि || १०१७ ||

दत्त्वा सिद्धार्थकैर्मन्त्री जुहुयात्सवनद्वयम् || तैलोक्षितैश्च होमान्ते दिक्पालबटुयोगिनीः || अग्न्यादींश्चापि सन्तोष्य बलिदानेन देवताम् || १०१८ ||

ध्यायेच्च प्रलयोदग्रमेघाभां रक्तनेत्रिकाम् || शूलाग्रप्रोतसिंहां च नरमालाविभूषिताम् || १०१९ ||

तीक्ष्णदंष्ट्रा रक्तमधुमत्ता चैव भयानकाम् || उल्काहस्तां शत्रुसङ्घं शिलायां निघ्नतीं मुहुः || १०२० ||

भावयित्वा करेणोल्कां दक्षिणेन रिपून्मुखीम् || गत्वा दूरेण विसृजेत्तं दण्डं ध्यानमास्थितः || १०२१ ||

सुसहायस्ततस्तीर्थं गच्छेत्पश्चात्तु वाग्यतः || स्नात्वावश्यं शुचिर्भूत्वा कण्ठमात्रोदके स्थितः || १०२२ ||

जपेत्सुदर्शनं दुर्गां सावित्रीं च समाहितः || अष्टोत्तरसहस्रन्तु जपेदन्यच्छतं शतम् || १०२३ ||

उष्णीषवासा आच्छाद्य ससहायः सुरालयम् || गत्वा तु महतीं पूजा कृत्वा देवस्य चक्रिणः || पादयुग्मं समालम्ब्य वर्णलक्षं जपेन्मनुम् || १०२४ ||

तावज्जप्त्वा घटैः सम्यगभिषिञ्चेत्स्वकं वपुः || दक्षिणा विधिवद्दत्त्वा शान्तिहोमञ्च कारयेत् || १०२५ ||

यद्वा दुर्गालये लक्षं सावित्रीये तथैव च ||

प्. ५६५)

कृत्वाभिषेकं ताभ्यान्तु शक्तितो भोजयेद्द्विजान् || १०२६ ||

दक्षिणां शक्तितो दद्यात्सिद्धो भवति साधकः || रुद्रदण्डप्रयोगोयं दारुणोरगसूदनः || १०२७ ||

बिभीतकफले शत्रोर्लिखेन्नाम विदर्भितम् || मन्त्रं जप्त्वा सहस्रन्तु खनेत्पीतावनौ पुनः || उच्चाटनं भवेत्क्षिप्रमचलस्यापि किं नृणां || १०२८ ||

धत्तूरबीजचूर्णेन बिभीतकफले तथा || त्रिकोणेरिप्रतिकृतिं लिखेत्सम्यगधोमुखीम् || १०२९ ||

अष्टोत्तरसहस्रन्तु जप्त्वा तां निखनेत्पुनः || पादपातो यथा शत्रोः स्यात्तथोच्चाटयेद्बलात् || १०३० ||

अथातः सम्प्रवक्ष्यामि महाकालीमनुं परम् || ओं क्ष्रें क्ष्रें क्रेमतः क्रें च पशुं गृहाण चोच्चरेत् || १०३१ ||

हुं फट् स्वाहा शक्रवर्णः सिद्धमन्त्र उदाहृतः || नास्य मुन्यादिकन्यासः सिद्धमन्त्रस्य विद्यते || १०३२ ||

कृष्णतोयेन सम्पूर्णे घटे चाहूय कालिकाम् || बाह्म्यादिभिश्च दूतीभिर्युक्तां सम्पूज्य भक्तितः || १०३३ ||

अष्टमीं चण्डिकां स्तोत्रदेवीं ध्यायेद्गृहे पुनः || पञ्चवक्त्रां महारौद्रीं प्रतिवक्त्रं त्रिलोचनाम् || १०३४ ||

शक्तिशूलधनुर्बाणखेटखड्गवराभयान् || वामदक्षभुजैर्देवीं बिभ्राणां भोगिभूषणाम् || १०३५ ||

वर्णलक्षंजपेन्मन्त्रं वामाचारेण साधकः || पिचुमन्दस्य समिधो घृताक्ता जुहुयात्ततः || १०३६ ||

हुत्वा प्रज्वलिते वह्नौ तर्पणादि ततश्चरेत् || एवं सिद्धमनुर्मन्त्री मारयेदचिराद्रिपून् || १०३७ ||

देवीं प्रत्यङ्गिरां नाम सर्वापत्तिविघातिनीम् || स्मरेदनन्यमनसा मानवो मानमाप्नुयात् || १०३८ ||

ओं [ओं अं कं चं टं तं पं यं शं ह्रां ह्रीं ह्रूं सः हुं फट्स्वाहा || इति षोडशाक्षरमन्त्रः || ] अं कं चं तथा टं पं यं शं ह्रां ह्रीं समुच्चरेत् || हुंस उक्त्वा हुं तथास्त्रं स्वाहान्तः षोडशाक्षरः || १०३९ ||

मुनिर्विधाता छन्दोष्टिर्देवताः षट् प्रकीर्तिताः || महावायुर्महापृथ्वी महाकाशस्तथैव च || १०४० ||

महासमुद्रनामा च महापर्वत एव च || महाग्निश्चेति हूं बीजं ह्रीं शक्तिः परिकीर्तिता || १०४१ ||

लज्जया तु षडङ्गानि षट्दीर्घान्वितया चरेत् || मन्त्रदेवांस्ततो मन्त्री ध्यायेत्सुस्थिरमानसः || १०४२ ||

ताररत्नार्चिराक्रान्तमंभः प्रस्रवणैर्युतम् || व्याघ्रादिपशुभिर्व्याप्तं सानुयुक्तं गिरिं स्मरेत् || १०४३ ||

मत्स्यकूर्म्मादिबीजाढ्यं नवरत्नसमर्चितम् ||

प्. ५६६)

घनतोयं सकल्लोलमकूपारं विचिन्तयेत् || १०४४ ||

ज्वालावलीसमाक्रान्तं जगत्त्रितयमद्भुतम् || पीतवर्णं महावह्निं संस्मरेच्छत्रुशान्तये || १०४५ ||

स्वरात्समुत्थरेण्वौघमलिनमूर्ध्वभूविदम् || पवनं संस्मरेद्विश्वजीवनं प्राणरूपतः || १०४६ ||

नदीपर्वतवृक्षादिकलिता ग्रामसंकुला || आधारभूता जगतो ध्येया पृथ्वीह मन्त्रिणा || १०४७ ||

सूर्ययादिग्रहनक्षत्र कालचक्रसमन्वितम् || निर्मलं गगनं ध्यायेत्प्राणिनामाश्रयप्रदम् || १०४८ ||

एवं षट् देवता ध्यात्वा सहस्राणि तु षोडश || जपेन्मन्त्रं दशांशेन षड्द्रव्यैर्होममाचरेत् || १०४९ ||

व्रीहींश्च सतिलानाज्यं सर्षपांश्च यवांस्तिलान् || एतान्हुत्वा यथाभागं पीठे पूर्वोदिते यजेत् || १०५० ||

अङ्गदिक्पालवज्रा द्यैरेवं सिद्धो भवेन्मनुः || शत्रूपद्रव आपन्ने युञ्जीतात्र महामनुम् || १०५१ ||

अकारं पर्वताकारं धावन्तं शत्रुसम्मुखम् || पतनोन्मुखमत्युग्रं प्राच्यां दिशि विचिन्तयेत् || १०५२ ||

ककारं क्षुब्धकल्लोलं प्लाविताखिलभूतलम् || समुद्ररूपिणं भीमं प्रतीच्यां दिशि चिन्तयेत् || १०५३ ||

तुरीयपञ्चमाद्यर्णैः पृथ्वीगगनरूपिणौ || शत्रुवर्गं च बध्नन्तौ चिन्तयेन्नियतात्मवान् || १०५४ ||

तदग्रिमं वर्म्मयुगं शत्रोर्निःश्वासपद्धतिम् || निरुन्धानं स्मरेन्मन्त्री विदधद्रिपुमाकुलम् || १०५५ ||

मायादिवर्णत्रितयं शत्रोर्नेत्रे श्रुती मुखम् || प्रत्येकं तु निरुन्धानं चिन्तयेत्साधकोत्तमः || १०५६ ||

वह्निसंक्षोभितं वस्त्रं रिपुमस्तकदेशतः || उत्थाप्य वह्निं तद्देहं प्रदहेत्स मनुं स्मरेत् || १०५७ ||

एवं वर्णान्स्मरेन्मन्त्रं जपेद्वर्णसहस्रकम् || मण्डलत्रितयादर्वाग्दारयेत्तेन विद्विषम् || १०५८ ||

एवं यः कुरुते कर्म्म प्राणायामजपादिभिः || संशोधयित्वा चात्मानं स्वरक्षायै हरिं स्मरेत् || १०५९ ||

अथ प्रत्यङ्गिरामालामन्त्रः सिद्धः प्रकीर्त्यते || ओं [ओं ह्रीं नमः कृष्णवाससे स्तुते विश्वसहस्रहिंसिनि सहस्रावने महबलेपराजिते प्रत्यङ्गिरे परसैन्यपरकर्म्मविध्वंसिनि परमन्त्रोत्सादिनि सर्वभूतदमनि सर्वदेवान्बन्धबन्ध सर्वविद्यां छिन्धि छिन्धि क्षोभयक्षोभय परयन्त्राणि स्फोटयस्फोटय सर्वशृंखलां त्रोटयत्रोटय ज्वलज्वालाजिह्वे करालवदने प्रत्यंगिरे ह्रीं नमः || ] ह्रीं नमः कृष्णवाससे स्तुते विश्वसहस्र || १०६० ||

प्. ५६७)

हिंसिनि सहस्रावने महाबलेपराजिते || प्रत्यङ्गिरे परसैन्यपर कर्म्मपदं वदेत् || १०६१ ||

विध्वंसिनि परमन्त्रोत्सादिनीति ततो वदेत् || सर्वभूतेति दमनि सर्वदेवान्वदेत्ततः || १०६२ ||

बन्धयुग्मं सर्वविद्यां द्विश्छिन्धि क्षोभयद्वयम् || परयन्त्राणीति वदेत्स्फोटयद्वितयं ततः || १०६३ ||

सर्वशृङ्खलां त्रोटयत्रोटय ज्वलदुच्चरेत् || ज्वालाजिह्वे करालेति वदने प्रत्यङुच्चरेत् || १०६४ ||

गिरे ह्रींनम इत्येष सपादशतवर्णवान् || ब्रह्मानुष्टुम्मुनिश्छन्दो देवी प्रत्यङ्गिरा मता || १०६५ ||

बीजशक्ती तारमाये कृत्याकार्यये नियोजयेत् || षडङ्गानां विधिश्चात्र षड्दीर्घान्वितमायया || १०६६ ||

सिंहारूढातिकृष्णाङ्गी ज्वालावस्त्रा भयङ्करा || शूलशस्त्रकरा खड्गं दधती या तु तां भजे || १०६७ ||

अयुतं प्रजपेन्मन्त्रं सहस्रं तिलराजिकाः || हुत्वा सिद्धमनुर्मन्त्री प्रयोगेषु शतं जपेत् || १०६८ ||

ग्रहभूतादिकारिष्टं सिञ्चेन्मन्त्रं जपञ्जलैः || विनाशयेत्परकृतं यन्त्रमन्त्रादिसाधनम् || १०६९ ||

अथातः सम्प्रवक्ष्यामि चामुण्डाया महामनुम् || नवदुर्गात्मकं यस्य सेवनाद्भुक्तिमुक्तिके || १०७० ||

सुरथो यत्प्रसादेन राज्यं प्राप्य भवेन्मनुः || संसारबन्धनिर्नाशि ज्ञानमाप्तं समाधिना || १०७१ ||

मार्कण्डेयपुराणोक्तचरित्रत्रितयस्तवः || जपाद्यस्य फलं दद्यात्तं मनुं वच्मि साम्प्रतम् || १०७२ ||

वाग्लज्जाकामबीजानि [ऐं ह्रीं क्लीं चामुण्डायै विच्चे || ] चामुण्डायै पदं वदेत् || विच्चे नवार्णमन्त्रोयं शक्तिमन्त्रोत्तमोत्तमः || १०७३ ||

ब्रह्मविष्णुमहेशास्तु मुनयोस्य प्रकीर्त्तिताः || गायत्र्युष्णिगनुष्टुप् च च्छन्दस्त्रयमुदीरितम् || १०७४ ||

देव्योस्य तु महाकाली महलक्ष्मीः सरस्वती || नन्दाशाकम्भरीभीमाशक्तित्रयमुदाहृतम् || १०७५ ||

अस्य बीजत्रयं दुर्गा भ्रामरी रक्तदन्तिका || अग्निवायुभगास्तत्त्वं प्राग्वदृष्यादिकं न्यसेत् || १०७६ ||

स्तनयोः शक्तिबीजानि तत्त्वानि हृदये पुनः || तत एकादशन्यासान्कुर्ययादिष्टफलप्रदान् || १०७७ ||

प्रथमं मातृकान्यासं प्रागुक्तं च समाचरेत् || कृतेन येन देवस्य सारूप्यं याति मानवः || १०७८ ||

प्. ५६८)

अथ द्वितीयं कुर्वीत न्यासं सारस्वताभिधम् || बीजत्रयं [ओं ऐं ह्रीं क्लीं नमः कनिष्ठायुग्मे, ओं ऐं ह्रीं क्लीं नमः अनामिकायुग्मे, ओं ऐं ह्रीं क्लीं नमः मध्यमायुग्मे, अस्यैव षडक्षरस्य न्यासाच्छेषस्थानेष्वपि कुर्ययात् || ] तु मन्त्राद्यं तारादिहृदयान्तकम् || १०७९ ||

षडक्षरो भवेन्मन्त्रो नवस्थानेषु विन्यसेत् || कनिष्ठानामिकामध्यातर्जन्यंगुष्ठयुग्मके || १०८० ||

करमध्ये हस्तपृष्ठे मणिबन्धे च कूर्प्परे || हृदयादिषडङ्गेषु जातियुक्तं पुनर्न्यसेत् || १०८१ ||

अस्मिन्सारस्वते न्यासे कृते जाड्यं विनश्यति || न्यासः कार्यः सप्तशत्याः पठेत्कामविशेषतः || १०८२ ||

ततस्तृतीयं कुर्वीत न्यासं मातृगणादिकम् || मायाबीजादिका [ह्लीं ब्राह्मी मां पूर्वतः पातु, ह्रीं माहेश्वरी आग्नेययां पातु एवमन्यत्रन्यस्येत् || ] ब्राह्मी पूर्वतः पातु मां सदा || १०८३ ||

माहेश्वरी तथाग्नेययां कौमारी दक्षिणेऽवतु || वैष्णवी पातु कौणप्यां [नैर्-ऋत्याम् || ] वाराही पश्चिमेवतु [१०८४]

इन्द्राणी पावने कोणे चामुण्डा चोत्तरेवतु || ऐशान्ये तु महालक्ष्मीरूर्ध्वं व्योमेश्वरी तथा || १०८५ ||

सप्तद्वीपेश्वरी भूमौ रक्षेत्कामेश्वरी तथा || तृतीयेस्मिन्कृते न्यासे त्रैलोक्ये विजयी भवेत् || १०८६ ||

न्यासं चतुर्थं कुर्वीत नन्दजादिसमन्वितम् || नन्दजा पातु पूर्वाङ्गं कमलांकुशमण्डिता || १०८७ ||

खड्गपात्रकरा पातु दक्षिणे रक्तदन्तिका || पृष्ठे शाकम्भरी पातु पुष्पपल्लवसंयुता || १०८८ ||

धनुर्बाणकरा दुर्गा वामे पातु सदैव माम् || शिरःपात्रकरा भीमा मस्तकाच्चरणावधि || १०८९ ||

पादादिमस्तकं यावद्भ्रामरी चित्रकान्तिभृत् || तुर्ययं न्यासं नरः कुर्वञ्जरामृत्युं व्यपोहति || १०९० ||

ब्रह्माद्यमथ कुर्वीत न्यासं पञ्चममुत्तमम् || पादादिनाभिपर्यन्तं ब्रह्मा पातु सनातनः || १०९१ ||

नाभेर्विशुद्धिपर्ययन्तम्पातु नित्यञ्जनार्दनः || विशुद्धेर्ब्रह्मरन्ध्रान्तम्पातु रुद्रस्त्रिलोचनः || १०९२ ||

हंसः पातु पदद्वन्द्वं वैनतेयः करद्वयम् || चक्षुषी वृषभः पातु सर्वाङ्गानि गजाननः || १०९३ ||

परापरौ देहभागौ पात्वानन्दमयो हरिः || कृतेस्मिन्पञ्चमे न्यासे सर्वकामानवाप्नुयात् || १०९४ ||

षष्ठं न्यासन्ततः कुर्ययान्महालक्ष्म्यादिसंयुतम् || मध्यं पातु महालक्ष्मीरष्टादशभुजान्विता || १०९५ ||

प्. ५६९)

ऊर्ध्वं सरस्वती पातु भुजैरष्टाभिरूर्जिता || अधः पातु महाकाली दशबाहुसमन्विता || १०९६ ||

सिंहो हस्तद्वयम्पातु परहंसोक्षियुग्मकम् || १०९७ ||

महिषं हि समारूढो यमः पातु पदद्वयम् || महिषश्चण्डिकायुक्तः सवार्ङ्गानि ममावतु || १०९८ ||

षष्ठेस्मिन्विहिते न्यासे सद्गतिं प्राप्नुयान्नरः || मूलाक्षरन्यासरूपन्ततः कुर्वीत सप्तमम् || १०९९ ||

ब्रह्मरन्ध्रे [ऐंनमः ब्रह्मरन्ध्रे, ह्रींनमः दक्षनेत्रे, क्लींनमः वामनेत्रे || एवमन्यत्रापि शेषेषु न्यसेत् || ] नेत्रयुगे श्रुत्योर्नासिकयोर्मुखे || ११०० ||

पायौ मूलमनोर्व्वर्णांस्ताराद्यान्विन्यसेत्सुधीः || नमोन्तान्सप्तमेस्मिंस्तु कृते रोगक्षयो भवेत् || ११०१ ||

पायुतो ब्रह्मरन्ध्रान्तं पुनस्तानेव विन्यसेत् || कृतेस्मिन्नष्टमे न्यासे सर्वं दुःखं विनश्यति || ११०२ ||

कुर्वीत नवमं न्यासं मन्त्रव्याप्तिस्वरूपकम् || मस्तकाच्चरणं यावच्चरणान्मस्तकावधि || ११०३ ||

पुरोदक्षे पृष्ठदेशे वामभागेषु सन्न्यसेत् || मूलमन्त्रकृतो न्यासो नवमो देवताप्तिकृत् || ११०४ ||

ततः कुर्वीत दशमं षडङ्गन्यासमुत्तमम् || मूलमन्त्रं जातियुक्तं हृदयादिषु विन्यसेत् || कृतेस्मिन्दशमे न्यासे त्रैलोक्यं वशमानयेत् || ११०५ ||

चण्डीपाठेपि कर्त्तव्या न्यासाश्चेष्टप्रदायकाः || अन्यन्यासोक्तफलदं कुर्यादेकादशन्ततः || ११०६ ||

खड्गिनी शूलिनीत्यादि पठित्वा श्लोकपञ्चकम् || आद्यं कृष्णतरं बीजं ध्यात्वा सर्वाङ्गके न्यसेत् || ११०७ ||

शूलेन पाहिनो देवीत्यादिश्लोकचतुष्टयम् || पठित्वा सूर्यसदृशं द्वितीयं पृष्ठतो न्यसेत् || ११०८ ||

ततः षडङ्गं कुर्वीत विभक्तैर्मूलवर्णकैः || एकेनैकेन चैकेन चतुर्भिर्युग्मकेन च || ११०९ ||

समस्तेनैव मन्त्रेण कुर्ययादङ्गानि षट् क्रमात् || शिखायां नेत्रयोः श्रुत्योर्नसोर्वक्त्रे गुदे न्यसेत् || १११० ||

मन्त्रवर्णान्समस्तेन व्यापकाष्टकमाचरेत् || ततो देवीत्रयं ध्यायेत्कालिकाध्यानमुच्यते || ११११ ||

दशास्यां दशपादां च दशहस्तां विधिस्तुताम् || इन्द्रनीलद्युतिं खड्गं [खङ्गं] चक्रं शङ्खं शिरः शरान् || १११२ ||

दक्षहस्तेषु दधतीं गदां शूलं भुशुण्डिकाम् || परिघं च धनुर्बाणौ दधतीं ब्रह्मसंस्तुताम् || मधुकैटभनाशार्थं सालङ्कारां त्रिवीक्षणाम् || १११३ ||

ततो ध्यायेन्महालक्ष्मीं महिषासुरमर्दिनीम् || समस्तदेवतातेजोजातां पद्मासनस्थिताम् || १११४ ||

प्. ५७०)

अष्टादशभुजामक्षमालां पद्मं च सायकान् || खड्गं वज्रं गदां चक्रन्दक्षहस्ते कमण्डलुम् || १११५ ||

शंखं च दधतीं वामे शक्तिं च परशुं धनुः || चर्मदण्डौ सुरापात्रं घंटां पाशं त्रिशूलकम् || १११६ ||

सरस्वतीं ततो ध्यायेच्छरच्चन्द्रसमप्रभाम् || शंखं च मुशलं चक्रं दक्षहस्तेषु बिभ्रतीम् || १११७ ||

घण्टां शूलं हलं चापं वामहस्तेषु बिभ्रतीम् || गौरीदेहसमुद्भूतां नृणामानन्ददायिनीम् || १११८ ||

आधारभूतां जगतः शुम्भादिकविमर्दिनीम् || अधिष्ठात्रीं तृतीयं हि चरित्रं च स्मरेत्सदा || १११९ ||

एवं ध्यात्वा जपेल्लक्षचतुष्कं तद्दशांशतः || पायसान्नेन जुहुयात्पूजिते हेमरेतसि || ११२० ||

जयादिशक्तिभिर्युक्ते पीठे देवीं समर्चयेत् || एतद्यन्त्रं वृत्तत्र्यस्रषट्कोणाष्टदलान्वितम् || ११२१ ||

श्रिया च नैर्-ऋते विष्णुं वायव्ये तूमया शिवम् || विदारयन्तं महिषं प्राक्कोणे मृगपं यजेत् || ११२२ ||

षट्कोणेषु च पूर्वादौ नन्दजां रक्तदन्तिकाम् || शाकम्भरीं तथा दुर्गां भीमां च भ्रामरीं यजेत् || ११२३ ||

तारस्वबीजपूर्वाश्च ङेन्ता हृदयसंयुताः || सर्वासामेव शक्तीनां नाममन्त्रा यतः स्मृताः || ११२४ ||

ततश्चाष्टदले ब्राह्मीं माहेशीं च कुमारिकाम् || वैष्णवीं चापि वाराहीं तथेन्द्राणीं प्रपूजयेत् || ११२५ ||

चामुण्डामथ तद्बाह्ये चतुर्विंशदलेर्चयेत् || विष्णु मायां चेतनां च बुद्धिं निद्रां क्षुधान्तथा || ११२६ ||

छायां शक्तिं परां तृष्णां क्षान्तिं जातिं तदुत्तरम् || लज्जां शान्तिं तथा श्रद्धां कान्तिं लक्ष्मीं धृतिं तथा || ११२७ ||

वृत्तिं सृतिं स्मृतिं चापि दयां तुष्टिं ततः परम् || पुष्टिं च मातरं भ्रान्तिमर्चयेद्भूपुरेषु च || ११२८ ||

चतुष्कोणेषु गणपं क्षेत्रेशं बटुकं तथा || योगिनीश्च सुरेशाद्यांस्तद्बाह्ये चायुधानि च || ११२९ ||

मार्कण्डेयपुराणोक्तं नित्यं चण्डीस्तवं पठेत् || पुटितं मूलमन्त्रेण जपन्नाप्नोति वाञ्छितम् || ११३० ||

कलौ न चण्डीसदृशी सिद्धिदा भुवनत्रये || वामदक्षिणमार्गाभ्यामधिकारिफलप्रदा || ११३१ ||

तत्रादिमं चरित्रं तु रोगनाशाय योजयेत् || उपसर्गविनाशाय मध्यमं योजयेद्बुधः || ११३२ ||

अन्त्यं विषयकामस्तु चरित्रं परिशीलयेत् || चरित्रद्वयशीलस्य न वंशश्छिद्यते क्वचित् || ११३३ ||

प्. ५७१)

पठेदाद्यं तु चरितं विपत्तिस्तस्य नश्यति || अनाद्यं पठते यस्तु मारयेदचिराद्रिपून् || ११३४ ||

सार्थानुस्वारपद्यं च सप्तशत्याश्च यो जपेत् || यस्तु मन्त्रेण पुटितं तत्पृठाङ्कस्य संख्यया || ११३५ ||

पठेच्च श्रीं तथाद्यन्ते सकामस्तस्य सिद्ध्यति || स्वशत्रून्दैत्यभावेन स्वमित्रान्देवताधिया || ११३६ ||

भावेन यो जपेच्चण्डीं त्रिसन्ध्यं मासमात्रकम् || मृता वा मृतकल्पा वा शत्रवः स्युर्न संशयः || ११३७ ||

सितपक्षादिमारभ्य चाष्टम्यन्तमिषस्य च || जपेल्लक्षमनुं होमः खाद्यैस्त्रिमधुराप्लुतैः || ११३८ ||

प्रत्यहं पूजयेद्देवीं चण्डीमाद्यां तथा पठेत् || विप्रान्गुरून्समाराध्य वाञ्छितं लभते द्रुतम् || ११३९ ||

सप्तशत्याश्चरित्रस्य प्रथमस्य विधिर्मुनिः || छन्दो गायत्रमुदितं महाकाली तु देवता || ११४० ||

वाग्बीजं पावकस्तत्त्वं धर्मार्थे विनियोजनम् || प्रयोगाणान्तु नवतिर्मारणे मोहनेत्र तु || ११४१ ||

मध्यमस्य चरित्रस्य मुनिर्विष्णुरुदाहृतः || उष्णिक् छन्दो महालक्ष्मीर्देवता बीजमद्रिजा || ११४२ ||

वायुस्तत्त्वं धनप्राप्त्यै विनोयोग उदाहृतः || उच्चाटे स्तम्भने चात्र प्रयोगाणां शतद्वयम् || ११४३ ||

उत्तमस्य चरित्रस्य मुनिः शङ्कर उच्यते || महासरस्वती देवी त्रिष्टुप् छन्द उदाहृतम् || ११४४ ||

कामो बीजं रविस्तत्त्वं कामाप्त्यै विनियोजनम् || विद्वेषवश्ययोश्चात्र प्रयोगा दिक्कृतैर्मिताः || ११४५ ||

एवं सप्तशतं चात्र प्रयोगाः परिकीर्तिताः || तस्मात्सप्तशतीत्येवं व्यासेन परिकीर्तिता || ११४६ ||

सौम्यानि यानि रूपाणीत्यत्रापि परिकीर्तिताः || उपास्या दक्षिणे मार्गे लक्ष्म्याद्याः सप्त शक्तयः || तस्मात्सप्तशतीत्येवं प्रोक्ता व्यासेन धीमता || ११४७ ||

महाविद्येत्यादिसप्तशक्तयो ब्रह्मणा स्तुताः || तस्मात्सप्तशतीत्येवं प्रोक्ता व्यासेन धीमता || ११४८ ||

ब्रह्मेन्द्रगुरुशुक्राणां विष्णुरुद्रसुरद्विषाम् || उपास्या देवता यास्ता इह सप्तशती ह्यतः || ११४९ ||

लक्ष्मीश्च ललिता काली दुर्गा गायत्र्यरुन्धती || सरस्वती चेति सप्त ह्युपास्या वाममार्गतः || ११५० ||

काली तारा छिन्नमस्ता सुमुखी भुवनेश्वरी || बाला कुभ्रेति मनवः सूचिताः सम्प्रकीर्तिताः || ११५१ ||

नाम्ना सप्तशती चेति मध्यमे चरिते द्विधा ||

प्. ५७२)

तत्तन्मन्त्रोक्तसङ्केतैर्मन्त्रशक्तिः प्रजायते || ११५२ ||

एवं स्तवाभियुक्तानामित्यारभ्य तृतीयके || चरिते शक्तयस्सप्त चामुण्डान्ताः प्रकीर्तिताः || ११५३ ||

हंसयुक्तविमानाग्रे इत्यारभ्य प्रकीर्तिताः || ब्रह्माण्याद्याः सप्तसंख्या वर्तमानाश्च तत्र हि || ११५४ ||

वैवस्वतेन्तरे प्राप्ते इत्यारभ्य च सप्त तु || शक्त्यः प्रोक्ताः स्वयं देव्यास्तस्मात्सप्तशती स्मृता || ११५५ ||

सप्तशत्यास्तु सप्तत्वं वेद्म्यहं सर्वमेव हि || पादोनं श्रीहरिर्वेत्ति वेत्त्यर्धन्तु प्रजापतिः || ११५६ ||

व्यासस्तुर्ययांशकं वेत्ति कोट्यंशमितरे जनाः || यथामन्त्रस्तु सिद्द्यर्थं योज्यते क्रियतेथवा || ११५७ ||

बीजादिकं तथा सद्भिः कामनावशतः क्वचित् || वर्णानां च पदानां च व्यत्यासस्तु व्यवस्थितः || ११५८ ||

शब्दशास्त्रविरुद्धो यः पाठः सोऽशुभकर्म्मणि || शब्दशास्त्राविरुद्धस्तु पाठः शन्तिकपौष्टिके || ११५९ ||

सार्थस्मृतिं पठेच्चण्डीस्तवं स्पष्टपदाक्षरम् || समाप्तौ तु महालक्ष्मीं ध्यात्वा कृत्वा षडङ्गकम् || जपेदष्टशतम्मूलं देवतायै निवेदयेत् || ११६० ||

एवं यः कुरुते सोत्र नावसीदति कुत्रचित् || शतचण्डीविधानन्तु प्रवक्ष्ये च प्रियं नृणाम् || ११६१ ||

नृपोपद्रवमापन्ने दुर्भिक्षे भूमिकम्पने || अतिवृष्ट्यामनावृष्टौ परचक्रभये क्षये || ११६२ ||

सर्वेविघ्ना विनश्यन्ति शतचण्डीविधौ कृते || रोगाणां वैरिणां नाशो धनपुत्रसमृद्धयः || ११६३ ||

शङ्करस्य भवान्या वा प्रासादनिकटे शुभम् || मण्डपं द्वारवेद्याद्यं कुर्ययात्सध्वजतोरणम् || तत्र कुण्डं प्रकुर्वीत प्रतीच्याम्मध्यतोपि वा || ११६४ ||

स्नात्वा नित्यकृतिं कृत्वा वृणुयाद्दशवाडवान् || जितेन्द्रियान्सदाचारान्कुलीनान्सत्यवादिनः || व्युत्पन्नांश्चण्डिकापाठे रतांल्लज्जादयावतः || ११६५ ||

मधुपर्कविधानेन वस्त्रशस्त्रादिदानतः || पाद्यार्घ्यमासनम्मालां दद्यात्तेभ्योपि भोजनम् || ११६६ ||

ते हविष्यान्नमश्नन्तो मन्त्रार्थगतमानसाः || भूमौ शयानाः प्रत्येकञ्जपेयुश्चण्डिकास्तवम् || मार्कण्डेयपुराणोक्तं दशकृत्वः सचेतसः || ११६७ ||

नवार्णचण्डिकामन्त्रञ्जपेयुश्चायुतं पृथक् || यजमानः पूजयेच्च कन्यानां नवकं शुभम् || ११६८ ||

द्विवर्षाद्या दशाब्दान्ताः कुमारीः परिपूजयेत् ||

प्. ५७३)

नाधिकाङ्गीं न हीनाङ्गीं कुष्ठिनीं च व्रणाङ्किताम् || ११६९ ||

अन्धाक्षीं केकराक्षीं च कुरूपां रोमयुक्तनुम् || दासीजाताम्भोगयुक्तामिष्टां कन्यां न पूजयेत् || ११७० ||

विप्रां सर्वेष्टसंसिद्ध्यै यशसे क्षत्त्रियोद्भवाम् || वैश्यजां धनलाभाय पुत्राप्त्यै शूद्रजां यजेत् || ११७१ ||

द्विवर्षा सा कुमार्ययुक्ता त्रिमूर्तीर्हायनत्रिका || चतुरब्दा तु कल्याणी पञ्चवर्षा तु रोहिणी || ११७२ ||

षडब्दा कालिका प्रोक्ता चण्डिका सप्तहायना || अष्टवर्षा शाम्भवी स्याद्दुर्गा तु नवहायना || ११७३ ||

सुभद्रा दशवर्षोक्ता नाममन्त्रैः प्रपूजयेत् || एकाब्दां ह्यप्रीतिभावाद्रुद्राब्दान्तु विवर्ज्जयेत् || ११७४ ||

तासामावाहने मन्त्रः श्लोकरूपो निगद्यते || मन्त्राक्षरमयीं लक्ष्मीं मातॄणां रूपधारिणीम् || ११७५ ||

नवदुर्गात्मिकां साक्षात्कन्यामावाहयाम्यहम् || कुमारिकादि न्यानाम्पूजामन्त्रान्ब्रुवेऽधुना || ११७६ ||

जगत्पूज्ये जगद्वन्द्ये सर्वशत्रुविनाशिनि || पूजां गृहाण कौमारि जगन्मातर्नमोस्तु ते || ११७७ ||

त्रिपुरां त्रिपुराधारां त्रिवर्गज्ञानरूपिणीम् || त्रैलोक्यवन्दितां देवीं त्रिमूर्तिं पूजयाम्यहम् || ११७८ ||

कालात्मिकां कलातीतां कारुण्यहृदयां शिवाम् || कल्याणजननीन्नित्यां कल्याणीं पूजयाम्यहम् || ११७९ ||

कामचारां शुभां कान्तां कालचक्रस्वरूपिणीम् || कामदां करुणोदारां कालिकाम्पूजयाम्यहम् || ११८० ||

चण्डीम्पूज्यां चण्डिमयीं चण्डमुण्डप्रभञ्जिनीम् || पूजयामि सदा देवीं चण्डिकां चण्डविक्रमाम् || ११८१ ||

सदानन्दकरां शान्तां सर्वदेवनमस्कृताम् || सर्वभूतात्मिकां लक्ष्मीं शाम्भवींपूजयाम्यहम् || ११८२ ||

दुर्गमे दुस्तरे कार्यये भवदुःखविनाशिनीम् || सुन्दरीं पूजयेद्भक्त्या दुर्गान्दुर्गार्तिनाशिनीम् || ११८३ ||

सुन्दरीं स्वर्णवर्णाभां सुखसौभाग्यदायिनीम् || सुभद्रजननीं देवीं सुभद्राम्पूजयाम्यहम् || ११८४ ||

एतैर्मन्त्रैर्लक्षणाढ्यान्तांतां कन्याम्प्रपूजयेत् || गन्धैः पुष्पैर्भक्ष्यखाद्यैर्वस्त्रैराभरणैरपि || ११८५ ||

वेद्यां विरचिते रम्ये सर्वतोभद्रमण्डले || घटं संस्थाप्य विधिवत्तत्रावाह्यार्चयेच्छिवाम् || ११८६ ||

तदग्रे कन्यकाश्चापि भोजयेद्ब्राह्मणानपि || उपचारैश्च विधिवत्पूर्वोक्तावरणान्यपि || ११८७ ||

प्. ५७४)

एवं चतुर्दिनं कृत्वा पञ्चमे होममाचरेत् || पायसान्नैस्त्रिमध्वक्तैर्द्राक्षारम्भाफलैरपि || ११८८ ||

मातुलुङ्गैरिक्षुखंण्डैर्नारिकेलैः पुनस्तिलैः || जातीफलैराम्रफलैरन्यैर्मधुरवस्तुभिः || ११८९ ||

सप्तशत्या दशावृत्यां प्रतिश्लोकं हुतं चरेत् || अयुतं च नवार्णेन स्थापितेग्नौ विधानतः || ११९० ||

कृत्वावरणदेवानां होमं तन्नाममन्त्रतः || कृत्वा पूर्णाहुतिं सम्यग्देवमग्निं विसृज्य च || ११९१ ||

अभिषिञ्चेच्च यष्टारं विप्रौघः कलशोदकैः || निष्कं सुवर्णमथ वा प्रत्येकन्दक्षिणां दिशेत् || ११९२ ||

भोजयेच्च पृथग्विप्रान्भक्ष्यखाद्यैः पृथग्विधैः || तेभ्योपि दक्षिणान्दत्त्वा गृह्णीयादाशिषः शुभाः || ११९३ ||

एवंकृते जगद्वश्यं सर्वे नश्यन्त्युपद्रवाः || राज्यं धनं यशः पुत्रानिष्टमन्यल्लभेत च || ११९४ ||

एतद्दशगुणं कुर्याच्चण्डीसाहस्रजं विधिम् || विद्यावतः सदाचारान्ब्राह्मणान्वृणुयाच्छतम् || ११९५ ||

प्रत्यहं चण्डिकापाठान्विदध्युस्ते शतोन्मितान् || अयुतं च जपेयुस्ते प्रत्येकं च नवार्णकम् || ११९६ ||

पूर्वोक्ताः कन्यकाः पूज्याः पूर्वमन्त्रैः शतं शुभाः || एवं दशाहं सम्पाद्य होमं कुर्ययात्प्रयत्नतः || ११९७ ||

सप्तशत्याः शतावृत्त्या प्रतिश्लोकं विधानतः || लक्षसंख्यं नवार्णं च पूर्वोक्तद्रव्यसञ्चयैः || ११९८ ||

होतृभ्यो दक्षिणान्दत्त्वा पूर्वोक्तान्भोजयेद्द्विजान् || सहस्रसम्मितान्साधून्देव्याराधनतत्परान् || ११९९ ||

एवं सहस्रसंख्याके कृते चण्डीविधौ नृणाम् || सिद्ध्यत्यभीप्सितं कर्म्म दुःखौघश्च विनश्यति || नारीदुर्भगरोगाद्या नश्यन्ति व्यसनोच्चयाः || १२०० ||

नेमं विधिं वदेद्दुष्टे खले चौरे श्रुतिद्रुहि || साधौ जितेन्द्रिये दान्ते वदेद्विधिमिमम्परम् || एवं सावर्णिका तुष्टा ब्रह्मश्रोतॄन्प्ररक्षति || १२०१ ||

अथातः सम्प्रवक्ष्यामि महालक्ष्म्या महामनुम् || ऐंह्रींश्रींक्लीं वेदवर्णो मन्त्रश्चास्या उदाहृतः || १२०२ ||

ऋषिर्भृगुर्निवृत्पूर्वमनुष्टुप्छन्द ईरितम् || देवता कमला प्रोक्ता सर्वसम्पत्करी शुभा || एकाक्षरविधानेन तदङ्गानि प्रकल्पयेत् || १२०३ ||

चतुर्भिः श्वेतकरिभिर्घटैर्मणिमयैः सदा || आसिच्यमाना रत्नाभा पद्मस्था पद्मलोचना || पद्मद्वयं च हस्तेषु बिभ्रती नृपसेविता || १२०४ ||

प्. ५७५)

एकाक्षरोदिते पीठे यजेद्देवीं च पूर्ववत् || अर्कलक्षं जपेन्मन्त्री नियताशी हुतं चरेत् || तत्सहस्रं सरोजैश्च रक्तैस्त्रिस्वादुसंयुतैः || पूर्वत्रोक्तप्रयोगांश्च कुर्ययान्मन्त्री यथाविधि || १२०५ ||

ऐं ह्रीं श्रीं क्लीं समुच्चार्यय हसरा औयुताः पुनः || विसर्गान्ताः पञ्चमन्तु बीजमेतदुदाहृतम् || १२०६ ||

जगत्प्रसूत्यै हृदयं द्वादशार्णो मनुः स्मृतः || प्रणवादिरयम्मन्त्रः स्यात्त्रयोदशवर्णकः || १२०७ ||

ऋष्याद्या ब्रह्मगायत्री महालक्ष्मीः प्रकीर्त्तिता || संशोध्य मनुना पाणिं प्रणवाद्यं हृदन्तकम् || १२०८ ||

अंगुलीषु क्रमान्मन्त्री विन्यसेद्बीजपञ्चकम् || मन्त्रशेषं जपेन्मन्त्री तलयोरुभयोरपि || १२०९ ||

मूर्द्धादिचरणं यावन्मन्त्रेण व्यापकं न्यसेत् || शेषं सप्तार्णकं मन्त्री विन्यसेद्धृदयादिषु || १२१० ||

पञ्चबीजैः पञ्च मन्त्री शेषैः षष्ठन्तु कल्पयेत् || चतुर्थं ज्ञानमुख्यैश्च युक्तं कुर्यात्षडङ्गकम् || १२११ ||

ज्ञानैश्वर्यये शक्तिबले वीर्ययं तेजश्च षट् क्रमात् || एवं न्यसेन्मनुं मन्त्री चिन्तयेदिष्टदेवताम् || १२१२ ||

आदौ स्मरेत्स उद्यानं सर्वर्तुप्रतिशोभितम् || मन्दान्दोलितकर्पूरकदलीवृन्दमण्डितम् || १२१३ ||

अशोकनागसरलकोविदारमनोरमम् || मल्लिकायूथिकाकुन्दमदयन्तीसुगन्धिकम् || १२१४ ||

द्राक्षावल्लीनागवल्लीमाधवीदेवदारुभिः || नमेरुभिर्लवङ्गैश्च चन्दनै रक्तचन्दनैः || १२१५ ||

वञ्जुलैर्मातुलुङ्गैश्च दाडिमीलकुचैः शुभम् || नारिकेलैश्च खर्ज्जूरैः पूगैः कुरबकैर्वृतम् || १२१६ ||

मालतीकैंकताजातीपाटलीतुलसीवृतम् || नंद्यावर्त्तैर्मदनकैः सर्वर्त्तुकुसुमोज्ज्वलम् || १२१७ ||

प्रमदैः पिचुमन्दैश्च मन्दारैरुपशोभितम् || १२१८ ||

शिरीषैः पनसैरुच्चैः शाखोटैरुपशोभितम् || महानसन्तस्य मध्ये स्मरेन्मन्त्री मनोरमम् || मल्लिकायूथिकाकुन्दजातीमालतिकावृतम् || १२१९ ||

भ्रमद्भ्रमरमालाभिरलंकृतचतुर्दिशम् || केकिकेकारवाकीर्णं लक्ष्मणासारसावृतम् || १२२० ||

कौरव्यहंससंघातं चक्रकारण्डवोज्ज्वलम् || फुल्लैः सरसिजै रम्यैः कह्लारैः कैरवैरपि || १२२१ ||

नीलेन्दीवरसंघैश्च सुगन्धिकुसुमैर्वृतम् || सर्वर्तुशोभिभिः कल्पद्रुमैर्मण्डितमुज्ज्वलम् || १२२२ ||

पुलिनं तत्र तन्मध्ये रत्नमण्डपकुट्टिमम् ||

प्. ५७६)

समुद्यदर्कसन्दोहकिरणद्युतिभास्करम् || १२२३ ||

हिमरश्मिकरव्रातसिक्तामृतसुशीतलम् || प्रोल्लसद्गलितस्वर्णप्राकारसुमनोहरम् || १२२४ ||

नवरत्नमयप्रोद्यत्कपाटाट्टालिकावृतम् || नूतनोद्यन्महारत्नरचितं तुङ्गगोपुरम् || १२२५ ||

तप्तगालितहेमादिदण्डध्वजसमूहकम् || वैडूर्ययादिमहारत्नरचितस्तम्भराजितम् || १२२६ ||

सन्तप्तस्वर्णरचितगवाक्षशतसंकुलम् || हेमदण्डस्फुरद्द्वीपसहस्रं सुमनोहरम् || १२२७ ||

नानाविधक्षौमवस्त्रै [काञ्चनैरितिवस्त्रविशेषणम् |
रचितामिरिति तु पताकाविशेष्यमिति सुधीभिर्ज्ञेयम् || ] रचितामिश्च काञ्चनैः || सक्षुद्रघण्टिकायुक्तपताकाभिरलंकृतम् || शरद्राकासुधारश्मिदुकूलरचितैः शुभैः || विचित्रवसनोद्भूतैर्युतं चन्द्रायुतैरपि || १२२८ ||

काञ्चनोर्वीमणिव्रातकुट्टिमालंकृतं शुभम् || घनसारागुरुनखकस्तूरीकुंकुमैरपि || १२२९ ||

तमालैर्द्रव्यजातैश्च सुगन्धिभिरथेतरैः || क्रमादेवं चतुर्द्वारं मण्डपं परिचिन्तयेत् || १२३० ||

तदन्तः पारिजातस्य मूले सिंहासनं नवम् || नानारत्नगणाकीर्णं तत्र देवीं विचिन्तयेत् || १२३१ ||

बालभास्करसत्कान्तिं शशिशेखरमण्डिताम् || मुक्ताहारोज्ज्वलां रम्यां रत्नाकल्पविभूषिताम् || १२३२ ||

हस्ताम्भोजैश्च बिभ्राणां नूतनां शालिमञ्जरीम् || पद्मद्वयं कौस्तुभं च सस्मितास्यसरोरुहाम् || १२३३ ||

विकचोत्पलसंशोभिनयनत्रयभूषिताम् || क्वणन्नूपुरसम्फुल्लरक्तोत्पलपदद्वयाम् || १२३४ ||

नितम्बविलसद्धेमरशनादाममञ्जुलाम् || बलित्रयलसद्वेदिमध्यदेशसुशोभिताम् || १२३५ ||

गंभीरावृत्तहृन्नामिह्रदमण्डलमण्डिताम् || यक्षकर्दमसंलिप्तपीनोन्नतघनस्तनीम् || १२३६ ||

कुम्भिकुम्भोद्भवप्रोद्यन्मुक्तादामविराजिताम् || क्षौमोत्तरासङ्गवतीं पुष्पदामविभूषिताम् || १२३७ ||

माणिक्यस्वर्णखचितवैदूर्ययाद्यङ्गदोज्ज्वलाम् || काञ्चनोद्यत्पद्मरागमणिसंबद्धकङ्कणाम् || १२३८ ||

नानाविधलसद्रत्नमुद्रिकालंकृतांगुलीम् || कम्बुकण्ठकलारावां स्वर्णग्रैवेयराजिताम् || १२३९ ||

विचित्रनानालंकारालंकृताङ्गीं शुचिस्मिताम् || उद्यदर्कप्रभाभास्वद्रत्नताटंकशोभिताम् || १२४० ||

निर्लाञ्छनशरद्राकाताराधिपशुभाननाम् ||

प्.५७७)

पञ्चसायककोदण्डजिद्भ्रूयुगविराजिताम् || १२४१ ||

बिडालनासिकां प्रोद्यत्तिलपुष्पाक्षतां शुभाम् || कर्णपूरीकृतस्वर्णबद्धरत्नांकुरां शुभाम् || १२४२ ||

प्रवालविलसत्कान्तिं रुचिराधरपल्लवाम् || शेखरे प्रोल्लसद्रत्नरशनावलिशोभिताम् || १२४३ ||

शीतांशुशकलाकाररुचिरालकराजिताम् || कान्तकुञ्चितसंस्निग्धनीलमञ्जुलमूर्धजाम् || १२४४ ||

तप्तहाटकसम्बद्धनानारत्नौघशेखराम् || सौन्दर्ययसलिलाम्भोधिं रत्नसारविभूषिताम् || १२४५ ||

विलासलक्ष्म्या भवनं महालक्ष्मीं विचिन्तयेत् || वामाधःकरमारभ्य साध्यदक्षकरावधि || १२४६ ||

आयुधानि च पूर्वोक्ते रमापीठे यजेदिमाम् || दद्याद्बीजेनासनं च स्वाणुना मूर्त्तिकल्पनम् || १२४७ ||

दक्षभागे यजेद्देव्या गणकं वामतस्तथा || सुमनोञ्जलिहस्तं च पुष्पाभरणमर्चयेत् || १२४८ ||

अङ्गानि पूजयेदादौ यथास्थानं च मन्त्रवित् || अष्टपत्रे स्थिता पूज्या ह्युमा श्रीश्च सरस्वती || १२४९ ||

दुर्गा धरणिगायत्र्यौ देव्युषा चेति शक्तयः || नानालंकरणाढ्यास्स्युरम्भोजद्वयपाणयः || १२५० ||

अंघ्रिप्रक्षालनार्थञ्च प्रोच्येते वह्निसूर्यभे || पूजनीये प्रयत्नेन कराभ्यां धृतचामरे || १२५१ ||

निधीन् संपूज्य वरुणं पश्चिमे छत्रधारिणम् || परितश्च यजेद्राशीन्ग्रहान्नव ततोर्चयेत् || १२५२ ||

चतुर्दन्तान्दिग्गजांश्च यजेदाशासु मन्त्रवित् || लोकपालांस्तदस्त्राणि तत्तद्बाह्ये यजेत्पुनः || १२५३ ||

जपेद्भास्करलक्षं च नियताशी धृतव्रतः || तद्दशांशं प्रजुहुयाद्वृतैस्त्रिस्वादुसंयुतैः || १२५४ ||

पद्मै रमाद्रुमफलैः प्रत्येकमयुतं हुनेत् || सुशीतैः शुचिभिस्तोयैस्तर्प्पयेदयुतद्वयम् || १२५५ ||

एवं सिद्धमनुर्मन्त्री गुरुभक्तो दृढव्रतः || कुर्ययात्काम्यानि कर्माणि स्वाभीष्टानि च मन्त्रवित् || १२५६ ||

आज्यप्लुताभिर्दूर्वाभिरायुष्कामो हुनेन्नरः || सहस्रं दशरात्रं च समिद्धे हव्यावाहने || १२५७ ||

घृताक्ताभिश्च दूर्वाभिरष्टोत्तरसहस्रकम् || सप्ताहं जुहुयाज्जीवेद्वत्सराणां शतं सुधीः || १२५८ ||

दूर्वायुक्तैर्घृताभ्यक्तैः स्निग्धैः प्रजुहुयाद्बुधः || आरोग्यकामः कमलैरारभ्यार्कदिनं सुधीः || |
१२५९ ||

दशाहं प्रत्यहं वापि सर्पिषाक्तास्समिद्वराः || कण्ठमात्रे जले स्थित्वा महालक्ष्मीमिति स्मरेत् || १२६० ||

प्. ५७८)

अष्टाधिकसहस्रं च ऊर्ध्वबाहुर्जपेन्मनुम् || स वाञ्छितार्थं लभते तथारोग्यं च साधकः || १२६१ ||

अन्वहं जुहुयादष्टसहस्रं शालिभिर्ध्रुवम् || सोचिराल्लभते लक्ष्मीं महतीं साधकोत्तमः || १२६२ ||

रमालताप्रसूनैर्वा नंद्यावर्त्तसमुद्भवैः || श्वेतसर्षपकैराज्यप्लुतैर्वा जुहुयाद्बुधः || १२६३ ||

महीयसीं रमामाप्नोत्यचिरात्साधकोत्तमः || मान्यते च तथा सर्वैर्जन्तुभिर्नान्यथात्र च || १२६४ ||

नारिकेलरसैर्युक्तैर्मरिचैर्वीरकान्वितैः || गुडयुक्तघृतैः पक्वैरपूपैर्जुहुयात्सुधीः || १२६५ ||

संयतः प्रत्यहं चाष्टशतं पायसभुग्द्विजः || मण्डलाच्च ध्रुवं साक्षाद्भवेद्वैश्रवणोपमः || गुडमिश्रहविष्यस्य होमादन्नसमृद्धिमान् || १२६६ ||

अष्टोत्तरसहस्रं च जपापुष्पाणि संहुनेत् || संगृह्य भस्ममन्त्री तन्नागवल्लीरसेन च || सहितं तिलकं कुर्ययात्सर्वं वश्यं [तस्येति शेषः] भवेद्ध्रुवम् || १२६७ ||

पलाशोत्थसमिद्भिश्च कुसुमैर्जुहुयात्तथा || वश्या भवेयुर्मुखरा वशिनस्तस्य मन्त्रिणः || १२६८ ||

जातिकाकुसुमैर्मन्त्री राजानं वशमानयेत् || जुहुयादरुणाम्भोजैर्वश्यास्स्युस्तस्य विश्वगाः || १२६९ ||

नीलोत्पलानां होमेन वश्याश्चारण्यसम्भवाः || वशयेत्प्रमदा विद्वान्मधूककुसुमैर्हुनेत् || १२७० ||

नवकोष्ठात्मकं सम्यङ्मण्डलं रचयेत्सुधीः || मध्ये यन्त्रं वक्ष्यमाणं कल्पयेच्च यथाविधि || १२७१ ||

तेषु कोष्ठेषु नवसु विन्यसेत्कलशान्नव || शुभांश्चन्दनकाश्मीरलिप्तान्सर्वाङ्गसुन्दरान् || १२७२ ||

कुर्वंस्तण्डुलसंयुक्तान्सर्वदृष्टिमनोहरान् || पूजयेच्च यथावत्तान्वासितैस्तीर्थपुष्करैः || १२७३ ||

कर्षस्वर्णेनरचितन्नवरत्नसमन्वितम् || कर्णिकामध्यविलसत्तत्र पद्मं तु कारयेत् || १२७४ ||

मध्यमे कलशे रम्ये यथावत्तद्विनिःक्षिपेत् || खादिरोशीरकाश्मीरचन्द्रागुरुतमालकम् || १२७५ ||

जातीकङ्कोलसंयुक्तं वीक्ष्य सर्वं विभागशः || कलशेषु च सर्वेषु यथाविधि विलोडयेत् || १२७६ ||

सदाभद्रा च दूर्वा च देवी श्रीश्च मधुव्रता || अपामागर्स्य पत्राणि मुसली वज्रवल्लरी || १२७७ ||

चक्रप्रियंगुव्रीहींश्च मुद्गगोधूमतण्डुलान् || शालिमाषांश्च सतिलान्यवान्प्रक्षाल्य निःक्षिपेत् || १२७८ ||

प्. ५७९)

कदलीनारिकेराणां श्रीधात्री कुचभूरुहाम् [अप्रत्यये तथैवेष्ट इति वार्त्तिकेन कुचफलशब्दघटकफलस्य लोपेन निर्देशः |
कुचफलो दाडिमः |
] || फलानि पद्मबकुलजातीसौगन्धिकानि च || १२७९ ||

मल्लिकाचम्पकाशोकपुन्नागोत्थानि निःक्षिपेत् || पुष्पाणि केतकस्याथ तुलसीपल्लवांस्तथा || १२८० ||

न्यग्रोधोदुम्बरप्लक्षचैत्यानां ब्रह्मकूर्चनम् || प्रक्षिप्य च घटान्वस्त्रैश्छादयेच्चम्पकैः शुभैः || १२८१ ||

साक्षतैः सफलैस्तांश्च वेष्टयेत्क्षौमवाससा || तेषु मध्यस्थकलशे समावाह्य महेश्वरीम् || १२८२ ||

महालक्ष्मीं चन्दनाद्यैरुपचारैश्च संयजेत् || शेषेष्वष्टसु कुम्भेषु क्रमानुक्रमतो यजेत् || १२८३ ||

सुगन्धैश्चन्दनैः पुष्पैर्मनोज्ञैर्धूपदोपकैः || भक्ष्यभोज्यनिवेद्यैश्च यथाविधि यजेत्सुधीः || १२८४ ||

संस्पृश्य तान्घटान्मन्त्री त्रिसहस्रं मनुं जपेत् || ततः साध्यं समानीय संयतं स्थण्डिले शुभे || १२८५ ||

सुपीठे तं निवेश्य स्वं तस्मिन्साध्येनुयोजयेत् || मनोहरैरलङ्कारैर्विविधैर्वसनैरपि || १२८६ ||

आदरादप्यलंकृत्य सुकॢप्तं सुमनोवृतम् || सुवासिनीभिर्जायाभिरर्चितानां द्विजन्मनाम् || १२८७ ||

सहाशीर्वचनैः सर्ववाद्यानां निनदैः सह || वेदघोषेण च सह लग्ने चैव तु शोभने || १२८८ ||

तेषु मध्यस्थितं कुम्भं समुद्धृत्य गुरुः स्वयम् || मूलमन्त्रं जपन्सिञ्चेत्साध्यशीर्ष्णि ततोपरैः || १२८९ ||

कलशैः पूर्ववत्सिक्त्वा हस्तेनास्य शिखां शिरः || संस्पृशन्वेदगदितामाशिषं संप्रयच्छति || १२९० ||

कल्याणमस्तु च सदा सम्पदश्च निराकुलाः || प्रसीदतु महालक्ष्मीः सकला देवता अपि || १२९१ ||

रक्षन्तु त्वां सर्वदेवा विजयोस्तु सुखी भव || इत्थं दत्त्वाशिषं पश्चाद्वाससी परिधाय च || १२९२ ||

आचान्तः प्रणमेत्सम्यग्यथाविधि गुरुं शिशुः || नानाविधैश्च वसनैर्नानालङ्करणैः शुभैः || १२९३ ||

धनैर्धान्यै रत्नगोभिर्महिषीभिश्च दासकैः || दासीभिर्देवताबुद्ध्या गुरुं सन्तोषयेत्सुधीः || १२९४ ||

नानाविधैर्भक्ष्यभोज्यैर्लेह्यैश्चोष्यैस्तथेतरैः || दीनान्धकृपणैः सार्धं भोजयेच्च द्विजन्मनः || १२९५ ||

प्. ५८०)

ततः स्वमन्दिरे कुर्ययादुत्सवं बन्धुभिः सह || महात्रिलोकरम्यश्च ततः स नृवरः स्वयम् || १२९६ ||

कृतार्थं मन्यते सम्यगात्मानं नान्यथा क्वचित् || राजा शत्रून् विजयतेभिषिक्तश्च यथाविधि || १२९७ ||

राजपुत्रश्च राजा स्यादचिरादाप्नुयात्पदम् || बन्ध्याभिषिक्ता रमणादचिराद्वाञ्छितं सुतम् || महामतिं च लभते नात्र कार्यया विचारणा || १२९८ ||

महामयेषु भूतादि समुत्थेषु भयेषु च || कृत्याद्रोहादिदोषे च प्रकुर्ययादभिषेचनम् || १२९९ ||

अभिषेकेणामुना च नृणां भवति निश्चितम् || सर्वसम्पच्च सौभाग्यं सर्वामयशमस्तथा || सर्वापद्वारणं चैव सर्वसौख्यानि निश्चितम् || १३०० ||

अथातः सम्प्रवक्ष्यामि सप्तविंशाक्षरं मनुम् || तारो [ओं श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं महालक्ष्मि नमः || ] रमा शक्ति लक्ष्मि कमले कमलालये || १३०१ ||

प्रसीदद्वितयं श्रींह्रींश्रीं महालक्ष्मि हृत्ताथा || गायत्रीछन्द उद्दिष्टं मुनिर्दक्षः प्रजापतिः || १३०२ ||

लक्ष्मीर्देव्यथ पञ्चाङ्गं [श्रीं ह्रीं श्रीं कमले श्रीं ह्रीं श्रीं हृदयाय नमः, श्रीं ह्रीं श्रीं कमलालये श्रीं ह्रीं श्रीं शिरसे स्वाहा एवमन्यात्रापि ज्ञेयम् || ] त्रिबीजपुटितैर्मनोः || वर्णैस्त्रिपञ्चरामाग्निरामैर्ध्यानमथो ध्रुवे || १३०३ ||

सिन्दूराभां च पद्मस्थां पद्मपत्रं च दर्पणं || अर्घपात्रं च दधतीं सद्धारमुकुटान्विताम् || १३०४ ||

नानादासीपरिवृतां काञ्चीकुण्डलमण्डिताम् || लावण्यभूमिकां वन्दे सुन्दराङ्गदबाहुकाम् || १३०५ ||

पूर्वोदिते यजेत्पीठे वर्त्तमानेन वर्त्मना || पुरोङ्गानि यजेत्पश्चाच्छ्रीधरादींस्ततः परम् || १३०६ ||

श्रीधरश्च हृषीकेशो वैकुण्ठो विश्वरूपकः || वासुदेवः सङ्कर्षणश्च प्रद्युम्नानिरुद्धकौ || १३०७ ||

तदग्राष्टदले पूज्या भारती पार्वती तथा || ब्राह्मी सती दिक्षु चैता आग्नेयादिविदिक्षु तु || १३०८ ||

दमकः सलिलश्चापि गुग्गुलुश्च कुरन्तकः || चत्वारस्तु गजा एते तृतीयेष्टदलेर्चयेत् || १३०९ ||

अनुरागो विसंवादो विजयो वल्लभो मदः || हर्षो बलश्च तेजस्वी यजेल्लोकेश्वरान्बहिः || १३१० ||

तदायुधानि तद्बाह्ये पूजयेच्चन्दनादिभिः || एवं सम्पूजयेल्लक्ष्मीं यो मर्त्यः स धनी भवेत् || १३११ ||

लक्षं जपेत्फलैर्बिल्वैर्जुहुयान्मधुरोक्षितैः || दशाहं संस्कृते वह्नौ प्राक्प्रोक्तेनैव वर्त्मना || १३१२ ||

प्. ५८१)

एवं सिद्धमनुर्मन्त्री साधयेदिष्टमात्मनः || चन्दनाक्तैः सरसिजैर्लक्षं प्रजुहुयात्सुधीः || १३१३ ||

लभते वैरिणां राज्यं तथैव समरं विना || राजलक्ष्मीमनुं चैव प्राप्य राजसभां व्रजेत् || तथा स्वं प्राप्यते नित्यं नात्र कार्यया विचारणा || १३१४ ||

सहदेवीं श्रीलतां च श्वेतदूर्वापराजिते || भद्रां मधुव्रतां शक्रवल्लीं शाल्मलिमूसली || १३१५ ||

हरिचन्दनकालीयं कर्पूरं रक्तचन्दनम् || कुष्ठकङ्कोलकाश्मीरं हरिद्राशिखरी समे || १३१६ ||

पिष्ट्वा सम्यक्चसञ्जप्तमष्टोत्तरसहस्रकम् || अनेन तिलकं कुर्ययात्सर्वं वश्यं भवेद्ध्रुवम् || पूर्वोक्ताश्चात्र सिद्ध्यन्ति प्रयोगा वाञ्छितार्थदाः || १३१७ ||

ओंशुद्धवाससे चोक्त्वा नमो महाश्रिये च हृत् || चतुर्दशाक्षरो मन्त्रो लक्ष्मीहृदयनामकः || १३१८ ||

मनोः पदैश्च पंचाङ्गं पूर्ववद्ध्यानपूजनम् || जपस्त्रिलक्षमेतस्य पद्मैर्होमो दशांशतः || १३१९ ||

मुनिश्छन्दादिकं प्राग्वत्प्रयोगः पूर्ववन्मतः || एतस्योपासकानां तु न वंशे स्याद्दरिद्रता || १३२० ||

यौं नौं मौं नम ऐं चोक्त्वा श्रियै श्रीं नम इत्यपि || एकादशार्णो मन्त्रोयं जमदग्निर्मतो मुनिः || १३२१ ||

त्रिष्टुप्छन्दो रमा देवी षडङ्गविधिरुच्यते || यौं नौं मौं नम ऐं नमो हृदयाय नमोस्तु हृत् || १३२२ ||

यौं नौं मौं नम ऐंस्वाहा शिरसेग्निवधूः शिरः || यौं नौं मौं नम ऐं वषट् शिखायै च वषट् शिखा || १३२३ ||

यौं नौं मौं नम ऐं हुं च कवचं कवचाय हुम् || श्रियै नेत्राय वौषट् च प्रोच्य नेत्रे तुं विन्यसेत् || १३२४ ||

श्रीं नमोस्त्राय फट् चेत्यस्त्रमंगुल्यादिकं तथा || ध्यानपूजादिकं सर्वं महालक्ष्मीवदाचरेत् || १३२५ ||

नित्यं द्वादशसाहस्र सप्तरात्रं मनुं जपेत् || तेन सिद्धो भवेन्मन्त्रः साधकस्य न संशयः || १३२६ ||

होमः पूर्वोदितैर्द्रव्यैर्दशांशं तर्प्पणादिकम् || कृत्वा ब्राह्मणभोजान्तं मन्त्रसिद्धिः प्रजायते || १३२७ ||

लक्ष्मीं सुवर्णककरां ध्यात्वा मन्त्रमिमं जपेत् || अष्टोत्तरसहस्रं स लभते वाञ्छितं फलम् || १३२८ ||

जपन्नष्टशतं विश्वं तिलकाद्वशयेद्धुवम् || मासत्रयं जपित्वा च ग्रामं मन्त्री तथाप्नुयात् || १३२९ ||

प्. ५८२)

अथातः सम्प्रवक्ष्यामि लक्ष्मीं पद्मप्रभाभिधाम् || पद्मप्रभे [पद्मप्रभे पद्मसुन्दरि पद्मेशि स्वाहा, अथ षडंगन्यासः पद्मप्रभे हृदयाय नमः, पद्मसुन्दरि शिरसे स्वाहा, पद्मेशि शिखायै वषट्, स्वाहा कवचाय हुम्, पद्मप्रभे पद्मसुन्दरि पद्मेशि स्वाहानेत्रत्र्याय वौषट् || ] पद्मसुन्दरि पद्मेश्यग्निगेहिनि || १३३० ||

चतुर्दशाक्षरो मन्त्रो ध्यानाद्येकाक्षरोदितम् || पदैश्चतुर्भिः सर्वेण पञ्चाङ्गं गदितं मनोः || १३३१ ||

जपपूजा पुरश्चर्ययादिकमेकाक्षरोदितम् || इयं सिद्धा महाविद्या भक्तानां कल्पवल्लिका || १३३२ ||

अथातः सम्प्रवक्ष्यामि लक्ष्मीसाम्राज्यसञ्ज्ञितम् [मन्त्रमिति शेषः || ] || आदौ [श्रीं स्ह् क्ल्ह्रीं श्रीमितित्र्यक्षरमन्त्रः || ] श्रीबीजमुच्चार्यय सहकलहरास्ततः || १३३३ ||

ईकारान्ता बिन्दुयुता द्वितीयं कूटमुच्यते || पुनश्च श्रीं समुच्चार्यय मन्त्रस्त्र्यक्षर ईरितः || १३३४ ||

ऋषिर्हरिस्तथा छन्दो गायत्री देवता मता || तथैव मोहिनी लक्ष्मीस्सर्वसाम्राज्यदायिनी || १३३५ ||

बीजं कूटं समाख्यातं शक्तिः श्रीबीजमुच्यते || षड्भिर्दीर्घैः [आं ईं ऊं ऐं औं अः एभिः षडक्षरैः षडङ्गं कुर्यात् |
यथा आं हृदयाय नमः ईंशिरसे स्वाहा इत्यादि || ] स्वरैर्विद्वान्षडङ्गानि प्रविन्यसेत् || १३३६ ||

अतसीपुष्पसङ्काशां रत्नभूषणभूषिताम् || शङ्खचक्रगदापद्मशार्ङ्गबाणधरां करैः || १३३७ ||

षड्भिः कराभ्यां देवेशीं वरदाभयशोभिताम् || पूजयामि जगद्धात्रीं बिन्दुषकोणमेव च || १३३८ ||

त्रिकोणं चाष्टपत्रं च भूपुरद्वारमण्डितम् || अस्मिन्समावाह्य देवीं पूजयेदुपचारकैः || १३३९ ||

बिन्दौ देवीं षडङ्गानि षट्कोणेषु यजेत्ततः || अग्रे यजेच्च गायत्रीं सावित्रीं च सरस्वतीम् || १३४० ||

ब्राह्म्याद्याश्चाष्टपत्रेषु भूपुरे मनुनामुना || अष्टादशमहाकोटियोगिनीभ्यो नमस्त्विति || १३४१ ||

अर्च्याः स्युर्नेत्रयोगिन्यः शक्राद्यानायुधान्यपि || पुनर्देवीं समभ्यर्च्य गन्धपुष्पाक्षतादिभिः || १३४२ ||

बटुकक्षेत्रपालेभ्यो योगिनीभ्यो बलिं हरेत् || एवमष्टभुजां ध्यात्वा त्रिलक्षं प्रजपेत्सुधीः || १३४३ ||

तद्दशांशेन पद्मैस्तु हुनेत्साम्राज्यसिद्धये || तर्प्पणं मार्ज्जनं कुर्ययाद्ब्राह्मणानपि भोजयेत् || १३४४ ||

अथातः सम्प्रवक्ष्यामि सप्तवर्णं रमामनुम् || हृदयं [नमः] ब्रह्मतनये मन्त्रोयं परिकीर्त्तितः || १३४५ ||

प्. ५८३)

मनोः पदद्वयेनैव [नमो ब्रह्मतनये त्रिरावृत्ताभ्यामेताभ्यां पदाभ्यां षडंगानि न्यस्येत् |
स यथा-नमः हृदयाय ब्रह्म तनये शिरसे स्वाहा, नमः शिखायै वषट्, ब्रह्मतनये कवचाय हुम् नमः नेत्रत्रयाय वौषट्, ब्रह्मतनये अस्त्राय फट || ] त्रिरावृत्त्या षडङ्गकम् || ध्यानपूजापुरश्चर्ययादिकमेकाक्षरोदितम् || १३४६ ||

अथातः सम्प्रवक्ष्यामि ज्येष्ठालक्ष्मीमनुं परम् || ओंह्रींश्रीमादिलक्ष्मीति [ओं ह्रीं श्रीं आदिलक्ष्मि स्वयम्भुवे ह्रीं ज्येष्ठायै नमः || ] पदमुक्त्वा स्वयम्भुवे || ह्रीं ज्येष्ठायै नमः प्रोच्य मन्त्रः सप्तदशाक्षरः || १३४७ ||

ऋषिरस्य स्मृतो ब्रह्मा छन्दस्त्रिष्टुबुदाहृतम् || देवता ज्येष्ठलक्ष्मीश्च श्रीमाये शक्तिबीजके || १३४८ ||

प्रमृज्य त्रिः करौ विद्वानङ्गन्यासं समाचरेत् || त्रिवेदाब्धीन्द्वग्नियुग्मवर्णैरङ्गानि षट् क्रमात् || १३४९ ||

शिरोभूमध्यवक्त्रेषु बीजानां त्रितयं न्यसेत् || हृन्नाभ्याधारजान्वंघ्रौ पदानां पञ्चकं न्यसेत् || १३५० ||

पद्मासनस्थामरुणामरुणाम्बरधारिणीम् || कुंकुमक्षोदलिप्ताङ्गीं प्रफुल्लकमलेक्षणाम् || १३५१ ||

मन्दस्मितमुखां ज्येष्ठां सुधापूर्णं घटं घटम् || धनपूर्णं सृणिं पाशं दधतीं भुजपल्लवैः || १३५२ ||

चिन्तयेत्परया भक्त्या ततो देवीं प्रपूजयेत् || सम्यग्धर्म्मादिभिः पीठं मन्त्रवित्परिकल्पयेत् || १३५३ ||

लोहिताक्षी विरूपाक्षी कराली नीललोहिता || समदा वारुणी पुष्टिरमोघा विश्वमोहिनी || पूर्वादिदलमध्येषु मध्ये चार्च्याः क्रमादिमाः || १३५४ ||

रक्तज्येष्ठायै विद्महे नीलज्येष्ठायै धीमहि || तन्नो लक्ष्मीः प्रचोदयात् || १३५५ ||

गायत्र्यावाह्य तां ज्येष्ठां पूजयेच्चन्दनादिभिः || अङ्गानि मातृलोकेशांस्तदस्त्राणि प्रपूजयेत् || १३५६ ||

लक्षं तु प्रजपेन्मन्त्रं जुहुयात्तद्दशांशतः || पायसेन सुसिद्धेन सर्पिःसिक्तेन साधकः || १३५७ ||

तर्प्पणं मार्जनं कृत्वा ब्राह्मणानपि भोजयेत् || इह वंशं च सम्पत्तिं वैकुण्ठं लभते मृतः || १३५८ ||

अथातः सम्प्रवक्ष्यामि सिद्धिलक्ष्मीमहामनुम् || एकादशाक्षरैरूनं तं शतत्रयवर्णकम् || १३५९ ||

ओं श्रीं नमः सर्वसिद्धियोगिनीभ्यो नमो वदेत् || सर्वसिद्धिमातृकाभ्यो नमो नित्योदिता वदेत् || १३६० ||

नन्देत्युक्त्वा नन्दितायै सकलेतिपदं ततः || कुलचक्रनामिकायै भगवत्यै पदं वदेत् || १३६१ ||

ततश्चण्डकपालिन्यै ओंह्रींह्रुंह्रां वदेत्ततः || ओंक्षौंक्रौं नम इत्युक्त्वा परमेति च हंसिनी || १३६२ ||

प्. ५८४)

निर्वाणमार्गदे देवि विषमोपप्लवेति च || प्रशमनि पदं प्रोच्य सकलेतिपदं वदेत् || १३६३ ||

दुरितारिष्टक्लेशेति दलनीति ततः पदम् || सर्वापदाम्भोधितारिणीत्युक्त्वा सकलेति च || १३६४ ||

शत्रुविध्वंसिनि देव्यागच्छ आगच्छ उच्चरेत् || हंसयुग्मं बलायुग्मं नरेति रुधिरांत्र च || १३६५ ||

वसाभक्षिणि मम शत्रूनुक्त्वा मर्दयमर्दय || खादखाद त्रिशूलं नो भिन्धिमिन्धि वदेत्ततः || १३६६ ||

छिन्धिछिन्धीति खड्गेन ताडयद्वितयं वदेत् || छेदयद्वितयं प्रोच्य तावद्यावन्ममेति च || १३६७ ||

सकलेति पदस्यान्ते वदेदेवम्मनोरथान् || साधयद्वितयान्ते तु वदेत्परम इत्यपि || १३६८ ||

कारुणिके भगवति महाभैरवरूपधारिणि त्रिदश चेत्युक्त्वा वरेति नमिते वदेत् || १३६९ ||

सकलेति च मन्त्रेण मातः प्रणत इत्यपि || जनेति वत्सलेदेवि महाकालिपदं वदेत् || १३७० ||

कालनाशिनि ह्रुंह्रुंह्रुं प्रसीद मदनातुराम् || कुरुकुरु सुरासुरकन्यकां ह्रीं वसुप्रिया || १३७१ ||

ह्रुं त्रिधाफट् ततः स्वाहा मन्त्रोयं समुदीरितः || त्रिलोचनमुनिश्चातिजगतीछन्द उच्यते || १३७२ ||

सिद्धिलक्ष्मीर्देवता श्रीं बीजं ह्रीं शक्तिरुच्यते || तारादिकन्तु हृदयं वदेत्परमहंसिनि || १३७३ ||

निर्वाणमार्गदे देवि शीर्षमन्त्रो ध्रुवादिकः || विषमोपप्लवप्रशमनि ध्रुवाद्या शिखा मता || १३७४ ||

सकलदुरितारिष्टक्लेशदलनि वर्म्म च || सर्वापदाम्भोधितारिणीति नेत्रं ध्रुवादिकम् || १३७५ ||

सकलशत्रुध्वंसिनि ताराद्यं चास्त्रमुच्यते || एवं कृत्वा षडङ्गानि वक्त्रन्यासं समाचरेत् || १३७६ ||

ओं नमः सर्वसिद्धीति योगिनीभ्यः पदं वदेत् || ईशानवक्त्राय नमः पूर्ववक्त्रे तु विन्यसेत् || १३७७ ||

ओं नमः सर्वसिद्धीति मातृभ्य इति चोच्चरेत् || तत्पुरुषेति वक्त्राय नमः प्रोच्य न्यसेदवाक् || १३७८ ||

ऐं ह्रीं नित्योदितानन्दनन्दितायै वदेत्ततः || अघोरवक्त्राय नमः पश्चिमे तु मुखे न्यसेत् || १३७९ ||

ऐं सकलकुलचक्रनायिकायै पदं वदेत् || वामदेववक्रायेति नमश्चोदङ्मुखे न्यसेत् || १३८० ||

भगवत्यै चण्डकपालिन्यै वाक्पूर्वकं न्यसेत् || सद्योजातेति वक्त्राय नमश्चोर्ध्वमुखे न्यसेत् || १३८१ ||

पञ्चवक्त्रां दशभुजां पीनोन्नतपयोधराम् ||

प्. ५८५)

तडित्कोटिसमप्रख्यां सिन्दूरारुणविग्रहाम् || १३८२ ||

अक्षमालां कपालञ्च शूलं खड्गञ्च बिभ्रतीम् || खेटं घण्टां स्वर्णपाशं सांकुशं वरदाभये || १३८३ ||

नीलग्रीवां चन्द्रमौलिं त्रिनेत्रां सर्पभूषणाम् || सर्वसिद्धिप्रदां देवीं सिद्धिलक्ष्मीं विचिन्तयेत् || १३८४ ||

मार्गद्वयेपि पूजास्या मापीठे दक्षिणे यजेत् || वामे तु भुवनेश्वर्यया अङ्गैः स्यात्प्रथमावृतिः || १३८५ ||

राज्यविद्या च सौभाग्यामृतकाम्यपदादिकाः || सत्यभोगयोगपूर्वा लक्ष्म्योऽष्टौ च दलाष्टके || १३८६ ||

एतद्द्वितीयावरणं ब्राह्म्याद्याभिस्तृतीयकम् || चतुर्थमसिताङ्गाद्यैर्लोकपालैश्च पञ्चमम् || १३८७ ||

चतुस्सहस्रप्रमितः पुरश्चर्ययाजपः स्मृतः || होमयेद्गुग्गुलाज्याभ्यां प्रयोगानथ वच्म्यहम् || १३८८ ||

अश्वत्थवृक्षमालिङ्ग्य न्यग्रोधं प्लक्षमेव च || सहस्रन्तु जपेन्मन्त्रं ग्रहपीडादिशान्तये || १३८९ ||

जातीगुल्मं समालिङ्ग्य कर्णिकारं सुपुष्पितम् || बिल्वं वा पूजयेद्देवीं जपेदष्टसहस्रकम् || १३९० ||

सहस्रं लभते स्वर्णं न दरिद्रो भवेत्ततः || शालिभिः स्वर्णलाभः स्याद्गोधूमैः पुष्टिरेव च || १३९१ ||

यवहोमेन धान्यं स्यादिक्षुभिश्चतुरंगुलैः || कुमुदैर्जनवात्सल्यं बकुलैरतुलाः श्रियः || १३९२ ||

अशोकपुष्पैर्लाभः स्यात्पाटलीभिः शुभाङ्गना || माषहोमेन मूकः स्यात्कोद्रवैर्व्याधियुग्भवेत् || १३९३ ||

फलैर्बैभीतकैर्भ्रान्तो म्रियते शाल्मलीहुतात् || कटुतैलेन विद्वेषः स्तम्भः प्रीतप्रकारकैः || १३९४ ||

वायुवेगपतत्पत्रहोमेनोच्चाटनं रिपोः || होमोऽन्येषां पदार्थानामष्टोत्तरसहस्रकम् || १३९५ ||

कस्तूरिकादिहोमेन दिव्यदेहं लभेत ना || सरसीरुहहोमेन साम्राज्यं भलते नरः || १३९६ ||

ब्रह्मवृक्षसमिद्धोमाद्ब्रह्मश्रियमवाप्नुयात् || आयुषे दूर्वया होमो वटहोमेन यक्षिणी || १३९७ ||

उदुम्बरसमिद्धोमात्पुत्रः स्यादुत्तमोत्तमः || महाभये समुत्पन्ने महारिष्टसमुद्भवे || १३९८ ||

सितश्रीपुष्पबीजेनापामार्गमिश्रितेन च || तिलतण्डुलहोमेन महाभयनिवारणम् || १३९९ ||

श्रीफलं घृतसंयुक्तं जुहुयात्तिलतण्डुलम् || श्वेतपद्मकहोमेन विद्यार्थी लभते च ताम् || १४०० ||

भोगार्थी लभते भोगान्स्वेष्टं प्राप्नोत्यसंशयम् || ज्वराश्चातुर्थिकाद्याश्च व्याधयो विविधा ग्रहाः || १४०१ ||

सप्तजप्तोदकानान्तु नश्यन्त्यभ्युक्षणात् क्षणात् एकविंशतिजप्ताम्बुपानात्सर्वविषापहम् || १४०२ ||

कुंकुमागुरुकर्पूरगोरोचनविमिश्रितम् || तिलकं सप्तजपितं सर्ववश्यकरम्भवेत् || १४०३ ||

भक्ष्यभोज्यान्नहोमस्तु सर्वसिद्धिविभूतिकृत् || इत्यष्ट मातृकाः प्रोक्ताः किमन्यच्छ्रोतुमिच्छसि || १४०४ ||

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते ब्राह्माद्यष्टमातृकामन्त्रप्रकाशस्त्रयोविंशः || २३ ||

Prakāśa 24 – Mantras der zehn Richtungshüter

श्रीदेव्युवाच ||

सर्वेषां ये तु देवनां बाह्यावरणके स्थिताः || दिगीशास्तन्मनून्ब्रूहि फलं चापि महेश्वर || १ ||

श्रीमहेश्वर उवाच ||

शृणु देवि प्रवक्ष्यामि दिक्पतीनाम्मनून्क्रमात् || इमिन्द्राय नमश्चेति शक्रमन्त्रःषडक्षरः || २ ||

पंक्तिश्छन्दोमुनिर्ब्रह्मा देव इन्द्रः प्रकीर्त्तितः || इन्द्राय शक्तिरिम्बीजं बीजेनैव षडङ्गकम् || ३ ||

पीतवर्णं सहस्राक्षं वज्रपद्मकरं विभुम् || सर्वालङ्कारसंयुक्तं नौमीन्द्रन्दिक्पतीश्वरम् || ४ ||

षडस्रमध्ये देवेन्द्रं पत्रेष्वङ्गानि पूजयेत् || तद्बाह्येष्टदले प्रोक्तमन्त्रैरेतैः क्रमाद्यजेत् || ५ ||

कं कार्त्तिकेयं रं चाग्निमीं यमं हं च निरृतिम् || वं वरुणं यं च वायुं सं सोमं चेशमं त्विति || ६ ||

ङेन्ता नमोन्ता मन्त्राः स्युर्वज्राद्यैः स्यात्तृतीयकम् || प्रजपेल्लक्षमेकन्तु बिल्वाज्यं जुहुयात्ततः || ७ ||

एवं सिद्धमनुर्मन्त्री प्रयोगं कर्त्तुमर्हति || मण्डलन्तु चतुष्कोणं कृत्वा तन्मध्यगंलिखेत् || ८ ||

पद्ममष्टदलं तस्मिन्नववस्त्रेण वेष्टितम् || अव्रणं स्थापयेत्कुम्भं सुवर्णोदकपूरितम् [सुगन्धोदकमिति वा पा ||] || ९ ||

पूज्य [ल्यबत्रार्षः ||] सपरिवारेन्द्रं सहस्रेणाभिमन्त्रयेत् || तज्जलं स्थापयेत्तेन राज्यभ्रष्टो नृपो लभेत् || १० ||

स्वराज्यमन्योपि नरः स्नातो लक्ष्मीपतिर्भवेत् || नस्नापयेद्धर्महीनम्भक्तिश्रद्धादिविच्युतम् ||११||

अथातः सम्प्रवक्ष्यामि तत्त्वार्णं वह्निमन्त्रकम् || भूर्भुवःस्वरग्ने च जातवेद इहावह || १२ ||

सर्वकर्माणि संभाष्य साधयाग्निप्रियान्तकः || ऋषिर्भृगुर्भवेच्छन्दो गायत्रं देवतानलः || १३ ||

पञ्चषड्वेदपञ्चत्रिकरवर्णैः षडङ्गकम् || ध्यायेदग्निं कण्ठगतस्वर्णमालाविराजितम् || १४ ||

रक्तचन्दनलिप्ताङ्गमरुणस्रक्सुशोभितम् || प्. ५८७)ज्वालापुञ्जकृतातापं श्वेतवस्त्रं च बिभ्रतम् || १५ ||

शक्तिं च स्वस्तिकं दर्भमुष्टिं च जपमालिकाम् || स्रुक्स्रुवौ च वराभीती रक्ताभं दहनम्भजेत् || १६ ||

गुरोर्लब्धमनुर्मन्त्री चतुर्दश्यामुपोषितः || जपेद्भानुसहस्राणि शुद्धाचारो जितेन्द्रियः || १७ ||

अमावास्यादिने विप्रान्भोजयेन्मधुरोत्तरैः || भक्ष्यैर्भोज्यैर्यथाशक्ति दद्यात्तेभ्यश्च दक्षिणाः || १८ ||

भुक्त्वा स्वयं समानीय होमद्रव्याणि शोधयेत् || अपरं दिनमारभ्य होमं कुर्यादतन्द्रितः || १९ ||

क्रमाद्वटसमिद्व्रीहितिलराजहिविर्घृतैः || नित्यमष्टोत्तरशतं जुहुयाद्दिनशः सुधीः || २० ||

दशाहमेवं निर्वर्त्य विधानेन विधानवित् || ततः पूर्णाहुतिं सम्यगेकादश्यां द्विजोत्तमान् || सम्पूज्य तर्पयेद्विप्रैर्यथाविभवमादरात् || २१ ||

गुरवे दक्षिणां दद्याद्धेनुं साङ्गां पयस्विनीम् || वासासि धनधान्यादि नत्वा सम्प्रीणयेद्गुरुम् || २२ ||

स्वमण्डलान्तं प्रयजेत्पीठं सनवशक्तिकम् || पीता श्वेतारुणा कृष्णा धूम्रा तीक्ष्णा स्फुलिङ्गिनी || रुचिरा ज्वलिनी प्रोक्ताः क्रमशो नव शक्तयः || २३ ||

स्वबीजेनासनन्दद्यान्मूर्त्तिं मूलेन कल्पयेत् || अत्र सम्पूजयेद्वह्निं विधिना प्रोक्तलक्षणम् || २४ ||

अङ्गपूजा पुरा प्रोक्ता मूर्तयोऽष्टौ दलेष्विमाः || जातवेदाः सप्तजिह्वो हव्यवाहनसञ्ज्ञकः || २५ ||

अश्वोदरजसञ्ज्ञोन्यः पुनर्विश्ववराह्वयः || कौमारतेजाः स्याद्विऽऽवमुखो देवमुखः परः || २६ ||

अर्च्यः स्वस्तिकशक्तिभ्यां विराजितकराम्बुजः || लोकेशानर्चयेद्बाह्ये वज्राद्यायुधसंयुतान् || २७ ||

इति सम्पूजयेन्नित्यं जपेत्साग्रं सहस्रकम् || जायते वत्सरादर्वाग्धनधान्यसमृद्धिमान् || २८ ||

षण्मासं कपिलाज्येन जुहुयाद्वत्सरान्तरे || तस्य सञ्जायते लक्ष्मीः कीर्तिस्त्रैलोक्यवन्दिता || २९ ||

साज्यमन्नं प्रजुहुयाद्वत्सराल्लभते श्रियम् || कुसुमैर्ब्रह्मवृक्षस्य दधिक्षौद्रघृतप्लुतैः || करवीरप्रसूनैर्वा मण्डलात्स्यात्समृद्धिमान् || ३० ||

शालिभिर्जुहुयान्नित्यं विधिनाष्टोत्तरं शतम् || व्रीहिगोमहिषान्नाद्यैर्भवनन्तस्य पूर्यते || तिलहोमेन महतीं श्रियमाप्नोति मानवः || ३१ ||

पलाशबिल्वखदिरशमीदुग्धमहीरुहाम् || विकंकतारग्वधयोः समिद्भिः करवीरजैः || ३२ ||

प्रसूनैः कुमुदैः पद्मैः कह्लारैररुणोत्पलैः || प्. ५८८) जातीप्रसूनैर्दूर्वाभिर्नित्यमष्टोत्तरं शतम् || ३३ ||

एकेन जुहुयान्मन्त्री प्रतिपत्स्वथ वा सुधीः || साधयेदखिलान्कामान्षण्मासान्नात्र संशयः || ३४ ||

अथ मन्त्रान्तरं वक्ष्ये वह्नेः सेव्यं त्रिवर्णकैः || उत्तिष्ठ पुरुष ब्रूयाद्धरिपिङ्गलतत्परम् || ३५ ||

लोहिताक्षपदन्देहि मे प्रदापय ठद्वयम् [स्वाहा] || चतुर्विंशत्यक्षरात्मा समृद्धिमनुरीरितः || ३६ ||

ऋष्यादयः पुरा प्रोक्ता मन्त्रार्णैरङ्गकल्पनम् [उत्तिष्ठ पुरुष हृदयाय नमः, हरिपिङ्गल शिरसे स्वाहा इत्यादि ||] || षट्शराब्धित्रिवेदद्विमितैर्ध्यायेद्धुताशनम् || ३७ ||

सिन्दूरपूरप्रतिमं स्वर्णाश्वत्थाद्विनिर्गतम् || रोमवल्लीलसज्ज्वालं कान्ताजनविमोहनम् || ३८ ||

अनर्घ्यरत्नसंयुक्तभूषणैश्च विभूषितम् || लक्षं मनुं जपेदेनं पयोन्नेन ससर्पिषा || दशांशं जुहुयाद्वह्नौ तुरगाग्निमनुं स्मरेत् || ३९ ||

पीठे प्रागीरितेभ्यर्च्य तदङ्गैर्मूर्तिभिः सह || आशापालैस्तदीयास्त्रैरभ्यर्च्य हव्यवाहनम् || ४० ||

प्रातःस्नानरतो मन्त्री सहस्रम्प्रजपेन्मनुम् || जित्वा रोगान्स जीवेत श्रिया वर्षशतं नरः || ४१ ||

हृत्प्रमाणजले स्थित्वा भानुमालोक्य सम्प्लुतः || चतुःसहस्रं प्रजपेन्नित्यं संवत्सरावधि || ४२ ||

अपमृत्युभवान्रोगकृत्यादारिद्र्यसम्भवान् || क्लेशान्निर्जित्य तेजस्वी जीवेद्वर्षशतं सुधीः || ४३ ||

कृत्तिकायाम्प्रतिपदि शालिहोमो धनप्रदः || दध्ना च समिद्भिर्वा प्रतिपत्सु भवेद्धनम् || ४४ ||

इष्टावाप्तिर्भवेदाज्यैः पद्मैर्ग्राममवाप्नुयात् || तिलैर्ज्योतिष्मतीभूतै रिपुराष्ट्रञ्जयेन्नृपः || ४५ ||

अश्वत्थसमिधो मेषीघृताक्ता जुहुयान्नरः || कन्यामिष्टामवाप्नोति सापि तं प्राप्नुयाद्वरम् || ४६ ||

शुद्धाज्येन कृतो होमो ज्वरनाशकरः परः || सप्ताहं जुहुयान्मन्त्री बन्धूककुसुमैः शुभैः || सान्नैः सहस्रमचिरान्महतीं श्रियमाप्नुयात् || ४७ ||

मासं क्षीरेण गव्येन क्षीराहारो जितेन्द्रियः || सहस्रं जुहुयान्मन्त्री सम्पदामधिपो भवेत् || आज्याक्तदूर्वाहोमेन जीवेद्वर्षशतं नरः || ४८ ||

अष्टोत्तरशतं नित्यं हविषा मृगमुद्रया || जुह्वता लभ्यते लक्ष्मीर्धनधान्यसमृद्धिदा || ४९ ||

प्रतिमासं प्रतिदिनं जुहुयादयुतं घृतैः || श्रीर्भवेन्महती तस्य षण्मासादनपायिनी || ५० ||

अरुणैरुत्पलैः फुल्लैर्मधुरत्रयसंयुतैः || प्. ५८९) जुहुयाद्वत्सरादर्वाक् स भवेदिन्दिरापतिः || ५१ ||

अरुणाब्जैस्त्रिमध्वक्तैर्जुहुयादन्वहं सुधीः || सहस्रं वत्सरार्धेन भवेद्भूमिपुरन्दरः || वत्सरं जुह्वतस्तैः स्याल्लक्ष्मीरिन्द्रेण वाञ्छिता || ५२ ||

जुहुयादमृताखण्डैः पयोक्तैः सप्त वासरान् || त्रिसहस्रं प्रतिदिनम्मन्त्रसिद्ध्यै जितेन्द्रियः || ५३ ||

कृत्यादाहज्वरोन्मादरोगाञ्जित्वा निरन्तरम् || जीवेद्वर्षशतं भूत्वा तेजसा भास्करप्रभः || ५४ ||

करवीरजपाबिल्वपलाशनृपभूरुहाम् || प्रसूनैः कुसुमैः फुल्लैः कुटजैर्जातिसम्भवैः || ५५ ||

पुष्पैर्हुत्वा त्रिमध्वक्तैर्मन्त्री प्रतिपदम्प्रति || आप्नुयान्महतीं लक्ष्मीं वत्सराद्वाञ्छिताधिकाम् || ५६ ||

आदाय तण्डुलप्रस्थं निर्मलं साधुशोधितम् || गोदुग्धेन हविः कृत्वा कवलन्तेन कल्पयेत् || ५७ ||

आज्याक्तं तत्समादाय पूजिते हव्यवाहने || गन्धमाल्यादिभिः सम्यग्जपित्वाष्टोत्तरं शतम् || ५८ ||

जुहुयात्प्रतिपत्स्वग्निं ध्यात्वा तुरगविग्रहम् || जायते वत्सरादेव लक्ष्मीस्त्रैलोक्यमोहिनी || ५९ ||

मन्त्रेणानेन जपितां वचां खादेद्दिनागमे || भारती निवसेत्तस्य मुखाम्भोजेतिनिश्चला || ६० ||

अष्टोत्तरशतं प्रातर्जपित्वा कं [जलम् ||] पिबेन्नरः || जाठराग्निर्भवेत्तस्य घृतेनैव हुताशनः || ६१ ||

कृत्वा नवपदात्मानं मण्डलम्प्रागुदीरितम् || कलशान्नवकल्याणान्स्थापयेत्प्रोक्तवर्त्मना || क्षीरवृक्षसमुद्भूतैः क्वाथैस्तान्पूरयेत्क्रमात् || ६२ ||

वस्त्रादिभिरलंकृत्य नवरत्नानि निःक्षिपेत् || मध्ये सम्पूजयेदग्निमूर्तीरष्टौ दिशां क्रमात् || कुम्भेषु धूपदीपाद्यैः पुष्पधूपैर्मनोहरैः || ६३ ||

स्पृष्ट्वा जपेत्ततः कुम्भं मन्त्रमष्टोत्तरं शतम् || अभिषिञ्चेत्ततः साध्यं विनीतं दत्तदक्षिणम् || ६४ ||

ज्वरग्रहमहारोगदारिद्र्यादीन्विजित्य सः || जीवेद्वर्षशतं सम्यगभिषिक्तः श्रिया सह || अग्नेराराधनं चेत्थं भुक्तिमुक्तिप्रदायकम् || ६५ ||

अथातः सम्प्रवक्ष्यामि यममन्त्रमघापहम् || ओं-क्रों-ह्रीं-आं [ओं-क्रों ह्रीं आं वैं वैवस्वताय धर्मराजाय भक्तानुग्रहकृते नमः ||] च तद्बीजं ङेन्तं वैवस्वतं वदेत् || ६६ ||

धर्मराजाय भक्तानुग्रहकृते नमो वदेत् || चतुर्विशतिवर्णोयं यममन्त्रोखिलेष्टदः || ६७ ||

प्. ५९०) त्रिद्वीष्विष्वगयुग्मार्णैः षडङ्गानि स्मरेद्यमम् || मेघश्यामं प्रसन्नास्यं नानालङ्कारसंयुतम् || ६८ ||

महिषस्थं दण्डधरं संस्तुतं पितृभिर्वृतम् || नानारूपधरैर्दूतैः श्वेतवस्त्रं भजेद्यमम् || ६९ ||

पूजयेत्षड्दलेङ्गानि वसुपत्रे ग्रहाष्टकम् || दिगीशांश्च यमस्थाने चित्रगुप्तं प्रपूजयेत् || ७० ||

वज्रादींश्चापि तद्बाह्ये यमपूजा प्रकीर्तिता || वर्णलक्षं जपेन्मन्त्रं हुनेदाज्यान्वितैस्तिलैः || ७१ ||

एवं सिद्धमनुर्मन्त्री निग्रहानुग्रहक्षमः || तस्य संस्मरणादेव सकलापन्निवारणम् || ७२ ||

अथातः सम्प्रवक्ष्यामि चित्रगुप्तमनुं परम् || तारो नमो विचित्राय ङेन्तः स्याद्यमलेखकः || यमेत्युक्त्वा च वहिकाधिकारिणे वदेत्ततः || ७३ ||

ततः षडक्षरं कूटं यमलकरपास्तथा || उकारस्वरसंयुक्तास्सचन्द्राः कूटमुच्यते || ७४ ||

जन्मसम्पत्प्रलयं च द्विधा कथय ठद्वयम् [वदेदित्यस्यात्रापि सम्बंधः ||] || अष्टत्रिंशदक्षरोयं चित्रगुप्तमनुर्मतः || सप्तषण्मनुवस्वङ्गनेत्रार्णैरङ्गकल्पनम् || ७५ ||

किरीटिनं श्वेतवस्त्रं विचित्रासनसंस्थितम् || लेखकं पापपुण्यानां चित्रगुप्तमहम्भजे || ७६ ||

जपेद्वर्णसहस्रं च ततः सिद्धो भवेन्मनुः || राजद्वारे विवादे च संग्रामे जयदायकः || ७७ ||

भजन्ति लेखका ये तु मन्त्रमेतं नृपाङ्गणे || मान्यां कीर्तिं च वंशं च संस्थाप्य स्वर्गगामिनः || ७८ ||

अथातः सम्प्रवक्ष्यामि नैरृतस्य मनुं परम् || ओं क्षं निरृतये रक्षोधिपतये पदं वदेत् || ७९ ||

धूम्रवर्णाय खड्गेति हस्ताय प्रेतवाहनम् || ङेन्तस्ततश्च हृदयं त्रिंशदर्णो मनुर्मतः || ८० ||

किरीटिनञ्च पिङ्गाक्षं धूम्राभं प्रेतवाहनम् || नानारक्षोगणैः सेव्यं खड्गचर्मधरं भजे || ८१ ||

ओं [ओं क्षं निरृतये नमः हृदयाय नमः, ओं क्षं रक्षोधिपतये नमः शिरसे स्वाहा, ओं क्षं धूम्रवर्णाय नमः शिखायै वषट्, ओं क्षं खड्गहस्ताय नमः कवचायहुम्, ओं क्षं प्रेतवाहनाय नमः नेत्रत्रयाय वौषडित्यादि ||] क्षमाद्यैर्हृदन्तैश्च पञ्चाङ्गैः पञ्चभिः पदैः || ८२ ||

आसुरीशक्तिसहितं मध्ये तु निरृतिं यजेत् || पञ्चकोणेषु मञ्चाङ्गमष्टपत्रे यजेदिमाः || ८३ ||

नवस्थां पाशिनीं वाणीं त्रासिनीं गुप्तचारिणीम् || राक्षसीं भीतिदां कृत्यां खेटानस्त्राणि तद्बहिः || ८४ ||

प्. ५९१) जपेत्त्रिंशत्सहस्राणि गुञ्जाज्याभ्या हुनेत्ततः || एवं तु सिद्धे मन्त्रेस्मिन्नभयं जायते वने || ८५ ||

रक्षोभूतपिशाचाद्याश्चौरव्याघ्रोरगादयः || मनुष्या अपि ये वन्या मृगादीनां तु का कथा || ८६ ||

स्वयमेव पलायन्ते साधकस्य रणादपि || ८७ ||

जप्त्वा हुत्वा पर्वदिनेऽयुतं वापि सहस्रकम् || परेह्नि वा गुडाद्यं च कानने विचरेद्बुधः || ८८ ||

अनेन मनुना कुर्यात्तृणसूत्राभिमन्त्रणम् || बध्नीया (आ)?मसीमायां वने वा मार्ग एव च || न भयं जायते तत्र व्याघ्रचौरोरगादिजम् || ८९ ||

निरृतिं भजते यस्तु नीचजातौ न जायते || जन्मान्तरे द्विजो भूत्वा काशीं प्राप्य विमुच्यते || ९० ||

अथातः सम्प्रवक्ष्यामि आसुर्या मनुमद्भुतम् || कलौ द्रुतफलश्चैतत्सदृशो नास्ति चागमे || ९१ ||

कटुके [ओं कटुके कटुपत्रे सुभगे आसुरि रक्ते रक्तवाससे अथर्वणस्य दुहितरघोरे अघोरकर्मके देवि अमुकस्य गतिं दह दह उपविष्टस्य गुदं दह दह सुप्तस्य मनो दह दह प्रबुद्धस्य हृदयं दह दह हन हन पच पच तावद् दह दह पच यावन्मे वशमायाति हुं फट् स्वाहा ||] कटुकपत्रे सुभगे आसुरीति च || ततो रक्ते पदं ब्रूयात्तत्पश्चाद्रक्तवाससे || ९२ ||

अथर्वणस्य दुहितरघोरे प्रवदेत्ततः || अघोरकर्मके देवि अमुकस्य गतिं दह || ९३ ||

दहेति चोपविष्टस्य गुदं दहयुगं तथा || सुप्तस्येति प्रोच्य मनो दहयुग्मं वदेत्ततः || ९४ ||

प्रबुद्धस्येति हृदयं दहयुग्मं हनद्वयम् || पचयुग्मं तावदिति दहयुग्मं पचेति च || ९५ ||

यावन्मे वशमायाति हुंफट् स्वाहा ध्रुवादिकः || प्रोक्तोयमासुरीमन्त्रो दशोत्तरशताक्षरः || ९६ ||

अङ्गिराः स्यान्मुनिश्छन्दो विराड् देवी तथासुरी || स्वाहा शक्तिस्तथौंबीजं मन्त्रस्यास्य प्रकीर्तितम् || हुंफट्स्वाहान्तकैर्मन्त्रवर्णैह् प्रत्यङ्गकल्पनम् || ९७ ||

दक्षयोः कार्मुकं शूलं वामयोश्च शरांकुशौ || बिभ्रतीं चन्द्रभां पद्मस्थितां सुबहुभूषणाम् || अहियज्ञोपवीतां तामासुरीं संस्मराम्यहम् || ९८ ||

जप्त्वायुतं हुनेद्राजीघृताभ्यां मन्त्रसिद्धये || गृहीत्वा तु सपञ्चाङ्गमासुरीं मन्त्रेयच्च ताम् || ९९ ||

तया धूपितमात्मानं यो जिघ्रेत्स वशो भवेत् || मध्वाक्तामासुरीं हुत्वा सहस्रं वशयेज्जगत् || १०० ||

राजिकाप्रतिमां कृत्वा दक्षांघ्रेर्मस्तकावधि || अष्टोत्तरशतं खण्डाञ्जुहुयादसिना कृतान् || नार्याः प्रतिकृतेर्वामपादादिहवनं चरेत् || १०१ ||

सप्ताहमेवं कुर्वीत राजीकाष्ठैश्चितानले || प्. ५९२) दासवज्जायते साध्यस्त्रिलिङ्गो ह्यपि तद्वशे || १०२ ||

कटुतैलान्वितां राजीं निम्बपत्रयुतां रिपोः || नामयुङ्मनुना हुत्वा ज्वरिणं कुरुते रिपुम् || १०३ ||

एवं राजीं सलवणां हुत्वा स्फोटयते रिपुम् || अर्कदुग्धाक्ततद्धोमान्नेत्रनाशः [रिपोरिति सम्बन्धिमहिम्ना बोध्यः ||] प्रजायते || १०४ ||

सप्ताहं तु पलाशाग्नौ हुनेद्विप्रवशीकृतौ || क्षत्त्रियं तु गुडाभ्यक्तराजिकाभिर्वशं नयेत् || १०५ ||

दध्यक्तराजिकाहोमाद्वैश्यो वश्यः प्रजायते || शूद्रो लवणयुग्घोमात्प्रत्यहं साष्टकं शतम् || १०६ ||

एकादिसप्तकैः सप्तसप्तकान्तं यदा हुनेत् || असाध्यं साधयेत्कार्यं साधको नात्र संशयः || आसुरीसमिधो हुत्वा मध्वक्ता लभते निधिम् || १०७ ||

जलपूर्णे घटे राजीपल्लवैः समलंकृते || आवाह्य चासुरीं तत्र पूजयेदुपचारकैः || १०८ ||

अष्टोत्तरशतं मूलमन्त्रेणापि च मन्त्रयेत् || तेनाभिषिक्तो भवति व्याध्याधिभ्यां विवर्जितः || १०९ ||

मनःशिला चन्दनं च तगरं नागकेशरम् || आसुर्याश्चापि पुष्पाणि प्रियंगु च समंसमम् || ११० ||

सम्यग्विचूर्ण गुटिकाः शतवाराभिमन्त्रिताः || गुञ्जानिभा [कार्या इतिशेषः |
अग्रे च तासां मध्ये एकापि गुटिका यस्य शिरसि न्यस्ता स तस्य वशवर्तीत्यर्थः ||]यस्य मूर्ध्नि स्थापितैका वशस्तु सः || १११ ||

ससर्षपाश्च निम्बाग्नौ सप्ताहं राजिका हुनेत् || अष्टोत्तरशतं याम्याभिमुखो मारयेदरीन् || ११२ ||

कलौ काम्यकरी नान्या सत्यं नास्त्यासुरीसमा || सर्वेपि कुण्ठिता मन्त्रा नासुरी परमेश्वरी || ११३ ||

अथातः सम्प्रवक्ष्यामि मन्त्रं वरुणदैवतम् || तारं वं वरुणायेति जलाधिपतये वदेत || ११४ ||

वदेच्च शुक्लवर्णाय पाशहस्ताय संवदेत् || मकरेति वाहनाय चेकोनत्रिंशदर्णकः || ओं ममाद्यैर्नमोन्तैश्च पञ्चागं पञ्चभिः पदैः || ११५ ||

श्वेतांशुको दधद्धस्तैः पाशांकुशाभयवरान् || स्वच्छारविन्दवसतिर्भुक्ताभरणभूषितः || तुन्दिलश्च प्रसन्नास्यो वरुणो निधिदोस्तु मे || ११६ ||

त्रिष्टुप्छन्दो वशिष्ठर्षिर्देवता वरुणो मतः || जपेद्वर्णसहस्रं तु होमः पद्माक्षकैः स्मृतः || ११७ ||

अङ्गानि पूजयेदादौ नदीषट्कं ततोर्चयेत् || मणिकर्णीन्तथा गङ्गां नर्मदां च सरस्वतीम् || गोदावरीं च कालिन्दीं समुद्रास्तदनन्तरम् || ११८ ||

प्. ५९३) अनन्तो वासुकिस्तक्षः कर्कोटः पद्मकस्तथा || महापद्मः शङ्खपालः कुलिकोष्टदले ततः || ११९ ||

तद्बाह्येर्कदले पूज्या विमलाद्याश्च शक्तयः || दिगीशैरायुधैश्चेति षडावरणपूजनम् || प्रयोगाश्चात्र सिद्ध्यन्ति देवमन्त्रोदिताः परे || १२० ||

अथातः सम्प्रवक्ष्यामि मणिकर्णीमहामनुम् || यस्योपासनतो वश्यं मृत्युः काश्यां प्रजायते || १२१ ||

ओमैं [ओं ऐं ह्रीं श्रीं क्लीं ओं मं मणिकर्णिके नमः ओं ||] ह्रीं श्रीं कामबीजमों मं च मणिकर्णिके || नम ओं तिथिवर्णोयं भुक्तिमुक्तिफलप्रदः || १२२ ||

वेदव्यासो मुनिः प्रोक्तश्छन्दः स्यादतिशक्वरी || मणिकर्णी देवतास्य कुद्विद्व्यक्षीषुवह्निभिः || मन्त्रार्णैः स्यात्षडङ्गानि [मूलोक्तसंख्याक्रमेण निम्नलिखितन्यासा विधेयास्ते यथा - ओं हृदयाय नमः, ऐं ह्रीं शिरसे स्वाहा, श्रीं क्लीं शिखायै वषट, ओं मं कवचाय हुम्, मणिकर्णिके नेत्रत्रयाय वौषट्, नमः ओं अस्त्राय फट् ||] ध्यायेत्तां पश्चिमामुखीम् || १२३ ||

दक्षहस्ते पद्ममालां मातुलुङ्गमदक्षिणे || श्वेतपद्मोद्भवां मालां रुचिरां दधतीं गले || श्वेतवस्त्रावृतां त्र्यक्षां ध्यायेद्बद्धाञ्जलिः पराम् || १२४ ||

लक्षत्रयं जपेन्मन्त्रं त्रिमध्वक्ताम्बुजैर्हुनेत् || लिखेदष्टदलं पद्मं कर्णिकायां तु षड्दलम् || १२५ ||

अङ्गानि षड्दलेऽर्च्यानि पत्रमध्ये शिवं हरिम् || विधिं सूर्यं पर्वतेशं मेनां चापि भगीरथम् || १२६ ||

वरुणं च दलाग्रेषु मीनं कूर्मं च दर्दुरम् || मकरांश्चापि हंसांश्च तथा कारण्डवानपि || १२७ ||

चक्रवाकान्सारसांश्च तद्बहिर्भूपुरे यजेत् || इन्द्रादींश्चापि वज्रादीन्मन्त्रोयं दक्षमार्गिणाम् || १२८ ||

सुखानि सन्ततिं वित्तं जीवते सम्प्रयच्छति || मन्त्रोयं मृत्युकाले तु काश्यां मुक्तिप्रदो ध्रुवम् || १२९ ||

अथ मन्त्रान्तरं वक्ष्ये वामिनामपि सद्गतिः || भवेद्यस्य प्रसादेन तारं मं मणिकर्णिके || १३० ||

प्रणवात्मिके हृच्चायं मन्त्रः स्याच्छक्रवर्णकः || उपासनाध्यानपूजाः स्वीयाम्नायेन कल्पयेत् || १३१ ||

अद्रोहः सर्वभूतानां परमं चास्य साधनम् || पुरश्चर्याप्रयोगादि पूर्वमन्त्रसमं मतम् || १३२ ||

अथातः सम्प्रवक्ष्यामि गङ्गाया मन्त्रपञ्चकम् || पञ्चाम्नायैस्तत्क्रमेण चोपास्यं सिद्धिकारकम् || १३३ ||

प्. ५९४) तारो [ओं नमो भगवति ऐं हिलिहिलि मिलिमिलि गङ्गे मां पावयपावय स्वाहा स्वाहा ||] नमो भगवति वाग्बीजं च हिलिद्वयम् || मिलियुग्मं च गङ्गे मां पावयद्वितयं द्विठः || १३४ ||

एकोनत्रिंशद्वर्णोयं जप्तव्यो दक्षिणक्रमैः || त्रिवेदाङ्गाग्निषण्नेत्रैर्मन्त्रार्णैरङ्गकल्पनम् [त्रिचतुषट्त्रिषड्द्विमन्त्रवर्णैर्न्यासाः कार्याः तेग्रे दर्श्यन्ते - ओं नमो हृदयाय नमः, भगवति शिरसे स्वाहा, ऐं हिलि हिलि मिलि मिलि शिखायै वषट्, गंगे मां कवचाय हुम्, पावयपावय नेत्रत्रयाय वौषट्, स्वाहा अस्त्रायफट् ||] || १३५ ||

शुभ्रवस्त्रां त्रिनेत्रां च वरं पद्मं च दक्षयोः || अभयं कलशं वामकरयोर्मकरस्थिताम् || १३६ ||

अर्धेन्दुमुकुटां ब्रह्मविष्णुरुद्रस्वरूपिणीम् || नानालङ्कारशोभाढ्यां प्रसन्नवदनां भजे || १३७ ||

पूजाद्यं मणिकर्णीवज्जपो लक्षं प्रकीर्तितः || तिलाज्याभ्यां भवेद्धोमो मन्त्रोयं भुक्तिमुक्तिदः || १३८ ||

अथायमेव [अस्यैवाद्यसप्ताक्षरपरित्यागेन द्वाविंशत्यक्षरात्मापरो भवति ऐं ओं हिलि हिलि मिलि मिलि गंगे मां पावय पावय स्वाहा स्वाहा ||] मत्रस्तु त्यक्तपूर्वनगाक्षरः || ऊर्ध्वाम्नायेन साध्यः स्यात्षडङ्गानि शरैः कृतैः || १३९ ||

त्रित्रित्रिनेत्रमन्त्रार्णैर्ध्यानाद्यं पूर्ववन्मतम् || सर्वपापक्षयकरो भुक्तिमुक्तिप्रदायकः || १४० ||

अथातः सम्प्रवक्ष्यामि पश्चिमाम्नायगं मनुम् || तारो नमः शिवायै च नारायण्यै पदं वदेत् || १४१ ||

दशहरायै गङ्गायै स्वाहान्तो नखवर्णकः || वेदव्यासो मुनिश्छन्दः कृतिर्गङ्गा च देवता || १४२ ||

त्रित्र्यब्धीषुत्रिनेत्रार्णैः षडङ्गान्यर्चनादिकम् || निखिलं पूर्ववत्कुर्यान्निखिलाभीष्टदो मनुः || १४३ ||

अथातः सम्प्रवक्ष्यामि पूर्वाम्नायगतं मनुम् || ओं ह्रीं श्रीं हृद्भगवति गङ्गे च दयिते नमः || १४४ ||

हुंफडष्टादशार्णोयं भजंतामीप्सितप्रदः || त्रिद्व्यब्धीषुद्विद्विवर्णैः षडङ्गविधिरीरितः || १४५ ||

ऋषिच्छन्दो देवतादि प्राग्वद्ध्यानं च पूजनम् || वर्णलक्षं जपेद्धोमः प्राग्वत्सम्मत्करस्त्वयम् || १४६ ||

अथातः सम्प्रवक्ष्यामि वाममार्गे प्रसिद्धिदम् || हिलिद्वन्द्वं मिलिद्वन्द्वं गङ्गे देवि नमस्तथा || १४७ ||

तारादिस्तिथिवर्णोयं छन्दो मुन्यादि पूर्ववत् || त्रिद्विद्व्यक्षियुगद्व्यर्णैः षडङ्गविधिरीरितः || १४८ ||

अथातः सम्प्रवक्ष्यामि रेवामन्त्रमघापहम् || नर्मदायै नम इति षडर्णः परिकीर्तितः || १४९ ||

युवतीं कच्छपारूढा वराभयघटाम्बुजैः || प्. ५९५) लसद्धस्तां स्वर्णकान्तिं सालङ्कारां भजाम्यहम् || १५० ||

मुनिः शिवस्तु गायत्री छन्दो रेवा च देवता || षडङ्गानि [एकैकाक्षरैर्हृदयादिन्यासाः यथा-नहृदयाय नमः र्मशिरसे स्वाहा, दा शिखायै वषट् इत्यादि ||] च मन्त्रार्णैः प्रजपेद्वर्णसङ्ख्यया || १५१ ||

तिलाज्यहोमो मन्त्रेण सर्वपापप्रणाशनः || इह सौख्यं परत्रापि शिवलोके महीयते || १५२ ||

सरस्वत्यास्तु ये मन्त्रा नद्यास्ते परिकीर्तिताः || सरस्वतीतटे जप्तास्त्वरितं सिद्धिदायकाः || १५३ ||

गङ्गामन्त्रेषु सर्वेषु गौतमीयपदं वदेत् || गङ्गाशब्दस्य पूर्वे ते गोदाया मनवः स्मृताः || १५४ ||

ओं नमः सूर्यतनये यमलोकनिवासिनि || श्रीकृष्णखेलद्युनदि त्राहि मां त्वं भवार्णवात् || १५५ ||

यमुनायाः श्लोकरूपो मनुर्मुनिरहं स्मृतः || छन्दोनुष्टुप्षडङ्गानि पादार्धार्धक्रमेण च || १५६ ||

गङ्गावत्पूजनं वर्णसहस्रं जप ईरितः || तिलाज्याभ्यां हुनेन्मन्त्री भास्करिं नैव वीक्षते || १५७ ||

अथातः सम्प्रवक्ष्यामि हिमजेपाम्पतेर्मनुम् || अमुकद्वीपावरकामुकद्रव्योदधे वदेत् || १५८ ||

अमुकम्मे देहि तथा दापयेत्यग्निगेहिनी || समुद्रमन्त्र उद्दिष्टः सिन्धुद्वीपो मुनिर्मतः || १५९ ||

गायत्री छन्द उद्दिष्टन्तत्तत्सिन्धुश्च देवता || पदैर्मनोः षडङ्गानि तत्तद्रूपं विचिन्तयेत् || १६० ||

जपेद्वर्णसहस्राणि तत्तद्द्रव्यैस्तथा हुनेत् || तत्तदन्तर्गतं वस्तु लभते साधको ध्रुवम् || १६१ ||

अथातः सम्प्रवक्ष्यामि वायुमन्त्रम्महाद्भुतम् || तारं [ओं यं वायवे प्राणाधिपतये कृष्णवर्णायांकुशहस्ताय मृगवाहनाय नमः ||] यं वायवे प्राणाधिपतये पदं वदेत् || १६२ ||

कृष्णवर्णायांकुशेति हस्ताय मृगवाहना || य नमो गोद्विवर्णोयं वायुमन्त्र उदीरितः || १६३ ||

गणकोस्य मुनिश्छन्दो निवृद्वायुश्च देवता || पञ्चाङ्गानि मनोरस्य ओं यं बीजादिकैः पदैः || १६४ ||

कृष्णवर्णं धावमानम्मृगस्थं वेगवत्तरम् || सह्याद्रिं चापि शेषाद्रिं मैनाकं मन्दरन्तथा || पाशांकुशकरम्प्रेतकृत्यापरिसरान्वितम् || १६५ ||

जपेद्वर्णसहस्राणि लाजाज्याभ्यां च होमयेत् || सिद्धमन्त्रस्तु तत्कालम्भवेद्भूमौ बलाधिकः || १६६ ||

अथातः सम्प्रवक्ष्यामि महाकृत्यामहामनुम् || प्. ५९६) यस्य विज्ञानमात्रेण नासाध्यम्भुवनत्रये || १६७ ||

माया [ह्रीं महायोगिनि गौरि भुवनभयङ्करि हुम् ||] महायोगिनीति गौरीति भुवनेति च || भयंकरि तथा हुं च षोडशार्णो मतो मनुः || १६८ ||

अङ्गिराश्च मुनिर्देवी गायत्री छन्द ईरितम् || सिंहवक्त्रा महाकृत्या भीतिदोक्ता च देवता || १६९ ||

षड्दीर्घयुक्तबीजेन [ह्रीं महायोगिनि गौरि फट् हृदयाय नमः, भुवनभयंकरि शिरसे स्वाहा, हुं महायोगिनि गौरि फट् शिखायै वषट् इत्यादि ||] मन्त्रार्धेनास्त्रयोगिना || हृदयन्तु ततोर्धेन मन्त्रार्धेन शिरः स्मृतम् || शिखाकवचनेत्रास्त्रं पुनरेवं प्रकल्पयेत् || १७० ||

सिंहासनां कृष्णमुखीं लम्बमानपयोधराम् || दंष्ट्राकरालवदनां त्रिनेत्रां सर्वतोज्वलाम् || १७१ ||

कृष्णकञ्चुकसंवीतां विधुमाग्निसमप्रभाम् || त्रिशूलचक्रचषकखट्वाङ्गकरपंकजाम् || १७२ ||

लेलिहानमहाजिह्वां विद्युत्प्रेक्षणभीषणाम् || वश्ये ध्यायेद्रक्तवर्णां रक्तपुष्पैश्च पूजिताम् || मारणे कृष्णवर्णां च कृष्णपुष्पाम्बरावृताम् || १७३ ||

चतुर्दलन्तथाष्टास्रं भूपुराढ्यं समुद्धरेत् || अचार्यन्त्रं कर्णिकायां देवीं बाह्यचतुर्दले || पूर्वस्मिञ्छांकरीं नाम शुभ्रवर्णाम्बरावृताम् || १७४ ||

द्विभुजां सौम्यवदनां पाशांकुशधरां शिवाम् || दक्षिणे मारिकां नाम लम्बजिह्वामधोमुखीम् || १७५ ||

कृष्णवर्णां रक्तकेशीं रक्तमायानुलेपनाम् || चतुर्भुजां सिंहनादां ज्वलच्छूलकपालिनीम् || १७६ ||

खड्गहस्तां शिरोमालां सर्वाभरणभूषिताम् || पश्चिमे वारुणीं नाम स्वर्णवर्णां हसन्मुखीम् || १७७ ||

सुवर्णमालिकां शुभ्रदंष्ट्रामभयदां सदा || उदीचिभीतिकां नाम चतुर्वक्त्रां भयंकराम् || १७८ ||

पूजयित्वा जपेन्मन्त्रं जुहुयाद्राजिका घृतैः || ततः प्रयोगे कुर्वीत स्वेष्टं स च निगद्यते || १७९ ||

कालं विदित्वा प्रतिमां मारणे चाप्यधोमुखीम् || वर्णलक्षं जपेन्मन्त्रं नित्यमष्टोत्तरं शतम् || १८० ||

देव्यग्रतो यजेदष्टदले कृत्यां मनोन्मनीम् || सर्वकृत्यां भीषणीं च श्रीमतीं च प्रतिष्ठिताम् || १८१ ||

विद्यामुत्पादिनीं चेति दिगीशादींश्च भूपुरे || तस्याधो मेखलायुक्तं त्रिकोणं वह्निकूचकम् || १८२ ||

चन्द्रगौरं विधायाग्निं परिस्तीर्य शरैस्ततः || विभीतकपरिध्या च कल्पयेद्यस्य मारणम् || १८३ ||

जुहुयान्निम्बतैलाक्तैः काकोलूककपक्षकैः || प्. ५९७) दारयैनं शोषयैनं मारयेत्यभिधाय च || १८४ ||

अष्टोत्तरशतं चैवमनया जुहुयाद्बुधः || होमान्ते विधिवत्कृत्यामाराध्याग्नेश्च सन्निधौ || १८५ ||

यो मे कण्ठग्रहो वातिदूरस्थश्चान्तिकेपि च || भुंक्ष्व क्रव्यमसृक् तस्य पिबेत्युक्त्वा निवेदयेत् || १८६ ||

संरक्ष्याग्निं विधानेन नवरात्रं समाचरेत् || जुह्वन्तिष्ठति यावत्स तावदस्य रिपोर्मृतिः || १८७ ||

अर्कक्षीरेण मरिचं पिष्ट्वा सिद्धार्धमेव च || जले संलोड्य मन्त्रेण रिपुं ध्यात्वा निरुद्धदृक् || १८८ ||

कृष्णाम्बरोत्तरीयोग्रपादेनाक्रम्य तं रिपुम् || वज्रशूलमिति ध्यात्वापस्तस्योपरि निःक्षिपेत् || नवरात्रोत्तरे शत्रुर्म्रियते नात्र संशयः || १८९ ||

हरसिद्धेत्यृचा वह्नौ तैलसिक्तैर्बिभीतकैः || जुह्वतो म्रियते शत्रुः सत्यमौशनसं मतम् || १९० ||

रिपोः प्रतिकृतिं कृत्वा साध्यर्क्षामलके फले || अर्कक्षीरेण मरिचं पिष्ट्वा तत्रैव लेपयेत् || फट्कारं हृदये कृत्वा शिवनिर्माल्यके क्षिपेत् || १९१ ||

ततः कृष्णचतुर्दश्यां जपेन्मन्त्रं सहस्रशः || सद्योवगाहनं कृत्वा तस्यामेव विचक्षणः || १९२ ||

मन्त्रं जपित्वा विधिना भेदयेल्लिङ्गमुद्रया || षण्मासान्म्रियते शत्रुः सन्ध्ययोरुभयोरपि || १९३ ||

वायुना चोद्धृतम्पत्रं शुभ्रं बैभीतकं ततः || गृहीत्वा विलिखेन्मन्त्री कृष्णसर्पास्यशोणितैः || उष्ट्रास्थ्ना च शवाङ्गारैः शत्रोरुच्चाटनं भवेत् || १९४ ||

दूर्वागुडूच्या गव्यैश्च सर्पिषा तिलतण्डुलैः || अन्नैः समिद्भिः पालाशैः शान्तिं कुर्याद्विचक्षणः || १९५ ||

लक्ष्म्यै बिल्वफलैः पत्रैर्नन्द्यावर्तैः श्रिये तथा || रक्तपुष्पैरपामार्गैरङ्गारैश्च सुभद्रकैः || मधुरत्रयसंसिक्तैरेभिः कुर्याच्च वश्यकम् || १९६ ||

शान्तिं कृत्वा विधानेन जपेत्परिमलं त्विमम् || महाव्याधिप्रशमनं नित्यमष्टोत्तरं शतम् || १९७ ||

जपेदेकाग्रचित्तस्तु लोकवश्यकरं परम् || मनसा चिन्तयेत्कृत्यां गजारूढामिभद्रवीम् || १९८ ||

तस्य वश्यम्भवेत्सर्वमश्वारूढां तथैव च || चौरव्याघ्रमृगादीनां सलिलादेर्भयापहम् || १९९ ||

सप्ताभिमन्त्रितं तोयं पीत्वा मन्त्रञ्जपेद्बुधः || मेधावी च भवेद्वाग्मी तावज्जापाभिषेकतः || २०० ||

सप्ताभिमन्त्रितं कृत्वा विषमप्यमृतं भवेत् || प्. ५९८) पक्षम्मासं द्विमासं वा षण्मासं वत्सरं तु वा || २०१ ||

अथातः सम्प्रवक्ष्यामि कृत्याशान्तिविधिक्रमम् || कृत्यां समर्चयेद्धस्ते यथा विधिपुरःसरम् || २०२ ||

षोडशारं लिखेत्पद्मं योनियुक्तं सबिन्दुकम् || तन्मध्येष्टदलं न्यस्य यकारादीन्न्यसेत्क्रमात् || २०३ ||

तन्मध्ये रसकोणन्तु लिखेन्मूलमनुं स्मरेत् || चन्द्रबिम्बं लिखेत्पद्मं तस्योर्ध्वं प्रतिमां लिखेत् || २०४ ||

तस्य मध्ये न्यसेत्कुम्भं रक्तवस्त्रविभूषितम् || कुम्भमध्ये न्यसेत्कृत्यां सर्वलक्षणसंयुताम् || २०५ ||

अर्चयेच्च यथान्यायम्पायसन्तु निवेदयेत् || परितोष्य च तान्न्यस्येदसिताङ्गादिभैरवान् || २०६ ||

गन्धपुष्पादिभिश्चार्च्य तद्बाह्ये क्षेत्रपालकान् || लोकेशान्तं यजेद्देवि तदग्रे होममाचरेत् || २०७ ||

तस्य दक्षिणपार्श्वे तु लक्ष्मीं ध्यायेद्यथाविधि || कुम्भमध्ये न्यसेद्देवीं दक्षिणे तु श्रियं स्मरेत् || २०८ ||

वामपार्श्वे यजेद्देवीं हृल्लेखां परमेश्वरीम् || तस्या वै वामपार्श्वे तु पूजयेद्गणनायकम् || अयुतं मूलमन्त्रन्तु जपेन्मृत्युविनाशनम् || २०९ ||

कृत्यामन्त्रः परिप्रोक्तः सर्वकामफलप्रदः || महाशान्तिकरे [यस्मात् इति शेषः ||] लोके दुःखदारिद्र्यनाशनः || २१० ||

अथातः सम्प्रवक्ष्यामि राजराजमनूञ्च्छुभान् || यक्षाय [यक्षाय कुबेराय वैश्रवणाय धनधान्याधिपतये धनधान्यसमृद्धिं मे देहि दापय स्वाहा ||] च कुबेराय वदेद्वैश्रवणाय च || २११ || धनधान्याधिपतये धनधान्यपदं वदेत् || समृद्धिं मे देहि वदेद्दापयाग्निप्रियान्तकः || २१२ ||

पञ्चत्रिंशद्वर्णमनुर्विश्रवा मुनिरीरितः || छन्दस्तु बृहती [यक्षाय हृदयाय नमः कुबेराय शिरसे स्वाहा, वैश्रवणाय शिखायै वषट्, धनधान्याधिपतये कवचाय हुम्, धनधान्यसमृद्धिं मे नेत्रत्रयाय वौषट्, देहि दापय स्वाहा अस्त्रायफट् ||] त्र्यब्धीष्वष्टाष्टागैः षडङ्गकम् || २१३ ||

गारुडात्मनिभं शान्तं मुकुटादिविभूषितम् || वरङ्गदाञ्च दधतन्तुन्दिलं यक्षसेवितम् || २१४ ||

लक्षमेकञ्जपेन्मन्त्रं दशांशं जुहुयात्तिलैः || धर्मादिपीठे प्रयजेदङ्गलोकेशहेतिकम् || २१५ ||

शिवालये जपेन्मन्त्रमयुतं धनवृद्धये || बिल्वमूलोपविष्टेन जप्तो लक्षं धनर्द्धिदः || २१६ ||

अथ मन्त्रान्तरं वक्ष्ये ओं-क्लीं-ह्रीं-श्रीं [ओं क्लीं ह्रीं श्रीं श्रीं ह्रीं क्लीं ओं विं वित्तेश्वराय नमः ||] समुच्चरेत् || श्रीं-ह्रीं-क्लीं-ओं च विं वित्तेश्वराय नम इत्यपि || २१७ ||

षोडशार्णोस्य मुन्यादिप्राग्वत्त्रिद्विद्विनेत्रकैः || प्. ५९९) पञ्चाक्षिभ्यां षडङ्गं स्याद्ध्यानपूजादि पूर्ववत् || २१८ || अथ मन्त्रान्तरं वक्ष्ये कुबेरस्य गजाक्षरम् || तारो वैश्रवणायेति स्वाहा पञ्चाङ्गमन्त्र तु || स्वाहान्तैः प्रणवाद्यैश्च पञ्चभिर्मन्त्रवर्णकैः || २१९ ||

धनपूर्णं स्वर्णकुम्भं तथा रत्नकरण्डकम् || हस्ताभ्यां बिभ्रतं खर्वकरपादं च तुन्दिलम् || २२० ||

वटाधस्ताद्रत्नपीठोपविष्टं सस्मिताननम् || वर्णलक्षञ्जपेद्धोमपूजे प्राग्वन्महाधनी || सेवनादस्य भवति यक्षिण्याद्यास्तथा वशे || २२१ ||

अथातः सम्प्रवक्ष्यामि ईशानमनुमद्भुतम् || प्रणवं हं समुच्चार्य चेशानाय वदेत्ततः || २२२ ||

विद्याधिपतये चेति स्फटिकेति वदेत्तत्तः || वर्णोय शूलहस्ताय ङेन्तश्च वृषवाहनः || २२३ ||

नमोन्त एकत्रिंशद्भिर्वर्णैर्मन्त्र उदाहृतः || ओं हमाद्यैर्नमोन्तैश्च पञ्चाङ्गं पंचाभः पदैः || २२४ ||

शक्तीनां मनवो ये च ते विद्याः परिकीर्तिताः || पुरुषाणान्तु ते मन्त्रा विद्यास्तु पुरुषं विना || भवन्ति नैव फलदा यथा नारी नरं विना || २२५ ||

पुंसां योगो यत्र नोक्तस्तत्रेशानं प्रयोजयेत् || स्त्रीमन्त्रो भोगदः प्रोक्तः पुम्मन्त्रो मोक्षदः परः || उभयोपासनं देवि भुक्तिमुक्तिप्रदायकम् || २२६ ||

लक्ष्म्याश्च विष्णुना योगो गायत्र्या भास्करेण च || गणेशेन सरस्वत्या यक्षिण्याद्याभिरात्मनः || २२७ ||

दक्षिणाम्नायशक्तीनां शैवमन्त्रैश्च योजनम् || वामे तु भैरवैर्मंन्त्रैः शेषाम्नायेष्वयं मनुः || २२८ ||

अथातः सप्रवक्ष्यामि ब्रह्मणो मन्त्रमद्भुतम् || तारं पाशं ब्रह्मणे च लोकाधिपतये वदेत् || २२९ ||

रक्तवर्णायोर्ध्वलोकपालकाय वदेत्ततः || पद्महस्ताय च पदं ङेन्तःस्याद्धंसवाहनः || नमोन्तोबाणरामार्णो मन्त्रोयं परिकीर्तितः || २३० ||

तारपाशादिकैः षड्भिः पदैरङ्गं हृदन्तकैः || नास्य पूजाविधिः प्रायो जपोस्य परिकीर्तितः || २३१ ||

वर्णलक्षजपादेव निग्रहानुग्रहक्षमः || दशपत्रे यजेदेनं प्रागीशान्तदले सुराः || न तत्र मम शापोस्ति शापः केवलपूजने || २३२ ||

अथातः सम्प्रवक्ष्यामि शेषस्य मनुमद्भुतम् || तारं मायामनन्ताय नागाधिपतये वदेत् || गौरवर्णायातलादिसप्तलोकेश्वराय च || २३३ ||

चक्रहस्ताय गरुडवाहनाय नमोन्तकः || एकचत्वारिंशदर्णो मन्त्रोनन्तस्य कीर्तितः || २३४ ||

मन्त्रम्प्रतिचतुर्दश्याञ्चतुर्दशशतञ्जपेत् || प्. ६००) दुग्धं हुत्वाथविप्रेन्द्रान्भोजयेच्च चतुर्दश || २३५ ||

कुर्याच्चतुर्दशीं भक्त्या धनधान्ययुतो भवेत् || राज्यभ्रष्ट इयाद्राज्यं विद्याकामस्तु पण्डितः || २३६ ||

भाद्रशुक्लचतुर्दश्यां विशेषात्पूजनम्मतम् || ईश्वरस्य च पूजायां खपृथिव्योः प्रपूजनम् || एवमुक्ता दिक्पमन्त्राः किमन्यच्छ्रोतुमिच्छसि || २३७ ||

इतिश्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते दशदिगीशमन्त्रप्रकाशश्चतुर्विंशः || २४ ||

Prakāśa 25 – Ritus der Lampendarbringung

श्रीदेव्युवाच ||

देवदेव महादेव तेजोमात्रन्तु सूर्यजम् || तथा दीपस्य मे मन्त्रं फलञ्च कृपया वद || १ ||

ईश्वर उवाच ||

शृणुदेवि प्रवक्ष्यामि दीपस्य विधिमद्भुतम् || आदौ गणेशदीपस्तु कार्याकार्यविनिर्णये || २ ||

कर्तव्यस्तत्प्रवक्ष्यामि कार्यमष्टविधं स्मृतम् || शान्तिकम्पौष्टिकं वश्यं मारणं स्तम्भनन्तथा || मोहोच्चाटौ द्वेषणञ्च तेषु दीपञ्चरेत्क्रमात् || ३ ||

गोधूमयवमाषाणां मृत्तिका स्वर्णभाण्डजम् || ताम्रायसं क्रमात्पात्रं वर्तयः श्वेतपीतकैः || कृष्णनीलारुणारक्तहरित्कपिशसूत्रकैः || ४ ||

पूर्वाशाद्यष्टकाष्ठानां क्रमात्सम्मुखमाचरेत् || उदक्प्राग्दक्षतोयेशाग्निरक्षोवायुशूलिदिक् || सम्मुखन्तु मुखं कुर्यात्साधकः स्वस्वकर्मणि || ५ ||

गव्याज्यन्तिलतैलं च राजिकोत्थं च सार्षपम् || महिष्याज्यमुमातैलं वसातैलं कुसुम्भजम् || ६ ||

लिखेत्सूर्यदलं पद्मं लिप्तगोमयमण्डले || दीपस्य दिशमारभ्य गणेशं तत्र पूजयेत् || ७ ||

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः || लम्बोदरश्च विकटो विघ्ननाशो विनायकः || ८ ||

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः || द्वादशैतानि नामानि यः पठेच्छ्रुणुयादपि || ९ ||

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा || संग्रामे संकटे चैव विघ्नस्तस्य न जायते || एतानत्र यजेद्विद्वान्पश्चाद्दीपं प्रदापयेत् || १० ||

ऊर्ध्वाधः कम्पते दीपस्तदा कार्यं प्रसिद्ध्यति || तिर्यक्कम्पेन कार्यं स्यात्सम्यग्ज्योतिषि सत्वरम् || ११ ||

तेजोमांद्ये विलम्बेन चात्र कौतुकमुच्यते || जातां देवगणे कन्यां कुमारं वा समानयेत् || १२ ||

स्त्रियं वा शुद्धवेषाञ्च सम्यगानीय पूजयेत् || प्. ६०१) अधस्तात्स्थापेयत्पूतं विस्तीर्णं कास्यभाजनम् || १३ ||

जलपूर्णं च तन्मध्ये सा पश्येत्स्थिरदृक्ततः || चिन्तयित्वा स्वीय कार्यन्तदुपर्यक्षतान्क्षिपेत् || कार्यानुसारं सा पश्येत्पुत्तलीनां च कौतुकम् || १४ ||

अथातः सम्प्रवक्ष्यामि बगलादीपमुत्तमम् || कृतेन येन विघ्नौघो विलयं याति मन्त्रिणः || १५ ||

शुद्धानि खलु बीजानि पक्षतुर्मुद्गरेण वा || एकीकृत्य विधतव्यो दीपः सुस्निग्धशोभनः || १६ ||

षट्त्रिंशत्तन्तुभिः कार्या दृढा वर्तिः सुरञ्जिता || गव्यमाज्यञ्च कौसुम्भं तैलं वा दीपकर्मणि || १७ ||

एतान्यानीय पूर्वन्तु ततो दीपम्प्रदापयेत् || हरिद्रया रक्तवस्त्रं परिधाय शुचिः क्षमी || १८ ||

पीतासनोपविष्टश्च पीतमाल्यानुलेपनः || उत्तरासम्मुखो भूत्वा हरिद्रालिप्तभूतले || १९ ||

त्रिकोणं कारयित्वा तु दीपं संस्थाप्य यत्नतः || घृतमापूर्य वर्तिं च दीपं प्रज्वालयेत्सुधीः || २० ||

मूलमन्त्रं समुच्चार्य चेति दीपन्ततो वदेत् || संकल्पन्यासपूर्वं तु जपेदष्टोत्तरं शतम् || २१ ||

एवं रात्रोपकुर्वाणो मासेनैकेन साधकः || असाध्यान्साधयेत्कामान्वशयेदात्मनो रिपून् || क्षोभयेत्स्तम्भयेच्चापि द्वेषयेत्प्रक्षिपेदपि || २२ ||

अथातः सम्प्रवक्ष्यामि सर्वमन्त्रेषु गोपितम् || दीपं बटुकनाथस्य सर्वकामफलप्रदम् || तारं मायां रमां कामम्मायां लक्ष्मीं च वाग्भवम् || २३ ||

सर्वज्ञाय प्रचण्डेति वदेत्परा क्रमाय च || बटुकेति इमं दीपं गृहाण पदमुच्चरेत् || २४ ||

सर्वकार्याणीति पदं साधयेति वदेत्तथा || दुष्टान्नाशय युग्मञ्च त्रासयद्वितयंजपेत् || २५ ||

सर्वतो ममरक्षां च कुरु युग्मं च वर्त्म फट् || स्वाहा फट् षष्ठिवर्णोयं दीपमन्त्र उदाहृतः || २६ ||

भवेद्भैरवमन्त्रस्य साधको य उपासकः || तेन वर्तिः प्रकर्तव्या मन्त्रार्णमितसूत्रकैः || २७ ||

आदौ तु लघुदीपेन ज्ञात्वा कार्यस्य साध्यताम् || पश्चात्कुर्यात्तु साध्ये तु कार्यप्रोक्तन्तु दीपकम् || २८ ||

साध्ये कार्यद्विगुणितं कष्टे तु त्रिगुणं मतम् || असाध्येनैव कर्तव्यो दीपस्त्रासप्रदो भवेत् || २९ ||

यस्य कार्यस्य पात्रादि यदुक्तं लघुकर्मणि || तदेव सर्वं विज्ञेयं द्विपलं पात्र मुच्यते || ३० ||

अष्टसूत्रा भवेद्वर्तिः स्नेहः पलमितः स्मृतः || कार्यन्तु द्विविधं प्रोक्तं शुभं चासुभमेव च || ३१ ||

यस्मिन्नान्यस्य कष्टं स्याच्छुभं तच्छान्तिपौष्टिकम् || प्. ६०२) तत्रोच्यते भैरवस्य ध्यानं श्वेतं चतुर्भुजम् || ३२ ||

श्वेतवर्णं दक्षहस्ते वामे शृङ्गन्तु राजतम् || ध्यात्वा मुकुटमौलिं च श्वेतकौपीनवाससम् || ३३ ||

त्रिनेत्रं श्वेततिलकं मुक्ताभरणभूषितम् || वैरिणां दुःखजनकमशुभं मारणादिके || ३४ ||

नीलवर्णं मुक्तकेशं शिरोमालाविभूषितम् || किङ्किणीमालया युक्तं त्रिनेत्रं च भयानकं || ३५ ||

नागपाशं च घण्टां च वामयोर्दक्षयोः पुनः || वरं कपालं दधतं ध्यायेत्तं क्रूरविग्रहम् || ३६ ||

सर्वस्मिञ्छुभकार्ये तु तैलं स्यात्पुष्पवासितम् || गोधूमपिष्टजं पात्रमथवा तण्डुलोद्भवम् || कर्तव्यं कुडवग्राहि शोधयेच्छ्वेतपर्वतम् || ३७ ||

जलपूतन्तु तद्धान्यं सोमे कृत्वा विशोषयेत् || कुमार्या हस्तकेनैव भौमे वेष्ट्यं समाचरेत् || दीपपात्रं साधकस्तु भैरवं कवचं पठेत् || ३८ ||

स्वष्टेमन्त्रस्य ये वर्णाः साध्यनामसमन्विताः || कामप्रयोगे कर्तव्या वैदिकैस्तत्र तन्तुभिः || तिस्रः पञ्च तथा सप्त वर्तयः कार्यगौरवात् || ३९ ||

देवानामालये दीपः शुभकर्मणि शस्यते || उत्तराभिमुखः शान्तौ प्राङ्मुखः पौष्टिके मतः || ४० ||

दीपमन्त्रमथो वक्ष्ये कुर्याद्वृत्तत्रयं शुभम् || महत्त्रिकोणकस्योर्ध्वङ्कोणेष्वस्य च संलिखेत् || ४१ ||

षट्कोणं षोडशदलयुक्तं तस्य च बाह्यतः || लिखेदष्टदलं पद्मं दीपयन्त्रमुदाहृतम् || ४२ ||

परीक्षार्थं नित्यदीपे काम्यकर्मकमुच्यते || पुष्पं वासिततैलं वा सर्वकामफलप्रदम् || ४३ ||

माषगोधुममुद्राश्च तिलतण्डुलकाः शुभाः || तैर्निर्मितन्दीपपात्रं सर्वकामफलप्रदम् || ४४ ||

एकविंशतिसूत्रैश्च श्वेतैः स्यात्सर्वकामदः || निकटे भैरवस्यापि शालग्रामस्य सन्निधौ || ४५ ||

तथा स्फटिकलिङ्गस्य निकटे सर्वकामदः || अश्वत्थतरुमूले च सर्वकमसमृद्धये || ४६ ||

शतान्यष्टौ तथा चाष्तगुरुकार्ये पलानि तु || मध्यमेष्टांशरहितैः साध्येष्टाविंशसम्मितैः || ४७ ||

सहस्रसूत्रजा वर्तिर्महाकार्येथ मध्यमे || शतत्रयेण कर्तव्या लघुकार्ये शतेन तु || ४८ ||

श्रीकामस्तिलतैलेन पात्रं कस्तूरिकाभवम् || यद्वा लवङ्गकर्पूरत्वगेलानां समुद्भवम् || दीपं कुर्यान्नृपद्वारे वर्षात्स्यान्महती रमा || ४९ ||

दरिद्रस्ताम्रपात्रे वा कस्तूर्यादिकलेपिते || पथिकागमनार्थन्तु तिलतैलेन दीपकम् || ५० ||

प्. ६०३) गोधूमतण्डुलसमं चूर्णपात्रम्प्रशस्यते || राजद्वारे चरेद्दीपमेकविंशतिसूत्रकम् || वर्णतश्चैव धवलं विघ्नमार्गादिकं जयेत् || ५१ ||

वश्यार्थमतसीतैलं पात्रं तण्डुलपिष्टकम् || राजद्वारे चरेद्दीपं वर्तिः कौशुम्भरक्तिका || ५२ ||

सार्षपं राजनाशाय तैलं पात्रन्तु मुद्रजम् || हनुमत्सन्निधौ दीपो वर्तिः कौसुम्भरक्तिका || ५३ ||

मारणे राजिकातैलं यद्वा बैभीतकोद्भवम् || दीपं दद्यान्मारणार्थं राजद्वारे पितुर्गृहे || ५४ ||

दक्षिणाभिमुखं दीपं लोहपात्रे प्रकल्पयेत् || शत्रोर्मृत्युकरे कार्ये वर्तिः स्यात्कृष्णतन्तुभिः || ५५ ||

करञ्जतैलमुच्चाटे पात्रं कृष्णतिलोद्भवम् || वर्तिश्च कृष्णसूत्रस्य राजद्वारे चरेदिमम् || ५६ ||

मधुकतैलं विद्वेषे पात्रञ्चात्र कुलत्थजम् || चतुष्पथे दीपदानं वर्तिः स्यादत्र कर्बुरा || ५७ ||

मोहने चाढकीपात्रं माञ्जिष्ठं सूत्रमुच्यते || प्रदीपे तिलतैलं स्यान्नृपद्वारे चरेदिमम् || ५८ ||

संग्रामविजयार्थं तु पात्रं स्यान्माषपिष्टजम् || दुर्गायाः सन्निधौ देया रक्तसूत्रैश्च वर्तिका || ५९ ||

सन्धौ त्रिपिष्टजं पात्रं वा नदीकूलमृद्भवम् || दीपञ्च सङ्गमे दद्याद्वर्तित्रिगुणरूपिकाम् || ६० ||

एकविंशतिसङ्ख्याकास्तन्तवोऽध्यध्यतिस्मृताः || पात्रं च मृण्मयं कुर्याद्दीपदाने चतुष्पथे || ६१ ||

बालग्रहे च भूतादौ खेटेषु विषमेषु च || शैलकूले देवतायाः सन्निधौ दीपमाचरेत् || ६२ ||

मारणादिकषट्कर्म साधने वा चतुष्पथे || माहिषेण घृतेनैव पात्रं नरकपालजम् || ६३ ||

विद्याकामो गणेशस्य संनिधौ दन्तपात्रके || श्वेतां वर्तिं गोघृतेन चतुर्थ्यां तु समाचरेत् || ६४ ||

राजद्वारे बन्धमुक्तौ कारागेहेथ वा चरेत् || पात्रे तु ताम्रजे दीपं धूम्रवर्णां तु वर्तिकाम् || ६५ ||

अथातः सम्प्रवक्ष्यामि दीपयोर्लघुकाम्ययोः || शुभाशुभादिचिह्नानि यैः कार्याकार्यनिर्णयः || ६६ ||

विप्रादिदर्शने दीपारम्भे सिद्धिः क्रमेण च || पूर्णा पादोनितार्धा च पादतुल्याथ वर्तिका || ६७ ||

म्लेच्छादिदर्शने प्रोक्तं मार्जारादिकदर्शनम् || मध्यमं नीलकण्ठादेः श्रीकीर्तिविजयप्रदम् || ६८ ||

दीपज्वाला समा श्लक्ष्णा जायते च प्रदक्षिणा || अष्टभिर्दिवसैस्तस्य कार्यसिद्धिर्न संशयः || ६९ ||

खरकण्टप्रभ ज्वाला [बोधयतीतिशेषः] मरणं बान्धवैः सह || प्. ६०४) कृष्णा ज्वाला तदा शत्रोः कार्यं नैव प्रजायते || ७० ||

दीपे नादः सुपूर्णे च कार्यसिद्धिर्विलम्बतः || यदा चरचरेद्दीपः कार्यं नष्टं तदा भवेत् || ७१ ||

दीपस्य वपने चौर्यं गोनाशः पात्रसंश्रवे || दीपवर्येषु तद्दीपनयनान्मन्दनेत्रता || ७२ ||

कृत्वा न्यासादिकं सर्वं प्राङ्मुखो दीपमाचरेत् || एतद्दीपविधानं तु बटुकस्य प्रकीर्तितम् || ७३ ||

अथातः सम्प्रवक्ष्यामि शक्तीनां तुष्टिकारकम् || पात्रे त्रिकोणे शक्त्यर्थं दीपदानं प्रकल्पयेत् || ७४ ||

दक्षिणाम्नायशक्तीनां त्रिलोहान्यतमं भवेत् || ऊर्ध्वाम्नाये पिष्टपात्रं काचपाषाणसम्भवम् || ७५ ||

पश्चिमाम्नायदेवीनां प्राच्यानां मार्तिकं मतम् || नृकपालं वामगानां क्रमाद्वै गोघृतं तथा || ७६ ||

तैलं च सार्षपं प्रोक्तं वसा चेति यथाक्रमम् || श्वेतरक्तहरित्पीतकृष्णसूत्रास्तु वर्तिकाः || ७७ ||

देवाम्नायमुखा दीपाः कर्तव्या देवताप्तये || देवागारे सरित्तीरे राजगेहे चतुष्पथे || ७८ ||

श्मशाने च कृता दीपास्तत्तद्दैवततुष्टिदाः || गणेशवत्परीक्षात्र कार्याकार्यविनिर्णये || ७९ ||

अथातः सम्प्रवक्ष्यामि शिवदं शिवदीपकम् || सर्वपापप्रशमनं सर्वोपद्रवनाशनम् || ८० ||

शून्ये तु वह्निसूत्राणां दीपवर्तिं प्रकल्पयेत् || बिल्वपत्रोद्भवं पात्रं दद्यद्दीपं शिवालये || ८१ ||

एवं द्वादशवर्षाणि प्रज्वलेद्दिनरात्रकम् || तस्य वंशे न दारिद्र्यं नाकालमरणं भवेत् || ८२ ||

पूर्वद्वारे श्रिये दीपः स्वर्गमोक्षाय दक्षिणे || पश्चिमे वृष्टये देयः शेषकार्येषु चोत्तरे || ८३ ||

गोघृतेन कृतो दीपः शिव स्यातिप्रियंकरः || तिलतैलेनाभिचारे तारतम्यं विचारयेत् || ८४ ||

अथातः सम्प्रवक्ष्यामि रोगघ्नं भानुदीपकम् || कुर्यात्स्वर्णमये पात्रे तदभावेपि ताम्रके || ८५ ||

कुसुम्भवर्त्या कृतया सूत्रैर्द्वादशभी रवौ || द्वादशांगुलदीर्घा सा कुडवन्तु घृतं स्मृतम् || ८६ ||

ज्वलयित्वा सकृद्दीपं न स्पृशेत्तं यदाखिलम् || घृतं प्रज्वाल्य शान्तश्चेद्रोगनाशस्तदा ध्रुवम् || ८७ ||

पलमारभ्य खार्यन्तं दृष्ट्वा रोगबलाबलम् || कल्पयेद्दीपद्रव्यस्य मानं लोकानुसारतः || ८८ ||

अथातः सम्प्रवक्ष्यामि विष्णोर्दीपं महाद्भुतम् || सर्वकामो गोघृतेन मारणं माहिषेण च || ८९ ||

प्. ६०५) विद्वेषादिषु बर्कर्यास्त्रिषु पात्रं क्रमाद्भवेत् || ताम्रजं लोहजं काचं क्रमात्त्रिषु च कर्मसु || ९० ||

विष्णोस्तु प्रीतये कुर्यादामलोत्थरजोभवे || दुःस्वप्नोत्पातभूतानि नश्यन्त्यच्युतदीपतः || ९१ ||

अथातः सम्प्रवक्ष्यामि सर्वतन्त्रेषु गोपितम् || गोपनीयं प्रयत्नेन न वाच्यं यस्य कस्यचित् || ९२ ||

शक्त्याद्यहर्गणार्केषु भक्तो वर्णात्प्रजायते || मन्त्रवर्णस्य दिवसे क्रमाद्दीपम्प्रकल्पयेत् || ९३ ||

सायन्तु कुडवाज्यस्य वर्तयः पञ्च तन्तुभिः || यावज्ज्वलति दीपोसौ तावत्तस्य मनुं जपेत् || ९४ ||

मन्त्रार्णसंख्यदीपेषु ज्वलितेषु च तद्दिने || पुनर्दीपे कृते या तु दीपं संपश्यति स्फुटा || ९५ ||

इष्टं स्वकीयं कथयेद्यावद्यन्मानसेप्सितम् || तदादिदेवता तुष्टा गुप्तमेतत्प्रकाशितम् || ९६ ||

कार्तवीर्यसमोन्यो न भवेद्दीपप्रियः सुरः || तन्त्रेषु तद्दीपविधिर्बहुधा सम्प्रकीर्तितः || ९७ ||

इति ते भास्करस्योक्तो विधिर्दीपसमन्वितः || अतः परं यदिष्टं त्वं पृच्छ तत्तच्च मां प्रति || ९८ ||

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे श्रीशिवप्रणीते दीपविधिप्रकाशः पञ्चविंशः || २५ ||

Weiterführendes Studium

Die Vielfalt der Gottheiten und Riten lädt dazu ein, Hingabe und sorgfältiges Verstehen miteinander zu verbinden. Vergleiche beim Lesen wiederkehrende Begriffe und beachte, ob der Text spricht oder eine Anmerkung der Edition vorliegt. Für die eigene Praxis bleibt ein vertrautes, gegebenenfalls von einem Guru erhaltenes Mantra ein sinnvoller Ausgangspunkt.

Zur Übersicht: Meru Tantra · Meru Tantra Sanskrit IAST · Meru Tantra Sanskrit IAST Teil 2 · Meru Tantra Sanskrit Devanagari · Meru Tantra Sanskrit Devanagari Teil 2 · Meru Tantra Sanskrit Devanagari Teil 3 · Meru Tantra 108 Inspirierende Verse und Mantras

Textgrundlage und Hinweise zur Ausgabe

Grundlage ist der elektronische Sanskrittext M00195 des Muktabodha Indological Research Institute: Merutantra with ṭippani, mit Bearbeitung und Anmerkungen von Raghunātha Śāstrī; Datenerfassung unter Leitung von Mark S. G. Dyczkowski, Revisionsstand 5. April 2010. Der elektronische Kopf nennt Śrīveṅkateśvara, Bombay, 1908. Das wiedergegebene Titelblatt nennt Khemarāja Śrīkṛṣṇadāsa, Bombay, und „saṃskaraṇa san 1935“. Diese unterschiedlichen Angaben werden hier nicht zu einer ungesicherten bibliographischen Einheit verschmolzen.

Die digitalen Vorlagen stehen laut Quellenkopf unter Creative Commons BY-NC 4.0. Die vorliegende Aufbereitung entfernt Druckseitenmarker und technische Kopfzeilen, vereinheitlicht Zeilenumbrüche und ergänzt Kapitelüberschriften und Navigation. Sanskritlesungen und Versnummern bleiben erhalten. Die deutschen Kapitelbezeichnungen dienen der Orientierung; die überlieferten Sanskritkolophone stehen jeweils am Kapitelende.

Eckige Klammern kennzeichnen überlieferte Ṭippanī bzw. editorische Zusätze, nicht den Grundtext. Sie werden einschließlich ihrer stellenweise fehlerhaften Verschachtelung bewahrt. Besonders im Bereich von 5.106 ist die Klammerung unregelmäßig; bei der Auslegung muss dort der genaue Umfang eines Zusatzes eigens geprüft werden. Die hier vollständig wiedergegebenen Zusätze sind keine deutsche Kommentarübersetzung.

Das in der fortlaufenden Reihenfolge 32. Kapitel trägt im Kolophon die Bezeichnung „dvāviṃśaḥ“ und die Zahl 22. Die Überschrift verwendet zur Orientierung 32, der Sanskrittext bewahrt die abweichende Überlieferung. Zwei nicht UTF-8-konforme Apostrophbytes der Devanagari-Vorlage, im Bereich 23.510 und 23.688, sind als typographische Apostrophe wiedergegeben; ihre sprachliche Bedeutung ist damit nicht geklärt. Die entsprechende IAST-Fassung hat ebenfalls Apostrophe. Keine neue kritische Edition und kein vollständiger Abgleich mit einem Druckexemplar werden beansprucht.

Literatur

  • Merutantra, mit Ṭippanī, bearbeitet von Raghunātha Śāstrī. Bombay; zu den voneinander abweichenden Jahres- und Verlagsangaben siehe den Quellenabschnitt.
  • Muktabodha Indological Research Institute: Merutantra with ṭippani, elektronischer Text, Katalog M00195, IAST und Devanagari, Revision 2010.

Siehe auch

Seminare

Kundalini Yoga

25.10.2026 - 30.10.2026 Kundalini Yoga Meditation Kursleiter Ausbildung

Kundalini Yoga Meditationen sind ein faszinierendes weites Gebiet, dessen Potential noch bei weitem nicht ausgeschöpft ist. Kundalini Meditationen kön…
Adishakti Stein, Viveka Wilde
30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Arjuna Wingen

Indische Schriften

26.12.2026 - 02.01.2027 Indische Rituale Ausbildung

Du interessierst dich für indische Rituale? Du hast die einzigartige Gelegenheit, in dieser Rituale Ausbildung bei Yoga Vidya die kleine Puja, große P…
Sukadev Bretz, Shankari Winkelbauer
01.01.2027 - 10.01.2027 Yogalehrer Weiterbildung Intensiv A1 - Jnana Yoga und Vedanta

Kompakte, vielseitige Weiterbildung für Yogalehrer rund um Jnana Yoga und Vedanta.
Tauche tief ein ins Jnana Yoga und Vedanta, studiere die indischen S…
Vedamurti Dr Olaf Schönert

Energiearbeit

18.10.2026 - 23.10.2026 Tantra Vinyasa Yoga Ausbildung - Teil 2

Buchung nur nach Besuch von Teil 1 möglich (Termin: 18.-23.5.2025) möglich. www.yoga-vidya.de/ausbildung-weiterbildung
Vorkenntnisse: Lektüre der Bü…
Ravi Ott
23.10.2026 - 30.10.2026 Klangtherapie Chakra Kur

Klang und Klangschwingungen haben einen intensiven Bezug zu den Chakras, den Energiezentren. Im Yoga ist es daher eine alte Tradition, Chakras mit Klang…
Maik Hofmeister, Jeannine Hofmeister