Meru Tantra Sanskrit Devanagari

Aus Yogawiki

Meru Tantra Sanskrit Devanagari erschließt die Prakāśas 1–12 des Meru Tantra in Devanagari-Schrift. Die Begegnung mit dem Sanskrit kann das Verständnis von Mantra, Puja und Diksha vertiefen: Sie macht Wortwahl und Klanggestalt sichtbar, auf denen Übersetzung und Auslegung beruhen. Für das Studium empfiehlt es sich, einen zusammenhängenden Abschnitt zu lesen und erst danach zu einzelnen Begriffen zurückzukehren.

Zur Übersicht: Meru Tantra · Meru Tantra Sanskrit IAST · Meru Tantra Sanskrit IAST Teil 2 · Meru Tantra Sanskrit Devanagari · Meru Tantra Sanskrit Devanagari Teil 2 · Meru Tantra Sanskrit Devanagari Teil 3 · Meru Tantra 108 Inspirierende Verse und Mantras

Die deutsche Erläuterung steht unter Meru Tantra. Historische Ritualvorschriften werden hier dokumentiert; initiationsgebundene und auf Beeinflussung oder Schädigung gerichtete Verfahren sind keine Empfehlung zur Selbstanwendung. Die in eckigen Klammern überlieferten Zusätze gehören zum Kommentar- und Editionsapparat.

Verwandte Tantra-Schriften

Das Meru Tantra gehört zu einer weit verzweigten tantrischen Literatur. Für das vergleichende Studium sind besonders Kularnava Tantra, Rudrayamala Tantra, Mahanirvana Tantra, Dakshinamurti Samhita, Nitya Shodashikarnava, Yogini Hridaya, Tantraloka, Vijnana Bhairava Tantra, Svacchanda Tantra und Netra Tantra hilfreich. Jayakhya Samhita und Paushara Samhita zeigen zum Vergleich die vaiṣṇavische Pāñcarātra-Tradition. Eine ausführlichere Gegenüberstellung steht im Hauptartikel Meru Tantra und andere Tantra Schriften.


Kapitelübersicht

  • Prakāśa 1: Grundordnung der Wege
  • Prakāśa 2: Saṃskāras – rituelle Läuterungen
  • Prakāśa 3: Dīkṣā – Einweihung
  • Prakāśa 4: Homa – Feueropfer
  • Prakāśa 5: Āhnika – tägliche Praxis
  • Prakāśa 6: Puraścaryā – vorbereitende Mantrapraxis
  • Prakāśa 7: Festigung der Siddhi
  • Prakāśa 8: Kennzeichen der Mudrās
  • Prakāśa 9: Verehrung mit irdenen Kultformen
  • Prakāśa 10: Puraścaryā und kaulischer Lebenswandel
  • Prakāśa 11: Mantras und ihre Verfahren im Kali-Zeitalter
  • Prakāśa 12: Vedische Mantras im Kali-Zeitalter

Deutsche Gesamtausgabe: Prakāśas 1–18 und Einleitung · Prakāśas 19–35 · 108 ausgewählte Verse und Mantras

Sanskrittext

Shiva und Parvati: Das Meru Tantra entfaltet seine Lehren in Dialogform.

Prakāśa 1 – Grundordnung der Wege

|| ओं ||

|| श्रीगणेशाय नमः ||

|| श्रीगौरीशंकराभ्यां नमः ||

अथ मेरुतन्त्रं प्रारभ्यते |

ययाऽसत्सदिवाभाति न च भाति कदापि सत् |
यस्मिञ्ज्ञाते न सा भाति तस्यै तस्मै नमोनमः || १ ||

जलन्धरेण विजिते सुरासुरनरेऽखिले |
सुक्ष्मरूपेण ते सर्वे महेशं शरणं गतः || २ ||

दिव्यन्यब्दसहस्राणि समाधिस्थं विलोक्य तम् |
प्रार्थिता चार्चिता तैस्तु वामदक्षिणमार्गिभिः || ३ ||

अम्बा तदा बोधयुता नत्वा तं संव्यजिज्ञपत् |
ध्यायन्ति विधिहर्याद्यास्त्वां त्वं ध्यायसि कं पुनः || ४ ||

मां वदन्ति परां शक्तिं त्वां वदन्ति परं शिवम् |
आवयोरपि किं ध्येयं तत्त्वं मे कृपया वद || ५ ||

इति श्रुत्वा वचस्तस्वाः स्मित्वा किञ्चिन्महेश्वरः |
उपवेश्य विधीन्द्रादीन्वाक्यमेतदुवाचह || ६ ||

सदाशिव उवाच |

नराणां परमं वृद्धेरयुस्सौर्यश्शतं समाः |
तदब्दं देवयोनीनां दिनमायुश्च तच्छतम् || ७ ||

वृद्ध्यते परमं तस्य मानं कलियुगस्य तत् |
धर्मार्धं सार्धं सम्पूर्णं धर्मशास्त्र प्रमणतः || ८ ||

इदन्तु शैविविहतमैन्द्रायुर्मानवम्परम् |
कृतिप्रमाणमब्दं तु समयः कायपूरकः || ९ ||

चतुर्दशेन्द्रसंस्थैव ब्रह्मणो दिनमुच्यते |
प्. २) या ध्यायते महामाया मया तच्छ्वासनिर्गमः || १० ||

प्रपञ्चो ब्रह्मदिवसः कुम्भको रात्रिरस्य तु |
एवं तस्या घटिकया वर्षमेकं विधेस्स्मृतम् || ११ ||

घटिशतमितं तस्या ब्रह्मा जीवति कीटवत् |
पक्षमेकं सतीरुपं शुक्लं कृष्णं तु पार्वती || १२ ||

ऋतुमात्रं हरिर्जिवेद्वर्षमत्रमहं शिवः |
एव सा शतवर्षा वै महाकालस्य गेहिनी || १३ ||

सर्पकञ्चुकवद्देहं त्यक्त्वात्यक्त्वा पुनर्युवा |
महाकालस्सदा तिष्ठेत् समया विषयीकृतः || १४ ||

एवं श्रुत्वा वचस्तस्य देवी ब्रह्मा हरिः सुराः |
अहंकारस्य विलयं कृत्वा भीता नताः पुनः || १५ ||

देवा ऊचुः |

त्राहि त्राहि महादेव शरणागतवत्सल |
साहंकारा वयं सर्व ईश्वरा इतिवादिनः || १६ ||

निर्जिता अपिनिर्लज्जा जलन्धरवधैषिणः |
मशकाश्च वयन्देव न च त्वं मशकायसे || १७ ||

यस्याग्रे सोपि यस्त्वञ्च पादर्धांशेन नो समः |
महाकालः कथञ्ज्ञेयः कथयस्व सदाशिव || १८ ||

मुक्तयः कतिधा देव श्रेष्ठा का किञ्च साधनम् |
वदास्माकं यदि कृपा देव्यां विष्णौ सुरेषु च || १९ ||

ईश्वर उवाच |

ज्ञायते तत्प्रभावेण सकलं वेदवाक्यतः || पुनर्मोदयते वृद्धिन्तस्य मायाकृतञ्जगत् || २० ||

मया कृतानि तन्त्राणि सङ्ख्ययास्तोत्तरं शतम् || येनयेन प्रार्थितोहं देवी सम्प्रार्थिता मया || २१ ||

देवीभिः प्रमथैर्देवैस्तत्तन्मोक्षश्चतुर्विधः || येन मार्गेण भवति स स मार्गः प्रकाशितः || २२ ||

तस्माद्देवेशि ते देवा अहङ्कारेण मोहिताः || अन्यान्देवान्विनिन्दन्ति षट्कर्मनिरतास्सदा || २३ ||

कलिना हृतसौभाग्या भक्ष्ये पाने च मैथुने || जायन्ते निरतास्तेन निर्धनाः प्रेतरूपिणः || २४ ||

दृश्यन्ते तु तथा देवा भवद्भिस्सम्यगीरितम् || वेदसारं धर्मसारं तन्त्राणां हृदयं परम् || २५ ||

महाकालेन यत्प्रोक्तम्पञ्चमीमुक्तिसाधनम् || सर्वेषाम्मेरुतां यातन्तत्तन्त्रं मेरुसञ्ज्ञितम् || २६ ||

शृण्वन्तु तद् दृश्यमानम्मनोह्लादकरञ्च यत् || पृच्छया निजसन्देहान्दूरीकुर्वन्तशङ्किताः || २७ ||

यथा तोयञ्जलनिधेर्गृहीत्वाब्दाः स्वधारया || वर्षन्ति क्षत्रवायुस्तं बिन्दुरूपं करोति च || २८ ||

तद्वन्महाकाललवान्महामाया प्रकर्षति || कर्मभिश्चैव सम्भिन्नास्ते देवः कोटिशोभवन् || २९ ||

यथा नैकट्यगुणतो बिन्दवो यान्ति चोद्यताम् || प्. ३) तथैवोपासनामार्गगुणा यान्ति च देवताम् || ३० ||

यथा सरिद्भ्यो गर्ताम्भः पतितं ह्रदतं व्रजेत् || स च दूरतलः स्याद्वै तद्वद्देवोऽपि मोहितः || ३१ ||

पुनर्नरः पुनस्तिर्यक् शेषं यद्वज्जलाशयः || पुनः सूर्यकरे न्यस्तः पुनर्वृष्टिः पुनर्जलम् || ३२ ||

तद्वद्दुष्कर्मणा जीवो नानायोनिषु जीर्यते || यथा जलौघः सन्मार्गात्तटिनीतो महानदीम् || ३३ ||

प्रविष्टस्तोयधिम्पश्चादपुनर्भवतां व्रजेत् || वाडवोदरसंवेशात्तद्वज्जीवोऽपि देवताम् || ३४ ||

विष्णुतां शिवतांल्लब्ध्वा महाकालोभिजायते || समुद्रादाहृतः कंश्चिद्दैवात्त्यक्तस्तु तत्र तु || ३५ ||

यथा समुद्रो भवति तद्वद्ब्रह्मसुता अपि || ब्रह्मज्ञानाद्विनिर्मुक्ता हित्वा चोपासनाक्रमम् || ३६ ||

श्रीदेयुवाच ||

वामदक्षिणभेदेन पञ्चपञ्चक्रमेण च || उपासना वामदक्षा तत्र तत्र प्रशंस्तिका || ३७ ||

तत्र भोगक्रिया मोक्षक्रिया युग्मक्रियापि च || लभ्यते देवता का च सर्वाश्यस्तूत्तमोत्तमा || ३८ ||

शिव उवाच ||

देवासुरैः पुरा कल्पे मथ्यमाने महोदधौ || तत्र श्यामा समुत्पन्ना सुरा कलशधरिणी || ३९ ||

गौराङ्ग्यरुणचैला च भास्वद्धरितकञ्चुका || श्वेतोत्तरच्छदा देवी त्रैलोक्यस्यापि मोहिनी || ४० ||

दृष्ट्वा तान्दानवास्सर्वे शुक्राचार्यवरात्सुरान् || जित्वा ताञ्जगृहुस्तस्याः कलशाच्च पपुः सुराम् || ४१ ||

देवान्पलायितान्दृष्ट्वा शक्त्यस्तत्र संस्थिताः || पपुस्ता अपि तां पुण्यां सुरां दैवतमातरम् |
४२ ||

वरानपि बहून्दद्युः सुरायास्सुरमातरः || अनयास्मान्तर्पयन्ति शेषं गृह्णन्ति ये नराः || तेऽस्मद्रूपा न सन्देहो भुक्तिमुक्त्येकभाजनम् || ४३ ||

सुरा गङ्गा सुरा सिन्धुः सुरा देवी सरस्वती || सुरा गोदावरी रेवा सुरैव परमम्पदम् || ४४ ||

सुरान्निन्दन्ति ये मूढास्ते मूढा जनजन्मनि || गन्धर्वैः स्तूयमानास्ताश्शक्त्यस्ते च दानवाः || ४५ ||

पुनर्ममन्थुर्जलधिं बलहीनैस्सुरैस्सह || धन्धन्तरिस्समायातस्सुधाकलशहस्तवान् || ४६ ||

सुरामत्तास्तु ते प्रोचुः किमिदं पुरुषाहृतम् || उवाच मधुरं विष्णुस्सान्त्वयंश्च प्रतारयन् || ४७ ||

पूर्वदेवास्सन्तु यूयम्मद्यस्यास्य च पानतः || अग्रे यदिदमुत्पन्नं पीयूषन्तत्प्रकीर्तितम् || अग्रेप्येतत्तु देवार्थं निस्सारम्पुरुषाहृतम् || ४८ ||

ततो हरिर्मोहिनीरूपधारी वामेन तां पाययेत्पूर्वदेवान् || प्. ४) शक्तीस्सर्वास्त्वरुणान्भैरवादीनेतन्मन्त्रानुद्धरेदश्यवर्षन् || ४९ ||

दक्षेण देवानमृतं पाययंस्ते तत्तन्मन्त्राः पूर्वदेवानबाधन् || हाहा भूतं समरे तत्समस्तं शुक्राचार्यो ज्ञातवांस्तत्समग्रम् || ५० ||

ततस्स क्रोधताम्राक्षो जलं कृत्वा करेऽशपत् || धिग्धिग्ज्ञानं सुरारीणामनया सुरया हृतम् || ५१ ||

तस्मादिमां ये पिबन्ति सर्वे पातकिनस्तु ते || प्रयान्तु निरयं घोरं तिष्ठन्त्विह पिशाचवत् || ५२ ||

श्रुत्वा तं दारुणं शापं प्रजज्वाल तदा सुरा || निर्दहन्तीव लोकांस्त्रीन्प्राकम्पन्त सुरासुराः || ५३ ||

ततो मया स्तुता देवी बीजगर्भैस्स्तवोत्तमैः || पादयोः पातितः शुक्रः पुत्रोऽयन्तेमियोज्यताम् || ५४ ||

मायया रमया वा घा सम्बुध्यन्ता त्रिवर्षकाः || शुक्रशापं विमोचय पुनस्तद्वर्णकान्तिका || ५५ ||

यस्या उपासना तस्या बीजेन पुटितो मनुः || षोडशार्णस्तवाख्यातो मन्त्रिताष्टोत्तरं शतम् || ५६ ||

निश्शापं कुरुते साध्यं भुक्तिमुक्त्येकभाजनम् || इति दीक्षाक्रमो येषां वंशे देवि समागतः || ५७ ||

स कौलो दुर्लभो देवि दाता भोक्ता च पावकः || यन्मिन्मार्गे प्रधानोऽयं स तु वामपथः स्मृतः || ५८ ||

मद्यं मांसं च मत्स्याश्च मुद्रा मैथुनमेव च || कुलमार्गप्रविष्टेन सदा सेव्यं सुहर्षिणा || ५९ ||

कौलिकोङ्गुष्ठताम्प्राप्तो वामस्स्यात्तर्जनीसमः || चीनक्रमो मध्यमस्स्यात्सिद्धान्ती योऽवरो भवेत् || ६० ||

कनिष्ठः शाबरो मार्ग इति वामस्तु पञ्चधा || यैः पीतममृतं ते ते सोमपा बल दर्पिताः || ६१ ||

लक्ष्म्या सह समुद्भूताः शतयत्नाश्च सोमपाः || तेषामुपासना प्रोक्ता दक्षमार्गेण सा द्विजैः || ६२ ||

कर्तव्या वैदिकी श्रेष्ठा स्मार्ती स्यान्मध्यमोत्तमा || पौराणी मध्यमा ख्याता तान्त्रिकी त्ववरा स्मृता || ६३ ||

दैशी च कालीजातीया कनिष्ठा स्यादुपासना || वाममार्गो यदा दक्षं प्रविशेत्तत्सु रस्सै तु || ६४ ||

विघ्नेन पीड्यते चापि न सिद्धिमधिगच्छति || दक्षमार्गो यदा वामं प्रविशेत् तत्सुरास्तदा || ६५ ||

लोकद्वयाद्यापयन्ति तं ग्रसन्ति च वामिनम् || तस्मात्स्वकुलमार्गं तु ज्ञात्वा कुर्यादुपासनाम् || ६६ ||

भक्तिश्रद्धान्वितौ शिष्यगुरू सम्पूर्णलक्षणौ || सर्वोपि मार्गस्तत्कालं भुक्तिमुक्तिप्रदायकः || ६७ ||

धनार्थिनस्तु गुरवः शिष्याः सिद्ध्यर्थिनः कलौ || तस्मान्न चोभयोस्सिद्धिर्देवतानां विडंबनम् || ६८ ||

प्. ५) द्विजानामनुपेताना स्वकर्माध्ययनादिषु || यथाधिकारो नास्तीह स्याच्चोपनयनादिषु || ६९ ||

तथा चादीक्षितानां च मनुदेवार्चनादिषु || नाधिकारोऽस्त्यतः कुर्यादात्मानं मन्त्रसंस्कृतम् || ७० ||

दीयते ज्ञानविज्ञानं क्षीयन्ते पापराशयः || तेन दीक्षा इति प्रोक्ता प्राप्ता चेत्सुगुरोर्मुखात् || ७१ ||

असदगुरुः स्वयंनष्टः कथं तारयते परम् || विंशद्विश्वोपकगुणैर्युक्तो यः स गुरुर्भवेत् || ७२ ||

योऽत्युत्कृष्टो यथोक्ताङ्गः शुद्धवेषो मनोहरः || सर्वाङ्गमार्गतत्त्वज्ञः सर्वमन्त्रविधानवित् || ७३ ||

इङ्गिताकारचेष्टाविद्दूरतः कृतदुर्जनः || अन्तर्मुखोऽबहिर्दृष्टिस्सर्वज्ञो देशकालवित् || ७४ ||

आज्ञासिद्धो दयायुक्तः शान्तो वेदाङ्गवेदवित् || नित्ये नैमित्तिके काम्ये रतः कर्मण्यनिन्दिते || ७५ ||

अलोलुपोऽहिसकश्च पक्षपाती गुरुर्मतः || अनीदृशगुरोर्मन्त्रो मरणायासदुःखकृत् || ७६ ||

विप्र एवेदृशः कार्यो गुरुर्नो चेत्तदेदृशः || क्षत्रविट्छूद्रजातीयः प्रतिलोमं न दीक्षयेत् || ७७ ||

दक्षमार्गे तु निर्वीर्यः पितुर्मातामहस्य च || सोदरस्य गृहस्थस्य वाममार्गेतिवीर्यवान् || ७८ ||

परीक्षेत गुरुः शिष्यं विद्वद्भिर्लक्षणैर्युतम् || द्वादशाब्दं तदर्धं वा तदर्धं वाथ दीक्षयेत् || ७९ ||

गुरुवाक्यप्रमाणज्ञं गुरुशुश्रूषणे रतम् || लज्जाभिमानगर्वादिवर्जितं कुलनायकम् || ८० ||

निरपेक्षं गुरुद्रव्ये तत्प्रसादाभिकाङ्क्षिणम् || जपध्यानाभिनिरतं मोक्षमार्गाभिगामिनम् || ८१ ||

समाधि साधनोपेतं शुद्धदेहं च धार्मिकम् || दृढव्रतं सदाचारं श्रद्धाभक्तिसमन्वितम् || ८२ ||

दीनसत्यमितस्निग्धभाषिणं साधुसम्मतम् || अनुकूलप्रियायुक्तं धीरं सर्वोपकारकम् || ८३ ||

सदैव सुमुखं कुर्याच्छिष्यं दैवततुष्टये || दत्त्वा दीक्षां तु लोभाद्यैर्देवताशापमाप्नुयात् || ८४ ||

परशिष्ये चेष्टवंशे धूर्ते पण्डितमानिनि || स्त्रीद्विष्टे सामये त्रस्ते व्यङ्गे दीक्षा तु निष्फला || ८५ ||

न वेदः प्रणवं त्यक्त्वा मन्त्रो वेदसमुत्थितः || तस्माद्वेदपरो मन्त्रो वेदाङ्गञ्चागमः स्मृतः || ८६ ||

वश्याकर्षादिकं कर्म दृष्टादृष्टफलप्रदम् || वेदेन साध्यते सर्वं ग्रहयज्ञादिकं किल || ८७ ||

न वेदेन विना यज्ञा न वेदा यज्ञवर्जिताः || तस्माद्वेदपरो मन्त्रो नावेदो मन्त्र ईरितः || ८८ ||

न मन्त्रे चाधिकारोस्ति शूद्राणां नियमात्परः || प्. ६) यावन्त्यर्णानि मन्त्राणां शूद्राय प्रतिपादयेत् || ८९ ||

तावन्त्यो ब्रह्महत्यास्स्युस्तस्मात्संस्कारयेच्च तम् || स्वार्होकारेण रहितं दद्यात्पश्चाच्च तान्त्रिकम् || ९० ||

स्वागमोक्तेन मार्गेण स्त्रीशूद्रैरपि पूजनम् || कर्तव्यं संस्कृतैस्तैश्च स्वागमोक्तेन वर्त्मना || ९१ ||

विधवायाः सुतादेशात्कन्यायाः पितुराज्ञया || भर्त्त्रैव दीक्ष्यते भार्या यतोऽसौ सर्वदा गुरुः || ९२ ||

तयापि पूज्यो देवस्य बुद्ध्याऽसौ सर्वसाधनैः || शैवो वा वैष्णवो वापि स्त्रीशूद्राणां नमोन्तकः || ९३ ||

नाममन्त्र इति ज्ञात्वा चाण्डालानपि दीक्षयेत् || ९४ ||

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः पौलस्त्यजातयः || पञ्चधा मनवः ख्याताः प्रदेयाश्चानुलोमतः || ९५ ||

माया बीजं ब्राह्मणः स्याच्छीबीजं क्षत्रियः स्मृतः || कामबीजं भवेद्वैश्यो वाग्भवं शूद्र ईरितः || ९६ ||

चतुर्बीजपरित्यक्तो मनुः पौलस्त्यसञ्ज्ञकः || हीनवर्णाय नोदद्यान्मन्त्रं त्वधिकवर्णकम् || ९७ ||

आनुष्टुभाश्च ये शक्तिमन्त्रा नीलसरस्वती || कल्पोक्ता वैदिकी विप्रैर्देया विन्ध्यनिवासिनी || ९८ ||

ब्राह्मणैः क्षत्रियैश्चापि देया पाशुपताभिधा || सौदर्शनी नारसिंही कार्तवीर्यस्य नान्यतः || ९९ ||

वर्णत्रयेपि दातव्यं दक्षिणामूर्त्यघोरकम् || १०० ||

अष्टाक्षरं हयग्रीवमुमामाहेश्वरं तथा || लक्ष्मीनारायणं वासुदेवताकं वराहकम् || १०१ ||

अग्निः सूर्यघृणेर्यस्तु ताराद्याश्चारुणेश्वराः || सर्ववर्णेषु दातव्याः कालिका श्यामला तथा || १०२ ||

छिन्नमस्ता च मातङ्गी बगला चोग्रतारिका || योगिनी यक्षपत्नीनां त्रैपुरा बटुकादयः || १०३ ||

शाबराश्च पुलस्त्यानि न जप्याद्द्विजजन्मनि || उपासना त्रिधा प्रोक्ता श्रेष्ठा तत्र तु सात्त्विकी || १०४ ||

तस्यां तु मानसी पूजा पौजे मुख्यतमा स्मृता || राजसो दक्षिणो मार्गः प्रतिमायां च पूजनम् || १०५ ||

वाक्योपचारैः सकलैस्तदाद्यन्तद्विशिष्यते || तामसोपासनं प्रोक्तं पीठादौ बलिदानतः || १०६ ||

वाममार्गस्ततश्चाद्यवर्णं हित्वा प्रशस्यते || एषा पद्या तु सम्प्रोक्ता वामदक्षिणयोः परा || १०७ ||

गोपिता सर्वतन्त्रेषु किमन्यच्छ्रोतुमिच्छथ || १०८ ||

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीतव्यवस्थाप्रकाशः प्रथमंः || १ ||

Prakāśa 2 – Saṃskāras – rituelle Läuterungen

श्रीदेव्युवाच ||

शतशोत्र जना देव तन्त्रमार्गे व्यवस्थिताः || सिद्धिर्न दृश्यते क्वापि किम्परत्र भविष्यति || १ ||

यदि कर्म प्रधानं च देवताराधनेन किम् || देवताराधनं सत्यं साधका दुःखिताः कथम् || २ ||

एतन्मे संशयं छिन्धि किं चक्रैश्चापि मान्त्रिकैः || संस्काराश्च कथं कार्यास्तान्त्रिकाणां वदस्व तत् || ३ ||

ईश्वर उवाच ||

गर्भे कर्मत्रयं कुर्याज्जायमाने तथा दश || ततः कर्मत्रयं चेति संस्काराः षोडश स्मृताः || ४ ||

द्विजातीनां तथा मन्त्रे कुर्यात्कर्मत्रयं गुरुः || दश शिष्यांस्ततः कुर्यात्सिद्धे मन्त्रे पुनस्त्रयम् || ५ ||

षडेव जन्मसंस्काराः प्रोक्ताः स्त्रीशूद्रयोरपि || तथैव मन्त्रसंस्काराः षडेव परिकीर्तिताः || ६ ||

चाण्डालादिषु चत्वारो मन्त्रे प्रोक्तास्त एव हि || त्रयो यवनकल्पोक्तास्तन्मन्त्रेष्वपि ते त्रयः || ७ ||

वामदक्षिणभेदेन तेषां कर्तव्यंतां शृनु || आज्यस्थाने सुरां वामे होमाद्यर्थं प्रकल्पयेत् || ८ ||

पाकादिषु च मांसं स्याच्छैलादौ नियमाः स्मृताः || मैथुनं ब्रह्मचर्यं च मुद्रास्तत्कर्मिकास्तथा || ९ ||

गर्भाधान स्वकल्पोक्तवर्त्मना प्रथमं भवेत् || दक्षिणानामथो वामे द्वितीयाङ्गं समाचरेत् || १० ||

सन्तर्प्पयेदङ्गदेवं मन्त्रैर्योनिं च तीर्थतः || अस्या अङ्गे देवताया मन्त्रन्यासं समाचरेत् || ११ ||

सर्वान्न्यासान्स्वस्य देहे भावयेत्तां च भैरवीम् || स्वयं च भैरवो भूत्वा रतिकर्म समाचरेत् || १२ ||

सुखासनस्थो भगगं ध्वजं कृत्वा जपेदमुम् || मन्त्रं पञ्चसहस्रं च यथेष्टं लभते सुतम् || १३ ||

लक्ष्मी प्राणेश्वरी चेति मम पाहि नवाक्षरः || तस्यास्सोमस्तस्य सूर्यो गर्भस्तिष्ठेद्धरातले || १४ ||

अथ द्वितीयसंस्कारः कार्यः पुंसवनाभिधः || तृतीये मासि कुर्वीत अथ पुंसवनं बुधः || १५ ||

वेदोक्तप्रोक्तदिवसे स्वकल्पोक्तेन वर्त्मना || तत्र वैदिकमुख्यस्य होमस्थाने स्वदेवताः || १६ ||

जुहुयात्कारणेनैव चतुराहुतिसंख्यया || तदावरणदेवानां पुरुषाणां द्वयंद्वयम् || १७ ||

एका स्त्रीणां वाममार्गे शेषं पूर्ववदीरितम् || सतीर्थं सपशुं दद्यान्निशायां भैरवं बलिम् || १८ ||

अथो तृतीयसंस्कारः सीमन्ताख्यः प्रकीर्तितः || चतुर्थषष्ठाष्टमेषु मास्सु सन्मध्यमाधमः || १९ ||

ज्योतिश्शास्त्रोक्तदिवसे स्वकल्पोक्तेन वर्त्मना || वामी तु देवतामन्त्रं सीमन्ते सुरुचा लिखेत् || २० ||

न्यासं कुर्यात्तदङ्गेषु तन्मन्त्रं रोगहारिणं || प्. ८) ततो न गच्छेत्तां भार्यां देवताशापभीतितः || २१ ||

कामेन वाथ मोहेन दुष्काले वा विधानतः || अन्यायेन कृतः संगः सीमन्तस्तदधोवहः || २२ ||

अथ तुर्यन्तु संस्कारं कुर्यात्स्त्रीशूद्रयोरपि || जातकर्माभिधं विप्रः स्वकल्पोक्तेन वर्त्मना || २३ ||

कन्या जन्मनि विप्राणां शूद्रस्य सुतजन्मनि || तूष्णीमेव क्रियां कुर्याद्विष्णुस्मरणपूर्वकम् || २४ ||

वाममार्गी न कुर्वीत मेधाजननसंस्कृतिम् || किन्तु स्वर्णस्य लेखन्या विलिखेत्करणाग्रया || २५ ||

तालुदेशे मूलबीजं रसनायां तथा मनुम् || देवतां तर्पयेत्पश्चादन्यत्कर्म तु दक्षवत् || २६ ||

अथ पञ्चमसंस्कारो नामकर्माह्वको ध्रुवम् || सर्वेषामेवमुद्दिष्टः सूतकान्ते शुभे दिने || २७ ||

स्वकल्पोक्तविधानेन नामकर्म समाचरेत् || तन्त्रेषु यानि चोक्तानि मात्राचक्राणि षोडश || २८ ||

विचार्य तानि कुर्वीत नाम यत्सफलं भवेत् || न कृतं चेदत्र नाम तादृशश्चेद् गुरुस्तदा || २९ ||

पूर्णाभिषेके कुर्वीत तत्सबीजं निरूप्यते || यस्मादक्षगुणैः सिद्धिर्विप्राणां सम्प्रजायते || ३० ||

ताराचक्रं प्रवक्ष्यामि बालानां मन्त्रसिद्धये || अ आ हये इर्यमे च ई उ ऊ वह्निभे तथा || ३१ ||

ऋ ॠ ऌ ॡ च रोहिण्यां ए मृगे शिवभे च ऐ || ओ औ पुनर्वसौ पुष्ये ककारः सर्पभे खगौ || ३२ ||

पैत्रे घङौ भगर्क्षे च आर्यमर्क्षे छजौ मतौ || हस्ते झञौ टठौ त्वाष्ट्रे स्वात्यां डो द्वीशभे ढणौ || ३३ ||

तथदा अनुराधायां ज्येष्ठायां धोऽथ मूलभे || नपफाः पूर्वाषाढायां बकारो भस्तु वैश्वभे || ३४ ||

मः कर्णेथ धनिष्ठायां यरौ लः शततारके || वशौ तु पूर्वभाद्रायां षसहाः स्युरुपान्तिमे || ३५ ||

लं क्षं अं अश्च रेवत्यां गण्या मन्त्राक्षरर्क्षतः || साध्यनामादिवर्णर्क्षत्रिरावृत्त्या फलानि तु || ३६ ||

स्थाननाशः सतां संगो बहुमैत्री मृतेः समम् || आधिं वा व्याधिमाप्नोति साधकः कार्यसिद्धये || ३७ ||

बहुभिः शत्रुताक्षेपो विपत्तिः सम्पदात्ययः || एतत्तु ताराचक्रस्य फलं ज्ञात्वाचरेदिदम् || ३८ ||

तारोक्तमातृकाभिर्भे ज्ञात्वा साधकसाध्ययोः || स्त्रीपुंसोर्वा व्यस्तयोश्च गणचक्रं विचारयेत् || ३९ ||

स्थिराणि विमघोग्राणि रौद्रं नरगणः स्मृतः || हर्यन्त्यमित्रादित्येन्दुवाययिज्यकरघोटकाः || ४० ||

प्. ९) देवाः शेषा राक्षसाः स्यूः साध्यसाधकयोः फलम् || नृदेवयोः फलं शीघ्रं व्यस्तयोः कष्टतः फलम् || ४१ ||

नृदैत्ययोर्मनुग्राहाद्व्यस्तयोर्मरणं भवेत् || देवदानवयोर्युद्धं व्यस्तयोर्निष्फलम्भवेत् || ४२ ||

ग्रहोपग्रहमन्त्रेषु शशिचक्रं विचारयेत् || वेदा रामास्त्रयो युग्मं युग्मं युग्मं वदन्ति षट् || ४३ ||

षड्वर्गाश्च ततः षट्सु नामवर्णस्थलान्मनोः || भवेद्यत्रादिगो वर्णः फलं तत्र भवेदिदम् || ४४ ||

इष्टो दासः पोषकश्च रोगकृत्पुत्रदः शुभः || स्त्रीसौख्यकृद्वातकारी भाग्यदः कार्यसिद्धिकृत् || ४५ ||

लाभकृद्व्ययकृच्चेति प्रोक्ता यन्त्रेषु मातृकाः || स्त्रीशूद्रप्रतिलोमानां नाममन्त्रैरुपासना || ४६ ||

पूर्वोक्ता राशयो ज्ञेया मीनाद्याश्च द्विजादयः || वर्णोत्तमो मनुर्ग्राह्यो वैदिकोऽत्र विशेषतः || ४७ ||

वक्ष्येऽथ कौलिके मार्गे सिद्धिकृत्पाञ्चभौतिकम् || वायवग्निभूजलाकाशपञ्चतत्त्वानि विन्यसेत् || ४८ ||

द्वौ द्वौ स्वरौ तले लेख्यौ यकाराद्यास्ततः पुनः || कादिकाश्चापि षड्वर्गाः शषसा हश्च क्षस्तथा || ४९ ||

पुनः पुनर्नाम लेख्यं मन्त्राक्षरसमो मनुः || तस्मात्पुनर्मनुर्लेख्यो युगपत्स्यात्समापनम् || ५० ||

यावत्तावल्लिखित्वाथ वर्णतत्त्वं विचारयेत् || स्थाप्यं रूपं त्वेकतत्त्वे मित्रतत्त्वे च तद्वलम् || ५१ ||

उदासीने पादमेकं तद्योगः पञ्चभाजितः || इष्टं स्यादथ कष्टं तु शत्रौ रूपं समे दलम् || ५२ ||

पादो मित्रे तु तद्वत्तु तत्कष्टं स्यात्कलात्मकम् || ५३ ||

इष्टेधिकेऽल्पकष्टे तु मन्त्रसाधनमाचरेत् || कुर्वन्ति भूतवेतालाः पिशाचाश्चान्यथा मनुम् || ५४ ||

महीसलिलयोर्मैत्रमनलानिलयोरपि || सामान्यमग्निभूम्योस्तु सलिलानिलयोस्तथा || ५५ ||

शात्रवं वैपरीत्येन चक्रं स्यात्पाञ्चभौतिकम् || सिद्धादिचक्रं वक्ष्येऽहं यज्ज्ञात्वा नाम कारयेत् || ५६ ||

दक्षिणोपासनामार्गे स्वमन्त्रं स्वस्य देवताम् || द्वादशारे तथा चक्रे कूटषण्ढविवर्जितान् || ५७ ||

आदिक्षान्ताल्लिंखेद्वर्णान्पूर्वतो यावदीश्वरम् || स्वनामाक्षरमारभ्य ज्ञेयो मन्त्राक्षरावधिः || ५८ ||

सिद्धः साध्यः सुसिद्धोऽरिर्विज्ञेयश्च पुनः पुनः || सिद्धः सिध्यति कालेन साध्यः सिद्ध्यति वा न वा || ५९ ||

सुसिद्धग्रहणादेव रिपुमूलं निकृन्तति || अथ वक्ष्ये महाविद्यासाधने सिद्धिमातृकाम् || ६० ||

मूलक्रमेण ज्ञेयानि तत्र कोष्ठानि षोडश || प्. १०) क्रमादेतेषु कोष्ठेषु मातृकार्णान्सुविन्यसेत् || ६१ ||

कुत्रीष्वङ्कमहीन्द्वब्धिसूर्यदिक्षण्नृपा वृषाः || पञ्चाङ्गतिथिविश्वे च कोष्ठास्तत्र प्रकीर्तिताः || ६२ ||

आदौ ज्ञेयाश्चतुष्केषु सिद्धाद्या विदिशासु च || तत्तत्स्थानाप्तकोष्ठात्तु पूर्वाङ्गुल्या गुरूक्तितः || ६३ ||

सिद्धः सिद्धो जपात्सिद्ध्येत्सिद्धसाध्यो द्विसङ्गुणात् || सिद्धः सुसिद्धसम्प्राप्तः सिद्धारिर्हन्ति गोत्रजान् || ६४ ||

साध्यसिद्धोऽतिसंक्लेशात्साध्यसाध्योऽतिदुःखकृत् || साध्यः सुसिद्धो भजनात्साध्यारिः स्वाश्रयं हरेत् || ६५ ||

सुसिद्धसिद्धोर्धजपाद्बहुरूपाच्च तत्परः || अतिद्रुतं द्विः सुसिद्धः सुसिद्धारिः कुलापहः || ६६ ||

अरिसिद्धस्सुतं हन्यादरिसाध्यस्तु कन्यकाम् |
अरिः सुसिद्धः पत्नीघ्नोऽथार्यरिः साधकापहः || ६७ ||

अत्र प्रसिद्धं नाम स्यात्प्रयुक्तो येन जागृयात् || यस्तु बीजात्मको मन्त्रस्तत्र षड्दलमातृकाः || ६८ ||

विज्ञेयास्तत्र पद्मं तु रचयेत्षड्दलं शुभम् || तत्र न्यसेन्मातृकार्णान्कूटषण्ढविवर्जितान् || ६९ ||

स्वनामाद्यक्षरं यत्र तदारभ्य विचारयेत् || सम्प्रद्दारिद्र्यधैर्याणि बन्धुविग्रहसंशयौ || ७० ||

सर्वनाशः क्रमादेव नामाद्यर्णैश्च कोष्ठतः || कथं मन्त्रस्य सिद्धिस्स्यादेतदर्थमहं ब्रुवे || ७१ ||

धनर्णमातृकां खेषुषट्त्रीन्द्वब्ध्यङ्गषट्कृताः || वक्ष्येऽत्र तु यथा लेख्या अङ्का एकादश स्वराः || ७२ ||

तत्तले काच्च ढाद्वाच्च लेख्या वर्णा हरोन्मिताः || तदधोद्विकुसप्ताब्धिखत्रिसप्तेषुसागराः || ७३ ||

षट्पञ्च साधकस्याङ्का मन्त्राङ्काः पूर्वमीरिताः || स्वरव्यञ्जनभिन्नानां मन्त्रार्णानां पृथक् पृथक् || ७४ ||

अङ्कयोगस्तथा कार्यः साधकस्य तु नामतः || भागशेषावुभौ स्थाप्यौ यावन्नामाङ्कता मनोः || ७५ ||

अधिका स्यात्साधकस्य देयं मन्त्रस्स साधितः || तावत्सङ्ख्यान्समायोगानसाध्यानपि साधयेत् || ७६ ||

हीनांश्च ग्रहयोगेन तथा ऋक्षोपपत्तितः || पुरश्चर्यां पुनः कुर्यान्मन्त्रसन्दीप्तये पुनः || ७७ ||

ऋणी तु साधको ज्ञेयः साधकाङ्को यदाधिकः || यावत्स्यादधिकस्तावत्सङ्ख्याङ्कानि यदा चरेत् || ७८ ||

पुरश्चरणसञ्ज्ञानि तदास्य समता भवेत् || पुरश्चर्यां पुनः कृत्वा तदा स्यात्कार्यसाधकः || ७९ ||

एकस्मिन्साधिते कार्ये पुनर्याति स कुण्ठताम् || तावज्जपं पुनः कृत्वा चैककार्यक्षमो भवेत् || तत्त्वमत्र प्रकटितं सर्वतंत्रेषु गोपितम् || ८० ||

प्. ११) योधयोर्विजयार्थं तु प्रसङ्गा मल्लमातृकाम् || वक्ष्यामि तस्याश्चक्रे तु रचयेदेवमेव हि || ८१ ||

पञ्चपञ्चाग्निरामाग्निरसर्तूग्रमुखानि खम् || भूश्चाथ पञ्च संल्लेख्यास्तदधः षण्ढवर्जिताः || ८२ ||

एकादशस्वराश्चान्त्यहीना लेख्याश्च तत्तले || कचटाद्यांल्लिखेद्वर्णान् ङञणाक्षरवर्जितान् || ८३ ||

नामाक्षराङ्कयोगस्तु द्वयोर्योगावशेषितः || तुल्यतायां द्वयोर्योगः कार्यश्चाष्टावशेषितः || ८४ ||

स्ववेदर्तुशरागाग्निभूशेषेष्वग्रतो जयी || समयोरुभयोरत्र मन्त्रं यन्त्रं बिना कलिः || ८५ ||

चौरमात्राम्प्रवक्ष्यामि विज्ञेयाधानचौरयोः || षड्वेदत्रीषुसप्ताब्धिनगद्विरसखंधराः || ८६ ||

ऊर्द्ध्वाङ्काः पूर्ववच्छेषमङ्कयोगोष्टशेषितः || हीनस्य हानिराधिक्ये जयो गोप्यमिदं भराः || ८७ ||

राजमात्रां प्रवक्ष्यामि भूपयोर्विजयप्रदाम् || वर्गाष्टकाङ्का वह्नीषुषड्वेदाङ्केन्दु वह्नयः || ८८ ||

द्वयोश्च भाजयेद्वर्णान्सप्ततष्टेऽधिके जयः || तुल्यशेषे वर्गबलाद्वर्गैक्यप्राणवीर्यतः || ८९ ||

मातृकां कलहां वक्ष्ये कलहे विजयप्रदाम् || वह्नीन्दुवेदयुग्मेन्दुरङ्काः पञ्च स्वरांल्लिखेत् || ९० ||

कादीनां तदधो नामवर्णसंख्या द्वयोस्तु या || पञ्चभक्तेऽधिके शेषे जयो हीने पराजयः || ९१ ||

कामे रणे वा स्त्रीपुंसोर्जयदां मातृकां शृणु || भूषट्पञ्चाग्निवेदाग्निद्विभूखेषु शराः कृताः || ९२ ||

त्रिद्विभूस्तदधो वर्णांल्लिखेत्कादीन्षुरेरितान् || संगृह्य नामवर्णाङ्कान्मात्राभेदक्रमोदितान् || ९३ ||

सप्ततष्टेधिके शेषे जयो हीने पराजयः || समशेषे विवेकस्तु कुर्यात्प्राणाच्च वर्गतः || ९४ ||

सेनापतिजयार्थन्तु मात्रां शृण्वन्तु देवताः || रसाग्निलोचनयुगा नागषड्गोऽब्धिवह्नयः || ९५ ||

खं भूश्च तदधो लेख्याः स्वरा अत्र पुरेरिताः || आद्यास्तदङ्कयोगोत्र हीनेऽष्टाङ्केऽधिके जयः || ९६ ||

कादिहांतांल्लिखेद्वर्णान् ङञषण्ढविवर्जितान् || रसाग्निवेदयुग्माङ्गषट्कृताग्नीन्दुशून्यभूः || ९७ ||

विलिख्याङ्कानधो दूतगदिनोरङ्कसम्मितिः || तष्टाष्टभिश्चेदधिका गदिनो जीवितम्भवेत् || ९८ ||

साम्ये पूर्ववदित्युक्ता एताः षोडश मातृकाः || विद्यादेतद् गुरुमुखान्नामकर्म समाचरेत् || ९९ ||

अन्नप्राशनसंस्कारः षष्ठः सर्वजनीनकः || स्वकल्पोक्तविधानेन शूद्रादीनाममन्त्रकः || १०० ||

प्. १२) पितरस्तत्र संययुक्ता वाममार्गे तु भैरवाः || अष्ट देवाश्च चक्रस्य पूजान्तेष्ववशेषितम् || १०१ ||

सतीर्थं सफलं दद्यान्मूलमन्त्रमुदीरयन् || एवं कृतविधानस्य क्षुद्विपत्तिर्न जायते || १०२ ||

अथ सप्तमसंस्कारं चौडाख्यं शृणु पार्वति || सर्वेषामेवमुद्दिष्टं बाल्यपातकनाशनम् || १०३ ||

बौद्धानां यवनानां च शिखात्र स्थाप्यते न च || स्त्रीणामपि च कर्तव्यं सौभाग्यारोग्यवृद्धये || १०४ ||

वामे चडा तु कर्तव्या मन्त्रबीजसमाः कचाः || तीर्थे क्षिप्त्वा खनेद् भूमौ विशेषो वामिनामिति || १०५ ||

अथाष्टमं तु संस्कारं मौञ्जीबन्धमहं ब्रुवे || गुरोः समीपे नयनं तच्चोपनयनं स्मृतम् || १०६ ||

स्वकल्पोक्तविधानेन तत्कुर्याद्ब्रह्मवर्चसम् || वामाचारौर्द्विजैः पूर्वं कर्तव्यं कुलदीक्षणम् || १०७ ||

पश्चाद्दीक्षा तु सावित्र्या व्यत्यासात्पतितो भवेत् || दीक्षा तु लघुदैवत्या प्राक्पश्चान्महतस्तथा || १०८ ||

बृहद्दैवतमन्त्रे तु सिद्धे क्षुद्राः स्वयं वशाः || तेषां ग्राह्या मन्त्रदीक्षा पुरश्चर्यां समारभेत् || १०९ ||

प्रयोगांश्चापि कुर्वीत न चेष्टस्य कदाचन || सच्छिष्यं वा सुपुत्रं वा विनेष्टं दापयेन्न च || ११० ||

लोभाद्भयाद्वा यो दद्यादन्यस्मै सिद्धमन्त्रकम् || शिष्यस्य जायते सिद्धिर्गुरोः शापः प्रजायते || १११ ||

यस्या यस्या देवतायाः प्रसक्तिर्यत्रयत्र च || तत्तन्मार्गे प्रसक्ता सा स्वविद्या राजवद्भवेत् || ११२ ||

तन्त्राण्यष्टोत्तरशतं मया प्रोक्तानि पार्वति || येनयेन तु यत्पृष्टं तस्याधिक्यं तु वर्णितम् || ११३ ||

निष्पक्षपातं वक्ष्यामि मेरुतन्त्रे यथार्थतः || सर्वेभ्यो वैदिकं श्रेष्ठं ततश्च स्मार्तमुत्तमम् || ११४ ||

ततस्तन्त्रं तु तत्रापि सहिता अर्णवास्ततः || यामलास्तत्संगमाच्च मन्त्रीशानी च ताण्डवम् || ११५ ||

इन्द्रजालं कक्षपुटी बौद्धं जैनं च शाबरम् || क्रमादपचितं ज्ञेयं यथायोग्येन मुख्यता || ११६ ||

नीचे ह्युपास्ये पातः स्यान्नीच उच्चात्पतेद्ध्रुवम् || ज्ञानं दद्याच्च सर्वस्मै स्वांचारात्कर्म कुर्वते || ११७ ||

संस्कारं दशमं विद्यात्प्राजापत्यव्रताभिधम् || स्वकल्पोक्तेन मार्गेण वैदिकस्तान्त्रिकः पुनः || ११८ ||

एतद्व्रतस्य संस्कारे गाणपत्यो मनुः स्मृतः || वक्रतुण्डादिका दक्षे उच्छिष्टाद्यास्तु वामके || ११९ ||

संस्कारं दशमं सौम्यं व्रतं वैदिकमाचरेत् || स्वकल्पोक्तेन मार्गेण तत्स्थाने तान्त्रिकः पुनः || १२० ||

गृह्णीयाद्भैरवं मन्त्रं बटुकाख्यस्य वामके || कालभैरवभेदस्य यस्य कस्यापि दक्षिणे || १२१ ||

पुरश्चर्योपासकानां नाशको भैरवो यतः || दरिद्रैः साधकैर्ग्राह्यः स्वर्णाकर्षणभैरवः || १२२ ||

एकादशं तु संस्कारमाग्नेयाख्यं व्रतं द्विजः || कुर्याद्गृह्योक्तमार्गेण तस्मिन्स्थाने तु तान्त्रिकः || १२३ ||

गृह्णीयादंगदेवानां मन्त्रानादौ गुरोर्मुखात् || पूजादिमन्त्रांस्तच्छिक्षां तद्द्रव्यनियमांस्तथा || १२४ ||

द्वादशं चापि संस्कारं वैश्वदेवव्रताभिधम् || तस्मिन् स्थाने भवेद्दीक्षा स्वेष्टमन्त्रे तु तान्त्रिके || १२५ ||

त्रयोदशं तु संस्कारं गोदानाख्यं प्रकीर्तितम् || तत्स्थाने तान्त्रिकः कुर्यात्सर्वपापविमोक्षणम् || १२६ ||

सत्स्थले तु समासीन आदर्शं वा घटोदकम् || संस्थाप्याग्रे सत्यवाचा ततः सम्प्रार्थयेदिति || १२७ ||

पुरश्चरणकामोहं पापं क्षपितुमुद्यतः || आपराह्णं जपं कुर्वे देवताः सन्तु साक्षिणः || १२८ ||

पृथिव्यप्तेज आकाशवायुसूर्येन्दुभानि च || यावच्छरीरे पापानि तिष्ठन्ति मम देवताः || १२९ ||

तावच्च प्रतिबिम्बो मे मिलनो भातु पातकैः || शान्ते पारदमध्ये च यथा सन्दृश्यतां तथा || १३० ||

शुद्धः सच्चिन्मयो भूत्वां चिन्तयन्पापपूरुषम् || दक्षकुक्षिस्थितं कृष्णमङ्गुष्ठपरिमाणकम् || १३१ ||

विप्रहत्याशिरोयुक्तं कनकस्तेयबाहुकम् || मदिरापानहृदयं गुरुतल्पकटीयुतम् || १३२ ||

पापसंययोगपद्द्वन्द्वमुपपातकरोमकम् || दद्रूचर्मधरं दुष्टमधोवक्त्रं सुदुस्सहम् || १३३ ||

एवं सञ्चिन्तयित्वाथ जपं कुर्वन्विचिन्तयेत् || क्षीयमाणं पापनरं जपान्ते प्रेक्षयेत्पुनः || १३४ ||

आदर्शादि यदा स्वच्छं सर्वच्छाया प्रदृश्यते || तदा तु निर्गतं पापं पुरश्चरणयोग्यता || १३५ ||

चतुर्दशस्तु संस्कारः समावर्तनमुच्यते || तस्य स्थाने पुरश्चर्या कर्तव्या तान्त्रिकैर्जनैः || १३६ ||

आदौ सङ्क्षेपपूजां तु दिने कृत्वा तु कौलिकः || आसायं तु जपं कुर्याच्चक्रपूजां तथा निशि || १३७ ||

शक्तिभिः सहितः पञ्चमकारादिसमन्वितः || एवं सिद्धिमवाप्नोति नान्यथा जपकोटिभिः || १३८ ||

विवाहः पञ्चदशमः सर्वेषां संविधीयते || प्. १४) विधवाया विवाहन्तु पिप्पलेनैव कारयेत् || १३९ ||

सर्वपापविनिर्मुक्ता सा तु विष्णुपदं व्रजेत् || अब्राह्मणी च चेत्कुर्यादन्यमेकं तथा पतिम् || १४० ||

षोडशः पितृमेधाख्यः स्वगृह्योक्तेन वर्त्मना || वैदिकस्तान्त्रिकस्तत्र देवस्थाने स्वदेवताम् || १४१ ||

स्थापयित्वाचरेच्छ्राद्धं ब्राह्मणा मृतपन्थिनः || अथवा यजमानस्य मार्गस्थस्तदभावतः || १४२ ||

आमश्राद्धं प्रकुर्वीत वामी तु पलपैतृकम् || शक्तियुक्ता द्विजाः कौलमार्गाश्चक्रार्चने मताः || १४३ ||

वर्जयेत्तुलसीन्तत्र भृङ्गराजेन पूजयेत् || पाकः कौलिकवस्तूनां पिण्डाश्च रुधिरोक्षिताः || १४४ ||

एतैः षोडशसंस्कारैः संस्कृतः साधकोत्तमः || जीवन्मुक्तस्तदा ज्ञेयः सामर्थ्ये देवतासमः || १४५ ||

अथ षोडश वक्ष्येहं संस्कारान्मन्त्रसंस्थितान् || शापैर्मन्त्रा विमुच्यन्ते यान्कृत्वा देवनिर्मितैः || १४६ ||

अथादौ सर्वमन्त्राणां जागृतिः प्रोच्यते मया || गुरुणा सा प्रकर्तव्या शिष्यस्य सिद्धिहेतवे || १४७ ||

ताराग्निबीजं विजपेद्यस्मिन्नाग्नेयकस्स तु || अन्यः सौम्यः स्वापकाल इडायामग्निरूपिणः || १४८ ||

सौम्यस्य पिङ्गलायां स्यात्तयोरन्यत्र जागृतिः || प्रबोधकाले सञ्जप्तो जागृतो जायते मनुः || १४९ ||

अथवा सम्पुटीकृत्य लान्तानाद्यान्सबिन्दुकान् || पुनश्च सविसर्गांस्तांस्त्रिकालं केवलं जपेत् || १५० ||

एवं जप्तो यदीष्टश्च प्रबुद्धः शीघ्रसिद्धिदः || अथ शाबरमन्त्राणां जागृतिं शृणु पार्वति || १५१ ||

कांस्यभाजनमानीय शुद्धं भस्मादिभिः कृतम् || प्रजपेद्रविरात्रौ तु यामेयामे शताष्टकम् || १५२ ||

खादिर्या ताडयेद्यष्ट्या कांस्यपात्रं वदेदिति || जागृतो बव मन्त्र त्वं भाषयाथ तुरीयके || १५३ ||

यामे दद्याद्बलिं कांस्ये मण्डजं भैरवस्य नु || कुक्कुटं चान्यदेवेषु स्फोटयेन्नारिकेलकम् || १५४ ||

सुरया सुधया पूर्वदेवा देवा विमोहिताः || यदा तदा तु भगवान्प्रोवाच मधुसूदनः || १५५ ||

कः पूज्यो भवतां मध्ये कः श्रेष्ठस्तन्निगद्यताम् || उन्मत्तास्तु तदा देवाः श्रेष्ठोहमिति चाब्रुवन् || १५६ ||

किञ्चित्स्मित्वा तु भगवान्मोहयन्नात्ममायया || इत्यवोचद्यस्य वाक्यं शापे चानुग्रहे क्षमम् || १५७ ||

स एव देवश्रेष्ठोत्र पूर्वो वाप्यपरोथ वा || प्. १५) इति श्रुत्वा वचो विष्णोः शेपुश्चैव परस्परम् || १५८ ||

मन्त्ररूपाण्यतो देवि संस्कारैः शापमोक्षणम् || बिना तु शापमोक्षेण कः सिद्धिं प्राप्नुयाज्जनः || १५९ ||

श्रीदेव्युवाच ||

शापः केन कथं दत्तः शप्ते जप्ते च किं फलम् || निश्शापत्वं कथं तेषु सिद्धिः स्यादिति मे वद || १६० ||

ईश्वर उवाच ||

आदिमध्यावसानेषु वायुर्यस्य व्यवस्थितः || चतुराद्यश्चैकबीजो निधायैकत्र सङ्गमः || १६१ ||

केनापि च समाक्रान्तो जप्तो मन्त्रश्च येन वै || कार्तिकेयस्य शापात्तु च्छिद्यन्तेऽस्य मनोरथाः || १६२ ||

आदौ मध्येऽवसाने वा भूबीजयुगलं भवेत् || आदौ यद्वा द्विधा वज्री त्रिधा मध्यं द्विधा || १६३ ||

रुद्धौ शुक्रस्य शापेन भुक्तिमुक्तिविवर्जितौ || जातौ मन्त्रौ वामदक्षमार्गयोरपि विश्रुतौ || १६४ ||

ह्रीं सौंप्रेंश्रींष्वकतमं यत्र बीजं न दृश्यते || हुङ्कारो वा स मन्त्रस्तु शक्तिहीनः कृतः सुरैः || १६५ ||

एतादृशश्च सञ्जप्तः सामर्थ्यं हन्ति मन्त्रिणः || शक्तिहीनस्य वामस्य मरणन्नात्र संशयः || १६६ ||

नादौ ह्रीं न च मध्ये क्लीं क्रोऽन्ते वा न प्रदृश्यते || असौ पराङ्मुखो मन्त्रो जातः सूर्यस्य शापतः || १६७ ||

पराङ्मुखं भजन्मन्त्रं देवता स्यात्पराङ्मुखी || दैवात्कार्येपि संसिद्धिर्लोकः स्याच्च पराङ्मुखः || १६८ ||

आदावन्ते तथा मध्ये हं वा सं वा न दृश्यते || बधिरास्ते कृता मन्त्रा देवाचार्येण शापिताः || १६९ ||

जप्ते तु बधिरे मन्त्रे विस्मृतिस्तस्य जायते || जायते बधिरो नूनं महाकालेन भाषितम् || १७० ||

सूर्यबीजं हकारः स्याच्चन्द्रबीजं तु सः स्मृतः || रेफोऽग्निबीजमुद्दिष्ट मे-ए-न्नेत्त्रत्रयं मम || १७१ ||

पञ्चाक्षरे यत्र मन्त्रे यत्रैकोपि च नास्ति चेत् || मम शापान्नेत्रहीनो दुःखशोकामयप्रदः || १७२ ||

नादौ मध्ये न चान्ते वा ह्सौं वा हंस वाथ हौं || एं वा श्रूं वाथवा ह्रूं वा नमो वा ह्रीं मनुः स तु || १७३ ||

शापेन कीलितो मन्त्रो देवराजेन पार्वति || जप्तस्तु कीलितो मन्त्रो न सिद्धिमधिगच्छति || १७४ ||

मध्य एको रकारो वा फडान्ते लद्वयं यदि || फड्द्वयं वा लत्रयं वा न चेत्संस्तम्भितो मनुः || १७५ ||

प्. १६) शापेन नो भैरवस्य सिद्धिर्भवति शोभना || कदापि नैव दुःखं च प्रायशो बहुलं भवेत् || १७६ ||

आदौ तु यस्य मन्त्रस्य क्रमात्सप्ताक्षराणि चेत् || रेफेण वा यकारेण संययुक्तानि मनुस्स तु || १७७ ||

वायवग्निशापसंदग्धः साधकं परितापयेत् || तस्मात्संस्कारयेद्देवि सिद्धये साधकोत्तमः || १७८ ||

द्वाभ्यां त्रिभिरथो षड्भिरष्टभिर्वा प्रदृश्यते || यदक्षरैरन्तरितः फट्कारः स निगद्यते || १७९ ||

नारसिंहस्य शापेन त्रस्तः सन्त्रासयेत्सदा || स्वप्नादौ साधको नैव सिद्धः सन्दृश्यते क्वचित् || १८० ||

ओं वा हं वा सकारो वा नाभौ भीतो मनुः स तु || ब्रह्मशापाद्धीनसिद्धिर्भवेदत्यन्तकष्टदः || १८१ ||

आदिमध्यावसानेषु मिलित्वा मञ्चतुष्टयम् || स मन्त्रो मलिनो मायाशापान्मालिन्यकारकः || १८२ ||

हुंचादौ मन्त्रमध्ये वा वान्ते फड्युगलम्भवेत् || तिरस्कृतो रुद्रशापात्साध्यं कुर्यात्तिरस्कृतम् || १८३ ||

आदौ तारद्वयं चान्ते वषड्वात्र वरानने || कुटुम्बकलहं कुर्याद्बालाशापेन भेदितः || १८४ ||

हकारेण सकारेण रहितस्त्र्यक्षरस्तु यः || सुषुप्तः सिंहशापेन प्रोक्तोभीष्ट फलापहः || १८५ ||

अष्टादशाक्षरो योत्र पञ्चफट्कारपूर्वकः || चामुण्डाशापतो जातो मदोन्मत्तो न शोभनः || १८६ ||

मध्ये चेत्पञ्च फट्काराः कालिकाशापतः स तु || मूर्च्छितो मूर्च्छितं कुर्याद्वामिनं तु विशेषतः || १८७ ||

एवं मन्त्रे च फट्काराः पञ्चान्ते स तु रम्भया || हतवीर्यस्तु शापेन कृतः क्षीणत्वकारकः || १८८ ||

चत्वारो यत्र फट्कारा आदिमध्यावसानिकाः || अष्टादशाक्षरो हीनो हानिर्भैरवशापतः || १८९ ||

एकोनविंशद्वर्णश्चेत्क्रींक्रोमोङ्कारसंययुतः || प्रध्वस्तः कामशापेन ध्वंसयेत्कामकारणात् || १९० ||

सप्तवर्णो मनुर्बालः कुमारोष्टाक्षरः स्मृतः || षोडशार्णस्तु तरुणः प्रौढो व्योमाब्धिवर्णकः || १९१ ||

त्रिंशत्कलाः शतं वेदकाष्ठावर्णास्तु यत्र च || सकृद्धि एते कालेन शप्ता दुःखानि कुर्वते || १९२ ||

नवार्ण ओङ्कारयुतश्चामुण्डाशापतो मनुः || निर्बीज इति संशप्तो नित्यं नैराश्यकारकः || १९३ ||

निस्त्रिंशः साधकं छिन्द्यान्निस्त्रिंशेन न संशयः || अन्ते नमो वा स्वाहा वा नास्ति वा यस्य मध्यमः || १९४ ||

प्. १७) वषड्वौषट् च हुम्फडा प्रोक्तो नैवास्त्यसौ मनुः || सेवां कुर्वल्लंभेद्देशनाशं वर्षत्रयादितः || १९५ ||

आदिमध्यावसानेषु फट्काराः सन्ति यस्य तु || कौमार्यास्तु स शापेन सिद्धिहीनो न सिद्धिकृत् || १९६ ||

दशाक्षरस्तु यो मन्त्रः स गणेशस्य शापतः || मन्दो जप्तस्तु मूर्खत्वं कुर्याज्जन्मनिजन्मनि || १९७ ||

आदौ व्यञ्जनसंययोग एक एव स्वरो भवेत् || तत्कूटं कूटतो हानिर्मातंग्याः शापतः स्मृता || १९८ ||

द्विवर्णः सत्त्वहीनः स्यादाश्विनेयस्य शापतः || नाशयेत्साधकबलं राज्ञः सेनां विनाशयेत् || १९९ ||

चतुर्वर्णः केकरस्तु जातः सर्पारिशापतः || जपित्वा केकरं मन्त्रं चक्षुषा नैव पश्यति || २०० ||

षडक्षरा बीजहीना जाता रावणशापतः || तज्जपाद्वंशवृद्धिर्न चान्यथा स्त्रीसुखं नहि || २०१ ||

सार्धत्रिसप्तसूर्याणां धूमावत्याः स शापतः || तज्जपे व्याकुलं चित्तं जायते साधकस्य तु || २०२ ||

विंशत्तथैकविंशच्च त्रिशद्वर्णस्तु तारया || शप्त आलिङ्गितेनायं जपात्सत्वरतो मृतिः || २०३ ||

द्वाविंशत्यक्षरो मन्त्रः सरस्वत्यास्तु शापतः || मोहितः साधकं कुर्यात्पानादिव्यसनाकुलम् || २०४ ||

मन्त्रो वराननेयस्तु चतुर्विंशतिवर्णकः || क्षुधार्तो राजमातङ्ग्याः शापाद्दारिद्र्यकारकः || २०५ ||

त्रयोविंशाक्षरो रुद्रवर्णः कौलिकशापतः || मन्त्रो दृप्तस्तु तेनैव मन्दता जायते नृणाम् || २०६ ||

षड्विंशदेकोनत्रिंशत्त्रिंशत्षड्विंशदक्षरः || पूष्णः शापादंगहीनः कामनापूरको नहि || २०७ ||

अष्टाविंशदेकत्रिंशद्वर्णो नन्दीशशापतः || अतिक्रूरः साध्यनाशं कृत्वा नश्येच्च साधकः || २०८ ||

अष्टत्रिंशाक्षरो मन्त्रो मातृकाणां च शापतः || अतिक्रुद्धस्तज्जपेन स्वकृते स्वस्य संक्षयः || २०९ ||

चत्वारिंशत्समारभ्य त्रिषष्टिर्यावदक्षरम् || सव्रीडामातृकाशापात्सव्रीडास्तस्य साधकाः || २१० ||

पञ्चषष्ट्यक्षरा येस्युर्मंत्रास्ते शान्तमानसाः || कामशापेन तज्जापादुद्योगस्य फलं नहि || धात्रीधृतिद्विधृत्यङ्काङ्गांकयुग्मद्विगोकराः || शतत्रयं यत्र वर्णाः शापिताश्छिन्नमस्तया || २११ ||

यूयं भवन्तु निःस्नेहाः साधकानां भयावहाः || निष्कामैर्या जिभिर्जप्ता संसारस्नेहनाशनाः || २१२ ||

प्. १८) चतुश्शतान्यथारभ्य यावद्वर्णसहस्रकम् || अतिवृद्धा यज्ञशापात्पौष्टिकादिषु वर्जिताः || २१३ ||

सहस्रार्णाधिका मन्त्रा दण्डनेतुस्तु शापतः || दण्डकाख्याः पीडिताश्च तज्जपात्कष्टमाप्नुयात् || २१४ ||

द्विसहस्राधिका मन्त्रा भार्गवस्य तु शापतः || खण्डीकृतास्सप्तधा ते सिद्धिखण्डकराः स्मृताः || २१५ ||

अन्यच्छृण्वन्तु भो देवा मुनीनां जपतां यदा || सिद्धिर्न जाता तु तदा दत्तः शापः सुदारुणः || २१६ ||

आश्वासनं देवतानां जातं सिद्धेरकारणात् || उपदेशे गुरुः कुर्यात्तस्मात्तन्मन्त्रशोधनम् || २१७ ||

तत्प्रकारं प्रवक्ष्यामि शृण्वन्तु सकलाः सुराः || गुरुः सिद्धासनस्थश्च [तल्लक्षणं शिवसंहितायाम् |
योनिं सम्पीड्य यत्नेन पादमूलेन साधकः || मेढ्रोपरि पादमूलं विन्यसेद्योगवित्सदा || ऊर्ध्वं निरीक्ष्य भ्रूमध्यं निश्चल संययतेन्द्रियः || विशेषोऽवक्रकायश्च रहस्युद्वेगवर्जितः || एतत्सिद्धासनं ज्ञेयं सिद्धानां सिद्धिदायकम् ||] गुदमेढ्रान्तरं दृढम् || २१८ ||

वामेन पार्ष्णिनापीड्य तस्योपरि तु विन्यसेत् || पादं तु दक्षिणं गुल्फग्रन्थ्योरन्योन्यमर्दनम् || २१९ ||

यथा स्यात्तत्प्रकर्तव्यं ततो दक्षिणपार्ष्णिना || लिंगमूलं विनिष्पीड्य स्थिरकाय उपाविशेत् || २२० ||

गुदमाकुञ्च्य पवनमपानाख्यं तदा गुरुः || उत्थापयेत्ततः प्राणान्वायुं सम्यङ्निरोधयन् || २२१ ||

अपानप्राणयोः कुर्यात्संहतिं चैकदृङ्मनाः || मूलाधारे चित्स्वरूपे कुण्डल्यां परमात्मनि || २२२ ||

जातदोषं स्वस्य मन्त्रं चिन्तयेत्तन्त्र सद्गुरुः || तस्य मन्त्रस्याक्षराणि क्रमादेकैकशस्ततः || २२३ ||

सुषुम्णायास्तु मार्गेण मूलाधारे प्रवेशयेत् || स्वाधिष्ठाने ततश्चक्रे मणिपूरे त्वनाहते || २२४ ||

विशुद्ध आज्ञाचक्रे च भित्त्वाभित्त्वा प्रवेशयेत् || एवं नीत्वा ब्रह्मरन्ध्रं सोमस्य मण्डलामृतात् || २२५ ||

संसिक्तान्मन्त्रवर्णांस्तु सुधीः सम्यग्विभावयेत् || ततस्तन्मन्त्रमृष्यादिन्यासपूर्वं जपेत्ततः || २२६ ||

अष्टोत्तरसहस्रं तु तेन शुद्धो भवेन्मनुः || उक्तशापाद्विनिर्मुक्तं पश्चादुपदिशेच्च तम् || २२७ ||

आशीर्वादफलं स्तोकं पूर्वपापादिजं फलम् || वाचिकानां तु शापानां नाशाद्यर्थमथोच्यते || २२८ ||

श्रीपर्ण्या वा चन्दनस्य पीठे चूतादिकस्य वा || कस्तूरीकुंकुमाद्यैश्च विलिखेत्पाञ्चभौतिकम् || २२९ ||

प्. १९) चक्रमावाहयेत्तत्र मातृकाख्यां सरस्वतीम् || यथोक्तविधिना पूजां कृत्वा चाष्टोत्तरं शतं || २३० ||

जपित्वा मातृकां तस्या मध्यात्स्वाभीष्टमन्त्रकम् || स्वरव्यञ्जनबिन्दूंश्च सर्गयोग्याक्षराणि च || २३१ ||

पृथक्पृथगथोद्दृत्य चैकीकृत्य गुरूक्तितः || गृहीतं जनयेन्मन्त्रं प्रोक्तं सञ्जननं त्विदम् || २३२ ||

आद्यन्ते प्रणवं कृत्वा प्रणवान्तरितं जपेत् || अष्टोत्तरशतं मन्त्रवर्णानेतत्तु जीवनम् || २३३ ||

रोचनाकुङ्कुमाभ्यां तु भूर्जपत्रे लिखेन्मुनम् || प्रत्यक्षरं शतावृत्या ताडयेच्चन्दनाम्भसा || २३४ ||

समुच्चरन्वायुबीजमेतत्ताडनमुच्यते || कुण्ठिताः शाबरा मन्त्रास्ताडिताः सिद्धिकारकाः || २३५ ||

पूर्वोक्तपीठे संल्लिख्य तन्मन्त्राक्षरसङ्ख्यया || आदाय करवीरस्य पुष्पाण्यथ समुच्चरेत् || २३६ ||

प्रत्यक्षरं च तैः पुष्पैः शतवारं हनेदिति || उच्चरन्वह्निबीजं च बोधनं त्वेतदुच्यते || २३७ ||

प्राग्वत्पीठे च तैर्द्रव्यैः पद्ममष्टदलं लिखेत् || तत्कर्णिकायां मालत्या लिखेत्कलिकयैकया || २३८ ||

एकैकार्णन्तु मन्त्रस्य तन्मन्त्राक्षरसङ्ख्यया || बोधिद्रुपल्लवांश्चैव गृहीत्वा मन्त्रमुच्चरेत् || २३९ ||

अभिषिञ्चाम्यमुं मन्त्रं नम इत्यभिषेचयेत् || नानासुगन्धिनोपेतपल्लवैर्यावदक्षरम् || २४० ||

एकमष्टोत्तरशतमभिषेकस्त्वयं मतः || अभिषेको मन्त्रशुद्धिं कुर्यान्नॄणां यथा जलम् || २४१ ||

ज्योतिर्मन्त्रश्चिन्तनीयो मूलाधारेग्निमण्डले || संस्कर्तव्यं मनोस्तस्य दाग्ध्यमेवं विभावयेत् || २४२ ||

आननाख्यः साहजिक आगन्तुः कार्मणः स्मृतः || योगाख्यो मायिकः प्रोक्तस्तन्मन्त्रे तु मलत्रयम् || २४३ ||

ज्योतिर्मन्त्रेण निर्दग्धमेकमेकं विचिन्तयेत् || एवं तु विमलो जातः स्वमन्त्र इति चिन्तयेत् || २४४ ||

ज्योतिर्मन्त्रस्तु वेदादिहौमिति [ओंकारो वेदादिरुच्यते] द्व्यक्षरो मतः || विमलीकरणं त्वेतत्प्रयोगं चापि कारयेत् || २४५ ||

प्राग्वत्पीठे कुंकुमादिद्रव्यैर्मन्त्रं विलेखयेत् || ताम्रादिपात्रे कर्पूरवासितेन जलेन च || २४६ ||

शुद्धेनापूर्य विलिखेन्मन्त्रेणाष्टोत्तरं शतम् || अभिमन्त्र्य जलं तेन मन्त्रेण कुशबिन्दुभिः || २४७ ||

प्रत्यक्षरं प्रोक्षयेत्त्रिरेतदाप्यायनं स्मृतम् || पुरश्चर्याक्लेशितानां समावर्तनवत्त्विदम् || २४८ ||

प्. २०) कस्तूर्याद्यैस्ताम्रपात्रे मध्ये मन्त्रं विलेखयेत् || पात्रान्तरे च कर्पूरगुटिकावासितं जलम् || २४९ ||

गृहीत्वा चार्घ्यपात्रेण पठन्मन्त्रमिमं मनुम् || तर्पयामि नमोन्तेन तर्पयेदिति तर्पणम् || २५० ||

ओं ह्रीं श्रीं पूर्वकं मन्त्रं जपेदष्टोत्तरं शतम् || जपेदेतद्दीपनं स्यात्सर्वमन्त्रेष्वपीष्यते || २५१ ||

जप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाशनम् || संस्कारा दश सम्प्रोक्ताः सर्वतन्त्रेषु गोपिताः || २५२ ||

एवमेकादश प्रोक्ताः संस्कारा दश पञ्च च || प्रतिमन्त्रं वक्ष्यमाणा जपो होमश्च तर्पणम् || २५३ ||

मार्जनं भोजनं चापि द्विजानामिति षोडश || प्रोक्ता मन्त्रस्य संस्काराः किमन्यच्छ्रोतुमिच्छसि || २५४ ||

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते संस्कारप्रकाशो द्वितीयः || २ ||

Prakāśa 3 – Dīkṣā – Einweihung

श्रीदेव्युवाच ||

वाममार्गे कथं दीक्षा दक्षिणे च कथं भवेत् || किं तत्रावश्यकं कर्म चेति मे निर्णयं वद || १ ||

ईश्वर उवाच ||

शृणु देवि प्रवक्ष्यामि सर्वतन्त्रेषु गोपितम् || दीक्षाविधिं पञ्चविधं तद्राज्ञामुत्तमोत्तमम् || २ ||

उत्तमं महदाद्यानां सामान्यानां तु मध्यमम् || ब्राह्मणानामल्पमुक्तं यतीनामपि चाल्पकम् || ३ ||

तस्मादादौ प्रवक्ष्यामि तुभ्यं यच्चोत्तमोत्तमम् || यस्मिञ्ज्ञाते चोत्तमादिभेदानां विषयो भवेत् || ४ ||

तत्रादौ मण्डपं कुर्यादुत्तमोत्तमकर्मणि || स्थलादर्काङ्गुलोच्छ्रायं मण्डपस्थलमीरितम् || ५ ||

भूमिस्तु खननाच्छोध्या स्वेष्टकुण्डादितस्त्वधः || अस्थिकीटतुषाङ्गारमलहीनं शुभावहम् || ६ ||

अन्यथा तां मृदं त्यक्त्वा पूरयेच्छुभया मृदा || ग्रामाद्बहिःस्थया तत्र विप्राद्यैश्च स्ववर्णया || ७ ||

तत्र तां सुसमां कृत्वा विस्तीर्णे भाजने जलम् || अष्टाशेन सुरेख्या तत्पूरयित्वा प्रचालयेत् || ८ ||

तत्पात्रं यत्र लेख्याया जलमूर्द्धं समागतम् || तत्पूरयेद्वा यत्रोनं निम्नयेत्तत्स्थलं बुधः || ९ ||

एवं समीकृतायां तु भूमौ दिक्साधनं चरेत् || सूत्रकर्कटकीलानि गृहीत्वा वै निशान्तरे || १० ||

आद्यन्तरन्ध्रसंययुक्ता नलिका ध्रुववेधिका || याम्योत्तराशा तन्मध्ये केन्द्राद्वत्तं समालिखेत् || ११ ||

लेखां ततो वृत्तमध्ये तेन कर्कटकेन तु || प्. २१) धनुष्कुर्यात्ततश्चापं धनुष्कुर्यात्ततः पुनः || १२ ||

एवं चापानि षट् तत्र पद्मं भवति षड्दलम् || सौम्ये याम्ये त्रयं कृत्वा दलानां मध्यदेशतः || १३ ||

दीर्घा रेखा कृता सा तु भवेत्पूर्वापरा त्रिधा || याम्यपश्चिमयोस्सौम्यपूर्वयोरुपरिस्थयोः || १४ ||

चापयोरर्द्धगं सूत्रमीशानी राक्षसी भवेत् || अन्ययोश्चापयोरेवमाग्नेयी वायवी भवेत् || १५ ||

विदिक्संस्थानि सूत्राणि समान्येव हि वृत्ततः || यथेष्टं बहिरानीय निखनेत्तत्र कीलकान् || १६ ||

बद्धं चतुर्णां कीलानां मस्तके दृढसूत्रकम् || समकर्णं दिगन्तं तच्छुद्धं स्याच्चतुरस्रकम् || १७ ||

गणेशं पूजयित्वादौ पुण्याहं वाचयेत्सुधीः || ततः पञ्चनिनादैश्च मण्डपं रचयेच्छुभम् || १८ ||

मण्डपं कुलदीक्षाया कुर्याद्विंशतिहस्तकम् || मद्यमांसपुरन्ध्रीणां समावेशो यथा भवेत् || १९ ||

मण्डपोऽष्टादशकरः सिद्धान्ते वाममार्गके || अल्पत्वात्तत्र कुण्डानामधिकेपि सपञ्चके || २० ||

वैदिके बहुसामग्र्यां नवकुण्डे तु षोडश || कुण्डाल्पतायां सामग्र्यामल्पायां वेदहस्तकः || २१ ||

दक्षिणे बहुसामग्र्यां सूर्यहस्तस्तु मण्डपः || अल्पायां दशहस्तः स्यान्नवहस्तः सदा विशान् || २२ ||

शूद्राणां सप्तहस्तस्स्यात्सङ्कराणां च पञ्च च || प्रोक्तं मानं मण्डपानां सर्वतन्त्रेषु गोपितम् || २३ ||

प्रोक्ता नानाविधा हस्तास्तन्निर्णयमथो शृणु || यस्मिन्देशे च काले च समुत्पन्ना यथा यवाः || २४ ||

तेषामष्टोदराणां स्यादङ्गुलं तद्द्विजन्मनाम् || सप्तोदरैस्तु शूद्राणां सङ्करादौ तथा रसैः || २५ ||

अवैदिकस्य विप्रादेरेतत्सङ्ख्यार्द्धशालिभिः || यत्र कर्ता स्वयं तत्र मानमेतदतोन्यथा || २६ ||

आचार्यदक्षिणकरे मध्यमाङ्गुलिमध्यगम् || पर्वणोरन्तरन्दीर्घमात्राङ्गुलमुदाहृतम् || २७ ||

उच्छ्रायः प्रतिमायाश्च प्रासादादेश्च निर्मितः || वेदिकापीठशिबिकारथाद्येतत्प्रमाणतः || २८ ||

विनाङ्गुष्ठेन शेषाभिर्मुष्टिरङ्गुलिभिः कृतः || चतुर्द्धा विभजेदेको भागो मुष्ट्यङ्गुलं तु तत् || २९ ||

होमाङ्गानि स्रुवादीनि कुण्डस्थण्डिलवेदिकाः || यज्ञोपवीतमुञ्जादि कुर्यान्मुष्ट्यङ्गुलेन तु || ३० ||

यं कञ्चित्पौरुषायामं विभज्य दशधा पुनः || एकं द्वादशभागन्तु कृत्वा तेष्वेकमङ्गुलम् || ३१ ||

प्. २२) देहलब्धाङ्गुलं नाम जानीयात्तस्य तत्पुनः || एभिश्चतुर्विंशतिभिर्हस्तः स्यादङ्गुलैः पुनः || ३२ ||

अनेन प्रतिमाङ्गानां मानमुन्मानमेव च || नराणां चापि नारीणां कुर्याद्गोप्यं प्रकाशितम् || ३३ ||

चतुर्दशकरं कोटिहोमे सम्पत्तिसंयुते || अन्यथा द्वादशकरं लक्षहोमेषु दिक्करम् || ३४ ||

मण्डपं नवधा कृत्वा मध्ये भागेऽस्य वेदिका || स्तम्भास्तु वेदिकाकोणे मण्डपार्धोच्छिता वहिः || ३५ ||

पञ्चमांशं न्यसेद् भूमौ पुष्टाऽशांशसूत्रतः || मस्तके कलशाकारं तद्दशांशेन कारयेत् || ३६ ||

स्वायामोच्चा भवेद्वेदी नवकाष्ठोत्थसन्धिषु || मण्डपस्य तृतीयांशदीर्घान्स्तम्भान्सुविन्यसेत् || ३७ ||

द्वादशैवं तु पञ्चांशभूमौ कूटं दशांशतः || मध्यस्तम्भस्थितं कूटं मृदङ्गाभं प्रकल्पयेत् || ३८ ||

बाह्यस्तम्भार्धतो देया बलयो द्वादशैव हि || दक्षदीक्षाविधौ पद्मनिभं कूटं तु कारयेत् || ३९ ||

त्रिधारं वामदीक्षायां शङ्खाभं वैष्णवे मुखे || चतुर्स्रा चतुष्कोणा वेदी सर्वफलप्रदा || ४० ||

तथाङ्गादिप्रतिष्ठायां पद्मिनी पद्मसन्निभा || राज्ञां स्यात्सर्वतोभद्रा चतुर्भद्राभिषेचने || ४१ ||

विवाहे श्रीधरा वेदी विंशत्यस्रसमन्विता || वाममार्गेण दीक्षायां गुप्ता त्र्यस्रा तु वेदिका || ४२ ||

स्तम्भानामुपरि स्थाप्यान्यव्रणानि सजूंषि च || एकजातीनि पत्राणि बद्धा स्तम्भगले न्यसेत् || ४३ ||

नारिकेलदलैर्वंशैश्छादयेत्तत्समन्ततः || झञ्झामारुतवृष्ट्यादिभयं न स्याद्यथा तथा || ४४ ||

पूर्वोक्तसंसाधितदिक्षु कुर्याद्द्वाराणि चत्वारि तु मण्डपस्य || पञ्चांशमाना खलु देहली स्याद्द्विधोच्छ्रिते तत्र कपाटशाखे || ४५ ||

वाममार्गे द्वारमिदं दक्षिणे श्रेष्ठमण्डपे || कुर्याद्देहलिकां रम्यां साष्टाङ्गुलकरद्वयाम् || ४६ ||

मध्यमे मण्डपे कुर्यात्सार्द्धाङ्गुलकरद्वयम् || ४७ ||

हीने करद्वयं तस्य चोच्चता द्विगुणा मता || पूर्वद्वाराद्बहिर्हस्तमात्रं त्यक्त्वा तु वेश्मतः || ४८ ||

श्रेष्ठे मध्ये कनिष्ठे तु सप्तषट्पञ्चहस्तकम् || उच्छ्रितं फलकं कुर्याद्विस्तृतं तद्गुणाङ्गुलम् || ४९ ||

तथा प~चाङ्गुलं स्थूलं विषमं चतुरस्रकम् || वितस्त्या चोन्नतशिखं द्वारस्योभयपार्श्वयोः || ५० ||

स्थापयेत्फलकौ द्वौ तु श्रेष्ठे मध्ये कनिष्ठिके || प्. २३) मण्डपे तौ दीर्घतायां क्रमात्सार्द्धकरद्वयम् || ५१ ||

सपादद्वितयं युग्महस्तं पञ्चाङ्गकं भुवि || निखनेदग्निमीडेति गायत्र्या पार्श्वयोर्द्वयोः || ५२ ||

तत्सजातीयकाष्ठेन तावद्विस्तारगर्भकम् || चतुरस्रं तु विषमं द्वयोरुपरि कीलयेत् || ५३ ||

दर्भमालाञ्च बध्नीयात्पूर्वद्वारे विधिस्त्वयम् || एवं तु दक्षिणे द्वारे तद्द्वारं प्लक्षकाष्ठजम् || ५४ ||

इषेत्वेति न्यसेन्मालां बन्धयेत्पूर्ववत्ततः || औदुम्बरमयं कुर्यात्पश्चिमद्वारतस्त्विदम् || ५५ ||

अग्न आयाहि मन्त्रेण प्लक्षजं वैदिके मखे || प्राग्वदेवं प्रकुर्वीत वटवृक्षमयं तथा || ५६ ||

शन्नो देवीति मन्त्रेण सौम्यदिग्द्वारतो न्यसेत् || तेषामुपरि तिर्यक्स्थकाष्ठानां मध्यतो बिलम् || ५७ ||

कृत्वा तोरणजातीयकाष्ठेन रचयेच्छुभम् || श्रेष्ठमध्यजघन्येषु शैवयागे त्रिशूलकम् || ५८ ||

विश्वेशाङ्गाङ्गुलं दीर्घं तच्चतुर्थांशविस्तृतम् || वैष्णवे द्वादशांशेन शङ्खचक्रगदाम्बुजम् || ५९ ||

प्रागादिक्रमयोगेन न्यसेत्सौरोपि वैष्णवः || ऋजु वै मध्यमं शृङ्गं किञ्चिद्वक्रन्तु पार्श्वयोः || ६० ||

एवं शूलो गणपतिः शिवाद्याः शिववन्मताः || ततस्तु मण्डपस्याग्रे भूम्यूर्द्धदशहस्तकः || ६१ ||

भूमौ करद्वये वंशः स्वच्छवस्त्रावगुण्ठितः || विस्तृतश्चैकहस्तेन दीर्घः पञ्चकरैर्ध्वजः || ६२ ||

मन्त्रदेवं लिखेत्तत्र सायुधञ्च सवाहनम् || घण्टाचामरसंयुक्तं देवतावर्णवर्णकम् || ६३ ||

स्थापयित्वा ध्वजं पश्चाद्दशदिक्षु प्रकल्पयेत् || दिगीशानां पताकाश्च ध्वजस्यार्धप्रमाणतः || ६४ ||

तत्र वेदोक्तमन्त्रेण तत्तद्वर्णाश्च तद्दिशि || त्रातारमिंद्रमिति च पीतवर्णां हरेर्दिशि || ६५ ||

आग्नेययां पिङ्गला त्वन्नो अग्नेर्वरणमन्त्रतः || सुगन्नः पन्थामनुना कृष्णवर्णा यमे स्मृता || ६६ ||

असुन्वन्तेतिमनुना नैर्-ऋत्यां धूम्रवर्णिका || तत्त्वायामि ब्रह्मणेतिवारुण्यां सितवर्णिका || ६७ ||

आनोनियुद्भिरिति च वायव्यां हरिता भवेत् || वयं सोमव्रत इति सौम्यायां चन्द्रवर्णिका || ६८ ||

तमीशानमितीशान्यामतिश्वेता पताकिका || ईशानपूर्वयोर्मध्ये शेषं रक्तपताकिनम् || ६९ ||

तोयनैर्-ऋत्ययोर्मध्ये विधिं रक्तपताकिनम् || वाममार्गे वेदमन्त्रो वज्रपातसमस्स्मृतः || ७० ||

ब्राह्मणानां वाममार्गो नरकायैव जायते || मन्त्राभावे नाममन्त्रान्प्रणवाद्यान्हृदन्तकान् || ७१ ||

प्. २४) पठेद्दक्षिणमार्गे तु वामे प्रणववर्जितान् || मण्डपोपरि बध्नीयादतिश्वेतं वितानकम् || ७२ ||

अलंकुर्यात्पुष्पमालादिभिरेवं तु वेष्टयेत् || आम्राश्वत्थदलोत्पन्नयुक्तया दीर्घमालया || ७३ ||

स्तम्भान्दुकूलैस्संवेष्ट्य मध्ये कुर्याच्च वेदिकाम् || इष्टिकाभिरपक्वाभिर्हस्तविस्तृतपिण्डिकाम् || ७४ ||

मण्डपायामरुद्रांशनवसप्तेषुरामकैः || अंशैः समुन्नतां वापि तारतम्यं विलोक्य च || ७५ ||

सामग्र्यादेः समावेशो यथा स्यादिति मण्डपः || अयुताहुतिहोमस्तु विधेयः स्थण्डिलोपरि || ७६ ||

एकहस्तमितं कुण्डं दशलक्षावधि स्मृतम् || लक्षाणां दशकेनैकं हस्तंहस्तं विवर्द्धयेत् || ७७ ||

दशहस्तकोटिहोमे वैदिकानामितीरितम् || मद्यमांसादिहोमस्तु कुण्ड एव विधीयते || ७८ ||

पञ्चाशत्प्रमिते होमे प्रकोष्ठं कृतमुष्टिकम् || कुण्डस्य मानं भवति शतेऽरत्निसमं भवेत् || ७९ ||

सहस्रे हस्तमात्रं स्याद्द्विहस्तमयुते मतम् || चतुर्हस्तमितं लक्षे षट्करं दशलक्षके || ८० ||

कोटिहोमे चाष्टहस्तं कुण्डं वामे विधीयते || एककुण्डविधाने तु चतुरस्रं विधीयते || ८१ ||

ब्राह्मणानां विशेषेण स्तम्भने चापि पूर्वगम् || नवकुण्डविधाने तु वह्निभागे भगाकृति || ८२ ||

भोगार्थं चापि पुत्रार्थं वामिनां चतुरस्रवत् || अर्धचन्द्रनिभं याम्ये वैश्यानां सर्वकर्मणि || ८३ ||

अन्येषां मारणे प्रोक्तं चतुष्कुण्डेष्वपीष्यते || त्रिकोणकुण्डं नैर्-ऋत्ये रिपुघातकरं स्मृतम् || ८४ ||

विद्वेषकारकं चैतच्छद्राणाञ्च विशिष्यते || वृत्तं मुख्यं क्षत्त्रियाणां सर्वेषां शाक्तकर्मणि || ८५ ||

पश्चिमायां तु तत्कार्यं बौद्धादीनां च सिद्धिदम् || षट्कोणमुच्चाययति तच्छेदेषु च विशिष्यते || ८६ ||

वायव्यां कारयेत्तच्च सङ्कराणां विशिष्यते || उदीच्यां पौष्टिके कुण्डं वृत्तिदं तुष्टिदं तथा || ८७ ||

सर्वप्रयोगेष्वनया परप्रीतिकरं स्मृतम् || अष्टकोणं मुक्तिकरमैशान्यां तद्विधीयते || ८८ ||

कारागृहात्तथा रोगाच्चिन्तादेर्मोक्षमाप्नुयात् || अष्टकुण्डीविधाने तु क्रमोऽयं नवकुण्डके || ८९ ||

नवमं चतुरस्रं स्यात्पूर्वेशानदिगन्तरे || विधाने पञ्चकुण्डीनामीशाने पञ्चमं भवेत् || ९० ||

समकुण्डविधाने तु न खातो वैदिके बहिः || अन्यदेकं पञ्चकोणमभिचारविनाशनम् || ९१ ||

तथान्यत्सप्तकोणञ्च कुण्डं भूतनिकर्तनम् || प्. २५) अथादौ चतुरस्रस्य कुण्डस्य विधिरुच्यते || ९२ ||

नाभियोनिसमायुक्तं श्रेष्ठं कुण्डं त्रिमेखलम् || द्विमेखलं तु शूद्राणां संकराणां कुमेखलम् || ९३ ||

यावान्कुण्डस्य विस्तारः खननं तावदेव हि || यावत्कुण्डमिहेष्टं स्यात्तावद्दिक्सधने कृते || ९४ ||

चतुरस्रं समं कुर्यात्समकर्णञ्च शिल्पवित् || एकहस्तस्य यत्कर्णो भुजा तस्य करद्वयी || ९५ ||

द्विहस्तस्य तु कर्णस्य त्रिहस्ता भुजसम्मितिः || चतुर्हस्तादिकेप्येवं कुण्डः सर्वत्र भूसमः || ९६ ||

जिनभागसमास्तस्य बहिः कार्यास्तु मेखलाः || द्वादशाङ्गुलविस्तारा चोत्सेधा चतुरङ्गुला || ९७ ||

तदूर्ध्वमपरादीर्घाष्टांगुलाष्टाङ्गुलोच्चका || चतुर्भिरङ्गुलैर्दीर्घा तावदुच्चा तदर्धतः || ९८ ||

दैर्घ्यात्सूर्याङ्गुला योनिस्त्र्यंशोना विस्तरेण तु || एकाङ्गुलोच्छ्रिता सा तु प्रविष्टाभ्यन्तरे तथा || ९९ ||

कुम्भद्वयसमायुक्ता चाश्वत्थदलवन्मता || अङ्गुष्ठमेखलायुक्ता मध्ये बाह्ये धृतिः क्षमा || १०० ||

योन्यास्तु पश्चिमे भागे मेखलात्रितयाद्बहिः || चतुरस्रं भवेत्पीठं कुण्डमष्टांशविस्तृतम् || १०१ ||

तावद्दीर्घं तथोच्चं च नालं तन्मध्यतो भवेत् || योनिमध्ये तु तद्वृत्तं कुण्डषष्ठंशमानतः || १०२ ||

प्रागग्नियाम्यकुण्डानां प्रोक्ता योनिरुदङ्मुखी || शेषा पूर्वमुखा योनिः कुण्डयोनिञ्च वर्जयेत् || १०३ ||

कुण्डमध्यस्थकेन्द्रात्तु कुर्यात्कर्कटकेन तु || प्रसारितेन व्यासार्कभागतुल्येन तत्परम् || १०४ ||

षष्ठांशेन तु वृत्तं स्यात्पूर्ववृत्तं तु कर्णिका || कर्णिकाग्रे बाह्यवृत्ताभ्यन्तरेष्टदलानि तु || १०५ ||

एवं षडङ्गुलोच्चा स्यान्नाभिर्वेदास्रमीरितम् || इष्टस्य चतुरस्रस्य जिनांशो भाग उच्यते || १०६ ||

सपादैः पञ्चभिर्भागैर्मध्यसूत्रं विवर्धयेत् || प्राच्यामथ प्रकुर्याच्च चतुर्धा चतुरस्रकम् || १०७ ||

मध्यतो भ्रामयेत्कर्कटकं पश्चिमसंस्थयोः || अर्धचापाकृतिं रुद्रबहिर्दिक्षु तदग्रतः वह्न्यन्तं पातयेत्सूत्रं द्वयोरपि तदा भवेत् || १०८ ||

अश्वत्थपत्रसंकाशं योनिकुण्डमुदङ्मुखे || प्राग्मानाश्चात्र बोद्धव्या योनिरूपाः सुमेखलाः || चतुरस्रीकृतं क्षेत्रं दशधा विभजेद्बुधः || १०९ ||

एकमेकं त्यजेदंशमध ऊर्ध्वं च तन्त्रवित् || ज्यासूत्रं पातयेदग्रे तन्मानाद् भ्रामयेत्ततः || अर्धचंद्रनिभं कुण्डं रमणीयमिदं भवेत् || ११० ||

प्. २६) अत्र तद्याम्यपृष्ठं स्यादेवं तन्मारणाय वै || सौम्यपृष्ठं ततो न्यत्त्र योनिः पश्चिमदिग्मता || १११ ||

अग्रं प्राक् त्रिभुजं कार्यं लम्बास्तुल्यास्त्रयोपि च || सान्तरं सर्वतन्त्रेषु प्रोक्तमत्र निरन्तरम् || ११२ ||

एक हस्ते तु हस्ताद्या भुजाभूद्वादशोच्चया || द्विहस्तादौ त्रयः पञ्च त्रिहस्तेह्यर्कभूमयः || ११३ ||

चतुर्हस्ते त्रयं चन्द्रः पञ्चहस्ते त्रिगोचराः || षड्ढस्ते त्र्यब्दरामाश्च नगे त्रिकृतिसागराः || ११४ ||

अष्टहस्ते कृतागक्ष्मादैवीविश्वामयाग्नयः || वेदाग्निधृतियुग्मानि दशहस्तभुजा स्मृता || ११६ ||

व्यासार्धं चतुरस्रस्य स्वस्याष्टादशभागयुक् || तावत्कर्कटकाद् वृत्तं वृत्तकुण्डमिहोच्यते || ११६ ||

रचयेच्चतुरस्रस्य व्यासार्धं नृपभागयुक् || तावत्कर्कटकेनापि कुर्याद् वृत्तं मनोहरम् || ११७ ||

तेन कर्कटमानेन चिह्नषट्कञ्च पूर्ववत् || कृत्वा तत्त्रिभुजां दत्त्वा कुडमेवं षडस्रवत् || ११८ ||

इष्टस्य चतुरस्रस्य चतुर्विंशांशकल्पना || कृत्वा तन्मध्यतः सूर्यभागं कर्कटकेन तु || ११९ ||

वृत्तं कुर्यात्पुनः सूर्यतिथिभागैर्द्वितीयकम् || दिग्विदिगन्तराले च सूत्राण्यष्टौ प्रपातयेत् || १२० ||

ततोन्तर्वृत्तरेखाया ईशसूत्राग्रसूत्रतः || रेखां नयेद्बाह्यवृत्तपूर्वसूत्रस्य मूर्द्धनि || १२१ ||

ततो दक्षिणरेखायामन्तर्वृत्तस्य मूर्द्धनि || तमानयेद्दलं तस्मादेवमष्टदलानि तु || १२२ ||

अंशव्यासार्द्धकेनापि यद्वृत्तं सा तु कर्णिका || ततः षडङ्गव्यासार्धवृत्तं तत्केशराणि च || १२३ ||

व्यासषष्ठांशमानोच्चा कर्णिका केशराणि च || गुरूक्तयुक्त्या निखनेद्यथा पद्माकृतिर्भवेत् || १२४ ||

पद्माकृतिम्प्रकुर्वीत कण्ठं मेखलया सह || कार्यं तथा वालुकाभिश्चतुरस्रसमं यथा || १२५ ||

अथेष्टचतुरस्रस्य व्यासः स द्वादशांशयुक् || तेनैव भ्रामयेद् वृत्तं चिह्नान्यत्र दिगष्टके || १२६ ||

क्रमान्न्यसेत्तदुपरि भुजां दद्यात्समामिति || अष्टास्रं जायते कुण्डं तद्वत्कण्ठश्च मेखलाः || १२७ ||

इष्टस्य चतुरस्रस्य व्यासार्धं स्वनगांशयुक् || तद्व्यासार्धेन वृत्तं स्यात्तत्र चिह्नानि पञ्च तु || १२८ ||

समभागेन देयानि तेषु सूत्राणि दापयेत् || ज्यारूपाणि धनुर्लोपात्कुण्डं पञ्चास्रकं भवेत् || १२९ ||

इष्टस्य चतुरस्रस्य व्यासार्धः पञ्चमांशयुक् || भ्रामयेत्तत्र वृत्तं तु सप्तधा सकलं तु तत् || १३० ||

प्. २७) ख्यातान्यन्यानि कुण्डानि तान्त्रिकस्मार्तकर्मणि || अनाभिकानि कुण्डानि वियोनीति श्रुतीरितम् || १३१ ||

आचर्यकुण्डं नवमं चतुरस्रन्तु वैदिकम् || अष्टाशक्तौ तु चत्वारि दिक्षु कुण्डानि तान्त्रिके || १३२ ||

तदशक्तावेकमेव चतुरस्रं प्रकल्पयेत् || शक्त्या उपासने वामपथ्यकं योनिकुण्डकम् || १३३ ||

अनेकदोषदं कुण्डं मानं हि चाधिकं यदि || तस्मात्सम्यक्परीक्ष्येदं कर्तव्यं शुभमिच्छता || १३४ ||

खाताधिके भवेद्रोगी हीने धेनुधनक्षयः || वक्रकुण्डे तु सन्तापो मरणं छिन्नमेखले || १३५ ||

मेखलारहिते शोकोऽथाधिके वित्तसंक्षयः || भार्याविनाशकं कुण्डं प्रोक्तं योन्या विना कृतम् || १३६ ||

अपत्यध्वंसनं प्रोक्तं कुण्डं यत्कण्ठवर्जितम् || शृङ्गाररहितं यच्च कुण्डं जर्जरमेखलम् || १३७ ||

यजमानविनाशाय प्रोद्घातः स्फुटिते भवेत् || सूत्राधिके सुहृद्द्वेषः सूत्रहीने दरिद्रता || १३८ ||

अनाले जठरे रोगश्छिद्रे कुण्डे तु वाच्यता || यथोक्तकुण्डेप्युत्पातादेवं जाते फलं त्विदम् || १३९ ||

षड्गुणाब्धिवह्निनेत्रमितास्स्युः पञ्च मेखलाः || धर्मभेदे जातिभेदे चाचार्ययजमानयोः || १४० ||

षष्ठांशेनाष्टमांशेन मेखलाद्वितयं मतम् || कौलिके वाममार्गे च बौद्धे जैने च शाबरे || १४१ ||

एवं कृते मण्डपे तु वास्तुपूजां समारभेत् || नूतने तु गृहे कुर्यादन्यथोपद्रवो महान् || १४२ ||

स्मार्ती च तान्त्रिकी पूजा द्विविधा सा निगद्यते || वास्तुनामा पुरा कश्चिद्बभूव त्वसुरोत्तमः || १४३ ||

त्रैलोक्यं निर्जितं तेन त्रिपञ्चाशच्च देवताः || ये रणे सम्मुखे यातास्तेन तेतिनिपीडिताः || १४४ ||

पुनः पुनर्जिता युद्धे स एवासीत्प्रजापतिः || दिव्यवर्षसहस्रान्ते देवाः शरणमागताः || १४५ ||

विष्णोर्मम च पार्वत्या दैत्येन्द्रेणापि तच्छ्रुतम् || योद्धुकामः सोभ्यधावन्नारदेन प्रचोदितः || १४६ ||

कृतं युद्धं तेन सार्द्धमस्माभिर्वर्षपञ्चकम् || ततो दैत्यो मदोत्सिक्तो विष्णुमायाविमोहितः || १४७ ||

उवाच वचनं तुष्टो व्रियतांव्रियतामिति || १४८ ||

नेन्द्रेण च कुबेरेण मम तोषकरं कृतम् || ससैन्येनापि तद्युद्धं त्वया तु जटिलेन हि || १४९ ||

कृतं विष्णुसहायेन पार्वत्यर्द्धाङ्गधारिणा || तेनाहं तुष्टिमापन्नस्त्रैलोक्यपरमेश्वरः || १५० ||

प्. २८) अदेयं नास्ति मे किञ्चिद्याचयन्तु त्रयोपि च || इत्याकर्ण्य वचस्तस्य शिवयोर्भ्रूप्रचोदितः || १५१ ||

हरिः प्राह महाधन्यो दैत्येन्द्र त्वं ममोक्तितः || सत्यं त्रिवारं कुरुष्व तदा वाच्यो वरो मया || शिवेनापि च पार्वत्या देव एवापरो न हि || १५२ ||

त्रिरुवाच तथा दैत्यस्तदा विष्णुर्व्यजिज्ञपत् || यथा ते त्वरितो मृत्युः स उपायः प्रदर्श्यताम् || विष्णोश्छलमिति ज्ञात्वा दैत्येन्द्रस्तमभाषत || १५३ ||

अवश्यमेव गन्तव्यं सर्वैः कालमुखे हरे || तथापि स्वप्रतिज्ञार्थं यो गच्छति स जीवति || १५४ ||

परं त्वेको न मे वंशो येन मत्सेवनं कृतम् || तस्य मार्गं दर्शयित्वा देहोयं विनिपात्यताम् || १५५ ||

काले तस्मिंश्च भो देवा वागुवाचाशरीरिणी || देत्यन्द्रै कुरु मा शोकं भुवो जन्म तवाभवत् || १५६ ||

तत्रैव त्वं लयं याहि त्वत्तो पार्थं वरं शृणु || ये वर्णाः स्वस्य भोगार्थं करिष्यन्ति नवं गृहम् || १५७ ||

तत्र त्वदुत्सवमृते नानादुःखैरुपद्रुताः || कालकर्ण्यादिका दास्यो विनायकमुखाश्च ते || १५८ ||

सेवकाः पीडयिष्यन्ति चेत्याज्ञा पारमेश्वरी || इत्याकर्ण्य वचस्सोपि गर्तं कृत्वा महाबिलम् || १५९ ||

प्रविवेश ततो देवैर्मृत्पाषाणैः प्रपूरितम् || तेन ये निर्जिताः देवाः पुनरुद्गमशङ्कया || १६० ||

तस्योर्ध्वन्तु त्रिपञ्चाशन्निवासं चकुरुद्यताः || तस्मादवश्यं ते पूज्या गृहवाससुखेच्छया || १६१ ||

शृण्वन्तु तद्विधिन्देवा वामदक्षिणमार्गतः || पाषाणे प्रतिमायां वा कुर्याद्वास्तोष्पते तथा || १६२ ||

प्रतिजानीति मन्त्रेण तस्यावाहनपूजनम् || नाममन्त्रेण चान्येषां पूजां कृत्वा प्रपूरयेत् || १६३ ||

नैर्-ऋत्यकोणे गेहस्य चतुरस्राकृतिं शुभाम् || कृत्वा समतलां भूमिं वितस्त्युच्चां च वेदिकाम् || १६४ ||

विस्तारायामतो हस्त मात्रां तत्र लिखेद् बुधः || एकाशीतिपदं चक्रं वैदिक्यस्तत्र देवताः || १६५ ||

मध्यकोष्ठेषु नवसु त्वादौ ब्रह्माणमर्चयेत् || आपवत्सन्तदीशाने प्रागर्यम्णं त्रिकोष्ठके || १६६ ||

आग्नेये सवितारं च विवस्वन्तमपां त्रिषु || इन्द्रं नैर्-ऋत्यदिग्भागे मित्रं पश्चिमगं त्रिषु || १६७ ||

वायव्ये राजयक्ष्माण सुमेरुं चोत्तरे त्रये || वेदकोष्ठेषु चैशान्यामीशं कोणाच्च दवतोः || १६८ ||

प्. २९) शिखी पर्जन्य आपश्च दितिः प्रोक्ताष्टयोर्द्वयोः || क्रमादेते पञ्च देवा ज्ञातव्याः सव्यमार्गतः || १६९ ||

जयन्तेन्द्रौ सूर्यसत्यवृषा आग्नेयकोणके || अंतरिक्षं तथा वातः पूषा सावित्र एव च || १७० ||

चतुष्क ईशतो देवास्ततो दक्षिणपञ्चके || युग्मे क्रमाच्च वितथो गृहरक्षयमौ तथा || १७१ ||

गंधर्वा भृङ्गराजश्च नैर्-ऋतीस्थं चतुष्कके || ईशानीतो जयमृगौ पितृदौवारिकौ तथा || १७२ ||

ततः पश्चाद्द्विके पञ्च सुग्रीवः पुष्पदंतकः || वरुणासुरशेषाश्च वायव्ये ईशतस्त्वहिः || १७३ ||

रुद्रश्च पापयक्षाश्च रोगश्चोत्तरपञ्चसु || मुख्यो भल्लाटसोमौ च भुजङ्गश्चादितिस्तथा || १७४ ||

देवा एते पञ्चचत्वारिंशदर्च्याश्च भक्तितः || अथ तान्त्रिकमार्गे तु चतुष्षष्टिपदे तथा || १७५ ||

कोणयोः सूत्रयुगलं मध्ये ब्रह्माणमर्चयेत् || चतुष्कोष्ठेषु तत्पूर्वात्तत्र कोष्ठे द्विकेद्विके || १७६ ||

आर्यकं च विवस्वंतं मित्त्रमन्यं महीधरम् || सावित्रः सविता शक्र इन्द्रजिद्रुद्रतज्जयौ || १७७ ||

आपवत्सुरकौ वेति शैव्याः कोणार्धकोष्ठयोः || शर्वं गुहं चार्यमणं जम्भकं पिलिपिच्छकम् || १७८ ||

चरकीं च विदारीं च पूतनां पूर्वतो यजेत् || ईशानश्चाथ पर्जन्यो जयन्तः शक्रभास्करौ || १७९ ||

सत्यो वृषोऽन्तकश्चैव पूर्वाशाकोष्ठगाः क्रमात् || अग्निः पूषा च वितथो यमोथ गृहरक्षकः || १८० ||

गन्धर्वा भृङ्गराजश्च मृगा दक्षिणदिग्गताः || निर्-ऋतिश्चाथ दौवारिकश्च सुग्रीवकस्तथा || १८१ ||

वरुणः पुष्पदन्तश्च सुरशेषाख्यरोगकाः || पश्चादथोत्तरे वायुर्नागमुख्यास्ततः परम् || १८२ ||

सोमभल्लाटार्गलाख्या अदितिर्दितिरुत्तरे || ब्रह्मस्थानं रक्तवर्णं दिशः पीतैर्विदिक्सितैः || १८३ ||

ततो दिशस्तु हरितैर्विदिशः कृष्णवर्णकैः || अरुणः परिधिः कार्यः सुन्दरं मण्डलं भवेत् || १८४ ||

व्रीहिमुद्गयवैः क्षौद्रघृतदुग्धप्लुतैः क्रमात् || अष्टोत्तरशतंचाष्टोत्तरविंशतिमेव च || १८५ ||

प्रत्येकं तैर्हुनेद्द्रव्यैरर्चयेच्च यथाविधि || बलिं च तेषां कुर्वीत पायसैर्व्यञ्जनान्वितैः || १८६ ||

एवं सिंहगते भानौ पूर्णायां प्रतिवत्सरम् || स्वगेहे वास्तुपूजां च मण्डपेषु समाचरेत् || नाकालमरणं व्याधिर्भूतप्रेतादिभीर्न च || १८७ ||

न सर्पपीडा नान्योन्यकलहाद्यशुभानि च || पुत्रपौत्रधनारोग्यपशुदासीसमृद्धिभाक् || प्. ३०) अरोगी विजयी ख्यातश्चिरंजीवति तद्गृहे || १८८ ||

राजवेश्मसु सर्वत्र तथा च महिषीगृहे || सचिवामात्यसेनानीभवनेषु पुरे तथा || विदध्यात्प्रतिवर्षं तु प्रोक्तसिद्ध्यै सुदेशिकः || १८९ ||

न चेदुक्तान्यथारूपं फलैः क्लेशश्च सम्भवेत् || भैरवक्षेत्रपालानां योगिनीनां विशेषतः || १९० ||

वामाचारैर्बलिः कार्यो महिषैर्वापि कुक्कुटैः || आराधितास्तु वामेन जायन्तेतिबुभुक्षिताः || १९१ ||

देवता बलिमिच्छंति तद्धीनं घ्नन्ति साधकम् || मद्यमांसप्रमत्तास्ते प्राक्तनेन प्रचोदिताः || १९२ ||

कदाचिच्छुभमिच्छन्ति तस्मात्सद्भिर्न वामतः || क्रियतेभ्यर्चनं तासां प्रातस्तु निकटे यतः || १९३ ||

शुभं भवति वा नो वा यथा शास्त्रे तथा जने || यावन्न मद्यमांसाशी जनस्तावदलोलुपः || भुंक्ते तस्मिंस्तन्मनाः स्यात्क जपः क्व च देवताः || १९४ ||

मद्यमांसादिकत्यागात्तस्य वातिनिषेवणात् || दृश्यते तुल्यरूपो यः स सिद्धोऽन्यस्तु पातकी || १९५ ||

एवं परीक्ष्य कर्तव्या सिद्धानामपि सङ्गतिः || अत्र किं बहुनोक्तेन सर्वनाशस्तु वामतः || १९६ ||

इति सञ्चिन्त्य भो देवाः स्वधर्मः श्रेयसे भवेत् || वास्तु शान्तिं विधायैवं सदसज्ज्ञानहेतवे || १९७ ||

सप्तभिर्नवभिर्वापि दिनैर्दीक्षादिनात्पुरा || बीजारोपणकर्मेदं कर्तव्यं सर्वकामदम् || १९८ ||

मण्डपोत्तरदिग्भागे सुसंवृत्तान्तरे परे || भवने मण्डपं कुर्याद्दक्षः प्राग्वरुणायनम् || १९९ ||

याम्योदीच्यायतं वामदीक्षायां सम्प्रशस्यते || गोमयेनोपलिप्तायां भूमौ दक्षेऽथ वामके || २०० ||

सतैलतण्डुलेनैव सतैलविजयाद्रवैः || तत्र रेखाः पञ्चकरा दीर्घाः कार्याश्च पञ्च च || २०१ ||

वितस्त्यन्तरिता रुद्ररेखाः कार्यास्तथायताः || चत्वारिंशत्कोष्ठकास्स्युश्चतुर्विंशतिकोष्ठकैः || २०२ ||

वायवङ्गैस्तत्र वीथी स्यात्पूरयेद्रक्तचूर्णकैः || पश्चात्कोष्ठचतुष्कं यद्ब्रह्मस्थानं तदीरितम् || २०३ ||

आग्नेयकोष्ठमारभ्य ईशानान्तं प्रपूरयेत् || पीतै रक्तैश्च कृष्णैश्च रजोभिस्सृष्टिमार्गतः || २०४ ||

कोष्ठद्वयं ततो वीथी रक्तेनैव प्रपूरयेत् || विष्णुस्थानं तदग्रे तु ज्ञेयं कोष्ठचतुष्टयम् || २०५ ||

प्राग्वद्रजोभिरापूर्य तदग्रेपि च वीथिकाः || प्. ३१) कार्या डमरुकाकाराश्चतस्रो विष्णुदेवताः || २०६ ||

दूर्वाम्रपल्लवाश्वत्थदलोपेताश्च वेष्टिताः || सूत्रेण विष्णुस्थानस्य चतुष्कोष्ठे निवेशयेत् || २०७ ||

वैरिञ्च्यः पञ्च मुख्यास्ताः काष्ठजाः षोडशांगुलैः || आयामोच्छ्रायदीर्घाख्यैर्युक्ताः पश्चान्निवेशयेत् || २०८ ||

ब्रह्मस्थाने पल्लवादिसूत्रैः प्राग्वच्च योजिताः || शैवाः शरावाश्चत्वारो भान्वङ्गुलसमुच्छ्रयाः || २०९ ||

प्रक्षाल्य सूत्रैः संवेष्ट्य प्राग्वदग्न्यादिषु न्यसेत् || शालिपुञ्जेषु गन्धादिदर्भकूर्चायनेषु च || २१० ||

पूरयेत्तानि पात्राणि वालुकामृत्करीषकैः || शंखस्वनेन नादैश्च पञ्चभिर्ब्राह्मणाशिषा || २११ ||

ततः स्वर्णादिके पात्रे दश बीजानि वापयेत् || वंबीजं प्रजपेन्मंत्री दुग्धेन क्षालयेत्पुनः || २१२ ||

तानि प्रियंगुश्यामाकतिलसर्षपशालयः || मुद्गाढक्यस्तुनिष्पावा खल्वा माषाः प्रकीर्तिताः || २१३ ||

ब्रह्मपात्रे तु विकिरेत्प्रथमं वैष्णवे ततः || ततः शैवे पञ्चवाद्यब्रह्मघोषपुरस्सरम् || २१४ ||

हरिद्राद्यैश्च संसिच्य वस्त्रैराच्छादयेत्ततः || संध्ययोरुयोश्चैव रात्रौ चापि बलिं हरेत् || २१५ ||

गुरूपदिष्टमार्गेण सम्यक्पात्रत्रयाग्रतः || नवाहं तु बलिं दद्यात्तत्तद्युद्दिश्य दैवतम् || २१६ ||

शाल्योदनं तिला लाजाः सक्तवः प्रथमे दिने || हरिद्राचूर्णसंयुक्तो भूतेभ्योयं बलिर्मतः || २१७ ||

एवं द्वितीयदिवसे पितृभ्यस्तिलमण्डलैः || तृतीये सक्तवो लाजा यक्षेभ्यो दधिसंयुताः || २१८ ||

नागेभ्यः सक्तवस्तुर्ये नारिकेलजलप्लुताः || दद्यात्पद्माक्षतबलिं पंचमे ब्रह्मणे मुदा || २१९ ||

षष्ठे शिवाय चापूपयुक्तं भक्तं प्रशस्यते || तत्रौदनं सप्तमेह्नि विष्णवे विनिवेदयेत् || २२० ||

ब्रह्मस्थाने तु वेतालो मेषस्तस्य बलिः सुराः || विष्णुस्थाने भैरवी स्यादजस्तस्या बलिर्मतः || २२१ ||

भैरवस्तु शिवस्थाने महिषं बलिमिच्छति || गौडी माध्वी च पैष्टी च सुरास्तत्र क्रमान्मताः || २२२ ||

मत्स्यमांसं मद्ययुक्तं भूतेभ्यो बलिरिष्यते || पितृभ्यः शशमांसं च यक्षेभ्यः कुक्कुटं मधु || २२३ ||

भेकोन्दुरबलिर्नागान्वाममार्गबलिस्त्वयम् || एवं गतेषु नवसु दिनेषु च विलोकयेत् || २२४ ||

सम्यक् तस्योद्गमो जातः किं नष्टं मध्यमं च किम् || सम्यगभ्युद्गमे सिद्धिः कुण्ठिते विघ्नमाप्नुयात् || २२५ ||

प्. ३२) कीटभुक्तेनास्य फलं स्फुटिते सर्वनाशनम् || सिद्धिः प्रियङ्गुभिर्ज्ञेया श्यामाकैःस्त्रीसुखं भवेत् || २२६ ||

तिलैः पूज्यजनोल्लासः सर्षपैर्नाभिचारके || शालिभिः सर्वसम्मानो मुद्गैर्देवकृपा भवेत् || २२७ ||

चतुष्पादास्तथाढक्यां निष्पावैः क्षेत्रमन्दिरे || खल्वैः सत्कर्मसिद्धिः स्यान्माषैः शान्ती रणे भवेत् || २२८ ||

सर्वैस्समुद्गतैर्वामे सिद्धिः पातस्ततोन्यथा || चैत्राद्दीक्षाफलं दुःखं प्रतिष्ठारत्नसिद्धये || २२९ ||

हीनता मरणं बन्धुनाशो दुःखं ततः क्रमात् || आनन्दो वृद्धिदुःखेथाक्षेपा निन्दा इति क्रमात् || २३० ||

दारिद्र्यं सर्वज्ञानं च शुभोत्कृष्टत्वसौख्यता || ज्ञानं मेधाविनाशश्च स्वर्णाप्तिर्ज्ञानवर्द्धनम् || २३१ ||

समृद्धिसिद्धिः श्रेष्ठत्वं मलमासक्षयं त्यजेत् || मनस्तापः श्रियः सौख्यं सौख्यं मन्त्रस्य सिद्धयः || २३२ ||

क्षुद्रदैवतसंसिद्धिः शीघ्रं सिद्धिः शुभा मतिः || देवमैत्री सर्वहानिः कलहश्च महाभयम् || २३३ ||

सम्पद्रोगो जपात्सिद्धिः सन्तापस्ताप ईशिता || सर्वसिद्धिः फलं भानां क्रमाद्दक्षे थ वामके || २३४ ||

तिथेः फलं बुद्धिनाशः क्रमाज्ज्ञेयाः सुसिद्धयः || अगौरीमान्त्रिका भ्रष्टा विगणेशाश्च दुःखिताः || २३५ ||

सिद्ध्यन्ति मन्त्राः सर्वेपि न सिद्ध्यन्ति कदाचन || समृद्धिर्दुःखसिद्धिश्च मूर्खता गुरुनाशनम् || २३६ ||

जडतारिष्टनाशश्च सर्वं पूर्णं भवेत्फलम् || शुक्ला श्रेष्ठा नैव कृष्णा शुभ्रा शुभतरा हरेः || २३७ ||

सिद्धिः स्यात्सर्वमन्त्राणां प्रोक्तं चैव महाभयम् || सिद्धिर्धातुर्विशेषेण पुत्रहानिः पितॄनृते || २३८ ||

क्रमाद्वारफलं बुद्धिर्जडता मरणं तथा || नियोगहीनता पुत्रा धनाप्तिर्मृत्युरीरिता || २३९ ||

विष्कुम्भादिकयोगानां नामतुल्यं फलं भवेत् || आनन्दादिकयोगानां सर्वत्राविकलं फलम् || २४० ||

विष्टिं विहाय करणे चरेत्सिद्धिर्द्रुतं भवेत् || सर्वसिद्धिर्विष्टिपुच्छे स्थिरे तु स्थिरता भवेत् || २४१ ||

अथ लग्नफलं देवा धनं धान्यं समृद्धयः || राज्यं वा देवतासिद्धिर्हानिर्मेधाविनाशनम् || २४२ ||

रत्नादिलक्ष्मीलाभश्च धनं धान्यं च सिद्धयः || पूर्णसिद्धिः प्रतापश्च हानिर्विज्ञाननाशनम् || २४३ ||

पूर्वप्राप्तिर्मन्त्रसिद्धिः पशवो विपुलं धनम् || सदा दुःखं तथा हानिर्वामिनां मिथुनं शुभम् || २४४ ||

प्. ३३) वामिनां यवनानां च विरुद्धं बहुधा शुभम् || त्रिषडायगताः पापाः शुभाः केन्द्रत्रिकोणगाः || २४५ ||

रन्ध्रे मृत्युप्रदाः सर्वे व्यये खेटे रिपौ च रुक् || मन्त्रश्चन्द्रबले ग्राह्योऽन्यथा स्यादघसम्भवः || २४६ ||

ताराबलानुरूपेण देवतायाः कृपा भवेत् || धर्मदो राज्यदः सिद्धिप्रदो मध्योस्ति नाशकृत् || २४७ ||

प्रातःसङ्गवमध्याह्नापराह्णं सायमेव च || चन्द्रग्रहे तु दारिद्र्यं सौरे सर्वसमृद्धयः || २४८ ||

गुरावशुभदृष्टे च सिद्धक्षेत्रे सुशोभने || आगच्छति गुरुर्दैवाद्यदा दीक्षा तदा भवेत् || दीक्षादिनात्पूर्वदिने प्रातःकृत्यं निवर्त्य च || २४९ ||

समलंकृत्य देहं स्वं स्वगृहे पूजनं चरेत् || गणेशस्य विधानेन पुण्याहं वाचयेत्ततः || २५० ||

नान्दीमुखांस्तर्पयित्वा पञ्चवाद्यपुरःसरम् || यथोक्तकृतसम्भारो गच्छेद् गुरुगृहं प्रति || आचार्य-ऋत्विग्वरणसम्भारो दशधा मतः || २५१ ||

श्रीपर्णीवृक्षपीठानि हस्तमानानि मानतः || अष्टाङ्गुलसमुच्छ्रायसहितानि समानि च || २५२ ||

सप्तविंशतिदर्भाणां वेण्यग्रे ग्रन्थिभूषिताः || विष्टराः सर्वयज्ञेषु लक्षणं परिकीर्तितम् || २५३ ||

सुखोष्णोदकसम्भूताः पाद्यार्थे ताम्रगण्डकाः || शङ्खा अर्घ्यप्रदानाय गन्धपुष्पजलान्विताः || सुताम्रस्य कमण्डल्व आचा मोदकपूरिताः || २५४ ||

ते द्विधा मधुपर्कार्थं कांस्या दध्यादिपूरिताः || महदर्घ्याणि वस्त्राणि मुद्रिकाद्यं सुभूषणम् || मधूकपत्रच्छत्राणि सोष्णीषाणि समाचरेत् || २५५ ||

पादुकाश्चाहरेत्तत्र वर्माभरणभूषिताः || कृत्वैतत्फलमाप्नोति महायज्ञार्हणोपमम् || २५६ ||

अन्येभ्यो मधुपर्केण विप्रेभ्यः पूजनं स्मृतम् || भक्त्या तद्द्विगुणं दद्यादाचार्याय सुभक्तिमान् || २५७ ||

अन्यैर्द्विजैः समं यत्र देशिकस्य प्रपूजनम् || तस्मिन्यज्ञफलं स्वल्पमनावृष्टौ यथा क्षितेः || २५८ ||

एवं गुरुगृहं गत्वा प्रणम्य गुरुपादुके || दत्त्वा वरणसामग्रीं सङ्कल्प्य वृणुयाद्गुरुम् || २५९ ||

उच्चार्यमुक्तमन्त्रस्य ग्रहणाय द्विजोत्तम || गुरुत्वे नेति सम्भाष्य त्वामहं च ततो वृणे || २६० ||

इत्युक्त्वा वृणुयाच्छिष्यो वृतोस्मीति ततो गुरुः || यथोचितं गुरो कर्म कुरुष्वेति वदेच्छिशुः || २६१ ||

करवाणीति चाचार्यो गुरोरेवाज्ञया ततः || ब्राह्मणान्वृणुयादष्टौ वेदवेदाङ्गपारगान् || २६२ ||

प्. ३४) तद्देवतोपासकांश्च ऋत्विक्त्वेनाथवा यदा || चत्वारि कुण्डानि तदा चत्वार ऋत्विजो मताः || २६३ ||

ततः शिष्येण सहितो यायाद्यागगृहं गुरुः || उपविश्य च तद्द्वारे परीक्षामारभेत्ततः || २६४ ||

शिष्याय मूलसञ्जप्तं प्रदद्याद्दन्तधावनम् || दन्तान्विशोध्य पुरतः स्थण्डिले हस्तमात्रके || २६५ ||

चतस्रोभ्यानयेत्तनु परीक्षेत ततो गुरुः || तदग्रं यद्दिशासंस्थं तत्रेदं पूर्वतः फलम् || २६६ ||

भूतिर्हृदयसन्तापो बन्धुनाशस्तथा मतिः || शोकश्च व्यग्रता सौख्यं ज्ञानलाभः क्रमात्फलम् || २६७ ||

अमङ्गलस्थानयानप्रायश्चित्तं समाचरेत् || अष्टाधिकं सहस्रं वा शतं विंशतिरेव वा || २६८ ||

अस्त्रसम्पुटितेनैषां नाम्ना स्वाहान्वितेन च || दोषाञ्जहिजहीत्येवं पदं चैव नमोऽन्तकम् || २६९ ||

केवलाज्येन जुहुयाद्दुःस्वप्ने चैवमेव हि || दन्तकाष्ठं पुनर्देयं पुनर्दुष्टं च चेत्फलम् || २७० ||

तृतीयमपि दुष्टं चेन्न ग्राह्या सा तु देवता || वाममार्गे सकृदपि गुरुं शिष्यो विनाशयेत् || २७१ ||

ततः स्वप्नपरीक्षां च कुर्यात्तद्विधिरुच्यते || वैदिकानां दक्षिणानां वैष्णवानां च वामिनाम् || २७२ ||

यज्जाग्रतो दूरमुदैति दैवमावृत्य मन्त्रान्प्रयतस्त्रिदेवान् || हविष्यभुग्दक्षिणपार्श्वशायी स्वप्नं परीक्षेत यथोपदेशम् || २७३ ||

भगवन्देवदेवेश शूलभृद् वृषवाहन || इष्टानिष्टे समाचक्ष्व स्वप्ने सुप्तस्य यत्फलम् || २७४ ||

एवं सुप्ते कुशाकीर्णे चैकभुग्यतमानसः || निशान्ते पश्यति स्वप्नं शुभं वा यदि वाशुभम् || २७५ ||

ओं [नमः || अर्थात् || ओं नमः सकललोकाय विष्णवे प्रभविष्णवे विश्वेशविश्वरूपाय स्वप्नाधि पतये नमः स्वप्नमानयेतीमं पठेत् |
] हृत् सकललोकाय विष्णवे प्रभविष्णवे || विश्वेशविश्वरूपाय स्वप्नाधिपतये नमः || २७६ ||

स्वप्नमानय मन्त्रोयमुपवासी जितेन्द्रियः || दर्भशययागतो रात्रौ स्वप्नं पश्येद्यथा तथा || २७७ ||

भुक्त्वा शयीत शयने सुशुद्धे वसुधातले || अर्धरात्रे समुत्थाय पादशौचं विधाय च || २७८ ||

आचम्य देवं सम्पूज्य तं संस्मृत्य स्वपञ्चके [स्वमस्तके - इत्यर्थः] || शिवदैवतयोरैक्यं भावयेत्तु जपेदिदम् || २७९ ||

नमोऽजाय त्रिनेत्राय पिङ्गलाय महात्मने || वामाय विश्वरूपाय स्वप्नाधिपतये नमः || २८० ||

स्वप्ने कथय मे नित्यं सर्वकार्यमशेषतः || प्. ३५) क्रियासिद्धिं विधास्यामि त्वत्प्रसादान्महेश्वर || २८१ ||

दीक्षितो दीक्षितानां च यथास्वप्ने पर्जायते || शृण्वन्तु देवा भोः सर्वे सावधानास्तु तद्विधिम् || २८२ ||

पार्थिवेश्वरपूजान्ते रविवर्णं जपेन्मनुम् || जुहुयात्तद्दशांशेन बिल्वपत्रैर्घृतप्लुतैः || २८३ ||

तर्पणं मार्जनं कृत्वा कुर्याद्ब्राह्मणभोजनम् || सिद्धस्तस्य भवेन्मन्त्रः स्वप्ने वक्ति हृदि स्थितम् || २८४ ||

तारो हलिद्वयं शूलपाणये द्विठ ईरितः || स्वप्नमानय मन्त्रोयं द्वादशाक्षर ईरितः || २८५ ||

स्वप्ने तु प्रथमे यामे वत्सरे तत्फलं भवेत् || षड्भिर्मासैर्द्वियामे तु त्रिभिर्मासैस्त्रियामके || २८६ ||

चतुर्थे मासमात्रेण प्रातःकाले तु सत्वरम् || स्वप्ने निद्रा फलघ्नी स्यात्स्वप्नो वाच्यो न चान्यथा || २८७ ||

चिन्ता हृद्गा तदीयं यत्तत्फलं नैव विद्यते || वाताधिक्याद्भवेत् स्वप्नस्सहसोड्डानपूर्वकः || २८८ ||

पित्तात्तेजोग्निपीतादि रक्तं क्रोधादिकं तथा || श्लेष्मणः श्वेतशीतादि शयनाद्यं बलासनम् || २८९ ||

वातैः प्रातस्त्वङ्गमर्दः पित्तैर्दाहस्तु नेत्रयोः || कफात्प्रवेपते नित्यं हृद्द्वे द्वन्द्वे त्रयं त्रिषु || २९० ||

सिद्धं वा स्वगुरुं देवं प्रसन्नां च कुमारिकाम् || गङ्गां भागीरथीं भानुं लिङ्गिनं लिङ्गमैश्वरम् || २९१ ||

बालं छत्रं रथं दीपं प्रासादं कमलं नदीम् || कुञ्जरं वृषभं माल्यं समुद्रं फलितद्रुमम् || २९२ ||

पर्वतं प्रज्वलद्वह्निमाममांसं सुरासवम् || ग्रहान् भानि विधुं सूर्यं रत्नान्याभरणानि च || २९३ ||

सिंहासनं विमानं च ध्वजं वाद्याभिषेचनम् || श्वेतचन्दनवस्त्राणि शालयः कुङ्कुमं मधु || २९४ ||

राजा सिद्धार्थकं नार्यो नवभाण्डं च पायसम् || अश्वं फलानि सिद्धान्नं दधि बालं विलासिनम् || २९५ ||

दुग्धं वाद्यानि चाषं च मयूरं नकुलं मृगम् || बद्धमेकपरं पुष्पं सद्वाक्यं चक्षुरञ्जनम् || २९६ ||

पूर्णकुम्भं दर्पणं च मीनं मद्यं च भोजनम् || शवं रोदनहीनं च पुण्ड्राणि च पताकिका || २९७ ||

भारद्वाजनृपाणां च वेदशब्दं च गायनम् || कशां माङ्गल्यगीतानि चाङ्कुशं युद्धदं प्रियम् || २९८ ||

स्वप्ने दृष्ट्वा तु चैतानि साधकः सिद्धिमाप्नुयात् || व्याध्याद्यार्ते नास्ति दुःखं सामान्यः सुखमाप्नुयात् || २९९ ||

यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति || कामयन्तीं नदीं सिन्धुं द्विजं श्वेताम्बरं तथा || ३०० ||

प्. ३६) भास्करोदयनं चैव ग्रहणं चन्द्रसूर्ययोः || हर्म्यप्रासादनागाश्ववृषशैलाग्निरोहणम् || ३०१ ||

भोजनं दधिभक्तस्य पक्वमांसस्य भक्षणम् || कृमिविष्ठानुलेपश्च रुधिरेणाभिषेचनम् || ३०२ ||

ताम्बूलभक्षणं मद्यपानं दध्यभिवन्दनम् || प्रचन्द्रकिरणं स्वप्ने कार्यसिद्धेः सुलक्षणम् || ३०३ ||

कृष्णाम्बरधरा नारी कृष्णगन्धानुलेपना || उपगूहति यं स्वप्ने सा रात्रिस्तस्य पश्चिमा || ३०४ ||

एवन्तु रक्तया व्याधिः शोकोऽरुणसमानया || नीलया कलहो हत्या पीतया करदो भवेत् || ३०५ ||

श्वेताम्बरधरा नारी श्वेतमाल्यानुलेपना || उपगूहति यं स्वप्ने तस्य श्रीः सर्वतोमुखी || ३०६ ||

अशने शयने पाने शरीरे वाहने गृहे || ज्वलमाने विबुध्येत तस्य श्रीः सर्वतोमुखी || ३०७ ||

सितोरगस्य दंशश्चेज्जायते दक्षिणे करे || दशाहात्स भवेद्भोगी रोगी रोगाद्विमुच्यते || ३०८ ||

निगडैर्बहुपाशैश्च बध्यते वा युतो भवेत् || प्रतिष्ठा वर्धते तस्य दुग्धपानधनात्ययः || ३०९ ||

सुरां रक्तम्पिबन्विद्यां लभेद्विप्रो धनं परम् || दध्नि दृष्टे भवेत्प्रीतिर्गोधूमैश्च धनागमः || ३१० ||

सिद्ध्या विद्यागमं विद्याल्लाभः सिद्धार्थकैस्तथा || दधिलाभो ददेदर्थान्घृतलाभाद् ध्रुवञ्जयः || ३११ ||

घृताशनाद्धनक्लेशो जयस्तु दधिभक्षणात् || लिङ्गानामर्चनन्दृष्ट्वा व्यवहारोत्र जायते || ३१२ ||

यस्तु मध्ये तडागादेर्भुञ्जीत घृतपायसम् || निष्कम्पे पुष्करे पत्रे तं विद्यात्पृथिवीपतिम् || ३१३ ||

देवता लिङ्गिनो गावः पितरो ब्राह्मणो नृपः || यद्वदन्ति नरं स्वप्ने तत्तथैव भविष्यति || ३१४ ||

अन्नैः संवेष्टयेद्यस्तु ग्रामं वा नगरन्तथा || ग्रामे मण्डलराज्यं स्यान्नगरे पार्थिवो भवेत् || ३१५ ||

चन्द्रतारार्कग्रहणं परिमार्गणमेव च || भूम्यम्बुधीनां ग्रसनं शत्रूणां वा वधक्रिया || ३१६ ||

जयो विवादे द्यूते च शत्रूणाञ्च तथा जयः || वडवामहिषीसिंहीगोहस्तिन्यादिदोहनम् || ३१७ ||

प्रसादो गुरुविप्रेषु देवसिद्धादिकाच्छुभम् || स्नानं राज्याभिषेकश्च स्वशिरश्छेदनं मृतिः || ३१८ ||

तीर्थोदकानान्तरणन्तथा विषमलङ्घनम् || गोहस्तिवडवासूतिर्वह्निलाभस्तथैव च [हयीप्रसूतिः |
] || परस्त्र्यालिङ्गनं तस्या लाभो रोदनमेव च || ३१९ ||

प्. ३७) विष्ठालेपः कुन्दजातीबकुलानाञ्च दर्शनम् || रणद्यूतविमर्देषु जयो निगडबन्धनम् || ३२० ||

पशुमर्त्यमृगाणाञ्च लब्धिरध्यासनन्तथा || शिखिलाभः [मयूरलाभः ||] श्वेतवस्त्रं पुष्पचन्दनधारणम् || ३२१ ||

मणितारसुवर्णादिपात्रे [रजतम् ||] भोजनकन्तथा || पश्येत्तदा साधकस्य ज्ञेया सिद्धिरितस्ततः || ३२२ ||

कार्यार्त्तानां कार्यसिद्धिरितरेषां धनागमः || वन्ध्याचर्मतुषाग्न्यादिलवणाङ्गारमिन्धनम् || ३२३ ||

विट्क्लीबोन्मत्ततैलादिजटिलादिवसौषधम् || रोगी नृणान्तु संन्यासी नग्नस्त्यक्तः क्षुधातुरः || ३२४ ||

विमुक्तकेशः पतितोभ्यङ्गासृक्शरविक्षतः || मार्जारयुद्धां कार्पासो गर्भिणी च रजस्वला || ३२५ ||

गुडस्तक्रञ्च काषायी पंक एरण्डका गृहे || वज्रादिकस्य स्खलनं सुरा पशुमलन्तथा || अन्धः कुब्जो दुर्वचनो बधिरः खञ्जकुब्जकौ || ३२६ ||

वमनं च घटो रिक्तो रजको मलिनाम्बरः || एतैर्दृष्टैर्न कार्यं स्याद्रोगी मृत्युमवाप्नुयात् || ३२७ ||

अशोकं करवीरञ्च पलाशञ्चापि पुष्पितम् || स्वप्नेपि सलिलन्दृष्ट्वा नरः शोकमवाप्नुयात् || ३२८ ||

रूपान्तरे प्रवेशश्च दक्षिणाशागतिस्तथा || पंके निमज्जनं स्नानं पुत्रभार्याविनाशनम् || ३२९ ||

गोहस्तिद्विजविप्रादौ दृष्टे कृष्णे च शोभनम् || रक्तगन्धाम्बरः स्रग्वी कृष्णो वा दक्षिणामुखः || ३३० ||

खरोष्ट्रमहिषारूढस्त्रिमासं न स जीवति || स्वप्ने वापि मठे गेहे द्वारं यस्य पिधीयते || ३३१ ||

न चोत्तिष्ठति यत्तस्य मासान्तं किल जीवितम् || वांतिमूत्रपुरीषञ्च सन्तानजननं च्युतिः || शुक्रस्य यस्य च स्वप्ने तस्यायुर्दशमासकम् || ३३२ ||

बाध्यते विकृतैः कृष्णैः पुरुषैरुद्यतायुधैः || पाषाणैस्ताड्यते वापि तस्य मृत्युर्न संशयः || ३३३ ||

महिषोष्ट्रखरारूढस्तैलाभ्यक्तश्च मुण्डितः || दक्षिणाशाम्प्रस्थितो यस्तस्य मृत्युर्न संशयः || ३३४ ||

पश्येत्प्रासादपतनं ग्रहस्य शशिसूर्ययोः || पर्वतानाञ्च वृक्षाणामधिकाराच्च्युतिर्भवेत् || ३३५ ||

हानिश्चैव स्वगात्राणां व्याधितोभिभवस्तथा || गृहसम्मार्जनं लेपो गोमयेन मृदापि वा || ३३६ ||

तीर्वा नदीं समायातस्तीरेऽन्यद्वसनन्धृतम् || रोगी रोगाद्विमुच्येत हानिः स्वस्थस्य जायते || ३३७ ||

प्. ३८) पुन्नामानो मृगगणाः पोतकी [पक्षिविशेषः] सूकरी तथा || पिङ्गला [वेश्या] छुच्छुका [छच्छुंदरी] पल्ली वामाङ्गे कोकिलाः शिवाः || ३३८ ||

स्त्रीनामानो मृगगणाः श्रीकण्ठो [नीलकण्ठं] वानरो रुरुः [मृगविशेषः] || छिकरः प्रियको [हरिणभेदः |
] भासो दक्षे काकर्क्षकुक्कुराः || ३३९ ||

दृष्टाश्चेद्रोगिणो रोगनाशः साधकसिद्धये || स्वस्थस्य धनलाभादि बहुव्यापारशोभनम् || ३४० ||

त्रिरात्रोपोषितो भूत्वा हविष्याशी पुरोहितः || सक्षीराणां घृताक्तानां समिधां चां शतं हुनेत् || ३४१ ||

पालाशानान्तु गायत्र्या शूद्रः स्नात्वा हविष्यभुक् || दीपन्दद्याद्विप्रगेहे विष्णोर्गेहे शिवालये || ३४२ ||

एवन्दृष्ट्वा शुभं स्वप्नं गृह्णीयान्मनुमन्यथा || गृहीते हानिरेव स्याच्चान्यदेवं विचिन्तयेत् || ३४३ ||

एवं विचार्य सततं गुरुपूजां समारभेत् || विधायाचमनन्तत्र सामान्यार्घ्यं विधाय च || ३४४ ||

अर्घ्योदकेन सम्प्रोक्ष्य द्वारपूजां समाचरेत् || ततश्च देशिको विघ्नान्दिव्यानास्फोटनेन च || ३४५ ||

अन्तरिक्षगतानन्तर्मन्त्रैरुत्सारयेत्क्रमात् || पार्थिवान्पार्ष्णिघातैश्च त्रिभिरुत्सारयेत्ततः || ३४६ ||

अङ्गं सङ्कोच्य किञ्चित्तु शाखां वामगतां स्पृशेत् || उत्सारयेत् विघ्नानां ददन्मार्गं तु दक्षिणे || ३४७ ||

पादेन दक्षिणेनाथ प्रविशेद्योगमण्डपम् || वाममार्गेऽथवा शाक्ते वामपादपुरःसरम् || ३४८ ||

ब्रह्माणं वास्त्वधीशञ्च नैर्-ऋत्यां दिशि पूजयेत् || अर्घ्याबुना च गव्येन यागस्थाने सुसेचयेत् || ३४९ ||

वीक्षणाद्यैस्ततः शुद्धिं चतुर्धा वा समाचरेत् || संवीक्ष्य मूलमनुना त्वस्त्रेण प्रोक्षयेत्ततः || ३५० ||

कुर्यात्ताडनमस्त्रेण कवचेनावसेचयेत् || श्रीखण्डागुरुमन्त्रैश्च धूपितेस्त्रेण सप्तधा || ३५१ ||

जयाचन्दनसिद्धार्थदूर्वाभस्माक्षतान्कुशान् || सलाजान्विकिरेन्मन्त्री प्रत्यूहघ्नान्हि मण्डपे || ३५२ ||

मार्जयेदस्त्रमन्त्रेण तान्मन्त्रो दर्भमुष्टिना || आसनाय तु वर्धन्या ईशाने स्थापयेच्च तान् || ३५३ ||

पुण्याहं वाचयित्वाथ विप्रान्सन्तोष्य यत्नतः || वेदिकायां लिखेत्पश्चात्सर्वतोभद्रमण्डलम् || ३५४ ||

शृणु तस्य विधिं श्रौते स्मार्ते यद्भद्रमिष्यते || धृतिवर्गसमाः कार्याः कोष्ठकाश्चतुरस्रकाः || ३५५ ||

खण्डेन्दुस्त्रिपदैः कोणे श्वेतवर्णेन पूरयेत् || कोणस्थैः पञ्चभिः कोष्ठैः शृङ्खला कृष्णवर्णिका || ३५६ ||

प्. ३९) शृङ्खलोभयतो नीला वल्ली शङ्करकोष्ठका || शृङ्खलोभयतो भद्रमरुणं नवभिः पदैः || ३५७ ||

वापी जिनपदा श्वेता पीतान्तःपरिधिर्भवेत् || मध्ये षोडशपद्मं तु रुचिरं वेष्टयेद्बहिः || ३५८ ||

श्वेतारुणासितैरेवं सर्वतोभद्रमण्डलम् || अथान्यत्सम्प्रवक्ष्यामि कुर्यात्तान्त्रिककर्मणि || ३५९ ||

नृपवर्गसमाः कार्याः कोष्ठकाश्चतुरस्रकाः || मध्ये षड्वर्गकोष्ठानि मार्जयेत्तत्र संलिखेत् || ३६० ||

आयामद्वादशांशं च बहिस्त्यक्त्वाथ मध्यतः || ततो वृत्तत्रयं मध्ये समं कुर्याद्यथाविधि || ३६१ ||

कर्णिकामध्यवृत्तेन द्वितीयेन तु केशरान् |
अन्तवृत्तेन पत्राणि पत्राग्रं त्यक्तभागतः || ३६२ ||

किञ्जल्काग्रेषु संस्थाप्य पार्श्वतस्त्वर्धचन्द्रकान् || तदग्रे तु त्रिभिः कोष्ठैः पादान्कोणेषु विन्यसेत् || ३६३ ||

शेषाणि पीतगात्राणि परतः पङ्क्तियुग्मकम् || वीथी कुर्यान्मार्जयिता चतुर्दिक्षु च मध्यतः || ३६४ ||

सर्वतोभद्रचक्रम्

त. त. मु. म. म. म. म. म. त. त. म. म. म. म. म. मु. त. त. त. ति मु. मु. म. म. म. त. त. त. त. म. म. म. मु. मु. त. त. मु. मु. ति. म. मु. म. त. त. त. त. त. त. म. मु. मु. ति. मु. मु. म. मु. मु. ति. मु. मु. त. त. त. त. त. त. मु. मु. ति. मु. मु. म. म. म. मु. मु. ति. मु. मु. त. त. त. त. मु. मु. ति. मु. मु. म. म. म. म. म. मु. म. ति. मु. मु. त. त. मु. मु. ति. मु. मु. म. म. म. म. म. त. त. मु. मु. च. च. च. च. च. च. मु. मु. त. त. म. म. म. त. त. त. त. मु. च. त. त. त. त. च. मु. त, त, त. त. म. त. त. त. त. त. त. च. त. त. त. त. च. त. त. त. त त. त. त. त. त. त. त. त. च. त. त. त. त. च. त. त. त. च. त. त. म. त. त. त. त. मु. च. त. त. त. त. च. मु. त. त. च. त. म. म. म. त. त. मु. मु. च. च. च. च. च. च. मु. मु. त. ति. म. म. म. म. म. मु. मु. ति. मु. मु. त. त. मु. मु. ति. मु. मु. म. म. म. म. म. मु. मु. ति. मु. मु. त. त. त. त. मु. मु. ति. मु. मु. म. म. म. मु. मु. ति. मु. मु. त. त. त. त. त. त. मु. मु. ति. मु. मु. म. मु. मु. ति. मु. मु. म. त. त. त. त. त. त. म. मु. मु. ति. मु. मु. त. ति. ह. ह. र. र. र. त. त. त. त. म. म. मु. म. मु. ति. त. त. त. मु. म. म. म. म. म. त. त. म. म. म. म. म. मु. त. त.

प्. ४०) क्रमादाभ्यां चतुर्भिश्च कोष्ठैर्द्वारचतुष्टयम् || कोष्ठत्रयेण चैकेन प्रत्येकं द्वारपार्श्वयोः || ३६५ ||

शोभा भवन्त्वतः कोष्ठैरेकतस्त्रिभिरेव च || उपशोभास्ततः कोष्ठैः षड्भिः कोशानि कल्पयेत् || ३६६ ||

शुक्लं तण्डुलचूर्णं स्यादुत्सेधायामतस्तथा || अङ्गुलेन समाः कार्याः सीमरेखा दलानि च || ३६७ ||

पीठगात्राणि च द्वारे चतुष्कं तेन पूजयेत् || अविप्रैः पूरणीयानि रक्तेनैव दलान्यपि || ३६८ ||

कुसुम्भचूर्णमारक्तं पूरणीयास्तु तेन तु || द्वारशोभाः पीतपादाः सर्ववर्णैर्विनिश्चयात् || ३६९ ||

पीतं हरिद्राचूर्णं स्यात्पीठगर्भे च कर्णिका || उपशोभाश्च विप्रेण पीतगर्भाश्च कृष्णतः || ३७० ||

बिल्वपत्रस्य चूर्णोत्थो हरितस्तेन पूरयेत् || पत्रमूलफलाकारामण्डिता हृदयङ्गमाः || ३७१ ||

वीथी चतुष्कमध्ये तु कल्पवल्लीः प्रपूरयेत् || सन्धींश्च कल्पवल्लीश्च पीतरक्तेन केशरान् || ३७२ ||

नानावर्णरजोभिस्तान्पूरयेत्कुशलो गुरुः || कृष्णवर्णेन कोणानि बही रेखात्रयं ततः || ३७३ ||

शुक्लारुणाख्यकृष्णैस्तु रजोभिर्भूषयेत्क्रमात् || सर्वतन्त्रेष्विदं प्रोक्तं सर्वतोभद्रमण्डलम् || ३७४ ||

वक्ष्येथ देवयोनीनां सर्वतोभद्रमण्डलम् || मार्गेथ दक्षिणे तत्र कोष्ठकारविवर्गकाः || ३७५ ||

प्राग्वदेव तु तन्मध्ये पद्मं षड्भिः पदैः शुभम् || एक पंक्त्या भवेत्पीठं द्वारशोभास्तु पूर्ववत् || ३७६ ||

षड्भिः कोष्ठैस्तु कोशानि रञ्जितव्यं च पूर्ववत् || पीठपादाः परिधयः पद्माद्यं पूर्ववन्मतम् || ३७७ ||

वाममार्गे मण्डलं स्यात्कोष्ठैरष्टकवर्गकैः || चतुर्भिः पङ्कजं मध्ये तद्बाह्ये वीथिका तु वा || ३७८ ||

कल्पवल्ली समायुक्ता तत्पद्मं सर्वदैव हि || दिक् चतुष्के तु पद्मानि चतुर्भिः कोष्ठकैश्चरेत् || ३७९ ||

विदिशासु चतुर्भिस्स्युश्चतुष्का वेदसंख्यकाः || चतुष्कपद्मवीथीनां मध्ये स्वस्तिकसन्निभम् || ३८० ||

जायते तच्चतुष्कोष्ठैर्विदिशासु चतुर्ष्वपि || रजोभिः शुक्लहारिद्ररक्तनीलैः प्रपूरयेत् || ३८१ ||

स्वस्तिकानीशतश्चान्यत्पूर्ववत्परिकीर्तितम् || उदितं मण्डलं ह्येतन्नवनागं सुशोभनम् || ३८२ ||

एतदेवोक्तमार्गेण मध्यद्वारं विदिक्त्यजम् || एककोष्ठचतुष्काद्यं पञ्चपद्मं प्रवक्ष्यते || ३८३ ||

पद्मं प्राग्वाकृतं द्वारं स्वस्तिवच्च चतुष्ककाः || वर्णैः पूर्या वीथिका तु पीठे तु सुरयोनिषु || ३८४ ||

प्. ४१) अथ मन्त्रप्रतिष्ठार्थे वक्ष्ये वारुणमण्डलम् || चतुरस्रं चतुष्षष्टिकोष्ठकं यो निवेशयेत् || ३८५ ||

अन्त्यजान्तिमयातासु दिक्षुकोष्ठानि मार्जयेत् || मध्यस्थचतुरस्राणि द्वास्स्थाख्यानि तु पूर्वतः || ३८६ ||

पीतैः श्यामैश्च तान् हरिद्रजोभिः परिपूरयेत् || कोणकोष्ठं विहायैकं पञ्च ते पादसञ्ज्ञिताः || ३८७ ||

पीता स्यात्पाण्डुरा रक्ता पीतैः कृष्णैश्च पूरयेत् || आग्नेयीतः कोणकोष्ठान्यारक्तहरितासितैः || ३८८ ||

पूरयेदथ तस्यार्धं वितानं बन्धयेद्यथा || श्वेतवर्णेन चत्वारि मध्ये वृत्तानि कारयेत् || ३८९ ||

षड्वह्नीशादिव्यासार्धवृत्तमाद्यन्तु पीठतः || तत्पीतं कर्णिकाकारं सितरेखावृतं ततः || ३९० ||

द्वितीयं द्विगुणव्यासरूपकेशरसंयुतम् || पीतरक्तश्वेतवर्णमूलमध्याग्रकेसरम् || ३९१ ||

द्विसप्तत्यंशिकां श्वेतां तस्याग्रे कुरुते सिताम् || तृतीयं तु तृतीयांशतुल्यव्यासं च वर्तुलम् || ३९२ ||

श्वेतमष्टदलं तत्र रक्ताग्रं तद्दलैस्तले || श्वेतं बहिः कृष्णवर्णं प्राग्वद्रेखां सितां कुरु || ३९३ ||

तद्बहिर्वृत्तसंलग्नान्षोडशास्रान्प्रकल्पयेत् || श्यामपीतारुणश्वेतैस्तदन्तस्तूपबाह्यतः || ३९४ ||

सितपीतारुणश्यामहरिताः पञ्च रेखिकाः || कार्याः सुरुचिराः पीठस्यान्तरेवं प्रपूरयेत् || वज्रं शक्तिं दण्डखड्गपाशाङ्कुशगदा लिखेत् || ३९५ ||

पूर्वतस्तु तथैशान्यां शूलं चक्राम्बुजान्वितम् || वेदिकायामासनन्तु प्राङ्मुखं संविशेदथ || बद्धपद्मासनो मौनी ऋजुकायो जितेन्द्रियः || ३९६ ||

देशिकेन्द्रस्तु संस्थाप्य पूजोपस्करणानि तु || दक्षिणे वामभागे तु स्थापयेत्कलशं शुभम् || ३९७ ||

सुगन्धिं जलसंपूर्णं हस्तप्रक्षालनाय च || पश्चात्पात्रं निधायाथ दीपान्प्रज्वालयेच्छुभान् || ३९८ ||

व्यजनं मुकुरं छत्रं चामरं दिक्षु मन्त्रवित् || संस्कुर्यात्तानि सर्वाणि वक्ष्यमाणविधानतः || ३९९ ||

करशुद्धिं विधायाथ ब्रूयात्तारत्रयन्तथा [तारः प्रणवः शरो हुं फट्तेन ओं ओं ओं हुफट् इति पठित्वा दिग्बन्धं कुर्यात् ||] || शरमन्त्रेण दिग्बन्धं कुर्यान्मंत्री समाहितः || ४०० ||

महतस्तु समुत्पन्नं वक्ष्ये यत्तर्हि सर्वतः || भूतशुद्धिन्ततः कृत्वा प्राणस्थापनमाचरेत् || ४०१ ||

न्यासादिकन्ततः कुर्याद्देशिको यतमानसः || ऋषिं न्यसेत्ततो मूर्ध्नि च्छन्दो वक्त्रगतं न्यसेत् || ४०२ ||

प्. ४२) देवतां हृदये न्यस्य मूलमन्त्रस्य देशिकः || षडङ्गं विन्यसेन्मन्त्री पंचाङ्गं वा यथाविधि || ४०३ ||

यस्य मन्त्रस्य पंचाङ्गं नेत्रं तस्य विधीयते || अङ्गैर्विहीनस्य मनोरङ्गं तेनैव कल्पयेत् || ४०४ ||

ततो मन्त्रोक्तमार्गेण न्यासानन्यान्समाचरेत् || शरीरे स्वस्य मन्त्रज्ञो योगपीठं प्रकल्पयेत् || ४०५ ||

देहात्मके ततः पीठे ध्यायेन्मन्त्रस्य देवताम् || दर्शयित्वा ततो मुद्राः स्थापयेदर्घ्यमुत्तमम् || ४०६ ||

जलप्रपूरितां दक्षे प्रोक्षणीं स्थापयेत्ततः || तत्राल्पमल्पं शङ्खाम्बु तत्तद्देवरतो न्यसेत् || ४०७ ||

पाद्यमाचमनीयञ्च मधुपर्कञ्च मन्त्रवित् || ततो मूलाम्बुना मन्त्रि प्रोक्षण्यद्भिः समाहितः || ४०८ ||

स्वात्मानं मण्डलञ्चान्यत्पूजोपकरणादिकम् || प्रोक्षयेद्गन्धपुष्पाद्यैर्देशे स्वे देशिकोत्तमः || ४०९ ||

योगपीठं समभ्यर्च्य न्यासमार्गेण मन्त्रवित् || पीठान्तञ्च ततस्तत्र पूजयेदिष्टदेवताम् || ४१० ||

देवतात्मा ततः पञ्च कुर्याच्च सुमनोञ्जलीन् || शीर्षे हृदि तथाधारे चरणे सर्वगात्रके || ४११ ||

पूजयेच्च निवेद्येन विहितैश्चन्दनादिभिः || सर्वोपचारैस्तञ्चेष्टं गुर्वादिष्टेन वर्त्मना || ४१२ ||

समापयेदिदं सर्वं प्रोक्षण्यद्भिः समाचरेत् || पानीयंप्रोक्षणीसंस्थं त्यक्त्वा संसिच्य पूर्ववत् || ४१३ ||

उपचारैश्चन्दनाद्यैर्मण्डलम्पूजयेद् गुरुः || पूरयेत्कर्णिकां पूर्वं शालिभिस्तण्डुलैस्ततः || ४१४ ||

दर्भान्न्यसेदुपर्येषां साक्षात्तं पूर्वकन्ततः || छिन्नमूलाः कुशा दीर्घाः सप्तविंशतिसङ्ख्यकाः || ४१५ ||

ब्रह्मग्रन्थियुतास्त्वग्रदेशे कूर्च इहोच्यते || यजेदाधारशक्त्यादिपीठमन्त्रावसानकम् || ४१६ ||

स्वर्णादिरचितन्तत्र कलशं छिद्रवर्जितम् || त्रिगुणात्मकसूत्रेण वेष्टितं सर्वतो बहिः || ४१७ ||

चन्दनागुरुकर्पूरैर्मध्ये सम्यक् प्रपूरितम् || ध्रुवं जपं विना चात्र स्थापयेद्देशिकोत्तमः || ४१८ ||

नवरत्नानि निक्षिप्य कुम्भे कूर्चमथोपरि || दूर्वाचन्दनसंयुक्तं विन्यसेद्दक्षिणान्वितम् || ४१९ ||

पुष्पं नीलञ्च वैडूर्यं विद्रुमं मौक्तिकन्तथा || मूलमन्त्रञ्जपन्नन्ते चिन्तयन्नैक्यमात्मनः || ४२० ||

घटस्य पीठाभेदं च चिन्तयेत्साधकोत्तमः || पञ्चाशदोषधीक्वाथैः पूरयेत्तदनन्तरम् || ४२१ ||

एकेन सहितास्ताश्च वर्णौषध्यश्च ता इमाः || प्. ४३) चन्दनञ्चापि रक्ताख्यं चन्दनञ्चागुरुस्तथा || ४२२ ||

कर्पूरोशीरकुष्ठानि बालकञ्चापि केशरम् || कङ्कोलकं जातिफलं जटामांसी मुरा तथा || ४२३ ||

ग्रन्थिकं रोचना जातिपत्रं पिप्पलबिल्वकौ || पृष्ठिपर्णी चित्रकञ्च मुद्गपर्णी कुशाः पुनः || ४२४ ||

कट्फलं चापि गुञ्जा स्यादुदुम्बरककाश्मरी || पद्मकोषा शङ्खपुष्पी मयूरस्य शिखा तथा || ४२५ ||

प्लक्षोग्निमन्थश्च तथा शालपर्णी कुशाः पुनः || पाषाणभेदकः कृष्णा शशिपुष्पी च रोहिणी || ४२६ ||

स्योना च्छिन्न रुहा चैव पाटली मुखकर्णिका || तुलसी शिखरी इन्द्रवल्ली भृङ्गीभिरानृपाः || ४२७ ||

ततो राजितपातालमूली चापि कृताञ्जलिः || दूर्वा श्रीदेवकन्याख्याभागथो भद्रमुस्तकम् || ४२८ ||

लवङ्गसहिताश्चैताः पञ्चाशत्सङ्ख्यका इति || दुग्धवृक्षत्वचां क्वाथैर्ब्रह्मभूरुक्त्वगुद्भवैः || ४२९ ||

गन्धपङ्कप्रसूनादिवासितैर्वा शुभैर्जलैः || क्वाथादितोयैरापूर्य शङ्खन्तस्मिन्विलोडयेत् || ४३० ||

गन्धाष्टकं तस्यतस्य देवस्याथ प्रकीर्तितम् || चन्दनागुरुकर्पूररोचनाकुङ्कुमं मदः || ४३१ ||

रक्तचन्दनजं वारि गाणपत्यमुदाहृतम् || ह्रीबेरञ्चन्दनङ्कुष्ठमगुरुः कुङ्कुमं मुरा || सिह्लकञ्च जटामांसी वैष्णवं तदुदीरितम् || ४३२ ||

चन्दनागुरुकर्पूरचौरकुङ्कुमरोचनाः || जटामांसी कपियुता शाक्तं गन्धाष्टकं विदुः || ४३३ ||

जलकाश्मीरकुष्ठैश्च रक्तचन्दनचन्दनैः || तगरागुरुकर्पूरैः शाम्भवं चाष्टगन्धकम् || ४३४ ||

जलकाश्मीरकुष्ठैस्तु रक्तचन्दनचन्दनैः || तगरागुरुकर्पूरैः सौरं गन्धाष्टकं विदुः || ४३५ ||

गोरोचना च कांस्यञ्च कर्पूरागुरुकुङ्कुमैः || चन्दनेन मदाभ्याञ्च वारिदेन च पत्रजम् || ४३६ ||

गन्धाष्टकस्य संयोगात्सामर्थ्याद्देशिकस्य च || सशक्तिकञ्जलं कुम्भे भवेदेवं विदुर्बुधाः || ४३७ ||

आदौ कृशानुसम्बन्धिकला दश समर्चयेत् || धूम्रार्चिरुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी || सुश्रीः सुरूपा कपिला हव्यकव्यवहे उभे || ४३८ ||

कलाद्वादशकं सौरम्पूजयेत्तदनन्तरम् || तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः || ४३९ ||

सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा || कलाषोडशकञ्चान्द्रं यजेत्पश्चाद् गुरूत्तमः || ३४० ||

प्. ४४) अमृता मानदा पुष्टा पुष्टिस्तुष्टी रतिर्धृतिः || शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना शीःप्रीतिरंगदा || ४४१ ||

पूर्णा पूर्णामृता कान्तिर्दीपिनाश्वरजाः कलाः || वेदादिभेदे सञ्जाताः कलाः पञ्चाशबिन्दुयुक् || ४४२ ||

सन्निधाप्य प्रतिष्ठाप्याभ्यर्चयेत्क्रमशस्तु ताः || निवृत्तिः प्रतिष्ठा विद्या शान्तिर्-ऋद्धिश्च दीपिका || ४४३ ||

रेचिका मोचिका पारा सूक्ष्मासूक्ष्मामृता तथा || ज्ञानामृताप्यायनी च व्यापिनी व्योमरूपिका || ४४४ ||

अनन्ता सृष्टिर्-ऋद्धिश्च स्मृतिर्मेधा च कान्तिका || लक्ष्मीर्द्युतिः स्थिराच्छित्तिस्सिद्धिर्जरा च पालिनी || ४४५ ||

क्षान्तीश्वर्यौ रतिः कामा वरदाह्लादिनी तथा || दीर्घा तीक्ष्णा च रौद्री च भया निद्रा च तन्द्रिका || ४४६ ||

क्षुत्क्रोधिनी क्रियोत्कारी मृत्युः पीता सितारुणा || असिता च तथानन्ता मध्येमध्ये प्रपूजयेत् || ४४७ ||

हंसः शुचिषदित्यादि प्रतद्विष्णुस्तवेति च || त्र्यम्बकं चैव गायत्रीं विष्णोर्योनिं तथैव च || ४४८ ||

तारस्य पंचभेदोत्थ कलानां पूजने सुधीः || कलादशकमावाह्य सृष्ट्याद्यं सन्निधाप्य च || ४४९ ||

हंसः शुचिषदित्यादि ऋचं सञ्जप्य पूजयेत् || प्राणसंस्थापनं कृत्वा कलानां पूजयेच्च ताः || ४५० ||

एवं जराद्यास्तीक्ष्णाद्याः पीताद्याश्च विधानवित् || निवृत्त्याद्याश्चापि यजेदुक्तयुक्त्या विचक्षणः || ४५१ ||

अकारोकारकौ प्रोक्तौमकारो बिन्दुनादकौ || शक्तिः शान्तिस्त्विमे सप्त ध्रुवं भेदाः प्रकीर्तिताः || ४५२ ||

अन्तिमौ द्वाविमौ भेदौ पृथगेव समीरितौ || अथ त्वश्वत्थपनसचूतानां पल्लवान्दृढम् || ४५३ ||

बन्धयेदिन्द्रवारुण्या लतयास्ये घटस्य च || कल्पवृक्षधिया तं च भावयेत्कलशोपरि || ४५४ ||

पात्रं तण्डुलसम्पूरणं नारिकेलफलान्वितम् || कल्पवृक्षफलं ह्येतत्स्थापयेदनया धिया || ४५५ ||

पट्टवस्त्रयुगेनाथ वेष्टयेत्कलशं ततः || एतत्प्रधानकुम्भस्य स्थापनं परिकीर्तितम् || ४५६ ||

अथ पूर्वादिकाष्ठासु तोरणानां समीपतः || यथेच्छया मण्डलानि कुर्यादष्टदलानि च || ४५७ ||

तदूर्ध्वं शालिपुञ्जं तु प्रतिद्वारं समाचरेत् || तदूर्ध्वं पूर्णकलशं तत्र चैतान्प्रपूजयेत् || ४५८ ||

प्राग्बुधं च वरां दक्षे पश्चाद्वाक्पतिमुत्तरे || विघ्नेशमथ चाग्नेययां दिक्षु कुम्भांस्तु विन्यसेत् || ४५९ ||

प्. ४५) अमृतं दुर्जयं सिद्धार्थकं मङ्गलमर्चयेत् || पुना रुद्रादिकाष्ठासुक्रमाद्रुद्रादिकान्यजेत् || ४६० ||

लोकपालान्मण्डलेषु कुम्भोपरि तथैव च || ऐरावतं पुण्डरीकं वामनं कुमुदाञ्जनौ || ४६१ ||

पुष्पदन्तं सार्वभौमं सुप्रतीकं तदग्रतः || ततो गुरुः स्ववेद्यां तु गत्वा स्वस्यासने विशेत् || ४६२ ||

सञ्चिन्त्य मूलमन्त्रेण मूर्ति तस्मिन्गुरूत्तमः || तस्यां मूर्तौ समावाह्य पूजयेदिष्टदेवताम् || ४६३ ||

स्मृत्वा मूलमनुं मन्त्री मातृकासु यथा ततः || निर्गमयय च चैतन्यं नासिकाग्रविनिर्गतम् || ४६४ ||

अञ्जलौ मातृकापद्मं महापुष्पान्विते गुरुः || मस्तकान्तं समुत्थाप्य तस्यामावाहयेत्ततः || ४६५ ||

संस्थापनं सन्निधानं सन्निरोधं ततश्चरेत् || सम्मुखकिरणं चापि शकलीकरणं ततः || ५६६ ||

ततोवगुण्ठनं काययममृतीकरणं ततः || परमीकरणं कुर्यात्क्रमशस्तस्य मुद्रिकाः || ४६७ ||

विदध्याच्च क्रमात्तत्तदुपचारान्प्रकल्पयेत् || आसनादिप्रसूनान्तानुपचारान्प्रकल्प्य च || ४६८ ||

ततो मन्त्रविधानेषु प्रोक्ताङ्गावरणान्यपि || सर्वान्ते लोकपालानां तदस्त्राणां च पूजनम् || ४६९ ||

विधाय पूजामेवं हि धूप दीपनिवेद्यकैः || कृते निवेद्ये च ततो मण्डलम्परितः क्रमात् || ४७० ||

प्रवालांकुरपत्राणि स्थापनीयानि मन्त्रिणा || वेदिकाया दक्षभागे कृत्वा स्थण्डिलमुत्तमम् || ४७१ ||

संस्थाप्य वह्निं संस्कृत्य वैश्वदेवं समारभेत् || यथाविधि ततस्तत्र गन्धाद्यैर्देवतां यजेत् || ४७२ ||

तत्र प्रणवपूर्वाभिर्हुत्वा व्याहृतिभिः क्रमात् |
जुहुयान्मूलमन्त्रेण पायसेन घृतेन च || ४७३ ||

पञ्चविंशतिभिः पश्चाद्धुत्वा व्याहृतिभिः क्रमात् || सम्पूज्य तां चन्दनाद्यैः पीठमूर्तौ निधापयेत् || ४७४ ||

अग्निं विसृज्य इष्टेन पायसेन बलिं हरेत् || पार्षदेभ्यश्चन्दनादिपुष्पाक्षतसमन्वितम् || ४७५ ||

तत उत्थाप्य नैवेद्यं तत्स्थलं शोधयेत्सुधीः || पुनर्यजेच्चोपचारैः पञ्चभिर्दर्शयेत्ततः || ४७६ ||

दर्पणं व्यजनं छत्रं चामरं मुखवासकम् || प्. ४६) सहस्रं च जपेन्मन्त्री मूलमन्त्रं समाहितः || ४७७ ||

देवतायै निवेद्याथ तं जपं सम्पदे ततः || ईशानदिशि यः पूर्वं स्थापितो विकिरोत्र च || ४७८ ||

सुवर्णवस्त्रसंयुक्तं करकञ्जलपूरितम् || न्यसेदत्र यजेदस्त्र देवतां घोररूपिणीम् || ४७९ ||

पश्चिमाद्यन्ततः खेटधारिणीं सिंहसंस्थिताम् || तिष्ठन्सम्पूज्य च ततो गृहीत्वा तम्प्रदक्षिणम् || ४८० ||

एतदन्ते तु रक्षेति लोकेशानि त्वितीरयेत् || तारमुक्तेनोदकेन देवतान्तारयेत्ततः || ४८१ ||

स्वस्थाने स्थापयेत्तत्तु फण्मंत्रेण ततोर्चयेत् || उपविश्य तु भूयस्तं गन्धाद्यैर्देशिकोत्तमः || ४८२ ||

ततो वह्निं सुसंस्कृत्य चरुङ्गोपयसोर्पयेत् || देवतेष्टादिजेपात्रे क्षालिते च शराणुना || ४८३ ||

मूलाणुनाभिमन्त्र्याथ तण्डुलाञ्च्छालिसम्भवान् || तिथिप्रसृतिमानेन शराणून्प्रपचेत्क्षिपेत् || ४८४ ||

प्रक्षालितेन पात्रेण यावद्वक्त्रं पिधाय च || हुम्मन्त्रेण ततो मूलमन्त्रेण देशिकोत्तमः || ४८५ ||

पचेद्गुरुः प्राङ्मुखस्तु सिद्धन्तमभिधारयेत् || मूलेन स्रुवसंस्थेन घृतेनाथावतारयेत् || ४८६ ||

हुम्मन्त्रेणास्त्रसञ्जप्ते कुशास्तीर्णे विभेद्य तम् || त्रिधा त्वेकन्देवतायै परं वह्नौ निवेदयेत् || ४८७ ||

शिष्टं शिष्येण सहितो गुरुर्भुञ्जीत मन्त्रवित् || प्रादेशमात्रं हृज्जप्तं यथोक्तं दन्तधावनम् || ४८८ ||

शिष्याय दद्यात्स रदान्विशोध्य क्षालितं त्यजेत् || ४८९ ||

आचान्तमन्त्रञ्च यथाविधि तं शिखायां बद्ध्वा स्वकीयशिखया प्रविधाय मन्त्री || वेद्यां शयीत कुशसंस्तरणे रजन्यां शिष्येण सार्द्धममुना गदितोधिवासः || ४९० ||

समुत्थायोषसि पुनः स्नानसन्ध्यादिकं चरेत् || गुरुः शिष्य ऋत्विजश्च गच्छेद्यज्ञगृहं प्रति || ४९१ ||

सर्वे ते स्वस्वकुण्डेषु जुहुयुस्सघृतैस्तिलैः || पुनः साध्येन मनुना ह्यष्टोत्तरसहस्रकम् || ४९२ ||

द्रव्यैर्विधानप्रोक्तैर्वा हुनेदष्टाधिकं शतम् || शिष्यं स्नातं पञ्चगव्यं पाययेन्मन्त्रवित्तमः || ४९३ ||

कुण्डस्याभ्याशमानीय दिव्यदृष्ट्या विलोकयेत् || हृत्पुण्डरीकचैतन्यं शिष्यस्यात्मनि योजयेत् || ४९४ ||

आचार्यस्त्वध्वनां षट्कं तत्र संशोधयेत्क्रमात् || ताः कलास्तत्त्वभुवनार्णपदा मन्त्रपूर्विकाः || ४९५ ||

शिष्यस्य पादयोश्चिन्त्या गुरुणा च कला इमाः || निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च || ४९६ ||

प्. ४७) शान्त्यतीतेति पञ्चाथ शोधनक्रम उच्यते || कूर्चेन च गुरुः शिष्यं स्पृशन्कुण्डे स्वके हुनेत् || ४९७ ||

तिलैर्घृताक्तैस्तारोऽस्य त्वमुकाध्वानमत्र च || शोधयामिद्विठान्तेन मन्त्रेणाष्टाहुतीर्हुनेत् || ४९८ ||

तत्त्वाध्वनि विलीनं तु कलाध्वानं विचिन्तयेत् || ततो लिङ्गप्रदेशेस्य तत्त्वाध्वानं विचिन्तयेत् || ४९९ ||

गाणेशानि च शैवानि तत्रैतानि रसाग्नयः || तद्यथा शिवशक्ती च सदाशिवमहेश्वरौ || ५०० ||

विद्येति पञ्चशुद्धानि शुद्धाशुद्धानि सप्त च || मायाविद्या कला रागः कालो नियतिरेव च || ५०१ ||

पुरुषश्चाथ शुद्धानि प्रकृतिर्बुद्ध्यहंकृती || मनश्चेन्द्रियदशकं तन्मात्रा भूतपञ्चकम् || ५०२ ||

अथ वैष्णवतत्त्वानि द्वाविंशत्प्रमितानि तु || जीवः प्राणो मनोबुद्धिस्तन्मात्रा भूतपञ्चकम् || ५०३ ||

दशेन्द्रियाणि हृत्पद्मं सूर्यसोमाग्नयस्तथा || वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः || ५०४ ||

सौराणि भूततन्मात्रा मनोज्ञानेन्द्रियाणि च || प्रकृतिर्बुद्धिरिति च चतुर्विंशतिसम्मिताः || ५०५ ||

दशैव शक्तितत्त्वानि आत्मा विद्या शिवा इति || शिवा विद्या तथात्मेति चात्मा विद्या शिवा पुनः || ५०६ ||

सर्वतत्त्वं चेति पुनः प्राग्वद्देहेन होमयेत् || तत्त्वाध्वानं विलीनं तु चिन्तयेद् भुवनाध्वनि || ५०७ ||

शिष्यस्य नाभौ चिन्त्यानि भुवनानि चतुर्दश || तानि क्रमेण पातालरसातलमहातलम् || ५०८ ||

तलातलञ्च सुतलं वितलं चातलञ्च भूः || भुवस्तु स्वर्महश्चापि जनस्तप इति क्रमात् || सत्यञ्च भुवनाख्यानि होमव्यूहस्तु पूर्ववत् || ५०९ ||

विलीनं भुवनाध्वानं वर्णाध्वनि विचिन्तयेत् || अकारादिक्षकारान्तान्वर्णान्सञ्चिन्तयेद्धृदि || ५१० ||

वर्णाध्वानं विलीनन्तु पदाध्वनि विचिन्तयेत् || होमौघः प्राग्वदेवात्र ललाटे चिन्तयेत्ततः || ५११ ||

पदाध्वानं मूलमन्त्रपदवर्ण स्वरूपतः || यदाध्वात्रोहहोमादि प्राग्वदेव समाचरेत् || ५१२ ||

मन्त्राध्वनि विलीनन्तु पदाध्वानं विचिन्तयेत् || सम्पूर्णमन्त्रो मन्त्राध्वा चिन्तयेच्छिष्यमूर्द्धनि || ५१३ ||

होमोहः प्राग्वदेवात्र विलीनोयम्परे शिवे || ब्रह्मरन्ध्रे स्थितन्ध्यायेदेतत्स्यादध्वशोधनम् || ५१४ ||

सृजेत्सृष्ट्या विलीनांस्ताञ्च्छिवात्तस्माद्गुरूत्तमः || देशिकेन्द्रश्च तं शिष्यं दृष्ट्वा दृष्ट्या च दिव्यया || ५१५ ||

प्. ४८) तच्चैतन्यं स्थितं स्वस्मिंस्तस्मिंस्तच्चैव योजयेत् || हुनेन्महाव्याहृतिभिस्ततो देशिकसत्तमः || ५१६ ||

अंगप्रवृत्त्या वृत्तीनां हुनेद्भूयो घृतेन वै || ब्रह्मार्पणाख्यमन्त्रेण सर्वकर्मच्छिदे सुधीः || ५१७ ||

जुहुयादाहुतीरष्टौ केवलाज्येन मन्त्रवित् || हुत्वा पूर्णाहुतिं मन्त्री स्तुत्वा मूलाणुना ततः || ५१८ ||

अग्निं सम्प्रार्थ्याग्निसाङ्गमन्त्रेणैकाहुतिं हुनेत् || सर्पिषा स्रुवमापूर्य पुष्पञ्चोपर्यधोमुखम् || स्रुवोपरि स्रुवन्दत्त्वा पुष्पन्तत्र प्रपातयेत् || ५१९ ||

सव्योत्तरकराभ्यां च सम्पुटाभ्याञ्च शङ्खवत् || होमन्तु मांसमाषाभ्यां तीर्थाह्वाभ्यां च पूर्णताम् || ५२० ||

कुर्यात्स्वाहान्तमूलेन फलान्येन तु वैदिकः || दक्षपादम्पुरस्कृत्य दक्षः पूर्णाहुतिञ्चरेत् || ५२१ ||

शक्तिहोमे वाममार्गी वामपादञ्च सर्वतः || पुनः सम्पूज्य गन्धाद्यैर्मूलमन्त्रेण मन्त्रवित् || ५२२ ||

कुण्डादुद्वास्य चाचार्यो देवतां कलशे न्यसेत् || साङ्गां सावरणां तत्र पूजयेच्च यथाविधि || ५२३ ||

सप्त व्याहृत्यग्निजिह्वाङ्गमूर्तीनामथैक्यकम् || दुग्धेन परिषिच्याग्निं प्रार्थयीत ततो गुरुः || ५२४ ||

भोभो वह्ने महाशक्ते सर्वकामप्रदायक || कर्मान्तरेपि सम्प्राप्ते सान्निध्यं कुरु सादरम् || ५२५ ||

इति मन्त्रेण सम्प्रार्थ्य चग्निमुद्वासयेदपि || ततो ब्रह्माणमुद्वास्य ब्राह्मणाय प्रपादयेत् || ५२६ ||

द्वात्रिंशत्पलमात्रेण निर्मितं ताम्रपात्रकम् || तण्डुलैस्तत्समापूर्य सहिरण्यं सदक्षिणम् || ५२७ ||

दद्याद्विप्राय तत्तुष्ट्यै पूर्णपात्रमितीरितम् || ततः परिस्तरानग्नौ परिधीन्निक्षिपेन्न तु || ५२८ ||

नित्ये नैमित्तिके तांस्तु क्षिपेद्देशिक सत्तमः || वस्त्रेण नेत्रमन्त्रेण शिष्यनेत्रं निबध्यते || ५२९ ||

कुण्डाद्धस्तं समाधाय नयेन्मण्डलसन्निधौ || सुमनोभिः प्रपूर्यास्य ह्यञ्जलीन्क्षेपयेद्धरे || ५३० ||

मूलमन्त्रोच्चारपूर्वं देवताप्रीतये गुरुः || नेत्रबन्धमपास्योपवेशयेत्कुशसंस्तरे || ५३१ ||

ततश्च पाठयेच्छिष्यं मन्त्रमेनं गुरूत्तमः || गुरुभक्तियतो ब्रूयाच्छिष्यः श्लोकञ्च तत्र वै || ५३२ ||

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया || चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः || ५३३ ||

अन्ते पूजाविधानेन स हरेज्जनयेच्च तम् || शिष्यो इत्तस्य मन्त्रस्य न्यासान्देहे परिन्यसेत् || ५३४ ||

प्. ४९) पञ्चोपचारैरभ्यर्च्य कलशे स्वेष्टदेवताम् || तन्त्रोक्तवर्त्मना तत्र सकलाकृतिमाचरेत् || ५३५ ||

अथोपवेशयेच्छिष्यं भूषितं मण्डलान्तरे || कुम्भास्यस्थसुरद्रुंश्च मूर्द्धन्यस्य शिशोर्गुरुः || ५३६ ||

अथ पञ्चनिनादैश्च विप्राशीर्वचनैस्सह || सुस्थितं नियतात्मानं सिञ्चेत्कलशपुष्पकैः || ५३७ ||

येन प्रकारेण सुरा योजिताश्च सुधामयैः || तोयैरक्षरसंयुक्तैर्घटैस्तेनैव वर्त्मना || ५३८ ||

अथ शिष्यञ्चाभिषिञ्चेदाशु तं सम्पदाप्तये || गृहीत्वाभ्यर्चितं पूर्वं करकं मन्त्ररूपिणम् || ५३९ ||

तत्तोयैरभिषिञ्चेत्तं सुशिष्यं देशिकोत्तमः || जलेन शिष्टेन शिशुं गुरुराचामयेत्ततः || ५४० ||

तद्देवतास्वरूपञ्च विदध्यात्सकलीकृतम् || वाससी विमले रम्ये परिधायाज्ञया गुरोः || ५४१ ||

आचम्य निकटे तस्या गच्छेत्सम्यङ्मनुं ततः || दक्षकर्णे वदेद्विद्वान्विप्रस्योङ्कारपूर्वकम् || ५४२ ||

अन्येषान्तु वदेदेवमेव मन्त्रं विचक्षणः || स्वयं ज्योतिर्मयीं विद्याङ्गच्छन्तीं भावयेद् गुरुः || ५४३ ||

आगताम्भावयेच्छिष्यो देवोस्मीति विशेषतः || अष्टोत्तरशतं क्षिष्यः प्रजपेद् गुरुणोदितम् || ५४४ ||

अष्टाविंशतिवारं वा चाष्टकृत्वोथ वा जपेत् || गुरुदेवात्ममन्त्राणामैक्यं शिष्यो विभावयेत् || ५४५ ||

प्रणामं गुरवे कुर्यात्साधको भक्तिमान्मुहुः || साष्टाङ्गश्चाथ पञ्चाङ्गः पूजाकर्मसु सम्मतः || ५४६ ||

हस्ताभ्याञ्चैव जानुभ्यां प्रणामो वक्षसा तथा || मुर्ध्ना दृष्ट्या तथा चैव चित्तेनाष्टाङ्ग ईरितः || ५४७ ||

हस्तजानुशिरोवाक्यदृष्ट्यः पञ्चाङ्ग ईरितः || आचार्याज्ञां सदा कुर्यात्तत्तः शिष्यो विचार्य च || ५४८ ||

अलङ्कारांश्च वासांसि दद्यादृत्विग्भ्य आदरात् || ईश्वरार्पणबुद्ध्या च द्विजाशीर्भिश्च नन्दितः || ५४९ ||

प्रदद्याद्गुरवे शिष्यः स्वधनार्धं तदर्धकम् || दशांशं वा प्रदद्याच्च वित्तशाठ्यविवर्जितः || ५५० ||

गोभूहिरण्यविपिनगृहक्षेत्रादिकं पुनः || अक्लेशादन्नवस्त्रादि दद्याद्वित्तनुसारतः || ५५१ ||

प्रकारान्तरमालम्ब्य गुरुं यत्नेन तोषयेत् || तदधीनमना नित्यं तच्चिन्तनपरायणः || ५५२ ||

तत्पादाब्जरजोभूषो भवेत्साधकसत्तमः || ततो नानाविधैर्भक्ष्यैर्लेह्यैश्चोष्यैस्तथापरैः || ५५३ ||

ब्राह्मणान्भोजयेत्सम्यक् प्रदद्याद्भूरिदक्षिणाम् || एवं क्रियामयी दीक्षा सम्पद्दात्री निरूपिता || ५५४ ||

प्. ५०) राज्ञां धनाढ्यवैश्यानां विप्राणां व्यवसायिनाम् || अयन्दीक्षाक्रमः प्रोक्तो भोगयुक् सिद्धिमिच्छताम् || ५५५ ||

अथ वर्णमयीं दीक्षां ऋण्वनुज्ञानदायिनीम् || यत्प्रकृत्यात्मतत्त्वञ्च वर्णानां समुदीरितम् || ५५६ ||

तादृक् तत्त्वं शरीरेस्य प्रोक्तमेवास्ति देशिकैः || ततस्तनौ शिशोर्न्यस्येदर्णान्देशिकसत्तमः || ५५७ ||

संहरेद्वैपरीत्येन वर्णान्स्वस्थानसंस्थितान् || देशिकेन्द्रः स्वसामर्थ्याद्दापयेद्देवतात्मताम् || ५५८ ||

देवतात्मा भवेच्छिष्यस्तदा संलीनतत्त्वतः || अथ वक्ष्ये कलादीक्षामणिमाद्यष्टसिद्धिदाम् || ५५९ ||

वेदे पञ्चकला दीक्षा दक्षेष्टत्रिकला मता || कुपञ्चाशत्कला वामे सिद्धमन्त्रगुरोस्तु सा || ५६० ||

ग्राह्या द्रुतं सिद्धिकर्त्त्रीं विपरीता विपर्यया || कला निवृत्तिप्रमुखा भूतानां पञ्च चेरिताः || ५६१ ||

शिष्यकाये भूतमये वेधयेत्ताः क्रमात्सुधीः || पादादिजानुपर्यन्तं निवृत्तिस्संस्थिता कला || ५६२ ||

जान्वोः सकाशादानाभि प्रतिष्ठाख्या कला स्मृता || नाभितः कण्ठपर्यन्तं विद्याख्या संस्थिता कला || ५६३ ||

कण्ठतो ह्याललाटन्तु शान्त्याख्या संस्थिता कला || भालाच्छिरोवधि प्रोक्ता शान्त्यतीता कला तथा || ५६४ ||

संहृतिक्रमतो विद्वान्वेधयेत्स्थानतोन्यतः || स्थाने स्वीयाज्ञयाचैव दीक्षा पञ्चकला स्मृता || ५६५ ||

अष्टत्रिंशत्कला दीक्षा युक्तिं शृण्वन्तु देवताः || क्रमेण कादिका वर्णा यत्र द्वादश संस्थिताः || ५६६ ||

विलोमा भादिका यत्र तत्र स्थानद्वये कलाः || भावनीयास्तु सूर्यस्य षोडशाशु विधोस्तथा || ५६७ ||

यकारादिस्थले वह्नेर्भावनीयाः कला दश || ततो वर्णकलानान्तु वर्णस्थानाच्च संहृतिः || ५६८ ||

पुनश्च जनयेच्छिष्यः कलादीक्षाविधिस्त्वयम् || कौलिके वाममार्गे चावेददिक्षा फलप्रदा || ५६९ ||

अन्यास्ता दक्षिणे मार्गेऽन्यथा तु पतितो भवेत् || दीक्षां वेदमयीं वक्ष्ये यां लब्ध्वा सुखदाञ्जनः || ५७० ||

तत्काल एव संसारे जीवन्मुक्तोभिजायते || मूलाधारे तु शिष्यस्य ध्यायेत्कञ्जं चतुर्दलम् || ५७१ ||

तस्य मध्ये त्रिकोणन्तु तन्मध्ये चापि कुण्डलीम् || त्रिरावर्णमयीं देवीं विद्युत्पुञ्जस्वरूपिणीम् || ५७२ ||

महादेवमयीं साक्षाज्ज्ञानमात्रेण रूपिणीम् || अणोरणीयसीं देवीं चक्रषट्कप्रभेदिनीम् || ५७३ ||

प्. ५१) सुषुम्णावर्त्मना दिव्यां यान्तीं शिवगृहम्प्रति || सान्तवादिदलस्थार्णान्पद्मस्थाने समाहरेत् || ५७४ ||

षड्दले [लिंगदेशे षड्दलं कमलं तत्स्वाधिष्ठानं नाम तद्दलेषु (बं भं मं यं रं लं) पुनर्नाभौ दशदलं कमलमस्ति तत्र (डं ढं णं तं थं दं धं नं पं फं) हृदये द्वादश दलं कमलं तद्दलेषु (कं खं गं घं ङं चं छं जं झं ञं टं ठं) पुनः कण्ठे षोडशदलं कमलं तद्दलेषु अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः पुनभ्रुवोर्मध्ये द्विदलंकमलमस्ति तद्दलयोर्लंक्षं क्रमेण न्यस्यौ |
] कमले तन्तु लान्तबाद्यर्णयुग्दले || स्वाधिष्ठाने गुरुस्सम्यग्योजयित्वा तु बेधयेत् || ५७५ ||

तदर्णानानयेद्बिन्दौ बिन्दुन्तन्नाभिपङ्कजे || फान्तडाद्यर्णसंयुक्ते दिग्दले वेधयेत्स्वयम् || ५७६ ||

वर्णांस्तान्योजयेद्रुद्रे रुद्रं तं हृत्सरोरुहे || ठान्तकाद्यर्णपत्राब्जे वेधयेदीश्वरे स्वयम् || ५७७ ||

वर्णांस्तानाहरेत्तस्मिन्कण्ठपद्मे च तं तथा || कलादलमये पद्मे स्वरान्संयोज्य यत्नतः || ५७८ ||

सदाशिवेथ संयोज्य तं तु भ्रूमध्यपद्मके || द्विदले लक्षसंयुक्ते वेधयित्वा तु देशिकः || ५७९ ||

शक्त्या सहैवमात्मानं नयेत्परशिवावधि || देशिकाज्ञावशः शिष्यो दग्धाज्ञानस्तदा क्षितौ || ५८० ||

यतेदवाप्तविज्ञानः सर्वज्ञो जायते ततः || सदाशिवः स्वयंभूयात्सत्यमेव न संशयः || ५८१ ||

इयं ज्ञानप्रदा प्रोक्ता दीक्षा वेदात्मिका शिवा || गुरुः स्वयं गुरुं ध्यायेत् स्वहस्ते शिवरूपिणम् || ५८२ ||

मूलविद्यां षडङ्गं च मातृका दिमनुं जपेत् || शिष्यस्य मस्तके दत्त्वा कृपया दक्षिणं करम् || ५८३ ||

पश्चादुपदिशेत् प्रोक्ता स्पर्शदीक्षातिसिद्धिदा || सदाशिवे तु चिद्रूपे गुरुश्चित्तं निधापयेत् || ५८४ ||

मन्त्रान्समस्तांस्तज्जातान्स्वयं ध्यायेत्तदात्मकः || जातो गुरोस्तु कृपया केवलोहं सदाशिवः || ५८५ ||

इति ध्यायन्नुपदिशेद्वाग्दीक्षा त्वियमीरिता || निमील्य नयने ध्यात्वा परमात्मनि देवताम् || ५८६ ||

तद्दर्शनानन्दपूर्णनेत्राभ्यं दर्शयेद् गुरुः || शिष्यं प्रसन्नचित्तः सन्पश्चादुपदिशेदिति || ५८७ ||

मन्त्रसिद्धस्य सिद्ध्यै स्यादृग्दीक्षेयं फलप्रदा || गुरोरालोकमात्रेण भाषणात्स्पर्शनादपि || ५८८ ||

सद्यः सञ्जायते ज्ञानं सा दीक्षा शाम्भवी स्मृता || भुक्तिमुक्तिप्रसिद्ध्यर्थम्परीक्ष्य विधिवद् गुरुः || ५८९ ||

पश्चादुपदिशेन्मन्त्रमन्यथा निष्फलो भवेत् || अन्यायेन च यो दद्याद्गृह्णात्यन्यायतश्च यः || ५९० ||

प्. ५२) ददतो गृह्णतो वापि कुलशापो भविष्यति || गुरुशिष्यावुभौ मोहादपरीक्ष्य परस्परम् || ५९१ ||

उपदेशं ददद्गृह्णन्प्राप्नुयातां पिशाचताम् || अशास्त्रीयोपदेशन्तु यो गृह्णाति ददाति यः || ५९२ ||

भुञ्जाते तावुभौ घोरान्नरकानेकविंशतिम् || असंस्कृत्योपदेशं तु यः करोति विमूढधीः || ५९३ ||

विनश्यन्ति च तन्मन्त्राः सैकते शालिबीजवत् || अनर्ह्ये मन्त्रविज्ञानं न तिष्ठति कदाचन || ५९४ ||

तस्मात्परीक्ष्य कर्तव्यं चान्यथा निष्फलं भवेत् || सच्छिष्यायातिभक्ताय विज्ञानमुपदिश्यते || ५९५ ||

तत्प्राप्नोति ब्रवीमि त्वाङ्गोक्षीरान्ते यथा घृतम् || धनेच्छाभयलीभाद्यैरयोग्यं यदि दीक्षयेत् || ५९६ ||

देवताशापमाप्नोति कृतञ्च विकृतं भवेत् || एवं दत्त्वा गुरुर्दीक्षां कुर्यात्पूर्णाभिषेचनम् || ५९७ ||

विनयेनाभिषेकेण साधकः पूर्णबोधताम् || आचार्यत्वं च नाप्नोति सद्गतिञ्च समीहिताम् || ५९८ ||

तस्माद् गुरुः प्रियं शिष्यं बोधयित्वाभिषेचयेत् || विरच्य विपुलांश्चक्रान्मण्डपेतिमनोहरे || ५९९ ||

क्षारतोयभृतं कुम्भं स्थापयेच्चक्रमध्यतः || अन्येषु कलशांस्तत्र वस्त्रहेमसमन्वितान् || ६०० ||

दलेषु विविधाः स्थाप्यास्तत्र वै चेष्टदेवताम् || अभ्यर्च्य मध्ये चान्तेषु साङ्गावरणदेवताः || ६०१ ||

स्पृशंश्च मध्ये कलशमाचार्यः प्रपठेदिति || साङ्गांश्च चतुरो वेदांस्ततस्तेन जलेन तु || ६०२ ||

अभिषिञ्चेद्गुरुः शिष्यमिति पूर्णाभिषेचनम् || देवेभ्यः सर्वतन्त्राणि तन्त्रेभ्यो मुनयस्तथा || ६०३ ||

यतो जातास्ततः शिष्यः सर्वतन्त्रैकभाजनम् || भवेदाचार्यनामा च कुर्यान्नामान्तरं गुरुः || ६०४ ||

एतादृशस्य यो दीक्षां गृह्णीयात्स तु सिद्धिभाक् || सर्वमन्त्रप्रधानेषु समर्थः स तु जायते || ६०५ ||

सर्वे देवा वशास्तस्य वेदे पन्थास्तु सात्त्विकः || एष एव विधिस्तस्य मार्गः स्याद्दक्षिणाभिधः || ६०६ ||

विशेषस्तत्र तोयानि तीर्थानामाहरेत्सुधीः || गङ्गाया यमुनायाश्च सरस्वत्या महोदधेः || ६०७ ||

सिन्धुगोदावरीरेवाकावेरीभ्यः पृथूदकात् || महेन्द्रजायाः सरयूचर्मण्वत्योश्च पुष्करात् || ६०८ ||

महानद्या वेदिकायाः क्षिप्रावेत्रवतीजलम् || कुरुक्षेत्रस्यगण्डक्याः पूर्णाया मानसस्य च || ६०९ ||

घटे दत्त्वा जपेन्मन्त्रान्नानातन्त्रगतानपि || प्. ५३) अभिषिक्तस्तु तैस्तोयैः सिद्धो वै मानवोत्र तु || ६१० ||

प्रयोगार्थन्तथान्यस्य दानार्थमथ वामके || मध्ये तीर्थघटं स्थाप्य शेषास्तोयघटा मताः || ६११ ||

ये य आवाहिता देवा गुरुणा तु शुभे घटे || तेते कुर्वन्तु सान्निध्यं मन्त्ररूपाश्च तन्मुखे || ६१२ ||

स्वयं सिद्धो हि कस्मैचिन्मूर्द्धानं नैव नामयेत् || यदर्थं नामितो मूर्द्धा तस्य मृत्युर्न संशयः || ६१३ ||

वाममार्गे गुरुर्यस्य चेदृक्सिद्धो भवेद्यदां || शिष्यश्च निरहङ्कारः सदा दैवतत्परः || ६१४ ||

देवतार्थं यस्य नात्र त्रयाभोगे मनो न च || स एव सिद्धो वामे स्यादन्यो निरयभाजनम् || ६१५ ||

दरिद्रो दुःखितो मूर्ख इहलोके परत्र च || क्रियादीक्षाविधिंकुर्याद्यथाशक्त्या गुरूक्तितः || ६१६ ||

एतत्तत्त्वं समाख्यातं किमन्यच्छ्रोतुमिच्छथ || ६१७ ||

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते दीक्षाप्रकाशस्तृतीयः || ३ ||

Prakāśa 4 – Homa – Feueropfer

संज्ञया प्रार्थिता देवी मुनिभिः श्रोतुकामिभिः || तदिष्टसिद्धये तत्र देवं सैवं व्यजिज्ञपत् || १ ||

देव्युवाच ||

श्रौतस्मार्तरता एते पृच्छन्ति मुनयः शिव || एतेषां संशयं छिन्धि त्वदृतेन्यः पुमान्न हि || २ ||

ईश्वर उवाच ||

पृच्छन्तु ऋषयस्तावद्देवा अपि मनोगतम् || यावत्कालः समायाति जलन्धरवधस्य तु || ३ ||

मुनय ऊचुः ||

अग्निः क्व क्व देवाश्च हूयन्तेग्नौ सुराः कथम् || तत्प्राप्नुवन्ति तद्भेदा भिन्नाः कस्माद्वदस्व नः || ४ ||

ईश्वर उवाच ||

न स्वर्गे न च तीर्थेषु नौषधीषु न भेषु च || ऋषयो देवताः सन्ति मन्त्रा एव तु देवताः || ५ ||

साधकानां फलं दातुं तत्तद्रूपं धृतं सुरैः || मुख्यं स्वरूपं तेषां तु मन्त्रा एव न चेतरत् || ६ ||

संस्कृताः सात्त्विका मन्त्राः परत्रेह च शर्मदाः || जन्मान्तरे भवेयुश्च बीजरूपा न संशयः || ७ ||

तत्रापि वैदिका मन्त्राः सुवर्णाः परिकीर्तिताः || न दुर्गतिमवाप्नोति तेषां संसेवनान्नरः || ८ ||

द्विजत्वं प्राप्य ये लोके सेवन्ते तान्त्रिकान्मनून् || त्यक्त्वा सुवर्णं दुर्बुद्ध्या ग्राम्यवत्तारचारिणः || ९ ||

ताररूपास्तारकत्वान्मनवस्तान्त्रिका अपि || फलप्रदा इहामुत्र न सद्बीजा भवान्तरे || १० ||

किञ्चिद्राजससत्त्वा ये यातनान्ते पुनस्तु ते || भवन्ति फलदा यद्वद्वटोदुम्बरपिप्पलाः || ११ ||

तामसाः प्राकृता मन्त्रा इह लोके महाफलाः || न परत्र यथा द्राक्षाखर्जूरपनसादयः || १२ ||

तन्मन्त्रैर्यद्धूतं वह्नौ कीदृग्दहति पावकः || ग्रहश्चिनोति तच्छ्रेयो यथा नाड्योन्नजं रसम् || १३ ||

निर्दोषा तु यदा नाडी वहेदन्नरसं लघु || देवयोग्यो ग्रहस्तद्वच्छ्रेयस्संवहते सुरः || १४ ||

सूर्यभात्त्रिषु भेष्वर्कनाड्यां श्रेयोभिवर्द्धते || पोषयेद्दैविकान्मन्त्रानितरान्हन्ति वामवत् || १५ ||

ततस्त्रिभेषु सौरस्य नाडी बुद्धिविलासकृत् || तस्मात्त्रिषु सितस्यापि वामानामपि पुष्टिदा || १६ ||

ततस्त्रिभेषु सौरस्य कुर्यान्मन्त्रे तु संशयम् || चन्द्रस्य सर्वमन्त्राणां पुष्टिकृच्च ततस्त्रिषु || १७ ||

ततस्त्रिष्वारनाडी स्यात्फलानान्तु विनाशकृत् || तस्मात्त्रिषु गुरोर्नाडी सत्वरं मन्त्रसिद्धिदा || १८ ||

राहुनाडी त्रिषु ततो न सत्यैह्यकरे नरे || त्रिष्वतः केतुनाडी तु सद्भूते मन्त्रदेवकृत् || १९ ||

तिथिवासरसंयोगे गुणशेषे हुताशनः || कौ स्वर्गे कुतले तन्त्रे प्रत्यक्षाग्निस्वरूपकम् || २० ||

मारयेत्साधकं स्वर्गे हरते भूतले धनम् || प्रत्यक्षाग्निः फलं धत्ते भूमौ वै विश्वरूपकः || २१ ||

वह्नेस्तु स्थापनं कुर्याद्वैदिकः कल्पमार्गतः || तान्त्रिकः कुण्डसंस्कारानष्टादश समाचरेत् || २२ ||

मूलमन्त्रेण सम्पश्येत्प्रोक्षयेदस्त्रमन्त्रतः || कुशैस्सन्ताडयेत्कुण्डमस्त्रमन्त्रं पठंस्त्रिधा || २३ ||

ततः कवचमन्त्रेण कुण्डस्याभ्युक्षणं मतम् || अस्त्रमन्त्रेण खननं कुण्डस्याङ्गुलमात्रतः || २४ ||

अङ्गुष्ठानामिकाभ्यां तां मृदमस्त्रेण चोद्धरेत् || पुनः शुद्धमृदा तं च पूरयेद्धृदयाणुना || २५ ||

समीकुर्यात्ततोस्त्रेण सेचयेत्कवचेन तु || काष्ठादिना कुट्टयेत्तन्मन्त्रेण स्यात्तथा दृढम् || २६ ||

कुशैस्सम्मार्जयेत्कुण्डं ततस्तु कवचाणुना || विलेपनं गोमयाद्भिः कवचेनैव कारयेत् || २७ ||

कवचे नाग्निसूर्येन्दुकलाः कुण्डे विचिन्तयेत् || त्रिसूत्रीकृतसूत्रेण वेष्टयेत्प्रतिमेखलम् || २८ ||

त्रिवारं वर्ममन्त्रेण कुण्डपूजां समाचरेत् || प्. ५५) तारश्चामुककुण्डाय आसनाय नमस्त्विति || २९ ||

एषोर्घ्य इत्याद्यूहैश्च सकलं पूजनं चरेत् || नाभेश्च मेखलानां च कुर्यादेवं प्रपूजनम् || ३० ||

सञ्चिन्तयेत्ततोस्त्रेण तत्कुण्डं वज्रवद् दृढम् || वह्नेर्ज्वालानिरासाय हृन्मन्त्रेण कुशैस्ततः || ३१ ||

कण्डस्य तु चतुर्दिक्षु कुर्यान्मार्गचतुष्टयम् || अच्छिन्नाग्रैः कुशैरस्त्रमन्त्रितैः कुण्डभित्तिषु || ३२ ||

भूतप्रेतादिदृष्टीनामस्त्रादीनां समाचरेत् || उच्चानन इमे प्रोक्ताः संस्कारा धृतिसम्मिताः || ३३ ||

भवेदनेन विधिना कुण्डस्याष्यक्षपाटनम् || वामहोमे तु संस्कारा आद्याश्चत्वार एव हि || ३४ ||

त्र्यस्रात्र्यस्रा भवेद्रेखा प्रागुदक् च हृदाणुना || स्मृताश्च प्राङ्मुखाग्राणां देवा विष्ण्वीशवासवाः || ३५ ||

उदङ्मुखाग्ररेखाणां ब्रह्मसूर्येन्दवः क्रमात् || विलिखेद्दर्भकाण्डेन वाममार्गेस्त्रमन्त्रतः || ३६ ||

त्रिकोणे परिषट्कोणंत्रिकोणद्वितयस्य तु || विष्ण्वीशवासवादीनां षण्णां तत्र तु पूजनम् || ३७ ||

वाममार्गे त्विष्टदेव्यास्त्रिकोणे पूजनं भवेत् || सम्प्रोक्ष्य प्रणवेनाथ योगपीठं समर्चयेत् || ३८ ||

तद्विधिं सम्प्रवक्ष्यामि मण्डलं चिन्तयेत्तले || कालाग्निरुद्रं तस्योर्ध्वं शक्तियुक्तं विचिन्तयेत् || ३९ ||

तदूर्ध्वं चिन्तयेत्कूर्मं तस्य पृष्ठे वसुन्धराम् || श्वेतद्वीपं तत्र चिन्त्यं सुधासिन्धुसुवेष्टितम् || ४० ||

मन्दारान्पारिजातांश्च सन्तानान्हरिचन्दनान् || कल्पवृक्षांश्च तत्रैव चिंतयेत्पूजयेदपि || ४१ ||

एतादृशगृहे चिन्त्यं रम्यं मणिमयं गृहम् || स्वर्णपीठन्तु तन्मध्ये तस्य पादान्विचिन्तयेत् || ४२ ||

पुरुषार्थांस्तु धर्मादीन्धर्मो ज्ञानं विरागता || ऐश्वर्यमपि चाङ्गानि पीठस्योक्तानि तत्र तु || ४३ ||

मध्ये विचिंतयेत्पद्ममानन्दमयकन्दकम् || संविन्नालं च तस्योक्ता विकारमयकेसराः || ४४ ||

प्रकृत्यात्मकपत्राणि पञ्चाशद्वर्णकर्णिका || सूर्यस्येन्दोः पावकस्य मण्डलत्रितयं ततः || ४५ ||

ततः पूर्वादिकाष्ठासु सत्त्वं रजस्तमस्ततः || अन्तरात्मयुतश्चात्मा परमात्मा ततः परम् || ४६ ||

मायातत्त्वेथ ज्ञानात्मा कलातत्त्वे प्रतिष्ठितः || विद्यातत्त्वं परं तत्त्वं योगपीठमितीरितम् || ४७ ||

चित्रं

@@@

प्. ५६) स्वाग्रादिप्रादक्षिण्येन तत्पद्म केसरेषु तु || मध्यांतं पूजयेदेता जयाञ्च विजयां तथा || ४८ ||

अजिताख्यां चापराञ्च जितां नित्यां विलासिनीम् || दोग्ध्रीमघोराञ्च तथा मङ्गलामथ तत्र तु || ४९ ||

ह्रींसर्वशक्तिकमलासनाय नम उच्यते || दत्त्वा पुष्पाञ्जलिं कुण्डे पूजयेद्भुवनेश्वरीम् || ५० ||

आवाहनादिपरमीकरणांतञ्च पूजयेत् || कामोन्मत्तां शिवां तत्र देवीमृतुमतीं तथा || ५१ ||

गाणेशशैवशाक्तेषु ध्यायेत्सम्पूजयेदिति |
वैष्णवे च तथा सौरे लक्ष्मीमृतुमतीं स्मरेत् || ५२ ||

नारायणस्य संयोगाज्जातमग्निं विचिन्तयेत् || आरण्यं विप्रगेहाद्वा दद्यादग्निं कुमारिका || ५३ ||

सुवासिनी वामहस्तात्कृतशौचा समाहरेत् || पात्रांतरे चापिहिते ताम्रपात्रादिके शुभे || ५४ ||

अग्निप्रणयनं कुर्याच्छरावेणथा नूतने || दद्यादस्त्रेण पात्रेग्निं कवचेन विधाय च || ५५ ||

जीर्णे शरावे कापाले भिन्नपात्रे तथोल्मुके || नाग्निप्रणयनं कुर्याद्व्याधिहानिभयावहम् || ५६ ||

क्रव्यादांशञ्च नैर्-ऋत्ये त्यजेदस्त्रेण वह्नितः || देवांशं मूलमन्त्रेण स्थापयेदग्रतः सुधीः || ५७ ||

पश्चात्तमग्निं संस्कारैः संस्कुर्याद्वीक्षणादिभिः || प्रदीपकलिकाकारं तेज आवाहयेत्ततः || ५८ ||

ऐक्यं चाथ स्वेष्टदेववह्निभ्यां पार्थिवस्य च || स्मृत्वाग्निबीजन्तेनाथ चैतन्यं योजयेत्ततः || ५९ ||

ओङ्कारेणाभिमन्त्र्याथ धेनुमुद्रामृतीकृतम् || संरक्ष्य च शरेणाथ कवचेनावगुण्ठयेत् || ६० ||

ततः सम्पूज्य कुण्डस्य भ्रामयेत्त्रिः प्रदक्षिणम् || प्रणवेन ततः स्वस्य संमुखं स्वीयकुण्डले || ६१ ||

देव्या योनौ तत्र जानन्स्पृष्टभूमिश्च देशिकः || शिवबीजमिति ज्ञात्वा निक्षिपेदाशुशुक्षणिम् || ६२ ||

देवदेव्योराचमनं मैथुनान्ते धिया चरेत् || चित्पिङ्गल [चित्पिङ्गल हनहन पचपच दहदह सर्वं ज्ञापय स्वाहा अयं चतुर्विंशत्यक्षरोऽग्निमन्त्रः |
नालमेखलयोरित्यपि पाठः |
] हनहन पचपच दहदह || ६३ ||

सर्वं ज्ञापय स्वाहेति तारादिर्जिनवर्णकः || अमुं मनुं प्रभाष्यैव कृशानुं ज्वालयेत्ततः || ६४ ||

अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् || सुवर्णवर्णममलं समिद्धं सर्वतोमुखम् || ६५ ||

अनेन ज्वलितं मन्त्रेणोपतिष्ठेद्धुताशनम् || मुखेनव धमेदग्निम्मुखादेष व्यजायत || ६६ ||

कुशैः पलाशादिपर्णैर्नापवित्रेण केनचित् || ततः सुविन्यसेज्जिह्वा देहे मन्त्रैर्विभावसोः || ६७ ||

भाललिङ्गोरुमूर्धास्यनासानेत्रेषु च क्रमात् || सर्वाङ्गेषु च जिह्वास्ता वक्ष्यन्ते त्रिविधात्मिकाः || ६८ ||

हिरण्या कनका रक्ता कृष्णा चैव तु सुप्रभा || बहुरूपा चातिरक्ता जिह्वाः सप्तेति सात्त्विकाः || ६९ ||

अनलादिसबिन्द्वन्तयादिसान्ताक्षरान्विताः || मन्त्री प्रविन्यसेद्भूयो वह्नेरङ्गानि वै क्रमात् || ७० ||

सहस्रार्चिस्स्वस्तिपूर्ण उत्तिष्ठपुरुषस्तथा || धूमव्यापी सप्तजिह्वो धनुर्धर इतीरिताः || ७१ ||

न्यसेत्प्रदक्षिणे देहे वह्निमूर्त्यष्टकं क्रमात् || मूर्द्धास्यपार्श्वकट्यंघ्रिकटिपार्श्वांसकेषु च || ७२ ||

प्रणवादिनमोन्तास्तु अग्नयेपदपूर्वकाः || जातवेदास्सप्तजिह्वो हव्यवाहस्तृतीयकः || ७३ ||

अश्वोदरजवैश्वानराख्यकोमारतेजसः || विश्वमुखो देवमुखो मूर्तयोष्टौ प्रकीर्तिताः || ७४ ||

प्रदक्षिणक्रमेणैव सञ्चिन्त्य च ततो जलैः || मेखलोपरिसंशुद्धैः पुनर्दर्भचतुष्टयैः || ७५ ||

प्रागग्रैरुदगग्रैश्च हित्वा पूर्वाः परिस्तरेत् || प्. ५८) एकमेखलके कुण्डे मेखलाधः परिस्तरेत् || ७६ ||

द्विमेखले द्वितीयायां मध्यमायां त्रिमेखले || स्थण्डिले सिकतानां तु बाह्यभूमौ परिस्तरेत् || ७७ ||

आत्ममेखलयोर्मध्ये परिधिस्थापनस्य च || रन्ध्रं कुर्यात्तथा विद्वान्मध्यमामेखलोपरि || ७८ ||

पलाशकाश्मरि बिल्वविकङ्कतसमुद्भवान् || एकवृक्षोद्भवानार्द्रान्परिधीन्बाहुमात्रकान् || ७९ ||

प्राणानायम्य विधिवत्परिस्तार्य कुशान्तरैः || स्वगृह्योक्तविधानेन वायुदेशाच्च पूर्वतः || ८० ||

स्रुक्स्रुवौ च प्रणीता च प्रोक्षणीपात्रयुग्मकम् || आज्यस्थालीञ्च परिधींस्तथैव कुशमुष्टयः || ८१ ||

अधोमुखानि पात्राणि होमद्रव्यं बलिं तथा || गन्धपुष्पाक्षतादीनि सर्वाण्यासादयेत्ततः || ८२ ||

तान्यभ्युक्ष्य पवित्रेण चासनानि विधाय च || प्रोक्षणीपात्रयुगलं परिपूर्य शुभाम्बुना || ८३ ||

दत्त्वा तत्र पवित्रांश्च परिपूर्य निधापयेत् || दिश्युत्तरस्यां तत्पात्रं प्रणीतेत्युच्यते बुधैः || ८४ ||

ततः किञ्चित्प्रणीताम्बु प्रोक्षण्याधाय तज्जलैः || यज्ञसाधनसम्भारान् प्रोक्षयेन्मूलमन्त्रतः || ८५ ||

वृणुयाद्ब्राह्मणं शाक्तं देवतामन्त्रदीक्षितम् || कुण्डस्य दक्षिणे भागे वेशयेत्तं कुशासने || ८६ ||

अमुकामुकगोत्रोहममुकामुकगोत्रिणम् || दीक्षाङ्गभूतहोमेस्मिन्ब्राह्मणं त्वां वृणे त्विति || ८७ ||

वस्त्रालङ्कारदिकेन वृत्वा तं परिपूजयेत् || कुर्यात्कुशबटुं चापि लभ्यते ब्राह्मणो न चेत् || ८८ ||

कुण्डमध्ये तु षट्कोणे वर्णितं स्वर्णकर्णिकम् || नानाकेशरसंयुक्तं चतुर्द्वारसमावृतम् || ८९ ||

चिन्तयेदष्टदलकं चतुरस्रतयावृतम् || पूजापीठन्तु तद्वह्नेस्तत्र मण्डलकादिना || ९० ||

ज्ञानात्मानं योगपीठं सम्पूज्याष्टदलेषु च || प्रादक्षिण्येन मध्यान्तं पीतां श्वेतां तथारुणाम् || ९१ ||

कृष्णां धूम्रां च तीव्रां च पूजयेद्विस्फुलिङ्गिनीम् || रुचिरां ज्वालिनीञ्चेति सर्वपीठम्प्रपूजयेत् || ९२ ||

सर्वशक्ति कमलासनाय हृद्द्वादशाक्षरः || समस्तपीठपूजायां वह्निमन्त्र उदाहृतः || ९३ ||

ततो हुताशनन्ध्यायेद्वरस्वस्तिकशक्तितः || अभयेन च संयुक्तैर्भुजैः सम्यग्विराजितम् || ९४ ||

प्. ५९) सिन्दूरवर्णं पद्मस्थं स्वर्णालङ्कारभूषितम् || त्रिनेत्रञ्च जटामौलिम्पीतवस्त्रारुणस्रजम् || ९५ ||

ध्यात्वैवं मनुनानेन पूजयेदुपचारकैः [चक्रे त्रिकोणं वह्नियन्त्रं लिखितमस्ति पुनरग्निपूजासमये न्यासानपि कुर्यात् स यथा |
ओं सहस्रार्चिर्षे अङ्गुष्ठाभ्यां नमः || ओं स्वस्तिपूर्णाय तर्जनीभ्यां नमः || ओं उत्तिष्ठपुरुषाय मध्यमाभ्यां नमः || ओं धूमव्यापिने अनामिकाभ्यां नमः || ओं सप्तजिह्वाय कनिष्ठिकाभ्यां नमः || ओं धनुर्धराय करतलकरपृष्ठाभ्यां नमः || इति करन्यासः || ओं सहस्रार्चिषे हृदयाय नमः || ओं स्वस्तिपूर्णाय शिरसे स्वाहा || ओं उतिष्ठपुरुषाय शिखायै वष्ऽत् || ओं धूमव्यापिने कवचाय हुम् || ओं धनुर्धराय अस्त्राय फट् || इति हृदयादिन्यासः || एतन्न्यासद्वयकरणान्ते यन्त्रपूजनम् ||] ||

चित्रं

प्. ६०) वैश्वानर जातवेद इहावह लोहिताक्ष || ९६ ||

सर्वकर्माणि साधय स्वाहान्तः प्रणवादितः || सप्तविंशत्यक्षरोयं मन्त्रः स्याद्वह्निपूजने || ९७ ||

ततः षट्कोणमध्ये च जिह्वाध्यानं च पूजनम् || जिह्वाज्वालारुचः सर्वा वराभयकरास्तथा || ९८ ||

ऐश्यां हिरण्या स्वर्णाभा शान्तिपौष्टिककर्मणि || वैडूर्यवर्णा कनका प्राच्यां स्तम्भनकार्यवृत् || ९९ ||

विद्वेषे तरुणादित्यनिभा रक्ताग्निकोणके || कृष्णाञ्जनचयप्रख्या नैर्-ऋत्यां मारणक्षमा || १०० ||

सुप्रभा पद्मरागाभा वारुण्यां धनदायिका || अतिरक्ता जयाभासा वश्ये वायुदिशङ्गता || १०१ ||

बहुरूपा तु षट्कोणमध्ये षड्वर्णसंयुता || अनेककार्यसंसिद्धिर्नाशकर्त्री च सा मता || १०२ ||

यथाकार्यं तथा जिह्वा दृश्यते चेत्स्वदिग्गता || ज्वालारूपा तथा सिद्धिर्विपरीते विपर्ययः || १०३ ||

प्रभा दीप्तिः प्रकाशा च मरीचिस्तापिनी तथा || कराला लेलिहा चेति जिह्वा वैष्णवकर्मणि || १०४ ||

ईशप्राग्वह्निनैर्-ऋत्यपश्चाद्वायव्यमध्यतः || संस्थिताः सकला जिह्वा वरदाभयसत्कराः || १०५ ||

एवं पूजां विधायाशु देवाग्रे चापि दिक्षु च || पूजयेच्च षडङ्गानि पत्रेष्वावृत्तिदेवताः || १०६ ||

इन्द्रादीन्सायुधान्पश्चात्सम्पूर्णाग्निं पुनर्यजेत् || ततश्चाधोमुखौ कृत्वास्रुक्स्रुवौ च प्रतापयेत् || १०७ ||

कुशाग्रैस्तु तयोरग्रं मध्यं मध्यैश्चमार्जयेत् || मूले मूलैस्त्रिधा चैव मार्जयित्वा प्रतापयेत् || १०८ ||

धृत्वा तौ वामहस्तेन प्रोक्षयेत्प्रोक्षणीजलैः || दक्षिणेन कराग्रेण पुनः सन्तापयेच्चतौ || १०९ ||

कुशान् क्ष्प्त्वा ततो वह्नौ स्वदक्षे तु कुशास्तरे || संस्थाप्य स्रुक्स्रुवौ पश्चाद्धृतसंस्कारमाचरेत् || ११० ||

समादाय घृतस्थालीं मन्त्रेण सेचये ततः || घृतं तत्र समापूर्य वीक्षणादिसुसंस्कृतम् || १११ ||

वायव्ये बाह्यतोङ्गारान्कृत्वा तेषु हृदा न्यसेत् || तापनं तु समुद्दिष्टं कुशद्वयमत क्षिपेत् || ११२ ||

अभिद्योतनमेतत्स्यादुद्योतनमथोच्यते || कुशं प्रज्वलितं चोह्य दर्शयेत्तं हृदा क्षिपेत् || ११३ ||

वह्नावुद्वास्य च घृतमङ्गाराग्निषु निक्षिपेत् || अपसंस्पृश्य मन्त्रज्ञः कुर्यादुत्प्लवनं ततः || ११४ ||

अस्त्रमन्त्रं जपेन्मंत्री कुशौ प्रादेशमात्रकौ || अङ्गुष्ठानामिकाभ्यां च गृहीत्वा घृतमुत्प्लवेत् || ११५ ||

ततो दृढं कुशाभ्यान्तु स्वाभिमुख्येन सम्प्लवेत् || घृतं तत्स्यात्सम्प्लवनं षट् संस्कारा इतीरिताः || ११६ ||

प्. ६१) उत्तमं गोघृतं प्रोक्तं मध्यमं महिषीभवम् || अधमं छागलीजातं निषिद्धं त्वेडकादिजम् || ११७ ||

क्रीतं यदापणे चाज्यं स्वादु चेद्गव्यवच्च तत् || कुशद्वयं घृते न्यस्य ततः प्रादेशसम्मितम् || ११८ ||

ग्रन्थिं कृत्वा कुशाग्रौ द्वौ शुक्लकृष्णौ विचिन्तयेत् || पक्षौ वाम इडां दक्षे पिङ्गलां मध्यतस्ततः || ११९ ||

सुषुम्णां संस्मरेन्मन्त्री ततो होमं समाचरेत् || दक्षभागात्स्रुवेणाज्यं प्रगृह्णीयाद्धृदाणुना || १२० ||

दक्षे नेत्रे हुताशस्याग्नये स्वाहेति होमयेत् || गृहीत्वाज्यं वामभागात्तद्वद्वामेग्निलोचने || १२१ ||

हुनेत्सोमाय स्वाहेति त्यागः सर्वत्रतो मम || हृन्मंत्रेण गृहीत्वाज्यं मध्यतो मध्यलोचने || १२२ ||

हुनेत्तस्याग्नीषोमाभ्यां स्वाहेति च तृतीयिकाम् || दक्षभागात्पुनस्त्वाज्यं हृन्मंत्रेण समाहरेत् || १२३ ||

अग्निवक्रेऽग्नये स्विष्टकृते स्वाहेति होमयेत् || सताराभिर्व्याहृतिभिराज्येन जुहुयात्पुनः || १२४ ||

जुहुयादग्निमंत्रेण त्रिवारं देशिकोत्तमः || गर्भाधानादिकां वह्नेस्समुद्वाहावसानिकाः || १२५ ||

शुभे कर्मणि कर्तव्या आज्याहुत्यष्टकैः प्रियाः || प्रणवं पूर्वमुच्चार्य कर्मनाम समुच्चरेत् || १२६ ||

सम्पादयामि स्वाहेति सर्वकर्मस्वयं विधिः || गर्भाधानं पुंसवनं सीमंतं जातकर्म च || १२७ ||

निष्कासनञ्च कथितं प्राशनञ्च तथा बुधैः || चौलोपनयनं वह्नेर्महानामव्रतं तथा || १२८ ||

महाव्रतञ्चोपनिषद्व्रतङ्गोदानमेव च || समावर्तसमुद्वाहौ शाक्ते वाग्भवपूर्वकाः || १२९ ||

ततश्च वह्नेः पितरौ देवदेव्यादिकौ तथा || पूजयित्वा विसृज्याथ मूलाग्रेषु घृतप्लुताः || १३० ||

समिधोऽग्नौ क्षिपेत्पञ्च वह्नावथ च पूर्ववत् || सबीजस्वस्वनाम्ना वै चैकैकामाहुतिं हुनेत् || १३१ ||

ततश्चाङ्गानि [ओं सहस्रार्चिषे स्वाहा ओं स्वस्तिपूर्णाय स्वाहा ओं उत्तिष्ठपुरुषाय स्वाहा ओं धूमव्यापिने स्वाहा ओं सप्तजिह्वाय स्वाहा ओं धनुर्धराय स्वाहा ओं अग्नये जातवेदसे स्वाहा ओं अग्नये सप्तजिह्वाय स्वाहा ओं अग्नये हव्यवाहाय स्वाहा ओं अग्नये अश्वोदरजाय स्वाहा ओं अग्नये वैश्वानराय स्वाहा ओं अग्नये कौमारतेजसे स्वाहा ओं अग्नये विश्वमुखाय स्वाहा ओं अग्नये देवमुखाय स्वाहा ||] जुहुयाद्वह्नेर्मूर्त्यष्टकं तथा || १३२ ||

इन्द्रादिलोकपालांश्च [इन्द्रादीनां तदायुधानां च चक्रभूपुरे मन्त्रा लिखिताः ||] आयुधानि ततः परम् || पूर्वोक्तेनाग्निमन्त्रेण वौषडन्तेन वै ततः || १३३ ||

प्. ६२) ताराद्यैर्दशभिर्भेदैः [ओं ओं स्वाहा १ ओं श्रींस्वाहा २ ओं श्रींह्रीं स्वाहा ३ ओं श्रींह्रींक्लीं स्वाहा ४ ओं श्रींह्रींक्लींग्लौं स्वाहा ५ ओं श्रींह्रींक्लींग्लौंगं स्वाहा ६ ओं श्रींह्रींक्लींग्लौंगंगणपतये स्वाहा ७ ओं श्रींह्रींक्लींग्लौंगं गणपतयेवरवरद ८ ओं श्रींह्रींक्लींग्लौंगंगणपतये वरवरद सर्वजनं मे वशं स्वाहा ९ ओं श्रींह्रींक्लींग्लौंगं गणपतये वरवरद सर्वजनं मे वशमानय स्वाया १० ||] पूर्वपूर्वसमन्वितैः || मनुना गाणपत्येन हुनेत्पूर्वं दशाहुतीः || १३४ ||

जुहुयाच्च [पुनः समस्तेन गणेशमन्त्रेण चतुरो वाराञ्जुहुयात् ||] चतुर्वारं समस्तेनैव तेन तु || सम्पूज्य [अग्नौ देवपीठभावनया देवतामग्नीरूपं विज्ञाय मानसीं पूजां विदधीत ||] देवतापीठं वह्नौ सम्यक् ततो गुरुः || १३५ ||

अग्निरूपधरां तत्र पूजयेदिष्टदेवताम् || अज्येन चाग्निमनुना [पूर्वमुक्तोग्निमन्त्रः ओं विश्वानर जातवेद इहावहेत्यादि ||] पञ्चविंशतिसङ्ख्यकम् || १३६ ||

हुनेन्मन्त्री चाग्निमुखे वक्त्रैकीकरणं त्विदम् || आत्माग्निदेवतानां च चिन्तयन्नैक्यमात्मवित् || १३७ ||

एकादशाथ मूलेन हुनेदाज्येन चाहुतीः || नाडीसन्धानमेतद्धि प्रोक्तं देशिकस्त्तमैः || १३८ ||

अङ्गप्रभृत्यावृत्तीनामेकैकामाहुतिं हुनेत् || पूर्वादिदिक्षु सर्वासुकुण्डेषु च यथाविधि || १३९ ||

गुरुर्वह्निं प्रविहरेत्संस्कृतं तूक्तवर्त्मना || सर्वर्त्विजश्चन्दनाद्यैस्सम्पूज्य प्रोक्तदेवताम् || १४० ||

सर्वावरणसंयुक्तां मूलेन जुहुयुस्ततः || पञ्चविंशतिधा सर्पिस्संयुतेन प्रियान्धसा || १४१ ||

स्रुवेणाज्यं समित्पाण्या स्रुचा शेषं करेण तु || तत्र दिव्येन होतव्यं तीर्थेणार्षेण वा तथा || १४२ ||

यो नार्चिषि जुहोत्यग्नौ व्यङ्गाग्नौचैव मानवः || मन्दाग्न्यामयसंयुक्तो दरिद्रश्चापि जायते || १४३ ||

दद्याद्बलिं गन्धपुष्पधूपपूर्वकमादरात् || नक्षत्राणां च वाराणां राशीनां च पृथक् पृथक् || १४४ ||

देवताभ्यं पदं प्रोक्ता दिवा नक्तं वदेत्ततः || वारेभ्यश्चाथ सर्वेभ्यो भूतेभ्यश्च नमो वदेत् || १४५ ||

इत्येष तान्त्रिको होमविधिः प्रोक्तो मया सुराः || पृच्छन्त्वन्यद् गूढमपि वक्ष्यामि शरणागतान् || १४६ ||

इति श्रीमहामायामहाकालानुमते मेरूतन्त्रे शिवप्रणीते होमविधि प्रकाशश्चतुर्थः || ४ ||

Matrika: die Buchstaben als Träger heiliger Sprache in der tantrischen Tradition.

Prakāśa 5 – Āhnika – tägliche Praxis

श्रीदेव्युवाच

धनिनां मध्यमानां च दरिद्राणां हासिनाम् || परदेशस्थितानां च कारागेहादिवासिनाम् || १ ||

कायादौ व्याहृतानां च युक्तानां सूतकादिभिः || कार्याङ्गवस्त्वभावे वा वामिकानां कृपानिधे || २ ||

षडाम्नायरहस्येन कथं नित्याह्निक भवेत् || लोकलज्जावतां चापि दिनचर्यां वद प्रभो || ३ ||

ईश्वर उवाच ||

महाकालेन यत्प्रोक्तं यन्महामायया श्रुतम् || रहस्यातिरहस्यं यत्सर्वतन्त्रेषु गोपितम् || ४ ||

आम्नायानां रहस्यं यदाह्निकं प्रोच्यते मया || शृण्वन्तु सर्वे भो देवाः साधकानां प्रसिद्धिदम् || ५ ||

तत्र नित्यं त्रिधा प्रोक्तं गुणत्रयविभेदतः || अधिकारिविभेदेन तदपि त्रिविधं भवेत् || ६ ||

शुद्धं मिश्रं च गलितं तत्तथैव फलप्रदम् || अकृते प्रत्यवायो न गलिते सफलञ्जनैः || ७ ||

अहङ्कारविहीनं चेन्मानसञ्ज्ञानपूर्वकम् || स्वस्थचित्तेन यतिना कृतं तच्छुद्धमिष्यते || ८ ||

तादृशं चेद् गृहस्थेन निर्द्रव्येण च वा कृतम् || रुग्णेन पथिकेनापि कारागृहगतेन वा || ९ ||

भक्तितो वापि तन्मिश्रं बाह्यपूजाधिकारतः || शीतादिभीत्या वा वित्तसंक्षयादन्यकार्यतः || १० ||

त्र्यादेर्नियोगाद्गलितं गृहिणो मानसम्मतम् || बाह्य पूजादिकं यच्च एकान्ते नियमेन च || ११ ||

भक्त्या कृतं गृहस्थेन तच्छुद्धं राजसम्मतम् || पूजार्थं यद्वाचयित्वा श्रद्धाभक्तिं विधाय च || १२ ||

लोकभीत्या देवभीत्या यत्तदायासमिश्रितम् || प्रतारणार्थं लोकानां याचितं देवनामतः || १३ ||

द्रव्यं कृतं तदुद्देशो गलितं तत्तु राजसम् || वाममार्गं समाश्रित्य कौलं धर्मं विचार्य च || १४ ||

अन्यधर्मस्य चाद्वेषात्कृतं शुद्धं तु तामसम् || कृतं यत्कामतः कर्म चैहिकं पारलौकिकम् || १५ ||

वाममार्गं समाश्रित्य मिश्रितं तत्तु तामसम् || जिह्वालोभेन यत्पानं भक्षणं कामतो रतम् || १६ ||

अथवा मारणाद्यर्थं गलितं तत्तु तामसम् || शुद्धसत्त्वेन मोक्षः स्यात्स्वर्गः स्यान्मिश्रसत्त्वतः || १७ ||

सिद्धिर्गलितसत्त्वात्स्यादोहकी च मनुष्यता || स्वर्गः स्याद्राजसाच्छुद्धात्कामः स्यान्मिश्रराजसात् || १८ ||

गलिताद्राजसात्तिर्यग्योनावपि सुखं भवेत् || सात्त्विकात्तामसाद्देवयोनित्वं प्राप्नुयान्नरः || १९ ||

मिऽस्रतामसतो दुःखी नारकी चांत्यतामसात् || प्. ६४) कर्म पञ्चविधं प्रोक्तं पञ्चधा मुक्तिदायकम् || २० ||

प्रसर्पणमुपादानमिन्याध्यायस्तथा द्युतिः || सम्मार्जनोपलेपादिसंस्कारा देवमन्दिरे || २१ ||

भक्तार्जवं सर्पणं स्यादेवमारोग्यकारकम् || पूजासाधनसामग्र्या मेलनं भक्तसेवनम् || २२ ||

तत्प्रीतिः स्यादुपादानं देवतारूपदायकम् || पीठपूर्वाङ्गपूर्वञ्च षोडशाद्युपचारकैः || २३ ||

मूर्तौ यन्त्रेथवा पूजा सेज्या स्यादिष्टकारिका || तच्छास्त्राध्ययनं सम्यक्कृत्वा मन्त्रार्थभाजनम् || २४ ||

कृत्वा जपन्तु बाध्यायो देवसायुज्यकारकः || गुरुदेवात्मकालानां सम्यगैक्यविभावनम् || २५ ||

संयोगो लिङ्गदेहस्य नाशकः कालयागकृत् || निशायां पश्चिमे यामे स्मरेदिष्टां च देवताम् || २६ ||

उत्थाय दक्षिणाङ्गेन वामपादं न्यसेद्भुवि || ततो गृहाद्बहिर्गत्वा कृत्वावश्यकमादरात् || २७ ||

रात्रिवासः परित्यज्य वाससी परिवीय [परिधाय चेत्यपि] च || आचम्य शुद्धदेहः स्याद्देवतायोगमन्दिरे || २८ ||

निर्माल्यमपकृष्याथ दद्यात्पुष्पाञ्जलिन्तथा |
अर्घ्यपात्रे निवेद्याथ दद्याद्वै दन्तधावनम् || २९ ||

मुखप्रक्षालनं कृत्वा दद्यादाचमनीयकम् || करस्य प्रोंछनायाथ दद्याद्वासोऽमलं शुभम् || ३० ||

ततस्तु मस्तके चिंत्यं सहस्रदलपद्मकम् || कर्पूराभं स्मरेत्तत्र श्रीगुरुं निजरूपिणम् || ३१ ||

सुप्रसन्नं लसद्भूषामण्डितं श्वतचंदनम् || वराभयज्ञानमुद्रापुस्तकैर्व्यावृतैः करैः || ३२ ||

युक्तं श्वेताम्बरं शान्तं श्वेतपुष्पविभूषितम् || वामाङ्कगतया शक्त्यालिङ्गितं रक्तवर्णया || ३३ ||

रक्तवस्त्राभरणया रक्तचन्दनमालया || वामलीलाकमलयालिङ्गंत्या दक्षिणेन च || ३४ ||

ध्यायेदन्तर्मुखं शाक्तं योगिनं शिवरूपिणम् || तत्पादपद्मयुगलच्युतपीयूषधारया || ३५ ||

अभिषिक्तं स्वस्य देहमेवं शिष्यो विचिन्तयेत् || अर्चयेद्गन्धपुष्पाद्यैर्बाह्यस्थैर्मानसैस्तु वा || ३६ ||

नामभिस्तस्य विविधैस्संसिद्धैर्गुरुकीर्तनैः || प्रणम्येत्थं हृन्मनुना भावयेत्तल्लयं हृदि || ३७ ||

ततस्तु मूलाधारादि ब्रह्मरंध्रान्तमुद्यताम् || तेजोदण्डं सुषुम्णांतं सहस्रविससन्निभम् || ३८ ||

तदात्मकं मूलमन्त्रं ध्यात्वा तत्तेजसावृतम् || स्वशरीरं विचिंत्याथ प्राणायामत्र यं चरेत् || ३९ ||

प्. ६५) मूलमन्त्रेण मन्त्रस्य ऋष्यादिन्यासमाचरेत् || अंगन्यासं विधायाऽथ हृदि देवं विचिन्तयेत् || ४० ||

त्रैलोक्यचैतन्यमयादिदेव श्रीशंकर त्वच्चरणाज्ञया च || प्रातः समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्तयिष्ये || ४१ ||

संसारयात्रामनुवर्तमानं त्वदाज्ञया शंकर देवदेव || स्पर्द्धातिरस्कारकलिप्रमादभयानि मां माऽभि भवन्तु नाथ || ४२ ||

इति सम्प्रार्थ्य देवेशमाज्ञामादाय तस्य तु || प्रार्थयित्वा धरां श्वासयुक्तं पादं निधापयेत् || ४३ ||

समुद्रमेखले देवि पर्वतस्तनमण्डले || विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्वमे || ४४ ||

ततो गृहाद् बहिर्याम्यां नैर्-ऋतीं वा दिशं व्रजेत् || पदे पदे स्मरेदस्त्रन्दूरे [फट् इति मन्त्रम् |
] यायाद् द्विजालयात् || ४५ ||

अतीत्य बाणमात्रन्तु भुवं ग्रामाद्विलोक्य च || कीटयोषादिरहितं शौचस्थानमिदम्पठेत् || ४६ ||

उत्तिष्ठन्त्वृषयो देवा गन्धर्वा यक्षराक्षसाः || परितस्त्यज्यतां स्थानं विण्मूत्रोत्सर्जनाय मे || ४७ ||

अनेन मनुना लोष्टात्तृणैरुद्वास्य देवताः || कुर्यान्मलच्युतिं तत्र वाससा कं [जलम् |
] प्रविश्य च || ४८ ||

तां दिशां च न पश्येत्तु शौचमुद्धृत्य वारिभिः || एका लिङ्गे गुदे सप्त दश वामकरे तथा || ४९ ||

उभयोस्सप्त दातव्यास्तिस्रोङ्घ्र्योश्चापि [चरणयोः |
] मृत्तिकाः || मूत्रोत्सर्गे वामहस्ते लिङ्गे पञ्चैव मृत्तिकाः || तिस्रः करद्वये चैका पादयोरथवा चरेत् || ५० ||

गन्धलेपक्षयकरं मनोग्लानिहरं परम् || कुर्याद्द्वादश गण्डूषान्पूरीषोत्सर्जनान्तरे [विष्ठात्यगे |
] || ५१ ||

प्रक्षाल्याग्रे तु चरणावाचमेत्त्रिस्ततः परम् || आम्रन्यग्रोधखदिरकरञ्ज [वटः |
] ककुभादिजम् [अर्जुनवृक्ष |
] ५२ ||

कनीन्यग्रसमस्थूलं प्रमितं द्वादशाङ्गुलैः || दन्तधावनकाष्ठं तु प्रोक्तं तन्त्रविचक्षणैः || ५३ ||

क्रीमुक्त्वा [क्रीं कामदेवाय सर्वप्रियाय नमः |
] कामदेवाय सर्वजनप्रियाय च || नमोन्तस्तिथिवर्णोयं मन्त्रो दन्तविशोधने || ५४ ||

प्रक्षाल्य दन्तकाष्ठं च मूर्द्धदेशे पुरस्त्यजेत् || वक्तुं मूलानुनो नित्यं लक्षयेत्सिद्धिहेतवे || ५५ ||

अथ पूजाहोमकर्मसिद्धये स्नानमुच्यते || शङ्कुनास्त्राभिजप्तेन शुचिस्थानात्तु मृत्तिकाम् || गृहीत्वास्त्रेण संसिच्य यायाज्जलनिकेतनम् || ५६ ||

प्. ६६) तत्रादौ जलकूलं स्यात्क्षालयेदस्त्रवारिणा || मृष्टं कृत्वा तटं तत्र चैकभागे विचक्षणः || ५७ ||

निधाय गोमयं दर्भांस्तिलांश्चाप्यभिमन्त्रितान् || मत्तिकागोमयाभ्याञ्च कट्यन्तं स्नानमाचरेत् || ५८ ||

बहिरुद्धृत्य तोयेन मलस्नानं ततः परम् || विधाय वैदिकस्नानं तदङ्गं तर्पणं तथा || ५९ ||

ततस्तान्त्रिकस्नानस्य विधिरस्त्रेण मृत्तिकाम् || समादायास्त्रमन्त्रेण मन्त्रयित्वा तृणादिकम् || ६० ||

शिखामन्त्रेणापहृत्य [वषण्मन्त्रेण] त्रिमूलेनाभिमन्त्रयेत् || मूर्द्धादिपादपर्यन्तं विलिप्य प्रणमेज्जलम् || ६१ ||

आधाराः सर्वभूतानां विष्णोरतुलतेजसः || तद्रूपाश्च ततो जातास्ता आपः प्रणमाम्यहम् || ६२ ||

सम्मुखीकरणीं मुद्रां बद्ध्वा प्राणान्नियम्य च || निमज्य तूष्णीमुत्थाय नाभिमात्रे जले नरः || ६३ ||

तान्त्रिकस्नानसङ्कल्पं मासोल्लेखादिपूर्वकम् || कृत्वा यं मूलमन्त्रेण प्राणायामत्रयं चरेत् || ६४ ||

विन्यस्य च षडङ्गानि कल्पयेत्तीर्थमग्रतः || चतुरस्रे हस्तमात्रे तज्जले परिकल्पिते || ६५ ||

ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे || तेन सत्येन देवेश तीर्थं देहि दिवाकर || ६६ ||

इति सूर्यं प्रार्थयित्वा क्रोमित्यङ्कुशमुद्रया || भित्वार्कमण्डलं तस्मात्तीर्थान्यावाहयेदिह || ६७ ||

गङ्गे च यमुने चैव गोदावरि सरस्वति || नर्मदे सिन्धुकावेरि जले स्मिन्सन्निदिहिं कुरु || ६८ ||

एवमुक्त्वा तु तीर्थानि तस्मिंस्तोये नियोजयेत् || मूलमन्त्रेणाथ तीर्थशक्तिं तत्र समाह्वयेत् || अर्कस्य मण्डलं ध्यात्वा तन्मन्त्रेण च पूजयेत् || ६९ ||

सर्वानन्दमयीमशेषदुरितध्वंसां मृगाङ्कप्रभां त्र्यक्षामूर्ध्वकरद्वयेन दधतीं पाशं शृणि [अङ्कुशः |
] वामतः || अन्तश्चामृतपूर्णहस्तकलशा मुक्ताक्षमालावतीं गङ्गासिन्धुसरिद्वरादिसहितां श्रीतीर्थशक्तिं भजे || ७० ||

अथ ह्रां [ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सर्वानन्दमये तीर्थशक्ते हिलि हिलि स्वाहा |
] ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सर्वानन्दमये पदम् || तीर्थशक्तिं तथा हिलियुगलं वह्निगेहिनी || ७१ ||

द्वाविंशत्यक्षरः प्रोक्तस्तीर्थशक्तेर्महामनुः || तज्जलं गाङ्गमन्त्रेण मन्त्रयेदष्टवारकम् || ७२ ||

तारो [ओं नमो भगवति अम्बे अम्बिके अम्बालिके महामालिनि एह्येहि भगवति अशेषतीर्थालवाले ह्रीं श्रीं शिवजटाधिरूढे गंगे गंगाम्बिके स्वाहा |
] नमो भगवति ब्रूयादम्ब ततोऽम्बिके || प्. ६७) अम्बालिके महामालिन्येह्येहि भगवत्यथ || ७३ ||

अशेषतीर्थालवाले मायाश्रीबीजमुच्चरेत् || शिवजटाधिरूढे च गङ्गे गङ्गाम्बिके द्विठः || ७४ ||

गङ्गामन्त्रोयमाख्यातस्त्रिपञ्चाशद्भिरक्षरैः भुवनेश्याः [ओं वं भूर्भुवः स्वः इत्यादि मन्त्रैः ह्रीं मन्त्रेण सुधाणुना वं बीजेन ||] समालोड्यामृतीकृत्य सुधाणुना || ७५ ||

कवचेनावगुण्ठ्याथ संरक्ष्यास्त्रेण मन्त्रवित् || मूलेन देवतां तत्र साङ्गां सावरणान्तथा || ७६ ||

समावाह्य जले ध्यात्वा तत्पादद्वयनिर्गतम् || ध्यात्वा तीर्थं स्मरेन्मूलमन्त्रंस्नायाज्जले त्रिशः || ७७ ||

हृदि देवं स्मरेत्पश्चात्सिञ्चेत्कं कुम्भमुद्रया [पाणिभ्यां कलशाकारनिर्माणं कुंभमुद्रोच्यते ||] || त्रिभिर्लोकैर्मूलमन्त्रैस्तारकं बीजपूर्वकैः || ७८ ||

सिसृक्षोर्निखिलं विश्वं मुहुः शुक्रं प्रजायते || मातरः सर्वभूतानामापो देव्यः पुनन्तु माम् || ७९ ||

अलक्ष्मीर्मलरूपा या सर्वभूतेषु संस्थिता || क्षालयन्तु निजस्पर्शादापो देव्यः पुनन्तु माम् || ८० ||

यन्मे केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि || ललाटे कर्णयोरक्ष्णोरापस्तद् घ्नन्तु वो नमः || ८१ ||

नमःस्वाहान्तमूलेन त्रिराचमनमाचरेत् || त्रिधा देवं च सन्तर्प्य तोयमध्यात्तटं व्रजेत् || ८२ ||

धौतवस्त्रयुगं धृत्वा प्रक्षाल्य च करौ तथा || मृदाद्भिस्तत आचम्य देवस्नानविधिस्स्मृतः || ८३ ||

मन्त्रस्नानं प्रकर्तव्यं शीतयोर्देशकालयोः || तोयाभावे गते दुर्गे कायास्वास्थ्ये च वार्द्धके || ८४ ||

प्रक्षाल्य पादावाचम्य प्रोद्धृतेन तु वारिणा || स्थानं दश दिशः प्राग्वत्संशोध्योपाविशेत्ततः || ८५ ||

जलं हस्ततले न्यस्य कुम्भन्यासांस्ततश्चरेत् || मातृकादींस्तथा मूलमन्त्रन्यासानशेषतः || ८६ ||

न्यासान्ते संस्पृशेत्तोयं मन्त्रस्नानमिदं वरम् || केवलादुदकस्नानात्संस्कारपरिवर्जितात् || ८७ ||

सुस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिम्प्रभुं स्मरेत् || तत्पादोदकजां धारां निपतन्तीं स्वमूर्द्धनि || ८८ ||

चिन्तयेत्सूक्ष्मरन्ध्रेण प्रविशन्तीं स्वकान्तनुम् || तस्मात्संक्षालयेत्सर्वमेतद्देहगतं मलम् || ८९ ||

तत्क्षणाद्विरजा मन्त्री जायते स्फटिकोपमः || इदं स्नानवरं मन्त्रस्नानादष्टगुणं मतम् || ९० ||

सदा शुद्धमना यस्तु स शुद्धः सर्वकर्मसु || अथ मानसिकस्नानं मनसा मूलमन्त्रतः || ९१ ||

प्राणानायम्य कुर्वीत दृष्टतीर्थेषु भावतः || प्. ६८) यद्वा शिवात्मकैर्मन्त्रैः कृत्वा तीर्थं शिवात्मकम् || ९२ ||

मार्जनं संहितामन्त्रैः शिवस्नानमितीरितम् || स्नानपूर्वाः क्रियाः शुद्धाः सर्वाः सिद्धिं प्रयान्ति च || ९३ ||

तस्मात्स्नानं पुरा कुर्यादेष्वेकं देहशक्तितः || ततस्तु तिलकं कुर्याज्जातेर्वा दैवतस्य च || ९४ ||

यद्यच्छुभफलं तीर्थमृद्भिर्वा भक्तिभवतः || ब्राह्मणस्योर्ध्वपुण्ड्रं स्यात्क्षत्रियस्य त्रिपुण्ड्रकम् || ९५ ||

अर्धचन्द्रन्तु वैश्यस्य शूद्राणां वर्तुलाकृति || ऊर्ध्वपुण्ड्रं मृदा कुर्यात्त्रिपुण्ड्रं चैव भस्मना || ९६ ||

केशरेण च कस्तूर्या शेषं शीतं यथारुचि || वैष्णवस्योर्ध्वपुण्ड्रं स्यात्त्रिपुण्ड्रं शिवसेवने || ९७ ||

अर्धचन्द्रं गणेशस्य देवीभक्तस्य वर्तुलम् || नारायणपरो यस्तु चन्द्रं तस्य त्रिशूलकम् || ९८ ||

भाले विभूतिमान्योसौ ब्रह्मविष्णुशिवात्मकः || भूतिदा तु विभूतिः स्याद्विधिना विधृता यदि || ९९ ||

यथाकथञ्चिद्विधृता भस्मसात्कुरुते जनम् || शिवाग्नेर्भस्म सङ्ग्राह्यमग्नीषोमोद्भवन्तु वा || १०० ||

वैवाह्याग्न्युद्भवं वापि पक्वं शुचि सुगन्धि च || कपिलायाः शकृद्वस्त्रगृहीतं गगने पतत || १०१ ||

न क्लिन्नं नापि क्वथितं न दुर्गन्धि न वोषितम् || उपर्यधः परित्यज्य गृह्णीयात्पतितं हृदा [नमोमन्त्रेण ||] || पिण्डीकृत्य शिवाग्नौ तु तत्क्षिपेन्मूलमन्त्रतः || १०२ ||

अपक्वमपि पक्वं च सन्त्यज्य भसितं सितम् || आदाय वाससाऽलोड्य भस्माधारे विनिःक्षिपेत् || १०३ ||

भस्मसङ्ग्रहणं कुर्याद्देवेनुद्वासने सति || उद्वासने कृते यस्माच्चण्डभस्म प्रजायते || १०४ ||

यद्वा द्विजातिभस्मेत्थं सद्येनानीय [ओं सद्योजातं प्रपद्यामि सद्योजाताय वै नमः भवेभवेनातिभवे भवस्व मां भवोद्भवाय नमः ||] गोमयम् || वामेन [ओं वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कालविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमो नमस्सर्वभूतदमनाय नमो मनोन्मथनाय नमः ||] पात्रे संयोज्याघोरमन्त्रेण [ओं अघोरेभ्योथघोरेभ्यो घोरघोरतरेभ्यः सर्वतस्सर्वसर्वेभ्यो नमस्तेस्तु रुद्ररूपेभ्यः ||] निर्दहेत् || १०५ ||

पुरुषेण [ओं तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ||] समुद्धृत्य ईशानेन [ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् || ब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम् ||] विशोधयेत् || इत्थन्तु संस्कृतं भस्म अग्निरित्यादिमन्त्रतः [१. ओं अग्निरिति भस्म, ओं जलमिति भस्म,] २. ओं स्थलमिति भस्म, ३. ओं वायुरिति भस्म, ४. ओं व्योमेति भस्म, ५. ओं सर्वं ह वा इदं भस्म ६ ||] || १०६ ||

प्. ६९) यातेरुद्रेति [ओं या ते रुद्रशिवा तनूरघोरां पापकाशिनी |
तया नस्तन्वा शन्तमया गिरिशन्ताभिचाकशीहि ||] यजुषा मन्त्रयेदुद्रसञ्ज्ञया || प्रणवाद्यैश्चतुर्थीहृदन्तैर्नामभिरंशकैः [ओं भवाय नमः, ओं शर्वाय नमः, ओं पशुपतये नमः, ओं उग्राय नमः, ओं महादेवाय नमः, ओं भीमाय नमः, ओं ईशानाय नमः] || १०७ ||

पञ्चवर्णाद्यक्षराद्यैर्मालांशैर्हरहृद्युतैः [ओं नमः शिवाय इत्यादिमन्त्रैः ||] || त्रिपुण्ड्रधारणं कुर्यान्मूर्ध्नि पञ्चाक्षरेण तु || १०८ ||

एभिश्च नामभिर्धार्यं पुनर्भस्म द्विजातिभिः || ब्रह्मा ललाटे विज्ञेयो हृदये हव्यवाहनः || १०९ ||

नाभौ स्कन्दो गले पूषा रुद्रा दक्षिणबाहुके || आदित्यो बाहुमध्ये च शशी च मणिबन्धने || ११० ||

वामदेवो वामबाहौ बाहुमध्ये प्रभञ्जनः || मणिबन्धे च वसवः पृष्ठदेशे हरिः स्मृतः || १११ ||

शम्भु ककुदि सम्प्रोक्तः परमात्मा शिवः स्मृतः || कस्तूर्यादिकसंयुक्तं भस्म स्यात्तत्तु धारयेत् || ११२ ||

अद्विजैर्मूलमन्त्रेण शिवपञ्चाक्षरेण वा || त्रिपुण्ड्रं कारयेद्भाले ब्रह्मविष्णुशिवात्मकम् || ११३ ||

मध्याङ्गुलिभिरादाय तिसृभिर्मूलमन्त्रितम् || अनामामध्यमाङ्गुष्ठैरथवास्यात्त्रिपुण्ड्रकम् || ११४ ||

वक्ष्येथ तान्त्रिकीं सन्ध्यां मूलेनाचमनत्रयम् || शिखां बद्ध्वा तु मूलेन प्राणायामत्रयं चरेत् || ११५ ||

अङ्गानि विन्यसेद्देहे करन्यासपुरस्सरम् || अमृतीकृत्य पुरतो जलं वै धेनुमुद्रया [अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं लं क्षमिति मातृकार्णाः ||] || अभिमन्त्र्य च मूलेन सप्तवारन्ततः परम् || ११६ ||

अकारादिक्षकारान्तैर्मातृकार्णैस्सबिन्दुभिः [कं जलम् |
] || प्रत्यर्णं प्रोक्षयेन्मूर्ध्नि कुशैर्मूलेन च त्रिधा || ११७ ||

देवं ध्यात्वा च मनुना ज्ञानमण्डलसंस्थितम् || आदाय तोयमामन्त्रैर्बीजैर्भूतात्मकैस्तथा || ११८ ||

लं वं रं हं इति च तन्मन्त्रैः सप्तधा जलम् || मन्त्रयित्वा पुनः सप्तवारं मूलेन मन्त्रयेत् || ११९ ||

तज्जलं वामहस्तेन धार्यं तत्प्लुतबिन्दुभिः || दक्षहस्तेन सम्प्रोक्ष्य कम्पठेन्मूलमन्त्रकम् || १२० ||

हस्तव्यत्यासतो वामाचारी सेचनमाचरेत् || नासामाश्रित्य शिष्टेन तेजोरूपेण तेन तु || १२१ ||

प्. ७०) प्रविश्यान्तर्गतो देवो मलं संशोध्य निर्गतः || दक्षनासापुटेनैतत्स्मृत्वा दक्षिणहस्तकम् || १२२ ||

वामभागे वज्रशिलां ध्यात्वास्त्रेण च तत्क्षिपेत् || प्रक्षाल्य हस्तावाचम्य मूलमन्त्रेण मन्त्रवित् || १२३ ||

गायत्र्या वाथ मूलेन दद्यादर्घ्यत्रयन्ततः || रविमण्डलसंस्थाय स्वेष्टदेवाय तर्पयेत् || १२४ ||

जलेन मूलमन्त्रेण ह्यमुकं तर्पयामि च || उक्त्वा त्रिधा तर्पणीयं वामकैः कारणेन तु || १२५ ||

इष्टदेवस्य गायत्रीमष्टाविंशतिसङ्ख्यकाम् || जपेदभावे ब्राह्मीं तु वैदिकं मतमाश्रितः || १२६ ||

तान्त्रिकः शिवगायत्रीं जपेत्साथ निरूप्यते || ओं तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि || तन्नः शिवः प्रचोदयात् || १२७ ||

ततः शुद्धमना मौनी मूलमष्टोत्तरं शतम् || जपित्वा चार्पयेदेवं स्तुत्वा नत्वेष्टदेवताम् || १२८ ||

सूर्यमण्डलतो देवं विन्यसेद्धृदये स्वके || ततो गुरूंश्च प्रणमेदिति सन्ध्या तु तान्त्रिकी || १२९ ||

त्रिकालमेवं कर्तव्या सन्ध्यालोपात्फलं नहि || दैवतो यदि लोपश्च तदा मूलं शतं जपेत् || १३० ||

प्रायश्चित्ताय [तं मूलमन्त्रं संध्याकरणप्रायश्चित्ताय जपेत् |
] तं कृत्वा कुर्वीत समयागताम् || वैदिकं तर्पणं कृत्वा ततस्तान्त्रिकमाचरेत् || १३१ ||

प्राणात्रयामयं कृत्वा मूलेन न्यासमाचरेत् || ऋष्यादित्रितयस्याथ पुरतो धेनुमुद्रया || १३२ ||

वं जपन्नमृतीकृत्य जलं तत्र सचक्रकम् || साङ्गावरणकं देवं ध्यात्वा मूलं समुच्चरेत् || १३३ ||

अमुकं तर्पयामीति चोक्त्वा चाष्टोत्तरं शतम् || तदर्थमथवा विंशत्यष्टयुक्तमुखाब्जके || १३४ ||

देवस्यामृतबुद्ध्या तत्तीर्थतोयैः प्रतर्पयेत् || तदावरणदेवांश्च तद्वदेकैकवारकम् || १३५ ||

सन्तर्प्य देवं स्वहृदि तीर्थे सूर्यंविसर्जयेत् || गुरुं दिगीशांश्च खगान्नता भाण्डं करे दधत् || १३६ ||

एकान्तं निर्जनं यायान्मनोज्ञं दोषवर्जितम् || दिगन्तरं न वीक्षेत यावत्प्राप्नोति वै गृहम् || १३७ ||

प्रदक्षिणं यज्ञवाटं कृत्वा पादौ च हस्तकौ || प्रक्षाल्याचम्य पूजाया गृहद्वारान्तरे स्थितः || १३८ ||

गेहे च द्वारदेशस्थः प्रणम्य मनसा गुरुम् || प्रणमेदिष्टदेवं स्वं दिक्पालानपि चेतसा || १३९ ||

यत्पूर्वमर्जितं पापं तद्दिनेऽन्यदिनेपि वा || प्. ७१) तत्पापस्यापनोदार्थं मन्त्रद्वयमुदीरयेत् || १४० ||

हे देव प्राकृतं चित्तं पापाक्रांतमिदम्मनः || तन्निस्सारय चित्तान्मे पापं फट् हुं च ते नमः || १४१ ||

सूर्यः सोमो यमः कालो महाभूतानि पञ्च च || एते शुभाशुभस्येह कर्मणो नृषु साक्षिकाः || १४२ ||

हुंफडिति बूयात्क्रोधदृष्ट्या पश्येच्च पार्श्वयोः || एवंकृते प्रथमतः पापोत्सादनकर्मणि || १४३ ||

यत्स्याद्दृढतरं पापं तद् दूरे चात्र तिष्ठतु || अतीते पूजनं स्थानं स्वं प्रयातु पुनश्चतत् || १४४ ||

यत्स्यादल्पतरं पापं तन्नाशमुपगच्छतु || पूजां त्यक्त्वास्य पापास्यकाममिष्टं क्षणाद्भवेत् || १४५ ||

ततः प्रक्षाल्य पादौ च हस्तावाचम्य यत्नतः || दद्यादर्घ्यं दिनेशाय तत्प्रकार इहोच्यते || १४६ ||

गोमयेनोपलिप्तायां भूमौ कृत्वा तु मण्डलम् || सिन्दूरेण ततः पश्चादुपविश्य निजासने || १४७ ||

प्राङ्मुखः प्रणमेदिष्टदेवतां भक्तितत्परः || प्राणायामत्रयं कृत्वा सूर्यमन्त्रेण मन्त्रवित् || १४८ ||

ह्रीं ह्रीं स इतिसूर्यस्य त्र्यक्षरो मन्त्र ईरितः || विन्यस्य च तथेन्द्रादीन्ध्यात्वा सूर्यमनन्यधीः || १४९ ||

पद्मद्वयाभयवरान्दधतं कराब्जैर्माणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम् || रक्ताम्बुजासनमशेषगुणैकसिन्धुं भानुं समस्तजगतामधिपं भजामि || १५० ||

तत्कल्पोक्तविधानेन पूजयेदुपचारकैः || पुरतो मण्डलं कृत्वा जलेन चतुरस्रकम् || १५१ ||

निधाय तत्र साधारं सजलं ताम्रपात्रकम् || गन्धपुष्पाक्षतान्दर्भदूर्वासर्षपसंयुतान् || १५२ ||

सतिलान्युक्तपुष्पाणि यवांश्चापि प्रविन्यसेत् || सूर्यं मन्त्रेण तत्पात्रं स्पृशन्नष्टोत्तरं शतम् || १५३ ||

अभिमन्त्र्य च तत्पात्रं समुत्थाय करद्वयात् || मूर्द्धान्तं सूर्यमन्त्रेण दद्यादर्घ्यं विचक्षणः || १५४ ||

ह्रीं [ह्रीं ह्रीं सः सग्रहराशिनक्षत्रयोगकरणपरिवृत्तासनसंस्थितश्रीसूर्याय इष तेर्घ्यः स्वाह] ह्रीं सः सग्रहराशिनक्षत्रपदमुच्च्रेत् || ततश्चयोगकरणे परिवृत्तासनेति च || १५५ ||

संस्थितः श्रीसूर्यायैष तेर्घ्यः स्वाहा मनुस्स्मृतः || चतुस्त्रिंशदक्षरोयं सूर्यस्यार्घ्यनिवेदने || १५६ ||

जपेत्तत्तु यथाशक्ति सूर्यमन्त्रमनन्यधीः || तदर्घ्यांबु तं सूर्यं ध्यायेद्देशिकसत्तमः || १५७ ||

स्तुत्वा प्रणम्य विसृजेन्मण्डलात्तं दिवाकरम् || तत उत्थाय विधिवद्द्वारपूजां समाचरेत् || १५८ ||

प्. ७२) द्वारमर्घ्याम्बुना प्रोक्ष्य तन्मध्ये विघ्नपं यजेत् || तद्दक्षिणे महालक्ष्मीं वामे चापि सरस्वतीम् || १५९ ||

द्वारश्रियं च तन्मध्ये शाखयोर्दक्षिणान्ययोः || ऊर्ध्वभागोत्तरं यावत्पञ्चपञ्चविभागके || १६० ||

नाम्नश्चाद्याक्षरं [नाम्नः प्रथमाक्षरेषु सानुस्वारेषु चतुर्थ्यंतेषु नमोन्तेषु तत्तद्देवतापूजामन्त्रः स्यात् यथा गंगणपतये नमः || क्षें क्षेत्रपालाय नमः || वसुंधरासंयुताय शंशङ्खनिधये नमः || वसुमत्यासंयुताय पं पद्मनिधये नमः || मां मायाशक्तयै नमः || हृं हृच्छक्तयै नमः || गं गङ्गायै नमः || यं यमुनायै नमः || धां धात्रे नमः || विं विधात्रे नमः ||] बिन्दुनामयुक्तं च ङेन्तकम् || समुच्चार्य हृदन्तं च देवानेतान्प्रपूजयेत् || १६१ ||

गणपतिं क्षेत्रपालं ततश्च वसुधारया || युक्तं शङ्खनिधिं दक्षे वामे वसुमतीयुतम् || १६२ ||

पूजयित्वा पद्मनिधिं तदधो दक्षवामतः || मायाशक्तिं च हृच्छक्तिं गङ्गां च यमुनां तथा || १६३ ||

धातारं च विधातारं दं देहल्यै नमोनमः || आदौ तु पश्चिमद्वारपूजा चेयम्प्रकाशिता || १६४ ||

नन्दी चापि महाकालो द्वारयोर्दक्षवामयोः || सम्पूज्यैवमुदग्द्वारं प्राग्याम्ये च प्रपूजयेत् || १६५ ||

द्वारपालौ क्रमात्तेषु गणेशवृषभावपि || भृङ्गिरीटि तथा स्कन्द उमाचण्डेश्वरौ तथा || १६६ ||

विष्णोर्नन्दः सुनन्दश्च चण्डश्चापि प्रचण्डकः || वलश्च प्रबलश्चैव भद्रश्चापि सुभद्रकः || १६७ ||

वक्रतुण्डश्चैकदंतो [वक्रतुंडादयः षड्गणेशद्वारपास्तेषां नामानि मूले स्पष्टानि |
] महोदरगजा ननौ || लम्बोदरश्च विकटो गाणेशा द्वारपालकाः || १६८ ||

विघ्नराजो धूम्रवर्णः क्रमात्पश्चिमद्वारतः || देव्याश्चैव तु योगिन्योष्टावेता द्वारपालिकाः || १६९ ||

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा || वाराही च तथेन्द्राणी चामुण्डा च श्रिया सह || १७० ||

अथ वक्ष्ये द्वारदेवध्यानं तन्त्रेषु गोपितम् || देवद्वारं द्वारदेवाः स्वयमुद्घाटयन्ति यत् || १७१ ||

पाशाङ्कुशफलाम्भोजपर्णपाणिञ्च तुन्दिलम् || वीरं विघ्नेश्वरं वन्दे गजवक्त्रं त्रिलोचनम् || १७२ ||

पद्मद्वयवराभीतिलसत्पाणिचतुष्टयाम् || निर्दग्धहेमगौराङ्गीं महालक्ष्मीं त्रिलोचनाम् || १७३ ||

अक्षस्रक्पुस्तकाभीतिवरहस्तां त्रिलोचनाम् || श्वेतपद्मासनां शुक्लां श्वेतवस्त्रां सरस्वतीम् || १७४ ||

कपालशूलविलसत्कृपाणं कृष्णविग्रहम् || प्. ७३) त्र्यक्षं तीक्ष्णं भावयामि क्षेत्रेऽस्मिन् क्षेत्रनायकम् || १७५ ||

वसुन्धरान्दक्षभुजेनालिङ्ग्य तु सुभाण्डिनम् |
वामे शङ्खधरं मुक्तानिभं शङ्खनिधिम्भजे || १७६ ||

आलिङ्गन्तं वसुमतीं ललाटे पद्मचिह्नितम् || भजे पद्मनिधिं नित्यं वामेनोत्पलधारिणम् || १७७ ||

वराङ्कुशामीतिपाशहस्तां संसारमूलिकाम् || त्रिनेत्रां श्यामवर्णान्तां श्यामां मायामहं भजे || १७८ ||

पाशाङ्कुशवराभीतिं दधानामरुणप्रभाम् || ग्राहारूढामहं वन्दे गङ्गां सर्वसरिद्वराम् || १७९ ||

कृष्णकच्छपमारूढां कण्ठे नीलोत्पलस्रजम् || वराभयकरां वन्दे कालिन्दीं कालविग्रहाम् || १८० ||

कर्तारं जगतां वन्दे शङ्खचक्रगदाम्बुजम् || बिभ्राणं गरुडारूढं धातारं कृष्णविग्रहम् || १८१ ||

रक्तं रक्तारविन्दाक्षं वराभयकमण्डलुम् || हंसारूढं विधातारं वन्दे त्र्यक्षसमन्वितम् || १८२ ||

सिंहारूढां श्यामवर्णां खड्गखेटकधारिणीम् || अधःस्थां देहलिं वन्दे पश्चिमास्यां सुदक्षिणाम् || १८३ ||

पश्चिमद्वारमासाद्य तालत्रितयपूर्वकम् || द्वारमुद्घाट्य चास्त्रेण मन्त्रितान्सर्षपाक्षतान् || १८४ ||

पुष्पयुक्तांस्तु विकिरेन्मण्डपाभ्यन्तरे बुधः || नाराचमुद्रया [बाणमुद्रया || बाणमुद्रा दक्षमुष्टेस्तर्जन्या दीर्घया भवेत् ||] सम्यगस्त्रमन्त्रेण देशिकः || १८५ ||

अपक्रामन्तु भूतानि पिशाचाः सर्वतोदिशम् || याश्चात्रनिवसन्त्यन्यदेवता भुवि संस्थिताः || १८६ ||

अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः || ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया || १८७ ||

श्लोकयोरन्ततश्चास्त्रं पठन्नाराचमुद्रया || जह्यात्तान्मण्डपस्यान्तस्ततो विघ्नांस्तु निर्गतान् || १८८ ||

स्ववामाङ्गस्य सङ्कोचान्मार्गन्दत्त्वापसारयेत् || अस्त्रमन्त्रं स्मरन्वामपार्ष्णिघातत्रयेण च || १८९ ||

भौमानुत्सादयेत्तालत्रितयेनान्तरिक्षगान् || तिर्यग्दृष्ट्यवलोकेन दिव्यान्विघ्नान्निवारयेत् || १९० ||

दक्षपादम्पुरस्कृत्य प्रविशेद्देवमन्दिरम् || शाक्तस्तु वामपादेन द्वारमाच्छाद्य वाससा || १९१ ||

पञ्चगव्यार्घ्यतोयाभ्यां प्रोक्षयन्मण्डपान्तरम् || सम्मार्जनोपलेपाद्यैर्दर्पणोदरवत्कृतम् || १९२ ||

विमलं धूपदीपादिपुष्पदामाभिशोभितम् || पञ्चवर्णरजश्चित्रं स्थानशुद्धिरियं मता || १९३ ||

प्. ७४) नैर्-ऋत्यामर्चयेद्वास्तुपुरुषं चन्दनादिभिः || तत्रैव वास्त्वधीशं च ब्रह्मणे नम इत्यपि || १९४ ||

रक्तवर्णं रक्तवर्णशक्तिद्वादशसंयुतम् || पूजयित्वा दीपनाथं भैरवं प्रार्थयेदिति || १९५ ||

अतितीक्ष्ण महाकाय कल्पान्तदहनोपम् || भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि || १९६ ||

ओं फडिति च मन्त्रेण पूजावेदीं ततो विशेत् || संस्कुर्यादासनस्थानं चतुर्भिर्वीक्षणादिभिः || १९७ ||

संस्कारे तत्र सम्पूज्या वेद्यंताः पीठदेवताः || आधारशक्तिमारभ्य स्वासनं तत्र विन्यसेत् || १९८ ||

पूजासनमथात्मीयं चैलाजिनकुशोत्तरम् || तत्रोपविश्य विधिवत्स्मरेद्विष्णुं गुरुं तथा || १९९ ||

मेरुपृष्ठ ऋषिः प्रोक्तः सावित्रीछन्द ईरितम् || पृथिवी देवता प्रोक्ता विनियोगो निजासने || २०० ||

पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता || त्वं च धारय मां देवि पवित्रं कुरु चासनम् || २०१ ||

आसनस्य चतुष्कोणे गणेशं च सरस्वतीम् || दुर्गां क्षेत्रपतिञ्चापि वह्न्यादिषु [आग्नेये गं गणेशाय नमः नैर्-ऋत्यकोणे सं सरस्वत्यै नमः वायव्ये दुं दुर्गायैनमः ईशाने क्षं क्षेत्रपतये नमः |
] समर्चयेत् || २०२ ||

उदङ्मुखः प्राङ्मुखो वा स्वस्तिकासनमास्थितः [जानूर्वोरन्तरे सम्यग्धृत्वा पादतले उभे |
समकायं सुखासीनं स्वस्तिकं तम्प्रचक्षते |
] || पद्मासनगतो [वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् || अंगुष्ठे हृदये निधाय चिबुकं नासाग्रमालोकयेदेतद्व्याधिकलापनाशनकरं पद्मासनं चोच्यते |
] वापि ऋजुकायो मनस्स्थिरः || २०३ ||

स्थापयेद्दक्षिणे भागे पूजाद्रव्याणि चात्मनः || सुवासिताम्बुसम्पूर्णं सव्ये कुम्भं सुशोभनम् || २०४ ||

प्रक्षालनाय करयोः पात्रे पृष्ठे निवेशयेत् || घृतादिज्वलितान्दीपान्स्थापयेत्परितः शुभान् || २०५ ||

दर्पणं चामरं छत्रं तालवृंतञ्च पादुके || यथायथन्तु संस्थाप्य संस्कुर्यात्तानि चात्मवान् || २०६ ||

पुष्पनैवेद्यगन्धादीन् ह्रीं ह्रूं फडिति मन्त्रतः || नाराचमुद्रया दृष्ट्वा समयांश्च विलोकयन् || २०७ ||

दृष्टं वाचात्मविज्ञातं सम्यक् पुष्पादिदूषणम् || अस्पृश्यस्पर्शनं वापि यदन्यायार्जितञ्च वा || २०८ ||

तथा निर्माल्यसंस्पृष्टं कीटाद्यारोहणञ्च यत् || तत्पूर्वन्नाशमायाति नैवेद्याद्यवलोकनात् || २०९ ||

ततो रमिति मन्त्रेण शिखां दीपस्य संस्पृशेत् || प्. ७५) स तु स्याच्छुभदो दीपो निष्क्रव्यादः सुखप्रदः || २१० ||

पतङ्गकीटकेशादिदाहात्क्रव्यादसञ्ज्ञितः || वसामज्जादिसम्भूतैर्घृताद्यैरुपयोजितम् || २११ ||

अज्ञानरूपं तत्सर्वं दोषं स्पर्शाद्विनश्यति || क्षौंबीजमुच्चरेन्मन्त्री देवतीर्थेन [अंगुल्यग्रे तीर्थं दैवं स्वल्पांगुल्योर्मूले कायम् |
मध्येंगुष्ठांगुल्योः पैत्रं मूले ह्यंगुष्ठस्य ब्राह्मम् |
बाणमुद्रा दक्षमुष्टेस्तर्जन्या दीर्घया भवेत् ||] संस्पृशेत् || २१२ ||

पानीयं घटमध्यस्थं दृष्ट्वा सम्यक् च साधकः || वामेन पाणिना धृत्वा वामपार्श्वस्थितं घटम् || २१३ ||

पात्राधारे न्यसेन्न्यूनं यदत्राज्ञानतो भवेत् || जलाशयशवस्पर्शाज्जलं स्थाने च सङ्गतम् || २१४ ||

इत्यादि दूषणं नश्येत्तत्प्रियं देवपूजने || ततः कृताञ्जलिः पूतो वामदक्षिणपार्श्वयोः || २१५ ||

गुरुं गणपतिं नत्वा पुरतः स्वेष्टदेवताम् || सुगन्धपुष्पाण्यादाय चन्दनाक्तानि मन्त्रवित् || २१६ ||

हौं मन्त्रेणाथ करयोरस्त्रमन्त्रेण मर्दयेत् || तत्पुष्पं वामहस्तेन समादाय च मस्तकम् || २१७ ||

भ्रामयेत् [तत्पूर्वमस्तकोपरि परितो भ्रामयन् ||] परितस्तारं [ओं मन्त्रं जपन् ||] जपन्नाघ्राय तत्पुनः || हौं ओं [हौं ओं सर्वत्र विलयं यान्तु इति श्लोकं पठेत् फट्मन्त्रेण बाणमुद्रां विधाय तत्पुष्पमीशानकोणे क्षिपेत्] पूर्वम्पठेच्छोकमिमं साधकसत्तमः || २१८ ||

सर्वत्र विलयं यान्तु ये मां हिंसन्ति हिंसकाः || मृत्युरोगभयक्लेशाः पतन्तु रिपुमस्तके || २१९ ||

अस्त्रमन्त्रेण [वह्निप्रकारमुद्रा तु त्रिशूलाग्रावुभौ करौ |
व्यत्यस्तावभितो वह्नेर्नयेदस्त्राह्वयापि च || द्विपाण्योस्तिस्रोङ्कलीरुत्थाय व्यत्यासने भ्रामणाद्वह्निप्राकारमुद्रा भवति || अस्या एवास्त्रमुद्रानाम || त्रिशूलाख्या भवेन्मुद्रा अंगुष्ठेन कनिष्ठिकाम् |
बद्धा प्रसादयेच्छेषमंगुलीनां त्रयं तदा || अंगुष्ठाभ्यां कनिष्ठागुल्यौ परिपीड्यं शेषांगुलीस्तिस्रः प्रसारयेत्तस्मात्रिशूलमुद्रा भवति ||] नाराचमुद्रयेशदिशि त्यजेत् || करशुद्धिं ततोस्त्रेण कुर्यात्तालत्रयं ततः || २२० ||

ऊर्ध्वोर्ध्वमस्त्रमन्त्रेण दिग्बन्धमपि तेन च || तेन सम्पतितं तेजो वह्निप्राकारमुद्रया || २२१ ||

रक्षेदात्मनि शूलेन प्राणायामत्रयं चरेत् || भूतशुद्धिं ततः कुर्यात्तत्प्रकारमथ ब्रुवे || २२२ ||

पादतो जानुपर्यतं चतुरस्रं सचक्रकम् || लंयुतं पीतवर्णं च भूस्थानं ब्रह्मदैवतम् || २२३ ||

अधिष्ठितं निवृत्त्याख्यकलया स्थानमुच्यते || समुत्पत्तेस्तु जीवानामेवं रूपं विचिन्तयेत् || २२४ ||

प्. ७६) जान्वोरानाभिपर्यन्तमपां स्थानं सितप्रभम् || अर्धचन्द्रनिभं शृङ्गद्वयं तत्पद्मलाञ्छितम् || २२५ ||

षट्कोणं बिन्दुभिः षट्कैर्युतं वंबीजसंयुतम् || प्रतिष्ठाकलया युक्तं ध्यायेत्तद्विष्णुदैवतम् || २२६ ||

नाभ्यादिकण्ठपर्यन्तमारक्तं रुद्रदैवतम् || रंबीजयुक्तं कलया युतं विद्याख्यया तथा || २२७ ||

दीप्तिमत्स्वस्तिकोपेतं त्रिकोणाकारतां गतम् || महाप्रलयवत्स्थानं वह्नितत्त्वं विचिन्तयेत् || २२८ ||

कण्ठाद्भ्रूमध्यपर्यन्तं षट्कोणाकारतां गतम् || षड्बिन्दुलाञ्छितं वृत्तं कृष्णवर्णकम् || २२९ ||

वायुस्थानं शान्तिकलाधिष्ठितं शिवदैवतम् || यंबीजरूपं ध्यात्वेत्थं प्राणरूपं विचिन्तयेत् || २३० ||

भ्रूमध्याद्ब्रह्मरन्ध्रान्तमाकाशस्थानमुच्यते || वृत्ताकारन्धूम्रवर्णं महोच्चध्वजलाञ्छितम् || २३१ ||

शान्त्यतीताख्यकलयाधिष्ठितं शिवदैवतम् || हंबीजयुक्तं ध्यात्वेत्थं देहे भूतानि विन्यसेत् || २३२ ||

धर्मकन्दसमुद्भूतं ज्ञाननालसुशोभितम् || कृत्वा तत्कर्णिकासंस्थं प्रदीपकलिकानिभम् || २३३ ||

सुषुम्णावर्त्मना जीवं परमात्मनि योजयेत् || योगयुक्तेन विधिना सोहंमन्त्रेण साधकः || २३४ ||

तेनैव सर्वभूतानि विलीनानि विचिन्तयेत् || शरीरे वामकुक्षौ तु चिन्तयेत्पापपूरुषम् || २३५ ||

वामकुक्षिस्थितं पापपूरुषं कज्जलप्रभम् || ब्रह्महत्याशिरस्कन्धं स्वर्णस्तेयभुजद्वयम् || २३६ ||

सुरापानहृदायुक्तं गुरुतल्पकटिद्वयम् || तत्संसर्गपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् || २३७ ||

उपपातकरोमाणं रक्तश्मश्रुविलोचनम् || खड्गचर्मधरं क्रूरं रुष्टं पापं विचिन्तयेत् || २३८ ||

तथा संशोषयेदेनं पूरकादिक्रमेण वै || विधाय प्राणसंरोधं वायुबीजेन वायुना || २३९ ||

मूलाधारोत्थितेनैव वह्निना निर्दहेच्च तत् || एवं सन्दह्य परितो द्वात्रिंशन्मात्रया ततः || २४० ||

भस्मना सहितं मन्त्री रेचयेदिडया पुनः || वामनाड्यां चन्द्रबीजं कुन्देन्द्वयुतसुप्रभम् || २४१ ||

भालेन्दुराजे संयोज्य ततः षोडशमात्रया || सुषुम्णया चतुष्षष्टिमात्रया तोयबीजकम् || २४२ ||

ध्यात्वामृतमयीं सृष्टिं पञ्चाशद्वर्णरूपिणीम् || तया देहं विचिन्त्यैवं मनसा पिङ्गलाध्वना || २४३ ||

द्वात्रिंशन्मात्रया मन्त्री लंबीजेन दृढं नयेत् || प्. ७७) सञ्जाते सकले देहे देवतोपासनक्षमे || २४४ ||

आत्मलीनानि तत्त्वानि स्वस्थानं प्रापयेत्ततः || आत्मानं हृदयाम्भोजादानयेत्परमात्मनः || २४५ ||

हंसमन्त्रेण विधिवत्तेजोरूपं कलेवरम् || देवताराधने योग्यमुत्पन्नमिति भावयेत् || २४६ ||

भूतशुद्धिविहीनेन कृता पूजाभिचारवत् || विपरीतफलं दद्यादभक्त्या पूजनं यथा || २४७ ||

भूतशुधिं विधायेत्थं प्राणस्थापनमाचरेत् || प्राणप्रतिष्ठामन्त्रस्य [ओं अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः ऋग्यजुस्सामानिच्छन्दांसि चैतन्यरूपा प्राणशक्तिर्देवता प्राणस्थापने विनियोगः || ब्रह्मविष्णुमहेश्वरेभ्यः ऋषिभ्यो नमः शिरंसि, ऋग्यजुस्सामच्छन्दोभ्यो नमो मुखे, प्राणशक्त्यै देवतायै नमो हृदि || २५० || आं बीजाय नमो गुह्ये, ह्रीं शक्तये नमः पादयोः क्रों कीलकाय नमः सर्वाङ्गे || २५१ || अथ हृदयादिन्यासः || आं ह्रीं क्रों अं कं खं गं घं ङं आकाशवायुवह्निजलपृथिव्यात्मने आं हृदयाय नमः || ओं आं ह्रीं क्रों ईं चं छं जं झं ञं शब्दस्पर्शरूपरसगन्धात्मने ईं शिरसे स्वाहा || ओं आं ह्रीं क्रों उं टं ठं डं ढं णं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मने ऊं शिखायै वषट् || ओं आं ह्रीं क्रों एं तं थं दं धं नं वाक् पाणिपादपायूपस्थात्मने ऐं कवचाय हुम् || ओं आं ह्रीं क्रों वों पं फं बं भं मं वक्तव्यादानगमनविसर्गानन्दात्मने औं नेत्रत्रयाय वौषट् || ओं आं ह्रीं क्रों अं यं रं लं वं शं षं सं हं क्षं मनोबुद्ध्यहङ्कारचित्तात्मने अः अस्त्राय फट् || अथ करन्यासः || ओं आं ह्रीं क्रों अं कं खं गं घं ङं आकाशवायुवह्निजलात्मने आं अंगुष्ठाभ्यां नमः || ओं आं ह्रीं क्रों इं चं छं जं झं ञं शब्दस्पर्शरूपरसगन्धात्मने आं तर्जनीभ्यां स्वाहा || ओं आं ह्रीं क्रों उं टं ठं डं ढं णं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मने ऊं मध्यमाभ्यां वषट् || ओं आं ह्रीं क्रों एं तं थं दं धं नं वाक्पाणिपादपायूपस्थात्मने ऐं अनामिकाभ्यां हुम् || ओं आं ह्रीं क्रों ओं पं फं बं भं मं वक्तव्यादानगमनविसर्गानन्दात्मने औं कनिष्ठिकाभ्यां वौषट् || ओं आं ह्रीं क्रों अं यं रं लं वं शं षं सं हं क्षं मनोबुद्ध्यहङ्कारचित्तात्मने अः करतलकरपृष्ठाभ्यां फट् || २५७ || आं नमो नाभेरारभ्य पादान्तम् || ह्रीं नमो नाभितः हृदयपर्यन्तम् || क्रों नमो हृदयान्मस्तकान्तम् || २५८ || अधुनाङ्गन्यासविधिरन्यतो गृहीत्वोच्यते || यथा यं त्वगात्मने नमो हृदि, रं असृगात्मने नमो दक्षिणांसे, लं मांसात्मने नमः ककुदि || वं मेद आत्मने नमो वामस्कन्धे, शं अस्थ्यात्मने नमो हृदयाद्दक्षिणभुजाग्रान्तम् || षं मज्जात्मने नमो हृदयाद्वामभुजाग्रान्तम् || सं शुक्रात्मने नमो हृदयाद्दक्षिणपादाग्रान्तम् || हौं ओज आत्मने नमो हृदयाद्वामपादाग्रान्तम् || हं प्राणात्मने नमो हृदयान्नाभ्यन्तम् || संजीवात्मने नमो हृदयान्मस्तकान्तम् || इत्थमुक्तन्यासान्विधाय हृत्कमलस्य अष्टदलेषु कर्णिकायां च पूर्वादिक्रमेण लं, रं, हं, षं, वं, सं, शं छं क्षं इमान्वर्णान्विन्यस्य तदनन्तरं ध्यानं विदधीत् ||] मुनयोजेशपद्मजाः || २४८ ||

ऋग्युजुस्सामच्छन्दांसि प्राणशक्तिस्तु देवता || ऋषीञ्च्छिरसि वक्रे तुच्छन्दांसि हृदि देवताम् || २४९ ||

प्. ७८) आम्बीजाय नमो गुह्ये पादे ह्रीं शक्तये नमः || नाभौ नमः क्रों कीलाय नियोगोऽसुस्थिताविति || २५० ||

ओं आं ह्लीं क्रों अङ्कवर्गं सानुस्वारं नमो हृदि || पञ्चतत्त्वं समुच्चार्य दीर्घाकारं तथैव च || २५१ ||

इञ्चवर्गञ्च शब्दादिशिरसे वह्निगेहिनी || तानि बीजानि उं तादृक्टवर्गं श्रोत्रकादि च || २५२ ||

प्रोक्त्वा तदात्मनेत्रैव शिखायै च वषड्वदेत् || तानि बीजानि एं तुं च वागादीनि तदात्मने || २५३ ||

ऐमुक्त्वा कवाअयेति हुं वदेत्तदनन्तरम् || चतुर्बीजं च पूर्वोक्तमों पवर्गं च तादृशम् || २५४ ||

वाण्याद्यात्मन औं नेत्राय वौषट् च तथा वदेत् || चतुर्बीजं च अन्तादृग्यवर्गं मन-आदि च || २५५ ||

तदात्मने स्वरश्चान्त्योस्त्राय फट् चेति संवदेत् || अङ्गुष्ठादौ हस्ततलान्ते न्यसेदेवमेव हि || २५६ ||

नाभ्यधश्चापि कण्ठाधो मूर्द्धाधोथ तदन्तकम् || आं ह्रीं क्रों क्रमतो न्यस्य हृत्पद्माष्टदलेषु च || २५७ ||

पूर्वतः क्रमतो वर्णान् कर्णिकायां हृदन्तकान् || लं रं हं षं यं च वं च सं शं क्षं इति वर्गतः || २५८ ||

दिक्षु न्यसेत्ततो ध्यायेत्प्राणशक्तिं हृदि स्थिताम् || तस्या ध्यानं यदत्रैव तद्ब्रवीमि शृणु प्रिये || २५९ ||

रक्ताब्धिपोतारुणपद्मसंस्थां पाशाङ्कुशेष्वासवरासिबाणान् || शूलं कपालं दधतीं कराब्जै रक्तां त्रिनेत्राम्प्रणमामि देवीम् || २६० ||

इति प्राणशक्तिध्यानम् ||

हस्तं निधाय हृदये प्राग्बीजं [आंक्रींक्रों यं रं लं वं शं षं हं हंसः सोहं मम प्राणा इह प्राणा मम जीव इह स्थितः मम वाङ्मनश्चक्षुः श्रोत्रं घ्राणः प्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा ओं |
त्रिभिर्मुलोक्तश्लौकैरयं मन्त्र उद्धृतो भवति परन्तु मन्त्रमहोदध्युक्तः प्राणप्रतिष्ठामन्त्रोस्माच्छ्रेष्ठतरोस्तीति ज्ञेयम् |
यथा पाशं माया शृणिं प्रोच्य यादीन्सप्तेन्दुसंयुतान् || तारान्वितं नभस्सप्तवर्णमन्त्रं ततो जपन् || मम प्राणा इह प्राणा मम जीव इह स्थितः |
मम सर्वेन्द्रियाण्युक्त्वा मम वाङ्मन ईरयेत् || चक्षुः श्रोत्रं घ्राणपदं प्राणा इह समीर्य च || आगत्य सुखमुच्चार्य चिरं तिष्ठन्त्विदं पठेत् || वह्निजायां च सप्तार्णम्मन्त्रमेतं पुनर्वदेत् |
प्राणप्रतिष्ठामन्त्रोयं स्मृतः प्राणनिधापने |
सबिन्दवो मेरुहंसाकाशाः सर्गी भृगुः पुनः |
मायेतिताररुद्धोयं मन्त्रः सप्ताक्षरो मतः |
एवं प्राणान्प्रतिष्ठाप्य मातृकान्यासमाचरेत् |
एतेभ्यः श्लोकेभ्यः उद्धृतः यथा-आंह्रींक्रोंयं रं लं वंशंषंसंहों ओंक्षंसंहंसः ह्रीं ओं सोहं मम प्राणा इह प्राणा मम जीव इह स्थितः |
मम सर्वेन्द्रियाणि वाङ्मनश्चक्षुः श्रोत्रं घ्राणं प्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा ओंक्षं संहंसः ह्रीं ओं |
] यादिकाष्टकम् || हंसः सोहं मम प्राणा वदेदिह द्विरुक्तितः || २६२ ||

प्. ७९) उक्त्वा तथैव च पिनर्मम जीव इह स्थितः || पुनस्तदुक्त्वामम तु वाङ्मनश्चक्षुरुच्चरेत् || २६३ ||

श्रोत्रं घ्राणः प्राण इहागत्य सुखं चिरन्ततः || तिष्ठन्तु वह्निजायान्तमुक्त्वा तारं ततो जपेत् || २६४ ||

वपुर्ज्योतिर्मयं ध्यायेदिति स्यात्प्राणसंस्थितिः || प्राणायामत्रयं कृत्वा मातृकान्यासमाचरत् || २६५ ||

प्राणायामास्त्रिधा प्रोक्तास्तान्त्रवैदिकयौक्तिताः || संसिद्धिः पापनाशाय योगसिद्धिः फलं क्रमात् || २६६ ||

मातृकाख्यश्च मन्त्राख्यस्तान्त्रिको द्विविधो मतः || मातृकाख्यो जपस्यादौ जपस्यान्ते कृतो यदि || २६७ ||

वर्णव्यत्यासादिदोषानशेषान्हन्ति तं शृणु || वामया [शेषः नाशयेति ||] पूरयेद्वायुं स्वरैः काद्यैश्च कुम्भके || २६८ || रेचयेद्यादिभिर्दक्षनासायां मातृकादिभिः यावच्छक्तोनियम्यासुं मनसैव मनुं जपेत् || २६९ ||

कनिष्ठानामिकाङ्गुष्ठैर्नासां धृत्वा तु मान्त्रिकः || प्राणायामत्रयं प्रोक्तं यदन्यन्मनसा कृतम् || २७० ||

जपपूजादिकं तस्य दोषमेष व्यपोहति || गायत्रीं शिरसा सार्द्धं सप्तव्याहृतिपूर्विकाम् || २७१ ||

प्रतिप्रणवसंयुक्तां त्रिर्जपेत्स इहोत्तमः || मध्यमूलाद्यावदग्रमङ्गुष्ठेन निपीड्यते || २७२ ||

मात्रा सा प्रोच्यते सद्भिर्योगेभीष्टं प्रयच्छति || जानुप्रदक्षिणी कुर्याद्यावत्कालेन हस्तकः || २७३ ||

तावत्कालमिता मात्रा स्वनिश्वाससमापि च || जघन्यो रविमात्रः स्याज्जिनमात्रस्तु मध्यमः || २७४ ||

श्रेष्ठः षड्वर्गमात्रः स्याद्योगत्रयसुसाधकः || केवले कुम्भके सिद्धे सिद्धिस्स्याद्राजयोगजा || २७५ ||

वीर्यस्तम्भश्च वह्वायुर्वलीपलितनाशनम् || पूरके कुम्भके सिद्धे क्रियायोगस्य सिद्धयः || २७६ ||

पूर्वोक्तान च न शीतोष्णबाधाक्षुत्तृड्भवापि च || पूरकः कुम्भको रेचो यदा तुल्यः प्रजायते || २७७ ||

हठयोगस्तदा सिद्धो ह्यणिमाद्यष्टसिद्धये || ईषत्फलं जघन्ये तु मध्यं मध्ये परेखिलम् || २७८ ||

निरन्तराब्दत्रितयाभ्यासात्सर्वं भवेत्फलम् || प्राणायामविधिः प्रोक्तो मया तुभ्यं वरानने || २७९ ||

प्. ८०) ऋषिर्गुरुत्वाच्छिरसि वर्णत्वाच्छन्द आनने || चित्तज्ञादेवतायास्तु हृदये धारणं मतम् || २८० ||

ऋगताविति धातुस्तु ऋवर्णः प्रापको मतः || षिः षणार्थस्तु विज्ञानमतस्तत्प्रापकस्तु सः || २८१ ||

छदिर्धातुरितीच्छायामत्र यस्मात्प्रवर्तते || मुखमिच्छाप्रदं छन्दो मन्त्रार्थच्छादनात्तु वा || २८२ ||

क्रीडार्थको दिविर्धातुः सम्पूर्णं देवतापदम् || साधकेष्टं ददातीति देवता परिकीर्तिता || २८३ ||

रक्षमाणो यदात्मीय हृदयेस्ति चिदात्मकः || तस्मात्तं च नमस्कुर्यान्मुख्याङ्गुष्ठेन संस्पृशेत् || २८४ ||

स्वाहया क्रियते सम्यग्विष्टपाहरणं यतः || अनामातर्जनीभ्यां सा चाकृष्टाभ्यामिहेष्यते || २८५ ||

शिखा वषट्पदं यच्च शिखयात्मतनुर्ग्रहः || यस्मात्तस्माद्वषडिति क्रियतेंगुलिमध्यया || २८६ ||

ग्रहणार्थः कवचधातुर्हुंहस्तेन गृह्यते || शरीरतस्तु कवचं तर्जन्यानामयाऽपि तत् || २८७ ||

यथार्थज्ञानकृद्वौषट् तन्नेत्राभ्यां प्रजायते || तस्मात्तदुक्तं तत्र वौषट् तर्जन्याद्यैस्तु तत्स्मृतम् || २८८ ||

एकाक्षत्वात्कुबेरादिदेवेष्वेकं तमुच्चरेत् || भ्यान्तं विष्ण्वादिके रुद्रादौ तु नेत्रत्रयात्मकम् || २८९ ||

आध्यात्मिकादिरूपं यत्साधकस्य विनीयते || अविद्याजातमस्त्रं तत्फट् कराभ्यां प्रपंच्यते || २९० ||

प्राणायामं मातृकायाः कृत्वा न्यासान्समाचरेत् || ते चैकविंशतिः प्रोक्ताः कामनाभेदतोपि च || २९१ ||

अधिकारिविभेदेन नित्यत्वेनापि केनचित् || देवताभेदतो वापि तद्रहस्यन्निरूप्यते || २९२ ||

पुरुषे दैवते नित्या केवलं स्वरमातृका || यन्न्यासादुपचर्याद्या धर्माः सिद्धान्तिसाधके || २९३ ||

ऋषिर्ब्रह्मा [ओं अस्य श्रीमातृकान्यासस्य ब्रह्मा ऋषिर्गायत्री छन्दः मातृकाख्या सरस्वती देवता हलो बीजानि स्वराः शक्तयः अव्यक्त कीलकम्, अभीष्टसिद्धये विनियोगः |
ब्रह्मर्षये नमः शिरसि, गायत्रीछन्दसे नमो मुखे, मातृकासरस्वत्यै देवतायै नमो हृदि, हल्भ्यो बीजेभ्यो नमो गुह्ये, स्वरेभ्यः शक्तिभ्यो नमः पादयो |
अव्यक्ताय कीलकाय नमो नाभौ ||] देवता तु मातृकाख्या सरस्वती || हलो बीजानि गायत्री छन्दः शक्तिः स्वरास्स्मृताः || २९४ ||

प्. ८१) अव्यक्तं कलिमुद्दिष्टं नियोगोभीष्टसिद्धये || दक्से [दक्षिणहस्तस्य करतलकरपृष्ठयोः पुनः करभ अर्थान्मणिबन्धात्कनिष्ठिकामूलपर्यन्तं हस्तबहिर्भागः पुनरंगुष्ठाद्यंगुलीषु अं आं इं ईं उं ऊं ऋं ॠं एता अष्टमातृकाः पुनः वामहस्तस्य कनिष्ठानामिकामध्यमातर्जन्यंगुष्ठकरभकरतलेषु न्यसेत् || ऌं ॡं एं ऐं ओं औं अं अः, एता अष्टमातृकाः क्रमतो न्यसेत् || अं नमो दक्षिणहस्तस्य करतले, आं नमो दक्षिणकरपृष्ठे, इं नमो दक्षिणकरभे, ईं नमो दक्षिणांगुष्ठे, उं नमो दक्षिणतर्जन्याम्, ऊं नमो दक्षिणमध्यमांगुल्याम्, ऋं नमो दक्षिणानामिकायाम्, ऋ नमो दक्षिणकनिष्ठिकांगुल्याम्, ऌं नमो वामहस्तस्य कनिष्ठिकांगुल्याम्, ऌं नमो वामानामिकायाम् एं नमो वाममध्यमायाम्, ऐं नमो वामतर्जन्याम्, ओं नमो वामांगुष्ठे, ओं नमो वामकरभे, अं नमो वामकरपृष्ठे, अः नमो वामकरतले || इति स्थितिन्यासः |
] करतले तस्य पृष्ठे च करभे तथा || २९५ ||

अंगुष्ठादिष्वथो वामे विपर्यासेन विन्यसेत् || बिन्दुयुक्तान्क्रमेणैव स्वरान्न्यासोऽयमादिमः || २९६ ||

अयं [पुनः एतस्येवविपर्यये न्यासस्य करणं संहारन्यासं ब्रुवते |
पुनर्यः स्थितिन्यासस्यैव क्रममातृकासु विसर्गं मेलयित्वान्यासः क्रियते स सृष्टिन्यासः प्रोच्यते || यथा अः नमो दक्षिणकरतले, आः नमो दक्षिणकरपृष्ठे, इः नमो दक्षिणकरभे एतद्रीत्या ज्ञेयम् |
] चेन्न्यासतो वामः संहारन्यास उच्यते || पापशत्रुक्षयाद्यर्थं क्रमेणादौ समाचरेत् || २९७ ||

सविसर्गैः [ककाराण्णपर्यन्तं पञ्चदशाक्षराणि दक्षिणहस्तपञ्चदशपर्वसु पुनः तकाराच्छकारपर्यंतं तान्येवाक्षराणि वामपाणिपर्वसु न्यसेत् || यथा कं नमः दक्षांगुष्ठमूले, खं नमः अंगुष्ठमध्ये, गं नमः अंगुष्ठाग्रे, घं नमः तर्जनीमूले, ङं नमः तर्जनीमध्ये, चं नमः तर्जन्यग्रे, छं नमः मध्यमामूले, जं नमः मध्यमामध्ये झं, नमः मध्यमाग्रे, ञं नमः अनामिकामूले, टं नमः अनामिकामध्ये, ठं नमः अनामिकाग्रे, डं नमः कनिष्ठामूले, ढं नमः कनिष्ठामध्ये, णं नमः कनिष्ठाग्रे || इत्थमेव वामपाणिपर्वसु ताद्यक्षराणि न्यसेत् || यथा तं नमः वामांगुष्ठमूले, थं नमः वामांगुष्ठमध्ये, ढ नमः वामांगुष्ठाग्रे इत्यादि न्यासं विधाय ||] स्वरैर्यस्तु केवलं न्यासवत्कृतः || सृष्टिन्यासः प्रयोगादौ कर्तव्यस्तस्य सिद्धये || २९८ ||

वामात्करतलात्तत्तु कनिष्ठांतं तु विन्यसेत् || अष्टौ स्वरांलॢकारादींस्तथा दक्षतलादपि || २९९ ||

अकाराद्यान्बिन्दुसर्गयुक्तान्न्यासोयमीरितः || स्थित्यादौ मुनिदेवादिप्राग्वत्कायस्थितावयम् || ३०० ||

ककारादिणकारान्तान्वर्णान्पञ्च दशैव हि || अङ्गुष्ठादिकनिष्ठान्तं दक्षहस्तस्य पर्व || ३०१ ||

न्यसेद्बिन्दुयुतान्सर्वान्वामेप्येवं तु तादिकान् || प्. ८२) अङ्गुष्ठादिकनिष्ठान्तं [पुनः षं सं हं लं क्षं नमो दक्षहस्ते षं सं हं लं क्षं नमो वामहस्ते] हस्तयुग्मेपि विन्यसेत् || ३०२ ||

युगपत्पादिकान्वर्णान्ब्रूयात्पञ्च नमोन्तकान् || तत्तत्स्थने करं दत्त्वा करशुद्धिकरस्त्वयम् || ३०३ ||

अं-आंमध्ये [यथा- अं कं खं गं घं ङं आं अंगुष्ठाभ्यां नमः, ईं चं छं जं झं ञं ईं तर्जनीभ्यां नमः, उं टं ठं डं ढं णं ऊं मध्यमाभ्यां नमः, एं तं थं दं धं नं ऐं अनामिकाभ्यां नमः, ओं पं फं बं भं मं औं कनिष्ठिकाभ्यां नमः अं यं रं लं वं शं षं सं हं लं क्षं अः करतलकरपृष्ठाभ्यां नमः || इत्थमेव हृदयादिन्यासानामपि करणमुचितम् |
] कवर्गः स्यादि ईं मध्ये चवर्गकः || उं ऊं मध्ये टवर्गस्तु एं ऐं मध्ये तवर्गकः || ३०४ ||

ओं औं मध्ये पवर्गः स्यादं अः मध्ये तु यादिकाः || एभिः सबिन्दुकैरङ्गुल्यादिन्यासो हृदादिकः || ३०५ ||

कर्तव्योस्यापि ऋष्यादिविनियोगस्य सिद्धये || [जैसे यथ अस्य श्रीमातृकान्यासस्य ब्रह्मा ऋषिर्गायत्री छन्दः मातृकाख्या सरस्वती देवता हलो बीजानि इत्यादि सर्व प्रथममेव लिखितम् तद्रीस्यैव न्यासः क्रियेत |
] षडङ्गशुद्ध्यै क्रोधादिजातपापनिवृत्तये || ३०६ ||

तालत्रयेण दिग्बन्धं प्रकुर्यादस्त्रमन्त्रतः || ततो ध्यायेत्पद्मवर्णं श्वेतं शिरसि संस्थितम् || ३०७ ||

कर्णिकाया [पुनरेतन्न्यासर्ष्यादिस्मरणम्प्रथमं कृत्वान्यन्यासकरणं योग्यम् |
शिरसि अष्टदलकमलस्य ध्यानं विधाय तत्कर्णिकामध्ये यत्फलं भवति तत्र (हंसः) पुनः केशरादर्वागर्थादेकदलादुत्तरं यद्वितीयमस्ति तयोर्द्वयोर्मध्ये द्विद्विस्वराणां पुनः सप्तमदले कादिसप्तवर्गाणां त्वष्टमे दले (लंक्षं) अस्य मन्त्रस्य ध्यानं क्रियेत |
अस्य चक्रं लिख्यते ||] निजं मन्त्रं संस्मरेत्केशराष्टके || स्वरयुग्मं तथा पत्रेष्वपि सप्तसु कादिकान् || ३०८ ||

सप्तवर्गानष्टमेऽत्र लंक्षमेवं विचिन्तयेत् || एवं चिन्तयतो रोगो ह्यपमृत्युर्विनश्यति || ३०९ ||

अथान्तर्मातृकान्यासं [पुनर्यन्मूले अथान्तर्मातृकान्यासं वक्ष्येऽन्तःसिद्धिकारकम् || इदमुक्तं परन्तु एतन्मातृकान्यासप्रकारो न प्रकटीकृतः |
तद्विधिस्तन्त्रान्तरादाहृत्य लिख्यते || अं इं उं ऋं ऌं एं ऐं ओं औं नमः इति कण्ठदेशस्थे धूम्राभे षोडशदले विशुद्धचक्रे || कं खं गं घं ङं चं छं जं झं ञं टं ठं नमः इति हृदयस्थे प्रवालवर्णे द्वादशदले अनागतचक्रे || डं ढं णं तं थं दं धं नं पं फं नमः इति नाभ्युपरिस्थे नीलवर्णेदशमदले मणिपूरकचक्रे || बं भं मं यं रं लं नमः इति नाभ्यधोभागस्थे विद्युद्वर्णे षड्दलेस्वाधिष्ठानचक्रे || वं शं षं सं नमः इति सुवर्णाभे चतुर्थदले मूलाधारचक्रे || हं क्षं नमः इति भ्रूमध्यदेशस्थे चन्द्राभे द्विदले आज्ञाचक्रे || सहस्रारे हिमनिभे सर्ववर्णविभूषिते || अकखादित्रिरेखासु आलक्षत्रयभूषिते || परबिन्दुभ्यो नमः ||] वक्ष्येऽन्तःसिद्धिकारकम् || यं कृत्वा योगिनां चित्तं पातके न प्रवर्तते || ३१० ||

प्. ८३) मूलाधारे ध्वनिं श्रुत्वा प्रबुद्धा शक्तिकुण्डली || क्वचित्पावकसङ्काशा सूक्ष्मतेजस्स्वरूपिणी || ३११ ||

बहिर्न्यासमथो वक्ष्ये पूर्वोक्तब्रह्मरन्ध्रके || वर्णारविन्दे सन्ध्यायेन्मातृकाख्यसरस्वतीम् || ३१२ ||

पञ्चाशद्वर्णभेदैर्निजसुवदनदोःपादयुक्कुक्षिवक्षोदेशां भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् || अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणां पद्मसंस्थामक्षाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि || ३१३ ||

गुणशतनागसंख्याकश्लोकाद्रामशतदशसंख्यापूरकपर्यं त-मेतच्चक्रवर्णान् |
मूलादिब्रह्मरंध्रांतं बिंदुं चिदात्मकं ध्यात्वा तत्स्रुतसुधासारैर्मातृकां तर्पयेत् |
तन्त्रान्तरेषु हंसः-इत्येतन्मनुस्थाने हसो लिखेत् || भूपूरे पूर्वोक्तदिक्पालानां चायुधानां पूजा |
एवं विभाव्यम् ||

चित्रम्

प्. ८४) ललाटे [त्रिशतभूतपरिच्छेदपूरकश्लोकान्त्रिशताष्टादशश्लोकपर्यन् तन्-मातृकान्यासविधिर्मूलमनौ वर्तते |
यथ- अं ललाटे, आं नमो मुखे, इं नमो दक्षनेत्रे, ईं नमो वामनेत्रे, उं नमो दक्षकर्णे, ऊं नमो वामकर्णे, ऋं नमो दक्षनासायाम, ॠ नमो वामनासायाम्, ऌं नमो दक्षकपोले ॡं नमो वामकपोले, एं नमः ओष्ठे, ऐं नमः अधरे, ओं नमः ऊर्ध्वदन्तपङ्क्तौ औं नमः अधोदन्तपङ्क्तौ, अं नमः मूर्ध्नि, अः नमो मुखे, अं पुनः अः एतद्द्वयमातृकान्यासस्थानमत्र ग्रन्थे शिरः मुखञ्च कथितम् |
परन्तु वीरचूडामण्यादिष्वन्यतन्त्रेषु अः नमो जिह्वाग्रे एवं न्यासदर्शनं तदप्युचितम् |
कं नमो दक्षिणबाहुमूले, खं नमः कर्पूरे, गं नमो मणिबन्धे, घं, नमः अंगुलिमूले, ङं नमः अंगुल्यग्रे, चं नमो वामबाहुमूले, छं नमः कर्पूरे, जं नमः मणिबन्धे, झं नमः अंगुलिमूले, ञं नमः अंगुल्यग्रे, टं नमः दक्षपादमूले, ठं नमः जानुनि, डं नमः गुल्फे, ढं नमो दक्षपादांगुलिमूले णं नमः अंगुल्यग्रे तं नमः वामपादमूले थं नमः जानुनि दं नमः गुल्फे धं नमः वामपादांगुलिमूले, नं नमः वामपादांगुल्यग्रे, पं नमः दक्षपार्श्वे, फं नमः वामपार्श्वे, बं नमः पृष्ठे, भं नमो नाभौ, मं नमो जठरे, यं त्वगात्मने नमो हृदये रं असृगात्मने नमः दक्षांसे, लं मांसात्मने नमः ककुदि, वं मेद आत्मने नमः वामांसे, शं अस्थ्यात्मने नमः हृदयाद्दक्षभुजाग्रान्तम्, षं मज्जात्मने नमो हृदयाद्वामभुजाग्रान्तम् सं शुक्रात्मने नमः हृदयाद्दक्षिणपादाग्रान्तम् || हं आत्मने नमः हृदयाद्वामपादाग्रान्तम् || लं अन्तरात्मने नमः हृदयान्मस्तकान्तम्, पुनः अन्यत्र ग्रन्थान्तरे दृश्यते लं नमः हृदयादुदरपर्यन्तम्, इति सृष्टिक्रममातृकान्यासः || क्षं परमात्मने नमः हृदयान्मुखपर्यन्तम् || एभिरेव मातृकावर्णैर्बिन्दुरहितैस्सविसर्गैर्मातृकान्यास उक्तस्थानेषु जायते |
यथा- अः नमः ललाटे आः नमः मुखे, इः नमः दक्षनेत्रे ईः नमः वामनेत्रे इत्यादि || पुनर्बिन्दुप्रयुक्तोयमेव न्यासो विपरीतः संहारन्यासः प्रचक्ष्यते |
अयं क्षकारमारभ्याकारपर्यन्तं, पूर्णो भवति यथा क्षं परमात्मने नमः हृदयान्मुखपर्यन्तम् लं अन्तरात्मने नमः हृदयादुदरपर्यन्तम् हं आत्मने नमः हृदादिवामपादपर्यन्तम्, सं शुक्रात्मने नमः हृदादिदक्षपादपर्यन्तम्, षं मज्जात्मने नमः हृदयाद्वामबाहुपर्यन्तम्, शं अस्थ्यात्मने नमः हृदयादक्षबाहुपर्यन्तम्, वं मेदात्मने नमः वामस्कन्धे लं मांसात्मने नमः ककुदि, रं असृगात्मने नमः दक्षांसे, यं त्वगात्मने नमः हृदये, मं नमः उदरे, भं नमो नाभौ, बं नमः पृष्ठे, फं नमो वामपादे, पं नमः दक्षपादे, नं नमः वामपादांगुल्यग्रे, धं नमः वामपादांगुलिमूले, दं नमः वामपादगुल्फे, थं नमः वामपादजानुनि तं नमः वामपादमूले, णं नमः दक्षपादांगुल्यग्रे, ढं नमः दक्षपादांगुलिमूले, डं नमः दक्षपादगुल्फे, ठं नमः दक्षपादजानुनि, टं नमः दक्षपादमूले, ञं नमो वामकरांगुल्यग्रे, झं नमो वामकरांगुलिमूले, जं नमः वामकरमणिबन्धे, छं नमः वामबाहुकूर्परे, चं नमः वामबाहुमूले, ङं नमो दक्षकरांगुल्यग्रे, घं नमः दक्षकरांगुलिमूले, गं नमः दक्षकरमणिबन्धे, खं नमः दक्षबाहुकूर्परे, कं नमः दक्षबाहुमूले, अः नमः मुखे, अं नमः मूर्ध्नि, औं नमः अधोदन्तपंक्ती, औं नमः ऊर्ध्वदन्तपंक्तौ, ऐं नमः अधरे, एं नमः ऊर्ध्वोष्ठे, ऌं नमः वामकपोले, ऌं नमः दक्षकपोले, ॠं नमः वामनासापुटे, ऊं नमः वामकर्णे, उं नमः दक्षकर्णे ईं नमः वाम नेत्रे, इं नमः दक्षनेत्रे, आं नमः मुखवृत्तै, अं नमः ललाटे, इति संहारमातृकान्यासः || पुनर्डकारमारभ्य ठकारपर्यतं स्थितिमातृकान्यासो विधातुमुचितः |
तथाहि डं नमः दक्षपादगुल्फे, ढं नमः दक्षपादांगुलिमूले, णं नमः दक्षपादांगुल्यग्रे तं नमः वामपादमूले, थं नमः जानुनि, दं नमः गुल्फे, धं नमः वामपादांगुलिमूले, नं नमः वामपादांगुल्यग्रे, पं नमः दक्षपार्श्वे, फं नमः वामपार्श्वे, वं नमः पृष्ठे, भं नमः नाभौ, मं नमः जठरे, यं स्वगात्मने नमः हृदि, रं असृगात्मने नमः दक्षांसे लं मांसात्मने नमः ककुदि वं मेदात्मने नमः वामांसे, शं अस्थ्यात्मने नमः हृदयाद्दक्षिणबाहुपर्यन्तम् षं मज्जात्मने नमः हृदयाद्वामबाहुपर्यन्तम् || सं शुक्रात्मने नमः हृदयाद्दक्षिणपादपर्यन्तम् हं आत्मने नमः हृदयाद्वामपादपर्यन्तम् लं अन्तरात्मने नमः हृदयादुदरपर्यन्तम् ज्ञं परमात्मने नमः हृदयान्मुखपर्यन्तम् अं नमः शिरसि, आं नमः मुखवृत्ते इं नमः दक्षनेत्रे ईं नमः वामनेत्रे उं नमः दक्षकर्णे ऋ नमः दक्षनासापुटे ऋं नमः वामनासापुटेः ऌं नमः दक्षकपोले ऌं नमः वामकपोले एं नमः ऊर्ध्वोष्ठे ऐं नमः अधरोष्टे ओं नमः ऊर्ध्वदन्तपंक्तौ, औं नमः अधोदन्तपंक्तौ, अं नमः मूर्ध्नि अः नमः मुखे कैं नमः दक्षबाहुमूले, खं नमः कूर्परे, गं नमः मणिबन्धे, घं नमः अंगुलिमूले डं नमः अंगुल्यग्रे ऋं नमः वामबाहुमूले छं नमः कूर्यारे जं नमः मणिबन्धे झं नमः अंगुल्यग्रे, टं नमः दक्षपादमूले, टं नमः दक्षपादजानुनि इति स्थितिन्यासः || सृष्टिस्थितिन्यासौ सेन्दुभिर्वासविसर्गैर्मातृकावर्णैर्जायेत संहारन्यासस्तु केवलं बिन्दुयुङ्मातृकावर्णैर्भवतीति ज्ञेयम् |
] मुखवृत्तेक्षिश्रवोनासासु गण्डयोः || प्. ८५) ओष्ठयोर्दन्त पङ्क्त्योश्च मूर्ध्नि वक्त्रे न्यसेत्स्वरान् || ३१४ ||

बाहुसन्धिषु साग्रेषु कचवर्गौ न्यसेत्सुधीः || टतवर्गौ पदोदस्त द्वत्पार्श्वयोः पृष्ठदेशतः || ३१५ ||

नाभौ कुक्षौ पवर्गं च हृदं सककुततः || न्यस्य यादि चतुर्वर्णाञ्छादिषट्कं ततो न्यसेत् || ३१६ ||

हृदादिकरयोरंध्र्योर्जठरे वदने तथा || न्यासस्त्वयं वर्णमात्राहीनपाठप्रपूरकः || ३१७ ||

क्षमारभ्य अकारान्तो न्यासश्चेत्क्रियते तदा || संहारन्यासनामासौ बिन्दुन्यास इतीरितः || ३१८ ||

वाममार्गे प्रवृत्तानां शक्तिसेवनकारिणाम् || अन्तर्न्यासात्परं बिन्दुन्यासे स्याच्छुक्रधारणम् || ३१९ ||

यावत्क्लिन्ना भवेच्छक्तिस्तावद्भोगो विधीयते || वामदक्षिणमार्गेण देवताध्यानमुच्यते || ३२० ||

अक्षस्रजं हरिणपोतमुदग्रंटकं विद्यां करैरविरतं दधतीं त्रिनेत्राम् || अर्धेन्दुमौलिमरुणामरविन्दवासां वर्णेश्वरीं प्रणमत स्तनभारनम्राम् || ३२१ ||

शाक्तो मनोरथः पूर्णो विसर्गन्यासमाचरेत् || ततो बिन्दुः पतेत्तस्मादतो बिन्दुविसर्गकौ || ३२२ ||

प्. ८६) न्यासौ प्रोक्तौ यदा शाक्तवामिनः कौलिकस्य वा || शाक्तैस्तृप्तिं बिना सर्वं न्यासेनापि विमुच्यते || ३२३ ||

तदासौ निरयं याति यावच्चन्द्रदिवाकरौ || इह लोकेप्यवंशस्स्याद्विहीनो ब्रह्मतेजसा || ३२४ ||

भोगमोक्षधिया वामे पतितुं ये समुद्यताः || विना मन्त्रं सर्पमणिं ते ग्रहीतुं समुद्यताः || ३२५ ||

विसर्गमातृकान्यासो भवेत्केवलमातृवत् || विशेषस्तु विसर्गान्तो वर्णोच्चारो भवेदिति || ३२६ ||

बिन्दुसर्गयुताण्डादि ठान्तान्वणान्स्थितौ न्यसेत् || पूर्वोक्ता एव मन्त्राद्याः षडंगध्यानमुच्यते || ३२७ ||

सिन्दूरकान्तिममिताभरणान्त्रिनेत्रां विद्याक्षसूत्रमृगपोतवरान्दधानाम् || पार्श्वस्थितां भगवतीमपि काञ्चनाभा ध्यायेत्कराब्जधृतपुस्तकवर्णमालाम् || ३२८ ||

न्यासाः कार्यास्तु वटुभिस्स्थितिसंहारसृष्टयः || संहारसृष्टिस्थितयो न्यस्यन्ते गृहसेविभिः || ३२९ ||

वानप्रस्थाश्च यतयो सृष्टिस्थितिलयान्त्रमात् || ३३० ||

न्यासान्कुर्युरिति प्रोक्तो मातृकान्यासविस्तरः || वक्ष्ये कलामातृकाया न्यासं तस्य ऋषिः स्मृतः || ३३१ ||

प्रजापतिश्च गायत्त्री छन्दः स्यादत्र देवता || सरस्वती मातृकाख्या नियोगोभीष्टसिद्धये || ३३२ ||

तारैः [अं ओं आं अंगुष्ठाभ्यां नमः, इं ओं ईं तर्जनीभ्यां नमः, उं ओं ऊं मध्यमाभ्यां नमः, एं ओं ऐं अनामिकाभ्यां नमः ओं ओं औं कनिष्ठिकाभ्यां नमः, अं ओं अः करतलकरपृष्ठाभ्यां नम इति करन्यासः एवं हृदयादिन्यासः उक्तरीत्या हृदयादिन्यासः करणीयः] षडंगं कुर्वीत ह्रस्वदीर्घान्तरस्थितैः || ध्यानं कलामातृकाया न्यासे वक्ष्ये शृणु प्रिये || ३३३ ||

हस्तैः पद्मं रथांगं गुणमथ हरिणं पुस्तकं वर्णमालां टंकं शुभ्रं कपालं स्रवदमृतलसद्धेमकुम्भं वहन्तीम् || मुक्ता विद्युत्पयोदस्फटिकमणिजपाबन्धुरैः पञ्चवक्रैस्त्र्यक्षैर्वक्षोजनम्रां सकलशशिनिभां शारदां तां नमामि || ३३४ ||

ध्यात्वैवं तारपूर्वान्तामकाराद्यां [ओंकार ओंकारबिन्दुभ्यां चाकारादिमातृकार्णैः सहितनिवृत्त्यादिकलानां चतुर्थ्यन्तानां नामान्ते नमः पदं संयोज्यपूर्वोक्तललाटादिस्थानेषु न्यासो विधेयः |
यथा ओं अं निवृत्त्यै नमः ललाटे, ओं आं प्रतिष्ठायै नमः मुखवृत्ते, ओं इं विद्यायै नमः दक्षनेत्रे, ओं ईं शान्त्यै नमः वामनेत्रे, ओं उं ऋद्धिकायै नमः दक्षकर्णे, ओं ऊं दीपिकायै नमः वामकर्णे इत्यादि ||] च मातृकाम् || बिन्दुयुक्तां ङेन्तकलानामाढ्यां नमसान्विताम् || ३३५ ||

पूर्वोक्तशुद्धमात्राणां न्यासस्थानेषु विन्यसेत् || निवृत्तिश्च प्रतिष्ठा च विद्याशांतिस्तथर्द्धिका || ३३६ ||

प्. ८७) दीपिका रेचिका चापि मोचिका चापराभिधा || सूक्ष्मा सूक्ष्मामृता ज्ञानामृता चाप्यायिनी ततः || ३३७ ||

व्यापिनी व्योमरूपा चानन्ता सृष्टिः समृद्धिका || स्मृतिर्मेधा ततः कान्तिर्द्युतिर्लक्ष्मीः स्थिरा स्थितिः || ३३८ ||

सिद्धिर्जरा पालिनी च क्षान्तिरीश्वरिका रतिः || कामिका वरदा चान्या ह्लादिनी प्रीतिसंयुता || ३३९ ||

दीर्घा तीक्ष्णा तथा रौद्री माया [मया इति पाठान्तरम् |
] निद्रा च तन्द्रिका || क्षुधा स्यात्क्रोधिनी पश्चात्क्रियोत्कारी समृत्युका || ३४० ||

पीता श्वेताऽरुणा पश्चादसिता नतयान्विता || उक्ता कलामातृकेयं स्थानेऽकारादिके न्यसेत् || ३४१ ||

तत्र नादात्मनो जाताः स्वरजास्तु सदाशिवात् || अक्षमालाम्पुस्तकं च पाशञ्चापिकपालकम् || ३४२ ||

हस्तैर्दधत्यो ध्येयास्ताः पीतगन्धानुलेपनाः || विष्णोरुकारात्सञ्जाताः कचवर्गकला दश || ३४३ ||

पद्महस्तास्तथा रक्ता अक्षमालाधरा वराः || विष्णोरुकारात्सञ्जाताष्टतवर्गकला दश || ३४४ ||

श्यामा अभयशङ्खाब्जवरहस्तास्समीरिताः || मकारा रुद्रतो जाताः पयवर्गकला नव || ३४५ ||

शरच्चन्द्रनिभा हस्तैरभयं शूलमेव च || कपालं च वरन्धेया दधत्य इति साधकैः || ३४६ ||

शकारादिकपञ्चानामीश्वरो बिन्दुतो भवेत् || अभयं हरिणं टङ्कं वरं च करपल्लवैः || ३४७ ||

दधत्यो रक्तवर्णाश्च ध्येया न्यासे कलात्मके || केशवादिमातृकायाः साध्यो नारायणो मुनिः || ३४८ ||

अमृताद्या तु गायत्रीच्छन्दोलक्ष्मीर्हरिः सुरः || द्विरुक्तैः [ह्रीं हृदयाय नमः श्रीं शिरसे स्वाहा क्लीं शिखायै वषट् ह्रीं कवचाय हुम् श्रीं नेत्राभ्यां वाषैट् क्लीं अस्त्राय फट् |
] शक्तिश्रीकामैः षडङ्गानि समाचरेत् || ३४९ ||

शङ्खचक्रगदापद्मकुम्भादर्शाब्जपुस्तकम् || बिभ्रतं मेघचपलावर्णं लक्ष्मीहरिं भजे || ३५० ||

शक्त्यस्तु प्रियांकेषु निषण्णाः सस्मिताननाः || एवं ध्यात्वा न्यसेच्छक्तिश्रीकामपुटिताक्षराम् || ३५१ || [ओं ह्रीं श्रीं क्लीं अं क्लीं श्रीं ह्रीं केशवकीर्तिभ्यां नमः ललाटे ओं ह्रीं श्रीं क्लीं आं क्लीं श्रीं ह्रीं नारायणकान्तिभ्यां नमः मुखवृत्ते ओं ह्रीं श्रीं क्लीं इं क्लीं श्रीं ह्रीं माधवतुष्ठिभ्यां नमः दक्षनेत्रे ओं ह्रीं श्रीं ईं क्लीं श्रीं ह्रीं गोविन्दपुष्टिभ्यां नमः वामनेत्रे |
]

प्. ८८) तारादिहृदयान्ताश्च केशवाद्याश्च शक्तयः || भ्यान्ता नमोन्ता उच्चार्याः स्थानेऽकारादिके न्यसेत् || ३५२ ||

कलामात्रा तु शाक्तानां नित्योयं विष्णुसेवने || केशवः कीर्तिसंयुक्तः कान्तिर्नारायणान्विता || ३५३ ||

माधवस्तुष्टिसंयुक्तो गोविन्दः पुष्टिसंयुतः || विष्णुश्च धृतिसंयुक्तः शान्तियुङ्मधुसूदनः || ३५४ ||

त्रिविक्रमः क्रियायुक्तो वामनो दययान्वितः || श्रीधरो मेधया युक्तो हृषीकेशश्च हर्षया || ३५५ ||

पद्मनाभयुता श्रद्धा लज्जा दामोदरान्विता || वासुदेवश्च लक्ष्मी युङ्म धुसूऽनसरस्वती || ३५६ ||

प्रद्युम्नः प्रीतिसंयुक्तोऽनिरुद्धो रतिसंयुतः || चक्री जया गदी दुर्गा शाङ्गीं तु प्रभयान्वितः || ३५७ ||

खड्गी तु समया युक्तः सङ्खी चण्डासमन्वितः || हली वाणीसमायुक्तो मुशली च विलासिनी || ३५८ ||

शूली विजयया [विनोदया इति पाठान्तरम् ||] युक्तः पाशी विरजयान्वितः || अंकुशी विश्वया युक्तो मुकुन्दो विनयान्वितः || ३५९ ||

नन्दजः सुनदायुक्तो नन्दी सत्यासमन्वितः || नर ऋद्ध्या नरकजित्समद्ध्या शुद्धियुग्घरिः || ३६० ||

कृष्णो बुद्ध्या भूत्या सत्यो मत्या युक् सात्वतस्स्मृतः || भूधरः क्लेदिनीयुक्तो विश्वमूर्तिश्च क्लिन्नया || ३६१ ||

वैकुण्ठो वसुधायुक्तो वसुदापुरुषोत्तमौ || बली तु परया युक्तो बलानुजपरायणे || ३६२ ||

बालसूक्ष्मे वृषघ्नस्तु सन्ध्यायुक्प्रज्ञया वृषः || हंसः प्रभासमायुक्तो वराहो निशयान्वितः || ३६३ ||

विमलो मेधया युक्तो नृसिंहो विद्युतान्वितः || केशवाद्या मातृकोक्ता यादियोगश्च पूर्ववत् || ३६४ ||

वक्ष्येथ शिवभक्तानां श्रीकण्ठादिकमातृकाम् || मुनिः स्याद्दक्षिणामूर्तिर्गायत्रं छन्द ईरितम् || ३६५ ||

अर्धाद्रिजो हरो देवो नियोगः सर्वसिद्धये || हलो बीजानि गुह्ये तु स्वराञ्छक्तीः पदोर्न्यसेत् || ३६६ ||

ह्रस्वदीर्घान्तरे कृत्वा प्राग्वद्वर्गान्ह्रसौं तथा || षड्दिर्घसंयुतं कृत्वा षडङ्गानि न्यसेत्तनौ || ३६७ ||

बन्धूककाञ्चननिभं रुधिराक्षमालाः पाशांकुशौ च वरदं निजबाहुदण्डैः || बिभ्राणमिन्दुशकलाभरणं त्रिनेत्रमर्धाम्बिकेशमनिशं वपुराश्रयामः || ३६८ ||

ह्रसौं ते मातृकामुक्त्वा देवान्ते च समुच्चरेत् || ङेन्तफेन्तकतच्छक्तिं नमोन्ता मातृकास्थले || ३६९ ||

त्वगसृङ्मांसमेदोस्थिमज्जशुक्राण्यसून्वदेत् || शक्तिं क्रोधन्तथात्मानं ङेन्तं यादिदशस्वपि || ३७० ||

श्रीकण्ठपूर्णोदर्यौ चानन्तो विरजयान्वितः || सूक्ष्मेशः शाल्मल्ली युक्तो लोलाक्षी युक् त्रिमूर्तिकः || ३७१ ||

अमरेशो वर्तुलाक्ष्या वर्षीशो दीर्घगोणया || भारभूतिर्दीर्घमुख्या तिथीशो गोमुखीयुतः || ३७२ ||

स्थाण्वीशो दीर्घजिह्वायुग्-हरः कुण्डोदरीयुतः || झिण्टीशश्चोर्ध्वकेशी च भौतिको विकृतास्यया || ३७३ ||

सद्यो ज्वालामुखी चानुग्रहश्चोल्कामुखीयुतः || अक्रूरः श्रीमुखी महासेनो विद्यामुखीयुतः || ३७४ ||

क्रोधनश्च महाकाल्या चण्डेशश्च सरस्वती || पञ्चान्तकः सर्वसिद्धिगौरीयुक्तः प्रकीर्तितः || ३७५ ||

शिवोत्तमेशो विन्यस्यो युक्तस्त्रैलोक्यविद्यया || एकरुद्रो मन्त्रशक्त्या कूर्मेशश्चाष्टशक्तियुक् || ३७६ ||

एकनेत्रो भूतमात्रायुक्तः स्याच्चतुराननः || लम्बोदर्या युतः प्रोक्तस्त्वजेशो द्राविणीयुतः || ३७७ ||

सर्वेशो नागरीयुक्तः सोमेशः खेचरीयुतः || लांगलीशश्च मञ्जर्या दारुकेशश्च रूपिणी || ३७८ ||

वारिण्या चार्धनारीशो ह्युमाकान्तः पुनर्युतः || काकोदर्या तथाषाढी पूतनायुक्त ईरितः || ३७९ ||

चण्डीशो भद्रकालीयुगत्रीशो योगिनीयुतः || मीनेशः शङ्खिनीयुक्तो मेषेशस्तर्जनीयुतः || ३८० ||

लोहितः कालरात्र्या च शिखीशः कुब्जिनीयुतः || छगलण्डः कपर्दिन्या द्विदण्डीशश्च वज्रया || ३८१ ||

महाकालो जयायुक्तो बालीशः सुमुखेश्वरी || भुजङ्गो रेचनीयुक्तः पिनाकी माधवीयुतः || ३८२ ||

खड्गीशो वारुणीयुक्तो बकेशो वायवीयुतः || श्वेतो रक्षोविदारिण्या भगुः सहजया युतः || ३८३ ||

नकुलीशश्च लक्ष्मीयुक् शिवेशो व्यपिनीयुतः || संवर्तको महामायायुक्त एतास्तु मातृकाः || ३८४ ||

श्रीकण्ठाख्यादिमहेशान्तं पदं ङेन्तं प्रयोजयेत् || सर्वे रुद्राः स्मृता रक्ता धृतशूलकपालकाः || ३८५ ||

शक्तयो रुद्रपीठस्थाः सिन्दूरारुणविग्रहाः || रक्तोत्पलकपालाभ्यामलंकृतकराम्बुजाः || ३८६ ||

येनोपास्या महाविद्या दश तस्याधिकारिता || भुवनेशी बीजपूर्वमातृकान्यसने सुराः || ३८७ ||

प्. ९०) ऋषिः शक्तिस्तु गायत्री छन्दस्स्यान्मातृकामयी || भुवनेशी देवताथ नियोगोभीष्टसिद्धये || ३८८ ||

ह्रस्वदीर्घान्तरगतैः षड्वर्गैर्दीर्घसंयुतैः || प्राग्वद्धरे षडङ्गं स्यादंगुष्ठादि तथैव च || ३८९ ||

उद्यत्कोटिदिवाकरप्रतिनिभोत्तुङ्गोरुपीनस्तनी बद्धार्धेन्दुकिरीटहाररशनामञ्जीरसंशोभिता || बिभ्राणा करपङ्कजैर्जपवटीं पाशांकुशौ पुस्तकं दिश्यान्नो जगदीश्वरी त्रिनयना पद्मे निषण्णा सुखम् || ३९० ||

लज्जाबीजं पूर्वमुक्त्वा मातृकान्यास एव हि || भुवनेशी मातृकाणां न्यासो नार्पत्यसाधने || ३९१ ||

श्रीबीजपूर्वकः कार्यो लक्ष्मीकामैर्गृहस्थितैः || ऋषिर्भृगुश्च गायत्रीछन्दो मातृस्वरूपिणी || ३९२ ||

लक्ष्मीस्तु देवता प्रोक्ता हरस्थाने शरौ कुरु || न्यासार्थं तु षडङ्गादि शेषं श्रीबीजपूर्वकम् || ३९३ ||

बिद्युद्दामसमप्रभां हिमगिरिप्रख्यैश्चतुर्भिर्भुजैः शुण्डादण्डसमुद्धृतामृतघटैरासिच्यमानामिमाम् || बिभ्राणां करपङ्कजैर्जपवटीं पद्मद्वयं पुस्तकं भास्वद्रत्नसमुज्ज्वलां कुचनतां ध्यायेज्जगत्स्वामिनीम् || ३९४ ||

कामिनीमात्रसिद्ध्यर्थं कामबीजादिपूर्वकम् || कुर्याच्च मातृकान्यासं मुनिः सम्मोहनः स्मृतः || ३९५ ||

गायत्रीच्छन्द उद्दिष्टं देवता मातृकामयी || सम्मोहनी महादेवी पूर्वयुक्त्या षडङ्गकम् || ३९६ ||

बालार्ककोटिरुचिरां स्फटिकाक्षमालां कोदण्डमिक्षुजनितं स्मर, पञ्चबाणान् || विद्यां च हस्तकमलैर्दधतीं त्रिनेत्रां ध्यायेत्समस्तजननीं नवचंन्द्रचूडाम् || ३९७ ||

शक्तिश्रीकामबीजानां मातृकान्यासतो नृणाम् || शत्रुत्वाद्या मन्त्रदोषा नश्यन्ति बहुवर्णिताः || ३९८ ||

महासम्मोहन ऋषिर्गायत्रीछन्द ईरितम् || सम्मोहनीनाम देवी न्यासः प्राङ्मातृकासमः || ३९९ ||

ध्यायेयमक्षबलयेक्षुशरासपाशपद्मद्वयांकुशवरान्नव पुस्तकं च || आबिबिभ्रतीं नवभजैररुणां कुचार्तां सम्मोहनीं त्रिनयनां नवचन्द्रदूडाम् || ४०० ||

सर्वविघ्ननिरासार्थमवश्यं न्यासमाचरेत् || गणेशमातृकायास्तु मुनिर्गणक ईरितः || ४०१ ||

निवृद्गायत्रिकाछन्दो देवः शक्तिविनायकः || स्मृत्या दीर्घाद्यया चाङ्गं कृत्वा ध्यायेद्गजाननम् || ४०२ ||

शूलांकुशवराभीतिपाणिं रक्ताब्जहस्तया || प्रियया लिङ्गितं रक्तं त्रिनेत्रं गणपं भजे || ४०३ ||

विघ्नेशो ह्रीसमायुक्तो विघ्नराजः श्रियायुतः || प्. ९१) विनायकः पुष्टियुतः शान्तियुक्तः शिवोत्तमः || ४०४ ||

विघ्नकृत्स्वस्तिसंयुक्तो विघ्नहर्ता सरस्वती || गणस्तु स्वाहया युक्त एकदन्तः सुमेधया || ४०५ ||

द्विदन्तः कान्तिसंयुक्तो गजवक्त्रश्च कामिनी || निरञ्जनो मोहिनीयुक्कपर्दी तु नटीयुतः || ४०५ ||

दीर्घजिह्वः पार्वतीयुक्छं कुकर्णश्च ज्वालिनी || वृषध्वजो नन्दयायुक्सुयशागणनायकौ [सुरेशा इति] || ४०७ ||

गजेन्द्रः कामरूपिण्या शूर्पकर्णस्तथोमया || त्रिलोचनस्तेजोवत्या लम्बोदरस्तु सत्यया || ४०८ ||

महानन्दश्च विघ्नेश्या चतुर्मूर्तिः स्वरूपया || सदाशिवः कामदायुगामोदो मदजिह्वया || ४०९ ||

दुर्मुखो भूतिसंयुक्तः सुमुखो भौतिकायुतः || प्रमोदः सितया युक्त एकपादो रमायुतः || ४१० ||

द्विजिह्वो महिषीयुक्तः शूरश्चापि तु जम्भिनी || वीरो विकर्णया युक्तःषण्मुखो भ्रुकुटीयुतः || ४११ ||

वरदो लज्जया वामदेवः स्याद्दीर्घघोणया |
धनुर्धरो वक्रतुण्डो द्विरदो यामिनीयुतः || ४१२ ||

सिनीशो रात्रिसंयुक्तः कामान्धो ग्रामणीयुतः || मत्तः शशिप्रभायुक्तो विमत्तो लोललोचनः || ४१३ ||

मत्तवाहनचञ्चलो जटी दीप्तिसमन्वितः || मुण्डी सुभगया युक्तः खड्गी दुर्भगया तथा || ४१४ ||

वरेण्यश्च शिवायुक्तो भगायुग्वृषकेतनः || भक्तप्रियश्च भगिनी गणेशो भोगिनीयुतः || ४१५ ||

मेघनादस्सुभगया व्यापी स्यात्कालरात्रियुक् || गणेश्वरः कालिकेति प्रोक्ता विघ्नेशमातृका || ४१६ ||

त्वगादियोगो यादीनां पूर्ववत्परिकीर्तितः || प्रपञ्चयागन्यासोयं वक्ष्यते भुक्तिमुक्तिदः || ४१७ ||

महागणेशमन्त्रेण प्राणायामत्रयं चरेत् || ऋषिः प्रपञ्चयागस्य गणकश्छन्द ईरितम् || ४१८ ||

गायत्री तु निवृत्पूर्वा महागणपतिः सुरः || शीर्षादिषु न्यसेत्तांश्च गंबीजं चापि गुह्यके || ४१९ ||

स्वाहाशक्तिं पादयोस्तु नियोगोभीष्टसिद्धये || ओं श्रीं ह्रीं क्लीं ग्लौं गमिति पूर्वषड्दीर्घयुग्मकम् || ४२० ||

उच्चार्य कुर्यादङ्गानि [ओं गांहृदयाय नमः, श्रीं गीं शिरसे स्वाहा, ह्रीं गूं शिखा वै वषट्, क्लीं गैं कवचाय हुम्, ग्लौं गौं नेत्रत्रयाय वौषट्, गंगः अस्त्राय |
फट् एवमङ्गुष्ठादि न्यासानपि विदध्यात् ||] तथांगुष्ठादिषु न्यसेत् || प्. ९२) तलद्वयं तथास्त्रेण कृत्वा दिग्बन्धमाचरेत् || ४२१ ||

तर्जन्यङ्गुष्ठशब्देन दशदिक्ष्वथ चिन्तयेत् || ततो ध्यानं प्रकुर्वीत गणपस्येष्टसिद्धये || ४२२ ||

हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसादाश्लिष्टं प्रियया सपद्मकरया स्वाङ्कस्थया सन्तम् || बीजापूरगदाधरं त्रिशिरयुक्चक्राब्जपाशोत्पलब्रीह्यग्रस्वविषाणरत्न-कलशान्हस्त् ऐर्वहन्तं भजे || ४२३ ||

महागणपतेर्मन्त्रमष्टवारं जपेत्ततः || गमित्येकाक्षरं बीजं गणकोस्य मुनिर्मतः || ४२६ ||

देवो विघ्नेश्वरश्छन्दो निवृद्गायत्रिकाभिधा || प्रपञ्चाख्यस्य यागस्य साङ्गतासिद्धिहेतवे || ४२५ ||

चतुश्चत्वारिंशत्सङ्ख्यजपार्थं विनियोजनम् || अथ षड्दीर्घयुक्तेन कुर्यादङ्गानि गेन तु || ४२६ ||

गदापाशाङ्कुशकरं त्र्यक्षं च तुन्दिलं वरम् || सिन्दूराभं चन्द्रमौलिं सर्पभूषं गलन्मदम् || ४२७ ||

एकवारं जपेत्पश्चाद्गणानान्त्वेति वैदिकम् || गणेशमालामन्त्रस्य मुनिस्तु गणकः स्मृतः || छन्दो मितं गणपतिर्देवता परिकीर्तितः || ४२८ ||

ह्रींक्रों तारो नमः सर्वं ङेन्तं विद्याधिपं ततः || सर्वार्थसिद्धिदायेति सर्वदुःखप्रशेति च || ४२९ ||

ततो मनाय एह्येहि भगवन् बादयेति च || स्तम्भयेतिद्व्यं ह्रीं गं गां नमो वह्निगेहिनी || ४३० ||

क्रोंहीमित्थं पञ्चपञ्चाशद्वर्णो मन्त्र उच्यते || जपेदिमं चतुर्वारं मुन्यादिसहितंन्यसेत् || ४३१ ||

न्यासपूर्वत्रिवारं तु मातृकाध्यानपूर्वकम् || स्वरादिसप्तवर्गैस्तु ग्रहान्सप्त प्रविन्यसेत् || ४३२ ||

मुखे बाह्वोः पादयोश्च जठरे हृदये क्रमात् || तारो माया च हंसश्च सोहं स्वाहेति वै पुनः || ४३३ ||

प्रपञ्चयागमन्त्रोयमष्टार्णः समुदीरितः || प्रपञ्चयागमन्त्रस्य मुनिर्ब्रह्मा समीरितः || ४३४ ||

परमाद्या समाख्याता गायत्री छन्द उत्तमम् || महः परं समाख्यातं देवताचिन्मयात्मिकम् || ४३५ ||

त्रयन्तेऽबाधितं नित्यं सर्वव्यापि निरञ्जनम् || विलोमगैः पञ्चवर्णैः प्रपञ्चमनुसंस्थितैः || ४३६ ||

ह्रस्वदीर्घान्तस्थकादिवर्गैः पूर्वसमन्वितैः || तारमायादिकैरेतैर्युक्तैर्हरिहराक्षरैः || ४३७ ||

षडङ्गानि प्रकुर्वीत जातियुक्तानि देशिकः || वेदादिपञ्चमनुभिः परिचीयमानं निरस्य मुनिभिर्जगदेकमूलम् || प्. ९३) सच्चित्समस्तगमनश्वरमच्युतं तत्तेजः परं भजत पूर्णकृपाम्बुराशि || ४३८ ||

वेदादिमाययोरन्ते [ओं ह्रीं अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं लं क्षं हंसः सोहं स्वाहा] क्षकारान्तान्सबिन्दुकान् || पृथगुच्चार्य हंसोहं स्वाहेति च वदन्हृदि || ४३९ ||

विभावयेदिमान्वर्णानात्मवह्नौ जुहोम्यहम् || एवं हुत्वा क्षकारान्तानकारान्तान्पुनर्हुनेत् || ४४० ||

सविसर्गान्क्षकारान्तान्विन्यसन्मातृकास्थले || एवं प्रपञ्चयागाख्यमातृकान्यास ईरितः || ४४१ ||

एकविंशन्ततो योगपीठाख्यं न्यासमाचरेत् || तत्पूर्वमूक्तं च ततः स्वेष्टमन्त्रस्य संचरेत् || ४४२ ||

तत्तत्कल्पोदितान्पश्चात्तत्तन्मुद्राः प्रदर्शयेत् || आगमोक्तेन मार्गेण न्यासान्नित्यं करोति यः || ४४३ ||

देवताभावमाप्नोति मन्त्रसिद्धिः प्रजायते || यो न्यासकवचच्छन्नो मन्त्रजापपरप्रियः || ४४४ ||

दृष्ट्वा विघ्नाः पलायन्ते सिंह दृष्ट्वा यथा गजाः || अकृत्वा न्यासजालं यो मूढात्मा कुरुते जपम् || ४४५ ||

विघ्नैस्स बाध्यते नूनं व्याघ्रैर्मृगशिशुर्यथा || न्यासानां प्रचरत्वेन फलानामपि भूरिता || ४४६ ||

उक्तन्यासो न हि त्याज्यः कामतस्त्वधिकं चरेत् || ओं क्लीमिति तु बीजाभ्यां मुद्राया बन्धनं चरेत् || दर्शयेन्मूलमन्त्रेण हसौं बीजेन संन्यसेत् || ४४७ ||

ध्यानं कुर्यात्ततो मन्त्री तत्तत्कल्पोक्त वर्त्मना || तदपि द्विविधं प्रोक्तं सगुणं निर्गुणं तथा || ४४८ ||

आत्मनो हृदयाम्भोजे कर्णिकाकेशरोज्ज्वले || प्रफुल्ले सोमसूर्याग्निमण्डले न विराजिते || ४४९ ||

स्वस्येष्टदेवतां तत्र यजेदागमबोधिताम् || एवं यद्वेदनं तद्धिसगुणं ध्यानमीरितम् || ४५० ||

यज्जीवब्रह्मणोरैक्यं सोहं स्यामिति वेदनम् || तदेवं निर्गुणं ध्यानमिति वेदविदो विदुः || ४५१ ||

अथान्तर्यतनं वक्ष्ये यथावदवधारय || वामनाडीं समाकृष्य किञ्चिदाकुञ्चयेद्गुदम् || रेचयेत्सममार्गेण जिह्वा तालुगतां चरेत् || ४५२ ||

शक्तिं शिवे परे युक्त्वा किञ्चिदाकुञ्चयेदधः || प्. ९४) कृत्वेत्थं तु यजेत्पीठे न्यासमार्गेण मन्त्रवित् || ४५३ ||

तस्मिन्पीठे स्थितामिष्टदेवतां मूर्तिविग्रहाम् || ध्यात्वा यजेच्चन्दनाद्यैर्मानसैर्भोजनान्तकैः || ४५४ ||

भोजनावसरे त्वन्तर्वैश्वदेवं समाचरेत् || मूलाधारे स्मरेत्कुण्डं कुण्डल्यग्निसमुज्ज्वलम् || ४५५ ||

आत्मान्तरात्मपरमज्ञानात्मचतुरस्रके || धर्माधर्मान्विते त्र्यस्रे मूलमन्त्रपुरःसरम् || ४५६ ||

अहं जुहोमि स्वाहेति प्रत्येकं जुहुयात्ततः || अहन्ताऽसत्यपैशुन्यकामक्रोद्धादिकं हविः || ४५७ ||

मन एव स्रुवः प्रोक्तास्सुषुम्णादि गुदीरिता || तदन्ते तन्मयो भूत्वा जपेदष्टोतरं शतम् || ४५८ ||

मूलं तत्सर्वसम्पत्त्यै देवतायै निवेदयेत् || ततः प्रणम्य च गुरुं पूजाचक्रं समुद्धरेत् || ४५९ ||

सुवर्णरचिते पीठे भूपाला वशवर्तिनः || रजतालंकृतं यन्त्रं सर्वैश्वर्यप्रदं मतम् || ४६० ||

यन्त्रन्तु स्फाटिकं स्वच्छं मनोभिलषितं ददेत् || माणिक्यरचितं चेदं राज्यदं भुक्तिमुक्तिदम् || ४६१ ||

कृतं मरकतैर्यन्त्रं सर्वशत्रुविनाशनम् || लोहत्रयोद्भवं यन्त्रं सर्वसिद्धिकरं मतम् || ४६२ ||

श्रीखण्डं शक्तिदं ज्ञेयं पौष्टिकं रक्तचन्दनम् || श्रीपर्णीपीठमुद्दिष्टं पूजार्थं धनराज्यदम् || ४६३ ||

बैल्वके बहुलासम्पद्भूर्जपत्रे चतुष्पदाः || गण्डकीभवपाषाणे भुक्तिमुक्तिरदूरतः || ४६४ ||

भूमौ सिन्दूररजसा रचितं सर्वकामदम् || सीसकांस्यकृतं यन्त्रं सम्पत्तिं सन्ततिं हरेत् || ४६५ ||

फलकायां परे मित्तौ स्थापयेन्न कदाचन || स्थापितं यदि मोहेन नाशयेत्तस्य तत्कुलम् || ४६६ ||

अरत्न्यंगुलविस्तारं प्राक्प्रत्यग्दक्षिणोत्तरे || पलप्रमाणं कर्तव्यमर्चापीठं मनोहरम् || ४६७ ||

पूर्वार्धोच्चं प्रकुर्वीत चतुरस्रं समन्ततः || तस्मिन्पीठे तु निर्माणं पूजाचक्रस्य कारयेत् || ४६८ ||

माणिक्यादिकपीठेषु मानं न्यूनं न दोषयेत् || श्रीपर्णीचन्दनादीनामधिकं चेन्न दोषकृत् || ४६९ ||

अग्रे शुभग्रहौघेष्वनुकूलगुणवत्सु च || नवार्चां कारयेदेषां सति तिथ्यादिकेक्षणे || ४७० ||

क्षौद्राज्यदुग्धैः प्रथमं नारिकेराम्भसा ततः || प्. ९५) अभिषिच्याथ तोयेन क्वथितेन वरौषधैः || ४७१ ||

आवाह्याभ्यर्च्य तल्लग्ने चक्रे संस्थाप्य पूजयेत् || गन्धपुष्पैर्नवैर्धूपैर्दीपैर्नैवेद्यदर्पणौ || ४७२ ||

त्रिरात्त्रं पूजयेद्देवि त्रिसन्ध्यं च ततो निशि || मकारैः पञ्चभिर्युक्ताश्चरेयुर्वामिनोर्चनम् || ४७३ ||

निशायां शक्तिपूजां च द्वितीयायां च कौलिकः || एवं दिनत्रयं कृत्वा ततो नित्यक्रमं भजेत् || ४७४ ||

एवं देवीप्रतिष्ठायां क्रमस्सान्निध्यकारकः || स्त्रीशूद्राणां वामिनां च कौलिकानामयं विधिः || ४७५ ||

महापापं न कुर्वन्ति पशुवद्वेदमार्गतः || आख्यानदैश्च [पापानामेवाख्यानदत्वं यतः पापकरणादेव जनुर्भवति जनुषा जीवानां नामकरणं तत आख्यानदानि इति पापविशेषणम् ||] रघुभिः सन्ध्यावन्दननाशितैः || ४७६ ||

पातकैस्ते न लिप्यन्ते तस्मात्तेऽपशवः स्मृताः || वामिनोपासितं यन्त्रं तेषां दृष्टिपथं गतम् || ४७७ ||

तद्देवताक्षोभकरं विक्षिप्तः साधको भवेत् || दक्षिणोपासितं यन्त्रं सूर्याग्निसमतेजसम् || ४७८ ||

पापिनो नैव पश्यन्ति यथोलूकास्तमोदृशः || यथा नृभिर्दिनकरोदयः सर्वैरिहेष्यते || ४७९ ||

दक्षसंस्थापितं यन्त्रं तथा पुण्यात्मनां मतम् || सर्वेषामेव भूतानां तुल्यदुःखसुखावुभौ || ४८० ||

वामदक्षिणमार्गौ तु तद्वन्मार्गौ दिवौकसाम् || प्राधान्यं तु पुरन्ध्रीणां वामांगे दक्षिणांगके || ४८१ ||

पुंसां तथैव मार्गोपि कार्याकार्यविभेदतः || कुण्डाश्च [२-लोकाल्लोकान्तरं जीवानां प्रापकत्वादेव तेषां रघुत्वम् |
३- अमृते जारजः कुण्डो मृते भर्तरि गोलकः ||] गोलका जातिविच्युता ये द्विजादयः || ४८२ ||

असंस्कृताश्च ये विप्रास्ते व्रात्याः परिकीर्तिताः || ब्राह्मण्यहानिकृत्तेषां [नीचानां पतितानां च वाममार्गे प्रवृत्तिर्भवति |
मद्यमांसादिसेवनं कुर्वन्तोपि देवानां पूजाजपादिकरणाद्बहुभिर्दिनैर्निजकर्माणि भुक्त्वा पुनर्मुक्ता भवन्ति तेषां वेदानधिकारित्वाद्दक्षिणमार्गद्वारा शीघ्रमेव संसारान्मुक्ता जायन्ते ||] मद्यं मांसं च मैथुनम् || ४८३ ||

अब्राह्मणा वाममार्गे प्रवृत्तास्तैस्तु सेवितम् || कौलेन वाथ वामेन सिद्ध्यत्येव न संशयः || ४८४ ||

सिद्धिः संजायते न्येषां नरकायैव केवलम् || आदौ वेदोदितैर्मन्त्त्रैविप्रोग्न्युत्तारणं चरेत् || ४८५ ||

प्. ९६) अग्निः [अथाग्निसूक्तम् || अग्निः सप्तिंवा जंभरं ददात्यग्निवीरश्रुत्यं कर्मनिष्ठाम् || अग्नी रोदसी विचरत्समज्जन्नग्निर्नारीं वीरकुक्षिं पुरन्ध्रिम् || १ || अग्ने रेभमसः सदिस्तु भद्राग्निर्मही रोदसी आविवेश || अग्निरेकं चोदयत्समत्स्वग्निर्वृत्राणि दयते पुरूणि || २ || अग्निर्हत्यंजरतः कर्णमावाग्निरद्भ्यो निरदहज्जरूथम् || अग्निरत्रिं धर्म उरुष्यदन्तरग्निर्नृमेधं प्रजया सृजत्वम् || ३ || अग्निर्दाद्रविणं वरिपेशा अग्निर्-ऋषिं यः सहस्रासनोति || अग्निर्दिवि हव्यमाततानाग्नेर्धामानि बिभृतापुरुत्रा || ४ || अग्निमुक्थैर्-ऋषयो विह्नयन्तेग्निं नरो यामनिबाधतासः अग्निवर्यो-अन्तरिक्षे पतन्तोग्निः सहस्रा परियाति गोनाम् || ५ || अग्नि विश ईलेत मानुषीर्या अग्निं मनुषो बहुषो विजाताः || अग्निर्गान्धर्वी पथ्यामृतस्याग्नेर्गत्र्यूतिर्घृत आग्निषत्ता || ६ || अग्नये ब्रह्म ऋभवस्ततक्षुरग्निं महा तवोचामासुवृक्तिम् || अग्ने प्रावजरितारं थविष्ठाग्ने महि द्रविणमायजस्व || ७ || वाम दक्षिपाणिपृष्टदशे वामपाणितलं न्यसेत् || अंगुष्ठौ चालयेत्सम्यङ्मुद्रेयं मत्स्यरूपिणीति मं पुचतुरेस्रंबिदध्यात् ||] सप्तिं वाजमिति सप्तर्चं सूक्तमुच्यते || मुनिस्त्रिष्टुप्छन्द उक्तं देवताग्निः प्रकीर्तितः || ४८६ ||

अग्निशब्देन सहितं सूक्तमेतच्छतं जपेत् || अभिषिञ्चेद्गन्धतोयैस्ततः सम्पूर्णसूक्तकैः || ४८७ ||

अभिषिञ्चेच्छतावृत्त्याग्न्युत्तारणमिदं स्मृतम् || क्षालयेद्धातुजं यन्त्रं मृदा चाद्भिस्तु नित्यशः || ४८८ ||

पिष्टान्तकाद्यैः काष्ठस्य मण्यादेः केवलं जलात् || एवं प्रक्षालितं यन्त्रं मण्डयेच्चन्दनादिना || ४८९ ||

पुरतः स्थापयेत्पीठे दद्यात्पुष्पाञ्जलिं ततः || मूलमन्त्रेणाथ तेषां स्वस्य देवांगतश्चरेत् || ४९० ||

वृत्तेन वेष्टितं सम्यक् त्रिकोणं चन्दनाम्भसा || तद्बहिश्चतुरस्रं च विदध्यान्मत्स्यमुद्रया || ४९१ ||

सम्पूज्य गन्धैर्देवाद्यमण्डलाय नमोणुना || अंगानि चतुरग्न्यादिकोणेषु पुरतस्तस्था || ४९२ ||

पठंश्चास्त्रं सम्भ्युक्ष्य शङ्खाधारं प्रविन्यसेत् || उक्त्वा शङ्खादि चाधारं मण्डले स्थापयेत्त्वथ || ४९३ ||

मं रं धर्मप्रदेत्युक्त्वावदेद्दशकलात्मकम् || ङेंतं वह्नेर्मण्डलं च देवनाम च कीर्तयेत् || ४९४ ||

ततोर्घ्यपात्राधाराय नमः शङ्खं स्वमंत्रतः || प्रक्षाल्यामुकदेवार्घ्यपात्रं संस्थपयाम्यहम् || ४९५ ||

एवमुक्त्वा तदाधारे संस्थाप्यैनं च तत्र हि || अं सूर्यमण्डलं प्रोच्य ङेंतं देवस्य नाम तु || अर्घ्यपात्राय च नमो मनुनानेन पूजयेत् || ४९६ ||

तत्पात्रमपि तत्रैव भावयेद्भूमिमण्डलम् || षट्कोणं तत्र चाङ्गानि पूजयेत्पूर्ववत्ततः || ४९७ ||

कला द्वादश सूर्यस्य प्रोक्तास्तत्र प्रदक्षिणम् || ततः सुधामयैस्तोयैर्मूलांते मातृकां जपेत् || ४९८ ||

विलोमां पूरयेत्तस्मिन्पूजको मनुनामुना || प्. ९७) ओं सोममण्डलायेति षोडशेति कलात्मने || ४९९ ||

अमुकार्घ्यामृतायेत् नमः शङ्खप्रपूरणे || गंधपुष्पाक्षतयवकुशाग्रतिलसर्षपाः || ५०० ||

दूर्वा इत्यर्घ्यपात्रस्य प्रोक्तं द्रव्याष्टकं सुराः || तत्तोयं गन्धपुष्पाद्यैः पूजयित्वा समर्चयेत् || ५०१ ||

कलाषोडशकं चांद्रं पश्चात्सर्वकलासु च || प्राणप्रतिष्ठां कुर्वीत पूजान्ते साधकस्ततः || ५०२ ||

प्राग्वत्तीर्थं स्मावाह्य मूलमन्त्रेण तत्र तु || संयोज्य मूलमन्त्रेण पुष्पं न्यस्य शराणुना || ५०३ ||

प्रदर्श्य गालिनीं मुद्रां मुद्रया धेनुसञ्ज्ञया || अमृतीकृत्य विधिवत्स्वधाबीजेन साधकः || ५०४ ||

ध्यात्वेष्टदेवतां तत्र सकलीकरणं चरेत् || अङ्गन्यासेन चास्त्रेण कल्पयेच्च दिशो दश || ५०५ ||

तत्र मन्त्रेण संवीक्ष्य मुद्रया शङ्खसञ्ज्ञया || अवष्टभ्य ततो दीप्य मुद्रया योनिरूपया || ५०६ ||

गन्धपुष्पादिभिस्तत्र पूजयेदिष्टदेवताम् || षडङ्गानि च सम्पूज्य मन्त्रयेन्मूलमन्त्रतः || ५०७ ||

अष्टकृत्वस्ततश्चार्घ्यं दापयेन्मत्स्यमुद्रया || तच्छङ्खस्थं जलं किञ्चित्कुम्भतोये विनिक्षिपेत् || ५०८ ||

अर्घ्यस्योत्तरदिग्भागे पाद्यमाचमनीयकम् || मधुपर्कं च संस्थाप्य त्रिकोणेषु यथाक्रमम् || ५०९ ||

एकैकपात्रं मूलेन ह्यष्टकृत्वोभिमन्त्रयेत् || मधुपर्कस्तु सक्षौद्रो दधि तत्र न लभ्यते || ५१० ||

दधि दुग्धं गुडक्षौद्रे घृतप्रतिनिधिर्न हि || परमं तत्पदं देवि मधुसञ्ज्ञं यदुच्यते || ५११ ||

तदाप्यायनं यत्कर्म तत्प्रोक्तं मधुपर्ककम् || कांस्यस्य वाथ रौप्यस्य शैवः शङ्खवरो हरौ || ५१२ ||

महाशङ्खो वाममार्गे स्फाटिको ग्रहनायके || दक्षिणे प्रोक्षणीपात्रमाधायाद्भिः प्रपूरयेत् || ५१३ ||

किञ्चिदर्घ्याम्बु संगृह्य प्रोक्षण्यम्भसि योजयेत् || पुनराचमनीयार्थं पात्रं संस्थापयेत्ततः || ५१४ ||

पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरुच्यते || जातीलवङ्गकङ्कोलैर्मतमाचमनीयकम् || ५१८ ||

कुशपुष्पयवव्रीहिबहुमूलतमालकम् [१- उशीरम् |
२- चन्दनम् |
] || पातयेत्प्रोक्षणीपात्रे ललितं प्रणवेन च || ५१६ ||

शुद्धाभिरद्भिर्विहितं पुनराचमनीयकम् || द्रव्याभावे प्रदातव्याः क्षालितास्तण्डुलाः शुभाः || ५१७ ||

प्. ९८) अथार्घ्यादिकपात्राणा फलं वक्ष्ये शुभाशुभम् || सर्वकामप्रदं स्वार्णं रौप्यमायुःसुतप्रदम् || ५१८ ||

सौभाग्यं ताम्रपात्रेण धर्मवृद्धिस्तु मृन्मये || नारिकेले देवतुष्टिर्भवेत्पात्रे तथैव च || ५१९ ||

लक्ष्मीप्राप्तिर्बिल्वपात्रे ब्राह्मण्यं ब्रह्मवृक्षजे [पलाशे |
] || मारणोच्चाटने लौहं स्तम्भे पाषाणजं भवेत् || ५२० ||

मन्त्रस्याराधने काष्ठं वाममार्गे तु तौम्बिकम् || रत्नादीनां तु पात्राणि शुभलेखाङ्कितानि च || ५२१ ||

अर्घ्यनैवेद्यपूजार्थेञ्जलिदाने प्रपूजयेत् || पात्राणामादरः कार्यः पात्राण्येवोत्तमानि च || ५२२ ||

बलिहोमक्रियाद्यं च विनापात्रं न सिद्ध्यति || षट्त्रिंशदंगुलं पात्रमुत्तमं परिकीर्तितम् || ५२३ ||

मध्यमं तत्त्रिभागोनं कनिष्ठं द्वादशांगुलम् || वस्वंगुलविहीनं [अष्टाङ्गुलहीनम् |
] च न पात्रं कारयेत्क्वचित् || ५२४ ||

नाभीविवररूपाणिपुण्डरीकाकृतीनि [श्वेतकमलाकाराणि |
] च || शङ्खनीलोत्पलाभानि पात्राणि परिकल्पयेत् || ५२५ ||

श्वेतादीन्यतिशस्तानि विप्रादीनां क्रमेण च || सेचयेत्प्रोक्षणीपात्रतोयैर्मूलं समुच्चरेत् || ५२६ ||

आत्मानं यागवस्तूनि पूजाद्रव्यादिमण्डलम् || दर्शयेद्धेनुमुद्रां [अन्योन्याभिमुखाश्लिष्टा कनिष्ठानामिका पुनः |
तथा च तर्जनी मध्या धेनुमुद्रा प्रकीर्तिता |
] च द्रव्यशुद्धिरियं मता || ५२७ ||

योगपीठे न्यासदेवांस्तत्तत्स्थानेषु पूजयेत् || मणिपीठे भावनया ततः पूज्या स्वदेवता || ५२८ ||

आत्मानं देवतारूपं ध्यायेन्मूलेन पञ्च तु || पुष्पस्याञ्जलयो देया मस्तके हृदये गुदे || ५२९ ||

पादयोः सर्वगात्रे च पूजयेच्चन्दनादिभिः || चतुर्भिरुपचारैश्च नैवेद्यं विनिवेदयेत् || ५३० ||

गुरूपदिष्टविधिना शेषमन्यत्समापयेत् || प्रोक्षण्यद्भिः प्रयुञ्जीत सर्वमेतत्समाहितः || ५३१ ||

ततश्चार्घ्यकरं कार्यं यज्ञकार्यमथोच्यते || मूलाधारे चतुष्कोणमग्निकुण्डं विचिन्तयेत् || ५३२ ||

तत्राग्निं कुण्डलीरूपं ध्यायेन्मूलं समुच्चरन् || धर्माधर्महविर्दीप्त आत्माग्नौ मनसा तु वै || ५३३ ||

सुषुम्णावर्त्मना नित्यमष्टावृत्तिर्जुहोम्यहम् || पुण्यं जुहोमि स्वाहेति श्लोकान्ते प्रोच्चरेत्पुनः || ५३४ ||

पुनर्मूलं पुनः श्लोकः पुनः पापं जुहोमि च || कृत्याकृत्येति सङ्कल्पो विकल्पो धर्म एव च || ५३४ ||

प्. ९९) उक्त्वा पृथक् च स्वाहान्तं पुनः श्लोकमिमं पठेत् || प्रकाशामर्शहस्ताभ्यामवलम्ब्योन्मनीषु च || ५३६ ||

धर्माधर्मकलास्नेहपूर्ण वह्नौ जुहोम्यहम् || स्वाहान्तेनाहुतिं दत्त्वा प्राणायामनिरोधतः || ५३७ ||

निरस्तनिखिलोषाधिमात्मानं चिन्मयं स्मरेत् || प्राणायामत्रयं कृत्वा ऋष्यादिन्यासमाचरेत् || ५३८ ||

पूजापीठं विनिर्माय पूजयेत्पीठदेवताः || गुरुपङ्क्तिरुदक्पूज्या महागणपतिस्त्ववाक् || ५३९ ||

पूजयेदनलादीनि देवस्याधस्तु सप्त च || मण्डूकश्चापि तस्योर्ध्वं रुद्रः कालानलस्तथा || ५४० ||

मूलप्रकृतिमाधारशक्तिं कूर्मं तथान्तकम् || वराहं तस्य दंष्ट्राग्रे पृथिवीमर्चयेत्पुनः || ५४१ ||

तस्यां सुधार्णवं तस्मिन्दीपञ्च नवरत्नकम् || स्वर्णशैलं च तन्मध्ये तदूर्ध्वं नन्दनं वनम् || ५४२ ||

तन्मध्ये कल्पवृक्षांश्च तन्मध्ये रत्नभूमिकाम् || स्वर्णप्राकारमस्यान्ते तन्मध्ये रत्नमण्डपम् || ५४३ ||

तस्यान्तः स्वर्णवेदी च रत्नसिंहासनं पुनः || वेदीमध्ये भावनीयं पूजयेच्चन्दनादिना || ५४४ ||

पूजाचक्राधारपीठं सिंहासनमिति स्मरेत् || तत्पादेषु यजेत्सम्यगाग्नेयादिशिवान्तकम् || ५४५ ||

धर्मं वृषतनुं चित्रं ज्ञानं कृष्णं च सिंहवत् || वैराग्यं भूतवत्पीतमैश्वर्यं कृष्णहस्तिवत् || ४५६ ||

अधर्मादींश्चित्रवर्णान्पीठस्याधः समर्चयेत् || मायाविद्ये च तन्मध्येऽनन्तं तत्त्वाकृतिं यजेत् || ५४७ ||

तस्य मूर्ध्नि यजेत्पद्ममष्टप्रकृतिपत्रकम् || आनन्दकन्दकं संविन्नालं विकारकेशरम् || ५४८ ||

मातृकाकर्णिकोपेतं तत्पत्रेषु क्रमाद्यजेत् || सिद्ध्यष्टकं चाणिमाद्यं तन्नामानि ब्रवीम्यहम् || ५४९ ||

अणिमा महिमा चैव गरिमा लघिमा तथा || प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः || ५५० ||

अधोधः कर्णिकायास्तु सूर्यस्सोमस्तथानलः || गुणान्सत्त्वादिकांस्तत्र तद्वदग्रे त्रयं यजेत् || ५५१ ||

ब्रह्मविष्णुमहेशांश्च ततो दिक्षु च मध्यतः || ज्ञानं माया कला विद्या परपूर्वं च तत्त्वकम् || ५५२ ||

केशरेषु तथा मध्ये पूर्वादिषु यथाक्रमम् || तत्तन्मत्रोक्तपीठस्य नव शक्तीः प्रपूजयेत् || ५५३ ||

पीठमन्त्रेण गन्धाद्यैः पीठं समन्ततोर्चयेत् || चतुर्थीनमसा युक्तैः स्वस्वदैवतनामभिः || ५५४ ||

मध्ये पुष्पाञ्जलिं दद्यात्पीठमन्त्रेण साधकः || प्. १००) मूलमन्त्रं समुच्चार्य षष्ठ्यन्तं पीठनाम च || ५५५ ||

मूर्ति च कल्पयामीति मूर्तिमध्ये विनिक्षिपेत् || पुनर्मूलं समुच्चार्य देवनाम ततः परम् || ५५६ ||

मूर्ति च पूजयामीति तां पुष्पेण समर्चयेत् || एकपीठेन्यपूजां च विना यन्त्रं करोति यः || ५५७ ||

देवताशापमाप्नोति रौरवं नरकं व्रजेत् || तन्त्रेण पूजयेद्यन्त्रं देवताशापमाप्नुयात् || ५५८ ||

आवाह्य देवतामेकामर्चयेच्चान्यदेवताम् || अन्ययन्त्रेन्यपूजा वा देवता शापकारिणी || ५५९ ||

पूजनं बहुमूर्तीनामेकपीठे भवेद्यदि || पृथक्चन्दनपुष्पाणि धूपदीपादि मन्त्रतः || ५६० ||

खण्डिते स्फुटिते दग्धे भ्रष्टे मानविवर्जिते || व्यङ्गेनर्हपशुस्पृष्टे पतिते दुष्टभूमिषु || ५६१ ||

अन्यमन्त्रार्चिते चैव पतितस्पर्शदषिते || देशेष्वेतेषु नो कुर्युः सन्निधानं दिवौकसः || २६२ ||

गणेशसूर्यविष्ण्वीशदेवीनां पूजनं क्रमात् || दशस्थानानि देवानां पूजने कल्पितानित् च || ५६३ ||

सान्निध्यं सर्वदेवानामवश्यं मन्त्रतो भवेत् || मन्त्रस्तु जीववत्प्रोक्तः प्रतिमाद्यं शरीरवत् || ५६४ ||

सिद्धायामपि सामग्र्यां विना मन्त्रं फलं न हि || शिवलिङ्गे मणौ यन्त्रे शालग्रामे घटे रवौ || ५६५ ||

स्थण्डिलेग्नौ मूर्ध्नि हृदि स्थानेष्वेतेषु पूजयेत् || भूमौ चैव कृता पूजा पुत्रायुर्धननाशिनी || ५६६ ||

दशांगुलप्रमाणा वा तिथ्यंगुलमिता पुनः || अभ्यर्चा प्रथमा दिष्णोर्गृहेषु गृहमेधिभिः || ५६७ ||

पञ्चसूत्रसमायुक्तं शिवलिङ्गं समर्चयेत् || गृहस्थानां भुक्तिमुक्तिधनारोग्यप्रदं तु तत् || ५६८ ||

लिङ्गमस्तकविस्तारोपचितावथ दीर्घतः || लिङ्गस्य लिङ्गशालक्या जलाहार्यास्तथैव च || ५६९ ||

लिङ्गपीठस्य पञ्चानां समता पञ्चसूत्रिका || शालग्रामसमुत्पत्तिं शृण्वन्तु परमाद्भुताम् || ५७० ||

गण्डक्या प्राक् तपस्तप्तं भवन्तु मम देवताः || सर्वे पुत्राः सुखं दातुं जनानामिति ते सुराः || ५७१ ||

तस्यास्तु तपसा हृष्टा ब्रह्मविष्णुमहेश्वराः || वरं दातुं समुद्युक्ता वव्रे सापि स्वपुत्त्रताम् || अशक्तास्तं वरं दातुं तदा शप्तास्तया क्रुधा || ५७२ ||

प्रतारणं मम सुराः कृतं यस्मात्पुनः पुनः || कीटयोनिं प्रपद्यध्वं क्रुद्धास्तेप्यशपंश्च ताम् || ५७३ ||

अविच्चार्य वयं शप्तास्त्वया यत्तपसोद्धते || तेन कर्मविपाकेन त्वं वै कृष्णा नदी भव || ५७४ ||

प्. १०१) अन्योन्यशापं श्रुत्वेत्थं महान्कोलाहलोभवत् || प्रकम्पिताः सुरा याता ब्रह्माणं ते व्यजिज्ञपन् || ५७५ ||

ब्रह्मंस्त्राहि महाशापादन्योन्यपतितान्क्रुधा || इति देववचः श्रूत्वा ब्रह्मा शङ्करमब्रवीत् || ५७६ ||

शिवः प्रोवाच धातारमहं संहारकारकः || त्वं सृष्टिकर्ता विष्णुस्तु पालको बुद्धिमत्तरः || ५७७ ||

स प्रष्टव्यो यथासंख्यमुभयोः शम्भवेदिति || तत्र माहेश्वरं श्रुत्वा वचनं विष्णुरब्रवीत् || ५७८ ||

शृणु ब्रह्मन्महादेव शृणु देवि गजानन || मद्गणौ ब्राह्मणौ ग्राहमातङ्गौ शापतो यदा || ५७९ ||

भविष्यतस्तयोर्मोक्षं करिष्यामि कलेवरम् || शीर्णं भविष्यति यदा तन्मेदोमज्जसम्भवाः || ५८० ||

पाषाणान्तर्गताः कीटा वज्राख्याः प्रभविष्यथ || अद्यैव गण्डकी पुण्या गङ्गातुल्या महानदी || ५८१ ||

गण्डक्यां गिरिराजस्य दक्षिणे दशयोजनम् || विस्तीर्णं तन्मनुक्षेत्रम्पुण्यं क्षेत्रं महीतले || ५८२ ||

चक्रतीर्थमिदं ख्यातं त्रिषु लोकेषु विश्रुतम् || शालग्रामशिला यत्र यत्र द्वारवती शिला || ५८३ ||

उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः || सर्वदेवप्रीतिकरा भुक्तिमुक्तिप्रदायिनी || ५८४ ||

नद्यां तस्यान्तु पाषाणा ये तदन्तर्गताः सुराः || पार्थिवांशं विना सर्वे वज्रकीटा भवन्त्विति || ५८५ ||

अनेनैव तु गण्डक्याः पुत्रत्वं भवतामपि || प्रीताः सुरा न मूर्तेश्च न वृक्षस्यापि पूजनात् || ५८६ ||

सन्तोषो जायते तेषां गण्डक्यश्मार्चनाद्यथा || इति विष्णुवचः श्रुत्वा ब्रह्मा वचनमब्रवीत् || ५८७ ||

कीदृक्पूज्या शिला विष्णो किंस्वित्कस्य च वल्लभा || किं फलं कोधिकारि च केन मार्गेण तद्वद || ५८८ ||

इति ब्रह्मवचः श्रुत्वा विष्णुर्वचनमब्रवीत् || स्वीयवर्णशिला पूज्या ब्राह्मणाद्यैः सुखाप्तये || ५८९ ||

स्निग्धा शिला मन्त्रसिद्धिं रूक्षाऽसिद्ध करोति न || पाण्डुरा पापशमनी मलिना पापधीकरा || ५९० ||

पीता पुत्रफलं दद्यादाम्रवर्णा सुतान्हरेत् || नीला सन्दिशते लक्ष्मीं धूमाभा हरते मतिम् || ५९१ ||

रोगप्रदा रक्तवर्णा सिन्दूराभा महाकलिम् || दारिद्र्यकारिणीवक्रा समा सर्वार्थसाधिका || ५९२ ||

स्थूला निहन्ति चैवायुः सूक्ष्मास्वल्पमतिं हरेत् || प्. १०२) पूजाफलं लाञ्छितया निष्फलं लाञ्छनं विना || ५९३ ||

कपिला चित्तवैकल्यं नेत्ररोगञ्च कर्बुरा || लग्ना भङ्गकलिं दद्याद्बहुचक्रा प्रधानताम् || ५९४ ||

लक्षणान्तरहीना चेदचक्रा विविधापदम् || विकृतावर्तनाभिश्च वित्तान्नं कुरुते बहु || ५९५ ||

वंशच्छेदो गृहस्थानां नारसिंह्यां प्रजायते || रेखावर्ता दुःखदात्री यथा सूक्ष्मा तथामृतम् || ५९६ ||

यथा स्निग्धा तथा लक्ष्मीस्तद्विभेदानतः शृणु || लक्ष्मीहरिः स विज्ञेयो यत्र पद्मं सचक्रकम् || ५९७ ||

केवला वनमाला वा गृहस्थानामभीष्टदः || वासुदेवः स विज्ञेयो यद्द्वारे चक्रयुग्मकम् || ५९८ ||

निरन्तरं समं चापि स श्वेतः पापनाशनः || संकर्षणः स विज्ञेयः प्राक्पश्चाच्चक्रयुग्मकम् || ५९९ ||

संलग्नं पूर्वभागस्थं महद्रत्नसुशोभनम् || प्रद्युम्ने सूक्ष्मचक्रं स्याच्छिद्रं दीर्घं विचिन्तयेत् || ६०० ||

शुषिरान्तर्बहुच्छिद्रं पीतमिष्टप्रदायकम् || अनिरुद्धस्तु नीलाभो वर्तुलश्चातिशोभनः || ६०१ ||

रेखाद्वयं तु तद्द्वारि पृष्ठं पद्मेन लाञ्छितम् || केशवः स तु विज्ञेय एकं वा द्वयमेव च || ६०२ ||

प्राग्वापश्चाच्च चक्रं स्याच्चतुष्.कोणस्स भाग्यकृत् || नारायणः श्यामवर्णो नाभौ चक्रं तथोन्नतम् || ६०३ ||

दीर्घरेखासमायुक्तं दक्षिणे सुकरं पृथु || हरिरूपा शिला सा स्याद्यस्या ऊर्ध्वं मुखं भवेत् || ६०४ ||

हरिवद्दृश्यते द्वारं भुक्तिमुक्तिप्रदा तु सा || परमेष्ठी स विज्ञेयः पद्मचक्रान्वितस्तु यः || ६०५ ||

बिल्वाकृतिश्च शुक्लाभः पृष्ठे च शुषिरं महत् || विष्णुस्तु कृष्णवर्णः स्यात्स्थूलचक्रे शुभानने || ६०६ ||

द्वारोपरि तथा रेखा दृश्यते मध्यदेशतः || नरसिंहस्तु कपिलः पृथग्वक्त्रो बृहन्मुखः || ६०७ ||

त्रयो वा पञ्च वा तत्र बिन्दवो गृहिणां न सन् || कपिलो नरसिंहस्तु गुडलाक्षानिभो भवेत् || ६०८ ||

स्थूलचक्रद्वयं मध्ये द्वारे रेखा सुशोभना || महानृसिंहो विज्ञेयः पूर्वोक्तैर्लक्षणैर्युतः || ६०९ ||

रेखाश्च केशराकारा मुखं दीर्घं भयानकम् || लक्ष्मीनृसिंहो विज्ञेयश्चतुश्चक्रस्सबिन्दुकः || ६१० ||

पूर्वोक्तलक्षणैर्युक्तो वनमालाविराजितः || वराहोसौ शक्तिलिङ्गचक्रे च विषमे तथा || ६११ ||

इन्द्रनीलनिभःस्थूलस्त्रिरेखालाञ्छितो भवेत् || पृथ्वी वराहनाम्नी सा या वराहाकृतिः शिला || ६१२ ||

प्. १०३) अभुग्ना नैव रेखैका गतराज्यप्रदायिका || मत्स्याख्या सा शिला ज्ञेया बिन्दुत्रयविभूषिता || ६१३ ||

कांस्योद्भवा स्वर्णनिभा दीर्घा सा भुक्तिमुक्तिदा || कूर्माख्या तु शिला पृष्ठे वर्तुला चोन्नता भवेत् || ६१४ ||

हरितं वर्णमाधत्ते कौस्तुभेन च चिह्निता || शिला कूर्मस्य विज्ञेया कूर्माकारा तु या भवेत् || ६१५ ||

चक्राङ्किता तथा वृत्ता पूजिता सा पदप्रदा || हयग्रीवोंकुशाकारा रेखा चक्रसमीपगा || ६१६ ||

बहुबिन्दुसमायुक्तं पृष्ठं नीरदनीलकम् || ज्ञेयः सौम्यो हयग्रीवो हयग्रीवसमा शिला || ६१७ ||

दीर्घया रेखया युक्ता रेखा वा तादृशी भवेत् || ६१८ ||

हयशीर्षः स विज्ञेयो मुखं यस्य हयाकृति || पद्माकृति भवेद्वापि साक्षमालं शिरस्तथा || ६१९ ||

वैकुण्ठस्तिलवर्णाभश्चक्रमेकन्तथा ध्वजः || द्वारोपरि तथा रेखा पूजकाय सुशोभनः || ६२० ||

श्रीधरस्तु तथा देवश्चिह्नितो वनमालया || कदम्बकुसुमाकारो रेखापञ्चकभूषितः || ६२१ ||

वामनः स तु विज्ञेयो योतिह्रस्वश्च वर्तुलः || अतसीकुसुमप्रख्यो बिन्दुनोपरि शोभितः || ६२२ ||

दधिवामननामा च ऊर्ध्वाधश्चक्रसंयुतः || महाद्युतिश्च ह्रस्वश्च सुभिक्षक्षेमदायकः || ६२३ ||

सुदुर्शनस्तथा देवश्श्यामवर्णो महाद्युतिः || वामपार्श्वे तथाचक्रं रेखैकैव तु दक्षिणे || ६२४ ||

सहस्रार्जुननामासौ नानारेखामयो भवेत् || बकाकारा यत्र पंक्तिः स नष्टद्रव्यदायकः || ६२५ ||

स्थूलो दामोदरो यस्य मध्ये चक्रं प्रतिष्ठितम् || दूर्वाभो द्वारसङ्कीर्णपीतरेखो धनप्रदः || ६२६ ||

राधादामोदरो ज्ञेय ऊर्ध्वाधश्चक्रसंयुतम् || नातिदीर्घमुखं मध्ये लम्बरेखः स भोगदः || ६२७ ||

दामोदरः स विज्ञेयो यश्चक्रद्वयलाञ्छितः || सूक्ष्मं भवेच्च विवरं पूजितस्सुखदस्सदा || ६२८ ||

अनन्तो बहुवर्णः स्यान्नागभोगेन चिह्नितः || अनेकचक्रसम्भिन्नः सर्वकामफलप्रदः || ६२९ ||

पुरुषोत्तमनामासौ यस्य दिक्षु विदिक्षु च || ऊर्द्ध्वान्यास्यानि दृश्यन्ते पुरुषार्थफलप्रदः || ६३० ||

योगेश्वरः स विज्ञेयो लिङ्गं यस्य शिरोगतम् || ब्रह्महत्यादिपापानां नाशको योगसिद्धिदः || ६३१ ||

पद्मनाभस्तथा रक्तः पङ्कजच्छत्रसंयुतः || तलस्या पूजयित्वा तं दरिद्रोपीश्वरो भवेत् || ६३२ ||

प्. १०४) रश्मिज्वालो हिरण्याक्षश्चन्द्राभः स्फटिकोपमः || अथवा जायते नानास्वर्णरेखाभिरन्वितः || ६३३ ||

गरुडः स विभुर्ज्ञेयो मध्ये पक्षद्वयान्विते || सुदीर्घा दृश्यते रेखा स सर्पविषनाशकः || ६३४ ||

जनार्दनः स विज्ञेयः केवलानि स्फुटानि च || यस्योदरे तु चक्राणि चत्वारि पितृतृप्तिकृत् || ६३५ ||

लक्ष्मीनारायणो ज्ञेयो वनमालाङ्कितोदरः || सूक्ष्मद्वारश्चतुश्चक्रो भुक्तिमुक्तिप्रदायकः || ६३६ ||

हृषिकेशः स विज्ञेयो योर्धचन्द्राकृतिर्भवेत् || तमभ्यर्च्यामुयात्स्वर्गं विषयांश्च समीहितान् || ६३७ ||

लक्ष्मीनरहरिर्ज्ञेयः कृष्णवर्णः सबिन्दुकः || वामपार्श्वे समे चक्रे गृहस्थाभीष्टदायकः || ६३८ ||

त्रिविक्रमः स विज्ञेयः श्यामवर्णो महाद्युतिः || वामपार्श्वे चक्रयुग्ममेकरेखा तु दक्षिणे || ६३९ ||

कृष्णो ज्ञेयः शिला कृष्णा सचक्रो वा विचक्रकः || प्रदक्षिणावर्तकृतो वनमालाविभूषितः || ६४० ||

चतुर्मुखः स विज्ञेयो द्वे चक्रे मध्यदेशतः || चतस्रः पार्श्वगा रेखा वेदशास्त्रागमप्रदः || ६४१ ||

विष्णोर्भेदा इमे प्रोक्ता अत्रैवावाहयेद्धरिम् || विसर्जयेच्च पूजान्ते प्रतिष्ठां नात्र कारयेत् || ६४२ ||

शालग्रामाः समाः पूज्याः समेषु द्वितयं न हि || असमा नैव पुज्यन्ते सर्वकामफलार्थिभिः || ६४३ ||

शिला द्वादश यो नित्यं भक्त्या सम्पूजयेन्नरः || दिनेदिने धर्मवृद्धिः पापनाशो भवेदिह || ६४४ ||

शिवनामा स विज्ञेयो यो लिङ्गाकारताङ्गतः || स्वयन्तुलिङ्गाकृतिमान्मन्त्रसिद्धिविधायकः || ६४५ ||

त्र्यम्बकः स तु विज्ञेयो यो बिन्दुत्रयभूषितः || शूलाकारा तथा रेखा गतायुष्ट्वप्रदायकः || ६४६ ||

धूर्जटिस्स तु विज्ञेयो यत्र रेखा जटासमाः || तिस्रो यत्र प्रदृश्यन्ते सोचितो ज्ञानदायकः || ६४७ ||

शम्भुस्तु पाण्डुरो ज्ञेयो बिन्दुः कृष्णस्तु मस्तके || बिल्वप्रमाणस्तेजस्वी पूजितः स्त्रीवशङ्करः || ६४८ ||

ईश्वरस्स तु विज्ञेयो रक्तो बिन्दुस्तु मस्तके || एकचक्रो द्विचक्रो वा ह्यन्तरेऽधश्च गोपदम् || ६४९ ||

मृत्युञ्जयस्स विज्ञेयो ह्यपमृत्युविनाशकः || अधश्चक्रं तदूर्ध्वञ्च श्वेता रेखा त्रिशूलभाक् || ६५० ||

चन्द्रशेखरनामासावर्धचन्द्रोस्ति मस्तके || मध्ये चक्रद्वयं तस्य सेवनाद्रोगनाशनम् || ६५१ ||

प्. १०५) चन्द्रः स एव विज्ञेयः कपिलो मूर्ध्नि रूक्षितः || चक्रमध्ये भवेद्रेखा मारयेद्रिपुसन्ततिम् || ६५२ ||

शालग्रामानथो वक्ष्ये शाक्तान्कीटसमुद्भवान् || येषां पूजनतो देवी भवानी सुप्रसीदति || ६५३ ||

श्रीविद्या सा तले चक्रमूर्ध्वं छत्रं प्रदृश्यते || बाह्ये घण्टाङ्कितो मूर्द्धा स्निग्धा सेव्याखिलैस्तदा || ६५४ ||

महाकाली तु सा ज्ञेया योक्तचिह्नसमन्विता || द्विच्छिद्राद्यास्सर्वशिलास्त्रिकोणेनाङ्कितास्तु याः || ६५५ ||

यदायुधाकृतिश्चान्तर्देवी तत्र विनिर्दिशेत् || देवीशिला सचक्रा या दक्षमार्गेण तां यजेत् || ६५६ ||

सार्चिता वाममार्गेण लोकद्वयसुखावहा || या चक्ररहिता देवी शिला तां वामतोर्चयेत् || ६५७ ||

स्पर्शः कार्यो न विप्राणां तस्या या क्षोभकृद्भवेत् || सौरी शिला दुर्लभैव प्रायः कलियुगे सुराः || ६५८ ||

स्फटिकाभा भवेत्सा तु धर्मे मुक्ता विमुञ्चति || सूर्यस्योर्ध्वस्थितं वह्निं साभिषिक्ता प्रवर्षणम् || ६५९ ||

कुरुते शपथे मिथ्याकृते स्यात्कुष्ठकारिका || इत्यादिलक्षणैर्युक्ता शिला सूर्यस्य सम्मता || ६६० ||

गणेशः स तु विज्ञेयो यस्तु शुण्डाङ्कितो भवेत् || शुण्डाकारा शिला वापि गजाननसमापि वा || ६६१ ||

यस्या मध्ये महच्चक्रं सूक्ष्मचक्रं च यद्दिशि || सा शिला तस्य दिक्पस्य सेव्या तद्दिशि राज्यदा || ६६२ ||

अर्धचन्द्राकृतिर्यत्र दृश्यते शकलद्वयम् || सा तु चन्द्रशिला त्र्यस्रयुक्ता भौमशिला मता || ६६३ ||

बाणाकारेण चिह्नेन ज्ञेया बुधशिला सुराः || दीर्घेण चतुरस्रेण युक्ता गुरुशिला मता || ६६४ ||

पञ्चकोणा तु शुक्रस्य चापाकारा शनेर्मता || शूर्पाकारा तु राहोः स्यात्केतोस्तु ध्वजरूपिणी || ६६५ ||

प्राप्ते कलियुगे घोरे वामाचारविमिश्रिते || भक्ष्याभक्ष्यविचारादिरहिते म्लेच्छसंकुले || ६६६ ||

कामक्रोधादिभिर्व्याप्ते जने स्त्रीभिर्विनिर्जिते || क्व शिष्यः क्व गुरुर्मन्त्रः क्व जपः क्व च सिद्धयः || ६६७ ||

अयुताब्दे कलेर्याते त्यजेद्विष्णुशिला महीम् || तदर्धञ्जाह्नवीतोयं तदर्धन्देवताशिला || ६६८ ||

जप एव कलौ श्रेयाञ्च्छालग्रामार्चनं तथा || सूर्यार्घ्यदानसमये दानं विभवतः परम् || ६६९ ||

आवाहनादिकं कार्यं मूर्त्यादौ त्रिविधं तु तत् || आदावावाहनं कार्यं त्रिर्जपेन्मूलमन्त्रकम् || ६७० ||

प्. १०६) स्वाल्लोकात्सूक्ष्मरूपेण देव आगत्य मूर्तिषु || स्थित एवं भावयित्वा सुषुम्णावर्त्मना सुधीः || ६७१ ||

आनीय तेजः स्वस्थानान्नासिकारन्ध्रनिर्गतम् || करपुष्पाञ्जलौ स्थाप्य तद्दद्याद्देवमूर्द्धनि || ६७२ ||

देवस्य तेजस्तन्मूर्तौ आवाहन्याख्यमुर्दया [सम्यक् सम्पूरिता पुष्पैः कराभ्यां कलिताञ्जलिः || आवाहनी समाख्याता मुद्रा देशिकसत्तमैः |
] || स्थापयेदुच्चरेन्मूलमेतदावाहनं मतम् || ६७३ ||

विभोर्निवेशनं यन्त्रं स्थापनं कथितं बुधैः || ततः संस्थापनं कुर्यादिह तिष्ठेति तिष्ठ च || ६७४ ||

मूलान्ते देवतानाम तस्यान्ते च पठेदिति || आस्थापनीयमुद्रां [अधोमुखीकृता सैव प्रोक्ता स्थापनकर्मणि |
] च दर्शयित्वा विभावयेत् || ६७५ ||

या तु स्थिरा देवतेति पश्चात्सप्रार्थयेदिति || देवेश भक्तिसुलभ सर्वावरणसंयुत || ६७६ ||

यावत्त्वां पूजयिष्यामि तावत्त्वं सुस्थितो भव || एवं सम्प्रार्थ्य देवेशं सन्निधापनमाचरेत् || ६७७ ||

मूलमन्त्रं समुच्चार्य सम्बुध्येत्तां च देवताम् || इह त्वं सन्निधेहीति द्विरुक्त्वा स्वस्य सन्निधौ || ६७८ ||

स्थितं देवं तोषयेच्च सन्निधापनमुद्रया [आश्लिष्टमुष्टियुगला प्रोन्नतांगुष्ठयुग्मका || सन्निधाने समुद्दिष्टा मुद्रेयं तन्त्रवेदिभिः ||] || देवतायास्ततः कुर्यान्मूलमुच्चर्यसन्निधिम् || ६७९ ||

सम्बुध्य तां वदेत्पश्चात्सन्निरुद्धो [अंगुष्ठगर्भिणी सैव सन्निरोधे समीरिता || देवतांगे षडंगानां न्यासः स्यात्सकलीकृता |
] भवेति च || द्विरुच्चरेत्कृपापूर्णां भक्तिभावनिरोधिताम् || ६८० ||

प्रतिमायां स्थिरं यातां देवतामिति चिन्तयेत् || देवतां सम्मुखी कुर्यान्मूलमुच्चार्य देशिकः || ६८१ ||

सम्बुध्य तां वदेत्पश्चात्सम्मुखो भव इत्यपि || ध्यायेत्स्वसम्मुखं देवं सुप्रसन्नाननाम्बुजम् || ६८२ ||

सम्मुखी करणीं मुद्रां दर्शयेदिति तत्स्मृतम् || देवावगुण्ठनं कार्यं मूलमुच्चार्य मन्त्रवित् || ६८३ ||

सम्बुध्य तामवगुण्ठितो भवेदिति प्रदर्शयेत् || अवगुण्ठनमुद्राञ्च [सव्यहस्तकृता मुष्टिर्दीर्घाधोमुखतर्जनी || अवगुण्ठनमुद्रेयमभितां भ्रामितो मता || अन्योन्याभिमुखाश्लिष्टा कनिष्ठानामिकापुनः || तथा च तर्जनीमध्या धेनुमुद्रा प्रकीर्तिता || अमृतीकरणं कुर्यात्तया देशिकसत्तमः || अन्योन्यग्रथितांगुष्ठप्रसारितकरांगुलिः महामुद्रेयमुदिता परमीकरणे बुधैः || सम्मुखीकरणीमुद्रा सा ज्ञेया मुष्टियुग्मकम् || देवता स्थाप्यते यस्यामंगुष्ठद्वयमुक्तकम् |
] दर्शयेच्चिन्तयेदिति || ६८४ ||

भक्त्यासम्मोहितं देवं विस्मयोत्फुल्ललोचनम् || प्. १०७) सकलीकरणं चैव देवस्य हृदयादिषु || ६८५ ||

षडङ्गमन्त्रान्विन्यस्य मूलमुच्चार्य देवताम् || सम्बुध्य तां च सकलीकृतो भव वदेत्ततः || ६८६ ||

ध्यायेदङ्गानि देवे तु प्रतिष्ठाप्याङ्गदेवताः || यस्माद्भिन्नस्वभावानां यदभिन्नं प्रयोजनम् || ६८७ ||

अङ्गानामङ्गिना सार्द्धं सकलीकरणाद्भवेत् || अमृतीकरणं वक्ष्ये पीठे संस्थाप्य देवताम् || ६८८ ||

बद्ध्वा सम्यग्धेनुमुद्रां देवमूर्ध्नि प्रवर्षणम् || जायते चामृतश्चैति ध्यायन्नर्घ्योदकेन च || ६८९ ||

त्रिः सिञ्चेन्मूलमन्त्रेण दीपिनीमन्त्रमन्त्रितम् || अकारादिक्षकारान्तमातृकाभिस्त्रिधा पुनः || ६९० ||

वाग्भवं वदयुग्मं च वाग्वादिनी च वाग्भवम् || क्लींक्लिन्ने क्लेदिनि क्लेदय महाक्षोभमित्याप || ६९१ ||

कुरु युग्मं कामबीजमों मोक्षं कुरु युग्मकम् || प्रासादश्च पुनः प्रासादः सप्तत्रिंशदक्षरः || ६९२ ||

दीपिनीमनुराख्यातो देवताया हि वृद्धिकृत् || मूलं [मूलमन्त्रपूर्वकसम्बोधनान्तदेवनाम अर्थात् हे अमुकदेव ! अमृतीकृतो भव एतयारीत्या परमी करणम् |
] सम्बोधनान्तं च देवनामामृतीकृतः || भवेति च वदेदित्थममृती करणं त्विदम् || ६९३ ||

परमीकरणं वक्ष्ये महामुद्रां [ऐं वद वद वाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरु कुरु क्लीं ओं मोक्षं कुरु कुरु हौं हौं || इति दीपिनीमन्त्रः ||] च बन्धयेत् || उच्चार्य मूलं देवं च पूर्ववत्परमीकृतिः || कृतो भवेति च प्रोच्य ध्यायेद्देवस्य मस्तके परमामृतवृद्धिं च देवस्य हृदयं स्पृशन् || ६९४ ||

कुर्यात्प्राणप्रतिष्ठां [पूर्वोक्त प्राणप्रतिष्ठामन्त्रेण प्राणप्रतिष्ठान्भवति परन्तु मम स्थाने अमुकदेवस्य इदं पदं योजयेत् ||] च मम स्थाने वदेत्तथा || द्रेवतानामशेषं च सर्वं प्राग्वत्तदेव हि || ६९५ ||

तत्तद्दैवतकल्पोक्तास्ततो मुद्राः प्रदर्शयेत् || मुदं स्वं पूरयन्त्यद्धा देहद्वारेण चात्मनः || ६९६ ||

या अर्पयन्त्ययत्नेन मुद्रास्ताः शक्तयो मताः || मोदयन्ति ग्रहादिभ्यःपापौघं द्रावयन्ति च || ६९७ ||

मोदनं द्रावणं यस्मादतो मुद्गाः प्रकीर्तिताः || ततः सम्पूजयेद्देवं शक्त्यालभ्योपचारकैः || ६९८ ||

तत्रादौ पूजनं कार्यं षोडशैरुपचारकैः || आसनं स्वागतं चार्घ्यं पाद्यमाचमनीयकम् || ६९९ ||

मधुपर्कमाचमनं स्नानं वस्त्रमलंकृतिम् || गन्धपुष्पाणि धूपं च दीपनैवेद्यवन्दनम् || ७०० ||

प्रयोजयेदर्चनायामुपचारान्हि षोडश || दशोपचारा मध्या स्यात्सा गृहस्थैर्विधीयते || ७०१ ||

प्. १०८) अर्घ्यं पाद्यं तथाचामो मधुपर्कस्तथाचमः || गन्धादयो निवेद्यान्ताः उपचारा दश स्मृताः || ७२० ||

गन्धादयो निवेद्यान्ताः पूजा पञ्चोपचारिका || अगृहस्थैर्गृहस्थैर्वा कर्तव्या कार्यतत्परैः || ७०३ ||

आदौ कुर्याद्देशिकस्तु वेदमन्त्रेण पूजनम् || ततश्च तान्त्रिकैर्मन्त्रैर्वामी शूद्रश्च तन्त्रतः || ७०४ ||

ओं [ओं अं हं हं इदमिदमिदं गृहाण स्वाहा |
] अं हं ह मिदमिदं गृहाण ठद्वयम् || योज्यः सर्वोपचारेषु मन्त्रः पञ्चदशाक्षरः || ७०५ ||

पठेद्वा वैदिकस्यान्ते तत्र तन्त्रं तु वैदिकः || सर्वत्र वह्निजायायाः स्थाने शूद्रो नमः पठेत् || ७०६ ||

देवस्य वामभागे तु दद्यान्मूलेन चासनम् || पौष्पं दारुमयं वास्त्रं चार्मं कौशं च तैजसम् || ७०७ ||

पौष्पं पुष्पादिरचितं कुशदूर्वादिसंयुतम् || नानावर्णसुगन्धं च कोमलं सर्वकामदम् || ७०८ ||

यस्य यानि निषिद्धानि पुष्पाण्युक्तानि तैः कृतम् || केवलैरासनं हन्ति साधकस्य मनोरथान् || ७०९ ||

यज्ञदारुसमुद्भूतं बैल्वं वा चन्दनोद्भवम् || गम्भार्या वा समाख्यातं श्रीपर्णस्येप्सितप्रदम् || ७१० ||

सकण्टकक्षीरयुततालशालविवर्जितम् || चैत्ये श्मशाने सम्भूतं वर्जयेच्च बिभीतकम् || ७११ ||

रोमजं वाल्कलं कौशजातं कर्पाससम्भवम् || वस्त्रं चतुर्विधं श्रेष्ठं पूर्वंपूर्वमुदाहृतम् || ७१२ ||

सिंहव्याघ्रतरक्षूणां छागस्य महिषस्य च || गजानां तुरगाणां च कृष्णसारस्य चर्मणः || ७१३ ||

आसनं निर्मितं श्रेष्ठं निषिद्धं खारकौक्कुरम् || शृगालस्य वृकस्यापि गोः शशस्य कपेस्तथा || ७१४ ||

कुशः काशः शरो ग्रन्थिर्यवो दूर्वाश्च बल्वजाः || वीरणं च नडो गुन्द्रः पूर्वाभावे परः परः || योगपीठस्य सदृशमेतेषामासनं स्मृतम् || पूर्वंपूर्वं श्रेष्ठतमं कौशं दशविधं स्मृतम् || ७१५ ||

सुवर्णतारताम्राणां [रजतम् |
] सवंगानां [वंगः प्रसिद्ध एव |
] परम्परम् || हीनं निषिद्धं लोहं तु कांस्यं सैसं च पैत्तलम् || ७१६ ||

साङ्गं सावरणं देवं पूजार्थमह चागतम् || इति ध्यात्वा तु मूलान्ते स्वागतं परिकीर्तयेत् || ७१७ ||

ततोर्घ्यं मूर्ध्नि दद्याच्च कालोस्य त्रिविधो मतः || आगताय तथार्चायां स्नातुमासनगाय च || ७१८ ||

प्. १०९) पूजान्ते गन्तुकामाय देवायार्घ्यं प्रदापयेत् || अर्घ्यद्रव्ययुतैस्तोयैरुपचारमनुं पठन् || ७१९ ||

आगते स्नानकाले च नैवेद्योपक्रमेपि च || त्रिविधः पाद्यकालः स्यात्पाद्यं स्यात्पादधावनम् || ७२० ||

पाद्ये च मधुपर्के च स्नाने वस्त्रोपवीतयोः || भोजने चाचमः शुद्धतोयैः षोढा प्रकीर्तितः || ७२१ ||

क्षौद्रं कृत्वा कांस्यपात्रे दद्याद्देवमुखाम्बुजे || दिवसे दधिसंयुक्तमुपचारमनुं पठन् || ७२२ ||

जातीफललवङ्गैलाचन्द्रकङ्कोलचूर्णयुक् || [कर्पूरम् |
] पुनराचमनीयार्थं तोयं देवमुखेऽर्पयेत् || ७२३ ||

सुगन्धतैलैरभ्यज्य सुगन्धामलकादिभिः || उद्वर्तनं [अभ्यंगः |
] विधायाथ स्नापयेदुष्णवारिणा || ७२४ ||

गन्धोदकैश्च मूलेन यथाशक्त्यभिषेचयेत् || दुग्धदध्याज्यमधुभिः [घृतम्] खण्डेन च पृथक्पृथक् || ७२५ ||

नारिकेलोदकेनापि तथा तालफलाम्बुना || गन्धद्रव्यैश्च बहुभिस्तथा गन्धोदकेन च || ७२६ ||

ऐक्षवेणोदकेनापि [इक्षुरसः |
] सकर्पूरादिगन्धिना || शुद्धोदकैश्च मूलेन यथाशक्त्यभिषेचयेत् || ७२७ ||

कदलीपनसाश्वत्थरसेनापि सुगन्धिना || शतं सहस्रमयुतं [दशसहस्राणि |
] शक्त्यावाथाभिषेचयेत् || ७२८ ||

शङ्खं सम्पूज्य तेनैव स्नापयेत्तमनन्यधीः || सर्वेषां प्रीतिदः शङ्खो न सूर्यस्य कदाचन || ७२९ ||

पञ्चामृतैस्तीर्थतोयैरभिषिक्तः शिवो मुदम् || लभते नाथ शंखोदैस्ततः शुद्धोदकेन च || ७३० ||

स्नानं पुरुषसूक्तेन कार्यं मूलेन वा त्रिभिः [पुरुषसूक्तमूलमन्त्रस्नानमन्त्रैः |
] || प्रदेयं विष्णवे मुख्यं पीतं कौशेयमम्बरम् || ७३१ ||

शिवाय च सरस्वत्यै पार्श्वनाथाय शुभ्रकम् [शुक्लम् |
] || रक्तं शक्त्यर्कविघ्नानां [८- देवी |
९- गणेशः |
] भौमसौगतयोरपि [बुद्धः |
] ७३२ ||

कृष्णं भैरवकाल्यादेराधादेर्नीलमम्बरम् || अच्छिद्रं मलहीनं च सद्यदनन्यधारितम् || ७३३ ||

कार्पासजं वा कौशेयं राङ्कवं वा विशिष्यते || तैलादिदूषिताद्रोगः सच्छिद्राद्व्रात्यता [संस्कारहीनो वा संकरः] भवेत् || ७३४ ||

परकीयाच्च दारिद्र्यं जीर्णादायुःक्षयो भवेत् || दग्धाद्विपद्भवेद्दास्यं दत्ते गात्रावलम्बिते || ७३५ ||

सूचीविद्धात्स्फोटकादि मलिनात्कान्तिहीनता || प्. ११०) उप्तकेशे पुत्रनाशः पूजनादौ प्रयोजिते || ७३६ ||

तानि नानाविधानि स्युर्मुकुटादिप्रभेदतः || स्त्रीपुम्प्रभेदतश्चापि विज्ञेयानि विचक्षणैः || ७३७ ||

चूर्णं घृष्टं धूमसारः सम्मर्दः प्राणिसम्भवः || गन्धः पञ्चविधो ज्ञेयो मोददः स्वर्गवासिनाम् || ७३८ ||

प्रशस्तगन्धयुक्तानां पत्रचूर्णानि यानि च || तानि गन्धाह्वयानि स्युश्चूर्णाद्यः प्रथमः स्मृतः || ७३९ ||

घृष्टो मलयजो गन्धस्सरलो [देवदारुभेदः] देवदारु च || कृष्णागुरुः कदम्बश्च द्वितीयोयं प्रकीर्तितः || ७४० ||

शतपत्रीरसे [शतावरी] मग्नाच्चन्दनागुरुकादिकात् || पिप्पलीयन्त्रतः काचकुप्यां सिद्धस्तृतीयकः || ७४१ ||

कृष्णागुरुश्चन्दनदेवदारु कालीयकं [पीतचन्दनम्ः |
] बालकभद्रमुस्तम् [हीवेरम् काला गुरुवा |
शतमूली |
] || शिलारसः कुन्दरकोलकं [वारिवाह |
] च सेवन्ति [सेवन्ती |
] काकं तुरगाभिधानम् [अश्वकर्णः |
] || ७४२ ||

मृत्कर्पटैः संयुतकाचकुप्यां दत्त्वा मुखे लोहमलोहसूत्रैः || निष्कासितो धूमरसस्तु तस्य सौगन्धिकैः काचकठोरकेयः || ७४३ ||

महामोदनामा सुरामोदकारी तथा भूतयक्षोरगातङ्ककारी || ज्वरारोचकच्छर्दिशङ्कापहारी ललाटे स्थितो दृष्टिदोषापहारी || ७४४ ||

यथाभागमनेके तु सुगन्धागन्धवारिभिः || मर्दितास्स चतुर्थस्तु सम्मर्द इति कीर्त्यते || ७४५ ||

कस्तूरिका चैकभागा द्वौ भागौ मुस्तकस्य च || तदर्धैलाजटामांसी त्वक्कुष्ठं च शिलारसः || ७४६ ||

चतुर्भागं बालकं च घृतभृष्टा तथा नखी || सुगन्धकोकिला [अश्वगन्धः |
] लोहबाणो [तत्तन्नाम्नैव प्रसिद्धम् |
] राजवचा तथा || ७४७ ||

अष्टौ भागाः केशरस्य मुरायाश्चैव षोडश || कृष्णागुरुश्च कालीयं तद्भागाष्टकमुच्यते || ७४८ ||

तथा सेवन्तिकाकस्य भागानेकत्र मर्दयेत् || कामोदनामा सम्मर्दो देवताराजतोषकृत् || ७४९ ||

कास्तूरिकश्चौतुमदः प्राणजात इतीर्यते || पञ्चमोयं सुगन्धस्तु देवदानवताषेकृत् || ७५० ||

पुष्पं पञ्चविधं प्रोक्तं परं चापरमेव च || उत्तमं मध्यमं हीनन्तेषां वक्ष्यामि लक्षणम् || ७५१ ||

परं सुवर्णपुष्पं स्यात्तत्सदा योग्यमेव हि || अभ्यङ्गपूर्वकं देयमर्चनार्हं सदा भवेत् || अपरं राजतं पुष्पं ताम्रजं च प्रकीर्तितम् || ७५२ ||

प्. १११) सदायोग्यञ्चेदमपि त्रिवर्षं चैकवर्षकम् || तुलसीकेतकी पद्मं करवीरञ्च [१- करवीरंप्रसिद्धमेव |
२- जाती वा मालती प्रसिद्धैव |
] मालती || ७५३ ||

पञ्चैतान्युत्तमान्याहुर्मध्यमानि तथा दश || मल्लिका [बेला प्रसिद्धैव] कुन्दमन्दारबकुलार्जुनकिंशुकाः [४- मौलसिरीति भाषायाम् |
५- पलासः |
] ७५४ ||

पारिजातमशोकं च बिल्वं चम्पकमेव च || एतद्भिन्नं सुवर्णं च सुगन्धहतमुच्यते || ७५५ ||

तत्तन्मन्त्रविधानेषु विहितानि समर्चयेत् || नार्पयेद्भूमिपतितं कोष्णकं [तप्तम् |
] कृमिभक्षितम् || ७५६ ||

अंगलग्नं समाघ्रातं म्लानं पर्युषितं [पूर्वदिवससञ्चितम् |
] तथा || उग्रगन्धमगन्धं च मध्याह्नस्नानतस्तथा || ७५७ ||

पत्रं वा यदि वा पुष्पं फलं नेष्टमधोमुखम् || दुःखदन्तु समाख्यातं यथोत्पन्नं तथार्पणम् || ७५८ ||

चित्रपूजासु सर्वासु न विरुद्धस्य दूषणम् || अधोमुखार्पणं नेष्टं पुष्पाञ्जलिविधौ न तत् || ७५९ ||

न पर्युषितदोषोस्ति तुलसीबिल्वचम्पके || जलजे बकुलेगस्त्ये मालाकारगृहेषु [मालाकारागारे |
] च || ७६० ||

केतकीकुटजैर्नेशं [कुरैयेतिभाषायाम्] नार्चयेदक्षतैर्हरिम् || न दूर्वया यजेद्दुर्गां बिल्वपत्रैर्दिवाकरम् || ७६१ ||

लम्बोदरन्तुलस्या च एतद्धीनैः समर्चयेत् || नार्कपुष्पैर्यजेद्देवीमादित्यं तगरेण च || ७६२ ||

गणेशाय च सूर्याय रक्तपुष्पमतिप्रियम् || पुष्पाभावे प्रवालैर्वा तदभावे च कोरकैः [मुकुलम् |
] || ७६३ ||

तदभावे फलैः पत्रैस्तदभावे तृणैः कुशैः || कपित्थं दाडिमं कोलं [बेरफलम् |
] जम्बुचिञ्चामलाम्रकम् [१२- चिञ्चिनी |
१३- धात्री |
१४- रसालः |
] || ७६४ ||

मातलुगं [जम्बीरभेदश्चकोतरेति भाषायाम् |
] च जम्बीरं पनसं [कण्टकिफलम् |
] श्रेष्ठमुच्यते || अथ पुष्पोपचारान्ते कुर्यादावरणार्चनम् || ७६५ ||

मन्त्रसम्पुटितैर्वर्णैर्मातृकायाः सबिन्दुकैः || क्रमेण गन्धपुष्पाद्यैर्देवस्यांगं समर्चयेत् || ७६६ ||

लयाङ्गत्वेन मातॄणां स्थानाङ्गेषु ततः परम् || आदावावरणं पूज्यं तदन्ते देवतां यजेत् || ७६७ ||

एवमभ्यर्च्य सर्वास्ता यथोक्ता वृत्तिदेवताः || केशरेष्वग्निकोणादौ हृदयादीनि पूजयेत् || ७६८ ||

नेत्रं मध्ये दिशास्वस्त्रं ध्यातव्याश्चाङ्गदेवताः || प्. ११२) तुषारस्फटिकश्यामनीलकृष्णारुणार्चिषः || ७६९ ||

वरदाभयदारिण्यः प्रधानतनवः स्त्रियः अग्नीशासुरवायव्यमध्यदिक्षुक्रमात्स्थिताः || ७७० ||

देवस्य [मध्ये पूज्यदेवता तिष्ठति तस्याः स्वस्य चान्तरालं पूर्वा दिक्प्रदेष्टव्या |
] पुरतः प्राची ज्ञेयावरणपूजने || तदादिपरिवाराणां प्रादक्षिण्येन पूजनम् || ७७१ ||

अङ्गमन्त्रास्तु पूजायामोन्ताश्चान्ताहुतौ [ओमन्तोऽन्तावयवोयेषाम्] तथा || स्वाहान्ता अथ देवस्याभिमुखं तास्समास्थिताः || ७७२ ||

ततो यजेल्लोकपालान्स्वस्वदिक्षु व्यवस्थितान् || आयुधानि तदग्रे च तेषां ध्यानमथोच्यते || ७७३ ||

इन्द्रं सुराधिपं पीठमैरावतगतं विभुम् || सहस्रनेत्रं द्विभुजं पीठवज्रधरं भजे || ७७४ ||

अग्निं तेजोधिपं रक्तं श्वेतशक्तिकरं प्रभुम् || सभूषणं मेषवाहं देवरं कान्तलोचनम् || ७७५ ||

यमं प्रेताधिपं कृष्णं महिषो परिसंस्थितम् || कालदण्डकरं क्रूरं वृतं दूतैर्भयानकैः || ७७६ ||

रक्षोधिपं च निर्-ऋतिं शवासनसमास्थितम् || धूमाभं खड्गहस्तञ्च पिङ्गलश्मश्रुकूर्चकम् || ७७७ ||

मकरे संस्थितं विद्युन्निभं पाशकराम्बुजम् || शुभ्राङ्गं तुन्दिलं वन्दे वरुणं यादसां पतिम् || ७७८ ||

वायुं प्राणप्रियं धूम्रं रक्तांकुशकरं परम् || वानप्रस्थसमारूढं धावन्तं वेगतो भजे || ७७९ ||

यक्षाधिपं कुबेरं च शुक्लं शुक्लगदाधरम् || नारसिंहासनारूढं पानपात्रयुतं भजे || ७८० ||

विद्याधिपं नीलशूलधरं वृषभवाहनम् || त्रिनेत्रं भालचन्द्रं च जटाजूटधरं सितम् || ७८१ ||

गौरं नागाधिपं मूर्ध्नि फणामण्डलभूषितम् || पीनोत्तुङ्गं चक्रधरमनन्तं विश्वलं भजे || ७८२ ||

लोकाधिपं विधातारं रक्तं पद्मकरं शुभम् || हंसारूढं वेदपाठं कुर्वन्तं तमहं भजे || ७८३ ||

पुनर्मूलं [लोकपालानां पूजायाः पश्चान्मूलमन्त्रमुच्चार्य साङ्गायै सपरिवारायै देव्यै नमः एतन्मन्त्रेन पूजाविधेया |
] समुच्चार्य साङ्गायै सपरीति च || वारायै च नामदेव्याश्चतुर्थ्यन्तमुदीरयेत् || ७८४ ||

नम इत्यर्चयेद्गन्धपुष्पाद्यैस्साधकस्त्रिधा || धूपपात्रं ततोस्त्रेण लक्षयेत्पूजयेत्ततः || ७८५ ||

हृदाणुनाथ [नमोमन्त्रेणः |
] चास्त्रेण घण्टां सम्पूज्य वादयेत् || धूपो देयो गणेशस्य प्रियः प्रोक्तस्तु गुग्गुलुः || ७८६ ||

सर्जं [धूप इति प्रसिद्धः |
] देव्या महेशस्य निर्यासो देवदारुजः || प्. ११३) विष्णोः कृष्णागुरुः सिंह्लं [मनःशिला] भास्करस्य प्रियं मतम् || ७८७ ||

शक्तेर्दशांगं वक्ष्यामि शैलेयं मलयोद्भवम् [चन्दनम्] || नखं कुष्ठं सर्जरसमेकैकांशं प्रकल्पयेत् || ७८८ ||

शिलारसागुरुजटामांसीभागद्वयं मतम् || षण्माक्षिकं [षद्धागंमाक्षिकम्] सिता चाष्टौ धूपोयं शक्तिमोहनः || ७८९ ||

हरीतकीसर्जरसमुरामांस्यः कुभागिकाः [एकभागाः] || लाक्षा त्रिभागा चत्वारो भागाः शैलजमुस्तयोः || ७९० ||

पञ्चभागं नखं प्रोक्तं षड्भागं कुष्ठमुच्यते || द्वादशां शोगुरुः केशविघ्नोविष्णुदशाङ्गकः [सर्द्धषः] || ७९१ ||

मधु मुस्ता घृतं गन्धो गुग्गुल्वगुरुशैलजम् || सरलं सिह्लसिद्धार्थैः शेषदेवदशाङ्गकः || ७९२ ||

वामेन तु तथा धूपमग्रे वा न तु दक्षिणे || न धूपं वितरेद्भूमौ नासने न पटे तथा || ७९३ ||

यथा तथाधारगतं कृत्वा तं विनिवेदयेत् || मेदोमज्जायु तो नेष्टो विष्णवे दारुसम्भवः || ७९४ ||

पूजयित्वा स्वमन्त्रेण घण्टावादनपूर्वकम् || दीपं दद्यात्तु विभवैर्नानावाद्यपुरस्सरम् || ७९५ ||

तारो [ओं जयध्वनि मन्त्रमाने स्वाहा] जयध्वनिपदं मन्त्रमानेग्निगेहिनी || एकादशाक्षरो मन्त्रो घण्टायास्सर्वसिद्धिदः || ७९६ ||

आवाहनार्घ्यधूपेषु पुष्पे नैवेद्यदीपयोः || घण्टानादं प्रकुर्वीत विशेषाद्धूपदीपयोः || ७९७ ||

पूजाकालं विनान्यत्र कुर्यात्तस्या न वादनम् || नानया च विना पूजां कारयेत्सिद्धिलालसः || ७९८ ||

गोसर्पिषा वा तैलेन वर्त्त्या च लघुगर्भया || उच्चैः प्रदर्शयेद्दीपं न च मेदादिना क्वचित् || ७९९ ||

न मिश्रीकृत्य दद्यात्तु दीपं स्नेहाद्घृतादिकान् || दत्त्वा मिश्रीकृतस्नेहात्तामिस्रं नरकं व्रजेत् || ८०० ||

पारावतभ्रमाकारं [कपोतभ्रमणवद्दीपभ्रमणम् |
] भ्रामयेच्च प्रदर्शयेत् || देवस्य सर्वावयवाञ्छ्लोकमेकं ततः पठेत् || ८०१ ||

सुप्रकाशो महादीपः सर्वत्र तिमिरापहः || सबाह्याभ्यन्तरं ज्योतिर्दीपोयं प्रतिगृह्यताम् || ८०२ ||

दक्षिणे सार्षपं तैलं तिलतैलस्य वामतः || सितावर्तिर्दक्षिणतो वामतो रक्तवर्तिका || ८०३ ||

पात्रेषु दीपो दातव्यो न तु भूमौ कदाचन || कृत्वा तु पृथिवी भागे दीपमुत्सृजते नरः || स तापपापं नरकं प्राप्नोति च शतं समाः || ८०४ ||

नैव निर्वापयेद्दीपं लक्ष्मीनाशकरो यतः || पाद्यमाचमनीयं च दत्त्वा नैवेद्यमर्पयेत् || ८०५ ||

प्. ११४) निधाय स्वर्णकं पात्रं साधारं मण्डले त्विह || संस्थाप्य चतुरसं च संस्कुर्याच्छास्त्रमार्गतः || ८०६ ||

अस्त्रमन्त्रेण सम्प्रोक्ष्य चक्रमुद्राभिरक्षितम् [हस्तौ तु सम्मुखौ कृत्वा संलग्नौ सुप्रसारितौ || कनिष्ठांगुष्ठकौ लग्नौ मुद्रैषा चक्रसञ्ज्ञिता || पाणिद्वयं निबध्य कनिष्ठांगुष्ठयोः अनामिकाकनिस्ठिकयोः प्रवेशेन चक्रमुद्रा भवति] || स्पर्शदृष्ट्यादिदोषांश्च वायुबीजेन [यमिति मन्त्रेण] शोषयेत् || ८०७ ||

स्पृशन्दक्षकराग्रेण वह्निबीजेन [रमिति मन्त्रेण] निर्दहेत् || वंबीजेनामृतीकृत्य मूलमन्त्रेण तत्पुनः [पुनरष्टौ वारान्मूलमन्त्रं पठित्वा अभिमन्त्रितं पात्रं हस्ताभ्यां स्पृशेत् |
] || ८०८ ||

स्पृशेत्कराभ्यां विधिवदष्टवाराभिमन्त्रितम् || धेनुमुद्रां प्रदर्श्याथ गन्धपुष्पैः समर्चयेत् || ८०९ ||

देवमभ्यर्च्य कुर्याच्च पुष्पाञ्जलिमनन्यधीः || हेमपात्रस्थितं दिव्यं परमान्नं सुसंस्कृतम् || ८१० ||

पञ्चधा षड्रसोपेतं गृहाण मम सिद्धये || मूलमन्त्रं समुच्चार्य स्वाहान्तं जलमर्पयेत् || ८११ ||

कराभ्यां संस्पृशन्पात्रं नैवेद्यान्ते नमो वदेत् || देवस्य दक्षिणे हस्ते जलं दत्त्वा पठेदिदम् || ८१२ ||

अमृतोपस्तरणमसि स्वाहेति भवाक्षरः [एकादशाक्षरो मन्त्रः |
] || दर्शयेद्दक्षहस्तेन विकचोत्पलसन्निभाम् || ८१३ ||

दर्शयित्वा ग्रासमुद्रां [विकसितकमलाकृतिदक्षिणहस्ताङ्गुलिभिन्नकरणेन ग्रासमुद्रा भवति ||] पञ्च प्राणाहुतीश्चरेत् || कनिष्ठानामिकांगुष्ठयोगः प्राणस्य मुद्रिका || ८१४ ||

तया ग्रासं गृहीत्वा प्राणाय स्वाहेति संवदेत् || तर्जनीमध्यमांगुष्ठयोगेपानपदं वदेत् || ङेन्तं स्वाहान्तमथ च व्यानाय च ततो वदेत् || ८१५ ||

स्वाहान्तमध्यमानामांगुष्ठयोगेन निर्वपेत् || हित्वा कनिष्ठां सर्वाभिरुदानायाग्निगेहिनी || ८१६ ||

सर्वाभिस्तु समानाय स्वाहोक्त्वा ग्रासमर्पयेत् || ततः स्वर्णादिजे पात्रे सुतोयं धेनुमुद्रया || ८१७ ||

अमृतीकृत्य देवाय देयं मन्त्रमिमं पठेत् || नमस्ते देवदेवेश सर्वतृप्तिकरं परम् || अन्नं निवेदितं शुद्धं प्रकृतिस्थं सुशीतलम् || ८१८ ||

परमानन्दसम्पूर्णो गृहाण जलमुत्तमम् || उक्त्वैवं देवतावामे जलपात्रं निवेशयेत् || ८१९ ||

त्रिभिर्वर्णैः प्रदातव्यं देवार्थं पाकभोजनम् || घृतपक्वं दुग्धसिद्धं साधितं केवलाग्निना || ८२० ||

युक्तमैक्षवपङ्केन तच्छूद्रस्य प्रशस्यते || ततः पुष्पाञ्जलिं दद्यादस्त्रमन्त्रेण बन्धनम् || ८२१ ||

दिशां कृत्वा जवनिकां [तिरस्करिणी] देवस्य परितो न्यसेत् || प्. ११५) अमृतात्मकनैवेद्यं नम इत्युच्चरेत्पुनः || ८२२ ||

धेनुमुद्रां प्रदर्श्याथ भुञ्जानां देवतां स्मरेत् || अष्टोत्तरशतं जप्त्वा मूलमन्त्रं ददेज्जलम् || ८२३ ||

नैवेद्यान्ते त्वाचमनं दत्त्वा होमविधिं चरेत् || पूर्ववत्संस्कृते वह्नौ देवमावाह्य मन्त्रवित् || ८२४ ||

सम्पूज्य मूलमनुना पञ्चविंशतिमाहुतीः || हुनेदाज्येन हविषा तिलैर्वा पायसैः शुभैः || ८२५ ||

तण्डुलैस्तिलमिश्रैर्वा केवलैर्वापि पुष्पकैः || अङ्गावरणदेवानामेकैकामाहुतिं हुनेत् || ८२६ ||

उद्वास्य देवं वह्निं च पूजास्था नं व्रजेत्ततः || उपविश्यासने मन्त्रैर्दद्याद्भूतबलिं ततः || ८२७ ||

ईशाने मण्डलं कृत्वा साधारं तत्र निक्षिपेत् || अन्नं व्यञ्जनतोयाढ्यं पात्रं पुष्पादिपूरितम् || तत्र भूतानि सम्पूज्य ततस्तेभ्यो बलिं हरेत् || ८२८ ||

ये रौद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः || योगिन्योप्यग्निरूपाश्च गणानामधिपाश्चये || ८२९ ||

भूचराः खेचराश्चैव ये तिष्ठन्त्यन्तरिक्षगाः || सर्वतः प्रीतमनसो भूता गृह्णन्त्विमं बलिम् || ८३० ||

वामहस्तेन तत्पात्रे जल धारां समर्पयेत् || पूष्पाञ्जलिं स्मादाय भूतानि प्रार्थयेदिति || ८३१ ||

भूतानि यानीह वसन्ति भूमौ बलिं गृहीत्वा विधिवत्प्रयुक्तम् || सन्तोषमानत्वा व्रजन्तु सर्वे समन्ततोन्यत्र नमोस्तु तेभ्यः || ८३२ ||

दत्त्वा पुष्पाञ्जलिं नत्वा विहरन्तु यथासुखम् || भूतादीनि च नाराचमुद्रया विसृजेत्ततः || ८३३ ||

देवं तृप्तमिति ध्यात्वा नैवेद्यं गतसारकम् || सञ्चिन्त्य रक्षोदिग्भागे पात्रं तत्स्थापयेत्ततः || ८३४ ||

गोमयाद्भिस्तदस्त्रेण नैवेद्यं स्थापयेत्ततः || देवोच्छिष्टं गृहीत्वा तु निर्माल्यभोजिने नमः || ८३५ ||

ऐशान्यां तु विनिक्षिप्य हस्तं प्रक्षालयेत्ततः || पुनरामचमनं दद्यात्करोद्वर्तनमे वच || ८३६ ||

शुद्धमाचमनं दत्त्वा सुगन्धैर्गन्धयेत्करौ || ततो दद्याच्च ताम्बूलं विष्णवे द्वादशाङ्गकम् || ८३७ ||

खादिरैलालवङ्गेन्दुचूर्णपर्णतमालकम् || जातीफलं च जावित्रीकस्तूरिकेशरैर्युतम् || ८३८ ||

पौगं फलमथ प्रोक्तं दशाङ्गं भस्करस्य तु || प्. ११६) मृगनाभितमालाभ्यां हीनं विधेश्वरस्य तु || ८३९ ||

पञ्चाङ्गं चूर्णखदिरपर्णपूगफलेन्दुकम् || शैवं देव्या जातिकोशयुतं तच्च महेशितुः || ८४० ||

ततश्च मुकुटादीनि दद्याद्भूषणकानि च || दर्शयेच्च तथादर्शं कल्पयेच्छत्रचामरे || ८४१ ||

शिरस्यारोप्य देवस्य दूर्वाक्षतपवित्रकम् || आरात्रिकं ततः कुर्याद्धर्मकामार्थसिद्धये || ८४२ ||

सौवर्णे राजते कांस्ये लोकनेत्रमनोहरे || कुंकुमेन लिखेत्पद्ममष्टपत्रं सुशोभनम् || ८४३ ||

कर्णिकायां महादीपं तत्पत्रेष्वष्टदीपकान् || यवगोधूमरचिताञ्च्छर्करादुग्धसंयुतान् वलयाञ्चितशोभाभिः शोभितान्घृतपूरितान् || ८४४ ||

अभिमन्त्र्य ततो मन्त्री रत्नेश्वर्या नवार्णतः || श्रीं [श्रीं ह्रीं ग्लूं स्तूं श्रीं ह्रीं ग्लूं स्तूं ह्रीं || इति नवाक्षरः रत्नेश्वरीमन्त्रः ||] ह्रीं ग्लूं स्तूं त्वथ प्राग्वत्ततः श्रीं ह्रीमिति क्रमात् || ८४५ ||

रत्नेश्वर्यास्समुद्दिष्टस्ततो मूलेन तां यजेत् || ततस्तत्पात्रमुद्धृत्य मस्तकान्तं पुनः पुनः || ८४६ ||

नववारं भ्रामयेच्च चक्रमुद्रां प्रदर्शयेत् || देवं प्रणम्य च ततः प्राणायामत्रयं चरेत् || ८४७ ||

मूलमन्त्रेणाथ पूरं न्यासपूर्वान्समाचरेत् || अष्टोत्तरसहस्रं तु नव द्वे त्रिशतं तु वा || ८४८ ||

अष्टोत्तरशतं चापि जपेन्मूलमतन्द्रितः || समाप्ते तु जपे मालां निदद्यान्मस्तकोपरि || अर्घ्यपात्राज्जलं चैव गृहीत्वेदं पठेत्पुनः || ८४९ ||

गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् || सिधिर्भवतु मे देव त्वत्प्रसादाज्जगत्पते || ८५० ||

देवस्य दक्षिणेहस्ते तोयं दत्त्वा समर्पयेत् || जपश्च जपमाला च स्थाप्या रहसि वेष्टिता || ततस्तु गीतस्तुतिभिर्घण्टावादनपूर्वकम् || ८५१ ||

ब्राह्मणो वेदमन्त्राद्यैः क्षत्त्रियः संहितादिभिः || पौराणिकाद्यैर्वैश्यस्तु शूद्रस्तु प्राकृतादिभिः || ८५२ ||

वामिनस्तूपचारान्ते कुर्युर्मद्येन तर्पणम् || तेषामनित्यो होमस्तु नित्यं तर्पणसेवनम् || ८५३ ||

कौलिकैः शक्तिसहितैस्तदुच्छिष्टञ्च सेचयेत् || मोहाद्वा कामतः शूद्रः पुराणं वा स्मृतिं पठेत् || संहितां नरक याति पितृभिस्सह पापकृत् || ८५४ ||

यः शूद्रो बुद्धिपूर्वन्तु शृणुयाच्छ्रावयेद्द्विजान् || वेदांस्तौ दुःखितावस्मिन्भवेन्यत्र च नारकौ || ८५५ ||

अधिकारमदाद्यस्तु धनस्य मदतोपि वा || प्. ११७) शूद्रस्तु शृणुयाद्वेदं स निर्वंशस्तु निर्धनः || ८५६ ||

अज्ञानाच्चेच्छ्रुतो वेदः श्रावितो वा द्विजन्मना || प्राजापत्यत्रयं कृत्वा तौ संशुद्धौ भविष्यतः || ८५७ ||

ततोर्घ्यपात्रमादाय मूलमुच्चार्य मन्त्रतः || साधु वा साधु वा कर्म यद्यदाचरितं मया || तत्सर्वं भगवन्देव गृहाणाराधनं वरम् || ८५८ ||

इत्यर्घ्योदकमुत्सृज्य किञ्चिद्देवस्य दक्षिणे || करे समर्पयेद्विद्वान्कृतमाराधनं ततः || भक्त्या प्रणम्य देवेशं श्लोकैरेभिः समर्पयेत् || ८५९ ||

यद्दत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलम् || निवेदितं च नैवेद्यं तद्गृहाणानुकम्पया || ८६० ||

आवाहनं न जानामि न जानामि विसर्जनम् || पूजां चैव न जानामि त्वं गतिः परमेश्वर || ८६१ ||

कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम || अन्तश्चारेण भूतानां द्रष्टा त्वं परमेश्वर || ८६२ ||

नाथ योनिसहस्रेषु येषुयेषु व्रजाम्यहम् || तेषुतेष्वचला भक्तिरव्ययास्तु सदा त्वयि || ८६३ ||

देवो दाता च भोक्ता च देवस्सर्वमिदं जगत् || देवो जयति सर्वत्र यो देवः सोहमेव हि || ८६४ ||

ततोर्घ्यपात्रतोयेन कुर्यादाराधनार्पणम् || ब्रह्मार्पणस्य [ओं तत्सत्प्राणबुद्धिदेहधर्माधिकारजाग्रत्स्वप्न-सुषुप्त्यवस्थासु मनसा वाचा कर्मणाभ्यन्तरा यच्चोदरेण शिष्ण्वा यच्च स्मृतं यदुक्तं यच्च कृतं तत्सर्वं ब्रह्मार्पणं भवेत् भूस्स्वाहा |
] मनुना कुर्याद्ब्रह्मार्पणं ततः || ८६५ ||

तारस्तत्सत्पूर्वमिति प्राणबुद्धीति संवदेत् || देहधर्माधिकारेति जाग्रत्स्वप्नसुषुप्त्यवस्थासूक्त्वा मनसा वाचा कर्मणाभ्यन्तरा ततः || ८६६ ||

यच्छब्दश्चोदरेणेति शिष्ण्वा यच्च स्मृतं च यत् || उक्तं यच्च कृतं तच्च सर्वं ब्रह्मार्पणं भवेत् || ८६७ ||

भूस्स्वाहेति च मन्त्रोयं षट्षष्ट्यर्णः समीरितः || उद्वासयेत्ततो देवं परिवारगणैस्सह || ८६८ ||

इति पुष्पाञ्जलिं दत्त्वा प्रणम्य परिभावयेत् || देवस्याग्रे विलीनं तु रश्मिवृन्दमशेषतः || ८६९ ||

तेजोरूपं शिवं ध्यात्वा क्षमस्वेति पुनः पुनः || क्षमयारोपयेत्स्वीये हृदम्भोजे तु देवताम् || ८७० ||

गच्छगच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर || यत्ते ब्रह्मादयो देवा न विदुः परमं पदम् || ८७१ ||

विसृज्यानेन मन्त्रेण ततः पूरकवायुना || प्. ११८) ध्यायेच्च मन्त्रेणानेन ध्यात्वा तां स्थापयेद्धृदि || ८७२ ||

तिष्ठतिष्ठ परस्थाने स्वस्थाने परमेश्वर || यत्र ब्रह्मादयः सर्वे सुरास्तिष्ठन्ति मे हृदि || ८७३ ||

इति संस्थाप्य सम्पूज्य स्वात्मानं तन्मयं स्मरेत् || ऐशान्यां मण्डलं कुर्याद्द्वारि पद्मविवर्जित्म् || ८७४ ||

निर्माल्ये भोक्तुं पूजार्थं पञ्चायतनपूजने || कर्तव्यानि तु पञ्चैव ईशानाद्यं समर्चयेत् || ८७५ ||

लम्बोदरो गणेशस्य तेजश्चन्द्रो विवस्वतः || विष्वक्सेनो हरेः प्रोक्त ईश्वरी च महेशितुः || ८७६ ||

चण्डेश्वरो भवान्याश्च मन्त्रैरेतादृशं चरेत् || लेह्यचोष्यान्नपानादि निर्माल्यं प्रविलेपनम् || ८७७ ||

निर्माल्यभोजिने तुभ्यं ददामि श्रीशिवाज्ञया || इति नैवेद्यशेषं तु दत्त्वा नत्वा विसर्जयेत् || ८७८ ||

अथ ह्रीं ह्रीं सः बीजैस्तु सहितैर्नमसा पुनः || मन्त्रेण भास्करायार्चामच्छिद्रार्थं निवेदयेत् || ८७९ ||

नमो विवस्वते तुभ्यं भास्वते विष्णुतेजसे || जगत्सवित्रे शुचये सवित्रे कर्मदायिने || ८८० ||

ततः कृताञ्जलिश्चित्तं स्थिरीकृत्य पठेदिति || यज्ञच्छिद्रं तपश्चिद्रं यच्छिद्रं पूजने मम || सर्वं तदच्छिद्रमस्तु भास्करस्य प्रसादतः || ८८१ ||

अर्घ्यतोयेन च ततो गन्धपूजावशेषितम् || आलोड्य किञ्चिन्मूलेन मन्त्रयेदष्टधा पुनः || ८८२ ||

प्रोक्षयेत्तेन तोयेन तत्स्थानं मूलमन्त्रतः || निर्माल्यं मस्तके धार्यं मूलमन्त्रेण मन्त्रिणा || ८८३ ||

प्राश्य पादोदकं पश्चान्नैवेद्यं विभजेत्ततः || तद्भक्तेभ्यः स्वयं भुक्त्वा तन्मयो हि वसेत्सुखम् || ८८४ ||

शैवस्तु शिवनिर्माल्यप्रसादस्याधिकारवान् || अन्यो निरयमाप्नोति न दोषः पञ्चसङ्गमे || ८८५ ||

स्वयं तु लिङ्ग तीर्थं वा प्रसादं वापि भक्तितः || कृत्वा शैवा ह्यशैवा वा मुच्यन्ते पापराशितः || ८८६ ||

शूद्रसंस्थापितं लिंगं पूजयेद्वा नमेत्तदा || तत्सम्बन्धिप्रसादादि गृह्णन्निरयमाप्नुयात् || ८८७ ||

प्रातरुत्थाय गुर्वादि स्मृत्वासम्यक्समाचरेत् || स्नानं सन्ध्यां तर्पणं च वैदिकं तान्त्रिकं तथा || ८८८ ||

आगत्य च गृहे पश्चात्प्राणायामत्रयं चरेत् || कुर्याच्च मातृकान्यासं तथा छन्दर्षिदैवतम् || ८८९ ||

प्. ११९) तन्मन्त्रस्य करांगाख्यं न्यासं कृत्वा तथा स्थितिम् || मन्त्रस्नानं देवतायाः पूजां पञ्चोपचारिकाम् || ८९० ||

वैश्वदेवान्तरे तत्र दद्यादाहुतिपञ्चकम् || मूलेन होमयेत्तत्र जपेच्चाष्टोत्तरं शतम् || ८९१ ||

वैदिकीकाकबल्यन्ता पूजा चोच्छिष्टभोजनम् || ततः सम्प्रार्थयेद्देवं सायं सन्ध्यां समाचरेत् || ८९२ ||

देवागारे दीप्यमाने प्रोक्तः संक्षेप आह्निकः || अथापराह्निकं वक्ष्ये तत्स्थानदशके भवेत् || ८९३ ||

मार्गे प्रवासे दुर्गे च रोगप्राप्तौ महाभये || कारागृहेऽशुभे स्थाने सर्पव्याघ्रादिजे भये || ८९४ ||

परचक्रागमे [स्वदेशे अन्यदेशीयराज्ञां सेनागमःपरचक्रागम उच्यते ||] कुर्यात्कराद्यन्तु यथातथा || तत्र स्नानादिकं चिन्त्यं कृत्वा मानसपूजनम् || ८९५ ||

मनसा हृदये तच्च ध्यात्वा योगाख्यपीठकम् || तत्रैव पृथिवीमध्ये पूजा देवस्य चाचरेत् || ८९६ ||

यथापुष्पादिभिः पूजा बहिर्देशे विधीयते || तथा हृद्यपि कर्तव्या सर्वाशाप्रतिपत्तये || ८९७ ||

मनसा च चरेद्धोममेतद्विपदि चाह्निकम् || अथातश्चाह्निकं वक्ष्ये नित्यं स्वास्थ्याधिकस्य तत् || ८९८ ||

यदि लङ्घनपर्यन्ते व्याधिरात्मनि दृश्यते || तदा पूजा न कर्तव्या स्थण्डिले प्रतिमासु च || ८९९ ||

न स्नानं दन्तकाष्ठं वा कुर्याद्धोममथापि वा || रविमण्डलमालोक्य प्रतिमामथवा पुनः || ९०० ||

मूलमन्त्रं सकृज्जप्त्वा पुष्पं साक्षतमुत्सृजेत् || क्रान्तो व्याधि भिरत्युग्रैर्जरया चेन्द्रियैस्तथा || निजसामयिकैर्वापि स्वकर्तव्यं समापयेत् || ९०१ ||

रुग्निवृत्तस्ततस्स्नात्वा पूजयित्वाग्निदेवताः || गुरून्विप्रांस्तदग्रे च वाक्यमेतदुदीरयेत् || ९०२ ||

एतावत्कालविच्छिन्ना पूजा युष्मत्प्रसादतः || न दोषोस्त्विति सम्प्रार्थ्य पुनः पूर्ववदाचरेत् || ९०३ ||

यस्तु रोगवशाद्दोषो यतस्तत्क्षालनं चरेत् || जपेन चाथ ध्यानेन होमेन दानतोपि वा || ९०४ ||

अथ सूतकिनां नित्यं वैदिकन्तु श्रुतीरितम् || कृत्वा तान्त्रिकपूजादि मनसैव समाचरेत् || ९०५ ||

कामनार्थप्रयोगश्चेत्तदा पूर्ववदाचरेत् || मृतगेहं परित्यज्य वामाचारे न सूतकम् || ९०६ ||

स्पृहां हित्वा ज्ञानपूर्वं कुलतो धर्ममार्गतः || यथा लभेद्ध्यानधर्मं भक्त्या वामे करोति यः || शास्त्रतत्त्वं देवतत्त्वं नो वेत्ति स तु गुह्यकः || ९०७ ||

ज्ञानं वामेन भजते सुखार्थी तत्र जायते || क्षुत्तृड्भ्यामर्दितः प्रेतस्तस्माद्धर्मं विचारयेत् || ९०८ ||

पूजोदकेन कर्तव्या तद्यन्त्रं नैव विद्यते || प्. १२०) तदा सम्पूजयेद्देवं भावनाकुसुमादिभिः || ९०९ ||

भक्तिः श्रद्धा भावना च पूजानां जीव उच्यते || जडानामाह्निकं वक्ष्ये तथा संक्षेपकर्मणि || ९१० ||

रत्नमण्डपधर्मादिचतुष्कमरुणाम्बुजम् || मूलमूर्तिषडङ्गानि तेषां पूजाभिधीयते || ९११ ||

सर्वेषामपि [पूजायां यद्यद्वस्तु न लभ्येत तद्दाने भावना मनस्येव कर्तव्या |
] वस्तूनामलाभे भाव नैव हि || निर्मलेनोदकेनैव पूजयेत्स्थिरमानसः || ९१२ ||

सामान्यत स्त्रिधा पूजा चोत्तमाधममध्यतः || अधिकारिनिमित्ताभ्यां भिद्यते शतधा पुनः || ९१३ ||

या सोपकरणा पूजा क्रियमाणोत्तमा मता || यथालब्धैर्विनिष्पाद्या द्रव्यैः पूजा तु मध्यमा || ९१४ ||

पत्रपुष्पाम्बुनिष्पाद्या पूजा साधमसञ्ज्ञिका || विहिताखिलवेदोक्तैर्ब्रह्मर्षिभिरकल्मषैः || ९१५ ||

क्रियमाणा [कामक्रोधादिकलिदोषैर्युक्ताऽजितेन्द्रियपुंसां वैदिकधर्मानधिकारं विज्ञाय पूर्वाचार्यैस्तन्त्राणिरचितानि तत्र ये वैदिका धर्मास्ते सर्वे सेव्याः पुनः ये बलिवाममार्गादयो वेदविरुद्धास्ते केवलं केनाप्युपायेन मूर्खशूद्रादीनां देवभक्तौ प्रवृत्तये उक्ताः तन्त्राचार्याणामाशयमभिज्ञाय ये तानेव वेदविरुद्धचर्मान् मुख्यान्मत्वा कुर्वते कारयन्ति च ते ब्रह्मतेजसो भ्रष्टा भूत्वा निरये पतन्ति ||] तु या पूजा सात्विकी सा विमुक्तिदा || राजर्षिभिस्तपोनिष्ठैर्भगवत्तत्त्ववेदिभिः || ९१६ ||

या पूजा क्रियते सम्यग्राजसी सा सुखप्रदा || स्त्रीबालवृद्धमुख्याद्यैर्भक्तैरक्षुण्णमानसैः || ९१७ ||

या पूजा क्रियते नित्यं तामसी सा प्रकीर्तिता || वेदे कर्तुं तु नो शक्तास्तन्त्राणि तु युगे युगे || ९१८ ||

कल्यंशसम्भवैर्विप्रैर्यैर्नाम्ना कीर्तितानि तु || कलिना प्रेरिता विप्रास्तत्तन्त्रपथगामिनः || ९१९ ||

कामलोभादिभिर्ग्रस्ता ब्राह्मण्यरहिता नराः || म्लेच्छास्ते तु भविष्यन्ति क्षीणपुण्याश्च रौरवे || ९२० ||

पतिष्यन्तीति विज्ञाय न वै वैदिकमुत्सृजेत् || उल्लासै रहितं गोपं पटलैर्विष्णुगोपनम् || ९२१ ||

अध्यायैर्ये कृता ग्रन्थास्स्वाध्यायास्ते द्विजन्मनाम् || यमुद्दिश्य कृतं तन्त्रं तस्य तत्र प्रधानता || ९२२ ||

मेरुतन्त्रे तु यत्प्रोक्तं तत्स्थिरं नान्यथा भवेत् || इति देवाः समाख्यातो युष्मत्प्रश्नविनिर्णयः || ९२३ ||

यद्विचार्य कृतं कर्म न दुःखाय प्रवर्तते || अतो वेदोदितं कर्म कार्यं निःश्रेयसाय वै || ९२४ ||

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीत आह्निकप्रकाशः पञ्चमः || ५ ||

Prakāśa 6 – Puraścaryā – vorbereitende Mantrapraxis

श्रीशिवशिवासंवादोपनिबद्धं

मेरुतन्त्रम्

ओझोपख्य पण्डित रघुनाथशास्त्रिद्वारा संशोध्य टिप्पन्यादिभिः परिष्कृतम्

खेमराज श्रीकृष्णदास प्रकाशन बम्ब-ई

संस्करण सन् १९३५

छप्तेर्स् ६ तो १०

श्रीदेव्युवाच ||

पुरश्चरणशब्दस्य ब्रूह्यर्थं च विधिं प्रभो || वैदिकाद्यास्सर्व मन्त्रा न सिद्ध्यन्ति च यं विना || १ ||

ईश्वर उवाच ||

रहस्यं सर्वमन्त्राणां कथयामि तवाग्रतः || कल्यर्थं [कलावुत्पन्नजनानां भुक्तिमुक्तिप्रयोजनम् |
] सर्वतन्त्रेषु यः सारः स तु गोपितः || २ ||

धर्मार्थकाममोक्षाणां साधको मन्त्र उच्यते || तत्सिद्धये पुरा यच्च चर्यते तत्प्रकीर्तितम् || ३ ||

पुरश्चरणकर्माख्यं वेदादौ शाबरान्तके || मन्त्रो यस्तु तथा स स्यात्तत्प्रकारं ब्रवीम्यहम् || ४ ||

जपो होमस्तर्पणं च मार्जनं विप्रभोजनम् || पञ्चाङ्गकस्वरूपं तदाहुः केचन तत्र तु || ५ ||

चतुरङ्गास्त्वथ त्र्यङ्गा द्व्यङ्गा एकाङ्गिनोपि च || मन्त्रास्तिष्ठन्ति वेदेषु तथा तन्त्रे च शाबरे || ६ ||

केचित्षडङ्गा मन्त्राः स्युस्तदज्ञाञ्ज्ञापयामि वै || अघमर्षेण सूर्यार्घेण जपेन प्रणामकैः || ७ ||

देवार्चया पञ्चभिश्च एवं पञ्चाङ्गकाः स्मृताः || हुतिर्यागस्तथा चार्चा कर्मतश्चक्रपूजनात् || ८ ||

ध्वजलिङ्गसमायोगाज्जपाच्च बलिदानतः || महा बलिप्रदानाच्च भवत्येकादशाङ्गकः || ९ ||

षोडशाङ्गे कौलिकानां गणानामधिकारिता || सर्वपापक्षयं कुर्यादथ वा सिद्धिबन्धकृत् || १० ||

यावत्पापं तस्य नाशं कृत्वा कुर्यात्पुरस्कृतिम् || यथा प्रोक्तेन मार्गेण तस्य सिद्धिरदूरतः || ११ ||

सर्वपापक्षयस्तत्र भवेद्वैदिकवर्त्मनाम् || तान्त्रिकाणां कौलिकानां वामिनां नाधिकारिता || १२ ||

तस्मिन्कर्मणि तेषान्तु नाधिकारोस्ति वैदिके || ऋक्शाखाध्यायिभिः कार्यो गणको योथ तद्विधिः || १३ ||

स्नातः कृतक्रियः पत्नीसहितो दर्भसंस्तरः || प्राणानायम्य सङ्कल्प्य पूजयित्वा गणेश्वरम् || १४ ||

स्वगृह्योक्तविधानेन [स्वगृह्यसूत्रषु कीर्तितविधानेन] संस्थाप्याग्निं च संश्रयेत् || आज्यम् विलिप्य तद्धव्यं द्विराद्योंनयते ततः || १५ ||

अग्ने [अग्ने नय इत्यादि एकमेक पठित्वा स्वाहा देया |
अग्ने अग्नये चेदं न वै मम इदं वचनं स्वाहान्ते पठेत् |
] नयेति सूक्तेन षडर्चेन हुनेत् पुनह् || प्रतिमन्त्रं वदेत्त्यागेग्नये चेदं न वै मम || १६ ||

इत्यथात्र ऋचो वक्ष्ये माभूच्छाखाविपर्ययः || १७ ||

ओं अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् || युयोद्ध्यस्मज्जुहुराणमेनो भूयिष्ठान्ते नम उक्तिं विधेम || १८ ||

प्र वः शुक्राय भानवे भरध्वं हव्यं मनिं चाग्नये सुयुतम् || प्. १२२) यो दैव्यानि मानुषा जनुष्यन्तर्विश्वानि विद्मना जिगाति || १९ ||

अच्छा गिरो मतयो देवयन्तीरग्निं पतिर्द्रविणं भिक्षमाणाः || सुसंदृशं सुप्रतीकं स्वं च हव्यवाहमरतिं मानुषाणाम् || २० ||

अग्ने त्वमस्मद्युयोध्यमीवा अनग्नि त्वा अभ्यमन्वकृष्टीः || पुनरस्मभ्यं सुवित्ताय देवा यक्षा विश्वेभिरमरेभिर्यजत्रा || २१ ||

अग्ने त्वं परया नव्यो अस्मान्स्वस्तिभिरति दुर्गाणि विश्वा || पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शंयोः || २२ ||

प्रकारवो मनना वच्यमाना देवद्रीचीं नयथ देवयन्तः || दक्षिणावाड्राजिनिप्राचोतिहविर्भरन्त्यग्नये घृताची || २३ ||

पुनरष्टादशर्चेन पौरुषेण ततो हुनेत् || जगद्बीजाय पुरुषाय न ममेति सन्त्यजेत् || २४ ||

अवैष्णवो [अवैष्णवः प्रत्येकमन्त्रान्ते स्वाहादानसमये जगद्बीजाय चेदं न वै मम अस्य वचनस्य वैष्णवस्तु नारायणाय चेदं न वै मम अस्योच्चारणं कुर्वीत |
] वैष्णवस्तु नारायणाय न मम || देवदेवीप्रियं सूक्तं तदिदानीं निगद्यते || २५ ||

ओं सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् || स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशांगुलम् || २६ ||

पुरुष एवेदं सर्वं यद्धूतं यच्च भाव्यम् || उतामृतत्वस्येशानो यदन्नेनातिरोहति || २७ ||

एतावानस्य महिमातो ज्यायांश्च पुरुषः || पादोस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि || २८ ||

त्रिपादूर्ध्व उदैत्पुरुषः पादोस्येहाभवत्पुनः || ततो विष्वङ्व्यक्रामत्साशनानशने अभि || २९ ||

तस्माद्विराडजायत विराजो अधिपूरुषः || स जातो अत्यरिच्यत पश्चाद्धूमिमथो पुरः || ३० ||

यत्पुरुषेण हविषा देवा यज्ञमतन्वत || वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः || ३१ ||

सप्तास्यासन्परिधयस्त्रिः सप्तसमिधः कृताः || देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् || ३२ ||

तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः || तेन देवा अयजन्त साध्या ऋषयश्च ये || ३३ ||

तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् || पशूंस्तांश्चक्रे वायव्यानारण्यान्ग्राम्यांश्च ये || ३४ ||

तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे |
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत || ३५ ||

तस्मादश्वा अजायन्त ये केचोभयादतः || गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः || ३६ ||

प्. १२३) यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् || मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते || ३७ ||

ब्राह्मणोस्य मुखमासीद्बाहू राजन्यः कृतः || ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत || ३८ ||

चन्द्रमा मनसो जातश्चक्षोस्सूर्यो अजायत || मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत || ३९ ||

नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत || पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकानकल्पयन् || ४० ||

वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसस्तु पारे || सर्वाणि रूपाणि विचित्य धीरा नामानि कृत्वाभिवदन्यदास्ते || ४१ ||

धाता पुरस्ताद्यदुदाजहार शक्रः प्रविद्वान्प्रदिशश्चतस्रः || तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते || ४२ ||

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् || ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः || ४३ ||

अग्नेर्मन्वेति सूक्तेन द्वाविंशत्यृचकेन तु || हुनेत्तत्र त्रिषु त्यागस्त्वग्नये [अग्नये चेदं न मम एतन्मन्त्रेण स्वाहा देयैतद्रीत्यैव अल्पनामसु वाक्यं विरचयय संयुज्य जुहुयात् |
] न ममेति च || ४४ ||

तुर्ये [चतुर्थे (इन्द्राय चेदं न मम)|
] चेन्द्राय न मम त्यागः पञ्चमषष्ठयोः [पञ्चमषष्ठयोः (इन्द्रावरुणाभ्यां न मम)|
] || मित्रावरुणाभ्यामिति सप्तमाष्टमयोस्तथा [सप्तमाष्टमयोः (वायुसूर्याभ्यां न मम अग्नेनयैव रीता] || ४५ ||

वायुसूर्याभ्यामिति नवमे दशमे तथा || अश्विभ्यां च मरुद्भ्यस्तु द्वादशैकादशे भवेत् || ४६ ||

विश्वेभ्यो देवेभ्य इति त्रयोदशचतुर्दशे || अनुमत्यै हव्यवाहाग्नये च तिथि सङ्ख्यके || ४७ ||

अनुमत्यै षोडशे स्यात्तु ततः सप्तदशे भवेत् || वैश्वानरायाग्नये च तथैवाष्टादशेपि च || ४८ ||

द्यावापृथिवीभ्यामिति विंशत्येकोनविंशयोः || शेषयोरग्नये चेति ऋचस्ताः शृणु साम्प्रतम् || ४९ ||

अग्नेर्मन्वेति प्रथमस्य प्रचेतसोयं पाञ्चजन्यं बहवः || समिन्धते विश्वस्यां विशि प्रवीविशि वास्समीमहे स नो मुञ्चत्वंहसः || ५० ||

यस्येदं प्राणनिमिषद्यदेजति यस्य जातं जनमानं च केवलम् || स्तौम्यग्निं नाथितो जोहवीमि स नो मुञ्चत्वंहंसः || ५१ ||

इन्द्रस्य मन्ये प्रथमस्य प्रचेतसो वृत्रघ्नः स्तोमा उपमामुपागुः || प्. १२४) यो दाशुषः सुकृतो हवमुपगन्ता स नो मुञ्चत्वंहंसः || ५२ ||

यः संग्रामं नयति संवशी युधे यः पुष्टानि संसृजति त्रयाणि || स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्वंहंसः || ५३ ||

मन्वेवां मित्रावरुणा तस्यवित्तं सत्यौजसादृंहणायन्नुदेते || त्याराजानं सरथे पाथं उग्रतौ नो मुञ्चतमाग सः || ५४ ||

यो वारंथः सजूरश्मिः सत्यधर्मा मिथश्चरत्वां समुपयाति दूषयन् || स्तौमि मित्रावरुणौ नाथितौ जोहवीमि तौ नो मुञ्चतमागसः || ५५ ||

वायोस्सवितुर्वितथानि मन्महे यावात्मन्वद्विभृतौ यौ च रक्षतः || यौ विश्वस्य परिभूबभूवतुस्तौनो मुञ्चतमागसः || ५६ ||

उपश्रेष्ठा न आशिषो देवयोर्धर्मे अस्थिरन् || स्तौमि वायुं सवितारं नाथितो जोहवीमि तौ नो मुञ्चतमागसः || ५७ ||

रथीतमौ रथीनामह्व ऊतये शुभङ्गमिष्ठौ सुयमेभिरश्वैः || ययोर्वान्देवौ देवेष्वनिशितमोजस्तौ नो मुञ्चतमागसः || ५८ ||

यदयातं वहतुं सूर्यायास्त्रिचक्रेण संसदमिच्छमानौ || स्तौमि विश्वान्देवान्नाथितो जोहवीमि तौ नो मुञ्चतमागसः || ५९ ||

मरुतां मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वामवन्तु विश्वे || आसून्हवे सुयमानूतये ते नो मुञ्चन्त्वेनसः || ६० ||

तिग्मायुधव्रीडितं सहस्वद्दिव्यः सर्वः पृतनासु विष्णुः || स्तौमि देवान्मरुतो नाथितो जोहवीमि ते नो मुञ्चंत्वेनसः || ६१ ||

देवानां मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वामवन्तु विश्वे || आसून्हवे सुरामानूतये ते नो मुञ्चंत्वेनसः || ६२ ||

यदिदं माभिशोचति पौरुषेयेण दैव्येन स्तौमि || विश्वान्देवान्नाथितो जोहवीमि ते नो मुञ्चंत्वेनसः || ६३ ||

अनुनोद्यानुमतिर्यज्ञं देवेषु मन्यताम् || अग्निश्च हव्यवाहनो भवतां दाशुषे मयः || ६४ ||

अन्विदनुमते त्वमन्यासैशं च नः कृधि || क्रत्वे दक्षाय नो हिनु प्रण आयूंषि तारिषः || ६५ ||

वैश्वानरो न कृतं ये प्रयातु परावतः || अग्निर्नः सुष्टुतेतीरुप || ६६ ||

पृष्टो दिवि पृष्टो अग्निः पृथिव्या पृष्टो विश्वा ओषधीराविवेश || वैश्वानरः सहसा पृष्ठो अग्निः स नो दिवा सरिषः पातु नक्तम् || ६७ ||

ये अप्रथेता अमितेभिरोजोभिर्ये प्रतिष्ठे अभवतां वसूनाम् || स्तौमि द्यावापृथिवीं नाथितो जोहवीमि ते नो मुञ्चतमंहसः || ६८ ||

उर्वीरोदसी वरिवः कृणोत्तं क्षेत्रस्य पत्नी अधिनो ब्रूयात्तं स्तौमि || प्. १२५) द्यावापृथिवीं नाथितो जोहवीमि ते नो मुञ्चतमंहसः || ६९ ||

यत्ते वयं पुरुषत्रा यविष्ठा विद्वांसश्चकृमाकञ्चनागः || कृधास्वस्मानदितेरनागाव्येनांसि शिश्रथो विष्वगग्ने || ७० ||

यथाहताद्वसवो गौर्यंचित्पदिषिताममुञ्चतायजत्राः || एवोष्वस्मन्मुञ्चतामंहः प्रतार्यग्ने प्रतरं न आयुः || ७१ ||

यावामिन्द्रावरुणेति चतुर्भिः सूक्तकैस्ततः [सूक्तकैः सूक्तप्रोक्तमन्त्रैः |
] || इन्द्रावरुणाभ्यामिति त्यागः सर्वत्र नान्यथा || ७२ ||

यावामित्रावरुणा यतव्या तनूस्तये ममांहसो मुञ्चतम् || ७३ ||

यावामिन्द्रावरुणा सहस्या तनूस्तये ममांहसो मुञ्चतम् || ७४ ||

यावामिन्द्रावरुणा रक्षस्या तनूस्तये ममांहसो मुञ्चतम् || ७५ ||

यावामिन्द्रावरुणा तेजस्या तनूस्तये ममांहसोमुञ्चतम् || ७६ ||

यो वामिन्द्रावरुणेति ततोष्टभिश्च होमयेत् || इन्द्रावरुणाभ्यामिति त्यागः सर्वत्र नान्यथा || ७७ ||

यो वामिन्द्रावरुणावग्नौ स्नामस्तं वामेतेनावयजे || ७८ ||

यो वामिन्द्रावरुणाद्विपात्सु पशुषु स्नामस्तं वामेतेनावयजे || ७९ ||

यो वामिन्द्रावरुणौषधीषु स्नामस्तं वामेतेनावयजे || ८० ||

यो वामिन्द्रावरुणा वनस्पतिषु स्नामस्तं वामेतेनावयजे || पावमानानुवाको यः ख्यातः सप्तदशर्चकः || त्रिषष्टिवाक्यैस्तत्राद्या ऋक्त्रिवाक्यात्र शाक्तकैः || ८१ ||

पावमानीभ्यो मम त्यागो वाच्यस्त्वशाक्तकैः || ८२ ||

पावमान्यै अथो शैवैः पावमानाय नान्यथा || ८३ ||

पवमानः सो अद्य पवित्रेण विचर्षणिः || यः पोता स पुनातु मा || ८४ ||

द्वितीयापि त्रिवाक्यादेव जनेभ्यो मरुद्भ्यश्च || विश्वेभ्यश्च तथा युञ्ज्यान्न मम त्याग ईरितः || ८५ ||

पुनन्तु मां देवजनाः पुनन्तु मनसा धियः || पुनन्तु विश्वा भूतानि जातवेदः पुनीहि माम् || ८६ ||

तृतीयापि चतुर्वाक्या अग्नये जातवेदसे || इदं न मम इत्युक्त्वा त्यागः सोपि प्रकाश्यते || ८७ ||

जातवेदः पवित्रवत्पवित्रेण पुनीहि मा || शुक्रेण देवदीव्यदग्ने क्रत्वाक्रतूंरनु || ८८ ||

चतुर्थी तु त्रिवाक्या अग्नये न ममेति च || त्रिवाक्या पञ्चमी त्यागः सवित्रे च उभे यथा || ८९ ||

प्. १२६) यत्ते पवित्रमर्चिष्यग्रे विततमन्तरा || ब्रह्म तेन पुनीहि नः || ९० ||

उभाभ्यां देव सवितः पवित्रेण सवेन च || मां पुनीहि विश्वतः || ९१ ||

ऋचा षष्ठी चतुर्वाक्या त्यागश्चास्या निरूप्यते || वैश्वदेव्यै इति वदेन्न ममेति च सा यथा || ९२ ||

वैश्वदेवी पुनन्ती देव्यागाद्यस्यामि मा वह्व्यस्तन्वो वीतपृष्ठाः || तया मदंतः सधमादेषु वयंस्याम पतयो रयीणाम् || ९३ ||

वैश्वानराय वाताय इषिराय मयोभुवे || द्यावापृथिवीभ्यां चेति सप्तम्यां त्याग इष्यते || ९४ ||

वैश्वानरो रश्मिभिर्मा पुनातु वातः प्राणेनेषिरो मयोभूः || द्यावापृथिवी पयसा पयोभिः शतावरी यज्ञिये मा पुनीताम् || ९५ ||

सप्तमी तु चतुर्वाक्या त्रिवाक्या चाष्टमी मता || सवित्रेग्नये न मम त्यागोष्टम्यां च सायथा || ९६ ||

बृहद्भिः सवितुस्त्रिभिर्वर्षिष्ठैर्देवमन्मभिः || अग्ने दक्षैः पुनीहि मा || ९७ ||

अतः परं चतुर्वाक्या दिव्याय ब्रह्मणे त्यजेत् || नवम्यां पावमानीभ्यो दशम्यादिषु ता यथा || ९८ ||

येन देवा अपुनन्त येनापो दिव्यंकशः || तेन दिव्यं ब्रह्मणा इदं ब्रह्म पुनीहि मा || ९९ ||

यः पावमानीरध्येत्यृषिभिः सम्भृतगूंरसम् || सर्वं सपूतमश्नाति स्वदितं मातरिश्वना || १०० ||

पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसम् || तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम् || १०१ ||

पावमानीः स्वस्त्ययनीः सुदुघा हि पयस्वतीः || ऋषिभिः सम्हृतो रसो ब्राह्मणेष्वमृतगूंहितम् || १०२ ||

पावमानीर्दिशन्तु न इमं लोकमथो अमुम् || कामान्समर्द्धयन्तु नो देवैर्देवीः समाहिताः || १०३ ||

पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः || ऋषिभिः सम्भृतो रसो ब्राह्मणेष्वमृतं हितम् || १०४ ||

येन देवाः पवित्रेण आत्मानं पुनते सदा || तेन सहस्रधारेण पावमान्यः पुनन्तु माम् || १०५ ||

प्राग्वत्त्यागस्तु षोडश्यां विशेषः श्रोत्रियस्य तु || प्राजापत्याय पवित्राय चेति षोडशीं शृणु || १०६ ||

प्राजापत्यं पवित्रं शतोद्यामं हिरण्मयम् || तेन ब्रह्मविदो वयं पूतं ब्रह्म पुनीमहे || १०७ ||

सुनीत्या सहितेन्द्राय स्वस्त्या सहितसोमाय || समीच्या सहिता येति वरुणाय ततो वदेत् || १०८ ||

प्रमृणाभिः सहिताय यमाय राज्ञ ईरयेत् || प्. १२७) ऊर्जयन्त्या सहिताय जातवेदस इत्यपि || १०९ ||

न ममेति वदेत्सप्तदश्यास्त्यागेथ यैर्नरैः || मार्जनं कृतमेताभिस्तैः स्नातं जाह्नवजिले || ११० ||

इन्द्रः सुनीत्या सह मा पुनातु सोमः स्वस्त्या वरुणः समीच्या || यमो राजा प्रमृणाभिः पुनातु मा जातवेदा मोर्जयन्त्या पुनातु || १११ ||

यद्देवा देवहेडनं विंशत्यर्चेन होमयेत् || त्यागः प्रथमके तत्र आदित्येभ्यश्च नान्यथा || यद्देवा देवहेडनं देवासश्चकृमा वयम् || आदित्यास्तस्मान्मा मुञ्चतर्तस्यर्तेन मामुतः || ११२ ||

अग्नये गार्हपत्याय न ममेति द्वितीयके || द्यावापृथिवीभ्यां सरस्वत्यै चेति यथा ऋचि [तृतीयर्चि द्यावापृथिवीभ्यां सरस्वत्यै न मम वाक्यमुच्चरेत् ||] || ११३ ||

देवा जीवनकाम्या यद्वाचानृतमूदिम || अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि च कृम करोतु मामनेहसम् || ११४ ||

ऋतेन द्यावापृथिवी ऋतेन त्वगूंसरस्वति || कृतान्नः पाह्येनसो यत्किञ्चानृतमूदिम || ११५ ||

जातवेदसे न मम चतुर्थे त्वथ पञ्चमे || अग्नये गार्हपत्याय त्यागस्तद्वत्कृतो यथा || ११६ ||

सजातशगूंसादुतजामिशगूंसाज्ज्याय सः शगूंसादुत वा कनीयसः || अनाज्ञातं देवकृतं यदेनस्तस्मात्त्वमस्माञ्जात वेदोमुमुग्धि || ११७ ||

यद्वाचा यन्मनसा यद्बाहुभ्यामूरुभ्यामष्ठीवद्भ्यागूंशिश्नैर्यदनृतञ्चकृम वयम् || अग्निर्मा तस्मादेनसोगार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् || ११८ ||

राष्ट्रभृतेभरसेभ्यः षष्ठे त्यागोष्टसप्तमे || अग्नये गार्हपत्याय नवमे चाग्नये वदेत् || ११९ ||

यद्धस्ताभ्यां चकर किल्बिषाण्य क्षाणां वसुमुपजिघ्रमानः || दूरेपश्या च राष्ट्रभृच्च तान्यभरसावनुदत्तामृणानि || १२० ||

अदीव्यन्नृणां यदहं चकार यद्वा दास्यन्सञ्जगाराजनेभ्यः || अग्निर्मातस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरितायानिचकृम करोतु माननेहसम् || १२१ ||

यन्मयि माता गर्भे सत्येनश्चकार यत्पिता || अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि च कृम करोतु मामनेनसम् || १२२ ||

यदापिपेष मातरं पितरं पुत्रः प्रमुदितो धयन् || अहिंसितौ पितरौ मया तत्तदग्ने अनृणो भवामि || १२३ ||

अग्नये गार्हपत्याय दशमैकादशे वदेत् || द्वादशे त्वग्नयेथाग्रेग्नये गार्हपत्याय च || १२४ ||

प्. १२८) यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वाजिहिंसिम् || अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु माम नेनसम् || १२५ ||

यदाशसा निशसा यत्पराशसा यदेनश्चकृमा नूतनं यत्पुराणम् || अग्निर्मातस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु माम नेनसम् || १२६ ||

अतिक्रामामि दुरितं यदेनो जहामि रिप्रं परमे सधस्थे || यत्र यन्ति सुकृतो नापि दुष्कृतस्तमारोहामि सुकृतान्नु लोकत्रिते || १२७ ||

देवा अमृजतैतदेनस्त्रित एतन्मनुष्येषु मामृजे || ततो मा यदि किञ्चिदानशेग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् || १२८ ||

चतुर्दशे तिथौ [तिथौ पञ्चदशे अर्थात् चतुर्द्दशे पञ्चदशे (अद्भ्यश्चेदं न वै मम) इदं वाक्यमस्ति |
] त्वद्भ्यो वरुणाय ततो द्वयोः || अष्टादशे चोनविंशे त्वग्नीवरुणाभ्यामिति || १२९ ||

दिवि जाता अप्सु जाता या जाता ओषधीभ्यः || अथो या अग्निजा आपस्ता नः शुधन्तु शुन्धनीः || १३० ||

यदापोनक्तंदुरितं चराम यद्वा दिवा नूतनं यत्पुराणम् || हिरण्यवर्णास्तत उत्पुनीत नः || १३१ ||

इमम्मे वरुण श्रुधिहवमद्याचमृलय || त्वामवस्युराचके || १३२ ||

तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः || अहेडमानो वरुणोहबोध्युरुशंसमा न आयुः प्रमोषीः || १३३ ||

त्वन्नो अग्ने वरुणस्य विद्वान्देवस्य हेडो अवयासिसीष्ठाः || यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्रमुमुग्ध्यस्मत् || १३४ ||

स त्वन्नो अग्नेवमो भवोतीर्नेदिष्ठो अस्या उषसो व्युष्टौ || अवयक्ष्व नो वरुणं रराणो वीहिमृडीकंसुहवो न एधि || १३५ ||

अग्नये चाथ विंशे तु सूक्तं वैश्वानरं ततः || अग्नये वैश्वानरायाष्टर्चान्त्यागोयमीरितः || १३६ ||

त्वमग्ने अया स्ययासन्मनसा हितः || अयासन्हव्यमूहिषे या नो धेहि भेषजम् || १३७ ||

वैश्वानरो न ऊतयेवयातुपरावतः || अग्निर्नः सुष्टुतीरुप || १३८ ||

ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् || अजस्रं धर्ममीमहे || १३९ ||

वैश्वानरस्यदंसनाभ्यो बृहदरिणादेकः स्वपश्यया कविः || उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा || १४० ||

प्. १२९) पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीराविवेश || वैश्वानरः सहसा पृष्टो अग्निः समो नो दिवासरिपः पातु नक्तम् || १४१ ||

जातो यदग्ने भुवना व्यख्यः पशुं न गोपा-इर्यः परिज्या || वैश्वानर ब्रह्मणे विन्दगातुं यूयं यात स्वस्तिभिः सदा नः || १४२ ||

त्वमग्ने शोचिषा शोशुचान आरोदसी अपृणा जायमानः || त्वं देवानभिशस्तेरमुचो वैश्वानर जातवेदो महित्वा || १४३ ||

अस्माकमग्ने मघवत्सुधारयानामिक्षत्रजरगूंसुवीर्यम् || वयञ्जयेम शतिनगूंसहस्त्रिणं वैश्वानरवाजमग्ने तवोतिभिः || १४४ ||

वैश्वानरस्य सुमनौस्यामनौस्यामराजाहिकंभुवनानामभिः श्रीः || इतो जातो विश्वमिदं विचष्टे वैश्वानरो यतते सूर्याय || १४५ ||

ततः स्विष्टकृतं कृत्वा परिधीन्पर्यगृह्य च || पूर्णं कलशमादाय नैर्-ऋत्यान्तु चतुष्पथे || १४६ ||

पादप्रक्षालनं कृत्वाथाचम्य प्राङ्मुखस्तथा || पत्नीभिः सह वीक्षेतच्छायां तस्मिञ्च्छुभाशुभाम् || १४७ ||

सिंहे मे मन्युरस्यां प्रेमेनुवाकं जपेत्ततः || सुमित्रिया न आप ओषधयः सन्त्विति क्षिपेत् || १४८ ||

भूम्यां किञ्चिज्जलं पश्चादुत्तिष्ठेत्कलशान्वितः || दुर्मित्रियास्तस्मै [दुर्मित्रियास्तस्मै सन्तु योस्मान्द्वेष्टि यच्च वयं द्विष्मः |
] सन्तु पृष्ठतः कलशं क्षिपेत् || १४९ ||

यस्यामस्य दिशि द्वेष्यो भवेत्तत्रैव निःक्षिपेत् || पश्चादप उपस्पृश्य स्वगृहं प्रविशेत्ततः || १५० ||

त्रिसन्ध्यमेवं सप्ताहं कुर्याद्रूपं निरीक्षयेत् || यदा पश्येत्तोयमध्ये छायामच्छान्तदा भवेत् || १५१ ||

यजमानः सुपूतोयमन्यथा पुनराचरेत् || तत आशीर्वचोगृह्याद्ब्राह्मणान्भोजयेत्ततः || १५२ ||

यावत्कर्म प्रकुर्वीत तावन्मौनं समाचरेत् || सकृदेव समश्नीयाद्धविष्यं ब्रह्मचर्यभाक् || १५३ ||

जितेन्द्रियो भूमिशायी पूर्वजन्मार्जितादघात् || मन्त्रसिद्धेर्विघ्नकर्तुर्मुक्तो भवति नान्यथा || १५४ ||

अज्ञानाच्च प्रमादाद्वा जन्मन्यस्मिंश्च यत्कृतम् || पातकं तस्य नाशार्थं कूष्माण्डीभिस्तु होमयेत् || १५५ ||

वैदिके यस्य निस्नाताः पितरोज्ञानदोषतः || पतित्वा कौलिके मार्गे दारिद्र्यादिभिरर्द्दितः || १५६ ||

मनसा उपतप्तश्चेन्नित्यं सर्वसुखाप्तये || प्. १३०) लोकद्वयप्रतिष्ठार्थं सोपि गुप्तं समाचरेत् || १५७ ||

स्वर्णचौर्ये सुरापाने गोवधे ब्रह्मघातने || गुरुतल्पगमे वर्षं व्रतमेतत्समाचरेत् || १५८ ||

चौर्ये च भ्रूणहत्यायामयोनौ [गर्भमारणायाम् |
] वीर्यसेचने || विश्वासघातने न्यासहरणे [निःक्षेपे |
] त्वयुतं चरेत् || १५९ ||

इष्टाप्राप्तौ ग्रहे घोरे ग्रहणे चन्द्रसूर्ययोः || जले शिवालये दानं गृहीत्वायुतमेककम् || १६० ||

कूटसाक्ष्ये [मिथ्यासाक्ष्ये |
] वार्द्धुषिके [कुसीदे |
] वृत्तिहारे करग्रहे || देवविप्राधिकारे चापदन्ते लक्षमाचरेत् || १६१ ||

संस्कारभोजने वेश्यागमने पशुघातने || देवाद्यर्थाशने [देवार्थसंचितद्रव्यभक्षणे |
] लक्षं त्रिसन्ध्यालोपने त्वहः || १६२ ||

केशश्मश्रून्वापयित्वा स्नात्वा पुण्ये जलाशये || आज्यभागानन्तरं च कूष्माण्डीभिस्तु होमयेत् || १६३ ||

सावित्रीं च जपेन्नित्यं पवित्राणि [सव्याहृतिर्वातत्सवितुरिति गायत्री |
पुनन्तु मां देवजनाः पुनन्तु मनसाधियः || पुनन्तु विश्वा भूतानि जातवेदः पुनीहि माम् || इत्यादिपवित्रमन्त्राः |
] च शक्तितः || ब्राह्मणो दुग्धपायी स्यात्क्षत्त्रियस्तु यवागुलेट् [यवागूः षड्गुणे तोये संसिद्धाघनसिक्थका |
पृथग्द्रवैस्तु विरलैः संयुक्ता ज्वरिणे हिता] || १६४ ||

आमिक्षां [तप्तक्षीरे दधिप्रक्षेपेण आभिक्षा भवति ||] भक्षयेद्वैश्यो यदा शक्तो भवेत्तदा || ओदनं सक्तवो धाना घृतं वापि समाश्रयेत् || १६५ ||

एतद्भिन्नं न भोक्तव्यं ब्रह्मचर्यादिपूर्ववत् || होमस्तु गोघृतेनैव तदभावे तु माहिषम् || १६६ ||

प्रथमा मन्त्रिका तत्र यद्देवा [प्रथमं यद्देवा इति मन्त्रेण जुहुयात् |
ततः परम् |
देवेभ्य आदितेभ्य इति पठेत् पुनरनयैव रीत्या अग्ने पठितमन्त्रेषु देवानां नाम्ना वचनं योजनीयम् ||] देवहेडनम् || देवेभ्य आदित्येभ्यश्च त्यागस्तत्र समीरितः || १६७ ||

विश्वेभ्यो [द्वितीयमन्त्रे विश्वेभ्यो देवेभ्यः इति ||] देवेभ्य इति द्वितीयायाश्च सोच्यते || प्राग्वत्त्यागस्तृतीयाया [तृतीये द्यावापृथिवीभ्यां सरस्वत्यै च इदं न वै ममेति वाक्यस्य सर्वत्र योजना ||] ऋग्भिन्ना सा च कथ्यते || १६८ ||

यद्देवा देवहेडनं देवासश्चकृमा वयम् || आदित्यास्तस्मान्मामुञ्चतर्तस्यर्तेन मामुतः || १६९ ||

देवा जीवनकाम्या यद्वाचानृतमूदिम || तस्मान्न इह मुञ्चत विश्वेदेवाः सजोषसः || १७० ||

ऋतेन द्यावापृथिवी ऋतेन त्वगूंसरस्वति || कृतान्नः पाह्येनसो यत्किञ्चानृतमूदिम || १७१ ||

प्. १३१) इन्द्राग्निमित्रावरुणसोमधातृबृहस्पतिभ्यस्त्यागस्तु || चतुर्थी या अधुना सा ऋगुच्यते || १७२ ||

इन्द्राग्नी मित्रावरुणौ सोमो धाता बृहस्पतिः || तेनो मुञ्चन्त्वेनसो यत्किञ्चानृतमूदिम || १७३ ||

सजातसगूंसादिति [सजातसंसादत जामिशंसा ज्यायसः शंसादत वा कनीयसः || आना अनाज्ञातं देवकृतं यदेनस्तस्मात्वमस्माज्जातवेदो मुग्धि जातवेदसे चेदं न वै मम |
] पूर्वोक्ता पञ्चमी मता || यद्वाचा यन्मनसा षष्ठी पूर्वमुदीरिता || १७४ ||

ज्योतिषे न मम त्यागः सप्तम्यां सा च कथ्यते || अग्नये न मम त्यागस्तथाष्टम्याथ सोच्यते || १७५ ||

येन त्रितो अर्णवाभिर्बभूव येन सूर्यं तमसन्निर्मुमोच || येनेन्द्रो विश्वा अजहादरातींस्तेनाहं ज्योतिषां ज्योतिरानशा न आक्षि || १७६ ||

यत्कुसीदमप्रतीतं मयेह येन यमस्य निधिना चरामि || एतत्तदग्ने अनृणो भवामि जीवन्नेव प्रति तत्ते दधामि || १७७ ||

यन्मयि मातेति पूर्वोक्ता प्राग्वत्सा नवमाहुतिः || यदायियेष मातरं प्राक्प्रोक्ता दशमाहुतिः || १७८ ||

यदन्तरिक्षं पृथिवी प्राक्प्रोक्तैकादशाहुतिः || यदाशसानिशसाप्राक्प्रोक्तात्र द्वादशाहुतिः || १७९ ||

तदग्रे तु ऋचस्तिस्र एवं पञ्चदशाहुतीः || यदापो नक्तमिति पूर्वोक्ताषोडशी भवेत् || १८० ||

अद्भ्यो हिरण्यवर्णाभ्यस्तस्यां त्यागो भिधीयते || इमम्मे वरुणेत्यादि पञ्चर्चः पूर्वमीरिताः || १८१ ||

सत्यागास्तेनैकविंशदाहुतयःसमीरिताः || इन्द्राग्निभ्यां च द्वाविंशे त्यागः सा ऋगथोच्यते || १८२ ||

उग्रंपश्ये राष्ट्रभृत्किल्विषाणि यदक्षवृत्तमनुदत्तमेतत् || तेन ऋणानृणव इत्समानो यमस्य लोके अधिरज्जुराय || १८३ ||

अदीव्यं नृणं यदहमित्याद्याः षट् च पूर्ववत् || ततो द्वयोरिह त्यागो वरुणाय न वै मम || १८४ ||

अवते हेलो वरुण नमो भिखयज्ञेभिरीमहे हविर्भिः || क्षयं नस्मभ्यमसुरप्रचेतो राजन्नेतां सिशिश्रथःकृतानि || १८५ ||

उदुत्तमं वरुणपाशमस्मद वाधमं विमध्यमं श्रथाय || अथावयमादित्यव्रते तवानागसो अदितये स्याम || १८६ ||

एकत्रिंशे शंकुशुकौ विकुशुकौ च निर्-ऋथेः निःस्वनेभ्यस्त्याग उक्तः सा ऋचा प्रोच्यते धुना || प्. १३२) शंकुशुको विकुशुको निर्-ऋथो यश्च निःस्वनः ते येस्मद्यक्ष्ममनागसो दूराद्दूरमवीवतम् || १८७ ||

ततो द्वयोरग्नये च त्वष्ट्रे त्यागस्तदग्रिमे || आयुष्मतेऽग्नये त्यागः पञ्चत्रिंशत्तमे मतः || १८८ ||

निर्यक्ष्म मवीव ते कृत्या निर्-ऋतिञ्च || तेन योस्मत्समृच्छाते तस्मै प्रसुवामसि || १८९ ||

दुःशगूं सानुशगूं साभ्यां घणेनानुघणेन च || तेनात्योरस्मत्समृच्छाते तस्मै सुप्रसवामसि || १९० ||

संवर्चसा यशसा सन्तनूभिरगन्महि मनसा शगूंशिवेन || त्वष्टा नो अत्र विदधातु रायो नु मार्ष्टतन्वो यद्विलिष्टम् || १९१ ||

आयुष्टे विश्वतो दधदयमग्निर्वरेण्यः || पुनस्ते प्राण आयाति परा यक्ष्मगूं सुवामि ते || १९२ ||

आयुर्दायाग्नये त्यागः षट्त्रिंशेथ तदग्रिमे || १९३ ||

अग्नये वरुणायादित्यै विश्वेभ्यो देवेभ्यश्च || १९४ ||

आयुर्दा अग्नये हविषो युषाणो घृतप्रतीको घृतेयोनिरेधि || घृतं पीत्वा मधु चारुगव्यं पितेव पुत्रमभिरक्षतादिमम् || १९५ ||

इमग्न आयुषे वर्चसे कृधि तिग्ममोजो वरुण सगूं शि शाधि || माते मातेवास्मा आदिते शर्म यच्छ विश्वे देवा जरदष्टियथासत् || १९६ ||

अग्नये पवमामाय त्यागोष्टत्रिंशतस्त्रिषु || ततो द्वयोर्जातवेदसेग्नये त्याग उच्यते || १९७ ||

अग्न आयूगूंषि यदस आसुवोर्जामिषं च नः || आरे बाधस्वदुच्छनाम् || १९८ ||

अग्ने पवस्व स्वया अस्मै वर्चः सुवीर्य ||

दधत्योषगूं रयिं मयि || १९९ ||

अग्न ऋषिः पवमानः पाञ्चजन्यः पुरोहित्ः || तमीमहे महागयम् || २०० || अग्ने जातान् प्रणुदानः सप्त्नान्प्रत्यजाताञ्जातवेदो नुदस्व || अस्मेदीदिह सुमना अहेडं शर्मंतेस्यामत्रिवरूथ उद्भौ || २०१ ||

सुवीर्यसहसा जातान्प्रणुदानः सपत्नान्प्रत्यजाताज्जातवेदो नुदस्व || अधिनो ब्रूहि सुमनस्यामानो वयगूं स्याम प्रणुदानः सपत्नान् || २०२ ||

अग्नये वृत्रघ्नायेति त्रिचत्वारिंशके पुनः || अग्नये इति तस्मात्तु उषसे निमुचे भवेत् || २०३ ||

अग्नेयो नोभितो जनो वृको वारा जिघागूंसति || तां त्वं वृत्रहञ्जहि वस्वस्मभ्यमाभर || २०४ ||

अग्ने यो नो भिदा समानो यश्च निष्ट्यः || तं वयं समिधं कृत्वा तुभ्यमग्ने पिदध्मसि || २०५ ||

प्. १३३) यो नः शपादशपतो यश्च न शपतः शपात् || उषाश्च तस्मै निम्रुक् च सर्वपापगूंसमूहताम् || २०६ ||

षट् चत्वारिंशके त्यागो देवेभ्यश्च तदग्रिमे || जातवेदसेऽग्नये च ततस्त्यागोग्नये भवेत् || २०७ ||

यो नः सपत्नो यो रणोमर्तीभिदासति देवाः || इध्मस्येव प्रक्षायतो मातस्योच्छेषि किञ्चन || २०८ ||

यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् || सर्वागूंस्तानग्ने सन्दह यागूं श्चाहं द्वेष्मि ये च माम् || २०९ ||

यो अस्मभ्यमरातीयाद्यश्च नो द्वेषते जनः || निन्दाद्यो अस्मान्दिशाश्च सर्वागूं स्तान्मप्यपाकुरु || २१० ||

श्रोत्रियाय ब्राह्मणे चाग्नये पञ्चाशके मतः || तदग्रिमेपि च तथान्तिमे वैश्वानराय च || २११ ||

सगूं शितं मे ब्रह्म सगूंशितं वीर्यबलम् || सगूं शितं क्षत्रं मे जिष्णु यस्याहमस्मि पुरोहितः || २१२ ||

उदेषां बाहू अतिरमुद्वर्चो अथो बलम् || क्षिणोमि ब्रह्मणामित्रानुन्नुयामि स्वां अहम् || २१३ ||

पुनर्मनः पुनरायुर्म अगात्पुनश्चक्षुः पुनःश्रोत्रं म अगात्पुनः || प्राणः पुनराकूतं म आगात्पुनश्चित्तं पुनराधीतं म अगात् || २१४ ||

वैश्वानरो मे दध्वस्तनूया अवभाधतां दुरितानि विश्वा || २१५ ||

एवं हुत्वा ततस्तिष्ठेत्समित्पाणिरुदङ्मुखः || अग्नेर्दक्षिणतो वह्निंस्तुवीत द्वादशर्चभिः || २१६ ||

वैश्वानराय प्रतिवेदयामो यदीनृण गूंसङ्गरो देवतासु || स एतान्पाशान्प्रमुञ्चन्वेद स नो मुञ्चतु दुरितादवद्यात् || २१७ ||

वैश्वानरः पवयान्नः पवित्रैर्यत्सङ्गरमभिधावाम्याशाम् || अनाजानन्मनसा याचमानो यदत्रैनो अव तत्सुवामि || २१८ ||

अमी ये सुभगे दिवि वृत्तौ नाम तारकी प्रेहामृतस्य यच्छतामेतद्बद्धकामोचनम् || २१९ ||

विजिहीर्ष्व लोकान्कृधि बन्धान्मुञ्चासिबद्धकम् || योनेरिव प्रच्युतो गर्भः सर्वान्यथो अनुष्व || २२० ||

स प्रजानन्प्रतिगृणीत विद्वान्प्रजापतिः प्रथमजा ऋतस्य || अस्माभिर्दत्तं जरसः परस्तादच्छिनं तन्तुमनुसञ्चरेत् || २२१ ||

न तं तन्तुमन्वेके अनुसञ्चरन्ति येषां दत्तं पित्र्यमायनवत् || अबन्ध्वेके ददतः प्रयच्छद्दातुं चेच्छक्नवागूंस स्वर्ग एषाम् || २२२ ||

आरभेथामनुसगूंरभेथागूंसमानं पन्थामवथो घृतेन || यद्वां पूर्तं परिविष्टं यदग्नौ तस्मै येह जायापरीक्षगूंरभेथाः || २२३ ||

प्. १३४) यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वाव जिहिगूंसिम् || अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेहसम् || २२४ ||

भूमिर्मातादितिर्नो जनित्रं भ्रातान्तरिक्षमभिशस्तरा नः || द्यौर्नः पिता पितृयाच्छम्भवासि जामिति त्वा मा विवित्सि लोकात् || २२५ ||

यत्र सुहार्दः सुकृतो मदन्ते विहाय रोगं तन्वा स्वया || अश्लोणाङ्गरद्भुताः स्वर्गे तत्र पश्येम पितरं च पुत्रम् || २२६ ||

यदन्नमद्म्यनृते देवा दास्यन्नदास्यन्नु त वा करिष्यन् || यद्देवानां चक्षुष्यागो अस्ति यदेव किञ्च प्रतिजग्राहमग्निर्मा तस्मादनृणं कृणोतु || २२७ ||

यदन्नमपि बहुधा विरूपवासो हिरण्यमुत गामजामवियद्देवानां चक्षुष्यागो अस्ति यदेव किञ्च प्रतिजग्राहमग्निर्मा तस्मादनृणं कृणोतु || २२८ ||

एवमग्निमुपस्थाय करस्थां समिधं हुनेत् || वक्ष्यमाणेन मन्त्रेण त्यागो वैश्वानराय च || २२९ ||

यन्मया मनसा वाचा कृतमेनः कदाचन || सर्वस्मात्तस्मान्मेलितो मोग्धि त्वगूंहि वेत्थ यथातथगूंस्वाहा || २३० ||

जपादिहोमं च ततः कुर्यादेतन्निरूपितम् || इह जन्मकृताघानां प्रायश्चित्तं निवारणम् || २३१ ||

इदमुक्तं द्विजातीनां शूद्राणामथ चोच्यते || मार्गशीषे सिताष्टम्यां कृतनित्यक्रियः शुचिः || २३२ ||

एकभक्तं हविष्येण नवम्यामेवमाचरेत् || अयाचितं दशम्यां च एकादश्यामुपोषणम् || २३३ ||

द्वादश्यां वपनं कृत्वा पूजयेद्विप्रदेवताः || नमो नारायणायेति स्वेष्टबीजादिकं मनुम् || २३४ ||

अष्टाक्षरं गुरुमुखाद्गृहीत्वा जपमाचरेत् || अष्टलक्षं द्विजोच्छिष्टभोजी तत्सेवने रतः || २३५ ||

आमध्याह्नं जपं कुर्याद्भूशायी ब्रह्मचर्यकृत् || निष्पापो जायते पूर्णे जपे नो चेत्पुनश्चरेत् || २३६ ||

निष्पापचिह्नं वक्ष्येत्र तथा पूर्वोक्तहोमयोः || होमाद्यारम्भदिवसे मृन्मयं न्र्व्रणं दृढम् || २३७ ||

आनयेच्छुद्धकलशं स्थापयेन्निर्मले स्थले || तस्मिंस्तीर्थादिजं तोयं निःक्षिपेत्कलशोन्मितम् || २३८ ||

शृङ्गलद्वीपगोमूत्रं काचपात्रे निधापयेत् || पलमात्रं द्वयोश्चैव कुर्याद्धरिहरार्चनम् || २३९ ||

परीक्षादिवसे पूजां कृत्वा तत्प्रार्थयेज्जलम् || आपो नारायणः साक्षादप्सु सर्वं प्रतिष्ठितम् || २४० ||

प्. १३५) तेन सत्येन मत्पापं ज्ञानं सत्यं ममास्तु ते || इति तोयं संप्रार्थ्य दद्यात्पुष्पाञ्जलिं ततः || २४१ ||

पश्येत्स्वस्य शरीरस्यच्छायां तोये तथा रसे || यथा रसे तथा तोये दृष्टा चेत्पातकं गतम् || २४२ ||

म्लाना तोये यदाच्छाया तदा पापं गतं न हि || प्रायश्चित्तं ततः कुर्याद्यदिच्छायातिनिर्मला || २४३ ||

नष्टपापो भवेदेवं पुरश्चरणसिद्धिभाक् || यः कश्चिद्वैदिको मन्त्रो जप्तश्चेदर्बुदाक्षरम् || २४४ ||

एकजन्मकृतं पापं नाशयेन्नाममन्त्रकः || विष्णोर्मम गणेशस्य रवेस्तव तदर्धकम् || २४५ ||

हन्ति पापं तान्त्रिकस्तु तदर्धं प्राकृतो दलम् || अपदंशस्तदर्धं चेत्येतत्सर्वत्र गोपितम् || २४६ ||

जपस्थानानि वक्ष्यामि कृत्रिमाकृत्रिमाणि च || गुप्तानि सर्वतन्त्रेषु देवतानां पृथक्पृथक् || २४७ ||

महागणपतिक्षेत्रं मापुरं नर्मदा तटे || महाश्मशानं मापूरं गणेशमनुसिद्धिदम् || २४८ ||

प्रभासं च कुरुक्षेत्रं पुष्करं भृगुपर्वतम् || यमुनायास्तटं काश्यां दिनेशमनुसिद्धिदम् || २४९ ||

अयोध्या मथुरा माया काशी बदरिकाश्रमः || गया च गण्डकीतीरं द्वारका विष्णुसिद्धिदा || २५० ||

केदारस्त्र्यम्बकं काशी काञ्च्यवन्त्यौ वनानि च || गङ्गातीरं वैद्यनाथं रामेशः शिवसिद्धिकृत् || २५१ ||

ज्वालामुखी प्रयागश्च कामिनी मालिकापदम् || सरस्वत्यास्तथातीरं शाक्तंमन्त्रस्य सिद्धिकृत् || २५२ ||

तीरञ्च कमलेश्वर्यामेकलो यक्षपर्वतः || अङ्गवङ्गकलिङ्गाश्च क्षुद्रदैवतसिद्धिदाः || २५३ ||

कामरूपञ्च तत्स्थानं हिंगुला विन्ध्यवासिनी || जालन्धरं पूर्णगिरिर्वाममार्गस्य सिद्धिदाः || २५४ ||

तीरं पद्माकराणां च कदलीक्ष्वर्कवाटिकाः || विद्रुमाकुलितो देशो गणेशस्यातिवल्लभः || २५५ ||

पद्माकरं तदारण्यं करवीरार्कवाटिकाः || गोधूमदूर्वाक्षेत्राणि शिला भानुमतः प्रिया || २५६ ||

तुलस्यश्वत्थधात्रीक्षुशालग्रामादिसन्निधौ || गोष्ठे श्रोत्रिययुग्ग्रामे हरेर्मुद्वैदिकान्तिके || २५७ ||

पश्चिमाभिमुखे लिङ्गे नन्दिवर्जे शिवालये || शिवतीरे वटस्यारात्सङ्गमे विपिने ह्रदे || २५८ ||

कदलीचूतसुमने सेवन्तीचर्चरीवने || ग्रन्थाख्यातनदीतीरे शक्तेः प्रीतिश्च निर्जने || २५९ ||

प्. १३६) पल्वलाग्रे निम्बकोलशाखोटमधुकाकुले || वल्मीके शुष्कनद्यां च मोदन्ते क्षुद्रदेवताः || २६० ||

पितृगृहे श्मशाने च त्रिपथे च चतुष्पथे || शून्यालये शवाकीर्णे स्थाने तुष्यन्ति वामकाः || २६१ ||

गृहे गोष्ठे तथोद्याने तथा पर्वतमस्तके || नद्यां तत्सङ्गमे देवालये स्याद्वैदिकोधिकः || २६२ ||

यस्मिन्देशे न गोहत्या नापि ब्रह्मवधो भवेत् || न श्रावयन्ति शूद्राश्च सिद्धिस्तत्र तु वैदिकी || २६३ ||

म्लेच्छाः पाखण्डिनो धूर्ता राजानः सचिवादयः || युवत्यश्च न वर्तन्ते तत्र सिद्धिरदूरतः || २६४ ||

जीर्णदेवालयोद्यानगृहवृक्षनदीषु च || नदीकूलाद्रिकूलेषु भूछिद्रादिषु नो वसेत् || २६५ ||

एवमाचार्यमतिमान्कुर्याद्भूमिपरिग्रहम् || पृथ्वीं वराहं सम्पूज्य भूसुतस्य बलेन च || २६६ ||

ब्रूयादमुकमन्त्रस्य पुरश्चरणसिद्धये || मयेयं गृह्यते भूमिर्मन्त्रोयं सिद्ध्यतामिति || २६७ ||

न्यग्रोधदुग्धसस्यस्थवृक्षान्यतरवृक्षजान् || वितस्तिप्रमितान्वृत्तान्गृह्णीयात्कीलकान्दश || २६८ ||

अष्टौ निखातयेदष्टदिशास्वीशानपूर्वयोः || मध्ये निखन्योनवम ऊर्ध्वबुद्ध्या तथाप्यधः || पश्चान्नैर्-ऋत्ययोर्मध्ये यन्त्रमस्त्रेण कीलयेत् || २६९ ||

पूजा तथास्त्रमन्त्रेण तेष्वस्त्रं च प्रपूजयेत् || क्षेत्रे च कीलिते मन्त्री न विघ्नैः परिभूयते || २७० ||

दिक्पालेभ्यो माषभक्तबलिं दिक्षु प्रकल्पयेत् || क्षेत्रम्ध्ये क्षेत्रपालं पूजयेच्च गणेश्वरम् || २७१ ||

तृतीयं वास्तुपुरुषन्तेभ्यो दद्याद्बलि त्रयम् || क्षेत्रमध्ये समाश्रित्य कूर्मचक्रं विचारयेत् || २७२ ||

कूर्मचक्रानभिज्ञस्य महाविघ्नोभिजायते || परदेशग्रामगृहभेदात्कूर्मश्चतुर्विधः || २७३ ||

वृत्तद्वयं प्रकुर्वीत नवकोष्ठकभेदितम् || कवर्गाद्याः सप्त लेख्याः पूर्वाशादिषु लक्षकौ || २७४ ||

ऐशान्यां विलिखेन्मध्यवृत्ते कोष्ठे द्वयंद्वयम् || स्वराश्च पूर्वतो लेख्याः श्रीबीजं मध्यकोष्ठके || २७५ ||

प्राङ्मुखः परकूर्मस्तु सर्वदैव प्रजायते || देशानामग्रिमो वर्णो यस्यां दिशि व्यवस्थितः || २७६ ||

देशकूर्ममुखं तस्यां दिशि स्याद्ग्रामकूर्मके || मुखद्वयं तु विज्ञेयं स्वराद्व्यञ्जनतस्तथा || २७७ ||

गृहकूर्मस्य वदनं यद्दिग्द्वारं गृहं भवेत् || प्. १३७) मुखस्य पार्श्वयोः पाणी कुक्षी पादौ ततस्ततः || २७८ ||

पुच्छमेकमथो मध्ये पृष्ठमेकं षडङ्गवान् || महारित्वे जीवनाशो वैरे स्याद्धननाशनम् || २७९ ||

किञ्चिद्वैरे सुखाल्पत्वं तदिदानीं निगद्यते || अगौ ऋच्छौ ऌपौ जाहौ पषौ एनौ इरौ उलौ || २८० ||

फधौ भरौ यसौ चेति महारी परिकीर्तितौ || जछौ ओटू यडौ गादौ जटौ राखौ बुधौ रलौ || २८१ ||

वैरन्तु पञ्चमे वर्गे तत्किंचित्करयोर्भवेत् || चटयोः पचयोश्चापि तरयो रलयोरपि || २८२ ||

एकवर्गे परा प्रीतिः स्वं वर्गं द्विगुणं कुरु || स्थानवर्गयुतं तष्टमष्टभिश्चापि उच्यते || २८३ ||

स्थानवर्गो द्विगुणितः स्ववर्गाढ्योष्टशेषितः || स्थानाय उभयोः कार्यमधिकं यस्य शेषकम् || २८४ ||

यावत्स्थितं सोर्थदःस्यात्साधकोऽर्थप्रदो न सत् || मुखे सर्वार्थसिद्धिः स्यात्करयो रल्पसिद्धयः || कटौ न किञ्चिद्दासत्वं पादयोः पुच्छतो मृतिः || २८५ ||

कुरुक्षेत्रे प्रयागे च गंगासागरसंगमे || महाकाले च काश्यां च कूर्मस्थानं न चिन्तयेत् || २८६ ||

क्षेत्रसाधकमन्त्राणामेकमेवाद्यमक्षरम् || यदि स्यात्स ध्रुवं मन्त्रः सर्वसिद्धिफलप्रदः || २८७ ||

अमृतो वृषभः शैलराजो वासुकिरेव च || अर्थकृच्छक्तिकृत्पूर्वकाष्ठादौ बलिनार्चयेत् || २८८ ||

पद्मयोनिं महाशङ्खं छायाख्यं चापि मध्यमे || कूर्मपृष्ठे गृहं कृत्वा गृहस्थो जपमाचरेत् || २८९ ||

अथ मालां प्रवक्ष्यामि द्विविधा सा स्थिरा चरा || स्थिरा तु स्थ्रचित्तानां चञ्चला चलचेतसाम् || २९० ||

अकारादिक्षकारान्तैर्बिन्दुवन्मातृकाक्षरैः || अनुलोमविलोमस्थैः कॢप्तया वर्णमालया || प्रत्येकमन्त्रयुग्मन्त्रा जप्तव्याः सर्वसिद्धिदाः || २९१ ||

ऋगाद्या अपि किञ्चान्यैः प्रोक्ता च स्थिरमालिका || अकारादिक्षकारान्ता प्रोक्ता चाक्षरमालिका || जपे चाष्टोत्तरशतं पुनर्वर्णस्य योजनम् || २९२ ||

चराथ कथ्यते मालाभिचारे तिथिसङ्ख्यकैः || मुक्त्यर्थं पञ्चविंशत्या भसङ्ख्यैः सर्वदा जपेत् || २९३ ||

त्रिंशद्भ्र्धर्मवृद्धिः स्याच्चतुष्पञ्चाशतेप्सितम् || शतात्साम्यं तथाष्टाधिशतात्सकलसिद्धयः || २९४ ||

समस्तसिद्ध्यै रुद्राक्षा मणयो धनदा मताः || गतस्वाप्तिकरः [गतद्रव्यलाभकृत् ||] शङ्खो भोगकृत्स्फटिको मतः || २९५ ||

पुत्रप्रदाः पुत्रजीवाः पद्माक्षाः पुष्टिवर्द्धनाः || प्. १३८) विद्रुमोत्था वश्यकरा मौक्तिका मुक्तिदा मताः || २९६ ||

पापापहाः कुशमयास्स्वर्णजाः कामदायकाः || कामवृद्धिस्तारजातैरिन्द्राक्षैः [रजतेन लषितवस्तुसिद्धिः ||] स्वागतम्पदम् || २९७ ||

स्त्रीवश्यार्थं च हारिद्रा दार्व्या पुरुषवश्यकृत् || ज्वरहन्त्री तु लाक्षायाः शंखस्य पितृतृप्तिकृत् || २९८ ||

अर्कजोच्चाटने कार्या श्रीफलैर्ज्ञानसाधने || पद्मकाष्ठोद्भवा तुष्टौ देवदारूद्भवा निरुक् || २९९ ||

कृष्णकाष्ठसमुद्भूतैस्तामसं कर्म सिध्यति || गजदन्तस्य सर्वार्थं मोहने ताम्रजा मता || ३०० ||

मारणे चायसी प्रोक्ता धनार्थं श्वेतपद्मजा || विषान्तरे चन्दनोत्था शक्तिकृच्छ्वेतकाष्ठजा || ३०१ ||

रक्तचन्दनबीजोत्था यक्षिण्यादिकसाधने || ३०२ ||

भूतस्तम्भे निम्बजाता जनस्तम्भे शमीभवा || महानिम्बेन [बकैनेति भाषायाम् ||] डाकिन्या भूनिम्बैः [तिक्तकः ||] स्तम्भनं रुजाम् || ३०३ ||

इन्द्रवृक्षादृणस्तम्भोऽभिचारो वानरास्थितः || ऋक्षास्थितो वन्यसिद्धिः शार्दूलात्तस्य देवताः || ३०४ ||

नरास्थ्ना राक्षसा वश्या वीरा वश्या हयास्थिभिः || रासभास्थ्ना क्षुद्रसिद्धिर्मान्यता तु गजास्थिभिः || ३०५ ||

मृत्तिकाभृष्टमणिजा माला शाबरसिद्धिकृत् || कुशग्रन्थ्या जपेद्विप्रः सुवर्णमणिभिर्नृपः || ३०६ ||

पुत्रजीवैर्जपेद्वैश्यः पद्माक्षैः सर्व एव हि || रुद्राक्षस्फटिकेन्द्राक्षमध्ये किञ्चिन्न दापयेत् || ३०७ ||

मध्ये दत्त्वा जपं कुर्वन्काममोक्षौ विनाशयेत् || चतुर्थ्यां प्रोतयेन्मालां गणनाथस्य मन्त्रकैः || ३०८ ||

मध्याह्नेऽर्कस्य सप्तम्यां रवौ वा तस्य मन्त्रकैः || द्वादश्यां वैष्णवी माला प्रोतव्या विष्णुमन्त्रतः || ३०९ ||

त्रयोदश्यां तु सन्ध्यायां तन्मन्त्रैः शिवमालिका || अष्टम्यां वा चतुर्दश्यां नवम्यां भूमिनन्दने || ३१० ||

शक्तीनामपि कर्तव्या शुक्लरात्रौ यथाविधि || ग्रन्थिता पट्टसूत्रेण देव्याः प्रीत्यै तु मालिका || ३११ ||

कार्या सा वैष्णवी माला पट्टसूत्रैरथापि वा || ऊर्णाभिर्वा वाल्कलैर्वा शैवी कार्पाससूत्रकैः || ३१२ ||

प्रायशः सर्वदेवानां सूत्रोत्पत्तिविधिं शृणु || सूत्रं द्विजेन्द्रपुण्यस्त्रीनिर्मित्तं ग्रन्थिवर्जितम् || ३१३ ||

प्. १३९) त्रिगुणं त्रिगुणीकृत्य ग्राह्यं प्रक्षाल्य यत्नतः || ३१४ ||

एकवक्त्रैर्द्विवक्त्रैश्च चतुर्वक्त्रैश्च पञ्चभिः || षड्वक्त्रैर्वाथ कर्तव्या मिथो मिश्रांस्तु वर्जयेत् || ३१५ ||

मुखं मुखेन संयोज्य पृष्ठं योजयेत् || रुद्राक्षस्योन्नतं प्रोक्तं मुखं पृष्ठं तु निम्नकम् || ३१६ ||

धात्रीफलसमः श्रेष्ठो मध्यो बदरसन्निभः || अधमश्चणकाभः स्यात्ततो हीनो विपत्तिकृत् || ३१७ ||

एको मेरुस्तत्र देयः सर्वत्रस्थोऽल्पयुक् च यः || आद्यं स्थूलं ततस्तस्मान्न्यूनं न्यूनतरं ततः || ३१८ ||

सर्पाकारं प्रकुर्वीत ब्रह्मग्रन्थिमणिं प्रति || अथ वा ग्रन्थिरहितां दृढचक्रसमन्विताम् || ३१९ ||

त्रिरावृत्त्याथ मध्येन चाधार्वृत्त्या तु देशतः || गन्थिः प्रदक्षिणावर्तः स ब्रह्मग्रन्थिरुच्यते || ३२० ||

एकभक्तं विधायादौ साधको ग्रन्थयेत्स्वयम् || कृतनित्यक्रियः शुद्ध उक्तेष्वक्षेष्वतन्द्रितः || ३२१ ||

श्वेता रक्ता सुवर्णाभा कृष्णा चैव द्विजादितः || एतेषु ब्राह्मणश्रेष्ठो जपमालाकृते भृशम् || ३२२ ||

अलाभे तु द्विजातीनामपि वा स्वस्वजातयः || कलौ तु दुर्लभो विप्रो यथा विप्राः स्वधर्मगाः || ३२३ ||

अतिस्थूलोतिसूक्ष्मश्च स्फुटितो भंगुरो लघुः || भिन्नः पुराधृतो जीर्णो रुद्राक्षो न शुभः स्मृतः || ३२४ ||

अन्योन्यघर्षणादेव जपहानिर्भवेद्ध्रुवम् || मध्यतो ग्रन्थयः कार्या नात्र मुक्तादि विन्यसेत् || ३२५ ||

एकवक्त्रःशिवस्तस्य माला तु जपतो हरेत् || ब्रह्महत्यादिपापानि तथा भक्तादिकेष्टदः || ३२६ ||

उमाशङ्करनामाख्यो द्विमुखोयं व्यपोहति || गोहत्यादिकपापानि गृहस्थाश्रमसौख्यदः || ३२७ ||

त्रिमुखस्त्वग्निरूपः स्यात्स्त्रीहत्यादिकपापहा || धर्मार्थकामाः सिद्ध्यन्ति धारणात्तज्जपादपि || ३२८ ||

चतुर्मुखो भवेद्ब्रह्मा गुरुहत्यादिनाशकः || स्फुरन्ति सकला विद्या वाक्सिद्धिश्चापि जायते || ३२९ ||

पञ्चवक्त्रः शिवः साक्षात्सर्वपापापहारकः || शैवगाणेशशाक्तानां हुतसिद्धिस्तु तज्जपात् || ३३० ||

कार्तिकेयस्तु षड्वक्त्रः स्खलितव्रतपापहा || विधितो दक्षिणे बाहौ धारणात्समरे जयः || ३३१ ||

सप्तवक्त्रो महानागोनन्तोनामाथ तज्जपात् || अनन्ताः सिद्धयः सर्पविषमृत्युर्न जायते || ३३२ ||

अष्टवक्त्रो गणेशः स्यात्सर्वविघ्ननिवारकः || नश्यन्ति तज्जपात्सर्वे कामक्रोधादिशत्रवः || ३३३ ||

नववक्त्रो भैरवः स्याद्वाममार्गस्थदेवताः || जपादेव प्रसीदन्ति वामबाहौ स्थितोघहा || ३३४ ||

प्. १४०) जनार्दनो दशमुखो जपान्नश्यन्ति धारणात् || पिशाचग्रहवेतालब्रह्मराक्षसपन्नगाः || ३३५ ||

एकादशमुखः साक्षाद्रुद्र एवास्य धारणात् || जपाच्च हयमेधादियज्ञानां फलभाग्भवेत् || ३३६ ||

द्वादशास्यो भास्करः स्याद्धारणात्तज्जपादपि || तेजस्वी च प्रतापी च गोमेधफलभाग्भवेत् || ३३७ ||

त्रयोदशमुखः साक्षाद्विश्वदेवात्मकः स्मृतः || श्राद्धकाले धृतो दद्यात्पितॄणामक्षयाङ्गतिम् || ३३८ ||

चतुर्दशमुखैर्जप्तं तदानन्त्याय जायते || पूज्यते देवमनुजैरक्षयां लभते गतिम् || ३३९ ||

अथ मालाकृतिं वक्ष्ये क्षालयेत्पञ्चगव्यकैः || दुग्धं काञ्चनवर्णायाः श्वेतायाश्चैव गोमयम् || ३४० ||

गोमूत्रं ताम्रवर्णाया नीलायाश्च भवेद्दधि || घृतन्तु कृष्णवर्णाया एवं पञ्चामृतेपि च || ३४१ ||

गवां वर्णास्तु सुलभाः सन्ति देशेषु कुत्र च || तत्र वर्णविभागेन पञ्चगव्यानि चाहरेत् || ३४२ ||

वर्णालाभे न दोषोस्ति मात्राहीनन्तु वर्ज्जयेत् || गोशकृद्द्विगुणं मूत्रं सर्पिर्दद्याच्चतुर्गुणम् || ३४३ ||

क्षीरमष्टगुणं प्रोक्तं पञ्चगव्यं तथा दधि || गायत्र्यादाय [ओं तत्सवितुर्वरेण्यम्भर्गो देवस्य धीमहि |
धीयो यो नः प्रचोदयात् ||] गोमूत्रं गन्धद्वारेति [गन्धद्वारान्दुराधर्षां नित्यपुष्टां करीषिणीम् || ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ||] गोमयम् || ३४४ ||

आप्यायस्वेति [आप्यायस्व समेतु ते विश्वतः सो मवृष्ण्यम् || भवा वाजस्य सङ्गथे |
] च क्षीरं दधि काव्णेति वै दधि || तेजोसि [तेजोसि शुक्रमस्यमृतमस्यायुर्मे पाहि |
] शुक्रमित्याज्यं देवस्य [देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्याम्पूष्णो हस्ताभ्याम् |
अविनोर्भैषज्येन तेजसे ब्रह्मवर्चसायाभिषिञ्चामि सरस्वत्यै भैषज्येन वीर्यायान्नाद्यायाभिषिञ्चामीन्द्रस्येन्द्रियेण बलाय श्रियै यशसेभिषिञ्चामि |
] त्वा कुशोदकम् || ३४५ ||

क्षालयेत्पञ्चगव्याद्यैः सद्योजातादिमन्त्रतः [सद्योजातं प्रपद्यामि सद्योजाताय वै नमोनमः |
भवेभवे नातिभवे भवस्व मां भवोद्भवाय नमः |
] चन्दनागुरुगन्धाद्यैर्वामदेवेन [वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः |
] घर्षयेत् || ३४६ ||

धूपयेदप्यघोरेण [अघोरेभ्योथ घोरेभ्यो घोरघोरतरेभ्यः |
सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः] चासितागुरुगुग्गुलैः || तत्पुरुषाख्यमन्त्रेण [तत्पुरुषाय विद्महे महादेवाय धीमहि |
तन्नो रुद्रः प्रचोदयात् |
] लेपयेच्चन्दनादिभिः || ३४७ ||

ईशानः [ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणो धिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम् |
] सर्वमिति च प्रत्येकं मन्त्रयेच्छतम् || प्. १४१) तेनैव मन्त्रयेन्मेरुमघोरेण च मन्त्रयेत् || ३४८ ||

अथान्यमालासंस्कारं वक्ष्येश्वत्थस्य पत्रकैः || पद्माकारेण नवमिः स्थापिते तत्र विन्यसेत् || ३४९ ||

मणिन्सूत्रं च गन्धोदैः क्षालयित्वाथ मन्त्रयेत् || ओं ह्रींपूर्वैर्मातृकार्णैः क्रमादेकैकशो मणिम् || ३५० ||

सूत्रं च तत्र विन्यस्य पूजयित्वा हुनेत्ततः || तिलाद्यैः केवलाज्यैर्वा सद्योजातादिभिः पृथक् || ३५१ ||

पञ्चमन्त्रैः शतं चाष्टावष्टाविंशतिमेव वा || होमाभावे जपः प्रोक्तः प्रोतयेन्मालिकां ततः || ३५२ ||

गोपुच्छसदृशी कार्या एकाग्रा वा समेरुका || आवाहनादिमुद्राणामष्टकं दर्शयेत्ततः || सद्योजातादिभिर्मन्त्रैः पूर्ववत्क्षालनादिकम् || ३५३ ||

कौलिकादौ विशेषोयं सुरया मणितर्पणम् || शिरोमाला तु षट्त्रिंशद्द्वात्रिंशत्कण्ठमालिका || ३५४ ||

कूर्परे षोडश प्रोक्ता द्वात्रिंशन्मणिबन्धयोः || अष्टोत्तरशतैर्युक्तमुपवीतं विधीयते || ३५५ ||

तदर्धमुरसो माला शिखायामेक उच्यते || कर्णयोश्चापि षट्सङ्ख्या धारणक्रम ईरितः || ३५६ ||

सङ्ख्याहीनं न कर्तव्यमधिकं नैव दुष्यति || रुद्राक्षं धारयन्नेवं देहान्ते स शिवो भवेत् || ३५७ ||

बहुलं लभते पुण्यं भाग्यवानिह जायते || स्नाने दाने जपे होमे वैश्वदेवे सुरार्चने || ३५८ ||

प्रायश्चित्ते तथा श्राद्धे दीक्षाकाले विशेषतः || रुद्राक्षधारी भूत्वा च यत्किञ्चित्कर्म वैदिकम् || ३५९ ||

यो विप्रः सततं कुर्यात्तत्कर्म सफलं भवेत् || कण्ठे शिरसि हस्ते च कर्णयोरुपवीतके || ३६० ||

रुद्राक्षधारणादेव रुद्रो भवति मानवः || खादन्मांसं पिबन्मद्यं सङ्गच्छन्नन्त्यजादिषु || ३६१ ||

सद्यो भवति पूतात्मा रुद्राक्षं मूर्ध्नि धारयन् || देवान्पुष्णन्ति ये देवाः पशवस्तेत्र वैदिकाः || ३६२ ||

तान्घातयन्ति ये कौले तेषां शास्तास्त्ययं यमः || तेषां संरक्षणार्थाय नान्यो रुद्राक्षतो भुवि || ३६३ ||

रुद्राक्षाः सर्वदेवानां मन्त्रसिद्धिविधायकाः || रुद्राक्षं कण्ठमाश्रित्य शूकरो म्रियते यदि || ३६४ ||

सोपि रुद्रमवाप्नोति किं पुनर्मानुषादयः || उच्छिष्टो वा विकर्मस्थो योक्तो वा सर्वपातकैः || मुच्यते सर्वपापेभ्यो नरो रुद्राक्षधारणात् || ३६५ ||

प्. १४२) रुद्राक्षमालिकां कण्ठे धारयेद्भक्तिवर्जितः || पापकर्मापि यो नित्यं रुद्रलोके महीयते || ३६६ ||

अरुद्राक्षधरो भूत्वा यत्किञ्चित्कर्म वैदिकम् || कुर्याद्विप्रोपि यो मौड्यान्नासावाप्नोति तत्फलम् || ३६७ ||

शूद्रार्थं योषितामर्थे मालासंस्कार उच्यते || गणेशसूर्यविष्ण्वीशदुर्गाः सम्पूज्य भक्तितः || ३६८ ||

मालां तामथ तां मालां क्रोम्बीजेनाभिमन्त्रिताम् || अष्टोत्तरशतं पञ्चगव्ये तां स्थापयेत्र्यहम् || ३६९ ||

चतुर्थे तु समृद्धृत्य क्षालयेदस्त्रमन्त्रतः || हृन्मन्त्रेण ग्रन्थयित्वा स्थण्डिले तां निधापयेत् || ३७० ||

तत्र प्रक्षालितां मालां स्थापयेद्धेमपात्रके || पञ्चामृतेन संस्नाप्य शीतलेन जलेन च || ३७१ ||

चन्दनेन सुगन्धेन कस्तूरीकुंकुमादिभिः || अभिषेकं ततः कुर्याद्धसौंमन्त्रेण साधकः || ३७२ ||

नवग्रहान्पूजयित्वा दिक्पालांश्चापि पूजयेत् || ३७३ ||

तिलेन घृतयुक्तेन शक्तितो होमयेत्ततः || स्वर्णन्तु दक्षिणां दद्याद्गुरवे मणिसङ्ख्यकम् || ३७४ ||

तन्मन्त्रजापिनो विप्रान्भोजयेद्वापि वैदिकान् || अभावे स्वर्णपत्रस्य ग्राह्यमश्वत्थपत्रकम् || ३७५ ||

मालासंस्कार इत्युक्तो जपः स्यात्सिद्धिदायकः || कीकसादिकमालानां कौलिकानाञ्च वामिनाम् || ३७६ ||

सिद्ध्यै वक्ष्यामि संस्कारं सर्वतन्त्रेषु गोपितम् || शिल्पिनं पूजयेदादौ वस्त्रगन्धानुलेपनैः || ३७७ ||

संहृष्टः कारयेन्मालां मन्त्रपूतं पिबेन्मधु || पञ्चाशन्मणिभिः कार्या ऋतुमत्या भगे क्षिपेत् || ३७८ ||

निशामेकां समुद्धृत्य तन्मणीन्क्षालयेत्ततः || शुद्धोदैर्मूलमन्त्रेणाभिषिञ्चेद्विजयारसैः || ३७९ ||

प्रक्षाल्य धूपयेत्पश्चात्प्रोतयेदिष्टसूत्रकैः || सूत्रं स्वेष्टजपे नीलं कृष्णं मारणकर्मणि || ३८० ||

मोहने हरितं स्तम्भे धूमाभं द्विषितालभम् || शान्तौ पुष्टौ सितं द्वेषे रक्तमुच्चाटने भवेत् ||

वश्ये पीतं कषायन्तु विक्षेपकरणे मतम् || ३८१ ||

चक्रपूजां ततः कृत्वा त्वष्टोत्तरसहस्रकम् || हुनेन्मद्यपलाभ्यां च मूलमन्त्रेण साधकः || ३८२ ||

ततो बलिं यथान्यायं महिषादेः प्रदापयेत् || शिल्पिनः साधकांश्चापि भोजयेन्मणिसङ्ख्यकान् || ३८३ ||

एवं सम्माजितां मालां गुरवे तां प्रदर्शयेत् || येन मन्त्रेण या माला कृता तन्तु जपेत्तया || ३८४ ||

अन्यमन्त्रजपाच्छापो देवतायाः प्रजायते || दृढं सूत्रं नियुञ्जीत जपेत्तु स्थगितो यथा || ३८५ ||

प्. १४३) जीर्णे सूत्रे पुनः सूत्रं ग्रन्थयित्वा शतं जपेत् || तर्जन्या न स्पृशेत्सूत्रं कम्पयेन्नैव धूनयेत् || ३८६ ||

न स्पृशेद्वामहस्तेन करस्रस्तन्न कारयेत् || अक्षाणां चालनेंगुष्ठश्चान्यमक्षंन संस्पृशेत् || ३८७ ||

जपकाले तदा विद्वान्मन्त्रं नैव विलङ्घयेत् || परिवर्तनकाले तु सङ्घट्टं नैव कारयेत् || ३८८ ||

कलिः खटखटाशब्दे दोलने च चलन्मृतिः || चलिते चैव विद्वेषः स्फुटिते व्याधिसम्भवः || ३८९ ||

हस्तच्युते महाविघ्नः सूत्रच्छेदे विनाशनम् || अथ वांगुलिमालाभिर्जपं कुर्यात्तदुच्यते || ३९० ||

अनामामध्यमारभ्य कनिष्ठानुक्रमेण तु || मध्यमा मूलपर्यन्ता करमाला प्रकीर्तिता || ३९१ ||

मध्यमानामिकामध्यपर्वयुग्मं प्रकल्पयेत् || मेरुं चानामिकामूलात्कनिष्ठानुक्रमेण च || ३९२ ||

तर्जन्यग्रादितो मध्यामूलान्तं दशसङ्ख्यकाः || अथ वा कल्पयेन्मेरुं मध्यानामादिपर्वकम् || ३९३ ||

अनामामध्यमे तत्र तर्जनीमूलकावपि || जपसङ्ख्याजपः प्रोक्तस्तथायन्त्रिविधोमतः || ३९४ ||

तत्रादौ त्रिविधः प्रोक्तः पूर्वोक्तोऽयं जपो मया || अंगुल्याख्यो जपः प्रोक्तो मतोन्यो न ममैव च || ३९५ ||

अंगुलीगतलेखाभिर्जपो लेखाजपो भवेत् || अंगुलीं न वियुञ्जीत जपकाले कदाचन || ३९६ ||

अंगुलीनां वियोगेन च्छिद्रेषु स्रवते जपः || नोल्लङ्घयेच्च गुणवान्किञ्चित्सङ्कोचयेत्तलम् || ३९७ ||

न [जपकाले करेण न दर्शयेद्यदि दर्शयेत् तर्हि राक्षसास्तत्फलमाददति ||] दर्शयेत्करं नोचेत्फलं गृह्णन्ति राक्षसाः || त्यजेविंशद्विकर्माणि सिद्धिविघ्नकराणि च || ३९८ ||

कुर्याद्विंशतिकर्माणि जपसिद्धिकराणि च || लोभं क्रोधं च मात्सर्यं कामं द्वेषञ्च ताडनम् || ३९९ ||

दम्भमुच्चाटनाभ्यङ्गौ प्रियं मिथ्यावचस्तथा || गीतं वाद्यं मधु च्छायां विभीतककरञ्जयोः || ४०० ||

मांसं प्रातग्रहं माल्यं ताम्बुलं पापिभाषणम् || एतानि वर्जयेद्विद्वान्कर्तव्यान्यथ मे शृणु || ४०१ ||

मन्त्रो निरोधो मन्त्रार्थचिन्तनं नित्यकर्म च || नैमित्तिकं श्रौतमौने परसङ्गस्य वर्जनम् || ४०२ ||

भूमिशयया त्रिषवणस्नानं प्रात्यहिकार्चनम् || नित्यदानं गुरोः पादपूजाहारनिमन्त्रणे || ४०३ ||

स्नानञ्च पञ्चगव्येन पवित्रकरधारणम् || त्रिसन्ध्यं वन्दनं पञ्चयज्ञास्तर्पणमेव च || ४०४ ||

प्. १४४) यथोक्तवस्त्रधरणं प्रायश्चित्तमथोच्यते || सकृदुच्चरिते शब्दे प्रणवं समुदीरयेत् || ४०५ ||

प्रोक्ते पामरशब्देपि प्राणायामं सकृच्चरेत् || बहुप्रलापे चावश्यं न्यस्याङ्गानि ततो जपेत् || ४०६ ||

क्षुतेप्येवं तथास्पृश्यस्थानानां स्पर्शनेपि च || मौनत्यागे जपेन्मन्त्रं वैष्णवं वा स्मरेद्धरिम् || ४०७ ||

पतितान्त्यजसन्दर्शे तेजोवन्तं निरीक्षयेत् || सूर्योग्निश्चन्द्रमाः खेटा मुनयो भानि तारकाः || ४०८ ||

विद्वांसो ब्राह्मणाश्चेति तेजोहीनास्ततः परे || क्षुतेधोवायुगमने पतितादिकभाषणे || ४०९ ||

त्यक्त्वा जपं तथाचम्य प्राणायामं षडङ्गकम् || कृत्वा पश्चाज्जपेन्मन्त्रमम्भोऽलाभे हरिं स्मरेत् || ४१० ||

मार्जारं कुक्कुटं क्रौञ्चं श्वानं गृध्रं खगं कपिम् || दृष्ट्वाचम्य चरेत्कर्म स्पृष्ट्वा स्नानं विधीयते || ४११ ||

दैवादसत्यभाषी चेत्स रौद्रं पौरुषं जपेत् || बहुवस्त्रैकवस्त्रो वा मुक्तकेशो गलावृतः || ४१२ ||

उष्णीषी कञ्चुकी नग्नः शिरसि प्रावृतोपि वा || चिन्ताद्याकुलचित्तो वा क्रुद्धो वान्तः क्षुधान्वितः || ४१३ ||

जङ्घानिगूढपादो वा यानशययागतस्तथा || शयानो वा धौतपादः पश्चाद्वा दक्षिणामुखः || ४१४ ||

म्लानवस्त्रोर्धवस्त्रश्च तथा द्विगुणवस्त्रकः || च्युतवस्त्रो रक्तवस्त्रःस्निग्धवस्त्रो द्विकच्छकः || ४१५ ||

बहिष्कच्छो नुत्तरीयो विकच्छश्चैककच्छकः || कौपीनी प्रौढपादश्च तथैव स्यूतवस्त्रवान् [षिवु तन्तुसंताने ||] || ४१६ ||

जपेशक्तः प्रमादाच्च राक्षसैर्गृह्यतेफलम् || तत्कारणं परित्यज्य तज्जपं पुनरा चरेत् || ४१७ ||

स्वभार्यायां प्रमादेन स्खलितश्चेत्तदोषसि || स्नात्वार्द्रवासा मौनेन दशकुम्भमितैर्जलैः || ४१८ ||

श्रोत्रियस्य गृहे दद्यात्परनार्यां सहस्रकम् || जपः स्यादक्षरावृत्तिः स त्रेधा परिकीर्तितः || ४१९ ||

हीनो वाग्जः कायिकस्तु मध्यः श्रेष्ठस्तु मानसः || य उच्चनीचैः स्वरितैः शब्दैः स्पष्टपदाक्षरैः || ४२० ||

मन्त्र उच्चार्यते हीनोऽसौ जपो वाचिकः स्मृतः || शनैरुच्चारयेन्मन्त्रमीपदोष्टौ प्रचारयेत् || ४२१ ||

कस्यचिच्छ्रवणायोग्यः कायिकः स तु मध्यमः || बुद्ध्या यदाक्षरश्रेणीं यथास्थानेषु चोच्चरेत् || ४२२ ||

अर्थस्मरणपूर्वन्तु स श्रेष्ठो मानसो जपः || षट्कर्मकृद्वाचिकः स्यात्कायिकः सर्वसिद्धिकृत् || ४२३ ||

प्. १४५) मानसः साधयेन्मोक्षं ततोन्यः क्षुद्रकर्मकृत् || जपेन देवता नित्यं स्तूयमाना प्रसीदति || ४२४ ||

जपात्सिद्धिर्जपात्सिद्धिर्जपात्सिद्धिरदूरतः || यथा धनेन सन्तुष्टो जायते क्षुल्लको नरः || ४२५ ||

तथैव बलिदानेन पूजया क्षुद्रदेवताः || यथा महागुणैर्वश्यो जायते गुणवान्प्रभुः || ४२६ ||

तथाहं त्वं च [अत्र चकारोनुक्तसमुच्चयार्थस्तेन गणेशो बोध्यः ||] विष्ण्वर्कौ जपा देव फलप्रदाः || आसनन्तु द्विधा प्रोक्तं नित्यकामिकभेदतः || ४२७ ||

कुशाजिनोत्तरैर्युक्तं चतुरंगुलमूर्ध्वतः || चतुरस्रं द्विहस्तञ्च सुन्दरं मृदु निर्मलम् || ४२८ ||

इदं सुखासनं नित्यं जपसिद्धिविधायकम् || अथ काम्यानि वक्ष्यन्ते ज्ञानसिद्ध्यायिहाजिनम् || ४२९ ||

सर्वसिद्ध्यै व्याघ्रचर्म त्वाविकं [मेषोर्णावासः ||] रोगनाशनम् || कौशेयं पौष्टिकं प्रोक्तं वेत्रजं श्रीविवर्द्धनम् || ४३० ||

श्वेते तु कम्बले धर्मसिद्धिरुक्तेर्थसिद्धयः || पीते कामो द्विजान्येषां [द्विजत्त्वं त्रयाणां तदितरत्वं शूद्रे तदुक्तं मनौ- ब्राह्मणक्षत्रियविशस्त्रयो वर्णा द्विजातयः || चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः ||] मोक्षदः कृष्णकम्बलः || ४३१ ||

दुःखमुक्त्यै रञ्जितस्तु नीलरङ्गो न शोभनः || त्यजेन्निषिद्धं मतिमांस्त्वनिषिद्धेषु संविशेत् || ४३२ ||

निषिद्धान्यथ वक्ष्यन्ते शोकः स्याद्दारुकासने || वंशासने दरिद्रः स्याद्वस्त्रे स्थानविनाशनम् || ४३३ ||

पाषाणे च तथोच्चाटो ज्वरः स्यान्मृण्मयासने [मृण्मयशब्देन सामान्यस्य |
पाषाणेष्टकयोः पृथगुपादानात् ||] || ४३४ ||

क्षित्यासने भवेत्पीडा पल्लवे चित्तविभ्रमः || तृणासने भवेत्पीडा निषिद्धं त्विष्टकासनम् || ४३५ ||

चित्तक्षोभो गृहस्थस्य कृष्णसाराजिने भवेत् || बटुर्वनस्थः संन्यासी स्नातकः सिद्धिमाप्नुयात् || ४३६ ||

शुभे मुहूर्ते नक्षत्रे तिथौ स्नात्वा यथाविधि || विप्रान्सन्तर्प्य यत्नेन भोजनाच्छादनादिभिः || ४३७ ||

भूवित्तवस्त्रभूषाद्यैः सन्तोष्य गुरुमात्मनः || आरभेच्च जपं पश्चात्तदनुज्ञापुरस्सरम् || ४३८ ||

जपस्थाने ततः कुर्यात्त्रिकोणं वर्तुलं बहिः || तद्बहिश्चतुरस्रं च तत्र क्षेत्रे समर्चयेत् || ४३९ ||

प्. १४६) इहागच्छेत्यादिवाक्यैस्त्रिकोणादग्रतः पुनः || अन्नोदकादिसम्पूर्णं बलिपात्रं निधापयेत् || ४४० ||

वामिभिर्महिषो देयः कौलिकैर्बर्करस्तथा || अविः सिद्धान्तिभिस्तत्र निवेद्यो मनुना सुराः || ४४१ ||

एह्येहि [एह्येहि विद्रषीपुरुष जयजय नर्तय विघ्नविघ्न महाभैरव क्षेत्रेश क्षेत्रपाल बलिं गृह्णगृह्ण स्वाहा ||] विद्रषीत्युक्त्वा पुरुषं जययुग्मकम् || नर्तयद्वितयं पश्चाद्विघ्नविघ्न महेति च || ४४२ ||

भैरवपदपूर्वन्तु क्षेत्रेशमिति चोच्चरेत् || क्षेत्रपालबलिं गृह्णगृह्णस्वाहेति वै वदेत् || ४४३ ||

त्रिचत्वारिंशदर्णोयं क्षेत्रपालबलेर्मनुः || तस्मै सपरिवाराय बलिं दद्यान्न भक्षयेत् || ४४४ ||

प्रारभेत पुरश्चर्यां दीक्षोक्तदिवसे शुभे || प्रणम्यादौ गुरून्विप्रान्गणेशं परिपूज्य च || ४४५ ||

पुण्याहवाचनं कृत्वा कुशहस्तो वदेदिति || सूर्यः सोमो यमः कालः सन्ध्ये भूतान्यहः क्षपा || ४४६ ||

पवनो दिक्पतिर्भूमिराकाशं खेचरामराः || ब्रह्मशासनमास्थाय कल्पध्वमिह सन्निधिम् || ४४७ ||

पठित्वेदं ताम्रपात्रे कृत्वा कुशतिलाक्षतान् || उदङ्मुखस्तु सङ्कल्पं कुर्यात्संवत्सरादिकान् || ४४८ ||

कामनान्तानुच्चरेच्च तत्र विंशतिसंख्यकान् || संवत्सरमृतुं मासं पक्षं पञ्चाङ्गमेव च || ४४९ ||

नवग्रहस्थितिं घस्रभागमुहूर्तके त्विति || स्वदेशभेदानुच्चार्य कामनासहितान्वदेत् || ४५० ||

द्वीपेमुके मुके खण्डे गोत्रं प्रवरमुच्चरेत् || स्वनाम जातिनामान्तं पुनः शर्म च वर्म च || ४५१ ||

गुप्तो दासोथामुकस्य मन्त्रस्य सिद्धिकामकः || करिष्येहं पुरश्चर्यामेतत्सङ्ख्यजपात्मिकाम् || ४५२ ||

अथवेयद्दिनैरेतैरसति प्रतिबाधके || करिष्य इति सङ्कल्पं मनसैव प्रकल्पयेत् || ४५३ ||

वदेद्वाचाभिलाषं च कर्मणा चोपपादयन् || गुरुं गणपतिं दुर्गां मह्यं नत्वा च पूजनम् || ४५४ ||

कृत्वा स्वमूलमन्त्रेण प्राणायामत्रयं चरेत् || कृत्वा ऋष्यादिविन्यासमङ्गन्यासं तथैव च || ४५५ ||

ध्यायेच्च हृदये देवं पात्रे संस्थाप्य मालिकाम् || अर्घ्योदकेन सम्प्रोक्ष्य ततस्तां प्रार्थयेदिति || ४५६ ||

ओं मालेमाले माहामाये सर्वशक्तिस्वरूपिणी || चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव || ४५७ ||

प्. १४७) पूजयित्वा ततो मालां गृह्णीयाद्दक्षिणे करे || बीजं [गमिति बीजम् ||] गणपतेः पूर्वमुच्चार्य तदनन्तरम् || ४५८ ||

अविघ्नं कुरु माले त्वं गृह्णीयात्तदनन्तरम् || हस्तेथ दक्षिणे पश्चाच्चिन्तयेन्मनसा शिवम् || ५५९ ||

चिन्तयेच्च गुरुं मूर्ध्नि यथावर्णादिकं भवेत् || मन्त्रं ध्यायेत्कण्ठमध्ये पीतवर्णं हिरण्मयम || ४६० ||

महामायां [अत्र मन्त्रे ओं मामिति पूर्वं पठेत् || छन्दो भङ्गभयादिह तदनुक्तिः ||] च हृदये स्वात्मानं गुरुपादयोः || आज्ञाचक्रे ततः पश्चाद्गुरोर्मन्त्रस्य चात्मनः || ४६१ ||

देव्याश्चाप्येकतां नीत्वा सुषुम्णावर्त्मना ततः || गुरुस्वरूपमेकं तं षट्चक्रं प्रति लङ्घयेत् || ४६२ ||

षट्चक्रेपि महामायां क्षणं ध्यात्वा प्रयत्नतः || लम्बयेन्मूलमन्त्रेण चादिषोडशचक्रकम् || ४६३ ||

आदिषोडशचक्रे तां साधकानन्ददायिनीम् || चिन्तयेत्साधको देवीं जातकर्मसमारभेत् || ४६४ ||

भ्रुवोरुपरि नाडीनां तिसृणां प्रान्त उच्यते || तत्प्रान्तं त्रिपथस्थानं षट्कोणं चतुरंगुलम् || ४६५ ||

चक्रं च कुलयोगज्ञैराज्ञाचक्रमितीरितम् || कण्ठे त्रयाणां नाडीनां वेष्टनं विद्यते नृणाम् || ४६६ ||

सुषुम्णेडापिङ्गलानां षट्कोणं तत्षडंगुलम् || तत्त्वचक्रमिति प्रोक्तं शुक्लं कण्ठस्य मध्यगम् || ४६७ ||

त्रयाणामपि देवानां हृदये चैकता भवेत् || तत्स्थाने षोडशारं स्यात्सप्तांगुलप्रमाणतः || ४६८ ||

तत्पूर्वमुक्तयोगानामादिषोडशचक्रगम् || ध्येयानामथ मन्त्राणां चिन्तितस्य जपस्य च || ४६९ ||

यस्मादाद्यं तु हृदयं तस्मादादिर्निगद्यते || तत्र प्रणव उत्पन्नः पूर्वमादिसुतस्य तु || ४७० ||

निस्सेतुकं यथा तोयं क्षणान्निम्नं प्रसर्पति || मन्त्रस्तथैव निस्सेतुः क्षणात्क्षरति यज्वनाम् || ४७१ ||

तस्मात्सर्वप्रयत्नेषु चतुर्वर्णादिजातयः || पार्श्वयोः सेतुमादाय जपकर्म समारभन् || ४७२ ||

मन्त्राणां प्रणवः सेतुर्द्विजानां परिकीर्तितः || चतुर्दशस्वरोन्येषां चन्द्रानुस्वारसंयुतः || ४७३ ||

एवं विचिन्त्य मध्याया [मध्यमाङ्गुलेर्मध्यपर्वणि |
] मध्ये भागे तु मालिकाम् || अस्पृशंस्तर्जनीं मालामंगुष्ठाग्रेण चालयेत् || ४७४ ||

पूर्वं मन्त्रं जपन्यस्तु संस्पृशेदपरं मणिम् || अंगुष्ठेन भवेत्तस्य स जपो निष्फलः सदा || ४७५ ||

प्. १४८) मालां स्वहृदयासन्नां धृत्वा दक्षिणपाणिना || मालामन्त्रस्तु ह्रीं सिद्ध्यै नमः सम्प्रार्थयेदिति || ४७६ ||

त्वं माले सर्वदेवानां प्रीतिदा शुभदा भव || शिवं कुरुष्व मे भद्रे यशो वीर्यं च वर्धय || ४७७ ||

इह प्रार्थनपूजायां प्रोक्तोयं मालिकामनुः || पञ्चाक्षरस्ततो देवं स्वेष्टं सम्प्रार्थयेदिति || ४७८ ||

गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् || सिद्धिर्भवतु मे देव त्वत्प्रसादाज्जगत्पते || ४७९ ||

मूलमन्त्रं समुच्चार्य देवहस्ते निवेदयेत् || तं जपं चार्घ्यतोयेन मध्याह्नसमये त्विदम् || ४८० ||

तदर्थं पूर्ववत्स्नात्वा विशेषेण विधानवित् || न्यासावसानमखिलं कर्म कुर्यात्पुरोदितम् || ४८१ ||

पूजाग्निहोमपर्यन्तं ततश्च जपमारभेत् || यावद्दिनावसानं तु भूयः स्नात्वा ततो द्विजः || ४८२ ||

उपास्य पूर्ववत्सन्ध्यां देवं सम्पूजयेत्पुनः || विसृज्य भोजनं कुर्यात्सततं तारकोदये || ४८३ ||

सत्कन्दफलमूलाशी सद्भिक्षाशी हविष्यभुक् || पयोव्रती भवेच्छ्रेष्ठस्तेषां लक्षणमुच्यते || ४८४ ||

आयुष्करं पद्ममूलं पिण्डारककसेरुकम् || रक्तहस्तीशंखमधुशालुकं श्रेष्ठमुच्यते || ४८५ ||

द्राक्षाम्रजम्बूपनसं कपित्थं खर्जूरिकादडिमनारिकेरम् || परूषकं क्षीरिणिकाकदल्योः फलं तु धात्र्याश्च भवेत्पवित्रम् || ४८६ ||

पत्रमूलं त्वचामूलं विमूलं पंचमी जटी || अकवाकुः कुवाकुश्च मूले पावित्र्यकारकम् || ४८७ ||

वैदिकाचारयुक्तानां शुचीनां श्रीमतां सताम् || सत्कुलस्थानजातानां भिक्षाशी चाग्रजन्मनाम् || ४८८ ||

चरुमूलफलक्षीरदधिभिक्षान्नसक्तवः || एतत्सप्तविधं भिक्षालब्धं भक्ष्यं व्रतस्थितैः || ४८९ ||

हविष्याणि तु पंचाशच्छ्वेताः स्विन्ना हिमोद्भवाः || तण्डुलाः षष्ठिनीवारशालिजास्त्रिविधा मताः || ४९० ||

मुद्गा यवास्तिलाः कृष्णाः कुल्माषास्त्रिपुटा अपि || कङ्गवश्च मकुष्ठाश्च यावन्नालकणशिका || ४९१ ||

कालकंशो ववास्तूकं करम्बुर्हिलमोचिका || चक्रवती चक्रमर्दः पलङ्कः शतपुष्पिका || ४९२ ||

मूलं हेमन्तजं श्वेतं राजिकां माष.जं तिलम् || मृणालमुसली घोण्टा शतमूली विदारिका || ४९३ ||

सर्वे पिण्डालवश्चैव पद्मो वारवु षातथा || आयुष्करः कञ्च्युकश्च शृङ्गाटककसेरुकौ || ४९४ ||

सामुद्रं सैन्धवं चैव दध्याज्यं गोजमाहिषम् || प्. १४९) दुग्धं ससारं मधुरं पयोन्यत्त्वलपबीजकम् || ४९५ ||

पनसाम्रामलं चिंचा विफाणितगुडैक्षवम् || हविष्यं भेषजं सर्वं हित्वा मीनान्सुरां पलम् || ४९६ ||

श्रेष्ठं गवां दुग्धमुक्तं मध्यमं सुरभीभवम् || अधमं माहिषं चान्यद्व्रतस्थानां निषिध्यते || ४९७ ||

त्यजन्निषिद्धमन्नाद्यं मध्यो सौ शास्त्रतश्च यः || निषिद्धं देशकुलतः प्रशस्तं सोधमः स्मृतः || ४९८ ||

निषिद्धान्यथ कथ्यन्ते सप्तविंशमितानि तु || श्वेतमुद्रा मसूराश्च कोद्रवाश्चणकास्त्रिधा || ४९९ ||

माषाश्च भूमिलवणं यत्र जातं रसान्तरम् || क्षौद्रं क्षारं पलाण्डुश्च गृञ्जनं काचभोजनम् || ५०० ||

मांसं च स्विन्नलवणं रामठं चैव नालकम् || अन्नं पर्युषितं तैलं ताम्बूलं क्षुद्रधान्यकम् || ५०१ ||

पटोलं चापि वृन्ताकं मूलकं च कलिञ्जकम् || दग्धान्नं च द्विपक्वं च गुडान्नं तालजं फलम् || ५०२ ||

देवा विशेषं शृण्वन्तु वर्णाश्रमविभेदतः || तिलतैलं मन्त्रपूतं पावनं देवदुर्लभम् || ५०३ ||

मर्दयित्वा गृहस्थेन स्नानं कार्यं तु सर्वदा || द्विजैस्तु भोजनं कार्यमुपस्तीर्याविधार्य च || ५०४ ||

पावयेद्वैदिकैर्मन्त्रैः प्रोक्षणादिककर्मणा || पुनर्मूलेन सम्मन्त्र्य भुञ्जीयाद्धृदयाणुना || ५०५ ||

मूलाभिमन्त्रितं तोयं भोजने तृषि सम्पिबेत् || पलाशपत्रे भुञ्जीत त्वन्यत्पत्रं विवर्जितम् || ५०६ ||

तदभावे कदल्यां वा मधूके सर्जकेपि च || भुक्त्वा शयीत शयने सुशुद्धे वसुधातले || ५०७ ||

अहतास्तरणास्तीर्णे सन्दर्भेणायने शुचौ || मन्त्रिते मूलमन्त्रेण जितक्रोधो जितेन्द्रियः || ५०८ ||

अभीष्टदेवतां ध्यायन्प्राक्शिरस्को निशि स्वपेत् || अर्धरात्रे समुत्थाय पादशौचं विधाय च || ५०९ ||

आचम्य देवं सम्पूज्य शीघ्रं संस्पृश्य पूर्ववत् || जपं कुर्याद्यथाशक्ति त्वर्पयेच्च तथेश्वरे || ५१० ||

स्वपेत्ततस्तु यो दृष्टः स्वप्नं तं गुरवे वदेत् || जपश्चायं वनस्थानां प्रोक्तो वै ब्रह्मवादिनाम् || ५११ ||

देशाद्युपद्रवत्रासात्स्वैरं यावत्समापनम् || कर्तव्यं चेदयं कालः प्रोक्तोत्यावश्यकेपि च || ५१२ ||

आमध्याह्नं जपः श्रेष्ठो मध्यमप्रहरत्रयम् || सार्धयामत्रयं हीनोऽवश्यके प्रोक्तलक्षणः || ५१३ ||

पञ्चधा तु विधिः प्रोक्तो जपसम्पूर्णकारकः || आद्यः कल्पः प्रतिदिनमामध्याह्नं जपं चरेत् || ५१४ ||

प्. १५०) तद्दशांशेन कल्पोक्तद्रव्यैर्होमं प्रकल्पयेत् || तर्पणं मार्जनं कृत्वा तथा ब्राह्मणभोजनम् || ५१५ ||

तस्य दशांशतश्चायं प्रथमः कल्प ईरितः || अयं द्वितीयः कल्पस्तु लक्षमेकं जपं चरेत् || ५१६ ||

होमादिकं तस्य कृत्वाग्रिमलक्षं समारभेत् || अयं तृतीयः कल्पस्तु सम्पूर्णं जपमाचरेत् || ५१७ ||

पूर्णे होमे तर्पणादि पूर्वमेवाचरेदिति || चतुर्थस्तु तथा कल्पो दरिद्रैर्द्विगुणो जपः [कार्य इति शेषः ||] || ५१८ ||

होमाद्यभावे कर्तव्यस्त्र्यादिनिघ्नो नृपादिकैः || पञ्चमस्तु तथा कल्पो यस्य देवस्य यत्प्रियम् || ५१९ ||

तदेव द्विगुणं कार्यं शीघ्रं दैवततुष्टये || जपप्रियास्सर्वदेव्यो वाममार्गे बलिप्रियाः || ५२० ||

होमप्रियो महादेवो भास्करस्तर्पणप्रियः || मार्जनं तु गणेशस्य विष्णोर्ब्राह्मणभोजनम् || ५२१ ||

प्रायश्चित्तं तु न कृतं तदा शुद्धो भवेद् द्विजः || पुरश्चर्याचतुष्केण त्रिद्व्याद्यैः क्षत्त्रियादयः || ५२२ ||

अथवान्यप्रकारेण पुरश्चरणमुच्यते || गृहणेर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः || ५२३ ||

नद्यां समुद्रगामिन्यां नाभिमात्रे जले स्थितः || स्पर्शादिमुक्तिपर्यन्तं जपेन्मंत्रं समाहितः || ५२४ ||

तावत्कालं जपेदित्थं ततो होमादिकं चरेत् || ब्राह्मणान्भोजयेत्पश्चात्पुरश्चर्यासमन्त्विदम् || ५२५ ||

प्रायश्चित्तं प्रयोगस्य प्रत्यवायस्य नाशनम् || येषां जपे च होमे च सङ्ख्या तन्त्रेषु नोदिता || ५२६ ||

तत्र चेयं पुरश्चर्या सर्वतन्त्रेषु गोपिता || वाममार्गाय मन्त्राणामेवमेवान्यदुच्यते || ५२७ ||

कृष्णाष्टमीं समारभ्य यावत्कृष्णचतुर्दशी || देवं ध्यात्वा जपेन्मन्त्रमयुतानां चतुष्टयम् || ५२८ ||

दशांशं होमयेत्पश्चात्तर्पयेदभिषेचयेत् || असिद्धत्वाद्गुरोर्देवाः शिष्यसिद्धिर्न जायते || ५२९ ||

तदोपायं प्रकुर्याद्यत्तद्गोप्यमधुनोच्यते || अनुलोमविलोमेन बिन्दुमन्मातृकाक्षरैः || ५३० ||

जपेत्सम्पुटितं मन्त्रं प्रत्यहं शतसंख्यया || एकमासं ततो होमादिकात्सिद्धो भवेन्मनुः || ५३१ ||

पुरश्चर्योक्तमखिलमाह्निकं च समाचरेत् || एवं वैदिकमन्त्रस्य सिद्धयेत्र च सस्वराः || ५३२ ||

वर्णा देया बिन्दुयुक्ताः क्रमतश्चोत्क्रमेण च || ह्रस्वदीर्घप्लुतैर्भेदैर इ उ ऋ त्रिधा मताः || ५३३ ||

प्. १५१) ह्रस्व प्लुतो ऌद्विविध एचापि द्विविधो मतः || दीर्घप्लुतविभेदेन ह्यनुस्वारविसर्गकैः || ५३४ ||

चतुर्विंशतिराख्याताः स्वरा एवं ञमैः स ह || चत्वारः कादिका वर्णा जिह्वामूलीययुक्च कः || ५३५ ||

एवं कवर्गो दशधा चाद्याः पञ्चदश स्मृताः || उपध्मानीयसंयुक्तं पकारस्तेन तत्र षट् || ५३६ ||

याद्यष्टावपि सम्प्रोक्ता यज्ञे वेदे तु मातृकाः || ऌक्षौ द्वावधिकौ ऋक्षु [ऋग्वेदेषु |
] क्षोधिकोऽथर्वणि [अथर्वणि |
] स्मृतः || ५३७ ||

जपश्चाष्टोत्तरशतं प्रत्यहं मासमात्रकम् || अनध्यायान्वर्जयित्वा चत्वारिंशद्दिनं तथा || ५३८ ||

होमादिसकलं प्राप्य नित्यमेव प्रकल्पयेत् || क्षुद्रदैवतमन्त्रं तु भूतलिप्या पुटीकुरु || ५३९ ||

क्रमोत्क्रमाच्छतावृत्तिं कुर्यात्सिद्धिस्तु मासतः || अचो [अं इं उं ऋं ऌं एं ऐं ओं औं हं यं वं रं लं कं ङं खं घं गं चं ञं छं झं जं टं णं ठं ढं डं तं नं थं धं दं पं मं फं भं बं शं षं सं |
] हयवरला आद्यन्तिमद्विचतुर्थकम् || ५४० ||

तृतीयं च क्रमेणैव वर्गाणामक्षरं पठेत् || ऊष्मत्रयं ततश्चैवं द्विचत्वारिंशदक्षरैः || ५४१ ||

इत्युग्रदैवते जाप्य स्त्वष्टोत्तरसहस्रकः || त्रिकालं गन्धपुष्पाद्यैर्निशीथे परतः पुनः || ५४२ ||

षण्ंआसं कौलिकाद्यैश्चेदर्चिता सुप्रसीदति || अयोग्यैर्गुरुतो लब्धाचार्यादिस्थानमाश्रितैः || ५४३ ||

उद्दशाद्वा पुरश्चर्या कर्तव्येत्युच्यते न हि || राज्ञां भाग्यवतो वापि सुकुमारस्य वा यथा || ५४४ ||

सिद्धिर्भवेत्तथा वक्ष्ये वर्णोषधिपुरस्क्रियाम् || सप्तधा सा परिज्ञेया वर्णमासैस्तु सिद्धिदा || ५४५ ||

मन्त्रवर्णौषधीकाष्ठैरचयेद्गुटिकाः शुभाः || वर्णक्रमेण ताः प्रोक्ता अनुलोमविलोमतः || ५४६ ||

मूलादिभ्यश्च बहुशः कर्तव्या मणयो यथा || सर्पद्वयाकृतिर्माला भवेन्नित्यं ततो जपेत् || ५४७ ||

मालाया मणिसङ्ख्याकः प्रथमोयं जपः स्मृतः || सर्वे समाना मणयः प्रोतव्या सार्णसूत्रकैः || ५४८ ||

कण्ठे धार्या कण्ठमाला नित्यमेष द्वितीयकः || तथैव राजते सूत्रे ये ह्यताः परिपूजयेत् || ५४९ ||

तद्देवकल्पमार्गेण प्रक्रमोयं तृतीयकः || वर्णौषधीनां क्वाथेन नित्यं स्नानं चतुर्थकः || ५५० ||

वर्णोषधिजलादिभ्यो गोघृतेन तु पञ्चमः || तच्चूर्णो द्वर्तनंकुर्यादेष षष्ठः प्रकीर्तितः || ५५१ ||

प्. १५२) तद्भस्मधारणं नित्यं कुर्यादिति तु सप्तमः || ब्रह्मद्वेषाद्गुरोर्द्वेषात्स्त्रीद्वेषाच्चेन्न [सिद्धिरिति शेषः |
] जायते || ५५२ ||

शापतो वा कीलितत्वात्तत्रोपायाष्टकं भवेत् || सन्तापाप्यायने द्रावो बोधनं च वशीकृतिः || ५५३ ||

पीडनं पोषशोषौ च दहनं तत्क्रियोच्यते || भूर्जपत्रं समानीय पद्ममष्टदलं लिखेत् || ५५४ ||

अष्टगन्धेन देवस्य रोचनाचन्दनेन वा || साधकस्य तु नामार्णैर्मन्त्रं सन्दर्भितं लिखेत् || ५५५ ||

यावद्द्वयोः समाप्तिः स्यात्तस्य चाद्यन्तयोर्लिखेत् || तारादिकं साधकस्य नामाथाष्टदलेषु च || ५५६ ||

द्वौ द्वौ लेख्यौ स्वरौ तत्र सम्यग्ध्यायन्सुधात्मकम् [वंबीजं |
] || तत्संवेष्ट्य मृदा सम्यग्वेष्टयेद्ब्राह्मणादिकः || ५५७ ||

शुक्लादिवर्णया पश्चात्सद्वस्त्रेण च वेष्टयेत् || क्षिपेत्त्रिमधुरे तत्तु मृण्मये लघुभाजने || ५५८ ||

क्षीरपूर्णे नवे कुम्भे तत्क्षिपेल्लघुभाजनम् || अग्निसंस्थापनं कृत्वा सन्निधौ तस्य तंघटम् || ५५९ ||

संस्थापयेत्त्रिमधुरैर्मूलमन्त्रेण होमयेत् || अष्टाधिकसहस्रं तु सम्यक्तं कलशं क्षिपेत् || ५६० ||

होमं समाप्य तं कुम्भं निःक्षिप्य च जलाशये || स्वगुरुं ब्राह्मणांश्चान्नैस्तोषयेद्दक्षिणादिभिः || ५६१ ||

सन्तापाप्यायनं चैतदुक्तं सिद्धिर्न चेद्भवेत् || द्रावणं तु तदा कुर्यात्तत्प्रकार इहोच्यते || ५६२ ||

वंबीजेन ग्रन्थयित्वा भूर्जपत्रे लिखेन्मनुम् || उशीररोचनाभ्याञ्च शिलाकर्पूरकुंकुमैः || ५६३ ||

क्षीराज्यमधुतोयानां मध्ये तं लिखितं क्षिपेत् || पूजनाच्च जपाद्धोमाद्द्रावितः फलदो भवेत् || ५६४ ||

द्रावितोपि न सिद्धश्चेद्बोधनं तस्य कारयेत् || वाग्भवेन [ऐंबीजेन |
] च बीजेन सम्पुटीकृत्य तं जपेत् || ५६५ ||

एवं बुद्धो भवेत्सिद्धो नोचेत्कुर्याद्वशीकृतिम् || कुचन्दनं महादारु हरिद्रा च मनःशिला || ५६६ ||

एतैस्तु लिखितो मन्त्रो भूर्जपत्रे सुशोभने || कण्ठे धृतो भवेद्वश्यो नो चेत्कुर्यात्प्रपीडनम् || ५६७ ||

अनुदात्तस्वरेणाद्यमुदात्तेन द्वितीयकम् || तृतीयमनुदात्तेन पठेत्तुर्यमुदात्ततः || ५६८ ||

एवं पदानि सर्वाणि पठेन्मन्त्रस्य साधकः || अनुदात्तपदोच्चारे देवं ध्यायेदधःस्थितम् || ५६९ ||

ऊर्ध्वस्थितमुदात्तस्योच्चारेष्टाधिसहस्रकम् || जपेन्मन्त्रं ततो भूर्जे भानुदुग्धेन लेखयेत् || ५७० ||

मन्त्रं तमाक्रमेद्वामपादेनाथ च होमयेत् || अष्टोत्तरशतं मन्त्रः पीडितः स प्रसीदति || ५७१ ||

न सिद्धश्चेत्तदा पोष्यः प्रोच्यते तत्क्रियाधुना || सोम्बीजपुटितं मन्त्रं लिखेद्भूर्जस्य पत्रके || ५७२ ||

रोचनाकुंकुमाभ्याञ्च धारयेद्दधिदुग्धयोः || इदं पोषणमित्युक्तमथ शोषणमुच्यते || ५७३ ||

यज्ञस्य भस्मनालेख्य वायुबीजविदर्भितम् || भूर्जपत्रे स्वेष्टमन्त्रं तत्कण्ठे धारयेदिति || ५७४ ||

एतच्छोषणमित्युक्तं दहनं प्रोच्यतेऽधुना || पृथक्पृथक्च मन्त्राणां चतुर्दिक्षु समावृतान् || ५७५ ||

रंबीजेन पलाशस्य बीजतैलेन संलिखेत् || भूर्जपत्रेथ तद्धार्यं कण्ठे दाहक्रिया त्वियम् || ५७६ ||

अथ शाबरमन्त्राणां पुरश्चरणमुच्यते || कामरूपाख्यदेशे तु कामाक्षा यत्र देवता || ५७७ ||

कामशलोस्ति यत्रासौ कामपीठस्स उच्यते || तत्र संलेख्य मन्त्रं हि वंशोपरि यथाक्रमम् || ५७८ ||

गुरुणा वाचनीयः स स्वयं पश्चात्पठेन्मनुम् || गुरोरभावे तस्यैव मूले शैलस्य पर्वणि || ५७९ ||

लिखित्वा प्रपठेन्मन्त्रं कामपीठं गुरुर्मतः || अथ वा योगिनीशैले दक्षिणस्यां दिशि ध्रुवम् || ५८० ||

योगाम्बा यत्र देवी सा लिखित्वात्र पठेन्मनुम् || ज्वालामुखीसमीपे वा हिंगुलाजसमापतः || ५८१ ||

लिखित्वा प्रपठेन्मन्त्रं नान्यथैव प्रसिद्ध्यति || मुख्यतः स्त्रीसमीपे तु कामपीठे मनोर्ग्रहः || ५८२ ||

अथवा सर्वदेशेषु मन्त्रग्रहणमुच्यते || तालपत्रे लिखेन्मन्त्रं पूर्णकुम्भे निधापयेत् || ५८३ ||

भास्करन्तु गुरुन्ध्यात्वा वाचयेत्त्रिर्गुरू रविः || अथ तान्त्रिकमन्त्राणां दीक्षां शृणु गुरुं विना || ५८४ ||

शुक्लपक्षे त्रयोदश्यां चन्द्रताराबलान्विते || गत्वा च दक्षिणामूर्तेः सन्निधौ पूजयेच्च तम् || ५८५ ||

कलशस्थापनं कृत्वा तदग्रे तु परिक्षिपेत् || तालपत्रे लिखित्वाथ मन्त्रं देवं च पूजयेत् || ५८६ ||

देवो गुरुरिति ध्यात्वा मन्त्रं व्यक्तं तु वाचयेत् || अष्टोत्तरशतं चैव मन्त्रग्रहणमुच्यते || ५८७ ||

एतत्तत्वं समाख्यातं गोप्यं मातरि जारवत् || गुरौ लोभादयो दोषास्तस्मादुद्विजते जनः || अतः शास्त्रं गुरुं कृत्वा दक्षिणामूर्तितो मनुः || ५८८ ||

एवं सिद्धे मनौ देवि मोक्षमार्गनिबन्धकाः || तपःक्षयकराश्चैव जायन्ते नैकसिद्धयः || ५८९ ||

प्. १५४) स्वल्पसिद्धौ निमग्नश्चेन्न जायन्ते णिमादयः || अणिमादिषु मग्नश्चेन्मोक्षवार्तातिदुर्लभा || ५९० ||

अल्पं तपः क्षणान्नश्येन्मध्यमं चापि गर्वतः || सिद्धिद्वारमिदं तस्य मया लक्षणमुच्यते || ५९१ ||

स्वप्ने वाक्षिसमक्षं वा आश्चर्यमतिहर्षदम् || अकास्माद्यदि जायेत न ख्यातव्यं गुरुं विना || ५९२ ||

प्रकाशनीयं न क्वापि ऐहिकीं सिद्धिमिच्छता || प्रकाशयति यो मोहादौत्सुक्यान्मन्त्रजं सुखम् || निकटस्थाश्च तास्तस्य सिद्धयो यान्ति दूरतः || ५९३ ||

आभवन्ति च दुःखानि शोकाश्च विविधा अपि || अल्पाशनं स्वल्पनिद्रा सदा चित्तप्रसन्नता || ५९४ ||

प्रकाशयुक्शरीरं च वाक्यं सत्यं प्रजायते || मन्त्रा राधनशक्तस्य प्रथमं वत्सरत्रयम् || ५९५ ||

जायन्ते बहवो विघ्ना नियमत्यागहेतवः || नोद्वेगं साधको याति कर्मणा मनसा यदि || ५९६ ||

ततो वर्षत्रयादूर्ध्वं राजानश्च महीभृतः || प्रार्थयन्तेनुरोधेन गर्विता अपि मानिनः || ५९७ ||

प्रसादः क्रियतां नाथ ममोद्धरणकारणम् || प्रज्वलन्तं प्रपश्यन्ति तेजसा विभवेन च || ५९८ ||

अतस्ते मुनिशार्दूलं विस्तरं वक्तुमक्षमाः || नवमाद्वत्सरादूर्ध्वं स्वयं सिद्ध्यति मन्त्रराट् || ५९९ ||

वाङ्मनोरथसंसिद्धो दाता भोक्ता ह्ययाचकः || अथ वक्ष्ये दरिद्रस्य मन्त्रसिद्धिर्यथा भवेत् || ६०० ||

होमकर्मण्यशक्तस्य विप्रस्य द्विगुणो जपः || इतरेषान्तु वर्णानां त्रिगुणादिर्विधीयते || ६०१ ||

होमद्विगुणजाप्येन सम्पूर्णं तर्पणं भवेत् || अकृते मार्जने प्रोक्तस्तर्पणाद्द्विगुणो जपः || ६०२ ||

प्रत्याम्नायो ब्रह्मभोज्ये न कुत्रापि श्रुतौ श्रुतः || सर्वथा भोजयेद्विप्रान्कृतसाङ्गत्वसिद्धये || ६०३ ||

विप्राराधनमात्रेण व्यङ्गं साङ्गं प्रजायते || यानि यानि च कर्माणि हीयन्ते द्विजभोजनैः || निरर्थकानि तानि स्युर्बीजान्यू षरगानि च || ६०४ ||

गुरुं सन्तोषयेत्पश्चाद्रोहिर्ण्याम्बरादिभिः || गुरौ तुष्टे हि सन्तुष्टो मन्त्रः सिद्ध्यति मन्त्रिणः || ६०५ ||

यदृच्छया श्रुतो मन्त्रश्च्छद्मनापि बलेनवा || परेरितोवा गाथावा तज्जपो नैव चार्थकृत् || ६०६ ||

पुस्तके लिखितान्मन्त्रानालोक्य प्रजपन्ति ये || ब्रह्महत्यासमं तेषां पातकं परिकीर्तितम् || ६०७ ||

प्. १५५) अनेककोटिम् मन्त्राणां चिन्तयन्नाकुलः कविः || मन्त्रो गुरुमुखात्प्राप्त एकः स्यात्सर्वसिद्धिदः || ६०८ ||

कुलप्राप्तः कुलाचारो मानितः सर्वसाधकैः || सिद्धिलक्षणसम्पूर्णः प्राणिमात्रस्य यस्समः || ६०९ ||

मित्रं न शत्रवो यस्य सर्वमार्गप्रदर्शकः || स एव तु गुरुः कार्यो नान्यो वामे कदाचन || ६१० ||

इह लोके परत्रापि कौलः पतति चान्यथा || सिद्धेरभावे दक्षे तु पापहानिः प्रजायते || ६११ ||

सेवनान्मचतुष्कस्य [चतुर्मकारादिसेवनात् ||] वामे तु निरयः पुरः || इत्थं प्रोक्ता पुरश्चर्या किमन्यच्छ्रोतुमिच्छथ || ६१२ ||

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते पुरश्चर्याप्रकाशः षष्ठः || ६ ||

Prakāśa 7 – Festigung der Siddhi

श्रीदेव्युवाच ||

अस्मिन्घोरे कलियुगे स्वल्पसिद्ध्यातिदर्पिताः || भविष्यन्ति जनास्तेषां स्थिरा सिद्धिः कथं भवेत् || १ ||

अग्रे वंशादिवृद्धिश्च वंशे देवकृपा तथा || मोक्षः कथं साधकस्य तथा वद कृपानिधे || २ ||

ईश्वर उवाच ||

अहङ्कारपरित्यागात्काम्यकर्मविवर्जनात् || स्वधर्माचरणात्सर्वमनायासेन जायते || ३ ||

एतत्कर्तुमशक्तश्चेन्निषिद्धं तु परित्यजेत् || विहितं कर्म कुर्वीत सिद्धिः स्यात्पुत्रपौत्रिकी || ४ ||

तत्रादौ कथयिष्यामि निषिद्धानि शृणु प्रिये || देवस्थाने गुरुस्थाने श्मशाने च चतुष्पथे || पादुकासनविण्मूत्रमैथुनादि विवर्जयेत् || ५ ||

प्रमत्तामन्त्यजां कन्यां पुष्पितांपतितस्तनीम् || विरूपां मुक्तकेशीं च कामार्तां च न निन्दयेत् || ६ ||

कन्यायोनिं पशुक्रीडां दिग्वस्त्रां प्रकटस्तनीम् || नालोकयेत्परद्रव्यं परदारांश्च वर्जयेत् || ७ ||

धान्यगोगुरुदेवाग्निकौशपुस्तकसम्मुखम् || नैव प्रसारयेत्पादौ न चैतानि विलङ्घयेत् || ८ ||

आलस्यमदसम्मोहशापपैशुन्यविग्रहान् || असूयामात्मसम्मानं परनिन्दां च वर्जयेत् || ९ ||

लिङ्गिनं व्रतिनं विप्रं वेदवेदाङ्गसंहिताः || पुराणागमशास्त्राणि मनसापि न दूषयेत् || १० ||

युगं मुसलमश्मानं दाम चुल्लीमुलूखलम् || शूर्पं सम्मार्जनीं दण्डं ध्वजं वै तुर्यमायुधम् || ११ ||

कलशं चामरं छत्रं दर्पणं भूषणं तथा || भोगयोग्यानि चान्यानि यागद्रव्याणि यानि च || १२ ||

प्. १५६) महास्थानेषु वस्तूनि यानि वा देवतालये || दिव्योक्तानि च वस्तूनि भूताविष्टानि यानि वै || लङ्घयेज्जातु नैतानि न चैतानि पदा स्पृशेत् || १३ ||

या गोष्ठी लोकविद्विष्टा या च स्वैरविसर्पिणी || परहिंसात्मिका या च न तामवतरेत्क्वचित् || १४ ||

प्रतिग्रहान्न गृह्णीयादात्मभोगविधित्सया || देवतातिथिपूजार्थं दानतोप्यर्जयेद्धनम् [यत्नत] || १५ ||

बिभीतककरञ्जार्कस्नुहीछायां न संश्रयेत् || स्तम्भदीपमनुष्याणामन्येषां प्राणिनां तथा || १६ ||

नखाग्रकेशनिर्धूतस्नानवस्त्रपटोदकम् || एतत्स्पर्शं त्यजेद्दूरं खरश्वाजरजस्तथा || १७ ||

लिङ्गस्थानं च निर्माल्यं नद्यां नैव च लङ्घयेत् || नद्यां प्रवाह येत्सर्वं दद्याद्वा शिवदीक्षिते || १८ ||

न लङ्घयेद्गुरोराज्ञामुत्तरं न वदेत्तथा || अप्रियं च तथा काले कामं क्रोधं विशेषतः || १९ ||

नाप्रच्छन्नमुखो ब्रुयाद्गुरोरग्रे कदाचन || अद्वैतं देवपूजां च गुरोरग्रे परित्यजेत् || २० ||

पादुकायोगपट्टादिगुरुचिह्नानि साधकः || न लङ्घयेत्स्पृशेन्नैव तत्समक्षं न धारयेत् || २१ ||

पर्यङ्कशयनं तद्वत्तथा पादप्रसर्पणम् || अङ्गभङ्गं च लीलां च न कुर्याद्दुरुसन्निधौ || २२ ||

छायां न लङ्घयेत्तस्य गच्छेन्न पुरतो गुरोः || न कुर्वीत गुरोरग्रे प्रभावं स्वस्य शिष्यकः || २३ ||

अहङ्कारं न कुर्वीत नोल्बणं धारयेद्वपुः || प्रगुरोः सन्निधौ नैव स्वगुरुं प्रणमेद्बुधः || २४ ||

नमस्काराय चोद्युक्तं गुरुर्दृष्ट्वा निवारयेत् || न नियोगं गुरोर्दद्यात्त्वमित्यादि न वा वदेत् || २५ ||

श्रीनाथदेवस्वामीति बोधने भाषणे वदेत् || जातायामापदि क्वापि शपथं गुरुसञ्ज्ञितम् || २६ ||

न कुर्याच्छिवसञ्ज्ञं वा प्रसादेन क्रियेत चेत् || तदर्थं निर्वहेद्यत्नादन्ते पूजाजपाहुतीः || २७ ||

अनिर्वहंस्तु कार्यं तद्यदर्थं शपथः कृतः || प्रायश्चित्तं मनोः कुर्यान्मूलस्यैव सहस्रकम् || २८ ||

लोकोद्वेगकरी या च या च मर्मनिकृन्तिनी || स्थित्युद्वेगकरी या च तां गिरं नैव भाषयेत् || २९ ||

अरण्यमुज्ज्वलमपि मनसापि समीप्सितम् || लोकविद्वेषणं वेषं न गृह्णीयात्कदाचन || ३० ||

तन्त्रोक्तान्यसमाचारानैहिकामुष्मिकांश्च तान् || प्. १५७) आचरन्नादराच्छान्तिं दीक्षितः सोधिगच्छति || ३१ ||

सामान्यसिद्धौ रक्षार्थं परेषां न कदाचन || प्रयोक्तव्यः स्वस्य मन्त्रो महापद्यपि साधकैः || ३२ ||

गुरोरुद्भूतवाक्येन भयात्स्वार्थेन वा पुनः || कृपया परया कुर्यादनाथेषु दयां सदा || ३३ ||

यत्रयत्र पुरीष्वेव मात्सर्यं श्रूयते गुरोः || तत्रत्र न वस्तव्यं प्रयायात्संस्मरन्हृदि || ३४ ||

विष्णोः शिवस्य शास्त्रस्य वेदस्यार्कगणेशयोः || भवान्या यत्र निन्दा तु तस्मिन्स्थाने न वै वसेत् || ३५ ||

कर्मणां मनसा वाचा नहीच्छेत्परदारकान् || वक्तव्यं च वचः सत्यं सौशील्यं समतां धृतिम् || ३६ ||

शक्तिं दयामवस्थां च दिव्यां शक्तिं च सर्वदा || गमनागमने कुर्यात्प्रणम्य गुरुपादुके || ३७ ||

पश्चात्पादेन निर्गच्छेत्प्रणम्य च गुरोर्गृहात् || मलयुक्तादिरहितः केशश्मश्रुविलुञ्चनात् || ३८ ||

सोमसूर्योत्तरस्थां च गवाश्वत्थादिमध्यगाम् || भावयेद्देवतां विष्णुं गुरुविप्रशरीरगाम् || ३९ ||

सेवेत मातापितरौ विष्णुं तद्वत्प्रियाअतिथिम् || ज्ञेयो विश्वाश्रयो विष्णुरात्मा ज्ञेयश्च विष्णुवत् || ४० ||

स्वानुष्ठाने तु यत्कर्म सर्वं सर्वस्य गोपयेत् || मन्त्रगुप्तिश्च कर्तव्या सततं मन्त्रसिद्धये || ४१ ||

गुरोर्नाम न गृह्णियाद्वदेदावश्यके त्विति || ओं श्रीपूर्वं गुरोर्नाम देवनाम तदुत्तरम् || ४२ ||

पादशब्दसमेतं तु कृत्वा मूर्ध्न्यञ्जलिं पुनः || नमोऽन्तं च वदेन्नाम तिथ्यर्णं च हरेर्मम || ४३ ||

नित्यं नैमित्तिकं काम्यं सापेक्षं पूर्वपूर्वतः || अन्यथा भजनं देवि करोत्यापत्परंपराम् || ४४ ||

प्रत्यहं क्रियते पूजा सा तु नित्या प्रकीर्तिता || नैमित्तिकापि तत्संख्या पञ्चतुल्या परे दिने || ४५ ||

अभावेपि कदाचित्स्यान्नित्ये नैमित्तिका त्वियम् || शुद्धा नैमित्तिका पूजा प्रोक्ता विंशतिभेदिका || ४६ ||

पर्वाणि च महायोगा व्यतीपातः सवैधृतिः || मन्वादयो युगाद्याश्च यदङ्गं देवताभवम् || ४७ ||

पुष्यश्च रविवारश्च त्रिगुरूणां स्वकीयकम् || जन्माहश्चापि दीक्षाया दिवसं नवरात्रकम् || ४८ ||

गन्डान्तान्यथ पूजाया आवश्यकदिनं शृणु || विशेषेण कृता पूजा यस्मिन्भवति निष्फला || ४९ ||

दशिकागमने चैव वीरस्वजनदर्शने || चन्द्रसूर्योपरागे च लाभे होमे महोत्सवे || ५० ||

प्. १५८) पीठे पीठगमे पुण्ये तीर्थदैवतदर्शने || रोगेष्वापत्सु दोषेषु दुस्सङ्गे दुर्निमित्तके || ५१ ||

यथा कालो यथा श्रद्धा यथा द्रव्यं यथोचितम् || यथाबलं यथा देशस्तथा पूजां समाचरेत् || ५२ ||

नैमित्तिकार्चने कालाः प्रातर्मध्याह्नसम्भवाः || प्रदोषे चापि विघ्नेशरविविष्ण्वीशशक्तयः || ५३ ||

दमनेन च यो देवं वर्षमध्ये न पूजयेत् || तस्य वर्षकृतापूजाफलं गृह्णाति कामराट् || ५४ ||

चैत्रादयस्त्रयो मासाः प्रशस्ताः पूर्वपूर्वतः || अष्टमी नवमी पौर्णमास्यमा च चतुर्दशी || ५५ ||

एतन्मध्ये तु कस्मिंश्चित्प्राग्दिने तु प्रदोषके || कृतनित्यक्रियश्शुद्धो युक्तः सामयिकैर्जनैः || ५६ ||

दमनस्य समीपन्तु गत्वासन उपाविशेत् || प्राणायामत्रयं कृत्वा ऋष्यादीन्विन्यसेत्ततः || ५७ ||

कामभस्मसमुद्भूत रविपोष्य जलोद्भव || ऋषिगन्धर्वदेवादिमोहनाय नमोस्तु ते || ५८ ||

सांवत्सरिकपूजायाः परिपूर्णत्वसिद्धये || दमन त्वं समायाहि क्षमस्व च नमोस्तु ते || ५९ ||

शिवप्रसादसम्भूत ह्यत्र सन्निहितो भव || शिवकार्ये समुत्थेद्य नेतव्योसि शिवाज्ञया || ६० ||

एवं दमनमामन्त्र्य कामदेवं तथा रतिम् || प्रीतिं च पूजयेत्तत्र तत्तन्मन्त्रेण साधकः || ६१ ||

तारः [ओं क्लींकामदेवाय नमः ||] क्लीं कामदेवाय नमश्चेति नवाक्षरः || श्रींश्रींश्रींक्रोमिति [श्रीं श्रीं श्रीं क्रों रत्यै नमः ||] प्रोच्य रत्यै हृच्चाष्टवर्णकः || ६२ ||

रतिस्थाने प्रीतिपदादयमप्यष्टवर्णकः || ततः स्वगृहमागच्छेद्द्वितीये दिवसे पुनः || ६३ ||

कृतनित्यक्रियस्स्वेष्टैर्युक्तो दमनमाव्रजेत् || उत्पाटयेच्छेदयेद्वा स्वमूलेनास्त्रमन्त्रतः || ६४ ||

गृहमानीय तोयेन मन्त्रेणानेन सेचयेत् || ओं अघोरे ऐं च ओं च घोरे ह्रीमिति कीर्तयेत् || ६५ ||

घोरघोरतरे श्रीं च सर्वतः सर्वसर्वेभ्यः || नमस्ते रुद्ररूपेभ्यो ह्रींश्रीमिति मनुः स्मृतः || ६६ ||

चतुस्त्रिंशदक्षरात्मा दमने तं निधापयेत् || पूजास्थाने च पीठादौ नवांशांस्तस्य कारयेत् || ६७ ||

कृत्वा चाष्टदलं पद्मं तत्र भागान्प्रविन्यसेत् || चन्दनागुरुकर्पूरचन्दनैर्लेपयेच्च तान् || ६८ ||

आनन्देशीबीजवर्णैर्बिन्दुपद्भिर्नमोन्तकैः || पृथक्पूज्यं तु तद्बीजं जपन्निह क्षमापयेत् || ६९ ||

प्. १५९) पूजास्थाने प्रकुर्वीत सर्वतोभद्रमण्डलम् || तस्याष्टदिक्षु संस्थाप्या घटाः स्वर्णादिनिर्मिताः || ७० ||

मध्ये वा कुम्भमेवैकमशक्तः स्थापयेत्ततः || तत्र स्वासनपूजादियोगपीठान्तमर्चयेत् || ७१ ||

तस्य दक्षिणदिग्भागे सिन्दूरेणाष्टपत्रकम् || पद्मं कुर्याद्वृत्तयुग्मवेष्टितं भूपुरेण च || ७२ ||

पञ्चवर्णरजोभिश्च कर्णिकायामशोककम् || लिखित्वा प्रार्थयित्वा तं पूजयेच्चन्दनादिभिः || ७३ ||

अशोकाय नमस्तुभ्यं कामस्त्रीशोकनाशक || शोकार्ति हर मे नित्यमानन्दं जनयस्व मे || ७४ ||

तस्य दक्षिणतस्तादृङ्मण्डले पूजयेत्ततः || वरखड्गधरं कालं पञ्चरङ्गैर्विचित्रितम् || ७५ ||

त्रुट्यादिप्रलयान्तो यः कालरूपो महाबलः || कलयत्यपि विश्वं यस्तस्मै कालात्मने नमः || ७६ ||

अशोकस्य ततोधस्तात्त्रिकोणे मण्डले शुभे || मण्डूकादिज्ञानात्मान्तां पीठपूजां समाचरेत् || ७७ ||

तद्बाह्येष्टदले प्रोक्तं शक्त्यष्टकसमर्चनम् || सौभाग्यां च तथा हृद्यां वृषां चापि धृतिं रतिम् || ७८ ||

प्रीतिं वासन्तिकीं निर्वाणाख्यां मध्ये तु कामुकाम् || आवाह्य कामदेवं च तद्गायत्र्या तदुत्तरम् || ७९ ||

कामदेवाय विद्महे पुष्पबाणाय धीमहि || तन्नोनङ्गः प्रचोदयात् || ८० ||

कृत्वा प्राणप्रतिष्ठान्तं ततो मुद्राः प्रदर्शयेत् || पाशांकुशधनुर्बाणाभिधा ध्यायेत्ततः परम् || ८१ ||

रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् |
रक्तमाल्यं च तरुणं वामदक्षिणयोर्युतम् || ८२ ||

रत्या प्रीत्येक्षुकोदण्डपुष्पबाणमधः करे || ऊर्ध्वं पाशस्ततः पूज्यं पूर्वोक्तमनुभिस्त्रयम् || ८३ ||

रक्तवस्त्रपरीधानां सर्वाभरणभूषिताम् || पद्मद्वयकरां गौरवर्णां ध्यायेद्रतिं शुभाम् || ८४ ||

श्यामवर्णां रक्तवस्त्रां सर्वाभरणभूषिताम् || ताम्बूलास्यां भजेत्प्रीतिं घटपुष्पलसत्कराम् || ८५ ||

अग्रे तु कामदेवस्य वसन्तं परिपूजयेत् || सुधाकुम्भं वामहस्ते दक्षिणे कुसुमाकरम् || ८६ ||

कदम्बवनमध्यस्थं रक्तमाल्यांशुकावृतम् || ध्यायेद्वसन्तं गौराङ्गं सुरूपं लोकमोहनम् || ८७ ||

वंवसन्ताय हृदयं तस्य सप्ताक्षरो मनुः || पूजाद्यर्थं ततोग्नीशरक्षोवायव्यमध्यतः || ८८ ||

चतुर्दिक्षु वषड्दिर्घयुगनङ्गस्य बीजकम् || पठित्वा हृदयादीनि षडङ्गानि प्रपूजयेत् || ८९ ||

तदग्राष्टदले देवमुखतस्तु प्रदक्षिणम् || प्. १६०) कामं भस्मशरीरं चानङ्गमन्मथमेव च || ९० ||

वसन्तस्य सखायं च स्मरामीक्षुधनुर्धरम् || पुष्पबाणं तदग्रे तु लोकपानायुधानि च || ९१ ||

ततस्तु कामगायत्र्या यथासंख्यं जपं चरेत् || वसन्तं कामदेवं च श्लोकाभ्यां प्रार्थयेदिति || ९२ ||

वसन्ताय नमस्तुभ्यं वृक्षगुल्मलताप्रिय || सहस्रसुखसंवाह कामरूप नमोस्तु ते || ९३ ||

नमोस्तु पुष्पबाणाय जगदानन्दकारिणे || मन्मथाय जगन्नेत्रे रतिप्रीतिप्रियाय च || ९४ ||

कामदेवं प्रणम्याथ मूलन्यासं समाचरेत् || अवाहयेन्मध्यकुम्भे देवं साङ्गं च पूजयेत् || ९५ ||

आवाहितोसि देवश सद्यः काले मया विभो || कर्तव्यं तु यथालाभं पूर्णं पर्व त्वदाज्ञया || ९६ ||

इति सावरणं देवं दमनैः पूजयेत्ततः || धूपदीपादिकं कृत्वा नित्यहोमं समाचरेत् || ९७ ||

द्रव्यैस्तु देवकल्पोक्तैर्होमस्तु त्रिगुणो जपात् || पूजाशेषं समाप्याथ प्रार्थयेद्देवतामिति || ९८ ||

सर्वरूप जगन्नाथ वाञ्छितार्थफलप्रद || हृत्स्थान्पूरय मे देव कामान्कामेश्वरेश्वर || ९९ ||

एवं सम्प्रार्थ्य देवेशं विसृज्य च गुरुं ततः || द्रव्याद्यैस्तोषयेद्विप्रान्भोजयेदिति तद्विधिः || १०० ||

पवित्रनामनागाय वरो दत्तस्तु शम्भुना || पवित्रारोपणं यैस्तु न कृतं तत्फलं तव || १०१ ||

कुर्यान्मिथुनसंक्रान्तेस्तुलासंक्रमणावधि || आषाढ उत्तमो मासः श्रावणो मध्यमो भवेत् || १०२ ||

हीनो भाद्रपदः पक्षः श्वेतः सन्मध्यमोसितः || अष्टम्यां च चतुर्थ्यां च चतुर्दश्यां पवित्रकम् || १०३ ||

नवम्यामपि कर्तव्यं कृतादिषु यथाक्रमम् || सौवर्णं राजतं ताम्रं कलौ कार्पासकं शुभम् || १०४ ||

पट्टजं तु गृहस्थानां वनस्थानां तु वाल्कलम् || पद्मजातं सौगतानां शूद्राणां क्षौममिष्यते || १०५ ||

बटूनां दर्भसञ्जातं वैश्यानां तु शणोद्भवम् || मुञ्जजातं व्रतस्थानामाविकं समरैषिणाम् || १०६ ||

सरस्तु नवसूत्राणां त्वष्टोत्तरशतैः सरैः || पवित्रं परमं प्रोक्तं तदर्धं मध्यमं स्मृतम् || १०७ ||

कनिष्ठं सप्तविंशत्या तावदंगुलदीर्घकम् || पूजावरणदेवानां तुल्यानि रचयेद्बुधः || १०८ ||

षट्त्रिंशांगुलयः श्रेष्ठे चतुर्विंशच्च मध्यमे || द्वादशैव कनिष्ठे स्युरथान्यच्च पवित्रकम् || १०९ ||

स्कन्धाच्च नाभिपर्यन्तं दशग्रन्थिसमन्वितम् || क्रमज्ञानाञ्च शिष्याणां पवित्रं तदुदाहृतम् || ११० ||

प्. १६१) अन्येषां स्वेच्छया कुर्यात्तनुग्रन्थियुतानि च || ग्रन्थीनां वेष्टनं श्रेष्ठं षड्विंशद्भिश्च तन्तुभिः || १११ ||

चतुर्विंशतिभिर्मध्यमधमं भानुभिः [द्वादशसंख्याभिः ||] स्मृतम् || ग्रन्थयो वर्ममन्त्रेण कर्तव्या प्राग्दिने ततः || ११२ ||

रात्रौ सामयिकैः सार्धं पवित्राणि समानयेत् || पूजास्थानेथ सिन्दूरकुंकुमारक्तचन्दनैः || ११३ ||

कस्तूरीविधुलाक्षाभिर्गैरिकाद्यैर्विचित्रयेत् [कर्पूरः ||] || ग्रन्थिस्थानेषु संस्थाप्य पीठे तन्नवतन्तुषु || ११४ ||

देवतानवकम्पूज्यमोंकारश्चन्द्रमास्तथा || वह्निर्ब्रह्मा नागगुरू रविश्चापि शिवाशिवौ || ११५ ||

सर्वे देवाश्चापि पूज्याः शिरोमन्त्रेण [स्वाहेति मन्त्रेण |
] मन्त्रयेत् || अभ्युक्षयेच्च हृन्मन्त्रेणास्त्रमन्त्रेण रोधयेत् || ११६ ||

तेषां दशग्रन्थिषु च सम्पूज्या दशशक्तयः || क्रिया च पौरुषी वीरा गायत्री चापराजिता || ११७ ||

विजया च जया मुक्तिः सदाशिवमनोन्मनी || पवित्रेषु ततः पूज्यं मूलमन्त्रैः षडङ्गकम् || ११८ ||

घटे च विन्यसेदाद्यं पवित्रं च महत्तथा || कृत्वा न्यासादिकं तत्र प्राग्वत्पूजां प्रकल्पयेत् || ११९ ||

कुम्भे देवं समावाह्य यजेदावरणैः सह || देवस्य मूलमन्त्रेण पवित्रस्य समर्पणम् || १२० ||

दैवतेभ्यः पवित्राणि दीनानाथांश्च तर्पयेत् || दत्त्वा च भूयसीं पश्चात्स्वयम्भूञ्जीत वाग्यतः || १२१ ||

अतिस्पष्टोत्र सम्प्रोक्तः पवित्रारोपणे विधिः || काम्यकर्माणि वक्ष्यामि तत्रादौ शान्तिरुच्यते || १२२ ||

शान्तिर्नाम मनुष्याणां रोगकृत्यादिनाशनम् || विभज्य षोढाहोरात्रं पञ्चमेंशे तु शान्तिकम् || १२३ ||

हेमन्ते च प्रकर्तव्यं नासाधश्च यदा चलेत् || वायुस्तदा त्वपस्तत्त्वं तस्मिञ्छान्तिकमाचरेत् || १२४ ||

श्वेतवर्णेन निर्माय चतुरस्रं तु मण्डलम् || पूजयेच्चन्दनाद्यैर्वंबीजेन शत्रुशान्तिके || १२५ ||

उत्तराभिमुखो भूत्वा शान्तिकन्तु समाचरेत् || शान्तिकादौ रतिःपूज्या पद्ममुद्रां [पद्ममुद्रा करतले त्वंगुष्ठौ मिलितौ यदा |
हस्तौ तु सम्मुखौ कुर्यात्संहता उन्नतांगुलीः ||] च दर्शयेत् || १२६ ||

बद्ध्वा [पद्मासनलक्षणं प्रथममुक्तम् || वामजानुनिदक्षिणपदं दक्षिणजानुनि वामपदं निदध्यादिति ||] पद्मासनं स्थेयं नमोन्तः शान्तिके मनुः || प्. १६२) शान्तौ कुशानं [शान्तिकर्मणि गोचर्मासनं ग्रन्थान्तराज्ज्ञेयम् |
पुना रतिपूजनं तन्त्रविधेयम् |
] ग्राह्यं होमयेन्मृगमुद्रया || १२७ ||

मुक्त्वा कनिष्ठिकां यत्र हूयते सा मृगी भवेत् || त्रिषूत्तरासु पर्वासु शान्तिकं स्याद्द्विजन्मसु || १२८ ||

अथ वश्यं प्रवक्ष्यामि स्वायत्तीकरणं तु तत् || देवरक्षोराजलोकसर्पस्त्रीहयहस्तिनाम् || १२९ ||

प्रथमेंशे [दिवसप्रथमभागे ||] वश्यकर्म वसन्ते च प्रसिध्यति || नासोर्ध्वं वहते वायुरग्नितत्त्वं वहेत्तदा || १३० ||

वश्यं कर्म त्रिकोणेन रंबीजेनाग्निपूजनम् || रक्तवर्णेन निर्माय वश्यम्पूर्वमुखश्चरेत् || १३१ ||

वाणीं सम्पूजयेद्वश्ये पाशमुद्राम्प्रदर्शयेत् [तर्जनीमध्यमे वामे ह्यूर्ध्वमुख्यौ विधाय च || दक्षिणे द्वे अधो मुख्यौ सुमुख्यौ च परस्परम् || पाशमुद्रा भवेदेषा मिथः सम्पीडने तयोः |
] || स्वस्तिकासनमारुह्य स्वाहान्तं मन्त्रमुच्चरेत् || १३२ ||

छागलं [ग्रन्थान्तरे खड्गचर्म ||] चर्म वश्ये स्याद्धोमयेन्मृगमुद्रया || रक्तद्रव्यैरत्र होमो ध्यानमारक्तकं मतम् || १३३ ||

मृगान्त्यचित्रामित्रर्क्षविशाखाकृत्तिकासु तु || अथ स्तम्भम्प्रवक्ष्यामि तदुद्योगनिवारणम् || १३४ ||

शिशिरे स्तम्भनम्प्रोक्तं षष्ठाङ्गे तु दिनस्य तत् || अग्नेरपां च सैन्यस्य क्रुद्धस्य विषदंष्ट्रिणः || १३५ ||

तर्पणार्थं मेषरक्तमिश्रितन्तोयमावहेत् || जानुभ्यामवनीं गत्वा स्तम्भनस्य क्रियां चरेत् || १३६ ||

जारबौद्धरुजां स्तम्भो धर्मः प्रेतादिरक्षसाम् || नासादण्डेन संलग्नो वायुश्चेद्भूदयो भवेत् || १३७ ||

स्तम्भकर्म तदा कुर्याल्लंबीजेन वसुन्धराम् || अष्टकोणयुते पीते मण्डले तां समर्चयेत् || १३८ ||

प्राङ्मुखः स्तम्भनं कुर्याद्रमान्तत्र प्रपूजयेत् || विकटासनगो [जानुजङ्घान्तराले च भुजयुग्मं प्रकल्पयेत् |
विकटासनमेतत्स्यान्मुनिभिः परिभाषितम् ||] देव्यै गदामुद्रां [गदा तु सरलौ स्तौ त्वन्योन्यग्रन्थितांगुली |
अंगुष्ठौ मध्यमे भूयः संलग्ने सुप्रसारिते ||] प्रदर्शयेत् || १३९ ||

स्तम्भने वषडन्तश्च होमे मन्त्रः प्रकीर्तितः || गजचर्मासनं स्तम्भे गदामुद्राहुतौ तथा || १४० ||

पीतद्रव्यैश्चात्र होमः पीतवत्रादिधृक्स्वयम् || स्तम्भने भरणी चित्रा रोहिणी चोत्तरात्रयम् || १४१ ||

अथ विद्वेषणं वक्ष्ये प्रीतिनाशस्स तु द्वयोः || ग्रीष्मे विद्वेषणं घस्रस्यांशके तु द्वितीयके || १४२ ||

नासायां मध्यगे वायौ खोदये [आकाशतत्त्वोदये ||] द्वेषणं मतम् || प्. १६३) वर्तुले धूम्रवर्णे तु मण्डले खं समर्चयेत् || १४३ ||

हंबीजेनाथ विद्वेषं नैर्-ऋत्याभिमुखश्चरेत् || पूज्या धूमावती [ज्येष्ठा देवी ||] द्वेषे मुद्रा तु मुसला [मुसलाख्या भवेन्मुद्रा वामस्योपरि दक्षिणम् |
हस्तयोर्मुष्टियुगलं कुर्यात्सा विघ्ननाशिनी ||] भवेत् || १४४ ||

होममन्त्रं फडन्तोत्र विशेत्कुक्कुटकासने [कृत्वोत्कटासनं पूर्वं समपादद्वयं ततः अन्तर्जानुकरद्वन्द्वं कुक्कुटासनमीरितम् ||] || विद्वेषे जाम्बुकञ्चर्म लोहासनमथापि वा || १४५ ||

धूम्रवर्णैश्च होतव्यं तादृग्वस्त्रादि साधकैः || आर्द्राचतुष्टयं मूलं ज्येष्ठा विद्वेषणे मता || १४६ ||

उच्चाटनमथो वक्ष्ये तदरीणां प्रवासनम् || प्रावृडुच्चाटने शस्ता तृतीयाशे दिनस्य तत् || १४७ ||

तिर्यग्गते समीरे तु वायुर्वहति [वायुतत्त्वम् ||] तत्र तु || शत्रोरुच्चाटनं कुर्याद्यं बीजेन तमर्चयेत् || १४८ ||

षट्कोणं मण्डलं वायोः कृष्ऽन्ं षड्बिन्दुलाञ्छितम् || मृगचर्मादिकं तत्र वायव्यस्य च कर्मणि || १४९ ||

दुर्गां सम्पूजयेन्मुद्रामशनिन्तु [कनिष्ःआगुष्ठयुङ्मुद्रा त्रिकोणा त्वशनिर्मता |
] प्रदर्शयेत् || वज्रासनसमारूढः [ऊर्वोः पादौ क्रमान्न्यस्य जान्वोः प्रत्यङ्मुखांगुली |
करौ निदध्यादाख्यातं वज्रासनमनुत्तमम् ||] फडन्तश्चाहुतौ मनुः || १५० ||

धुम्रमुच्चाटने ध्यानं कृष्णद्रव्यैस्तथा हुनेत् || उच्चाटनं तथा कर्म क्षिप्रभेषु [हस्ताश्विनीपुष्याभिजित्सु |
] प्रशस्यते || १५१ ||

मारणं प्राणहरणं शत्रूणामीरितं तु तत् || मारणे वर्जयेद्विप्रानन्यांश्चापि सुधार्मिकान् || १५२ ||

स्त्रीबालव्यतिरिक्तेषु राजवैरिषु योजयेत् || सरोषतो वा लोकाना रक्षार्थं तु तदा हरेत् || १५३ ||

न तु लोभाद्भयान्मन्त्री कुर्याच्चैव तु मारणम् || प्रायश्चित्तं च कर्तव्यं देवि तद्दोषशान्तये || १५४ ||

अयुतं प्रजपेन्मन्त्रं जहुयात्तावदेव हि || सघृतैः पायसैः कृष्णतिलैर्वा घृतसंयुतैः || १५५ ||

आत्मरक्षा प्रकर्तव्या कर्मकाले सदा बुधैः || अह्नश्चतुर्थः षष्ठोंशः [वेति शेषः |
] शरन्मारणकर्मणि || १५६ ||

वश्यवन्मारणे कार्यं पूजाद्यं वह्निमण्डले || दक्षिणाभिमुखः कुर्याद्भद्रकालीं समर्चयेत् || १५७ ||

दर्शयेत्खड्गमुद्राञ्च [ऊर्ध्वस्य वामहस्तस्य तर्जन्याद्यंगुलित्रयम् |
प्रसार्य योजयेदन्ये मिथोंगुष्ठकनिष्ठिके |
खड्गमुद्रेयमुदिना सर्वशत्रुनिकृन्तनी] विशेद्भद्रासने [सीविन्याः पार्श्वयोर्न्यस्य गुल्फयुग्मं सुनिश्चलम् |
वृषणाधः पादपार्ष्णी पाणिभ्यां परिबन्धयेत् |
गुदलिंगयोर्मध्ये या नाडी सीविनीत्युच्यते तत्र गुल्फो निधाय वृषणयोरधः प्रपदे कृत्वा हस्ताभ्यां प्रपद बन्धनं भद्रासनम्] हुनेत् || प्. १६४) हुंकारान्तेन मन्त्रेण माहिषं वाथ लोहजम् || १५८ ||

आसनं शूकरीमुद्रा करसङ्कोचतो भवेत् || ध्यानं कुर्यात्कृष्णवर्णं कृष्णद्रव्यैश्च पूजनम् || १५९ ||

उग्रतीक्ष्णोडुषु [२- पूर्वाफाल्गुनीपूर्वाषाढापूर्वाभाद्रपदाभरणीमघा उग्राः |
३- आर्द्राश्लेषामूलयेष्ठास्तीक्ष्णाः |
] स्वस्य चन्द्रताराबलादिके || शत्रोश्चैव बलाभावे चैकपादोपरि स्थितः || १६० ||

उष्णोदकं समरिचं तर्पणार्थन्तु मारणे || तिष्ठन्कुर्यान्मारणं वा भूमौ पादं निवेशयेत् || १६१ ||

वामपादनिविष्टः स चरेत्तत्र तु तर्पणम् || प्रकीर्णान्यथ वक्ष्यन्ते त्वभिचाराश्च तत्र च || १६२ ||

दक्षिणाभिमुखः कुर्यान्मेषीचर्मणि संस्थितः || लोहासनगतो वापि शूकर्यां मुद्रया हुनेत् || १६३ ||

धनसिद्धिकरं कर्म पश्चिमाभिमुखश्चरेत् || मृगान्त्यचित्रामैत्रेषु देवध्यानन्तु राजसम् || १६४ ||

गोचर्मणासनं मोहे स्वाहान्तं मन्त्रमुच्चरेत् || हरिद्रामिश्रितन्तोयं तर्पणार्थं प्रयोजयेत् || १६५ ||

स्वाती च रोहिणी तत्र श्रेष्ठा चापि सुखासनम् || अथ सर्वाणि कर्माणि रौद्रभे तु प्रसाधयेत् || १६६ ||

नानाविधेषु कार्येषु व्याघ्रचर्म समीरितम् || सर्वरक्षमिभाकारं ध्यायेन्निश्चलमानसः || १६७ ||

पीयूषवर्षसंयुक्तं पूर्णचन्द्रसमप्रभम् || ध्यायेदेवंविधं वापि सर्वकार्यषु साधकः || १६८ ||

आयुष्करस्तु श्रवणे ध्यायेद्देवं च राजसम् || अपमृत्युजये प्रोक्तं पूर्वा चैवोत्तरात्रयम् || १६९ ||

वषडन्तो होममन्त्रो ध्यायेद्राजसदैवतम् || आकर्षणं वह्निकोणसम्मुखस्तु समाचरेत् || १७० ||

वश्योक्तमखिलं ज्ञेयमाकर्षे कार्यसिद्धये || सर्वज्ञानप्रसिद्ध्यर्थमीशानाभिमुखो भवेत् || १७१ ||

सर्वविज्ञानकार्येषु श्वेतकम्बलमासनम् || पुष्ट्यादिसाधने मन्त्रो वौषट्पल्लवसंयुतः || १७२ ||

हंसी स्यात्तर्जनीमुक्ता मुद्रा होमस्तु पौष्टिके || यथोक्तदेवताध्यानं कुर्यात्पौष्टिककर्मणि || १७३ ||

सर्वत्र भयनाशाय वषडन्तो हुतौ मनुः || महासुखसमायुक्तध्यानं वै निर्भयम्भवेत् || १७४ ||

प्. १६५) मन्त्रभञ्जनकार्येषु वषडन्तो हुतौ मनुः || खण्डने तु फडन्तः स्याद्धोमो ध्यानन्तु तामसम् || १७५ ||

सौख्यायोदङ्मुखः कुर्याज्जपञ्च रुरुचर्मणि || कल्पान्ताग्निसमं युद्धे ध्यायेद्देवं च तामसम् || १७६ ||

अथ वक्ष्यामि काम्यादौ सम्पूज्या याश्च देवताः || नित्यं समर्चयेद्विघ्नं वारेशांश्च तिथीश्वरम् || १७७ ||

नक्षत्रेशास्ततः पूज्यास्तत्तत्कर्माधिदेवताः || ततोर्चयेदिष्टदेवन्ततो होमं समाचरेत् || १७८ ||

क्रमाद्वारेश्वरौ सूर्यशिवौ सोमाम्बिके तथा || गुहाङ्गारौ ज्ञविष्णू च चतुर्वक्त्रबृहस्पती || १७९ ||

शुक्रेन्द्रौ शनिकालौ च सूर्यादौ पूज्यदेवताः || प्रोक्ता वारेश्वरा देवि तिथीशांस्त्वमथो शृणु || १८० ||

ब्रह्मा विधाता विष्णुश्च यमः शीतकरो गुहः || इन्द्रश्च वसवो नागा धर्मः शिवदिवाकरौ || १८१ ||

कन्दर्पश्च कलिर्विश्वेदेवाश्च पितरस्तथा || आश्विनेयौ यमो वह्निर्ब्रह्मा चन्द्रः शिवोऽदितिः || १८२ ||

गुरुः सर्पाश्च पितरो भगोर्यमदिवाकरौ || त्वष्टा वायुरथेन्द्राग्नी मित्रश्चैव सुरेश्वरः || १८३ ||

निर्-ऋतिश्च जलं विश्वेदेवाश्चापि विधिर्हरिः || वसवो वरुणोऽजैकपादहिर्बुध्न्यपूषकौ || १८४ ||

नक्षत्रेशा इमे साभिजित्का अष्टौ च विंशतिः || प्रणवादिचतुर्थ्यन्ता [ओं ब्रह्मणे नमः ओं विधात्रे नमः इत्यादि |
] नमसा च समन्विताः || १८५ ||

एतेषां नाममन्त्रास्तु ग्राह्याः पूजादिसाधने || १८६ ||

सिद्धमन्त्रः प्रकुर्वीत काम्यकर्माणि नान्यथा || कृतानि विपरीतानि कृत्वा निरयमाप्नुयात् || १८७ ||

गुरुभक्तः शुचिः स्नातः काम्यकर्मविधानवित् || आत्मनश्च परस्यापि काम्यकर्माणि चाचरेत् || १८८ ||

षट्कर्माणि परार्थञ्च कुर्यान्मन्त्रविदुत्तमः || एतेषामेव कुर्वीत नान्येषान्तु कदाचन || १८९ ||

राज्ञो वा राजपुत्रस्य धनाढ्यस्येतरस्य वा || आस्तिकस्यापि भक्तस्य न्यायार्जितधनस्य च || १९० ||

कृतज्ञस्य वदान्यस्य गुरुदेवार्चकस्य च || सुशीलस्य सुभक्तस्य कार्यं कुर्याच्च देशिकः || १९१ ||

राजा कारयितान्यो वा प्रणिपत्य च साधकम् || वृणुयात्कर्मकर्तारं दीक्षोक्तविधिना ततः || १९२ ||

प्. १६६) साधकः प्रयतो भूयाद्द्विजः सन्तोषवाञ्छुचिः || जितेन्द्रियो जितक्रोधो मानक्षोभविवर्जितः || १९३ ||

नित्ये नैमित्तिके रक्तः कुर्यात्कामाननेकधा || कूरकर्म यथोक्तन्तु कृत्वाभ्यङ्गं समाचरेत् || १९४ ||

स्नात्वा सावरणा साङ्गां पूजयेदिष्टदेवताम् || अष्टोत्तरसहस्रञ्च रक्षार्थं प्रजपेन्मनुम् || १९५ ||

मां रक्षरक्षेत्युक्त्वा च नत्वा देवं समुत्सृजेत् || अन्यैः सुहृद्भिः सुस्निग्धैरात्मरक्षान्तु कारयेत् || १९६ ||

मृत्युञ्जयादिभिर्मन्त्रैः सूर्यसेवार्घ्यदानकैः || जपहोमार्चनाद्यैश्च ब्राह्मणाराधनादिभिः || १९७ ||

प्रयोगकरणं सम्यग्गुरुतः शास्त्रतस्तथा || ज्ञात्वा प्रयोगान्कुर्वीत ह्यन्यथा दुःखमाप्नुयात् || १९८ ||

ततः कारयिता राजा तोषयेत्साधकन्धनैः || प्रणिपत्य मुहुश्चापि यथा स्यात्तुष्टिमास्तथा || १९९ ||

सिद्धमन्त्रस्य सिद्ध्यन्ति षट् कर्माणि न संशयः || नैव सिद्ध्यन्त्यसिद्धस्य देवताशापमाप्नुयात् || २०० ||

काम्यप्रयोगकाराणां परलोको न विद्यते || प्रयोगसिद्धिरेवैषां फलमन्यन्न विद्यते || २०१ ||

होमतर्पणमन्त्राद्यैर्नानाध्यानविशेषकैः || आत्मनश्च परस्यापि षट् कर्माणि सुसाधयेत् || २०२ ||

एकलक्षं जपेन्मन्त्री ध्यानविन्यासयोगतः || प्रयोगदोषशान्त्यर्थमात्मरक्षार्थमेव च || २०३ ||

न चेन्न फलमाप्नोति देवताशापमाप्नुयात् || अग्निप्रभाधूमवर्णध्वनिगन्धशिखाकृति || दूतचेष्टादिकं सर्वं कथयेत शुभाशुभम् || २०४ ||

मन्त्रयित्वानुसन्धानं देहावेशादिलक्षणम् || गुरुभक्तिः सदा कार्या कर्मकाले विशेषतः || २०५ ||

ऐहिकामष्मिकानान्तु गुरुरेव परायणम् || मारणोच्चाटनादीनि क्षुद्राणां वाममार्गिणाम् || २०६ ||

क्षुद्रदेवास्साधयति सुखं दातुं न ते क्षमाः || परनिष्ठापराणान्तु वामिनां परमा गतिः || २०७ ||

यावद्दिष्टं तावदेव प्रतिष्ठा च धनादिकम् || दाक्षिणात्या न कुर्वन्ति कदाचिदिह निन्दितम् || २०८ ||

तेषां प्रभावसंसिद्धिः परलोकश्च शाश्वतः || ये नराः कुलसंशुद्धाः कल्पोक्तेनैव संस्कृताः || २०९ ||

ते चेन्निपतिता वामे पातकं किमतः परम् || इयं प्रोक्तोत्तरा चर्या किमन्य च्छ्रोतुमिच्छसि || २१० ||

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते सिद्धिस्थिरीकरणप्रकाशः सप्तमः || ७ ||

Prakāśa 8 – Kennzeichen der Mudrās

श्रीदेयुवाच ||

मुद्राणां लक्षणं ब्रूहि यास्तुल्या वामदक्षिणे || सर्वदेवप्रिया याश्च पूजासाफल्यदायिकाः || १ ||

श्रीशिव उवाच ||

वक्ष्येथ नाम पूर्वाणि मुद्राणां लक्षणानि तु || नित्यं यः कुरुते सर्वा देवास्स्युस्तस्य सौख्यदाः || २ ||

अंकुशाख्या भवेन्मुद्रा पृष्ठेनामा कनिष्ठया || अंगुष्ठे तर्जनी वक्रा सरला चापि मध्यमा || ३ ||

सा कण्ठमुद्रा हस्ताभ्यां सर्वकाण्ठो निबध्यते || यत्रैकमुष्टिरंगुष्ठो दक्षो वामं समाश्रितः || ४ ||

वह्निप्राकारमुद्रा तु त्रिशूलाग्रावुभौ करौ || व्यत्यस्तावभितो वह्नेर्नयेदस्त्राह्वयापि च || ५ ||

अंगुलीन्यासमुद्रास्तु पञ्चांगुल्यः स्पृशेत्क्रमात् || अंगुष्ठेन चतस्रस्तु तर्जन्यांगुष्ठमेव च || ६ ||

हृदयाख्या भवेन्मुद्रांगुष्ठवर्ज्याः प्रसारिताः || चतस्रोंगुलयो व्यस्ता हृदये तस्य मन्त्रतः || ७ ||

शिरोमुद्रा तु सा ज्ञेया तलं पार्श्वे प्रसारितम् || चतस्रोंगुलयश्चापि प्रसार्य शिरसा धृताः || ८ ||

शिखामुद्रा तु सा ज्ञेया मुष्टिं चांगुष्ठपल्लवम् || बद्ध्वा तेन शिखां स्पृष्ट्वा शिखामन्त्रेण साधकैः || ९ ||

कवचाख्या त्वियं मुद्रा ह्यंगुल्यः कृतनालिकाः || स्कन्धादानाभिपर्यन्तं पाण्योस्तु प्रक्रमो भवेत् || १० ||

त्रिनेत्रमुद्रा ख्यातेयं तर्जनीदक्षनेत्रगा || भाले मध्या त्वनामा तु वामे त्र्यक्षदिवौकसाम् || ११ ||

द्विनेत्रमुद्रा ख्यातेयं तर्जनीदक्षनेत्रगा || मध्यमावामनेत्रे च सूर्यविष्ण्वादिभेदयोः || १२ ||

अष्टमुद्राः समाख्याताः सर्वारिष्टनिवारिणीः [प्रथमार्थे द्वितीया |
] अंगुष्ठ तर्जन्यग्राभ्यां हस्तयोरभिशब्दिताः || १३ ||

नित्ये नैमित्तिके चैता अङ्गषट्कस्य मुद्रिकाः || अथ काम्येषु वक्ष्यामि षण्मुद्राणान्तु लक्षणम् || १४ ||

अंगुष्ठयोः पार्श्वयोगस्तर्जन्यौ सरले युते || मध्यमेऽन्योन्यकरयोः पृष्ठलग्ने परे तथा || १५ ||

अन्योन्यान्तर्गते केचिदुच्चे च करपृष्ठतः || एषा नमस्कारमुद्रा ललितायाः प्रकीर्तिता || १६ ||

तर्जन्यौ सरले कृत्वा शेषांगुल्यो नखैर्युताः || कनिष्ठामध्यपर्वस्थावंगुष्ठौ क्षोभिणी मता || १७ ||

सरले तर्जनीमध्ये कनिष्ठानामिके युते || अग्रयोश्च कनिष्ठास्थावंगुष्ठौ द्राविणी भवेत् || १८ ||

कनिष्ठामध्यमांगुष्ठौ तर्जन्यौ विनतेर्धतः || मध्यमे सरले शेषा मुखयुक्तानुकर्षिणी || १९ ||

प्. १६८) हृन्मुद्रा स्यादियं काम्ये तथा शैवागमेषु च || कृतमुष्टिपदौ हस्तौ कृत्वांगुष्ठौ हृदि न्यसेत् || २० ||

शिरोमुद्रा ललाटाग्रे कृतौ मुष्टियुतौ करौ || कुर्यादूर्ध्वप्रसक्ताग्रे तर्जन्यौ ज्येष्ठया युते || २१ ||

शिखामुद्रा करौ मुक्तौ कृतमुष्टियुताकृती || ज्येष्ठांगुल्यौ प्रसक्ताग्रे कनिष्ठे तूर्ध्वतः स्थिते || २२ ||

कवचाख्या प्रसक्ताख्यावंगुष्ठौ च त्रिकोणवत् || तर्जन्यावानयेन्मूर्ध्नि मुखे पार्श्वे करे हृदि || २३ ||

नेत्रमुद्रा तु सरला मध्या तर्जन्यनामिके || धनुषालाभे संयुताग्रे अंगुष्ठककनिष्ठिके || २४ ||

अस्त्रमुद्रा करद्वन्द्वस्फोटे चापि तदुत्तरम् || तर्जन्या शब्दयेत्तभ्यां ज्येष्ठाग्रवलिताग्रया || २५ ||

गालिनी तु कनिष्ठांगुष्ठौ युतावितरेतरम् || करयोस्तर्जनीमध्या नामायुक्ता न वक्रिताः || २६ ||

धनुर्मुद्रा कनिष्ठानामिके चान्योन्यहस्तयोः || तर्जनीमध्यमे चापि दक्षस्कन्धे प्रदर्शयेत् || २७ ||

शङ्खमुद्रा तु वामाख्यमंगुष्ठं दक्षमुष्टिगम् || वामांगुल्यग्रदक्षांगुष्ठस्य योगे प्रजायते || २८ ||

योनिमुद्रान्योन्यकरकनिष्ठातर्जनीयुतिः || व्यस्ते तले तु शेषांगुल्यावंगुष्ठावनामिके || २९ ||

मत्स्यमुद्राधोमुखन्तु वामहस्त तदूर्ध्वतः || तादृशं दक्षिणं न्यस्यांगुष्ठकौ चालयेदिति || ३० ||

आवाहनी तु मुद्रा स्यात्कराभ्यामञ्जलिं चरेत् || अनामयोर्मूलपर्वण्यंगुष्ठौ निक्षिपेत्तदा || ३१ ||

स्थापनी सा तु मुद्रा स्यादेषावाहनमुद्रिका || अधोमुखीकृता सा चेत्सर्वसंस्थापने क्षमा || ३२ ||

सम्मुखीकरणी मुद्रा सा ज्ञेया मुष्टियुग्मकम् || देवानां स्थापने या स्यादंगुष्ठद्वयमुक्तकम् || ३३ ||

सकलीकरणीमुद्रा सा प्रोक्ता यः षडङ्गके || देवानां क्रियते न्यासो ह्यङ्गानामङ्गिने सकृत् || ३४ ||

अवगुण्ठनमुद्रा तु दीर्घाधोमुखतर्जनी || मुष्टिबद्धस्य हस्तस्य सव्यस्य भ्रामयेच्च ताम् || ३५ ||

महामुद्रा समुद्दिष्टा परमीकरणे तु या || अन्योन्यग्रथितांगुष्ठप्रसारितकरांगुली || ३६ ||

सन्निद्धापनमुद्रा स्याद्योगो मुष्टिद्वयस्य तु || सम्यक्कृतावुभौ जातौ त्वंगुष्ठावुच्छ्रितौ यदि || ३७ ||

संरोधिनी तु सा मुद्रा मुष्ट्योरन्तः प्रवेशितौ || द्वावंगुष्ठौ मुष्टियोगो निश्छिद्रश्च भवेद्यदि || ३८ ||

दन्तमुद्रा गणेशस्य वल्लभा दक्षहस्तजा || उत्तानोर्ध्वमुखी मध्यसरलाबद्धमुष्टिका || ३९ ||

प्. १६९) पाशाह्वया तु वामस्य तर्जन्यां दक्षतर्जनीम् || क्षिप्त्वा बद्धा मुष्टियुगं तर्जन्यंगुष्ठयोर्युतिः || ४० ||

अन्योन्यान्तर्गता लग्नाः करांगुल्यस्त्वधोमुखाः || अंगुष्ठौ चोत्थितौ लग्नौ मुद्रा वशकरी मता || ४१ ||

कनिष्ठाग्रे तु चान्योन्यं सम्प्रसारितहस्तयोः || मध्यमाभ्यां दृढं बद्धानामिकाग्रे तु योजयेत् || ४२ ||

तर्जन्यौ नामिकाग्रे [अकारलोपः |
] तु प्रपयेन्मध्यमोपरि || अन्योन्यांगुष्ठकौ लग्नौ मुद्रा चोन्मादिनी मता || ४३ ||

मध्यमाभ्यां दृढं बद्धा कनिष्ठागुलयः पराः || संयोज्यानामिकामुख्यौ सरलौ स्यान्महांकुशा || ४४ ||

विघ्नमुद्रा दीर्घरूपा मध्यमाधोमुखी यदा || तर्जनी मध्यमासन्धिनिर्गतांगुष्ठमुष्टिका || ४५ ||

परशोश्च भवेन्मुद्रा तिर्यक् संयोज्य चांगुलीः || प्रसृतासंयुता हस्ता तलं हस्ततलान्वितम् || ४६ ||

लण्ड्डुकाख्या भवेन्मुद्रा ऊर्ध्वास्यं दक्षिणं करम् || अंगुल्यो विरला नम्रा निम्नं करतलं तथा || ४७ ||

बीजपुरणया वाममुष्टावुत्तानके सति || दन्ताद्याः षड्गणेशस्यांकुशमुद्रा च सप्तमी || ४८ ||

वराख्या सा तु मुद्रा स्यादतिसन्निहितांगुलिम् || उत्तानं दक्षिणं हस्तं कृत्वाधो नामयेच्छनैः || ४९ ||

अभयस्य तु मुद्रैषा कथिता चाभयप्रदा || पराङ्मुखं वामहस्तं बद्धांगुष्ठकनिष्ठिकम् || ५० ||

दक्षहस्तस्य मध्या च तर्जनी प्रसृते युते || चर्ममुद्रा वामहस्तन्तिर्यक्च सम्प्रसार्य हि || आकुञ्चितगतिं कुर्यादियं शक्तिप्रिया मता || ५१ ||

धनुर्मुद्रा वाममध्याग्रं तर्जन्यग्रयोजितम् || वामस्कन्धे कनिष्ठाग्रे दक्षिणांगुष्ठपीडितम् || ५२ ||

मुसलाख्या भवेन्मुद्रा वामस्योपरि दक्षिणम् || हस्तयोर्मुष्टियुगलं कुर्याद्विघ्नविनाशनम् || ५३ ||

दुर्गामुद्रा तु करयोर्मुष्टिं कृत्वा नियोजयेत् || वामस्योपरि दक्षञ्च शिरसि स्थापयेदिति || ५४ ||

बाणमुद्रा दक्षमुष्टेस्तर्जन्या दीर्घया भवेत् || अष्टौ वराद्याः पाशश्चांकुशः शक्तेर्दश स्मृताः || ५५ ||

चक्रमुद्रा करतले विपरीते विधाय च || अंगुष्ठौ वेशयेच्चैव कनिष्ठानामिकान्तरे || ५६ ||

गदा तु सरलौ हस्तावन्योन्यग्रन्थितांगुली || अंगुल्यौ मध्यमे भूयः सल्लंग्ने सुप्रसारिते || ५७ ||

पद्ममुद्रा करतले त्वंगुष्ठौ मिलितौ यदा || हस्तौ तु सम्मुखौ कुर्यात्संहता उन्नतांगुली || ५८ ||

प्. १७०) वेणुमुद्रा वामदक्षकनिष्ठांगुष्ठयोगतः || वामांगुष्ठोदरे शेषा वक्राचोर्ध्वं कनिष्ठिका || ५९ ||

श्रीवत्संमध्यमानामेंगुष्ठबद्धौ करौ युतौ || कनिष्ठयोर्मूलगते तर्जन्यौ भवतो यदि || ६० ||

कौस्तुभा मध्यमानामांगुष्ठाश्चोर्ध्वमुखा युताः || कनिष्ठातर्जनीग्रन्थिः स्थाप्यौ तिर्यङ्मुखौ करौ || ६१ ||

वनमालाह्वया मुद्रा तर्जन्यंगुष्ठमुष्टिका || करद्वयेन मालावत्स्पृशेदाकण्ठपादकम् || ६२ ||

ज्ञानमुद्रा हृदि न्यस्तौ तर्जन्यंगुष्ठकौ युतौ || वामहस्ताम्बुजं वा तु यदि मूर्धनि विन्यसेत् || ६३ ||

विश्वाख्या दक्षिणांगुष्ठवेष्टिअं वाममुच्छ्रितम् || अन्योन्यहस्तांगुलयस्तन्निष्ठाः स्थापयेद्धृदि || ६४ ||

प्रकोष्ठं वेष्टयित्वा च मणिबन्धौ च कूर्परौ || सम्यक्संयोज्य मध्ये च तर्जनीभ्यां सुवेष्टयेत् || ६५ ||

योगं मध्यमयोः कृत्वा द्वावंगुष्ठौ परांगुली || अन्योन्यान्तर्गते दक्षकर्णान्ते खेचरी मता || ६६ ||

आद्यपर्वणि चान्योन्यं सम्यग्योज्य कनिष्ठिके || अनामिके च तदधो मध्यपर्वणि योजयेत् || ६७ ||

तासामूर्ध्वमनामे च नखाग्रे संनियोजयेत् || सान्तरौ करभौ कृत्वा तर्जन्यंगुष्ठयोर्युतिः || ६८ ||

एषा तु वरयोन्याख्या मुद्रा बीजाह्वया मता || बीजविद्यां बिना सर्वं वृथा पूजाजपादिकम् || ६९ ||

मुद्रा गरुडस्य हस्तकौ विपरीतौ ग्रथिते कनिस्ठिके || तर्जन्यपि संयुता मिथः पदतुल्ये उभयांगुली वरे || ७० ||

नृसिंहमुद्रा चिबुकाधरौ तु जान्वोस्तु मध्येथ करौ कुलग्नौ || चेत्कम्पते व्यात्तमुखस्य जिह्वा संलेलिहाना नयने तु भीमे || ७१ ||

मुद्रा नरहरेः सर्वा अंगुल्यश्चेदधोमुखाः || अंगुष्ठाभ्यां च करयोराक्रमेत कनिस्ठिके || ७२ ||

वाराही दक्षमुत्तानं न्युब्जं वामं तदूर्ध्वतः || अंगुल्यग्राणि संयोज्याधस्तात्सन्नमयेदिति || ७३ ||

हयग्रीवा वामहस्ते तुल्यांगुल्यस्त्वधोमुखा || रुद्ध्वा मध्यमया मध्यां नामयेदिति सा भवेत् || ७४ ||

काअमाख्या संपुटौ हस्तौ मध्यमे पृष्ठगे यदा || तर्जन्यौ मध्यमासंस्थमंगुष्ठयुगलं यदि || ७५ ||

त्रैलोक्यमोहिनी मुद्रा मूर्ध्नि सांगुष्ठमुष्टिकैः || चक्राद्याश्च धनुर्बाणपर्यन्ताश्च हरेरिमाः || ७६ ||

विधुमुद्रा करौ पद्मनिभौ श्लिष्टे च मध्यमे || अंगुल्यौ धारयेत्तस्मिंश्चन्द्राग्रे सम्प्रदर्शयेत् || ७७ ||

प्. १७१) सौरमुद्रा वामहस्तमधश्चोत्तानमूर्द्धतः || कमलाकृतिमुद्रा स्यादुभे स्तो भास्करप्रिये || ७८ ||

लिङ्गमुद्रा दक्षिणाख्यं वामांगुष्ठेन वेष्टयेत् || वामांगुल्यौ दक्षिणाभिर्वेष्टयेत्सा शिवप्रिया || ७९ ||

त्रिशूलाख्या भवेन्मुद्रा अंगुष्ठेन कनिष्ठिकाम् || बद्ध्वा प्रसारयेच्छेषमंगुलीनां त्रयं तदा || ८० ||

मालामुद्रांगुष्ठतर्जन्यग्रं तु ग्रन्थयेद्दृढम् || प्रसारयेदंगुलीनां त्रयं जपसुसिद्धये || ८१ ||

मृगमुद्रा तर्जनी च कनिष्ठा चोच्छ्रिताग्र्का || अनामिकागुष्ठमध्याग्राणि तिर्यग्युतानि च || ८२ ||

खटाङ्गमुद्रा षडक्त्रा शिवस्यातिप्रिया भवेत् || पञ्चांगुल्यो दक्षिणाश्चेन्मिलिता ऊर्ध्वमुच्छ्रिताः || ८३ ||

कपालिनी भवेन्मुद्रा वामांसे वामहस्तकम् || स्थापयित्वा पात्रवच्च कुर्यात्सा भैरवप्रिया || ८४ ||

डमरुः शिथिलां मुष्टिं कृत्वा मध्यां समुन्नताम् || प्रचालयेत्कर्णपार्श्वे दशैताः शूलिना मताः || ८५ ||

आसनाख्या पद्ममुद्रा सूपविष्टः सुखासने || स्वस्वजानुस्थितौ हस्तौ कलिकाभावधोमुखौ || ८६ ||

कुशलाख्या भवेन्मुद्रा करावुन्नामितौ यदि || आन्दोलितौ फणाकारौ स्वस्वदिग्भागसंस्थितौ || ८७ ||

वाममुष्टिं दृधं बद्ध्वा तर्जनीं सम्प्रसारयेत् || आनयेद्वामकर्णे तां मुद्रा सौभाग्यदायिनी || ८८ ||

अंगुष्ठगुम्फितां मुष्टिं बध्नीयाद्दक्षपाणिना || रिपुजिह्वाग्रहाख्येयं मुद्रिका शत्रुनाशिनी || ८९ ||

सागताख्या भवेन्मुद्रा वितस्त्यन्तरगौ करौ || उत्तानावूरुदेशस्यासन्नौ नम्रस्तथा पुमान् || ९० ||

अर्घ्यमुद्रा तु सा ज्ञेया दृढो निश्छिद्र एव च || अञ्जलिस्तु यदा बद्धौ मुष्टी कर्णवदाश्रितौ || ९१ ||

पाद्यमुद्रा त्वर्घ्यमुद्रासमायन्तु विशेषकः || अंगुष्ठतर्जनीयोगः कर्तयो हस्तयोर्द्वयोः || ९२ ||

मुद्राचमनसञ्ज्ञा तु निम्ने करतले युताः || हीनाः कनिष्ठजास्तिस्रोऽंगुष्ठाग्रं तर्जनीयुतम् || ९३ ||

मधुपर्कस्य मुद्रा स्यादियं चाधोमुखी यदि || अनामिकांगुष्ठयोश्चेदग्रयोगः प्रजायते || ९४ ||

स्नानमुद्रा दक्षहस्तमुष्टिः स्याच्चेदधोमुखी || कनिष्ठयापि युक्तासास्नानेनन्तफलप्रदा || ९५ ||

वस्त्रमुद्रा दक्षहस्तं कृत्वोत्तानाञ्च मध्यमाम् || अंगुष्ठेन स्पृशेदेषा दाने वस्त्रस्य धारणे || ९६ ||

आभूषणस्य मुद्रा स्यादियं चाधोमुखी यदि || प्. १७२) अनामिकांगुष्ठयोश्चेदग्रयोगः प्रजायते || ९७ ||

स्नानमुद्रा समाख्याता कनिष्ठागुष्ठयोगतः || उपवीतस्य करणादिके स्खलितधारणे || ९८ ||

गन्धस्य मुद्रा विज्ञेयाथोत्तानं हस्तमाचरेत् || श्रेष्ठाग्रेण कनिष्ठाग्रे स्पृशेत्स्याद्गन्धधारणे || ९९ ||

पुष्पाख्या च भवेन्मुद्रा हस्तं चाधोमुखं कुरु || तर्जन्यग्रे तथांगुष्ठाग्रं संयोज्येति पूजने || १०० ||

धूपमुद्रा तु देवादिधूपने सम्प्रसारिता || अंगुष्ठाग्रेण तर्जन्याः स्पृशेदग्रं च पूर्ववत् || १०१ ||

दीपमुद्रा प्रोच्यतेथ दीपे सर्वप्रियङ्करा || ज्यष्ठाग्रेण स्पृशेदग्रं मध्यमायाश्च पूर्ववत् || १०२ ||

नैवेद्यमुद्रा देवानां पूर्ववत्परिकीर्तिता || विशेषोनामिकाग्रन्तु ज्यष्ठाग्रेण तु योजयेत् || १०३ ||

ग्रासमुद्रा सव्यहस्तं प्रफुल्लकमलाकृतिम् || दर्शयेत्पञ्चवायूनामुच्यन्ते पञ्चमुद्रिकाः || १०४ ||

प्राणमुद्रामथो वक्ष्ये भोजनादौ प्रदर्शयेत् || कनिष्ठानामिके सम्यगंगुष्ठाग्रेण योजयेत् || १०५ ||

मुद्रापानस्य विज्ञेया तर्जनीमध्ययोर्युतौ || एतद्दर्शनतो वायुरोधाद्योगी विमुच्यते || १०६ ||

व्यानमुद्रा तु सा ज्ञेया मध्यमानामिके युते || समस्तदेहगो वायुर्दृष्ट्वा तां सुप्रसीदति || १०७ ||

उदानवायोर्मुद्रा स्यादंगुष्ठेन समन्विता || तर्जनीमध्यमानामास्सर्वरोगापनोदिनी || १०८ ||

समानवायोर्मुद्रा स्याद्यदा पञ्चांगुलीयुतिः || प्रणवादिचतुर्थ्यन्ता नमोऽन्तानाममन्त्रकाः || १०९ ||

कनिष्ठांगुष्ठसंयोगे सरलं चांगुलीत्र्यम् || महायोन्यभिधा मुद्रा सुन्दर्यानन्ददायिनी || ११० ||

करौ संवलितौ कृत्वा चान्योन्यासक्तकांगुली || अन्तर्वलितमुत्थाप्य तर्जन्यौ सरले कृते || १११ ||

कुर्याअन्नमस्कृतिम्पश्चाच्छक्त्युत्थापनमुद्रिका || आनीता शक्तिरनया स्वस्थाने वरदा व्रजेत् || ११२ ||

सप्तजिह्वाख्यमुद्रा तु प्रसृतांगुलिकौ करौ || कनिष्ठांगुष्ठयुगलं मणिबन्धौ च संयुतौ || ११३ ||

मुद्रा भूतबलेः प्रोक्ता सर्वांगुलिसमागमः || अन्तश्च शुषिरे हस्ते काकतुण्डनिभे मुखे || ११४ ||

नाराचाग्रे वामहस्तं पृष्ठे दक्षं समानयेत् || शनैः शनैश्च सरले तर्जन्यो मुद्रिताः पराः || ११५ ||

संहाराख्याधोमुखो वामहस्तो दक्षस्योर्ध्वं ग्रन्थितागुल्य एवम् || प्. १७३) पर्यस्तौ बद्धौ करौ स्याद्विसर्गे बल्यादीनां देवता तुष्टित्क्र्त्री || ११६ ||

अशनिर्नाम सा मुद्रा ऊर्ध्वास्या वामतर्जनी || अधोवक्त्रा परा तत्र संयुक्तारिविनाशिनी || ११७ ||

विधुमुद्रांगुलीभिश्चेन्मुद्रा बद्धा तु मुष्टिका || तर्जन्यंगुष्ठसंयोगः पूर्णकर्मणि योजयेत् || ११८ ||

कालकर्णी भवेन्मुष्ट्योरंगुष्ठावुन्नतौ यदा || पार्श्वयोश्चापि सलग्नौ द्वावेवाभिमुखौ तदा || ११९ ||

मुद्रा विस्मयसञ्ज्ञा स्याद्विस्मयावेशकारिणी || दक्षिणानिविडा मुष्टिर्नासिकार्पिततर्जनी || १२० ||

नादमुद्रा तु तर्जन्या मुष्टावंगुष्टको यदि || निबद्धो यमिनां सेव्या ब्रह्माभिव्यक्तिकारिणी || १२१ ||

प्रार्थनाख्या भवेन्मुद्रा हस्तौ कुर्याद्धदि स्वके || प्रसृतांगुलिकौ दृश्यौ मिथः श्लिष्टौ च सम्मुखौ || १२२ ||

लक्ष्मीमुद्रा परा ह्येषा सर्वसम्पत्प्रदायिनी || हस्तौ तु संयुतौ कृत्वा प्रसृतांगुलिकौ तथा || १२३ ||

अन्नाख्यमुद्रिका हस्तौ नाभिदेशे प्रसार्य च || अधोमुखं स्पृशेत्तस्य तर्जनीभ्यां तदान्नदा || १२४ ||

दंष्ट्रामुद्रा चक्रमुद्रामादौ कृत्वा प्रपीडयेत् || मध्यमे तर्जनीभ्यान्तु सर्वपातकनाशिनी || १२५ ||

भवेत्पृष्ठकमुद्रा च दक्षहस्तः प्रसारितः || नाभ्यग्रे चान्तरिक्षे च स्थापितश्च निरीक्षितः || १२६ ||

गजकर्णाख्यमुद्रा तु हस्तयोः पृष्ठमेलनम् || कृत्वा चोर्ध्वमुखौ हस्तौ ग्रन्थिरंगुष्ठयोर्भवेत् || १२७ ||

वस्त्रस्फालनमुद्रा तु कनिष्ठा वामतर्जनी || मध्यमानामयोरग्रे मूले पृष्ठे च तद्द्वयम् || १२८ ||

वापीमुद्रा दक्षहस्तानामार्धं वामजे ततः || ज्येष्ठा कनिष्ठा दक्षा स्यात्तयोरूर्ध्वन्तु वामजे || १२९ ||

शकटाख्या भवेन्मुद्रा तर्जनीभ्यामनामिके || अन्योन्यमध्ययोः पृष्ठान्मध्यापरिनिपीडिते || १३० ||

गायत्र्या अथ वक्ष्यन्ते चतुर्विंशतिमुद्रिकाः || जपादौ दर्शयेत्तासां देवताश्च तथा फलम् || १३१ ||

सुमुखे संहतौ हस्तावुक्तावाकुञ्चितांगुली || प्रह्लादिनी तत्र शक्तिः सुमुखानन्ददायिनी || १३२ ||

सम्पुटं पद्मकोशाभौ करावन्योन्यसंहतौ || तस्य शक्तिर्नित्यविश्वा विश्वस्यातिप्रियङ्करा || १३३ ||

विततं संहतौ हस्तावुक्तं चानायतांगुली || हृदया नाम तच्छक्तिः सर्वेषां हृदयंगमा || १३४ ||

विस्तीर्णं संहतौ पाणी मिथो मुक्तांगुलीद्वयम् || प्. १७४) शक्तिस्तु विमला तस्याः प्रभावादमलो भवेत् || १३५ ||

द्विमुखाख्या हस्तयोस्तु सम्मुखं सक्तयोर्द्वयोः || कनिष्ठयोरेव योगः शक्तिस्तस्यास्सदाभिधा || १३६ ||

त्रिमुखाख्या हस्तयुग्मे सुसक्तेनामिकाद्वयम् || संयुक्तं शेषमंगुल्यो भिन्नाः शक्तिः प्रभावती || १३७ ||

चतुर्मुखं हस्तयुग्मं संसक्तं मध्यमायुतिः || शेषांगुल्यस्तु सम्भिन्ना लीला शक्तिप्रकीर्तिता || १३८ ||

मुद्रा पञ्चमुखी तद्वत्तर्जन्योर्यत्र संयुतिः || अपरांगुलयो भिन्नाः शक्तिः शान्तिश्च शान्तिकृत् || १३९ ||

भवेत्षण्मुखमुद्रासा सम्पूर्णांगुलियोजनम् || कनिष्ठाद्वितयं हित्वा शक्तिर्दुर्गा प्रकीर्तिता || १४० ||

अधोमुखं नाम मुद्रा न्युब्जौ हस्तौ त्वधोमुखौ || आकुञ्चिताग्रौ संयुक्तौ शक्तिरस्याः सरस्वती || १४१ ||

व्यापकाञ्जलिकं नाम मुद्रा हस्तौ तु तादृशौ || विशेषोत्र तु चोत्तानौ विश्वरूपास्ति देवता || १४२ ||

शकटं नाम मुद्रा सा बद्धाग्रांगुलिकौ करौ || अधोमुखौ बद्धमुष्टी विशाख्या शक्तिरत्र तु || १४३ ||

यमपाशं बद्धमुष्ट्योः करयोर्ग्रथिते यदा || तर्जन्यौ तत्र संलग्नौ वामा लोपात्र देवता || १४४ ||

ग्रन्थिताख्यान्योन्यसन्धिलग्नाश्चागुलयो यदि || उत्तानौ चोच्छ्रितांगुष्ठौ वामा शक्तिः समीरिताः || १४५ ||

सम्मुखोन्मुखमुद्रा तु सम्बद्धाधोंगुलीकरौ || दक्षिणोधोमुखो वाम ऊर्ध्वमाप्यायिनी भवेत् || १४६ ||

विलम्बं नाम मुद्रा सा चोत्तानोन्नतिकोटिकौ || यस्यां करौ तु विमला तस्याः शक्तिः प्रकीर्तिता || १४७ ||

मुष्टिकन्तु यदा मुष्टी भवतोन्योन्यसंयुते || उत्तानौ तु करौ तत्र शक्तिः प्रोक्ता तमोमयी || १४८ ||

मत्स्यस्तु सम्मुखी भूते युक्तानामाकनिष्ठिके || अंगुल्यश्चोर्ध्वयुक्ताग्राः शेषाः शक्तिर्हिरण्मयी || १४९ ||

कूर्मस्त्वधोमुखो वामो ग्रस्तो दक्षेण पृष्ठके || समाक्रान्तस्तु तच्छक्तिः सूक्ष्मा सूक्ष्मार्थसाधिका || १५० ||

वाराही दक्षिणस्योर्ध्वं वाममुत्तानकङ्करम् || स्थापयित्वाधोमुखं तन्नामयेद्विश्वयोनिका || १५१ ||

सिंहाक्रान्तं नाम मुद्रात्वंगुल्यः पल्लवीकृताः || देव्यग्रे दर्शयेच्छक्तिर्गदारूपा प्रकीर्त्यते || १५२ ||

न जातु दर्शयेन्मुद्रां महाजनसमागमे || क्षुभ्यन्ति दवतास्तस्य विफलन्तु कृतं भवेत् || १५३ ||

यथा बालस्याभिनयं दृष्ट्वा हृष्यन्ति मातरः || प्. १७५) तथा भक्तकृता मुद्रा दृष्ट्वा हृष्यन्ति देवताः || १५४ ||

उत्तराम्नायसम्प्रोक्ता देवास्तुष्यन्ति पञ्चमैः || छिन्नः पदार्थ एकश्चेत्साधकन्ते शपन्ति च || १५५ ||

पश्चिमाम्नायदेवानां सुरापानं कृताकृतम् || मचतुष्टयमिच्छन्ति तं विना प्रशपन्ति च || १५६ ||

पूर्वाम्नायोक्तदेवानां तन्मांसञ्च कृताकृतम् || आवश्यकमंत्र पञ्च तं विना प्रशपन्ति च || १५७ ||

दक्षिणाम्नायदेवानां निषिद्धं मचतुष्टयम् || मेनैकेन विना तेपि प्रशपन्ति च साधकम् || १५८ ||

तस्मान्मुद्राः शिक्षणीन्याः सम्प्रदायानुसारतः || सर्वत्र मोक्षं लभते मुद्राविन्नात्र संशयः || १५९ ||

इति ते सर्वमाख्यातं सर्वतन्त्रेषु गोपितम् || मुद्राणां परमं तत्त्वं किमन्यच्छ्रोतुमिच्छसि || १६० ||

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते मुद्रालक्षणप्रकाशोऽष्टमः || ८ ||

Ein dreidimensionales Shri Yantra als begleitendes Bild tantrischer Verehrung; keine Rekonstruktion eines im Text beschriebenen Yantras.

Prakāśa 9 – Verehrung mit irdenen Kultformen

शीदेव्युवाच ||

प्रयोगात्परलोकेन परार्थी नेह सौख्यकृत् || सिद्ध्यर्थी च कलौ शिष्यो धनार्थी गुरुरेव च || १ ||

पूजार्थिनस्तथा देवा विषयार्थि तथा मनः || दूरेस्माद्दैहिकी सिद्धिः पारकीया कथं भवेत् || २ ||

तस्मात्कश्चिदुपायश्चेत्पुरश्चर्यादिकं विना || परत्रेह च सिद्धिः स्याद्विना निन्दां वदस्व तत् || ३ ||

ईश्वर उवाच ||

आयान्ति यान्ति न पुनर्मन्यन्ते सर्वजन्तुभिः || ते मदंशकृता ग्रन्था आगमाख्याः प्रसारिताः || ४ ||

कलेः सहस्रद्वितयं सार्द्धं देवा यदा गतम् || सर्वदेवगणैस्त्यक्तं तदा तु पृथिवीतलम् || ५ ||

वेदो नारायणः साक्षात्संस्थास्यत्ययुतावधि || आगमैर्भासिते देशे सोप्यगम्यो भविष्यति || ६ ||

उद्धाराय च साधूनां महाकालाज्ञया मया || कथितं चिरजीविभ्यः पार्थिवं लिङ्गपूजनम् || ७ ||

तद्विधिं संप्रवक्ष्यामि देवाः शृण्वन्तु सादरम् || इहलोके परत्रापि सिद्धिः करतले स्थिता || ८ ||

तत्र पार्थिवलिङ्गानां पूजने स्यादयं विधिः || स्नात्वा नित्यं विधायादौ गच्छेच्छुद्धां भुवं सुधीः || ९ ||

स्थानाष्टके स्थिता या मृत्साच सर्वार्थसिद्धिदा || शमीगर्भाश्वत्थमूले नदीकूले च निर्जने || १० ||

प्. १७६) पर्वताग्रे च तीर्थे च गोष्ठे वा तुलसीवने || वटाधस्तात्तत्र भूमिं मन्त्रयेत्प्रार्थयेदिति || ११ ||

ह्रीं पृथिव्यै नम इति मन्त्रः प्रोक्तः षडक्षरः || अनेन पूजयित्वा तु धरणीं प्रार्थयेदिति || १२ ||

सर्वाधारा धरा त्वं हि पाहि मां मृत्तिकामिमाम् || ग्रहीष्यामि प्रसन्ना त्वं लिङ्गार्थं भव मे सदा || १३ ||

ततो मृदमुपादाय सम्यङ्निःशर्करां चरेत् || पात्रे निदध्यात्संशुद्धे प्रत्यहं पूजनाय ताम् || १४ ||

सद्दिने सद्गुरोर्वाथ सूर्याद्वा देवतान्तरात् || गृह्णीयात्सप्तपूजायास्तथा गुहगणेशयोः || १५ ||

मृत्तिकाहरणे तारो हराय नम इत्ययम् || तारो महेश्वरायेति नमः संघट्टनं भवेत् || १६ ||

तारो ङेंतः शूलपाणिर्नमः प्रस्थापने भवेत् || वस्त्राद्याच्छादिते पीठे ओं पिनाकधृते नमः || १७ ||

स्थापयेदिति मन्त्रेण शिवाकान्तं शिवप्रदम् || कामनायास्तु भेदेन तत्र ध्यायेच्छिवं प्रभुम् || १८ ||

ओं पशुपतये नमः स्नापयेदिति मन्त्रतः || ओं शिवाय नम इति पूज्यः पञ्चोपचारकैः || १९ ||

ओं महादेवाय नमो मन्त्रेणेति विसर्जयेत् || ह्रीं गं ग्लों गणतये ग्लौं गं ह्रीं च भवाक्षरः || २० ||

ऐं हुं क्षं क्लीं कुमाराय नमोन्तः स्याद्दशाक्षरः || इमान्मनून् गृहीत्वा तु जपेदष्टसहस्रकम् || २१ ||

दत्त्वा धूपं हृदि ध्यात्वा गुरुं तन्मन्त्रसिद्धये || अथार्चनं शुभे घस्रे प्रारभेतेष्टसिद्धये || कृतनित्यक्रियः शुद्धः प्रदायार्घ्यं विवस्वते || २२ ||

मृदमादाय तोयञ्च वंबीजेनाभिमन्त्रयेत् || आसिच्य पिण्डयेत्स्वेष्टमानं पात्रे निधापयेत् || २३ ||

ततः कालमनुस्मृत्य कामनामपि हृद्गताम् || लिङ्गानि पार्थिवानीह पूजयेमुकसख्यया || २४ ||

सङ्कल्प्यैवं मृदः पिंडादादायाल्पां मृदं सुधीः || गणेश्वरस्य मन्त्रेण कुर्याद्द्वारगणेश्वरम् || २५ ||

फलाभयलसत्पाणिं तुन्दिलं चोन्दुरुस्थितम् || निर्माय स्थापयेत्पीठे ततो विप्रस्समाचरेत् || २६ ||

न्यासं रुद्रस्य विधिवत्सम्पुटीकरणान्वितम् || अविप्राणाञ्छृणु न्यासं गोप्यं पार्थिवपूजने || २७ ||

अस्य श्रीपार्थिवाख्यस्य विद्या चिन्तामणेर्मनोः || निग्रहानुनुग्रहकर्ता [ओं ब्रह्मणे ऋषये नमः शिरसि, ओं गायत्रीछन्दसे नमो मुखे, ओं कामदुघायै देवतायै नमो हृदये, ओं ह्रीं ह्रौं बीजाय नमो गुह्ये, ओं ह्रीं शक्तये नमः पादयोः, ओं नमः कीलकाय नमो नाभौ |
] ब्रह्मा निगदितो मुनिः || २८ ||

प्. १७७) देवता स्यात्कामदुघा गायत्री छन्द ईरितम् || ओं ह्रीं ह्रौं बीजं ह्रीं शक्तिर्नमः कीलकमुच्यते || २९ ||

अभीप्सितार्थसिद्ध्यर्थे नियोगो लिङ्गपूजने || ओं ह्रीं ह्रौं बीजपूर्वांस्तु न्यासे मन्त्रान्प्रविन्यसेत् || ३० ||

शिवायेति परं चान्ते ततोङ्गादि समुच्चरेत् || सर्वज्ञाय [ओं ह्रीं ह्रौमिति बीजत्रयं मन्त्रन्यासेभ्यः पूर्वं संयोज्यम् ओं शिवाय सर्वज्ञाय अंगुष्ठाभ्यां नमः, ओं शिवाय सर्वतृप्ताय तर्जनीभ्यां नमः, ओं शिवाय नित्यमलुप्तशक्तयै मध्यमाभ्यां नमः, ओं शिवाय सर्वज्ञानशक्तये अनामिकाभ्यां नमः, ओं शिवाय नित्यानन्दशक्तये कनिष्ठिकाभ्यां नमः, ओं शिवायानन्तशक्तिशिवाय करतलकरपृष्ठाभ्यां नमः पुनरेतैरेव मन्त्रैर्हृदयादिन्यासान् कुर्वीत ||] प्रथमतः सर्वतृप्ताय चोत्तरम् || ३१ ||

नित्यमलुप्तशक्तये सर्वज्ञानशक्तये च || नित्यानन्दशक्तये चानन्तशक्तिशिवाय च || ३२ ||

कृत्वा चांगुलिविन्यासं विन्यसेद्धृदयादिषु || केवलः श्रोत्रियस्तत्र सद्योजातेन [सद्योजातादयः पञ्च मन्त्रा बहुस्थलेषु गदिता अतोत्र नोक्ताः |
] मृत्तिकाम् || ३३ ||

गृहीत्वा वामदेवेन जलं दत्त्वा विमर्दयेत् || लिङ्गं कुर्यादघोरेणार्चयेत्तत्पुरुषेण च || ३४ ||

संस्थाप्य रुद्रसूक्तेन ईशानेन विसर्जयेत् || आदौ कृत्वा गणेशानं पीठमध्ये निवेशयेत् || ३५ ||

पश्चाल्लिङ्गानि कुर्वीत यथेष्टानि समानि [ह्रौं |
] च || अंगुष्ठमानादधिकं वितस्त्यवधिसुन्दरम् || ३६ ||

पार्थिवं रचयेल्लिङ्गं न न्यूनं नाधिकं क्वचित् || पक्वजम्बूफलाकारं सर्वकामसमृद्धिदम् || ३७ ||

अतिपुष्टे तु दारिद्र्यं चिपिटे रोगसम्भवः || मानाधिके वियोगः स्यात्स्वल्पे सिद्धिर्न जायते || ३८ ||

द्विखण्डे तु भवेन्मृत्युर्वियोनौ न सुखं भवेत् || अवशिष्टमृदा कुर्यात्कुमारन्तस्य मन्त्रतः || ३९ ||

स्थापयेल्लिङ्गपर्यन्ते स्वमन्त्रेणार्चयेच्च तम् || अर्च्चयन्पार्थिवं लिङ्गं यथोक्तफलभाग्भवेत् || ४० ||

तारो ह्रौं ह्रीं जूं सः इति पञ्चबीजादिकैस्तु तैः || तान्त्रिको मासमन्त्रैस्तु फलार्थी शिवमर्चयेत् || ४१ ||

प्रासादबीजपूर्वैस्तु वाममार्गी समर्चयेत् || पराप्रासादबीजाद्यैः पूजयेत्कौलिकैस्तु तैः || ४२ ||

आवाहनस्य समय ईदृशं शिवमागतम् || लिङ्गे प्रतिष्ठितं ध्यायेत्कामनाभेदनात्तु तत् || ४३ ||

भवेन्नानाविधं ध्यानं योनिं कामं प्रपूजयेत् || तत्र ध्यानमिदं ज्ञेयं नोक्तं वा यत्र तत्र च || ४४ ||

प्. १७८) अथात्मानं शिवात्मानं पञ्चास्यं चिन्तयेद्बुधः || त्रिलोचनं चतुर्बाहुं सर्वाभरणभूषितम् || ४५ ||

नीलग्रीवं शशाङ्काङ्कं शुद्धस्फटिकसन्निभम् || व्याघ्रचर्मोत्तरीयं च नागयज्ञोपवीतकम् || ४६ ||

कमण्डलुधरं देवमक्षमालान्वितं प्रभुम् || वरदाभयहस्तं च नमज्जनवरप्रदम् || ४७ ||

वृषपृष्ठसमारूढमुमादेहार्धधारिणम् || जटिलं कपिलं दन्तनखाभिद्योतकारिणम् || ४८ ||

अमृतेनाप्लुतं दिव्यं दिव्यभोगसमन्वितम् || दिग्देवतासमायुक्तं सुरासुरनमस्कृतम् || ४९ ||

नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् || सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम् || ५० ||

एवं ध्यात्वा द्विजः सम्यक् ततो यजनमारभेत् || आराधितो मनुष्यैस्त्वं सिद्धैर्देवासुरादिभिः || ५१ ||

आराधयामि भक्त्या त्वां मां गृहाण महेश्वर || स्वामिन्सर्वजगन्नाथ यावत्पूजावसानकम् || ५२ ||

तावत्त्वं प्रीतिभावेन लिङ्गेस्मिन्सन्निधो भव || इति सम्प्रार्थ्य देवेशं पार्थिवं पूजयेत्ततः || ५३ ||

एकैकं पूजयेल्लिङ्गमेकैकं च विसर्जयेत् || अन्ते पूज्यः कार्तिकेयः प्रोक्ता पूजेयमुत्तमा || ५४ ||

सर्वेषामेव लिङ्गानां शीघ्रमेकत्र पूजनात् || प्रोक्ता पूजा विधिज्ञैः सा पूजेयं मध्यमा तदा || ५५ ||

प्रत्येकमाचरेद्ध्यानङ्गन्धं पुष्पं पृथक् पृथक् || धूपदीपनिवेद्यादि यथांशेन निवेदयेत् || ५६ ||

प्रागादिवामावर्तेन दिक्ष्वष्टौ परिपूजयेत् || शर्वं [ओं शर्वाय क्षितिमूर्तये नमः पूर्वे, ओं भवाय जलमूर्तये नमः ईशानकोणे, ओं रुद्रायाग्निमूर्तये नमः उत्तरे, ओं उग्राय वायुमूर्तये नमः वायव्यकोणे, ओं भीमायाकाशमूर्तये नमः पश्चिमे, ओं पशुपतये यजमानमूर्तयेनमः नैर्-ऋत्यकोणे, ओं महादेवायेन्दुमूर्तये नमः दक्षिणे, ओं ईशानाय सूर्य मूर्तये नमः आग्नेयकोणे, एवमष्टदिक्षु |
] भवं रुद्रमुग्रं भीमं पशुपतिं तथा || ५७ ||

महादेवं तथेशानं क्रमात्क्षित्यादिमूर्तकान् || क्षित्यप्तेजोनिलाकाशयजमानेन्दुभास्कराः || ५८ ||

क्षित्यादयः स्युः शर्वाद्यास्तत इन्द्रादिकान् यजेत् || धूपदीपनिवेद्यादिनमस्कारप्रदक्षिणैः || ५९ ||

ततो जपं प्रकुर्वीत ओं [ओं ह्रौं ह्रीं ह्रूं ओं नमः शिवाय प्रसन्नाय पारिजाताय स्वाहा |
] ह्रौं ह्रीं ह्रूं समुच्चरेत् || ओं नमश्च शिवो ङेन्तः प्रसन्नायेदमुच्चरेत् || ६० ||

पारिजाताय स्वाहेति एकविंशतिवर्णकः || पूजान्तेष्ठोत्तरशतं जपेन्मन्त्रमनन्यधीः || ६१ ||

प्. १७९) बिल्वं वा बिल्वपत्रं वा घृताक्तं सतिलं हुनेत् || एकादशाहुतीः पश्चात्प्रणमेद्दण्डवत्क्षितौ || ६२ ||

प्रणवादिचतुर्थ्यन्तानन्तदेवनमोन्वितैः [ओं अनन्तदेवाय नमः ||] || षष्ठीयुक्तं [ओं अनन्तदेवस्य पत्न्यै नमः] च तन्नाम पत्नीं ङेन्तां नमोन्विताम् || ६३ ||

पुनश्च तर्पणं कार्यं तादृशैरेव नामभिः || द्वितीयान्तैस्तर्पयामि बिल्वपत्रैर्जलाक्षतैः || ६४ ||

भवः शर्वस्तथेशानस्तुर्यः पशुपतिर्मतः || रुद्रोग्रभीममहतस्त्वष्टौ [महान्तः ||] ते परिकीर्तिताः || ६५ ||

दम्पती भोजयेन्नित्यं पार्वतीशमनीषया || शैवंवा भोजयेदेकमभावे वेदवित्तमम् || ६६ ||

एवमर्चयतः पुंसः पार्थिवं लिङ्गमुत्तमम् || मासमात्रेण सिद्धिस्स्यान्नात्र कार्या विचारणा || ६७ ||

अकृत्वा पार्थिवं लिङ्गं योन्यदेवं प्रपूजयेत् || वृथा भवति सा पूजा स्नानदानादिकाः क्रियाः || ६८ ||

काम्यकर्मण्ययं कार्यो विधिः शृणु विशेषकम् || तण्डुलोद्भवपिष्टेन विद्यार्थी तु सहस्रकम् || ६९ ||

द्वयोः पूजनमेकत्र मासमेकं करोति चेत् || अवश्यं लभते विद्यां ध्यानमस्य निरूप्यते || ७० ||

अनेनैव विधानेन पूजयेन्नवनीतजम् || भवेद्विद्या च सपदि चतुर्दिक्षु तथा यशः || ७१ ||

वन्दे महेशं सुरसिद्धसेव्यं विद्याप्रदं पुस्तकदत्तदृष्टिम् || भक्तैर्जनैः पूजितपादपद्मं ध्याये सद कामप्रदं प्रभुं तम् || ७२ ||

इत्थं श्वेतागुरोर्लिङ्गं पूजितं बुद्धिवृद्धिकृत् || एवं कृष्णागुरोर्लिंगं पूजितं धारणाप्रदम् || ७३ ||

चणकोद्भवपिष्टस्य प्राग्वल्लिंगं तु बुद्धिकृत् || प्राग्वद्व्रीहिमयं लिंगं कृत्वा हन्यात्स्खलद्गिरम् || ७४ ||

विद्याकामैश्चिन्तनीयः परशुं हरिणं वरम् || ज्ञानमुद्रां दधद्धस्तैर्वटमूलमुपाश्रितः || ७५ ||

योर्चयेत्प्रत्यहं पञ्चशतान्येकं पृथक् पृथक् || पार्थिवानि तु लिंगानि मासात्सा सर्वतोमुखी || ७६ ||

दक्षाङ्कस्थं गजपतिमुखं प्रामृजन्दक्षदोष्णा वामोरुस्थागपतितनयाङ्के गुहं चापरेण || इष्टाभीती परिकरयुगे धारयन्निन्दुकान्तिरव्यादस्मांस्त्रिभुवननतो नीलकण्ठस्त्रिनेत्रः || ७७ ||

पुंसोर्विरुद्धयोस्सन्धौ कुर्यादयुतसङ्ख्यया || नदीतीरद्वयानीतमृदा तानि च पूजयेत् || ७८ ||

प्. १८०) तत्र ध्येयो हरिहरः शङ्खपद्मादिशूलभृत् || इन्द्रनीलशरच्चन्द्रनिभो भूषणपूगवान् || ७९ ||

दम्पत्योरभिधानार्थमर्धनारीश्वरः स्मृतः || पीयूषपूर्णकलशं दधत्पाशांकुशावपि || ८० ||

पुत्रार्थी सार्धसाहस्रं कुर्यात्तण्डुलपिष्टजम् || पार्थिवान्यथ वा कुर्यादर्धलक्षमितानि तु || ८१ ||

दक्षाङ्कस्थमिति ध्यानं पूजनं च पृथक् पृथक् || दधिभक्तस्तु नैवेद्ये पैष्टेनात्र यथेच्छया || ८२ ||

आढकीपिष्टसम्भूतं कान्तार्थी शतपञ्चकम् || पार्थिवान्यथवा कुर्यादर्द्धलक्षमितानि तु || पृथग्द्वयं द्वयं पूज्यं ध्यानमत्र निरूप्यते || ८३ ||

कर्पूरगौरं करुणावतरं संसारसारं भुजगेन्द्रहारम् || सदा रमन्तं हृदयारविन्दे भवं भवानीसहितं नमामि || ८४ ||

मारणार्थं सप्तशतं लिंगं केशास्थिसम्भवम् || अथ वा लोहलिंगानि तुषजान्यथ वापि च || ८५ ||

सहस्त्रमिक्षुदण्डस्य लिंगान्युच्चाटने यजेत् || श्मशानमृत्तिकायास्तु विद्वेषे युतमाचरेत् || ८६ ||

पूजयेत्कार्यवशतो लक्षावधिसहस्रतः || उच्चाटे मारणे द्वेषे ध्यातव्यः पुनरीदृशः || ८७ ||

कालीहस्ताम्बुजालम्बः शूलप्रोतद्विषच्चयः [वैरिसमूहः ||] || मुण्डमालालसत्कण्ठो राववित्रासिताखिलः || ८८ ||

विना ज्ञानेन मोक्षस्तु नराणां परिजायते || तदा तु कोटिलिंगानि पूजयेद्ध्यानमुच्यते || ८९ ||

यो योगमायापहृतं च पुंसां ज्ञानं विधत्तेखिलवस्तुनिष्ठम् || तं विश्वनाथं कलिकिल्विषघ्नं ध्याये शिवालिङ्गितमष्टदेहम् || ९० ||

भोगार्थी लक्षमेकन्तु कुर्यात्पुष्पमयानि तु || दिव्यान्भोगानवाप्नोति ध्यानमत्र निरूप्यते || ९१ ||

वन्दे महेशं सुरसिद्धसेवितं कल्पद्रुमारण्यगतं प्रसन्नम् || पर्यङ्कगं शैलसुतासमेतं देवाङ्गनागीतसुनृत्यतुष्टम् || ९२ ||

निर्विघ्नकाशीवासार्थं लोकद्वयजिगीषया || लिङ्गान्ययुतसङ्ख्यानि धात्री फलभवानि तु || ९३ ||

सहस्रमात्रं पित्तल्या यो लिङ्गानि प्रपूजयेत् || यथेष्टं लभते भूमिं त्रिसन्ध्यं त्वेकमेव वा || ९४ ||

सहस्रत्रितयं रूपकामो गोरोचनोद्भवम् || तावत्संख्यं कान्तिकामः काश्मीरीसंभवं [कुसुमसम्भूतम् ||] यजेत् || ९५ ||

मधुपुष्पोद्भ्वं [मत्तमधुकुसुमोद्भवम् |
] लिंगं वसन्ते शतमर्चयेत् || प्रत्यहं जायते कामी स्त्रियां तु ध्यानमत्र तु || ९६ ||

प्. १८१) ध्याये नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलांगं परशुमृगवराभीतिहस्तं प्रसन्नम् || पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् || ९७ ||

तीर्थार्थी द्विसहस्राणि सम्यग्लिङ्गानि पूजयेत् || पृथक्पृथग्बिल्वदलैस्तत्र ध्यानमुदीर्यते || ९८ ||

विजितमदनदर्पः सर्पराजोपवीति धवलवृषभगामी यामिनीनाथमूर्द्धा || विधिहरितपनाद्यैः पूजितः पूजनीयो दिशतु गिरिसुताया वल्लभो नो विभूतीः || ९९ ||

यक्षकर्दमजं [कुंकुमागुरुकस्तूरीकर्पूरं चन्दनं तथा |
महासुगन्धमित्युक्तो नामतो यक्षकर्दमः || इति धन्वन्तरिः |
] लिङ्गं सहस्रं प्रीतिवर्धनम् || सहस्रपञ्चकं कुर्याद्गुडजं प्रीतिवृद्धये || १०० ||

लक्षन्तु गुडलिङ्गानां पूजनात्पार्थिवो भवेत् || स्त्री सहस्रं पूजयित्वा भर्तुः प्रियतरा भवेत् || १०१ ||

नवनीतस्य लिङ्गानि सम्पूज्येष्टमवाप्नुयात् || भस्मनो गोमयस्यापि वालुकायास्तथा फलम् || १०२ ||

त्रिसहस्रं सुहृत्कामी मासिमासि समर्चयेत् || वर्षैकं निश्चलमना जगन्मित्रं स जायते || १०३ ||

प्रत्यहं यस्त्वष्टशतं मासमात्रं समर्चयेत् || सशास्त्राभ्यसनादेव गुरुतोप्यधिको भवेत् || १०४ ||

प्रातर्गोमयलिङ्गानि नित्यं यस्त्रीणि पूजयेत् || बृहतीबिल्वजैः पत्रैर्नैवेद्यं गुडमर्पयेत् || १०५ ||

एवं मासत्रयं कुर्वन्ननल्पं लभते धनम् || एकादशैव लिङ्गानि गोमयस्यैव यो यजेत् || १०६ ||

प्रातर्मध्याह्नयोः सायं निशीथे प्रतिवासरम् || स सर्वाः सम्पदो यायात्षण्मासानेवमाचरेत् || १०७ ||

यत्र कुत्रापि मोहार्थं चौराणां वापि शुल्किनाम् || दुर्भूपानामष्टशतं त्रिपक्षं नित्यमर्चयेत् || १०८ ||

यो यजेत्पिचुमन्दोत्थैः [निम्बदलोत्थैः ||] पत्रैर्गोमयजं शिवम् || क्रुद्धं महेश्वरं ध्यायेत्सपराजयते रिपून् || १०९ ||

हरिद्रापिष्टजं लिङ्गसहस्रं यः प्रपूजयेत् || स्तम्भयेत्स सहस्राणां पञ्चकेन महीपतिम् || ११० ||

नित्यं पञ्चशतं कुर्यान्मासं निगडमोचनम् || दुर्गनिर्मुक्तिकामस्तु कुर्यात्पञ्चसहस्रकम् || १११ ||

कारागृहादिमुक्त्यर्थमयुतं कारयेत्सुधीः || महादुर्गनिबद्धस्तु षण्मासान्मोक्षमाप्नुयात् || ११२ ||

प्. १८२) पूजयायुतलिङ्गानां महाराजभयं हरेत् || प्रत्यहं वा पञ्चशतं पूजयेच्च त्रिपक्षकम् || ११३ ||

शतद्वयं प्रत्यहं यो मासमेकं समर्चयेत् || तस्य चौरभयं नास्ति सुखेनायाति देशतः || ११४ ||

डाकिन्यादिभये सप्तसहस्रं वाथ नित्यशः || षण्मासं पञ्चशतकं योर्चयेत्तु तदन्तकः || ११५ ||

सहस्रपञ्चकं मासि योर्चयेद्वर्ष पञ्चकम् || पूर्वजन्मार्जिताद्वापि दारिद्र्यात्परिमुच्यते || ११६ ||

एकादश यजेन्नित्यं शालिपिष्टमयानि च || लिङ्गानि मासमात्रेण सकलं कल्मषं दहेत् || ११७ ||

यः कृष्णैश्च तिलैस्सम्यग्लिङ्गं कृत्वार्चयेन्नरः || वर्षत्रयं तस्य सर्वपापनाशः प्रजायते || ११८ ||

शिशिरे सर्वपुष्पोत्थं लिङ्गं योर्चति चेन्नरः || निष्पापः स्यात्त्रिवर्षं वा पूजयेत्स्फाटिकं तथा || ११९ ||

बालवैधव्ययोगस्य नाशार्थमयुतत्रयम् || लिङ्गानामयुतेनैव कन्यका सत्पतिं लभेत् || १२० ||

यस्त्वेकादशलिङ्गानि रजतोत्थानि पूजयेत् || प्रत्यहं तं सर्वगुणा जायन्ते समुपस्थिताः || १२१ ||

लिङ्गान्ययुतसङ्ख्यानि तिलपिष्टस्य योर्चयेत् || प्रत्यहं वा रुद्रसङ्ख्यं वर्षाद्ग्राम पतिर्भवेत् || १२२ ||

ब्रह्मस्वपरिहारार्थं सौवर्णं लिङ्गमर्चयेत् || त्रिसन्ध्यं नक्तभोजी च रुद्रसूक्तपरायणः || १२३ ||

लवणोद्भवलिङ्गानि योयुतं च पृथक् पृथक् || पूजयेत्तस्य सौभाग्यं निर्धनस्यापि वर्धते || १२४ ||

यस्त्वन्नस्य शिवं कृत्वा ऋतुमेकं प्रपूजयेत् || शतमेकं प्रत्यहं चेदन्नं क्षेत्रे भवेद्बहु || १२५ ||

अयुतं शर्करालिङ्गं वर्षाकालेथ वा पुनः || धत्तूरकुसुमोत्थानि लिङ्गान्येकादशार्चयेत् || १२६ ||

यवपिष्टोद्भवान्येव लिङ्गानि लवणस्य वा || कृत्वा चायुतसङ्ख्यानि वशीकुर्याज्जगत्त्रयम् || १२७ ||

पृथक्छतत्रयं यस्तु गोमयोत्थानि पूजयेत् || क्षुद्ररोगविनाशः स्यात्षमासाच्च महागदाः [नश्येयुरिति शेषः] || १२८ ||

फलं न जायते दृष्ट्वा यस्य कस्यापि कर्मणः || फललिङ्गानि पूज्यानि तेन चायुतसङ्ख्यया || १२९ ||

दूर्वायाश्च गुडूच्या वायुतं लिङ्गानि योर्चयेत् || प्. १८३) तस्याल्पमृत्युनाशः स्यात्तथा नीवारपिष्टजात् || १३० ||

इन्द्रनीलस्य यो लिङ्गं मासषट्कं प्रपूजयेत् || अथ वा ताम्रजं लिङ्गं तस्य सिद्ध्यति पौष्टिकम् || १३१ ||

स्फाटिकस्य तु यल्लिङ्गं स योगेश्वर उच्यते || लक्षस्य पूजनात्तस्य बहुस्वामित्वमाप्नुयात् || १३२ ||

पितृगेहादिमोक्षार्थमथ वा पितृमुक्तये || रजतस्य यदा लिङ्गमयुतं परिपूजयेत् || १३३ ||

अयुतं स्वर्णलिङ्गस्य जनं प्रकरोति यः || स सत्यलोकमाप्नोति सङ्कल्पेनात्र संशयः || १३४ ||

नागस्य [सीसकस्य ||] त्रपुषश्चायुष्कामः कांस्यस्य चार्चयेत् || देहसौगन्ध्यलाभाय गन्धकोत्थं समर्चयेत् || १३५ ||

आद्यकर्षणजं काष्ठजातमेकन्तु निर्धनः || सहस्रं पूजयेद्यस्तु दारिद्र्यात्प्रतिमुच्यते || १३६ ||

कर्पूरजं शक्तिकामो गोर्थं गोधूमपिष्टजम् || मुद्गपिष्टान्मुदे नित्यं लिङ्गं पूज्यं त्रयं द्विजैः || १३७ ||

कस्तूरीसम्भवं नित्यं सहस्रगन्धकामुकः || माषपिष्टमयं लिङ्गं नित्यपिष्टान्नसिद्धिदम् || १३८ ||

यवधान्यमयं लिङ्गं यमलोकनिवारणम् || प्रियंगुपिष्टजं [सीसकस्य ||] लिङ्गं प्रियदं सर्वदेहिनाम् || १३९ ||

यः करोति तिलैः श्वेतैः श्वेतद्वीपमहीपतिः || यस्य यच्च प्रियं तस्य लिङ्गं कृत्वा तदाप्नुयात् || १४० ||

ग्रीष्मे तु मल्लिकापुष्पसम्भवानि सहस्रतः || अयुतं पूजयेद्यस्तु तस्य स्याद्द्विगुणाकृतिः || १४१ ||

नीलोत्पलमयं लिङ्गं कृत्वा शरदि मानवः || यस्य कस्यापि कार्यस्य सिद्धिं प्राप्नोत्यसंशयः || १४२ ||

हेमन्ते जातिकुसुमैर्लिङ्गं कृत्वा मनोहरम् || भक्त्या समर्च्य मतिमाञ्छिवेन सह मोदते || १४३ ||

कोमलेषु तु लिङ्गेषु पार्थिवं श्रेष्ठमुच्यते || कठिनेषु तु पाषाणं पाषाणात्स्फाटिकं परम् || १४४ ||

स्फाटिकात्पद्मरागं च काश्मीरं पद्मरागतः || काश्मीरात्पुष्परागोत्थमिंद्रनीलोद्भवं ततः || १४५ ||

इंद्रनीलात्तु गोमेदं गोमेदाद्विद्रुमोद्भवम् || विद्रुमान्मौक्तिकं श्रेष्ठं तस्माच्छ्रेष्ठं तु राजतम् || १४६ ||

हैरण्यं राजताच्छ्रेष्ठं हैरण्याद्धीरकं वरम् || हीरकात्पारदं श्रेष्ठं बाणलिङ्गं ततः परम् || १४७ ||

प्. १८४) नर्मदाजलमध्यस्थं बाणलिङ्गमिति स्मृतम् || बाणासुरार्चितं लिङ्गं बाणलिङ्गमितीरितम् || १४८ ||

बाणलिङ्गे स्वयम्भूते चन्द्रकान्ते हृदि स्थिते || चान्द्रायणसमं ज्ञेयं शम्भोर्नैवेद्यभक्षणम् || १४९ ||

ग्राह्याग्राह्यविभागोयं बाणलिङ्गे न विद्यते || तदर्पितं जलं चान्नं ग्राह्यं प्रासादसञ्ज्ञया || १५० ||

शिवनाममयं लिङ्गं सदा पूज्यं महर्षिभिः || यतश्च सर्वलिङ्गेभ्यस्तद्धि पज्यतमं मतम् || १५१ ||

चतुरंगुलमुच्छ्रायं रम्यं वेदिकया युतम् || उत्तमं लिङ्गमाख्यातं पञ्चसूत्रैः सुसाधितम् || १५२ ||

तदर्धमधमं प्रोक्तं तदर्धमवरं स्मृतम् || तस्मान्न्यूनं पूजनीयं न कदापि न सत्फलम् || १५३ ||

रुद्राक्षं शिवलिङ्गं च स्थूलंस्थूलं प्रशस्यते || शालग्रामो नार्मदश्च सूक्ष्मः सूक्ष्मो विशिष्यते || १५४ ||

ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रो वाप्यनुलोमजः || पूजयेत्सततं लिङ्गं तत्तन्मंत्रेण सादरम् || १५५ ||

विप्राणां वैदिकेनैव मन्त्रेणाराधनं वरम् || तन्त्रोक्तं दीक्षितानां च तन्त्रोक्तेन विधानतः || स्मृतमाराधनं शम्भोर्नचावैदिकवर्त्मना || १५६ ||

दधीचिगौतमादीनां शापनिर्दग्धचेतसाम् || न जायेत तथा श्रद्धा पूते वैदिककर्मणि || १५७ ||

यो वैदिकमनादृत्य स्मार्तकर्म तथैव च || अन्यत्समाचरेन्मर्त्यो न स कर्मफलं लभेत् || बहवः सिद्धिमेष्यन्ति कलौ पार्थिवलिङ्गतः || १५८ ||

कृते रत्नमयं लिङ्गं त्रेताया हेमसम्भवम् || द्वापरे पारदं श्रेष्ठं पार्थिवं तु कलौ युगे || १५९ ||

यथालब्धोपचारैश्च भक्तिश्रद्धासमन्वितः || पूजयेत्पार्थिवं लिङ्गं शास्त्रोक्तविधिना नरः || १६० ||

पञ्चसूत्रविचारं च पार्थिवे न विचारयेत् || यथाकथंचिद्विधिना रमणीयं प्रकल्पयेत् || १६१ ||

द्विखण्डं तु प्रकुर्वाणो नैव पूजाफलं लभेत् || रत्नहेमधरासूतपिष्टस्फटिकसम्भवम् || १६२ ||

एकखण्डम्भवेल्लिङ्गमितरे च चराचरे || कुर्यात्तदेकखण्डं तु द्विखण्डं तु स्थिरं स्मृतम् || १६३ ||

विप्राणां मृत्तिका श्वेता क्षत्त्रियाणां तथारुणा || विशा पीता च शूद्राणां कृष्णा वा लभ्यते यथा || १६४ ||

भवाय भवनाशाय महादेवाय धीमहि || उग्राय चोग्रनाशाय शर्वाय शशिमौलिने || १६५ ||

विलोमानां पूजनार्थं मन्त्रोयं परिकीर्तितः || ततः पूजासमाप्तौ तु दद्यात्पुष्पाञ्जलित्रयम् || १६६ ||

प्. १८५) जपं पञ्चाक्षरस्यापि कुर्यादष्टोत्तरं शतम् || वक्ष्यमाणां स्तुतिं पश्चात्पठेद्देवस्य तुष्टये || १६७ ||

नमोङ्कारस्वरूपय [यस्य लोपश्शाकल्येति लोपेपि पूर्वत्रेति नासिद्धत्वं छान्दसत्वात्तेनोमाङोरिति पररूपम् |
] नमोक्षरवपुर्धृते || नमो नादात्मने तुभ्यं नमो बिन्दुकलात्मने || १६८ ||

अलिङ्गलिङ्गरूपाय रूपातीताय वै नमः || त्वं माता सर्वलोकानां त्वमेव जगतः पिता || १६९ ||

त्वं त्राता त्वं सुहृन्मित्रं त्वं प्रियः शिवरूपधृक् || त्वं गुरुस्त्वं गतिः साक्षी त्वं पिता त्वं पितामहः || १७० ||

नमस्ते भगवन्रुद्र भास्करामिततेजसे || नमो भवाय देवाय धर्मरूपहिताय च || १७१ ||

शिवाय क्षितिपालाय सदासुरभिदे नमः || पशूनां पतये चैव पावकामिततेजसे || १७२ ||

भीमाय व्योमरूपाय शब्दमात्राय ते नमः || महादेवाय सोमाय अमृताय नमोस्तु ते || १७३ ||

उग्राय यजमानाय नमस्ते कर्मयोगिने || ओङ्काराय नमस्तुभ्यं धर्मगोवाहनाय च || १७४ ||

पार्थिवस्य च लिङ्गस्य यन्मया पूजनं कृतम् || अनेन भगवान्रुद्रो वाञ्छितार्थं प्रयच्छतु || १७५ ||

इति स्तुत्वा जपं कृत्वा प्रणिपत्य विसर्जयेत् || अथैकादशलिङ्गानां विधानमभिधीयते || १७६ ||

एकं लिङ्गं प्रतिदिनं षोडशैरुपचारकैः || पूजयेद्वै द्रोणपुष्पैर्घृतमेव समर्पयेत् || १७७ ||

एवं शतदिनं सर्व-ऋणान्मुक्तिः प्रजायते || लिङ्गद्वयं प्रतिदिनं षोडशैरुपचारकैः || पुष्पाणि मल्लिकायास्तु नैवेद्यार्थं गुडस्स्मृतः || १७८ ||

दिनानां त्रिशतं कुर्यादयुतं पुत्रमाप्नुयात् || दिनं प्रति त्रयं कृत्वा षोडशैरुपचारकैः || १७९ ||

करञ्जपुस्पैः कर्पूरं नैवेद्यं सम्प्रदर्शयेत् || दिनानां पञ्चशतकं कन्या भवति शोभना || १८० ||

चतुष्टयं प्रतिदिनं षोडशैरुपचारकैः || पूजयेद्यवनैवेद्यं पुष्पाणि चम्पकस्य तु || १८१ ||

दिनं पञ्चशतं कृत्वा विवाहो जायते ध्रुवम् || षट्षड्बकुलपुष्पैश्च नैवेद्यं क्षौद्रमेव च || १८२ ||

महतः कलहान्मुक्तिर्दिनानां स्याच्छतत्रयात् || सप्त प्रतिदिनं पुष्पैः शतपत्रैः प्रपूजयेत् || १८३ ||

दध्योदनं च नैवेद्यं दिनपञ्चशतैर्युतम् || उद्दिष्टं मनसि यत्तीर्थं तद्भवेद्देवतापि च || १८४ ||

यस्तु प्रतिदिनं चाष्टबिल्वपत्रैः समर्चयेत् || प्. १८६) नैवेद्यं तत्र लड्डुका उपचाराश्च षोडश || १८५ ||

शतत्रयदिनं कृत्वा महाविद्यागमो भवेत् || नवप्रतिदिनं कृत्वा नैवेद्यं पञ्चमासकम् || १८६ ||

बन्धुपुष्पैश्च [बधुर्बन्धूकपुष्पे स्यादित्याभिधानाद्बन्धुजीवकपुष्पमित्यर्थः] पूजा स्यादृणमुक्तो धनी भवेत् || दश प्रतिदिनं वर्षमेकं काञ्चनपुष्पकैः || १८७ ||

नैवेद्यार्थमपूपास्स्युर्दूरदेशागमो भवेत् || एकादश प्रतिदिनं नैवेद्यं पञ्चखाद्यकम् || १८८ ||

पुष्पाणि करवीरस्य काञ्चनं रजतादिकम् || मुक्ताफलप्रवालादि यदिष्टं प्राप्नुयाच्च तत् || १८९ ||

उद्यापनविधिं वक्ष्ये समाप्तौ तत्समाचरेत् || लिङ्गार्चने च सम्पूर्णे सञ्जाते च मनोरथे || १९० ||

कुर्याल्लिङ्गं तु सौवर्णं रौप्यं ताम्रमथापि वा || वित्तशाठ्यं न कुर्वीत तत्प्रमाणेन निर्मितम् || १९१ ||

महाशैवाख्ययोगोयमार्द्रा सोमश्चतुर्दशी || द्वयोर्योगे शैवयोग एकस्मिंस्तु दिनं शिवम् || १९२ ||

महायोगेनन्तफलं बहुलं शैवयोगके || यथोक्तं शिवयोगे तु फलं प्राप्नोति मानवः || १९३ ||

उपोष्य प्रथमे चाह्नि सम्पूज्य परमेश्वरम् || आचार्यं ब्राह्मणांश्चापि होमार्थं वृणुयात्ततः || १९४ ||

गणेशमम्बां संपूज्य शिवं संस्थाप्य पूजयेत् || प्राणप्रतिष्ठापूर्वन्तु वह्निस्थापनमाचरेत् || १९५ ||

आचार्यमृत्विजश्चापि वरयेद्दक्षिणादिना || यत्सङ्ख्याकं यजेल्लिङ्गं तन्मितं होममाचरेत् || १९६ ||

आयुष्कामो घृतैस्तत्र धनार्थी वापि पायसैः || तिलाज्याभ्यां चरेद्धोममेतद्भिन्नं यदर्थयेत् || १९७ ||

रात्रौ जागरणं कुर्याद्गीतवाद्यपुरस्सरम् || तर्पणं मार्जनं कुर्यात्ततो ब्राह्मणभोजनम् || १९८ ||

बटुकानां कुमारीणां गणं साम्बिकतुष्टये || पुनर्लिङ्गं पूजयित्वा दद्यात्तं गुरवे पुनः || १९९ ||

वस्त्रालङ्करणाद्यैश्च गुरुं यत्नेन तोषयेत् || दक्षिणां भूयसीं दत्त्वा सुहृद्भिस्सह भोजनम् || २०० ||

यथा कुर्यादिति प्रोक्तं लिङ्गस्योद्यापनम्परम् || विधिः प्रोक्तः पार्थिवानां सर्वकामप्रपूरकः || २०१ ||

उद्यापनेन सहितः किमन्यच्छ्रोतुमिच्छसि || २०२ ||

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते पार्थिव पूजाविधिः वर्णनंनाम नवमः प्रकाशः || ९ ||

Prakāśa 10 – Puraścaryā und kaulischer Lebenswandel

श्रीदेव्युवाच ||

क्वचिद्दक्षं क्वचिद्वामं क्वचित्सौरं च शाम्भवम् || ऊर्ध्वाम्नायं क्वचिद्दक्षमुत्तरं पश्चिमं क्वचित् || १ ||

अध आम्नायकं चापि गाणपत्यं च वैष्णवम् || पारसीकं क्वचिद्बौद्धं पाखण्डं च क्वचित्क्वचित् || २ ||

तत्तत्प्रकरणे स्तौषि क्वचिन्निन्दसि तं पुनः || क्वचिन्निर्दैवतं मार्गं वेदान्तं वैदिकं क्वचित् || ३ ||

द्वीपधर्मान्खण्डधर्मान्कुलधर्मान्क्वचित्क्वचित् || देशधर्मान्कालधर्माञ्जातिधर्मान्क्वचित्क्वचित् || ४ ||

तन्त्रोत्तममिदं तन्त्रं प्रसन्नश्चेन्ममोपरि || तदा तत्त्वं मम ब्रूहि निःसन्देहा च मां कुरु || ५ ||

श्रीशिव उवाच ||

अहो कालस्य माहात्म्यं तन्त्रे तन्त्रे त्वया पुनः || पृच्छ्यते तत्तदाधिक्यं साहङ्कारं ब्रवीमि तत् || ६ ||

प्रज्ञेयं सात्त्विकी काचिज्जाता कालस्य यत्त्वया || उपकाराय सर्वेषां पृष्टं तत्त्वं ब्रवीमि तत् || ७ ||

यथा बालस्य पितृगीस्तथा वेदध्वनिर्हिता || कलेर्दशसहस्राणि यदा वर्षाणि यान्ति च || ८ ||

वेदो नारायणः साक्षात्कालावयवजन्तुभिः || न श्रूयते तदा देवि ज्ञेयः कालः समागतः || ९ ||

वाग्जृम्भाक्षुतपादादिशब्दा उत्पत्तिनश्वराः || वेदभिन्नानि शास्त्राणि तथा जानन्तु देवताः || १० ||

यस्य शास्त्रस्य लोकेस्मिन्प्रचारो यावदस्ति ह || तावत्तन्मार्गिणां सौख्यं वेदमार्गोद्य कुण्ठितः || ११ ||

तस्मात्तन्मार्गकर्तारः शिष्यांस्तत्सम्प्रदायिनः || तानानयन्ति स्वे मार्गे यत्तत्तावत्सुखं भवेत् || १२ ||

नृणां ज्ञानं यथा षड्भिरिन्द्रियैरभिजायते || तथा षडङ्गैर्वेदार्थज्ञानं भवति निश्चितम् || १३ ||

कर्मेन्द्रियाणि च नृणां यथा पञ्चमितानि च || तथा कालमहेशस्य पञ्चाम्नाया मयोदिताः || १४ ||

ऊर्ध्वाम्नायं समुद्दिष्टं वाचिकं कर्म तस्य तत् || तत्र प्रमाणं वेदास्स्युस्तदंशाः स्मृतयस्तथा || १५ ||

तदङ्गानि पुराणानि गायत्र्याद्याश्च देवताः || ब्रह्माबीजं [ब्रह्मबीजादुत्पन्नः ||] तथा क्षेत्रं [तन्माता ब्राह्मणी ||] संस्काराद्ब्राह्मणा [ब्राह्मणसंस्कारसंस्कृतश्च ||] मताः || १६ ||

ब्राह्मणाचरणं ब्रह्मविद्याभिर्ब्राह्मणो भवेत् || यस्य वश्या वयं यस्य वाचमर्थोऽनुधावति || १७ ||

एकस्मिंल्लक्षणे हीने वागर्थमनुधावति || प्. १८८) द्विहीने लक्षणे देवि स्वाचाराद्ब्राह्मणो भवेत् || १८ ||

लक्षणत्रयहीनो यस्तन्त्रमार्गेण सिद्ध्यति || चतुर्लक्षणहीनानां मार्गास्स्युः कौलिकादयः || १९ ||

एतल्लक्षणभिन्नेन यथादेशं यथाकुलम् || यथाजाति यथाकालं कर्तव्यो धर्मसंग्रहः || २० ||

मिथ्यासम्भाषणं स्तेयं सर्वमार्गेषु गर्हितम् || यत्किञ्चिज्जन्म यत्कर्म न जपोन तपः क्रियाः || २१ ||

जीवन्मुक्तः सत्यवक्ता सत्ये सर्वं प्रतिष्ठ्तम् || अहिंसा परमो धर्मः सोपि वाक्कायकर्मभिः || २२ ||

दृढो यत्र न चाचारो न जातिः स च मुक्तवत् || इह लोके सुखं भुक्त्वा यात्यन्ते परमं पदम् || २३ ||

परसन्तापरहिते तन्निष्ठा यस्य चेतसि || मुक्तं कालेपि जानीहि जीवन्मुक्तं न संशयः || २४ ||

यदिन्द्रियज्ञानवती सृष्टिर्भवति मैथुनात् || त्यक्तं तन्मनसा येन जीवन्मुक्तः स एव हि || २५ ||

यथेच्छालाभसन्तुष्टः स्तौति नो न च निन्दति || न मुत्सुखे न दुःखं स्यात्कर्मणा स विमुच्यते || २६ ||

हित्वा विषयसौख्यं च परं सन्तोषमास्थितः || यावद्देहस्य निर्वाहस्तावत्कालं परिक्षिपेत् || २७ ||

कामक्रोधादिरहितस्तपस्तपति निर्जने || न फलं कामयेत्किञ्चिज्जीवन्मुक्तः स एव हि || २८ ||

दुर्विज्ञेया दुर्निवारा महाकालस्य गेहिनी || तदंशाराधनात्सैव प्रसन्ना चेद्विमुञ्चति || २९ ||

सुबुद्धिभिः प्रियैः पुत्रैर्यथा माता प्रतार्यते || तथा प्रतार्यते चेयं जीवन्मुक्तः स उच्यते || ३० ||

कृतं बन्धार्थमनया भक्ष्यं पानं च मैथुनम् || येनैवं विदितं बन्धात्स्वयं मुक्तस्तदा भवेत् || ३१ ||

देवाः पूजनमिच्छन्ति तस्माद्बद्धाः परिग्रहात् || शुकवद्योप्रतिग्राही जीवन्मुक्तः स कोपि हि || ३२ ||

शौरं प्रकुर्वतो नित्यं विष्ठाबुद्धिः कलेवरे || देहाभिमानो गलितो जीवन्मुक्तस्स एव हि || ३३ ||

एष वै सुगमोपायो नात्र कार्या विचारणा || वेदस्याभ्यासतः सर्वं यो नयेत्स तु मोक्षवान् || ३४ ||

कोहं किं दृश्यते कर्ता कोस्य याति क्व चेतसि || इति सम्भावयन्नित्यं महाकाले लयं व्रजेत् || ३५ ||

वामिकैः कौलिकैस्तस्मादज्ञातैश्च गुरुं विना || समस्तैरथवाज्ञातैर्वञ्चितेयं न चेतरैः || ३६ ||

बद्धेयो बंधनैस्तस्य त्रोटयेद्वं धनानि च || भावयेद्यो महाकालं जीवन्मुक्तस्तदा भवेत् || ३७ ||

प्. १८९) बन्धमोक्षप्रकारास्तु तन्त्रे सङ्कलिता मया || यैर्ज्ञाता गुरुमार्गेण तैर्बन्धोयं विमोचितः || ३८ ||

कुगुरोर्मुखतो वापि ज्ञानाभासाच्च पुस्तकात् || स्वधर्मं ये परित्यज्य येत्र मग्नास्तु ते हताः || ३९ ||

तस्माद्धर्मं प्रवक्ष्यामि वामिनामधिकारिणाम् || येषां भोगोपि मोक्षोपि भवेद्येषां च दुर्गतिः || ४० ||

अवश्यमेव कर्तव्याः शिष्या वामेधिकारिणः || गुरोस्तेन भवेत्तेजः शिष्योपि लभते सुखम् || ४१ ||

मोहेन चाथ लोभेन दीक्षामनधिकारिणे || यो दद्यात्स दरिद्रः स्याच्छिष्यः स्याद्दुःखभाजनम् || ४२ ||

पूर्वोक्तलक्षणेष्वेकं यस्मिन्विप्रे न दृश्यते || उपतापं स वै कुर्यात्किञ्चिद्ब्राह्मणतां गतः || ४३ ||

अधिकारो न मे जातः समस्तब्रह्मकर्मणाम् || इह लोके परत्रापि कथं लप्स्याम्यहं सुखम् || ४४ ||

अन्धश्च यः परद्रव्ये परस्त्रीषु नपुंसकः || परापवादे यो मको नित्यमित्थं विचारयेत् || ४५ ||

तस्यैव ब्राह्मणस्यात्र ब्राह्मणत्वाधिकारिता || अब्राह्मणास्तु ये केचिन्मासे मद्ये रता वयम् || ४६ ||

कथं लभामहे मोक्षमिति चिन्तापरायणाः || पूर्वोक्तलक्षणैर्युक्तास्तेपि शिष्याः प्रकीर्तितः || ४७ ||

पञ्चलक्षणसंयुक्तो ब्राह्मणः काल एव सः || अहं ब्रह्मा तथा विष्णुस्तस्याज्ञावशवर्तिनः || ४८ ||

स चेद्वामपथं प्राप्तः पुनः श्वा चापि जायते || चतुर्लक्षणसम्पन्नो विप्रो ज्ञेयोस्ति मध्यमः || ४९ ||

ताभ्यां दत्तोऽभाग्यवशात्तान्त्रिकः कोपि चेन्मनुः || सद्यः फलति चाद्यस्य क्रियया चापरस्य तु || ५० ||

लक्षण त्रययुक्तो यस्तस्य वैदिकतान्त्रिके || यथोक्ताचरणादेव फलदे स्तो न वामके || ५१ ||

लक्षणद्वयसंयुक्तस्तस्य वामश्च दक्षिणः || मन तुल्यफलौ स्यातां न कदाचन वैदिकः || ५२ ||

एकलक्षणसंयुक्तो वामस्तस्य फलप्रदः || शूद्रादियवनान्तानां सिद्धिर्वामपथे स्थिता || ५३ ||

वाममार्गस्थितो विप्रस्तुलसीं न स्पृशेत्क्वचित् || न स्पृशेद्वैष्णवं विप्रं प्रणमेन्न च वैदिकम् || ५४ ||

हीनो विप्रः क्षत्त्रियाद्या वाममार्गरता अपि || तद्वर्त्मत्वाद्व्रतैर्विष्णोः पूता निष्किल्विषास्तथा || ५५ ||

वक्ष्येथ प्रकटं धर्मं वामगानां सुखावहम् || सत्सङ्गश्च विवेकश्च निश्चलं नयनद्वयम् || ५६ ||

यस्य नास्तीतरस्सोपि कथं वामे सुखं लभेत् || प्. १९०) सांसारिकसुखासक्तं ब्रह्मज्ञोस्मीति वादिनम् || ५७ ||

कर्मब्रह्मोभयान्नष्टं त्यजेदुत्पथगं यथा || मद्यं मांसं सुरापानं मत्स्यस्त्रीबान्धवास्तथा || ५८ ||

अनेके यत्र जायन्ते तत्र वामो गतिप्रदः || स्थित्वा तु दक्षिणे मार्गे गुप्तं भुक्तं पलादिकम् || ५९ ||

स याति नरकं घोरं विष्ठार्या जायते कृमिः || अतो द्विजैः सदा सेव्यो वैदिको धर्मसञ्चयः || ६० ||

विना बलिं पलं योत्ति विना पूजां सुरां पिबेत् || दूतीयज्ञं विनान्यस्य स्त्रीगो वापि स नारकी || ६१ ||

अबुद्धा समयाचारं कुलधर्मं [कौलधर्मम् |
] चरेद्यदि || स गुरुश्चैव शिष्यश्च योगिनीनां भवेत्पशुः || ६२ ||

वाममार्गमजानन्योधिकारी मोक्षमिच्छति || पारावारमपारं स बाहुभ्यां तर्तुमिच्छति || ६३ ||

सर्वकर्मविहीना ये वर्णाश्रमविवर्जिताः || कौले वा वाममार्गे ते भुक्तिमुक्त्योश्च भाजनम् || ६४ ||

निन्दन्तु बान्धवास्सर्वे त्यजन्तु तु सुतादयः || जना हसन्तु मां दृष्ट्वा राजानो दण्डयन्तु वा || ६५ ||

रोगदारिद्र्यदुःखाद्यैः पीडितोप्यनिशं त्वहम् || लक्ष्मीस्तिष्ठतु वा यातु न मुञ्चामि पथस्त्विमान् || ६६ ||

एवं यस्य दृढा भक्तिस्स वामे सिद्धिमाप्नुयात् || नार्थलोभान्न च क्रोधान्न द्वेषान्न च मत्सरात् || ६७ ||

न कामान्न भयाद्वापि मार्गं प्राप्तं परित्यजेत् || प्रत्यहं नार्चयेद्देवीं मार्गेस्मिन्विघ्नमाप्नुयात् || ६८ ||

गुरुकारुण्यपूतो हि देहनिर्घूतकल्मषः || कुलपूजारतो यस्तु सोयं कौलो न चेतरः || ६९ ||

परोक्षे कोनुजानीते कस्य किञ्च भविष्यति || यद्वा प्रत्यक्षफलदन्तदेवोत्तमदर्शनम् || ७० ||

गुरूपदेशरहिता महान्त इति केचन || मोहयन्ति जनान्केचित्स्वयं पूर्वविमोहिताः || ७१ ||

पेयं मद्यं पलं खाद्यं समालोक्यं प्रियासुखम् || इत्येवाचरणं प्रोक्तं पामराः प्रवदन्ति च || ७२ ||

मद्यपानेन मुनयो यदि सिद्धिं लभन्ति चेत् || मद्यपानरताः सर्वे किं सिद्धा न भवन्त्विमे || ७३ ||

मांसभक्षणमात्रेण यदि पुण्या गतिर्भवेत् || क्रव्यादानां तदा मोक्षो मांसादन्यन्न भुञ्जते || ७४ ||

स्त्रीसम्भोगेन भो देवा यदि मुक्तिः प्रजायते || तदा सर्वेपि मुक्तास्स्युः कस्य जन्म भविष्यति || ७५ ||

प्. १९१) कृपाणधारागमनं व्याघ्रकर्णावलम्बनम् || भुजङ्गावरणं नूनं शक्यं वै कुलवर्त्मतः || ७६ ||

वृथापानं तु देवेशि सुरापानमिहोच्यते || तन्महापातकं ज्ञेयं वेदादिषु निरूपितम् || ७७ ||

अनाघ्रेयमनालोक्यमवश्यं चाप्यपेयकम् || मद्यं मांसं पशूनां तु कौलिकानां महत्फलम् || ७८ ||

अमेध्यानि द्विजातीनां मद्यान्येकादशैव व हि || द्वादशं तु सुरामद्यं सर्वेषामुत्तमं स्मृतम् || ७९ ||

तस्माद्विप्रो हि राजन्यो वैश्यश्च न सुरा पिबेत् || सुरादर्शनमात्रेण कुर्यात्सूर्यावलोकनम् || ८० ||

तस्य [मद्यस्य |
] संसर्गमात्रेण प्राणायामत्रयं चरेत् || आजानुभ्यां भवेत्स्नानं नाभ्यामुपवसेदहः || ८१ ||

ऊर्ध्वं नाभेस्त्रिरात्रं तु मद्यस्य स्पर्शने विधिः || सुरापाने कृते वह्निज्वलद्दण्डं प्रवेशयेत् || ८२ ||

मुखे तेन विनिर्दग्धे तच्छुद्धिं समवाप्नुयात् || अभिघातेन यो हन्यादात्मार्थं प्राणिनः प्रिये || ८३ ||

निवसेन्नरके घोरे दिनानि पशुरोमभिः || सम्मितानि दुराचारस्तिर्यग्योनिषु जायते || ८४ ||

अनुमन्ता विभक्ता च निहन्ता क्रयविक्रयी || संस्कर्ता चोपभोक्ता च खादत्यष्टौ च ते समाः || ८५ ||

धनेनाक्रीय तं हन्ति खादिता चोपभोगकः || घातको वधबन्धाद्यरित्येकस्त्रिविधो मतः || ८६ ||

तृणं चाप्यविधानेन छेदयेन्न कदाचन || विधिवद्गां द्विजं वापि हत्वा पापैर्न लिप्यते || ८७ ||

सर्वेभ्यः कौलिकः श्रेष्ठ ऊर्ध्वाम्नायी च वामगः || अधिकारी भक्तियुक्तो यो भवेद्गुरुसेवकः || ८८ ||

संहारः पश्चिमाम्नाये उत्तरेनुग्रहो भवेत् || मन्त्रयोगं विदुः पूर्वं भक्तियोगं तु दक्षिणम् || ८९ ||

पश्चिमं कर्मयोगं तु ज्ञानयोगं तथोत्तरम् || मातृकान्याससंस्थाने वामे कौलिकवर्त्मनि || ९० ||

प्रपञ्चयोगनामानं न्यासं कुर्यात्स उच्यते || श्रीप्रपञ्चे द्विपमाये कमलाजलधी तथा || ९१ ||

गिरिविष्णुवल्लभे च पट्टनं पद्मधरिणी || समुद्रतनयापीठे क्षेत्रयुग्लोकमातृका || ९२ ||

वनं कमलवासिन्यपीन्दिरा चाश्रमस्तथा || मागुहौ तु रमागुह्यौ पद्माचरणकौ तथा || ९३ ||

नारायणप्रियोद्भिज्जौ द्विलक्ष्मीः स्वेदजान्विता || प्. १९२) अण्डजाश्च महालक्ष्मीस्तु जरायुजलक्ष्मिका || ९४ ||

स्वरस्थाने षोडशैव युग्मानि स्पर्शकेष्वथ || आर्यालवौ त्रुट्यमे च चण्डिका च कलान्विता || ९५ ||

काष्ठादुर्गे निमेषाख्यशिवे श्वासो ह्यपर्णिका || अम्बिकाघटिके चेव मुहूर्तश्च सतीयुतः || ९६ ||

ईश्वरीप्रहरौ चैव शाङ्करी दिवसान्विता || ईशानी चापि सन्ध्या च पार्वती रात्रिसंयुता || ९७ ||

सर्वमङ्गलया युक्तां स्थितिं न्यस्येत्ततः परम् || दाक्षायण्या तथा वारं हैमवत्यायुतं न्यसेत् || ९८ ||

नक्षत्रं च महामायायुक्तं योगं न्यसेत्ततः || माहेश्वर्या च करणं मृडान्या पक्षमेव च || ९९ ||

रुद्राणी माससंयुक्ता शर्वाणी राशिसंयुता || अथर्तुपरमेश्वर्यौ काली चायनसंयुता || १०० ||

कात्यायनी वत्सरयुग्गौरी युगसमन्विता || भवानीप्रलयौ चाथ यादिस्थानेषु विन्यसेत् || १०१ ||

पञ्चभूतयुता ब्राह्मी पञ्चतन्मात्रसंयुता || वागीश्वरी ततो वाणी पञ्चकर्मेन्द्रियान्विता || १०२ ||

सुज्ञानेन्द्रियसावित्री सानिला च सरस्वती || गायत्री गुणयुक्ता च वागन्तःकरणान्विता || १०३ ||

अवस्थायुक् शारदा च धातुयुक्ता च भारती || दोषयुक्ता प्रिया चेति व्यापकं विद्यया न्यसेत् || १०४ ||

त्रितारमूलविद्यान्ते मातृकाक्षरतः परम् || वदेत्प्रपञ्चरूपायै श्रियै नम इति क्रमात् || १०५ ||

प्रपञ्चादिभिराढ्यान्त्यवर्णयुक्तिं तु योजयेत् || मातृकान्याससंप्रोक्तस्थानेषु तदनन्तरम् || १०६ ||

त्रितारमूलकस्यैव प्रपञ्चस्य स्वरूपतः || आर्या पराम्बादेव्यै च नमोक्त्या व्यापकं न्यसेत् || १०७ ||

प्रपञ्चन्यास एवं स्याद्भुवनन्यास उच्यते || त्रितारमूलमन्त्रान्ते विभागेनाक्षराणि च || १०८ ||

सानुस्वाराणि चोच्चार्य भूतलादिकनाम च || लोकानीह शतान्ते तु कोटि गुह्यपदं वदेत् || १०९ ||

योगिनीमूलदेव्यास्तु नामाथाधारशक्ति च || देव्यै नम इति प्रोच्य प्रोक्ताङ्गेषु प्रविन्यसेत् || ११० ||

अक्षराणां विघागस्तु अकारादित्रयं त्रयम् || अर्धेन्दुयुक् ततः स्थाने स्थानयुग्मे द्वयं द्वयम् || १११ ||

कादिकास्सप्तवर्गाश्च लक्षं चापि चतुर्दश || अथ नामानि लोकानामतलं वितल तथा || ११२ ||

सुतलाख्यं महातलं तलातलरसातले || प्. १९३) पातालं भूर्भुवः स्वश्च महर्जनस्तपस्तथा || ११३ ||

सत्यं चेत्यथ गुह्यादिस्थाने यत्र तदुच्यते || गुह्यान्तरं द्वितीयेथ चातिगुह्यमचिन्त्यकम् || ११४ ||

महागुह्यं स्वतन्त्रं च परमं गुह्यमग्रतः || ओंकारं योगिनीस्थाने रहस्यं ज्ञानमग्रतः || ११५ ||

रहस्यं च क्रियामुक्त्वाथाष्टमे विनियुज्यते || रहस्यं डाकिनीं चाथ महारहस्यहाकिनी || ११६ ||

महागुप्तं काकिनीं च गुप्ततरं च शाकिनी || गुप्तं श्रीहाकिनीं पश्चान्महाकायं च याकिनीम् || ११७ ||

न्यसेद्वामी क्रमान्न्यस्यौ गुल्फौ जघनजानुनी || ऊरुगुल्फौ च मलाधारं स्वाधिष्ठाननाभिकम् || ११८ ||

हृदंसकण्ठभालानि ब्रह्मरन्ध्रमिति क्रमात् || त्रितारमूलमन्त्रान्ते चतुर्दश तु वं वदेत् || ११९ ||

अधिपायै पराम्बायै देव्य हृद्व्यापकं न्यसेत् || मूर्तिन्यासं प्रवक्ष्यामि तत्रादौ प्रणवत्रयम् || १२० ||

मूलमन्त्रं समुच्चार्य न्यासं कुर्यात्तदुच्यते || चतुर्थीनमसा युक्तान्प्रोक्ताङ्गेषु प्रविन्यसेत् || १२१ ||

मानादौ प्रिया चान्ते मस्तके केशवाक्षये || मुखे नारायणौष्ठे [वृद्धिरार्षी |
] च दक्षस्कन्धे च माधवः || १२२ ||

ईशान्या सहितो वामे गोविन्दश्चोग्रयान्वितः || विष्णूर्ध्वनयने दक्षपार्श्वे तु मधुसूदनः || १२३ ||

ऋद्धिश्च वामवार्श्वेऽथ दक्षकट्यां त्रिविक्रमः || रुक्मिणीयुग्वामकट्यां कान्तियुक्तस्तु वामनः || १२४ ||

दक्षोरौ धीधरोद्धारौ वामे दोषाकरस्थितौ || एकनासाहृषीकेशो दक्षजानुनि विन्यसेत् || १२५ ||

एकारिणी पद्मनाभौ वामे चौघवती भवेत् || दामोदरोथ दक्षायां जङ्घायां वासुदेवयुक् || १२६ ||

अर्कमानाथ वामायां जङ्घायामञ्जनप्रभा || सङ्कर्षणयुता दक्षपादे प्रद्युम्नसंयुता || १२७ ||

अस्थिमाला वामपादे ह्यनिरुद्धो धरायुतः || एते षोडश विन्यस्याः सानुस्वारादिपूर्वकाः || १२८ ||

विष्णुभक्तियुतानान्तु न्यासोयं परिकीर्तितः || शैवन्यासे दक्षपादे करभद्राभवौ मतौ || १२९ ||

वामे खगबलाशर्वौ गतिदा च फलप्रदः || ऋद्धियुग्दक्ष ईशानौ जगत्स्थानसमन्वितः || १३० ||

क्रमान्न्यसेत्तथा चैव तत्पुरुषोडुवल्लभौ || प्. १९४) अघोरा ज्ञाननादी च ततष्टङ्को धरायुतः || १३१ ||

वामदेवोथ सद्याख्या जष्टङ्कधरदामिनी || ब्राह्मोत्राथ भवेन्न्यासः पादे ब्रह्मा च पक्षिणी || १३२ ||

प्रजापती रञ्जनी च जङ्घयोरथ जानुनोः || वेधालक्ष्म्यौ चोरुगे च स्रष्टारं हरिताननाम् || १३३ ||

ललाटे ललितां न्यस्येत्तथैव चतुराननम् || क्षमां हिरण्यगर्भं च ब्रह्मरन्ध्रे प्रविन्यसेत् || १३४ ||

त्रितारमूलमन्त्रान्ते श्रीत्रिमूर्तिपदं वदेत् || आर्यापराम्बादेव्यै च नमसा व्यापकं चरेत् || १३५ ||

एवं न्यासविधिं कृत्वा कुर्याद्यश्च जपादिकम् || भूतप्रेतजनाद्यैश्च स जपी नैव बाध्यते || १३६ ||

वामाचारिमते वच्मि पात्रादेरथ लक्षणम् || आधारेण विना अंशा न च तृप्यन्ति मातरः || १३७ ||

चतुष्पदं च त्रिपदं षट्पदं वर्तुल तथा || विप्रादीनां च वर्णानां पात्रलक्षणमुच्यते || १३८ ||

नारिकेलस्वर्णतारकाचशुक्तिशिलोद्भवम् || शङ्खसद्दारुकूर्मादिकपालालाबुमन्मयम् || १३९ ||

उत्तमं मध्यमं हीनं विप्रादीनां प्रकीर्तितम् || नातिस्थलं नातिसूक्ष्मं छिन्नं भिन्नं विवर्जयेत् || १४० ||

ताम्रकांस्यादिमिर्लोहैः पात्रं नैव तु कारयेत् || ब्रह्मसिद्धिः सुवर्णे स्याद्दुःखान्तस्तारपात्रतः || १४१ ||

शान्तिः शिलायाःस्तम्भस्तु मृन्मये नारिकेलजे || वश्याद्यं कूर्मजे ज्ञानं शुक्तिर्मुक्तिप्रदायिनी || १४२ ||

पुण्यवृक्षजपात्रं तु पापघ्नं मृत्त वृत्तिकृत् || कपाले वीरसंसिद्धिरलावौ योगसिद्धयः || १४३ ||

अम्भसां द्वादशप्रस्थं चतुःप्रस्थं तु तण्डुलाः || प्रस्थार्धं तण्डुलं पक्त्वा तावन्मात्रांस्तु सुन्दरान् || १४४ ||

शीतादिरहिते स्थाने दिवसद्वयमास्यते || पश्चादग्नौ समारोप्य जम्बालसदृशं पचेत् || १४५ ||

पादप्रस्थांस्तण्डुलांश्च तन्मात्रान्सुन्दरान्क्षिपेत् || पुनर्दिनद्वयं स्थाप्य पुनरेवं प्रकल्पयेत् || १४६ ||

अर्कं तस्य समादाय तण्डुले सुविनिःक्षिपेत् || पुनरेवं त्रिधा कुर्यात्ताण्डुलीया सुरा स्मृता || १४७ ||

अयमेव भवेत्सोमः सोमयागफलप्रदः || दूतीयागे भवेद्योगे सोमपानं तु तत्स्मृतम् || १४८ ||

या गतिः सोमयज्ञेन कौलिकानामननेसाम् || भोगः स्वर्गश्च भवति विना कष्टेन वामिनाम् || १४९ ||

एवं तु यवपिष्टोत्थो यवसोम इति स्मृतः || यवतण्डुलयोगेन शक्तिसोमो निगद्यते || १५० ||

प्. १९५) स्विन्नकुट्टितगोधूमाः समं विश्वेन [शुण्ठ्या |
] संयुताः || स्थापिता द्वादशाहं तु वारुण्या परिवारिताः || १५१ ||

तन्मद्यं सूर्यसञ्ज्ञं स्याद्योगिनीमदवर्धनम् || पीतं तच्चक्रपूजान्ते वाजपेयफलप्रदम् || १५२ ||

इदमेव त्रिधा युक्तं दलं मद्यं च साधितम् || अग्निर्भवेत्तस्य पानादग्निदानफलं लभेत् || १५३ ||

अग्निर्यदा सप्तदिनं वारुणीयन्त्रगः कृतः || पचेदनलनामासौ महापातकनाशनः || १५४ ||

दशप्रस्थो गुडः प्रोक्तस्तावद्बब्बूलजास्त्वचः || जम्बूत्वग्घातकीपुष्पं तदर्धं नारिकेलजम् || १५५ ||

कुसुमं च तदर्धं स्यात्तदर्धा च हरीतकी || तावद्विभीतकं प्रोक्तं चतुर्थांशं कटुत्रयम् || १५६ ||

तावच्च चित्रकं तस्माद्गुडो द्वादशभागकः || करेण भ्रामयेत्सम्यगनुलोमविलोमतः || १५७ ||

अष्टोत्तरशतावृत्त्या त्रिसन्ध्यं प्रतिवासरम् || द्वादशाहेन पाकः स्याद्वारुणीयन्त्रगं पचेत् || १५८ ||

एषा गौडीति विख्याता महामदकरी मता || शिवेन निर्मिता पूर्वं स्वयं पीता तु भैरवैः || १५९ ||

द्विगुणं मकरन्दस्य वारि संयोजयेद्गुडे || षोडशाहेन पाकस्स्याच्छेषमन्यत्पुरोक्तवत् || १६० ||

सर्वदेवप्रिया चेयं वशीकरणमुत्तमम् || देवानां शक्तयो वश्या मानुषीणान्तु का कथा || १६१ ||

हरीतकी चित्रकं च मरिचं धातकी तथा || मधूकपुष्पं क्षौद्रं च भागैकेन विवर्धितम् || १६२ ||

अशीतिगुडसंमिश्रं शेषमन्यत्तु पूर्ववत् || इदं मनोहरं मद्यं योगिनीपानमुत्तमम् || १६३ ||

माद्यभावं प्रवक्ष्यामि बिन्दुसंसाधकं सुराः || माहिषं दधि संग्राह्यं चतुःशतगुणो गुडः || १६४ ||

मोचाफलस्य पक्वस्य मर्दितस्य रसस्तथा || ग्राह्यो दधिचतुर्थांशस्तत्सम्मर्द्यघटे क्षिपेत् || १६५ ||

इदं सुरातोप्यधिकं ब्राह्मणानां प्रशस्यए || गौडी माध्वी तथा पैष्टी त्रिविधा तु सुरा स्मृता || १६६ ||

शूद्राणामुचिता चेयं न स्यात्क्षत्त्रियवैश्ययोः || ब्रह्मानन्दसुरा यैस्तु विप्रैः पीता तु कौलिकैः || १६७ ||

न चोन्मादकरी तेषां सुरा बुद्धिविवर्द्धिनी || कथिता ब्रह्मचिंतैवं नित्यमेवं मतं सताम् || १६८ ||

ब्राह्मणस्य सुरा मद्यवासना प्रभवेद्यदि || चाण्डालवद्बहिष्कार्यो नासौ वामी न कौलिकः || १६९ ||

प्. १९६) वामिनां कौलिकानान्तु मुखे तिष्ठन्ति देवताः || नयन्ति ते तु तद्गन्धं स तु वन्द्यो भवेद्द्विजः || १७० ||

देवता यस्य न मुखे साक्षाच्चण्डाल एव सः || सर्वसिद्धिकरी पैष्टी गौडी भोगप्रदायिनी || १७१ ||

माध्वी मुक्तिकरी ज्ञेया द्राक्षी राज्यकरी मता || विद्याप्रदैक्षवी प्रोक्ता खार्जूरी रिपुनाशिनी || १७२ ||

तालजा स्तम्भने शस्ता पनसाख्या शुभप्रदा || नारिकेलोद्भवा श्रीदा निम्बजा रोगनाशिनी || १७३ ||

मधूकजा ज्ञानकरि मैरेया पापनाशिनी || यत्सानन्दं रुचिकरं सामोदं च मनोहरम् || १७४ ||

मद्यं तदुत्तमं देवीदेवताप्रीतिकारकम् || मद्यं मांसं च विजयामष्ट गन्धैर्विमिश्रयेत् || सम्मर्द्य वटिकाः प्राग्वज्जले देयास्ततोर्चयेत् || १७५ ||

धत्तूरबीजं विजया जातीपत्रं फलं तथा || अकारकरभो वत्सवृक्षस्य च तु वल्कलम् || १७६ ||

मद्यं च भागवृद्धांशं मर्दयित्वा वटीकृतम् || अयं बिन्दुश्चाष्टगन्धाभिधानो देवताप्रियः || १७७ ||

गुडमिश्रेण तक्रेण तथा च मधुभोजिना || पूजां विप्रगणः कुर्यादेतत्कर्म न लोपयेत् || १७८ ||

प्रमादाद्यदि लोपेत देवताशापमाप्नुयात् || विजयाया द्रवैर्वाथाभावे तर्पणमाचरेत् || १७९ ||

यथाहिफेनभुक् चापि तं विना व्याकुलो भवेत् || तथा कौलिकवामानां मन्त्रदेवाः श्रमातुराः || १८० ||

विना मद्येन मांसेन साधकं पीडयन्ति हि || ताभ्यां भोगं च भक्तेभ्यो मन्त्रा यच्छन्ति तं विना || १८१ ||

निष्फला एव जायन्ते भ्रमयन्ति च साधकम् || तस्मात्पतन्ति नो वामे क्षुद्रा अपि विचारतः || १८२ ||

मांसन्तु त्रिविधं प्रोक्तं खभूजलचरोद्भवम् || यथासम्भव मेकैकं तर्पणाय प्रयोजयेत् || १८३ ||

हन्यान्मंत्रेण चानेन ह्यभिमन्त्र्य पशुन्तथा || गन्धपुष्पाक्षतैः पूजा चान्यथा नरकं व्रजेत् || १८४ ||

शिवा कृतमिदं पिण्डमतस्त्वं शिवताङ्गतः || उद्भुध्यस्व पशोत्वं हि नाशिवस्त्वं शिवो ह्यसि || १८५ ||

ब्रह्मा स्यात्सलिले विष्णुर्गन्धे रुद्रश्च तद्भवे || परमात्मा तदानन्दे तस्मात्सेव्यमिदं प्रिये || १८६ ||

मांसाभावे तु लशुनमार्द्रकं नागरन्तु वा || पलाण्डुं वाथ वटका मसूराणान्तथैव च || १८७ ||

मत्स्यमांसविहीनेन मद्येनापि च तर्पयेत् || न कुर्यान्मांसमत्स्याभ्यां विना द्रव्येण पूजनम् || १८८ ||

प्. १९७) पिशितन्तिलमान्त्रतु तिलार्धमपि बिन्दुना || नराणां देवताभावोन्यथा प्रेतविभावनम् || १८९ ||

ब्राह्मणैः कौलिकैः पेयं सर्वक्षत्रै रणागमे || वैश्यिर्गोलम्भने पेयं शूद्रैः स्त्रीरतिकर्मणि || १९० ||

देवान्पितॄन्समभ्यर्च्य शक्तिशास्त्रोक्तवर्त्मना || गुरुं स्मरन्पिबेन्मद्यं खादेन्मासं न दोष भाक् || १९१ ||

ब्रह्मध्यानस्य स्थैर्यार्थे देवतातृप्तिहेतवे || सेवेत मधुमांसानि तृप्तये चेत्स पातकी || १९२ ||

मत्स्यमासवसादीनां पदार्थानां निषेवणात् || यागकालं विनान्यत्र स महापातकी भवेत् || १९३ ||

यथा क्रतुषु विप्राणां सोमपानं न दूषितम् || मद्यपानं च कौलानां पूजान्ते न विगर्हितम् || १९४ ||

श्रीगुरोः कुलशास्त्रेभ्यः सम्यग्विज्ञाय वामिना || पञ्चमुद्रा निषव्यन्ते चान्यथा पतितो भवेत् || १९५ ||

आवृत्तिं गुरुभक्तिं च तथा देवादिपूजनम् || वीरोत्सवं विना पानाद्देवताशापमाप्नुयात् || १९६ ||

दक्षयज्ञे यदा देवि त्वया त्यक्तं कलेवरम् || अहं गृहीत्वा तत्स्कन्धे चितां वेष्टुं समुद्यतः || १९७ ||

वडवाग्नेः प्रवेशार्थं यत्रयत्राभवत्स तु || तत्रतत्रापि शक्रेण तूर्ण निर्वापितो जलैः || १९८ ||

एवं पर्यटतो वर्षं प्रस्वेदो मे महानभूत् || तद्बिन्दुपातनिर्दग्धा धरणीयं तदाभवत् || १९९ ||

तदा सम्प्रार्थितो विष्णुर्धरणीरक्षणाय च || स एव लघुभिर्बाणैस्त्वदङ्गानि समाच्छिनत् || २०० ||

चतुराशीतिखण्डानि कृत्वासौ पातयेद्भुवि || वातेन पीडितश्चाहं यातो धर्मोखिलस्तदा || २०१ ||

विष्णुश्च प्रकटीभूय पादयोः पतितो मम || उत्थाप्य च परिष्वक्तस्तव शोकश्च विस्मृतः || २०२ ||

तावद्ब्रह्मादयो देवा नारदाद्या महर्षयः || सन्तुष्टुवुस्तदा वाक्यं विष्णुः प्रोवाच पार्वति || २०३ ||

ज्ञानदोसि महेश त्वं कथं मोहमुपागतः || सत्याः शरीरेण सह प्रवेष्टुं हव्यवाहने || २०४ ||

अनुगच्छेत्पतिं नारी न पुमांस्तां च गच्छति || इति शास्त्रमनादृत्य कथं देव विमोहितः || २०५ ||

एवं वदति देवेशे ब्रह्मणा मां हरिं तथा || प्रोचुः श्लेषगिरोऽङ्गैस्तु सत्याश्चेदं धरातलम् || २०६ ||

स्थले स्थले शवस्पर्शाद्ब्रह्मकर्मविवर्जितम् || तस्या धरायाः संशुद्धिं विप्राणां वापि शुद्धताम् || २०७ ||

ब्राह्मवाक्यस्य सत्यत्वं यथा भवति तत्कुरु || ततो ध्यात्वा मया प्रोक्तं सम्मतीकृत्य विष्णुना || २०८ ||

प्. १९८) यत्र वेदक्रिया ह्यस्ता तत्र तन्त्रं प्रवर्त्यताम् || ये विप्राः शापनिर्दग्धाः शब्दब्रह्मविवर्जिताः || २०९ ||

तेषां तु कुलधर्मोयं भुक्तिमुक्त्योस्तु साधनम् || ये विप्राः पीठसञ्जाताः शापनिर्दग्धविप्रताः || २१० ||

तेषां कुलेधिकारोयं मार्गस्यास्य प्रजायते || तत्कुले एव पूज्यत्वात्कौलीनपथ उच्यते || २११ ||

वाममार्गस्ततो न्यूनस्तेषां यौ क्षत्रवैश्यकौ || यजमानौ तयोस्तत्राधिकारः समुदाहृतः || २१२ ||

सिद्धान्तीयस्ततो न्यूनस्तत्र शूद्राधिकारता || ये पारम्पर्यमज्ञात्वा कौलधर्मे विशन्ति ते || २१३ ||

निःस्वाः सन्ततिहीनाश्च रोगिणो नात्र संशयः || कौलज्ञाने ह्यसिद्धो यः पलं वै भोक्तुमिच्छति || २१४ ||

स महापातकी देवि सर्वकर्मबहिष्कृतः || समयाचारहीनस्य स्वैरवृत्तेर्दुरात्मनः || २१५ ||

न सिद्धयः कुलं नश्येत्तत्संसर्गं न कारयेत् || यः शास्त्रविधिमुत्सृज्य वर्तते कामचारतः || २१६ ||

स सिद्धिमिह नाप्नोति परत्र च पराङ्गतिम् || लोके भवति निन्द्यश्च वेदे चैव तथैव सः || २१७ ||

कुलद्रव्याणि सेवेत योन्यदर्शनमाश्रितः || तदङ्गरोमसङ्ख्यातभूतयोनिषु जायते || २१८ ||

मद्येन स्फालितात्मा यो न किञ्चिदपि वेत्ति चेत् || न ध्यानं न तपश्चर्या न धर्मो न च सत्क्रिया || २१९ ||

न दैवं न गुरुर्नात्मा विचारो यदि कौलिके || केवलं विषयासक्तः पतत्येव न संशयः || २२० ||

लिङ्गत्रयविशेषज्ञः षडाधारविभेदकः || पीठस्थानानि चागत्य महायज्ञवनं श्रयेत् || २२१ ||

आमूलाधारमाब्रह्मरन्ध्रं गत्वा पुनः पुनः || चिच्चन्द्रकुण्डलीशक्तिमुद्रया स्यात्सुखाशयः || २२२ ||

व्योमपङ्कजनिस्पन्दसुधापानरतो भवेत् || मधुपानमिदं प्रोक्तमितरे मद्यपायिनः || २२३ ||

पुण्यापुण्ये उभे छित्त्वा ज्ञानखड्गेन योगवित् || परे लयेत्सदा चित्तं पलाशी स निगद्यते || २२४ ||

मनसा स्वेन्द्रियगणान्नियम्यात्मनि योजयेत् || मत्स्याशी स जनः प्रोक्तः शेषा धीवरवृत्तयः || २२५ ||

अप्रबुद्धा तु या शक्तिः प्रबुद्धा कौलिकस्य च || शक्तिं तां सेवयेद्यस्तु स भवेच्छक्तिसेवकः || २२६ ||

इत्येवं पञ्चमुद्राणां गुप्तं तत्त्वं मयोदितम् || ज्ञात्वा गुरुमुखात्सम्यक् सेवते स च मुच्यते || २२७ ||

अथ पूजाप्रकारस्तु कथ्यते वामिदुर्लभः || आत्मस्थानमनुद्रव्यदेवशुद्धिम्प्रकल्पयेत् || २२८ ||

प्. १९९) स्नानं सन्ध्या भूतशुद्धिः प्राणायामः प्रतिष्ठितिः || प्राणानां मातृकान्यासादिकेः स्यादात्मशोधनम् || २२९ ||

सम्मार्जनानुलेपाद्यैर्दर्पणोदरवत्कृतम् || वितानधूपदीपाद्यैः स्थानशुद्धिरियं मता || २३० ||

ग्रथित्वा मातृकावर्णैर्मूलमन्त्राक्षराणि च || क्रमोत्क्रमत्रिरावृत्तिर्मन्त्रशुद्धिरियम्मता || २३१ ||

पूजाद्रव्याणि सम्प्रोक्ष्य मूलास्त्रेण विधानवित् || दर्शयेद्धेनुमुद्रां च द्रव्यशुद्धिरियम्मता || २३२ ||

पीठे देवं प्रतिष्ठाप्य सकलीकृत्य प्रोक्षयेत् || अर्घ्योदकेन मूलेन दीपदानं प्रदर्शयेत् || २३३ ||

देवे शुद्धिं विधायेत्थं पश्चाद्यजनमाचरेत् || सा पूजा फलदा ज्ञेया त्वन्यथा निष्फला भवेत् || २३४ ||

मण्डलेन विना पूजाविफला परिकीर्तिता || तस्मान्मन्त्रेण विधिवल्लिखित्वा तत्र पूजयेत् || २३५ ||

अखण्डमण्डलाकारं विश्वं व्याप्य व्यवस्थितम् || त्रैलोक्य मण्डितं येन मण्डलं तत्सदाशिवम् || २३६ ||

उद्यानं चतुरस्रं स्यात्कामरूपं तु वत्तुलम् || जलन्धरं चार्धचन्द्रं पूर्णं पूर्णगिरिर्मतः || २३७ ||

अभ्यर्च्य मण्डलं पश्चादाधारं स्थापयेत्क्रमात् || शांखमर्घ्यं भोगपूजाबलिपात्राणि पञ्च च || २३८ ||

स्वदक्षिणादिवामान्तं स्थाप्याभ्यर्च्यासवेन च || सम्पूर्य मन्त्रपूतेन कुलेश्वरि विधानवित् || २३९ ||

तत्र माषप्रमाणं तु मद्यं मांसं च निक्षिपेत् || नष्टैः पर्युषितोच्छिष्टैर्दुर्गन्धैर्गन्धवर्जितैः || २४० ||

हेतुभिः परपात्रस्थैस्तर्पणं निष्फलं भवेत् || स्वादिष्ठैश्च मदोत्सिक्तैर्द्रव्यैरमृतसन्निभैः || २४१ ||

मनोहरैश्च देवीनां तर्पणं सफलं भवेत् || असंस्कृता सुरा पापा कलहव्याधिदुःखदा || २४२ ||

आयुःश्रीकीर्तिसौभाग्यधर्मविद्याविनाशिनी || तस्मात्संस्कृत्य विधिवत्कुलद्रव्यं ततोर्चयेत् || २४३ ||

सुसंस्कृता सुरा रोगदुःखापदपहारिणी || आयुःश्रीकीर्तिसौभाग्यधर्मविद्याविवर्धिनी || २४४ ||

अन्यथा [द्रव्याण्यसंस्कृत्य |
] नरकं याति दाता भोक्ता न संशयः || विना द्रव्याधिवासेन न स्मरेन्न जपेत्तथा || २४५ ||

ये स्मरन्ति महामूढास्तेषां दुःखं पदे पदे || नाशयेन विना मन्त्रो न मन्त्रेण विनाशयः || २४६ ||

वीक्षणस्पर्शनध्यानमन्त्रमुद्राविशोधनैः || द्रव्यं तर्पणयोग्यं स्याद्देवताप्रीतिकारकम् || २४७ ||

प्. २००) आवाहयेदग्निसूर्यचन्द्रार्णप्रणवोद्भवाः [ह्रीं अग्निसूर्यचन्द्ररूपवर्णप्रणवोद्भवाभ्यश्चतुर्णवतिकलाभ्योनम् अः |
इति पूजामन्त्रः ||] || चतुर्णवतिसंख्याश्च कला आवाह्य पूजयेत् || २४८ ||

तत्रेष्टदेवता ध्यायञ्च्छलोकार्थं प्रविचारयेत् || श्लोकानेतान्पठेत्पश्चात्तान्ब्रवीमि शृणु प्रिये || २४९ ||

अखण्डैकरसानन्दकरे परसुधात्मनि || स्वच्छन्दस्फुरणाकारे निधेह्यमृतरूपिणि || २५० ||

अकुलस्थामृताकारे शुद्धिज्ञानकरे परे || अमृतत्वं निधेह्यस्मिन्वस्तुनि क्लिन्नरूपिणि || २५१ ||

तद्रूपिणि करस्पर्शं कृत्वा भूतस्वरूपिणि || भूत्वामृतापराकारे मयि विस्फुरणं कुरु || २५२ ||

ओं [ओंं क्लीं ह्रौं जूंसः अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतं स्रावयस्रावय स्वाहा |
] क्लीं ह्रौं जूं स इत्युक्त्वा अमृते अमृतोद्भवे || अमृतेश्वरि अमृतवर्षिणीतिपदं वदेत् || २५३ ||

अमृतं स्रावययुगं स्वाहान्तो द्रव्यशुद्धये || अमृतेशीमनुः प्रोक्तः पञ्चत्रिंशद्भिरक्षरैः || २५४ ||

त्रिधा निमन्त्र्य प्रागुक्तं दीपनीमन्त्रतस्त्रिधा || संस्पृश्यार्च्चनपात्रन्तु पूजयेद्धेनुमुद्रया || २५५ ||

ब्रह्माण्डखण्डसम्भूतागमशेषरसं भृतम् || आयुरिदं महामद्यपीयूषरसमावह || २५६ ||

शुद्धद्रव्येण तेनापि गन्धपुष्पाक्षतैरपि || न्यासोक्तसर्वमन्त्रैश्च स्वात्मानं प्लावयेत्तथा || २५७ ||

मूर्ध्नि श्रीगुरुपंक्तिं च मूलाधारे च पादुकाम् || दिव्यौघं तर्पयेदादौ आदिनाथः सदाशिवः || २५८ ||

ईश्वरो रुद्रविष्णू च ब्रह्मा पत्नीयुतास्त्विमे || भवन्ति द्वादश ततः सिद्धौघास्तान्प्रतर्पयेत् || २५९ ||

सनकाद्याश्च चत्वारः सुजातश्चारुभूषितः || सनत्कुमारो व्यासश्च वामदेवः शुकस्तथा || २६० ||

दत्तात्रेयो रैवतको द्वादशैव तु मानवान् || तर्पयेत्षण्नृसिंहं च महेशं भास्करं तथा || ३६१ ||

महेन्द्रं माधवं विष्णुं नामान्ते तु प्रयोजयेत् || महाशिवं च सिद्धौघे मानवौघे सदाशिवम् || २६२ ||

शिवं तु परमं दिव्यं पीठपूजां ततश्चरेत् || तत आवाहयेद्देवीं मन्त्राभ्यां पूजयेत्तथा || २६३ ||

महापद्मवनान्तस्थे कारणानन्दविग्रहे || सर्वभूतहिते मातरद्यैहि परमेश्वरि || २६४ ||

देवेशि भक्तिसुलभेसर्वाभरणसंयुते || यावत्त्वां पूजयामीह तावत्त्वं सुस्थिरा भव || २६५ ||

ध्यात्वा मुद्राः प्रदर्श्याथ गन्धपुष्पाक्षतादिभिः || चिन्मयस्याप्रमेयस्य निर्गुणस्याशरीरिणः || २६६ ||

प्. २०१) साधकानां हितार्थाय ब्रह्मणो रूपकल्पना || लिङ्गस्थण्डिलवह्न्यप्सु फलके मूर्ध्नि मण्डले || २६७ ||

मूर्तौ कुड्ये च हृदये पूजा दशसु कीर्तिता || अरूपं रूपिणं कृत्वा कर्मकाण्डे रता जनाः || २६८ ||

गवां सर्वाङ्गजम् क्षीरं स्रवेत्स्तनमुखाद्यथा || तथा सर्वगतो देवः प्रतिमादौ विराजते || २६९ ||

आदिरूप्याच्च सर्वस्य पूजायाश्च विशेषतः || साधकस्य च विश्वासात्सान्निध्यं देवता लभेत् || २७० ||

गवां सर्वशरीरस्थं न करोत्यात्मपोषणम् || सुकर्मरचितं चाज्यं पुनस्तदपि पोषयेत् || २७१ ||

एवं सर्वशरीरस्थः सर्पिर्वत्परमेश्वरः || उपासनां विना देवो न ददाति फलं नृणाम् || २७२ ||

संकलीकृत्य तत्प्राणांस्तदीयानीन्द्रियाणि च || प्रतिष्ठाप्यार्चयेद्देवि अन्यथा निष्फलं मतम् || २७३ ||

मन्त्रहीनं क्रियाहीनं यन्त्रहीनं च यद्भवेत् || लं क्षं साधयते सर्वं हीनमंगं यथा तथा || २७४ ||

देवस्य मन्त्ररूपस्य यन्त्रव्याप्तिमजानताम् || कृतार्चनादिकं सर्वं व्यर्थं भवति शाम्भवि || २७५ ||

वामे कौले यन्त्रपीठे मूर्तिस्थाने च दक्षिणे || वैदिके तु स्वयं जातं पूजितं सुखदायकम् || २७६ ||

अनादि वैदिकं यस्मात्स्वयम्भूस्तत्र देवता || गम्यत्वान्नश्वरत्वाच्च तादृक् तान्त्रिकपूजनम् || २७७ ||

कामक्रोधादिदोषोत्थसर्वदुःखनियन्त्रणात् || यन्त्रमित्याहुरेतस्मिन्देवस्तु परिपूजितः || २७८ ||

दक्षिणावर्ततो लेख्यं यन्त्रं दक्षिणपूजने || वामक्रमेण कौलादौ गुप्तमेतत्प्रकाशितम् || २७९ ||

षोडशैरुपचारैस्तु सांगं सावरणं यजेत् || महान्षोढा दिनान्सर्वान् गन्धपुष्पाक्षतादिभिः || २८० ||

प्रणवादिनमोन्तेन तत्तन्नाम्ना समर्चयेत् || अथागमोक्तमार्गेण तर्पयेद्दधिबिन्दुभिः || २८१ ||

अंगुष्ठानामिकाभ्यां तु नखैर्निश्शब्दमुत्क्षिपन् || अपात्रस्येदमष्टौ च तर्पयेद्देवतामुखम् || २८२ ||

सकृत्तर्पणमुत्सृज्य जप्त्वा मूलं च पादुकाम् || अन्तःशक्तिमनुस्मृत्य तर्पयेद्देहदेवताम् || २८३ ||

अंगुष्ठो भैरवस्थानं चण्डिकायास्त्वनामिका || तस्मात्ताभ्यां तर्पणीयं यन्त्रं तत्तु तयोः प्रियम् || २८४ ||

अंगुष्ठमध्यमाभ्यां च वश्यकर्मणि तर्पयेत् || तर्जन्यंगुष्ठयोगेन तर्पयेदाभिचारिके || २८५ ||

कनिष्ठांगुष्ठयोगेन स्तम्भकर्मणि तर्पयेत् || प्. २०२) एवं सन्तर्प्य देवादीन्गुरुपङ्क्तिं प्रपूजयेत् || २८६ ||

कराभ्यां चेन्मुद्रां समधु नृकपालं च दधतीं सृतस्वर्णप्रख्यामरुणकुसुमालेपवसनाम् || कृपापूर्णापांगीमरुणनयनाम्बरकचामुपेतां सिद्धौघैर्यजति गुरुपङ्क्तिं कृतमतिः || २८७ ||

एवं सम्पूज्य धूपं च दीपं नैवेद्यमेव च || कदल्यादिफलान्येवं ताम्बूलं च समर्पयेत् || २८८ ||

अवश्यमादौ वामादौ कुर्याद्बटुकपूजनम् || मार्गेस्मिन्बटुको मुख्यः सुराद्यन्तेन निर्मितम् || २८९ ||

विना तं तु न गृह्णीत देवस्तस्मात्तदर्चनम् || अपूज्य बटुकं यस्तु महादेवं प्रपूजयेत् || २९० ||

तस्य पूजाफलं नास्ति बटुकश्च प्रकुप्यति || सगणं पूजयेत्तस्माद्गन्धपुष्पासवामिषैः || २९१ ||

तत्तन्मन्त्रैर्विधानेन देवता प्रीतिमाप्नुयात् || ततो बलिं क्षेत्रपत्ये दद्यादस्य मनुं शृणु || २९२ ||

तारद्वयं [ओं ओं देवीपुत्रबटुकनाथकपिलजटाभारभासुर पिंगलत्रिनेत्रोग्निज्वाला मुख इमं पूजाबलिं गृह्णगृह्ण हुं फट् स्वाहा ||] ततो देवीपुत्रोक्त्वा बटुकेति च || नाथेति कपिलजटाभारभासुरपिंगल || २९३ ||

त्रिनेत्राग्निज्वालामुख इमं पूजाबलिं वदेत् || गृह्णगृह्ण हुं फट् स्वाहा षट् चत्वारिंशदर्णकः || २९४ ||

मन्त्रमेवं समुच्चार्य ततः श्लोकं पठेदिमम् || बलिदानेन सन्तुष्टो बटुकः सर्वसिद्धिदः || २९५ ||

शान्तिं करोतु मे नित्यं भूतवेतालसेवितः || तारत्रयं [ओं ओं ओं सर्वयोगिनीभ्यः सर्वडाकिनीभ्यः सर्वशाकिनीभ्यस्त्रैलोक्यनिवासिनीभ्यो नमः इमं पूजाबलिं गृह्णीत हुं फट् स्वाहा ||] सर्वपूर्वभ्यसन्तांश्च वदेत्क्रमात् || २९६ ||

योगिनी डाकिनी शाकिनी त्रैलोक्यनिवासिनी || नमश्चैव इमं पूजाबलिं गृह्णीत इत्यपि || २९७ ||

हुं फट् चैव तथा प्रोच्य चान्ते स्वाहापदं वदेत् || चतुश्चत्वारिंशदर्णो मन्त्रोयं परिकीर्तितः || २९८ ||

या काचिद्योगिनी रौद्रा सौम्या घोरतरा परा || खेचरी भूचरी व्योमचरीप्रीता सदास्तु मे || २९९ ||

तारत्रयं [ओं ओं ओं सर्वभूतेभ्यः सर्वभूतपतिभ्यो नमः ||] वदेत्सर्वभूतेभ्यः सर्वमेव च || पश्चाद्भूतपतिभ्यो हृदन्तः सप्तदशाक्षरः || ३०० ||

भूता ये विविधाकारा दिव्यभौमान्तरिक्षगाः || पातालतलसंस्थाश्च शिवयोगेन भाविताः || ३०१ ||

ध्रुवाद्यास्सत्यसन्धाश्च इन्द्राद्याश्च व्यवस्थिताः || प्. २०३) तृप्यन्तु प्रीतमनसो भूता गृह्णन्त्विमं बलिम् || ३०२ ||

तारत्रयं [ओं ओं ओं एह्येहि देवीपुत्रबटुकनाथोच्छिष्टहारिन् हं हूं हं हूं हं हूं हं हूं क्षेत्रपालसर्वविघ्नान्नाशयनाशयसर्वोपचारसहितामिमं पूजाबलिंगृह्णगृह्ण हुंफट् स्वाहा |
] तथैह्येहि देवीपुत्र बटोधुना || अथोच्छिष्टहारिणे हं हूं हं हूं वारद्वयं वदेत् || ३०३ ||

क्षेत्रपालेति शर्वेति विघ्नान्नाशय युग्मकम् || सर्वोपचारसहितमिमं पूजाबलिं वदेत् || ३०४ ||

गृह्णगृह्ण हुं फट् स्वाहा चतुष्षष्ट्यक्षरो मनुः || क्षेत्रपालस्य सम्प्रोक्तः सर्वसिद्धिविधायकः || ३०५ ||

वसामि तस्य क्षेत्रेस्मिन्क्षेत्रपालस्य किङ्करः || प्रीतोयं बलिदानेन सर्वरक्षां करोतु मे || ३०६ ||

ओंकारत्रितयं [ओं ओं ओं हुं श्रींह्सौ ह्रीं ह्रीं हुं हुं भैरवाधिष्ठितायाक्षोभ्यानन्दहृदयान्मन्त्रसिद्धयेऽवतराव तर-क्षेत्रपालमहाक्षेत्रपालायवाषैट्रहुम् |
] हुं श्रीं हूसौं च ह्रीं ह्रीं वदेत्ततः || हुंयुगान्ते भैरवाधिष्ठितायाक्षो वदेदिति || ३०७ ||

भ्यानन्दहृदयान्मन्त्रसिद्धये वतरद्वयम् || क्षेत्रपाल महाक्षेत्रपालाय वौषड् हुमिति || ३०८ ||

अयमेकोनपञ्चाशदक्षरश्च मनुस्स्मृतः || श्रेष्ठस्य क्षेत्रपालस्य महाप्रीतिकरः परः || ३०९ ||

तारत्रयं वदेत्पश्चादमुकक्षेत्रपालाय || राजराजेश्वर इमां पूजाबलिमतः परम् || ३१० ||

गृह्णयुग्मं द्विठान्तोयं मन्त्रः प्रोक्तो खिलेष्टदः || राजराजेश्वराख्यस्य दैवतस्य समर्चने || ३११ ||

अनेन बलिदानेन बटुर्वर्गसमन्वितः || राजराजेश्वरो देवो मे प्रसीदतु सर्वदा || ३१२ ||

बटुकाय बलिं पश्चादुत्तरे योगिनीबलिम् || पूर्वे भूतबलिं दद्यात् क्षेत्रपालाय दक्षिणे || ३१३ ||

राजराजेश्वरं मध्ये पूजयित्वाहरेद्बलिम् || अंगुष्ठानामिकाभ्यान्तु बटुकस्य भवेद्बलिः || ३१४ ||

तर्जनीमध्यमानामांगुष्ठैः स्याद्योगिनीबलिः || अंगुलीभिश्च सर्वाभिर्दद्याद्भूतबलिं द्विजः || ३१५ ||

अंगुष्ठतर्जनीभ्यां तु क्षेत्रपालबलिर्भवेत् || अंगुष्ठमध्यमाभ्यां तु राजराजेश्वरस्य च || ३१६ ||

बटुकादीन्समर्च्यैवं कुलदीपान्प्रदर्शयेत् || देवभक्तः सुपिष्टेन कुर्याद्वेदांगुलोन्नतान् || ३१७ ||

दीपान्डमरुकाकारांस्त्रिकोणानतिशोभनान् || कर्षाज्यग्राहिणः कुर्यान्नव सप्ताथ पञ्च च || ३१८ ||

अन्तस्तेजोबहिस्तेज एकीकृत्यामितप्रभान् || त्रिधा देव्युपरि भ्राम्य कुलदीपं निवेदयेत् || ३१९ ||

समस्तचक्रैश्चक्रेशीयुते देवि नवात्मिके || प्. २०४) आरात्रिकमिदं देवि गृहाण मम सिद्धये || ३२० ||

कुलदीपान्प्रदर्श्याथ शक्तिपूजां समाचरेत् || गुरुपादरजोजोषी श्रद्धाभक्तिसमन्वितः || ३२१ ||

स्वशक्तिं वीरशक्तिं च दीक्षितां गुरुरूपिणीम् || पाययित्वा पिबेन्मद्यं चेति शास्त्रस्य निश्चयः || ३२२ ||

अनिवेद्य तु यः शक्त्यै कुलद्रव्यं निषेवते || पूजनं निष्फलं तस्य देवता न प्रसीदति || ३२३ ||

चाण्डाली चर्मकारी च मातङ्गी पुल्कसी तथा || स्वपची खटकी चैव कैवर्ती विश्वयोनिका || ३२४ ||

कुलाष्टकमिदं प्रोक्तमकुलाष्टकमुच्यते || कुडुकी सौत्रिकी चापि शस्त्रीजीवा तु रञ्जकी || ३२५ ||

गायकी रजकी शिल्पी कौशिकी च तथाष्टमी || स्त्रियो मन्त्रसमायुक्ताः समयाचारपालिकाः || ३२६ ||

कुर्यात्सद्यस्तु संस्कारं मन्त्रैश्चैव पृथक् पृथक् || पूजयेत्कुलमार्गस्थस्तत्र शक्तिमनुस्मरन् || ३२७ ||

कुमारी वा व्रतस्था वा योगमुद्राधरापि वा || पूजाकाले स्वतः प्राप्ता सा पूज्या सहसा बुधैः || ३२८ ||

उक्तजात्यङ्गनाभावे चतुर्वर्णाङ्गनां यजेत् || सुरूपा तरुणी शान्तानुकूला मुदिता शुचिः || ३२९ ||

रोगहीना भक्तियुक्ता मूढशास्त्रोपजीविनी || अलोलुपा सुशीला च स्मितास्या प्रियवादिनी || ३३० ||

गुरुदैवतभक्ता तु सुचित्ता कौलिकप्रिया || विभत्सरा विशेषज्ञा देवताराधनोत्सुका || ३३१ ||

दुर्गन्धा दुःखिता मूर्खा वृद्धोन्मत्ता रहस्यभित् || कुतर्का कुत्सिता स्तब्धा निर्लज्जा कलहप्रिया || ३३२ ||

विरूपोन्मार्गगा दुष्टा पंग्वन्धा विकृतानना || ईदृशीं मन्त्रयुक्तां हि स्त्रियं योगी विवर्जयेत् || ३३३ ||

ततोर्चनादिकं सर्वं मन्त्रोदकपुरःसरम् || इतः पूर्वादिमनुना मन्त्री देव्यै समर्पयेत् || ३३४ ||

शेषं दक्षिणवत्कुर्यात्तदुच्छिष्टादिकं पुनः || शेषं कामं ततो देयं शेषिकायै स कथ्यते || ३३५ ||

एंहृदुच्छिष्टचाण्डालिनि [एंनमः उच्छिष्टचाण्डालिनि मातङ्गि सर्ववशङ्करि स्वाहा |
इति मन्त्रः |
] मातङ्गि पदं वदेत् || सर्ववशङ्करि स्वाहा चैकविंशतिवर्णकः || ३३६ ||

मन्त्रेणानेन निर्माल्यं शेषिकायै समर्पयेत् || देवीमुच्छिष्टमातङ्गी ध्यायेल्लोकैकमोहिनीम् || ३३७ ||

प्. २०५) वीणावाद्यविनोदगीतनिरतां नीलांशुकोल्लासिनीं बिम्बोष्ठीं नवयावकाढ्यचरणामाकर्णकेशांशुकाम् |
हृद्यांगां सितशंखकुण्डलधरां माणिक्यभूषोज्ज्वलां मातङ्गीं प्रणतोस्मि सुस्मितमुखीं देवीं शुकश्यामलाम् || ३३८ ||

ततः श्रीगुरुरूपाय साक्षात्परशिवाय च || कराभ्या पात्रमुद्धृत्य सद्वितीयं समर्पयेत् || ३३९ ||

सुसम्प्रदायसंयुक्तैर्वीरैश्च सह पूजयेत् || अन्योन्यं चिह्नितं कृत्वा पिबेत्तत्तदनुज्ञया || ३४० ||

सव्यतोद्धृत्य पात्रं तु मुद्रां कृत्वापसव्यतः || यथाविधि द्वितीयेन गृह्णीयान्मन्त्रमुच्चरेत् || ३४१ ||

इदं पवित्रममृतं पिबामि भवभेषजम् || मद्यपानसमुच्छेदे कारणं भैरवोदितम् || ३४२ ||

वित्तस्वातन्त्र्यसारत्वात्तस्यानन्दमयत्वतः || तन्मयत्वाच्च भावानां भावाश्चान्तरिता रसे || २४३ ||

स्वस्वातन्त्र्यविकाशाय सुरसस्तेन पीयते || तस्मादिमां सुरां देवीं पूर्णकामः पिबाम्यहम् || ३४४ ||

मन्त्रेणानेन भो देवा मूलमन्त्रेण मन्त्रवित् || अनाकुलमनाः कुर्यान्मधुपानं शनैः शनैः || ३४५ ||

पिशितं माषमात्रं तु मद्यं चुलुकसम्मितम् || स्वीकार्यमादौ गुरुणा शिष्येभ्यः शेषदो भवेत् || ३४६ ||

आदाय गुरणा दत्तां सद्वितीयां सुरां पिबेत् || स्त्रीगुरुज्येष्ठपूज्यानां पुरतश्चोपविश्य च || ३४७ ||

न कदाचित्पिबेन्मद्यं निर्मन्त्रं न पिबेत्तथा || विना मन्त्रं पिबेन्मद्यं स सुरापो निगद्यते || ३४८ ||

स्वात्ममूलत्रिकोणस्थे कोटिसूर्यसमप्रभे || कुण्डल्याकृतिचिद्रूपे हुनेद्द्रव्यं समन्त्रकम् || ३४९ ||

अनन्तपात्रभरितमिदं तत्परमामृतम् || पराहन्तामये वह्नौ होमस्वीकारलक्षणम् || ३५० ||

गुरुं दैवतमन्त्राणामैक्यं सञ्चिन्तयेद्धिया || यावदुल्लासपर्यंतमुपदेशैः पिबेन्मधु || ३५१ ||

भोजनान्ते विषं मद्यं मद्यान्ते भोजनं विषम् || अमृतं तद्विजानीयाद्यदनेन समं पिबेत् || ३५२ ||

चर्वणेन युतं मद्यममृतं कथितं सदा || चर्वणेन विना पानं केवलं विषभक्षणम् || ३५३ ||

पानं तु त्रिविधं प्रोक्तं दिव्यवीरपशुक्रमैः || दिव्यं देव्यग्रतः पानं वीरं मृद्वासने कृतम् || ३५४ ||

स्वेच्छया पशुवत्पीतं पशुपानभितीरितम् || वक्ष्येथ कौलिकाचारं लोकद्वयफलप्रदम् || ३५५ ||

पात्रमेलापकं कर्म प्रोच्यते सख्यकारकम् || तत्त्राता न पिता मित्रं पात्रमेलापकावृतम् || ३५६ ||

प्. २०६) अदीक्षितैरनाचारैरमंत्रज्ञैरदैवतैः || दूषकैः समये नष्टैः प्रपंचपथधारिभिः [प्रपञ्चत्रयधारिभिः] ब्रह्मतेजोमुखे पात्रमेलनं नैव कारयेत् || त्वत्पूजानिरतैः शान्तैः परद्रव्यपराङ्मुखैः || ३५८ ||

कुलोपदेशकुशलैः कुलमार्गप्रवर्तकैः || स्त्रीप्रियैः स्त्रीस्तुतैर्धन्यैः सुन्दरैर्मृदुवादिभिः || ३५९ ||

कुलमार्गेतिगुप्तैश्च विद्यावद्भिः सुरूपकैः || प्रयोगसिद्धैर्द्रव्याढ्यैर्भाग्यवद्भिश्च कामुकैः || ३६० ||

ब्रह्ममुक्तैः राजमान्यैर्मिलितैर्दैवयोगतः || कुर्यात्पात्रस्य मेलं च सौख्यवृद्धिर्द्वयोर्भवेत् || ३६१ ||

एकपात्रं न कुर्वीत यदि साक्षात्कुलेश्वरः || मन्त्राः पराङ्मुखा यान्ति विघ्नाश्चैव पदे पदे || ३६२ ||

न दद्याद्भैरवायापि स्वपात्रं स्थितिहेतुकम् || यदि दद्याच्च मोहेन देवताशापमाप्नुयात् || ३६३ ||

आसनं भोजनं पात्रमन्यच्च शयनादिकम् || अनभिज्ञैरनर्हैश्च संकरं नैव कारयेत् || ३६४ ||

म्नायभेदेन [आलोप आर्षः |
] वा कुर्यात्कौलिकैः पात्रमेलनम् || पूर्वदक्षिणयोरैक्यमुदक्पश्चिमयोस्तथा || ३६५ ||

योगिभिर्योगिनीभिश्च प्रदत्तं पूर्णपात्रकम् || समन्त्रपादुकामूलमन्त्रजप्तं पिबेत्ततः || ३६६ ||

क्वचिद्यदृच्छया प्राप्तं मद्यपात्रं तु भक्तितः || आदाय पूर्ववज्जप्त्वा पिबेत्तच्च गुरुं स्मरेत् || ३६७ ||

गुरुशक्तियुतानां च गुरुज्येष्ठकनिष्ठयोः || स्वज्येष्ठस्यापि चोच्छिष्टं खादेन्नान्यस्य कर्हिचित् || २६८ ||

ज्येष्ठैः कनीयसे योज्यं न पुनर्ग्राहयेत्ततः || शक्त्युच्छिष्टं पिबेन्मद्यं वीरोच्छिष्टं तु चर्वणम् || ३६९ ||

आत्मोच्छिष्टं न दातव्यं परकीयं न भक्षयेत् || उच्छिष्टं [स्त्रीणांमुच्छिष्टं भूञ्जीतात्मनश्च स्त्रीभ्यो न दद्यात् |
] भक्षयेत्स्त्रीणां नाभ्यः स्वोच्छिष्टमर्पयेत् || ३७० ||

स्वस्य मेलापकस्यापि स्थापयेत्तत्र मण्डलम् || पात्रं ततोर्चयेद्देवीं तर्पणादि समाचरेत् || ३७१ ||

उत्थाप्यान्योन्यपात्रे च दद्यादन्योन्यहस्तयोः || द्वयोरैक्यं स्मरेद्ध्यन्योन्यमिति पात्रमेलनम् || ३७२ ||

चक्रपूजां प्रवक्ष्यामि सर्वतन्त्रेषु गोपिताम् || अभीष्टसिद्धिदां नातः परं किञ्चिच्च विद्यते || ३७३ ||

सर्वेषामेव देवानां प्रिया प्रोक्तेप्सितप्रदा || वैदिकैरपि कर्तव्याभीष्टसिद्ध्यै पुरोहितम् [पुरा ऊहितम् इतिच्छेदः |
] || ३७४ ||

कृत्वा तु कौलिकं देवि पूर्णाः स्युस्तन्मनोरथाः || प्. २०७) लक्ष्मीः कोलासुरं हत्वाशेषात्तद्रुधिरं पपौ || ३७५ ||

पानमत्ता तदा विप्रैर्यथेच्छं हसिता तु सा || ब्रह्मणा विष्णुना वापि मयापि प्रष्टुमिच्छता || ३७६ ||

तदा बुद्धा महालक्ष्मीर्भुमावन्तर्हिताभवत् || निःश्रीकं सकलं जातं मुमूर्षुरिव दृश्यते || ३७७ ||

धर्मो न चलते क्वापि न च तुष्यन्ति देवताः || एवं वर्षशते जाते ब्रह्माणं शरणं गताः || ३७८ ||

ब्रह्मापि तत्र निःश्रीको दरिद्र इव दृश्यते || प्रोक्तवन्तस्तु मुनयो विधे विश्रीकता कुतः || ३७९ ||

तदा विप्रकृतं हास्यं ब्रह्मणा बोधितं प्रिये || ब्राह्मं तेजो महदिदं विष्णुस्तूष्णीमुपस्थितः || ३८० ||

युष्मत्पक्षावरोधेन हसिता श्रीः शिवेन च || तेनेयं कुपिता जाता गता तस्माद्रसातलम् || ३८१ ||

सर्वे श्रियोज्झिता विप्रा लोके निःश्रीकता ततः || तस्माद्विष्णुः शिवोहं च यूयं शक्रपुरोगमाः || ३८२ ||

नागाश्च्च पितरः सिद्धा दिक्पाला यक्षराक्षसाः || आराधयन्तु तां देवीं स्तुवन्तु च महास्तवैः || ३८३ ||

ततः सम्मिलिताः सर्वे गताः श्रीशैलपर्वतम् || किञ्चिच्छोभां श्रियो दृष्ट्वा चक्रुराराधनं ततः || ३८४ ||

वैदिकैस्तान्त्रिकैर्मार्गैर्नानास्तोत्रेः प्रतुष्टुवुः || एवं वर्षत्रयादूर्ध्वं प्रत्यक्षा श्रीर्व्यजायत || ३८५ ||

अपश्यच्च कृपादृष्ट्या सहासं वाक्यमब्रवीत् || किमर्थं हासितं विप्रैर्देवैश्चाकुलितं कुतः || ३८६ ||

उपासना पुनः कस्माद्दुर्दर्शायाः कृता पुनः || ततः सा तु मया प्रोक्ता सर्वं विश्वं त्वया ततम् || ३८७ ||

त्वत्सामर्थ्यं न जानन्ति हसन्ति त्वां च कर्मणा || एतद्बुद्ध्वा मया हास्यं कृतं हृदयसाक्षिणी || ३८८ ||

प्रभावस्तु तवाज्ञातः सर्वैर्विप्रैः सुरासुरैः || अतः परं प्रसीदेशे लोकयात्रां च निर्वह || ३८९ ||

इति श्रुत्वा मम वचस्तदा प्रोक्तं श्रिया किल || इयं सुरा मे भगिनी तत्प्रधानन्तु पूजनम् || ३९० ||

ये करिष्यन्ति देवस्य स देवो मोदमेष्यति || यथा मायाप्रपञ्चोयं वृथा भवति मां विना || ३९१ ||

समस्ताश्च तथा पूजाश्चक्रपूजां विना वृथा || इह लोके भोगवाञ्छा देवतात्वं परत्र चेत् || ३९२ ||

अपेक्षितं तदा कार्यं मन्त्रैर्वै चक्रपूजनम् || सर्वदेवप्रियं गोप्यं तद्विधिं कथयाम्यथ || ३९३ ||

समस्तचक्र पूजा सा अष्टधा परिकीर्तिता || सहस्रोत्पतिते कार्ये कार्ये वा पूर्णताङ्गते || ३९४ ||

प्. २०८) देवतोत्साहदिवसे कौलिकस्यागमेपि वा || उमामाहेश्वरे योगे योगे वा शक्तिसङ्गमे || ३९५ ||

बलिराज्ये कामदिने चक्रपूजातिहर्षदा || प्रदोषे वाभिजिति वा निशीथे वाष्टमीयुते || ३९६ ||

नवम्यां चेद्भवेद्योग उमामाहेश्वराभिधः || भौमाष्टम्यां चतुर्दश्यां योगोयं शक्तिसङ्गमः || ३९७ ||

आश्विनस्यासिते पक्षे त्रयोदश्यादिपञ्च च || बलिराज्यमिदं प्रोक्तं यथेच्छाक्राडनाय तु || ३९८ ||

तत्कामदिनमित्याहुस्सोमवारे त्रयोदशी || पूर्वस्मिन्दिवसे स्नात्वा देवीमभ्यर्च्य कामनाम् || ३९९ ||

कृत्वा सङ्कल्पयेच्चक्रपूजां दद्याद्बलिं पशोः || तद्विधिं सम्प्रवक्ष्यामि चानुकल्पं प्रकल्पयेत् || ४०० ||

बलिस्तु त्रिविधः प्रोक्तस्तान्त्रिकः स्मार्त एव च || वैदिकश्चेति तत्रादौ तान्त्रिकोष्टविधः स्मृतः || ४०१ ||

नरश्च महिषः कोलश्छागोऽविः सारसस्तथा || कपोतः कुक्कुटश्चेति सामान्यं पूर्वपूर्वतः || ४०२ ||

श्रेष्ठस्तत्र कलौ देवी महापीठे नरो बलिः || कर्तव्यः साधकेन्द्रेण सद्यो योति च सुन्दरः || ४०३ ||

धातुबद्धः कृष्णकूर्चोऽक्षेत्रादिरनुलोमजः || मूल्याद्गृहीतो वापीष्टो दैवतः स्वयमागतः || ४०४ ||

वर्षं षण्मासमथ वा यथेच्छाचारपालितः || स भवेद्बलियोग्यश्च नान्यश्चौरादिकाहृतः || ४०५ ||

महिषः पञ्चमादूर्ध्वं दशाधस्ताद्बनोद्भवः || ग्रामजोपि महाक्रूरो निरुक्कृष्णैकवर्णकः || ४०६ ||

आरक्ताक्षश्चोर्ध्वशृङ्गो दीर्घपुच्छस्तु मांसलः || एकवर्णो देवताया वर्णरूपो गदोञ्झितः || ४०७ ||

साण्डः सशृङ्गो यूथेशो गन्धिमानौषधादिभिः || विगन्धीकृत्य बलये योग्यः सर्वोत्तमस्त्वयम् || ४०८ ||

सर्वेषामेव वर्णानां देवतानां तथैव च || अधिकारः प्रीतिदश्च यज्ञेष्येष विशिष्यते || ४०९ ||

मेषः सशृङ्गस्त्वजवच्छृङ्गहीनोपि कुत्रचित् || अङ्गहीनो विहीनाण्डो बालो वृद्धो न शस्यते || ४१० ||

वर्षद्वयोर्ध्वं च गृहे पालितो बलवत्तरः || मांसभारात्तथानेन समो वै सारसो वरः || ४११ ||

नीलकण्ठच्छविः कण्ठे कपोतः पुष्टकन्धरः || वर्षादूर्ध्वं गृहे पुष्टो बल्यर्थं योग्य उच्यते || ४१२ ||

सर्वेषामग्रतो रौति यः प्रातर्बहुवर्णकः || मांसलस्त्वेकवर्णो वा ताम्रचूडो विशिष्यते || ४१३ ||

नरो द्विजैर्न हन्तव्यो विप्रेण महिषस्तथा || शूकरैः समतां नीताः कुक्कुटा बलयोखिलैः || ४१४ ||

प्. २०९) कूष्माण्डं नारिकेलञ्च श्रीफलं चेक्षुमेव च || वस्त्रसंवेष्टितं कृत्वा छेदयेच्छुरिकादिभिः || ४१५ ||

एष स्मार्तो बलिः प्रोक्तः धर्मशास्त्रानुगामिभिः || पूर्वपूर्वत्रापि चोक्तो विशिष्टो देवतोषकः || ४१६ ||

यस्य यत्राधिका भक्तिस्तेन तुष्यति देवता || नियमैश्च यमैर्युक्तः सकलैर्मूर्तिरात्मन || ४१७ ||

वैदिकं तु बलिं दद्यादोदनं स्विन्नमाषवत् || सरोचनमतिक्रूरदैवते वटकान्वितम् || ४१८ ||

बलिं सम्पूज्य विधिवद्गन्धपुष्पाक्षतादिभिः || तारं कालियुगं यज्ञेश्वरि लोहपदम् वदेत् || ४१९ ||

दण्डायै नम इत्येष मन्त्रः षोडशवर्णकः || अष्टोत्तरशतं जप्त्वा तत उत्थाय साधकः || ४२० ||

देवीरूपं पशुं ध्यात्वा पुष्पं तस्मिन्विनिक्षिपेत् || मन्त्रितं मूलमन्त्रेण सपुष्पाक्षतचन्दनम् || ४२१ ||

यदा स चालयेद्गात्रं गृहीतस्तु तदेच्छया || यावन्न चालयेद्गात्रं पशुस्तावन्न हन्यते || ४२२ ||

उत्तराभिमुखो भूत्वा बलिं पूर्वमुखं तथा || निरीक्ष्य साधकः पश्चादिमं मन्त्रमुदीरयेत् || ४२३ ||

पशुस्त्वं बलिरूपेण मम भाग्यादुपस्थितः || प्रणमामि ततः सर्वरूपिणं बलिरूपिणम् || ४२४ ||

चण्डिकाप्रीतिदानेन दातुरापद्विनाशनम् || चामुण्डाबलिरूपार्थं बले तुभ्यं नमोस्तु ते || ४२५ ||

यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयम्भुवा || अतस्त्वां घातयाम्यद्य तस्माद्यज्ञे बंधोवधः || ४२५ ||

ओं श्रीं ह्रीं श्रीमिति मन्त्रेण बलिं मत्स्वरूपिणम् || चिन्तयित्वा न्यसेत्पुष्पं म्भकेनास्य मस्तके || ४२७ ||

असे च त्वं चण्डिकायाः सुरलोकप्रसाधकः || ह्रीं ह्रीं खड्गेति मन्त्रेण तं खड्गं परिपूजयेत् || ४२८ ||

मां ह्रूं फडिति मन्त्रं तु जपन्सञ्छेदयेद्बलिम् || एकेनैव प्रहारेण च्छिन्नो दैवततुष्टये || ४२९ ||

प्रहारे पतिते शब्दः क्रियते यदि नापदि || वर्षस्याभ्यन्तरेवश्यं राज्यनाशः प्रजायते || ४३० ||

एवं दत्त्वा बलिं सम्यङ्त्यिकर्म विधाय च || तृतीये प्रहरे रामा नराश्चोर्ध्वं निमन्त्रयेत् || ४३१ ||

अमुष्याः प्रीतये देव्या मन्मनोरथसिद्धये || चक्रपूजोत्सवार्थं त्वं श्वो मयामन्त्रितो ह्यसि || ४३२ ||

अष्टाधिका निमंत्र्यास्तु स्त्रियो न्यूनास्तु मत्कृते || प्. २१०) स्त्रीभ्यश्च पुरुषा न्यूना अधिकास्ते तु हानिदाः || ४३३ ||

सर्वकौलव्रतस्थाः प्राग्दक्षिणाम्नायवर्जिताः || भवन्ति दीक्षानिरता निमंत्र्याश्चक्रपूजने || ४३४ ||

तस्यां रात्रौ तु सम्पूज्य देवं स्वयमतन्द्रितः || कुलशब्दं [कुलकुलकुलजे पिशाचिनि स्वाहा] द्विधा प्रोच्य कुलजेति पिशाचिनी || ४३५ ||

त्रयोदशार्णं स्वाहान्तमष्टोत्तरसहस्रकम् || जपेन्निशि ततः पश्येच्चक्रविघ्नं तथा शुभम् || ४३६ ||

विघ्ने दृष्टे न कर्तव्यं कार्यं वा शान्तिपूर्वकम् || शान्तिर्गाणेश्वरो होमो ग्रहाणां भैरवस्य च || ४३७ ||

ततो बहिर्बलिन्दद्यादिमं मन्त्रमुदीरयेत् || ओं [ओं ओं ओं नमः अमुकक्षेत्रपालक एह्येहि भगवन्पूजां गृह्णगृह्ण बलिं भक्षभक्ष चक्रविघ्नकरांस्तम्भयस्तम्भय हुं फट् स्वाहा ||] नमश्च त्रिरुच्चार्य अमुकक्षेत्रपालक || ४३८ ||

एह्येहि भगवन्पूजां गृह्ण युग्मं बलिं तथा || भक्षयुग्मं चक्रविघ्नकरांस्तम्भययुग्मकम् || ४३९ ||

हुं फट् स्वाहा सप्तचतुर्वर्णो मन्त्रः प्रकीर्तितः || दिनस्य कृत्यं निर्वर्त्य सायं चक्रं प्रपूजयेत् || ४४० ||

अर्वाक्चक्रं स्वविद्यायास्तन्मध्ये स्थापयेद्घटम् || मद्यपूर्णं तत्र देवीमावाह्यार्चनमाचरेत् || ४४१ ||

नानाविधानि मांसानि ह्यनेका मत्स्यजातयः || चतुर्विधानि भक्ष्याणि योजयेत्सोपदंशकैः || ४४२ ||

साङ्गां सावरणां सम्यक्पूजयित्वा सुरीं बुधाः || शक्तयश्च तथा वीराः पूज्याः पुष्पाक्षतादिभिः || ४४३ ||

पूजागृहस्यान्तरतस्त्रिकोणे भूगृहान्तरे || उच्छिष्टभैरवं चोग्रगन्धपुष्पादिभिर्यजेत् || ४४४ ||

उच्छिष्टदोषो भविता चक्रपूजामहोत्सवे || तद्दोषपरिहारार्थं भैरवं पूजयाम्यहम् || ४४५ ||

तारत्रयं तथोच्छिष्टभैरवैहि द्वयं तथा || बलिं गृह्णयुगं हुं फट् स्वाहा द्वाविंशदक्षरः || ३३६ ||

अनेन बलिदानं तु पूजान्तेस्य प्रकल्पयेत् || पूजागारं समागत्य प्रणमेच्चक्रसंस्थितान् || ४४७ ||

गुरुः पात्रं समादाय मद्यामृतयुतं करे || परिषिञ्चेत्सामयिकानर्थशान्तिस्तवं पठेत् || ४४८ ||

जपन्ति देव्यो हरपादपंकजं प्रसन्नवामामृतमोक्षदायकम् || अनन्तसिद्धान्तमतिप्रबोधकं नमामि सान्तुष्टिकयोगिनीगणम् || ४४९ ||

प्. २११) योगिनीचक्रमध्यस्थं मातृमण्डलवेष्टितम् || नमामि शिरसा नाथं भैरवं भैरवीप्रियम् || ४५० ||

अनादिघोरसंसारध्वान्तविध्वंसकारिणे || नमः श्रीनाथवैद्याय कुलौषधिविधायिने || ४५१ ||

आपदो दुरितं रोगाः समयाचारलङ्घनात् || ये सर्वे ते विनश्यन्तु दिव्यचक्रस्य मेलनात् || ४५२ ||

आयुरारोग्यमैश्वर्यं कीर्तिर्लाभः शुभं जयः || कान्तिर्मनोरथश्चास्तु पान्तु सर्वाश्च देवताः || ४५३ ||

सम्पूजकानां प्रतिपालकानां यमीन्द्रयोगीन्द्रतपोधनानाम् || विश्वस्य राष्ट्रस्य परस्य राज्ञः करोतु शान्तिम्भगवान्कुलेशः || ४५४ ||

नन्दन्तु साधककुलान्यपि दर्शकाये सृष्ट्या जना अथ गुरूक्तमहान्वया ये || नन्दन्तु सर्वकुलकौलरताः परा ये त्वन्ये विशेषपदभेदकशाम्भवा ये || ४५५ ||

नन्दन्तु सिद्धगुरवस्तदनुक्रमौघा ज्येष्ठानुजास्समयिनो बटुकाः कुमार्यः || षड्योगिनीप्रवरवीरकुले प्रसूता नन्दन्तु भूमिपतिगोद्विजसाधुलोकाः || ४५६ ||

नन्दन्तु नीतिनिपुणा निरवद्यनिष्ठा नर्मत्सरा निरुपमा निरुपद्रवाश्च || नित्यं निरञ्जनरता गुरवो नितान्तशान्ता गुणान्तमनसो हृतशोकशङ्काः || ४५७ ||

नन्दन्तु योगनिरताः कुलयोगयुक्ता आचार्यसामयिकसाधकपुत्रकाश्च || गावो द्विजा युवतयो यतयः कुमार्यो नन्दन्तु भावनिरता गुरुभक्तियुक्ताः || ४५८ ||

नन्दन्तु साधककुलान्यणिमाद्यनिष्ठाः शापाः पतन्तु समये द्विषि योगिनीनाम् || सा शाम्भवी स्फुरतु कापि समाप्यवस्था यस्यां गुरोश्चरणपङ्कजमेव लभ्यम् || ४५९ ||

याश्चक्रक्रमभूमिका वसतयो नाडिषु यास्संस्थिता याः कामद्रुमरोमकूपनिलया यास्संस्थिता धातुषु || उच्छ्वासामितहृत्तरङ्गनिलया विःश्वासवासाश्च यास्ता देव्यो रिपुपक्षभक्षणपरास्तृप्यन्तु कौलार्चिताः || ४६० ||

या देव्यः कुलसम्भवाः क्षितिगता या देवतास्तोयगा या नित्यं प्रथितप्रभाः शिखिगता या मातरः स्वाश्रयाः || या व्योमामृतमण्डलामृतमया याः सर्वगाः सर्वदा तास्सर्वाः कुलमार्गपालनपराः शांतिं प्रयच्छन्तु मे || ४६१ ||

ऊर्ध्वं ब्रह्माण्डके वा पुरि गगनतले भूतले निष्कले वा पाताले वानले वा सलिलपवनयोर्यत्र तत्र [कुत्रेति |
] स्थिता वा || प्. २१२) क्षेत्रे पीठोपपीठादिषु च कृतपदा धूपदीपादिमासैः प्रीता देव्यः सदा नः कृतबलिविधयः पान्तु वीरेन्द्रवन्द्या || ४६२ ||

ब्रह्मश्रीशेषदुर्गा गुहबटुकगणा भैरवाः क्षेत्रपाला वेतालादित्यरुद्रा ग्रहवसुमुनयः सिद्धयो गुह्यकाद्याः || भूता गन्धर्वविद्याधर-ऋषिपितरः किन्नरा यक्षनागा योगीशाश्चारणाद्याः पुरुषमुनिसुराश्चक्रगाः पान्तु सर्वे || ४६३ ||

देहस्थाखिलदेवता गजमुखाः क्षेत्राधिपा भैरवा योगिन्यो बटुकाश्च यक्षपितरो भूताः पिशाचा ग्रहाः || अन्ये भूचरदिक्चराश्च खचरा वेतालकाश्चेटकास्तृप्ताः स्युः कुलपुत्रकस्य पिबतः पानम्मदीयं वरम् || ४६४ ||

सत्यं वै गुरुदेवदेवपितरो वेदागमा योगिनी प्रीताश्चेत्परदेवता यदि भवेद्वेदाः प्रमाणं हि चेत् || शाक्तेयम्परिदर्शनं भवति चेदाज्ञाप्य मोधास्ति चेत्सत्यं वापि च कौलिको यदि तदा स्यान्मे जयः सर्वदा || ४६५ ||

तृप्यन्तु साधकास्सर्वे समुद्राः सगणाधिपाः || योगिन्यः क्षेत्रपालाश्च मम देहे व्यवस्थिताः || ४६६ ||

शिवाद्यनिलपर्यन्तम्ब्रह्मादिस्तम्बसंयुतम् || कालाज्ञादिशिवान्तञ्च पानयज्ञेन तृप्यताम् || ४६७ ||

तत्पात्रन्तु समुत्थाप्य समुद्वास्य गुरुस्ततः || दद्याच्छिष्याय कुम्भस्थं योगिनीभ्यः पृथक् पृथक् || ४६८ ||

पात्रे तथैव वीरेभ्यश्चेतरेभ्यः स्वयं पिबेत् || स्त्रीणामन्यतमं स्थानं पुंसामन्यतमं पृथक् || ४६९ ||

अथ वा मिथुनं कृत्वा क्रमात्समुपवेशयेत् || पङ्क्त्याकारेण वा सम्यक्चक्राकारेण वापुनः || ४७० ||

शिवशक्तिधिया सर्वाश्चक्रमध्ये समर्चयेत् || तत्र मन्त्रेषु वीरेषु कार्याकार्यं न विद्यते || ४७१ ||

तत्र यद्यत्कृतं कर्म शुभं वा यदि वाशुभम् || तत्सर्वं देवताप्रीत्यै जायते नात्र संशयः || ४७२ ||

जल्पो जपफलं तन्द्रा समाधिरभिधीयते || विक्रिया पूजनं प्रोक्तं छर्दितं भैरवो बलिः || ४७३ ||

मुक्तिस्स्याच्छक्तिसंयोगः स्तोत्रं तत्कालभाषणम् || न्यासोऽवयवसंस्पर्शो भोजनं हवनक्रिया || ४७४ ||

ध्यानं तु वीक्षणं प्रोक्तं शयनं चन्दनं भवेत् || तदुल्लासकृतानां च या चेष्टा सा च सत्क्रिया || ४७५ ||

कार्याकार्यविचारन्तु यः करोति स पातकी || एतच्चक्रगता देवि विज्ञेयाः परयोगिनः || ४७६ ||

येनाप्नुवन्ति मनुजाः साक्षाद्गौरवरूपताम् || संमोदं कोपशमनं पतनं गायनं तथा || ४७७ ||

प्. २१३) वेणुवीणादिवाद्यं च कवितारचनादिकम् || रोदनं भाषणं चैव समुत्थानं विजृम्भणम् || ४७८ ||

गमनं विक्रिया देवि योग इत्यभिधीयते || विकृतिं मनसो हित्वा यदोल्लासः प्रवर्तते || ४७९ ||

तदा तु देवताभावं भजन्ते योगिपुङ्गवाः || कौलिकान्भैरवावेशान्यो विनिन्दति मूढधीः || ४८० ||

तं नाशयन्त्यसन्देहाद्योगिन्यो नात्र संशयः || यद्यद्भक्तिसमावेशादद्भतं कौलिके जने || ४८१ ||

तत्तद्भवत्यसन्दिग्धं शुभं वा यदि वाशुभम् || देवतासक्तमनसः शुद्धा देवि सदा हि ते || ४८२ ||

तारो नमो भगवति मद्यमांसविहारिणि || रतिप्रिये चक्रदेवि वद कौलिकवल्लभे || ४८३ ||

सत्यं मनोगतं मेद्येत्युक्त्वा मद्यं पलान्वितम् || प्रदद्याच्च कौलिकेभ्यस्तन्मन्त्रान्प्रब्रुवन्ति ते || ४८४ ||

तत्र कश्चिदकौलश्चेन्न सा स्फुरति भारती || न निन्देन्न हसेत्कुप्येच्चक्रे मधुमदाकुलान् || ४८५ ||

एतच्चक्रगतां वार्तां बहिर्नैव प्रकाशयेत् || तेभ्यो द्रोहं न कुर्वीतनाहितं च समाचरेत् || ४८६ ||

रक्ष्यां संरक्षयेत्तां वै गोपयेच्च प्रयत्नतः || चक्रे मदाकुलान्दृष्ट्वा चिन्तयेद्देवताधिया || ४८७ ||

न निन्देन्न हसेद्भक्त्या स गच्छेद्योगिनीपदम् || प्रवृत्ते भैरवीचक्रे सर्वे वर्णा द्विजातयः || ४८८ ||

निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक्पृथक् || एवं चक्रस्य माहात्म्यं देवीपूजोपयोगतः || ४८९ ||

स्त्रियोथ पुरुषः षण्ढश्चाण्डालो वा द्विजोत्तमः || चक्रमध्ये न भेदोस्ति सर्वे देवसमाः स्मृताः || ४९० ||

चक्रमध्यगताः सर्वे पुरुषाः शिवरूपिणः || स्त्रियः सर्वाश्च पार्वत्यस्तस्माद्भेदं न कारयेत् || ४९१ ||

मद्यकुम्भसहस्रैस्तु मांसभारशतैरपि || न तुष्यति महामाया भगलिङ्गामृतं विना || ४९२ ||

कामुको न स्त्रियं गच्छेदनिच्छन्तीमदीक्षिताम् || सद्यः संस्कारसंशुद्धां विहितत्वाद्ब्रजेत्स्त्रियम् || ४९३ ||

सहस्रचक्रपूजातो राज्यभ्रष्टो नृपो भवेत् || पञ्चाशद्भिश्च पुत्राप्तिर्नीरोगो दशभिर्भवेत् || ४९४ ||

यस्य चक्रस्य पूजायां रतिः स्खलति योगतः || अवश्यं सार्वभौमोसौ वर्षमध्ये भविष्यति || ४९५ ||

यथेप्सितप्रियाप्राप्त्यै पञ्चधा पूजनं चरेत् || सप्तभिः स्याद्धनप्राप्तिश्चक्रपूजा विधिस्त्वयम् || ४९६ ||

भगिनीं वा सुतां भार्यां यो दद्यात्कुलयोगिने || प्. २१४) मधुमत्ताय चक्रे वाचक्रे वा पुण्यभाक्स तु || ४९७ ||

उत्तमा नित्यपूजा स्यान्मध्यमं पर्वपूजनम् || मासपूजाधमा प्रोक्ता मासादूर्ध्वन्तु निष्फला || ४९८ ||

मासेथ वाधिमासे वा षण्मासे वत्सरेपि वा || श्रीगुरुं पूजयेद्भक्त्या प्राप्तौ तत्स्त्रीसुतादिकान् || तदभावे तत्कुलीनं तच्छिष्यं चान्ययोगिनम् || सन्तोषयेक्तुलद्रव्यैश्चक्रपूजापुरःसरम् || ४९९ ||

रोगेष्वापत्सु दोषेषु दुःसङ्गे दुर्निमित्तके || पूजयेद्योगिनीवृन्दं देवि तद्दोषशान्तये || ५०० ||

वक्ष्येथ नवरात्रस्य विधिं सर्वेष्टदायकम् || आश्विनस्य सिते पक्षे प्रतिपद्येकवार्षिकीम् || ५०१ ||

द्विवर्षीणा द्वितीयायामेवमग्रे प्रवर्धयेत् || नवम्यां नववर्षा च सुरूपा व्यङ्गवर्जिता || ५०२ ||

शुद्धा बाला च ललिता मालिनी च वसुन्धरा || सरस्वती रमा गौरी दुर्गा च नव कीर्तिताः || ५०३ ||

प्रातर्निमन्त्रितां भक्त्या देवतार्चां समाप्य च || अभ्यङ्गस्नानशुद्धं तां पूजायतनमानयेत् || ५०४ ||

देवतासन्निधौ बालामुपवेश्य समर्चयेत् || गन्धपुष्पाक्षतैर्धूपदीपैश्च कुलदीपकैः || ५०५ ||

भक्ष्यभोज्यान्नपानाद्यैः क्षीराज्यमधुमांसकैः || कदलीनारिकेरादिफलैस्तां परितोषयेत् || ५०६ ||

सशक्तिकः स्वयं देवि यौवनोल्लाससंयुतः || यथाशक्ति जपेदेकोत्तरवृद्ध्या स्वकं मनुम् || ५०७ ||

बालामलंकृतां पश्चाच्चिन्तयेत् स्वेष्टदेवताम् || ततस्ता देवताबुद्ध्या नमस्कृत्य विसर्जयेत् || ५०८ ||

त्रिताराद्यैर्नमोन्तैश्च देवतापदपश्चिमैः || नामभिः सचतुर्थ्यन्तैः पूजयेत्ताः पृथक्पृथक् || ५०९ ||

बटुकं पञ्चवर्षं च नववर्षं गणेश्वरम् || क्रमादन्ते तथादौ च गन्धाद्यैः परिपूजयेत् || ५१० ||

नवरात्रकृतां पूजां ततो देव्यै समर्पयेत् || ताम्बूलं दक्षिणां दत्त्वा कुमारीं तां विसर्जयेत् || ५११ ||

एवं नवकुमारीणां पूजनं प्रतिवत्सरम् || यः करोति सुखी चात्र मृतो देवो भवेत्स तु || ५१२ ||

अथ वा यौवनारूढाः प्रमदा नव सुन्दरीः || मनोज्ञाः पूजयेद्भक्त्या नवमातृषु मन्त्रवित् || ५१३ ||

हृल्लेखामंगनां रक्तां महोच्छुष्मां करालिकाम् || इच्छाज्ञानां क्रियां दुर्गां बटुकं च गणेश्वरम् || ५१४ ||

पूर्ववत्पूज्य मद्याद्यैः पदार्थैः परितोषयेत् || सर्वैश्वर्यसमृद्धात्मा स भवेदावयोः प्रियः || ५१५ ||

प्. २१५) भृगुवारे तु वारेन्द्रे कान्तामारूढयौवनाम् || सर्वलक्षणसम्पन्नामनुकूलां मनोहराम् || ५१६ ||

कुलाकुलांगनां वापि निमन्त्र्याहूय पुष्पिणीम् || अभ्यङ्गस्नानशुद्धाङ्गीमासने चोपवेशयेत् || ५१७ ||

गन्धपुष्पैरलंकारैरलंकृत्यविधानतः || आत्मानं गन्धपुष्पाद्यैरलंकुर्याच्च साधकः || ५१८ ||

आवाह्य देवतां तस्यां यजेन्मासक्रमेण च || कृत्वा कर्मार्चनं धूपं दीपांश्च कुलदीपकान् || ५१९ ||

प्रदर्श्य देवताबुद्ध्या पदार्थैः षड्रसान्वितैः || मांसादिभक्ष्यभोज्याद्यैस्तोषयेदतिभक्तितः || ५२० ||

प्रौढान्तूल्लाससहितां पश्येच्च प्रजपेन्मनुम् || यौवनोल्लाससहितः स्वयं तद्ध्यानतत्परः || ५२१ ||

निर्विकारेण चित्तेन अष्टोत्तरसहस्रकम् || जपादिकं समर्प्याथ तया सह निशां नयेत् || ५२२ ||

कृत्वेदं भृगुवारेषु ब्रह्मस्वात्परिमुच्यते || दारिद्र्यस्य तु नाशः स्यात्पञ्चभिर्भृगुवासरैः || ५२३ ||

सन्ततिश्चाक्षता तस्य सम्पत्तिर्भृगुसप्तभिः || नवभिर्भृगुवारैस्तु देवसायुज्यमाप्नुयात् || ५२४ ||

वक्ष्येथ सर्वकामानां साधनं मिथुनार्चनम् || संक्रान्तौ विषुवत्यां वायने वा तत्समाचरेत् || ५२५ ||

गौरीशिवौ रमाविष्णू वाणीसरसिजासनौ || शचीन्द्रौ रोहिणीचन्द्रौ स्वाहाग्नी च तथैव च || ५२६ ||

भद्रकाली वीरभद्रौ भैरवीभैरवावपि || मिथुनानि नवाभ्यर्च्य पूर्वोक्तेनैव वर्त्मना || ५२७ ||

त्रितारादिनमोन्तेन [ओं ओं ओं गौर्यै नमः ओं ओं ओं शिवाय नमः ओं ओं ओं रमायै नमः ओं ओं ओं विष्णवे नमः ओं ओं ओं वाण्यै नमः ओं ओं ओं ब्रह्मणे नमः |
] तत्तन्नाम्ना विधानवित् || संपूज्य गन्धपुष्पाद्यैर्मद्याद्यैः परितोषयेत् || ५२८ ||

प्रौढान्तोल्लासयुक्तानि कुर्वीत मिथुनानि च || एवं कृते न सन्देहस्तुष्टाः स्युर्नव देवताः || ५२९ ||

वर्षेवर्षेतु यः कुर्यान्न स दुःखमवाप्नुयात् || पुत्रार्थं नववारन्तु धनार्थं प्रतिमासकम् || ५३० ||

अयेने विषुवे चैव कारागृहविमुक्तये || नपुंसकस्य पुंस्त्वार्थमष्टवारान्समाचरेत् || ५३१ ||

अथ कौलिकमार्गाणां देवता सापि वक्ष्यते || पापनाशे सुखोत्पत्तिस्तद्वर्षेपक्षपूजनम् || ५३२ ||

माघशुक्लप्रतिपदि दिवा चाहारवर्जितः || स्नात्वा शुक्लाम्बरधरः सायं सन्ध्यामुपास्य च || ५३३ ||

सूर्यार्चनं तु मार्गेण सर्वद्रव्यसमन्वितः || प्. २१६) चन्द्रास्तमानपर्यन्तं जपेन्मन्त्रमनन्यधीः || ५३४ ||

एवं प्रतिदिनं शुक्लचतुर्दश्यां समर्चयेत् || पूर्णमास्यां यथाशक्ति पूजयेच्छक्तिकौलिकान् || ५३५ ||

यौवनोल्लाससहितश्चन्द्रस्थां देवतां स्मरेत् || एवं शुक्लार्चनं कृत्वा रात्रिपापैः प्रमुच्यते || ५३६ ||

शुक्लपक्षार्चनं यद्वत्तद्वत्पक्षे सितेतरे || यः करोति विधानेन सर्वान्कामान्समश्नुते || ५३७ ||

अथ वैशाखमासस्य शुक्लप्रतिपदीश्वरी || ब्राह्मे मुहूर्ते चोत्थाय स्नानं सन्ध्यामुपास्य च || ५३८ ||

मनोज्ञे रहसि स्थाने पूर्वाशाभिमुखः स्थितः || आत्मानं गन्धपुष्पाद्यैरलंकृत्य च वर्तयेत् || ५३९ ||

सन्ध्याद्यमुद्गते सूर्यमण्डले त्विष्टदेवताम् || ध्यात्वा सावरणां सर्वैरुपचारैः प्रपूजयेत् || ५४० ||

चक्रपूजां ततः कृत्वा कुलदीपान्प्रदर्शयेत् || शिवाय गुरुरूपाय मत्स्यमांसादिभक्ष्यकम् || ५४१ ||

देव्यै निवेद्य तच्छेषं पिबेच्छक्त्या युतः स्वयम् || यौवनोल्लास सहितो निर्विकल्पेन चेतसा || ५४२ ||

ध्यायेत्तां मण्डले देवीमष्टोत्तरसहस्रकम् || जप्त्वा समर्प्य तां पूजां देवताश्च समुद्वसेत् || ५४३ ||

एवं शुक्लप्रतिपदं समारभ्य दिनेदिने || कुर्याज्जपार्चनं कृष्णचतुर्दश्यां च सुस्थिरः || ५४४ ||

अमावास्यादिने पूज्यास्त्र्याद्याविषमकौलिकाः || युग्मीभूतास्तदाघस्रकृतं पापं व्यपोहति || ५४५ ||

एवं मध्याह्नवेलायामर्चयित्वा प्रतापवान् || सायाह्ने तु सम्भ्यर्च्य कीर्तिर्याति [तस्येति शेषः |
] दिगन्तरम् || ५४६ ||

संध्ययोरर्चयेद्यस्तु तस्य श्रीः सर्वतोमुखी || पूजयेद्यस्त्रिसन्ध्यासु योगिन्यस्तस्य वश्यगाः || ५४७ ||

श्रीकण्ठादीनि पञ्चाशन्मिथुनानि समर्चयेत् || पूर्वोक्तेन विधानेन धनलोभविवर्जितः || ५४८ ||

प्रौढान्तोल्लासयुक्तानि मिथुनान्यत्र कारयेत् || सन्तुष्टाय प्रयच्छन्ति साधकायेप्सितं फलम् || ५४९ ||

केशवादिगणेशादिकामपीठादिकानि च || श्रीकण्ठादिवदभ्यर्च्य तत्तल्लोके महीयते || १५० ||

खभूमिदिग्जलगिरिव्योमसर्वचरास्तु याः || सहस्रकोटियोगिन्यस्तावन्तो भैरवा अपि || ५५१ ||

नियुक्ताः सर्व एवैते कुलसंरक्षणाय च || प्. २१७) दिवसेषु विशेषेषु सर्वे मुदितमानसाः || ५५२ ||

साधकान्नैव पीड्यन्ति [दैवादिकत्वमाषम् |
] स्वस्वपूजानुलिप्सया || अपूजितास्तु विघ्नन्ति प्रसीदन्ति हि पूजिताः || ५५३ ||

गुरुभक्तान्सदाचारान्गुप्तधर्मानवन्ति च || भक्तिहीनान्दुराचारान्नाशयन्ति प्रकाशकान् || ५५४ ||

अथ वक्ष्ये कुलाचारमार्गशास्त्रार्थनिर्णयम् || कौलिकानां कुले जातो ज्येष्ठो यदि न दीक्षितः || ५५५ ||

कनिष्ठो दीक्षितश्चेत्स्यात्स कुर्यात्कुलपूजनम् || पूजान्ते शेषमादाय ज्येष्ठे तत्तु निवेदयेत् || ५५६ ||

तस्योच्छिष्टन्तु गृह्णीयात्कनिष्ठ इति निर्णयः || पूजामध्ये गुरौ ज्येष्ठे पूज्ये वापि समागते || ५५७ ||

नत्वा ब्रूयात्स्थितिं शेषमाचरेत्तदनुज्ञया || नित्यार्चनं दिवा कुर्याद्रात्रौ नैमित्तिकार्चनम् || ५५८ ||

काम्यार्चनं प्रोक्तकाले बहवो यत्र सङ्गताः || नत्वा स्वस्वगुरून्मन्त्रं स्वस्वमार्गेण तर्पयेत् || ५५९ ||

विनासनं विना स्नानं गन्धपुष्पाक्षतान्विना || विना मद्यं विना मांसं कुलपूजां न कारयेत् || ५६० ||

न कुर्यात्प्रलपन्वापि विना मन्त्रेण पूजनम् || शक्त्या विना तथा पानमेकहस्तेन नार्चयेत् || ५६१ ||

न पिबेदेकहस्तेन चक्रे निष्ठीवनं चरेत् || प्रणम्य प्रविशेच्चक्रं विनिर्गच्छेत्प्रणम्य च || ५६२ ||

श्रीचक्रे नासने तिष्ठेन्न च वीरासने क्वचित् || श्रीचक्रमेकतः कुर्यादेकपात्रे च नार्चयेत् || ५६३ ||

श्रीचक्रदर्शनन्नॄणां नेत्रयोः पापहारकम् || तन्नास्ति चेद्व्रणद्वन्द्वं कौलिकस्याक्षियुग्मकम् || ५६४ ||

अनाचारान्सदाचारांश्चक्रस्थाञ्छक्तिकौलिकान् || शिवगौरीधिया सर्वान्भावयेन्नावमानयेत् || ५६५ ||

कुलाचार्यगृहं गत्वा भक्त्या पापविशुद्धये || याचयेदमृतं चान्नं तदभावे जलं पिबेत् || ५६६ ||

कुलाचार्येण चेच्छक्त्या दत्तं पात्रं तु भक्तितः || नमस्कृत्य प्रगृह्णीयादन्यथा नरकं व्रजेत् || ५६७ ||

उष्णीषी कञ्चुकी नग्नो मुक्तकेशश्च भुक्तवान् || अस्नातो नातिभक्तश्च विवादे च पराङ्मुखः || ५६८ ||

नेदं यस्य कुले जातं यश्च संस्कारवान्द्विजः || वेदाध्यायी कुलद्रव्यसेवनान्निर्धनो भवेत् || ५६९ ||

प्. २१८) योगामृतस्य निष्ठीवान्मद्यभाण्डपरिक्रमात् || ऊर्ध्वं गलेन पानाच्च देवताशापमाप्नुयात् || ५७० ||

एकासने निविष्टा ये भुञ्जानाश्चैकभाजने || एकपात्रे पिबन्तो ये ते यान्ति निरयं ध्रुवम् || ५७१ ||

ये सेवन्ते कुलद्रव्यमेकग्रामे स्थिते गुरौ || तत्कुलजे च तत्पुत्रे स्वज्येष्ठे कुलदेशिके || ५७२ ||

विनानुज्ञां स पापात्मा रौरवं निरयं व्रजेत् || उच्छिष्टो न स्पशेच्चक्रं कुलद्रव्यं तथा गुरुम् || ५७३ ||

बहिःप्रक्षाल्य च जलैः कुलद्रव्याणि दापयेत् || मद्यभाण्डं समुद्धृत्य न पात्रं परिपूजयेत् || ५७४ ||

भोगपात्रं सुराकुम्भं निक्षिपेन्न कदाचन || चक्रमध्ये शुचिधिया करास्यक्षालनादिकम् || ५७५ ||

यः करोति च मूढात्मा स भवेदापदां पदम् || निष्ठीवनं मलं मूत्रमधोवायुविसर्जनम् || ५७६ ||

श्रीचक्रमध्ये यः कुर्यात्स भवेद्योगिनीपशुः || चक्रमध्ये घटे भिन्ने पात्रे वा स्खलिते तथा || ५७७ ||

दीपनाशे राष्ट्रपीडा गच्छेद्वै चक्रपूजनम् || परिहासं प्रलापं च विडम्बम्बहुभाषणम् || ५७८ ||

औदासीन्यं भयं क्रोधं चक्रमध्ये विवर्जयेत् || पात्रहस्तश्चक्रमध्ये न नमेत्पूर्णपात्रकम् || ५७९ ||

चिरं न स्थापयेद्धस्ते नालभेत्पात्रपाणिकः || पादाभ्यां न स्पृशेत्पात्रं न च भिन्द्यात्कदाचन || ५८० ||

नैकहस्तेन दातव्यं न बिन्दुम्पातयेदधः || पात्रं न चालयेत्स्थान्न मुद्रावर्जितं पिबेत् || ५८१ ||

जल्पन्नापि पिबेन्मद्यं न कुर्यात्पात्रसंकरम् || पात्रस्यांशद्वयं मद्यपूर्णं त्र्यंशन्तु रिक्तकम् || ५८२ ||

नान्योन्यं ताडयेत्पात्रं न पात्रं ताडयेदधः || साधारं नोद्धरेत्पात्रमनाधारे न निक्षिपेत् || ५८३ ||

रिक्तं पात्रं न कुर्वीत न पात्रं लङ्घयेत्तथा || प्रक्षाल्य गोमये पात्रं नमोन्ते विप्रमीक्षयेत् || ५८४ ||

कथनं धर्मशास्त्रस्य ह्यकुलस्त्रीनिषेवणम् || श्रोत्रियाणां च संगस्तु करणं श्रौतकर्मणाम् || ५८५ ||

कामार्थायुर्यशोलाभज्ञानसौख्यादिनाशकम् || तस्मात्कौलपथे गच्छन्न कुर्वीत कदाचन || ५८६ ||

श्रीचक्रस्थकुलद्रव्यं दद्याद्यो वाऽकुले जने || स महापातकी ज्ञेयो रौरवं नरकं व्रजेत् || ५८७ ||

रिपुणापि न कर्तव्यो वाग्वादश्चक्रमध्यतः || पितृमातृसमं पश्येत्तेनोक्तं परुषं सहेत् || ५८८ ||

श्रिगुरुं कुलशास्त्राणि पूज्यस्थानानि यानि च || प्. २१९) भक्त्या श्रीपूर्वकं विद्वान्प्रणम्य परिकीर्तयेत् || ५८९ ||

पारंपर्यं समास्थाय मन्त्राचारादिकं पुनः || सर्वं गुरुमुखाल्लब्धं सफलं स्यान्न चान्यथा || ५९० ||

श्रीशास्त्रं पूजयेन्नित्यं पशुगेहे न निक्षिपेत् || स्वदारवन्निषेवेत कलशास्त्राणि तान्त्रिकः || ५९१ ||

पशुशास्त्राणि सर्वाणि वर्जयेत्परदारवत् || संस्कारार्थं छिन्नभिन्नान्व्यस्तवर्णांश्च वैदिकान् || ५९२ ||

मन्त्रान्पठेत्सम्प्रदायात्तैः स्यादत्र व्यवस्थितिः || धर्मशास्त्रविरुद्धो य आचारः स तु कौलिकः || ५९३ ||

चक्रे नाकारयेदेता देवीवत्ताः प्रपूजयेत् || गमनं नैव कुर्वीत कृत्वा निरयमाप्नुयात् || ५९४ ||

मातरं गुरुपत्नीं च भगिनीं भगिनीसुताम् || भ्रातृजायां वीरभार्यां कुमारीं व्रतधारिणीम् || ५९५ ||

व्यङ्गाङ्गीं विकृताङ्गीं च क्षुब्धां प्रीतां समाहृताम् || स्नुषां सकृत्कामगता वृद्धां नैवामनोहराम् || ५९६ ||

मनोहरा यौवनस्थां सुवेशां चारुहासिनीम् || रक्तान्तनयनां श्यामां पूजयेत्कौलिकाङ्गनाम् || ५९७ ||

अकस्माच्च न सेवेत बलेन कुलयोगिनीम् || चक्रमध्ये स्वयं क्षुब्धां वा स्वतः प्रार्थिनीं यभेत् || ५९८ ||

आममांसं सुराकुम्भं मत्तेभं सिद्धदर्शनम् || सहकारमशोकं च क्रीडालुब्धाः कुमारिकाः || ५९९ ||

एकवृक्षं श्मशानं च समूहं योषितामपि || नारीं च रक्तवसनां दृष्ट्वा वन्देत भक्तितः || ६०० ||

गुरुशक्तिमुतज्येष्ठं कनिष्ठं कुलदेशिकान् || कुलदर्शनशास्त्राणि कुलद्रव्याणि कौलिकान् || ६०१ ||

प्रेरकान्सूचकांश्चापि वाचकान्दर्शकांस्तथा || शिक्षकान्बोधकान्योगियोगिनीसिद्धपूरुषान् || ६०२ ||

कन्यां कुमारिकां नग्नामुन्मत्ता नापि योषितः || न निन्देन्न जुगुप्सेत न हसेन्नापमानयेत् || ६०३ ||

नाप्रियं नानृतं ब्रूयात्कस्यापि कुलयोगिनः || कुरूपेत्यतिकृष्णेति न वदेत्कुलयोषितम् || ६०४ ||

परीक्षयेन्न भक्तानां वीराणां च कृताकृते || न पश्येत्पतितां नग्नामुन्मत्तां प्रकटस्तनीम् || ६०५ ||

न दिवा सेवयेन्नारीं तद्योनिं न निरीक्षयेत् || स्त्रियं शतापराधां वा पुष्पेणापि न ताडयेत् || ६०६ ||

दोषान्न गणयेत्स्त्रीणां गुणानेव प्रकाशयेत् || तिष्ठन्ति कुलयोगिन्यः कुलवृक्षेषु सर्वदा || ६०७ ||

प्. २२०) तत्पत्रेषु न भोक्तव्यमर्कपत्रे विशेषतः || न स्वप्यात्कुलवृक्षाधो न चोपद्रवमाचरेत् || ६०८ ||

दृष्ट्वा भक्त्या नमस्कुर्याच्छेदयेन्न कदाचन || श्लेष्मान्तककरञ्जाक्षनिम्बाश्वत्थकदम्बकाः || ६०९ ||

बिल्वो वटोदुम्बरौ च चिञ्चा चेति दश स्मृताः || प्रायश्चित्तं भृगोः प्रोक्तं सन्न्यासं व्रतधारणम् || ६१० ||

तीर्थयात्रादिगमनं कौलिकस्तु विवर्जयेत् || एकाक्षरप्रदातारं यो गुरुं चावमन्यते || ६११ ||

स श्वयोनिशतं गत्वा चाण्डालत्वमवाप्नुयात् || एकस्य हननात्क्षेमं बहूनां चेच्छुभा गतिः || ६१२ ||

अन्तः कौलं बहिः शैवं जनमध्ये तु वैष्णवम् || कौलं तु गोपयेद्देवि नारिकेलफलाम्बुवत् || ६१३ ||

गुरुं प्रकाशयेद्धीमान्मन्त्रं यत्नेन गोपयेत् || अप्रकाशप्रकाशाभ्यां क्षीयन्ते सम्पदायुषः || ६१४ ||

सर्वाचारपरिभ्रष्टः कुलाचारं समाश्रयेत् || कुलाचारपरिभ्रष्टो रौरवं नरकं व्रजेत् || ६१५ ||

वामाचारं न कथयेदकुलीनाय सद्गुरुः || आचारात्पतिते शिष्ये पातकी स गुरुर्भवेत् || ६१६ ||

इष्टः कश्चित्कौलिकस्य महोपद्रवमास्थितः || तस्य दुःखापहाराय कुर्यादष्टाष्टपूजनम् || ६१७ ||

एकस्मिन्दिवसे वाष्टदिनं वा षोडशाहकम् || दन्ताहं [द्वात्रिंशद्दिननि |
] वा चतुष्षष्टिदिनं कार्यं गुरुत्वतः || ६१८ ||

कारयेद्वा स्वयं कुर्याद्वित्तशाठ्यविवर्जितः || तत्रोपोष्य विशुद्धात्मा कृत्वा न्यासान्पुरोदितान् || ६१९ ||

प्रसुप्ते जीवलोके तु मुदितात्मा महामनाः || ब्राह्मी माहेश्वरी चैव कौमारि वैष्णवी तथा || ६२० ||

वाराही च तथेन्द्राणी चामुण्डा महती रमा || एता एव समाख्याता मया ते चाष्टमातरः || ६२१ ||

असिताङ्गो गुरुश्चण्डः क्रोधोन्मत्तकपालिनः || भीषणश्चाथ संहार एतेष्टौ भैरवा मताः || ६२२ ||

आचम्य मिथुनेष्टौ तान्परमैः पूर्ववद्यजेत् || प्रौढान्तोल्लासपर्यन्तं कार्यं सिद्ध्यत्यसंशयम् || ६२३ ||

कृता चेद्देवतोषाय पुरश्चर्याविशिष्यते || गुरुभक्तिविहीनस्य तपोविद्याव्रतं कुलम् || ६२४ ||

व्यर्थं सर्वं शवस्येव नानालङ्कारभूषणम् || तस्माद्गुरुः सदा सेव्यो मनोवाक्कायकर्मभिः || ६२५ ||

गुरौ मनुष्यबुद्धिं च मन्त्रे वाक्षरशेमुषीम् || प्. २२१) प्रतिमासु शिलाबुद्धिं कुर्वाणो नरकं व्रजेत् || कुलागमत्वमार्गोयं गुरुणा सम्प्रदर्शितः || ६२६ ||

सम्यगाचरितश्चेत्स्याद्भुक्तिमुक्त्योस्तु साधनम् || ६२७ ||

विप्रोपि गुणयुक्तोपि न भक्तश्चेन्न शस्यते || म्लेच्छोपि गुणहीनोपि भक्तिमाञ्छिष्य उच्यते || ६२८ ||

गुरोर्हितं हि कर्तव्यं वाङ्मनःकायकर्मभिः || अहिताचरणाच्छिष्यो विष्ठायां जायते कृमिः || ६२९ ||

गुरुत्यागाद्भवेन्मृत्युर्मन्त्रत्यागाद्दरिद्रता || गुरुमन्त्रपरित्यागाद्रौरवं नरकं व्रजेत् || ६३० ||

गुरूक्तं पुरुषं वाक्यमाशिषं चिन्तयेद्धृदि || नमेत्सन्ताडितो वापि प्रसादमिति संस्मरेत् || ६३१ ||

भोगभोज्यानि वस्तूनि गुरवे सर्वमर्पयेत् || तच्छेषमिति सञ्चिन्त्य ग्राह्यं तस्याज्ञया मुदा || ६३२ ||

ऋणादानं तथा दानं वस्तूनां क्रयविक्रये || न कुर्यादगुरुभिः सार्द्धं नोद्वहेत्तत्कुलोद्भवाम् || ६३३ ||

समासोक्तं रहस्यार्थं नवदेद्यस्य कस्यचित् || यदि ब्रूयात्स उभयच्युत एव न संशयः || ६३४ ||

सर्वस्वमपि यो दद्याद्गुरौ भक्तिविवर्जितः || शिष्यो न फलमाप्नोति भक्तिरेव हि कारणम् || ६३५ ||

यस्मिन्द्रव्ये गुरोरस्ति स्पृहा नानुभवेच्च तत् || अवश्यं यदि वापि स्यादनुभूयात्तदाज्ञया || ६३६ ||

अत्यल्पं हि गुरोर्द्रव्यमदत्तं स्वीकरोति यः || तिरश्चां योनिमापन्नः क्रव्यादैः स भक्ष्यते || ६३७ ||

आज्ञाभङ्गोऽर्थहरणं गुरोर्विप्रियवर्तनम् || गुरुद्रोहमिमं प्राहुर्यः कुर्यात्स तु पातकी || गुरुमित्रसुहृद्दासदास्यादीन्नावमानयेत् || ६३८ ||

न निन्देदन्यसमयान्वेदशास्त्रागमादिकान् || पादुकासनं च वस्त्रं वाहनं चामरादिकम् || दृष्ट्वा गुरुं नमस्कुर्यान्नानाभोगाय कामयेत् || ६३९ ||

सदसद्यद्गुरुर्ब्रूयात्तत्कार्यमवशश्चरेत् || निग्रहेनुग्रहे वापि गुरुः सर्वस्य कारणम् || ६४० ||

निर्गतं यद्गुरोर्वक्त्रात्सर्वं शास्त्रं तदुच्यते || गुरुकार्ये स्वयं शक्तो नापरं प्रेषयेत्क्वचित् || ६४१ ||

बहुकृत्यं परैः कुर्यात्सहितोप्यतिभक्तिमान् || तिष्ठञ्जाग्रत्स्वपन्खादन्प्रपिबंश्चिन्तयेद्गुरुम् || ६४२ ||

गुर्वाज्ञामेव कुर्वीत तद्गतेनान्तरात्मना || अभिमानो न कर्तव्यो जातिविद्याधनादिभिः || ६४३ ||

तत्पापं समवाप्नोति गुर्वग्रेऽनृतभाषणात् || गोब्राह्मणवधं कृत्वा न यत्पापमवाप्नुयात् || ६४४ ||

गुरोः सिंहासनं देयं ज्येष्ठानामुत्तमासनम् || प्. २२२) विध्यासनं कनिष्ठानामितरेषां समासनम् || ६४५ ||

जातिविद्याधनाढ्यो वा दूराद्दृष्ट्वा गुरुं मुदा || दण्डप्रणामं कृत्वैकं त्रिः प्रदक्षिणमाचरेत् || ६४६ ||

गुरुतो गुरुयोगे तु वन्देत्तत्र स्वकं गुरुम् || ततो वन्देद्गुरुं सोपि ततः शिष्यः प्रवादयेत् || ६४७ ||

गुरोः प्रणामत्रितयं ज्येष्ठानामेक एव च || पूज्यानामञ्जलिस्तद्वदन्येषां बाह्यवन्दनम् || ६४८ ||

देवान्गुरून्कुलाचार्याञ्ज्येष्ठान्वृद्धांस्तपोधनान् || विद्याधिकान्स्वकर्मस्थाञ्छ्रोत्रियान्प्रणमेत्सदा || ६४९ ||

स्त्रीदिष्टं गुरुशप्तं च पाखण्डं पतितं शठम् || विकर्मिणं कृतघ्नं चानाश्रमस्थं नमेन्न च || ६५० ||

भूङ्क्ते निवेद्य गुरवे यस्त्वेकग्रामसंस्थितः || तेन भुक्तममेध्यं स्यान्मृतो जायेत सूकरः || ६५१ ||

एकग्रामे स्थितः शिष्यस्त्रिसन्ध्यं प्रणमेद्गुरुम् || क्रोशमात्रस्थितो भक्त्या गुरुं प्रतिदिनं नमेत् || ६५२ ||

अर्धयोजनतः शिष्यः प्रणमेत्पञ्चपर्वसु || एकयोजनमारभ्य योजनद्वादशावधि || ६५३ ||

दूरदेशे स्थितः शिष्यो भक्त्या तत्सन्निधिं गतः || तत्तद्योजनसंख्याकमासेषु प्रणमेद्गुरुम् || ६५४ ||

अति दूरस्थितं शिष्यो यदेच्छा स्यात्तदा व्रजेत् || रिक्तहस्तो न पश्येच्च राजानन्देवतां गुरुम् || ६५५ ||

फलपुष्पांबरार्थादीन्यथाशक्ति समर्पयेत् || एवं यो नार्चयेद्विप्रो ब्रह्मराक्षसतां व्रजेत् || ६५६ ||

गुरुशक्तिश्च तत्पुत्रा ज्येष्ठभ्राता गुरोः समाः || आत्मवच्च कनिष्ठानां पुत्रवत्परिपालकः || ६५७ ||

स्वविद्यानुष्ठानतपोधर्माणामप्रकाशकः || वर्णाश्रमज्ञानतपोधर्माणां च प्रकाशकः || ६५८ ||

षट्कर्मसु सुसिद्धो यो दाता भोक्ता न याचकः || स एव कौलिकाचार्यस्त्वन्यः कुलविडम्बकः || ६५९ ||

पिण्डं पदं तथा रूपं रूपातीतं निरञ्जनम् || यस्तु सम्यग्विजानाति स गुरुश्चोद्धरेत्परम् || ६६० ||

पाशस्तम्भं वेददीक्षां पशुग्रहणमेव च || त्रिविधं योविजानाति स गुरुः कथितः प्रिये || ६६१ ||

पशुपाशपशूनाञ्च रहस्यार्थविधानवित् || यो जानाति वरारोहे स गुरुः परिकीर्तितः || ६६२ ||

घृणा शंकाभयं लज्जा जुगुप्सा चेति पञ्चमी || कुलं शीलं तथा शक्तिरष्टौ पाशाः प्रकीर्तिताः || ६६३ ||

पाशबद्धः प्रशुः प्रोक्तः पाशमुक्तो महेश्वरः || प्. २२३) तस्मात्पाशहरो योत्र स गुरुर्नान्य उच्यते || ६६४ ||

मूलादिब्रह्मरन्ध्रान्तं सप्ताम्भोजदलेषु यः || जीवचालफलं वेत्ति स गुरुर्नापरः प्रिये || ६६५ ||

संसारभयभीतस्य शिष्यस्य गुरुरादरात् || व्रतोपवासनियमैर्भियो हन्ता गुरुर्मतः || ६६६ ||

यः क्षणेनात्मसामर्थ्यं स्वशिष्याय ददाति हि || क्रियाया आदिरहितं स गुरुर्दुर्लभः कलौ || ६६७ ||

गुरोर्यस्यैव सम्पर्कात्परानन्दोभिजायते || गुरुं तमेव वृणुयान्नापरं मतिमान्नरः || ६६८ ||

शङ्कया भिक्षितं सर्वं त्रैलोक्यं सचराचरम् || सा शङ्का भक्षिता येन स गुरुर्दुर्लभः क्षितौ || ६६९ ||

मधुभुक्च यथा भृंगः पुष्पात्पुष्पान्तरं व्रजेत् || ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् || ६७० ||

गुरुः शिष्याधिकारार्थं विरक्तोपि शिवाज्ञया || कञ्चित्कालं प्रतीक्ष्यैव पश्चाच्छिष्ये समर्पयेत् || ६७१ ||

सम्प्रदायमविछिन्नं कौलं कुर्यान्न कुत्रचित् || यावच्च सम्प्रदायोस्ति तावत्स्याद्योगिनीपदम् || ६७२ ||

गुरुशिष्यावुभौ मोहादपरीक्ष्य परस्परम् || उपदेशं ददद्गृह्णन्प्राप्नुयातां पिशाचताम् || ६७३ ||

असंस्कृत्योपदेशं तु यः करोति स मूढधीः || विनश्यत्येव तन्मन्त्रः सैकते शालिबीजवत् || ६७४ ||

धनेच्छाभयलोभाद्यैरयोग्यं यदि दीक्षयेत् || देवताशापमाप्नोति कृतं च विफलं भवेत् || ६७५ ||

कुलद्रव्यैः समभ्यर्च्य कुलचक्रं विधानतः || शिष्याय दर्शयेत्सम्यग्दीक्षैषा कौलिकी मता || ६७६ ||

सिद्धद्रव्यं मुखे पूर्य पञ्चगव्यामृतान्वितम् || अभिषिञ्चेत्प्रियं शिष्यं गण्डुषाख्येयमीरिता || ६७७ ||

सञ्जीवमीनयुक्तेन सुरया पूरितेन च || पञ्चामृतैः सुसम्पूर्णशङ्खेन कलशेन वा || ६७८ ||

अभिषेकं ततः कुर्यात्कुलवृक्षोत्थपल्लवैः || अयं पूर्णाभिषेकोत्र कुलमार्गे प्रकीर्तितः || ६७९ ||

पूर्णाभिषेकहीनाश्चेन्म्रियन्ते यदि कौलिकाः || प्राप्नुवन्ति पिशाचत्वं यावदाभूतसम्प्लवम् || ६८० ||

उपपातकलक्षाणि महापातककोटयः || क्षणाद्दहति दीक्षेयं विधिना गुरुणा कृता || ६८१ ||

रसेन्द्रेण [पारदेन] यथाविद्धमयः सौवर्णतां व्रजेत् || दीक्षाविद्धस्तथा ह्यात्मा शिवत्वं लभते द्रुतम् || ६८२ ||

प्. २२४) दीक्षाग्निदग्धकर्मासौ मायाविच्छिन्नबन्धनः || यातः परां ज्ञानकाष्ठां निर्विण्णः स शिवो भवेत् || ६८३ ||

गतं शूद्रस्य शूद्रत्वं गता विप्रस्य विप्रता || दीक्षासंस्कारसम्पन्ने जातिभेदो न विद्यते || ६८४ ||

दार्वश्म [प्रस्थः |
] लोहमृद्रत्नजातिलिङ्गं प्रतिष्ठितम् || यथोच्यते महादेवस्तथा वर्णास्तु दीक्षिताः || ६८५ ||

अन्त्यजो दीक्षितः पूर्वं द्विजः पश्चाच्च दीक्षितः || तदा ज्येष्ठोऽन्त्यजः प्रोक्तः कुलशास्त्रविनिश्चये || ६८६ ||

गुरुशक्तिसुतानां च यो भवेत्पूर्वदीक्षितः || गुरुवत्तेन ते पूज्या नावमान्याः कदाचन || ६८७ ||

कौलिके वाममार्गे च वेधदीक्षा फलप्रदा || अन्यास्ता दक्षिणे मार्गेन्यथा तु पतितो भवेत् || ६८८ ||

दीक्षापूर्वं गुरोः सिद्धं पारम्पर्यक्रमागतम् || योग्यं योग्येन यल्लब्धं तच्च सिद्ध्यत्यसंशयम् || ६८९ ||

मासमात्रं जपेन्मत्रं भूतलिप्या तु सम्पुटम् || क्रमोत्क्रमत्सहस्रन्तु तस्य सिद्धो भवेन्मनुः || ६९० ||

मण्डलं पूजयेन्मन्त्री मातृकाक्षरसंयुतम् || अनुलोमविलोमाभ्यां षण्मासात्सिद्ध्यते मनुः || ६९१ ||

त्रितत्त्वाक्षरपूर्वं तु मातृकाक्षरपूर्वकम् || क्रमोत्क्रमाच्छतं जप्त्वा मासात्सिद्धो भवेन्मनुः || ६९२ ||

मातृकाजपमात्रेण मन्त्राणां कोटिकोटयः || जपिताः स्युर्न सन्देहस्तत्त्वं सर्वं तदुद्भवम् || ६९३ ||

जातसूतकमादौ स्यादन्ते च मृतसूतकम् || न पुरश्चरणं यस्य स मन्त्रो नैव सिद्ध्यति || ६९४ ||

यस्यान्नपानपुष्टाङ्गः कुरुते धर्मसञ्चयम् || अन्नदातुः फलं चार्धं कर्तुश्चार्धं न संशयः || ६९५ ||

सुगन्धपुष्पाभरणगन्धादिभिरलंकृतः || तस्य हस्तगता सिद्धिर्नान्यथा जन्मकोटिभिः || ६९६ ||

तन्निष्ठस्तद्गतप्राणस्तच्चित्तस्तत्परायणः || तत्परार्थानुसन्धानं कुर्वन्मन्त्रं शनैर्जपेत् || ६९७ ||

जपाच्छ्रान्तः पुनर्ध्यायेद्ध्यानाच्छ्रान्तः पुनर्जपेत् || जपध्यानादियुक्तस्य क्षिप्रं मन्त्रः प्रसिद्ध्यति || ६९८ ||

अथ मन्त्री प्रयोगार्थं शुद्धहृन्नियमान्वितः || शापप्रसाददं मन्त्रं तत्त्वलक्षमितं जपेत् || ६९९ ||

मधुरत्रयसंयुक्तैः सतिलैः शालितण्डुलैः || दशांश जुहुयात्पश्चात्संस्कृते हव्यवाहने || ७०० ||

गन्धपुष्पाक्षताकल्पनववस्त्रादिभिः पुनः || प्. २२५) भक्ष्यभोज्यान्नपानाद्यैः कुलद्रव्यैर्मनोहरैः || तोषयेद्योगिनीचक्रं यथाविधि सविस्तरम् || ७०१ ||

एवं न्यासं जपं ध्यानं सहोमार्चनतर्पणम् || कृत्वा प्रयोगान्कुर्वीत तस्य सिद्धिर्न संशयः || ७०२ ||

प्रयोगान्ते चक्रपूजां विधिनैव समाचरेत् || एकलक्षं जपेन्मन्त्रं ध्यानन्याससमन्वितम् || ७०३ ||

प्रयोगदोषशान्त्यर्थमात्मनोर्थार्थमेव च || स्वरवर्णपदद्वित्वबिन्दुचैतन्यसूचकम् || ७०४ ||

ह्रस्वदीर्घप्लुताद्यांश्च ज्ञात्वा कर्माणि साधयेत् || मूलं प्रासादबीजं तु तरुणादित्यसुप्रभम् || ७०५ ||

उत्तमाङ्गे पराबीजं चन्द्रायुतसमप्रभम् || परस्परकरस्पर्शमिलितानन्दनिर्भरैः || ७०६ ||

मूलादिब्रह्मरन्ध्रान्तमनवच्छिन्नदीप्तिभिः || परामृतरसासक्तैः सिक्तमापादमस्तकम् || आत्मानं भावयेन्नित्यं स प्रयोगैर्न बाध्यते || ७०७ ||

अथ लोकोपकाराय वक्ष्ये ध्यानजपादिकम् || स्वस्य रोगादिके जाते शान्तिर्येनाभिजायते || ७०८ ||

स्थिस्वा मृद्वासने ध्यायेद्गुरुवन्दनपूर्वकम् || मस्तकान्तं च सम्पूर्णचन्द्रमण्डलमध्यकम् || ७०९ ||

श्रीप्रासादपराबीजं षोडशस्वरसंयुतम् || मुक्तास्फटिककर्पूरकुन्देन्दुधवलं शुभम् || ७१० ||

सचन्द्रबीजसञ्जातसुधाप्लावितविग्रहम् || आत्मानं भावयेदेवं परस्यात्मानमेव वा || ७११ ||

श्रीप्रासादपरामन्त्रमष्टोत्तरसहस्रकम् || तरुणोल्लाससहितो मण्डलं पूजयेद्यदा || ७१२ ||

अपमृत्युमहारोगजरामरणजं भयम् || ग्रहापस्मारवेतालभूतोन्मादादिसम्भवम् || तस्य नो जायते देवाः कदाचिदिति निश्चयः || ७१३ ||

जराधिव्याधिरहितः पुत्रपौत्रादिसंयुतः || जीवेद्वर्षशतं साग्रं पूजितः सर्वमानवैः || ७१४ ||

ज्वरोन्मादादिरोगेषु जपेच्छिरसि चिन्तयन् || मूले वा ब्रह्मणो ग्रन्थौ तत्तत्स्थाने विचिन्तयेत् || ७१५ ||

पूर्ववत्तां महारोगे सर्वाङ्गव्यापिनीं स्मरेत् || तत्क्षणाच्छान्तिमायान्ति सर्वरोगा न संशयः || ७१६ ||

दशेन्द्रियेषु यो ध्यायेल्लभेदिन्द्रियसौष्ठवम् || सदा सञ्चिन्तयेन्मूर्ध्निं स भवेदजरामरः || ७१७ ||

हृत्पद्मकर्णिकामध्ये सूर्यमण्डलसंस्थितम् || पराप्रासादबीजं तत्तरुणादित्यसन्निभम् || ७१८ ||

जपाबन्धूकसिन्दूरपद्मरागाम्बुजप्रभम् || एवं विंशतिभिः स्पर्शाक्षरैः संवीतमन्त्रतः || ७१९ ||

तत्प्रभापटलच्छायारत्नीकृतजगत्त्रयम् || प्. २२६) आत्मानं संस्मरेदित्थं यौवनोल्लाससंयुतः || ७२० ||

अष्टोत्तरसहस्रं तु मण्डलं प्रजपेत्सदा || देवदानवगन्धर्वसिद्धचारणगुह्यकान् || ७२१ ||

विद्याधरान्मुनीन्यक्षान्नागानप्सरसः स्त्रियः || सिंहव्याघ्रोरगैणादीनन्यान्दुष्टमृगानपि || वशीकरोत्यसन्देहः किम्पुनर्मानवादिकान् || ७२२ ||

स ईहैश्वर्यमाप्नोति स्वर्गभोगादिकं तथा || यस्य मूर्ध्नि स्मरञ्जप्यात्स वश्यो जायतेऽचिरम् || ७२३ ||

मूलाधारसरोजान्तवह्निमण्डलमध्यगम् || पराप्रासादबीजं तत्कल्पाग्निसदृशं स्मरेत् || ७२४ ||

प्रतिलोमैस्तु संवीतं दशभिर्व्यापकाक्षरैः || स्वयं कालानलसमः सर्वभूतभयंकरः || ७२५ ||

दक्षिणैशान्यभिमुखो यौवनोल्लाससंयुतः || मन्त्रन्तु मण्डलं जप्यादष्टोत्तरसहस्रकम् || ७२६ ||

अनिष्टकारिणः क्रूरान्वृथा विद्वेषकारिणः || भूतोग्रग्रहवेतालपिशाचान्ब्रह्मराक्षसान् || ७२७ ||

तद्वह्निमध्यपतितानग्निदग्धांश्च चिन्तयेत् || क्षणेन नाशमायान्ति शलभा इव सर्वतः || यस्य मूर्ध्नि स्मरेद्बीजं स मृत्युमधिगच्छति || ७२८ ||

खदिरश्वेतमन्दारामृताभानुसमिद्वरैः || पनसोदुम्बराश्वत्थप्लक्षापामार्गजैश्च वा || ७२९ ||

नन्द्यावर्तसिताम्भोजहयारिकुसुमैश्च वा || एकेन वार्धश्लोकोक्तैस्तिलतण्डुलसंयुतैः || ७३० ||

मधुरत्रययुक्तैर्वा भक्ष्यैर्वा पायसैरपि || सहस्रादयुतान्तं च यथाकार्यं तथाचरेत् || ७३१ ||

पूर्वोक्तस्य जपस्यात्र सिद्धये सात्त्विकस्य तु || शान्तिकं पौष्टिकं सन्धिरुपकारश्च सात्त्विके || ७३२ ||

कदम्बाशोकबकुलपुन्नागाम्रमधूकजैः || चम्पकद्वयपालाशपाटलश्रीकपित्थजैः || ७३३ ||

मालतीमल्लिकाजातिबन्धूकारुणपङ्कजैः || कुमार्यरुणमन्दारजातीकुंदजपादिभिः || ७३४ ||

सनारिकेलकदलीद्राक्षेक्षुपृथुकैरपि || चन्दनागुरुकर्पूररोचनाकुंकुमादिभिः || ७३५ ||

युक्तैरन्यैः शुभद्रव्यैः शमीपत्रफलाम्बुना || पृथक्छ्लोकार्धसम्प्रोक्तैः प्राग्वद्धोमस्तु राजसे || ७३६ ||

कुर्यात्कार्यस्य वशतः सहस्राद्ययुतान्तकम् || स्तम्भो वश्यं मोहनं च कौतुकं राजसं मतम् || ७३७ ||

निम्बाक्षभास्करोन्मत्तकरवीरविषदण्डिभिः || कुटजैः कृष्णवर्णैश्च ह्यग्निकुन्दर्क्षवृक्षकैः || ७३८ ||

गृहधूमाचिताङ्गारविषोपविषसंयुतैः || उन्मत्तरससम्पिष्टैश्चिताभस्मान्वितैस्तथा || प्. २२७) मध्यपादरजोभिश्च शत्रोः प्रतिकृतिं चरेत् || ७३९ ||

यद्वा तन्मनसः क्षेत्रवृक्षकाष्ठभवामपि || सम्यक्प्रतिष्ठितप्राणां कुण्डस्योपरि लम्बयेत् || ७४० ||

खनेन्मृत्प्रतिमाम्मन्त्री कुण्डस्याधो यथाविधि || मलीमसेन मनसात्युग्रदृष्टिरमर्षणः || ७४१ ||

चित्रमाले विषतरूद्भवकाष्ठसमेधिते || जुहुयात्तमसं कर्म सिद्ध्यत्यत्र न संशयः || मारणोच्चाटनद्वेषं [मारणं चोच्चाटनं द्वेषश्चेति समाहारद्वन्द्वः |
] तामसं स्यात्पिशाचता || ७४२ ||

राजीलवणहोमेन स्त्रीणामाकर्षणं भवेत् || आत्मरक्षां पुरस्कृत्य पश्चात्कर्माणि साधयेत् || ७४३ ||

लिखेत्त्रिकोणं षट्कोणमष्टारं च महीपुरम् ||

चित्र

प्. २२८) मूलमन्त्रं लिखेन्मध्ये साध्यनामसमन्वितम् || ७४४ ||

षडङ्गानि च षट्कोणे स्वरान्वै केशरेषु च || वर्गान्पत्रेषु भूगेहे चतुष्कोणेषु मन्त्रकम् || ७४५ ||

पञ्चवर्णरजोभिश्च लिखेद्दृष्टिमनोहरम् || एकत्रिषड्वसुचतुष्कलशान्स्थापयेत्क्रमात् || ७४६ ||

मध्यादिचतुरस्रान्तं द्वाविंशतिघटान्क्रमात् || अथ वाष्टादश दश सप्त वा चतुरेककम् || ७४७ ||

अस्थिरत्नं शिरातंत्रं मृन्मांसं रुधिरं जलम् || चर्म वस्त्रं शिखा कूर्चं नारिकेरफलं शिरः || ७४८ ||

मन्त्रप्राणसमायुक्तां यजेत्कलशदेवताम् || सा च त्रिमूर्तिरंशादिमातरो भैरवान्विताः || ७४९ ||

विदिक्षु गुरुविघ्नेशदुर्गाक्षेत्रपतीनपि || कलशेषु समभ्यर्च्य विधिवन्मंत्रवित्तमः || ७५० ||

अभिषिञ्चेत्प्रियं शिष्यं सर्वपापप्रशांतये || आयुःश्रीकांतिसौभाग्यविद्यारोग्यादिकं भवेत् || ७५१ ||

राजाभिषिक्तो लभते चतुःसागरगां महीम् || अकिंचनोऽभिषिक्तस्तु महदैश्वर्यमाप्नुयात् || ७५२ ||

वंध्याभिषिक्ता लभते पुत्रं सर्वगुणान्वितम् || भूतापमृत्युरोगाद्या विनश्यन्ति न संशयः || ७५३ ||

त्रिलोहे वापि भूर्जे वा लिखित्वा यंत्रमुत्तमम् || विधृतं पूजितं देवि सर्वरक्षाकरं भवेत् || ७५४ ||

अकुलं शिव इत्युक्तः कुलं शक्तिः प्रकीर्तिता || कुलाकुलानुसन्धाननिपुणाः कौलिकाः प्रिये || ७५५ ||

आदित्वात्सर्वमार्गाणां मनोल्लासप्रवर्तनात् [गुण आर्षः |
] || यज्ञादिसर्वहेतुत्वादाम्नाय इति कीर्तितः || ७५६ ||

इति कौलिकमार्गस्य प्रपञ्चोयं प्रदर्शितः || वेदधर्मविहीना ये तेत्र धर्मेधिकारिणः || ७५७ ||

इन्द्रियाणामधृष्यत्वात्कामलोभादिसम्भवात् || प्रायः कलौ कौलिकोयं पन्था नरकहेतवे || ७५८ ||

धर्मनाशः कौलिकेन रसेनार्थविनाशनम् || कामनाशः फिरङ्गेन मोक्षनाशो जनेर्ष्यया || भविष्यति कलौ देवा दम्भः पापं गृहे गृहे || ७५९ ||

पुरुषेण [अत्र यथेत्यध्याहार्यम् |
] विना किञ्चित्प्रकृत्या क्रियते न हि || तथा शक्तिं विना देवो न किञ्चित्कर्तुमहति || ७६० ||

विना शक्तिं फलं देवो दातुं नैव क्षमो ह्यतः || तस्मात्पुंशत्किसंयोगं कृत्वा मन्त्रं प्रसाधयेत् || ७६१ ||

प्. २२९) कौलिके वाममार्गे च पुमान्देवो न सिद्ध्यति || आत्मानं तु शिवं ध्यायेद्देवता शक्तिरूपिणीम् || ७६२ ||

क्रीडेत्पञ्चमकारैश्च सुप्रीता तस्य देवता || दक्षमार्गे मातृबुद्धिः स्त्रीबुद्धिः कौलिके पथि || ७६३ ||

यस्य जाता दृढतरा तस्य तुष्टा तु देवता || एतद्रहस्यमाख्यातं गोप्यं मातरि जारवत् || ७६४ ||

अन्यद्गुह्यतमं वक्ष्ये सर्वतन्त्रेषु गोपितम् || यथा दद्याद्देवतैव मन्त्रं तत्प्रब्रवीम्यहम् || ७६५ ||

वर्णानाम्नायपठितान्विद्धि चन्द्रादिवाचकान् || युक्तान्स्वरचतुष्केणाथोत्तरोत्तरसङ्ख्यकान् || ७६६ ||

पूर्वदैवतसङ्केतो मयायं समुदीरितः || अनामाद्याश्चात्रवर्णा ग्राह्याश्चाङ्कयुतौ [अङ्कयोगे |
] तथा || ७६७ ||

अङ्कास्तु दक्षिणाम्नाये त्वनामाद्यर्णवर्जिताः || द्वौद्वावेकः पुनर्द्वौ च वर्गौ सङ्केतवाचकौ || ७६८ ||

आम्नायक्रमतो वर्णा मन्त्रादिक्रमतस्तथा || अचः स्वरास्तत्क्रमेण पश्चिमोत्तरदेवयोः || ७६९ ||

चतुराम्नायसङ्केताद्वर्णैर्वगैक्ययोजनम् || ऊर्ध्वाम्नाये प्रकर्तव्यं वैदिकेन तु किञ्चन || ७७० ||

येन क्रमेण यद्देशे ये वर्णाः परिकीर्तिताः || तेन क्रमेण ते ग्राह्या वर्णा एकादिसङ्ख्यकाः || ७७१ ||

मन्त्रवर्णाङ्कसंयोगः स्वनामाङ्केन संयुतः || तस्य मूलं यदायाति तदा स्वप्नः प्रजायते || ७७२ ||

मूलाभावे देवताया नामाङ्कान्योजयेत्पुनः || ग्राह्यं मूलं नैव यदा पीठेनामाङ्कयोजनम् || ७७३ ||

पुनर्मूलं नैति यदा तदा स्वप्नो न जायते || गुरोरपि गृहीतश्चेत्स मन्त्रो नाशको भवेत् || ७७४ ||

याम्योत्तरं प्रागपरं मूलाङ्कसमकोष्ठकान् || लिखित्वैकादिकोल्लेखेद्वर्णान्स्याद्गणना [भौवादिकत्वमस्यार्षम् |
] यथा || ७७५ ||

सर्वतः समसङ्ख्याकांस्तद्युक्तिरधुनोच्यते || पश्चिमः प्रथमो लेख्य उदङ्मध्ये तथान्तिकम् || ७७६ ||

अश्वगत्या द्वितीयः स्यान्मन्त्रिगत्या ततः परम् || आदिगन्तं लिखेत्पश्चादश्वगत्येव पूर्ववत् || ७७७ ||

मन्त्रिगत्याथ तद्रोधे नृपस्य गमनं भवेत् || पुनर्मन्त्रिगतिं कुर्यात्प्राग्वदश्वगतिं पुनः || ७७८ ||

एवं पुनः पुनः कार्यं गुरुदर्शितवर्त्मना || अङ्गानां जायते पूर्तिः सर्वतः संमता क्रमात् || ७७९ ||

चतुर्णां वर्गकोष्ठेषु लिखेन्मन्त्रान्समानिति || एतन्मध्यं प्रकल्प्याथ माहेश्यामन्तिमं न्यसेत् || ७८० ||

प्. २३०) उपान्तिमं तथाग्नेयया नैर्-ऋत्यां प्रथमं न्यसेत् || वायव्यां तु द्वितीयं स्यात्ततः सङ्ख्या यथा भवेत् || ७८१ ||

पूर्णास्तथैव सन्धार्याः काष्ठायामम्बिकेंककाः || तत्प्रतिस्पर्द्धिनः स्थाप्यास्तत्स्पर्धिन्यां तथा दिशि || ७८२ ||

एवं तु समपत्राणां परिपूर्तिः प्रकीर्तिता || भाज्यभाजकपत्राणामथ वा लेखयेत्क्रमम् || ७८३ ||

प्रज्ञायते विनाचार्यं यथा दिव्यं विनाखिलम् || आदित्यवासरे स्नात्वा प्राक्सूर्योदयतस्ततः || ७८४ ||

सूर्योदये तदर्घ्याणि दत्त्वा नत्वा गृहं विशेत् || स्वतो नीचं तु नेक्षेत शब्दं नैव प्रयोजयेत् || ७८५ ||

सुमुहूर्तेखिलं यन्त्रं भूर्जे वा ताम्रपत्रके || तत्तद्देवाष्टगन्धेन दले वा मण्डले लिखेत् || ७८६ ||

आदौ गणेशं सम्पूज्य ततः खेटांश्च दिक्पतीन् || एकान्ते च लिखेद्यन्त्रं तद्दिने मौनमाचरेत् || ७८७ ||

न पश्येन्निन्दितं द्रव्यं ब्रह्मचारी हविष्यभुक् || यन्त्रोर्ध्वं विलिखेन्मन्त्रं तदुदग्वाथ ठद्वयम् || ७८८ ||

ङेन्ते साध्यतले दक्षे ठद्वयं विलिखेदिति || कौसुम्भे पीतवसने चक्रं कृष्णे सिते तथा || ७८९ ||

नीले प्रादेशमात्रे तु प्रासाद्याम्नायदैवतम् || यन्त्रं संवेष्टयेत्तत्र स्नेहः कुडवसम्भवः || ७९० ||

तिलतैलं महिष्याज्यमेतस्याः खाखसं तथा || गोघृतं च वसा चेति पूर्वादिष्वेव कल्पयेत् || ७९१ ||

अक्षतैर्विलिखेद्भूमौ पद्ममष्टदलं तथा || कर्णिकायामुत्तरतोथ विघ्नगणपं यजेत् || ७९२ ||

इष्टदेवं तथा मध्येक्षेत्रपालं च दक्षिणे || अष्टौ दिगीशान्पत्त्रेषु पूजयित्वा विसर्जयेत् || ७९३ ||

ततः पश्चात्कर्णिकायां स्थापयेद्दीपिकां शुभाम् || तत्र दीपं प्रतिष्ठाप्य ज्वालयेत्पूजयेत्ततः || ७९४ ||

सावधानः स्वपेत्तत्र [अस्य भौवादिकत्वमार्षम् |
] ह्याम्नायामरदिक्छिराः || तस्मिन्नहनि निष्पापः प्राप्नुयाद्देवतागणम् || ७९५ ||

तन्मन्त्रं येन रूपेण देवता सम्प्रयच्छति || तद्रूपं च गुरोर्ध्यायेत्तज्जातीयांश्च मानयेत् || ७९६ ||

आद्येर्के मध्यपापोथ द्वितीये बहुपातकी || तृतीयेर्के मर्त्यगणो निष्पापः प्राप्नुयान्मनुम् || ७९७ ||

मध्यपापश्चतुर्थे तु पञ्चमे बहुपातकी || सप्तमे राक्षोऽपापो मध्यः षष्ठे स पापकः || ७९८ ||

अवश्यमेव प्राप्नोति मन्त्रं सप्तमभास्करे || एतद्गुह्यतमं प्रोक्तं सर्वतन्त्रेषु गोपितम् || ७९९ ||

प्. २३१) म्लेच्छायापि प्रदातव्यं स्वधर्मे तत्पराय च || विप्रायापि न दातव्यं स्वधर्मत्यागिने सुराः || लोभात्कामात्प्रदद्याद्यस्स लोकद्वयतश्च्युतः || ८०० ||

अथ गुह्यतमं वक्ष्ये रहस्यं पीठसम्भवम् || यज्ज्ञात्वा साधकाः सर्वे सिद्धिं यान्ति न चान्यथा || ८०१ ||

पीठानि चैकपञ्चाशत्पञ्चाम्नायस्थदेवताः || तत्र तिष्ठन्ति भो देवास्त्रयस्त्रिंशन्मितानि च || ८०२ ||

उपपीठानि यत्प्रोक्ताः षष्ठाम्नाये तु देवताः || तत्तेषां तु समुद्दिष्टं तत्राथ हृदयोर्ध्वतः || ८०३ ||

तेङ्गपाते यत्र जातस्तत्र तिष्ठन्ति वैदिकाः || तथा दक्षिणमार्गश्च सिद्धयेन्यत्र वामकः || ८०४ ||

अकारः कामरूपाख्यमादिपीठं तदुच्यते || यस्मिन्पीठे मया देवि कुलमार्गः प्रवर्तितः || ८०५ ||

तत्र ते पतिता योनिस्तां दृष्ट्वा तत्प्रियं कृतम् || कुलशास्त्रं तु कौलानां ज्ञानिनां मुक्तिदायकम् || ८०६ ||

पञ्चमानां द्रुतं सिद्धिरन्येषां नैव जायते || तद्द्रष्टुं ह्यणिमा दीनां सिद्धिकामैश्च गम्यताम् || ८०७ ||

श्रीविद्यायास्तु तन्मूलं मासिमासिक्षरेद्रजः || कुलसिद्धस्य लोपे तु रजस्तम्भः प्रजायते || ८०८ ||

अस्योपपीठद्वितयं समन्तात्तव सूचनात् || वंशाख्यं लोमतो जातं सिद्धिः शाबरचेरकी || ८०९ ||

आकारः काशिकापीठस्त्वद्दत्तो भेदतां गतः || प्रलयेपि न नाशोस्य यत्प्रोक्तस्स महेश्वरः || ८१० ||

न पापं यत्र पुण्यं न देहत्यागात्परं पदम् || द्वयमेव फलं तत्र मुक्तिस्तस्योपपीठके || ८११ ||

यातना भैरवी याया तत्र पीठे पदे पदे || मया न शक्यते पातुं तत्र ते स्तनकुम्भतः || निःसृतं धारयोर्युग्मं सासिश्च वरुणाभवत् || ८१२ ||

काश्यां बहिर्योजनैकं देवभूमिरिति स्मृत || तत्र चाराधिता मन्त्रास्तत्कालं फलदायकाः || ८१३ ||

यथास्थानं चतुर्दिक्षु तत्र ह्याम्नायदेवताः || तिष्ठन्ति देवास्तत्सिद्धिः पुरश्चरणमात्रतः || ८१४ ||

गङ्गायाः परपारीणः काशीभागो पवित्रतः || व्यासशापेन तज्जातं गर्दभक्षेत्रमद्भुतम् || ८१५ ||

तत्कालं तत्र संसिद्धिस्तत्राम्नायस्य जायते || उपपीठमसेस्तीरे सारनाथस्तु दक्षिणः || तत्र दक्षिणमार्गस्य मन्त्राः सिद्धिप्रदायकाः || ८१६ ||

वरुणायाः सौम्यभागे सारनाथस्तथोत्तरः || तच्चोपपीठं वामस्य मार्गस्यातीव सिद्धिकृत् || ८१७ ||

नेपालं तु इकारस्स्याद्गुह्यं तत्र तु पार्वति || प्. २३२) तस्माद्वामस्य मार्गस्य मूलस्थानं तदुच्यते || ८१८ ||

षट्पञ्चाशल्लक्षमिता भैरव्यो भैरवास्तथा || शक्तीनां च सहस्रे द्वे पीठानां च शतत्रयम् || ८१९ ||

चतुर्दश श्मशानानि तत्र सन्निहितानि च || दक्षमार्गे सिद्धिदानि पीठान्यष्टौ च तत्र तु || ८२० ||

सिद्धिर्वैदिकमन्त्राणां तत्र पीठचतुष्टये || तन्मलं यत्र पतितं जातं तदुपपीठकम् || ८२१ ||

नेपालात्पूर्वदेशे तत्किरातैरुपवेष्टितम् || त्रिंशत्तत्र सहस्राणि देवयोनीनि सन्ति हि || ८२२ ||

ईकारस्य समुत्पत्तिस्थानं स्याद्रौद्रपर्वतम् || पतितं वामनेत्रं ते महत्पीठं तदुच्यते || ८२३ ||

यस्य कस्यापि मन्त्रस्य जपात्सिद्धिः प्रजायते || वामाचारात्तत्र देवा देवतादर्ऽऽअनं भवेत् || ८२४ ||

उकारस्य समुत्पत्तिस्थानं काश्मीरमीरितम् || कर्णो निपतितो वामस्तस्मात्पीठोत्तमं तु तत् || ८२५ ||

यस्य कस्यापि देवस्य तं तं मन्त्रं जपेन्नरः || विद्यानां पारदर्शी स्यात्तत्त्वज्ञानी भवेत्तथा || ८२६ ||

वैदिकाद्वा कौलिकाद्वा स्मार्ताद्वा दक्षमार्गतः || च्युतानां तत्र देवेशि प्रायश्चित्तकराणि च || ८२७ ||

मया कृतानि तीर्थानि सद्यः प्रत्ययदान्यपि || करिष्याम्यतिगुप्तानि कलौ म्लेच्छावृतानि च || ८२८ ||

ऊकारस्य समुत्पतिस्थानं स्यात्कान्यकुब्जकम् || तत्र ते दक्षकर्णस्तु पतितोतीवशोभनः || ८२९ ||

गङ्गायमुनयोर्मध्ये तदन्तर्वेदिसञ्ज्ञितम् || तत्क्षेत्रं सोम पानां हि निवासायोपकल्पितम् || ८३० ||

तत्र ब्रह्मादयो देवाः स्वस्वतीर्थानि चक्रिरे || तत्र वैदिकमन्त्राणां सिद्धिर्देवाः पदे पदे || ८३१ ||

तस्य देवि मलाज्जातं यमुनातटमास्थितम् || इन्द्रप्रस्थं नाम लोके प्रसिद्धमुपपीठकम् || ८३२ ||

ब्रह्मणा विस्मृता वेदा यत्पीठस्य प्रभावतः || पुनर्लब्धास्ततो जातं तीर्थं निगमबोधकम् || ८३३ ||

तत्र काली तपस्तेपे तोषयिष्यन्ति ये च माम् || पञ्चमैस्तदयुक्ता वा तद्भवेद्यद्वरेच्छया || ८३४ ||

सा तु तत्र वरं प्राप्य महाकालाज्जगत्तदा || पञ्चमे प्रेरयामास सिद्धिं च प्रकटा ददौ || ८३५ ||

ऋकारोभूत्पूर्णगिरौ पतिता तत्र नासिका || अतो योगस्य संसिद्धिस्तत्र पूर्णा प्रजायते || तत्र प्रत्यक्षतां यांति मन्त्राधिष्ठानदेवताः || ८३६ ||

ऋकारस्य समुत्पत्तिस्थानं स्यादर्बुदाचलः || वामस्ततो निपतितस्त्वत एव च वल्लभः || ८३७ ||

प्. २३३) शक्तिस्तत्राम्बिका नाम स्वस्वाचारप्रिया सदा || पुरश्चर्या यदैकापि भोगंकाले प्रजायते || तस्मिन्पीठे भवेन्मुक्तिस्सहस्रभगसङ्गमात् || ८३८ ||

दिव्यस्त्रीणां तु तत्स्थानं तेवतारस्य पार्वति || प्रतिज्ञा महती जाता तया देव्या मया सह || ८३९ ||

निर्वाहयेन्मम क्षेत्रे ब्रह्मचर्यन्तु यः पुमान् || द्वादशाब्दन्तु मद्भर्ता स एवैको भविष्यति || ८४० ||

बौद्धोपि स्खलितस्तत्र त्रिदिनोनैकवत्सरे || निर्वाहस्तत्र वामस्य दक्षे विघ्ना भवन्ति हि || ८४१ ||

ऌकारस्य समुत्पत्तिर्यत्र चाम्रातकेश्वरः || दक्षो गण्डो निपतितस्तत्पीठे महदद्भुतम् || ८४२ ||

धनदाद्यास्तत्र यक्षा यक्षिण्यो धनदादिकाः || वसन्ति तत्र जपतस्तेषां सिद्धिः प्रजायते || ८४३ ||

ऌकारस्य समुत्पत्तिरेकाम्रे तु पुराभवत् || नखास्ते गलितास्तत्र तप्तं विद्याधरैर्बहु || ८४४ ||

विद्यार्थिनान्तु तत्पीठमिष्टविद्याविधायकम् || अश्रुतो बुध्यते ग्रन्थस्तत्र सारस्वताज्जपात् || ८४५ ||

एकारजन्म त्रिस्रोते [अदन्तत्वमार्षम् ||] पातिता त्रिवली तव || त्रिवाते वसनं जातं प्राक्पश्चाद्दक्षिणेपतत् || ८४६ ||

त्रीणि तान्युपपीठानि गृहस्थस्तत्र सिद्ध्यति || द्विजश्च नेतरो वर्णो मनवः पौष्टिके स्थिताः || ८४७ ||

ऐकारोभूत्कामकोटे नाभिस्तत्र तु ते पतत् || तत्र सर्वेपि सिद्ध्यन्ति काममन्त्रा न संशयः || ८४८ ||

कामनीं त्वां समाराध्य च्छाछिकातीरसङ्गताम् || षोडशस्त्रीसहस्राणां भोगे सामर्थ्यवान्भवेत् || ८४९ ||

चतुर्दिक्षूपपीठानि तत्र जातानि पार्वति || स्थानमप्सरसां तत्र ये मन्त्राः स्त्रीप्रसङ्गिकाः || ८५० ||

सर्वे ते तत्र सिद्ध्यन्ति क्षिप्रमेव न संशयः || दर्शनेनापि लभते सिद्धिमिष्टां मनोरमाम् || ८५१ ||

ओकारोभूच्च कैलासे हिमाचलनगोदरे || अंगुल्यः पतितास्तत्र पर्वभिर्लिङ्गताङ्गताः || ८५२ ||

करमालिकया तत्र यं यं मन्त्रं जपेद्द्विजः || पुरश्चरणमात्रेण तुष्टा भवति देवता || ८५३ ||

औकारस्य समुत्पत्तिर्भृगुपीठेऽभवत्पुरा || तत्र ते पतिता दन्तास्तत्पीठं महदद्भुतम् || ८५४ ||

समस्ता वैदिका मन्त्राः कल्पोक्ताश्च स्वरूपतः || तत्र तिष्ठन्ति सेवातस्सद्यः सिद्धा भवन्ति हि || ८५५ ||

अन्तु केदारसम्भूतं दक्षं करतलं तव || पतितं तत्र पीठे तु सिद्धयः करसंस्थिताः || ८५६ ||

तस्य दक्षे चोपपीठमगस्त्याश्रमसञ्ज्ञितम् || कङ्कणं पतितं तत्र सर्वसिद्धिविधायकम् || ८५७ ||

तत्पश्चान्मुद्रिकायास्ते जातं तत्पीठमद्भुतम् || इन्द्राक्षी नाम यत्तत्र सेन्द्रेणोपासिता पुरा || ८५८ ||

तत्पश्चाद्रेवतीतीरे पतिता वलयस्तव || पतितोपि विमुच्येत राजराजेश्वरीति च || ८५९ ||

वामाचरेण तत्त्रापि सिद्धिस्तूर्णं प्रजायते || जपादेव तु यक्षिण्यास्तत्र स्युर्दृष्टिगोचराः || ८६० ||

अःकारोभूच्चन्द्रपुरे पतितो वामगण्डकः || तत्र सर्वेपि मनवस्सिद्ध्यन्त्यत्र न संशयः || ८६१ ||

श्रीपीठे तु ककारो भून्मस्तकं पतितं तव || प्रायस्तत्त्र सपापानां गमनं दुर्लभं कलौ || ८६२ ||

समस्ताः शक्तयो यत्र रमन्ते निशि चेच्छया || अप्रमत्तं न बाधन्ते विधर्मं भक्षयन्ति च || ८६३ ||

कर्णाभरणमतो जातमुपपीठं तु पूर्वतः || ब्राह्मी तत्र स्थिता शक्तिर्ब्रह्मविद्याप्रकाशिका || ८६४ ||

कर्णार्धाभरणाद्वह्निकोणेभूदुपपीठकम् || माहेश्वरी तत्र शक्तिर्मुखशुद्धकरा मता || ८६५ ||

पत्रवल्यस्तु तद्दक्षे पतितास्ते तदाभवत् || उपपीठं तत्र शक्तिः कौमारी जयकारिणी || ८६६ ||

कण्ठमाला तु नैर्-ऋत्यां पतिता चोपपीठकम् || वैष्णव्यावस्थितं जातमिन्द्रजाले सुसिद्धिदम् || ८६७ ||

नासा मुक्ता तु तत्पश्चात्पतिता चोपपीठकम् || वाराह्यधिष्ठितं जातं शत्रुमर्दनकारकम् || ८६८ ||

मस्तकाभरणं वायौ पतितं चोपपीठकम् || चामुण्डाधिष्ठितं जातं क्षुद्रदैवतसिद्धिदम् || ८६९ ||

केशाभरणतस्तेभूदैशान्यामुपपीठकम् || अधिष्ठितं महालक्ष्म्या सूक्तानां तत्र सिद्धये || ८७० ||

खकारोभूत्तथोङ्कारे क्षेत्रे चामरकण्टके || त्वद्बाहुपतनात्पीठो नर्मदाधिष्ठितोऽभवत् || ८७१ ||

तत्र सर्वैर्मुनिवरैः प्रणतैः समुपासकैः || कृतं महत्तपो जाता जीवन्मुक्ता महर्षयः || ८७२ ||

तदुत्तरे चोपपीठं कञ्चुकीपतनादभूत् || ज्योतिष्मत्या निवासोसौ ज्योतिर्मन्त्रप्रकाशतः || ८७३ ||

वक्षो निपतितं यत्र जातं पीठं महाद्भुतम् || विख्यातो ज्वालया तत्र वह्निना च तपः कृतम् || ८७४ ||

स देवमुखतां प्राप्तः स्थितस्तस्योपपीठके || प्. २३५) ज्वालामुखीति विख्यातं स वह्निर्देवतामुखम् || ८७५ ||

पुरश्चर्योक्तद्रव्यस्य पुरश्चरणसंख्यया || तत्र होमः प्रकर्तव्यो मन्त्रसिद्धिः प्रजायते || ८७६ ||

गोरक्षेण तु तत्रैव प्राप्तं सिद्ध्यष्टकं पुरा || दर्शनादेव तन्नॄणां सर्वसिद्धिविधायकम् || ८७७ ||

मालवं तु घकारस्य वामस्कन्धोत्र संस्थितः || उपासितं तु गन्धर्वैरागज्ञानकसञ्ज्ञितम् || ८७८ ||

कुलान्तके ङकारोभूत्कक्षो निपतितस्तव || द्वेषोच्चाटनमृत्यूनां प्रयोगास्तत्र सिद्धिदाः || ८७९ ||

कोट्टके च चकारोभूद्वामकक्षः प्रतिष्ठितः || लब्धा तु राक्षसैस्तत्र सिद्धिर्देवजयाभिधा || ८८० ||

छकारस्य समुत्पत्तिर्गोकर्णे परिकीर्तिता || जठरं पतितं यत्र तच्च पीठं महाद्भुतम् || ८८१ ||

मातुरेश्वरसञ्ज्ञो यो जकारस्तत्र ते बलिः || प्रथमा पतिता पीठं शिवमन्त्रप्रकाशकम् || ८८२ ||

अट्टहासं झकारस्य स्थानं तत्र परा बलिः || पतिता तद्गणेशस्य मन्त्रसिद्धिकरं मतम् || ८८३ ||

विरजस्तु जकारस्य स्थानं तत्र परा बलिः || समस्तविष्णुमन्त्राणां तत्र सिद्धिरदूरतः || ८८४ ||

तस्योत्पत्ति राजगृहे बस्तिपातस्तु तत्र ते || तदधस्तात्क्षुद्रघण्टा पतिता चोपपीठकम् || ८८५ ||

तद्घण्टिकाभिधं प्रोक्तमिन्द्रजालं प्रसिद्ध्यति || उपवेदार्थनिष्पतिर्भवेद्राजगृहे तथा || ८८६ ||

महापथे ठकारोहून्नितम्बः पतितस्तव || जातिदुष्टैर्द्विजैस्तत्र स्वशरीरं समर्पितम् || ८८७ ||

पाप्य जन्मान्तरं तैस्तु वेदमार्गप्रलुम्पकाः || अघोराद्याः कलौ मार्गाश्चालिता देहसौख्यदाः || ८८८ ||

डकारोऽभूत्कोल्लगिरौऽजघनं पतितं तव || समस्तवनदेवानां तत्र सिद्धिरदूरतः || ८८९ ||

एलापुरे ढकारोभूद्दक्षोरुः पतितस्तव || ८९० ||

कालेश्वरे णकारोभूद्वामोरुः पतितस्तव || मृत्युञ्जयायुष्करणमन्त्राः सिद्ध्यन्ति तत्र तु || ८९१ ||

जयन्ती तु तकारस्य स्थानं जानु निपातितम् || तत्र दक्षो जपात्सिद्ध्येर्द्धनुर्वेदो न संशयः || ८९२ ||

उज्जयिन्यां [पतितमिति शेषः |
] थकारोभूद्वामं जानु तु तत्र ते || सिद्ध्यै कवचमन्त्राणामवन्तीति निगद्यते || ८९३ ||

दस्योत्पत्तिस्तु योगिन्यां तत्र जङ्घा निपातिता || प्. २३६) कौलिका वामका मन्त्रास्तत्र सिद्ध्यन्ति नेतरे || ८९४ ||

धकारोभूत्क्षीरिकायां वामजङ्घा तु तत्र ते || तत्र वैतालिका मन्त्राः सिद्धिं यान्ति च शाबराः || ८९५ ||

हस्तिनापुर उत्पत्तिर्नकारस्य प्रकीर्त्यते || दक्षस्ते पतितो गुल्फो नूपुरश्चैव तत्र हि || ८९६ ||

उपपीठन्तु तज्जातं यत्ख्यातं नूपुरार्णवम् || पीठोपपीठयोस्तत्र मन्त्राः सिद्ध्यन्ति भास्कराः || ८९७ ||

उड्डीशाख्यं पकारस्य पीठं तत्र तु वामकः || गुल्फो निपतितस्तत्र कृतसाधकसिद्धिदम् || ८९८ ||

उड्डीशाख्यं महातन्त्रं सिद्धम्भवति तत्र तु || नूपुरः पतितो यत्र डामरञ्चोपपीठकम् || ८९९ ||

प्रयागस्तु फकारस्य स्थानं देहरसोत्र तु || यत्रैव पतितस्तत्र दृश्यते श्वेतमृत्तिका || ९०० ||

गङ्गायमुनयोर्मध्ये पारावारे तथैव च || एवं स्थानेषु तेस्थीनि पतितानि द्विजोत्तमैः || ९०१ ||

कृतानि तानि भूम्यन्तस्तत्र पीठानि जज्ञिरे || गङ्गायाः प्राक् च बगलाद्युपपीठं महाद्भुतम् || ९०२ ||

उत्तरेस्यास्तु चामुण्डाद्युपपीठं महाद्भुतम् || गङ्गायमुनयोर्मध्ये राजराजेश्वरीश्वरम् || ९०३ ||

यमुनादक्षिणे कूले भुवनेशी समाश्रिता || प्रयागोतस्तीर्थराजः पीठराजश्च कथ्यते || ९०४ ||

षष्ठीशस्तु बकारस्य स्थानं पृष्णिस्तु तत्र ते || दक्षिणः पतितो देवि पादुकासिद्धिरत्र तु || ९०५ ||

मायापुरे वामपार्ष्णिः पतितो भस्थलन्तु तत् || देवदानवगन्धर्वमायाः सिद्ध्यन्ति तत्र तु || ९०६ ||

मलयाख्ये मकारोभूत्पीठेऽसृग्यत्र तेपतत् || रक्ताम्बरादिबौधानां मन्त्रसिद्धिस्थलन्तु तत् || ९०७ ||

श्रीशैले तु यकारोहूत्तत्र पित्तं तवाम्बिके || सर्वमन्त्रास्तत्र सिद्धा वैष्णवास्तु विशेषतः || ९०८ ||

रस्थानन्तु हिमागस्य मेरुनामकशृंगकम् || त्वन्मेदः पतितं सिद्धेत्स्वर्णाकर्षणभैरवः || ९०९ ||

लकारस्य समुत्पत्तिर्गिरिपीठे तु यत्र ते || जिह्वाग्रं पतितन्तत्र जपाद्वाक्सिद्ध्यति ध्रुवम् || ९१० ||

माहेन्द्रस्तु वकारस्य स्थानं मज्जापतत्तव || सर्वेषां शक्तिमन्त्राणां सिद्धिस्तत्र न संशयः || ९११ ||

वामनन्तु शकारस्य स्थानमङ्गुष्ठतोभवत् || जपात्तत्र तु मुख्यत्वं मन्त्रिषु प्राप्नुयादपि || ९१२ ||

हिरण्यपुरसम्भूतः षकारो वामतोभवम् || अंगुष्ठादेव तत्पीठो वाममार्गेधिकोभवत् || ९१३ ||

पीठे चापि महालक्ष्म्याः सकारोभूद्रुचिस्तव || प्. २३७) शरीरात्पतिता तत्र सर्वसिद्धिः प्रजायते || ९१४ ||

हकारश्चात्रिस्थानेभूद्धमनी तत्र तेपतत् || दृग्गोचरास्तु यावन्त्यः सिद्धयस्तत्र संस्थिताः || ९१५ ||

छायापीठे लकारोभूद्दृष्टा छाया मया तव || सतीवेषं तु लब्ध्वाभूच्छायापीठमतस्तु तत् || ९१६ ||

छत्रपीठे समुत्पन्नः क्षकारः केशपाशकः || यत्र ते पतितो देवि तत्र सिद्धिरदूरतः || ९१७ ||

एतद्देवि मया प्रोक्तं रहस्यं पीठसम्भवम् || अथान्यत्सम्प्रवक्ष्यामि रहस्यं परमाद्भुतम् || ९१८ ||

कलौ लुब्धास्तु गुरवः शिष्याः सिद्ध्यभिलाषिणः || तस्मान्न सिद्धिः कुत्रापि नाश एव दिनेदिने || ९१९ ||

वक्ष्यामि सिद्धये तस्मात्सर्वतन्त्रेषु गोपितम् || सुभक्ताय सुशिष्याय देयं नान्यत्र कुत्रचित् || ९२० ||

तारमायारमाकामबीजपूर्वं [ओं ह्रीं श्रीं क्लीं रामाय नमः, अयं मन्त्रश्चातुर्वर्ण्येन जपितः शीघ्रसिद्धिदः अथवा ओं रामाय नमः ब्राह्मणेन ह्रीं रामाय नमः, क्षत्रियेण तथा श्रींरामाय नमः, वैश्येन क्लीं रामाय नमः, शूद्रेण जपितव्यः |
] तु रामकम् || विप्राद्यैश्च चतुर्थ्यन्तं नमोन्तं प्रजपेदिति || ९२१ ||

वृद्धाद्विप्राद्ग्राह्यमेतदेकदा तन्तु तोषयेत् || सिद्धोयं मन्त्र उद्दिष्टो गोप्यं मातरि जारवत् || ९२२ ||

षडङ्गन्यासमाद्येन बीजेन रचयेत्पुनः || पूर्वोक्तमातृकाणां तु न्यासमादौ समाचरेत् || ९२३ ||

गजानने देवयोनौ गणेशस्य च मातृकाः || शाक्तके लघुमात्राणां श्रीकण्ठाद्याः शिवादिषु || ९२४ ||

केशवाद्या विष्णुसूर्यग्रहादौ परिकीर्तिताः || पीठन्यासस्तु [अंकामपीठाय नमः, शिरसि, आं काशिकापीठाय नमः मुखे, इंनेपालपीठाय नमः दक्षनेत्रे, ईं रौद्रपर्वतपीठाय नमः वामनेत्रे उं काश्मीरपीठाय नमः दक्षकर्णे |
ओं कान्यकुब्जकपीठाय नमः वामकर्णे |
] सर्वत्र कर्तव्यो देहशुद्धये || ९२५ ||

पूजादिकन्तु प्राग्वत्स्यात्पुरश्चर्या तथैव हि || षट्कर्माणि तु तत्स्तोत्रं भक्तस्थाने स्वयं भवेत् || ९२६ ||

नाश्यस्थाने तथा शत्रुं स्वस्थाने देवतां स्मरेत् || सर्वे प्रयोगाः सिद्ध्यन्ति मोक्षमन्ते लभेतसः || ९२७ ||

नैव त्याज्यस्स्वस्य धर्मः पोष्यवर्गान्प्रपूजयेत् || अप्रियं नैव कुर्वीत मातरम्पिरं तथा || ९२८ ||

देववत्सेवयेदेतद्रहस्यं सम्प्रकाशितम् || मन्त्रप्रदः सदा दुःखी मन्त्रग्राही च निर्धनः || ६२९ ||

भविष्यति कलौ प्रायोऽविवेकाद्गुरुशिष्ययोः || प्. २३८) ज्ञात्वा शास्त्रं गुरुं कुर्यात्तदा सुखमवाप्नुयात् || ९३० ||

इति दीक्षाविधिः प्रोक्तः कुलाचारसमन्वितः || अर्थवादं विना देवि किमन्याच्छ्रोतुमिच्छसि || ९३१ ||

मेरौ शिवप्रणीतेस्मिन्मेरुणा प्रकटीकृते || मेरुभूते च तन्त्राणां पुरश्चर्यादिनिर्णयः || ९३२ ||

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते पुरश्चर्याकौलिकाचारप्रकाशो दशमः || १० ||

Prakāśa 11 – Mantras und ihre Verfahren im Kali-Zeitalter

श्रीशिवशिवासंवादोपनिबद्धं

मेरुतन्त्रम्

ओझोपख्य पण्डित रघुनाथशास्त्रिद्वारा संशोध्य टिप्पन्यादिभिः परिष्कृतम्

खेमराज श्रीकृष्णदास प्रकाशन बम्ब-ई

Pअर्त् ट्wओ: Cहप्तेर्स् ११ तो १५

श्रीदेव्युवाच ||

महादेव महाघोरे कलौ केके च वैदिकाः || स्थास्यन्ति मनवः कुत्र कल्पाः के च फलप्रदाः || १ ||

कियच्च वैदिकं कर्म ब्राह्मे पाद्मे च कथ्यते || शाखाः स्थास्यन्ति काश्चैव उपशाखास्तथा च काः || २ ||

श्रीमहेश्वर उवाच ||

वैदिके कर्मणि कलौ नराणां धीः सुदुर्लभा || यथा नावं विना सिन्धुपारमिच्छस्ति मानवाः || ३ ||

तेनाज्ञानात्कलौ देवि वामे कौले कृतादराः || अतत्त्वज्ञा विनश्यन्ति ते तु मानुष्यवर्जिताः || ४ ||

केचित्त्वद्भक्तियोगेन उपदिष्टाः प्रतारकैः || वैदिकं कर्म ते त्यक्त्वा जायन्ते यवनाधिपाः || ५ ||

कलेर्दशसहस्रेषु विष्णुः स्थास्यति मध्यमम् || देशे स देवो भवति विन्ध्ये हिमवति क्वचित् || ६ ||

यावत्पूर्णः कलेः सन्धिस्तावत्स्थास्यत्यतः परम् || स्त्रीमांसमद्यनिरते लोके धर्मपराङ्मुखे || ७ ||

सर्व एव हि ते मन्त्राश्चतुर्वेदेषु संस्थिताः || स्थास्यन्ति पृथिवीमध्ये यावत्पूर्णः कलिर्भवेत् || ८ ||

सन्ध्यांशे तु कलेः सर्वे त्रिंशन्मन्त्रा भुवि स्थिताः || तदा कल्किस्वरूपस्य विष्णोर्जन्म भविष्यति || ९ ||

ये तिष्ठन्ति कलौ देवि तत्साधनमहं ब्रुवे || स्वाध्यायाभ्यसनस्यादौ व्रतान्येव चतुर्दश || १० ||

केशश्मश्रु वापयित्वा शुचिर्गुर्वाज्ञया चरेत् || अथ वा पूर्वविधिना निष्पापः सन्समभ्यसेत् || ११ ||

तानध्यायान्प्रदोषेषु देवि शिष्यः पुरस्सरम् || शुचिस्थले तथैकान्ते नम्रो गुर्वाज्ञया पठेत् || १२ ||

त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् || त्र्यहं परं च नाश्नीयात्प्राजापत्यव्रतं त्विदम् || १३ ||

एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् || त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रं व्रतं त्विदम् || १४ ||

प्. २३९) स्नानं सन्ध्यामुपासीत प्रत्यहं विधिपूर्वकम् || उपवासश्च सप्ताहं शिशुसान्तपनं व्रतम् || १५ ||

प्रतित्र्यहं पिबेदुष्णजलक्षीरघृतानि च || समाहितः सकृत्स्नायी तप्तकृच्छ्रं व्रतं त्विदम् || १६ ||

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् || एकरात्रोपवासश्च कृच्छ्रसान्तपतं व्रतम् || १७ ||

त्र्यहंत्र्यहं तु गोमूत्रादिकं सेव्यं त्र्यहं पुनः || उपवासस्तदा प्रोक्तं महासान्तपनं व्रतम् || १८ ||

एकैकं ह्रासयेत्पिण्डं कृष्णेऽमायां न भोजनम् || शुक्लेपि वर्धयेच्चापि प्रोक्तं चान्द्रायणं व्रतम् || १९ ||

पलप्रमाणमन्नं तु ग्रासं शुक्लेपि वर्धयेत् || ह्रसेत्कृष्णे व्रतं चान्द्रायणं स्यादेव मध्यमम् || २० ||

चतुरः प्रातरश्नीयाद्विप्रः पिण्डान्कृताह्निकः || चतुरोस्तमिते सूर्ये शिशुचान्द्रायणं व्रतम् || २१ ||

अष्टावष्टौ समश्नीयात्पिण्डान्मध्यगते रवौ || नियतात्मा हविष्यस्य यतिचान्द्रायणं व्रतम् || २२ ||

स्नानसन्ध्यादिकं कृत्वा द्वादशाहं न भोजनम् || स्थिरचित्तोप्रमत्तश्च पराकाख्यमिदं व्रतम् || २३ ||

पिण्याकमधुतक्राम्बुसक्तूपोषणकं क्रमात् || षड्भिर्दिनैः सौम्यकृच्छ्रनामकं व्रतमुत्तमम् || २४ ||

एवं त्रिरात्रमभ्यासादेकैकस्य यथाविधि || तुलापुरुषवत्त्रीणि स्तोमायनमिदं व्रतम् || २५ ||

त्रींस्त्रीन्पिडान्समश्नीयान्नियतात्मादृढव्रतः || हविष्यान्नस्य वैभागमृषषिचन्द्रायणं व्रतम् || २६ ||

सप्तसप्तदिने चैवं त्रिदिने गोस्तनं पिबेत् || षड्दिने वायुभक्षश्च स्तोमायनमिदं व्रतम् || २७ ||

पर्णदूर्वायवस्विर्णबिल्वपत्रकुशोदकैः [पर्णोदुम्बरराजी] || प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्रव्रतं त्विदम् || २८ ||

एतैर्व्रतैस्तु शुद्धात्मा गुरुशुश्रूषणे रतः || भिक्षाशीवा हविष्याशी भुञ्जन्मौनं समास्थितः || २९ ||

प्रतिलोमान्पुष्पवर्तीं यवनान्बौद्धकौलिकान् || आचारहीनाञ्च्छूद्रांश्च दृष्ट्वा नैव पठेच्छ्रुतिम् || ३० ||

रात्रेश्चतुर्थप्रहरे पादप्रक्षालनादिकम् || कृत्वासने समाविश्य ज्ञातं वेदं समुद्धरेत् || ३१ ||

निन्दां स्तुतिं न कस्यापि कुर्यादनृतभाषणम् || नारीं रूपवतीं दृष्ट्वा ध्यायेद्विष्णुं सनातनम् || ३२ ||

हरिरोम्पठनादौ च तस्यान्ते च समुच्चरेत् || साष्टाङ्गंतु नमस्कारमादावन्ते गुरोश्चरेत् || ३३ ||

आद्ये यामे चतुर्थी च गणेशानं सरस्वतीम् || प्. २४०) प्रयाति रात्रौ यत्तस्मात्पूजनीयो गणाधिपः || ३४ ||

अह्नश्चतुर्थप्रहरे पूजयित्वा विसर्जयेत् || सरस्वतीं तोषयित्वा गणेशं पुनरागताम् || ३५ ||

मम वक्त्रे स्थितां चेति ध्यात्वा यामे चतुर्थके || पुनः पठेदनध्यायस्तदा पाठं न कारयेत् || ३६ ||

सार्धयामे प्रतिष्ठा चेत्सप्तमी याति भारती || निकटे कार्तिकेयस्य गातुं तस्मात्प्रपूजयेत् || ३७ ||

सरस्वत्या युतं स्कन्दं तत्प्रभावाच्च धारयेत् || शेषं रात्रौ पुनर्ध्यात्वा स्वागतान्तां पुनः पठेत् || ३८ ||

त्रयोदशी चेत्पूर्वार्धं रात्रेः स्पष्टा तदा तु गीः || कैलासं याति नृत्यन्ती प्रदोषव्रतकारिणी || ३९ ||

शिवस्याराधनार्थं तु तस्मात्तत्र पठेन्न हि || हठात्पठति तद्यावद्वृथात्वमुपगच्छति || ४० ||

अस्मिन्प्रदोषसमये तत्पूजाध्यानतत्परः || प्राणायाम्यथ वा मौनी त्र्यब्दाच्छाक्तस्तु सिद्ध्यति || ४१ ||

सन्ध्यालोपं न कुर्वीत कदाचिदपि कुत्रचित् || प्रातः सन्ध्या सनक्षत्रा ससूर्या सायमुच्यते || ४२ ||

मुहूर्तपञ्चकादूर्ध्वं विंशत्यर्वाग्यथा यथा || आसन्नोभिजितः कालः श्रेष्ठः श्रेष्ठस्तथा तथा || ४३ ||

सन्ध्याकालस्य लोपेन मुख्यस्याग्निक्रियान्तरम् || प्रायश्चित्तं त्वेकमर्प्यमधिके सम्प्रदीयते || ४४ ||

परसन्ध्या कालतोर्वाग्गते काले ततोधिके || अष्टोत्तरशतं तत्र गायत्र्या जप इष्यते || ४५ ||

राज्ञा रुद्धो गतो वापि चात्यावश्यककर्मणि || प्राणायामत्रयं कृत्वा गायत्र्यष्टोत्तरं शतग् || ४६ ||

परान्ते भोजनं चैवमनिन्द्यं निष्कृतिः स्मृता || अथ वक्ष्यामि मन्त्राणां गायत्रीं वेदमातरम् || ४७ ||

यया च सगुणं ब्रह्म गीयते प्रतिपाद्यते || निर्गुणं यां विना मुक्तिर्न कस्यापि प्रजायते || ४८ ||

महामायास्वरूपं यन्महाकालः स्वयं जपेत् || यत्प्रभावादहं त्वञ्च जातः काल इवापरः || ४९ ||

गायत्र्या मुनिराख्यातो विश्वामित्रोति तापसः || गायत्रीच्छन्द इत्युक्तं देवता सविता स्मृतः || ५० ||

व्याहृतीः सप्त भूराद्या हृन्मुखांसोरुयुग्मकैः || जठरे चक्रमान्न्यस्य न्यासोयं प्रथमः स्मृतः || ५१ ||

पादांगुल्यंघ्रिसन्धौ च सन्धौ स्याद्गुल्फपादयोः || गुल्फजान्वोस्तथा सन्धौ तथा जानूरुसन्धिषु || ५२ ||

लिङ्गे नाभौ च हृदये कण्ठे वर्णान्न्यसेत्क्रमात् || करांगुलीमूलसन्धौ मणिबन्धे च कूर्परे || ५३ ||

प्. २४१) भुजमूले मुखे नासिकायाञ्चापि कपोलयोः || नेत्रयुग्मे भ्रुवोः शीर्ष्णि चूडाधो वामकर्णके || ५४ ||

दक्षकर्णे मुखे मस्तके च वर्णान्क्रमान्न्यसेत् || गायत्र्या अक्षरन्यासो द्वितीयः सम्प्रकीर्तितः || ५५ ||

पदानि दश गायत्र्याः शिरो भ्रूमध्यदृङ्मुखे || कण्ठहृन्नाभिगुल्फेषु जान्वोरंघ्र्योरथ न्यसेत् || ५६ ||

शिरोदेशे तु गायत्र्याः शिरोन्यासस्तृतीयकः || हृदयं ब्रह्मणे प्रोक्तं विष्णवे शिर ईरितम् || ५७ ||

शिखा रुद्राय कवचमीश्वराय समीरितम् || नेत्रे सदाशिवायोक्तमस्त्रं सर्वात्मने स्मृतम् || ५८ ||

अयं षडङ्गन्यासस्तु चतुर्थःपरिकीर्तितः || पज्जानुकटिनाभौ च हृदये कण्ठभालयोः || ५९ ||

क्रमाद्व्याहृतयो न्यस्याः परब्रह्म च शीर्षके || पुनर्व्याहृतिन्यासोयं पञ्चमः परिकीर्तितः || ६० ||

तत्सवितुर्हृदयाय वरेण्यं शिरसे तथा || भर्गो देवस्य च शिखा कवचं धीमहि स्मृतम् || ६१ ||

धियो यो नो नेत्रमुक्तमस्त्रं शेषेण कीर्तितम् || अयं न्यासस्तु षठः स्यात्षडेते पापहारकाः || ६२ ||

प्राणायामत्रयं कृत्वा ततो ध्यानं समाचरेत् || तद्ब्रवीमीह गायत्र्या ध्यानं भक्तमनोरमम् || ६३ ||

मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणैर्युक्तामिन्दुकल् आ-निबद्धमुकुटां तत्त्वार्थवर्णात्मिकाम् || गायत्रीं वरदाभयांकुशकशाः शुद्धं कपालं गुणं शङ्खं चक्रमथारविंदयुगलं हस्तैर्वहन्तीं भजे || ६४ ||

ततस्तु पूजयेद्देवीमष्टावरणसंयुताम् || आदौ संपूज्य देवेशीं कोणाग्रे पूजयेत्ततः || ६५ ||

त्रिकोणस्याग्निकोणैस्तु प्रादक्षिण्येन देवताः || ब्राह्मी माहेश्वरी चैव वैष्णवी प्रथमावृतिः || ६६ ||

तस्याग्रतस्त्वष्टदिक्षु क्रमादष्टौ प्रपूजयेत् || आदित्यमूषां च रविं प्रज्ञां भानुं प्रभां तथा || भास्करं चापि संध्यां च द्वितीयावरणं त्विदम् || ६७ ||

ततोर्चयेदष्टदलकेशरेष्वङ्गषट्ककम् || गायत्र्याश्च तृतीयोक्तं दलमध्ये यजेदिमाः || ६८ ||

प्रह्लादिनीं प्रभां नित्यां बिल्वरुद्रां विलासिनीम् || प्रभावतीं जयां शांतां चतुर्थावरणं त्विदम् || ६९ ||

ततो यजेद्दलाग्रेषु कांतिं दुर्गां सरस्वतीम् || बिल्वरूपां विशालां च ईशानीं व्यापिनीं क्रमात् || विमलां च क्रमात्प्रोक्तं पञ्चमावरणं त्विदम् || ७० ||

तदग्रिमे त्वष्टदले एताः पूज्यास्तु शक्तयः || तमोहारिणिका पूज्या विश्वयोनिर्जयावहा || ७१ ||

पद्मालया पराशोभा पद्मरूपा च षष्ठकम् || प्. २४२) भवेदावरणं चाग्रे ब्राह्याद्याः सप्त मातरः || अष्टमी त्वरुणा प्रोक्ताप्रोक्त मावरणं त्विदम् || ७२ ||

रविः सितः कुजो राहुः शनिश्चंद्रो बुधो गुरुः || अष्टमावरणं चैतच्चतुरस्रदिगष्टके || ७३ ||

दिक्पालाः सप्तमे प्रोक्तास्तदस्त्राणि तथाष्टमे || एवं सम्पूजयेद्देवीं तस्या मुद्राः प्रदर्शयेत् || ७४ ||

व्याहृतित्रयसंयुक्तां गायत्रीं सर्वदा जपेत् || चतुर्विंशतिलक्षाणि पुरश्चरणमुच्यते || ७५ ||

क्षीरोदनं तिलान्दूर्वां सिद्धौदनसमिद्वराः || पृथग्द्रव्यं सहस्रं तु जुहुयान्मन्त्रसिद्धये || ७६ ||

तर्पणादि ततः कृत्वा गुरुं संतोष्य यत्नतः || प्रयोगानाचरेद्विद्वांस्तदनुज्ञापुरस्सरम् || ७७ ||

तत्त्वसङ्ख्यासहस्राणि मन्त्री प्रजुहुयात्तिलैः || सर्वपापविनिर्मुक्तो दीर्घमायुस्स विन्दति || ७८ ||

आयुषे चाज्यहविषा केवलेनाथ सर्पिषा || दूर्वान्वितैस्तिलैर्मन्त्री जुहुयात्त्रिसहस्रकम् || ७९ ||

प्रतिद्रव्यमथो मासषट्कं वै जुहुयाद्द्विजः || अरुणार्कैश्च श्वेतार्कैरयुतं नियतेन्द्रियः || ८० ||

ब्रह्मश्रिये च जुहुयात्प्रसूनैर्ब्रह्मवृक्षजैः || जपेन्मुमुक्षुर्गायत्रीं तुर्यपादेन संयुताम् || ८१ ||

परोरजसे सावदोमिति तुर्यः प्रकीर्तितः || विमलोस्य ऋषिश्छंदो गायत्री देवता स्मृतः [परमात्मा देवता स्मृत इत्युत्तरत्रान्वयोस्य ||] || ८२ ||

परमात्मा प्रथमतः प्रणवन्यासमाचरेत् || सप्तव्याहृतिगायत्रीन्यासाद्यान्पूर्ववच्चरेत् || ८३ ||

ब्रह्मात्मने तु हृदयं शिरो विष्ण्वात्मने तथा || ८४ ||

शिखा रुद्रात्मने चेति कवचं चेश्वरात्मने || सदा शिवात्मने नेत्रमस्त्रं सर्वात्मने इति || ८५ ||

नातः परतरो मन्त्रो नातः परतरं तपः || तृणायन्ते महाविद्यादयः [मन्त्रा इत्यस्य विशेषणमिदम् ||] सर्वे यदग्रतः || ८६ ||

अथ गोप्यं प्रवक्ष्यामि गोप्यं मातरि जारवत् || सर्वेषां वेदमंत्राणां यच्च संसिद्धिकारकम् || ८७ ||

लोलुपाय कृतघ्नाय नास्तिकाय शठाय च || सगर्वाय गुरुद्वेष्ट्रे प्रोच्यशापमवाप्नुयात् || ८८ ||

येषां वैदिकमन्त्राणां चलनं कर्मसूचितम् || तानादिपादसहिनान्गायत्र्यास्तु सदा जपेत् || ८९ ||

अष्टोत्तरसहस्रन्तु तद्वत्पालनमन्त्रकान् || मध्यपादेन संयुक्तानन्तिमेन तु नाशकान् || ९० ||

प्. २४३) अवश्यं जायते सिद्धिर्गायत्री तेजसा इति || अयं संक्षेपतः प्रोक्तो गायत्र्या गोपितो विधिः || ९१ ||

पद्ममष्टदलं लेख्यं ह्रींकारं कर्णिकास्थितम् || द्वौद्वौ स्वरौ दिग्विदिशं प्रतिपत्रं समालिखेत् || ९२ ||

किञ्जल्केषु तदग्रेषु गायत्र्यर्णांस्त्रिशस्त्रिशः || तद्बहिर्वृत्तयुगलान्तराले तु समालिखेत् || ९३ ||

ककाराद्यांस्तथोमापो ज्योती रसोमृतं ब्रह्म || भूर्भुवःस्वरोमिति च यन्त्रं सर्वार्थसिद्धिदम् || ९४ ||

मृत्योर्भयं तु सर्वेषां सर्वदा सर्वकर्मसु || तस्मिञ्जिते तु देवादीन्मोक्षान्तं साधयेज्जनः || ९५ ||

तदर्थं सम्प्रवक्ष्यामि मन्त्रं मृत्युञ्जयाभिधम् || उपासना तस्य तस्माद्वंशेल्पायुश्च नो भवेत् || ९६ ||

त्र्यम्बकं यजामहे सुगन्धिम्पुष्टिवर्धनम् || उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात् || ९७ ||

वशिष्टोस्य मुनिश्छन्दोनुष्टुब्देवस्तु त्र्यम्बकः || त्रिचतुर्वसुगोपञ्चत्रिभिर्वर्णैः [त्र्यम्बकं हृदयाय नमः, यजामहे शिरसे स्वाहा, सुगन्धिं पुष्टिवर्धनं शिखायै वषट्, उर्वारुकमिव बन्धनात् कवचाय हुम्, मृत्योर्मुक्षीय नेत्रत्रयाय वौषट्, मामृतात् अस्त्रायफट् ||] षडङ्गकम् || ९८ ||

प्. २४४) पूर्वपश्चिमयाम्येन्दुकोणेषु [त्र्यं नमः पूर्वे, बं पश्चिमे, कं याम्ये, यं उत्तरे, जां आग्नेययाम्, मंनैर्-ऋत्यां, हे वायव्ये, सुं ईशानकोणे, गं नमो नाभौ, धिं हृदये, पुं कण्ठे, ष्टिं कुक्षौ, वं लिंगे, र्द्धं पायौ, नं दक्षोरुमूले, उं वामोरुमूले, र्वां दक्षोरुमध्ये, रुं वामोरुमध्ये, कं दक्षिणजानुनि, मिं वामजानुनि, वं दक्षजानुवृत्ते, वं वामजानुवृत्ते, न्धं, दक्षस्तने, नात् वामस्तने, मृं दक्षपार्श्वे, त्योः वामपार्श्वे, मुं दक्षपादे, क्षीं वामपादे, यं दक्षपाणौ, मां वामपाणौ मृं नासिकायाम्, तात्शीर्षे] तदनन्तरम् ||

कुर्यान्न्यासं तथाङ्गेषु नाभिहृत्कण्ठकुक्षिषु || ९९ ||

लिङ्गे पायौ तथा चोर्वोर्मूलयोश्चोरुमध्ययोः || जान्वोस्ततो जानुवृत्तयुग्मयोः स्तनयोस्तथा || १०० ||

पार्श्वयोः पादयोः पाण्योर्नसि शीर्षे च विन्यसेत् || प्रत्येकं मनुवर्णांश्च न्यासोयन्तु द्वितीयकः || १०१ ||

पदान्येकादशान्येव [त्र्यम्बक नमः शिरसि यजामहे भ्रुवोः सुगन्धिमक्ष्णोः पुष्टिवर्धनं मुखे, उर्वारुकं कपोलयोः इव हृदये बन्धनात् जठरे मृत्योः ऊर्वोः मुक्षीयजान्वोः मागुल्फयोः मृतात्पादयोः, इति न्यासत्र्यम् |
] शिभ्रूयुगलाक्षिषु || वक्त्रे गण्डयुगे भूयो हृदये जठरे पुनः || १०२ ||

गुल्फोरुजानुपादेषु न्यासमेवं समाचरेत् || एवं न्यासत्रयं कुर्यान्मातृकान्यासपूर्वकम् || १०३ ||

हस्ताभ्यां कलशद्वयामृतरसैरापूरयन्तं शिरो द्वाभ्यां तौ दधतं मृगाक्षवलयौ द्वाभ्यां वहन्तं परम् || अंकन्यस्तकरद्वयामृतभरं कैलासकान्तं शिवं स्वच्छाभ्भोजनिभं सदेन्दुमुकुटं देवं त्रिनेत्रं भजे || १०४ ||

पञ्चाक्षरोदिते पीठे पूजयेद्वृषभध्वजम् || मूर्ति मूलेन संकल्य वक्ष्यमाणेन वर्त्मना || १०५ ||

पूर्वमङ्गानि सम्पूज्य मूर्तिं पश्चात्तु पूजयेत् || पूर्वादिप्रादक्षिण्येनेशानाय सूर्यमूर्तये || १०६ ||

महादेवाय सोमेति मूर्तयेन्ते समुच्चरेत् || भवाय क्षितिमूर्तये शर्वाय जलमूर्तये || १०७ ||

रुद्राय चाग्निमूर्तये उग्राय वायुमूर्तये || भीमायाकाशमूर्तये ङेन्तं पशुपतिं तथा || १०८ ||

यजमानमूर्तयेचेति दलाग्रेषु ततो यजेत् || रमा राका प्रभा ज्योत्स्ना पूर्णेषा पूरणी सुधा || १०९ ||

तृतीयावरणे चैताश्चतुर्थावरणे त्विमाः || विद्या विश्वा सिता युक्ता सारा साध्या शिवा निशा || ११० ||

आर्या प्रज्ञा प्रभा मोहा शान्तिः कान्तिर्धृतिर्मतिः || पञ्चमावरणे चैताः षष्ठावरणगा अथ || १११ ||

धरा माया सती पद्मा शान्ता माघो द्वयामला || प्. २४५) सप्तमे लोकपालाश्च तदस्त्राणि तथाष्टमे || ११२ ||

जपेल्लक्षमिमं मन्त्रमेवं ध्यायेज्जितेन्द्रियः || जुहुयाद्दशभिर्द्रव्यैरयुतं घृतसंयुतैः || ११३ ||

बिल्वंपलाशं खदिरं वटं च तिलसर्षपौ || पायसं दधि दूर्वां च तथैकेन सहस्रकम् || ११४ ||

तर्पयित्वाभिषिच्याथ ब्राह्मणांस्तर्पयेद्गुरुम् || एवं कृते प्रयोगार्हो जायतेयं महामनुः || ११५ ||

अयुतं जुहुयाद्द्बिल्वसमिद्भिः सम्पदे सुधीः || जुहुयाद्ब्रह्मवृक्षस्य समिद्भिर्ब्रह्मतेजसे || ११६ ||

खदिरैरयुतं हुत्वा शान्तिं पुष्टिमवाप्नुयात् || समिद्भिर्वटवृक्षस्य जुहुयाच्च यथाविधि || ११७ ||

धनधान्यसमृद्धस्स्यादयुतेन तु साधकः || तिलैस्तत्सङ्ख्यया हुत्वा सर्वपापैः प्रमुच्यते || ११८ ||

सिद्धार्थैरयुतं हुत्वा शत्रून्विजयते नृपः || अनेनैव विधानेन न स्यान्मृत्युरकालतः || ११९ ||

पायसेन कृतो होमो रक्षाश्रीकीर्तिकान्तिदः || गोदुग्धेन च सिद्धान्नं हुत्वा कृत्यां विनाशयेत् || १२० ||

अयमेव मतो होमः शान्तिश्रीसम्पदावहः || दधिहोमेन संवादं कुर्याद्विद्वेषिणोर्मिथः || १२१ ||

प्रत्यहं जुहुयान्मन्त्री दूर्वामष्टोत्तरं शतम् || आमयान्निखिलाञ्जित्वा दीर्घमायुरवाप्नुयात् || १२२ ||

जुहुयाज्जन्मदिवसे पायसान्नैर्घृतान्वितैः || इच्छन्ननिन्दितां लक्ष्मीमारोग्यं विपुलं यशः || १२३ ||

गव्यदुग्धघृताक्ताभिर्दूर्वाभिर्जुहुयाद्वशी || सविंशति शतं सम्यग्यज्जन्मदिवसे सुधीः || आमयैः सकलैर्मुक्तो जीवेद्वर्षशतं सुखी || १२४ ||

काश्मरीसमिधः सर्पिःपयोन्नं त्रिशतं पृथक् || जुहुयाद्ब्राह्मणानन्ते भोजयेन्मधुरान्वितम् || १२५ ||

प्रीणयेद्वहुधान्याद्यैरात्मनो गुरुमादरात् || अनामयमवाप्नोति दीर्घमायुः श्रिया सह || १२६ ||

सघृतेन पयोन्नेन हुत्वा पर्वणि पर्वणि || राज्यश्रियमवाप्नोति षण्मासान्नात्र संशयः || १२७ ||

लाजैर्विशुद्धैर्जुहुयात्कन्या चैव वराप्तये || क्षीरद्रुमसमिद्धोमाद्ब्राह्मणादीन्वशं नयेत् || १२८ ||

स्नात्वा सहस्रं प्रजपेदादित्याभिमुखो मनुम् || आधिव्याधिविनिर्मुक्तो दीर्घमायुरवाप्नुयात् || अनेन मनुना सर्वं साधयेदिष्टमात्मनः || १२९ ||

अथ दारिद्र्यनाशाय वक्ष्ये मन्त्रं धनेशितुः || मेधातिथिर्-ऋषिः प्रोक्तो गायत्रं छन्द ईरितम् || १३० ||

अङ्गन्यासकरन्यासा देवता सदसस्पतिः || जपं कुर्याच्च मासे तु चत्वारिंशत्सहस्रकम् || १३१ ||

प्. २४६) देवताप्रीतये कार्यः षण्मासं तु मनोर्जपः || पुरश्चरणमेतत्स्यात्स्वशक्त्या विप्रभोजनम् || १३२ ||

अश्वारूढं कुन्तपाणिं कुबेरं चित्रिणीप्रियम् || निधीश्वरं स्वर्णवर्णं वन्दे गन्धर्वनायकम् || १३३ ||

अथ मन्त्रः ||

सदस्पतिमद्भुतं प्रेयमिन्द्रस्य काम्यत्सनिं ते धामयाशिषम् || १३४ ||

चत्वारिंशत्सहस्रं यः प्रतिमासं जपेन्नरः महाभाण्डारिकः कुर्यात्तस्य दारिद्र्यनाशनम् || १३५ ||

सर्वार्थसाधकं वक्ष्ये संग्रामविजयप्रदम् || जलन्धरवधायाहं यत्स्मरामि शृणुष्व तत् || १३६ ||

जातवेदसे सुनवाम सोममराती यतो निदहाति वेदः || स नः परिषदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः || १३७ ||

त्रिष्टुप्छन्दो मुनिश्चास्य मरीचिः कश्यपो मतः || देवता जातवेदोग्निः षडङ्गानि समाचरेत् || १३८ ||

नवागषट्सप्तनागसप्तभिर्मनुवर्णकैः [ओं जातवेदसे सुनवाम अंगुष्ठाभ्यां नमः, सोममरातीयतस्तर्जनीभ्यां नमः, निदहाति वेदः मध्यमाभ्यां नमः, स नः परिषदति अनामिकाभ्यां नमः, दुर्गाणि विश्वा नावेव कनिष्ठिकाभ्यां नमः, सिन्धुं दुरितात्यग्निः करतलकरपृष्ठाभ्यां नमः || एवं हृदयादिन्यासः || अथाक्षरन्यासः || जा दक्षपादांगुष्ठे, त वामपादांगुष्ठे, वे दक्षगुल्फे, द वामगुल्फे, से दक्षजङ्घायाम्, सु वामजघने, न दक्षजानुनि वा वामजानुनि न दक्षोरौ, सो वामोरौ, म कट्याम, मलिङ्गे रानाभौ, ती हृदये, य दक्षस्तने, तो वामस्तने, नि दक्षपार्श्वे, द वामपार्श्वे, हा पृष्ठे, ति दक्षस्कन्धे, वे वामस्कन्धे, दः दक्षस्कन्धांतरे, स वामस्कन्धान्तरे, ना दक्षबाहौ, प वामबाहौ, रि दक्षापबाहौ ष वामोपबाहौ, द दक्षकूर्परेति वामकूर्परे, दुर्दक्षप्रकोष्ठे, गा वामप्रकोष्ठे, णि दक्षमणिबन्धे, वि वाममणिबन्धे, श्वादक्षकरतले, न वामकरतले वे मुखे व नासिकायाम्, सिं दक्षिणनेत्रे, धुं वामनेत्रे, दु दक्षकर्णे, रि वामकर्णे, ता भ्रुवोर्मध्ये, त्यमस्तके ग्निः मूर्द्धनि ||] || अंगुष्ठयोर्गुल्फयोश्च जङ्घयोर्जानुनोस्तथा || १३९ ||

ऊर्व्वोः कट्योर्लिङ्गनाभ्योर्हृदये स्तनयोस्तथा || १४० ||

पार्श्वयोश्च तथा पृष्ठे स्कन्धयोरन्तरे तयोः || बाह्वोश्चैवोपबाह्वोश्च द्वयोः कूर्परयोरपि || १४१ ||

प्रकोष्ठद्वितये चापि मणिबन्धद्वये तथा || करयोस्तलयोरास्ये नस्यक्ष्णोश्चैव कर्णयोः || १४२ ||

भ्रुवोश्चैव तु मास्तिक्ये मूर्धनीति द्वितीयकः || शिखायां [अथ पदन्यासः ओं जातवेदसे शिखायाम् सुनवाम ललाटे, सोमं नेत्रयोः अरातीयतः कर्णयोः, निदहाति ओष्ठे, वेदः अधरे, सः जिह्वायामू नः कण्ठे, षरिषदै बाह्वोः दुर्गाणि हृदि विश्वा कुक्षौ, नावा कटौ, इव गुह्ये, सिन्धुं ऊर्व्वोः दुरिता जान्वोः, अति जंघयोः, अग्निः पादयोः ||] च ललाटे च नेत्रयोः कर्णयोस्तथा || १४३ ||

प्. २४७) ओष्ठेधरे च जिह्वायां कण्ठे वाह्वोस्तथा हृदि || कुक्षौ कटौ च गुह्ये च ऊर्वोर्जान्वोश्च जङ्घयोः || पादयोश्च पदन्यासः प्रोक्तोयं ध्यानमुच्यते || १४४ ||

विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् || हस्तैश्चक्रधरासिखेटविशिखां पाशांकुशा तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्राम्भजे || १४५ ||

कृत्वा तु सर्वतोभद्रं पूर्वोक्तं मण्डलं शुभम् || तत्कर्णिकायां षट्कोणे मण्डुकाद्यान्समर्चयेत् || १४६ ||

पूर्वोक्तान्परतत्वांस्तान्केशरेषु तदग्रतः || जयाञ्च विजयाम्भद्रां रुद्रां कालीं च पूर्वतः || १४७ ||

सुमुखीं दुर्मुखीं चन्द्रमुखीं सिंहमुखीं तथा || मध्ये दुर्गां यजेत्पश्चादासनं सिंहमन्त्रतः || १४८ ||

तारमुक्त्वा [ओं वज्रनखदंष्ट्राय महासिंहाय हुं फट् नमः इति सिंहपूजनमन्त्रः ||] वज्रनखदंष्ट्राय च महा ततः || सिंहाय हुं फट् हृच्चेति मन्त्रः सप्तदशाक्षरः || १४९ ||

मूर्तिं मूलेन सङ्कल्प्य तस्यामावाह्य पूजयेत् || केशरेषु षडङ्गानि पूर्वतोष्टदले पुनः || १५० ||

जातवेदाः सप्तजिह्वो द्वितीयो हव्यवाहनः || ततश्चोदरजं वैश्वानरकौमारतेजसम् || १५१ ||

विश्वमुखं देवमुखं पीठे कोष्ठचतुष्टये || धरात्मानं जलात्मानं वह्न्यात्मानं निरात्मकम् || १५२ ||

निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च गौणिका || पूषावाण्यौ ततो वीथी शची तोयात्मिका तथा || १५३ ||

नित्या दयावती चैव ह्यष्टमीकारिणीमता || तथैव नवमी नाम्ना प्रोक्ता चैव तिरस्क्रिया || १५४ ||

देवमाता च दमना प्रिया पश्चान्निरूप्यते || समाराध्या नन्दिनी च शरीरेषुविमर्दिनी || १५५ ||

पद्माख्या दण्डिनी तिग्मा दुर्गा गायत्र्यतः परम् || निरवद्या विशालाक्षी सौम्या सायं निरूप्यते || १५६ ||

स्वरोद्वाहा नादिनी च वेदना वह्निगर्भिणी || सिंहवासा च धूम्रा च दुर्विषंहारिरंसुका || १५७ ||

तापहरा त्यक्तदोषानिस्सपत्नेति तद्बहिः || लोकपालांस्तदस्त्राणि पूजां प्राग्वत्समापयेत् || १५८ ||

मन्त्रं वर्णसहस्राणि जपेद्धोमं पृथक्पृथक् || वेदवेदाब्धिसङ्ख्याकं तिलसिद्धार्थचित्रजैः || १५९ ||

मूलैश्च समिधाभिश्च [भागुरिमते टाप्] वटोदुम्बरपैप्पलैः || अर्कप्लक्षोद्भवैश्चापि घृतेन हविषान्नकैः || १६० ||

सर्वैर्घृताक्तैर्जुहुयात्तिलैश्चान्ते घृताहुतीः || प्. २४८) ततस्सन्तर्प्य सतिलैः कृत्वा चात्माभिषेचनम् || १६१ ||

समाराध्य धरादेवीं तोषयेद्गुरुमात्मनः || इत्थञ्जपादिभिः सिद्धे मन्त्रेस्मिन्साधकोत्तमः || १६२ ||

आग्नेयास्त्राधिकारी स्यात्तद्विधानमितीर्यते || आग्नेयास्त्रमिति प्रोक्तं विलोमप्रथितो मनुः || १६३ ||

पूर्वोक्ता एव मुन्याद्याः षडङ्गानि विलोमतः || ग्नित्यतारिदुधुं सिं प्रोच्चार्यात्र हृदयं मतम् || १६४ ||

ववेनाश्वा विणिर्गादु शिरोन्यासः प्रकीर्तितः || एवमग्रेपि [तिदषरिपनः स शिखायै वषट् ||] जानीहि पूर्वोक्तार्णविलोमतः || १६५ ||

पूर्वोक्तसङ्ख्यकैर्वर्णैर्वर्णन्यासस्तथैव च || तथैव च पदन्यासो जपः पूजा च पूर्ववत् || १६६ ||

पञ्चगव्यसुपक्वेन चरुणातस्य सिद्धये || चतुस्सहस्रं च शतं चत्वारिंशच्चतुष्टयम् || १६७ ||

होमयेदर्चनं प्राग्वज्जपश्च प्रतिलोमतः || सर्वत्र देशिकः कुर्याद्गायत्र्या द्विगुणं जपम् || १६८ ||

क्रूरकर्मणि कुर्वीत प्रतिलोमविधानतः || शान्तिकं पौष्टिकं कर्म कर्तव्यमनुलोमतः || १६९ ||

ग्न्याद्यः [दः वेतिहादनि कवचायहूम् तोयती राममसो नेत्रत्रयाय वौषट् मयानसु सेदवेतजा अस्त्राय फट् || मन्त्रस्य विलोमेन अक्षरैः पादकल्पना क्रियते ||] पञ्चाक्षरः पादो ज्ञेयो ज्ञानेन्द्रियात्मकः [श्रोत्रत्वक्जिह्वाघ्राणचक्षूंषि इमानि पञ्च ज्ञानेन्द्रियाणि ||] || धुमाद्यः पञ्चवर्णो द्वितीयः कर्मेन्द्रियात्मकः || १७० ||

श्वाद्यस्तृतीयः पञ्चार्णः सर्वभूतमयः [पृथ्व्यप्तेजोवायवाकाशानि पंचमहाभूतानि] स्मृतः || त्याद्यः [त्वग्रक्तमांसमेदोस्थिमज्जा शुक्रोण सप्त धातवः || एते सप्त धातवः] सप्ताक्षरः पादश्चतुर्थो धातुरूपकः || १७१ ||

दः पूर्वः पञ्चमः पाद ऊर्मिरूपः षडक्षरः || तो वर्णादि षडर्णोन्यः षट्कौशिकमयो मतः || १७२ ||

सोपूर्वः पञ्चवर्णोन्यः शब्दादिमय ईरितः || से वर्णाद्योष्टमो ज्ञेयः पञ्चाणा वचनादिकः || १७३ ||

एवं तत्त्वसमायोगात्परिकॢप्तिरुदीरिता [पादाकॢप्तिरुदीरितेति वा पा०] || तत्तत्पादाक्षरोत्पन्नास्ताराद्या वह्निदेवताः || १७४ ||

प्रधानमूर्तिप्रतिमाः स्वस्वकर्मेरितप्रभाः || प्रज्वलत्केशवसना भीमदंष्ट्रा भयावहाः || १७५ ||

देवता इन्द्रियोत्पन्ना ऊर्ध्वदृष्टय ईरिताः || प्. २४९) देवता भूतपादोत्थास्तिर्यग्नेत्राः [तिर्यग्वक्राः वेतिपाठः ||] प्रकीर्तिताः || १७६ ||

धातुरूपाक्षरोत्पन्ना उभयात्मदृशो मताः || ऊर्मिजा ऊर्ध्ववदनाः कोशोत्थास्तिर्यगाननाः || १७७ ||

अर्थसङ्ख्यासमुत्पन्ना देवता द्विदिगाननाः || एताः सर्वास्स्मृताः क्लीबा इन्द्रियार्थोद्भवास्त्रियः || १७८ ||

याभ्यो मन्त्री दहेच्छत्रो राष्टं सगिरिकाननम् || अस्त्रं मनुष्यनक्षत्रे प्रारभेत विचक्षणः || १७९ ||

आसुरेषु प्रयुञ्जीयाद्देवतासु शुभं हरेत् || उपक्रमेत नन्दासुरिक्तास्वस्त्रं विसर्जयेत् || १८० ||

भद्रास्वाहरणं कुर्याज्जपादेः कार्यमुत्तमम् || उपक्रमो भौमवारे शनिवारे विसर्जयेत् || १८१ ||

प्रतिसंहरणं वारे गुरोः शुक्रस्य वा भवेत् || स्थिरेषु राशिष्वारम्भश्चरेषु स्याद्विसर्जनम् || १८२ ||

अस्त्रसंहरण कुर्यादुभयेषु विचक्षणः || कृष्णपक्षे चरेदस्त्रं विसृजेच्छशिना पुनः || १८३ ||

शुक्लपक्षक्रमादस्त्रं पुनरात्मनि संहरेत् || भानुना मोक्षसंहारौ कुर्यात्पक्षद्वये सुधीः || १८४ ||

पश्चिमाभिमुखो भूत्वा सर्वकर्माणि साधयेत् || नक्षत्रवृक्षसकलान्साध्याख्यान्कर्मसंयुतान् || १८५ ||

राजीतैलेन सतिलान्पृथक्सप्तसहस्रकम् || जुहुयात्संयतो भूत्वा रिपुर्यमपुरं व्रजेत् || १८६ ||

सप्तरात्रं प्रजुहुयात्सिद्धार्थस्नेहसंयुतैः || आर्द्रवस्त्रो वृष्टिकाले मरीचैर्मनुनामुना || १८७ ||

निगृह्यते ज्वरेणारिः प्रलयाग्निसमेन संः || तालपत्रे समालिख्य शत्रुनाम यथाविधि || १८८ ||

आग्नेयास्त्रेण संवेष्ट्य कुण्डमध्ये निखन्यते || मरिचैश्च हनेत्क्रद्धो ज्वराक्रान्तः स जायते || १८९ ||

तदादाय क्षिपेत्तोये शीतले स वशो भवेत् || सामुद्रसलिलं हिंगुं विषं जीरकलोहिते || १९० ||

क्वथिते पुत्तलिं कृत्वा नक्षत्रतरुनिर्मिताम् || अधोवक्त्रां विनिक्षिप्य यष्ट्या विषतरूत्थया || १९१ ||

तच्छिरस्ताडनं कुर्याज्जपन्मन्त्रं विलोमतः || सप्ताहान्मरणं याति शत्रुर्ज्वरविमोहितः || १९२ ||

आदित्यरथनागेन्द्रग्रस्तांघ्रिं तद्विषाततम् || नग्नं तैलेन लिप्ताङ्गं दग्धं भानुमरीचिभिः || १९३ ||

अधोमुखं निजरिपुं ध्यात्वा क्वथितवारिणा || तर्पयेद्भानुमालोक्य शत्रुर्मृत्युप्रियो भवेत् || १९४ ||

बिभ्रतीं मुसलं शूलं ध्यायेत्कालघनप्रभाम् || प्. २५०) कार्पासबीजैर्निवस्य पत्रैर्मेषोघृतप्लुतैः || हुत्वा विद्वेषयेछत्रुं नखेनाहृत्य देशिकः || १९५ ||

बिभ्राणां तर्जनीं शूलं ध्यात्वा दुर्गाम्भयङ्कराम् || १९६ ||

महिषीघृतसंसिक्तैः पल्लवैर्विषवृक्षजैः || हुत्वा रिपोर्महासेनामुच्चाटयति [क्षणात्सेनामुच्चाटयति वा पा० ||] मन्त्रवित् || १९७ ||

ध्यात्वा देवीं पुरा प्रोक्तां चरुभिर्मरिचान्वितैः || अजारुधिरसंसिक्तर्जुहुयाद्दिवसत्रयम् || रिपोरुच्चाटनं कुर्यात्सेनायानात्र संशयः || १९८ ||

अग्निशूलाकुलां दुर्गां ज्वलन्तीं प्रलयाग्निवत् || ध्यात्वा सर्षपतैलाढ्यैर्बीजैर्धत्तूरसम्भवैः || हुत्वा विमोहयेच्छत्रुं मरिचैर्वा ससर्षपैः || १९९ ||

कालाञ्जननिभां दुर्गां शूलखड्गकरां स्मरेत् || नक्षत्रवृक्षसम्भूतैर्व्रणवृक्षजसञ्ज्ञकैः || समिद्वरैः प्रजुहुयाज्जयेन्मासेन वैरिणम् || २०० ||

सिंहारूढां प्रधावन्तीं धावमानं रिपुं प्रति || शरान्कार्मुकनिर्मुक्तान्वह्निज्वालामुखाकलान् || २०१ ||

मुञ्चंतीं संस्मरन्दुर्गां तर्पयेदुष्णवारिणा || भानुबिम्बं समालोक्य शत्रोरुच्चाटनं भवेत् || २०२ ||

अतिदुर्गाममोघर्ष्टिगदाहस्तां विचिन्तयेत् || विद्युद्दामसहस्राभां महिषीघृतसम्प्लुतैः || पुरोक्तैर्जुहुयान्निम्बबिभीतकसमिद्वरैः || कोद्रवैरथ शत्रोश्च सेनायास्स्तम्भनं भवेत् || २०३ ||

इषुजालाङ्कुशाढ्यांगां नित्यं दुर्गामनुस्मरेत् || लवणैर्मधुरैस्साध्यकाष्ठैर्वा ह्येधितेनले || जुहुयान्निशि सप्ताहान्मंत्रविद्वशयेन्नृपान् || २०४ ||

पाशांकुशधरां रक्तां विश्वदुर्गां विचिन्तयेत् || फलिनीकुसुमैः फलैश्चन्दनाम्भस्समुक्षितैः || जुहुयान्निशि यो मन्त्री तस्य विश्वं वशं भवेत् || २०५ ||

शरच्चंद्रनिभां देवीं विराजत्परमामृताम् [विगलदिति पा०] || पाशांकुशकरां ध्यात्वा सिन्धुदुर्गां समिद्वरैः || वेतसैर्मधुरासिक्तैर्जुहुयाद्बृत्तिसिद्धये || २०६ ||

जपाकुसुमसंकाशामग्निदुर्गां विचिन्तयेत् || हुनेल्लवणपुत्तल्या मधुरत्रययुक्तया || आकर्षेद्वाञ्छितां साध्यां मन्त्रविन्नात्र संशयः || २०७ ||

अतिदुर्गेयमत्याद्या षडंतादिस्समीरिता || दुवर्णांता तथान्याद्या गानि दुर्गा प्रकीर्तिता || २०८ ||

विश्वाद्या चैव मंत्रेस्मिन्विश्वदुर्गा समीरिता || २०९ ||

सिन्ध्वाद्या सावकारांता सिंदुदुर्गा निगद्यते || त्यांतामग्न्यादिकामेवमग्निदुर्गां विदुर्बुधाः || २१० ||

अङ्गणे स्थंडिलं कृत्वा सुगन्धिकसुमादिभिः || देवीं तत्रार्चयेन्नित्यं प्रागुक्तेनैव वर्त्मना || २११ ||

प्. २५१) आहरेद्रात्रिषु बलिं चरुणा सर्वसिद्धिदम् || कृत्यारोगभयद्रोहभूतानि नाशयेदयम् || २१२ ||

यथावदग्निमाराध्य गन्धैः पुष्पैर्मनोहरैः || स्थित्वा तस्याग्रतो मंत्री जपेन्मन्त्रमनन्यधीः || जपोयं सर्वसिद्ध्यै स्यान्नात्र कार्या विचारणा || २१३ ||

लवणैर्मधुरासिक्तैर्जुहुयात्पश्चिमामुखः || मन्त्रार्णसंख्यया मंत्री रिपुमात्मवशं नयेत् || २१४ ||

शालीन्प्रक्षाल्य संशोध्य शुद्धान्कुर्वीत तण्डुलान् || निवास्य पञ्चगव्येषु संस्कृते हव्यवाहने || २१५ ||

पाचयेच्च जपन्मन्त्रमवतार्य पुनः सुधीः || अर्चयित्वा विशदधीः समिद्धेग्नौ यथा पुरा || २१६ ||

जुहुयाच्चरुणाज्येन तथा चाष्टसहस्रकम् || पत्रे संतापनं कुर्यात्साध्यं तत्प्राशयेद्गुरुः || २१७ ||

शिष्यं तं पूजयेद्वारि संपातं प्राङ्गणांतरे || कृत्यावेगा विनश्यन्ति सहभूतग्रहामयैः || परैरुत्सादिता कृत्या पुनस्तानेव भक्षयेत् || २१८ ||

व्रीहिभिर्हविषा क्षीरैः पयोवृक्षसमिद्वरैः || आज्यैर्मधुत्रयोपेतैर्मन्त्रैर्दशशतं पृथक् || जुहुयात्सम्पदां भूमिः साधका भवति ध्रुवम् || २१९ ||

भास्करे मेषराशिस्थेमंत्रज्ञानगुणे दिने || गत्वा नद्यां जपन्मन्त्रं सततं पुष्कलाम्भसि || २२० ||

उद्धृत्यादाय सिकतः संशोध्य परिशोधयेत् || न्यस्य ताः पञ्चगव्येषु संभूते हव्यवाहने || भर्जयेन्मनुना सिद्ध्यै दर्व्या ब्रह्मतरूत्थया || २२१ ||

सिंहमेषधनुःस्थेर्के कृष्णपक्षेष्टमीतिथौ || विशाखाकृत्तिकामूलहस्तोत्तरमघास्वथ || २२२ ||

रोहिण्यां श्रवणे वारे मन्दवाक्पतिदैवते || विहायान्येषु कुर्वीत सिकतास्थापनं सुधीः || २२३ ||

गृहग्रामादिराष्ट्राणां रक्षार्थं सिकताः शुभाः || प्रस्थाढकघटोन्माना मध्यादिष्ववरेष्विमाः || २२४ ||

नवसु प्रक्षिपेज्जप्त्वा तेषु सम्पूजयेत्क्रमात् || मध्यादिदेवीमस्त्राणि कपालान्तानि देशिकः || २२५ ||

चक्रं शङ्खमसिं खेटं बाणांश्चापं त्रिशूलकम् || कपालं स्वस्वमन्त्रेण सम्पूज्यान्ते बलिं हरेत् || २२६ ||

नक्षत्रग्रहराशीनां लोकेशानां बलिं हरेत् || विहिता यत्र रक्षा या वर्धन्ते तत्र सम्पदः || २२७ ||

क्षुद्रग्रहमहारोगभयभूतसरीसृपाः || अमुना विलयं यान्ति विधिना नात्र संशयः || २२८ ||

सिकातानां विशुद्धानां कुडवाश्चापि [चतुर्भिः पलैः कुडव उच्यते ||] षोडश || प्. २५२) पञ्चगव्ययुते पात्रे ब्रह्मवृक्षेण निर्मिते || २२९ ||

निक्षिपेद्विधिना यत्र तत्र तिष्ठन्ति सम्पदः || दिनेदिने प्रवर्धन्तेऽकालवृष्ट्यादिभिः सह || २३० ||

महोत्पाता विनश्यन्ति कृत्याद्रोहामयग्रहाः || चरुगव्याश्मनां कुर्यात्स्थापनं विधिनामुना || २३१ ||

गोमूत्रं प्रस्थमात्रं [षोदशपलैः प्रस्थः ||] स्याद्गोमयंस्यात्तदर्धकम् || आज्यात्सप्तगुणं क्षीरं गोमूत्रात्त्रिगुणं दधि || २३२ ||

गोमूत्रेण समं सर्पिः सर्वं वा सममुच्यते || गावः स्युः कपिलाः श्वेताः सितधूम्रारुणप्रभाः || २३३ ||

अभावे च सिताः सर्वाः सर्वं वा कपिलोद्भवम् || एकोनपञ्चाशत्कोष्ठे फलके ब्रह्मशाखिनः || २३४ ||

विहाय कोणकोष्ठानि मध्यकोष्ठे लिखेच्च ह्रीम् || तदूर्ध्वकोष्ठमारभ्य प्रादक्षिण्येन संलिखेत् || २३५ ||

देवीं तत्र समावाह्य पूजयेदुपचारकैः || कृत्वा होमन्तु सम्पातं निखनेत्तद्यथा पुरा || दद्याद्बलिं यथापूर्वं तस्य पूर्वोदितं फलम् || २३६ ||

नवकोष्ठान्वितं लेख्यं चतुरस्रं सुशोभनम् || साध्यनामान्वितां मायां मध्यकोष्ठे तु संलिखेत् || २३७ ||

तदधःकोष्ठमारभ्य प्रादक्षिण्येन संलिखेत् || मूलमन्त्रस्य पूर्वोक्तानष्टौ पादांश्च तद्बहिः || २३८ ||

वृत्तद्वयान्तराले तु मातृकार्णैः प्रवेष्टयेत् || तद्बहिश्चतुरस्रं स्याद्धारणामन्त्रमद्भुतम् || सर्वभूतभयहरं श्रीकीर्त्यायुःप्रदं शुभम् || २३९ ||

आग्नेयास्त्रस्य जानाति विसर्गादानकर्मणी || यः पुमान्सगुणैः श्रेष्ठस्तस्याधीनं जगत्त्रयम् || २४० ||

अतिदुर्गामनुं वक्ष्ये यद्दिनास्त्रमितीर्यते || प्रतिलोममिमं मन्त्रं कृत्वास्त्रं परिचक्षते || २४१ ||

अतिदुर्गाणि विश्वानावेव सिन्धुं दुरितात्यग्निः || जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः स नः परिषत् || २४२ ||

अङ्गन्यासस्तु पूर्वोक्तो वर्णन्यास इतीरितः || क्रमेणानेन वर्णानाम्पदानां न्यास इष्यते || २४३ ||

ध्यानं चैव पुरा प्रोक्तं कृत्यास्त्रस्य विलोमतः || न्यासादिकं तथा ध्यानं मुनिश्छन्दश्च पूर्ववत् || २४४ ||

पुरश्चर्यादिकं सर्वं प्रयोगान्कीर्तयाम्यहम् || भानुबिम्बगतं शत्रुं मध्ये वक्रं विषाहतम् || २४५ ||

मूलादुत्थितया ग्रस्तं कुण्डल्या भावयेत्सुधीः || मूलाधारेपि चेत्सद्यस्तस्य कालं स भावयेत् || दिनद्वयाज्ज्वराक्रान्तो रिपुः प्राणान्विमुञ्चति || २४६ ||

प्. २५३) दिनास्त्रेण प्रविद्धाङ्गं स्वाधिष्ठनगतं रिपुम् || पञ्चवायुसमिद्धेन चाग्निना दग्धविग्रहम् || ध्यायेन्मनुं जपेत्सद्यः स भवेद्यमवल्लभः || २४७ ||

मणिपूरगतं शत्रुमग्निना दीप्तविग्रहम् || ध्यायन्दिनास्त्रं प्रजपेत्स मृत्युवशतां व्रजेत् || २४८ ||

अनाहितो हतः शत्रुर्निर्दग्धो मन्त्रवह्निना || पाशेन बद्ध्वा शीघ्रं स नीयते यमकिङ्करैः || २४९ ||

विशुद्धस्थानगो वैरी दिनबाणेन पूरितः || अधोमुखः स्मृतस्तूर्णम्परासुः स्याद्दिनत्रयात् || २५० ||

आज्ञायां निहितं शत्रुं दहेद्बाणाग्निना धिया || पुत्रमित्रकलत्रादिसहितो मृत्युमाप्नुयात् || २५१ ||

नाभिमात्रे जले स्थित्वा ध्यायेद्बिम्बं दिनेशितुः || वैरिणं दग्धसर्वाङ्गं मन्त्रमष्टोत्तरं शतम् || जपेत्सप्त दिनादर्वाग्यमलोकं स गच्छति || २५२ ||

आरवारं [मंगलवारम् ||] समारभ्य सप्ताहं प्रजपेन्मनुम् || सूर्योदयं समारभ्य यावदस्तमयो भवेत् || सन्निपातपराविष्टो यमग्रस्तो भवेदरिः || २५३ ||

स्थित्वा दुर्गालये मन्त्री त्रिरात्रं वर्जिताशनः || दिने वा मन्त्रविद्धाङ्गं वैरिणं प्रविचिन्तयेत् || जपेन्मनुमिमं शत्रुर्ज्वरितो मरणं व्रजेत् || २५४ ||

दृष्ट्वादुर्गां जपेन्मन्त्रमजस्रं स्वरिपुं स्मरन् || शूलप्रोतशरीरन्तु दिनास्त्रेण प्रपीडितम् || ज्वरेण महताविष्टो जायतेसौ यमातिथिः || २५५ ||

रविमण्डलगं शत्रुं दष्टं तद्रथपन्नगैः || विषाग्निदग्धसर्वाङ्गं ध्यायेदुष्णेन वारिणा || तर्पयेद्दिनबाणेन स्यादसौ यमवल्लभः || २५६ ||

रविबिम्बादागतया ज्वालया ग्रस्तविग्रहम् || रिपुं ध्यात्वा जपेन्मन्त्रं स प्रयाति यमान्तिकम् || २५७ ||

ग्रहग्रस्ताग्रबिम्बस्थं विद्धं मन्त्रमयैः शरैः || प्रतिपद्धातितं शत्रुं जपेदयुतमन्त्रवित् || रिपुन्नयति शीघ्रं तं यमदूतो यमालयम् || २५८ ||

प्रलयानलसंकाशां कालरात्रिमिवापराम् || शूलपाशधरां घोरां सिंहस्कन्धं निषेदुषीम् || २५९ ||

सवितुर्मण्डलान्तःस्थां रक्तनेत्रत्रयोद्भवैः || विस्फुलिङ्गैर्निर्दहन्तीं रिपुमाकुलविग्रहम् || २६० ||

स्वेष्टदंष्ट्राधरां नृत्यद्भ्रुकुटीभीषणाननाम् || तर्जयन्तीं निजं शत्रुं तर्जन्या भीमरूपया || २६१ ||

दंष्ट्रामयूखजालेन द्योतयन्तीं दिगन्तरम् || शूलेन वैरिणो वक्षो दारयन्तीं भयंकराम् || २६२ ||

जपेद्दिनत्रयं धीमान्मारयेद्रिपुमात्मनः || अस्त्रमन्त्रकृतन्यासः प्रलयाग्निसमप्रभः || २६३ ||

प्. २५४) रक्तवस्त्रधरां क्रुद्धां रक्तनेत्रत्रयावृताम् || सिंहाधिरूढा धावन्तीं धावमानं रिपुं प्रति || खड्गेन तच्छिरश्छित्त्वा क्षणाद्व्योमस्थलं गताम् || २६४ ||

ध्वात्वा दुर्गां जपेन्मन्त्रं त्रिदिनं वर्जिताशनः || अनेनैव विधानेन रिपुर्मृत्युप्रियो भवेत् || कर्माण्येतानि कर्वीत दिवसे न तु रात्रिषु || २६५ ||

तस्माद्दिनास्त्रमित्युक्तमथ रात्र्यस्त्रमुच्यते || पश्चिमाभिमुखं न्यस्य सजीवं महिषं पुरः || २६६ ||

निखाय तस्य शिरसि कुण्डं कृत्वा त्रिकोणकम् || तस्मिन्समेधिते वह्नौ यथावद्देशिकोत्तमः || २६७ ||

सत्रिकोणाः मन्त्रावर्णाः साध्यनामसमन्विताः || भुजरक्तेन संसिक्ताः कारस्करसमिद्वराः || सहस्रं जुहुयाद्ध्यात्वा देवीं सवितृमण्डले || २६८ ||

प्रलयाग्निसमां घोरां द्वात्रिंशद्भुजशोभिताम् || उद्यदायुधसन्दीप्तां नृत्यन्तीं सिंहमस्तके || २६९ ||

महादंष्ट्रां महाभीमां ज्वलत्केशां नदन्मुखीम् || रक्तार्द्रमांसवसनां घूर्णितोग्रत्रिलोचनाम् || २७० ||

अनेन विधिना शत्रुर्महाज्वरनिपीडितः || विमुञ्चति निजं देहं पुत्रमित्रादिभिः सह || २७१ ||

ऊर्ध्ववक्त्रांस्ततो मन्त्री लम्बयित्वा भुजङ्गमान् || भानुबिम्बगतां दुर्गां सहस्रादित्यसन्निभाम् || २७२ ||

सहस्रपाणिचरणां सहस्राक्षिशिरोमुखीम् || सहस्रनागबद्धाङ्गीं त्रासयन्तीं जगत्त्रयम् || २७३ ||

ध्यायन्मन्त्रेण तेनैव तर्पयेदुष्णवारिणा || संयतः कालपाशेन वैरी मुञ्चेत्स्वजीवितम् || २७४ ||

मध्याह्नार्कायुतप्रख्यां नदन्तीं नरसिंहवत् || घोरसिंहासनासीनां महाभीषणदारिणीम् || २७५ ||

शूलप्रोताहितां ध्यायञ्जपेन्मन्त्रमनन्यधीः || तर्पयेदुष्णतोयेन सर्पवक्त्रे दिनत्रयम् || यमस्य भवनं गच्छेदरातिर्नात्र संशयः || २७६ ||

ऋक्षवृक्षैः प्रतिकृतिं प्रतिष्ठितसमीरणाम् || उष्णोदके विनिःक्षिप्य निष्पीड्य विधिना ततः || २७७ ||

अर्केन्द्वनलसङ्काशां खड्गखेटकधारिणीम् || नयनत्रयसङ्गच्छद्विस्फुलिङ्गशताकुलाम् || २७८ ||

सिंहस्थां सर्पभूषाढ्यां त्रैलोक्यभयदायिनीम् || खड्गकृत्ताहितां ध्यायन्प्रजपेदयुतं मनुम् || विधानेनामुना शत्रुर्युक्तो भवति मृत्युना || २७९ ||

प्रकल्प्य दुर्गायतने त्रिकोणं कुण्डमुत्तमम् || तत्र संज्वलिते वह्नौ महिषीशकृता कृताम् || २८० ||

प्. २५५) पुत्तिलीं सर्जतां रक्तां प्रतिष्ठितसमीरणाम् || छित्त्वा छित्त्वा प्रजहुयादजरक्तान्वितां निशि || २८१ ||

ध्यात्वा दुर्गां प्रनृत्यन्तीं महिषोरःस्थलान्तरे || शूलेन महिषस्याङ्गं भिन्दंती घोरदर्शनाम् || २८२ ||

अट्टहासैरजस्रोत्थैर्भीषणां सुरसेविताम् || प्रदीप्तानलसङ्काशां भ्रमन्नेत्रत्रयान्विताम् || २८३ ||

सदष्टाधरसम्भिन्नां दंष्ट्राभीममुखाम्बुजाम् || खड्गखेटकयुक्ताभिः कन्यकाभिः समावृताम् || २८४ ||

अनेन विधिना शत्रुः प्रयाति यममन्दिरम् || दिनास्त्रमेवं कथितं रात्रौ कृत्यास्त्रमुच्यते || २८५ ||

आधारादुद्गतां देवीं कुण्डलीं सर्परूपिणीम् || तां ब्रह्मरन्ध्रमार्गेण गतां व्योमस्थलं ततः || २८६ ||

मुखेन शत्रुमादाय निवृत्तां स्वगृहं प्रति || ज्वलत्कालानलोद्दीप्तां विचिन्त्य प्रजपेन्मनुम् || सप्तभिर्वासरैः शत्रुर्मृत्युमाप्नोति मोहितः || २८७ ||

अङ्गारवारे चित्यग्नौ सर्षपस्नेहलालितम् || सिद्धार्थकुडवं जप्तं जुहुयात्पशुमन्त्रतः || कृत्यास्त्रज्वालया सद्यो रिपुर्यमपुरं व्रजेत् || २८८ ||

चतुर्दश्यामर्धरात्रे चितास्थीन्यत्र साधकः || व्रणतैलविलिप्तानि चिताग्नौ जुहुयात्ततः || अनेन विधिना शतुर्मृत्युमेष्यति कातरः || २८९ ||

धान्यस्य तु तुषान् पिष्ट्वा शत्रोश्चैव विनिर्मिताम् || प्रतिमां व्रणतैलाक्तां कृतप्राणां हुनेन्निशि || छित्त्वाछित्त्वाजरक्तेन सप्ताहान्म्रियते रिपुः || २९० ||

श्मशानवालुकां स्पृष्ट्वा साक्षतां नियतं जपेत् || विविक्तस्तु तडागादौ जपेन क्वथितं जलम् || तदीयं पीतमचिरान्निहन्ति सकलाञ्जनान् || २९१ ||

कृष्णाङ्गारचतुर्दश्यां जपितैः प्रेतभस्मभिः || माहिषाज्येन संयुक्तैस्तन्मन्त्राक्षरसंख्यया || २९२ ||

निर्माय प्रतिमामेतां सम्यग्जप्तसमीरणाम् || चितिकाष्ठेंधिते वह्नौ जुहुयाद्दृढमानसः || चतुर्दशीत्रयादर्वाक्छत्रुर्मृत्युवशो भवेत् || २९३ ||

श्मशानभस्मसिद्धार्थान्पञ्चगव्ये विनिक्षिपेत् || महिषं संस्मरेद्देवीं ज्वालाग्निसदृशप्रभाम् || २९४ ||

भर्जयेत्प्रजपन्मन्त्रं विषकाष्ठैधितानले || दुर्गागारे प्रजुहुयादनेनायुतमस्त्रवित् || २९५ ||

पुनरादायतद्भस्म सेनायां वैरिणः क्षिपेत् || सा सेना बहुधा भिन्ना ज्वरेणापि विमोहिता || २९६ ||

आयुधानि परित्यज्य युद्धकाले पलायते || गेहग्रामादिषु क्षिप्तं कुर्यादुच्चाटनं द्रुतम् || ३९७ ||

सप्तवारेषु कुलिके दुर्गावेश्मसु शर्कराः || प्. २५६) सप्तमाहेन्द्रदिग्वर्जं गृहीत्वा प्रजपेन्मनुम् || २९८ ||

महिषीपञ्चगव्येन महिषं तर्पयेत्पुरा || भूयो जपित्वा विक्रिरेद्गेहे ग्रामपुरे त्विमाः || स देशो नश्यति क्षिप्रं दग्धो मन्त्रदवाग्निना || २९९ ||

ब्रह्मदण्डी मर्कटिका वज्रकण्टकिका त्रयम् || भौमवारस्य कुलिके गृहीत्वा प्रजपेन्मनुम् || सार्धं पुत्रकलत्राद्यैरुत्सादो जायते रिपोः || ३०० ||

एकत्रैवाखनेन्मन्त्री मण्डलान्तस्स्थलं भवेत् || षड्बिन्दुषट्कपुत्तल्यां निखनेदोदनान्वितम् || ३०१ ||

स्पृष्ट्वा तां प्रजपेन्मन्त्रं कृष्णाष्टम्यां दिनार्धतः || शत्रुनामसमायुक्तां श्मशाने निखनेदिमाम् || प्रणश्यति रिपुः शीघ्रं सकुटुम्बः सबान्धवः || ३०२ ||

कपालशकलान्मन्त्री कृत्यास्त्राक्षरसंख्यया || स्पृष्ट्वा तां प्रजपेदस्त्रं प्राणस्थापनपूर्वकम् || ३०३ ||

कृष्णाङ्गारचतुर्दश्यां श्मशाने विषवृक्षजे || जुहुयादजरक्ताक्तां कृत्यास्त्रज्वालया ततः || रिपुर्यमपुरं गच्छेन्महाज्वरविमोहितः || ३०४ ||

अजरक्तेन सम्पूर्णे कलशे निक्षिपेदहिम् || कपालेन पिधायैनं छादयेद्रक्तवाससा || ३०५ ||

पूजयेद्रक्तपुष्पाद्यः स्पृष्ट्वा तं त्वयुतं जपेत् || भौमवारे दिशो मध्ये यथापूर्वं समाहितः || ३०६ ||

कारस्करैघिते वह्ना कृत्यास्त्रेण समेधिते || अयुतं व्रणतैलेन हुत्वान्ते तं पटं पुनः || ३०७ ||

आमस्तकं समुद्धृत्य त्वभिचाररतः सुधीः || जुहुयाद्विधिना तेन त्रिदिनैर्म्रियते रिपुः || ३०८ ||

सुन्दरं महिषीसर्पिः प्रस्थं मन्त्रेण मन्त्रितम् || कुशैराबद्धसर्वाङ्गं स्थापितं प्राणतेजसा || ३०९ ||

कारस्करैधिते वह्ना व्रणतैलेन मन्त्रवित् || होमं कृत्वा पुनर्वस्त्रं जुहुयाद्यतमानसः || एकेन दिवसेनारिर्गच्छेद्यमपुरं प्रति || ३१० ||

त्रिकोणकुण्डनिहिते वह्नौ मन्त्रेण दीपिते || अर्चिते गन्धपुष्पाद्यैरयुतं जुहुयात्सुधीः || ३११ ||

रजिभक्ततिलैस्तैलैर्नित्यं सप्तदिनं ततः || प्रसूतिसमयप्राप्तां महिषीं स्थापितानिलाम् || अर्चिता गन्धपुष्पाद्यैः स्पृशन्मन्त्रं तु तं जपेत् || ३१२ ||

मस्तकाद्योनिपर्यंतं जुहुयादेधितेनले || एवंकृते समुत्पन्ना कृत्या दीप्ता हुताशनात् || भक्षयेदचिराच्छत्रुमीश्वरेणाभिरक्षितम् || ३१३ ||

पुनरग्नौ विशत्येषा कर्तारमपि कांक्षिणी || एवं विधानि कर्माणि यः कुर्यान्मन्त्रवित्तमः || स जपेदात्मरक्षार्थं मन्त्रान्मृत्युञ्जयादिकान् || ३१४ ||

प्. २५७) अथ त्रिशक्तिमन्त्रस्य साधनार्थं पुरश्चरेत् || जपं महाव्याहृतीनां होमं तर्पणमेव च || ओंङ्कारपूर्वकञ्जप्त्वा मन्त्रं त्वयुतसंख्यया || सहस्रं जुहुयादाज्यैस्तर्पणादि ततश्चरेत् || ३१५ ||

एवंकृते सर्वदेवाराधनं स्यात्समर्थता || विनानेन त्रिशक्तेस्तु मन्त्रसिद्धिर्न जायते || ३१६ ||

ओं भूरग्नये च पृथिव्यै महते च स्वाहा || ओं भुवो वायवे चान्तरिक्षाय च महते च || ३१७ ||

ओं सुवरादित्याय च दिवे च महते च || ओं भूर्भुवस्सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते स्वाहा || ३१८ ||

वक्ष्यमाणफलावाप्तिः सामान्या तु सहस्रशः || देशकालानुरूपेण श्रेष्ठा त्वयुतहोमतः || ३१९ ||

यथामनोरथस्तादृग्लक्षहोमात्प्रजायते || अथ क्रमेण तद्वक्ष्ये तेजस्वी घृतहोमतः || ३२० ||

उदुम्बरसमिद्भिस्तु सर्वकर्मसमर्थता || पश्वादिकामो जुहुयाद्दुग्धं वाप्यथ वा दधि || ३२१ ||

समस्तोत्पातशान्त्यर्थमपामार्गस्य तण्डुलान् || अर्कस्य समिधो हुत्वा यथेष्टं कनकं लभेत् || ३२२ ||

जात्यास्तु वल्लिकायुग्मं ग्रन्थयित्वा घृतान्वितम् || जुहुयादयुतसङ्ख्याकं सम्पदं स सदा लभेत् || ३२३ ||

कन्याकामस्तु जुहुयात्तिलतण्डुलमुष्टिभिः || अपामार्गस्य समिधो जुहुयाद्रामकामुकः || ३२४ ||

वशीकर्तुं तु समिधः पलाशाशोकयोर्हुनेत् || आयुष्कामस्तु दूर्वाभिः ष्पैस्तु धनकामुकः || ३२५ ||

समिधो व्याधिघातस्य रुधिरेणाजकेन च || संयोज्य जुहुयान्मन्त्री त्वभिचारः प्रसिध्यति || ३२६ ||

जातानां जायमानां प्रभोः सर्वत्रकोपनम् || मरणं वा तत्र हुनेत्सर्वव्रीहिभिरादरात् || ३२७ ||

प्रभूतव्रीहिदूर्वाभिर्होमान्सप्तकृतिर्भवेत् || उल्लूककाकपक्षाभ्यां होमो विद्वेषकारकः || ३२८ ||

स्वप्नग्रहे तु कपिलाघृतहोमं सहस्रकम् || सम्पातस्य घृतं स्थाप्यं वचान्तेनैव लोलयेत् || मन्त्रयित्वा पुत्रवतीं मेधावी चैव जायते || ३२९ ||

प्रत्यहं मासमात्रं तु स्थित्वा सूर्यस्य सम्मुखम् || अयुतं प्रजपेन्नित्यं गुणिनं लभते सुतम् || ३३० ||

यद्यदिष्टतमं वस्तु तत्तद्धोमं समाचरेत् || अयुतम् घृतसंयुक्तं तस्य प्राप्तिः प्रजायते || होमयोग्यं तु यत्तस्य पुत्रवत्सिद्धिसाधनम् || ३३१ ||

अथ त्रिशक्तिमन्त्रस्य साधनं कथयाम्यहम् || प्. २५८) ब्रह्मविष्णुशिवाः सिद्धा यत्प्रसादाद्धरिस्तथा || ३३२ ||

गायत्री [गायत्री-तत्सवितुरिति |
आग्नेयमस्त्रं जातवेदसे इति त्रैयंबकं - त्र्यम्बकं यजामेति |
एतच्छ्रुतित्रयमेलनेन शताक्षरो मन्त्रो जायते |
अस्य त्रिशक्तीति नाम गायत्रीमन्त्रस्य जपसमये वरेण्यमिति स्थाने पठनेन मन्त्रस्य शताक्षरत्वपूर्तिः ||] च तथाग्नेयमस्त्रं त्रैयम्बको मनुः || एतत्त्रयं त्रिशक्त्याख्यो मन्त्रः प्रोक्तशताक्षरः || ३३३ ||

उक्तास्त्रयोस्य मुनयश्छन्दांस्यपि च तानि तु || अगोचरं वेदगम्यं परन्तेजोस्य देवता || ३३४ ||

विश्वैरुद्रैस्तथा [२- त्रयोदशभिः |
३- एकाधिकदशभिः |
] कृत्या [द्व्यधिकविंशतिभिः |
] चाकृत्या तिथिभिर्घनैः [५- पञ्चाधिकदशभिः |
६- सप्ताधिकदशभिः |
] || मन्त्रवर्णैः षडङ्गानि प्राङ्न्यासांश्च समाचरेत् || ३३५ ||

सस्यं मानविवर्जितं श्रुतिगिरामाद्यं जगत्कारणं व्याप्तं स्थावरजङ्गमे मुनिवरैर्ध्यातं निरुद्धेन्द्रियैः || अर्काग्न्युग्रमयं शताक्षरवपुस्तारात्मकं सन्ततं नित्यानन्दगुणालयं परतरं वन्दामहे तन्महः || ३३६ ||

सौरपीठे यजेत्तत्र षडङ्गैः प्रथमावृतैः || गायत्री शक्तिभिः पश्चात्पूजयेदावृतित्रयम् || ३३७ ||

पञ्चमावरणं कार्यं वीथीरूपं तु तत्र च || चतुश्चत्वरिंशत्सङ्ख्या जातवाद्यास्तु शक्तयः || ३३८ ||

आग्नेयास्त्रोदिता ह्येव प्रोक्तं शक्तिचतुष्टयम् || आवृतीना तु संपूजा मृत्युञ्जयोक्तशक्तिभिः || ३३९ ||

दिक्पालांश्च तदस्त्राणि दशकैकादशावृतौ || लक्षं जपेद्धुनेत्क्षीरं भक्ताद्यैस्तर्पयेत्ततः || ३४० ||

एवं सिद्धे मनौ मन्त्री भवेद्भास्करसन्निभः || सुधालतोद्भवैः [गुडूचीभिः |
] खण्डैर्जुहुयात्क्षीरसंयुतैः || ३४१ ||

दीर्घमायुरवाप्नोति ह्याधिव्याधिविवर्जितः || दूर्वाभिर्धृतसिक्ताभिस्तदेव फलमाप्नुयात् || ३४२ ||

मधुरत्रयसंयुक्तैर्जुहुयादरुणाम्बुजैः || महालक्ष्मीमवाप्नोति मासैः षद्भिर्विधानवित् || ३४३ ||

रक्तोत्पलैस्त्रिमध्वक्तैर्जुहुयात्सर्वसम्पदे || श्रीप्रसूनैः [बिल्वप्रसूनैः |
] प्रजुहुयाद्रमाया वसतिर्भवेत् || ३४४ ||

सहस्रं जुहुयान्नित्यं पायसेन तिलैः शुभैः || भानुसङ्ख्यान्द्विजान्नित्यं भोजयेन्मधुरान्वितैः || ३४५ ||

सर्वपापविनिर्मुक्तः सर्वरोगविवर्जितः || कृत्याद्रोहग्रहान्सर्वाञ्जित्वा दीर्घं स जीवति || ३४६ ||

प्रातःस्नानरतो नित्यं जपन्नित्यं शतं शतम् || भानुमालोकयेत्सम्यक्स जीवेच्छरदा शतम् || ३४७ ||

प्. २५९) नित्यमष्टोत्तरशतं निःश्रेयसफलाप्तये गायत्र्याद्यं जपेन्मन्त्रं सर्वपापविमुक्तये || ३४८ ||

सर्वशत्रुविनाशाय त्रिष्टुबाद्यं [ओं जातवेदसे इति मन्त्रस्य प्रथमकथनमुचितम् |
] जपेदिमम् || त्र्यम्बकाद्यं प्रजपेदायुरारोग्यवृद्धये || ३४९ ||

अथ त्वरितरुद्रस्य विधानमभिधीयते || न वेदे नागमे चेदृङ्मन्त्रस्त्वरितसिद्धिदः || ३५० ||

यो रुद्रो अग्नौ यो अप्सु य ओषधिषु || यो रुद्रो विश्वा भुवनाविवेश तस्मै रुद्राय नमो अस्तु || ३५१ ||

अथर्वणो मुनिः प्रोक्तश्छन्दोनुष्टुवुदाहृतम् || अस्त्यस्य देवता रुद्रः षडङ्गानि न्यसेत्क्रमात् || ३५२ ||

अत्र न्यासस्तु पञ्चाङ्गः पञ्चत्रीषूग्रगोमितैः [ओं यो रुद्रो अग्नौ अंगुष्ठाभ्यां नमः, यो अप्सु तर्जनीभ्यां नमः, य ओषधीषु मध्यमाभ्यां नमः, यो रुद्रो विश्वा भुवना विवेश अनामिकाभ्यां नमः, तस्मै रुद्राय नमो अस्तु कनिष्ठिकाभ्यां नमः, एवं हृदयादिन्यासोपि || अथाक्षरन्यासः || ओं यो नमः शिरसि रु भाले, द्रो भ्रूमध्ये, अ दक्षनेत्रे, प्सु वामनेत्रे, यः दक्षकर्णे, ओं वामकर्णे ष नासिकायाम्, धी दक्षकपोले, षु वामकपोले यो मुखे, रु कंठे, द्रो दक्षबाहौ, वि वामबाहौ, श्वा दक्षकरतले, भू वामकरतले व पृष्ठे, ना वक्षःस्थले, वि उदरे, वे नाभौ, श कट्याम्, त दक्षोरौ, स्मै वामोरौ, रु दक्षजानुनि, द्रा वामजानुनि, य दक्षजंघायाम्, न वामजंघायाम्, मो दक्षपादे, अ वामपादे, स्तु सर्वांगे || इत्यक्षरन्यासः |
] || वर्णान्देहादिषु न्यस्यांगुष्ठादौ ध्यानमाचरेत् || ३५३ ||

चतुर्भुजं त्रिनेत्रं च शुद्धस्फटिकसन्निभम् || अमृतेन च सम्पूर्णौ कलशौ हस्तयोर्द्वयोः || ३५४ ||

हस्तद्वयेन योगस्य कृतमुद्रं स्थिरासनम् || सर्वकामफलेशानं शङ्करं करुणानिधिम् || ३५५ ||

उग्रकर्मण्युग्रमूर्तिं ज्वलत्पावकलोचनम् || द्विभुजं नागहस्तं च शूलपाणिं जटाधरम् || ३५६ ||

अधःशययां त्वेकवारं हविष्यान्नस्य भोजनम् || ब्रह्मचर्यं सत्यवाणीं पुरश्चर्याविधौ चरेत् || ३५७ ||

लक्षमेकं जपेन्मन्त्रं होमैर्कसमिधो घृतम् || तर्पणं मार्जनं विप्रभोजनं मन्त्रसिद्धये || ३५८ ||

पूजापार्थिवलिङ्गस्य [पार्थिवपूजायां यत्कामनायै या पूजोक्ता तां तत्र तथैव रीत्या विदधीत ||] प्राग्वन्नित्यं समाचरेत् || एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्तुमर्हति || ३५९ ||

अयुतद्वयहोमेन या सिद्धिः सा निगद्यते || औदुम्बरैरन्नकामस्तेजस्कामस्तु खादिरैः || ३६० ||

अपामार्गसमिद्धोमाद्भूतबाधा विनश्यति || ग्रहबाधाविनाशाय जपेदश्वत्थसन्निधौ || ३६१ ||

प्. २६०) लवणान्वितदध्यक्तास्त्र्यस्राग्राबोधिवृक्षजाः || हूयन्ते समिधः शुष्काः स्वाहान्तं मन्त्रमुच्चरेत् || ३६२ ||

दशपञ्चाहुतीर्हुत्वा गच्छगच्छेत्युदीरयेत् || यावद्धोमं बलिं दद्यात्पुरुषाहरसंमितम् || एवंकृते तु वा सम्यक्पुरुषं तं स मुञ्चति || ३६३ ||

जुहुयाच्छतपत्राणि संहृष्टोभीष्टमाप्नुयात् || लाजहोमेन कन्यार्थी कन्यां प्राप्नोति रूपिणीम् || ३६४ ||

लाजाश्च चरुणा युक्ताः श्वेतपुष्पाणि वा पुनः || हूयन्ते हरिते देशे तस्य विश्वं वशीभवेत् || ३६५ ||

वामे तदुन्नतं कार्यं स्त्रीवश्यं नतु दक्षिणे || अरिसैन्यप्रशान्त्यर्थं तिलानाज्येन सम्मितान् || ३६६ ||

होमस्थाने च संस्थाप्य कुम्भमेकं जलान्वितम् || मन्त्रयित्वाष्टसाहस्रं शरावांस्तत्र विक्षिपेत् || ३६७ ||

अभिषेकैश्च तैस्तेषां शाला प्रोक्ष्य प्रदक्षिणम् || ग्रहग्रामादिशान्त्यर्थं राज्यस्याप्येवमाचरेत् || ३६८ ||

वास्तुपूजा प्रकर्तव्या चतुष्षष्टिपदैः शुभैः || ३६९ ||

ईशानाय बलिः कार्यो भूतानां पतये तथा || एवंकृते पशूनान्तु प्रजानां शान्तिमाप्नुयात् || ३७० ||

उत्पातेषु च सर्वेषु निशायां ग्रामबाह्यतः || उपविश्य जपेद्रुद्रं त्वरितं बहुभिः सह || ३७१ ||

होमः पलाशकाष्ठैस्तु कर्तव्यो घृतसंयुतैः || ईशानाय बलिं कुर्याद्यस्यां दिशि तदद्भुतम् || ३७२ ||

ततो दिशाम्पतेस्तत्र पशूनाम्पतये तथा || वृद्धिकामो जपेल्लक्षं तिलहोमो घृतान्वितः || ३७३ ||

बलिपूजा च कर्तव्या शिवस्य वरुणस्य च || यस्य कस्यापि कार्यस्य लभ्यते योग्यता यदि || ३७४ ||

तदा लक्षार्धतो लक्षपर्यन्तं त्वरितं जपेत् || सर्वान्कामानवाप्नोति त्वरितस्य प्रसादतः || ३७५ ||

श्रीकामः शान्तिकामो वा जपेल्लक्षमिदं ततः || श्रीकामो बिल्वसमिधा शान्तिकामः शमीमयैः [काष्ठैरिति शेषः |
] || ३७६ ||

जुहुयादाज्यसम्मिश्रैस्तर्पणं मार्जनं तथा || एवं सर्वेषु कार्येषु होमः कार्यस्तथा यवैः || ३७७ ||

जुहुयाल्लक्षमेकन्तु पुत्रार्थी पायसेन च || विद्यार्थी श्रीफलैस्तद्वदायुष्कामस्तु दूर्वया || ३७८ ||

तिलैरथाज्यसम्मिश्रैस्तेजस्कामो वृतेन वा || व्रीहिभिः पुष्टिकामस्तु तुष्टिकामस्तथा हि तैः || ३७९ ||

प्. २६१) पायसं सर्वकामेषु होतव्यं शर्करान्वितम् || मध्वब्जाज्याम्रपर्णानि तीव्रज्वरविनाशने || ३८० ||

सर्वरोगविनाशाय सूर्यस्याभिमुखो जपेत् || सहस्रमयुतं लक्षं रोगिणान्तारतम्यतः || ३८१ ||

जपान्ते तु षडङ्गानां न्यासञ्चापि पराह्वयम् || पञ्चत्रिपञ्चरुद्रेषु [अष्टाष्टषडष्टाष्टसप्तषडक्षरैरंगन्यासः |
यथा - ध्रुवासु त्वासु क्षितिषु अंगुष्ठाभ्यां नमः इत्थं पूर्वोक्तरीत्या सर्वन्यासान्कुर्यात् |
] चतुर्वर्णैः षडङ्गकम् || ३८२ ||

पादयोर्जंघयोर्जान्वोरूर्वोर्गुह्ये [अथाक्षरन्यासः कथ्यते यथा-ध्रु दक्षपादाग्रे, वा वामपादाग्रे सुदक्षपादांगुलिमूले, त्वा वामपादांगुलिमूले, सु दक्षगुल्फे, क्षि वामगुल्फे, ति दक्षजानुनि, षु वामजानुनि, क्षि दक्षोरौ, यं वामोरौ, तो गुदे व्य लिंगे, स्य मूलाधारे, त्या नाभौ, स दक्षकुक्षौ, व वामकुक्षौ, रु पृष्ठे, णो हृदि मु वक्षःस्थले, मो गले, न दक्षहस्ताग्रे, रत् वामहस्ताग्रे अ दक्षहस्तांगुलिमूले, वो वामहस्तांगुलिमूले च दक्षमणिबन्धे, न्वा वाममणिबन्धे ना दक्षकूर्परे, दि दक्षबाहौ तेवामबाहौ रु मुखे पादक्षकपोले, स्था वामकपोले, यू दक्षनासापुटे, यं वामनासापुटे, या दक्षनेत्रे, त वामनेत्रे, स्व दक्षकर्णे, स्ति वामकर्णे, भिः भ्रुवोर्मध्ये, स भाले, द मूर्धनि, नः सर्वांगे || इति न्यासः || ओं यो रुद्रो अग्नौ हृदयाय नमः, यो अप्सु शिरसे स्वाहा, य ओषधीषु शिखायै वषट्, यो रुद्रो विश्वा भुवना विवेश कवचाय हुम्, तस्मै रुद्राय नेत्रत्रयाय वौषट्, नमो अस्तु अस्त्राय फट् |
] च मेढ्रके || क्रमान्नाभौ च जठरे हृदि कण्ठे मुखे नसि || ३८३ ||

नेत्रयोश्च भ्रुवोर्मध्ये ललाटे मूर्ध्नि विन्यसेत् || पदानि षोडश मनोरिति त्वरितरुद्रियम् || ३८४ ||

ऋचो विधानं वारुण्या यथावदभिधीयते || अस्या उपासको यत्र तत्रावृष्टिर्न जायते || ३८५ ||

ध्रुवासु त्वासु क्षितिषु क्षियन्तो व्यस्यत्या स वरुणो मुमो नरत् || अवोचन्वाना प्रदितेरुपस्था यूयं यात स्वस्तिभिः सदा नः || ३८६ ||

ऋषिर्वशिष्टोनुष्टुप्च्छन्दो वरुणदैवतम् || अष्टाङ्गवसुवस्वद्रिषडर्णैरङ्गकल्पनम् || ३८७ ||

पादाग्रयोस्तथा [पुनरस्यैव मन्त्रस्य षोडशपदैः क्रमान्मूलोक्तस्थानेषु न्यासं कुर्यादिति शेषः || यः पादयोः रुद्रः जंघयोः अग्नौ जान्वोः, यः ऊर्वोः, अप्सु गुह्ये, यः लिंगे ओषधीषु नाभौ यः जठरे, रुद्रः हृदये, विश्वा कण्ठे, भुवना मुखे, विवेश नासिकायाम्, तस्मै नेत्रयोः, रुद्राय भ्रुवोर्मध्ये, नमः ललाटे, अस्तु मूर्ध्नि, इति पदन्यासः ||] पादांगुलिमूलद्वयोरपि || गुल्फयोश्च तथा जान्वोरूर्वोश्च गुदलिङ्गयोः || ३८८ ||

मूलाधारे तथा नाभौ कुक्षौ पृष्ठे तथा हृदि || वक्षः स्थले गले हस्ताग्रयोरंगुलिमूलयोः || ३८९ ||

मणिबन्धयुगे चैव कूर्परद्वितये तथा || प्. २६२) बाहुमूलद्वये चास्ये कपोलयुगले नसोः || ३९० ||

नेत्रयोः कर्णयोर्मध्ये भ्रुवोर्भाले च मूर्धनि || सर्वाङ्गे च क्रमान्न्यस्य मन्त्रार्णान्ध्यानमाचरेत् || ३९१ ||

चन्द्रप्रभं पङ्कजसन्निषण्णं बाणांकुशाभीतिवरान्दधानम् || मुक्ताविभूषाञ्चितसर्वगात्रं ध्याये प्रसन्नं वरदं विभूत्यै || ३९२ ||

धर्माद्विकल्पिते पीठे वरुणं सम्यगर्चयेत् || कृत्वाङ्गपूजनं शेषं वासुकिं तक्षक पुनः || ३९३ ||

कर्कोटकञ्च पद्मञ्च महापद्मं ततः परम् || शङ्खपालञ्च कुलिकमिन्द्रादीनायुधानि च || ३९४ ||

लक्षमेकञ्जपेन्मन्त्रं पायसेन दशांसतः || सर्पिस्सिक्तेन जुहुयात्तर्पणादि ततश्चरेत् || ३९५ ||

ऋणमुक्त्यै जपेन्मन्त्रं प्रत्यहं साष्टकं शतम् || जपेनानेन लभते सम्मतामक्षयां श्रियम् || ३९६ ||

सितेक्षुशकलैर्मन्त्री जुहुयाद्धृतसम्प्लुतैः || चतुर्दिनं दशशतं ऋणमुक्त्यै महाश्रिये || ३९७ ||

समिद्भिर्वेतसस्थाभिः क्षीराक्ताभिर्दिनत्रयम् || जुहुयाद्वृष्टिसंसिद्ध्यै मन्त्रविद्विजितेन्द्रियः || ३९८ ||

अनेन विधिना मन्त्री सूर्ये शतभिषाङ्गते || चतुश्शतं घृतयुतं पायसं जुहुयादृणी || ऋणनाशाय सम्पत्त्यै वश्यारोग्याभिवृद्धये || भृगुवारे कृतो होमः पायसेन ससर्पिषा || महतीं सम्पदं कृत्वा तारयेत्सकलापदः || ३९९ ||

शालिभिर्घृतसंयुक्तैः शरीरान्तर्हितः सुधीः || त्र्यहं चतुश्शतं हुत्वा स्तम्भयेत्परसैनिकान् || सायं प्रत्यङ्मुखो वह्निमाराध्य प्रजपेन्मनुम् || चतुश्शतं विमुच्येत मन्त्री सर्वैरुपद्रवैः || ४०० ||

मन्त्री प्रत्यङ्मुखो भूत्वा तर्पयेद्विमलैर्जलैः || सर्वोपद्रवनाशाय सर्वदाभ्युदयाप्तये || ४०१ ||

बहुना किमिहोक्तेन मन्त्रेणानेन साधकः || साधयेत्सकलान्कामाञ्जपहोमादितत्परः || ४०२ ||

अयुतं प्रजपन्बद्धो मुच्यते नात्र संशयः || दिवा रात्रौ जपेनैव सिद्धिः सम्प्रति वर्तते || ४०३ ||

अहोरात्रं स्थितश्चैवमनश्नञ्च्छुद्धचेष्टितः || अयःपाशाः स्फुटन्त्वस्य दारुपाशा विशेषतः || अवैदिकाय नो देयं तान्त्रिकाय कदाचन || ४०४ ||

वक्ष्ये चान्नपतेर्मन्त्रं न्यासमुन्यादिवर्जितम् || पूजाहीनं जपेनैव नान्नहीनः प्रजायते || ४०५ ||

अन्नपतेन्नस्य दो नो देह्यनमीवस्य सुष्मिणः || प्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे || ४०६ ||

अनेन जुहुयादन्नं नित्यमष्टोत्तरं शतम् || प्. २६३) अमोघं जायते चान्नं यद्धूतं न च वर्षतः || ४०७ ||

सर्वोपस्करसंयुक्तं कुण्डेग्निं स्थापयेत्ततः || लक्षमेकं हुनेदन्नं यावज्जन्माक्षयं भवेत् || ४०८ ||

यदानेन वनङ्गत्वा स्थालीपाकविधानतः || अग्निञ्चोपसमाधायोदुम्बर्या समिधा युतम् || ४०९ ||

जुहुयात्तस्य क्षेत्रे तु धान्याख्या व्रीहयोऽक्षयाः || भवन्त्यवृष्टाविति च किमाश्चर्यं सुवर्षणे || ४१० ||

अथो लवणमन्त्रस्य विधानमभिधीयते || परिशिष्टपदान्ते तु जुहुयाल्लवणैस्तथा || ४११ ||

लवणाम्भसि निष्ठोसि उग्रोसि हृदयं तव || लवणस्य पृथिवी माता लवणस्य वरुणःपिता || ४१२ ||

लवणे हूयमाने तु कुतो निद्रा कुतो रतिः || लवणं दहति पचति लवणं छिन्दति भिन्दति || ४१३ ||

अमुकस्य दह गात्राणि दह मां संदह त्वचम् || दह त्वगस्थि मज्जानि अस्थिभ्यो मद्द्विषां दह || ४१४ ||

यदि वसति योजनशते नदीनां वा शतान्तरे || सन्दह्यानय मे शिघ्रमग्निं लवणतेजसा || ४१५ ||

नगरे लोहप्राकारकृष्णसर्पशतार्गले || अत्रैव वशमायान्तु लवणमन्त्रपुरस्कृताः || ४१६ ||

या ते रात्रिर्महारात्रिः सा ते रात्रिर्महानिशा || अङ्गिरा मुनिराख्यातश्छन्दोनुष्टुबुदाहृतम् || ४१७ ||

अग्नीरात्रिः पुनर्दुर्गा भद्रकाली च देवता || पञ्चत्रिपञ्चवेदेषु द्व्यक्षरैश्चिटिमन्त्रजैः || ४१८ ||

षडङ्गानि प्रकुर्वीत स मन्त्रः कथ्यतेधुना || तारं [समन्त्र उच्यते ओं चिटि चिटि चाण्डालि महल्यहलि अमुकं मेवशमानयस्वाहा इति मन्त्रः |
] चिटिद्वयं पश्चाच्चाण्डालि तदनन्तरम् || ४१९ ||

महल्यहलि वै ब्रूयादमुकं मे पदन्ततः || वशमानय ठद्वन्द्वञ्चतुर्विंशाक्षरो मनुः || ४२० ||

अग्न्यादिकचतुष्कस्य ध्यानं कुर्यात्ततः परम् || तानि ध्यानानि कथ्यन्ते सावधानतया शृणु || ४२१ ||

नवकुंकुमसन्निभं त्रिनेत्रं रुचिराकल्पशतं भजामि वह्निम् || स्रुवशक्तिवराभयानि दोर्भिर्दधतं रक्तसरोरुहे निषण्णम् || ४२२ ||

कालाम्बुवाहद्युतिमिन्दुरक्तां हारावलीशोभिपयोधराढ्याम् || कपालपाशांकुशशूलहस्तां नीलाम्बरां यामवतीं नमामि || ४२३ ||

कालाम्बुदाभामसिशङ्खशूलखेटाढ्यहस्तां तरुणेन्दुचूडाम् || भीमां त्रिनेत्रां जितशत्रुवर्गां स्मरामि दुर्गामरिभङ्गदक्षाम् || ४२४ ||

टङ्कं कपालं डमरुं त्रिशूलं संम्बिभ्रती चन्द्रकलावतंसा || प्. २६४) पिङ्गोर्ध्वकेशी सितभीमदंष्ट्रा भूयाद्विभूत्यै मम भद्रकाली || ४२५ ||

ऋक्पञ्चकं जपेत्सम्यगयुतं तद्दशांशतः || हविषा घृतसिक्तेनजुहुयादर्चितेऽनले || ४२६ ||

एवं कृतपुरश्चर्यः प्रयोगकुशलो भवेत् || अग्निं यामवतीं ध्यायेद्वश्याकर्षणकार्ययोः || स्मरेद्दुर्गां भद्रकालीं मन्त्री मारणकर्मणि || ४२७ ||

जानुप्रमाणसलिले स्थित्वा निशि जपेन्मनुम् || अनेन वाञ्छितः साध्यः किंकरोजायते क्षणात् || ४२८ ||

नाभिमात्रे जले स्थित्वा जपेन्मन्त्रमनन्यधीः || अष्टोत्तरसहस्रं यस्तस्य साध्यो वशो भवेत् || ४२९ ||

ऋक्पंचकं जपेन्मन्त्री कण्ठमात्राम्भसि स्थितः || सप्तभिर्दिवसैर्भूपान्वशयेद्विधिनामुना || ४३० ||

संलिख्य तालपत्रे तं साध्यनाम्ना विदर्भितम् || निक्षिप्य क्षीरसंमिश्रे जले तत्क्वाथयेन्निशि || वश्यो भवति साध्योस्य नात्र कार्या विचारणा || ४३१ ||

तालपत्रे लिखित्वैनं भद्रकालीगृहे खनेत् || वश्याय सर्वजन्तूनां प्रयोगोयमुदाहृतः || ४३२ ||

तालपत्रे समालिख्य मन्त्रं साध्यविदर्भितम् || तापयेत्खादिरे वह्नौ मासे वश्यो भवेन्नरः || ४३३ ||

त्रिकोणं कुण्डमासाद्यसम्यक्छास्त्रोक्तलक्षणम् || तस्मिन्होमं प्रकुर्वीत संस्कृते हव्यवाहने || ४३४ ||

प्रक्षाल्य दध्ना दुग्धेन संशोध्य लवणं सुधीः || सुचूर्णितं प्रजुहुयात्सप्ताहाद्वशयेज्जगत् || ४३५ ||

दधिमध्वाज्यसंसिक्तैर्जुहुयात्सैन्धवैस्तथा || वशयेदखिलान्देवानचिरात्किमु पार्थिवान् || ४३६ ||

विशुद्धलवऽं प्रस्थं विभक्तं पञ्चधा पृथक् || एकैकमंशं जुहुयादृचा पञ्चाहमादरात् || यस्य नाम्ना स वश्यः स्यादनेन विधिनाचिरात् || ४३७ ||

शुद्धं लवणमादाय जुहुयान्मधुरान्वितम् || हुतं पञ्चाशदाहुत्या वश्यं यच्छति वाञ्छितम् || नित्यं शुद्धलवणेन हुत्वा शत्रून्वशं नयेत् || ४३८ ||

मधुरत्रयसम्मिश्रैर्लवणैः साधुचूर्णितैः || जुहुयाद्वशयेन्नारीं नरान्नरपतीनपि || ४३९ ||

मन्त्रं कृष्णद्वितीयादि प्रजपेद्यावदष्टमि || पुत्तलीः पञ्च कुर्वीत साङ्गोपाङ्गाः समाः शुभाः || ४४० ||

एका साध्यद्रुमेण स्यादन्या पिष्टमयी मता || चक्रिहस्तमृदान्या स्यादन्या तु सिकतामयी || ४४१ ||

लवणं पोतसम्भूतं चूर्णितं परिशोधितम् || कुडवं प्रोक्षयेत्क्षीरदध्याज्यमधुभिः क्रमात् || गुडाज्यमधुभिः सम्यङ्मिश्रितेनामुना पुनः || ४४२ ||

प्. २६५) कुर्वीत पुत्तलीं सौम्यां सर्वावयवशोभिताम् || प्राणप्रतिष्ठामन्त्रैश्च प्राणानस्या हृदि क्षिपेत् || आशु प्राणान्प्रतिष्ठाप्य पूजयेत्कुसुमादिभिः || ४४३ ||

पश्चात्कृष्णाष्टमीरात्रौ याममात्रे गते सति || विधाय मातृकान्यासं मन्त्रस्य समनन्तरम् || ४४४ ||

चिटिमन्त्रसमुद्भूतांश्चतुर्विंशतिसंख्यकान् || ताराद्यान्विन्यसेद्वर्णान्स्थानेष्वेषु समाहितः || ४४५ ||

मूर्ध्नि [ओं मूर्ध्नि चि भाले टि दक्षनेत्रे चि वामनेत्रे टि दक्षकर्णे चां वामकर्णे डा दक्षनासायाम् लि वामनासायाम् म मुखे ह चिबुके ल्य कण्ठे ह दक्षस्तने लि वामस्तने अ दक्षकुक्षौ मु वामकुक्षौ कं नाभौ पे दक्षकट्याम् व वामकट्याम् श लिंगे मगुदे न ऊरुद्वये य जानुयुग्मे स्वा जंघायुग्मे हा पदद्वये - इति मन्त्राक्षरन्यासः ||] भाले दृशोः श्रुत्योर्नासास्यचिबुकेषु च || कण्ठयुक्स्तनयुग्मेषु कुक्ष्योर्नाभौ कटिद्वये || ४४६ ||

मेढ्रे पायौ प्रविन्यस्य शिष्टं वर्णचतुष्टयम् || ऊरुद्वये जानुयुग्मे जङ्घायुग्मे पदद्वये || ४४७ ||

एवं विन्यस्य सर्वाङ्गे रक्तमाल्यानुलेपनः || रक्तवस्त्रधरः शुद्धः पुत्तलीं दारुणाकृताम् || ४४८ ||

अधोमुखीं खनेत्कुण्डे पिष्टजामासनादधः || मृन्मयीं प्रतिमां पादेनाक्रामेच्च तथात्मनः || ४४९ ||

सैकतीं प्रतिमां चाग्निकुण्डस्योर्ध्वं प्रलम्बयेत् || लवणेन कृतां पश्चात्पुत्तलीं संस्पृशञ्जपेत् || ४५० ||

ऋक्पञ्चकं यथान्यासमष्टोत्तरसहस्रकम् || संहत्य चिटिमन्त्रार्णान्पुनस्तस्याः [पुनस्तस्या लवणपुत्तल्या अङ्गेषु अक्षरन्यासं कुर्यात् |
यथा ओं अंगुष्ठद्वये चि अंगुष्ठसन्विद्वये, टि प्रपदद्वये चि जङ्घाद्वये टि जानुद्वये चां ऊरुद्वये डा गुदे लि लिङ्गे म नाभौ ह जठरे ल्य हृदये ह दक्षस्तने लि वामस्तने अ कन्धरायाम् मु चिबुके कं मुखे मे दक्षनासायाम् व वामनासायाम् श दक्षकर्णे मा वामकर्णे न दक्षनेत्रे य वामनेत्रे स्वा ललाटे हा मूर्ध्निं ||] स्तनौ न्यसेत् || ४५१ ||

अंगुष्ठसन्धिप्रपदजङ्घाजानूरुपाउषु || लिङ्गदेशे पुनर्नाभौ जठरे हृदयाम्बुजे || ४५२ ||

स्तनद्वये कन्धरायां चिबुके वदने तथा || घ्राणयोः कर्णयोरक्ष्णोर्ललाटे मूर्ध्नि विन्यसेत् || ४५३ ||

अग्निमादाय सन्दीप्य साध्यनक्षत्रदारुभिः || तस्मिन्नभ्यर्च्य मन्त्रोक्तदेवतां रूप्यपात्रके || ४५४ ||

कुशाब्जराजिपुष्पाद्भिर्दत्त्वार्घ्यं प्रणमेत्सुधीः || मन्त्रैरेतैः प्रयोगादावन्ते संयतमानसः || ४५५ ||

लवणेनाभिमन्त्र्याथ निशायां हव्यवाहनम् || प्. २६६) निशायां मन्त्रजप्तेन तृप्तो भव तया सह || ४५६ ||

जातवेदो महादेव तप्तजाम्बूनदप्रभ || स्वाहापते विश्वभक्ष्य लवणं दह शत्रुहन् || ४५७ ||

ईशे शर्वरि शर्वाणि ग्रस्तं मुक्तं त्वयाजगत् || महादेवि नमस्तुभ्यं वरदे कामदा भव || ४५८ ||

तमोमयि महादेवि महादेवमनुव्रते || प्रिया मे पुरुषं हत्वा वशमानय देवि मे || ४५९ ||

दुर्गे दुर्गादिरहिते दुर्गसंराधनार्गले || चक्रशङ्खधरे देवि दुष्टशत्रुभ्यङ्करे || ४६० ||

नमस्ते दह शत्रून्मे वशमानय चण्डिके || शाकम्भरि महादेवि शरणं मे भवानघे || ४६१ ||

भद्रकालि भवाभीष्टरुद्रसिद्धिप्रदायिनि |
सपत्नान्मे जहिजहि शोषय तापयतापय || ४६२ ||

शूलासिशक्तिवज्राद्यैश्छित्त्वानय यमालये || महादेवि महाकालि रक्षास्मानक्षरात्मिके || ४६३ ||

साध्यं संस्मृत्य निर्मिद्य पुत्तलीं सप्तधा पुनः || ऋक्पञ्चकं समुच्चार्य जुहुयादेधितेनले || ४६४ ||

प्रथमो दक्षिणः पादस्तत्करस्तदनन्तरम् || शिरस्तृतीयमाख्यातं वामहस्तस्ततः परम् || ४६५ ||

मध्यादूर्ध्वं पञ्चमं स्यादधोंसः षष्ठ ईरितः || सप्तमो वामपादः स्यादिति भागक्रमः स्मृतः || ४६६ ||

सप्तसप्त विभागान्वा प्रोक्तेष्वेव यथाविधि || कृत्वैवमर्चयित्वाग्निं प्रणमेद्दण्डवत्ततः || ४६७ ||

यजमानो धनैर्धान्यैः प्रीणयेद्गुरुमात्मनः || अनेन विधिना मन्त्री वशयेदसुरान्सुरान् || ४६८ ||

किंपुनर्मनुजान्भूपानमात्यान्नृपयोषितः || मारणे पूर्वसम्प्रोक्तपुत्तलीनां चतुष्टयम् || ४६९ ||

निवेशयेद्यथापूर्वं साधकेन्द्रो विधानवित् || अपरं वक्ष्यमाणेन विधानेन प्रकल्पयेत् || ४७० ||

बलाह्वया मूलनखी तिलत्र्यूषणरामठैः || विकृतिं वश्यसिद्ध्यर्थं साध्यनामांघ्रिरेणुभिः || ४७१ ||

महिषीमूत्रसम्पिष्टैः पूर्वोक्तलवणान्वितैः || विधाय पुत्तलीं सम्यक्प्राणस्थापनमाचरेत् || ४७२ ||

जपपूजादिकं सर्वं कुर्यात्प्रागुक्तवर्त्मना || ततः सवेदिके कुण्डे रात्रौ प्रज्वलितेनले || ४७३ ||

दुर्गां च भद्रकालीं वा समाराध्य यथाविधि || धारयेन्निशितं शस्त्रं सव्यहस्तेन साधकः || ४७४ ||

वामपादं समारभ्य दक्षिणांघ्र्यवसानकम् || छित्त्वाछित्त्वा प्रजुहुयान्निराहारो जितेन्द्रियः || ४७५ ||

प्. २६७) कृष्णाष्टमीं समारभ्य यावत्कृष्णचतुर्दशी || अनेनैव विधानेन होमं कुर्याद्विचक्षणः || ४७६ ||

त्रिसप्ताहप्रयोगेन मारयेद्रिपुमात्मनः || ४७७ ||

नक्षत्रवृक्षाः कारस्करामलक्यावुदुम्बरः || जम्बूश्च खदिरः कुष्ठो वंशपिप्पलनागराः || ४७८ ||

रोहितश्च पलाशश्च प्लक्षो वटशिलाभवौ || पार्थो वैकङ्कतश्चापि बकुलः सरलः क्रमात् || ४७९ ||

सर्जवञ्जुलपनसा अर्कः शमिकदम्बकौ || निम्बश्चाम्रो मधूकश्च लोध्रोमन्त्रविधिस्त्विति || ४८० ||

यश्च त्रिषवणं सन्ध्यां सहस्रजपपूर्विकाम् || करोति तस्य वक्ष्यामि सिद्धये सुगमा ऋचः || ४८१ ||

तच्छन्दो दैवतमृषिन्यासध्यानादिकं विना || जपेदष्टसहस्रे तु यासु सिद्धिरदूरतः || ४८२ ||

सर्वलोकोपकारार्थं कथयाम्यत्र ता ऋचः || ४८३ ||

अवपतन्तीरवदंदिव ओषधयस्परि || यं जीवमश्नवामहै न स रिष्यति पूरुषः || ४८४ ||

सर्वौषध्यहुतं हुत्वा मिष्टान्नं लभते सदा || भाण्डागारस्य वस्तूनि चतुर्थांशेन होमयेत् || ४८५ ||

भवन्ति तानि पूर्णानि वर्षमध्ये न संशयः || त्रिवारमेवं यः कुर्यादक्षयोस्त्ययुतेन च || ४८६ ||

समाहि.गूंसीर्मधु नव दिष्टो मधु वक्ष्यामि मधुमतीं देवेभ्यो वाचमुद्यासगूंशुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोन्नमदन्तु || ४८७ ||

महाभिचारजे व्याधावशान्ते चापचारके || अनेन जुहुयाच्चाज्यं सहस्रं तस्य शान्तये || ४८८ ||

नमो अस्तु सर्पेभ्यो ये के च पृथीइमनु || ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः || ४८९ ||

सर्पस्थाने तु जुहुयादनेन घृतपायसम् || मासमेकं सहस्रन्तु स्वर्णमुत्पद्यते ततः || ४९० ||

या इषवो यातुधानानां ये वा वनस्पतीननु || ये वा बिलेषु शेरते तेभ्यः सर्पेभ्यो नमः || ४९१ ||

बिलप्रविष्टं सर्पन्तु दृष्ट्वा तत्रैव होमयेत् || आज्याहुतिसहस्रं तु तेन स्वर्णशतं लभेत् || ४९२ ||

कृणुष्वपाजः प्रसितिं न पृथ्वीं याहि राजेवामवां इभेन || त्रिष्वीमनप्रसितिं गृणानो स्तासिविध्य रक्षसस्तपिष्ठैः || ४९३ ||

प्रत्यङ्गिर-ऋचमिमा नित्य यः प्रजपेत्सुधीः || त्रिसन्ध्यं तस्याग्निकृतं दुःखं पतति वैरिणि || ४९४ ||

उदग्नेतिष्ठ प्रत्वा तनुष्वन्यामित्रां ओषधात्तिग्महेते || प्. २६८) यो नो अरातिं समिधा न चक्रे नीचा तं धक्ष्यत सं न शुष्कम् || ४९५ ||

विषाक्तराजिकारक्तकण्टकाञ्जुहुयाद्रिपोः || गृहीत्वा शत्रुनामास्य ग्रामनाशः प्रजायते || ४९६ ||

कृतस्य क्रोधनाशार्थमयुतं प्रजपेन्मनुम् || हुनेन्मासं सहस्रं तु सर्षपान्पुंवशीकृते || ४९७ ||

काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि || एवा नो दूर्वे प्रतनु सहस्रेण शतेन च || ४९८ ||

या शतेन प्रतनोषि सहस्रेण विरोहसि || तस्यास्ते देवीष्टके विधेम हविषा वयम् || ४९९ ||

आभ्यां दूर्वाप्रवालानामयुतं जुहुयाद्वशी || ग्रामस्थं मारकं हन्याद्द्विगुणेन पुरः स्थितम् || ५०० ||

त्रिगुणे राष्ट्रकं हन्यान्महारोगांश्च षड्गुणैः || नानादेशोद्भवं हन्यान्मारकं लक्षहोमतः || ५०१ ||

मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः || माध्वीर्गावो भवन्तु नः || ५०२ ||

उदुम्बरस्य समिधो येन कामेन यो हुनेत् || आज्येनाक्ता अयुतशः प्रयुतावधेयुक् ततः || ५०३ ||

आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् || संक्रन्दनोनिमिष एकवीरः शतगूंसेना अजयत्साकमिन्द्रः || ५०४ ||

संक्रन्दनेनामिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना || तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा || ५०५ ||

स इषुहस्तैः सनिषङ्गिभिर्वशी सगूंस्रष्टा स युध इन्द्रोगणेन || सगूंसृष्टजित्सोमपाबाहुशर्घ्युग्रधन्वा प्रतिहिताभिरस्ता || ५०६ ||

बृहस्पते परिदीयारथेन रक्षोहामित्रां अपबाधमानः || प्रभञ्जन्सेना प्रभृणो युधाष्ट जयन्नस्माकमेध्यविता रथानाम् || ५०७ ||

बलविज्ञाय स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः || अभिवीरो अभिसत्त्वासहोजाजैत्रमिन्द्ररथमातिष्ठगोवित् || ५०८ ||

गोत्रमिदं गोविदं वज्रबाहुं जयन्तमज्मप्रमृणन्तमोजसा || इमगूंस जाता अनुवीरयध्वमिन्द्रगूंसखायो-अनुसगूंरभध्वम् || ५०९ ||

अभिगोत्राणि सहसा गाहमानो दयो वीरः शतमन्युरिन्द्रः || दुश्च्यवनः पृतनाषाढयुध्योस्माकगूंसेना अवतु प्रयुत्सु || ५१० ||

इन्द्र आसां नेताबृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः || देवसेनानामभिभञ्जतीनां जयन्तीनाम्मरुतो यन्त्वग्रम् || ५११ ||

इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतागूंशर्ध उग्रम् || प्. २६९) महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् || ५१२ ||

उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकाना मनागूंसि || उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः || ५१३ ||

अस्माकमिन्द्रः सम्भृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु || अस्माकं वीरा उत्तरे भवन्त्वस्मां उ देवा अवताहवेषु || ५१४ ||

अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्न्यष्वेपरेहि || अभिप्रेहि निर्दह हृत्सुशोकैरन्धेनामित्रास्तमसा सचन्ताम् || ५१५ ||

अवसृष्टा परापत शरव्ये ब्रह्मसगूंशिते || गच्छामित्रान्प्रपद्यस्व मामीषां कंचनोच्छिषः || ५१६ ||

प्रेता जयता नर इन्द्रो वः शर्म यच्छतु || उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ || ५१७ ||

यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव || तन्न इन्द्रो बृहस्पतिरदितिः शर्म यच्छतु विश्वा हा शर्म यच्छतु || ५१८ ||

मर्माणि ते वर्मभिश्छादयामि सोमस्त्वा राजामृतेनाभिवस्ताम् || उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानुदेवा मदन्तु || ५१९ ||

अनेन चानुवाकेन आत्मानं चायुधान्यपि || अभिमन्त्र्य रणे यायाद्विजयो जायते ध्रुअम् || ५२० ||

चौरं व्याघ्रं च महिषं सिंहं सर्पं च राक्षसम् || श्रुत्वा तस्मिन्स्थले चिन्त्योनुवाको मनसा द्विजैः || ५२१ ||

तत्स्थानं कुशलं गच्छेदथ वा मन्त्रमन्त्रितान् || अक्षतान्वा कुशान्वापि क्षिपेद्रक्षा भवत्वितः || ५२२ ||

सप्त ते अग्ने समिधः सप्त जिह्वाः सप्त ऋषयः सप्तधामप्रियाणि सप्त होत्रास्सप्तधा त्वा यजन्ति सप्तयोनीरापृणस्व घृतेन स्वाहा || ५२३ ||

सहस्रतश्च लक्षान्तमनेन च घृताहुतीः || हुत्वा भवति तेजस्वी हुनेदयुतसङ्ख्यया || ५२४ ||

औदुम्बर्यश्च समिधो घृताक्ताः कनकं लभेत् || सप्ततोलकपर्यन्तं षण्मासाभ्यन्तरे ध्रुवम् || ५२५ ||

स नो भुवनस्य प्रजापते यस्य त उपरिगृहा यस्य वेह || अस्मै ब्रह्मणस्मै क्षत्राय महिशर्म यच्छ स्वाहा || ५२६ ||

इदमिन्द्राय स्वाहेति त्यागोत्र जुहुयाद्घृतम् || सहस्राष्टकमेतेन वास्तुदोषात्प्रमुच्यते || ५२७ ||

नापमृत्युर्गृहे तस्मिंश्चित्तोद्वेगो न जायते || नाप्नोति सूतिकापीडां भयं नैकाकिनो भवेत् || ५२८ ||

अग्न आयूंषि पवस आसु वोर्जमिषंच नः ||

आरे बाधस्वदुच्छुनाम् ||

प्. २७०) अनेनाज्यं सहस्रन्तु हुत्वा शत्रुगृहं व्रजेत् || ५२९ ||

तेनापवर्जनं सम्यक्प्रीतिपूर्वं च मित्रवत् || हिरण्यपाणिमूतये सवितारमुपह्वये || सचेतादेवतापदम् || ५३० ||

अनेनायुतसङ्ख्याका औदुम्बर्यस्तथार्कजाः || सुवर्णवृद्धिसिद्ध्यर्थं घृताक्ताः समिधो हुनेत् || ५३१ ||

त्राता रमिन्द्रमवितारमिन्द्रगूंहवेहवे सुहवगूंशूरमिन्द्रम् || ह्वयामि शक्रं पुरुहूतमिन्द्रगूंस्वस्ति नो मघवा धात्त्विन्द्रः || ५३२ ||

महीमूष मातरगूंसुव्रतानामृतस्य पत्नीमवसेहुवेम || तुविक्षत्रामजरन्तीमुरूचीगूं सुशर्माणमदिति गूंसुप्रणीतिम् || ५३३ ||

एतन्मन्त्रजपेनैव दुस्तरार्थं द्रुतं तरेत् || पोतस्थो वापि नौकास्थो जले यद्वन्न मज्जति || ५३४ ||

गणानान्त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् || ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत-आ नः शृण्वन्नूतिभिः सीद सादनम् || ५३५ ||

अनेन जुहुयान्मन्त्री यवान्धान्धं तिलांस्तथा || अपामार्गस्य समिध औदुम्बर्यस्तथैव [द्वितीयार्थे प्रथमा |
] च || ५३६ ||

पृथक्पृथक्प्रस्थमात्रं लक्षावधि तथातथा || धनं विवर्धते चाथ होमं कुर्याच्चतुष्पथे || ५३७ ||

पिचुमन्दोद्भवैः पत्रैः सहसैकं वशीकृतौ || वल्मीकस्य मृदा लिंगं कृत्वा च स्नापयेत्तथा || ५३८ ||

भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः || स्थिरैरंगैस्तुष्टुवा गूं सस्तनूभिर्व्यशेम देवहितं यदायुः || ५३९ ||

इमां तु प्रजपेल्लक्षद्वयं वा विकलेन्द्रियः || पूर्णेन्द्रियः स भवति षण्ढत्वाच्च विमुच्यते || ५४० ||

अमित्वा गीर्वाणो गिर इमा भवन्तु विश्वतः || वृद्धायुमनुवृद्धयो जुष्टा भवन्तु जुष्टयः || ५४१ ||

कण्ठमात्रोदके स्थित्वा चाहोरात्रमतन्द्रितः || जपेदेनामृचं वृष्टिर्भवेत्कालं विना तदा || ५४२ ||

यज्जाग्रतोदूरमुदैतिदैवं तदुसुप्तस्य तथैवैति || दूरंगमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसंकल्पमस्तु || ५४३ ||

येन कर्माण्यपशो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः || यदपूव यक्षमन्तः प्रजानां तन्मे मनः शिवसंकल्पमस्तु || ५४४ ||

यत्प्रज्ञानमुत चेतो घृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु || यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसंकल्पमस्तु || ५४५ ||

प्. २७१) येनेदं भूतं भुवनं भविष्यत्परिगृहीतममृतेन सर्वम् || येन यज्ञस्तायते सप्त होता तन्मे मनः शिवसंकल्पमस्तु || ५४६ ||

यस्मिन्नृचः सामयजूंषि यस्मिन्प्रतिष्ठिता रथनाभाविवाराः यस्मिंश्चित्त गूं सर्वमोतं प्रजानां तन्मे मनः शिवसंकल्पमस्तु || ५४७ ||

सुषारथिरश्वानिव यं मनुष्यान्नेनीयन्तेभीषु भिर्वाजिन इव || हृत्प्रतिष्ठं यदजिरंजविष्ठं तन्मे मनः शिवसंकल्पमस्तु || ५४८ ||

अयुतं प्रजपेदेताश्चित्तस्थैर्यं प्रजायते || आवाह्य सोमदिवसे पार्थिवं लिंगमुत्तमम् || ५४९ ||

नित्यकर्मान्तरं कुर्यादष्टोत्तरशतं कणाः || क्रोडीकृत्याक्षताश्चैवं स्थाप्याः स्थानचतुष्टये || ५५० ||

संकल्पं मनसा कृत्वा पार्थिवं लिंगमर्चयेत् || पूजनान्ते ऋचां पाठमेकं कृत्वाक्षतान्न्यसेत् || ५५१ ||

प्रथमे प्रहरे पर्वभागे लिङ्गस्य मूर्द्धनि || द्वितीयादिप्रहरके दक्षिणाद्यासु विन्यसेत् || ५५२ ||

एतन्मध्ये जपेद्रात्रौ स्वेष्टं कार्यं स पश्यति || यदा न स्यादासायं तु कृत्यं कृत्वा च भक्षयेत् || ५५३ ||

त्रयं त्रयं चतुर्दिक्षु तण्डुलानां स्थितिं चरेत् || अष्टवार सहस्रन्तु जाप्या एता ऋचः शुभाः || ५५४ ||

अवश्यमेव भवति स्वप्नः सत्यो न चान्यथा || भूतं वा वर्तमानं वा भविष्यदपि दृश्यते || ५५५ ||

त्वन्नो अग्ने वरुणस्य विद्वान्देवस्य हेडो अवयासिसीष्ठाः || यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषा गूं सि प्रमुमुग्ध्यस्मत् || ५५६ ||

सहस्रादि च लक्षान्तमनया जुहुयुर्घृतम् || पुत्रार्थिनः सुपुत्राः स्युः पशुंश्चैवतदर्थिनः [लभन्ते इति शेषः ||] || ५५७ ||

अथ सर्वोत्तमं वक्ष्ये श्रीसूक्तं सविधानकम् || कलौ दारिद्र्यनाशाय नान्यक्तिञ्चिन्नृणां तथ || ५५८ ||

हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजम् || चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह || ५५९ ||

तां म आवह जातवेदो लक्ष्मी मनपगामिनीम् || यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् || ५६० ||

अश्वपुर्वां रथमध्यां हस्तिनादप्र्बोधिनीम् || श्रियं देवीमुपह्वये श्रीर्मा देवीजुषताम् || ५६१ ||

कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् || पद्मस्थितां पद्मवर्णां तामिहोपह्वये श्रियम् || ५६२ ||

प्. २७२) चन्द्रां प्रभासां तपसा ज्वलन्तीं श्रियं लोकेदेवजुष्टामुदाराम् || तां पद्मनीमीं शरणं प्रपद्मे अलक्ष्मीर्मे नश्यतां त्वा वृणे || ५६३ ||

ञ्जादित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोथ बिल्वः || तस्य फलाइ तपसा नुदन्तु मायान्तरा याश्च बाह्या अलक्ष्मीः || ५६४ ||

उषैतु मां देवसखः कीर्तिश्च मणिना सह || प्रादुर्भूतोस्मि राष्टेस्मिन्कीर्तिमृद्धिं ददातु मे || ५६५ ||

क्षुत्पिपासामला ज्येष्टामलक्ष्मीं नाशयाम्यहम् || अभूतिमसमृद्धिं च सर्वा निर्णुद मे गृहात् || ५६६ ||

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् || ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् || ५६७ ||

मनसः काममाकूतिं वाचः सत्यमशीमहि || पशूनां रुपमन्नस्य मयि श्रीः श्रयतां यशः || ५६८ ||

कर्दमेन प्रजा भूता मयि सम्भव कर्दम || श्रियं वासय मे कुले मातरं पद्ममालिनीम् || ५६९ ||

आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे || निचदेवीं मातरं श्रियं वासय मे ले || ५७० ||

आर्द्रां पुष्करिणीं पुष्टि सुवर्णां हेममालिनीम् || सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह || ५७१ ||

आर्द्रां पुष्करिणीं यष्ठिं पिङ्गलां पद्ममालिनीम् || चन्द्रां हिरण्मयीं लक्ष्मीं जात वेदो म आवह || ५७२ ||

तां म आवह जातवेदो लक्ष्मीमनगामिनीम् || यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम् || ५७३ ||

हिरण्यवर्णामित्यस्य ऋचो लक्ष्मीर्मुनिर्मतः || चतुर्दशानामीशानामानन्दः कर्दमस्तथा || ५७४ ||

चिल्कीत लक्ष्मीतनयाश्चत्वारो मुनयो मताः || हिरण्यादितिसृणां चच्छन्दोनुष्टुबुदाहृतम् || ५७५ ||

कां सोस्मितर्चो बृहती शशाङ्कादित्यवर्णयोः त्रिष्टुवप्छन्द उपैतु मां देवाद्यष्ट -ऋचामपि || ५७६ ||

छन्दोनुष्टुप्समाख्यातं तां म आवह इत्यृचः || प्रस्तारपंक्तिरुद्दिष्टा देवते श्रीविभावसू || ५७७ ||

व्यञ्जनानि तु बीजानि स्वराः शक्तय ईरिताः || बिन्दवः कीलकं प्रीक्तं त्वंगुष्ठादिषडङ्गकम् || ५७८ ||

हिरण्या [हिरण्यायै अंगुष्ठाभ्यां नमः चन्द्रायै तर्जनीभ्यां नमः रजतप्रभायै मध्यमाभ्यां नमः हिरण्यस्रजे अनामिकाभ्यां नमः हिरण्याक्ष्यै कनिष्ठिकाभ्यां नमः हिरण्यवर्णिकायै करतलकरपृष्ठाभ्यां नमः इत्यंगुष्ठादिन्यासः ||] च तथा चन्द्रतृतीया रजतप्रभा || प्. २७३) हिरण्यस्रग्धिरण्याक्षी तथा हिरण्यवर्णिका || ५७९ ||

एताभिर्ङेनमोन्ताभिः प्रकुर्यादङ्गकल्पनम् || मूर्द्धाक्षिकर्णनासास्यगलदोर्हस्तनाभिषु [मूर्द्धादिपादपर्यन्तपञ्चदशसु अंगेष्वेवं न्यासं कुर्यात्सोग्रे कथ्यते हिरण्यवर्णामिति मूर्धनि तां आवह इति नेत्रयोः अश्वपूर्णामिति कर्णयोः एतद्रीत्यान्येपि ज्ञेयाः ||] || ५८० ||

गुदपायुरुयुग्जानुजङ्घापत्सु न्यसेदृचः || न्यासद्वयमिदं देवि कुर्याद्ध्यानं ततश्चरेत् || ५८१ ||

अरुणनलिनसंस्था तद्रजः पुञ्जवर्णा करकमलधृतेष्टाभीतियुग्माम्बुजा च || मणिमुकुटविचित्रालंकृताकल्पजालैर्भवतु भुवनमाता सन्ततं श्रीः श्रिये नः || ५८२ ||

षट्कोणं मद्ममालिख्य पूज्यास्तत्राङ्गदेवताः || आग्नेयकोणतस्तद्वत्तद्बाह्येष्टदलेष्विमाः || ५८३ ||

पद्मासना पद्मवर्णा पद्मस्था पद्मलोचना || तर्पयन्ती च तृप्तिश्च ज्वलन्ती तदनन्तरम् || ५८४ ||

स्वर्णप्राकारसञ्ज्ञा च हींद्रादीनायुधानि च आवाहनं चासनं स्यादर्घ्यपाद्याचमानि च || ५८५ ||

मधुपर्काभिषेकौ च वस्त्रालङ्कारचन्दनम् || पुष्पं धूपं दीपभोज्ये प्रोद्वासनमिति क्रमात् || ५८६ ||

एतानि मन्त्रवित्कुर्यादृक्पञ्चदशकेन हि || ततश्च फलताम्बूले दत्त्वा नीराजयेच्छ्रियम् || ५८७ ||

ततश्च होमयेदाज्यमेभिः पञ्चदशर्चकैः || दत्त्वा देव्यै चाचमनं तां म आवहमन्त्रतः || ५८८ ||

उद्वासयेत्स्वे हृदये कृताञ्जलिपुटः पठेत् || श्रीसूक्तं नित्यपूजेयं पुरश्चरणमुच्यते || ५८९ ||

परिषिञ्चेत्त्रिशो नित्यं सुक्तैस्तैः स्नानकर्मणि || आदित्याभिमुखो जप्त्वायावत्तावच्च तर्पयेत् || ५९० ||

शुक्लाद्यां तिथिमारभ्य यावदेकादशी भवेत् || तावद्द्वादशसाहस्रं जपेन्निश्चलमानसः || ५९१ ||

ब्रह्मचर्यरतः शुद्धवस्त्रदन्तादिकः सुधीः || पद्मैस्त्रिमधुरोपेतैर्घृताक्तेन पयोन्धसा || ५९२ ||

श्रीसमिद्भिः सर्पिषा च प्रत्यहं त्रिशतं हुनेत् || द्वादश्यां द्वादशैवाथ सद्विप्रांश्चापि भोजयेत् || तेन सिद्धो भवेन्मन्त्रो नात्रा कार्या विचारणा || ५९३ ||

कुन्दमन्दारकुमुदमालतीपद्मकेतकैः || नन्द्यावर्ताह्वयं जाती कल्हारं चम्पकं तथा || रक्तोत्पलादिपुष्पाणि लक्ष्म्याश्चातिप्रियाणि च || ५९४ ||

त्रिवारमन्वहं मन्त्री जुहुयाच्च यथाविधि || षण्मासं यः करोत्येवं स स्याल्लक्षपतिः स्वयम् || ५९५ ||

प्. २७४) विकसन्मात्र एवाब्जे नवनीतम्प्रविन्यसेत् || मध्ये सकेशरे पत्रे सम्यक्पत्रान्तरे तथा || सुसमिद्धेनले तच्च समुद्धृत्य हुनेत्सुधीः || ५९६ ||

अभ्यर्च्याष्टोत्तरशतं जपंश्च भृगुवासरे || चत्वारिंशद्भिरस्य स्यान्महालक्ष्मीरचञ्चला || ५९७ ||

तुरीयर्चा च जुहुयाद्घृतेनैकादशाहुतीः || एवं कुर्वत् एवास्य षण्मासात्स्यान्महेन्दिरा || ५९८ ||

य इच्छेद्वरदां देवीं श्रियं नित्यं कुले स्थिराम् || स शुचिः प्रियतो भूत्वा जुहुयादाज्यमन्वहम् || ५९९ ||

श्रियः पञ्चदशर्चस्तु श्रीकामः सततं जपेत् || आवाहयेच्छ्रियं पद्मे पञ्चभिः कनकेथवा || ६०० ||

उपहारानुपहरेद्भक्तं भक्ष्यं पयो दधि || स्थालीपाकं च शालीनां पयसा सम्प्रकल्पयेत् || ६०१ ||

चन्द्रायणकृतात्मा तु प्रपद्येत यतः श्रियम् || सर्वौषधीभिः फाण्टैश्च स्नात्वाभिपाचितैरपि || ६०२ ||

उपैतु मां देवसख इति राज्ञोभिषेचने || मनसः काम इत्येषा पशुकामाभिषेचने || ६०३ ||

कां सोस्मीति च सुस्नायात्प्रजाकामः सुचिव्रतः || अश्वपूर्णामिति स्नायाद्राज्यकामः समाहितः || ६०४ ||

विहिते चर्मणि स्नायाद्ब्राह्मणस्तु यथाविधि || राज्ञश्चर्मणि वैयाघ्रे क्षत्त्रियस्याथ रौरवे || वस्तचर्मणि वैश्यस्य होमः कार्यस्त्वनन्तरम् || ६०५ ||

चन्द्रामिति तु पद्मानि जुहुयात्सर्पिषा द्विजः || आदित्यवर्णेत्यनया बिल्वहोमो विधीयते || ६०६ ||

बिल्वेन्धनभवाग्निः स्याच्छालींश्च जुहुयाद्द्विजः || दशसाहस्रिको होमः श्रीकामस्य प्रकीर्तितः || हुत्वा तु प्रथमं सम्यगनन्तां विंदते श्रियम् || ६०७ ||

अयुतं दशकृत्वस्तु हुत्वा सूक्तानि सर्पिषा || अनुक्तामव्यवच्छिनां शाश्वतीं विदते श्रियम् || ६०८ ||

अशक्तौ [तस्येति शेषः ||] जप एवोक्तो दशसाहस्रिको वरः || जपे तु प्रयुतं सम्यगनन्तां विंदते श्रियम् || ६०९ ||

अयुतं दशकृत्वस्तु जप्त्वा श्रियमुपाश्नुते || अवश्यं जुहुयान्नित्यं पद्मान्ययुतशोपि च || ६१० ||

इष्ट्वा श्रियस्तु परमा बिल्वान्सुज्ञो बिभर्ति वै || बिल्वाशी बिल्वनिलयो जुह्वद्बिल्वानि सर्पिषा || एकविंशतिरात्रेण परां सिद्धिं स गच्छति || ६११ ||

येन येन च कामेन जुहोति नियतेन्द्रियः || प्. २७५) पद्मान्यथापि बिल्वानि सस कामः समृद्ध्यति || ६१२ ||

न जातु कृपणोर्थाय श्रियमावाहयेत्क्वचित् || नयेत्किञ्चन कामेन होमः कार्यः कथञ्चन || ६१३ ||

महद्वा प्रार्थमानेन चाज्यकामेन वा पुनः || वान्यत् प्रार्थयता रत्नाद्युक्तैः श्रीरिज्यते ध्रुवम् || ६१४ ||

प्रधानतर्पणान्ते [एवमन्यत्र नामस्वपि ज्ञेयम् ओंङ्कारादिचतुर्थ्यन्तनाम्नामन्ते नमः पदं संयोज्य तृप्यतुपदमुच्चरेत् नमः पदं संयुज्य तृप्यत्विति पदमुच्चारयेत् |
यथा ओं श्रियै नमः श्रीस्तृप्यतु |
अनयैव रीत्यान्यनामानि ज्ञेया |
] च सन्तर्प्याः शक्तयस्त्विमाः || प्रणवाद्या हृदन्ताश्च श्रीर्लक्ष्मीर्वरदा तथा || विष्णुपत्नी च वसुदा वसुरूपा हिरण्मयी || ६१५ ||

पद्मा मालिन्यथ रमा प्रोक्ता तु रजतप्रभा || सुवर्णा प्रग्रहा स्वर्णप्राकारा पद्ममालिनी || इन्द्राविश्वप्रियैश्वर्यौ भुक्तिश्चापि प्रमुक्तियुक् || ६१६ ||

विशुद्धर्द्धिः समृद्धिश्च तुष्टिः पुष्टिर्धनाह्वया || भुवनेशी च शुद्धा च भोगिनी भोगदा तथा || ६१७ ||

धात्री विधात्री द्वात्रिंशच्छक्तयः समुदीरिताः || प्रणवादिचतुर्थ्यन्तैर्नमोभिश्चैव तर्पयेत् || ६१८ ||

बलिं भक्ष ममेत्येतैर्नामभिर्बलिमाहरेत् || पूजान्ते प्रत्यहं कार्यो नियमश्च निगद्यते || ६१९ ||

शयीत शुद्धः शययायां तरुण्या सह नाथ वा || मलिनो न भवेज्जातु कुत्सितान्नं न भक्षयेत् || ६२० ||

द्रोणपङ्कजबिल्वानि पद्मं जातु न लङ्घयेत् || यतो लक्ष्मीप्रियाश्चैते कदाचिद्बुद्धिमांस्ततः || ६२१ ||

सहदेवीमिन्द्रवल्लीं श्रीदेवीं विष्णुवल्लभाम् || कन्यां जम्बूं प्रवालञ्च धारयेन्मूर्ध्नि सर्वदा || ६२२ ||

स्योना पृथिवि नो भवानृक्षरा निवेशनी || यच्छा नः शर्मः सप्रथाः अप नः शोशुचदघम् || ६२३ ||

इमामृचं प्रतिदिनं यस्तु विप्रः शुचिर्जपेत् || विन्दते महतीं भूमिमसपत्नामकण्टकाम् || ६२४ ||

तद्विष्णोः परमं पदगूंसदा पश्यन्ति सूरयः || दिवीव चक्षुराततम् || ६२५ ||

मन्त्रसिद्धौ परान्नाद्या दोषास्तु प्रतिबन्धकाः || इमामृचं जले जप्त्वा तेषां नाशः प्रजायते || ६२६ ||

आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च || हिरण्ययेन सविता रथेनादेवो याति भुवनानि पश्यन् || ६२७ ||

अनया योर्चयेत्सूर्यन्त्रिसध्यं विजितेन्द्रियः || जपेदष्टोत्तरशतं सम्पूर्णायुर्गदोज्झितः || ६२८ ||

प्. २७६) अष्टोत्तरशतं जप्त्वा ध्यायन्निशि दिवाकरम् || अग्नौ हुत्वानयाचा ज्यं दीर्घमायुरवाप्नुयात् || ६२९ ||

सद्योजातं प्रपद्यामि सद्योजाताय वै नमः || भवे भवे नातिभवे भवस्व मां भवोद्भवाय नमः || ६३० ||

वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः || ६३१ ||

अघोरेभ्योथ घोरेभ्यो घोरघोरतरेभ्यः || सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः || ६३२ ||

तत्पुरुषाय विद्महे महादेवाय धीमहि || तन्नो रुद्रः प्रचोदयात् || ६३३ ||

ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् || ब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्म शिवो मे अस्तु सदाशिवोम् || ६३४ ||

मृत्युञ्जयान्ता [त्र्यम्बकं यजामहे सुगन्धिम्पुष्टिवर्धनम् |
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ||] एताः षष्ट्यो जपेच्च दिनेदिने || स नारीनरगोशान्तिं शङ्करात्प्राप्नुयात्सदा || ६३५ ||

एतेनैव षडर्चेन जुहुयादाज्यमन्वहम् || वह्निं च कल्पयेद्रौद्रं भूत्यर्थं पञ्चपर्वसु || ६३६ ||

उदुत्यं जातवेदसं देवं वहन्ति केतवः || दृशे विश्वाय सूर्यम् || ६३७ ||

त्रिसन्ध्यमनया सूर्यमुपतिष्ठेत योन्वहम् || हृद्रोगनाशनं तस्य परमारोग्यवर्धनम् || ६३८ ||

त्वं सोमः पितृभिः संविदानो नु द्यावापृथिवी आततंथ || यत्ते महे प्रति तं नो जुषस्व शन्न एधिद्विपदे चतुष्पदे || ६३९ ||

उपतिष्ठेत्समित्पाणिः शशिनं मानवो निशि || अनया य ऋचा सोमं तस्य दुःखं लयं व्रजेत् || ६४० ||

उद्यन्तमुपतिष्ठेत पौर्णमास्यां समाहितः || वासांस्यपि स विन्देत चन्द्रस्यैति सलोकताम् || ६४१ ||

विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजागूंसि || यो अस्कभा यदुत्तरगूंसधस्थं विचक्रमाणस्त्रेधोरुगाया विष्यावोचा || ६४२ ||

विष्णो रराटमसि विष्णोः श्नप्त्रेस्थो विष्णोः स्यूरसि विष्णोर्ध्रुवोऽसि || वैष्णवमसि विष्णवे त्वा || ६४३ ||

विष्णोः कर्माणि पश्यत यतो व्रतानि पश्यसे || इन्द्रस्य युज्यः सखा || ६४४ ||

इन्द्रविष्णू नमस्कृत्य एताभिस्तृसृभिर्नरः || समित्पाणिः शुचिर्भूत्वा उप्रतिष्ठेत योन्वहम् || ६४५ ||

प्. २७७) धर्मं बुद्धिं धनं पुत्रानारोग्यं ब्रह्मवर्चसम् || प्राप्नोति परमं स्थानं ज्योतीरूपं सनातनम् || ६४६ ||

कृणुष्वपाजः प्रसितिं न पृथ्वीं याहि राजेवामवा इमे न || तृष्वीमनुप्रसितिं द्रुणानोस्तासि विध्यरक्षसस्तपिष्ठैः || ६४७ ||

तव भ्रमास आशु या पतन्त्यनुस्पृश धृषता शोशुचानः || तपूंष्यग्ने जुह्वापतङ्गा न संदितो विसृजविष्वगुल्काः || ६४८ ||

प्रतिस्यशो विसृज तूर्णितमो भवायायुर्विशो अस्या अदध्वः || यो नो दूरे अद्यस सोयो अन्त्यग्ने माकिष्टे व्यथिरादधर्षीत् || ६४९ ||

उदग्ने तिष्ठ प्रत्यातनुष य मित्रा गूं ओषतात्तिग्महेते || यो नो अरातिगूं सविधा न चक्रे नीचातं धक्ष्यत सन्नशुष्कम् || ६५० ||

ऊर्ध्वोभव प्रतिविध्या ध्यस्मदाविष्कृणुष्व दैव्यान्यग्रे || अवस्थिरा तनुहि यातुजूनां जामि मजामि प्रमृणीहि || ६५१ ||

स ते जानाति सुमतिं यविष्वययुव ते ब्रह्मणे गातु मैरत् || विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यर्यौविदुरो अभिद्यौत् || ६५२ ||

सेदा ने अस्तु सुभगः सुदातुर्यस्त्वानिन्येम हविषा य उक्थैः || पिप्रीषति स्व आयुषि दुरोणे विश्वैरस्मै सुदिना सा सदिष्टिः || ६५३ ||

अर्चामि ते सुमतिं घोष्यर्वाक्संते वा वाता तरतामियं गौः || स्वश्वास्त्वा सुरथामर्जये मास्मे क्षत्राणि धारयेरनुद्यून् || ६५४ ||

इह त्वा भूर्याचरेदुपत्नं दोषा वस्तदीदिवागूंसमनूद्यून् || क्रीडन्तस्त्वा सुमनसः सते मानिद्युम्नातस्थिवागूंसो जनानाम् || ६५५ ||

यस्त्वा स्वश्वः सुहिरण्यो य आ न उपयाति वसुमता रथेन || तस्य त्राता भवसि तस्य सखायस्त आदिथ्यामानुषा जुजोषत् || ६५६ ||

महोरुजामि बन्धुता वचोभिस्तन्मा पितुर्गोतमोदन्वियाय || त्वन्नो अस्य वचसश्चिकिद्धि होतर्यविष्ठसुक्रतोदनूनाः || ६५७ ||

अस्वप्नजस्तरणयः सुशेवा अतन्द्रासो वृका अकमिष्ठाः || तेपायकसंचियंचोनिषधोग्ने तव नः पान्त्वमूः || ६५८ ||

ये पापवो माम ते यन्ते अग्ने पश्यन्तो अधं दुरितादरक्षन् || ररक्ष तान्सकृतो विश्ववेदा दिप्सन्त इन्द्रियवो ना ह देभुः || ६५९ ||

त्वया वयगूंसधन्या स्त्वोतास्तव प्रणीत्यरयाम वाजान् || उभाशगूंसासुदयसत्पता ते || ६६० ||

उष्ट्रया कृणुह्यणुह्यहयाणा अथो ते अग्ने समिधारिधेमप्रतिस्तोम शस्यमानं गृभाय || इहाशसो रक्षसः पाह्यस्मादुहोनिदोमित्रमहो अवद्यात् || ६६१ ||

प्. २७८) रक्षोहणं वाजिनमाजिघर्मि मित्रं प्रथिष्ठमुपयामि शर्म || शिशानो अग्निः क्रतुभिः सविद्धः स नो दिवा स रिषः पातु नक्तम् || ६६२ ||

विज्योतिषा वृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा || प्रादेवीर्मायाः सहते दुरेवाःशिशीते शृणे रक्षसे विनिक्षे || ६६३ ||

उत स्वानासो दिविषं त्वग्नेस्तिग्मायुधा रक्षसे हन्त वा उ || मदैचिदस्य द्व्यरुजन्ति भामानवरन्ते परिवाधो अदेवीः || ६६४ ||

एतत्सूक्तं जपेद्विप्रो यदा स्याद्दस्युभिर्वृतः || अरातीनां हरेत्प्राणान्भयन्नैवोपजायते || ६६५ ||

क्षेत्रस्य पतिना वयगूंहि तेनेव जयामसि || गामश्वं घोषयित्वा नो मृडातीदृशे || ६६६ ||

इमामृचं क्षेत्रपतेः प्रत्यहं यो जपेच्छुचिः || पश्यन्सूर्यं द्विजो नित्यं विन्दते क्षेत्रमुत्तमम् || ६६७ ||

वक्ष्ये पुरुषसूक्तस्य विधिं तन्त्रेषु गोपितम् || अनुष्टुबस्य सूक्तस्य त्रिष्टुबन्त्यस्य देवता || ६६८ ||

पुरुषो यो जगद्बीजमृषिर्नारायणः स्मृतः || स्नात्वा यथोक्तविधिना प्राङ्मुखः शुद्धमानसः || ६६९ ||

प्रथमां विन्यसेद्वामे द्वितीयां दक्षिणे करे || तृतीयां वामपादे तु चतुर्थीं दक्षिणे न्यसेत् || ६७० ||

वामजानौ पञ्चमीं च षष्ठीं दक्षिणजानुनि || सप्तमीं वामकट्यां वै चाष्टमीं दक्षिणे कटौ || ६७१ ||

नवमीं नाभिदेशे तु दशमीं हृदये न्यसेत् || एकादशीं कण्ठदेशे द्वादशीं वामबाहुके || ६७२ ||

त्रयोदशीं दक्षभुजे मुखेदेशे चतुर्दशीम् || अक्ष्णोः पञ्चदशीं चैव षोडशीं मूर्ध्नि विन्यसेत् || एवं न्यासविधिं कृत्वा पश्चात्पूजां समाचरेत् || ६७३ ||

अप्स्वग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च || ६७४ ||

षट्स्वेतेषु हरेः सम्यगर्चने योग्यतोच्यते || आपोस्यायतनं यस्मात्तस्मात्तासु सदा हरिः || अग्नौ क्रियावतां विष्णुर्योगिनां हृदये हरिः || ६७५ ||

पण्डितानां हरिः सूर्यः स्थण्डिले भावितात्मनाम् || प्रतिमास्वल्पबुद्धीनां षट्प्रकाराश्च ताः स्मृताः || ६७६ ||

अकृत्रिमाः कृत्तिमाश्च अचलाश्च तथाचलाः || निर्जीवाश्च सजीवाश्च प्रतिमास्सन्ति वै हरेः || ६७७ ||

शृणु देवि क्रमात्तासामहं वक्ष्यामि लक्षणम् || अकृत्रिमा च द्विविधा शालग्रामोतिपावनः || ६७८ ||

तदभावे द्वारकायाश्चक्रं तद्वच्च पावनम् || प्. २७९) कृत्रिमा दशधा प्रोक्ताः श्रेष्ठास्ताः पूर्वपूर्वतः || ६७९ ||

स्याद्रत्नरचिता चाद्या स्वर्णजा रूप्यजापि च || ताम्रजा पित्तली जाता स्फाटिकी रक्तसीसजा || काष्ठजा मृत्तिकाजाता चित्ररूपेति च क्रमात् || ६८० ||

अचला क्षेत्ररूपा हि हरिद्वारं यथा गया || देवताभिः कृता यास्तु मूर्तयस्ताश्चलाचलाः || ६८१ ||

जगन्नाथो वेङ्कटेशः पाण्डुराभ्रादयश्च ते || सजीवा ब्राह्मणा गावो निर्जीवः पिप्पलः स्मृतः || ६८२ ||

मन्त्रन्यासं पुरा कृत्वा स्वदेहे देवतासु च || गायत्र्यक्षरन्यस्ताङ्गः पूजयेद्विष्णुमव्ययम् || ६८३ ||

आद्ययावाहयेद्देवमृचा [ओं सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् इत्यादि षोडशश्रुतिभिः पुरुषसूक्तं ब्रुवते तासु प्रथमर्चावाहनं द्वितीयर्चासनमित्यादि मूलोक्तक्रमेण भगवतो विष्णोः पूजां विदधति ||] तु पुरुषोत्तमम् || द्वितीययासनं दद्यात्पाद्यं दद्यात्तृतीयया || ६८४ ||

अर्घ्यं चतुर्थ्या दातव्यं पञ्चम्याचमनीयकम् || षष्ठ्या स्नानं प्रकुर्वीत सप्तम्या वस्त्रमेव च || ६८५ ||

यज्ञोपवीतमष्टम्या नवम्या चानुलेपनम् || पुष्पं दशम्या दातव्यमेकादश्या तु धूपकम् || ६८६ ||

द्वादश्या दीपकं दद्यात्त्रयोदश्या निवेदनम् || चतुर्दश्या नमस्कारं पञ्चदश्या प्रदक्षिणम् || ६८७ ||

स्नाने वस्त्रे च नैवेद्ये दद्यादाचमनीयकम् || दक्षिणान्तु यथा शक्त्या षोडश्या तु समर्पणम् || ६८८ ||

ततः प्रदक्षिणं कुर्याज्जपं कुर्यात्समाहितः || यथाशक्ति जपित्वा तु सूक्तं तस्मै निवेदयेत् || ६८९ ||

देवस्य दक्षिणे पार्श्वे कुण्डं स्थण्डिलमेव वा || कारयेत्प्रथमेनैव द्वितीयेन तु प्रोक्षणम् || ६९० ||

तृतीयेनाग्निमादध्याच्चतुर्थेन समिन्धनम् || पञ्चमेनाज्यश्रपणं चरोश्च श्रपणं तथा || ६९१ ||

षष्ठेनैवाग्निमन्थन्तु कल्पयेत्पद्ममासनम् || चिन्तयेद्देवदेवेशं कालानलसमप्रभम् || ६९२ ||

ततो गन्धं च पुष्पं च धूपदीपौ निवेदयेत् |
अनुज्ञाप्य ततः कुर्यात्सप्तम्यादि यथाक्रमम् || ६९३ ||

समिधस्तावतीः पूर्वं जुहुयादवघारितः || ततो घृतेन जुहुयाच्चरुणा च ततः पुनः || ६९४ ||

एवं हुत्वा ततश्चैनमनुज्ञाप्य यथाक्रमम् || अग्नेर्भगवतस्तस्य समीपे स्तोत्रमुच्चरेत् || ६९५ ||

जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन || नमस्तेस्तु हृषीकेश महापुरुष पूर्वज || ६९६ ||

प्. २८०) देवानां दानवानां च सामान्यमधिदैवतम् || सर्वदा चरणद्वन्द्वं व्रजामि शरणं तव || ६९७ ||

एकस्त्वमसि लोकस्य स्रष्टा संहारकस्तथा || अव्यक्तश्चानुमन्ता चागुणो मायासमावृतः || ६९८ ||

संसारसागरं घोरमनन्तक्लेशभाजनम् || त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः || ६९९ ||

न ते रूपं न चाकारो नायुधानि न चास्पदम् || तथापि पुरुषाकारो भक्तानां च प्रकाशसे || ७०० ||

कस्यचिन्नपरोक्षस्त्वं प्रत्यक्षोपि न कस्यचित् || कस्यचिन्न च साध्योस्ति विना भक्तिं भवान्प्रभो || ७०१ ||

कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् || योगिनां परमा सिद्धिः परमं ते पदं विदुः || ७०२ ||

अहं भीतोस्मि देवेश संसारेस्मिन्महाभये || पाहि मां पुण्डरीकाक्ष न जानामि परं पदम् || ७०३ ||

कालेष्वपि च सर्वेषु दिक्षुसर्वासु चाच्युत || शरीरे चागतं चापि वर्तते मे महद्भयम् || ७०४ ||

त्वत्पादकमलादन्यं न मे जन्मान्तरेष्वपि || विज्ञानं यदिदं प्राप्य यदिदं ज्ञानवर्जितम् || ७०५ ||

जन्मान्तरेपि मे देव मा भूदस्य परिक्षयः || दुर्गतावपि जातस्य त्वद्गतो मे मनोरथः || ७०६ ||

यदि नाशं न विन्देत ततोस्ति सुकृती सदा || कामयेद्विष्णुपादौ तु सर्वजन्मसु केवलम् || ७०७ ||

पुरुषस्य हरेः सूक्तं स्वच्छं धन्यं यशस्करम् || आत्मज्ञानमिदं पुण्यं योगज्ञानमिदं परम् || ७०८ ||

एवं स्तुत्वा हव्यवाहं ततः पश्चाद्विसर्जयेत् || अनेनैव च निष्पापो जायते मनुजो यदा || ७०९ ||

प्राग्वज्ज्ञात्वा पारदे तत्प्रयोगानारभेत च || शुक्लपक्षे शुभे वारे यदा चैकादशी भवेत् || ७१० ||

उपवासस्तु कर्तव्यो दम्पतिभ्यां सुरालये || द्वादश्यां पुत्रकामाय चरुं कुर्वीत वैष्णवम् || ७११ ||

ऋग्भिः षोडशभिः सम्यगर्चयित्वा जनार्दनम् || चरुं पुरुषसूक्तेन प्राशयेत्पुत्रकाम्यया || ७१२ ||

प्राप्नुयाद्वैष्णवं पुत्रमचिरात्सन्ततिक्षमम् || द्वादश द्वादशीः सम्यक्पयसा निर्वपेच्चरुम् [प्रथमं तं चरुं पुरुषसूक्तेन जुहुयाच्छिष्टं स्त्रियाभक्षयेत् |
] || ७१३ ||

यो जुहोति स वै याति तद्विष्णोः परमं पदम् || मार्गशीर्षादिमासेषु क्रमात्पूज्यश्च केशवः || ७१४ ||

नारायणो माधवश्च गोविन्दो विष्णुरेव च || मधुसूदन उक्तस्त्रिविक्रमो वामनस्तथा || श्रीधरश्च हृषीकेशः पद्मनाभो गदाधरः || ७१५ ||

प्. २८१) पूजयित्वा जपेत्सूक्तं शतमष्टाधिकं ततः || होमञ्च पूर्ववत्कुर्यात्सर्वान्कामानवाप्नुयात् || ७१६ ||

अपुत्रा मृतपुत्रा वा या च कन्याप्रसूर्भवेत् || तस्या यथा सुपुत्रः स्यात्तमुपायं ब्रवीम्यहम् || ७१७ ||

समिधोश्वत्थवृक्षस्य प्रत्यृचं जुहुयाच्छतम् || अष्टाधिकं च सघृतमुपतिष्ठेद्धुताशनम् || ७१८ ||

पुनर्विष्णुं पूजयित्वा घृतहोमं समाचरेत् || अष्टोत्तरशतं कुर्यात्प्रत्यहं वाग्यतः शुचिः || ७१९ ||

सम्पाताज्यं स्थापयित्वा तन्नार्याः प्राशनाय च || दद्यात्सा च पतिं विष्णुं नमस्कृत्य प्रभक्षयेत् || ७२० ||

तर्पयेच्च द्विजान्सम्यग्लब्धाशीः प्रविशेद्गृहम् || परं सप्त प्रवर्तेनावश्यं गर्भवती भवेत् || ७२१ ||

अरण्ये निवसेन्नित्यं त्रिकालं स्नानमाचरेत् || जपेदष्टोत्तरशतं सूक्तमेतत्त्रिकालकम् || ७२२ ||

मासमेकं फलाहारो मासमद्भिश्च तर्पयेत् || आदित्यमुपतिष्ठेत मन्त्रेणानेन नित्यशः || आज्यं हुत्वा दशशतं त्रिभिर्वर्षैर्जपेद्दिनम् || ७२३ ||

तद्भक्तस्तन्मना युक्तो दशवर्षाण्यनन्यभाक् || साक्षात्पश्यति तं देवं नारायणमनामयम् || ७२४ ||

अथ वक्ष्ये गृहस्थानां जीवन्मुक्तेस्तु साधनम् || यश्च स्वधर्मनिरतो न्यायवृत्तः शुचिव्रतः || ७२५ ||

अर्धरात्रे त्यक्तनिद्रः शुद्धो भूत्वा च वाग्यतः || सम्प्रसुप्तेषु लोकेषु योगं युञ्जीत योगवित् || ७२६ ||

कृत्वासनं समे देशे निर्वाते शब्दवर्जिते || सव्यं [वामपादं दक्षिणजानुनि पुनर्दक्षिणपादं वामजानुनि विधृत्य स्थित्वर्जु स्वनासिकाग्रे दृष्टिं निधाय ओङ्कारं जपन्मनस्सहितं स पवनमाकृष्योदरं संपूरयेन्तदनन्तरं नाभिचक्रात्पवनं हृदि तत उरसि तस्मात्कण्ठमानीय ततो भ्रुवोरन्तरे कृत्वा ब्रह्मरन्ध्रे नयेत् |
शनैश्शनैर्मनसोङ्कारं यावत्प्राणान्रोद्धुं शक्नुयात्तावज्जपेत् |
पुनर्मन्दंप्राणानुत्तार्य वारंवारमुक्तरीत्याभ्यासेनाहतशब्दा दशधा प्रकटी भवन्ति पुनर्यदि सर्वैनोभ्यो बद्धोपि पुरुषो हृदि मनसोङ्कारजपात्परं ब्रह्म प्राप्नोति तर्हि सुकृतिनां तत्प्राप्तेः का चर्चा |
] पादं दक्षिणस्य जानौ संवेशयेत्ततः || ७२७ ||

संहृत्य दक्षिणं पादं सव्यं जानुनि यच्छति || बद्धाञ्जलिकरः स्वस्थो योगसम्मीलितेक्षणः || ७२८ ||

ओं मित्येव स्वहृदये चिंतयेदविशंकितः || तत्रात्मानं समादध्यादिंद्रियाणि मनस्तथा || ७२९ ||

प्. २८२) न विबुध्येत किञ्चान्यं न पश्येच्छृणुयान्न च || प्राणानायम्य चासीनोऽनुद्विग्नश्चिंतयेत्ततः || ७३० ||

श्वासेनैव समं नाभौ गमयित्वा मनस्तदा || उच्छसेचैवमसकृत्तन्मना योगमुन्नयेत् || ७३१ ||

मनो नयेत हृदये पश्येन्नो शृणुयान्न च || ततो नयेत तच्चेतो हृदयादूर्द्धमेव तु || ७३२ ||

समानं जत्रु चास्यं च नासिके नयने भ्रुवौ || भ्रुवोर्मध्ये परं स्थानं तत्र तद्द्वारपद्धतिः || ७३३ ||

ललाटदेशे संधार्य मूर्द्धानं गमयेत्ततः || उच्छ्वसेच्च यथाकालं नाभितश्चोच्छ्वसेत्पुनः || ७३४ ||

एतत्परं स्थानमुक्तं ब्रह्मणः परमात्मनः || एवं युक्तो महात्मानमात्मानं प्रतिपद्यते || ७३५ ||

यद्येवं सुकृती शुद्धो यदि वा पापकृत्ततः || उपलभ्य परं ब्रह्म गतिं ज्ञात्वा भवेच्छुचिः || ७३६ ||

सर्वपापानुबद्धश्च ह्यद्यन्तः प्रयतो जपेत् || अपि जित्वा समं देवं स गच्छेत्परमाङ्गतिम् || ७३७ ||

धारणा तु पृथक्कार्या धर्मेण तेन नित्यशः || आदित्येग्नौ चन्द्रमसि वृक्षाग्रेषु च धारयेत् || पर्वताग्रे समुद्रे वा यत्र वा रमते मनः || ७३८ ||

न भावं विषयान्प्राप्य धारयेत् कथञ्चन || वह्वत्र दुःखं जानीयात्प्रध्वंसे धारणात्मके || ७३९ ||

धार्मिकाणां कुले शुद्धे योगभ्रष्टोभिजायते || मूर्ध्नि ब्रह्म प्रविंदेतेदृग्जपस्य प्रभावतः || ७४० ||

तदा मूर्ध्ना परं ज्योतिर्नक्षत्रपथमुन्नयेत् || योगी योगीश्वरं प्राप्य निर्द्वन्द्वं परमात्परम् || ७४१ ||

सर्वत्रैवात्मनात्मानं पश्येद्धरिपरायणः || जपेच्चैव स्वरान्स्नातः पवित्रमिदमुत्तमम् || ७४२ ||

अपि पातकसंयुक्तःकालेन सुकृती भवेत् || ततः परायणो नित्यं सत्यवागनसूयकः || प्रजपंस्तामृचं विप्रः कालेन सुकृती भवेत् || ७४३ ||

येनयेन च कामेन जपन्ति तामृचं सदा || ससकामस्समृद्धः स्याच्छ्रद्दधानस्य कुर्वतः || ७४४ ||

होमं वाप्यथवाजाप्यमुपहारमनुत्तमम् || कुरुते येन कामेन तत्सिद्धिरुपजायते || ७४५ ||

ज्ञानगम्यं परं लक्ष्यं प्राप्यं सर्वमवस्थितम् || वाक्यमत्यन्तयत्नेन ब्रह्माभ्येति सनातनम् || ७४६ ||

सहस्रशीर्षसूक्तं तु सर्वकामफलप्रदम् || वेदगर्भशरीरेण स वै नारायणः स्मृतः || ७४७ ||

ब्रह्मेन्द्ररुद्रपर्जन्याः सूक्तेस्मिन्सुव्यवस्थिताः || अत्रस्थं प्रेत्य द्रष्टव्यं जगत्स्थावरजङ्गमम् || ७४८ ||

अनासादयमानोपि भक्तिं न परिहारयेत् || भक्तानुकम्पी भगवाञ्च्छ्रुयते पुरुषोत्तमः || ७४९ ||

प्. २८३) पूजार्थे तस्य देवस्य वन्यान्स्वयमुपार्जितान् || आरण्यकविधानेन निर्वपेत्प्रत्यहं चरुम् || ७५० ||

नारायणाय स्वाहेति मन्त्रेण जुहुयाद्धविः || आसहस्रात्तत्र चक्षुर्दिव्यं होतुर्ददाति सः || ७५१ ||

यद्वा चरुं सहस्रं तु मन्त्रेणैकेन निर्वपेत् || स हुत्वा स्वेप्सितानां च कामानां लभते फलम् || पुरुषायुष्यसंयुक्तः सिद्धो वा विचरेन्महीम् || सूक्तानि कोटिशः सन्ति परमेतन्महाप्रियम् || सर्वैश्वरो हरिर्येन गीयते भक्तवत्सलः || ७५२ ||

ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः || केयूरवान्मकरकुण्डलवान्किरीटी हारी हिरण्मयवपुर्धृतशंखचक्रः || ७५३ ||

एतत्तु यः पठति केवलमेव सूक्तं नारायणस्य चरणावभिवन्द्य वन्द्यौ || पाठेन चाथ परमस्य सनातनस्य स्थानं जरामरणवर्जितमेति विष्णोः || ७५४ ||

हविषाग्नौ जले पुष्पैर्ध्यानेन हृदये हरिम् || यजन्ति सूरयो नित्यं जाप्येन रविमण्डले || ७५५ ||

बिल्वपत्रं शमीपत्रं पत्रं भृङ्गारकस्य च || मालतीकुशपत्रं च सद्यस्तुष्टिकरं हरेः || ७५६ ||

यन्नोपपद्यते किञ्चित्तं ध्यायन्मनसैव तु || सम्पद्यते प्रसादात्तु देवदेवस्य चक्रिणः || ७५७ ||

पत्रैश्च पुष्पैश्च फलैश्च तोयैर्विक्रीतलब्धैश्च सदैव सद्भिः || भक्त्यैकगम्ये पुरुषे पुराणे मुक्तौ किमर्थं क्रियते न यत्नः || ७५८ ||

इत्येवमुक्तः पुरुषस्य विष्णोरर्चाविधिर्देवि मुदा मुनींद्राः || मुक्त्यैकमार्गप्रतिबोधनाय न वै मया लौकिककामनार्थम् || ७५९ ||

या ओषधीः सोमराज्ञीः विष्ठिताः पृथिवीमनु || वृहस्पतिप्रसूतास्ता अस्यै सन्दत्त वीर्यम् || ७६० ||

अवपतंतीरवदन्दिव ओषधयस्परि || यं जीवमश्नवामहै न स रिष्यति पूरुषः || ७६१ ||

याश्चेदमुपशृण्वन्ति याश्च दूरं परा गताः || सर्वाः सङ्गत्य वीरुधोस्यै सन्दत्त वीर्यम् || ७६२ ||

मा वोरिषत्खनिता यस्मै चाहं खनामि वः || द्विपाच्चतुष्पादस्माकगूंसर्वमस्त्वनातुरम् || ७६३ ||

ओषधयः संवदन्त सोमेन सह राज्ञा || यस्मै कृणोति ब्राह्मणस्त गूं राजन्पारयामसि || ७६४ ||

पर्वस्वेव जपेन्नित्यं षण्मासानेव यो नरः || वैद्यस्त्वमृतहस्तः स्यादन्यः स्वस्त्ययनं भजेत् || ७६५ ||

इष्ट्वा शरदि वै रुद्रमोषधीश्च जपेत्सदा || तस्यामया न जायन्ते तथाजीर्णानि पञ्च वा || ७६६ ||

प्. २८४) कुर्यातु सप्तरात्रेण सप्तकृत्वः समाहितः || प्रपद्य ह्योषधीर्विप्रः सूक्तमेतज्जपेत्सदा || ७६७ ||

द्विषत्क्षेत्रादिहायध्वमिति विज्ञापयेच्च ताः || स्वक्षेत्रे वरुणं चेष्ट्वा विन्दते द्विषदोषधीः || ७६८ ||

बृहस्पते अति यदर्यो अर्हाद्युमद्विमाति क्रतुमज्जनेषु || यद्दीदयच्छवस-ऋतप्रजाततदस्मासु द्रविणं धेहि चित्रम् || ७६९ ||

वृष्टिकामो यताहारः प्रपद्येत बृहस्पतिम् || पायसेनोपहारेण होमेन च समन्वितः || ७७० ||

पश्चादिमामृचं विप्रो वृष्टिकामः प्रयोजयेत् || पर्जन्यं च नमस्कृत्य वृष्टिं विन्दति शोभनाम् || ७७१ ||

कलौ धर्मस्य रक्षार्थमृच एताः क्वचित्क्वचित् || विप्रेविप्रे देशदेशे थास्यन्त्यन्याश्च वै क्षितौ || ७७२ ||

एतत्तत्त्वमिह प्रोक्तं सर्वतन्त्रेषु गोपितम् || इतः परं देवि देवाः किं वक्तव्यं तदुच्यताम् || ७७३ ||

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते कलिसंस्थितसविधि मन्त्रकथनं नामैकादशः प्रकाशः || ११ ||

Prakāśa 12 – Vedische Mantras im Kali-Zeitalter

श्रीविष्णुरुवाच ||

देवदेव महादेव भक्तानुग्रहकारक || कालस्त्वमसि लोकानां महामाया त्वियं परा || १ ||

युवयोः के तुष्टिकरा मन्त्राः सूक्तानि तद्वद || येन भुक्तिश्च मुक्तिश्च क्लेशो नैव च नैव च || २ ||

श्रीशिव उवाच ||

विष्णो गोप्यं त्वया पृष्टं न वाच्यं तान्त्रिके द्विजे || तन्त्रे च तामसं रुपं त्वया पृष्टं तु सात्त्विकम् || ३ ||

भोगमोक्षैकनिलयं चतुर्वेदोत्तमोत्तमम् || मन्त्रस्तोत्रेश्वरं तन्मे जानीहि शतरुद्रियम् || ४ ||

छन्दांस्यनुष्ष्टुबादीनि ह्यघोरोस्य मुनिर्मतः || देवतास्य भवेद्रुद्र आदित्यः परपूरुषः || ५ ||

या ते रुद्रशिखा प्रोक्ता त्वस्मिन्महेति मस्तकम् || सहस्राणि ललाटे च भ्रुवोर्मध्ये च हंस ऋक् || ६ ||

याते रुद्रशिवा तनूरघोरा पापकाशिनी || तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि || ७ ||

अस्मिन्महत्यर्णवे अन्तरिक्षे भवा अधि || तेषागूंसहस्रयोजने वधन्वानि तन्मसि || ८ ||

सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम् || तेषा गूं सहस्रयोजने वधन्वानि तन्मसि || ९ ||

ह गूं सः शुचिषद्वसुरन्तरिक्ष सद्धोता || वेदिषदतिथिर्दुरोणसत् || १० ||

त्र्यम्बक [त्र्यम्बकं यजामहे सुगन्धिम्पुष्टिवर्धनम् |
उर्वारुकमिव बन्धनान्मृत्योर्भुक्षीयमामृतात् |
] न्नेत्रयोश्चैव नमः स्तुत्याय कर्णयोः || मानस्तोके नासिकायामवतत्य मुखे न्यसेत् || ११ ||

नमः स्तुत्याय च पत्थ्याय च नमः काट्याय च नीप्याय च || नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च || १२ ||

मानस्तोके तनये मा न आयुषि मा नो गोषु मानो अश्वेषुरीरिषः || मा नो वीरान्नुद्रभामिनो वधीर्हविष्मन्तः सदमित्त्वा हवामहे || १३ ||

अवतत्य धनुस्त्व गूं सहस्राक्ष शतेषुधे || निशीर्य शल्यानां मुखा शिवो नः सुमना भव || १४ ||

नीलग्रीवाद्वयं न्यसेत्क्रमात्कण्ठोपकण्ठयोः || नमस्ते अ या ते हेतिद्वयं बाह्वोः प्रकोष्ठयोः || १५ ||

नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः || तेषा गूं सहस्रयोजनेवधन्वानि तन्मसि || १६ ||

नीलाग्रीवाः शितिकण्ठा दिव गूं रुद्रा उपाश्रिताः || तेषा गूं सहस्रयोजनेवधन्वानि तन्मसि || १७ ||

नमस्ते आयुधायानातताय धृष्णवे || उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने || १८ ||

या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः || तयास्मान्विश्वतस्त्वमयक्ष्मया परिभुज || १९ ||

ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः || तेषा गूं सहस्रयोजनेवधन्वानि तन्मसि || २० ||

इमामृचन्तु करयोरंगुष्ठादिषु विन्यसेत् || सद्योजातादिकाः पञ्च हृदये तु न्यसेदिमाः || २१ ||

नमोवः किरिकेभ्यो देवानागूं हृदयेभ्योनमो विक्षीयत्केभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यः || २२ ||

नमो गणेभ्यः पृष्ठे तु नमो हिरण्यबाहवे || पार्श्वयोर्न्यस्य कुक्ष्योस्तु नमस्तक्षभ्य इत्यपि || २३ ||

नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमः || नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमः || २४ ||

नमो हिरण्यबाहवे सेनान्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम्पतये नमः नमः शष्पिञ्जराय त्विषीमते पृथीनाम्पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम्पतये नमो नमो बम्लुशाय || २५ ||

नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमः नमो निषादेभ्यः पुञ्जिष्ठेभ्यश्च वो नमो नमः श्वनिभ्यो मृगयुभ्यश्च वो नमः || २६ ||

विज्यन्धनुस्तु जठरे नाभौ हिरण्यगर्भकम् || प्. २८६) मिढुष्टमेति कट्याञ्च ये भूतानान्तु गुह्यके || २७ ||

विज्यन्धनुःकपर्दिनो विशल्यो बाणवां उत || अनेशन्नस्य या इषव आभुरस्य निषङ्गधिः || २८ ||

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् || सदाधारपृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम || २९ ||

मिढुष्टम शिवतम शिवो नः सुमना भव || परमे वृक्ष आयुधन्निधाय कृत्तिं वसान आचर पिनाकम्बिभ्रदामहि || ३० ||

ये भूतानाम्पतयो विशिखासः कपर्दिनः || तेषागूंसहस्रयोजनेवधन्वानितन्मसि || ३१ ||

जातवेदादिकाः पञ्च शिरोयुक्ता अपानके || मा नो महान्तमूर्वोश्च एष ते जानुनोर्न्यसेत् || ३२ ||

जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः || स नः पर्षदतिदुर्गाणि विश्वा नावेवसिन्धुन्दुरितात्यग्निः || ३३ ||

स यो वृषा वृष्ण्येभिः समो कामहो दिवः पृथिव्याश्च सम्राट् || सतीनसत्वा हव्योभरेषु मरुत्वान्नो भवत्विन्द्र ऊतीः || ३४ ||

यस्यानाप्तः सूर्यस्येव यामो भरेभरे वृत्रहा शुष्मो अस्ति || वृषन्तमः सखिभिः स्वेभिरेवैर्मरुत्वन्नो भवत्विन्द्र ऊतीः || ३५ ||

दिवो न यस्य रेतसो दुद्यानाः पन्थासो यन्ति शवसा परीताः || तरदद्वेषाः ससहिः पौंस्येभिर्मरुत्वान्नो भवत्विन्द्र ऊतीः || ३६ ||

सो अङ्गिरोभिरङ्गिरस्तमो भूद्वृषा वृषभिः सखा सन् || अग्निभिर्-ऋग्भी गातुभिर्ज्येष्ठो मरुत्वान्नो भवत्विन्द्र ऊतीः || ३७ ||

मानो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् || मा नो वधीः पितरम्मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः || ३८ ||

एत्तत्ते रुद्रा वसन्तेन परोमूजवतोतीहि || अवततधन्वा पिनाकावसः कृत्तिवासा अहिगूंसन्नः शिवोतीहि || ३९ ||

सगूंसृष्टजिज्जङ्घ्योश्च विश्वम्भूतञ्च गुल्फयोः || ये पथां पथिरङ्घ्र्योः स्यादध्यवोचश्च वर्मकम् || ४० ||

सगूंसृष्टजित्सोनपा बाहुशर्घ्यूर्ध्वधन्वा प्रतिरताभिरस्ता || बृहस्पते परिदीयारथीनरक्षोहा मित्रां अपबाधमानः || ४१ ||

विश्वम्भूतम्भुवनं मित्रम्बहुधा जातञ्जायमानञ्च यत् || सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु || ४२ ||

ये पथाम्पथिरक्षय ऐलबृदा आयुर्युधः || तेषागूंसहस्रयोजनेवधन्वानि तन्मसि || ४३ ||

प्. २८७) अध्यवोचदधिवक्ता प्रथमो दैव्योभिषक् || अहींश्च सर्वाञ्जम्भयन्सर्वाश्च यातु धान्यो धराचीः परासुव || ४४ ||

उपवर्मनमो विल्मि नमो अस्तु च नेत्रयोः || प्रमुञ्च धन्वनश्चेति न्यसेन्नेत्रे तृतीयके || ४५ ||

नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च || नमः श्रुताय च श्रुतसेनाया च नमो दुन्दुभ्याय चाहनन्न्याय च || ४६ ||

नमोस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे || अथो ये अस्य सत्त्वानो हन्तेभ्योकरन्नमः || ४७ ||

प्रमुञ्च धन्वनस्त्वमुभयोरात्न्योर्ज्याम् || याश्च ते हस्त इषवः परा ता भगवो व्वप || ४८ ||

एवं षड्विंशदङ्गानां न्यासः प्रथम ईरितः || य एतावन्त इति च कुर्याद्दिग्बन्धनन्ततः || ४९ ||

परातावन्तश्च भूयागूंसश्च दिशो रुद्रा वितस्थिरे || तेषागूंसहस्रयोजनेवधन्वानि तन्मसि || ५० ||

अयन्तु सर्वमन्त्राणाम्पठने त्वधिकारकृत् || इमन्न्यासम्प्रकुर्वाणः पावकेपि न नश्यति || ५१ ||

तारो [ओं |
] नमो भगवते रुद्रायेति दशाक्षरः || मन्त्रः प्रोक्तोनेन कुर्यान्न्यासान्ते तु नमस्कृतिम् || ५२ ||

पश्चादस्यैव मन्त्रस्य वर्णन्यासं समाचरेत् || मस्तके [ओं मस्तके, न नासिकायाम् मो माले, म मुखे ग कण्ठे, व हृदये, ते दक्षहस्ते रु वामहस्ते, द्रा नाभौ, य पादद्वये || इति मन्त्राक्षरन्यासः ||] नसि भाले च मुखे कण्ठे तथा हृदि || ५३ ||

दक्षहस्ते वामहस्ते नाभौ पादद्वये तथा || ५४ ||

सर्वमन्त्राधिकारि स्यान्न्यासेस्मिंस्तु द्वितीयके || अथ न्यासस्तृतीयोपि प्रोच्यतेत्र शृणुष्व तम् || ५५ ||

पदोर्हृदि मुखे मूर्ध्नि सद्योजातादिका ऋचः || न्यास्या न्यासे तृतीयेस्मिञ्शैवं तेजः समाविशेत् || ५६ ||

हंसः सोहमिति ब्रूयाद्भावयेच्च तथा धिया || ततोष्टदिक्षु दिक्पालांस्तत्तन्मन्त्रेण विन्यसेत् || ५७ ||

त्रातारमिन्द्रमवितारमिन्द्रगूंहवेहवे सुहवगूंशूरमिन्द्रम् || ह्वयामि शक्रं पुरुहूतमिन्द्रगूंस्वस्ति नो मधवा धात्विन्द्रः || ५८ ||

त्वन्नो अग्ने वरुणस्य विद्वान्देवस्य हेडोवयासिसीष्ठाः || यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषा गूं सि प्रमुमुग्ध्यस्मत् || ५९ ||

सुगं नः पन्थामभयं कृणोतु यस्मिन्नक्षत्रे यम एति राजा || प्. २८८) तस्मिन्नेनमभ्यषिञ्चन्त देवास्ते तदस्या चित्र गूं हविषा यजामः || ६० ||

असुन्वन्तमयजमानमिच्छस्तेन नस्येत्यामन्विहि तस्करस्य || अन्यमस्मदिच्छसात इत्या नमो देवि निर्-ऋते तुभ्यमस्तु || ६१ ||

तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः || अहेडमानो वरुणेह बोध्युरुशगूं समान आयुः प्रमोषीः || ६२ ||

आ नो नियुद्भिः शतिनीभिरध्वरगूं सहस्रिणीभिरुपयाहि यज्ञम् || वायो अस्मिन्सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः || ६३ ||

वय गूं सोमव्रते तव मनस्तनूषु बिभ्रतः प्रजावन्तः सचेमहि || ६४ ||

तमीशानं जगतस्तस्थुषस्पतिंधियं जिन्वमसेहूमहेवयम् || पूषा नो यथा वेदसामसद्बृधेक्षितापायुरदब्धःस्वस्तये || ६५ ||

अस्मे रुद्रा मेहना पर्वतासो वृग्रहत्येभर हूतौसजोषाः || यः शंसते स्तुवते धायि वज्र इन्द्रज्येष्ठा अस्मा अवन्तु देवाः || ६६ ||

अनेन च नमस्कुर्यादूर्ध्वं चाथो धरातले || धरामन्त्रेण कुर्याच्च स एवं पापवर्जितः || स्योना पथिवि नोभवानृक्षरा निवेशनी || यच्छा नः शर्म सप्रथः अवनिशोःशुचदस्वम् || ६७ ||

न्यासवन्त समीक्ष्येह प्रेतचौराद्युपद्रवाः || दीप्यमानमशक्तास्ते पलायन्ते विदूरतः || ६८ ||

मनोज्योतिर्न्यसेद्गुह्ये ह्यबोध्यग्निस्तथोदरे || मूर्धानं हृदये न्यस्य मुखेमर्माणि ते तथा || ६९ ||

मनोज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञ गूं समिमन्दधातु || या द्रष्टा उषसो निम्रुचस्ताः सन्दधामि हविषा ष्टुतेन || ७० ||

अबोध्यग्निः समिधा जनानाम्प्रतिधेनु मिवायती मुषासम् || यह्वा इव प्रवयामुज्जिहानाः प्रभानवः सिषनेनाकमच्छ || ७१ ||

मूर्द्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत -आ जातमग्निम् || कवि गूं सम्राजमतिथिं जनानामासन्नापात्रं जनयन्ति देवाः || ७२ ||

मर्माणि ते वर्मणाछादयामि सोमस्त्वा राजामृतेनानुवस्ताम् || उरोर्वरीयो वरुणस्ते कृणोतु जयन्तन्त्वा नु देवा मदन्तु || ७३ ||

जातवेदास्तच्छिरसि न्यामः प्रोक्तश्चतुर्थकः || ७४ ||

जातवेदा यदि वा पावकोसि वैश्वानरो यदि वा वैद्युतोसि || शं प्रजाभ्यो यजमानाय लोकं ऊर्जम्पुष्टिं दददभ्यावकृत्स्वः || ७५ ||

हृदये शिवसंकल्पं शिरः पुरुषसूक्तम् || शिखाद्भ्यः सम्भूत इति वर्म प्रतिरथं मतम् || ७६ ||

अद्भ्यः सम्भृतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्तताग्रे || तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे || ७७ ||

वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् || तमेव विद्वानमृत इह भवति नान्यः पन्था विद्यतेयनाय || ७८ ||

प्रजापतिश्चरति गर्भे अन्तरजायमानो बहुधा विजायते || तस्य धीराः परिजानन्ति योनिं मरीचीनां पदमिच्छन्ति वेधसः || ७९ ||

यो देवेभ्य आतपति यो देवानां पुरोहितः || पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये || ८० ||

रुचं ब्राह्मञ्जनयन्तो देवा अग्रे तदब्रुवन् || यस्त्वेवं ब्राह्मणो विद्यात्तस्य देवा असन्वशे || ८१ ||

श्रीश्च ते लक्ष्मीश्च पत्न्या वहोरात्रे पार्श्वे नक्षत्राणि रुपमश्विनौ व्यात्तम् || इष्णन्निषाणमुं म इषाण सर्वलोकं म इषाण || ८२ ||

शतरुद्रियमस्त्रं स्यादथ पञ्चाङ्गमुच्यते || न्यासस्तु पञ्चमः प्रोक्तोयं सर्वाभीष्टसाधकः || ८३ ||

त्वमग्नेरुद्रो असुसे महो दिवस्त्व गूं सर्धो मारुतं यक्ष ईशिषे || त्वं वातैररुणैर्यासि शं गयस्त्वं पूषापि च नः पासि तु त्मना || ८४ ||

देवा देवेषु श्रयध्वं प्रथमा द्वितीयेषु || श्रयध्वं द्वितीयास्तृतीयेषु श्रयध्वं तृतीयाश्चतुर्थेषु || ८५ ||

श्रयध्वं चतुर्थाः पञ्चमेषु श्रयध्वं पञ्चमाः षष्ठेषु || श्रयध्वं षष्ठाः सप्तमेषु श्रयध्वं सप्तमा अष्टमेषु || ८६ ||

श्रयध्वं अष्टमा नवमेषु श्रयध्वं नवमा दशमेषु || श्रयध्वं दशमा एकादशेषु श्रयध्वं एकादशा द्वादशेषु || ८७ ||

श्रयध्वं द्वादशास्त्रयोदशेषु श्रयध्वं चतुर्दशाः पञ्चदशेषु || श्रयध्वं पंचदशाः षोडशेषु श्रयध्वं षोडशाः सप्तदशेषु || ८८ ||

श्रयध्वं सप्तदशा अष्टादशेषु श्रयध्वं अष्टदशा एकोनविगूंशेषु || श्रयध्वं एकोनवि गूं शा वि गूं शेषु श्रयध्वं वि गूं शा एकवि गूं शेषु || ८९ ||

श्रयध्वं एकविगूंशा द्वाविगूंशेषु श्रयध्वं द्वाविगूंशास्त्रयोविगूंशेषु || श्रयध्वं त्रयोवि गूं शाश्चतुर्वि गूंशेषु श्रयध्वं चतुर्वि गूं शाः पंचवि गूं शेषु || ९० ||

श्रयध्वं पञ्चविगूंशाः षड्विगूं शेषु श्रयध्वं ङ्वेगूं शाः सप्तविगूंशेषु || श्रयध्वं सप्तविगूंशा अष्टावि गूंशेषु श्रयध्वं अष्टाविगूंशा एकोनत्रिगूंशेषु || ९१ ||

श्रयध्वं एकोनत्रिगूंशास्त्रिगूंशेषु श्रयध्वं त्त्रिगूंशा एकत्रिगूंशेषु || श्रयध्वं एकत्रिगूंशा द्वात्रिंगूंशेषु श्रयध्वं द्वात्रिगूंशास्त्रयस्त्रिगूंशे || ९२ ||

प्. २९०) श्रयध्वं देवास्त्रिरेकादशास्त्रिस्त्रयस्त्रिगूंशा उत्तरे भवन्तु || उत्तरवर्त्मान उत्तरसत्त्वानः || यत्काम इदं जुहोमि तन्मे समृध्यतां वयगूंस्याम पतयोरयीणां भूर्भुवःस्वःस्वाहा || ९३ ||

पञ्चाङ्गन्यासमेवन्तु कृत्वाष्टाङ्गं नमेच्छिवम् || जपं निवेद्य रुद्रायोपतिष्ठेत्ततः पुनः || ९४ ||

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् || सदाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम || ९५ ||

प्राणतो निमिषतो महित्वैक इन्द्रो राजा जगतो बभूव || यद्वशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम || ९६ ||

ब्रह्मजज्ञानम्प्रथमम्पुरस्ताद्विसीमतः सुरुचो वेन आ वः || सबुध्निया उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः || ९७ ||

मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षतां पिपृतां नो भरीमभिः || ९८ ||

उपश्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् || स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अपसेध शत्रून् || ९९ ||

अग्ने नय सुपथारा ये अस्माद्विश्वानि देववयुनानि विद्वान् || युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम || १०० ||

या ते अग्ने यज्ञिया तनूस्तयेह्यारोहात्मानम् || अष्टावसूनि कृण्वन्नस्मै नर्या पुरूणि यज्ञो भूत्वा यज्ञमासीद स्वयोने || १०१ ||

जातवेदा भुव आजायमानो यथा च स्वाहाग्नये घृतवद्भिस्तु हव्यैः || तेभिर्नो अग्ने अमितैरहोभिः शतं पूर्भिरायसीभिर्निपाहि || १०२ ||

इमं यमप्रस्तरमाहि सीदाङ्गिरोभिः पितृभिः संविदा नः || आत्वा मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्व || १०३ ||

इत्युपस्थाय देवन्तु देवयोगं समाचरेत् || तिष्ठत्वीशो नासिकायां चंद्रादित्यौ च नेत्रयोः || १०४ ||

कर्णयोरश्विनौ चापि रुद्रास्तिष्ठन्तु मेढ्रके || तिष्ठन्तु मूर्ध्नि चादित्या महादेवः शिरोगतः || १०५ ||

शिखाया वासुदेवश्च पिनाकी चापि पृष्ठके || पुरस्तिष्ठतु शैली च पार्श्वयोः शिवशङ्करौ || १०६ ||

सर्वतश्चापि वायुश्च सर्वतश्च ततो बहिः || अग्निज्वालामालिकाश्च तिष्ठन्तु बहुशो मम || १०७ ||

सर्वेष्वङ्गेषु सर्वे च तिष्ठन्तु मम देवताः || तिष्ठं मामिति प्रोच्य प्रपञ्चं मनसा हुनेत् || १०८ ||

अग्निर्मे वाचि श्रितः वाग्घदये हृदयं मयि अहममृते अमृतं ब्रह्मणि || १०९ ||

प्. २९१) वायुर्मे प्राणे श्रितः प्राणो हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि || ११० ||

सूर्यो मे चक्षुषि श्रितः चक्षुर्हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि || १११ ||

चन्द्रमा मे मनसि श्रितः मनो हृदये हृदयं अहममृते अमृतं ब्रह्मणि || ११२ ||

दिशो मे श्रोत्रे श्रिताः श्रोत्र गूं हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि || ११३ ||

आपो मे रेतसि श्रिताः रेतो हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि || ११४ ||

पृथिवी मे शरीरे श्रिता शरीरगूंहृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि || ११५ ||

ओषधिवनस्पतयो मे लोमसु श्रिताः लोमानि हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि || ११६ ||

इन्द्रो मे बले श्रितः बलगूंहृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि || ११७ ||

पर्जन्यो मे मूर्ध्नि श्रितः मूर्द्धा हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि || ११८ ||

ईशानो मे मन्यौ श्रितः मन्युर्हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि || ११९ ||

आत्मा म आत्मनि श्रितः आत्मा हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि || १२० ||

पुनर्म आत्मा पुनरायुगात् पुनः प्राणः पुनराकूतमागात् || वैश्वानरो रश्मिभिर्वावृधानः अन्तस्तिष्ठत्वमृतस्य गोपाः || १२१ ||

न्यासानेवं विधायाथ ध्यायेदात्मानमीश्वरम् || पार्थिवोक्तप्रकारेण लिङ्गपूजां ततश्चरेत् || १२२ ||

आराधितो मनुष्यैस्त्वं सिद्धैर्देवासुरादिभिः || आराधयामि भक्त्या त्वां मां गृहाण महेश्वर || १२३ ||

आ त्वा वहन्तु हरयः सजेतसः श्वेतैरश्वैरहरहः केतुमद्भिः || वाता जलैर्बलवद्भिर्मनोजवैर्माम्पाहि शीघ्रम्मम हव्याय शर्व || १२४ ||

एतत्ते रुद्रा वसन्तेन परोमूजवतोतीहि || अवततधन्वोपिनाकाव सः कृत्तिवासा अहि गूं सन्नः शिवोती हि || १२५ ||

चत्वारि शृङ्गास्त्रयो अस्य पादा द्वे शीर्षे सप्तहस्तासो अस्य || त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आविवेश || १२६ ||

प्रसन्नो भव देवेश सुमुखो भव शङ्कर || शान्तो भवस्व चात्र त्वं मम चाभिमुखो भव || १२७ ||

स्वामिन्सर्वजगन्नाथ यावत्पूजावसानकम् || तावत्त्वं प्रीतिभावेन लिङ्गेस्मिन्सन्निधो भव || १२८ ||

अभिषेकं ततः कुर्यादमृतैः पञ्चभिः क्रमात् || प्. २९२) पश्चाच्छुद्धोदकेनाथ ततः पूजनमारभेत् || १२९ ||

रौद्रीन्धारान्ततः कुर्यात्प्रोच्यते तद्विधानकम् || नमस्ते रुद्राग्नाविष्णू इत्यध्यायद्वयेन च || १३० ||

आवर्तनमिति प्रोक्तं गङ्गास्नानफलप्रदम् || आवर्तनाभिषेकं तु यः कुर्यात्प्रत्यहं नरः || १३१ ||

तस्यैव दिनजं पापं दैवजं नाशमाप्नुयात् || सन्ध्यावन्दनतः क्षीणं तच्चेत्प्राग्जन्मजम्भवेत् || १३२ ||

एकः पाठो नमस्ते च अनुवाकः परस्य च || एवम्भवाय नस्तस्युः आ ना विष्णुस्तथैककम् || १३३ ||

इदं रुद्रियमाख्यातं रौद्रपापनिकृन्तनम् || अनेन प्रत्यहं यस्तु कुर्याल्लिङ्गाभिषेचनम् || १३४ ||

जन्मजन्मकृतं पापं वर्षेवर्षे प्रणश्यति || सप्तजन्मकृते पापे नष्टे लक्ष्मीर्विवर्धते || १३५ ||

वंशश्च स्थिरतामेति यशो याति दिगन्तरम् || सूते [पारदे ||] चास्य यथारूपं तथा तोये प्रदृश्यते || १३६ ||

रुद्रीभिरेकादशभिराद्य रुद्रः प्रकीर्तितः || अनेन सिक्तं यैर्लिङ्गन्ते न पश्यन्ति भास्करिम् || १३७ ||

एकादशभिरेतैस्तु महारुद्रः प्रकीर्तितः || धनप्रदोऽधनानाञ्च महापातकनाशनः || १३८ ||

अनेन विहितो होमः सोमयागफलप्रदः || योनाधिकारि दीक्षायान्तस्य पापक्षयङ्करः || १३९ ||

एकादशमहारुद्रैरतिरुद्रः प्रकीर्तितः || अतिपापहरोयं स्याद्दृष्टन्यायेन निष्कृतिः || १४० ||

विश्वासघातनं स्वामिद्रोहोऽन्यायेन दण्डनम् || कृतघ्नता च सामर्थ्ये शरणागतनाशनम् || १४१ ||

अतिपापानि पञ्चेति शप्ते देशे तपस्तथा || अकर्मणि कृते यत्तदतिरुद्रो विनाशयेत् || १४२ ||

शाखायां यस्य तु यथा स्वाध्यायौ पठितावुभौ || पठनीयौ तथा तेन शाखाखण्डं न कारयेत् || १४३ ||

न रुद्रो यस्य शाखायान्तैत्तिरीयं पठेत्स तु || शाखा तु यजमानस्य ब्राह्मणद्वारतः कृता || १४४ ||

अथ वा तैत्तिरीयाणां नान्यशाखा प्रपूज्यते || शाखामिश्रं कृतं कर्म यजमानं विनाशयेत् || १४५ ||

धनलोभात्परार्थं यो माभिषिञ्चति मूढधीः || स तु चाण्डालवज्ज्ञेयो निर्धनस्सप्तजन्मसु || १४६ ||

कुटुम्बिना तु यत्नेन धनार्थम्मम पूजनम् || कृतं चेज्जपदानाभ्यां तद्रुद्रांशोस्य निष्कृतिः || १४७ ||

प्. २९३) काको ब्रह्मस्वभोक्ता स्याच्छिवस्वाशी तु कुक्कुटः || देव्यन्नभोक्ता प्लवगो मूषको विष्णुवित्तभुक || १४८ ||

चण्डीचण्डीशनिर्माल्यं तथा वैनायकं द्विजाः || प्रसादं न च गृह्णन्ति स्वयन्दत्तादृते क्वचित् || १४९ ||

न सत्कृतं त्वविधिना यैर्वित्तेनान्यजन्मनि || भूत्वा मे पूजकास्ते तु सुखं कुर्वन्त्यनुत्तमम् || १५० ||

रुद्रो न यस्य शाखायाम्परिशिष्टान्वितं स तु || पठेद्रुद्रन्तैत्तिरीयं लुप्तशाखस्तमेव हि || १५१ ||

मन्त्रप्रयोगसहितो रुद्राध्यायोथ वक्ष्यते || असंस्कृताय नो वाच्यं तान्त्रिकाय कदाचन || १५२ ||

ओं नमस्ते रुद्रमन्यव उतोत इषवे नमः || नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः || १५३ ||

या त इषुः शिवतमा शिवम्बभूव ते धनुः || शिवा शरख्या या तव तया नो रुद्र मृडय || १५४ ||

या ते रुद्रशिवा तनूरघोरा पापकाशिनी तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि || १५५ ||

यामिषुं गिरिशन्तहस्ते बिभर्ष्यस्तवे || शिवां गिरित्र तां कुरु माहिगूंसीः पुरुषं जगत् || १५६ ||

शिवेन वचसा त्वा गिरिशाच्छावदामसि || लक्षमेकं प्रजुहुयाद्गोघृतं योत्र सुप्रभम् || १५७ ||

माध्वीकं मधुकं क्षौद्रन्तिलांश्च दधिसंयुतान् || यत्किञ्चित्कार्यमुद्दिश्य तस्य सिद्धिः प्रजायते || १५८ ||

एवमेव सहस्रं चेदेकादशदिनं हुनेत् || बालानां मारका ग्रामे नश्यन्त्येव न संशयः || १५९ ||

कुमारमारकश्चैव द्वादशाहेन नश्यति || होमः पञ्चदशाहन्तु राज्योपद्रवनाशनः || १६० ||

होमाद्विंशतिरात्रेण देशोपद्रवनाशनम् || पृथिव्युपद्रवो नश्येन्मासमात्रेण होमतः || १६१ ||

गवामुपद्रवे जाते गोष्ठमध्ये तदा हुनेत् || वैकङ्कतसमिद्भिश्चायुतं [कण्टकिवृक्षविशेषः ||] शान्तिः प्रजायते || अयुतं रुद्रहोमेन महाशान्तिर्भवेद्ध्रुवम् || १६२ ||

यथा नः सर्वमिज्जगदयक्ष्मगूं सुमना असत् || जपेदयुतसंख्याकं शापमोक्षः प्रजायते || शिशिरे तु जले प्रातर्लक्षञ्जप्त्वा सुखी भवेत् || १६३ ||

अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् || अहीं श्च सर्वाञ्जम्भयत्न्सर्वाश्च यातुधान्यो धराचीः परासुव || १६४ ||

लक्षमेकं पुरश्चर्या होमः स्याद्घृतसर्षपैः || प्. २९४) व्याधीनां नाशनं चेत्थं प्रयोगान्तरमुच्यते || १६५ ||

सप्ताभिमन्त्रितान्कृत्वा सर्षपानातुरस्य च || चतुर्दिक्षु क्षिपेद्रक्षा दशदिग्भ्यः प्रजायते || १६६ ||

सप्ताभिमन्त्रितान्कृत्वा पथि गच्छंस्तु सर्षपान् || दशदिक्षु क्षिपेन्नित्यं पथि क्षेमं प्रजायते || १६७ ||

ब्रह्मराक्षसयक्षाद्यैः पिशाचप्रेतभूतकैः || आविष्टः सर्षपैस्ताड्यः सप्तवाराभिमन्त्रितैः || १६८ ||

पुनः पुनर्मन्त्रपाठं पूर्वं कृत्वा धनार्थिनः || धनं गृहीत्वा गच्छन्ति करे चन्दनमेव हि || १६९ ||

शिखामाक्रम्य च जपेत्ताडयेद्गौरसर्षपैः || रात्रिं समस्तां स्कन्दादिग्रहपीडा विनश्यति || १७० ||

अनेन मन्त्रयित्वा तु दद्याच्छास्त्रोक्तमौषधम् || तत्कालं तद्गुणो यः स्यादन्यथा तु यथा तिथिः || १७१ ||

अभिमन्त्र्य जलं दद्यात्सर्वसत्त्वभवां रुजम् || हरेत्सविग्रहाणां च सर्षपैस्ताडनैस्तथा || १७२ ||

सर्वभूतोद्भवां पीडां भस्मधारणतो जयेत् || दिवसे च तथा रात्रौ त्रिशूलमभिमन्त्रयेत् || १७३ ||

सहस्रैकं समादाय क्षिपेन्नागह्रदे तु तत् || त्रिशूलेनास्तवेगास्ते नाशं गच्छन्ति पन्नगाः || १७४ ||

भस्माभिमन्त्रितं कृत्वा पन्नगाक्रान्तमन्दिरे || क्षिपेत्तत्तालशब्देन पन्नगोत्सादनं भवेत् || १७५ ||

असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः || ये चैनगूंरुद्रा भितो दिक्षुः श्रिताः सहस्रशो वैषागूंहेड ईमहे || १७६ ||

असौ योऽवसर्पति नीलग्रीवो विलोहितः || उतैनं गोपा अदृशं न दृशन्नु दहार्यः || उतैनं विश्वा भूतानि सदृष्टो मृडयाति नः || १७७ ||

उदयास्तमयोः सूर्यमेताभ्यामुपतिष्ठते || अष्टोत्तरशतं त्र्यब्दमक्षयोविभवो [तस्येति शेषः ||] भवेत् || १७८ ||

सहस्रमभिजप्तेन क्षीरेण स्नापयेच्छिवम् || अब्दैकेन प्रसन्नः स्याद्घृतस्रावाच्च वर्षणम् || १७९ ||

अतसीनांतु पुष्पाणि हुनेदयुतसङ्ख्यया || अवश्यो वश्यतां याति सविता वरदो भवेत् || १८० ||

अर्कमूलोद्भवैर्दुग्धैराप्लुतानां तु होमयेत् || अयुतं चार्कसमिधां शक्तश्चेत्स जले जपेत् || १८१ ||

होमान्ते भगवान्सूर्यो वृष्टिं मुञ्चति नान्यथा || मन्त्रद्वयं तु भजतामिष्टां सिद्धिं प्रयच्छति || १८२ ||

प्. २९५) नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे || अथो ये अस्य सत्त्वानोहन्ते भ्योकरन्नमः || स्थण्डिलस्योपकण्ठे तु कृत्वा सघृतपायसम् || १८३ ||

कृष्णाष्टमीं समारभ्य यावत्कृष्णचतुर्दशी || प्रत्यहं स्थापयेत्तावत्सहस्रेणाभिमन्त्रितम् || निवेदयेत्तु देवाय कार्षापणसहस्रकम् || १८४ ||

उद्यमाज्जायते लाभः सिद्धे मन्त्रे न संशयः || असिद्धे तु तदर्धं स्यात्सूर्यकान्तवृषाद्यपि || निवेदनात्पुनर्लाभो लक्षमेकं पुरस्कृतिः || १८५ ||

होमस्तु पायसघृतैरनाख्येयः प्रयोगवान् || प्रमुञ्चधन्वनस्तमुभयो रात्न्योर्ज्याम् || याश्च ते हस्त इषवः परा ता भगवो वप || १८६ ||

अवतत्य धनुष्ट्वगूंसहस्राक्ष शतेषुधे || निशीर्य शल्यानाम्मुखा शिवो नः सुमना भव || १८७ ||

विज्यं धनुः कपर्दिनो विशल्यो बाणवां उत || अनेशन्नस्य या इषव आभुरस्य निषङ्गधिः || १८८ ||

या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः || तयास्मान्विश्वतस्त्वमयक्ष्मया परिभुज || १८९ ||

नमस्ते अस्त्वायुधायानातताय धृष्णवे || उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने || १९० ||

परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः || अथो य इषुधिस्तवारे अस्मन्निधेहि तम् || १९१ ||

आयुधान्यभिमन्त्र्येमाञ्जप्त्वा पञ्चसहस्रकम् || बन्धयित्वा निरसयेद्गच्छेद्गच्छन्ति शत्रवः || १९२ ||

जुहुयादयुतन्दर्भकण्टकान्द्वेषकामुकः || गुडम्मुखेन चोच्चार्य शत्रोर्नाम स्मरन्हुनेत् || १९३ ||

जपाख्यसवनेनैव शत्रुमुत्सादयेद्धठात् || सम्पूर्णाहं जपन्नुत्सादयेत्सग्राममेव च || १९४ ||

उत्सादयेत्तु राजानमहोरात्रं दिनार्धके || चतुर्भागेन वैश्यन्तु षड्भागेनैकजातिकम् || १९५ ||

पलाशाश्वत्थबिल्वानामपामार्गस्य च क्रमात् || विप्रादिवश्यकामस्तु दधिक्षौद्रघृतान्विताः || १९६ ||

हुनेदयुतसंख्याकाः समिधः कार्यसिद्धये || हीनवर्णान्वशीकर्तुं वरुणार्ककवेतसान् || १९७ ||

शाखोटकांश्च जुहुयादष्टाविंशशतानि च || सौगन्धिकानुत्पलाग्निकुमुदानि प्रयच्छति || १९८ ||

स्वयन्तु लिङ्गे लक्षन्तु चन्दनाक्तानि भक्तितः || राज्यभ्रष्टो भवेद्राजा षड्भिर्मन्त्रैः पृथक्पृथक् || १९९ ||

धनार्थी प्राप्नुयाद्वित्तं शम्भुमेवं प्रपूजयन् || लक्षमेकन्तिलानां यः पृथग्धत्ते शिवोपरि || २०० ||

आरोपयेत्स शत्रूणां मूर्ध्नि तिष्ठति नित्यशः || प्. २९६) अयुतं राजवृक्षस्य समिधो होमयेत्तु यः || २०१ ||

रणे राजकुले द्यूते स शत्रुं त्वरितञ्जयेत् || गुग्गुलुं षट्सहस्रं यो दक्षिणामूर्तिसन्निधौ || २०२ ||

यत्कार्यार्थं हुनेत्तस्य सिद्धिः शीघ्रं प्रजायते || असाध्यस्यापि सिद्धिः स्याद्धृत्वा चाष्टसहस्रकम् || २०३ ||

यथा महानसे सिद्धमन्नञ्च जुहुयात्तथा || सहस्राष्टकमेतस्य द्रव्यम्भवति चाक्षयम् || २०४ ||

एका ऋक् परिशिष्टस्य एतस्याग्रे प्रवक्ष्यत || तभ्यं लोकोपकाराय सावधानतया शृणु || २०५ ||

नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरुषाय त्रिपुरान्तकाय त्रिकालाय कालाग्निरुद्राय नीलकण्ठाय सर्वेश्वराय सदाशिवाय श्रीमहादेवाय नमः || २०६ ||

अयुतं यो जपेदेतां घृताक्तैर्बिल्वपत्रकैः || प्रतिनाम सहस्रं तु जुहुयाल्लोकवन्दितः || २०७ ||

नमो हिरण्यबाहवे सेनान्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम्पतये नमोनमः || शष्पिञ्जराय त्विषीमते पथीनाम्पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम्पतये नमोनमः || २०८ ||

नमो बभ्लुशाय व्याधिनेन्नानाम्पतये नमो नमो भवस्य हेत्यै जगताम्पतये नमः || नमो रुद्रायाततायिने क्षेत्राणाम्पतये नमो नमः सूतायाहन्त्यै वनानाम्पतये नमोनमः || २०९ ||

पुरश्चरणमेतस्य सहस्रं चैकमीरितम् || यः संग्रामगतस्तस्य कौशल्यार्थमिदञ्जपेत् || २१० ||

जपप्रभावाच्छस्त्रास्त्रैः सोरिभिर्वैव बाध्यते || सूतायाहन्त्यै पूर्वन्तु परिशिष्टं निगद्यते || २११ ||

ललाललततायिनाम्पतये नमो नमो ननाननततायिनाम्पतये नमः || नमो रोहिताय स्थपतये वृक्षाणाम्पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम्पतये नमोनमः || २१२ ||

मन्त्रिणे वाणिजाय कक्षाणाम्पतये नमो नम उच्चैर्घोषायाक्रन्द यते पतीनाम्पतये नमोनमः || २१३ ||

कृत्स्नवीताय धावते सत्त्वानाम्पतये नमो नमस्सहमानाय निव्याधिन आव्याधिनीनाम्पतये नमो नमः || नमो निषङ्गिणे ककुभाय स्तेनानाम्पतये नमो नमो निषङ्गिणे इषुधिमते तस्कराणाम्पतये नमो नमः || २१४ ||

सहस्रपञ्चकञ्चास्य पुरश्चरणमुच्यते || एतज्जप्तुर्भयं नास्ति व्याघ्रचौरादिकैर्वने || २१५ ||

नमो वञ्चते परिवञ्चते स्तायूनाम्पतये नमो नमो निचेरवे परिचरायारण्यनाम्पतये नमो नमः || प्. २९७) सकायिभ्यो जिघागूं सद्भ्यो मुष्णताम्पतये नमो नमो समिद्भ्यो नक्तञ्चरद्भ्यो विकृन्तानाम्पतये नमोनमः || २१६ ||

उष्णीषिणे गिरिचराय कुलञ्चानाम्पतये नमो नमः इषुमद्भ्यो धन्वायिभ्यश्चवो नमः || नमः आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमः नम आयच्छद्भ्योस्यद्भ्यश्च वो नमोनमः || २१७ ||

सहस्राष्टकमेतस्य पुरश्चरणमुच्यते || व्रणादेस्तीव्रपीडा या नाशकोस्य जपः स्मृतः || २१८ ||

विसृजद्भ्यो विद्वद्भ्यश्च वो नमा नमः स्वपद्भ्यो जाग्रद्भ्येश्च वो नमः || नमः शयानेभ्य आसीनेभ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यो श्च वो नमोनमः || २१९ ||

समाभ्यः सभापतिभ्यश्च वो नमः || अश्वेभ्यो अश्वपतिभ्यश्च वो नमः || २२० ||

सहस्रनवकन्तावत्पुरश्चरणमस्य तु || सेनायाश्चतुरङ्गानां शान्तये प्रजपेदिदम् || २२१ ||

नम आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम उपगणाभ्यस्तृ गूं हतीभ्यश्च वो नमः || २२२ ||

नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमः || नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमः || २२३ ||

नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो ननो रथिभ्यो रथपतिभ्यश्चवो नमः || नमः सेनाभ्यः सेनानीभ्यश्च वो नमो नमः क्षतृभ्यः संग्रहीतृभ्यश्च वो नमो नमो महद्भ्यो अर्भकेभ्यश्च वो नमः || २२४ ||

नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमः || नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम-इषुकृद्भ्योधन्वकृद्भ्यश्च वो नमः || नमो मृगयुभ्यः शनिभ्यश्च वो नमो नमः श्वभ्यः श्वपतिभ्यश्च वो नमः || २२५ ||

पुरश्चरणमेतस्य सहस्राणां तु षोडश || दुष्टग्रहबलिं दत्त्वा जप्त्वा चैतान्निरामयः || २२६ ||

नमो भवाय च रुद्राय नमः शर्वाय च पशुपतये च || नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युप्तकेशाय च || २२७ ||

नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च || नमो मीढुष्टमायेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृधे च || २२८ ||

पुरश्चर्यायुतं चास्य विभवार्थं प्रयोजयेत् || प्. २९८) त्रिसन्ध्यं यः पठेदेतदेवं वर्षेण भाग्यवान् || २२९ ||

नमो अग्रेयाय च प्रथमाय च नम आशवे चाजिराय च || नमः शिघ्र्याय च शीभ्याय च नम ऊर्म्याय चावस्वन्याय च नमः स्रोतस्याय च दीप्याय च || २३० ||

सहस्रपञ्चकं तावत्पुरश्चरणमुच्यते || गणाग्रं तृप्तिमाप्नोति यन्मतं च परैरपि || २३१ ||

नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च || नमो मध्यमाय चाप्रगल्भ्याय च नमो जघन्याय च बुध्न्याय च || २३२ ||

नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च || श्लोक्याय च वसान्याय च नम उर्वर्याय च खल्याय च || २३३ ||

नमो वन्याय च कक्ष्याय च नम श्रवाय च प्रतिश्रवाय च || २३४ ||

सहस्रदशकं तावत्पुरश्चरणमुच्यते || ज्ञातिश्रेष्ठत्वमाप्नोति जपेनैव न संशयः || २३५ ||

नम आशु शेणाय चाशुरथाय च नमः शराय चावभेदिने च || नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च || २३६ ||

पुरश्चर्यास्य निर्दिष्टा सहस्राणां तु पंचकम् || जात्या नश्यति खंजत्वं पादुकासिद्धिमाप्नुयात् || २३७ ||

नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय च || नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च || २३८ ||

नमस्तीक्ष्णेषवे चायुधिने च नमः श्रुत्याय च पथ्याय च || नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च || नमो नादेयाय च वैशन्ताय च || २३९ ||

अयुतद्वितयं चास्य पुरश्चरणमुच्यते || संग्रामे जयकृच्चायमनुवाकः प्रकीर्तितः || २४० ||

नमः कूप्याय चावट्याय च नमो वर्याय चावर्याय च || नमो मेध्याय च विद्युत्याय च नम इन्द्रियाय चातथ्याय च || २४१ ||

नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च || २४२ ||

षट्सहस्रं पुरश्चर्या ग्रहेणाधिष्ठितो रविः || अभिमन्त्रणमेतेन तेन तोयं विमुञ्चति || २४३ ||

नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गवे च पशुपतये च नम उग्राय च भीमाय च || २४४ ||

नमो अग्रेवधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च || नमो वृक्षेभ्यो ह्रिकेशेभ्यो नमस्ताराय || २४५ ||

प्. २९९) नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च || २४६ ||

पुरश्चर्यायुतमिता जपेदष्टोत्तरं शतम् || त्रिकाल्ं भस्मतोयञ्च भक्षयेल्लेपयेत्तथा || २४७ ||

मासत्रयाद्राजयक्ष्मा किलातश्चित्रमब्दतः || नश्यत्येव भवेद्दिव्यो रोगः क्षुद्रो दिनत्रयात् || २४८ ||

नमस्तीर्थ्याय च कूल्याय च नमो वार्याय चावार्याय च || नमः प्रतरणाय चोत्तरणाय च नमः आचार्याय चाध्मानाय च || २४९ ||

नमः शष्पाय च फेन्याय च नमः सिकत्याय च प्रबाह्याय च || २५० ||

षट्सहस्रं पुरश्चर्याषण्मासं तीर्थगो जपेत् || यथोक्तं तत्तीर्थफलं लभते चेह जन्मनि || २५१ ||

नम इरिण्याय च प्रमथ्याय च नमः किगूं शिलाय च क्षयाणाय च नमः कपर्दिने च पुलस्तये च || २५२ ||

नमो गोष्ठ्याय च गृह्याय च नमस्तल्पाय च गेह्याय च || नमः काट्याय च गह्वरेष्ठाय च नमो हृदययाय च निवेष्याय च || २५३ ||

नमः पागूंसंव्याय च रजस्याय च नमः शुष्काय च हरित्याय च नमो लोप्याय च चोल्प्याय च || २५४ ||

सहस्रनवकं तावत्पुरश्चरणमुच्यते || धातुवादो राजसश्च सिध्यत्येतत्प्रसादतः || २५५ ||

अत्रास्ति परिशेषस्यानुवाकोप्येक एव हि || रजस्याय च एतस्य नमोन्तस्याग्रतः पठेत् || २५६ ||

नमो नेदिष्ठाय च कृशाङ्गाय च नमः पराय च परतराय च || नमः परमाय च धूमाय च नमो हराय च ताराय च || २५७ ||

नमो वामनाय च हरिण्याय च नमः शिवाय च हरिकेशाय च || २५८ ||

सहस्राष्टकमेतस्य पुरश्चरणमुच्यते || बालग्रहा विनश्यन्ति वर्हिषोदकमार्जनात् || २५९ ||

नम ऊर्व्याय च सूर्याय च नमः पर्णाय च पर्णशदाय च || नम उद्गुरुमाणाय चाभिघ्नते च नम आखिदते च प्रखिदते च || २६० ||

अस्य नवसहस्राणां पुरश्चरणमुच्यते || अभिमन्त्र्य जलं देयं शोकशान्त्यै तु शोकिने || २६१ ||

नमो वः किरिकेभ्यस्सर्वत्र देवानागूं हृदयेभ्य इति || परिशिष्टं चैतदत्र प्रयोगेष्वपि यो जपेत् || २६२ ||

तिलहोमेनायुतेन कार्यं पलसहस्रकम् || प्रतिष्ठाञ्चैव भूपालात्प्राप्नुयाद्वर्षमध्यतः || २६३ ||

हुनेद्गोमद्यखण्डानि चैकादशसहस्रकम् || प्. ३००) घृताक्तानि प्रदातव्या गाव एकादशैव हि || २६४ ||

पुरश्चरणपूर्वन्तु लक्षैकं तिलतण्डुलान् || यो हुनेत्तस्य गेहे तु राजलक्ष्मीः स्वयं वसेत् || २६५ ||

एवं च तिलधान्याभ्यां होमाल्लक्ष्मीः स्थिरा भवेत् || शतपुष्पमयीं कृत्वा प्रतिमां राजरूप्यकाम् || २६६ ||

सहस्रं जुहुयाद्राजा वशोवश्यं प्रजायते || पद्मोत्पलानां लक्षन्तु हुत्वा भूपश्रियं लभेत् || २६७ ||

चणकप्रतिमा लक्षं होमयेद्गुग्गुलोर्वटीः || हृतसामन्तराज्यं स प्राप्नोत्येव न चान्यथा || २६८ ||

हुनेद्बिवसमिद्भिस्तु दक्षिणामूर्तिसन्निधौ || लक्षमेकं तदा राष्ट्रं सामन्तस्य लभेत सः || २६९ ||

महाचतुष्पथे स्थाप्यं [ल्यवार्षः ||] लिङ्गं वल्मीकमृद्भवम् || स्नापयेत्पञ्चगव्येन रुद्राध्यायेन मन्त्रयेत् || २७० ||

मानस्तोकेन मन्त्रेण चाभिषिञ्चेन्निवेद्यकम् || सघृतं पायसं दद्याद्भूतेभ्यश्च तथा बलिम् || २७१ ||

एवं मासत्रयं कृत्वा महदैश्वर्यमाप्नुयात् || पलं चार्धपलं वापि दक्षिणामूर्तिसन्निधौ || २७२ ||

श्वेताम्बरां चूर्णयित्वा स्थापयेत्ताम्रपात्रके || आलोड्य कपिलाज्येन प्रदीपिन्याभिमन्त्रितम् || २७३ ||

सहस्राष्टकमेतेन मन्त्रेण प्रपिबेदथ || भवेत्तस्याप्रतिहतं वाक्यं सर्वत्र निश्चितम् || २७४ ||

उदुम्बर्याश्च समिधो घृताक्ताश्चायुतं हुनेत् || स्वामी बहुगवां स स्यात्क्षीयन्ते नास्य धेनवः || २७५ ||

बिल्वानां समिधश्चैव हुनेदष्टसहस्रकम् || सुवर्णाष्टकमाप्नोति ह्यसिद्धो रजताष्टकम् || २७६ ||

बिल्वाभावे त्वामलकं तदभावे उदुम्बरम् || तस्याभावे हैमवती तदभावे विभीतकम् || २७७ ||

श्रीखण्डगोघृताक्तानां पद्मानां लक्षमेककम् || हुनेद्यस्तस्य लक्ष्मीस्तु स्वयमेवोपतिष्ठते || २७८ ||

द्रापे अन्धसस्पतेदरिद्रनीललोहित || एषां पुरुषाणामेषां पशूनां मा भेर्मा रोङ्मोचनः किञ्च नाममत् || २७९ ||

अनेन जुहुयादाज्यमयुतावधि संख्यया || अक्षययान्यस्य वासांसि भवन्ति च तथातथा || २८० ||

या ते रुद्र शिवा तनूः शिवाविश्वा हा भेषजी || शिवा रुतस्य भेषजी तया नो मृद जीवसे || उर्णाभाश्चाजीवदवेस्तनूं विहाय च || २८१ ||

एकादशसरं कुर्यात्सूत्रमेकैकसूत्रकम् || सहस्रं सम्प्रमन्त्याथैकादश ग्रन्थयस्स्मृताः || २८२ ||

प्. ३०१) एवं सम्पूज्य तां रज्जुं धूपं दत्त्वा च बन्धयेत् || वामहस्ते तु गर्भिण्याः स सुवीत सुखं सुतम् || २८३ ||

दक्षे बालकहस्ते तु सुखं तिष्ठति बालकः || बन्धयेद्यदि सूत्रन्तु मन्त्रेणैवाभिमन्त्रितम् || २८४ ||

धनिको बाहुमूले वा कण्ठे वा धारयेदिदम् || कदाचिदुत्तमर्णाद्वै भयन्तस्य न जायते || २८५ ||

क्ष्मागूं रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् || यथा नः शमसद्द्विपदे चतुष्पदे विश्वम्पुष्टं ग्रामे अस्मिन्ननातुरम् || २८६ ||

अष्टोत्तरसहस्रन्तु प्रत्यहं जुहुयात्तिलान् || अयाचितं धनन्तेन लोकेभ्य ह्युपलभ्यते || २८७ ||

यस्तु दूर्वाप्रवालानि घृताक्तान्ययुतं हुनेत् || महाज्वरोपघातेपि मृतकल्पः स जीवति || २८८ ||

माक्षिकं पायसाज्याभ्यामयुतं जुहुयाच्छुचिः || महाग्रहज्वरादिभ्योभिचाराच्च प्रमुच्यते || २८९ ||

वैकङ्कतीनामयुतं समिधाञ्च घृतैर्हुनेत् || ज्वरादिकभवा पीडा सद्य एव विनश्यति || २९० ||

द्रव्याद्यर्थं यदा कश्चिन्मृदुभिरभिरूप्यते || तदा तुषान्प्रजुहुयादयुतं सुखमेधते || २९१ ||

वैकंकतीश्च समिध उदुम्बर्यास्तथा तिलान् || अनेन जुहुयाल्लक्षं सर्वशक्तिकरं स्मृतम् || २९२ ||

गवाञ्चान्यपशूनां वा ह्युपघाते तु तत्स्थले || अग्निं संस्थाप्य जुहुयाद्वैकङ्कतीघृतप्लुताः || २९३ ||

अयुतं तस्य शान्तिः स्यात्पलाशानां तथायुतम् || घृताक्तानां प्रजुहुयान्महाज्वरमुखा ग्रहाः || २९४ ||

राक्षसा भूतवेतालाः प्रेताश्चापि पिशाचकाः || जनं वापि गजं वाश्वं मुक्त्वा गच्छन्ति दूरतः || २९५ ||

जनानां जननं यस्मिन्गेहे भवति सूतिका || मरणं वाथ हानिर्वा तत्र शान्तिरुदीर्यते || २९६ ||

घृताक्तानां तिलानान्तु ह्ययुतं जुहुयाद्द्विजः || तस्मिन्देशे महामारीव्याघ्रादिभ्यो भयं न वै || २९७ ||

देवानां क्षोभणं यत्र तत्र शांतिं वदाम्यहम् || पुरस्य मध्यभागे तु वह्निस्थापनमाचरेत् || २९८ ||

चतुर्दिक्षु च सन्नद्धा गुप्ताश्चत्वार एव हि || नराः स्थाप्यास्ततः कर्म सावधानः समाचरेत् || २९९ ||

अष्टोत्तरसहस्रन्तु घृताक्ताञ्जुहुयात्तिलान् || ततोर्धरात्रसमये त्वोदनं सघृतन्तिलान् || ३०० ||

पिष्टं माषौदनञ्चापि कृशरं परमान्नकम् || सुज्ञो जनपदे दद्यात्स्थानेस्थाने ततो बलिम् || ३०१ ||

पलाशपत्रे रुद्रेभ्यो रक्षोभ्यस्तदनन्तरम् || प्. ३०२) कुर्यादेवं पक्षमेकं सर्वोपद्रवनाशनम् || ३०२ ||

मृडानो रुद्रो तनो मपस्कृधि क्षयद्वीराय नमसा विधेम ते || यच्छञ्च योश्च मनुरायजे पितातदस्यामततोवरुद्रप्रणीतौ || ३०३ ||

सहस्रन्तु जपेत्तोये तीरे सम्पूजयेच्छिवम् || यावद्दूरे भवेदिष्टं त्रिदिनार्वाङ्मिलेत्खलु || ३०४ ||

मा नो महान्तमुत मा नो अर्भकं मा न उक्षंतन्तमुत मा न उक्षितम् || मानो वधीः पितरं मोत मातरं मानः प्रियास्तन्वो रुद्ररीरिषः || ३०५ ||

परिजनस्य बालानामारोग्यार्थन्तिलान्हुनेत् || अयुतं शीतलादिभ्य आरोग्यं जायते क्षणात् || ३०६ ||

मानस्तोकं [मानस्तोके तनये मा न आयुषि मा नो गोषु मानो अश्वेषु रीरिषः || मा नो वीरानुद्रभामिनो वधीर्हविष्मन्तः सदमि त्वा हवामहे - अयं मन्त्रः अपरश्च - मानो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् || मा नो वधीः पितरं मोतमातरं नः प्रियास्तनुवो रुद्र रीरिषः ||] महान्तञ्च सर्वतन्त्रेषु गोपितम् || कथयिष्यामि मुनये देवानां कार्यसिद्धये || ३०७ ||

अतिकृच्छ्रेण कृच्छ्रेण तथा चान्द्रायणेन वा || आदौ संशोध्य चात्मानं पूतकायो जपञ्चरेत् || ३०८ ||

जपन्नेतत्तु भुञ्जीत शाकं वा यावकं पयः || भिक्षाञ्चाज्यञ्जपस्तस्य भवेदयुतसंख्यकः || ३०९ ||

सहस्रमात्रे मन्त्रस्य प्रयोगार्हो भवेन्मनुः || प्रयोगान्ते त्वहोरात्रञ्जपः कार्यो निरन्तरम् || ३१० ||

तद्दशांशेन होतव्य औदुम्बर्यो घृताप्लुताः || महाव्याहृतिभिः पश्चात्तावदेव घृतं हुनेत् || ३११ ||

संस्रावभागं संप्राश्य प्रयोगेणाक्षयं व्रजेत् || पुनः कर्म प्रकुर्वीत प्रायश्चित्तं पुनः पुनः || ३१२ ||

स्नायाच्च तिलतैलेन सप्तधा मन्त्रितेन च || मरणादिप्रयोगाणाम्भवेत्पातकमोचनम् || ३१३ ||

ब्रह्मवर्चसकामस्तु हुनेदष्टसहस्रकम् || घृताक्तानान्तु समिधाञ्चौषध्यः सर्वकर्मसु || ३१४ ||

पद्मानान्तु घृताक्तानान्दशरात्रमुपोषितः || अयुतं जुहुयाल्लक्ष्मीकामो वा शिवदर्शनात् || ३१५ ||

अपामार्गोद्भवानाञ्च तण्डुलानान्तथायुतम् || हुनेद्वापि घृताक्तानां सर्वार्थस्य स्मृद्धये || ३१६ ||

गोसहस्रप्रलाभाय जुहुयाद्गोपयोथ वा || आज्याहुतीनाञ्च तथा सहस्राष्टकमादरात् || ३१७ ||

उपोषितो दशाहानि हुनेद्बिल्वफलानि च || अयुतञ्च घृताक्तानि लभेताष्टसहस्रकम् || ३१८ ||

प्. ३०३) सिद्धे मन्त्रे सुवर्णानि त्वसिद्धे रजतानि च || भार्यामुकी मे भवतु ह्येदर्थे हुनेच्छुचिः || ३१९ ||

जातीपुष्पाणि चाज्येन मधुना संयुतानि च || कपिला तु यदा सूता वृषभं वासितापि गौः || ३२० ||

आज्यदुग्धं गृहीत्वा स्वाः श्रपयेत्तेन वै चरुम् || अष्टोत्तरशतं हुत्वा तथा चाष्टसहस्रकम् || ३२१ ||

मन्त्रयित्वा चरुन्तञ्च सपत्नीकः प्रभक्षयेत् || आयुष्मतोष्टपुत्रांश्च जनयेन्नात्र संशयः || ३२२ ||

दूर्वाप्रवालाञ्जुहुयाद्दधिक्षीरघृतान्वितान् || आयुष्कामोष्टसाहस्रं चिरायुष्ट्वं स विन्दते || ३२३ ||

दधिक्षौद्रघृताक्तानां पुष्पाणां कुशकाशयोः || सहस्राण्यष्ट जुहुयादिच्छेत्क्षुद्रान्यदा पशून् || ३२४ ||

त्रिरात्रोपोषितो भत्वा गच्छेन्महाचतुष्पथे || कृत्वा मूर्तिं गोमयेन तद्वद्दैवतसम्मुखे || ३२५ ||

पूजयित्वा हुनेद्भूमौ चाष्टोत्तरसहस्रकम् || कर्मणा तेन नृपतिर्भवेद्वश्यो न संशयः || ३२६ ||

सप्ताभिमन्त्रितन्तीक्ष्णं तैलं तेन करद्वयम् || सम्यक्स्पृष्टस्तेन स्पृष्टो योयोसौ वशगो भवेत् || ३२७ ||

ब्रह्मवर्चसकामस्तु दधिक्षौद्रघृतान्विताः || बिल्वस्य समिधो हुत्वा लक्षं तेजोनिधिर्भवेत् || ३२८ ||

औदुम्बरीश्च जुहुयाद्दधिक्षौद्रघृतान्विताः || समिधोष्टसहस्राणि शत्रोरुच्चाटनं भवेत् || ३२९ ||

सर्वोपद्रवनाशार्थं गृहीत्वा सप्तशर्कराः || मन्त्रयित्वा सहस्रं तु चतुर्दिक्षु क्षिपेत्ततः || ३३० ||

ऊर्ध्वाधस्तस्य निकटे सर्वोपद्रवनाशनम् || एवं कृत्वा व्रजन्मार्गे चौरव्याघ्रभयं हरेत् || ३३१ ||

आ रे तेगोघ्न उत पूरुषघ्ने क्षयद्वीराय सुन्नमस्ते ते अस्तु || रक्षाव नो अधि चेदं देवब्रूह्यथो च नः शर्म यच्छद्विवर्हाः || ३३२ ||

स्तुहि श्रुतं गर्तसदं युवानं भवन्तं भीममुपहेलमुग्र || मृडाजरित्रे रुद्रस्तवानो अभ्यन्ते अस्मन्निव यन्तु सेना || ३३३ ||

परि नो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः || अवस्थिरा मघवद्भ्यस्तनुष्वमीड्ड्वस्तोकाय तनयाय मृड || ३३४ ||

मीढुष्टम शिवतम शिवो नः सुमना भव || परमे वृक्ष आयुधं निधाय कृत्तिं वसान आचर पिनाकं बिभ्रदागहि || ३३५ ||

महाभये समुत्पन्ने व्याघ्रचौरभयादिषु || चतसॄचः स्मरेच्चित्ते तद्भयस्य विनाशिकाः || ३३६ ||

विकिरिद्रविलोहित नमस्ते अस्तु भगवः || प्. ३०४) यास्ते सहस्रगूंहेतन्यमस्मन्निवपन्तु ताः || ३३७ ||

शपेदयुतसंख्याकं विरोधे तु महाजनैः || राजा च वशमायाति प्रीतिश्चाति प्रजायते || ३३८ ||

सहस्राणि सहस्रशो बाह्वोस्तव हेतयः || तासामीशानो भगवः पराचीनामुखाकृधि || ३३९ ||

यदा तु महतो मृत्युर्नृपतेर्वाप्युपद्रवः || तदा होमं प्रकुर्वीत वैकङ्कतसमिद्वरैः || ३४० ||

औदुम्बरीभिः शाल्मल्या तिलैर्वापि यवैरपि || प्रत्येकमेकादशधा चाभिमन्त्र्य ततोवनिम् || ३४१ ||

कृशरं पायसं वापि ततो भूतानि चार्चयेत् || दद्याद्विडालमांसस्य बलिं नश्यन्त्युपद्रवाः || ३४२ ||

सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम् || तेषां सहस्रयोजनेवधन्वानितन्मसि || ३४३ ||

पठेयुरन्यशाखीया वाक्यान्ते परिशिष्टकम् || अस्मिन्महत्यर्णवे तं रक्षो भवा अधि तथा || ३४४ ||

नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः || तेषागूंसहस्रयोजनेवधन्वानितन्मसि || ३४५ ||

नीलग्रीवाः शितिकण्ठा दिवगूंरुद्रा उपश्रिताः || तेषागूंसहस्रयोजनेवधन्वानि तन्मसि || ३४६ ||

ये वृक्षेषु शष्पिंजरा नीलग्रीवा विलोहिताः || तेषागूंसहस्रयोजनेवधन्वानितन्मसि || ३४७ ||

ये भूतानामधिपतयो विशिखासः कपर्दिनः || तेषागूंसहस्रयोजनेवधन्वानितन्मसि || ३४८ ||

येन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् || तेषागूंसहस्रयोजनेवधन्वानितन्मसि || ३४९ ||

ये पथां पथिरक्षय ऐलबृदा आयुर्युधः || तेषागूंसहस्रयोजनेवधन्वानितन्मसि || ३५० ||

ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः || तेषागूंसहस्रयोजनेवधन्वानितन्मसि || ३५१ ||

य एतावन्तश्च भयागूंसश्च दिशो रुद्रा वितस्थिरे || तेषागूंसहस्रयोजनेवधन्वानितन्मसि || ३५२ ||

जपेदेता नव ऋचः परिशिष्टसमन्विताः || भवन्ति भोगदास्तेन हीना ज्ञानप्रदा मताः || ३५३ ||

नमोस्तु रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवः || तेभ्यो दश प्राचीर्दश दशिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः || तेभ्यो नमोस्तु ते नोवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भेदध्मः || ३५४ ||

नमोस्तु रुद्रेभ्यो येन्तरिक्षे येषां वात इषवः || तेभ्यो दशप्राचीर्दश दक्षिणा दश प्रतीचीर्दशोर्द्ध्वाः || ३५५ ||

नमोस्तु रुद्रेभ्यो ये दिवि येषां वर्षमिषवः || प्. ३०५) तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोर्द्ध्वाः || ३५६ ||

मध्याह्ने चाज्यं जुहुयादेभिर्मन्त्रैः सकण्टकम् || प्रत्यङ्गिराया मन्त्रस्य कर्म कुर्यादयं मनुः || ३५७ ||

मृत्युञ्जयेन मन्त्रेण नमस्तेऽस्य समापनम् || तैत्तिरीयेन्यशाखासु परिशिष्टानि सप्त च || ३५८ ||

सद्योजातादिकाः [सद्योजातम्प्रपद्यामि सद्योजाताय वै नमः इत्याद्याः पञ्चर्चः पूर्वं ब्रहुस्थलेषु लिखिताः |
] पञ्च त्र्यम्बकं च यजामहे || षडर्च एतास्त्वरितरुद्रनामकमुच्यते || ३५९ ||

अग्नाविद्यरसजोषसे मा वर्द्धतु चाङ्गिरः शुभ्रैर्वाजैर्निरगात्तम् || ३६० ||

नित्यं सन्ध्यावन्दनान्ते तिष्ठन्कालत्रये जपेत् || अष्टोत्तरसहस्रन्तु षण्मासं सत्यवाग्भवेत् || ३६१ ||

वाजश्चमे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे ह्यधीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रुवश्च मे श्रुतिश्च मे ज्योतिश्च मे स्वश्च मे यज्ञेन कल्पन्ताम् || ३६२ ||

प्राणश्च मेऽपानश्च मे व्यानश्च मेऽसुश्च मे चित्तं च मे अधीतं च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च मे यज्ञेन कपन्ताम् || ३६३ ||

ओजश्च मे सहश्च मे आत्मा च मे तनूश्च मे शर्म च मे वर्म च मेऽङ्गानि च मेऽस्थीनि च मे परूगूंषि च मे शरीराणि च म आयुश्च मे जरा च मे यज्ञेन कल्पन्ताम् || ३६४ ||

ज्यैष्ठ्यं च म आधिपस्यं च मे मन्युश्च मे भामश्च मेम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्षिमा च मे द्राघिमाच मे वृद्धं च मे वृद्धिश्च मे यज्ञेन कल्पन्ताम् || ३६५ ||

सत्यं च मे श्रद्धा च मे जगच्चमे धनं च मे विश्वञ्च मे महश्च मे क्रीडा च मे मोदश्च मे जातञ्च मे जनिष्यमाणञ्च मे सूक्तञ्च मे सुकृतं च मे यज्ञेन कल्पन्ताम् || ३६६ ||

ऋतञ्च मे मृतञ्च मे यक्ष्मं च मे नामयं च मे जीवातुश्च मे दीर्घायुस्त्वं च मे न मित्रं च मे भयं च मे सुखञ्च मे शयनञ्च मे सूषश्च मे यज्ञेन कल्पन्ताम् || ३६७ ||

यन्ता च मे धर्ता च मे क्षेमं च मे धृतिश्च मे विश्वञ्च मे महश्च मे संविच्च मे ज्ञात्रञ्च मे सूश्च मे प्रसूश्च मे सीरञ्च मे लयश्च मे यज्ञेन कल्पन्ताम् || ३६८ ||

शञ्च मे मयश्च मे प्रियं च मे नुकामश्च मे कामश्च मे सौमनसश्च मे भगश्च मे द्रविणञ्च मे भद्रश्च मे श्रेयश्च मे वसीयश्च मे यशश्च मे यज्ञेन कल्पन्ताम् || ३६९ ||

प्. ३०६) ऊर्क्च मे सूनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्धिश्च मे सपीतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रंचमे औद्भिद्यंश्च मे यज्ञेन कल्पन्ताम् || ३७० ||

रयिश्च मे रायश्च मे पुष्टञ्च मे पुष्टिञ्च मे विभु च मे प्रभु च मे पूर्णं च मे पूर्णतरं च मे कुयवश्च मे क्षितंचमेन्नञ्च मे क्षुच्च मे यज्ञेन कल्पन्ताम् || ३७१ ||

वित्तं च मे वेद्यञ्च मे भूतञ्च मे भविष्यच्च मे सुगञ्च मे सुपथ्यं च मे ऋद्धं च मे ऋद्धिश्च मे कॢप्तञ्च मे कॢप्तिश्च मे मतिश्च मे सुमतिश्च मे यज्ञेन कल्पन्ताम् || ३७२ ||

व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे प्रियङ्गवश्च मे णवश्च मे श्यामाकाश्च मे नीवाराश्च मे गोधूमाश्च मे मसूराश्च मे यज्ञेन कल्पन्ताम् || ३७३ ||

अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यञ्चमेऽयश्च मे श्यामञ्च मे लोहंच मे सीसंच मे त्रपु च मे यज्ञेन कल्पन्ताम् || ३७४ ||

अग्निश्च म आपश्च मे वीरुधश्च म ओषधयश्च मे कृष्टपच्याश्च मेऽकृष्टपच्याश्च मे ग्राम्याश्च मे पशव-आरण्याश्च मे वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे यज्ञेन कल्पन्ताम् || ३७५ ||

वसु च मे कर्म च मे शक्तिश्च मेऽर्थश्च म एमश्च मे इत्या च मे गतिश्च मे यज्ञेन कल्पन्ताम् || ३७६ ||

अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे यज्ञेन कल्पन्ताम् || ३७७ ||

मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे धाता च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे मरुतश्च मे इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे यज्ञेन कल्पताम् || ३७८ ||

पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्चम इन्द्रश्च मे समाश्च म इन्द्रश्च मे नक्षत्राणि च म इन्द्रश्च मे दिशश्चम इन्द्रश्च मे यज्ञेन कल्पन्ताम् || ३७९ ||

अगूंशुश्च मे रश्मिमश्च मे दाब्भ्यश्च मे धिपतिश्च म उपागूंशुश्च मेन्तर्यामश्च म ऐद्रा वायवश्च मे मैत्रवरुणश्च मा आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थी च मे यज्ञेन कल्पन्ताम् || ३८० ||

प्. ३०७) आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मे ऐन्द्राग्निश्च मे महावैश्वदेवश्च मे मरुत्वतीयाश्च मे निष्केवल्यश्च मे सावित्रश्च मे सारस्वतश्च मे पाल्कीवतश्च मे हारियोजनश्च मे यज्ञेन कल्पन्ताम् || ३८१ ||

स्रुचश्च मे चमसाश्च मे वायव्यानि च मे द्रोणकलशश्च मे ग्राबाणश्च मे धिषधणे च मे पूतभृच्च म आधवनीयश्च मे वेदिश्च मे बर्हिश्च मे अवभृथश्च मे स्वगाकारश्च मे यज्ञेन कल्पन्ताम् || ३८२ ||

अग्निश्च मे धर्मश्च मेर्कश्च मे सूर्यश्च मे प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मेऽदितिश्च मे दितिश्च मे द्यौश्च मेङ्गुलयः शक्वरयो दिशश्च मे यज्ञेन कल्पन्ताम् || ३८३ ||

ऋक्च मे सामचमे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मे क्रतवश्च मे संवत्सरश्च मेहोरात्रे ऊर्वष्ठीवे बृहद्रथन्तरे च मे यज्ञेन कल्पन्ताम् || ३८४ ||

गर्भाश्च मे वत्साश्च मे त्र्याविश्च मे त्र्यावी च मे दित्यवाट् च मे दित्यौही च मे पञ्चविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाट् च मे तुर्यौहीच मे यज्ञेन कल्पन्ताम् || ३८५ ||

पुष्टवाट् च मे पुष्टौही च मे उक्षा च मे वशाच म ऋषभश्च मे बृहच्च मेऽनड्वांश्च मे धेनुश्च मे आयुर्यज्ञेन कल्पन्ताम् || ३८६ ||

एकाच मे तिस्रश्च मे तिस्रश्च मे पञ्च च मे पञ्च च मे सप्त च मे सप्त च मे नव च मे नव च म एकादश च म एकादश च मे त्रयोदश च मे त्रयोदश च मे पञ्चदश च मे पञ्चदश च मे सप्तदश च मे सप्तदश च मे नव दश च मे नव दश च म एकविगूंशतिश्च म एकविगूंशतिश्च मे त्रयोविगूंशतिश्च मे त्रयोविगूंशतिश्च मे पञ्चविगूंशतिश्च मे पञ्चविंगूंशतिश्च मे सप्तविगूंशतिश्च मे सप्तविगूंशतिश्च मे नवविगूंशतिश्च मे नवविगूंशतिश्च मे एकत्रिगूंशच्च म एकत्रिगूंशच्च मे त्रयस्त्रिगूंशच्च मे यज्ञेन कल्पन्ताम् || ३८७ ||

चतस्रश्च मेऽष्टौ च मे २ द्वादश च मे २ षोडश च मे २ विगूंशतिश्च मे २ चतुर्विगूंशतिश्च मे २ऽष्टाविगूंशतिश्च मे २ द्वात्रिगूंशच्च मे षट्त्रिगूंशच्च मे २ चत्वारिगूंशच्च मे २ चतुश्चत्वारिगूंशच्च मे २ ऽष्टचत्वारिगूंशच्च मे यज्ञेन कल्पन्ताम् || ३८८ ||

वाजश्च पशवश्चापि क्रतुश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च यज्ञेन कल्पन्ताम् || ३८९ ||

प्. ३०८) एतावावुद्र आख्यातः सर्वकामफलप्रदः || विस्वरोवाक्षरः पाठो रुद्रस्तोत्रं तु शान्तये || ३९० ||

इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्था मदानि शगूंशिषद्विश्वे देवाः सूक्तवाचः पृथिवि मातर्मा मा हिगूंसीर्मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीन्देवेभ्यो वाचमुद्या शगूंशुश्रूषेण्यां मनुष्येभ्यस्ते मा देवा अवन्तु शोभायै पितरो नु मदन्तु || ओं शान्तिः शान्तिः || शान्तिः || ३९१ ||

परं शिष्टं जपेच्चैव एष रुद्रविधिः स्मृतः || अभिषिञ्चेत्पौष्टिकार्थं शान्तिकामस्तु होमयेत् || ३९२ ||

सिद्धिकामो जपेदेवमक्षराणा तु संख्यया || इहैव बहुरुद्राढ्यः शिव एव न चापरः || ३९३ ||

पदतुल्यावृत्तिजपाद्विज्ञप्तिरपि जायते || वाक्यतुल्पावृतीजपात्सर्वं पापं विनश्यति || ३९४ ||

ऋचां सङ्ख्याजपात्सर्वं क्षुद्रपापं विनश्यति || अनुवाकमिमं जप्त्वानिष्टग्रहरुजो जयेत् || ३९५ ||

देवीसूक्तं प्रवक्ष्यामि सर्वाभीष्टप्रदायकम् || अशक्तः प्रोच्यते रुद्रे विनायं तत्पुरः पठेत् || ३९६ ||

अथ देवीसूक्तम् ||

अहं रुद्रेमिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः || अहं मित्रावरुणौ भा विभर्म्यहमिन्द्राग्नी अहमश्विनौ भा || ३९७ ||

अहं सोम मनेहंस विभर्म्यहं त्वष्टारमुत पूषणं भगम् || अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते || ३९८ ||

अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् || तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् || ३९९ ||

मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् || अजन्तवो मान्त उपक्षियन्ति श्रुधि श्रुतश्रद्धिवं ते वदामि || ४०० ||

अहमेव स्वयमिदं वदामि जुष्टं देवीभिरुत मानुषेभिः || यं कामये तन्तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तां सुमेधात् || ४०१ ||

अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा-उ || अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश || ४०२ ||

अहं सुवे पितरमस्य मूर्धन्माम योनिरप्स्वन्तःसमुद्रे || ततो वितिष्ठे भुवना नु विश्वोतामूद्यां वर्ष्मणो स्पृशामि || ४०३ ||

अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्वा || परो दिवा परश्ना पृथिव्यै तावती महिना संबभूव || ४०४ ||

प्.३०९) देवीसूक्तमिदं प्रोक्तं सर्वसूक्तोत्तमोत्तमम् || आधारोयं मन्त्रसिद्धेर्द्विजानां परिकीर्तितः || ४०५ ||

अथ विष्णोः प्रवक्ष्यामि सूक्तं गणपतेश्च यत् || यत्साधनं विना सर्वे मन्त्रा विघ्नैस्तु विघ्निताः || ४०६ ||

तस्मादादौ गणेशानं प्रसाद्य पुनराचरेत् || देवतासाधनं तत्तु निर्विघ्नेन प्रजायते || ४०७ ||

निद्रालस्यं क्षुधा क्रोधो लोभो मोहो मनोभवः || प्रमादो रोग इत्याद्या मन्त्रविघ्नकराः स्मृताः || ४०८ ||

विधानपूर्वकं तस्मादत्र सूक्तं तदुच्यते || यज्ज्ञापकानां कार्याणि स्युरप्रतिहतानि च || ४०९ ||

अस्य च द्वादशर्चस्य गणेशस्य महात्मनः || ऋषिर्गृत्समदो देवो गणपः परिकीर्तितः || ४१० ||

आद्यानां त्रि-ऋचानां च च्छन्दस्त्रिष्टुप्प्रकीर्तितम् || उत्तराणां नवानाञ्च गायत्रं छन्द उच्यते || ४११ ||

महागणपतिश्चास्य दैवतं परिकीर्तितम् || विनियोगः कीर्तनीयो यथाकार्यानुसारतः || ४१२ ||

गणानान्त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् || ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पते आ नः शृण्वन्नूतिभिः सीद सादनम् || ४१३ ||

निषुसी दगणपते गणेषु त्वमाहुर्विप्रतमङ्कवीनाम् || न ऋते त्वत्क्रियते किञ्चनारे महामर्कंमधञ्चित्रमर्च || ४१४ ||

त्वेषङ्गणं तव शंखादिहस्तं धृतिव्रतं मा विदानन्ति वारम् || मया भुवो ये || ४१५ ||

आ तून इन्द्र सुमन्तं चित्रं यामं संगृभाय || महाहस्ती दक्षिणेन || ४१६ ||

विद्मा हि त्वा तु विकूर्मिं तु विदेशन्तुवीमघम् || तुविमात्रमवोभिः || ४१७ ||

न हि त्वा शूर देवा न मर्तासो दित्स तम् || भीमं गोवादयन्ते || ४१८ ||

एतोन्विन्द्रं स्तवामेशानं वस्प स्वराज्यम् || न राधसार्थिषं नः || ४१९ ||

प्रस्तोष उपगासिषच्छवत्साम गीयमानम् || अभिशर्धस्य जुगुरत् || ४२० ||

आ नो मख्यञ्जनं दक्षिणेनभिमध्यन प्रामृजद्वा इन्द्र || मा नो वसोर्निर्भाक् || ४२ ||

उपक्रमस्याभर घृताधृष्णो जनानां यद्यशुष्ठरस्य वेदः || ४२२ ||

इन्द्र य उ सु ते अस्ति वोजो विप्रेभिस्तनिस्वः || अस्माभिस्तुतं सन्निहि || ४२३ ||

स याजुप्तो वजा अस्मभ्यं विश्वश्चन्द्राः || प्. ३१०) बलेश्च मक्षु जरन्तम् || ४२४ ||

गणानां [गणानां त्वेति अंगुष्ठाभ्यां नमः, निषुसीदेति तर्जनीभ्यां नमः, त्वेषंगणं तव शंखादिहस्तगिति मध्यमाभ्यां नमः, आतून इन्द्रः सुमंसमिति अनामिकाभ्यां नमः, विद्मा हि त्वा तु विकूर्मिमिति कनिष्ठिकाभ्यां नमः न हि त्वा शूर देवा इति करतलकरपृष्ठाभ्यां नमः |
अनया रीत्या |
हृदयादिन्यासमपि कुर्यात्पुनः मन्त्रं पूर्णं पूर्णं पठेत् |
] त्वा निषुसीद त्वेषंगणन्तथैव च || आ तू न इंद्र विद्महि न हि त्वा शूरमेव च || ४२५ ||

अंगुष्ठाग्रं समारभ्य करपृष्ठादिषु न्यसेत् || गणानां त्वेति बहिश्च हृदयादिषडङ्गकम् || ४२६ ||

एवं न्यासद्वयं कृत्वा षड्भिश्च व्यापकं भजेत् || ततो द्वादश-ऋग्भिस्तु न्यासमत्र समाचरेत् || ४२७ ||

मस्तके च मुखे चैव नेत्रयोः कर्णयोस्तथा || नसि कण्ठे हृदि भुजे जठरे नाभिमध्यतः || ४२८ ||

गुल्फयोः पादयोश्चैव द्वादशर्चः पृथक्पृथक् || मन्त्रराजाक्षरैश्चैव तृतीयो न्यास एव च || ४२९ ||

ततः षडक्षरेणैव चतुर्थन्यासमाचरेत् || दशर्चाभिश्च द्ग्बन्धं पादे शिरसि चैककम् || ४३० ||

एवं न्यासविधिं कृत्वा साङ्गावरणपूजनम् || तन्त्रमन्त्रेण सम्पूज्य ऋग्भिर्द्वादशभिस्तथा || ४३१ ||

षोडशैरुपचारैस्तु साङ्गपीठादिदैवतैः || नैवेद्यैर्विविधाकारैर्मोदकैः सिद्धलड्डुकैः || ४३२ ||

पायसैः क्षीरखण्डैश्च तोषयेद्गणनायकम् || इक्षुखण्डैरिक्षुरसैः कदलीपनसादिभिः || ४३३ ||

नारिकेरैर्दाडिमैश्च अन्यैर्नानाविधैह् फलैः || सचन्द्रकैश्च ताम्बूलैर्दक्षिणाभिः समन्ततः || ४३४ ||

पूजयित्वा तु मध्याह्ने प्रारभेत् जपं ततः || आदौ जपेन्मन्त्रराजं वारद्वादशकं बुधः || ४३५ ||

ततश्च ऋग्द्वादशकं जपेत्सर्वमतन्द्रितः || अन्तर्द्वादशपाठे तु मन्त्रराजं पुनर्जपेत् || ४३६ ||

एवं क्रमेण कर्तव्यो वेदमन्त्रजपो हरे || दिनेदिने सदा कार्यो जपः संसिद्धिकारकः || ४३७ ||

सूक्तमन्त्रजपेनाशु सर्वसिद्धिमवाप्नुयात् || अथ वा वक्रतुण्डस्य जप आदौ प्रजायते || ४३८ ||

षड्विंशद्वारमावृत्त्या मध्ये सूक्तं गणेश्वरम् || पुनः षड्विंशकावृत्त्या वक्रतुण्डः [ओं वक्रतुण्डाय हुम् इतिमन्त्रः |
] षडक्षरः || ४३९ ||

एवं च संयुतं कृत्वा द्वादशर्चं मनुञ्जपेत् || एवमष्टोत्तरशतं कृत्वा सूक्तं जपं हरे || ४४० ||

एकविंशत्सहस्रं तु सूक्तस्योक्ता पुरस्क्रिया || प्. ३११) जपाद्दशा.शहोमस्तु पायसेन घृतेन च || ४४१ ||

शर्करापञ्चखाद्यैश्च कुसुमैः करवीरकैः || बिल्वपत्रैरिक्षुदण्डैर्दाडिमैः कदलीफलैः || ४४२ ||

सोदकैर्लड्डुकैश्चैव घृतपक्वैर्मनोहरैः || अलाभे सर्वद्रव्याणां जुहुयात्तिलसर्पिषा || ४४३ ||

होमस्य दशमांशेन गोपयोभिश्च तर्पयेत् || अथ वेक्षुरसेनैव तदभावे गुडोदकम् || ४४४ ||

तर्पणस्य दशांशेन मार्जयेच्छुभवारिभिः || मार्जनस्य दशांशेन ब्राह्मणान्भोजयेद्बहून् || ४४५ ||

पायसैः खण्डखाद्यैश्च मोदकैः सिद्धलड्डुकैः || अपूपैर्मंडकाद्यैश्च सघृतैः शर्करान्वितैः || ४४६ ||

सहकाररसैः [आम्ररसैः |
] साज्यैस्तथा च कदलीफलैः || एवंसिद्धे तु सूक्ते तु सफलं तन्निगद्यते || ४४७ ||

महदैश्वर्यमतुलं प्रज्ञां विद्यां यशो बलम् || वाक्सिद्धिं समवाप्नोति चान्ते ब्रह्मपुरं व्रजेत् || ४४८ ||

यद्यत्कार्यं समुद्दिश्य क्रियते स पुरो जपः || तत्तद्गणपतेर्नूनं प्रसादात्सिध्यति ध्रुवम् || ४४९ ||

बन्धोच्चाटनयोर्द्वेषे मारणे बन्धमोक्षणे || वश्ये वादे महोत्पाते परचक्रभये तथा || ४५० ||

महारण्ये रणे वैरिसंकुले सङ्कटे जपेत् || बन्धोच्चाटनयोर्द्वेषे सर्षपैर्लोहसंयुतैः || ४५१ ||

उलूककाकपक्षैश्च होमोऽरण्ये तुं निर्जने || मारणे तु श्मशानस्थो रात्रौ कुर्याज्जपं रुषा || ४५२ ||

तिलैर्मल्लाटपुष्पैश्च राजिकालवणान्वितैः || मेषीलोमान्वितैश्चैव होमः स्यान्मारणे ध्रुवम् || ४५३ ||

श्मशाने च तथा रात्रौ जपं कुर्याद्धि रोषतः || आकर्षणार्थं साध्यानामुन्मत्तफलबीजकैः || ४५४ ||

गृध्रपक्षैस्ततश्चार्कमुक्तदुग्धैर्हुनेत्ततः || सप्तवासरपर्यन्तन्ततश्चाकर्षणं भवेत् || ४५५ ||

वश्यार्थं च जपं कुर्याद्विशेषेण शिवालये || सूर्यास्तमनमारभ्य यावत्सूर्योदयो भवेत् || ४५६ ||

तावन्मूलं सम्पुटेन जपेद्भूते त्रिरात्रके दिवा होमः प्रकर्तव्यो मधुपुष्पैः फलैस्तथा || ४५७ ||

तथा च मालती पत्रैर्घृतेन च समन्वितैः || रक्तचन्दनसंयुक्तैर्मोदकैः सघृतैस्तिलैः || ४५८ ||

तर्पयेदिक्षुरसकैः सद्यो वश्यकरं मतम् || राजानो राजपुत्राश्च राजकीयाश्च मन्त्रिणः || ४५९ ||

प्. ३१२) ईश्वरो वशतां याति मनुष्याणा तु का कथा || बन्धमोक्षाय कर्तव्यो जपो रात्रौ शिवालये || ४६० ||

उपवासव्रतो नित्यं ब्रह्मचारी जितेन्द्रियः || एकविंशतिसाहस्रं दिवा होमः शिवालये || ४६१ ||

पायसेन घृताक्तेन बन्धमोक्षे भवेद्ध्रुवम् || सर्वसाधारणो होमः प्रत्यर्चं हि विधानतः || ४६२ ||

आदौ द्वादशवारेण मन्त्रेण द्वादशाहुतीः || पश्चान्मन्त्रविभागेन प्रत्यर्चं जुहुयाद्बुधः || ४६३ ||

अन्ते द्वादशवारांस्तु होमश्च मंत्रराजतः || एवमेव प्रकारेण सर्वसाधारणे जपे || ४६४ ||

होमो गणेशसूक्तस्य सम्पुटस्यप्रजायते || एवं रुद्रविधानं तु देवीसूक्तं तथैव च || ४६५ ||

विष्णोस्तुभ्यं निगदितं यतो भेदो न आवयोः || अतः परन्तु ते चेच्छा यत्र तत्प्रति पृच्छ्यताम् || ४६६ ||

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे कलिप्रत्ययवेदमन्त्रप्रकाशो द्वादशः || १२ ||

Weiterführendes Studium

Die Vielfalt der Gottheiten und Riten lädt dazu ein, Hingabe und sorgfältiges Verstehen miteinander zu verbinden. Vergleiche beim Lesen wiederkehrende Begriffe und beachte, ob der Text spricht oder eine Anmerkung der Edition vorliegt. Für die eigene Praxis bleibt ein vertrautes, gegebenenfalls von einem Guru erhaltenes Mantra ein sinnvoller Ausgangspunkt.

Zur Übersicht: Meru Tantra · Meru Tantra Sanskrit IAST · Meru Tantra Sanskrit IAST Teil 2 · Meru Tantra Sanskrit Devanagari · Meru Tantra Sanskrit Devanagari Teil 2 · Meru Tantra Sanskrit Devanagari Teil 3 · Meru Tantra 108 Inspirierende Verse und Mantras

Textgrundlage und Hinweise zur Ausgabe

Grundlage ist der elektronische Sanskrittext M00195 des Muktabodha Indological Research Institute: Merutantra with ṭippani, mit Bearbeitung und Anmerkungen von Raghunātha Śāstrī; Datenerfassung unter Leitung von Mark S. G. Dyczkowski, Revisionsstand 5. April 2010. Der elektronische Kopf nennt Śrīveṅkateśvara, Bombay, 1908. Das wiedergegebene Titelblatt nennt Khemarāja Śrīkṛṣṇadāsa, Bombay, und „saṃskaraṇa san 1935“. Diese unterschiedlichen Angaben werden hier nicht zu einer ungesicherten bibliographischen Einheit verschmolzen.

Die digitalen Vorlagen stehen laut Quellenkopf unter Creative Commons BY-NC 4.0. Die vorliegende Aufbereitung entfernt Druckseitenmarker und technische Kopfzeilen, vereinheitlicht Zeilenumbrüche und ergänzt Kapitelüberschriften und Navigation. Sanskritlesungen und Versnummern bleiben erhalten. Die deutschen Kapitelbezeichnungen dienen der Orientierung; die überlieferten Sanskritkolophone stehen jeweils am Kapitelende.

Eckige Klammern kennzeichnen überlieferte Ṭippanī bzw. editorische Zusätze, nicht den Grundtext. Sie werden einschließlich ihrer stellenweise fehlerhaften Verschachtelung bewahrt. Besonders im Bereich von 5.106 ist die Klammerung unregelmäßig; bei der Auslegung muss dort der genaue Umfang eines Zusatzes eigens geprüft werden. Die hier vollständig wiedergegebenen Zusätze sind keine deutsche Kommentarübersetzung.

Das in der fortlaufenden Reihenfolge 32. Kapitel trägt im Kolophon die Bezeichnung „dvāviṃśaḥ“ und die Zahl 22. Die Überschrift verwendet zur Orientierung 32, der Sanskrittext bewahrt die abweichende Überlieferung. Zwei nicht UTF-8-konforme Apostrophbytes der Devanagari-Vorlage, im Bereich 23.510 und 23.688, sind als typographische Apostrophe wiedergegeben; ihre sprachliche Bedeutung ist damit nicht geklärt. Die entsprechende IAST-Fassung hat ebenfalls Apostrophe. Keine neue kritische Edition und kein vollständiger Abgleich mit einem Druckexemplar werden beansprucht.

Literatur

  • Merutantra, mit Ṭippanī, bearbeitet von Raghunātha Śāstrī. Bombay; zu den voneinander abweichenden Jahres- und Verlagsangaben siehe den Quellenabschnitt.
  • Muktabodha Indological Research Institute: Merutantra with ṭippani, elektronischer Text, Katalog M00195, IAST und Devanagari, Revision 2010.

Siehe auch

Seminare

Kundalini Yoga

25.10.2026 - 30.10.2026 Kundalini Yoga Meditation Kursleiter Ausbildung

Kundalini Yoga Meditationen sind ein faszinierendes weites Gebiet, dessen Potential noch bei weitem nicht ausgeschöpft ist. Kundalini Meditationen kön…
Adishakti Stein, Viveka Wilde
30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Arjuna Wingen

Indische Schriften

26.12.2026 - 02.01.2027 Indische Rituale Ausbildung

Du interessierst dich für indische Rituale? Du hast die einzigartige Gelegenheit, in dieser Rituale Ausbildung bei Yoga Vidya die kleine Puja, große P…
Sukadev Bretz, Shankari Winkelbauer
01.01.2027 - 10.01.2027 Yogalehrer Weiterbildung Intensiv A1 - Jnana Yoga und Vedanta

Kompakte, vielseitige Weiterbildung für Yogalehrer rund um Jnana Yoga und Vedanta.
Tauche tief ein ins Jnana Yoga und Vedanta, studiere die indischen S…
Vedamurti Dr Olaf Schönert

Energiearbeit

18.10.2026 - 23.10.2026 Tantra Vinyasa Yoga Ausbildung - Teil 2

Buchung nur nach Besuch von Teil 1 möglich (Termin: 18.-23.5.2025) möglich. www.yoga-vidya.de/ausbildung-weiterbildung
Vorkenntnisse: Lektüre der Bü…
Ravi Ott
23.10.2026 - 30.10.2026 Klangtherapie Chakra Kur

Klang und Klangschwingungen haben einen intensiven Bezug zu den Chakras, den Energiezentren. Im Yoga ist es daher eine alte Tradition, Chakras mit Klang…
Maik Hofmeister, Jeannine Hofmeister