Mantramahodadhi Sanskrit Devanagari Auswahl

Aus Yogawiki

Diese Sanskritauswahl aus dem Mantramahodadhi in Devanagari bietet einen überschaubaren Zugang zu Mahīdharas Mantra-Lehre. Sie führt vom Gedenken an den Guru über Japa, Nyasa und die Meditation auf Gottheiten bis zur Erkenntnis des Atman. Enthalten sind die 64 kommentierten Stellen des Hauptartikels und zusätzlich der vollständige Autorenrückblick 25.103–127. Bereits enthaltene Verse erscheinen nur einmal; die Reihenfolge folgt Taraṅga und Vers.

Zur Mantramahodadhi-Ausgabe: Hauptartikel · Deutsche Übersetzung · Sanskrit IAST · Sanskrit Devanagari · Leseführer zu den 25 Taraṅgas · 108 inspirierende Verse und Mantras · Frühere IAST-Auswahl · Frühere Devanagari-Auswahl

Umfang: Dies ist eine Textauswahl, kein vollständiger Sanskrittext der 25 Taraṅgas. Die Zahlen an den Versenden sind die Versnummern des Werkes, keine durchlaufende Nummerierung dieser Auswahl. Einzelne Stellen beginnen oder enden an einer Halbversgrenze. Die Schriftfassung enthält insgesamt 110 vollständige nummerierte Verse und drei weitere Halbverse. Die Abschnitte 25.73–81 und 25.103–127 sind vollständig aufgenommen; Vers 25.76 umfasst im verwendeten Druck drei Halbverse.

Die Schriftfassung verwendet Devanagari. Die Devanagari-Zeilen sind aus der redigierten IAST-Fassung abgeleitet; die Textabdeckung ist identisch. Übersetzung und spirituelle Erläuterungen stehen im Hauptartikel sowie für 25.103–127 in der Kapitelerschließung.

Japa verbindet regelmäßige Wiederholung mit bewusster Hinwendung.

IAST · Devanagari · Übersetzung und Erläuterung

Die Auswahl nutzen

Für die Bedeutung lies die zugehörige Stelle im Hauptartikel; Mahīdharas Autorenrückblick wird im Leseführer übersetzt. Die 108 inspirierenden Stellen sind eine eigene thematische Auswahl. Diese Sanskritseite folgt daher einer anderen Zusammenstellung.

Taraṅga 1 – ausgewählte Stellen

1.1

प्रणम्य लक्ष्मीनृहरिं महागणपतिं गुरुम् ।
तन्त्राण्य् अनेकान्य् आलोक्य वक्ष्ये मन्त्रमहोदधिम् ॥ १ ॥

1.2

प्रातर् उत्थाय शिरसि ध्यात्वा गुरुपदाम्बुजम् ।
आवश्यकं विनिर्वर्त्य स्नातुं यायात् सरित्तटे ॥ २ ॥

1.3

श्रौतेन विधिना स्नात्वा मन्त्रस्नानं समाचरेत् ।
स्मार्तसन्ध्यां मन्त्रसन्ध्यां कृत्वा देवं विचिन्तयेत् ॥ ३ ॥

1.21–22

ब्रह्मविष्णुशिवेशानाः सदाशिव इतीरिताः ।
धरादिभूतसंस्थेशा ध्येयास् तन्मण्डलेषु ते ॥ २१ ॥
निवृत्तिश् च प्रतिष्ठा च विद्या शान्तिश् चतुर्थिका ।
शान्त्यतीतेति पञ्चैव कला ध्येया धरादिगाः ॥ २२ ॥

1.24

एवं भूतानि सञ्चिन्त्य प्रत्येकं प्रविलापयेत् ।
भुवं जले जलं वह्नौ वह्निं वायौ नभस्य् अमुम् ॥ २४ ॥

1.25

विलाप्य खम् अहङ्कारे महत्तत्त्वे ऽप्य् अहङ्कृतिम् ।
महान्तं प्रकृतौ मायाम् आत्मनि प्रविलापयेत् ॥ २५ ॥

1.33

आकाशादीनि भूतानि पुनर् उत्पादयेच् चितः ।
सोऽहं मन्त्रेण चात्मानम् आनयेद् हृदयाम्बुजे ॥ ३३ ॥

1.34

कुण्डलीं जीवम् आदाय परसङ्गात् सुधामयम् ।
संस्थाप्य हृदयाम्भोजे मूलाधारगतां स्मरेत् ॥ ३४ ॥

1.49

ततः समस्तमूलेन मूर्द्धादिचरणावधि ।
विधाय व्यापकन्यासं विन्यसेत् पीठदेवताः ॥ ४९ ॥

1.52–53

धर्मादयः स्मृताः पादाः पीठगात्राणि चेतरे ।
मध्ये ऽनन्तस् तत्त्वपद्मम् आनन्दमयकन्दकम् ॥ ५२ ॥
संविन्नालं ततः प्रोक्ता विकारमयकेसराः ।
प्रकृत्यात्मकपत्राणि पञ्चाशद्वर्णकर्णिका ॥ ५३ ॥

1.54–55

सूर्यस्येन्दोः पावकस्य मण्डलत्रितयं ततः ।
सत्त्वं रजस् तमः पश्चाद् आत्मा युक्तो ऽन्तरात्मना ॥ ५४ ॥
परमात्माथ ज्ञानात्मा तत्त्वे मायाकलादिके ।
विद्यातत्त्वं परं तत्त्वं कथिताः पीठदेवताः ॥ ५५ ॥

1.101

मन्त्रस्नानादिविधयो गद्यास् तत्रैव ते मया ।
भारतीम् एवम् आराध्य भजेद् इष्टान् मनून् सुधीः ॥ १०१ ॥

1.102

विष्णुः शिवो गणेशो ऽर्को दुर्गा पञ्चैव देवताः ।
आराध्याः सिद्धिकामेन तत्तन्मन्त्रैर् यथोदितम् ॥ १०२ ॥

1.106

आमध्याह्नं जपं कुर्याद् उपांश्व् अथ मानसम् ।
हविष्यं निशि भुञ्जीत त्रिःस्नाय्य् अभ्यङ्गवर्जितः ॥ १०६ ॥

1.109

भूशय्यां ब्रह्मचर्यं च त्रिकालं देवतार्चनम् ।
नैमित्तिकार्चनं देवस्तुतिं विश्वासम् आश्रयेत् ॥ १०९ ॥

1.110

प्रत्यहं प्रत्यहं तावन् नैव न्यूनाधिकं क्वचित् ।
एवं जपं समाप्यान्ते दशांशं होमम् आचरेत् ॥ ११० ॥

1.128

प्रदर्श्य ज्वालिनीं मुद्राम् उत्थाय विहिताञ्जलिः ।
श्लोकरूपेण मन्त्रेण ह्य् उपतिष्ठेद् धुताशनम् ॥ १२८ ॥

1.129

अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्णवर्णम् अमलं समिद्धं विश्वतोमुखम् ॥ १२९ ॥

Taraṅga 2 – ausgewählte Stellen

2.5

भ्रूमध्यकण्ठहृदयनाभिलिङ्गपदेषु च ।
मनोर् वर्णान् क्रमान् न्यस्य व्याप्याथो स्मरेत् प्रभुम् ॥ ५ ॥

2.6

उद्यद्दिनेश्वररुचिं निजहस्तपद्मैः पाशाङ्कुशाभयवरान् दधतं गजास्यम् ।
रक्ताम्बरं सकलदुःखहरं गणेशं ध्यायेत् प्रसन्नम् अखिलाभरणाभिरामम् ॥ ६ ॥

Kali gehört zur vielfältigen Gottheitenwelt des Mantramahodadhi.

Taraṅga 3 – ausgewählte Stellen

3.9

सद्यश्छिन्नशिरः कृपाणम् अभयं हस्तैर् वरं बिभ्रतीं घोरास्यां शिरसां स्रजा सुरुचिराम् उन्मुक्तकेशावलिम् ।
सृक्क्यसृक्प्रवहां श्मशाननिलयां श्रुत्योः शवालङ्कृतिं श्यामाङ्गीं कृतमेखलां शवकरैर् देवीं भजे कालिकाम् ॥ ९ ॥

Taraṅga 4 – ausgewählte Stellen

4.39–40

विश्वव्यापकवारिमध्यविलसच्छ्वेताम्बुजन्मस्थितां कर्त्रीखड्गकपालनीलनलिनै राजत्करां नीलभाम् ।
काञ्चीकुण्डलहारकङ्कणलसत्केयूरमञ्जीरताम् आप्तैर् नागवरैर् विभूषिततनूम् आरक्तनेत्रत्रयाम् ॥ ३९ ॥
पिङ्गोग्रैकजटां लसत्सुरसनां दंष्ट्राकरालाननां चर्मद्वीपिवरं कटौ विदधतीं श्वेतास्थिपट्टालिकाम् ।
अक्षोभ्येण विराजमानशिरसं स्मेराननाम्भोरुहां तारां शावहृदासनां दृढकुचाम् अम्बां त्रिलोक्याः स्मरेत् ॥ ४० ॥

Taraṅga 8 – ausgewählte Stellen

8.54

व्याख्यानमुद्रामृतकुम्भविद्याम् अक्षस्रजं सन्दधतीं कराग्रैः ।
चिद्रूपिणीं शारदचन्द्रकान्तिं बालां स्मरेन् मौक्तिकभूषिताङ्गीम् ॥ ५४ ॥

Taraṅga 9 – ausgewählte Stellen

9.7

तप्तस्वर्णनिभा शशाङ्कमुकुटा रत्नप्रभाभासुरा नानावस्त्रविराजिता त्रिनयना भूमीरमाभ्यां युता ।
दर्वीहाटकभाजनं च दधती रम्या च पीनस्तनी नृत्यन्तं शिवम् आकलय्य मुदिता ध्येयान्नपूर्णेश्वरी ॥ ७ ॥

Taraṅga 11 – ausgewählte Stellen

11.103

महापद्मवनान्तःस्थे कारणानन्दविग्रहे ।
सर्वभूतहिते मातर् एह्य् एहि परमेश्वरि ॥ १०३ ॥

11.105

देवेशि भक्तिसुलभे सर्वावरणसंयुते ।
यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरा भव ॥ १०५ ॥

Taraṅga 13 – ausgewählte Stellen

13.8

बालार्कायुततेजसं त्रिभुवनप्रक्षोभकं सुन्दरं सुग्रीवादिसमस्तवानरगणैः संसेव्यपादाम्बुजम् ।
नादेनैव समस्तराक्षसगणान् संत्रासयन्तं प्रभुं श्रीमद्रामपदाम्बुजस्मृतिरतं ध्यायामि वातात्मजम् ॥ ८ ॥

Taraṅga 14 – ausgewählte Stellen

14.5

तपनसोमहुताशनलोचनं घनविरामहिमांशुसमप्रभम् ।
अभयचक्रपिनाकवरान् करैर् दधतम् इन्दुधरं नृहरिं भजे ॥ ५ ॥

Allgemeine Einführung zu Japa; keine Rezitation der folgenden Verse:

Mantra und Hingabe können die tägliche Praxis tragen.

Taraṅga 21 – ausgewählte Stellen

21.1–3

नित्यपूजाविधिं सर्वदेवसाधारणं ब्रुवे ।
ब्राह्मे मुहूर्ते उत्थाय कृत्वा शौचादिकं सुधीः ॥ १ ॥
परिधायाम्बरं शुद्धं मन्त्रस्नानं विधाय च ।
प्रविश्य देवतागारं कुर्यात् सम्मार्जनादिकम् ॥ २ ॥
मङ्गलारातिकं कृत्वा निर्माल्यम् अपसारयेत् ।
दद्यात् पुष्पाञ्जलिं दन्तधावनाचमने अपि ॥ ३ ॥

21.4–5

नमस्कृत्यासने शुद्धे उपविश्य गुरुं स्मरेत् ।
शिरःस्थशुक्लपद्मस्थं प्रसन्नं द्विभुजाक्षिकम् ॥ ४ ॥
अहं ब्रह्मास्मि सद्रूपं नित्यमुक्तं न शोकभाक् ।
गुरुदेवात्मनाम् इत्थम् ऐक्यं स्मृत्वार्चयेत् तम् ॥ ५ ॥

21.6

त्रैलोक्यचैतन्यमयादिदेव श्रीनाथविष्णो भवदाज्ञयैव ।
प्रातः समुत्थाय तवप्रियार्थं संसारयात्राम् अनुवर्तयिष्ये ॥ ६ ॥

21.7

जानामि धर्मं न च मे प्रवृत्तिर् जानाम्य् अधर्मं न च मे निवृत्तिः ।
केनापि देवेन हृदिस्थितेन यथा नियुक्तो ऽस्मि तथा करोमि ॥ ७ ॥

21.8–9

एतच्छ्लोकद्वयेनेष्टदेवतां प्रार्थयेद् बुधः ।
श्रीनाथविष्णो स्थाने तु कार्य ऊहो ऽन्यदैवतः ॥ ८ ॥
देवतागुणनामादि स्मरन् स्नातुम् अथो व्रजेत् ।
स्नानम् आन्तरबाह्याख्यं द्विविधं कथितं बुधैः ॥ ९ ॥

21.10–12

कोटिसूर्यप्रतीकाशं निजभूषायुधैर् युतम् ।
शिरःस्थं संस्मरेद् देवं तत्पादोदकधारया ॥ १० ॥
विशन्त्या ब्रह्मरन्ध्रेण निजं देहं विशुद्धया ।
प्रक्षाल्यान्तर्गतं पापं विरजो जायते नरः ॥ ११ ॥
एवं कृत्वान्तरं स्नानं स्नायाद् वेदोक्तमार्गतः ।
अघमर्षणसूक्तं च स्मरेद् अन्तर्जले सुधीः ॥ १२ ॥

21.166–168

इति देहमये पीठे ध्यायेत् स्वाभीष्टदेवताम् ।
तत्तन्मुद्राः प्रदर्श्याथ कुर्यान् मानसपूजनम् ॥ १६६ ॥
अथार्चयेत् ततो देवं मन्त्रेणानेन तन्मनाः ।
स्वागतं देवदेवेश सन्निधौ भव केशव ॥ १६७ ॥
गृहाण मानसीं पूजां यथार्थपरिभाविताम् ।
केशवेति पदस्थाने कार्य ऊहो ऽन्यदैवते ॥ १६८ ॥

21.169–170

मनसा पूजयित्वैवं क्षणं तद्गतमानसः ।
स्थित्वा मूलमनुं विद्वाञ् जपेद् अष्टोत्तरं शतम् ॥ १६९ ॥
जपं निवेद्य देवाय स्थापयेद् अर्घ्यम् उत्तमम् ।
बाह्यसंपूजनायाथ तत्प्रकारो निगद्यते ॥ १७० ॥

Taraṅga 22 – ausgewählte Stellen

22.146–150a

बुद्धिः सवासनाकॢप्ता दर्पणं मङ्गलानि च ।
मनोवृत्तिर् विचित्रा ते नृत्यरूपेण कल्पिता ॥ १४६ ॥
ध्वनयो गीतरूपेण शब्दवाद्यप्रभेदतः ।
छत्राणि नवपद्मानि कल्पितानि मया प्रभो ॥ १४७ ॥
सुषुम्णा ध्वजरूपेण प्राणाद्याश् चामरात्मना ।
अहंकारो गजत्वेन वेगः कॢप्तो रथात्मना ॥ १४८ ॥
इन्द्रियाण्य् अश्वरूपाणि शब्दादि रथवर्त्मना ।
मनः प्रग्रहरूपेण बुद्धिः सारथिरूपतः ॥ १४९ ॥
सर्वम् अन्यत् तथा कॢप्तं तवोपकरणात्मना ।

22.150b–151

श्लोकान् एतान् पठित्वा तु मूलमन्त्रम् अनन्यधीः ॥ १५० ॥
यथाशक्ति जपित्वा तं मन्त्रेण विनिवेदयेत् ।
क्षिपन्न् अर्घ्यस्य पानीयं देवतादक्षिणे करे ॥ १५१ ॥

22.152–153a

गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर् भवतु मे देव त्वत्प्रसादात् त्वयि स्थितिः ॥ १५२ ॥
कीर्तितः श्लोकरूपो ऽयं मन्त्रो जपनिवेदने ।

22.166–168a

त्रिकालं पूजनाशक्तैः कार्यं द्विः सकृद् अप्य् अदः ।
विशेषेण यजेद् देवं संक्रान्त्यादिषु पर्वसु ॥ १६६ ॥
दशभिः पञ्चभिर् वापि पूजयेद् उपचारकैः ।
अशक्तः कारयेत् पूजां दद्याद् अर्चनसाधनम् ॥ १६७ ॥
दानाशक्तः समर्चन्तं पश्येत् तत्परमानसः ।

22.168b–171a

साधनाभाविनी त्रासी दौर्बोधी सौतकी तथा ॥ १६८ ॥
आतुरी पञ्चधोक्तासौ पूजा सा कीर्त्यते क्रमात् ।
पूजासाधनवस्तूनाम् अभावान् मनसैव या ॥ १६९ ॥
पूजाम्भसा साधनं यत् साधनाभाविनी तु सा ।
त्रस्तः संपूजयेद् देवं यथालब्धोपचारकैः ॥ १७० ॥
मानसैर् वापि सा त्रासी ज्ञेया संपूर्णसिद्धिदा ।

22.173b–176

सौतक्युक्तातुरी रोगान् न स्नायान् न च पूजयेत् ॥ १७३ ॥
विलोक्य मूर्तिं देवस्य यदि वा सूर्यमण्डलम् ।
सकृन् मूलमनुं जप्त्वा तत्र पुष्पं विनिक्षिपेत् ॥ १७४ ॥
ततो रोगे गते स्नात्वा पूजयित्वा गुरून् द्विजान् ।
पूजाविच्छेददोषो मे मास्त्व् इति प्रार्थयेत् तान् ॥ १७५ ॥
तेभ्यश् चाशिषम् आदाय देवेशं पूर्ववद् यजेत् ।
आतुरी कीर्तिता पूजाः पञ्चैवं नारदोदिताः ॥ १७६ ॥

Taraṅga 23 – ausgewählte Stellen

23.1–4

वक्ष्ये ऽथो सर्वदेवानां पवित्रदमनार्पणम् ।
पवित्रैः श्रावणे पूजा चैत्रे दमनकैर् अपि ॥ १ ॥
प्रत्यब्दं विधिवत् कुर्याद् वर्षार्चाफलसिद्धये ।
चैत्रे शुक्लचतुर्दश्यां दमनैः पूजयेद् धरिम् ॥ २ ॥
नारायणं तु द्वादश्याम् अष्टम्यां गिरिनन्दिनीम् ।
सप्तम्यां भास्करं देवं चतुर्थ्यां गणनायकम् ॥ ३ ॥
एवं तत्तत्तिथौ तं तं पवित्रैः श्रावणे ऽर्चयेत् ।
पूर्वाह्णे दमनार्चायाः कृत्वा नित्यार्चनं विभोः ॥ ४ ॥

23.6

अशोकाय नमस् तुभ्यं कामस्त्रीशोकनाशन ।
शोकार्तिं हर मे नित्यम् आनन्दं जनयस्व मे ॥ ६ ॥

Taraṅga 25 – ausgewählte Stellen

25.73–76

काम्यं कर्म प्रकर्तव्यम् अन्यथाभिभवो भवेत् ।
शुभं वाप्य् अशुभं वापि काम्यं कर्म करोति यः ॥ ७३ ॥
तस्यारित्वं व्रजेन् मन्त्रो न तस्मात् तत्परो भवेत् ।
विषयासक्तचित्तानां सन्तोषाय प्रकाशितम् ॥ ७४ ॥
पूर्वाचार्योदितं काम्यं कर्म नैतद् धितावहम् ।
काम्यकर्मप्रसक्तानां तावन्मात्रं भवेत् फलम् ॥ ७५ ॥
निष्कामं भजतां देवम् अखिलाभीष्टसिद्धयः ।
प्रतिमन्त्रं समुदिता ये प्रयोगाः सुखाप्तये ।
तदासक्तिं विहायैव निष्कामो देवतां भजेत् ॥ ७६ ॥

25.77

वेदे काण्डत्रयं प्रोक्तं कर्मोपासनबोधनम् ।
साधनं काण्डयुग्मोक्तं तृतीये साध्यम् ईरितम् ॥ ७७ ॥

25.78

तस्माद् वेदोदितं कुर्याद् उपासीत च देवताः ।
शुद्धान्तःकरणस् तेन लभते ज्ञानम् उत्तमम् ॥ ७८ ॥

25.79–80

कार्यकारणसङ्घातं प्रविष्टश् चेतनात्मकः ।
जीवो ब्रह्मैव सम्पूर्णम् इति ज्ञात्वा विमुच्यते ॥ ७९ ॥
मनुष्यदेहं सम्प्राप्य उपासीत च देवताः ।
यो न मुच्येत संसारान् महापापयुतो हि सः ॥ ८० ॥

25.81

आत्मज्ञानाप्तये तस्माद् यतितव्यं नरोत्तमैः ।
कर्मभिर् देवसेवाभिः कामाद्यरिगणक्षयात् ॥ ८१ ॥

25.96

अब्दत्रिकं जपं तस्य कुर्वतो विघ्नसम्भवः ।
विघ्नसङ्घम् अनादृत्य तदा जपपरो भवेत् ॥ ९६ ॥

25.99

रम्यतारोग्यगाम्भीर्यम् अभावक्रोधलोभयोः ।
एवमादीनि चिह्नानि यदा पश्यति मन्त्रवित् ॥ ९९ ॥

25.100

सिद्धिं मन्त्रस्य जानीयाद् देवतायाः प्रसन्नताम् ।
ततो जपे ऽधिकं यत्नं प्रकुर्याज् ज्ञानलब्धये ॥ १०० ॥

25.101

लब्धज्ञानः कृतार्थः स्यात् संसारात् प्रतिमुच्यते ।
ज्ञात्वात्मानं परं ब्रह्म वेदान्तैः प्रतिपादितम् ॥ १०१ ॥

25.102

तं वन्दे परमात्मानं सर्वव्यापिनम् ईश्वरम् ।
यो नानादेवतारूपो नृणाम् इष्टं प्रयच्छति ॥ १०२ ॥

25.103

विलोक्य नानातन्त्राणि प्रार्थितो द्विजसत्तमैः ।
स्वमतेर् अनुसारेण कृतो मन्त्रमहोदधिः ॥ १०३ ॥

25.104

बाणनेत्रमितास् तस्मिंस् तरङ्गाः सन्ति निर्मिताः ।
तत्रानुक्रमणीं वक्ष्ये मन्त्रिणां सुखवृद्धये ॥ १०४ ॥

25.105

भूतशुद्धिस् तथा प्राणप्रतिष्ठान्यसनं लिपेः ।
पुरश्चर्याहोमविधिस् तर्पणाद्य् आद्य ईरितम् ॥ १०५ ॥

25.106

द्वितीयोर्मौ गणेशस्य मन्त्राः सम्यक् समीरिताः ।
कालीकाल्यभिधानानां सुमुख्याश् च तृतीयके ॥ १०६ ॥

25.107

तारा तुरीये सम्प्रोक्ता ताराभेदास् तु पञ्चमे ।
षष्ठे तरङ्गे गदिता छिन्नमस्ता शबर्य् अपि ॥ १०७ ॥

25.108

स्वयंवरा मधुमती प्रमदा च प्रमोदया ।
बन्दी बन्धनहारीति सप्तमे वटयक्षिणी ॥ १०८ ॥

25.109

तस्या भेदाश् च वाराही ज्येष्ठा कर्णपिशाचिनी ।
स्वप्नेश्वरी च मातङ्गी बाणेशी मदनेश्वरी ॥ १०९ ॥

25.110

अष्टमे विस्तरात् प्रोक्ता बाला बालाभिदा अपि ।
नवमे त्व् अन्नपूर्णोक्ता तद्भेदा मोहनाद्रिजा ॥ ११० ॥

25.111

ज्येष्ठालक्ष्मीर् अत्र मन्त्रा उक्ता प्रत्यङ्गिरारिहा ।
दशमे बगलावक्त्रा वाराहीद्वितयं तथा ॥ १११ ॥

25.112

श्रीविद्यैकादशे प्रोक्ता द्वादशे तु तदावृतिः ।
त्रयोदशे तु हनुमान् विस्तरात् प्रतिपादितः ॥ ११२ ॥

25.113

चतुर्दशे नारसिंहो गोपालो गरुडो ऽपि च ।
अथ पञ्चदशे सूर्यो भौमो जीवः सितो मुनिः ॥ ११३ ॥

25.114

षोडशोर्मौ महामृत्युञ्जयो रुद्रो धनेश्वरः ।
जाह्नवी मणिकर्णी च प्रोक्ता सप्तदशे ऽर्जुनः ॥ ११४ ॥

25.115

अष्टादशे कालरात्रिश् चण्डिकाया नवाक्षरः ।
एकोनविंशे चरणायुधः शास्तृसमन्वितः ॥ ११५ ॥

25.116

पार्थिवार्चनकीनाशचित्रगुप्तासुरीविधिः ।
विंशे तरङ्गे यन्त्राणि स्वर्णाकर्षणभैरवः ॥ ११६ ॥

25.117

स्नानादिर् अन्तर्यागान्त एकविंशे ऽर्चनाविधिः ।
द्वाविंशे ऽर्घ्यं समारभ्य पूजनं तद्भिदा अपि ॥ ११७ ॥

25.118

त्रयोविंशे तु दमनैः पवित्रैश् च समर्चनम् ।
चतुर्विंशे च भेदेन मन्त्राणां परिशोधनम् ॥ ११८ ॥

25.119

तरङ्गे चरमे प्रोक्तं कर्मषट्कम् अनुक्रमात् ।
एवं मन्त्रोदधाव् अस्मिन् पञ्चविंशतिर् ऊर्मयः ॥ ११९ ॥

25.120

विशोधनीया विद्वद्भिः क्षन्तव्यं साहसं मम ।
चापलं निजबालानां क्षमते जनको यथा ॥ १२० ॥

25.121

अहिच्छत्रद्विजच्छत्रवत्सगोत्रसमुद्भवः ।
आसीद् रत्नाकरो नाम विद्वान् ख्यातो धरातले ॥ १२१ ॥

25.122

तत्तनूजो रामभक्तः फनूभट्टाभिधो ऽभवत् ।
महीधरस् तदुत्पन्नः संसारासारतां विदन् ॥ १२२ ॥

25.123

निजदेशं परित्यज्य गतो वाराणसीं पुरीम् ।
सेवमानो नरहरिं तन्त्रग्रन्थम् इमं व्यधात् ॥ १२३ ॥

25.124

कल्याणाभिधपुत्रेण तथान्यैर् द्विजसत्तमैः ।
अनेकान् आगमग्रन्थान् विलोक्य तु मुनीश्वरैः ॥ १२४ ॥

25.125

एकग्रन्थे स्थितं सर्वं मन्त्राणां सारम् इच्छुभिः ।
सम्प्रार्थितः स्वमत्यासौ नाम्ना मन्त्रमहोदधिः ॥ १२५ ॥

25.126

अविच्छिन्नान्वयाः सन्तु निजधर्मपरायणाः ।
मङ्गलानि प्रपश्यन्तु सर्वे द्रोहपराङ्मुखाः ॥ १२६ ॥

25.127

हरिः करोतु कल्याणं सर्वेषां जगदीश्वरः ।
प्रवर्तयन्त्व् इमं ग्रन्थं यावद् वेदो रविः शशी ॥ १२७ ॥

25.131

विश्वेशो गिरिजाबिन्दुमाधवो मणिकर्णिका ।
भैरवो जाह्नवीदण्डपाणिर् मे तन्वतां शिवम् ॥ १३१ ॥

25.132

अब्दे विक्रमतो जाते बाणवेदनृपैर् मिते ।
ज्येष्ठाष्टम्यां शिवस्याग्रे पूर्णो मन्त्रमहोदधिः ॥ १३२ ॥

Einführung zum tantrischen Praxiszusammenhang:

Textgrundlage und Lesarten

Mahīdhara: Mantramahodadhi, mit dem eigenen Sanskritkommentar Naukā und der Hindi-Erklärung Aritra von Sudhakar Malaviya, Chaukhamba Sanskrit Pratishthan. Grundlage ist der Sanskrit-Hindi-Druck bei Internet Archive. Ergänzend herangezogen: Ram Kumar Rai: Mahīdhara’s Mantra Mahodadhih. Text in Sanskrit and Roman along with English Translation and Comprehensive Commentary. Zwei Bände, Prachya Prakashan, Varanasi, 1992. Band 1: Taraṅgas 1–12 und Band 2: Taraṅgas 13–25. Wiedergegeben werden ausgewählte Verse des Grundtextes. Kommentarverse und zusätzliche Formeln der Naukā sind nicht in diesen Sanskritbestand eingemischt.

Unsichere Lesungen werden im Hauptartikel erläutert, insbesondere in 22.169–170. In 1.110 ist die ausdrückliche Verneinung tāvan naiva am Druck überprüft. In 25.76 folgt die Ausgabe für „vihāyaiva“ dem überprüften Druck von Ram Kumar Rai (Band 2, S. 1233); die Schreibung „tadāśaktiṃ“ wird ausdrücklich zu „tadāsaktiṃ“ („Anhaftung daran“) normalisiert, gestützt auf den Zusammenhang und die Naukā. Die Lesartenentscheidung und ihre Bedeutung werden im Hauptartikel erläutert. Die kommentierte Auswahl im Hauptartikel erläutert diese Stellen sowie Besonderheiten in 3.9, 14.5, 23.2–3 und 25.99. Die vorliegende Schriftfassung ist keine kritische Neuedition. Verschlüsselte Mantras werden nicht durch vermutete Silben ergänzt.

Siehe auch

Verwandte Tantra-Schriften zur vergleichenden Lektüre:

Seminare

Das Studium tantrischer Schriften kann durch gemeinsame Praxis, sachkundige Unterweisung und regelmäßige Meditation vertieft werden. Die folgenden Angebote laden dazu ein, verwandte Themen unter Anleitung zu erforschen und mit der eigenen Sadhana zu verbinden.

Kundalini Yoga

06.11.2026 - 08.11.2026 Kundalini Yoga Einführung

Gründliche Einführung in die Theorie und Praxis des Kundalini Yoga, Yoga der Energie. Die praktischen Übungen des Kundalini Yoga umfassen Pranayama (…
Arjuna Wingen
13.11.2026 - 15.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Manuel Hirning

Indische Schriften

26.12.2026 - 02.01.2027 Indische Rituale Ausbildung

Du interessierst dich für indische Rituale? Du hast die einzigartige Gelegenheit, in dieser Rituale Ausbildung bei Yoga Vidya die kleine Puja, große P…
Sukadev Bretz, Shankari Winkelbauer
01.01.2027 - 10.01.2027 Yogalehrer Weiterbildung Intensiv A1 - Jnana Yoga und Vedanta

Kompakte, vielseitige Weiterbildung für Yogalehrer rund um Jnana Yoga und Vedanta.
Tauche tief ein ins Jnana Yoga und Vedanta, studiere die indischen S…
Vedamurti Dr Olaf Schönert

Chakras

20.11.2026 - 22.11.2026 Heilreise durch die Chakren

Tauche ein in eine transformative Reise durch die sieben Hauptchakren und erfahre, wie du deine Energiezentren aktivieren, ausbalancieren und für dein …
Nese Niekrens, Gajendra Sebastian Niekrens
26.12.2026 - 01.01.2027 Kundalini Yoga Intensiv Praxis - Live Online

Intensives Praktizieren der im Mittelstufen-Seminar gelernten Übungen für noch tiefere Erfahrung und Erweiterung des Bewusstseins ohne viel Theorie. L…
Sukadev Bretz, Shaktipriya Vogt, Radharani Birkner

Energiearbeit

04.11.2026 - 04.11.2026 Einführung in die Chakratherapie - Online Workshop

Uhrzeit: 18 - 21 Uhr
Ein Chakra ist ein feinstoffliches Kraftzentrum des Körpers, welches wichtige Körperfunktionen steuert und bestimmten Organen zug…
Beate Menkarski
06.11.2026 - 08.11.2026 Kundalini Yoga Einführung

Gründliche Einführung in die Theorie und Praxis des Kundalini Yoga, Yoga der Energie. Die praktischen Übungen des Kundalini Yoga umfassen Pranayama (…
Arjuna Wingen

Mit Sammlung lesen

Die vertrauter werdenden Zeichen der Devanagari können den Zugang zum Sanskrit vertiefen. Gehe in kleinen Schritten vor und verbinde jede gelesene Stelle mit ihrem Sinn. Die IAST-Parallele und die deutsche Erläuterung begleiten dieses Lernen.

Am Ende der Auswahl stehen Erkenntnis und Segen. Mahīdhara wünscht, dass Menschen sich von Feindseligkeit abwenden und Gutes erfahren (25.126–127). Dieses Anliegen darf vom Lesen in den Alltag weiterwirken: mit Dankbarkeit üben, achtsam sprechen und dem Wohl anderer zugewandt bleiben. Für die Rezitation besonderer Mantras bleibt die Unterweisung durch einen kundigen Guru maßgeblich.

Zur Mantramahodadhi-Ausgabe: Hauptartikel · Deutsche Übersetzung · Sanskrit IAST · Sanskrit Devanagari · Leseführer zu den 25 Taraṅgas · 108 inspirierende Verse und Mantras · Frühere IAST-Auswahl · Frühere Devanagari-Auswahl