Shaktisangama Tantra Kalikhanda Sanskrit Devanagari

Aus Yogawiki

Shaktisangama Tantra – Kālīkhaṇḍa: Sanskrit in Devanagari

Im Kālīkhaṇḍa begegnet dir Kali im Zusammenhang einer reichen tantrischen Überlieferung. Der Sanskrittext verbindet Anrufung, Lehre und Ritual. Er lädt dazu ein, den Worten sorgfältig nachzugehen und ihre Beziehung zu Shakti, Guru und Mantra zu entdecken.

Diese Seite enthält die 21 Paṭalas der vorliegenden Textfassung. Die deutsche Erläuterung und Übersetzung findest du unter Shaktisangama Tantra Kalikhanda. Für den Schriftvergleich: IAST · Devanagari.

Zur Ausgabe: Gesamtwerk · Kalikhanda · Tarakhanda · Sundarikhanda · Chinnamastakhanda · 108 Verse und Mantras

Kali – ein Zugang zur Verehrung der göttlichen Shakti.

Zum Lesen

Einzelne sexualisierte Stellen des 21. Kapitels mit hinsichtlich des Alters unklaren Beteiligten sind durch ausdrücklich gekennzeichnete, nichtgrafische Inhaltsangaben ersetzt. Diese Lesefassung ist an diesen Stellen keine wörtlich vollständige Sanskrit-Wiedergabe. Die ursprünglichen Versnummern bleiben erhalten.

IAST ist die wissenschaftliche Umschrift des Sanskrit; Devanagari ist seine hier verwendete indische Schrift. Die Kapitelüberschriften folgen der Reihenfolge der Vorlage. Originalnummern, Sprecherwechsel, Kolophone und erkennbare Lesefragen bleiben erhalten. Die Angaben in Klammern sind Teil der Textüberlieferung und keine Anweisung zum Ergänzen fehlender Wörter. Historische Ritualbeschreibungen werden dokumentiert; sie sind keine heutige Praxisempfehlung.

Zur spirituellen Einordnung von Kali:

Eingangsverehrung und Werktitel

शक्तिसङ्गमतन्त्रम् ।

प्रथमो भागः ।

कालीखण्डः ।


श्रीगुरुभ्यो नमः ।

श्रीशक्तिसङ्गमतन्त्रम् ।

कालीखण्डः ॥

Paṭala 1

श्रीदेव्युवाच ।


अनादिरूप भूतेश शशिशेखर शङ्कर ।
देवाधिदेव विश्वेश विश्वाराध्य सुरेश्वर ॥ १-१ ॥

निरञ्जन निराकार नित्यानन्द गुणाकर ।
गुणातीत परस्वामिन् सर्वातीत परात्पर ॥ १-२ ॥

त्वत्सम्भूतं जगत् सर्वं स्थावरं जङ्गमादिकम् ।
श्रुतानि सर्वतन्त्राणि लक्षकोट्यर्बुदानि च ॥ १-३ ॥

तन्त्रार्णवादिकं देव राजराजेश्वर प्रभो ।
तन्त्रराजः श्रुतो देव नानाभेदाश्च संश्रुताः ॥ १-४ ॥

रसायनं श्रुतं देव सिद्धयो विविधाः श्रुताः ।
शक्तिसङ्गमनामानं तन्त्रराजोत्तमोत्तमम् ॥ १-५ ॥

सूचितं देवदेवेश मन्त्रसिद्ध्यभिधागमे ।
न मह्यं कथितं देव संशयं छेदय प्रभो ॥ १-६ ॥

चतुःखण्डेन संयुक्तं सर्वसारोत्तमोत्तमम् ।
तन्त्रं कथय देवेश सम्प्रदायक्रमागतम् ॥ १-७ ॥

समग्रं तन्त्रराजेन्द्रं सापेक्ष रहितं प्रभो ।
सम्प्रदायप्रभ्रष्टानां मार्गसन्दर्शकारकम् ॥ १-८ ॥

कलौ सिद्धिप्रदं तन्त्रं कथयस्व मम प्रभो ।


श्रीशिव उवाच ।


तन्त्रराजः पूर्वमुक्तः खण्डाष्टकसमुज्वलः ॥ १-९ ॥

पूर्वार्धमुत्तरार्द्धं च सार्द्धद्वयसमन्वितः ।
पूर्वार्द्धं कादिसंज्ञं तु द्वितीयं हादिसंज्ञकम् ॥ १-१० ॥

कादौ तु वेदखण्डानि हादावपि चतुष्टयम् ।
प्रतिखण्डे महेशानि त्रिसहस्रं च षट्शतम् ॥ १-११ ॥

प्रत्यध्याये शतश्लोकाः षट्त्रिंसत्पटलानि च ।
इत्येकं खण्डमित्युक्तमेवं खण्डाष्टकं विदुः ॥ १-१२ ॥

दिव्यौघ रचितो ग्रन्थो गुरुद्वारो भविष्यति ।
शक्तिसङ्गमनामाख्यं श्रीबृहत्तन्त्रराजकम् ॥ १-१३ ॥

वेदखण्डसमायुक्तं षष्टिसाहस्रिकं (?) शुभम् ।
दिव्यौघरचितं तन्त्रं सर्वतन्त्रोत्तमोत्तमम् ॥ १-१४ ॥

अनादिकाल्या रचितं तारारूपं द्वितीयकम् ।
तृतीयं सुन्दरीरूपं चतुर्थी छिन्नमस्तका ॥ १-१५ ॥

युगे युगे चन्द्र संख्यं कलौ खण्डचतुष्टयम् ।
षट्शतीवत्सरान्ते तु द्विसप्तत्युत्तरं शिवे ॥ १-१६ ॥

आविर्भवति देवेशि दिव्यौघद्वारतः शिवे ।
बौद्धपाषण्डनाशार्थं सम्प्रदायार्थमेव च ॥ १-१७ ॥

सम्प्रदायसंकराणां विनाशार्थमिहेश्वरि ।
सम्प्रदायस्थापनार्थं ब्राह्मण्यरक्षणाय च ॥ १-१८ ॥

मन्त्रशास्त्रस्य सिद्ध्यर्थमाविर्भवति पार्वति ।
तन्त्रेषु कालिका तारा सदा तिष्ठति पार्वति ॥ १-१९ ॥

अथोद्दण्डं विधायेत्थं श्रीमहादक्षिणेश्वरि ।
अनादिविद्या श्रीकाली महाताराभिधा परा ॥ १-२० ॥

षट्शाम्भवेश्वरि विद्या वाच्यातीता परा कला ।
महाप्रलयमासाद्य कोटि ब्रह्माण्डनायिका ॥ १-२१ ॥

शिवशक्तिमयं देहमेकीकृत्य सदा स्थिता ।
कोटिवक्रा भवाद्यास्तु ब्रह्माणः प्रेतरूपिणः ॥ १-२२ ॥

तत्श्मशाने प्रनृत्यन्ति गायन्ति व्यालसङ्कुलाः ।
चितिरक्षास्वरूपत्वं प्राप्य तिष्ठन्ति पार्वति ॥ १-२३ ॥

माहेश्वराणामानन्त्यं विष्णुरूपेऽप्यनन्तता ।
शक्रादीनां तु गणना नास्त्येव प्रियवादिनि ॥ १-२४ ॥

नद्यां तु वालुका यावत्तावदिन्द्राः पुरेरिताः ।
कोटिब्रह्माण्डपर्यन्तं स्थावरं जङ्गमादिकम् ॥ १-२५ ॥

एकैकवारमिन्द्रत्वं गतं तत्पुनरप्यलम् ।
अनन्तकोटिब्रह्माण्डे यावन्तः परमाणवः ॥ १-२६ ॥

तावन्तः सन्ति तद्भूमौ चितिधूलिस्वरूपतः ।
माहेश्वरीसमेतानां ब्रह्माण्डकोटिकोटयः ॥ १-२७ ॥

तत्र तिष्ठन्ति देवेशि चतुर्वेदाः शवाः स्मृताः ।
युगाश्च शवरूपेण सप्तप्रेतगताः पराः ॥ १-२८ ॥

सागरस्यं समासाद्य सर्वरूपा हि पार्वति ।
चिद्व्यापकस्वरूपेण स्वयं च विभ्रती पराम् ॥ १-२९ ॥

एतस्मिन्नेव काले तु स्वबिम्बं पश्यति शिवा ।
तद्बिम्बं तु भवेन्माया तत्र मानसिकं शिवम् ॥ १-३० ॥

सृष्टेरुत्पादनार्थं तु भर्तृरूपं प्रकल्पयेत् ।
आदिनाथं तु मनसा कल्पातीतस्वरूपिणम् ॥ १-३१ ॥

तं विलोक्य महेशानि सृष्ट्युत्पादनकारणात् ।
आदिनाथं मानसिकं स्वभर्तारं प्रकल्पयेत् ॥ १-३२ ॥

विपरीतरतिं कृत्वा महाशून्यं विधाय च ।
त्रिंशदर्बुदषट्वृन्दपञ्चाशत्पद्मकोटयः ॥ १-३३ ॥

युगानि परमेशानि विपरीतरताऽभवत् ।
विपरीतरतौ देवि बिन्दुरेकोऽभवत् पुरा ॥ १-३४ ॥

तत्रैका सुन्दरी जाता महालावण्यकालिका ।
श्रीमहासुन्दरीरूपं बिभ्रती परमा कला ॥ १-३५ ॥

तस्याश्च मानसी शक्तिस्तत्र जाता परात्परा ।
तस्या नाम महाकाली सुन्दरीति प्रकल्प्यते ॥ १-३६ ॥

तां विलोक्य महाकालो महामोहपरो भवेत् ।
कालीं प्रति वदन् कालो वाणीं गर्वान्वितां पराम् ॥ १-३७ ॥

बिन्दुध्वनिसकाशात्तु प्रत्येकं वर्णजातयः ।
मातृकार्णास्तदा जाता अक्षरेति तदाऽभवत् ॥ १-३८ ॥

ध्वनिना व्याप्तमखिलं जगदेतच्चराचरम् ।
अद्यापि देवदेवेशि कादम्बर्या ध्वनिश्रुतिः ॥ १-३९ ॥

उवाच सुन्दरीं कालो महाप्राणप्रिये परे ।
त्रैलोक्यसुन्दरि श्रीशे कारुण्यामृतसागरे ॥ १-४० ॥

द्वितीयवाक्ये देवेशि कालीमुवाच शङ्करः ।
महाघोरे शिवारावे क्रूरदंष्ट्रे करालिनि ॥ १-४१ ॥

ललज्जिह्वे भीमनादे इत्येवं वचनं वदन् ।
ईदृशं वचनं श्रुत्वा निर्गुणा परचण्डिका ॥ १-४२ ॥

अनादिरूपा श्रीकाली मायोत्पादनतत्परा ।
कालो मोहवशं यातः श्रीकालीमायया शिवे ॥ १-४३ ॥

अनादिसृष्टेरुत्पत्तिः कारणार्थं महेश्वरि ।
ब्रह्माण्डानामथानन्त्यं तन्मया कथितं क्षणात् ॥ १-४४ ॥

कालस्य मायां दत्वा तु स्वयं व्यापारतां गता ।
कालस्तु चकितो जातः सा वै कुत्र गता प्रिया ॥ १-४५ ॥

हा हा प्राणप्रिया काली सा वै कुत्र गता प्रिया ।
इति मोहवशं यातः श्मशानाटनतत्परः ॥ १-४६ ॥

हा हा प्राणप्रिया काली सा वै कुत्र गता प्रिया ।
एवं मोहवशं यातो भ्रान्तचित्तस्ततोऽभवत् ॥ १-४७ ॥

दर्शनार्थं तपस्तेपे पञ्चाशत्पद्मकोटयः ।
युगानि तत्र जातानि न कालीदर्शनं शिवे ॥ १-४८ ॥

कालस्य जातं देवेशि मार्गभ्रष्टपरायणः ।
इति ज्ञात्वा महाकाली ज्ञानं दत्तं महेश्वरि ॥ १-४९ ॥

आकर्षणाख्या बुद्धिस्तु दत्ता कालस्य पार्वति ।
भक्तप्रीता महाकाली श्रीमहादक्षिणानना ॥ १-५० ॥

वरदानेषु चतुरा तेनेयं दक्षिणा स्मृता ।
आकर्षणं कृतं तेन जातं तत्क्षणमात्रकम् ॥ १-५१ ॥

काल्या ज्ञानं महेशानि मार्गच्युतिपरायणः ।
कालो जातो महेशानि महाभक्तप्रिया वरा ॥ १-५२ ॥

शिवाकर्षणकं कर्म मिथुनत्वप्रदायकम् ।
इति ज्ञात्वा महेशानि आगत्य तु शिवान्तिकम् ॥ १-५३ ॥

तदा समरसानां तु शक्तिं कृत्वा महेश्वरि ।
आनीय दत्ता कालस्य मार्गाभ्यासार्थमेव तु ॥ १-५४ ॥

मार्गं विना महेशानि गतिरत्र कथं भवेत् ।
तत्राभ्यासपरः कालः कुण्डलीध्यानतत्परः ॥ १-५५ ॥

मनुष्याणां कुण्डली तु सार्द्धत्रिवलया स्मृता ।
श्रीदेव्या कुण्डली देवि स्वेच्छया गुणिता शिवा ॥ १-५६ ॥

त्रिगुणा श्रीः त्रिशक्तिश्च यदा वेदगुणा भवेत् ।
चतुर्वर्णा चैकजटा चतुर्वेदेस्वरी परा ॥ १-५७ ॥

यदा पञ्चगुणा देवि महोग्रा तु तदा भवेत् ।
यदा षड्गुणिता शक्तिः सिद्धिकाली प्रकीर्तिता ॥ १-५८ ॥

यदा सप्तगुणा शक्तिः सप्तार्णा कालसुन्दरी ।
यदाष्टगुणिता शक्तिरष्टार्णा भुवनाम्बिका ॥ १-५९ ॥

यदा नवगुणा शक्तिः नवार्णा चण्डिकेश्वरी ।
यदा दशगुणा शक्तिर्दशविद्यास्वरूपिणी ॥ १-६० ॥

यदा रुद्रगुणा जाता श्मशानकालिका भवेत् ।
यदा सूर्यगुणा देवि द्वादशी चण्डभैरवी ॥ १-६१ ॥

यदा कामगुणा देवि कामभेदा च तारिणी ।
चतुर्दशगुणा जाता वशीकरणकालिका ॥ १-६२ ॥

यदा पक्षगुणा जाता महापञ्चदशी स्मृता ।
कलागुणा यदा शक्तिः श्रीमहाषोडशी तदा ॥ १-६३ ॥

कलातीतगुणा देवि छिन्नमस्ता तदा भवेत् ।
अष्टादशगुणा देवि महामधुमती भवेत् ॥ १-६४ ॥

ऊनविंशद्गुणा देवि महापद्मावती तदा ।
गुणिता विंशतिपदा विंशद्वर्णा रमा भवेत् ॥ १-६५ ॥

एकविंशद्गुणा देवि प्रोक्ता श्रीकामसुन्दरी ।
द्वाविंशद्गुणिता देवि दक्षिणाकालिका तदा ॥ १-६६ ॥

त्रयोविंशद्गुणा देवि विद्येशीति तदा भवेत् ।
गुणिता तत्त्वसंख्याभिर्गायत्री स्यात्तदा शिवे ॥ १-६७ ॥

पञ्चविंशद्गुणा देवि पञ्चमी सुन्दरी तदा ।
षड्विंशद्गुणिता शक्तिः षष्ठी विद्या प्रकीर्तिता ॥ १-६८ ॥

सप्तविंशद्गुणा देवि महारत्नेश्वरी परा ।
अष्टाविंशतिधा सा वै गुणिता परमा कला ॥ १-६९ ॥

अष्टविंशाक्षरी विद्या मृतसञ्जीवनी परा ।
ऊनत्रिंशद्गुणा देवि महानीलसरस्वती ॥ १-७० ॥

त्रिंशद्गुणा यदा विद्या वसोर्धारा तदा स्मृता ।
एकत्रिंशद्गुणा देवि त्रैलोक्यमोहिनी भवेत् ॥ १-७१ ॥

द्वात्रिंशद्गुणिता चेत्स्यात् त्रैलोक्यविजया स्मृता ।
त्रयस्त्रिंशद्गुणा चेत्स्यात् श्रीमत्कामाख्यतारिणी ॥ १-७२ ॥

चतुस्त्रिंशद्गुणा शक्तिरघोराख्या तदा भवेत् ।
पञ्चत्रिंशद्गुणा देवि सङ्गीतमोहिनी भवेत् ॥ १-७३ ॥

षट्त्रिंशद्गुणिता विद्या बगलाख्या तदा भवेत् ।
सप्तत्रिंशद्गुणा शक्तिः प्रोक्ता विद्या स्वरुन्धती ॥ १-७४ ॥

अष्टत्रिंशद्गुणा चेत् स्यादन्नपूर्णेश्वरी मता ।
गुणितोनचत्वारिंशत् नाकुली परिकीर्तिता ॥ १-७५ ॥

चत्वारिंशद्गुणा शक्तिः प्रोक्ता विद्या त्रिकण्टकी ।
गुणिता चैकचत्वारिंशत्तदा राजेश्वरी कला ॥ १-७६ ॥

द्विचत्वारिंशद्गुणिता त्रैलोक्याकर्षिणी तदा ।
त्रिचत्वारिंशद्गुणिता राजराजेश्वरी स्मृता ॥ १-७७ ॥

चतुश्चत्वारिंशद्गुणिता कुक्कुटी परिकीर्तिता ।
चत्वारिंशद्वाणगुणा सिद्धविद्या प्रकीर्तिता ॥ १-७८ ॥

चत्वारिंशद्रसगुणा प्रोक्ता श्रीमृत्युहारिणी ।
चत्वारिंशन्मुनिगुणा महाभोगवती मता ॥ १-७९ ॥

चत्वारिंशद्वसुगुणा वासवी परिकीर्तिता ।
चत्वारिंशद्रन्ध्रगुणां फेत्कारी परिकीर्तिता ॥ १-८० ॥

पञ्चाशद्गुणिता देवी महाश्रीमातृसुन्दरी ।
पञ्चाशच्चन्द्रगुणिता मातृकोत्पत्तिसुन्दरी ॥ १-८१ ॥

एकैकं मातृकावर्णं प्रतिविद्याप्रकाशतः ।
उत्पन्ना परमेशानि स्वोत्पत्तिषु परायणा ॥ १-८२ ॥

यो भावो यस्य वै प्रोक्तस्तद्भावे संस्थिता परा ।
स्वेच्छया वलयं कृत्वा यथा कुण्डलिनी स्थिता ॥ १-८३ ॥

तथा विद्या सुसंजाता अक्षोम्यमुनिरूपिणी ।
सार्धत्रिवलया देवि मनुष्यस्य प्रकीर्तिता ॥ १-८४ ॥

एवं विद्या समुत्पन्ना कुण्डलीतो महेश्वरि ।
बालाम्बा तु ततो जाता पूर्वाभ्यासार्थमेव तु ॥ १-८५ ॥

पूर्वाभ्यासप्रभावेन सुन्दरी पतिता भवेत् ।
स कालत्वं च संप्राप्तः सुन्दरीसामरस्यतः ॥ १-८६ ॥

विद्यया पंचमीरूपं धृत्वा कालसमागमः ।
भक्तप्राणप्रिया देवि तस्य सङ्गपरायणा ॥ १-८७ ॥

पंचमीरूपमासाद्य संस्थिता परमा कला ।
तस्याः सङ्गाभ्यासयोगात् महाकालत्वतां गतः ॥ १-८८ ॥

येन दृष्टा तु या पूर्वं स तस्या ऋषिरीरितः ।
उपासकास्तदान्ये स्युरिति संक्षेपतो मतम् ॥ १-८९ ॥

अथातो ब्रह्म देवेशि व्याख्यास्यामि यथाक्रमम् ।
बीजाङ्कुरस्फटिकजं तद् ब्रह्म परिकीर्तितम् ॥ १-९० ॥

तदेव ब्रह्म चाख्यातं कालकालीमयं परम् ।
यावद्विवर्णितुं शक्यं तावत् सगुणतां गतम् ॥ १-९१ ॥

तदेव सगुणं ब्रह्म वर्णना शक्तिगोचरम् ।
वर्णनायामशक्तिर्हि यदा जाता महेश्वरि ॥ १-९२ ॥

तदेव निर्गुणं प्रोक्तं सगुणं वाच्यगोचरम् ।
वाग्भवं मुखमित्युक्तं मुखादुच्चार्यते च तत् ॥ १-९३ ॥

अवाच्यं यद् भवेत् ब्रह्म तत्कथं मुखगोचरम् ।
वाक्शक्त्या यन्त्रितं तच्च तस्माच्छक्तेः प्रधानता ॥ १-९४ ॥

काली माया तु सा शक्तिर्बिम्बाद्यप्रतिबिम्बका ।
कालीव्यापकसच्छाया महाकालः प्रकीर्तितः ॥ १-९५ ॥

महाकालात् भवेन्माया सा प्रोक्ता भुवनेश्वरी ।
ब्रह्मविष्ण्वादयो देवि तत्रोत्पन्ना महेश्वरि ॥ १-९६ ॥

लोकपालास्ततो जाता वाग्भवा मातृकाः स्मृताः ।
अथैकगुणिता देवि प्रथमाक्षरसम्भवा ॥ १-९७ ॥

अविनाशत्वलोपेन तेन चाक्षररूपता ।
शक्त्या विना शिवे सूक्ष्मे नाम धाम न विद्यते ॥ १-९८ ॥

सर्वाद्या तु भवेच्छक्तिरानन्दघनगोचरा ।
ब्रह्मरूपचिदानन्दा परब्रह्मैव केवलम् ॥ १-९९ ॥

प्रकृतौ विद्यमानायां विकृतिर्न बलीयसी ।
प्रकृतिः परमा शक्तिर्विकृतिः प्रतिबिम्बता ॥ १-१०० ॥

आद्या कृष्णा महाकाली द्वितीया सुन्दरी स्मृता ।
रक्तवर्णा महेशानि तृतीया बालभैरवी ॥ १-१०१ ॥

चतुर्थी पंचमी विद्या यस्याभ्यासात्तु कालताम् ।
प्रपञ्चमूला सा शक्तिः प्रपञ्चेशी प्रकीर्तिता ॥ १-१०२ ॥

तन्मायारूपधारित्वं प्रपञ्चात्मा शिवो भवेत् ।
त्रिनेत्रा त्रिगुणा जाता त्रिगुणात्मा तथेश्वरः ॥ १-१०३ ॥

ततः सदाशिवो जातस्तत्कृपालेशतः शिवे ।
तत्रस्था परमेशानि सौन्दर्यगुणसंयुता ॥ १-१०४ ॥

सुन्दर्यास्तु प्रपञ्चोऽस्ति निर्गुणेन प्रपञ्चता ।
आद्या श्रीर्निर्गुणा काली वाच्यातीता परात्परा ॥ १-१०५ ॥

प्रकर्षेण तु पंचानां संयोगो युगपद्भवेत् ।
प्रपञ्चेशी तेन विद्या सुन्दरी परिकीर्तिता ॥ १-१०६ ॥

यदारभ्य धृतं रूपं सुन्दरं सुमनोहरम् ।
तदारभ्य प्रपञ्चोऽयं संजातः परमेश्वरि ॥ १-१०७ ॥

शक्तिकोणे महेशानि ब्रह्माण्डानामनन्तकम् ।
सर्वं तिष्ठति देवेशि जगदेतच्चराचरन् ॥ १-१०८ ॥

तस्याः कुण्डलिनी शक्तिरक्षोभ्यनागरूपिणी ।
स्वेच्छया गुणिता देवि स्वेच्छावर्णस्वरूपिणी ॥ १-१०९ ॥

ब्रह्माण्डगोले देवेशि काल्या तस्यै प्रदर्शितः ।
ब्रह्मगोलो विष्णुगोलो रुद्रगोलस्तृतीयकः ॥ १-११० ॥

लोकेशगोलो देवेशि देवगोलस्ततः शिवे ।
ततो हि ऋषिगोलो हि क्रमाद्गोलाश्च कोटिशः ॥ १-१११ ॥

परब्रह्माच्च प्रकृतिः प्रतिबिम्बस्वरूपिणी ।
महत्तत्वं ततो जातं अहङ्कारस्ततः परम् ॥ १-११२ ॥

आकाशस्तु ततो जातस्ततो वायुः प्रकीर्तितः ।
ततोऽग्निश्च प्रजातोऽत्र अग्नेरापः प्रकीर्तिताः ॥ १-११३ ॥

पानीयात् पृथिवी जाता ततश्चौषधयः शुभाः ।
ओषधीभ्यो भवेदन्नं अन्नात् प्राणः प्रकीर्तिताः ॥ १-११४ ॥

प्राणाज्जीवो हि सञ्जातो जीवात्मपरमात्मकौ ।
ब्रह्मबिम्बात्सर्वमेतज्जगदेतच्चराचरम् ॥ १-११५ ॥

अत एव भवेद्ब्रह्म जगदेतच्चराचरम् ।
भावनावशतां यातो ब्रह्मरूपः सनातनः ॥ १-११६ ॥

जीवः कीटस्ततो भृङ्गी भृङ्गी कीटो न वै शिवे ।
जीवो ब्रह्म पुनर्ब्रह्म ततो ब्रह्म पुनश्च सः ॥ १-११७ ॥

पुण्यद्रवात् पात्रयोगात् वह्नौ चोष्णात्मकं यथा ।
केवलं तु जलं देवि यदि वह्नौ प्रदीयते ॥ १-११८ ॥

वह्निनाशो भवेद्देवि नात्र कार्या विचारणा ।
देहपात्रस्य संयोगात् परमात्मा च देवता ॥ १-११९ ॥

सौख्यं दुःखं जयो लाभोऽहङ्कारो दम्भ एव च ।
मोहः कामः क्षुधा जृम्भा पिपासा स्पर्शनं गतिः ॥ १-१२० ॥

सर्वमेतन्महेशानि तद्वज्जातं महेश्वरि ।
तत्र ज्ञाने समुत्पन्ने न सौख्यं न च दुःखता ॥ १-१२१ ॥

देहाभिमाने गलिते विदिते परमात्मनि ।
न सौख्यं न च वै दुःखं परब्रह्मैव केवलम् ॥ १-१२२ ॥

यथा दाहो वह्निशक्तिर्वह्नौ तिष्ठति पार्वति ।
तद्वद्ब्रह्म जीवमात्रे सदा तिष्ठति पार्वति ॥ १-१२३ ॥

विस्फुलिंगा यथा वह्नेर्नानास्थलगता भवेत् ।
जले नाशत्वतां यान्ति तृणे वर्द्धिष्णुता भवेत् ॥ १-१२४ ॥

काष्ठे स्फुलिंगतां यान्ति जीवे ब्रह्म तथा शिवे ।
पात्रयोगात् सर्वमेतत् जयलाभादिकं शिवे ॥ १-१२५ ॥

न सौख्य न च वै दुःखं परब्रह्मैव केवलम् ।
तज्ज्ञानं मन्त्रयोगेन स्फुटं भवति पार्वति ॥ १-१२६ ॥

कामक्रोधादिभिर्युक्ते जीवरूपे परात्मनि ।
अन्ययोगात् महेशानि दुःखं भवति नान्यथा ॥ १-१२७ ॥

मनोऽन्यत्र शिवोऽन्यत्र कथं योगो भवेत् शिवे ।
अन्ययोगे समारब्धे स्त्रीसङ्गश्चेद्यदा भवेत् ॥ १-१२८ ॥

विनाशाद्वायुरोधस्य देहनाशादिकं भवेत् ।
मन्त्रयोगे भावनायां न तथा परमेश्वरि ॥ १-१२९ ॥

यावद्धि भावना जाता तावद्देवो महेश्वरः ।
भावना गलिता चेत् स्यात्तदा जीवेश्वरो नरः ॥ १-१३० ॥

अत्रैव नियमो नास्ति तत्रावधिः प्रकीर्तितः ।
परब्रह्माथ वा जीवो द्वयोरेकतरः शिवे ॥ १-१३१ ॥


इति संक्षेपतः प्रोक्तं अकाराक्षरतत्त्वकम् ॥


इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमद्क्षोभ्यमहोग्रतारासंवादे ग्रन्थप्रवर्तनं नाम प्रथमः पटलः ॥ १ ॥

Paṭala 2

उग्रतारोवाच ।


अक्षोभ्य श्रोतुमिच्छामि यत् पूर्वं सूचितं त्वया ।
तन्मे कथय देवेश यद्यहं तव वल्लभा ॥ २-१ ॥


अक्षोभ्य उवाच ।


रहस्यातिरहस्यं च महोग्रे शृणु साम्प्रतम् ।
ब्रह्मभूम्यन्तकं प्रोक्तं भूमिब्रह्माण्डकं शिवे ॥ २-२ ॥

संहारे जायते देवि तत्र लीनं जगद्भवेत् ।
चतुर्वक्त्रविधिं देवि प्रमुखीकृत्य शाश्वतम् ॥ २-३ ॥

कोटिवक्त्रान्तपर्यन्तं ब्रह्माणः सन्ति गोलके ।
चतुर्वक्त्रं तु भूगोलं ब्रह्माण्डाख्यं च कोटिजे ॥ २-४ ॥

ब्रह्माण्डानामथानन्त्यमेवं तिष्ठति पार्वति ।
अनन्तकोटिब्रह्माण्डनायिका नीलशारदा ॥ २-५ ॥

ब्रह्मगोलं च तदधः सुन्दरीगोचरं भवेत् ।
भूगोलं परमेशानि भुवनागोचरं भवेत् ॥ २-६ ॥

अधिकारो हि संदत्तः सुन्दर्या एव पार्वति ।
महाविद्या कोटिसंख्या तन्मध्ये गोलगोचरा ॥ २-७ ॥

अथ वै राजराजेशी महापरमसुन्दरी ।
एकस्मिन् समये देवि गोलोत्पत्तिपरायणा ॥ २-८ ॥

तस्या द्वारि महेशानि सर्व तिष्ठति पार्वति ।
न्यासजालादिकं देवि पंचाङ्गानामनेकशः ॥ २-९ ॥

तथैव निर्मितं देवि कालिकाज्ञानुसारतः ।
प्रत्यहं क्रियते यद्यत्तत् सर्वं कालिकाग्रतः ॥ २-१० ॥

गत्वा च कथ्यते देवि सुन्दर्या नित्यमेव तु ।
कालीतारामयं ब्रह्म तदग्रे कथ्यते शिवे ॥ २-११ ॥

भूगोलो हि महेशानि त्रिःस्कन्धे सूचितो मया ।
ममैव लेशसंजाता मुनयः शङ्करादयः ॥ २-१२ ॥

चित्तस्कन्धे महेशानि ब्रह्माण्डाख्यः प्रकीर्तितः ।
भूगोलानां च पंचाशत् कोटिसंख्या महेश्वरि ॥ २-१३ ॥

न्यूनं पंचसहस्रैस्तु ब्रह्माण्डगोलके भवेत् ।
पंचाशच्छतविस्तीर्णो भूगोलः परिकीर्तितः ॥ २-१४ ॥

भूगोलस्तु महेशानि कदम्बकुसुमप्रभः ।
सदा भ्रमति देवेशि क्रियापंचकसंयुतः ॥ २-१५ ॥

घटाकारो महेशानि ध्रुवद्वयसमन्वितः ।
दक्षध्रुवे मुखं देवि वामे बुध्नमुखाकृतिः ॥ २-१६ ॥

कम्बुग्रीवो घटः प्रोक्तः श्रीचक्रकलशः स्मृतः ।
विंशत्संख्यादयः शब्दाः सदैकत्वे व्यवस्थिताः ॥ २-१७ ॥

शतान्तान्ता निगदिता संख्या साहस्रलक्षके ।
दशसंख्या प्रयोक्तव्या कोट्यादौ शतमात्रकम् ॥ २-१८ ॥

अर्बुदे तु सहस्रं स्यात् खर्वे लक्षाभिधं भवेत् ।
एवं क्रमेण देवेशि परार्धान्तं मेह्श्वरि ॥ २-१९ ॥

अक्षरादिसमायुक्तो दक्षे न्यूना भवेच्छिवे ।
उत्तरे त्वधिका देवि यथायोगेन योजयेत् ॥ २-२० ॥

कदम्बकुसुमं देवि श्रीचक्रवाटिकागतम् ।
तद्वाटिकासेचनार्थं कम्बुग्रीवायुतो घटः ॥ २-२१ ॥

छत्राकारेण देवेशि परितो ब्रह्मगोलकम् ।
तत्तद्बिम्बे महेशानि महाश्रीचक्रनायिका ॥ २-२२ ॥

सदा तिष्ठति देवेशि नात्र कार्या विचारणा ।
परमाणुरणुश्चैव द्व्यणुकत्र्यणुक एव च ॥ २-२३ ॥

लवस्त्रुटिः कला काष्ठा निमेषः श्वास एव च ।
ततः क्षणं महेशानि ततश्चैव पलं भवेत् ॥ २-२४ ॥

तत्षष्टिसंख्या नाडी स्यादिति संक्षेपतो मतम् ।
घटिका च मुहूर्तञ्च प्रहरो दिवसस्तथा ॥ २-२५ ॥

अहोरात्रस्ततः पक्षो मासश्चैव तत ऋतुः ।
अयनं वत्सरयुगे प्रलयश्चतुरात्मकः ॥ २-२६ ॥

चतुर्युगानामेकं हि महद्युगमितीरितम् ।
एकसप्ततिभिश्चैव मनुरेकः प्रकीर्तितः ॥ २-२७ ॥

चतुर्दशैव सप्तत्या मनवस्तु चतुर्दश ।
इन्द्राश्चतुर्दश शिवे तथैव परिकीर्तिताः ॥ २-२८ ॥

चतुर्युगसहस्राणि ब्रह्माहः परिकीर्तितम् ।
तावद्युगानि वै रात्रौ दिवा इन्द्राश्चतुर्दश ॥ २-२९ ॥

वृक्षकीटे प्रस्तराश्च तृणानि कृमयस्तथा ।
ब्रह्माण्डगोले यत्किञ्चित् जातं संजायमानकम् ॥ २-३० ॥

एकैकवारमिन्द्रत्वं तेषां च परिकीर्तितम् ।
कीटात् ब्रह्माण्डपर्यन्तं प्रपञ्चार्थं भविष्यति ॥ २-३१ ॥

मनवस्तु तथैवोक्ता पक्षश्चैव तथा भवेत् ।
मासर्तुश्च महेशानि त्वयनं हायनं ततः ॥ २-३२ ॥

एवं हि शतवर्षाणि ब्रह्मायुः परिकीर्तितम् ।
विधीनां दशसाहस्रं विष्णोर्दिवस ईरितः ॥ २-३३ ॥

पक्षमासादि वर्षादि ज्ञातव्यं परमेश्वरि ।
दशसाहस्रवर्षाणि विष्णोरायुः प्रकीर्तितम् ॥ २-३४ ॥

तल्लक्षायुः शिवस्याथ तद्द्वैगुण्यमथैश्वरम् ।
सदाशिवस्य तल्लक्षं गणना तु परात्परे ॥ २-३५ ॥

तदुत्तरं महेशानि स्वराट्चक्रं भविष्यति ।
विराट्चक्रं तद्द्विगुणात् सर्वराट् द्विगुणात्ततः ॥ २-३६ ॥

सर्वराहुत्तरं देवि ततः शून्यं भविष्यति ।
ततः शून्या परा रूपा श्रीमहासुन्दरी कला ॥ २-३७ ॥

सुन्दरी राजराजेशी महाब्रह्माण्डनायिका ।
महाशून्या ततस्तारा तद्द्वैगुण्यक्रमेण च ॥ २-३८ ॥

मुक्तौ संयोज्य सर्वं तु महासुन्दर्यनन्ततः ।
एवं हि शतवर्षाणि महाप्रलयकारिणी ॥ २-३९ ॥

महाप्रलयनामा तु सकृदेव प्रवर्तते ।
महाप्रलयके जाते ततः शून्यं भविष्यति ॥ २-४० ॥

ब्रह्मरूपा परानन्दा केवला तारिणी परा ।
सर्वं तस्यां तु संलीनं तद्रूपं सर्वमेव तु ॥ २-४१ ॥

एवं देवि महाशून्यं महादक्षिणकालिका ।
व्याप्य तिष्ठति देवेशि शून्यं कृष्णस्वरूपकम् ॥ २-४२ ॥

इति संक्षेपतः प्रोक्तं रचनां गोलके शृणु ।
आणव्यं कार्मणं चैव मायाप्रकृतिमेव च ॥ २-४३ ॥

अहङ्कारः पंचमः स्यात् सृष्टिस्थितिलयस्तथा ।
प्रधानानुग्रहो देवि व्यवस्थां शृणु यत्नतः ॥ २-४४ ॥

आणव्य जीवमात्रं स्याद्ब्रह्मविष्णोश्च कार्मणम् ।
मायामूलस्तु रुद्रस्य प्राकृतस्तु तथेश्वरे ॥ २-४५ ॥

सदाशिवस्याहङ्कारः परशम्भोर्न किञ्चन ।
सृष्टिस्थितिलयश्चैव तिरोधानं त्वनुग्रहः ॥ २-४६ ॥

क्रमेण पंचकं जातं परशम्भोस्तु मायया ।
वर्णाध्वा चैव मात्राध्वा तत्त्वाध्वा तदनन्तरम् ॥ २-४७ ॥

मन्त्राध्वा भुवनाध्वा च कलाध्वा ऋतुसंज्ञकः ।
अयमध्वा त्रिधा प्रोक्तस्त्वचिद्देहक्रमेण च ॥ २-४८ ॥

आधिभूतं चाधिदैवं देहचक्रं तथाण्डके ।
त्रिधा तु कथितं देवि रचनां शृणु यत्नतः ॥ २-४९ ॥

पुरीषट्कमध्यगता लङ्काचीनक्रमेण च ।
लङ्कापुर्यभिधो देवि मध्यभागे प्रतिष्ठितः ॥ २-५० ॥

परितः समभागत्वान्मेरुकार्ये नियोजिता ।
लङ्कातो दक्षभागे तु सप्त वै सागराः स्मृताः ॥ २-५१ ॥

तत्र द्वीपा महेशानि संख्या त्वष्टादशैव तु ।
समुद्राः सप्त देवेशि सागरास्ते प्रकीर्तिताः ॥ २-५२ ॥

स्वादूदकास्ते देवेशि तत्र वै वडवानलः ।
तदन्ते नरकाः प्रोक्ता मध्ये भोगवती पुरी ॥ २-५३ ॥

लङ्का तु भूमिमध्यस्था सर्वतो हि समा शिवे ।
गन्धमादनपार्श्वे तु हिममेरुः प्रकीर्तितः ॥ २-५४ ॥

तदुत्तरे स्वर्गभूमिस्तत्र लोकाः प्रतिष्ठिताः ।
उपर्यधस्ताल्लोकाश्च शतकक्ष्यासमन्विताः ॥ २-५५ ॥

दक्षोत्तरे ध्रुवद्वन्द्वं ब्रह्माण्डं तत्र वै स्थितम् ।
अधस्तात् सप्तपातालं सप्तलोकास्तदूर्ध्वके ॥ २-५६ ॥

एवं लोकत्रयं जातं तदण्डं परिवर्तते ।
ग्रहनक्षत्रसूर्यस्ये सोमस्येन्द्रस्य दिग्ग्रहाः ॥ २-५७ ॥

एतद्धामाः समाख्याता मध्ये तु किन्नरादयः ।
ब्रह्मविष्णुशिवादीनां ततो लोकाः प्रकीर्तिताः ॥ २-५८ ॥

ईश्वराख्यस्ततो देवि ततश्चैव सदाशिवः ।
ततो हि दण्डिनीनाथलोकश्च परिकीर्तितः ॥ २-५९ ॥

मंत्रिण्यंबागृहं तत्र सप्तप्राकारभूषितम् ।
परापरं ततः प्रोक्तं ततश्चैव परात्परम् ॥ २-६० ॥

परातीता ततः प्रोक्ता चित्परा तदनन्तरम् ।
सप्तमं श्रीपुरं देवि तदूर्ध्वं कोटियोजनम् ॥ २-६१ ॥

चतुरस्रं कोटिलक्षं योजनं तारिणीपुरम् ।
नवप्राकारसंयुक्तं अनन्तायामविस्तृतम् ॥ २-६२ ॥

कालचक्रं तत्र देवि कालनित्या क्रमेण च ।
कालनित्यापुरे देवि श्रीचक्रं परितिष्ठितम् ॥ २-६३ ॥

तत्र बिन्दौ महेशानि निर्वाणाख्यं पुरं भवेत् ।
तद्बिन्दौ परमेशानि शाम्भवाख्यं पुरं भवेत् ॥ २-६४ ॥

तद्बिन्दौ राजसं देवि शान्त्यतीतं कलायुतम् ।
चतुष्कशवसंयुक्तपर्यङ्केन सदाशिवम् ॥ २-६५ ॥

तत्र कामकलातीतं महाकामेश्वरं परम् ।
तत्पर्यङ्के महेशानि शान्त्यतीतां कलां पराम् ॥ २-६६ ॥

नवात्मकेश्वरीमम्बां कोटिब्रह्माण्डनायिकाम् ।
सर्वाढ्यमेतद्ब्रह्माण्डं कीर्तितं परमेश्वरि ॥ २-६७ ॥

कलाप्राकारसंयुक्तं श्मशानं तत्र पार्वति ।
प्रत्यालीढपदाख्यं च तत्र श्रीतारिणीपुरम् ॥ २-६८ ॥

चतुष्षष्टिशूलं शुक्लमनन्तायामविस्तृतम् ।
श्रीदक्षिणाश्मशानं च श्मशानाष्टकमेव तत् ॥ २-६९ ॥

परितो देवदेवेशि शतद्वारसमन्वितम् ।
कोटिब्रह्माण्डप्रेतैस्तु भूषितं भैरवीयुतम् ॥ २-७० ॥

त्रिंशन्निखर्वषट्पद्माः शरभैः संयुतं शिवे ।
महाज्वालानलैर्दीप्तं मुण्डबिन्दुविभूषितम् ॥ २-७१ ॥

सप्तप्रेतगता काली दक्षिणा तत्र तिष्ठति ।
तदाज्ञया धनुर्वेदाः सुन्दरीद्वारि संस्थिताः ॥ २-७२ ॥

सुन्दरीद्वारि देवेशि चतुर्वेदाः षडङ्गकाः ।
ऋग्वेदोऽथ यजुर्वेदः साम्वेदो अथर्वणः(?) ॥ २-७३ ॥

शिक्षा कल्पो व्याकरणं छन्दो ज्योतिर्निरुक्तकम् ।
षडङ्गमिति संप्रोक्तं तथा षट्दर्शनानि च ॥ २-७४ ॥

षडाम्नाया महेशानि तथा षट्शाम्भवं शिवे ।
कादिहादिक्रमेणैव द्विविधं परिकीर्तितम् ॥ २-७५ ॥

कादावष्टादशविधं हादावष्टादश प्रिये ।
उपवेदचतुष्कं च तदाख्यं शृणु पार्वति ॥ २-७६ ॥

ऋग्वेदस्य धनुर्वेदः शाखाभिः परिभूषितः ।
आयुर्वेदो यजुर्वेदाच्छाखाशतकसङ्कुलः ॥ २-७७ ॥

सामवेदस्य गान्धर्ववेदः प्रोक्तो महेश्वरि ।
शाखाभिर्भूषितो देवि कालप्रियकरः परः ॥ २-७८ ॥

अथर्वणस्य निगमस्तच्छाखाभिर्विभूषितः ।
पंचाशद्वै महाभागे निगमः परिकीर्तितः ॥ २-७९ ॥

समग्रकालिकाद्वारि त्रिलोके त्रिक्रमेण च ।
चतुष्पदं ब्राह्मणानां त्रिपदं क्षत्रजन्मिनाम् ॥ २-८० ॥

अथर्वणे नाधिकारः क्षत्रियाणां कदाचन ।
तत्कर्माचरणं देवि ब्राह्मणद्वारतश्चरेत् ॥ २-८१ ॥

संस्कार एव तुर्यस्य क्षत्रियाणां द्विजेश्वरः ।
चतुष्पदा ब्रह्मणाः स्युस्त्रिपदाः क्षत्रियाः स्मृताः ॥ २-८२ ॥

चतुर्दशमहाभारः स्वर्गे श्रीसुन्दरीगृहे ।
दिक्महाभारसंख्या च पाताले पद्मिनीगृहे ॥ २-८३ ॥

तत्त्वसंख्यमहाभारो मर्त्यलोके प्रतिष्ठितः ।
सिद्धानां नवनाथानां देवानामोघसन्निधौ ॥ २-८४ ॥

सरस्वतीगृहे देवि क्रमात्तिष्ठति पार्वति ।
शाक्तं शैवं गाणपतं सौरं वैष्णवमेव च ॥ २-८५ ॥

बौद्धं तु देवदेवेशि ताराषड्दर्शनानि च ।
वैदिकं चैव सौरं च गाणपत्यन्तमेव च ॥ २-८६ ॥

बौद्धं तु देवदेवेशि त्रिपुरादर्शनानि च ।
चान्द्रं स्वायंभुवं जैनं चीनं नीलं महेश्वरि ॥ २- ८७ ॥

च्छिन्नाषट्दर्शन्नान्येव कीर्तितानि त्रिधा शिवे ।
दर्शनत्रितयं देवि कालीविद्याप्रगोचरम् ॥ २-८८ ॥

अष्टादशपुराणानि तथैवोपपुराणकम् ।
वेदस्य गदितं देवि उपवेदस्य पार्वति ॥ २-८९ ॥

अष्टादशपुराणानि तथैवोपशमानि च ।
एकवीरा च त्वरिता कालिका सुन्दरी तथा ॥ २-९० ॥

छिन्ना मातङ्गिनी चैव गणेशार्काः प्रकीर्तिताः ।
बगला मालिनी तारा त्रिजटाऽक्षोभ्यकालके ॥ २-९१ ॥

बटुकः सुन्दरः शम्भुः शाम्भवस्तु नवात्मकः ।
अष्टादशपुराणानि उपसंख्यानि पार्वति ॥ २-९२ ॥

श्रुतिर्वेदश्च देवेशि उपवेदश्च वै स्मृतिः ।
चतुःषष्टिकला देवि चतुःषष्टिर्हि सिद्धयः ॥ २-९३ ॥

तथोपनिषदोऽन्यत्र द्विपंचाशन्महेश्वरि ।
उपदिष्टानि देवेशि चतुःषष्टि भवन्ति च ॥ २-९४ ॥

सूक्तानि त्रिसहस्राणि ताण्डवानां शतं शिवे ।
त्रिशतं कौशलाः प्रोक्ताः कौमुदी तु कलाभिधा ॥ २-९५ ॥

दीपिकानां चतुःषष्टिः प्रकाशानां च सप्ततिः ।
सांख्यायनानां पंचाशत् सूराणां पंचकं शिवे ॥ २-९६ ॥

वार्तिकानां द्वयं देवि तन्त्रराजद्वयं शिवे ।
नित्याषोडशतन्त्राख्यं खण्डाष्टकसमन्वितम् ॥ २-९७ ॥

हादिकादिमतत्वेन हादिकादिक्रमेण च ।
पूर्वार्धं चोत्तरार्धं च मिलित्वा तु विराड्मतम् ॥ २-९८ ॥

शक्तिसंगमनामानं तन्त्रराजं कहात्मकम् ।
चतुःख्ण्डसमायुक्तं तन्त्रराजोत्तमोत्तमम् ॥ २-९९ ॥

पंचाशदध्यायैर्युक्तं षट्कपंचकसंयुतम् ।
एवं क्रमेण देवेशि तन्त्राण्याम्नायके शिवे ॥ २-१०० ॥

आधारभूतं देवेशि सूक्ष्मब्रह्मा,न्,दमत्र तु ।
अनेकानि च देवेशि ब्रह्माण्डानि च मध्यतः ॥ २-१०१ ॥

तस्योपरि महेशानि ब्रह्माण्डकलिकाकृतिम् ।
जम्बुद्वीपे यदाभासस्तदा द्वीपेश्वरो भवेत् ॥ २-१०२ ॥

विश्वरूपक्रमेणैव देहमात्रप्रगोचरम् ।
दिवारात्रिर्महेशानि नराणां षष्टिनाडिभिः ॥ २-१०३ ॥

पितॄणां तु महेशानि मासद्वितयमेव च ।
ऋतुमात्रे दिवारात्रिः सिद्धानां परिकीर्तिता ॥ २-१०४ ॥

देवानां तु महेशानि हायनद्वितयं भवेत् ।
दक्षिणाख्यो भवेद्रात्रिस्तदन्यो दिवसो भवेत् ॥ २-१०५ ॥

कालिकाया महेशानि षष्टिशून्ये तु नाडिका ।
नाडिषष्टिभिरेवात्र दिवसः परिकीर्तितः ॥ २-१०६ ॥

एवं क्रमेण देवेशि सर्वदा शून्यमध्यगा ।
अविनाशी सदा स्याता कोटिब्रह्माण्डचर्वणा ॥ २-१०७ ॥

राजदन्तद्वये देवि ब्रह्माण्डानामनन्तकम् ।
स्थूलसूक्ष्मप्रभेदेन द्विविधं परिकीर्तितम् ॥ २-१०८ ॥

कालनित्या महेशानि सर्वदा व्याप्य तिष्ठति ।
विंशत्साहस्रकं सप्तशती षट्त्रिंशदीरिता ॥ २-१०९ ॥

कालनित्या महेशानि परमाण्वादिरूपिणी ।
पलमध्ये घटीमध्ये कालनित्या प्रकीर्तिता ॥ २-११० ॥

सपादघटिकारूपा सप्त वै वासराः स्मृताः ।
मुहूर्तरूपो देवेशि पक्षश्चात्र प्रकीर्तितः ॥ २-१११ ॥

तद्द्वयेन भवेन्मासस्तद्द्वयं ऋतुरेव च ।
तत्त्रयं त्वयनं देवि तद्द्वयं हायनं भवेत् ॥ २-११२ ॥

प्रत्येकं व्याप्य देवेशि कालनित्या प्रकीर्तिता ।
परमाणुं समारभ्य हायनान्तं महेश्वरि ॥ २-११३ ॥

कालनित्या च संव्याप्य तिष्ठति परमेश्वरि ।
मुहूर्ताख्यपदे देवि नाडीद्वयमुदीरितम् ॥ २-११४ ॥

मुख्यमानेन देवेशि सार्द्धनाडीद्वयं भवेत् ।
दिनसपकमध्ये तु देवेशि वासराः स्मृताः ॥ २-११५ ॥

दिनपंचदशान्तं च तथा मासान्तकं शिवे ।
ऋत्वन्तमयनान्तं च हायनान्तं महेश्वरि ॥ २-११६ ॥

स्थूलमानमिदं प्रोक्तं शृणु पारायणक्रमम् ।
दिनतो वारतः पक्षात् मासात् षट्त्रिंशता दिनैः ॥ २-११७ ॥

स्थूलसूक्ष्मप्रभेदेन राशिलग्नादिकं भवेत् ।
तथा ग्रहादिकं देवि सर्वमेतत् प्रवर्तते ॥ २-११८ ॥

यः संक्रमो विद्यमानः स राशिः प्रातरेव तु ।
सूक्ष्मा राशिरियं प्रोक्ता प्रेतानां त्वनुराशिका ॥ २-११९ ॥

पलमात्रं भवेल्लग्नं स्थूले तु षष्ठिनाडिभिः ।
पललग्नं घटीलग्नं मुहूर्तं प्रहरे शिवे ॥ २-१२० ॥

त्रिंशन्नाडीक्रमेणैव दिवारात्रिक्रमेण च ।
लग्नमेतत्त्रिधा प्रोक्तं राशिसंक्रममूलतः ॥ २-१२१ ॥

लग्नं तात्कालिकं प्रोक्तं चतुर्धाऽत्र ग्रहाः शिवे ।
मुनिनन्दरवीन्द्रैश्च स्थूलसूक्ष्मप्रभेदतः ॥ २-१२२ ॥

सूर्योदये तु यो वारस्तद्वारश्च ग्रहात्ततः ।
पलनाडीक्रमेणैव ग्रहाणां परिवर्तनम् ॥ २-१२३ ॥

सूर्योदये तु यो वारस्तद्वारो वासरः स्मृतः ।
अहोरात्रं घटी देवि पलयाममुहूर्तकैः ॥ २-१२४ ॥

ब्रह्मादिदेवजातीनां यो भोगो वर्षमात्रतः ।
मनुष्याणां स भोगो हि वारस्तत्र भवेत् शिवे ॥ २-१२५ ॥

सूक्ष्ममानेन देवेशि स भोगः परिवर्तते ।
सूक्ष्मज्ञानं समासाद्य स्थूलज्ञानं ततश्चरेत् ॥ २-१२६ ॥

तत्कालोदयवर्णस्य कालनित्याविधौ शिवे ।
संयोगश्च प्रकर्तव्यः सा प्रोक्ता तूदयाक्षरी ॥ २-१२७ ॥

उदयाक्षरसंयोगः कालनित्याविधौ शिवे ।
गुणनेन चरेद्देवि सा तु कालेश्वरी भवेत् ॥ २-१२८ ॥

दिगक्षरस्य संयोगः कालनित्याविधौ यदा ।
तदा दिगीश्वरी प्रोक्ता त्वरितं फलदायिनी ॥ २-१२९ ॥

पृच्छकाद्वर्णसंयोगात् कालनित्याविधौ यदा ।
तदा जीवेश्वरी प्रोक्ता सर्वजीवप्रसाक्षिणी ॥ २-१३० ॥

तथा मासक्रमेणैव मासः पंचविधो भवेत् ।
चान्द्रसावननाक्षत्रसौरबार्हस्पतक्रमात् ॥ २-१३१ ॥

पौर्णिमात् पौर्णिमान्तो हि चान्द्रमासः प्रकीर्तितः ।
चन्द्रदर्शात् चंद्रदर्शं द्विधा चान्द्रः प्रकीर्तितः ॥ २- १३२ ॥

अमामारभ्य देवेशि पुनः सा वै यदा भवेत् ।
सावनाख्यो महेशानि मासोऽयं च प्रकीर्तितः ॥ २-१३३ ॥

ऋक्षादृक्षं समारभ्य नाक्षत्रः कीर्तितः शिवे ।
संक्रमान्तं च देवेशि सौर इत्यभिधीयते ॥ २-१३४ ॥

बार्हस्पत्यभिधो मासः षट्त्रिंशद्दिवसात्मकः ।
नित्या षोडशभिर्देवि मासः षोडशकं भवेत् ॥ २-१३५ ॥

अष्टादशदिनैर्देवि पक्षश्चात्र प्रकीर्तितः ।
तद्द्वयैर्मास इत्युक्तस्तत्क्रमं शृणु पार्वति ॥ २-१३६ ॥

पूजाक्रमे महेशानि नित्या षोडशमण्डलम् ।
नित्याषोडशकं देवि शान्तिः सप्तदशी शिवे ॥ २-१३७ ॥

शान्त्यतीता तदन्ते स्यादेवमष्टादश प्रिये ।
नन्हासो न च वृद्धिश्च नित्यादिवसमण्डले ॥ २-१३८ ॥

उदयार्णक्रमेणैव सम्पूर्णो दिवसो भवेत् ।
तुर्यमासो महेशानि पंचाशद्दिवसात्मकः ॥ २-१३९ ॥

वर्णमासाभिधः प्रोक्तः प्रत्यहं वर्णमात्रकः ।
चत्वारिंशत्तथाष्टौ च ऊनपंचाशदेव वा ॥ २-१४० ॥

पंचाशन्मातृकावर्णान्मण्डलं त्रिविधं स्मृतम् ।
पूर्वं बटुकसंमत्या द्वितीये कालसम्मतिः ॥ २-१४१ ॥

द्वितीये त्रिविधत्वं च कीर्तितं परमेश्वरि ।
इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि ॥ २-१४२ ॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यतारासंवादे कालनित्याविधिर्नाम द्वितीयः पटलः ॥ २ ॥

Paṭala 3

श्रीदेव्युवाच ।


देवेश श्रोतुमिच्छामि भूतादियुगनिर्णयम् ।


श्रीशिव उवाच ।


रहस्यातिरहस्यं च संक्षेपात् कथ्यते शृणु ॥ ३-१ ॥

ब्रह्मणोत्पत्तिमारभ्य वर्तमानदिनावधिः ।
अहर्गणस्य विज्ञानं सिद्धान्तः परिकीर्तितः ॥ ३-२ ॥

कलेराररम्भदिवसात् वर्तमानदिनावधिः ।
अहर्गणस्य विज्ञानं तन्त्रमित्यभिधीयते ॥ ३-३ ॥

युगादिदिनमारभ्य शकाहान्तं महेश्वरि ।
अहर्गणस्य विज्ञानं करणं कीर्तितं मया ॥ ३-४ ॥

कृतादीनां युगानां तु दिनेष्वेकैकशः क्रमात् ।
दिननित्या भवेत्तत्र स दिनं प्रतिवासरम् ॥ ३-५ ॥

आदौ कलावतीते तु वर्षेष्वेकादशस्वथ ।
वर्षे द्वादशमे मासे चैत्राख्ये नवमीतिथौ ॥ ३-६ ॥

वारे रबेरतीते च नाथे विश्वेशसम्भवे ।
तदारभ्योदयक्षान्ता वर्णाः षट्त्रिंशदात्मकाः ॥ ३-७ ॥

युगवासरभेदेन वर्तन्ते परमेश्वरि ।
स्वराः षोडशभिस्तान्तु गणयेदक्षरं प्रति ॥ ३-८ ॥

एकैकस्वरयुक्तेन वर्णेनावान्तरो युगः ।
मवान्तरयुगा ज्ञेया दिवसा वर्णसंख्यया ॥ ३-९ ॥

क्रमात् षट्त्रिंशद्वर्णाः स्युः प्रत्येकं प्रतिवासरम् ।
युगैः षोडशभिस्त्वेवमेको वर्णो युगो मतः ॥ ३-१० ॥

षत्सप्तत्युत्तरैः पंचशतसंख्यैश्च वासरैः ।
एतैर्वर्णयुगैः प्रोक्तः षट्त्रिंशद्भिर्महायुगः ॥ ३-११ ॥

सहस्राणां च विंशत्या षट्त्रिंशदधिकैः शतैः ।
सप्तभिश्च दिनानां तु संख्या प्रोक्ता महायुगे ॥ ३-१२ ॥

आ ई पल्लवितेत्यत्र सिद्धा वर्णात्र सूचिताः ।
वसराः सप्तपंचाशत् मासाः सप्त दिनानि षट् ॥ ३-१३ ॥

कलेनैव वत्सराणां एकपर्याय ईष्यते ।
पर्यायश्च कलौ सप्त सहस्राणि ततः परम् ॥ ३-१४ ॥

एकादशोत्तरत्वं च षट्शतानि भवन्तिहि ।
इदं संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि ॥ ३-१५ ॥


श्रीदेव्युवाच ।


देवेश श्रोतुमिच्छामि पीठानां तु विनिर्णयम् ।
यस्य विज्ञानमात्रेण साधकः सिद्धिमाप्नुयात् ॥ ३-१६ ॥


श्रीशिव उवाच ।


पीठं तु पंचधा प्रोक्तं पंचायतनमार्गतः ।
सा(?)सोपानसंयुक्तं मेरुकैलासमार्गतः ॥ ३-१७ ॥

सिद्धक्रान्तं च देव्यां वै शैवे वृषभरूपकम् ।
वैष्णवे गरुडाक्रान्तं गजाक्रान्तं च गाणपे ॥ ३-१८ ॥

हंसाक्रान्तं सौरमन्त्रे काल्यां प्रेतसमन्वितम् ।
नवसोपानसंयुक्तं सुन्दर्याः पीठमीरितम् ॥ ३-१९ ॥

सोपानेन समायुक्तमङ्गुलोत्सेधमेव च ।
इति पीठं मया प्रोक्तं ऋतुशाम्भवकं शृणु ॥ ३-२० ॥

चैत्रादिमासमारभ्य फाल्गुनान्तं महेश्वरि ।
वसन्तादि समारभ्य हेमन्तान्तं महेश्वरि ॥ ३-२१ ॥

ऋतुषट्कं मया प्रोक्तं अत्रैवं शाम्भवक्रमः ।
कृष्णशुक्लपक्षयोगात् द्विमासे षष्टिवासराः ॥ ३-२२ ॥

षष्टिषट्कप्रयोगेन त्रिशतं षष्टिरश्मयुः ।
मधुकृष्णा वसन्ताख्या प्रतिपत् परिकीर्तिता ॥ ३-२३ ॥

मधुकृष्णा वसन्ताख्या द्वितीया परिकीर्तिता ।
एवं क्रमेण देवेशि शुक्लपक्षेऽपि योजयेत् ॥ ३-२४ ॥

माधवकृष्णप्रतिपद् द्वितीया च ततः शिवे ।
एवं शुक्लक्रमेणैव सर्वत्र विनियोजनम् ॥ ३-२५ ।

अथवाऽन्यक्रमेणैव शाम्भवं शृणु साम्प्रतम् ।
षट्पंचाशन्महापुर्य पार्थिवे परिकीर्तिताः ॥ ३-२६ ॥

जलग्रामा महेशानि द्विपंचाशत् प्रकीर्तिताः ।
आग्नेयरश्मयो देवि द्विषष्टिरिति कीर्तिताः ॥ ३-२७ ॥

वायव्यग्रामा देवेशि चतुःपंचाशदीरिताः ।
अथ नाभसग्रामाणां संख्या द्विसप्ततिर्भवेत् ॥ ३-२८ ॥

अथ मानसग्रामाणां संख्यां शृणु महेश्वरि ।
चतुःषष्टिरिति प्रोक्ता क्रमात् षट्शाम्भवे भवेत् ॥ ३-२९ ॥

श्रीपुरादिमहापुर्यः पार्थिवाख्ये प्रकीर्तिताः ।
षट्शाम्भवादिग्रामाणां संख्यामग्रे प्रकथ्यते ॥ ३-३० ॥

प्रत्येकं चैव नामानि कथ्यन्ते सिद्धिकेरले ।
पूर्वं संसूचितं ते यत्तदद्य कथ्यते शृणु ॥ ३-३१ ॥

गोपनीयं महेशानि स्वयोनिरपरा यथा ।
श्रीकाल्युपासका ये च तत् कुलं परिकीर्तितम् ॥ ३-३२ ॥

तेषां समूहो देवेशि कुलं संकीर्तितं मया ।
कालीविद्योपासकैस्तु कुलपूजाविधौ शिवे ॥ ३-३३ ॥

गन्तव्यं यत्नतो देवि नान्यत्र प्रव्रजेत्क्वचित् ।
अन्यत्र यदि वै गच्छेत्तदुच्छिष्टं भवेच्छिवे ॥ ३-३४ ॥

यस्य या देवता प्रोक्ता सा तस्येष्टा प्रकीर्तिता ।
माध्वीकं पात्रमध्यस्थं तर्पणोच्छिष्टमेव तु ॥ ३-३५ ॥

उच्छिष्टतर्पणादेव देवताशापमाप्नुयात् ।
अत एव महेशानि बन्धनानि प्रजायते ॥ ३-२६ ॥

एवं सर्वं तु विज्ञाय सङ्गं त्यक्त्वा सुखी भवेत् ।
एतच्चक्रे महेशानि गच्छेच्चैव कुलाकुलम् ॥ ३-३७ ॥

रहस्यं तु महेशानि पूजान्ते शृणु सादरम् ।
घटस्यशुद्धिसहितं तृतीयादि सपंचमम् ॥ ३-३८ ॥

देव्यै निवेद्यते देवि तदन्ते वीरभोजनम् ।
तद्वीरभोजने देवि स्वदेवतर्पणं भवेत् ॥ ३-३९ ॥

उच्छिष्टेन महेशानि कथं तु तर्पणं भवेत् ।
एतदज्ञानतो देवि देवताशापमाप्नुयात् ॥ ३-४० ॥

जाते तु देवताशापे बन्धनं जायते ध्रुवम् ।
कुलाकुलमिदं प्रोक्तमकुलं शृणु पार्वति ॥ ३-४१ ॥

सुन्दरी भैरवी धूम्रा त्वकुलत्वेन कीर्तिता ।
अकुलास्तु महेशानि तत्पूजायां व्रजेत् सदा ॥ ३-४२ ॥

तैर्नान्यत्र प्रगन्तव्यं इति संक्षेपतो मतम् ।
प्रमादात् यदि गच्छेद्वै तेषां शापो भवेद् ध्रुवम् ॥ ३-४३ ॥

पूर्णाभिषेकराहित्यं वीरपक्षे मतं शिवे ।
पूर्णचक्रे महेशानि पूर्णचक्री भवेद् ध्रुवम् ॥ ३-४४ ॥

ऊर्ध्वाम्नाये महेशानि ऊर्ध्वाम्नायी व्रजेत् सदा ।
निर्वाणदीक्षितो देवि निर्वाणपूजने व्रजेत् ॥ ३-४५ ॥

षट्शाम्भवक्रमे देवि शाम्भवार्चाविधौ व्रजेत् ।
मेधादीक्षाविधौ देवि नेदं मानं मयेरितम् ॥ ३-४६ ॥

सिद्धरूपे महेशानि स्वेच्छया कर्म वा चरेत् ।
गौडदक्षिणकाश्मीरसम्प्रदायक्रमाद्भवेत् ॥ ३-४७ ॥

गौडे सर्वत्र गमनं कीर्तितं तु मया तव ।
षडाम्नाये महेशानि काश्मीरे गमनं भवेत् ॥ ३-४८ ॥

कुलाकुलविभेदेन केरले गमनं भवेत् ।
पूणाभिषेकयुक्तानां सर्वत्र गमनं शुभम् ॥ ३-४९ ॥

पूर्णाभिषेकी देवेशि यस्मिन् देशे विराजते ।
स देशो धन्यतां याति समन्ताल्लक्षयोजनम् ॥ ३-५० ॥

पूर्णाभिषेकयुक्तानां शक्तिपातः प्रजायते ।
अयोग्यस्यापि कालेन कालीविद्यारतस्य च ॥ ३-५१ ॥

चतुःषष्टिविधौ देवि शक्तिपातो भवेत् ध्रुवम् ।
नीलसारस्वते तन्त्रे पंचधा परिकीर्तितः ॥ ३-५२ ॥

श्रीसुन्दर्या महेशानि शक्तिपातोऽष्टधा भवेत् ।
छिन्नाविद्याविधौ देवि शक्तिपातश्चतुर्विधः ॥ ३-५३ ॥

बगलाद्यासु विद्यासु शक्तिपातो द्विधा भवेत् ।
वैष्णवाद्यागमे देवि शक्तिपातस्तु पंचधा ॥ ३-५४ ॥

इति संक्षेपतः प्रोक्तं रहस्यं सादरं शृणु ।
शक्तिं विना महेशानि पूजनं यः समचरेत् ॥ ३-५५ ॥

स दरिद्रो मम द्रोही तस्य नाशो भविष्यति ।
शक्तिशिवात्म्यमासाद्य पूजनं समुपाचरेत् ॥ ३-५६ ॥

एवं यः कुरुते मर्त्यः स शिवो नात्र संशयः ।
शक्तेस्तु पूजनं कार्यं दिव्यभावफलाप्तये ॥ ३-५७ ॥

इति संक्षेपतः प्रोक्तं पात्रभेदं शृणु प्रिये ।
रसवेदमितैः पात्रैः संख्या सर्वोत्तमा भवेत् ॥ ३-५८ ॥

कलासंख्यामितैः पात्रैः संख्या प्रोक्ता तु मध्यमा ।
नाथसंख्यामितैः पात्रैः संख्या प्रोक्ता कनिष्ठिका ॥ ३-५९ ॥

बाणसंख्यामितैः पात्रैः संख्या सामान्यकर्मणि ।
केरलश्चैव काश्मीरो गौडश्चैव तृतीयकः ॥ ३-६० ॥

केरलाख्यमते देवि वारिपात्रं तु दक्षिणे ।
काश्मीरे तर्पणे भेदो गौडे वामकरे भवेत् ॥ ३-६१ ॥

देवीप्रणवनामा च निर्गुणप्रणवस्तथा ।
बगला कमला वाणी पराद्याश्च शतोत्तराः ॥ ३-६२ ॥

अथातः संप्रवक्ष्यामि निर्णयं प्रणवस्य च ।
कलापञ्चकसंयुक्तस्तत्क्रमं शृणु पार्वति ॥ ३-६३ ॥

अकारश्च उकारश्च मकारश्च तृतीयकः ।
नादश्चतुर्थो गदितः पंचमो बिन्दुरीरितः ॥ ३-६४ ॥

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते पञ्च महाप्रेताः प्रणवं च समाश्रिताः ॥ ३-६५ ॥

शृणु यत्नेन देवेशि कलासप्तकरूपिणम् ।
कलासप्तस्वरूपं च पञ्चधा भेद ईरितः ॥ ३-६६ ॥

अकारश्च उकारश्च मकारश्च तृतीयकः ।
नादबिन्दुस्ततो देवि नादातीतस्ततो भवेत् ॥ ३-६७ ॥

बिन्द्वतीता सप्तमी स्याच्छाम्भवी परिकीर्तिता ।
शक्तीः शृणु महेशानि किमितोऽपि रहस्यकम् ॥ ३-६८ ॥

अकारश्च उकारश्च् मकारश्च तृतीयकः ।
नादश्च तदतीतश्च बिन्दुश्चैव ततः परम् ॥ ३-६९ ॥

बिन्द्वतीता सप्तमी स्यादेवं शक्तिकला शिवे ।
शाक्तशक्ति क्रमेणैव कलासप्तकमीरितम् ॥ ३-७० ॥

आदौ परा विनिर्दिष्टा ततश्चैव परात्परा ।
तदतीता तृतीया स्यात् चित्परा च चतुर्थिका ॥ ३-७१ ॥

तत्परा पञ्चमी ज्ञेया तदतीता रसाभिधा ।
सर्वातीता सप्तमी स्यादेवं सप्तविधाः कलाः ॥ ३-७२ ॥

पञ्च क्रमेण देवेशि शृणु सप्तकलासतीम् ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ३-७३ ॥

शान्तिश्च तदतीता च कलासप्तकमीरितम् ।
चतुष्टयं तु कशिपुः मृतकश्च सदाशिवः ॥ ३-७४ ॥

ब्रह्मादयश्चतुष्पादाः कशिपुस्तु सदाशिवः ।
आच्छादनं तु कामेशस्तत्रस्था सुन्दरी कला ॥ ३-७५ ॥

प्रणवः सुन्दरीरूपः कलासप्तकसंयुतः ।
पञ्चप्रणवयोगे तु कलासप्तकपञ्चके ॥ ३-७६ ॥

सप्ततारेति विख्याता कथिता पूर्वमेव तत् ।
हंसरूपा कामकला तत्स्वरूपं निगद्यते ॥ ३-७७ ॥

हकारेण बहिर्याति सकारेण विशेत् पुनः ।
हकारस्य सकारस्य लोपे कामकला भवेत् ॥ ३-७८ ॥

पक्षद्वयेन रहितो हंसः कामकला भवेत् ।
सोऽहमेतस्य देवेशि रूपं कामकलाभिधम् ॥ ३-७९ ॥

सोऽहमित्यत्र देवेशि प्रणवः परिनिष्ठितः ।
जीवः पक्षद्वयत्यागात् प्रणवः परिकीर्त्तितः ॥ ३-८० ॥

पराप्रासादविद्यायां एवमेव प्रकीर्तितम् ।
पक्षद्वयं सकारे च गगनेऽपि द्वयं भवेत् ॥ ३-८१ ॥

रकारद्वययोगे तु सकारोत्पत्तिरीरिता ।
ईकारैकारयोगे तु हकारः कीर्तितो मया ॥ ३-८२ ॥

अत एव महेशानि चतुःपक्षस्वरूपिणी ।
चतुश्चरणरूपा च परा प्रासाददेवता ॥ ३-८३ ॥

आद्ये आद्यं परित्यज्य चरमे तु तदन्तकम् ।
पक्षद्वयेन संत्यक्तः प्रणवः परिकीर्त्तितः ॥ ३-८४ ॥

रकारः प्रथमः पक्षस्त्वेकारस्तु द्वितीयकः ।
मायाबीजादिके देवि रतिबीजादिकेऽपि च ॥ ३-८५ ॥

प्रणवस्य समुत्पत्तिर्वर्तते प्रियवादिनि ।
अर्द्धनारीश्वरो देवि हकारः परिकीर्तितः ॥ ३-८६ ॥

शक्तिबीजं तथा प्रोक्तं शृणु कामकलां शिवे ।
ईकारार्द्धमतं बिन्दुमुखं भानुरधोगतम् ॥ ३-८७ ॥

स्तनौ दहनशीतांशुर्योनिर्हार्द्धं कला भवेत् ।
हकारार्द्धपदे देवि ईकारैकारमीरितम् ॥ ३-८८ ॥

मुखं बिन्दुर्महेशानि तदधस्तु कुचद्वयम् ।
हकारार्द्धकलारूपं योनिचक्रं विदुः प्रिये ॥ ३-८९ ॥

अधोबिन्दुर्महेशानि परारूपः प्रकीर्त्तितः ।
योनिबिन्दुर्महेशानि तत्परारूपवान् भवेत् ॥ ३-९० ॥

कुचबिन्दुर्महेशानि तदतीता प्रकीर्तिता ।
चित्परा तु द्वितीयस्तु तदतीता मुखे भवेत् ॥ ३-९१ ॥

सर्वातीता चण्डरूपा बीजादूर्ध्वं व्यवस्थिता ।
वाच्यातीतां कलां विद्धि ईकारोर्ध्वकलां शिवे ॥ ३-९२ ॥

इति कामकलारूपं कीर्त्तितं तु मया तव ।
अन्यच्चैव शकारन्तु शक्तिद्वयपुटं भवेत् ॥ ३-९३ ॥

रकारस्तु महेशानि काली कामकला मनुः ।
काली कामकला देवि मुख्या हंसगता भवेत् ॥ ३-९४ ॥

इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि ।


श्रीशिव उवाच ।


गृहवास्तुं प्रवक्ष्यामि येन देव मयो भवेत् ॥ ३-९५ ॥

ईशानादिनिर्-ऋत्यन्तं वास्तुसर्पः प्रकीर्त्तितः ।
वायवादिवह्निपर्यन्तं सर्पहस्तद्वयं भवेत् ॥ ३-९६ ॥

पैत्र्यां पादयुगं देवि ऐशान्यां शिर एव च ।
सर्पगात्रमिदं प्रोक्तं ज्ञात्वा कर्माणि कारयेत् ॥ ३-९७ ॥

शिरोघाताद्भवेन्मृत्युः पुच्छे सर्वार्थनाशनम् ।
पिण्डिकायां भवेद्दुखं क्रोडे सर्वार्थसाधनम् ॥ ३-९८ ॥

चलस्थिरप्रभेदेन द्विधा वास्तु प्रकीर्तितम् ।
नैर्-ऋत्यां पूजयेद्देवि वास्तुसर्पगृहाधिपम् ॥ ३-९९ ॥

वास्तुपूजां विधायाथ कूर्मं ज्ञात्वा प्रयत्नतः ।
स्थानसंशोधनं कृत्वा स्वयं तु व्रतवान् भवे ॥ ३-१०० ॥

परात्रं(?) च(?) परद्रव्यं तथैव तु प्रतिग्रहम् ।
परत्री परनिन्दां च मनसाऽपि विवर्जयेत् ॥ ३-१०१ ॥

जिह्वादग्धा(?) परान्नेन करौ दग्धौ प्रतिग्रहात् ।
मनो दग्धं परस्त्रीभिः कथं सिद्धिर्वरानने ॥ ३-१०२ ॥

प्रतिग्रहं(?) महेशानि सर्वथा परिवर्जयेत् ।
प्रतिग्रहोत्थपापं(?) तु शृणु यत्नेन शाम्भवि ॥ ३-१०३ ॥

मृते तु नरकं यायात् स्वस्वकर्मानुसारतः ।
भोगोत्तरं(?) महेशानि पितृलोकं व्रजन्ति ते ॥ ३-१०४ ॥

ततो व्रजन्ति ते देवि सूर्यलोकं प्रतिग्रही ।
तत चन्द्र(?)पुरं गच्छेत् ततश्चन्द्रत्वतां व्रजेत् ॥ ३-१०५ ॥

भारत्वं(?) प्राप्य(?) देवेशि भूमौ वर्षति योगतः ।
पूर्वदत्तं तदन्नं हि इह प्रत्यक्षगोचरम् ॥ ३-१०६ ॥

दत्तं विना महेशानि न पूर्त्तिः क्वापि दृश्यते ।
तदन्नं भाण्डगोपेन चाग्नौ दाहत्वतां व्रजेत् ॥ ३-१०७ ॥

पाके तूदरपूर्त्त्यर्थं भुज्यते सर्वजन्तुभिः ।
यावत्तु पूर्वजनुषि दत्तं दापितमेव तु ॥ ३-१०८ ॥

तदेव प्राप्यते देवि नादत्तमुपतिष्ठते ।
नाधिकं न च वै न्यूनं प्राप्यते जन्तुभिः क्वचित् ॥ ३-१०९ ॥

तदन्नं देवदेवेशि तस्य विष्ठात्वतां व्रजेत् ।
तत्र देवि कृमिर्भूत्वा तदन्ते(?) चान्ययोनिभाक् ॥ ३-११० ॥

प्रतिग्रहं परित्यज्य मन्त्रसिद्धिं समाचरेत् ।
जातसूतकमादौ स्यात्तदन्ते मृतसूतकम् ॥ ३-१११ ॥

सूतकद्वयसंयुक्तः स मन्त्रो नैव सिध्यति ।
जन्मसूतकजं देवि संस्कारदशकं शिवे ॥ ३-११२ ॥

जननादिषु गुप्तान्तं संस्कारदशकं शिवे ।
दिवसा दश वै देवि सूतके परिकीर्तिताः ॥ ३-११३ ॥

दशसंस्कारयोगेन जातसूतकवारणम् ।
जपादिभोजनातं हि दशाङ्का(?) तु पुरस्क्रिया ॥ ३-११४ ॥

मृत सूतकमेतद्धि दशाहं(?) सूतकं मतम् ।
जीवहीनो यथा देही सर्वकर्म्मसु न क्षमः ॥ ३-११५ ॥

पुरश्चरणहीनो हि तथा मन्त्रः प्रकीर्त्तितः ।
द्वितीयं तु मया प्रोक्तं किमन्यत् श्रोतुमिच्छसि ॥ ३-११६ ॥


श्रीदेव्युवाच ।


विश्वेश श्रोतुमिच्छामि चक्रमष्टाष्टकाभिधम् ।
रहस्यातिरहस्यं च वद मे करुणानिधे ॥ ३-११७ ॥


ईश्वर उवाच ।


रहस्यातिरहस्यं हि कथ्यते गोपनं कुरु ।
उत्तमं मध्यमं चैव तृतीयमधमं भवेत् ॥ ३-११८ ॥

उत्तमं शिवचक्रं स्यान्मध्यमं वैष्णवं भवेत् ।
अधमं कामचक्रं स्याज्जीवचक्रमिति स्मृतम् ॥ ३-११९ ॥

जीवचक्रं तथा प्रोक्तं जीवमेरुस्तथा त्वयम् ।
पंक्त्याकारेण देवेशि चक्राकारेण वा जपेत् ॥ ३-१२० ॥

बिन्दुस्थाने स्वयं स्थित्वा निर्विकल्पो जितेन्द्रियः ।
अविकारं समासाद्य पूजां कुर्ययात्प्रयत्नतः ॥ ३-१२१ ॥

विकारी जायमानस्तु साधको नश्यति ध्रुवम् ।
त्रिशतं षष्टि देवेशि देव्यावरणशक्तयः ॥ ३-१२२ ॥

पञ्चविंशति देवेशि पञ्चिकाशक्तयः क्रमात् ।
षट् षड्दर्शने प्रोक्ता षडाम्नाये तु षड्भवेत् ॥ ३-१२३ ॥

द्विसप्ततिर्महेशानि निर्वाणशक्तयः स्मृताः ।
त्रिशतंषष्टि देवेशि शाम्भवक्रमरश्मयः ॥ ३-१२४ ॥

योगिनीनां चतुःषष्टिकोटिरुक्ता महेश्वरि ।
षोढान्यासोदिताशेषशक्तयो याः प्रकीर्तिताः ॥ ३-१२५ ॥

प्रतिशक्तौ महेशानि कोटिसंख्या प्रकीर्तिता ।
तदष्टगुणितं कुर्यादष्टकं कीर्तीतं मया ॥ ३-१२६ ॥

सर्वत्राष्टगुणं कुर्याद्भवेदष्टाष्टकं क्रमात् ।
शैवाष्टकमिदं प्रोक्तं शम्भुसाध्यं न चान्यथा ॥ ३-१२७ ॥

प्रत्येकमष्टकोटिर्वा कलाकोटिश्च वा प्रिये ।
श्रीविद्यायां कनिष्ठं स्यान्निर्वाणे मध्यमं भवेत् ॥ ३-१२८ ॥

षट्शाम्भवादिमेधान्तदीक्षायां परमेश्वरि ।
उत्तमः कथितो देवि क्रमस्त्वष्टाष्टकाभिधः ॥ ३-१२९ ॥

अष्टाष्टकं वैष्णवाख्यं कथ्यते शृणु साम्प्रतम् ।
आवृत्तिशक्तयो देवि त्रिशतं षष्टि कीर्तिताः ॥ ३-१३० ॥

प्रत्तिशक्तौ त्वष्टशक्तिः पूजयेद्यत्नतः शिवे ।
द्विसहस्रं चाष्टशती त्वशीतिः शक्तयोः मताः ॥ ३-१३१ ॥

प्रत्येकाष्टगुणं चक्रं प्रोक्तमष्टाष्टकं त्विदम् ।
अष्टाष्टकमिदं प्रोक्तं पूर्वमष्टगुणं यदा ॥ ३-१३२ ॥

तदानन्दभैरवाख्यं प्रोक्तमष्टाष्टकं शिवे ।
लक्षद्वयं महेशानि चत्वारिंशत्सहस्रकम् ॥ ३-१३३ ॥

एतद्द्विगुणितं देवि चतुर्लक्षं महेश्वरि ।
षष्टिसाहस्रकं देवि अशीतिः शक्तयो मताः ॥ ३-१३४ ॥

द्विशतं विंशतिरिति त्वानन्दाष्टकमीरितम् ।
चतुर्विंशतिसाहस्रं चत्वारिंशतिशक्तयः ॥ ३-१३५ ॥

आवृत्तौ तु महेशानि त्रिशतं षष्टिरश्मयः ।
एवमेकं पूजनं तु त्वष्टावरणसंयुतम् ॥ ३-१३६ ॥

एकाष्टकमिदं प्रोक्तमेवमष्टाष्टकं भवेत् ।
द्विसहस्रं चाष्टशतमशीतिः शक्तयो भवेत् ॥ ३-१३७ ॥

अष्टाष्टकमिदं प्रोक्तं पञ्चपञ्चक्रमेण तु ।
पूर्णाभिषेकसंयुक्तस्तूर्ध्वाम्नायप्रदीक्षितः ॥ ३-१३८ ॥

षट्शाम्भवक्रमे देवि कुर्यादष्टाष्टकं क्रमात् ।
अष्टाष्टकस्य विज्ञानी शिव एव न संशयः ॥ ३-१३९ ॥

शिरो देयं धनं देयं देया स्त्रीर्यत्नतः शिवे ।
वसुपूर्णं गृहं देयं त्विदं साधनमुत्तमम् ॥ ३-१४० ॥

रहस्यातिरहस्यं हि गोप्याद्गोप्यं महेश्वरि ।
प्रोक्तमेतन्मया देवि किमन्यच्छ्रोतुमिच्छसि ॥ ३-१४१ ॥

एतस्य फलबाहुल्यं मया वक्तुं न शक्यते ।
स्त्रियो देवाः स्त्रियः सृष्टिः स्त्रियः कल्याणकारिणी ॥ ३-१४२ ॥

स्त्रीरूपं तु महेशानि यत्किंचिज्जगतीतले ।
एका चेत् युवती पूज्या समस्तं जगतीतलम् ॥ ३-१४३ ॥

स्त्रीणां दर्शनमात्रेण जगतीतलपूजनम् ।
कृतं भवति देवेशि नात्र कार्यया विचारणा ॥ ३-१४४ ॥

रूपं दृष्ट्वा तु प्रणमेद्रूपमानन्दकारकम् ।
रूपानन्दे समायाते किमन्यत्र प्रयोजनम् ॥ ३-१४५ ॥

रूपं रूपं परं धाम रूपं रूपं परं तपः ।
रूपं रूपं परं वस्तु न भूतं न भविष्यति ॥ ३-१४६ ॥

इति संक्षेपः प्रोक्तं किमन्यत् श्रोतुमिच्छसि ।


इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे उत्तरकेरले अष्टाष्टकनिरूपणं नाम तृतीयः पटलः ॥ ३ ॥

Paṭala 4

श्रीदेव्युवाच ।


अष्टाष्टकं त्वया प्रोक्तं सर्वसिद्धिकरं भुवि ।
किं सम्प्रदायमार्गेण पात्रज्ञानं च कीर्तितम् ॥ ४-१ ॥

तन्मे वद महादेव यद्यहं तव वल्लभा ।


श्रीशिव उवाच ।


रहस्य च प्रवक्ष्यामि ज्ञानं संकथ्यते शृणु ॥ ४-२ ॥

केरलश्चैव काश्मीरो गौडमार्गस्तृतीयकः ।
षट्पंचाशद्देशभेदात् सर्वत्र व्याप्य तिष्ठति ॥ ४-३ ॥

अष्टादशसु देशेषु गौडमार्गः प्रकीर्तितः ।
नेपालदेशमारभ्य कलिङ्गान्तं महे * *? ॥ ४-४ ॥

आर्यावर्त समारभ्य समुद्रा * * * * *? ।
केरलाख्यः क्रमः प्रोक्तस्तून विंशतिदेशके ॥ ४-५ ॥

तदन्यदेशे देवेशि काश्मीराख्यः क्रमः शुभः ।
शङ्करस्तु भवेद्बाह्यो वेदबाह्यो द्विजो यथा ॥ ४-६ ॥

केरलादिक्रमेणैव शृणु पात्रविनिर्णयम् ।
विश्वामित्रकपालं तु केरले परिकीर्तितम् ॥ ४-७ ॥

पात्रं तुम्बीकपालं तु काश्मीराख्यक्रमे भवेत् ।
महाकपालपात्रं च गौडमार्गे प्रकीर्तितम् ॥ ४-८ ॥

कपालं त्रिविधं प्रोक्तं सम्प्रदायक्रमेण च ।
महाकपालं त्रिविधं शंखशुक्तिकपर्द्दिकाः ॥ ४-९ ॥

कपर्द्दिकाभिधं पात्रं सर्वपात्रोत्तमोत्तमम् ।
सम्प्रदायक्रमेणैव महाकपालमीरितम् ॥ ४-१० ॥

सामान्यार्घ्ये स्फाटिकं स्याद्विश्वामित्रं विशेषजे ।
रौप्यमर्घ्ये महेशानि सौवर्ण गुरुपात्रकम् ॥ ४-११ ॥

भैरवे शुक्तिपात्रं च वीरे शङ्खाभिधं भवेत् ।
शक्तिपात्रं काचभावं योगिन्यां तु कपालम् ॥ ४-१२ ॥

बलिपात्रं ताम्रजं च पाद्यादीनि यथाक्रमात् ।
रत्नजानि महेशानि तदभावे तु पूर्ववत् ॥ ४-१३ ॥

केरलाख्यः क्रमः प्रोक्तः काश्मीरं शृणु पार्वति ।
सामान्यार्घ्यं महेशानि ताम्रजेन प्रकल्पयेत् ॥ ४-१४ ॥

विशेषार्घ्ये यत्र तुम्बी किंवा स्फटिकजं च वा ।
शुक्तिजं गुरुपात्रं च घटो रौप्यसमुद्भवः ॥ ४-१५ ॥

भैरवे तु कपालं स्याद्वीरे मुनिकपालजम् ।
स्फाटिकं शक्तिपात्रं च योगिन्यास्ताम्रजं भवेत् ॥ ४-१६ ॥

बलिपात्रं काचमवं शुक्तिजं पाद्यकर्म्मणि ।
अर्घ्याचमनकर्मादौ शङ्खजं परिकीर्तितम् ॥ ४-१७ ॥

अन्यानि ताम्रपात्राणि शर्करोत्थं तु भोगकम् ।
शुक्तिपात्रं गौडमार्गे सामान्यर्घ्ये च वा भवेत् ॥ ४-१८ ॥

विशेषार्घ्ये कपालाख्यमभावे स्फाटिकं भवेत् ।
स्वर्णोद्भवो घटः प्रोक्तो गुरुपात्रं तु रौप्यजम् ॥ ४-१९ ॥

भैरवाख्यं महेशानि नारिकेलाभिधं भवेत् ।
काचपात्रं वीरपात्रं शक्तौ तु शर्करोद्भवम् ॥ ४-२० ॥

रत्नपात्रं तु योगिन्यां बलिपात्रं तु कूर्म्मजम् ।
पाद्यादीनि महेशानि यथाकालेन धारयेत् ॥ ४-२१ ॥

भोगपात्रं तु काश्मीरे गौडे स्यादात्मपात्रकम् ।
दिव्य पात्रं केरले स्यादिति पात्रस्य निर्णयः ॥ ४-२२ ॥

विज्ञानकेरले देवि शृणु पात्रस्य निर्णयम् ।
शुक्तिपात्रं तु सामान्ये विशेषे नारिकेलजम् ॥ ४-२३ ॥

स्फाटिकं गुरुपात्रं च काचजन्यो घटो भवेत् ।
पात्रं तुम्बी भैरवस्य वीरपात्रं तु शार्करम् ॥ ४-२४ ॥

शक्तिपात्रं तु कापालं योगिन्यां ताम्रजं भवेत् ।
शङ्खजं वीरपात्रं च पाद्यपात्रं च ताम्रजम् ॥ ४-२५ ॥

रौप्यमाचमने प्रोक्तं स्वर्णमर्घ्यादिकर्मसु ।
अथार्घ्ये मधुपर्के च तथैवाचमने शिवे ॥ ४-२६ ॥

स्नानपात्रं रत्नजं स्याद्विज्ञानकेरले शिवे ।
केरले नारिकेलेन सर्वकार्याणि साधयेत् ॥ ४-२७ ॥

केवलं वीरपात्रेण सर्वपात्राणि कारयेत् ।
केवलं स्वर्णपात्रेण सर्वपात्राणि कारयेत् ॥ ४-२८ ॥

केवलं रौप्यपात्रेण सर्वपात्राणि कारयेत् ।
अथोक्तपात्रमध्ये तु एकेन सर्वकल्पनम् ॥ ४-२९ ॥

एकजातीयपात्रेण सर्वपात्राणि वा शिवे ।
कुर्ययाद्यत्नेन देवेशि सम्प्रदायक्रमेण च ॥ ४-३० ॥

कांस्यं लोहं तथा रौप्यं सौवर्णं परमेश्वरि ।
स्फाटिकं पारदोत्थं च तथा मारकतं शिवे ॥ ४-३१ ॥

रत्नवैडूर्यजं वापि नवरत्नभवं च वा ।
नारिकेलं महाशङ्खसम्भवं च यथोत्तरम् ॥ ४-३२ ॥

उत्तरोत्तरतः श्रेष्ठं सर्वसिद्धिप्रदायकम् ।
वृक्षेषु देवदेवेशि सर्वसिद्धिप्रदायकम् ॥ ४-३३ ॥

वृक्षेषु देवदेवेशि यद्यद्दारुभवं शिवे ।
श्रीफलोत्थं खड्गजं च यथायोगेन कारयेत् ॥ ४-३४ ॥

अश्वत्थपत्राकारं वा कुतपाकारमेव च ।
त्रिकोणरूपं यत् पात्रं कुतपः परिकीर्तितः ॥ ४-३५ ॥

योनिरूपं कलालास्यसन्निभं सुमनोहरम् ।
सुन्दर्यया रत्नजं पात्रं ताराच्छिन्नाविधौ स्मृतम् ॥ ४-३६ ॥

दलरूपं महेशानि मंत्रमात्रे प्रकीर्तितम् ।
अश्वत्थपत्राकारं तु विद्यापञ्चकगोचरम् ॥ ४-३७ ॥

क्रियानियुक्तं देवेशि त्रित्रिशक्तौ प्रकीर्त्तितम् ।
त्रिशक्तिस्त्रिविधा देवि त्रितयं त्रितयं त्रिषु ॥ ४-३८ ॥

त्रिकोणपात्रं देवेशि मन्त्रमात्रे प्रकीर्तितम् ।
वर्त्तुलं वैष्णवे प्रोक्तं सालम्बा शिवगोचरा ॥ ४-३९ ॥

कपालपात्राभावे तु विश्वामित्रकपालजम् ।
तदभावे महेशानि तद्रूपं धातुगोचरम् ॥ ४-४० ॥

कर्त्तव्यं यत्नतो देवि बगलायां च काचजम् ।
वामदक्षक्रमेणैव विपरीतं तथा भवेत् ॥ ४-४१ ॥

अथवा देवदेवेशि कपालं सर्वगोचरम् ।
यत्र तुम्बीकपालं तु प्रोक्तं कापालिके मते ॥ ४-४२ ॥

कपालपात्रं देवेशि नीलचीनक्रमे मते ।
अथवा देवदेवेशि महापात्रं कपर्द्दिकम् ॥

पात्रमध्ये कपर्द्दीशस्तत्र तिष्ठति पार्वति ।
त्वरितं सिद्धिदानत्वात् पञ्चविद्याविधौ स्मृतम् ॥ ४-४४ ॥

विश्वामित्रकपालं च ब्राह्मणस्य प्रकीर्त्तितम् ।
तदभावे महेशानि कुलपात्रसमं परम् ॥ ४-४५ ॥

अर्घ्यपात्रं शुभं विद्धि सर्वसिद्धिप्रदं शिवे ।
वर्षाणां तु चतुःषष्टिस्ताम्रार्घ्ये देवता स्थिता ॥ ४-४६ ॥

शतं वर्षाणि रौप्ये च सहस्रं स्वर्णपात्रके ।
दशसाहस्रकं देवि स्फटिके देवता स्थिता ॥ ४-४७ ॥

तथा मारकते देवि रत्नजे रत्नयुग्मकम् ।
विश्वामित्रकपाले तु लक्षवर्षाणि पार्वति ॥ ४-४८ ॥

कपालपात्रे देवेशि दशलक्षाणि पार्वति ।
खद्गजे दशसाहस्रं मौक्तिके विंशतिः प्रिये ॥ ४-४९ ॥

विश्वामित्रकपाले वा कपाले वा महेश्वरि ।
देवता वरदाः सर्वाः स एव परमेश्वरः ॥ ४-५० ॥

स धन्यः स च विज्ञानी स एव दर्शनी मतः ।
स सर्वयज्ञयाजी च सर्वविद्यारहस्यवित् ॥ ४-५१ ॥

स ब्रह्मवित् सर्वमन्त्ररहस्यरूप एव हि ।
आनन्दात्मा परात्मा सः सकलादिप्रभेदतः ॥ ४-५२ ॥

विश्वामित्रकपाले वा सर्वपात्राणि कारयेत् ।
कपद्दर्यां वा महेशानि सर्वपात्राणि कारयेत् ॥ ४-५३ ॥

एके कपाले देवेशि सर्वपात्राणि भावयेत् ।
विश्वामित्रकपालस्य कपालस्यापि पार्वति ॥ ४-५४ ॥

शिवशक्त्योर्यथा ज्ञानं नहि कोऽपि विजानते ।
तथा कपालविज्ञानं नहि कोऽपि विजानते ॥ ४-५५ ॥

कपर्द्दी च भवेद्यद्यत्तदेव नारिकेलतः ।
पात्रमालां यथा यन्त्रं कारयेत् परमेश्वरि ॥ ४-५६ ॥

तृतीयः स्फाटिको देवि सकलो निष्कलो मतः ।
सूर्ययाद्वह्निकरो देवि सकलः परिकीर्त्तितः ॥ ४-५७ ॥

पूर्वोत्तरप्रभेदेन चापरं सकलं शृणु ।
चन्द्रदर्शनमात्रेण पौर्णमायामथाश्विने ॥ ४-५८ ॥

सकलः कीर्त्तितो देवि जलस्रावी महोत्तमः ।
कालीं तारां तर्पयेद्धि तेनामृतजलेन च ॥ ४-५९ ॥

केरलाख्ये सम्प्रदाये नारिकेलार्घ्यपूजनम् ।
काश्मीराख्ये सम्प्रदाये स्फाटिकार्घ्यप्रपूजनम् ॥ ४-६० ॥

गौडमार्गे महेशानि कपालार्घ्ये प्रपूजनम् ।
काश्मीरगौडयोर्देवि द्रव्यभेदोऽस्ति वै क्वचित् ॥ ४-६१ ॥

नारिकेलं समादाय सुपक्वं सुन्दरं दृढम् ।
मध्ये स्फोटं समाचर्य नेत्रनासासुलक्षणम् ॥ ४-६२ ॥

नेत्रद्वयं तु संस्थाप्य चारुरूपं गुणोत्तरम् ।
नववर्णमयं कृत्वा पञ्चवर्णमयं च वा ॥ ४-६३ ॥

रौप्यनेत्रे स्वर्णनेत्रे नीलरत्नादिनेत्रके ।
समासाद्य महेशानि तत्र नासां समाचरेत् ॥ ४-६४ ॥

नेत्रयुग्मस्य मध्ये तु मुखं कार्यं महेश्वरि ।
ईदृशं सूक्ष्मरूपं च मालार्थे परिकीर्त्तितम् ॥ ४-६५ ॥

तद्रूपं स्फाटिकोत्थं च काश्मीराख्यमते मतम् ।
त्रिकोणयोनिरूपो वा स्फाटिकः शुभदायकः ॥ ४-६६ ॥

गौडे कपालं संप्रोक्तं नासायां मुखमाचरेत् ।
ऊर्ध्वाम्नायः केरलः स्यात् काश्मीरः पश्चिमो भवेत् ॥ ४-६७ ॥

विलासाख्यो वैष्णवाख्यो दक्षिणाम्नाय एव च ।
पूर्वे चैतन्य आख्यातस्तूत्तरे गौड एव च ॥ ४-६८ ॥

विद्यासङ्केतभेदाभ्यां कपालं तारिणीत्रयम् ।
महाशङ्खेऽप्यसक्तश्चेत् स्फाटिक्या मालया जपेत् ॥ ४-६९ ॥

कपालालाभतो देवि स्फाटिकं कारयेद्ध्रुवम् ।
पात्राणां निर्णयं वक्ष्ये संख्याभेदक्रमेण च ॥ ४-७० ॥

सम्प्रदायक्रमेणैव पात्राणां स्थापनं शिवे ।
महाकलाकलारन्ध्रवर्णेति वेद्य भावयेत् ॥ ४-७१ ॥

सामान्यार्घ्यो भवेदादौ सामान्यार्घ्यो द्विधा स्मृतः ।
सकलो निष्कलश्चैव सकलो द्वारपूजनात् ॥ ४-७२ ॥

निष्कलः केवलो यश्च निष्कलः सर्वगोचरः ।
सामान्यार्घ्यद्वयं देवि घटश्चैव तृतीयकः ॥ ४-७३ ॥

विशेषार्घ्यश्चतुर्थः स्याद्गुरुपात्रं तु पञ्चमम् ।
दिव्यौघाख्यं च संप्रोक्तं सिधौघाख्यं रसाभिधम् ॥ ४-७४ ॥

मानवौघाभिधं देवि सप्तमं परिकीर्त्तितम् ।
गुरुपात्रं ततः प्रोक्तं भैरवाख्यं च रन्ध्रकम् ॥ ४-७५ ॥

शक्तिपात्रं च दशमं वीरपात्रं शिवाभिधम् ।
ततः श्रीयोगिनीपात्रं सूर्ययसंख्याभिधं भवेत् ॥ ४-७६ ॥

नव वै बलिपात्राणि सकलादिप्रभेदतः ।
बल्यर्पणाभिधं पात्रं सकलं परिकीर्त्तितम् ॥ ४-७७ ॥

निष्कलानि महेशानि वटुकादीनि सिद्धयः ।
वटुको योगिनीक्षेत्रं गणपाः परमेश्वरि ॥ ४-७८ ॥

सर्वभूतानि देवेशि ताराक्षोभ्यस्तथैव च ।
पाद्यत्रयं तथा देवि प्रोक्तमाचमनीयकम् ॥ ४-७९ ॥

अर्घ्यपात्रत्रयं देवि मधुपर्के त्रयं भवेत् ।
पञ्चामृते पञ्चकं च स्नानार्थं गुणसंख्यकम् ॥ ४- ८० ॥

ततस्तु प्रोक्षणीपात्रं करक्षालनजं ततः ।
गन्धपात्रं पुष्पपात्रं ततो नैवेद्यपात्रकम् ॥ ४-८१ ॥

शुद्धोदकाभिधं पात्रं भोगात्मपात्रकं ततः ।
ततः पाचकपात्रं तु ततो नीराजनादिकम् ॥ ४-८२ ॥

स्थानीयपीठपात्रं च दीपपात्रचतुष्टयम् ।
घृततैले दक्षवामे सौगन्ध्यमदने तथा ॥ ४-८३ ॥

पात्राणां च चतुःषष्टिः संख्या प्रोक्ता तु केरले ।
काश्मीरे पीठमेवं स्यात् कलासंख्यानि वै शृणु ॥ ४-८४ ॥

दिव्योत्तमोत्तमौ प्रोक्तौ सद्यः सिद्धिकरौ परौ ।
अथ षोडशपात्राणि शृणुष्व परमेश्वरि ॥ ४-८५ ॥

सामान्यार्घ्यं विशेषार्घ्यं श्रीपीठं गुरुपात्रकम् ।
भैरवाख्यं पञ्चमं तु वीरपात्रं रसाभिधम् ॥ ४-८६ ॥

शक्तिपात्रं योगिनीं च बलिपाद्ये तथैव च ।
आचमनीयाख्यपात्रं चार्घ्यपात्र तथैव च ॥ ४-८७ ॥

मधुपर्काभिधं पात्रं पञ्चामृतमनन्तरम् ।
स्नानपात्रं हस्तशुद्धिपात्रं च प्रोक्षणीं तथा ॥ ४-८८ ॥

पात्रं षोडशकं प्रोक्तं केरले पश्चिमेऽपि च ।
मधुपर्कोत्तरं देवि शङ्खेति कौलिकेऽपि च ॥ ४-८९ ॥

चिदानन्दसम्प्रदाये शृणु पात्राणि पार्वति ।
सामान्यं च विशेषं च कलशं गुरुपात्रकम् ॥ ४-९० ॥

भोगपात्रं शक्तिपात्रं योगिनीवीरपात्रके ।
बलिपाद्याचमनीयं च अर्घ्यस्नानाभिधं प्रिये ॥ ४-९१ ॥

देवीशङ्खेति देवेशि पात्राण्येवं तु षोडश ।
अथवा कलशं शङ्खं शक्तिपात्रत्रयं भवेत् ॥ ४-९२ ॥

श्रीगुरुभोगपात्राणि त्रिषु पात्रेष्वयं विधिः ।
आनन्दाख्ये मते देवि पात्राणि कीर्त्तितानि च ॥ ४-९३ ॥

सामान्यार्घ्यो विशेषार्घ्यो घटः श्रिगुरुभोजनात् ।
शक्तिपात्रं योगिनी च वीरपात्रं बलिस्तथा ॥ ४-९४ ॥

पाद्यमाचमनीयं च भोगचाराभिधे भवेत् ।
देवीपात्रं श्रीगुरुश्च भोगश्च योगिनी तथा ॥ ४-९५ ॥

बलिपात्रं शक्तिपात्रं वीरपात्रं तथैव च ।
तथाचमनपात्रं च चिदानन्देष्वयं विधिः ॥ ४-९६ ॥

देवीगुरुभोगपात्रं योगिनीब्रह्मशक्तिजम् ।
सिद्धचैतन्यमार्गस्य पात्राणि परमेश्वरि ॥ ४-९७ ॥

योगिनीवीरपाद्यादि पंचचक्रमते भवेत् ।
आनन्दवीरदेवस्य क्रमः प्रोक्तो महेश्वरि ॥ ४-९८ ॥

सामान्यार्थ्यो विशेषार्घ्यः कलशो गुरुभैरवः ।
एते सर्वादौ संप्रोक्ताः सामान्यपरिभाषया ॥ ४-९९ ॥

बलिः पाद्याचमनीये च अर्घ्येति नव पार्वति ।
पंचमानन्दनाथस्य मार्गः प्रोक्तो मया तव ॥ ४-१०० ॥

पंचकं भोगशक्ती च विश्वरूपाभिधे भवेत् ।
देवीगुरुभोगशक्तियोगिनीवीरपात्रकम् ॥ ४-१०१ ॥

बलिः पाद्याचमनीये च अर्घ्येति योगरूपजे ।
सृष्टिसंहारमार्गेण परिवर्तक्रमेण च ॥ ४-१०२ ॥

ओड्यानं चतुरस्रं च कामरूपं च वर्त्तुलम् ।
जालन्धरं त्वर्द्धचन्द्रं त्र्यस्रः पूर्णगिरिर्भवेत् ॥ ४-१०३ ॥

शङ्खमंत्र भोगपूजाबलिपात्राणि पंच च ।
स्वदक्षिणादिवामान्तं संस्थाप्य पूजयेच्छिवाम् ॥ ४-१०४ ॥

कुलनाथमतं प्रोक्तं भैरवस्य मतं शृणु ।
स्ववामभागे देवेशि अर्घ्यादिस्थापनक्रियाम् ॥ ४-१०५ ॥

पाद्यार्घ्याचमनीयानि सामान्यार्घ्यविशेषकम् ।
सामान्यार्घघटो देवि श्रीपात्रं देवताग्रके ॥ ४-१०६ ॥

स्ववामे कलशस्याङ्के मधुपर्को महेश्वरि ।
तद्दक्षिण आचमनीयं पाद्यं यत्नेन संचरेत् ॥ ४-१०७ ॥

निवापाख्यमतं प्रोक्तं संक्षेपेण महेश्वरि ।
अथ वक्ष्यामि देवेशि शम्भुनाथमतं शृणु ॥ ४-१०८ ॥

आदौ कुम्भं तथा शङ्खं श्रीपात्रं शक्तिपात्रकम् ।
गुरुपात्रं भोगपात्रं बलिपाद्यादिपात्रकम् ॥ ४-१०९ ॥

योगिनीवीर पात्रं च वामावर्तक्रमेण च ।
सामान्यार्घ्यघटं चैव श्रीपात्रं तदनन्तरम् ॥ ४-११० ॥

श्रीपात्रघटयोर्मध्ये सर्वपात्राणि पातयेत् ।
गुरुपात्रं घटस्यान्ते तदन्ते भोगपात्रकम् ॥ ४-१११ ॥

तदन्ते शक्तिपात्रं च योगिनीनां तु पात्रकम् ।
तदन्ते वीरपात्रं च तदन्ते बलिपात्रकम् ॥ ४-११२ ॥

पाद्यं चाचमनीयञ्च तदन्ते चार्घ्यपात्रकम् ।
पुनराचमनीयं च मधुपर्कस्तथैव च ॥ ४-११३ ॥

स्नानीयं प्रोक्षणी चेति काश्मीराख्ये कलाभिधाः ।
करक्षालनजं चैव तथा पञ्चामृतेति च ॥ ४-११४ ॥

तदाष्टादश पात्राणि काश्मीराख्यमते शिवे ।
सामान्यार्घ्यविशेषार्घ्यो श्रीघटः परमेश्वरि ॥ ४-११५ ॥

घटान्ते गुरुपात्रं च तदन्ते भैरवाभिधम् ।
शक्तिपात्रं ततः प्रोक्तं वीरपात्रं ततः शिवे ॥ ४-११६ ॥

बलिपात्रं योगिनां च पानपात्रं तथैव च ।
भोगपात्रं च देवेशि नव पात्राणि पार्वति ॥ ४-११७ ॥

पाद्यादीनि महेशानि सामान्यत्वेन पश्चिमे ।
तद्दक्षिणे पाद्यपात्रमर्घ्यमाचमनीयकम् ॥ ४-११८ ॥

प्रोक्षणीति महेशानि स्थापयेदाद्यवत् शिव ।
गुरुपात्रं तत्पदाभ्यां भैरवं बटुकेन च ॥ ४-११९ ॥

शक्तिपात्रं भुवनेश्या वीरपात्रं शिवेन च ।
बलिपात्रं गणेशाद्यैर्योगिन्यां तन्मनुर्भवेत् ॥ ४-१२० ॥

अन्यानि प्रणवेनैवं सर्वपात्रेष्वयं विधिः ।
विशेषार्घ्येण दिव्यौघान् गुरुपात्रे गुरून् यजेत् ॥ ४-१२१ ॥

पुरुषं भैरवेणैवं श्रीपात्रेणाऽमृतेश्वरि ।
मूलदेवीपदे देवी प्रोक्ता तु मूलशारदा ॥ ४-१२२ ॥

आनन्दभैरवं देवं भैरवेन प्रतर्पयेत् ।
बलिना तु गणेशादीन् योगिन्या योगिनीं शिवे ॥ ४-१२३ ॥

हृदि देवीं विशेषेण श्रीपात्रेण तु सावृतिम् ।
विशेषेण हृदा प्रोक्तः प्रोत्सर्गः श्रीजलेन च ॥ ४-१२४ ॥

अन्येषां चैव सामान्यपात्रेण परमेश्वरि ।
वीरपात्रेण लोकेशाः शक्त्या ब्राह्म्यादिमातरः ॥ ४-१२५ ॥

विशेषपात्राद्या पूजा सा पूजा सर्वतोत्तमा ।
प्रत्यावृत्तौ महेशानि देवताभ्यो निवेदनम् ॥ ४-१२६ ॥

प्राणायामप्रमाणं च षडङ्गध्यानके ततः ।
पुनरावरणं पूज्यं पञ्च षोडश वै दश ॥ ४-१२७ ॥

जपं कृत्वा सन्निवेद्य प्राणायामादिपूर्वकम् ।
पुनरावरणं पूज्यं प्रोक्तमावरणक्रमः ॥ ४-१२८ ॥

एवं क्रमेण देवेशि सर्वावृतिं प्रपूजयेत् ।
प्रत्यावृत्तो प्रोक्तमुद्रां दर्शयेद्विधिपूर्वकम् ॥ ४-१२९ ॥

अनुक्तमुद्रावरणे तदायुधमयी भवेत् ।
संघट्टना योनिमुद्रा खेचरी च तदायुधा ॥ ४-१३० ॥

यदावरणसंक्षेपस्तदावरणमयी च सा ।
विस्तारश्चेत् महेशानि संघट्टाद्यास्तदन्तकाः ॥ ४-१३१ ॥

पुनः पुष्पाञ्जलिं दत्त्वा सायुधेति सवाहना ।
सशक्ती च समुद्रा च ससिद्धी च समुच्चरेत् ॥ ४-१३२ ॥

सम्प्रदायत्रयेऽपि स्यात्काण्डानुसमयो ह्यहम् ।
सामान्यार्घ्यघटे देवि विशेषार्घ्यस्तृतीयकः ॥ ४-१३३ ॥

पात्रत्रयक्रमेणैव पूजनं वा भवेत् शिवे ।
सामान्यं च विशेषं च श्रीघटश्च तृतीयकः ॥ ४-१३४ ॥

केवलं तु विशेषेण पूजनं तु महेश्वरि ।
गौडमार्गे महेशानि पात्राणां निर्णयं शृणु ॥ ४-१३५ ॥

सामान्यं द्वितयं देवि द्वारदेशान्तमार्गतः ।
देवाग्रे तु विशेषार्घ्यो घटान्ते गुरुपात्रकम् ॥ ४-१३६ ॥

श्रीपात्रसंज्ञा देवेशि विशेषार्घ्ये प्रकीर्तिता ।
भोगपात्रं ततो देवि शक्तिपात्रं ततः शिवे ॥ ४-१३७ ॥

योगिनीवीरपात्रे तु बलिपात्रं ततः शिवे ।
आचमनीयं महेशानि प्रोक्तमन्यद्विशेषतः ॥ ४-१३८ ॥

अर्घ्यत्रयं गुरोः पात्रं भैरवीपात्रकं ततः ।
शक्तिपात्रं योगिनी च बलिपात्रं ततः शिवे ॥ ४-१३९ ॥

अर्घ्यस्य त्रीणि पात्राणि पाद्यस्यापि त्रयं भवेत् ।
आचमने त्रयं देवि मधुपर्कस्ततः शिवे ॥ ४-१४० ॥

स्नानीयं करशुद्धिश्च यजुर्गौडे विधिः स्मृतः ।
स्वदक्षे प्रोक्षणीपात्रं आदायाद्भिः प्रपूरयेत् ॥ ४-१४१ ॥

किंचिदर्घ्याम्बु संगृह्य प्रोक्षण्यम्भसि योजयेत् ।
ततः साधारकं पात्रं पुरतः स्थापयेद्बुधः ॥ ४-१४२ ॥

तत्पार्श्वे पाद्यदानं च तत्पार्श्वे चार्घ्यदानकम् ।
आचमनीयं च तत्पार्श्वे वामे तु मधुपर्ककम् ॥ ४-१४३ ॥

पुनराचमनीयं च स्नानीयं तत् क्रमान्न्यसेत् ।
गन्धपुष्पं तथा दक्षे पृष्ठे तु करक्षालनम् ॥ ४-१४४ ॥

स्ववामे स्थापयेत् कुम्भं वामहस्तेन धारयेत् ।
ओं आ/ इति च मन्त्रेण पार्श्वे धृत्वा च तज्जलम् ॥ ४-१४५ ॥

नु क्षौर इति मन्त्रेण देवतीर्थेन संस्पृशेत् ।
आत्मानं यागवस्तूनि गन्धपुष्पादिकानि च ॥ ४-१४६ ॥

प्रोक्षयेत् प्रोक्षणीतोयैर्गायत्र्या मूलमन्त्रतः ।
साध्यसाधकयोर्मध्ये षट्त्रिंशदङ्गुलं भवेत् ॥ ४-१४७ ॥

द्वादशाङ्गुलमूर्द्ध्वं च अधोभागे तथाङ्गुलम् ।
द्वादशाङ्गुलमध्यस्य तत्र संस्थापयेद्बुधः ॥ ४-१४८ ॥

आत्मनः पुरतो वामे त्रिकोणं विलिखेद्भुवि ।
सार्धद्वादश वै देवि चार्घ्यार्थं द्वादश प्रिये ॥ ४-१४९ ॥

आराधनं स्थापनं च पूजनं पूरणं तथा ।
गन्धपुष्पे मण्डलस्य विन्यासः पुष्पसंश्रयः ॥ ४-१५० ॥

अमृतीकरणं पात्रं प्रतिपत्तिरियन्नव ।
सामगौडे विधिरयं संक्षेपेण प्रकाशितः ॥ ४-१५१ ॥

पात्राणां विंशतिः शिवे सामगौडे विधिः शिवे ।
आद्यत्रयं गुरुर्भोगः शक्तिश्च योगिनी शिवे ॥ ४-१५२ ॥

वीरपात्रं बलिपात्रं पाद्यार्घ्याचमनीयकम् ।
करक्षालनपात्रं च मूलानां च प्रवर्तकम् ॥ ४-१५३ ॥

सामान्यार्घ्यादाचमान्तमर्घ्यं च करशुद्धिजम् ।
उच्छिष्टबलिपात्रं च बलिपात्राणि सप्त च ॥ ४-१५४ ॥

अथ पाचकपात्रं च क्रूरगौडे विधिः शिवे ।
एकविंशतिपात्राणि गौडे चैवात्र सन्ति च ॥ ४-१५५ ॥

शाक्ते प्रोक्तमिदं देवि वीरशाक्ते तु शङ्करि ।
शङ्खं न मुख्यं देवेशि शैवे शाक्ते न कारयेत् ॥ ४-१५६ ॥

लोक सन्दर्शनार्थं तु शङ्खस्य स्थापनं चरेत् ।
शैवे पङ्क्तिक्रमेणैव पात्राणां स्थापनं चरेत् ॥ ४-१५७ ॥

सामान्यार्घ्यो विशेषश्च घटश्च पाद्यपात्रकः ।
आचमनीयं तथार्घ्यं च पुनराचमनीयकम् ॥ ४-१५८ ॥

मधुपर्कामृते देवि स्नानीयं प्रोक्षणी तथा ।
शक्तियुक्तो यदा शम्भुस्तदा कलशपूजनम् ॥ ४-१५९ ॥

नो चेत्तु जलवत् स्थाप्य पूज्यो वैदिककर्मणा ।
पूर्णदीक्षाप्रयुक्तश्चेच्छक्तिपात्रादिकं चरेत् ॥ ४-१६० ॥

बिल्वपात्रेण देवेशि विश्वामित्रेण वाचरेत् ।
वैष्णवे तु महेशानि पुरः सामान्यपात्रकम् ॥ ४-१६१ ॥

शङ्खपात्रं वामभागे स्वस्य देवस्य पार्वति ।
पूजाद्रव्यं दक्षभागे तन्मध्ये परमेश्वरम् ॥ ४-१६२ ॥

वैष्णवे देवदक्षे तु शङ्खं तद्दिक्षु पार्वति ।
पाद्यार्घ्याचमनीयं च मधुपर्कं क्रमाद्भवेत् ॥ ४-१६३ ॥

तदुदकषट्पात्रं च जलसंस्थापनाय च ।
सिद्धकल्पितदिङ्मार्गाद्वामदक्षे घटो भवेत् ॥ ४-१६४ ॥

शक्तियुक्तवैष्णवस्य प्रोक्तमेतन्मया तव ।
अयुक्तस्य महेशानि न सामान्यघटो भवेत् ॥ ४-१६५ ॥

विशेषदीक्षितश्चेत्स्याच्छक्तिवीरादि कारयेत् ।
शैवेपि स्वस्य दक्षात्तु सामान्यात्प्रोक्षणीति च ॥ ४-१६६ ॥

तदन्ते स्थापयेद्देवि सौरे शृणु महेश्वरि ।
सौरे गौडे च सामान्याद्द्वावर्ष्यौ सूर्यगोचरौ ॥ ४-१६७ ॥

विशेषात् प्रोक्षण्यन्तं च स्थापयेत्परमेश्वरि ।
जैने बौद्धे तु तारावद्भैरवे कालिकाविधिः ॥ ४-१६८ ॥

दर्शनायतने देवि विशेषार्घ्यघटादिकम् ।
प्रोक्षण्यंतं समासाद्य केरलादिक्रमेण च ॥ ४-१६९ ॥

गणेशे चोभयं देवि शङ्खस्त्वाचमने भवेत् ।
सामान्यार्घ्ये भवेद्वारि सामान्यं च विशेषकम् ॥ ४-१७० ॥

श्रीपात्रमिति देवेशि चार्घ्ये स्वायंभुवेऽपि च ।
गणेशवत्प्रकर्तव्यं नान्यथा शाङ्करं वचः ॥ ४-१७१ ॥

सर्वत्र शक्तियोगैश्च शाक्तवत् परमेश्वरि ।
वामावर्त्तक्रमेणैव गौडे कौले तु पात्रकम् ॥ ४-१७२ ॥

काश्मीरे दक्षवदने केरले मण्डलक्रमात् ।
केवलं शङ्खमात्रेण केरले चरितार्थता ॥ ४-१७३ ॥

पूजोपकरणं दक्षे पृष्ठे नैवेद्यमेव च ।
करक्षालनपात्रं तु स्वपृष्ठे परिकीर्त्तितम् ॥ ४-१७४ ॥

घृतदीपो भवेद्दक्षे तैलदीपो हि वामतः ।
त्रिकोणाकारतो वापि वह्निचक्रक्रमेण च ॥ ४-१७५ ॥

मेधादीक्षाविधौ देवि स्थापनं परिकीर्तितम् ।
सर्वपात्राणि संस्थाप्य स्ववामे तु घटोत्तरे ॥ ४-१७६ ॥

घटस्य तु मुखं देवि परितः परिकीर्त्तितम् ।
शङ्खस्य देवी शङ्खस्य मुखे तु देवताग्रतः ॥ ४-१७७ ॥

पूजयामि तर्पयामि नमोऽन्तं केरले मतम् ।
तर्पयामि पूजयामि नमः काश्मीरगोचरः ॥ ४-१७८ ॥

हृदयस्यास्य योगे तु साम्राट्केरल ईरितः ।
पूजयामि नमो देवि तर्पयामि नमस्तथा ॥| ४-१७९ ॥

आदिकेरलसाम्राज्ये महत्पूर्वादि कीर्त्तितम् ।
नमः पूजा तर्पणे तु केरले परमेश्वरि ॥ ४-१८० ॥

पूर्णानन्दश्चिदानन्दो बोधानन्दः प्रकीर्त्तितः ।
अष्टौ भेदा महेशानि हृदाद्यन्तप्रयोगतः ॥ ४-१८१ ॥

मध्ययोगादपि शिवे सभेदाः परिकीर्त्तिताः ।
आदौ मध्ये तथा चान्ते बलिदानं तु गौडके ॥ ४-१८२ ॥

आदौ च बलिदानं च काश्मीरे परिकीर्त्तितम् ।
अन्ते बलिः केरले तु केवलं तर्पणं यदि ॥ ४-१८३ ॥

विलासाख्यस्तदा देवि पूजनं तर्पणं च वा ।
विश्वरूपविधौ देवि केरले पूजने सति ॥ ४-१८४ ॥

श्रीपूर्वा पादुका वापि केवलापादुकापि वा ।
तद्देवतातर्पणं वा ह्रस्वं दीर्घं च वा प्रिये ॥ ४-१८५ ॥

सबिन्दुं वा महेशानि संपूर्णं वा समाचरेत् ।
चीनमार्गेऽपि तारिण्यां मंजुघोषेऽपि पार्वति ॥ ४-१८६ ॥

वज्रपुष्पं प्रतीच्छेति स्वाहान्तेन प्रपूजनम् ।
वामावर्त्तक्रमेणैव दक्षवामक्रमेण च ॥ ४-१८७ ॥

केवलं दक्षावर्त्तेन केवलं वामहस्ततः ।
भेदाष्टत्रिंशतिः शिवे कीर्त्तितः परमेश्वरि ॥ ४-१८८ ॥

केवलानन्दयोगेन केवलानन्दयोगतः ।
आनन्दनाथयोगेन नाथानन्दक्रमेण च ॥ ४-१८९ ॥

सिद्धमानवदिव्यादिप्रज्ञाचैतन्यबोधतः ।
विलासक्रमयोगेन तथा सरस्वतीक्रमात् ॥ ४-१९० ॥

वक्ष्यमाणक्रमेणैव भेदबाहुल्यमीरितम् ।
इति संक्षेपतः प्रोक्तं विशेषः कथ्यते प्रिये ॥ ४-१९१ ॥


इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यतारासंवादे पात्रनिर्णयकथनं नाम चतुर्थः पटलः ॥ ४ ॥

Paṭala 5

श्रीदेव्युवाच ।


देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।


श्रीशिव उवाच ।


रहस्यातिरहस्यं च कथ्यते शृणु पार्वति ॥ ५-१ ॥

सद्ब्रह्मवासनां कृत्वा पूर्वं परशिवस्थिता ।
ध्यानस्य संश्रुतिर्जाता सा ब्रह्मवासनागता ॥ ५-२ ॥

यदारभ्य परं रूपं विज्ञानं सुमनोहरम् ।
रूपं धृतं महेशानि तदारभ्य प्रपंचता ॥ ५-३ ॥

यदि कादिमतं चैकं वर्त्तते परसुन्दरि ।
तदा पुमांसः सर्वेऽपि महाकालस्वरूपिणः ॥ ५-४ ॥

सर्वाः स्त्रियो महेशानि कालीतारामयाः स्मृताः ।
एवं बुद्धिर्यदा चेत्स्यान्नहि संसारकल्पना ॥ ५-५ ॥

संसारोत्पत्तिकार्ययार्थं प्रपञ्चोऽयं विनिर्मितः ।
शाक्तं शैवं गाणपत्यं वैष्णवं सौरबौद्धकम् ॥ ५-६ ॥

एवं क्रमेण देवेशि मतमेतद्विनिर्मितम् ।
मतानि बहुसंख्यानि तदारभ्य महेश्वरि ॥ ५-७ ॥

संजातानि महेशानि प्रपञ्चार्थं हि निश्चितम् ।
अम्भोधिर्जलधिश्चैव समुद्रः सागरो यथा ॥ ५-८ ॥

यथा एते तु पर्ययायास्तथैतानि मतानि च ।
वैदिके शक्तिनिन्दा च शैवे वैष्णवनिन्दनम् ॥ ५-९ ॥

वैष्णवे गणनिन्दा च गाणपे सौरनिन्दनम् ।
सौरे चान्द्रस्य निन्दा च चान्द्रे बौद्धस्य निन्दनम् ॥ ५-१० ॥

स्वायम्भुवस्य निन्दा च बौद्धमार्गे महेश्वरि ।
सौभर्यां चीननिन्दा च चीने जैनस्य निन्दनम् ॥ ५-११ ॥

पौराणे जैननिन्दा च जैने पौराणनिन्दनम् ।
पौराणे मन्त्रशास्त्रस्य निन्दनं परमेश्वरि ॥ ५-१२ ॥

धर्मशास्त्रे महेशानि तथा कौलिकनिन्दनम् ।
एवं भिन्नमतान्येवं संजातानि महेश्वरि ॥ ५-१३ ॥

वेदानां शास्त्रबाहुल्यं प्रपंचार्थं महेश्वरि ।
एवं निन्दासमापन्ने भेदे जाते महेश्वरि ॥ ५-१४ ॥

नैकत्र तु मनो लग्नं कस्यचित्परमेश्वरि ।
सर्वत्रान्योन्यनिन्दा च तदैक्यं न प्रजायते ॥ ५-१५ ॥

तदैक्यस्य सुसिद्ध्यर्थं प्रपंचार्थं प्रकीर्त्तितम् ।
भीन्नं भीन्नं प्रशंसन्ति निन्दन्ति च परस्परम् ॥ ५-१६ ॥

न विद्यासिद्धिमाप्नोति संभ्रमन्ति पिशाचवत् ।
अन्योन्यैर्यदि निन्दा न तदैक्यं च प्रजायते ॥ ५-१७ ॥

तदैक्यस्य सुसिद्ध्यर्थं कालिकां तारिणीं यजेत् ।
पुनर्वै दैत्यनाशाय भक्तानुग्रहणाय च ॥ ५-१८ ॥

सुन्दरं क्रूरमत्युग्रं रूपं संबिभ्रती शिवा ।
रूपमेतत् प्रपंचार्थं कीर्त्तितं तु मया तव ॥ ५-१९ ॥

पुराणन्यायमीमांसासांख्यपातञ्जलस्तथा ।
वेदान्तो व्याकृतिर्देवि धर्मशास्त्राङ्गमिश्रिताः ॥ ५-२० ॥

छन्दो ज्योतिर्वैद्यकादि विद्या एताश्चतुर्द्दश ।
प्रपञ्चार्थं मया प्रोक्तमेकत्वं परिणामजे ॥ ५-२१ ॥

प्रकृतं कथ्यते देवि शृणु सावहिता भव ।
चतुर्वेदेश्वरी प्रोक्ता श्रीमहाभवतारिणी ॥ ५-२२ ॥

अथर्ववेदाधिष्ठात्री श्रीमहाकालिका परा ।
विना कालीं विना तारां नाथर्वणविधिः क्वचित् ॥ ५-२३ ॥

केरले कालिका प्रोक्ता काश्मीरे त्रिपुरा मता ।
गौडे तारेति संप्रोक्ता सैव लोकोत्तरा भवेत् ॥ ५-२४ ॥

हादौ त्रितयमेतद्धि संक्षेपेण प्रकीर्त्तितम् ।
अथ कादौ केरले तु त्रिपुरा सा प्रकीर्त्तिता ॥ ५-२५ ॥

काश्मीरे तारिणी बाला गौडे काली प्रकीर्त्तिता ।
शिवदेवी परा जाता दक्षिणामूर्त्तिभेदतः ॥ ५-२६ ॥

अथानन्दभैरवाख्यमतभेदेन पार्वति ।
देवीसकाशाद्या प्राप्ता स्वगुर्वन्तं तु शक्तितः ॥ ५-२७ ॥

शक्तेः परम्परा या तु न विच्छिन्ना महेश्वरि ।
तन्नामाज्ञाक्रमेणैव ज्ञेया देवी परंपरा ॥ ५-२८ ॥

शम्भोः सकाशाद्या प्राप्ता स्वगुर्वन्तं महेश्वरि ।
तन्नामाज्ञाक्रमेणैव सा शिवस्य परपरा ॥ ५-२९ ॥

दक्षिणामूर्त्तितो देवि स्वगुर्वन्तक्रमेण च ।
तन्नामाज्ञाक्रमेणैव सा वै तस्य परंपरा ॥ ५-३० ॥

अविच्छिन्ना यदा सा वै चतुःशङ्करयोगतः ।
तदान्यः सम्प्रदायो हि भविष्यति महेश्वरि ॥ ५-३१ ॥

केरलश्चैव काश्मीरो गौडश्चैव तृतीयकः ।
चतुर्णामपि देवेशि त्रितयं तिष्ठति प्रिये ॥ ५-३२ ॥

गृह्णामि च प्रगृह्णीयात् विलासे पानकर्म्म च ।
जुहोमि च जुषस्वेति केरले पानकर्म च ॥ ५-३३ ॥

होष्यामि प्रजुषस्वेति काश्मीरे पानमीरितम् ।
सदा मत्तो भवेन्नाथो विद्यासिद्धादिपानतः ॥ ५-३४ ॥

अनुक्रमेण त्रितये पूजानन्दी यदा नरः ।
नन्दनाथी च संप्रोक्तस्तद्रूपो यस्तु मानवः ॥ ५-३५ ॥

महानन्दाभिधः प्रोक्तो गौडे पानक्रमं शृणु ।
वामहस्तात् पानपूजा क्रमाद्वामी प्रकीर्त्तितः ॥ ५-३६ ॥

दक्षहस्तात् पानयोगाद्वामहस्तप्रतर्पणात् ।
दक्षहस्तात्पूजनाद्धि कौल इत्यभिधीयते ॥ ५-३७ ॥

केवलं दक्षहस्तेन पूजनाद्दक्षिणाभिधः ।
स एव केरलः प्रोक्तः शुद्धमार्गः प्रकीर्त्तितः ॥ ५-३८ ॥

दक्षिणामूर्त्तिभेदे तु दिव्यौघादित्रयं भवेत् ।
तद्भेदेन त्रिभेदत्वं प्रत्येकं नवभेदता ॥ ५-३९ ॥

आनन्दभैरवमते पञ्चाशीतिगुरुक्रमः ।
दिव्यसिद्धमानवादि पञ्चाशीतिः प्रकीर्त्तितः ॥ ५-४० ॥

प्रत्येकं त्रितयत्वेन सप्तसप्तक्रमेण तु ।
पञ्चषष्ठी तु संप्रोक्ता नामाज्ञा तत्क्रमेण च ॥ ५-४१ ॥

नवनाथक्रमेणैव नव भेदा भवन्ति च ।
चतुरशीतिसिद्धानां क्रमदीक्षाप्रभेदतः ॥ ५-४२ ॥

चतुरशीतिभेदाश्च तन्नामाज्ञाक्रमेण च ।
ऋणं धनं च विज्ञाय नामाज्ञां दापयेद्गुरुः ॥ ५-४३ ॥

ऋणचक्रं प्रवक्ष्यामि षड्भेदेनापि पार्वति ।
साध्यार्ण साधकार्णादि व्यञ्जनस्वरभेदतः ॥ ५-४४ ॥

तावदङ्कास्तु संग्राह्या मातृकागणनाक्रमात् ।
साध्यनामत्रिगुणितं साधकेन समन्वितम् ॥ ५-४५ ॥

सप्तभिस्तु हरेद्भागं तदन्यद्विपरीतकम् ।
पूर्वाङ्कवैपरीत्येन ऋणिधनविशोधनम् ॥ ५-४६ ॥

यस्याधिकाङ्को देवेशि स एव हि ऋणी मतः ।
न्यूनाङ्को यस्य देवेशि स धनी परिकीर्त्तितः ॥ ५-४७ ॥

साधकस्य धनित्वं च विद्यायास्तु ऋणित्वकम् ।
गुणनं निर्धनं वापि त्रिभिर्वा सप्तभिश्च वा ॥ ५-४८ ॥

त्रिसप्तव्यत्ययत्वेन नियमः परिकीर्त्तितः ।
यत्र द्वाभ्यां वर्द्धनं तु गजैस्तत्र तु भेदनम् ॥ ५-४९ ॥

शून्यं दृष्ट्वा न भागोऽस्ति संक्षेपादिदमीरितम् ।
वर्धनं तु त्रिभिर्यत्र सप्तभिर्भेदनं ततः ॥ ५-५० ॥

यत्राष्टभिर्भेदनं तु तत्र द्वाभ्यां तु वर्धनम् ।
मन्त्रसाधकयोर्वर्णान् गणनाविधिपूर्वकम् ॥ ५-५१ ॥

भिन्नान् कृत्वाऽथवा देवि स्वरव्यञ्जनभेदतः ।
साध्यनामद्विगुणितं साधकेन समन्वितम् ॥ ५-५२ ॥

अग्निभिस्तु हरेद्भागं तदन्यद्विपरीतकम् ।
मन्त्रसाधकवर्णानां पञ्चाशन्मातृकाक्रमात् ॥ ५-५३ ॥

कियत्तमो भवेद्वर्णस्तावदङ्कांस्तु संहरेत् ।
स्वरव्यञ्जनभेदेन अथवा वर्णमात्रकम् ॥ ५-५४ ॥

तावदङ्कास्तु कर्त्तव्या वर्णानामुभयोरपि ।
मंत्रार्णान् त्रिगुणीकृत्य साधकेन समन्वितम् ॥ ५-५५ ॥

सप्तभिस्तु हरेद्भागं तदन्यद्विपरीतकम् ।
अन्यत्र तु प्रकरणात् गुणनं भाजनं भवेत् ॥ ५-५६ ॥

इष्टाङ्कत्वेन गुणनं भाजनं चात्र कीर्त्तितम् ।
यथाङ्कक्रमयोगेन कीर्त्तितं तु मया तव ॥ ५-५७ ॥

नामाक्षरं समारभ्य यावन्मन्त्रादिमाक्षरम् ।
त्रिधा कृत्वा स्वरैर्भिद्यात्तदन्यद्विपरीतकम् ॥ ५-५८ ॥

मन्त्राद्यक्षरमारभ्य यावन्नामाक्षरं शिवे ।
सप्त कृत्वा त्रिधा भिद्यात्तदन्यद्विपरीतकम् ॥ ५-५९ ॥

मातृकावैपरीत्येन मंत्रं नामाक्षरात्मकम् ।
त्रिधा कृत्वा त्रिभिर्हत्वा मंत्रराशिरियं भवेत् ॥ ५-६० ॥

अन्यानि ऋणचक्राणि कीर्त्तितानि मया तव ।
भक्तिरूपं ऋणं देवि यथावदवधारय ॥ ५-६१ ॥

कोटितंत्रेषु गुप्तं च तदद्य प्रकटीकृतम् ।
पूर्वसेवानुषङ्गेण भक्तिर्यत्र दृढा भवेत् ॥ ५-६२ ॥

स मंत्रस्तु ऋणी ज्ञेयो भक्तिरूपं ऋणं प्रिये ।
नो चेद्भक्तिः कथं देवि भक्तिरूपं ऋणं प्रिये ॥ ५-६३ ॥

इति क्रमेण संप्रोक्तं ऋणिधनविशोधनम् ।
ऋणं धनं च विज्ञाय नाम दद्यान्महेश्वरि ॥ ५-६४ ॥

अन्यथा नामदाने तु नामानुरूपकं फलम् ।
न भवेत्परमेशानि भ्रष्टो भवति साधकः ॥ ५-६५ ॥

स मूर्खस्त्वं न जानाति देवे द्वेषपरः कलौ ।
सर्वमेवं तु विज्ञाय नामाज्ञां दापयेद्गुरुः ॥ ५-६६ ॥

दिव्यसिद्धमानवे तु फलं च उत्तरोत्तरम् ।


श्रीदेव्युवाच ।


नामदानं कथं कार्ययं दर्शनेष्वपि षट्स्वपि ॥ ५-६७ ॥

षडाम्नायेषु देवेश तथा शाम्भवयुग्मके ।
पञ्चाम्नाये तथा वेदाम्नाये च परमेश्वर ॥ ५-६८ ॥

मेधासाम्राज्यदिव्यान्तःसाम्राज्येन महेश्वर ।
नामदानं कथं कार्यं तन्मे कथय शङ्कर ॥ ५-६९ ॥


श्रीशिव उवाच ।


रहस्यातिरहस्यं तु त्वया संपृच्छयते शिवे ।
अहं जानामि सा काली तारा जानाति नेतराः ॥ ५-७० ॥

ओघाः किंचिच्च जानन्ति तत्रापि दिव्यरूपिणः ।
सर्वथा गोप्यतां देवि न वाच्यं यस्य कस्यचित् ॥ ५-७१ ॥

षट्चक्रं तत्र संप्रोक्तं चतुःसंज्ञाविधायकम् ।
प्रथमे वर्णवेधोऽस्ति स्वरवेधो द्वितीयके ॥ ५-७२ ॥

तृतीये शून्यवेधोऽस्ति चतुर्थे कूटवेधता ।
पञ्चमे गणवेधोऽस्ति षष्ठे चक्रेण किंचन ॥ ५-७३ ॥

षट्चक्राणि महेशानि चक्राण्यन्यान्यपि प्रिये ।
अन्यानि पञ्चचक्राणि एवं रुद्रविधानि च ॥ ५-७४ ॥

तत्र षट्चक्रमध्ये तु साध्यसिद्धं सुसिद्धकम् ।
दैवतं च पराख्यं च देवतादर्शनाभिधम् ॥ ५-७५ ॥

देवतादर्शनाख्येन नाम दद्यान्महेश्वरि ।
ओघत्रयस्थं यन्नाम साधकस्य तथैव च ॥ ५-७६ ॥

प्रसिद्धं नाम गृह्णीयात् प्रसुप्तो येन जागृयात् ।
नामाद्यक्षरमारभ्य यावन्मंत्रादिमाक्षरम् ॥ ५-७७ ॥

त्रिगुणीकृत्य देवेशि स्वरव्यञ्जनभेदतः ।
मातृकागणनात्वेन यावदङ्को भवेच्छिवे ॥ ५-७८ ॥

एकीकृत्य साधकार्णे मिश्रितं सप्तधा हरेत् ।
नामराशिरियं प्रोक्ता मंत्रराशिरतोऽन्यथा ॥ ५-७९ ॥

ऋणिनामप्रदेयं च सुन्दरं सुमनोहरम् ।
दिव्यौघनाम भाग्येन गुरुणा दीयते यदि ॥ ५-८० ॥

सिद्धौघनाम देवेशि भाग्येन सिद्धिकारकम् ।
मानवौघाभिधं नाम ऋणी भाग्येन लभ्यते ॥ ५-८१ ॥

गुरुणालोकितः शिष्यः शिष्येणालोकितो गुरुः ।
ऋणिनामप्रदानेन मंत्रदोषनिवृत्तता ॥ ५-८२ ॥

पूर्णाभिषेकदीक्षायां नाम चैव प्रदापयेत् ।
मेधादीक्षादिसाम्राज्यदिव्यसाम्राज्यगोचरम् ॥ ५-८३ ॥

नाम देयं महेशानि सुन्दरं कल्पितं च वा ।
आदौ प्रसिद्धनाम स्यादलाभे कल्पितं च वा ॥ ५-८४ ॥

मंत्रारूढं च वा नाम विद्याढ्यं वा महेश्वरि ।
अन्यत्तद्दिन-ऋक्षाक्तमुदयार्णक्रमेण च ॥ ५-८५ ॥

अथोदयार्णनित्याक्तं कालनित्याक्रमेण च ।
प्रोक्तं तद्युगनित्याक्तं वर्षनित्याक्रमेण च ॥ ५-८६ ॥

तदावरणनित्याक्तं संप्रदायक्रमेण च ।
काश्मीराख्ये सम्प्रदाये तद्विद्यामंत्रकल्पितम् ॥ ५-८७ ॥

गौडे कालान्तकं नाम केरले सर्वगोचरम् ।
परस्परं विशोध्याथ नाम दद्यान्महेश्वरि ॥ ५-८८ ॥

नाथाक्तं चाथ सिद्धाक्तं पूर्वपञ्चकयोगतः ।
यदेव तु ऋणी भूयात्तदेव वरनायकम् ॥ ५-८९ ॥

ओघत्रयं महेशानि चोत्तरोत्तरसिद्धिदम् ।
दिव्यौघे चेत्समायाति दिव्यरूपः स जायते ॥ ५-९० ॥

सिद्धौघे चेत्समायाति सिद्धरूपसुसिद्धिदः ।
मानवौघे किन्नरेशः शाक्तशास्त्रे त्विदं भवेत् ॥ ५-९१ ॥


श्रीदेव्युवाच ।


शाक्ताख्ये तु महादेव कथं नाम प्रदीयते ।


श्रीशिव उवाच ।


वैष्णवे गाणपत्ये च शैवे स्वायंभुवे तथा ॥ ५-९२ ॥

चान्द्रे पाशुपते चीने जैने कालमुखेऽपि च ।
वैदिकेऽपि महेशानि तदावरणगं च वा ॥ ५-९३ ॥

तत्पर्यायनाम देयं द्वारादुत्तरतस्तथा ।
मूलान्तं च तदन्तं च दद्यान्नाम महेश्वरि ॥ ५-९४ ॥

बालायां स्पर्शकाल्यां च स्पर्शताराविधौ शिवे ।
स्पर्शच्छिन्नाविधौ देवि चन्द्रषट्षोडशक्रमात् ॥ ५-९५ ॥

कलाक्रमान्महेशानि रक्तचण्ड्यां तु तत्क्रमात् ।
दुर्वासा मन्वगस्त्यादि तथा स्वप्नावतीविधौ ॥ ५-९६ ॥

मधुमत्यां च दिव्यौघा भिन्नरूपाः प्रकीर्त्तिताः ।
षोडश्यां च परायां च पराप्रासादकेऽपि च ॥ ५-९७ ॥

षड्विद्यायां शाम्भवे च गुरवो भिन्नरूपिणः ।
मालास्थं चाथ न्यासस्थं मूलरश्मिस्थमेव च ॥ ५-९८ ॥

नामदाने विधिरयं मया प्रोक्तो महेश्वरि ।
सम्प्रदायक्रमेणैव शाम्भवे पूर्वमीरितम् ॥ ५-९९ ॥

यत्तत्र नोक्तं देवेशि यत् सिद्धमतकेऽपि च ।
यज्ज्ञेयमत्र देवेशि चतुःखण्डक्रमेण च ॥ ५-१०० ॥

पुनरुक्तिर्न मन्तव्या विद्याभेदाद्विशेषता ।
श्रीचूलिकोर्मिलाचक्रं राजादिपशुगोचरम् ॥ ५-१०१ ॥

नवचक्राणि देवेशि कथ्यन्ते शृणु यत्नतः ।
केरलाख्यं च दशमं प्रत्येकं त्रिविधं भवेत् ॥ ५-१०२ ॥

एतद्विवेचनं देवि संक्षेपात् कथ्यते शृणु ।
त्रैविध्यं चैव श्रीचक्रे क्रमं शृणु महेश्वरि ॥ ५-१०३ ॥

अष्टोत्तरशतं संख्या श्रीचक्रे शक्तयः स्मृताः ।
चतुःपञ्चाशदेवात्र मध्यचक्रे क्रमो भवेत् ॥ ५-१०४ ॥

शक्तिभिर्नन्दसंख्याभिः कनिष्ठं परिकीर्त्तितम् ।
चूलिकाख्यं महेशानि त्रिविधं परिकीर्त्तितम् ॥ ५-१०५ ॥

पञ्चाशत्पीठनाम्ना वा षड्त्रिंशज्जातिमध्यतः ।
दशविद्यारूपजातिगन्धभेदक्रमेण च ॥ ५-१०६ ॥

कुलाकुलक्रमेणैव काश्मीरगौडभेदतः ।
अष्टकन्यासमायोगात् कनिष्ठं परिकीर्त्तितम् ॥ ५-१०७ ॥

एतत्क्रमं महेशानि यथावदवधारय ।
शक्तिमाहूय देवेशि कञ्चुकीं गृह्य पार्वति ॥ ५-१०८ ॥

एकैकां कञ्चुकीं देवी शिवहस्ते प्रदापयेत् ।
वस्त्रग्रन्थिं तु निर्बध्यसामरस्ये नियोजयेत् ॥ ५-१०९ ॥

ऊर्मिलाख्यमिदं देवि चूलाचक्रं शृणु प्रिये ।
शक्तिमाहूय यत्नेन चूलिकां गृह्य यत्नतः ॥ ५-११० ॥

कुम्भे संस्थाप्य सम्पूज्य शिवमाहूय सादरम् ।
यस्य यथा च संप्राप्ता सा तस्य चक्रमध्यगा ॥ ५-१११ ॥

चूलिकाख्यक्रमो देवि कथितः श्रीक्रमं शृणु ।
परस्परस्नेहयोगात् श्रीचक्रे विनिवेशनम् ॥ ५-११२ ॥

केरलाख्यक्रमे देवि भिन्नं भिन्नं निवेशनम् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥ ५-११३ ॥


इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यतारासंवादे ऋणिधनिचक्रविनिर्णयं नाम पञ्चमः पटलः ॥ ५ ॥

Paṭala 6

श्रीदेव्युवाच ।


एतेषां च फलं देव कथयस्व ममाधुना ।


श्रीशिव उवाच ।


एतज्ज्ञानी महेशानि शिव एव न संशयः ॥ ६-१ ॥

वयस्तम्भाकर्षणं च त्रैलोक्यवश्यता तथा ।
अञ्जनं तिलकं गुप्तिः पादुका गुटिका तथा ॥ ६-२ ॥

वेतालयक्षिणीसिद्धिस्त्रिधावादस्तदुत्तरम् ।
खेचर्ययादिमहासिद्धिः परकायप्रवेशनम् ॥ ६-३ ॥

शापानुग्रहणं वाक् च कामरूपत्वमेव च ।
रसायनं च त्रैलोक्यं महेन्द्रादीन्द्र जालिकम् ॥ ६-४ ॥

अणिमाद्यष्टकं देवि खड्गादृश्ये तथैव च ।
मूकान्धस्तब्धीकरणं संहारखड्गके तथा ॥ ६-५ ॥

पताकाद्वन्द्वयुद्धस्य जयो वन्ध्यात्वनाशनम् ।
पौरुषं च मनःस्थैर्ययं रञ्जकः स्वर्णभैरवः ॥ ६-६ ॥

धनदा च तथा शास्ता पद्मा मधुमती तथा ।
रहस्यातिरहस्यं च रहस्यातिरहस्यकम् ॥ ६-७ ॥

गोपनीयं गोपनीयं गोपनीयं पुनः पुनः ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छति ॥ ६-८ ॥


श्रीदेव्युवाच ।


देवेश श्रोतुमिच्छामि रहस्यं परमं वरम् ।

श्रीशिव उवाच ।

सर्वं विशेषतः प्रोक्तमथ कादिक्रमं शृणु ॥ ६-९ ॥

दिव्यसिद्धमानवेशमहाकालक्रमेण च ।
अतिकालकरालास्यवीरनाथक्रमेण च ॥ ६-१० ॥

पञ्चातिकाले नव च कराले दश पार्वति ।
कालत्रयं महाकाले नवभेदा गुरुक्रमात् ॥ ६-११ ॥

वीरनाथे शतं देवि गुरुभेदः प्रकीर्त्तितः ।
नवनाथयुग्मभेदात् सिद्धेः साम्यं कहे भवेत् ॥ ६-१२ ॥

एतत्क्रमेण देवेशि दीक्षणं कादिसम्मते ।
अस्यामेव महेशानि शम्भोः प्राधान्ययोगतः ॥ ६-१३ ॥

शाम्भवत्वं भवेद्देवि शिवोऽहं निर्गुणेति च ।
शक्ते प्राधान्याच्छाक्तत्वं देवीरूपाहमेव सा ॥ ६-१४ ॥

कालिकाहं महातारारूपाहं सर्वदैव च ।
तद्द्वयाच्छैवशक्तिः स्यादिति संक्षेपतो मतम् ॥ ६-१५ ॥

स्थित्वा दिव्यौघपानं च कीर्त्तितं परमेश्वरि ।
सिद्धौघे स्थापयित्वा तु पानं कुर्यान्महेश्वरि ॥ ६-१६ ॥

मानवौघे समुत्थाय क्रमात् त्रितयमीरितम् ।
संगीभूत्वा तु चैतन्यं सहयोनिः कुलेश्वरि ॥ ६-१७ ॥

विसर्जनोत्तरं देवि भद्रनाथस्य कीर्त्तितम् ।
वीरतृप्त्युत्तरं देवि चाति कालमतक्रमः ॥ ६-१८ ॥

शक्तिपात्रं स्थाप्य भिन्नं दक्षिणामूर्त्तिसम्मते ।
शक्तिपात्रं च गृह्णीयात् वीरनाथमतं शिवे ॥ ६-१९ ॥

कुलचक्रं भवेत्काल्यामकुलं कालिकामनौ ।
कुलाकुलं च तारायां सम्प्रदायत्रयान्तरे ॥ ६-२० ॥

दिव्यमार्गवीरमार्गपशुमार्गक्रमेण च ।
पूर्णाभिषेकयोगेन चाज्ञानाम प्रदापयेत् ॥ ६-२१ ॥

पूर्णाभिषेको देवेशि हादिकादिक्रमेण च ।
कथ्यते देवदेवेशि शृणु सावहिता भव ॥ ६-२२ ॥

शुभमासे शुभर्क्षे च शुभलग्ने शुभोदये ।
कालरात्रिदिने प्राप्ते वीररात्रिदिने तथा ॥ ६-२३ ॥

मोहरात्रिदिने चैव महारात्रिदिने तथा ।
क्रोधरात्रिदिने देवि घोररात्रिदिने तथा ॥ ६-२४ ॥

तारारात्रिदिने चापि अबलारात्रियोगजे ।
दारुणासङ्गमे वापि मकरे कुम्बसङ्गमे ॥ ६-२५ ॥

विविक्तस्थानमासाद्य स्थानशुद्ध्यादिपूर्वकम् ।
पर्वते विपिने घोरे शून्यगेहे श्मशानके ॥ ६-२६ ॥

एकलिङ्गे शिवावासे श्मशानाष्टककेऽपि च ।
चक्रपाणिगृहे नद्या पुर्यां पीठाष्टके शिवे ॥ ६-२७ ॥

पञ्चाशत्पीठमध्ये वा पुष्पिण्युत्सवकेऽपि च ।
गङ्गागर्भे तडागे च वेश्यावासे च सङ्गमे ॥ ६-२८ ॥

कुलवृक्षवने वापि कदलीवनमध्यतः ।
अथ पूग वने देवि नारिकेलवने तथा ॥ ६-२९ ॥

कदलीमण्डपे दिव्ये वाटिकायां विचित्रिते ।
पालाशवनमध्ये च पुण्यक्षेत्रे विशेषतः ॥ ६-३० ॥

स्वैरिणीगृहमध्ये च कुट्टनीनर्त्तमण्डले ।
विशिष्टस्थानमासाद्य मण्डपं तत्र कारयेत् ॥ ६-३१ ॥

कलाहस्तं सूर्यहस्तं नवहस्तं महेश्वरि ।
पञ्चहस्तं महेशानि नवकुण्डीक्रमेण च ॥ ६-३२ ॥

अथवा एककुण्डाख्यक्रमेण परमेश्वरि ।
मण्डपं कारयेद्देवि मेरुसाधनमार्गतः ॥ ६-३३ ॥

श्रीमेरुमण्डपं देवि यथादीक्षानुसारतः ।
वितानध्वजभूषाढ्यं प्राकारपरिस्वैर्युतम् ॥ ६-३४ ॥

गोपुरैः संयुतं देवि नानातोरणमण्डितम् ।
तदग्रे परमेशानि पूजामण्डपमाचरेत् ॥ ६-३५ ॥

अष्टाष्टकत्रिक्रमेण पञ्चपञ्चकमार्गतः ।
एतासां सन्निवेशो हि यथा भवति पार्वति ॥ ६-३६ ॥

तथा मण्डपमासाद्य अब्जानि रचयेत्ततः ।
सहस्रकोष्ठजं देवि सर्वतोभद्रमाचरेत् ॥ ६-३७ ॥

तत्र चक्रं ताम्रपात्रे स्वर्णे रौप्ये च भूमिजे ।
वस्त्रे वा रचयेद्देवि तथा चक्रस्य तच्छृणु ॥ ६-३८ ॥

सर्वतोभद्रपीठं च देवपीठे प्रकीर्त्तितम् ।
एकाब्जं योगिनीपात्रे पञ्चाब्जं क्षेत्रपालके ॥ ६-३९ ॥

नवाब्जं गणपे प्रोक्तं वटुके लिङ्गभद्रकम् ।
विरच्य परमेशानि मेरुमण्डपमाचरेत् ॥ ६-४० ॥

मेरुसंसाधनं कर्म्म श्रीविद्योपासकस्य च ।
सकलं निष्कलं देवि द्विविधं मेरुसाधनम् ॥ ६-४१ ॥

दीक्षाङ्गत्वेन सकलं निष्कलं कामनाङ्गतः ।
श्रीविद्या कालिका तारा त्रिविद्योपासके शिवे ॥ ६-४२ ॥

मेरुसंसाधनं देवि दीक्षायां परिकीर्त्तितम् ।
एतद्भिन्ना महेशानि नहि दीक्षा भवेत् क्वचित् ॥ ६-४३ ॥

श्रीविद्योपासकानां च पारम्पर्यक्रमं शृणु ।
आदौ बाला विनिर्द्दिष्टा ततः पञ्चदशी मता ॥ ६-४४ ॥

तथा श्रीषोडशीविद्या पराविद्या तदुत्तरम् ।
ततश्चरणदीक्षा स्यान्निर्वाणदीक्षणं ततः ॥ ६-४५ ॥

ततः षट्शाम्भवाख्या च मेघादीक्षा तदुत्तरम् ।
अनुक्रमेण संयुक्ता मेधादीक्षाभिधा भवेत् ॥ ६-४६ ॥

अथ चैकतमा याति ततः साम्राज्यदीक्षणम् ।
दिव्यसाम्राज्यमेधा च तदनन्तरगा भवेत् ॥ ६-४७ ॥

विद्याराज्याभिधा देवि छिन्नाविद्याविधौ भवेत् ।
साम्राज्यं पारमेष्ठ्यं च बगलामनुगोचरम् ॥ ६-४८ ॥

श्रीविद्याङ्गा तु बगला ताराङ्गा छिन्नमस्तका ।
एतद्दीक्षोत्तरं देवि नान्या दीक्षास्ति कुत्रचित् ॥ ६-४९ ॥

बालया देहशुद्धिश्च ततो विद्याधिकारता ।
विद्याधिकारतां याते श्रीषोढोपासनं चरेत् ॥ ६-५० ॥

षोढाधिकारी देवेशि पञ्चषोढां न्यसेत्तनौ ।
विन्यासी पञ्चषोढायाः पराविद्यां जपेत् सदा ॥ ६-५१ ॥

पराष्ट्कं ततो न्यस्य ततश्चरणचिन्तनम् ।
ततो निर्वाणं विन्यस्य ततः शाम्भवमाचरेत् ॥ ६-५२ ॥

तत् षोढात्रितयं न्यस्य रश्मिचिन्तनमाचरेत् ।
श्रीरश्मिं च परारश्मिं द्वितयं विन्यसेत्ततः ॥ ६-५३ ॥

मेधादीक्षा समग्रा तु ततो भवति पार्वति ।
मेधोत्तरं महेशानि साम्राज्यमेधिकां न्यसेत् ॥ ६-५४ ॥

ततो दिव्याभिधां न्यस्य सदाशिवसमो नरः ।
मेरुभेदादिविज्ञानं श्रीमहासिद्धशैवके ॥ ६-५५ ॥

कालिकाम्नायतंत्रे तु ऊर्ध्वाम्नाये प्रकीर्त्तितम् ।
अत्रापि देवदेवेशि कथ्यते चान्तिमे विधौ ॥ ६-५६ ॥

कुण्डादिरचना देवि तत्रत्यैवं महेश्वरि ।
क्रमागतात्सूचितं च प्रकृतं शृणु पार्वति ॥ ६-५७ ॥

पूर्वोक्तं मण्डपं कृत्वा नानाचित्रविचित्रितम् ।
घण्टानादविभूषाढ्यं दर्पणोदरसन्निभम् ॥ ६-५८ ॥

भूमिं कृत्वा महेशानि वक्ष्यमाणं समाचरेत् ।
विधाय चक्रं तन्मध्ये चक्रे कुम्भं निधाय तम् ॥ ६-५९ ॥

क्वाथोदकैः समापूर्याभिषिञ्चामि वदेन्मनुम् ।
क्रमागतसमाचारनिरते भक्तिशालिनि ॥ ६-६० ॥

विरच्य विपुलं चक्रं प्रतियोनिं तु षोडश ।
त्रिकोणानि विधायाथ मध्ये कुम्भं तु विन्यसेत् ॥ ६-६१ ॥

सौवर्णं राजतं ताम्रं काचं मार्त्तिकमेव वा ।
पूरितं क्षारितं येन क्वथितेनाक्षरौषधैः ॥ ६-६२ ॥

निक्षिप्य नवरत्नानि(?) कन्यानि(?) विविधानि च ।
हिरण्यानि सताम्राणि वासोम्यामपि वेष्टयेत् ॥ ६-६३ ॥

रक्ताभ्यां चन्दनयुतं पनसाश्वत्थपल्लवैः ।
शतक्रतुलताबद्धैर्मातुलुङ्गफलान्वितैः ॥ ६-६४ ॥

पिधानकलशानन्यानन्येष्वेकैकशो न्यसेत् ।
सार्धं सहस्रं त्रिंशच्च षष्टिसंख्या क्रमोदिता ॥ ६-६५ ॥

मध्यचक्रेषु तोयादि कृत्वा बाह्याधिपूज्य च ।
कालात्मनित्यामंत्रांश्च जपित्वा पूर्ववासरे ॥ ६-६६ ॥

कालात्मनित्यामंत्राश्च कादावपि महेश्वरि ।
कादौ श्रीचक्रस्थाने च कालीचक्रं महेश्वरि ॥ ६-६७ ॥

त्रिकोणाद्येषु भेदेषु समता परिकीर्त्तिता ।
तारायां कालिकास्थाने ताराचक्रं महेश्वरि ॥ ६-६८ ॥

कालात्मनित्यास्थाने च वाग्देव्यङ्गार्णदेवता ।
सर्वत्र समता प्रोक्ता सर्वं तु कादिवद्भवेत् ॥ ६-६९ ॥

जन्मर्क्षे प्रातरुत्थाय स्वनित्यां तत्र पूजयेत् ।
काल्यां ताराविधौ देवि नित्यास्थाने मनुं जपेत् ॥ ६-७० ॥

सहस्रं प्रजपेत्पश्चात् होमं कृत्वा समन्ततः ।
तत्पूर्वं षोडशाह्नाइ प्रायश्चित्तं समाचरेत् ॥ ६-७१ ॥

षष्टिजपः कालनित्यानामपारायणं तथा ।
मंत्रपारायणं देवि चक्रपारायणं तथा ॥ ६-७२ ॥

यंत्रपारायणं देवि स्वयं वा स्वगुरुश्च वा ।
दिनतो वारतः पक्षान्मासात्षट्त्रिंशता दिनैः ॥ ६-७३ ॥

सन्ध्याचतुष्टयं हादौ कादौ युग्मे त्रयी भवेत् ।
प्रायश्चित्तं समाचर्यय सामग्रीमष्टकार्च्चने ॥ ६-७४ ॥

कृत्वा संस्थाप्य यत्नेन विद्योक्तं तिलकं चरेत् ।
शृङ्गकाहलशङ्खादिवाद्यसङ्गीतनर्त्तनैः ॥ ६-७५ ॥

मुदितैर्योगिनीवृन्दैरेकैकं देवतात्मभिः ।
वृतैः सम्पूजितैः सर्द्धमभिषिञ्चेद्गुरुः स्वयम् ॥ ६-७६ ॥

षोढाभिषेकमंत्रैश्च कहहादिक्रमोदितैः ।
मूलभेदैश्च वा देवि सहस्रमभिषेचयेत् ॥ ६-७७ ॥

कालचक्रं रौप्यजं च तत्र चक्रं सुवर्णजम् ।
महापात्रे तु संस्थाप्य विद्यां तत्राभिषेचयेत् ॥ ६-७८ ॥

विद्याजलैर्महेशानि गुरोश्च कृपया युतः ।
अभिषिच्य प्रयत्नेन चक्षुष्मत्यादि सान्तकम् ॥ ६-७९ ॥

सम्प्रदायत्रयेणैव शिष्यं स्वस्तिकमण्डले ।
संस्थाप्य सिच्य यत्नेन तदङ्गे जपपूर्वकम् ॥ ६-८० ॥

देवीरूपं शिष्यतनुं कलशस्याक्षरैः सह ।
परकायक्रमेणैव जीवकीटक्रमेण च ॥ ६-८१ ॥

भृङ्गित्वं याति देवेशि तज्जीवं पुत्तलीतनौ ।
स्थाप्य शिष्यं बोधयेच्च ब्रह्मानन्दपरायणः ॥ ६-८२ ॥

जीवः कीटः पुरा भूत्वा भृङ्गित्वमभिगच्छति ।
ततः षट्चक्रभेदं च कृत्वा तद्रसभुग्भवेत् ॥ ६-८३ ॥

तत्परागं महेशानि स्थापितं यंत्रपीठके ।
तेन मंत्रान् लिखेत्तत्र तस्योच्चारणमाचरेत् ॥ ६-८४ ॥

भृङ्गावली तेन याति चक्रमंत्रार्णयोगतः ।
मन्त्रवर्णान् चक्रवर्णान् कियत्संख्यानि कानि वै ॥ ६-८५ ॥

एतद्विभाव्य गणयेत्तावदंशप्रपूर्णता ।
जीवकीटस्ततो भृङ्गी ततस्त्वेवं चराचरम् ॥ ६-८६ ॥

तेन भृङ्गावली नाम योगिनामपि दुर्लभा ।
क्रमदीक्षायुतानां च भृङ्गित्वं सुलभं क्रमात् ॥ ६-८७ ॥

मंत्ररूपो भवेत्तेन सम्राण्मेधा प्रकीर्त्तिता ।
स्वयं शक्तिस्तद्द्वयं च शक्तिस्वक्रमयोगतः ॥ ६-८८ ॥

शैवशाक्ते शाक्तशैवे तद्द्वयक्रमयोगतः ।
चक्राणि चैवं विज्ञाय उक्तमार्गेण पार्वति ॥ ६-८९ ॥

चक्राणि चैव निर्भिद्य स्वरूपं तत्स्वरूपकम् ।
न कीटत्वं न भृङ्गित्वं स्वरूपेणैव देवता ॥ ६-९० ॥

देवतारूपभावेन क्षणात्तद्रूपता भवेत् ।
आदौ तु पुत्तलीं कृत्वा तत्र जीवं प्रविन्यसेत् ॥ ६-९१ ॥

ज्ञात्वा तु प्रत्ययं देवि ततश्च संयतेत् शिवे ।
कलौ पापसमाकीर्णे न समाधिर्न योगता ॥ ६-९२ ॥

यदि योगो भवेद्देवि नहि तत्र फलं भवेत् ।
तस्मात्कारणतो देवि मंत्रयोगं समभ्यसेत् ॥ ६-९३ ॥

स्वक्रमं सोऽपि कथयेत्तदा प्रभृति सोऽपि तम् ।
अनुतिष्ठेदविच्छिन्नं पर्ययायं तस्य विच्युतौ ॥ ६-९४ ॥

सहस्रं प्रजपेद्विद्यां अभिषेकसमन्वितः ।
दिनषोडशकं वापि नवरात्रं च वा प्रिये ॥ ६-९५ ॥

पञ्चरात्रं त्रिरात्रं च यथावत्साधयेद्ध्रुवम् ।
चक्षुष्मत्यादि मेधान्तं पूर्वं संसाधयेद् ध्रुवम् ॥ ६-९६ ॥

सर्वे मंत्राः प्रयोक्तव्याः षडाम्नायादिभेदजाः ।
अष्टादशाम्नायमंत्राः कादिहादिक्रमेण च ॥ ६-९७ ॥

षट्दर्शनाभिधा मंत्रा दशविद्याप्रभेदजाः ।
ते सर्वे चात्र द्रष्टव्याः श्रोतव्याः केचन प्रिये ॥ ६-९८ ॥

जप्तव्याः केऽपि देवेशि दीक्षायोगोऽत्र कारणम् ।
एवं संप्राप्तयोगो हि शिवरूपो भवेन्नरः ॥ ६-९९ ॥

चक्षुष्मती वाङ्मती च स्पर्शनित्या महेश्वरि ।
वर्णदीक्षा क्रियादीक्षा तथैव च कलावती ॥ ६-१०० ॥

पञ्चायतनिका चैव तथा वेधमयी शिवे ।
वेधः पञ्चविधो देवि पूर्वमेव प्रकाशितः ॥ ६-१०१ ॥

पूर्णदीक्षा महेशानि ऊर्ध्वाम्नायमयी तथा ।
निर्वाणदीक्षा देवेशि तथा शाम्भवभेदजा ॥ ६-१०२ ॥

वेदबाणपशुपतिक्रमयोगेन वै कहे ।
मेधा साम्राज्यमेधा च दिव्यसाम्राज्यरूपिणी ॥ ६-१०३ ॥

एतद्युक्तः केरलस्तु संक्षेपेण प्रकाशितः ।
चक्षुष्मत्यादि ऊर्ध्वान्ता काश्मीरे परिकीर्त्तिता ॥ ६-१०४ ॥

चक्षुष्मत्यादिपूर्णान्ता गौडी दीक्षा प्रकीर्त्तिता ।
षष्टितत्वाष्टसिद्धिश्च क्रमेण परिकीर्त्तिता ॥ ६-१०५ ॥

महाकालकलारन्ध्रबाणतत्त्वादिपात्रयुक् ।
दशाङ्गांश्चाष्टपञ्चांगान् पूर्वमेव मयेरितान् ॥ ६-१०६ ॥

तृतीयखण्डे देवेशि सर्वमेतत्प्रकीर्त्तितम् ।
मनोरथमयी सिद्धिः साम्राण्मेधाविधौ भवेत् ॥ ६-१०७ ॥

अथवा षण्णवत्यष्टकलशांस्तत्र विन्यसेत् ।
तेषु शक्तीः समावाह्य सम्पूज्यैवाभिषेचयेत् ॥ ६-१०८ ॥

एकान्तसफलं जन्मदिने कृत्वाभिषेचयेत् ।
नाथैस्तत्त्वैश्च नित्याभिः कालीनित्यान्तविद्यया ॥ ६-१०९ ॥

आधारे हृदये शीर्षे वह्नौ सूर्यये निशाकरे ।
ध्यायन् त्रिसन्ध्यं प्रजपेत् सर्वगं व्यञ्जनं स्वरम् ॥ ६-११० ॥

न्यसेच्च मातृकास्थाने तथा तद्देहसिद्धये ।
ग्रहाणां वैपरीत्येषु जन्मर्क्षे ग्रहणे द्वयोः ॥ ६-१११ ॥

कुहुप्राप्तौ रिपुक्लेशे कुर्ययादेवाभिषेचनम् ।
तेन दोषाः स्पृशन्त्येनं न कदाचिन्न तद्बलात् ॥ ६-११२ ॥

क्षुद्राणि क्रूरकर्माणि कृत्याश्च रिपु कल्पिताः ।

श्रीदेव्युवाच ।

बलं कथं भवेदस्य सेकस्य परमेश्वर ॥ ६-११३ ॥

ब्रूहि मे तद्बलं येन क्लेशा नश्यन्त्यशेषतः ।


श्रीशिव उवाच ।


सोमसूर्याग्निरूपेण जलेन स्पर्शयोगतः ॥ ६-११४ ॥

नश्यन्त्यशेषदोषास्तु तस्मात् सेकसमो नहि ।
सोमसूर्याग्निरूपत्वं जलस्य परिकीर्त्तितम् ॥ ६-११५ ॥

तस्मादशेषदुःखार्तिशान्त्यै स्यादभिषेचनम् ।
सप्तसूक्तेषु कालेषु पुण्येष्वन्येषु चादरात् ॥ ६-११६ ॥

कुर्ययात्सदक्षिणां पूजां गुरोः प्रत्यक्षमेव वा ।
उक्तेषूत्थानजातेषु पूजयेत्स्वर्णपुष्पकैः ॥ ६-११७ ॥

अभिषिक्तस्तु विधिना प्रदद्याद्दक्षिणां गुरोः ।
गुरुं तदग्रतः प्राप्तविद्यं तदनुजं तथा ॥ ६-११८ ॥

गुरोर्गुरुं तद्गुरुं च स्वग्रतो लब्धविद्यकान् ।
प्रणामपूजास्तवतसेवादिभिरुपासनैः ॥ ६-११९ ॥ (?)

तोषयेदन्यथा शक्तिः स्वीया तद्गामिनी भवेत् ।
बहुचन्दनकाश्मीररत्नकस्तूरिकायुतैः ॥ ६-१२० ॥

पङ्कैर्विदध्यात् सर्वत्र गुरुपादद्वयं शिवे ।
प्रतिवर्षं महेशानि कुर्ययादेवाभिषेचनम् ॥ ६-१२१ ॥

पूर्णाभिषेकयुक्तो हि ऊर्ध्वाम्नायादि चाष्टकम् ।
गुरुं प्राप्य महेशानि तद्दीक्षायै पठेत्सदा ॥ ६-१२२ ॥

इति संक्षेपतः प्रोक्ता मेधादीक्षा महेश्वरि ।
कादिक्रमे महेशानि कथ्यते शृणु साम्प्रतम् ॥ ६-१२३ ॥

सर्वव्यापकरूपं च शक्ति ज्ञानं महेश्वरि ।
परम्परात्परं देवि तच्च देवि द्विधा मतम् ॥ ६-१२४ ॥

काद्यं हाद्यं महेशानि काद्यं कालीमतं भवेत् ।
हाद्यं श्रीत्रिपुराख्यं च कहाख्यं तारिणीमतम् ॥ ६-१२५ ॥

यः कश्चिन्मन्त्रजापी तु तत्र काली वरप्रदा ।
भाषाभेदाः शाबराणां मंत्रमात्रे महेश्वरि ॥ ६-१२६ ॥

वरदानाधिकारो हि कालिकायाः प्रकीर्त्तितः ।
एतत्कथाविस्तरस्तु कादिहादिविनिर्णये ॥ ६-१२७ ॥

पूर्वं विस्तरतो देवि मया तत्परिकीर्त्तितम् ।
उभयत्र भवेन्मेधाभेदः पारायणे क्वचित् ॥ ६-१२८ ॥

कादौ स्पर्शमणिर्देवि तथा चिन्तामणिः प्रिये ।
सिद्धकाली महाविद्याराज्ञी कामकला ततः ॥ ६-१२९ ॥

हंसकाली गुह्यकाली वेदपञ्चरसक्रमात् ।
शाम्भवं परमेशानि क्रमान्मेधा प्रकीर्त्तिता ॥ ६-१३० ॥

उभयक्रमतो देवि सम्राण्मेधा प्रकीर्त्तिता ।
नाडीपारायणं नाम मन्त्रपारायणं तथा ॥ ६-१३१ ॥

चक्रपारायणं देवि पूर्णोर्ध्वाम्न्याय एव च ।
चरणस्तुर्यचरणस्तथा षट्शाम्भवः शिवे ॥ ६-१३२ ॥

मेधा साम्राज्यमेधा च क्रमेणः परमेश्वरि ।
तत्प्रश्नविद्याजन्मादिवर्षदेशाख्यजातके ॥ ६-१३३ ॥

कालनित्या कालचक्रं उभयत्र समं भवेत् ।
तद्द्वयोक्तशिवः प्रोक्तः साक्षात्परशिवो भवेत् ॥ ६-१३४ ॥

शिवदेवीवटेशाख्यस्तथा चानन्दभैरवः ।
केरलश्चैव काश्मीरो गौडचैतन्यगः शिवे ॥ ६-१३५ ॥

प्रत्येकं तु निगदितं सम्प्रदायचतुष्ककम् ।
आज्ञानाम योगपट्टः क्रमेण दापयेद्गुरुः ॥ ६-१३६ ॥

अवधूतः सर्वगः स्यात् पूर्वोक्तनिर्णयो ह्ययम् ।
कापालिके पञ्चभेदाश्चण्डे भेदद्वयं भवेत् ॥ ६-१३७ ॥

स्वायम्भुवे त्रयं देवि कौले चाष्टौ प्रकीर्त्तिताः ।
वीरे पञ्च महेशानि वैष्णवे दश पार्वति ॥ ६-१३८ ॥

गाणपेऽष्टौ महेशानि जैने शतद्वयं भवेत् ।
सौरे पञ्च महेशानि बौद्धानां शतमात्रकम् ॥ ६-१३९ ॥

दश पाशुपते प्रोक्ता मुण्डी त्रिंशन्महेश्वरि ।
केरलश्चैव काश्मीरगौडभेदेन पार्वति ॥ ६-१४० ॥

केरले भावना प्रोक्ता काश्मीरे चानुकल्पनम् ।
गौडे प्रत्यक्षदानं च चक्रत्रितयमीरितम् ॥ ६-१४१ ॥

केरले त्रितयं देवि वटवासि मते शिवे ।
गुप्तोग्रकेरले देवि शुद्धकेरलके तथा ॥ ६-१४२ ॥

तद्द्रव्यभावना देवि सर्वान्ते परिकीर्त्तिता ।
त्रिधा केरलमेतद्धि वटवासिमते शिवे ॥ ६-१४३ ॥

एतद्भेदा महेशानि तारासूक्ते प्रकाशिताः ।
दिव्यौषधैर्महेशानि प्रसौ पञ्च प्रकीर्त्तिता ॥ ६-१४४ ॥

आराध्य कलहट्टौ च पुष्पचक्री तथैव च ।
जीवचक्री महेशानि सम्प्रदायान्तरं शृणु ॥ ६-१४५ ॥

दशावतारपूर्वत्वं चैतन्यस्तदनन्तरम् ।
ब्रह्मादिपदपूर्वत्वं पञ्चाशदीश्वरान्तकम् ॥ ६-१४६ ॥

पञ्चाशदीश्वराद्यं च चैतन्यान्तं महेश्वरि ।
पञ्चाशत् केशवाद्यं च गणपाद्यं तथैव च ॥ ६-१४७ ॥

त्रिपुराद्यं महेशानि कामाद्यं परमेश्वरि ।
रत्याद्यं वा महेशानि छिन्नायां तु विशेषतः ॥ ६-१४८ ॥

डाकिन्याद्यं तथा देवि भैरवाद्यं च वा भवेत् ।
नृसिंहाद्यं च चैतन्यं किं वा देशपरंपरा ॥ ६-१४९ ॥

कलहट्टस्त्वाततायी गोमुखी वल्लभस्तथा ।
विज्ञानी वामविज्ञानी तथैव सिद्धदीक्षितः ॥ ६-१५० ॥

विद्याराट् च विराट् स्वामी सम्राण्मण्डलमेव च ।
एते देशपरं याता महासिद्धिप्रयोगजाः ॥ ६-१५१ ॥

सम्प्रदायविहीनानां कुलशास्त्रप्रयोजनात् ।
सर्वगर्हित इत्युक्तो भैरवाख्यः प्रकीर्त्तितः ॥ ६-१५२ ॥

वेदबाह्यो यथा प्रोक्तस्तथैवायं प्रकीर्त्तितः ।
एतद्देशपरं यातास्त्वन्यान् शृणु हि पार्वति ॥ ६-१५३ ॥

तारावती भोगवती तथैव विमलावती ।
प्रज्ञावती मधुमती तथा प्रज्ञावती मता ॥ ६-१५४ ॥

उद्भटाम्बावती देवि एते चार्हतभेदजाः ।
अनुग्रहाख्यश्चैतन्यस्तथैव निग्रहाभिधः ॥ ६-१५५ ॥

निग्रहानुग्रहाख्यश्च राजचैतन्य एव च ।
कला चैतन्यनामा च श्रीचैतन्यस्तथा शिवे ॥ ६-१५६ ॥

दिव्यचैतन्यको देवि तथा प्रज्ञानवाचकः ।
शाम्भवाख्यस्तु चैतन्यो विज्ञानाख्यस्तथैव च ॥ ६-१५७ ॥

पराचैतन्यनामाख्यस्त्वात्मचैतन्य एव च ।
वैराजाख्यश्च चैतन्यः श्रीचैतन्यस्तथैव च ॥ ६-१५८ ॥

प्रज्ञाचैतन्यनामा च प्रासादाख्यस्तथैव च ।
निर्वाणाख्यस्तु चैतन्यो मेधाचैतन्य एव च ॥ ६-१५९ ॥

अथ शाम्भवचैतन्यः श्रीचैतन्यस्तथैव च ।
विद्याचैतन्यनामाख्यः सिद्धचैतन्य एव च ॥ ६-१६० ॥

एते काश्मीरमार्गस्थास्त्रिपुरा कादिभेदतः ।
रङ्गवारो देववारो मायादेवस्तथा शिवे ॥ ६-१६१ ॥

कालाख्यश्चैव काञ्चीशो ब्रह्मवारस्तथापरः ।
राजवारः सिद्धवारो विश्वरूपस्तथापरः ॥ ६-१६२ ॥

उन्मत्तभैरवाख्यस्तु वाक्शक्तिः काव्यसिद्धियुक् ।
भूतभैरवनामाख्यो मूर्त्तिस्फोटश्च विग्रहः ॥ ६-१६३ ॥

विराट्भैरवनामाख्यौ मूर्त्तिचालनवाक्परः ।
स्वराट्भैरवनामाख्यो वाञ्छावाक्सिद्धिगोचरः ॥ ६-१६४ ॥

सम्राट्भैरवनामाख्यः सर्वरूपत्वसिद्धियुक् ।
श्रीमद्बटुकनामाख्यः शापानुग्रहकृत् कलौ ॥ ६-१६५ ॥

सर्वत्र सर्वरूपत्वनानन्दभैरवे भवेत् ।
असिताङ्गो वाक्परश्च तथैवाञ्जनयुक् शिवे ॥ ६-१६६ ॥

रूपभेदकल्पनाख्यसिद्धिर्गुप्तिस्तथैव च ।
परकायप्रवेशश्च खेचरी चण्डभैरवे ॥ ६-१६७ ॥

अन्यथासृष्टिकरणं क्रोधाख्ये सम्प्रदायके ।
इन्द्रजालमहेन्द्रादि कपालभैरवे भवेत् ॥ ६-१६८ ॥

नदीसमुद्रशोषादिभीषणाख्यप्रदायके ।
एते भेदा वीरचक्रे केरले शृणु पार्वति ॥ ६-१६९ ॥

दिव्यबोधानन्दनाथाः कलानाथान्तवाचकः ।
केवलं नन्दनाथाख्यः केवलं नामवाचकः ॥ ६-१७० ॥

एकस्मिन् त्रितयं देवि क्रमेण योज्यते शिवे ।
मानवाख्यस्त्रयान्तो हि सिद्धचैतन्यवह्नियुक् ॥ ६-१७१ ॥

दिव्यचैतन्यगुणयुक् दिव्यप्रज्ञानमेव च ।
गुणयुक् परमेशानि नाथानन्दक्रमेण च ॥ ६-१७२ ॥

नन्दनाथो महेशानि मिलित्वा बाणसंख्यकः ।
चैतन्यान्तो विलासाख्यो बाणसंख्याप्रवाचकः ॥ ६-१७३ ॥

सिद्धचैतन्यनामा च पञ्चधा पूर्ववत् प्रिये ।
सिद्धाद्यश्च विलासान्तो बाणसंख्याप्रवाचकः ॥ ६-१७४ ॥

सत्याद्यो हि विलासान्तो बाणसंख्याप्रवाचकः ।
सिद्धप्रज्ञो महेशानि बाणसंख्याप्रवाचकः ॥ ६-१७५ ॥

ऋद्धिचैतन्यनामाख्यो बाणसंख्याप्रवाचकः ।
अणिमाद्यष्टपूर्वत्वमेतदन्तं महेश्वरि ॥ ६-१७६ ॥

चत्वारिंशत्प्रभेदाश्च मातृकाक्रमतोऽपि च ।
चत्वारिंशत्प्रभेदाश्च क्रमेण परमेश्वरि ॥ ६-१७७ ॥

ओघत्रयं द्वैतमध्यं तदन्ते तु सरस्वती ।
शम्भवाद्यं मध्यपूर्वं सरस्वत्यन्तकं शिवे ॥ ६-१७८ ॥

बाणमेधा मध्यपूर्वं तदन्ते च सरस्वती ।
एवं क्रमेण देवेशि दशभेदाः प्रकीर्त्तिताः ॥ ६-१७९ ॥

चिन्मेधा चैव चित्प्रज्ञा श्रीनाथश्च तदन्तरम् ।
सम्प्रदायत्रयं देवि बाणसंख्याप्रवाचकम् ॥ ६-१८० ॥

सारस्वतपदं पूर्वं तदन्ते सुन्दरी शिवे ।
निग्रहाख्यं पदं पूर्वं तदन्ते तु सरस्वती ॥ ६-१८१ ॥

सुन्दर्यन्तं च सिद्धाद्यं शापानुग्रहकारकम् ।
सुन्दर्यन्तं महेशानि कालाद्यं च सरस्वती ॥ ६-१८२ ॥

साम्राज्याद्यं महेशानि तदन्ते तु सरस्वती ।
सौभाग्याद्यं महेशानि तदन्ते तु सरस्वती ॥ ६-१८३ ॥

देवीपरम्परायां तु संक्षेपेण प्रकाशितम् ।
दिव्याद्यं श्रीविलासान्तं बाणसंख्याप्रवाचकम् ॥ ६-१८४ ॥

दिव्याद्यं च महाप्रज्ञा बाणसंख्याप्रवाचकम् ।
सम्राट् वैराट् च स्वाराज्यमधिराज्यं च राज्यकम् ॥ ६-१८५ ॥

महाराज्यं पारमेष्ठ्यमाधिपत्यं तथैव च ।
सार्वभौमश्चक्रवर्ती शक्रानन्दस्तथैव च ॥ ६-१८६ ॥

ब्रह्मानन्दश्चिदानन्दः पूर्णानन्दस्तथैव च ।
महासमरसानन्दो महानन्दस्तथैव च ॥ ६-१८७ ॥

बाणक्रमेण देवेशि भेदानां नवतिर्भवेत् ।
बटुकस्य मतं प्रोक्तं नामानि सूचितानि च ॥ ६-१८८ ॥

निरुक्तिश्च महेशानि दीक्षाभेदोत्तरं शिवे ।
कथ्यते परमेशानि किमन्यत् श्रोतुमिच्छसि ॥ ६-१८९ ॥


इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे नामविवरणं नाम षष्ठः पटलः ॥ ६ ॥

Paṭala 7

श्रीदेव्युवाच ।


हादिकादिक्रमेणैव सम्प्रदायत्रयं शिव ।
कथयस्व महादेव यद्यहं तव वल्लभा ॥ ७-१ ॥


श्रीशिव उवाच ।


सूचिता परिभाषा च विस्तरः कथ्यते शृणु ।
मेधादीक्षायुतो देवि केरलः परिकीर्त्तितः ॥ ७-२ ॥

षट्शाम्भवः प्रश्नयुतस्तथा चाष्टाष्टकान्वितः ।
ऋक्केरली महेशानि श्रीयजुःकेरली तथा ॥ ७-३ ॥

श्रीसामकेरली देवि तथा चाथर्वकेरली ।
अथर्वे बहवो भेदा दिव्यसिद्धादिमाननवैः ॥ ७-४ ॥

आनन्दभैरवशिवा दक्षिणामूर्त्तिरेव च ।
देवी च नवनाथश्च सिद्धभेदक्रमेण च ॥ ७-५ ॥

ओघत्रये महेशानि शिवशकिक्रमेण च ।
एतस्य लोपनाल्लोपा पराषोढाक्रमेण च ॥ ७-६ ॥

तत्पराचरणैर्देवी शाम्भवाष्टादशक्रमात् ।
तदोघक्रमयोगेन अनुलोमक्रमेण च ॥ ७-७ ॥

अगस्तिदुर्गाचण्डीशस्वप्नावतीक्रमेण च ।
महाविद्यादिक्रमेण तदोघक्रमभेदतः ॥ ७-८ ॥

अथर्वकेरले भेदाः शाक्ता वै ते प्रकीर्त्तिताः ।
शैववैष्णवसौराणां गाणबौद्धे तु भिन्नतः ॥ ७-९ ॥

दक्षहस्तेन पूजा स्याद्वामेन तर्पणं भवेत् ।
तर्पणं च तथा पानं दक्षेण परिकीर्तितम् ॥ ७-१० ॥

वामेन पूजनं देवि क्रमेण परिकीर्तितम् ।
जलं दुग्धं नष्टदुग्धं संविद्रसवटी तथा ॥ ७-११ ॥

वृंताकः सूरणो देवि दुग्धसारस्तथैव च ।
कुमारीपूजनं देवि परिभाषा तु केरले ॥ ७-१२ ॥

परमेशसपर्ययादि तद्रूपत्वं सदा भवेत् ।
अन्यकर्मणि देवेशि प्रवृत्तिस्तस्य वै न च ॥ ७-१३ ॥

तद्धस्तनिःसृतं तोयं मुक्तारूपं क्षणाद्भवेत् ।
परकायप्रवेशं च चराचरपुरीगतिः ॥ ७-१४ ॥

वयःस्थैर्ययमथाकर्षः सर्वस्थावरजङ्गमे ।
ब्रह्माण्डगोलके या च या काचिज्जगतीतले ॥ ७-१५ ॥

करामलकवद्देवि साधकस्य भवेद्ध्रुवम् ।
कादिहादिमते देवि फलमेतत् कहेपि च ॥ ७-१६ ॥

काश्मीरं संप्रवक्ष्यामि शृणु पार्वति सादरम् ।
ऊर्ध्वाम्नायादिभिर्युक्तं काश्मीरी शक्तिपातयुक् ॥ ७-१७ ॥

अष्टाष्टकसमायुक्तः काश्मीरस्तत्त्वसिद्धियुक् ।
ऋक्काश्मीरो यजुश्चैव सामकाश्मीर एव च ॥ ७-१८ ॥

अथाथर्वणकाश्मीरो दिव्यसिद्धादिमानवैः ।
दक्षिणामूर्त्तिभेदेन तथा भैरवभेदतः ॥ ७-१९ ॥

देवः सदाशिवश्चैव नवनाथक्रमेण च ।
चतुरशीतिसिद्धाश्च दिव्यौघौघशिवादितः ॥ ७-२० ॥

शैवशाक्ते तस्य लोपात् षोडशी तत्परा क्रमात् ।
चरणत्रययोगेन मन्वगस्तिक्रमेण च ॥ ७-२१ ॥

लोपा दुर्गा च चण्डेशी तथा स्वप्नावती क्रमात् ।
दशविद्यौघयोगेन काश्मीरे भेदभाजनम् ॥ ७-२२ ॥

सैववैष्णवगाणपे बौद्धसौरे तु भिन्नता ।
वामहस्तेन पूजा च दक्षेण तर्पणं मतम् ॥ ७-२३ ॥

दक्षेण पानं देवेशि ह्यनुकल्पाः प्रकीर्त्तिताः ।
अथ गौडं प्रवक्ष्यामि यथावदवधारय ॥ ७-२४ ॥

पूर्णाभिषेकसंयुक्तस्त्वष्टाष्टकसमन्वितः ।
ऋग्गौडश्च यजुर्गौडः सामगौडस्तृतीयकः ॥ ७-२५ ॥

अथर्वगौडो देवेशि तद्भेदं शृणु पार्वति ।
दिव्यसिद्धमानवौघदक्षिणामूर्तिभेदतः ॥ ७-२६ ॥

आनन्दभैरवश्चैव सदाशिवपरंपरा ।
देवी च नवनाथाश्च सिद्धा अपि महेश्वरि ॥ ७-२७ ॥

त्रितये शिवशक्तिभ्यां तल्लोपक्रमयोगतः ।
षोडशीमनुलोपां च तथागस्तिक्रमेण च ॥ ७-२८ ॥

दुर्गा चण्डेश्वरी देवी तथा स्वप्नावती क्रमात् ।
दशविद्यौघभेदेन तदावरणभेदतः ॥ ७-२९ ॥

अथर्वगौडे भेदश्च शाक्तमार्गे प्रकीर्त्तितः ।
शैववैष्णवसौराणां बौद्धगाणपके शिवे ॥ ७-३० ॥

भिन्नक्रमो महेशानि पूजनं वामहस्ततः ।
तर्पणं दक्षहस्तेन प्रत्यक्षं पानदानके ॥ ७-३१ ॥

महाविद्या सिद्धविद्या विद्याभेदेन पार्वति ।
विद्यारूपतदाचार तद्विद्याक्रमयोगतः ॥ ७-३२ ॥

चक्रभेदाम्नायभेदात्तदाचरणभेदतः ।
विद्योपास्या गौडमार्गे द्वितयेऽपि क्रमो ह्ययम् ॥ ७-३३ ॥

शक्तिदेहे महेशानि ब्रह्माण्डसरसाः प्रिये ।
त्रितयेऽपि भवेत् साम्यं नामपारायणं तथा ॥ ७-३४ ॥

मंत्रपारायणं देवि नाडीपारायणं शिवे ।
चक्रपारायणं देवि प्रोक्तं हादिमतं शिवे ॥ ७-३५ ॥

अथ कादौ महेशानि सम्प्रदायक्रमं शृणु ।
मेधादीक्षादिसंयुक्तः श्रीकादिकेरली भवेत् ॥ ७-३६ ॥

ऋक्केरली यजुश्चैव तथैव सामकेरली ।
पञ्चपञ्चकसंयुक्तः शक्तिपातसमन्वितः ॥ ७-३७ ॥

षट्शाम्भवप्रश्नयुक्तस्त्रैकाल्यज्ञानगोचरः ।
अथर्वकेरलं देवि शृणु यत्नेन साम्प्रतम् ॥ ७-३८ ॥

दिव्यसिद्धमानवौघमहाकालक्रमेण च ।
अथानन्दभैरवेन सदाशिवक्रमेण च ॥ ७-३९ ॥

देवीक्रमेण देवेशि नवनाथप्रभेदतः ।
चतुरशीतिसिद्धैस्तु त्रितये शिवशक्तितः ॥ ७-४० ॥

तल्लोपनात्तत्परत्वात् तत्पादक्रमतोऽपि च ।
चतुश्चरणयोगे च शाम्भवाष्टादशक्रमात् ॥ ७-४१ ॥

तदोघक्रमयोगेन शम्भुपादक्रमेण च ।
दशविद्यागुरुत्वेन तदावरणयोगतः ॥ ७-४२ ॥

शैवादिपञ्चभेदैश्च पर्ययायक्रमभेदतः ।
आगमश्च तथा कालो देशाम्नायक्रमेण च ॥ ७-४३ ॥

दर्शनायतनत्वेन भेदबाहुल्यमीरितम् ।
दक्षेण पूजा वामेन तर्पणं परिकीर्तितम् ॥ ७-४४ ॥

दक्षेण तर्पणं देवि पानं तेनैव पार्वति ।
वामेन देवता तर्प्या दक्षेण गुरुतर्पणम् ॥ ७-४५ ॥

केवलं वामहस्तेन द्वयोस्तर्पणमाचरेत् ।
केवलं दक्षहस्तेन तर्पणं केरली चरेत् ॥ ७-४६ ॥

गुरुं सन्तर्प्य दक्षेण वामहस्तेन देवताम् ।
ब्रह्मकौलमते देवि तर्पणं परिकीर्त्तितम् ॥ ७-४७ ॥

जलं दुग्धं नष्टदुग्धं संविन्मिश्रं तथैव च ।
संविद्रसवटी चैव वृन्ताकसूरणे तथा ॥ ७-४८ ॥

दुग्धसारो दुग्धसंविदासवश्च कुमारिका ।
पूजनं परमेशानि कादिकेरलगोचरम् ॥ ७-४९ ॥

उर्ध्वाम्नायादिसंयुक्तः काश्मीरः शक्तिपातयुक् ।
ऋक्काश्मीरो यजुश्चैव सामकाश्मीर एव च ॥ ७-५० ॥

अथाथर्वणकाश्मीरो भेदान् संशृणु पार्वति ।
दिव्यसिद्धमानवौघमहाकालक्रमेण च ॥ ७-५१ ॥

अतिकालकरालाख्यकालवीरक्रमेण च ।
काली च नवनाथाश्च चतुरशीतिसिद्धयः ॥ ७-५२ ॥

त्रित्यये शिवशक्तिभ्यां तल्लोपा कालिकाक्रमात् ।
अथ कामकला काली हंसकाली क्रमेण च ॥ ७-५३ ॥

शैवादिपञ्चभेदेन सप्तपर्यायभेदतः ।
भेदबाहुल्यमात्रं स्याद्वामेन तर्पणं स्मृतम् ॥ ७-५४ ॥

दक्षेण पूजा सम्प्रोक्ता ह्यनुकल्पाः प्रकीर्त्तिताः ।
अथ गौडं प्रवक्ष्यामि यथायोगक्रमेण च ॥ ७-५५ ॥

पूर्णाभिषेकसंयुक्तो गौडश्च पञ्चपञ्चयुक् ।
ऋग्गौडो हि यजुर्गौडः सामगौडस्तथैव च ॥ ७-५६ ॥

अथर्वगौडो देवेशि यथावत् कथ्यते शृणु ।
दिव्यसिद्धमानवौघमहाकालकरालकाः ॥ ७-५७ ॥

वीरनाथस्तथा देवि नवनाथक्रमेण च ।
चतुरशीतिसिद्धाद्यैस्त्रितये शिवशक्तितः ॥ ७-५८ ॥

तल्लोपनाद्भवेल्लोपा कला कामकला परा ।
तद्वदावरणे भेदाः कीर्त्तिताः परमेश्वरि ॥ ७-५९ ॥

शैवादिपञ्चकत्वेन साम्यं पर्ययायसप्तके ।
बाहुल्यं कीर्त्तितं देवि पूर्वमेव प्रकाशितम् ॥ ७-६० ॥

वामेन तर्पणं देवि दक्षेण पूजनं स्मृतम् ।
दानं पानं च प्रत्यक्षं महाविद्याक्रमेण च ॥ ७-६१ ॥

सिद्धविद्याक्रमेणैव तथा विद्याक्रमेण च ।
युगानुरूपतो देवि सिद्धविद्यादिभेदतः ॥ ७-६२ ॥

तद्रूपशक्तिक्रमतस्तदाचारक्रमेण च ।
चक्रभावाम्नायभेदैस्तदा चरणभेदतः ॥ ७-६३ ॥

शक्तियोगजब्रह्माण्डे सर्वे * *(?) रसाः (?) स्फुटम् ।
नामपारायणं देवि मंत्रपारायणं तथा ॥ ७-६४ ॥

नाडीपारायणं देवि कादिहादिकहेपि च ।
कादिहादौ शाम्भवान्त सम्राण्मेधाभिधा भवेत् ॥ ७-६५ ॥

दिव्यसाम्राज्यमेधा च कहान्ता परिकीर्त्तिता ।
दिनतो वारतः पक्षान्मासात् षट्त्रिंशता दिनैः ॥ ७-६६ ॥

प्रायश्चित्तं समाचर्य कालनित्याक्रमेण च ।
पञ्चनित्याक्रमेणैव स्वगुरुर्वा स्वयं च वा ॥ ७-६७ ॥

पूर्वोक्तक्रममासाद्य कलारन्ध्रक्रमेण च ।
कामबाणगुणत्वेन दीक्षामण्डपगो भवेत् ॥ ७-६८ ॥

होमं कृत्वा पूर्ववच्च सर्वं कार्यं महेश्वरि ।
आज्ञानाम प्रदद्याद्वै योगपट्टं समभ्यसेत् ॥ ७-६९ ॥

अङ्गावरणमंत्राश्च पञ्चाशत् पद्ममन्त्रकाः ।
श्रोतव्याश्चैव मन्तव्या द्रष्टव्याः परमेश्वरि ॥ ७-७० ॥

अन्यत् सर्वं पूर्ववत्स्यात् संक्षेपादिदमीरितम् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥ ७-७१ ॥


इति श्रीशक्तिसङ्गममहातंत्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे कादिदिक्षाविवरणं नाम सप्तमः पटलः ॥ ७ ॥

Paṭala 8

श्रीदेव्युवाच ।


देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।


श्रीशिव उवाच ।


निरुक्तं द्रव्यभेदश्च कथ्यते शृणु साम्प्रतम् ॥ ८-१ ॥

वीरादिकौलभेदाश्च पूर्वमेव प्रकाशिताः ।
विष्णुपाशुपतादीनां कथ्यन्ते परमेश्वरि ॥ ८-२ ॥

पञ्चरात्रिव्रतं प्राप्ताः पाञ्चरात्राः प्रकीर्त्तिताः ।
दिनपञ्चकपर्यन्तं शैवानां न विलोकनम् ॥ ८-३ ॥

मुद्रासन्धारिणीं रण्डां कृत्वा सम्पूजयन्ति ये ।
प्रसादः कस्य वेत्युक्ते श्रीकृष्णस्येति यो वदेत् ॥ ८-४ ॥

स्वभुक्तं चैव नैवेद्यं देवतार्थप्रयोजकः ।
वर्त्तन्ते वैष्णवा ये च शिवनिन्दापरायणाः ॥ ८-५ ॥

वैष्णवानपि निन्दन्ति पाञ्चरात्राश्च ते मताः ।
पाषण्डाख्यव्रतं प्राप्ताः पाषण्डास्ते प्रकीर्तिताः ॥ ८-६ ॥

श्मशानभस्मधारी च भस्मधारणसञ्चयः ।
स्नानसन्ध्यादिकं देवि लौकिकार्थं तु यश्चरेत् ॥ ८-७ ॥

विष्णुद्वेषपरो भूत्वा सर्वं प्रकुरुते नरः ।
स पाषण्डेति कथितः शृणु कापालिकं शिवे ॥ ८-८ ॥

कपालपात्रसम्भोजी मद्यमांसेषु तत्परः ।
स्त्रियोनिदर्शको नित्यं मुण्डमालाधरः सदा ॥ ८-९ ॥

श्मशानाग्निप्रभोजी यः स च कापालिकः स्मृतः ।
स च द्वादशधा प्रोक्तो महाकापालिक परः ॥ ८-१० ॥

स्नानदानादिरहितः शौचाशौचविवर्जितः ।
न जपो न तपस्या च न तस्य नियमः क्वचित् ॥ ८-११ ॥

ईदृग्विधो भवेच्चीनः सकलो निष्कलो द्विधा ।
जैनं शृणु महादेवि कमण्डलुधरः सदा ॥ ८-१२ ॥

जीव एव परं भोगी कर्त्ता हर्ता स एव हि ।
यदेव तत्सुखं देवि तत्सुखं स्वात्मरूपकम् ॥ ८-१३ ॥

स जैनः कथितो देवि एवं बौद्धादयो मताः ।
केशसंलुञ्चका देवि तथा श्वेतपटाः प्रिये ॥ ८-१४ ॥

तथा रक्तपटा देवि तथा नीलाम्बरादयः ।
बृहद्गुरुरिति ख्यातास्तथान्ये परमेश्वरि ॥ ८-१५ ॥

अहिंसकास्तथान्ये च भेदाः संक्षेपतो मताः ।
मुद्राधिकारिणो देवि कथ्यन्ते शृणु साम्प्रतम् ॥ ८-१६ ॥

ब्राह्मणैर्न तथा कार्यं ब्राह्मण्यं च विनश्यति ।
मुद्रां तु ब्राह्मणो धृत्वा रौरवं नरकं व्रजेत् ॥ ८-१७ ॥

वेदैस्तु रहितो यो हि स मुद्राधारको भवेत् ।
मुद्रया सहितो यो हि स कथं ब्राह्मणो भवेत् ॥ ८-१८ ॥

मुद्रा चतुर्विधा देवि चातुर्विध्यं शृणु प्रिये ।
ब्राह्मणो भावयेद्देहे विष्णुभावप्रबुद्धये ॥ ८-१९ ॥

क्षत्रियो रेखयेद्देहे वैश्यो मुद्रां प्रविन्यसेत् ।
शूद्राधमादिकानां च तप्तमुद्रा प्रकीर्त्तिता ॥ ८-२० ॥

अत्यन्तभक्तियुक्तोऽपि भावयेन्न तु रेखयेत् ।
ब्राह्मणो रेखयेत् क्वापि बिम्बयेन्न कदाचन ॥ ८-२१ ॥

देवो भूत्वा यजेद्देवं नादेवो देवमर्चयेत् ।
तस्माद्विष्णुस्वरूपत्वं स्वस्मिन् भाव्यं महेश्वरि ॥ ८-२२ ॥

ततो जपं प्रकुर्वीत तस्य सिद्धिर्भवेन्मनोः ।
एवमेव महेशानि शैवादीनां क्रमो भवेत् ॥ ८-२३ ॥

शङ्खचक्राङ्कितं दृष्ट्वा सचैलं स्नानमाचरेत् ।
त्रिशूलं डमरूं देवि ब्राह्मणो भावयेत्सदा ॥ ८-२४ ॥

धारणं शिवलिङ्गस्य शिवमुद्रादिधारणम् ।
द्विजस्तु वर्जयेद्देवि संक्षेपादिह कीर्त्तितम् ॥ ८-२५ ॥

शक्तेरुपासको यस्तु स च शाक्तः प्रकीर्त्तितः ।
वैखानसादिदीक्षाद्यैर्युक्तो वैष्णव एव च ॥ ८-२६ ॥

षडध्वशाम्भवाद्यैस्तु युक्तः शैवः प्रकीर्त्तितः ।
केवलं शिवसंपन्नस्त्वन्यदेवस्य निन्दकः ॥ ८-२७ ॥

वीरशैवेति गदितो वीराख्यं वैष्णवं शृणु ।
केवलं विष्णुनिरतः सर्वदेवप्रनिन्दकः ॥ ८-२८ ॥

वीरवैष्णव इत्युक्तः पापभाजौ नरावुभौ ।
चन्द्रजापरतो यस्तु स च चान्द्रो महेश्वरि ॥ ८-२९ ॥

सूर्यासक्तमना यस्तु स सौरः परिकीर्त्तितः ।
ब्रह्मणोपासको यस्तु स च स्वायम्भुवो मतः ॥ ८-३० ॥

दुर्गाचण्ड्यादिसंयुक्तः स च दौर्गः प्रकीर्त्तितः ।
वेदमूलाः क्रियाः सर्वा वेदमूला परा स्मृतिः ॥ ८-३१ ॥

वेदेन रहितं यत्तु तन्न कुर्याद्द्विजः क्वचित् ।
वेदमार्गरतो नित्यं ब्राह्मणो भवति ध्रुवम् ॥ ८-३२ ॥

वेदेन रहितो यस्तु च चाण्डालः प्रकीर्त्तितः ।
स्वस्वधर्म्मं पुरस्कृत्य सर्वं कार्ययं महेश्वरि ॥ ८-३३ ॥

स्वधर्मनिरतो नित्यं सुखमाप्नोति निश्चितम् ।
स्वधर्मरहितो विप्रः सुतहारी द्विजाधमः ॥ ८-३४ ॥

तं दृष्ट्वा तु महेशानि प्राजापत्यं समाचरेत् ।
तदभावे महेशानि सचैलं जलमाविशेत् ॥ ८-३५ ॥

तस्मान्मुद्रादिकद्वेषं ब्राह्मणो वर्जयेत् सदा ।
अधमानुग्रहार्थं तु मुद्रा प्रोक्ता मया तव ॥ ८-३६ ॥

सत्यं सत्यं महेशानि किमन्यत् श्रोतुमिच्छसि ।


श्रीदेव्युवाच ।


देवेश श्रोतुमिच्छामि विष्णुभेदान् शिवस्य च ॥ ८-३७ ॥


श्रीशिव उवाच ।


वैखानसो भवेदादौ श्रीराधावल्लभस्तथा ।
गोकुलेशो महेशानि तथा वृन्दावनी भवेत् ॥ ८-३८ ॥

पाञ्चरात्रः पञ्चमः स्यात् सष्ठः श्रीवीरवैष्णवः ।
रामानन्दी हरिव्यासी निम्बार्कश्च महेश्वरि ॥ ८-३९ ॥

ततो भागवतो देवि दशभेदाः प्रकीर्त्तिताः ।
शिखी मुण्डी जटी चैव द्वित्रिदण्डी क्रमेण च ॥ ८-४० ॥

एकदण्डी महेशानि वीरशैवस्तथैव च ।
सप्त पाशुपताः प्रोक्ता दशधा वैष्णवा मताः ॥ ८-४१ ॥

एतेषां वासनां देवि शृणु यत्नेन शाम्भवि ।
वेवेष्टि सर्वं संव्याप्य यस्तिष्ठति स वैष्णवः ॥ ८-४२ ॥

वैखानसादिदीक्षाद्यैर्भूषितः स्मार्त्तवैष्णवः ।
श्रीराधावल्लभं देवि शृणु यत्नेन शाम्भवि ॥ ८-४३ ॥

वैष्णवाचारनिरतो विष्णुतंत्रैकपारगः ।
अनन्यचेताः शान्तात्मा विष्णुचिह्नपरायणः ॥ ८-४४ ॥

श्रीराधावल्लभो देवि गोकुलेशं शृणु प्रिये ।
नानाभूषणसंपन्नो नानासौगन्धभूषितः ॥ ८-४५ ॥

गवां कुलं प्रीणयिता कलिकृष्णस्वरूपधृक् ।
शरीरमर्थं प्राणांश्च तन्निवेदनकारकः ॥ ८-४६ ॥

अन्तःशक्तिपरो देवि बहिर्वैष्णवरूपधृक् ।
गन्धर्वाचारनिरतो लतावेष्टनतत्परः ॥ ८-४७ ॥

सम्प्रदायो गोकुलेशः सर्वसिद्धिकरो भुवि ।
वृन्दावनाख्यं देवेशि शृणु यत्नेन साम्प्रतम् ॥ ८-४८ ॥

विगताशः प्रसन्नात्मा विष्णुभक्तिपरायणः ।
कामिनीसङ्गचपलो वनक्रीडाविनोदधृक् ॥ ८-४९ ॥

सौगन्धभूषिततनुः स्त्रीध्यानैकपरायणः ।
विष्णुसारूप्यतत्त्वज्ञः प्रोक्तो वृन्दावनी शिवे ॥ ८-५० ॥

पाञ्चरात्रो महेशानि तथैव वीरवैष्णवः ।
पूर्वमेव महेशानि कीर्त्तितः परमेश्वरि ॥ ८-५१ ॥

रा शक्तिरिति विख्याता म शिवः परिकीर्त्तितः ।
तदानन्दी शान्तचित्तः प्रसन्नात्मा विचारधृक् ॥ ८-५२ ॥

सर्वत्र समरूपश्च रामानन्दी प्रकीर्त्तितः ।
हरिव्यासं महेशानि यथावदवधारय ॥ ८-५३ ॥

पापसंहारणे शक्तो विष्णुभक्तो जितेन्द्रियः ।
यमादिनियमैर्युक्तस्त्यक्ताचारपरायणः ॥ ८-५४ ॥

सोपयोगफलग्राही परकार्यपरायणः ।
हरिव्यासी महेशानि शिवशक्तिस्वरूपधृक् ॥ ८-५५ ॥

निंबार्काख्यं सम्प्रदायं शृणु यत्नेन साम्प्रतम् ।
नित्यार्चनक्रमासक्तः स्वतंत्रैकपरायणः ॥ ८-५६ ॥

बाह्यपूजादिनिरतोऽनन्यभक्तः प्रसन्नधीः ।
आर्यपक्षान्वितः स्वच्छः स्वच्छन्दाचारतत्परः ॥ ८-५७ ॥

स्वतन्त्रः स्मार्त्तविद्वेषी निम्बार्को भगवान् हरिः ।
अथ भागवतं देवि कथ्यते शृणु साम्प्रतम् ॥ ८-५८ ॥

विष्णुभक्तौ च निपुणो विजितात्मा प्रसन्नधीः ।
स्मार्त्तकर्मान्वितो देवि तदन्याचारतत्परः ॥ ८-५९ ॥

आर्ययपक्षान्वितो देवि तथा चारुणवेषधृक् ।
शैवद्वेषी तस्य सङ्गात् पुनःस्नानपरायणः ॥ ८-६० ॥

केवलं विष्णुचित्तज्ञः प्रोक्तो भागवतः शिवे ।
तेषां व्रतादिकानां तु निर्णयः कथ्यते क्रमात् ॥ ८-६१ ॥

एकादशी सदोपोष्या भक्तियुक्तेन चेतसा ।
एकादश्यामहोरात्रं न भोक्तव्यं कदाचन ॥ ८-६२ ॥

मुहूर्त्तविद्धा दशमी ततो रौद्रीसमागमः ।
तस्यां तिथौ न भोक्तव्यं दशम्यां भोजनं चरेत् ॥ ८-६३ ॥

सूर्योदयमभिव्याप्य या तिथिर्याति पार्वति ।
सा तिथिः सकला ज्ञेया तत्तिथ्युक्तं समाचरेत् ॥ ८-६४ ॥

आद्या शैवेति विख्याता द्वितीया मोहिनी भवेत् ।
द्वाभ्यां त्वित्थमुपोष्यैव सर्वपापैः प्रमुच्यते ॥ ८-६५ ॥

द्विधा तिथिर्यदा देवि तदेदं परिकीर्त्तितम् ।
यद्यप्येकादशी पूर्णा द्वितीयेऽह्नि न विद्यते ॥ ८-६६ ॥

द्वितीये वृद्धिदा देवि द्वादशी यदि दृश्यते ।
द्वितीये समुपोष्यैव सर्वपापैः प्रमुच्यते ॥ ८-६७ ॥

स्मार्त्तानां मतमाख्यातं वैखानसमतं शृणु ।
एकादश्यां तु यः कश्चित् प्रमादात् भोजनं चरेत् ॥ ८-६८ ॥

चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो बलम् ।
कोट्यर्बुदं सन्निवसेत् रौरवे नरके प्रिये ॥ ८-६९ ॥

गोकुलेशमतं देवि कथ्यते शृणु साम्प्रतम् ।
स्मार्तवैष्णवयोर्मध्ये विवादो हि महानयम् ॥ ८-७० ॥

परस्परं प्रशंसन्ति निन्दन्ति च परस्परम् ।
ते मूढा नैव जानन्ति पाषण्डशास्त्रमोहिताः ॥ ८-७१ ॥

विष्णुरूपधरः शम्भुः शम्भुरूपधरो हरिः ।
अत्रार्थे प्रत्ययो देवि रुद्रा एकादश स्मृताः ॥ ८-७२ ॥

विष्णुं मिलित्वा देवेशि द्वादशी परिकीर्त्तिता ।
एकादशी तु रुद्रस्य द्वादशी श्रीपतेः स्मृता ॥ ८-७३ ॥

कलामात्रान्विता वृद्धा मुहूर्तसंयुतापि चेत् ।
गोकुलेशमतं प्रोक्तं गोपालसुन्दरी परः ॥ ८-७४ ॥

पूर्णामेकादशीं प्राप्य द्वादश्यां समुपोषणम् ।
स्मार्त्तद्वेषपरो भूत्वा प्रमादाद्यः समाचरेत् ॥ ८-७५ ॥

एकादशी हानिदा स्यात् पुत्रायुर्धननाशिनी ।
स्मार्त्तद्वेषपरो भूत्वा एकाश्यां तु भोजनम् ॥ ८-७६ ॥

पाषण्डमतमाश्रित्य सूर्यारुणकलार्धतः ।
पक्षमाश्रित्य देवेशि यः करोति नराधमः ॥ ८-७७ ॥

कोट्यर्बुदयुगं देवि नरके निवसेद्ध्रुवम् ।
विष्णुद्वेषपरो भूत्वा रोहिण्यां भोजनं चरेत् ॥ ८-७८ ॥

स दरिद्री महापापी तस्य पातो भविष्यति ।
अरुणोदयवेधस्तु श्रीनिम्बार्कमतं मतम् ॥ ८-७९ ॥

सूर्योदयाख्यवेधो हि श्रीवैखानससम्मतम् ।
कलावेधो महेशानि वैष्णवानां प्रकीर्त्तितः ॥ ८-८० ॥

मुहूर्त्तवेधो देवेशि स्मार्त्तानां परिकीर्त्तितः ।
अथात्र पाञ्चरात्राणां आद्यपक्षः प्रकीर्त्तितः ॥ ८-८१ ॥

कल्पितं वेधमाश्रित्य द्वादशीं कल्पयन्ति च ।
न लज्जन्ति च ते मूढाः प्रोक्तास्ते यमकिङ्कराः ॥ ८-८२ ॥

सुरेन्द्रसंहिता देवि तथा षट्शाम्भवः शिवे ।
गोपालपाञ्चरात्रं च षडन्वयमतं तथा ॥ ८-८३ ॥

श्रीगोपीपरिशिष्टं च मोहशक्तीश्वरस्तथा ।
षट्शाम्भवरहस्यं च क्रमादेते प्रकीर्त्तिताः ॥ ८-८४ ॥

एतद्ग्रन्थक्रमाद्देवि विवेचनमुदीरितम् ।
अथ पाशुपतानां च वासनां शृणु पार्वति ॥ ८-८५ ॥

शिखिपाशुपतो देवि शिखासूत्रधरः शुभः ।
समाधितत्परो देवि समाधौ शिवपीठधृक् ॥ ८-८६ ॥

रुद्राक्षं च तथा भस्म लिंगं शैवाभिधं शिवे ।
प्रसन्नात्मा शान्तचित्तो ब्रह्मचारी प्रकीर्त्तितः ॥ ८-८७ ॥

मतं श्रीबिन्दुमालिन्याः समाश्रित्य प्रतिष्ठति ।
मुण्डी त्रिंशद्विधो देवि तारासुक्ते प्रकाशितः ॥ ८-८८ ॥

तत्र पाशुपताचारसम्पन्नो मुण्डितो भवेत् ।
जटी पाशुपतो देवि सोऽपि दशविधः स्फुटम् ॥ ८-८९ ॥

त्रिजटैकजटाधारी तथा बहुजटाधरः ।
नग्नस्तपस्वी शान्तात्मा देहक्लेशपरायणः ॥ ८-९० ॥

क्रमत्रितयसम्पन्नो जटी पाशुपतः स्मृतः ।
द्विदण्डी तु महेशानि वाङ्मनोदण्डसंयुतः ॥ ८-९१ ॥

कायवाङ्मनसो दण्डस्त्रिदण्डी परिकीर्त्तितः ।
वीरशैवः प्रसिद्धोऽत्र पूर्वमेव प्रकाशितः ॥ ८-९२ ॥

सर्वोत्तमो भवेच्छैवः शाम्भवः परिकीर्त्तितः ।
चतुर्दशीव्रतासक्तः प्रदोषव्रततत्परः ॥ ८-९३ ॥

शनिप्रदोषे देवेशि महाव्रतपरायणः ।
दारिद्र्यदहनं नाम व्रतमेतत्प्रकीर्त्तितम् ॥ ८-९४ ॥

कृष्णपक्षे विशेषेण शुक्लपक्षेऽपि पार्वति ।
अष्टमीसप्तमीसन्धौ प्रदोषव्रतमीरितम् ॥ ८-९५ ॥

एतद्व्रतसमायुक्तः शिवपूजापरायणः ।
शनिप्रदोषे सम्प्राप्ते शकुनं संशृणु प्रिये ॥ ८-९६ ॥

शनिवारे सोमवारे पुस्तकं चाभिमंत्रयेत् ।
आदित्यंवासरे देवि राशिं काममितां चरेत् ॥ ८-९७ ॥

यत्रादौ दीयते देवि स चाध्यायः प्रकीर्त्तितः ।
द्वितीये दशको देवि तृतीये श्लोकसंख्यता ॥ ८-९८ ॥

दशकालामतो देवि सर्वेभ्यो विनियोजनम् ।
कुमारीं प्रार्थ्य यत्नेन सपुष्पफलसंयुताम् ॥ ८-९९ ॥

स्थापयेद्राशिमध्ये तु दर्पणोदरसन्निभे ।
गोमयैरुपलिप्ते तु भूमौ स्वस्तिकमण्डले ॥ ८-१०० ॥

कुमारीं पूजयित्वा च नवकन्याप्रभेदतः ।
तत्र वाच्यं प्रयत्नेन भूतं भव्यं भविष्यकम् ॥ ८-१०१ ॥

शुभाशुभादिकं कर्म तथा षट्कर्मसाधनम् ।
षट्कर्म त्रिविधं प्रोक्तं यथावदवधारय ॥ ८-१०२ ॥

वश्याकर्षस्तम्भनं च विद्वेषोच्चाटनं तथा ।
मारणं चैव देवेशि विरूपाक्षस्य सम्मतम् ॥ ८-१०२ ॥

वश्यस्तम्भनसम्मोहा मारणोच्चाटनं तथा ।
विद्वेषणं च देवेशि षट्कर्माणि विराण्मते ॥ ८-१०४ ॥

शान्तिस्तम्भौ वशीकारो मारणोच्चाटने तथा ।
द्वेषणं चेति देवेशि षट्कर्माणि यथाक्रमात् ॥ ८-१०५ ॥

यस्मिन् विद्याविधौ देवि यत्कर्म परिकीर्त्तितम् ।
तत्कर्माणि समारभ्य षट्कर्माणि जगुः प्रिये ॥ ८-१०६ ॥

बगलेशी तथा वश्ये बगला स्तम्भने तथा ।
वश्ये पञ्चदशी प्रोक्ता वशीकारस्त्रिधा भवेत् ॥ ८-१०७ ॥

आदौ प्रीतिर्महेशानि मोहनं तु द्वितीयकम् ।
वशीकारस्तृतीयः स्यात् त्रितयं त्रितयं त्रिषु ॥ ८-१०८ ॥

एके जाते महेशानि त्रितयं जायते शिवे ।
शनिप्रदोषमाश्रित्य स्थाने शैवविभूषिते ॥ ८-१०९ ॥

पश्चिमाभिमुखं लिङ्गं नन्दिहीनं पुरातनम् ।
चतुरः पञ्चक्रोशान्ते न लिङ्गं दृश्यते शिवे ॥ ८-११० ॥

तदेकलिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा ।
ऊर्ध्वपुण्ड्रं त्रिपुण्ड्रं वा पट्टबन्धनमेव च ॥ ८-१११ ॥

अगस्तिपत्राकारं वा स्त्रीणां शून्यकरेण च ।
द्वादशाष्टचतुर्योगात् ऊर्ध्वपुण्ड्रं प्रकीर्त्तितम् ॥ ८-११२ ॥

शिवविष्णुशिवायुक्तं त्रिपुण्ड्रं परमेश्वरि ।
शनिप्रदोषे धृत्वा तु शिवं पूज्य प्रयत्नतः ॥ ८-११३ ॥

भोजयेद्ब्राह्मणान् देवि अकाण्डादिदमीरितम् ।
गोपनीयं रहस्यं च किमन्यत् श्रोतुमिच्चस्ति ॥ ८-११४ ॥


इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे प्रदोषविधिर्नामाष्टमः पटलः ॥ ८ ॥

Die Betrachtung von Form und Klang begleitet das Studium.

Paṭala 9

श्रीदेव्युवाच ।


देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
पूजाद्रव्यं महादेव सम्प्रदायत्रये वद ॥ ९-१ ॥


श्रीशिव उवाच ।


षड्दर्शने षडाम्नाये महाविद्याविधौ शिवे ।
पञ्चायतनके देवि शिवशक्तियुतेऽपि च ॥ ९-२ ॥

अथ गोपालनृहरी गणेशशङ्करौ तथा ।
हयग्रीवो रामचन्द्रः कालः काली महेश्वरि ॥ ९-३ ॥

तारागणपतिश्चैव ताराबटुक एव च ।
आद्यन्तक्रमयोगेन द्विधा भेदः प्रकीर्त्तितः ॥ ९-४ ॥

एतेषां सुन्दरीयोगात् यंत्रं शृणु महेश्वरि ।
मूलयंत्रं समुद्धृत्य तत्र बिन्दौ महेश्वरि ॥ ९-५ ॥

देवयंत्र साङ्गकं तु भावयेद्यतमानसः ।
विद्यायंत्रौ यथा पूज्यौ देवयंत्रेऽथ वा पुनः ॥ ९-६ ॥

पूजनीया महेशानि गोपालसुन्दरी परा ।
पूर्वोक्तानां समस्तानां पूजायंत्रं प्रकीर्त्तितम् ॥ ९-७ ॥

एवमेव तु सर्वेषां कथितं तु तृतीयकम् ।
आदौ यदुच्चरेद्देवि तद्यंत्रं पूजयेद्धरम् ॥ ९-८ ॥

शक्तिर्वा शिवमंत्रो वा यस्य चोच्चारणं भवेत् ।
तस्य यंत्रं पूजयेत्तु संक्षेपात् गदितं मया ॥ ९-९ ॥

निरूपाक्षमते तारे पत्रे यंत्रं तु संलिखेत् ।
सुन्दरी भैरवी देवी तथैव कालसुन्दरी ॥ ९-१० ॥

सुन्दरी काल इत्युक्तः सुन्दरी गोप इत्यपि ।
इति संक्षेपतः प्रोक्तं द्रव्यभेदं शृणु प्रिये ॥ ९-११ ॥

केरलश्चैव काश्मीरो गौडश्चैव तृतीयकः ।
शिवशक्तितद्द्वयत्वं सप्तपर्ययायभेदतः ॥ ९-१२ ॥

चतुरशीतियुग्मेन नाथत्रितयमार्गतः ।
ओघत्रयक्रमेणैव वटवासिक्रमेण च ॥ ९-१३ ॥

दशविद्यागुरुत्वेन भेदबाहुल्यमीरितम् ।
दुग्धं वृन्ताककं देवि सूरणस्तु तृतीयकः ॥ ९-१४ ॥

दुग्धसारं कुमारी च पञ्चतत्वानि वै जगुः ।
आत्मविद्या शिवाख्या च सर्वं पूर्णक्रमेण च ॥ ९-१५ ॥

काश्मीरे त्वनुकल्पैश्च ताम्रे गव्यं प्रदापयेत् ।
पिण्याकं तु द्वितीयं च गृञ्जनं तु तृतीयकम् ॥ ९-१६ ॥

चतुर्थं पायसं दुग्धं पञ्चमं मिथुनं भवेत् ।
पञ्चानुकल्पा देवेशि काश्मीराख्यक्रमे मताः ॥ ९-१७ ॥

मद्यं मांसं तथा मत्स्यं मुद्रा मैथुनमेव च ।
मकाराः पञ्च वै ख्याता गौडमार्गे महेश्वरि ॥ ९-१८ ॥

सामान्यत्वेन कथितं विशेषं शृणु सादरम् ।
दुग्धानुकल्पमद्यैश्च पूजयेच्च यथाक्रमात् ॥ ९-१९ ॥

दुग्धेन केरले पूजा काश्मीरे भावना मता ।
गौडे प्रत्यक्षदानं स्यात् त्रितयं कीर्त्तितं मया ॥ ९-२० ॥

जलाद्दशगुणं देवि शीतलं जलमीरितम् ।
ततः शतगुणं प्रोक्तं सौगन्धि जलमत्र तु ॥ ९-२१ ॥

जलात् शतगुणं प्रोक्तं दधि चात्र महेश्वरि ।
ततः शतगुणं दुग्धं ततः शतगुणं घृतम् ॥ ९-२२ ॥

घृताच्छतगुणं तैलं तैलाच्छतगुणं मधु ।
ततः शतगुणा संवित् ततः शतगुणं मधु ॥ ९-२३ ॥

उत्तरोत्तरतौ गौडे केरले संहृतिक्रमात् ।
शुद्धकेरलमार्गे तु जलेन पूजनं चरेत् ॥ ९-२४ ॥

चैतन्यकेरले देवि शीतलेन जलेन च ।
ऋक्केरले महेशानि सौगन्धिजलतोऽर्चनम् ॥ ९-२५ ॥

गुप्तकेरलमार्गे तु दुग्धेन पूजनं चरेत् ।
उग्रकेरलमार्गे तु नष्टदुग्धेन पूजनम् ॥ ९-२६ ॥

पञ्चकं गदितं देवि शम्भुतो भैरवान्तकम् ।
पञ्चके त्रितयं देवि त्रितयं त्रितयं त्रिषु ॥ ९-२७ ॥

शुद्धकाश्मीरमार्गे तु द्रव्यस्य भावना मता ।
ऋक्काश्मीरे नखजलमुग्राख्ये ह्यनुकल्पनम् ॥ ९-२८ ॥

क्रूरकाश्मीरमार्गे तु नष्टद्रव्यानुकल्पनम् ।
गुप्तकाश्मीरमार्गे तु गुडार्द्रकरसः स्मृतः ॥ ९-२९ ॥

अथर्वाख्ये तु काश्मीरे ताम्रपात्रे मधु स्मृतम् ।
काश्मीरः कथितो देवि गौडमार्गं शृणु प्रिये ॥ ९-३० ॥

शुद्धगौडे महेशानि विजया दुग्धमीरितम् ।
ऋग्गौडे तु महेशानि विजया मधुसंयुता ॥ ९-३१ ॥

यजुर्ग्गौडे महेशानि तत्पाको विनिवेद्यताम् ।
गुप्तगौडे महेशानि तत्कल्पः परिकीर्त्तितः ॥ ९-३२ ॥

उग्रगौडे महेशानि मदिरादानमीरितम् ।
देवतार्थं तु संप्रोक्तं नान्यकर्मणि योजयेत् ॥ ९-३३ ॥

सर्वातिरिक्तो देवेशि विलासाख्यः प्रकीर्त्तितः ।
विलासाख्ये सम्प्रदाये स्वयमस्ति सदाशिवः ॥ ९-३४ ॥

हार्द्दबाह्यप्रभेदेन द्विविधत्वं च पार्वति ।
चातुर्वर्ण्यानुयोगेन योजनीयं प्रयत्नतः ॥ ९-३५ ॥

ब्राह्मणेन तथा कार्ययं ब्राह्मण्यं न विनश्यति ।
ब्राह्मणो मदिरां दृष्ट्वा ब्राह्मण्यादेव हीयते ॥ ९-३६ ॥

ब्राह्मणस्त्वनुकल्पं च दत्त्वा चाण्डालतामियात् ।
मांसभक्षी द्विजो यस्तु वेदबाह्यो तथा स्मृतः ॥ ९-३७ ॥

तथैव वेदबाह्यो हि स द्विजः परिकीर्त्तितः ।


श्रीदेव्युवाच ।


अनुकल्पादिकं प्रोक्तं सन्देहोऽस्ति मम प्रभो ॥ ९-३८ ॥

पञ्चामृतादौ देवेश कथं दुग्धादिकल्पना ।


श्रीशिव उवाच ।


ताम्रे गव्यं मधुसमं दैवे पित्र्ये न दुष्यति ॥ ९-३९ ॥

अत एव महेशानि होमे ताम्रं प्रगृह्यते ।
पूजाद्रव्यं तु सामान्याद्गौडकाश्मीरयोः शृणु ॥ ९-४० ॥

घृतं दुग्धं च देवेशि नवनीतं च तक्रकम् ।
दधिखण्डं नष्टदुग्धं मधु चैव मधूदकम् ॥ ९-४१ ॥

तैलं गुडार्द्रकं देवि मधु सम्वित्तथैव च ।
दुग्धं सलवणं चैव दधि दुग्धं तथैव च ॥ ९-४२ ॥

संविद्दुग्धं तस्य पाकः केवला विजया च वा ।
जातीपत्रं तत्फलं च म्लेच्छं दिव्यमथापि वा ॥ ९-४३ ॥

नारिकेलोदकं कांस्ये ताम्रे गव्यं महेश्वरि ।
अहिफेनं धूर्तपुष्पं वनजं नखजं जलम् ॥ ९-४४ ॥

धूर्त्तबीजं वत्सनाभं तथैव शीतलं जलम् ।
मृत्युभीत्या वत्सनाभं धूर्त्तबीजं विवर्जयेत् ॥ ९-४५ ॥

त्रयोदशविधा देवि मदिरा गौडसम्मता ।
अरिष्टासवसीध्वादिभेदेन परमेश्वरि ॥ ९-४६ ॥

संविद्दुग्धोऽहिफेनं च जातीकोषलवङ्गकम् ।
चन्द्रशीतलनीरैश्च योगिनीपानमुत्तमम् ॥ ९-४७ ॥

लवणार्द्रकपिण्याकं गोधूमं मांसपञ्चकम् ।
लशुनं गृञ्जनं देवि कलिङ्गं बिल्वकं तथा ॥ ९-४८ ॥

कपित्थं दग्धकूरं च तथैव दग्धपायसम् ।
पलाण्डुगोस्तनीकादि दशकं वारुणीभवम् ॥ ९-४९ ॥

अत्युग्रविद्याविषये द्रव्याण्येतानि साधकः ।
वीरसाधनकार्यये तु देवि द्रव्याणि चार्पयेत् ॥ ९-५० ॥

वेदमूलाः क्रियाः सर्वा ब्राह्मणो वेद एव च ।
प्राणा वरं प्रगच्छन्तु ब्राह्मणो नार्पयेत्सुराम् ॥ ९-५१ ॥

ताम्रे मधु सुरातुल्यं घृतेन वर्जितं यदि ।
नारिकेलोदकं कांस्ये काब्जिका कूरसम्भवा ॥ ९-५२ ॥

हार्द्दबाह्यप्रभेदेन पूर्वसिद्धिसमस्तकम् ।
द्वितीये भावनामात्रं पूर्वं वै कथितं शिवे ॥ ९-५३ ॥

लताजपे तथा पूजाद्रव्यदाने महेश्वरि ।
केरले भावनां कृत्वा दृष्ट्वा चैव जपेत्सदा ॥ ९-५४ ॥

काश्मीरे वा लतासङ्गः जपपूजादिकं चरेत् ।
गौडे यथोक्तविधिना जपं कुर्यान्महेश्वरि ॥ ९-५५ ॥

त्रितयं कथितं देवि रहस्यातिरहस्यकम् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥ ९-५६ ॥


श्रीदेव्युवाच ।


देवेश श्रोतुमिच्छामि पूर्वं संसूचितं च यत् ।
तन्मे वद महादेव यद्यहं तव वल्लभा ॥ ९-५७ ॥


श्रीशिव उवाच ।


रहस्यातिरहस्यं च कथ्यते शृणु साम्प्रतम् ।
मेरुस्तु त्रिविधः प्रोक्तः सामान्यत्वेन पार्वति ॥ ९-५८ ॥

न्यासमेरुर्यंत्रमेरुरग्निमेरुस्तथैव च ।
प्रत्येकं त्रितयत्वेन त्रयाणां विद्धि पार्वति ॥ ९-५९ ॥

न्यासमेरुर्यंत्रमेरुः प्रत्येकं द्विविधो मतः ।
बाह्याभ्यन्तरभेदेन द्विविधत्वं प्रकीर्त्तितम् ॥ ९-६० ॥

न्यासमेरुस्त्रिधा देवि शृणु त्वं यत्नतः शिवे ।
मेरुप्रस्तारविन्यासस्तथा कैलाससंज्ञकः ॥ ९-६१ ॥

भूप्रस्तारस्तृतीयः स्याच्चान्तरत्वाच्चतुर्विधः ।
यंत्रमेरुस्तथा देवि षड्विधः परिकीर्त्तितः ॥ ९-६२ ॥

न्यासे तु बाह्यन्यसनं मंत्रस्तु भावना मता ।
यंत्रे तु लेखनं बाह्ये मानसी भावना मता ॥ ९-६३ ॥

लयमेरुर्योगमेरुर्नादमेरुस्तृतीयकः ।
योगवीणाख्यमेरुस्तु तुरीयः परिकीर्त्तितः ॥ ९-६४ ॥

कन्यामेरुः पञ्चमः स्यात् पञ्चैते मेरवः स्मृताः ।
वह्निमेरुः पञ्चधा स्याद्बाह्याभ्यन्तरतो दश ॥ ९-६५ ॥

मंत्रमेरुर्वर्णमेरुर्द्वावेतौ तारिणीमते ।
वर्णमेरौ तु कोष्ठानि शतभेदेन सप्ततिः ॥ ९-६६ ॥

चतुःशृङ्गाह्वये मेरौ वर्णाः सर्वे प्रतिष्ठिताः ।
अन्ये संसूचिता देवि तत्राग्निमेरवः शृणु ॥ ९-६७ ॥

वह्निमेरोर्लक्षणानि शृणु यत्नेन साम्प्रतम् ।
चत्वारिंशत्तथाष्टौ च कुण्डानि कारयेत् प्रिये ॥ ९-६८ ॥

श्रीविद्याभेदयुक्तानां मेरुः प्रोक्तस्त्वयं शिवे ।
षोडश्युपासकानां तु शतं कुण्डानि चन्द्रयुक् ॥ ९-६९ ॥

चतुश्चरणयुक्तानामष्टोत्तरशतं शिवे ।
षट्शाम्भवप्रयुक्तानां कुण्डानि रश्मिसंख्यया ॥ ९-७० ॥

मेधादीक्षादियुक्तानां मेरुस्त्वाभ्यन्तरो मतः ।
श्रीविद्योपास्तियुक्तानां मेरु संकथितो मया ॥ ९-७१ ॥

श्रीविद्यारहितो यस्तु न मेरुसाधनं चरेत् ।
श्रीविद्यारहितो यस्तु नाचार्यत्वं प्रगच्छति ॥ ९-७२ ॥

पूर्णाभिषेकसंयुक्तस्त्वाचार्ययः कीर्त्तितो मया ।
ऊर्द्ध्वाम्नायादिसंयुक्तो द्वितीयः परिकीर्त्तितः ॥ ९-७३ ॥

पूर्णाभिषेकरहितस्त्वाचार्ययत्वं करोति यः ।
तस्य नाशं करिष्यामि योगिनीगणभूषितः ॥ ९-७४ ॥

पूर्णाभिषेकरहिते मेरुसंसाधनं नहि ।
प्रमादान्मोहतो दम्भात्तस्य पातो भविष्यति ॥ ९-७५ ॥

दुर्भिक्षं राष्ट्रभङ्गं च पृथ्वीकम्पादिकं शिवे ।
जलाग्निवातसम्भूता बाधा तद्ग्रामगा भवेत् ॥ ९-७६ ॥

त्रिवर्षैः पञ्चवर्षैस्तु धूमकेतुर्भविष्यति ।
षष्ठिनाडीमभिव्याप्य पलानि पञ्चविंशतिः ॥ ९-७७ ॥

अहिकेतुस्ततो भूयादरिकेतुस्तदुत्तरम् ।
घटकेतुस्ततो देवि ततश्चैव ध्वजाभिधः ॥ ९-७८ ॥

वर्षमात्रेण देवेशि तत्कुटुम्बं विनश्यति ।
वेदबाह्यो यथा देवि द्विजबाह्यस्तथा नरः ॥ ९-७९ ॥

कुटुम्बहा भवेत्सोऽपि प्रायश्चित्तेन शुद्ध्यति ।
तस्य संसर्गमात्रेण राज्यं नश्यति निश्चितम् ॥ ९-८० ॥

दीक्षितो यस्तु कुरुते तस्य शोभां शृणु प्रिये ।
अणिमाद्यष्टकं देवि वाक्सिद्धिः कामरूपता ॥ ९-८१ ॥

षष्टिसिद्धीश्वरो भूत्वा शिवतुल्यो नरो भवेत् ।
स देशो धन्यतां याति प्रसन्नाः सर्वदेवताः ॥ ९-८२ ॥

पञ्चाग्नौ द्वादशाग्नौ विज्ञेयं(?) शृणु शाम्भवि ।
आदौ दृग्दीक्षणं कार्ययं ततो वाग्दीक्षणं भवेत् ॥ ९-८३ ॥

स्पर्शदीक्षा ततः प्रोक्ता ततो वर्णमयी भवेत् ।
ततः क्रियावती ज्ञेया ततः कलावती भवेत् ॥ ९-८४ ॥

आणवी तु ततो ज्ञेया ततः षड्दर्शनी भवेत् ।
पञ्चायतनदीक्षा स्यात् ततः श्रीपञ्चपञ्चिका ॥ ९-८५ ॥

ततः पूर्णाभिषेकः स्यात् षडाम्नायक्रमेण च ।
एवं मेधान्तसंयुक्तः शिव एव न संशयः ॥ ९-८६ ॥

पञ्चायतनपर्ययन्तं द्वादशाग्न्याधिकारिता ।
गायत्र्युपासका ये च पञ्चायतनदीक्षिताः ॥ ९-८७ ॥

तैः कार्यं साधनं देवि पञ्चाग्निसूर्यसंज्ञके ।
एकाग्निरपि नन्दाग्निर्धूम्रपानं महेश्वरि ॥ ९-८८ ॥

जलाकाशाधिवासो हि तैः कार्ययः परमेश्वरि ।
गायत्र्यामपि संकार्यं तुर्याख्यायां महेश्वरि ॥ ९-८९ ॥

नान्यत्र कार्ययं देवेशि मेरुसंसाधनं शिवे ।
रहस्यातिरहस्यं च कथ्यते चान्यदेव हि ॥ ९-९० ॥

न्यासे यंत्रे कामकलारूपसंन्यसनं शिवे ।
तथाग्निमेरौ देवेशि चाङ्कुरारोपणं शिवे ॥ ९-९१ ॥

यथा कामकलाध्यानमङ्कुरारोपणं तथा ।
यथासनादिसंशुद्धिः तद्वद्वास्तु प्रपूजनम् ॥ ९-९२ ॥

तत्तत्कृत्वा महेशानि चाधिकारी भवेद्ध्रुवम् ।
वास्तुं विना यः कुरुते तस्य नाशो भविष्यति ॥ ९-९३ ॥


श्रीदेव्युवाच ।


अथ वै सर्वमेरूणां फलं किं वद शङ्कर ।


श्रीशिव उवाच ।


न्यासमेरोः फलं देवि देहसिद्ध्यादिकं शिवे ॥ ९-९४ ॥

यंत्रमेरोः फलं देवि त्रैलोक्यविजयादिकम् ।
अग्निमेरोः फलं देवि कथ्यते शृणु साम्प्रतम् ॥ ९-९५ ॥

त्रैलोक्यवशकारित्वं लोकसम्मोहनं शिवे ।
अदृश्यत्वं निस्पृहत्वं सौख्यत्वं परमेश्वरि ॥ ९-९६ ॥

इन्द्रियाणां संयमनमग्निसंसेवनाद्भवेत् ।
अग्निसंसेवनाद्देवि दारिद्र्यदहनं भवेत् ॥ ९-९७ ॥

वैराग्यत्वं वाक्पटुत्वं चिरजीवित्वमाप्नुयात् ।
यं यं कामयते कामं तत्तदाप्नोति निश्चितम् ॥ ९-९८ ॥

नानाचमत्कारकरः सर्वलोकेषु पूजितः ।
अग्नौ हुतं च दत्तं च तात्कालिकफलप्रदम् ॥ ९-९९ ॥

सदा चाग्निः सेवनीयः पुरश्चर्ययायुतैर्नरैः ।
पुरश्चर्ययाविहीनस्य नेदं साधनमीरितम् ॥ ९-१०० ॥

न्यसने सात्त्विको मेरुर्यंत्रे तु राजसो भवेत् ।
तामसस्तु महामेरुर्वह्निसंसेवनाद्भवेत् ॥ ९-१०१ ॥

सात्विकेन विलम्बेन फलं भवति पार्वति ।
राजसे तु फलं माये किञ्चित् कालेन जायते ॥ ९-१०२ ॥

तात्कालिकफलं देवि तामसे सर्वदा भवेत् ।
अधिकारादिकं दीक्षा तथा संज्ञादिकं शिवे ॥ ९-१०३ ॥

फलादिकं तथा प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ।


इति श्रीशक्तिसङ्गममहातंत्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मेरुसंसाधनं नाम नवमः पटलः ॥ ९ ॥

Paṭala 10

श्रीदेव्युवाच ।


देवेश श्रोतुमिच्छामि पूर्वोक्तं च रहस्यकम् ।


श्रीशिव उवाच ।


शृणु देवि प्रवक्ष्यामि मेरुप्रस्तारनिर्णयम् ॥ १०-१ ॥

कथ्यते परमेशानि मूलमारभ्य पार्वति ।
एकाग्निं तु समारभ्य श्रीमेधान्तं महेश्वरि ॥ १०-२ ॥

प्रस्तारः कथ्यते देवि पारम्पर्ययक्रमेण च ।
एकाग्निसाधनं चादौ सूर्यसंज्ञाभिधः स तु ॥ १०-३ ॥

पञ्चाग्निश्च ततो देवि चतुःकुण्डानि कारयेत् ।
पञ्चमः सूर्ययसंज्ञः स्यान्नन्दाग्निं शृणु यत्नतः ॥ १०-४ ॥

अष्टौ कुण्डान्यष्टदिक्षु नवमः सूर्ययसंज्ञकः ।
द्वादशाग्निस्ततो देवि कुण्डान्येकादश क्रमात् ॥ १०-५ ॥

द्वादशाग्निः सूर्ययसंज्ञस्तत्क्रमं शृणु पार्वति ।
दक्षिणे वेदकुण्डानि प्रत्यक्प्राग्वह्नियुग्मतः ॥ १०-६ ॥

उत्तरस्यामेककुण्डं प्राक्प्रत्यग्व्यत्यये तथा ।
मेरुकुण्डानि देवेशि भेदद्वयक्रमेण च ॥ १०-७ ॥

चत्वारिंशत्तथाष्टौ च तेषां न्यसनमुच्यते ।
षट्कोणमादौ कृत्वा तु चाष्टकोणं ततश्चरेत् ॥ १०-८ ॥

दशारं द्वादशारं च भुवनारक्रमेण तु ।
वस्वारयुग्मं षट्कोणं दशारं वसुयुग्मकम् ॥ १०-९ ॥

वसुमेरुर्निगदितो मध्यमं शृणु पार्वति ।
आदौ बिन्दुर्महेशानि चत्वरद्वितयं ततः ॥ १०-१० ॥

तृतीयचत्वरे देवि चतुःकुण्डानि कारयेत् ।
चतुर्थचत्वरे देवि वसुकुण्डानि कारयेत् ॥ १०-११ ॥

बाणाख्यचत्वरे देवि कलाकुण्डानि कारयेत् ।
अथ षष्ठचत्वरे तु कुण्डानां विंशतिश्चरेत् ॥ १०-१२ ॥

सप्तमचत्वरे देवि चतुर्विंशति कारयेत् ।
अष्टमे चत्वरे देवि चाष्टविंशति कारयेत् ॥ १०-१३ ॥

सप्तकुण्डानि देवेशि सूर्यस्त्वेकोत्तरो मतः ।
एकोत्तरक्रमे देवि महाकालमतं शृणु ॥ १०-१४ ॥

आदौ बिन्दुं प्रविन्यस्य द्वितीये कुण्डयुग्मकम् ।
तृतीये वेदसंख्यानि चतुर्थे ऋतुसंख्यकम् ॥ १०-१५ ॥

पञ्चमे वसुसंख्यानि षष्ठे तु द्वादशैव तु ।
प्राक् प्रत्यक् च प्रकुर्वीत दक्षवामे तु वेदकम् ॥ १०-१६ ॥

दक्षवामेऽठवा देवि वसुकुण्डानि कारयेत् ।
प्राग्या मलं तथा प्रत्यक् कारयेत् परमेश्वरि ॥ १०-१७ ॥

गिरिसंख्याचत्वरे तु कुण्डविंशतिकं चरेत् ।
अष्टमे चत्वरे देवि कुण्डद्वाविंशतिं चरेत् ॥ १०-१८ ॥

प्राच्यां तु गिरिसंख्यानि तत्साम्मुख्ये तु सप्त वै ।
दक्षे तु वेदसंख्यानि तत्साम्मुख्ये तु दक्षवत् ॥ १०-१९ ॥

दक्षवामे च देवेशि गिरिसंख्यानि कारयेत् ।
तदा प्राच्यां प्रतीच्यां च वेदसंख्यानि कारयेत् ॥ १०-२० ॥

एवं मिलित्वा देवेशि कुण्डानि दिग्युगद्वियुक् ।
नवमे चत्वरे देवि षड्विंशतिः प्रकल्पयेत् ॥ १०-२१ ॥

प्राच्यां तु वसुसंख्यानि प्रतीच्यां वसुसंख्यकम् ।
दक्षिणे बाणसंख्यानि तूत्तरे दक्षवद्भवेत् ॥ १०-२२ ॥

दक्षोत्तरेऽथवा देवि वसुसंख्यानि कारयेत् ।
दक्षे तु वसुसंख्यानि वसुसंख्यानि वामके ॥ १०-२३ ॥

प्राच्यां तु बाणसंख्यानि तत्साम्मुख्ये तु पूर्ववत् ।
एवं मिलित्वा जानीहि शतकुण्डानि पार्वति ॥ १०-२४ ॥

एकोत्तराख्यः सूर्ययो हि किमन्यत् श्रोतुमिच्छसि ।
कैलासाख्यक्रमेणायं मेरुः संकथितो मया ॥ १०-२५ ॥

शृंखलाख्यक्रमेणात्र कुण्डानि परिकल्पयेत् ।
शुद्धकुण्डं शक्तिकुण्डं शिवशक्त्यात्मकं तथा ॥ १०-२६ ॥

नवकुण्डीविधानेन कुण्डानि परिकल्पयेत् ।
निर्वाणदीक्षिते देवि त्वष्टोत्तरशतैर्भवेत् ॥ १०-२७ ॥

प्रथमचत्वरे देवि श्रीबिन्दुं पातयेत् प्रिये ।
द्वितीयचत्वरे देवि कुण्डत्रितयमाचरेत् ॥ १०-२८ ॥

तृतीयचत्वरे देवि वेदकुण्डानि कारयेत् ।
चतुर्थचत्वरे देवि वसुकुण्डानि कारयेत् ॥ १०-२९ ॥

बाणाख्यचत्वरे देवि कलासंख्यानि कारयेत् ।
ऋत्वाख्यचत्वरे देवि कुण्डविंशतिकं चरेत् ॥ १०-३० ॥

ऋष्याख्यचत्वरे देवि तत्त्वसंख्यानि कारयेत् ।
वस्वाख्यचत्वरे देवि द्वात्रिंशत्कुण्डसंहृतिः ॥ १०-३१ ॥

शतं सप्त च कुण्डानि त्वष्टमः सूर्य ईरितः ।
अक्षोभ्यस्य मतं देवि शृणु यत्नेन सांप्रतम् ॥ १०-३२ ॥

बिन्दुस्थानं भवेदादौ द्वितीये चत्वरे चरेत् ।
तृतीयचत्वरे देवि वेदकुण्डानि कारयेत् ॥ १०-३३ ॥

चतुर्थचत्वरे देवि वसुसंख्यानि कारयेत् ।
रत्नाख्यचत्वरे देवि कलाकुण्डानि कारयेत् ॥ १०-३४ ॥

अथ षष्ठचत्वरे तु कुण्डविंशतिकं चरेत् ।
सप्तमचत्वरे देवि मर्म्मसंख्यानि कारयेत् ॥ १०-३५ ॥

अथाष्टमे चत्वरे च द्वात्रिंशत्कुण्डसंहृतिः ।
अथ नीलामते देवि नवचत्वरभेदतः ॥ १०-३६ ॥

तत्रादिचत्वरे देवि बिन्दुस्थानं प्रकीर्त्तितम् ।
द्वितीयचत्वरे देवि चन्द्रसंख्यानि कारयेत् ॥ १०-३७ ॥

तृतीयचत्वरे देवि वह्निसंख्यानि कारयेत् ।
चतुर्थचत्वरे देवि वेदसंख्यानि कारयेत् ॥ १०-३८ ॥

भूताख्यचत्वरे देवि वसुसंख्यानि कारयेत् ।
रसाख्यचत्वरे देवि कलासंख्यानि कारयेत् ॥ १०-३९ ॥

ऋष्याख्यचत्वरे देवि कुण्डानां विंशतिश्चरेत् ।
अष्टमचत्वरे देवि तत्त्वसंख्यानि कारयेत् ॥ १०-४० ॥

नवमचत्वरे देवि द्वात्रिंशत्कुण्डसंहृतिः ।
तृतीयमेरुं वक्ष्यामि नवोत्तरक्रमे शिवे ॥ १०-४१ ॥

प्रथमचत्वरे देवि बिन्दुस्थानं प्रकीर्त्तितम् ।
द्वितीयचत्वरे देवि पूर्ववन्नेत्रसंख्यकम् ॥ १०-४२ ॥

तृतीयचत्वरे देवि वेदसंख्यानि कारयेत् ।
चतुर्थचत्वरे देवि रससंख्यानि कारयेत् ॥ १०-४३ ॥

पञ्चमचत्वरे देवि वसुसंख्यानि कारयेत् ।
षष्ठे देवि कलाख्यानि दिग्युगं सप्तमे भवेत् ॥ १०-४४ ॥

अष्टमे तत्त्वसंख्यानि मर्म्मसंख्या तु रंध्रके ।
नवोत्तरक्रमेणैव मेरूणां त्रितयं शिवे ॥ १०-४५ ॥

त्रयाणामधिकारोऽस्ति कलौ तु यस्य कस्यचित् ।
अधिकारविहीनस्य नेदं साधनमीरितम् ॥ १०-४६ ॥

इति संक्षेपतः प्रोक्तं करालाख्यमतं शृणु ।
अष्टोत्तरशताख्यं तु मेरुं संशृणु पार्वति ॥ १०-४७ ॥

आदौ बिन्दुं विधायाथ ततः कुण्डत्रयं चरेत् ।
तृतीयचत्वरे देवि कलासंख्यानि कारयेत् ॥ १०-४८ ॥

चतुर्थचत्वरे देवि ऋतुसंख्यानि कारयेत् ।
बाणाख्यचत्वरे देवि वसुसंख्यानि कारयेत् ॥ १०-४९ ॥

ऋत्वाख्यचत्वरे देवि कलासंख्यानि कारयेत् ।
गिरिसंख्याचत्वरे तु विंशत्संख्या तु कारयेत् ॥ १०-५० ॥

रंध्राख्यचत्वरे देवि षड्विंशानि प्रकल्पयेत् ।
चतुर्विंशतिकुण्डानि पूर्ववत् कारयेत् प्रिये ॥ १०-५१ ॥

कुण्डयुग्मं प्रकूर्वीत दक्षिणोत्तरतः शिवे ।
प्राक् प्रत्यक् वा प्रकर्त्तव्यं कुण्डयुग्मं महेश्वरि ॥ १०-५२ ॥

अष्टमः सूर्ययसंज्ञः स्यादेवमष्टोत्तरम् शतम् ।
रत्नगर्भक्रमेणैव मेरुं शृणु महेश्वरि ॥ १०-५३ ॥

आदौ बिन्दुं प्रविन्यस्य द्वितीये कुण्डयुग्मकम् ।
पृष्ठाग्रतः पार्श्वतो वा कुण्डयोग्मं प्रविन्यसेत् ॥ १०-५४ ॥

कुण्डत्रयं तृतीये तु योनिवत् विन्यसेच्छिवे ।
चतुर्थचत्वरे देवि ऋतुसंख्यानि कारयेत् ॥ १०-५५ ॥

बाणाख्यचत्वरे देवि वसुकुण्डानि कारयेत् ।
रसाख्यचत्वरे देवि कलाकुण्डानि कारयेत् ॥ १०-५६ ॥

मुनिसंख्याचत्वरे तु कुण्डविंशतिकं चरेत् ।
वसुसंख्याचत्वरे तु कुण्डविंशति कारयेत् ॥ १०-५७ ॥

रंध्राख्यचत्वरे देवि मर्म्मसंख्यानि कारयेत् ।
शतं सप्त तु कुण्डानि जातानि परमेश्वरि ॥ १०-५८ ॥

अष्टमः सूर्यय इत्युक्तस्त्वेवमष्टोत्तरं शतम् ।
चत्वराणां पताकानां तथा षट्शाम्भवस्य च ॥ १०-५९ ॥

तोरणानां लक्षणं तु कथ्यते शृणु साम्प्रतम् ।
क्रमात्क्रमादुन्नतोऽपि द्विद्विक्रमप्रभेदतः ॥ १०-६० ॥

त्रित्रिक्रमादुन्नतः स्याद्वितस्तिक्रमभेदतः ।
उच्छ्रायो हस्तमात्रं स्यात् त्रिगुणा एव हि प्रिये ॥ १०-६१ ॥

आयामः परमेशानि चतुर्विंशवितस्तियुक् ।
वंशः प्रोक्तो महेशानि क्रमान्मण्डपवर्धनम् ॥ १०-६२ ॥

पताकानां चतुःषष्टिस्तत्त्वसंख्यानि वा प्रिये ।
पनसाश्वत्थचूतेन करवीरैश्च कैतकैः ॥ १०-६३ ॥

नानाचित्रविचित्रैश्च तोरणानि प्रकल्पयेत् ।
जम्बुदाडिम बिल्वाद्यैर्बीजपूरैस्तथाम्बरैः ॥ १०-६४ ॥

नववर्णमयैर्द्रव्यैश्चत्वराणां विभूषणम् ।
वामक्रमेण देवेशि दक्षमार्गक्रमेण च ॥ १०-६५ ॥

बिन्दुसर्गान्वितं कृत्वा सृष्टिसंहारतोऽपि वा ।
अष्टवर्गक्रमेणैव अष्टोत्तरकलाक्रमात् ॥ १०-६६ ॥

पूजयेत्तत्र देवेशि स्वस्तिवाचनसंयुतः ।
महाविद्यामण्डलं च वियामण्डलमेव च ॥ १०-६७ ॥

चतुर्द्वीप क्रमेणैव चतुर्वेदक्रमेण च ।
चतुर्द्वारं तु सम्पूज्य बहिः प्राकारचिन्तनम् ॥ १०-६८ ॥

महाश्मशानं सञ्चिन्त्य तत्र देवीं विचिन्तयेत् ।
एवं यः कुरुते देवि होमद्रव्यं च देववत् ॥ १०-६९ ॥

यत्प्राप्तं ऋतुभेदेन कालभेदेन पार्वति ।
पुष्पं फलानि धान्यानि यत्किञ्चिज्जगतीगतम् ॥ १०-७० ॥

तत्तत्र होमयेद्देवि सर्वसिद्धीश्वरो भवेत् ।
आचार्यं तोषयेद्यत्नाद्गुरुं यत्नेन पूजयेत् ॥ १०-७१ ॥

ब्रह्मणान् पूजयेत् पश्चात् स्वर्णरत्नाम्बरादिभिः ।
अष्टाष्टकं चरेत्तत्र सर्वसिद्धीश्वरो भवेत् ॥ १०-७२ ॥

दुन्दुभीनां द्वादशं तु द्वारि कोणे प्रवादयेत् ।
नानावादित्रघोषाद्यैश्चतुर्विंशतिवाद्यतः ॥ १०-७३ ॥

गन्धर्वनीलवेषं वा कृत्वा सिद्धीश्वरो भवेत् ।
षट्पारायणमासाद्य सर्वसिद्धीश्वरो भवेत् ॥ १०-७४ ॥

ब्रह्माण्डगोलके याश्च याः काश्चिज्जगतीतले ।
समस्ताः सिद्धयो देवि तस्य पादगता भवेत् ॥ १०-७५ ॥

रहस्यातिरहस्यं च गोपनीयं स्वयोनिवत् ।
सपताकादुन्दुभिर्वा गले धारणयोगतः ॥ १०-७६ ॥

शक्रकर्त्ता भवेत् सोऽपि धनदः किङ्करो गृहे ।
इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि ॥ १०-७७ ॥


इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मेरुकथनं नाम दशमः पटलः ॥ १० ॥

Paṭala 11

श्रीदेव्युवाच ।


देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।


श्रीशिव उवाच ।


रहस्यं कथ्यते देवि शृणु सावहिता भव ॥ ११-१ ॥

दलाकाराणि सर्वाणि कुण्डानि कारयेत् प्रिये ।
किंवा श्रीचक्रवत्कार्यं तत्क्रमं शृणु पार्वति ॥ ११-२ ॥

चत्वरा नव वै कार्याः प्रथमे बिन्दुसङ्गमः ।
तत्र त्रिकोणं कर्त्तव्यमष्टारं तदनन्तरम् ॥ ११-३ ॥

ततो दशारं देवेशि द्वितीयं च दशारकम् ।
मन्वस्त्रं च ततः कार्ययं ततो नागदलं शिवे ॥ ११-४ ॥

षोडशाख्यदलं देवि ततो वृत्तत्रयं लिखेत् ।
चतुर्द्वारोपशोभाढ्यं श्रीचक्रं मेरुरूपकम् ॥ ११-५ ॥

क्रमात् क्रमादुन्नतं तु कृत्वा विरचयेत् सुधीः ।
तत्रोपरि महेशानि मण्डपं रचयेत्ततः ॥ ११-६ ॥

नव कुण्डानि जायन्ते तत्रैव क्रमशः शिवे ।
तत्राग्निं चैव प्रज्वाल्य सुन्दरीध्यानपूर्वकम् ॥ ११-७ ॥

तदायुधविभूषाढ्यं मेरुं श्रीसर्वतोमुखम् ।
महामेरुरयं देवि दलाकारं तु कारयेत् ॥ ११-८ ॥

निःसप्तसु दलाकारं कीर्त्तितं परमेश्वरि ।
एवं करोति यो देवि सर्वसिद्धीश्वरो भवेत् ॥ ११-९ ॥

सप्तत्रिंशच्चत्वरान् हि क्रमात् क्रमगतं चरेत् ।
सृष्टिसंहारमार्गेण कालचक्रं द्विधा भवेत् ॥ ११-१० ॥

सृष्टिसंहारमार्गेण मुख्यशाम्भवयोगतः ।
चतुर्विधो निगदितः कालचक्रं समाचरेत् ॥ ११-११ ॥

तत्रोपरि महेशानि श्रीविद्याचक्रमुत्तमम् ।
पराचक्रं ततो देवि ततः षट्शाम्भवाभिधम् ॥ ११-१२ ॥

चतुर्विधं यद्गदितं संवर्तेशक्रमे शृणु ।
चत्वरं पुरुषाकारं कलाबाहुमितं शिवे ॥ ११-१३ ॥

उत्तरोत्तरतोच्चत्वं किं वा पुरुषसंहृतिः ।
षट्पञ्चाशद्भवेदादौ नवकुण्डक्रमेण ॥ ११-१४ ॥

द्वितीये तु द्विपञ्चाशत् द्विषष्टिस्तु तृतीयके ।
पञ्चाशद्वेदप्रमिता चतुर्थे परमेश्वरि ॥ ११-१५ ॥

द्विसप्ततिः पञ्चमे तु चतुःषष्टिस्तु षट्क्रमे ।
शिरोबिन्दुर्महेशानि संवर्तेशं प्रपूजयेत् ॥ ११-१६ ॥

अथवान्यप्रकारेण क्रममन्यं शृणु प्रिये ।
सूर्ययसंख्याचत्वराणि कृत्वा यत्नेन पार्वति ॥ ११-१७ ॥

तत्र कुण्डानि देवेशि रचयेत् क्रमतः शिवे ।
आदौ बिन्दुर्महेशानि द्वितीये वह्निकुण्डकम् ॥ ११-१८ ॥

तृतीयचत्वरे देवि रससंख्यानि कारयेत् ।
चतुर्थे वसुसंख्यानि कलासंख्यानि पञ्चमे ॥ ११-१९ ॥

षष्ठे द्वाविंशति शिवे त्रिंशत् कुण्डानि सप्तमे ।
चतुस्त्रिंशति देवेशि वसुसंख्याभिधे भवेत् ॥ ११-२० ॥

अष्टत्रिंशद्रंध्रसंख्ये द्विचत्वारिंशच्च दिक्क्रमे ।
चत्वारिंशत्तथाष्टौ च रुद्रसंख्याभिधे भवेत् ॥ ११-२१ ॥

द्वादशे पञ्चपञ्चाशत् कामसंख्याभिधं शृणु ।
पञ्चाशद्वसुसंख्यानि यथायोगेन कारयेत् ॥ ११-२२ ॥

शाम्भवाख्यो महामेरुर्महासाम्राज्यदायकः ।
तस्य विज्ञानमात्रेण त्रैलोक्यविजयी भवेत् ॥ ११-२३ ॥

इति संक्षेपतः प्रोक्तं रहस्यातिरहस्यकम् ।
गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् ॥ ११-२४ ॥

स ज्ञानी स च विज्ञानी सर्वदेवरहस्यवित् ।
तारिण्यास्तु चतुःषोढा काल्यास्तु पञ्चषोढिका ॥ ११-२५ ॥

सुन्दर्याः पञ्चषोढा च विन्यस्तव्या प्रयत्नतः ।
शक्तिन्यासे भवेदेकश्चक्रन्यासेषु भिन्नता ॥ ११-२६ ॥

सर्वमेकं महेशानि शक्तिसंख्य(?)तंत्रके ।
पूर्णाभिषेकमारभ्य दिव्यसाम्राज्यतः शिवे ॥ ११-२७ ॥

योगोऽयं गदितो देवि रहस्यातिरहस्यकृत् ।
अहो धन्यवतां धन्यो दिव्यसाम्राज्यविन्नरः ॥ ११-२८ ॥

पूर्णाभिषेकसंयुक्तो न प्रणाम समाचरेत् ।
सर्वदा ध्यानसम्पन्न सदा * * तत्परः (?) ॥ ११-२९ ॥

तत्त्वचिन्तापरो भूत्वा देवरूपो नरो भवेत् ।
आस्तिक्यं मनसः स्थैर्ययं दातृत्वं च दयालुता ॥ ११-३० ॥

गुरुभक्तिर्देवभक्तिर्भक्तभक्तिपरो भवेत् ।
परापवादं तद्द्रोहं परनिन्दां विवर्जयेत् ॥ ११-३१ ॥

स्त्रीषु निन्दां प्रहारं च सर्वथा परिवर्जयेत् ।
परद्रव्यं परस्त्रीं च परान्नं सर्वथा त्यजेत् ॥ ११-३२ ॥

परशक्तिं वर्जयेच्च परहस्तं विवर्जयेत् ।
एकान्ते निवसेन्नित्यं पर्वते च विशेषतः ॥ ११-३३ ॥

योषिद्रूपं स्मरेत् सर्वं जगदेतच्चराचरम् ।
सदानन्दपरो भूत्वा देव्यानन्दपरायणः ॥ ११-३४ ॥

सिन्दूरतिलको स्वच्छः स्वेच्छाचारी जितेन्द्रियः ।
क्रोधं लोभं मदं दम्भं मात्सर्यं चञ्चलत्वताम् ॥ ११-३५ ॥

वार्त्तालापं वर्जयेच्च बहुवार्तां विशेषतः ।
आसनस्य जयं देवि तथा निद्राजयं शिवे ॥ ११-३६ ॥

इन्द्रियाणां जयं देवि सर्वथा कारयेद्बुधः ।
आहारस्य जयं देवि खेचरीमुद्रिकां भजेत् ॥ ११-३७ ॥

यत्र कुत्र वसेन्नित्यं यत्र कुत्र स्मरेच्छिवाम् ।
पूजयेद्विपिने घोरे कामिनीमण्डले शिवे ॥ ११-३८ ॥

वेश्यामण्डलगो भूत्वा सर्वदा चिन्तयेच्छिवाम् ।
मितवाक्यो मिताहारो मितग्रासी महोत्तमः ॥ ११-३९ ॥

तेजोरूपं तु संभाव्य जगदेतच्चराचरम् ।
विभाव्य प्रजपेन्नित्यं मायां यत्नेन संत्यजेत् ॥ ११-४० ॥

कोऽहं कस्य किमात्मत्वं किंरूपोऽहं कथं स्थितिः ।
कुत्रोत्पन्नः कथं जातः किंरूपः किं ममास्ति च ॥ ११-४१ ॥

किमाज्ञप्तमिति ध्यात्वा सर्वं तु तृणवत्त्यजेत् ।
अहं तारा भवाम्यद्य तारारूपोऽहमेव सा ॥ ११-४२ ॥

तत्कृतं कारितं यद्यत्सूचितं स्मारितं च यत् ।
प्रेरितं दर्शितं यद्यद्दापितं दीयते च यत् ॥ ११-४३ ॥

तया तत् क्रियते सर्वं नान्यः कर्त्तास्ति भूतले ।
पूर्णाभिषेकसंयुक्तो यस्मिन्देशे विराजते ॥ ११-४४ ॥

स देशो धन्यतां याति समन्ताल्लक्षयोजनम् ।
पूर्णाभिषेकहीनानां दीक्षा नहि फलप्रदा ॥ ११-४५ ॥

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
शीतोष्णसमतां कृत्वा सदा तद्गतमानसः ॥ ११-४६ ॥

देवतायां लयं कृत्वा देवरूपो नरो भवेत् ।
पूर्णाभिषेकहीनानां दीक्षा पूजा च निष्फला ॥ ११-४७ ॥

आशीर्ग्राह्या महेशानि पूर्णदीक्षायुतस्य च ।
तन्नतिर्नैव संग्राह्या तत्तोषं च समाचरेत् ॥ ११-४८ ॥

तस्य तोषणमात्रेण सन्तुष्टाः सर्वदेवताः ।
सर्वमंत्राधिकारो हि तस्य हस्ते व्यवस्थितः ॥ ११-४९ ॥

महाविद्यास्वरूपो हि स एव परिकीर्त्तितः ।
नीला वक्त्रे वसेत्तस्य काली हस्तगता भवेत् ॥ ११-५० ॥

सुन्दरी गेहगा तस्य कमला नेत्रगोचरा ।
बगला तस्य क्रोधे तु बालाम्बा हृदये स्थिता ॥ ११-५१ ॥

एवमन्या महाविद्या सिद्धविद्याश्च पार्वति ।
सर्वास्तद्धस्तगा देवि नात्र कार्यया विचारणा ॥ ११-५२ ॥

पूर्णाभिषेकयुक्तस्य न कोपं कारयेत् शिवे ।
तस्य कोपेन देवेशि जगदेतद्विनश्यति ॥ ११-५३ ॥

तस्य तोषणामात्रेण त्रैलोक्यं रक्षितं भवेत् ।
पञ्चवर्षभवो बालः पूर्णदीक्षासमन्वितः ॥ ११-५४ ॥

सर्वज्येष्ठो महेशानि न ज्येष्ठो वयसाऽधिकः ।
अपि चण्डालजातिस्तु पूर्णदीक्षासमन्वितः ॥ ११-५५ ॥

ब्राह्मणादपि स ज्येष्ठो दीक्षामार्गाख्यकर्मणि ।
न वयस्त्वे न जातित्वे न विद्यात्वे महेश्वरि ॥ ११-५६ ॥

पण्डितत्वे न देवेशि राज्यत्वे नापि पार्वति ।
तस्यापमानो देवेशि न कर्त्तव्यः कदाचन ॥ ११-५७ ॥

प्रमादात्कुरुते यस्तु तस्य पातो भविष्यति ।
अज्ञानात् मोहतो दम्भात् गर्वादपि महेश्वरि ॥ ११-५८ ॥

सदा तं पूजयेद्यत्नान्नान्यथा तारिणीवचः ।
तस्य नाशं करिष्यामि ताराहं भैरवेण च ॥ ११-५९ ॥

पूर्णाभिषेकयुक्तस्य स्थापनं देववच्चरेत् ।
यथा देवालये देवः सदा वसति पार्वति ॥ ११-६० ॥

तथा पूर्णायुते देवि विद्या तिष्ठति सर्वदा ।
गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् ॥ ११-६१ ॥

इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि ।


इति श्रीशक्तिसङ्गममहातंत्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे षट्शाम्भवमेरुविधौ सिद्धमतरहस्यं नाम एकादशः पटलः ॥ ११ ॥

Paṭala 12

श्रीदेव्युवाच ।


देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
पूर्वं संसूचितं यन्मे तन्मे कथय शङ्कर ॥ १२-१ ॥


श्रीशिव उवाच ।


रहस्यातिरहस्यं च तारायोगरहस्यकम् ।
कथ्यते देवदेवेशि शृणु सावहिता भव ॥ १२-२ ॥

तारायोगो योग एव तथा ताराजपो जपः ।
तारामंत्रो महामंत्रोत्तमोत्तमः ॥ १२-३ ॥

स धन्यः स च विज्ञानी स व्रती स च दीक्षितः ।
स चात्मा स महादेवः सर्वदेवाधिकः प्रभुः ॥ १२-४ ॥

परमात्मा स एवात्र सर्वदेवनमस्कृतः ।
स दर्शनी स विज्ञानी ब्रह्मानन्दपरायणः ॥ १२-५ ॥

तस्यैव जननी धन्या पिता तस्य सुरोपमः ।
ताराजापी पूर्णदीक्षासंयुक्तस्तारिणी स्वयम् ॥ १२-६ ॥

सर्वेश्वरः सर्वगश्च सर्वमंत्रपरायणः ।
सर्वतंत्रार्थवेत्ता च सर्वतंत्रपरायणः ॥ १२-७ ॥

पञ्चपारायणासक्तः पञ्चरत्नप्रजापकः ।
यं कञ्चिन्मंत्रमालोक्य जपेद्दीक्षायुतो यदि ॥ १२-८ ॥

ततः सिद्धिर्विजानीयात् नात्र कार्यया विचारणा ।
पुस्तके लिखिता मंत्रा जपे जापे न सिद्धिदाः ॥ १२-९ ॥

तस्य दर्शनमात्रेण मंत्रक्षोभविनाशनम् ।
मूको जडोऽपि देवेशि पूर्णदीक्षायुतस्य च ॥ १२-१० ॥

जलं वस्त्रं स्पृशेद्यो हि महाकविवरो भवेत् ।
सिद्धमंत्रं पुरस्कृत्य तारायाः परमेश्वरि ॥ १२-११ ॥

घटे हस्तं यदा दद्यात् तदा घटसरस्वती ।
सर्वं वदति देवेशि प्रहरद्वयमेव च ॥ १२-१२ ॥

एतद्योगफलं प्रोक्तं तव प्रीत्या महेश्वरि ।
इतोऽपि वाच्यं किं देवि किमन्यत् श्रोतुमिच्छसि ॥ १२-१३ ॥


श्रीदेव्युवाच ।


देवेश श्रोतुमिच्छामि पूर्वोक्तं यद्रहस्यकम् ।


श्रीशिव उवाच ।


रहस्यातिरहस्यं च तव प्रीत्या निगद्यते ॥ १२-१४ ॥

महापदि महाघोरे प्राप्ते प्राणस्य सङ्कटे ।
राज्यहानौ द्रव्यनाशे सुतनाशे समागते ॥ १२-१५ ॥

महामारीभये प्राप्ते राष्ट्रभङ्गे महेश्वरि ।
राज्यरक्षणयोगं च परराज्यविनाशकम् ॥ १२-१६ ॥

महाप्रीतिकरं योगं षट्कर्मसाधनं परम् ।
तत् कथ्यते महेशानि शृणु सावहिता भव ॥ १२-१७ ॥

आदौ पञ्चाक्षरीं तारां कुल्लुकासहितां जपेत् ।
अधिष्ठात्री चण्डघण्टा कूर्चबीजाह्वया परा ॥ १२-१८ ॥

काल्याः शक्तिः सैव शिवे ताराबीजं तदेव तु ।
तारा प्रणवनामाख्या तदेव परिकीर्त्तितम् ॥ १२-१९ ॥

छिन्ना चैकाक्षरीमंत्रः स एव परिकीर्त्तितः ।
एकस्मिन् त्रितये देवि महाक्रोधाभिधं ततः ॥ १२-२० ॥

चतुर्विद्यारूपधरं कूर्चबीजाह्वयं शिवे ।
चण्डघण्टेति विख्याता कूर्चबीजाह्वया भवेत् ॥ १२-२१ ॥

केवलं यस्य जापेन त्रिशक्तिजपभाग्भवेत् ।
कूर्चबीजं परं शक्तिरन्त्यं कीलकमुच्यते ॥ १२-२२ ॥

यथा प्रीत्या महेशानि त्रिशक्तिर्देवता मता ।
कालीबीजं तथा तारा छिन्ना चैकाक्षरी तथा ॥ १२-२३ ॥

त्र्यक्षरी परमा विद्या त्रैलोक्यविजयाभिधा ।
तारा काली तथा छिन्ना तारा छिन्ना च कालिका ॥ १२-२४ ॥

काली छिन्ना तथा तारा छिन्ना काली च तारिणी ।
छिन्ना तारा कालिका च षट्भेदा विजया कला ॥ १२-२५ ॥

मंत्रश्रवणसन्तुष्टा त्रैलोक्यराज्यदायिनी ।
देवता तारिणी पूर्वा प्रतिदेवी तु घण्टिका ॥ १२-२६ ॥

अधिदेवी तु विजया त्र्यक्षरी परमा कला ।
यद्बीजमादौ देवेशि तदेवायुधभूषणे ॥ १२-२७ ॥

मध्यबीजं स्वरूपं स्यादन्त्यबीजं च वाहनम् ।
नवाक्षरी परा विद्या वेदार्णा वा महेश्वरि ॥ १२-२८ ॥

त्रिंशदर्णा महातारा त्रिशक्तेर्मुखमीरितम् ।
त्रैलोक्यविजया विद्या स्मृतमात्रवरप्रदा ॥ १२-२९ ॥

त्रैलोक्यविजयास्त्राख्यं तदेव परिकीर्त्तितम् ।
यद्बीजमादौ देवेशि तदेव यंत्रमीरितम् ॥ १२-३० ॥

अथवा यत्र भक्तिः स्यात्तत्पीठे पूजनं शिवे ।
एतत्प्रयोगे देवेशि छिन्नाबाणः प्रकीर्त्तितः ॥ १२-३१ ॥

संहारास्त्रं महेशानि बाणाग्रं परिकीर्त्तितम् ।
सैव चार्द्रपटी विद्या शुष्कवस्त्रा तु जीवहा ॥ १२-३२ ॥

शुभाशुभप्रवक्ता तु श्रीवार्ताकथनी भवेत् ।
त्रैलोक्यवार्त्ताकथनी महापद्मावती कला ॥ १२-३३ ॥

ऊनविंशाक्षरी विद्या त्रैलोक्यज्ञानगोचरा ।
किञ्चिज्जपेन्मूलविद्यां तदान्यां प्रजपेत् शिवे ॥ १२-३४ ॥

सर्वासां तु महेशानि जपपूजादिकं बलिम् ।
अनुलेपनगन्धं च दद्याद्यत्नेन पार्वति ॥ १२-३५ ॥

त्रिमासाभ्यासयोगेन उदयास्तमितं जपेत् ।
चलस्थिरासनत्वेन यज्जातं तन्निवेदयेत् ॥ १२-३६ ॥

एतत्प्रयोगयोगेन किं तद्यन्न करे स्थितम् ।
साम्राज्यमुद्रिकायोगात् किन्न सिध्यति भूतले ॥ १२-३७ ॥

काली तारामयी प्रोक्ता वटुकस्य स्वरूपिणी ।
प्रणवं च तथा माया सम्बद्धदानयुग्मकम् ॥ १२-३८ ॥

कुरुयुग्मं बीजयुग्मं स्वाह्यता(?) चैकविंशतिः ।
एतस्य धारिणी देवी पताकास्थानगोचरा ॥ १२-३९ ॥

पताकायां लिखेद्यंत्रं बटुकं मध्यकोष्ठके ।
बटुकं बालवेषं च नागयज्ञोपवीतिनम् ॥ १२-४० ॥

कपालशूलभूषाढ्यं स्वयूथैः परिवेष्टितम् ।
कुक्कुरैर्नववर्णैश्च वेष्टितं ब्रह्मरूपिणम् ॥ १२-४१ ॥

द्वादशारस्थितं देवं प्रत्यक्षफलदं कलौ ।
प्रेतासनसमासीनं त्रैलोक्यजयदं विभुम् ॥ १२-४२ ॥

एतत्पताकां सन्धार्यय त्रैलोक्यविजयी भवेत् ।
महाराज्यपदं जित्वा त्रैलोक्यविजयी भवेत् ॥ १२-४३ ॥

पञ्चाङ्गाख्यपुरश्चर्ययाक्रमेण तु विशेषतः ।
कृष्णसारं च हरिणं जातिमात्रं परित्यजेत् ॥ १२-४४ ॥

कुञ्जरं च हयं नारं प्रीत्यर्थं तारिणीमनोः ।
बलिदानं प्रकुर्वीत यदेव पच्यते शिवे ॥ १२-४५ ॥

महिषत्वेन कुष्माण्डं छागत्वेन तु कर्कटी ।
बीजपूरं नरत्वेन रम्भापुष्पं हयः स्मृतः ॥ १२-४६ ॥

मूलकं मत्स्यभेदेन यथायोगेन कारयेत् ।
सात्त्विकं राजसं देवि तामसं तु तृतीयकम् ॥ १२-४७ ॥

त्रिविधं बलिदानं तु कीर्त्तितं परमेश्वरि ।


श्रीदेव्युवाच ।


बटुके को विशेषोऽस्ति का शक्तिः किंस्वरूपधृक् ॥ १२-४८ ॥

शिवशक्त्यात्मको वापि ब्रह्मविष्ण्वात्मकोऽपि वा ।
भर्ता पुत्रोऽथवा भ्राता का क्रिया तद्वद प्रभो ॥ १२-४९ ॥

अत्र मे संशयो जातः संशयं मेऽत्र नाशय ।


श्रीशिव उवाच ।


रहस्यातिरहस्यं च रहस्यातिरहस्यकम् ॥ १२-५० ॥

कथं तत् कथ्यते देवि शपथं कुरु पार्वति ।


श्रीदेव्युवाच ।


शपे त्वच्चरणाभ्यां तु हिमाद्रिशिरसा शपे ॥ १२-५१ ॥

स एव विमुखो भूयात् किमन्यैर्बहुजल्पितैः ।


श्रीशिव उवाच ।


शपथेन प्रहृष्टोऽस्मि तत्कथा कथ्यते शृणु ॥ १२-५२ ॥

वेतालाः प्रेतकुष्माण्डा यक्षराक्षसकिन्नराः ।
ब्रह्मा विष्णुस्तथा रुद्रो ग्रहाश्चान्ये महेश्वरि ॥ १२-५३ ॥

सञ्जाताः परमेशानि तैर्ग्रस्तं तु चराचरम् ।
केचिद्विरिञ्चिं सेवन्ते शिवं विष्णुं तथापरे ॥ १२-५४ ॥

महाविद्यां भजन्त्यन्ये न ते वै सिद्धिभागिनः ।
वेतालाद्या महादेवि जपपूजादिहारकाः ॥ १२-५५ ॥

तेषां विनाशनार्थाय भक्तानुग्रहणाय च ।
बटुकोऽयं महेशानि ताराकाल्या विभावितः ॥ १२-५६ ॥

पञ्चाशद्वै महापद्म महामन्त्रा महेश्वरि ।
पञ्चाशत्कोटिगणना योगिनीनां तु कोटिशः ॥ १२-५७ ॥

भैरवाणां कोटिकोटिर्महाविद्यास्त्वनेकशः ।
त्रिखर्वसंख्या तारा स्यात् काली दशार्बुदा शिवे ॥ १२-५८ ॥

कलाकोटिप्रभेदा तु सुन्दरी तेन संयुता ।
बाला त्रिकोटिसंख्याभिश्छिन्ना षोडशखर्वतः ॥ १२-५९ ॥

षट्त्रिंशल्लक्षब्रह्मास्त्रैश्चन्द्रषोडशमायुता ।
कोटिद्वादशभिर्देवि भुवनांशेन पार्वती ॥ १२-६० ॥

धूम्रकला लक्षभेदैः सिद्धविद्याख्यतत्त्वतः ।
चतुरशीतिलक्षैश्च मातङ्गीमंत्रतः शिवे ॥ १२-६१ ॥

एतत् सर्वमयं तेजः सर्वब्रह्माण्डरूपधृक् ।
सर्वतेजःसमुद्भूतं बटुरूपं सनातनम् ॥ १२-६२ ॥

सत्त्वरजस्तमोयुतैः ब्रह्मविष्णुमहेश्वरैः ।
तच्छक्तिभिर्महेशानि रूपत्रयधरं परम् ॥ १२-६३ ॥

तत्रापि दशधा भिन्नं बटुरूपं सनातनम् ।
महोग्रतारया दत्तमुपवीतं महेश्वरि ॥ १२-६४ ॥

कपालं छिन्नया दत्तं काल्या कालो निवेदितः ।
दत्तं त्रिशूलं कालेन यन्मूले तु त्रिशक्तयः ॥ १२-६५ ॥

काली तारा तथा छिन्ना शूलरूपेण सन्ति च ।
अन्ये देवाः सिद्धयश्च यक्षगन्धर्वकिन्नराः ॥ १२-६६ ॥

रूपं कौक्कुरमासाद्य संभजन्ति निरन्तरम् ।
एवं बटुकरूपं तु संजातं परमेश्वरि ॥ १२-६७ ॥

यदारम्य धृतं रूपं बटुकाख्यं शिवेन तु ।
तदा प्रभृति देवेशि वेतालाद्या न दुःखदाः ॥ १२-६८ ॥

सिद्धिं संलेभिरे स्वां स्वां देवतादर्शनोत्सुकाः ।
एवं तु बटुकं पूज्य वास्तुपूजार्थमेव वा ॥ १२-६९ ॥

ये पूजयन्ति देवेशि ते नराः शिवरूपिणः ।
सर्वसिद्धीश्वरा देवि साधकाः सम्भवन्ति च ॥ १२-७० ॥

वेतालादेः किंकरत्वं यक्षिणीपादुकागणः ।
खड्गाञ्जनविलासाद्याः परकायप्रवेशनम् ॥ १२-७१ ॥

तदारम्य महेशानि साधकस्य करे स्थितम् ।
सर्वं तु शावराद्यन्तु यत्स्मृत्या करगं भवेत् ॥ १२-७२ ॥

एवं तु बटुको जातः सर्वसिद्धिप्रदः शुभः ।
दशविद्या योगरूपं समासाद्य वसन्ति च ॥ १२-७३ ॥

ज्येष्ठी या दशमी शुद्धा दशयोगसमन्विता ।
बटुकस्य तिथिः प्रोक्ता बटुकोत्पत्तिकारिणी ॥ १२-७४ ॥

देव्याः पुत्रत्वतां यातो बटुकः परमेश्वरि ।
त्वां विहाय च ये मां च सम्भवन्ति युगे युगे ॥ १२-७५ ॥

तेषां न सिद्धिर्देवेशि कोट्यर्बुदयुगैरपि ।
खड्गशूलधरं काल्या तारायां पूर्वमीरितम् ॥ १२-७६ ॥

द्विचतुर्वसुहस्ताढ्यं बटुकं परमेश्वरि ।
रहस्यातिरहस्यं च रहस्यातिरहस्यकम् ॥ १२-७७ ॥

सर्वसिद्धिप्रदो देवि सर्वसाम्राज्यदायकः ।
सर्वापत्तारणो योगो स्वसैन्यरक्षकः परः ॥ १२-७८ ॥

परसैन्यस्य राष्ट्रस्य विद्रावी नाशकः परः ।
परराज्ये महेशानि नानोपद्रवकारकः ॥ १२-७९ ॥

अहोरात्रेण देवेशि वीरसाधनयोगतः ।
बटुकस्तु प्रसन्नः स्यात्तारा काली तथा शिवे ॥ १२-८० ॥

अन्यप्रयोगा देवेशि क्वचित्सिद्ध्यन्ति वा न वा ।
गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् ।
इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि ॥ १२-८१ ॥


इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे तारासूक्ते सिद्धप्रयोगो नाम द्वादशः पटलः ॥ १२ ॥

Paṭala 13

श्रीदेव्युवाच ।


देवेश श्रोतुमिच्छामि वीररात्र्यादिनिर्णयम् ।


श्रीशिव उवाच ।


वीररात्रिर्महारात्रिः कालरात्रिस्तथैव च ॥ १३-१ ॥

मोहरात्रिर्घोररात्रिः क्रोधरात्रिस्तथैव च ।
तथैव चाबलारात्रिस्तारारात्रिस्तथैव च ॥ १३-२ ॥

शिवरात्रिर्दिव्यरात्रिर्दारुणा च यथाक्रमात् ।
कथ्यते परमेशानि शृणु सावहिता भव ॥ १३-३ ॥

चतुर्दशीसंक्रमश्च कुलर्क्षकुलवासरः ।
अर्धरात्रौ यथा योगो वीररात्रिः प्रकीर्त्तिता ॥ १३-४ ॥

शुक्लाष्टमी चाश्विनस्य नवरात्रं तु तस्य वै ।
महारात्रिर्महेशानि कालरात्रिं शृणु प्रिये ॥ १३-५ ॥

दीपोत्सवं चतुर्द्दश्यां त्वमाया योग एव च ।
कालरात्रिर्महेशानि ताराकालीप्रियंकरी ॥ १३-६ ॥

जन्माष्टमी महेशानि मोहरात्रिः प्रकीर्त्तिता ।
कृष्णावतारपर्ययन्तं तारायाः शाप ईरितः ॥ १३-७ ॥

जाते कृष्णावतारे तु निर्मुक्ता तारिणी परा ।
उत्पत्तौ विन्ध्यवासिन्या विद्युद्रूपे समागते ॥ १३-८ ॥

श्रीमहातारिणी विद्या महारण्यपरायणा ।
स्मरणादेव संसिद्धा स्मृतिपुष्टिकरी परा ॥ १३-९ ॥

चैत्रे मासि नवम्यां च शुक्लपक्षे च भूसुते ।
क्रोधरात्रिर्महेशानि तारारूपा भविष्यति ॥ १३-१० ॥

मासे मार्गशिरे प्राप्ते कृष्णाष्टम्यां महेश्वरि ।
महाकालस्वरूपा च घोररात्रिः प्रकीर्त्तिता ॥ १३-११ ॥

प्राप्ते फाल्गुनके मासि कृष्णैकादशिका तु या ।
भृगुभौमयुता चेत् स्यादबलारात्रिरीरिता ॥ १३-१२ ॥

ज्येष्ठी या दशमी शुद्धा भृगुवासरसंयुता ।
दशयोगसमायुक्ता रात्रावेकादशी यदि ॥ १३-१३ ॥

सा तिथिर्दिव्यरात्रिश्च कीर्त्तिता परमेश्वरि ।
ज्येष्ठी या दशमी शुद्धा दशयोगसमन्विता ॥ १३-१४ ॥

बटुकस्य तिथिः प्रोक्ता बटुकोत्पत्तिकारिणी ।
अमाभौमसमायुक्ता संक्रमेण समन्विता ॥ १३-१५ ॥

कुल-ऋक्षसमायुक्ता ग्रहणं यदि चेद्भवेत् ।
तारारात्रिस्तु संप्रोक्ता भाग्यादेव तु लभ्यते ॥ १३-१६ ॥

फाल्गुने कृष्णपक्षे तु ह्यर्धरात्रौ भृगौ शिवे ।
शिवरात्रिस्तु संजाता सर्वसिद्धिप्रदायिनी ॥ १३-१७ ॥

अमाभृगुसमायुक्ता सूर्ययग्रहणयुक् यदि ।
अपराह्णे यदा योगो मृतसंजीवनी तिथिः ॥ १३-१८ ॥

स्नानदानादिहोमान्तमनन्तफलदं भवेत् ।
अष्टमी चैत्रमासी या संक्रमेण समन्विता ॥ १३-१९ ॥

सिद्धिरात्रिरिति ख्याता ताराकालीसमाकुला ।
तृतीया माधवे शुद्धा कुलवारर्क्षसंयुता ॥ १३-२० ॥

दारुणा कीर्त्तिता देवि सर्वसिद्धीश्वरी परा ।
क्रमेण कथितं सर्वं पर्वराजाभिधं शृणु ॥ १३-२१ ॥

तृतीया पौषमासीया भृगुवासरसंयुता ।
साऽपि चेन्मकराक्रान्ता कुलनक्षत्रसंयुता ॥ १३-२२ ॥

चतुर्थीसहिता चेत्स्यात् रेवतीसहिता क्वचित् ।
पर्वराजाभिधं पर्वं सर्वपर्वोत्तमोत्तमम् ॥ १३-२३ ॥

तृतीया चैत्रमासीया रेवतीसंयुता यदि ।
ऋद्धियोगो महेशानि होमकर्म्मणि शस्यते ॥ १३-२४ ॥

प्रतिमासे पौर्णमासी मासनक्षत्रसंयुता ।
कुलवारसमायुक्ता सा तिथिः सुन्दरी भवेत् ॥ १३-२५ ॥

अष्टमी प्रतिमासस्य कृष्णपक्षस्य पार्वति ।
भौमयुक्ता तथा ऋक्षयुक्ता वा केवला च वा ॥ १३-२६ ॥

देवीरात्रिरिति ख्याता सर्वसिद्धिप्रदायिनी ।
चतुर्थी माघमासस्य मकराक्ता भवेद्यदि ॥ १३-२७ ॥

गणपस्य तु सा रात्रिरिति ख्यातेति औडवः ।
नवमी कृष्णपक्षस्य कुल-ऋक्षसमन्विता ॥ १३-२८ ॥

वारयुक्ताथवा देवि सिद्धिरात्रिः प्रकीर्त्तिता ।
चतुर्थी कृष्णपक्षस्य कुलवारर्क्षसंयुता ॥ १३-२९ ॥

केवलं भौमयुक्ता वा बालरात्रिः ससंक्रमे ।
अमाभौमसमायुक्ता कुलर्क्षसंयुता यदि ॥ १३-३० ॥

कृष्णरात्रिरिति ख्याता अक्षोभ्यप्रीतिकारिणी ।
अमार्कश्रवणे जाते युक्तश्चेत् पौषमाघयोः ॥ १३-३१ ॥

अर्द्धोदयः स विज्ञेयः किंचिन्न्यूनो महोदयः ।
धर्म्मरात्रिर्महेशानि कीर्त्तितेयं सुरर्षिभिः ॥ १३-३२ ॥

अमाभौमेन सोमेन योगेन भृगुणाथवा ।
गुरुणा रविणा देवि कुल-ऋक्षसमन्विता ॥ १३-३३ ॥

दिव्यमाण्डलिको योगः सूर्यपर्वशताधिकः ।
माघमासे शुक्लपक्षे सप्तमी या प्रकीर्त्तिता ॥ १३-३४ ॥

सौरी तिथिस्तु सा ज्ञेया जपहोमादिकं चरेत् ।
रवियुक्ता कुलर्क्षैस्तु वासरेणापि संयुता ॥ १३-३५ ॥

महासौरीति विज्ञाता त्रैलोक्योत्पत्तिकारिका ।
सप्तमी प्रतिमासस्य रवियुक्ता यदा भवेत् ॥ १३-३६ ॥

हंसी तिथिस्तु विज्ञेया मोक्षधर्म्मपरायणा ।
बुधाष्टमी महेशानि प्रतिमासस्य या भवेत् ॥ १३-३७ ॥

विष्णुरात्रिरिति ख्याता भाद्रे मासि विशेषतः ।
माघे मासि शुक्लपक्षे पञ्चम्यां भृगुवासरे ॥ १३-३८ ॥

वसन्तपञ्चमी प्रोक्ता कामसंजीवनी तिथिः ।
आरात्रिकं जपो होमः कीर्त्तनं कामनर्त्तनम् ॥ १३-३९ ॥

श्रावणे पौर्णमास्यां तु तदृक्षे परमेश्वरि ।
पवित्रारोपणं कार्ययं रक्षां दशविधां चरेत् ॥ १३-४० ॥

पौर्णिमा चैत्रमासीया तस्यां मदनपूजनम् ।
प्रतिविद्याविधौ देवि प्रोक्तयोगे प्रपूजनम् ॥ १३-४१ ॥

एतद्योगपूजनाद्धि सिद्धिं विन्दन्ति किं पुनः ।
इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि ॥ १३-४२ ॥


इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे सिद्धितंत्रे वीररात्र्यादिनिर्णयो नाम त्रयोदशः पटलः ॥ १३ ॥

Paṭala 14

श्रीदेव्युवाच ।


देवदेव महादेव सर्वेषां सुखवर्द्धन ।
केन सिद्धिं ददात्याशु तारा त्रैलोक्यतारिणी ॥ १४-१ ॥

श्रीमहादक्षिणा काली सिद्धिं किं नः प्रयच्छति ।
तन्मे वद महादेव यद्यहं तव वल्लभा ॥ १४-२ ॥


श्रीशिव उवाच ।


रहस्यातिरहस्यं च कथं त्वयि निवेद्यते ।
शपथं कुरु देवेशि तर्हि तत्त्वं वदाम्यहम् ॥ १४-३ ॥


श्रीदेव्युवाच ।


शपे त्वच्चरणाभ्यां च सैव मे विमुखी भवेत् ।


श्रीशिव उवाच ।


शपथेन प्रहृष्टोऽस्मि कथ्यते शृणु साम्प्रतम् ॥ १४-४ ॥

सिद्धिर्मधुमती नाम्ना प्रादुर्भूता तवाज्ञया ।
काली तारा *ं(?) धाम त्वत्सकाशादभूच्छिवा ॥ १४-५ ॥

श्रीविद्यया मुखं दत्तं काल्या करयुगं शिवे ।
तारया चाङ्गुलिर्दत्ता भुवनेश्या हृदम्बुजम् ॥ १४-६ ॥

छिन्नया चरणद्वन्द्वं मातङ्ग्या नयनद्वयम् ।
लक्ष्म्या ललाटं दत्तं च तथैव सिद्धविद्यया ॥ १४-७ ॥

केशा दत्ता महेशानि गुल्फौ ब्रह्मास्त्रविद्यया ।
हासस्तु बालया दत्तो वाजी दत्तो महेश्वरि ॥ १४-८ ॥

श्रिया च रुचकं देवि धूमावत्या तु निग्रहः ।
अन्यदेवास्तु केशान्ते ब्रह्माण्डं हृदयाम्बुजे ॥ १४-९ ॥

एवं सर्वांशतो जाता तेजोराशिसमुद्भवा ।
महामधुमती सिद्धिस्त्रैलोक्याकर्षणी परा ॥ १४-१० ॥

पार्वत्यरुन्धती दुर्गा मृतसञ्जीवनी परा ।
सर्वमाकर्षयेत्तूर्णं त्रैलोक्याकर्षकारणात् ॥ १४-११ ॥

काली तारामयं धाममाविर्भूतमभूच्छिवा ।
महापायससन्तुष्टा पायसान्नपरायणा ॥ १४-१२ ॥

महामधुमती विद्या त्रैलोक्याकर्षणी परा ।
भैरवाकर्षणी विद्या वेतालाकर्षणी तथा ॥ १४-१३ ॥

किन्नराकर्षणी देवि देवाकर्षणकारिणी ।
तस्या मंत्रं प्रवक्ष्यामि त्रैलोक्याकर्षणं परम् ॥ १४-१४ ॥

प पञ्चमं पावकयुक् नादबिन्दुविभूषितम् ।
महाकामकला युक्ता प्रोक्ता त्वेकाक्षरी कला ॥ १४-१५ ॥

मधुमतीं समुद्धृत्य नान्तं कामसमन्वितम् ।
स्थावरेति समुद्धृत्य जङ्गमाकर्षणीति च ॥ १४-१६ ॥

ठ युग्मान्ता वह्निजाया चित्कलार्णा प्रकीर्त्तिता ।
अष्टादशाक्षरी विद्या त्रैलोक्याकर्षणी परा ॥ १४-१७ ॥

कामदेवो ऋषिः प्रोक्तो निवृद्गायत्रिका ततः ।
छन्दः प्रोक्तं महेशानि देवता सैव कीर्त्तिता ॥ १४-१८ ॥

म्री/ बीजं च तथा स्वाहा शक्तिः प्रोक्ता महेश्वरि ।
स्थावरजङ्गमाकर्षे विनियोगः प्रकीर्त्तितः ॥ १४-१९ ॥

षड्दीर्घभाजा बीजेन कुर्ययादङ्गानिषट्क्रमात् ।
ततो ध्यानं प्रकुर्वीत वक्ष्यमाणं महेश्वरि ॥ १४-२० ॥

गौराङ्गी शरदिन्दुसुन्दरमुखीं पीतांशुकां पीवरां प्रोत्तुङ्गस्तनमण्डलप्रविलसज्जाम्बूनदकावलीम् ।
श्वेतोत्तुङ्गतुरङ्गगां त्रिनयनां पीताङ्गरागस्रजां ध्यायेत्पायसलालसां मधुमतीं दोर्भ्यां दधानां सृणिम् ॥ १४-२१ ॥

दिग्बन्धभूतशुद्ध्यादीन् कालीवत् समुपाचरेत् ।
यंत्रावरणकं नास्ति केवलं पूजयेच्छिवे ॥ १४-२२ ॥

सर्वं त्रिशक्तिवत्प्रोक्तं विशेषः कथ्यते शृणु ।
एवं ध्यात्वा जपेद्विद्यां सर्वाकर्षणकारिणीम् ॥ १४-२३ ॥

पुरश्चरणसिद्ध्यर्थं सहस्राणां तु सप्ततिः ।
सिद्धमंत्रे सिद्धचर्या प्रोक्ता देवि मया तव ॥ १४-२४ ॥

कदलीवनमासाद्य वर्षमात्रं महेश्वरि ।
सर्वकालं जपेन्मंत्रं पायसान्नपरायणः ॥ १४-२५ ॥

वीरसाधनवद्देवि लक्षमात्रं जपेत्ततः ।
ततः सप्ततिसाहस्रं प्रत्यक्षार्थं महेश्वरि ॥ १४-२६ ॥

पायसं कदलीपत्रे पायसं घृतशर्करम् ।
भुक्त्वा मोचावने वीतजने कुर्यादतन्द्रितः ॥ १४-२७ ॥

गन्धर्ववेशो गतभीर्विर्भागैः पायसं चरेत् ।
अंशद्वयं पुरा कृत्वा तत्क्रमं शृणु पार्वति ॥ १४-२८ ॥

एकाशे चांशयुग्मञ्च एकांशं पूर्णमेव च ।
परस्यांशस्य पूर्वांशं स्वयं च भक्षयेच्छनैः ॥ १४-२९ ॥

एकस्मिन् कदलीपत्रे म्री मित्युत्सर्गमालिखेत् ।
प्रथमसप्तके याति तूष्णीं नैव यथा तथा ॥ १४-३० ॥

द्वितीयसप्तके देवि प्रतिमां काञ्चनीमिव ।
तृतीयसप्तके देवि प्रत्यक्षाश्नाति पायसम् ॥ १४-३१ ॥

वरं ददाति हठतः साधकस्य यथेप्सितम् ।
तिष्ठत्यहर्निशं सार्द्धं साधकस्य यथेप्सितम् ॥ १४-३२ ॥

आकर्षयत्यम्बुनिधेः सुमेरोश्च दिगन्ततः ।
पातालादिन्द्रलोकाच्च हैमश्रीशैलभूरुहात् ॥ १४-३३ ॥

अलन्यानि च वस्तूनि दूराद्भूमितलादपि ।
नदीं पुरीं च रत्नानि समाकर्षति तत्क्षणात् ॥ १४-३४ ॥

वृत्तान्तं च पुरस्थानां राज्ञां च कथयत्यपि ।
रहस्यं विद्विषां चापि सत्यं सत्वरमाविशेत् ॥ १४-३५ ॥

त्रैलोक्याकर्षणी विद्या न देया यस्य कस्यचित् ।
बटुकेमां गृहाण त्वं सिद्धिदो मेऽस्तु सर्वदा ।
इति संक्षेपतः प्रोक्तं मन्त्रभेदश्च साधनम् ॥ १४-३६ ॥


इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे ताराकल्पाङ्गसिद्धिर्नाम चतुर्दशः पटलः ॥ १४ ॥

Paṭala 15

श्रीदेव्युवाच ।


देवेश श्रोतुमिच्छामि मन्त्रानन्यांश्च साधनम् ।


श्रीशिव उवाच ।


एकाक्षरी चाद्यबीजा ठयुग्मा त्र्यक्षरी भवेत् ॥ १५-१ ॥

ठहीना स्वाहया युक्ता त्र्यक्षरी कामपूजिता ।
बीजसम्बोधनयुता पञ्चार्णा परिकीर्त्तिता ॥ १५-२ ॥

बीजसम्बोधनयुता ठद्वयान्ता मुनिप्रिया ।
बीजसम्बोधनयुता स्वाहान्ता ऋषिपूजिता ॥ १५-३ ॥

सम्बोधनठयुग्मान्ता षड्वर्णा सकलार्थदा ।
सम्बुद्धिः स्वाहया युक्ता सर्वाकर्षणकारिणी ॥ १५-४ ॥

बीजकर्मान्तगा विद्या दशार्णा विश्वरूपिणी ।
कर्माद्या ठद्वयान्ता च रुद्रार्णा परमेश्वरि ॥ १५-५ ॥

कर्माद्या वह्निजायान्ता विद्याद्या परिकीर्त्तिता ।
बीजकर्मठद्वयान्ता महाविद्या प्रकीर्त्तिता ॥ १५-६ ॥

बीजकर्म ततः स्वाहा सिद्धविद्या प्रकीर्त्तिता ।
बीजसम्बोधनपदं कर्मान्ता च परा कला ॥ १५-७ ॥

बीजसम्बोधनपदं कर्मठद्वयसंयुतम् ।
बीजसम्बोधनपदं कर्मस्वाहान्विता परा ॥ १५-८ ॥

बीजसम्बोधनपदं ठयुक्स्वाहान्विता परा ।
बीजं ठयुक् ततः स्वाहा विद्यान्या परिकीर्त्तिता ॥ १५-९ ॥

सम्बोधनं ठयुक् स्वाहा विद्या सर्वार्थदा परा ।
बीजकर्म ठयुक् स्वाहा विद्या सर्वाङ्गसुन्दरी ॥ १५-१० ॥

सम्बोधनं ततः कर्म ठद्वयान्ता परा भवेत् ।
सम्बोधनं ततः कर्म ठयुक्स्वाहान्विता परा ॥ १५-११ ॥

सम्बोधनं ततः कर्म स्वाहान्ता शिवसुन्दरी ।
चतुर्विंशतिभेदैस्तु गदिता परमा कला ॥ १५-१२ ॥

बाला मधुमती भिन्ना तथैव सुन्दरीमनोः ।
निधिसिद्धौ भवेद्भिन्ना त्रिभेदा सा प्रकीर्त्तिता ॥ १५-१३ ॥

एवं त्रिंशतिधा प्रोक्ता त्रैलोक्याकर्षणी परा ।
विजने कदलीपत्रवने गत्वा निशामुखे ॥ १५-१४ ॥

शुभलग्ने शुभदिने सङ्कल्पं कामनान्वितम् ।
अष्टादशाक्षरस्यास्य महामधुमतीमनोः ॥ १५-१५ ॥

मंत्रसिद्ध्यर्थमित्युक्त्वा चाद्यप्रभृति चोच्चरेत् ।
एकविंशति चोद्धृत्य दिवसान्तं समुच्चरेत् ॥ १५-१६ ॥

जपरूपं ततः प्रोच्चैः पुरश्चरणमुच्चरेत् ।
षडङ्गयुग्ममाद्येन कृत्वा ध्यात्वा प्रपूज्य च ॥ १५-१७ ॥

गोदुग्धपायसं कृत्वा कदलीपत्रगोचरम् ।
बीजं मधुमतीत्युक्त्वा चतुर्थ्यन्तं समुद्धरेत् ॥ १५-१८ ॥

पायसं तत्र दत्वा च निवेद्य च पुनः पुनः ।
तस्यां संभुक्तवत्यां तु पुनराचमनीयकम् ॥ १५-१९ ॥

दद्यात्ताम्बूलं सन्दर्श्य प्रणम्य च पुनः पुनः ।
पायसार्द्धं पृथक् स्थाप्य शेषार्द्धं भक्षयेत् स्वयम् ॥ १५-२० ॥

रक्तमाल्यादिभिर्देवि दिव्याम्बरविभूषितम् ।
गन्धर्ववेशं कृत्वा च प्रत्यहं त्रिसहस्रकम् ॥ १५-२१ ॥

त्रिशतं च चतुस्त्रिंशत् एकविंशतिवासरान् ।
प्रजपेत् परमेशानि देवता वरदा भवेत् ॥ १५-२२ ॥

बटुकस्य च संयोगात् सिद्ध्यत्येव न चान्यथा ।
श्रीतारोपासको यस्तु कालिकोपासकस्तु यः ॥ १५-२३ ॥

इमां विद्यां साधयित्वा सिद्धिमाप्नोति नान्यथा ।
यान् यान् प्रार्थयते कामांस्ता/स्तान् कामान् क्षणे क्षणे ॥ १५-२४ ॥

ददाति सा परा विद्या सर्वाकर्षणकारिणी ।
लोहप्राकारसन्नद्धदुर्गाद्देवालयाच्छिवे ॥ १५-२५ ॥

धनदं शङ्करं विष्णुं पार्वतीं चाप्यरुन्धतीम् ।
एवं दशमहाविद्यां समाकर्षति तत्क्षणात् ॥ १५-२६ ॥

लङ्कां समुद्रान् द्वीपांश्च सिद्धयक्षमहोरगान् ।
अश्रुतान्यपि वस्तूनि समाकर्षति तत्क्षणात् ॥ १५-२७ ॥

किन्नरान् यातुधानादीन् निधीन् सिद्धीः क्षणेन च ।
सुमेरुं चैव कैलासं क्षणादाकर्षयेच्छिवे ॥ १५-२८ ॥

तत्तद्देशस्थितं देवि त्रैकाल्यज्ञानमेव च ।
सर्वं वदति देवेशि सावधानं करोति यः ॥ १५-२९ ॥

त्रैलोक्याकर्षणी विद्या न देया यस्य कस्यचित् ।
आदौ विद्यां च संसाध्य ततः सिद्धिं प्रसाधयेत् ॥ १५-३० ॥

गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् ।
इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि ॥ १५-३१ ॥


इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मधुमतीसिद्धिविधिर्नाम पञ्चदशः पटलः ॥ १५ ॥

Kundalini, Chakra und Bewusstsein als Themen des Yoga.

Paṭala 16

श्रीदेव्युवाच ।


देवेश श्रोतुमिच्छामि क्रमदिक्षाविनिर्णयम् ।


श्रीशिव उवाच ।


रहस्यातिरहस्यं च कथं तत् कथयामि ते ॥ १६-१ ॥

तथापि तव सद्भक्त्या कथ्यते शृणु साम्प्रतम् ।
चन्द्राग्निपक्षषोढाख्या परा निर्वाणतत्परा ॥ १६-२ ॥

षट्शाम्भवं ततो देवि चक्रसंभेदनेन च ।
स्वचक्रदेहविज्ञानं परकायप्रवेशनम् ॥ १६-३ ॥

एतज्ज्ञानाद्भवेन्मेधा दीक्षा प्रोक्ता मया तव ।
हादाविदं निगदितं शृणु कादौ महेश्वरि ॥ १६-४ ॥

चन्द्राग्निरसराज्ञी च महाराज्ञी ततः शिवे ।
महाकामकला काली गुह्यकाली ततः शिवे ॥ १६-५ ॥

गुह्यकाली द्विधा प्रोक्ता सकला निष्कला क्रमात् ।
दशवक्त्रा तु सकला प्रोक्ता वाशिष्ठिका कला ॥ १६-६ ॥

उग्रा सौम्या महाक्रूरा त्रिविधा सा प्रकीर्त्तिता ।
निष्कला गुह्यशब्दान्ता कालीभेदेन कीर्त्तिता ॥ १६-७ ॥

केवललेयं भवेन्मेधा प्रीत्या साम्राज्यदायिनी ।
चन्द्राग्निवेदपञ्चार्णा तथा नीलाक्रमेण च ॥ १६-८ ॥

हंसतारा महानीला तदन्ते चीनशाम्भवी ।
केवला तु भवेन्मेधा सिद्धि-ऋद्धिक्रिया द्विधा ॥ १६-९ ॥

तृतीया दिव्यसाम्राज्यमेधा दीक्षा प्रकीर्त्तिता ।
देवरूपा दिव्यरूपा मन्त्ररूपा महत्परा ॥ १६-१० ॥

सर्वरूपा सर्वपूर्वा महत्साम्राज्यमेधया ।
सिद्धि-ऋद्धिक्रमेणैव भेदबाहुल्यमीरितम् ॥ १६-११ ॥

विद्याराज्याभिधा दीक्षा छिन्नमस्ताविधौ स्मृता ।
चन्द्रवह्निरसो रक्तं श्यामा च षोडशी तथा ॥ १६-१२ ॥

पराषोढा सप्तदशी तदतीता परा भवेत् ।
दीपिनी मालिनी कुल्ला क्रमाद्विद्यादिराज्यता ॥ १६-१३ ॥

बगलाख्या महेशानि साम्राज्यपारमेष्ठिता ।
चन्द्रवेदसूक्ष्ममेरुं मंत्रहीनं शिवात्मकम् ॥ १६-१४ ॥

हृदयं च शतार्णा च पञ्चास्त्रं कुल्लुका तथा ।
गायत्रीक्रमयोगेन साम्राज्यपारमेष्ठ्यधृक् ॥ १६-१५ ॥

एतत्पञ्चकसंयुक्तः सर्वसाम्राज्यबुद्धिधृक् ।
श्रीदिव्यसर्वसाम्राज्यदीक्षा सर्वोत्तरा भवेत् ॥ १६-१६ ॥

ततोऽपि दीक्षा देवेशि नास्ति ब्रह्माण्डगोलके ।
दशविद्याप्रभेदाश्च महाविद्याप्रभेदजाः ॥ १६-१७ ॥

सिद्धिविद्याप्रभेदाश्च महामंत्रास्तथैव च ।
तदङ्गमंत्रा देवेशि शाबरं दशशाबरम् ॥ १६-१८ ॥

कालशाबरकं देवि तथैव सिद्धशाबरम् ।
त्रिधा दर्शनमंत्राश्च तथाम्नायक्रमोद्भवाः ॥ १६-१९ ॥

कादिहादिकहत्वेन ऊर्ध्वाम्नायाः कलौ शिवे ।
तथायतनमन्त्राश्च यत्किञ्चिन्मंत्रजालकम् ॥ १६-२० ॥

सर्वाधिकारो देवेशि एतद्दीक्षाविधौ भवेत् ।
एतद्दीक्षासमायुक्तः साक्षात् श्रीकालिका स्वयम् ॥ १६-२१ ॥

प्रहराष्टक्रमेणैव दशविद्यास्वरूपधृक् ।
कामकलाभिधा विद्या सभेदा वृत्तिदेवता ॥ १६-२२ ॥

अङ्गमन्त्रास्तथान्येऽपि तस्य वक्त्रगताः सदा ।
क्रमदीक्षा महेशानि पञ्चविद्यासु भेदतः ॥ १६-२३ ॥

तदङ्गमन्त्रा गायत्री कुल्लुकापञ्चकः शिवे ।
अन्यविद्याविधौ प्रोक्तं रहस्यातिरहस्यकम् ॥ १६-२४ ॥

क्रमदीक्षा विना देवि यो जपेत् साधकाधमः ।
स दरिद्रो महापापी सुतहारी प्रजायते ॥ १६-२५ ॥

श्रीविद्यायां कालिकायां तारायां परमेश्वरि ।
क्रमदीक्षां विना देवि यो जपेत् साधकाधमः ॥ १६-२६ ॥

स दरिद्रो महाघोरो लक्ष्मीहीनस्तु निन्दितः ।
अन्धः काणः कृशः कुब्जः पङ्गुः षण्ढस्तु कुष्ठयुक् ॥ १६-२७ ॥

सर्वरोगयुतो भूयादाधिचिन्तासमाकुलः ।
सुतहारी च स्त्रीहारी कन्याराज्यविनाशकः ॥ १६-२८ ॥

अथवा वातुलो भूयान्मन्त्रक्षोभमवाप्नुयात् ।
देवताशापमाप्नोति दारिद्र्यं तद्गृहे सदा ॥ १६-२९ ॥

विशेषाद्देवदेवेशि स्त्रीहारी विकलः सदा ।
क्रमदीक्षासमायुक्तो राजा भवति निश्चितम् ॥ १६-३० ॥

महाविभवसंयुक्तः सर्वसिद्धिसमन्वितः ।
विजयी विनयी साधुः सिद्धश्च सिद्धिदः शुभः ॥ १६-३१ ॥

प्रहृष्टात्मा सत्यवेत्ता त्रिकालज्ञः कविः सुखी ।
कोटिसिद्धीश्वरः शूरः सुन्दरः काममोहनः ॥ १६-३२ ॥

आनन्दात्मा परात्मा च परातीतगुणोत्तरः ।
राजराजेश्वरः साक्षात् सहृत्कालसमः कलौ ॥ १६-३३ ॥

एतद्विद्योपासकस्य दारिद्र्यं दीनता क्वचित् ।
गुरुहीनात् क्रमत्यागात् सम्प्रदायवियोगतः ॥ १६-३४ ॥

दारिद्र्यं प्रथमं भूयान्नात्र कार्यया विचारणा ।
चिन्तामणिगृहं यत्र यत्र रहस्य मन्दिरम् ॥ १६-३५ ॥

नवरत्नात्म्यसोपानं सर्वैश्वर्ययमयं(?) गृहम् ।
कल्पवृक्षवनं यत्र पारिजात्वनं तथा ॥ १६-३६ ॥

स्पर्शमणेस्तु प्राकारो दारिद्र्यं तत्र कुत्र वै ।
तस्मात् क्रमविहीनस्य दारिद्र्यं तु पदे पदे ॥ १६-३७ ॥

क्रमयुक्तं गुरुं प्राप्य क्रमं सम्प्रार्थयेत्सुधीः ।
अन्यथा गुरुमौढ्येन दारिद्र्यत्वमवाप्नुयात् ॥ १६-३८ ॥

अल्पायुर्वा भवेद्देवि नात्र कार्यया विचारणा ।
विधेर्लिपिं तु साम्राज्यं तस्यायुः क्षीणतां व्रजेत् ॥ १६-३९ ॥

इति संक्षेपतः प्रोक्तं क्रमहीनस्य वै फलम् ।
गोपनीयं गोपनीयं किमन्यत् श्रोतुमिच्छसि ॥ १६-४० ॥


इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे क्रमदीक्षाविधायको नाम षोडशः पटलः ॥ १६ ॥

Paṭala 17

श्रीदेव्युवाच ।


देवेश श्रुतुमिच्छामि पूर्वोक्तं यद्रहस्यकम् ।
गोपनीयम् गोपनीयं तदेव कथय ध्रुवम् ॥ १७-१ ॥


श्रीशिव उवाच ।


रहस्यातिरहस्यं च यन्न कस्यापि कीर्त्तितम् ।
तदेव कथ्यते देवि शृणु सावहिता भव ॥ १७-२ ॥

उत्सर्जनमुपाकर्म पवित्रारोपणं तथा ।
विधिवत्तु प्रकर्त्तव्यं रक्षाबन्धस्तदुत्तरम् ॥ १७-३ ॥

क्रमेण परमेशानि साधकः कारयेत्सदा ।
चैत्रे मासि पौर्णमास्यां मदनारोपणं चरेत् ॥ १७-४ ॥

श्रावणे मासि सम्प्राप्ते पवित्रारोपणक्रियाम् ।
न कुर्ययात्साधको यस्तु निष्फलाः सकलाः क्रियाः ॥ १७-५ ॥

वर्षमात्रं कृतं जापं होमपूजादिसत्क्रियाम् ।
सर्वं हन्ति महेशानि तस्मादेतत् समाचरेत् ॥ १७-६ ॥

आदौ नित्यं महेशानि ततो नैमित्तिकं चरेत् ।
उपाकर्माभिधं कर्म नित्यवत् परिकीर्त्तितम् ॥ १७-७ ॥

नैमित्तिकं पवित्राख्यं काम्यो रक्षाविधिर्भवेत् ।
नैमित्तिकद्वयं यत्र तदन्त्यं काम्यमुच्यते ॥ १७-८ ॥

काम्यद्वयं यत्र भवेत्तदाद्यं च निमित्तजम् ।
नित्यद्वयं यत्र भवेत्तदन्त्यं काम्यनित्ययुक् ॥ १७-९ ॥

आश्वलायनं श्रवणे पूर्णा कात्यायने भवेत् ।
पौर्णमास्यां सामगानां पञ्चम्यां हस्तजेऽपि च ॥ १७-१० ॥

उपाकर्म प्रकर्तव्यं तदन्ते नित्यपूजनम् ।
ततः पवित्रपूजा स्यात्ततो रक्षाविधिर्भवेत् ॥ १७-११ ॥

सूतकद्वितये देवि ग्रहणे संक्रमे परे ।
उपाकर्माणि देवेशि कुर्ययात् भाद्रपदे नरः ॥ १७-१२ ॥

पवित्ररक्षणं शान्तिं कुर्ययात् भाद्रपदे सदा ।
पञ्चम्यां च दशम्यां च चतुर्दश्यां तथैव च ॥ १७-१३ ॥

पौर्णमास्यां विशेषेण कुलयोगे विशेषतः ।
ग्रहणं तत्र चेद्भूयात् रक्षायोगं समाचरेत् ॥ १७-१४ ॥

तत्र नित्यं प्रकर्तव्यं उपाकर्म ततो भवेत् ।
इति चन्द्रग्रहे देवि सूर्ययवेधं समुत्सृजेत् ॥ १७-१५ ॥

अधिवास्य चतुर्दश्यां पौर्णमास्यां प्रपूजयेत् ।
दशैकविंशतिग्रन्थिं सप्तविंशतिरेव च ॥ १७-१६ ॥

चतुःपञ्चाशद्देवेशि शतमष्टोत्तरं तथा ।
पञ्चविंशति वा ग्रन्थिं त्रिशतं वा सहस्रकम् ॥ १७-१७ ॥

अष्टादशरश्मिसंख्यं व्युत्क्रमात् परिकीर्त्तितम् ।
उत्तमादिक्रमेणैव पवित्रं त्रिविधं भवेत् ॥ १७-१८ ॥

सूत्रं पट्टस्वर्णमयं कुशजं लोमजं च वा ।
रत्नजं रौप्यजं देवि ताम्रजं शान्तिकर्मणि ॥ १७-१९ ॥

सार्द्धग्रन्थिद्वयं वापि सार्द्धग्रन्थित्रयं च वा ।
एकग्रन्थिं च वा देवि क्रमेण कारयेत् प्रिये ॥ १७-२० ॥

सार्द्धग्रन्थिद्वयं देवि नागपाशः प्रकीर्त्तितः ।
सार्द्धग्रन्थित्रयं देवि ब्रह्मग्रन्थिः प्रकीर्त्तितः ॥ १७-२१ ॥

चन्द्रग्रन्थिर्महेशानि सूत्राणि ग्रन्थिसंख्यया ।
पट्टेन सूत्रनियमः स्वर्णे रौप्येऽपि नास्ति च ॥ १७-२२ ॥

स्वर्णसूत्रमये पट्टे स्वर्णजे ग्रन्थिरीरितः ।
ग्रन्थिं कृत्वा महेशानि पूजयेद्ग्रन्थिदेवताम् ॥ १७-२३ ॥

सूत्रजं वैष्णवे प्रोक्तं शैवे पट्टसमुद्भवम् ।
स्वर्णजं शक्तिमंत्रे स्यात्तद्द्वयोक्तं तु सर्वतः ॥ १७-२४ ॥

पञ्चसिद्धिविधौ देवि रत्नजं परिकीर्त्तितम् ।
वृत्तं त्रिकोणं भूबिम्बं षट्कोणं च षडस्रकम् ॥ १७-२५ ॥

दलाष्टकं च वस्वारं दशारं भुवनारकम् ।
द्वादशारं षोडशारं पञ्च चारं चतुर्दशम् ॥ १७-२६ ॥

दन्ताब्जं च कलाब्जं वा यन्त्राण्येतानि कारयेत् ।
मध्ये यन्त्रं च परितो रत्नानि विविधानि च ॥ १७-२७ ॥

धारयेत् परमेशानि पवित्ररक्षणक्रमात् ।
स्वर्णादौ शृङ्खलारूपा ग्रन्थयः परिकीर्त्तिताः ॥ १७-२८ ॥

उत्तमादिक्रमेणैव कारयेत् परमेश्वरि ।
माणिक्यं च तथा रत्नं कुरुविन्दमणिस्तथा ॥ १७-२९ ॥

हीरके चैव वैडूर्ये गोमेदे पुष्परागके ।
पद्मरागे नीलमणौ हरिते च गरुत्मके ॥ १७-३० ॥

करिके परिशे कीटे शिवरत्ने च विष्णुजे ।
बिन्दुरत्ने च मायूरे पाचे (?) कुक्कुटसंज्ञके ॥ १७-३१ ॥

रासे कृष्णे चन्द्रमणौ प्रवाले मौक्तिकाम्बरे ।
रक्षायन्त्रफलं देवि कोष्ठरत्नसमं भवेत् ॥ १७-३२ ॥

यन्त्राण्येतानि विलिखेत् सर्वकार्ययार्थसिद्धये ।
श्रीविद्यायां कालिकायां ताराछिन्नाविधौ शिवे ॥ १७-३३ ॥

मातङ्ग्यां भुवनेश्वर्ययां कमलायां च कारयेत् ।
चतुर्दले महेशानि चतुर्वर्णात्मको मनुः ॥ १७-३४ ॥

चतुरक्षरमात्राणि कारयेत् परमेश्वरि ।
यथा दलानि कोष्ठानि तथा विद्याक्षराणि च ॥ १७-३५ ॥

विलिखेत् परमेशानि बीजमात्रं च वा लिखेत् ।
वयः शोभा यथा देवि यथाप्युक्ता समाचरेत् ॥ १७-३६ ॥

यदा बध्नाति मन्त्रेण त्वां पवित्रेण वा प्रिये ।
आपदुद्धारकेणापि मूलेन विद्यया क्रमात् ॥ १७-३७ ॥

रक्षणं बन्धयेद्देवि रक्षा सर्वकृता भवेत् ।
बलिमुखं च रक्षार्थं ज्ञानार्थं गौतमादिभिः ॥ १७-३८ ॥

मोक्षार्थं कपिलाद्यैश्च शक्त्यर्थं शङ्करादिभिः ।
सूत्रे भेदाः क्रमेणैव यथायोगेन वै शृणु ॥ १७-३९ ॥

श्वेते रक्ते तथा पीते नीले च हरितेऽपि च ।
कर्पूरे बहुचित्रे च यथायोगेन कारयेत् ॥ १७-४० ॥

सूत्राणि कामनाभेदात् यथायोगेन कारयेत् ।
सर्वसिद्धीश्वरो भूयान्नात्र कार्यया विचारणा ॥ १७-४१ ॥

प्रतिविद्याविधौ देवि पवित्रारोपणं भवेत् ।
प्रतिविद्याविधौ देवि रक्षा वर्णक्रमाद्भवेत् ॥ १७-४२ ॥

अष्टगन्धभवं सूत्रं जीवचक्रभवं च वा ।
पुष्पराजसारभवमम्बरोत्थं च वा प्रिये ॥ १७-४३ ॥

तथैवागुरुसारोत्थं सूत्रं प्रोक्तं महेश्वरि ।
रहस्यातिरहस्यं च रहस्यातिरहस्यकम् ॥ १७-४४ ॥

गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् ।
ब्रह्माण्डगोलके याश्च याः काश्चिज्जगतीतले ॥ १७-४५ ॥

समस्ताः सिद्धयो देवि रक्षाधारकसाधके ।
सम्भवन्ति महेशानि नात्र कार्या विचारणा ॥ १७-४६ ॥

वाञ्छासिद्धिर्भवेद्देवि नात्र कार्यया विचारणा ।
इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि ॥ १७-४७ ॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरखण्डे प्रथमभागे श्रीमदक्षोभ्यमहोग्रतारासंवादे सूत्रनिर्णयो नाम सप्तदशः पटलः ॥ १७ ॥

Paṭala 18

श्रीदेव्युवाच ।


देवेश श्रोतुमिच्छामि गोप्याद्गोप्यतरं महत् ।


श्रीशिव उवाच ।


रहस्यातिरहस्यं च कथ्यते शृणु साधनम् ॥ १८-१ ॥

पूर्णाभिषेकदीक्षादियुक्तानामपि पार्वति ।
पवित्रारोपणं रक्षा समैव परिकीर्त्तिता ॥ १८-२ ॥

सद्योऽधिवासनं वापि पूर्वाधिवासनं च वा ।
कृत्वा पवित्रं कर्त्तव्यं सर्वकामार्थमेव च ॥ १८-३ ॥

सर्वरत्ने च परिशे तथा गरुडरत्नके ।
सर्वरक्षासुसिद्ध्यर्थं रक्षणं बन्धनं चरेत् ॥ १८-४ ॥

तारा श्रीकामवाङ्माया काली छिन्ना च तारिणी ।
बगला विमला धूम्रा वसोर्धारा षडङ्गकम् ॥ १८-५ ॥

त्रितारं पञ्चतारं च सप्तर्षिरध्रयोगतः ।
आकर्षिण्यां परां मायां पराप्रासादकेऽपि च ॥ १८-६ ॥

बीजान्येतानि बाणाश्च प्रेतफेत्कारकामतः ।
एकद्वित्रिचतुःपञ्चषडर्णक्रमयोगतः ॥ १८-७ ॥

विद्यां संयोजयेद्यंत्रे सर्वसिद्ध्यर्थमेव च ।
श्रावण्यां पौर्णमास्यां तु रक्षां दशविधां चरेत् ॥ १८-८ ॥

गोरक्षा हयरक्षा च गजरक्षा तृतीयका ।
जनरक्षा देशरक्षा गृहरक्षा रसाभिधा ॥ १८-९ ॥

धनरक्षा बालरक्षा क्षेत्ररक्षा परा मता ।
सर्वरक्षा च दशमी रक्षा दशविधा मता ॥ १८-१० ॥

अष्टम्यां च नवम्यां च पञ्चम्यां दशमीदिने ।
चतुर्द्दश्यां पौर्णमास्यां पक्षयोरुभयोरपि ॥ १८-११ ॥

उपाकर्म भवेदादौ ततः पवित्रधारणम् ।
रक्षाबन्धस्तदन्ते स्यात् क्रमात् त्रितयमाचरेत् ॥ १८-१२ ॥

चतुर्थ्यामधिवासो हि गणेशे परिकीर्त्तितः ।
पञ्चम्यां धारणं कार्ययं मातङ्ग्यामधिवासनम् ॥ १८-१३ ॥

दशम्यां धारणं कार्ययं सप्तम्यामधिवासनम् ।
अष्टम्यां पूजनं कार्ययं धार्ययं सौरे महेश्वरि ॥ १८-१४ ॥

अष्टम्यामधिवासो हि नवम्यां धारणं शिवे ।
शक्तेः प्रोक्तमिदं देवि पाञ्चरात्रक्रमं शृणु ॥ १८-१५ ॥

नवम्यामधिवासो हि दशम्यां धारणं शिवे ।
वैष्णवे चैव द्वादश्यां त्रयोदश्यां विधारणम् ॥ १८-१६ ॥

अधिवासश्चतुर्द्दश्यां पौर्णमास्यां प्रपूजनम् ।
शैवे प्रोक्तमिदं देवि श्रीविद्यायां च पौर्णिमा ॥ १८-१७ ॥

चान्द्रेऽपि पौर्णमास्यां च पवित्रधारणं चरेत् ।
कुशैः काशैः सदा कार्ययं पवित्रं ब्रह्मचारिणाम् ॥ १८-१८ ॥

वनस्थानां शणभवं त्रसरीसभवं च वा ।
यतीनां गैरिकाक्तं च सर्ववर्णं गृही चरेत् ॥ १८-१९ ॥

राज्ञां सुवर्णसूत्रोत्थं क्षत्रियाणां च रौप्यजम् ।
द्विजानां सूत्रसम्भूतं क्रमेण परिकीर्त्तितम् ॥ १८-२० ॥

तथैव रक्षणं देवि सर्वथा सममत्र च ।
अत्रार्थे देवदेवेशि इतिहासत्रयं शृणु ॥ १८-२१ ॥

पुरा श्रीकार्तिकेयाय पार्वत्या रक्षणं कृतम् ।
शव्या देवेन्द्रवश्यार्थं जयाय वृत्रनाशने ॥ १८-२२ ॥

महाविद्यादिभिः पूर्वं रक्षितो बटुकः पुरा ।
पूर्वं कृतयुगे देवि नहुषः क्षत्रियेश्वरः ॥ १८-२३ ॥

उपाकर्म विधायाथ पवित्रारोपणे स्थितः ।
कृत्वा पवित्रं यत्नेन देवेन्द्रसदनाद्गृहम् ॥ १८-२४ ॥

तन्मार्गमध्ये देवेशि विना रक्षां च योऽधमः ।
बुद्धेर्विपर्ययो जातो रक्षाहीनो नराधिपः ॥ १८-२५ ॥

रक्षाबन्धनमात्रेण मासद्वादशरक्षणम् ।
अकृते देवदेवेशि मतिभ्रष्टो नरो भवेत् ॥ १८-२६ ॥

वर्षमात्रकृता रक्षा रक्षाबन्धनयोगतः ।
अङ्कयन्त्रैर्महादेविः बीजाङ्कैरपि पार्वति ॥ १८-२७ ॥

अङ्कबीजैः पताकाद्यैः सर्वत्र रक्षणं भवेत् ।
वेदसंस्कार एवात्र चोपाकर्म प्रकीर्त्तितम् ॥ १८-२८ ॥

गृहीतवेदमन्त्रस्य रक्षणं तु पवित्रकम् ।
वदधिष्टातृ(?)रक्षार्थं रक्षाबन्धनमीरितम् ॥ १८-२९ ॥

तस्मात् सर्वप्रयत्नेन रक्षाबन्धनमाचरेत् ।
विना रक्षां महेशानि वर्षमात्रं कृता क्रिया ॥ १८-३० ॥

सकला निष्फला देवि देवता विमुखी भवेत् ।
सर्वस्वैरपि देवेशि रक्षाबन्धनमाचरेत् ॥ १८-३१ ॥

सर्वरक्षा तदा देवि भवत्येव न संशयः ।
नित्यं नैमित्तिकं काम्यं क्रमात्त्रितयमीरितम् ॥ १८-३२ ॥

इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ।


श्रीदेव्युवाच ।


देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ॥ १८-३३ ॥


श्रीशिव उवाच ।


किं तद्रहस्यं देवेशि तद्वदस्व प्रियंवदे ।


श्रीदेव्युवाच ।


पवित्रारोपणं कर्म मदनारोपणं तथा ॥ १८-३४ ॥

कथ्यतां देवदेवेश यद्यहं तव वल्लभा ।


श्रीशिव उवाच ।


आषाढ उत्तमो मासः श्रावणो मध्यमः स्मृतः ॥ १८-३५ ॥

हीनो भाद्रपदो मासः पक्षौ सितसितेतरौ ।
प्रशस्तः शुक्लपक्षस्तु तदभावे परः स्मृतः ॥ १८-३६ ॥

पञ्चमी चाष्टमी चैव नवमी दशमी तिथौ ।
द्वादश्यां च चतुर्दश्यां पौर्णमास्यामथापि वा ॥ १८-३७ ॥

पट्टसूत्रविशिष्टं तु कार्पासजनितं तथा ।
त्रिगुणं त्रिगुणीकृत्य प्रक्षाल्यामलवारिणा ॥ १८-३८ ॥

पश्चिमास्योक्तमनुभिर्दक्षिणैः शोधयेत्ततः ।
मन्त्रैरथ पवित्राणि मनोरम्याणि कारयेत् ॥ १८-३९ ॥

अष्टोत्तरशतं श्रेष्ठं मध्यमं तु तदर्धकम् ।
तदर्धं च कनिष्ठं स्यात् यथाशक्त्या तु पूर्ववत् ॥ १८-४० ॥

पूर्वोक्ततन्तुभेदेन द्रव्यभेदेन वा प्रिये ।
कृत्वा पवित्रं यत्नेन ग्रन्थिं दत्वा विधानतः ॥ १८-४१ ॥

उत्तरास्योदितैर्मंत्रैर्दशग्रन्थींस्तु कारयेत् ।
चित्रवैचित्र्यसंयुक्तं कुङ्कुमादिभिरद्रिजे ॥ १८-४२ ॥

पवित्रदानदिवसे पूर्वोक्तमधिवासनम् ।
सद्योऽधिवासनं वापि कुर्ययात्तु परमेश्वरि ॥ १८-४३ ॥

रात्रौ समयिभिः साकं नित्यपूजामनन्तरम् ।
ऊर्ध्वसिंहासनैर्मन्त्रैः सूत्रपातस्तु वामतः ॥ १८-४४ ॥

प्रार्थयित्वा स्तवेनापि रक्षां कृत्वावगुण्ठनैः ।
दन्तकाष्ठं तथा गन्धं यज्ञचन्दनमृत्तिकाम् ॥ १८-४५ ॥

सिद्धार्थश्च तथा धात्रीफलं शृङ्गारभूषणम् ।
नकुलमष्टसु पट्टा (?) विज्ञेया उत्तरोत्तरम् ॥ १८-४६ ॥

पूर्वादिदिक्षु क्रमतः पवित्रं सूत्रभाजनम् ।
अश्वत्थपत्रपात्रेषु प्रक्षिपेत् सिद्धिहेतवे ॥ १८-४७ ॥

हु/ कारसोमस्वाहेशब्रह्मनागशिखिध्वजाः ।
सूर्यः सदाशिवः सर्वा देवताः स्युर्नवाः पराः ॥ १८-४८ ॥

सूत्रेषु पूजयेद्ब्रह्मविष्णवीशांश्च त्रिसूत्रके ।
कृपा च पौरुषी वाणी गायत्री चापराजिता ॥ १८-४९ ॥

विजया च जया देवि मुक्तिदा च सदाशिवा ।
मनोन्मनी च नवमी दशमी सर्वतोमुखी ॥ १८-५० ॥

ग्रंथिस्था देवताः पूज्या उपचारैः कलात्मकैः ।
मूलमन्त्रेण चामन्त्र्य पवित्रेषु कला यजेत् ॥ १८-५१ ॥

नित्याः षोडश देवेशि श्रीविद्यां च स्मरेत् प्रिये ।
अष्टौ ताराश्चाष्टवाणीः कलास्थाने प्रपूजयेत् ॥ १८-५२ ॥

काल्यां काल्यादिनित्याश्च पूजयेत् परमेश्वरि ।
अधिवासविधिः प्रोक्तः पश्चादाराधनं भवेत् ॥ १८-५३ ॥

नित्यार्चनानन्तरं तु नैमित्तिकमिदं भवेत् ।
समभ्यर्च्य पवित्राणि कन्यकाभ्यश्च भोजनम् ॥ १८-५४ ॥

स्वगुरुं पूजयेत् पश्चात् वस्त्रालङ्कारगोधनैः ।
यथाशक्त्या नमस्कृत्य देवीरूपेण चिन्तयेत् ॥ १८-५५ ॥

आरोपयेत् पवित्रं च वित्तशाठ्यविवर्जितः ।
गुरुं संपूजयेत्तत्र तत्तत्कर्मफलावहम् ॥ १८-५६ ॥

स चेन्न पूज्यते यत्र क्रिया सा निष्फला सदा ।
गुरोरभावे तत्पुत्रं पुत्राभावे तदङ्गनाम् ॥ १८-५७ ॥

तदभावे च तत्पौत्रं दौहित्रं तदसम्भवे ।
सर्वाभावेऽर्चयेदन्यं गुरोर्गोत्रसमुद्भवम् ॥ १८-५८ ॥

पूजयेद्दिक्षितं यत्र तत्रैताः सफलाः क्रियाः ।
न पूज्यते निष्फलास्ता भवन्ति परमेश्वरि ॥ १८-५९ ॥

हुत्वा पूर्णाहुतिं पश्चादग्नौ दग्ध्वा पवित्रकम् ।
चक्रमभ्यर्च्य सिद्धाग्रे पूजयेत्तन्निवेदयेत् ॥ १८-६० ॥

न करोत्यर्चनं ह्यग्नौ तस्य धर्मो विनिष्फलः ।
इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि ॥ १८-६१ ॥


इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे क्रमदीक्षापवित्रारोपणं नामाष्टादशः पटलः ॥ १८ ॥

Paṭala 19

श्रीदेव्युवाच ।


देवेश श्रोतुमिच्छामि इतिहासं पुरातनम् ।


श्रीशिव उवाच ।


शृणु देवि प्रवक्ष्यामि रहस्यातिरहस्यकम् ॥ १९-१ ॥


भक्तिश्रद्धापरायास्ते नाकथ्यं विद्यते मम ।
न चाख्येयं त्वयान्यत्र प्राणेषु विगते(?)ष्वपि ॥ १९-२ ॥

रहस्यमेतद्देवानां सर्वसिद्धिमभीप्सतम् ।
न च विद्यामयो योगो न विधानं न चार्चनम् ॥ १९-३ ॥

नान्यः प्रयोगो न जपो न होमो न च पूजनम् ।
वक्ष्यमाणरहस्यस्य सहस्रांशं न चाहेति ॥ १९-४ ॥

सिद्धिमीयुः पुरैतस्याः प्रसादात् पार्थिवर्षयः ।
कैरवो (?) वृहदश्वश्च सोमदत्तो बृहद्रथः ॥ १९-५ ॥

अजमीढः कार्त्तवीर्ययो भद्रसेनः पुरूरवाः ।
पृथुग्रीवो रन्तिदेवो मान्धाता नहुषे रघुः ॥ १९-६ ॥

विदूरथश्च भरतो दिवोदासः प्रतर्दनः ।
कृशाश्वो जमदग्निश्च जैगीषव्यश्च देवलः ॥ १९-७ ॥

पैठीनसिर्वीतिहव्यः कश्यपो भृगुरङ्गिराः ।
संवर्तश्च वसिष्ठोऽत्रिर्व्यासः शातान्यस्तथा ॥ १९-८ ॥

उद्दालको भरद्वाजो जाबालो जैमिनिस्तथा ।
सप्तद्वीपेश्वरत्वं च चक्रवर्त्तित्वमेव च ॥ १९-९ ॥

प्रापुः पूर्वमहीपालाश्चिरजीवित्वमप्यलम् ।
योगसिद्धिं तथान्येऽपि तपस्यां सर्वसाधिकाम् ॥ १९-१० ॥

शापानुग्रहसामर्थ्यं प्राप्तवन्तो महर्षयः ।
त्रैलोक्याधिपतित्वं च यत्प्रसादात् करे स्थितम् ॥ १९-११ ॥

ताराक्षः कमलाक्षश्च विद्युन्माली तथैव च ।
एते ह्यासन् कृतयुगे दैतेया भ्रातरस्त्रयः ॥ १९-१२ ॥

तेऽतप्यन्त तपो घोरं दिव्यं वर्षायुतं प्रिये ।
ततः प्रजापतिस्तेभ्यो वरं संप्रार्थितं ददौ ॥ १९-१३ ॥

चतुर्वरद्वयं दैत्याः सौन्दर्यमदगर्विताः ।
एकस्तेषामवध्यत्वं सर्वभूतेभ्य उत्थितम् ॥ १९-१४ ॥

द्वितीयं योजनानां हि त्रित्रिलक्षान्तरस्थितम् ।
त्रयाणां त्रिपुरं भूमौ न लङ्घ्यं दैवतैरपि ॥ १९-१५ ॥

वरं दत्त्वा च तद्धाता सर्वं शृणुत पुत्रकाः ।
सर्वप्रकारैः कस्यापि नावध्यत्वं जगत्त्रये ॥ १९-१६ ॥

एकेनापि प्रकारेण घटमानेन सर्वथा ।
सर्वे स्वकीयं निधनमङ्गीकुरुत दानवाः ॥ १९-१७ ॥

ते विचार्यावदन्सर्वे शरेणैकेन यत्क्षणात् ।
दहेत्त्रयाणां त्रिपुरं स नो मृत्युर्भविष्यति ॥ १९-१८ ॥

तथेत्युक्त्वा ययौ वेधा ब्रह्मलोकं सुरैर्युतम् ।
तेऽपि सर्वे तथा चक्रुर्यथा पूर्वं विचारितम् ॥ १९-१९ ॥

ताराक्षस्य तु सौवर्णं पुरं सर्वोपरि स्थितम् ।
योजनायुतविस्तीर्णं तावदेवायतं प्रिये ॥ १९-२० ॥

राजतं कमलाक्षस्य योजनायुतविस्तृतम् ।
दशसाहस्रविस्तीर्णं विद्युन्मालिन आयसम् ॥ १९-२१ ॥

त्रित्रिलक्षोत्तरं तेषां पुरं गगनसीमनि ।
प्राकारपरिखोपेतं तथाट्टालकशोभितम् ॥ १९-२२ ॥

ध्वजगोपुरनिःश्रेणिपताकायन्त्रशोभितम् ।
खड्गपाशाङ्कुशारिष्टगदाकार्मुकधारिभिः ॥ १९-२३ ॥

पाशशूलभुशुण्ड्यष्ट्रा चक्रमुद्गरशोभिभिः ।
त्रिंशन्निखर्वषट्वृन्दनवत्यर्बुदकोटिभिः ॥ १९-२४ ॥

एकैकं पुरमाक्रान्तं दानवैर्युद्धदुर्मदैः ।
दृष्ट्वा तु तादृशीमृद्धिं देवाः सर्वे सवासवाः ॥ १९-२५ ॥

पलायाञ्चक्रिरे केचित् केचिच्च शापितं ययुः ।
केचिच्च युयुधुर्देवास्तत्यजुस्त्रिदिवं परे ॥ १९-२६ ॥

केचित् समुद्रं प्रविशुः केचिच्च गिरिकन्दरम् ।
जन्हुः केचिद्भिया प्राणान् ययुः केचिच्चतुर्दिशम् ॥ १९-२७ ॥

दृष्ट्वा सुराणामधिपो देवानामीदृशीं दशम् ।
रुद्रं जगाम शरणं पुरोधाय प्रजापतिम् ॥ १९-२८ ॥

दण्डवत् प्रणता भूत्वा ते देवाः सपितामहाः ।
ऊचुः प्रञ्जलयो भूत्वा पिनाकिनमुमापतिम् ॥ १९-२९ ॥

तपस्यया वरं धातुः सम्प्राप्य त्रिपुरासुराः ।
बाधन्तेऽस्मान्महेशान शैलगह्वरगानपि ॥ १९-३० ॥

त्वत्तः शरण्यो नास्माकं विद्यते देव कश्चन ।
अतो निवेदयामस्ते प्रमथाधिपते प्रभो ॥ १९-३१ ॥

देवाङ्गनाः समाहृत्य नयन्ति स्वपुरं प्रति ।
निरध्वरं जगज्जातं निष्कल्पतरु नन्दनम् ॥ १९-३२ ॥

निर्मनुष्या मही सर्वा निर्देवाप्यमरावती ।
निस्तोया निम्नगा जाता नीरत्नाः सप्तसागराः ॥ १९-३३ ॥

पादपानां कोटरेषु कन्धरेषु महीभृताम् ।
लीना भूत्वा वयं सर्वे तिष्ठामस्तद्भयार्दिताः ॥ १९-३४ ॥

तेषां हि शास्ता त्रैलोक्ये त्वदन्यो नास्ति कश्चन ।
तान्निहत्यासुरान्स्वर्गे पुनरस्मान्निवेशय ॥ १९-३५ ॥

इत्युक्तः प्रणतैः सर्वैर्विहस्य वृषभध्वजः ।
प्रत्युवाच सुरान् सर्वान् रथो मे कल्प्यतामिति ॥ १९-३६ ॥

ततो ब्रह्माऽब्रवीत्तत्र स्मितं कुर्वन् महेश्वरम् ।
निर्मातव्यो रथो देव कस्त्वदारोहणक्षमः ॥ १९-३७ ॥

तद्वोदुं रथनिर्माणे सामर्थ्यं नैव विद्यते ।
स्वयोग्यं स्पन्दनं चास्त्रं कवचं चोटिकामपि ॥ १९-३८ ॥

त्वमेव कल्पयस्वाद्य बुद्धिः कस्यास्ति शङ्कर ।
इत्युक्तो ब्रह्मणा शम्भुरवदत् हर्षयन् सुरान् ॥ १९-३९ ॥

चत्वारो वाजिनो वेदास्ते चोपाकर्मणा तपः ।
वेदाः क्रियावतां यान्ति शङ्खासुरविमर्दिताः ॥ १९-४० ॥

ताराक्षस्य तपस्तेन चोपाकर्मप्रभावतः ।
क्षीणं भवति भो ब्रह्मन् कामलाक्षं पवित्रतः ॥ १९-४१ ॥

वर्षमात्रं कृता शान्तिः पवित्रमृषिभिः स्मृतम् ।
कमलाक्षतपः क्षीणं पवित्रेण प्रजायते ॥ १९-४२ ॥

सर्वस्वस्त्ययनं नाम पवित्रारोपणं मतम् ।
चत्वारो वाजिनो वेदाः संपूर्णा मेदिनी रथः ॥ १९-४३ ॥

सूर्याचन्द्रमसौ चक्रे कूबरो गन्धमादनः ।
विन्ध्यो गिरिर्नाभिरस्तु कैलासोऽक्षत्वमेव च ॥ १९-४४ ॥

मेरुर्मे ध्वजदण्डं स्यात् सारथिर्भगवान् विधिः ।
प्रणवस्तु प्रतोदः स्यात् पुराणानि च रश्मयः ॥ १९-४५ ॥

धनुर्मे मन्दरो भूयाच्छिंजिनी वासुकिर्भवेत् ।
विष्णुः शरो मे भवतु बाह्वोर्वायुर्विशन्त्वपि ॥ १९-४६ ॥

यमो मृत्युश्च कालश्च फणामध्ये विशन्तु च ।
वासवः शरपृष्ठे स्यात् कुबेरवरुणावुभौ ॥ १९-४७ ॥

भवतः पुङ्खसंस्थाने मस्तके सर्वदेवताः ।
नासत्यौ वटिनीसंस्थौ यज्ञाः सर्वे पदातयः ॥ १९-४८ ॥

अष्टाङ्गे दशविद्याश्च शतस्थाने शतास्रकम् ।
षड्त्रिंशदङ्गुलो वंशो मनुबन्धनसंयुतः ॥ १९-४९ ॥

मन्वङ्गुलादित्यरूपाः शरा मैनाकगोचराः ।
पिनाकचापलक्षं च वेत्ति काली सदाशिवम् ॥ १९-५० ॥

स्वेच्छयान्यच्च सरलं कल्पयामास शङ्करः ।
अस्त्रं (?) च कवचं षोढां लब्ध्वा रक्षां विना शिवः ॥ १९-५१ ॥

स्वयोग्यं रक्षणं शम्भुरलब्ध्वा चिन्तितो भवेत् ।
निमील्य त्रीणि नेत्राणि चिरं तस्थौ जगत्पतिः ॥ १९-५२ ॥

अथ ध्यानवतो भूत्वा तुष्टाव विश्वतारिणीम् ।
स्तुत्वा सम्प्रार्थयामास रक्षां दशविधां पराम् ॥ १९-५३ ॥

ततः सापि दिदेशास्मै रक्षां दशविधां पराम् ।
दशविद्यामयी रक्षा त्रैकोक्यविजयाभिधा ॥ १९-५४ ॥

वेदसन्दीपनाद्ब्रह्मन् दीपकास्त्रं प्रकीर्त्तितम् ।
चतुरशीतिभेदानां राज्ञी विद्या परात्परा ॥ १९-५५ ॥

इत्याम्नायैर्नवविधैर्युक्ता ब्रह्माण्डभेदिनी ।
स्तम्भनास्त्राभिधा स्वर्गे त्रैलोक्यविजया भुवि ॥ १९-५६ ॥

आकर्षणास्त्रा पाताले त्रिपुरासुरघातिनी ।
कालीमुखाभिधा वैरिजने वादिजने तथा ॥ १९-५७ ॥

तारामुखाभिधा प्रोक्ता छिन्नारूपा तु सर्वतः ।
त्रिशक्तिविद्यारूपा तु त्रैलोक्यविजयाभिधा ॥ १९-५८ ॥

त्रयाणां नाशनार्थं च त्रिशक्तिरक्षणं परम् ।
प्राप्तो जगाम सन्तुष्टः शङ्करस्त्रिपुरं प्रति ॥ १९-५९ ॥

अस्त्रं पाशुपतं चापि सन्धाय वृषभध्वजः ।
पुराणि त्रीणि दैत्यानां विभेदैकेन पत्रिणा ॥ १९-६० ॥

क्षणेन भस्मसाद्भूत्वा जग्मुर्दैत्या यमालयम् ।
ततः प्रभृति श्रीदेवि रक्षा रक्षेति विश्रुता ॥ १९-६१ ॥

लोकोत्तराभिधा रक्षा मत्स्मृत्या प्रभविष्यति ।
इति वृत्तं पुरावृत्तं तेन रक्षा प्रकीर्त्तिता ॥ १९-६२ ॥

विद्याभिमन्त्रितं सूत्रं यस्तु धारयते नरः ।
रक्षा भवति सर्वेषां दुष्टानां विप्रकारिणाम् ॥ १९-६३ ॥

महाविषं महाभूतपूतनाराक्षसादयः ।
दैत्याश्च दानवाः क्रूरा नश्यन्ति क्षणमात्रतः ॥ १९-६४ ॥

इयमेव पुरा रक्षा बटुकाय प्रकाशिता ।
महाविद्यादिदशकैर्बध्वा बटुकभैरवे ॥ १९-६५ ॥

यन्त्रं पताकां सूत्रं च मन्त्रवर्णविदर्भितम् ।
सर्वथा बन्धयेद्देवि रक्षा सर्वकृता भवेत् ॥ १९-६६ ॥

श्रावणे मासि संवृत्तं वृत्तमेतत् पुरा शिवे ।
गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् ॥ १९-६७ ॥

इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि ।


इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे उपाकर्मपवित्रारोपणरक्षाविधिर्नामोनविंशः पटलः ॥ १९ ॥

Paṭala 20

श्रीदेव्युवाच ।


देवेश श्रोतुमिच्छामि मदनारोपणक्रियाम् ।


श्रीशिव उवाच ।


पवित्रारोपणं यद्वत्तद्वन्मदनपूजनम् ॥ २०-१ ॥

चैत्रादयस्त्रयो मासाः पक्षौ सितसितेतरौ ।
एतेषां पूर्वपूर्वस्तु कालः सर्वोत्तमो भवेत् ॥ २०-२ ॥

अष्टम्यां च चतुर्द्दश्यां पुर्णमास्यामथापि वा ।
पूर्वरात्रौ प्रकुर्वीत सद्यो वासाधिवासनम् ॥ २०-३ ॥

आमंत्र्य मदनं वेद्यां चतुःकल्पलतादिभिः ।
कामनेत्रसमुद्भूत रतिनेत्रजलाप्लुत ॥ २०-४ ॥

ऋषिगन्धर्वसिद्धानां विमोहक नमोऽस्तु ते ।
शिवप्रसादसम्भूत अत्र सन्निहितो भव ॥ २०-५ ॥

शिवाकार्ययं समुच्छिद्य नेतव्योऽसि शिवाज्ञया ।
इत्यामंत्र्य रतिकामौ तत्र सम्पूजयेत् सुधीः ॥ २०-६ ॥

स्वयमुत्पाठ्य मदनं समूलं पल्लवैर्युतम् ।
आनीतं ह्यथवान्येन मौल्यादानीतमीश्वराम् ॥ २०-७ ॥

वामेन स्थापयेद्देवि सर्वतोभद्रकाम्बुजे ।
वस्वारे मदनं पात्रे स्थापयेत् पूजयेत् पुनः ॥ २०-८ ॥

प्रणवं भुवनेशानि रतये नम इत्यपि ।
रतिमन्त्रो महेशानि काममन्त्रस्तु कथ्यते ॥ २०-९ ॥

प्रणवं कामबीजं च कामाय नम इत्यपि ।
मन्त्राभ्यां पूजयेत्तत्र मदनं कर्णिकागतम् ॥ २०-१० ॥

ततस्तत्पद्मपूर्वादिदलेषु पुटिकां न्यसेत् ।
अष्टस्व्यष्टभिर्मन्त्रैरष्टद्रव्ययुतां क्रमात् ॥ २०-११ ॥

कामो भस्मशरीरश्च तथानङ्गश्च मन्मथः ।
वसन्तमुख(?) नामा च स्मर इक्षुधनुर्द्धरः ॥ २०-१२ ॥

पुष्पवाणस्तु ताराद्यास्तुङ्गदन्ताः प्रकीर्त्तिताः ।
कर्पूरं रोचनायुग्मं कस्तूरीं च ततः प्रिये ॥ २०-१३ ॥

अगुरुं कुङ्कुमं धात्रीफलं चन्दनमेव च ।
पुष्पैः सुगन्धिभिः कुर्ययादष्टद्रव्याणि पार्वति ॥ २०-१४ ॥

सम्पूज्य मदनं सम्यग्गन्धपुष्पाक्षतादिभिः ।
जपेदनङ्गगायत्रीं यथाशक्त्या प्रसन्नधीः ॥ २०-१५ ॥

कामदेवाय इयुक्त्वा विद्महेति वदेत्ततः ।
भवेनङ्गगायत्री(?) तन्नोऽनङ्गः प्रचोदयात् ॥ २०-१६ ॥

नमोऽस्तु पुष्पबाणाय जगदानन्दकारिणे ।
मन्मथाय जगन्नेत्ररतिप्रीतिप्रियाय च ॥ २०-१७ ॥

अनेन मनुना देवि नमस्कुर्ययात्ततः परम् ।
अथ विज्ञापनं कुर्ययात् दिव्यैर्मदनपाणियुक् ॥ २०-१८ ॥

आमन्त्रितासि देवेशि सद्यः काले मया शिवे ।
कर्त्तव्यं तु यथालाभं पूर्वपूर्वं तवाज्ञया ॥ २०-१९ ॥

विज्ञापनाख्यमन्त्रेण त्रिशक्तिं परितोषयेत् ।
ततः सम्पूज्य देवेशि गन्धपुष्पाक्षतादिभिः ॥ २०-२० ॥

षोडशार्णजगन्मातर्वाञ्छितार्थफलप्रदे ।
कृत्यान् पूरय मे देवि कामान् कामेश्वरेश्वरि ॥ २०-२१ ॥

अनेन प्रार्थयेद्देवि पश्चान्मदनमीश्वरि ।
वर्मावगुण्ठनं कुर्ययादस्त्रेणापि तु रक्षितम् ॥ २०-२२ ॥

ततो जागरणं कुर्ययात् सद्यश्चेत् जागरो न हि ।
अथ प्रातः समुत्थाय कुर्ययाच्च नित्यपूजनम् ॥ २०-२३ ॥

ततो नैमित्तिकं कुर्ययान्मदनस्य प्रपूजनम् ।
तेनैव महतीं पूजां मध्यमं पुष्पमीरितम् ॥ २०-२४ ॥

मनोहरं च विधिवत् कृत्वा नैवेद्यमुत्तमम् ।
सकर्पूरं च ताम्बूलं दद्यात् सम्प्रार्थयेत्ततः ॥ २०-२५ ॥

समस्तचक्रचक्रेशि सर्वविद्याशरीरिणि ।
देवमातर्ममैतत्तु भवत्विष्टं तवाज्ञया ॥ २०-२६ ॥

ततः स्वगुरुमभ्यर्च्य पुष्पधूपाम्बरादिभिः ।
दत्वा मदनकं तस्मै नमस्कृत्य प्रसाद्य च ॥ २०-२७ ॥

जलकेलिं ततः कुर्ययात्सार्द्धं समयिभिः सुखम् ।
अन्नदानं प्रकुर्वीत सुहृत्सङ्गसमन्वितः ॥ २०-२८ ॥

एवं यः कुरुते विद्वान् मदनारोपणक्रमम् ।
तस्य सांवत्सरी पूजा त्रिशक्तिप्रीतिदा भवेत् ॥ २०-२९ ॥

इति संक्षेपतः प्रोक्तमितिहासं विशेषतः ।
सामान्यं च प्रवक्ष्यामि येन सिद्धिं प्रविन्दति ॥ २०-३० ॥

तपोभङ्गाय मदनो मम शैलभवे यदा ।
भस्मीभूतस्तदा देवि रतिप्रीती सुदुःखिते ॥ २०-३१ ॥

तन्नेत्रवारिसम्भूता मदनस्य लता शिवे ।
तत्सौरभं च सौभाग्यं महदासीत् सुलोचने ॥ २०-३२ ॥

तेन सन्तुष्टो हृदयाद्वरो दत्तो मया प्रिये ।
रत्यै प्रीत्यै च तस्मात्तु मदनः प्रकटीकृतः ॥ २०-३३ ॥

मदनेन च यो मंत्री वर्षमर्धेन पूजयेत् ।
तस्य सांवत्सरी पूजा मदनाय भविष्यति ॥ २०-३४ ॥

इति तस्मै वरो दत्तो मयैव सुरवन्दिते ।
अन्यथा तत् फलं सर्वं कृतं कामाय जायते ॥ २०-३५ ॥

तस्मान्मदनपूजादि कर्त्तव्यं वीरवन्दिते ।
समूलं मदनं गृह्य स्थापयेत् पात्रकेऽम्बुजे ॥ २०-३६ ॥

मदनं नवधा कृत्वा पूजयेत्तदनन्तरम् ।
आनन्दस्वरबीजेन नवधा बिन्दुना सह ॥ २०-३७ ॥

नवप्रकाररत्नाद्यैर्मदनं पूजयेत् क्रमात् ।
अघोरविद्यया पश्चात् अभिषिञ्चेत्तमेव हि ॥ २०-३८ ॥

पूर्वोक्तं वा दक्षिणस्यां दिशि सिंहासनस्थया ।
अस्त्रेण रक्षणं कुर्ययात् कवचेनावगुण्ठनम् ॥ २०-३९ ॥

बद्धत्रिशूलमुद्रां च भ्रामयेन्मदनोपरि ।
चैत्रे मासि चतुर्द्दश्यां मदनारोपणं भवेत् ॥ २०-४० ॥

उर्ध्ववक्त्रास्त्रमंत्रेण हृदयेन प्रपूजयेत् ।
श्रीखंडमूलदेशेषु ह्यधिवासं च कारयेत् ॥ २०-४१ ॥

प्रथमे दिवसे कुर्ययादधिवासमनुत्तमम् ।
सद्योऽधिवासनं वापि वर्षपूजाफलाप्तये ॥ २०-४२ ॥

प्रातःकाले चतुर्द्दश्यां नित्यार्चनं चरेत्ततः ।
नवकोणं विरच्याथ सिन्दूरेण महाप्रभम् ॥ २०-४३ ॥

पात्राणि नव संस्कार्य हेमरौप्यादिपूरितम् ।
एकं वा कलशं रम्यं स्थापयेद्देशिकोत्तमः ॥ २०-४४ ॥

दक्षतो मण्डलं कृत्वा कुङ्कुमाद्यैर्विचित्रितम् ।
अशोकतरुमालिख्य त्रिकोणं मण्डलं लिखेत् ॥ २०-४५ ॥

तन्मध्ये पूजयेत् कामं वरुणं वारुणप्रभम् ।
रक्तवस्त्रं रक्तभूषं वामदक्षिणयोः प्रिये ॥ २०-४६ ॥

रतिप्रीतिविशोभाढ्यं पञ्चबाणधनुर्धरम् ।
वसन्तसहितं कामं पूजयेत् सर्वसिद्धये ॥ २०-४७ ॥

वाग्भवं भुवनेशानि श्रियं कामात्मकेन च ।
कामाय नम उद्धृत्य नवार्णं वरवर्णिनी ॥ २०-४८ ॥

कामबीजत्रयं प्रोक्तं पूर्वमात्मकमालिखेत् ।
रत्यै नमश्चाष्टवर्णो रतिमन्त्रो वरानने ॥ २०-४९ ॥

प्रीतिं वदेत् रतिस्थाने प्रीतिमन्त्रोऽष्टवर्णकः ।
गौरश्यामरतिप्रीती भ्रामणे मालभूषणे ॥ २०-५० ॥

पद्मताम्बूलवर्णे च रक्तवस्त्रविराजिते ।
वामदक्षिणयोर्ध्यात्वा कामस्य हृदयान्तरम् ॥ २०-५१ ॥

वसन्तं पूजयेत् पश्चात् कदम्बवनमध्यगम् ।
गौरवर्णं वामहस्ते सुधापूर्णघटान्वितम् ॥ २०-५२ ॥

दक्षहस्तेन दधतं नानापुष्पसमुच्चयम् ।
साङ्गं कामं प्रपूज्याथ धूपदीपादि दर्शयेत् ॥ २०-५३ ॥

सम्यक् प्रपूज्य देवेशि सर्वदेवशरीरिणम् ।
क्रमं समर्चयेत् सम्यक् कुमारीं भोजयेत्ततः ॥ २०-५४ ॥

सुवासिनीं च सम्पूज्य योगिनीगणमर्चयेत् ।
ब्राह्मणाः परितः पूज्या नानादर्शनमानवाः ॥ २०-५५ ॥

तदङ्गहवनं पश्चात् गुरुं रत्नादिभूषणैः ।
स्वर्णभारसहस्रैस्तु दिव्यवस्त्रैर्मनोरमैः ॥ २०-५६ ॥

पूजयित्वा ततो देवि मदनारोपणं मतम् ।
तस्य सांवत्सरी पूज सफला शैलकन्यके ॥ २०-५७ ॥

इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि ।


इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मदनारोपणं नाम विंशतिः पटलः ॥ २० ॥

Paṭala 21

श्रीदेव्युवाच ।


देवेश श्रोतुमिच्छामि रहस्यमपरं वरम् ।


श्रीशिव उवाच ।


रहस्यमपि देवेशि समयक्रमयोगतः ॥ २१-१ ॥

समयं सम्प्रवक्ष्यामि तंत्रलेखनभेदतः ।
षट्गुरोः स्वामिनः पञ्च भ्रातृवर्ज्यत्रयं भवेत् ॥ २१-२ ॥

एवं क्रमेण सम्प्रोक्तमेकैकं पुत्रभार्ययोः ।
सप्त देवे महेशानि द्वे मित्रे द्विगुणं रिपौ ॥ २१-३ ॥

फलान्यपि महेशानि यथायोगेन वै शृणु ।
गुरौ सप्तपञ्चवर्ज्यं शत्रूणां द्वितयं भवेत् ॥ २१-४ ॥

वेदसंख्यां महच्छत्रौ एकैकं पुत्रभार्यययोः ।
नवनाथे महेशानि यथायोगेन कारयेत् ॥ २१-५ ॥

ताम्बूलसमयं तत्र शृणु देवि यथाक्रमम् ।
शतपर्णानि देवेशि चक्रवर्त्तिवराय च ॥ २१-६ ॥

गुरुभ्यः सम्प्रदातव्या द्वात्रिंशत् पर्णवीटिका ।
अष्टाविंशति भूपेभ्यो बान्धवेभ्यो दशाष्टकम् ॥ २१-७ ॥

जामात्रे पक्षपर्णानि वसु द्वादश वा प्रिये ।
पञ्चविंशति शक्तिभ्यः पुत्रेभ्यस्तत्त्वसंख्यकान् ॥ २१-८ ॥

षट्पर्णानि च शत्रुभ्यस्तुरीयं दानमुत्तमम् ।
पर्णत्रयं शत्रुपक्षे दशपर्णारिवश्ययोः ॥ २१-९ ॥

वीरेभ्यः षोडश शिवे दिव्यौघे वसुपीठयुक् ।
तदर्द्धं चैव सिद्धौघे मानवौघे तदर्धकम् ॥ २१-१० ॥

भृत्येभ्यः सप्त पर्णानि कन्यायै पञ्चविंशतिः ।
चन्द्रयुक्तं महेशानि पौत्रेभ्यो दश पञ्च च ॥ २१-११ ॥

स्नुषायै त्रिंशति शिवे दास्यै चैव चतुर्दश ।
अन्येभ्यः परमेशानि विंशत्पर्णानि दापयेत् ॥ २१-१२ ॥

अग्रदानं च शत्रुभ्यो वक्रं दानं सुमित्रके ।
तिर्ययग्दानं सेवकादौ यथायोगेन योजयेत् ॥ २१-१३ ॥

इति संक्षेपतः प्रोक्तं सिद्धियोगं शृणु प्रिये ।
पत्नी पुत्री तथा दासी दासश्चैव चतुर्थकः ॥ २१-१४ ॥

परिवेत्ता पारिवेत्ता षट् ताम्बूलप्रदायकाः ।
म्लेच्छहस्ताच्छत्रुहस्ताच्छङ्कितस्य तथैव च ॥ २१-१५ ॥

अथ वैदग्धहस्तस्य ताम्बूलो हि निषिध्यते ।
आद्यपाकोऽभियोक्तव्यो द्वितीयस्त्वन्यता मता ॥ २१-१६ ॥

तृतीयो गृह्यतां यत्नात् त्रितयं त्रितयं त्रिषु ।
पत्रं फलं खादिरं च चूर्णं चैव चतुर्थकम् ॥ २१-१७ ॥

पञ्चमं तु मुखं प्रोक्तं रागः सष्ठ उदाहृतः ।
षडङ्गमिति सम्प्रोक्तं षडैश्वर्ययप्रदायकम् ॥ २१-१८ ॥

षडैश्वर्ययं यत्र वसेत्तत्र लक्ष्मीर्निरंतरम् ।
इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि ॥ २१-१९ ॥


श्रीदेव्युवाच ।


नागवल्लिकथं जाता समुत्पन्ना कथं वद ।


श्रीशिव उवाच ।


जनमेजययज्ञान्ते नागानामष्टकं शिवे ॥ २१-२० ॥

कृत्वा तु भस्मसाद्देवि शापं दत्वा सुदारुणम् ।
सिंसवृक्षफलं मुक्त्वा नागनिर्मूलनं कृतम् ॥ २१-२१ ॥

तदुद्धारार्थमुद्युक्तः शिवोऽहं भैरवः स्वयम् ।
दूतीयागः कृतस्तेन तद्गता धर्मसम्भवाः ॥ २१-२२ ॥

बिन्दवः पतिता यत्र यद्देशे भस्मसञ्चयः ।
भस्म सम्प्लावितं नीरैस्तच्चैक्यं समजायत ॥ २१-२३ ॥

नागवल्लीलता नाम तत्र जातातिसुन्दरी ।
मागधे हिमवाहे च बङ्गाले च कलिङ्गके ॥ २१-२४ ॥

कर्नाटके च सौराष्ट्रे चौलमालवदेशके ।
मध्यदेशे केरले च समुद्रस्य तटे तथा ॥ २१-२५ ॥

नानादेशे समुत्पन्ना नानागुणसमुद्भवा ।
स्थूलसूक्ष्मप्रभेदेन ज्ञातव्याः पर्णजातयः ॥ २१-२६ ॥

ताम्बूलेन महादेवि मन्त्रसिद्धिमवाप्नुयात् ।
ताम्बूलशपथं नैव कर्तव्यं शुभमिच्छता ॥ २१-२७ ॥

ताम्बूलेन विना देवि यो मंत्रं दशधा जपेत् ।
इह क्षोभमवाप्नोति परत्र नरकं व्रजेत् ॥ २१-२८ ॥

ताम्बूलेन विना देवि दीक्षाद्या निष्फला मताः ।
ताम्बूलोऽपि व्रतस्थानां यतीनां ब्रह्मचारिणाम् ॥ २१-२९ ॥

न मया कथितो देवि किं पुनः श्रोतुमिच्छसि ।
एकाकी संविदानन्दी मुक्तकेशी दिगम्बरः ॥ २१-३० ॥

शययास्थो वा श्मशानस्थः केवलं तिमिरालये ।
लतां पश्यन् जपेद्रात्रौ सैव कल्पलता भवेत् ॥ २१-३१ ॥

बालामानीय कौमारीं चञ्चलां चारुलोचनाम् ।
सम्पूज्य प्रजपेद्रात्रौ एकाकी दीपवर्जितः ॥ २१-३२ ॥

रात्रौ यदि जपेन्मंत्रं सैव कल्पलता भवेत् ।
अर्धरात्रौ महेशानि मङ्गले वासरे निशि ॥ २१-३३ ॥

सम्पूज्य बालां यत्नेन सैव कल्पलता भवेत् ।
दीपं प्रज्वाल्य परितो मध्ये यंत्रं प्रपूजयेत् ॥ २१-३४ ॥

दीपावल्यां चरन्नेवं सैव कल्पलता भवेत् ।
शक्तिमाहूय तद्गात्रे विन्यस्य न्यासजालकम् ॥ २१-३५ ॥

स्पृष्ट्वा तां प्रजपेद्रात्रौ सैव कल्पलता भवेत् ।
प्रसूनतूलिकामध्ये शक्तिं स्थाप्य विधानतः ॥ २१-३६ ॥

Redaktionelle Inhaltswiedergabe: Der Vers verbindet Küssen der Śakti und Mantrawiederholung mit der Zusage, sie werde zur Wunschranke; anschließend fordert er erneut das Herbeiführen der als Bālā bezeichneten Gestalt mit den zuvor genannten günstigen Merkmalen. [Nichtgrafische Inhaltswiedergabe; das Alter ist in der Vorlage nicht eindeutig.] ॥ २१-३७ ॥

Redaktionelle Inhaltswiedergabe: Der Vers verbindet nächtliche Umarmung und Mantrawiederholung mit derselben Zusage und nennt anschließend Berg und Wald als Orte, an denen die Śakti herbeigerufen wird, Pārvatī. [Nichtgrafische Inhaltswiedergabe.] ॥ २१-३८ ॥

Redaktionelle Inhaltswiedergabe: Der Text beschreibt ihr Zufriedenstellen, Umarmung und fortgesetzten nächtlichen Japa. Als Ergebnis nennt er ihre Verwandlung in die Wunschkuh und die Erlangung aller Vollendungen. [Nichtgrafische Inhaltswiedergabe.] ॥ २१-३९ ॥

गाने कर्णं ततो दत्वा लक्षं जप्यान्निशाकरे ।
बालामानीय देवेशि दिवा जप्याद्दिवाकरः ॥ २१-४० ॥

Redaktionelle Inhaltswiedergabe: Der Text setzt das weibliche Geschlechtsorgan symbolisch mit einem Yantra samt Keimsilbe gleich und fordert die Betrachtung dreier Nāḍīs als Vidyā-Yantra. [Nichtgrafische Inhaltswiedergabe.] ॥ २१-४१ ॥

Redaktionelle Inhaltswiedergabe: Der Vers verbindet Verehrung und eine sexuelle Ritualhandlung mit der Zusage, Kālī unmittelbar gleich zu werden; er beschränkt dies auf die Vidyā-Praxis zur Erlangung aller Vollendungen, Mutter. [Nichtgrafische Inhaltswiedergabe.] ॥ २१-४२ ॥

एतत्क्रमरतो देवि मम रूपो न संशयः ।
बालां शक्तिं समानीय सुन्दरीं शुभलक्षणम् ॥ २१-४३ ॥

न्यासान् विधाय तद्देहे ततः सावृतिदेवताम् ।
मूलदेवीं च सम्पूज्य सौगन्धतैलयोगतः ॥ २१-४४ ॥

तस्याः पादौ च प्रक्षाल्य मस्तके तैललेपनम् ।
ततः केशैस्तत्पदानां मार्जनं प्रोक्षणं चरेत् ॥ २१-४५ ॥

मूलं जपेत्ततो देवि त्रैलोक्यविजयी भवेत् ।
जलेन पादौ प्रक्षाल्य स्नानं तज्जलतश्चरेत् ॥ २१-४६ ॥

त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणा ।
तस्या मुखं समालोक्य जप्त्वा त्रैलोक्यनायकः ॥ २१-४७ ॥

तस्या हस्ते करं दत्वा जपात्त्रैलोक्यसिद्धिभाक् ।
तिथिसिद्धिर्जापसिद्धिः पीठसिद्धिश्च षट् शिवे ॥ २१-४८ ॥

स्थितिसिद्धिस्तथा द्रव्यप्राप्तिसिद्ध्यादिकं भवेत् ।
आद्यं यामं षट्घटिकां त्यक्त्वान्त्यं पूर्वसंख्यकम् ॥ २१-४९ ॥

नाडीचतुष्टये देवि नाडीयुग्मेऽपि मध्यके ।
कामधेनुसमायोगो ब्रह्माण्डे सिद्धिदायकः ॥ २१-५० ॥

गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् ।
इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि ॥ २१-५१ ॥


श्रीदेव्युवाच ।


देवेश श्रोतुमिच्छामि योगं चिन्तामणिप्रभम् ।


श्रिशिव उवाच ।


चिन्तामणिं स्पर्शमणिं द्वयं शृणु महेश्वरि ॥ २१-५२ ॥

Redaktionelle Inhaltswiedergabe: Der Vers beginnt einen sexuellen Ritus mit der als Bālā bezeichneten weiblichen Gestalt: rituelle Reinigung durch Nyāsa, Platzierung auf einem erhöhten Sitz und eine orale Sexualhandlung. [Nichtgrafische Inhaltswiedergabe; wegen der nicht eindeutig geklärten Altersbezeichnung keine ausführliche Wiedergabe der sexuellen Handlungsanweisung.] ॥ २१-५३ ॥

Redaktionelle Inhaltswiedergabe: Er führt die orale Ritualhandlung mit Mantrawiederholung fort und bezeichnet den so ausgeführten Japa als Cintāmaṇi, „Wunschstein“. [Nichtgrafische Inhaltswiedergabe.] ॥ २१-५४ ॥

Redaktionelle Inhaltswiedergabe: Der Vers beschreibt die Herbeiführung einer wiederum als Bālā bezeichneten Gestalt, ihre sexuelle Ausrichtung und die rituelle Verwendung eines Cakra-Zeichens sowie einer zusammenziehenden Substanz im Zusammenhang mit den Geschlechtsorganen. [Nichtgrafische Inhaltswiedergabe; kein Rezept wird wiedergegeben.] ॥ २१-५५ ॥

Redaktionelle Inhaltswiedergabe: Er verbindet eine bestimmte sexuelle Position mit Japa und verweist für eine abschließende orale Handlung auf die zuvor beschriebene Abfolge. [Nichtgrafische Inhaltswiedergabe.] ॥ २१-५६ ॥

Redaktionelle Inhaltswiedergabe: Der Text verspricht als Ergebnis der sexuellen Ritualhandlung, dass alles mit dem Mund Ausgesprochene wahr werde; dies sei die erklärte „Berührung“. Er schließt mit der Frage: „Was wünschst du?“ [Nichtgrafische Inhaltswiedergabe des Ritualbezugs.] ॥ २१-५७ ॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे कामधेन्वादियोगो नाम एकविंशतिः पटलः ॥ २१ ॥

॥ इति कालीखण्डः ॥

Textgrundlage

Die Baroda-Erstausgabe des Kālīkhaṇḍa erschien 1932 als Band 61 der Gaekwad’s Oriental Series. Die Jahresangabe 1941 im elektronischen Dateikopf weicht davon ab.

Die Muktabodha-Transkription ist die Textgrundlage. Seitenmarken und technische Dateiköpfe wurden aus dem Lesetext entfernt; Sanskritlesungen wurden nicht stillschweigend verbessert. Dies ist keine neue kritische Edition.

Muktabodha Indological Research Institute, Katalognummer M00128; Transkription unter Leitung von Mark Dyczkowski. Die Metadaten nennen Benoytosh Bhattacharyya als Herausgeber und 1941 als Erscheinungsjahr der Vorlage. Die elektronische Transkription steht laut Dateikopf unter Creative Commons BY-NC 4.0; diese Quellen- und Lizenzangabe gehört zur Weitergabe.

Lizenz CC BY-NC 4.0.

Kundalini und die innere Praxis

Der folgende Yoga-Vidya-Vortrag bietet eine heutige Einführung in Kundalini. Er ist eine ergänzende Orientierung, kein Kommentar zu jedem einzelnen Ritual der Schrift.

Siehe auch

Seminare

Kundalini Yoga

06.11.2026 - 08.11.2026 Kundalini Yoga Einführung

Gründliche Einführung in die Theorie und Praxis des Kundalini Yoga, Yoga der Energie. Die praktischen Übungen des Kundalini Yoga umfassen Pranayama (…
Arjuna Wingen
13.11.2026 - 15.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Manuel Hirning

Bhakti Yoga

06.11.2026 - 08.11.2026 Harmonium Lernseminar

Lerne, Harmonium zu spielen! Wenn vorhanden, bitte eigenes Harmonium mitbringen. Keine Vorkenntnisse nötig.
Alisa Yakhontova
08.11.2026 - 08.11.2026 Diwali - das Fest des Lichts

Diwali ist eines der wichtigsten Feste in Indien. Diwali ist das Lichterfest zur Öffnung des Herzens und der Entfaltung allumfassender Liebe. 20:00 Uhr…
Sukadev Bretz

Mit dem Text weitergehen

Auch eine Sanskrit-Lesefassung darf mehr sein als ein Nachschlagewerk: Das Kālīkhaṇḍa lädt dazu ein, Klang, Wortgestalt und Bedeutung aufmerksam zusammenzuhalten. Wer beim Lesen immer wieder zu den Aussagen über Brahman, Śakti, Kālī und Kuṇḍalinī zurückkehrt, kann die Vielfalt des Textes auf eine einfache Leitfrage beziehen: Was bleibt gegenwärtig, wenn Formen entstehen und wieder vergehen?

Für die eigene Meditation genügt es, einen kurzen Abschnitt langsam zu lesen und danach einige Augenblicke still zu sitzen. So kann das Studium des Shaktisangama Tantra zu einer Brücke zwischen überlieferter tantrischer Bildsprache und heutiger Yoga-Praxis werden. Weiterführend sind besonders Kularnava Tantra, Jnanarnava Tantra und Rudrayamala Tantra.