Shaktisangama Tantra Chinnamastakhanda Sanskrit Devanagari

Aus Yogawiki

Das Chinnamastakhanda des Shaktisangama Tantra behandelt Chinnamastā innerhalb der umfassenden Welt der Mahavidyas. Schon sein erstes Kapitel überschreitet die Grenzen eines einzelnen Göttinnenkultes: Kālī, Tārā, Chinnamastā und Tripurasundarī werden als Gestalten einer Kraft verstanden.

Die zahlreichen Namen, Mantras und Überlieferungsordnungen verlangen geduldiges Lesen. Ihre Aufzählung steht neben dem Gedanken der Einheit: „Die Tārā ist, ist eben Chinnā“ (1.25). Die Göttin erscheint in vielen Formen, ohne dadurch ihre Einheit zu verlieren. Guru, Einweihung und die jeweilige Überlieferung geben dem rituellen Handeln seinen Rahmen.

Chinnamastā gehört zu den Mahāvidyās.

Textumfang und Lesehilfe

Diese Ausgabe enthält alle elf Paṭalas des Chinnamastākhaṇḍa.

Die Textgrundlage ist der Sanskrit-Grundtext der Druckausgabe von 1978. Die deutsche Fassung ist eine Übersetzung, keine kritische Edition. Einzelne sexualisierte Passagen mit minderjährigen oder hinsichtlich des Alters unklaren Personen werden in allen drei Fassungen ausschließlich durch ausdrücklich gekennzeichnete, nichtgrafische Inhaltsangaben erschlossen; insoweit liegt keine vollständige wörtliche Wiedergabe vor. Unsichere Lesungen werden kenntlich gemacht; Sternchen der Vorlage werden nicht durch erfundene Wörter ersetzt. Die Verse eines modernen Hindi-Kommentators und sein Kommentar gehören nicht zum hier wiedergegebenen Grundtext.

Vidyā kann Wissen, eine Göttinnenform oder deren Mantra bezeichnen. Āmnāya meint einen Überlieferungsstrom; Pārāyaṇa eine geordnete vollständige Rezitation. Pādukā, wörtlich Sandale oder Fußstütze, bezeichnet hier auch ritualisierte Formen der Verehrung. Die Namen vieler begleitender Formeln bleiben als Eigennamen erhalten.

Zum Vergleich: Deutsche Übersetzung · IAST · Devanagari.

Zur Ausgabe: Gesamtwerk · Kalikhanda · Tarakhanda · Sundarikhanda · Chinnamastakhanda · 108 Verse und Mantras

Eine heutige Einführung in die Kraft der Göttin:

Paṭala 1: Die Mahāvidyās und ihre begleitenden Mantras

श्रीगुरुभ्यो नमः ।
श्रीशक्तिसङ्गमतन्त्रम्।
छिन्नमस्ताखण्डः ॥ ४ ||
प्रथमः पटलः ।
श्रीदेव्युवाच देवदेव महादेव सर्वसिद्धिप्रवर्तक ।
त्वत्तः श्रुतं मया सर्वं रहस्यातिरहस्यकम् ॥ १ ||
इदानीं वद देवेश रहस्यमपरं विभो ।
श्रीशिव उवाच रहस्यातिरहस्यं च कथं त्वयि निवेद्यताम् ॥ २ ||
तथापि तव सद्भक्त्या रहस्यमपि कथ्यते ।
काली तारा छिन्नमस्ता सुन्दरी बगला रमा ॥ ३ ||
मातङ्गी भुवना सिद्धविद्या च भैरवी तथा ।
धूमावती च दशमी महाविद्या दश स्मृताः ॥ ४ ||
चण्डेश्वरी लघुश्यामा त्रिपुटादिप्रयोगतः ।
त्रयोदशा महाविद्याः शृणुष्व षोडशीं प्रिये ॥ ५ ||
दश पूर्वास्तु संगृह्य वनदुर्गा च शूलिनीम्।
अश्वारूढां महाविद्यां त्रैलोक्यविजयाभिधाम्॥ ६ ||
वाराहीमन्नपूर्णा च कलासंख्याः प्रकीर्तिताः ।
महाकालमते देवि एकपञ्चाशदीरिताः ॥ ७ ||
महालक्ष्मी समारभ्य महाकामकलान्तकम् ।
विद्यासंख्या त्वया प्रोक्ता त्रितयं पूर्ववद्भवेत् ॥ ८ ||
एतासामङ्गमन्त्रांश्च कथयामि शृणु प्रिये ।
कालीविद्या सिद्धविद्या सर्वविद्योत्तमोत्तमा ॥ ९ ||
तत्क्रमः कथ्यते देवि यथायोगेन साम्प्रतम् ।
आदौ स्पर्शमणिर्देवि ततश्चिन्तामणिर्भवेत् ॥ १० ||
सिद्धकाली ततः प्रोक्ता विद्याराज्ञी तदुत्तरा ।
ततः कामकलाकाली हंसकाली ततः शिवे॥ ११ ||
गुह्यकाली तदन्ते स्याद् दशभेदाऽपि पार्वति ।
लघुश्यामा महाकालो बटुकोन्मत्तभैरवः ॥ १२ ||
नित्यामन्त्राः पञ्चदश कुल्लुकापञ्चवर्गकम् ।
त्रैलोक्यविजयामन्त्रस्तथा ह्याद्येश्वरीमनुः ॥ १३ ||
पारायणानां षट् संख्या क्षेत्रेशो गणयोगिनी ।
त्रिशक्तिविद्या देवेशि तथा श्रीगुरुपादुका॥ १४ ||
बगला शरभः शास्ता तथा मधुमती वरा।
रञ्जकः सुरतेशी च मञ्जुघोषमहेश्वरो ॥ १५ ||
चिटिविद्या भगेशी च पुष्पकुण्डा परा शिवे ।
पञ्च षोढा सहस्रार्णा द्विशतार्णा महेश्वरि ॥ १६ ||
कालरात्रिर्महेशानि बगलारात्रिरेव च।
मण्डलानां चतुष्कं च यथायोगेन योजयेत्॥ १७ ||
एतेऽङ्गमन्त्राः सम्प्रोक्ताः कालिकाजपकर्मणि ।
एते मूलमनोरादौ जप्या देव्यश्च सर्वशः॥ १८ ||
महाविद्याविधौ देवि नाङ्गाङ्गित्वप्रकल्पना ।
देव्युवाच उपविद्यां समासाद्य जपिष्यन्ति नराधमाः ॥ १९ ||
यथोक्तं नहि कुर्वन्ति देवदूषणतत्पराः ।
सर्वा अपि महाविद्या एकरूपा निरन्तरम् ॥ २० ||
प्रोक्तं (एवं) कादिमताख्यस्य प्रोक्तं मुख्याङ्गमादरात् ।
अथ हादिमताख्यस्य रूपं संप्रतिपाद्यते ॥ २१ ||
काद्यं मतं कादिमतं विराडनुत्तरं मतम् ।
हाद्यं हादिमतं देवि हंसराजाभिधं शिवे ॥ २२ ||
स्वराडुत्तरतन्त्रं तु त(द्)एव परिकीर्तितम् ।
कादि हादि मिलित्वा तु कहेत्येष्व महामनुः ॥ २३ ||
कहेत्येव महामन्त्रस्तूत्तराम्नायगोचरः ।
उत्तराम्नायराज्ञी च महोग्रतारिणी स्मृता ॥ २४ ||
या तारा सैव छिन्ना स्यात् सैव श्रीत्रिपुराम्बिका ।
सैव काली सैव तारा न भेदोऽस्ति महेश्वरि ॥ २५ ||
पारायणादिकं देवि तारायां कारयेत् प्रिये ।
तारा कहस्वरूपत्वान्महानीलसरस्वती ॥ २६ ||
तारायामपि देवेशि साम्राड्भेदाश्च कीर्तिताः ।
इति संक्षेपतः प्रोक्तमङ्गमन्त्रान् श्रुणु प्रिये ॥ २७ ||
आदौ तु स्पर्शतारा स्यात्ततश्चिन्तामणिः स्मृतः।
ततः सिद्धजटा प्रोक्ता उग्रतारा तदुत्तरम् ॥ २८ ||
हंसतारा ततो देवि निर्वाणरूपिणी कला ।
महानीला महेशानि नीलशाम्भवरूपिणी ॥ २९ ||
महानीलोत्तरं देवि पूर्वसाम्राड्द्वयं शिवे ।
त्रयं मिलित्वा देवेशि दिव्यसाम्राज्यभूषिता ॥ ३० ||
कादि हादि च सर्वत्र दिव्यसाम्राट् कलौ नहि ।
दिव्यसाम्राट् कलौ चेत् स्यात्तच्च सत्ययुगं भवेत् ॥ ३१ ||
एकाक्षरी तारमायाबिन्दुचन्द्रविभूषिता ।
कूर्चयुग्मं स्पर्शमणिश्चण्डघण्टा च हूंकृतिः ॥ ३२ ||
महाचिन्तामणिः प्रोक्तस्ततः सिद्धजटा भवेत् ।
मूलविद्या हंसतारा महानीला तदुत्तरम् ॥ ३३ ||
एवमन्यानि कथ्यन्ते रहस्यान्यपि पार्वति ।
बटुकः क्षेत्रपश्चैव गणपो योगिनी तथा ॥ ३४ ||
अक्षोभ्यो विजया वह्निस्तथैव चण्डघण्टिका ।
श्रीषोढापञ्चकं देवि कामसोमादयस्तथा॥ ३५ ||
कुल्लुकापञ्चकं देवि तथार्द्रपट्टिका मता।
शिवाघोरौ पाशुपतं चक्रे तु जयदौर्गकम्॥ ३६ ||
अमोघफलदा यक्षी तथा पद्मावती शिवा।
उद्भटाम्बा बौद्धनाथः पार्श्वनाथस्तथैव च॥ ३७ ||
काली छिन्ना च बगला ताराभेदाश्च सर्वशः ।
तारिणी यक्षिणी प्रोक्ता मञ्जुघोषो महेश्वरः ॥ ३८ ||
प्रत्यङ्गिरा नारसिंही भैरवाष्टकमेव च ।
पञ्चकल्पद्रुमा मन्त्राः सर्वकामफलप्रदाः ॥ ३९ ||
रक्तचामुण्डिका नित्यक्लिन्ना विद्या तथैव च।
महाकालक्रमेणैव कथितं पीतशारदे ॥ ४० ||
राज्यवश्यकरा मन्त्रास्तथान्ये खड्गजातयः ।
लुलायखरशार्दूलकरिवश्यकरास्तथा ॥ ४१ ||
धनुर्विद्या शस्त्रविद्या काण्डाग्निजलस्तम्भनाः ।
भयद्वादशहारिण्यस्ता अङ्गमनवः स्मृताः॥ ४२ ||
एतेऽङ्गमन्त्राः सम्प्रोक्ता गायत्रीसहिताः शिवे ।
त्रिशक्तिविद्याभेदे तु न भेदोऽस्ति क्वचित् प्रिये ॥ ४३ ||
चतुर्विधा त्रिशक्तिस्तु सर्वसिद्धिक्रमेण च।
आद्या त्रिशक्तिर्देवेशि कालिकादिक्रमेण च ॥ ४४ ||
काली तारा छिन्नमस्ता त्रिशक्तिकल्पमालिका ।
तारा नीला चैकजटा अक्षोभ्यस्य क्रमेण च॥ ४५ ||
डाकिनी वर्णिनी छिन्ना करालस्य त्रिशक्तयः ।
बाला पञ्चदशी षोढा त्रिशक्तिर्वटवासिनः॥ ४६ ||
छिन्नाङ्गमन्त्रा देवेशि कथ्यन्ते श्रृणु यत्नतः ।
गुरुमन्त्रो मालिनी च कुल्लुकापञ्चकं तथा ॥ ४७ ||
काली तारा च नकुली मातङ्गी सिद्धसुन्दरी ।
त्रिजटैकजटा श्यामा सभेदा अपि पार्वति॥ ४८ ||
विकटा लम्पटा देवि यक्षिणी परिकीर्तिता ।
यक्षस्तु भ्रामको देवि दीपिनी परिकीर्तिता॥ ४९ ||
दीपिनी कालिकायां तु गणेशादिचतुष्ककम् ।
बटुकश्च महाकालः क्रोधराजोऽपरोऽपि च॥ ५० ||
पार्षन्मण्डलकं देवि महामहिषमर्दिनी ।
भवानी कमलाऽघोरचतुष्कं परमेश्वरि ॥ ५१ ||
छिन्नाङ्गमन्त्राः कथिताः सुन्दर्याः शृणु पार्वति ।
षष्ठीजयो नाम मन्त्रो मन्त्रपारायणं तथा॥ ५२ ||
चक्रपारायणं चैव मन्त्रपारायणं तथा ।
सहस्रार्णचतुष्के च तथा सन्ध्याचतुष्टयम्॥ ५३ ||
पञ्च षोढा परामन्त्रः श्रीविद्या कामसुन्दरी ।
बाला चान्त्यक्रमेणैव पराप्रासाद एव च॥ ५४ ||
निर्वाणपदवी विद्या कुब्जिका परमेश्वरि ।
नवाम्नायमण्डलानि कादौ हादावपि प्रिये ॥ ५५ ||
रश्मिमण्डलकं देवि गायत्र्यैकमन्त्रतः ।
विद्यामण्डलकं देवि मन्त्रमण्डलमेव च ॥ ५६ ||
मन्त्रविद्यामण्डलं च महाविद्याभिधं ततः ।
साम्राज्यमण्डलं देवि तथा दर्शनमण्डलम्॥ ५७ ||
मन्त्रमण्डलपूर्वा तु महाविद्या तदन्ततः ।
श्रीमूर्तिपादुका चैव समयश्रीपादुका स्मृता॥ ५८ ||
महाश्रीपादुका देवि निर्वाणपादुकायुगम् ।
पराश्रीपादुका देवि वाराहीपादुका तथा॥ ५९ ||
मातङ्गीपादुका देवि रक्तश्वेतसमाश्रिता।
सर्वसाम्राज्यमेधान्ते दिव्यसाम्राज्यभूषितः॥ ६० ||
प्रातर्गणेशं मध्याह्ने वाराही परिकीर्तिता।
सन्ध्यायां राजमातङ्गी अमरी कुण्डली निशा॥ ६१ ||
साधनायां मन्त्रषट्कं क्रमात् सङ्कथ्यते शृणु ।
बालाम्बा बगला काली वाराही कमलेश्वरी ॥ ६२ ||
पञ्चकामाः शैवविष्णू सर्वे मन्त्रा महेश्वरि ।
महाविद्याया दशकं कुल्लुकापञ्चकं तथा ॥ ६३ ||
दीपिनी शापनाशश्च प्रसन्नाञ्जलिरेव च ।
अष्टादशसहस्रं च न्यासजालान् प्रविन्यसेत् ॥ ६४ ||
सुन्दरी यक्षिणी प्रोक्ता महायक्षी पुलिन्दिनी ।
ब्रह्मास्त्रं पञ्चविद्यास्त्रमस्त्रान्यन्यानि पार्वति ॥ ६५ ||
राजराजेश्वरो देवि बटुको वारुणीप्रियः ।
नवतत्त्वेश्वरो देवि शरभो विजयेश्वरः ॥ ६६ ||
वर्णविद्या मण्डलं च हनुमान् भैरवेश्वरः ।
श्रीविद्या कालिका तारा त्रिविधा त्रिगुणक्रमात् ॥ ६७ ||
दशविद्यैकाक्षराश्च तथा त्रिशक्तिजाः पराः ।
आद्यन्तमध्य भेदेन नवभेदास्त्रिशक्तयः ॥ ६८ ||
त्रिक्रमो यदि चेद् भूयात्तदा कलिहरः शिवः ।
बगलाङ्गमन्त्रा देवेशि कथ्यन्ते स्वेष्टसाधकाः॥ ६९ ||
मृत्युञ्जयश्च बटुकस्तथैवोत्कीलनं शिवे ।
पञ्चास्त्रं पञ्चब्रह्मास्त्रं कुल्लुकापञ्चकं तथा ॥ ७० ||
तथाऽपराजिता श्यामा चण्डेशी च हरिद्रवा ।
त्रिडाला यक्षिणी देवि स्तम्भनत्वरिताऽपि च ॥ ७१ ||
स्वप्नेश्वरी चैकजिह्वा मन्त्रान्ये भैरवादयः ।
गणपाद्याश्च मनवो भिन्नरूपेण सन्ति च॥ ७२ ||
कालिकायां च सुन्दर्या छिन्नायां तारिणीमनौ ।
बगलायां मञ्जुघोषे रौद्रे च बटुके परे॥ ७३ ||
न पञ्चायतनं कार्यं मनसाऽपि महेश्वरि ।
मन्त्राङ्गत्वेन संजप्या न पञ्चायतनक्रमात् ॥ ७४ ||
इति संक्षेपतः प्रोक्तं महालक्ष्म्यङ्गदेवताः ।
कथ्यन्ते परमेशानि श्रीविष्णुर्गणपोऽण्डजः ॥ ७५ ||
धनदश्च कुबेरश्च निधिमन्त्रा अपि प्रिये ।
विद्याभेदाश्च देवेशि भुवना वञ्ररूपिणी ॥ ७६ ||
विद्या भोगवती देवि लक्ष्मीनारायणोऽपरः ।
कुल्लुकास्त्रादिकं देवि विष्णुभेदा अपि प्रिये ॥ ७७ ||
अन्नपूर्णा महेशानी विशालाक्षी महेश्वरि ।
कामाक्षी वनराज्ञीति मन्त्रा लक्ष्म्यङ्गदेवताः ॥ ७८ ||
मातङ्ग्या अङ्गमन्त्राश्च नकुली च सरस्वती ।
मातङ्गी पादुका देवि लघुश्यामा च कामिनी ॥ ७९ ||
वीरभद्रो मतङ्गश्च प्रमदा मोहिनी परा ।
भोगेशो यक्षः सम्प्रोक्तो भुवनायां श्रृणु प्रिये ॥ ८० ||
शिवः शिवा विधाता च त्रिपुटा बटुकस्तथा ।
कुल्लुकापञ्चकं देवि पञ्चायतनमेव च ॥ ८१ ||
गौरी श्रीरञ्जिनीमन्त्रो विद्याभेदाः सशक्तयः ।
लोकपालादिमनवो वाणीमन्त्रास्तथा प्रिये ॥ ८२ ||
हयग्रीवः पिङ्गली च खड्गरावण एव च ।
एतेऽङ्गमन्त्राः सम्प्रोक्तः सिद्धविद्याविधौ शृणु ॥ ८३ ||
पुलिन्दिनी भैरवश्च उच्छिष्टगणपस्तथा ।
पिशाचगणपो देवि उच्छिष्टभैरवोऽपरः ॥ ८४ ||
मातङ्गी नकुली रत्नविद्या वाग्वादिनी तथा ।
महामधुमती देवि तथा कर्णपिशाचिनी ॥ ८५ ||
एकवीरा च त्वरिता ढुण्डिराजो निशाकरः ।
अघोरः कुल्लुकानां च पञ्चकं परिकीर्तितम् ॥ ८६ ||
श्रीभैरव्याश्चाङ्गमन्त्राः कथ्यन्ते श्रुणु पार्वति ।
गणपश्च तथा दुर्गा क्षेत्रपो दक्षिणाप्रियः ॥ ८७ ||
हयग्रीवेश्वरी विद्या विद्याभेदा महेश्वरि ।
बटुको भैरवः शम्भुः पञ्चानां पञ्चिका तथा॥ ८८ ||
रश्मिमण्डलषट्कं च विद्यापञ्चाशदेव च।
धूमावत्यङ्गमन्त्राश्च वीरेशो बटुकः शिवः॥ ८९ ||
प्रत्यङ्गिरा च शरभस्तथा पाशुपतं शिवे।
संहारास्त्रं कुक्कुटी च तथा मर्कटिका शिवे॥ ९० ||
मारिणीत्वरिता विद्या कुल्लुकापञ्चकं शिवे ।
दशविद्याविधौ देवि क्रमादङ्गादि कीर्तितम्॥ ९१ ||
पूर्णाभिषेकयुक्तानां सर्वेषां जप इष्यते ।
अन्येषामङ्गमन्त्राणां जपः सङ्कीर्तितो मया ॥ ९२ ||
पूर्णाभिषेकसंयुक्तो यं यं मन्त्रं जपेच्छिवे ।
तमेव सिद्धं जानीयान्नात्र कार्या विचारणा ॥ ९३ ||
पञ्चायतनपक्षे तु तदङ्गद्वारदेवता ।
यथा गुरोर्दत्तमन्त्रास्तदेवाङ्गं प्रकीर्तितम् ॥ ९४ ||
एवं दर्शनमार्गे तु द्वास्थमूर्तिस्थिता अपि ।
अर्धनारीश्वरे देवि शिवशक्तिप्रभेदतः ॥ ९५ ||
नृसिंहत्रिपुरायां तु तद्द्वयोक्ताङ्गदेवताः ।
श्रीमहाकामसुन्दर्यां तद्द्वयोक्ताः प्रकीर्तिताः ॥ ९६ ||
हयग्रीवे च सुन्दर्यां तथैव शिवसुन्दरी ।
गोपालसुन्दरी विद्या तथैव कालसुन्दरी ॥ ९७ ||
एतद्विद्याविधौ देवि तद्द्वयोक्ताङ्गदेवताः ।
बालायोगात् पञ्चदशी तथैव षोडशी शिवे ॥ ९८ ||
एतद्योगात् त्रिधा विद्या कीर्तिता परमेश्वरि ।
श्रीलोकसुन्दरी देवि सैव वै स्पर्शसुन्दरी॥ ९९ ||
बालायुक्ता स्पर्शमयी ह्याद्यन्तक्रमयोगतः ।
विद्यायुक्ता सुन्दरी तु पुमाद्यन्तक्रमेण च ॥ १०० ||
श्रीमहाषोडशीयुक्ता महाचित्षोडशी परा ।
इति संक्षेपतः प्रोक्तं गुह्यकाल्यां विशेषतः ॥ १०१ ||
सङ्कर्षणी सिद्धकाली कुब्जिका सुन्दरी तथा।
श्रीमहासिद्धयोगेशी श्रीमत्सिद्धकरालिका॥ १०२ ||
प्रत्यङ्गिरा शेषिका च शेषमन्त्रोऽपि पार्वति ।
नवाम्नायादिमन्त्राश्च विज्ञेयाः कालिकामनौ ॥ १०३ ||
नववक्त्रे महेशानि गुह्यकाल्यां महेश्वरि ।
कुब्जिका द्विविधा देवि सकला निष्कला क्रमात् ॥ १०४ ||
निष्कला चन्द्रवक्त्रा स्यात् सकला षण्मुखा मता ।
तथैव गुह्यकाली तु सकला निष्कला शिवे ॥ १०५ ||
एकवक्त्रा कलाहीना दशवक्त्रा कलायुता ।
गुह्यकाल्या: परिज्ञानात् कादिहादिमतेश्वरः ॥ १०६ ||
महापाशुपतेशी मां महाविद्या महाकला ।
संवर्तेशक्रमेणैव नवतत्त्वेश्वरी परा ॥ १०७ ||
कालनाथक्रमेणैव नवतत्त्वेश्वरी परा।
अद्वैतभावसंपन्ना श्रीमहागुह्यकालिका ॥ १०८ ||
पीठवाणीप्रभेदेन शाम्भवानां च विंशतिः ।
लिपिभाषाप्रभेदेन शाम्भवानां च विंशतिः ॥ १०९ ||
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ।
इति श्रीशक्तिसंगममहातन्त्रराजे उत्तरभागे चतुर्थखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे [विषयनिर्देशो] नाम प्रथमः पटलः ||

Paṭala 2: Pīṭhas, Überlieferungswege und Śakti-Erkenntnis

द्वितीयः पटलः ।
श्रीदेव्युवाच देवेश श्रोतुमिच्छामि पूर्वमुक्तं रहस्यकम् ।
श्रीशिव उवाच रहस्यातिरहस्यं च कथ्यते शृणु पार्वति ॥ १ ||
डामरद्वयमन्त्राश्च उड्डीशद्वयगोचराः ।
तथाऽन्येऽपि महामन्त्राः पूर्णदीक्षाविधौ शिवे॥ २ ||
अधिकारो भवेत्तेषां नात्र कार्या विचारणा ।
विद्यापीठनिर्णयस्तु सोऽपि संकथ्यते शृणु ॥ ३ ||
यत्र नोक्तं भवेत् पीठं शक्तिपीठं च तत्र वै।
इदं शक्तिविधौ प्रोक्तं शैवे पञ्चाक्षरोद्भवम् ॥ ४ ||
अष्टाक्षरोक्तं विष्णौ तु प्रोक्तमेकादशाक्षरम् ।
गणेशे गदितं पीठं सूर्ये घृणिसमुद्भवम् ॥ ५ ||
क्वचिद् धर्मादिपीठं च क्वचिन्नामादिसम्भवम् ।
यत्र नोक्तं भवेत् पीठं तत्क्रमः परिकीर्तितः ॥ ६ ||
चान्द्रे स्वायम्भुवे चीने बौद्धे वैदिकपीठके ।
यत्र नोक्तं भवेत् पीठं निर्णयः परिकीर्तितः ॥ ७ ||
ताराकालीक्रमेणैव पीठं संकथ्यते शृणु ।
मेधादिपीठं वाक्सिद्ध्यै लक्ष्म्यादि कमलाप्तये ॥ ८ ||
जयाप्तये .जयापीठं ताराविद्याविधौ स्मृतम् ।
काल्याः पीठत्रयं देवि गुह्यकाल्यां निशाकरः ॥ ९ ||
सुन्दर्यां वेदधा पीठं तारायां द्विविधं भवेत् ।
छिन्नायामेकरूपं तु भुवनायामपि प्रिये॥ १० ||
धूम्रायामपि तथा मातङ्ग्यां द्विविधं भवेत् ।
सिद्धविद्याविधौ देवि द्विविधं भैरवीमनौ ॥ ११ ||
सुन्दरीपीठमाख्यातं धूम्रायामेकमेव च।
कमलायां द्वयं पीठं शैवे त्रिविधमेव च ॥ १२ ||
चतुर्विधं वैष्णवे स्यात् सौरे द्विविधमीरितम् ।
गाणपे पञ्चधा पीठमन्योऽपि पीठविस्तरः ॥ १३ ||
शैवपीठं च बटुके स्वर्णेशे मृडभैरवे ।
वडवातले वीरभद्रे चान्द्रे नामादिकीर्तनम् ॥ १४ ||
स्वायम्भुवे हिङ्गुलाख्ये पीठं शक्तिमयं मतम् ।
इति संक्षेपतः प्रोक्तं पर्यायनिर्णयं शृणु ॥ १५ ||
आदौ कादिर्महेशानि हादिश्चैव तदुत्तरम्।
कादिहादिमतत्वेन देशानां द्विविधा गतिः॥ १६ ||
कादौ षट्पञ्चाशद्देशा हादावपि तथा प्रिये ।
तद्देशशक्तिसंयोगस्तद्राज्यमिति कीर्तितम्॥ १७ ||
तत्सङ्गमजपेनैव तद्देशराज्यमाप्नुयात्।
तत्रादौ कादिदेशाश्च कथ्यन्ते परमेश्वरि ॥ १८ ||
अङ्गवङ्गौ कलिङ्गश्च कालिङ्गः केरलस्तथा ।
काश्मीरः कामरूपश्च महाराष्ट्रोऽन्ध्र एव च ॥ १९ ||
सौराष्ट्रो द्रविडश्चैव तैलङ्गमलयालकौ ।
कार्णाटावन्त्यवैदर्भसर्पा(मर्वा)भीर(ाः) समालवाः ॥ २० ||
चोलपाञ्चालकाम्बोज(ाः) वैराट् पाण्ड्योविदेहभूः ।
बाह्लीकश्च किरातश्च कैकटावन्त्यकौ तथा ॥ २१ ||
ऐराकभोटान्तचीना महाचीनस्तथैव च ।
नेपालः शीलहट्टश्च गौडकोशलमागधाः ॥ २२ ||
औत्कलाः कुन्तला हूणाः कोङ्कणः कैकयस्तथा ।
शूरसेनः कौरवाश्च सिंहलाश्च पुलिन्दकाः ॥ २३ ||
कच्छसेवनमद्राश्च सौवीरलाटबर्बराः ।
मत्स्यः सैन्धव इत्येतत् षट्पञ्चाशत् प्रकीर्तिताः ॥ २४ ||
कादिदेशाः. समाख्याता हादिदेशान् शृणु प्रिये ।
अङ्गवङ्गकलिङ्ग(ाः)श्च कालिङ्गः स्यात् सुवीरकः ॥ २५ ||
काश्मीरश्चैव काम्बोजः सौराष्ट्रो मगधस्तथा ।
महाराष्ट्रो मालवस्तु नेपालः केरलस्तथा ॥ २६ ||
चोलपाञ्चालगौडाश्च मलयालश्च सिंहलः ।
द्रविड: कोङ्कणश्चैव कार्णाटो लाट एव च॥ २७ ||
मलाटश्चैव पालाटः पाण्ड्यान्धकपुलिन्दकाः ।
हूणकौरवगान्धारविदर्भाः सविदेहकाः ॥ २८ ||
बाह्लीकबर्बरौ देवि कैकयः कोशलोऽपि च ।
कुन्तलश्च किरातश्च शूरसेनश्च सेवनः ॥ २९ ||
वनाटः टङ्कणश्चैव कोङ्कणो मत्स्यमद्रकौ ।
मैडसैन्धवसिन्धूत्थाः पार्श्वकीकौ ततः स्मृतौ ॥ ३० ||
घोजाल्यवनौ देवि जलजालन्ध्रसाल्वलाः ।
सिन्धुश्च वन्द्यदेशश्च हादिपर्यायवाचकाः ॥ ३१ ||
देशद्वयव्यवस्था तु पूर्वतन्त्रे प्रकीर्तिता ।
देशभेदं च विज्ञाय पर्यायक्रममाचरेत् ॥ ३२ ||
पर्यायाः सप्त विख्यातास्तानहो वच्मि संशृणु ।
देशकालाम्नायविद्या दर्शनायतने तथा॥ ३३ ||
तथागमप्रभेदेन पर्यायसप्तकं भवेत्।
यस्मिन् देशे य आचारस्तद्देशक्रममार्गतः॥ ३४ ||
तत्र तन्त्राणि कानि स्युस्तत्र मार्गः कथं स्मृतः ।
एतज्ज्ञानं महेशानि ज्ञात्वा यत्नेन पार्वति॥ ३५ ||
तततन्त्रसंख्यामार्गेण सम्प्रदायक्रमेण च ।
योजयेत् परमेशानि देशपर्यायविच्छिवः ॥ ३६ ||
कस्मिन् काले तु का विद्या कथं जाता किमात्मिका ।
तत्तन्त्राचारयोगेन कालपर्यायवान् भवेत् ॥ ३७ ||
कस्याम्नाये किमाचारः किं रूपं किं विशिष्टता ।
कति तन्त्रादिसंख्या च तथैव यामलादिकम्॥ ३८ ||
आम्नायाख्यस्तु पर्यायो ह्येतद्विज्ञानगोचरः ।
का विद्या वा किमाचारा कलौ किं वा स्वरूपिणी ॥ ३९ ||
त्रैविध्यं किं युगत्वेन किं गुणा किंविशिष्टता ।
विद्यापर्याय इत्युक्तो दर्शनाख्यं शृणु प्रिये ॥ ४० ||
किं दर्शनं कथं किं वा किमाचारात्मकं भवेत् ।
कानि तन्त्राणि विद्याश्च एतज्ज्ञानं महेश्वरि ॥ ४१ ||
दर्शनाख्यस्तु पर्यायः प्रोक्त आयतनं शृणु ।
किमायतनकं देवि कथं जातं महेश्वरि ॥ ४२ ||
कियत् तन्त्राणि देवेशि आचारः कीदृशो भवेत् ।
अयमायतनाख्यो हि पर्यायः परिकीर्तितः॥ ४३ ||
अथागमाख्यपर्यायं शृणु यत्नेन पार्वति।
को वागमः कथं जातः किमाचारः कथं भवेत् ॥ ४४ ||
के मन्त्राः केऽङ्गमन्त्राश्च पारम्पर्यं कथं भवेत् ।
कियत् तन्त्राणि का सिद्धिरेतज्ज्ञानं च यत्र वै ॥ ४५ ||
अयमागमपर्यायः कादिहादिमते भवेत् ।
पर्याये कादिहादौ तु क्वचिद् भेदोऽस्ति पार्वति ॥ ४६ ||
सर्वमेतन्महेशानि रहस्यातिरहस्यकम् ।
कथ्यते श्रृणु देवेशि राजयोगोत्तरं शिवे॥ ४७ ||
राजयोगं प्रवक्ष्यामि येन कालीसमो भवेत्।
प्रतिदेशं महेशानि षट्त्रिंशद् वृत्तयः स्मृताः ॥ ४८ ||
षट्त्रिंशद्गुणनं कृत्वा अष्टादशशती भवेत् ।
कादिहादिक्रमेणैव शक्तिबाहुल्यमीरितम्॥ ४९ ||
[Nichtgrafische Inhaltsangabe: Der Text gliedert weibliche Ritualpersonen nach Lebensalter und traditionellen Typen.] दिव्यादिव्यक्रमेणैव भेदबाहुल्यमीरितम् ।
पीठानि सरितश्चैव सागराः पर्वतार्णवाः ॥ ५१ ||
तीर्थानि सकलान्यत्र यथायोगेन योजयेत् ।
नामरूपगन्धभेदैर्विद्याभेदादिकं चरेत् ॥ ५२ ||
सुन्दरी रमणी रामा ह्रादिनी चञ्जलेक्षणा ।
कटाक्षताडिनी साध्वी सर्वमन्त्रविशारदा ॥ ५३ ||
आनन्दामृतकल्लोला यद्देशे पीठसञ्चयः ।
अन्यत्र पीठमेकं तु शक्तौ ब्रह्माण्डपीठकम् ॥ ५४ ||
[Nichtgrafische Inhaltsangabe zu 2.55–58: Der Text verbindet die Verehrung einer weiblichen Ritualperson mit körperlicher und sexueller Nähe. Die zuvor genannte Altersgruppe schließt Minderjährige ein; die Einzelbeschreibung wird hier nicht wiedergegeben.] [Nichtgrafische Inhaltsangabe: Fortsetzung der körperbezogenen Ritualbeschreibung an abgeschiedenen Orten.] अहो धन्यवतां मध्ये न धन्यस्तादृशः क्वचित् ।
स राजा स च देवेज्यः स एव च सदाशिवः ॥ ६० ||
स एव देवीरूपो हि शक्तिज्ञाता ममार्थदः ।
सम्राड् भोक्ता स एवात्र स गन्धर्वाधिकः कलौ ॥ ६१ ||
सिद्धिदाता ऋद्धिदाता स एव शक्तिदर्शकः ।
वेश्यामध्ये सदा स्थेयं राज्यलक्ष्मीस्तु सा परा ॥ ६२ ||
राज्यलक्ष्मीर्मोक्षलक्ष्मी: कीर्तिलक्ष्मीस्तु सापरा ।
वेश्यामण्डलगो भूत्वायं यं मन्त्रं जपेच्छिवे ॥ ६३ ||
शिवतुल्यो नरो भूयान्नात्र कार्या विचारणा ।
वेश्या सप्तविधा प्रोक्ता यथायोगक्रमेण च ॥ ६४ ||
राजवेश्या नृत्यवेश्या तीर्थवेश्या तथाऽपरा ।
गुप्तवेश्या देववेश्या ब्रह्मवेश्या मताऽपरा ॥ ६५ ||
ग्रामवेश्या सप्तमी स्याद् वेश्या सप्तविधा भवेत्।
वेश्यासमाजः कर्तव्यः पूजनं तु विशेषतः ॥ ६६ ||
दानं शय्या भूषणानि तासां दद्याद् दिने दिने ।
सर्वदा नृत्यगानस्य कालीं तारां प्रपूजयन् ॥ ६७ ||
ईदृग्विधं महाभक्तं कदा पश्यामि पार्वति ।
शक्तियोगस्तु कठिनो दिव्ययोगो यथेच्छया ॥ ६८ ||
जननी तस्य वै धन्या पिता तस्य महेश्वरः ।
दाता कालीसमो लोके वेदे तारासमो भवेत् ॥ ६९ ||
राज्ये श्रीसुन्दरीतुल्योऽनुग्रहे छिन्नमस्तका ।
विग्रहे बगलातुल्यो मातङ्गी तु वशीकृतौ॥ ७० ||
सर्ववाञ्छामयी सिद्धिस्तस्य हस्तगता सदा ।
भुवनासदृशः शान्तौ क्रोधे धूमावतीसमः ॥ ७१ ||
क्रीडायां कालिकातुल्यो वाञ्छायां सुमुखीसमः।
दातृत्वे कमला साक्षात् सत्ये श्रीकालिका -यथा ॥ ७२ ||
ज्ञाने परशिवः प्रोक्तो ब्रह्माण्डनिर्मितौ शिवे ।
राजराजेश्वरीतुल्यः कर्षणे पायसप्रिया ॥ ७३ ||
यथा प्रोक्ता तु त्रैलोक्ये महापद्मावती यथा ।
ईदृशः साधको देवि शक्तिज्ञानात् क्षणाद् भवेत्॥ ७४ ||
अहो शक्तिस्वरूपस्य ज्ञाता कोऽस्ति महीतले ।
तत्रापि वेश्यालापी तु साक्षात् तारासमः कलौ ॥ ७५ ||
मुख्यः कुण्डलिनीशस्तु योगरूपो निरञ्जनः ।
ब्रह्मानन्दो महेशानि कला सप्तदशी तु सा ॥ ७६ ||
तन्मार्गशक्ति भोगार्थ शक्तियोगः प्रकीर्तितः ।
शक्तियोगाकर्षणार्थं तासां वश्यार्थमेव च॥ ७७ ||
वेश्यापीठं दिव्यपीठं मया निगदितं शिवे ।
वेश्यापीठं द्रव्यसाध्यं द्रव्यं विभुवरस्य-च॥ ७८ ||
विभुत्वं नरनाथत्वं महाराज्यं भवेच्छिवे ।
महाराजो नरो भूयान्निःस्पृहो धार्मिकः कृती॥ ७९ ||
'तत्पीठ तु महेशानि कुमारीपूजनेन तु।
कुमारी सकला रामा रम्या रमणसुन्दरी॥ ८० ||
कुमारीदर्शनेनैव ब्रह्माण्डं पूजितं भवेत्।
कुमारीपूजनफलं महाराज्यं च वर्षतः॥ ८१ ||
महाराज्यफलं देवि लक्ष्मीत्रितयवान् सुखी ।
शक्रकर्ता भक्तभक्तः सर्वदा द्विजपूजकः ॥ ८२ ||
गुरुभक्तो विनीतश्च धीरोदात्तो महाशयः ।
ईदृग्विधो महाराजो वेश्यामण्डलवान् भवेत् ॥ ८३ ||
वेश्यातोषणपुण्येन शक्तिलाभी नरो भवेत् ।
दशाष्टशक्तयः प्रोक्ता विद्यामातृक्रमेणः च॥ ८४ ||
दशविद्या मातृकाऽष्टौ तद्रूपसामरस्यवान् ।
अष्टाष्टकमिदं प्रोक्तमिदमेव त्रिधेरितम् ॥ ८५ ||
ब्रह्मरूपधरे देवि कृपयाहर विग्रहम् ।
इत्यादि पूजने नाम यत्प्रोक्त परमेश्वरि ॥ ८६ ||
अष्टाष्टकप्रभेदेन गदितं नीलशारदे ।
तत्र तदुक्तिमाचर्य सर्वसिद्धिश्वरो भवेत्॥ ८७ ||
अष्टशक्तौ महेशानि या शक्तिः परिनिष्ठिता ।
सा सिद्धिस्तस्य वै भूयान्नात्र कार्या विचारणा ॥ ८८ ||
उत्तरोत्तरभावस्य सिद्ध्यर्थं परमेश्वरि ।
रूपगन्धप्रभेदेन दशविद्याः प्रकीर्तिताः॥ ८९ ||
मातापितृकृतं नाम त्यक्तवा नाम यथार्थतः ।
नाम दद्यान्महेशानि तासु देवत्वभावना ॥ ९० ||
तत्र विकारयुक्तश्चेत् तत्क्षणान्नश्यति ध्रुवम् ।
अथाविकारसिद्ध्यर्थमक्षरन्त्यां प्रपूजयेत् ॥ ९१ ||
अक्षरन्ती कुमारी च क्षरन्ती तरुणी मता ।
कामादिविषयैर्व्याप्ते मायामोहप्रवेष्टिते ॥ ९२ ||
इन्द्रियाणां निग्रहो हि कलौ कस्य भविष्यति ।
अविकारप्रसिद्यर्थ कुमारीं पूजयेच्छिवे ॥ ९३ ||
उत्तरोत्तरवर्षाणां क्रमेण नवचण्डिकाम् ।
मातृकाष्टक्रमेणैब दशविद्याक्रमेण च॥ ९४ ||
अष्टकन्याजातिमार्गात् कुलाकुलक्रमेण च।
पञ्चचक्रक्रमेणैव पञ्चाशत्पीठयोगतः ॥ ९५ ||
नाम दद्यान्महेशानि तद्भावेन प्रपूजयेत् ।
अनन्यभावनाराक्तः पूजयेद्धि कुमारिकाम् ॥ ९६ ||
कुमारीपूजनादेव त्रैलोक्यं करमध्यगम्।
पूजनेन कुमारीणां तत्वज्ञानं प्रजायते॥ ९७ ||
[Nichtgrafische Inhaltsangabe zu 2.98–101: Erkenntnis, erotische Anziehung und sexuelle Selbstbeherrschung werden miteinander verknüpft. Die Passage nennt auch eine als bālā bezeichnete junge Person; körperliche Einzelheiten sind ausgelassen.] नामरूपादि गन्धादि यदि स्यात् परमेश्वरि ।
सिद्धविद्या तु सा प्रोक्ता नात्र कार्या विचारणा ॥ १०२ ||
सिद्धिसोपानमेतद्धि. गदितं नीलशारदे ।
शक्त्या व्याप्तमिदं सर्वं जगदेतच्चराचरम् ॥ १०३ ||
तया यदुक्तं देवेशि तदेव कारयेत् प्रिये ।
योगं कुर्विति चेदुक्तं तदेव च समाचरेत् ॥ १०४ ||
अन्यथा कुरुते यस्तु तस्य पातो भविष्यति ।
रूपं दृष्ट्वा तु प्रणमेद् रूपं परमदुर्लभम् ॥ १०५ ||
रूपं रूपं परं रूपं रूपं ब्रह्म सनातनम् ।
रूपे रूपे समुत्पन्ने तारारूपः स्वयं भवेत् ॥ १०६ ||
[Nichtgrafische Inhaltsangabe: Der Text erörtert körperlichen Genuss innerhalb seiner Lehre von der Gestalt der Göttin.] रागतो नहि कर्तव्यं कर्तव्यं निस्पृहेच्छया ।
नाना विद्यास्वरूपाणि यथा तिष्ठन्ति पार्वति ॥ १०८ ||
तथा शक्तिस्वरूपाणि बालतारुण्यवृद्धता ।
रूपगन्धजातिभेदास्त्रिधा भेदाः प्रकीर्तिताः ॥ १०९ ||
स्वयमेव शिवो देवि मायामोहेन मोहितः ।
अमोहितः शिवः प्रोक्तः सर्वा विद्याः प्रकीर्तिताः ॥ ११० ||
अज्ञानान्मानुषी योनिः कल्प्यते परमेश्वरि ।
ज्ञानमासाद्य देवेशि कालीरूपं जगत्त्रयम् ॥ १११ ||
[Nichtgrafische Inhaltsangabe: Die vier Befreiungsformen werden in einem erotischen Wortspiel auf die rituelle Begegnung bezogen.] शक्तिः शक्तिः पुनः शक्तिः शक्तिः शक्तिः पुनः पुनः ।
वेश्या वेश्या पुनर्वेश्या वेश्या वेश्यापुनश्च सा ॥ ११३ ||
कुमारी च कुमारी च कुमारी च कुमारिका ।
महाराज्यं महाराज्यं महाराज्यमितोऽपि किम्॥ ११४ ||
हसन् जल्पन् प्रधावन् वा निद्राणः सङ्गलोलुपः ।
तया सह प्रजप्तव्यं तारारूपाप्तये ध्रुवम् ॥ ११५ ||
इति संक्षेपतः प्रोक्तं तद्योगः कथ्यते शृणु ।
इति श्रीशक्तिसंगममहातन्त्रराजे उत्तरभागे चतुर्थखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे [विद्यापीठनिर्णयो] नाम द्वितीयः पटलः ||

Paṭala 3: Japa, rituelle Vereinigung und die Welt als Śakti

तृतीयः पटलः ।
श्रीदेव्युवाच देवेश श्रोतुमिच्छामि पूर्वं संसूचितं च यत् ।
तन्मे कथय सिद्धेश यद्यहं तव वल्लभा ॥ १ ||
श्रीशिव उवाच रहस्यमपि ते देवि कथ्यते शृणु साम्प्रतम् ।
आलोक्य प्रजपेद् देवि दिवारात्रं महेश्वरि ॥ २ ||
दूरदृष्टिमयी सिद्धिस्तस्य हस्तगता सदा ।
संस्पर्श्य प्रजपेल्लक्षं द्युमणित्वं प्रगच्छति ॥ ३ ||
हसन् जपेत्तया नित्यं सर्वकालमतन्द्रितः ।
महावाक्सिद्धिमाप्नोति राजराजेश्वरो भवेत् ॥ ४ ||
वदंस्तया जपेल्लक्षं महाकविवरप्रदः ।
धावंस्तया जपेद्देवि दशसाहस्रमादरात् ॥ ५ ||
मासमात्रप्रयोगेण पादुकासिद्धिमाप्नुयात् ।
सोपानारोहणं कृत्वा तया सह महेश्वरि॥ ६ ||
[Nichtgrafische Inhaltsangabe zu 3.7: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.8: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] जपेन्महेशतुल्यः स्यात् काव्यं भाषामयं भवेत्।
दिवा पश्यन् जपेत्तारां विकाररहितः शिवे ॥ ९ ||
सर्वसिद्धीश्वरो भूयान्नात्र कार्या विचारणा ।
दिवा हास्यरतां वीक्ष्य योगिनीमेलनो भवेत्॥ १० ||
[Nichtgrafische Inhaltsangabe zu 3.11: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.12: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] प्रसुप्तां तां समालोक्य जपेद्विद्यामनन्यधीः ।
कामरूपसमो देवि शिवरूपो भवेन्नरः ॥ १३ ||
करौ वीक्ष्य जपेद्देवी वरदां तां प्रपश्यति ।
पादौ वीक्ष्य जपेत्तारां नखचन्द्ररसी नरः ॥ १४ ||
सर्वकालं जपेद्देवि मासात् सिद्धीश्वरो भवेत् ।
ताम्बूलपूरितमुखीं वीक्ष्य यत्नेन सञ्जपेत्॥ १५ ||
सर्वैश्वर्यसमायुक्तः कामिनीकर्षको भवेत् ।
वीटिकाकरणे युक्तां दृष्ट्वा यत्नेन संजपेत् ॥ १६ ||
वीटिकादाननिरतां वीक्ष्य रात्रौ जपेच्छिवाम् ।
शापानुग्रहसामर्थ्यं द्वितीयो बटुको भवेत् ॥ १७ ||
भोजनस्थां च संवीक्ष्य तत्र काली जपेच्छिवे ।
कालिका वरदा तस्य मासमात्रप्रयोगतः ॥ १८ ||
अभ्यङ्गस्थां च संवीक्ष्य तत्र त्रिशतमादरात् ।
जपेद्यत्नेन देवेशि सूर्यतुल्यो नरो भवेत् ॥ १९ ||
तां पाकस्थां च संवीक्ष्य कालीं तारां च यो जपेत् ।
धनधान्यसमृद्धिः स्यान्नात्र कार्या विचारणा ॥ २० ||
क्रीडासक्तां च संवीक्ष्य सर्वकालमसंख्यकम् ।
सर्वसिद्धिमवाप्नोति देवानामपि दुर्लभाम् ॥ २१ ||
नानास्थलस्थां संवीक्ष्य जपध्यानं समाचरेत् ।
समाधीनां कोटिसंख्या तस्य पादगता भवेत् ॥ २२ ||
मुखं वीक्ष्य जपेल्लक्षं महानीलसरस्वतीम् ।
नासां वीक्ष्य जपेन्मन्त्रं किन्नरादधिको भवेत्॥ २३ ||
नेत्रे कर्णे च संवीक्ष्य स्वयमन्योन्यतोऽपि वा ।
दूरश्रुतिर्दूरदृष्टिस्तस्य हस्तगता भवेत् ॥ २४ ||
हास्यं वीक्ष्य जपेल्लक्षं तारापतिसमो भवेत् ।
दन्तान् वीक्ष्य जपेन्मन्त्रं मासमात्रं निरन्तरम् ॥ २५ ||
[Nichtgrafische Inhaltsangabe zu 3.26: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.27: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.28: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.29: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] गुल्फौ वीक्ष्य जपेन्नित्यं दिक्सहस्रमतन्द्रितः ।
राजराजसमो भूत्वा त्रैलोक्यविजयी भवेत्॥ ३० ||
नानाविनोदसौख्यैश्च संस्थितां वीक्ष्य पार्वति ।
जपेदसंख्यं मासेन सर्वसौभाग्यमाप्नुयात् ॥ ३१ ||
वस्त्राच्छादनसंयुक्तां तारां छिन्नां च कालिकाम् ।
यो . जपेत् परमेशानि द्वितीया तारिणी भवेत् ॥ ३२ ||
रजस्वलां च तां ज्ञात्वा विनोदेन जपं चरेत्।
महाराजपदं भूयाल्लोकाग्रे न पलायते ॥ ३३ ||
रजस्वलां च संवीक्ष्य जपेद्यत्नेन पार्वति ।
महाकविवरो भूत्वा देवीतुल्यो नरो भवेत् ॥ ३४ ||
[Nichtgrafische Inhaltsangabe zu 3.35: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.36: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.37: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] तया सह प्रभुञ्जानो जपेद् यत्नेन वै मनुम् ।
षष्टिसिद्धीश्वरो भूयान्नात्र कार्या विचारणा ॥ ३८ ||
तस्योच्छिष्टं स्वयं भुञ्जन् स्वस्य तस्यै समर्पयन् ।
प्रजपेत् परमेशानि महाविभुवरो भवेत् ॥ ३९ ||
[Nichtgrafische Inhaltsangabe zu 3.40: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.41: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.42: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.43: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] स्वमस्तक च तत्पादौ दत्वा यत्नपरो भवेत् ।
जपं तत्र प्रकुर्वीत देवीध्यानपुरःसरम्॥ ४४ ||
महाकालीसमो भूत्वा दिव्यौघसदूशो भवेत् ।
सुप्त्वा तस्याः समं देवि सर्वकालं जपेच्छिवे ॥ ४५ ||
सिद्धानापि च धिक्कृत्य वरदाता नरो भवेत् ।
तस्या हस्तौ करे कृत्वा दशलक्षं जपेच्छिवे ॥ ४६ ||
[Nichtgrafische Inhaltsangabe zu 3.47: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.48: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.49: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.50: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.51: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.52: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.53: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] वर्षमात्रप्रयोगेण त्रिकालज्ञो नरो भवेत् ।
अश्रुतानपि वेदादीन् समस्तान् पाठयेदपि॥ ५४ ||
मूकान् विवादयेद् देवि वृक्षानपि विवादयेत्।
सर्वज्ञः साधको भूत्वा कालीरूपस्त्रिवर्षतः ॥ ५५ ||
श्मशानस्थो महास्वस्थो मुक्तकेशो दिगम्बरः ।
अर्कपुष्पसहस्राणि स्वपुष्पाक्तानि कारयेत् ॥ ५६ ||
प्रत्येकं प्रजपेत्तानि विद्याध्यानपरः सुधीः ।
पृथ्वीपतिसमो भूत्वा त्रैलोक्यविजयी भवेत्॥ ५७ ||
[Nichtgrafische Inhaltsangabe zu 3.58: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] गन्धर्वाधिपतिर्भूत्वा कवित्वामृतसागरः ।
तस्य वक्त्रे वसेन्नित्यं महाश्रुतिधरो भवेत् ॥ ५९ ||
सूर्योदयं समारभ्य यावत् सूर्योदयान्तरम् ।
तावज्जप्त्वा निरातङ्कः सर्वसिद्धीश्वरो भवेत् ॥ ६० ||
सूर्यास्तं च समारभ्य सूर्यास्तं यावदेव तु।
तावज्जप्त्वा निरातङ्कः सर्वसिद्धीश्वरो भवेत् ॥ ६१ ||
सूर्योदयं समारभ्य यावदस्तमयं भवेत् ।
तावज्जप्त्वा जपेद् देवि सर्वसिद्धीश्वरो भवेत् ॥ ६२ ||
सूर्यास्तं च समारभ्य यावत् सूर्योदयो भवेत् ।
तावज्जपेन्महेशानि सर्वसिद्धीश्वरो भवेत्॥ ६३ ||
शरत्काले चतुर्थ्यादिनवम्यन्तं महेश्वरि ।
होमरूपां पुरश्चर्या कुर्यात् सिद्धीश्वरो भवेत्॥ ६४ ||
अथ तर्पणरूपां च पुरश्चर्या ब्रवीमि ते।
दुग्धेनासवतोयेन रक्तैर्मूत्राभिरेव च ॥ ६५ ||
मधुना गन्धतोयेन रक्तधाराभिरेव च।
केवलं शुद्धतोयस्य तर्पणेन महेश्वरि ॥ ६६ ||
तथा मार्जनरूपां च पुरश्चर्या चरन् शिवे ।
ब्राह्मणान् कुमारिका भोज्य जपात् सिद्धीश्वरो भवेत् ॥ ६७ ||
पूजारूपां पुरश्चर्यां केचिदिच्छन्ति तान्त्रिकाः ।
शरत्काले चतुर्थ्यादिनवम्यन्तं महेश्वरि ॥ ६८ ||
नित्यकृत्यं तथा पूजां दिवा कृत्वा निशामुखे ।
षट्सहस्रं जपेद्रात्रौ सर्वसिद्धीश्वरो भवेत्॥ ६९ ||
दिवा जपेत् षट्सहस्रं रात्रावपि तथा जपेत् ।
एवं क्रमेण देवेशि सर्वसिद्धीश्वरो भवेत् ॥ ७० ||
दिवा जपेत् षट्सहस्रं तावद्धोमं चरेन्निशि ।
सर्वसिद्धीश्वरो भूयादतोऽन्यं शृणु पार्वति ॥ ७१ ||
नित्यकृत्यं दिवा कृत्वा केवलं तिमिरालये ।
रात्रौ जपेद् गानपरः सर्वसिद्धीश्वरो भवेत् ॥ ७२ ||
गानमण्डलगो जप्यात् त्रैलोक्याधिपतिर्भवेत् ।
दिवा जपेद् दिक्सहस्रं रात्रौ पूजां चरन् जपेत् ॥ ७३ ||
सहस्रमात्र प्रजपेदामिषान्नपरायणः ।
सर्वसिद्धीश्वरो भूयाद्वेतालसिद्धिमाप्नुयात्॥ ७४ ||
प्रतिपत्सु समारभ्य नवम्यन्तं महेश्वरि ।
एकान्ते पर्वते शून्ये केवलं तिमिरालये ॥ ७५ ||
उदयास्तमयं जप्ता सर्वसिद्धीश्वरो भवेत् ।
पर्वते विपिने शून्ये नवरात्रं जितेन्द्रियः ॥ ७६ ||
मुण्डोपरि भवेन्मुण्डं कपालं च ततोपरि ।
तत्र दीपं च प्रज्वाल्य दीपालोकनतत्परः ॥ ७७ ||
नवरात्रं जपेद् देवि दीपालोकनतत्पर: ।
मूलयन्त्रं कपालेषु कौमार्या बीजमुत्तमम् ॥ ७८ ||
सिन्दूरेण कृतं यन्त्रं सर्वसिद्धीश्वरो भवेत् ।
महानीलप्रभा देवी प्रत्यक्षा वरदा भवेत् ॥ ७९ ||
सदा प्रकाशगो भूत्वा जपेन्नित्यमतन्द्रितः ।
सर्वसिद्धीश्वरो भूयान्नात्र कार्या विचारणा ॥ ८० ||
शरत्काले चतुर्थ्यादिनवम्यन्तं महेश्वरि ।
नित्यकृत्यं च सम्पाद्य ततो नैमित्तिकं चरेत् ॥ ८१ ||
नववर्षं समारभ्य कामवर्षान्तकं शिवे ।
तावद् बालेति गदिता तारा शीघ्रफलप्रदा ॥ ८२ ||
तां देवीपीठे संस्थाप्य देवीवत् प्रतिपूजयेत् ।
शतं भाले शतं केशे शतं सिन्दूरमण्डले ॥ ८३ ||
[Nichtgrafische Inhaltsangabe zu 3.84: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] अनेन क्रमयोगेन सहस्रेण पुरस्क्रिया ।
दिनषट्कप्रयोगेण सर्वसिद्धीश्वरो भवेत्॥ ८५ ||
[Nichtgrafische Inhaltsangabe zu 3.86: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] बलिः पूजा तथा होमो रात्रौ च क्रियते यदि ।
तत्तदक्षय्यमायाति ताराकालीप्रसादतः ॥ ८७ ||
[Nichtgrafische Inhaltsangabe zu 3.88: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.89: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.90: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.91: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.92: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.93: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.94: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.95: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.96: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.97: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.98: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] तां जपस्थां च संवीक्ष्य जपेत् तद्ध्यानतत्परः ।
देवीरूपो नरो भूयान्नात्र कार्या विचारणा॥ ९९ ||
[Nichtgrafische Inhaltsangabe zu 3.100: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] तां फलस्थां च संवीक्ष्य जपेल्लक्षं महेश्वरि ।
सर्वसिद्धीश्वरो भूयान्नात्र कार्या विचारणा ॥ १०१ ||
[Nichtgrafische Inhaltsangabe zu 3.102: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.103: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.104: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.105: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.106: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.107: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.108: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.109: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.110: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.111: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.112: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.113: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.114: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] कालीतारामयो भूत्वा छिन्नारूपः स्वयं भवेत् ।
स्त्रीप्रभूणां गेहं च जगदेतच्चराचरम् ॥ ११५ ||
तथापि शुक्रं देवेशि स्त्रीयोनौ नास्ति पार्वति ।
शुक्रं यदि च वै भूयात् तदा तत्कामलोपनम्॥ ११६ ||
को हि कर्तुं प्रशक्नोति तच्छक्तो ब्रह्मगोलके ।
तस्याः पुष्पं प्रदत्तं हि रेतः पुरुषलिङ्गगः ॥ ११७ ||
द्वयं मिलित्वा देवेशि सामरस्यं भवेच्छिवे ।
एकरूपं समासाद्य सरूपत्वं रजो जये(?लभे)त् ॥ ११८ ||
पिण्डो भूत्वा फलं तच्च जीवरूपं परं वरम् ।
स्वस्वदेवांशतो बालः पूर्णकायस्ततो भवेत् ॥ ११९ ||
अज्ञानादपि देवेशि फलमेव प्रयच्छति ।
अहो योनिर्महायोनिर्जगद्योनिरयोनिजा ॥ १२० ||
ब्रह्मरूपा जगद्धात्री रमणानन्दराज्यदा ।
तस्याः सङ्गभवं सौख्यं ब्रह्मानन्देति सञ्जगुः ॥ १२१ ||
यत्सौख्यार्थ महेशानि ब्रह्मानन्दाश्च कोटिशः ।
महानन्दानामानन्त्यं जायते परमेश्चरि॥ १२२ ||
एतावद्योगमासाद्य शक्तिसंयोगहेतवे ।
सिद्धो भवति पुल्लिङ्गरूपमासाद्य पार्वति॥ १२३ ||
× × × × भवं सौख्यं नाल्पस्य तपसः फलम् ।
सङ्गजन्यभवे सौख्ये निमञ्जन्ति महेश्वराः ॥ १२४ ||
महातपस्या चेद् भूयाद् बृहद्ब्रह्माण्डमेव हि ।
भिन्नं भूयाद् यदा देवि तदा चैव महद्भवेत्॥ १२५ ||
स्वल्पा तपस्या देवेशि फलं चैव महत्कथम् ।
ब्रह्माण्डप्रलयो देवि जायते तावदेव तत् ॥ १२६ ||
तावत् तपस्या या जाता तत्फलं परमेश्वरि ।
× × × × भवे सौख्ये वाञ्छा भवति पार्वति ॥ १२७ ||
ध्यानं तद्योगसौख्यस्य तत्फलं योग एव च।
तपस्या नाधिका क्वापि न संयोगो महत्तरः ॥ १२८ ||
सर्वैरुपायैर्देवेशि योगाभ्यासैरनेकशः ।
सर्वशास्त्रागमाद्यैश्च तपस्यानन्तकोटिभिः ॥ १२९ ||
फलमेव परं लक्ष्यं स्वर्गो वा मोक्ष एव वा ।
निर्गुणत्वं परत्वं च अबाध्यत्वं महेश्वरि ॥ १३० ||
एवंरूपं समासाद्य योगार्थं यतते शिवे ।
संयोगश्चेत् करे याति किमहो भाग्यभाजनम् ॥ १३१ ||
मुखालोको गानसुखं कलात्वं प्रपरञ्जनम् ।
अन्योन्ययोगरूपत्वं नाल्पस्य तपसः फलम् ॥ १३२ ||
संयोगस्तु परं ब्रह्म संयोगस्तु परं तपः ।
संयोगानन्दरूपार्थ ब्रह्मापि यतते शिवे ॥ १३३ ||
अहो ज्ञानवतां ज्ञानी संयोगार्चनपूजकः ।
राज्यं लभ्यं धनं लभ्यं न संयोग: परात्पर:॥ १३४ ||
अज्ञानादपि देवेशि फलमेव प्रयच्छति ।
पुत्रादिकं योगमात्रात् स्फुटमेव प्रदृश्यते॥ १३५ ||
तस्मात् संयोगसौख्यस्य ज्ञानी कोऽस्ति महीतले ।
चेद् ज्ञानयुक्तो देवेशि नररूपः परात्परः॥ १३६ ||
अहो रूपमहो भाग्यं वेश्यालापनजं फलम् ।
अज्ञानादीदृशं देवि फलं भवति नान्यथा ॥ १३७ ||
तस्य ज्ञानेन देवेशि किं तद् यन्न करे स्थितम् ।
अन्यकर्मणि देवेशि अज्ञानात् फलहारिता॥ १३८ ||
यथा वैद्यकशास्त्रे तु विषाज्जीवनमारणम् ।
भवत्येव महेशानि शोधितं चामृतोपमम् ॥ १३९ ||
अशोधितं जीवहरं विषं देवि यथा भवेत् ।
तथा योगो महाब्रह्म मया सङ्कीर्तितं प्रिये ॥ १४० ||
अज्ञानाज्ज्ञानतो वापि फलमेव प्रयच्छति ।
संयोगस्य फलेनैव राज्यपीठेश्वरो भवेत् ॥ १४१ ||
राज्यपीठेश्वर्यस्य लक्षणं शृणु पार्वति ।
वाद्यानां तु महेशानि चतुर्विशतिसंख्यया ॥ १४२ ||
गीतयुक्त तालयुक्त पुरस्तिष्ठति यस्य वै ।
वेश्यागानध्यानपरो भक्तभक्तोऽपरः प्रभुः ॥ १४३ ||
दाता भोक्ता विनीतश्च सौन्दर्यगुणगुम्फितः ।
वेश्यालापी विनोदी च गुणग्राही कविर्बुधः ॥ १४४ ||
चतुःषष्टिकलावेत्ता कवीनां मालिका पुरः ।
तारावल्यादिकीर्त्यन्तो दक्षिणासु सहानुगः ॥ १४५ ||
मध्ये क्रीडेन्द्रजालादि चामरग्राहिणीकरात् ।
स्त्रियश्छत्रकरा देवि परिचर्यश्च षोडश ॥ १४६ ||
महासाम्राज्यभोगाश्च गजवाजीननेकशः ।
रथबाणादिसंयुक्तः पञ्चत्रिंशतिचिह्नधृक् ॥ १४७ ||
मनोरथमयो देवि वेतालो यस्य तिष्ठति ।
ईदृग्विधो भवेद् देवि पात्रतोषणतत्परः ॥ १४८ ||
अहो पात्रं च सत्पात्रं पात्रहीनं न किञ्चन ।
पात्रहीनमपात्रं स्यात् सर्वदेवबहिष्कृतम्॥ १४९ ||
विहीनतत्त्वं तन्निन्द्यं भवत्येव महेश्वरि ।
वेश्यादर्शनमात्रेण देवतादर्शनं मतम् ॥ १५० ||
वेश्यालापेन देवेशि जपकोट्यर्बुदादिकम् ।
पुण्यं कृतं येन भवेत् तेनालापं(?पः) प्रदू(?श)श्यते ॥ १५१ ||
वेश्यास्पर्शनमात्रेण सायुज्यं सुन्दरी स्वयम् ।
वेश्यासङ्गममात्रेण भक्तसान्निध्यकालिका ॥ १५२ ||
[Nichtgrafische Inhaltsangabe zu 3.153: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] वेश्यातोषणदानेन महाश्रीसुन्दरी भवेत् ।
यशो वेश्यावतां लोके सौख्यं वेश्यावतां कलौ ॥ १५४ ||
दुर्जनाः सुजनायन्ते दरिद्रा धनवन्ति च ।
अज्ञानिनो ज्ञानवन्तो हीनसत्त्वाश्च कामुकाः ॥ १५५ ||
मृता अपि प्रजीवन्ति वेश्यादर्शनमात्रतः ।
वेश्याचन्द्रेण संयुक्तः सर्वदा पूजयेच्छिवाम् ॥ १५६ ||
पूजाजपादिकं देवि साङ्ग भवति नान्यथा ।
आशीस्तस्याः सदा ग्राह्या तोषयेत् तां दिवानिशम् ॥ १५७ ||
तदिङ्गितं चरन् देवि कालीरूपो नरो भवेत् ।
तस्या × × × मात्रेण शक्तिपातेश्वरो भवेत् ॥ १५८ ||
कृत्वा तां × × × × च जपेल्लक्षमतन्द्रितः ।
जपेद्यः परमेशानि साक्षान्नीलासमो भवेत्॥ १५९ ||
वेश्यापदं समालोक्य जपेल्लक्षं स कालिका ।
वेश्यागारं समालोक्य लक्षं जपति तारिणी ॥ १६० ||
[Nichtgrafische Inhaltsangabe zu 3.161: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] वेश्यानर्तनगो भूत्वा त्रिलक्षं श्रीपतिर्भवेत् ।
साधनापटले देवि एतासां साधनेव सा ॥ १६२ ||
विधिः प्रोक्तस्तु देवीनामेतासां च समाचरेत् ।
अष्टकन्याविधौ देवि तथैव च कुलाष्टके॥ १६३ ||
अकुलाष्टके तथा देवि षट्त्रिंशज्जातिमध्यतः ।
पञ्चाशत्पीठमध्ये व पञ्चचक्रक्रमेऽपि च॥ १६४ ||
चूडाचक्रत्रिके देवि महाविद्याविधौ तथा।
सिद्धविद्याविधौ देवि साधनेयं प्रकीर्तिता॥ १६५ ||
कथिता वक्ष्यमाणा या साधना परमेश्वरि ।
तद्देहे तु स्वयं सुप्त्वा विद्या स्वप्नावती भवेत्॥ १६६ ||
तामङ्कस्थां संवीक्ष्य निशि जापात्तु कालिका ।
नवप्रसूतां तां वीक्ष्य नायिकाभेदतः क्रमात्॥ १६७ ||
[Nichtgrafische Inhaltsangabe zu 3.168: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.169: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.170: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.171: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.172: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.173: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] सम्मार्जनी समानीय स्वबीजगलितं चरेत् ।
पुनश्चिकुरमासाद्य मूलमन्त्रं समुच्चरन् ॥ १७४ ||
मध्याहे मध्यरात्रौ वा एवं यरतु जपं चरेत् ।
कुलवारे समुत्सार्य प्रेम्णा मन्त्रं जपेच्छिवे ॥ १७५ ||
दिग्वासा वीरवेषश्च चितावह्नौ तु होमयेत् ।
पूजयन् चिन्तयन् भक्त्या त्रैलोक्यविजयी भवेत् ॥ १७६ ||
सकेशाकर्षणं देवि मयोक्तं तव सन्निधौ ।
सम्मार्जनी प्रगलिता बीजं च गलितं तथा ॥ १७७ ||
मुक्तकेशो महेशानि दिग्वासा खड्गसंयुतः ।
मध्याह्ले तु महेशानि मूलमन्त्रपुरस्सरम् ॥ १७८ ||
कुजे यो होमयेद् देवि दीप्यमाने चितानले ।
त्रैलोक्याकर्षणं देवि सकेशाकर्षणं तथा ॥ १७९ ||
नखं केशां स्वपुष्पं च सदा सम्मार्जनीगतम् ।
एतेन होमयेद् देवि त्रैलोक्यविजयी भवेत् ॥ १८० ||
शक्तयालोकनमासाद्य निशि लक्षं जपेच्छिवे ।
स जपोऽक्षय्यमायाति नात्र कार्या विचारणा ॥ १८१ ||
[Nichtgrafische Inhaltsangabe zu 3.182: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.183: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] तद्देहोद्वर्तनं गृह्य कारणाक्तं तु होमयेत् ।
त्रैलोक्यकवितासिद्धिस्तस्य हस्ते व्यवस्थिता ॥ १८४ ||
कुण्डगोलोद्भवाक्तानि नागवल्लीदलानि च।
चितावह्नौ निशाभागे होमयेन्मन्त्रमुच्चरन् ॥ १८५ ||
एवं यः कुरुते देवि तस्य पुण्यफलं शृणु ।
ब्रह्मणा लिखितां रेखां मार्ज्य रेखान्तरं भवेत्॥ १८६ ||
तस्य भाले महेशानि किङ्करो राज्यमाप्नुयात् ।
जीवपुष्पान्वितं कृत्वा पर्णानां शतकं सुधीः ॥ १८७ ||
प्रत्येकं प्रजपेत् तत्र ततस्तद्धोमयेत् प्रिये ।
सर्वैश्वर्यसमायुक्तः कविराज: सुराधिकः॥ १८८ ||
दाता भोक्ता राजराजो भवत्येव न संशयः ।
कुण्डलीलिङ्गकेशैश्च केशैश्चैव नखै रसैः ॥ १८९ ||
स्वदेहोद्वर्तनेनैव स्वशुक्रेणापि पार्वति ।
होमयेत् परमेशानि स्त्रीणामाकर्षणं भवेत् ॥ १९० ||
मुखोपरि × × दत्त्वा जपेल्लक्षं स वाग्विभुः ।
कुलशक्तिं समानीय प्रेममग्नां तपस्विनीम् ॥ १९१ ||
[Nichtgrafische Inhaltsangabe zu 3.192: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.193: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] स्थापयेद् यत्नतो देवि जलमध्ये विनिःक्षिपेत् ।
स्नानपानभोजनादौ देवार्थमपि पार्वति ॥ १९४ ||
प्रदद्याद् यत्नतो देवि येन पूतं चराचरम्।
अभिमन्त्र्य पिबेत्तच्च सर्ववाकसिद्धिकारकम्॥ १९५ ||
तत्तोयं प्रोक्षयेद् देहे सर्वरोगार्तिनाशनम् ।
तत्तोयं प्रोक्षयेद् बाह्येसोऽपि पूतो भवेत् क्षणात्॥ १९६ ||
तत्तोयेन चरेत् पाकं देवतार्थं निवेदयेत् ।
स्वयं तदन्नं भुञ्जीत त्रैलोक्यविजयी भवेत् ॥ १९७ ||
कवित्वे व्याससदृश ऐश्वर्ये वासवोपमः ।
राजराजसमो द्रव्ये महाराजसमो भवेत्॥ १९८ ||
[Nichtgrafische Inhaltsangabe zu 3.199: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.200: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] जपेद् यत्नेन देवेशि वागीशसमतां व्रजेत् ।
स्वकुण्डोत्थितैः केशैः सहस्रं होमयेत् प्रिये ॥ २०१ ||
[Nichtgrafische Inhaltsangabe zu 3.202: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.203: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.204: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.205: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.206: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] [Nichtgrafische Inhaltsangabe zu 3.207: Körperbezogene Ritualbeschreibung und ihre behauptete Frucht; wegen des Zusammenhangs mit minderjährigen beziehungsweise altersunklaren Ritualpersonen keine wörtliche Wiedergabe. Siehe die deutsche Fassung für den jeweiligen Inhalt.] स्व × × केशैर्जुहुयाद् युवत्याकर्षणाय च ।
स्त्री × × केशैर्जुहुयाद् दूरस्थाकर्षणाय च ॥ २०८ ||
ब्रह्माण्डात् कीटपर्यन्तं स्त्रीमाया परमेश्वरि ।
तस्या × × च संवीक्ष्य सञ्जप्य परमेश्वरि ॥ २०९ ||
कीटादिभाषणज्ञाने भवत्येव त्रिमासत: ।
राज्यलक्ष्मीकीर्तिलक्ष्मीवल्लभः सुरपूजितः ॥ २१० ||
शक्तिशब्दं च श्रुत्वा तु जपेत् तत्र यथा क्षणम् ।
त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणा ॥ २११ ||
हास्यं श्रुत्वा महाशक्तेर्जपहोमादिकं चरेत् ।
तत्तदक्षय्यमायाति कालीमन्त्रप्रजापतः ॥ २१२ ||
शक्त्या विना शिवे सूक्ष्मे नाम धाम न विद्यते ।
शक्तिर्मूलं भवेत् सर्वं जगदेतच्चराचरम् ॥ २१३ ||
तस्मात् कुमारीं सम्पूज्य यथाभावेन पार्वति ।
यद् यद् दत्तं कुमारीणां तदनन्तस्वरूपकम् ॥ २१४ ||
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ।
इति श्रीशक्तिसंगमतन्त्रे तारासोपाने तृतीयः पटलः ||

Paṭala 4: Puṣpa, heilige Körpergeographie und pflanzliche Ersatzgaben

चतुर्थः पटलः ।
श्रीदेव्युवाच देवेश श्रोतुमिच्छामि पुराणं पुण्यनिर्णयम् ॥ १ ||
श्रीशिव उवाच रहस्यमपि ते देवि कथ्यते शृणु सादरम् ।
पञ्चाशत्तीर्थमध्यस्थां षट्त्रिंशज्जातिजां च वा॥ २ ||
अष्टकन्यासमुद्भूतां कुलाकुलाष्टकोद्भवाम् ।
दशविद्यासमप्रख्यां रक्षयेत् पुष्पकर्मणि॥ ३ ||
[Nichtgrafische Inhaltsangabe zu 4.4: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] [Nichtgrafische Inhaltsangabe zu 4.5: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] आद्या ऋतुमती शक्तिः सा साक्षादीश्वरी शिवा।
ऋतुयोगे समुत्पन्ने ब्रह्माण्डं पुष्पिते(?तं) भवेत् ॥ ६ ||
[Nichtgrafische Inhaltsangabe zu 4.7: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] त्रैलोक्यमखिलं शक्तिकोणे तिष्ठति पार्वति ।
कुण्डं कुलामृताख्यं च सर्वतीर्थोत्तमोत्तमम् ॥ ८ ||
अम्बु श्रवति चान्द्री सा पुष्पं श्रवति भानवी ।
बीजं श्रवति चाग्नेयी कुण्डनाडी त्रिधा मता॥ ९ ||
गङ्गा च यमुना चैव तृतीया च सरस्वती ।
इडा च पिङ्गला चैव सुषुम्ना मध्यवर्तिनी ॥ १० ||
त्रियोगे तु प्रयागं स्यात् तीर्थराजाभिधं शिवे ।
वेश्यागेहं प्रयागं स्यादेतत् सिद्धाभिधं शिवे ॥ ११ ||
[Nichtgrafische Inhaltsangabe zu 4.12: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] स्थावरं जङ्गमं चेति स्थावरं पशुवर्तिनाम् ।
जङ्गमं दिव्यवीराणां प्रयागं परिकीर्तितम् ॥ १३ ||
तत्र नाडीप्राणयोगाज्जडो वाचस्पतिर्भवेत् ।
आद्ये श्रीसुन्दरी प्रोक्ता द्वितीयेऽह्नि तु कालिका ॥ १४ ||
तृतीयेऽह्नि सोग्रतारा चतुर्थे सुमुखी भवेत् ।
पञ्चमे छिन्नमस्ता स्यात् षष्ठे मातङ्गिनी भवेत् ॥ १५ ||
सप्तमे बगलां प्रोक्ता पुष्पादौ बालभैरवी ।
अष्टमे भुवना प्रोक्ता नवमेऽह्नि रमाभिधा ॥ १६ ||
दशमे राजराजेशी रुद्रेऽह्नि श्रीपराम्बिका ।
चरणेशी द्वादशेऽह्नि कामेऽह्नि कामसुन्दरी ॥ १७ ||
चतुर्दशेऽह्नि देवेशि महाधूमावती भवेत् ।
अथ पञ्चदशे देवि प्रोक्ता पद्मावती कला ॥ १८ ||
षोडशे दिवसे देवी धनदा परिकीर्तिता ।
दिवाक्रमः प्रकथितः शृणु रात्रिक्रमं शिवे ॥ १९ ||
दक्षिणा भद्रकाली च श्मशानकाल(?ली) कालिका ।
गुह्यकाली पञ्चमी स्यात् षष्ठी कामकलाभिधा ॥ २० ||
सप्तमी धनकाली स्यादष्टमी चण्डकालिका ।
नवमी सिद्धकाली च दशमी हंसकालिका ॥ २१ ||
सिद्धयोगेश्वरी देवी श्रीरुद्रदिवसे भवेत् ।
द्वादशेऽह्नि योगकाली कामाह्ने वायुकालिका ॥ २२ ||
चतुर्दशी ब्रह्मकाली सांवेशी नवरूपिणी ।
सिद्धराजेश्वरी विद्या षोडशी सर्वरूपिणी ॥ २३ ||
रात्रौ तु पुष्पिणीरूपं कीर्तितं परमेश्वरि ।
प्रतिमासे चतुर्थेऽह्नि व्याप्य देवेशि सुन्दरी ॥ २४ ||
काली तारा छिन्नमस्ता सुमुखी परिकीर्तिता ।
पञ्चमी सुन्दरी प्रोक्ता पञ्जविद्यात्मिका शिवा॥ २५ ||
ततो विद्यादिरूपा स्यात् कन्यारूपाऽथवा शिवे ।
कुलाष्टकस्वरूपा वा अकुलाष्टकरूपिणी ॥ २६ ||
पञ्चाशत्तीर्थरूपा वा पञ्चचक्रक्रमा च वा।
षट्त्रिंशद्योगरूपा वा विद्येयं परिकीर्तिता ॥ २७ ||
पुष्पयुक्तं × × वीक्ष्य पुष्परूपः स्वयं भवेत् ।
इति संक्षेपतः प्रोक्तं विवेकः पूर्वमीरितः॥ २८ ||
पुष्पज्ञानी पुष्पजापी पुष्पपूजापरायण: ।
पुष्पध्यानी पुष्पभूषी पुष्पानन्दी सुपुष्पवान् ॥ २९ ||
गङ्गा सरस्वती देवि प्रत्यहं परिकीर्तिता ।
यमुना रक्तवर्णा या मासि मासि महेश्वरि ॥ ३० ||
सरस्वती वह्विरूपा तेन कृष्णा प्रकीर्तिता ।
एवंरूपा महायोनिर्ब्रह्मयोनिर्जगन्मयी ॥ ३१ ||
योनिं विना महेशानि न किञ्चिज्जगतीगतम् ।
अहो न पूज्यते देवि अधमैर्मूर्खजन्तुभिः ॥ ३२ ||
एतस्य(?) ज्ञानवान् लोके दुर्लभाद् दुर्लभो मतः ।
तत्थूत्कृतिं च संलिह्य पूजयन् प्रजपेन्नरः ॥ ३३ ||
अनायासेन तद्वाणी सर्वभाषामयी भवेत् ।
पुष्पिणीहस्तजं नीरं संपीत्वा प्रजपेन्नरः ॥ ३४ ||
यं यं काममनुप्राप्य कुरुते साधनं नरः ।
तं तं काममवाप्नोति राज्यलक्ष्मीं च विन्दति ॥ ३५ ||
तदास्तरणजं वस्त्रं तस्य प्रावरणी नर: ।
शिवरूपो जपाद् भूयान्नात्र कार्या विचारणा ॥ ३६ ||
तत्र स्थित्वा जपेद् देवि तारारूपाधिको भवेत् ।
सुप्त्वा तस्याश्रयं रात्रौ जपेल्लक्षमतन्द्रितः॥ ३७ ||
कालीरूपो नरो भूयान्नात्र कार्या विचारणा ।
तदुच्छिष्टं च ताम्बूलं प्रभक्ष्य प्रजपेन्मुदा ॥ ३८ ||
राज्यलक्ष्मीमवाप्नोति नात्र कार्या विचारणा ।
तस्याः समर्प्यं वीटिं च प्रजपेत् तत्र पार्वति॥ ३९ ||
वाक्सिद्धिं प्राप्नुयादिष्टां सर्वकामान् स विन्दति ।
भुक्तवा तस्याः समं देवि साम्राज्यदीक्षिताधिकः ॥ ४० ||
नानाभरणभूषाद्यैर्नानारत्नादिभूषणेः ।
मौक्तिकैर्मण्डलं कृत्वा मण्डपं तत्र कारयेत्॥ ४१ ||
मृदङ्गभेरीवादित्रवीणावाद्यादिभिः शिवे ।
महोत्सवं तत्र कुर्याद् दिव्यस्त्रीपरिवेष्टितः ॥ ४२ ||
तत्र स्थित्वा जपं कृत्वा सर्वसिद्धिं स विन्दति ।
पुष्पिणीमुखमालोक्य त्रैलोक्ये जयमाप्नुयात् ॥ ४३ ||
पुष्पिणीक्षालनजलं सर्वकर्मणि योजयेत् ।
त्रैलोक्यं पावनं कुर्यान्नात्र कार्या विचारणा ॥ ४४ ||
इति संक्षेपतः प्रोक्तं रहस्यं श्रुणु चापरम् ।
दशविद्याक्रमेणैव कुलाष्टकक्रमेण च ॥ ४५ ||
अकुलाष्टकमार्गेण वसुकन्याक्रमेण च ।
पञ्चाशत्पीठमागेण साधनं शृणु पार्वति ॥ ४६ ||
दशविद्याक्रमे स्थित्वा स्वेष्टां मध्ये समर्चयेत् ।
पञ्चमुद्रासमायुक्तः पञ्जप्रेतेश्वरो भवेत् ॥ ४७ ||
तत्र संपूज्य साङ्गां तु नव × × × तत्परः ।
यया यदुच्यते तत्र तदेव कारयेत् प्रिये॥ ४८ ||
[Nichtgrafische Inhaltsangabe zu 4.49: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] [Nichtgrafische Inhaltsangabe zu 4.50: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] [Nichtgrafische Inhaltsangabe zu 4.51: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] [Nichtgrafische Inhaltsangabe zu 4.52: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] [Nichtgrafische Inhaltsangabe zu 4.53: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] [Nichtgrafische Inhaltsangabe zu 4.54: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] कालिका वरदा तत्र दिवसत्रययोगतः ।
पञ्चाशत्पीठमासाद्य मध्ये चैकतमां भजेत् ॥ ५५ ||
[Nichtgrafische Inhaltsangabe zu 4.56: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] [Nichtgrafische Inhaltsangabe zu 4.57: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] दशविद्याधिपो भूयान्नात्र कार्या विचारणा।
तिथिक्रमेण देवेशि प्रत्येक वर्षमात्रकम्॥ ५८ ||
शक्तिं सम्पूज्य देवेशि तदिच्छायोगमाप्नुयात्।
अनिच्छा चेत् तथा पूज्या उक्तं चेद्योगमभ्यसेत् ॥ ५९ ||
शिवतुल्यो नरो भूयाद् ब्रह्माण्डादिप्रकारक: ।
अष्टमीनवमीसन्ध्यावष्टोत्तरलतागृहम् ॥ ६० ||
[Nichtgrafische Inhaltsangabe zu 4.61: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] [Nichtgrafische Inhaltsangabe zu 4.62: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] [Nichtgrafische Inhaltsangabe zu 4.63: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] [Nichtgrafische Inhaltsangabe zu 4.64: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] [Nichtgrafische Inhaltsangabe zu 4.65: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] [Nichtgrafische Inhaltsangabe zu 4.66: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] त्रैलोक्यनाथो भवति तावद्दिवसयोगतः ।
पक्षक्रमेण शक्तीनां प्रत्यहं पूजयन् शुचिः ॥ ६७ ||
विलोक्य प्रजपेत् पक्षं रत्नमालादिभिर्जपेत् ।
महेन्द्रसदृशो भूयात् पक्षमात्रेण कालिका ॥ ६८ ||
महासिद्धिद्रुमलतावेष्टितः साधकोत्तमः ।
रात्रौ × × जपेन्मन्त्रं सैव कल्पलता भवेत् ॥ ६९ ||
[Nichtgrafische Inhaltsangabe zu 4.70: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] महादिव्यद्रुमलतापुष्पिणीसमवीक्षणम् ।
कञ्चुकी सकलं वस्त्रं स्वस्य भूषणहेतवे ॥ ७१ ||
स्थापयेत् परमेशानि रात्रौ वेषार्थमीश्वरि ।
वेषं कृत्वा जपेत्तत्र त्रिशक्तिसिद्धिमाप्नुयात् ॥ ७२ ||
वस्त्रवद् धारणं कार्यं तच्च वस्त्रान्तरे शिवे ।
पञ्चाङ्गे धारयेद् देवि पञ्चरत्नेश्वरो भवेत् ॥ ७३ ||
इति संक्षेपतः प्रोक्तं पुष्पादिनिर्णयं श्रृणु ।
नववर्णमयं कृत्वा कालीं तारां समर्चयेत् ॥ ७४ ||
नवरत्नाधिकं देवि फलं भवति नान्यथा ।
रेतोयुक्तं भवेत्तत्र पुष्पं प्रोक्तं रजोयुतम्॥ ७५ ||
कमलं तु त्रिवर्ण स्यादेतत्कंजं तु रन्ध्रकम् ।
नववर्णानि देवेशि पुष्पाणि प्रभवन्ति च ॥ ७६ ||
येषां भेदोऽपि नास्त्येव नवधा ते प्रकीर्तिताः ।
नव पत्राणि देवेशि तद्वदेव भवन्ति च ॥ ७७ ||
पत्राणि देवदेवेशि कथ्यन्ते शृणु साम्प्रतम् ।
केरले बिल्वतुलसीशमीदूर्वामुराजटा(ः) ॥ ७८ ||
विष्णुक्रान्ता जातिपत्रं महापत्रं जयन्तिका ।
मारीची बर्बरी देवि तथा दमनकं शिवे ॥ ७९ ||
अपामार्गो भृङ्गराजः सेवन्ती कुशमेव च ।
मालती माधवी जाती यूथी कुन्दं च केशरे ॥ ८० ||
बन्धुजीवमोड्पुष्पं करवीरं कनीयकम् ।
केतकी पाटला दिव्यराजपुष्पे च दाडिमी ॥ ८१ ||
सेवन्ती राजसेवन्ती वरुबिल्वसुकामदम् ।
आम्रपुष्पं तथा जम्बू एकवीरा तथैव च ॥ ८२ ||
अवीरा चम्पको देवि मल्लिका राजमल्लिका ।
जपापुष्पं पत्रभेदा राजमुक्ताभिधं तथा ॥ ८३ ||
कदम्बकुमुदाम्रातैस्तथैव च कुरण्टकैः ।
सेफालिका तथा झिण्टी तगरश्चापराजिता॥ ८४ ||
जयन्ती कोविदारश्च शाल्मल्यशोकपुष्पके: ।
अर्कपालाशधत्तूरपुन्नागकर्णिकारजाः ॥ ८५ ||
द्रोणपुष्पे च तगरे पारिजातं तिलाख्यकम् ।
सर्वधान्यभवं पुष्पं रम्भानिम्बूसमुद्भवम् ॥ ८६ ||
तथा दमनपुष्पं च बकुलोद्धवमेव च।
नन्द्यावर्तं च मन्दारं तथा सौगन्धिकं शिवे॥ ८७ ||
नवमल्ली पार्थपुष्पे सर्जपुष्पं तथा प्रिये।
मदन्ती चैव कल्हारं तथा मरुवकं शिवे ॥ ८८ ||
शतपत्रं च वासन्ती दिव्यगन्धानि यानि च।
सुदर्शनभवं पुष्पं काशपुष्पमथापरम्॥ ८९ ||
यथा युक्तया तु पुष्पाणि नववर्णोद्भवानि च ।
कारयेद् यत्नतो देवि वर्णगन्धेन मिश्रितम् ॥ ९० ||
अष्टगन्धेन तद्वस्त्रं संयुक्तं पुष्पमाहरेत् ।
पूजने च लताहोमेऽप्येकमन्त्रसमं भवेत् ॥ ९१ ||
सूत्रेण पट्टवस्त्रेण वीरवस्त्रेण पार्वति ।
काश्मीरवस्त्रसूत्रेण पट्टसूत्रेण पार्वति ॥ ९२ ||
स्वयम्भूसंयुतं पुष्पं सिद्धपुष्पं विदुर्बुधाः ।
एतत्पुष्पं समासाद्य पूजयेत् कालिकाम्बिकाम्॥ ९३ ||
कालीरूपो नरो भूयाद् दिवसत्रययोगतः ।
एतत्पुष्पं समं कृत्वा पुष्पाणि होमयेच्छिवे ॥ ९४ ||
पुष्पहोमफलात् कोटिगुणितं फलमाप्नुयात् ।
सर्ववर्णमयं पुष्पं कृत्वा सर्वफलं भवेत् ॥ ९५ ||
वस्त्रादिकामनासिद्धिं वाञ्छामाप्नोति निश्चितम् ।
सदा शुद्धानि पुष्पाणि नवीनानि दिने दिने॥ ९६ ||
न निर्माल्यानि देवेशि न च पर्युषितानि च ।
सिद्धपुष्पाणि देवेशि गन्धर्वप्रीतिदानि च॥ ९७ ||
एतेन पूजयेद् देवि फलं पुष्पाधिकं भवेत् ।
न स्वर्णैर्न च रत्नैश्च न च वस्त्राम्बरादिभिः ॥ ९८ ||
नहि तृप्ता वरारोहे तारिणी लोकतारिणी ।
यथावत् कारयेद् देवि देवता वरदा ध्रुवम् ॥ ९९ ||
सदा शुद्धानि दिव्यानि सर्वश्रेष्ठतराणि च ।
एतज्ज्ञानसमायुक्तस्त्रैलोक्याधिपतिर्भवेत् ॥ १०० ||
विद्या कुलेऽकुले तीर्थे चक्रकन्याक्रमेण च ।
पुष्पमेतन्महेशानि व्यत्ययादुत्तरोत्तरम् ॥ १०१ ||
सिद्धिदं देवदेवेशि नात्र कार्या विचारणा ।
सिद्धस्वाराज्यवैराज्यं साम्राज्यं दिव्यवृद्धिदम् ॥ १०२ ||
पुष्पाणिं परमेशानि ज्ञातव्यानि यथार्थतः ।
स्वयम्भूगन्धसंतुष्टा कालिका तद्गृहे स्थिता ॥ १०३ ||
यत्र पुष्पप्रयोगे हि सामान्यहोमपुष्पवत् ।
रहस्यातिरहस्यं च कथितं परमेश्वरि ॥१०४ ||
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ।
देव्युवाच देवेश चानुकल्पस्य विधिं मे ब्रूहि सत्वरम् ॥ १०५ ||
सात्त्विको जीवहत्यां च न कदापि प्रकारयेत् ।
सात्त्विकोऽयं बलिर्देवि कथ्यते यत्नतः शृणु ॥ १०६ ||
माहिषत्वेन कूष्माण्डं छागत्वेन च कर्कटीम्।
वृन्ताकं कुक्कुटत्वेन मेषत्वेन च तुम्बिकाम् ॥ १०७ ||
रम्भापुष्पं बीजपूरपिण्डं वाजिबलौ भवेत् ।
मानुषत्वेन पनसं मत्स्यत्वेनेक्षुदण्डकम्॥ १०८ ||
सूरणं शरभत्वेन तथा कोशातकं मृगे ।
पायसं तु गजत्वेन मार्जारत्वे कुलत्थकम्॥ १०९ ||
पटोलं शूकरत्वेन शर्करा वालुकं तथा ।
खड्गत्वेन महेशानि मत्स्यत्वे कदलीफलम् ॥ ११० ||
मूषत्वे मूलकं चैव सारङ्गत्वे कलिञ्जकम् ।
कीरत्वे नारिकेलं च मत्स्यत्वे कदलीं च वा ॥ १११ ||
माषाः सर्वबलित्वेन सर्वेषां कृशरान्नतः।
पायसापूपसंयावलड्डूकैः कृशरान्नकैः ॥ ११२ ||
शाकोदनैस्तथा सूपैः पिण्याकार्द्रकपोलिकाः ।
वटका लशुनं गुडं कलिञ्जं बीजसोदरम् ॥ ११३ ||
नानोपायैः षड्रसैश्च बलिरेषः प्रकीर्तितः ।
क्रूरचित्रविधौ देवि पशुं पिष्टमयं चरेत् ॥ ११४ ||
यवक्षोदमयं वापि यद्वा धान्यसमुद्भवम् ।
माषपिष्टभवं देवि सर्वकर्मणि कारयेत् ॥ ११५ ||
गुडार्द्रके दधिगुडौ लवणं दुग्धमेव च ।
यथानुकल्पयोगेन योजनीयं महेश्वरि ॥ ११६ ||
यथोक्तविधिमासाद्य यथोक्तफलमाप्नुयात् ।
इति प्रोक्तं भक्तिवशाद् गर्भान्तयोगके शृणु ॥ ११७ ||
गर्भत्वं च समासाद्य सर्वकालं जपेन्निशि ।
महाकालसमो भूयान्नात्र कार्या विचारणा ॥ ११८ ||
योनिस्थं सर्वमेतद्धि भूमौ चैव निधापयेत् ।
तत्र स्थित्वा जपेत् कालीं कलिकल्पद्रुमो भवेत् ॥ ११९ ||
वस्त्रादिपूर्वप्रोक्तानि स्वयम्भूमासपुष्पतः ।
सिद्धपुष्पं सुसिद्धाख्यं द्वितीयं परिकीर्तितम्॥ १२० ||
× × × × तु प्रक्षिप्य रम्भापुष्पाणि होमयेत् ।
× × × सक्तहृदयो होमकर्मणि संस्थितः ॥ १२१ ||
कालीरूपो नरो भूयात् षष्टिसिद्धीश्वरो भवेत् ।
विद्या मधुमती सिद्धिस्तत्करस्था भवेद् ध्रुवम्॥ १२२ ||
[Nichtgrafische Inhaltsangabe zu 4.123: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] कवित्वे तारिणीतुल्यो भोगे राजीवलोचनः ।
वेतालः किङ्करो भूयाद् भैरवो हि सदानुगः ॥ १२४ ||
[Nichtgrafische Inhaltsangabe zu 4.125: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] [Nichtgrafische Inhaltsangabe zu 4.126: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] [Nichtgrafische Inhaltsangabe zu 4.127: Körperbezogene Ritualbeschreibung; wegen der Einbeziehung minderjähriger beziehungsweise altersunklarer Ritualpersonen keine wörtliche Wiedergabe. Der jeweilige Inhalt ist in der deutschen Fassung erläutert.] रहस्यातिरहस्यं च गोपनीयं प्रयत्नतः ।
गोपनीयं गोपनीयं न प्रकाश्यं कथञ्चन ॥ १२८ ||
प्रकाशात् सिद्धिहानिः स्यादित्याज्ञा शाङ्करी स्मृता ।
न स्वर्णैर्न च रत्नैश्च न स्पर्शमणिभिः शिवे ॥ १२९ ||
नहि तृप्यति देवेशि कालिका भक्तवत्सला ।
तस्माद् × × भवं पुष्पं पूजार्थं संग्रहेच्छिवे ॥ १३० ||
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ।
इति श्रीशक्तिसंगमे श्रीतारासूक्ते चतुर्थः पटलः ||

Paṭala 5: Blütenkunde, Überlieferungsrichtungen und Entstehung der Göttinnen

पञ्चमः पटलः ।
श्रीदेव्युवाच विशेषपुष्पपटलं सूचितं न प्रकीर्तितम् ।
तन्मे कथय विश्वेश यद्यहं तव वल्लभा ॥ १ ||
श्रीशिव उवाच रहस्यातिरहस्यं च कथ्यते श्रृणु साम्प्रतम् ।
अवीरा पञ्चधा प्रोक्ता श्वेतपीतारुणक्रमात् ॥ २ ||
श्वेतपीता पीतरक्ता रक्तश्वेता परा मता।
एवं भेदान्तरेणैव नवधा परिकीर्तिता ॥ ३ ||
अवीराकुसुमेनैव पूजयेत् सर्वदेवताः ।
रतिपुष्पं कामपुष्पं देवपुष्पं क्रमेण च ॥ ४ ||
सेवन्ती बहुधा ख्याता तद्भेदान् शृणु पार्वति ।
श्वेता पीता तथा रक्ता त्रितयं त्रितयं त्रिषु॥ ५ ||
सिन्दूरा दिव्यवर्णा च हारिद्रा च परा भवेत् ।
रतिपुष्पमिदं प्रोक्तं कामपुष्पं शृणु प्रिये ॥ ६ ||
पीतं गुच्छस्वरूपं च रक्तं गुच्छस्वरूपकम् ।
पीतरक्तं रक्तपीतं सूक्ष्ममन्यमहेश्वरि ॥ ७ ||
षड्भेदाः सूक्ष्मभेदे तु अतिसूक्ष्मेऽपि षड् भवेत् ।
एवमष्टादशविधं कामपुष्पं महेश्वरि ॥ ८ ||
देवपुष्पं प्रवक्ष्यामि येन देवीमयोऽर्चनात्।
श्वेतरक्तं दिव्यरूपं सिन्दूरसन्निभं तथा॥ ९ ||
अपरं श्वेतपीतं च पञ्चवर्णमथापरम् ।
रतिपुष्पं पञ्चवर्ण सुन्दरीलोकगोचरम्॥ १० ||
कामपुष्पं पञ्चवर्ण कालिकालोकगोचरम्।
देवपुष्पं नन्दवर्णं तारिणीलोकगोचरम् ॥ ११ ||
करवीरः पञ्चवर्णः कालीताराप्रगोचर: ।
चूडामणिं प्रवक्ष्यामि सर्वपुष्पोत्तमोत्तमम्॥ १२ ||
चूडामणिर्दशविधो नवरत्नप्रभेदतः ।
दशमं सर्ववर्णाद्यं पुष्पेन्द्रसंज्ञकं भवेत् ॥ १३ ||
केतकी द्विविधा प्रोक्ता पुंस्त्रीभेदक्रमेण च ।
पुंभेदेऽपि द्विधा प्रोक्ता पीतश्वेतप्रभेदतः ॥ १४ ||
स्त्रीभेदेऽपि द्विधा प्रोक्ता पीतश्वेतप्रभेदतः ।
पुंभेदे कठिनः प्रोक्तः स्त्रीभेदे कोमला मता ॥ १५ ||
मल्लिका वेदधा प्रोक्ता तत्क्रमं शृणु पार्वति ।
श्वेता द्विपुष्पा षट्पुष्पा पुष्पगुच्छा तथा परा ॥ १६ ||
नवपुष्पा परा प्रोक्ता रक्तपुष्पा परा भवेत् ।
पीतपुष्पा मेचका च धूसरा पञ्चवर्णजा ॥ १७ ||
मालती पञ्चधा प्रोक्ता तद्भेदान् शृणु पार्वति ।
गन्धराजा सर्वगन्धा तथा श्रीखण्डगन्धिका॥ १८ ||
कस्तूरीगन्धसंयुक्ता चतुर्थी केतकी मता।
मालती स्वर्णभा जाती श्वेतरक्ता शिवापरा॥ १९ ||
रक्तवर्णा परा ज्ञेया पञ्चवर्णा तथापरा ।
एते भेदा मया प्रोक्ता गोपिता यामलादिके ॥ २० ||
डामरे गोपिता देवि तव स्नेहादिहोदिताः ।
गोपनीया महेशानि संक्षेपादेतदेव तु ॥ २१ ||
यूथिका मालती जाती मल्लिका नवमल्लिका ।
कस्तूरीगन्धिका देवि तथैवागुरुगन्धिका ॥ २२ ||
नखगन्धा मल्लिकाद्या मालती वेदगन्धिका ।
स्वर्गे तु मालती प्रोक्ता रक्ता पातालगोचरा ॥ २३ ||
जाती यूथी तथा मल्ली मृत्युलोके प्रकीर्तिता ।
रक्तमल्ली पीतमल्ली वर्णपङ्कजरूपिणी ॥ २४ ||
त्रिशक्तिरूपे देवेशि सर्वदेवप्रपूजिते ।
एतद्रूपं विरच्याथ पूजयेच्चीनसुन्दरीम् ॥ २५ ||
एतद्रहस्बं सम्प्रोक्तं पुण्यानां निर्णयामृतम् ।
जाता न तृप्तिर्देवेशि(?श) विशेषं वद सत्वरम् ॥ २६ ||
मालती राजमल्ली च जाती यूथी जयन्तिका ।
श्रीमाली लघुयूथी च मल्ली चेति क्रमः स्मृतः ॥ २७ ||
श्वेता श्रीमाली गदिता जाती रक्ततला मता ।
मालती दलपत्रा च रक्तश्वेता तृषा रसा॥ २८ ||
राजमल्ली महेशानि बहुपत्राणि गन्धिनी ।
शतपत्रा राजमल्ली कलापत्रा तु मल्लिका ॥ २९ ||
पञ्चपत्रा भवेज्जाती सप्तपत्रा तु मालती।
यूथी सूक्ष्मा तु द्विविधा रसगन्धा मनोहरा॥ ३० ||
मालती स्वर्णभा जाती श्वेता रक्ता शिवा मता।
रक्तवर्णा पञ्चवर्णा पीतकृष्णा परा स्मृता॥ ३१ ||
कस्तूरीगन्धिका देवि तथैवागुरुगन्धजा ।
अश्वगन्धा मल्लिकाख्या वेदयुक्ता तु मालती॥ ३२ ||
सर्वदेवविधौ शस्ता पूजासाङ्गार्थहेतवे ।
धातकीबिल्वपुष्पे च धनार्थे पूजने मते॥ ३३ ||
पत्रैः पुष्पैः फलैर्देवि पूजाद्यं सममेव हि।
पीता कृष्णा कलौ त्याज्या श्वेता रक्ता प्रपूजने ॥ ३४ ||
काली तारा रोचना वा विधौ पीतां विवर्जयेत् ।
कृष्णा रक्तापि संवर्ज्या नान्या जाती न मालती॥ ३५ ||
पञ्चवर्णा राजमल्ली श्रीविद्यायां विवर्जयेत् ।
हरिता मालती त्याज्या सूर्ये शक्तौ विशेषतः॥ ३६ ||
बिल्वैर्मरुवकाद्यैश्च तुलसीवर्जितैः शुभैः ।
तुलसीं मालतीं चैव कालीताराविधौ त्यजेत् ॥ ३७ ||
बिल्वं मरुवकं चैव वीरकर्मणि वर्जिते ।
कुन्दं मदन्ती जाती च सर्वविद्याविधौ स्मृताः॥ ३८ ||
केतकी करवीराणि यूथिका कर्णिकारकः ।
सर्वविद्याविधौ प्रोक्ताः कालीताराविधौ शुभाः ॥ ३९ ||
इति संक्षेपतः प्रोक्तं विशेषः कथ्यते श्रृणु ।
देशपर्यायभेदेन सर्व सङ्कथ्यते ध्रुवम् ॥ ४० ||
देशपर्यायभेदेन शृण्वाम्नायकथानकम् ।
कादिहादिप्रभेदेन द्विधा चाम्नायपद्धतिः ॥ ४१ ||
हादौ नवविधत्वं च कादौ नवविधत्वकम् ।
तदाम्नायक्रमेणैब तदाचारक्रमेण च ॥ ४२ ||
तद्देशनिर्णयः संख्या परिमाणं निगद्यते ।
प्राक् प्रत्यग् दक्षिणोदक् च केरलादिक्रमेण च ॥ ४३ ||
केरलश्चैव काश्मीरो गौडश्चैव तृतीयकः ।
विलासाख्यश्चतुर्थः स्यात् तत्क्रमं शृणु पार्वति ॥ ४४ ||
अङ्गादि मालवान्तं च केरलः परिकीर्तितः ।
मरुदेशं समारभ्य नेपालान्तं महेश्वरि ॥ ४५ ||
काश्मीराख्यः सम्प्रदायः कथितः परमेश्वरि ।
सिल्हट्टं समारभ्य सैन्धवान्तं महेश्वरि ॥ ४६ ||
गौडमार्गो महेशानिकीर्तितस्ते मया शिवे ।
विलासाख्यः सम्प्रदायः सर्वगः परिकीर्तितः ॥ ४७ ||
दिव्यकौलवाममार्गस्त्रिविधत्वं प्रकीर्तितम् ।
भावदिव्यः क्रियादिव्यस्त्वनुकल्पक्रमेण च॥ ४८ ||
काश्मीरो द्विविधो देवि गौडोऽपि द्विविधो भवेत् ।
मादियुक्तो भवेद् वामो तद्धीनो दक्षिणः स्मृतः॥ ४९ ||
विलासाख्यः सम्प्रदायो द्विविधः परिकीर्तितः ।
हार्दबाह्यप्रभेदेन सम्प्रदायो द्विधा स्मृतः॥ ५० ||
देशपर्यायभेदेन तन्त्राणां गणनां श्रणु।
शतं तन्त्राणि चीने तु उपतन्त्राणि सप्त च॥ ५१ ||
द्रविडे विंशतन्त्राणि पञ्चविंशति पार्वति ।
उपतन्त्राणि देवेशि श्रुणु जैनक्रमं शिवे ॥ ५२ ||
अष्टादश च तन्त्राणि उपतन्त्राणि विंशतिः ।
केरले षष्टितन्त्राणि उपतन्त्राणि शारदे ॥ ५३ ||
पञ्चाशदुपतन्त्राणि काश्मीरे श्रृणु पार्वति ।
शततन्त्राणि देवेशि उपतन्त्राणि वै दश॥ ५४ ||
गौडे द्विसप्त तन्त्राणि उपतन्त्राणि वै कला ।
तद्देशाद् देशमारभ्य तन्त्राण्येतानि पार्वति ॥ ५५ ||
व्याप्य तिष्ठति देवेशि रहस्यमिदमीरितम् ।
देशव्यवस्था तन्त्राणां नामानि परमेश्वरि ॥ ५६ ||
अङ्ककोशे महेशानि मया पूर्व प्रकाशितम् ।
संहितादीनि देवेशि कालपर्यायवद्धवेत् ॥ ५७ ||
पूर्वा दक्षिणा पाशी च उत्तरा तु चतुर्थिका ।
ऊर्ध्वा तु पञ्चमी प्रोक्ता षष्ठी पातालसंज्ञिका॥ ५८ ||
येन वक्त्रेण यज्जप्तं स एवाम्नाय ईरितः ।
सभेदा त्रिपुरा देवि तथा सम्पत्प्रदा शिवे ॥ ५९ ||
महेश्वरं तत्पुरुषं शैवं दर्शनमेव च ।
पूर्वाम्नायो महेशानि दक्षिणं शृणु यत्नतः ॥ ६० ||
अघोरं कालिका याम्ये वैष्णवं दर्शनं तथा ।
रौद्राश्च भैरवाः शैवाः पश्चिमस्थाः प्रकीर्तिताः ॥ ६१ ||
चैतन्यभैरवी चैव सद्योजातस्तु पश्चिमे ।
गाणपं दर्शनं साङ्गमुत्तरं श्रृणु पार्वति ॥ ६२ ||
कुबेरं भैरवं वामदेवं महेश्वरं तथा ।
तथा सौदर्शनं देवि उग्रापत्तारिणी तथा ॥ ६३ ||
उत्तराम्नाये महोग्रा च महाविद्या च शाङ्करी ।
अयं देशाख्यपर्यायो निष्कलं त्वं श्ृणु प्रिये ॥ ६४ ||
सभेदा त्रिपुरा पूर्वे सौरगाणपवैष्णवाः ।
दक्षिणाम्नायगाः प्रोक्ताः पश्चिमे रौद्रभैरवाः॥ ६५ ||
शैवाश्च कथिता देवि उत्तरं श्रृणु पार्वति ।
उग्रापत्तारिणी चोग्रा महाविद्या च शाङ्करी ॥ ६६ ||
ऊर्ध्वाम्नाये महेशानि सप्त पातालगोचरा ।
शाक्तक्रमेण कथितः श्ृणु शैवक्रमेण च॥ ६७ ||
सम्पत्प्रदां तत्पुरुषं महेशं पूर्वगोचरम्।
अघोरं शाकिनीं याम्ये चैतन्यभैरवीं तथा॥ ६८ ||
सद्योजातं पश्चिमे च कुबेरं भैरवीं तथा।
वामदेवं महादेवमुत्तराम्नायगोचरम्॥ ६९ ||
ऊर्ध्वाम्नायेऽर्धनारीशः प्रणवः परिकीर्तितः ।
पञ्चवक्त्रक्रमेणैव कथितः परमेश्वरि ॥ ७० ||
पूर्वक्रमो महेशानि षट्चक्रक्रमयोगतः ।
महापशुपतिः प्रोक्तः संवर्तेशः परात्परः ॥ ७१ ||
षडाम्नायस्तत्क्रमोऽयं पञ्चवक्त्रे तु पञ्च च ।
देशाभिधः समाख्यातस्तद्देशस्था तु देवता ॥ ७२ ||
अथ प्रवक्ष्ये देवेशि कालपर्यायसाधकम् ।
कस्मिन् काले तु का जाता तत्सर्वं कथ्यते शृणु ॥ ७३ ||
काली तारा तथा छिन्ना षोड़शी भुवनेश्वरी ।
मातङ्गी बगला लक्ष्मी सिद्धविद्या च भैरवी ॥ ७४ ||
एता दश महाविद्याः सिद्धविद्या महेश्वरि ।
युगादिसमये देवि शिवं परगुणोत्तरम् ॥ ७५ ||
निर्गुणं निरहङ्कारं सच्चिदानन्दविग्रहम् ।
शाश्वतं सुन्दरं शुद्धं सर्वदेवयुतं वरम् ॥ ७६ ||
आदिनाथं गुणातीतं काल्या संयुतमीश्वरम् ।
विपरीतरतं देवं सामरस्यपरायणम् ॥ ७७ ||
पूजार्थमागता देवगन्धर्वाप्सरसाङ्गनाः ।
यक्षिणीं किन्नरीं चाद्यामुर्वश्याद्यां तिलोत्तमाम् ॥ ७८ ||
वीक्ष्य तां प्राह देवेशः सुन्दर्यः प्राणवल्लभाः ।
त्रैलोक्यसुन्दरि प्राणस्वामिनि प्राणरञ्जिनि ॥ ७९ ||
किमागतं भवत्याऽद्य मम भाग्योदयो महान् ।
उक्तवा मौनधरं शम्भुं पूजयन्त्यप्सराङ्गनाः ॥ ८० ||
आदिशक्तय उचुः संहारात्तारितं देव त्वया विश्वं जनप्रिय ।
सृष्टेरारम्भकार्यार्थमुद्युक्तोऽसि ` महेश्वर ॥ ८१ ||
युगाद्यारम्भकालो हि वर्तते मृड शङ्कर ।
ब्रह्माणीकोटयः सर्वा माहेशीकोटिकोटयः ॥ ८२ ||
इन्द्राणीकोटयः सन्ति वैष्णवीकोटिकोटयः ।
तव सामरसानन्ददर्शनार्थं समागताः ॥ ८३ ||
वर्तते देवदेवेश चास्माकं सौख्यसागरः ।
रतिं हित्वा कामिनीनां नहि सौख्यं महेश्वर ॥ ८४ ||
सा रतिर्दूृश्यते चात्र महाब्रह्मस्वरूपिणी ।
एवमेव तु चास्माभिः कर्तव्यं भर्तृणा सह ॥ ८५ ||
एवं श्रुत्वा महादेवो ध्यानावस्थितमानसः ।
ध्यानं हित्वा महादेवः प्रोवाच कालिकां प्रति ॥ ८६ ||
कालि कालि मुण्डमालप्रिये भैरवनादिनि ।
शिवारूपधरे क्रूरे घोरदंष्ट्रे भयानके ॥ ८७ ||
त्रैलोक्यभक्षणकरि सुन्दर्यः सन्ति तेऽग्रतः ।
सुन्दरीवीक्षणं कर्म कार्यं कालप्रिये शिवे ॥ ८८ ||
ध्यानं मुञ्च महादेवि ता गच्छन्ति गृहं प्रति ।
तव रूपं महाकालि मम भूतभयङ्करम् ॥ ८९ ||
एतासां सुन्दरं रूपं त्रैलोक्यप्रियकारकम् ।
इति श्रुत्वा कालिका तु तत्रैवान्तरधीयत ॥ ९० ||
त्रिशन्निखर्वषट्वृन्दनवत्यर्बुदकोटिभिः ।
दर्शनार्थ तपस्तेपे सा वै कुत्र गता प्रिया॥ ९१ ||
मम प्राणप्रिया देवी हा हा प्राणप्रिया मम ।
कि करोमि क्व गच्छामि इत्येवं भ्रमतोऽ भवत् ॥ ९२ ||
देव्याः कृपा तदा जाता मम ध्यानपरः शिवः।
यन्त्रप्रस्तारबुद्धिस्तु शिवे जाता तु सत्वरम् ॥ ९३ ||
श्रीचक्रराजप्रस्ताररचनाम्यासतत्परः ।
इतस्ततो भ्राम्यमाणस्त्रैलोक्यं चक्रमध्यगम् ॥ ९४ ||
चक्रपारदर्शनार्थ कोट्यर्बुदयुगे गतम् ।
भक्तप्राणप्रिया देवी महाश्रीचक्रनायिका ॥ ९५ ||
तत्र बिन्दौ परं रूपं सुन्दरं सुमनोहरम् ।
रूपं जातं महादेवि महासाम्राज्यसुन्दरम्॥ ९६ ||
महानिशासु सञ्जाता भक्तभाग्यकुटुम्बिनी ।
रूपं दृष्ट्वा तत्क्षणार्धाद् राजराजेश्वरः शिवः ॥ ९७ ||
तस्याः कृपाकटाक्षेण तस्या रूपधरः शिवः ।
विना शृङ्गारसंयुक्त्या तदा जाता महेश्वरी॥ ९८ ||
विना कृष्णांशतो देवि शृङ्गारो नास्ति भूतले ।
विना काल्यंशतो देवि जगत् स्थावरजङ्गमम्॥ ९९ ||
एतदंशं विना देवि न श्रृङ्गारोऽस्ति भूतले ।
सदा सम्प्रार्थिता सर्वैस्तदा यत्नोऽयमद्भुतः॥ १०० ||
अद्यापि देवदेवेशि नेत्रे केशे विराजते ।
सर्वेषां नेत्रकेशेषु ममांशो वर्तते शिवे ॥ १०१ ||
स्वांशः काल्या तदा दत्त: केशादौ सैव राजते ।
इत्येवं कालिकारूपं पूर्वरूपं महेश्वरि ॥ १०२ ||
द्वितीयं सुन्दरीरूपं जातमित्थं महेश्वरि ।
चिदग्निकुण्डसम्भूतं सुन्दरं सद्गुणोत्तरम् ॥ १०३ ||
रूपं जातं महेशानि महारात्रिदिने शिवे ।
अवन्त्यां जातमेतद्धि कालीरूपं गुणोत्तरम् ॥ १०४ ||
कादिरूपमिदं प्रोक्तं हादिरूपं श्रृणु प्रिये ।
एकस्मिन् समये पूर्व ब्रह्मरूपः सदाशिवः॥ १०५ ||
राजराजेश्वरी काली कोटिब्रह्माण्डनायिका।
देवानुग्रहणार्थं तु नानारूपं वितन्वती॥ १०६ ||
किं रूपं किं परं वर्ण्यं निर्गुणात्मा परात्मिका ।
लोकसम्मोहनार्थं तु नानाभावान् वितन्वती ॥ १०७ ||
सद्ब्रह्मभावनां कृत्वा पूर्व परशिवः स्थित: ।
सर्वसंहारकं कर्म कृत्वा दण्डं विधाय च ॥ १०८ ||
बृहदण्डं विधायाथ शिवो ध्यानपरो ह्यभूत् ।
ध्यानस्य संच्युतिर्जाता सा ब्रह्मभावना मता ॥ १०९ ||
तदभ्यासनिमित्तार्थ शक्तेराकर्षणं कृतम् ।
देव्या ज्ञानशिवः शुद्धो मार्गच्युतिपरायणः ॥ ११० ||
शिवस्य बुद्धिस्मरणं दत्तं देव्या कृपा कृता ।
एवं बुद्धिः कृता देव्या शिवः पातु ममान्तरम् ॥ १११ ||
मानसे धृतमात्रेण शिवेनाकर्षणं कृतम् ।
शिवाकर्षणकं कर्म मम मिथ्यात्वदायकम् ॥ ११२ ||
इत्येवं मानसे धृत्वा मन्त्रः काल्या प्रदर्शितः ।
कालिका कामसुरसा महाकामकला परा ॥ ११३ ||
स एव आदिनाथस्तु परब्रह्मेति गीयते ।
सच्चिदात्मस्वरूपैवं ब्रह्मरूपाऽथ निर्गुणा ॥ ११४ ||
तया स्वबालावस्थाख्या सखी तत्र प्रकाशिता ।
स्वरूपादधिकां मायां शिवाग्रे स्वर्गमार्गतः ॥ ११५ ||
साधनार्थं मया दत्ता इत्येवं कालिकाऽब्रवीत्।
तदा शिवः परशिवः पूर्वाभ्यासेषु तत्परः॥ ११६ ||
शक्तेः समरसानन्दात् कालीसाम्यमुपागतः ।
काल्याग्रे शिवशक्तिश्च या काल्या प्रकटीकृता ॥ ११७ ||
तां दृष्ट्वा तु पुनर्दृष्ट्वा रूपानन्दपरायणः ।
अतिगर्वान्वितः शम्भुर्द्वितीया सुन्दरी मम॥ ११८ ||
पूर्वा काली ब्रह्मविद्या सुन्दरी सा नहि प्रिये ।
एकस्मिन् समये देवि द्वे शक्ती समुपस्थिते ॥ ११९ ||
प्रपञ्चमूलो हि शिवः कालाभ्रसन्निभां वदेत् ।
द्वितीयवाक्येऽपि तथा घोरदंष्ट्रेति संवदेत् ॥ १२० ||
तृतीयवाक्ये देवेशि द्वितीयां सुन्दरी प्रति।
त्रैलोक्यसुन्दरी प्राणप्रिये मम स्वरूपिणि ॥ १२१ ||
इत्युक्ते दक्षिणा देवी ब्रह्मरूपाऽद्यचण्डिका ।
आदिशक्तिः पूर्णरूपा क्रोधाक्रान्ता बभूव च ॥ १२२ ||
तदैव सुन्दरं रूपं सौभाग्यार्णवकं परम् ।
राजराजेश्वरीरूपं बिभ्रती परमेश्वरी ॥ १२३ ||
तदा परशिवः शम्भुर्विस्मयान्वितलोचनः ।
महाप्रपञ्चरूपा च महाब्रह्माण्डनायिका॥ १२४ ||
प्रकर्षेण तु पञ्चानां संयोगो युगपद् भवेत् ।
प्रपञ्चेशी तेन विद्या सौन्दर्ये तु प्रपञ्चता॥ १२५ ||
श्रीषोडशी तदा जाता महासाम्राज्यनायिका ।
आद्या श्रीदक्षिणाकाली द्वितीया बालभैरवी॥ १२६ ||
तृतीया सुन्दरी विद्या महात्रैगुण्यगोचरा।
तस्याः कृपाकटाक्षेण राजराजेश्वरः शिवः॥ १२७ ||
न्यासजालादिक सर्व पूजामन्त्रा अनेकधा ।
तदैव तु षडाम्नायास्तथा श्रीपञ्चपञ्चिका ॥ १२८ ||
पूर्वा प्रकृतिरूपा स्यान्मूलविद्या प्रियंवदे ।
अनेककोटिशो भेदास्तदा जाता महेश्वरि ॥ १२९ ||
इति सत्यं परं प्रोक्त मोहरात्रिसमुद्धवा ।
महानिशामुखे जाता श्रीविद्या परमा कला ॥ १३० ||
शिवकाञ्च्यां च श्रीशैले जाता श्रीत्रिपुराम्बिका ।
कालरात्रिदिने प्राप्ते निशायां मध्यभागके ॥ १३१ ||
उग्रापत्तारणार्थं तु उग्रतारा स्वयं कला ।
कहेत्येवं महामन्त्रस्तूत्तराम्नायगोचरः ॥ १३२ ||
तद्राज्ञी तेन श्रीताराविद्या राजेश्वरी परा।
सर्वानुग्रहणार्थ च समुत्पन्ना महेश्वरी॥ १३३ ||
एकस्मिन् समये पूर्व कालीरूपा स्वयं भवेत् ।
आदिशक्तिर्महाविद्या वेदोद्धारपरायणा ॥ १३४ ||
महोग्रतारा देवेशि जाग्रद्रूपा बभूव च।
नष्टे सृष्टे ब्रह्मगोले नष्टे स्थावरजङ्गमे ॥ १३५ ||
बृहदण्डमभूदेकं सृष्टेः पूर्व महत्तरम् ।
तत्र जज्ञे स्वयं विष्णुश्चतुर्भुजसमन्वितः ॥ १३६ ||
शङ्खचक्रगदापद्मचतुर्भुजधरो हरिः ।
तस्य नाभौ तथा ब्रह्मा जज्ञे सृष्टेश्च वै क्षये ॥ १३७ ||
ललाटदेशे तस्यैव रुद्रो जज्ञे स्वयं हरेः ।
ब्रह्मा पप्रच्छ देवेशं विष्णुं त्रिभवमोचनम्॥ १३८ ||
कां विद्यां सुसमाराध्य चतुर्वेदो निगद्यते ।
विष्णुना प्राह देवेशं हरं पप्रच्छ शङ्करम् ॥ १३९ ||
कथयाऽस्मान् त्वं देवेश नाम्ना नीलसरस्वतीम् ।
महोग्रतारां सद्विद्यां श्रीमदेकजटां पराम् ॥ १४० ||
ब्रह्मणो वचनं श्रुत्वा प्रजहास महेश्वरः ।
शृणुष्वावहितो विप्र महानीलसरस्वतीम्॥ १४१ ||
यस्याः प्रसादमालभ्य चतुर्वेदान् वदिष्यति ।
मेरोः पश्चिमकूले च चोलनामा महाहृदः॥ १४२ ||
तत्र जज्ञे स्वयं वेदमाता नीलोग्रतारिणी ।
एतस्मिन्नेव काले तु मेरोः शृङ्गपरायणः ॥ १४३ ||
जपं जाप्यं समासाध्य त्रियुगं च ततः स्थितः ।
ममोर्ध्ववक्त्रान्निःसृत्य तेजोराशिर्विनिर्गतः ॥ १४४ ||
हृदे ` चोले निपत्यैव नीलवर्णाऽ भवत् पुरा ।
हृदस्य चोत्तरे भागे ऋषिरेको महत्तरः॥ १४५ ||
अक्षोभ्यं नाम चाश्रित्य मुनिवेशधरः शिवः ।
येनादौ जप्यते जातु स तस्य ऋषिरीरितः ॥ १४६ ||
विश्वव्यापकतोये तु चीनदेशे स्वयं शिवे।
ओङ्कारोपरि टाङ्कारस्ततोपरि च हूँकृतिः ॥ १४७ ||
कूर्चबीजस्वरूपा सा प्रत्यालीढपदा भवेत् ।
महोग्रतारा सञ्जाता चित्प्रभा श्रीमहाकला॥ १४८ ||
छिन्नोत्पत्तिं प्रवक्ष्यामि तारा सा सैव कालिका ।
श्रीशिव उवाच पुरा कैलासशिखरे देवदेवो महेश्वरः ॥ १४९ ||
छिन्नोत्पत्तिर्महेशानि सूचिता न प्रकाशिता ।
तस्याः स्वरूपसद्धावं निखिलेन महेश्वरः ॥ १५० ||
कथयस्व महादेव छिन्ना वा सा कथं भवेत् ।
तस्यास्तद्वचनं श्रुत्वा विहस्य परमेश्वरः ॥ १५१ ||
कथयामास विद्यायाश्छिन्नायाः सम्भवं शुभम् ।
श्रीमहादेव उवाच देवि श्रृणु महाभागे छिन्नायाः संभवं शुभम् ॥ १५२ ||
पुरा देवयुगे देवि कैलासे पर्वतोत्तमे ।
मया सह महामाया शृङ्गारे तत्परा ह्यभूत्॥ १५३ ||
ममोपरि समासाद्य विपरीतरता ह्यभूत् ।
शुक्रोत्सारणकाले तु चण्डमूर्तिरभूत् तदा ॥ १५४ ||
उत्सृज्य शुक्रमात्मीयं बहिर्देशं गता यदा ।
एतस्मिन्नेव काले तु सख्यौ तस्या बभूवतुः ॥ १५५ ||
तस्याः शरीरसम्भूते द्वे शक्ती शुभदायिके ।
डाकिनी वर्णिनी देवी सर्वशक्तिसमन्विता ॥ १५६ ||
सख्यौ सा समुपालभ्य चण्डदेवी महोदया ।
साधूनां च हितार्थाय दुष्टानां च वधाय च ॥ १५७ ||
पुष्पभद्रानदीकूलं जगाम चण्डनायिका ।
उषःकाले तदा तत्र मज्जनं समुपालभत् ॥ १५८ ||
वर्णिनी डाकिनी तस्यां मज्जनं समुपालभत्।
मध्याह्नसमये ते तु क्षुधायुक्ते बभूवतुः ॥ १५९ ||
चण्डिकां पृच्छतस्ते तु भक्षणं परिकल्पय।
तयोस्तद्वचन श्रुत्वा विहस्य चण्डिका शुभा॥ १६० ||
चिच्छेद निजमूर्धानं निरीक्ष्य सकलां दिशम् ।
वामनाड्या गलद्रक्तैर्डाकिनीं परितोषयत्॥ १६१ ||
दक्षिणे वर्णिनीदेवीं पाययद् रक्तमात्मनः ।
ग्रीवामूलाद् गलद्रक्तैर्मस्तकं परितोषयत् ॥ १६२ ||
एवं क्रीडां तदा कृत्वा सन्ध्यायां गृहमागता ।
आधाय निजमूर्धानं कबन्धोपरि पार्वति॥ १६३ ||
निजमूर्तिं समासाद्य या पुरा परिकीर्तिता ।
विवर्णां पाण्डुरां दृष्ट्वा शिवो वचनमब्रवीत् ॥ १६४ ||
श्रीशिव उवाच शृणु देवि महामाये चण्डि चण्डपराक्रमे।
इमे के तव संसर्गान्मम स्थानमिहागते ॥ १६५ ||
विवर्णा त्वं कथमसि पूर्वाह्णे क्व गता ह्यसि ।
ब्रह्मविष्ण्वादिभिर्देवैर्गन्धर्वाद्यैर्महेश्वरि ॥ १६६ ||
अपहृतासि केन त्वं तत्कथां कथयस्व मे ।
श्रीपार्वत्युवाच ब्रह्मा विष्णुस्तथा रुद्रो गन्धर्वोऽपि महेश्वरः ॥ १६७ ||
को वाऽपहर्तु शक्तो मां पुष्पभद्रा गता ह्यहम् ।
श्रीशिव उवाच मां परित्यज्य देवेशि पुष्पभद्रा कथं गता ॥ १६८ ||
कि वा तत्र कृतं कर्म तत्कथां कथयस्व मे।
कथं त्वं वा विवर्णाऽसि कारणं कथयस्व मे॥ १६९ ||
श्रीचण्डी उवाच वीररात्रिदिने जाता दिनान्ते परमा कला ।
सखीभ्यां सह देवेश गताऽहं पुष्पभद्रिकाम् ॥ १७० ||
जलक्रीडां समासाद्य सखीभ्यां सह शङ्कर ।
मध्याह्नसमये सख्यौ क्षुधायुक्ते बभूवतुः ॥ १७१ ||
पानार्थे याच्यमानाऽहं सखीभ्यां सह शङ्कर ।
छिन्नां ग्रीवां तदा कृत्वा पानं दद्यामनुत्तमम् ॥ १७२ ||
पाययित्वा तदा रक्तं सखीभ्यां समुपागता ।
तस्मिन्नेव क्षणे देव विवर्णा सुन्दरी ह्यहम् ॥ १७३ ||
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ।
इति श्रीअक्षोभ्यतारासंवादे तारासूक्ते पञ्चमः पटलः ||

Das Yantra als Gegenstand ritueller und innerer Betrachtung.

Paṭala 6: Entstehungserzählungen, Festtage und die Ordnung der Tantras

षष्ठः पटलः ।
श्रीदेव्युवाच देवेश श्रोतुमिच्छामि वगलोत्पत्तिकारणम् ।
श्रीशिव उवाच- पुरा कृतयुगे देवि वातक्षोभ उपस्थिते॥ १ ||
चराचरविनाशञ्च सजलं ब्रह्मगोलकम् ।
दृष्ट्वा तु देवदेवेशि विष्णुश्चिन्तापरायणः ॥ २ ||
हरिद्राख्ये सिद्धकुण्डे तपस्यार्थं मनो दधे ।
स्वयं पीतेश्वरो भूत्वा जपध्यानपरायणः ॥ ३ ||
सप्तार्बुदयुगं देवि श्रीपूजनपरायणः ।
तपस्यया तु संतुष्टा महाश्रीत्रिपुराम्बिका ॥ ४ ||
हरिद्राख्यं सरो दृष्ट्वा जले क्रीडनतत्परा ।
महापीतहृदाख्यो हि ह्रदो जागर्ति भूतले ॥ ५ ||
सौराष्ट्रसारे जागर्ति तत्रस्था बगलाम्बिका ।
श्रीविद्यासम्भवं तेजो विजृम्भति इतस्ततः ॥ ६ ||
चतुर्दशी भौमयुता मकरेण समन्विता।
कुलर्क्षसमायुक्ता वीररात्रिः प्रकीर्तिता ॥ ७ ||
तस्यामेवार्धरात्रौ तु पीतहृदनिवासिनी।
ब्रह्मास्त्रविद्या सञ्जाता त्रैलोक्यस्तम्भिनी परा॥ ८ ||
तत्तेजो विष्णुजं तेजः बिम्बप्रतिबिम्बयोगतः ।
स्तम्भनाख्यो महाबाणस्तदोत्पन्नो महेश्वरि॥ ९ ||
चतुर्दशी भ्ृगुयुता कुम्भसंक्रमसंयुता ।
शिवर्क्षसमायुक्ता महानिशीथिनी कला ॥ १० ||
शिवरात्रिः समाख्याता सर्वधर्मादिकर्मसु ।
अथ मातङ्गिनी वक्ष्ये सर्ववश्यप्रवर्तिनीम्॥ ११ ||
पुरा कदम्बविपिने नानापक्षिसमाकुले ।
अतिक्रूरविभूतीनां वश्यार्थ परमेश्वरि ॥ १२ ||
मातङ्गो मुनिराविष्टः कदम्बारण्यमध्यगः ।
शतवर्षसहस्राणि तपस्तेपे निरन्तरम् ॥ १३ ||
तत्र तेजः समुत्पन्नं सुन्दरीनेत्रतः शिवे ।
तेजोराशिरभूत्तत्र तत्र श्रीकालिकाम्बिका ॥ १४ ||
श्यामलं रूपमास्थाय राजमातङ्गिनी भवेत् ।
राजमातङ्गिनी विद्या त्रैलोक्यवशकारिणी ॥ १५ ||
अथ श्रीभुवनां वक्ष्ये त्रैलोक्योत्पत्तिमातृकाम् ।
पुरा कृतयुगस्यादौ ब्रह्मा क्रूरतपावृतः॥ १६ ||
तपसा तस्य संतुष्टा सृष्टिशक्तिर्महेश्वरि।
विश्वं जागर्ति यद्योनौ तत्रैव लयमेष्यति॥ १७ ||
चैत्रे मासि शुक्लपक्षे नवम्यां तारिणी कला ।
समुत्पन्ना महेशानि क्रोधरात्रिरिति स्मृता॥ १८ ||
सृष्ट्युत्पादनकार्यार्थं समुत्पन्ना महेश्वरि ।
क्षीरोदार्णवसम्भूता मथनादुद्भवा शिवा ॥ १९ ||
त्रैलोक्यरक्षणार्थं च स्थितिशक्तिः प्रकीर्तिता ।
विष्णोर्वक्षःस्थलस्था च पद्मासनगता शिवा ॥ २० ||
कृष्णाष्टम्यां भाद्रपदे कोलासुरनिकृन्तिनी ।
एतत्तिथौ समुत्पन्ना महामातङ्गिनी कला ॥ २१ ||
सम्प्राप्ते फाल्गुने मासे कृष्णैकादशिका तु या।
भृगुभौमयुता चेत् स्यादबला रात्रिरीरिता ॥ २२ ||
महालक्ष्मीस्तदा जाता सर्वसौभाग्यशालिनी ।
एकस्मिन्नेव काले तु महासंहारचञ्चला॥ २३ ||
दक्षप्रजापतेर्यज्ञे गौरीकुण्डसमुद्भवा(त्) ।
धूमाद् धूमावती जाता मुखात् कालमुखी मता॥ २४ ||
तद्धूमसम्भवा विद्या सर्वशत्रुविनाशिनी ।
धूमावती तथा जाता भक्तानुग्रहकांक्षया॥ २५ ||
प्राप्तेऽक्षय्यतृतीयायां भौमवारे निशामुखे ।
इति संक्षेपतः प्रोक्तं सिद्धविद्याविधौ शृणु ॥ २६ ||
शृणु देवि प्रवक्ष्यामि मातङ्ग्युत्पत्तिकारणम् ।
सुधासिन्धौ शयानं वै हरिं परमदैवतम् ॥ २७ ||
श्यामादेवीसमायुक्तं शेषपर्यङ्कशायिनम् ।
तत्र यातौ महात्मानावुभौ नारदतुम्बरौ ॥ २८ ||
प्रणम्याञ्जलिबन्धेन रमानाथमपृच्छताम् ।
नारायण महादेव गीतज्ञानं वद प्रभो ॥ २९ ||
श्रीनारायण उवाच- कस्मिश्चित् समये पूर्व गतोऽहं शङ्करं प्रति ।
तत्र दृष्टो महादेव उमया सह भूषितः ॥ ३० ||
जयाजय महादेव उमया सहित प्रभो ।
शिवेनालिङ्गितश्चाहमुमयालिङ्गिता प्रिया ॥ ३१ ||
विचित्रमासनं दत्तं निविष्टोऽहं श्रिया सह ।
तत्र दृष्टं महाचक्रं मारीचगणसंकुलम् ॥ ३२ ||
अनेकरससंयुक्तं विविधास्वादनैर्युतम् ।
सामरस्यं यदा यातमुच्छिष्टं गलितं तदा ॥ ३३ ||
अनेकगुणसम्पन्ना तत्रोत्पन्ना कुमारिका ।
उच्छिष्टं देहि देहीति पार्वत्या शङ्करेण च ॥ ३४ ||
उभाभ्यां दत्तमुच्छिष्टं प्रसादं प्रीतिपूर्वकम् ।
श्रीशिवशक्ती ऊचतुः अनेकगुणसम्पन्नां तत्रोत्पन्नां कुमारिकाम् ॥ ३५ ||
त्वां जापन्ति च ये कन्ये जपहोमार्चनादिभिः ।
तेषां कर्माणि सेत्स्यन्ति वश्यादिकमभीष्सितम्॥ ३६ ||
तदाप्रभृति चोच्छिष्टा त्रिषु लोकेषु विश्रुता ।
अनेकगुणसम्पन्ना साधकानां वरप्रदा ॥ ३७ ||
श्रुत्वा तद्वचनं सर्वे मारीचीनां गणैर्वृताः ।
तदाप्रभृति विप्रेन्द्र कन्यां सर्वे न्यवेदयन् ॥ ३८ ||
गीतं नृत्यं च वाद्यं च अवादयन् कुमारिके ।
नानारूपाणि चाङ्गानि दर्शितानीह पार्वति ॥ ३९ ||
तदाप्रभृति नाम्ना स जातोच्छिष्टमतङ्गिनी ।
सैव श्रीसुमुखी विद्या सिद्धविद्या महेश्वरि ॥ ४० ||
भाद्रे मासि चतुर्थ्या तु गणेशोत्पत्तिरीरिता ।
मासि मार्गशिरे प्राप्ते कृष्णाष्टम्यां महेश्वरि ॥ ४१ ||
महाकालः समुत्पन्नो घोररात्रिः प्रकीर्तिता ।
ज्येष्ठे शुक्लदशम्यां तु बटुकोत्पत्तिरीरिता ॥ ४२ ||
मार्गशीर्षचतुर्दश्या दत्तोत्पत्तिः प्रकीर्तिता ।
चिदम्बनस्तदा जातः सर्वसिद्धिप्रदायकः ॥ ४३ ||
महामहिषमर्दिन्या महादुर्गाष्टमी स्मृता ।
चैत्रे तु प्रतिपच्छुक्ला ज्येष्ठे शुद्धा तृतीयका ॥ ४४ ||
माघे च सप्तमी शुक्ला वैशाखे च चतुर्दशी ।
भाद्रे च द्वादशी शुद्धा तृतीया माधवे तथा ॥ ४५ ||
चैत्रे च नवमी शुक्ला कृष्णाष्टमी नभस्य च ।
आषाढे शुक्लदशमी द्वितीया मार्गशीर्षके ॥ ४६ ||
यथाक्रमेण ज्ञातव्या जयन्त्यः क्रमशो बुधैः ।
संक्रमो ग्रहणं देवि भौमतत्करसंयुतम् ॥ ४७ ||
दारुणा तिथिराख्याता त्रैलोक्यरक्षिणी परा ।
तृतीया चैत्रमासीया चित्रया संयुता यदि ॥ ४८ ||
अर्धरात्रौ यदा योगः सा तिथिर्नवमी भवेत् ।
कृते प्रभवचैत्रे च प्रतिपच्छुद्ध इन्दुना ॥ ४९ ||
रेवतीयोगविष्कम्भे दिवा द्वादशनाडिका ।
मत्स्यरूपी कुमारोऽयमवतीर्णो हरिः स्वयम् ॥ ५० ||
शङ्खासुरवधार्थाय भूमेरुद्धरणाय च ।
ज्येष्ठशुद्धद्वितीयायां विभवे वत्सरे बुधे ॥ ५१ ||
रोहिण्यां बुधयोगे च दिवा घटिचतुष्कके ।
हरिः कूर्मेण रूपेण ह्यावतारः प्रकाशितः ॥ ५२ ||
वेतालस्य विनाशाय लोकसंरक्षणाय च ।
कृते च वत्सरे शुद्धे माघमासस्य सप्तमी ॥ ५३ ||
रविवारे तथाऽश्विन्यां साध्ययोगे महेश्वरि ।
दिवा च घटिकाष्टौ च वाराहायां स्वयं हरिः ॥ ५४ ||
हिरण्याक्षवधार्थाय भूमेरुद्धरणाय च ।
कृतेऽङ्गिरावत्सरे च माधवे च चतुर्दशी ॥ ५५ ||
शुद्धा च मन्दवारे च स्वातीनक्षत्रसंयुता ।
दशाष्टघटिकामध्ये दिवा स्तम्भो बुधे शिवे ॥ ५६ ||
हिरण्यकश्यपार्थाय प्रह्लादस्थापनाय च ।
त्रेतायां वत्सरे जाता भाद्रे च द्वादशी सिता ॥ ५७ ||
भृगुश्रवणयोर्देवि धृतियोगे तथैव च ।
दशापञ्चघटीमध्ये दिवा वामन एव च ॥ ५८ ||
अवतारो बलेः कार्याद् द्वारे तिष्ठति किङ्करः।
प्रमाथीवत्सरे प्राप्ते तृतीया माधवे सिते॥ ५९ ||
त्रेतायां शनिरोहिण्यां रामोऽभूद् रेणुकासुतः ।
एकादशघटीमध्ये निशायां परमेश्वरि ॥ ६० ||
अर्जुनस्य वधार्थाय ब्राह्मण्यपालनाय च ।
त्रेतायां तारणे देवि वत्सरे मधुसंयुते ॥ ६१ ||
तस्य शुक्ला च नवमी चेन्दुवारे पुनर्वसौ ।
शुक्लयोगे च मध्याह्ने दिवा रामो महेश्वरि ॥ ६२ ||
रावणस्य वधार्थाय ह्यवतीर्णो हरिः स्वयम् ।
द्वापरे समनुप्राप्ते विरोधिवत्सरे शिवे ॥ ६३ ||
श्रावणे चाष्टमी शुक्ला बुधरोहिणीसंयुता ।
वज्रयोगे मध्यरात्रौ पूर्णः कृष्णो हरिः स्वयम् ॥ ६४ ||
कंसस्य च वधार्थाय अर्जुनस्य हिताय च ।
कलौ च वत्सरे चैव खरे चाषाढके तथा ॥ ६५ ||
शुद्धा च दशमी देवि रविवारेण संयुता ।
शुक्लयोगे विशाखायां दिवा नाडी च षट् तदा ॥ ६६ ||
बौ(?बु)द्धोऽवतीर्णो देवेशि ततः कलियुगे शृणु ।
प्रवृत्ते दुर्मुखे देवि द्वितीया मार्गशीर्षके ॥ ६७ ||
शुद्धायां शनिवारे च पूर्वाषाढाविधौ शिवे ।
वृद्धियोगे रजन्यां च घटिकात्रितये शिवे ॥ ६८ ||
मल्लासुरवधार्थाय कल्किरूपो हरिः स्वयम् ।
आश्विनस्य सिते पक्षे ह्याश्विन्यामष्टमीदिने ॥ ६९ ||
अर्धरात्रौ यदा प्राप्तिः सा तिथिः शङ्कराभिधा ।
ज्येष्ठीया दशमी शुद्धा दशायोगसमन्विता ॥ ७० ||
भृगुवासरसंयुक्ता रात्रावेकादशी यदि ।
सा तिथिर्विमला रात्रिः सर्वकामार्थसाधिनी ॥ ७१ ||
चतुर्दशी भौमयुता करनक्षत्रसंयुता ।
दिव्यरात्रिर्महेशानि संक्रमेण समन्विता॥ ७२ ||
भाद्रे मासि कृष्णपक्षे भौमवारे कुलर्क्षगे ।
अर्धरात्रौ संक्रमश्च सा तारा रात्रिरीरिता ॥ ७३ ||
कृष्णाष्टम्यां शुक्रवारे द्वितीयप्रहरोत्तरम्।
आषाढे मासि सञ्जाता त्रैलोक्यविजया परा॥ ७४ ||
वीरभद्रस्य दंष्ट्रेति विख्याता पृथिवीतले ।
दक्षिणस्यां पूर्वयुगे भृगोरुत्पत्तिरीरिता॥ ७५ ||
तस्या योनौ स्थापनार्थ जाता प्रत्यङ्गिरा शिवा ।
अन्येषां तु प्रसिद्धानां नोत्पत्तिर्गदिता शिवे॥ ७६ ||
पुराणादिषु तेषां च वेतालानां समीरिता ।
आगमेऽपि पुराणानि सन्त्येव प्रियवादिनि ॥ ७७ ||
कालीपुराणे देवेशि तथैकावरणे शिवे ।
बटुकोत्पत्तिराख्याता भैरवाणामपि प्रिये ॥ ७८ ||
अयं तु कालपर्यायः कथितस्ते मया तव ।
वामदक्षिणमार्गौ हि कालीताराविधौ स्मृतः ॥ ७९ ||
छिन्नाविधौ वाममार्गो बगला वामदक्षगा ।
सुन्दरी वामदिव्या च दक्षमार्गेऽपि संस्थिता ॥ ८० ||
बाला विद्या दक्षमार्गो मातङ्गी वामदक्षिणा ।
कमला भुवना लक्ष्मीर्धूम्रा दक्षिणमार्गगा ॥ ८१ ||
सुमुखी वामसन्तुष्टा बटुको वामदक्षिणे ।
भैरवा वामयोगस्था बगला वामदक्षिणा॥ ८२ ||
पूर्वाम्नाये दक्षवामौ दक्षिणे दिव्यवामके ।
कौलदक्षौ पश्चिमे तु कौलवामौ तथोत्तरे॥ ८३ ||
ऊर्ध्वे दिव्यो महेशानि पाताले वाम एव च।
शैववैष्णवसौरेषु गाणे स्वायम्भुवे तथा॥ ८४ ||
चीने चान्द्रे तथा बौद्धे काले देशेऽपि पार्वति ।
वामदक्षौ महेशानि क्रूरसौम्यक्रमेण च॥ ८५ ||
तदोत्पन्ना महेशानि तद्देशकालयोगतः ।
तदा चन्द्रो महेशानि तेन कालः प्रकीर्तितः॥ ८६ ||
श्रीदेव्युवाच इदं संक्षेपतः प्रोक्तं सूचितं तद्वद प्रभो ।
श्रीशिव उवाच- षडाम्नायक्रमेणैव शकुनं शृणु पार्वति ॥ ८७ ||
जयो लाभो मनःखेदः सौख्यं गमनमेव च ।
मृतिर्यत्नेन देवेशि षट्सु स्थानेषु पार्वति ॥ ८८ ||
षट्कोष्ठं विलिखेद् यत्नाच्चत्वारः क्रमयोगतः ।
पूगीफलं च संमन्त्र्य स्थापयेत् तत्र पार्वति ॥ ८९ ||
क्रूरसौम्यक्रमेणैव फलं प्रोक्तं महेश्वरि ।
यदि चेद्बहवो मन्त्रास्तत्क्रमं शृणु पार्वति ॥ ९० ||
दशानां मण्डलं प्रोक्तं द्वितीयाम्नायवाचकम् ।
प्रथमस्तत्र आदिष्टो युगत्रयक्रमेण च ॥ ९१ ||
ज्ञेयं यत्नेन देवेशि दशहीने तदन्तकम् ।
तत्सत्यं भवति प्राज्ञे महाशकुन ईरितः ॥ ९२ ||
कालपर्यायमार्गे तु तन्त्राणां गणनां शृणु ।
तन्त्राणां तु चतुष्षष्टि: कालपर्यायगोचरः ॥ ९३ ||
उपतन्त्राणि देवेशि त्रिशतं षट्त्रिंशतिः ।
संहितात्रिशति शिवे चूडामणिशतं शिवे ॥ ९४ ||
अर्णवानां च नवकं डामराणां चतुष्टयम् ।
यामलानामष्टकं च सूक्ते द्वे च महेश्वरि ॥ ९५ ||
पुराणषट्कं देवेशि उपवेदा दिवाभिधम् ।
कक्षपुटीत्रयं पञ्च तथा विमर्षिणीत्रयम् ॥ ९६ ||
कल्पाष्टके कल्पलताद्वयं चिन्तामणित्रयम् ।
एतच्छाक्ते महेशानि कालपर्यायतो भवेत्॥ ९७ ||
शैवकाले महेशान कथं भवति तद्वद ।
द्वात्रिंशच्चैव तन्त्राणि त्रिशतं पञ्चविंशतिः ॥ ९८ ||
उपतन्त्राणि देवेशि संहितादशकं भवेत् ।
अर्णव एक एव स्याद् वेदेन सुविभूषितः ॥ ९९ ||
यामलद्वितयं देवि डामराणां त्रयं भवेत्।
उड्डालमेकं देवेशि उड्डीशद्वयमेव च ॥ १०० ||
कल्पाष्टकं संहिता च उपसंख्याष्टकं शिवे ।
चूडामणिद्वयं देवि तथा विमर्षिणीद्वयम् ॥ १०१ ||
अवतारणकं देवि बोधानां पञ्चकं भवेत् ।
सूक्तानि पञ्च देवेशि चिन्तामणिद्वयं तथा ॥ १०२ ||
पुराणनवकं देवि उपसंज्ञत्रयं भवेत् ।
प्रोक्तं कक्षपुटीनां च युग्ममत्र महेश्वरि ॥ १०३ ||
कल्पद्रुमत्रयं देवि कामधेनुद्वयं तथा ।
सद्भावत्रितयं देवि तत्त्वपञ्चक्रमं वरम् ॥ १०४ ||
क्रमद्वयं महेशानि शैवतन्त्राणि वै जगुः ।
अथ वैष्णवतन्त्राणि कथ्यन्ते परमेश्वरि ॥ १०५ ||
पञ्चसप्ततितन्त्राणि उपतन्त्राणि वै श्रृणु ।
द्विशतं पञ्चतन्त्राणि उपतन्त्राणि पार्वति ॥ १०६ ||
विंशसंख्याकल्पयुक्त संहिताष्टकसंयुतम् ।
अर्णवैकेन संयुक्तं कक्षपुट्याश्च पञ्चकम् ॥ १०७ ||
चूडामण्यष्टकं देवि चिन्तामणिद्वयं तथा ।
उड्डालोड्डीशयुग्मे च डामरद्वयमेव च॥ १०८ ||
यामलैकेन संभूषं पुराणपञ्चकं भवेत् ।
तत्त्वबोधविमर्षिण्यास्त्रितयं परिकीर्तितम् ॥ १०९ ||
अमृतं तर्पणं देवि कामयुक् कल्पपादपाः ।
एतद्वैष्णवतन्त्राणि सौरतन्त्राणि वै शृणु ॥ ११० ||
सौरे च त्रिंशत् तन्त्राणि तत्त्वसंख्यान्युप प्रिये ।
त्रिगुणीकृत्य देवेशि रसयोगेन पार्वति ॥ १११ ||
संहिता वेदसंख्या च तथोपसंहिताद्वयम् ।
पुराणपञ्चकं देवि कल्पानां दशकं तथा ॥ ११२ ||
कक्षपुटीद्वयं देवि तत्त्वत्रितयमेव च ।
विमर्षिणी तथा चूडामणिपञ्चकमीरितम् ॥ ११३ ||
चिन्तामणिद्वयं देवि डामरं यामलं तथा ।
चन्द्रसंख्यं महेशानि उड्डालपञ्चकं तथा ॥ ११४ ||
अवतारद्वयं देवि उड्डीशद्वयमेव च ।
अर्णवानां त्रयं देवि दर्पणामृतकल्पभूः ॥ ११५ ||
सौरपर्यायभेदेन कथितं परमेश्वरि ।
अथ पञ्चाशत् तन्त्राणि गाणपत्ये महेश्वरि ॥ ११६ ||
पञ्चविंशच्चोपतन्त्रं पुराणामृतसागराः ।
द्वयं द्वयं त्रयं चैव दर्पणामृतकल्पकाः ॥ ११७ ||
त्रिपञ्चनवविख्यातास्तथा कक्षपुटीत्रयम् ।
विमर्षिणी तथा तत्त्वमुड्डालोड्डीशयुग्मकम् ॥ ११८ ||
चूडाचिन्तामणीनां च त्रितयं च गणाः स्मृताः ।
एकं तु डामरं प्रोक्तं यामलं चन्द्रसंख्यकम् ॥ ११९ ||
पञ्चरात्राष्टकं देवि देशकालेषु सर्वतः ।
इति संक्षेपतः प्रोक्तं रहस्यातिरहस्यकम् ॥ १२० ||
गोपनीयं महेशानि रहस्यातिरहस्यकम् ।
गोपनात् सिद्धिदं भूयात् प्रकाशात् सिद्धिहानिकृत् ॥ १२१ ||
अहो पुण्यवतां मध्ये एतज्ज्ञानपरायणः ।
एतज्ज्ञानी महेशानि शिव एव न संशयः ॥ १२२ ||
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ।
इति श्रीमदक्षोभ्यतारासंवादे शक्तिसंगमपर्याये तारासूक्ते कालपर्यायः षष्ठः पटलः ||

Paṭala 7: Die vielfältigen Ordnungen der Āmnāyas

सप्तमः पटलः ।
श्रीदेव्युवाच देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
श्रीशिव उवाच- रहस्यमपि ते देवि कथ्यते शृणु साम्प्रतम् ॥ १ ||
गायत्र्यैन्द्री सौरविद्या ब्रह्मविद्या तुरीयका ।
चक्षुष्मती महेशानि गन्धर्वेशी ततः परम् ॥ २ ||
पथि षड्रुद्रविद्या च जलापच्छमनी तथा ।
नामत्रयी महाविद्या महागणपतिस्तथा ॥ ३ ||
अर्धनारीश्वरी विद्या तथा मृत्युञ्जयः शिवे ।
श्रुतिधरी मातृका च तथा सम्पत्सरस्वती ॥ ४ ||
चण्डयोगेश्वरी विद्या शाम्भवी श्रीपरापरा ।
बालान्नपूर्णा देवेशि वाजिवाहा गुरोः पदौ ॥ ५ ||
कामराजेश्वरी विद्या तथा त्रिपुरभैरवी ।
चैतन्यभैरवी रुद्रशक्तिः कामेश्वरी तथा ॥ ६ ||
महात्रिपुरभैरवी च अघोरभैरवी तथा ।
त्रिपुरकृन्तनभैरवी च षट्कूटा रिपुभावतः ॥ ७ ||
निकृन्तनभैरवी च भुवनाभैरवी तथा ।
अन्नपूर्णाभैरवी च त्वरिता कुक्कुटा शिवा ॥ ८ ||
त्रिकण्टकी भोगवती पूर्वाम्नायप्रकीर्तिताः ।
नित्यक्लिन्ना च त्वरिता माया मायावती रमा॥ ९ ||
धनदा शबरी दुर्गा रेणुका कुलरञ्जिनी ।
प्रोक्तोऽयं दक्षिणाम्नायः पश्चिमे श्रृणु सत्वरम् ॥ १० ||
नवकोटिकुब्जिका च तथा सङ्कर्षिणी शिवे ।
क्रियासङ्कर्षिणी चैव कालसङ्कर्षिणी तथा ॥ ११ ||
महाविद्या शूलिनी च परिघास्त्रा च माधवी ।
पश्चिमाम्नाय आदिष्टस्तूत्तरं शृणु सादरम् ॥ १२ ||
चण्डयोगेश्वरी विद्या चामुण्डा ह्यणिमाष्टकम्।
रत्नविद्या सिद्धविद्या उत्तराम्नाय ईरितः ॥ १३ ||
साम्राज्यसुन्दरी विद्या राजराजेश्वरी तथा ।
महासाम्राज्यविद्या च ऊर्ध्वाम्नायः प्रकीर्तितः ॥ १४ ||
यक्षिणी किन्नरी सिद्धी पूतना कन्यका तथा ।
कूष्माण्डिनी महादेवि पातालाम्नाय ईरितः ॥ १५ ||
बटुकस्य मतं प्रोक्तं महामूर्तिमतं शृणु ।
लोपागस्त्यमनुर्देवि द्वितीयोऽपि मनुः शिवे ॥ १६ ||
द्वितीयागस्त्यविद्या च चन्द्रश्चोत्तरदिक्पतिः ।
तृतीयागस्त्यविद्या च नन्दीन्द्रसूर्यशङ्कराः ॥ १७ ||
विष्णुदुर्वासभेदेन पूर्वाम्नायः प्रकीर्तितः ।
वाग्वादिनी च चाण्डाली सुमुखी च मतङ्गिनी॥ १८ ||
माहेश्वरीति देवेशि दक्षिणाम्नायः ईरितः ।
राजमातङ्गिनी विद्या लघुवाराहिता तथा॥ १९ ||
श्रीतिरस्कारिणी स्वप्नवाराही पादुकापि च ।
वाराहीपादुका चैव जम्बुकी किष्किका शुका ॥ २० ||
वागीशी शुकतुण्डा च मोहिनी च किरातिनी ।
क्षेमङ्करीति देवेशि पश्चिमाम्नायदेवताः ॥ २१ ||
श्रीमूर्तिपादुका चैव वार्ताली श्रीमहागुरोः ।
पादुका परमेशानि श्रीमहातिमिरावती॥ २२ ||
कालमाया वासनाख्या चामुण्डा भयहारिणी ।
उत्तराम्नाय आदिष्टस्तूर्ध्वं शृणु महेश्वरि ॥ २३ ||
षोडशी श्रीपरा विद्या तथा चरणरूपिणी ।
षट्शाम्भवं महेशानि ऊर्ध्वाम्नायः प्रकीर्तितः ॥ २४ ||
चेटकादि महेशानि पातालाम्नायगोचरम् ।
अयं तु कालपर्यायो देशपर्याय एव च ॥ २५ ||
कादिहादिमते साम्यं . पर्यायद्वयगोचरम् ।
इति संक्षेपतः प्रोक्तमाम्नायाख्यं श्रृणु प्रिये ॥ २६ ||
बाला पञ्चदशी चैव षोडशी पूर्वगोचराः ।
तन्त्राणां तु चतुष्षष्टि: पूर्वाम्नायप्रगोचरम् ॥ २७ ||
सप्तत्युत्तरतो देवि षट्शतं चोपतन्त्रकम् ।
पराश्रीतत्परा चैव प्रासादपरमाऽथवा ॥ २८ ||
पराप्रासादविद्या च बिन्दुयुक्ता ससर्गजा ।
तद्द्वयान्ता दक्षिणे स्यात् तन्त्राणि शृणु पार्वति ॥ २९ ||
चतुःशतं च तन्त्राणि त्रिशतं पञ्चसप्ततिः ।
उपतन्त्राणि देवेशि यामलाद्यं च कालवत् ॥ ३० ||
महानिर्वाणचरणौ तथा शाम्भवरूपिणौ ।
षट्शाम्भवं नवात्मेशो यथायोगेन योज्यताम् ॥ ३१ ||
षण्णवत्युपतन्त्राणि तन्त्राणां भवति प्रिये ।
तन्त्राणि परमेशानि पश्चिमाम्नायगोचराः ॥ ३२ ||
उत्तराम्नायो देवेशि मेधा दीक्षेश्वरी मता ।
पञ्चविंशति तन्त्राणि तथा नवशतानि च ॥ ३३ ||
त्रिशतं च चतुष्षष्टिरुपतन्त्राणि पार्वति ।
साम्राण्मेधा महेशानि ऊर्ध्वाम्नायप्रगोचरा ॥ ३४ ||
चतुःषष्टिस्तु तन्त्राणि पञ्चाशीत्युपतन्त्रकम् ।
महेन्द्रजालविद्या च परकाया च खेचरी ॥ ३५ ||
पातालाम्नायविद्या च कीर्तिता परमेश्वरि ।
शतं पञ्च च तन्त्राणि नेत्रसप्तशती शिवे ॥ ३६ ||
उपतन्त्राणि देवेशि पातालाम्नायगोचरम् ।
रहस्यातिरहस्यं च प्रोक्तमेतन्मया तव ॥ ३७ ||
समयाम्नायनाम्ना तु विद्याम्नायः प्रकीर्तितः ।
श्रीविद्या भेदसहिता बाला च त्रिपुरा तथा ॥ ३८ ||
भुवनेश्वर्यन्नपूर्णा च पूर्वाम्नायः प्रकीर्तितः ।
दशतन्त्राणि देवेशि उपतन्त्राणि पञ्च च॥ ३९ ||
बगला वशिनी देवि त्वरिता च कुलेश्वरी ।
महिषघ्नी महालक्ष्मीस्तन्त्राष्टसहिता शिवे ॥ ४० ||
नवसंख्योपतन्त्राणि दक्षवक्त्रोद्गतानि च ।
महासरस्वती देवी तथा वाग्वादिनी शिवे ॥ ४१ ||
प्रत्यङ्गिरा भवानी च पश्चिमाम्नायगोचरा: ।
विंशत्तन्त्राणि देवेशि उपतन्त्राष्टकं शिवे ॥ ४२ ||
अथोत्तरं महावक्त्रं श्रृणु यत्नेन पार्वति ।
कालिका भेदसहिता तारा मातङ्गिनी तथा ॥ ४३ ||
भैरवी छिन्नमस्ता च धूमावत्युत्तरेश्वरी ।
शततन्त्राणि देवेशि उपतन्त्राणि वै नव ॥ ४४ ||
द्वाविंशत्यक्षरी भेदसहिता दक्षिणेऽपि च ।
पराप्रासादविद्या तु विंशत्तन्त्रसमन्विता ॥ ४५ ||
उपतन्त्रत्रयं देवि पातालं शृणु पार्वति ।
नागशक्त्यादयो देवि पातालाम्नायगोचराः ॥ ४६ ||
भवतन्त्रसमायुक्तमुपतन्त्रद्वयं शिवे ।
विद्याम्नायो महेशानि संक्षेपेण प्रकाशितः ॥ ४७ ||
शाक्तं पूर्वे महेशानि शततन्त्रसमन्वितम्।
उपतन्त्राष्टकं देवि शैवं च दक्षिणे भवेत्॥ ४८ ||
पञ्चाशत्तन्त्रसंयुक्तमुपतन्त्राणि पञ्च च ।
वैष्णवं पश्चमे प्रोक्तं तत्त्वतन्त्रसमन्वितम्॥ ४९ ||
उपतन्त्राणि तावन्ति दक्षिणाचारसंकुलम् ।
उत्तरे गाणपं देवि तन्त्रसप्ततिसंयुतम् ॥ ५० ||
उपतन्त्रत्रयं चात्र शृणु सौरं महत्तरम् ।
सौरमूर्ध्वे महेशानि तन्त्रद्वादशसंयुतम् ॥ ५१ ||
दशोपतन्त्रसंयुक्तं श्रृणु बौद्धं महेश्वरि ।
शततन्त्रसमायुक्तमुपतन्त्रं त्रिषष्टि च ॥ ५२ ||
पाताले परमेशानि पञ्चायतनवद् भवेत् ।
य एव मुख्यो देवेशि तदाद्याम्नायसंहतिः ॥ ५३ ||
प्रत्येकं तु षडाम्नाया दर्शनेष्वेव पार्वति ।
इति दर्शनपर्यायः शाक्ते वैदिकदर्शने ॥ ५४ ||
योजने परमेशानि महानिष्कलदर्शनम् ।
आम्नायः कथिता देवि श्रीहादिमतगोचरः ॥ ५५ ||
नवभेदेन कथितः श्रृणु कादिमहत्तरम्।
श्रीशैवदर्शनं पूर्वे वैष्णवं दक्षिणे भवेत्॥ ५६ ||
गाणपं पश्चिमे प्रोक्तं सौरमुत्तरगोचरम् ।
ऊर्ध्वाम्नाये भवेच्छाक्तं तन्त्राणि देववद् भवेत् ॥ ५७ ||
षड्दर्शनस्य षण्मन्त्रास्त्वेकैकस्थलयोजनात् ।
दर्शनाम्नाय आदिष्टो वैदिकस्य च योजनात् ॥ ५८ ||
शाक्तस्थाने महेशानि महानिष्कलदर्शनम् ।
दिव्याम्नायो महेशानि महादिव्यत्वकारकः ॥ ५९ ||
श्रीबाला त्रिपुरा विद्या षोडशी पूर्वगोचरा ।
तन्त्राणि पूर्ववद् देवि दक्षिणं श्रुणु चापरम्॥ ६० ||
पराप्रासादविद्या च प्रासादपरमाथवा।
बिन्द्वन्विता च सर्गान्ता बिन्दुसर्गान्वितापि च ॥ ६१ ||
परा विद्या च देवेशि दक्षिणाम्नायगोचरा।
अथ चरणदीक्षा च निर्वाणचरणावपि॥ ६२ ||
पश्चिमाम्नाय आख्यातस्तूत्तरं शृणु सादरम् ।
श्रीशाम्भवाख्यचरणौ तथा षट्शाम्भवं शिवे ॥ ६३ ||
चतुःपञ्चान्वया देवि उत्तराम्नायगोचराः ।
मेधा साम्राज्यमेधा च सर्वसाम्राज्यरूपिणी ॥ ६४ ||
दिव्यसाम्राज्यमेधा च ऊर्ध्ववक्त्रेण चिन्त्यते ।
तन्त्राणि चोपतन्त्राणि पूर्ववत् परमेश्वरि ॥ ६५ ||
दिव्याम्नायस्त्वयं प्रोक्तो विद्याम्नायं शृणु प्रिये ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ६६ ||
शान्तिश्च तदतीता च सर्वातीता च अष्टमी ।
नवमी दिव्यसाम्राज्यमेधा राज्ञी महेश्वरि ॥ ६७ ||
क्रमेण देवदेवेशि मतमेषां कहादिकम्।
आनन्दभैरवो देवि दक्षिणामूर्तिरिव च ॥ ६८ ||
विरूपाक्षो महेशानि राजराजेश्वरस्ततः ।
सदाशिवस्ततः प्रोक्तः षष्ठः संवर्तकेश्वरः॥ ६९ ||
दिव्यौघश्चैव सिद्धौघो मानवौघः सरन्ध्रकः ।
एतेष्वधीशाः सम्प्रोक्तास्त्वेतद्भेदेन वै नव ॥ ७० ||
अथ कादौ महेशानि अधीशान् शृणु यत्नतः ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ७१ ||
भैरवो बटुकश्चैव महाकालस्तथापरः ।
अक्षोभ्यो नवमः प्रोक्तो नवानां मतभेदतः ॥ ७२ ||
नवाम्नायो महेशानि महाकादिमते भवेत्।
कालश्चैव महाकालः करालश्च तृतीयकः॥ ७३ ||
अतिकालश्चतुर्थश्च प्रलयेशश्च पञ्चमः।
क्रोधराजो भवेत् षष्ठः कालिका सप्तमी भवेत्॥ ७४ ||
अष्टमी श्रीमहातारा नवमी छिन्नमस्तका।
एते ह्यधीशा: सम्प्रोक्ता दिव्यौघाद्याश्च मध्यगाः॥ ७५ ||
आम्नायभेदो देवेशि एतद्धेदप्रगोचरः ।
षड्वक्त्रपञ्चवक्त्राख्यभेदेन भेदभाजनम् ॥ ७६ ||
विद्याम्नायो महेशानि सूचितः कथ्यते शृणु ।
भुवनेशी महालक्ष्मीः पूर्वाम्नायप्रगोचरा ॥ ७७ ||
त्रिपुरा त्रिपुटा बाला विशालाक्ष्यन्नपूर्णिका ।
दक्षवक्त्रेण देवेशि मयाद्यापि प्रजप्यते ॥ ७८ ||
बगला चैव मातङ्गी सिद्धलक्ष्मीररुन्धती ।
आम्नायः पश्चिमाख्यस्तु तद्वक्त्रेण प्रजप्यते ॥ ७९ ||
तारा छिन्ना पिशाची च धूम्रा चोत्तरगोचराः ।
कालिका भेदसहिता ऊर्ध्वाम्नायप्रगोचरा ॥ ८० ||
उपविद्याश्च पाताले विद्याम्नायः प्रकीर्तितः ।
सिद्धानि चात्र तन्त्राणि पूर्वोक्तानि महेश्वरि ॥ ८१ ||
सिद्धाम्नायं प्रवक्ष्यामि येन सिद्धं जगत्त्रयम् ।
चिन्तामणिः स्पर्शमणिस्तथा कल्पद्रुमः शिवे ॥ ८२ ||
कामधेनुर्महेशानि पूर्वाम्नायप्रगोचराः ।
चतुष्षष्टिस्तु तन्त्राणि उपतन्त्राणि षष्टि च ॥ ८३ ||
चूडामणिशतद्वन्द्वमर्णवानां चतुष्टयम् ।
अन्यत् सर्व महेशानि पूर्ववत् परमेश्वरि ॥ ८४ ||
सिद्धकाली षोडशी च सभेदा कालकालिका ।
दक्षवक्त्रे स्थिता नित्यं षडशीतिसमन्विता॥ ८५ ||
तन्त्राणि देवदेवेशि उपतन्त्राणि सप्ततिः ।
हंसकाली पश्चिमे तु पञ्चाशत्तन्त्रसंयुता॥ ८६ ||
उपतन्त्राणि देवेशि पञ्चाशत् प्रभवन्ति च।
महाकामकला गुह्या चोत्तराम्नायगोचरा॥ ८७ ||
कलातन्त्राणि देवेशि उपतन्त्राणि विंशतिः ।
ऊर्ध्ववक्त्रस्थिता नित्यं विद्याराज्ञी महोदया॥ ८८ ||
द्वात्रिंशत्तन्त्रसंयुक्ता तत्त्वतन्त्राणि चोप च ।
पाताले यक्षिणी धातुवादविद्या महेश्वरि॥ ८९ ||
तन्त्राणां नवतिस्तत्र उपतन्त्राणि वै शतम्।
सिद्धाम्नायस्त्वयं प्रोक्तो दिव्याम्नायं शृणु प्रिये ॥ ९० ||
हंसकाली चण्डकाली पूर्वाम्नायप्रगोचरा ।
भद्रकाली श्मशाना च दक्षवक्त्रेण जप्यते ॥ ९१ ||
गुह्यकाली कालकाली पश्चिमाम्नायदेवता ।
धनकाली सिद्धकाली चामुण्डोत्तरगोचरा ॥ ९२ ||
विद्याराज्ञी भवेदूर्ध्वं रसायनं रसातले ।
रत्नाम्नायो महेशानि कथ्यते शृणु साम्प्रतम् ॥ ९३ ||
अयमेव महेशानि पर्यायो ह्यागमाभिधः ।
लक्ष्मीश्चैव महालक्ष्मीः कोशविद्याचतुष्टयम् ॥ ९४ ||
प्रणवः श्रीपराविद्या महानिष्कलदेवता ।
अजपा मातृका चैव तथैव त्रिपुरेश्वरी ॥ ९५ ||
ऊर्मिणीति महेशानि सृष्टिः पूर्वप्रगोचरः ।
ललिता चैव कामेशी रक्तनेत्रा परा स्मृता ॥ ९६ ||
दक्षिणाम्नायदेव्यश्च स्थितिरूपेषु संस्थिताः ।
सञ्जीविनी जया चैव मृत्युसञ्जीविनी तथा ॥ ९७ ||
वज्रप्रस्तारिणी देवी भैरवी पश्चिमे भवेत् ।
संहारश्चैव सम्प्रोक्तो भैरवी डामरेश्वरी ॥ ९८ ||
चैतन्यभैरवी देवी षट्कूटाभैरवी तथा ।
नित्याख्या भैरवी चैव भयविध्वंसिनी तथा ॥ ९९ ||
उत्तरा भीमघोरा च कालिकाभैरवी तथा ।
श्रीसम्पद्भैरवी देवी उत्तरे लयरूपिणी ॥ १०० ||
पञ्चमी सुन्दरी चैव पारिजातेश्वरी शिवा ।
पञ्चबाणेश्वरी चैव पञ्चकामेश्वरी तथा ॥ १०१ ||
कल्पलताऽन्नपूर्णा च मातङ्गी भुवनेश्वरी ।
षोडशी भेदसहिताऽनुग्रहार्थपरायणा ॥ १०२ ||
बिन्दुचक्रोर्ध्ववक्त्रेण मयाद्यापि प्रजप्यते ।
अयं प्रोक्तो महाम्नायो रत्नसंज्ञाभिधः शिवे ॥ १०३ ||
देशागमाख्यतन्त्राणि तदाम्नायो महेश्वरि ।
कथ्यते देवदेवेशि श्रृणु सावहिता भव॥ १०४ ||
चीनागमे सप्ततन्त्रमक्षोभ्यतन्त्रसंयुतम् ।
बौद्धागमे चैकविंशदुपतन्त्राष्टकं शिवे ॥ १०५ ||
जैनागमे कलाशी च उपतन्त्राणि पञ्च च ।
अथ पाशुपते देवि नवतन्त्राण सादरम् ॥ १०६ ||
उपतन्त्राणि षड् देवि तथा कापालिके शृणु ।
सूर्यतन्त्रं चोपतन्त्रं वेदसंख्याभिधं शिवे ॥ १०७ ||
अथ पाषण्डतन्त्राणि त्रिपञ्चोपप्रभेदतः ।
पाञ्चरात्रागमे देवि दश सप्तोपभेदतः ॥ १०८ ||
अघोरागमतन्त्राणि दशाष्टी चोपभेदतः ।
मञ्जुघोषागमे देवि विंशत्रिंशन्महेश्वरि ॥ १०९ ||
भैरवागमतन्त्राणि शतसप्ततिभेदतः ।
बटुकागमतन्त्राणि द्विशताशीतिभेदतः ॥ ११० ||
सञ्जीवन्यागमे देवि त्रिसप्त चोपभेदतः ।
सिद्धेश्वरागमे देवि दशाष्ट चोपभेदतः ॥ १११ ||
नीलवीरागमे सप्तदश तिष्ठन्ति पार्वति ।
अथाष्टादशतन्त्राणि मन्त्रसिद्ध्यभिधागमे ॥ ११२ ||
मृत्युञ्जयागमे देवि विंश द्वादश पार्वति ।
मायाविहारागमके त्रि पञ्च चोपभेदतः॥ ११३ ||
विश्वरूपागमे देवि नव सप्त महेश्वरि ।
योगरूपागमे देवि पञ्चाशद् दशभेदतः ॥ ११४ ||
विरूपागमपर्याये सप्ताष्टभेदतः शिवे ।
यक्षिण्यागमतन्त्राणि पञ्चसप्ततिभेदतः ॥ ११५ ||
निग्रहागमतन्त्राणि शतद्विशतभेदतः ।
अयमागमपर्यायः सिद्धरूप:ः प्रकाशितः ॥ ११६ ||
मण्डलाम्नायो देवेशि कथ्यते श्रुणु सादरम् ।
आदो ज्ञेया महालक्ष्मीस्ततो वागीश्वरी मता॥ ११७ ||
अश्वारूढा च मातङ्गी नित्यक्लिन्ना ततः परम् ।
भुवनेशी ततोच्छिष्टचाण्डाली भैरवी तथा ॥ ११८ ||
शूलिनी वनदुर्गा च त्रिपुरा त्वरिता ततः ।
अघोरेति महेशानि पूर्वाम्नायः प्रकीर्तितः॥ ११९ ||
जयलक्ष्मीर्महेशानि वज्रप्रस्तारिणी तथा ।
धूमावत्यन्नपूर्णा च कालसंकर्षिणी तथा ॥ १२० ||
धनदा कुक्कुटी भोगवती च शबरेश्वरी।
कुब्जिका सिद्धलक्ष्मीश्च बाला च त्रिपुरा ततः ॥ १२१ ||
दक्षिणाम्नाय आख्यातः पश्चिमं श्रृणु पार्वति।
ततो नीलपताका च चण्डघण्टा त्रिकण्टकी ॥ १२२ ||
चण्डेश्वरी भद्रकाली गुह्यकाली महेश्वरी ।
अनङ्गमाला चामुण्डा वाराही बगलाऽपि च ॥ १२३ ||
जयदुर्गा नारसिंही पश्चिमाम्नाय ईरितः ।
ब्रह्माणी वैष्णवी चैव माहेश्यैन्द्री महेश्वरि ॥ १२४ ||
हरसिद्धा च फेत्कारी बगलेशी च नाकुली।
श्रीमृत्युहारिणी देवि चिन्तामणिनृसिंहको॥ १२५ ||
हयग्रीवो भैरवश्च भैरवश्चरणायुधः ।
क्षेत्रपालो महाकालस्त्रिजटैकजटा तथा॥ १२६ ||
महोग्राख्या महोच्छुष्मा हेलककी नीलशारदा ।
वामा महोल्का देवेशि श्रीमहाकालसुन्दरी॥ १२७ ||
चाण्डाली धरणी कर्णपिशाची ब्रह्मतारका ।
चाण्डाली च तथा श्यामा प्रलयत्रिपुरा तथा॥ १२८ ||
सुरवल्लभा सुन्दरी च रक्तचाण्डालिनी तथा ।
उत्तराम्नाय आदिष्टस्तूर्ध्वाम्नायं शृणु प्रिये ॥ १२९ ||
काली तारा छिन्नमस्ता तथा कामकलाऽपि च।
श्रीमहाषोडशी चेति ऊर्ध्वाम्नायः प्रकीर्तितः॥ १३० ||
रसातलाम्नायरूपं श्रुणु यत्नेन शाम्भवि ।
समस्तं शाबरं देवि समस्ताघोरजातयः ॥ १३१ ||
चीनबौद्धागमौ जैनाः समस्तं चेटकादिकम् ।
पातालसंज्ञे देवेशि सर्वमन्तर्गतं भवेत्॥ १३२ ||
पितृभूवासिनी देवि चण्डकात्यायनी तथा।
महामण्डलयुग्मं च यक्षिण्यष्टौ महेश्वरि ॥ १३३ ||
कालकूटसर्पभूपाः किंकर्यश्चेटका अपि ।
पातालाम्नाय आख्यातः कलौ तूर्णफलप्रदः ॥ १३४ ||
पञ्चकृत्याम्नायरूपं शृणु यत्नेन शाङ्करि ।
पूर्वाम्नायः सृष्टिरूपो मन्त्रयोगो महेश्चरि॥ १३५ ||
चतुर्विंशतिसङ्केतैर्मन्त्रैस्तन्त्रैर्विभूषितः ।
अथ वै दक्षिणाम्नायः स्थितिरूपः सनातनः ॥ १३६ ||
भक्तियोगो महेशानि पञ्चविंशतितन्त्रयुक् ।
संहृतिः पश्चिमाम्नायः कर्मयोगः सनातनः ॥ १३७ ||
द्वात्रिंशत्तन्त्रमन्त्रैस्तु संयुक्तः परमेश्वरि ।
विधानमुत्तराम्नायोऽनुग्रहो ज्ञानयोगवान् ॥ १३८ ||
षट्त्रिंशन्मन्त्रतन्त्रैश्च सङ्केतैः परिभूषितः ।
सर्वत्राम्नायसङ्केतैर्मन्त्रतन्त्रैरपि प्रिये ॥ १३९ ||
ब्रह्मानन्दस्वरूपोऽयमूर्ध्वाम्नायः प्रकीर्तितः ।
साम्राज्ययोगो देवेशि पराप्रासादरूपधृक् ॥ १४० ||
यक्षिण्याद्यप्सराद्यन्ताः पातालाम्नायगोचराः।
संयोगयोगो देवेशि मन्त्रतन्त्रैश्च भूषितः ॥ १४१ ||
सहस्रसङ्केतयुतः सिद्धवर्यैः प्रपूज्यते ।
अयमाम्नायसन्दोहो रहस्यातिरहस्यधृक् ॥ १४२ ||
केवलं कालिकायां च षडाम्नाया महेश्वरि ।
दशवक्त्रा गुह्यकाली राजराजेश्वरी मता ॥ १४३ ||
कालिकाम्नायपर्यायः स्वतन्त्रः परिकीर्तितः ।
ऊर्ध्ववक्त्रं महेशानि दीपकाख्यं प्रकीर्तितम् ॥ १४४ ||
विंशतिर्मन्त्रतन्त्रैस्तु भूषितं परमेश्वरि ।
चण्डयोगेश्वरीरूपं तदेव परिकीर्तितम् ॥ १४५ ||
सिंहवक्त्रं तु तदधः श्रीसिद्धकालिका मता ।
दशतन्त्रसमायुक्ता तदधो हरवक्त्रकम् ॥ १४६ ||
कृष्णं संकर्षणं देवि तन्त्राणां तु त्रयोदश ।
वामे कपीन्द्रवक्त्रं च कुब्जिकाख्यं महेश्वरि ॥ १४७ ||
पञ्चविंशतितन्त्राणि दक्षे शूकरवक्त्रकम् ।
त्रैलोक्यडामरं तच्च तन्त्राष्टकसमन्वितम्॥ १४८ ||
तार्क्षं वामे पिङ्गचण्डं सुन्दरीवक्त्रमीरितम् ।
तन्त्राणां तु चतुष्षष्टिस्तत्र तिष्ठति पार्वति ॥ १४९ ||
हरितं मकरं दक्षे महासंहारिणी स्मृता ।
कलातन्त्राणि देवेशि शुभ्रं च गजवक्त्रकम्॥ १५० ||
प्रत्यङ्गिरा च सम्प्रोक्ता नवतन्त्रसमन्विता।
दक्षे श्यामं हयास्यं च सिद्धयोगेश्वरीमुखम् ॥ १५१ ||
षट्त्रिंशत्तन्त्रसङ्केतैः संयुता परमेश्वरि ।
महासिद्धकराला च कलातन्त्रसमन्विता ॥ १५२ ||
द्विद्विक्रमेण देवेशि षडाम्नायाः प्रकीर्तिताः ।
एकमूर्ध्वे च पाताले चन्द्रसंख्या महेश्वरि॥ १५३ ||
चतुर्दिक्षु भवेदष्टौ वक्त्राणि परमेश्वरि ।
रहस्यातिरहस्यं च रहस्यातिरहस्यकम् ॥ १५४ ||
गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् ।
महाराज्यं च स्वाराज्यं सर्वमन्त्रैर्ध्रुवं भवेत् ॥ १५५ ||
एतज्ज्ञानेन देवेशि त्रैलोक्यविजयी भवेत् ।
प्राणाः देयाः शिरो देयं नेदं वाच्यं च कुत्रचित् ॥ १५६ ||
पर्यायागमरूपत्वं कथ्यते श्रृणु साम्प्रतम् ।
देशपर्यायभेदो हि पूर्वाम्नायः प्रकीर्तितः ॥ १५७ ||
अथ वै कालपर्यायो दक्षिणाम्नायः ईरितः ।
अथ आगमपर्यायः पश्चिमाम्नाय एव च॥ १५८ ||
एवं दर्शनपर्यायस्तूत्तराम्नाय एव हि ।
अथायतनपर्यायः पातालाम्नायगोचरः ॥ १५९ ||
विद्यापर्यायनामाख्यस्तूर्ध्वाम्नायप्रगोचरः ।
पर्यायाम्नाय आख्यातः किमन्यच्छोतुमिच्छसि॥ १६० ||
श्रीदेव्युवाच देवेश श्रोतुमिच्छामि बटुकाम्नायमुत्तमम्।
श्रीशिव उवाच- पूर्वाम्नाये तु भुवना त्रयोविंशतितन्त्रयुक् ॥ १६१ ||
सृष्टियोगः पूर्ववत् स्याद् दक्षिणं शृणु सादरम् ।
स्थितिर्लक्ष्मीर्दक्षिणे च चतुर्विशतितन्त्रयुक् ॥ १६२ ||
पञ्चविंशतितन्त्रैश्च बगला पश्चिमे लयः ।
विधानमुत्तरे छिन्ना षट्त्रिंशत्तन्त्रसंयुता ॥ १६३ ||
ऊर्ध्वे काली ग्रहोऽ स्तीति सप्तसप्ततितन्त्रयुक् ।
विराड्रूपा मधुमती पाताले राज्ययोगधृक्॥ १६४ ||
अष्टाविंशतितन्त्रैस्तु संयुता परमेश्वरि ।
इदं रहस्यं देवेशि गोपनीयं स्वयोनिवत् ॥ १६५ ||
तारा काली छिन्नमस्ता त्रिशक्तिमात्रगोचरः ।
इति संक्षेपतः प्रोक्तं किमन्यच्छोतुमिच्छसि ॥ १६६ ||
इति श्रीमदक्षोभ्यतारासंवादे शक्तिसंगमतन्त्रे तारासूक्ते आम्नायपटलः सप्तमः ||

Paṭala 8: Śiva und Śakti, Śaṅkaras Überlieferung und die Yantras

अष्टमः पटलः ।
श्रीदेव्युवाच देवेश श्रोतुमिच्छामि रहस्यं पूर्वसूचितम् ।
श्रीशिव उवाच- रहस्यातिरहस्यं च कथ्यते शृणु साम्प्रतम् ॥ १ ||
आदिनारायणः साक्षात् परशम्भुः स एव हि ।
तदेव निर्गुणं ब्रह्म बृहत्त्वाद् ब्रह्म कीर्तितम् ॥ २ ||
शुद्धस्फटिकवद् देवि सैव श्रीप्रकृतिर्वरा ।
वासुदेवो हरो ब्रह्मा तारिणी प्रकृतिः स्वयम्॥ ३ ||
यां विचिन्त्य महादेवि जलशायी स्वयं हरिः ।
जलापच्छमनी तारा सैव प्रोक्ता महेश्वरी ॥ ४ ||
आपो नारायणः प्रोक्तस्तारां तोयप्लवे स्मरेत् ।
स्मरणादेव विद्याया निर्गुणो योगपट्टधृक् ॥ ५ ||
आदिमध्यान्तरहिता गुणातीता महोज्ज्वला ।
आदर्शवत् स्वच्छरूपा महाशक्तिः प्रकीर्तिता॥ ६ ||
उभयोर्मध्यभागे तु प्रतिबिम्बं च यद् भवेत्।
तस्य चास्याः प्रतिबिम्बं तु शिवे संदृश्यते स्फुटम् ॥ ७ ||
शिवस्य प्रतिबिम्बं तु प्रकृतौ दृश्यते स्फुटम्।
केचिच्छक्तीति संप्राहुः केचिच्छिव इतीरिरे॥ ८ ||
केचिन्नारायणं प्राहुः सैव काली च तारिणी ।
उभयोः प्रतिबिम्बं तु ह्यार्धनारीश्वरो मतः ॥ ९ ||
पराप्रासादविद्या तु सैवात्र परिकीर्तिता।
प्रतिबिम्बं भवेन्माया ततो ब्रह्मा महेश्वरः ॥ १० ||
विष्णुरीश्वर इत्याद्या लोकपालादयः शिवे ।
सृष्टिर्जाता महेशानि तयोरंशसमुद्भवा ॥ ११ ||
अविनाशी सदा स्थायी शम्भुश्च प्रकृतिस्तथा ।
आद्यन्तरहिता पूर्णा चिद्घना सत्स्वरूपिणी॥ १२ ||
सर्वोत्तरं तदाम्नायः सर्वं तत्र प्रतिष्ठितम् ।
महोग्रतारा सा विद्या महाक्रूरा प्रकीर्तिता॥ १३ ||
कादिहादिमताधीशस्तारोपासनतत्परः ।
अन्यथा नाधिकारीति महाशक्तिमिदं शिवे ॥ १४ ||
अन्यथा विकलो भूयान्नात्र कार्या विचारणा ।
उग्रापत्तारिणी यस्मादुग्रतारा प्रकीर्तिता ॥ १५ ||
तेजःप्रभावसंदर्शी भवेदत्रान्यथा कथम् ।
हंसतारा महाविद्या योगपट्टेश्वरी मता ॥ १६ ||
जैना: प्रभावतीं प्राहुः शाक्ताः शक्तिं समूचिरे ।
बौद्धास्तारां च संप्राहुः कौलाश्चक्रेति संविदुः ॥ १७ ||
चीना महोग्रां संप्राहुः काद्याः कालीं समूचिरे ।
हाद्याः श्रीसुन्दरीं प्राहुः कादिहादिमतेश्वरीम् ॥ १८ ||
कहेत्येवं महामन्त्रस्तूत्तराम्नायगोचरः ।
जीवमात्रे महेशानि कहेत्येवं सरस्वतीम् ॥ १९ ||
जीवो हंसेति संप्राहुर्हंसः सोहंस्वरूपिणी ।
हकारः प्रथमः पक्षः सकारस्तु द्वितीयकः ॥ २० ||
पक्षद्वयविनिर्मुक्ता तारा कामकला मता ।
वागनुत्तरविद्या तु तत्रोत्पन्ना महेश्वरि ॥ २१ ||
सोकारे परमेशानि सकारः प्रथमो भवेत् ।
हकारस्तु द्वितीयः स्यात् तेन प्रणवरूपिणी ॥ २२ ||
प्रणवो निर्गुणः प्रोक्तः सर्वाद्यो वेदगोचरः ।
वेदमाता तु गायत्री तदाद्यः प्रणवः स्मृतः ॥ २३ ||
प्रणवोपासिनां प्रोक्ता निर्गुणोपासना भवेत् ।
गायत्रीं जपमानास्ते सर्वे शाक्ता द्विजातयः ॥ २४ ||
गायत्री वेदमाता या सैव काली च तारिणी ।
छिन्ना प्रेमास्पदा सैव विश्वामित्रप्रसाधिता ॥ २५ ||
शूद्राश्च पशवः प्रोक्ताः शाक्ताः सर्वे द्विजातयः।
अपि चाण्डालजातिस्थस्तारोपासनतत्परः ॥ २६ ||
पूर्णदीक्षासमायुक्तः सैव श्रीकालिकाम्बिका ।
तव यत्नेन जातित्वे कारणं न मयेरितम्॥ २७ ||
अत्रार्थे प्रत्ययो देवि ध्रुवं पूर्वं यथा भवेत् ।
वर्षमात्रभवो बालः पूर्णदीक्षासमन्वितः ॥ २८ ||
तदन्यो हि ऋषिर्देवि वर्षसहस्त्रभागपि ।
ऋषि: कनिष्ठो देवेशि बाल: श्रेष्ठ: प्रकीर्तित: ॥ २९ ||
द्विसप्ततिसहस्रासु देहसंस्थासु नाडिषु।
मुख्या सहस्रद्वितयी तन्मध्ये त्रितयी वरा ॥ ३० ||
काली तारा तथा छिन्ना नाडीत्रितयरूपिणी ।
जीवमात्रे महेशानि सदा तिष्ठति नित्यशः ॥ ३१ ||
अज्ञानात् फलदाऽपि स्याद् ज्ञानाद्राज्यमाप्नुयात् ।
पृष्ठवंशस्थितो दण्डो मेरुदण्ड: प्रकीर्तितः ॥ ३२ ||
तदाचाराद् ब्रह्मतारा दण्डमाश्रित्य नाडयः ।
तिष्ठन्ति देवदेवेशि तत्तद्योगेन सिद्धयः ॥ ३३ ||
खट्वाङ्गेति स एवोक्तः पृष्ठवंशः प्रकीर्तितः ।
शक्तिन्यासे महेशानि खट्वाङ्गात्तु यतः स्मृतः॥ ३४ ||
तत्तन्नाडीनादयोगाद् भूयस्यः स्युर्हि सिद्धयः ।
ब्रह्मताराभ्यासयोगान्नादयोगः प्रजायते ॥ ३५ ||
नादो ध्वनिरिति प्रोक्तः सप्तधा स हिकीर्तितः ।
तदेव निर्गुणं ब्रह्म ध्येयं परगुणोत्तरम्॥ ३६ ||
यथाकारस्तु वीणायां पृष्ठवंशे तथा भवेत् ।
सगुणा ध्यानयोगात्तु यथा निर्गुणतां ब्रजेत् ॥ ३७ ||
यथा वीणाभ्यासयोगान्नादयोगः प्रजायते ।
तथा ताराजापयोगाद् देहे नादः प्रवर्तते ॥ ३८ ||
देहनादे जायमाने सिद्धभूमिः प्रकीर्तिता ।
सिद्धभूमिर्महेशानि मेधादीक्षाप्रगोचरा॥ ३९ ||
विद्याभ्यासान्महेशानि जीवः कीटो भवेद् ध्रुवम्।
कीटो भ्रमरतां प्राप्य यथा विशति निर्गुणे॥ ४० ||
आश्चर्य तु महेशानि जीवो जीवप्रवेशकः ।
परकायप्रवेशो हि सैव प्रोक्तो महेश्वरि ॥ ४१ ||
मेधादीक्षां समासाद्य साम्राज्यदीक्षयाऽन्वितः ।
साधको भवति प्राज्ञे नान्यथा शाङ्करं वचः॥ ४२ ||
सर्वसाम्राज्यमेधाभिः संयुक्तो यस्तु मानवः ।
दिव्यसाम्राज्यदीक्षायामधिकारी भवेद् ध्रुवम्॥ ४३ ||
दिव्यसाम्राज्यदीक्षा तु ताराविद्याप्रगोचरा ।
ऊर्ध्वाम्नायेश्वरी देवि महोग्रा तारिणी स्मृता ॥ ४४ ||
ब्रह्मविद्या तु सम्प्रोक्ता वेदोपास्या निरन्तरम्।
तदाम्नायं प्रवक्ष्यामि येन तन्मयतां ब्रजेत्॥ ४५ ||
आदौ तु स्पर्शताराऽत्र चन्द्रवर्णा प्रकीर्तिता ।
चन्द्रघण्टा घण्टिका च द्वात्रिंशद्वर्णगोचरा ॥ ४६ ||
त्रैलोक्यविजया विद्या पूर्वाम्नाये प्रकीर्तिता ।
सृष्टिरूपो मन्त्रयोगः पूर्वाम्नाये प्रकीर्तितः ॥ ४७ ||
चिन्तामणिः सिद्धजटा त्रिजटा क्रूरमारिका ।
क्रूरचण्डा महाचण्डा चतुर्वेदोदरी शिवे ॥ ४८ ||
माहेश्वरी भयंकार्यो नारसिंही तथेव च ।
वज्रतारा ब्रह्मतारा मणितारा परा शिवे ॥ ४९ ||
दक्षिणाम्नाय आख्यातः स्थितिरूपः सनातनः ।
भक्तियोगो महेशानि कुल्लुकाष्टकसंयुतः ॥ ५० ||
उग्रतारा महेशानि सा तु सप्ताक्षरी शिवे ।
चतुरशीतिभेदा च हंसतारा महेश्वरि ॥ ५१ ||
पश्चिमाम्नाय आख्यातः संहारः कर्मयोगवान् ।
अष्टौ तारामन्त्रषट्कं विधानं ज्ञानयोगवान् ॥ ५२ ||
विद्याभेदाश्च सकलाश्चोत्तराम्नायगोचराः ।
महोग्रतारा देवेशि महानीला तथैव च॥५३ ||
श्रीमच्छाम्भवतारा च श्रीमहानीलशारदा ।
श्रीचीनसुन्दरीविद्या श्रीनीलसुन्दरी तथा ॥ ५४ ||
महानीलसुन्दरी च ऊर्ध्वाम्नायप्रगोचराः ।
अनुग्रहो हि स्वाराज्ययोगश्चात्र प्रकीर्तितः ॥ ५५ ||
रसायनं च वेतालो वह्निवेताल एव च ।
यक्षिण्याद्या अप्सरान्ताः पातालाम्नायगोचरा: ॥ ५६ ||
सम्भोगयोगो देवेशि पञ्चकृत्यं सकृच्छिवे ।
पातालाम्नाय इत्युक्तस्त्रैलोक्योत्पत्तिरूपधृक् ॥ ५७ ||
गोपितं सर्वतन्त्रेषु तव स्नेहात् प्रकाशितम्।
रहस्यातिरहस्यं च रहस्यातिरहस्यकम्॥ ५८ ||
गोपनीयं गोपनीयं गोपनीयं पुनः शिवे।
एतत्रयसमायुक्तस्त्रिशक्तिः स्यान्न संशयः॥ ५९ ||
उत्पत्स्यमानरूपो हि सम्प्रदायः प्रतन्यते ।
कलौ पापसमाकीर्णे नान्ये योगा महेश्वरि॥ ६० ||
आम्नायाश्चैव पूर्वोक्ता गोपितव्या महेश्वरि ।
वक्ष्यमाणो महेशानि प्रकाश्यः सर्वजन्तुषु॥ ६१ ||
कलौ युगे च सम्प्राप्ते जम्बुद्वीपे महेश्वरि ।
खण्डे भरतसंज्ञे तु श्रीशैलगिरिगह्वरे ॥ ६२ ||
परिधावीवत्सरे तु सप्तम्यां शनिवासरे ।
उद्दण्डवर्षातीते तु दिननित्योदये शिवे ॥ ६३ ||
सकारोदयवेलायां मध्याह्ने शाङ्करे गृहे ।
बौद्धोत्सादनकार्यार्थं शङ्करो मर्त्यरूपधृक् ॥ ६४ ||
अवतीर्णो महेशानि पञ्चप्रेतसमन्वितः ।
यदा यदा सतां हानिर्धर्मग्लानिर्महेश्वरि ॥ ६५ ||
तदावतारो देवेशि हरेर्भवति पार्वति।
हरिगर्वापहारार्थं भक्तानुग्रहणाय च ॥ ६६ ||
धर्मसंस्थापनार्थं हि शङ्करोऽवतरिष्यति ।
वाराहवक्त्रनृहरी यथा गर्वेण तर्पितान्॥ ६७ ||
तथा कलियुगे प्राप्ते शङ्करः कलिशङ्करः ।
चतुर्दिक्षु चतुःप्रेता मध्यरूपेण पार्वति ॥ ६८ ||
मध्ये स्वयं शङ्करो हि सदा तिष्ठति पार्वति ।
वर्षषोडशपर्यन्तं समस्तं च करिष्यति ॥ ६९ ||
दक्षिणामूर्तिरूपो हि सोहङ्कारद्विपक्षधृक् ।
निर्वाणचरणान्ते तु पुनरुद्धारकारकः॥ ७० ||
निर्वाणचरणौ देवि सकलौ निष्कलौ शिवे ।
पराप्रासादसंयुक्तः सकलः श्रीसदाशिवः ॥ ७१ ||
निष्कलः शङ्करो देवि व्यासो नारायणो तथा ।
महानीलोपासको हि पूर्वव्यासः प्रकीर्तितः ॥ ७२ ||
कलौ युगे शङ्करो 'हि दिव्यसाम्राज्यदीक्षितः ।
तत्क्रमः परमेशानि कथ्यते शृणु साम्प्रतम् ॥ ७३ ||
महाप्रणवदीक्षाख्यश्चाम्नायः परमेश्वरि ।
शङ्करस्तु मुखं देवि चत्वारः परितः पद्मम् ॥ ७४ ||
पञ्चप्रेताशिनस्ते च शङ्करः शङ्करः स्वयम् ।
पूर्वाम्नायो भवेत् पूर्वभागे गोवर्धनो मठ: ॥ ७५ ||
सम्प्रदायो भोगवारो वनाश्रमपदे शिवे ।
जगन्नाथो देवतात्र क्षेत्रं तु पुरुषोत्तमम् ॥ ७६ ||
देवी तु विमला देवि तीर्थ चैव महोदधिः ।
बलभद्रप्रभाचार्यौ रक्षकौ परिकीर्तितौ ॥ ७७ ||
भुवनेशी महाविद्या सभेदा परिकीर्तिता ।
सृष्टिरूपी मन्त्रयोगस्तत्त्वसङ्केततन्त्रवित्॥ ७८ ||
दक्षिणे दक्षिणाम्नायः शृङ्गेरीमठ एव च।
भूवाराख्यः सम्प्रदायः पदं चैव सरस्वती॥ ७९ ||
श्रीपुरी भारती देवी क्षेत्रं रामेश्वराभिधम्।
आदिवाराहरूपी तु देवता परिकीर्तिता॥ ८० ||
श्रीमहाचोलकामाक्षा देवी श्रीसुन्दरी परा ।
ऋषिः शृङ्गी तथा पृथ्वीश्रीधराचार्य इत्यपि॥ ८१ ||
तुङ्गभद्रा भवेत् तीर्थ ब्रह्मचारी तु तत्र च।
देवता कमला प्रोक्ता विष्णुशैलाख्यकाञ्जिका ॥ ८२ ||
चैतनाख्यः सिद्धपूर्वो भक्तियोगो महेश्वरि ।
स्थितिरूपो महेशानि पञ्चविंशतितन्त्रयुक् ॥ ८३ ||
अथ वै पश्चिमाम्नाये शारदामठ ईरितः ।
सम्प्रदायः कीरवारस्तीर्थाश्रमपदे भवेत् ॥ ८४ ||
क्षेत्रं तु द्वारकाख्यं च सुसिद्धेश्वरदेवता।
भद्रकाली भवेद् देवी ब्रह्मा तत्र प्रतिष्ठति॥ ८५ ||
श्रीविश्वरूपाचार्यस्तु गङ्गा श्रीगौतमी मता ।
तीर्थ तु परमेशानि संहारः कर्मयोगधृक् ॥ ८६ ||
पञ्चसप्ततितन्त्रैस्तु विद्या श्रीत्रिपुराम्बिका ।
उत्तरे चोत्तराम्नाय: श्रीज्योतिर्मठ इत्यपि ॥ ८७ ||
सम्प्रदायो नन्दवारो गिरिपर्वतसागराः ।
पदं प्रोक्तं महेशानि क्षेत्रं बदरिका भवेत् ॥ ८८ ||
देवता श्रीपूर्णगिरिः सर्वसिद्धिप्रदो महान् ।
श्रीनरस्त्रोटकाचार्यो मन्त्रशास्त्रविशारदः ॥ ८९ ||
अलकनन्दा भवेत् तीर्थ सर्वतीर्थोत्तमोत्तमम् ।
रक्षकाश्च महाचीना बौद्धशास्त्रविडम्बकाः ॥ ९० ||
अधिष्ठात्री भवेत् तारा विधानं तत्र तिष्ठति ।
ज्ञानयोगो भवेत् तत्र ब्रह्मचारी च नन्दकः ॥ ९१ ||
ऊर्ध्वाम्नायं सुमेरुश्च विज्ञानं च पदं भवेत् ।
काश्मीरसम्प्रदायो हि क्षेत्रं कैलाससंज्ञकम् ॥ ९२ ||
निरञ्जनो देवताऽत्र मायादेवी प्रकीर्तिता ।
ईश्वराचार्य इत्युक्तस्तीर्थ च मानसं सरः॥ ९३ ||
स्वरूपश्च प्रकाशश्च चैतन्यानन्दव्यत्ययात् ।
विद्या श्रीदक्षिणा काली ह्यणिमाष्टकयोगवित् ॥ ९४ ||
महापद्मागमानां च पारवेत्ता स्वयं शिव: ।
रहस्यातिरहस्यं च कथितं तव भक्तितः ॥ ९५ ||
अयमेको महेशानि कलौ क्वापि भविष्यति ।
दिव्यौघद्वारतो देवि प्रकाशत्वं गमिष्यति॥ ९६ ||
एतद्धेदा महेशानि कथ्यन्ते श्रृणु सादरम्।
चतुर्युगाश्च चत्वारः स्वयं तदपि यो महान्॥ ९७ ||
चतुर्भिः सह शिष्यैस्तु शङ्करोऽवतरिष्यति ।
शङ्करः शङ्करः साक्षाद् व्यासो नारायणो हरिः ॥ ९८ ||
शङ्करश्च ततो देवि नारदः परिकीर्तितः ।
दत्तात्रेयो बृहत्तेनो जैगीषव्यश्च कश्यपः ॥ ९९ ||
वशिष्ठश्च रथाङ्गश्च शौनकः कण्व एव च।
शातातपो दिग्विधः स्यादेवं देवि प्रकीर्तितः॥ १०० ||
ज्ञानकाण्डं क्रियाकाण्डं धर्मकाण्डं तथैव च ।
योगकाण्डं चतुर्थं स्याद् भावकाण्डं तु पञ्चमम् ॥ १०१ ||
ज्ञानयोगो राजयोगो लययोगस्तृतीयकः ।
हठयोगश्चतुर्थः स्यान्मन्त्रयोगस्तु पञ्चमः ॥ १०२ ||
मन्त्रयोगो द्विधा देवि भावक्रियाक्रमेण च ।
एते योगा मया प्रोक्ताः संन्यासक्रममार्गतः ॥ १०३ ||
सरस्वती भारती च पर्वतारण्यसागराः ।
गिरिः पुरी वनस्तीर्थश्चाश्रमो दशमः स्मृतः ॥ १०४ ||
दशनामक्रमेणोक्तं पञ्चकं दशकं भवेत् ।
दशानां द्विविधत्वं च शृणु यत्नेन साम्प्रतम् ॥ १०५ ||
आनन्दसरस्वती देवि तथेन्द्राख्यः सरस्वती ।
चैतन्यश्च प्रकाशश्च स्वरूपानन्द एव च ॥ १०६ ||
अपरश्च परश्चैव सप्तप्रज्ञः प्रसादकः ।
नित्यः सत्यश्चिद्घनश्च कैवल्यश्च त्रयोदश ॥ १०७ ||
विश्वरूपो विराट् चैव विलासश्चित्स्वरूपवान्।
शाश्वतश्च ततो देवि न्यासभेदा मयेरिताः॥ १०८ ||
कलहट्टो गोमुखश्च विज्ञानवल्लभादयः ।
आद्यस्तु केरलः प्रोक्तो द्वितीयो गौड एव च ॥ १०९ ||
केरलो दक्षिणः प्रोक्तो गौडो वामः प्रकीर्तितः ।
केरलो वेदमार्गस्थो निगमाद् वाम एव च॥ ११० ||
एते संक्षेपतः प्रोक्ता ब्रह्मान्तं सादान्तकं शृणु ।
कलौ युगे शङ्करो हि ह्यावतीर्णो महेश्वरि ॥ १११ ||
शङ्करश्च महेशानि हस्तामळक एव च ।
सुरेश्वरस्ततः प्रोक्तस्त्रोटकस्तदनन्तरम् ॥ ११२ ||
पद्मपादः पञ्चमः स्यात् पञ्चप्रेतानुकल्पनम् ।
मुख्या परम्परा देवि मया प्रोक्ता हिताय च ॥ ११३ ||
विच्छिन्ना तु ततो भूयात् पुनः सा वै भविष्यति ।
शङ्करस्य तु योगेन भविष्यति स्फुटं शिवे ॥ ११४ ||
इति संक्षेपतः प्रोक्तं दक्षिणामूर्तिसम्मते ।
जटी मुण्डी शिखी चेति त्रैविध्यं परिकीर्तितम्॥ ११५ ||
प्रणवोपासना देवि निर्गुणाख्या प्रकीर्तिता ।
विशेषरूपयोगेन भेदं श्रीचक्रके शृणु ॥ ११६ ||
मेरुकैलासभूकञ्जकूर्मश्रीरत्नगर्भकम् ।
एवं क्रमेण संयोगात् प्रस्तारपञ्चकं भवेत् ॥ ११७ ||
पूर्णापूर्णक्रमेणैव नराणां भेदभाजनम् ।
प्रस्तारे मेरुसंज्ञे तु शक्तिचक्राणि पञ्च वै॥ ११८ ||
प्रोक्तान्यूर्ध्वमुखान्यत्र शक्तिचक्राण्यधः क्रमात् ।
कैलासाख्ये महेशानि किञ्चिदाकुञ्चितं भवेत्॥ ११९ ||
भूप्रस्तारे महेशानि द्विविधत्वं क्रमेण तु ।
ऊर्ध्वपातालभेदेन द्विविधत्वं प्रकीर्तितम् ॥ १२० ||
पातालरेखा देवेशि पूजने गर्हिता भवेतू।
पातालरेखा विश्वेशि स्थापने चररूपके॥ १२१ ||
शुभदं कथितं देवि न मया पूजने मतम्।
ऊर्ध्वरेखां समारभ्य मेर्वन्तं महदुत्तमम् ॥ १२२ ||
पूजने कथितं देवि रचनां शृणु यत्नतः ।
चतुर्वह्निं समुत्पाद्य पञ्चशक्तिं ततः प्रिये ॥ १२३ ||
प्राक् प्रत्यक् क्रममार्गेण मर्मसन्ध्यादिकं भवेत् ।
अष्टादश तु मर्माणि चतुर्विंशति सन्धयः ॥ १२४ ||
चतुर्भिश्चैव श्रीकण्ठैः पञ्चभिः शिवशक्तिभिः ।
चक्रक्रमेण युक्ताभिः संबद्धाभिः परस्परम्॥ १२५ ||
एवं चक्रस्वरूपेण शम्भोस्तु भवशक्तिभिः ।
चत्वारिंशत्त्रयः कोणा वृत्तं चाष्टदलं तथा ॥ १२६ ||
पुनर्वृत्तं कलापत्रं त्रिवृत्तं भूपुरत्रयम् ।
चतुर्दशान्त(?र)मारभ्य भूपुरान्तं महेश्वरि ॥ १२७ ||
चत्वारि शिवचक्राणि शक्तिचक्राणि वै श्रृणु ।
चतुर्दशारमारभ्य त्रिकोणानां महेश्वरि ॥ १२८ ||
पञ्च वै शक्तिचक्राणि दक्षिणामूर्तिसम्मते ।
आनन्दभैरवमते चक्राणि श्रृणु यत्नतः ॥ १२९ ||
चतुर्दशारमारभ्य भूपुरान्तं महेश्वरि ।
चत्वारि शिवचक्राणि शाक्तानि शृणु यत्नतः ॥ १३० ||
बहिर्दशारमारभ्य बिन्द्वन्तं परमेश्वरि ।
पञ्च वै शक्तिचक्राणि त्रिवृत्तरहितं प्रिये॥ १३१ ||
रहस्यातिरहस्यं हि मयोक्तं तव सुव्रते ।
अल्पोच्चारादधर्मत्वाद् भ्रष्टत्वाद् देवि सुब्रते॥ १३२ ||
कूटोच्चारणकं कर्म कलौ कस्य भविष्यति ।
तस्मात् सर्वप्रयत्नेन योग्यं योग्याय दापयेत् ॥ १३३ ||
बालोपास्या सदा देवि कामोपास्या तु कर्हिचित् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छोतुमिच्छसि ॥ १३४ ||
श्रीदेव्युवाच देवेश श्रोतुमिच्छामि रहस्यं पूर्वसूचितम् ।
श्रीशिव उवाच- रहस्यातिरहस्यं च कथ्यते शृणु साम्प्रतम् ॥ १३५ ||
कादिहादिमतत्वेन कहरूपत्वभेदनात् ।
यन्त्राणि देवदेवेशि प्रस्तारत्वेन कृत्स्नशः॥ १३६ ||
कथ्यन्ते परमेशानि रहस्यातिरहस्यकम् ।
हादिप्रस्तारः पूर्वोक्तः कादावपि कहेऽपि च॥ १३७ ||
कथ्यते परमेशानि गोपनीयं स्वयोनिवत् ।
पूर्णमेरुर्मध्यमेरुः साध्यमेरुस्तथैव च ॥ १३८ ||
कलामेरुः शक्तिमेरुर्मातृका योगिनी तथा ।
शम्भुमेरुः परामेरुर्नवमो बिन्दुसंज्ञकः ॥ १३९ ||
पूर्णमध्यकनिष्ठादिभेदः सामान्य ईरितः ।
पूर्णमध्यकनिष्ठादिभेदात् कैलास एव हि ॥ १४० ||
भूप्रस्तारो द्विधा देवि ऊर्ध्वपातालभेदतः ।
त्रित्रिः क्रमादुत्तरं स्यात् क्रमोत्क्रममथापि वा ॥ १४१ ||
द्वित्रिक्रमादुन्नतोऽपि द्वित्रिक्रममथापि वा ।
यवान्तरं यवार्ध वा तिलयुक् तिलमेव वा ॥ १४२ ||
तण्डूलार्धं तच्च वा स्यात् तद्द्वयक्रमभेदतः ।
भूभेदादपि च शिवे द्वैविध्यं परिकीर्तितम् ॥ १४३ ||
मेरुः स्वर्गे च कैलासे मृत्युलोके प्रकीर्तितः ।
भूप्रस्तारस्तु पाताले त्रितयं कीर्तितं मया ॥ १४४ ||
कञ्जकूर्मरत्नगर्भाः सर्वत्र पूजने शुभाः ।
शुभाः सर्वे महेशानि सर्वसिद्धिप्रदायकाः ॥ १४५ ||
ऊर्ध्वरेखाभिधो यस्तु पूजार्थ मृत्युगोचरः ।
स्थापनार्थं तु पातालरेखा च कुत्रचिन्मता ॥ १४६ ||
केसरद्वययुक्तं च दल प्रोक्तं महेश्वरि ।
दण्डाकारं बिन्दुचक्रं तद्वयाक्तं महेश्वरि ॥ १४७ ||
पातालरेखाप्रस्तारे केसरे मुखबिन्दुता ।
ऊर्ध्वरेखाविधौ देवि रेखाकेसरता मता॥ १४८ ||
श्रीविद्यायां कालिकायां केसराणि क्वचिच्च वा ।
श्रीविद्यायां तत्र देवि केसराणि न कारयेतू॥ १४९ ||
बीजहीन॑ तु यद्यन्त्रं तद्यन्त्रं शववद्धवेत् ।
अथवा च दलाकार यन्त्रं त्रिः सप्तमीयुतम्॥ १५० ||
दलेष्वपि महेशानि केसराणि न चात्र वै ।
कादावपि महेशानि प्रस्तारनवकं भवेत्॥ १५१ ||
बीजयुक्तं मध्यबिन्दु बीजबिन्दुविभूषितम्।
यन्त्रं मन्त्रं समासाद्य पूजयेत् कालिकाम्बिकाम्॥ १५२ ||
महाशङ्खे शिलायां च न यन्त्रविचारणा।
शालग्रामे बाणलिङ्गे कोणे वा परमेश्वरि॥ १५३ ||
नावाहनं न वा प्राणस्थापनं न विसर्जनम्।
पीठं पूज्य प्रयत्नेन ततो यन्त्रं विचारयेत्॥ १५४ ||
यन्त्रं विलिख्य यत्नेन तत्र पीठं प्रपूजयेत् ।
पीठयुक्ता भवेन्मूर्तिर्न मूर्तिस्त्वितरा भवेत् ॥ १५५ ||
पञ्चावरणपीठाद्यैर्भूषिता परमेश्वरि ।
सा मूर्तिर्वरदा प्रोक्ता क्षणमात्रेण सिद्ध्यति ॥ १५६ ||
नावाहनं न पीठं च न कुर्यात् तद्विसर्जनम् ।
यन्त्रे यदीदृशी मूर्तिस्तस्य भाग्यपरम्परा(म्)॥ १५७ ||
वक्तुं शक्रोति कश्चात्र त्रैलोक्यविजयी स तु ।
सदाशिवमतं प्रोक्तं शृणुष्वानन्दभैरवम्॥ १५८ ||
प्रस्तारत्रितयं देवि पूर्वमेव प्रकाशितम् ।
तन्मध्ये त्रितयं देवि स्थलत्रितयकं भवेत्॥ १५९ ||
स्वर्गे मेरुर्महेशानि कैलासो मृत्युलोकके ।
भूप्रस्तारस्तु पाताले संक्षेपात् कीर्तितं मया॥ १६० ||
अथ वै दक्षिणामूर्तेर्मतं शृणु च पार्वति ।
पूर्णमेरु: श्रीपुरे स्यात् कैलासे पूर्णसंज्ञक:॥ १६१ ||
मृत्युलोके मया प्रोक्तः पूर्णभूः सुतले भवेत् ।
विरूपाक्षमतं देवि कथ्यते शृणु साम्प्रतम् ॥ १६२ ||
स्वर्गे मेरुर्महेशानि भूप्रस्तारस्तु मानवे ।
पाताले चैव कैलासस्त्रितयं कीर्तितं मया ॥ १६३ ||
बटुकस्य मतं देवि कथ्यते शृणु साम्प्रतम् ।
नित्याषोडशतादात्म्यं मेरुप्रस्तार ईरितः ॥ १६४ ||
मातृकायाश्च तादात्म्यात् कैलासाख्यः प्रकीर्तितः।
वाग्देवतायास्तादात्म्याद् भूप्रस्तारः प्रकीर्तितः ॥ १६५ ||
सृष्टिस्थितिलयत्वेन सुन्दरीयन्त्रपूजनम् ।
सृष्टिसंहारमार्गेण कालिकायन्त्रपूजनम्॥ १६६ ||
सृष्टिसंहारमार्गेण तारा छिन्ना च पीतभा ।
पर्यायप्रस्तारत्वेन खेचरीसिद्धिनामके ॥ १६७ ||
चूडामणौ महेशानि यन्त्राणि पूर्वमेव तु ।
चतुःकालमतत्वेन बटुकः पञ्चमो मतः ॥ १६८ ||
एतद्भेदेन श्रीकाल्या यन्त्राणि संशृणु प्रिये ।
आदौ शक्तिं समुत्पाद्य शक्तीनां तु चतुष्टयम् ॥ १६९ ||
बाह्यावाह्यक्रमेणैव मध्ये बिन्दु लिखेच्छिवे ।
यन्त्र विलिख्य देवेशि भूपुरैकेन संयुतम्॥ १७० ||
क्वचिद् भूपुरशब्देन चतुरस्रं प्रकीर्तितम् ।
अत्र भूपुरशब्देन चतुर्द्ारात्मकं भवेत्॥ १७१ ||
त्रिकोणत्रयमालिख्य षट्कोणं च ततोपरि ।
वृत्ताष्टदलवृत्तं च भूपुरेण समन्वितम् ॥ १७२ ||
बिन्दुमध्ये तु श्रीमाया कालीयन्त्रं सुसिद्धिदम् ।
मतमन्यं शृणु प्राज्ञे योनिचक्रं लिखेत् सुधीः ॥ १७३ ||
योनिद्वयं ततो लिख्य षट्कोणं च ततो भवेत् ।
ततश्चाष्टदलं पद्मं भूगृहेण समन्वितम् ॥ १७४ ||
यन्त्रमेतन्महेशानि महासाम्राज्यदायकम् ।
आदौ योनिं समालिख्य योनिं च तद्वहिर्लिखेत् ॥ १७५ ||
योनित्रयं तद्वहिस्तु ततो वृत्तं समालिखेत् ।
ततश्चाष्टदलं पद्मं वृत्तं चैव ततोपरि ॥ १७६ ||
धरणीगृहमालिख्य यन्त्रमेतन्मयेरितम् ।
शक्तिमाद्यां समुत्पाद्य ततः शक्तिद्वयं लिखेत्॥ १७७ ||
वह्निशक्तिं समुत्पाद्य बाह्यशक्तिं विभेदयेत् ।
ग्रन्थिभेदक्रमेणैव वह्निं प्रस्तारयेदधः॥ १७८ ||
अग्निभेदक्रमेणैव शक्त्यूर्ध्वं चापि भेदयेत् ।
ऊर्ध्ववह्निविभेदेन अधोऽग्निं च विभेदयेत्॥ १७९ ||
त्रयं योनिद्वयं ब्रह्मः कालीयन्त्रं सुसिद्धिदम् ।
षट्कोणवृत्ताष्टदलं षडस्रं वज्रलाञ्छितम् ॥ १८० ||
तद्वहिर्भूपुर यन्त्रमावृत्तत्रयसंयुतम् ।
शक्तृयग्निभ्यां च षट्कोणं तत्र योनित्रयं भवेत्॥ १८१ ||
पद्ममष्टदलं वृत्तं भूश्चतुर्द्वारभूषितम् ।
यन्त्रं श्रीदक्षिणाकाल्या मध्ये मायाविभूषितम्॥ १८२ ||
मतभेदेन बीजानां निर्णयः कथ्यते शृणु ।
कं विराड्रूपमित्युक्तं तद्रूपः कालिकामनुः ॥ १८३ ||
यन्त्रं तु गृहमित्युक्तं बिन्दुस्था परमेश्वरी ।
ब्रह्मरूपो भवेद् बिन्दुस्तत्र बिन्दुं विभावयेत् ॥ १८४ ||
विराड्रूपं वह्नियुतं ततः कामकलायुतम् ।
नादबिन्दुयुतं चेत् स्याच्चिच्छक्तिः परिकीर्तिता॥ १८५ ||
विराड्बीजक्रमेणैव बीजयन्त्रं विभावयेत् ।
लेखने तु महेशानि तद्बिन्दुः प्रकीर्तितः ॥ १८६ ||
साङ्ग यन्त्रं विभाव्याथ ततो बिन्दुं विभावयेत् ।
विराड्रूपं भवेद् यन्त्रं बिन्दुः साम्राडितीरितः ॥ १८७ ||
स्वाराड्रूपं भवेद् बीजं बिन्दुमध्ये विभावयेत्।
पूर्णबिन्दुर्यदा देवि बिन्दुत्रयविभावना॥ १८८ ||
मध्यबिन्दुर्यदा देवि विराडूबीजे तु शून्यकम् ।
अर्धबिन्दुर्यदा देवि बिन्दुबीजं विराड् विना॥ १८९ ||
अधिकारक्रमेणैव क्रमाद् यत्नेन तोषयेत् ।
महाकालमते देवि बिन्दुस्वराइविभावना॥ १९० ||
सम्प्रदायक्रमेणैव त्रितयं त्रितयं भवेत्।
अतिकालमते देवि बिन्दुवैराड्विभावना॥ १९१ ||
ककारोदरमध्ये तु बिन्दुं दत्वा महेश्वरि ।
यन्त्रमध्ये लिखेद् बीजं बिन्दौ बीजं च भावयेत् ॥ १९२ ||
त्रितयं कथितं देवि सम्प्रदायक्रमेण च ।
इति संक्षेपतः प्रोक्तं रहस्यातिरहस्यकम् ॥ १९३ ||
गोपनीयं प्रयत्नेन तारायन्त्राणि वै शृणु ।
बिन्दुत्रिकोणाष्टदलं भूपुरं वज्रचिह्नितम् ॥ १९४ ||
यन्त्रमेतन्महेशानि रहस्यातिरहस्यकम् ।
बिन्दुषट्कोणवृत्त॑ च पद्मभूगृहभूषितम्॥ १९५ ||
यन्त्रं प्रोक्तं महाप्राज्ञे भूपुरद्वयतोऽन्यकम् ।
बिन्दुत्रिकोणषट्कोणं वृत्तत्रयमनन्तरम्॥ १९६ ||
चतुरस्रं ततो वृत्तं दलाष्टकं ततोपरि ।
वृत्तत्रयं समालिख्य भूपुरत्रयकं ततः॥ १९७ ||
त्रिशूलटङ्कितं यन्त्रं श्रीमहातारिणीमनोः ।
बिन्दुत्रिकोणषट्कोणं भूगृहं वृत्तमेव च॥ १९८ ||
ततो दलाष्टक लिख्य भूपुरैकेन संयुतम् ।
बिन्दुत्रिकोणषट्कोणं वृत्ताष्टदलभूषितम्॥ १९९ ||
षोडशारं दन्तपत्रं चतुष्षष्टिदलं तथा।
भूपुरत्रयसंयुक्तं यन्त्रं श्रीतारिणीमनोः ॥ २०० ||
बिन्दुषट्कोणपद्ये च भूगृहं धारणाविधौ ।
बिन्दुवृत्ताष्टदलकं भूगृहेण समन्वितम् ॥ २०१ ||
यन्त्रं नीलसरस्वत्या धारणार्थ महेश्वरि ।
बिन्दुत्रिकोणषट्कोण चतुर्दलसुशोभनम्॥ २०२ ||
त्रितत्त्वं त्रितयं देवि त्रितयं च ततः परम् ।
त्रिकोणस्य महेशानि मायां पूर्वदले लिखेत्॥ २०३ ||
दक्षे स्त्रीं विलिखेद्, देवि पश्चिमे फं लिखेत् सुधीः ।
टमुत्तरे लिखेद् देवि कूर्चं मध्ये लिखेत् सुधीः ॥ २०४ ||
तारायन्त्रमिदं प्रोक्तं केवलं वा चतुर्दलम्।
यन्त्रमेतन्मया प्रोक्तं गन्धर्वेशमतं शृणु ॥ २०५ ||
षट्कोणाष्टदलं पद्मं षोडशारमथापरम् ।
दन्तपत्रं च भूबिम्बत्रितयं तारिणीमनोः ॥ २०६ ||
यन्त्ररूपं तु छिन्नायां बगलायां च वा भवेत् ।
कलाशतं च सुन्दर्याः पूर्वमेव प्रकाशितम् ॥ २०७ ||
रहस्यातिरहस्यं च तव स्नेहात् प्रकाशितम् ।
प्रकृत्या तु विना देवि न संसारः क्वचिद् भवेत्॥ २०८ ||
पुरुषं च विना देवि न विद्या सिद्धिदायिनी ।
तस्मात् कारणतो देवि द्वितयं प्रभजेच्छिवे ॥ २०९ ||
कालिकायां महाकालः सुन्दर्या ललितेश्वरः ।
तारायां च तथाऽक्षोभ्यश्छिन्नायां विकराल्लकः ॥ २१० ||
भुवनायां महादेवो धूम्रायां कालभैरवः ।
नारायणो महालक्ष्म्यां भैरव्यां बटुकः स्मृतः ॥ २११ ||
मातङ्गयां च मतङ्गः स्यादथवा स्यात् सदाशिवः ।
मृत्युञ्जयस्तु बगलाविद्यायां परिकीर्तितः॥ २१२ ||
भैरवं वा शिवं वापि स्वर्णाकर्षणभैरवम् ।
बटुकस्य तु संयोगाद् विद्या: सिध्यन्ति नान्यथा ॥ २१३ ||
पार्षन्मण्डलसंयोगात् तथा भैरवयोगतः ।
क्रोधभैरवसंयोगाद् यक्षिण्यः सिद्धिदा यथा ॥ २१४ ||
तथा विद्याः प्रसिद्ध्यन्ति पुंयोगादेव पार्वति ।
रहस्यातिरहस्यं च गोपनीयं स्वयोनिवत् ॥ २१५ ||
गोपनीयं महेशानि प्रकाशात् सिद्धिरोधकृत् ।
प्राणान्तेऽपि न वाच्यं च तव स्नेहात् प्रकाशितम्॥ २१६ ||
शङ्करोत्पत्तितो देवि महाकलियुगे शिवे।
वर्षसाहस्रकस्यान्ते त्रिंशद्वर्षोत्तरं शिवे ॥ २१७ ||
तन्त्रस्यास्य महेशानि प्रकाशोऽत्र भविष्यति ।
न वक्तव्यं न वक्तव्यं प्राणान्तेऽपि महेश्वरि॥ २१८ ||
अन्यथा कुरुते यस्तु तस्य पातो भविष्यति।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥ २१९ ||
इति श्रीमदक्षोभ्यतारासंवादे तारासूक्ते यन्त्रभेदनिर्णयो नामाष्टमः पटलः ||

Paṭala 9: Rāma und Śiva, Kuṇḍalinī und das Zählen der Mantras

नवमः पटलः ।
श्रीदेव्युवाच देवेश सर्वविद्येश वृषभध्वज शङ्कर ।
सर्व त्वया निगदितं सूचितं यद् रहस्यकम् ॥ १ ||
तन्मे कथय देवेश यद्यहं तव वल्लभा ।
श्रीशिव उवाच- कदाचिदाद्या ललिता पुंरूपा कृष्णविग्रहा ॥ २ ||
लोकसम्मोहनार्थाय स्वरूपं बिभ्रती परा ।
वेणुनादसमारम्भा सर्वसम्मोहनक्षमा ॥ ३ ||
कदाचिदाद्या श्रीकाली सैव ताराऽस्ति पार्वति।
कदाचिदाद्या श्रीतारा पुंरूपा रामविग्रहा॥ ४ ||
रावणस्य वधार्थाय देवानां स्थापनाय च।
दैत्यसंहरणार्थाय रूपं संबिभ्रती परम्॥ ५ ||
आद्या तारा महाशक्तिः सैव काली महेश्वरि ।
या महावैष्णवी माया सा महासुन्दरी मता॥ ६ ||
सर्वे भेदाः कालिकायाः सैवाद्या परिकीर्तिता ।
महाविद्या सिद्धविद्या विद्याभेदैः प्रतिष्ठिता ॥ ७ ||
उपविद्यादिभेदैश्च कालिका संस्थिता भुवि ।
ताराद्या: सकला विद्या: कालिकांशादजायत॥ ८ ||
सर्वा विद्या: कालिकायां संस्थिता एव पार्वति ।
महाकालो भैरवश्च स एव हि सदाशिवः ॥ ९ ||
स एव हि महाविष्णुः सैव तत्त्वेन गीयते।
गणेशे द्वितयं देवि वर्तते तच्छृणु प्रिये ॥ १० ||
विष्णुशैवात्मकं रूपं गणेशे तिष्ठति प्रिये ।
पार्वत्यंशाद् वैष्णवत्वं शैवांशाच्छिवरूपता ॥ ११ ||
वस्तुगत्या तु चैतन्यमेकं सर्वत्र तिष्ठति ।
सर्वव्याप्यं परब्रह्म सर्व च व्याप्यः तिष्ठति॥ १२ ||
रा शक्तिरिति विख्याता मः शिवः परिकीर्तितः ।
शिवशक्त्यात्मकं ब्रह्म राम रामेति गीयते ॥ १३ ||
योगासनसमारूढं जटापटलमण्डितम् ।
विभूतिभूषितं देवं त्रिनेत्रं चन्द्रशेखरम् ॥ १४ ||
चतुर्भुजं वा द्विभुजं सकलं निष्कलं च वा ।
सर्पैर्विभूषितं देवं व्याघ्राम्बरविभूषितम् ॥ १५ ||
तेजःपुञ्जनिभं देवि सीतां तेजःस्वरूपिणीम् ।
गौरीरूपां परां सीतां महासाम्राज्यनायिकाम्॥ १६ ||
रामः परशिवो ज्ञेयो नावतारो नरोऽपि न ।
यत्परं ब्रह्म विख्यातं तद् रामेत्यक्षरद्वयम् ॥ १७ ||
श्रीदेव्युवाच इ(?ने)दं मया ज्ञातमस्ति रामः को वा शिवश्च कः ।
ऐक्यं वा भिन्नतावापि उपास्या वा विभावना॥ १८ ||
तन्मे कथय देवेश यद्यहं तव वल्लभा ।
श्रीशिव उवाच- प्रश्नः कृतस्त्वया यो हि गोप्याद् गोप्यतरः शुभः ॥ १९ ||
तारासर्वस्वविज्ञानं कथं तत्कथ्यतां शिवे।
तथापि तव सम्प्रीत्या कथ्यते श्रृणु साम्प्रतम्॥ २० ||
एकस्मिन् समये पूर्व विष्णुरुद्रावुभावपि।
विष्णोः स्वरूपसिद्ध्यर्थं तपस्तेपे हरः स्वयम् ॥ २१ ||
शिवस्वरूपसिद्ध्यर्थं तपस्तेपे हरिः स्वयम् ।
षड्वृन्दयुगसंख्यातमुभौ तपःपरौ शिवे॥ २२ ||
शिवो विष्णुस्वरूपत्वं विष्णुः शम्भुस्वरूपताम्।
उभौ हरिहरात्मानौ ह्यार्धनारीश्वरो परौ ॥ २३ ||
मुख्यरूपमिदं देवि द्वयोः सञ्जातमम्बिके ।
तेजःपुञ्जमिदं देवि ब्रह्मरूपं सनातनम्॥ २४ ||
तेजः पुञ्जादेक भूतं जगदेतच्चराचरम् ।
रामो जातः शिवो देवि राजराजेश्वरः शिवः ॥ २५ ||
श्रीशैवसुन्दरं रूपं विष्णुर्जातो महेश्वरि ।
लक्ष्मीपतिर्यो देवेशि स च वै पार्वतीपतिः ॥ २६ ||
गौरीपतिर्यो देवेशि स लक्ष्मीपतितामियुः ।
उभयोर्व्यत्ययं देवि जातमेवं महेश्वरि ॥ २७ ||
गौरीलक्ष्म्योर्व्यत्ययं हि रूपत्वेन शृणु प्रिये ।
सीता जाता स्वयं गौरी लक्ष्मी: श्रीकालसुन्दरी ॥ २८ ||
एवं जातं महेशानि शिवरामात्मकं महः ।
क्वचित्तु विष्णुवद् ध्येयं क्वचिच्छैवात्मकं प्रिये ॥ २९ ||
अत्रार्थे प्रत्ययो देवि शिवराम(?)द्वयं शिवे ।
विष्णुध्यानं शिवध्यानं गौरीलक्ष्म्योर्महेश्वरि ॥ ३० ||
ध्यानं सङ्कथ्यते देवि शिवरामात्ममेव च।
शिवरामात्मकं ज्ञानं ब्रह्मज्ञानं सनातनम् ॥ ३१ ||
यो रामः स शिवः प्रोक्तो यः शिवः स हि रामताम् ।
उभयोरन्तरं देवि यः पश्यति स मूढधीः ॥ ३२ ||
तस्य नाशो भवत्येव नात्र कार्या विचारणा ।
यथा वाञ्छाकल्पलता गौरीशैवात्मका मता ॥ ३३ ||
जपेत् षोडशसाहस्रं षट्सहस्रं च वा प्रिये ।
षोडशे तद्दशांशेन षट्सहस्रे तु षड् भवेत् ॥ ३४ ||
अधिकारक्रमेणेव छन्दोविद् ध्यानयोजनम् ।
पूर्व ब्रह्म तु यत्रोक्तं तदेव निर्गुणं महः ॥ ३५ ||
तद्योगसौख्यं देवेशि को हि जानाति पार्वति ।
अज्ञान सर्वलोकानां ज्ञानं देवि तथैव च॥ ३६ ||
शृङ्खलाद्वितयं देवि आद्या लोहमयी मता ।
द्वितीया स्वर्णजा देवि तृतीया प्रेमजा भवेत् ॥ ३७ ||
चतुर्थी लयजा प्रोक्ता विज्ञानं शृणु यत्नतः ।
परा कुण्डलिनी या तु तथा परशिवः शिवे॥ ३८ ||
बीजाङ्कुरन्याययोगाज्जपास्फटिकवच्छिवे ।
कुण्डलिन्यां तु तस्यां वै शैवतत्त्वानि वै दश ॥ ३९ ||
पञ्चविंशतितत्त्वानि षट्त्रिंशच्छैवभेदजे ।
पराप्रासादविद्यायां शाम्भवेष्वपि पार्वति॥ ४० ||
एकपञ्चाशत्तत्त्वानि कीर्तितानि मया तव ।
एका कुण्डलिनी देवि सार्धत्रिवलया शिवा॥ ४१ ||
तत्त्वान्येतानि देवेशि कथं तिष्ठन्ति शारदे ।
श्रीशिव उवाच- नाडीवायुप्रभेदेन क्षेपणाङ्करणे शिवे॥ ४२ ||
प्रसारणं रोधनं च गतिर्जृम्भा रतिर्धृतिः ।
प्रीतिरित्यादि देवेशि वायुगत्या प्रजायते॥ ४३ ||
वायुभक्षी भवेत् सर्पो वायुभक्षी तु कुण्डली ।
तथा नाडीनिरोधेन स्वाधिकारवशेन तु॥ ४४ ||
तथाऽऽ भासो महेशानि तस्यां भवति नित्यशः ।
अत एव वायुरोधात् खेचरत्वं लयोऽपि च ॥ ४५ ||
ईदृग्विधं यत्र भवेदाश्चर्य किं प्रवर्धते ।
एकैव कुण्डली देवि स्वेच्छया गुणिता भवेत् ॥ ४६ ||
तथा समस्तं त्रैलोक्यं सैव सूते हि वर्णतः ।
एकैव कुण्डली देवि सर्वतत्त्वेषु संस्थिता ॥ ४७ ||
कुण्डलीशिवयोरैक्यं यस्मिन् काले प्रजायते।
विज्ञानं च तदेव स्यात् तयोरैक्यं महेश्वरि॥ ४८ ||
लयस्य भूमिकायां तु स्थितिः प्रथमभूमिका ।
भूमिकानां तु पञ्चाशत् तदा योगेश्वरो भवेत् ॥ ४९ ||
षट्चक्र भेदनं कृत्वा कीटो भूत्वा महेश्वरि ।
ततो भृङ्गी भवेद् देवि ततः स्वानन्दरूपता ॥ ५० ||
कीटो भृङ्गीत्वमायाति भृङ्गीतः कीटता नहि ।
भृङ्गी भूत्वा महेशानि विज्ञानं लभते नरः ॥ ५१ ||
ततः समरसानन्दा चन्द्रकुण्डे महेश्वरि ।
कला सप्तदशी यत्र तथा चाष्टादशेश्वरी ॥ ५२ ||
पायं पायं सुधां पीत्वा तत्कलातो महेश्वरि ।
विज्ञानवान् शिवो भूत्वा मेधादीक्षां लभेत् ततः ॥ ५३ ||
मेधादीक्षा तु देवेशि पूर्णानन्दस्वरूपिणी ।
पूर्णानन्दे समुत्पन्ने क्षुद्रानन्देन किं फलम् ॥ ५४ ||
ज्वालास्वरूपं देवेशि तेजः पुञ्जस्वरूपताम् ।
तत्पुञ्जरूपतां गत्वा ब्रह्मरूपः शरीरधृक् ॥ ५५ ||
तल्लेशश्चानुवाहेन यथान्यत्र निपात्यते ।
तथैव देवदेवशि क्षुद्रानन्दः प्रकीर्तितः ॥ ५६ ||
अविद्यावेष्टितो भूत्वा क्षुद्रानन्दपरो नरः ।
ब्रह्मविष्णुमहेशाद्यास्त्विन्द्राद्याः किमु चापरे ॥ ५७ ||
क्षुद्रानन्दपरा ह्येते मर्त्यानां तत्र का कथा ।
ब्रह्मानन्दो महाकालः पूर्ण ब्रह्म सनातनम्॥ ५८ ||
विज्ञानरूपं तद्ब्रह्म खण्डाखण्डविवर्जितम् ।
कलां सप्तदशीं वामां महाकुण्डलिनीं पराम्॥ ५९ ||
तेजःपुञ्जां सूक्ष्मरूपां विसतन्तुतनीयसीम् ।
प्रसुप्तभुजगाकारां सार्धत्रिवलयाँ पराम्॥ ६० ||
सूर्यकोटिप्रतीकाशां चन्द्रकोटिसुशीतलाम् ।
तटित्परार्धलावण्यामग्न्यर्बुदसुदीपिनीम् ॥ ६१ ||
नीवारशूकवत् तन्वी कलाषोडशधारिणीम् ।
महाशैवे स्वतःसिद्धे स्वयम्भूनामवाचके ॥ ६२ ||
मूलाधारे महेशानि बीजाङ्कुरस्वरूपतः ।
शिवशक्त्यात्मकं स्थानं मूलाधारं विदुः शिवे ॥ ६३ ||
गुदस्य द्व्यङ्गुलादूर्ध्वं स्वाधिष्ठानादधः शिवे ।
गुह्यस्थानं च तत्प्रोक्तं गुह्यस्थानं च भिन्नतः ॥ ६४ ||
विभाव्यते यत्र यत्र तत्रैव कुण्डली परा ।
तथा स्वयम्भूलिङ्गं च पञ्चसूत्रविवर्जितम् ॥ ६५ ||
ब्रह्माण्डसूत्रसहितं कलैकेन समन्वितम् ।
द्विपत्रे बिन्दुचक्रे तु कटाहे चन्द्रसंज्ञके ॥ ६६ ||
सहस्रारस्थित शम्भु कलानन्तस्वरूपिणम् ।
ऊर्ध्ववक्त्रादधोवक्त्रं शिवं संसारयेच्छिवे ॥ ६७ ||
कुण्डलीयोगतो देवि द्वयोरैक्यं प्रजायते ।
तयोर्योगामृतं देवि कलां सप्तदशीं विदुः ॥ ६८ ||
कलां सप्तदशीं पीत्वा पूर्णरूपत्वतां ब्रज ।
भावनायोगमात्रेण सर्व संसाधयेत् प्रिये ॥ ६९ ||
मेधादीक्षाविधौ देवि प्रोक्तेयं पूर्वभूमिका ।
इति संक्षेपतः प्रोक्तं मालाभेदान् श्रृणु प्रिये ॥ ७० ||
द्विविधत्वं च प्रत्येकं सृष्टिसंहार भेदतः ।
अनामामूलमारभ्य अनामामूलपर्वणि॥ ७१ ||
त्रिपर्व च कनिष्ठाया अनामाग्रं महेश्वरि ।
मध्यमाग्राच्च तर्जन्या मूलपर्वान्तिमं शिवे॥ ७२ ||
शक्तिमाला त्वियं प्रोक्ता संहाराद् वैष्णवी भवेत् ।
मध्यमामध्यमारभ्य तदग्रातू परमेश्वरि॥ ७३ ||
अनामामध्यकस्याथ प्रदक्षिणमनुब्रजन्।
तर्जन्यग्रान्तकं देवि वसुपर्वाच्छिवाभिधा॥ ७४ ||
संहाराद् भैरवी माला तर्जन्यग्रान्तकं यदि ।
सौरी माला तु सम्प्रोक्तासंहाराद् गाणपी भवेत्॥ ७५ ||
अनामामध्यमारभ्य मध्यमामध्यतः शिवे ।
अग्रक्रमेण देवेशि तर्जन्यग्रान्तकं शिवे ॥ ७६ ||
गायत्रीमालिका प्रोक्ता संहाराद् बटुकाभिधा ।
अनामामध्यमारभ्य मध्यमामध्यभागतः ॥ ७७ ||
मूलभागक्रमेणैव प्रदक्षिणामनुव्रजेत् ।
चीनमाला तु सम्प्रोक्ता संहारात् क्षेत्रपालजा ॥ ७८ ||
मध्यमामध्यमार भ्य तर्जनीमध्यभागत: ।
अग्रक्रमेण देवेशि तर्जनीमूलतः शिवे॥ ७९ ||
गन्धर्वमालिका प्रोक्ता संहाराद् वटवासिनः ।
तर्जनीमूलमारभ्य चाग्रभागक्रमेण च॥ ८० ||
प्रदक्षिणक्रमेणैव मध्यमामूलपर्वणि ।
मञ्जुघोषमालिका तु संहारात् खेचरीविधौ ॥ ८१ ||
कनिष्ठाग्रं समारभ्य मूलाग्रान्तं क्रमेण च ।
तर्जनीमूलपर्यन्तं माला प्रोक्ता तु शाम्भवी ॥ ८२ ||
संहाराद् वारुणी माला धनदस्य प्रकीर्तिता।
कनिष्ठामूलमारभ्य सर्पदण्डक्रमेण च॥ ८३ ||
तर्जन्यग्रान्तकं देवि यक्षिणीमालिका मता ।
संहारात् किन्नरीमाला महागानकरी परा॥ ८४ ||
कनिष्ठामूलमारभ्य पंक्तिमार्गक्रमेण च।
कनिष्ठाग्रान्तकं देवि जैनमाला प्रकीर्तिता॥ ८५ ||
संहाराज्जैनमाला स्यादनामामूलतः शृणु ।
प्रदक्षिणक्रमेणैव तर्जनीमध्यमान्तकम् ॥ ८६ ||
माला चान्द्री तु सम्प्रोक्ता संहाराद् विधिमालिका ।
माला प्रोक्ता महेशानि आधिक्यायुधके श्रृणु ॥ ८७ ||
खड्गमुण्डवराभीतिकपालं यत्र चाधिकम् ।
वरस्थाने कपालं तु तत्र ज्ञेयं महेश्वरि ॥ ८८ ||
शङ्खचक्रगदापद्मखड्गं यत्र तु वर्तते ।
तत्र खड्गं बाहुमूले ज्ञेयं यत्नेन पार्वति ॥ ८९ ||
एवमन्यानि देवेशि ज्ञातव्यान्यायुधानि च ।
इति संक्षेपतः प्रोक्तं किमन्यच्छोतुमिच्छसि ॥ ९० ||
इति श्रीमदक्षोभ्यतारासंवादे तारासूक्ते मालाभेदो नाम नवमः पटलः ।

Paṭala 10: Guru, Einweihung, Nyāsa und die Sitze der Verehrung

दशमः पटलः ।
श्रीदेव्युवाच देवेश श्रोतुमिच्छामि रहस्यमपरं शिव ।
श्रीशिव उवाच- रहस्यं कथ्यते देवि श्रुणु सावहिता भव ॥ १ ||
कालिकायां महेशानि शय्यायां गुरुचिन्तनम् ।
सुन्दर्यां तु महेशानि रात्रिवासं परित्यजेत् ॥ २ ||
छिन्नायां देवदेवेशि संयोगीभूय संस्मरेत्।
तारायां देवदेवेशि शक्तया सह गुरु स्मरेतू॥ ३ ||
गुरु स्मृत्वा कुण्डलिनीं सम्यग् योगेन योजयेत् ।
स्मृत्वा कुण्डलिनीं देवीं गुरु ध्यायेद् विचक्षण: ॥ ४ ||
दक्षहस्ते गुरोश्चैव जपं चैव समर्पयेत् ।
इष्टदेवी मूलदेवी यत्र चैव पदद्वयम् ॥ ५ ||
मूलविद्या त्विष्टदेवी . मूलदेवी कलात्मिका ।
देव्या वामकरे देयं सदा जपफलं शिवे॥ ६ ||
शैवशाक्तक्रमेणैव पापरूपं स्मरेच्छिवे ।
शैवे दक्षक्रमेणैव शाक्ते वामक्रमेण च॥ ७ ||
वैष्णवे तद्द्वयत्वेन पापध्यानं प्रकीर्तितम् ।
प्रतिमाला मालिका च द्विविधा मालिका स्मृता ॥ ८ ||
शाक्तशैववैष्णवार्कगाणपक्रमयोगतः ।
दशविद्याक्रमे देवि भिन्न एव क्रमो भवेत् ॥ ९ ||
अथवा मालिका कार्या गणनार्थ महेश्वरि ।
पूर्णाभिषेकहीनानां षट्कर्माणि भवन्ति नो ॥ १० ||
षट्कर्मदेवताः षड् वै कथं तद्धस्तगा भवेत् ।
पूर्णाभिषेके देवेशि सर्वेषामुपदेशनम् ॥ ११ ||
पूर्णाभिषेकसंयुक्तो यं कञ्चिद्वै जपन्मनुम् ।
स एव सिद्धिदो भूयान्नात्र कार्या विचारणा॥ १२ ||
पूर्णाभिषेको(कं) देवेशि गणेशादौ समाचरेत् ।
पूर्णाभिषेकयुक्तानामधिकारो हि सर्वतः ॥ १३ ||
पूर्णाभिषेकसंयुक्तस्त्यजेदेतद्द्वयं शिवे ।
अहन्ताममतात्यागः प्रथमं बुद्धिलक्षणम् ॥ १४ ||
अहमिति महेशानि प्रथमोऽध्यास ईरितः ।
ममेति च महेशानि द्वितीयोऽ ध्यास ईरितः॥ १५ ||
अहन्ताममताहीनः पूर्णदीक्षायुतो भवेत् ।
कुल्लुकाया जपेनापि पूर्णदीक्षाफलं लभेत्॥ १६ ||
विद्यानां कुलपूज्यत्वात् कुल्लुका तेन कीर्तिता ।
विद्यासम्बन्धिदोषाणां भक्षयित्री यतः शिवे ॥ १७ ||
विख्याता कुल्लुका तेन सर्वदोषहरा परा।
कुल्लुकाजपयुक्तानां विद्यासिद्धिर्भवेद् ध्रुवम् ॥ १८ ||
अजप्त्वा कुल्लुकामन्त्रमजप्त्वा श्रीपतिं हरिम् ।
तारामन्त्र जपेद् यो हि रौरवं नरकं व्रजेत् ॥ १९ ||
ओजोधातुमयं देवि सहस्रदलमीरितम् ।
यस्य वर्णस्य सम्भासस्तद्वर्णस्य प्रकाशता ॥ २० ||
सर्ववर्णव्यापकत्वाच्छक्तिद्वादशयोगता ।
नपुंसकानि संत्यज्य शक्तयः परिकीर्तिताः ॥ २१ ||
तत्स्थानं कुल्लुकादेव्या गुरुस्थानं प्रकीर्तितम् ।
तत्र सञ्चिन्त्य देवेशि सर्वसिद्धीश्वरो भवेत्॥ २२ ||
इति संक्षेपतः प्रोक्तमथान्तर्मातृकां शृणु ।
विना बीजैर्महेशानि नहि सिध्यन्ति मातृकाः ॥ २३ ||
बीजयोगं विना देवि यः कश्चिन्मातृकां न्यसेत् ।
इह दुःखमवाप्नोति परत्र नरकं ब्रजेत्॥ २४ ||
तस्मात्तु बीजयोगेन सम्प्रदायक्रमेण च।
केरलश्चैव काश्मीरो गौडश्चैव तृतीयक: ॥ २५ ||
आद्यं वक्ष्ये महेशानि यथा दीक्षानुसारतः ।
विशुद्धिचक्रमारभ्य द्विपत्रान्तं महेश्वरि ॥ २६ ||
योगिभिश्चैव कर्तव्यो मूलाधाराद् द्विपत्रके ।
अन्येन नैव कर्तव्यः संक्षेपाद् गदितं मया ॥ २७ ||
अयं साधारणः प्रोक्तः सर्वसिद्धिप्रदायकः ।
शिवबीजं शक्तिबीजं चेन्दुबिन्दुसमन्वितम् ॥ २८ ||
पराप्रासादविद्येयं साद्या हाद्या यथाक्रमात् ।
आदौ बीजं समुच्चार्य तदन्ते मातृकार्णकम् ॥ २९ ||
संयोज्य विन्यसेद् देवि त्वथवा सम्पुटीकृतम् ।
त्रितारैः पञ्चतारैर्वा सप्ततारैरथ प्रिये ॥ ३० ||
पुटिताऽथ प्रयोगेण यथायोगेन योजयेत् ।
काश्मीरं श्रृणु देवेशि रहस्यातिरहस्यकम्॥ ३१ ||
प्राणमन्त्रेण वा देवि सोहंमन्त्रेण वा पुनः ।
प्रणवेनापि देवेशि सम्पुटं योजनं च वा ॥ ३२ ||
अनेन क्रमयोगेन कि न सिध्यति भूतले ।
गौडक्रमं शृणु प्राज्ञे केवलां मातृका न्यसेत् ॥ ३३ ||
मूलमन्त्रेण पुटितां बीजेन पुटितां च वा ।
बिन्दुयुक्तां स सर्गाद्यां न्यस्यते गौडसम्मते ॥ ३४ ||
मुख्यक्रमं ' परित्यज्य योऽन्यक्रममभीप्सति ।
स. दरिद्रो महादुःखी भवत्येव न संशयः ॥ ३५ ||
इदं प्रोक्तं मया देवि जपान्तिकविधिं श्रृणु ।
गुह्यातिगुह्यमन्त्रेण वामहस्ते निवेदनम् ॥ ३६ ||
साधकः स्वस्य दक्षेण हस्तेन विनिवेदयेत् ।
दक्षहस्ते दानकर्म वामहस्ते न तद् भवेत् ॥ ३७ ||
देवतादानदानं तु साधकस्य कथं भवेत्।
तस्मात्तु देवदेवेशि वामहस्ते समर्पणम्॥ ३८ ||
उत्कोचो वामहस्ते स्याद् दानं दक्षे प्रकीर्तितम् ।
वरदानाधिकारो हि देवतानिकटे स्थितः ॥ ३९ ||
वामभागे तु वामा तु सर्वत्र परिकीर्तिता ।
दक्षभागे तु पुरुषः पुंरूपस्तु सदाशिवः ॥ ४० ||
वैष्णवाद्यागमे देवि दक्षहस्ते समर्पणम् ।
वरस्तु कालिकापार्श्वे तेन वामे समर्पणम् ॥ ४१ ||
पञ्चभूतानि संशुद्धिस्तत्र नानाविधा भवेत् ।
विद्यामात्रे वामकुक्षौ भूतशुद्धिः प्रकीर्तिता ॥ ४२ ||
दक्षकुक्षौ महेशानि कुत्रचित् परिकीर्तिता ।
प्राणायामक्रमाद् देवि वामकुक्षौ प्रकीर्तिता ॥ ४३ ||
कुण्डल्युत्थापनं देवि कूर्चमन्त्रेण कारयेत् ।
हंसमन्त्रेण तत्त्वानां स्थापनं परिकीर्तितम् ॥ ४४ ||
पुनरानयनं देवि सोहंमन्त्रेण कारयेत् ।
कुत्रचिद् देवदेवेशि चैतद्व्यत्यय एव च॥ ४५ ||
प्रणवेनाथवा कार्य सर्वमेव प्रकीर्तितम् ।
सर्वत्र प्रथमो देवि केरलः परिकीर्तितः ॥ ४६ ||
गौडवामप्रभेदेन पानकर्म तु पापवत् ।
वामे पानं गौडमार्गे काश्मीरे वामहस्तके ॥ ४७ ||
संस्थाप्य चाभिमन्त्र्याथ दक्षे स्थाप्य पिबेत् सदा ।
दक्षकुक्षौ पुमांस्तिष्ठेद् वामे रामा तु चञ्चला ॥ ४८ ||
वायौ जले महेशानि गतिजातौ तु साम्यता ।
वाति प्रवहतीत्यादिप्रयोगः साधुगोचरः ॥ ४९ ||
नाडीत्रयं नरे देवि स्त्रीणामपि तथैव च ।
स्त्रीणां क्रियाऽन्यथा प्रोक्ता पुरुषे चान्यथा क्रिया ॥ ५० ||
योनौ नाड़ीत्रयं स्त्रीणां पुरुषस्यापि पार्वति ।
स्त्रीणामन्या गतिर्देवि पुरुषेऽन्या प्रकीर्तिता ॥ ५१ ||
अत्रार्थे प्रत्ययो देवि कालिकासाधने स्मृतः ।
काली तारा छिन्नमस्ता तथा षट्शाम्भवे शिवे॥ ५२ ||
दिक्कालनियमो नास्ति स्थित्यादिनियमो नहि ।
पाताले कुहरे दुर्गे पर्वते तटिनीतटे ॥ ५३ ||
अन्तरीक्षे तथा भूमौ सर्वत्र जपमाचरेत् ।
अत्यन्तोत्सववेलायां स्तोत्रमन्त्रं सदा जपेत् ॥ ५४ ||
तत्तदक्षय्यमायाति ताराविद्याप्रसादतः ।
न शङ्का न च वै शङ्का स्वेच्छया जपमाचरेत् ॥ ५५ ||
पञ्चभूतक्रमेणैव श्मशानोक्तक्रमेण च ।
कालीत्रिबीजमार्गेण ताराबीजत्रयेण च॥ ५६ ||
भूतशुद्धिश्चतुर्धेयं सामान्यत्वेन पार्वति ।
अत्रापि मतबाहुल्यं शाम्भवादौ स्फुटं च तत् ॥ ५७ ||
वाञ्छा षट्कर्मसिद्धिस्तुसङ्कल्पाख्या द्वितीयका ।
क्रिया तृतीया गदिता षट्कर्म त्रिविधं भवेत् ॥ ५८ ||
अष्टदिक्षु महेशानि चन्द्रसूर्याष्टके शिवे ।
प्रोक्ता सिद्धिरियं देवि कालिकामनुगोचरा ॥ ५९ ||
दिग्विदिक्क्रमयोगेन चन्द्रसूर्यादिदर्शनम् ।
दिवारात्रिव्यत्ययश्च मध्यमा परिकीर्तिता ॥ ६० ||
षट्कर्माणि स्वविद्यायां सिद्धत्वेन भवन्ति च ।
राजसत्वाज्जाड्ययोगात् षट्कर्मदेवताः स्मृताः॥ ६१ ||
इच्छा काल्पनिका देवि मनोरथमयी तथा।
मन्त्ररूपा चतुर्थी स्यात् प्रत्येकं त्रिविधा भवेत्॥ ६२ ||
तन्मुद्रायोगमालादितत्तन्मण्डलयोगतः ।
एककर्मयुतानां च विधिरेषा सनातनी ॥ ६३ ||
वश्यार्थहोमो देवेशि सामान्यत्वेन यत्र वै।
तत्र तत्र च देवेशि तत्तत्कुण्डानि कारयेत्॥ ६४ ||
मारणं त्वरितायां च मारणाख्या क्रिया मता ।
एकक्रियाख्यविद्यायां न षट्कर्मादिदेवताः ॥ ६५ ||
महाविद्याविधौ देवि सिद्धविद्याविधौ तथा ।
षट्कर्मदेवताः प्रोक्ता भिन्नयोगविधानतः ॥ ६६ ||
राजसत्वमिदं प्रोक्तं स्वकर्मत्वं च सात्त्विकम् ।
मुख्यक्रियाप्रसिद्धत्वमन्यत्र परिशीलनम्॥ ६७ ||
तामसत्वमिदं देवि संक्षेपात् परिकीर्तितम् ।
क्रियेकत्वान्महेशानि सिद्धविद्या प्रकीर्तिता ॥ ६८ ||
यथा पञ्चाङ्गुली चार्द्रपटिकाद्याः पुरोदिताः ।
पारम्पर्यक्रमाशक्तः परापूजनतत्परः ॥ ६९ ||
चतुश्चरणसम्पन्नः स परः परिकीर्तितः ।
नित्यानन्दस्वरूपत्वाच्चिद्घनत्वान्महेश्वरि ॥ ७० ||
सदसद्व्यक्तिरूपत्वात् पूर्णरूपा तु या भवेत् ।
सा नित्या गदिता देवि कलाषट्कसमन्विता ॥ ७१ ||
ताम्रपात्रे जलं गृह्य जले चैव जलं क्षिपेत्।
पितृतर्पणकं देवि कुशभूमौ विनिःक्षिपेत् ॥ ७२ ||
ऋषितर्पणकं देवि पात्रे वा जलगोचरम् ।
जले मूर्तिं च वा यन्त्रं विभाव्य तर्पयेच्छिवे ॥ ७३ ||
देवर्षिपितृतीर्थेन तर्पयेत् क्रमदेवताम्।
स्ववामे भूतपूजा च स्वदेवदक्षयोश्च वा॥ ७४ ||
देवताबलिरादिष्टः सर्वकर्मप्रसिद्धये ।
पात्रे जलं तु संस्थाप्य तत्र स्फाटिकमालिकाम् ॥ ७५ ||
जले स्थाप्य जपेद् देवि सर्वकामाप्तये भवेत् ।
धृत्वा मालां वामहस्ते जपं कुर्यादनन्यधीः ॥ ७६ ||
सर्वसिद्धीश्वरो भूयान्नात्र कार्या विचारणा ।
इत्यादि देवदेवशि संक्षेपात् परिकीर्तितम् ॥ ७७ ||
षडङ्गक्रमविन्यासं मार्गत्रयक्रमाच्छृणु ।
हृदयास्त्रं हृदि न्यस्य शिरसे तु तदस्लकम्॥ ७८ ||
शिखास्तरं तु शिखायां च कवचास्त्रं तु तत्स्थले ।
नेत्रास्त्रं नेत्रत्रितये देव्यस्त्रं हस्ततालके ॥ ७९ ||
नाराचक्रममार्गेण खड्गदण्डक्रमेण च ।
एवमस्त्रान् सुविज्ञाय सर्वसिद्धीश्वरो भवेत् ॥ ८० ||
यथोक्तस्थाने विन्यस्य फलभागी नरो भवेत् ।
इयमस्त्रादिजातिस्तु हृदादिषट्कके न्यसेत्॥ ८१ ||
हृदयास्त्रपुरश्चर्यामृषिच्छन्दादिदैवतम् ।
न्यासादिकं समाचर्य ध्यात्वा तु हृदयास्त्रकान् ॥ ८२ ||
नियुतं पूर्व सञ्जप्य हृदयेष्वेव विन्यसेत्।
जपं कृत्वा न्यसेद् देवि पञ्चास्त्रं त्वेवमेव तु ॥ ८३ ||
हृदयास्त्रेण देवेशि जातेरैक्यान्महेश्वरि ।
हृदयेष्वेव विन्यस्य हृज्जातौ यत्नतः शिवे ॥ ८४ ||
करादिषट्कन्यासे तु हृदयास्त्रं प्रविन्यसेत् ।
हृदयास्त्रं नम इति तत्करेष्वेव विन्यसेत् ॥ ८५ ||
एकजात्या हृदास्त्रेण त्वङ्गुष्ठाभ्यां नमो वदेत् ।
हृदयास्त्रं विधायाथ नान्यास्त्रं तु करे न्यसेत् ॥ ८६ ||
गौडे जातिस्तु सर्वत्र गृह्यते व्यक्तिभेदतः ।
केरलेऽङ्गुष्ठषट्कादौ नत्यस्त्रं तु प्रयोजयेत् ॥ ८७ ||
अङ्गुष्ठादिषडङ्ग च नत्यस्रेण विना नरः ।
यः करोति महेशानि तस्य दुःखं पदे पदे ॥ ८८ ||
तस्य न्यासस्तु विफलो जायते सर्वथा प्रिये ।
हृदयास्त्रं विधायाथ हृदयादिषडङ्गकम् ॥ ८९ ||
यः करोति महेशानि तस्य नाशो भविष्यति ।
कर्तव्यं कार्यसिद्ध्यर्थं पञ्चास्त्रं चान्यदेशके ॥ ९० ||
करन्यासस्य मुद्रा तु प्रसिद्धा कालनाशिनी ।
हृदादिन्यासमुद्रां तु श्रृणु यत्नेन साम्प्रतम् ॥ ९१ ||
त्रिद्व्येकदशकं त्रि द्वे हृदये विन्यसेत् सदा ।
सांख्यायनमतं देवि प््रोक्तमेतद् विधानतः ॥ ९२ ||
सृष्टिः स्थितिलयश्चैव हृदयादिषडङ्गके ।
अङ्गुष्ठन्यासषट्के तु न शिवास्त्रं प्रयोजयेत् ॥ ९३ ||
शिवास्त्रादौ न चाङ्गुष्ठः कीर्तितः परमेश्वरि ।
षडङ्गादिपुरश्चर्या प्राणस्थापनवद् भवेत्॥ ९४ ||
सिद्धेऽस्त्रे न्यसनं कार्य नान्यथा सिद्धिदायकम् ।
अस्त्रे सिद्धे मन्त्रसिद्धिर्भविष्यति न संशयः ॥ ९५ ||
इति संक्षेपतः प्रोक्तं शृणु पीठरहस्यकम् ।
द्वाराष्टकं तथा देवि सोपानानि तु षोडश ॥ ९६ ||
पीठं चैव तु सम्पूज्य स्वस्वक्रान्तक्रमेण च ।
लयाङ्गं चैव सम्पूज्य पाद्यस्नानान्तकं चरेत् ॥ ९७ ||
सिंहासनाख्यपीठे तु सन्निवेश्य जपेच्छिवे ।
पीठपूजां च सम्पूज्य लयाङ्गं चैव पूज्य च ॥ ९८ ||
पाद्यादिपूजां कृत्वा च गन्धं दद्याद् विधानतः ।
श्रीदेव्युवाच जलादुत्तारणं चेत्स्यात् तदा पीठं न चास्ति वै ॥ ९९ ||
नोत्तार्यते यदा देव जले पूजां कथं चरेत् ।
तस्मात् कारणतः स्वामिन् पीठं वद मम प्रभो ॥ १०० ||
श्रीशिव उवाच- पीठं तु द्विविधं प्रोक्तं श्रुणु तत्क्रममद्य वै।
स्नानपीठं भोगपीठं यथायोगेन पार्वति ॥ १०१ ||
कालिकायां तथा ताराविद्यायां श्रीविधौ शिवे ।
छिन्नायामपि देवेशि यथायोगेन संशृणु ॥ १०२ ||
महाकलाकलारश्मिनाथसोपानमार्गतः ।
धर्मादिके भवेत् साम्यं प्राकारा रत्नसम्भवा:॥ १०३ ||
श्रीविद्यायां महेशानि काल्यां ब्रह्माण्डभूतजे ।
यथोक्तासनमासाद्य दिग्बन्धादिप्रपूर्वकम् ॥ १०४ ||
आविसर्जनपर्यन्तमासनव्यत्ययो नहि ।
प्रदक्षिणानमस्कारौ कथं कार्यो महेश्वरि ॥ १०५ ||
चतुष्षष्ट्युपचाराणां मध्ये शङ्का प्रजायते ।
तन्निवृत्ति महातारे मम नाशय साम्प्रतम् ॥ १०६ ||
उत्थिते चासनध्वंसस्त्वनुत्थाने नमस्क्रिया ।
कथं भवति भो देव तन्मे कथय साम्प्रतम्॥ १०७ ||
धूपदीपादिताम्बूलैरुपचारो यथा भवेत् ।
मुद्रादिदर्शनं देवि यथा भवति शाङ्करि ॥ १०८ ||
प्रदक्षिणानमस्कारौ तथा मुद्रास्वरूपिणौ ।
समकायशिरो ह्युक्तं तत्तु प्रदक्षिणे नहि ॥ १०९ ||
प्रदक्षिणा नमस्कार उपचारान्तरे भवेत् ।
तथा पीठान्तरे देवि सन्निवेशाः प्रकीर्तितः ॥ ११० ||
साधकाधारपर्यन्तं पीठमाद्यं प्रकीर्तितम् ।
स्नानपीठं द्वितीयं च तृतीयः सिंहविष्टरः ॥ १११ ||
हार्दबाह्यप्रभेदेन भेदबाहुल्यमीरितम् ।
स्वस्वसोपानमध्ये तु पीठानां तु चतुष्टयम् ॥ ११२ ||
हृदयाद् देवदेवेशि स्नानपीठे समागता ।
मूर्ध्नि चेद्धि तथायाता यथायोगक्रमेण च ॥ ११३ ||
स्नानोत्तरं सिंहपीठे ततः समरसात्मके ।
सामरस्ये तथा हार्दे पीठपूजा तु विस्तरा ॥ ११४ ||
सोपानानि महेशानि द्वारि तस्याः स्थितानि च ।
अन्तरान्तरयोगेन पीठपूजां समाचरेत्॥ ११५ ||
पूज्यं पीठं विष्टराख्यं पूज्या ताराम्बिका परा ।
श्रीदेवीविष्टरो देवि ध्याने तस्या स्फुटोऽस्ति च ॥ ११६ ||
विष्टरः साधकस्याथ कथ्यते श्रृणु साम्प्रतम् ।
भूतपत्राणि यस्मिन् वै स कुशेत्यभिधीयते ॥ ११७ ||
हस्ते पादे दशपरिमिता दिग्युगगं हृत्सरोजे विशत्संख्या सकलवरदे मस्तके कीर्तिताश्च ।
गुह्ये जिह्वारदनवदनघ्राणकर्णस्तनेषु लिङ्गे चन्द्रे युगपरिमिता योजनीयाः कुशाश्च ॥ ११८ ||
इत्येष विष्टरः ख्यातः सर्वसिद्धिप्रदायकः ।
कुशैर्वा बन्धनं कार्य नाड्यां वा परमेश्वरि ॥ ११९ ||
रक्तमिश्रितसूत्रेण पट्टसूत्रेण वा पुनः ।
विष्टरं परिकल्प्याथ तस्योपरि जपं चरेत् ॥ १२० ||
इति विष्टरपद्मस्थ विधिः प्रोक्तो मया तव ।
शवरूपं प्रकल्प्याथ कविर्वाग्मी भवेन्नरः ॥ १२१ ||
स्वयम्भुवोक्तं सूत्रं च कर्तव्यं सर्वसिद्धये ।
शवाभावे विष्टरस्तु शवरूपः प्रकीर्तितः ॥ १२२ ||
साक्षात्तु शिवरूपो हि विष्टरः परिकीर्तितः ।
विष्टरः शिवरूपः स्यात् स्वस्य शक्तित्वकल्पना ॥ १२३ ||
शिवशक्तिसमायोगात् किं न सिध्यति भूतले ।
शववीरोत्तमवस्त्रं द्वितीयो विष्टरः स्मृतः॥ १२४ ||
तृतीयं शृणु देवेशि सर्वसिद्धिप्रदायकम्।
विष्टरः शम्भुरूपः स्यात् स शिवाशिवविष्टरः॥ १२५ ||
सिंहासनं च पर्यङ्को विष्टरस्तु तृतीयकः ।
चतुष्पादे महादेवि ब्रह्मविष्णुमहेश्वराः ॥ १२६ ||
ईश्वरस्तु चतुर्थः स्यात्तन्मध्ये तु सदाशिवः ।
मध्ये तु आसनस्थानं महासमरसात्मकम्॥ १२७ ||
हस्तौ पादौ प्रकल्प्याथ मस्तक हृदयं तथा ।
साङ्ग सावयवं देवि शवं वा परिकल्प्य च ॥ १२८ ||
सपादशतपत्रेण भूतपत्रकुशक्रमात् ।
अस्थि वा तत्र संस्थाप्य शवांशं चापि सुन्दरि ॥ १२९ ||
नारीरजोऽन्वितं सूत्रं तेन वा ग्रथनं चरेत् ।
पट्टसूत्रेण सूत्रेण यथायोगेन वा पुनः ॥ १३० ||
जीवन्यासं तत्र कृत्वा ध्यात्वा तारां जपं चरेत् ।
अनेन क्रमयोगेन किं न सिध्यति भूतले ॥ १३१ ||
सदाशिवः प्रेतरूपो विष्टरः कथितो मया ।
गायत्र्या त्रोटनं कार्य मूलेन ग्रथनं चरेत्॥ १३२ ||
यत्रानुक्ता तु गायत्री तत्क्रमं शृणु तारिके ।
तन्नामपददेव्यन्ता गायत्री शम्भुसम्मता ॥ १३३ ||
तन्नामपदमद्व्यन्ता गायत्री तारिणीमते ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥ १३४ ||
इति श्रीमदक्षोभ्यतारासंवादे सामान्यभाषाविवरणं नाम दशमः पटलः ||

Paṭala 11: Einweihung, Opfergaben und die Einheit innerer und äußerer Verehrung

एकादशः पटलः ।
श्रीदेव्युवाच देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
श्रीशिव उवाच- शृणु देवि प्रवक्ष्यामि यन्नोक्तं यत्र कुत्रचित् ॥ १ ||
स्त्रियो दीक्षा शुभा प्रोक्ता सर्वकामफलप्रदा ।
पतिः संदीक्षयेत् स्वस्त्रीं मातृनाम्नीं न कामिनीम्॥ २ ||
भर्तुनामा न च भ्राता तत्संसर्ग न कारयेत् ।
देवीबुद्धया तु सर्वत्र संसर्ग कारयेदपि॥ ३ ||
स्वस्त्रीं तु दीक्षयेद् भर्ता न तत्र भगिनीत्वता ।
मन्त्रशास्त्रे बहुविधा मार्गाः पूर्वं मयेरिताः ॥ ४ ||
अन्यत्र दीक्षणं चेत् स्यात् स्वमार्गस्तत्र वै कथम् ।
स्त्रीणां मार्गस्तु को देव महाशङ्का प्रवर्तते ॥ ५ ||
एतदभ्रमनिवृत्त्यर्थं स्वयं संदीक्षयेत् पतिः ।
या दीक्षिता सा तु कन्यासमाना परिकीर्तिता ॥ ६ ||
तत्र स्त्रीत्वं कथं देव स्त्रीणां दीक्षा कथं मता ।
गुरोः सकाशाद् दीक्षा तु कर्तव्या स्त्रीविधौ यदि ॥ ७ ||
गुरुकन्या तु सा जाता सा प्रोक्ता भगिनी वरा ।
भगिन्यां गमनं नेष्टं स्त्रीषु संयोजनं वरम् ॥ ८ ||
शिवेन दीक्षा पूर्व तु गौर्यै दत्ता शुभावहा ।
सा च पुत्र्यथवा भार्या तद्वदत्रापि पार्वति ॥ ९ ||
न पुत्री गदिता सा तु वीरभार्या प्रकीर्तिता ।
शिवदूत्यादयो देवि तथा मातङ्गिनी शुभा ॥ १० ||
इति ज्ञात्वा महेशानि भर्ता संदीक्षयेत् स्वयम् ।
स्त्रीणां सकाशाद् या दीक्षा सा दीक्षा सर्वकामदा ॥ ११ ||
माता पुत्री तथा भार्या भगिनी परकन्यका ।
स्वसा च मातुलानी च तासां दीक्षा शुभावहा॥ १२ ||
अत्रार्थे संशयो माऽस्तु तारिण्या गदितं स्वयम् ।
वीरकौलपरा दीक्षा पशुं वै नच दीक्षयेत् ॥ १३ ||
स्वमातृमपि गच्छन्तं कौलिकं न निवारयेत् ।
साक्षात्तु भगिनी या तु चूडाचक्रे शुभावहा ॥ १४ ||
स्वपुत्री च शुभा प्रोक्ता उर्मिलाचक्रसम्मते ।
वीरपत्नी शुभा प्रोक्ता रतिश्रीचक्रसम्मते ॥ १५ ||
इति कारणतो देवि भर्ता संदीक्षयेत् स्वयम्।
गुरोः सकाशाद् दीक्षा तु कार्या सापि महेश्वरि॥ १६ ||
भर्तुदीक्षाप्रदाने तु न दोषः कालिकागमे ।
इति संक्षेपतः प्रोक्तं पुष्पभेदाहुतिं श्रृणु ॥ १७ ||
पुष्पं पत्रं तथा वस्रमूर्णा स्वर्णं च व्रीहयः ।
पक्षमात्रै वस्रपुष्पमूर्णा मासत्रयं शिवे॥ १८ ||
बिल्वपत्रं च तुलसीपुष्पं स्वर्णसमुद्भवम् ।
उत्तारणाद् भवेच्छुद्धं पुनर्देव्ये निवेदयेत् ॥ १९ ||
स्वयम्भूकुसुमे देवि नाधिकारोऽस्ति कुत्रचित् ।
मारणे मोहने वापि स्तम्भनोत्सादनेऽपि वा ॥ २० ||
वश्याकर्षणयो: शान्तौ पायसं होमयेत् सदा ।
परराष्ट्रजयध्वंसे स्वरक्षायां विशेषतः ॥ २१ ||
षट्पुष्पक्रमयोगेन होतव्यं सिद्धिमिच्छता ।
पायसे देवदेवेशि सर्वाः सिध्यन्ति सिद्धयः ॥ २२ ||
पुष्पैः पर्युषितैर्नष्टैः कृमिकीटविदारितैः ।
न पूजयेद् होमयेच्च देवताशापमाप्नुयात्॥ २३ ||
बिल्वपत्रं च तुलसी स्वयम्भूस्वर्णपुष्पके ।
न पर्युषितरूपत्वं निर्माल्यत्वं महेश्वरि ॥ २४ ||
चतुर्णा देवदेवेशि न मया कीर्तितं भुवि ।
नृसिंहं च शिवं चैव न केतक्या समर्चयेत् ॥ २५ ||
श्वेतकृष्णतुलस्या च कालिकां न स्पृशेत् क्वचित्।
कमलं दशरात्रं च जाती दिनत्रयं तथा॥ २६ ||
चम्पकः पञ्चरात्रं च किंशुको दिनसप्तकम् ।
करवीरोऽष्टदिवसं केतकी दशपञ्च च ॥ २७ ||
कुन्दो नेत्रदिनं देवि मुनिपुष्पं च दाडिमी ।
जपापुष्पं ततो द्राक्ष्यं दिवसद्वयगोचराः ॥ २८ ||
शतपुष्पं पुष्पराजो गन्धराजस्तथैव च ।
भगपुष्पं महेशानि वेदरात्रं न दुष्यति ॥ २९ ||
नारदस्य मतेनैवं कथ्यते शृणु साम्प्रतम् ।
बिल्वापामार्गौ धात्री च तुलसी त्रिंशदादितः ॥ ३० ||
षट्त्रिंशान्तं महेशानि न च पर्युषितानि च ।
एकेन करवीरेण सहस्रेण शतेन च ॥ ३१ ||
मां च सम्पूज्य देवेशि मम रूपो नरो भवेत्।
एकेन करवीरेण मां च सम्पूजयेत् प्रिये ॥ ३२ ||
तेन सम्पूजितं देवि जगत् स्थावरजङ्गमम् ।
करवीरे शक्तिबिन्दौ तत्राहं निवसाम्यहम्॥ ३३ ||
इति प्रोक्तं महेशानि श्रृणु होमं महत्तरम् ।
दिव्यवर्णैहोमयेद् यत् सहस्रं वसुसम्मितम् ॥ ३४ ||
दिव्यरूपो नरो भूयाद् देवीरूपो न संशयः ।
वर्णोत्तमेन देवेशि सर्वदा होमयेच्छिवाम् ॥ ३५ ||
पक्षमात्रान्महेशानि शिवतुल्यो नरो भवेत् ।
सुरया होमयेद् देवि शिवतुल्यो नरो भवेत् ॥ ३६ ||
मांसीहोमेन देवेशि किं तद् यन्न करे स्थितम् ।
रोचनाहोममात्रेण सर्वसिद्धिं स विन्दति॥ ३७ ||
लोहबाणस्य होमेन दिव्यकायो नरो भवेत् । ।
सौगन्धिक्रमुकं हुत्वा कामतुल्यो नरो भवेत्॥ ३८ ||
एलाहोमेन राज्यं स्याल्लवङ्गैर्वरदानता।
संविद्वोमेन देवेशि किं तद् यन्न करे स्थितम् ॥ ३९ ||
घुसृणेन महेशानि वाञ्छासिद्धिमवाप्नुयात् ।
मार्जारमेदहोमेन किन्नरीमेलनं भवेत् ॥ ४० ||
एकपुष्पे फले पत्रे फलपञ्चककं भवेत् ।
सङ्कल्पोक्तफलं देवि उक्तमानन्दभैरवे ॥ ४१ ||
उक्तकार्यार्थसिद्ध्यर्थं दक्षिणामूर्तिसम्मतम् ।
देवताप्रीतयेत्युक्ते कार्यमात्राणि साधयेत् ॥ ४२ ||
सर्वकार्यार्थसिद्ध्यर्थं काश्मीरे होमकर्म च ।
मन्त्रमात्रे महेशानि भूतमण्डलभेदतः ॥ ४३ ||
होमे पूजाविधौ देवि फलपुष्पाणि पार्वति ।
न मण्डलक्रतूनां च नियमो नास्ति पार्वति ॥ ४४ ||
सिन्दूरेमोहनं देवि नखेनाकर्षयेत् प्रियाम् ।
चन्दनेन भवेत् काव्यं कर्पूरे राज्यसाधनम् ॥ ४५ ||
विषेण सर्वसंहारस्त्वहिफेनैर्निराकृतिः ।
शिलाजतुप्रहोमेन सर्वसिद्धिं स विन्दति॥ ४६ ||
हरितालैः स्तम्भनं च ब्रह्मादीनां महेश्वरि ।
अभ्रकेण कीर्तिलक्ष्मीर्गन्धकेन धनागमः ॥ ४७ ||
पनसं कदलीं हुत्वा तारारूपो नरो भवेत् ।
इति संक्षेपतः प्रोक्तं संख्या विषमजे श्रृणु ॥ ४८ ||
समसंख्याक्रमेणैव विषमाख्यक्रमेण च।
पञ्चदशाक्षरो मन्त्रः शूलिन्याः परिकीर्तितः ॥ ४९ ||
तत्र द्रव्याणि देवेशि तिथिसंख्यानि सन्ति च।
सर्वेषामेकभावो वा भिन्नभावोऽथवा प्रिये ॥ ५० ||
प्रत्यक्षरेण वा होमः कथं कार्यश्च तद् वद ।
ऋषिच्छन्दादि ध्यानं च तदा प्रत्यक्षेण च॥ ५१ ||
होमसंख्यां समाचर्य चांशेन भागमाहरेत्।
अंशभागक्रमेणैव केरले होमकर्म च॥ ५२ ||
त्रिःस्वादुतिलधान्यादावैक्यभावेन चाहुतिः ।
पञ्चामृते पञ्चगव्ये त्वैक्येन होमकर्म च॥ ५३ ||
पञ्चामृतं दशविधं तत्र स्मार्तादिभागतः ।
समसंख्याविधौ प्रोक्तं यथोक्तं चेत्तथा चरेत् ॥ ५४ ||
विषमाख्यं होमकर्म कथ्यते शृणु साम्प्रतम् ।
चतुर्लक्षमिदं जप्त्वा बगलाचतुरक्षरम्॥ ५५ ||
पञ्चपीतेन जुहुयात् तत्क्रमं शृणु पार्वति ।
पञ्चानां समभागं च चूर्णत्वांशप्रभेदतः॥ ५६ ||
जुहुयाद् यत्नतो देवि चरमेणान्त्यभागकम्।
विद्याचतुष्टये देवि होमकर्माणि पञ्च तु ॥ ५७ ||
चतुर्धा विभजेद् द्रव्यं तेन होमं समाचरेत् ।
पञ्च द्रव्याणि देवेशि प्रतिविद्याक्रमं यथा॥ ५८ ||
चतुर्णा समभागश्च चरमे वेदभाजनम्।
चरमांशक्रमेणैव केरलादिक्रमाद् भवेत् ॥ ५९ ||
एका विद्या यदा देवि षडष्ट दश षोडश।
विंशत्त्रिंशच्च द्रव्याणि तत्क्रमं श्रृणु पार्वति॥ ६० ||
त्रिकूटं चेन्महेशानि त्रिभागं च समाचरेत्।
त्रितत्त्वानि तथा चेत् स्युस्तथा भागं समाचरेत् ॥ ६१ ||
सर्वेषामैक्यभावेन सप्तशत्यां भवेत् प्रिये ।
त्रयोदशाध्यायमध्ये द्रव्याणि तु त्रयोदश॥ ६२ ||
प्रत्येकं होमयेद् देवि मिश्रभावेन वा भवेत्।
तथा कार्यो महेशानि संख्याभावक्रमोऽपि च॥ ६३ ||
होमसंख्यां समाचर्य्य द्रव्यसंख्या समाचरेत् ।
होमं तेन प्रकुर्वीत प्रत्येकं समिधो हुनेत्॥ ६४ ||
मिश्रयोगो यत्र यत्र तेन मिश्रं प्रहोमयेत्।
प्रतिद्रव्येण होतव्यं तत्संख्यापूर्तिमात्रकम्॥ ६५ ||
भुवनेश्यां महेशानि समिद्धोमस्तु भिन्नतः ।
अन्येषां मिश्रभावेन प्रत्येकं होममेव वा॥ ६६ ||
समिद्धोमं समाचर्य्य तदन्ते चरुहोम च।
पत्रैः पुष्पैः फलैर्धान्यैः पूजनेयत्फलं मतम्॥ ६७ ||
तत्फलं होमकर्मादौ कीर्तितं परमेश्वरि ।
इति संक्षेपतः प्रोक्तं पूजाभेदं श्ृणु प्रिये ॥ ६८ ||
गुरुदैवतमन्त्राणामैक्यं सम्भावयेद् धिया।
मन्त्रार्थं हृदि निश्चित्य गुरु मूर्ध्नि परामृशन्॥ ६९ ||
हार्दावकाशजं चैव तथा बाह्यावकाशजम् ।
द्विविधं यजनं . प्रोक्तमन्योन्याश्रयरूपकम् ॥ ७० ||
अन्तःशुद्धिर्यदा भूयाद् बहिः शुद्धिस्तदा भवेत्।
पूजा बहुविधा प्रोक्ता तत्र सारं शृणु प्रिये॥ ७१ ||
हार्दबाह्यप्रभेदेन पूजा प्रोक्ता महेश्वरि।
श्रीदेव्युवाच बाह्यपूजां विना स्वामिन् कथमन्तः प्रपूजनम् ॥ ७२ ||
पूजाज्ञानं यदा जातं तदान्तःपूजनं भवेत् ।
सामग्रीज्ञानहीनत्वात् कथमन्तः प्रपूजनम् ॥ ७३ ||
श्रीशिव उवाच- सत्यमेतन्महेशानि रहस्यं श्रृणु यत्नतः ।
विष्ठापूर्णे मृद्घटे तु बहिःशुद्धौ तु किं फलम् ॥ ७४ ||
अन्तःशुद्धिं समासाद्य बहिःशुद्धिं समाचरेत् ।
बहिःपूजाविधौ देवि सामग्री दुर्मिला कलौ ॥ ७५ ||
व्यङ्गता जायते सत्यं सर्वत्र पूजने शिवे ।
तत्साङ्गतासिद्धिहेतोरन्तःपूजा प्रकीर्तिता ॥ ७६ ||
भावनामात्रगम्येयं कोटिरत्नानि कल्पयेत् ।
अन्तःपूजाविहीनेन कृतं तदफलं भवेत्॥ ७७ ||
संयोगं तु विना देवि यो गर्भाधानमिच्छति।
स चान्तः पूजनं त्यक्तवा बहिःपूजां समाचरेत्॥ ७८ ||
स दरिद्री महारोगी कथमत्र शुभं लभेत्।
अन्तःपूजां समासाद्य बहिःपूजां समाचरेत्॥ ७९ ||
सम्भाव्य पूजनं देवि तथैव रचयेद् बहिः ।
श्रीदेव्युवाच तथ्यमुक्तं त्वया देव संशयो मेऽस्ति शङ्कर ॥ ८० ||
बहिःपूजनमासाद्य चान्तःपूजां समाचरेत् ।
एवंक्रमेण देवेशि(श)पूजा किं न भविष्यति ॥ ८१ ||
श्रीशिव उवाच- मृदपक्वां समासाद्य यथा देवि घटो भवेत् ।
घटः पक्वमृदा देवि पूर्ववत् किं भविष्यति ॥ ८२ ||
अपक्वां मृत्समानीया यथा देवि घटो भवेत् ।
ततः पक्वः प्रकर्तव्यः सुन्दरः स तु जायते ॥ ८३ ||
अन्तर्न्यूने बहिः पूर्ण बहिरन्यूनेऽ न्तरा भवेत् ।
अन्योन्याश्रयसंयोगात् पूजनं सफलं भवेत् ॥ ८४ ||
देवो भूत्वा यजेद् देवं नादेवो देवमर्चयेत् ।
तस्माद् देवत्वमासाद्य चान्तः पूजादिमार्गतः ॥ ८५ ||
अत एव महेशानि श्रीचक्रन्यास ईरितः ।
अत एव महेशानि पीठन्यासोऽपि कीर्तितः ॥ ८६ ||
पूर्व देहमये पीठे सम्पूज्य परमेश्वरीम्।
देवी पूजा महेशानि सिद्धैव स्वान्तगोचरा॥ ८७ ||
तत्संस्मृतौ महेशानि यथा सङ्कल्पतः फलम्।
तथान्तःपूजने देवि भावतः फलमश्नुते॥ ८८ ||
भावं विना महेशानि ब्रह्मापि दुर्गतिं ब्रजेत् ।
भावनावशमापन्नो भावयोगी भवेन्नरः ॥ ८९ ||
इति संक्षेपतः प्रोक्तं रहस्यमपरं शृणु ।
पूजा जपं समासाद्य सिद्धमन्त्री भवेद् ध्रुवम्॥ ९० ||
अथवा शाबरं देवि द्विविधं साधयेन्नरः ।
दीपावल्यां महेशानि अथवा फाल्गुनोत्सवे ॥ ९१ ||
अमाचतुर्दशीसन्धौ शिवशाबरसाधनम्।
दीपोत्सवचतुर्दश्यां साधयेदपि वा प्रिये ॥ ९२ ||
प्रतिपच्च कुहूसन्धौ पूर्वरात्रावपि प्रिये ।
साधयेद् देवदेवेशि भाषासाधनमुत्तमम्॥ ९३ ||
पूर्णिमाप्रतिपत्सन्धौ साधयेच्छाबरं द्विधा ।
पौर्णमास्यां महेशानि साधयेच्छाबरं शुभम्॥ ९४ ||
तेन शाबरमन्त्रेण सर्वदोषान् निवारयेत् ।
अष्टौ षण्ढास्त्वष्ट वन्ध्यास्त्वपस्माराष्टक तथा ॥ ९५ ||
क्रमेण कथ्यते देवि यथावदवधारय ।
हीनवीर्यो लिङ्गहीनस्तथाऽनवहितस्तथा ॥ ९६ ||
प्रवेशमात्रस्खलनाच्चतुर्थः परिकीर्तितः ।
दृष्टे शान्तिर्यस्य भवेत् स च पञ्चम ईरितः ॥ ९७ ||
अङ्गुष्ठमात्रलिङ्गाख्यः षष्ठः स परिकीर्तितः ।
गर्भषण्ढ: सप्तमः स्याद् दृष्टिच्युतिरथाष्टमी॥ ९८ ||
मृतबन्ध्या गर्भबन्ध्या पुष्पबन्ध्या तृतीयका ।
काकबन्ध्या महेशानि तथा गर्भोपघातिनी॥ ९९ ||
गर्भे जाते पुत्रहरा षष्ठी सा परिकीर्तिता ।
ध्वजवीर्या तथा प्रोक्ता कन्यागर्भा च या भवेत् ॥ १०० ||
पुष्पस्रावी त्वष्टमी स्यादपस्मारान् श्रुणु प्रिये ।
मूर्छी प्रलापी तन्द्रार्तस्तथा फेनमुखः प्रिये ॥ १०१ ||
भूमिभागी भूतचेष्टी जलवह्निप्रकोपधृक् ।
कालाख्यो नवमः प्रोक्तो मैथुनी दशमो भवेत्॥ १०२ ||
लिङ्गदर्शी रुद्रसंख्यास्त्वपस्माराः प्रकीर्तिताः ।
मन्त्रवक्ता वेदपाठी भयहीनः प्रपीडकः॥ १०३ ||
पुंपीडाकारकः स्त्रीणां तथा पीडाकरः स्मृतः ।
चत्वारिंशत्प्रभेदेन ब्रह्मराक्षसजातयः ॥ १०४ ||
पूर्वक्रमेण संसाध्य दुष्टानेतान् विनाशयेत् ।
गोपनीयं गोपनीयं गोपनीयं पुनः पुनः॥ १०५ ||
रहस्यातिरहस्यं च रहस्यातिरहस्यकम् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छोतुमिच्छसि॥ १०६ ||
इति श्रीमदक्षोभ्यमहोग्रतारासंवादे तारासूक्ते ब्रह्मजातिवर्णने एकादशः पटलः ||
शुभमस्तु

Schluss: Viele Gestalten, eine Kraft

Shakti, Bewusstsein und Einheit als Themen der inneren Betrachtung.

Das Studium des Chinnamastākhaṇḍa verbindet die genaue Unterscheidung von Formen mit der Frage nach ihrer Einheit. Nicht jede Aufzählung ist bereits eine Anleitung zur eigenen Praxis. Sie dokumentiert zunächst, wie die Schrift Mantras, Gottheiten und Überlieferungswege zueinander in Beziehung setzt.

Für die eigene Besinnung kann der Einheitsgedanke einen ruhigen Ausgangspunkt bilden: Vielfalt wahrnehmen, ohne den gemeinsamen Grund aus dem Blick zu verlieren. Eine solche heutige Betrachtung ergänzt die historische Lektüre und bleibt als eigene Deutung erkennbar.

Eine ergänzende Einführung in Kundalini:

Quellen und Textgrundlage

Śaktisaṅgama Tantra, Teil IV: Chinnamastākhaṇḍa, herausgegeben von Benoytosh Bhattacharyya und Vrajavallabha Dvivedi, Oriental Institute, Baroda 1978, Gaekwad’s Oriental Series 166.

Der Sanskrittext wurde aus dem Grundtext des Druckes übernommen und mit der bereitgestellten OCR-Fassung verglichen. Moderne Erläuterungen und editorische Fußnoten werden nicht als Tantra-Verse ausgegeben. Die deutsche Übersetzung folgt der überlieferten Versfolge; unnummerierte Fortsetzungen werden ausdrücklich bezeichnet.

Siehe auch

Seminare

Kundalini Yoga

06.11.2026 - 08.11.2026 Kundalini Yoga Einführung

Gründliche Einführung in die Theorie und Praxis des Kundalini Yoga, Yoga der Energie. Die praktischen Übungen des Kundalini Yoga umfassen Pranayama (…
Arjuna Wingen
13.11.2026 - 15.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Manuel Hirning

Bhakti Yoga

06.11.2026 - 08.11.2026 Harmonium Lernseminar

Lerne, Harmonium zu spielen! Wenn vorhanden, bitte eigenes Harmonium mitbringen. Keine Vorkenntnisse nötig.
Alisa Yakhontova
08.11.2026 - 08.11.2026 Diwali - das Fest des Lichts

Diwali ist eines der wichtigsten Feste in Indien. Diwali ist das Lichterfest zur Öffnung des Herzens und der Entfaltung allumfassender Liebe. 20:00 Uhr…
Sukadev Bretz

Mit dem Text weitergehen

Auch die Sanskrit-Lesefassung des Chinnamastākhaṇḍa stellt eine radikale Frage: Kann hinter sehr verschiedenen Göttinnenformen eine einzige lebendige Śakti erkannt werden? Die wiederkehrende Einheit von Chinnamastā, Kālī, Tārā und Sundarī gibt dem Leser dafür einen starken Orientierungspunkt.

Für heutige Yoga-Aspiranten kann daraus eine schlichte Übung des Sehens entstehen: Vielfalt wahrnehmen, ohne den gemeinsamen Grund zu verlieren. Ein kurzer Abschnitt, gefolgt von stiller Meditation, reicht aus. Wer weiter vergleichen möchte, findet verwandte Themen in Kularnava Tantra, Jnanarnava Tantra und den 108 ausgewählten Versen.