Parameshvara Samhita Sanskrit Devanagari Teil 2
Die Parameshvara Samhita in Devanagari, Teil 2, enthält die Kapitel 15–26. Sie entfalten die Weihe eines Heiligtums, Tempelfeste, Gaben, die Wiederherstellung gestörter Ordnung und die Verehrung von Sudarshana und Narasimha. Hinter der Vielfalt der Rituale steht die Frage, wie göttliche Gegenwart erfahren und ehrfürchtig bewahrt werden kann.
Besonders berührend sind die Verse über die Kraft aufrichtiger Bhakti (19.323–329), das reine Licht von Sein und Bewusstsein (22.25–27) und die von Mitgefühl erfüllten Gottesgestalten (23.80–81). Kapitel 25 führt ausführlich zur inneren Verehrung zurück und verbindet sie mit Jnana und uneigennützigem Handeln.
Zum Einstieg dienen der Hauptartikel mit deutscher Übersetzung und die 108 inspirierenden Stellen. Die IAST-Fassung erleichtert den Vergleich der Sanskritlaute. Der erste Devanagari-Teil enthält die Kapitel 1–14.
Hauptartikel · Sanskrit IAST · Devanagari, Teil 1 · Devanagari, Teil 2 · 108 inspirierende Verse und Mantras

Kapitel 15
श्रीः ।
पञ्चदशोऽध्यायः ।
सनक ।
15.1
स्वयं व्यक्तविमानस्य प्रादुर्भावप्रसङ्गतः ।
प्रतिष्ठा सूचिता ब्रह्नन् विस्तरेणाद्य मे वद ॥ १ ॥
15.2
शाण्डिल्य ।
श्रूयतामभिधास्यामि यदर्थं चोदितस्त्वया ।
पौष्कराख्ये महाशास्त्रे प्रोक्ता भगवता स्वयम् ॥ २ ॥
15.3
प्रतिष्ठा वासुदेवेन पौष्करस्य महात्मना ।
सुविस्तरेण सर्वत्र प्रकीर्णा बहुधा स्थिता ॥ ३ ॥
15.4
सर्वत्र सारमुद्धृत्य तत्प्रसादाद्वदामि ते ।
आद्यवेदोद्भवैर्दिव्यैः साक्षात् सद्ब्रह्नवाचकैः ॥ ४ ॥
15.5
मन्त्रैर्बलादिकैर्योक्ता प्रतिष्ठा तत्पदप्रदा ।
सिद्धान्तोक्तेन मन्त्रेण साङ्गेनैव बलादिकैः ॥ ५ ॥
15.6
स्थापना या तु सा प्रोक्ता भोगमोक्षफलप्रदा ।
साङ्गेन मूलमन्त्रेण ज्ञानध्यानान्वितेन च ॥ ६ ॥
15.7
प्रतिष्ठा विहिता ब्रह्नन् मन्त्रसिद्धिफलप्रदा ।
एकायनाख्यवेदोक्तैर्मन्त्रैरन्यैस्त्रयीमयैः ॥ ७ ॥
15.8
सिद्धान्तोक्तेन मन्त्रेण साङ्गेन क्रियते च या ।
सा सार्धमैहिकैर्भोगै रणिमादिफलप्रदा ॥ ८ ॥
15.9
दिव्यैर्बलादिकैर्मन्त्रैः सह चान्यैस्त्रयीमयैः ।
स तु षाड्गुण्यफलदा सह सज्ञफलैर्भवेत् ॥ ९ ॥
15.10
सह ऋक्सामपूर्वैस्तु मन्त्रैः स्वव्याप्तिसंयुतैः ।
साङ्गेन मूलमन्त्रेण स्थापना या महामते ॥ १० ॥
15.11
सा सर्वभोगदा चान्ते तथा मन्त्रफलप्रदा ।
केवलैः श्रुतिमन्त्रैस्तु यथावसरलक्षणैः ॥ ११ ॥
15.12
धारणा भगवदध्यानमन्त्रन्यासेन वै सह ।
देशिकेन्द्रेण या कार्या भक्तानां परमेश्वरे ॥ १२ ॥
15.13
सामान्या सा परिज्ञेया यज्ञवत् सर्व भोगदा ।
कालक्रमादकामानां सर्वाः परफलप्रदाः ॥ १३ ॥
15.14
इति मन्त्रविभेदेन सप्तधा परिकीर्तिता ।
द्विजेन्द्रो भगवद्याजी तद्भक्तस्तन्मनाः सदा ॥ १४ ॥
15.15
निर्द्वन्द्वो नित्यसत्त्वस्थो द्विषट्काध्यात्मचिन्तकः ।
वेत्ता यो व्यूहपूर्वस्य व्यक्तस्य परमात्मनः ॥ १५ ॥
15.16
बलादिदिव्यमन्त्रेषु यस्य निष्टा परा स्थिता ।
सन्यासं कर्मणां यस्तु करोत्यध्यक्षतः क्रमात् ॥ १६ ॥
15.17
नित्यसिद्धे तदाकारे तत्परत्वे च सर्वदा ।
यस्यास्ति सक्तिर्हृदये तस्यासौ सन्निधिं भजेत् ॥ १७ ॥
15.18
मन्त्ररूपी जगन्नाथः परमात्माच्युतः प्रभुः ।
अतस्तेन प्रतिष्ठानं कृतं मुख्याधिकारिणा ॥ १८ ॥
15.19
विद्धि तन्मुख्यकल्पं तु प्रतिष्ठोक्तफलप्रदम् ।
प्राक् त्रयीधर्मनिष्ठो यः प्राप्तदीक्षो जितेन्द्रियः ॥ १९ ॥
15.20
मन्त्रज्ञः कर्मकुशलः पञ्चरात्रार्थतत्ववित् ।
स्थापनं यत् कृतं तेन ह्यनुकल्पं च विद्धि तत् ॥ २० ॥
15.21
परात्परस्वरूपस्य परस्य चतुरात्मनः ।
शान्तोदितादिव्यूहानां केशवाद्यखिलस्य च ॥ २१ ॥
15.22
तथा विभवमूर्तीनामेकाकारस्वरूपिणः ।
तथा च सर्वजगतामेकबीजात्मकस्य च ॥ २२ ॥
15.23
सदोदितस्वरूपस्य वासुदेवस्य वै विभोः ।
त्रयाणामच्युतादीनां तद्भेदानां तथैव च ॥ २३ ॥
15.24
शान्तोदितस्वरूपस्य परस्य चतुरात्मनः ।
या तु सन्धानरूपा सा प्रतिष्ठेति प्रकीर्तिता ॥ २४ ॥
15.25
पीठब्रह्नशिलाज्ञानस्तम्बस्य चतुरात्मनः ।
चतुर्दिग्वीक्षमाणस्य या तु सन्धानलक्षणा ॥ २५ ॥
15.26
बोद्धव्या सुप्रतिष्ठा च दिग्व्यूहपरिपूरिका ।
धृतिशक्तिः स्वरूपेण त्वमूर्तेनाव्ययात्मना ॥ २६ ॥
15.27
स्थितये प्रक्रियार्थं च ब्रह्नपाषाणतां गता ।
सर्वब्रह्नशिलानिष्ठमाक्षितेर्द्विजसत्तम ॥ २७ ॥
15.28
व्याप्तमामूलतश्चैव तेनामूर्तेन वै पुरा ।
द्रव्यमूर्तिरमूर्ता च गृहीता स्तम्बलक्षणा ॥ २८ ॥
15.29
अनुग्रहार्थं वर्णानां स्थित्यर्थं दिक्क्रमस्य च ।
अधोर्ध्वाभ्यां विभागार्थं सिद्धये पुनरेव हि ॥ २९ ॥
15.30
तात्वस्य विशव्पीठस्य जडत्वविनिवृत्तये ।
सम्यक् संवित्तिलाभार्थं तत्वानां भिन्नरूपिणाम् ॥ ३० ॥
15.31
युक्तिः परिगृहीता च चातुरात्म्यैकलक्षणा ।
एकस्याच्युतबीजस्य भिन्नेषु प्रतिवस्तुषु ॥ ३१ ॥
15.32
संस्थि स्थितिरच्छिन्ना सा प्रतिष्ठान्त एव हि ।
ज्ञानस्तम्बाविभक्तानामेतेषां चतुरात्मनाम् ॥ ३२ ॥
15.33
चतुर्दिग्वीक्षमाणानां स्थापना या समीरिता ।
एकदिग्वीक्षितानां च स्थापितानां च पङ्क्तितः ॥ ३३ ॥
15.34
सा च प्रतिष्ठा विज्ञेया पूर्ववद्द्विजसत्तम ।
भिन्नानां व्यूहमूर्तीनां केशवाद्यखिलस्य च ॥ ३४ ॥
15.35
प्रादुर्भावसमूहस्य द्व्यादिकस्य च यद्द्विज ।
एकस्मिन् विश्वपीठे तु स्थितिरेकस्य चेच्छया ॥ ३५ ॥
15.36
प्रतिष्ठाख्यं विशेषं तु स्थापनं समुदाहृतम् ।
चिच्छक्तेरनुविद्धं च अव्यक्तं तत्वविग्रहम् ॥ ३६ ॥
15.37
दिव्यमूर्तौ चलाख्ये तु नित्यमेकात्मताधिया ।
बिम्बसंस्कारकाले तु अधिवासाभिधे द्विज ॥ ३७ ॥
15.38
अचलत्वेन सन्मन्त्रैश्चलभावेन वा पुनः ।
साङ्गं सलाञ्छनं चैव कामाच्चाभिमतात्तु वै ॥ ३८ ॥
15.39
आराधनार्थं हृदयान्न्यस्तं तद्धृदये पुनः ।
समाहरेत् कृतार्थत्वान्नित्यं कालान्तरेण वा ॥ ३९ ॥
15.40
सुबोधपरिणामेन सत्वेनाऽनिर्मलेन च ।
कालसत्ता इयत्ताख्या परिच्छेदवशात् स्मृता ॥ ४० ॥
15.41
तमा स्थापनसंस्थं च विशेषं समुदीरितम् ।
संपन्ने ब्रह्नपाषाणसंस्कारे पैठिकेऽपि च ॥ ४१ ॥
15.42
उद्वर्तनाभ्यञ्जनेन मृद्भूतीर्गोमयादिना ।
शिल्पिदोषोपशमने स्नानमात्रे कृते सति ॥ ४२ ॥
15.43
निष्पन्ने नेत्रदाने तु स्नाने संपादिते परे ।
उत्थाप्य मूर्तिपाद्यैस्तु गुरुणा वहुभिर्बलात् ॥ ४३ ॥
15.44
निवेशनममन्त्रं यद्विधिवत् साम्प्रतं कृतम् ।
तृतीयं वज्रलेपेन नित्यमेकात्मता द्विज ॥ ४४ ॥
15.45
प्राप्ते लग्नोदये मन्त्रन्यासमारणात्तु वै ।
चिच्छक्तेरनुसन्धानात् तत् स्थितस्थापनं तथा ॥ ४५ ॥
15.46
प्रासादान्तरभित्तीनां लिखितं वाम्बरादिके ।
सिद्ध्यर्थं साधकेन्द्रैस्तु सिद्धिकालावधिं तु वै ॥ ४६ ॥
15.47
चरबिम्बस्य यन्मन्त्रन्यासं वै सासनस्य च ।
नित्यमाराधनार्थं तु कर्मार्चायामपि द्विज ॥ ४७ ॥
15.48
तदपि प्रचलाख्यं तु स्थितस्थापनमेव च ।
क्ष्माभङ्गैर्जलपूर्वैस्तु दोषैर्या चातिदूषिता ॥ ४८ ॥
15.49
उद्धृत्य योजितान्यत्र स्थाने तु शुभलक्षणे ।
सम्यक् संस्थापनाद्भूयः संस्थापन मुदाहृतम् ॥ ४९ ॥
15.50
विद्युत्प्रपातपूर्वैस्तु दोषैर्या चातिदूषिता ।
तदुत्थाने कृते शश्वन्निर्दोषे चासने सति ॥ ५० ॥
15.51
तत्समा लक्षणाढ्या च प्रतिमाद्या महामते ।
अन्यस्मिन् वा नवे पीठे विधिवत् परियोजिता ॥ ५१ ॥
15.52
बोद्धव्यं तद्विशेषं च स्थापनोत्थापनं तु वै ।
आदिमूर्त्यादिभेदेन चलाचलविभागतः ॥ ५२ ॥
15.53
प्रतिष्ठादिविशेषास्तु अष्टधा परिकीर्तिताः ।
आदिमूर्त्यादिमूर्तीनां भोगपर्यङ्कशायिनाम् ॥ ५३ ॥
15.54
या तु पीठे मुनिश्रेष्ठ विधिवत् परियोजना ।
संस्थापना च विज्ञेया तथा चाऽस्थापना ॥ ५४ ॥
15.55
आसीनानां स्थितानां तु स्थापना समुदीरिता ।भवेत् ।
प्रस्थापना सुपर्णस्थमूर्तीनां परिकीर्तिता ॥ ५५ ॥
15.56
शयनादिविभेदेन चतुर्धा परिकीर्तिता ।
भूयश्च द्विविधं विद्धि बेरैकत्वबहुत्वतः ॥ ५६ ॥
15.57
शिलया मणिना वापि लौहैर्वापि कृता तु या ।
नित्यादिसकलस्नानविषया रहिता सदा ॥ ५७ ॥
15.58
कर्मार्चयापि देवीभिः स्थिताप्यासीनतां गता ।
स्थाप्यते केवला मूर्तिः एकबेरं तु विद्धि तत् ॥ ५८ ॥
15.59
मृद्दारुजं तु यद्बिम्बं कर्मार्चादिसमन्वितम् ।
नित्यादिसर्वस्नानार्थं शक्तिभिः सहितं न वा ॥ ५९ ॥
15.60
मणिवज्रादिशैलोत्थं निमित्तस्नपनक्षमम् ।
सदा तु नित्यस्नानार्थं कर्मार्चासहितं तु यत् ॥ ६० ॥
15.61
बृहद्बिम्बं तु लक्ष्म्यादिसहितं रहितं तु वा ।
नित्यनैमित्तिकाद्युक्तसकलस्नपनक्षमम् ॥ ६१ ॥
15.62
लक्ष्म्यादिभिः समोपेतं यद्बिम्बं शक्तिभिः सदा ।
तदेतत्त्रिविधं विद्धि बहुबेरं महामते ॥ ६२ ॥
15.63
यत्तु चित्रमयं बिम्बं भित्तिकाष्ठाम्बराश्रयम् ।
कर्मबिम्बसमोपेतं नित्यादिस्नानकर्मणि ॥ ६३ ॥
15.64
यच्चापि मृण्मयं बिम्बं त्रिविधं चापि चित्रजम् ।
नित्यनैमित्तिकस्नाने दर्पणादिसमन्वितम् ॥ ६४ ॥
15.65
कर्मबिम्बान्वये योग्यं विभवेच्छानुसारतः ।
एतच्चतुर्विधं विद्धि बहुबेरविशेषकम् ॥ ६५ ॥
15.66
बहुबेरं यथायोगं स्थितमासीनमेव वा ।
शयानं यानगं वापि भवेदिच्छानुरूपतः ॥ ६६ ॥
15.67
बहुबेरादिभेदास्तु पञ्चधा परिकीर्तिताः ।
अन्यानि कर्मबिम्बानि यात्राबिम्बपुरस्सरम् ॥ ६७ ॥
15.68
तत्तत्कर्मविशेषार्थं बहुबेरैकबैरयोः ।
द्वयोश्च कल्पनीयानि विभवस्यानुरूपतः ॥ ६८ ॥
15.69
साधारं सर्वमूर्तीनां प्रति ष्ठानक्रमं श्रृणु ।
यथोक्तलक्षणोपेतं प्रासाद बिम्बसंयुतम् ॥ ६९ ॥
15.70
यथाभिमतदिग्वक्त्रं निश्चयीकृत्य वै पुरा ।
भूभागे सति वै कुर्यात्तदग्रे यागमण्डपम् ॥ ७० ॥
15.71
दिक्त्रये तदभावात्तु तदभावाद्विदिक्षु वा ।
यथाभिमतदेशेषु सौम्ययाम्यदिगायतम् ॥ ७१ ॥
15.72
आनुगुण्यऽयशुद्धं च शुभं निर्बाधमुच्छ्रितम् ।
त्रिपञ्चाशत्करायामं षोडशाङ्गुलसंमितम् ॥ ७२ ॥
15.73
द्विसप्तकरविस्तारं विभवेच्छानुसारतः ।
हस्तद्वादशविस्तीर्णं षट्चत्वारिंशदायतम् ॥ ७३ ॥
15.74
द्विचतुष्काङ्गुलैर्युक्तमष्टत्रिंशत्करायतम् ।
विस्तृतं दशभिर्हस्तैरथवा द्विजसत्तम ॥ ७४ ॥
15.75
चतुस्त्रिंशत्करं सार्धमायामं नवविस्तृतम् ।
द्विरष्टाङ्गुलसंयुक्तं त्रिंशत्करसमायतम् ॥ ७५ ॥
15.76
विस्तृतं चाष्टभिर्हस्तैरेवं पञ्चविधं भवेत् ।
सप्तषट्पञ्चहस्तं च तथा सार्धं चतुष्करम् ॥ ७६ ॥
15.77
चतुर्हस्तं भवेत् पीठं क्रमान्मण्डपपञ्चके ।
मण्डपे मण्डपे कुर्यात् पार्थिवं पीठपञ्चकम् ॥ ७७ ॥
15.78
स्वविस्तृतेः षंडशेन सर्वेषां परिवर्ज्य च ।
अन्तरालानि विप्रेन्द्र तदुच्छ्रायमथाचरेत् ॥ ७८ ॥
15.79
चतुर्विंशतिमांशेन स्वेन स्वेन महामते ।
शिष्ठं च परितो वीथिः स्यादेबां पीठकल्पना ॥ ७९ ॥
15.80
तद्विस्तारोच्छ्रितांस्तम्भान् स्थापयेत् कोणदेशतः ।
तन्मानेन समारोप्याः स्तम्भानां शिरसोपरि ॥ ८० ॥
15.81
रचनारहिताश्चान्ये दण्डास्तिर्यक्प्रसारिताः ।
सर्वं स्थलांगणं ब्रह्नन् चतुर्दिक्तोरणान्वितम् ॥ ८१ ॥
15.82
पीठात् तृतीयभागेन विस्तृतं तोरणं भवेत् ।
विस्तारात् त्रिगुणेनैव सर्वेषामुन्नतिः स्मृता ॥ ८२ ॥
15.83
सचक्रगरुडाः सर्वे त्रिचतुःपञ्चसंख्यया ।
स्वान्तरालप्रमाणेन सस्तम्भास्तोरणाखिलाः ॥ ८३ ॥
15.84
विनिवेश्याः क्षितौ खात्वा सर्वे चैव सुलक्षणाः ।
चतुरश्रास्त्वधोभागे त्वष्टाश्रा मध्यभागतः ॥ ८४ ॥
15.85
वर्तुलाश्चोर्ध्वभागाश्च समांशेन विभाजिताः ।
कृत्वैवं भगवद्यागमण्डपं सर्वकर्मणआम् ॥ ८५ ॥
15.86
उदग्दिक्पीठतश्चोर्ध्वे धिष्ण्यं कुर्यात् कजाङ्कितम् ।
वर्तुलं चतुरश्रं तु प्रकाशाख्यं सुलक्षणम् ॥ ८६ ॥
15.87
शङ्खचक्रगदापझैरङ्कितं मेखलावनौ ।
द्रव्याणामधिवासार्थं तत्समीपस्थितं तु यत् ॥ ८७ ॥
15.88
मध्यमे मण्डलं पीठे मन्त्रास्त्रकलशार्चनम् ।
चतुर्थं स्नानकुम्भानां सोषधीनां निवेशने ॥ ८८ ॥
15.89
तस्मिन्नन्यत्र शयनं पञ्चमं स्नपनासनम् ।
भद्रपीठसमायुक्तं स्नानद्रव्यसमन्वितम् ॥ ८९ ॥
15.90
पूरितं वालुकाभिश्च कर्तव्यं तु द्विजाऽथवा ।
सद्वारं सगवाक्षं च सकवाटं हि सार्गलम् ॥ ९० ॥
15.91
कृत्वैवमधिवासार्थं प्राकारं सालयं महत् ।
प्रासादक्षेत्रमानं तु सन्त्यज्य परितस्ततः ॥ ९१ ॥
15.92
समेखलं सपीठं तु दिक्षु कुण्डाष्टकं लिखेत् ।
अनुकल्पे तु वा कुर्यात् प्राच्यां दिङ्भण्डपाद्बहिः ॥ ९२ ॥
15.93
तत्पाश्चात्ये तु वा भागे सपीठाः सहतोरणाः ।
सस्तंभा वा पृथक्पीठा विविक्ताश्च परस्परम् ॥ ९३ ॥
15.94
चातुरात्म्यादिदेवानां ब्रह्नन् स्थापनकर्मणि ।
संस्थितिं श्रृणु कुण्डानां विविधां दिग्विदिक्षु च ॥ ९४ ॥
15.95
महाविभवसौभाग्य आयुरारोग्यवृद्धये ।
सिद्धये सर्वकर्माणां विघ्नानां विनिवृत्तये ॥ ९५ ॥
15.96
व्यत्ययादफलं विद्धि मुक्तये समतानघ ।
गदाद्वन्द्वद्वयोपेतं प्राग्दिक्तुर्याश्रमेव वा ॥ ९६ ॥
15.97
चक्रं दक्षिणदिग्विप्र शङ्खं प्रत्यक्प्रदेशतः ।
पझमुत्तरदिग्भागे यथाभिमतपल्लवम् ॥ ९७ ॥
15.98
आग्नेय्यां तु समापाद्य कुण्डमश्वत्थपत्रवत् ।
विमुक्तकमलं कुर्यात् त्रिकोणं पूर्ववत्ततः ॥ ९८ ॥
15.99
होमार्थं या तु दिक्कुण्डमष्टाश्रं वायवे पदे ।
धिष्ण्यं श्रीवत्ससंज्ञं तत् अर्धेन्दुसदृशाकृति ॥ ९९ ॥
15.100
ऐशान्यां तु समालिख्य लक्षणेनोपलक्षितम् ।
अतोऽपरं सन्निवेशमेकाग्रमवधारय ॥ १०० ॥
15.101
धिष्ण्यं पूर्वपदे वृत्तमाग्नेय्यां कौस्तुभाकृति ।
चक्रं दक्षिणादिग्भागे शार्ङ्गाकारं तु यातुदिक् ॥ १०१ ॥
15.102
आप्यां गदाकृतिं प्राग्वन्मालाख्यं वायवे पदे ।
उदग्दिक्कमलाकारं श्रीवत्साकारमीशदिक् ॥ १०२ ॥
15.103
विस्तारं शम मानं तु सर्वेषां विहितं तु वै ।
द्वादशांशं परित्यज्य ओष्ठार्थं च ततो बहिः ॥ १०३ ॥
15.104
सुसमं मेखलाबन्धं कुर्यात् तद्विस्तृतेः समम् ।
शम द्वयं भवेत् सर्वं यथा मेखलया सह ॥ १०४ ॥
15.105
मध्यदेशे तु वृत्तं च तुर्याश्रं वा सुलक्षणम् ।
प्रासादक्षेत्रभूमेर्वै तमेवैशपदे बहिः ॥ १०५ ॥
15.106
संपाद्यमानं युक्तं वा तर्पणे सर्वकर्मणाम् ।
वास्त्वङ्गविबुधानां च लोकेशानां महामते ॥ १०६ ॥
15.107
विघ्नेशद्वारपालानां क्षेत्रेशस्य तथा क्षितेः ।
कृत्वैवं भूषयेत् प्राग्वत् सकुण्डं यागमण्डपम् ॥ १०७ ॥
15.108
चतुरश्रं चतुर्द्वारं दर्भमालान्तरीकृतम् ।
अन्यत्र तदलाभे तु यथाभिमतदिङ्मुखम् ॥ १०८ ॥
15.109
चतुर्दशकराच्चैव यावत्त्रिंशत्करावधि ।
षट्करान्तं पुनस्तस्माद्बिम्बमानव्यपेक्षया ॥ १०९ ॥
15.110
कार्या मध्ये स्थला तेषां द्विसप्तांशैस्ततोऽष्टभिः ।
समन्तभद्रा सुश्लक्ष्णा चिता प्केष्टकादिभिः ॥ ११० ॥
15.111
तालोन्नतैः समारभ्य सामान्येऽस्मिन् हि कर्मणि ।
उन्नताङ्गुलवृद्ध्या तु नीचा तद्ध्रासतः क्रमात् ॥ १११ ॥
15.112
द्वित्रिरष्टांशकैर्मध्ये सर्वासां मण्डलं भवेत् ।
चतुरश्रं चतुर्द्वारं चक्राम्बुरुहभूषितम् ॥ ११२ ॥
15.113
दक्षिणे शयनं सौम्ये कुण्डं अग्नेस्तु पूर्ववत् ।
समेखलं द्विहस्तं च चक्रपझाङ्कितं शुभम् ॥ ११३ ॥
15.114
तदधश्चतुरश्रं प्राक् गदामेखलिकान्वितम् ।
तथा दक्षिणदिग्भागे कुर्याद्वै चक्रचिह्नितम् ॥ ११४ ॥
15.115
वर्तुलं पश्चिमे सौम्ये कमलाङ्कं मनोहरम् ।
शङ्खाङ्कं सर्वकोणेषु मानमेषां यथोर्ध्वगे ॥ ११५ ॥
15.116
सर्वे दशान्तहस्तानां चतुर्णामेकमेखला ।
मण्डपानां तु किन्त्वत्र ऊर्ध्वगं सर्वमेखलम् ॥ ११६ ॥
15.117
ततोऽधः संस्थिताः सर्वे एककुण्डास्तु मण्डपाः ।
तेषां समेखलं चाद्ये द्वाविंशत्यङ्गुलं भवेत् ॥ ११७ ॥
15.118
ह्रासादङ्गुलयुग्मस्य यावद्वै षोडशाङ्गुलम् ।
स्यात् षट्करे गृहे कुण्डं कुर्याद्वै वा मेखलाधिका ॥ ११८ ॥
15.119
अष्टहस्तोच्छ्रितं पूर्वं ततोर्धकरवर्धितम् ।
त्रयोदशकरादीनां चतुर्णां ह्रासयेत् ततः ॥ ११९ ॥
15.120
अष्टकं त्वङ्गुलानां तु सप्तपञ्चचतुःक्रमात् ।
न ह्रासः षट्करान्तानां न्यूनानामुच्छ्रितेर्भवेत् ॥ १२० ॥
15.121
एवं स्नानगृहाणां तु विस्तारश्चोन्नतैः सह ।
किन्तु वै वालुकापीठैर्मध्यतश्चोपशोभितः ॥ १२१ ॥
15.122
द्विचतुर्भिर्द्विहस्तांशैर्विस्तृताः प्राग्वदुन्नताः ।
स्नानीया अग्रगोहाद्वा दिक्त्रयेऽभिमेत शुभे ॥ १२२ ॥
15.123
अर्धमानसमं मुख्यात् सुपीठं शयनान्वितम् ।
दृग्दानभवनं कुर्यान्मङ्गल्यकलशैः सह ॥ १२३ ॥
15.124
सर्वेषां कर्मभूभागं कोणस्तम्भैर्विभूषितम् ।
सुनेत्रैर्वेष्टितं कुर्याच्चक्राद्यैः पूर्ववद्युतम् ॥ १२४ ॥
15.125
सुस्थिरं दृढपादं च स्नानाम्भोग्रहणक्षमम् ।
अर्धेन वालुकापीठाद्दीर्घमाद्यक्रमेण तु ॥ १२५ ॥
15.126
वर्धितं चार्धहस्तेन ह्रासितं चतुरङ्गुलैः ।
स्वदैर्घ्यादर्धविस्तीर्णं कृत्वैवं सप्रणालकम् ॥ १२६ ॥
15.127
तेन तद्वालुकापीठं भूषयेन्मध्यगेन तु ।
यागागारस्य वै दिक्षु द्वारार्थं तत्र चान्तरे ॥ १२७ ॥
15.128
शमार्धं वृद्धियोगेन ह्रासोऽन्यत्र कलादिकः ।
तोरणानि बहिः कुर्याद्दृढैः काष्ठैः सुपूजितैः ॥ १२८ ॥
15.129
पञ्चहस्तानि चार्धेन वर्धितानि करेण तु ।
न ह्रासमाचरेत्तेपामन्यत्र करणे सति ॥ १२९ ॥
15.130
दशमात् पञ्चहस्तानामृते भूमौ प्रवेशयेत् ।
शमार्धं वर्धितानां च द्वे द्वे संवर्धयेत् कले ॥ १३० ॥
15.131
दैर्घ्यात् प्रवेशशिष्टात्तु त्रिभागेन तदन्तरम् ।
सर्वं चक्रध्वजं कार्यं वस्त्रस्रङ्भञ्जरीयुतम् ॥ १३१ ॥
15.132
सुधाद्यैर्वर्णकैः पीतैश्चन्दनाद्यैस्तु लेपितम् ।
भिन्नाङ्गमेतदखिलं यथैकस्मिन् हि युज्यते ॥ १३२ ॥
15.133
कर्म यागगृहे शश्वद्विभूतेर्वावनेर्विना ।
पञ्चत्रिंशत्करं क्षेत्रं स्वतुर्यांशेन विस्तृतम् ॥ १३३ ॥
15.134
तन्मध्ये तु चतुर्हस्तं चाऽपाद्यं स्थलसप्तकम् ।
स्थलानां व्यवधानं तु कुर्याद्वै तालसंमितम् ॥ १३४ ॥
15.135
एकापायेन वै कुर्याद्विहस्तान्तस्थलाङ्गणम् ।
क्रमेणाष्टाङ्गुलान्मानाद्व्यङ्गुलं द्व्यङ्गुलं विना ॥ १३५ ॥
15.136
स्थलानां संकटानां च व्यवधानं द्विगोलकम् ।
एवमेव समुच्छ्रायः सर्वासां परिकीर्तितः ॥ १३६ ॥
15.137
परितो विहितं वीथेर्मानमत्र स्वपीठजम् ।
एवं वा सङ्कटे कुर्यादाद्योक्तान्मण्डपद्वयात् ॥ १३७ ॥
15.138
मध्ये मण्डलपीठं तु तस्य दक्षिणदिग्भवेत् ।
समीपे शयनं स्थानकुम्भानां स्थापनायनम् ॥ १३८ ॥
15.139
एवं हि वामनिकटे भोगानां मन्त्रतर्पणम् ।
ऋग्यजुः सामपूर्वाणां श्रुतीनां हवनं परे ॥ १३९ ॥
15.140
दृग्दानशयनं स्थाने ह्यन्यस्मिन् शयने हितम् ।
व्यवसायार्थसम्पत्ती देशकालौ तु तज्ज्ञताम् ॥ १४० ॥
15.141
ज्ञात्वा समाचरेत् सर्वं न न्यूनं नाधिकं तु वा ।
यद्युक्तमविरुद्धं च व्यापकं सम्प्रयोजनम् ॥ १४१ ॥
15.142
तत्तदभ्यूह्य सर्वत्र कुर्याल्लोभधिया विना ।
यतो यथोक्तं देवानां निष्पद्यति हि वा न वा ॥ १४२ ॥
15.143
अतो यथोक्तेन विना नावसीदति बुद्धिमान् ।
यथोक्तकरणे च्छिद्रपूरणं परमं स्मृतम् ॥ १४३ ॥
15.144
भावभक्तिसमेतं च श्रद्धापूतं पुरोदितम् ।
प्रासादस्याष्टदिग्व्योम मूर्तिपानां यथोदितम् ॥ १४४ ॥
15.145
स्थण्डिलेष्वथ कुण्डेषु तादर्थ्येनाथवा स्वयम् ।
स्वकुण्डे हवनं कुर्याच्चतुर्वेदमथोऽपरे ॥ १४५ ॥
15.146
समस्तं मूर्तिपीयं वा स्वयमेव समाचरेत् ।
सामग्रीविरहाद्योग्यमूर्तिपानामभावतः ॥ १४६ ॥
15.147
एवं त्वभिनव कृत्वा यागार्थं मण्डपं द्विज ।
पूर्वोदितैरलङ्कारैरलंकृत्य पृथग्विधैः ॥ १४७ ॥
15.148
सितरक्तादिभेदेन प्रागादौ तु ध्वजाष्टकम् ।
निवेश्य मध्ये वेद्यां तु पुनरप्ययवत्तथा ॥ १४८ ॥
15.149
यागमण्डपनिर्माणे भूयो विध्यन्तरं श्रृणु ।
प्राग्वा ह्युदग्वा प्रासादात् त्रिंशद्धस्तैर्द्विजायतम् ॥ १४९ ॥
15.150
द्व्यधिकैर्मण्डपं कुर्यादन्यद् द्वादशभिः करैः ।
स्यात् तुर्यश्रायतं मध्ये वेदीनां तत्र पञ्चकम् ॥ १५० ॥
15.151
परितः पञ्चहस्तं च हस्ते हस्तेऽन्रीकृतम् ।
प्रदक्षिणगणोपेतं वितानाद्यैर्विभूषितम् ॥ १५१ ॥
15.152
वेद्यामुत्तरदिक्स्थायां कुर्यात् कुण्डं सलक्षणम् ।
होमोपकरणं सर्वं तत्रोपरि निवेश्य च ॥ १५२ ॥
15.153
ततोपरायां वेद्यां तु नेत्रे उन्मीलयेद्द्विज ।
मण्डलं मध्यमायां तु वेद्यामप्येकपङ्कजम् ॥ १५३ ॥
15.154
प्रस्तार्य चित्रं शयनं चतुर्थ्यां मुनिसत्तम ।
स्नानकर्म ततः कुर्यात् पञ्चमायां तु दक्षिणे ॥ १५४ ॥
15.155
मण्डपस्य चतुर्दिक्षु कुर्यात् कुण्डचतुष्टयम् ।
प्रासादस्यापि परितः कुर्यात् कुण्डचतुष्टयम् ॥ १५५ ॥
15.156
तदर्थान् सर्वसंभारान् संभृत्य सुसमाहितः ।
दिने कर्मदिनात् पूर्वे सप्तमे पञ्चभेऽपि वा ॥ १५६ ॥
15.157
अङ्कुरानर्पयित्वा तु ततः कर्म समारभेत् ।
प्रधानदिवसात् पूर्वदिने देशिकसत्तमः ॥ १५७ ॥
15.158
स्नातः शुक्लाम्बरः स्रग्वी कृतन्यासः सुशान्तधीः ।
कृताह्निकोऽधिवासार्थं सर्वालङ्कारभूषितः ॥ १५८ ॥
15.159
सर्वसाधनसंयुक्तं त्वर्घ्यपाद्यसमन्वितम् ।
मङ्गल्यकुम्भमादाय ध्यायमानोऽच्युतं हृदि ॥ १५९ ॥
15.160
सह चैकायनैर्विप्रैः सदागमपरायणैः ।
तथा ऋङ्भयपूर्वैस्तु आमूलाद्भगवन्मयैः ॥ १६० ॥
15.161
भेरीपटहवादित्रशङ्खशब्दादिकैः सह ।
ऋग्यजुस्सामपूर्वैश्च प्रशस्ताः संपठन् श्रुतीः ॥ १६१ ॥
15.162
द्वारपालार्चनं कृत्वा यागागारं प्रविश्य च ।
संस्मृत्य स्वासने व्याप्तिमर्चयित्वोपविश्य च ॥ १६२ ॥
15.163
मध्यपीठसमीपे तु प्राङ्मुखः पश्चिमे पदे ।
अग्रे मङ्गल्यकलशमाधारस्योपरि न्यसेत् ॥ १६३ ॥
15.164
विप्रान् ऋङ्भयपूर्वांश्च उपवेश्य च पूर्ववत् ।
पूर्वोक्तस्त्वधिकैर्युक्तो द्रव्यैर्द्रव्यगणः शुभः ॥ १६४ ॥
15.165
यश्च यत्रोपयोग्यस्तु तत्र तं संप्रवेशयेत् ।
मन्त्राणामुपदेष्टा चाप्यनुकूलो महामतिः ॥ १६५ ॥
15.166
योक्तव्यः कर्मदक्षस्तु सर्वेष्ववसरेषु च ।
दक्षिणे ह्यात्मनो विप्र एकचित्तः समाहितः ॥ १६६ ॥
15.167
स्वयं वस्त्वनुसन्धाय हवनार्चनकर्मणाम् ।
आस्ते ह्युत्पत्तिपूर्वाणां न्यासान्तानामनन्यधीः ॥ १६७ ॥
15.168
करशुद्ध्यादि सर्वं तु चक्रादिन्यासपश्चिमम् ।
सर्वं क्रमेण कृत्वा तु पुण्याहं वाचयेत् ततः ॥ १६८ ॥
15.169
ओङ्काराद्यं पवित्रान्तं मन्त्राणां प्राक्चतुष्टयम् ।
पाठयेच्च सपुण्याहं गायत्रीत्रितयान्वितम् ॥ १६९ ॥
15.170
ततश्चात्मानुवादं च आत्मव्यूहं तथैव च ।
विष्णुसूक्तं शाकुनं च शिवसंकल्पमेव च ॥ १७० ॥
15.171
श्रीसूक्तं चापि शंशूक्तं भद्रसूक्तं यथैव च ।
अद्भिरित्यादिकं यच्च प्रीतिमन्त्रावसानकम् ॥ १७१ ॥
15.172
पुण्याहं स्वस्ति ऋद्धिं च संवाच्य सह मूर्तिपैः ।
प्रोक्षयेच्छतधारेण स्थानानी त्यादिकेन च ॥ १७२ ॥
15.173
एवं सर्वेषु यागेषु भवेत् पुण्याहवाचनम् ।
यागं पुरोक्तविधिना त्रिस्थानस्य क्रमाद्यजेत् ॥ १७३ ॥
15.174
भगवन्तं जगद्योनिं बिम्बमध्ये द्विजोत्तम ।
कुर्यात् सतोरणानां च ध्वजानां स्थापनं ततः ॥ १७४ ॥
15.175
सत्यादिकं चतुष्कं तु मध्ये वेद्या ध्वजाष्टकम् ।
प्रभवाप्यययोगेन यजेत् प्रागादियोगतः ॥ १७५ ॥
15.176
उत देवा अवहिता ऋङ्भयान् पाठयेत्ततः ।
प्रागादिदिक्चतुष्केषु तोरणानां चतुष्टये ॥ १७६ ॥
15.177
सुशोभनं सुभद्रं च सुगन्धं च यजेत् क्रमात् ।
सुहोत्रं च ततश्चक्रं विहगेश्वरसंयुतम् ॥ १७७ ॥
15.178
उपरिष्टान्मुनिश्रेष्ठ पूजयेत् प्रतितोरणम् ।
एतेषामथवा पूर्वं भवेद् द्वार्स्थैः सहार्चनम् ॥ १७८ ॥
15.179
पाठयेद्द्वारपालीयं साम सामविदस्ततः ।
अथोर्घ्यपुष्पभृन्मूर्तिधरैर्यायात् सामवृतः ॥ १७९ ॥
15.180
यत्र तिष्ठति विश्वेशः पीठब्रह्नशिलान्वितः ।
तत्रावलोकनं तेषां कुर्यात् सन्ताडनादिकम् ॥ १८० ॥
15.181
चक्रास्त्रमन्त्रितैः स्नानकलशैः स्नपयेत्ततः ।
सिद्धार्थकैस्तथा पञ्चगव्यमृदभूतिवारिणा ॥ १८१ ॥
15.182
वल्मीकमृज्जलेनाथ चक्राङ्कौषधिवारिणा ।
संक्षोभ्याभ्यर्च्य चोद्वर्त्य क्षालयेदस्त्रवारिणा ॥ १८२ ॥
15.183
तमर्घ्येणार्चयित्वा च ततस्तन्मन्त्रितान् करे ।
सिद्धार्थकान् दक्षिणे तु बध्वाग्रे पाठयेदृचम् ॥ १८३ ॥
15.184
रक्षोहणं तथा सर्वान्नयेत् प्रतिसरे मणीन् ।
सर्वत्र वेष्टितं कृत्वा समारोप्य रथोत्तमे ॥ १८४ ॥
15.185
कर्मारम्भं च पठतः तस्य दक्षिणदिङ्न्यसेत् ।
ऋक्सामपूर्वान् वामे तु ब्राह्नणांश्च चतुश्चतुः ॥ १८५ ॥
15.186
पुरतोऽस्त्रं स्मरनं यायात् स्वयं विघ्नांस्तु सूदयन् ।
सनृत्तगीतवादित्रस्तुतिमङ्गलपाठकैः ॥ १८६ ॥
15.187
इदं विष्णुर्विचक्रम इति ऋङ्भयैः सह पाठकैः ।
एकायनांस्तदन्ते तु ॐ नमो ब्रह्नणे तु यत् ॥ १८७ ॥
15.188
तथैव शाकुनं सूक्तं श्रीसूक्तेन समन्वितम् ।
स्वर्णादिनार्थिनः शक्त्या तर्पयंस्तान्निवेशयेत् ॥ १८८ ॥
15.189
यागभूमिं ततो बिम्बमवरोप्य रथादिकात् ।
निषण्णं दृढकाष्ठोत्थतोरणे सन्निवेश्य च ॥ १८९ ॥
15.190
स्नानभूमौ ततः कुर्यादस्त्रेणाज्यतिलाहुतीः ।
यद्वा पूर्वं समानीय पीठं ब्रह्नशिलान्वितम् ॥ १९० ॥
15.191
भूमिष्ठे भद्रपीठे तु वेदिकायां निवेश्य च ।
ततो बिभ्बं समानीय स्थापयेत् पिण्डिकोपरि ॥ १९१ ॥
15.192
स्थाप्यमाने बृहद्बिम्बे विशेषः कथ्यते श्रृणु ।
पूर्ववत् कर्मशालायां संस्थाप्याकारशुद्धये ॥ १९२ ॥
15.193
संस्नाप्य विधिना कृत्वा नयनोन्मीलनं ततः ।
स्नपनं बृहादापाद्य केवलं वा बहूदकैः ॥ १९३ ॥
15.194
स्नानकर्मशिलादीनामीषत् कृत्वा तु सार्चनम् ।
उत्थाप्य मूर्तिपाद्यैस्तु बहुभिस्तु रथस्थितम् ॥ १९४ ॥
15.195
समानीय ततो यत्नात् प्रासादाभ्यन्तरं तु वै ।
यथावद्रत्नविन्यासपूर्वं पीठे निवेश्य च ॥ १९५ ॥
15.196
बृहद्बिम्बं ततः कुर्यात् कर्म बिम्बेऽखिलं तु वै ।
सन्निरोधस्तु मन्त्राणां तत्र लघ्नेदये स्मृतः ॥ १९६ ॥
15.197
आबृहत्स्नपनात्पूर्वं यत्किञ्चदपि तत्र तत् ।
निर्वर्तनीयं पूर्णान्तं बुद्वैवं प्राङ्भहामते ॥ १९७ ॥
15.198
तथा कार्यं शुभो येन मूहूर्तो नावसीदति ।
एवं हि चित्रपूर्वाणामन्येषां मुनि सत्तम ॥ १९८ ॥
15.199
सरत्नब्रह्नपाषाणवर्जितानां समापयेत् ।
स्नानाद्यं कर्मबिम्बे तु तत्सममीपेऽथ दर्पणे ॥ १९९ ॥
15.200
कर्मबिम्बं विना तेषां प्रस्वापाद्यपि विष्टरे ।
कुर्यात् प्रवेशपूर्वं तु सर्वमुत्सवपश्चिमम् ॥ २०० ॥
15.201
शक्तिभिः कर्मबिम्बैश्च गरुडाद्यैर्यदा सह ।
समाचरेत् प्रतिष्ठानं मूलबिम्बेन वै सह ॥ २०१ ॥
15.202
तदानीं तानि बिम्बानि यागभूमौ प्रवेशयेत् ।
एवं प्रवेश्य तद्बिम्बं देशिकः सुसमाहितः ॥ २०२ ॥
15.203
मण्डलाग्रमथासाद्य तत्र बिम्बं निवेदयेत् ।
भगवन् भूतभव्येश त्वय्येवाराधनाय च ॥ २०३ ॥
15.204
इदं बिम्बं करिष्यामि संस्कृत्य रजनीक्षये ।
एवं निवेद्य स्नानार्थं कलशान् स्थापयेत् पृथक् ॥ २०४ ॥
15.205
अथवा कर्मदिवसात् तृतीये वासरे पुरा ।
कर्मभूमेः समानीय ब्रह्न पीठशिलान्वितम् ॥ २०५ ॥
15.206
यागभूमौ तु संस्थाप्य कलशे मण्डलक्षितौ ।
वह्नौ च देवदेवेशमिष्ट्वा पूर्वोक्तवर्त्मना ॥ २०६ ॥
15.207
यिम्बादिसर्वद्रव्याणामधिवासं यथास्थितम् ।
कल्पयित्वा तु देवस्य कृत्वा बिम्बनिवेदनम् ॥ २०७ ॥
15.208
अपरेऽहनि संप्राप्ते स्नपनं प्रारभेद्गुरुः ।
यद्वा तृतीयदिवसे प्राग्वदिष्ट्वा क्रमेण तु ॥ २०८ ॥
15.209
त्रिस्थानस्थं जगन्नाथं कर्मशालां प्रविश्य च ।
प्राप्तेऽपराङ्नसमये बिम्बमाकारशुद्धये ॥ २०९ ॥
15.210
संस्नाप्य विधिना पश्चाद्बिग्वं तोयेऽधिवास्य च ।
अपरस्मिन् दिने प्राप्ते देशिकस्तु कृताह्निकः ॥ २१० ॥
15.211
जलादुत्थाप्य तद्बिम्बं यागभूमौ प्रवेशयेत् ।
सनकः ।
जलाधिवासनं कर्म यथावद्वदतांवर ॥ २११ ॥
15.212
श्रोतुकामस्य मे सम्यक् समाख्याहि सुविस्तरम् ।
शाण्डिल्यः ।
वक्ष्ये जलाधिवासीयं विधानमवधारय ॥ २१२ ॥
15.213
प्रासादस्य विशुद्ध्यर्थं बिम्बशुद्ध्यर्थमेव च ।
मानोन्माणप्रमाणानामूनाधिक्योपशान्तये ॥ २१३ ॥
15.214
जगदाप्यायनार्थं च सर्वसम्पूर्णसिद्धये ।
प्रतिष्ठार्थक्रियारम्भात् पूर्वमेव शुभे दिने ॥ २१४ ॥
15.215
पञ्चगव्यादिना स्नानं पूजाहोमौ तथा जपम् ।
समाचरेत् स्वमन्त्रस्य यत्नैवं न कृतं पुरा ॥ २१५ ॥
15.216
हेतुना केनचित्तत्र जलवासं समाचरेत् ।
नदीषु दीर्घिकायां वा तटाके निर्झरे ह्रदे ॥ २१६ ॥
15.217
संभवे सति कुर्वीत जलवासं यथाविधि ।
असंभवे जलद्रोण्यां कटाहे धातुनिर्मिते ॥ २१७ ॥
15.218
यथासंभवमन्यस्मिन् पात्रे वा मृण्मयादिके ।
अल्पतोये श्मशानान्ते लवणोदपरिप्लुते ॥ २१८ ॥
15.219
कटुके च कषाये च तिक्ते फेनैश्च दूषिते ।
चैत्यवृक्षसमीपे च नीचावाससमीपके ॥ २१९ ॥
15.220
वर्णान्तरे युते स्वल्पे ऊषरे शौवलान्विते ।
एवमादिषु दुष्टेषु जलवासं न कारयेत् ॥ २२० ॥
15.221
एकत्रिपञ्चरात्रं वा जलमद्येऽधिवासयेत् ।
देशकालानुरूपेण सद्यो वा जलवासनम् ॥ २२१ ॥
15.222
प्रतिष्ठादिवसात् पूर्वं तृतीये पञ्चसप्तमे ।
दिनेऽपराङ्णसमये कर्मशालां प्रविश्य च ॥ २२२ ॥
15.223
अस्त्रमन्त्रेण संप्रोक्ष्य बिम्बं सन्ताडयेत्ततः ।
सिद्धार्थकेस्तिलैर्दीर्घैरस्त्रमन्त्राभिमन्त्रितैः ॥ २२३ ॥
15.224
सस्नाप्याकारशुद्ध्यर्थं षडिभः सिद्धार्थकादिकेः ।
वस्त्राभरणपुष्पाद्यैरलंकृत्य च भूषणैः ॥ २२४ ॥
15.225
पूर्ववत् कौतुकं बद्ध्वा समारोप्य रथादिके ।
पूर्ववच्छ्रुतिघोषैश्च शङ्खभेर्यादिकैः सह ॥ २२५ ॥
15.226
विविधैर्नृत्तगेयैश्च तथान्यैर्मङ्गलैः सह ।
ग्रामं वा नगरं वापि प्रासादं च प्रदक्षिणम् ॥ २२६ ॥
15.227
भ्रामयित्वा जलोद्देशमानयेन्मूर्तिपैः सह ।
प्रपायां तु जलाभ्यर्णे अवरोप्य रथादिकात् ॥ २२७ ॥
15.228
विष्टरे विनिवेश्याथ प्राङ्मुखं वाप्युदङ्मुखम् ।
मण्डपं जलमध्ये तु वातवृष्टिक्षमं शुभम् ॥ २२८ ॥
15.229
चतुः स्तम्भसमायुक्तं चतुस्तोरणभूषितम् ।
वितानध्वजसंयुक्तं वेष्टितं दर्भमालया ॥ २२९ ॥
15.230
विचित्रैश्च फलैर्युक्तं द्रुमाङ्गैः पावनैस्तथा ।
मुक्तादामसमायुक्तं स्रग्दामभिरलंकृतम् ॥ २३० ॥
15.231
कोणप्रदीपसंयुक्तं चामरैरुपशोभितम् ।
पुरैव कारयित्वा तु कुर्यात् पुण्याहघोषणम् ॥ २३१ ॥
15.232
प्राग्वच्छुद्धिमपां कृत्वा तन्मध्ये विन्यसेत्ततः ।
प्रतिमानुगुणं भद्रपीठमास्तरणान्वितम् ॥ २३२ ॥
15.233
सोपधानं तदूर्ध्वे तु कल्पयेन्मान्त्रमासनम् ।
अनन्तं कल्पयित्वोर्ध्वे अर्घ्यगन्धादिनार्चयेत् ॥ २३३ ॥
15.234
द्विषट्कार्णेन बिम्बस्य अर्घ्यं पाद्यं तथैव च ।
आचामं वासितं गन्धमुपवीतोत्तरीयके ॥ २३४ ॥
15.235
भूषणानि च माल्यानि दीपं धूपं यथाक्रमम् ।
दत्वा कृत्वा घृतारोपं संस्मरेत् संहृतिक्रमम् ॥ २३५ ॥
15.236
संहारस्य क्रमं वक्ष्ये समाकर्णय सांप्रतम् ।
आत्मानं सर्वगं ध्यात्वा सर्वज्ञं विष्णुमव्ययम् ॥ २३६ ॥
15.237
कुर्याद्भावान्वितो विष्णोरधिवासनमुत्तमम् ।
प्रणवेन समारोप्य जीवमर्चाभिमानिनम् ॥ २३७ ॥
15.238
उत्क्रम्यात्मैकतां कृत्वा स्वस्मिन् सर्वेश्वरे हरौ ।
संशोष्य मरुता पृथ्वीं दग्ध्वा बीजान्विताग्निना ॥ २३८ ॥
15.239
अद्भिः संप्लाव्य तां वायुशुष्कां वह्नौ विलाप्य च ।
संहृत्य वायुना वह्निं वायुमाकाशतां नयेत् ॥ २३९ ॥
15.240
आध्यात्मिकाधिदेवैस्तु करणैर्विषयैः सह ।
तन्मात्रासंस्थितान्येवं क्रमात् संहृत्य देशिकः ॥ २४० ॥
15.241
नभो मनसि संहृत्य मनोऽहङ्कति तत्पुनः ।
महत्यात्मनि तं चापि नयेदव्याकृतैकताम् ॥ २४१ ॥
15.242
शान्तानन्ते परे व्योम्नि निष्कले ज्ञानविग्रहे ।
तं ध्यायेत् परमानन्दे संस्थितं शान्तविग्रहम् ॥ २४२ ॥
15.243
यस्मिन्नव्याकृतं लीनं स्वस्थं यत् स्वस्वरूपकम् ।
वासुदेवोऽपि विज्ञेयः सर्वात्मा सर्वकृत् प्रभुः ॥ २४३ ॥
15.244
तस्मिन्नेव तुसंहृत्य पृथिव्यादीनि देशिकः ।
एवं ध्यात्वा यथान्यायं बिम्बं वस्त्रेण वेष्टयेत् ॥ २४४ ॥
15.245
स्थगयित्वांशुकैर्दिव्यैर्दर्भैः सर्वैः स्रगादिभिः ।
आचार्यो मूर्तिपैर्मन्त्रान् व्यापकांश्चतुरोपि च ॥ २४५ ॥
15.246
पठद्भिः शाकुनं सूक्तं तथा चान्यैस्त्रयीमयैः ।
आम्नायोद्धोषणपरैः सार्धमादाय तीरतः ॥ २४६ ॥
15.247
तद्बिम्बं जलमध्ये तु पीठोर्ध्वे शाययेत् स्वयम् ।
अम्भस्येति च मन्त्रेण प्राङ्मूर्धानमुदङ्मुखम् ॥ २४७ ॥
15.248
दुन्दुभीर्विविधाकारा नादयित्वा दिशो दश ।
जयशब्दैश्च गीताद्यैः सपुण्याहपुरस्सरम् ॥ २४८ ॥
15.249
आत्मन्यासं क्रमात् कृत्वा दिशोस्त्रेणावबध्नियात् ।
अवलोक्य च नेत्रेण कवचेनावकुण्ठयेत् ॥ २४९ ॥
15.250
लोकपालान् बहिर्ध्यात्वा स्थानादस्मात् समन्ततः ।
तीरदेशमथ प्राप्य कुम्भं सूत्रेण वेष्टयेत् ॥ २५० ॥
15.251
वेष्टितं नववस्त्राभ्यां सापिधानं सपल्लवम् ।
संस्थाप्य तद्दक्षिणतः करकं च तथैव हि ॥ २५१ ॥
15.252
इन्द्रादीशानपर्यन्तं कलशान् परितो न्यसेत् ।
सवस्त्रान् सापिधानांश्च सहिरण्यान् सकूर्चकान् ॥ २५२ ॥
15.253
कुम्भे विशाखयूपं तु करके च सुदर्शनम् ।
आवाह्यार्घ्यादिनाभ्यर्च्य इन्द्रादीन् कलशाष्टके ॥ २५३ ॥
15.254
बिम्बस्य शिरसोद्देशे कुम्भं च करकं न्यसेत् ।
अर्चितं परितश्चाष्टौ कलशान् विन्यसेत् क्रमात् ॥ २५४ ॥
15.255
कोणेषु पालिका न्यस्त्वा अनिर्वाणैश्च दीपकैः ।
दर्शयेच्चक्रमुद्रां च रक्षामुद्रां तथैव च ॥ २५५ ॥
15.256
अत ऊर्ध्वं न वै कुर्याद्ग्राम्यधर्मं तु तज्जले ।
दारुलोहशिलोत्थानां बिम्बानां जलवासनम् ॥ २५६ ॥
15.257
साक्षाद्भवेत्तदन्यत्र भवेच्छायाधिवासनम् ।
विधानं तत्र वक्ष्यामि यथा तदवधारय ॥ २५७ ॥
15.258
स्नानमाकारशुद्ध्यर्थं द्र्पणे तु समाचरेत् ।
अन्यच्च सकलं विप्र प्राग्वद्बिम्बे समाचरेत् ॥ २५८ ॥
15.259
अग्रतो देवबिम्बस्य छायाधिवसनार्थतः ।
जलद्रोणीं कटाहं वा स्थापयेल्लोहनिर्मितम् ॥ २५९ ॥
15.260
मृण्मयं दारुजं वापि भाजनं धान्यसञ्चये ।
पूरयेद्गन्धतोयेन शुद्धस्फटिकवर्चसा ॥ २६० ॥
15.261
पूर्ववद्विष्टरं कृत्वा दर्भमञ्जरिजं शुभम् ।
अष्टाविंशतिदर्भोत्थं कूर्चं कृत्वा द्विजोत्तम ॥ २६१ ॥
15.262
देशिकेन्द्रो विधानेन तत्रावाह्य जगद्गुरुम् ।
अर्घ्यगन्धादिनाभ्यर्च्य स्मृत्वा वै संहृतिक्रमम् ॥ २६२ ॥
15.263
विष्टरं जलमध्ये तु प्राङ्मूर्धानं तु शाययेत् ।
चक्रमुद्रां प्रदर्श्याथ कुम्भादीन् पूर्ववन्न्यसेत् ॥ २६३ ॥
15.264
शक्तीनामपि विप्रेन्द्र पूर्ववद्विष्टरं भवेत् ।
अथवा तु त्रिभिर्दर्भैः कूर्चं कुर्याद्विधानतः ॥ २६४ ॥
15.265
छायाधिवासमात्रं तु तासामपि पृथक् पृथक् ।
सर्बाङ्गं नववस्त्रेण प्रतिमायाः समन्ततः ॥ २६५ ॥
15.266
झादयित्वा समन्ताच्च सिद्धार्थान् विकिरेत् क्षितौ ।
रक्षोहणेति मन्त्रेण रक्षां कुर्यात् समन्ततः ॥ २६६ ॥
15.267
अनुक्तमत्र यत् किञ्चित् प्राग्वत्तत् सर्वमाचरेत् ।
मृण्मये भित्तिसंस्थे च बिम्बे छायाधिवासनम् ॥ २६७ ॥
15.268
अन्तः प्रविश्य प्रासादे देशिकेन्द्रः समाचरेत् ।
अन्येषां यागगेहस्य प्राग्वत् कृत्वा तु मण्टपम् ॥ २६८ ॥
15.269
कुटीं वा तत्र कुर्वीत छायाधिवसनं गुरुः ।
दारुलोहशिलोत्थानां बिम्बानां विभवे तदा ॥ २६९ ॥
15.270
जलद्रोण्यादिके पात्रे तोयाधिवसनं चरेत् ।
तदापि जलवासं तु आचरेन्मण्टपान्तरे ॥ २७० ॥
15.271
यद्वा स्नानार्थकं क्लृप्तमण्डपे वा समाचरेत् ।
अथवा यागसदने स्नानभूमौ तु तद्भवेत् ॥ २७१ ॥
15.272
एवं जलवाधिवासं तु कृत्वा वै देशिकोत्तमः ।
उपयोग्यं प्रतिष्ठाया यद्यद्द्रव्यमुपार्जितम् ॥ २७२ ॥
15.273
तत् सर्वं समुपाहृत्य प्रासादं शोधयेत्ततः ।
मार्जनालेपनाद्यैश्च ततो यागनिकेतने ॥ २७३ ॥
15.274
अकृतं यदलङ्कारं कारयेत् सकलं तु तत् ।
नास्तिकान् भिन्नमर्यादान् देवब्राह्नणनिन्दकान् ॥ २७४ ॥
15.275
पापरोगयुतानन्यान् निन्दितान् पिशुनांस्तथा ।
पाषण्डिनो हीनवृत्तीन् प्रतिलोमान् समत्सरान् ॥ २७५ ॥
15.276
लुब्धान् मूर्खानविदुषो बलान्निर्वासयेत्ततः ।
कर्माहाद्वासरे विप्र अपराह्णे गुरुः स्वयम् ॥ २७६ ॥
15.277
जलाधिवासदेशं तु संप्राप्य सह मूर्तिपैः ।
उत्थाप्य बिम्बमुदकात् कुम्भं च कलशानपि ॥ २७७ ॥
15.278
उद्बास्य देवतास्तत्स्थास्तद्बिम्बं तीरविष्टरे ।
प्राङ्मुखं समवस्थाप्य वारिभिः क्षालयेत्ततः ॥ २७८ ॥
15.279
लोहजं चेद्विशुद्ध्यर्थं तित्रिणीफलवारिणा ।
प्राग्वत् सृष्टिक्रमं कृत्वा विधानेन महामते ॥ २७९ ॥
15.280
वस्त्राभरणपुष्पाद्यैरङ्कृत्य मनोहरैः ।
यानमारोप्य तद्बिम्बं शङ्खभेर्यादिसंयुतम् ॥ २८० ॥
15.281
ग्रामं प्रदक्षिणीकृत्य ह्यालयं वा समानयेत् ।
यागगेहं तु यानादेरवरोप्य निवेशयेत् ॥ २८१ ॥
15.282
स्थाने पूर्वोदिते पश्चादारभेत् स्नपनं गुरुः ।
लेख्यादौ संप्रविश्याथ प्रासादं मूर्तिपैः सह ॥ २८२ ॥
15.283
प्राक् चाधिवासितं कूर्चं जलात्तस्मात् समुद्धरेत् ।
बिम्बाच्च वस्त्राभरणमाल्यान्यपनयेत् ततः ॥ २८३ ॥
15.284
पीठे तु स्नानकुम्भानां स्थापनार्थं तु कल्पिते ।
पूर्वोदितं स्थूलपरं स्नपनं स्थापयेद्द्विज ॥ २८४ ॥
15.285
पूर्वादिपश्चिमाशान्तं पृथक् स्नपनमण्डपम् ।
विहितं यत्न तत्रैव देवदेवस्य वामतः ॥ २८५ ॥
15.286
यातुधानपदं यावदग्निकोणादितो न्यसेत् ।
स्नपनं स्थूलपराख्यं स्थूलसूक्ष्मं तु पृष्ठतः ॥ २८६ ॥
15.287
ईशकोणात् समारभ्य यावदाग्नेयगोचरम् ।
देवस्य दक्षिणे पार्श्वे ईशानाद्वायुपश्चिमम् ॥ २८७ ॥
15.288
स्थूलस्थूलाभिधं स्नानं स्थापयेत् क्रमयोगतः ।
अधिवासदिने कुर्यात् स्नानं स्थूलपराभिधम् ॥ २८८ ॥
15.289
प्रतिष्ठादिवसे कुर्यात् स्नपनं स्थूलसूक्ष्मकम् ।
चतुर्थे दिवसे स्नपनं स्थूलस्थूलाभिधं भवेत् ॥ २८९ ॥
15.290
तदा तत्तद्दिने तत्तत् स्नपनं स्नापयेद्गुरुः ।
एवं हि स्नानकलशान् क्रमात् संस्थाप्य पूर्ववत् ॥ २९० ॥
15.291
तदर्पणावसानेऽथ शयनं कल्ययेद्द्विधा ।
नयनोन्मीलनार्थं तु शयनं कल्पयेत् पुरा ॥ २९१ ॥
15.292
द्वादशाक्षरमन्त्रेण पीठं संप्रोक्षयेत्ततः ।
प्रागग्रानुदगग्रान् वा दर्भानास्तीर्य पुष्कलान् ॥ २९२ ॥
15.293
पञ्चभारमितान् शालीनथवा चार्धसंमितान् ।
वृत्तं वा चतुरश्रं वा कम्बलानुपरि न्यसेत् ॥ २९३ ॥
15.294
उपधानानि चित्राणि शयनाङ्गानि कल्पयेत् ।
मङ्गल्यकुम्भान् संस्थाप्य दिगष्टकसमाश्रितान् ॥ २९४ ॥
15.295
ततो बिम्बाधिवासार्थं शयनं परिकल्पयेत् ।
तदर्धं वेदिकौर्ध्वे तु कुर्यात् स्वस्तिकमण्डलम् ॥ २९५ ॥
15.296
रजसा कुसुमैर्वाथ चतुर्वर्मऐर्महोज्वलैः ।
प्रागग्रानुदगग्रांश्च दर्भान् संस्तीर्य तत्परम् ॥ २९६ ॥
15.297
पञ्चभारप्रमाणेन शालींस्तत्र विनिक्षिपेत् ।
तदर्धं तण्डुलं शुद्धं तदर्धं तु तिलं तथा ॥ २९७ ॥
15.298
उपर्युपरि निक्षिष्य लाजानूर्ध्वे तु विन्यसेत् ।
काष्ठजं सुदृढं स्निग्धं चतुर्गात्रसमन्वितम् ॥ २९८ ॥
15.299
चतुष्पादसमायुक्तं चतुरश्रायतं ततम् ।
खट्वासंज्ञितपयङ्कं तदूर्ध्वे स्थापयेत्ततः ॥ २९९ ॥
15.300
दुकूलं मृदुतल्पं च विन्यसेत् सोपरिच्छदम् ।
केवलं तल्पमात्रं वा विन्यसेदथवा द्विज ॥ ३०० ॥
15.301
खट्वातूले विवर्ज्याथ लाजोर्ध्वे रत्नकम्बले ।
न्यसेदभिनवं पश्चाद्वस्त्रं कार्पासजं नवम् ॥ ३०१ ॥
15.302
क्षौमवस्त्रं न्यसेन्मध्ये चित्रवस्त्रं ततोपरि ।
शिरोपधानसंयुक्तं पादगण्डूकसंयुतम् ॥ ३०२ ॥
15.303
सर्वानभिनवान् शुभ्रान् सकपोलोपधानकान् ।
सुगन्धधूपितान् वस्त्रान् कुसुमामोदसंमितान् ॥ ३०३ ॥
15.304
इन्द्रादीशानपर्यन्तं कलशान् सूत्रवेष्टितान् ।
तोयपूर्णान् समान् स्निग्धान् सापिधानान् सवस्त्रकान् ॥ ३०४ ॥
15.305
सुरत्नपल्लवैर्युक्तान् धान्यराशिषु निक्षिपेत् ।
शङ्खचक्रगदापझध्वजैश्चेन्द्रादिषु क्रमात् ॥ ३०५ ॥
15.306
श्रीवत्सं गरुडं कूर्मं सौवर्णं तेषु निक्षिपेत् ।
मध्ये मध्ये च कुम्भानां धान्योर्ध्वे मङ्गलान् न्यसेत् ॥ ३०६ ॥
15.307
वस्त्रैराच्छादितास्तद्वन्न्यसेत् कोणेषु पालिकाः ।
एवं शयनयुग्मं तु प्रकल्प्य तदधो यजेत् ॥ ३०७ ॥
15.308
सर्वाधारमनन्तं तु तदूर्घ्वे सर्वगं प्रभुम् ।
प्रभवाप्यययोगेन यजेत् प्रागादियोगतः ॥ ३०८ ॥
15.309
पाठयेत् सर्पसामादिसंज्ञां ज्ञानबलात्मिकाम् ।
हुत्वा शताष्टसंख्यं तु मूलं तदनुकल्पयेत् ॥ ३०९ ॥
15.310
मण्डलं पावनै रागैः सिताद्यैर्माङ्गलीयकैः ।
तदूनाधिकशान्त्यर्थं हुत्वा कुण्डगणं ततः ॥ ३१० ॥
15.311
संस्कुर्यात् प्रतिकुण्डस्य निकटे कुम्भमध्यगम् ।
प्रभवाप्यययोगेन चातुरात्म्यं तु संयजेत् ॥ ३११ ॥
15.312
ह्रदादि यद्वा दिक्स्थेषु विदिक्स्थेषु तदस्त्रपम् ।
दत्त्वा तदर्थं पूर्णां तु पूर्णात्पूर्णं च पाठयेत् ॥ ३१२ ॥
15.313
एकायनान् यजुर्मयानाश्रावितमनन्तरम् ।
एवं सर्वं समापाद्य प्रयायाद्बिम्बसन्निधिम् ॥ ३१३ ॥
15.314
विम्बमर्घ्यादिनाभ्यर्च्य गुरुः स्नपनमारभेत् ।
अथास्त्रमन्त्रेण पुरा मङ्गल्यकलशाम्भसा ॥ ३१४ ॥
15.315
संसेच्य बिम्बं तदनु स्नापयेत्तन्मृदम्भसा ।
पाठयेत्तत्र कूश्माण्डान् बलमन्त्राननन्तरम् ॥ ३१५ ॥
15.316
ततो गोमयकुम्मेन इह गावः प्रपाठयेत् ।
भूतिस्तमति नन्त्रेण पाठ्यनानेन भूतिना ॥ ३१६ ॥
15.317
पञ्चगव्येन तदनु पाठये च्छाव्करं ततः ।
पूर्ववच्च ततोऽभ्यर्च्य विधिवच्चमसाम्वुना ॥ ३१७ ॥
15.318
क्षालयित्वा जलैः शुद्धैरभिषिच्य ततोऽर्चयेत् ।
शिल्पदोषविनाशार्थं स्नानमेतदुदाहृतम् ॥ ३१८ ॥
15.319
परिधाय ततो विप्र वाससी अधरोत्तरे ।
नयनोन्मीलनार्थं तु शयनं यत् प्रकल्पितम् ॥ ३१९ ॥
15.320
तत्र पूर्वशिरस्कं च बिम्बं प्रस्वापयेद्द्विज ।
ततः समन्ताद्बिम्बं तु छादयेत् कम्वलादिभिः ॥ ३२० ॥
15.321
सौवर्णं राजनं चैव पात्रमाढकपूरणम् ।
धान्यराशौ निधायाग्रे पूरयेत यथाक्रमम् ॥ ३२१ ॥
15.322
मधुना सर्पिषा चैव ततस्तु मधुपात्रके ।
अर्कमण्डलमध्यस्थं मार्ताण्डायुतसन्निभम् ॥ ३२२ ॥
15.323
ध्यात्वा मन्त्रेशमभ्यर्च्य तदन्यस्मिन् भहामते ।
चन्द्रमण्डलमध्यस्थं धेनुमुद्रासमन्वितम् ॥ ३२३ ॥
15.324
मन्त्रै वै सौरभीयं च स्फुरदिन्दुशतप्रभम् ।
तदन्तरस्थ मन्त्रेशं हिमाचलनिभं स्मरेत् ॥ ३२४ ॥
15.325
तत्स्रुतैरमृतौघैश्च शशिजैर्धेनुजैरपि ।
सुभावितं स्मरेद्बिम्बं मधुवातेति मन्त्रतः ॥ ३२५ ॥
15.326
घृतादि मन्त्रयेत् पश्चाद्वस्त्रेणाच्छादयेत्तु तत् ।
अष्टाङ्गुला च सौवर्णी शलाका राजती तथा ॥ ३२६ ॥
15.327
केवला वापि सौवर्णी शलाका स्याद्विजोत्तम ।
अष्टधान्यानि परितः पात्रेषु विनिवेशयेत् ॥ ३२७ ॥
15.328
गाः कन्यकाः शुभाकारा भूषणैश्चापि भूषिताः ।
आनीय स्थापयेत् पार्श्वे ब्रह्नघोषेण घोषेयेत् ॥ ३२८ ॥
15.329
स्वयं शलाकां सौवर्णीं कृत्वा नेत्राभिमन्त्रिताम् ।
मध्वक्तां च तया नेत्रं दक्षिणं त्वीषदुल्लिखेत् ॥ ३२९ ॥
15.330
संस्मरन् परमं ज्योतिर्नेत्रमन्त्रेण देशिकः ।
आज्याक्तया तया वापि राजत्या वाममुल्लिखेत् ॥ ३३० ॥
15.331
तन्मन्त्रितेन शस्स्त्रेण शिल्पी स्नातोऽवलोकितः ।
यथावत् प्रकटीकुर्याद्विधिदृष्टेन वर्त्मना ॥ ३३१ ॥
15.332
वारुणं पाठयेत् साम सह चान्द्रेण सामगान् ।
पूरयेन्मधुसर्पिर्भ्यां नेत्रयुग्मं क्रमेण तु ॥ ३३२ ॥
15.333
वौषडन्तेन मूलेन तेनैव जुहुयात्ततः ।
तन्मुर्ध्नि शशिबिम्बं तु ध्येय तापादिशान्तये ॥ ३३३ ॥
15.334
सिञ्चन्तममृतौघं तु हृदा द्यन्तेन सेचयेत् ।
व्यपोह्याच्छादनपटं दर्शयेन्मधुसर्पिषी ॥ ३३४ ॥
15.335
अष्टधान्यानि गाश्चैव कन्यकाः पुरतः स्थिताः ।
मध्वाज्ये च शलाके च प्रदद्याच्छिल्पिने द्विज ॥ ३३५ ॥
15.336
अष्टधान्यानि गाश्चैव शय्योपकरणं तथा ।
प्रदद्याद्देशिकेन्द्राय साधकः सिद्धिलालसः ॥ ३३६ ॥
15.337
यद्वा मध्वादिसकलमाचार्याय निवेदयेत् ।
यथाशक्ति तथान्येषां मूर्तिपानां च दक्षिणाः ॥ ३३७ ॥
15.338
मृण्मये मूलबिम्बे तु भित्तिस्थेऽथ प्रविश्य तु ।
प्रासादं तत्र कुर्वीत नयनोन्मीलनक्रियाम् ॥ ३३८ ॥
15.339
एवं श्रियादिशक्तीनां नयनोन्मीलनं भवेत् ।
एवं नेत्रे समुन्मील्य बिम्बस्य तु ततः परम् ॥ ३३९ ॥
15.340
दहनाप्यायने कुर्याद स्त्रेण हृदयेन च ।
आमूर्ध्नो द्वादशार्णं तु मूर्त्यर्थं पूर्ववन्न्यसेत् ॥ ३४० ॥
15.341
स्नानार्थतः पुरा क्लृप्ते पीठे बिम्बं नयेत्ततः ।
व्याप्तिसत्तासमायुक्ते संस्कृते प्रोक्षणादिना ॥ ३४१ ॥
15.342
आधारादिक्रमोपेते समालब्धे सुपूजिते ।
पीठेऽवतार्य संवेष्ट्य वाससी ह्यधरोत्तरे ॥ ३४२ ॥
15.343
अथ क्रमोदितैः कुम्भैः द्विषट्कावर्तितैर्हृदा ।
स्नापयेत् पाठयेद्विप्रानो षधीनामिति श्रुतिम् ॥ ३४३ ॥
15.344
या ओषधय इत्यादि ऋग्वेदांस्तदनन्तरम् ।
एवं दशावशिष्टान्तैः सेचिते कलशैः सति ॥ ३४४ ॥
15.345
ततः कुम्भचतुष्के तु चतुर्भिर्मूर्तिधारकैः ।
ऋक्सामपूर्वैर्विधिवत् स्नपनीयं तु पाठयेत् ॥ ३४५ ॥
15.346
उदुत्तमं हि ऋग्वेदान् पाठयेदद्रविणं यजुः ।
ततस्तु वारुणं साम सामज्ञोऽथर्वणस्ततः ॥ ३४६ ॥
15.347
अयं ते वरुणश्चेति पवित्रं तेततो ऋचम् ।
वसोः पवित्रंहि यजुः पाठयेत् सुमहांस्ततः ॥ ३४७ ॥
15.348
पवित्रं तेहि यत् साम संयोज्यैकायनांस्ततः ।
मूर्तिपान् समुदायेन पावमानीश्चतुष्टयम् ॥ ३४८ ॥
15.349
तदन्ते परमं मन्त्रं व्यूहीयं भगवानिति ।
पवित्रमन्त्रं तदनुइदं विष्णुर्विचक्रमे ॥ ३४९ ॥
15.350
ततो विभवमन्त्रैस्तु सर्वैः संमन्त्रितेन च ।
कुम्भेन सेचयित्वा तु व्यूहमन्त्रैः परेण तु ॥ ३५० ॥
15.351
स्नापयित्वार्चयित्वा च जुहुयात् साधिकं शतम् ।
यथावत् प्रणवेनाथ व्याप्तिं कृत्वा च पाठयेत् ॥ ३५१ ॥
15.352
माप्रगामे ति ऋग्वेदान् अग्ने नायुर्यजुर्मयान् ।
प्राणापानं हि यत् साम ततः प्राणाय बै नमः ॥ ३५२ ॥
15.353
यातव्येति परं मन्त्रं विप्रानेकायनांस्ततः ।
ध्यानयुक्तो धिया सम्यक् पठेदाराधकस्ततः ॥ ३५३ ॥
15.354
आवाहयाम्यमरबृन्दनताङ्घ्रियुग्मं ।
लक्ष्मीपतिं भुवनकारणमप्रमेयम् ।
आद्यं सनातनतनुं प्रणवासनस्थं ।
पूर्णेन्दुभास्करहुताशसहस्रदीप्तिम् ॥ ३५४ ॥
15.355
ध्येयं परं सकलतत्वविदां च वेद्यं ।
वाराहकापिलनृकेसरिसौम्यमूर्तिम् ।
श्रीवत्सकौस्तुभमहामणिभूषिताङ्गं ।
कौमोदकीकमलशङ्करथाङ्गहस्तम् ॥ ३५५ ॥
15.356
सर्वत्रगोऽसि भगवन् किल यद्यपि त्वां ।
आवाहयामि हि यथा व्यजनेन वायुम् ।
गूढो यथैव दहनो मधनादुपैति ।
आवाहितोऽपि हि तथा त्वमुपैषि चार्चाम् ॥ ३५६ ॥
15.357
मालाधराच्युत विभो परमार्थमूर्ते ।
सर्वज्ञनाथ परमेश्वर सर्वशक्ते ।
आगच्छ मे कुरु दयां प्रतिमां भजस्व ।
पूजां गृहाण मदनुग्रहकाम्ययाद्य ॥ ३५७ ॥
15.358
ततो विमृज्य वस्त्रेण भोगैः पूर्वेदितैर्यजेत् ।
अर्घ्याद्यैर्दक्षिणान्तैस्तु पाठयेदृङ्भयांस्ततः ॥ ३५८ ॥
15.359
अर्चामि तेति मन्त्रं वै सामगांश्चार्चत त्विति ।
भगवानिति तज्ज्ञांस्तु अग्नौ सन्तर्पयेत्तः ॥ ३५९ ॥
15.360
स्वकुण्डे देशिकेन्द्रस्तु समिधां सप्तकं हुनेत् ।
पश्चाच्छताष्टसंख्यं च साज्यैस्तु तिलतण्डुलैः ॥ ३६० ॥
15.361
तर्पयित्वा तु पूर्णान्तमुद्धृत्याग्निकणं ततः ।
दिक्कुण्डेषु विनिक्षिप्य संस्कृतेषु पुरैव हि ॥ ३६१ ॥
15.362
तथैव च विदिक्स्थेषु उद्धृत्याभ्यर्च्य वै क्रमात् ।
ततः प्रभवयोगेन चतुर्दिक्षु निवेशयेत् ॥ ३६२ ॥
15.363
चतुरो वासुदेवादिनाम्ना एकायनान् द्विजान् ।
स्वाभिः स्वाभिरसंख्यं च तैः कार्यमभिधादिभिः ॥ ३६३ ॥
15.364
समित्सप्तकपूर्वैस्तु साज्यैस्तु तिलतण्डुलैः ।
एवमप्यययोगेन वाय्वादीशावसानकम् ॥ ३६४ ॥
15.365
ऋग्वेदाद्यांस्तु चतुरः संस्कृत्यादौ तथा न्यसेत् ।
अथवा विन्यसेत्तांस्तु ईशाद्वायुपदावधि ॥ ३६५ ॥
15.366
तैरप्यच्युतलिङ्गैस्तु स्वशाखोक्तैश्च पावनैः ।
हवनं विधिवत् कार्यं भक्तियुक्तेन चेतसा ॥ ३६६ ॥
15.367
एवं क्रमेण कुण्डांस्तु सर्वान् हुत्वा ततो गुरुः ।
द्वार्स्थादीनां पुरोक्तानां दिक्पतीनां समाचरेत् ॥ ३६७ ॥
15.368
हवनं विधिवत् कुण्डे तदर्थं पूर्वनिर्मिते ।
स्तुत्वा जितंत्वामन्त्रेण सामज्ञान् पाठयेत् पुनः ॥ ३६८ ॥
15.369
सह गायत्रिसाम्ना तु यद्रथन्तरसंज्ञकम् ।
प्रजप्य द्वादशार्णं तु मुद्रां बध्वा प्रणम्य च ॥ ३६९ ॥
15.370
अष्टाङ्गेनाथ विज्ञाप्यो भगवान् भूतभावनः ।
मूर्तिभेदेन रूपेण अनेनैव हि साम्प्रतम् ॥ ३७० ॥
15.371
लोकानज्ञाततत्वांस्तु समाह्रादय नागरान् ।
येनान्तः संप्रविष्टेन ईषत्कालवशात्तु वै ॥ ३७१ ॥
15.372
जन्मान्तरसहस्रोत्थान्मोक्षमायान्ति किल्बिषात् ।
एवमर्थ्यो हि भगवान् लोकानुग्रहकृत् प्रभुः ॥ ३७२ ॥
15.373
दत्वार्घ्यगन्धस्रग्धूपदीपनैवेद्यमेव च ।
निवेद्याचमनं चार्घ्यं कुर्यान्नीराजनं ततः ॥ ३७३ ॥
15.374
पुण्याहजयघोषेण वेदध्वनियुतेन च ।
शङ्खवादित्रनिर्घोषपटहैर्गीतिभिः सह ॥ ३७४ ॥
15.375
करावङ्घ्रिगतौ कृत्वा देवदेवस्य देशिकः ।
पाठयेदृङ्भयं मन्त्रं उतिष्ठेति ततः सह ॥ ३७५ ॥
15.376
यात्रोपकरणैर्मन्त्रं कृत्वा ब्रह्नरथे स्थिरे ।
सुयन्त्रितेति क्षीराज्यदध्योदनसमन्विते ॥ ३७६ ॥
15.377
सुभिक्षक्षेमशान्त्यर्थं परमान्नफलैर्युते ।
पाठयेदस्य वामीयमृङ्भयं तदनन्तरम् ॥ ३७७ ॥
15.378
तन्मयान् वलमन्त्रं तु दशार्धे ति महामते ।
स्वयमाद्यन्तसंरुद्धं हृदा तु कवचं जपेत् ॥ ३७८ ॥
15.379
भ्रामयेद्बलिदानं च क्रियमाणं तु सर्वदिक् ।
पझकाञ्चनवज्राणां पूर्ववत् क्षेपमाचरेत् ॥ ३७९ ॥
15.380
दिव्याद्यायतनानां च कार्या पूजा यथोचिता ।
पञ्चरात्रविदां चैव यतीनां ब्रह्नचारिणाम् ॥ ३८० ॥
15.381
षट्कर्मनिरतानां च दानं दीनजनेष्वपि ।
रथस्थे मन्त्रबिम्बे तु यावत्पदशतं व्रजेत् ॥ ३८१ ॥
15.382
तद्रथं तूर्यघोषेण तावत् क्रतुशतं फलम् ।
आप्नोत्याराधकः शश्वत् सकामो नियतव्रतः ॥ ३८२ ॥
15.383
ततस्तोरणदेशस्थं रथं कृत्वाऽर्चयेत् प्रभुम् ।
पाद्यार्घ्यपुष्पधूपैश्च नमस्कृत्य च पाठयेत् ॥ ३८३ ॥
15.384
उत्तिष्ठेति द्विषट्कार्णं सजितंतंतु चाखिलम् ।
संपठन् पौरुषं सूक्तं यागवेश्म प्रवेशयेत् ॥ ३८४ ॥
15.385
शय्यायां प्राक्शिरोबिम्बं शाययेद्धृदयेन तु ।
देशिको मूर्तिपैः सार्धं यात्राहोमं समा येत् ॥ ३८५ ॥
15.386
ततस्तच्छिरसोद्देशे चक्राकारस्थिते घटे ।
पूर्वोक्तलक्षणे नेत्रमस्त्रसंपुटितं यजेत् ॥ ३८६ ॥
15.387
पूजयेन्मड्गलान्यष्टौ प्रागादौ तु स्वनामभिः ।
अष्टासु तत्र कुम्भेषु पुरैव स्थापितेषु च ॥ ३८७ ॥
15.388
वासुदेवादयः पूज्याः प्रभावाप्यययोगतः ।
ह्रदादि यद्वा दिक्स्थेषु विदिक्स्थेषु तदस्त्रपम् ॥ ३८८ ॥
15.389
यद्वा प्राच्यां तु वाराहो नारसिंहस्तु दक्षिणे ।
प्रतीच्यां श्रीधरो देवो हयवक्त्रस्तथोत्तरे ॥ ३८९ ॥
15.390
आग्नेय्यां भार्गवो रामो नैरृते राम एव च ।
वायव्ये वामनश्चापि विष्णुरीशानगोचरे ॥ ३९० ॥
15.391
स्वनाम्ना पूजयित्वैतानर्घ्यगन्धादिभिस्ततः ।
पूजयित्वार्घ्यपुष्पाद्यैः शयनस्थं विभुं ततः ॥ ३९१ ॥
15.392
वर्मणाच्छादनपटं दत्वा धूपाधिवासितम् ।
मूलेन शयनस्थस्य कुर्यादाप्यायनं ततः ॥ ३९२ ॥
15.393
देवाङ्घ्रिनिकटोद्देशे उपविष्टस्तु देशिकः ।
मन्त्रविद्देवबिम्बस्य मन्त्रन्यासं समाचरेत् ॥ ३९३ ॥
15.394
लेख्यादौ मन्त्रबिम्बे तु प्रासादस्थे द्विजोत्तम ।
उत्सवं कर्मबिम्बे तु विष्टरे वा प्रकल्प्य तु ॥ ३९४ ॥
15.395
प्रस्वाप्य शयने प्राग्वत् प्रासादं संप्रविश्य च ।
मन्त्रन्यासादिकं कुर्याद्वक्ष्यमाणविधानतः ॥ ३९५ ॥
15.396
सुविस्तृतं तद्विधानमिदानीवधारय ।
पीठे पुष्पाञ्चलिं कृत्वा गन्धयुक्तं च साक्षतम् ॥ ३९६ ॥
15.397
आमूर्ध्नश्चरणान्तं तु द्वादशार्णं तु विन्यसेत् ।
अङ्गोपाह्गस्थितिं कुर्यात् स्थानेषु हृदयादिषु ॥ ३९७ ॥
15.398
हृदि मूर्ध्नि शिखायां तु स्कन्धयोः करमध्यतः ।
नेत्रयोरुदरे पृष्ठदेशे बाहुद्वये ततः ॥ ३९८ ॥
15.399
ऊरुभ्यां जानुयुग्मेऽथ पादयोस्तदनन्तरम् ।
देवस्य दक्षिणे हस्ते चक्रं शङ्खं तु वामतः ॥ ३९९ ॥
15.400
वामहस्ते गदाखडगौ ह्यथवा दक्षवामयोः ।
क्रमाल्लाञ्छनमन्त्रांस्तु चक्रादीन् लाञ्छनान् न्यसेत् ॥ ४०० ॥
15.401
किरीटं शिरसोद्देशे श्रीवत्सं च गलादधः ।
वक्षसोऽवामभागे तु विन्यसेत्तदनन्तरम् ॥ ४०१ ॥
15.402
कौस्तुभं हृदये न्यस्य वनमालां च कण्ठतः ।
श्रियं दक्षिणभागे तु पुष्टिमुत्तरतो न्यसेत् ॥ ४०२ ॥
15.403
ऊरुमूले वैनतेयमथेदानीं निबोध मे ।
चतुर्मुजस्य देवस्य चक्रादेर्विनिवेशनम् ॥ ४०३ ॥
15.404
मुख्यदक्षिणहस्तेऽब्जं गदां वामकरे न्यसेत् ।
अपरे दक्षिणे चक्रं शङ्खं वामकरे परे ॥ ४०४ ॥
15.405
अन्यान् लाञ्छनमन्त्रास्तु यथायोगं तु विन्यसेत् ।
अन्येषु षड्भुजाद्येषु मुख्यदक्षादितः क्रमात् ॥ ४०५ ॥
15.406
सर्वान् लाञ्छनमन्त्रांस्तु यथास्थानगतान् न्यसेत् ।
संस्थाप्य भगवन्मूर्तिर्धत्ते चक्रादिलाञ्छनम् ॥ ४०६ ॥
15.407
हस्ते येन क्रमेणैव लाञ्छनानि न्यसेत्तथा ।
मन्त्रान् किरीटपूर्वांश्च प्राग्वत् सर्वत्र विन्यसेत् ॥ ४०७ ॥
15.408
पादादिद्वादशाङ्गेषु ततो दामोदरादिकान् ।
तच्छक्तिकांस्तथा मन्त्रान् प्राग्वद्व्यापकलक्षणान् ॥ ४०८ ॥
15.409
ऐश्वरेणाथ बीजेन यथावस्थेन भावयेत् ।
पादादितन्मयेनैव तद्वन्मन्त्रवरेण तु ॥ ४०९ ॥
15.410
प्राग्वदप्यययुक्त्या तु ह्यान्तर्ज्योतिर्मयात्मना ।
विभुना वाक्स्वरूपेण तदेवाथ परं पदम् ॥ ४१० ॥
15.411
सुशान्तं सर्वगं बुद्ध्वा निस्तरह्गमिवोदधिम् ।
विद्याङ्गदामित्याद्यं यतु पाठयेत् पाञ्चरात्रिकान् ॥ ४११ ॥
15.412
देहसान्यासिकं मन्त्रं धारणाख्यमनन्तरम् ।
जीमूतस्येति ऋघ्वेदान् नासदासीति पाठयेत् ॥ ४१२ ॥
15.413
क्रमेणानेन हुत्वा तु पादार्धशतसंख्यया ।
तिलानां च तथा मन्त्रैराज्यस्यैभिर्महामते ॥ ४१३ ॥
15.414
दत्वा पूर्णाहुतिं प्राग्वदुपसंहारलक्षणाम् ।
ततस्तत् परर्म ब्रह्न ह्युदितं पूर्ववत् स्मरेत् ॥ ४१४ ॥
15.415
सर्वशक्तिमयेनैव स्वभावेन स्वकेन तु ।
ओजोबलात्मना यद्वद्गन्धो द्रव्यात्मना तु वै ॥ ४१५ ॥
15.416
बीजं तरुस्वरूपेण समुद्रो बुद्बुदात्मना ।
एवमव्यपदेश्या या शक्तिः स्वे शक्तिदर्पणे ॥ ४१६ ॥
15.417
स्थितमादाय विश्वेशं स्वातन्त्र्याच्च महामते ।
मन्त्ररूपां तनुं धत्ते सम्यगाराधनाय च ॥ ४१७ ॥
15.418
नानात्वमुपयातस्य प्रसरं तस्य च स्वयम् ।
निष्प्रभत्वं प्रयातस्य चिद्बीजनिचयस्य च ॥ ४१८ ॥
15.419
आविष्कृतस्य भेदेनाप्यमूर्तेन वलियसा ।
अज्ञानगहनेनैव नित्यानित्यामलात्मना ॥ ४१९ ॥
15.420
स्मृत्वैवं मूलमन्त्रं तु बिम्वहृत्पझगं स्मरेत् ।
षट्छक्तिकिरणोपेतं तैस्तद्द्रव्यमयीं तनुम् ॥ ४२० ॥
15.421
संस्मरेत् संहरन्तं च प्रागुक्तेनैव वर्त्मना ।
स्वरूपममलं भूयः स्मरेन्मूर्त्यात्मना तु तत् ॥ ४२१ ॥
15.422
नयन्तं पूर्वविधिनाप्येवं स परमेश्वरः ।
मन्त्रात्मना स्वतन्त्रत्वमूपयातो यदा तदा ॥ ४२२ ॥
15.423
सहस्रशिरसं देव मिति सर्वांस्तु चोदयेत् ।
पाठयेद्ब्राह्नणान्धातर्यध्यक्षेति च मन्त्रपम् ॥ ४२३ ॥
15.424
यो विश्वतश्चक्षुरिति यातव्यो भवतीति च ।
द्वासुपर्णेति तदनु अतो देवेति वै ततः ॥ ४२४ ॥
15.425
ऋङ्भयान् पौरुषं सूक्त ततः परतमां त्विति ।
शाश्वता च ततः कालकलेति समुदाहरेत् ॥ ४२५ ॥
15.426
एषा बुद्धिः सप्तधेति अत्रेदानीं च पाठयेत् ।
एवं मन्त्रानुसन्धानं कथितं च पराभिधम् ॥ ४२६ ॥
15.427
सूक्ष्मसंज्ञं मुनिश्रेष्ठ विध्यन्तरमथोच्यते ।
वैभवं देवताचक्रं व्यूहाख्यं तदनन्तरम् ॥ ४२७ ॥
15.428
सूक्ष्मं चापि मुनिश्रेष्ठ पादयोर्हृदि मूर्धनि ।
प्रपूज्य पुष्पधूपाद्यैर्मुद्राभिः प्रणमेदथ ॥ ४२८ ॥
15.429
गत्वा कुण्डसमीपं तु व्यापारेष्वखिलेषु च ।
होमं कुर्याद्यथाशक्ति तिलाद्यैः शतपूर्वकम् ॥ ४२९ ॥
15.430
स्मृत्वैकैकं तु वै कर्म कर्ता मन्त्रोदितेन च ।
हृन्मन्त्रेण समूलेन दत्त्वा पूर्णाहुतिं ततः ॥ ४३० ॥
15.431
आप्रभाताच्च तत् कालं कर्मणां पूरणाय च ।
ततः शान्त्युदकं मूर्घ्नि होमान्ते चात्मनो द्विज ॥ ४३१ ॥
15.432
दत्वा तु बिम्बशिरसि मूलेनोदकमेव तत् ।
जपं च कर्ममन्त्राणां यथाशक्ति समाचरेत् ॥ ४३२ ॥
15.433
भूतानां वलिदाने च कृते कुण्डेषु मूर्तिपाः ।
स्वैः स्वैर्मन्त्रैः सहस्रं वा शतं वाष्ट तु होमयेत् ॥ ४३३ ॥
15.434
तैश्च शान्त्युदकं मूर्ध्नि बिभ्बे वै दापयेद्गुरुः ।
अथाधिवासनं कुर्याद्विधिदृष्टेन कर्मणा ॥ ४३४ ॥
15.435
ध्यानाख्यं निष्कलं शुद्धं येन सन्निहितः सदा ।
मन्त्रो ह्यर्चागतो विप्र स्यात् पटस्थोऽथवा मुने ॥ ४३५ ॥
15.436
न चोपसंहृतो यावद्गुरुणा तत्ववेदिना ।
प्राक्सर्वमुपसंहृत्य संहारक्रमयोगतः ॥ ४३६ ॥
15.437
स्वरूपे विकृते शुद्धे गुरुरास्ते द्विजोत्तम ।
स्वहृद्रश्मिमये पझे स्थितिं कृत्वा पुरात्मनः ॥ ४३७ ॥
15.438
एवमेवाविनाशं च निरस्तावयवं यथा ।
बोधविज्ञानदेहं च बिम्बं संभाव्य वै तथा ॥ ४३८ ॥
15.439
द्वौ सुषुम्नात्मकौ मार्गौ प्रज्वलद्भास्कराकृती ।
हृत्पझगोलकाच्चैव एकदेशसमुत्थितौ ॥ ४३९ ॥
15.440
मणिप्रभेव चोर्ध्वाधो व्यापकत्वेन संस्थितौ ।
यथात्मनि तथा देवे तथाऽत्मनि विभाव्य च ॥ ४४० ॥
15.441
ततो यायाद्दक्षिणेन घ्राणान्वयपथा मुने ।
स्वदेहाद्धृदयं देवं वाममार्गेण संविशेत् ॥ ४४१ ॥
15.442
यथात्मनाऽत्मा हृदये ह्यनुभूतो ह्यनूपमः ।
तथा तद्धृदयान्तस्थं स्मरेद्विज्ञानगोलकम् ॥ ४४२ ॥
15.443
दृष्ट्वा स्वरश्मिखचितमानन्दापूरितं महत् ।
गमागमैकनिष्ठं तु शक्तो ब्रह्नण्यथात्मनि ॥ ४४३ ॥
15.444
देवदेहस्थितेनैव विज्ञानेन सहैकता ।
निष्पाद्या यावदस्पन्दकालमानं स्वदेहकम् ॥ ४४४ ॥
15.445
परं यदात्मना विप्र केवलेनानुभूयते ।
स्पन्दप्रवर्तितेनाथ कालेनैकात्मना द्विधा ॥ ४४५ ॥
15.446
यथाऽत्मनि तथा देवे निष्क्रामेदथ साधकः ।
देवं दक्षिणमार्गेण विशेद्वामेन चात्मनः ॥ ४४६ ॥
15.447
हृदयं भासुराकार ज्ञानामृतपरिप्लुतम् ।
योगोऽयं मुनिशार्दूल बिम्बस्य द्रव्यजस्य च ॥ ४४७ ॥
15.448
आपादान्मूर्धपर्यन्तं नाडीबृन्दस्य व्यञ्जकः ।
येन सर्वेशिता विप्र बिम्बस्यास्य प्रजायते ॥ ४४८ ॥
15.449
तं योगमधुना वच्मि एकाग्रमवधारय ।
हृत्पुण्डरीकमध्यस्थः साधको वृत्तिवर्जितः ॥ ४४९ ॥
15.450
मन्त्रोच्चारप्रयोगेण प्राग्वत् पदमनामयम् ।
यायादूर्ध्वप्रवाहेण तस्माज्ज्ञेयः प्रवर्तते ॥ ४५० ॥
15.451
अव्युच्छिन्नोऽव्यथेऽक्षुब्धो स्वेच्छया क्षोभमेति च ।
यथा सन्नतरो दीपो ह्नकम्पः कम्पमेति च ॥ ४५१ ॥
15.452
कोशकारो यथा तन्तुं गृहीत्वा संप्रवर्तते ।
विज्ञानशक्तिमालम्ब्य एवम्भूतो हृदम्बुजम् ॥ ४५२ ॥
15.453
स्वकीयमाययाऽचार्यः पूर्ववत् संविशेत्ततः ।
देवस्य हृदयाम्भोजं विलोक्य सह तेन वै ॥ ४५३ ॥
15.454
भावयित्वाथ विज्ञानं बोधशक्त्या ततो व्रजेत् ।
तद्द्वादशान्तमागत्य ज्ञेयाख्यं न च नासिकम् ॥ ४५४ ॥
15.455
तत्पादात् पूर्वयुक्त्या तु दैवं हृदयमाश्रयेत् ।
ततो वै देवहृदयात् प्रविश्य हृदयं स्वकम् ॥ ४५५ ॥
15.456
मध्यमार्गेण हृदयादेत्य स्वं नेत्रगोलकम् ।
एवं देवेऽनुसन्धाय निरीक्ष्य च परस्परम् ॥ ४५६ ॥
15.457
देवालोकेन वात्मानमनुविद्धं च संस्मरेत् ।
आत्मालोकेन देवेशं भिन्नं सर्वत्र भावयेत् ॥ ४५७ ॥
15.458
एतदीश्वरसन्धानं भिन्नमेकात्मलक्षणम् ।
सर्वैश्वर्यप्रदं विद्धि सर्वदा प्रतिमासु वै ॥ ४५८ ॥
15.459
अथ शब्दानुसन्धानमेकेकाद्भतदर्शनम् ।
वक्ष्यामि येन वै मन्त्रो बिम्बेनैकात्मतां व्रंजेत् ॥ ४५९ ॥
15.460
निष्कम्पबोधसामान्यरूपो भूत्वा पुनः स्वयम् ।
ये शब्दजनिता भावाः सूक्ष्मैः सूक्ष्मतराऽखिलाः ॥ ४६० ॥
15.461
सामान्यबोधशब्देन तान् पश्यन्नेकतां गतान् ।
सङ्कल्पपूर्वं सर्वोत्थशब्दमात्रेण वर्जितान् ॥ ४६१ ॥
15.462
स चाभिमुखमायाति सङ्कल्पादुत्थितस्य च ।
शब्दरूपपदार्थस्य शब्दस्य परमौजसः ॥ ४६२ ॥
15.463
सङ्कल्पपदवीरूढः स्फुरत्यन्तस्थितः स्फुटम् ।
पदार्थोपरि यः शब्दो मध्यमं विद्धि तन्मुने ॥ ४६३ ॥
15.464
हृत्पझकर्णिकासंस्थः प्रयत्नपदवीषु च ।
विद्यासु करणोत्थासु यश्चाभिव्यक्तिमेति च ॥ ४६४ ॥
15.465
वाच्यवाचकरूपेण स शब्दः स्थूल उच्यते ।
अतिस्थूलपरत्वेन स च वाग्विषये पुनः ॥ ४६५ ॥
15.466
दृश्यादृश्येषु भावेषु अभिव्यक्तिं प्रयाति च ।
स हि स्थूलतरः शब्दो व्यवहारेऽखिले स्थितः ॥ ४६६ ॥
15.467
तस्माच्छम्दमयो देह इति चेतसि वै पुरा ।
निष्कम्पं साधकः कृत्वा बिम्बं भाव्यं तदात्मकम् ॥ ४६७ ॥
15.468
शब्दसंहारयोगेन सबिम्बं ब्रह्नसंयुतम् ।
निष्कम्पयोगयुक्तात्मा यो गुरुः संप्रविश्यति ॥ ४६८ ॥
15.469
पूर्वोक्तक्रमयोगेन शब्दब्रह्न ह्यनागतम् ।
पश्येत् परिणतं विप्र क्रमाद्विश्वात्मना तु वै ॥ ४६९ ॥
15.470
तेन संस्थापितं बिम्बं भुक्तिमुक्तिफलप्रदम् ।
एवं शब्दानुसन्धानं कृत्वा बिम्बस्य सत्तम ॥ ४७० ॥
15.471
ततो वै मन्त्रसन्धानमारभेत प्रयत्नतः ।
अशब्ददेहः शब्दात्मा नित्योदितमनामयम् ॥ ४७१ ॥
15.472
स्वहृत्पझस्थितं मन्त्रैर्व्याप्तिं तथाखिलैः ।
मन्त्रात्मानं जगन्नाथं बिम्बहृत्पझमध्यगम् ॥ ४७२ ॥
15.473
स्फुरत्तारकरूपं च मन्त्रैर्व्याप्तिं तथाखिलैः ।
मन्त्रात्मानं जगन्नाथं बिम्बहृत्पझमध्यगम् ॥ ४७३ ॥
15.474
संस्मरेत् सृष्टिसंहारौ कुर्वन्तं साधकोत्तमः ।
परः स एव वोद्धव्यः सुसूक्ष्मः स च निष्कलः ॥ ४७४ ॥
15.475
सकलं चैव बोद्धव्यमुभयात्मकमित्यपि ।
विज्ञानरजनीमध्ये ज्ञेयं निद्रारसास्थितम् ॥ ४७५ ॥
15.476
तत्वग्रामप्रभातेऽथ संभोगमिव सोदये ।
प्रबुद्धं संस्मरेद्देवमवतीर्णं परात् पदात् ॥ ४७६ ॥
15.477
सर्वाध्वभोगपीठं तत्तेनाक्रान्तं च भावयेत् ।
भोगभूसंस्थितं देवं स्थितिमन्तं विभाव्य च ॥ ४७७ ॥
15.478
स्थितिराधारशक्तिर्वै विभोर्मन्त्रात्मकस्य च ।
तस्माद्ब्रह्नशिलापीठं बिम्बमेकीकृतं स्मरेत् ॥ ४७८ ॥
15.479
नानाधिवासयोगेन पूजयेत्तदनन्तरम् ।
मन्त्रन्यासं पुरा कृत्वा त्रिधा पूर्वक्रमेण तु ॥ ४७९ ॥
15.480
हस्तन्यासं विना विप्र लययुक्त्यानु चाखिलम् ।
कथितं सूक्ष्मसन्धानं स्थूलं विध्यन्तरं श्रृणु ॥ ४८० ॥
15.481
संस्कृतं देवदेवस्य त्वर्चादेहं सुलक्षणम् ।
संस्मरेच्च सुसंपूर्णं मणिरत्नमयैर्विना ॥ ४८१ ॥
15.482
स्वदेहवदुपादेयैर्नाडीव्यूहैः सवायवैः ।
धातुभिः सोमसूर्याग्निसहज्ञानादिकैर्गुणैः ॥ ४८२ ॥
15.483
गुणकारणतः क्ष्मान्तं यदन्यत्तत्वसंग्रहम् ।
द्रव्यमाश्रित्य वै बिम्बं वर्तते यदसन्महत् ॥ ४८३ ॥
15.484
तत्र हृत्कमलाकाशे मन्त्रं रत्नप्रभोज्ज्वलम् ।
ब्रह्नभावनया न्यस्तं यच्छति प्रातिमं फलम् ॥ ४८४ ॥
15.485
श्रद्धापराणआं कर्तॄणां फलतोऽभ्येति च स्थिराम् ।
प्रतिपत्तिं परां ब्राह्नीमाकारं प्रति सर्वदा ॥ ४८५ ॥
15.486
प्राप्नोति यद्वशादन्ते ज्ञानमात्मप्रकाशकम् ।
उक्तमेतत्तु सकलमाकर्णय सुविस्तृतम् ॥ ४८६ ॥
15.487
पूर्ववद्धारणाभिस्तु संहारक्रमयोगतः ।
तद्विम्बमुपसंहृत्य स्वरूपेऽविकृते परे ॥ ४८७ ॥
15.488
ततः क्रमेण वै सृष्ट्वा बिम्बं ज्योतिर्मयं स्मरेत् ।
एवं पूर्वोदितं ध्यात्वा नाडीबृन्दस्य व्यञ्जकम् ॥ ४८८ ॥
15.489
ततस्तासां तु नाडीनां ध्यायेद्व्यक्तिं सुविस्तृताम् ।
द्वासप्ततिसहस्रं तु नाडयः परिकीर्तिताः ॥ ४८९ ॥
15.490
दशप्रधानास्तासां तु वायवश्च तथा दश ।
इडा च पिङ्गला चैव सुषुम्ना च तथा परा ॥ ४९० ॥
15.491
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ।
अलम्बुसा कुहूश्चैव कौशिकी दशमा स्मृता ॥ ४९१ ॥
15.492
प्राणापानसमानाश्च व्यानोदानौ तथैव च ।
नागः कूर्मश्च कृकरः देवदत्तो धनंजयः ॥ ४९२ ॥
15.493
आनीय त्रितयं कुर्याद्दैवे पूरककुम्भकौ ।
पूरके नाडिकाः सर्वाः पूर्यन्ते नात्र संशयः ॥ ४९३ ॥
15.494
ततो हृदयपझं च विकासमुपयास्यति ।
कुम्भकेन निरुद्धं तद्भवेदूर्ध्वमुखं द्विज ॥ ४९४ ॥
15.495
सवायूनां च नाडीनां स्थितिं स्मृत्वा ततः परम् ।
रसलोहितमांसानां मेदोमज्जास्थिनां तथा ॥ ४९५ ॥
15.496
धातूनां शुक्लधात्वन्तं स्मृत्वान्तः संस्थिति क्रमात् ।
स्मृत्वा हृदयपझे तु सोमसूर्याग्निमण्डलान् ॥ ४९६ ॥
15.497
आपादात् ब्रह्नरन्ध्रान्तं सर्विबंबेषु सत्तम ।
प्रकृतीनां च तत्वानां कुर्यात् सम्यङ्निवेशनम् ॥ ४९७ ॥
15.498
आपादाद्ब्रह्नरन्ध्रान्तमव्यक्तान्तं क्रमेण तु ।
क्षित्यादिकानां पादान्तमव्यक्तं वा धरान्तिकम् ॥ ४९८ ॥
15.499
मूर्ध्नि भ्रूमध्यपर्यन्तं प्रधानं भावयेद्द्विज ।
सिन्दूरपुञ्जसंकाशां तालुमध्ये धियं स्मरेत् ॥ ४९९ ॥
15.500
सितेन्दुरश्मिवर्णाभं खद्योतमिव खेचरम् ।
तालुमूले त्वहंकारं कुसुम्भरससन्निभम् ॥ ५०० ॥
15.501
संस्मरेन्मानसं तत्वं तालुकण्ठान्तरे द्विज ।
राजोपलद्युतिमुषं कदम्बकुसुमोपमम् ॥ ५०१ ॥
15.502
कण्ठाद्धृत्पझपर्यन्तं स्मरेत् पञ्चपदे समे ।
श्रोत्रादीनथ वै पञ्च प्रस्फुरत्तारकोज्ज्वलान् ॥ ५०२ ॥
15.503
पझस्थानाच्च नाभ्यन्तं प्राग्वत् पञ्चपदान्तरे ।
वागादीन् वै स्थितान् पञ्च क्रमेण विनिवेशयेत् ॥ ५०३ ॥
15.504
आनाभेर्वस्तिशीर्षान्तं सुसमे पदपञ्चके ।
शब्दतन्मात्रपूर्वाणि गन्धमात्रावसानतः ॥ ५०४ ॥
15.505
स्वैः स्वैर्गुणैश्च युक्तानि भास्वज्ज्योतिः प्रभाणि तु ।
ऊरुमूले तथा मध्ये सन्धिदेशे ततस्त्वधः ॥ ५०५ ॥
15.506
दण्डे मर्मावसाने तु सर्वस्मिंश्चरणे क्रमात् ।
खं वाय्वगन्युदकक्ष्मान्तं चिन्तयेद्भूतपञ्चकम् ॥ ५०६ ॥
15.507
नीरूपाञ्जनवर्णं तु संस्मरेद्व्योमगोलकम् ।
वायव्यं नीलपीतं च तैजसं मधुपिङ्गलम् ॥ ५०७ ॥
15.508
मुक्ताफलनिभं चाप्यं रक्तपीतं तु पार्थिवम् ।
अथवा तत्वविन्यासमेवमेव समाचरेत् ॥ ५०८ ॥
15.509
प्रकृतिं हृदये न्यस्त्वा धीमनोममतां तथा ।
कण्टहृन्नाभिषु न्यस्त्वा तन्मात्रं शब्दसंज्ञितम् ॥ ५०९ ॥
15.510
स्वभूतयुक्तं शिरसि तालोः कण्ठान्तकं तथा ।
स्पर्शाख्यं वायुना सार्धं रूपाख्यं वह्निना सङ ॥ ५१० ॥
15.511
कण्ठात् प्रभृति नाभ्यन्तं रसाख्येन जलं सह ।
नाभेर्जान्वन्तरं यावज्जानोः पादान्तकं न्यसेत् ॥ ५११ ॥
15.512
धरां गन्धेन तत्पश्चात् स्वे स्वे स्थाने तु विन्यसेत् ।
बुद्ध्यक्षाणि क्रमेणैव तथा कर्मेन्द्रियाण्यपि ॥ ५१२ ॥
15.513
यद्वा प्रधानमामूर्ध्नो यावद्वक्षःस्थलं न्यसेत् ।
नाभौ बुद्धिमहङ्कारं कटिमूलाश्रितं स्मरेत् ॥ ५१३ ॥
15.514
ऊरुभ्यां शब्दतन्मात्रं स्पर्शाख्यं स्पर्शाख्यं सन्धिदेशगम् ।
जङ्घाभ्यां रूपतन्मात्रं गुल्फयो रससंज्ञितम् ॥ ५१४ ॥
15.515
पादाभ्यां गन्धसंज्ञं तु स्वबीजध्यानसंयुतम् ।
अथवा सप्तधा तत्वक्लृप्तौ स्थानक्रमं श्रऋणु ॥ ५१५ ॥
15.516
गुल्फजानुकटीवक्षःकण्ठभ्रूकावटावधि ।
बुद्ध्यन्तानां धरादीनां क्रमादवनिसप्तकम् ॥ ५१६ ॥
15.517
आपादनाभिदेशं वा महाभूतैर्धरादिकैः ।
व्याप्तं चतुर्भिर्वाय्वन्तैस्तदूर्ध्वं नभसा पुनः ॥ ५१७ ॥
15.518
पूरितं हृदयान्तं च तदुद्देशाच्छिखावधि ।
विभाव्यं मनसा व्याप्तं तदूर्ध्वे द्वादशान्तकम् ॥ ५१८ ॥
15.519
प्रधानापरपर्यायं बुद्धितत्वं तु विन्यसेत् ।
अथ द्वेधा तत्वक्लृप्तौ विधानमवधारय ॥ ५१९ ॥
15.520
आमूर्ध्नो नाभिपर्यन्तं प्रधानं परिभावयेत् ।
आनाभेः पादपर्यन्तं स्मरेत्तन्मात्रकं गणम् ॥ ५२० ॥
15.521
यद्वा व्यक्तौ प्रधानं तु व्यापकं देवरूपधृक् ।
सर्वतत्वमयं मन्त्रं तस्य वा केवलं हृदि ॥ ५२१ ॥
15.522
प्राधानिकं योजनीयमभिन्नं तत्वकारणम् ।
एवमिच्छानुरूपेण तत्वविन्यासमाचरेत् ॥ ५२२ ॥
15.523
ज्ञानादिगुणषट्कं च हृदयादिषु विन्यसेत् ।
प्राग्वदीश्वरसन्धानमाचरेन्मुनिपुङ्गव ॥ ५२३ ॥
15.524
ततः शब्दानुसन्धानं प्रागुक्तं तु समाचरेत् ।
तथैव वर्णभेदेन स्थानभेदे च विन्यसेत् ॥ ५२४ ॥
15.525
कदम्बकुसुमाकार मकारं विनय्सेद्द्विज ।
शिखायां शिखारोद्देशे आकारं कुङ्कमप्रभम् ॥ ५२५ ॥
15.526
तप्तचामीकराकारमिकारं मुखमण्डले ।
ईकारं कण्ठदेशे तु कुन्देन्दुसदृशप्रभम् ॥ ५२६ ॥
15.527
उकारं जत्रुभागे तु शुद्धस्फटिकवर्चसम् ।
ऊकारं वक्षसि तथा सिन्दूरसदृशाकृतिम् ॥ ५२७ ॥
15.528
ऋकारं हृदये न्यस्येच्छुक्लवर्णं महाप्रभम् ।
ऋकारं जाठरे भागे लाक्षारससमद्युतिम् ॥ ५२८ ॥
15.529
लृकारं नाभिभागे तु तप्तकाञ्चनसन्निभम् ।
लृकारं लिड्गदेशस्थं विन्यसेदसितप्रभम् ॥ ५२९ ॥
15.530
एकारं द्रुतहेमाभमूरुयुग्मं समाश्रितम् ।
ऐकारं जानुयुग्मे तु सन्ध्याजलदसन्निभम् ॥ ५३० ॥
15.531
ओकारं जङ्घयोस्तद्वच्छुक्लवर्णं द्विजोत्तम ।
औकारं रक्तवर्णं च गुल्फद्वयगतं तथा ॥ ५३१ ॥
15.532
अङ्गारं पादयोर्ब्रह्नन्नयस्कान्तसमप्रभम् ।
अः कारं चरणाङ्गुष्ठे पझरागसमप्रभम् ॥ ५३२ ॥
15.533
ककारं तु ललाटस्थं रक्तवर्णं तु विन्यसेत् ।
खकारं पीतलनिभं भ्रुवोर्मध्यमदेशगम् ॥ ५३३ ॥
15.534
गकारं नासिकायां तु तुषारसदृशाकृतिम् ।
घकारं सितवर्णं तु दशनस्थानसंश्रितम् ॥ ५३४ ॥
15.535
ङकारं चिबुकोद्देशे शरद्गगनसन्निभम् ।
चकारं रक्तवर्णं च कृकाटीगोचरे न्यसेत् ॥ ५३५ ॥
15.536
छकारं पृष्ठभागे तु ज्वलितानलसन्निभम् ।
जकारं कटिदेशस्थं काञ्चनाद्रिसमप्रभम् ॥ ५३६ ॥
15.537
झकारमूरुमूले तु शुद्धस्फटिकसन्निभम् ।
ञकारं पादगुल्फाग्रे पझरागसमप्रभम् ॥ ५३७ ॥
15.538
टकारं भ्रूयुगगतं तुषारसदृशाकृतिम् ।
ठकारं नेत्रयोर्ब्रह्नन् रक्तवर्णं महाप्रमम् ॥ ५३८ ॥
15.539
डकारं गण्डयोश्चैव पीतवर्णं महाद्युतिम् ।
ढकारं हनुयुग्मस्थमिन्द्रनीलसमप्रभम् ॥ ५३९ ॥
15.540
णकारं कुचयुग्मे तु हरितालसमद्युतिम् ।
तकारं श्रवसोर्युग्मे प्रवालोपलसन्निभम् ॥ ५४० ॥
15.541
थकारं स्कन्धयुगले चम्पकप्रसवाकृतिम् ।
दकारं भुजयोर्मध्ये ज्वलितानलसन्निभम् ॥ ५४१ ॥
15.542
धकारं तु प्रकोष्टस्थं खद्योतचयदीधितिम् ।
नकारं करयोर्न्यस्य पझपत्रसमद्युतिम् ॥ ५४२ ॥
15.543
पकारं रोमकूपस्थं पलाज्ञदलसन्निभम् ।
फकारं कक्षभागस्थं सन्ध्याभ्रसदृशप्रभम् ॥ ५४३ ॥
15.544
बकारं पार्श्वयुग्मे तु पूर्णचन्द्रसमप्रभम् ।
भकारं सक्थिदेशस्थं नीलाञ्जनचयोपमम् ॥ ५४४ ॥
15.545
मकारं पिण्डिकासंश्थं शरद्घगनसन्निभम् ।
यकारं पाञ्चजन्ये तु धूम्रवर्णं च विन्यसेत् ॥ ५४५ ॥
15.546
रकारं च सहस्रारे रक्तपङ्कजसन्निभम् ।
लकारं च गदायां वै सौदामिनिसमप्रभम् ॥ ५४६ ॥
15.547
वकारमरविन्दे तु शारदाभ्रसमप्रभम् ।
शकारं शोणिते न्यस्य अमृताभासविग्रहम् ॥ ५४७ ॥
15.548
षकारमस्थिनिचये शशशोणितसन्निभम् ।
सकारं मांसदेशे तु हिमकुन्दसमप्रभम् ॥ ५४८ ॥
15.549
हकारं प्राणदेशस्थं शुद्धस्फटिकविग्रहम् ।
क्षकारं सर्वतोव्याप्तं सूर्यवैश्वानरप्रभम् ॥ ५४९ ॥
15.550
अथवा मातृकान्यासमेवमेव समाचरेत् ।
अकारं तालौ विन्यस्य मुखे चाकारमेव च ॥ ५५० ॥
15.551
इङ लोचनयोर्न्यस्य उऊ श्रवणयोस्तथा ।
ऋऋ नासापुटे चैव लृलृ गण्डद्वये तथा ॥ ५५१ ॥
15.552
एऐ दशनपङ्क्तौ च ओ औ ओष्ठगतौ स्मरेत् ।
अं इत्येव ललाटे तु विसर्गं रसने तथा ॥ ५५२ ॥
15.553
यकारं त्वग्गतं न्यस्य रेफं चक्षुषि विन्यसेत् ।
लकारं नासिकायां तु वकारं दशनाग्रतः ॥ ५५३ ॥
15.554
श्रोत्रे शकारं विन्यस्य षकारमुदरे तथा ।
सकारं कटिदेशे तु हकारं हृदये तथा ॥ ५५४ ॥
15.555
क्षकारं नाभिदेशे तु विन्यसेदद्विजसत्तम ।
पवर्गो बाहुरेकस्तु तवर्गस्तु द्वितीयकः ॥ ५५५ ॥
15.556
टवर्गश्च चवर्गश्च जङ्घाद्वयमुदाहृतम् ।
कवर्गोङ्गुलयः सर्वा विज्ञातव्या द्विजोत्तम ॥ ५५६ ॥
15.557
एवं हि वर्णसन्धानं कृत्वा चैव ततः परम् ।
आमूर्ध्नश्चरणान्तं च विन्यसेद्द्वादशाक्षरम् ॥ ५५७ ॥
15.558
अङ्गोपाङ्गस्थितिं कुर्यात् स्थानेषु हृदयादिषु ।
चक्रादिवैनतेयान्तं प्राग्वन्न्यस्त्वा क्रमेण तु ॥ ५५८ ॥
15.559
सर्वान् लाञ्छनमन्त्रांस्तु ततो दामोदरादिकान् ।
तच्छक्तिकांस्तथा मन्त्रान् पूर्ववद्विनिवेशयेत् ॥ ५५९ ॥
15.560
उपसंहृतिपूर्वान्तं सर्वं कृत्वा क्रमेण तु ।
ततस्तत्परमं ब्रह्न हृदिस्थं पूर्ववत् स्मरेत् ॥ ५६० ॥
15.561
ततस्तु मन्त्रसन्धानं कृत्वा पूर्वोक्तवर्त्मना ।
सहस्रशिरसं दैवमित्यादीन् पाठयेत् क्रमात् ॥ ५६१ ॥
15.562
एवं स्थूलानुसन्धानमेतत्ते कथितं मया ।
एषु प्रोक्तेषु विप्रेन्द्र सन्धानेषु परादिषु ॥ ५६२ ॥
15.563
सन्धानमेकं कृत्वा तु गुरुरिच्छानुरूपतः ।
ततोऽर्चयित्वा देवेशं शयने बिम्बवृत्तिकम् ॥ ५६३ ॥
15.564
सांस्पर्शिकैरासनाद्यैर्विविधैरौपचारिकैः ।
हृदयङ्गमसंज्ञैश्च मधुपर्कादिभिर्द्विज ॥ ५६४ ॥
15.565
परमान्नादिभिश्चान्नैः पवित्रैः पानकैस्तथा ।
अन्यैश्च विविधैर्भोगैर्यथा चानुक्रमेण तु ॥ ५६५ ॥
15.566
सर्वं तु संप्रदानान्तं कृत्वा पश्चात्तु मण्डले ।
सन्निधीकृत्य संपूज्य महता विभवेन तु ॥ ५६६ ॥
15.567
अग्नौ सन्तर्पयेत् साङ्गं समित्सप्तकपूर्वकम् ।
जुहुयुर्मूर्तिपाश्चापि स्वे स्वे कुण्डे यथाक्रमम् ॥ ५६७ ॥
15.568
प्रागादिदिक्षु कुण्डेषु क्रमेण समिधः स्मृताः ।
पलाशवक्षखदिरबिम्वोदुम्बरभूरुहाम् ॥ ५६८ ॥
15.569
आग्नेयादिविदिक्षु स्युः पिप्पलप्लक्षसंभवाः ।
न्यग्रोधप्रभवाश्चैव काश्मर्यप्रभवास्तथा ॥ ५६९ ॥
15.570
पलाशसमिधोऽन्यत्र भूयसां परिकल्पने ।
उक्ताभावे तु सर्वत्र पालाश्यः समिधो मताः ॥ ५७० ॥
15.571
चतस्रो धेनवः स्थाप्या दक्षिणस्यामुदङ्मुखाः ।
गङ्गासरस्वतीगोदायमुनारूपधारिणी ॥ ५७१ ॥
15.572
दुग्धैस्तदीयैः श्रपणं चरूणामाहुतीस्तथा ।
श्रपयेत् पयसा पूर्वे शालितण्डुलमाढकम् ॥ ५७२ ॥
15.573
कृसरैर्दक्षिणाग्नौ तु पाश्चात्ये गुलमिश्रितम् ।
उदीच्याग्नौ हरिद्रान्नं शुद्धान्नमितराग्निषु ॥ ५७३ ॥
15.574
प्रत्येकं शतमष्टौ च होमाः स्युः समिदादिभिः ।
तदर्धं वाथ पादं वा देशकालानुरूपतः ॥ ५७४ ॥
15.575
तिलशालियवावेणुर्होमवीजान्यनुक्रमात् ।
तिलैरितरकुण्डेषु तैर्वा सर्वत्र कल्पयेत् ॥ ५७५ ॥
15.576
स्वमूर्तिकुम्भान्मन्त्रेण जलमुद्धृत्य भाजने ।
बिम्बमूर्ध्नि क्रमाद्देयं सर्वैरेकायनादिकैः ॥ ५७६ ॥
15.577
चतुर्दर्भकृतनैव कूर्चेन तु ततो द्विज ।
पलाशखदिराश्वत्थबिल्वशाखाभिरम्बुभिः ॥ ५७७ ॥
15.578
सिञ्चेयुर्मूर्तिपाः सम्यग्वेदिकाकलशैः स्थितैः ।
आचार्यः कोणदेशस्थैस्तोयैर्वेतसशाखया ॥ ५७८ ॥
15.579
सन्तर्पयित्वा तदनु मन्त्रं सपरिवारकम् ।
आज्यादिना प्रभूतेन दत्वा पूर्णाहुतिं ततः ॥ ५७९ ॥
15.580
दीक्षाविधिक्रमेणैवं सकलां तत्वपद्धतिम् ।
संशोध्य परभागस्थस्त्वाचार्यः सुसमाहितः ॥ ५८० ॥
15.581
भगवन्तं कृते त्वेवं बिम्बस्थं श्रावयेत् क्रमात् ।
मनसा सुविशुद्धेन इदं मन्त्रमुपस्थितः ॥ ५८१ ॥
15.582
त्वया सन्निहितेनात्र भवितव्यमधोक्षज ।
मत्पूर्वाणां हि भक्तानां सिद्धिहेतोर्निरञ्जन ॥ ५८२ ॥
15.583
ततः स भगवान्मन्त्रः प्रबुद्धः कमलेक्षणः ।
बिम्बमुत्थापयन् ध्यायेदाचार्येण तु संमुखम् ॥ ५८३ ॥
15.584
कृत्वा तु पादपतनं अष्टाङ्गेन तु साधकः ।
बिम्बात्मना प्रयातानां क्ष्मादीनामङ्गरूपिणाम् ॥ ५८४ ॥
15.585
आपादनेऽपि पूर्णार्थं पिण्डीभूतार्थमेव च ।
आरम्भादेव जातानां छिद्राणां शमने तु वै ॥ ५८५ ॥
15.586
आप्यायनार्थं मन्त्राणां द्रव्यैर्होमं समाचरेत् ।
द्विषट्केनाहुतीनां च एकैकेन चतुर्हृदा ॥ ५८६ ॥
15.587
आचाङ्घ्रेर्जानुपर्यन्तं स्पृष्ट्वाज्यं होमयेत् पुरा ।
आनाभिजानुदेशाच्च तथैव जुहुयाद्दधि ॥ ५८७ ॥
15.588
नाभेराकण्ठतः क्षीरामामूर्ध्नः कण्ठतो मधु ।
संमिश्रय जुहुयात् सर्वं स्पृष्ट्वा देहं तु चाखिलम् ॥ ५८८ ॥
15.589
दत्वा घृतेन वै पश्चात् पूर्णां मूलेन तत्परम् ।
संस्कृत्य बिम्बवत् पीठं भिन्नं ब्रह्नशिलां तथा ॥ ५८९ ॥
15.590
प्राणाभिमानदेवं वा यस्य यो विहितस्तु वै ।
वेष्ठयित्वाम्बरैश्चित्रैस्चक्रमन्त्रेण वै ततः ॥ ५९० ॥
15.591
कार्यो ब्रह्नशिलाहोमः शताष्टाधिकसंख्यया ।
गायत्रीभिस्तदर्धं च बह्वृचाद्यैः पृथक् पृथक् ॥ ५९१ ॥
15.592
अजस्य नाभावित्यादिमन्त्रैरेकायनैस्ततः ।
अध्वादि भूतमूर्तिं तु भोग्यं वाप्यपृथक् स्थितम् ॥ ५९२ ॥
15.593
देवतानां त्वधिष्ठानं पीठं कृत्वा तु बुद्धिगम् ।
होतव्यं प्रणवेनैव स्वयं व्याहृतिभिस्ततः ॥ ५९३ ॥
15.594
अपरैर्बलमन्त्रेण प्रणवान्तेन लाङ्गलिन् ।
ततो हवनमन्त्रेण तर्पणीयं तदेव हि ॥ ५९४ ॥
15.595
स्वनाम्ना प्रणवेनैव स्वाहान्तेनापरैस्तथा ।
संरोधस्तर्पितानां च कार्यः पूर्णान्तमेव हि ॥ ५९५ ॥
15.596
साम्मसा विष्टरेणैव भावेन सजपेन तु ।
सर्वैः स्वकस्य देवस्य स्वकीयासु च मूर्तिषु ॥ ५९६ ॥
15.597
शब्दात्मिकासु मूर्तासु तद्वच्छुतिमयस्य च ।
प्रासादस्याथ परितः कुण्डेष्वष्टासु च क्रमात् ॥ ५९७ ॥
15.598
कुण्डसंस्कारपूर्वं तु सर्वं कृत्वा तु मूर्तिपैः ।
हवनं विधिवत् कुर्याद्द्रव्यैः पूर्वोदितैः क्रमात् ॥ ५९८ ॥
15.599
कृत्वैवं च तदा दिक्षु मूर्तिपान् विनिवेश्य च ।
पार्श्वदेशे तु कुण्डानां तर्पयेत् पायसेन तु ॥ ५९९ ॥
15.600
दक्षिणां च यथाशक्ति दद्याद्धेमादिकीं ततः ।
गृहीत्वा दक्षिणां मन्त्रः प्रीणनीयस्तु तैस्ततः ॥ ६०० ॥
15.601
बिम्वस्य निकटे स्थित्वा इमं मन्त्रमुदीरयेत् ।
प्राप्ते लग्नोदये विप्र सन्निरोद्ध्य जगद्गुरुम् ॥ ६०१ ॥
15.602
क्षणं क्षमस्व भगवन् सर्वज्ञ करुणात्मक ।
निवेशयामि ते यावत् प्रासादे ब्रह्नपीठिकाम् ॥ ६०२ ॥
15.603
अथ निद्रायमाणं तु देवं स्तुत्वावकुण्ठ्य च ।
अर्चयित्वा नमस्कृत्य तत्र सर्वान् प्रवेशयेत् ॥ ६०३ ॥
15.604
विप्रानेकायनान् वापि तथा वै भवृचादिकान् ।
स्वस्वशाखोत्थितान् मन्त्रान् पाठयेत् क्रमयोगतः ॥ ६०४ ॥
15.605
स्तुतिपाठकपूर्वांश्च नृत्तगीतपरायणान् ।
वीणावेणुमृदङ्गादीनितरांश्च प्रवेशयेत् ॥ ६०५ ॥
15.606
विदिक्स्थान् प्रणवे जापे मूर्तिपांस्तु निवेदयेत् ।
दिक्स्थितान् मूर्तिपान् विप्र द्वादशार्णे निवेदयेत् ॥ ६०६ ॥
15.607
रक्षामुद्रां ततः कृत्वा दर्शयेत् सर्वदिक्ष्वथ ।
शाययेद्दर्भशय्यायां यजमानमुपोषितम् ॥ ६०७ ॥
15.608
स्थण्डिले स्वप्नसिद्ध्यर्थं प्राकशिरस्कं ततो द्विज ।
एवं कृत्वाधिवासं तु जागरेण नयेद्गुरुः ॥ ६०८ ॥
15.609
प्रभातायां तु शर्वर्यां कृत्वा स्नानादिकाः क्रियाः ।
प्रतिष्ठामारभेत् पश्चाद्देशिकः शास्त्रवित्तमः ॥ ६०९ ॥
15.610
प्रबुद्धं यजमानं तु स्वप्नं पृच्छेच्छुभाशुभम् ।
तत्राशुभोपशान्त्यर्थं तदानीं जुहुयाद्गुरुः ॥ ६१० ॥
15.611
शतं सहस्रं साष्टं वा यथाशक्त्यथवा द्विज ।
मध्वाज्यक्षीरसंमिश्रान् सफलांश्च तिलानपि ॥ ६११ ॥
15.612
अस्त्रसंपुटितेनैव नाम्ना स्वाहान्वितेन च ।
दोषं जहि जहीत्येव पदं नामानसानकम् ॥ ६१२ ॥
15.613
केवलेनाथवाज्येन सिंहमन्त्रेण होमयेत् ।
एवं दुःस्वप्नशान्तिं तु कृत्वा स्थापनमाचरेत् ॥ ६१३ ॥
15.614
प्रासादं दर्भशाखाभिर्बहिरन्तश्च मार्जयेत् ।
विकीर्य साक्षतं पुष्पं गुग्गुलुं धूपयेत् पुनः ॥ ६१४ ॥
15.615
सहमूर्तिधरैर्विप्र शिल्पिभिश्चाथ देशिकः ।
सार्घ्यपुष्पाक्षतकरः प्रासादान्तं व्रजेत्ततः ॥ ६१५ ॥
15.616
हन्यात् सिद्धार्यकैस्तत्स्थान् विघ्नानस्त्राभिमन्त्रितैः ।
प्राङ्भध्ये विधिनानेन श्वभ्रं वा साम्प्रतं खनेत् ॥ ६१६ ॥
15.617
तदर्थं गर्भगेहं तु सूत्रपातैर्विभाजयेत् ।
तद्विधानं मुनिश्रेष्ठ यथावदवधारय ॥ ६१७ ॥
15.618
प्रासाद एकद्वारे तु गर्भमानं विनिश्चितम् ।
द्वारात् पश्चिमभित्त्यंतं दक्षिणोत्तरमायतम् ॥ ६१८ ॥
15.619
सप्तधा विभजेत् सम्यक् पैशाचः प्रथमः स्मृतः ।
द्वितीयो मानुषो भागस्तृतीयो देवसंज्ञितः ॥ ६१९ ॥
15.620
व्राह्नश्चतुर्थो विज्ञेयः क्रमादन्ये त्रयस्तथा ।
देवमानुषपैशाचा विज्ञेया द्विजसत्तम ॥ ६२० ॥
15.621
अथवा नवधा कुर्याद्दक्षिणोत्तरमायतम् ।
पैशाचः प्रथमो भागो द्वितीयो मानुषः स्मृतः ॥ ६२१ ॥
15.622
तृतीयश्च चतुर्थश्च भागौ दैविकसंज्ञकौ ।
ब्राह्नस्तु पञ्चमो भागो वेदितव्यस्ततः परम् ॥ ६२२ ॥
15.623
दैवमानुषपैशाचाश्चत्वारोऽन्ये क्रमेण तु ।
प्रासादे तु चतुर्द्वारे चतुर्दिक्षु समैः पदैः ॥ ६२३ ॥
15.624
विभजेत् सप्तधा मध्ये भागः स्याद्ब्राह्नसंज्ञितः ।
दिव्यमानुषपैशाचाः क्रमात् पङ्क्तिक्रमेण तु ॥ ६२४ ॥
15.625
अथवा चाष्टधा कृत्वा मध्ये ब्राह्नं चतुष्पदम् ।
दिव्यादिसंज्ञितं विप्र क्रमात् पङ्तित्रयं भवेत् ॥ ६२५ ॥
15.626
अथवा नवधा गर्भं विभजेत् सर्वदिक्पदैः ।
मध्यमं तु भवेद्ब्राह्नं दिव्यं पङक्तिद्वयेन वा ॥ ६२६ ॥
15.627
दिव्यब्राह्नं भवेत् पङ्क्त्या पङ्क्त्या दैविकसंज्ञितम् ।
मानुषं तद्बहिः पङ्क्त्या पैशाचं तद्बहिर्भवेत् ॥ ६२७ ॥
15.628
यद्वा द्विरष्टधा भङ्क्त्वा ब्राह्नमध्ये चतुष्पदम् ।
दिव्यब्राह्नं बहिः पङक्त्या दिव्यं पङ्क्तित्रयेण च ॥ ६२८ ॥
15.629
पङ्क्तिद्वयं मानुषं स्यात् पैशाचं पङ्क्तिजं भवेत् ।
एकद्वारेऽपि भवने एवं वा परितो स्रजेत् ॥ ६२९ ॥
15.630
चतुर्द्वीरेऽपि भवने ब्राह्नाख्ये मध्यमे पदे ।
चतुर्दिग्वीक्षमाणस्य स्थापनं चतुरात्मनः ॥ ६३० ॥
15.631
प्रासाद एकद्वारे तु एकबेरं द्विजोत्तम ।
ब्राह्नदैविकभागाभ्यां दैवमानुषयोस्तु वा ॥ ६३१ ॥
15.632
ब्राह्ने वा दैविके वाथ तस्मिन् दिव्याश्रिते तु वा ।
मानुषाश्रितदैवे वा स्थापयेत् फलभेदतः ॥ ६३२ ॥
15.633
चतुर्द्वारे तु भवने बहुबेरं निवेशयेत् ।
विबुधब्रह्नभागाभ्यां दिव्यमानुषयोस्तु वा ॥ ६३३ ॥
15.634
ब्राह्नादिमानुषान्तेषु त्रिषु भागेषु वा द्विज ।
ब्राह्नाश्रिते तु दिव्ये वा तस्मिन् वा मानुषाश्रिते ॥ ६३४ ॥
15.635
सपीठबिम्बमानानां बृहत्वस्यानुरूपतः ।
चतुर्द्वारे तु भवने ब्राह्न एव भवेत् सदा ॥ ६३५ ॥
15.636
ब्राह्नादिमानुषान्तेषु त्रिषु भागेषु चोत्तमम् ।
शयनं ब्राह्नदिव्याब्यां मध्यमं त्वधमं स्मृतम् ॥ ६३६ ॥
15.637
दिव्यमानुषभागाभ्यामेवं विद्धि त्रिधा स्थितम् ।
ब्राह्ने वा ब्राह्नदिव्ये वा दिव्ये वा ब्रह्नसंश्रिते ॥ ६३७ ॥
15.638
दिव्यमानुषयोर्वापि दिव्ये वा मानुषाश्रिते ।
आसनं विहितं विप्र स्थानेऽप्येवं विधीयते ॥ ६३८ ॥
15.639
यानगं स्थापयेद्ब्राह्ने दिव्यमानुषयोस्तु वा ।
एकबेरविधाने तु तदग्रे भागयोर्द्वयोः ॥ ६३९ ॥
15.640
आराधनार्थतो वेदिं स्थापयेन्मुनिपुङ्गव ।
यदा चोत्सवबिम्बादिबिम्बानां संस्थितिस्तदा ॥ ६४० ॥
15.641
अग्रपीठोपगं भागं तृतीयं वा समैः पदैः ।
सप्ताष्टनबधा वापि भजेद्भित्तिद्वयान्तरे ॥ ६४१ ॥
15.642
द्विरष्टधा वा मध्ये तु क्रमाद्भागत्रयं त्यजेत् ।
चतुष्कं त्रितयं षट्कं ततः शेषेषु दक्षिणे ॥ ६४२ ॥
15.643
स्थापयेदौत्सवं बिम्बं देवीयुक्तं तु वामतः ।
भागेषु क्रमशो विप्र तीर्थबिम्बसमन्वितम् ॥ ६४३ ॥
15.644
बिम्बं नित्योत्सवार्थं च तथा शयनकौतुकम् ।
निमित्तस्नपनार्थं च बिम्ब तंरुणकौतुकम् ॥ ६४४ ॥
15.645
आराधनार्थं देवस्य मध्ये भागद्वयोरपि ।
स्नपने मूलबिम्बस्य क्रियमाणे बहूदकैः ॥ ६४५ ॥
15.646
यथा चौत्सवबिम्वाद्याः स्नानीयजलबिन्दुभिः ।
न स्पृश्यते तथा तेषां स्थापनं तु समाचरेत् ॥ ६४६ ॥
15.647
संकटे सति तद्देशे बाह्ये तु मुखमण्डपे ।
स्थापयेत् सर्वबिम्बानि तत्रापि सति संकटे ॥ ६४७ ॥
15.648
प्रथमावरणे वापि द्वितीयावरणेऽपि वा ।
स्थानं सुविस्तृतं कृत्वा प्रासादाग्रं च वर्ज्यदिक् ॥ ६४८ ॥
15.649
दिक्त्रयेऽभिमते कुर्याद् विदिक्ष्वभिमतेषु वा ।
खलूरिकाप्रदेशे वा सुदेशे सुपरीक्षिते ॥ ६४९ ॥
15.650
स्थापयेद्विधिना यात्राबिम्बं देवीसमन्वितम् ।
अन्यानि सर्वबिम्बानि बहि र्न स्थापयेत् व्कचित् ॥ ६५० ॥
15.651
शास्त्रज्ञो देशिकेन्द्रस्तु बहुबेरविधावपि ।
निमित्तस्नपनादौ तु योग्ये बृहति सत्तम ॥ ६५१ ॥
15.652
स्थापिते मूलबिम्बे तु एवमेव समाचरेत् ।
विना वै कर्मबिम्बं च बिम्बं नित्योत्सवार्थतः ॥ ६५२ ॥
15.653
उभयं स्थापयेन्नित्यं प्रासादाभ्यन्तरे व्कचित् ।
अयोग्ये मूलबिम्बे तु सदा स्नपनकर्मणि ॥ ६५३ ॥
15.654
यात्राबिम्बादिबिम्बानि सदा गर्भगृहान्तरे ।
सर्वाणि स्थापनीयानि न बाह्ये तु कदाचन ॥ ६५४ ॥
15.655
बहुबेरविधौ भागे तदग्रे सप्तभाजिते ।
भागमेकं परित्यज्य दक्षिणेऽथ पदद्वये ॥ ६५५ ॥
15.656
स्थापयेदौत्सवं बिम्बं चतुर्थे स्नपनास्पदम् ।
कर्मबिम्बं च तद्वामे तीर्थबिम्बादियोजनम् ॥ ६५६ ॥
15.657
वेदिः स्थाप्या तदन्यस्मिन् भागे भागद्वयोऽपि वा ।
पैशाचमथवाप्यग्रे त्यक्त्वा भागद्वयोरपि ॥ ६५७ ॥
15.658
स्थाप्य बिम्बं तदूर्ध्वे तु कर्मबिम्बस्य चास्पदम् ।
तस्य दक्षिणपार्श्वे तु यात्रामूर्तिं तु विन्यसेत् ॥ ६५८ ॥
15.659
वामपार्श्वे ततोऽन्येषां स्थापनं विहितं भवेत् ।
अष्टधा नवधा भाक्ते स्थापयेतं पञ्चमे पदे ॥ ६५९ ॥
15.660
कर्मबिम्बं तु नवमे पदे षोडशभाजिते ।
अन्येषां सर्वबिम्बानां प्राग्वत् स्थापनमाचरेत् ॥ ६६० ॥
15.661
मूलबिम्बे शयाने तु विशेषः कथ्यते श्रृणु ।
सप्तभाक्तेऽग्रभभागे तु प्राग्वद्भित्तिद्वयान्तरे ॥ ६६१ ॥
15.662
दत्त्वा दक्षिणभागे तु भागानां तु चतुष्टयम् ।
स्थापयेत् पञ्चमे वापि चतुर्थे कर्मकौतुकम् ॥ ६६२ ॥
15.663
अष्ठधा नवधा भाक्ते षष्ठे वा पञ्चमेऽपि वा ।
अग्रे द्विरष्टधा भाक्ते द्वादशैकादशे तु वा ॥ ६६३ ॥
15.664
दशमे नवमे वापि स्थापयेत् कर्मकौतुकम् ।
दक्षिणोत्तरयोः प्राग्वदन्येषां न्यसनं भवेत् ॥ ६६४ ॥
15.665
आराधनार्थतो वेदिः स्थापनीया तु पूर्ववत् ।
परितः सप्तधा भक्ते नवधाष्टद्विरष्टधा ॥ ६६५ ॥
15.666
मूलबिम्बाग्रतः पङ्क्त्या द्वितीयायामथापि वा ।
सर्वेषां कर्मबिम्बानां प्राग्वत् स्थापनमाचरेत् ॥ ६६६ ॥
15.667
स्थापनीया च विप्रेन्द्र प्राग्वदर्चनवेदिका ।
पीठोपर्यपि वा देवं यं त्वाराधयते सदा ॥ ६६७ ॥
15.668
मध्ये रत्नोपलं पीठे न्यस्त्वोर्ध्वे स्थापयेत्तु ताम् ।
देवीसमन्वितं यत्र सथापनं भवति द्विज ॥ ६६८ ॥
15.669
मूलबिम्बस्य पार्श्वे तु पीठदेशं विसृज्य च ।
सपीठानां तु देवीनां स्थापनं तु समाचरेत् ॥ ६६९ ॥
15.670
एका सव्ये दक्षिणे वा स्थाप्या द्वे दक्षवामयोः ।
चतस्रस्तु क्रमेणैव स्थाप्या दक्षिणवामयोः ॥ ६७० ॥
15.671
प्रासादे चलबिम्बं तु स्थाप्यते यत्र सत्तम ।
मध्ये वेदिं तु संस्थाप्य तदूर्ध्वे स्थापयेत्तु तत् ॥ ६७१ ॥
15.672
यद्वा दिव्ये मानुषे वा पीठं स्थाप्य तदूर्ध्वतः ।
सन्निवेश्य च तद्बिम्बं पूजाकाले ह्युपस्थिते ॥ ६७२ ॥
15.673
मध्ये भद्रासनं न्यस्त्वा तदूर्ध्वे विनिवेश्य च ।
तत् पूजयित्वानुदिनं भूयः पीठोपरि न्यसेत् ॥ ६७३ ॥
15.674
स्वयंव्यक्ते विमानादौ स्थाने सिद्धप्रतिष्ठिते ।
मुनिमुख्यैस्तु तत्रैवं विशेषं श्रृणु सत्तम ॥ ६७४ ॥
15.675
सपीठं भगवद्बिम्बं मूलाख्यं स्थापितं पुरा ।
देशे यावति तद्देशद्वारयोरन्तरं तु यत् ॥ ६७५ ॥
15.676
तत् त्रिधा सुसमं कृत्वा आरभ्य द्वारपार्श्वतः ।
पैशाचं मानुषं दिव्यं क्रमाद्भागत्रयं भवेत् ॥ ६७६ ॥
15.677
दक्षभित्तेः समारभ्य दिव्यभागं भजेत् समम् ।
सप्तधा वामभित्त्यन्तं ततो वै दक्षिणादितः ॥ ६७७ ॥
15.678
पञ्चमे वा चतुर्थे वा स्थापयेत् कर्मकौतुकम् ।
तस्य दक्षिणपार्श्वे तु लक्षमीपुष्टिसमन्वितम् ॥ ६७८ ॥
15.679
स्थापयेदौत्सवं बिम्बं वामपार्श्वे नियोजयेत् ।
अन्यानि सर्वबिम्बानि यथावत् क्रमयोगतः ॥ ६७९ ॥
15.680
द्वारात् पश्चिमभित्यन्तं यद्वा कृत्वा तु सप्तधा ।
सन्त्यज्य द्वारपार्श्वे तु भाजयेद् द्वितयं पुनः ॥ ६८० ॥
15.681
तृतीयं दैविकं सप्त कृत्वा भित्तिद्वयान्तरे ।
कर्मबिम्बादिबिम्बानां पूर्ववत् स्थापनास्पदम् ॥ ६८१ ॥
15.682
तत्रापि शयने विप्र विधानमवधारय ।
पञ्चमे षष्ठभागे वा कर्मबिम्बं नियोजयेत् ॥ ६८२ ॥
15.683
अन्येषां सर्वबिम्बानां पूर्ववत् स्थापनं भवेत् ।
स्वयंव्यक्ते चतुर्द्वारे परितः सप्तधा भजे त् ॥ ६८३ ॥
15.684
पैशाचं मानुषं त्यक्त्वा तृतीये दैविके पदे ।
अग्रभागे तु सौम्ये वा ईश्वरप्राग्वशेन तु ॥ ६८४ ॥
15.685
ईशानदिव्यभागे वा कर्मबिम्बं नियोजयेत् ।
यत्र प्रासादगर्भे तु एकस्मिन् न्यस्य पीठके ॥ ६८५ ॥
15.686
चतुरो वासुदेवाद्यानथवा केशवादिकान् ।
प्रादुर्भावसमूहं वा पङ्क्तिरूपेण योजयेत् ॥ ६८६ ॥
15.687
दिव्यक्रमेण तत्रायं विशेषः कथ्यते श्रृणु ।
द्वारादिभित्तिपर्यन्तं दक्षिणोत्तरमायते ॥ ६८७ ॥
15.688
विभक्ते सप्तधा गर्भे ब्राह्नादिषु पदेषु च ।
स्थापयेत् पङ्क्तिरूपेण पूर्वोक्तेनैव वर्त्मना ॥ ६८८ ॥
15.689
तत्रापि दक्षिणाशादिस्थापयेदुत्तरान्तिमम् ।
यत्र चावृतिरूपेण स्थापयेत्तत्र सप्तधा ॥ ६८९ ॥
15.690
विभक्ते परितो गर्भे मध्ये ब्राह्ने नियोजयेत् ।
प्रधानमूर्तिं परितो दिव्ये वा मानुषे द्वयोः ॥ ६९० ॥
15.691
अन्याश्च सकला मूर्तीः स्थापयेदावृतिक्रमात् ।
चतुर्व्यूहप्रतिष्ठायां वासुदेवं तु मध्यमे ॥ ६९१ ॥
15.692
तद्बहिर्दिव्यपङ्क्तौ तु संकर्षणं तु दक्षिणे ।
प्रद्युम्नं पश्चिमे भागे अनिरुद्धं तथोत्तरे ॥ ६९२ ॥
15.693
स्वस्वकारणसंयुक्तं मूर्त्यन्तरगतस्य च ।
चातुरात्म्यचतुष्कस्य एवमेव नियोजयेत् ॥ ६९३ ॥
15.694
चातुरात्म्येषु नवसु नवमूर्तिमयेषु च ।
आद्ये मध्ये वासुदेवं प्रागाद्ये दिक्चतुष्टये ॥ ६९४ ॥
15.695
वासुदेवादिचत्वारः स्थापनीयाः क्रमेण तु ।
पञ्चमूर्तिप्रतिष्ठाख्ये द्वितये मध्यमे पदे ॥ ६९५ ॥
15.696
वासुदेवं ततो दिव्ये संस्थाप्या दिक्चतुष्टये ।
नारायणान्ताश्चत्वारः संकर्षणपुरस्सराः ॥ ६९६ ॥
15.697
एवं क्रमात् प्रतिष्ठानमाचरेत् सप्तकेऽपि च ।
नवमूर्तिप्रतिष्ठायां वासुदेवं तु मध्यमे ॥ ६९७ ॥
15.698
तद्वहिर्दिव्यभागस्थपदेष्वष्टासु च क्रमात् ।
अष्टौ संकर्षणाद्याश्च वराहान्ताश्च मूर्तयः ॥ ६९८ ॥
15.699
केशवादिप्रतिष्ठायां बासुदेवं तु मध्यमे ।
विभज्य दिव्यभागं तु द्वादशारोक्तवर्त्मना ॥ ६९९ ॥
15.700
प्रागादि स्थापयेद्देवान् केशवाद्यांस्तु द्वादश ।
यद्वा मानुषपङ्क्तौ तु कोणभागचतुष्टयम् ॥ ७०० ॥
15.701
संत्यक्त्वाऽन्येषु भागेषु प्रागादि स्थापयेत् क्रमात् ।
संकटे सति वै कुर्याद्दिव्यमानुषयोरपि ॥ ७०१ ॥
15.702
एकबेरे समुदितस्थानभेदात् फलं श्रृणु ।
ब्राह्नभागे तु मोक्षः स्याद्दिव्ये स्थानाभिवृद्धिकृत ॥ ७०२ ॥
15.703
भोगमोक्षफलावाप्तिर्व्राह्ने दिव्यसमाश्रिते ।
दिव्यभागफलावाप्तिर्मानुषाश्रितदैविके ॥ ७०३ ॥
15.704
दैवमानुषभागाच्च त्वैहिकामुष्मिकं फलम् ।
विबुधब्रह्नभागाच्च सैहिकं तु गुणाष्टकम् ॥ ७०४ ॥
15.705
बहुबेरविधाने तु फलभेदं श्रृणु द्विज ।
ज्ञानादिगुणषट्कस्य प्राप्तिर्ब्रह्नपदे भवेत् ॥ ७०५ ॥
15.706
सर्वकामफलप्राप्तिर्दैविके ब्रह्नसंश्रिते ।
विबुधब्रह्नभागे च दिव्यमानुषयोरपि ॥ ७०६ ॥
15.707
मानुषाश्रितदिव्ये च पूर्वमेवोदितं फलम् ।
ब्राह्नादिमानुषान्तेषु भागेषु स्थापने सति ॥ ७०७ ॥
15.708
स्थानस्य यजमानस्य वृद्धिः स्याद्राजराष्ट्रयोः ।
कर्मार्चास्थापने विप्र फलभेदस्तु कथ्यते ॥ ७०८ ॥
15.709
ब्राह्ने सप्तविभक्ते तु चतुर्थे स्थापनं भवेत् ।
मोक्षदं पञ्चमे भागे तत्सामीप्यफलप्रदम् ॥ ७०९ ॥
15.710
अष्टधा प्रविभक्ते तु पञ्चमे तु गुणाष्टकम् ।
स्थापनं षष्ठभागे तु तत्सालोक्यफलप्रदम् ॥ ७१० ॥
15.711
नवधा प्रविभक्ते तु एवमेव भवेत् फलम् ।
तस्मिन् षोडशधा भक्ते नवमे गुणषट्कदम् ॥ ७११ ॥
15.712
दशमे स्थापनं विप्र द्वादशैकादशेपि च ।
विण्णुलोकपदावासमचिरात् संप्रयच्छति ॥ ७१२ ॥
15.713
दैविके सप्तभक्ते तु चतुर्थे स्थापनं द्विज ।
सद्विवेकं च धर्मं च सौमनस्यं प्रयच्छति ॥ ७१३ ॥
15.714
स्थापनं षष्ठभागे तु पुष्टिसौभाग्यवर्धनम् ।
अपमृत्युजयं दद्याद्बलोत्साहसमृद्धिकृत् ॥ ७१४ ॥
15.715
विभक्ते नवधा त स्मिन्नेवमेव भवेत् फलम् ।
द्विरष्टधा विभक्ते तु नबमे स्थापनं द्विज ॥ ७१५ ॥
15.716
दिव्यभोगफलावाप्तिं प्रयच्छत्यचिरेण तु ।
दशमैकादशे भागे द्वादशे च नियोजनम् ॥ ७१६ ॥
15.717
धनधान्यसमृद्धिं च भूमिप्राप्तिं ददाति च ।
एवं तु परितो भक्ते ब्राह्नभागे नियोजनम् ॥ ७१७ ॥
15.718
शश्वत् कैवल्यफलदं अग्रदिव्यपदे तु तत् ।
भोगप्रदं तथा चैव वलोत्साहसमृद्धिकृत् ॥ ७१८ ॥
15.719
ईशानदिव्यभागे तु स्थापनं संप्रयच्छति ।
आयुरारोग्यमैश्वर्यं राज्ञां विजयमेव च ॥ ७१९ ॥
15.720
स्थानस्य महतीं वृद्धिं तथा जनपदस्य च ।
स्थापनं सौम्यदिव्ये तु भोगमोक्षफलप्रदम् ॥ ७२० ॥
15.721
दिव्यब्रह्नाख्यपङ्क्तौ तु दिव्यवत् स्थापनं भवेत् ।
यत्र यत्र पदे प्रोक्तं बिम्बानां सन्निवेशनम् ॥ ७२१ ॥
15.722
तत्तत्समं द्विधाकृत्वा स्थापने ह्यमृतांशके ।
फलान्युक्तानि सिध्यन्ति आग्नेये विपरीतकृत् ॥ ७२२ ॥
15.723
प्रासादस्यान्तरे विप्र यात्राबिम्बस्य योजनम् ।
स्थानस्य यजमानस्य राज्ञो जनपदस्य च ॥ ७२३ ॥
15.724
ददाति महतीं लक्ष्मीं तेजश्चापि दिने दिने ।
एतदेव फलं विप्र मध्यमं मुखमण्डपे ॥ ७२४ ॥
15.725
प्रथमावरणादौ च स्थाने मन्दफलं भवेत् ।
एवमेव फलं विप्र अन्येषां स्थापनेऽपि च ॥ ७२५ ॥
15.726
मूलबिम्बादिबिम्बानां सर्वेषां च महामते ।
प्रमादाद्बुद्धिपूर्वाद्वा स्वं स्वं स्थानं यथोदितम् ॥ ७२६ ॥
15.727
परित्यज्य तदन्यस्मिन् स्थाने संस्थापिते सति ।
स्थानं च यजमानश्च राजा राष्ट्रं विनश्यति ॥ ७२७ ॥
15.728
तद्देशवासिनः सर्वे जना व्याध्यादिपीडिताः ।
भवेयुः स्यादनावृष्टिर्दुर्भिक्षं शत्रुपीडनुम् ॥ ७२८ ॥
15.729
तस्माद्धितैषी राष्ट्रस्य स्वस्य राज्ञस्तथैव च ।
तथा यथोदितस्थानव्यत्ययं न समाचरेत् ॥ ७२९ ॥
15.730
प्रमादालस्यपूर्वेण दोषेण स्थापनेऽपि च ।
व्यत्ययादचलं बिम्बं वर्जयित्वा तु जङ्गमम् ॥ ७३० ॥
15.731
स्वे स्वे यथोदिते स्थाने संस्थाप्य परिंपूजयेत् ।
विशेषेण स्वयंव्यक्ते सिद्धाद्यैश्च प्रतिष्ठिते ॥ ७३१ ॥
15.732
प्रासादे चलबिम्बं तु स्वे स्वे स्थाने निवेशयेत् ।
भिन्ने प्रेक्षावशान्मध्ये सति भूयः समाचरेत् ॥ ७३२ ॥
15.733
क्षालितेऽस्त्राम्बुना लिप्ते हृदा वै चन्दनादिना ।
श्वब्रेऽधोघटरुद्धानां मन्त्राणां च निरोधनम् ॥ ७३३ ॥
15.734
पूर्वोक्तेन विधानेन धिया स्वे स्वेऽयने तथा ।
कृत्वार्चनं यथोद्दिष्टं पूर्णान्तं तत्र विनय्सेत् ॥ ७३४ ॥
15.735
बाहुल्येन तु षट्पञ्चचतुर्गोलकसंमिताम् ।
पीठाद्विनिर्गतां किञ्चिद्भूतले सुस्थिरां शिलाम् ॥ ७३५ ॥
15.736
ग्रस्तां पीठेन मुक्त्यर्थं नवरन्ध्रकृतां पुरा ।
स्वमन्त्रेण तु तत्रापि प्रतिष्ठासीति पाठयेत् ॥ ७३६ ॥
15.737
प्रागादौ प्राभवेनाथ पञ्चकं पञ्चकं न्यसेत् ।
शिलावटेषु द्रव्याणां तत्र वज्रं च हाटकम् ॥ ७३७ ॥
15.738
हरितालमुशीरं च ब्रीहयो दक्षिणे त्वथ ।
इन्द्रनीलमयश्चैव कासीसं चन्दनं तिलाः ॥ ७३८ ॥
15.739
मुक्ताफलं च रजतं पारदं चाप्यदिक् तथा ।
सहोशीराश्च वै मुद्गाः पझरागमथोत्तरे ॥ ७३९ ॥
15.740
कांस्यं च राजपाषाण राजेन्द्रं चणकैः सह ।
विंशकं विनय्सेन्मध्ये पूर्वमेव ततो बहिः ॥ ७४० ॥
15.741
विदिक्ष्वप्यययोगेन त्वेवमन्यत् पृथक् पृथक् ।
लोहं वैडूर्यपूर्वं तु चक्राङ्कं चाभ्रकं तथा ॥ ७४१ ॥
15.742
षाष्टिकं त्वीशदिग्वायोः पुष्यरागो हरीतका ।
गैरिकं शारिकात्रैव मसूराण्यथ यातुदिक् ॥ ७४२ ॥
15.743
महानीलं च वङ्गं च तथा पाषाणमाक्षिकम् ।
यबाः सागरुकाश्चैव आग्नेय्यां स्फटिकं तथा ॥ ७४३ ॥
15.744
ताम्रं मनश्शिला चैव गोधूमाः शङ्खपुष्पिकाः ।
मध्ये सर्वाणि तदनु ततो गर्तगणं तु तत् ॥ ७४४ ॥
15.745
लेपैराच्छादितं कृत्वा साङ्गं मन्त्रं पदे पदे ।
पूजयित्वा यजुर्वेदांश्चमषट्कांश्च पाठयेत् ॥ ७४५ ॥
15.746
तदूर्ध्वे विन्यसेत् पीठं तच्छ्वभ्रे विनिवेश्य च ।
अष्टलोहमयं चक्रं तदूर्ध्वे तु महामते ॥ ७४६ ॥
15.747
द्वादशाख्याविशेषोक्त आधारो यस्य यः स्वकः ।
हैमं तदूर्ध्वे कमलं तज्जं वा ताम्ररमेव वा ॥ ७४७ ॥
15.748
यथाक्रमस्थितं ह्येतत् पञ्चकं चतुरात्मनि ।
न्यसेदनन्तं चक्रस्य मीनकूर्मौ तु तस्य वै ॥ ७४८ ॥
15.749
कूर्मानन्तौ तु मीनस्य मीनानन्तौ तु तस्य च ।
सर्वस्य विहितं पझं तस्यानन्तं तु विन्यसेत् ॥ ७४९ ॥
15.750
लक्ष्म्यादीनां च शक्तीनां चक्रं स्थापनकर्मणि ।
न्यस्य पूर्णान्तिकं कृत्वा कर्मण्यत्र च तर्पणम् ॥ ७५० ॥
15.751
मण्डपे तु खगेशस्य एवमेव समाचरेत् ।
सह मूर्तिधरैः प्राग्वत् कार्या दर्भोदकक्रिया ॥ ७५१ ॥
15.752
अथ विध्यन्तरं वक्ष्ये समाकर्णय साम्प्रतम् ।
पुरैव संस्कृतां विप्र न्यसेद्ब्रह्नशिलां ततः ॥ ७५२ ॥
15.753
किञ्चित्पीठतलान्न्यूनां समां श्लक्ष्णां दृढां द्विज ।
कृत्वा नवपदां पूर्वं पझं तस्याः पदे पदे ॥ ७५३ ॥
15.754
विलिख्य रेखया सम्यक् खनेत् सर्वेषु कर्णिकाम् ।
गर्भमध्ये शिलामानबाहुव्यायामयोः खनेत् ॥ ७५४ ॥
15.755
तत्पूर्वसूत्रमार्गेण संचाल्योत्तरदिङ्नयेत् ।
श्वभ्रं तत्रापि मद्ये तु शुभं कुर्यात् षडङ्गुलम् ॥ ७५५ ॥
15.756
तस्मिंस्तु रत्नसंपूर्णं हेमजं वाथ ताभ्रजम् ।
चतुरङ्गुलमात्रं तु कलशं कम्बुरूपिणम् ॥ ७५६ ॥
15.757
हृन्मन्त्रेण तु संमन्त्र्य गायत्र्या विनिवेश्य च ।
सापिधानं तु तं कृत्वा सुधालेपं तथोपरि ॥ ७५७ ॥
15.758
दत्वा ब्रह्नशिलां न्यस्येत् प्राङ्नन्त्रपरिभाविताम् ।
व्यापकत्वं समालम्ब्य स्वयमेव तथा गुरुः ॥ ७५८ ॥
15.759
तां शिलां व्यापिकां ध्यायेदाधाराधेयविग्रहाम् ।
तत्र सर्वाध्वगन्यासं मूलमन्त्रेण भावयेत् ॥ ७५९ ॥
15.760
एवं तत्सन्निधिं कृत्वा पश्चात्तदुपरि द्विज ।
न्यासं रत्नादिकं कुर्याद्यथा तदवधारय ॥ ७६० ॥
15.761
हैममग्निं तथानन्तं राजतं हेमजां धराम् ।
अष्टलोहमयं पझं मध्ये ब्रह्नशिलोपरि ॥ ७६१ ॥
15.762
प्राच्यादौ पझगर्भेषु क्रमादीशानगोचरम् ।
वज्रं च सूर्यकान्तं च इन्द्रनीलं तथैव च ॥ ७६२ ॥
15.763
महानीलं मुनिश्रेष्ठ मुक्ताफलमतः परम् ।
पुष्यरागं ततश्चैव पझरागमतः परम् ॥ ७६३ ॥
15.764
ऐशान्ये न्यस्य वैडूर्यं मध्यतः स्फटिकम् न्यसेत् ।
प्रागादौ रजतं ताम्रं त्रपु वङ्कं च रीतिकम् ॥ ७६४ ॥
15.765
लोहं तथायसं कांस्यं मध्ये हेमं निवेश्य च ।
तालं मनश्शिलां छिन्नपिष्टकं कुष्ठमेव च ॥ ७६५ ॥
15.766
स्रोतोञ्जनं तु दरदं सौराष्ट्री हेमगैरिके ।
मद्ये तु राजपाषाणं पारदं चापि सर्वतः ॥ ७६६ ॥
15.767
गोधूमांश्च यवान् वन्यान् मुद्गमाषांस्तथैव च ।
चणकान् मुनिशार्दूल कुलुत्थं च मसूरकम् ॥ ७६७ ॥
15.768
क्रमादष्टासु विन्यस्य मध्ये सिद्धार्थकांस्तिलान् ।
ह्रीबेरं रजनीं मांसीं सहदेवीं वचां तथा ॥ ७६८ ॥
15.769
विण्णुक्रान्तां बलां मोटां श्यामाकं शङ्खपुष्पिकाम् ।
प्रागादौ मद्यपर्यन्तं विनय्सेन्मूलसन्ततिम् ॥ ७६९ ॥
15.770
रत्नानामप्यलाभे तु शस्तं मुक्ताफलं भवेत् ।
लोहानामप्यभावे तु सुवर्णं शस्यते परम् ॥ ७७० ॥
15.771
धातूनामप्यलाभे तु हरितालं विशिष्यते ।
अलाभे सर्वबीजानां शालिबीजं प्रशश्यते ॥ ७७१ ॥
15.772
अलाभे सर्ववस्तूनां हेमं सर्वत्र विन्यसेत् ।
तदभावे तु रजतं न्यसेन्मुक्ताफलानि वा ॥ ७७२ ॥
15.773
घृतेन पयसा चाथ भावितेन पुरैव तु ।
प्रदद्याल्लेपनं विप्र सर्वगर्तेषु चैव हि ॥ ७७३ ॥
15.774
अहतं सुसितं पश्चात्तत्रोपरि दुकूलकम् ।
अन्तः श्लक्ष्णं सुधालेपं दत्वा पीठं तु विन्यसेत् ॥ ७७४ ॥
15.775
सन्धाय पूर्ववत्तच्च शिलया ब्रह्नसत्तम ।
पीठश्वभ्रेऽथ विन्यस्य सौवर्णं गारुडं महत् ॥ ७७५ ॥
15.776
क्षीरं दधिघृतं लाजान्मधुपुष्पफलानि च ।
सर्वगन्धानि विप्रेन्द्र सर्वौषधियुतानि च ॥ ७७६ ॥
15.777
भावयेत् पूर्ववत् पीठं धर्माद्यैरखिलैर्युतम् ।
चिदासनमयीं व्याप्तिं पुनस्तत्रोपरि न्यसेत् ॥ ७७७ ॥
15.778
हृदा तु विष्णुगायत्र्या एकैकमभिमन्त्र्य च ।
विनय्स्य कुर्याद्धवनं यस्मिन् यस्मिंस्तु कर्मणि ॥ ७७८ ॥
15.779
पीठन्यासावधिं यावत्ततः पूर्णां जुहेद्गुरुः ।
चतुर्गुणितसूत्रेण वेष्टयेद्देवमन्दिरम् ॥ ७७९ ॥
15.780
च्छादयेन्नववस्त्रेण तथा वै दर्भमालया ।
ततस्तु मूर्तिपैः सार्धं प्रविशेद्यागमण्डपम् ॥ ७८० ॥
15.781
प्रतीक्षेल्लग्नकालं तु यावत् कालं न याति च ।
तावद्विनोदैर्होमैश्च हास्यैः पाठैश्च संक्षिपेत् ॥ ७८१ ॥
15.782
प्राप्ते लग्नोदये विप्र शयनस्थं प्रबोधयेत् ।
अर्घ्यालभनमाल्याद्यैरर्चयित्वा त्विमं पठेत् ॥ ७८२ ॥
15.783
मन्त्रात्मन् रूपमात्मीयमाग्नेयमुपसंहर ।
समाश्रयस्व सौम्यत्वं स्थित्यर्थं परमेश्वर ॥ ७८३ ॥
15.784
नमस्तेस्तु हृषीकेश उत्तिष्ठ परमेश्वर ।
मदनुग्रहहेत्वर्थं पीठभूमिं समाक्रम ॥ ७८४ ॥
15.785
उद्धृत्य हृदयेनाथ त्यक्तनिद्रं च मन्त्रपम् ।
उत्थाप्य मूर्तिमन्त्रेण सहमूर्तिधरैर्बलात् ॥ ७८५ ॥
15.786
कुम्भं समुद्धरेत् सास्त्रं स्वकुण्डनिकटे स्थितम् ।
उद्धरेयुर्दिशाहोमकर्तारो मड्गलैः सह ॥ ७८६ ॥
15.787
अष्टौ विद्येश्वरान् कुम्भानाचार्यः पुरतो व्रजेत् ।
शलाकामात्रयाऽच्छिन्नधारया कुम्भमुद्वहन् ॥ ७८७ ॥
15.788
यद्वा प्रक्षिपमाणस्तु रत्नांश्च विविधान् बहून् ।
नानाविधैस्तु कुसुमैर्लाजाद्यान् मिश्रितान् बहून् ॥ ७८८ ॥
15.789
प्रतिमामुद्वहन्तो ये मूर्तिधारास्त्वनन्तरम् ।
अन्ये यथा न गच्छेयुरन्तराचार्यबिम्बयोः ॥ ७८९ ॥
15.790
अष्टकुम्भधराश्चान्ये ये च मङ्गलधारकाः ।
परितस्तेऽपि गच्छेयुः पठन्तः शाकुनं तथा ॥ ७९० ॥
15.791
वाग्यतो यजमानस्तु कुशपाणिः प्रणामवान् ।
तेषां वै पृष्ठतस्त्वन्ये गच्छेयुः परिचारकाः ॥ ७९१ ॥
15.792
तोरणेन च निष्क्रम्य प्रदक्षिणचतुष्टयम् ।
कुर्यात् प्रासादपीठस्य द्वाराग्रे सन्निरोध्य च ॥ ७९२ ॥
15.793
पाद्यार्घ्याचमनं दत्वा हृन्मन्त्रेण प्रवेशयेत् ।
शाखाद्यमस्पृशन्तं च पाठयेत्तद्विदस्ततः ॥ ७९३ ॥
15.794
चतुश्चक्रेति तदनु पुरमेकादशेति यत् ।
वर्माभिमन्त्रितेनाथ दुकूलेन सितेन च ॥ ७९४ ॥
15.795
पादाम्बुरुहनालं प्राक् शिखामन्त्रेण वेष्टयेत् ।
अग्नीषोमऔ समीकृत्य प्रणवाद्यन्तकेन नु ॥ ७९५ ॥
15.796
मूलमन्त्रेण पीठोर्ध्वे बिम्बं संस्थापयेत् स्थिरम् ।
द्वारमध्यं न सन्त्याज्यं देवस्थापनकर्मणि ॥ ७९६ ॥
15.797
न ततश्चाग्रतः स्थाप्यं न पार्श्वे न च पृष्ठतः ।
वामतो मारुतं पश्चात् सन्त्यजेद्देशिकोत्तमः ॥ ७९७ ॥
15.798
प्रतिष्ठालिङ्गशब्दौ च द्वौ मन्त्रौ पाठयेत् क्रमात् ।
शान्तं ब्रह्नमयं रूपं स्वकं समवलम्ब्य च ॥ ७९८ ॥
15.799
यत्रापि केवले ब्राह्ने स्थापनं समुदीरितम् ।
तत्रापि वामतः किञ्चिद्दिव्यभागं समाश्रयेत् ॥ ७९९ ॥
15.800
यतो हितार्थं सर्वेषां निर्गतः षड्गुणात्मना ।
अतो ब्रह्नपदादीषत् देवभागे समानयेत् ॥ ८०० ॥
15.801
मोक्षादिफलसिद्धीनां प्राप्तये ह्यविचारतः ।
करस्थमथ मोक्तव्यं कौतुकं हृदयेन तुं ॥ ८०१ ॥
15.802
सर्वाङ्गमर्घ्यं मन्त्रेण दत्वा मूलमनुस्मरेत् ।
हृदास्त्रपरिजप्तेन वज्रालेपेन वै ततः ॥ ८०२ ॥
15.803
बिम्बपीठशिलानां चाप्येकत्वेनाऽचरेत् स्थितिम् ।
ओङ्कारं पूर्वमुच्चार्य गुरुः प्रणतमस्तकः ॥ ८०३ ॥
15.804
आराधितोऽसि भगवन् साधकानां हिताय च ।
त्वयाप्यनुग्रहार्थं च वस्तव्यमिह सर्वदा ॥ ८०४ ॥
15.805
त्वं तिष्ठसि प्रभो यत्र तत्र सिद्धिर्न दूरतः ।
भवेद्वै साधकेन्द्राणामित्युक्तं पुरा त्वया ॥ ८०५ ॥
15.806
तस्माद्ध्रुवः सदा तुष्टः सानुकम्पः परो महान् ।
सदाप्यनुग्रहपरस्तिष्ठस्वाचन्द्रतारकम् ॥ ८०६ ॥
15.807
एवमुक्ता ततो दद्यादर्घ्यं शिरसि पादयोः ।
मूलबिम्बे मुनिश्रेष्ठ मृदादिद्रव्यनिर्मिते ॥ ८०७ ॥
15.808
कर्मार्चायां विष्टरे वा दर्भमञ्जरिजे द्विज ।
प्रवोधनं च वै कर्म तथा प्रादक्षिणक्रियाम् ॥ ८०८ ॥
15.809
प्रासादे सम्प्रवेशं च कृत्वान्यत् सर्वमाचरेत् ।
मूलमिम्बे क्रमेणैव देशिकेन्द्रः समाहितः ॥ ८०९ ॥
15.810
कुर्यात्ततोऽनुवेधं च आधाराच्च शिखावधि ।
सामर्थ्यशक्तिसूत्रेण ऐश्वरेण क्रमेण तु ॥ ८१० ॥
15.811
सति येन विलुप्तेऽपि बिम्बाद्यैरयनस्य च ।
न जहाति च मन्त्रौघस्तस्य कालान्तरेण च ॥ ८११ ॥
15.812
अप्रबुद्धः प्रबुद्धो वा तस्मिन्नायतने पुमान् ।
निवेशयति यो बिम्बमपरद्रव्यजं तु वै ॥ ८१२ ॥
15.813
तद्विज्ञानानुविद्धं च जायते समनन्तरम् ।
एवं विधस्य स्थानस्य त्रैलोक्येऽस्मिन् सहामते ॥ ८१३ ॥
15.814
प्रतीत्यायतनत्वेन भवत्याचन्द्रतारकी ।
मूलमन्त्रं तु वै ध्यात्वा संशान्तब्रह्नलक्षणम् ॥ ८१४ ॥
15.815
आधारादिध्वजाग्रान्तं व्याप्तं तेनाखिलं स्मरेत् ।
इति सामान्यसन्धानं कृत्वाऽध्वव्याप्तिमाचरेत् ॥ ८१५ ॥
15.816
भुवनाध्वमयीं व्याप्तिं कुर्यात् प्रासादपीठगाम् ।
अनुविद्धां पदाध्वाद्यैरन्यैः सत्तास्वरूपकैः ॥ ८१६ ॥
15.817
परस्परं हि सर्वत्र व्यापकैः परलक्षणैः ।
भूलोकांशं विना ब्रह्नन् तथान्यैरुज्झितं हि तत् ॥ ८१७ ॥
15.818
रजस्तमोमहत्वाच्च ईषत् सत्वगुणात्तु वै ।
सत्वैकगुणरूपाणामन्येषामत एव हि ॥ ८१८ ॥
15.819
भूर्लोकश्च पृथक्संस्थः पदाद्यध्वगणस्य च ।
कूर्मे ब्रह्नादिसंज्ञायां शिलायां च पदत्रयम् ॥ ८१९ ॥
15.820
न्यस्तव्यं जाग्रदाद्यन्यद्रत्नन्यासे कृते सति ।
तुर्यब्रह्नसमोपेतं मन्त्राध्वा प्रतिमासने ॥ ८२० ॥
15.821
नाभ्यन्तं पादतो न्यस्य तत्वाध्वा द्विजसत्तम ।
आनाभेर्मूर्धपर्यन्तं कलाध्वा भावयेत्ततः ॥ ८२१ ॥
15.822
तद्ब्रह्नरन्ध्रकमले वर्णब्रह्नपदक्षितौ ।
कर्णिकायां परं ब्रह्न सामान्यं शाश्वतं विभुम् ॥ ८२२ ॥
15.823
एवं कृत्वाध्वकीं व्याप्तिं मूलमन्त्रं तु भावयेत् ।
स्थूलसूक्ष्मपरत्वेन स्थूलं षोढा शिलान्तगम् ॥ ८२३ ॥
15.824
पिंण्डिकायांतथा सूक्ष्मं तत्परं बिंबविग्रहे ।
विन्यासं पीठमूलेऽथ देवतानां समाचरेत् ॥ ८२४ ॥
15.825
भवोपकरणीयानां एतासां तु महामते ।
विन्यासं मन्त्रबिम्बे तु न कदाचित् समाचरेत् ॥ ८२५ ॥
15.826
पीठोर्ध्वे तु मुनिश्रेष्ठ प्रतिष्ठेयं विनैव तु ।
न्यसेद्विभवदेवांस्तु ह्युपर्युपरि पूर्ववत् ॥ ८२६ ॥
15.827
घटोद्देशात् समारब्य परमर्चागतं ततः ।
एवं हि सर्वदेवानां विनिवेशवशात्तु वै ॥ ८२७ ॥
15.828
चिन्तामणिमयो न्यासः कृतो भवति सिद्धिदः ।
तत्वसंस्थापनं कुर्यात् प्रकृतिस्थापनादनु ॥ ८२८ ॥
15.829
विज्ञानानन्दकल्लोलैर्ज्ञेयभासा यथा रवेः ।
अनेकाह्लादजनितैराधारात्तच्छिरोवधि ॥ ८२९ ॥
15.830
पश्येन्मन्त्रमयं बिम्बमनेकाद्भुतविग्रहम् ।
एवं सर्वसमुत्पत्तिस्थानं संकल्पसिद्धिदम् ॥ ८३० ॥
15.831
बिम्बं मन्त्रमयं वृक्षं प्रतिष्ठाप्यामलात्मना ।
तद्विज्ञानमयीं शाखां प्रवरा यतिनोन्नताम् ॥ ८३१ ॥
15.832
अनन्तगगनाक्रान्तां भावयेत् साधको द्विज ।
प्रसृतेन तु वै तस्मादनौपम्यामृतेन तु ॥ ८३२ ॥
15.833
मन्त्रबिम्बमयं वृक्षं सरसं भावयेत् सदा ।
यथा भौमेन तोयेन गगनोत्थेन नारद ॥ ८३३ ॥
15.834
मन्दारपुष्पविटपस्तद्वदेव हि नान्यथा ।
मन्त्रन्यासं ततः कुर्याद्बिम्बस्य च यथाविधि ॥ ८३४ ॥
15.835
सृष्टिसंस्थितिसंहारन्यासं कुर्यात् त्रयं विभोः ।
स्थितेपि च तथासीने शयाने यानगेऽपि च ॥ ८३५ ॥
15.836
एतेष्वपि च सर्वेषु कुर्यान्नयासत्रयं द्विज ।
यद्वा स्थिते स्थितिन्यासमासीने सृष्टिसंज्ञितम् ॥ ८३६ ॥
15.837
शयाने संहृतिन्यासमाचरेद् द्विजसत्तम ।
अङ्गोपाङ्गस्थितिं कुर्यात् स्थानेषु हृदयादिषु ॥ ८३७ ॥
15.838
अन्यानि लाञ्छनादीनि संस्थाप्या गरुडान्तिमम् ।
ततः संपूजयेत्तत्र लययागेन चाखिलम् ॥ ८३८ ॥
15.839
पीठस्थं भोगयागेन मन्त्रचक्रं यजेत् पुनः ।
पीठीयं मन्त्रसंघं च विलोमेनाथ पूजयेत् ॥ ८३९ ॥
15.840
आधारशक्तिपर्यन्तं सृष्टिन्यासेन सत्तम ।
स्वनाम्नि स्वामिशब्दं तु समारोप्य परं तु वा ॥ ८४० ॥
15.841
हरिकेशवपूर्वं तु ततस्तारसमन्वितम् ।
प्रब्रूयुर्मुर्तिपाद्या वैः सुप्रतिष्ठितमस्त्विति ॥ ८४१ ॥
15.842
पुष्पाक्षताञ्जलिं पूर्णं क्षिपमाणाश्च सर्वतः ।
सर्वे वदेयुस्तत्रस्थाः सुप्रतिष्ठितमस्त्विति ॥ ८४२ ॥
15.843
आत्बा हार्षे ति सहवै प्रतिष्ठासीति पाठयेत् ।
विश्वस्य मित्रमित्यादि मन्त्रमेकायनान् द्विज ॥ ८४३ ॥
15.844
ॐ नमोऽस्तु नमश्चातो ऋग्वेदाद्यैस्तु तैः सह ।
ॐ नमो ब्रह्नणेऽभीक्ष्णं जितं ते त्येवमेव हि ॥ ८४४ ॥
15.845
जयशब्दसमोपेतं स्तोत्रं श्रोत्रमनोहरम् ।
देशिकः सह सर्वैस्तु वाग्भिरुच्चाभिरुच्चरेत् ॥ ८४५ ॥
15.846
जीवभूतेन चैतेन विभुना मन्त्रमूर्तिना ।
प्रतिष्ठितेन विप्रेन्द्र विद्धि सर्वं प्रतिष्ठितम् ॥ ८४६ ॥
15.847
पूर्वं कृत्वाधिवासादि मूलबिम्बेन वै सह ।
स्थापयेत् कर्मबिम्बादीन् स्वे स्वे स्थाने यथोदिते ॥ ८४७ ॥
15.848
लक्ष्म्यादीश्च तथा शक्तीः स्थापयेत्तु विधानतः ।
प्रासादेऽपि च पूर्वोक्त लोकाद्यं स्थापयेत् क्रमात् ॥ ८४८ ॥
15.849
स्थितेपि तन्मुहूर्तांशे स्थापनीयश्च पक्षिराट् ।
स्नातोऽनुलिप्तो मन्त्रेण स्वेन यः संस्कृतः पुरा ॥ ८४९ ॥
15.850
ज्ञशक्त्या सह बिम्बेन यस्माद्भिन्नेषु वस्तुषु ।
बिम्बसन्निकटस्थेषु अथवान्यत्र सत्तम ॥ ८५० ॥
15.851
तत्कालमड्गभावत्वं व्रजमानेषु सर्वदा ।
हवनान्तं च निःशेषं ध्यानार्चनपुरस्सरम् ॥ ८५१ ॥
15.852
स्वयमेवानुरूपेण कर्मसामान्यतां व्रजेत् ।
तस्मात्तद्यागभवनादुत्थाप्यादाय बिम्बबत् ॥ ८५२ ॥
15.853
देवं प्रदक्षिणीकृत्य प्राग्वत् संस्थापनापदे ।
एकस्मिन् मद्यरन्ध्रे तु वज्राद्यं पञ्चकं न्यसेत् ॥ ८५३ ॥
15.854
एकमेव तदूर्ध्वेऽथाप्याधारो य उदीरितः ।
प्राग्वन्निवेशनीयश्च तत्पीठेऽध्वा च भौवनः ॥ ८५४ ॥
15.855
भावनीयं शरीरे च विशेषं विज्ञप्तिलक्षणम् ।
पाठयेद्ब्राह्नणांस्तद्वत् सुपर्णोसीतिमन्त्रराट् ॥ ८५५ ॥
15.856
तमेवास्त्रार्चितं कृत्वा त्वथ प्राक् शाङ्करे ततः ।
सोमेशानान्तरे वापि अङ्कणे वापि तत्पदे ॥ ८५६ ॥
15.857
अथवा मूर्तिपीठस्थं भवनाभ्यन्तरेपि च ।
खगोक्तेन विधानेन विष्वक्सेनं निवेश्य च ॥ ८५७ ॥
15.858
द्वारस्थानखिलान् देवांस्तथा चावरणस्थितान् ।
पूर्वोदितान् क्रमेणैव स्थापयेद्देशिकोत्तमः ॥ ८५८ ॥
15.859
संप्रोक्ष्य कुम्भतोयेन यायाद्देवनिकेतनम् ।
कलशैः पृष्ठभागस्थैः स्नापनीयस्ततो विभुः ॥ ८५९ ॥
15.860
सहमूर्तिधरैः सर्वैर्यथा चानुक्रमेण तु ।
सहाघमर्षणेनैव गायत्र्यावर्तितेन तु ॥ ८६० ॥
15.861
प्रागृङ्भयस्तु तदनु चतुर्धावर्तितैः स्वयम् ।
हृदाद्यावर्तितैः षड्भिः यजुर्ज्ञस्तेन सेचयेत् ॥ ८६१ ॥
15.862
भूयः स्वयं तथा कुम्भैः सामवित् स्नपयेत्ततः ।
षड्भिरन्यैः स्वयं पश्चात्तेनैवाथर्वणस्ततः ॥ ८६२ ॥
15.863
पवित्रावर्तितैरेवं कलशैरन्तरान्तरा ।
सह वैकायनीयैस्तु स्नपनीयमनन्तरम् ॥ ८६३ ॥
15.864
चतुर्मूर्तिमयैर्मन्त्रैर्बहुशः परिमभावितैः ।
स्त्रापयेत् कलशेनाथ शेषमादाय वै घटम् ॥ ८६४ ॥
15.865
तच्छतावर्तितं कृत्वा समूलेनाद्य मूर्तिना ।
सार्घ्यं वै देवदेवस्य मूर्ध्नि चोत्कीर्य पाठयेत् ॥ ८६५ ॥
15.866
जितन्त इति वै सर्वांस्ततश्चास्त्रोदकेन तु ।
प्रासादं शोधयित्वा तु गत्वा वै कुम्भसन्निधिम् ॥ ८६६ ॥
15.867
तत्र संपूज्य देवेशं पूर्वोक्तेन क्रमेण तु ।
मण्डले पूजयित्वाथ प्रयायाद्बिम्बसन्निधिम् ॥ ८६७ ॥
15.868
तत्र संपूज्येद्देवं स्नानवर्जं विशेषतः ।
सांस्पर्शिकैरासनाद्यैर्विविधैरौपचारिकैः ॥ ८६८ ॥
15.869
हृदयङ्गमसंज्ञैश्च पायसाद्यैश्चतुर्विधैः ।
अन्नैः प्रबूतैरन्यैस्तु भक्ष्यभोज्यादिभिस्तथा ॥ ८६९ ॥
15.870
सम्प्रदानावसानान्तं क्रमात् कृत्वा द्विजोत्तम ।
सदक्षिणं विशेषेण गुरौ मूर्तिधरेषु च ॥ ८७० ॥
15.871
समित्सप्तकपूर्वं तु वह्नौ सन्तर्प्य वै क्रमात् ।
देवं प्रणम्य विज्ञाप्य कर्मणा मनसा गिरा ॥ ८७१ ॥
15.872
त्वमर्चान्तर्गतो देव मया यच्चानलादिषु ।
नीतोऽसि चाभिमुख्यं तु क्षन्तव्यं तन्ममाच्युत ॥ ८७२ ॥
15.873
एवं प्रणम्य विज्ञाप्य क्षान्त्वा निष्क्रम्य संमुखम् ।
आमूलाद् ध्वजपर्यन्तं प्रासादो यः पुरा कृतः ॥ ८७३ ॥
15.874
देवं प्रदक्षिणीकृत्य अष्टाङ्गेन प्रणम्य च ।
गृहीत्वा चार्घ्यपात्रं तु यायाद्देवगृहाद्बहिः ॥ ८७४ ॥
15.875
स्नानादिना समभ्यर्च्य वाहनं भगवन्मयम् ।
पूर्वोदितानां द्वार्स्थानां दिक्पतीनां तथैव च ॥ ८७५ ॥
15.876
पूर्ववत्तु बलिं दद्यात् क्रमेण च ततः परम् ।
प्रभूतानां च भूतानां बलिदानं समा रभेत् ॥ ८७६ ॥
15.877
गृह्णन्तु भगवद्भक्ता भूताः प्रासादबाह्यगाः ।
बलीरत्र पवित्राश्च तेषामनुचराश्च ये ॥ ८७७ ॥
15.878
एवं क्रमाद्बलिं दत्त्वा सर्वेषां पाठयेत्ततः ।
ऋग्विद्धिरण्यगर्भेति यादेवास्त्विति वै क्रमात् ॥ ८७८ ॥
15.879
सामज्ञश्चान्नसामानि सह धेनुमयेन च ।
सर्वेष्वावरणेष्वेवं बल्यर्थं तु प्रदक्षिणम् ॥ ८७९ ॥
15.880
कृत्वा तु देशिकः पश्चादाचम्य भवनं विशेत् ।
न्यूनातिरिक्तशान्त्यर्थं पूर्णान्तं जुहुयाच्छतम् ॥ ८८० ॥
15.881
हृन्मन्त्रेण तु सास्त्रेण दत्त्वा पूर्णाहुतिं ततः ।
जपेदाद्यन्तसंरुद्धं चक्रमन्त्रेण तद्बहिः ॥ ८८१ ॥
15.882
मण्डले चाग्रतोर्चायाः सर्वच्छिद्रप्रपूरणे ।
ततः संश्रावयेद्देवं कृताञ्जलिपुटः स्थितः ॥ ८८२ ॥
15.883
प्रासादद्वारदेशस्थो भूमौ कृत्वा तु जानुनी ।
त्वच्छक्त्या प्रेरितेनाद्य यदिदं वै मया कृतम् ॥ ८८३ ॥
15.884
तेन चैवाभिषेक्तव्यः कर्ता कलशवारिणा ।
दद्याद्दिनचतुष्कं तु होमदानपुरस्सरम् ॥ ८८४ ॥
15.885
प्रारम्भदिनदानेन हवनेनार्चितेन तु ।
लोकत्रयं तु भूराद्यं तृप्तिमभ्येति चाखिलम् ॥ ८८५ ॥
15.886
चतुर्भिर्महदाद्यं तु अतो दिनचतुष्टयम् ।
कलशे मण्डलेऽग्नौ च प्राग्वत् कुर्यात् समर्चनम् ॥ ८८६ ॥
15.887
भूराद्यं सत्यलोकान्तं सप्तकं तृप्तिमेति च ।
सप्तकेन दिनानां तु दानहोमार्चनादिना ॥ ८८७ ॥
15.888
प्राप्तेऽहनि चतुर्थे तु अपनीय स्रगादिकम् ।
कलशान्मण्डलाद्बिम्बात् ततो यागगृहेऽर्चनम् ॥ ८८८ ॥
15.889
होमावसानं मन्त्रस्य कृत्वा पूर्वं यथा पुरा ।
आचम्य च बलिं दत्वा यायाद्देवगृहं ततः ॥ ८८९ ॥
15.890
तत्रासनादिकैरिष्ट्वा स्नानान्तैः पूर्ववत् प्रभुम् ।
अपनीताम्बरैः कुम्भैर्धान्यपीठोपरि स्थितैः ॥ ८९० ॥
15.891
हृन्मन्त्रपूजितैर्भूयः सलिलेन प्रपूरितैः ।
सहमूर्तिधरैः प्राग्वदन्तरान्तरयोगतः ॥ ८९१ ॥
15.892
कार्यं वै स्नानकर्मादि विधिदृष्टेन कर्मणा ।
निरोदकेऽथ प्रासादे पुनराराध्य पूर्ववत् ॥ ८९२ ॥
15.893
भोगैरासनपूर्वैस्तु संप्रदानान्तमच्युतम् ।
मुद्रां बध्वा जपेन्मन्त्रं स्तुत्वा क्षान्त्वा बहिर्ब्रजेत् ॥ ८९३ ॥
15.894
शतं सहस्रं साष्टं वा जुहुयान्मन्त्रराट् स्वयम् ।
साङ्गं सपरिवारं च संहितोच्चारयुक्तितः ॥ ८९४ ॥
15.895
मूर्तिपैः प्रणवाद्याभिर्गायत्रीभिः शतं शतम् ।
एकायनैरभिज्ञाभिः स्वकीयाभिश्च तत्समम् ॥ ८९५ ॥
15.896
प्रदापयेत्ततः पूर्णामृग्वेदाद्यांस्तु मूर्तिपान् ।
एकायनांस्तदन्ते तु क्रमात्तान् पाठयेत्ततः ॥ ८९६ ॥
15.897
पूर्णात्पूर्णेति वा मन्त्रमाद्यात् पूर्णमसीति यत् ।
सनमस्केन मन्त्रेण स्वयं साङ्गेन निक्षिपेत् ॥ ८९७ ॥
15.898
बलिभिस्तु ततःसर्वान् भूतपूर्वां तु तर्पयेत् ।
प्रविश्याचम्य तदनु क्षान्त्वा देवं तु कुम्भगम् ॥ ८९८ ॥
15.899
पूर्ववन्मण्डलस्थं तु कुण्डस्थं तदनन्तरम् ।
विष्वक्सेनं यजेत् प्राग्वदिष्टशिष्टैः क्रमेण तु ॥ ८९९ ॥
15.900
भूषयेद्गुरुपूर्वांस्तु मूर्तिंपान् कटकादिकैः ।
गुरोर्वा गुरुपुत्रस्य यागद्रव्यं निवेदयेत् ॥ ९०० ॥
15.901
स्वयं वाथ प्रतिष्ठानमाचार्यस्त्वाचरेद् द्विज ।
ततो विभजनीयं तन्मूर्तिपादिष्वनुक्रमात् ॥ ९०१ ॥
15.902
एवं सर्वेषु यागेषु कर्तव्यं देशिकेन तु ।
सिद्धेरभीप्सितार्थं च स्नायादवभृथेन च ॥ ९०२ ॥
15.903
इत्येतत् साधकस्योक्तं मन्त्राराधनकाङ्क्षिणः ।
मन्त्रमूर्तिप्रतिष्ठानं यत्रस्थः सिद्धिमाप्नुयात् ॥ ९०३ ॥
15.904
स्थापने यजमानस्य फलं वक्ष्ये समासतः ।
आदेवालयभूभागाद् ध्वजान्ताच्चापि मण्डपात् ॥ ९०४ ॥
15.905
सर्वोपकरणोपेताम् सर्वेष्वावरणेषु च ।
समन्तात् परमाणूनां सर्वेषां द्विजसत्तम ॥ ९०५ ॥
15.906
यावती जायते संख्या तावत् कर्ता स्मावसेत् ।
भोगभुग्विष्णुलोके च यात्यन्ते परमं पदम् ॥ ९०६ ॥
15.907
कर्ता वै ब्राह्नणो विप्र सर्वविद्याधिपो भवेत् ।
क्षत्रियो यजमानस्तु सर्वदेशाधिपो भवेत् ॥ ९०७ ॥
15.908
वैश्यस्तु यजमानः स्याद्धनधान्यसमृद्धिमान् ।
शूद्रस्तु यजमानः स्यान्मोदते बन्धुभिः सह ॥ ९०८ ॥
15.909
स जन्मना च ज्ञानेन एवमेव भवेत् स्त्रियः ।
पुत्रार्थी पुत्रमाप्नोति राज्यार्थी राज्यमाप्नुयात् ॥ ९०९ ॥
15.910
यद्यत् कामयते कर्ता तत्तत् सर्वं समाप्नुयात् ।
अकामानां तु भक्तानां भक्तिरव्यभिचारिणी ॥ ९१० ॥
15.911
यच्चापि शाश्वतं ज्ञानं भवेत्तद्धर्मणा सह ।
स्वयं कृतानां बिम्बानां स्थापनं संप्रकीर्तितम् ॥ ९११ ॥
15.912
एवं बिम्बं प्रतिष्ठाप्य प्रासादे स्वगृहे तु वा ।
ततः प्रभृति तामर्चां पूजयेत् प्रतिवासरम् ॥ ९१२ ॥
15.913
जीर्णोद्धारावधिर्यावत्तावत्कालं विधानतः ।
प्रमादाद्बुद्धिपूर्वाद्वा पूजालोपं न कारयेत् ॥ ९१३ ॥
15.914
तत्तद्बिम्बस्य विहितं कर्म वापि न लोपयेत् ।
कर्मणां स्नपनादीनां यत् कर्म विहितं द्विज ॥ ९१४ ॥
15.915
यस्मिन् वै कर्मबिम्बे तु तत्रैव तु समाचरेत् ।
तत्तत्कर्मार्थबिम्बे तु विभवे सहिते सति ॥ ९१५ ॥
15.916
तत्तत्कर्मविशेषाणां व्यत्ययं न समाचरेत् ।
असन्निधाने तेषां तु राष्ट्रभङ्गादिदोषतः ॥ ९१६ ॥
15.917
तद्देशकालानुगुणं तत्र सन्निहितं भवेत् ।
यद्यत्कर्मार्थबिम्बं तु तत्र सर्वं समाचरेत् ॥ ९१७ ॥
15.918
स्नपनद्वितयं चैव नित्यनैमित्तिकात्मकम् ।
नित्योत्सवविधानं च तथा नैमित्तिकोत्सवम् ॥ ९१८ ॥
15.919
तीर्थयात्राविधानं च एवं कर्माणि पञ्च वै ।
शयनोत्थापनं कर्म तदा कूर्चे समाचरेत् ॥ ९१९ ॥
15.920
यद्वा शोभार्थबिम्बे तु पूज्यमाने प्रतिष्ठिते ।
एवं कथितमेकस्मिन् बिम्बे सन्निहिते सति ॥ ९२० ॥
15.921
बिम्बद्वये सन्निहिते तत्तत्कर्मविभेदतः ।
कृत्वा तदन्यत् सकलं यथायोगं समाचरेत् ॥ ९२१ ॥
15.922
एवमभ्यूह्य कर्तव्यं तत्तद्विम्बे प्रकाशिते ।
सर्वेषु कर्मबिम्बेषु तत्र सन्निहितेषु वै ॥ ९२२ ॥
15.923
तदा तेषां तु बिम्बानां व्यत्ययं न समाचरेत् ।
तदा शोभार्थबिम्बे तु प्राप्त उत्कृष्टलोहजे ॥ ९२३ ॥
15.924
वर्णऐर्मृत्स्थापिते तत्र खकुलोद्धारणाय च ।
अड्गबिम्बोदितं कर्म न कदाचित् समाचरेत् ॥ ९२४ ॥
15.925
यद्याचरेत् प्रमादेन राजा राष्ट्रं विनश्यति ।
विशेषेण स्वयंव्यक्ते दिव्ये सैद्धेऽपि चार्षके ॥ ९२५ ॥
15.926
स्थाने तु कर्मबिम्बानां व्यत्ययं न समाचरेत् ।
तानि बिम्बानि विप्रेन्द्र यादृशानि भवन्ति हि ॥ ९२६ ॥
15.927
लक्षणैश्च प्रमाणैश्च युक्तानि रहितानि वा ।
उत्कृष्टलोहजातानि अपकृष्टोत्थितानि वा ॥ ९२७ ॥
15.928
तादृशानि भवन्त्येव न कुर्यादन्यथा बुधः ।
न लक्षणान्तरं कुर्यान्न प्रमाणान्तरं तथा ॥ ९२८ ॥
15.929
न तु द्रव्यान्तरं चैव न तु कुर्यात् क्रियान्तरम् ।
मन्त्रान्तरं न युञ्जीत सर्वं कुर्याद्यथापुरम् ॥ ९२९ ॥
15.930
कुर्याच्चेल्लक्षणादीनां विपर्यासं महामते ।
राज्ञो राष्ट्रस्य नाशः स्यात् तत्रापि सहसन्ततेः ॥ ९३० ॥
15.931
न कुर्यान्मूलबिम्बेऽपि लक्षणादिविपर्ययम् ।
तस्मात् पौराणिके स्थाने न विपर्यासमाचरेत् ॥ ९३१ ॥
15.932
एवं स्थाने मानुषेऽपि लक्षणादिविपर्ययम् ।
जीर्णाख्यस्य विधेः पूर्वं न कदाचित् समाचरेत् ॥ ९३२ ॥
15.933
स्वयंव्यक्तादिके वापि स्थाने मनुजनिर्मिते ।
अजीर्णे नाङ्गहीने वा धाम्नि बिम्बेऽथवा द्विज ॥ ९३३ ॥
15.934
प्राकस्थितस्योपमर्देन कुर्याद्धामान्तरं न च ।
न तु बिम्बान्तरं कुर्याद्व्यामोहाद्यदि कल्पयेत् ॥ ९३४ ॥
15.935
आत्महीनो भवेत् कर्ता राजा च सहसन्ततिः ।
महद्भयं भवेत्तस्य राष्ट्रस्य सनृपस्य च ॥ ९३५ ॥
15.936
अथ जीर्णविधानं तु समासात् कथ्यतेऽधुना ।
मनुष्यनिर्मिते स्थाने तावज्जीर्णविधिं श्रृणु ॥ ९३६ ॥
15.937
धातुमृच्छैलदारूत्थो वस्त्रादिष्ववतारितः ।
यो यो भगवदाकारस्तस्य तस्य महामुने ॥ ९३७ ॥
15.938
जीर्णत्वे वाङ्गभङ्गे वा क्षते वा तत्र तत्र च ।
सन्धानयोग्यं सन्धेयमयोग्यं तु परित्यजेत् ॥ ९३८ ॥
15.939
परित्यक्तं तु तद्विम्बं धातुद्रव्योद्भवं विना ।
जलाशये ह्यगाधे वा समुद्रे विधिना क्षिपेत् ॥ ९३९ ॥
15.940
भूमौ वा निखनेद्विप्र देशकालानुरूपतः ।
विधिवत् प्रतिपत्तौ तु जातायामादितोन्त्यतः ॥ ९४० ॥
15.941
अङ्गभङ्गादिदोषेषु सम्यग्भूतेषु सत्स्वपि ।
सति सन्धानयोग्यत्वे न कदाचित् परित्यजेत् ॥ ९४१ ॥
15.942
तस्य त्यागो विनाशश्च ह्युपर्युपरि बाधकृत् ।
बिम्बादीनां तु बृहतां परित्यागो न युज्यते ॥ ९४२ ॥
15.943
उत्कृष्टानां हेम तारताम्रजानां विशेषतः ।
नोचितः स्यात् परित्यागस्तस्मात् सन्धानमाचरेत् ॥ ९४३ ॥
15.944
प्रयत्नेनाप्ययोग्यत्वे परित्यागं समाचरेत् ।
द्रव्येण तज्जातीयेन कुर्याद्बिम्बान्तरं ततः ॥ ९४४ ॥
15.945
धातुद्रव्यमयोद्भूतैः पूर्वलोहैर्द्विजोत्तम ।
तैस्तैरमूर्ततां नीतैस्तत्तज्जातीयलोहजैः ॥ ९४५ ॥
15.946
तत्तज्जातीयलोहैर्वा समुत्कृष्टैर्महामते ।
अथवा राजतं बिम्बं हैमं चोत्कृष्टताम्रजम् ॥ ९४६ ॥
15.947
संदध्यात्तु प्रयत्नेन न कदाचित् परित्यजेत् ।
हीनताम्रमयं यत्तदारकूटमयं तु तत् ॥ ९४७ ॥
15.948
सन्धानकरणायोग्यं तद्द्वयं तु परित्यजेत् ।
परित्यक्तं तु तद्बिम्बं क्षिपेत् पूर्वेण वर्त्मना ॥ ९४८ ॥
15.949
ततो बिम्बान्तरं कुर्याद्राजतं वा सुवर्णजम् ।
उत्कृष्टतत्तज्जातीयद्रव्यजं वा महामते ॥ ९४९ ॥
15.950
कर्मबिम्बेषु सर्वेषु ह्येवमेव तु कारयेत् ।
मृत्काष्ठोपलजे बिम्बे तथा रत्नमयेऽपि च ॥ ९५० ॥
15.951
केनापि हेतुना भग्ने कृत्वा बालगृहादि तत् ।
त्यक्त्वा तदन्यत् संपाद्य बिम्बसंस्थापनं चरेत् ॥ ९५१ ॥
15.952
दिव्यसिद्धादिके स्थाने विशेषमवधारय ।
मृण्मये मूलबिम्बे तु जीर्णे वाथ जलादिभिः ॥ ९५२ ॥
15.953
हीनाङ्गे वा तदा कुर्यात् संधानं तु प्रयत्नतः ।
एवं वर्णविहीनेपि सन्धानं तु समाचरेत् ॥ ९५३ ॥
15.954
मृत्तिकाशूलरज्ज्वादीन्न कदाचित् परित्यजेत् ।
बिम्बे धातुमये जीर्णे सन्दध्यात् स्वर्णपूर्वकैः ॥ ९५४ ॥
15.955
जीर्णे लोहमये बिम्बे सन्दध्यात् काञ्चनेन तु ।
एवं रत्नमये बिम्बे सन्धानं च समाचरेत् ॥ ९५५ ॥
15.956
जीर्णं तु यद्यत् त्याज्यं स्यात् तत्तत् त्यक्त्वा ततः परम् ।
सन्दध्यात्तु ततो विप्र न कुर्यादन्यथा पुनः ॥ ९५६ ॥
15.957
न बालगेहं तद्बिम्बं तत् कर्मापि समाचरेत् ।
नित्यनैमित्तिकाद्येषु वर्तमानेषु कर्मसु ॥ ९५७ ॥
15.958
प्रागुक्तं सकलं कुर्याद्यथावित्तानुसारतः ।
लक्षणादिष्वपि तथा न कुर्यादन्यथा पुनः ॥ ९५८ ॥
15.959
येषु व्यक्तेषु चिह्नानि नाभिव्यक्तानि सत्तम ।
तान्यपि स्वानि चिह्नानि ललाटे वांसपट्टके ॥ ९५९ ॥
15.960
पृष्ठे वाप्यङ्गपट्टे वा पाणिपादतलेषु वा ।
मूर्घ्नि वा दधते तस्मात् तत्र तत्र निरीक्षयेत् ॥ ९६० ॥
15.961
तस्मादलक्षणा व्यक्तिर्विद्यते न कदाचन ।
एवं तदीया विप्राश्च क्षत्रिया वैश्यजातयः ॥ ९६१ ॥
15.962
मौद्गल्याद्यास्तथान्ये च न तच्चिह्नविवर्जिताः ।
भवेयुः सर्वथा तस्माच्चक्रशङ्खगदाम्बुजैः ॥ ९६२ ॥
15.963
लोहैरनलसन्तप्तैस्तत्तन्मन्त्राधिवासितैः ।
पूजितैरर्घ्यगन्धाद्यैरङ्कितव्याः क्षणेन तु ॥ ९६३ ॥
15.964
त्रैविद्या ज्ञानसम्पन्ना यथोक्ताचारनिष्ठिताः ।
विप्राद्यास्तेऽपि शूद्राश्च यदैवं कृतलक्षणाः ॥ ९६४ ॥
15.965
तदा तु योग्या विज्ञेयाः समयश्रवणादिषु ।
शास्त्रोदितासु सर्वासु सामग्रीषु महामते ॥ ९६५ ॥
15.966
यागोपकरणान्येवमर्घ्यपात्रादिकान्यपि ।
संयोज्यानि यथायोगं शङ्खचक्रादिलक्षणैः ॥ ९६६ ॥
15.967
तथा यानासनादीनि विभोः सर्वाणि यत्नतः ।
स्वात्मोपकरणं सर्वमासनादिविवर्जितम् ॥ ९६७ ॥
15.968
अङ्गुलीयकपर्यन्तं भूषणं कटकादिकम् ।
उत्तमाङ्गसमुद्धार्यं सर्वमुष्णीषपूर्वकम् ॥ ९६८ ॥
15.969
चक्रादिलाञ्छितं कुर्यात् तदीयाश्च गवादयः ।
विप्रादिवल्लाञ्छितव्यास्तदीया भूरुहादयः ॥ ९६९ ॥
15.970
लाञ्छितव्या यथायोगं चक्रशङ्खादिलक्षणैः ।
आराधकाद्याः कर्मण्या एवं चक्रादिलाञ्छिताः ॥ ९७० ॥
15.971
देवतान्तरचिह्नैस्तैरकर्मण्यास्तु लाञ्छिताः ।
यत्र वा भगवन्मूर्तौ लाञ्छनं न प्रदृश्यते ॥ ९७१ ॥
15.972
तत्रापि लक्षणन्यासं न कुर्यात् स्वेच्छया द्विज ।
यथास्थितैव सा व्यक्तिः पूज्या व्यापकमन्त्रतः ॥ ९७२ ॥
15.973
तदन्ये लाञ्छितव्याः स्युः सर्वे पूर्वमलाञ्छिताः ।
इति सम्यक् प्रतिष्ठानं देवस्य परिकीर्तितम् ॥ ९७३ ॥
15.974
स्थानसंरक्षणार्थं तु तस्मिन् कालेऽन्यदा तु वा ।
प्रासादाग्रेऽथवा विप्र प्राङ्कणे यत्र कुत्रचित् ॥ ९७४ ॥
15.975
चक्रं संस्थापयेत्तत्र अमूर्तं शिखरोपरि ।
मूर्तमङ्कणदेशे तु षोडशाष्टभुजं तु वा ॥ ९७५ ॥
15.976
अमूर्तं द्वादशारं तु अष्टारं षडरं तु वा ।
शङ्खादीन्यायुधान्येवं विदध्यादङ्कणादिके ॥ ९७६ ॥
15.977
द्वितीयावरणे वापि तृतीयावरणेऽपि वा ।
चक्रादिबिम्बनिर्माणमुत्तरत्र प्रवक्ष्यते ॥ ९७७ ॥
15.978
सह संस्थापने प्राग्वत् कर्मभेदो न विद्यते ।
पृथक् संस्थापने कुर्यात् सर्वकर्म यथाविधि ॥ ९७८ ॥
15.979
तत्तत्स्थापनकाले तु तत्तत्संज्ञामनुं जपेत् ।
विद्यां गदामित्याद्यं यत् पाठयेत्तद्विदो जनान् ॥ ९७९ ॥
15.980
चमूषच्छयेन इति च प्नविष्णो इति त्वृचौ ।
पाठयेद्बहवृचान् पश्चाच्छाकुनं सूक्तमेव च ॥ ९८० ॥
15.981
धृतोर्ध्वपुण्ड्रः कृतचक्रे इति मन्त्रं कठान् परम् ।
पवित्रं ते विततमित्येतान् मन्त्रान् यजुर्मयान् ॥ ९८१ ॥
15.982
आरोहेति च सामज्ञान् पवित्रं ते अग्निरित्यपि ।
एभिर्वयमुरुक्रमस्येत्याथर्वणान् द्विजान् ॥ ९८२ ॥
15.983
एभिः संस्थाप्य विधिवन्नवभिः कलशैस्ततः ।
स्नपयेद्ब्रह्नसूक्तस्थैर्मन्त्रैरष्टाभिरेव च ॥ ९८३ ॥
15.984
सर्वस्य वशिनं देवमिति प्राक् स्थापितेन तु ।
बहिरावरणे नास्ती त्यग्निदिक्संस्थितेन तु ॥ ९८४ ॥
15.985
यन्नाभिपझादभवदिति याम्यस्थितेन तु ।
धृतोर्ध्वपुण्ड्र इति च यातुधानगतेन तु ॥ ९८५ ॥
15.986
दक्षिणे तु भुजे विप्र इति पश्चिमगेन तु ।
विष्णुनाक्तमश्रन्तीति वायुदिक्संस्थितेन च ॥ ९८६ ॥
15.987
पुंप्रधानेश्वरो विष्णुरिति सोमगतेन वै ।
इमं महोपनिषदमितीशानगतेन तु ॥ ९८७ ॥
15.988
मन्त्रैरेतैः समस्तैस्तु मध्यकुम्भेन सेचयेत् ।
प्रासादाग्रस्थिते चक्रे प्रोक्षणं तु समाचरेत् ॥ ९८८ ॥
15.989
महोपनिषदन्तस्थानष्टौ मन्त्रान् पुरोदितान् ।
यद्वा पुरुषसूक्तं तु सर्वशान्त्यै ततो जपेत् ॥ ९८९ ॥
15.990
अत्रानुक्तं तु सकलं पूर्वोक्तं तु समाचरेत् ।
सम्यगुक्तं प्रतिष्ठानं किमन्यच्छ्रोतुमिच्छसि ॥ ९९० ॥
15.991
सनकः ।
कथितं नित्यपूजादौ त्वया नीराजनं पुरा ।
तद्विधानं मुनिश्रेष्ठ प्रब्रूहि मम विस्तरात् ॥ ९९१ ॥
15.992
शाण्डिल्यः ।
नीराजनविधानं तु समाकर्णय साम्प्रतम् ।
नित्ये नैमित्तिके विप्र तथा काम्येऽपि पूजने ॥ ९९२ ॥
15.993
अन्ततः स्नानभोगानां कुर्यान्नीराजनं विभोः ।
सर्वदोषप्रशान्त्यर्थं सर्वरक्षार्थमेव हि ॥ ९९३ ॥
15.994
अलंकारासनोक्तानां भोगानामन्ततोऽपि वा ।
उभयत्रापि वा कुर्याद्विभवेच्छानुसारतः ॥ ९९४ ॥
15.995
यद्वा प्रदोषवेलायां तत् कुर्यात् प्रतिवासरम् ।
सायं पूजासमारम्भात् पूर्वमेव द्विजोत्तम ॥ ९९५ ॥
15.996
अथवा पूजने कुर्याद्दीपदानात् पुरैव तु ।
यद्वा नैवेद्यपर्यन्ते पूजायां तत् समाचरेत् ॥ ९९६ ॥
15.997
तदपि त्रिविधं प्रोक्तं सात्विकादिविभेदतः ।
स्नानान्ते भोगयज्ञान्ते द्वितयं सात्विकं भवेत् ॥ ९९७ ॥
15.998
सायंकाले प्रतिदिनं कुर्याद्राजससंज्ञितम् ।
पूजायां दीपदानाग्रे नैवेद्यान्तेपि तामसम् ॥ ९९८ ॥
15.999
कुर्यात् प्रासाद एकस्मिंस्तेषामेकं न तु त्रयम् ।
स्वयंव्यक्ते तथान्यैस्तु विबुधैस्च प्रतिष्ठिते ॥ ९९९ ॥
15.1000
प्रासादे मुनिमुख्यैश्च सात्विकाश्यं समाचरेत् ।
ब्राह्नणैः क्षत्रियैर्वैश्यैः स्थापिते राजसं भवेत् ॥ १००० ॥
15.1001
शूद्रैस्तु स्थापिते स्त्रीभिस्तामसाख्यं समाचरेत् ।
एतेषां सात्विकादीनां श्रृणु सम्यग् विधिं क्रमात् ॥ १००१ ॥
15.1002
स्ननानावशिष्टतोयेन संपूर्णं कलशं द्विज ।
सौवर्णं राजतं वापि ताम्रजं मृण्मयं तु वा ॥ १००२ ॥
15.1003
सुपिष्टै रूर्ध्वतो लिप्तं हरिद्राशालितण्डुलैः ।
स्रजा चाश्वत्थपत्रेण युतं वा कण्ठदेशतः ॥ १००३ ॥
15.1004
तं कृत्वा वामपाणौ तु अपरस्मिंस्तु मल्लकम् ।
पुष्पप्रकरसंपूर्णं धूपपात्राग्निना युतम् ॥ १००४ ॥
15.1005
धूमायमानं सिद्धार्थैर्धूपद्रव्येण वा सह ।
एकधा देवदेवस्य भ्रामयित्वा तु मूर्द्धनि ॥ १००५ ॥
15.1006
दीक्षितेन जनेनैव परिचर्यापरेण तु ।
शुद्धया योषिता वा तद् द्वारबाह्ये विसर्जयेत् ॥ १००६ ॥
15.1007
कल्पयेत् स्नाननभोगान्ते एतन्नीराजनं सदा ।
कृतं पूवोदितैर्द्रव्यैः कुम्भमापूर्य वारिभिः ॥ १००७ ॥
15.1008
अर्घ्यपात्रोद्धृतैर्यद्वा केवलैर्गालितैः पुनः ।
अन्तः सिद्धार्थकान् क्षिप्त्वा कण्ठे कुर्यादलंकृतिम् ॥ १००८ ॥
15.1009
अश्वत्थपल्लवैः स्रग्भिश्चन्दनेनाक्षतैरपि ।
अन्यत्र रजनीपिष्टैर्लेपयेत् सर्वतो द्विज ॥ १००९ ॥
15.1010
तदास्ये मल्लकं पुष्पसंपूर्णं तु नियोजयेत् ।
संस्कृताग्निसमुद्भूतान् पुरा दीपान् प्रदीप्य तु ॥ १०१० ॥
15.1011
विभवेच्छानुरूपेण चतुर्विंशादिकान् द्विज ।
पाकस्थानात्तु वै दीपादुच्छ्रितां चतुरङ्गुलैः ॥ १०११ ॥
15.1012
प्रदीपं मल्लके कृत्वा सकुम्भं विनिवेशयेत् ।
अग्रतो देवदेवस्य सदाधारोपरिस्थितम् ॥ १०१२ ॥
15.1013
तमर्घ्यगन्धस्रग्धूपैर्हृन्मन्त्रेण तु पूजयेत् ।
केवलं सार्घ्यपुष्पेण साधकस्तदनन्तरम् ॥ १०१३ ॥
15.1014
दद्यादाचमनान्तेऽर्घ्यं मन्त्रेशस्याथवा द्विज ।
अर्घ्यालभनमाल्यानि धूपं चाप्यर्घ्यमेव वा ॥ १०१४ ॥
15.1015
दीपकुम्भं तु पाणिभ्यामुद्धृतं परिचारिणा ।
देवस्य दक्षिणं पादमारभ्येतरपश्चिमम् ॥ १०१५ ॥
15.1016
भ्रामयेत् सर्वतोऽङ्गानि एकधा वा द्विधा त्रिधा ।
जपन् वै नेत्रमन्त्रं तु हृन्मन्त्रं वा यथारुचि ॥ १०१६ ॥
15.1017
एवं कुम्भं परिभ्राम्य पूर्ववत्तु विसर्जयेत् ।
ततस्तु देवदेवस्य दद्यादर्घ्यं तु मूर्द्धनि ॥ १०१७ ॥
15.1018
पाकस्थानात्तदर्थं तु दीप अनीयते यदा ।
तदानीं तद्विधानं तु समाकर्णय साम्प्रतम् ॥ १०१८ ॥
15.1019
दीक्षिताः सुविनीताश्च सुस्त्राताः परिचारकाः ।
वदनं नासिकारन्ध्रे स्थगयित्वाम्बरेण तु ॥ १०१९ ॥
15.1020
सितोष्णीषधराः सर्वे सितचन्दनरूषिताः ।
सौवर्णानि च पात्राणि विततानि यथारुचि ॥ १०२० ॥
15.1021
राजतान्यथ ताम्राणि आरकूटमयानि वा ।
कांस्यानि वापि संपाद्य यथा वित्तानुसारतः ॥ १०२१ ॥
15.1022
एकत्रिपञ्चसप्तापि नवैकादश वा तथा ।
द्वि षट् षोडश वा यद्वा चतुर्विंशतिसंख्यया ॥ १०२२ ॥
15.1023
पाकालयं समासाद्य तत्राग्नेः संस्कृतात् पुरा ।
तेषां मध्ये वर्तिदीपान् पात्राणां तु महामुने ॥ १०२३ ॥
15.1024
चतुरङ्गुलिकोत्सेधान् सघृतान् दीपयेत् पुनः ।
अद्धृत्य तानि पात्राणि करैस्तु परिचारकाः ॥ १०२४ ॥
15.1025
वहेयुः पङ्क्तिबन्धेन तदग्रे गणिकाजनाः ।
गच्छेयुर्भगवद्भक्ताः कुर्वन्तो नृत्तगीतके ॥ १०२५ ॥
15.1026
तदग्रे शङ्खभेर्यादिसमुद्धोषणतत्पराः ।
तदग्रे वेत्रिणोऽस्पृश्यजनोत्सारणतत्पराः ॥ १०२६ ॥
15.1027
गच्छेयुः परितस्तेषां दीपिकाधारिणो जनाः ।
एवं क्रमात् समासाद्य तिष्ठेयुर्देवसन्निधौ ॥ १०२७ ॥
15.1028
अथान्यो दीक्षितो विप्रः कुम्भमापाद्य पूर्ववत् ।
समल्लकं तदूर्ध्वे तु तेष्वेकस्मात् प्रदीप्य तु ॥ १०२८ ॥
15.1029
पाकस्थानादाहृतेषु प्रदीपं विनिवेश्य च ।
सदाधारस्थितं कुर्यात् ततः साधकसत्तमः ॥ १०२९ ॥
15.1030
कुम्भं प्राग्वत् समभ्यर्च्य देवेशं च ततः परम् ।
भ्रामयेत् पूर्ववत् कुम्भं तस्मिन् काले द्विजोत्तम ॥ १०३० ॥
15.1031
ऋगाद्यध्ययनं कुर्याद्द्विजाः प्रागादिदिकस्थिताः ।
सन्निधौ देवदेवस्य नृत्यं तु गणिकास्तदा ॥ १०३१ ॥
15.1032
मङ्गलानि च गीतानि सर्वे गायन्तु गायकाः ।
स्वरेणोच्चतरेणैव स्तुवन्तु स्तोत्रपाठकाः ॥ १०३२ ॥
15.1033
भेरीमृदङ्गशङ्खादीन् घोषयेषुः समन्ततः ।
एवं सर्वत्र वै कुर्यादृगाद्यध्ययनादिकम् ॥ १०३३ ॥
15.1034
कुम्भमेवं परिभ्राम्य दत्वा तं परिचारिणः ।
हस्तेऽथ दीपपात्राणि दर्शयेदितराणि च ॥ १०३४ ॥
15.1035
दृष्ट्वा सम्यक् ततो दद्यादर्घ्यं देवस्य मूर्धनि ।
कुम्भपूर्वाणि पात्राणि वहन्तः परिचारकाः ॥ १०३५ ॥
15.1036
प्रदक्षिणक्रमात् सार्धं पूर्ववद्गणिकादिभिः ।
क्षिपेयुर्द्वारबाह्ये वा बाह्यद्वारस्य बाह्यतः ॥ १०३६ ॥
15.1037
अथवा विनियुक्तानि तानि संगृह्य योषितः ।
सुस्नाता धौतवसना द्विजातिभावितात्मनः ॥ १०३७ ॥
15.1038
ललाटे तिलकं दत्वा सर्वालंकारभूषिताः ।
क्षिपेयुरुदितेनैव वर्त्मना द्विजसत्तम ॥ १०३८ ॥
15.1039
अथवा विनियोगात्तु पूर्वं पाकालयादपि ।
योषितो दीपपात्राणि गृहीत्वा प्रोक्तवर्त्मना ॥ १०३९ ॥
15.1040
आनयेयुर्विभोरग्रे कर्तुरिच्छानुरूपतः ।
एवं नीराजनं कुर्यादलंकारासनान्ततः ॥ १०४० ॥
15.1041
अथवा भ्रामयेत् कुम्भं दीपाष्टकसमन्वितम् ।
यद्वा तत्रापि वै कुम्भं साग्निमल्लकसंयुतम् ॥ १०४१ ॥
15.1042
धूमायमानं सिद्धार्थैर्ब्रामयेद्दीपवर्जितम् ।
एवं नीराजनं प्रोक्तमेकमूर्तेर्द्विजोत्तम ॥ १०४२ ॥
15.1043
अनेकमूर्तिपूजायां मुख्यमूर्त्यादितः क्रमात् ।
सर्वासामपि मूर्तीनां दत्वार्घ्याद्यं पृथक् पृथक् ॥ १०४३ ॥
15.1044
एकैकेन तु कुम्मेन प्रत्येकं अथवा द्विज ।
सर्वासामपि कुम्भेन प्राग्वन्नीराजनं चरेत् ॥ १०४४ ॥
15.1045
एवं नीराजनं येन कृतं भगवतो विभोः ।
अनुतिष्ठन्ति साहाय्यं तस्मिन् कर्मणि ये जनाः ॥ १०४५ ॥
15.1046
रजस्तमोविनिर्मुक्ता भवेयुस्ते न संशयः ।
अयोग्यजनसंस्पृष्टे कुम्भे तं परिहाय तु ॥ १०४६ ॥
15.1047
कुम्भान्तरं समापाद्य तेन तत्तु समाचरेत् ।
दीपेनष्वेकतमो दीपो यायादुपरतिं यदि ॥ १०४७ ॥
15.1048
प्रमादाद्वातवेगाद्यैः पुरस्ताद्विनिवेदनात् ।
श्रीभङ्गो जायते पश्चाद्यदि व्याध्यादिपीडनम् ॥ १०४८ ॥
15.1049
तस्मात् प्रदीप्य सहसा मूलमष्टोत्तरं जपेत् ।
शङ्खाद्यैर्नृत्तगीताभ्यां विना नीराजनं कृतम् ॥ १०४९ ॥
15.1050
यदि स्यान्निष्फलं तत् स्यात् तस्मात्तैः सार्धमाचरेत् ।
एवं नीराजनं प्रोक्तं सात्विकं नाम नामतः ॥ १०५० ॥
15.1051
राजसं नाम विप्रेन्द्र नीराजनमथोच्यते ।
प्राग्वत् पात्राणि सम्पाद्य योषितः सुविभूषिताः ॥ १०५१ ॥
15.1052
कच्छबन्धेन संयुक्ताः परिचारकपूर्वकाः ।
पाकस्थानं समासाद्य तेषु दीपान् प्रदीप्य तु ॥ १०५२ ॥
15.1053
करैरुद्धृत्य पात्राणि निर्गताश्च महानसात् ।
श्रेणीबन्धाः समासाद्य प्राग्वद्गीतादिभिः सह ॥ १०५३ ॥
15.1054
अग्रतो देवदेवस्य विन्यसेयुर्महीतले ।
आधारेषु ततोऽर्घ्याद्यैस्तानि पात्राणि पूजयेत् ॥ १०५४ ॥
15.1055
मूलबिम्बादिबिम्बानां न्यासं कत्वा विधानतः ।
अर्घ्यालभनपुष्पाद्यैरर्घ्यपाद्यादिभिस्तु वा ॥ १०५५ ॥
15.1056
साधको देवदेवस्य पूजां कृत्वा क्रमेण तु ।
उद्धृत्य दीपपात्राणि पूजकः सुसमाहितः ॥ १०५६ ॥
15.1057
मूलमूर्तेस्तु वै पूर्वमापादान्मूर्धपश्चिमम् ।
त्रिधा संभ्रामयेत्तेषामेकैकं वा त्रयं त्रयम् ॥ १०५७ ॥
15.1058
अन्यासामपि मूर्तीनामेवमेव समाचरेत् ।
एवं नीराजनं देव्योर्लक्ष्मीपुष्ट्योः पृथक् पृथक् ॥ १०५८ ॥
15.1059
ऋगाद्यध्ययनाद्यं तु पूर्ववत्तु समाचरेत् ।
निवेदितानि विप्रेन्द्र भूयः संगृह्य योषितः ॥ १०५९ ॥
15.1060
क्षिपेयुः प्राग्विधानेन बलिपीठेषु वा द्विज ।
एवं नीराजनं विप्र सायंकाले समाचरेत् ॥ १०६० ॥
15.1061
यद्वा पूर्वोदितं कुम्भं वर्तिदीपसमन्वितम् ।
समत्स्यमांसबलिभिरन्वितं भ्रामयेत् तदा ॥ १०६१ ॥
15.1062
यद्वा कुम्भं परिभ्राम्य दीपमल्लकसंयुतम् ।
तत् पश्चादन्नपिण्डानां पञ्चानां भ्रमणं चरेत् ॥ १०६२ ॥
15.1063
एवं नीराजनं प्रोक्तं त्रिविधं राजसाभिधम् ।
नीराजनं तामसाक्यमिदानीमवधारय ॥ १०६३ ॥
15.1064
पाकस्थानं समासाद्य योषिद्वा परिचारकः ।
पात्रमेकं समादाय पूर्वोक्तद्रव्यनिर्मितम् ॥ १०६४ ॥
15.1065
अन्नपिण्डानि चत्वारि दूर्वामुष्टिचतुष्टयम् ।
तस्मिन् पात्रे चतुर्दिक्षु विनिवेश्याथवा द्विज ॥ १०६५ ॥
15.1066
पृथक् चतुर्षु पात्रेषु तानि चत्वारि विन्यसेत् ।
प्रागुक्तवर्त्मनासाद्य देवदेवस्य सन्निधिम् ॥ १०६६ ॥
15.1067
आधारोपरि वै पात्रं विन्यसेत्तत्र तत्परम् ।
तत् पात्रमर्घ्यपुष्पेण हृदा संपूज्य साधकः ॥ १०६७ ॥
15.1068
अर्घ्यं पाद्यं तथाऽचामं देवस्य विनिवेद्य च ।
ततोन्नपिण्डमैन्द्रस्थं दूर्वामुष्टिं तथैव च ॥ १०६८ ॥
15.1069
चक्रमन्त्रेण संभ्राम्य देवस्य शिरसोपरि ।
तत्पुनर्देवदेवस्य प्राच्यां दिशि विनिक्षिपेत् ॥ १०६९ ॥
15.1070
एवं दक्षिणदिक्संस्थं भ्राम्य दक्षिणतः क्षिपेत् ।
पस्चिमस्थं परिभ्राम्य पश्चिमस्यां दिशि क्षिपेत् ॥ १०७० ॥
15.1071
उत्तरस्थं परिब्राम्य उत्तरस्यां दिशि क्षिपेत् ।
देवस्य तिलकं कुर्याद्दीपपात्रोत्थभस्मना ॥ १०७१ ॥
15.1072
एवं नीराजनं कुर्याद्दीपदानात् पुरैव तु ।
हेमादि द्रव्यजं पात्रं षड्विंशाङ्गुलविस्तृतम् ॥ १०७२ ॥
15.1073
कृत्वा सुवृत्तं तन्मध्ये पझं कुर्यात् सकर्णिकम् ।
पत्राष्टके कर्णिकायां दीपगर्तं प्रकल्पयेत् ॥ १०७३ ॥
15.1074
दीपान् प्रज्वालयेत्तत्र षडङ्गुलसमुच्छ्रितान् ।
सिद्धार्थदधिदूर्वादिबीजैश्च परिपूरितम् ॥ १०७४ ॥
15.1075
पूजितं गन्धपुष्पाद्यैः पात्रमादाय साधकः ।
त्रिः प्रदक्षिणमावर्त्यं पाणिभ्यां देवमूर्धनि ॥ १०७५ ॥
15.1076
प्राकारावरणाद्बाह्य दिवा सोमदिशि क्षिपेत् ।
प्रागन्नपिण्डभ्रमणादन्ते धूपोत्थभस्मना ॥ १०७६ ॥
15.1077
रक्षया संपुटीकुर्यादेवं नीराजनं द्विज ।
एवं नीराजनं कुर्यान्निवेद्यान्ते विभोः सदा ॥ १०७७ ॥
15.1078
एवं नीराजनं प्रोक्तं द्विविधं तामसाह्वयम् ।
गीतनृत्तादिकं सर्वं प्राग्वदत्र समाचरेत् ॥ १०७८ ॥
15.1079
कुर्यात् स्नानावसानेऽपि ऋगाद्यध्ययनादिकम् ।
अर्घ्यादिभोगैर्यजनं वर्जयेत् तत्र सर्वदा ॥ १०७९ ॥
15.1080
सायंकालं विनान्यत्र नीराजनविधौ द्विज ।
न कुर्याद्देवदेवस्य मन्त्रन्यासं कदाचन ॥ १०८० ॥
15.1081
नीराजनं सात्विकाख्यं प्रवृत्तं यत्र तत्र तु ।
राजसं तामसं वापि न कदाचित् समाचरेत् ॥ १०८१ ॥
15.1082
राजसं तामसं वापि प्रवृत्तं यत्र तत्र वै ।
नीराजनं सात्विकाख्यं कुर्यादिच्छानुरूपतः ॥ १०८२ ॥
15.1083
संपूर्णं भगवद्यागात् फलमिच्छन् महामते ।
उक्तमार्गविपर्यासं न कदाचित् समाचरेत् ॥ १०८३ ॥
Kapitel 16
श्रीः ।
षोडशोऽध्यायः ।
सनकः ।
16.1
स्थापनं मन्त्रबिम्बानां परिज्ञातं यथाविधि ।
महोत्सवविधानं तु श्रोतुमिच्छामि सांप्रतम् ॥ १ ॥
16.2
शाण्डिल्यः ।
महोत्सवं प्रवक्ष्यामि यथावन्मुनिपुङ्गव ।
सव इत्युच्यते दुःखं विद्वद्भिः समुदाहृतम् ॥ २ ॥
16.3
उद्गतः स सवो यस्मात् तस्मादुत्सव उच्यते ।
नित्यो नैमित्तिकः काम्यस्त्रिविधः स महोत्सवः ॥ ३ ॥
16.4
वत्सरे वत्सरे यस्तु क्रियते स तु नित्यकः ।
भूमिकंपे दिशां दाहे महोत्पातेषु सत्सु च ॥ ४ ॥
16.5
दुर्भिक्षे व्याधिते राष्ट्रे तथा वै शत्रुसंकटे ।
अनावृष्टौ च सर्वत्र नक्षत्रपतने च खात् ॥ ५ ॥
16.6
हसने भगवन्मूर्तेरङ्गानां चलने सति ।
रोदने चासनाद्बिम्बे परिभ्रमति सत्तम ॥ ६ ॥
16.7
व्यत्यासे शशि सूर्यस्य तथान्येष्वेवमादिषु ।
शान्त्यर्थं यत् प्रकुर्वीत स नैमित्तिक उच्यते ॥ ७ ॥
16.8
चतुर्णां पुरुषार्थानामुद्दिश्यान्यतमं फलम् ।
उत्सवोऽनुष्ठितः काम्यः संकल्पितफलप्रदः ॥ ८ ॥
16.9
एकैकमुत्सवं विद्धि त्रिविधं मुनिपुंगव ।
उत्तमादिविभेदेन तत्र चोत्सवकौतुके ॥ ९ ॥
16.10
क्रियते हयुत्सवो यस्तु स उत्तम उदाहृतः ।
नित्यः स्नपनबिंबे यः स मध्यम उदीर्यते ॥ १० ॥
16.11
बिम्बे नित्योत्सवार्थे तु यः स्यात् स तु कनीयसः ।
कुम्भे वा विष्टरे चक्रे यः स आभाससंज्ञितः ॥ ११ ॥
16.12
अन्येनापि प्रकारेण भूयस्त्रैविध्यमुच्यते ।
परिभ्रमणकाले तु यात्राबिंबस्य पूर्वतः ॥ १२ ॥
16.13
कुमुदाद्यैस्तु भूतेशैः पटेषु लिखितैर्द्विज ।
सध्यानंसिद्धये यद्वा हेमादिद्रव्यनिर्मितैः ॥ १३ ॥
16.14
विभवस्यानुगुण्येन रक्षार्थं हेतिना तथा ।
सर्वसंपूरणार्थं तु गरुडेनापि वै सह ॥ १४ ॥
16.15
ग्रामादौ बलिदानं तु यत्र नित्यं समाचरेत् ।
स एष उत्सवो विप्र भवेदुत्तमसंज्ञितः ॥ १५ ॥
16.16
परिभ्रमसमारम्भात् पूर्वमेव महामते ।
नित्योत्सवार्थबिंबस्य सन्निधावन्नमूर्तिना ॥ १६ ॥
16.17
सार्धं च चक्रराजेन अथवा केवलस्य तु ।
सन्निधौ बलिबिंबस्य बलिं दत्वा विधानतः ॥ १७ ॥
16.18
प्रासादे बलिबिंबादि प्रवेश्य तदनन्तरम् ।
यत्र यात्रार्थबिंबस्य परिभ्रमणमाचरेत् ॥ १८ ॥
16.19
ग्रामे वा नगरे वापि स तु मध्यमसंज्ञितः ।
सन्निधौ चक्रराजस्य बलिं दत्वा पुरैव तु ॥ १९ ॥
16.20
देवयात्रा भवेद्यत्र भवेत् स तु कनीयसः ।
मुख्यानुकल्पभेदाच्च द्विविधः परिकीर्तितः ॥ २० ॥
16.21
कलशे मण्डले बिंबे वह्नौ च यजनं विभोः ।
नित्यशः क्रियते यत्र मुख्यकल्पः स कीर्तितः ॥ २१ ॥
16.22
बिंबे वह्नौ च यजनं यत्र स्यात् सोनुकल्पकः ।
परसूक्ष्मस्थूलभेदादेकैकस्त्रिविधः स्मृतः ॥ २२ ॥
16.23
एकत्रिपच्चसप्ताहो नवाहश्च परः स्मृतः ।
द्वादशाहोऽर्धमासश्च एकविंशतिवासरः ॥ २३ ॥
16.24
सूक्ष्मः स्थूलः सप्तविंशद्दिनो मासस्तथा ऋतुः ।
षण्मास अभ्दमेवं हि उत्सवास्तु त्रयोदश ॥ २४ ॥
16.25
भूयो मुख्यादिबेदेन द्विविधः स तु कीर्तितः ।
उत्सवाहर्गणात् पूर्वं यथोक्ते वासरे द्विज ॥ २५ ॥
16.26
ध्वजस्यारोहणं कृत्वा तत्पश्चात् क्रियते तु यः ।
मुख्यकल्पमिदं विद्धि दैवाद्वा मानुषात्तु वा ॥ २६ ॥
16.27
कुतश्चित् कारणाद्विप्र पूर्वमुक्ते तु वासरे ।
न कल्पिते ध्वजारोहे तूत्सवारम्भवासरे ॥ २७ ॥
16.28
ध्वजस्यारोहणं कृत्वा तत्पश्चात् क्रियते तु यः ।
अनुकल्पमिदं विद्धि ह्येष तु त्रिविधः स्मृतः ॥ २८ ॥
16.29
ध्वजारोहणपूर्वस्तु देवताह्वानपूर्वकः ।
अह्कुरार्पणपूर्वस्तु तथा च मुनिपुंगव ॥ २९ ॥
16.30
ध्वजारोहणपूर्वस्तु राजराज्यसुखप्रदः ।
देवताह्वानपूर्वस्तु स्वर्गभोगफलप्रदः ॥ ३० ॥
16.31
अङ्कुरार्पणपूर्वस्तु सर्वेषां मोक्षदो भवेत् ।
उत्सवारंभदिवसे दिवारोप्य ध्वजं निशि ॥ ३१ ॥
16.32
भेरीताडनमन्वक् च पालिकास्वंकुरान् क्षिपेत् ।
ध्वजारोहणपूर्वस्तु ह्येष उत्सव उच्यते ॥ ३२ ॥
16.33
आघोष्य भेरीं प्रथमं ध्वजारोहणमन्वतः ।
ततोंकुरार्पणं ह्येष देवताह्वानपूर्वकः ॥ ३३ ॥
16.34
अङ्कुरारोपणं विप्र पूर्वं तु रजनीममुखे ।
ततोन्वक् स्याद्ध्वजारोहो भेरीताडनमन्वतः ॥ ३४ ॥
16.35
अह्कुरारोपपूर्वस्तु ह्येष उत्सव उच्यते ।
उत्सवं हयुत्तमं विद्धि त्रिवारं प्रतिवत्सरम् ॥ ३५ ॥
16.36
द्विवारं मध्यमं प्रोक्तं ह्येकवारं कनीयसम् ।
चतुर्वारं पञ्चवारं षड्वारं विभवे भवेत् ॥ ३६ ॥
16.37
मन्त्रमूर्तिप्रतिष्ठानकाल एव महामते ।
प्रासादस्य शिखाग्रे तु स्थापितः खगराड्ध्वजः ॥ ३७ ॥
16.38
हेतिराजसमायुक्तौ यत्र तत्र सदा द्विज ।
विना त्वन्यध्वजारोहमुत्सवं परिकल्पयेत् ॥ ३८ ॥
16.39
तत्राप्यन्यध्वजारोहं कुर्याद्वा विभवे सति ।
कुर्यादुत्सवमन्यत्र ध्वजारोहणपूर्वकम् ॥ ३९ ॥
16.40
तीर्थयात्रानुगुण्येन ध्वजारोहं प्रकल्पयेत् ।
उत्सवेषु च सर्वेषु तीर्थयात्रादिनं श्रृणु ॥ ४० ॥
16.41
चैत्रादिषु च मासेषु श्रवणर्क्षेऽयनद्वये ।
विषुवद्वितये वापि चन्द्रसूर्योपरागयोः ॥ ४१ ॥
16.42
द्वादश्यां पौर्णमास्यां च दर्शे च नवमीतिथौ ।
मासर्क्षेपि च रोहिण्यां तथा चोत्तरफलगुने ॥ ४२ ॥
16.43
पुनर्वस्वाख्यनक्षत्रे प्रतिष्ठादिवसे तथा ।
नगरग्रामजन्मर्क्षे प्रासादारम्भवासरे ॥ ४३ ॥
16.44
राज्ञां जन्मदिने वापि अबिषेकदिने तथा ।
एकस्मिन्नेषु सर्वेषु तीर्थयात्रां समाचरेत् ॥ ४४ ॥
16.45
एतेषु यस्मिन्नक्षत्ते तीर्थयात्रा प्रकल्पिता ।
यदा तु तत् स्याद्द्विगुणं मासि ह्युत्सवकल्पिते ॥ ४५ ॥
16.46
तदा कुर्यात् तीर्थयात्रां मासान्तस्थे तु तद्दिने ।
फाल्गुणादिषु सर्वेषु मासेष्वेवं प्रकल्पयेत् ॥ ४६ ॥
16.47
पञ्चाहात्तु समारभ्य एकत्रिंशद्दिनान्तिमम् ।
तीर्थयात्रादिनादर्वागेकविंशतिमे दिने ॥ ४७ ॥
16.48
द्वजस्यरोहणं कुर्यादुत्सवार्थं प्रयत्नतः ।
यद्वा कल्याणदिवसं त्रिगुणीकृत्य तावताम् ॥ ४८ ॥
16.49
आदौ दिनानां कर्तव्यो ध्वजारोहो द्विजोत्तम ।
सप्तविंशतिमे ब्रह्नन् उत्सवारम्भवासरात् ॥ ४९ ॥
16.50
पूर्वं दिने तु तत्संख्ये ध्वजमारोहयेत् सुधीः ।
त्रिंशद्दिने तु तत्संख्ये दिने पूर्वे समाचरेत् ॥ ५० ॥
16.51
ऋतूत्सवादित्रितये ह्युत्सवारंभवासरात् ।
एकोनविंशतिदिने ध्वजारोहणमाचरेत् ॥ ५१ ॥
16.52
अष्टादशदिने वापि द्वादशाहेथवा भवेत् ।
एकविंशद्दिनाद्ये वमुत्सवानां त्रिकेपि च ॥ ५२ ॥
16.53
एवमेव ध्वजारोहमाचरेद्देशिकोत्तमः ।
अंकुरानर्पयित्वा हि पुण्ये पूर्वं यथोदिते ॥ ५३ ॥
16.54
ध्वजमारोहयेत् पश्चान्मङ्गलं मङ्गले दिने ।
यस्मिन् दिने ध्वजारोहं कुर्यात् तत्पूर्वमेव तु ॥ ५४ ॥
16.55
द्वादशाहे नवाहे वा सप्ताहे पञ्चमेहनि ।
तृतीयेऽहनि वा कुर्यादंकुरारोपणं द्विज ॥ ५५ ॥
16.56
तद्विधानं हि विस्तारात् समाकर्णय सांप्रतम् ।
त्रिविधानि च पात्राणि मंगलांकुररोपणे ॥ ५६ ॥
16.57
पालिका घटिकाश्चेति शरावाश्चेतिभेदतः ।
पालिकानामथोच्छ्रायः पच्चविंशांगुलो भवेत् ॥ ५७ ॥
16.58
तदाननस्य विस्तारो भवेद्वै षोडशांगुलः ।
अष्टांगुलस्तदुच्छ्रायो ह्यं गुलं वलयं ततः ॥ ५८ ॥
16.59
भवेत् कण्ठबिलं विप्र ततोष्टांगुलविस्तृतम् ।
आरभ्य वक्त्रवलयात् यावत्कण्ठबिलं द्विज ॥ ५९ ॥
16.60
ह्रासयेदनुपातेन तन्नालं द्वादशांगुलम् ।
उच्छ्रायादथ विस्तारान्मध्यतस्तु षडंगुलम् ॥ ६० ॥
16.61
अधस्तादंगुलानां तु चतुष्कं विस्तृतं भवेत् ।
ततः कण्ठबिलाच्चैव ह्रासयेदनुपाततः ॥ ६१ ॥
16.62
पादपीठमधोत्सेधाद्विज्ञेयं चतुरंगुलम् ।
दशांगुलस्तद्विस्तारस्तत्संधिश्चांगुलो भवेत् ॥ ६२ ॥
16.63
तत्सन्धेश्च भवेन्नाहं सार्धमेकांगुलं द्विज ।
उन्मत्तकुसुमाकारं वक्त्रं पझाकृतिर्भवनेत् ॥ ६३ ॥
16.64
पालिकोत्सेधतुल्यास्तु घटिकाः समुदाहृताः ।
अंगुलत्रयहीना वा तदूर्ध्वं कलशाकृतिः ॥ ६४ ॥
16.65
घटिकाः पञ्चवक्त्राः स्युरेतासां मध्यमं मुखम् ।
षडंगुलं च विस्तीर्णं चतुर्दिक्षु चतुष्टयम् ॥ ६५ ॥
16.66
चतुरंगुलविस्तारं कलशोदरविस्तृतिः ।
षोडशांगुलमानोत्था शेषं प्राग्वत् समाचरेत् ॥ ६६ ॥
16.67
यदांगुलत्रयन्यूनास्तदा सप्तांगुलोच्छ्रितम् ।
तदाननं तु तन्नालं अर्धोत्तरदशांगुलम् ॥ ६७ ॥
16.68
सार्धत्रयांगुलं पीठं प्राग्वत् सर्वत्र विस्तरः ।
शरावाः पालिकोत्सेधतुल्याः पञ्चभिरंगुलैः ॥ ६८ ॥
16.69
हीना वा वक्त्रविस्तारात् समारभ्य महामते ।
पादपीठस्य विस्तारं यावत्तावत्क्रमेण तु ॥ ६९ ॥
16.70
पूर्वोक्तात् पादहीना तु भवेत् सर्वत्र विस्तृतिः ।
भवेत् त्रिपादहीना तु पादपीठस्य विस्तृतिः ॥ ७० ॥
16.71
यदा शरावा हीनाः स्युरंगुलैः पञ्चभिस्तदा ।
मुखं षडंगुलोच्छ्रायं तन्नालं तु दशांगुलम् ॥ ७१ ॥
16.72
त्र्यंगुलं पादपीठं स्यात् प्राग्वत् सर्वत्र विस्तृतिः ।
तदुत्तममानं तु पात्राणां कथितं द्विज ॥ ७२ ॥
16.73
एतदेव मुनिश्रेष्ठ पादहीनं तु मध्यमम् ।
अर्धहीनं तु तन्मानमधमं परिकीर्तितम् ॥ ७३ ॥
16.74
अतो न्यूनं न कर्तव्यं कदाचित् सिद्धिकांक्षिभिः ।
हेमादिलोहजाः सर्वे मृण्मया वा यथावसु ॥ ७४ ॥
16.75
प्रत्येकं पालिकादीनां द्विषट्कं चोत्तमं भवेत् ।
द्विरष्टकं वा षट्त्रिंशद्विभवे सति कल्पयेत् ॥ ७५ ॥
16.76
प्रत्यष्टकं मध्यमं स्याच्चतुष्कमधमं भवेत् ।
सर्वार्थे पालिकाः प्राग्वत् षोडशाष्टौ यथाबलम् ॥ ७६ ॥
16.77
चतस्रो वा ततस्तासु मंगलांकुरकल्पनम् ।
अयुग्मा मानुषे कार्ये दैवे युग्मास्तु पालिकाः ॥ ७७ ॥
16.78
महोत्सवे ध्वजारोहे ह्युत्सवावसरेऽथवा ।
पवित्रारोहणे चैव तथा स्थापनकर्मणि ॥ ७८ ॥
16.79
जीर्णोद्धारविधौ चापि सहस्रकलशे तथा ।
त्रिवर्गपालिका यद्वा भवेदुत्तमसंख्यया ॥ ७९ ॥
16.80
भवेन्मध्यमया वापि नान्यथा द्विजसत्तम ।
कर्मस्वन्येषु सर्वेषु यथावित्तं यथारुचि ॥ ८० ॥
16.81
अंकुरावापनस्थानमण्टपं परिकलपयेत् ।
प्रथमावरणे वापि द्वितीयावरणेपि वा ॥ ८१ ॥
16.82
तृतीयावरणे वापि चतुर्थावरणेपि वा ।
शुभे विविक्तेऽभिमते देशे वै देशिकोत्तमः ॥ ८२ ॥
16.83
चतुर्दिक्षु चतुर्द्वारं चतुर्वन्दनमालिकम् ।
दर्भमालापरिक्षिप्तं मुक्तादामविराजितम् ॥ ८३ ॥
16.84
विततक्षौमसंछन्नं गोमयालिप्तभूतलम् ।
प्रदीपमालाविततमक्षतैश्चापि सर्वतः ॥ ८४ ॥
16.85
सुधाचूर्णैश्च धवलैः चित्रिताभ्यन्तरस्थलम् ।
मण्टपं कल्पयित्वैवं यद्वा स्नपनमण्टपे ॥ ८५ ॥
16.86
यागाख्यमण्डपे वापि कुर्यादंकुररोपणम् ।
अंकुरानर्पयेद्रात्रौ य इच्छेद्राष्ट्रवर्धनम् ॥ ८६ ॥
16.87
बीजानामधिपः सोम ओषधीशोऽमृतात्मकः ।
न प्रीणाति सदा ब्रह्नन् अंकुरार्पणमह्नि चेत् ॥ ८७ ॥
16.88
तस्मात् सर्वप्रयत्नेन रात्र्यामेवांकुरार्पणम् ।
कुर्यात् सम्यग्विधानेन भगवद्भक्तिसंयुतः ॥ ८८ ॥
16.89
तस्मिन् जगत्प्रिये प्रीते शीतांशौ प्राणिजीवने ।
तद्देशे सर्वसस्यानां संपत्तिर्महती भवेत् ॥ ८९ ॥
16.90
गवां च लोकमातॄणां नॄणामपि च सर्वशः ।
अज्ञानादह्नि कुर्याच्चेदंकुराणामथार्पणम् ॥ ९० ॥
16.91
अशोभनं भवेद्राष्ट्रं असमृद्धजनान्वितम् ।
सद्यः कालीनके विप्र कर्मणि स्याद्दिवापि च ॥ ९१ ॥
16.92
यद्यदत्रोपयोग्यं स्यात्तत् सर्वं तु समार्जयेत् ।
संभृत्य सर्वसंभारानाचार्यो मूर्तिपैः सह ॥ ९२ ॥
16.93
स्नातः कृताह्निकश्चैव सोत्तरीयः स्वलंकृतः ।
नूतनक्षौमवसनः सोष्णीषः सांगुलीयकः ॥ ९३ ॥
16.94
सुरभीकृतसर्वांगः स्रग्वी संमृष्टकुण्डलः ।
श्वेतया मृत्स्नया सम्यक् परिक्लृप्तोर्ध्वपुण्ड्रकः ॥ ९४ ॥
16.95
पवित्रपाणिर्नियतः प्राणायामपरायणः ।
कृताचामः कृतन्यासो जपन् वै द्वादशाक्षरम् ॥ ९५ ॥
16.96
तदर्थमर्थयित्वा तु यजमानसमन्वितः ।
भगवन्तं जगद्योनिं पूजयित्वा विधानतः ॥ ९६ ॥
16.97
कलशे मण्डले बिंबे वह्नौ सन्तर्प्य वै क्रमात् ।
बिंबेऽग्ना वथ बिंबे वा उत्तमादिव्यपेक्षया ॥ ९७ ॥
16.98
ततस्त्वभिनवे पात्रे सौवर्णे राजतेऽथवा ।
तिलसर्षपनीवारशालिमाषप्रियंगवः ॥ ९८ ॥
16.99
कुलुत्थमुद्गनिष्पावयवगोधूमवेणवः ।
बीजानि द्वादशैतानि ष्टथक् पात्रेषु वा द्विज ॥ ९९ ॥
16.100
संभृत्य तु मुनिश्रेष्ठ स्थापयित्वा तु मूर्धनि ।
दीक्षितस्य तु विप्रस्य पुष्पाक्षतकरांजलिः ॥ १०० ॥
16.101
आचार्यः प्रविशेत् सार्धं साधकैर्भगवन्मयैः ।
प्रासादाभ्यन्तरं विप्र तत्राधारोपरि न्यसेत् ॥ १०१ ॥
16.102
बीजपात्रं ततोऽर्घ्येण गन्धैः पुष्पैश्च धूपकैः ।
संपूज्य मूलबिंबस्थं तथा चोत्सवबिंबगम् ॥ १०२ ॥
16.103
बीजपात्रं ततोऽभ्यर्च्य देवाय विनिवेदयेत् ।
सह शंखनिनादैश्च मंगलैर्गीतनिस्वनैः ॥ १०३ ॥
16.104
तूर्यनादैश्च विविधैः श्रुतिघोषैः समन्ततः ।
ततो विज्ञापयेन्मन्त्रमिममुच्चस्थया गिरा ॥ १०४ ॥
16.105
देवदेव जगन्नाथ यात्रोत्सवनिमित्ततः ।
ध्वजार्थमंकुरारोपं करिष्यामि प्रसीद ओम ॥ १०५ ॥
16.106
इति विज्ञाप्य देवस्य तत्रानुज्ञामवाप्य च ।
स्थापयित्वा तु तत् पात्रं दीक्षितस्यैव मूर्धनि ॥ १०६ ॥
16.107
साधकैः सहितो विप्र बहिर्निर्गत्य देशिकः ।
विष्वक्सेनं तु वा तार्क्ष्यं हनुमत्प्रमुखं तु वा ॥ १०७ ॥
16.108
हेतीशं वापि वस्त्राद्यैरलङ्कृत्य विशेषतः ।
यानादिकं समारोप्य प्रक्षाल्याद्भिः खनित्रकम् ॥ १०८ ॥
16.109
नवेन वाससाच्छाद्य भूषयित्वा तु माल्यकैः ।
देशिको वाहयेद्विप्रैः शूद्रैर्वा दीक्षितैर्द्विज ॥ १०९ ॥
16.110
च्छत्रध्वजपताकाभिः सार्धमंकुरपात्रकैः ।
त्रिविधैः पालिकाद्यैश्च शंखतूर्यादिभिः सह ॥ ११० ॥
16.111
आम्नायोद्धोषणपरैर्भक्तैर्भागवतैर्विभोः ।
गायकैर्गणिकाभिश्च तथान्यैर्मङ्गलैः सह ॥ १११ ॥
16.112
क्रमात् प्रदक्षिणीकृत्य सर्वेष्वावरणेषु च ।
दिशं प्राचीमुदीचीं वा अथवा प्रागुदग्दिशम् ॥ ११२ ॥
16.113
अदूरं समनुप्राप्य तत्रोद्याने मनोहरे ।
केवले वा शुचौ देशे मृदं शुद्धां समाहरेत् ॥ ११३ ॥
16.114
अस्त्रमन्त्रेण धरणीं संप्रोक्ष्य प्रथमं गुरुः ।
महीसूक्तेन संस्पृश्य ध्यायन्नेकाग्रचेतसा ॥ ११४ ॥
16.115
मूर्तिं देवस्य वाराहीमभ्यर्च्य कुसुमैर्भुवम् ।
अस्त्रांबुना प्रोक्षितेन पुष्पैरभ्यर्चितेन च ॥ ११५ ॥
16.116
खनित्रेण खनेद्भूमिं प्राङ्मुखः क्रोडमन्त्रतः ।
लोहजे भाजने मृत्स्नां वेत्रजे वा यथारुचि ॥ ११६ ॥
16.117
गृहीत्वा मूलमन्त्रेण वेष्टयित्वा च वाससा ।
प्रत्यग्रेण तथा नद्या वालुकां गोमयं तथा ॥ ११७ ॥
16.118
गोकुलात् पूर्ववत् पात्रे गृहीत्वाऽच्छाद्य वाससा ।
यानादिके समारोप्य यद्वा दीक्षितमूर्धनि ॥ ११८ ॥
16.119
गत्वा प्रदक्षिणं ग्रामं प्रविशेन्मण्टपं ततः ।
मण्टपं शोधयित्वा तु स्नपनोदितवर्त्मना ॥ ११९ ॥
16.120
ततो मण्टपमध्ये तु सूत्राण्यास्फालयेत् क्रमात् ।
प्रागायतानि प्रथमं क्रमात् सप्तदश क्षिपेत् ॥ १२० ॥
16.121
उदगायतसूत्राणि चतुर्दश निपातयेत् ।
सूत्रात् सूत्रादन्तरालं षोडशांगुलसम्मितम् ॥ १२१ ॥
16.122
त्रयाधिकदशैव स्युः पूर्वपश्चिमपङ्क्तयः ।
एवं षोडशसंख्याता दक्षिणोत्तरपङ्क्तयः ॥ १२२ ॥
16.123
बीजपात्रप्रतिष्ठार्थं पूर्वपश्चिमपङ्क्तिषु ।
मध्ये पङ्क्तित्रयं स्थाप्य वीध्यर्थं द्वितयं मृजेत् ॥ १२३ ॥
16.124
भूयश्च पङ्क्तित्रितयं स्थापयेत् पाश्वयोर्द्वयोः ।
दक्षिणोत्तरमध्ये तु स्थाप्यं पङ्क्तिचतुष्टयम् ॥ १२४ ॥
16.125
द्वितयं द्वितयं पार्श्वे वीथ्यर्थं विमृजेत् पुनः ।
चतुश्चतुश्च पङ्क्तीनां स्थापयेत् क्रमयोगतः ॥ १२५ ॥
16.126
अशास्वष्टासु मध्ये च शराबघटपालिकाः ।
द्वादश द्वादश स्थाप्या शतमष्टोत्तरं भवेत् ॥ १२६ ॥
16.127
आग्नेये दक्षिणे भागे नैरृतेपि च पालिकाः ।
घटिका वारुणे ब्राह्ने तथा पौरन्दरेपि च ॥ १२७ ॥
16.128
शरावा मारुते सौम्ये त्वीशाने च यथाविधि ।
प्रत्येकं पालिकादीनां षोडशत्वेन कल्पयेत् ॥ १२८ ॥
16.129
दक्षिणोत्तरगं सूत्रपञ्चकं विनिवेशयेत् ।
प्रागायतानि सूत्राणि पूर्ववद्विनिवेशयेत् ॥ १२९ ॥
16.130
आचरेत् पूर्ववद्विप्र प्राक्प्रत्यक्पङ्क्तिकल्पनम् ।
तत्र दक्षिणतः पङ्क्तिचतुष्के स्थापयेत् क्रमात् ॥ १३० ॥
16.131
पालिकाः षोडश पुरो मध्ये पङ्क्तिचतुष्टये ।
घटिकाः षोडश न्यस्य उत्तरे विनिवेशयेत् ॥ १३१ ॥
16.132
शरावानपि तत्संख्यानथ द्वादशकल्पने ।
दक्षिणोत्तरसूत्राणि चत्वार्यत्र विनिक्षिपेत् ॥ १३२ ॥
16.133
पूर्वापराणि सूत्राणि पूर्ववद्विनिपातयेत् ।
अष्टाधिकानि कोष्ठानि चत्वारिंशद्भवन्ति हि ॥ १३३ ॥
16.134
याम्ये द्वादश कोष्ठानि स्थापयित्वा ततो मृजेत् ।
वीथ्यर्थं भागषट्कं तु मद्यतः स्थापयेत् ततः ॥ १३४ ॥
16.135
भागद्वादशकं पश्चात् भागषट्कं विलोपयेत् ।
भूयश्चोत्तरदिकस्थाप्यं कोष्ठद्वादशकं क्रमात् ॥ १३५ ॥
16.136
न्यसेत्तु पालिकादीनि भागद्वादशकत्रये ।
आग्नेयादीशपर्यन्तं दक्षिणाशादितः क्रमात् ॥ १३६ ॥
16.137
प्रत्येकं पालिकादीनामष्टसंख्याप्रकल्पने ।
दक्षिणोत्तरसूत्राणि त्रितयं तु निपातयेत् ॥ १३७ ॥
16.138
अन्यत् सर्वं भवेत् प्राग्वत् अथ प्रतिचतुष्टये ।
दक्षिणोत्तरगं सूत्रं त्रितयं विनिपातयेत् ॥ १३८ ॥
16.139
पूर्वपश्चिमसूत्राणि ह्येकादश विनिक्षिपेत् ।
सर्वार्थे पालिकानां तु षोडशानां परिग्रहे ॥ १३९ ॥
16.140
पञ्च दक्षिणसूत्राणि प्राक्सूत्राणि तथा क्षिपेत् ।
प्राक्सूत्रान् पञ्च चाष्टानां दक्षसूत्रत्रयं क्षिपेत् ॥ १४० ॥
16.141
चतुर्विंशतिसंख्यानां पालिकानां परिग्रहे ।
पूर्वदक्षिणसूत्राणां सप्तकं पञ्चकं क्षिपेत् ॥ १४१ ॥
16.142
चतुः परिग्रहे सूत्रत्रितयं त्रितय क्षिपेत् ।
पूर्ववत् सूत्रपातः स्यादाद्यः संख्यासु पञ्चसु ॥ १४२ ॥
16.143
एवमास्फाल्य सूत्राणि विभवेच्छानुसारतः ।
पदेषु पालिकादीनां शालिभिर्व्रीहिभिस्तथा ॥ १४३ ॥
16.144
आढकादिमितैः प्राग्वदुत्तमादिव्यपेक्षया ।
वृत्तां वा चतुरश्रां वा कल्पयेत् पीठिकां क्रमात् ॥ १४४ ॥
16.145
पालिकादीनि पात्राणि क्षालयेन्मूलमन्त्रतः ।
सहदेवीं च दूर्वां च सार्धमश्वत्थपल्लवैः ॥ १४५ ॥
16.146
शिरीषपल्लवैश्चापि निशापत्रैस्तथैव च ।
कण्ठेषु पालिकादीनां बन्धयेत्तदनन्तरम् ॥ १४६ ॥
16.147
कुशकाशतृणैस्तेषां बिलमूलानि पूरयेत् ।
बिलानि प्रथमं मृद्भिर्वालुकाभिरनन्तरम् ॥ १४७ ॥
16.148
करीषचूर्णैरुपरि समृद्धं पूरयेद्विलम् ।
यद्वा मृदादिकं विप्र सर्वं संमिश्र्य पूरयेत् ॥ १४८ ॥
16.149
कोष्ठेषु विन्यसेत्तानि पालिकादीन्यनुक्रमात् ।
आग्नेयादीशपर्यन्तं प्रतिस्कन्धं द्विजोत्तम ॥ १४९ ॥
16.150
द्वादशानां तु नवकं अष्टोत्तरशेतं न्यसेत् ।
ब्राह्नादीशानपर्यन्तमुदितक्रमयोगतः ॥ १५० ॥
16.151
एवं सर्वं समापाद्य दीक्षितैः परिचारकैः ।
तत्तत् सर्वं समापाद्य यद्यत् प्रागनुपार्जितम् ॥ १५१ ॥
16.152
समारभेत् ततः कर्म देशिकः प्राङ्मुखः पदे ।
पश्चिमे घटिकास्थानादुपाविश्यासने शुभे ॥ १५२ ॥
16.153
न्यासमुद्दिश्य विधिना प्रोक्षणार्घ्यं प्रकल्पयेत् ।
देहविन्यस्तमन्त्राणां कुर्यादर्घ्यादिनार्चनम् ॥ १५३ ॥
16.154
द्वारपालार्चनं कृत्वा विभवेच्छानुरूपतः ।
तोरणानि ध्वजांश्चैव द्वारकुंभांश्च पूजयेत् ॥ १५४ ॥
16.155
सौवर्णं राजतं वापि ताम्रजं मृण्मयं तु वा ।
सुगन्धतोयैः संपूर्णमुपरिष्टाद्विभूषितम् ॥ १५५ ॥
16.156
स्रक्चन्दनाक्षतैः कुम्भमाधारस्योपरि न्यसेत् ।
आत्मनस्त्वग्रतः पश्चाद् बह्वृचादीन् क्रमेण तु ॥ १५६ ॥
16.157
वाचयेत् स्वस्तिपुण्याहं देशिकेन्द्रः स्वयं ततः ।
आचार्यैः साधकैश्चापि सार्धमर्घ्यादिपूजितैः ॥ १५७ ॥
16.158
पुण्याहं वाचयेद्विप्र मङ्गलं कलशं वहन् ।
यजेदर्घ्यादिभिः पश्चात् पालिकाद्यधिदेवताः ॥ १५८ ॥
16.159
अढ्जनाभं परं चैव पझनाभं ध्रुवं तथा ।
पात्रस्कन्धत्रिके विप्र क्रमेण परिपूजयेत् ॥ १५९ ॥
16.160
पालिकानां द्वादशके वह्न्यादीशानपश्चिमम् ।
अनन्तादि द्वादशकं घटिकाद्वादशे ततः ॥ १६० ॥
16.161
कूर्मादीनां द्वादशकं शरावाणां तु द्वादशे ।
द्विषट्कमेकश्रृंगाद्यं क्रमेण परिपूजयेत् ॥ १६१ ॥
16.162
प्रत्येकं पालिकादीनां कृते षोडशकल्पने ।
अनन्ताद्यं च षट्त्रिंशत् पातालशयनान्तिमम् ॥ १६२ ॥
16.163
लक्ष्म्यादिमतिपर्यन्तं शान्तिद्वादशकं यजेत् ।
प्रत्येकं पालिकादीनां षट्त्रिंशत् पातालशयनान्तिमम् ॥ १६३ ॥
16.164
चतुष्टयं तु मूर्तीनां स्वप्नाख्यपदसंस्थितम् ।
प्रभवाप्यययोगेन जाग्रद्रूपं तथाष्टकम् ॥ १६४ ॥
16.165
मूर्त्यन्तराणां द्वादशकं तच्छक्तीनां चतुस्त्रयम् ।
अनन्ताद्यं च्च षट्त्रिंशत् पातालशयनान्तिमम् ॥ १६५ ॥
16.166
स्वधादीनां च शक्तीनां चतुस्त्रिंशच्च तत्परम् ।
चक्रशंखौ क्रमाद्भोगैरर्घ्यगन्धादिर्भियजेत् ॥ १६६ ॥
16.167
अष्टके केशवाद्याश्च तदीयाः शक्तयो यजेत् ।
चतुष्के केशवाद्यांस्तु केवलान् द्वादशे यजेत् ॥ १६७ ॥
16.168
सर्वार्थे पालिकानां तु क्रमात् षोडशके यजेत् ।
वासुदेवादिचतुरः केशवादींश्च द्वादश ॥ १६८ ॥
16.169
अष्टके वासुदेवादीन् प्रभवाप्यययोगतः ।
चतुष्के वासुदेवादीन् प्रभवानुक्रमेण तु ॥ १६९ ॥
16.170
एममिष्ट्वा क्रमेणैव बीजानि क्षालयेत् ततः ।
गव्येन पयसा सम्यङ्भन्त्रेण द्वादशात्मना ॥ १७० ॥
16.171
बीजानां नामधेयैस्तु चतुर्थ्यन्ते पृथक् पृथक् ।
अर्घ्याद्यैः पूजयित्वा तु वाससा परिवेष्ट्य च ॥ १७१ ॥
16.172
हुतावशिष्टमाज्यं तु तदन्यं वापि संस्कृतम् ।
आदाय लोहजे पात्रे मृण्मये वा यथारुचि ॥ १७२ ॥
16.173
उभाभ्यां चैव हस्ताभ्यां दूर्वामादाय मूलतः ।
घृते निमज्य चाग्राणि पालिकादिषु सेचयेत् ॥ १७३ ॥
16.174
हस्तव्यत्यासमार्गेण वह्व्यादीशानपश्चिमम् ।
प्रतिस्कन्धं घृतारोपे दूर्वाभेदः प्रकीर्तितः ॥ १७४ ॥
16.175
एवं कृत्वा घृतारोपं भूयऋ स्कन्धादिदेवताः ।
प्रपूज्य सर्वबीजानि मन्त्रयेद्द्वादशात्मना ॥ १७५ ॥
16.176
आचार्यादीननुज्ञाप्य देशिकेन्द्र उदङ्मुखः ।
प्राङ्मुखो वा मुहूर्ते तु शोभने पालिकादिषु ॥ १७६ ॥
16.177
द्वादशाक्षरमन्त्रेण सर्वबीजानि वापयेत् ।
यद्वाजितन्तामन्त्रेण ह्युभयेनाथवा द्विज ॥ १७७ ॥
16.178
आग्नेयादीशपर्यन्तं प्रतिस्कन्धं क्रमेण तु ।
शंखदुंदुभिनिर्घोषजयनादसमन्वितम् ॥ १७८ ॥
16.179
बीजानि द्वादशोक्तानि वपेद्द्वादशसु क्रमात् ।
यद्वा सर्वाणि संमिश्य वपेदिच्छानुरूपतः ॥ १७९ ॥
16.180
बीजानामप्यलाभे तु मुद्गमेकं तु वापयेत् ।
आचार्यानुमताश्चान्ये देशिकाः साधका अपि ॥ १८० ॥
16.181
वपेयुर्ध्यानसंयुक्ताः केवलं गुरुरेव वा ।
हरिद्राचूर्णसंमिश्रैर्जलैः कुसुमवासितैः ॥ १८१ ॥
16.182
बहुभिः सेचयेद्विप्र देशिकेन्द्रः क्रमेण तु ।
प्रतिस्कन्धोपरिष्टात्तु चन्द्रमण्डलमध्यगम् ॥ १८२ ॥
16.183
तत्कान्तिसन्निभं देवं स्वदेहोत्थैर्निरन्तरैः ।
सिंचन्तममृतौघैश्तु बीजान्युप्तानि सर्वतः ॥ १८३ ॥
16.184
ध्यात्वार्चयित्वा पात्राणि नवैस्तु सदृशौः शुभैः ।
आच्छादयित्वा वसनैः प्रतिस्कन्धं क्रमेण तु ॥ १८४ ॥
16.185
वासुदेवं जगद्योनिं सर्वेषामूर्ध्वतो यजेत् ।
भूतक्रूरबलिं दद्यादष्टदिक्षु द्विजोत्तम ॥ १८५ ॥
16.186
भूतानां कुमुदादीनां पूर्वादिक्रमयोगतः ।
तदाप्रभृति ते सर्वे रक्षन्ति कुमुदादयः ॥ १८६ ॥
16.187
आचार्यांश्च गुरूपन् सर्वान् साधकान् वैष्णवानपि ।
प्रभूतैस्तु ततोद्दिष्टैस्ताम्बूलीसुमनःफलैः ॥ १८७ ॥
16.188
गुरुं च तोषयेद्वित्तैर्यजमामानः प्रयत्नवान् ।
क्रमादुत्यद्धृत्य तान् सर्वान् सुगुप्ते स्थापयेत् ततः ॥ १८८ ॥
16.189
मण्टपेशानकोणे वा देशेऽन्यत्र यथारुचि ।
तत्रापि पालिकादीनां परितोष्टासु दिक्षु च ॥ १८९ ॥
16.190
भूतानां कुमुदादीनां ऐन्द्रादिक्रमयोगतः ।
बलिं तु मण्टपे दद्यात् भूतक्रूरविधानतः ॥ १९० ॥
16.191
दीपान् बहूननिर्वाणान् परितः परिदीपयेत् ।
ऊनाधिक्योपशान्त्यर्थं शतमष्टोत्तरं हुनेत् ॥ १९१ ॥
16.192
द्वादशाक्षरमन्त्रं तु जपेद्वा बिंबसन्निधौ ।
कुम्भादिस्थानगस्याथ विभोः कुर्याद्विसर्जनम् ॥ १९२ ॥
16.193
परितः पालिकादीनां प्रतिरात्रं पृथक् पृथक् ।
दद्याद्दिवा रजन्यां वा बलिं कालद्वयेपि बा ॥ १९३ ॥
16.194
प्रातः कर्मदिने दद्याद्बलिं देशिकसत्तमः ।
यदा चोप्तानि बीजानि तदाप्रभृति नित्यशः ॥ १९४ ॥
16.195
न कश्चित् प्रविशेत् तत्र न स्पृशेद्वा कथंचन ।
आचार्य एव प्रविशेत् तच्छिष्यो वा समाहितः ॥ १९५ ॥
16.196
उच्छिष्टादीनि सर्वाणि दूरतः परिवर्जयेत् ।
अदत्वा तु बलिं कांचिन्न कुर्यात् पालिकाक्रियाम् ॥ १९६ ॥
16.197
हरिद्रावारिभिः सिञ्चेदङ्कुराण्यभिवृद्धये ।
अंकुरान् श्यामलान् रक्तान् कृष्णान् तिर्व्यग्गतांस्तथा ॥ १९७ ॥
16.198
अप्ररूढान् मुनिश्रेष्ठ वर्जयेत्तु प्रयत्नतः ।
श्यामेषु द्रव्यनाशः स्याद्रक्तेषु कलहो भवेत् ॥ १९८ ॥
16.199
कृष्णेषु मानसी पीडा रोगी तिर्यग्गतेषु च ।
अप्ररूढेषु मरणं भवेत् तत्र न संशयः ॥ १९९ ॥
16.200
शुभं पीतेषु शुक्लेषु ऋजुष्वूर्ध्वगतेष्वपि ।
सर्वसंपत्समृद्धिश्च कर्तुः कारयितुर्भवेत् ॥ २०० ॥
16.201
कर्मार्थमह्कुराण्यादौ यः समारोपयेदगुरुः ।
स एव कर्म कार्त्स्न्येन कुर्यात् प्राज्ञोपि नेतरः ॥ २०१ ॥
16.202
अनुज्ञया वा तत्पुत्रः शिष्यो वा तत् समापयेत् ।
एवं सर्वेषु यागेषु अङ्कुरारोपणं भवेत् ॥ २०२ ॥
16.203
देशं कालं यथा वित्तं ज्ञात्वा स्वाधीनतां तथा ।
उक्तं सर्वं समभ्यूह्य कुर्यात् कर्म प्रधानकम् ॥ २०३ ॥
16.204
एवं कृत्वांकुरारोपं ध्वजार्थं पटमाहरेत् ।
यथावित्तानुसारेण क्रीतं वाऽभिनवं शुभं ॥ २०४ ॥
16.205
दुकूलपट्टं देवाङ्गं चित्रक्षौममथापि वा ।
अथ कार्पासिकं वापि नीलरोमादिवर्जितम् ॥ २०५ ॥
16.206
सुलक्षणं दृढं स्निग्धं हस्तमानमिहोच्यते ।
शिष्यदेशिककर्तृस्थैर्हस्तैर्मानं प्रकल्पयेत् ॥ २०६ ॥
16.207
आद्यं द्वादशहस्तं स्यात् दशहस्तं तु मध्यमम् ।
अधमं चाष्टहस्तं स्यात् विस्तारं च चतुष्करम् ॥ २०७ ॥
16.208
उत्तमं स्यात् त्रिहस्तं तु मध्यमर्धाधिकं भवेत् ।
त्रिहस्तमधमं विद्धि तत्राद्ये द्विजसत्तम ॥ २०८ ॥
16.209
द्विहस्तं शिखरार्थं तु कल्पयेद्देशिकोत्तमः ।
तद्वत् पुञ्छं प्रकुर्वींत अधोभागे ध्वजस्य तु ॥ २०९ ॥
16.210
मध्यतःसप्तहस्तेन लेखयेद्विनतासुतम् ।
शिरोदण्डनिवेशार्थं हस्तार्धं परिकीर्तितम् ॥ २१० ॥
16.211
पाददण्डनिवेशार्थं तद्वन्मानं भवेद्द्विज ।
मध्यमस्याथ वक्ष्यामि समासादवधारय ॥ २११ ॥
16.212
हस्तमर्धादिकं विप्र संयुक्तं त्रिभिरंगुलैः ।
कल्पयेच्छिखरार्थं तु तद्वत् पुच्छं प्रकीर्तितम् ॥ २१२ ॥
16.213
मध्यतो हस्तषट्केण गरुडं तु समालिखेत् ।
दण्डद्वयनिवेशार्थं शेषं तु परिकल्पयेत् ॥ २१३ ॥
16.214
अधमस्याथ वक्ष्यामि पटस्य मुनिपुंगव ।
पादाधिकेन हस्तेन शिखरं स्यात् तथा भवेत् ॥ २१४ ॥
16.215
अधः पुच्छं तु हस्तार्थे दण्डद्वयनिवेशनम् ।
मध्यतः पञ्चहस्तेन वैनतेयं समालिखेत् ॥ २१५ ॥
16.216
भूयो विध्यन्तरं वक्ष्ये विभवेच्छानुसारतः ।
आद्यं त्रिपञ्चहस्तं स्यान्मध्यमं तु त्रयोदशम् ॥ २१६ ॥
16.217
एकादशकरायाममधमं परिकीर्तितम् ।
अर्धाधिकं चतुर्हस्तं विस्तारं चोत्तमं भवेत् ॥ २१७ ॥
16.218
पादाधिकं मध्यमं स्यादधमं पादहीनकम् ।
पादाधिकं द्विहस्तं तु उत्तमे शिखरार्थतः ॥ २१८ ॥
16.219
तद्वत् पुच्छं तु हस्तेन दण्डद्वयनिवेशनम् ।
मद्यतश्चाष्टभिर्हस्तैर्गरुडं तु समालिखेत् ॥ २१९ ॥
16.220
मध्यमे शिखरं हस्तयुग्मं पुच्छमधस्तथा ।
दण्डद्वयनिवेशार्थं अष्टांशोनेन हस्ततः ॥ २२० ॥
16.221
त्र्यंगुलोत्तरसप्तार्धैर्हस्तैर्गरुडमालिखेत् ।
अधमं त्वथ वक्ष्यामि पादोनात्तु करद्वयात् ॥ २२१ ॥
16.222
शिखरं स्यात्तथा पुच्छं पादोनेन करेण तु ।
दण्डद्वयनिवेशः स्यात् पादोनकरसप्तके ॥ २२२ ॥
16.223
गरुडं तु लिखेद्विद्वान् भूयो विध्यन्तरं श्रृणु ।
उत्तमं नवहस्तं तु सप्तहस्तं तु मध्यमम् ॥ २२३ ॥
16.224
अथमं पञ्चहस्तं तु त्रिविधः पठ उच्यते ।
तदर्धं चैव विस्तारं तदर्धं शिखरं भवेत् ॥ २२४ ॥
16.225
तत्समं पुच्छमप्युक्तं कर्णपुच्छं तथैव च ।
मूलबिंबसमायामं द्वारायाममथापि वा ॥ २२५ ॥
16.226
आयामार्धेन विस्तीर्णं पादेन कृतशेखरम् ।
शिखरेण समं पुच्छं तदर्धं कर्णपुच्छकम् ॥ २२६ ॥
16.227
पक्षद्वयेपि पूर्वोक्ते कर्णपुच्छेन कल्पयेत् ।
बालाख्यध्वजवस्त्रं तु पटाख्यपरिसम्मितम् ॥ २२७ ॥
16.228
विस्तारं पटतुल्यं तु पूर्ववच्छिखरं भवेत् ।
निर्णेजितं खलीयुक्तं शोषितं लक्षणान्वितम् ॥ २२८ ॥
16.229
पटं विचित्रयेद्विद्वान् शिल्पिना कुशलेन वै ।
च्छत्रं तु शिखरे कुर्यात् पार्श्वयोः श्वेतचामरे ॥ २२९ ॥
16.230
अधोऽनेकदलं पझं तदधः पूर्णकुम्भकम् ।
कुम्भस्य पार्श्वे विलिखेत् सांकुरं पालिकागणम् ॥ २३० ॥
16.231
दीपौ सुशोभनौ कुर्यात् पालिकानां तु पार्श्वयोः ।
ध्वजं तु गरुडाकारं एकमूर्तेस्तु सत्तम ॥ २३१ ॥
16.232
सत्यः सुपर्णो गरुडस्तार्क्ष्यश्च चतुरात्मनः ।
पञ्चमूर्तेस्तु चत्वारो विहगेश्वरसंयुताः ॥ २३२ ॥
16.233
सुपर्णतालमकरऋश्या वा चतुरात्मनः ।
तत ऊर्ध्वं तु सर्वेषां व्यूहानां गरुडो ध्वजः ॥ २३३ ॥
16.234
पटमध्ये तु गरुडं द्विभुजं विधृताञ्जलिम् ।
पुष्पांजलिपुटं वाथ सुवर्णाचलसन्निभम् ॥ २३४ ॥
16.235
गगने गमनारंभपक्षविक्षेपणान्वितम् ।
कुञ्चितो वामपादस्तु दक्षिणः पृष्ठतः स्थितः ॥ २३५ ॥
16.236
किंचिदायतवृत्ताक्षं नीलदीर्घाग्रनासिकम् ।
अतीव शान्तवेषं तु तथा प्रहसिताननम् ॥ २३६ ॥
16.237
बालचन्द्रसमाकारदंष्ट्राद्वयविराजितम् ।
कुटिलभ्रकुटीभंगं भंगुरालकशोभितम् ॥ २३७ ॥
16.238
कम्बुग्रीवं बृहद्बाहुं पीनांसं दृढवक्षसम् ।
पृथूदरं निम्ननाबिं रोमराजिविराजितम् ॥ २३८ ॥
16.239
सुवृत्तकनकस्तम्भपीवरो रुद्वयान्वितम् ।
हेमरंभासमाकारजंघाक्रान्तपदद्बयम् ॥ २३९ ॥
16.240
करण्डमकुटाक्रान्तपुष्पापीडविराजितम् ।
वृत्तवैपुल्यमानेन लोचने पझपत्रवत् ॥ २४० ॥
16.241
भ्रूयुग्मं नारसिंहोक्तं घ्राणाग्रं शुकतुण्डवत् ।
सिंहवन्मध्यदेशस्तु तद्वंशं गजपृष्ठवत् ॥ २४१ ॥
16.242
तदेवं दैवदैर्घ्येण विस्तृतं हंसपक्षवत् ।
स्वपक्षमानाद्द्विगुणं तत्पुच्छं शतशाखिनम् ॥ २४२ ॥
16.243
सर्वेषां विद्धि सामान्यं विशेषाख्यमथोच्यते ।
मकुटादिसपादान्तं नानारत्नेन शोभितम् ॥ २४३ ॥
16.244
हारकेयूरकटकब्रह्नसूत्रविभूषितम् ।
प्रलंबकर्णपाशान्तविश्रान्तशुभकुण्डलम् ॥ २४४ ॥
16.245
ललाटतिलकोपेतं पुष्पकर्णावतंसकम् ।
रत्नांगुलीयकोपेतं शिंजिनीरंञ्जितांघ्रिकम् ॥ २४५ ॥
16.246
अन्यैराभरणैर्दिव्यैर्भूषितं सर्पभूषणम् ।
नीलांबरधरं नीलवारवाणविराजितम् ॥ २४६ ॥
16.247
फुल्लरक्तोत्फलदलस्रग्भिर्मण्डितकन्धरम् ।
तथाविचित्रकुसुमस्रग्भिरन्याभिरुज्ज्वलम् ॥ २४७ ॥
16.248
अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः ।
तक्षकः कटिसूत्रं तु हारः कार्कोटकस्तथा ॥ २४८ ॥
16.249
पझो पक्षिणकर्णे तु महापझस्तु वामतः ।
शंखः शिरः प्रदेशे तु गुलिकच भूजान्तरे ॥ २४९ ॥
16.250
एतैरष्टोरगैराद्यैर्भूषितं भुजगोत्तमैः ।
अनन्तः शुक्लवर्णाभः रक्तवर्णस्तु वासुकिः ॥ २५० ॥
16.251
तक्षकः पीतवर्णआभो धूम्रः कार्कोटकस्तथा ।
शंखस्तुहिनवर्णाभो गुलिकस्त्वलिसन्निभः ॥ २५१ ॥
16.252
पझः पझसमानाभो महापझस्तु पिंगलः ।
पञ्चवर्णैर्लिखेदेवं देवं पञ्चायुधं तथा ॥ २५२ ॥
16.253
चक्रं खङ्गं शरं चैव शंखं शार्ङ्गं गदां क्रमात् ।
पटोर्ध्वे हयुभये पार्श्वे विलिखेच्च यथाविधि ॥ २५३ ॥
16.254
तदधो दक्षिणे भागे वह्विमण्डलमालिखेत् ।
तद्वल्लिखेद्वामभागे स्वस्तिकं लक्षणान्वितम् ॥ २५४ ॥
16.255
लेपयेत् पटशेषं तु श्यामलेनासितेन वा ।
विचित्रपुष्पसंयुक्तपत्रवल्लीसमन्वितम् ॥ २५५ ॥
16.256
एवं शिल्पिवरेणैव कारयेद्देशिकोत्तमः ।
शूद्रेण वा द्विजश्रेष्ठ दीक्षितेन यथाविधि ॥ २५६ ॥
16.257
कुलालेनाथवा मन्त्री कारयेत् कुशलेन च ।
सामान्यलक्षणं ह्येतत् कीर्तितं द्विजसत्तम ॥ २५७ ॥
16.258
अङ्गुलादिविभागेन विशेषणवधारय ।
अष्टाधिकशतैकांशाद्यद्बिंबेंऽगुलमीरितम् ॥ २५८ ॥
16.259
तत्रैव मूलबिंबोत्थैरङ्गुलैः परिकल्पयेत् ।
तद्वाहनस्य मानं तु विभागमवधारय ॥ २५९ ॥
16.260
तस्य बिंबसमुत्थेन तालेन मुखमण्डलम् ।
द्व्यंगुलं तु ललाटोर्ध्वं जटाबन्धो द्विलोचनम् ॥ २६० ॥
16.261
द्व्यंगुलेनोन्नतं कण्ठं उरः पञ्चांगुलं स्मृतम् ।
अष्टांगुलं तदुदरं कटिः पञ्चांगुलोन्नता ॥ २६१ ॥
16.262
नवांगुलोन्नतावूरू जानुनी द्व्यंगुले स्मृते ।
अष्टांगुलोच्छ्रिते जंधे द्व्यंगुले पादपिण्डिके ॥ २६२ ॥
16.263
शममेकं कलाहीनं तद्ग्रीवायास्च वेष्टनम् ।
बिंबतुल्या परिज्ञेया सर्वदास्यांगविस्तृतिः ॥ २६३ ॥
16.264
द्विषड्भागादिकं विद्धि वेष्टनं ह्युदरस्य वा ।
परिधिः कटिदेशस्य चतुर्णेत्राधिकस्तु वै ॥ २६४ ॥
16.265
बिंबोक्तसदृशं बिद्धि तदूर्वोमूलवेष्टनम् ।
तदेव जंघामध्यस्य जंघानत्स्य तदेव हि ॥ २६५ ॥
16.266
पादः पञ्चकलायामश्चतुरंगुलविस्तृतः ।
त्र्यंगुलं पार्ण्णिदेशाच्चाप्यंगुष्ठौ च कलासमौ ॥ २६६ ॥
16.267
विज्ञेयास्त्वंघ्रिदैर्घ्या यवोनांगुलयः क्रमात् ।
नाभिरन्ध्रं सुविस्तीर्णं द्व्यर्धलोचनविस्तृतम् ॥ २६७ ॥
16.268
तद्वाहुमस्तकं विद्धि उच्छ्रायेण द्विलोचनम् ।
भुजोपभुजयुग्मं यत् तद्द्वितालसमं स्मृतम् ॥ २६८ ॥
16.269
मध्यमांगुलिपर्यन्तं मणिबन्धान्नवांगुलम् ।
त्रिकलः पाणिविस्तारस्तन्नखा निशितोन्नताः ॥ २६९ ॥
16.270
कलार्धेनाधिकं बाहोस्तदर्धं बाहुवेष्टनम् ।
बिंबोक्तांशद्वयेनैव स्तनभूर्लोचनेन तु ॥ २७० ॥
16.271
वृत्तवैपुल्यमानेन लोचने पझपत्रवत् ।
भ्रूयुग्मं नारसिंहोक्तं घ्राणाग्रं शुकचञ्चुवत् ॥ २७१ ॥
16.272
कलार्धमानदीर्धं च तद्वंशं गजपृष्ठवत् ।
स्वायामदीर्धं तत्पक्षयुगलं कुक्षिदेशगम् ॥ २७२ ॥
16.273
तदेव दैर्घ्यादर्धेन विस्तृतं हंसपक्षवत् ।
स्वपक्षमानाद्द्विगुणं तत्पुच्छं शतशाखिनः ॥ २७३ ॥
16.274
सपक्षमेवमायामं सात्यं त्ववयबान्वितम् ।
सर्वेषां विद्धि सामान्यं विशेषाख्यमथोच्यते ॥ २७४ ॥
16.275
ऊरु द्वयान्नयेद्ध्रासमङ्गुलानां त्रयं तथा ।
जंघाकाण्डोच्छ्रितेः कुर्याज्जङ्घाभ्यां चात्र वेष्टनम् ॥ २७५ ॥
16.276
बिंबाख्यमणिबन्धस्य समं मूलान्महामते ।
जंघादेशात्तदर्देन सह चार्धाङ्गुलेन तु ॥ २७६ ॥
16.277
पादे जालं परिज्ञेयं विस्तारेण षडंगुलम् ।
शेषं सत्योदित्तं सर्वं सर्वेषां विद्धि सर्वदा ॥ २७७ ॥
16.278
किन्तु पादोत्थितौ पक्षौ दैर्घ्यात्तद्दलविस्तृतौ ।
एषां चोड्डीयमानानां सायामा पक्षविस्तृतिः ॥ २७८ ॥
16.279
पञ्चानां च परिज्ञेया स्थितानामर्धलक्षणा ।
पटे तु लिख्यमाने तु पक्षदैर्घ्यं तु पार्श्वयोः ॥ २७९ ॥
16.280
यावत् पटसमाप्तिः स्यात् पक्षास्त्वग्रसमन्विताः ।
संख्याताः संख्यया विप्र पच्च सप्ताद्ययुग्मया ॥ २८० ॥
16.281
यद्वा बिंबोक्तमार्गेण अष्टोत्तरशतांगुलैः ।
सत्यादीनां तु पच्चानां अंगप्रत्यंगकल्पना ॥ २८१ ॥
16.282
यद्वा मध्यांगुलैर्मध्यपर्वदैर्ध्यसमुत्थितैः ।
देशिकीयैरंगुलैस्तु सनैरष्टाभिरेव च ॥ २८२ ॥
16.283
सत्यादीनां तु पञ्चानां मानं कुर्यात्तु देशिकः ।
मूलबिंबस्य बाह्वन्तो नाभ्यन्तो वा तदुच्छ्रयः ॥ २८३ ॥
16.284
मानमेतत्तु कथितमुन्मानमवधारय ।
गरुडस्य पटस्थस्य सत्यादीनां तथा यदा ॥ २८४ ॥
16.285
मद्यमांगुलमद्यस्थदीर्घपर्वेण कल्पयेत् ।
देशिखीयेन मानं तु अष्टोत्तरशतांगु लैः ॥ २८५ ॥
16.286
शिरःप्रभृति पादान्तं तदाचोन्मानमुच्यते ।
अंगुलत्रितयं मूर्घ्नि मुखं षड्गोलकं भवेत् ॥ २८६ ॥
16.287
कण्ठं त्र्यंगुलमानं स्यात् तदधो द्वादशांगुलम् ।
स्तनान्तरं समारभ्य नाभ्यन्तं षट्कलं भवेत् ॥ २८७ ॥
16.288
तदधः कटिपर्यन्तं भवेदंगुलपञ्चकम् ।
तदधो योनिपर्यन्तं अंगुलानां च सप्तकम् ॥ २८८ ॥
16.289
जान्वन्तं द्वादशकलं त्र्यंगुलं जानुमण्डलम् ।
तदधो गुल्फकान्तं तु भवेद्द्वादशगोलकम् ॥ २८९ ॥
16.290
त्र्यंगुलं गुल्फमानं स्यात् प्रमाणं क्रमतः श्रृणु ।
मुखभागे ।़क्षिसूत्रान्तं उपरिष्टाद्द्विगोलकम् ॥ २९० ॥
16.291
तथा नासापुटान्तं च चिबुकान्तं तथैव च ।
षट्कलः कर्णसूत्रान्तं मध्यतो मुखविस्तरः ॥ २९१ ॥
16.292
नवांगुलो ह्यधोभागे ललाटांशे दशांगुलिः ।
केशभ्रूरेखयोर्मध्यमेकांगुलमिदं भवेत् ॥ २९२ ॥
16.293
अक्षिभ्रुवोरन्तरं स्यात् सपादांगुलिविस्तरम् ।
नेत्रायामस्तु पादोनमंगुलत्रितयं भवेत् ॥ २९३ ॥
16.294
तद्विस्तारस्तु पादोनमंगुलिद्वितयं भवेत् ।
एकांगुलं तारकं स्यान्नासाया मूलविस्तरः ॥ २९४ ॥
16.295
द्व्यंगुलं मध्यतः सांशं तत् त्र्यंगुलमधो भवेत् ।
तदग्रायाम एकः स्यात् तदर्धं विस्तृतिर्भवेत् ॥ २९५ ॥
16.296
आस्यायामो द्विगोलः स्यात् तद्विस्तारोंऽगुलो भवेत् ।
साधरोष्ठं तदोष्ठं स्याद्व्यायामो द्व्यंगुलं भवेत् ॥ २९६ ॥
16.297
सपादो दंष्ट्रयोर्मघ्ये तयोरायाम ईरितः ।
सपादमंगुलं विप्र विस्तारोथांगुलो भवेत् ॥ २९७ ॥
16.298
मूलदेशे तयोरग्रौ शितौ चन्द्रदलाग्रवत् ।
पंचांगुलं कण्ठदैर्घ्यं विस्तारो गोलकं भवेत् ॥ २९८ ॥
16.299
पडंगुलं पाददैर्त्र्यं कर्णआधारश्चतुष्कलः ।
सार्धांगुलः स्यात्तदधोवक्षः पीठोर्ध्वदेशतः ॥ २९९ ॥
16.300
अष्टादशकलस्तारो बाहुव्यासावधि द्विज ।
तदधः कक्षपर्यन्तं तारो द्वादशगोलकः ॥ ३०० ॥
16.301
तदधोभागविस्तारः सांगुलं नवगोलकम् ।
उदरस्य तु विस्तार एकविंशांगुलो भवेत् ॥ ३०१ ॥
16.302
तत्रैकांगुलिसन्नाहं नाभिवृत्तं सुशोभनम् ।
श्रोणीभागस्य विस्तारः सांगुलं नवगोलकम् ॥ ३०२ ॥
16.303
ऊरुमूलस्य विस्तारस्त्रयोदशांगुलो भवेत् ।
तन्मध्ये विस्तृतिर्विप्र द्वादशांगुलसम्मिता ॥ ३०३ ॥
16.304
सप्तांगुलमुपस्थं स्यात् त्रिकला जानुविस्तृतिः ।
अधः पञ्चांगुलं सार्धं पद्दैर्ध्यं सप्तगोलकम् ॥ ३०४ ॥
16.305
अङ्गुष्ठाग्रावधिर्यावत् पार्प्ण्योः प्रभृति तत्र तत् ।
अङ्गुष्ठं त्र्यंगुलं सार्धं अन्या अंगुलयः क्रमात् ॥ ३०५ ॥
16.306
अङ्गुलाष्टांशहीनाः स्युः अंगुष्ठस्य तु विस्तृतिः ।
सार्धांगुला तदन्यासां क्रमान्न्यूना तु पूर्ववत् ॥ ३०६ ॥
16.307
अंगुष्ठनखदैर्व्यं तु सांशमेकाङ्गुलं भवेत् ।
तद्विस्तारस्त्रिपादः स्यात् तदन्या ह्रासयेत् क्रमात् ॥ ३०७ ॥
16.308
कनीयो नखदैर्व्यं तु यदा चार्धांगुलं भवेत् ।
तद्विस्तारस्तदर्धं स्यादंगुलीमूलदेशतः ॥ ३०८ ॥
16.309
चरणस्य तु विस्तारः सार्धपञ्चांगुलो भवेत् ।
पञ्च मध्ये पार्ष्णिभागे सार्धं तु चतुरंगुलम् ॥ ३०९ ॥
16.310
शाखापार्श्वे तदुच्छ्रायस्त्र्यंगुलं परिकीर्तितम् ।
मध्यतस्तद्भवेत् सार्धं भुजयोरथ तच्छृणु ॥ ३१० ॥
16.311
स्कन्धाग्रात् कूपरान्तं च चतुर्विंशाङगुलो भबेत् ।
भुजायामोस्य मूलस्य विस्तारः स्यात् षडंगुलम् ॥ ३११ ॥
16.312
तदधः पञ्चकं सार्धं कूर्परान्नवगोलकम् ।
मणिबन्धावसानं स्याद्दैर्घ्यं कूर्परविस्तृतिः ॥ ३१२ ॥
16.313
सार्धं षडङगुलं विप्र मणिबन्धादिकं भवेत् ।
अंगुलत्रयविस्तारं कराग्रं षट्कलायतम् ॥ ३१३ ॥
16.314
विस्तारो द्विकलः प्रेक्तो वामे तु द्व्यंगुलं भवेत् ।
दृश्यं तिरोहितं चान्यद्द्वयं दक्षकरे तु वै ॥ ३१४ ॥
16.315
मध्यमाङ्गुलदैर्घ्यं तु पञ्चांगुलविनिमितम् ।
अनामितर्जनीन्युनशाखानां तु क्रमेण तु ॥ ३१५ ॥
16.316
अर्धार्धाङगुलहीनं स्यादंगुलं मध्यमार्धकम् ।
मध्यमाङष्ठयोस्तारः सार्धमेकाङ्लं भवेत् ॥ ३१६ ॥
16.317
तर्जन्यनामयोरेकं कनीयस्यास्त्रिपादकम् ।
सार्धांगुलं नखायामं तदर्धं विस्तृतिर्भदेत् ॥ ३१७ ॥
16.318
मकुटस्योच्छ्रयो विप्र भवेदष्टादशांगुलः ।
तन्मूलविस्तृतिर्विप्र षोडशांगुलसम्मिता ॥ ३१८ ॥
16.319
ष्टकला मध्यतो ज्ञेया अग्रतस्त्रिकला भवेत् ।
शिखामणेः समुच्छ्रायं कल्पयेत् सार्धमङ्लम् ॥ ३१९ ॥
16.320
विस्तारः स्यात् सपादस्तत्पक्षयाणं त्रितालकम् ।
यद्वा पटावसानं स्याद्यथाशोभानुरूपतः ॥ ३२० ॥
16.321
एकैकपक्षतिस्तारं त्र्यंगुलं त्र्यंगुलं भवेत् ।
नागानामास्यदैर्घ्यं तु साधमेकाङ्गुलं भवेत् ॥ ३२१ ॥
16.322
तद्विस्तारोङगुलं विप्र तत्सरोङगुलविस्तृतिः ।
द्व्यंगुलं तदधस्तात् स्यात् वालमर्धांगुलं तथा ॥ ३२२ ॥
16.323
यथा क्रमेण हीनः स्यान्नागानां भोगविस्तरः ।
अनन्तस्य प्रधानस्य दैर्घ्यं द्व्यंगुलसम्मितम् ॥ ३२३ ॥
16.324
तत्तारः सार्धमेकं स्याद्द्वयं तद्गलविस्तरः ।
तदधो द्वितयं सार्धं शीर्षाणीतरनागवत् ॥ ३२४ ॥
16.325
वालाग्रमेकविस्तारं यथा स्यात् कल्पयेत् तथा ।
नागाना भोगदैघ्यस्य मानं कुर्याद्यथारुचि ॥ ३२५ ॥
16.326
दैर्घ्यं विष्टरपझस्य पञ्चाशच्चतुरंगुलम् ।
षड्गोलकस्तद्विस्तारः कर्णिकायाः समायतिः ॥ ३२६ ॥
16.327
एकविंशत् कलाःप्रोक्तास्तद्विस्तारस्त्रिगोलकः ।
अन्यच्च वैनतेयस्य मानं यद्यत् प्रकल्पितम् ॥ ३२७ ॥
16.328
सुसमं यद्विभक्तव्यमष्टोत्तरशतांगुलम् ।
प्राग्वत् तदंगुलं कृत्वा उन्मानाद्यं प्रकल्पयेत् ॥ ३२८ ॥
16.329
तदंगुलानुसारेण नागाद्यं चापि कल्पयेत् ।
आद्यपक्षे तु नागाद्यं कुर्यादाद्यानुसारतः ॥ ३२९ ॥
16.330
पञ्चांगभूषणायुक्तं वस्त्रस्रग्गन्धवासितम् ।
एवं सर्वं समापाद्य देशिकःसुसमाहितः ॥ ३३० ॥
16.331
ध्वजारोहणनक्षत्रात् पूर्वेद्युश्च निशामुखे ।
प्रयायात् कर्मशालां च सहितो मूर्तिधारकैः ॥ ३३१ ॥
16.332
लिखितं पटमालोक्य लक्षणं सुपरीक्ष्य च ।
शंखदुन्दुभिनिर्घोषैः काहलध्वनिभिस्तथा ॥ ३३२ ॥
16.333
गीतैश्च विविधै रम्यैः श्रुतिघोषैः पृथग्विधैः ।
सहध्वजपटं तस्मादानयेन्मुखमण्टपे ॥ ३३३ ॥
16.334
प्रविश्याभ्यन्तरं मूलविंबस्थं परमेश्वरम् ।
अभिवाद्यार्घ्यगन्धाद्यैः पूजेयत् पुष्पधूपकैः ॥ ३३४ ॥
16.335
विसृज्य शिल्पिनं पश्चात् संप्रोक्ष्यार्ध्यांभसा पटम् ।
सिद्धार्थकान्वितैः पुष्पैः ताडयेदस्त्रमन्त्रितैः ॥ ३३५ ॥
16.326 (zweites Vorkommen)
दर्शयेद्देवदेवस्य सम्मुखं साधकोत्तमः ।
दहनाप्यायनं कुर्यात् विधिदृष्टेन कर्मणा ॥ ३२६ ॥
16.337
भूयोर्ध्यगन्धपुष्पाद्यैः प्रपूज्य परमेश्वरम् ।
गिरोच्चया त्विमं मन्त्रं बद्धांजलिकरः पठेत् ॥ ३३७ ॥
16.338
भगवन् पुण्डरीकाक्ष सर्वेश्वर जगन्मय ।
त्वया यथा तु कथितं तथा कर्तुं न शक्यते ॥ ३३८ ॥
16.339
अस्वातन्त्र्यादसामर्थ्यात् श्रद्धादीनामभावतः ।
तस्मान्मानादिसर्वेषां न्यूनाधिक्योपशान्तये ॥ ३३९ ॥
16.340
समालोकय नेत्राम्यां शीतलाभ्यां पटस्थितम् ।
सर्वदोषापहारिभ्यां वैनतेयं प्रसीद ॐ ॥ ३४० ॥
16.341
दीक्षितानां ततो विप्र हस्ते दत्वा तु तं पटम् ।
चतुः प्रदक्षिणीकृत्य तेन सार्धं तु देशिकः ॥ ३४१ ॥
16.342
प्रथमावरणे वापि द्वितीयावरणेपि वा ।
प्रविशेद्यजमानेन प्रासादाग्रस्थमण्डपम् ॥ ३४२ ॥
16.343
तत्र न्यस्त्वा भद्रफीठं तदूर्ध्वे शालितण्डुलैः ।
वेदिं कृत्वा तु तत्पृष्ठे भद्राख्यं मण्डलं लिखेत् ॥ ३४३ ॥
16.344
विभवे सति वस्त्रं तु समास्तीर्य तदूर्ध्वतः ।
तिलराशिं समुत्कीर्य तन्मध्ये स्वस्तिकं लिखेत् ॥ ३४४ ॥
16.345
तस्योपरिष्टात् संस्थाप्य प्रासादाभिमुखं पटम् ।
उपविश्यासने पश्चादाचार्यः सुसमाहितः ॥ ३४५ ॥
16.346
करशुद्ध्यादि पूर्वोक्तं स्वदेहार्चनपश्चिमम् ।
सर्वं खगेशमन्त्रेण सांगेन तु समाचरेत् ॥ ३४६ ॥
16.347
द्वार्स्थतोरणकुंभादियजनं प्राग्वदाचरेत् ।
ततः पुण्याहघोषं तु कारयेत् पूर्ववद्द्विज ॥ ३४७ ॥
16.348
गरुडस्याग्रतः प्राग्वत् कुम्भं करकसंयुतम् ।
भारमात्रोपक्लृप्ते तु धान्यपीठे तु विन्यसेत् ॥ ३४८ ॥
16.349
जलद्रोण्यादिकं पात्रं गन्धतोयैः सुपूरितम् ।
दक्षिणे करकस्याथ विनिवेश्य च तत्र तु ॥ ३४९ ॥
16.350
सद्यश्छायाचिवसनमाचरेद्गरुडस्य तु ।
स्नपनानां पुरोक्तानां पूर्वस्मिन्नवके द्विज ॥ ३५० ॥
16.351
अधमाधममार्गेण स्नपनं तु समाचरेत् ।
अग्रतो वैनतेयस्य वेदिकोपरि संस्थिते ॥ ३५१ ॥
16.352
दर्पणे तु ततः पश्चान्मुहूर्ते शोभने गुरुः ।
नयनोन्मीलनं कुर्यात् प्रागुक्तेनैव वर्त्मना ॥ ३५२ ॥
16.353
सर्वेषामपि सर्पाणां नेत्रोन्मीलनमाचरेत् ।
प्राग्वत् संशुद्धदेहस्तु शिल्पी प्रकटतां नयेत् ॥ ३५३ ॥
16.354
सर्वं तु पूर्ववत् कुर्यान्नेत्रयोः पूरणादिकम् ।
कुम्भे च करके चैव आसनं परिकल्प्य च ॥ ३५४ ॥
16.355
कुम्भे गरुडमावाह्य करके मन्त्रमस्त्रपम् ।
पूजयित्वार्घ्यगन्धाद्यैस्ततो दिक्कलशाष्टकैः ॥ ३५५ ॥
16.356
इन्द्रादिलोकपालांस्तु प्रादक्षिण्येन पूज्य च ।
भित्तिसंसेचनं कृत्वा भूयः संस्थाप्य तत्र तु ॥ ३५६ ॥
16.357
ततो ध्वजपटे प्राग्वदासनं परिकल्प्य च ।
ततो गरुडमन्त्रं तु सहस्रादित्यभास्वरम् ॥ ३५७ ॥
16.358
सर्वरोगप्रशमनं सर्वोपद्रवनाशनम् ।
सर्वसिद्धिप्रदं नॄणां सर्वदारिद्र्यनाशनम् ॥ ३५८ ॥
16.359
हृदयाद्रेच्य विप्रेन्द्र पटस्थगरुडे न्यसेत् ।
सकलीकरणं कृत्वा सन्निधिं च समाचरेत् ॥ ३५९ ॥
16.360
सन्निरोधं च साम्मुख्यं मुद्राबन्धं तथैव च ।
लययागं भोगयागं यथावद्द्विजसत्तम ॥ ३६० ॥
16.361
सर्वं गरुडमन्त्रेण सांगेन तु समाचरेत् ।
कुम्भे च करके चैव पटे च क्रमयोगतः ॥ ३६१ ॥
16.362
महता विभवेनैव पूजनं तु समाचरेत् ।
अलंकारासनान्तं च यथोक्तेन क्रमेण तु ॥ ३६२ ॥
16.363
कृत्वा संपूजनं विप्र गरुडस्य ततः परम् ।
प्रासादाभ्यन्तरे विप्र देशिकानुमतेन तु ॥ ३६३ ॥
16.364
अन्येन गुरुणा यद्वा साधकेन विशेषवत् ।
पूजनं कारयेत् सम्यङ्मूलमूर्तिगतस्य च ॥ ३६४ ॥
16.365
यात्रामूर्तिगतस्यापि विभोर्दानान्तमेव च ।
स्नपनं गरुडस्थस्य विशेषार्चनपूर्वकम् ॥ ३६५ ॥
16.366
तत्परं वैनतेयस्य भोज्यासनपुरस्सरैः ।
विविधैर्मधुपर्कान्तं हृद्यैः सकलमूलकैः ॥ ३६६ ॥
16.367
अन्नैरतिप्रभूतैश्च तथान्यैर्विविधैरपि ।
भोगैरिष्ट्वा जपान्तं च पूर्ववत् क्रमयोगतः ॥ ३६७ ॥
16.368
संप्रदानं पृथक् कुर्यात् कारिभ्यस्तु यथाविधि ।
मन्त्रास्त्रकुम्भयोर्दत्तमाचार्येभ्यो ददेत् ततः ॥ ३६८ ॥
16.369
पटस्थस्यापि नैवेद्यं किंचिदादाय पात्रगम् ।
देशिकः स्वयमादद्याद् गुर्वादिभ्योपि वै ददेत् ॥ ३६९ ॥
16.370
मूलबिंबस्थितस्यापि यात्राबिंबस्थितस्य च ।
देवस्य मधुपर्काद्यैर्नैवेद्यं विनिवेदितम् ॥ ३७० ॥
16.371
दापयेद्देशिकादिब्यस्ततो होमं समाचरेत् ।
कुण्डं सलक्षणं कृत्वा प्राग्भागे गरुडस्य तु ॥ ३७१ ॥
16.372
तत्रानलं च संस्कृत्य आवाह्य विहगेश्वरम् ।
समिधां सप्तकं हुत्वा शान्त्यर्थं तु तिलैर्घृतैः ॥ ३७२ ॥
16.373
आहुत्यष्टोत्तरशतं हुत्वा पूर्णां निवेदयेत् ।
यद्वा नैमित्तिके कुण्डे होमं कुर्यात्तु देशिकः ॥ ३७३ ॥
16.374
ततस्तु यजमानाय स्नानाद्यैः प्रयतात्मने ।
गरुहस्य पटस्थस्य नैवेद्यं यन्निवेदितम् ॥ ३७४ ॥
16.375
तत्र किंचित् समादाय दत्वा वै देशिकः स्वयम् ।
तत्तच्छिष्टं तु नैवेद्यं कृत्वा तु कबलं पृथक् ॥ ३७५ ॥
16.376
नारीणमप्रजानां तु नराणां रोगिणामपि ।
दद्याद्गरुडमन्त्रं तु ध्यायमानः समाहितः ॥ ३७६ ॥
16.377
प्राङ्मुखं प्राशयित्वान्नं तत्तीर्थं त्वथ पाययेत् ।
एवं कृत्वाधिवासं तु जागरेण नयेन्निशाम् ॥ ३७७ ॥
16.378
ततः प्रभाते सुस्नातस्वाचान्तो देशिकोत्तमः ।
नित्यार्चनं विभोः कृत्वा विशेषयजनं तथा ॥ ३७८ ॥
16.379
वैनतेयं ततोऽभ्यर्च्य कुम्भपूर्वं यथाविधि ।
महाहविर्निवेद्याथ होमं कृत्वा तु पूर्ववत् ॥ ३७९ ॥
16.380
ततश्चतुर्थावरणे अन्तरा गोपुरस्य तु ।
चतुर्हस्तं द्विहस्तं वा ध्वजपीठं समन्ततः ॥ ३८० ॥
16.381
सार्धहस्तोच्छ्रितं विप्र हस्तोच्छ्रितमथापि वा ।
शिलाभिरिष्टकाभिश्च पव्काबिर्वा यथारुचि ॥ ३८१ ॥
16.382
खातं कुर्यात्तु तन्मध्ये यावद्भूमितलं द्विज ।
तृतीयावरणे वापि बलिपीठाद्बहिर्द्विज ॥ ३८२ ॥
16.383
द्वितीयावरणे वा तद्भवेत् कालानुरूपतः ।
उत्तरे ध्वजपीठस्य पूर्वस्यां दिशि वा द्विज ॥ ३८३ ॥
16.384
शाययेत्तु ध्वजस्तंभं ध्वजयष्टिसमन्वितम् ।
पूर्वाग्रमुत्तराग्रं वा लक्षणाढ्यं सुशोभनम् ॥ ३८४ ॥
16.385
अन्तस्सारो बहिस्सारो निस्सारश्च त्रिधा भवेत् ।
चंपको देवदारुश्च चन्दनः खदिरस्तथा ॥ ३८५ ॥
16.386
सालवृक्षश्च बिम्वश्च ककुभालकौ यथा ।
इत्येवमादयो वृक्षा अन्तस्सारा उदाहृताः ॥ ३८६ ॥
16.387
क्रमुको नालिकेरश्च हिन्तालस्ताल एव च ।
वेणुश्चापि बहिस्साराः प्रशस्ता ध्वजकर्मणि ॥ ३८७ ॥
16.388
किंशुकाद्यास्तु ये विप्र निस्साराः समुदाहृताः ।
निस्सारं वर्जयेत् स्तंभं सर्वदा ध्वजकर्मणि ॥ ३८८ ॥
16.389
आर्द्रं नवं ऋजुं स्निग्धं वक्रस्फोटनवर्जितम् ।
अयुग्मपर्वकं शुद्धं सत्वचं सुस्थिरं द्विज ॥ ३८९ ॥
16.390
ग्राहयित्वा ध्वजस्तम्भं शास्त्रदृष्ट्या परीक्षयेत् ।
अशीतितालं मुख्यं स्यान्मध्यमं षष्टितालकम् ॥ ३९० ॥
16.391
पञ्चाशत्तालमधमं पञ्चतालाधिकं तु वै ।
मद्यमोत्तममुद्दिष्टं पञ्चाशत्तालसम्मितम् ॥ ३९१ ॥
16.392
पञ्चतालविहीनं तद्भवेन्मध्यममध्यमम् ।
मध्यमाधममुद्दिष्टं द्विंविंशत्तालसभ्मितम् ॥ ३९२ ॥
16.393
सप्तत्रिंशच्च तालानां पञ्चत्रिंशत्तथैव च ।
द्वात्रिंशच्च त्रयं विप्र अधमोत्तमपूर्वकम् ॥ ३९३ ॥
16.394
मात्रांगुलवशेनात्र प्रमाणपरिकल्पनम् ।
संभवे सति विप्रेन्द्र शततालं प्रकल्पयेत् ॥ ३९४ ॥
16.395
अन्यच्च नवभेदं तु प्रमाणमधुनोच्यते ।
कराणां पञ्चविंशच्च त्रयोविंशत्तथैव च ॥ ३९५ ॥
16.396
एकविंशच्च विंशच्च तदेकोनं च सत्तम ।
अष्टादश ततोन्यच्च तथा षोडशकं द्विज ॥ ३९६ ॥
16.397
त्रिपञ्च च क्रमेणैव नवकं परिकीर्तितम् ।
मानांगुलेन मानं स्यात् त्रिविधेन यथावलम् ॥ ३९७ ॥
16.398
तदभावे तु मानं स्यादत्र मात्रांगुलेन वा ।
प्रासादशिखराग्रोच्चं प्रासादोच्चमथापि वा ॥ ३९८ ॥
16.399
कण्ठोच्चं गोपुरोच्चं वा यथावित्तानुरूपतः ।
ध्वजस्तंभस्य मूलान्तु नाहं तु नवधा भवेत् ॥ ३९९ ॥
16.400
मूले द्वादशतालं तु नवतालं तु सप्तकम् ।
तन्मध्ये षष्ठतालं तु पञ्चतालं तथा भवेत् ॥ ४०० ॥
16.401
तदग्रं पञ्चतालं तु चतुस्तालं द्वितालकम् ।
द्वादशांगुलमानेन नाहमष्टांगुलं भवेत् ॥ ४०१ ॥
16.402
चतुर्विंशद्दशगुणं स्नंभनाहन वै दृढम् ।
त्रिधा विभज्य तत् स्तंभं त्रिधा कृत्वा तृतीयकम् ॥ ४०२ ॥
16.403
अधोभागे ह्यधस्ताच्च मध्यभागे तु मध्यतः ।
अग्रतो हयूर्ध्वभागे तु यज्ञकाष्ठविनिर्मितम् ॥ ४०३ ॥
16.404
मसूग्कत्रयं कृत्वा सुषिरत्रयसंयुतम् ।
दण्डयष्टिनिवेशार्थं सुवृत्तं पार्श्वयोर्द्विज ॥ ४०४ ॥
16.405
फैणकाहस्तमानाच्च द्विनवांगुलिविस्तृताः ।
मूलदेशेग्रदेशे तु चतुरंगुलविस्तृताः ॥ ४०५ ॥
16.406
द्वितालं सार्धतालं तु एकतालं तु वा द्विज ।
त्यक्त्वा स्तंभाग्रतो विप्र न्यसेदग्रमसूरकम् ॥ ४०६ ॥
16.407
अन्यद्द्वयं समुदिते स्थाने सम्यङ्निवेश्य च ।
यद्वा स्तंभाग्रतः प्राग्वन्न्यसेदूर्ध्वमसूरकम् ॥ ४०७ ॥
16.408
अधो हस्तद्वयं सार्धं त्यक्त्वा मध्यमसूरकम् ।
तदधस्तु तथा त्यक्त्वा न्यसेदन्यमसूरकम् ॥ ४०८ ॥
16.409
एवं तालत्रयं त्यक्त्वा ततस्तस्मिन्निवेशयेत् ।
ध्वजयष्टिं दृढां ऋज्वीं लोहयन्त्रसमन्विताम् ॥ ४०९ ॥
16.410
वेष्टयेद्दर्भमालाभिर्ध्वजदण्डं प्रदक्षिणम् ।
एवं कृत्वा ध्वजस्तम्भं प्रोक्षयेदस्त्रवारिणा ॥ ४१० ॥
16.411
ध्वजपीठस्थिते गर्ते रत्नधान्यानि निक्षिपेत् ।
देशिकस्तार्क्ष्यमन्त्रेण ततो ब्राह्नणसत्तमैः ॥ ४११ ॥
16.412
शूद्रैर्वा दीक्षितैर्विप्र देवदासैरथापि वा ।
शंखभेर्यादिनिर्धोषगीतवादित्रसंयुतम् ॥ ४१२ ॥
16.413
स्थापयेत्तु ध्वजस्तंभं तस्मिन् गर्ते ऋजुस्थितम् ।
प्रासादाभिमुखं स्थाप्य वालुकाभिश्च पूरयेत् ॥ ४१३ ॥
16.414
हस्तिपादादिभिः कृत्वा सुदृढं च यथा भवेत् ।
यद्वा रजन्यां पूर्वस्यां कृत्वा स्तंभाधिवासनम् ॥ ४१४ ॥
16.415
अद्यत्वे स्थापयेत् पश्चाद गत्वा गरुडसन्निधिम् ।
रथे वा कुंजरे याने ध्वजमारोप्य यत्नतः ॥ ४१५ ॥
16.416
प्रभया चित्रकुसुमैः कृतया भूषयेद् ध्वजम् ।
वासोविभूषणैः स्रग्भिर्विचित्राभिश्च पूजयेत् ॥ ४१६ ॥
16.417
च्छत्रचामरपूर्वैश्च मायूरव्यजनैस्ततः ।
विचित्रैस्तालबन्तश्चै आतपत्रैर्मनोहरैः ॥ ४१७ ॥
16.418
केतुदण्डेर्विचित्रैश्च दुकूलपटशोभितैः ।
चतुर्वेदमयोद्धोषैः स्तोत्रघोषसमन्वितैः ॥ ४१८ ॥
16.419
गीतकैर्विविधैर्वाद्यैः शंखकाहलनिःस्वनैः ।
भेरीमृदङ्गपूर्वाणां धोषैरन्यैश्च मंगलैः ॥ ४१९ ॥
16.420
ब्राह्नणैर्ध्रियमाणैश्च सांकुरैः पालिकागणैः ।
सुवेषगणिकासंधैस्तथा भक्तजनैः सह ॥ ४२० ॥
16.421
क्ष्वेलितास्फोटितैर्युक्तं जयशब्दसमन्वितम् ।
प्रथमावृतिमारभ्य रथ्यावरणपश्चिमम् ॥ ४२१ ॥
16.422
भ्रामयित्वा क्रमेणैव सर्वाण्यावरणानि च ।
ग्रामं प्रदक्षिणं नीत्वा ग्राममध्ये स्थितो ध्वजम् ॥ ४२२ ॥
16.423
श्रावयेच्चतुरो वेदान् सेतिहासपुराणकान् ।
सौपर्यणर्माप वै सूक्तं तत्र संदर्शयेत् पुनः ॥ ४२३ ॥
16.424
गेयं नृत्तं च वाद्यं च आतोद्यं च चतुर्विधम् ।
उपहारांश्च माल्यादीन् ताम्बूलान् विनिवेद्य च ॥ ४२४ ॥
16.425
ततः प्रवेशयेद्विप्र प्रासादं गरुडध्वजम् ।
अंकुरार्पणपूर्वे तु उत्सवे द्विजसत्तम ॥ ४२५ ॥
16.426
गरुडस्य पटस्थस्य पश्चाद्भागे यथाविधि ।
तद्रात्रौ बलिसंयुक्तं यात्राबिंबं परिभ्रमेत् ॥ ४२६ ॥
16.427
साधनादेरसंपत्तेः पृथङनेतुमशक्यतः ।
तत्रापि सति योग्यत्वे पृथगेव परिभ्रमेत् ॥ ४२७ ॥
16.428
अन्यत्र केवलं विप्र ध्जमेव नयेत् सदा ।
पत्तने नगरे वापि बलिभ्रमणसंयुतः ॥ ४२८ ॥
16.429
उत्सवो विहितो यत्र तत्र वै गरुडध्वजम् ।
भ्रामयेद्द्वितये तस्मिन् यात्राबिंबसमन्वितम् ॥ ४२९ ॥
16.430
तन्मात्राणां योग्यतायै पवित्रीकरणाय च ।
ग्रामे तेन च वै सार्धं भ्रामयेद्बिंबमौत्सवम् ॥ ४३० ॥
16.431
एवं प्रदक्षिणं नीत्वा धाम ग्रामादिकं तथा ।
ध्वजं तु मण्डपे स्थाप्य न कृतं यदि पूर्वतः ॥ ४३१ ॥
16.432
स्थापनं ध्वजदण्डस्य स्थापयित्वा तु तत्तदा ।
प्रासादं संप्रविश्याथ यात्राबिंबं वियेषतः ॥ ४३२ ॥
16.433
विचित्रैर्वसनै रम्यैः भूषणैर्विविधैरपि ।
माल्यैश्च विविधै रम्यैरलंकृत्य ततः परम् ॥ ४३३ ॥
16.434
शिबिकादौ समारोप्य सर्वसाधनसंयुतम् ।
आस्थानमण्डपे नीत्वा ध्वजपीठस्य सम्मुखम् ॥ ४३४ ॥
16.435
सौवर्णे विष्टरे रम्ये तल्पाद्यंगोपशोभिते ।
विचित्रेण वितानेन उपरिष्टाद्विभूषिते ॥ ४३५ ॥
16.436
सन्निवेश्य ततः पश्चादाचार्यः सुसमाहितः ।
साधकाद्यैः परिवृतो ह्यादाय गरुडध्वजम् ॥ ४३६ ॥
16.437
सह शंखनिनादाद्यैः प्रादक्षिण्येन योगतः ।
ध्वजपीठे समानीय स्तंभं प्रक्षाल्य सज्जलैः ॥ ४३७ ॥
16.438
विभवे सति वस्त्रेण संवेष्ट्य ध्वजदण्डकम् ।
गरुडं पूजयित्वा तु पुष्पांजलिपुरस्सरम् ॥ ४३८ ॥
16.439
अर्घ्यं पाद्यं तथाचामं गन्धं माल्यं च धूपकम् ।
अपूपान् पृथुकांश्चापि पानकं तर्पणं तथा ॥ ४३९ ॥
16.440
नालिकेरजलैर्युक्तमाचामं तदनन्तरम् ।
कर्पूरादिसमोपेतं दत्वा ताम्बूलमुत्तमम् ॥ ४४० ॥
16.441
तन्मुद्रां दर्शयित्वा तु रज्जुमादाय वै दृढाम् ।
त्रिबृत्कृतैस्तु कार्पाससूत्रैरतिदृढैः कृताम् ॥ ४४१ ॥
16.442
यष्ट्यग्रसंस्थिते यन्त्रे योजयित्वा तया ततः ।
ध्वजस्य शिखरं विप्र बन्धयेत् सुदृढं यथा ॥ ४४२ ॥
16.443
बालध्वजेन सहितं घण्टया च समन्वितम् ।
पुण्याहं वाचयित्वा तु संप्रोक्ष्यास्त्रोदकेन तु ॥ ४४३ ॥
16.444
महाकुम्भस्थतोयेन संप्रोक्ष्य गरुडं ततः ।
महाकुम्भस्थगरुडं पटस्थे तु निवेशयेत् ॥ ४४४ ॥
16.445
स्तम्भमूले समुत्कीर्य सास्त्रकुम्भजलं ततः ।
कलशाष्टकतोयं च स्तम्भमूले विनिक्षिपेत् ॥ ४४५ ॥
16.446
आचर्य मन्त्रन्यासं तु पुष्पांजलिपुरस्सरम् ।
सन्निधिं सन्निरोधं च साम्मुख्यं च समाचरेत् ॥ ४४६ ॥
16.447
अस्माद्दिनात् समारम्य यावत्तीर्थदिनान्तिमम् ।
सन्निधिं कुरु पक्षीन्द्र राज्ञो जनपदस्य च ॥ ४४७ ॥
16.448
ग्रामस्य यजमानस्य वैष्णवानां विशेषतः ।
तुष्टये पुष्टये चैव सर्वशत्रुजयाय च ॥ ४४८ ॥
16.449
त्र्प्रपमृत्युजयार्थं च विहगेश प्रसीद ॐ ।
इति विज्ञाप्य पक्षीन्द्रं विकिरेते कुसुमांजलिम् ॥ ४४९ ॥
16.450
पूर्वाह्ने वाथ मध्माह्ने मुहूर्ते शोभने गुरुः ।
रज्जुनारोहयेद्वीशं ध्वजस्थमनुचिन्तयन् ॥ ४५० ॥
16.451
रज्जुं च बन्धयेत् स्तंभे प्रादक्षिण्यक्रमेण तु ।
प्रासादाभिमुखं स्तम्भे स्थापयेद्गरुडध्वजम् ॥ ४५१ ॥
16.452
विहगेश्वरबिंबं च स्तम्भाग्रे योजयेन्न वा ।
सन्निधौ देवदेवस्य गत्वा पुष्पांजलिं क्षिपेत् ॥ ४५२ ॥
16.453
ज्ञानतोऽज्ञानतो वापि यथोक्तं न कृतं मया ।
तत् सर्वं पूर्णमेवास्तु सुतृप्तो भव सर्वदा ॥ ४५३ ॥
16.454
ओमच्युतक्ष जगन्नाथ मन्त्रमूर्ते जनार्दन ।
रक्ष मां पुण्डरीकाक्ष क्षमस्वाज प्रसीद ॐ ॥ ४५४ ॥
16.455
इति विज्ञाप्य देवेशं यात्रामूर्तिगतं विभुम् ।
अन्यत्र मण्डपे नीत्वा विशेषार्चनपूर्वकम् ॥ ४५५ ॥
16.456
प्रभूतान्नं निवेद्याथ सर्वं हवनपश्चिमम् ।
कृत्वा यथाक्रमेणैव प्रासादं तु प्रवेशयेत् ॥ ४५६ ॥
16.457
ध्वजपीठोपरिष्टात्तु स्तंभमूले प्रकल्पयेत् ।
अष्टपत्रं तु कमलं चतुरावरणान्वितम् ॥ ४५७ ॥
16.458
सकर्णिकं यथा स्तम्भः कर्णिकास्थो विराजते ।
चतुरंगुलविस्तारास्तावन्मानेन चोन्नताः ॥ ४५८ ॥
16.459
कर्तव्या मेखलाः सर्वाश्चतुरश्रा द्विजोत्तम ।
स्तंभमानं विना पझं ष़डंगुलसमन्वितम् ॥ ४५९ ॥
16.460
तावद्विस्तारसंयुक्तं मेखलोपरि विन्यसेत् ।
पीठोर्ध्वे तु प्रपां कुर्यात् चतुस्तंभसमन्विताम् ॥ ४६० ॥
16.461
यद्वा स्तंभाष्टकोपेतां षोडशस्तंभसंयुताम् ।
चतुस्तोरण संयुक्तां दर्भमालापरिष्कृताम् ॥ ४६१ ॥
16.462
भूषितां तु पताकाद्यैर्बाह्ये यवनिकान्विताम् ।
दीपान् प्रदीपयेत्तत्र अनिर्वाणान् समन्ततः ॥ ४६२ ॥
16.463
तद्वासरात् समारभ्य पुष्पयागादिनान्तिमम् ।
त्रिसन्ध्यमर्चनं कुर्यात् सविशेषं जपान्तिमम् ॥ ४६३ ॥
16.464
उत्सवारम्भदिवसात् त्रिसप्तदिनमाचरेत् ।
पूजालोपो न कर्तव्यो द्विगुणीकृत्य आचरेत् ॥ ४६४ ॥
16.465
बलिकाले बलिं दद्यादस्यापि प्रतिवासरम् ।
प्रदोषे समनुप्राप्ते यात्रबिंबगर्त विभुम् ॥ ४६५ ॥
16.466
अलंकृत्य यथान्यायं नयेदास्थानमण्टपम् ।
भद्रासने समारोप्य विभवेन तु पूर्ववत् ॥ ४६६ ॥
16.467
कृत्वा होमावसानं तु भेरीताडनमाचरेत् ।
अग्रतस्तु विभोः स्थाप्य भेरीं वै धान्यविष्टरे ॥ ४६७ ॥
16.468
तत्पूर्वे शंखनिकरं वह्नौ काहलसंचयम् ।
याम्ये तु मद्दलं तन्त्रीं वंशयुक्तां तु यातुदिक् ॥ ४६८ ॥
16.469
वारुण्यां तु मृदंगं च डुड्डुकसंयुतम् ।
वायव्ये झल्लरीं न्यस्य कांस्यतालसमन्विताम् ॥ ४६९ ॥
16.470
पटहं ह्रस्वपटहं सोमे डुड्डुकसंयुतम् ।
एशान्यां डुड्डुकां झल्लीं हस्तद्यंटासमन्वितात् ॥ ४७० ॥
16.471
तेषां बाह्ये तु विप्रेन्द्र दक्षिणे गणिकाजनम् ।
न्यसेन्मंगलगानार्थं तत्पाश्वे मन्त्रगायकान् ॥ ४७१ ॥
16.472
नर्तकानग्रतः स्थाप्य उत्तरे वन्दिबृन्दकान् ।
स्वे स्वे स्थानेषु संस्थाप्य अन्यान् वै वाद्यकोविदान् ॥ ४७२ ॥
16.473
एवं क्रमेण संस्थाप्य संभवानुगुणं द्विज ।
वाससा वेष्टयेद्वापि भेरीं वित्तानुरूपतः ॥ ४७३ ॥
16.474
शब्दविग्रहमाकाशं भेर्यां संस्मृत्य पूजयेत् ।
कोणं तद्दाक्षिणे स्थाप्य वायुं तत्र सुपूजयेत् ॥ ४७४ ॥
16.475
ततः पारशवं स्नानं दर्भपाणिमलंकृतम् ।
उपवीतादिसंयुक्तं अग्रतःस्थाप्य वीक्षयेत् ॥ ४७५ ॥
16.476
अस्त्रेण प्रोक्षयेत् पश्चादर्घ्यतोयेन तत्परम् ।
तेनैव ताडयेद्बैरीं गीतनृत्तपुरस्सरम् ॥ ४७६ ॥
16.477
शंखवाद्यादि संयुक्तं मथवा देशिकः स्वयम् ।
मुहूर्ते शोभने प्राप्ते ताडयित्वा तु बेरिकाम् ॥ ४७७ ॥
16.478
कोणेन प्रथमं ध्यायन् हयग्रीवं जनार्दनम् ।
त्रिस्थानादिषु देवानां त्रिधा वै तेन ताडयेत् ॥ ४७८ ॥
16.479
ततः पारशवेनैव ताडयेत्तु यथेच्छया ।
देवतावाहनीं गाधां संस्कृतां प्राकृतां तु वा ॥ ४७९ ॥
16.480
द्रामिडीं वा यथेच्छातस्तदा संश्रावयेद्विभुम् ।
तत्काले देवतानृत्तं तत्तद्गीतादिसंयुतम् ॥ ४८० ॥
16.481
दर्शयेद्देवदेवस्य देवतानां सुतृप्तये ।
ततस्तु देवदेवेशं गर्भगेहे प्रवेशयेत् ॥ ४८१ ॥
16.482
पायसं द्रोणमानं तु समादायाथ पात्रतः ।
तथार्घ्यगन्धमाल्यादि धूपं तांबूलमेव च ॥ ४८२ ॥
16.483
प्रासादद्वारमारभ्य बहिर्द्वारावसानकम् ।
आवृतिष्वपि सर्वासु वीथ्यावरणपश्चिमम् ॥ ४८३ ॥
16.484
बलिं प्रदाय विधिना गीतनृत्तादिसंयुतम् ।
ततः प्रविश्य ग्रामं तु पूर्वस्यां दिशि संस्थितः ॥ ४८४ ॥
16.485
देवतावाहनं कुर्यात् प्राङ्मुखो देशिकः स्वयम् ।
तत्पुत्रस्तस्य शिष्यो वा स्वरेणोच्चतरेण तु ॥ ४८५ ॥
16.486
आगच्छतामरगणाः प्रागाशां येऽधिशेरते ।
विरूपाश्च सुरूपाश्च सपर्यामुद्यतामिमाम् ॥ ४८६ ॥
16.487
गृहीत्वा पान्तु नस्तृप्ताः कुमुदस्यानुयायिनः ।
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ ४८७ ॥
16.488
अनेन मन्त्रेणावाह्य कुमुदं सगणं ततः ।
अर्घ्यालेपनमाल्यादि धूपं तोयं यथाक्रमम् ॥ ४८८ ॥
16.489
पायसान्नं पुनस्तोयं ताम्बूलं च प्रदापयेत् ।
पश्चात् संतोषयेद्रम्यैर्महद्भिः शङ्खजै रवैः ॥ ४८९ ॥
16.490
तदीयतालसङ्गीतनृत्तैश्चापि ततः परम् ।
आगच्छतामरगणाः येऽग्न्याशामधिशेरते ॥ ४९० ॥
16.491
भीमाभीममुखा रौद्राः सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ताः कुमुदाक्षानुयानिनः ॥ ४९१ ॥
16.492
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ।
अनेन कुमुदाक्षं तु समाबाह्य गणाधिपम् ॥ ४९२ ॥
16.493
प्राग्वत् सन्तोषयित्वा तु ततः संप्राप्य याम्यदिक् ।
आगच्छत पितृगणाः याम्याशानधिशेरते ॥ ४९३ ॥
16.494
दारुणाऽदारुणाचाराः सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ताः पुण्डरीकानुयायिनः ॥ ४९४ ॥
16.495
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ।
अनेन पुण्डरीकाख्यं समावाह्य गणेश्वरम् ॥ ४९५ ॥
16.496
क्रमेण पूजयित्वा तु गत्वा वै यातुधानदिक् ।
आगच्छत यातुगणाः यात्वाशां येधिशेरते ॥ ४९६ ॥
16.497
क्रव्याशिनः क्रूरधियः सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ता वामनस्यानुयायिनः ॥ ४९७ ॥
16.498
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ।
इत्यावाह्य गणेशं तु वामनं पूजयेत् क्रमात् ॥ ४९८ ॥
16.499
वारुणाशां ततो गत्वा शंकुकर्णं गणेश्वरम् ।
आगच्छताऽहिप्रथमाः प्रतीचीं येऽधिशेरते ॥ ४९९ ॥
16.500
महद्विषा दन्दशूकाः सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ताः शंकुकर्णानुयायिनः ॥ ५०० ॥
16.501
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ।
इत्यावाह्य यजेत् प्राग्वत् पश्चात् संप्राप्य वायुदिक ॥ ५०१ ॥
16.502
आयान्तु गन्धर्वगणाः वाय्वाशां येऽधिशेरते ।
सुदर्शना भीमवेगाः सपर्यामुद्यतामिमाम् ॥ ५०२ ॥
16.503
गृहीत्वा पान्तु नस्तृप्ताः स र्वनेत्रानुयायिनः ।
महमिममुपयातु प्रीतास्तेब्यो नमोऽस्तु वः ॥ ५०३ ॥
16.504
अनेनावाह्य सगणं सर्वनेत्रं तु तोषयेत् ।
ततःसोमदिशं गत्वा सुमुखं तु गणाधिपम् ॥ ५०४ ॥
16.505
आगच्छत यक्षगणाः उदीचीं येऽधिशेरते ।
विरूपा दण्डहस्ताश्च सपर्यामुद्यतामिमाम् ॥ ५०५ ॥
16.506
गृहीत्वा पान्तु नस्तृप्ताः सुमुखस्यानुयायिनः ।
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ ५०६ ॥
16.507
इति मन्त्रेण चावाह्य तोषयेत् पूर्ववर्त्मना ।
ततस्त्वीशदिशं गत्वा गणेशं सुप्रतिष्ठितम् ॥ ५०७ ॥
16.508
आयान्तु पिशाचगणाः ईशाशां येऽधिशेरते ।
सशूलायुधहस्ताश्च सपर्यामुद्यतामिमाम् ॥ ५०८ ॥
16.509
गृहीत्वा पान्तु नस्तृप्ताः सुप्रतिष्ठानुयायिनः ।
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ ५०९ ॥
16.510
मन्त्रेणावाह्य संपूज्य गत्वा वै ग्राममध्यतः ।
तत्र चावाहयेदूर्ध्वं पृश्निगर्भं गणेश्वरम् ॥ ५१० ॥
16.511
आगच्छत सिद्धगणाः गगनं येऽधिशेरते ।
शुचिमतयः शुचयः सपर्यामुद्यतामिमाम् ॥ ५११ ॥
16.512
गृहीत्वा पान्तु नस्तृप्ताः पृश्निगर्भानुयायिनः ।
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ ५१२ ॥
16.513
आवाह्य तोषयित्वा तु अथस्तान्मानवं ततः ।
आगच्छताधरगणाः पृथिवीं येऽधिशेरते ॥ ५१३ ॥
16.514
बहुरूपा बहुज्ञानाः सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ता मानवस्यानुयायिनः ॥ ५१४ ॥
16.515
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ।
आवाह्य तोषयेत् प्राग्वत् क्रमान्नृत्तावसानकम् ॥ ५१५ ॥
16.516
तृप्तये सर्वभूतानां बलिशेषं ततः क्षिपेत् ।
बलिदाने तु पूर्वादिवैबस्वतदिगन्तिमम् ॥ ५१६ ॥
16.517
आचार्यः प्राङ्मुखः स्थित्वा कुर्यादावाहनादिकम् ।
यात्वादिदिक्त्रये कुर्यात् पूर्वोदितमुदङ्मुखः ॥ ५१७ ॥
16.518
सोमेशदिग्द्वये ग्राममध्येपि प्राङ्मुखो भवेत् ।
समतालस्तथाबद्धस्तालो वै भृङ्गिणी तथा ॥ ५१८ ॥
16.519
मल्लतालो मंगलश्च जयतालस्तु भद्रकः ।
ढक्करीसंज्ञितस्तालो ब्रह्नतालस्तथैव च ॥ ५१९ ॥
16.520
अनन्तताल इत्यते दश तालाः प्रकीर्तिताः ।
कुमुदादिगणेशानां दशानां क्रमशो द्विज ॥ ५२० ॥
16.521
षडजर्षभौ च गान्धारौ मध्यमः पञ्चमस्तथा ।
धैवतश्चैव निषदो धैवतो मद्यमस्तथा ॥ ५२१ ॥
16.522
पञ्चमश्च क्रमेणैव कथिताः स्युर्दश स्वराः ।
गान्धाररागः कौलयाख्यः कैशिको नट्टभाषिकः ॥ ५२२ ॥
16.523
श्रीकामदश्च तत्केशी दक्षरागस्तथैव च ।
चोलापाण्यभिधो रागौ मेधरागश्च पश्चिमः ॥ ५२३ ॥
16.524
इत्येते कुमुदादीनां दश रागाः प्रकीर्तिताः ।
विलासं सर्वतोभद्रं खेटकं चक्रमण्डलम् ॥ ५२४ ॥
16.525
कान्तारकुट्टिमं पृष्ठकुट्टिमं कटिबन्धनम् ।
वामजानूध्वनत्तं च आदिमं च द्वयं पुनः ॥ ५२५ ॥
16.526
एते नृत्तविशेषाश्च कुमुदानां क्रमात् स्मृताः ।
एते ह्यावृतिदेवानां क्रमात्तालादयः स्मृताः ॥ ५२६ ॥
16.527
अन्येषां सर्वदेवानां तालो भद्रः प्रशस्यते ।
भवेद्गारूडतालस्तु पक्षीशस्य तु मध्यमः ॥ ५२७ ॥
16.528
स्वरो रागस्तु गोडः स्यान्नृत्तं वै विष्णुकान्तकम् ।
विघ्नारेर्जयतालं स्यान्नृत्तं स्वस्तिकमुच्यते ॥ ५२८ ॥
16.529
ऋषभस्तु स्वरः प्रोक्तो वराटीराग एव च ।
भेरीताडनपूर्वं तु देवतावाहनं चरेत् ॥ ५२९ ॥
16.530
घोषयेद्गारुडं तालमन्तराले तु वै दिशाम् ।
तत्काले देशिकेन्द्रेण स्वयं संस्कृतगाधया ॥ ५३० ॥
16.531
अन्ये चतुर्मुखमुखा आङूतव्या मरुद्गुणाः ।
देवस्योत्सवसेवार्थं तथान्ये भगवद्गणाः ॥ ५३१ ॥
16.532
तथान्ये भगवद्भक्ता जनास्तत्पदवासिनः ।
यद्वा गुरोरनुमतैर्भगवद्भक्तिबृहितैः ॥ ५३२ ॥
16.533
आहूतव्यास्तु तैर्विप्रैर्दिव्यया गाधया द्विज ।
एवं ग्रामं परिभ्राम्य प्रासादं संप्रविश्य तु ॥ ५३३ ॥
16.534
गरुडस्थानमासाद्य तोषयित्वा खगघ्वजम् ।
तालादिकैस्ततस्त्वेनं विष्वक्सेनं तु तोषयेत् ॥ ५३४ ॥
16.535
देवतावाहनं येऽत्र द्रष्टुकामाः समाहिताः ।
भेरीताडनशब्दं च तथा श्रृण्वन्ति ये जनाः ॥ ५३५ ॥
16.536
तद्देशात्ते न गच्छेयुर्यावत्तीर्थदिनान्तिमम् ।
मोहेन यदि गच्छेयुस्ते भविष्यन्ति रोगिणः ॥ ५३६ ॥
16.537
न कुर्युस्ते नदीतारं न यानं योजनात् परम् ।
याताश्चेत् पुनरागसत्य गरुडं संप्रपूज्य तु ॥ ५३७ ॥
16.538
तीर्थयात्रां तु संसेव्य ते भविष्यन्ति नीरुजः ।
एवं तु ध्वजमुत्थाप्य गुरुः पश्चात् समाहितः ॥ ५३८ ॥
16.539
देवानां केशवादीनां मन्त्रैर्द्वादशभिः क्रमात् ।
द्वादशाहं व्रतं कुर्यात् यात्रारंभदिनादितः ॥ ५३९ ॥
16.540
स्नानार्चनादिकं कृत्वा पीत्वा तच्चरणोदकम् ।
कुशोदकसमायुक्तं जपेद्वै द्वादशाक्षरम् ॥ ५४० ॥
16.541
नैवेद्यप्राशनं पूर्वं कुर्यान्नक्ताशनं द्विज ।
जपेद्द्वादशनामानि क्रमाद्वाच्यमनुस्मरन् ॥ ५४१ ॥
16.542
अंकुरारोपणदिनाद्यावत्तु ध्वजवासरम् ।
दिनषट्केन विप्रेन्द्र प्रत्यहं व्रतमाचरेत् ॥ ५४२ ॥
16.543
द्वादशाक्षरमन्त्रेण कुर्यादंकुरवासरे ।
द्वितीये तुर्यमन्त्रेण परे सुषुप्तिवाचकैः ॥ ५४३ ॥
16.544
स्वप्नमन्त्रैश्चतुर्थे तु जाग्रन्मत्रैस्तु पञ्चमे ।
केशवादिषु योनीनां मूर्तीनां वाचकैः परैः ॥ ५४४ ॥
16.545
उत्सवारम्भणदिनाद्यावत्तीर्थदिनान्तिमम् ।
वाचकैर्नवमूर्तींनां नवाहं व्रतमाचरेत् ॥ ५४५ ॥
16.546
यद्वा द्विषट्कमन्त्रेण सर्वत्रापि व्रतं चरेत् ।
ध्वजार्थांकुरनक्षत्राद्यावत्तीर्थदिनान्तिमम् ॥ ५४६ ॥
16.547
एवं व्रतसमायुक्त आचार्यः कृत्यमाचरेत् ।
संकल्प्योत्सवमादौ तु व्रतसंकल्पपूर्वकम् ॥ ५४७ ॥
16.548
ध्वजार्थमंकुरारोपं कुर्याद्यो देशिकोत्तमः ।
कुर्याद्ध्वजावरोहान्तं सर्वं सर्म स एव तु ॥ ५४८ ॥
16.549
प्राज्ञोपि नेतरः कुर्यात् यदि कर्ता विनश्यति ।
मृते वा व्याधिते तस्मिन् तदनुज्ञामवाप्य च ॥ ५४९ ॥
16.550
नित्यानुष्टानलोपाच्च वैधुर्यादिविदूपिते ।
अभ्यनुझां गुरोस्तस्य संप्राप्य विधिपूर्वकम् ॥ ५५० ॥
16.551
शेषं कुर्यात्तु तत्पुत्रस्तच्छिष्यो वा समाहितः ।
अन्यो वा यदि वा भ्राता प्रायश्चित्तपुरस्सरम् ॥ ५५१ ॥
Kapitel 17
श्रीः ।
सप्तदशोऽधयायः ।
शाण्डिल्यः ।
17.1
अथोत्सवविधानं तु वक्ष्यामि श्रृणु सत्तम ।
उत्सवारंभदिवसात् पूर्वस्मिन् पञ्चमेऽहनि ॥ १ ॥
17.2
अंकुरारोपणं कुर्यात् पूर्वोक्तविधिना ततः ।
पूर्ववद्यागसदनं कल्पयित्बा विभूषयेत् ॥ २ ॥
17.3
आचार्यान् देशिकेन्द्रस्तु चतुरो वरयेद्गुरुः ।
अथवाष्ट द्वादश वाविनीतान् संयतान् शुचीन् ॥ ३ ॥
17.4
तत्तत्कर्मप्रयोगेषु कुशलान् शास्त्रकोविदान् ।
सोष्णीषैरुत्तरीयैश्च गन्धद्रव्यैश्च संयुतान् ॥ ४ ॥
17.5
यजमानेन ते सर्वे शोभनीयाः प्रयत्नतः ।
केचिद्गुरुनियुक्तास्तु कुम्भमण्डलपूजनम् ॥ ५ ॥
17.6
कुर्यु रन्ये बलिं दद्युरन्ये बिम्बगतं विभुम् ।
पूजयेयुर्यथायोगं स्वयं वापि समाचरेत् ॥ ६ ॥
17.7
वरयेत् साधकान् वापि कञ्चकाद्यैस्तु भूषितान् ।
विनयादिगुणोपेतान् कुशलान् नयकोविदान् ॥ ७ ॥
17.8
उत्सवारम्भदिवसात् पूर्वेद्युश्च निशामुखे ।
कृताह्निको देशिकेन्द्रः प्रासादं संप्रविश्य च ॥ ८ ॥
17.9
मूलमूर्तिगतं देवमर्घ्याद्यैः संप्रपूज्य च ।
तत्पादगौ करौ कृत्वा दैवं विज्ञापयेदिदम् ॥ ९ ॥
17.10
भगवन् पुण्डरीकाक्ष करिप्ये कौतकक्रियाम् ।
महोत्सवार्थं देवेश तदर्थं त्वं प्रसीद म् ॥ १० ॥
17.11
इति विज्ञाप्य देवेशमावाह्योत्सवकौतुके ।
अर्घ्यगन्धादिनाभ्यर्च्य वासोभिर्विविधैः शुभैः ॥ ११ ॥
17.12
भूषणैर्दिव्यगन्धैश्चाप्यलंकृत्य विशेषतः ।
सौवर्णं यानमारोप्य शङ्खभेर्यादिसंयुतम् ॥ १२ ॥
17.13
छत्राद्यैश्च समायुक्तं प्रादक्षिण्यक्रमेण तु ।
आस्थानमण्टपं नीत्वा सौवर्णे भद्रविष्टरे ॥ १३ ॥
17.14
तत्र मुक्तावितानाद्यैरुपरिष्टाद्विभूषिते ।
सर्वसाधनसंयुक्ते समारोप्य विधानतः ॥ १४ ॥
17.15
पूजयित्वा जगन्नाथं प्रभूतान्नं निवेद्य च ।
कृत्वा संतर्पणान्तं च प्रासादं संप्रवेशयेत् ॥ १५ ॥
17.16
ततस्तु हेमजं पात्रं राजनं वा समाहरेत् ।
शालिजैस्तण्डुलैर्विप्र भारमात्रैः सुपूजिते ॥ १६ ॥
17.17
तदर्धैर्वापि तत्पादैः षडंशैर्वाष्टमांशकैः ।
तदूर्ध्वे हेमजं सूत्रं क्षौमं कार्पासमेव च ॥ १७ ॥
17.18
पट्टजं पञ्चभिः सूत्रैश्चतुभिः सप्तर्भिस्तु वा ।
कृतं न्यस्य सतांबूल तत्पात्रं विन्यसेत्ततः ॥ १८ ॥
17.19
गर्भाग्रमण्टपे पीठे शालिभिः परिकल्पिते ।
भारमानैस्तदर्धैर्वा एवं शालिविनिर्मिते ॥ १९ ॥
17.20
पीठे पात्रान्तरं न्यस्येदापूपिकसमन्वितम् ।
अर्घ्यादिना समभ्यर्च्य सम्यगाच्छाद्य वाससा ॥ २० ॥
17.21
पात्रद्वयं दीक्षितयोर्न्यस्त्वा शिरसि देशिकः ।
यानादिके वा संस्थाप्य विभवानुगुणं द्विज ॥ २१ ॥
17.22
सह ताभ्यां तु पात्राभ्यां नृत्तगीतादिसंयुतम् ।
प्रदक्षिणं परिभ्रम्य सर्वेष्वावरणेष्वपि ॥ २२ ॥
17.23
एकस्मिन् वा चतुः कृत्वा ग्रामादौ वा प्रदक्षिणम् ।
नीत्वैकधा ततो विप्र प्रविशेन्मूलमन्दिरम् ॥ २३ ॥
17.24
यद्वा सुदर्शनोपेतं विष्वक्सेनं तु वा द्विज ।
खगेशं वा हनूमन्तं विभीषणसमन्वितम् ॥ २४ ॥
17.25
यानादिके समारोप्य ब्रामयेत्तु यथारुचि ।
गर्भगेहं प्रविश्याथ देवदेवस्य सन्निधौ ॥ २५ ॥
17.26
पात्रद्वयं तु विन्यस्य आधारोपरि पूजयेत् ।
द्वादशार्णेन मन्त्रेण अर्घ्यगन्धादिकैस्तथा ॥ २६ ॥
17.27
कृत्वा पुण्याहघोषं च अर्घ्याद्यैर्देवमर्च्य च ।
प्रथमं देवदेवस्य मूलमूर्तिगतस्य च ॥ २७ ॥
17.28
बन्धयेत् कौतुकं सूत्रैर्हेमजैः पट्टजैस्तु वा ।
हेमजं सूत्रमादाय गन्धेनालिप्य बन्धयेत् ॥ २८ ॥
17.29
देवस्य दक्षिणे हस्ते यात्रामूर्तिगतस्य तु ।
जितन्ताख्येन मन्त्रेण शंखगीतादिसंयुतम् ॥ २९ ॥
17.30
स्पृष्ट्वा दक्षिणहस्तेन सूत्रमस्त्रशतं जपेत् ।
श्रियो वामकरे कुर्यात् पट्टसूत्रेण कौतुकम् ॥ ३० ॥
17.31
श्रीसूक्तमुच्चरन् वापि तन्मन्त्रेण द्विजोत्तम ।
पुष्ट्यास्तु बामहस्ते तु क्षौमसूत्रेण बन्धयेत् ॥ ३१ ॥
17.32
कुर्यात् स्नपनबिंबस्य पट्टसूत्रेण कौतुकम् ।
कौतुकं देशिकेन्द्रस्तु कार्पासेन स्वदक्षिणे ॥ ३२ ॥
17.33
करे तु द्वादशार्णेन बन्धयेच्च ततः परम् ।
देवमर्घ्यादिनाभ्यर्न्य अपूपान् विनिवेदयेत् ॥ ३३ ॥
17.34
सर्वदोषप्रशान्त्यर्थं दर्पणआदि च दर्शयेत् ।
अनुक्तमत्र यत्किंचित् तत्सर्वं प्राग्वदाचरेत् ॥ ३४ ॥
17.35
एवं हि देवदेवस्य कृत्वा कौतुकबन्धनम् ।
ततः समानयेद्देवं मण्टपे पुरतः स्थिते ॥ ३५ ॥
17.36
ततो देवं समभ्यर्च्य यावदात्मनिवेदनम् ।
पूर्वोदितक्रमेणैव ततो वै स्नानविष्टरे ॥ ३६ ॥
17.37
स्नानासनोदितैर्भोगैः सर्वैरिष्ट्वा तु पूर्ववत् ।
अलंकारासने नीत्वा पूजयेत् क्रमयोगतः ॥ ३७ ॥
17.38
नैवेद्यमधुपर्काद्यैर्हृद्यैश्च विविधैस्ततः ।
प्राग्वदिष्ट्वा ततः स्तोत्रैः स्तुवीत पुरुषोत्तमम् ॥ ३८ ॥
17.39
ततस्तु नूपुरान्तैस्च विविधैर्हेमभूषणैः ।
सद्रत्नघटितैश्चापि तथा मुक्तामयैर्द्विज ॥ ३९ ॥
17.40
किरीटाद्यैरलंकृत्य प्रणामैः सप्रदक्षिणैः ।
यथोदितं प्रतिष्ठायां तथाशयनकल्पनम् ॥ ४० ॥
17.41
बिंबं चोपरि विन्यस्य शयने स्थापयेच्छुभे ।
कोणेषु स्थापयेद्दीपान् पालिकाः सांकुरास्तथा ॥ ४१ ॥
17.42
तूर्यघोषैस्तथा वेदैः स्तोत्रैः स्तुत्वा मधुद्विषम् ।
जागरेण निशां नीत्वा तस्मादुत्सवकौतुकम् ॥ ४२ ॥
17.43
प्रवेशयेद्गर्भगेहं प्रभातसमये ततः ।
आचार्यः स्नानपूर्वं तु नित्यं निर्वर्त्य पूर्ववत् ॥ ४३ ॥
17.44
यागार्थमण्डपे सर्वसंभारान् संप्रवेश्य च ।
अतीते याममात्रे तु पूर्वाह्ने देशिकः स्वयम् ॥ ४४ ॥
17.45
आचार्यैः साधकैश्चापि यजमानेन चान्वितः ।
मुहूर्ते शोभने प्राप्ते प्रविश्य भगवद्गृहम् ॥ ४५ ॥
17.46
अग्रतो देवदेवस्य स्थित्वा विज्ञापयेदिदम् ।
प्रसीद देवदेवेश उत्सवः क्रियते मया ॥ ४६ ॥
17.47
अस्मात् काललावद्यावत्पुष्पयागदिनान्तिमम् ।
त्वत्प्रीतये जगन्नाथ यद्यत् कर्म करोम्यहम् ॥ ४७ ॥
17.48
तत्सर्वमात्मसात्कृत्वा कृपया मे प्रसीद ॐ ।
इति विज्ञाप्य देवेशं मूलमूर्तिगतं विभुम् ॥ ४८ ॥
17.49
अर्घ्यगन्धादिनाभ्यर्च्य यात्रामूर्तिगतं तथा ।
पूजयित्वा जगन्नाथं पादुके विनिवेद्य च ॥ ४९ ॥
17.50
श्रुतिघोषैश्च पुण्याहधोषैर्मङ्गलनिस्स्वनैः ।
तथा जयजयारावैः शङ्खकाहलनिस्वनैः ॥ ५० ॥
17.51
भेरीपटहवादित्रनृत्तगीतसमन्वितैः ।
लाजानां प्रकरैः सार्धं पुष्पप्रकरमिश्रितै ॥ ५१ ॥
17.52
मूर्तिपैर्देवदेवेशं तस्मादानीय बाह्यतः ।
देवं प्रागाननं कृत्वा दर्शयित्वा समागतान् ॥ ५२ ॥
17.53
पुरुषानुत्सवं द्रष्टुं यात्रोपकरणान्यपि ।
छत्रचामरपूर्वाणि विविधानि विशेषतः ॥ ५३ ॥
17.54
यानमारोप्य देवेशं सौवर्णप्रभयान्विते ।
अर्घ्याद्यैरर्चयित्वा तु पृथुकानि निवेद्य च ॥ ५४ ॥
17.55
वहेयुर्ब्राह्नणा यानं ध्यायन्तो विहगेश्वरम् ।
प्रथमावृतिमारभ्य रथ्यावरणपश्चिमम् ॥ ५५ ॥
17.56
प्रदक्षिणक्रमेणैव परिभ्रमणमाचरेत् ।
व्राह्नणैर्ध्रियमाणैश्च कञ्चुकोष्णीषधारिभिः ॥ ५६ ॥
17.57
मौलिकैरातपत्रैश्च मायूरैश्च सुशोभनैः ।
हेमदण्डसमायुक्तैस्तालवृन्तैस्तथाविधैः ॥ ५७ ॥
17.58
पट्टजैर्विंविधैस्चापि चामरैश्च सितासितैः ।
केतुदण्डैश्च विविधैर्वैजयन्तीविभूषितैः ॥ ५८ ॥
17.59
केवलै रत्नदण्डैश्च तथान्यैर्माङ्गलीयकैः ।
वन्दिबृन्दैश्च विविधैर्वीणावणुस्वनैस्तथा ॥ ५९ ॥
17.60
सुवर्णश्रृंगघोषैश्च तथाऽन्यैर्मङ्गलस्वनैः ।
गणिकादेवदासीभिस्तथा नागरिकैर्जनैः ॥ ६० ॥
17.61
विप्रैर्वेत्रलताहस्तैः कञ्चुकोष्णीषभूषितैः ।
अन्यैश्च भगवद्भक्तै र्ब्रह्णएः क्षत्रियादिभिः ॥ ६१ ॥
17.62
राजोचितैः परिकरैरन्यैश्च विविधैः सह ।
एवं कृत्वा तु देवेशं नयेदास्थानमण्टपे ॥ ६२ ॥
17.63
समारोप्य च सौवर्णे विष्टरे जगतांपतिम् ।
अर्घ्यं पाद्यं तथाचामं मन्धमाल्यैस्च धूपकम् ॥ ६३ ॥
17.64
अथार्हणजलं स्वच्छमपूपान् पृथुकानपि ।
तर्पणं नारिकेलोत्थरसमाचमनं तथा ॥ ६४ ॥
17.65
मुखवाससमोपेतं ताम्बूलं च क्रमेण तु ।
निवेद्य देवदेवाय उपहारांस्तु दर्शयेत् ॥ ६५ ॥
17.66
ततस्तु मण्टपात्तस्मादानयेद्यागमण्टपे ।
तत्र देवेशमारोप्य सौवर्णे भद्रविष्टरे ॥ ६६ ॥
17.67
भूषणादीनि सर्वाणि तत्काले तु विसर्जयेत् ।
स्नानपीठे समारोप्य नववस्त्रास्तृते विभुम् ॥ ६७ ॥
17.68
ततो यात्राधिवासार्थमारभेन्मूलपूजनम् ।
कुम्भस्थानसमीपे तु उपविश्यासने शुभे ॥ ६८ ॥
17.69
करशुद्ध्यादिपूर्वं तु सर्वं कृत्वा विधानतः ।
प्राग्वद्यजेद्वुभुं सास्त्रं कुम्भे च करकान्विते ॥ ६९ ॥
17.70
स्थापनं तोरणादीनामर्चनं प्राग्वदाचरेत् ।
अर्चनं कुमुदादीनामाचरेत्तु समाहितः ॥ ७० ॥
17.71
कुमुदादिद्वयोर्मध्ये गरुडं पूजयेत्ततः ।
पुण्डरीकादिमध्ये च चक्रं संस्थाप्य पूजयेत् ॥ ७१ ॥
17.72
शंखं चक्रं तथा लक्ष्मीं कुम्भं श्रीवत्समेव च ।
दर्पणं स्वस्तिकं मत्स्ययुग्मं वै मंगलाष्टकम् ॥ ७२ ॥
17.73
कुमुदादिसमीपे तु विन्यसेत् क्रमयोगतः ।
सवस्त्रधान्यपीठे तु यथावित्तानुरूपतः ॥ ७३ ॥
17.74
एकभारैर्द्विभारैर्वा शालिभिः परिकल्पिते ।
प्रत्येकं तण्डुलैश्चापि तिलैर्युक्ते सवस्त्रके ॥ ७४ ॥
17.75
अष्टमंगलवियासेप्येवं सर्वत्र कल्पयेत् ।
प्राग्वत् स्थले समावाह्य मन्त्रेशं पूजयेत्ततः ॥ ७५ ॥
17.76
स्नपनाना पुरोक्तानां पूर्वस्मिन्नवके द्विज ।
अधमोत्तमसंत्रं तु स्वनापरिकल्पयेत् ॥ ७६ ॥
17.77
मण्डलस्येन्द्रदिग्भागे तत्पश्चाद्बिंबसन्निधिम् ।
गत्वा समारभेत् पूजां यथोक्तविधिना द्विज ॥ ७७ ॥
17.78
सर्वं कृत्वा क्रमेणैव यावदात्मनिवेदनम् ।
कृत्वा पुण्याहघोषं च कुर्यात् कौतुकबन्धनम् ॥ ७८ ॥
17.79
स्नानासनादिभिर्भोगैरिष्ट्वा चामलकान्तिमम् ।
स्नपनं विधिवत् कृत्वा शिरः प्लोतादिकं तथा ॥ ७९ ॥
17.80
दत्वा समानयेद्देवं प्राग्भागे मण्डलस्य तु ।
सौवर्णे विष्टरे तत्र यजेत् सर्वेश्वरं विभुम् ॥ ८० ॥
17.81
अलंकारासनाद्यैश्च भोगैः परमपावनैः ।
प्रभूतमथ नैवेद्यं विनिवेद्य यथाक्रमम् ॥ ८१ ॥
17.82
सर्वं द्विजप्रदानान्तं कृत्वा वै कुण्डसन्निधिम् ।
गत्वा संस्कारपूर्वं तु सर्वमापाद्य तत्र तु ॥ ८२ ॥
17.83
पूर्णाहुत्यवसानं तु गत्वा वै बिंबसन्निधिम् ।
होमार्पणं समापाद्य संपूज्याज्यादिना ततः ॥ ८३ ॥
17.84
पितॄणां संविभागं तु कृत्वा दत्वा बलिं क्रमात् ।
विष्वक्सेनं नयेत् सांगं ततस्तस्माज्जगत्पतिम् ॥ ८४ ॥
17.85
आस्थानमण्टपे नीत्वा समारोप्य च विष्टरे ।
प्राप्तेऽपराह्नसमये कृत्वा संग्रहणं द्विज ॥ ८५ ॥
17.86
पूर्ववत्तु मृदादीनां कृत्वा ग्रामप्रदक्षिणम् ।
पूर्वोदितविधानेन कुर्यादंकुररोपणम् ॥ ८६ ॥
17.87
तत्काले देवदेवस्य विभवस्यानुगुण्यतः ।
विधिवत् पूजनं कृत्वा प्रभूतान्नं निवेदयेत् ॥ ८७ ॥
17.88
स्थले भस्मनिभे पूर्वे पूजयेन्निष्फलं भवेत् ।
योजयित्वा तु कुम्भस्थे वर्तयेन्मण्डलं ततः ॥ ८८ ॥
17.89
सिताद्यैः पावनै रागैस्ततः कुम्भे समर्पयेत् ।
यथावद्देवदेवेशं पूजयेन्मण्डलं ततः ॥ ८९ ॥
17.90
यथोक्तेन विधानेन गत्वा वै बिंबसन्निधिम् ।
तत्र संपूजयेद्देवं महता विभवेन तु ॥ ९० ॥
17.91
अग्नौ सन्तर्पणं कुर्यात् यथोक्तविधिना ततः ।
गत्वा विंवसमीपे तु कृत्वा होमनिवेदनम् ॥ ९१ ॥
17.92
सर्वं तु संविभागान्तं क्रमात् कृत्वा ततः परम् ।
विभवे सति वै कुर्याद्भूयः संपूजनं विभोः ॥ ९२ ॥
17.93
होमान्तमखिलं कृत्वा ततस्त्वास्थानमण्टपात् ।
नयेत्तु देवदेवेशं प्रासादमुखमण्डपे ॥ ९३ ॥
17.94
प्रागाननं समारोप्य सौवर्णे भद्रविष्टरे ।
यात्रार्थं देवदेवस्य कुर्यात् कौतुकबन्धनम् ॥ ९४ ॥
17.95
आदाय चरुपूर्वाणि बलिद्रव्याणि होमयेत् ।
प्रत्येकं मूलमन्त्रेण द्वाविंशत्परिसंख्यया ॥ ९५ ॥
17.96
ध्यात्वा ध्यात्वा तु होतव्यं तत्तद्रात्र्यधिदैवतम् ।
भवेत् प्रथमरात्रं तु वासुदेवाधिदैवतम् ॥ ९६ ॥
17.97
संकर्षदैवतं विद्धि द्वितीयं तु तृतीयकम् ।
प्रद्युम्नदैवतं चान्यदनिरुद्धाधिदैवतम् ॥ ९७ ॥
17.98
भवेत् पञ्चमरात्रं यत् तन्नारायणदैवतम् ।
हयग्रीवाधिदैवं तु षष्ठरात्रमुदाहृतम् ॥ ९८ ॥
17.99
सप्तमं वैप्णवं त्वन्यन्नरसिंहाधिदैवतम् ।
वराहदैवतं रात्रं नवमं द्विजसत्तम ॥ ९९ ॥
17.100
एकाहमुत्सवं विद्धि वासुदेवाधिदैवतम् ।
त्र्यहं तु वासुदेवादिप्रद्युम्नान्ताधिदैवतम् ॥ १०० ॥
17.101
पञ्चाहं वासुदेवादिपञ्चमूर्त्यधिदैवतम् ।
सप्ताहं वासुदेवादिसप्तमूर्त्यधिदैवतम् ॥ १०१ ॥
17.102
द्वादशाहोत्सवं विप्र केशवाद्यधिदैवतम् ।
सर्वं पञ्चदशहादि वासुदेवाधिदैवतम् ॥ १०२ ॥
17.103
दद्यात् प्रथमरात्रे तु बलिं बलिविधानवत् ।
पललै रजनीचूर्णैः सलाजदधिसक्तुभिः ॥ १०३ ॥
17.104
दिनेष्वपि च सर्वेषु द्रव्यैरेभिर्बलिं ददेत् ।
यद्वा द्वितीयरात्रे तु दद्याच्च तिलतण्डुलैः ॥ १०४ ॥
17.105
दद्यात् तृतीयरात्रौ तु धानास्त्वंबिकलाजकैः ।
दद्याच्चतुर्थरात्रे तु बलिं देशिकसत्तमः ॥ १०५ ॥
17.106
नालिकेरपयःसक्तुशालिपिष्टैर्विमिश्रितैः ।
पञ्चमे तु बलिं दद्यात् पझबीजैः सहाक्षतैः ॥ १०६ ॥
17.107
षष्ठरात्रे बलिं दद्यादपूपैश्चरुणा सह ।
अथवा सर्वरात्रेषु प्रदद्याच्चरुणा सह ॥ १०७ ॥
17.108
तत्तद्दिनोदितैर्द्रव्यैर्बलिं तु द्विजसत्तम ।
सप्तमे तु गुलान्नेन पायसान्नेन चाष्टमे ॥ १०८ ॥
17.109
नवमे कृसरान्नेन बलिं दद्याद्विचक्षणः ।
द्वादशाहोत्सवे विप्र माषान्नं दशमेऽहनि ॥ १०९ ॥
17.110
शुद्धान्नमथवा विप्र मुद्गान्नं तु परेऽहनि ।
द्वादशे सर्वबलयः शुद्धान्नं शालिजं तु वा ॥ ११० ॥
17.111
क्षीरं दध्याज्यसंयुक्तं गुलखण्डसमन्वितम् ।
इतः परं तु सर्वत्र शुद्धान्नं पायसं तु वा ॥ १११ ॥
17.112
एकाहादिचतुष्के तु भवेत्तत्तद्दिनोदितम् ।
प्रत्येकमाढकं ग्राह्यं बलिद्रव्यं द्विजोत्तम ॥ ११२ ॥
17.113
तदर्धं वाऽथ पादं वा यथावित्तानुरूपतः ।
एवं द्रव्याणि हुत्वा तु अलंकृत्य विशेषतः ॥ ११३ ॥
17.114
यात्राबिंबगतं देवं विचित्रैर्वसनैस्तथा ।
विचित्रैर्भूषणैश्चापि माल्यैर्नानाविधैस्तथा ॥ ११४ ॥
17.115
मुहूर्ते शोभने प्राप्ते सर्वमंगलसंयुतम् ।
त्यन्दनं वा गजं वापि यानं सौपर्णमेव वा ॥ ११५ ॥
17.116
सपुष्पहेमप्रभया युक्तं पुष्पाद्यलंकृतम् ।
सौवर्णेन विमानेन युक्तं मायूरकेन वा ॥ ११६ ॥
17.117
समानीय तु संप्रोक्ष्य ध्यात्वा गरुडरूपिणम् ।
तन्मन्त्रेण समब्यर्च्य यानमर्घ्यादिभिस्ततः ॥ ११७ ॥
17.118
कृत्वा पुण्याहघोषं च श्रुतिघोषसमन्वितम् ।
शङ्खतूर्यादिसंयुक्तं प्रादक्षिण्यक्रमेण तु ॥ ११८ ॥
17.119
याने तत्र समारोप्य यात्रामूर्तिगतं विभुम् ।
यात्रार्थं तत्र देवाय सार्घ्यं पाद्यं तथैव च ॥ ११९ ॥
17.120
आचामं गन्धमाल्ये च दीपं धूपं तथैव च ।
अर्हणं मधुपर्कं च नैवेद्यं विविधं तथा ॥ १२० ॥
17.121
पृथुकाद्यं पानकं च तर्पणाचमने तथा ।
ताम्बूलं विनिवेद्याथ जपं कृत्वा विधानतः ॥ १२१ ॥
17.122
अग्नौ संतर्पणं कुर्मात् तत्काले वापि होमयेत् ।
बलिद्रव्याणि सर्वाणि यथाकालानुरूपतः ॥ १२२ ॥
17.123
रथयाने विशेष तु समाकर्णय सांप्रतम् ।
मुक्ताप्रपावितानैश्च सौवर्णैर्माञ्जरीगणैः ॥ १२३ ॥
17.124
मुक्तादामसमेतैश्च विचित्रैः पुष्पदामभिः ।
हैमेन च वितानेन प्रभया च विशेषतः ॥ १२४ ॥
17.125
मध्यतो भद्रपीठेन सौवर्णेन तथैव च ।
ध्वजैश्च विविधै रम्यै पताकाभिश्च सर्वतः ॥ १२५ ॥
17.126
भूषयेद्रथयानं तु तथा गरुडकेतुना ।
तत्र देवं समारोप्य पूजयेत् पूर्ववर्त्मना ॥ १२६ ॥
17.127
आचार्याः साधकाश्चापि रथस्योर्ध्वतलस्थिताः ।
तस्याधस्तात् स्थले स्थाप्याः पश्चिमे छत्रधारकाः ॥ १२७ ॥
17.128
तत्र तत्पार्श्वतः स्थाप्यौ मायूरच्छत्रधारिणौ ।
दक्षिणोत्तरपार्श्वस्थावग्रे चामरधारिणौ ॥ १२८ ॥
17.129
सारथिस्तत्स्थले स्थाप्यस्त्वग्रतो मध्यदेशतः ।
ततस्तु गरुडाद्यैश्च चक्रेण गरुडेन वा ॥ १२९ ॥
17.130
अष्टाभिर्मंगलैश्चापि दीक्षितैर्ब्राह्नणैर्धृतैः ।
अर्घ्यगन्धादिभिश्चैव सार्धं घण्टारवैस्तथा ॥ १३० ॥
17.131
शङ्खभेर्यादिभिश्चैव छत्रेण दीपधारकैः ।
आचार्यः साधको वापि बलिं दद्याद्विधानतः ॥ १३१ ॥
17.132
प्रासादद्वारमारभ्य ग्राममध्यान्तमेव च ।
प्रथमावृतिमारभ्य सर्वेष्वावरणेष्वपि ॥ १३२ ॥
17.133
देवयानं परिब्रम्य प्रादक्षिण्यक्रमेण तु ।
रथ्यावरणपर्यन्तं तत्पश्चाद्भ्रामयेद्द्विज ॥ १३३ ॥
17.134
ग्रामे वा नगरे वापि पत्तेन वा महामते ।
बृहति स्यन्दने याने यानेनान्येन वान्तरा ॥ १३४ ॥
17.135
भ्रामयित्वा तु तत्पश्चाद्बृहति स्यन्दनादिके ।
देवेशं तु समारोप्य भ्रामयेद्ग्रामवीधिषु ॥ १३५ ॥
17.136
देवस्य पुरतो दूराद्गच्छेयुर्बलिदायिनः ।
ध्वजदण्डधराः पश्चाच्छंखकाहलधारकाः ॥ १३६ ॥
17.137
भेरीपटहपपूर्वाणां वाद्यानां घोषणोन्मुखाः ।
तत्पृष्टे गीतकाश्चापि वन्दिबृन्दास्तथैव च ॥ १३७ ॥
17.138
सुवेषा भगवद्भक्तास्तथैव गणिकाजनाः ।
दासीगणाश्च तत्पृष्टे शोणदण्डवहा जनाः ॥ १३८ ॥
17.139
लीलांगानि विचित्राणि धारयन्तस्तथैव च ।
वहन्तः पादुकादीनि ततो देवस्य पार्श्वतः ॥ १३९ ॥
17.140
अग्रतः पृष्ठतश्चापि जनाश्चामरधारिणः ।
आतपत्रांश्च विविधान् तालवृन्तांस्तथैव च ॥ १४० ॥
17.141
धारयन्तो द्विजाश्वापि ततो देवस्य दक्षिणे ।
कर्मारंभादि पठतो विप्रानेकायनान् न्यसेत् ॥ १४१ ॥
17.142
ऋक्सामपूर्वान् वामेपि पृष्ठतो वा निवेशयेत् ।
सुमृष्टधूपपात्रांश्च वहन्तः पृष्ठतस्तथा ॥ १४२ ॥
17.143
पुरतो ऽस्त्रं स्मरन् यायात् स्वयं विघ्नांस्तु सूदयन् ।
अनेकशतसंख्यांश्च दीपानतिसमुज्ज्वलान् ॥ १४३ ॥
17.144
धारयन्तो जना विप्र देवस्योभयपार्श्वयोः ।
गच्छेयुः पङ्क्तिरूपेण यावन्तो बलिवाहकाः ॥ १४४ ॥
17.145
सर्वाणि राजचिह्नानि वहन्तो देवसन्निधौ ।
गच्छेयुरन्ये भक्ताश्च ब्राह्नणाः क्षत्रियास्तथा ॥ १४५ ॥
17.146
वैश्याः शूद्राश्च चत्वारो ह्याश्रमस्थास्तथैव च ।
सर्वशास्त्रेषु कुशला भगवद्भाविनस्तथा ॥ १४६ ॥
17.147
सेवेरन् सर्वतोदिक्कं वीक्षमाणाः परं विभुम् ।
ग्रामस्यैन्द्रादियोगेन दिशासु विदिशासु च ॥ १४७ ॥
17.148
मद्ये च कुमुदादीनां सगणानां क्रमेण तु ।
पीठिकासु बलिं दद्यान्निर्मितासु पुरैव तु ॥ १४८ ॥
17.149
कुमुदादेर्गणानां तु नामानि क्रमशः श्रृणु ।
उत्कटः प्रकटश्चैव उन्मुखो विमुखस्तथा ॥ १४९ ॥
17.150
अश्वग्रीवोऽश्ववदनः अश्वजिह्नस्तथैव च ।
हस्तिवक्त्रश्च कुमुदः हस्तिपादश्च केशवः ॥ १५० ॥
17.151
वामनो नरकश्चापि नरो मर्दन एव च ।
मन्ददृष्टिश्च कन्तुश्च तथा कन्तुकलोचनः ॥ १५१ ॥
17.152
पटहाक्षो विशालाक्षः क्षामकः क्षमकस्तथा ।
पाण्डरः पाण्डुपृष्ठश्च दुर्दिनः सुदिनस्तथा ॥ १५२ ॥
17.153
वामदेवो महादेवो महाग्निर्मधुसूदनः ।
कनकः कालकश्चैव भावनो भवनस्तथा ॥ १५३ ॥
17.154
भानुमान् बानुवेगश्च भास्करश्चाप्यभास्करः ।
विश्वसेनो विसेनश्च विष्वक्सेनो विसारणः ॥ १५४ ॥
17.155
विस्तारो निस्तरश्चैव विदण्डी दण्ड एव च ।
कामदः कामुकश्चापि कामभृत् कामनाशनः ॥ १५५ ॥
17.156
पञ्चाशच्च गणा ह्येत् प्राचीं दिशमुपाश्रिताः ।
एते पारिषदाः प्रोक्ताः कुमुदस्य वशानुगाः ॥ १५६ ॥
17.157
शतं शतं गृहगणाः एकैकस्यानुयायिनः ।
एषां कुमुदपूर्वाणां क्रमेण च बलिं हरेत् ॥ १५७ ॥
17.158
पार्श्वस्थमण्डलेष्वेवं गृहेभ्यस्तु बलिं हरेत् ।
देवा एते गृहाश्चापि ऐन्द्रे तु बलिभागिनः ॥ १५८ ॥
17.159
आग्नेयो निधनस्चैव अग्निजिह्वो हुताशनः ।
अग्निरूपोऽग्निवर्णश्चाप्यग्निवर्णोऽहिरेव च ॥ १५९ ॥
17.160
अग्निवक्त्रो महावक्त्रे महासेनो महोदरः ।
करालः काकजिह्वश्च काकवक्त्रोऽग्निवक्त्रकः ॥ १६० ॥
17.161
मण्डुर्मण्डूकवक्त्रश्च देवो देवलकस्तथा ।
शर्वकः शमकश्चापि शंकुः शंकुश्रवास्तथा ॥ १६१ ॥
17.162
मारीचो द्रोणमारीचो महिषो माहिषस्तथा ।
कुम्भनासो विनासश्च कुम्भकर्णो विकर्णकः ॥ १६२ ॥
17.163
विदारी विक्रमश्चैव मस्करी मस्करस्तथा ।
सूकरः सूकरास्यश्च शशः शशमुखसस्तथा ॥ १६३ ॥
17.164
सिंहः सिंहमुखश्चैव नरसिंहो नरस्तथा ।
कालधृक्कालसूत्रश्च सूत्रकः सूत्र एव च ॥ १६४ ॥
17.165
विनाली नालकण्ठश्च आग्नेयीं दिशमाश्रिताः ।
कुमुदाक्षगणा ह्येते संयुक्ता आसुरैर्गणैः ॥ १६५ ॥
17.166
आग्नेय्यां पीठिकायां तु कुमुदाक्षबलिं हरेत् ।
धर्मो धर्मधरो धर्मो धर्मराजो धनुर्धरः ॥ १६६ ॥
17.167
विनयः प्रश्रयश्चैव निश्रेयो निर्गुणस्तथा ।
अलसः कुणपश्चैव क्रूरबाहुश्च कुंजरः ॥ १६७ ॥
17.168
प्रांशुर्दमननिष्कोपौ निरनुक्रोशनिर्ममौ ।
विभवोऽविभवश्चैव हुताशो बहुरेव च ॥ १६८ ॥
17.169
ऊर्ध्वरक्षणसंज्ञश्च एकलः पाकलस्तथा ।
कंकटः कटकश्चेव अवटः शंखचक्रिणौ ॥ १६९ ॥
17.170
गदी खड्गी च शार्ङ्गी च तथा शार्ङ्गधरो मुने ।
वासुदेवोऽपि भद्रश्च केतुमान् केतुकस्तथा ॥ १७० ॥
17.171
क्षमी च ज्वलनश्चापि किन्नरोऽश्वत्थ एव च ।
सुप्तः सुजपनश्चापि जपः पश्चिम एव च ॥ १७१ ॥
17.172
कैक्षिकश्च तथा स्वजो बाडवश्चाक्षमी तथा ।
गणाः पञ्छाशादेते तु दक्षिणां दिशमाश्रिताः ॥ १७२ ॥
17.173
पुण्डरीक वशाह्येते पितृगृहसमन्विताः ।
सर्वत्रैवं समृद्दिष्टाः पच्चाशच्छक्तिका गृहाः ॥ १७३ ॥
17.174
प्रदद्यात् पुण्डरीकायएयैभिर्युक्ताय वै बलिम् ।
निष्कृतिः प्रकृतिश्चैव सुकृतिर्विकृतिस्तथा ॥ १७४ ॥
17.175
दारुणो दमकश्चैव रक्षको लक्षकस्तथा ।
माधवो मांसकश्चैव निष्ठुरः खरभाषणः ॥ १७५ ॥
17.176
प्रलंबो लम्बकश्चैव प्राणनः प्रणयस्तथा ।
वीरसेनोंगदश्चैव विभाषश्च विभीषणः ॥ १७६ ॥
17.177
रक्ताक्षो लोहिताक्षश्च रक्तजिह्वो विजिह्वकः ।
विद्युत्केशो विशालाक्षो विक्षरो वीरहा तथा ॥ १७७ ॥
17.178
अक्षरः प्राक्षरश्चैव कामरूपविरूपिणौ ।
सर्वगः सर्वविद्गौरः संभवः प्रभवस्तथा ॥ १७८ ॥
17.179
वारुणो वसुरेवापि विमर्दो दमनस्तथा ।
वैकर्तनो विकर्ता च कपर्दी च प्रबुस्तथा ॥ १७९ ॥
17.180
कन्दकी कन्दकश्रापि नाकी च वरुणोऽरुणः ।
गणा एते च पञ्चाशन्नैरृतिं दिशमाश्रिताः ॥ १८० ॥
17.181
यातुगृहैस्तु संयुक्ता वामनस्यानुगा इमे ।
एभिर्युक्ताय विधिना वामनाय बलिं ददेत् ॥ १८१ ॥
17.182
वरुणो वारुणश्चैव पाशी पाशधरो गुरुः ।
क्षेपणः क्षोभणश्चैव नारदः सर्वदो रविः ॥ १८२ ॥
17.183
सुमना नामनो हंसो वैकुण्ठः परमः परः ।
हनुमान् वसुमान् भद्रो भद्रवः प्रभवस्तथा ॥ १८३ ॥
17.184
महाकर्णो विकर्णश्च शशकः शलकः पिकः ।
वानरो नरकश्चैव कार्ष्णिः कर्णधरोंऽशुमान् ॥ १८४ ॥
17.185
चक्रोऽग्रश्च तथा वज्री वज्रनाभो विनाभकः ।
करभः कुरभश्चैव दाक्षिणो दक्षिणः सुहृत् ॥ १८५ ॥
17.186
दुर्गन्धः पूतिगन्धश्च तार्क्ष्यो गरुड एव च ।
विरोधो रोधको रोधः कंकणस्च वृकोदरः ॥ १८६ ॥
17.187
एते गणाश्च पञ्चाशत् पश्चिमां दिशमाश्रिताः ।
शंकुकर्णवशा ह्येते पाशग्रहगणान्विताः ॥ १८७ ॥
17.188
सहैभिः शंकुकर्णाय पीठिकायां बलिं ददेत् ।
मरुर्मारुतगो रुर्वी आखुर्वायुसुतोऽनिलः ॥ १८८ ॥
17.189
गलर्तो वर्तकः कंको मार्गणः प्रांकणोऽचलः ।
बलो बलनिधिर्वीरो विरोधो रोधको विधिः ॥ १८९ ॥
17.190
सिद्धवः सुयवश्चैव शंकरो धीरकस्तथा ।
माली मालाविधिर्वस्तुः समर्थः सुमहोत्सवः ॥ १९० ॥
17.191
कर्कटः कटकश्चैव गन्धो गन्धवहः परः ।
सिक्तकः सिक्तरोगी च सेवकः सेवनः सवः ॥ १९१ ॥
17.192
औषधो भेषजो वापि रोगी रोगभवस्तथा ।
कारणः करणः कर्ता गरवीरोऽखलस्तथा ॥ १९२ ॥
17.193
वलश्च वाकुवाहश्च सुचारश्च तथैव च ।
गणाः पश्चाशदेते तु वायव्यां दिशमाश्रिताः ॥ १९३ ॥
17.194
सर्वनेत्रानुगान् नित्यं गन्धर्वगृहसंयुताः ।
प्रदद्यात् सर्वनेत्राय एभिर्युक्ताय वै बलिम् ॥ १९४ ॥
17.195
सोमः सोमकलः सोम्यः सामवित् सामनायकः ।
सुधा सुधाता धाता च सुराष्ट्रः काष्ठकः कलिः ॥ १९५ ॥
17.196
कालधृक्कालचक्रश्च कालकूटविषो बल ।
अमृतोऽमृतनाथश्च केयूरी केबली बली ॥ १९६ ॥
17.197
विष्णुः कृष्णपिशंगांगी रेखालेखः पिक शुकः ।
लूबकश्च शुकश्चैव श्येनः श्येनमुखस्तथा ॥ १९७ ॥
17.198
मार्जारो मरुभृद्वालो गुल्मः कणवकः कणः ।
शेषो विशेष उच्छेषः कर्दमः पूतिविग्रहः ॥ १९८ ॥
17.199
साम्बः संवत्सरश्चैव वेगी वेगधरो मरुत् ।
गणाः पञ्चाशदेते तु सोमस्य दिशमाश्रिताः ॥ १९९ ॥
17.200
सुमुखस्य वशा ह्येते यक्षग्रहसमन्विताः ।
सुमुखाय बलिं दद्यादेभिः सह यथाविधि ॥ २०० ॥
17.201
ईशान ईश्वरो व्यापी व्यसनो विनशो बुधः ।
धरो बको विशो वादः शकुनिः शकटो घटः ॥ २०१ ॥
17.202
वृक्षः कक्षः क्षमी क्षान्तिर्मातृरोमा कपिंजलः ।
ब्रह्नण्यो ब्रह्नविद्ब्रह्नी व्रह्नात्मा व्रह्नसाधनः ॥ २०२ ॥
17.203
वेदी वेदविदुद्वन्धः शंकरः शांकरस्तथा ।
धीमान् विसृष्टिरिष्टात्मा दुष्टात्मा दुष्टकर्मकृत् ॥ २०३ ॥
17.204
विजेता विकचो वादी नोदी त्रिपक एकभुक् ।
सर्वभुक सर्वगः सर्वः सर्वभंगः सनातनः ॥ २०४ ॥
17.205
गोविन्दो गोपतिश्चेव गोप्ता चेव महेश्वरः ।
पञ्चाशच्च गणा ह्येते ऐशानीं दिशमाश्रिताः ॥ २०५ ॥
17.206
सुप्रतिष्ठवशा ह्येते पिशाचगृहसंयुताः ।
सुप्रतिष्ठितसंज्ञाय एभिः सार्धं वलिं ददेत् ॥ २०६ ॥
17.207
सिद्धो धाता विधाता च धाता चैव प्रजापतिः ।
लोकेशो लोककृत् कर्ता स्रष्टा ब्रह्ना तथात्मभूः ॥ २०७ ॥
17.208
सुतापश्च तुलश्चैव तथा वै रीतिवर्धनः ।
अव्यक्तो गुणवान् गौणो गुणभुक्च तथैवहि ॥ २०८ ॥
17.209
उद्गीतः प्रणवश्चापि हिरण्यगर्भसंज्ञितः ।
विरिञ्चः पुष्करश्चैव भासनो भास एव च ॥ २०९ ॥
17.210
विकर्णो विजयश्चैव तथा चैव रथंतरः ।
छन्दो यजुस्तथा ऋक् च अथर्वा च ततः परम् ॥ २१० ॥
17.211
मरीचिरंगिराश्चैव पुलहः क्रतुरेव च ।
वसिष्ठश्च प्रचेताश्च शलभो भीष्म एव च ॥ २११ ॥
17.212
हेमन्तः शिशिरश्चापि कुसुमाकरसंज्ञितः ।
कलहश्च विरागिश्च अमर्षो रोषणस्तथा ॥ २१२ ॥
17.213
शोषणश्च गतिश्चैव हर्षणो वर्धनस्तथा ।
गणाः पञ्चाशदेते तु व्योमसिद्धगृहान्विताः ॥ २१३ ॥
17.214
प्रदद्यात् पृश्निगर्भाय सार्धमेभिर्बलिं द्विज ।
मनुष्यो मानवश्चैव मण्डको मानवस्तथा ॥ २१४ ॥
17.215
मकरश्च तथा चोरः कंपश्चैव प्रकंपनः ।
अलंपटश्च पटद योजको भजको ग्रहीः ॥ २१५ ॥
17.216
रेचको रोचको मायो धारो वारो रसश्चलः ।
चापालिकः कपिर्बाणो ग्रजनो गर्जनो गुडः ॥ २१६ ॥
17.217
तित्तरश्चटको ध्वाङ्क्षो बलीवर्दो महानटः ।
हर्षो धर्मप्रशास्ता च शमको दुन्दुभिः शठः ॥ २१७ ॥
17.218
कुक्षिः कुमारः कायस्थो लावकोऽप्रशुनः शुनः ।
लवणो रवणो ऋद्धो राजसस्तामसोऽचलः ॥ २१८ ॥
17.219
कल्याणो भगदत्तश्च पृथिवीतलसंस्थिताः ।
गणाः पञ्चाशदेते तु भूमिग्रहसमन्विताः ॥ २१९ ॥
17.220
महाबला दुराधर्षा मानवस्य वशानुगाः ।
मानवाय बलिं दद्यादेभिर्युक्ताय साधकः ॥ २२० ॥
17.221
एते पञ्चाशतः प्रोक्ता गणानामधिपा द्विज ।
ऐकैकस्य भवेदेषां गणाश्चान्ये शतं शतम् ॥ २२१ ॥
17.222
एवं पञ्चाशत्सहस्रं एतेषां परिचारकाः ।
चत्वरे च चतुष्के च सभायां ग्राममध्यके ॥ २२२ ॥
17.223
ग्रामद्वारेषु सर्वेषु तिष्ठन्ति विविधायुधाः ।
जनानयोग्यान् बाधन्ते तथा पाषण्डिनोपि च ॥ २२३ ॥
17.224
नद्यादिषु च देशेषु संचरन्ति यथारुचि ।
दशानां कुमुदादीनां गणेशानां द्विजोत्तम ॥ २२४ ॥
17.225
गणानामुत्कटादीनामुदितानां क्रमेण तु ।
प्रणवाद्यैर्नमोन्तैस्तु स्वैस्वैर्नामभिरेव च ॥ २२५ ॥
17.226
अर्ध्यं गन्धं तथा माल्यं धूपं गन्धाम्बुपूर्वकम् ।
बलिं भूयो जलं चापि ताम्बूलं क्रमशो ददेत् ॥ २२६ ॥
17.227
गीतनृत्तादिकं सर्वं पूर्ववत् परिकल्पयेत् ।
पञ्चाशतां सहस्राणां गणशो गणशो द्विज ॥ २२७ ॥
17.228
नमः पारिषदेभ्यश्च इत्युक्त्वा वलिविस्तरम् ।
भूमौ प्रतिदिशं कुर्यात् सर्वशान्तिकरं शुभम् ॥ २२८ ॥
17.229
पञ्चाशतां सहस्राणा एकैकस्य पृथक् पृथक् ।
शतं शतं परिवारा एते ग्रहगणाः स्मृताः ॥ २२९ ॥
17.230
एषां ग्रहगणानां तु परिवाराः सहस्रशः ।
असंख्येयाश्चरन्तस्तु सर्वतः पृथिवीमिमाम् ॥ २३० ॥
17.231
संचरान्ति ग्रहगणा उक्ता दशविधा महीम् ।
देवा दैत्याश्च पितरः राक्षसा नागनायकाः ॥ २३१ ॥
17.232
गन्धर्वयक्षाः पैशाचाः सिद्धाश्चापि धरागणाः ।
एते दशविधा ब्रह्नन् दशदिक्षु स्थिताः सदा ॥ २३२ ॥
17.233
उक्ताः पञ्चदशानां तु एतेषां नायका गणाः ।
तेषां तु पूजया सर्वे सुखं यान्ति न संशयः ॥ २३३ ॥
17.234
पीठोर्ध्वे कुमुदादीनां बलिं दद्याद्विचक्षणः ।
भूतले गोमयाद्येन लेपिते वा यथारुचि ॥ २३४ ॥
17.235
गणानामुत्कटादीनां बलिं तत्परितो ददेत् ।
अन्येषामापि सर्वेषां तद्बहिर्विकिरेद्बलिम् ॥ २३५ ॥
17.236
अमुक्तानां च सर्वेषां ग्राममद्ये बलिं क्षिपेत् ।
कुमुदादिगणेशानाम् अनुकल्पे विधानतः ॥ २३६ ॥
17.237
बलिं दत्वाऽवशिष्टानां सर्वेषामपि वै पृथक् ।
नमः पारिषदेभ्यश्चेत्युक्त्वा तस्माद्बलिं द्विज ॥ २३७ ॥
17.238
अवशिष्टं बलिद्रव्यं ग्राममध्ये विनिक्षिपेत् ।
संतर्पणार्थं भूतानां सर्वदेशनिवासिनाम् ॥ २३८ ॥
17.239
रात्र्यामावाहनं ब्रह्नन् ध्वजारोहणवासरे ।
न कृतं कुमुदादीनां सगणानां ततोद्य तु ॥ २३९ ॥
17.240
तेषामावाहनं कुर्याद् बलिं दद्याद्विधानतः ।
ध्वजारोहदिने पूर्वं तेषामावाहने कृते ॥ २४० ॥
17.241
तद्वासरात् समारब्य यावदुत्सववासरम् ।
पायसेन बलिं दद्याच्छुद्धान्नेनाथवा द्विज ॥ २४१ ॥
17.242
दिवा वापि रजन्यां वा कालयोरुभयोस्तु वा ।
भवेत् कर्तुर्महान् दोष आहूतानामनर्चनात् ॥ २४२ ॥
17.243
केनापि हेतुना यत्र वलिदानं न शक्यते ।
यात्रारंभदिने तत्र तेषामावाहनं चरेत् ॥ २४३ ॥
17.244
एवन्तु बलिसंयुक्तं देवेशं भ्रामयेद्द्विज ।
प्रादक्षिण्येन वै ग्राणे नगरे वापि पत्तने ॥ २४४ ॥
17.245
यात्रायां वर्तमानायां देवदेवाय भक्तितः ।
मुखवासं सताम्बूलं बहुशोऽथ निवेदयेत् ॥ २४५ ॥
17.246
चन्दनं श्रमशान्त्यर्थं कर्पूराद्यैः सुभावितम् ।
प्रदद्याद्देवदेवाय माल्यानि विविधान्यपि ॥ २४६ ॥
17.247
शीतलं तर्पणजलं नारिकेलजलान्वितम् ।
श्रमशान्तिनिमित्तानि अन्यान्यपि निवेदयेत् ॥ २४७ ॥
17.248
दिगष्टके तु ग्रामादेस्तन्मद्ये च विशेषतः ।
गीतकैर्विविधैनर्त्तैस्तन्त्रीवाद्यसमन्वितैः ॥ २४८ ॥
17.249
शंखभेरीमृदंगाद्यैर्देवेशं परितोषयेत् ।
एवं देवं परिब्राम्य ग्रामादौ बलिसंयुतम् ॥ २४९ ॥
17.250
पुनः प्रदक्षिणं कृत्वा प्रासादावरणेषु च ।
प्रासादद्वारदेशे तु देवदेवस्य भक्तितः ॥ २५० ॥
17.251
अर्घ्यं पाद्यं तथाचामं गन्धं माल्यं च धूपकम् ।
निवेद्य देवदेवेशं स्वस्थाने सन्निवेशयेत् ॥ २५१ ॥
17.252
ततो यागगृहं गत्वा देशिकः सुसमाहितः ।
तिलैराज्यैश्च पूर्णआन्तं यात्राहोमं समापयेत् ॥ २५२ ॥
17.253
एवं बलिसमायुक्तमन्येषु दिवसेष्वपि ।
अह्नि रात्रौ तु देवस्य परिब्रमणमारभेत् ॥ २५३ ॥
17.254
तीर्थयात्रादिने कुर्यात् परिभ्रमणमह्नि वै ।
कुर्यात् स्नपनबिंबे च स्नपनं तु दिवानिशम् ॥ २५४ ॥
17.255
आरम्भदिनमारभ्य यावदन्तिमवासरम् ।
तत्रापि चांकुरारोपं सप्तमे पञ्चमे तु वा ॥ २५५ ॥
17.256
वासरे पूर्ववच्चापि कुर्यात् कौतुकबन्धनम् ।
द्वितीये वासरे प्राप्ते देवमास्थानमण्टपे ॥ २५६ ॥
17.257
यागागारेऽथवानीय समारोप्य च विष्टरे ।
ततो यागगृहं गत्वा देशिको विधिना यजेत् ॥ २५७ ॥
17.258
कलशे मण्डले चैव ततो गत्वा तु मण्डपम् ।
पूजयेद्देवदेवेशं महता विभवेन तु ॥ २५८ ॥
17.259
ततो यागगृहे सम्यग्वह्वौ सन्तर्प्य पूर्वबत् ।
ततस्तस्मात् समानीय महदास्थानमण्टपम् ॥ २५९ ॥
17.260
तत्र सम्यक् समब्यर्च्य देवं नीराजनान्तिमम् ।
महाहविर्निवेद्याथापूपादिसमन्वितम् ॥ २६० ॥
17.261
तस्माद्देवं समानीय मण्टपे यागनिर्मिते ।
तत्र देवं समब्यर्च्य अर्घ्यपाद्यादिभिस्ततः ॥ २६१ ॥
17.262
अग्नौ सन्तर्य्य विधिवत् पूर्णाहुत्यावसानिकम् ।
अलंकृतं तु देवेशं पूर्ववद्वसनादिकैः ॥ २६२ ॥
17.263
यानादिके समारोप्य पूर्वोक्तक्रमयोगतः ।
भ्रमयित्वा तु बेवेशं ग्रामे त्वन्तः प्रवेशयेत् ॥ २६३ ॥
17.264
मण्टपे देवदेवेशमानीय स्नानविष्टरे ।
समारोप्यार्घ्यपाद्यैश्च दद्यादाचमनं विभोः ॥ २६४ ॥
17.265
गन्धं पुष्पं च धूपं च दीपं नीराजनान्तिमम् ।
वेदघोषैश्च गीताद्यैरर्हणोदपुरस्सरम् ॥ २६५ ॥
17.266
कदलीफलसंयुक्तमपूपं गुलसंयुतम् ।
पानकं तर्पणजलं नालिकेररसान्वितम् ॥ २६६ ॥
17.267
ताम्बूलं शशिसंयुक्तम् ततो यात्रार्थकल्पितम् ।
वसनाद्यं परित्यज्य स्नानशाटीं निवेद्य च ॥ २६७ ॥
17.268
तैलेनाभ्यंजनं कृत्वा समुद्वर्त्य यथाविधि ।
शिरस्यामलकं दत्वा संस्नाप्य बहुभिर्जलैः ॥ २६८ ॥
17.269
वर्णकेन समालिप्य क्षालयित्वा तु वारिणा ।
समालिप्य सुगन्धेन भक्तितश्चान्दनादिना ॥ २६९ ॥
17.270
सहस्रधारया विप्र स्नानं कृत्वा ततः परम् ।
दत्वा सवन्दनं पश्चात् शिरः प्लोतादिशाटकम् ॥ २७० ॥
17.271
दत्वा देवं समारोप्य तदन्यस्मिंस्तु विष्टरे ।
करशुद्व्यादि सर्वं तु कृत्वान्तर्यागपश्चिमम् ॥ २७१ ॥
17.272
ततो यथाक्रमेणैव देवं संपूजयेद् द्विज ।
यद्वा दिनोत्सवे वृत्ते देवमानीय मण्टपे ॥ २७२ ॥
17.273
वितते भद्रपीठे तु समारोप्याथ पूर्ववत् ।
अर्घ्यादि सकलं विप्र ताम्बूलान्तं निवेद्य च ॥ २७३ ॥
17.274
वस्त्राद्यं पूर्वक्लृप्तं यत् क्रमात् सर्वं विसृज्य च ।
विनिवेद्य च वस्त्रं तु श्रमनिर्हरणार्थतः ॥ २७४ ॥
17.275
समालब्य तु देवेशं सुगन्धैश्चन्दनादिकैः ।
ततस्तु विधिना पूज्य यावदात्मनिवेदनम् ॥ २७५ ॥
17.276
स्नानार्थं देवदेवस्य विज्ञाप्य विनिवेद्य च ।
पादुके देवदेवेशं छत्राद्यैश्च समन्वितम् ॥ २७६ ॥
17.277
तस्मादानीय पीठे तु स्नानार्थं परिकल्पिते ।
समारोप्य तदाद्यैस्तु भोगैः सर्वैस्तु पूर्ववत् ॥ २७७ ॥
17.278
इष्ट्वा ताम्बूलदानान्तं स्कन्धशाटीं निवेदयेत् ।
ततस्तैलं समादाय कर्पूराद्यैः सुभावितम् ॥ २७८ ॥
17.279
देवस्य केशानालोड्च हस्ताब्यां कंकतेन तु ।
अधिवास्य सुगन्यैस्तु धूपैरभ्यंजयेत् ततः ॥ २७९ ॥
17.280
शिरो निष्पीड्य देवस्य वहुधा च ततः परम् ।
केशानाबघ्य मालाभिः सूक्ष्मेण प्लोतकेन तु ॥ २८० ॥
17.281
ललाटोपरि बध्वा तु तथा मुखसरोरुहे ।
देवस्य तैलनिष्यन्दा नापतन्ति यथा द्विज ॥ २८१ ॥
17.282
ततः स्कन्धप्रदेशात्तु यावत्पादावसानकम् ।
अब्यंजयेच्च तैलेन सर्वगात्राणि मर्दयेत् ॥ २८२ ॥
17.283
तस्मिन् काले बहुविधैस्तालवृन्तैश्च चामरैः ।
तत्तापशमनार्थं तु वीजयेयुः समन्ततः ॥ २८३ ॥
17.284
ततस्तु वाससोद्वर्त्य तथा चूर्णैः पुरोदितैः ।
चमषीं च खलिं दत्वा दद्यादुष्णोदकं ततः ॥ २८४ ॥
17.285
चन्दनं मुखलेपार्थं घृष्टं कर्पूरभावितम् ।
ततस्त्वामलकं कल्कं गन्धद्रव्यैः सुसंस्कृतम् ॥ २८५ ॥
17.286
दत्वा शिरसि देवस्य प्रक्षाल्य वहुभिर्जलैः ।
शनैः शनैः समालोड्य ततोऽर्घ्यं विनिवेद्य च ॥ २८६ ॥
17.287
लोध्रं कालेयकं चैव क्षालनार्घ्यसमन्वितम् ।
दत्वा केशान् समाबध्य देवस्य प्लोतवाससा ॥ २८७ ॥
17.288
अधः शटीं निवेद्याथ पात्रे कृत्वा तु वर्णकम् ।
कर्पूरचूर्णसंमिश्रं सम्यग्धूपाधिवासितम् ॥ २८८ ॥
17.289
तेन देवस्य गात्राणि लेपयेत्तु शनैः शनैः ।
आकण्ठात् पादपर्यन्तं ततः प्रक्षालयेज्जलैः ॥ २८९ ॥
17.290
अपास्याथ शिरःप्लोतम् दद्यादर्घ्यं तु मूर्धनि ।
ग्रन्थिपल्लवतोयादि सर्वरत्नोदकान्तिमम् ॥ २९० ॥
17.291
संस्नाप्य सप्तभिस्तोयैः शिरःप्लोतं ददेद्विज ।
विनिवेद्याप्यधःशाटीं चन्दनेन सुगन्धिना ॥ २९१ ॥
17.292
शशिचूर्णसमेतेन वासितेन हिमांबुना ।
धूपाधिवासितेनापि समालभ्य विशेषतः ॥ २९२ ॥
17.293
गात्राणि देवदेवस्य तथा वै कुंकुमेन च ।
उपवीतं सोत्तरीयं दत्वा प्लोतमपास्य च ॥ २९३ ॥
17.294
शिरस्यमथ केशांस्तु गन्धधूपाधिवासितान् ।
आबद्य विविधैर्माल्यैः स्रग्दामानि निवेद्य च ॥ २९४ ॥
17.295
ततस्तु बहुभिस्तोयैः संस्कृतैश्चन्दनादिना ।
सहस्रधारया स्नानमाचरेद्देशिको विभोः ॥ २९५ ॥
17.296
व्यापकान् चतुरो मन्त्रान् जपेदेकाग्रमानसः ।
तस्मिन् काले बह्वृचाद्या द्बिजाः प्रागादिदिक्स्थिताः ॥ २९६ ॥
17.297
सृक्तानि पौरुषाद्यानि अधीयीरन् समाहिताः ।
शंखभेर्यादिकान् सम्यग् धोषयेयुः समन्ततः ॥ २९७ ॥
17.298
मंगलानि च गीतानि तदा गायन्तु गायकाः ।
एवं स्नाने कृते पश्चात् देशिकेन्द्रः समाहितः ॥ २९८ ॥
17.299
पूर्णकुम्भं समादाय विभोः स्नपनमाचरेत् ।
जपन् पवित्रमन्त्रं च तस्य निर्वचनं तथा ॥ २९९ ॥
17.300
एवं स्नानं समापाद्य दद्यान्नीराजनं विभोः ।
सवन्दनाख्यं तत्पश्चच्छाटकं विनिवेद्य च ॥ ३०० ॥
17.301
कचोदकापकर्षार्थमपरं देहवारिभृत् ।
अधरोत्तरवस्त्रेद्वे गन्धधूपाधिवासिते ॥ ३०१ ॥
17.302
स्कन्धप्लोतं निवेद्याथ शिरः स्नानं निवेद्य च ।
चन्दनादि सुगन्दं समाल्यानि विनिवेद्य च ॥ ३०२ ॥
17.303
पादुके विनिवेद्याथ तस्मात् स्थानात् समानयेत् ।
तृतीयं रत्नखचितं आसनं विनिवेद्य च ॥ ३०३ ॥
17.304
तत्रस्थं देवदेवेशमर्घ्याद्यैः पूजयेत् क्रमात् ।
सर्वं होमावसानं च कृत्वा भूयः प्रपूज्य च ॥ ३०४ ॥
17.305
महाहविर्निबेद्याथ सर्वं प्राग्वत् समाचरेत् ।
एवं प्रतिदिनं चैव यावत्तीर्थदिनान्तिमम् ॥ ३०५ ॥
17.306
स्नपनं पूजनं चैव विभोः कुर्यादतन्द्रितः ।
नित्योत्सवादौ देवस्य स्नपनं तु समाचरेत् ॥ ३०६ ॥
17.307
दिनोत्सवसमारम्भे नाचरेत् स्नपनं विभोः ।
यद्वोभयसमारम्भे कुर्यादिच्छानुरूपतः ॥ ३०७ ॥
17.308
कलशे मण्डले चैव अह्नि रात्रौ च पूजनम् ।
कुर्यात् प्रतिदिनं सम्यगेकवारं यथाविधि ॥ ३०८ ॥
17.309
बिंबंस्थं देवदेवेशमह्नि रात्रौ च पूजयेत् ।
एकवारं द्विवारं वा त्रिवारं वा यथारुचि ॥ ३०९ ॥
17.310
प्रासादे मूलबिंबस्थं सविशेषं यजेत् सदा ।
पञ्चमे वासरे प्राप्ते पूर्वाह्ने तु दिनोत्सवम् ॥ ३१० ॥
17.311
कृत्वा ततस्तु देवेशं महास्नपनपूर्वकम् ।
महता विभवेनैव लक्ष्मीपुष्टिसमन्बितम् ॥ ३११ ॥
17.312
महाहविर्विधानेन विभवे सति पूजयेत् ।
षष्ठे दिने तु संप्राप्ते कुम्भाचनपुरस्सरम् ॥ ३१२ ॥
17.313
अग्निसंतर्पणान्तं च पूजयित्वा विधानतः ।
पूर्ववद्देवदेवेशं लक्ष्मीपुष्टिसमन्वितम् ॥ ३१३ ॥
17.314
यानादिके समारोप्य प्रासादस्य बहिः व्कचित् ।
उद्याने सुशुभे रम्ये पादपैर्वकुलादिभिः ॥ ३१४ ॥
17.315
प्रोच्छ्रितैर्विविधैर्वापि समन्तात् परिशोभिते ।
पुष्पिताभिर्लताभिश्च सर्वतः परिभूषिते ॥ ३१५ ॥
17.316
नीत्वा देवं समारोप्य यथार्हे विष्टरे पुरः ।
श्रीपुष्टिसहितं प्राग्वद्धोमान्तं परिपूजयेत् ॥ ३१६ ॥
17.317
सूक्ष्मवस्त्रदुकूलानि सरत्नाभरणान्यपि ।
सुधाकस्तूरिकर्पूरदिव्यगन्धसमन्वितम् ॥ ३१७ ॥
17.318
सर्वांङ्गदेवदेवेशं मृगस्नेहेन लेपयेत् ।
पुष्पापचयमाल्यादिभूषितानां विशेषतः ॥ ३१८ ॥
17.319
परस्परं वा शक्तीनां क्रीडार्थं वाप्यलंकृताम् ।
गरुडारूढदेवाय पारिजातहरं स्मरन् ॥ ३१९ ॥
17.320
प्राभृतान्यपि पुष्पाणि देवदेवाय दर्शयेत् ।
इदमस्मात् समायातं इत्युक्त्वा देशिकः स्वयम् ॥ ३२० ॥
17.321
पुष्पापचयकर्मार्थमेवं कृत्वा निवेद्य च ।
तत्र वाऽन्यत्र वा स्थाने कर्तुरिच्छानुरूपतः ॥ ३२१ ॥
17.322
ततस्तु देवदेवेशं लक्ष्मीपुष्टिसमन्वितम् ।
पूर्ववद्भ्रामयेत् ग्रामे शेषं प्राग्वत् समाचरेत् ॥ ३२२ ॥
17.323
सप्तमे दिवसे प्राप्ते प्रासादं संप्रविश्य च ।
देशिकः साधकैः सार्धं प्रणिपत्य जगद्गुरुम् ॥ ३२३ ॥
17.324
विज्ञापयेत्तु देवाय सम्यगुच्चस्थया गिरा ।
भगवन् पुण्डरीकाक्ष शरणागतवत्सल ॥ ३२४ ॥
17.325
अस्मिन्नहनि कर्तव्या जलक्रीडा त्वया विभो ।
शुद्धये सर्वलोकानां देवानां प्रीतयेपि च ॥ ३२५ ॥
17.326
यात्रा तदर्थं कर्तव्या मदनुग्रहकाम्यया ।
इति विज्ञाप्य देवाय प्रणम्य च पुनः पुनः ॥ ३२६ ॥
17.327
यानादौ देवमारोप्य लक्ष्मीपुष्टिसमन्वितम् ।
नीत्वा मज्जनशालां तु स्नानोपकरणैर्युताम् ॥ ३२७ ॥
17.328
तद्गतान् सर्वसंभारान् दर्शायित्वा विभोस्ततः ।
चन्दनाद्यैः समालभ्य देवं माल्यैर्विभूष्य च ॥ ३२८ ॥
17.329
विनिवेद्य च ताम्बूलं मुखवाससमन्वितम् ।
समाहूय च तत्रस्थानाज्ञाप्य परिचारकान् ॥ ३२९ ॥
17.330
प्राप्तेऽपराह्वसमये जलक्रीडा भविष्यति ।
तदर्थाः सर्वसंभाराः स्थापितव्यास्तु मण्डपे ॥ ३३० ॥
17.331
इत्याज्ञाप्य ततस्तस्माद्धान्यागारं प्रविश्य च ।
दर्शयित्वा तु धान्यानि विभोस्तेषां समृद्धये ॥ ३३१ ॥
17.332
उद्यानादौ समानीय विनिवेद्य च तत्स्थितान् ।
उपहारान् यथायोगं तत आस्थानमण्टपे ॥ ३३२ ॥
17.333
पूजयेद्देवदेवेशं श्रीपुष्टिभ्यां समन्वितम् ।
सविशेषं ततो लक्ष्मीं पुष्टिमन्तः प्रवेशयेत् ॥ ३३३ ॥
17.334
प्राग्वद्दिनोचितं सम्यक् कृत्वा पश्चात्तु मण्टपे ।
देवदेवं समानीय समारोप्य च विष्टरे ॥ ३३४ ॥
17.335
अर्ध्यात् ताम्बूलपर्यन्तं सर्वं प्राग्वन्निवेद्य च ।
स्नानार्थं शाटिकां वापि विनिवेद्य जगत्पतेः ॥ ३३५ ॥
17.336
मण्डपस्यैकदेशे तु शालितण्डुलनिर्मिते ।
विष्टरे तु जलद्रोणीं सौवर्णीं वापि राजतीम् ॥ ३३६ ॥
17.337
ताम्रजं वा यथालाभं चतुस्त्रिद्विकरायताः ।
तदर्धविस्तृतामूर्ध्वे मूले तत्पादविस्तृताम् ॥ ३३७ ॥
17.338
वृत्तायतामधोभागे प्रणालेन समन्विताम् ।
उन्मत्तकुसुमाकारसदृशामथवा द्विज ॥ ३३८ ॥
17.339
बिंबमानानुरूपां तां सर्वलक्षणसंयुताम् ।
निवेश्य तां समापूर्य गालितेन जलेन तु ॥ ३३९ ॥
17.340
कुंकुमक्षोदयुक्तेन चन्दनेनान्वितेन च ।
कर्पूरचूर्णयुक्तेन कुसुमैर्वासितेन च ॥ ३४० ॥
17.341
तत्पार्श्वे देवमानीय चार्घ्याद्यैः परिपूज्य च ।
भेरीपटहवादित्रशंखघोपसमन्वितम् ॥ ३४१ ॥
17.342
स्तुतिमंगलघोषैस्तु श्रुतिघोषसमन्वितम् ।
सूक्तेन पौरुषेणैव विभोः कृत्वावगाहनम् ॥ ३४२ ॥
17.343
याने देवं समारोप्य सह स्नानार्द्रवाससा ।
कुंकुमेन समालिप्य आपादान्मस्तकावधि ॥ ३४३ ॥
17.344
ब्रामयेत् प्रांकणं वीधीं प्रीतये वरुणस्य च ।
जनानामपि सर्वेषां पवित्रीकरणाय च ॥ ३४४ ॥
17.345
तत्काले देवदेवेशं भक्त्या पश्यन्ति ये जनाः ।
ते सर्वे धूतपाप्मानो भवन्ति निरुपद्रवाः ॥ ३४५ ॥
17.346
ततस्तु मण्डपे देवं विष्टरे विनिवेश्य च ।
स्नानवस्त्रादि सकलमाचार्यः स्वयमाहरेत् ॥ ३४६ ॥
17.347
ततो निशोत्सवान्तं च सर्वं पूर्ववदाचरेत् ।
अष्टमे दिवसे प्राप्ते आचरेन्मृगयां विभोः ॥ ३४७ ॥
17.348
प्रातरारभ्य पूर्वाह्वे देवमिष्ट्वा तु पूर्ववत् ।
अश्वरत्नं समानीय सर्वालंकारशोबितम् ॥ ३४८ ॥
17.349
बहुभिस्तुरगैः सार्धं हस्तिनं वा तथाविधम् ।
स्वभावं कृत्रिणं वापि तत्रारोप्य जगत्पतिम् ॥ ३४९ ॥
17.350
मृगयानुगुणैः सर्वैर्भूषणाद्यैर्विभूषितम् ।
आरोप्य याने सौवर्णे श्रियं च धरणीं तथा ॥ ३५० ॥
17.351
ताभ्यां सह परिब्राम्य ग्रामादौ पूर्ववद्विभुम् ।
सैन्यैश्च विविधैः सार्धं भक्ताद्यैश्च तथैव हि ॥ ३५१ ॥
17.352
ततो ग्रामस्य बाह्ये तु क्रोशमात्रान्तरीकृते ।
उद्याने वितते रम्ये विचित्रैः पादपैर्द्विज ॥ ३५२ ॥
17.353
सरसीभिर्विचित्राभिः लताबन्दैश्च पुष्पितैः ।
शोभिते च समानीय देवं तन्मध्यसंस्थिते ॥ ३५३ ॥
17.354
मण्टपे तु वितानाद्यैः सर्वतः परिभूषिते ।
सौवर्णे विष्टरे रम्ये समारोप्य जगत्पतिम् ॥ ३५४ ॥
17.355
श्रीभूमिसहितं पश्चाच्छीतलैर्व्यजनानिलैः ।
चन्दनाद्यैः सुगन्धैश्च हिमतोयैस्च शीतलैः ॥ ३५५ ॥
17.356
स्वेदशान्तिं समापाद्य विशेषाद्राजराजवत् ।
ततोऽर्घ्यादिबिरभ्यर्च्य दघ्यन्नं विनिवेदयेत् ॥ ३५६ ॥
17.357
मरीचिचूर्णसंमिश्रं जीरकादिसन्वितम् ।
गुलखण्डयुतं शुद्धं पानकानि बहूनि च ॥ ३५७ ॥
17.358
कदलीफलपूर्वाणि मधुराणि फलान्यपि ।
सर्वं ताम्बूलदानान्तं क्रमात् कृत्वा ततः परम् ॥ ३५८ ॥
17.359
स्नानपूर्वं समभ्यर्च्य महता विभवेन तु ।
यथाक्रमेण देवेशं लक्ष्मीपुष्टिसमन्वितम् ॥ ३५९ ॥
17.360
निवेद्य च प्रमूतान्नमलंकृत्य विशेषतः ।
तुरगादौ समारोप्य अस्तं याते दिवाकरे ॥ ३६० ॥
17.361
दीपानेकशतैर्युक्तं ग्रामं नीत्वा प्रदक्षिणम् ।
देवं गेहे प्रवेश्याथ प्राग्वत् कुर्यान्निशोत्सवम् ॥ ३६१ ॥
17.362
तद्रात्रौ तीर्थबिंबस्य कुर्यात् कौतुकबन्धनम् ।
आचार्यो यजमानेन साधकैश्च समन्वितः ॥ ३६२ ॥
17.363
प्रासादं संप्रविश्याथ प्रणम्य च मुहुर्मुहुः ।
दण्डवत्प्रणिपातेन इमं मन्त्रमुदीरयेत् ॥ ३६३ ॥
17.364
तीर्थयात्रा त्वया देव श्वः कर्तव्या सुरेश्वर ।
तत्र प्रतिसरारम्भं त्वमनुज्ञातुमर्हसि ॥ ३६४ ॥
17.365
इति विज्ञाप्य देवस्य तीर्थबिंबं समानयेत् ।
तदलाभे मुनिश्रेष्ठ नित्यस्नपनकौतुकम् ॥ ३६५ ॥
17.366
अलाभे त्वस्य बिंबस्य बलिबिंबं तु वा द्विज ।
मूलिबंबस्य पुरतः संस्थाप्यावाह्य पूज्य च ॥ ३६६ ॥
17.367
प्रासादाब्यन्तरे कुर्याद्वेदिकां व्रीहिभिः शुभाम् ।
हस्तमात्रोन्नतायामविस्तारां पझसन्निभाम् ॥ ३६७ ॥
17.368
वासोभिर्वेष्टयित्वा तां चतुरश्रायतां ततः ।
पालिकाः सांकुरा बाह्ये स्थापयेत् ककुभष्टके ॥ ३६८ ॥
17.369
तद्बहिर्घटिकास्तद्वच्छरावांस्तद्वहिस्तथा ।
तद्र्ध्वे देवमारोप्य घृतारोपणमाचरेत् ॥ ३६९ ॥
17.370
देवस्य पुरतः स्थाप्य पात्रं लोहविनिर्मितम् ।
घृतेनापूर्य तत् पात्रं प्राग्वत् संस्कृत्य देशिकः ॥ ३७० ॥
17.371
उभाभ्यां चैव हस्ताभ्यां दूर्वामादाय मूलतः ।
घृते निमज्य चाग्राणि देवपादेषु सेचयेत् ॥ ३७१ ॥
17.372
ततस्तु कण्ठपार्श्वे तु ततो देवस्य भूर्धनि ।
पाणिप्रक्षालनं कुर्यादन्तरान्तरयोगतः ॥ ३७२ ॥
17.373
दूर्वाभेदस्तथा प्रोक्तो घृतारोपणकर्मणि ।
हस्तव्यत्यासमार्गेण घृतारोपणमाचरेत् ॥ ३७३ ॥
17.374
पादे सुमंगलं चे ति कठे भद्रमिति द्विज ।
सुशोभनं तु शिरसि क्रमान्मन्त्रः प्रतिष्ठितः ॥ ३७४ ॥
17.375
यद्वा सर्वस्य मन्त्रस्य द्वादशाक्षरसंज्ञितः ।
अक्षतस्यार्पणं कृत्वा कुर्यात् कौतुकबन्धनम् ॥ ३७५ ॥
17.376
ऊर्णामयेन सूत्रेण क्षौमसूत्रेण तेन च ।
प्राग्विधानेन तत्पस्चाच्चामराद्यैश्च वीजयेत् ॥ ३७६ ॥
17.377
दर्शयेद्दर्पणं छत्रमन्यानि मंगलान्यपि ।
निवेद्य पायसं पश्चाद्विभवानुगुणं ततः ॥ ३७७ ॥
17.378
शिरसा शाययित्वा तु देवेशं शयनोपरि ।
गुग्गुल्वगरुधूपैश्च धूपयित्वा समन्ततः ॥ ३७८ ॥
17.379
अनिर्वाणैः प्रदीपैस्तु रात्रिशेषं समापयेत् ।
आचार्यः प्रातरुथाय कृत्वा स्नानादिकं ततः ॥ ३७९ ॥
17.380
देवमुत्सवबिंबस्थं प्राग्वत्पूज्य विधानतः ।
पूर्वाह्वे वाथ मध्याह्वे कृत्वा पूर्वं रथोत्सवम् ॥ ३८० ॥
17.381
कारयेत्तीर्थपूर्वाह्ने अथ मध्याह्वपूर्ववत् ।
देवं गेहे समानीय स्वस्थाने सन्निवेशयेत् ॥ ३८१ ॥
17.382
देवोपयुक्तमाल्यानि चन्दनादीन्यपि द्विज ।
प्रदद्याद्देशिकेन्द्राय सोपि तैः परिभूषितः ॥ ३८२ ॥
17.383
कारयेत्तीर्थयात्रां चदेवेशस्य विधानतः ।
तीर्थबिंबगतं देवं शयनात् प्रतिबोध्य च ॥ ३८३ ॥
17.384
पूजयित्वार्घ्यगन्धाद्यैरानीयास्थानमण्टपे ।
पूजयित्वार्घ्यपाद्याद्यैर्धृतारोपं तु पूर्ववत् ॥ ३८४ ॥
17.385
कृत्वा पुरोदितानां तु स्नपनानां चतुर्थके ।
नवके स्नपनं स्थाष्य मद्यमद्यमसंज्ञितत् ॥ ३८५ ॥
17.386
पुरतः स्थण्डिलं कृत्वोलूखलं तत्र विन्यसेत् ।
मुसलानि चतुर्दिक्षु विन्यस्योलूखलोपरि ॥ ३८६ ॥
17.387
मुसरोलूखले गृह्य दूर्वाकाण्डानि बन्धयेत् ।
नववस्त्रेण संवेष्ट्य तत्र चूर्णं विनिक्षिपेत् ॥ ३८७ ॥
17.388
सौवर्णरजनीचूर्णसंमिश्रं गन्धसंयुतम् ।
चतुर्भिर्वैष्णवैर्विप्रैर्वैष्णवीभिस्तु वा द्विज ॥ ३८८ ॥
17.389
कारयेदवघातं तु गीयमानेपि मंगले ।
स्थापितस्नपनाद्विप्र प्राग्भागे वा तदुत्तरे ॥ ३८९ ॥
17.390
तण्डुलैः पीठिकां कृत्वा तत्र कुंभं निवेश्य च ।
ससूत्रं तत्र निक्षिष्य चूर्णं वस्त्रेण वेष्ट्य च ॥ ३९० ॥
17.391
अथवा पञ्च नव वा कलशांश्चूर्णपूरितान् ।
अर्चयित्वा तु मूलेन ततः संस्नापयेद्विभुम् ॥ ३९१ ॥
17.392
तैलेनाभ्यज्य देवेशं समुद्वर्त्य च पूर्ववत् ।
ततः संस्नाप्य विधिना घृताद्यं मंगलान्तिमम् ॥ ३९२ ॥
17.393
सहस्रधारया स्नानं कृत्वा संशुद्धवारिणा ।
अधरोत्तरवस्त्राभ्यां नवाभ्यां परिधाप्य च ॥ ३९३ ॥
17.394
सूक्ष्माभ्यां धूपिताभ्यां च ततो देवं समर्च्य च ।
अर्घ्यालभनमाल्याद्यैर्हेमचूर्णादिपूरितम् ॥ ३९४ ॥
17.395
कुम्भमादाय तेनैव चूर्णैः समभिषेचयेत् ।
अर्घ्याद्यैः पूजयित्वा तु बिंबं तु परिमृज्य च ॥ ३९५ ॥
17.396
भुक्रावशिष्टं तच्चूर्णं भक्तानां मूर्ध्नि दापयेत् ।
गंगास्नानफलं चूर्णं सर्वपापप्रणाशनम् ॥ ३९६ ॥
17.397
क्रीडया वापि तच्चूर्णं शिरसा धारयेन्नरः ।
तस्य देहगतं पापं तत्क्षणादेव नश्यति ॥ ३९७ ॥
17.398
ततो देवं समभ्यर्च्य परमान्नं निवेद्य च ।
मुद्गान्नं चापि शुद्धान्नं तदन्यत्र विधानतः ॥ ३९८ ॥
17.399
सर्वं द्विजप्रदानान्तं कृत्वा देशिकसत्तमः ।
यात्रावसानात् प्रागेव सर्वं चोक्तं समाचरेत् ॥ ३९९ ॥
17.400
ततस्तु रजनीपिण्डं प्रबूतं कुंकुमान्वितम् ।
निवेद्य देवदेवाय दद्याद्वै देशिकोत्तमः ॥ ४०० ॥
17.401
आचार्येभ्यः साधकेभ्यस्तथा चान्येभ्य एव च ।
तत्तत्कर्म नियुक्तेब्यस्तेऽपि पिण्डेन तेन वै ॥ ४०१ ॥
17.402
आलब्य सर्वगात्राणि तथा संहृष्टमानसाः ।
उपतिष्टन्तु देवेशं प्रणामैः सप्रदक्षिणैः ॥ ४०२ ॥
17.403
यात्रावाहनमानीय रथाद्येकतमं तु यत् ।
तत्र देवं समारोप्य ततोऽन्यस्मिंस्तु यानके ॥ ४०३ ॥
17.404
आरोप्य चक्रं तार्क्ष्यं वा हनुमन्तं विभीषणम् ।
छत्रचामरशङ्खादिसर्वसाधनसंयुतम् ॥ ४०४ ॥
17.405
प्रदक्षिणं परिभ्राम्य सर्वेष्वावरणेष्वपि ।
तीर्थपार्श्वे समासाद्य बिंबं पीठे निवेश्य च ॥ ४०५ ॥
17.406
प्रभया पुष्पया चैव वितानाद्यैरलंकृते ।
प्रणामं दण्डवत् कृत्वा पुष्पांजलिपुरस्सरम् ॥ ४०६ ॥
17.407
ततः संस्थाप्य देवेशं साधकस्यैव मूर्धनि ।
भूषितस्य च वस्त्राद्यैस्तीर्थमासाद्य तत्र तु ॥ ४०७ ॥
17.408
नाभिदघ्ने जले स्थित्वा देशिकेन्द्रः समाहितः ।
तत्रीर्थे सर्वतीर्थानि समावाह्य द्विजोत्तम ॥ ४०८ ॥
17.409
कृत्वा पुण्याहघोषं च अर्घ्याद्यैः संप्रपूज्य च ।
मुहूर्ते शोभने प्राप्ते रवौ मध्यन्दिनं गते ॥ ४०९ ॥
17.410
शंखतूर्यादिसंयुक्तं देवमादाय देशिकः ।
वामहस्ततले कुर्यात् क्ष्मामण्डलगतं त्विव ॥ ४१० ॥
17.411
विधृयान्मध्यभागे तु पाणिना दक्षिणेन तु ।
जपन् वै मूलमन्त्रं तु निमज्जेत् सह तेन वै ॥ ४११ ॥
17.412
तार्क्ष्यादिमूर्तिभिः सार्धमाचार्यः साधकैस्तथा ।
स्वयंव्यक्तादिके स्थाने मध्याह्ने वाऽपराह्नके ॥ ४१२ ॥
17.413
रजन्यां पूर्वभागे वा कुर्यादवभृथं विभोः ।
मुहूर्तातिक्रमप्राप्तदोषस्तत्र न विद्यते ॥ ४१३ ॥
17.414
जलद्रोण्यादिके पात्रे गन्धतोयैः सुपूरिते ।
मुहूर्ते मज्जयेद्देवं अर्ग्याद्यैः संप्रपूज्य च ॥ ४१४ ॥
17.415
तत्काले ये नराः स्नानं कुर्वन्ति विमलाशयाः ।
विमुक्तकल्मषास्ते वै प्राप्नुयुः परमां गतिम् ॥ ४१५ ॥
17.416
ततस्तीरे समारोप्य विष्टरे हेमनिर्मिते ।
शाटकद्वितयं दत्वा स्नानवस्त्रे विसृज्य च ॥ ४१६ ॥
17.417
देशिकः स्वयमादाय ते वस्त्रे मूर्घ्नि धारयेत् ।
अर्ध्याद्यैस्तु समभ्यर्च्य अलंकृत्य बिशेषतः ॥ ४१७ ॥
17.418
याने देवं समारोप्य प्रासादं प्रविशेत् ततः ।
सुस्नाता धौतवसनास्तत्काले गणिकाजनाः ॥ ४१८ ॥
17.419
जलेनापूरितं पात्रं दौपपात्रं च दर्पणम् ।
धारयन्त्योऽग्रतो विप्र गच्छेयुर्मंगलार्थतः ॥ ४१९ ॥
17.420
अनुधारापदेनैव प्रादक्षिण्यक्रमेण तु ।
द्वितीयावरणद्वारं समासाद्याथवा द्विज ॥ ४२० ॥
17.421
प्रथमावरणद्वारमन्तः कृत्वा तु मण्डलम् ।
सुवृत्तं गोमयेनैव सुधाचूर्णैरलंकृतम् ॥ ४२१ ॥
17.422
आशासु दीपान् संस्थाप्य पालिका विदिशासु च ।
संपूर्णमंभसा कुंभं स्रगाद्यैः परिभूषितम् ॥ ४२२ ॥
17.423
आधारस्योपरि स्थाप्य मध्ये पुष्पेण पूज्य च ।
सकृत् प्रणवजप्तेन ततो वै तज्जलेन तु ॥ ४२३ ॥
17.424
अर्चयेद्देवदेवेशं पुष्पांजलिपुरस्सरम् ।
प्रासादद्वारदेशे तु अर्घ्याद्यैः संप्रपूज्य च ॥ ४२४ ॥
17.425
देवं निवेश्य स्वस्थाने मूलबिंबे विसर्जयेत् ।
पश्चादुत्सवबिंबं तु स्नानाद्यैस्तु विधानतः ॥ ४२५ ॥
17.426
पूर्ववत् पूजयेद्विप्र परिभ्रमणवर्जितम् ।
दशमेऽहनि संप्राप्ते देशिकेन्द्रः समाहितः ॥ ४२६ ॥
17.427
प्रातस्नानादिकं कृत्वा वसनाद्यैर्विभूषितः ।
देशिकैः साधकैः सार्धं यजमानेन चैव हि ॥ ४२७ ॥
17.428
प्रासादं संप्रविश्याथ प्रणम्य च मुहुर्मुहुः ।
देवेशस्याग्रतः स्थित्वा विज्ञापनमथाचरेत् ॥ ४२८ ॥
17.429
भगवन् पुण्डरीकाक्ष शरणागतवत्सल ।
ध्वजार्थांकुरमारम्य उत्सवावभृथान्तिमम् ॥ ४२९ ॥
17.430
यन्मयानुष्टितं कर्म तव संप्रीतये विभो ।
तथाऽन्यैर्मदनुज्ञातैर्देशिकैश्चापि यत् कृतम् ॥ ४३० ॥
17.431
साधकैश्च तथान्यैश्च विविधैः परिचारकैः ।
तत्तत्संपूरणार्थं च न्यूनाधिक्योपशान्तये ॥ ४३१ ॥
17.432
त्वामद्य वासरे यष्टुं चतुःस्थानस्थितं विभो ।
प्रवृत्तामनुजानीहि मदनुग्रहकाम्यया ॥ ४३२ ॥
17.433
इति विज्ञाप्य देवस्य तत्रानुज्ञामवाप्य च ।
देवमुत्सवबिंबस्थं यानमारोप्य देशिकः ॥ ४३३ ॥
17.434
आस्थानमण्टपं नीत्वा तत्र वै दर्भविष्टरे ।
देवमारोप्य तत्पश्चात् वेदाध्ययनतत्परान् ॥ ४३४ ॥
17.435
इतिहासपुराणज्ञान् तथा मंगलगायकान् ।
नर्तकांश्च यथायोगं विनोदार्थं जगत्पतेः ॥ ४३५ ॥
17.436
तत्तत्स्थाने समावेश्य ततो देशिकसत्तमः ।
तस्मिन् वा मण्टपे न्यस्य विस्तारस्यानुरूपतः ॥ ४३६ ॥
17.437
यागगेहोदितैः सर्वैर्वितानाद्यैरलंकृते ।
तन्मध्यदेशमाश्रित्य कुर्याच्चक्राब्जमण्डलम् ॥ ४३७ ॥
17.438
मातुलंगसमाकारैर्द्वादशारैः परिष्कृतम् ।
सपीठद्वारमार्गाद्यं पञ्चरंगपुरान्वितम् ॥ ४३८ ॥
17.439
अथवा भूषितं विप्र पीठेन सपुरेण तु ।
पञ्चपुष्पोज्वलेनैव केवलेन पुरेण वा ॥ ४३९ ॥
17.440
यथाकालोद्भवै रम्यैस्तत्तद्वर्णसमन्वितैः ।
स्वयं भगवता प्रोक्तः पौष्करे त्वस्य विस्तरः ॥ ४४० ॥
17.441
एवं सर्वं समापाद्य साधकैश्चक्रपंकजम् ।
संप्राप्य साधकैः सार्धं देशिको देवसन्निधिम् ॥ ४४१ ॥
17.442
विज्ञाप्य देवमानीय पश्चिमे मण्डपस्य तु ।
भद्रासने तु सौवर्णे मसूरकवरान्विते ॥ ४४२ ॥
17.443
शुभास्तरणसंयुक्ते प्राङमुखं विवनिवेश्य च ।
यागपूर्वोक्तमार्गेण कलशे चक्रपंकजे ॥ ४४३ ॥
17.444
गीतं नृत्तं च वाद्यं च चतुर्दिग्वेदघोषितम् ।
बिंबे च पूजनं कुर्याद्देशिकः सुसमाहितः ॥ ४४४ ॥
17.445
सविशेषं यथावद्वै द्विजदानावसानकम् ।
तत्काले तु विशेषेण गुरोः संमानमाचरेत् ॥ ४४५ ॥
17.446
वसनैश्च दुकूलाद्यैर्देवस्य प्राङ्निवेदितैः ।
विविधैः स्रग्वरैश्चापि सुगन्धैश्चन्दनादिकैः ॥ ४४६ ॥
17.447
आचार्योपि समादाय दुकूलाद्यमनुत्तमम् ।
बद्ध्वा चोष्णीषवत् स्वस्मिन् शिरसि द्विजसत्तम ॥ ४४७ ॥
17.448
माल्यादि च यथायोगं धारयन् प्रणिपत्य च ।
मुहुर्मुहुर्देवदेवं ततो यागनिकेतनम् ॥ ४४८ ॥
17.449
संप्राप्य तत्र वैकुण्डे होमं कृत्वा यथापुरम् ।
गत्वा देवसमीपं तु कृत्वा होमसमर्पणम् ॥ ४४९ ॥
17.450
संविभागं पितॄणां च यथावत् प्रतिपाद्य च ।
कुमुदादींश्च चक्रं च खगेशं गणनायकम् ॥ ४५० ॥
17.451
इन्द्रादिलोकपालानां दापयित्वा बलिं क्रमात् ।
ततश्चैकायनीं शाखां त्रयीं चाथर्वसंयुताम् ॥ ४५१ ॥
17.452
इतिहासं पुराणं च वैष्णवं स्तोत्रमद्भुतम् ।
गीतं नृत्तं च वाद्यं च शंखभेर्यादिकांस्तथा ॥ ४५२ ॥
17.453
वन्दिमंगलशब्दांश्च तथा मंगलगीतकम् ।
श्रावयित्वा यथायोगं दर्शयित्वा विभोस्ततः ॥ ४५३ ॥
17.454
कुम्भस्थं मण्डलस्थं च देवं हृदि विसृज्य च ।
विष्वक्सेनं समभ्यर्च्य प्राग्वन्मण्डलमध्यतः ॥ ४५४ ॥
17.455
ततो देवं समारोप्य यानादौ हेमनिर्मिते ।
सर्वमंगलसंयुक्तं सर्वाण्यावरणानि च ॥ ४५५ ॥
17.456
परिब्रम्य च बाह्यादि त्वन्तरावरणान्तिकम् ।
प्रथमावरणे वापि द्वितीयावरणेपि च ॥ ४५६ ॥
17.457
मण्डपे देवदेवेशं विष्टरे विनिवेशयेत् ।
तत्काले यजमानस्तु अलंकृत्य तु देशिकम् ॥ ४५७ ॥
17.458
वस्त्रस्रक्चन्दनाद्यैश्च समारोप्य च यानके ।
शंखकाहलवादित्रभेरीपटहसंयुतम् ॥ ४५८ ॥
17.459
छत्रदीपसमायुक्तं गायकादिसमन्वितम् ।
देशिकं देववत् स्मृत्वा स्वगृहे संप्रवेशयेत् ॥ ४५९ ॥
17.460
अथानुयागमाचार्यः कुर्याद्वन्धुसमन्वितः ।
अस्तंगते दिनकरे देवं संपूज्य वै क्रमात् ॥ ४६० ॥
17.461
गुलखंडादिसंयुक्तं मुद्गान्नं तु निवेदयेत् ।
ततस्तु भगवद्भक्ताः देशान्तरनिवासिनः ॥ ४६१ ॥
17.462
देवस्योत्सवसेवार्थं ये नराः पूर्वमागताः ।
तेषां स्वदेशयानार्थं देवानुज्ञापुरस्सरम् ॥ ४६२ ॥
17.463
कृत्वा विसर्जनं पश्चात् देवं यागनिकेतने ।
नीत्वा तत्र समावेश्य विष्टरे शुभसंस्तरे ॥ ४६३ ॥
17.464
कुम्भपूर्वं क्रमेणैव चतुः स्थानस्थितं विभुम् ।
यथाविधि समभ्यर्च्य प्रभूतान्नसमन्वितम् ॥ ४६४ ॥
17.465
उत्सवान्तोदितं कृत्वा स्नपनं चापि कल्पयेत् ।
यात्राबिंबे द्विजश्रेष्ठ बिंबे वा स्नपनार्थतः ॥ ४६५ ॥
17.466
एवं क्रमेण संपूज्य प्रदाप्य विधिना बलिम् ।
कुम्भमण्डलकुण्डस्थान् मन्त्रेशान् मन्त्रवित्तमः ॥ ४६६ ॥
17.467
विसर्जयेद्यथावच्चयथोक्तविधिना ततः ।
विष्वक्सेनं यजेत् पश्चाद्देवमन्तः प्रवेशयेत् ॥ ४६७ ॥
17.468
अर्घ्यगन्धादिनाभ्यर्च्य मूलबिंबे विसर्जयेत् ।
ग्रामे चावाहितान् विप्र कुमुदादीन् गणान्वितान् ॥ ४६८ ॥
17.469
सन्तोष्य बलिदानेन सविशेषं विसर्जयेत् ।
ध्वजस्थानं समासाद्य कुम्भं संस्थाप्य पूर्ववत् ॥ ४६९ ॥
17.470
पतत्रीशं समभ्यर्च्य ध्वजस्थं च विशेषतः ।
महाहविर्निवेद्याथ ध्वजस्थं विहगेश्वरम् ॥ ४७० ॥
17.471
विसर्जयित्वा स्वहृदि कुम्भस्थे वा खगेश्वरे ।
ततोऽवरोहयेद्विप्र ध्वजं पूर्वक्रमेण तु ॥ ४७१ ॥
17.472
कुम्भस्थं विहगेशं तु स्वस्मिन् हृदि विसर्जयेत् ।
यद्वा गरुडगेहं तु गत्वा कुम्भस्थवारिणा ॥ ४७२ ॥
17.473
संप्रोक्ष्य गरुडं तत्र कुम्भस्थं तु विसर्जयेत् ।
ध्वजदण्डं ध्वजपटं तद्यष्टिं तत्प्रपां तथा ॥ ४७३ ॥
17.474
आचार्यः स्वयमादद्याद् यागोपकरणान्यपि ।
अन्यथा चेन्महान् दोषः कर्तुर्देशाधिपस्य च ॥ ४७४ ॥
17.475
निष्फलं स्यात् कृतं कर्म विहगेशोपि कुप्यति ।
यागकर्मणि पर्याप्ते तद्रात्रौ वाऽपरेहनि ॥ ४७५ ॥
17.476
यजमानो गुरुं हैमैर्भूषणैः कटकादिभिः ।
वसनैर्गन्धपुष्पाद्यैः अलंकृत्याभिपूज्य च ॥ ४७६ ॥
17.477
उत्तमां दक्षिणां दद्यात् खर्णनिष्कशतान्विताम् ।
ततोधिकां तु वा दद्यात् विभवस्यानुगुण्यतः ॥ ४७७ ॥
17.478
तदर्धं मद्यमं विद्धि तत्पादं ह्यधमं भवेत् ।
यथावित्तानुरूपं तु यथाश्रद्धं तु वा ददेत् ॥ ४७८ ॥
17.479
तदर्धं ऋत्विजां दद्यात् तदर्धं परिचारके ।
अन्यान् गायकपूर्वांस्तु यथावित्तानुसारतः ॥ ४७९ ॥
17.480
यागस्तु दक्षिणाहीनो निष्फलः स्यान्न संशयः ।
तस्माद्वित्तानुगुण्येन देया चाल्पापि दक्षिणा ॥ ४८० ॥
17.481
एवं तु गदितः सम्यक् यात्राख्योत्सवविस्तरः ।
तत्र यो यो विशेषस्तु तं तमाकर्णयाधुना ॥ ४८१ ॥
17.482
देशिके साधके वापि एकस्मिन्नेव कल्पिते ।
स एव सकलं कर्म कुर्यात् पूर्वोदितं क्रमात् ॥ ४८२ ॥
17.483
बहुष्वेतेषु क्लृप्तेषु त्वेकः कुर्याद्यथाक्रमम् ।
ध्वजांकुरं ध्वजारोपं उत्सवार्थांकुरार्पणम् ॥ ४८३ ॥
17.484
उत्सवारम्भदिवसात् पूर्वेद्युः कौतुकक्रियाम् ।
उत्सवारम्भदिवसे अधिवासार्थमीरितम् ॥ ४८४ ॥
17.485
चतुः स्थानार्चनं विप्र तथा तीर्थांकुरार्पणम् ।
तद्रात्रावपि यात्रार्थं चतुः स्थानार्चनक्रियाम् ॥ ४८५ ॥
17.486
यात्राप्रतिसराबन्धं तथा चावभृधक्रियाम् ।
पुष्पयागदिने वापि चतुः स्थानार्चनं तथा ॥ ४८६ ॥
17.487
कुम्भमण्डलकुण्डस्थमन्त्राणां च विसर्जनम् ।
ध्वजावरोहणं चैव प्रयत्नान्नियतव्रतः ॥ ४८७ ॥
17.488
तदन्ये देशिकाः कुर्युः साधका वा यथाक्रमम् ।
अन्यानि सर्वकर्माणि यथायोगं समाचरेत् ॥ ४८८ ॥
17.489
कुम्भस्थस्यार्चनं केचित् केचिद्बिं बस्य पूजनम् ।
अग्नौ संतर्पणं केचित् केचित् स्नपनकौतुके ॥ ४८९ ॥
17.490
स्नपनाद्यर्चनं केचित् यथाकालं यथाविधि ।
यद्येकेनैव शक्यं स्याच्चतुः स्थानार्चनं द्विज ॥ ४९० ॥
17.491
कर्तुं न कर्तृभेदः स्याच्चतुःस्थानार्चनाविधौ ।
एकस्मिन् पूजने विप्र वर्तमानेपि मध्यतः ॥ ४९१ ॥
17.492
केनचिद्व्याधिना कर्तुरशाक्तिर्यदि संभवेत् ।
अंगादंगान्तरारम्भे आसनादासनस्य हि ॥ ४९२ ॥
17.493
शेषमन्येन कर्तव्यं जष्त्वा मूलं सहस्तकम् ।
अन्यथासंभवेत्सा चेत् कर्तुरन्यस्तु पूजकः ॥ ४९३ ॥
17.494
भूयश्चादित आरभ्य पूजनं तु समाचरेत् ।
दिनोदितेन मार्गेण कुर्याच्चेदन्यथा द्विज ॥ ४९४ ॥
17.495
कर्तुः स्यान्मानसी पीडा पूजनं चापि निष्फलम् ।
यदोत्सवे नियुक्तं तु नित्यस्नपनकौतुकम् ॥ ४९५ ॥
17.496
तदेकदैव कुर्वीत रात्रावहनि वोत्सवम् ।
यदा महोत्सवविधौ बलिबिंबं प्रयुज्यते ॥ ४९६ ॥
17.497
कालयोरुभयोः कुर्यात् कर्तुरिच्छानुरूपतः ।
यात्राबिंबे नियुक्ते तु कुर्यात् कालद्बये सदा ॥ ४९७ ॥
17.498
उत्सवं मुखयकल्पे तु अनुकल्पे महामते ।
दिवा वापि रजन्यां वा कुर्याद्यात्रोत्सवं द्विज ॥ ४९८ ॥
17.499
कुम्भे वा विष्टरे चक्रे यदा कुर्यान्महोत्सवम् ।
तदानीं मूलबिंबे तु यात्रा बिंबोदितां क्रियाम् ॥ ४९९ ॥
17.500
सर्वामपि क्रमात् कृत्वा परिभ्रमणवर्जितम् ।
कुम्भे वा विष्टरे वापि दर्भमंजरिजे शुभे ॥ ५०० ॥
17.501
चक्रे वा देवमावाह्य अर्घ्याद्यैः परिपूज्य च ।
यानादिके समारोप्य सर्वसाधनसंयुतम् ॥ ५०१ ॥
17.502
ग्रामादौ भ्रामयेत् प्राग्वत् बलिदानसमन्वितम् ।
ग्रामादि बलिदानोक्तकाले दद्यात् बलिं सदा ॥ ५०२ ॥
17.503
कुमुदादि गणेशानां पालिकावसथेपि च ।
उत्सवे देवदेवेशं सदा सर्वत्र पूजयेत् ॥ ५०३ ॥
17.504
वस्तुपुष्पादिकैर्भोगैः यथाभिमतदिङ्मुखः ।
आसीनो वा स्थितो बापि साधकस्तु यथारुचि ॥ ५०४ ॥
17.505
एवं तु भ्रमणं कुर्यात् एकाहाद्युत्सवेष्वपि ।
एकाहे पूर्वरात्रे वा यात्रा बिंबाधिवासनम् ॥ ५०५ ॥
17.506
तीर्थबिंबाधिवासं च तथा कर्मदिने ततः ।
प्रातर्ग्रामं परिभ्राम्य यात्राबिंबं तु पूर्ववत् ॥ ५०६ ॥
17.507
तत्पश्चादाचरेत् प्राग्वत् तीर्थबिंबाधिवासनम् ।
अपरस्मिन् दिने कुर्यात् पुष्पयागं न वा द्विज ॥ ५०७ ॥
17.508
त्रिवासरेपि पञ्चाहे सप्ताहे तूत्सवे द्विज ।
आरंभाहात्तु पूर्वेद्युः यात्रा बिंबाधिवासनम् ॥ ५०८ ॥
17.509
तीर्थाहात् पूर्वरात्रौ तु तीर्थबिंबादिवासनम् ।
तीर्थाहादपरस्मिन् वै पुष्पयागं समाचरेत् ॥ ५०९ ॥
17.510
एकाहात् सप्तरात्रान्तमुसवानां चतुष्टये ।
पुष्पापचयलीलां च मृगयामपि नाचरेत् ॥ ५१० ॥
17.511
दशाहादिषु सर्वेषु नवाहोदितवर्त्मना ।
सर्वं कुर्याद्यथायोगं कर्तुरिच्छानुरूपतः ॥ ५११ ॥
17.512
स्वयं व्यक्ते विमानादौ स्थाने तु न समाचरेत् ।
एकाहात् सप्तरात्रान्तमुत्सवानां चतुष्टयम् ॥ ५१२ ॥
17.513
तथा तत्रानुकल्पोक्तमुत्सवं न समाचरेत् ।
स्वयं व्यक्ते जलक्रीडा भवेन्नान्यत्र कल्पयेत् ॥ ५१३ ॥
17.514
एकाहाद्यास्तु सकला उत्सवा वत्सरीन्तिमाः ।
बहुबेरविधाने तु कर्तव्या द्विजसत्तम ॥ ५१४ ॥
17.515
एकत्रिपञ्चसप्ताहनवाहद्वादशाहिकाः ।
एकबेरविधाने तु कर्तव्या नान्यथा भवेत् ॥ ५१५ ॥
17.516
ग्रामे वा नगरे वापि प्रतिलोमानधिष्ठिते ।
अशून्ये पत्तने वापि रथ्यासु सुसमाचरेत् ॥ ५१६ ॥
17.517
बलिदानादिकं सर्वं अन्यथा चेद् द्विजोत्तम ।
अन्तरावरणेष्वेव विभोः कुर्यान्महोत्सवम् ॥ ५१७ ॥
17.518
देवस्य यात्राकर्मार्थं प्रवेशश्च विनिर्गमः ।
भवेत्तदग्रद्वारेण सर्वेष्वावरणेष्वपि ॥ ५१८ ॥
17.519
प्रवेशनिर्गमऔ स्यातां ग्रामाद्यभिमुखेन वा ।
प्रधानैर्नेतरैर्द्वारैः कार्यौ वेशविनिर्गमौ ॥ ५१९ ॥
17.520
नोपद्वौरैर्न शौभैस्च नोपशोभैः कदाचन ।
यदि कुर्यात् प्रमादेन तद्देशनृपतेर्भवेत् ॥ ५२० ॥
17.521
प्रधानस्य विपर्यासः स्वस्थानप्रच्युतिस्तथा ।
ग्रामादावपि विप्रेन्द्र प्राकारादिपरिष्कृते ॥ ५२१ ॥
17.522
यात्रा कर्मणि देवस्य प्रवेशश्चापि निर्गमः ।
उपद्वारैर्न कर्तव्यः कृते यात्रादि निष्फलम् ॥ ५२२ ॥
17.523
ग्रामस्यापि विनाशः स्यात् ततो देशाधिपस्य च ।
चतुर्ष्वपि प्रधानेषु विशेषमवधारय ॥ ५२३ ॥
17.524
देवागारस्य पूर्वस्यां दिशि ग्रामादिकं यदि ।
प्रत्यक्दिक्संस्थितद्वारा भवेत्तत्रोदितद्वयम् ॥ ५२४ ॥
17.525
ग्रामादिकं भवेत् प्रत्यक् यदा देवगृहस्य तु ।
प्राग्द्वारेण तदा स्यातां प्रवेशश्च विनिर्गभः ॥ ५२५ ॥
17.526
यदा ग्रामादिकं क्लृप्तं प्रासादस्य तु दक्षिणे ।
तदानीमुत्तरद्वारा प्राग्द्वारा वा पुरोदिता ॥ ५२६ ॥
17.527
यदा देवगृहस्योदक् ग्रामाद्यं परिकल्पितम् ।
तदानीं दक्षिणद्वारा प्रत्यग्द्वारेण वा भवेत् ॥ ५२७ ॥
17.528
प्रवेशाद्यं द्वयं यद्वा दक्षिणोत्तरदिक्स्थिते ।
ग्रामादावपि विप्रेन्द्र प्राक्प्रत्यक्द्वारदेशतः ॥ ५२८ ॥
17.529
प्रवेशनिर्गमौ मुख्यकल्पे तु विहितौ द्विज ।
अनुकल्पे तदन्याभ्यां द्वाराभ्यां परिकीर्तितौ ॥ ५२९ ॥
17.530
देवागारांगभूते तु तस्माद्दूरेण संस्थिते ।
ग्रामादौ देबदेवस्य यात्रायां वेशनिर्गमौ ॥ ५३० ॥
17.531
कथितौ सन्निकृष्टेथ विधानमवधारय ।
प्रासादपूर्वदिक्संस्थे ग्रामे प्रागग्रवीधिषु ॥ ५३१ ॥
17.532
मध्यवीथ्यग्रदेशेन पश्चिमश्थेन वै विभोः ।
प्रवेशनिर्गमौ स्यातां एतत्पश्चिमसंस्थिते ॥ ५३२ ॥
17.533
मध्यवीथ्यग्रदेशेन पूर्वदिकसंस्थितेन च ।
दक्षिणोत्तरसंस्थे तु यथायोगं समाचरेत् ॥ ५३३ ॥
17.534
ग्रामाद्यं न कृतं यत्र कृता रथ्यावृतिस्तदा ।
रथ्यावरणदेवानां बलिं दत्वा तु पूर्वतः ॥ ५३४ ॥
17.535
पश्चाद्ग्रामोक्तदेवानां तत्रैव च बलिं ददेत् ।
सर्वेषां च क्रमादेवं देवयात्रां द्विराचरेत् ॥ ५३५ ॥
17.536
ग्राममध्योदितं कुर्यान्मुख्यद्वारार्थदेशतः ।
रथ्यावृतिस्तु न कृता यदा ग्रामः कृतस्तदा ॥ ५३६ ॥
17.537
यथ्यावृत्युक्तदेवानां न तत्र प्रददेद्बलिम् ।
तदर्थी देवयात्रापि न कर्तव्या महामते ॥ ५३७ ॥
17.538
यदा तु वीथ्यावरणं ग्रामश्चापि न कल्पितः ।
तदा ग्रामोक्तदेवानां बहिरावरणे बलिम् ॥ ५३८ ॥
17.539
तदुक्तदेवबल्यन्ते प्रदद्यात्तु दिने दिने ।
ग्रामोक्त देवयात्रां च तथा तत्र समाचरेत् ॥ ५३९ ॥
17.540
ग्राममध्ये तु यत् कर्म विहितं तत् समाचरेत् ।
बलिषीठे तदा सर्वं यथोक्तविधिना द्विज ॥ ५४० ॥
17.541
।
बाह्यावृत्यादौ न तदा कुर्यात्तत् प्रथमावृतौ ।
तदभावे तु तत् सर्वं प्रासादद्वारपूर्वतः ॥ ५४१ ॥
17.542
यदा ग्रामादिके क्लृप्ता देवयात्रोत्सवक्रिया ।
राष्ट्रक्षोभादिविघ्नेन यदि कर्तुं न शक्यते ॥ ५४२ ॥
17.543
एवमेव तदापि स्यात् देवयात्रोत्सवक्रमः ।
बलिदानोदिते काले बलिदानं समाचरेत् ॥ ५४३ ॥
17.544
कुमुदादिगणेशानां प्रथमावरणेपि च ।
पालिकावसथे चापि मण्डपे यागनिर्मिते ॥ ५४४ ॥
17.545
ग्रामादिकेपि विप्रेन्द्र नित्यं स्थानचतुष्टये ।
यदि रथ्यावृतिः क्लृप्ता तत्रापि च बलिं ददेत् ॥ ५४५ ॥
17.546
ग्रामाद्ये सगणानां तु बलिं दद्याद्दिने दिने ।
अन्यस्थानचतुष्के तु केवलानां बलिं ददेत् ॥ ५४६ ॥
17.547
ग्रामाद्यं पालिकावासं विनान्यत्र समाचरेत् ।
देवप्रागादियोगेन बलिं स्थानत्रयेपि च ॥ ५४७ ॥
17.548
ग्रामादौ नोत्सवं कुर्याद्योजनात् परतः स्थिते ।
नद्यादिव्यवधानेपि क्लृप्ते वा योजनावधेः ॥ ५४८ ॥
17.549
ग्रामादौ उत्सवं कुर्यात् स्वतन्त्रे वांग एव वा ।
देवतान्तरयात्रार्थं निर्मिंते नगरादिके ॥ ५४९ ॥
17.550
न कुर्याद्देवदेवस्य विभोर्यात्रोत्सवक्रियाम् ।
विभोर्यात्रोत्सवार्थं तु कल्पिते नगरादिके ॥ ५५० ॥
17.551
देबतान्तरयात्रां तु न कदाचित् समाचरेत् ।
ग्रामाद्यंगतया क्लृप्ते प्रासादे तु महमते ॥ ५५१ ॥
17.552
तदंगिनं तु ग्रामाद्यं विनान्यत्र बलिक्रियाम् ।
न कल्पयेद्देवयात्रां तथैव न समाचरेत् ॥ ५५२ ॥
17.553
देवतान्तरकल्याणे वर्तमाने कदाचन ।
देवतान्तरयात्रार्थं तोरणानि कृतान्यपि ॥ ५५३ ॥
17.554
देवदेवस्य यागार्थं न स्बीकुर्यात् कदाचन ।
एकस्मिन्नुत्सवेनैव दद्याद् ग्रामद्वये बलिम् ॥ ५५४ ॥
17.555
न कुर्याद्देवयात्रां च कृता चेन्निप्फला भवेत् ।
तथा ध्वजद्वयं न स्यात् भेदछिद्रादिदूषिते ॥ ५५५ ॥
17.556
पटस्थे विहगेन्द्रे तु कुर्यात् सन्धानमेव तु ।
तच्चेदशक्यं तत्त्यकत्वा कृत्वान्यं प्राग्वदाचरेत् ॥ ५५६ ॥
17.557
अन्यथा तत्परित्यागे दोषः स्याद्राजराष्ट्रयोः ।
एवं तु देवदेवस्य उत्सवं कल्पयेत्तु यः ॥ ५५७ ॥
17.558
इह लोके सुखं भुक्त्वा चिरं भोगान् यथेप्सितान् ।
देहसन्यासकाले तु प्राप्नोति भगवत्पदम् ॥ ५५८ ॥
17.559
यात्रायां वर्तमानायां अनुगच्छन्ति ये विभुम् ।
पदे पदे क्रतुफलं लभन्ते ते नरोत्तमाः ॥ ५५९ ॥
17.560
ये तोषयन्ति ते काले देवदेवं जगत्पतिम् ।
विविधैरूपचारैस्तु छत्रचामरपूर्वकैः ॥ ५६० ॥
17.561
ऐहिकामुप्मिकान् भोगान् प्राप्नोत्यभिभतान् सदा ।
इति सम्यङ्मुनिश्रेष्ठ कीर्तितो वत्सरोत्सवः ॥ ५६१ ॥
17.562
एवं नैमित्तिकं चान्यं कुर्यादेकाहमुत्सवम् ।
ध्वजारोहादिपूर्वोक्तयात्रांगपरिवर्जितम् ॥ ५६२ ॥
17.563
विभवानुगुणं विप्र विशेषस्नपनान्वितम् ।
महता हविषा युक्तं यथाश्रद्धानुरूपतः ॥ ५६३ ॥
17.564
तस्मिन् प्रदाननक्षत्रे पत्रपुष्पफलान्विते ।
पञ्चविंशतिकुम्भांस्तु स्थापयित्वाभिषेचयेत् ॥ ५६४ ॥
17.565
चैत्रे मासि पुनर्वस्वोः वसन्तोत्सवमाचरेत् ।
तस्मिंस्तु शुक्लद्वादश्यां कुर्याद्दमनकोत्सवम् ॥ ५६५ ॥
17.566
पवित्रारोहवत् कुर्यात् चतुस्थानार्चनादिकम् ।
भूषणान्युत्तमादीनि कुर्याद्दमनकैस्तथा ॥ ५६६ ॥
17.567
तत्तु संख्याविरहितं यथाशोभानुरूपतः ।
पञ्चविंशतिकुम्भांस्तु स्थापयित्वाभिषेचयेत् ॥ ५६७ ॥
17.568
एको ह वै नारायण इति प्राव्कलशेन तु ।
तस्य ध्यानान्तस्थस्येति द्वितीयकलशेन तु ॥ ५६८ ॥
17.569
अथ पुनरेव नारायण इति तृतीयकलशेन तु ।
अथ पुनरेव नारायण इति चतुर्थतः ॥ ५६९ ॥
17.570
सहस्रशीर्षा पुरुष इति पञ्चमकुम्भतः ।
पतिं विश्वस्यात्मेश्वरमिति वै षष्ठकुम्भतः ॥ ५७० ॥
17.571
नारायण परं ब्रह्न इति वै सप्तमेन तु ।
यच्च किंचिज्जगत्यस्मिन् इति ह्यष्टमकुम्भतः ॥ ५७१ ॥
17.572
अनन्तमव्ययं कविमिति नवमेनाभिषेचयेत् ।
अतो निष्ट्या वितस्त्यां तु इति स्याद्दशमेन वै ॥ ५७२ ॥
17.573
सन्ततं सिराभिस्तु लमित्येकादशेन तु ।
तस्य मद्ये महानग्निरिति द्वादशमेन वै ॥ ५७३ ॥
17.574
सन्तापयति स्वं देहमिति त्रयोदशमेन वै ।
नीलतोयदमद्यस्था इति चतुर्दशमेन वै ॥ ५७४ ॥
17.575
तस्याश्शिखाया मध्ये इति पञ्चदशमेन वै ।
सर्वस्य वशिनं देवं इति षोडशमेन तु ॥ ५७५ ॥
17.576
बहिरावरणस्थैस्तु कलशैरभियेचयेत् ।
बहिरावरणे नास्ति इति प्राक्संस्थितेन तु ॥ ५७६ ॥
17.577
यन्नाबिपझादभवदिति वह्निगतेन तु ।
धृतोर्ध्वपुम्ड्रं परमेति याम्यदिकसंस्थितेन तु ॥ ५७७ ॥
17.578
दक्षिणे तु भुजे विप्रः इति यातुगतेन वै ।
विष्णुनाक्तमश्रन्तीति वारुणीदिक्स्थितेन तु ॥ ५७८ ॥
17.579
पुंप्रधानेश्वरो विष्णुरिति वायुगतेन वै ।
य इमां महोपनिषदमिति सोमगतेन तु ॥ ५७९ ॥
17.580
ओमिते प्रथमं नाम इतीशानगतेन तु ।
पुरुषोहं वै वासुदेव इति मध्यगतेन तु ॥ ५८० ॥
17.581
यद्वा पुरुषसूक्तीयैर्मन्त्रैः षोडशभिः क्रमात् ।
बहिरावरणस्थैस्तु कलशैरमिषिच्य च ॥ ५८१ ॥
17.582
पूर्वोक्तैर्ब्रह्नसूक्तस्थैर्मन्त्रैर्द्विद्विकसंख्यया ।
अन्तरावरणस्थैस्तु संस्नाप्य कलशैः क्रमात् ॥ ५८२ ॥
17.583
अवशिष्टैस्त्रिभिश्चान्ते मध्यकुंभेन सेचयेत् ।
रजनीचूर्णसंपूर्णान् संस्थाप्य नवकुम्भकान् ॥ ५८३ ॥
17.584
अर्घ्याद्यैरर्चयित्वा तु चक्ररश्मिसमप्रभान् ।
रजनीचूर्णनिचयान् ध्यात्वा तैरमिषेचयेत् ॥ ५८४ ॥
17.585
सर्वविघ्ननिरासार्थं सर्वसंपूरणाय च ।
दक्षिणे तु भुजे विप्र इति प्राक्संस्थितेन च ॥ ५८५ ॥
17.586
निचिकिद्वा सुषणमिति वह्निगतेन तु ।
प्रते विष्णो अब्ज चक्रे इति याम्यगतेन तु ॥ ५८६ ॥
17.587
एभिर्वयमुरुक्रमस्येति यातुगतेन तु ।
धृतोर्ध्वपुण्ड्रः कृतचक्रेति पश्चिमाशागतेन तु ॥ ५८७ ॥
17.588
पवित्रमित्यग्निरिति वायुगतेन तु ।
चरणं पवित्रं विततमिति सोमगतेन तु ॥ ५८८ ॥
17.589
लोकस्य द्वारमर्चिमदिति रुद्रगतेन तु ।
मन्त्रैरेतैस्तु चाष्टाभिः अन्यैः सौदर्शनैस्तथा ॥ ५८९ ॥
17.590
संस्नाप्य मध्यकुम्भेन शुद्धोदैरभिषिच्य च ।
महोपनिषदन्तस्थैः ब्रह्नसूक्तैः पुरोदितैः ॥ ५९० ॥
17.591
मन्त्रैश्चतुर्भिः पुंसूक्तैः मन्त्रैः षोडशभिस्तथा ।
वासुदेवद्विषट्कार्णब्राह्नणद्वितयेन तु ॥ ५९१ ॥
17.592
ओंकारादिपवित्रान्तैः चतुभिर्व्यापकैस्तथा ।
सहस्रधारया देवं स्नापयेद्विधिपूर्वकम् ॥ ५९२ ॥
17.593
यद्वा द्विषट्कमन्त्रेण सर्वं स्नपनमाचरेत् ।
ततोऽन्यैः सकलैर्भोगैः प्राग्वदिष्ट्वा क्रमेण तु ॥ ५९३ ॥
17.594
सर्वैः पुरोदितैर्मन्त्रैः द्विषट्कार्णेन वा द्विज ।
होमं कृत्वा विशेषेण समिद्भिस्त्रिमधुप्लुतैः ॥ ५९४ ॥
17.595
ततो दमनकारोपमाचरेत्तु यथाविधि ।
अत्रानुक्तं तु सकलं पवित्रारोहवद्भेत् ॥ ५९५ ॥
17.596
माघमासे पुनर्वस्वोश्चैत्रे वा द्वितयेपि वा ।
वैशाखे श्रवणे ऋक्षे रोहिण्यां श्रवणे तथा ॥ ५९६ ॥
17.597
आर्द्रायां मार्गशीर्षाख्ये आषाढे हस्ततारके ।
कार्तिके मासि रोहिण्यामन्येष्वेवंविधेष्वपि ॥ ५९७ ॥
17.598
अवतारदिनेष्वेवं कुर्यादेकाहमुत्सवम् ।
ग्रामे वा नगराद्ये वा सर्वेष्वावरणेषु वा ॥ ५९८ ॥
17.599
शुभलीलासमायुक्तमाचरेत्तु परिभ्रमम् ।
पक्षे पक्षे च द्वादश्यां मासि मासि तथैव च ॥ ५९९ ॥
17.600
अमावास्यां पौर्णमास्यां श्रवणे चोत्तरे दिने ।
अन्येष्वपि प्रशस्तेषु विभवेच्छानुरूपतः ॥ ६०० ॥
17.601
यजमानादिजन्मर्क्षे चैत्रादि विषुवद्वये ।
अयनद्वितये चापि सूक्ष्मस्थूले विशेषतः ॥ ६०१ ॥
17.602
तथा चाग्रयणाख्यं तु वत्सरे वत्सरे द्वयम् ।
आषाढे पूर्वफल्गुन्यां पुष्ये चैव विशेषतः ॥ ६०२ ॥
17.603
माघमासे तु पञ्चम्यां सप्तम्यामथवा द्विज ।
विशेषयजनं कुर्याद्विभवेच्छानुरूपतः ॥ ६०३ ॥
17.604
एकादश्यां मार्गशीर्षे पूर्वपक्षे विशेषतः ।
कुर्याद्विशेषयजनं त्त संश्रावयेद्विभुम् ॥ ६०४ ॥
17.605
सदागमादिकान् सर्वान् वेदान् वै वेदघोषणम् ।
इतिहासपुराणं च तथा दैवं च मानुषम् ॥ ६०५ ॥
17.606
वेदेपवृह्नणं त्वन्यत् संस्कृतं प्राकृतं तु वा ।
भाषान्तरगतं वापि यथाश्रद्धानुरूपतः ॥ ६०६ ॥
17.607
एवं विशेषयजनं द्वादश्यां तु समाचरेत् ।
पायसान्नं गुलान्नं वा प्रभूतं विनिवेदयेत् ॥ ६०७ ॥
17.608
समाप्ते भगवद्व्यागे पारणं तु समाचरेत् ।
एतत्तिथिद्वययुतमुत्तमं व्रतमीरितम् ॥ ६०८ ॥
17.609
अतः परं स्याद्विस्तारो विभवेच्छानुरूपतः ।
तदादिपौर्णमास्यान्तं पञ्चम्यन्तं तु वा द्विज ॥ ६०९ ॥
17.610
दशम्यमावास्यान्तं वा पञ्चमी दशमी तु वा ।
एवं त्रिंशद्दिनान्तं तु विभवानुगुणं भवेत् ॥ ६१० ॥
17.611
वैशाखे च विशाखर्क्षे विशेषयजनं भवेत् ।
सहकारफलैः पव्कैः गुलक्षीरादिपाचितैः ॥ ६११ ॥
17.612
कार्तिके मासि कार्तिक्यां विशेषार्चनमाचरेत् ।
घृततैलमहादीपैः प्रभूतैर्दर्शयेत् प्रबुम् ॥ ६१२ ॥
17.613
शुभैरन्यैर्लाजपूर्वैः शुभैर्भक्ष्यादिभिः सह ।
फलपुप्पादिकैः पूतैः तत्तत्काले समर्चयेत् ॥ ६१३ ॥
17.614
पौषे मासि च पुष्ये तु विशेषस्नपनान्वितम् ।
कार्तिके मासि विप्रेन्द्र शुक्लैकादशिका तु या ॥ ६१४ ॥
17.615
तस्यामुपोष्य रात्र्यां तु जागरेण जगत्पतिम् ।
तत्कालोचितरागोत्थैः तोषयित्वा तु गीतकैः ॥ ६१५ ॥
17.616
ब्राह्ने मुहूर्ते संप्राप्ते विशेषेण यजेद्विभुम् ।
संश्रावयेद्गीतकानि स्तोत्राणि विविधाः कथा ॥ ६१६ ॥
17.617
होमावसानं सर्वं तु सविशेषं समाचरेत् ।
तत्काले ये च गायन्ति तच्च श्रृण्वन्ति ये जनाः ॥ ६१७ ॥
17.618
तेषां पुण्यफलावाप्तिं कः शक्नोत्यभिवर्णितुम् ।
आचार्याः साधका वापि कुर्वीरन्नेवमुत्सवम् ॥ ६१८ ॥
17.619
आचार्यास्तेषु सोष्णीषा भवेयुस्सोत्तरीयकाः ।
अकंचुकाः सदा विप्र साधकाः स्युः सकञ्चुकाः ॥ ६१९ ॥
Kapitel 18
श्रीः ।
अष्टादशोऽध्यायः ।
सनकः ।
18.1
नित्यनैमित्तिकाद्येषु यागेषु वदतां वर ।
मानं तु प्रापणादीनां श्रोतुमिच्छामि तद्वद ॥ १ ॥
18.2
शाण्डिल्यः ।
नित्ये नैमित्तिके काम्ये प्रायश्चित्ते तथैव च ।
मानं नवविधं विप्र श्रृणु मुख्यानुकल्पयोः ॥ २ ॥
18.3
क्रमात् प्रापणपूर्वाणां द्रव्याणामुत्तमादिकम् ।
अत्रैकमूर्तेरेकस्मिन् काले भारद्वयेन तु ॥ ३ ॥
18.4
कल्पयेत् प्रापणं चैतदुत्तमोत्तमसंज्ञितम् ।
एकैकं द्रोणमानेन कृमाद्ध्रासं समाचरेत् ॥ ४ ॥
18.5
अधमाधमसंज्ञं स्याद्यता द्रोणचतुष्टयम् ।
मुख्यकल्पमिमं विद्धि अनुकल्पं श्रणुष्व मे ॥ ५ ॥
18.6
मुख्यमूर्तेस्त्वथैकस्मिन् यागे भारेण कल्पितम् ।
उत्तमोत्तमसंज्ञं तु प्रापणं द्विजसत्तम ॥ ६ ॥
18.7
आढकद्वयहीनं तद्भवेदुत्तममध्यमम् ।
अधमाधमकं यावदेवं ह्वासं समाचरेत् ॥ ७ ॥
18.8
यथा द्रोणद्वयं विप्र अधमाधमसंज्ञितम् ।
यद्वाढकद्वयं प्रोक्तमधमाधमसंज्ञितम् ॥ ८ ॥
18.9
क्रमेण तस्मादारभ्य द्रोणार्धं वर्धयेद्द्विज ।
अथोत्तमोत्तमं विप्र सार्धद्रोणचतुष्टयम् ॥ ९ ॥
18.10
कुर्यादाढकमात्रं तु प्रापणं संकटे सति ।
पुरुषाशनमात्रं वा भवेद् द्रव्यानुरूपतः ॥ १० ॥
18.11
आढकद्वयमानेन तदर्धेनाथवा द्विज ।
पृथक्पात्रेषु निर्दिष्टं यावद्भारद्वयावधि ॥ ११ ॥
18.12
नित्ये नैमित्तिके काम्यप्रायश्चित्ताख्ययोरपि ।
विधिरेष समानः स्यादत ऊर्ध्वं महाहविः ॥ १२ ॥
18.13
दशैकभारमात्रं तु उतमोत्तमसंज्ञितम् ।
महोदनोऽनुकल्पे तु भारै क ह्रासमाचरेत् ॥ १३ ॥
18.14
अधमाधमपर्यन्तमस्मिन् भारद्वयं यथा ।
यद्वा विंशतिभारं तु उत्तमोत्तमसंज्ञितम् ॥ १४ ॥
18.15
भारद्वयद्वयह्रासं यथा स्यादधमाधमे ।
चतुर्भारप्रमाणं तु मुख्यकल्पे विधिं श्रृणु ॥ १५ ॥
18.16
एकभारविहीनैस्तु त्रिंशद्भारैः प्रकल्पितम् ।
उत्तमोत्तमसंज्ञं तु भाराणां तु त्रयं त्रयम् ॥ १६ ॥
18.17
ह्रासयेत्क्रमयोगेन यथा स्यादधमाधमे ।
पञ्चभारप्रमाणं तु एवं वा परिकल्पयेत् ॥ १७ ॥
18.18
पञ्चाशद्भारमात्रं स्यात् उत्तमोत्तमसंज्ञितम् ।
पञ्चपञ्चपरित्यागादेवं नवविधं भवेत् ॥ १८ ॥
18.19
दशभारप्रमाणं तु यथा स्यादधमाधमे ।
अस्मादूर्ध्वं तु गृह्नीयान्महोदनविधौ द्विज ॥ १९ ॥
18.20
सहस्रभारपर्यन्तं विभवेच्छानुरूपतः ।
मात्रार्थं तण्डुलं श्रेष्ठमाढकत्रयकल्पितम् ॥ २० ॥
18.21
अधमाधमपर्यन्तं प्रस्थं प्रस्थं तु ह्रासयेत् ।
मुख्यकल्पे भवेच्छ्रेष्ठं सार्धद्रोणविनिर्मितम् ॥ २१ ॥
18.22
प्रस्थद्वयद्वयह्रासमाचरेत्तु यथाक्रमम् ।
अधमाधममानं स्याद्यथा द्रोणार्धकल्पितम् ॥ २२ ॥
18.23
अधमाढकमानस्य हविषो मुख्यकल्पने ।
मात्रार्थं तण्डुलं प्रस्थं तदर्धमनुकल्पके ॥ २३ ॥
18.24
हविर्नृद्धिकमेणैव मात्रावृद्धिं समाचरेत् ।
अधमस्यैककल्पे तु द्रोणार्धं परिकल्पयेत् ॥ २४ ॥
18.25
मात्रार्थमनुकल्पे तु आढकं परिकल्पयेत् ।
तण्डुलाद्द्विगुणः शालिर्मात्रा स्यादुत्तमोत्तमा ॥ २५ ॥
18.26
समाना मध्यमा प्रोक्ता तदर्धा कीर्तिताधमा ।
शालिवत्कल्पितव्या स्याद्वीजमात्रा त्रिधा स्थिता ॥ २६ ॥
18.27
वीजानामप्यभावे तु मुद्गमेकं प्रशस्यते ।
वीजेष्वेकतमं वापि तत्तत्कालानुरूपतः ॥ २७ ॥
18.28
तण्डुलेन समा मुख्या तिलमात्रा प्रकीर्तिता ।
तदर्धा मद्यमा प्रोक्ता पादमाना कनीयसी ॥ २८ ॥
18.29
यथा विभवमानः स्याद्रिक्तवित्ताढ्यमानयोः ।
शालिमात्रा न कर्तव्या यागे स्नपनवर्जिते ॥ २९ ॥
18.30
अन्या मात्राः प्रकल्प्याः स्युः सर्वस्मिन्नर्चनाविधौ ।
मुख्यमूर्त्युचितान्मानादधिकेन न कल्पयेत् ॥ ३० ॥
18.31
प्रमाणेनाङ्गबिम्बानां सर्वं तु हविरादिकम् ।
तद्याप्यधिककालं तु हविराद्यं न कल्पयेत् ॥ ३१ ॥
18.32
अन्नादाढकमानात्स्यात् पुरुषाशनमात्रकात् ।
प्रासादयजने ह्रासं न कदाचित् समाचरेत् ॥ ३२ ॥
18.33
मात्रा तण्डुलमानं च शालिमानं तथैव च ।
न ह्रासयेन्मुनिश्रेष्ठ मानादाढकनिर्मितात् ॥ ३३ ॥
18.34
स्वगृहे यजने कुर्याद्विभवेच्छानेरूपतः ।
आज्यादीनामथो मानं वक्ष्ये तदवधारय ॥ ३४ ॥
18.35
अन्नस्याढकमानस्य घृतं तु कुडुबत्रयम् ।
उत्तमोत्तमसंज्ञं तु मुख्यकल्पक्रमेण तु ॥ ३५ ॥
18.36
एकैकमुष्टिहान्या तु नवधैतत् प्रकीर्तितम् ।
अनुकल्पे घृतं विप्र सार्धं तु कुडुबं भवेत् ॥ ३६ ॥
18.37
अर्धार्धमुष्टिहान्या तु तच्चापि नवधा स्मृतम् ।
द्विगुणं घृतमानं स्यात् मुद्गान्नपरिकल्पने ॥ ३७ ॥
18.38
अन्नवृद्धिक्रमेणैव घृतवृद्धिं समाचरेत् ।
कर्मव्यान्युपदंशार्थं मूलानि च फलानि च ॥ ३८ ॥
18.39
विंशत्पलानि प्रोक्तानि उत्तमोत्तमसंज्ञया ।
अन्नस्याढकमानस्य मुख्यकल्पक्रमेण तु ॥ ३९ ॥
18.40
एकैकपलहान्या तु तदेतन्नवधा भवेत् ।
उत्तमं द्वादशपलमनुकल्पे क्रमेण तु ॥ ४० ॥
18.41
एकैकपलहानिः स्यादधमाधमपश्चिमम् ।
मुद्गभेदोपदंशस्तु आढके घृतमानवत् ॥ ४१ ॥
18.42
मुद्गान्ने मुद्गमानस्तु तण्डुलेन समो भवेत् ।
मुख्यः पादविहीनस्तु मध्यमः परिकीर्तितः ॥ ४२ ॥
18.43
अर्धमानोऽधमः प्रोक्तस्तस्मान्न ह्रासमाचरेत् ।
नालिकेरफलं चैकमाढकस्य प्रकीर्तितम् ॥ ४३ ॥
18.44
तदर्धं मध्यमं प्रोक्तं तदर्धमधमं भवेत् ।
लवणं च मरीचादि यथायोगं समाचरेत् ॥ ४४ ॥
18.45
तण्डुलादष्टगुणितं पयः स्यात् पायसोदने ।
मध्यमं पादहीनं स्यादधमं स्यात्तदर्धकम् ॥ ४५ ॥
18.46
क्षीराभावे नालिकेरपयसा परिकल्पयेत् ।
उभयोः पयसोर्वापि मिश्रणं सममानयोः ॥ ४६ ॥
18.47
गुडाब्रस्याढकस्याथ गुलानां त्रिंशतं पलम् ।
उत्तमं विंशतिश्चैव मध्यमे दशमं भवेत् ॥ ४७ ॥
18.48
तण्डुलादर्धमानो वा मुद्गभेदस्तदर्धकः ।
अथवा सममानो वा पायसान्नगुऌआन्नयोः ॥ ४८ ॥
18.49
एकं चापूपमानं स्यात् कुडुबद्वयकल्पितम् ।
मुख्यं तदर्धं मध्यं स्यात्तदर्धमधमं भवेत् ॥ ४९ ॥
18.50
मुद्गभेदस्तण्डुलार्धस्तत्पादो वा यथारुचि ।
एकस्यापूपमानस्य षट्पलं तु गुऌअं भवेत् ॥ ५० ॥
18.51
अथवैकपलं वापि संकटे परिकल्पयेत् ।
नाऌइकेरपलं चैकं तदर्धं पादमेव वा ॥ ५१ ॥
18.52
एकस्यापूपमानस्य यथापाकं घृतं भवेत् ।
लवनं च मरीचाद्यं यथायोगं तु पूर्ववत् ॥ ५२ ॥
18.53
शतत्रयं षष्ट्यधिकमपूपानां तदुत्तमम् ।
चत्वारिंशत्क्रमाद्ध्रासे चत्वारिंशत्तथान्तिमे ॥ ५३ ॥
18.54
पूगीफलानि ताम्बूलीदलाश्चाशीतिसङ्ख्यया ।
एवं प्रकल्पितं ब्रह्नन्नेकं ताम्बूलमुच्यते ॥ ५४ ॥
18.55
तस्मान्न्यूनं न कर्तव्यं प्रासादेषु कदाचन ।
मुख्यकल्पे द्विसाहस्रं क्रमुकीफलमुच्यते ॥ ५५ ॥
18.56
तस्माद्द्विगुणमानं तु ताम्बूलीदलमीरितम् ।
उत्तमोत्तममेतत्तु अशीतिर्द्विचतुःक्रमात् ॥ ५६ ॥
18.57
ह्रासयेदुभयं विप्र यथा स्यादधमाधमे ।
शतानि सप्त विंशच्च फलानि स्युर्दलानि च ॥ ५७ ॥
18.58
चतुर्ददशशतानि स्युश्चत्वारिंशच्च सत्तम ।
एकस्य ताम्बूलकस्य अह्गानां मानमुच्यते ॥ ५८ ॥
18.59
एलालवङ्गलक्कोलजातीनां निष्कपादकम् ।
मानं स्याच्चन्दनस्यापि चूर्णस्यापि तथैव च ॥ ५९ ॥
18.60
कर्पूरमष्टमानं तु नाऌइकेरफलार्धकम् ।
मातुऌअङ्गफलार्धं च तैलमुष्ट्यष्टमांशकम् ॥ ६० ॥
18.61
एवमेव क्रमेणैव ह्यङ्गानां वृद्धिमाचरेत् ।
उत्तमोत्तमपूजायां चन्दनं द्विपलं भवेत् ॥ ६१ ॥
18.62
सपादं मुख्यकल्पे तु द्विद्विनिष्कविहीनकम् ।
अधमाधमकं याव दनुकल्पे श्रृणुष्व मे ॥ ६२ ॥
18.63
पलमेकं सनिष्कं स्यान्निष्कैकं ह्रासयेत् क्रमात् ।
चन्दनं निष्कमानं तु यथा स्यादधमाधमे ॥ ६३ ॥
18.64
स्नपने चन्दनं मानं मुख्यकल्पेऽवधारय ।
अष्टादशपलं मानमुत्तमोत्तमसंज्ञितम् ॥ ६४ ॥
18.65
पलद्वयद्वयह्रासो यावत् स्यादधमाधमम् ।
अनुकल्पे नव पलं स्नपने चन्दनं भवेत् ॥ ६५ ॥
18.66
होमे चन्दनमानं तु पूजोक्तादर्धकं भवेत् ।
तदर्धं वा यथायोगं बाह्लिके मानमुच्यते ॥ ६६ ॥
18.67
पूजाचन्दनवन्मानं मुख्यकल्पानुकल्पयोः ।
तथा कर्पूरमानं तु तदर्धं वा द्विजोत्तम ॥ ६७ ॥
18.68
आढकं हैममुदकं कुडुबद्वयसंयुतम् ।
कुडुबद्वयद्वयह्रासमाचरेदन्तिमावधि ॥ ६८ ॥
18.69
मुख्यकल्पमिमं विद्धि ह्यनुकल्पे तदर्धकम् ।
कृष्णाङ्गरागं मुख्ये तु सार्धनिष्कचतुष्टयम् ॥ ६९ ॥
18.70
निष्कार्धक्रमह्रासेन नवधा परिकीर्तितितम् ।
अनुकल्पे तदर्धेन नवधा मानमीरितम् ॥ ७० ॥
18.71
कृष्णाङ्गरागवन्मानं भवेन्मृगमदस्य च ।
कस्तूरिकायास्च तथा मानं नवविधं भवेत् ॥ ७१ ॥
18.72
द्रव्याणां स्नपनोक्तानां निष्काष्टादशकं तु वा ।
नवकं वोत्तमोत्कृष्टं यथा स्यादधमाधमम् ॥ ७२ ॥
18.73
निष्कद्वयं तथैकं वा भवेत्तत्कल्पयेत्तथा ।
एवं विज्ञाय मानाद्यं संस्कृत्य हविरादिकम् ॥ ७३ ॥
18.74
आराधयेद्देशिकेन्द्रो यथा शास्त्रोदितक्रमात् ।
आचार्यः साधको वाऽन्नं पाचयेत्पाचकैः सदा ॥ ७४ ॥
18.75
स्वयं वा ।पि यथायोगं मन्त्रज्ञानामसन्निधौ ।
तेषामाचार्यपूर्वाणां सङ्ख्यानियम उच्यते ॥ ७५ ॥
18.76
श्रीरङ्गाख्यविमानादौ स्वयं व्यक्ते महामते ।
प्रासादे च तथा सिद्धैः विबुधैश्च प्रतिष्ठिते ॥ ७६ ॥
18.77
आचार्यान् शास्त्रविहितांश्चतुरः परिकल्पयेत् ।
अष्टौ द्वादश षड्वाथ कल्प्याः स्युः पञ्च वा मुने ॥ ७७ ॥
18.78
प्रधानगुरुणा सार्धं कल्प्या ह्येकोत्तरास्तु वा ।
यथा विहितसङ्ख्या वा सह तेन महामुने ॥ ७८ ॥
18.79
एवमेव भवेत् सङ्ख्या ऋषिभिः परिकल्पिते ।
मनुष्यनिर्मिते स्थानेऽप्येवभेव समाचरेत् ॥ ७९ ॥
18.80
आचार्याणां यथोक्तानां योग्यानामप्यसन्निधौ ।
आचार्यास्तु त्रयः कल्प्याः द्वावेको वा महामते ॥ ८० ॥
18.81
मूलबिम्बादि पूजार्थमाचार्या मुख्यकल्पके ।
कल्प्याः साधकमिश्रा वा मध्यकल्पेऽनुकल्पके ॥ ८१ ॥
18.82
केवलाः साधकाः कल्प्या यथा विहितसङ्ख्यया ।
चत्वारः साधकाः कल्प्याः षडष्टौ द्वादशाथवा ॥ ८२ ॥
18.83
षोडशाथापि विभवे नान्यथा परिकल्पयेत् ।
स्वयंव्यक्तादिकेष्वेवं कल्प्याः पञ्चविधेष्वपि ॥ ८३ ॥
18.84
स्थानेषु मानुषेष्वद्य विशेषः परिकीर्त्यते ।
व्यामिश्रयाजिभिर्वर्णैः स्थाने तु परिकल्प्यते ॥ ८४ ॥
18.85
एवं विहितसङ्क्याः स्युराचार्याः साधकास्तथा ।
मुख्यकल्पेऽनुकल्पे तु केवलाराधकान् दश ॥ ८५ ॥
18.86
यथोक्तसङ्ख्यैराचार्यैः सहितान् परिकल्पयेत् ।
मूलबिम्बस्य पूजार्थं तदेवंसङ्ख्यकास्तुते ॥ ८६ ॥
18.87
कल्पने पञ्चसङ्ख्यायास्तथा पञ्चदश स्मृताः ।
तेषां तु देशिकेन्द्राणामेकद्वित्रित्वकल्पने ॥ ८७ ॥
18.88
एकादश द्वादश च त्रयोदश च ते क्रमात् ।
तस्मादाराधकानां तु दशसङ्ख्यां तु केवलाम् ॥ ८८ ॥
18.89
न कल्पयेत्तु सर्वत्र तस्माच्छास्त्रोक्तमाचरेत् ।
मानुष्याद्व्यतिरिक्तेषु स्वयं व्यक्तादिषु द्विज ॥ ८९ ॥
18.90
यथा विहितसङ्ख्याः स्युराचार्यास्साधकास्तथा ।
नित्ये नैमित्तिके काम्ये प्रायश्चित्तेऽपि सर्वदा ॥ ९० ॥
18.91
दशसङ्ख्या न कल्प्या स्यात् उक्तन्यायेन कल्पयेत् ।
मूलबिम्बादिपूजार्थं तथा बाह्यस्थमूर्तिषु ॥ ९१ ॥
18.92
कृते सति महान् दोषस्तदा स्याद्राजराष्ट्रयोः ।
महद्भयं स्यात् स्थानस्य कर्तुः कारयितुस्तथा ॥ ९२ ॥
18.93
तस्मादुक्तेन मार्गेण तत्तत्सङ्ख्याः प्रकल्पयेत् ।
परिवारेषु यागः स्याच्चतुर्भिर्वा षडष्टभिः ॥ ९३ ॥
18.94
द्वादशभिः षोडशभिः साधकैः परिकल्पितैः ।
गोपुरे मण्डपे साले प्राङ्कणे मालिकादिके ॥ ९४ ॥
18.95
स्थापितं वैभवं मूर्तं प्रादुर्भावं तु वा द्विज ।
प्रादुर्भावान्तरं मुक्यं यद्यन्मूर्तं प्रतिष्ठितम् ॥ ९५ ॥
18.96
तत्तद्यागेऽथ चत्वारः षडष्टौ द्वादशाथ वा ।
सङ्कल्प्याः साधका विप्र कल्प्याः षोडश वा द्विज ॥ ९६ ॥
18.97
त एव परिवारार्थं कल्पनीयास्तु वा द्विज ।
गोपुरादौ स्थापितेषु बिम्बेष्वपि सदार्चने ॥ ९७ ॥
18.98
देशिका एव संकल्प्याः तद्योग्यानामसन्निधौ ।
परिवारपदे योग्या अनन्या ब्राह्नणा द्विज ॥ ९८ ॥
18.99
दीक्षिता ब्राह्नणा वापि कर्मज्ञाः कर्मकौशलाः ।
श्रीरङ्गादौ स्वयं व्यक्ते स्थाने तु परिचारकाः ॥ ९९ ॥
18.100
अशीतिसङ्ख्यासङ्ख्याताः पाचकाश्च त एव हि ।
सिद्धप्रतिष्टिते स्थाने सप्तत्येव तु ते स्मृताः ॥ १०० ॥
18.101
देवप्रतिष्ठिते षष्टिर्द्वाविंशदृषिकल्पिते ।
मनुष्यनिर्मिते स्याने त्रिंशद्विंशत्तथापि वा ॥ १०१ ॥
18.102
अथबा भारमात्रान्नपचनादिषु कर्मसु ।
एकायना दीक्षिता वा चत्वारो वा त्रयोऽपि वा ॥ १०२ ॥
18.103
एवं भारानुसारेण क्रमेण परिवर्धयेत् ।
यथा स्यादृतुभारेषु द्वादशाष्टादश द्विज ॥ १०३ ॥
18.104
एकस्तु कल्पनीयः स्यात्ताम्वूलापूपसाधने ।
एकस्तु कल्पनीयोऽन्तः परिचारककर्मणि ॥ १०४ ॥
18.105
चत्वारिंशत्समाख्याताः तदेवं परिचारकाः ।
पक्षभारोदनानां तु साधने तु चतुर्गुणाः ॥ १०५ ॥
18.106
अपूपसाधने द्वौ तु द्वौ तु ताम्बूल साधने ।
चत्वारस्तु तथात्वन्तः परिचारककर्मणि ॥ १०६ ॥
18.107
एवं त्वशीतिसङ्ख्याः स्युः पक्षभारान्नसाधने ।
वर्धयेदत ऊर्ध्वं च तत्तद्भारानुसारतः ॥ १०७ ॥
18.108
ह्रासस्तदनुसारेण कर्तव्योऽभ्यूह्य सर्वदा ।
एवं स्याद्भारमात्रे तु त्रयाणां परिकल्पने ॥ १०८ ॥
18.109
चतुर्णां कल्पने वाऽपि तत्क्रमेण विवर्धयेत् ।
साधकाः पाचकाश्चैव ह्याचार्यवशवर्तिनः ॥ १०९ ॥
18.110
आचार्यसाधकानां च आज्ञासन्धारणोद्यताः ।
सर्वदा पाचकाः सर्वे भवेयुः परिचारकाः ॥ ११० ॥
18.111
पाचका एव शास्त्रेषु कीर्त्यन्ते परिचारकाः ।
अन्तरङ्गा बहिरङ्गा द्विविधाः परिचारकाः ॥ १११ ॥
18.112
अन्तरङ्गास्तु संप्रोक्ताः पाचकाः परिचारकाः ।
बहिरङ्गास्तु संप्रोक्ताः पुष्पाद्याहरणोद्यताः ॥ ११२ ॥
18.113
अन्येऽपि ये निबद्धाः स्युस्तत्तत्कर्मानुरूपतः ।
तेऽपि सर्वे यथायोगमाचार्यवशवर्तिनः ॥ ११३ ॥
18.114
वाहका गायकाश्चैव पाचकोक्तक्रमेण तु ।
वर्धनीया यथायोगमन्ये स्युः कर्मकारिणः ॥ ११४ ॥
18.115
आचार्याश्चैव चत्वारः तथा षोडश साधकाः ।
अशीतिसङ्ख्यासङ्ख्याताः पाचकाः परिचारकाः ॥ ११५ ॥
18.116
एवमेकायनानां तु चतुः सङ्ख्याप्रकल्पनम् ।
मुख्यकल्पमिमं विद्धि तदभावे महामते ॥ ११६ ॥
18.117
तेषां दीक्षितमिश्राणां कल्पनं मध्यकल्पनम् ।
अधमं कल्पनं विद्धि सह्ख्यास्वन्यास्वपि द्विज ॥ ११७ ॥
18.118
मुख्यादिप्रविबागत्वमेवमभ्यूह्य कल्पयेत् ।
पुत्रदीक्षाभिषेकेण संस्कृतांस्तत्र कल्पयेत् ॥ ११८ ॥
18.119
समये दीक्षाभिषेके संस्कृतान् वा न चान्यथा ।
आचार्यैः साधकाश्चैव केवलास्त्वथवा द्विज ॥ ११९ ॥
18.120
बहिरङ्गेषु सर्वेषु कल्प्याः समयदीक्षिताः ।
यया कया च विधया दीक्षिताऽहीक्षितास्तु वा ॥ १२० ॥
18.121
भूयः कश्चिद्विशेषोऽयं कथ्यते तमिमं श्रृणु ।
सनकः ।
मुनीम्द्र प्रापणादीनां सङ्ख्यामानमुदाहृतम् ॥ १२१ ॥
18.122
इदानीं सविशेषेण चैतेषां मानलक्षणम् ।
शालिमुद्गादिभेदं च साधनं मन्त्रपूर्वकम् ॥ १२२ ॥
18.123
निवेदनप्रकारं च कारिणां संप्रदानकम् ।
यथावत् सर्वमेवैतत् पृच्छतो मे प्रकाशय ॥ १२३ ॥
18.124
शाण्डिल्यः ।
श्रृणु सम्यक् प्रवक्ष्यामि यथा पृष्टं त्वया मुने ।
येन संसाधितेनैव संपूर्णं पूजनं भवेत् ॥ १२४ ॥
18.125
नित्यं नैमित्तिकं काम्यं त्रिविधं हविरुच्यते ।
प्रथमं नित्ययागे तु हविषो लक्षणं श्रृणु ॥ १२५ ॥
18.126
स्वहस्तेनाष्टतालोच्चो यः स मध्यमपूरुषः ।
तस्य देशिकमुख्यस्य मध्यमाङ्गुलिसंभवः ॥ १२६ ॥
18.127
द्विपर्वस्राविणी बिन्दुः द्वात्रिंशद्बिन्दुभिस्त्रुटिः ।
त्रुटिद्वयं तथा शुक्तिस्तद्द्वयं प्रसृतं भवेत् ॥ १२७ ॥
18.128
प्रसृताभ्यां प्रकुंजं तु तद्द्वयं कुडुबं भवेत् ।
मानिका कुडुबाब्यां तु प्रस्थं तन्मानिकाद्वयम् ॥ १२८ ॥
18.129
्परस्थद्वयं शमं प्रोक्तं तद्द्वयं चाढकं भवेत् ।
शिवमाढकयुग्मं तु द्रोणं तद्द्विगुणं भेवत् ॥ १२९ ॥
18.130
द्रोणद्वयं तु रवारी स्यात् तत्त्रयं भारमुच्यते ।
शालितण्डुलमुद्गादि दधिक्षीरादिकान्यपि ॥ १३० ॥
18.131
प्रोक्तेनानेन मीयन्ते हविष्पाकादिकर्मसु ।
चत्वारो व्रीहयः कुंजः तेऽष्टौ माञ्जिष्ठमुच्यते ॥ १३१ ॥
18.132
तत्छतं षष्टिरधिकं निष्कं निष्काष्टकं पलम् ।
चन्दनादीनि गन्धानि गुऌअखण्डयुतानि च ॥ १३२ ॥
18.133
कदऌईपनसाम्राणि कूष्माण्डप्रमुखानि च ।
तुलया तुलितानि स्युः यथोक्तपलमानतः ॥ १३३ ॥
18.134
ज्ञात्वैवं नियतं मानं हविषां साधनाय च ।
शालिमुद्गयवा माषा गोधूमाश्च प्रिङ्गयवः ॥ १३४ ॥
18.135
तिलाः सप्त इमे ग्राह्ना ग्राम्या वै चरुकर्मणि ।
वेणुश्यामाकनीवारा जर्त्तिलाश्च गवीधुकाः ॥ १३५ ॥
18.136
मर्कटाः कनकाः सप्त विज्ञेयास्तु वनोद्भवाः ।
शालयस्तेषु मुख्याः स्युस्तदन्यास्तदभावतः ॥ १३६ ॥
18.137
रक्तशाल्यो महाशाल्यः कऌअमा गन्धशालयः ।
श्वेतशाल्यः सशूकाश्च हेमाभा गर्भशालयः ॥ १३७ ॥
18.138
सुकुमाराश्च सूक्ष्माश्च दशैताः शालयः स्मृताः ।
अन्तर्भेदाश्च बहवः सप्तमुद्गा उदाहृताः ॥ १३८ ॥
18.139
मुद्नाः कृष्णाश्च हेमाश्च श्वेताः पीता महत्तराः ।
अञ्जनाभाश्च सप्तैते अन्तर्भेदा उदाहृताः ॥ १३९ ॥
18.140
श्वेताः कृष्णाश्च पीताश्च वन्याश्चैव महातिलाः ।
तिलानां पञ्चभेदास्तु ग्राह्याः स्युः परिकीर्तिताः ॥ १४० ॥
18.141
उपाहृतानि केदाराद् दैवीयाच्च कृषीवलैः ।
शालिमुद्गादिभेदानि कर्मण्यान्यर्चने विभोः ॥ १४१ ॥
18.142
अवपन्नादिभिर्दोषैरष्टभिर्वर्जितानि च ।
आनयेदवघातार्थं अवघातगृहे पुरा ॥ १४२ ॥
18.143
गोमयेन समालिप्ते सुधाद्यैः परिमण्डिते ।
शोधिते शतधारेण पवित्रेण कुशाम्बुभिः ॥ १४३ ॥
18.144
स्थले प्रणवमुच्चार्य प्राङ्मुखैर्वाऽप्षुदङ्मुखैः ।
दीक्षितैर्नियतैर्विप्रैर्धृतचक्रादिलक्षणैः ॥ १४४ ॥
18.145
सुस्नातैर्लोहदार्वश्ममृण्मयानि समन्ततः ।
स्थापयित्वोलूखलानि क्षाऌइतैः खादिरैर्दृढैः ॥ १४५ ॥
18.146
मुसलैरवहन्युस्ते द्वादशाक्षरविद्यया ।
निस्तुषान्निष्कणान् कृत्वा तण्डुलान् सूर्पकोटरैः ॥ १४६ ॥
18.147
तैस्तावदवहन्तव्या यावन्मुक्ताफलप्रभाः ।
अखण्डिताश्चानणवः कृष्णबिन्दुविवर्जिताः ॥ १४७ ॥
18.148
मुद्गभेदास्तथा कार्याः सारवन्तश्च निस्तुषाः ।
साध्वीभिब्राह्नणीभिर्वा दीक्षितानामभावतः ॥ १४८ ॥
18.149
शूद्रैर्वा दीक्षितैर्देवदासीभिर्देवसझनि ।
हविःपाकादिकर्मार्थं कार्याऽवहननक्रिया ॥ १४९ ॥
18.150
वैष्णवानां गृहे शुद्धे दीक्षितानां गृहेऽपि वा ।
तण्डुलांस्तु प्रगृह्णीयाद्विधिक्षुण्णांस्तु देशिकः ॥ १५० ॥
18.151
अकणानतुषानेव क्रिमिहीनानपि क्रमात् ।
केशपाषाणहीनांस्तु प्राण्यङ्गरहितांस्तथा ॥ १५१ ॥
18.152
भस्माङ्गारविहीनांस्तु अभग्नानलघूनपि ।
कणैस्तु भवति व्याधिस्तुषैर्दारिद्य्रकं भवेत् ॥ १५२ ॥
18.153
कृमिभिः पुत्रनाशः स्यात् केशैर्दारविनाशनम् ।
पाषाणैर्मरणं विद्धि अशन्या वह्निना जलैः ॥ १५३ ॥
18.154
प्राण्यङ्गैर्व्याधयः प्रोक्ता भस्मना कलहो ध्रुवः ।
अङ्गारैर्वह्निना बाथो भग्ने भङ्गस्तु विग्रहे ॥ १५४ ॥
18.155
प्रवासो लघुबिश्चैव तस्स्मात्तान् परिवर्जयेत् ।
संभारानखिलानेव प्राक्संकल्पितसंमतान् ॥ १५५ ॥
18.156
संभृत्य देशिकास्सार्धं साधकैःपाचकैरपि ।
अवघातगृहं प्राप्य तत्रस्थं तण्डुलादिकम् ॥ १५६ ॥
18.157
ब्रह्नशुक्रमिवेत्युक्त्वा नेत्रेणेवावलोकयेत् ।
प्राग्वत् संशोधयेत्तानि दहनाप्यायनादिभिः ॥ १५७ ॥
18.158
पैद लादिषु शुद्धेषु पात्रेषु विततेष्वपि ।
पचनार्थं सुमुद्धृत्यं तत् सर्वं तण्डुलादिकम् ॥ १५८ ॥
18.159
तत्तत्पात्रसमुद्धारे निपुणैः परिचारकैः ।
सुस्नातैश्च सुवेषैश्च वस्त्रेणाच्छादिताननैः ॥ १५९ ॥
18.160
आनयेत् पचनागारं शङ्खतूर्यादिमङ्गऌऐः ।
द्वारस्योत्तरपार्श्वे तु गोमयेनोपलेपिते ॥ १६० ॥
18.161
प्रदेशे निक्षिपेत्तानि भाजनानि यथाक्रमम् ।
गुऌओपदंशपूर्वाणि लवणादिरसानि च ॥ १६१ ॥
18.162
विन्यसेद्वायुदिग्भागे दधिक्षीरघृतानि च ।
र्निदद्यान्नैरृते भागे होमोपकरणान्यपि ॥ १६२ ॥
18.163
चतुर्भिर्व्यापकैर्मन्त्रैः वस्त्रपूतेन वारिणा ।
क्षाऌअयित्वा चतुर्धा च यथा स्यात्तण्डुलादिषु ॥ १६३ ॥
18.164
शिलाशकलनिर्मुक्तं निस्तुषं निष्कणं यथा ।
अपक्वव्रीह्यवहततण्डुलेनैव साधितम् ॥ १६४ ॥
18.165
गव्यदुग्धाज्यसंपृक्तं गुऌअखण्डपलान्वितम् ।
अक्षारलवणोपेतं देवानां हविरुच्यते ॥ १६५ ॥
18.166
तदेव परमान्नं स्यात् क्षीराज्यगुडपाचितम् ।
घृतसिक्तं तु शुद्धान्नमभावे हविरुच्यते ॥ १६६ ॥
18.167
अक्षारलवणं सिद्धं गुऌअक्षीरफलान्वितम् ।
शान्तिके व्रतयज्ञे च संसाध्यं हविरुत्तमम् ॥ १६७ ॥
18.168
पायसान्नं गुऌआन्नं च मुद्गान्नं केवलोदनम् ।
दध्यन्नं च तिलान्नं च निशान्नं सर्वमिश्रितम् ॥ १६८ ॥
18.169
इत्यष्टधा समुद्दिष्टं हविर्देवस्य संमतम् ।
सर्वमाज्येन संसिच्य सोपदंशं निवेदयेत् ॥ १६९ ॥
18.170
तेषां संसाधनार्थं तु लोहजा वाऽथ मृण्मयाः ।
स्थालयः सशरावाश्च कल्पनीयाः पुरैव तु ॥ १७० ॥
18.171
देशिकेन्द्रकराह्गुष्ठजठरोत्थाङ्गुलेन तु ।
षोडशाङ्गुलकोन्मानाः स्थाल्यः स्युः पाककर्मणि ॥ १७१ ॥
18.172
उच्छ्रायादुदरं तत्र द्वादशाह्गलसंमितम् ।
जठरे मूलविस्तारः कलया तुलितो भवेत् ॥ १७२ ॥
18.173
अङ्गुलान्तरितं कार्यं कण्ठे सूत्रचतुष्टयम् ।
एवं लक्षणयुक्तायाः विस्तारोच्छ्रायमानयोः ॥ १७३ ॥
18.174
अर्धाधिकं वा द्विगुणं मध्यमोत्तमवाञ्छया ।
एवमाकृतिरुद्दिष्टा स्थालीनां पाककर्मणि ॥ १७४ ॥
18.175
शरावाणामथान्येषां लक्षणं श्रृणु सत्तम ।
अष्टाङ्गुलायतं सूत्रं भूमौ प्राप्य परिब्रमेत् ॥ १७५ ॥
18.176
मध्यतो जठरं तस्य षोडशाङ्गलविस्तृतम् ।
अष्टाङ्गुलान्तमुच्छ्रायमर्धचन्द्रसमाकृति ॥ १७६ ॥
18.177
कण्ठोच्चं त्र्यङ्गलं चोर्ध्वं वलयं द्व्यङ्गलं भवेत् ।
दशाङ्गुलं चास्यतारं वलयेन समन्वितम् ॥ १७७ ॥
18.178
कण्ठोच्चादुदरोच्चान्तं ऋजुसूत्रद्वयेन तु ।
गुऌअसिद्धं च कुर्वीत प्राग्वत् सूत्रचतुष्टयम् ॥ १७८ ॥
18.179
हविः सङ्ख्यानुगुण्येन बह्वयः स्थाल्यस्तथेतराः ।
तथोपदंशपात्राणां सर्वेषामास्यविस्तृतेः ॥ १७९ ॥
18.180
अधिकान्यपिधानानि तत्तद्द्रव्यमयानि च ।
सुवृत्तानि पिधेयानि पादचन्द्राकृतीनि च ॥ १८० ॥
18.181
तथा पाकोपयोग्यानि पात्राण्यन्यानि सत्तम ।
प्राग्वन्मद्याद्यपेक्षायां समभ्यूह्य प्रकल्पयेत् ॥ १८१ ॥
18.182
घृततप्तोपदंशार्थमम्बरीषमथायसम् ।
जलद्रोण्यः कटाहाश्च बहवः क्षीरपाचने ॥ १८२ ॥
18.183
घृतपाके तथापूपसाधने पात्रसञ्चयम् ।
अन्यानि च समुत्पाद्य द्रर्व्यादीनि विधानतः ॥ १८३ ॥
18.184
प्रारभेत हविःपाकं वक्ष्यमाणेन वर्त्मना ।
आहृत्योदनपाकाग्निं कुण्डादौपासनानलात् ॥ १८४ ॥
18.185
चुल्यां निधाय तारेण सप्ततेग्न इतीरयन् ।
इन्धनानि विनिक्षिप्य यज्ञदारुमयानि च ॥ १८५ ॥
18.186
क्रिमिकीटादिहीनानि ज्योतिरात्री तिमन्त्रतः ।
प्रज्वाल्य व्यजनेनैव ततः स्थालीश्च ताम्रजाः ॥ १८६ ॥
18.187
प्रक्षाल्य तिन्त्रिणीतोयैः केवलैर्मृण्मयांस्ततः ।
प्रक्षाल्य द्वादशार्णेन वीर्यमन्त्रेण मन्त्रवित् ॥ १८७ ॥
18.188
घृतेनालेपयेत्तासामन्तरं व्यूहविद्यया ।
तण्डुलान् प्रक्षिपेत्तासु गायत्र्या विष्णुपूर्वया ॥ १८८ ॥
18.189
अंभस्यपार इति चमन्त्रेण स हृदा पुनः ।
जलेनापूरयेदूर्ध्वे तण्डुलान् प्रतिपात्रगान् ॥ १८९ ॥
18.190
तण्डुलाढकमानस्य षटप्रस्थमुदकं भवेत् ।
कर्मारंभेण ताःस्थालीश्चुल्यामारोपयेत्ततः ॥ १९० ॥
18.191
चक्रमन्त्रेणापिधानीस्ताः संछाद्य यथाक्रमम् ।
पाककाले समुद्धाट्य वीर्यमन्त्रेण तुद्ध्वनिम् ॥ १९१ ॥
18.192
निरीक्ष्य नेत्तमन्त्रेण दर्व्या मूलं समुद्धरन् ।
चतुर्धा वर्तयेच्चैव चक्रेणाच्छादयेत् पुनः ॥ १९२ ॥
18.193
पव्के जलमविस्राव्य द्वादशार्णं समुच्चरन् ।
विद्रावितेन गव्येन हविषा चाभिघार्य च ॥ १९३ ॥
18.194
शुचीन् सत्क्रियतेत्यादि मन्त्रेणाधारपृष्ठतः ।
शोधिते भूतले वाथ व्रीहिभिर्वा प्रसारिते ॥ १९४ ॥
18.195
एवं हवींषि सिद्धानि पाणिभ्यामवरोप्य च ।
अस्त्राभिमन्त्रितेनैव बहिः प्रक्षाल्य वारिणा ॥ १९५ ॥
18.196
तन्मन्त्रेतेन शुद्धेन वस्त्रेणोद्वर्तयेत्ततः ।
भस्मना मथितेनाद्भिर्वासुदेवादिवाचकैः ॥ १९६ ॥
18.197
तर्जन्याद्यङ्गुलीभिश्च कुर्याद्दिक्षूर्ध्वपुण्ट्रकम् ।
समाच्छाद्य पिधानैश्च वसनैः क्षाऌइतैस्ततः ॥ १९७ ॥
18.198
इत्युक्तं साधनं सम्यक् शुद्धान्नस्य विशेषतः ।
अन्येषां साधनं वक्ष्ये परमान्नपुरस्सरम् ॥ १९८ ॥
18.199
तण्डुलस्य तु तुर्यांशं पायसे मुद्गसारकम् ।
तन्मानं घृतमुद्दिष्टं प्रागेव कथितं पयः ॥ १९९ ॥
18.200
चतुर्गुणं तण्डुलाच्च खण्डचूर्णसमन्वितम् ।
साधयेदुक्तमार्गेण समन्त्रं केवलोदने ॥ २०० ॥
18.201
हंसः सुछिष दित्यत्र गोक्षीरस्य नियोजनम् ।
तदभावे नियोक्तव्यं नाऌइकेरोद्भवं पयः ॥ २०१ ॥
18.202
अब्जागोजे ति तत्क्षेपः स्याद्गव्यप्रतियोजने ।
गुडान्नपाचने क्षीरमपहायैक्षवं रसम् ॥ २०२ ॥
18.203
कथितं गुडखण्डं वा क्षीरमानानुसारतः ।
क्षीरप्रक्षेपमन्त्रेण गुडादीनि नियोजयेत् ॥ २०३ ॥
18.204
मुद्गान्ने तण्डुलं सम्यक् मुद्गसारं नियोजयेत् ।
शुद्धान्ने तु पुरा प्रोक्तं विशेषेण घृताप्लुतम् ॥ २०४ ॥
18.205
दध्योदने दधिक्षेपः क्षीरार्धपरिसंमितः ।
कदऌईपनसाम्रादिगुडखण्डसमन्वितम् ॥ २०५ ॥
18.206
खण्डचूर्णसमोपेतं कृसरान्ने तु मुद्गकम् ।
आढकस्य हरिद्रान्ने निशापिष्टं पलं भवेत् ॥ २०६ ॥
18.207
मुद्गसारसमोपेतं गुडखण्डादिसंयुतम् ।
मिश्रान्ने योजयेत् किंचित् क्षीराज्यघृतसंप्लुतम् ॥ २०७ ॥
18.208
शान्त्यर्थं पयसा मिश्रं पुष्ठ्यर्थे गुडमिश्रितम् ।
वश्यार्थे मुद्गसारोत्थमाकृष्टौ दधिमिश्रितम् ॥ २०८ ॥
18.209
कृसरान्नं तु पित्र्यर्थे मारणोच्चाटनेऽपि च ।
स्तंभने च हरिद्रान्नं मिश्रान्नं मोहने भवेत् ॥ २०९ ॥
18.210
साधारणं तु शुद्धान्नं यात्रासु मृगयादिके ।
विशेषेण तु दध्यन्नं हेमराजतपात्रगम् ॥ २१० ॥
18.211
मरीचिशुण्ठीलिकुचतिन्त्रिणीरसमिश्रितम् ।
चूर्णेन जीरकोत्थेन संस्कुर्याद्रसवस्तुभिः ॥ २११ ॥
18.212
रसभेदसमुत्थानि पनसद्वितयोद्भवम् ।
चूतभेदसमुत्थानि नातिपव्कानि कालतः ॥ २१२ ॥
18.213
बृहत्युर्वारुवार्ताककूष्माण्डप्रभवानि च ।
कारवल्लीलतोत्थानि कार्कोटप्रभवानि च ॥ २१३ ॥
18.214
पटोलद्वितयोत्थानि कोशातक्युद्भवे तथा ।
अलाबुकर्करीनिम्बभेदोत्थं तिन्त्रिणीफलम् ॥ २१४ ॥
18.215
क्षुद्रकन्दसमेतं च वल्लीकन्दद्वयं तथा ।
सूरणद्वयकन्दं च तथा पिण्डारकद्वयम् ॥ २१५ ॥
18.216
पझोत्पलसमुत्थं च हविर्योग्यं विशेषतः ।
उच्छिष्टं कृमिदष्टं च शिवाद्यैर्दंशितं तथा ॥ २१६ ॥
18.217
घ्रातं लालाजलस्पृष्टममेध्यस्थलसंभवम् ।
पादस्पृष्टमकालोत्थमाहृतं चाशुचिस्थले ॥ २१७ ॥
18.218
भुक्तशेषं तथाऽस्पृश्यस्पृष्टं दत्तावशेषकम् ।
परीक्ष्य बहुधा मन्त्री वर्जयेत् पाककर्मणि ॥ २१८ ॥
18.219
जीवन्तीं वास्तुकं शाकं कारवल्लीदलं तथा ।
तुम्बीदलं च पिण्डीं च चमू मुद्गदलानि च ॥ २१९ ॥
18.220
शाकिनीं शतपर्वाण तथैव श्वासमर्दितम् ।
आगस्त्यं पाचयेच्छाकं विहितं ब्राह्नणस्य च ॥ २२० ॥
18.221
एकमूलानि चान्यानि गृह्णीयादनिषेधने ।
झेदयित्वा लवित्रेण वीर्यमन्त्रं समुच्चरन् ॥ २२१ ॥
18.222
निरीक्ष्य कृमिकीटादीन् शाकांश्च बहुधा तथा ।
प्रक्षाल्य तेषु पात्रेषु निधाय बहुधा जलैः ॥ २२२ ॥
18.223
प्राग्वत् स्थालीषु निक्षिप्य प्रत्येकं वाऽथ मिश्रितम् ।
सैन्धवैः समरीचैश्च सर्षपैर्जीरकैरपि ॥ २२३ ॥
18.224
श्रीपर्णीदलसंमिश्रैः पयोभिर्नालिकेरजैः ।
तत्फलैरपि संघऋष्टैर्मृदुभिर्घृतमिश्रितैः ॥ २२४ ॥
18.225
मसूरमाषनिम्बादिमुद्गभेदसमन्वितम् ।
सयूषान् मुद्गभेदादीनयूषान् लवणादिभिः ॥ २२५ ॥
18.226
रसभेदैः समेतांश्च साधयेत्तदनन्तरम् ।
त्वचो व्यपोह्य मुद्गोत्थैः सारैः क्षीरेण पाचितैः ॥ २२६ ॥
18.227
मरीचजीरलवणैर्घृतयुक्तैश्च मर्दितैः ।
दर्व्यादिभिस्च संस्कुर्यात् गुल्माषं सरसं यथा ॥ २२७ ॥
18.228
स्थालीशरावपूर्णेषु पाचितानि पुरैव तु ।
कदऌईपनसादीनि नाऌइकेरफलानि च ॥ २२८ ॥
18.229
कूश्माण्डबृहतीपूगकारवल्लीफलानि च ।
क्षुद्रकन्दसमेतानि वल्लीपिण्डारकानि च ॥ २२९ ॥
18.230
अम्बरीषादिपात्रेषु विततेषु समन्ततः ।
घृतलिप्तेषु तप्तेषु समारोप्य प्रसार्य च ॥ २३० ॥
18.231
चूर्णीभूतैर्मरीचैश्च जीरकेन घृतेन च ।
प्रतापितानि स्निग्धानि दर्व्यालोड्य पुनः पुनः ॥ २३१ ॥
18.232
स्थापनीयानि भाण्डेषु छादितान्यम्बरादिभिः ।
आब्रादीनि च शुष्काणि अशुष्काणि फलानि च ॥ २३२ ॥
18.233
तिन्त्रिणीगुडमिश्राणि मरीचैर्जीरकैरपि ।
नाऌइकेरोत्थपयसा सर्षपैः पेषितैरपि ॥ २३३ ॥
18.234
स्थापयेदाम्रसारोत्थं लवणेन समन्वितम् ।
श्रऋह्गिबेरं तथार्द्रं च दऌइतं रहितं च वा ॥ २३४ ॥
18.235
वासितं लवणोपेतं लिकुचोत्थरसेन तु ।
कदऌईपनसाम्राणां केवलानि फलानि च ॥ २३५ ॥
18.236
गोधूमशालिजैः पिष्टैर्गुडपाकेन लोलितैः ।
पाचितैर्मुद्गसारैश्च शकलैर्नाऌइकेरजैः ॥ २३६ ॥
18.237
जीरकैः समरीचैश्च घृतेऽपूपानि पाचयेत् ।
सुवृत्तान्याम्रतुल्यानि धात्रीफलसमानि च ॥ २३७ ॥
18.238
न्यग्रोधफलतुल्यानि लिकुचाद्याकृतीनि च ।
अन्तर्निक्षिप्तमुद्गानि रसवन्ति समन्ततः ॥ २३८ ॥
18.239
गुडपिष्टेन बद्धानि नाऌइकेराकृतीनि च ।
नानाभेदसमुत्थानि घृतेऽपूपानि साधयेत् ॥ २३९ ॥
18.240
शालिव्रीहिसमुत्थाश्च शालिषु स्फुटितानि च ।
लघूनि वह्णितप्तानि गुडपाकान्वितानि च ॥ २४० ॥
18.241
चूर्णितैश्च मरीचैश्च जीरकैः खण्डितैरपि ।
नाऌइकेरफलैः शुष्कैः पृथुकानि च साधयेत् ॥ २४१ ॥
18.242
भर्जितैः शालिपिष्टैश्च मिश्रितैर्जीरकादिना ।
लोऌइतैर्गुडपाकेन पिण्डीभूतैः पृथक् पृथक् ॥ २४२ ॥
18.243
सक्तु स्यात् साधितं तद्वत्तिलैः पिण्डः सुभर्जितैः ।
तिलपिण्ड इति ख्यातःसदा देवस्य संमतः ॥ २४३ ॥
18.244
सुश्रृतं च घनीभूतं खण्डचूर्णसमन्वितम् ।
क्षीरं च मधुसर्पिर्भ्यां संपृत्क्तं सुघनं दधि ॥ २४४ ॥
18.245
तरुणैः शकलीभूतैरुर्वारुसहकारयोः ।
रूक्षसर्षपसंमिश्रं समरीचं तथा दधि ॥ २४५ ॥
18.246
पृथक्पात्रगतं शुद्धं गाऌइतं माक्षिकं मधु ।
द्राक्षापनसरंभाम्रसमुत्थैर्मर्दितै रसैः ॥ २४६ ॥
18.247
लोऌइतं गुऌअखण्डेन जीरकादिसमन्वितम् ।
रसालमेतद्विज्ञेयं दधिमिश्रं तु पानकम् ॥ २४७ ॥
18.248
केवलं दधिसंमिश्रं वारिणा तत्समेन तु ।
केवलं दधिसंमिश्रं वारिणा तत्समेन तु ।
मथितं समरीचं च लवणैश्चाधिवासितम् ॥ २४८ ॥
18.249
कण्डचूर्णसमोपेतं पानकं श्रमशान्तिकृत् ।
अन्नानामपि संस्कारे पुरा मन्त्राः प्रकीर्तिताः ॥ २४९ ॥
18.250
तदन्येषां तु संस्कारो द्वादशार्णेन वा हृदा ।
साङ्गेन मूलमन्त्रेण सर्वं संसाधयीत वा ॥ २५० ॥
18.251
विष्णुगायत्रिया वाऽथ पञ्चोपनिषदाथवा ।
संसाध्य परमान्नाद्यमुपदंशान्वितं क्रमात् ॥ २५१ ॥
18.252
फलकादिषु संस्थाप्य चोर्ध्वपुण्ड्राद्यलंकृतम् ।
महानसद्वारभूमेरालयद्वारपश्चिमम् ॥ २५२ ॥
18.253
गोमयेनानुलिप्तेन सुधाचूर्णेन शोभिना ।
पथास्त्रमन्त्रसंजप्तवारिधारापुरस्सरम् ॥ २५३ ॥
18.254
शह्खतूर्यादिघोषेण तथा मङ्गऌअगीतिभिः ।
प्रदीपच्छत्रयुक्तैश्च हविःपालनतत्परैः ॥ २५४ ॥
18.255
वेत्रपाणिभिरन्यैश्च नास्तिकोत्सारणोद्यतैः ।
स्नाताः शुक्लाम्बरा दक्षाः कृतपादावनेजनाः ॥ २५५ ॥
18.256
स्वाचान्ताः कुशहस्ताश्च मृदा वा चन्दनादिना ।
धृतोर्ध्वपुण्ट्रा नियताः मनोवाक्कायकर्मभिः ॥ २५६ ॥
18.257
सितकञ्चुकधर्तारः स्थगितानननासिकाः ।
वलमन्त्रेण भाण्डानि वहेयुः परिचारकाः ॥ २५७ ॥
18.258
मूलालयाग्रदेशस्थमण्टपे विततेऽथवा ।
प्रथमावरणे धाम्नो दक्षिणे माऌइकावनौ ॥ २५८ ॥
18.259
सुगुप्ते सुवितानाढ्ये दीपमालाद्यलंकृते ।
प्रदेशे वस्त्रसञ्छन्ने स्थाप्यानि फलकादिके ॥ २५९ ॥
18.260
हविः प्रमाणतुल्याश्च हेमराजतकाम्रजाः ।
स्थालिकाश्च यथालिप्ताः प्रक्षाल्यास्त्रेण वारिणा ॥ २६० ॥
18.261
पाणिना दक्षिणेनैव परामृश्य च तेन च ।
तारेण तासु निक्षेप्या धाराऽज्यस्य समन्ततः ॥ २६१ ॥
18.262
स्थालीभ्यः समुपाहृत्य दर्व्या हेमादिक्लृप्तया ।
तदूर्ध्वे निक्षिपेन्मौनी पायसादीन्यनुक्रमात् ॥ २६२ ॥
18.263
घृतेनाप्लाव्य मधुरव्यञ्जनानि समन्ततः ।
दधिक्षीरादिपूर्णानि चषकाण्यूर्ध्वतो न्यसेत् ॥ २६३ ॥
18.264
सिद्धान्यपूपभेदानि पृथुकादीनि यान्यपि ।
पानकानि विचित्राणि पृथक्पात्रगतानि च ॥ २६४ ॥
18.265
कर्पूरचन्दनक्षोदप्रसूनैस्चाधिवासितम् ।
शीतलं वस्त्रसञ्छन्नं पानीयं करकादिषु ॥ २६५ ॥
18.266
एकालवङ्गतक्कोलजातीपूगफलान्वितम् ।
कर्पूरतैलसंमिश्रं खण्डितं च क्षुरादिभिः ॥ २६६ ॥
18.267
नागवल्लीदलोपेतं सचूर्णं चेन्दुसंयुतम् ।
ताम्बूलं च प्रतिष्ठाप्य पात्रेष्वब्जाकृतीषु च ॥ २६७ ॥
18.268
चन्दनादीनि गन्धानि तथा नानाविधाः स्रजः ।
स्थापयित्वा यथास्थानमाराधकमुखेन तु ॥ २६८ ॥
18.269
विज्ञापयेयुर्देवस्य तत्तत्कर्माधिकारिणः ।
भोज्यासनाधिरूढस्य देवस्याराधकः स्वयम् ॥ २६९ ॥
18.270
अर्घ्याद्यैः प्राग्वदभ्यर्च्य साध्यबीजावसानिकैः ।
द्वारस्याभ्यन्तरगते देवस्य पुरतः स्थले ॥ २७० ॥
18.271
शोधिते चार्घ्यतोयेन चन्दनाद्यैश्च मण्डिते ।
मण्डले तु परिस्तीर्य तण्डुलानि यथारुचि ॥ २७१ ॥
18.272
क्षालितं वस्त्रतुण्डं तु तदूर्ध्वे संप्रसार्य च ।
अन्नाधारं प्रतिष्ठाप्य तदूर्ध्वे लोहनिर्मितम् ॥ २७२ ॥
18.273
ऊर्ध्वतो वसनावद्धं तदूर्ध्वे स्रोतसंप्लुते ।
न्त्यसेवि परमान्नादि पात्राण्येकैकशः क्रमात् ॥ २७३ ॥
18.274
तर्पणं तु प्रतिष्ठाप्य हस्तप्रक्षाऌअनाम्भसा ।
कुर्याद्दक्षकरे दैवे प्रागुपस्तरणार्हणम् ॥ २७४ ॥
18.275
ततो देवादिमूर्तीनां हवींषि विनिवेदयेत् ।
प्रथमं पायसं पश्चात् गुडान्नं मुद्गभेदितम् ॥ २७५ ॥
18.276
शुद्धान्नं तिलसंमिश्रं निशान्नं दधिमिश्रितम् ।
मिश्रान्नं च क्रमाद्दद्यादपूपानि तदन्तिमे ॥ २७६ ॥
18.277
पृथुकानि च सक्तूनि तिलपिण्डान्वितानि च ।
कदऌईपनसादीनि फलानि विविधानि च ॥ २७७ ॥
18.278
रसभेदसमेतानि पानकानि च तर्पणम् ।
नाऌइकेररसं चैव हस्तपक्षाऌइनं ततः ॥ २७८ ॥
18.279
उपस्पर्शं च ताम्बूलं दत्वा प्रागुक्तमाचरेत् ।
राजभिर्हविषो नित्यं प्राचुर्ये कल्पिते सति ॥ २७९ ॥
18.280
आधारेषु प्रतिष्ठाप्य वितते गर्ममन्दिरे ।
निवेद्यानि यथायोगमन्यश्रा संकटे भुवि ॥ २८० ॥
18.281
तदेकस्मिन् दृढाधारे वस्त्रच्छन्ने यथाक्रमम् ।
निधाय विनिवेद्याय तथातमपनीय च ॥ २८१ ॥
18.282
प्रोक्षिते चास्त्रमन्त्रेण निक्षेप्यं हविरन्तरम् ।
निवेदयेद्यथापूर्वं बिशेषोऽत्र समीरितः ॥ २८२ ॥
18.283
मन्त्रक्रियाविहीनं च गन्धदुष्टं विवर्णकम् ।
अतिपव्कमप्कं च विस्रावितजलं तथा ॥ २८३ ॥
18.284
अदीक्षितैश्च पतितैरीक्षितं प्रतिलोमजैः ।
अत्युष्णमतिशीतं च प्रमाणरहितं तथा ॥ २८४ ॥
18.285
समुद्धृतं च निःशेषं मुखवातादिदूषितम् ।
व्यञ्जनादिविहीनं चाप्यपात्रस्थमघोपितम् ॥ २८५ ॥
18.286
अन्तस्तण्डुलसंयुक्तं भिन्नभाण्डगतं तथा ।
अनाधारं परस्पृष्ठं अर्कतापहतं तथा ॥ २८६ ॥
18.287
अङ्गारतुषसंयुक्तं केशपाषाणसंयुतम् ।
कृमिलोष्ठादिभिर्जुष्टं प्राण्यङ्गादिसमन्वितम् ॥ २८७ ॥
18.288
अपूर्णपाकमाधाररहितव्ञ्जनोज्झितम् ।
गव्याज्यदधिनिर्मुक्तं काङ्क्षितं चेतरैर्जनैः ॥ २८८ ॥
18.289
अपिधानविनिर्मुक्तं देवतान्तरसंमतम् ।
एवं दुष्टं हविर्बुध्वा प्रक्षिपे ज्जलमध्यतः ॥ २८९ ॥
18.290
मोहात् त्यक्तं हविर्विष्णोः यदि दद्यात्तदर्चनम् ।
निरर्थकं स्यात् कर्तॄणां विनाशश्च भवेद् ध्रुवम् ॥ २९० ॥
18.291
तस्मात्तदैव मूलस्य सहस्रं जपमाचरेत् ।
ततस्तत्राश्रयाणां च स्थापितानां विधानतः ॥ २९१ ॥
18.292
विभवव्पूहमूर्तीनां मण्टपे गोपुरादिषु ।
स्थापितानां च मूर्तींनां प्रादुर्भावात्मनामपि ॥ २९२ ॥
18.293
पूजितानां यथान्यायं सत्यादीना खगात्मनाम् ।
कुमुदादिगणेशानां द्वार्स्थानामपि सझनि ॥ २९३ ॥
18.294
प्रतिष्ठितानां भक्तानां प्रागुक्तानां विधानतः ।
तत्तन्मन्त्रेण विधिवत्सिद्धान् च पृथक् पृथक् ॥ २९४ ॥
18.295
हवींषि पायसादीनि क्रमेण विनिवेदयेत् ।
गारुडेनैव मन्त्रेण बल्यर्थं साधयेद्धविः ॥ २९५ ॥
18.296
अन्येषां प्रणवेनैव सिद्धमन्नं निवेदयेत् ।
अग्निकार्यं हविस्साध्यं यथा मूलालयाकृतेः ॥ २९६ ॥
18.297
सर्वाण्यपूपभेदानि नाग्निकार्ये हितानि वै ।
अन्यानि पायसादीनि नित्यनैमित्तिकादिषु ॥ २९७ ॥
18.298
होतव्यानि विशेषेण फलानि विविधानि च ।
भूतानां बलिदानेषु पायसादीनि नित्यशः ॥ २९८ ॥
18.299
अपूपानि च सक्तूनि पृथुकानि फलानि च ।
तिलपिण्डसमेतानि मिश्रितान्यथवा पृथक् ॥ २९९ ॥
18.300
दातव्यानि यथान्यायं तेषां तृप्तिकरं यतः ।
तेन कूरादिभिर्ब्रह्नन् उत्सवादिषु कर्मसु ॥ ३०० ॥
18.301
तत्र तत्रोक्तविधिना बलिद्रव्याण्युपाहरेत् ।
अभावे सर्ववस्तूनां सोदकं केवलोदनम् ॥ ३०१ ॥
18.302
तण्डुलं वोदकेनैव दातव्यं मन्त्रवित्तमैः ।
इति सम्यक् समाख्यातं हषिषां साधनादिकम् ॥ ३०२ ॥
18.303
निवेदनप्रकारस्च नित्ये मूलादिमूर्तिषु ।
तथाश्रयेषु प्रासारे बाह्यतो वाऽङ्कणादिकैः ॥ ३०३ ॥
18.304
प्रासादेषु च क्लृप्तेषु स्थापितेष्वाश्रयादिषु ।
प्राकारगोपुरद्वारमम्टपेषु समन्ततः ॥ ३०४ ॥
18.305
विभवव्यूहबिम्बेषु तथाङ्गालयमूर्तिषु ।
प्रासादाभ्यन्तरस्थानां देवतानां यथार्चने ॥ ३०५ ॥
18.306
निवेदनार्थं नादद्यात् द्वारबाह्ये प्रतिष्टितम् ।
निषिद्धान्नं निवेद्यं तद् दूषितं राक्षसादिभि ॥ ३०६ ॥
18.307
देवेन प्रागनुज्ञातं रक्षसां दितिजन्मनाम् ।
अन्येषां भरणीयानां भूतानां पिशिताशिनाम् ॥ ३०७ ॥
18.308
तस्यात्तत्स्था अनादेया बलवीर्यादिशक्तयः ।
विभूत्या वाऽविभूत्या वा हविषः प्राप्तये पृथक् ॥ ३०८ ॥
18.309
पृथक्पात्रगतं सिद्धं द्वारस्यान्ते निवेशितम् ।
निवेदनीयं क्रमशः परमान्नपुरुस्सरम् ॥ ३०९ ॥
18.310
काम्ये नैमित्तिकेप्येव महतो हविषोर्चने ।
प्रासादाभ्यन्तरस्थस्य सकर्मार्चादिकस्य च ॥ ३१० ॥
18.311
आढ्यैर्द्विजातिभूपाद्यैः यथाविभवमादरात् ।
निवेदनीयं यद्येकं पात्रस्थं मूलकौतुके ॥ ३११ ॥
18.312
अन्नपूरं प्रतिष्टाप्य प्रासादाग्रस्थमण्डपे ।
मूलमूर्तिं समभ्यर्च्य कर्मार्चाभिः सशक्तिभिः ॥ ३१२ ॥
18.313
स्नापयेत् कर्मबिम्बस्थं कलशैः प्रागुदीरितैः ।
मूले प्राग्वत् पृथक्पात्रे निवेद्य च हविस्ततः ॥ ३१३ ॥
18.314
कर्मबिम्बगतं देवमानीयाग्रस्थमण्डपे ।
तस्मिन्निवेदयेन्मन्त्री मूलमूर्त्यवलोकितम् ॥ ३१४ ॥
18.315
महद्धविश्च तत्रस्थं परमान्नादिसत्कृतम् ।
मखकौतुकपूर्वासु क्रमेणाब्यर्चितासु च ॥ ३१५ ॥
18.316
निवेद्य च यथायोगं पात्रस्थानि पृथक् पृथक् ।
वत्सरोत्सवपूर्वेषु नानावैशेषिकेष्वपि ॥ ३१६ ॥
18.317
यात्रामूर्ति समानीय बाल्यतो यत्रकुत्रचित् ।
विस्तरेणार्चयित्वा तु महदन्नं निवेदयेत् ॥ ३१७ ॥
18.318
तदर्थं विधिवत् कुर्यात् स्नपनं स्नानकौतुके ।
मृगयाद्युत्सवे प्राप्ते बहिरुद्यानभूमिषु ॥ ३१८ ॥
18.319
महोदनसपर्यार्थमालयाभ्यन्तरस्थिते ।
स्नापयेद्विधिवन्मन्त्री तद्बिम्बं स्नानमण्टपे ॥ ३१९ ॥
18.320
द्वादश्यादिषु कालेषु तथा च अवणादिषु ।
वत्सरोत्सवनिष्ठेषु नानावैशेषिकेष्वपि ॥ ३२० ॥
18.321
साधनं हविषामेतत् साधारणमुदाहृतम् ।
अथोत्सबार्चामानीत्र कुत्रचिन्मण्टपादिके ॥ ३२१ ॥
18.322
यथाविधि समाराध्य बहुधा पायसादिना ।
यथालब्धेन चान्नेन प्रीणेयेद्भक्तिपूर्वकम् ॥ ३२२ ॥
18.323
विशेषमथ वक्ष्यामि महतो हविषोर्चने ।
नित्ये महाहविर्यागो न च कार्यो हितैषिभिः ॥ ३२३ ॥
18.324
वितते गर्भगेहे वा प्रासादाग्रस्थमण्टपे ।
बाह्यतः स्नपनाद्यर्थं यागार्थं वा प्रकल्पिते ॥ ३२४ ॥
18.325
प्रागुक्तेन प्रमाणेन त्वेकपात्रे समर्पितम् ।
यत्तन्महाहविः प्रोक्तं हरेः प्रीतिकरं सदा ॥ ३२५ ॥
18.326
प्रासादाभ्यन्तरे कल्प्यमुपपात्रोज्झितं हविः ।
तदन्यत्र विशेषेण विस्तृतं परिकल्पयेत् ॥ ३२६ ॥
18.327
मूलमूर्तिं पुराऽभ्यर्च्य तदर्थं मन्त्रवित्तमः ।
अभ्यर्च्यार्घ्यादिभिर्मन्त्रैः प्राग्वद्धूपान्तिमैस्ततः ॥ ३२७ ॥
18.328
तस्मात् स्नपनबिम्बस्य हृदयाम्भोरुहोदरे ।
चिच्छक्तिमवतीर्याथ तथाचोत्सवकौतुके ॥ ३२८ ॥
18.329
समभ्यर्च्य यथा पूर्वमानीय स्नानमण्टपे ।
स्नानकौतुकमासाद्य कलशैरभिषिच्य च ॥ ३२९ ॥
18.330
निवेद्य च हविः पश्चादानयेद्गर्भमन्दिरम् ।
तस्मिन् विनय्स्य तन्मन्त्रं मूलमूर्तौ नियोजयेत् ॥ ३३० ॥
18.331
यानादौ तु समारोप्य उत्सवार्चामलङ्कृताम् ।
यागार्थमण्टपे वाथ नयेदास्थानमण्टपे ॥ ३३१ ॥
18.332
हेमादिनिर्मिते तत्र वितते भद्रविष्टरे ।
समारोप्य चदेवेशं महद्भिर्भोगसञ्चयैः ॥ ३३२ ॥
18.333
प्रदक्षिणप्रणामान्तैर्मूलमन्त्रेण देशिकः ।
समाराध्यार्घ्यपुष्पाद्यैस्तोयदानपुरस्सरम् ॥ ३३३ ॥
18.334
दद्यात्तदादिनो भोगान् मात्रान्तांश्च निवेदितान् ।
निवेदनार्थं हविषां मण्टपं विस्तृतं कृतम् ॥ ३३४ ॥
18.335
वितानद्वजपूर्वैश्च यथा यवनिकापटैः ।
अलंकृतं मध्यभूमौ हविष्पूरप्रमाणतः ॥ ३३५ ॥
18.336
कुर्यात्तालोच्छ्रयां कुर्यात्तालोच्छ्रयां वेदिमुपपीठसमाकृतिम् ।
इष्टकाद्यैश्च तुर्यश्रां दृढां समतलां शुभाम् ॥ ३३६ ॥
18.337
गोमयेन समालिप्य सुधाद्यैर्वर्णकैरपि ।
पिष्टचूर्णैश्च परितः शोभयित्वा च पश्चिमे ॥ ३३७ ॥
18.338
दुकूलतूलसञ्छन्नं मसूरकसमन्वितम् ।
भोज्यासनं प्रतिष्ठाप्य नात्युच्चं नातिनीचकम् ॥ ३३८ ॥
18.339
साधितानि यथापूर्वं हविः पात्राणि पाचकाः ।
परमान्नाद्युपेतानि सोपदंशफलानि च ॥ ३३९ ॥
18.340
भक्ष्यभोज्यसमेतानि मधुरादिरसानि च ।
छत्रदीपसमोपेतभेरीपटहनिःस्वनैः ॥ ३४० ॥
18.341
शङ्खश्रृङ्गादिघोषेण दुर्जनोत्सारणोद्यतैः ।
पुरावच्छोधितेनैव यथा वै गोमयादिना ॥ ३४१ ॥
18.342
सूत्रितेन सुधाचूर्णैः पार्श्वयोरस्त्रवारिणा ।
प्रोक्षितेन पवित्रज्ञैः ततस्तस्मान्महानसात् ॥ ३४२ ॥
18.343
अनुधारापदं प्रोक्तं निनयेद्यागमण्टपम् ।
यातुवारुणमद्ये वा सोमसामीरणान्तरे ॥ ३४३ ॥
18.344
शालिव्रीहिपरिस्तीर्णे स्थले मखतरूद्भवे ।
फलके संप्रतिष्ठाप्य वस्त्रच्छन्नेऽस्त्रमन्त्रिते ॥ ३४४ ॥
18.345
ततो वेद्यां परिस्तीर्य तण्डुलाञ्छालिसंभवान् ।
कंसादि धातवो नेष्टा महोदननिवेदने ॥ ३४५ ॥
18.346
अच्छिन्नानि सुपूतानि कदल्यादिदलानि वा ।
प्रागग्राण्युदगग्राणि बहुशः क्षाऌइतानि च ॥ ३४६ ॥
18.347
निधाया च यथापूर्वमुपस्तीर्य घृतेन तु ।
पात्रेष्वन्येष्वथादाय दर्व्या मूलेन तद्धविः ॥ ३४७ ॥
18.348
मध्यगे वितते पात्रे प्रतिष्ठाप्य यथाक्रमम् ।
सुवृत्तं चतुरक्षं वा दर्व्या तं सेचयेत्ततः ॥ ३४८ ॥
18.349
संस्कृतैर्घूतपूरैश्च विद्रुतैर्वातशीतऌऐः ।
मूलमन्त्रं समुच्चार्य पुनरप्यभिघार्य च ॥ ३४९ ॥
18.350
परितो मुद्गभेदेन गुल्भाषं हृदयेन तु ।
गुडखण्डानि शिरसा खण्डचूर्णान्वितानि च ॥ ३५० ॥
18.351
उपदंशानि शिखया पाचितानि यथाविधि ।
कदलीपनसाम्राणि फलानि विविधानि च ॥ ३५१ ॥
18.352
कालपव्कानि हृद्यानि कवचं समुदीरयन् ।
घृततप्तोपदंशानि तदूर्ध्वे नेत्र मुच्चरन् ॥ ३५२ ॥
18.353
पुटीकृते तदूर्ध्वे तु वीर्यमन्त्रेण साधितम् ।
चूर्णितैःसमरीचैश्च जीरकैश्च गुऌआन्वितैः ॥ ३५३ ॥
18.354
दधिपूरं तु संपूर्य खण्डचूर्णसमन्वितम् ।
एवं प्रतिष्ठिते पूर्वमेकपात्रे महाहविः ॥ ३५४ ॥
18.355
पूरितान्युप पात्राणि परितः पायसादिभिः ।
प्राग्वद्घृतोपदंशाद्यैश्चाधारेषु निवेशयेत् ॥ ३५५ ॥
18.356
महान्नस्य तु पाश्चात्यप्रमुखासु दिशास्वपि ।
द्वन्द्वयोगेन निक्षेप्यं पायसादिकमष्टकम् ॥ ३५६ ॥
18.357
एकैकं ह्रासयेद्वाथ क्षीरान्नादिचतुष्टयम् ।
तत्तत्स्थानेषु शुद्धान्नमपूपादीनि विन्यसेत् ॥ ३५७ ॥
18.358
पायसान्नं गुडान्नं वा मुद्गान्नं केवलोदनम् ।
स्थाप्यं वा मध्यकल्पे तु पाश्चाप्यादिष्वनुक्रमात् ॥ ३५८ ॥
18.359
मुद्गान्नं मधुरं वाथ क्षीरान्नादित्रिकं तु वा ।
गुऌअपायसयोरेकं शुद्धान्नं वाथवार्पयेत् ॥ ३५९ ॥
18.360
अनुकल्पेन शुद्धान्नं भक्तिश्रद्धावशेन तु ।
यथाकल्पं तु संकल्प्य पायसादिष्वथेच्छया ॥ ३६० ॥
18.361
सुगन्धिशालिसंपन्नमभावाच्छालिसंभवम् ।
मध्यतो घृतसंपूर्णसौवर्णचषकान्वितम् ॥ ३६१ ॥
18.362
पात्रं पाश्चात्यदिङ्मध्ये व्यञ्जनादि परिष्कृतम् ।
प्रापणार्थं प्रतिष्ठाप्यमुच्चाधारोपरिस्थितम् ॥ ३६२ ॥
18.363
मध्यतः पायसद्रोणीं गुऌआन्नपरिपूरिताम् ।
प्रतिष्ठाप्याथ परितस्त्वन्यान्यूह्य प्रकल्पयेत् ॥ ३६३ ॥
18.364
पानीयं गन्धपुष्पाद्यैर्वासितं करकादिषु ।
प्रच्छादनाम्बरादिनि मण्टपस्य तु दक्षिणे ॥ ३६४ ॥
18.365
मधुपर्कं च गोमात्रा साध्यबीजानि पश्चिमे ।
ताम्बूलतिलरत्ना र्थमात्रा गन्धस्रगादयः ॥ ३६५ ॥
18.366
यागद्रव्याणि चान्यानि त्वक्षसूत्रादिकानि च ।
स्थापयित्वोत्तरस्यां च ततस्तत्कर्मकारिभिः ॥ ३६६ ॥
18.367
पूजितस्य विशेषेण देवस्य पुरतः स्थितः ।
विज्ञापयेद्देशिकेन्द्रः प्रणतः पुरुषोत्तमम् ॥ ३६७ ॥
18.368
भगवन् पुण्डरीकाक्ष सच्चिदानन्दलक्षण ।
बलवीर्यमयैर्भोगैर्नित्यतृप्तस्त्वमव्ययः ॥ ३६८ ॥
18.369
तथापि चात्मसिध्यर्थं महता हविषाऽधुना ।
भवन्तं तर्पयिष्यामि संपूर्णं तत् प्रकल्पितम् ॥ ३६९ ॥
18.370
अनुग्रहार्थं भक्तानां भोक्तुप्रासादय प्रभो ।
विज्ञाप्यैवं ततः पश्चात्प्राग्बन्नीराजयेद्विभुम् ॥ ३७० ॥
18.371
स्वर्णादिनिर्मिते याने देवमारोप्य मूर्तिपाः ।
सर्वालङ्कारसंयुक्तं नयेयुर्भोजनास्पदम् ॥ ३७१ ॥
18.372
आरोपयित्वा प्रागास्यं तत्रस्थे भोजनासने ।
अर्घ्यं पाद्यं तथाचामं प्रदद्यात् सप्रतिग्रहम् ॥ ३७२ ॥
18.373
प्रच्छादनपटं चाथ मधुपर्कं यथाविधि ।
गोमात्रां साध्यबीजानि दत्वाऽचामजलेन तु ॥ ३७३ ॥
18.374
हस्तौ प्रक्षाल्य देवस्य पानीयं चार्घ्यवारिणा ।
प्रतिष्ठाप्य समासीनः पीठे देवस्य दक्षिणे ॥ ३७४ ॥
18.375
अथार्हणजलं त्वर्घ्यादुद्धृतं विनिवेदयेत् ।
विलोक्य नेत्रमन्त्रेण पृथक् पात्रगणान्वितम् ॥ ३७५ ॥
18.376
सव्यञ्जनं सभक्ष्यं च परमान्नादिकं हविः ।
पवित्रेण समभ्युक्ष्य शतधारेण पूर्ववत् ॥ ३७६ ॥
18.377
दहनाप्यायने कृत्वा सर्वं सुरभिमुद्रया ।
ध्यात्वा तन्मन्त्रमुच्चार्य त्वमृतीकृत्य तद्गतम् ॥ ३७७ ॥
18.378
बलं वीर्यं च तेजश्च त्वर्घ्यपुष्पं समुत्क्षिपेत् ।
कवचेन च सास्त्रेण नेत्रमन्त्रेण भावयेत् ॥ ३७८ ॥
18.379
ततः स्वदक्षिणे हस्ते विज्ञानैश्वर्यशक्तयः ।
स्मर्तव्याः स्वस्वमन्त्रेण भोजकाः करणात्मकाः ॥ ३७९ ॥
18.380
तेनाथ विष्णुहस्तेन परमान्नपुरस्सरम् ।
स्पृष्ट्वा स्पृष्ट्वा यथायोगं बद्धया ग्रासमुद्रया ॥ ३८० ॥
18.381
निवेदनीया वै विष्णोरन्नमूर्त्यन्तरस्थिताः ।
रसरूपादिभेदोत्थास्तेजोवीर्यबलात्मकाः ॥ ३८१ ॥
18.382
षाड्गुण्यविग्रहस्यापि देवस्यार्चाभिमानिनः ।
प्रीणनं परमं ह्येतद्धविर्मन्त्रैः सुसंस्कृतम् ॥ ३८२ ॥
18.383
ज्ञात्वैवं शंखश्रृङ्गादिभेरीपटहनिःस्वनैः ।
घण्टारवसमेताभिर्मङ्गलाबिश्च गीतिभिः ॥ ३८३ ॥
18.384
श्रुतिस्मृतीतिहासानां भगवद्गुणशंसिनाम् ।
स्तोत्राणां च पुराणानां वैष्णवानां च निःस्वनैः ॥ ३८४ ॥
18.385
प्रदक्षिणक्रमेणैव पायसाद्युपपात्रकम् ।
प्रभूतान्नं ततः पश्चात् प्रापणान्नपुरस्सरम् ॥ ३८५ ॥
18.386
भक्ष्याण्यपूपपूर्वाणि भोज्यानि च फलानि च ।
लेह्यानि मधुपूर्वाणि चोष्याण्याम्रादिकान्यपि ॥ ३८६ ॥
18.387
पेयानि क्षीरपूर्वाणि अनुपानान्वितानि च ।
विनिवेद्य च देवाय विन्यस्तान्योदनोपरि ॥ ३८७ ॥
18.388
बलवीर्यादिसन्मन्त्रान् सवीर्यादिविवर्जितान् ।
ओमित्युपाहरेन्मन्त्री ततः संहृतिमुद्रया ॥ ३८८ ॥
18.389
पूर्णात्पूर्णमिति प्राज्ञो जप्त्वा मन्त्रं समाहितः ।
सुतृप्तं भावयेद्देवं सुतृप्तमिति चोच्चरन् ॥ ३८९ ॥
18.390
शीतलं तर्पणजलं शङ्खशुक्त्याकृतिष्वपि ।
पात्रेषु पूरितं तर्प्य चूर्णं निष्पुंसनाय च ॥ ३९० ॥
18.391
तदर्थं शाटकं चाथ हस्तप्रक्षालनं ततः ।
समाचमनतोयं च घृष्टकर्पूरभावितम् ॥ ३९१ ॥
18.392
चन्दनं करशुध्यर्थं मात्रां करसमुद्भवाम् ।
सरत्नां विनिवेद्याथ ताम्बूलं शशिभावितम् ॥ ३९२ ॥
18.393
दत्वाऽथ मूलमुद्रां तु दर्शयेन्मूलमुच्चरन् ।
जपं कृत्वा यथापूर्वमर्घ्याद्यैर्धूपपश्चिमैः ॥ ३९३ ॥
18.394
समभ्यर्च्य समाहूय गुरुपूर्वांश्च साधकान् ।
सिद्धान्तनिरतांस्चाथ पञ्चकालपरायणान् ॥ ३९४ ॥
18.395
दीक्षितांश्च यथान्यायं त्रैविद्यांस्तदभावतः ।
अर्घ्यानुलेपनाभ्यां तु स्रग्वरैर्धूपपश्चिमैः ॥ ३९५ ॥
18.396
समभ्यर्च्य ततस्तेषां दद्यादर्घ्योदकं करे ।
परितः पायसादीनि पात्रस्थानि पृथक् पृथक् ॥ ३९६ ॥
18.397
महोदनं च मध्यस्थं चतुर्धा संविभज्य च ।
प्रयच्छेदकमंशं तु कारिभ्यः श्रेयसे ततः ॥ ३९७ ॥
18.398
द्वितीयमोदनं दद्यात् सेनेशाय ततः परम् ।
तृतीयमन्नं दातव्यं सर्वेषां परिचारिणाम् ॥ ३९८ ॥
18.399
चतुर्थं वैष्णवानां च देवायतनवासिनाम् ।
आराधकप्राशनार्थं प्रापणान्नं समाचरेत् ॥ ३९९ ॥
18.400
गोमात्रां साध्यबीजानि शालिमुद्गादिकानि च ।
मात्रां च तिलरत्नोत्थां तथा चाच्छादनाम्बरम् ॥ ४०० ॥
18.401
निष्पुंसनपटं चाथ ताम्बूलं च विशेषतः ।
प्रयच्छेद्देशिकेन्द्राय नियुक्तायार्चने क्षणे ॥ ४०१ ॥
18.402
महाविभूतिर्देवेशः सर्वसङ्कल्पसिद्धिदः ।
यस्मात् प्रागात्मसात्कुर्याद्भोगशक्तिमनश्वरीम् ॥ ४०२ ॥
18.403
व्यक्तां गुर्वादिवकत्रेण भुनक्ति तदनन्तरम् ।
तस्मान्निवेदितं सर्वं वासुदेवस्य वै विभोः ॥ ४०३ ॥
18.404
प्रदद्याद् गुरुपूर्वेभ्यो नियतेभ्यः सदार्चने ।
रक्षणीयमभक्तेभ्यस्तद्दानं विष्णुयाजकैः ॥ ४०४ ॥
18.405
प्रायश्चित्ती भवेद्दाता अपात्रप्रतिपादनात् ।
प्रक्षिपेज्जलमध्ये तु विष्वक्सेननिवेदितम् ॥ ४०५ ॥
18.406
जलजानां तीरजानां जन्तूनां तृप्तयेऽथवा ।
जले किञ्चिद्विनिक्षिप्य शेषमन्नं तदग्रतः ॥ ४०६ ॥
18.407
तद्धक्तानां द्विजातीनां निरतानां स्वकर्मसु ।
एवं सन्तर्प्य देवेशं महता हविषा ततः ॥ ४०७ ॥
18.408
भोज्यासनगतं पश्चादन्यत्र शयनास्पदे ।
सुयितानपताकाढ्ये पुष्पमालाद्यलंकृते ॥ ४०८ ॥
18.409
सर्वोपकरणोपेते पर्यङ्कस्योर्ध्वतो नयेत् ।
अपनीय च माल्यानि गन्धानि वसनानि च ॥ ४०९ ॥
18.410
स्वयं किञ्चित् समादाय विष्वक्सेनस्य वै ततः ।
प्रदद्यादवशिष्टं तु पर्यङ्कस्थस्य वै विभोः ॥ ४१० ॥
18.411
अर्घ्यं पाद्याम्बुना शाटीं तथा पादानुलेपनम् ।
सप्रतिग्रहमाचामं हस्तसंमार्जनाम्बरम् ॥ ४११ ॥
18.412
दत्वा ततः सुगन्धैस्तु चन्दनाद्यैः समालभेत् ।
व्यजनैः श्रमशान्त्यर्थं संवीज्य च समन्ततः ॥ ४१२ ॥
18.413
व्कथितं च मृगस्नेहं शशिचूर्णाधिवासितम् ।
मर्दयित्वाथ देवस्य केशपाशे प्रसारिते ॥ ४१३ ॥
18.414
नानाविधैर्गन्धवद्भिः पुष्पैः संवलितान्तरम् ।
स्रग्भिर्नानाविधाभिश्च केशान् संवेष्टयेत्ततः ॥ ४१४ ॥
18.415
निवेदयेदपूपानि पृथुकानि फलानि च ।
पानकं तर्पणजलं नाऌइकेररसान्वितम् ॥ ४१५ ॥
18.416
ताम्बूलं शशिंसंयुक्तं साङ्गं विज्ञाप्य वै विभुम् ।
छत्रदीपान्वितो यायादर्घ्यभृत् पाचनालयम् ॥ ४१६ ॥
18.417
तत्र नैमित्तिके कुण्डे नित्ये वा संस्कृते पुरा ।
तथैव संस्कृते वह्नौ प्राग्वत् संतर्पिते सति ॥ ४१७ ॥
18.418
तस्मिन् ज्वाला जटाधारे हृद्गतं मन्त्रनायकम् ।
अवतीर्य समिद्भिश्च सप्तभिस्तर्पयेत्ततः ॥ ४१८ ॥
18.419
पायसाद्यैर्विशेषेण पाचितैरखिलैरपि ।
शङ्खभेरीनिनादेन घण्टारवसमन्वितम् ॥ ४१९ ॥
18.420
पूर्णाहूतिं ततो दद्यादाज्यस्याच्छिन्नधारया ।
कर्मशेषं समापाद्य दद्याच्छिष्टं चरुं गुरोः ॥ ४२० ॥
18.421
ततो देवान्तिकं प्राप्य होमकर्म समर्पयेत् ।
संविभज्य पितॄन् प्राग्वत् संप्रदानसमन्वितम् ॥ ४२१ ॥
18.422
अर्चयित्वार्घ्यगन्धाद्यैः प्राग्वत् कुर्यात् प्रदक्षिणम् ।
विज्ञाप्य यानगं कृत्वा देवमन्तः प्रवेशयेत् ॥ ४२२ ॥
18.423
स्वस्थानस्थस्य देवस्य दद्यादर्घ्यादिकत्रयम् ।
तत्र संरोधितं मन्त्रं प्राग्वन्मूले नियोजयेत् ॥ ४२३ ॥
18.424
तत्रापि पूजयेद्भोगैरर्घ्याद्यैर्धूपपश्चिमैः ।
ततो विज्ञापयेद्देवं पुष्पाञ्जलिपुरस्सरम् ॥ ४२४ ॥
18.425
पूजितोऽसि जगन्नाथ महता हविषा विभो ।
त्वदीये मयि वात्सल्यात् तृप्तो भवितुमर्हसि ॥ ४२५ ॥
18.426
इति विज्ञाप्य देवस्य चरणाम्बुरुहद्वये ।
मूलमन्त्रं समुच्चार्य प्रक्षिपेत् कुसुमाञ्जलिम् ॥ ४२६ ॥
18.427
महोदनसपर्यादौ प्राप्ते नैमित्तिकादिषु ।
पूजनादुत्सवार्चायाः पुरस्ताद्वाथ पश्चिमात् ॥ ४२७ ॥
18.428
सशक्तिकं मूलबिम्बं साङ्गं बिम्बं च साश्रयम् ।
विहगेशावृतिद्वारपालभक्तैः समन्वितम् ॥ ४२८ ॥
18.429
विमानेषु बहिष्ठेषु मण्टपे गोपुरादिषु ।
विभवव्यूहमूर्तीनां स्थापितानां विधानतः ॥ ४२९ ॥
18.430
प्राग्वत् संपूजनं कृत्वा महान्नं विनिवेदयेत् ।
मुख्यकल्पमिदं प्रोक्तं मध्यकल्पे यथाबलम् ॥ ४३० ॥
18.431
एकैकस्याढकाद्येन मानेनान्नं प्रकल्येत् ।
मूलालयगतं देवं केवलं वा समचयेत् ॥ ४३१ ॥
18.432
प्रासादस्थस्य नित्ये तु न संकल्प्यं महाहविः ।
तदर्थं बलियानं तु नाचर्तव्यं हितेच्छुना ॥ ४३२ ॥
18.433
महोदनं च स्नपने स्नपनं च महोदने ।
कर्तव्यमविनाभूतं द्वितयं मुख्यकल्पने ॥ ४३३ ॥
18.434
अनुकल्पे तदन्योन्यमेकैकेन विना कृतम् ।
प्रभूतोदनयागार्थमन्ययागार्थमेव वा ॥ ४३४ ॥
18.435
बिम्बे कस्मिंश्चिदावाह्य पूजिते तु यथाविधि ।
समारब्धे समाप्तेऽस्मिन् यागेऽकस्माद् द्विजोत्तम ॥ ४३५ ॥
18.436
अन्ये महाहविर्यागे प्राप्ते नैमित्तिकादिषु ।
दातव्यं तत्र मन्त्रज्ञैरन्यत्रोद्वासनादिकम् ॥ ४३६ ॥
18.437
तत उद्वासयेदत्र स्नपनेऽप्येवमेव हि ।
मूलबिम्बे यथा देयं मन्त्रिभिस्तु महाहविः ॥ ४३७ ॥
18.438
तृतीयावरणाद्बाह्ये तथैवाभ्यन्तरेऽपि वा ।
महोत्सवविधौ दद्यात् कुत्रचिद्वा महाहविः ॥ ४३८ ॥
18.439
महताऽनेन हविषा भक्त्या यः पूजयेद्धरिम् ।
स भुक्त्वा विपुलान् भोगानिहं लोके चिरंतनान् ॥ ४३९ ॥
18.440
कालान्तरेऽत्यये प्राप्ते प्राप्तं यात्यच्युतं पदम् ।
विशेषादभिषिक्तैश्च भूपैर्भूतहिते रतैः ॥ ४४० ॥
18.441
विधिनानेन कर्तव्यं महोदनसमर्चनम् ।
प्राप्नुवन्ति च ते शश्वत् प्रतिभूपालमण्डलम् ॥ ४४१ ॥

Begleitvortrag: Aufbau, Logik und Bestandteile einer Puja.
Kapitel 19
श्रीः ।
एकोनविंशोऽध्यायः ।
सनकः ।
19.1
मुने सिद्धान्तनिष्टस्य समाराधनकाङ्क्षिणः ।
समयाचारवैकल्ये प्रायश्चित्तमुदीरय ॥ १ ॥
19.2
शाण्डिल्यः ।
श्रृणु सम्यक् प्रवक्ष्यामि प्रायश्चित्तं मुने हितम् ।
यत् कृत्वा देशिकादीनां चतुर्णआं शुभमेधते ॥ २ ॥
19.3
अस्नात्वा विधिवन् मन्त्री नद्यादौ पूजयेद्यदि ।
स्नात्वा मूलसहस्रं तु जप्त्वा संपूजयेद्विभुम् ॥ ३ ॥
19.4
जीर्णं पर्युषितं वासो दधानो यदि पूजयेत् ।
स्नात्वा विशुद्धवासोभृन्मूलमन्त्रं जपेत्तथा ॥ ४ ॥
19.5
ध्यानहीनस्त्वनाचान्तः पवित्ररहिताङ्गुलिः ।
केशास्थिलोष्टसिरासृगस्पृश्यस्पर्शनेऽपि च ॥ ५ ॥
19.6
स्नात्वा यथापुरं पूज्य मूलमन्त्रायुतं जपेत् ।
उदक्यासूतिकाऽपेयचण्डालाद्युपवर्तकः ॥ ६ ॥
19.7
स्पृशेच्चेद्भगवद्बिम्बं स्नात्वा पूर्वं स्वयं ततः ।
पञ्चगव्येन देवेशमभिषिच्य समर्चयेत् ॥ ७ ॥
19.8
उदक्यासूतिकाद्यैश्च स्पृष्टः संस्पृश्य कौतुकम् ।
स्नात्वोत्तमेन देवेशमभिषिच्याथ शान्तये ॥ ८ ॥
19.9
हुत्वाऽथ मूलमन्त्रेण जपेच्चायुतसङ्ख्यया ।
सूतके मृतके बिम्बं स्पृशेद्वा पूजयेद्यदि ॥ ९ ॥
19.10
अधमोत्तमेन संस्नाप्य प्राग्वदधुत्वा जपेन्मनुम् ।
महापातकिभिः स्पृष्ठो विण्मूत्रापेयपैस्तथा ॥ १० ॥
19.11
पूजयेद्यदि देवेशं पुनः स्नात्वा विधानतः ।
पूर्ववत् स्नपनं कृत्वा शान्तिहोमादिकं चरेत् ॥ ११ ॥
19.12
निष्ठीवरुधिरस्वेदयुक्तो देवं स्पृशेद्यदि ।
कुशोदकेन संस्नाप्य विशेषेण यजेद्विभुम् ॥ १२ ॥
19.13
दिवा गत्वा स्त्रियं स्वीयामस्नात्वा चेत् स्पृशेद्विभुम् ।
उपोष्य पञ्चभिर्गव्यैः कुशोदैः स्नापयेद्विभुम् ॥ १३ ॥
19.14
परस्त्रीगमासक्तश्चीर्णदुश्चरितो विभुम् ।
पूजये्दवा तथा स्पृष्ठे देधबिम्वेऽभिषेचयेत् ॥ १४ ॥
19.15
मध्यमाधममार्गेण हुत्वा मन्त्रं जपेच्छतम् ।
कृमिकीटास्थिकेशादिपतङ्गनखरादिकैः ॥ १५ ॥
19.16
प्राण्यङ्गतुषभस्मादिदुष्टैः पत्रफलादिभिः ।
पुष्पैस्तोयैस्तथाप्यन्यैश्चन्दनाद्यैश्च भूषणैः ॥ १६ ॥
19.17
तथोपचारैरन्यैश्च वर्जितैरपि वस्तुभिः ।
तथा पर्युषितैः पत्रपुष्पाङ्कुरफलादिभिः ॥ १७ ॥
19.18
अस्पृश्यप्राणिभिः स्पृष्ठैस्तथा चास्पृश्यवस्तुभिः ।
चण्डालसूतिकाद्यैश्च निषादपतितादिभिः ॥ १८ ॥
19.19
संस्पृष्ठैश्च परिम्लानैः सरजोभिर्यजेद्यदि ।
जपेदष्टोत्तरशतं मूलमन्त्रमनन्यधीः ॥ १९ ॥
19.20
एतैर्दुष्टैस्तु वस्त्राद्यैर्देवं संपूजयेद्यदि ।
संस्नाप्य चाधमेनैव पूजयित्वा विधानतः ॥ २० ॥
19.21
शान्तिहोमं प्रकुर्वीत सहस्राहुतिभिः क्रमात् ।
चण्डालसूतिकोदक्याशबरापेयपायिभिः ॥ २१ ॥
19.22
संस्पृष्टे पानभक्ष्यादौ देवेशस्य निवेदिते ।
मृण्मयानि परित्यज्य क्षालयित्वेतराणि च ॥ २२ ॥
19.23
स्नात्वा कुशोदकं पीत्वा स्नापयेदधमेन तु ।
पुनः संपूज्य जुहुयान्मूलेन शतसङ्ख्यया ॥ २३ ॥
19.24
विड्वराहसृगालाभि काकश्येनखरादिभिः ।
एवमादिभिरन्यैश्च स्पृष्ठेऽन्नादौ निवेदिते ॥ २४ ॥
19.25
पूर्ववच्छान्तिरेव स्यात्ततः शुद्धं निवेदयेत् ।
परस्त्रीगमनासक्तैर्मक्ष्याभक्ष्याविवेकिभिः ॥ २५ ॥
19.26
यथेष्टाचारनिरतैरवैष्णवकुलोद्भवैः ।
पव्कं स्पृष्ठं तथा दृष्टं दुष्टं पूयासृगादिभिः ॥ २६ ॥
19.27
अमत्या चेद्धविर्देत्तं पूर्ववच्छान्तिमाचरेत् ।
शवादिदूषितान्नस्य पव्कस्य विनिवेदने ॥ २७ ॥
19.28
पूर्ववत् पूज्य देवेशं शान्तिहोमं समाचरेत् ।
त्यक्तमन्नादिकं दद्याद्यदि पूज्य पुनस्तिलैः ॥ २८ ॥
19.29
सघृतैर्जुहुयान्मन्त्री सहस्रशतसङ्ख्यया ।
तथा पर्युषितान्नस्य प्रदाने शान्तिमाचरेत् ॥ २९ ॥
19.30
त्यक्तं हविः फलं पुष्पं पवित्रान्नरसादिकम् ।
त्यजेज्जलाशये वाग्नौ भुवि वा गोष्वलोलुपः ॥ ३० ॥
19.31
मक्षिकाघुणभृङ्गाद्यैर्दष्टं दुष्टं पुरीषगैः ।
पत्रपुष्पफलाद्यन्नं त्यक्तव्यं तदधिष्ठितम् ॥ ३१ ॥
19.32
अस्त्रोदकेन संप्रोक्ष्य दद्याद्देवाय भक्तितः ।
महाहविर्विधाने तु विशेषमवधारय ॥ ३२ ॥
19.33
पचनालयमन्यत्र साधितं दीक्षितेतरैः ।
अमन्त्रसंस्कृतं चान्नमविभक्तमलक्षणम् ॥ ३३ ॥
19.34
निरीक्षितमयोग्यैश्च संपृष्ठं मक्षिकादिभिः ।
संप्रोक्ष्य चास्त्रतोयेन निवेद्यं यत्नगौरवात् ॥ ३४ ॥
19.35
सेनेशाय न दातव्यं होमं कुर्याद्यथारुचि ।
कारिभ्यः संप्रदानं च बलिदानं न कारयेत् ॥ ३५ ॥
19.36
अभ्यागतेष्वनाप्तेषु दीनानाथजनेष्वपि ।
प्रदेयमन्यथा शान्तिहोमं कुर्यादनन्यधीः ॥ ३६ ॥
19.37
बिडालभूषिकासर्पमण्डूकाद्यैश्च जन्तुभिः ।
कृमिकीटपतङ्गाद्यैर्वायसाद्यैश्च खेचरैः ॥ ३७ ॥
19.38
न देयं देवदेवाय दुष्टं स्पृष्ठं महाहविः ।
दत्ते हुत्वा च जप्त्वा च पुनर्दद्यान्महाहविः ॥ ३८ ॥
19.39
भोगमन्त्रक्रियाध्यानं मुद्राणामङ्गरूपिणाम् ।
द्वारावरणपूर्वाणां बिंबपीठादिकारिणाम् ॥ ३९ ॥
19.40
कालानामपि चान्येषां नित्यनैमित्तिकात्मनाम् ।
विपर्यासे प्रवृत्ते तु दिव्यैर्व्यापकपञ्चकैः ॥ ४० ॥
19.41
प्रत्येकं जुहुयान्मन्त्री तिलैश्चान्यैः शतं शतम् ।
समित्परिदिदर्भाणां कूर्चानां हविषायपि ॥ ४१ ॥
19.42
आज्यस्थाल्यादिपात्राणमग्नेः स्थण्डिलकुण्डयोः ।
स्त्रुक्स्रवस्य प्रणीताया अभावे लक्षणोज्झिते ॥ ४२ ॥
19.43
शान्त्यर्थं जुहुयान्मन्त्री प्राग्वद्व्यापकपञ्चकैः ।
अभावे काष्ठसमिधामाज्येन चरुणा हुनेत् ॥ ४३ ॥
19.44
समिद्भिराज्याभावे तु तिलैर्वा होममाचरेत् ।
अलाभे हविषोऽन्येषामाज्येन जुहुयात् सुधीः ॥ ४४ ॥
19.45
सर्वधाहोमकर्मार्थं तिलमाज्यं न लोपयेत् ।
तिलाज्ययोरभावे तु हवनं स्यान्निरर्थकम् ॥ ४५ ॥
19.46
शान्तिहोमं प्रकुर्वीत प्रतिष्ठायां यथोदितम् ।
वह्नौ कुण्डे स्थले चुल्यां संस्कृतेऽनुगतिं गते ॥ ४६ ॥
19.47
पुनराधाय संस्कृत्य शान्तिहोमादिकं हुनेत् ।
वह्नौ स्पृष्टे तथाऽस्पृश्यैः केशास्थिनखरैरपि ॥ ४७ ॥
19.48
यथावन्मूलमन्त्रेण जुहुयात् सर्पिषा शतम् ।
उदक्यासूतिकाद्यैश्च सन्निकृष्टेऽयुतं हुनेत् ॥ ४८ ॥
19.49
संस्पृष्टेऽन्यं समाधाय जुहुयाच्चायुतं जपेत् ।
असमिद्धे हुते वह्नौ पुनर्होमं समाचरेत् ॥ ४९ ॥
19.50
नैमित्तिकेषु काम्येषु चोत्सवेषु बिशेषतः ।
तदङ्गहुतभुग्यागं कुण्डेऽनय्स्मिन् समाचरेत् ॥ ५० ॥
19.51
शान्तिहोमं प्रकुर्वीतं कृते चेत्तद्विपर्यये ।
परिवारानमूर्तांश्च मूर्तांश्चैव यथाक्रमम् ॥ ५१ ॥
19.52
अनर्चयित्वाऽहोरात्रं जपेत्तत्र पुरोऽन्तिके ।
तन्मन्त्रांश्छतमष्टौ तु प्रत्येकं पूजनादिकम् ॥ ५२ ॥
19.53
पतने बलिवस्तूनामस्पृश्यस्पर्शनेऽपि वा ।
तथैव पात्रेऽबिमते केशलोष्टादिदूषिते ॥ ५३ ॥
19.54
तत्त्यक्त्वाऽन्येन निर्वर्त्य शान्तिहोमं समाचरेत् ।
बलिं दुष्टे न दद्याच्चेच्छान्तिहोमपुरस्सरम् ॥ ५४ ॥
19.55
बलिं दत्वा विशेषेण प्रागुक्तं मन्त्रवान् जपेत् ।
नित्योत्सवार्थबिम्बे तु यानान्निपतिते सति ॥ ५५ ॥
19.56
तदेवोद्धृत्य तद्विम्बमक्षतं स्नाप्य मन्त्रवित् ।
अधमाधममार्गेण शान्त्यर्थं जुहुयादनु ॥ ५६ ॥
19.57
तथैव च क्षतं बिम्बं समाधाय यथापुरम् ।
कृत्वा प्रातिष्ठिकं कर्म स्वस्थाने स्थापयेदनु ॥ ५७ ॥
19.58
यावत्समाधिकालं तु तावद्बिम्बान्तरेण वा ।
कूर्चेन वाऽन्यबिम्बेन कुर्यान्नित्योत्सवं हरेः ॥ ५८ ॥
19.59
अस्पृश्यैर्वाथ संस्पृष्टे बलिबिम्बेऽभिषेचयेत् ।
अधमाधमंमार्गेण शान्तिहोमपुरस्सरम् ॥ ५९ ॥
19.60
यानस्थे त्वध बिम्बे तु व्यूढेऽयोग्यजनैः स्ति ।
कुशोदकेन संप्रोक्ष्य शान्तिहोमं समाचरेत् ॥ ६० ॥
19.61
अस्पृश्यैर्यदि संस्पृष्टो बलिबिम्बस्य वाहकः ।
पञ्चगव्येन संप्रोक्ष्य शुचिनाऽन्येन वाहयेत् ॥ ६१ ॥
19.62
मुद्रामन्त्रक्रियाध्यानद्रव्याणां भोगरूपिणाम् ।
विंशेषाद्बलिकाले तु हानिरुत्पद्यते यदि ॥ ६२ ॥
19.63
जपेन्मूलसहस्रं तु मन्त्री ध्यानसमन्वितः ।
न दत्तं यदि दातव्यं फलपुष्पोदनादिकम् ॥ ६३ ॥
19.64
देवोपभुक्तं योग्याय मूलमन्त्रायुतं जपेत् ।
हुतशेषे हविश्शेषे भुक्ते योग्यजनैर्विना ॥ ६४ ॥
19.65
जपेन्मूलायुतं मन्त्री दाता किल्पिषशान्तये ।
सात्वतैः सत्वनिरतैः सदा भगवतःप्रियैः ॥ ६५ ॥
19.66
तत्तं भगवते यद्यत् तत्तत् पावनपावनम् ।
व्रह्नग्नस्य सुरापस्य स्वर्णस्तेयरतस्य च ॥ ६६ ॥
19.67
गुरुतल्परतस्यपि संयुक्तस्यापि तैः सह ।
प्राशनं सर्वपापघ्नमन्येषापपि किं पुनः ॥ ६७ ॥
19.68
तस्मात्तत् संप्रदातव्यं ज्ञानिनां मुख्यकल्पने ।
त्रैवर्णिकानां दातव्यं दीक्षितानां तु मध्यमे ॥ ६८ ॥
19.69
केवलानां तु भक्तानां त्रैविद्यानां द्विजन्मनाम् ।
प्रधादानमनुकल्पे स्यादन्यथा प्राशयेत् स्वयम् ॥ ६९ ॥
19.70
विष्वक्सेनस्य यद्दत्तं पूजान्ते मन्त्रिभिर्विभोः ।
न भोक्तव्यंविशेषेण त्यक्तव्यं भूजलादिषु ॥ ७० ॥
19.71
गोषु वा विष्णुभूतानां तृप्तये हितमिच्छताम् ।
भोक्ता किल्बिषशान्त्यर्थं व्रतं चान्द्रायणं चरेत् ॥ ७१ ॥
19.72
संकल्प्य यागं होमान्तं हवनं न कृतं यदि ।
द्विगुणं हवन कृत्वा पूर्णान्तं मन्त्रवित्तमः ॥ ७२ ॥
19.73
एकद्वित्रिचतुः पञ्चषट्कालेषु यथाक्रमम् ।
एकार्दिदिनमासर्तुवत्सरेषु तथैव च ॥ ७३ ॥
19.74
वह्निकार्येषु लुप्तेषु नित्यनैमित्तिकेष्चपि ।
द्विगुणं मिश्रितैर्होमैरधमस्नपनं चरेत् ॥ ७४ ॥
19.75
पूजालोपे प्रवक्ष्यामि प्रायश्चित्तं मुने श्रृणु ।
औपचारिकसांस्पर्शहृदयंगमरूपिणाम् ॥ ७५ ॥
19.76
परिच्युतौ च भोगानां त्रयाणां क्रमशो मुने ।
पूजान्ते सर्वबीजानि मात्रावित्तं घृतोदनम् ॥ ७६ ॥
19.77
निवेदनीयं देवस्य विशेषेज्यापुरस्सरम् ।
एककाले च दिवसे पक्षे वैशेषिकार्चनम् ॥ ७७ ॥
19.78
तत्तद्द्विगुणितैर्द्रव्यैर्बलिहोमान्तमाचरेत् ।
एकमासीयपूजाया यावद्द्वादशमासिकी ॥ ७८ ॥
19.79
तावद्द्विगुणितैर्द्रव्यैर्माससङ्ख्यार्चनेऽपि च ।
स्नपनं चापि नवकमधमाधमपूर्वकम् ॥ ७९ ॥
19.80
मुख्योत्तमावसानं तु सहस्रकलशाप्लवम् ।
संप्रोक्षणं च विध्युक्तं प्रतिष्ठां च क्रमाच्चरेत् ॥ ८० ॥
19.81
आरभ्य मासिकीं पूजां यावद्द्वादशमासिकी ।
तावदेकैकवृद्ध्या तु महता हविषा यजेत् ॥ ८१ ॥
19.82
समिद्भिः सप्तभिर्हुत्वा पुरा पश्चाद्धृताप्लुतैः ।
घृतैश्च जुहुयान्मन्त्री त्वासहस्राद्यथाबलम् ॥ ८२ ॥
19.83
तथैव च जपं कुर्यान्मूलमन्त्रस्य सादरम् ।
वलिप्रदानहीने तु हुत्वा मूलशत ततः ॥ ८३ ॥
19.84
तत्तदावरणद्वारदेवानां स्वस्वसंज्ञया ।
जुहुयात्तिलमिश्रेण घृतेनैव शतं शतम् ॥ ८४ ॥
19.85
प्रायश्चित्तं प्रवक्ष्यामि नित्यादिस्नपनेषु ते ।
गृहार्चने प्रकुर्वीत नित्यादिस्नपनं सुधीः ॥ ८५ ॥
19.86
तत्र स्नानीयतोयेन पूजार्थमभिषेचयेत् ।
वहुबेरे तु कर्मार्चां स्नापयेदग्रमण्टपे ॥ ८६ ॥
19.87
प्रासादे वितते ब्रह्नभागस्थे भद्रविष्टरे ।
स्नापयेत् स्नानकलशैः स्थापितैरग्रमण्टपे ॥ ८७ ॥
19.88
मद्याह्ने चापि सायाह्ने स्नानीयकलशोद्धृतैः ।
स्नानद्रव्यसमेतैर्वा वारिभिः प्रोक्षयेत् क्रमात् ॥ ८८ ॥
19.89
मूलबिम्बादिबिम्बानां कुर्याद्वा विनिवेदनम् ।
बहुबेरेऽभिषेकार्चां तां गृहीत्वाग्रमण्टपात् ॥ ८९ ॥
19.90
न गच्छेद्बाह्यतो मन्त्री स्नपनार्थं बहिर्गते ।
शान्तिहोमं प्रकुर्वीत तस्य दोषस्य शान्तये ॥ ९० ॥
19.91
एकबेरे बृहद्रूपे कर्मार्चामभिषेचयेत् ।
बृहद्धटैश्च बहुभिः सहस्रकलशादिभिः ॥ ९१ ॥
19.92
यदाभिषेको बाह्यस्थे मण्टपे स्नानकौतुकम् ।
संस्नाप्य विधिवन्मन्त्री महता विभवेन तु ॥ ९२ ॥
19.93
पूजयित्वोत्सवार्चायां विनिवेद्य महाहविः ।
कलशस्नपनार्थं चेन्न कुर्यादङ्कुरार्पणम् ॥ ९३ ॥
19.94
तथा प्रतिसराबन्धं मूलमन्त्रायुतं जपेत् ।
पुरस्तादङ्कुरानर्प्य बद्ध्रवा बिम्बेऽपि कौतुकम् ॥ ९४ ॥
19.95
अमत्या वा समत्या वा स्नपनं नाचरेद्यदि ।
शान्तिहोमं पुरा कृत्वा जपेदष्टोत्तरायुतम् ॥ ९५ ॥
19.96
कौतुकाङ्कुरपूर्वं तु पुनरेवाभिषेचयेत् ।
अकृत्वाङ्कुरयागं तु तथा कौतुकनन्धनम् ॥ ९६ ॥
19.97
स्नापितो यदि देवेशः स्नानं तन्निष्फलं भवेत् ।
विधिवच्चाङ्कुरावापं तथा कौतुकबन्धनम् ॥ ९७ ॥
19.98
स्नापयेद्विधिवन्मन्त्री शान्तिहोमषुरस्सरम् ।
संकल्पिते तु स्नपने त्वकृते द्विगुणं चरेत् ॥ ९८ ॥
19.99
नासादितैर्द्रव्यहीनैः स्नापितेऽप्येवमाचरेत् ।
अधिवासितकुंभस्थतोयानां पूर्वमेव तु ॥ ९९ ॥
19.100
न पर्युषितहानिः स्यान्मन्त्रन्यासैस्तथार्चनैः ।
स्थापितेष्वथ कुंभेषु हीनेषु स्थाप्य पूर्ववत् ॥ १०० ॥
19.101
जपेत् कलशदैवत्यं मन्त्रमष्टोत्तरं शतम् ।
समुद्धृतेषु कुंभेषु रिक्तेषु सुषिरादिना ॥ १०१ ॥
19.102
प्राग्वदन्यं प्रतिष्ठाप्य जपेदष्टोत्तरं शतम् ।
अस्पृश्यैश्च तथा स्पृष्ठे मार्जाराराद्यैश्च दंशिते ॥ १०२ ॥
19.103
श्वादिभिः कुक्कुटाद्यैर्वा शबराद्यैर्विजातिभिः ।
केशास्थिलोष्टसंदुष्टे पुनः कलशसञ्चये ॥ १०३ ॥
19.104
सद्द्रव्यं पूर्ववत् स्थाप्य तद्दैवत्यं जपेच्छतम् ।
दुष्टैः संस्नापिते देवे पुनरप्यभिषेचयेत् ॥ १०४ ॥
19.105
व्यापकैः पञ्चभिर्मन्त्रैः प्रत्येकं जुहुयाच्छतम् ।
पूर्ववत् कुंभदैवत्यं जपेद्ध्यानसमन्वितम् ॥ १०५ ॥
19.106
अक्रमेण समुद्धारे स्थापने द्रव्ययोजने ।
अनर्चने च मन्त्राणां जपेदष्टोत्तरं शतम् ॥ १०६ ॥
19.107
माहिषाजोष्ट्रसंभूतैः दधिक्षीरघृतादिभिः ।
स्नपनाद्देवदेवस्य मूलमन्त्रेण मन्त्रवित् ॥ १०७ ॥
19.108
समिद्भिः सप्तभिर्होमं कुर्यादष्टोत्तरं शतत् ।
गेयमङ्गऌअवादित्रस्तोत्रनृत्तादिभिर्विना ॥ १०८ ॥
19.109
वीणावेणुनिनादैश्च तथा पुण्यहवाचनैः ।
विनाबिषेचिते मूलं शतमष्टोत्तरं जपेत् ॥ १०९ ॥
19.110
बिम्बेऽभिषिच्यमाने तु पतिते स्नानविष्टरात् ।
चलिते वा विशेषेण प्रतिष्ठास्नपनं चरेत् ॥ ११० ॥
19.111
चरुणा सर्पिषा चैव प्रागुक्तैर्मूलपञ्चकैः ।
हुत्वा चाष्टोत्तरशतं तत्सङ्ख्यं च जपेत्ततः ॥ १११ ॥
19.112
प्रभापीठास्त्रवस्त्राह्गभेदभङ्गादिदूषिते ।
तत्तद्विम्बगतां शक्तिं नियोज्य ध्रुवकौतुके ॥ ११२ ॥
19.113
सन्धानं शिल्पिभिः कृत्वा सुसंस्कृत्य तदैव तु ।
शेषकर्मणि निर्वृत्ते स्नापयेदुत्तमक्रमात् ॥ ११३ ॥
19.114
तिलेन चरुणाज्येन प्रत्येकं च सहस्रशः ।
जुहुयान्मूलमन्त्रेण तेन शान्तिर्भविष्यति ॥ ११४ ॥
19.115
तदा न घटितुं शक्तिर्यदि स्याद्यत्नगौरवात् ।
शोभार्थबिम्बैः पुरतः स्थापितैः शेषमाचरेत् ॥ ११५ ॥
19.116
एवमुत्सवतीर्थार्थशयनादिषु मूर्तिषु ।
तत्तदङ्गादिसन्धानं स्थापनं योजनं पुन ॥ ११६ ॥
19.117
उक्तप्रमाणादधिके हीने स्नपनवस्तुनि ।
शरावे कलशे कूर्चे वस्त्रे कोष्टे सदस्यपि ॥ ११७ ॥
19.118
पालिकादौ तथा पीठे तोरणे चाष्टमङ्गऌए ।
द्वारमङ्गऌअकुंभेषु साधनेष्वितरेष्वपि ॥ ११८ ॥
19.119
मूलमन्त्रं जपेन्मन्त्री शतमष्टाधिकं सुधीः ।
मोक्षार्थी स्नापयेद्देवं सर्वकालं यथाविधि ॥ ११९ ॥
19.120
रिपूणां निग्रहार्थाय दिवा कुर्यात्तु सर्वदा ।
स्वर्गकामस्तु पूर्वाह्णे धर्मार्थी दिनमध्यमे ॥ १२० ॥
19.121
विनान्ते सर्वभोगार्थी प्रायश्चित्तेषु सर्वदा ।
चन्द्वसूर्योपरागे च तत्काले स्नापयेद्विभुम् ॥ १२१ ॥
19.122
संक्रान्तिषु च सूर्यस्य प्राग्वत् पश्चात्तथैव च ।
सङ्क्रान्तिकालविज्ञानान्नाड्यः षोडश षोडश ॥ १२२ ॥
19.123
तदानीं स्नापयेद्देवमनुक्रान्ते हुनेन्मनुम् ।
सहस्रकृत्वस्तदनु तत्समं जपमाचरेत् ॥ १२३ ॥
19.124
पुरस्तात् सर्वकर्मार्थमङ्कुरेष्वर्पितेष्वनु ।
रक्तेषु श्यामवर्णेषु तथा तिर्यग्गतेषु च ॥ १२४ ॥
19.125
वक्रेषु चाप्ररूढेषु दक्षिणाबिमुखेषु च ।
विधिहीनेषु चास्पृश्यस्पृष्टेष्वधिकृतैर्विना ॥ १२५ ॥
19.126
पालिकादिषु भिन्नेषु नष्टेषु पतितेषु च ।
मूषिकाद्यैश्च दष्टेषु मूलमन्त्रायुतं जपेत् ॥ १२६ ॥
19.127
पुरस्तादेकयागार्थमङ्कुरेष्वर्पितेषु च ।
असमाप्ते ततस्तस्मिन् प्राप्ते वैशेषिकान्तरे ॥ १२७ ॥
19.128
तदर्थमपि कुर्वीत पालिकास्वङ्कुरार्पणम् ।
उत्सवाद्यन्तयोर्मध्ये रक्षासूत्रविवर्जितम् ॥ १२८ ॥
19.129
बद्धप्रतिसरे बिम्बे स्नपनार्थं तु मन्त्रिणा ।
संप्राप्ते स्नपनेऽन्यस्मिन् शीर्घकर्मनिमित्ततः ॥ १२९ ॥
19.130
तदर्थं कौतुकं बध्वा स्नानकर्म समाप्य च ।
पूर्वारब्धं प्रकुर्वीत प्रायश्चित्तादनन्तरम् ॥ १३० ॥
19.131
अन्यत्र कमशः कुर्यात् पूर्वारब्धं समाप्य च ।
अन्यथा चेदिदं कर्म निष्फलं भवति द्विज ॥ १३१ ॥
19.132
तद्दोषपरिहारार्थं शान्तिहोमो जपस्तथा ।
सहस्रसङ्ख्याया युक्तो मूलमन्त्रेण मन्त्रवित् ॥ १३२ ॥
19.133
स्नपनेऽस्मिन्नतिक्रान्ते मूलमन्त्रायुतं जपेत् ।
मूषिकासर्पमण्डूकचुचुंदर्यादिजन्तुभिः ॥ १३३ ॥
19.134
स्थापिते कलशे स्पृष्टे लङ्घिते सति तं त्यजेत् ।
पुनरन्यं तथा स्थाप्य जपेन्मूलशतं गुरुः ॥ १३४ ॥
19.135
प्रायश्चित्तेष्वनुक्तेषु एवमांदिषु सत्सु च ।
मूलमंत्रायुतं चैव जपेदष्टोत्तरं गुरुः ॥ १३५ ॥
19.136
प्रायश्चित्तं प्रवक्ष्यामि महोत्सवविधौ मुने ।
गृहे प्रतिष्ठिते बिम्बे न कुर्वीत महोत्सवम् ॥ १३६ ॥
19.137
स्वतन्त्रं परतन्त्रं च दिव्याद्यायतनं द्विधा ।
पर्वताग्रे नदीतीरे तीर्थानां निकटे विभोः ॥ १३७ ॥
19.138
स्थापितस्यालयं विद्धि स्वतन्त्रमिति सत्तम ।
ग्रामाद्यङ्गतया क्लृप्तमस्वतन्त्रमितीरितम् ॥ १३८ ॥
19.139
तयोर्महोत्सवं कुर्यात् त्रयोदशविधं मुने ।
सङ्कल्प्यैकतमे तत्र प्रवृत्ते वत्सरं प्रति ॥ १३९ ॥
19.140
न तु कुर्याद्विभूत्यर्थं तस्मान्न्यूनं दिनोत्सवम् ।
अमत्या यदि कुर्वीत कुर्यादूर्ध्वं गतोत्सवम् ॥ १४० ॥
19.141
प्राक् प्रवृत्तं तु शान्त्यर्थमन्यथा स्यान्नृपक्षयः ।
प्रमाणरहिते वंशे पटे बालध्वजेऽपि च ॥ १४१ ॥
19.142
वर्णभूषणमानाद्ये दण्डे यष्टौ च दैणवे ।
फेणके चावटे पीठे प्रपायां ध्वजरज्जुनि ॥ १४२ ॥
19.143
विधिवच्छान्तिहोमं तु जपान्तं प्राग्वदाचरेत् ।
छिन्ने भिन्नेऽग्निना दब्धे नष्टे मूषिकदंशिते ॥ १४३ ॥
19.144
विण्मूत्ररुधिरापेयरेतोनिष्ठीवनादिभिः ।
दूषितं ध्वजमुत्सृज्य प्राग्वदन्यं समाहरेत् ॥ १४४ ॥
19.145
प्रतिष्ठाप्याथ दण्डाग्रं मानयित्वाधमेन तु ।
संस्नाप्य दोषशान्त्यर्थं जुहुयात् सर्पिषा शतम् ॥ १४५ ॥
19.146
स्तम्भाग्रे ध्वजवस्त्रस्य रक्षाकार्याय दीक्षितैः ।
आरोहणं न दोषोऽत्र रक्षाहेतोर्द्विजादिभिः ॥ १४६ ॥
19.147
सुजीर्णान् फेणदण्डादीन् परित्यज्य ततोऽपरान् ।
संस्कृत्य योजयेत्तत्र बध्वा तु ध्वजमञ्जसा ॥ १४७ ॥
19.148
मध्यमस्नपनान्तं तु शान्तिहोमं समाचरेत् ।
वर्षवातातपस्पर्शैः लुप्तवर्णे खगध्वजे ॥ १४८ ॥
19.149
न किंचिदप्यनिष्टं स्यात् स्तंभाग्रे यावदुत्सवम् ।
बध्वा ध्वजपटे स्तम्भे वातवेगादिहेतुभिः ॥ १४९ ॥
19.150
तमूलदेशे तु विच्छिन्ने सध्वजे पतिते सति ।
अकृत्वा ध्वजविश्लेषं स्थापयेच्छेषमञ्जसा ॥ १५० ॥
19.151
स्नपनं चोत्तमं कुर्यात् चतुः स्थानार्चनादिकम् ।
गोभूहेमयवादीनां दानं शक्त्या समाचरेत् ॥ १५१ ॥
19.152
उत्सवध्वजभङ्गेन राज्याद्भ्रष्टो भवेन्नृपः ।
तस्मात्तत्परिहारार्थं त्वरया शान्तिमाचरेत् ॥ १५२ ॥
19.153
हेतुभिर्वातवेगाद्यैर्ध्वजे निपतिते भुवि ।
क्षिप्रमुद्धृत्य तद्बध्वा स्नपनं चाधमेन तु ॥ १५३ ॥
19.154
शान्त्यर्थं जुहुयादाज्यं तिलेन शतसङ्ख्यया ।
ध्वजे निपतिते छिन्ने कुर्यात् स्नपनमुत्तमम् ॥ १५४ ॥
19.155
पुनरन्यं समुत्पाद्य बध्नीयात् संस्कृतं तथा ।
अन्यथा यदि दोषस्याद्राज्ञो राष्ट्रस्य मन्त्रिणः ॥ १५५ ॥
19.156
पक्षीशाधिष्टिते कुंभे नष्टे वा पतिते भुवि ।
स्पृष्टेऽस्पृश्यैस्तथा केशलोष्टास्थिशकृदादिभिः ॥ १५६ ॥
19.157
कुंभेऽन्यस्मिन् समारोप्य तां शक्तिं कुंभमध्यगाम् ।
जप्त्वा मूलायुतं मन्त्री शेषकर्म समाचरेत् ॥ १५७ ॥
19.158
अनुक्तानां तु सर्वेषां जपेदेवं यथाबलम् ।
देवतावाहनार्थं तु भेरीताडनकर्मणि ॥ १५८ ॥
19.159
वाद्यजातेषु सर्वेषु मृदङ्गपणवादिषु ।
न स्थापितेषु स्वस्थानेतत्पूजातविलोपने ॥ १५९ ॥
19.160
पुण्याहपाठराहित्ये तथार्वाहनगाधया ।
सगणेषु च भूतेषु सग्रहेपूत्कटादिषु ॥ १६० ॥
19.161
स्वासु दिक्षु यथान्यायमनाहुतेषु सत्सु च ।
द्वारावरणरथ्यासु ग्रामवास्तुष्वनुक्रमात् ॥ १६१ ॥
19.162
बलिप्रदानहीने तु तथा ताऌअस्वरादिषु ।
गेयनृत्तेषु हीनेषु शान्तिहोमपुरस्सरम् ॥ १६२ ॥
19.163
प्रत्येकं देवतामन्त्रमष्टधाऽवर्तयेद्बुधः ।
पुनरुत्पादयेत् सर्वं देवतावाहनादिकम् ॥ १६३ ॥
19.164
अनङ्कुरार्पणाग्रं तु प्रारभेच्च महोत्सवम् ।
पुनःप्राप्ते दिने वाथ सद्यः कृत्वाऽङ्कुरार्पणम् ॥ १६४ ॥
19.165
शान्तिहोमं प्रकुर्वीत पूर्ववच्छतसङ्ख्यया ।
तथैव तीर्थयात्रार्थं बूतरात्रादिसिद्धये ॥ १६५ ॥
19.166
परिच्युतौ तथाह्गानामङ्कुरार्पणकर्मणि ।
न कृतं चेत्तथा साङ्गं तथा कौतुकबन्धनम् ॥ १६६ ॥
19.167
कर्तव्या पूर्ववच्छान्तिर्होमेन सजपेन च ।
उत्सवार्थाधिवासेषु चतुःस्थानार्चनेऽपि च ॥ १६७ ॥
19.168
आरंभकलशस्नाने स्नानबेराभिषेचने ।
महाहयिषि होमे च दिवसेषु तथा निशि ॥ १६८ ॥
19.169
भूतादिरात्रिदेवानां बलिर्द्रव्यैर्यथोदितैः ।
हवने च तथोद्याने लीलया मृगयोत्सवे ॥ १६९ ॥
19.170
मृगयायां विशेषेण लोपः सञ्जायते यदि ।
शान्तिहोमादिकं तत्तत् कृत्वा शेषं समाचरेत् ॥ १७० ॥
19.171
अधिष्ठितेषु बिम्बेन यानेषु पतितेषु वा ।
भिन्नेष्वपि च वाहेषु प्रमादाद्यत्र कुत्रचित् ॥ १७१ ॥
19.172
यानान्तरे समारोप्य वाहने वाऽथ कौतुकम् ।
शान्तिहोमं पुरा कृत्वा जपेन्मूलसहस्रकम् ॥ १७२ ॥
19.173
गोभूहेमादिकं दद्याद्वैष्णवेभ्यो गुरोरपि ।
यानाद्वा वाहनाद्वाऽपि बिम्बे तु पतिते सति ॥ १७३ ॥
19.174
वलिबेरोक्तविधिना समाधानपुरस्सरम् ।
स्नपनं शान्तिहोमं च मन्त्रजापान्तमाचरेत् ॥ १७४ ॥
19.175
समाधौ दीर्धकालीने कुर्याच्छोभार्यकौतुके ।
शेषकर्म माहर्चायां निर्वृत्ते सन्धिकर्मणि ॥ १७५ ॥
19.176
पूर्ववत्रां प्रतिष्ठाप्य यथावच्छान्तिमाचरेत् ।
सून्येषु ग्रामनगरपत्तनादिषु चोत्सवम् ॥ १७६ ॥
19.177
बलिदानं न कुर्वीत कृते तत्रापि निष्फलम् ।
समाहिते तुग्रामादौ महाशान्तिपुरस्सरम् ॥ १७७ ॥
19.178
पुनरप्युत्सवं कुर्यात् ब्राह्नणानामनुज्ञया ।
ग्रामादावग्निना दग्धे वात्याऽसारादिदूषिते ॥ १७८ ॥
19.179
शान्तिहोमं पुरा कृत्वा पश्चादुत्सवमाचरेत् ।
स्थापिते पर्वताग्रेषु देवबिम्बे महोत्सवम् ॥ १७९ ॥
19.180
यथावकाशं कुर्वीत तत्रैव बलिपूर्वकम् ।
तदासन्नेऽग्रहारादौ शक्यं चेत् कर्तुमुत्सवम् ॥ १८० ॥
19.181
बलिप्रदानरहितं तत्र कुर्यात् परिभ्रमम् ।
देवताह्वानवेलायामाहूतानां विभोः पुरा ॥ १८१ ॥
19.182
देवासुरगणादीनां भूतानामप्यनुक्रमात् ।
उत्सवार्थबलिं दद्यान्महापीठे दिवानिशम् ॥ १८२ ॥
19.183
ध्वजार्थमङ्कुरानर्प्य ध्वजमुत्थाप्य वा तथा ।
दीक्षार्थं कौतुकं बध्वा पुरा तीर्थाघमर्षणात् ॥ १८३ ॥
19.184
देशिके व्याधिते वाऽथ मृते कार्यान्तरोद्यते ।
सूतकाद्युपघाते च शेषकर्मसमापनम् ॥ १८४ ॥
19.185
कर्तव्यं गुरुणाऽन्येन जप्त्वा मूलायुतं जपेत् ।
रिपुचोराग्निवृष्ट्यादिभयाद्विघ्ने महोत्सवे ॥ १८५ ॥
19.186
जाते दद्याद्वलिं तस्मिन्नष्टेऽप्यहनि देशिकः ।
अतीतं तु बलिं दद्याच्छान्तिहोमजपान्वितम् ॥ १८६ ॥
19.187
कुर्यादुत्सवायात्रां च विहितेऽह्नि महोत्सवम् ।
भ्रष्टायां तीर्थयात्रायामवारुह्य खगध्वजम् ॥ १८७ ॥
19.188
पूर्ववद्धजमुत्थाप्य कुर्यात्तीर्थान्तमुत्सवम् ।
प्रतिरात्रिबलिद्रव्यव्यत्यासे सर्पिषा शतम् ॥ १८८ ॥
19.189
हुत्वाऽग्नौ मूलमन्त्रेण जपेदष्टोत्तरं शतम् ।
कालेऽन्यस्मिन् बलिं दद्यात्तत्काले प्राप्तमञ्जसा ॥ १८९ ॥
19.190
व्त्यासे बलिदेवानां जपो होमश्च तादृशः ।
अङ्कुरार्पणपूर्वश्च नारब्धश्चेन्महोत्सवः ॥ १९० ॥
19.191
तथैव चाङ्कुरावापं कृत्वा मूलायुतं जपेत् ।
विशेषात् पालिकावासे रथ्यावृतिषु चोत्सवे ॥ १९१ ॥
19.192
ग्रामवास्तुषु रथ्यासु भूतानां बलिमाचरेत् ।
न चाश्रये प्रकुर्वीत राजराष्ट्रविवृद्धये ॥ १९२ ॥
19.193
दद्याद् ग्रामादिवृद्ध्यर्थं तस्मिन्नप्यालये बलिम् ।
शान्तिहोमं प्रकुर्वीत बलिदानेऽन्यथाकृते ॥ १९३ ॥
19.194
खद्योतपांसुनीहारवर्षवातातपादिभिः ।
बिम्बे महोत्सवे स्पृष्ठे सजपं होममाचरेत् ॥ १९४ ॥
19.195
प्रपामण्टपपात्राणामग्निदाहे च पूर्ववत् ।
निर्वापितेषु दीपेषु पूर्ववच्छान्तिरीरिता ॥ १९५ ॥
19.196
वस्त्रभूषणमाल्यानां हेतीनां च तथैव च ।
छत्रचामरपूर्वाणां महतां मङ्गऌआत्मनाम् ॥ १९६ ॥
19.197
ध्वजतोरणपूर्वाणां पीठानामङ्गरूपिणाम् ।
अग्निदाहे समुत्पन्ने पुनरुत्पाद्य तानपि ॥ १९७ ॥
19.198
सजपं शान्तिहोमं तु कुर्यादष्टोत्तरं शतम् ।
प्रागुक्तानां च सर्वेषां दीपानां तु विशेषतः ॥ १९८ ॥
19.199
पतने भुवि सञ्जाते मूलमन्त्रेण मन्त्रवित् ।
अष्टोत्तरसहस्रं तु हुत्वा तत्सङ्ख्यया जपेत् ॥ १९९ ॥
19.200
दिवारात्र्युत्सवं कुर्यादासूर्यास्तमयोदयात् ।
कालयोर्विपरीतश्चेदधमस्नपनं रेत् ॥ २०० ॥
19.201
तीर्थयात्रा प्रकर्तव्या सूर्यस्यास्तमयात् पुरा ।
पूर्वभागे रजन्यां वा कुर्यात् स्वव्यक्तदिव्ययोः ॥ २०१ ॥
19.202
उत्तमस्नपनं कुर्यात्तीर्थकालविपर्यये ।
द्विवारयुक्ते तीर्थर्क्षे पुरूहूतक्षणान्वितम् ॥ २०२ ॥
19.203
पुण्यं भवेत्तत्पूर्वं स्यादुभयोर्विद्यते यदि ।
देवस्योत्सवयात्रायां स्पृष्ठेऽस्पृश्यैस्तु देशिके ॥ २०३ ॥
19.204
न दोषस्तत्र विर्ज्ञयो विशेषाद्देवसन्निधौ ।
उत्सवे होमविधुरे द्विगुणं जुहुयाज्जपेत् ॥ २०४ ॥
19.205
नेत्रास्त्रसहितं मूलं प्रत्येकं शतसङ्ख्यया ।
सर्वभक्तजनैर्देवो यथाभिमुखदिङ्मुखैः ॥ २०५ ॥
19.206
स्रग्गन्धवस्त्रक्षीरान्न्नपानकापूपसत्फलैः ।
ताम्बूलैर्गन्धसंमिश्रैस्तोषणीयो यथाबलम् ॥ २०६ ॥
19.207
सुस्थितैर्वाऽसनासीनैर्देशिकैर्वाथ साधकैः ।
पूजिते सति देवेशे न दोषो भक्तिगौरवात् ॥ २०७ ॥
19.208
बिम्बे चोरादिभिर्नष्टे वर्तमाने महोत्सवे ।
बिम्बान्तरं समापाद्य प्रतिष्ठाप्य यथापुरम् ॥ २०८ ॥
19.209
महाभिषेकं हवनं जपं कृत्वा यथाविधि ।
कुर्यादुत्सवशेषं तु कर्मार्चादिषु वाऽचरेत् ॥ २०९ ॥
19.210
निशायां सर्वशान्त्यर्थी पुष्ट्यर्थी मध्यमे दिने ।
आप्यायनार्थी पूर्वाह्णे धर्मार्थी मध्यतो निशि ॥ २१० ॥
19.211
तथा रिपुक्षयार्थी च पुष्पयागं समाचरेत् ।
न च पर्युषितैः पुष्पैः परिम्लानैस्तदार्चयेत् ॥ २११ ॥
19.212
तद्दोषशानत्ये कुर्यात् स्नपनं मभ्यमं चरेत् ।
न कृते पुष्पयागेऽस्मिन् कुर्यात् स्नपनमुत्तमम् ॥ २१२ ॥
19.213
देशिकाः षट् समाख्याताः पुष्पयागे विशेषतः ।
चतुस्थानार्चनार्थं तु चत्वारः परिकीर्तिताः ॥ २१३ ॥
19.214
तथैकः स्नपनार्चायां बल्यादिषु तथेतरः ।
जलोत्थितानि पुष्पाणि त्रिरात्रोपोषितान्यपि ॥ २१४ ॥
19.215
पुष्पयागे नियुञ्जीत न दोषस्तेषु सत्तम ।
तथैव पुष्पपूजार्थं कल्हारकुसुमान्यपि ॥ २१५ ॥
19.216
तथैव दमनीपत्रं पुष्पयागे विशेषतः ।
पूर्वरात्रोपोषितैश्च दिवा संपूजयेत् प्रभुम् ॥ २१६ ॥
19.217
न पूर्वाह्णोषितैस्तद्वन्निशायां तु समर्चयेत् ।
महोत्सवान्ते स्नपने न कृते स्नापयेत्ततः ॥ २१७ ॥
19.218
अधमोत्तममार्गेण शान्त्यर्थं जुहुयात्ततः ।
तद्रात्रौ ध्वजदण्डाग्रादवरोप्य खगध्वजम् ॥ २१८ ॥
19.219
ग्रामादिवास्तुनिष्ठानां बलिं दत्वा विसर्जयेत् ।
उत्सवान्ते ध्वजे नष्टे पुरस्तादवरोहणात् ॥ २१९ ॥
19.220
प्राग्वद्ध्वजं समुत्थाप्य पुनरेवावरोहयेत् ।
एकाहो द्विबलिर्वाथ तथैकबलिरेव वा ॥ २२० ॥
19.221
बलितीर्थविहीनो वा परिभ्रमणवर्जितः ।
चतुर्भिर्बलिभिर्युक्तः त्रियहः पञ्चवासरात् ॥ २२१ ॥
19.222
पञ्चानामुपरिस्थानामानक्षत्रदिनोत्सवात् ।
द्विगुणं दिनसङ्ख्याया विहीने बलिमाचरेत् ॥ २२२ ॥
19.223
ऊनाऽधिकैश्चेद्वलिभिर्युक्तास्त्वेते महोत्सवाः ।
कर्तुः कारयितुश्चापि राज्ञो राष्ट्रस्य मन्त्रिणः ॥ २२३ ॥
19.224
दारुणा व्याधयो नित्यं भविष्यन्त्यसुखान्यपि ।
तद्दोषशान्तये कुर्यात् स्नपनं चाधमोत्तमम् ॥ २२४ ॥
19.225
वैशेषिकेषु प्राप्तेषु वर्तमाने महोत्सवे ।
द्वादश्यादिषु तत् सर्वं यथान्यायं समर्चयेत् ॥ २२५ ॥
19.226
न लोपयेत् प्रयत्नेन प्राप्तं वैशेषिकं सुधीः ।
जपेदस्त्रायुतं मन्त्री त्वकृतेषु च शान्तये ॥ २२६ ॥
19.227
प्रायश्चित्तमितो वक्ष्ये पवित्रारोहणाय ते ।
अप्रमाणे पवित्राणां कुण्डमण्डलयोरपि ॥ २२७ ॥
19.228
अस्त्रमन्त्रायुतं जप्त्वा पूजयेदस्त्रबन्धनम् ।
पत्रपुष्पफलादीनां पूरकाणां तथैव च ॥ २२८ ॥
19.229
अतीत उक्तकाले तु चातुर्मास्यस्य मध्यतः ।
मध्यमं स्नपनं कृत्वा कालेऽन्यस्मिन् तदाचरेत् ॥ २२९ ॥
19.230
कालात्यये तथान्येषु शान्तिरेवं विधीयते ।
पवित्रे केशपाषाणचर्माङ्गारनखादिभिः ॥ २३० ॥
19.231
दूषिते वह्निना दग्धे छिन्ने दष्टेऽथ भक्षिते ।
मूषिकाद्यैश्च काकाद्यैः स्पृष्ठे त्यक्त्वा तु तत् पुनः ॥ २३१ ॥
19.232
सूत्रैस्तथाविधं कृत्वा त्वधिवास्य यथापुरम् ।
उत्तमं स्नपनं कृत्वा समारोप्य पवित्रकम् ॥ २३२ ॥
19.233
शान्त्यर्थं जुहुयान्मन्त्री मधुक्षीरादिभिः क्रमात् ।
अष्टोत्तरं शतं मूलमन्त्रादि च तथा जपेत् ॥ २३३ ॥
19.234
अस्पृश्यैरपि संस्पृष्टममत्यारोपितं यदि ।
पुनरन्यं समारोप्य पूर्ववच्छान्तिमाचरेत् ॥ २३४ ॥
19.235
स्थापितं पूजितं कुंभमस्पृश्यः संस्पृशेद्यदि ।
कुंभान्तरे समावाह्य जपेन्भूलसहस्रकम् ॥ २३५ ॥
19.236
कुंभभेदे तथा स्थाप्य मूलमन्त्रायुतं जपेत् ।
अत्र बिम्बस्य पतने भेदे च्छेदे यथापुरम् ॥ २३६ ॥
19.237
समाधानादिकं कृत्वा स्थाप्य शान्तिं समाचरेत् ।
पवित्रैरक्रमेणैव पूजयेद्यदि देशिकः ॥ २३७ ॥
19.238
शान्तिहोमं पुरा कृत्वा मूलमन्त्रं शतं जपेत् ।
मुहूर्ते समतिक्रान्ते शुभे यजनविस्तरात् ॥ २३८ ॥
19.239
तदन्यस्मिन् समारोप्य कृत्वा स्नपनमुत्तमम् ।
स्थापिते बहुबेरे तु दिव्याद्यायतनेषु च ॥ २३९ ॥
19.240
मुख्यकल्पविधाने तु पवित्रारोहकर्मणि ।
देशिका बहवः प्रोक्ताः ध्यानमन्त्रक्रियान्विताः ॥ २४० ॥
19.241
तेष्वेकः कुंभपूजायामितरो मण्डलार्चने ।
अर्चायामितरो विद्वानितरः पावकार्चने ॥ २४१ ॥
19.242
मूलालये तथैकश्च अन्यः शोभाश्रयार्चने ।
गरुडस्यार्चने त्वन्यो विष्वक्सेनार्चने परः ॥ २४२ ॥
19.243
तथैकः स्नानबेरे स्याद्बलिदाने तथा परः ।
नित्याग्निहवने त्वन्यो महोदनविधौ परः ॥ २४३ ॥
19.244
अष्टभिर्वा समारोप्यं कर्मलाघवमीक्ष्य च ।
तत्र तत्र च तैः कार्यं पवित्रारोहणं परम् ॥ २४४ ॥
19.245
एकाहमुत्सवं कृत्वा तस्मिन्नहनि पूर्ववत् ।
तीर्थयात्रां प्रकुर्वीत तदन्यस्मिन् दिने दिवा ॥ २४५ ॥
19.246
द्विरात्रौ प्राग्दिनादौ वा कुर्यात्तीर्थाघमर्षणम् ।
द्वितीयादौ चतुर्थाहराचरेत् त्रियहोत्सवम् ॥ २४६ ॥
19.247
प्रधानदिनमारब्य सप्ताहो वा महोत्सवः ।
तयोरन्तेऽपि कर्तव्या तीर्थयात्रा यथापुरम् ॥ २४७ ॥
19.248
एवं तीर्थान्तिमाः कल्प्याः पवित्रारोहणक्रियाः ।
न कृता तीर्थयात्रा चेन्निष्कृतिः स्नपनोत्तमम् ॥ २४८ ॥
19.249
अङ्क्रार्पणपूर्वं तु प्रारभ्यात् प्राग्वदुत्सवम् ।
तत्तीर्थदिनयामिन्यां पवित्राणां विसर्जनम् ॥ २४९ ॥
19.250
कृत्वा गुरोः प्रदातव्यं पाञ्चरात्रार्थकोविदैः ।
तदभावात्तदन्येषा माचार्थाणां यथाक्रमम् ॥ २५० ॥
19.251
समर्पणीयमन्येषामयोग्यानां नियोजनात् ।
पुनर्निवेद्य विधिवत् पवित्राणि प्रदाय च ॥ २५१ ॥
19.252
मध्यमं स्नपनं कृत्वा शान्तिहोमं समाचरेत् ।
प्रक्लृप्ते वा यथापूर्वं चातुर्मास्ये विधानतः ॥ २५२ ॥
19.253
मुख्यमध्याधमे चैव प्रागुक्तेषु दिनेषु च ।
न कल्पिते तथैकस्मिन् चान्द्रायणपुरस्सरम् ॥ २५३ ॥
19.254
तदनन्तरसंप्राप्ते दिवसे प्रारभेच्च तत् ।
तदाद्यमष्टपक्षं च विधिवन्नियतो भवेत् ॥ २५४ ॥
19.255
चातुर्मास्यं तु संकल्प्य वर्तमाने व्रतोत्तमे ।
विच्छिन्ने सति मध्येऽस्य पारतन्त्र्यादिहेतुना ॥ २५५ ॥
19.256
कालान्तरे च संकल्प्य कार्यश्चान्द्रायणादिकः ।
काले तस्मिन् प्रकुर्वीत यथावच्छयनादिकम् ॥ २५६ ॥
19.257
तद्य्वत्यये विलोपे च चतुः स्थानार्चनादिकम् ।
जप्त्वा मूलायुतं मन्त्री शान्त्यर्थं जुहुयात्तदा ॥ २५७ ॥
19.258
नृसिंहकपिलक्रोडहयहंसादिरूपिणाम् ।
तथा वक्त्रविशिष्टानां शक्तीशस्य विशेषतः ॥ २५८ ॥
19.259
तथा च जामदग्न्यस्य विश्वरूपस्य वै प्रभोः ।
पारिजातहरस्यापि तथा कल्क्यात्मनो हरेः ॥ २५९ ॥
19.260
शयनं न तु कुर्वीत प्रासादेषु स्थिरस्थितौ ।
सौम्यरूपं समासाद्य कौतुकं कामनावशात् ॥ २६० ॥
19.261
तदर्थं शाययेद्वाथ चातुर्मास्ये विधानतः ।
उत्थापिते तु देवेशे चतुःस्थानेऽर्चिते सति ॥ २६१ ॥
19.262
वस्त्राभरणमाल्याद्यैर्यथाशोभमलंकृतम् ।
विहगेशे प्रतिष्ठाप्य उत्सवार्चागतं विभुम् ॥ २६२ ॥
19.263
अशेषभुवनग्रामं विधिना दोषशान्तये ।
महोत्सवोक्तविधिना परिभ्राम्य विशेषतः ॥ २६३ ॥
19.264
एकरात्रादियोगेन प्रागुक्तविधिना ततः ।
कुर्यादवभृथं स्नानं नदीतीरादिषु प्रभोः ॥ २६४ ॥
19.265
अनुकल्पे विधानं तद्विना तीर्थाघमर्षणम् ।
मध्ये सूर्यस्य सङ्क्रान्त्योर्दर्शद्वयसमन्वितः ॥ २६५ ॥
19.266
तद्वद्दर्शवियुक्तश्च मलमास इतीरितः ।
चातुर्मास्योऽयमग्राह्यः सदारंभावसानयोः ॥ २६६ ॥
19.267
दिनत्रये तु प्रागुक्ते प्रारब्धे सति मध्ययोः ।
मलमासस्य सङ्गत्या कदाचिच्च न दोषतः ॥ २६७ ॥
19.268
अधिके मासि सर्वत्र तथाऽस्ते गुरुशुक्रयोः ।
औत्सवः प्रथमारंभः न कार्यो हितमिच्छता ॥ २६८ ॥
19.269
स्वयंव्यक्तालयाद्येषु तीर्थेषु गिरिमूर्धनि ।
नदीतीरेषु रम्येषु वनेषूपवनेषु च ॥ २६९ ॥
19.270
गोष्ठेषु मुनिमुख्यानामाश्रमेषु हरेः पुनः ।
सह्कल्प्य नियतं वासमभीष्टव्रतसिद्धये ॥ २७० ॥
19.271
नेतव्यं देशिकेन्द्राद्यैस्तथा मासचतुष्टयम् ।
नदीनगादितरणं नाचर्तव्यं कदाचन ॥ २७१ ॥
19.272
नद्यादिव्यवधानेऽपि दिव्यमायतनं प्रति ।
गन्तव्यं योजनादर्वाक् शुभयात्राधिकारिभिः ॥ २७२ ॥
19.273
विशेषेण द्विषटकार्णपूर्वैर्व्यापकपञ्चकैः ।
सदाराधननिष्ठानां पञ्चकालरतात्मनाम् ॥ २७३ ॥
19.274
दिव्य क्षेत्राभिगमनं न खण्डयति तद्द्वतम् ।
सूतकं मृतकं नैव कालेऽस्मिन् नियतात्मनाम् ॥ २७४ ॥
19.275
प्राणिहिंसा न कर्तव्या द्रुमविच्छेदनं तथा ।
नदीकेदारकूलानां भेदनं सस्यशोषणम् ॥ २७५ ॥
19.276
देवतायतनादीनां पीडनं तन्निवासिनाम् ।
वापीकूपतटाकानां पूरणं मृच्छिलादिभिः ॥ २७६ ॥
19.277
बन्धनं च द्विजातीनां सहवासं विजातिभिः ।
संभाषणं तथा तेभ्यो मात्रा वित्रपरिग्रहम् ॥ २७७ ॥
19.278
तस्मिन् काले विशेषेण वर्जयेद् बिद्धिमान्नरः ।
य एवं कुरुते तस्य प्रायश्चित्तैर्न निष्कृतिः ॥ २७८ ॥
19.279
कदाचिज्जायते वाऽथ नानाधर्मप्रतिष्ठया ।
स्थापनं वासुदेवस्य तेषु मुख्यं प्रकीर्तितम् ॥ २७९ ॥
19.280
एकान्तिद्विजमुख्यानां स्थापनं मध्यमं भवेत् ।
अन्येषामपि सर्वेषां प्रतिष्ठा चरमा भवेत् ॥ २८० ॥
19.281
प्रतिष्ठायां प्रवक्ष्यामि प्रायश्चित्तं यथाक्रमम् ।
क्ष्माशिलातरुसल्लोहपूर्वाणां तु परिग्रहे ॥ २८१ ॥
19.282
तत्तदह्गेयथोदीर्णद्रव्यमन्त्रक्रियादिषु ।
परिच्युतेषु तद्भूयः शान्तिहोमजपादिकम् ॥ २८२ ॥
19.283
समाचरेद्यथा शास्त्रमन्यथा निष्फलं तु तत् ।
अकृते सति सर्वस्मिन् वास्तुदेशपरिग्रहे ॥ २८३ ॥
19.284
आनीतस्यालयक्षेत्रे शिल्पिभिः सत्क्रियां विना ।
यथावदाचरेद्विद्वानर्चाद्रव्यस्य संग्रहम् ॥ २८४ ॥
19.285
मृद्दारुवसनादीनामेवमेव समाचरेत् ।
अन्यालयार्थमानीतां शिलामर्चां सुनिर्मिताम् ॥ २८५ ॥
19.286
सर्वावयवसंपन्नं स्थापने तु विऌअम्बिताम् ।
न्यायेनादाय तामर्चां स्थापयेत् सिद्धसझनि ॥ २८६ ॥
19.287
प्राग्वदन्यां समापाद्य स्थापयेत् प्राक् प्रकल्पिते ।
निर्मितां प्रतिमां शीघ्रं स्वगृहे न निवेशिताम् ॥ २८७ ॥
19.288
राज्ञो राष्ट्रस्य तत्कर्तुररिष्टमुपपादयेत् ।
एकविंशद्दिनादूर्ध्वमासुरी सा भवेद्धुवम् ॥ २८८ ॥
19.289
कृत्वा महाभिषेकाद्यं स्थापयेदन्यथा त्यजेत् ।
प्रमाणरहिते बिम्बे पीठशस्त्रप्रभादिके ॥ २८९ ॥
19.290
वस्त्रे वा भूषणे वाऽथ शमीपत्रसमन्वितम् ।
घृतसिक्तैश्च बहुशः सतिलैः शालितण्डुलैः ॥ २९० ॥
19.291
जुहुयात् पञ्चभिर्मन्त्रैः प्रत्येकं शतसङ्ख्यया ।
जलाधिवासस्नपने तथा नयनमोक्षणे ॥ २९१ ॥
19.292
शयने वेदिकायां च मन्त्रन्यासादिकर्मसु ।
कुंभमण्डलपूजायां द्वारतोरणकुंभयोः ॥ २९२ ॥
19.293
अयथाकरणे नूनं पूर्ववच्छान्तिरिष्यते ।
अस्थाने स्थापिते बिम्बे पादाधारशिलान्वितम् ॥ २९३ ॥
19.294
तदानीमेव चोद्धृत्य स्थापयेत्तं स्वके पदे ।
मध्यमस्नपनं कृत्वा शान्तिहोमं समाचरेत् ॥ २९४ ॥
19.295
न स्थापिते मुहूर्तेऽस्मिन्न तदा बिम्बमुद्धरेत् ।
पूर्ववत् स्नपने होमे कृते शान्तिर्भविष्यति ॥ २९५ ॥
19.296
स्थापनेऽधिकृते मुख्ये देशिके व्याधिते सति ।
न्यस्तदेहेऽथवा मध्ये वर्तमाने क्रियाक्रमे ॥ २९६ ॥
19.297
क्रियामन्त्रोपदेष्टा च प्रतिष्ठाकर्मणि स्थितः ।
पुत्रो वा देशिकेन्द्रस्य स्थापने शेषमाचरेत् ॥ २९७ ॥
19.298
अन्ते सहस्रकलशैरभिषिच्य सुरेश्वरम् ।
चक्राम्बुरुहकुण्डे तु मधुक्षीरादिभिः क्रमात् ॥ २९८ ॥
19.299
शान्त्यर्थमयुतं हुत्वा तत्सङ्ख्यं जपमाचरेत् ।
ब्राह्नणैः क्षत्रियैर्वैश्यैः शूद्रैर्वा भगवन्मयैः ॥ २९९ ॥
19.300
सकामैरथ निष्कामैर्मन्त्राराधनतत्परैः ।
साधकैर्भगवद्बिम्बस्थापनार्थं सदैव हि ॥ ३०० ॥
19.301
पुरा प्रसाबनीयश्च प्रार्थनापूर्वकं तु वा ।
अधिकारपदस्थश्च द्विजेन्द्रः पाञ्चरात्रिकः ॥ ३०१ ॥
19.302
वेत्ता यो व्यूहपूर्वस्य व्यक्तस्य परमात्मनः ।
सोऽन्येषां भगवद्बिम्बस्थापनेऽधिकृतः सदा ॥ ३०२ ॥
19.303
अनुग्रहप्रतिष्ठा चाप्यधिकारनिरूपणा ।
अनन्यैरुपपन्नानां भक्तानां कार्यमुच्यते ॥ ३०३ ॥
19.304
अनन्याः पञ्चकालज्ञा व्यतिरिक्ता न ये प्रभोः ।
प्राक् सृष्टास्तन्मुखोद्भूताः द्विषट्काध्यात्मचिन्तकाः ॥ ३०४ ॥
19.305
चातुर्व्यूहपरत्वेन येषां वै प्रभवाप्ययौ ।
कर्मणामपि सन्न्यासं कुर्वन्त्यध्यक्षतः क्रमात् ॥ ३०५ ॥
19.306
अतोऽमी दुर्लभतराः पारम्यं यस्य तं प्रति ।
प्रमेयनिष्ठा श्रद्धा वा स्फुटास्तत्कर्मणि स्थिताः ॥ ३०६ ॥
19.307
परत्वमन्यमार्गस्था नेच्छन्ति च परस्परम् ।
य इच्छन्ति विभोस्तेषां स्थितिर्नास्ति तथा कृतौ ॥ ३०७ ॥
19.308
मुक्ताधिकारिणं तं वै लब्धलक्षमकृत्रिमम् ।
पञ्चकालरतं सिद्धं तन्त्रसिद्धान्तपारगम् ॥ ३०८ ॥
19.309
तेनैव श्रुतिमन्त्राणां स्थूलानामपि चोदना ।
प्रतिकर्मणि वै कार्या यथावसरलक्षणा ॥ ३०९ ॥
19.310
यस्मादब्जसमुद्भूतमण्डलादिषु वृत्तिषु ।
स्वार्थतो वा परार्थेन सदाराधनकर्मणि ॥ ३१० ॥
19.311
नित्यसिद्धे तदाकारे तत्परत्वेऽपि सन्ततम् ।
यस्यास्ति सक्तिर्हृदये तस्यासौ सन्निधिं व्रजेत् ॥ ३११ ॥
19.312
मन्त्ररूपी जगन्नाथः परमात्माच्युतः प्रभुः ।
अत्यौत्सुक्यं विना विप्र मनसः प्रीतये त्वपि ॥ ३१२ ॥
19.313
कामाप्तये वा कीर्त्यर्थं तस्य तद्विहितं द्विज ।
सध्यानेन प्रतिष्ठानं प्रासादे स्वगृहेऽपि वा ॥ ३१३ ॥
19.314
इति सम्यक् समाख्यातं मुख्यकल्पं महामते ।
अनुकल्पं यदत्रान्यत् तत्समासान्निबोध तु ॥ ३१४ ॥
19.315
प्राक् प्राप्तदीक्षितैर्विधिवत् त्रयीधर्मस्थितैर्द्विजैः ।
नित्याराधनसक्तैस्तु भक्तैर्भगवतो विभोः ॥ ३१५ ॥
19.316
धारणाध्यानपूर्वाणां लब्धलक्षैस्तु कर्मणाम् ।
मन्त्रमण्डलमुद्रास्त्रकुण्डादीनां कृतश्रमैः ॥ ३१६ ॥
19.317
षडध्वव्याप्तिनिष्ठैस्तु त्यागशीलैरमत्सरैः ।
अनुज्झितक्रमैर्दक्षैः स्वकर्मपरिपालकैः ॥ ३१७ ॥
19.318
सत्कीर्तिप्रथितैर्लोके तथाऽकीर्तिबलिप्कृतैः ।
प्रतिष्ठां लभते कर्ता तैः प्रतिष्ठापने कृते ॥ ३१८ ॥
19.319
निषिद्धमरविन्दाक्षे अतोऽन्येषां हि सर्वदा ।
महामहं प्रतिष्ठाख्यं कर्तुर्व्यामिश्रयाजिनाम् ॥ ३१९ ॥
19.320
ये पुनर्लोकधर्मस्थाः समबुद्धिपदे स्थिताः ।
भगवत्यविशेषज्ञा नित्यं कार्यवशेन तु ॥ ३२० ॥
19.321
वाङ्भात्रेण परत्वं वै सर्वेषां प्रवदन्ति वै ।
अधिकारं विना येऽत्र प्रेरिता देवतार्चने ॥ ३२१ ॥
19.322
व्यामिश्रयाजिनस्ते वै पातित्यपदसंस्थिताः ।
नयन्ति नरकं नूनमेवमेव प्रवर्तिनः ॥ ३२२ ॥
19.323
न तु सद्भक्तिपूतानां वासुदेवरतात्मनाम् ।
कदाचित्तत्कृते दोषं विदधाति च खण्डना ॥ ३२३ ॥
19.324
अतस्तावन्महाबुद्धे कर्तव्यं भक्तिपूर्वकम् ।
भक्त्या वै मन्त्रनिष्ठानां तन्मन्त्रो जपकर्मणि ॥ ३२४ ॥
19.325
वर्णव्यत्ययमापन्नो लुप्तस्तेन स्वरेण वा ।
स्वरादिनाधिकश्चैव मन्त्रोऽनर्थप्रदः सदा ॥ ३२५ ॥
19.326
अचिरात्तत्प्रयोक्तॄणां तथापि कमलोद्भव ।
अतिभक्तिप्रभावाच्च वाञ्झितं संप्रयच्छति ॥ ३२६ ॥
19.327
यस्मात् सद्भक्तिपूतानां प्रपन्नानां क्रमं विना ।
प्रसादमेति मन्त्रेशस्त्वचिराद्भावितात्मनाम् ॥ ३२७ ॥
19.328
किं पुनर्वै क्रियाज्ञानसंपूर्णानां द्विजोत्तम ।
श्रद्धाभक्तिपराणां च बोधितानां च देशिकैः ॥ ३२८ ॥
19.329
तस्मात् सर्वप्रयत्नेन शासनेऽस्मिन्महामते ।
कार्यं दीक्षादिकं सर्वं भक्तानां भक्तवत्सले ॥ ३२९ ॥
19.330
मामसंप्रतिपन्नोऽपिं मत्प्राप्त्यर्थं करोति च ।
मन्दमध्यमभक्तानां कामभोगरतात्मनाम् ॥ ३३० ॥
19.331
भविनां मामकीं दीक्षां मोहाद्वा स्थापनादिकम् ।
स नयत्यचिरात्तस्य भक्तिर्वीजेन वै सह ॥ ३३१ ॥
19.332
समन्त्रं कर्मतन्त्रं च सिद्धयस्च पराह्मुखम् ।
इहैव शीघ्रं विप्रेन्द्र देहान्ते गतसन्ततिः ॥ ३३२ ॥
19.333
घोरं प्रयाति नरकं भुक्त्वैवं दुष्कृतं महत् ।
भगवन्मन्त्रमाहात्म्यात्तद्व्यापारवशात्तु वै ॥ ३३३ ॥
19.334
संसर्गोत्थमघं याति प्राक् संस्कारवशात् पुनः ।
चीर्णदुश्चरितो भूयः प्राप्रुयान्मानुषीं तनुम् ॥ ३३४ ॥
19.335
प्रयत्नमाचरेच्छुभ्रं येन शान्तिमवाप्नुयात् ।
साहङ्कारः स आचाय स्वभक्तो नाधिकार्यपि ॥ ३३५ ॥
19.336
प्राप्नोति नूनं स्वगतिं स्वकामो नारकीं तथा ।
सर्वगस्त्वपि मन्त्रात्मा सर्वानुग्रहकृदद्विजः ॥ ३३६ ॥
19.337
यद्यप्येवं हितं तत्र न भजेत्तत्र सन्निधिम् ।
प्रतिमामध्यदेहान्तं नूनमावाह्य तत्क्षणात् ॥ ३३७ ॥
19.338
भूतवेताऌअयक्षाद्याः कुर्वन्त्यर्थादिकक्षयम् ।
अन्यद्रशनसंस्था ये नानुग्राह्यास्ततो मुने ॥ ३३८ ॥
19.339
नोपास्यो हि तथाचार्यः संसारभयभीरुणा ।
सम्यग्भक्तिपरेणैव डम्भरागोज्झितेन च ॥ ३३९ ॥
19.340
अत एव महाबुद्धे प्रतिष्ठाख्यं मखोत्तमम् ।
निर्वर्तनीयमामूलाद्वैष्णवानां च वैष्णवैः ॥ ३४० ॥
19.341
एवं द्रव्यमयो यत्र सन्निवेशो मुनीश्वर ।
उभयानुग्रहं नित्यं करुणाभक्तिलक्षणम् ॥ ३४१ ॥
19.342
प्रतिष्ठाख्यं हि तत् कर्मभुक्तिमुक्तिफलप्रदम् ।
तच्च सद्ब्रह्ननिष्ठानां द्विजानामात्मसिद्धये ॥ ३४२ ॥
19.343
कर्तव्यत्वेन वै नित्यं प्रसिद्धममलेक्षण ।
तद्दोषाच्च यतस्तेषां विस्तारो हि न विद्यते ॥ ३४३ ॥
19.344
देहपातादृते नान्यः तत्पातस्त्वतिदोषकृत् ।
आदावेव हितत्तस्मान्नाचर्तव्यं कृतात्मभिः ॥ ३४४ ॥
19.345
तत्कर्मप्रतिपन्नानां चतुर्णआमपि तैः सदा ।
कार्यं सम्यक् प्रतिष्ठानमनुग्रहधिया मुने ॥ ३४५ ॥
19.346
नोपरोधः स्वभावेन न लोभेन न नामतः ।
प्राप्ते ह्याकस्मिके दोषे त्वङ्गभङ्गादिके मुने ॥ ३४६ ॥
19.347
भक्तानामनुकंपार्थं दिव्यैर्मन्त्रैर्बलादिकैः ।
द्वादशाक्षरपूर्वैश्च मोक्षैकफललक्षणैः ॥ ३४७ ॥
19.348
संपूजिते तु तैर्भक्तैः कुरुते निष्कृतिं सदा ।
सर्वनाशेन बिम्बानामङ्गमात्रोपकल्पना ॥ ३४८ ॥
19.349
तत्तत्कर्तव्यमुद्दिश्य विशेषः प्रागुदीरितः ।
तथापि विस्तरेणात्र विधानमवधारय ॥ ३४९ ॥
19.350
देवसिद्धमुनीन्द्राद्यैरेवंसंस्थापिते सति ।
बिम्बे चोरादिभिर्नष्टे सद्यः संपाद्य पूर्ववत् ॥ ३५० ॥
19.351
स्थापयेद्विधिवन्मन्त्री रात्रावहनि सन्ध्ययोः ।
न कालोऽत्र परिज्ञेयो नष्टोद्धारे विशेषतः ॥ ३५१ ॥
19.352
बालालये तु प्रथमे जीर्णोद्धारे तथान्तिमे ।
प्रायस्चित्तं प्रवक्ष्यामि मुने सम्यक् श्रृणुष्व मे ॥ ३५२ ॥
19.353
अतीते प्रार्थिते काले कर्त्रा प्रासादबेरयोः ।
निर्माणे स्नपनं कार्यमुत्तमं शास्त्रयोदितम् ॥ ३५३ ॥
19.354
पश्चादप्यर्थयेत् कालं वाञ्छितं तत्समापने ।
न कृत्वैवं गते पश्चात् काले द्वादशवार्षिके ॥ ३५४ ॥
19.355
पुनः प्रतिष्ठां कुर्वीत मूले बालालये तु वा ।
बिम्बे चोरादिभिर्नष्टे बालगेहे प्रमादतः ॥ ३५५ ॥
19.356
तथैवापाद्य तामर्चां प्रतिष्ठाप्य यताविधि ।
अधमस्नपनं कृत्वा शान्तिहोमं समाचरेत् ॥ ३५६ ॥
19.357
स्वस्थानाच्चलिते तस्मिन् हेतुना येन केनचित् ।
यथापूर्वं प्रतिष्ठाप्य स्नापयेत्पुरुषोत्तमम् ॥ ३५७ ॥
19.358
सर्वं बालगृहे कार्यं नित्यनैमित्तिकात्मकम् ।
एकबेरविधानेन पवित्रारोहपश्चिमम् ॥ ३५८ ॥
19.359
स्तेनैर्नष्टे तथा विम्बे तत्तद्द्रव्येण पूर्ववत् ।
निर्माय लक्षणोपेतं प्रतिष्ठाप्य तथैव तु ॥ ३५९ ॥
19.360
पूर्ववत् पूजयेन्मन्त्री बिम्बं सर्वत्र सर्वदा ।
द्रव्यान्तरेण वा कुर्याद्देशिको यागसिद्धये ॥ ३६० ॥
19.361
चोरैरपहृतं बिम्बं पुनः प्राप्तं यदि द्विज ।
पुनः प्रतिष्ठां कुर्वीत नयनोन्मीलनं विना ॥ ३६१ ॥
19.362
चोरभूतैर्द्विजैः स्पृष्टे अधमस्नपनं चरेत् ।
उत्तमस्नपनं कुर्यात् प्रवेशे गर्भवेश्मनि ॥ ३६२ ॥
19.363
चिरोषिते तु संस्पृष्टे प्रतिष्ठां पुनरारभेत् ।
श्वसृगालबिडालाद्यैः प्रविष्टे गर्भवेश्मनि ॥ ३६३ ॥
19.364
अधमस्नपनेनैव शान्तिहोमं समाचरेत् ।
अधिष्ठितेङ्कणे चैतैः शान्त्यर्थं जुहुयाच्छतम् ॥ ३६४ ॥
19.365
एतैर्बिम्बे तु संस्पृष्टे स्नापयेन्मद्यमोत्तमम् ।
स्पृष्टे तु पक्षिभिः कैश्चिद्दोष आयतने भवेत् ॥ ३६५ ॥
19.366
काककुक्कुटगृध्राद्यैः स्पृष्टे बिम्बे प्रमादतः ।
पूर्ववत् स्नपनं कृत्वा शान्तिहोमं समाचरेत् ॥ ३६६ ॥
19.367
खद्योताद्यैस्तु संस्पृष्टे अधमस्नपनं चरेत् ।
न भृङ्गमक्षिकाद्यैस्तु स्पृष्टे दोषो भवेद्ध्रुवम् ॥ ३६७ ॥
19.368
तथा पिपीलिकाद्यैस्तु न तत्प्रायैर्विशेषतः ।
रेतोरुधिरविण्मूत्रापेयमांसादिवस्तुभिः ॥ ३६८ ॥
19.369
देवबिम्बे तु संस्पृष्टे कुर्यात् स्नपनमुत्तमम् ।
एतैः स्पृष्टेऽङ्कणादौ तु तस्मादुद्धृत्य तत्क्षणात् ॥ ३६९ ॥
19.370
गोमयेनोपलिप्याथ प्रोक्षयेद्द्रव्यपञ्चकैः ।
शान्त्यर्थं जुहुयान्मन्त्री तिलाज्याभ्यां शतं शतम् ॥ ३७० ॥
19.371
वैश्यैश्च वैष्णवैर्बिम्बे शूद्रैः स्त्रीभिर्विशेषतः ।
विमाने स्थापिते स्पृष्टे क्षाऌअयेत् पञ्चगव्यकैः ॥ ३७१ ॥
19.372
शान्तिहोमं प्रकुर्वीत मधुक्षीरादिभिः शतम् ।
बिम्बेऽनुलोमैः संस्पृष्टे प्रतिलोमैश्च गर्हितैः ॥ ३७२ ॥
19.373
स्नपनं शान्तिहोमं च सदानं सर्वदा चरेत् ।
वैखानसैस्तु संस्पृष्टे पयःस्नानेन शुध्यति ॥ ३७३ ॥
19.374
आराधिते स्वमार्गेण प्रतिष्ठामाचरेत् पुनः ।
प्रतिमा चैव तत्पीठं प्रासादो गर्भमन्दिरम् ॥ ३७४ ॥
19.375
विग्रहं देवदेवस्य चतुष्टयमिदं समम् ।
समाधिश्च तथा शान्तिः कार्या तत्र सदा समा ॥ ३७५ ॥
19.376
वेदिकायां तथा चक्रे पङ्कजे चक्रपङ्कजे ।
हेमादिद्रव्यरचिते मण्डले रजसा कृते ॥ ३७६ ॥
19.377
समाधिश्चैव शान्तिश्च प्रतिपत्तिश्च तादृशी ।
प्राकारे गोपुरद्वारमण्टपादिपरिष्कृते ॥ ३७७ ॥
19.378
शिवादिभिर्न दोषोऽस्ति प्राङ्कणादावधिष्ठिते ।
प्रविष्टे यजनस्थाने प्रोक्षयेत् पञ्चगव्यकैः ॥ ३७८ ॥
19.379
मण्टपाङ्कणशालासु माऌइकाद्यासु भूमिषु ।
पूजाङ्गत्वेन विहितैर्गुरुसाधकदीक्षितैः ॥ ३७९ ॥
19.380
न दोषो द्विजशार्दूल शयनासनभोजनैः ।
पादप्रक्षाऌअनाचामस्नानाभ्यङ्गादिकैरपि ॥ ३८० ॥
19.381
अन्यैः क्लृप्तेषु चैतेषु गोमयेनोपलिप्य च ।
प्रोक्षयेत् पच्चभिर्गव्यैः कुशोदकसमन्वितैः ॥ ३८१ ॥
19.382
बिडालमूषिकासर्पमण्डूककृकलासकैः ।
आखुचुचुन्दरी गोधाराजिलाद्यैश्च जन्तुभिः ॥ ३८२ ॥
19.383
अधिष्ठिते गर्भगेहे शान्तिहोमं समाचरेत् ।
मक्षिकावासवल्मीककृमीणां निचयेष्वपि ॥ ३८३ ॥
19.384
बिम्बे विमाने जातेषु तदैवोद्धृत्य तान् पुनः ।
समाधाय यथापूर्वं चतुः स्थानार्चनादिकम् ॥ ३८४ ॥
19.385
स्नपनं देवदेवस्य कुर्यादुत्तममध्यमम् ।
मण्टपादौ तु सर्वत्र कुत्रचिद्वा हरेर्गृहे ॥ ३८५ ॥
19.386
ब्रह्नदण्डादिरोहे च छत्राकाणां समुत्थितौ ।
दुष्टसत्वगणापूर्वपक्षिसंघसमाकुले ॥ ३८६ ॥
19.387
शान्तिहोमं प्रकुर्वीत तान् व्यपोह्य तदैव तु ।
विमाने तेषु जातेषु मध्यमस्नपनं चरेत् ॥ ३८७ ॥
19.388
बिम्बे यदि तदा कार्यं प्रवासावसथादिकम् ।
कर्म कृत्वा यथापूर्वं त्यागान्तं तु नृपाज्ञया ॥ ३८८ ॥
19.389
नवीकृत्य पुनर्बिम्बं पुरावत् स्थापयेद्बुधः ।
रक्तस्त्रीषु समुत्पन्नास्वर्चायामेवमेव तु ॥ ३८९ ॥
19.390
समाधाय प्रतिष्ठाप्य शान्त्यर्थं पुनरेव तु ।
स्नापयेद्देवदेवेशमुत्तमोत्तमवर्त्मना ॥ ३९० ॥
19.391
विमान आसु जातासु कुर्यात् स्नपनमध्यमम् ।
मण्टपादिषु जातासु स्नपनं च समाचरेत् ॥ ३९१ ॥
19.392
दृष्टास्वेतासु विप्रोन्द्र प्राङ्कणादौ तु कुत्रचित् ।
तास्तदैव समुद्धृत्य गव्यैः संप्रोक्षयेत्ततः ॥ ३९२ ॥
19.393
शान्त्यर्थं जुहुयान्मन्त्री बहिश्चेत् सघृतैस्तिलैः ।
देवालयेष्वकर्तव्ये कृते कर्मणि कुत्रचित् ॥ ३९३ ॥
19.394
मध्यमावरणादन्तः स्नपनं होमपश्चिमम् ।
शान्तये जुहुयान्मन्त्री बहिश्चेज्ज्वलितेऽनले ॥ ३९४ ॥
19.395
छर्दिनिष्ठीवलालाद्यैर्दूषिते देवसझनि ।
तदैव तद्व्यपोह्यात्र पञ्चगव्यैर्विलिप्य च ॥ ३९५ ॥
19.396
जपेदस्त्रशतं मन्त्री हृन्मन्त्रं च विधानतः ।
प्रायश्चित्तं प्रवक्ष्यामि शवस्पृष्टौ विशेषतः ॥ ३९६ ॥
19.397
द्विजातिशवसंस्पृष्टे प्रमादाद्देवकौतुके ।
एकाशीतिघटैः स्नाप्य मूलमन्त्रायुतं हुनेत् ॥ ३९७ ॥
19.398
क्षत्रविट्छूद्रजातीनां शवैः स्पृष्टे तु कौतुके ।
मध्यमेनोत्तमेनैव महस्रकलशेन तु ॥ ३९८ ॥
19.399
क्रमेण स्नापयेद्देवमेकैकेन यथाविधि ।
शान्त्यर्थं हवनं कृत्वा यथापूर्वं तथा जपेत् ॥ ३९९ ॥
19.400
अनुलोमशवस्पृष्टौ संप्रोक्षणमथाचरेत् ।
चण्डालपतितोदक्यासूतिकाशवदूषिते ॥ ४०० ॥
19.401
बिम्बे प्रतिष्ठां कुर्वीत सहस्रकलशाप्लवम् ।
शान्तिहोमायुतं तद्वज्जपं कुर्याद्यथाक्रमम् ॥ ४०१ ॥
19.402
विमाने ब्राह्नणादीनामनुलोमादिकस्य च ।
शवस्पृष्टौ तु सक्षाल्य बहूदकघटेन तु ॥ ४०२ ॥
19.403
उत्तमोत्तमनिष्ठं तु स्नपनं मध्यमाधमात् ।
संस्नाप्य देवदेवेशमेकैकेन क्रमेण तु ॥ ४०३ ॥
19.404
शान्तिहोमं प्रकुर्वीत पश्चान्मन्त्रं यथा जपेत् ।
प्रथमावृतिमारभ्य रथ्यावरणपश्चिमे ॥ ४०४ ॥
19.405
दूषिते प्राङ्गणक्षेत्रे प्रागुक्तैः क्रमशो भुवः ।
स्थलं संशोध्य विधिवद्दीक्षितैर्मन्त्रवित्तमैः ॥ ४०५ ॥
19.406
मुख्योत्तमात्तु स्नपनान्नीचान्तिममनुक्रमात् ।
स्नापयित्वा विशेषेण शान्तिहोमं स्माचरेत् ॥ ४०६ ॥
19.407
एवमेवान्त्यजातीनां शवस्पृष्टौ समाचरेत् ।
सालमण्टपपीठेषु गोपुरे मन्दिरेऽपि वा ॥ ४०७ ॥
19.408
विमानाद्वाह्यतः व्काऽपि परिवारालयादिषु ।
वर्णानां ब्राह्नणादीनामनुलोमादिकस्य च ॥ ४०८ ॥
19.409
मरणेष्वपि जातेषु तत्तदावरमोक्तवत् ।
पश्वादिषु मृतेष्वेषु गजाश्वोष्ट्रखरादिषु ॥ ४०९ ॥
19.410
मरणादिषु सर्वत्र भूशुद्धिं पुरतश्चरेत् ।
श्वसृगालशवाद्येषु काकश्येनादिजन्तुषु ॥ ४१० ॥
19.411
मार्जारवानराद्येषु तथान्येष्वेवमादिषु ।
संप्रोक्ष्य पञ्चगव्येन शान्तिहोमं समाचरेत् ॥ ४११ ॥
19.412
मृते मूषिकसर्पादौ भूशुद्धिं च जपं चरेत् ।
मरणादिषु सर्वत्र भूशुद्धिं पुरतश्चरेत् ॥ ४१२ ॥
19.413
सर्वावासे महापीठे तथा शैलमयेष्वपि ।
प्रदेशेषु समालिप्य गोमयेन समन्ततः ॥ ४१३ ॥
19.414
प्रोक्षयेत् पञ्चभिर्गव्यैः पुण्याहोक्तिपुरस्सरम् ।
गृहार्चायां न दोषोऽस्ति मृते पूजागृहाद्बहिः ॥ ४१४ ॥
19.415
क्षालनालेपनाद्येन व र्मणा तत्र शोधयेत् ।
सन्निकर्षे गृहार्चायाः क्षीरेण स्नाप्य पूजयेत् ॥ ४१५ ॥
19.416
देवसिद्धमुनीन्द्राद्यैः कल्पिते भगवद्गृहे ।
तत्तदङ्गतया क्लृप्ते ग्रामादौ राष्ट्रसंकुलात् ॥ ४१६ ॥
19.417
चण्डालपतितोदक्यासूतिकाशबरादिभिः ।
दूषिते भगवद्बिम्बे संप्रोक्षणविधिं चरेत् ॥ ४१७ ॥
19.418
सहस्रकलशैर्देवं सन्निकृष्टेऽभिषिच्य च ।
शान्तिहोमं प्रकुर्वीत चतुःस्थानार्चनादिकम् ॥ ४१८ ॥
19.419
सहस्रकृत्वस्तदनु जपं कुर्यात्तथाविधम् ।
प्रासादे वाऽङ्कणद्वारि मण्टपे पचनालये ॥ ४१९ ॥
19.420
पुष्पावासे जलागार धनधान्यालयादिषु ।
ध्वजपीठे महापीठे रथ्यावृतिगणेष्वपि ॥ ४२० ॥
19.421
उत्सवाङ्गतया क्लृप्ते ग्रामादौ राष्ट्रसंकुलात् ।
चण्डालपतितोदक्यासूतिकाशबरादिभिः ॥ ४२१ ॥
19.422
वर्णानां ब्राह्नणादीनामनुलोमविलोमयोः ।
शवास्थिभिश्च सन्दुष्टां सर्वत्रैकत्र वा क्षितिम् ॥ ४२२ ॥
19.423
खात्वा मृदं समुद्धृत्य बहिः प्रक्षिप्य शुद्धया ।
संपूर्य च समीकृत्य कुशाद्भिः परिमृज्य च ॥ ४२३ ॥
19.424
गोमयेनोपलिप्याथ पुण्याहवचनादिकम् ।
पञ्चगव्येन चाभ्युक्ष्य गोगणं तत्र वासयेत् ॥ ४२४ ॥
19.425
वाचयित्वा महाशान्तिं ब्नाह्नणैर्वेदपारगैः ।
भोजयित्वा द्विजांस्तत्र तेभ्यो दद्यात्तु दक्षिणाम् ॥ ४२५ ॥
19.426
कृत्वैवं स्थूलशुद्धिं तु शान्तिं कुर्यादनुक्रमात् ।
पञ्चयज्ञमयीं पुण्यां सर्वादोषापनुत्तये ॥ ४२६ ॥
19.427
एवं वर्षावधिर्यावन्न कृता शान्तिकी क्रिया ।
सहस्रकलशेनैव पवित्रावर्तितेन च ॥ ४२७ ॥
19.428
व्यापकैः पञ्चभिर्मन्त्रैः पञ्चधा स्नापयेद्विभुम् ।
ध्वजमुत्थाप्य विधिवन्नवाहाद्युत्सवं पुरा ॥ ४२८ ॥
19.429
शान्त्यर्थं सर्वदोषाणां कुर्यात्तीर्थाघमर्षणम् ।
चक्रशङ्खगदापझवृत्तकुण्डेष्वनुक्रमात् ॥ ४२९ ॥
19.430
तत् कुर्यात् पञ्चभिर्मुख्यैर्द्वादशार्णपुरस्सरैः ।
मधुक्षीरादिभिर्द्रव्यैः पञ्चभिर्नियुताख्यया ॥ ४३० ॥
19.431
सङ्ख्यया जुहुयान्मन्त्री लक्षसङ्ख्या भवेद्यथा ।
अनुकल्पे विधिरयं शान्तिकर्मणि संमतः ॥ ४३१ ॥
19.432
मुख्यकल्पो विशेषेण वक्ष्यते होमकर्मणि ।
स्थापनोक्तविधानेन कल्पिते मण्टपे शुभे ॥ ४३२ ॥
19.433
चक्राम्बुरुहपूर्वेषु यथावत्कल्पितेषु च ।
क्लृप्तेषु दशसङ्खयेषु व्रह्नवृक्षादिसंभवैः ॥ ४३३ ॥
19.434
समिद्गणैस्तिलैराज्यैः सेचितैः प्रागुदीरितैः ।
पञ्चभिर्मधुराद्यैश्च मिश्रीभूतैः क्रमेण तु ॥ ४३४ ॥
19.435
महत्तराणां दोषाणां शान्तये मन्त्रवित्तमैः ।
अयुतं नियुतं लक्षं कोटिनिष्ठं यथाबलम् ॥ ४३५ ॥
19.436
होतव्यं पूर्णया सार्धं दशभिर्मन्त्रसत्तमैः ।
कुण्डेषु मध्यपूर्वेषु मन्त्राणां नियमं श्रृणु ॥ ४३६ ॥
19.437
चक्राब्जे द्वादशार्णेन वस्वश्रेऽष्टाक्षरेण तु ।
षडर्णेन षडश्रे तु शङ्खाभे प्रणवेन तु ॥ ४३७ ॥
19.438
जितंतया चतुर्यश्रे विश्वत्राता त्रिकोणके ।
द्वात्रिंशद्दलपझाख्ये नृसिंहानुष्टुभेन तु ॥ ४३८ ॥
19.439
सौदर्शननृसिंहेन चक्रकुण्डेऽक्षरारके ।
वराहेणार्धचन्द्राख्ये वृत्ते सौदर्शनेन तु ॥ ४३९ ॥
19.440
धिष्ण्यद्वयं मध्यवेद्याः प्रागुक्तं दक्षिणोत्तरे ।
शेषाणि परितः कुर्याद्दिक्षु चैवं विदिक्षु च ॥ ४४० ॥
19.441
सिद्धमन्त्रा नियोक्तव्या होतारःशान्तिकर्मणि ।
सर्वकुण्डानि सर्वेषां मन्त्राणामिच्छया गुरोः ॥ ४४१ ॥
19.442
कल्पनीयानि वा मन्त्रा यतः सर्वफलप्रदाः ।
न्यस्तमन्त्रैर्यथान्यायं जप्यास्ते सङ्ख्यया तया ॥ ४४२ ॥
19.443
गोभूहेमतिलान्नानां दानैर्योग्यजनस्य च ।
तृप्तिः कार्या विशेषेण दिव्याद्यायतनस्य च ॥ ४४३ ॥
19.444
प्रजापालनशीलेन भूपेनात्महितेच्छुना ।
शान्तिरेवंविधा कार्या शास्त्रज्ञैर्बहुभिर्धनैः ॥ ४४४ ॥
19.445
प्राचुर्यात् सर्वदोषाणां धर्मज्ञैः शान्तिकी क्रिया ।
निर्वर्तुं न तु शक्या चेन्महा स्नानादिपञ्चकम् ॥ ४४५ ॥
19.446
महादानावसानं च कार्य दिव्यालयादिषु ।
पौनःपुन्येन बिधिवच्छुद्धेन द्रविणेन च ॥ ४४६ ॥
19.447
उल्काशन्यादिपाते च नक्षत्रपतने च खात् ।
सधूमे च दिशादाहे भूताद्यावेशिते नृपे ॥ ४४७ ॥
19.448
दुर्भिक्षे व्याधिते राष्ट्रे तथा वै शत्रुसङ्कटे ।
सूर्योदयस्य व्यत्यासे भूकम्पे तद्विदारणे ॥ ४४८ ॥
19.449
अतिवृष्टावनावृष्ठौ देवताहसने सति ।
रोदने च तथा खिन्ने तथार्चाचलनेऽपि च ॥ ४४९ ॥
19.450
भ्रमणे च तथा पीठादङ्गभङ्गादिके सति ।
शैथिल्ये सरघादीनामुद्भवे बहुधा गृहे ॥ ४५० ॥
19.451
एवमादिषु चान्येषु दुर्निमित्तेषु सत्सु च ।
शान्तिरेतैश्च जायेत क्रियमाणैरनुक्रमात् ॥ ४५१ ॥
19.452
चतुःस्थानार्चनं कार्यं दोषमात्रसमुद्भवे ।
यथाशक्ति दरिद्राणां दानमात्रं कथञ्चन ॥ ४५२ ॥
19.453
प्रासादे मण्टपे साले गोपुरे माऌइकादिके ।
प्रमादादग्निना दग्धे ता नीत्वाऽन्यत्र देवताः ॥ ४५३ ॥
19.454
यथापूर्वं नवं कृत्वा प्रतिष्ठाप्य विधानतः ।
उत्तमं स्नपनं कुर्यात्तस्य दोषस्य शान्तये ॥ ४५४ ॥
19.455
हीनैकदेशे प्रासादे हुतभुग्वातवृष्टिभिः ।
कारणैः कैश्चिदन्यैर्वा सन्धेयं तच्च शिल्पिभिः ॥ ४५५ ॥
19.456
अधमं स्नपनं कृत्वा शान्तिहोमं समाचरेत् ।
विमाने सर्वतो भग्ने बालस्थानं प्रकल्प्य च ॥ ४५६ ॥
19.457
तथैव बाले बिम्बे तु नित्यनैमित्तिकादिकम् ।
पवित्रारोहणान्तं च सर्वकर्म समाचरेत् ॥ ४५७ ॥
19.458
तद्दोषशान्तये कार्यं स्नपनं मध्यमं पुनः ।
भग्नबिम्बसमाधाने विशेषः प्रागुदीरितः ॥ ४५८ ॥
19.458 (zweites Vorkommen)
तथापि विस्तरेणाद्य प्रोच्यते तद्विधिं श्रृणु ।
मूलबिम्बेऽग्निना दग्धे बालस्थाने तथार्चयेत् ॥ ४५८ ॥
19.459
तथापि विस्तरेणाद्य प्रोच्यते तद्विधिं श्रृणु ।
मूलबिम्बेऽग्निना दग्धे बालस्थाने तथार्चयेत् ॥ ४५९ ॥
19.460
सहस्रकलाशस्नानमाचर्तव्यं विधानतः ।
वह्निना कमबिम्बादौ वैवर्ण्यं समुपागते ॥ ४६० ॥
19.461
तत्तद्बिम्बेषु कुर्वीत स्नपनं चोत्तमं क्रमात् ।
वह्निवातादिवेगेन मन्त्रिणामपराधतः ॥ ४६१ ॥
19.462
सौवर्णे राजते बिम्बे ताम्ररीतिमये तु वा ।
भिन्नाङ्गे सति संधेयं तत्क्षणाच्छिल्पिवित्तमैः ॥ ४६२ ॥
19.463
लोहान्तरेण तद्बिम्बं न सन्धेयं प्रयत्नतः ।
ताम्ररीतिमयं यद्वा सन्धयेद्वित्तवर्जितः ॥ ४६३ ॥
19.464
यद्द्रव्येणादितः क्लृप्तं तद्द्रव्येणाथ सन्धयेत् ।
त्यक्तं बिम्बं समुद्रान्तः प्रक्षिपेच्छास्त्रवर्त्मना ॥ ४६४ ॥
19.465
सुवर्णरजतोत्थं यत् महाङ्गेषु च सक्षतम् ।
न त्याज्यं तत् समाधेयं तत्स्थां शक्तिं विसृज्य च ॥ ४६५ ॥
19.466
तद्द्रव्येण यथापूर्वं बिम्बकर्म समापयेत् ।
मृत्काष्ठोपलजे भग्ने बिम्बे केनापि हेतुना ॥ ४६६ ॥
19.467
बालालयगते बिम्बे तां शक्तिं शन्निरोध्य च ।
दुष्टामर्चां परित्यज्य कृत्वा बिम्बान्तरं पुनः ॥ ४६७ ॥
19.468
न त्याज्या मृत्तिकाशूलरज्वाद्या देवनिर्मिते ।
देवयक्षमुनीन्द्राद्यैरन्यैः पौराणिकैस्तु वा ॥ ४६८ ॥
19.469
प्रतिष्टिते तथा जीर्णे बिम्बे स्वर्णादिलोहजे ।
तदङ्गं सन्धयेत् पश्चात् सुवर्णेनैव नान्यथा ॥ ४६९ ॥
19.470
भग्ने शिलामये बिम्बे देवमुन्यादिकल्पिते ।
तदङ्गं रुक्मजं कृत्वा सन्धेयं तद्दृढं यथा ॥ ४७० ॥
19.471
देवादिस्थापिते बिम्बे हीनाङ्गे मृण्मये सति ।
कदाचिन्न परित्याज्यं तत् सन्धेयं तदा शनैः ॥ ४७१ ॥
19.472
एवं जीर्णं तथाभूतं तदङ्गं सन्धयेत् सदा ।
न बालगेहबिम्बाद्यमन्येनैव तु कारयेत् ॥ ४७२ ॥
19.473
नित्यादौ वर्तमानेऽत्र सर्वं कार्यमतन्द्रितैः ।
एवमेव स्वयंव्यक्ते कारयेत्तन्त्रवित्तमः ॥ ४७३ ॥
19.474
देवादिपूजिते वाऽपि स्वयंव्यक्ते तु कौतुके ।
मृद्दारुजे तु सञ्जीर्णे कृमिवह्निजलादिभिः ॥ ४७४ ॥
19.475
तत्तद्वालगृहं कृत्वा पूज्यमाने तु पूर्ववत् ।
क्रमादर्चान्तरं कृत्वा स्थापयेच्च यथाविधि ॥ ४७५ ॥
19.476
वालबिम्बे तु जीर्णेऽत्र कुर्यादेवं पुनः पुनः ।
मनुष्यनिर्मिते जीर्णे नष्टे दुष्टे तु वा व्कचित् ॥ ४७६ ॥
19.477
वर्णशोभादिहीने च बिम्बे शैलमये सति ।
विशेषान्मृण्मये वाऽपि चित्राभासपटादिषु ॥ ४७७ ॥
19.478
बालबिम्बे समाहूय चित्रयित्वा तु पूर्ववत् ।
पुनः प्रतिष्ठां कुर्वीत विधिवन्मन्त्रवित्तमः ॥ ४७८ ॥
19.479
रीतिजे ताम्रजे वाऽपि आरकूटविनिर्मिते ।
प्रणीते पूज्यमाने तु काम्यबिम्बादिके सति ॥ ४७९ ॥
19.480
कालान्तरेण जीर्णेऽस्मिन्नुत्कृष्टे समुपस्थिते ।
निकृष्टं सन्त्यजेद्विद्वान्न दोषस्तत्र विद्यते ॥ ४८० ॥
19.481
लोहपाषाणमृत्काष्ठैः स्थापिते मूलकौतुके ।
न संपाद्यमतोऽन्येन कदाचिन्मुख्यवस्तुना ॥ ४८१ ॥
19.482
पुरावज्जीर्णतां यातं कर्तव्यं मूलकौतुके ।
बहुबेरैकबैराभ्यां स्थापिताभ्यां गृहान्तरे ॥ ४८२ ॥
19.483
जीर्णोद्धारेऽपि कर्तव्यं पूर्ववत् स्थापितं बुधैः ।
लक्ष्म्यादिकान्तारहिते बहुबेरे पुरा स्थिते ॥ ४८३ ॥
19.484
जीर्णे तु पस्चाद्देवीभ्यां सहितं वा प्रकल्पयेत् ।
सर्वधा बहुबेरत्वहानिर्न स्याद्विपर्ययात् ॥ ४८४ ॥
19.485
देवयक्षमुनीन्द्राद्यैः स्थापिते लक्षणोज्झिते ।
बिम्बे विमाने प्राकारे गोपुरे द्वारि मण्टपे ॥ ४८५ ॥
19.486
पीठे वा पचनावासे कोशागारादिवस्तुषु ।
जीर्णेषु पूर्ववत् कुर्यान्न कुर्याल्लक्षणान्तरम् ॥ ४८६ ॥
19.487
पापिष्ठैरतिनष्टेऽस्मिन् त्रिदशादिप्रतिष्ठिते ।
बिम्बादौ वैष्णवे चिह्ने लक्षणैश्चापि वर्जिते ॥ ४८७ ॥
19.488
युक्ते वा पूर्ववत् कुर्यात् पूर्वरूपानुसारतः ।
राजराष्ट्रविनाशः स्यादन्यथा कल्पिते सति ॥ ४८८ ॥
19.489
देवसिद्धमुनीन्द्राद्यैः स्थापिता पूजिता पुरा ।
विद्युत्प्रपातपूर्वैश्च दोषैर्या चातिदूषिता ॥ ४८९ ॥
19.490
निर्दोषादासनात्तस्मात्तामुत्थाप्य विसृज्य च ।
पूर्ववन्निर्मितां पीठे प्रतिष्ठाप्य विधानतः ॥ ४९० ॥
19.491
पीठभङ्गे तथान्यस्मिन् कल्पिते योजयेद्दृढम् ।
क्ष्माभेदजलवेगाद्यैः पतितं गवद्गृहम् ॥ ४९१ ॥
19.492
प्राग्बिम्बसहितं तस्माद्देशादन्यत्र कल्पयेत् ।
नष्टे सबिम्बे सदने दिव्यादौ प्रागावदाचरेत् ॥ ४९२ ॥
19.493
चोरनद्यादिवेगाद्यैरतिनष्टे तु मानुषे ।
बिम्बे पश्चात् प्रकुर्वीत पूर्ववद्वान्यथापि वा ॥ ४९३ ॥
19.494
न शून्यमूलबिम्बत्वाद्बालार्चावाहनादिकम् ।
न कार्यं देशिकेन्द्रेण पूर्ववत् स्थाप्य पूजयेत् ॥ ४९४ ॥
19.495
एवं हि सर्वदेवानां परव्यूहादिरूपिणाम् ।
विष्वक्सेनगणेशादिपरिवारगणस्य च ॥ ४९५ ॥
19.496
क्लृप्तानां गोपुराद्येषु विभवव्यूहरूपिणाम् ।
सान्निद्यातिशयात्तेषु पूजितानां दिनं प्रति ॥ ४९६ ॥
19.497
जीर्णोद्धारविधाने च विशेषः कथितो मया ।
मन्त्रसिद्धैश्च विविधैर्मुनिभिर्मनुजैस्तथा ॥ ४९७ ॥
19.498
प्रतिष्ठितानां गेहानां चिरकालवशेन तु ।
पतनस्फोटभेदादिनाशकं भगवद्गृहे ॥ ४९८ ॥
19.499
निर्वाहकानां भक्तानां शास्त्रज्ञानामनुज्ञया ।
बाह्ये बाह्यान्तरे तेषां रक्षणार्थं शिलादिभिः ॥ ४९९ ॥
19.500
निपुणैः शिल्पिभिः कार्यो भित्तिबन्धः समन्ततः ।
प्रासादे मण्टपे चाग्र्ये प्राकारे गोपुरे तु वा ॥ ५०० ॥
19.501
प्राङ्कणे पचनावासे कोशागारेऽम्बरास्पदे ।
पुष्पपानीयशालायामवघातगृहादिषु ॥ ५०१ ॥
19.502
स्नानार्थमण्टपे वाऽपि तथा वै यागमण्टपे ।
जीर्णेकालान्तरे चैव विभूत्या विस्तृते गृहे ॥ ५०२ ॥
19.503
रक्षार्थं विनियोगार्थं तद्बाह्ये तु विवर्धयेत् ।
अब्यन्तरात् समारभ्य ह्रासयेन्न तु कुत्रचित् ॥ ५०३ ॥
19.504
प्रमुखे सर्ववस्तूनि बन्धयेत् परितोऽथवा ।
प्रागुदग्वा न वृद्धिः स्यात् पृष्ठे वारुणयाम्ययोः ॥ ५०४ ॥
19.505
उत्तरे पश्चिमे वाऽथ वृद्धिं कुर्यान्महानसे ।
पौराणिकालयं पीठं तथा तीर्थं सरोवरम् ॥ ५०५ ॥
19.506
मठं वा मण्टपाद्यं वा चिह्नं सौदर्शनादिकम् ।
न चालयेत् प्रयत्नेन सालादीनां च कल्पने ॥ ५०६ ॥
19.507
बाह्यतः कल्पयेत्तानि लंघयित्वा पुरातनम् ।
प्राक् स्थितस्य बहिश्चान्तर्वर्धिते ह्रासिते सति ॥ ५०७ ॥
19.508
पाश्चात्ये न तु दोषः स्यादायामोच्छ्राबविस्तरे ।
ब्रह्नरुद्रेन्द्रयक्षाद्यैस्तथा क्लृप्तं पुरातनम् ॥ ५०८ ॥
19.509
चिरायुषोऽर्थवृध्यर्थी चालयेन्न तु कुत्रचित् ।
तथा सरोवरं कूपं मृदाद्यैर्न तु पूरयेत् ॥ ५०९ ॥
19.510
अल्पीयांसि विमानानि विभूत्या श्रद्धयाऽथवा ।
महान्ति कारयेत् पश्चान्न दोष उपजायते ॥ ५१० ॥
19.511
सालगोपुरपीठानां मण्टपाद्यङ्गरूपिणाम् ।
प्रथमे कल्पने चैव नष्टोद्धारे विशेषतः ॥ ५११ ॥
19.512
एकस्मिन् प्राक् स्थिते वस्तुन्यशक्तौ स्थानसङ्कटे ।
ग्रहणं न तु दोषः स्यादमुख्यं मुख्यगौरवात् ॥ ५१२ ॥
19.513
यद्यत् पादप्रतिष्ठायां प्रासादस्य जगत्पतेः ।
पादाधारशिलाद्यं वै तथा ब्रह्नशिलादिकम् ॥ ५१३ ॥
19.514
विना प्रतिष्ठिते बिम्बे कुर्यात् स्नपनमुत्तमम् ।
मधुना पयसा दध्ना घृतेन चरुणा सह ॥ ५१४ ॥
19.515
शान्तिहोमं प्रकुर्वीत सहस्रशतसङ्ख्यया ।
प्रासादश्च तथा बिम्बो येन शास्त्रेण निर्मितौ ॥ ५१५ ॥
19.516
प्रतिष्ठाप्य च तेनैव नित्यादौ पूजयेद्धरिम् ।
योऽर्चयेदन्यमार्गेण तथा चार्चापयेत्तु यः ॥ ५१६ ॥
19.517
तावुभौ कलुषात्मानौ राज्ञो राष्ट्रस्य वै गुरोः ।
कुलं च व्याधितं चैव विप्लवं दुःखमञ्जसा ॥ ५१७ ॥
19.518
वित्तहानिं विशेषेण कुर्यातामालयस्य च ।
न कुर्यात् तन्त्रसांकर्यं पञ्चरात्रपरायणः ॥ ५१८ ॥
19.519
पुनः प्रतिष्ठा कर्तव्या कृते चेत्तन्त्रसंकरे ।
वैखानसादिभिस्तन्त्रैः प्रासादार्थं पुरैव तु ॥ ५१९ ॥
19.520
गर्भन्यासे कृतेऽप्यत्र पञ्चरात्राभिलाषया ।
तदैवोद्धृत्य तं गर्भं पञ्चरात्रोक्तमाचरेत् ॥ ५२० ॥
19.521
चतुर्धा भेदभिन्नस्तु पञ्चरात्राख्य आगमः ।
तल्लक्षणं च प्रागुक्तं तथाप्यत्राप्युदीर्यते ॥ ५२१ ॥
19.522
पूर्वमागमसिद्धान्तं द्वितीयं मन्त्रसंज्ञितम् ।
तृतीयं तन्त्रमित्युक्तमन्यत् तन्त्रान्तरं भवेत् ॥ ५२२ ॥
19.523
आद्यं नित्योदितव्यूहस्थापनादिप्रकाशकम् ।
अपौरुषेयं सद्ब्रह्नवासुदेवाख्ययाजिनाम् ॥ ५२३ ॥
19.524
लक्ष्यभूतं द्विजेन्द्राणां हृदिस्थमधिकारिणाम् ।
व्रह्नोपनिषदाख्यं च दिव्यमन्त्रक्रियान्वितम् ॥ ५२४ ॥
19.525
विवेकदं परं शास्त्रमनिच्छातोऽपवर्गदम् ।
एवं नित्योदिताख्यस्य नित्याकारस्य च प्रभोः ॥ ५२५ ॥
19.526
वासुदेवाभिधानस्य षाड्गुण्यादिमहोदधेः ।
प्रथमं लक्षणं विद्धि हृदयाद्यङ्गशब्दवत् ॥ ५२६ ॥
19.527
एतदागमसिद्धान्तं श्रुतिरूपं तु विद्धि तत् ।
एष कार्तयुगो धरमः सर्वधर्मोत्तमः स्मृतः ॥ ५२७ ॥
19.528
ततस्त्रेतायुगस्यादौ भोगमोक्षप्रसिद्धये ।
तस्मादागमसिद्धान्तान्निःसृतं बहुभेदकम् ॥ ५२८ ॥
19.529
मन्त्रसिद्धान्तसंज्ञं तज्जाग्रद्वयूहादिमूर्तिना ।
समुत्कीर्णं द्वितीयस्य सात्वसतस्य महात्मनः ॥ ५२९ ॥
19.530
तेन प्रद्युम्नसंज्ञस्य तेन तुर्यात्मनो विभोः ।
तेन वागीश्वराख्यस्य तस्माद्विद्याख्यविग्रदे ॥ ५३० ॥
19.531
संक्रान्तं च ततः पश्चाद्रुद्रादित्येन्द्रवह्निषु ।
तथैव नारदाद्येषु देवर्षीणां गणेष्वपि ॥ ५३१ ॥
19.532
संक्रातं मन्त्रसिद्धान्तं भेदभिन्नमनेकधा ।
यत्र शान्ततरं व्यूहं शान्तोदितमनन्तरम् ॥ ५३२ ॥
19.533
सुषुप्तिसंज्ञं स्वप्नाख्यं जाग्रद्वयूहं यथोदितम् ।
मूर्त्यन्तर केशवाद्यं प्रादुर्भावं तथान्तरम् ॥ ५३३ ॥
19.534
हृत्पझपझपीठादौ लक्ष्मीपुष्ट्यादिशक्तिभिः ।
लाञ्छनैः शह्खचक्राद्यैः गरुडप्रमुखैरपि ॥ ५३४ ॥
19.535
भूतसिद्धादिभिः सास्त्रपर्यन्तैर्यजनं हितम् ।
विश्वत्रातृनृसिंहस्य दीक्षापूर्वं तथा परम् ॥ ५३५ ॥
19.536
विहगव्यूहसूक्ष्माख्यमधिकारं यथाक्रमम् ।
समयी पुत्रकादीनां चतुर्णामभिषेचनम् ॥ ५३६ ॥
19.537
तथैव समयाचारमूर्तीनां स्थापनक्रमम् ।
मन्त्रमण्डलमुद्राणां कुण्डादीनां च लक्षणम् ॥ ५३७ ॥
19.538
कर्मणामेवमादीनां विधानं यत्र पुष्कलम् ।
मन्त्रसिद्धान्तसंज्ञं तद्बहुभेदसमन्वितम् ॥ ५३८ ॥
19.539
परव्यूहादिभेदेन विनैकैकेन मूर्तिना ।
साङ्गेन केवलेनाथ कान्ताव्यूहेन भूषणैः ॥ ५३९ ॥
19.540
तथास्त्रैर्विग्रहोपेतैरावृतं तन्त्रसंज्ञितम् ।
नृसिंहकपिलक्रोडहंसवागीश्वरादयः ॥ ५४० ॥
19.541
मुख्यादिवृत्तिभेदेन केवला वाङ्गसंयुताः ।
चक्राद्यस्त्रवरैश्चाथ बूषणैर्मकुटादिभिः ॥ ५४१ ॥
19.542
कान्तागणैश्च लक्ष्म्याद्यैः परिवारैः खगादिकैः ।
पूजिता विधिना यत्र तत्तन्त्रान्तरमीरितम् ॥ ५४२ ॥
19.543
ये जन्मकोटिभिः सिद्धास्तेषामन्तोऽत्र जन्मनः ।
यस्मात्तस्माद्विवेदैष सिद्धान्ताख्यो यथार्थतः ॥ ५४३ ॥
19.544
शास्त्रमन्त्रक्रियादीनां मूर्तीनां भवनस्य च ।
देशिकस्याभिजातस्य यथापूर्वं परिग्रहः ॥ ५४४ ॥
19.545
तथैव यावत्कालं तु नाचर्तव्यं तदन्यथा ।
विपरीते कृते चात्र राजराष्ट्राद्यनर्थकृत् ॥ ५४५ ॥
19.546
ततः समाचरेद्यत्नात् प्रतिष्ठां प्राक् प्रयत्नतः ।
ततः सिद्धान्तसाङ्कर्यं न कर्तव्यं कृतात्मभिः ॥ ५४६ ॥
19.547
यद्यदिष्टतमं लोके पूर्वसिद्धाविरोधि तत् ।
प्रतिग्राह्यमतोऽन्योन्यविरुद्धं संत्यजेद्बुधः ॥ ५४७ ॥
19.548
वैखानसेषु तन्त्रेषु शैवपाशुपतेषु च ।
विहितान्यत्रजातानि विरुद्धानीति किं पुनः ॥ ५४८ ॥
19.549
पञ्चरात्रविधानेन पूज्यमाने प्रतिष्टिते ।
नान्येन पूजनं कार्यं विदुषाऽपि कदाचन ॥ ५४९ ॥
19.550
सद्ब्रह्ननिरतैर्मुख्यैः पञ्चरात्रपरायणैः ।
पूजनीयं विशेषेण मुख्यकल्पाधिकारिभिः ॥ ५५० ॥
19.551
त्रयीधर्मरतैर्विप्रैः सिद्धान्तेष्वपि दीक्षितैः ।
सदाचाररतैर्वाथ तदलाभेऽनुकल्पके ॥ ५५१ ॥
19.552
प्रासादे स्थापितो देवो नैकेनार्च्यो विशेषतः ।
बलिहोमादिसंयुक्ते वित्ताढ्ये त्वपि किं पुनः ॥ ५५२ ॥
19.553
पञ्चकालरतैर्मुख्यैर्मन्त्रसिद्धान्तवेदिभिः ।
पदार्थसप्तकप्राज्ञैर्दादशाध्यात्मकोविदैः ॥ ५५३ ॥
19.554
त्रयोदशविधे कर्मण्यभिसन्धिपरैः सदा ।
कर्मसन्यासिभिश्चाप्तैः मुख्यकल्पाधिकारिभिः ॥ ५५४ ॥
19.555
तथान्यैर्वा त्रयीनिष्ठैः सिद्धान्तार्थविशारदैः ।
समर्चनीयमनिशं द्विचुतःषड्भिरष्टभिः ॥ ५५५ ॥
19.556
द्विषट्षोडशविंशद्भिश्चतुर्विंशतिभिस्तु वा ।
तेष्वेकः पूजयेदन्तः पर्यायेण दिनं प्रति ॥ ५५६ ॥
19.557
द्वौ च त्रयो वा चत्वारः कुर्युरेवं पुनः पुनः ।
परिवारानर्चयेयुरन्ये देशिकसत्तमाः ॥ ५५७ ॥
19.558
अन्योऽग्निकार्यं कुर्वीत कुर्यादन्यो बलिं क्रमात् ।
एतेषामुपकुर्वीरन्नन्ये भागवतोत्तमाः ॥ ५५८ ॥
19.559
गुर्वादिष्टेन विधिना कुर्युरन्ये च साधकाः ।
सर्वमेकेन वा कार्यं बहूनां संयतात्मनाम् ॥ ५५९ ॥
19.560
प्रवीणानामभिज्ञानां दीक्षितानामसन्निधौ ।
वैदेशिकेषु प्राप्तेषु बहुष्वायतनार्चने ॥ ५६० ॥
19.561
मूलादावाह्य बिम्बेषु कुर्वीरन् प्रतिकर्मणि ।
उत्सवं स्नपनं यात्रां प्रभूतान्ननिवेदनम् ॥ ५६१ ॥
19.562
तत्तद्बिम्बेषु कुर्वीरन् मन्त्रिणो बहवो यदि ।
नित्येऽप्येवं हि कुर्वीरन् पूजनं वह्नितर्पणम् ॥ ५६२ ॥
19.563
बलियानादिकं सर्वमेकदैव तु मन्त्रिणः ।
न दोषोऽत्र तु विज्ञेयः कालकर्मनिमित्ततः ॥ ५६३ ॥
19.564
न गृहे बहुभिः कार्यं नित्यनैमित्तिकादिकम् ।
एकदैवं तु यजनमन्यथा दोषदं भवेत् ॥ ५६४ ॥
19.565
तद्दोषशान्तये कुर्याच्छान्तिहोमसमन्वितम् ।
यथाशक्ति जपेन्मन्त्री मूलमन्त्रस्य सादरम् ॥ ५६५ ॥
19.566
भक्तैर्भागवतैरेवं प्रासादे च प्रतिष्ठितः ।
समर्चनीयो नित्यादौ राजराष्ठ्रसमृद्धये ॥ ५६६ ॥
19.567
अन्यैः संपूजितो देवो न कदाचित् प्रसीदति ।
प्रयच्छत्यशुबं शश्वद्विशेषाद्राजराष्ट्रयोः ॥ ५६७ ॥
19.568
तद्दोषशान्तये कार्यं स्नपनं चोत्तमोत्तमम् ।
आवाहिते प्रतिष्ठायामर्चासु जगतः पतौ ॥ ५६८ ॥
19.569
नोद्वास्यः सर्वपूजानामावाह्य पुरतोऽर्चनात् ।
त्रिकालमङ्गबिम्बेषु कर्मार्चादिषु सत्स्वपि ॥ ५६९ ॥
19.570
आवाह्य पूजयेन्मूलाद्विशेषेष्वपि कार्यतः ।
तत्तत्कर्मावसाने तु पुनर्मूले नियोजयेत् ॥ ५७० ॥
19.571
यद्यन्यथा कृतेऽर्चासु मूलमावाहनादिके ।
शान्तये स्नपनं कुर्यात् अधमाधमसंज्ञितम् ॥ ५७१ ॥
19.572
प्रायश्चित्तेषु सर्वेषु दोषगौरवलाघवम् ।
समीक्ष्य चाङ्कुरानर्प्य पुण्याहोक्तिपुरस्सरम् ॥ ५७२ ॥
19.573
चतुःस्थानार्चनं चैव महता हविषार्चनम् ।
स्नपनं जपसंयुक्तमाचार्याणां च दक्षिणाम् ॥ ५७३ ॥
19.574
गोभूहेमादिदानं च पञ्चकालज्ञभोजनम् ।
कारये च्च यथाशक्ति मुख्यकल्पे विशेषतः ॥ ५७४ ॥
19.575
पूजनं स्नपनं होममनुकल्पे समाचरेत् ।
अतिक्रूरैरवाच्यैस्तु भुवं दोषैश्च दूषिताम् ॥ ५७५ ॥
19.576
खननाद्यैश्च संशोध्य दशभिर्विधिचोदितैः ।
यथावत् कर्षयित्वा तु रत्नकाञ्चनजं रजः ॥ ५७६ ॥
19.577
विकीर्य सर्वतो दिक्षु जुहुयात्तत्र शान्तये ।
देवालयेषु शून्येषु महास्नानादिकं चरेत् ॥ ५७७ ॥
19.578
स्वतन्त्रपरतन्त्रेषु शून्यग्रामादिवास्तुषु ।
मार्जनालेपनाब्यां च गव्यैरभ्युक्षणेन च ॥ ५७८ ॥
19.579
संशोध्य तत्तन्मध्ये तु वापयेद्गव्यपञ्चकम् ।
बलिदानं प्रकुर्वीत वास्तुदेवगणस्य च ॥ ५७९ ॥
19.580
गोभूहेमादिकं दद्यादगुर्वादीनां यथाबलम् ।
भूपतिः सत्वनिष्ठस्तु प्रजापालनतत्परः ॥ ५८० ॥
19.581
द्विजेन्द्रः पञ्चकालज्ञः प्रयत्नाच्छान्तिमाचरेत् ।
अन्यथा यद्युपेक्षेत शान्तिकर्म नराधिपः ॥ ५८१ ॥
19.582
स्वमात्मानं स्वराष्ट्रं च स्वकोशं वाहनादिकम् ।
कऌअत्रपुत्रपौत्रांश्च नाशयत्यविसंशयम् ॥ ५८२ ॥
19.583
तस्मादेतानि रक्षेत भूपतिर्बूतितत्परः ।
स्वबुध्या परबुध्या वा कृते वापदि संकटे ॥ ५८३ ॥
19.584
तुलापुरुषदानेन सुवर्णेनोपशाम्यति ।
तथा हिरण्यगर्भस्थः कुर्याद्दानमलोलुपः ॥ ५८४ ॥
19.585
काले काले विशेषेण ब्राह्नणानामनुज्ञया ।
समठं साग्रहारं च प्रासादं परिकल्प्य च ॥ ५८५ ॥
19.586
सर्वदेवमयो देवःसर्ववेदमयो हरिः ।
सर्वयज्ञमयो विष्णुः सर्वलोकमयो विभुः ॥ ५८६ ॥
19.587
सर्वधर्ममयोऽनन्तः सर्वभूतमयो ध्रुवः ।
सर्वतीर्थमयो योगी प्रतिष्ठाप्यो विधानतः ॥ ५८७ ॥
19.588
अन्यत्र वितते कुण्डे यथाभिमतमेखले ।
पावनैर्वैष्णवैः सर्वदोषघ्नैः श्रुतिचोदितैः ॥ ५८८ ॥
19.589
मन्त्रैः प्रयोगकुशलैः जुहुयुर्ब्राह्नणोत्तमाः ।
दिव्यन्तरिक्षभौमेषु महोत्पातेषु सत्स्वपि ॥ ५८९ ॥
19.590
शान्तिरेवं विधानेन कर्तव्या भूतिमिच्छता ।
बहुनात्र किमुक्तेन मुने सर्वाघनाशनम् ॥ ५९० ॥
19.591
सौदर्शनमहायन्त्रस्थापनं विषये स्वके ।
विधानं परमं विद्धि राजराष्ट्राभिवर्धनम् ॥ ५९१ ॥
19.592
लोहेन वा सच्छिलया प्रकल्प्य ।
सुदर्शनं यन्त्रवरस्य मध्ये ।
तस्यापराङ्गे नृहरिं विधाय ।
कराम्बुजैश्चक्रधरैश्चतुर्भिः ॥ ५९२ ॥
19.593
गर्भावृतिद्वारि गवाक्षयुक्त ।
प्रासादमध्ये विधिवन्निवेश्य ।
समर्चयेद्यो विजयी स भूत्वा ।
भुनक्ति भोगानखिलानिहैव ॥ ५९३ ॥
Kapitel 20
श्रीः ।
विंशोऽध्यायः ।
सनकः ।
20.1
तुलापुरुषदानादि मम संसूचितं पुरा ।
भूभुजां तद्विधानं मे विस्तरेण मुने वद ॥ १ ॥
20.2
शाण्डिल्यः ।
श्रृणु सम्यक् प्रवष्यामि द्विज सर्वाघनाशनम् ।
तुलापुरुषदानाद्यं सर्वकामफलप्रदम् ॥ २ ॥
20.3
प्रजापालनशीलस्य सत्वनिष्ठस्य भूभुजः ।
कदाचित् कर्मलोपेन देवकोपोऽभिजायते ॥ ३ ॥
20.4
तथैव राष्ट्रसंक्षोभः प्रजापीडा च वर्धते ।
तथा वर्णाश्रमाचारैर्देशः स्यात् कलुषीकृतः ॥ ४ ॥
20.5
वेदवैदिकधर्माश्च च्यवन्ते कालविप्लवैः ।
बाध्यते प्रतिभूपालैरुपर्युपरि भूपतिः ॥ ५ ॥
20.6
शून्यो जनपदो भूयात् प्रजा नस्यन्ति तत्क्षणात् ।
स्वदोषजनितं कष्टमिति बुद्ध्या महीपतिः ॥ ६ ॥
20.7
सपुरोधाः सहामात्यः सप्रजापदमादरात् ।
पञ्चरात्रविधानज्ञं सर्वभूतहिते रतम् ॥ ७ ॥
20.8
अलोलुपं चाप्यक्रोधं ऋजुं भागवतं द्विजम् ।
कर्मद्वयविधानज्ञं देशिकेन्द्रं समाश्रयेत् ॥ ८ ॥
20.9
पुरावृत्तं तु सकलं स्वापराधनिमित्तजम् ।
सर्वं निवेद्य गुरवे यथावृत्तं महीपतिः ॥ ९ ॥
20.10
रक्ष रक्षेति चरणौ प्रणम्य समुदीरयन् ।
सोऽपि तद्वचनं श्रुत्वा सर्वानुग्रहकारकः ॥ १० ॥
20.11
वित्तमाहृत्य नृपतेर्न्यायधर्मसमाहृतम् ।
प्रवर्ततेऽथ तत् कर्म ऋत्विग्भिः पञ्चरात्रिकैः ॥ ११ ॥
20.12
त्रैविद्यैरपि तत्कर्मकुशलैर्भगवत्परैः ।
चैत्रादिषु च मासेषु विषुवे चायनद्वये ॥ १२ ॥
20.13
व्यतीपाते च जन्मर्क्षे चन्द्रसूर्योपरागयोः ।
श्रवणे वासवेऽश्विन्यां कृत्तिकास्वथवा मुने ॥ १३ ॥
20.14
रोहिण्यां सौम्यनक्षत्रे पुनर्वस्वोर्विशेषतः ।
पुष्ये वा हस्तनक्षत्रे उत्तरासु तथैव च ॥ १४ ॥
20.15
चित्रायां च तथा स्वातौ मैत्रे मूले तथैव च ।
दुःस्वप्ने गृहपीडायां महोत्पातेषु सत्स्वपि ॥ १५ ॥
20.16
व्याधिते च तथाराष्ट्रे कुर्यात् कर्तुश्च सम्मते ।
एतन्निमित्तमुद्दिश्य कर्तव्यं चेत्तदैव तु ॥ १६ ॥
20.17
प्रारभेत्तद्यथा दोषविप्लवो नाभिजायते ।
स्वयंव्यक्तादिके स्थाने विष्णोः सर्वगुणान्विते ॥ १७ ॥
20.18
यथाभिमतदिग्वक्त्रे पुरस्ताद्भगवद्गृहे ।
त्रिवर्गं मण्टपं कुर्याच्चतुरश्रं समन्ततः ॥ १८ ॥
20.19
सप्तविंशत्करं क्षेत्रं सप्तधा संविभज्य च ।
हस्तोच्छ्रायां महावेदिं सर्वालङ्कारमण्डिताम् ॥ १९ ॥
20.20
दिक्षु चारोहणैर्युक्तां त्रिभिर्मध्य प्रकल्पयेत् ।
तदूर्ध्वे मध्यतो दिक्षु पार्थिवं पीठपञ्चकम् ॥ २० ॥
20.21
तालोन्नतं त्रिहस्तं च त्रिस्थानयजनाय च ।
भूपतेरधिवासार्थं स्वर्णादेरपि वस्तुनः ॥ २१ ॥
20.22
तुलायाः खड्गमुख्यस्य भूषणानां च वाससाम् ।
मण्डलं मध्येमे पीठे प्राक्स्थं चक्राब्जसन्निभ् ॥ २२ ॥
20.23
कुण्डं दक्षिणदिक्पीठं नृपजागरणास्पदम् ।
प्रत्यक्स्थे कुंभयागं तु सौम्यस्थै स्वर्णसञ्चयः ॥ २३ ॥
20.24
तुलादीनां च संस्कारः कार्यस्तेषां च बाह्यतः ।
हस्तमात्रं परित्यज्य दिक्कुण्डानि प्रकल्पयेत् ॥ २४ ॥
20.25
चतुरश्रं च चक्राभं शङ्खाभं चाम्बुजाकृति ।
विदिक्षु वह्न्यादीशान्तं श्रृगु कुण्डगणं क्रमात् ॥ २५ ॥
20.26
योन्याकारं त्रिकोणं च वस्वश्रार्द्धेन्दुलक्षणे ।
पीठोर्ध्वे कल्पनीयानि चक्राद्यैरङ्कितानि च ॥ २६ ॥
20.27
परितोऽपि त्रियंशेन चतुर्द्वारसमन्वितम् ।
कोणेषु च सुभित्याढ्यं मुखभद्रविराजितम् ॥ २७ ॥
20.28
विविधारोहणैर्युक्तं सर्वालङ्कारमण्डितम् ।
पुरोभागे प्रपा कार्या मानाद्यागालयोपमा ॥ २८ ॥
20.29
मध्यतो रङ्गसंयुक्ता पश्चिमाशां विसृज्य च ।
प्राक् दक्षिणोत्तराशासु द्विभक्त्या प्रावृता दृढा ॥ २९ ॥
20.30
महोत्सवे प्रतिष्ठायां पवित्रारोहणादिषु ।
पुरा यथोक्तं बहुधा तेष्वेकस्मिन् प्रकल्पिते ॥ ३० ॥
20.31
मण्टपे वा प्रकुर्वीत तुलारोहादिकं द्वयम् ।
पुरस्तादेवमापाद्य मण्टपं पूर्वतोमुखम् ॥ ३१ ॥
20.32
पश्चादारोहणतुला विधेया विधिचोदिता ।
एकाङ्गुलघने तुल्ये खुवृत्ते हस्तनिर्मिते ॥ ३२ ॥
20.33
धटे हेमादिना कार्ये प्रोद्यदर्कसमप्रभे ।
परिधावङ्गुलं त्यक्त्वा वलयैर्दिक्षु कीलिते ॥ ३३ ॥
20.34
तुलादण्डसमायामे श्रृङ्खलापाशयोजिते ।
काऌआयसमयं दण्डं कार्यं हस्तत्रयायतम् ॥ ३४ ॥
20.35
त्रितालनाहं मध्ये तु द्वितालं पार्श्वयोर्द्वयोः ।
तालमात्रं परित्यज्य कालायसमयं चलम् ॥ ३५ ॥
20.36
बालचन्द्रसमाकारवक्त्रादंष्ट्राद्वयं द्वयोः ।
श्रृङ्खलापाशयोगार्थं कृत्वा मध्ये तदूर्ध्वतः ॥ ३६ ॥
20.37
तीक्ष्णाग्रां स्थापयेज्जिह्वामचलां षोडशाङ्गुलमाम् ।
शंसन्तीं साम्पवैषम्ये तदूर्ध्वे तोरणं चलम् ॥ ३७ ॥
20.38
अष्टादशाङ्गुलायामं विश्रान्तं पार्स्वयोर्द्वयोः ।
बलाकावदनं वक्त्रं योजयेत्तोरणोपरि ॥ ३८ ॥
20.39
तुलामेवं समापाद्य लक्षणेनोपलक्षिताम् ।
प्रसिद्धयज्ञदारूत्थौ सारवन्तौ ऋजू दृढौ ॥ ३९ ॥
20.40
द्विहस्तपरिणाहौ च हस्तैः षड्भिः समुच्छ्रितौ ।
मूलतश्चतुरश्राभौ मध्यतोष्टाश्र लक्षितौ ॥ ४० ॥
20.41
ऊर्ध्वतो वर्तुलाकारौ शिल्पिश्रेष्ठेन निर्मितौ ।
चतुरश्रस्य कुण्डस्य प्राच्यां द्वारस्य चान्तरे ॥ ४१ ॥
20.42
दक्षिणोत्तरयोः स्थाप्यौ द्विहस्तेनान्तरीकृतौ ।
हस्तैः पञ्चभिरुच्छ्राये निखातौ हस्तमानतः ॥ ४२ ॥
20.43
समानजातिवृक्षोत्थं योजयेदुत्तरं तयोः ।
स्तंभाग्रतुल्यविस्तारं तावन्मानोन्नतं दृढम् ॥ ४३ ॥
20.44
मङ्गऌऐरष्टबिर्जुष्टं पार्श्वयोश्च श्रियान्वितम् ।
मध्यतस्तदधस्ताच्च कीलयेद्वलयं दृढम् ॥ ४४ ॥
20.45
तुलावलम्बनार्थं च ताम्रजं वाऽयसं तु वा ।
कार्याथ ताडनीयष्टिरायामात् षोडशाङ्गुला ॥ ४५ ॥
20.46
प्रकोष्ठपरिणाहा च लौही वा सारदारुजा ।
यागोपकरणान्यत्र होमोपकरणान्यपि ॥ ४६ ॥
20.47
स्रुक्स्रुवादीनि सर्वाणि कुंभाश्च करकादयः ।
तथाष्टमङ्गऌआदीनि शक्त्या हेमादिजानि वा ॥ ४७ ॥
20.48
अङ्कुरानर्पयित्वाऽथ प्रागुक्तेऽन्यतमे दिने ।
पालिकादिषु पात्रेषु मङ्गऌआर्थं प्रयोगवित् ॥ ४८ ॥
20.49
संभाराणि च सर्वाणि सम्भर्तव्यानि सादरम् ।
मण्टपालंक्रियार्थं च त्रिस्थानयजनाय च ॥ ४९ ॥
20.50
चन्दनादीनि गन्धानि पत्रपुष्पफलानि च ।
सितादिवर्णयुक्तानि वासांसि विविधानि च ॥ ५० ॥
20.51
सर्वकुण्डेषु होमार्थं समिधां सप्तकं बहु ।
दिक्कुण्डेषु च होतव्याः सिद्धार्थीः काम्यकर्मणाम् ॥ ५१ ॥
20.52
पलाशखदिराश्वत्थोदुम्बरप्रभवा अपि ।
विदिक्षु पिप्पलप्लक्षवटकाश्मर्यजातयः ॥ ५२ ॥
20.53
समिधः सर्वकुण्डेषु पालाश्यस्तदलाभतः ।
हेमराजतताम्रोत्थाः कलशा मृण्मयास्तु वा ॥ ५३ ॥
20.54
शालिपूर्वाणि धान्यानि बीजानि च विशेषतः ।
दधिक्षीराज्यकुंभानि षड्विधानि रसान्यपि ॥ ५४ ॥
20.55
तण्डुलानि विशुद्धानि पाकयोग्यान्यनुक्षणम् ।
कर्मण्यान्युपदंशानि पाकपात्राण्यनेकशः ॥ ५५ ॥
20.56
निवेशनार्थस्थालीकाः पात्राण्यर्घ्यादिकस्य च ।
प्रदीपधूपपात्राणि सुगुणान्यद्भुतानि च ॥ ५६ ॥
20.57
पाद्यप्रतिग्रहादीनि यागोपकरणानि च ।
गुग्गुल्वगरुपूर्वाणि धूपद्रव्याणि यान्यपि ॥ ५७ ॥
20.58
स्नानकुंभोपयोग्यानि यानि सर्वौषधानि च ।
दानर्थं ब्राह्नाणादीनां धनधान्याम्बराणि च ॥ ५८ ॥
20.59
भूषणानि महार्हाणि देशिकेन्द्रस्य ऋत्विजाम् ।
हेमादि दक्षिणआर्थं च संभर्तव्या यथाबलम् ॥ ५९ ॥
20.60
यागालयमलंकुर्यात् पवित्रारोहणे यथा ।
वितानैर्ध्वजिकाभिश्च तुह्गैर्यवनिकापटैः ॥ ६० ॥
20.61
क्षौमैर्नानाविधैर्वस्त्रैर्घण्टाचामरदर्पणैः ।
व्यालम्बिदर्भमालाभिः कदऌईपनसादिभिः ॥ ६१ ॥
20.62
सुगन्धपुष्पमालाभिः सौवर्णैर्मञ्जरीगणैः ।
सफलैः कदऌईपूगनाऌइकेरादिभूरुहैः ॥ ६२ ॥
20.63
प्रदीपैः प्रकरैः पुष्पैः सिताद्यैर्वर्णकैरपि ।
तोरणैर्द्वारकुंभैश्च सवत्सैः सुरभीगणैः ॥ ६३ ॥
20.64
मण्डितैः खलु श्रृह्गादौ क्षौमस्रग्भूषणादिभिः ।
एवमाद्यैरलंकृत्य यथाशोभं तु मण्टपम् ॥ ६४ ॥
20.65
तृतीये वासरे पूर्वे कर्माहाद्दिवसक्षये ।
ऋत्विग्भिर्देशिकेन्द्रस्तु कृतसन्ध्याविधिक्रमः ॥ ६५ ॥
20.66
प्रविश्य मण्टपं प्राग्वत् पुण्याहोक्तिपुरस्सरम् ।
अर्चनं वासुदेवस्य सहोमं प्राक् समाप्य च ॥ ६६ ॥
20.67
यागालयं तु सर्वत्र गव्यैरभ्युक्ष्य पञ्चभिः ।
द्रव्याणि यागयोग्यानि तत्तत्स्थाने नियोजयेत् ॥ ६७ ॥
20.68
प्रभातायां तु शर्वरयां पूर्वाह्ने देहशुद्धये ।
उप्तरोमनखश्मश्रुर्भूपतिर्नियतः शुचिः ॥ ६८ ॥
20.69
धौतदन्तश्च सुस्नातः परिशुद्धाम्बरावृतः ।
सितालेपनपुष्पाद्यैरञ्चितः संस्मरन् हरिम् ॥ ६९ ॥
20.70
उपोषितो घृतं प्राश्य ब्राह्नणैर्वेदपारगैः ।
पारायणमृचां श्रृण्वन्नासीत सपुरोहितः ॥ ७० ॥
20.71
निशामुखे प्रवृत्ते तु ऋत्विग्बिर्देशिकोत्तमः ।
प्रविशेद्यागसदनं कृत्वा द्वार्स्थार्चनं सुधीः ॥ ७१ ॥
20.72
त्रिस्थानस्थं जगन्नाथं यजेद्दीक्षाविधेः समम् ।
पुण्याहं पूर्वमुच्चार्य ऋत्विग्भिः कुंभमुद्वहन् ॥ ७२ ॥
20.73
कुंभमण्डलयोः पूजां विस्तरेण समाप्य च ।
स्वकुण्डे हवनं कुर्यात् समिद्भिः सप्तभिः पुरा ॥ ७३ ॥
20.74
शान्तिहोमं ततः पश्चान्मधुक्षीरादिभिः क्रमात् ।
प्रत्येकं शतसङ्ख्यं च पूर्णान्तं मूलमुच्चरन् ॥ ७४ ॥
20.75
स्वमार्गेण तु संस्कृत्य गुरुः कुण्डगणं ततः ।
तेषु प्रभवयोगेन होमार्थं दिक्षु योजयेत् ॥ ७५ ॥
20.76
चतुरो वासुदेवादिनाम्ना एकायनान् द्विजान् ।
तैः स्वशाखोदितैर्मन्त्रैः होतव्यं तु क्रमेण तु ॥ ७६ ॥
20.77
ऋगाद्यांश्चतुरो वेदान् विदिक्कुण्डेषु विन्यसेत् ।
मन्त्रैरर्चितलिङ्गैस्तु स्वशाखोत्थैस्च पावनैः ॥ ७७ ॥
20.78
होमं कुर्याद्यथायोगं पुंसूक्तेनैव वा द्विज ।
भूः स्वाहेति भुवः स्वाहा स्वः स्वाहेति तथैव च ॥ ७८ ॥
20.79
भूर्भुवस्सुवःस्वाहेति मन्त्रैर्वा वह्निद्क्क्रमात् ।
भूः पुरुषाय स्वाहा भुवः पुरुषाय स्वाहा ॥ ७९ ॥
20.80
स्वः पुरुषाय स्वाहा भूर्भुवस्स्वः पुरुषाय स्वाहा ।
एतैश्चतुर्भिर्मन्त्रैर्वा जुहुयाद्दिक्क्रमेण तु ॥ ८० ॥
20.81
सास्त्राणां लोकपालानां कुमुदादिगणस्य च ।
अष्टानां मह्गऌआनां च प्राग्वत् स्यात् स्थापनादिकम् ॥ ८१ ॥
20.82
पालाशादिसमिद्भेदाश्चरुभेदाश्च पूर्ववत् ।
प्रतिकुण्डं च कुंभानां स्थापनाद्यं तु पूर्ववत् ॥ ८२ ॥
20.83
चतुर्णां ऋङ्नयादीनां तथा चैकान्तिनामपि ।
निवेशनादिकं कार्यं पुरोदितविधानतः ॥ ८३ ॥
20.84
एवं क्रमेण संपाद्य तदन्ते भूपतिं गुरुः ।
प्राशयेत् पञ्चगव्यं तु कुशोदकसमन्वितम् ॥ ८४ ॥
20.85
भगवत्पादतोयं च सर्वपापहरं शुभम् ।
भक्षयेच्चरुशेषं तु कोष्ठसंशोधनाय च ॥ ८५ ॥
20.86
कृत्वा दक्षिणपीठे तु शालिभारैस्तु विष्टरम् ।
नवसङ्ख्यैस्तदूर्ध्वे तु मार्गं चर्म तु विन्यसेत् ॥ ८६ ॥
20.87
व्याघ्रजं वा तदूर्ध्वे तु दर्भानास्तीर्य साक्षतान् ।
प्रागग्रानुदगग्रान् वा तस्मिन्नारोप्य भूपतिम् ॥ ८७ ॥
20.88
पूर्णोदकुंभांश्चतुरः प्राग्वद्वस्त्रादिभूषितान् ।
चतुर्दिक्ष्वपि संस्थाप्य तेष्वर्च्या मूर्तयः क्रमात् ॥ ८८ ॥
20.89
चतुर्विधानि चान्नानि तासां दद्यात् क्रमेण तु ।
ततो होमश्च कर्तव्यः कुण्डेषु प्राक्क्रमेण तु ॥ ८९ ॥
20.90
ततो बूपस्य पुरतः उपविश्यासने गुरुः ।
तद्देहस्थिततत्वानां शुद्धिं कुर्याद्विधानतः ॥ ९० ॥
20.91
प्राक् तेषां विलयं कृत्वा ततः सृष्टिं समाचरेत् ।
कुर्यात् कौतुकबन्धं च प्राग्वत्तस्यापि चात्मनः ॥ ९१ ॥
20.92
स्वर्णसञ्चयमाहृत्य तिन्त्रिणीमिश्रवारिणा ।
निर्मलीकृत्य संप्रोक्ष्य वीर्यमन्त्रेण तत्पुनः ॥ ९२ ॥
20.93
उदक् दिक् संस्थिते पीठे शालिभारैस्त्रिभिः कृते ।
पीठे निवेश्याधिवास्य वासोलङ्कारपूर्वकम् ॥ ९३ ॥
20.94
अन्यच्च सर्वं संस्थाप्य वर्मणा चावकुण्ठयेत् ।
ततश्चक्राब्जमालिख्य त्वन्यद्वा मण्डलं शुभम् ॥ ९४ ॥
20.95
रत्नजैर्धातुजैर्वापि वर्णकैः परिपूरयेत् ।
गीतनृत्तादिकैः स्तोत्रैः शङ्खवाद्यादिनिस्वनैः ॥ ९५ ॥
20.96
मङ्गऌऐर्विविधैश्चान्यैर्जागरेण नयेन्निशाम् ।
दिव्याद्यायतने कार्यं विशेषयजनं विभोः ॥ ९६ ॥
20.97
ततः कर्मदिने ब्राह्ने मुहूर्ते देशिकः स्वयम् ।
कृत्वा स्नानादिकं सर्वं नित्यकर्मविधानतः ॥ ९७ ॥
20.98
ततो यजेद्विशेषेण कुंभस्थं जगतीपतिम् ।
मण्डलस्थं क्रमेणैव विविधैर्भोगसञ्चयैः ॥ ९८ ॥
20.99
औपचारिकसांस्पर्शहृदयङ्गमसंज्ञितैः ।
परमान्नादिकैस्तत्र प्रबूतैरन्नसञ्चयैः ॥ ९९ ॥
20.100
एवमिष्ट्वा ततोऽग्निस्थं विभुं सन्तर्पयेत् क्रमात् ।
समित्सप्तकपूर्वैस्तु मूलेन सघृतैस्तिलैः ॥ १०० ॥
20.101
सहस्रमाहुतीनां तु शतं वाऽपि समाचरेत् ।
सर्वविघ्नविनाशार्थमस्त्रेणापि तथाचरेत् ॥ १०१ ॥
20.102
ऋत्विजश्च स्वकुण्डेषु जुहुयुः पूर्ववत् क्रमात् ।
पतितासु च पूर्णासु सर्वकुण्डेषु वै क्रमात् ॥ १०२ ॥
20.103
संस्नाप्य मूलमन्त्रेण पुंसूक्तेन तथैव च ।
सुप्रक्षाऌइतपाण्यंघ्रिं स्वाचान्तं परिभूषितम् ॥ १०३ ॥
20.104
निशाधिवासितैः सर्वैर्वस्त्रमाल्यानुलेपनैः ।
सर्वैराभरणैश्चैव महार्घैर्विविधैरपि ॥ १०४ ॥
20.105
खङ्गखेटकहस्तं च समादाय गुरुः स्वयम् ।
मुहूर्ते शोभने प्राप्ते पाणिना पृथिवीपतिम् ॥ १०५ ॥
20.106
पुण्याहं वाचयित्वा तु सर्वमङ्गऌअसंयुतम् ।
कलशस्थलदिक्कुंभसर्वकुण्डेषु संस्थितम् ॥ १०६ ॥
20.107
विभुं प्रदक्षिणीकृत्य कारयित्वा नमस्क्रियाम् ।
ब्राह्नणाग्र्याननुज्ञाप्य तुलां नीत्वा प्रदक्षिणम् ॥ १०७ ॥
20.108
तस्याः पश्चिमदिक्संस्थे भूयः प्रागाननं धटे ।
आरोपयेन्मूलमन्त्रं साङ्गमावर्तयन् गुरुः ॥ १०८ ॥
20.109
दिव्यान् बलादिकान् मन्त्रान् तथा सूक्तं तु पौरुषम् ।
प्राक्पात्रे भूपतिसमं निक्षिपेत् स्वर्णसञ्चयम् ॥ १०९ ॥
20.110
निशाधिवासितं त्वेष तुलाभारः समो भवेत् ।
एवं वाऽपि तुलाभारे प्राक् धटे विन्यसेन्नृपम् ॥ ११० ॥
20.111
प्रत्यङ्मुखं पश्चिमे तु निक्षिपेत् स्वर्णसञ्चयम् ।
शतनिष्काधिकः श्रेष्ठो मध्यमोऽर्धाधिको भवेत् ॥ १११ ॥
20.112
शतपादाधिकः स स्यात्तुलाभारः कनिष्ठकः ।
तत्काले ऋङ्भयाद्याश्च चत्वारो दिक्षु संस्थिताः ॥ ११२ ॥
20.113
स्वशाखाः समधीयीरन् विदिशासु च संस्थिताः ।
सद्ब्रह्नज्ञा अधीरयन् शाखाः परमपावनाः ॥ ११३ ॥
20.114
शङ्खकाहऌअभेर्यादिवाद्यानि विविधानि च ।
वादयेयुः समन्ताच्च तत्तद्वाद्यविशारदाः ॥ ११४ ॥
20.115
गीतं तु विविधं कुर्युः गीतशास्त्रविशारदाः ।
विविधानि च नृत्तानि कुर्युश्च परितो दिशः ॥ ११५ ॥
20.116
अन्यच्च मङ्गऌअं यद्यत तत्तत् सर्वं तु कारयेत् ।
ततस्तु सर्वकुण्डेषु शान्तिहोमं च कारयेत् ॥ ११६ ॥
20.117
तिलैराज्यैश्च बहुभिः शतमष्टोत्तरं क्रमात् ।
भूपतिर्मनसा ध्यायेत् भगवन्तं जनार्दनम् ॥ ११७ ॥
20.118
एकनाडीं तदर्धं वा आसीत नृपतिर्धटे ।
ततोऽवरुह्य वै तस्मात् प्रणमेद्दण्डवद्धरिम् ॥ ११८ ॥
20.119
ततस्तु भूषणैर्वस्त्रैर्भूषयेद्भूपतिर्गुरुम् ।
सुवर्णदक्षिणां दद्याच्छतनिष्कां तु तत्समाम् ॥ ११९ ॥
20.120
ऋत्विग्भ्यस्तु तदर्धं वा ये चान्ये तत्र कर्मणि ।
नियोजितास्तु साहाय्ये तेभ्यः कर्मानुरूपतः ॥ १२० ॥
20.121
द्रव्याणि दद्यान्नृपतिर्वस्त्राणि विविधानि च ।
सुवर्णसञ्चयांस्तांश्च भूषणानि च भूपतिः ॥ १२१ ॥
20.122
स्वयं व्यक्तादिके स्थाने दद्याद्भगवतो विभोः ।
दानात् फलविशेषं तु समाकर्णय सांप्रतम् ॥ १२२ ॥
20.123
स्वयं व्यक्ते विभोः स्थाने यो दद्याद्भूपतिर्हरेः ।
सर्वपापविनिर्मुक्तः सर्वामयवियोजितः ॥ १२३ ॥
20.124
सर्वसंपत्समृद्धश्च सर्वदेशाधिपो भवेत् ।
भुङ्क्ते च विविधान् भोगानिह लोके परत्र च ॥ १२४ ॥
20.125
कोटिकोटिगुणं दानं तथैव च फलं भवेत् ।
दानं यद्दिव्यायतने तदनन्तगुणं भवेत् ॥ १२५ ॥
20.126
आर्षे च सैद्धायतने दानं लक्षगुणं भवेत् ।
सद्विप्रकल्पिते दानं सहस्रगुणितं भवेत् ॥ १२६ ॥
20.127
सत्क्षत्रकल्पिते स्थाने दानं शतगुणं भवेत् ।
सद्वैश्यकल्पिते स्थाने तदर्धगुणितं भवेत् ॥ १२७ ॥
20.128
सच्छूद्रकल्पिते दत्तं द्विषट्कगुणितं भवेत् ।
अनन्यशरणैर्वर्णैः स्थाने तु परिकल्पिते ॥ १२८ ॥
20.129
दानं दशगुणं प्रोक्तं वर्णैर्व्यामिश्रयाजिभिः ।
निर्मितायतने दत्तं तत् पञ्चगुणितं भवेत् ॥ १२९ ॥
20.130
दाने मुख्यविधिः प्रोक्तस्त्वनुकल्पमतः श्रृणु ।
तत्र ये श्रोत्रियाः प्राप्ता वैघ्णवा ब्राह्नणोत्तमाः ॥ १३० ॥
20.131
सुवर्णसञ्चयाद्यं च तेभ्यो दद्याद्यथाक्रमम् ।
यागोपकरणं सर्वमाचार्याय प्रदापयेत् ॥ १३१ ॥
20.132
यः कुर्याद्भूपतिः कश्चित् अन्यो वा धनवान् सकृत् ।
तुलाभाराह्वयं कर्म सर्वपापैः प्रमुच्यते ॥ १३२ ॥
20.133
रोगैरनबिभूतश्च भविष्यति न संशयः ।
यः कुर्यान्नियमेनैव कर्मैतत् प्रतिवत्सरम् ॥ १३३ ॥
20.134
तस्य पुण्यफलावाप्तिं कः शक्नोत्यभिवर्णितुम् ।
तत्काले भगवद्यागं चतुःस्थानार्चनान्वितम् ॥ १३४ ॥
20.135
दिव्याद्यायतने सम्यक् कारयेत् पृथिवीपतिः ।
तदन्यस्मिन् दिने विप्र स्नापयेत् पुरुषोत्तमम् ॥ १३५ ॥
20.136
सहस्रकलशैः सम्यक् पुरोदितविधानतः ।
यद्वान्यस्नपनेनैव तत्तत्कालोचितेन वै ॥ १३६ ॥
20.137
चतुसःथानार्चनं तत्र विशेषात् कारयेन्नृपः ।
महाहविर्निवेद्यं च विशेषेणैव कारयेत् ॥ १३७ ॥
20.138
तत्रापि देशिकादिभ्यो दद्याद्वै दक्षिणां क्रमात् ।
दीनान्धकृपणानाथान् बालवृद्धकृशातुरान् ॥ १३८ ॥
20.139
भोजयेच्च विधानेन द्रव्यादीन्यपि दापयेत् ।
विविधानि च बीजानि शाल्यादीन्यपि दापयेत् ॥ १३९ ॥
20.140
बन्दीकृतांश्च विसृजेत् कारागृहनिवेशितान् ।
एष ते कथितो विप्र तुलाभारविधिः क्रमात् ॥ १४० ॥
20.141
हिरण्यगर्भाद्यन्येष्वप्येवमेव समाचरेत् ।
एवं कुर्यात्तुलाभारं यः सकृद्बहुशोऽपि वा ॥ १४१ ॥
20.142
सर्वपापविमोक्षस्तु तस्य स्यान्नात्र संशयः ।
यो वा भगवतोऽर्थे तु मातापित्रोर्गुरोस्तु वा ॥ १४२ ॥
20.143
स्वप्राणांस्त्यजतां भक्त्या विप्रादीनां महामते ।
निमित्ती तु भवेत्तस्य तुलाभारादिकेन च ॥ १४३ ॥
20.144
बहुशोऽनुष्ठितेनैव सम्यगेव तु कर्मणा ।
अन्यैर्वा विहितैर्विप्र प्रायश्चित्तैः सुदुष्करैः ॥ १४४ ॥
20.145
ब्रह्नहत्योऽत्थदोषस्य शुद्धिर्भवति वा न वा ।
प्राणत्यागः कृतस्तेन विष्वर्ण्थे यन्महात्मना ॥ १४५ ॥
20.146
तस्मान्न निष्कृतिर्विप्र भवेत्तस्य निमित्तिनः ।
ब्राह्नणाः क्षत्रिया वैश्या विष्ण्वर्थे मौद्गलास्तु वा ॥ १४६ ॥
20.147
परित्यजेयुः स्वप्राणान् भगवद्भक्तिसंयुताः ।
भृग्वादिभिरुपायैस्तु पञ्चभिर्वा विषादिकैः ॥ १४७ ॥
20.148
अन्यैस्तेषां भवेत् सद्यौ वाजपेयादिजं फलम् ।
सकामस्य तु निष्कामः प्राप्नुयात् परमां गतिम् ॥ १४८ ॥
20.149
महात्मनस्तु तान् विद्धि विष्ण्वर्थे त्यक्तजीवितान् ।
आत्महत्योत्थदोषैस्ते न लिप्यन्ते कदाचन ॥ १४९ ॥
20.150
आत्महत्योत्थदोषाः स्युरन्येषां सर्वदा द्विज ।
एवं भगवदर्थे तु प्राणत्यागे कृतादरः ॥ १५० ॥
20.151
यमुद्दिश्य त्यजेत् प्राणान् तं विद्याद्ब्रह्नघातकम् ।
मुख्यविप्रे मृते तस्य तद्दोषः स्याच्चतुर्गुणः ॥ १५१ ॥
20.152
क्षत्रिये ब्रह्नहत्योत्थदोषस्तु त्रिगुणो भवेत् ।
निमित्तिनः स दोषः स्याद्द्विगुणः संस्थिते विशि ॥ १५२ ॥
20.153
निमित्तिने मृते शूद्रे दोष एकगुणो भवेत् ।
एवं दोषविवृद्धिस्तु भवेद्विप्रे निमित्तिनि ॥ १५३ ॥
20.154
निमित्तिनि क्षत्रियादावेकैकगुणवर्धनात् ।
भवेत् पूर्वोक्तदोषस्तु अतार्थे नास्ति संशयः ॥ १५४ ॥
20.155
एवं मृते विप्रमात्रे दोष उक्तो निमित्तिनः ।
मुख्यदोषः पञ्चगुणो ब्रह्नचारिणि संस्थिते ॥ १५५ ॥
20.156
गृहस्थे यज्वनि मृते स दोषः षड्गुणो भवेत् ।
वानप्रस्थे मृते मुख्यदोषः सप्तगुणो भवेत् ॥ १५६ ॥
20.157
सन्न्यासाश्रमनिष्ठे तु संस्थिते तु निमित्तिनः ।
स्यान्मुख्यदोषोऽष्टगुण एवं तु कथितो मुने ॥ १५७ ॥
20.158
निमित्तिनो दोषवृद्धिः विष्ण्वर्थे मरणे सति ।
एवं निमित्तभूतानां द्विजादीनां न निष्कृतिः ॥ १५८ ॥
20.159
तत्र यत् ब्राह्नणैरुक्तं विवेकनिरतैस्सदा ।
सर्वशास्त्रार्थतत्वज्ञैः तत् कुर्यादविचारतः ॥ १५९ ॥
Kapitel 21
श्रीः ।
एकोविंशाऽयोयः ।
शाण्डिल्यः ।
21.1
मुने हिरण्यगर्भादौ विशेषो वक्ष्यतेऽधुना ।
हेमगर्भविधानं तु प्रथमं कथ्यते मया ॥ १ ॥
21.2
सनकः ।
यद्यदत्रोच्यते कर्म तुलाभारेऽपि नोदितम् ।
साधारणं भवेत्तत्तत् सर्वेषामपि क्रमणाम् ॥ २ ॥
21.3
तुलाभारादिकानां तु विभवाद्यानुगुण्यतः ।
प्राग्वन्मण्टपनिर्माणं पीठादिपरिकल्पनम् ॥ ३ ॥
21.4
प्रतिष्ठोदितमार्गेण कुर्याद्वा मण्टपादिकम् ।
यद्वाष्टसप्तषट्पञ्चचतुस्त्रिकरविस्तृतम् ॥ ४ ॥
21.5
त्रिंशदङगुलमानं तु गोलकैकैकहानितः ।
उन्नतं मध्यपीठं स्यात् तत्तत्क्षेत्रानुसारतः ॥ ५ ॥
21.6
चतुर्हस्तं समारभ्य षट्षट्गोलकहानितः ।
विस्तृतं पार्श्वयोः पीठद्वितयं परिकल्पयेत् ॥ ६ ॥
21.7
विंशत्यंगुलमानाच्च द्विद्विकांगुलहानितः ।
तदुन्नतिर्यथा साऽन्त्ये सार्धहस्ते दशांगुला ॥ ७ ॥
21.8
द्वयोक्तमानादर्धं वा भवेत् सर्वत्र चोन्नतिः ।
पीठानामन्तराऌअं तु कल्पयेत् करसंमितम् ॥ ८ ॥
21.9
करार्धं वर्धयेद्वापि भवेद्यावच्चतुष्करम् ।
अन्तराऌअं भवेत्तावद्यथा वा नातिसङ्कटम् ॥ ९ ॥
21.10
यथोदितेषु मानेषु यथाभिमतमानतः ।
कुर्यात् कुण्डगणं चापि लक्षणेनोपलक्षितम् ॥ १० ॥
21.11
आस्थानमण्टपाद्ये तु यथैतत् कल्पयेत्तदा ।
मध्यपीठोदितं कर्म तत्रदे वासने भवेत् ॥ ११ ॥
21.12
तदुदक् दक्षयोः पीठद्वयमुक्तप्रमाणतः ।
प्राक्दिक्कुण्डस्य वै प्राच्यां पीठं कुर्यात् स्मं शुभम् ॥ १२ ॥
21.13
सप्तषट्पञ्चहस्तं वा चतुस्त्रिद्विकरं तु वा ।
एकहस्तोच्छ्रितं वाऽपि तदर्धोच्छ्रितमेव वा ॥ १३ ॥
21.14
तस्योपरिष्टात् कर्तव्यं हेमगर्भनिवेशनम् ।
तुलाभारोदितं कर्म पीठोपर्यथवा चरेत् ॥ १४ ॥
21.15
यद्वा कुंभादियजनं अधिवासनकर्म च ।
मण्टपे कल्पयित्वा तत्प्रपायां वा समाचरेत् ॥ १५ ॥
21.16
हेमगर्भनिवेशं तु प्रपायां वा समाचरेत् ।
कुंभयागादिकं रूपं कर्तुरिच्छानुरूपतः ॥ १६ ॥
21.17
तुलाभारादिकेऽन्यस्मिन् दिनेप्येवं समाचरेत् ।
ततः कुर्याच्च सौवर्णमेकांगुलघनं दृढम् ॥ १७ ॥
21.18
अधः पात्रं चोर्ध्वपात्रं यथासङ्गतयोस्तयोः ।
सुखासनं स्यान्नृपतेर्विस्तृतं कल्पयेत्तथा ॥ १८ ॥
21.19
अधः पात्रं सुवर्णआनां सहस्रेण पलेन वा ।
यद्वा निष्कसहस्रेण तदर्धेनोर्ध्वपात्रकम् ॥ १९ ॥
21.20
एवं पात्रद्वयं कुर्यात् सर्वालङ्कारसंयुतम् ।
विभवे सर्वपात्राणि कुर्याद्धेममयानि च ॥ २० ॥
21.21
अधिवासदिनोक्तं तु तुलाभारवदाचरेत् ।
पात्रद्वयस्योदक् पीठे ह्यधिवासं समाचरेत् ॥ २१ ॥
21.22
ततः कर्मदिनोक्तं तु प्राग्वत् कृत्वा क्रमेण तु ।
इन्द्रदिक्कल्पिते पीठे भारैर्द्वादशभिर्मुने ॥ २२ ॥
21.23
शालीनां विष्टरं कृत्वा तबूर्ध्वे तण्डुलान् न्यसेत् ।
तदर्धमानांस्तस्योर्ध्वे तदर्धांस्तु तिलान् न्यसेत् ॥ २३ ॥
21.24
शालिभिः समभारान् वा तण्डुलांश्च तिलान् न्यसेत् ।
अधिवासेप्येवमेव भवेद्वित्तानुसारतः ॥ २४ ॥
21.25
एवमेव भवेद्वापि तुलाभारादिकर्मणि ।
मार्गं वा व्याघ्रजं चर्म शाल्यादेरन्तरान्तरा ॥ २५ ॥
21.26
विन्यसेन्नववस्त्रं वा विभवे त्रितयं तु वा ।
अन्यच्च मङ्गऌअं कुर्याद्वस्त्रवेष्टनपूर्वकम् ॥ २६ ॥
21.27
अधः पात्रं तदूर्ध्वे तु न्यसेत् प्रागधिवासितम् ।
मुहूर्ते शोभने प्राप्ते गृहीत्वा भूपतिं गुरुः ॥ २७ ॥
21.28
सुस्नातं भूषितं प्राग्वद्वस्त्रमाल्यादिभूषणैः ।
महार्घैर्विविधैश्चापि खड्गखेटकवर्जितम् ॥ २८ ॥
21.29
प्राग्वत्तत्वोपसंहारं कृत्वा जीवावशेषितम् ।
सङ्खतूर्यनिनादाद्यैः सहचात्र निवेशयेत् ॥ २९ ॥
21.30
अधस्थे प्राङ्मुखं यद्वा विन्यसेत् प्रत्यगाननम् ।
वर्मणा विन्यसेदूर्ध्वे ह्यूर्ध्वपात्रमधोमुखम् ॥ ३० ॥
21.31
तदण्डान्तः समासीने तस्मिंस्तस्याग्रतो गुरुः ।
उपविश्यासने प्राग्वत् तत्वोत्पत्तिं समाचरेत् ॥ ३१ ॥
21.32
अण्डाज्जातं तु तं स्मृत्वा ततस्तस्मात्तु भूपतिम् ।
स्नानपीठे समावेश्य मङ्गऌअद्रव्यवासितैः ॥ ३२ ॥
21.33
नवभिः पञ्चभिर्वापि कुंभैरुदकपूरितैः ।
वस्त्रादिवेष्टितैः कुर्यादभूपतेरभिषेचनम् ॥ ३३ ॥
21.34
कल्पयेत् प्रोक्षणं वाऽपि ऋत्विग्भिः सह देशिकः ।
कृत्वा ततस्तं खाचान्तं भूषणादिविभूषितम् ॥ ३४ ॥
21.35
प्रणामं कारयेद्भूयो भूयो भगवतो विभोः ।
जातकर्मादिसंस्कारं जातार्थं जुहुयात् क्रमात् ॥ ३५ ॥
21.36
तिलैराज्यैश्च बहुभिः सर्वसंपूरणाय च ।
सर्वदोषविनाशाय ततः पूर्णां च पातयेत् ॥ ३६ ॥
21.37
भूषणानि च ते पात्रे नृपो दद्याद्धरेर्विभोः ।
दानात् फलं च पूर्वोक्तं विभोरायतने सदा ॥ ३७ ॥
21.38
स्वयंव्यक्तादिके कुर्यात्तुलाभारादि कर्म च ।
तदाऽपि भूपस्य फलं भवेद्दानोदितं क्रमात् ॥ ३८ ॥
21.39
अनुकल्पे तदर्धं तु दद्याद्भगवतो विभोः ।
अर्धं दद्याद्बाह्नणेम्यो तुलाभारे तथैव च ॥ ३९ ॥
21.40
तुलाभाराह्वयं कर्म हेमगर्भाभिधं च यत् ।
एतद्द्वयं तु मुख्यं स्यात् सर्वेषामपि कर्मणाम् ॥ ४० ॥
21.41
क्रमेण वक्ष्यमाणानां तिलपर्वतपूर्वकम् ।
अन्यत्तु सकलं कर्म तुलाभारवदाचरेत् ॥ ४१ ॥
21.42
हेमनिष्कसहस्रं वै दद्याद्वै गुरुदक्षिणाम् ।
तदर्धं शतनिष्कं वा तदर्धं वा यथावसु ॥ ४२ ॥
21.43
दशनिष्कं तदर्धं वा तदर्धं वाऽथ दक्षिणाम् ।
आचार्याय प्रदद्याद्वै न कदाचिददक्षिणम् ॥ ४३ ॥
21.44
तुलाभारादिकं कर्म सर्वेषामपि ऋत्विजाम् ।
दक्षिणा तु तदर्धा स्यात् तदर्धा परिचारिणाम् ॥ ४४ ॥
21.45
अन्येषां तु यथाशक्ति ततोऽन्यस्मिंस्तु वासरे ।
कुंभमण्डलकुण्डस्थविभोः कुर्याद्विसर्जनम् ॥ ४५ ॥
21.46
विशेषार्चनसंयुक्तं ततोऽन्यस्मिन्दिने तु वा ।
एवं सर्वत्र वै कुर्याद्विसर्जनविधिं द्विज ॥ ४६ ॥
Kapitel 22
श्रीः ।
द्वाविंशोऽध्यायः ।
सनकः ।
22.1
संप्रोक्षणविधानं मे प्रब्रूहि मुनिसत्तम ।
प्रायश्चित्तेषु सर्वत्र प्रशस्तो यस्तु पूरकः ॥ १ ॥
22.2
शाण्डिल्यः ।
प्रासादप्रतिमापीठे प्रमादादेव दूषिते ।
समाहिते यथापूर्वं पूजालोपे विशेषतः ॥ २ ॥
22.3
चण्डालपतितोदक्यासूतिकादिशवादिभिः ।
सूतकैर्मृतकैर्वाऽपि नित्याशौचैश्च गर्हितैः ॥ ३ ॥
22.4
शिल्पिभिर्वेदवाह्यैश्च मूर्खैरज्ञातजातिभिः ।
विण्मूत्ररुधिरापेयरेतोभिर्दूषिते सति ॥ ४ ॥
22.5
जनने मरणे नॄणां मन्दिरे राष्ट्रसंकुले ।
श्वसृगालखराद्यैश्च वायसश्येनजातिभिः ॥ ५ ॥
22.6
स्पृष्टे बिम्बे तु संदृष्टे तन्त्राणां सङ्करे सति ।
एवमादिषु सर्वेषु संप्रोक्षणविधिर्भवेत् ॥ ६ ॥
22.7
दौषैरुपहतं ज्ञात्वा प्रासादप्रतिमादिकम् ।
असंप्रोक्ष्यार्चनं कुर्वन् राजानं राष्ट्रम़ञ्जसा ॥ ७ ॥
22.8
देवतायतनं ग्रामं नाशयेन्नात्र संशयः ।
तस्मात् संप्रोक्षणं कार्य प्रासादप्रतिमादिषु ॥ ८ ॥
22.9
पुरा संप्रोक्षणदिनं राजराष्ट्राभिवृद्धिदम् ।
निश्चयीकृत्य कालज्ञैः पुरस्तादुक्तवासरे ॥ ९ ॥
22.10
अंकुरानर्प्य विधिवत् पस्चात् संशोधिते गृहे ।
सर्वत्र गोमयाम्भोभिः पुण्याहोक्तिपुरस्सरम् ॥ १० ॥
22.11
संप्रोक्ष्य पञ्चभिर्गव्यैः कुशोदकसमन्वितैः ।
मूलबेरादिबिम्बानां षड्भिः सिद्धार्थकादिभिः ॥ ११ ॥
22.12
पवित्रावर्तितैरद्भिर्बहुशः क्षाऌअने कृते ।
प्रधानदिनपूर्वस्यां रात्र्यां यागादिमण्टपे ॥ १२ ॥
22.13
तोरणद्वारकलशवितानध्वजशोभिते ।
दीक्षाधिवासवत् कृत्वा कुंभे वै मण्टपस्थले ॥ १३ ॥
22.14
पूजनं विभवेनैव जपान्तं मूलमन्दिरे ।
क्षीराद्यैः पञ्चविंशद्भिः स्नापयेद्ध्रुवकौतुकम् ॥ १४ ॥
22.15
लेपभित्तिपटस्थस्य पुरस्ताद्भद्रविष्टरे ।
कर्मार्चामथवा कूर्चं दर्पणे प्रतिबिम्बितम् ॥ १५ ॥
22.16
संस्नाप्य विधिवत् कुंभैः स्थापितैरग्रमण्टपे ।
उत्सवार्चादि बिम्बानामह्गानामाश्रयात्मनाम् ॥ १६ ॥
22.17
पूजनं स्नपनं कार्यं पाश्चात्यं यागमण्डपे ।
तत्रस्थे हवनं कुण्डे शङ्खचक्रादिलक्षणे ॥ १७ ॥
22.18
मधुक्षीरादिभिः कार्यं सहस्रशतसङ्ख्यया ।
कर्मबिम्बं विनान्येषां बिम्बानामङ्गरूपिणाम् ॥ १८ ॥
22.19
दक्षिणे मण्टपस्याथ शयनं कल्पयेन्महत् ।
तिलतण्डुलशालीनां भारैर्वस्त्रादिभिः सह ॥ १९ ॥
22.20
तदूर्ध्वे शाययेदर्चां विधिवद्बद्धकौतुकाम् ।
संपूज्य कम्बऌआद्यैश्च छादयेत्तां सितादिभिः ॥ २० ॥
22.21
वर्णकैर्मण्डलं कुर्याच्चक्राम्बुरुहभूषितम् ।
यावत् प्रभातसमयं बिम्बस्थस्य समीपतः ॥ २१ ॥
22.22
देशिको मूलमन्त्रस्य जपेनैव नयेन्निशाम् ।
प्रबातायां तु शर्वर्यां कृतसन्ध्याविधिर्गुरुः ॥ २२ ॥
22.23
चतुःस्थानार्चनं कृत्वा पूर्ववत् स्नपनान्वितम् ।
मुहूर्ते शोभने प्राप्ते नववस्त्रपरिष्कृतम् ॥ २३ ॥
22.24
सोत्तरीयोपवीतं च कृतकौतुकबन्धनम् ।
समस्ततत्वविन्यस्तमभ्यर्च्यार्घ्यादिभिः क्रमात् ॥ २४ ॥
22.25
तासु स्वहृदयाम्भोजात् पुष्पाञ्जलिपुरस्सरम् ।
अग्राह्यमपरिच्छेद्यममूर्तममलं महत् ॥ २५ ॥
22.26
नित्यशुद्धमनौपम्यं सुसूक्ष्ममचलं स्फुटम् ।
सच्चिद्रूपं च सामान्यं भास्वरं सुदृढं महत् ॥ २६ ॥
22.27
तेजस्तु संक्रमय्याथ दण्डवत् प्रणिपत्य तु ।
विनिवेद्य विभोः सर्वं कृतं कर्म द्विजोत्तमाः ॥ २७ ॥
22.28
उत्थाप्योत्सवबिम्बादीन् पूर्ववन्मङ्गलैः सह ।
महाकुम्भं च पुरतो वाहयन् मूर्तिपादिभिः ॥ २८ ॥
22.29
करकास्त्रं समादाय त्वाचार्यः पुरतो व्रजेत् ।
शलाकामात्रयाऽच्छिन्नधारया सेचयन् भुवम् ॥ २९ ॥
22.30
प्रादक्षिण्येन धामान्तः प्रवेश्य मुनिपुड्गवाः ।
महोत्सवोक्तमार्गेण कुम्भप्रोक्षणमाचरेत् ॥ ३० ॥
22.31
द्वारावरणदेवांश्च आलयश्रयवर्तिनः ।
खगेशविष्वक्सेनादीन् परिवारांश्च सर्वसः ॥ ३१ ॥
22.32
कुम्भावशिष्टतोयेन प्रोक्षयेत् सर्वतः क्रमात् ।
अवशिष्टं कुम्भतोयं बलिपीठेऽभिषेचयेत् ॥ ३२ ॥
22.33
एवं सम्प्रोक्ष्य विधिवत् प्रासादान्तः प्रविश्य च ।
करस्थं कौतुकं चाथ हृदयेन विसृज्य तु ॥ ३३ ॥
22.34
गोभूहेमादिकं दत्वा सर्वदोषप्रशान्तये ।
देवमर्घ्यादिनाभ्यर्च्य हविरन्तं विशेषतः ॥ ३४ ॥
22.35
ब्राह्नणान् भोजयेत् पश्चात् सहस्रं शतमेव वा ।
सद्यो वा सकलं त्वेवं कुर्यात् संप्रोक्षणं विभोः ॥ ३५ ॥
22.36
पुष्पांकुरपुरस्कं तु तत्तद्दोषप्रशान्तये ।
न तिथिर्न च नक्षत्रं कालवेला न विद्यते ॥ ३६ ॥
22.37
सद्यः सम्प्रोक्षणं विप्राः निशि वा दिवसेऽपि वा ।
प्रायश्चित्तविलम्बे तु कुर्यात् कालनिरीक्षणम् ॥ ३७ ॥
22.38
इति सम्प्रोक्षणं प्रोक्तं सर्वं चापि द्विजोत्तमाः ।
स्थापनं पञ्चगव्यस्य सर्वाब्युदयसाधनम् ॥ ३८ ॥
22.39
नागयोग इति ख्यातः सार्पर्क्षकरणक्षमैः ।
ऋक्षेण वानयोरेकयोगस्यान्नागसंज्ञितः ॥ ३९ ॥
22.40
पुरा तन्निश्चयीकृत्य कर्तव्यमिति सत्तमैः ।
तदर्थमंकुरानर्प्य द्रव्याणि समुपाहरेत् ॥ ४० ॥
22.41
मनश्शिलां हरीतालमञ्जनं श्यामसीसके ।
सौराष्ट्रं रोचनं चैव गैरिकं पारदं तथा ॥ ४१ ॥
22.42
आदाय धातुरत्नानि पझरागपुरस्सरम् ।
मुक्ताफलं प्रवाऌअं च वज्रं वैडूर्यसंज्ञितम् ॥ ४२ ॥
22.43
गोमेदं पुष्यरागं च महानीलं च गारुडम् ।
रत्नान्येतानि संगृह्य बीजानि समुपाहरेत् ॥ ४३ ॥
22.44
शालिनीवारकंकूनि प्रियंगुतिलमाषकान् ।
मृद्गांश्च यववेणूंश्च यवसाख्यान्यनन्तरम् ॥ ४४ ॥
22.45
हिरण्यं रजतं ताम्रमायसं त्रपुसीसकम् ।
सौवर्णं कूर्मरूपं च सौवर्णं चक्रमम्बुजम् ॥ ४५ ॥
22.46
राजतं पाञ्चजन्यं च समाहृत्य ततः परम् ।
कदऌईपनसाम्राणां बिल्वामलकयोरपि ॥ ४६ ॥
22.47
दाडिमीमातुऌउङ्गस्य नाऌइकेरस्य कालतः ।
पव्कानि समुपाहृत्य फलानि च ततः परम् ॥ ४७ ॥
22.48
चन्दनागरुकर्पूरकुंकुमादीन्युपाहरेत् ।
कोष्ठं मांसी हरिद्रे द्वे मुराशैलेयचम्पकान् ॥ ४८ ॥
22.49
वचाकच्चोरमुस्तानि ह्रीबेरोशीरजान्यपि ।
मल्लिकाजातिवकुऌअनन्द्यावर्तकचंपकान् ॥ ४९ ॥
22.50
पाटलीपझकल्हाराण्युपाहृत्य ततः परम् ।
वस्त्रादीनि सितादीनि माल्यानि च विशेषतः ॥ ५० ॥
22.51
शालिपूर्वाणि धान्यानि कुशदूर्वादिकान्यपि ।
बिल्वाश्वत्थकदम्बाम्रपल्लवादीनि यान्यपि ॥ ५१ ॥
22.52
हविः पाकोपयोग्यानि तण्डुलादीनि सत्तम ।
होमद्रव्याणि सर्वाणि पझपत्राणि मृण्मये ॥ ५२ ॥
22.53
द्वादशाङ्गुऌअविस्तीर्णे पव्कापव्के घटे दृढे ।
नृहरेः पूजनार्थं तु कुंभं सकरकं बृहत् ॥ ५३ ॥
22.54
एवमादीनि चान्यानि पुराऽहृत्य विधानतः ।
गृह्णीयात् पञ्चगव्यानि मृत्पात्रे नूतने शुभे ॥ ५४ ॥
22.55
गोमूत्रं गोमयं क्षीरं दधि मस्तु च पञ्चमम् ।
कपिलाया जराया वा पञ्चगव्यं प्रशस्यते ॥ ५५ ॥
22.56
तयोरभावे चान्यासां गवां गव्यं विधीयते ।
नार्ताया न च गर्भिण्या न वृद्धायाः कदाचन ॥ ५६ ॥
22.57
नावत्साया उपादेयं धेनोर्मूत्रं शकृद्द्वयम् ।
भुविष्ठं गोमयं ग्राह्यं सोष्णं कृम्याद्यदूषितम् ॥ ५७ ॥
22.58
निष्पीड्य सम्यग्गृह्णीयाद्गोमयस्य रसं पुनः ।
सद्यस्तप्तं घृतं शुद्धमहोरात्रोषितं दधि ॥ ५८ ॥
22.59
क्षीरं ग्राह्यमतप्तं च दशाहाज्जन्मनः परम् ।
गोमूत्रं विष्णुगायत्र्या गन्धद्वारे ति गोमयम् ॥ ५९ ॥
22.60
आप्यायस्वे ति च क्षीरं दधिक्राव्ण्णे ति वै दधि ।
घृतं शुक्रमसी त्येवं द्रव्याणि सह योजयेत् ॥ ६० ॥
22.61
विष्णुगायत्रिया यद्वा पञ्चोपनिषदैस्तु वा ।
परमेष्ठी शकृन्मन्त्रो गोमूत्रस्य तु पूरुषः ॥ ६१ ॥
22.62
विश्वमन्त्रो भवेद्दध्नो निवृत्तिस्सर्पिषोभवेत् ।
पयसः सर्वमन्त्रः स्यात् सर्वेषां वाष्टवर्णकमम् ॥ ६२ ॥
22.63
प्रोक्षणे स्नपने पञ्चगव्यमन्त्रा उदीरिताः ।
सर्वदोषोपशान्त्यर्थं संप्राप्ते स्थापने सति ॥ ६३ ॥
22.64
सौदर्शननृसिंहस्य हृदाद्यैर्नेत्रपश्चिमैः ।
अङ्गमन्त्रैः प्रकल्प्यानि क्षीरान्तानि शकृद्रसात् ॥ ६४ ॥
22.65
दधि द्विगुणमाघारात् पीयूषं त्रिगुणं ततः ।
षड्गुणं मूत्रमेतस्माच्छकृद्वारि चतुर्गुणम् ॥ ६५ ॥
22.66
स्थापने कथितं मानमभिषेकविधावपि ।
भूमिसंशोधनार्थं तत् प्रोक्षयो पञ्चकं समम् ॥ ६६ ॥
22.67
गोमयेन समं मूत्रं दधि स्याद्द्विगुणं ततः ।
दध्नश्चतुर्गुणं सर्पिः सर्पिषोष्टगुणं पयः ॥ ६७ ॥
22.68
प्राशने पञ्चगव्यानां प्रमाणमिदमीरितम् ।
स्थापनं स्नपनं ह्येतत् सर्वाघौघविनाशनम् ॥ ६८ ॥
22.69
ब्रह्नकूर्चसमोपेतं हन्यादागामिनं त्वघम् ।
तद्बिधानं समासेन श्रृणु वक्ष्यामि तत्वतः ॥ ६९ ॥
22.70
चूर्णेन यववेणुभ्यां समेतं तु कुशोदकम् ।
ब्रह्नकूर्चमितिख्यातं वैष्णवास्त्रौघसप्रभम् ॥ ७० ॥
22.71
कुशोदं द्विविधं प्रोक्तं शुष्काशुष्कविबागतः ।
अशुष्कमथ निष्पीड्य वस्त्रेण रसमाहरेत् ॥ ७१ ॥
22.72
प्रहृत्य शुष्कमुदके प्रक्षिप्य जलमाहरेत् ।
पवित्रं मन्त्रमुच्चार्य मूलं वास्त्रसमन्विम् ॥ ७२ ॥
22.73
गोमूत्रसंमितं मानाद्गृण्डीयात्तत् कुशोदकम् ।
शकृद्रसप्रमाणेन चूर्णं तत्र मियोजयेत् ॥ ७३ ॥
22.74
चक्रास्त्रमन्त्रमुच्चार्य गायत्र्या बिष्णुसंज्ञया ।
ध्यात्वा च चक्रनृहरिं तद्गव्येषु नियोजयेत् ॥ ७४ ॥
22.75
यद्वा पृथक् स्थापयित्वा पञ्चगव्यैः कुशोदके ।
हृदयाद्यस्त्रपर्यन्तैरभिमन्त्र्य च योजयेत् ॥ ७५ ॥
22.76
प्रशस्तं प्राशनं ताभ्यां प्रातः सर्वाघनाशनम् ।
इति सम्यक् समाख्यातः पञ्चगव्यविधिस्तव ॥ ७६ ॥
22.77
मण्टपेऽथ पुरा क्लृप्ते यागस्नपनसिद्धये ।
पश्चगव्याधिवासार्थं यजनं प्रारभेद्गुरुः ॥ ७७ ॥
22.78
पूर्वेद्युः कर्मदिवसात् त्रिस्नायी समुपोषितः ।
अहिर्बुध्न्ये मुहूर्ते तु ऋत्विग्भिः पाञ्चरात्रिकैः ॥ ७८ ॥
22.79
पुण्याहं प्राग्वदुच्चार्य गव्यैरभ्युक्षयेत् स्थलीम् ।
सद्रव्यामस्त्रमन्त्रेण प्राग्भागे धान्यविष्टरे ॥ ७९ ॥
22.80
दशारमष्टपत्रं तु चक्राब्जं भूपुरान्तके ।
विलिख्य कर्णिकामध्ये त्रिकोणकृतसंपुटे ॥ ८० ॥
22.81
महाकुम्भं प्रतिष्ठाप्य सूत्रवस्त्रादिवेष्टितम् ।
करकेण समोपेतं दिक्पालकलशान्वितम् ॥ ८१ ॥
22.82
पूरितं दधिमध्वाज्वक्षीरयुक्तेन वारिणा ।
पिप्पलादिदऌओपेतं गन्धस्रग्भिरलंकृतम् ॥ ८२ ॥
22.83
सकूर्चं सफलं सर्वरत्नहेमसमन्वितम् ।
सर्वौषधिसमोपेतमक्षतैरपि चार्चितम् ॥ ८३ ॥
22.84
प्रदीप्य तैजसे पात्रे मृण्मये वा घृतेन तु ।
कापिलेन चतुर्दिक्षु दीपं नेत्राभिमन्त्रितम् ॥ ८४ ॥
22.85
स्थापयेद्धान्यपीठस्थचक्राम्बुरुहमध्यतः ।
कुम्भस्य पुरतः प्राग्वदुपविश्यासनोपरि ॥ ८५ ॥
22.86
प्राणायामादिकं कृत्वा भूतशुद्धिं यथाविधि ।
सौदर्शननृसिंहस्य मन्त्रं करशरीरगम् ॥ ८६ ॥
22.87
साङ्गं विन्यस्य हृदये चक्राम्बुरुहमध्यगम् ।
नादावसानगगनादवतार्य परादिना ॥ ८७ ॥
22.88
मूर्तिमन्त्रं स्वमन्त्रेण भावनामृतजैः शुभैः ।
अर्घ्याद्यैरखिलैर्भोगैरभ्यर्च्य प्रणवेन तु ॥ ८८ ॥
22.89
प्रीणयित्वा तथा हुत्वा नाभिकुण्डगतानले ।
बहिरभ्यर्चयेत् कुंभे मध्यस्थे चक्रवारिजे ॥ ८९ ॥
22.90
समावाह्यं स्वमन्त्रेण मूर्तैरर्घ्यादिभिः क्रमात् ।
जपावसानं विधिवत् कुण्डे क्राब्जलक्षणे ॥ ९० ॥
22.91
चक्रे वा पङ्कजे शङ्खे तुर्यश्रे स्थण्डिलेऽपि वा ।
समिद्भिः सप्तभिर्हुत्वा पूर्णान्तं तदनन्तरम् ॥ ९१ ॥
22.92
चन्दनेन प्रसूनैस्च गुग्गुल्वगरुणाऽपि च ।
दुग्धेन दधिना क्षौद्रगुडखण्जान्वितेन च ॥ ९२ ॥
22.93
शाल्यादीनां तथा बीजैः पायसाद्यैश्च सर्पिषा ।
हुत्वाऽथ पूर्णया तृप्तिं नीत्वा सम्यक् समर्प्य च ॥ ९३ ॥
22.94
ततः कलशनिष्ठस्य पुरस्ताच्छोधिते स्थले ।
सर्वधान्यमये पीठे लिखिते चक्रपङ्कजे ॥ ९४ ॥
22.95
स्वास्तृते नववस्त्रेण छादिते चोर्ध्वतः कुशैः ।
प्रागुक्तं कुम्भमादाय द्वादशाह्गुलसंमितम् ॥ ९५ ॥
22.96
बहिरन्तश्च संक्षाल्य सूत्रेणावेष्ट्य पूर्ववत् ।
चन्दनाद्यैः समालिप्य प्रणवेन समाहितः ॥ ९६ ॥
22.97
चक्राब्जकर्णिकामध्ये विन्यसेत्तमधोमुखम् ।
ततो मानेन तत्तुल्यमपव्कं मृण्मयं घटम् ॥ ९७ ॥
22.98
संप्रोक्ष्य पञ्चगव्येन सास्त्रेण कुशवारिणा ।
चतुर्गुणेन सूत्रेण पझैरन्तर्मुखैर्दऌऐः ॥ ९८ ॥
22.99
बन्धयित्वा तु सुदृढमास्यवर्जं समन्ततः ।
तं च तेनैव विन्यस्य जपंस्तारमवाङ्मुखम् ॥ ९९ ॥
22.100
स्तृणीयादूर्ध्वतो दर्भान् कुम्भयोः परमेष्ठिना ।
प्रोक्षयेदर्घ्यतोयेन प्राङ्मुखः पुरुषात्मना ॥ १०० ॥
22.101
विश्वमन्त्रेण विकिरेदक्षतानि तदूर्ध्वतः ।
उत्तानयेन्निवृत्या तौ पाणिभ्यामुत्तरान्तिमम् ॥ १०१ ॥
22.102
सर्पिषाष्टोत्तरशतं विष्णुगायत्रिया हुनेत् ।
सर्वात्मनाऽथ संस्पृश्य संपाताज्येन मन्त्रवित् ॥ १०२ ॥
22.103
द्रव्याणि पव्ककुम्भेऽस्मिन् हृन्मन्त्रेण नियोजयेत् ।
मृत्कन्दधातुरत्रानि बीजलोहफलानि च ॥ १०३ ॥
22.104
चन्दनादीनि पुष्पाणि तथा सर्वौषधीनि च ।
कुशपल्लवदूर्वाश्च पूरयित्वा तदूर्ध्वतः ॥ १०४ ॥
22.105
योजयेत् पञ्चगव्येन प्राह्मुखः सकुशोदकम् ।
अर्चयित्वाऽर्घ्यगन्धाद्यैः साङ्गं मूलं समुच्चरन् ॥ १०५ ॥
22.106
आच्छाद्य नववस्त्रेण दद्याद्भूतबलिं ततः ।
देवतायतनग्रामनगरेष्वपि पत्तने ॥ १०६ ॥
22.107
स्थापनास्पदमासाद्य शोभ नं पञ्चगव्यकैः ।
तत्र मध्ये खनेच्छ्वब्रं मूलमन्त्रमुदीरयन् ॥ १०७ ॥
22.108
अङ्गुष्ठोदरमावृत्य त्रिधा सूत्रेण वेष्टयेत् ।
तेनैव भ्रामयेन्मद्ये स्थाप्य तत्रावटं खनेत् ॥ १०८ ॥
22.109
हस्तमानमधस्ताच्च षडङ्गुलसमन्वितम् ।
संप्रोक्ष्यं पञ्चगव्येन तत्र रत्नादिकं न्यसेत् ॥ १०९ ॥
22.110
शेषं ध्यात्वा तदूर्ध्वे तु अब्यर्च्यार्घ्यादिभिः क्रमात् ।
वाससाऽच्छाद्य दिग्बन्धमाचरेदस्त्रमुच्चरन् ॥ ११० ॥
22.111
संस्पृश्य गव्यं कुम्भाभ्यां ध्यात्वा मूलं जपेद्गुरुः ।
प्रभातायां तु शर्वर्यां कृत्वा स्नानादिकीः क्रियाः ॥ १११ ॥
22.112
कुम्भस्थं नृहरिं पूज्य जपान्तं पूर्ववर्मना ।
पुण्याहवाचनं कृत्वा मुहूर्ते शोभने गुरुः ॥ ११२ ॥
22.113
पझपत्रावृतं कुम्भं श्वब्रे तारेण विन्यसेत् ।
परितः सर्वधान्येन पूरियत्वाऽचलं यथा ॥ ११३ ॥
22.114
पञ्चगव्यं समुद्धृत्य घटस्थं कवचं लपन् ।
तेनैव पूरयेत् कुम्भं श्वब्रस्थं मूलमुच्चरन् ॥ ११४ ॥
22.115
समभ्यर्च्यार्घ्यपुष्पाद्यैः पूरयेन्मृद्भिराहृतैः ।
नृसुक्तं भद्रसूक्तं च स्वस्तिसूक्तं च पाठयेत् ॥ ११५ ॥
22.116
शान्तिहोमं ततः कुर्याद्द्रव्यैः पूर्वोदितैः क्रमात् ।
शतं शतार्धं पादं वा यथाशक्ति समाचरेत् ॥ ११६ ॥
22.117
दक्षिणा गुरवे देया प्रतिष्ठाफलमिच्छता ।
इति ते पञ्चगव्यस्य स्थापनं परिकीर्तितम् ॥ ११७ ॥
22.118
सर्वोत्पातप्रशमनं महापातकनाशनम् ।
सर्वसौख्यप्रदं पुण्यं सर्वोपद्रववारणम् ॥ ११८ ॥
22.119
सर्वोरोग्यप्रदं नित्यं पुत्रपौत्रविवर्धनम् ।
यद्यत् कामयते मन्त्री तत्तदाप्नोत्यसंशयम् ॥ ११९ ॥
Kapitel 23
श्रीः ।
त्रयोविंशोऽयायः ।
सनकः ।
23.1
प्रशंसितं पुरा ब्रह्नन् सुदर्शननृसिंहयोः ।
एकरूपं महायन्त्रस्थापनं स्थिरलक्षणम् ॥ १ ॥
23.2
विस्तरेण समाचक्ष्व मयि सानुग्रहो यदि ।
शाण्डिल्यः ।
पुरा नारायणेनोक्तं पुण्ये बदरिकाश्रमे ॥ २ ॥
23.3
ब्रह्नणः शीर्षविच्छेदमहापातकशान्तये ।
पृच्छतः शङ्करस्याथ सर्वपापापनोदनम् ॥ ३ ॥
23.4
सोऽपि तं विस्तराच्छ्रुत्वा कैलासशिखरोपरि ।
प्रतिष्ठाप्य विधानेन यन्त्रे विष्टरसंस्थिते ॥ ४ ॥
23.5
कल्पान्तानलसूर्याभमुभयाननमव्ययम् ।
सर्वलोकमयं सर्वदेवतामयमद्भुतम् ॥ ५ ॥
23.6
सर्वाधारमनाधारं सर्वशक्तिक्रियात्मकम् ।
दुष्टदोषगणं सर्वं निर्दहन्तं स्वतेजसा ॥ ६ ॥
23.7
समाराध्याऽचिरेणैव पूतभावोऽभवद्भवः ।
तथान्ये पुरूहूताद्या विद्यामेनामवाप्य च ॥ ७ ॥
23.8
शङ्करात् पूर्णसंज्ञानात् स्वदिग्भागानपालयन् ।
प्रजापालनशीलानां भूपानामेतदर्चनम् ॥ ८ ॥
23.9
नैरन्तर्येण कर्तव्यमन्यथा जायतेऽधृतिः ।
जायते कथमेतेषामुपपातकिनामपि ॥ ९ ॥
23.10
अकुर्वतां जगत्स्थित्यै मर्यादाया विलोकनम् ।
कुर्वतां स्वस्वदुष्प्रापं भूपतीनां तु किं पुनः ॥ १० ॥
23.11
तथान्येषां द्विजातीनां सर्वपापप्रणाशनम् ।
प्रतिष्ठाप्यार्चनीयं तत् सर्वकामसमृद्धिदम् ॥ ११ ॥
23.12
तद्विधानं विशेषेण श्रृणु गुह्यतमं परम् ।
दिव्याद्यायतने चित्रे प्राङ्कणादौ तु कुत्रचित् ॥ १२ ॥
23.13
ग्रामादौ तु नदीतीरे विपिने पर्वतोपरि ।
प्रासादं मण्डपं वाऽथ सचित्रं सर्वतोमुखम् ॥ १३ ॥
23.14
प्राक्पश्चिमाननं वाऽथ सगवाक्षकवाटकम् ।
एकादितलसंयुक्तं चक्रलाञ्छनलाञ्छितम् ॥ १४ ॥
23.15
मुखभद्रसमोपेतमारोहणसमन्वितम् ।
सप्राकारं समापाद्य प्रासादाभ्यन्तरे तते ॥ १५ ॥
23.16
भद्रविष्टरमद्यस्थभूपुरे वज्रलाञ्छिते ।
शेषादिभिर्दिक्षु मध्ये षट्कोणपुरभूषिते ॥ १६ ॥
23.17
सवायुबीजवायव्यमण्डलेन विराजितम् ।
दशारचक्रमध्यस्थदऌआष्टककजान्तरे ॥ १७ ॥
23.18
स्थापयेत्तं महायन्त्रं लक्षणेनोपलक्षितम् ।
आद्वादशाङ्गुलान्मानादेकैकाङ्गुलवर्धितात् ॥ १८ ॥
23.19
आद्वादशाङ्गुलान्तानि मानानि स्युस्त्रयोदश ।
तेष्वेकं निश्चयीकृत्य कर्तुरिच्छावशेन तु ॥ १९ ॥
23.20
पादाद्युष्णीषर्यन्तं द्विषोढा वाष्टधा भवेत् ।
बेरार्धमानमादाय स्वबागार्थं समन्ततः ॥ २० ॥
23.21
सूत्रेण कर्णिकावृत्तं मध्यस्थेन ततो बहिः ।
एकैकांशानि पझानि षट् भवन्ति यथाक्रमम् ॥ २१ ॥
23.22
चतुष्पत्रं भवेदाद्यमष्टपत्रमनन्तरम् ।
द्विरष्टकेसरं विद्यात् तृतीयं षोडशच्छदम् ॥ २२ ॥
23.23
द्वात्रिंशत्केसरं तुर्यं द्वात्रिंशद्दऌअभूषितम् ।
अष्टाष्टकेसरोपेतं तथासङ्ख्यदऌअं बहिः ॥ २३ ॥
23.24
तत् केसरविनिर्मुक्तं अष्टपत्रं तथा बहिः ।
भूपुरादीनि सार्धेन संपुटान्तानि बाह्यतः ॥ २४ ॥
23.25
द्वाभ्यां द्वाब्यां तथाशाब्यां बहिरावरणद्वयम् ।
पूर्वस्मिन् केशवाद्यांश्च विष्ण्वाद्यांश्च ततो बहिः ॥ २५ ॥
23.26
जगत्स्थितौ समुद्युक्तानृषीकेशजनार्दनात् ।
बहिश्चक्रगदादीनामंशं तेषामधोर्ध्वतः ॥ २६ ॥
23.27
भागद्वयं ततस्त्यक्त्वा वाराहनरसिंहयोः ।
समन्ताद्भूपुरस्याऽथ भोगार्थं यन्त्रकल्पने ॥ २७ ॥
23.28
महायन्त्रस्य विस्तारे विभक्ते पञ्चधाऽथवा ।
सप्तधा मध्यबाह्यस्थैर्नालांस्त्र्यंशैः प्रकल्पयेत् ॥ २८ ॥
23.29
किञ्चिद्विष्टरपीठोच्चान् नाऌआनामधिकायतिः ।
वराहवदनाकारा पार्श्वयोर्मूलविस्तृते ॥ २९ ॥
23.30
दक्षिणाद्यनुपातेन त्वामूलादग्रपश्चिमम् ।
प्रमाणमेवं बुद्ध्वाऽत्र लोहदारुशिलादिकम् ॥ ३० ॥
23.31
समाहरेद्यथाशास्त्रं प्रमाणेन यथाविधि ।
संपाद्या फलकाकारा भागैकेन घना दृढा ॥ ३१ ॥
23.32
स्यात् षडंशघना शैली चतुरंघशनाऽथवा ।
आकर्णिकावनेर्बाह्यचतुरश्रपुराकृतिः ॥ ३२ ॥
23.33
प्रमाणादुत्तमादस्मान्मध्यमाधमवाञ्छया ।
त्र्यंशेनार्धेन वा कुर्यान्मुख्यकल्पमुदीरितम् ॥ ३३ ॥
23.34
बेरोष्ठं द्विगुणीकृत्य तत्प्रमाणेन कल्पयेत् ।
फलकामद्यतस्त्यक्त्वा लम्बमानं यथापुरा ॥ ३४ ॥
23.35
शेषं द्विरष्टधा भङ्ख्त्वा कर्णिकार्धेन तद्बहिः ।
प्राग्वदावृतिपझानि भूपुरादीन्यथ त्रिभिः ॥ ३५ ॥
23.36
ततस्त्रिभिस्त्रिभिः कार्यं मूर्तीनामावृतिद्वयम् ।
अर्धेन चतुरश्रं तु मूर्तीनामावृतिद्वयम् ॥ ३६ ॥
23.37
एकैकं त्र्यंशसम्भूतं प्रमाणेन यथा भृशम् ।
कल्पयेत् केशवाद्यांश्च विष्ण्वाद्यांश्च द्विरष्टधा ॥ ३७ ॥
23.38
कुर्याद्वैकावृतौ बुद्ध्या संमन्त्र्य ध्यानयोगतः ।
मध्यतः कर्णिकायां तु परिधौ चन्द्रमण्डलम् ॥ ३८ ॥
23.39
तन्मध्ये तारकं कुर्यात् तन्मध्येन सुदर्शनम् ।
भुजैः षोडशभिर्युक्तमष्टाभिर्वाऽनलप्रभम् ॥ ३९ ॥
23.40
पिङ्गलोचनकेशाढ्चं रक्ताम्बरधरं विभुम् ।
दंष्ट्राकराऌअवदनविवरोद्भूतपावकम् ॥ ४० ॥
23.41
कुटिलभ्रुकुटीभङ्गभंगुराऌअकषट्पदम् ।
ललाटलोचनोद्गीर्णज्वालाज्वलितदिङ्मुखम् ॥ ४१ ॥
23.42
ऊर्ध्वज्वालागणालीढकिरीटतटशोभितम् ।
श्रीवत्सकौस्तुभोरस्कं ग्रैवेयकविराजितम् ॥ ४२ ॥
23.43
पादावलम्बिनीं दिव्यां दधानमुपवीतवत् ।
प्रत्यालीढेन तिष्ठन्तं चक्राक्रमणरूपिणा ॥ ४३ ॥
23.44
पादयोर्दक्षिणांगुष्ठप्रान्तरेखात् तथेतरात् ।
पार्ष्णेः स्वमध्यतो मानं देहलब्धांगुलेन च ॥ ४४ ॥
23.45
चत्वारिंशत् साष्टकं स्यात् प्रत्यालीढं चिरान्वितम् ।
मुख्यदक्षिणहस्तादिमुख्यवामकरावधि ॥ ४५ ॥
23.46
द्विरष्टबाहुभिर्धत्ते प्रादक्षिण्यक्रमेण तु ।
शक्तिं खङ्गं तथा चाग्नि मङ्कुशं दण्डकुन्तके ॥ ४६ ॥
23.47
परशुं च सहस्रारं दरं च सशरं धनुः ।
पाशं हलं ततो वज्रं गदां च मुसलं तथा ॥ ४७ ॥
23.48
त्रिशूलमेतान्यस्त्राणि प्रत्येकं वीर्यवन्ति च ।
दुष्प्रधर्षं भयघ्नानि वहन्तमरिसूदनम् ॥ ४८ ॥
23.49
अन्यथाष्टभुजो धत्ते मुख्यदक्षकरादिकैः ।
पझां कुशौ च मुसलं चक्र मत्युग्रतेजसम् ॥ ४९ ॥
23.50
शङ्खं च सशरं चापं पाशं कौमोदकीं क्रमात् ।
कृत्वैवमर्धचित्रं तु नवतालेन शिल्पिना ॥ ५० ॥
23.51
पादयोरन्तरे तस्य तिष्ठतः कर्णिकावनौ ।
शान्तिपुष्टिवशीकारविद्वेषाकर्षमारणान् ॥ ५१ ॥
23.52
उच्छाटनं वा यः कर्तुमिच्छेत् साधकसत्तमः ।
तस्य साध्यं लिखेन्मन्त्री शक्त्या संपुटितं विभोः ॥ ५२ ॥
23.53
इन्दुबिम्बस्य पर्यन्ते षट्कोणं क्रमशो लिखेत् ।
प्रागादिकोणषट्के तु प्रवर्तकनिवर्तके ॥ ५३ ॥
23.54
मन्त्राक्षराणि सादीनि सबिन्दूनि च वै पुरा ।
उपक्रम्य च वर्मास्त्रे लिखेदन्तर्मुखानमून् ॥ ५४ ॥
23.55
बहिः कोणान्तराऌएषु प्रोक्तोऽयं दक्षिणादितः ।
आचक्रादीन्यथाङ्गानि ज्वालाचक्रान्तिमानि च ॥ ५५ ॥
23.56
चतुर्दऌआग्रे प्रागादौ वर्मास्त्रे च सबिन्दुके ।
तदन्तराऌएष्वन्तस्था बिन्दुना चान्तराननाः ॥ ५६ ॥
23.57
केसरेष्वष्टपत्रस्य स्वरानन्यांश्च बिन्दुभिः ।
दऌएष्वष्टाक्षरार्णआंनि तथा भूतानि तद्बहिः ॥ ५७ ॥
23.58
द्विरष्टपत्रकिञ्जल्कनिचये प्राक्प्रयोगतः ।
कादिसान्तानि वर्णानि सबिन्दूनि यथापुरा ॥ ५८ ॥
23.59
तद्दऌएषु द्विषट्कार्णः वर्मास्त्रे शिरसा सह ।
षोडशाक्षर इत्युक्तो द्वात्रिंशत्केसरादिके ॥ ५९ ॥
23.60
आनुष्टुभं महामन्त्रं नृवराहनृसिंहयोः ।
बहिरष्टाष्टपत्रेषु पाताऌअनृहरेर्मनुम् ॥ ६० ॥
23.61
प्राग्वलदक्षरशो न्यस्य ततोऽष्टदऌअपङ्कजे ।
नारसिंहं तथाष्टार्णं तद्बाह्यस्थे तु भूपुरे ॥ ६१ ॥
23.62
सप्तद्वीपसमुद्राढ्ये वज्रैः कोणेषु लाञ्छिते ।
प्रागाद्यासु महादिक्षु पार्थिवं बीजमुत्तमम् ॥ ६२ ॥
23.63
तन्नाममन्त्रसंयुक्तं अन्तस्थाः कोणभूमिषु ।
ततः सपार्थिवं बीजं कोणाभ्यन्तरबाह्ययोः ॥ ६३ ॥
23.64
तद्बहिः प्रातिलोम्येन स्वरषोडशकं न्यसेत् ।
सकारादीनि कान्तानि तथाभूतानि तद्बहिः ॥ ६४ ॥
23.65
परितोन्त्ययुगेनैव साध्यनामविदर्भणम् ।
कृत्वा प्रति प्रयोगेण बहिर्भूपुरसंपुटात् ॥ ६५ ॥
23.66
पाशांकुशाब्यामावेष्ट्य द्वाब्यां वा बहुभिस्तु वा ।
पुरोदितक्रमेणैव स्वस्थाने केशवादयः ॥ ६६ ॥
23.67
बाह्यावरण भूमिष्ठाः प्रागाद्यासु च विष्णवः ।
तत्कोणेषु हृषीकेशः तच्छिद्रेषु जनार्दनाः ॥ ६७ ॥
23.68
कल्पनीयाश्च तन्मन्त्राः प्रणवाद्या यथाक्रमम् ।
सजीवाः संज्ञयोपेता नमस्कारसमन्विताः ॥ ६८ ॥
23.69
अमुकं रक्ष रक्षेति तदन्ते साध्यभूषिताः ।
प्रागादिदिक्षु तद्बाह्ये त्वन्तस्थाश्चाष्टभिः सह ॥ ६९ ॥
23.70
यशौ रषौ लसौ चाथ वहावपि सबिन्दुकौ ।
विलिखेत् पुनरप्येतानैशान्याऽनल पश्चिमम् ॥ ७० ॥
23.71
पाशाङ्कुशाब्यामावेष्ट्य द्वाभ्यां वा बहुभिस्तथा ।
अधस्तान्नृवराहं च सर्वोर्ध्वे नृहरेर्मनुम् ॥ ७१ ॥
23.72
क्रमशः केशवादीनां ध्यानं चाकर्णयामलम् ।
केशवः स्वर्णवर्णोऽब्जशह्खचक्रगादाधरः ॥ ७२ ॥
23.73
नारायणो नीरदाभः शङ्खचक्रगदाब्जधृक् ।
माधवोऽव्जगदाशङ्खचक्री नीलाब्जसन्निभः ॥ ७३ ॥
23.74
गोविन्दो धवलश्चक्रगदाशह्खपयोजधृक् ।
विष्णुर्गदाम्बुजदरचक्री बन्धूकसप्रभः ॥ ७४ ॥
23.75
रक्तस्चक्रदराम्भोजशङ्ख धृङ्नधुसूदनः ।
त्रिविक्रमश्चक्रगदापझशङ्खी जपारुणः ॥ ७५ ॥
23.76
शह्खचक्रगदापझधरः स्याद्वामनोऽरुणः ।
पझचक्रगदाशङ्खी श्रीधरश्चन्द्रसप्रभः ॥ ७६ ॥
23.77
विद्युत्प्रभो हृषीकेशो गदाचक्रदराब्जधृक् ।
गदाब्जचक्रविद्याभृत्पझनाभोऽरुणप्रभः ॥ ७७ ॥
23.78
दामोदरः पझशङ्खगदाचक्रधरोऽरुणः ।
मुख्यदक्षकराम्भोजात् मुख्यवामकरावधि ॥ ७८ ॥
23.79
पझादिकं धारयन्त आयुधानां चतुष्टयम् ।
किरीटकौस्तुभधरा वनमालाविभूषिताः ॥ ७९ ॥
23.80
पीताम्बरधराः सर्वे प्रसन्नवदनेक्षणाः ।
करुणापूर्णहृदया जगदुद्धरणोद्यताः ॥ ८० ॥
23.81
यन्त्रतेजोऽसहिष्णूनां नराणां तापशन्तये ।
आसारैरमृतेर्नित्यं सेच्यन्तः समन्ततः ॥ ८१ ॥
23.82
विष्णुः प्राच्यादिदिग्भागे हृषीकेशा विदिक्स्थिताः ।
जनार्दनाश्छिद्रगताश्चाष्टपादे चतुर्भुजाः ॥ ८२ ॥
23.83
पृष्टदक्षिणवामाभ्यां चक्रशह्खधरास्तथा ।
मुख्यवामकरेणैव वरदा वाऽभयप्रदाः ॥ ८३ ॥
23.84
विष्णवो दक्षिणैर्मुख्यैर्ज्वलत्पावकभीषणाः ।
चक्रकौमोदकीशार्ह्गान् धारयन्तः सखड्गकान् ॥ ८४ ॥
23.85
वह्न्यादिकोणदेशस्था हृषीकेशाः सुवर्णभाः ।
शङ्खं हलं च मुसलं वहन्तः शूलपश्चिमम् ॥ ८५ ॥
23.86
प्रागाग्नेयादिकच्छिद्रदेशस्थाश्च जनार्दनाः ।
ज्वलन्मरतकाभाश्च वीक्षमाणाश्च दिक्स्थितान् ॥ ८६ ॥
23.87
दण्डं कुन्तं च शक्तिं च पाशं चाङ्कुशमेव च ।
वज्रं परशुसंज्ञं च तथा शतमुखानलम् ॥ ८७ ॥
23.88
दधानाः सुसमैः स्थानैरुत्थिताः स्वस्तिकादिना ।
सुखासीनास्तु वा सर्वे केवला वा सशक्तिकाः ॥ ८८ ॥
23.89
संकल्प्याः तदधः सर्वयज्ञाङ्गः सूकराननः ।
कृष्णपिङ्गऌअवर्णआभः पुण्डरीकनिभेक्षणः ॥ ८९ ॥
23.90
पश्चिमाब्यां च पाणिभ्यां पूर्ववच्चक्रशङ्खभृत् ।
मुख्येन दक्षिणेनैव भीतानामभयप्रदः ॥ ९० ॥
23.91
भूम्याः स्वाङ्के निषण्णाया वामेनास्लेषतत्परः ।
परस्तान्नहरिर्देवस्तुहिनाचलसन्निभः ॥ ९१ ॥
23.92
करैरष्टभिरत्युग्रः पृष्ठतो दक्षिणादितः ।
शङ्खचक्राम्बुजगदाः खड्गं च सशरं धनुः ॥ ९२ ॥
23.93
धत्ते षड्भिस्तु मुख्याभ्यां हिरण्यकशिपुं रुषा ।
विदारयंश्च स्वाङ्कस्थं नखरैः क्रकचोपमैः ॥ ९३ ॥
23.94
उद्धृत्य साम्बुजं पाणि केवलं वाऽभयप्रदः ।
हिरण्यरुधिरस्रोतः पङ्कितोरस्थलः शुभः ॥ ९४ ॥
23.95
सर्वानेतान् सजीवेन शक्तिबीजेन वेष्टयेत् ।
बहिः प्राच्यादिदिग्देशे साकारानस्त्रविग्रहान् ॥ ९५ ॥
23.96
चक्रकौमोदकीशार्ह्गनन्दकान् विलिखेदिमान् ।
केशवाद्यास्तथास्त्रान्ताश्चतुस्त्रिंशत्तु मूर्तयः ॥ ९६ ॥
23.97
स्वतन्त्रं कल्पयेन्मन्त्री यद्वा चावरणक्षितौ ।
कृत्वैवं प्राह्मुखं यन्त्रमपराङ्गं प्रकल्पयेत् ॥ ९७ ॥
23.98
कर्णिकावलयं कुर्यात् प्राक्प्रमाणेन मध्यतः ।
तदन्तरे कोणषट्कं प्रकाशाह्लादसंपुटम् ॥ ९८ ॥
23.99
त्रिधा विभज्य तद्बाह्यं क्षेत्रार्धं च तदन्तरे ।
त्रिरष्टयेदुम्बराह्ये कमलं द्वादशच्छदम् ॥ ९९ ॥
23.100
चतुर्विंशद्दलं चक्रं नाभिनेमित्रयान्वितम् ।
प्रथिभिश्चावृतं बाह्ये नेमिस्थैस्तस्य बाह्यतः ॥ १०० ॥
23.101
शक्तिभिश्च जयाद्याबिरष्टाभिः परिवारितम् ।
पूर्वं द्वादशपत्राब्जकर्णिकामध्यकल्पिते ॥ १०१ ॥
23.102
त्रिकोणसंपुटाकारे प्रकाशाह्लादलक्षणे ।
षट्कोणे लक्षयेद्देवं कल्पान्तहुतभुक्प्रभम् ॥ १०२ ॥
23.103
नृपञचवस्त्रं ज्ञानादिगुमपूर्णमहार्णवम् ।
त्रिलोचनं चतुर्बांहुं चतुश्चक्रधरं परम् ॥ १०३ ॥
23.104
योगपट्टपिनद्धाङ्गं जान्वारूढभुजद्वयम् ।
श्रीवत्सकौस्तुभोरस्कं भूषितं मकुटादिभिः ॥ १०४ ॥
23.105
हारशेखरकेयूरकटकैर्नूपुरान्तिमैः ।
भक्तानां स्वानुरक्तानां सिद्धान्तनिरतात्मनाम् ॥ १०५ ॥
23.106
अशोकविटपिच्छायान्याजेनार्तिविनाशनम् ।
साधुसंरक्षणोद्युक्तचेष्टितं हृषृमानसम् ॥ १०६ ॥
23.107
अधस्ताच्चरणाम्भोजात् साध्यं बीजपुटीकृतम् ।
विलिख्य कोणषट्केषु प्रागाद्येषु त्रिकं त्रिकम् ॥ १०७ ॥
23.108
सुदर्शननृसिंहस्य मन्त्रार्णानि यथाक्रमम् ।
तदङ्गानि च तद्बाह्ये कोणाभ्यन्तरभूमिषु ॥ १०८ ॥
23.109
लिखेदावृत्तियोगेन क्षार्णं प्रथिजणेषु च ।
प्रागादि चक्रबाह्ये तु जया चन्द्रप्रभाविनी ॥ १०९ ॥
23.110
नवदूर्वाङ्कुरश्यामा मोहिनी विजया ततः ।
राजोपलप्रभा कान्ता ह्लादिनी पाटलप्रभा ॥ ११० ॥
23.111
अजिता कनकप्रख्या माया नीलोत्पलप्रभा ।
रक्ताऽ पराजिता सिद्धिर्धूम्रवर्णा स्वकं पतिम् ॥ १११ ॥
23.112
वीक्षमाणाश्च सततं नीलोत्पलविलोचनाः ।
नवयौवनलावण्यविभवेनोपबृंहिताः ॥ ११२ ॥
23.113
करण्डमकुटोपेताः सर्वाभरणभूषिताः ।
विचित्रक्षौमवसनाः सर्वर्तुकुसुमान्विताः ॥ ११३ ॥
23.114
द्विभुजा दक्षहस्तस्थपुष्पमालाभ्यलंकृताः ।
वामे चन्द्रांशुसह्काश चामरव्यजनोद्यताः ॥ ११४ ॥
23.115
भूपच्चरौ नृसिंहस्य भीमोग्रौ भीषणद्युती ।
दंष्ट्राकराऌअवदनौ ज्वलत्पावकलोचनौ ॥ ११५ ॥
23.116
नीलनीरदसंकाशौ द्विभुजौ दण्डचक्रिणौ ।
उदग्रकायावत्युग्रौ वीक्षयन्तौ परस्परम् ॥ ११६ ॥
23.117
रक्ताम्बरधरौ रक्तकुसुमस्रग्विमण्डितौ ।
संपाद्यैवं महायन्त्रं सुदर्शननृसिंहयोः ॥ ११७ ॥
23.118
स्थापयेद्विधिवन्मन्त्री मध्ये प्रासादमण्टपे ।
क्ष्मापरिग्रहमारभ्य संपन्ने सर्वकर्मणि ॥ ११८ ॥
23.119
विन्यस्ते विष्टरे यन्त्रे प्रतिष्ठाप्य विधानतः ।
त्रैकाल्यमर्चनं कार्यं तल्लक्षणमथोच्यते ॥ ११९ ॥
23.120
तद्दैर्घ्यं यन्त्रविस्तारादधिकं द्वादशाह्गुलम् ।
विभक्ते यन्त्रविस्तारे सप्तधा वाऽथ पञ्चधा ॥ १२० ॥
23.121
एकैकमन्तयोस्त्यक्त्वा भागैर्मध्यगतैरतः ।
पञ्चभिर्वा त्रिभिः कार्या विष्टरस्य तु विस्तृतिः ॥ १२१ ॥
23.122
एकैकं मध्यतः स्थाप्य पार्श्वयोः सषडङ्गुलम् ।
यन्त्रपार्श्वस्थनाऌआभ्यां सुषिरद्बयमाचरेत् ॥ १२२ ॥
23.123
शिष्टानि मार्जयेन्मन्त्री चतुरश्रप्रसिद्धये ।
त्रिचतुःपञ्चधा वाऽथ यन्त्रोच्छ्राये विभाजिते ॥ १२३ ॥
23.124
तत्तदेकांशमानेन कार्यःस्याद्विष्टरोच्छ्रयः ।
पीठवत्तदलंकृत्य पञ्चाह्गैः परितो बहिः ॥ १२४ ॥
23.125
तदूर्ध्वे विष्टरं यन्त्रं कल्पयेत्तद्विधिं श्रृणु ।
पीडमध्यगतं भागं मध्यस्थेन तु तन्तुना ॥ १२५ ॥
23.126
कर्णिकार्थं परिभ्राम्य शेषे षोढा विबाजिते ।
द्विरष्टकेसरोपेतमष्टपत्राब्जमस्तके ॥ १२६ ॥
23.127
भागेन तद्बहिस्तद्वद दशारं चक्रमुज्ज्वलम् ।
वायुमण्डलमध्येन षट्कोणं तु बहिस्त्रिभिः ॥ १२७ ॥
23.128
वज्राङ्कितं कोणभूषु भागार्धेन तु भूपुरम् ।
यन्त्रमद्यमनाऌअस्य निवेशार्थं तु मध्यतः ॥ १२८ ॥
23.129
वेधयेत् तत्प्रमाणेन साध्यनाम समन्ततः ।
विलिख्य तद्बहिर्वेष्ट्य केसराणां द्विरष्टके ॥ १२९ ॥
23.130
षोडशार्णं नृसिंहस्य तद्द्विषट्काक्षरावधौ ।
हुंफट्स्वाहा समोपेतो नृहरेः षोडशाक्षरः ॥ १३० ॥
23.131
प्रागाद्यष्टदलेष्वस्य मन्त्रमानुष्टुभं परम् ।
चतुष्टयक्रमेणैव प्रत्येकस्मिन् दऌए न्यसेत् ॥ १३१ ॥
23.132
बहिर्दशारचक्रस्य प्रागराद्येषु मन्त्रपम् ।
सौदर्शननृसिंहस्य हनशब्दसमन्बितम् ॥ १३२ ॥
23.133
विलिखेद्द्वन्द्वयोगेन बाह्ये वायव्यमण्डले ।
विलिखेद्वर्तुऌआकारे वायव्यं बीजमुत्तमम् ॥ १३३ ॥
23.134
वर्म चास्त्रसमेतं च विलिखेदन्तरान्तरा ।
बाह्यस्थे कोणषट्के तु लिखेदाग्नेयमक्षरम् ॥ १३४ ॥
23.135
कल्पयेत् प्रतिकोणं तु वह्निज्वालासमन्वितम् ।
कोणेषु भूपुरस्यान्तः पार्थिवं बीजमुल्लिखेत् ॥ १३५ ॥
23.136
अङ्कारोऽथ विदिग्भागे परितो भद्रपीठवत् ।
कण्ठदेशं समाश्रित्य द्वौ द्वौ प्राच्यां दिशि क्रमात् ॥ १३६ ॥
23.137
अन्योन्यमभिवीक्षन्तौ कल्पयेदुत्तमोत्तमे ।
यन्त्रसन्धारणोद्युक्तौ व्यात्तास्यावुग्रलोचनौ ॥ १३७ ॥
23.138
अनन्तगुऌइकौ प्राच्यां याम्यायां शङ्खवासुकी ।
सतक्षको महापझः प्रतीच्यां उत्तरे तथा ॥ १३८ ॥
23.139
कार्कोटकस्तथापझो विशेषस्तत्र कथ्यते ।
विभज्य कर्णिकाभूमेर्भूपुरान्तं विधान्तरे ॥ १३९ ॥
23.140
नृसिंहयन्त्रं कुर्वीत बाह्यतो यन्त्रविष्टरम् ।
दिक्षु नारायणास्त्राणि तत्र कूर्चमयानि च ॥ १४० ॥
23.141
सितादिधातुजैर्वर्णैः कुङ्कुमाद्यैर्विमिश्रितैः ।
विलिखेन्मुख्यमूर्त्यादि यथाशोभं मुखद्वये ॥ १४१ ॥
23.142
सुदर्शननृसिंहाभ्यां वर्णशोभा समीरिता ।
कर्णिका कनकप्रक्या केसराण्यरुणानि तु ॥ १४२ ॥
23.143
पाण्डुरक्तानि पत्राणि भूपुराणि समन्ततः ।
कनकाभानि कार्याणि मूर्तीनां प्रागुदीरितम् ॥ १४३ ॥
23.144
चक्रनाबिद्वयं कुर्याद्धेमपूर्वारुणप्रभम् ।
शरदाकाशसंकाशान्यराणि अरुणमन्तरम् ॥ १४४ ॥
23.145
हेमकुन्दसितं कुर्यात् क्रमान्नेमित्रयं शुभम् ।
पीतेन वा वऌअर्क्षेण लिखेन्मन्त्राक्षराणि वै ॥ १४५ ॥
23.146
पझकेसरपत्रेषु भूपुरेषु समन्ततः ।
षट्कोणान्तरबाह्येषु चक्रनाभ्यरनेमिषु ॥ १४६ ॥
23.147
पृथक् कृतानि वर्णानि मान्त्राण्यन्तर्मुखानि च ।
तारद्वयान्तरस्थानि बिन्दुयुक्तानि चान्ततः ॥ १४७ ॥
23.148
लेख्यान्येतानि सर्वत्र मुख्यप्रणवसंपुटम् ।
प्राकारसमुपेतानि नमस्कारान्वितानि च ॥ १४८ ॥
23.149
कुर्यान्नारायणास्त्राणि कूर्चानि हरिताणि च ।
बद्धानि पझपाशेन ततो हयमुखानि च ॥ १४९ ॥
23.150
भूर्जपत्रे विलिख्येत कुंकुमागरुजै रसैः ।
हरिचन्दनकर्पूरगव्यपञ्चकसाधुभिः ॥ १५० ॥
23.151
सुवर्णसूच्या विधिवत् समाप्य गुऌइकाकृतिम् ।
सुवर्णपट्टेनावृत्य प्रतिष्ठाप्य विधानतः ॥ १५१ ॥
23.152
रक्ष्याणामायुरारोग्यधनधान्यादिवृद्धये ।
पुत्रपौत्रादिसन्तानविजयेष्टादिसिद्धये ॥ १५२ ॥
23.153
धारयेच्छिरसा मन्त्री साधुसंरक्षणे रतः ।
यन्त्रमेतत् समाख्यातं सुदर्शननृसिंहयोः ॥ १५३ ॥
23.154
स्थापनं सर्वमूर्तीनां यथावत् प्रागुदीरितम् ।
तथैवैतत् प्रतिष्ठाप्य त्रिकालं वैककालिकम् ॥ १५४ ॥
Kapitel 24
श्रीः ।
चतुर्विंशोऽध्यायः ।
सनकः ।
24.1
मुने सम्यक् समाख्यातं सुदर्शननृसिंहयोः ।
पूर्वापरमुखं यन्त्रं नानामन्त्रार्णपूरितम् ॥ १ ॥
24.2
मध्यमारभ्य मन्त्राणां साङ्गानां लक्षणं परम् ।
न्यासार्थमर्चनार्थं च समाचक्ष्व यथाक्रमम् ॥ २ ॥
24.3
शाण्डिल्यः ।
साधु पृष्टं त्वया प्राज्ञारहस्याम्नायलक्षितम् ।
सनक त्वं श्रृणुष्वात्र मन्त्रजातं यथास्थितम् ॥ ३ ॥
24.4
संकर्षणात् पुरा तुष्टाच्छंकरेण मयाऽपि च ।
हिताय सर्वलोकानां यन्त्ररूपं गुणोत्तरम् ॥ ४ ॥
24.5
सुगुप्ते भूतले शुद्धे वर्णचक्रं परिस्तरेत् ।
अकारादिक्षकारान्तं सर्वार्णमयरूपिणम् ॥ ५ ॥
24.6
स्वक्षनाभ्यरनेमीभिः प्रथिभिश्चाप्यलंकृतम् ।
कारणं सर्वमन्त्राणां अक्षे प्रणवमालिखेत् ॥ ६ ॥
24.7
अकाराद्या विसर्गान्ताः स्वरा नाभ्यङ्गमाश्रिताः ।
ककारादीनि भान्तानि तदराणां त्रिरष्टके ॥ ७ ॥
24.8
मादिहान्तानि नेमौ तु क्षार्णं प्रथिगणे स्थितम् ।
शब्दब्रह्नमयं चक्रं पुरा वर्णगणं ततः ॥ ८ ॥
24.9
प्रणवाद्यैर्नमोन्तैश्च संज्ञाभिः क्रमशस्ततः ।
विन्यस्य मातृकायन्त्रं स्वं देवं विधिवद्गुरुः ॥ ९ ॥
24.10
समभ्यर्च्यार्घ्यपुष्पाद्यैर्मातृकामन्त्रविग्रहम् ।
ततः समुद्धरेन्मन्त्रान् सर्वाभिमतसिद्धिदान् ॥ १० ॥
24.11
जेतुं शक्ताऽत्मनो यातु सृष्टिस्थितिलयोन्मुखी ।
कियाशक्तिः समुद्दिष्टा संकल्पजननी पुरा ॥ ११ ॥
24.12
कालरूपमधिष्ठाय तयैतद्बृंहितं जगत् ।
कालचक्रं जगज्जक्रं तस्मात् सौदर्शनं वपुः ॥ १२ ॥
24.13
तमधिष्ठाय सा शक्तिर्जीवभूता व्यवस्थिता ।
विनाकृतं तया सर्वमसत्कल्पमिदं भवेत् ॥ १३ ॥
24.14
तस्मात् समुद्धरेच्छक्तिमग्नीषोमसमप्रभाम् ।
अक्षाधारां तु वै नित्यामनाद्यन्तां च वैष्णवीम् ॥ १४ ॥
24.15
पूर्वं नेम्यन्तिमद्वन्द्वं तदाद्यं सानलद्वयम् ।
नाभितुर्यान्तिमद्वाभ्यां पिण्डमेतदलंकृतम् ॥ १५ ॥
24.16
सौदर्शनमहाशक्तिः सर्वसिद्धिप्रदायिनी ।
जीवभूता षडर्णस्य प्रकाशानन्दरूपिणी ॥ १६ ॥
24.17
हृदयाद्यङ्गसिध्यर्थं पिण्डमेतत् स्वरोज्झितम् ।
दीर्घैराद्यैस्त्रिभिश्चान्त्यैर्भेदयेन्नेत्रपश्चिमम् ॥ १७ ॥
24.18
प्रणवादीनि चैतानि कुर्याद्वै हृदयादिभिः ।
नमः स्वाहा वषड्ढुंफट्वौषड्भिर्जातिभिः सह ॥ १८ ॥
24.19
कमान्नियोजनीयानि विज्ञानादिगुणैः सह ।
शक्तेः प्रकृतिरूपस्य षडर्णस्योद्धृतिं श्रृणु ॥ १९ ॥
24.20
पूर्ववत् समुपाहृत्य चान्तिमे द्वयमन्तिमम् ।
तत्राष्टं सतृतीयं स्यात् सार्णं सान्त्यंततोन्तिमम् ॥ २० ॥
24.21
सपञ्चमस्वरं तच्च कुर्यान्नेभ्याद्यभूषितम् ।
पश्चादेकादशारार्णयुक्तं तद्द्विगुणारगम् ॥ २१ ॥
24.22
अन्त्यार्णमविमुक्तं तु कुर्यात् पञ्चमषष्ठयोः ।
अयं सौदर्शनो मन्त्रः षडर्णः समुदीरितः ॥ २२ ॥
24.23
तृतीयः पञ्चमः षष्ठः प्रत्येकं त्र्यक्षरः स्मृतः ।
अन्येऽवर्णसमोपेता वर्णाः स्युर्द्व्यक्षरास्त्रयः ॥ २३ ॥
24.24
एष कालात्मनो विष्णोर्विश्वरूपस्य वाचकः ।
सतारया च शक्त्यायमष्टार्णः परिकीर्तितः ॥ २४ ॥
24.25
क्षेत्रक्षेत्रज्ञयुक्त्या तु यथा प्रकृतिगः पुमान् ।
स्थूलस६क्ष्मात्मको ध्येयस्तथा सौदर्शनो हरिः ॥ २५ ॥
24.26
दर्शनं परतत्वस्य स्यात्तदाख्यानदर्शनम् ।
तन्निष्ठानामिदं नित्यमज्ञानतिमिरापहम् ॥ २६ ॥
24.27
छिनत्ति संशयं तेषां समु पायप्रवृत्तये ।
रूपान्तरमिदं तस्य संशयच्छेदकारिणः ॥ २७ ॥
24.28
नूनं वर्णाश्रमाचारनिष्ठानामाननेन तु ।
भिनत्ति दूषकान् जन्तून् स्वकविद्याप्रभावतः ॥ २८ ॥
24.29
लाञ्छितानामनेनाशु भक्तानां भावितात्मनाम् ।
करस्थो विजयस्तु स्यादिह लोके परत्र च ॥ २९ ॥
24.30
किं पुनर्विषये यन्त्रे स्थापिते पूजिते सति ।
मुने मन्त्रप्रभावोऽयमेवमुक्तः परन्तप ॥ ३० ॥
24.31
लक्षणं हृदयाद्यस्य मन्त्रस्यास्य क्रमाच्छृणु ।
प्रागेव हृदयादीनां मन्त्रार्णानि यथाक्रमम् ॥ ३१ ॥
24.32
विन्यसेद्बीजभूतानि तारान्ते बिन्दुना ततः ।
आविसूनां क्रमादन्ते तथा सूर्याक्षरद्वयात् ॥ ३२ ॥
24.33
महासुदर्शनज्वालापदयोरन्तिमेऽपि च ।
चक्रायेति पदं षोढा शिरोन्तं योजयेत् क्रमात् ॥ ३३ ॥
24.34
विज्ञानादिगुणौपेतैः तुर्यान्तैर्हृदयादिभिः ।
नमः स्वाहादिजात्यन्तैः प्रागुक्तविधिना लिखेत् ॥ ३४ ॥
24.35
ध्येयान्याकारवर्त्तीनि बोगस्थानेषु मूलवत् ।
वर्णभूषणवस्त्रास्त्रभुजसंस्थानचेष्टितैः ॥ ३५ ॥
24.36
वर्मास्त्रेज्ञेयमन्त्रस्य चरमार्णद्वयं स्मृतम् ।
नमो नारायणायेति स्यादष्टार्णं सतारकम् ॥ ३६ ॥
24.37
अस्य साङ्गान्युपाङ्गानि मन्त्रार्णैर्बिन्दुभुषितैः ।
चरमार्णेन शेषाणि चरणान्तान्यपि क्रमात् ॥ ३७ ॥
24.38
गुणैश्च हृदयाद्यैश्च तुर्याद्यैर्जातिभिस्सह ।
स्वरूपं षोडशार्णस्य मन्त्रस्य प्रागुदीरितम् ॥ ३८ ॥
24.39
हृदयादिपदान्तानि कल्पनीयानि पूर्ववत् ।
तत्र द्वादशमं बीजं हुंफट्स्वाहान्त मुच्चरेत् ॥ ३९ ॥
24.40
विभोर्वराहवक्त्रस्य मन्त्रमानुष्टुभं श्रृणु ।
स्वराद्यं पञ्चमं वर्णमेकीभूतं समं पुरा ॥ ४० ॥
24.41
प्राग्वर्णमेवमुद्धृत्य जातिमाद्यां समाहरेत् ।
अरान्तं तत् तृतीयं च तदन्ते नेमिपञ्चमम् ॥ ४१ ॥
24.42
नाभ्येकादशमोपेतमरषोडशकं ततः ।
वराहरूपाय पदं तदूर्ध्वं व्याहृतित्रयम् ॥ ४२ ॥
24.43
पतये पदमन्तेऽस्य भूपतित्वमनन्तरम् ।
मे देहीति ततः पश्चाद्दापयेति पदं ततः ॥ ४३ ॥
24.44
शिरसा सह मन्त्रोऽयं द्वात्रिंशार्णः प्रकीर्तितः ।
अङ्गानि कल्पयेदस्य विभक्तैः पञ्चधा पदैः ॥ ४४ ॥
24.45
क्रमशः सप्तभिः षड्भिः सप्तभिश्चाथ सप्तभिः ।
पञ्चभिर्वर्ण संभूतैः प्रणवाद्यैर्गुणोत्तरैः ॥ ४५ ॥
24.46
हृदयाद्यस्त्रपर्यन्तैस्तुर्यान्तैर्जातिभिः सह ।
अङ्गक्लृप्तिरियं प्रोक्ता मन्त्रस्यास्य सुलोचन ॥ ४६ ॥
24.47
शक्तिः स्वाहास्य भूर्बीजं परिज्ञेयं ततोपरि ।
मन्त्रं नृसिहरूपस्य प्राक्सङ्ख्यार्णं समुच्चरेत् ॥ ४७ ॥
24.48
पुरो दयाद्यं अग्रान्तं नाभ्यर्णान्ताद्यसंयुतम् ।
कवीनां मध्यमं पूर्वं रमायाः संमतान्तरम् ॥ ४८ ॥
24.49
स्वाहान्तं विष्टराद्यं च कृष्णान्तं चोरुपूर्वकम् ।
नाभिपञ्चदशार्णेन संयुतं तदनन्तरम् ॥ ४९ ॥
24.50
पूजान्तं लोर्घ्वकं वाद्यमनन्तान्तं सबिन्दुकम् ।
सहस्राद्यं अपूर्वान्तं सर्वतोन्तमतः परम् ॥ ५० ॥
24.51
मुकुटाद्यं मुखान्तं च नेम्याद्यर्णसन्वितम् ।
किन्नरान्तरमादाय ऋछयाद्यर्णोपरि स्थितम् ॥ ५१ ॥
24.52
अस्यन्तं बिन्दुसंयुक्तं हरेराद्यं समं ततः ।
गंभीरमध्यं धिषणमध्यमं कर्षणान्तिमम् ॥ ५२ ॥
24.53
नाभ्यन्ताद्येन संयुक्तं ततो भद्राद्यमेव च ।
उन्निद्रान्तमनुस्वारं अमृताभ्यन्तरं द्विधा ॥ ५३ ॥
24.54
तयोरन्तेऽमृतान्तं स्यात् वायुं तस्योपरि स्थितम् ।
ततोऽन्नान्त्यं रमान्तं च रम्यान्तं हं समुद्धरेत् ॥ ५४ ॥
24.55
एवमानुष्टुभो मन्त्रः कीर्तितो नृहरेः परः ।
पञ्चमं सस कान्ताद्यं बीजमस्य प्रकीर्तितम् ॥ ५५ ॥
24.56
शक्तिश्चैवं सविज्ञेयमिन्दुपूर्वं सबिन्दुकम् ।
पादैश्चतुर्भिः सर्वैश्च प्रणवाद्यैरनुक्रमात् ॥ ५६ ॥
24.57
पञ्चाङ्गान्यस्य मन्त्रस्य हृदयादीनि कल्पयेत् ।
पादान्ते योजयेदेताननन्तात्मन उच्यते ॥ ५७ ॥
24.58
ततः प्रियात्मने इति ज्योतिरात्मने इत्यपि ।
तुर्यो मायात्मने इति मन्त्रे चन्द्रात्मने पदम् ॥ ५८ ॥
24.59
ज्ञानादिहृदयादीनि जात्यन्तानि यथापुरा ।
पाताऌअनृहरेर्मन्त्रश्चाष्टाष्टाक्षर उच्यते ॥ ५९ ॥
24.60
क्रमात् स्वरान्तपूर्वाभ्यां युक्तं प्रथ्यर्णमुच्चरेत् ।
अरद्विदशकं पश्चात् नेम्याद्यं प्रोतमोस्वरात् ॥ ६० ॥
24.61
अरान्तं च तृतीयं च तदन्ते नेमिपञ्चमम् ।
नाभ्येकादशमोपेतमक्षरं षोडशारगम् ॥ ६१ ॥
24.62
बिन्दुयुक्तं ततः शान्तहरेरेखाभिरन्वितम् ।
कुशेशयान्तमग्नीति च तदन्ते नेत्र पूर्वकम् ॥ ६२ ॥
24.63
त्रातुराद्यं यशाद्यं च साद्यं पर्वतमध्यमम् ।
अष्टारभं समादाय नेमिपञ्चकसंस्थितम् ॥ ६३ ॥
24.64
रविनेमिपदं पश्चाच्छान्ताद्यं यमलादिकम् ।
द्विनवारं च सान्तं च द्वयमेतद्विधोच्चरन् ॥ ६४ ॥
24.65
अरैकविंशं षष्ठं च द्विकमेतत्तथोच्चरन् ॥ ६५ ॥
24.66
नेमितृतीयमक्षान्तं भवेतां पूर्ववद्द्विधा ॥ ६६ ॥
24.67
क्रमेण भूषयेदेतमन्ते वर्मास्त्रशीर्षकैः ॥ ६७ ॥
24.68
पाताऌअनृहरेर्मन्त्रः चतुष्षष्ट्यर्णकः स्मृतः ॥ ६८ ॥
24.69
बीजमाद्यक्षरं प्रोक्तं शक्तिः स्वाहा च सानुगा ॥ ६९ ॥
24.70
अङ्गानि कल्पयेत् क्षार्णैः पूर्ववत् स्वरभूषितैः ॥ ७० ॥
24.71
अन्ते बिन्दुसमोपेतैः प्रणवाद्यैरनुक्रमात् ॥ ७१ ॥
24.72
ज्ञानाद्यस्त्रावसानैश्च तुर्यान्तैर्हृदयादिभिः ॥ ७२ ॥
24.73
पूर्ववत् समुपेतानि नमः स्वाहेति जातिभिः ॥ ७३ ॥
24.74
नारसिंहमथाष्टार्णमन्त्रं सर्वार्थसिद्धिदम् ॥ ७४ ॥
24.75
नमसः प्रणवाद्यस्य नरेत्यर्णमथान्तिमे ।
सिंहायेति पदान्तोऽयं नृसिंहाष्टार्ण ईरितः ॥ ७५ ॥
24.76
क्षौं बीजमस्य नाभ्यर्णस्तृतीयः शक्तिरुच्यते ।
कल्पयेद्धृदयादीनि बीजेनैव यथा पुरा ॥ ७६ ॥
24.77
क्रमशः केशवादीनां मन्त्राणां लक्षणं श्रृणु ।
नवमं चाष्टमं नेमावराद्यं मातृकान्तिमम् ॥ ७७ ॥
24.78
त्रिधैकैकं क्रमात् कृत्वा बीजद्वादशकं यथा ।
पौनः पुन्येन सर्वेषां यलवान् योजयेदधः ॥ ७८ ॥
24.79
नाभिषष्ठस्वरोर्ध्वस्थानङ्कयेद्विन्दुनोपरि ।
तारादिहृदयान्तानि संज्ञाभिस्तुर्यया सह ॥ ७९ ॥
24.80
केशवः प्रथमो वाच्यस्ततो नारायणः परः ।
माधवश्चैव गोविन्दो विष्णुश्च मधुसूदनः ॥ ८० ॥
24.81
त्रिविक्रमो वामनाख्यः श्रीधरः पझलोचनः ।
हृषीकेशः पझनाभो दामोदर इति श्रुतः ॥ ८१ ॥
24.82
बीजैर्दीर्घस्वरोपैतैः प्राग्वदङ्गानि कल्पयेत् ।
तेषां श्रियादिकान्तानां श्रृणु मन्त्राननुक्रमात् ॥ ८२ ॥
24.83
मातृकान्तय्त्रयं क्षाद्यं चतुर्धा प्रस्तेरत् पुरा ।
विष्वक्सुयोज्यान्यर्णानि त्वधोभागे यथाक्रमम् ॥ ८३ ॥
24.84
अग्न्यम्बुपृथिवीवारिवर्ह्निभूज्वलना क्रमात् ।
वारिद्वयं च सोमं च पार्थिवद्वितयं ततः ॥ ८४ ॥
24.85
योजयेदनलं वर्णं षट्सप्ताष्टसु मूर्धनि ।
अधोनवद्वादशयोः सर्वेषां चोर्ध्वतः पुनः ॥ ८५ ॥
24.86
स्वरशक्त्या समेतेन नाभ्यन्ताद्येन भूषयेत् ।
स्वरजात्यादियुक्तानि बीजानि हृदयादयः ॥ ८६ ॥
24.87
बहिश्चक्रगदाशार्ङ्गखड्गाद्यैर्दिक्षु भेदिताः ।
विष्णवो वासुदेवाद्या एतेषां वाचकान् श्रणु ॥ ८७ ॥
24.88
आद्ये चान्ते स्वरे नाभौ समुद्धृत्य सतारके ।
पूर्वे चक्रधरायेति संज्ञया विष्णवे नमः ॥ ८८ ॥
24.89
अन्ये गदाधरायेति तृतीये शार्ङ्गधारिणे ।
खङ्गधारिण इत्यन्ते चतुर्थस्य नियोजयेत् ॥ ८९ ॥
24.90
द्विषट्कार्णेन चोद्दिष्टा विष्णऊनां वाचकाः पृथक् ।
साङ्गान्युपाङ्गान्येतेषां मन्त्राद्यैः प्राग्वदाचरेत् ॥ ९० ॥
24.91
बीजानि यानि विष्णूनां विलोमेन स्वरान्तिमान् ।
तान्युक्तानि हृषीकेशव्यूहानां समुदीरिताः ॥ ९१ ॥
24.92
जनार्धनानां वक्ष्यन्ते मन्त्राः प्राच्यानलान्तरात् ।
इकारादीनि चत्वारि चैकारादीन्यनुक्रमात् ॥ ९२ ॥
24.93
कुर्यात् प्रणवपूर्वाणि तेषामन्ते यथा पुरा ।
पूर्वं दण्डधरायेति सर्वेषां नमसा न्यसेत् ॥ ९३ ॥
24.94
हृदादिचरणान्तानि मन्त्रार्णैस्तु यथा पुरा ।
नृसिंहक्रोडयोर्मन्त्रस्ते प्रागेव प्रदर्शितः ॥ ९४ ॥
24.95
अन्तस्थाश्च ततोष्टार्णो वर्णान्ते च स्वरा हलः ।
सुप्रसिद्धाः समाख्यातास्त्वपराङ्गे निबोध तु ॥ ९५ ॥
24.96
सुदर्शनषडर्णस्य प्राक्स्थमर्णचतुष्टयम् ।
पुराहृत्य ततः पश्चात्तन्नेत्राद्ये चलान्तिमे ॥ ९६ ॥
24.97
नेमिस्थं पञ्चमं व्रणं अरषोडशकोपरि ।
नेमिनाभ्योस्तृतीये च वियोज्य तदनन्तरम् ॥ ९७ ॥
24.98
नेम्याद्यं सानलं हान्तं नाभ्यन्ता त्तद्द्वयाङ्कितम् ।
पिण्डमेतन्नृसिंहस्य विद्द्युद्वर्णसमन्वितम् ॥ ९८ ॥
24.99
सिंहान्त्यं हृदयाद्यं च द्विधोद्धृत्य द्वयं ततः ।
वर्मास्त्रे च शिरो जात्यायुक्तेयं द्विनवाक्षरम् ॥ ९९ ॥
24.100
अस्यैव दशामो बीजं हनाद्यं शक्तिरुच्यते ।
षडङ्गमस्य ताराद्यं हृदयाद्यं क्रमाच्छृणु ॥ १०० ॥
24.101
औंकाररहितं बीजं षोढा कृत्वा यथा पुरा ।
स्वरैराद्यैर्विसर्गान्तैर्नपुंसकविवर्जितैः ॥ १०१ ॥
24.102
योजयित्वा तदूर्ध्वे तु पदानि क्रमशो न्यसेत् ।
चक्रराजपदं पूर्वे ज्वालाचक्रपदं ततः ॥ १०२ ॥
24.103
जगच्चक्रपदं पश्चादसुरान्तकसंज्ञितम् ।
पञ्चमं दीप्तचक्राख्यमन्ते माहासुदर्शनम् ॥ १०३ ॥
24.104
चतुर्थ्यन्तं नियोज्यान्ते पश्चाज्ज्ञानादिभिस्तथा ।
तुर्यान्तैर्हृदयाद्यैश्च स्वाहाद्याभिश्च चातिभिः ॥ १०४ ॥
24.105
द्वादशार्णे नृसिंहस्य बीजं पूर्वं मुने श्रृणु ।
नेमिसप्तममादाय प्रागरार्णोपलक्षितम् ॥ १०५ ॥
24.106
युक्तं स्वरान्त्यपूर्वाभ्यां कुर्याद्बीजं परं त्विदम् ।
नतिप्रणवमद्यस्थमेकवीरं महाप्रभम् ॥ १०६ ॥
24.107
सर्वेषां सिंहमन्त्राणां ध्यानभेदात्मनामिदम् ।
जीवभूतं स्वरूपस्य वाचकं विद्धि कामदम् ॥ १०७ ॥
24.108
मूर्तिमन्त्रान् श्रृणुष्वाथ द्वादशाक्षरमण्डितम् ।
प्रणवं हार्दयीजातिः तुर्यान्तं भगवत्पदम् ॥ १०८ ॥
24.109
नारसिंहाय दद्याद्वै पदं पञ्चाक्षरं ततः ।
विश्वत्त्रातृनृसिंहस्य मन्त्रेयं द्वादशाक्षरः ॥ १०९ ॥
24.110
तारान्तस्येद ..................दशाक्षरः ।
वक्ष्यन्ते हृदयादीनि नेत्रान्तानि यथाक्रमम् ॥ ११० ॥
24.111
षोढास्य बीजं ताराद्यमाकारादिसमन्वितम् ।
बिन्दुनाङ्कितमेतेषां योजनं प्राग्वदाचरेत् ॥ १११ ॥
24.112
अह्गोपाह्गमयी व्याप्तिः सवीजैर्द्वादशाक्षरैः ।
सबिन्दुभिर्गुणाद्यैश्च कल्पयं वा नतिभिः सह ॥ ११२ ॥
24.113
व्यापकोऽयं नृसिंहस्य मूर्तिभेदगतस्य च ।
साङ्गो मन्त्रः समुद्दिष्टः सर्वाभिमतसिद्धिदः ॥ ११३ ॥
24.114
अक्षमध्यगता वर्णा वर्णिताश्चक्रमध्यगाः ।
संज्ञाः सबिन्दुप्राग्वर्णा नतिप्रणवमध्यगाः ॥ ११४ ॥
24.115
तुर्यान्ताश्शक्तिसंघस्य जयाद्यस्य तु वाचकाः ।
भीमोग्राभ्यां च भूताभ्यां तथा मन्त्रद्वयं भवेत् ॥ ११५ ॥
24.116
विष्टरेऽभिनिविष्टानां मन्त्राणां लक्षणं श्रृणु ।
साध्यनामस्वरूपं तु व्यापकं वक्ष्यते पुनः ॥ ११६ ॥
24.117
तारान्ते बीजं शक्तिश्च दैवतं तस्य चेत्ततः ।
शान्तिं पुष्टिं च वश्यं च विजयं चैवमादिकम् ॥ ११७ ॥
24.118
द्वितीयान्तं समुच्चार्य कुरुवीप्सान्वितं ततः ।
यंच्छ यच्छ पदान्तं वा प्राकस्थितैः प्रणवान्तिमैः ॥ ११८ ॥
24.119
अङ्कयेदवसाने च साध्यलक्षणमीरितम् ।
द्विरष्टवर्णं नृहरेर्मन्त्रमानुष्टुभं परम् ॥ ११९ ॥
24.120
पूर्वमेव समुद्दिष्ठं बाह्ये वायव्यमक्षरम् ।
वर्मास्त्रजातियुक्तं च वाह्नं पार्थिवमक्षरम् ॥ १२० ॥
24.121
विस्तरेण पुरा प्रोक्तं तस्मान्नेह प्रतन्यते ।
वक्ष्यते यन्त्र धर्तॄणां नागानां क्षाद्यमान्वितम् ॥ १२१ ॥
24.122
बिन्दुस्वरान्वितं बीजं प्रणवाद्यं ततः परम् ।
युक्तं प्रत्येकसंज्ञाभिस्तुर्यान्ताभिर्नमोऽन्तिमम् ॥ १२२ ॥
24.123
इति शेषादिनागानां मन्त्रा सम्यगुदीरिताः ।
शक्त्या सतारया यान्त्रैः सौदर्शनषडक्षरैः ॥ १२३ ॥
24.124
एकैकं भेदयेद्वर्णमष्टार्णस्योर्ध्वतोऽप्यधः ।
नारायणास्त्रमन्त्रोऽयं कल्पान्तहुतभुक्प्रभः ॥ १२४ ॥
24.125
अभिधायाक्षरं पूर्वं चक्राद्यस्त्रगणस्य तु ।
युक्तं वह्निविसर्गाभ्यां बीजं वा प्रणवान्वितम् ॥ १२५ ॥
24.126
ततः संज्ञा चतुर्थ्यन्ता योजनीया फडन्तिमा ।
चक्रादिषोडशास्त्राणामिति मन्त्राः प्रकीर्तिताः ॥ १२६ ॥
24.127
ज्ञात्वैवं यन्त्रमाहात्म्यं योर्चयेद्विधिपूर्वकम् ।
दिग्बन्ध वह्णिप्राकार गायत्र्या वाहनादिकैः ॥ १२७ ॥
24.128
यागोपकरणैर्मन्त्रैर्भोग दान विवर्जितैः ।
क्रमात् सर्वफलावाप्तिर्मन्त्रसिद्धिश्च जायते ॥ १२८ ॥
24.129
दशदिग्बन्धमन्त्राणां वक्ष्यते लक्षणं पुरा ।
ॐ पूर्वं पुरुषायेति स्वाहान्तं तदनन्तरम् ॥ १२९ ॥
24.130
अस्त्रेण बन्धयामीति स्वाहान्तं च षडक्षरम् ।
इति दिग्बन्धमन्त्रोऽयमीरितो दुष्टदोषहृत् ॥ १३० ॥
24.131
प्रणवं प्राक् समुद्धृत्य मनुं वाग्निजाययोः ।
आयान्तं विन्यसेच्चक्रंअग्निप्राकारसंज्ञितम् ॥ १३१ ॥
24.132
कीर्तितां चक्रगायत्रीं श्रृणु चक्रप्रसादनीम् ।
जातिपूर्वं पुरस्कृत्य चक्रायेति समुद्धरेत् ॥ १३२ ॥
24.133
द्वितीयं विष्णुगायत्र्या नृसूक्ताद्यक्षरत्रयम् ।
तेत्राब्यां पदमादाय नेमिपूर्बान्तयोजितम् ॥ १३३ ॥
24.134
धीमहीति तदन्ते नो विनिवेश्योऽनिवारितः ।
गायत्र्यन्तं समुद्धार्य तदन्ते चतुरक्षरम् ॥ १३४ ॥
24.135
सौदर्शनी समुद्दिष्ठा गायत्री तारकाक्षरा ।
सतारका पुरा चेयं भवेदेकाक्षराधिका ॥ १३५ ॥
24.136
तारद्वयं पुरोद्धृत्य परमं पदमुद्धरेत् ।
धामेतिवस्थितं चाथ नेम्याद्यं द्विनवारकम् ॥ १३६ ॥
24.137
द्विदशारगतं वर्णं नाभिपञ्चममूर्धनि ।
ततस्तु गृहकाम्ययो इति पञ्चार्णमुद्धरेत् ॥ १३७ ॥
24.138
युतं नेमिद्वितीयेन द्विनवारगतं ततः ।
षोडशारगतं वर्णं द्वितीयस्वरसंयुतम् ॥ १३८ ॥
24.139
नेमिपञ्चमवर्णं च षोडशारगतं पुनः ।
नाभिद्वितीयसंभिन्नं नेम्यन्तं तारपश्चिमम् ॥ १३९ ॥
24.140
तृतीयस्वरसंयुक्तं तृतीयं नेमिमण्डलात् ।
नेम्यन्तमास्वरोपेतमरान्तं च स्वरान्तरम् ॥ १४० ॥
24.141
स्वरं तृतीयं संयोज्य ततश्च द्विनवारगम् ।
न्यूनविंशारगोर्ध्वं तद्द्विनवाक्षरमूर्धनि ॥ १४१ ॥
24.142
स्वरं तृतीयं संयोज्य ततश्च द्विनवारगम् ।
पुनर्मन्त्रशरीरेति प्रणवान्तं ततो नमः ॥ १४२ ॥
24.143
पुनश्च नमसा युक्तो मन्त्र आवाहनोचितः ।
प्रदाने सर्वभोगानां मन्त्रस्ते संप्रकाश्यते ॥ १४३ ॥
24.144
प्रणवं पूर्वमुच्चार्य सर्वभोगैककारणम् ।
नेम्यन्तं बिन्दुसंयुक्तं त्रिधेदं पदमप्यथ ॥ १४४ ॥
24.145
गृहाणेति शिरोऽन्तोयं भोगदानस्य वाचकः ।
आवाहने तथार्चायां विसर्जनविधौ तथा ॥ १४५ ॥
24.146
प्रणवं पूर्वमुद्धृत्य संबोध्य भगवन्निति ।
मन्त्रमूर्तेपदं दद्यात् स्वपदं च द्वितीयया ॥ १४६ ॥
24.147
आसादय क्षमस्वेति प्रणवान्तं समुद्धरेत् ।
परप्रयुक्तमन्त्राणां शक्तिह्रासनतत्परः ॥ १४७ ॥
24.148
समस्तवीर्यमन्त्राढ्यं मुने मन्त्रवरं श्रृणु ।
प्रणवं पूर्वमुद्धृत्य प्रणवाद्यं सबिन्दुकम् ॥ १४८ ॥
24.149
षडर्णस्यास्त्रमन्त्रप्राक्षडर्णं प्रणवोज्झितम् ।
प्रोक्तस्यार्णद्वयं पूर्वं चक्रराजपदं ततः ॥ १४९ ॥
24.150
सर्वशब्दं दहद्वन्दूपूर्वं दुष्टभयंकरम् ।
चिन्तामूलं पदं पश्चाद्भिन्दि भिन्दीति वै ततः ॥ १५० ॥
24.151
द्विधा विदारय पदं मन्त्रं ह्रासय ह्रासय ।
भक्षयेति पदद्वन्द्वं भूतानीति ततः परम् ॥ १५१ ॥
24.152
त्रासय त्रासयेत्यन्ते वर्मास्त्रे च शिरोन्तिमे ।
एकसप्ततिमन्त्रोऽयं शक्तिह्रासाख्य ईरितः ॥ १५२ ॥
24.153
मन्त्रमानुष्टुभं वक्ष्ये सर्वेषामभयप्रदम् ।
भगवन्निति संबोध्य सर्वेति पदमुद्धरेत् ॥ १५३ ॥
24.154
विजयेति पदं पश्चात् सहस्त्रारेति तत्परम् ।
अपराजितेति शरणं पदं त्वामित्यनन्तरम् ॥ १५४ ॥
24.155
प्रपन्नोऽस्मीति तत्पश्चाद्द्वितीयान्तश्चश्रीकरम् ।
श्रीपदाद्यं ततः पश्चात् सुदर्शनमिति क्रमात् ॥ १५५ ॥
24.156
प्रपत्तिरिति विख्याता सर्बपापक्षयंकरी ।
वक्ष्ये नृसिह्यगायत्रीमपराङ्गस्य पूजने ॥ १५६ ॥
24.157
वज्रेति द्व्यक्षरं पूर्वंश्रृङ्खलायेत्यतः परम् ।
आयान्तं तीक्ष्णदंष्ट्रेति विझहेति पदं ततः ॥ १५७ ॥
24.158
वज्रेति द्व्यक्षरस्यान्ते नखायेति च धीमहि ।
आद्यं च चरमाद्यं च गायत्र्याः पदमुद्धरेत् ॥ १५८ ॥
24.159
सिंहेति सविसर्गं च गायत्र्यन्तं ततो न्यसेत् ।
आचरेदुक्तमन्त्राभ्यामावाहनविसर्जने ॥ १५९ ॥
24.160
दिग्बन्धं च सहास्त्रेण प्रागुक्तेन समाचरेत् ।
अन्येषामङ्गमन्त्राणां विनियोगो यथा पुरा ॥ १६० ॥
24.161
इति निगदितमेतन्मन्त्रजालं यथाव ।
न्मुखयुगऌअसमेते यन्त्रराजे निविष्टम् ॥ १६१ ॥
24.162
हृदिबहिरपि भोगैर्यानि योज्यानि तानि ।
प्रकटयतु कदाचित् कष्टबुद्धेः परस्य ॥ १६२ ॥

Video zur musikalischen Hinwendung an das Göttliche; ergänzende Anregung zur Lektüre.
Kapitel 25
श्रीः ।
पञ्चविंशोऽध्यायः ।
सनकः ।
25.1
भगवन् सम्यगाख्यातं सुदर्शननृसिह्नयोः ।
मन्त्ररूपं महायन्त्रं भजतामीप्सितप्रदम् ॥ १ ॥
25.2
तस्माद्भजनरूपं च वद सानुग्रहोऽसि मे ।
शाण्डिल्य ।
हिताय सर्वलोकानां यन्त्रमेतदुदाहृतमू ॥ २ ॥
25.3
विधिना पूजितो येन सर्वं तेन समाप्यते ।
मया ते श्रोतुकामाय वष्यते यजनक्रमः ॥ ३ ॥
25.4
प्राग्वत्स्नानादिकं कृत्वा प्रविश्य यजनालयम् ।
प्रक्षाल्य पादावाचम्य सोत्तरीयः स्वलंकृतः ॥ ४ ॥
25.5
धृतोर्ध्वपुण्ड्रः कुसुमैः द्वार्सथानभ्यर्च्य पूर्ववत् ।
कवाटोद्धाटनं कृत्वा प्रविश्याभ्यन्तरे विभुम् ॥ ५ ॥
25.6
प्रणिपत्य च गायत्र्या पाणिप्रक्षाऌअनादिमम् ।
अर्चायां विष्टरे यन्त्रे कृत्वा मार्गत्रयं ततः ॥ ६ ॥
25.7
प्रासादं शोधयित्वाऽस्य पुरतः फलकादिके ।
प्रोक्षिते चास्त्रमन्त्रेण संमुखं रुचिरासने ॥ ७ ॥
25.8
समासीनः स्वपार्श्वस्थ याज्ञीयं चाधिवासनम् ।
करशुद्धिं स्थानशुद्धिं कृत्वाऽस्त्रेण यथापुरम् ॥ ८ ॥
25.9
पाणिभ्यामुक्तमन्त्रेण संयुक्तेनास्त्रमुद्रया ।
पूजास्थानगदान् विघ्नान् बाह्यतोऽदृश्यविग्रहान् ॥ ९ ॥
25.10
विरेच्य बन्धनं कुर्यात् दिक्षु चैव विदिक्षु च ।
कवचेनावकुण्ठ्याथ प्राणानायम्य पूर्ववत् ॥ १० ॥
25.11
तत्वानि चोपसंहृत्य देहस्थान्यात्मना सह ।
सर्वतत्वविनिर्मुक्तं विग्रहं केवलं ततः ॥ ११ ॥
25.12
शोधयेद्धारणाभिश्च शोषणाद्याभिरूर्ध्वतः ।
तुर्याद्यन्ते पदे देवं सुदर्शनतनुं स्मरेत् ॥ १२ ॥
25.13
बलात्मनाऽस्य मरुता कवचेन तनुं स्वकाम् ।
शोषयित्वा दहेद्देहं दक्षांगुष्ठाद्य षतः ॥ १३ ॥
25.14
कल्पान्तपावकज्वाला सहस्रायुतदीधितिम् ।
भावयित्वा शिखामन्त्रं तेन दग्धमनुस्मरेत् ॥ १४ ॥
25.15
दृन्मन्त्रं पूर्णचन्द्राभममृतासारवर्षिणम् ।
वामांगुष्ठाग्रतो ध्यात्वा सेचितं तेन भावयेत् ॥ १५ ॥
25.16
विनियुक्तांस्ततो मन्त्रान् वर्माद्यां छोषणादिषु ।
मन्त्रेश्वरे लयं यातानिति सञ्चिन्त्य भावयेत् ॥ १६ ॥
25.17
आनन्दामृतसंपूर्णशीतांशुशतसप्रभम् ।
तत्प्रान्तैरमृतौघैश्च बृंहितां भावयेत्तनुम् ॥ १७ ॥
25.18
तस्मात्तत्वानि विन्यस्य संहृतानि यथाक्रमम् ।
स्वात्मना तामधिष्ठाय मन्त्रन्यासं समाचरेत् ॥ १८ ॥
25.19
अकारादिक्षकारान्तमातृकां मन्त्रमातरम् ।
विनय्सेत् करयोः पूर्वं विग्रहेचक्रमाल्लपन् ॥ १९ ॥
25.20
कृत्वैवं व्यापकन्यासमादित्यातपसप्रभः ।
दक्षेतरक्रमेणैव शाखासु तलयोरपि ॥ २० ॥
25.21
अंगुष्ठादिकनिष्ठान्तमेकैकस्यास्चतुश्चतुः ।
एवं द्विविंशकं न्यस्य तलयोर्दशकं ततः ॥ २१ ॥
25.22
मध्ये च त्रि चतुष्के च पञ्चकं पञ्चकं तथा ।
प्रणवद्वयमध्यस्थान्येवं न्यस्त्वा करद्वये ॥ २२ ॥
25.23
व्यापकन्यासपूर्वं तु स्वशरीरेऽपि विन्यसेत् ।
मूर्ध्नः पादतलं यावत् पाणिब्यां तपनांशुवत् ॥ २३ ॥
25.24
व्यापयित्वा ततो न्यासं पृथगेव समाचरेत् ।
केशान्ते वक्त्रवृत्ते च नेत्रयोः श्रवणद्वये ॥ २४ ॥
25.25
घ्राणरन्ध्रद्वये गण्डद्वये दक्षेतरक्रमात् ।
उत्तराधरयोगेन दन्तयोस्तच्छदद्वये ॥ २५ ॥
25.26
मूर्ध्नि न्यसेत् स्वरानन्यान् सविसर्गाननन्तरम् ।
कवर्गं दक्षिणे बाहौ सन्धिपञ्चगतं क्रमात् ॥ २६ ॥
25.27
वामे तथा चवर्गं च पादयोर्दक्षिणादितः ।
सन्धिगौ टतवर्गौ च पूर्ववत्तुन्दपार्श्वयोः ॥ २७ ॥
25.28
पृष्ठे नाभौ च हृदये पवर्गं धातुसप्तके ।
यादिसान्तानि वर्णानि हकारं हृदयान्तरे ॥ २८ ॥
25.29
क्षकारं हृदयाकाशे न्यस्त्वैवं मातृकां पुरा ।
ततः शक्त्या पडर्णं तु न्यसेत् करशरीरगम् ॥ २९ ॥
25.30
करन्यासं पुराविद्धि तच्छृणुष्व मुनीश्वर ।
पुटीकृतेन ताराभ्यां मन्त्रेणैव शशक्तिना ॥ ३० ॥
25.31
नखान्तं मणिबन्धाद्यं प्राग्वत् पाणिद्वयं मृजेत् ।
आद्यन्ते तारशक्त्याढ्चैः षड्भिर्वर्णैः सबिन्दुकैः ॥ ३१ ॥
25.32
अङ्गुष्ठादिकनिष्ठान्तं न्यस्त्वा मध्यमपर्वसु ।
विन्यसेत् करजाग्रेषु चरमं वर्णमेव च ॥ ३२ ॥
25.33
एवमर्णानि विन्यस्य हृदयादीनि विन्यसेत् ।
मूलाग्रपर्वस्वङ्गानि वर्णन्यासक्रमेण तु ॥ ३३ ॥
25.34
पाणिभ्यामालभेद्देहमामूर्ध्नश्चरणावधि ।
कृत्वैवं व्यापकन्यासमङ्गन्यासं समाचरेत् ॥ ३४ ॥
25.35
मूर्ध्नि वक्त्रे च हृदये नाभौ गुह्ये च पादयोः ।
सृष्टिन्यासो भवेदेष स्यादङ्गोपाङ्गवत् स्थितिः ॥ ३५ ॥
25.36
पादयोर्गुह्यके नाभौ हृदि वक्त्रे च मूर्धनि ।
पादादिश्च शिरोऽन्त्स्तु संहृतिन्यास उच्यते ॥ ३६ ॥
25.37
हृदि मूर्ध्नि शिखायां तु स्कन्धयोः करमध्यतः ।
नेत्रयोर्न्यसनीयानि स्वैर्मन्त्रैरुदितैः क्रमात् ॥ ३७ ॥
25.38
हृदयादीनि विन्यस्य पश्चात् पाणितलद्वये ।
विनय्सेदस्त्रसंघं च अष्टकं वा द्विरष्टकम् ॥ ३८ ॥
25.39
किरीटं कौस्तुभं मालां श्रीवत्सं च यथापुरम् ।
दक्षिणोत्तरयोरंसे इच्छाशक्तिं स्वपार्श्वयोः ॥ ३९ ॥
25.40
ऊरुमूले मनस्तत्वं न्यस्त्वा मन्त्रमयं स्वकम् ।
भावयेदहमित्यन्तः सुदर्शनवपुर्हरिः ॥ ४० ॥
25.41
गायत्र्या वर्तयेद्बाह्ये स्वात्मानं चक्रमुद्रया ।
चक्रज्वालावलिं विप्र परितो मंत्रवित्तमः ॥ ४१ ॥
25.42
भावनाजनितं यागमाचरेदादिचोदितम् ।
नियम्य करणग्रामं प्राग्वद् वै ज्ञानगोचरे ॥ ४२ ॥
25.43
आसनं कल्पयेन्मान्त्रमामूलाधृदयावधि ।
आधारशक्तेरारभ्य चिद्भावासनपश्चिमम् ॥ ४३ ॥
25.44
पुरोक्तं बावयेदूर्ध्वे मन्त्रैश्वर्यं त्रिविष्टपम् ।
साधारणमिदं ज्ञेयं सुदर्शननृसिंहयोः ॥ ४४ ॥
25.45
पृष्ठभागेऽवतीर्णाभ्यां बहिर्वा हृदयाम्बरे ।
विष्टरासनसह्कल्पकार्ये भावापनोपहृत् ॥ ४५ ॥
25.46
हृत्पझकर्णिकोर्ध्वस्था शब्दब्रह्नमयी पुरा ।
अक्षगर्भगतं नादं नदन्ती मन्त्रगर्भितम् ॥ ४६ ॥
25.47
शक्तिः शान्तात्मनो विष्णोः साधकैश्च वशीकृता ।
शब्दशक्तिः समुद्गीता विष्टरार्कखमध्यगा ॥ ४७ ॥
25.48
वर्णत्वं समनुप्राप्ता सन्ततिर्नादरूपिणी ।
अकारादिक्षकारान्तवर्णपारावसानतः ॥ ४८ ॥
25.49
निस्तरङ्गे परे व्योम्नि कलनारहिते शुभे ।
तुर्यातीते पदे देवः प्रकाशानन्दबृंहितः ॥ ४९ ॥
25.50
सद्ब्रह्नवासुदेवाख्यः पूर्णषाड्गुण्यविग्रहः ।
महाविभूतिसंपूर्णः सवशक्तिमयः प्रभुः ॥ ५० ॥
25.51
संशान्तपरमानन्दस्वरूपः सततोदितः ।
शङ्खचक्राह्कितनुर्वरदाभयपाणिकः ॥ ५१ ॥
25.52
सहस्रसूर्यसङ्काशः सहस्रेन्दुगभस्तिमान् ।
स्वप्रकाशैः किरीटाद्यैः नूपुरान्तैरलंकृतः ॥ ५२ ॥
25.53
श्रीवत्सकौस्तुभोपेतो वनमालाविराजितः ।
पीतकौशेयबसनः प्रसन्नवदनेक्षणः ॥ ५३ ॥
25.54
दन्तपंक्तिशशिज्योत्स्नाविद्योतितदिगन्तरः ।
सेवितश्च श्रिया पुष्ट्या विशेषाब्यां समन्ततः ॥ ५४ ॥
25.55
शङ्खचक्रादिदिव्यास्त्रैः सर्वतत्त्वात्मकैः सदा ।
विज्ञानभावनाभाव्यो निराशीःकर्मकारिभिः ॥ ५५ ॥
25.56
अभ्यासयोगसिद्ध्यर्थं बहिरन्तश्च नित्यशः ।
बिम्बपीठादिक्लृप्तेषु वृत्तिस्थानेषु तेषु च ॥ ५६ ॥
25.57
परव्यूहादिरूपेण पूजितः सर्वमृच्छति ।
ततो नित्योदितस्तत्वात् प्रकाशाह्लादलक्षणात् ॥ ५७ ॥
25.58
साधर्म्यलक्षणं प्राप्य भक्तानुग्रहकाम्यया ।
क्रियाशक्तिमधिष्ठाय ज गदुद्धरणोद्यताम् ॥ ५८ ॥
25.59
चिदंशं प्रादुरभवत् प्रकाशानन्दबृंहितम् ।
दुर्दर्शनं प्रकाशेन साधुसन्तापकारिणाम् ॥ ५९ ॥
25.60
आह्लादेन स्वभक्तानां सुदर्शनमितीरितम् ।
षडध्वोर्ध्वगतो देवो भूत्वा कालानलात्मना ॥ ६० ॥
25.61
भक्तानां दुरितं हन्ति चिन्तितो नृहरिर्हरिः ।
येन संपूजितावेतौ तेजसातीव निर्भरौ ॥ ६१ ॥
25.62
स तेजस्वी च भू तात्मा सर्वत्र च सुखी भवेत् ।
ज्ञात्वैवं मन्त्रसद्भावमारभेद्यजनक्रियाम् ॥ ६२ ॥
25.63
परस्माद्भगवत्तत्वाच्चित्स्वरूपं परात्मकम् ।
मनसा मन्त्रमुच्चार्य विष्टरोर्ध्वेऽवतार्य च ॥ ६३ ॥
25.64
वाच्यवाचकभावेन द्विधा सौदर्शनं वपुः ।
साकारो वाच्यरूपः स्यान्मन्त्ररूपस्तु वाचकः ॥ ६४ ॥
25.65
प्रशस्तौ तावुभौ स्यातां परापरविभागतः ।
वाच्यरूपं परं विद्यादपरं मन्त्रयन्त्रितम् ॥ ६५ ॥
25.66
ज्ञात्वैवमुदयं कुर्यात् परसूक्ष्मादिभावनम् ।
ज्योतीरूपं परं विद्यात् नादान्ताह्लादलक्षणम् ॥ ६६ ॥
25.67
चिच्छक्तिलक्षणं सूक्ष्मं शिरःपाण्यादिगर्भितम् ।
लिङ्गमात्रं प्रकाशाढ्चं भाविप्रसरधर्मि यत् ॥ ६७ ॥
25.68
सः स्थूलो व्यक्तरूपः स्याद्वाच्यवाचकरूपयोः ।
मन्त्राणां शब्दरूपाणां तिस्रोऽवस्थाः परादिकाः ॥ ६८ ॥
25.69
पश्यन्त्याद्याः परिज्ञेयाः स्वं परं त्वपरं त्रिधा ।
आद्यस्तत्रैव तारः स्याद्द्वितीयो बीजसंज्ञितः ॥ ६९ ॥
25.70
तृतीयः पदमन्त्राद्यस्त्विति भाव्यो भवेन्नृभिः ।
सान्निध्यं संमुखीभावः सन्निरोधोऽपि पूर्ववत् ॥ ७० ॥
25.71
मन्त्रन्यासादिकं कृत्वा लयभोगार्चनं तथा ।
सकर्णिकेसरदऌअसंयुक्तेष्वम्बुजेष्वपि ॥ ७१ ॥
25.72
भूपुरादिषु सर्वत्र मन्त्राणां लिङ्गरूपिणाम् ।
मूर्तीनां केशवादीनां मन्त्राणामर्चनं ततः ॥ ७२ ॥
25.73
प्रागुक्तैर्विधिवन्मन्त्रैर्भोगयागवदाचरेत् ।
शिरोर्ध्वे देवदेवस्य भावयेदिन्दुमण्डलम् ॥ ७३ ॥
25.74
तत्स्रुतैरमृतौघैश्च कुर्यादर्घ्यादिकल्पनम् ।
षोडशैरुपचारैर्वा द्विगुणैर्वा चतुर्गुणैः ॥ ७४ ॥
25.75
राजवत्प्रीणनं कृत्वा होमं कुर्यात्तथाविधम् ।
नाभिचक्रकृते कुण्डे षट्कोणे गुणमेखले ॥ ७५ ॥
25.76
निर्मथ्य भावनोद्भतामरणिं ज्ञानरज्जुना ।
समुत्पाद्य च चिद्वह्निं सर्वसंस्कारसंस्कृतम् ॥ ७६ ॥
25.77
सदैवोर्ध्वशिखं दीप्तं शुद्धं भगवदात्मकम् ।
नाबिकुण्डगतं ज्ञात्वा तेजः शक्त्युपबृंहितम् ॥ ७७ ॥
25.78
हृदब्जगगनोर्ध्वस्थं मूलमन्त्रं समुच्चरेत् ।
प्लुतध्यानसमोपेतं सत्यान्तेऽस्मिन् लयं गते ॥ ७८ ॥
25.79
निस्तरङ्गे परे प्राप्ते ब्रह्नस्थं पूर्णवारितैः ।
ध्यानस्रुवेण चाहृत्य सन्धिमार्गेऽमृताध्वना ॥ ७९ ॥
25.80
हृदयादवतीर्णस्य ज्वालाग्रावस्थितस्य च ।
मन्त्रनाथस्य शिरसि वसुधारामिव क्षिपेत् ॥ ८० ॥
25.81
चिदग्निमेवं सन्तर्प्य ज्वालाग्रावस्थितं प्रभुम् ।
हृदब्जकर्णिकान्तस्थं भूयो भाव्याहुतिक्रियाः ॥ ८१ ॥
25.82
समाप्य विधिवत् पूजामपराङ्गे हरिं स्थितम् ।
स्वमन्त्रेणार्चयित्वाऽथ होमान्तं भावनामृतैः ॥ ८२ ॥
25.83
तदन्ते यन्त्ररूपस्य मुखद्वयगतस्य च ।
पन्त्रसंघस्य पूर्णान्तं कृत्वा सन्तर्पणं ततः ॥ ८३ ॥
25.84
विष्टरस्थं यजेद्बाह्ये त्वर्चारूपमुखद्वये ।
मूर्तैरर्घ्यांदिभिर्भोगैर्विधिवत्समुपाहृतैः ॥ ८४ ॥
25.85
प्राग्वदर्घ्यादिपात्राणां पूजनं स्थापनं तथा ।
दैहविन्यस्तमन्त्राणां गर्भद्वारस्थपूजनम् ॥ ८५ ॥
25.86
धातारं च विधातारं प्रचण्डं चण्डपूर्वकम् ।
पूर्वपश्चिमयोर्बाह्यमण्टपद्वारयोः क्रमात् ॥ ८६ ॥
25.87
जयं च विजयं चाथ सुभद्रं चाथ भद्रकम् ।
सूर्याचन्द्रमसौ पूज्यौ दक्षेतरगवाक्षयोः ॥ ८७ ॥
25.88
कृत्वैवं द्वारयागं तु प्रविश्याभ्यन्तरं ततः ।
आधारशक्तेरारभ्य यन्त्रविष्टरपश्चिमम् ॥ ८८ ॥
25.89
मन्त्रमासनमब्यर्च्य गणनाथादिकं तथा ।
प्रतिष्ठितस्य देवस्य कुर्यादावाहनं ततः ॥ ८९ ॥
25.90
बिम्बहृत्कमलाकाशाच्चैतन्यममलं परम् ।
प्रकाशानन्दरूपं च नित्योदितमनूपमम् ॥ ९० ॥
25.91
कर्णिकामध्यमाश्रित्य निविष्टमनुभावयेत् ।
मूलमन्त्रं समुच्चार्य प्रबुद्धं भास्वरं ततः ॥ ९१ ॥
25.92
मन्त्रन्यासं ततः कुर्याद्यथा देहे स्वके तथा ।
स्थानेषु हृदयादीनि चक्राद्यस्त्रवराणि च ॥ ९२ ॥
25.93
भूषणादीनि विन्यस्य मस्तकादेः समानि च ।
रत्नराशिप्रकाशानि लयाख्येनार्चयेत्ततः ॥ ९३ ॥
25.94
कर्णिकादिषु यन्त्रस्थान् भास्वद्रूपांस्तथैव च ।
आसनाद्यैश्च सांस्पशैर्हृदयंगमपश्चिमैः ॥ ९४ ॥
25.95
प्रीणयित्वा विधानेन मूर्तिसङ्घसमन्वितम् ।
जप्त्वा मन्त्रं यथाशक्ति तन्निवेद्य यथा पुरा ॥ ९५ ॥
25.96
पाश्चात्ययन्त्रमध्यस्थमेवं नरहरिं ततः ।
साङ्गं सपरिवारं च सयन्त्रार्णं समर्चयेत् ॥ ९६ ॥
25.97
इति सङ्क्षेपतः प्रोक्तं महायन्त्रार्चनं परम् ।
प्रीणयेदग्निमध्यस्थं समिद्भिः प्रागुदीरितैः ॥ ९७ ॥
Kapitel 26
श्रीः ।
षड्विंशोऽध्यायः ।
सनकः ।
26.1
पञ्चरात्रार्थतत्वज्ञ भगवन् भविनां प्रिय ।
मय्यनुग्रहबुद्धया त्वमग्निमध्यगतार्चनम् ॥ १ ॥
26.2
यथाविधि समाचक्ष्व सर्वसिद्धिप्रसाधनम् ।
शाण्डिल्य ।
मुनीन्द्र सकलप्राज्ञ सिद्धिमोक्षप्रदं शुभम् ॥ २ ॥
26.3
कुण्डमध्यगतं यागं श्रृणु वक्ष्ये समाहितः ।
होमार्थं मण्टपं कुर्याद्विततं वह्निदिग्गतम् ॥ ३ ॥
26.4
धूमर्निगमनोपेतं गवाक्षगणमण्डितम् ।
तन्मध्ये वेदिका कार्या चतुरश्रा चतुष्करा ॥ ४ ॥
26.5
द्वादशाङ्गुलमानोच्चा प्रासादासनलक्षणा ।
चक्राब्जलक्षणं कुण्डं तदूर्ध्वे कल्पयेच्छुभम् ॥ ५ ॥
26.6
मध्ये सूत्रत्रयं दद्यात् प्राक्प्रत्यग्दक्षिणोत्तरम् ।
हस्तद्वयेन तन्मध्ये चतुरश्रं प्रकल्प्य च ॥ ६ ॥
26.7
एकादशाङ्गुलायामं सूत्रं संस्थाप्य मध्यतः ।
खातार्थं वृत्तमापाद्य बहिरावृतियोगतः ॥ ७ ॥
26.8
त्यजेदङ्गुलमोष्ठस्य द्व्यङ्गुलं कर्णिकावनेः ।
अङ्गुलं केसराणां च द्व्यङ्गुलं पत्रसन्ततेः ॥ ८ ॥
26.9
तदग्रस्याङ्गुलं ज्ञेयं नाभेरेकाङ्गुलोन्नतम् ।
द्व्यङ्गुलं स्यादरक्षेत्रं नेमेरेकाह्गुलं भवेत् ॥ ९ ॥
26.10
द्व्यङ्गुलं मेखलायाः स्यादेवमावृतियोगतः ।
मानमाखातपर्यन्तं मेखलान्तं हृदि स्थितम् ॥ १० ॥
26.11
कृत्वाऽथ नेमिपर्यन्तं क्षेत्राणां वृत्ततां नयेत् ।
मेखला सर्वबाह्यस्था स्यात्तुर्याश्रा यथा भवेत् ॥ ११ ॥
26.12
समेखलं द्विहस्तं तन्निर्माणमधुना श्रृणु ।
खातार्थमन्तरावृत्तादन्तरं निखनेत् समम् ॥ १२ ॥
26.13
त्रिपादमर्धं पादं वा बाह्यतो दशनच्छदात् ।
साधयेत् कर्णिकादीनि नेम्यन्तानि यथाक्रमम् ॥ १३ ॥
26.14
द्बादशांगुलमानोच्चा कार्या स्यात् कर्णिकान्तरा ।
विस्तारसदृशोच्छ्राया बाह्यतः केसरान्विता ॥ १४ ॥
26.15
यथाभिमतसङ्ख्यानि पझपत्राणि साधयेत् ।
पझसङ्ख्यासमं क्षेत्रं महापझसमन्ततः ॥ १५ ॥
26.16
केसरभ्रमकुण्डेन पत्राग्रभ्रमणावधि ।
पक्षमध्यमसूत्राणि प्राक्प्रत्यग्दिक्षु पातयेत् ॥ १६ ॥
26.17
दऌअमध्यगसूत्रेण दऌअमध्योर्ध्वगामिना ।
दऌअमध्यप्रसादार्थं लाञ्छयेदर्धचन्द्रवत् ॥ १७ ॥
26.18
चन्द्रश्रृङ्गं च मध्यं च पत्राग्रे सङ्गतानि च ।
पक्षसूत्रेण पत्राग्रं जनयेत् कुलिशाग्रवत् ॥ १८ ॥
26.19
दऌअसङ्ख्यासमेतानि स्वक्षेत्राणि च साधयेत् ।
विभज्य दऌअवत् क्षेत्रं सूत्राण्यास्फालयेत्तथा ॥ १९ ॥
26.20
अष्टधा वाऽथ षोढा वा कृत्वैकैकं क्रभेण तु ।
सन्त्यज्य पार्श्वगौ भागौ बाह्यसूत्रस्य मध्यतः ॥ २० ॥
26.21
स्थापिताभ्यां च सूत्राभ्यां गदाभ्यामग्रमध्यमात् ।
मत्स्यवल्लाञ्छनं कुर्याद्यावन्मूलभ्रमावधि ॥ २१ ॥
26.22
प्रथयो नेमिभूमिष्ठाः कार्याश्चोर्ध्वेऽथवा बहिः ।
संसाधयेदथामद्यादिष्टकाभिर्मृदा सह ॥ २२ ॥
26.23
मेखलावधिपर्यन्तं नीचान्यङ्गानि मीलयेत् ।
विस्तारोच्छ्रायतुल्यानि समानि सुदृढानि च ॥ २३ ॥
26.24
कर्णिकाकेसरोर्ध्वस्था योनिः पिप्पलपत्रवत् ।
जिह्वया संस्पृशन्त्योष्ठं कार्या योन्युपमाश्रिता ॥ २४ ॥
26.25
केसरावनिमाक्रम्य पृष्ठतोर्ध्वाङ्गुलेन तु ।
पार्श्वयोर्मध्यसूत्रस्य बालचन्द्रद्वयोपमा ॥ २५ ॥
26.26
प्रोन्नता कर्णिकाबूमैः पृष्ठतश्चाङ्गुलेन तु ।
आमूलादग्रपर्यन्तं क्रमान्निम्ना गजोष्ठवत् ॥ २६ ॥
26.27
कोणेषु चैवं कुण्डस्य कार्यं शङ्खचतुष्टयम् ।
एवमेतत् समुद्दिष्टं बहुधा मानतो भवेत् ॥ २७ ॥
26.28
आद्बादशाङ्गुलान्मानादेकैकाङ्गुलवर्धनात् ।
द्विचतुर्हस्तपर्यन्तमेकाशीत्यधिकं शतम् ॥ २८ ॥
26.29
एतेष्वेकतरं प्रोक्तमन्येषामेवमेव हि ।
तत्साधनं विहा य तत् अह्गव्यूहं प्रकल्प्य च ॥ २९ ॥
26.30
ततो यथोचितस्थाने होमद्रव्याणि विन्यसेत् ।
संस्कृत्य विधिवत् कुण्डं वह्निमुत्पादितं तथा ॥ ३० ॥
26.31
संस्कृताज्यस्य विप्रुड्भिः संस्पृशेदिन्धनादिकम् ।
सन्तर्पणं तथाग्नेश्च तस्मिन्मन्त्रासनादिकम् ॥ ३१ ॥
26.32
यन्त्रविष्टरसंस्थानमन्तराहवनं तथा ।
हृदयादवतारं च महायन्त्रस्य विष्टरे ॥ ३२ ॥
26.33
समिद्भिश्चाथ नित्याभिः काम्यैश्च हवनं तथा ।
स्विष्टकृद्धवनं चाथ प्रायश्चित्ताहुतिं त्वपि ॥ ३३ ॥
26.34
पूर्णाहुतिं प्रधानं च यन्त्रस्थस्य विसर्जनम् ।
हृदयस्थे प्रविश्याथ मण्टपं यजनास्पदम् ॥ ३४ ॥
26.35
समर्पणं च होमस्य पितॄणां तर्पणं त्वपि ।
बलिदानं च भूतानामिष्टशिष्टोदनस्य च ॥ ३५ ॥
26.36
प्रदानं यज्ञशीलानां कारिणां भावितात्मनाम् ।
अनुयागं च विधिवन्नैवेद्यप्राशनादिकम् ॥ ३६ ॥
26.37
पूर्ववत् सकलं कुर्याद्भोगमोक्षप्रसिद्धये ।
अनेन यन्त्रराजेन शान्तिकादिषु कर्मसु ॥ ३७ ॥
26.38
ध्यानेन पूजितेनैव हुतेन जपितेन च ।
समीहितानि पूर्यन्ते भक्तानां भावितात्मनाम् ॥ ३८ ॥
26.39
एकरूपमिदं ध्यानं वर्णितं शान्तिकादिषु ।
होमे स्वाहान्तिमो मन्त्रः स्वभावादधिकः सदा ॥ ३९ ॥
26.40
शान्तिके पौष्टिके वौषट्पूर्णायामपि तादृशः ।
आप्यायने वषट्प्रोक्तो हुमन्तो वश्यकर्मणि ॥ ४० ॥
26.41
फडन्तं क्षयविद्वेषप्रोत्सादनविधौ सदा ।
हुमन्तं चारिविद्वेषे मोहने हुंफडन्तिमम् ॥ ४१ ॥
26.42
स्तम्भने वषडन्तं सस्यान्नमोन्तो मोक्षकर्मणि ।
अथो हिताय लोकानां राज्ञामपि विशेषतः ॥ ४२ ॥
26.43
पृच्छते नारदायैतदहिर्बुध्न्येन विस्तरात् ।
यथोपदिष्टं विधिवत्तथा तत्र निरीक्ष्य च ॥ ४३ ॥
26.44
प्रयोक्तव्यं तु बहुधा शान्तिकामी यथेच्छया ।
कुर्यादेकमुखं यन्त्रं स्थाप्य संपूजयीत च ॥ ४४ ॥
26.45
नैमित्तिकानि काम्यानि नित्यानि यजनानि वै ।
विशेषेणैव कार्याणि विना स्वापं महोत्सवम् ॥ ४५ ॥
26.46
न कर्मबिम्बानि तथा नित्यनैमित्तिकादिषु ।
स्थितं यन्त्रं समाराध्यं स्थापितं मन्त्रवित्तमैः ॥ ४६ ॥
26.47
दिव्याद्यायतनाड्गत्वे स्थापिते सति कुत्रचित् ।
चलस्थिरविबागेन हविरन्तं समर्चयेत् ॥ ४७ ॥
26.48
द्वादश्यादिषु कालेषु पुण्येषु विविधेष्वपि ।
इति सम्यक् समुद्दिष्टं महायन्त्रार्चनं परम् ॥ ४८ ॥
26.49
अदीक्षितानां विधिवदशिष्याणां दुरात्मनाम् ।
गोपनीयं प्रयत्नेन त्वभक्तानां जनार्दने ॥ ४९ ॥
26.50
भावभक्तिसमेतानां वाच्यवाचकयोर्गुरौ ।
शास्त्रे ज्ञानक्रियोपेते सात्विके वेदसंमिते ॥ ५० ॥
Die Hingabe im Herzen bewahren
Am Ende der überlieferten Fassung stehen Bhakti, die Beziehung zum Guru und eine Lehre, die Erkenntnis und Handlung verbindet (26.49–50). Das innere Feueropfer in Kapitel 25 veranschaulicht diese Verbindung: Bewusstsein wird zum Feuer, Meditation zur darbringenden Handlung.
Die persönliche Antwort auf diese Bilder kann schlicht sein: aufmerksam leben, die eigene Praxis mit Liebe erfüllen und die Früchte des Handelns loslassen. Kehre dafür gern zu einer Stelle der Versauswahl zurück. Ein verstandener und gelebter Gedanke kann tiefer wirken als viele nur überflogene Seiten.
Siehe auch
- Parameshvara Samhita – Einordnung und vollständige deutsche Übersetzung
- Parameshvara Samhita Sanskrit IAST, Parameshvara Samhita Sanskrit Devanagari, Parameshvara Samhita Sanskrit Devanagari Teil 2
- Parameshvara Samhita 108 Inspirierende Verse und Mantras
- Pancharatra, Vishnu, Narayana, Vasudeva, Lakshmi
- Bhakti, Guru, Diksha, Mantra, Japa, Puja, Arcana
- Dhyana, Jnana, Moksha, Sadhana
- Yoga und Meditation
Weitere Tantra- und Saṃhitā-Schriften für die vergleichende Lektüre:
- Sattvata Samhita
- Ahirbudhnya Samhita
- Jayakhya Samhita
- Lakshmi Tantra
- Vishnu Samhita
- Parama Samhita
- Paushara Samhita
- Ishvara Samhita
- Padma Samhita
- Narada Samhita
Textgrundlage und Lesarten
Die Devanagari-Fassung wurde regelbasiert aus dem bereinigten IAST-Text erzeugt. Sie ist kein unabhängiger Textzeuge. Erkannte Leseschäden und Nummernprobleme bleiben sichtbar; Näheres erläutern die Hinweise zur Textgrundlage.
Medien und weiterführende Zugänge
Die Bilder und Videos begleiten die heutige Beschäftigung mit dem Werk. Die Vorträge erläutern allgemeine spirituelle Themen; sie sind keine vollständigen Kommentare zur Parameshvara Samhita. Die Bild- und Videoeinbindungen sind auf den Yoga-Wiki-Seiten zu Vishnu, Puja und Meditation nachgewiesen.
Seminare
Kundalini Yoga
- 30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe
Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…- Arjuna Wingen
- 06.11.2026 - 08.11.2026 Kundalini Yoga Einführung
Gründliche Einführung in die Theorie und Praxis des Kundalini Yoga, Yoga der Energie. Die praktischen Übungen des Kundalini Yoga umfassen Pranayama (…- Arjuna Wingen
Indische Schriften
- 26.12.2026 - 02.01.2027 Indische Rituale Ausbildung
Du interessierst dich für indische Rituale? Du hast die einzigartige Gelegenheit, in dieser Rituale Ausbildung bei Yoga Vidya die kleine Puja, große P…- Sukadev Bretz, Shankari Winkelbauer
- 01.01.2027 - 10.01.2027 Yogalehrer Weiterbildung Intensiv A1 - Jnana Yoga und Vedanta
Kompakte, vielseitige Weiterbildung für Yogalehrer rund um Jnana Yoga und Vedanta.
Tauche tief ein ins Jnana Yoga und Vedanta, studiere die indischen S…- Vedamurti Dr Olaf Schönert
Chakras
- 20.11.2026 - 22.11.2026 Heilreise durch die Chakren
Tauche ein in eine transformative Reise durch die sieben Hauptchakren und erfahre, wie du deine Energiezentren aktivieren, ausbalancieren und für dein …- Nese Niekrens, Gajendra Sebastian Niekrens
- 26.12.2026 - 01.01.2027 Kundalini Yoga Intensiv Praxis - Live Online
Intensives Praktizieren der im Mittelstufen-Seminar gelernten Übungen für noch tiefere Erfahrung und Erweiterung des Bewusstseins ohne viel Theorie. L…- Sukadev Bretz, Shaktipriya Vogt, Radharani Birkner
Energiearbeit
- 30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe
Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…- Arjuna Wingen
- 04.11.2026 - 04.11.2026 Einführung in die Chakratherapie - Online Workshop
Uhrzeit: 18 - 21 Uhr
Ein Chakra ist ein feinstoffliches Kraftzentrum des Körpers, welches wichtige Körperfunktionen steuert und bestimmten Organen zug…- Beate Menkarski
Hauptartikel · Sanskrit IAST · Devanagari, Teil 1 · Devanagari, Teil 2 · 108 inspirierende Verse und Mantras