Parameshvara Samhita Sanskrit Devanagari

Aus Yogawiki

Die Parameshvara Samhita in Devanagari, Teil 1, führt durch die Kapitel 1–14: von Sanakas Suche nach einem Guru über innere Sammlung und Mantra bis zur Verehrung Vishnus im Tempel. Die Schrift verbindet die stille Gegenwart im Herzen mit dem sichtbaren Ausdruck von Bhakti.

Diese Seite bietet den Sanskrittext in Devanagari. Wer die Schrift lernt, kann einzelne Verse mit der IAST-Umschrift vergleichen; wer den Sinn vertiefen möchte, findet die entsprechenden Stellen in der deutschen Übersetzung. Kapitel- und Versnummern bleiben in allen Fassungen gleich.

Besonders zugänglich sind die Begegnung von Schüler und Lehrer in Kapitel 1, die innere Puja in Kapitel 5 und die Verbindung von Wohlwollen, Sammlung und Jnana in Kapitel 7. Die Kapitel 15–26 setzen den Text mit Weihe, Festen und weiteren Formen der Gottesverehrung fort.

Hauptartikel · Sanskrit IAST · Devanagari, Teil 1 · Devanagari, Teil 2 · 108 inspirierende Verse und Mantras

Vishnu: göttliche Gegenwart, Schutz und Gnade.

Kapitel 1

श्रीः ।
॥ श्रीमते रामानुजाय नमः ।
॥ श्रीरङ्गनाथपरब्रह्मणे नमः ॥
॥ प्रथमोऽध्यायः ।
।

1.1
ॐ ॥ नमः सकलकल्याणदायिने चक्रपाणये ।
विषयार्णवमग्नानां समुद्धरणहेतवे ॥ १ ॥

1.2
तोताद्रिशिखरक्षेत्रे देवगन्धर्वसेविते ।
पुण्यतीर्थसमायुक्ते सर्वर्तुकुसुमान्विते ॥ २ ॥

1.3
प्रशस्ताश्रमसंयुक्ते पुण्यक्षेत्रोपशोभिते ।
वेदवेदान्तनिष्ठैस्तु तपोनिष्ठैर्महर्षिभिः ॥ ३ ॥

1.4
सांख्यसिद्धान्तसंयुक्तैः योगसिद्धान्तवेदिभिः ।
इतिहासपुराणज्ञैर्धर्मशास्त्रार्थकोविदैः ॥ ४ ॥

1.5
वेदाङ्गज्ञानकुशलैर्युक्ते देवर्षिभिस्तथा ।
राजर्षिभिः समायुक्ते मन्त्रसिद्धैर्महात्मभिः ॥ ५ ॥

1.6
सनको नाम योगर्षिर्ब्रह्मपुत्रो महातपाः ।
भगवज्ज्ञानसिद्ध्यर्थं तपस्तेपे सुदुश्चरम् ॥ ६ ॥

1.7
शतवर्षं ध्यायमाने परमात्मानमात्मनि ।
न लेभेऽभि मतं सोऽपि तप्त्वा घोरतरं तपः ॥ ७ ॥

1.8
शोकेन महताऽविष्टो बभूव स मुनिस्तदा ॥
ततः शोकार्णवे मग्नं जितक्रोधं जितेन्द्रियम् ॥ ८ ॥

1.9
दान्तं योगाङ्गनिरतं तं भक्तं भक्तवत्सलः ।
वाक्यमेतज्जगद्धाता जगाद जगतो हितम् ॥ ९ ॥

1.10
वासुदेवः परंज्योतिरदृश्यः पुरुषोत्तमः ।
श्रीभगवानुवाच ।
त्वया योगीश्वरेणेह सुतप्तं तप उत्तमम् ॥ १० ॥

1.11
प्राप्स्यसे न चिराद्ब्रह्मन् महतस्तपसः फलम् ।
समाश्वसिहि भद्रं ते मा विषीद महामते ॥ ११ ॥

1.12
कृतकृत्यो जगत्यस्मिन् शाण्डिल्यः श्रूयते महान् ।
तमाश्रयस्व भद्रं ते भगवद्धर्मसिद्धये ॥ १२ ॥

1.13
एतस्मिन् पर्वतश्रेष्ठे पुराऽनेन महात्मना ।
साक्षाद्भगवतो व्यक्तादच्युतादच्युताभिधात् ॥ १३ ॥

1.14
अधीतास्त्रिसुपर्णाद्याः साक्षात्सद्ब्रह्मवाचकाः ।
शाखाश्च निषदः सर्वाः संहिता ब्राह्मणाभिधाः ॥ १४ ॥

1.15
निरुक्तानि ततो ज्ञाताः पदार्थाः सप्त च क्रमात् ।
ज्ञानं च द्विविधं ज्ञातं शास्त्राणि विविधानि च ॥ १५ ॥

1.16
त्रयोदशविधं कर्म द्वादशाद्यात्मसंयुतम् ।
श्रुत्वैवं प्रथमं शास्त्रं रहस्याम्नायसंज्ञितम् ॥ १६ ॥

1.17
दिव्यमन्त्रक्रमोपेतं मोक्षैकफललक्षणम् ।
भूयः संचोदितात्तस्मात्तेन लोकहितैषिणा ॥ १७ ॥

1.18
श्रुतं विस्तरतः शास्त्रं भोगमोक्षप्रदं हि यत् ।
अनुष्टुप्छन्दोब द्धेन प्रोक्तं भगवता स्वयम् ॥ १८ ॥

1.19
सात्वतं पौष्करं चैव जयाख्येत्येवमादिकम् ।
तत्सर्वं विदितं सम्यक् शाण्डिल्यस्य महात्मनः ॥ १९ ॥

1.20
एवं सकलशास्त्रज्ञः शाण्डिल्यः परमो गुरुः ।
आस्ते शिष्यैः परिवृतः स्वाश्रमे श्रमनाशने ॥ २० ॥

1.21
पाञ्चकाल्यं परं यज्ञं कुर्वाणः सर्वदा वशी ।
स ते वक्ष्यति धर्मज्ञो धर्मं भागवतं मुने ॥ २१ ॥

1.22
तमाश्रयस्व भद्रं ते भगवज्ज्ञानसिद्धये ।
इत्युक्त्वाऽस्तमिता वाणी वासुदेवसमीरिता ॥ २२ ॥

1.23
इत्यद्भुततमं वाक्यं श्रुत्वा हृष्टतनूरुहः ।
तदा कृतार्थमात्मानं मन्यमानो महामुनिः ॥ २३ ॥

1.24
शाण्डिल्यदर्शनाकाङ्क्षी संचचाराचलाधिपम् ।
अपश्यदाश्रमश्रेष्ठं शाण्डिल्यस्य महात्मनः ॥ २४ ॥

1.25
नानापुष्पसमाकीर्णं नानाफलसमन्वितम् ।
नानापक्षिगणैर्जुष्टं नानामृगनिषेवितम् ॥ २५ ॥

1.26
कमलोत्पलसंकी र्णैः शोभितं कमलाकरैः ।
भगवद्धर्मजिज्ञासापरैः शान्तैरमत्सरैः ॥ २६ ॥

1.27
मुनिमुख्यैः समाकीर्णं सर्वत्र च मुमुक्षुभिः ।
सप्रविश्य तमद्राक्षीन्मुनिमुख्यैरुपासितम् ॥ २७ ॥

1.28
शिष्यैः परिवृतं शान्तैरात्मनिष्ठं दयापरम् ।
दिव्यज्ञानोपपन्नं तं दृष्ट्वा दिव्यक्रियापरम् ॥ २८ ॥

1.29
उद्वहन्तं परां भक्तिं वासुदेवे परात्परे ।
अभ्यवन्दिष्ट सनको विनयात्तस्य पादयोः ॥ २९ ॥

1.30
तिष्ठन्तं भगवद्धर्मे दृष्ट्वा दिव्येन चक्षुषा ।
शाण्डिल्यो मुनिशार्दूलः सनकं ब्रह्मसंभवम् ॥ ३० ॥

1.31
अब्रवीन्मधुरं वाक्यं कृतार्थोऽसि महामुने ।
भगवान् सुप्रसन्नस्ते सुतप्तं तप उत्तमम् ॥ ३१ ॥

1.32
आदिष्टोऽहं भगवता भवदर्थे तपोनिधे ।
इत्युक्त्वाऽध्यापयामास वेदमेकायनाभिधम् ॥ ३२ ॥

1.33
मूलभूतस्तु महतो वेदवृक्षस्य यो महान् ।
सद्ब्रह्मवासुदेवाख्य परतत्वैकसंश्रयम् ॥ ३३ ॥

1.34
दिव्यैर्बलादिकैर्मन्त्रैः साक्षात्तत्प्रतिपादकैः ।
अलङ्कृतमसन्दिग्धमविद्यातिमिरापहम् ॥ ३४ ॥

1.35
अध्याप्य संजगादास्य स्वरूपं च समागति म् ।
शाण्डिल्यः ।
एष कार्तयुगो धर्मो निराशीःकर्मसंज्ञितः ॥ ३५ ॥

1.36
योगाख्यो योगधर्माख्यः शास्त्राख्यश्च समागमः ।
प्रवर्त्यते भगवता प्रथमे प्रथमे युगे ॥ ३६ ॥

1.37
युगेषु मन्दसञ्चार इतरेष्वितरेष्वपि ।
अनन्तचेष्टादध्यक्षादनिरुद्धात् सनातनात् ॥ ३७ ॥

1.38
ब्रह्मणो मानसं जन्म प्रथमं चाक्षुषं स्मृतम् ।
द्वितीयं वाचिकं चान्यच्चतुर्थं श्रोत्रसंभवम् ॥ ३८ ॥

1.39
नासिक्यमपरं चान्यदण्डजं पद्मजं तथा ।
एतेष्वपि च सर्वेषु साक्षाद्भगवतो विभोः ॥ ३९ ॥

1.40
ब्रह्मणा मुनिमुख्यैश्च सुपर्णाद्यैर्महर्षिभिः ।
वालखिल्यमुखैश्चान्यैः क्रमाद्राजर्षिभिस्तथा ॥ ४० ॥

1.41
एष प्रकृतिधर्माख्यः प्राधीतः प्रथमो द्विज ।
सप्तमे पद्मजे सर्गे प्राप्तो भगवतस्तथा ॥ ४१ ॥

1.42
विवस्वता ततः प्राप्तो मनुनेक्ष्वाकुणा ततः ।
इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः ॥ ४२ ॥

1.43
एष एव महान् धर्म आद्यो विप्र सनातनः ॥
दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा ॥ ४३ ॥

1.44
चातुरात्म्यपरैर्नित्यं पञ्चकालपरायणैः ।
बलादिमन्त्रनिरतैर्देवतान्तरवर्जितैः ॥ ४४ ॥

1.45
एष धर्मो यथा प्राप्तो मया तद्ग दतः श्रृणु ।
साङ्गोपनिषदा वेदाः समधीता मया पुरा ॥ ४५ ॥

1.46
ऋग्यजुस्सामसंज्ञास्तु संकीर्णा देवतान्तरैः ।
व्यामिश्रयागसंयुक्ताः प्रवृत्तिफलदायिनः ॥ ४६ ॥

1.47
तदर्थाश्च परिज्ञाता यथान्यायं यथाविधि ।
क्वचित् क्वचित् प्रदेशेषु भगवन्तं जगत्पतिम् ॥ ४७ ॥

1.48
तदीयं कर्म च ज्ञानमप्रणाड्या वदन्ति हि ।
तथा तदतिसंक्षिप्तमनभिव्यक्तलक्षणम् ॥ ४८ ॥

1.49
अग्नीन्द्रादिप्रणाड्यैव प्रदेशेषु बहुष्वपि ।
प्रवदन्ति जगन्नाथं तथा च सकलाः क्रियाः ॥ ४९ ॥

1.50
नित्यादिका मुनिश्रेष्ठ प्रवृत्तिफलसंयुताः ।
देवतान्तरनाड्यैव प्रब्रुवन्ति सुविस्तरात् ॥ ५० ॥

1.51
तथा क्वचित् क्वचिद्विप्र प्रवदन्ति च केवलम् ।
इन्द्रादिदेवतावर्जं तत्कर्माऽपि सुविस्तरम् ॥ ५१ ॥

1.52
मन्त्राः प्राचुर्यतस्तत्र फलसङ्गसमन्विताः ।
एवं व्यामिश्ररूपत्वात्तेषु निष्ठां न लब्धवान् ॥ ५२ ॥

1.53
यस्तु सर्वपरो धर्मो यस्मान्नास्ति महत्तरः ।
वासुदेवैकनिष्ठस्तु देवतान्तरवर्जितः ॥ ५३ ॥

1.54
तज्जिज्ञासा बलवती तदा त्वाविरभून्मम ।
ततोऽत्र पर्वतश्रेष्ठे तपस्तप्तं मयोत्तमम् ॥ ५४ ॥

1.55
अनेकानि सहस्राणि वर्षाणां तपसोऽन्ततः ॥
द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च ॥ ५५ ॥

1.56
साक्षात्सङ्कर्षणाद्व्यक्तात् प्राप्त एव महत्तरः ।
एष एकायनो वेदः प्रख्यातः सात्वतो विधिः ॥ ५६ ॥

1.57
दुर्विज्ञेयो दुष्करश्च प्रतिबुद्धैर्निषेव्यते ।
मोक्षायनाय वैपन्था एतदन्यो न विद्यते ॥ ५७ ॥

1.58
तस्मादेकायनं नाम प्रवदन्ति मनीषिणः ।
श्वेतद्वीपे पुराऽधीतो नारदेन सुरर्षिणा ॥ ५८ ॥

1.59
सनः सनत्सुजातश्च भवानपि सनन्द नः ।
सनत्कुमारः कपिलः सप्तमश्च सनातनः ॥ ५९ ॥

1.60
एते एकान्तिधर्मस्य आचार्याश्च प्रवर्तकाः ।
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥ ६० ॥

1.61
वसिष्ठश्च महातेजा एते चित्रशिखण्डिनः ।
मनुः स्वायभ्भुवश्चापि समाराध्य जगत्पतिम् ॥ ६१ ॥

1.62
महता तपसा चैव देवं नारायणं प्रभुम् ।
दिव्यं वर्षसहस्रं तु तदन्ते समधीत्य च ॥ ६२ ॥

1.63
मूलश्रुतिं यथावच्चा ऋषयोऽध्यापितास्तु तैः ।
ततस्ते ऋषयस्त्वष्टौ लोकानां हितकाम्यया ॥ ६३ ॥

1.64
श्लोकानां शतसाहस्रैर्मूलवेदं निरीक्ष्य च ।
तथा दिव्यानि तन्त्राणि सात्वतादीनि चक्रिरे ॥ ६४ ॥

1.65
अन्यच्छास्त्रं तु तन्त्राख्यमस्मान्मन्वादयोऽपि च ।
धर्मशास्त्राण्यनेकानि करिष्यन्ति यथातथम् ॥ ६५ ॥

1.66
अन्येषामपि शास्त्राणां योनिरेतद्भविष्यति ।
अस्मिन् धर्मश्च अर्थश्चोक्तः सुविस्तरम् ॥ ६६ ॥

1.67
मोक्षश्च सूचितः पश्चादत्रोक्तश्च यथातथम् ॥
अश्वमेधादयो यज्ञा अधिकृत्याच्युतं हरिम् ॥ ६७ ॥

1.68
यथा क्रियन्ते च तथा द्विषट्कार्णपुरस्सरैः ।
निवृत्तिफलदैर्मन्त्रैस्तस्यासाधारणैर्हरेः ॥ ६८ ॥

1.69
पूजिता विनियुज्यन्ते तस्मिंस्तस्मिंश्च कर्मणि ।
ऋगादिमन्त्राः सर्वेऽपि तथा चास्मिन् प्रकीर्तिताः ॥ ६९ ॥

1.70
वसूराजोपरिचरो मूलवेदेन संस्कृतः ।
स्वर्गलोकाधिकारार्थमेतदुक्तप्रकारतः ॥ ७० ॥

1.71
अश्वमेधादिकान् यज्ञानन्वशिष्टद्यथाविधि ।
अन्यांश्च भगवद्यागान् खिन्नवृत्त्यधिकारतः ॥ ७१ ॥

1.72
इति श्रुत मया पूर्वं स चार्थः प्रतिभाति मे ।
सुमन्तुर्जैमिनिर्ब्रह्मन् भृगुश्चैवौपगायनः ॥ ७२ ॥

1.73
मौञ्ज्यायनश्च तत्सर्वं सम्यगध्यापिता मया ।
नरनारायणाभ्यां तु जगतो हितकाम्यया ॥ ७३ ॥

1.74
तथाऽनुष्ठीयते मूलधर्मो बदरिकाश्रमे ।
एष प्रकृतिधर्माख्यो वासुदेवैकगोचरः ॥ ७४ ॥

1.75
प्रवर्तते कृतयुगे ततस्त्रेतायुगादिषु ।
विकारवेदाः सर्वत्र देवतान्तरगोचराः ॥ ७५ ॥

1.76
महतो वेदवृक्षस्य मूलभूतो महानयम् ।
स्कन्धभूता ऋगाद्यास्ते शाखाभूतास्तथा मुने ॥ ७६ ॥

1.77
जगन्मूलस्य देवस्य वासुदेवस्य मुख्यतः ।
प्रतिपादकतासिद्धा मूलवेदाख्यता द्विज ॥ ७७ ॥

1.78
आद्यं भागवतं धर्ममादिभूते कृते युगे ।
मानवा योग्यभूतास्तु अनुतिष्ठन्ति नित्यशः ॥ ७८ ॥

1.79
ततस्त्रेतायुगे सर्वे नानाकामसमन्विताः ॥
व्यामिश्रयाजिनो भूत्वा त्यजन्त्याद्यं सनातनम् ॥ ७९ ॥

1.80
अन्तर्दधाति सर्वोऽयं वासुदेवसमाहृतः ।
ततो योग्याय भगवान् प्रादुर्भावयति स्वयम् ॥ ८० ॥

1.81
यथा पुरा मया प्राप्तो देवाद् ज्ञानबलात्मनः ।
तथा प्रकाशितो वेदः सरहस्यो महामुने ॥ ८१ ॥

1.82
एवं निगदिते सम्यक् शाण्डिल्येन महात्मना ।
ततः कृतार्थमात्मानं मन्यमानः कृताञ्जलिः ॥ ८२ ॥

1.83
सनकः प्रश्रितं वाक्यं शाण्डिल्यं मुनिमब्रवीत् ।
सनकः ।
भगवन् सर्वधर्मज्ञ सर्वशास्त्रार्थपारग ॥ ८३ ॥

1.84
त्वत्प्रसादेन संप्राप्तो मया धर्मवरो महान् ।
निवृत्तिलक्षणाख्योऽयं प्रतिबुद्धैर्निषेवितः ॥ ८४ ॥

1.85
कथमप्रतिबुद्धैस्तैर्मग्नैर्भवमहाम्बुधौ ।
प्राप्यते भगवद्धर्म एकान्तिभिरनुष्ठितः ॥ ८५ ॥

1.86
शाण्डिल्यः ।
श्रूयतामभिधास्यामि यदहं चोदितस्त्वया ।
एतदर्थं मया पृष्टः पुरा सङ्कर्षणः प्रभुः ॥ ८६ ॥

1.87
परित्यज्य परं धर्मं मिश्रधर्ममुपेयुषाम् ।
भूयस्तत्पदकाङ्क्षाणां श्रद्धाभक्ती उपेयुषाम् ॥ ८७ ॥

1.88
अनुग्रहार्थं वर्णाणां योग्यतापाद नाय च ।
तथा जनानां सर्वेषामभीष्टफलसिद्धये ॥ ८८ ॥

1.89
सात्वतादीनि शास्त्राणि भोगमोक्षप्रदानि च ।
उपदिश्य तु दिव्यानि शास्त्राणि तदनन्तरम् ॥ ८९ ॥

1.90
पारमेश्वरशास्त्राणां सर्वेषां मुनिपुङ्गव ॥
सारभूतं विशेषेण पौष्करार्थोपपादकम् ॥ ९० ॥

1.91
मूलवेदानुसारेण छन्दसाऽनुष्टुभेन च ।
लक्षग्रन्थेन सर्वार्थक्रियाज्ञानोपलब्धये ॥ ९१ ॥

1.92
स मेऽब्रवीन्म हाशास्त्रं पारमेश्वरसंज्ञया ।
तस्मात्तु सारमुद्धृत्य सर्वशास्त्रोपयोगिनम् ॥ ९२ ॥

1.93
श्लोकैः षोडशसाहस्रैः पारमेश्वरसंज्ञया ।
संप्रवक्ष्यामि ते शास्त्रमिदानीमवधारय ॥ ९३ ॥

1.94
नारदोऽपि पुरा चैतदपि संक्षेपतो विभोः ।
क्षीरोदशायिनो देवात् साक्षात् संश्रुतवान् द्विज ॥ ९४ ॥

1.95
ज्ञानकाण्डक्रियाकाण्डभेदेनै व द्विधाकृतम् ।
यत्र संकीर्त्यते सम्यग्वासुदेवस्य वै विभोः ॥ ९५ ॥

1.96
दिव्यमात्मस्वरूपं च नित्या ज्ञानादयो गुणाः ।
प्रधाना षट् समस्ताश्च व्यस्ता युग्मत्रयेण हि ॥ ९६ ॥

1.97
कीर्त्यादयो गुणाश्चान्ये आकृतिश्च परात्परा ।
नित्यैका वासुदेवाख्या ततः सृष्ट्यादिहेतुना ॥ ९७ ॥

1.98
सङ्ककर्षणादिव्यूहश्च जगज्जन्मादयोऽपि च ।
उपासनार्थं भक्तानामास्तिकानां महात्मनाम् ॥ ९८ ॥

1.99
जगतामुपकारार्थं वासुदेवस्य वै विभोः ।
परात्परस्वरूपस्य चतुर्व्यूहस्तुरीयकः ॥ ९९ ॥

1.100
व्यूहः सुषुप्तिसंज्ञश्च स्वप्नव्यूहस्तथैव च ।
जाग्रद्व्यूहस्तथाऽन्ये च व्यूहा मूर्त्यन्तरा अपि ॥ १०० ॥

1.101
मूर्तयो विभवाख्याश्च प्रादुर्भावान्तराण्यपि ।
लक्ष्मीपुष्ट्योः स्वरूपे च नित्ये भगवता सह ॥ १०१ ॥

1.102
कान्त्यादयोऽवताराश्च भूषणानां तु विग्रहाः ।
नित्याः किरीटपूर्वाणामनित्याश्च पृथग्विधाः ॥ १०२ ॥

1.103
चक्रादीनां स्वरूपं च नित्यानित्योभयात्मकम् ।
गरुडप्रमुखानां तु अन्येषामात्मनामपि ॥ १०३ ॥

1.104
विभोः साधनभूतानां स्वं स्वं नित्यं स्वरूपिणाम् ।
एतेषां मूर्तयो नित्या अनित्याश्च पृथग्विधाः ॥ १०४ ॥

1.105
विभोर्वै वासुदेवस्य स्थानं नित्यं परात्परम् ।
अन्येषां व्यूहरूपाणां विभवानां तथैव च ॥ १०५ ॥

1.106
नानाविधानि स्थानानि विरजांसि बहूनि च ।
तेषां विस्तारमानं च तथा स्वं स्वं व्यवस्थितम् ॥ १०६ ॥

1.107
तत्सालानां प्रतोलीनां संख्यामानं च लक्षणम् ।
जीवात्मनां स्वरूप च मुक्तामुक्तोभयात्मकम् ॥ १०७ ॥

1.108
तेषां गतिविशेषाश्च प्रोच्यन्ते यत्र विस्तरात् ।
भगवन्मन्त्रमूर्तीनां तथाऽन्येषां क्रमेण तु ॥ १०८ ॥

1.109
म न्त्रध्यानं तथा मुद्रा योगरूपं च कीर्तितम् ।
ज्ञानकाण्डाभिधानेन तदेतत् परिकीर्तितम् ॥ १०९ ॥

1.110
यत्र नित्यानि कर्माणि स्नानादीन्यखिलानि च ।
नैमित्तिकानि काम्यानि प्रायश्चित्तानि विस्तरात् ॥ ११० ॥

1.111
तुलाभारादिकादीनि कर्माणि विविधान्यपि ।
तथा च कर्षणादीनि स्थापनान्तान्यशेषतः ॥ १११ ॥

1.112
प्रासादप्रतिमाभद्रपीठादीनां च लक्षणम् ।
एवमादीनि चान्यानि देवेशयजनार्थतः ॥ ११२ ॥

1.113
कीर्त्यन्ते विस्तराद्यत्र क्रियाकाण्डं तु विद्धि तत् ।
एवं द्विविधरूपं तु शास्त्रं वक्ष्येऽवधारय ॥ ११३ ॥


Kapitel 2

श्रीः ।
क्रियाकाण्डे द्वितीयोऽध्यायः ।
शाण्डिल्यः ।

2.1
अथाधिकारसिद्ध्यर्थं स्नानं वक्ष्यामि पूर्वतः ।
येन भक्तोऽभिषिक्तस्तु स्यादर्हो यागहोमयोः ॥ १ ॥

2.2
स्नानं तु द्विविधं कुर्यान्मलसंकरशुद्धये ।
सामान्यविधिना स्नात्वा विशेषविधिना ततः ॥ २ ॥

2.3
सामान्यं लौकिकं स्नानं विशिष्टं मन्त्रसंस्कृतम् ।
तच्चापि शौचपूर्वं स्यात्तदादौ कथयामि ते ॥ ३ ॥

2.4
ब्राह्मं मुहूर्तमासाद्य उदयात्पूर्वमेव च ।
मन्त्रज्ञः प्रयतः कुर्याद्विधिदृष्टेन कर्मणा ॥ ४ ॥

2.5
संप्रबुद्धः प्रभाते तु उत्थाय शयने स्थितः ।
नाम्नां संकीर्तनं कुर्यात् षोडशानां प्रयत्नतः ॥ ५ ॥

2.6
ॐ नमो वासुदेवाय नमः संकर्षणाय ते ।
प्रद्युम्नाय नमस्तेऽस्तु अनिरुद्धाय ते नमः ॥ ६ ॥

2.7
क्रमशः केशवादीनां यावद्दामोदरं द्विज ।
नमो नमः केशवाय नमो नारायणाय च ॥ ७ ॥

2.8
माधवाय नमश्चैव गोविन्दाय नमस्ततः ।
विष्णवेऽथ नमस्कुर्यान्नमस्ते मधुसूदन ॥ ८ ॥

2.9
नमस्त्रिविक्रमायाथ वामनाय नमस्ततः ।
श्रीधराय नमश्चाथ हृषीकेशाय ॐ नमः ॥ ९ ॥

2.10
नमस्ते पद्मनाभाय नमो दामोदराय च ।
दिव्यानामवताराणां दशानामथ कीर्तनम् ॥ १० ॥

2.11
एकश्रृङ्गादिकानां तु विहितं क्रमशः प्रभोः ।
नमस्ते मीनरूपाय कमठाय नमो नमः ॥ ११ ॥

2.12
नमोऽस्त्वादिवराहाय नारसिंहाय ते नमः ।
नमो वामनरूपाय नमो रामत्रयाय च ॥ १२ ॥

2.13
कुठारज्याहलास्त्राय नमः कृष्णाय वेधसे ।
कल्कि विष्णो नमस्तेऽस्तु पूर्वं सप्रणवं द्विज ॥ १३ ॥

2.14
यथास्थितक्रमेणैव भेदांस्त्वेतान् हरेर्विभोः ।
नमस्कुर्यात् प्रभाते तु यागान्ते तु दिनक्षये ॥ १४ ॥

2.15
शब्देनोच्चतरेणैव संहृ ष्टिजननेन तु ।
स्तोत्राणि चाथ मन्त्राणि उदीर्यान्यानि वै ततः ॥ १५ ॥

2.16
इत्येवमादिभिः स्तोत्रैरभिष्टूय श्रियः पतिम् ।
इदं विज्ञापयामास हरये वरदायिने ॥ १६ ॥

2.17
हरिर्हरिर्ब्रुवंस्तल्पादुत्थाय भुवि विन्यसेत् ।
नमः क्षितिधरायोक्त्वा वामपादं महामते ॥ १७ ॥

2.18
बहिर्निर्गमनार्थं तु सञ्चाल्यादौ तमेव हि ।
जलसंपूर्णपात्रं च अस्त्रमन्त्रोद्धृतं मुने ॥ १८ ॥

2.19
देवाग्निगिरिगोष्ठेषु नद्यां वा न श्मशानके ।
वल्मीके मूषिकास्थाने वृक्षमूले सुरालये ॥ १९ ॥

2.20
जलान्तरे च मार्गे च न गृह्णीयात् कदाचन ।
देशे मनोरमे ग्राह्या विहाय चतुरङ्गुलम् ॥ २० ॥

2.21
प्राण्यङ्गतुषभस्मास्थिकाष्ठलोष्टविवर्जितम् ।
परशौचावशिष्टं यच्छ्रेयःकामैः सदा नरैः ॥ २१ ॥

2.22
अनङ्गारामनूषारां तथा कृष्णामवालुकाम् ।
शस्त्रादिनाऽस्त्रजप्तेन निखनेच्छुभदेशगाम् ॥ २२ ॥

2.23
मृदं दोषविनिर्मुक्तां ततस्तेनैव चाहरेत् ।
स्नानोपकरणं चान्यच्छमीशाखाः सपल्लवाः ॥ २३ ॥

2.24
अर्कन्यग्रोधखदिरकरञ्जककुभादिकम् ।
शरजोदुम्बराश्वत्थप्लक्षदर्भांश्च वैणवान् ॥ २४ ॥

2.25
आम्राङ्कुरमपामार्गमर्जुनं धातकीं शमीम् ।
अन्यानि च पवित्राणि तेषु संपन्नमाहरेत् ॥ २५ ॥

2.26
यथावसरमेतद्वै नृपवत् संप्रयोज्य च ।
कूपस्नानं न कुर्वीत तटाकादिषु सत्सु च ॥ २६ ॥

2.27
तेषु नाल्पोदके स्नायात्तीर्थेषु बहुवारिषु ।
एतेष्वपि तु न स्नायात् सत्यां सरिति साधकः ॥ २७ ॥

2.28
सरित्स्वपि च सर्वासु विशिष्टाः स्युः समुद्रगाः ।
तासामपि विशिष्टाः स्युः सर्वाः प्राक्स्रोतसः सदा ॥ २८ ॥

2.29
नदीनामपि सर्वासां दक्षिणं तीरमुत्तमम् ।
प्राक्स्रोतसः स्रवन्त्यस्तु यत्र चोदङ्मुखस्थिताः ॥ २९ ॥

2.30
प्राक्तीरं तत्र तीर्थं स्यात् सर्वपापप्रणाशनम् ।
कूपाद्दशगुणा वापी वाप्या दशगुणा नदी ॥ ३० ॥

2.31
नद्यां स्नानफलं स्नातुस्तथा तस्याः समुद्रगाः ।
तथा दशगुणं तस्याः प्राक्स्रोताः कुरुते फलम् ॥ ३१ ॥

2.32
प्राक्स्रोतसोदङ्मुखायाः प्राक्तीरेऽनन्तकं फलम् ।
पूर्वं तु क्षालिते तीरे संप्रोक्ष्य स्थापयेत् पृथक् ॥ ३२ ॥

2.33
जलसंपूर्णपात्रं च अस्त्रमन्त्रोद्धृतं मुने ।
शौचार्थं मृदमाहृत्य जलकूले निधाय वै ॥ ३३ ॥

2.34
मनोरमे शुचौ देशे तृणान्निक्षिप्य भूतले ।
दिवासन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः ॥ ३४ ॥

2.35
कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः ।
न कुर्याद्भुवि विण्मूत्रे संभवद्दीर्घजन्तुषु ॥ ३५ ॥

2.36
न चाप्सु न गिरौ चापि चत्वरेषु चतुष्पथे ।
न राजमार्गे नो वीथ्यां न देवायतने क्वचित् ॥ ३६ ॥

2.37
न श्मशाने न चैत्ये च न भस्मनि न गोव्रजे ।
न ग्राममध्ये विप्रेन्द्र कुर्वीताप्यन्यथाविधि ॥ ३७ ॥

2.38
आत्मच्छायां तरुच्छायां न मेहेत कदाचन ।
अवकुण्ठ्योत्तमाङ्गं तु न पश्येद्दिग्गणं मलम् ॥ ३८ ॥

2.39
तथा ज्योतींष्यपश्यंश्च देवतायतनानि च ।
पुरीषं गुदसंयुक्तं काष्ठपर्णतृणादिभिः ॥ ३९ ॥

2.40
वामहस्तेन सम्मार्ज्य तेन हस्ततलेन तु ।
गृहीतशिश्नश्चोत्थाय जलकूलं समाश्रयेत् ॥ ४० ॥

2.41
ऊरुद्वयान्तरस्थेन गुदं मृद्दायिनाऽपि च ।
दाक्षिण्यजानोर्बाह्यं च दीयमानजलेन च ॥ ४१ ॥

2.42
वामेन दक्षिणेनैव पाणिना कुक्कुटासनी ।
अस्पृष्टतीर्थः शौचार्थं मृद्भिरभ्युद्धृतैर्जलैः ॥ ४२ ॥

2.43
गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ।
तिस्रो लिङ्गे मृदो देया एकैकान्तरमृत्तिकाः ॥ ४३ ॥

2.44
पञ्च वामकरे देयास्तिस्रः पाण्योर्विशुद्धये ।
मूत्रोत्सर्गे शुद्धिरेषा पुरीषस्याप्यनन्तरम् ॥ ४४ ॥

2.45
अर्धप्रसृतिमात्रं तु प्रथमा मृत्तिका स्मृता ।
द्वितीया च तृतीया च तदर्धा परिकीर्तिता ॥ ४५ ॥

2.46
बिडालपदमात्रं तु तदूर्ध्वा परिकीर्तिता ।
पञ्चापाने मृत्तिकाः स्युस्तथैवान्तरमृत्तिकाः ॥ ४६ ॥

2.47
दश वामकरे देयाः सप्त तूभयहस्तयोः ।
पादाभ्यां तिसृभिः शुद्धिर्जङ्घाशुद्धिश्च पञ्चभिः ॥ ४७ ॥

2.48
नियोजयेत्ततो विप्र कट्यां वै सप्त मृत्तिकाः ।
स्वदेहस्वेददोषघ्ना बाह्यकर्दमशान्तये ॥ ४८ ॥

2.49
भक्तानां श्रोत्रियाणां च वर्षास्वेवं निरूपितम् ।
प्रावृ डुक्तात्तु वै तस्मादेकमृद्व्यपनोदनम् ॥ ४९ ॥

2.50
शरद्ग्रीष्मवसन्तेषु नित्यं कार्यं क्रियापरैः ।
एतस्मादपि चैकैका परिलोप्या तु मृत्तिका ॥ ५० ॥

2.51
हेमन्ते शिशिरे विप्र श्रोत्रियैः संयमस्थितैः ।
पथि शौचं प्रकर्तव्यं देशकालानुरूपतः ॥ ५१ ॥

2.52
गन्धलेपमपास्यैवं मनः शुद्ध्या विशुध्यति ।
विहिताः पादशौचे तु बिडालपदसंमिताः ॥ ५२ ॥

2.53
मृदश्चतुर्द्विजेन्द्राणां त्रिर्द्विरेका क्रमात्ततः ।
वर्णानां शूद्रनिष्ठानां कटिशौचे तथैव हि ॥ ५३ ॥

2.54
सप्त सप्त च ऊरुभ्यां कराभ्यां त्रितयं पुनः ।
सर्वेषामेव सामान्यं पाणिशौचमुदाहृतम् ॥ ५४ ॥

2.55
अन्तर्जानुगतं कृत्वा भुजयुग्मं द्विजोत्तम ।
चतुर्धा मणिबन्धस्थं तोयं कृत्वा सुनिर्मलम् ॥ ५५ ॥

2.56
बुद्बुदाद्यैर्विनिर्मुक्तं पिबेद्विप्रो हृदा ततः ।
एकैकां ह्रासयेन्मात्रां वर्णत्रयमनुक्रमात् ॥ ५६ ॥

2.57
पाणिना क्षालितेनैव पुनराचामयेद्बुधः ।
एवं प्रक्षाल्य विधिवदाचम्य प्रयतः शुचिः ॥ ५७ ॥

2.58
प्राङ्मुखोदङ्मुखो वाऽपि उपविश्यासनं ततः ।
अर्कादिभिरपामार्गैः कारयेद्दन्तधावनम् ॥ ५८ ॥

2.59
प्रातर्भुक्त्वा च मृद्वग्रं कषायकटुतिक्तकम् ।
भक्षयेद्दन्तधवनं दन्तमांसान्यबाधयन् ॥ ५९ ॥

2.60
द्वादशाङ्गुलमात्रं तु वक्रग्रन्थिविवर्जितम् ।
पयोभिः सह तर्जन्या ब्रह्म द्वादशसंख्यया ॥ ६० ॥

2.61
काष्ठालाभे तु रोगे वा कर्तव्यं दन्तधावनम् ।
षोडशाङ्गुलदीर्घैस्तु वक्रग्रन्थिविवर्जितैः ॥ ६१ ॥

2.62
हेमादिनिर्मितैर्वाऽपि कुशदर्भादिभिस्तथा ।
जिह्वानिर्लेहनं चैव गण्डूषं मुखधावनम् ॥ ६२ ॥

2.63
कुर्यादाचमनं विप्र शुद्धेन सलिलेन च ।
विना विविधसंपर्कैः पञ्चाङ्गस्नानमाचरेत् ॥ ६३ ॥

2.64
मुखं करद्वयोपेतं पादौ कटितलावधि ।
स्त्रीसङ्गाद्युपघातेषु स्नानं कुर्याद्यथाविधि ॥ ६४ ॥

2.65
अधोत्तमाङ्गात् पादान्तं शिरसाऽभ्यञ्जयेद्द्विज ।
अङ्गान्युद्वर्त्य चास्त्रेण चरणान्तान्यनुक्रमात् ॥ ६५ ॥

2.66
गोमयेन मृदा विप्र निर्मलीकृत्य विग्रहम् ।
नरामरप्रयुक्तां प्राक् स्नानार्थं चाहरेत् खलीम् ॥ ६६ ॥

2.67
माषचूर्णादिना देहं निर्हृत्य कवचं स्मरन् ।
शुद्ध्यर्थं प्रथमं स्नात्वा मन्त्रस्नानं समाचरेत् ॥ ६७ ॥

2.68
स्नायाद्राजोपचारेण दिव्यैर्गन्धैः पुराऽहृतैः ।
हृन्मन्त्रेण च विप्रेन्द्र वामहस्ततले ततः ॥ ६८ ॥

2.69
मृदाऽमलकमानेन क्रमशोऽभिनिधाय च ।
प्रान्तपर्वावधौ मध्ये मणिबन्धसमीपतः ॥ ६९ ॥

2.70
अस्त्रमन्त्रेण मूलेन क्रमात् पञ्चाङ्गमन्त्रितम् ।
कृत्वा नियोज्य दिक्ष्वप्सु सर्वाङ्गालेपनं क्रमात् ॥ ७० ॥

2.71
अध ऊर्ध्वे च तन्मन्त्रं मुद्राबन्धेन संयुतम् ।
तेन स्नानहरा विघ्ना दिग्विदिक्परिसंस्थिताः ॥ ७१ ॥

2.72
प्रयान्ति विह्वलीभूता यावत्तन्नोपसंहृतम् ।
मृद्भागो मूल्मन्त्रेण मन्त्रितो यः पुरा स्थितः ॥ ७२ ॥

2.73
तमुच्चरन् समादाय तोयमध्ये विनिक्षिपेत् ।
तेन तद्द्विजशार्दूल तत्क्षणादेव जायते ॥ ७३ ॥

2.74
गङ्गातोयेन संपूर्णं यामुनेन शुभेन च ।
प्रयागं चक्रतीर्थं च प्रभासं पुष्कराणि च ॥ ७४ ॥

2.75
भवन्ति सन्निधीभूता मन्त्रस्यास्य प्रभावतः ।
ततो वै विष्णुतीर्थाय मन्त्रान्ते पदमुच्चरेत् ॥ ७५ ॥

2.76
सनमस्कं भवेत्तेन विष्णुतीर्थस्य सन्निधौ ।
अन्यतीर्थे यदा स्नानं कुर्यात्तत्र च योजयेत् ॥ ७६ ॥

2.77
केवलं मूलमन्त्रं तु विष्णुतीर्थपदं विना ।
तीर्थान्तरेष्विदं नाम न संकीर्तयते सुधीः ॥ ७७ ॥

2.79
नित्यसन्निधितीर्थस्य यद्यन्यस्याभिधां स्मरेत् ।
स्नातस्य तत्र तीर्थं तदभिशापं क्षणं सृजेत् ।
निर्झराम्बुतटाकादौ सामान्यस्नानकर्मणि ।
गङ्गादीनां नदीनां च तीर्थानां च प्रकीर्तनम् ॥ ७९ ॥

2.80
मन्त्रस्नानं क्रमैः सम्यग्विष्णुतीर्थाय कीर्तयेत् ।
ततोऽङ्गमन्त्रजप्तं च भागं पाणितले स्थितम् ॥ ८० ॥

2.81
तोयेनालोड्य मसृणं तापयेदर्करश्मिभिः ।
मेघच्छन्ने स्वकं मन्त्रं सूर्यवत् खस्थितं स्मरेत् ॥ ८१ ॥

2.82
दर्शयित्वा करौ तस्य ताभ्यां सर्वाऽङ्गकं स्पृशेत् ।
अपास्य प्रोच्चरन् वर्म मृल्लेपं वारिणाऽङ्गगम् ॥ ८२ ॥

2.83
दर्भपुञ्जीलमादाय दक्षिणेन करेण तु ।
जले त्वावर्त्य तन्मन्त्रं सकृद्वा बहुशो द्विधा ॥ ८३ ॥

2.84
ततः कुम्भाभिषेकं वा पाणिकुम्भोदराम्बुना ।
स हिता वर्तितेनैव अभिषेकं तु मूर्धनि ॥ ८४ ॥

2.85
श्रोत्रदृग्वदनं नासां स्वकराङ्गुलिभिः क्रमात् ।
स्थगयित्वा निमज्याथ साङ्गं मन्त्रमथोच्चरन् ॥ ८५ ॥

2.86
सकृद्वा बहुशः शक्त्या ध्यायेज्ज्योतिर्मयं हरिम् ।
देवं हृत्पुष्करान्तस्थं नेत्रयोरथ चान्तरे ॥ ८६ ॥

2.87
सर्वपापनिरासार्थं कृत्वैवमघमर्षणम् ।
प्राणायामैस्त्रिभिर्द्वाभ्यामेकेन नियतेन वा ॥ ८७ ॥

2.88
समुत्थायाचरेत् पश्चात् सन्निरीक्ष्यार्कमण्डलम् ।
मन्त्रमूर्तिर्महातेजाः समुत्तीर्य जलान्तरात् ॥ ८८ ॥

2.89
स्नानवस्त्रं परित्यज्य परिधायाम्बरान्तरम् ।
शिखयाऽथ शिखाबन्धं कृत्वाऽचम्य यथाविधि ॥ ८९ ॥

2.90
अङ्गुष्ठमूलं ब्राह्मं तु अङ्गुल्यग्रं तु दैविकम् ।
पैतृकं हस्तमध्यं तु तीर्थं दक्षिणहस्तजम् ॥ ९० ॥

2.91
ब्राह्मेण तु पिबेत्तोयं पैतृकेन तु मार्ज्रयेत् ।
दैविकेन स्पृशेदङ्गान् येषां तृप्तिं यदीच्छति ॥ ९१ ॥

2.92
त्रिधा चतुर्धा वा विप्र द्विरामृज्य मुखं पुनः ।
वामहस्ततलं प्रोक्ष्य पादयोश्च तले शुभे ॥ ९२ ॥

2.93
तलेन हृदयं स्पृष्ट्वा मुखमङ्गुलिभिस्तथा ।
अङ्गुष्ठानामिकां कृत्वा नेत्रे स्पृष्ट्वा च वारिणा ॥ ९३ ॥

2.94
तेनैव तर्जनीं कृत्वा तथा द्वे नासिकापुटे ।
कनिष्ठिकां तथा कृत्वा तेनैव श्रवणं स्पृशेत् ॥ ९४ ॥

2.95
तथैव मध्यमां कृत्वा बाहुदेशावुभौ स्पृशेत् ।
तेनैव नाभिदेशं च सवैर्युक्तैः शिरः स्पृशेत् ॥ ९५ ॥

2.96
एतदाचमनं प्रोक्तं सर्वकर्मसु सर्वदा ।
सजलं दक्षिणं हस्तं कृत्वा घ्राणाग्रगं मुने ॥ ९६ ॥

2.97
स्मरन् हृन्मन्त्रमाघ्राय सन्धार्य कवचं लपन् ।
विरेच्य समुदीर्यास्त्रं तोयक्षेपेण वै सह ॥ ९७ ॥

2.98
ततस्तु हस्तयोर्देहे न्यासं कुर्याद्यथाग मम् ।
हृदा वामकरे तोयमादाय गलितं च तत् ॥ ९८ ॥

2.99
विबुधानूर्ध्वदेहस्थान् ह्लादयेच्छिखया क्षिपन् ।
स्मरन्नस्त्रं क्षिपेद्भूमौ दुष्टदोषप्रशान्तये ॥ ९९ ॥

2.100
अन्तरान्तरयोगेन ह्यूर्ध्वान्तं प्रागधस्ततः ।
जलाञ्जलिमथादाय स मन्त्रेण हरिं स्मरन् ॥ १०० ॥

2.101
सूर्यमण्डलमध्यस्थं तर्पयेत्तेन वारिणा ।
सकुशोर्ध्वकरश्चाथ विनिमीलितदृग्जपन् ॥ १०१ ॥

2.102
सूर्यं निरीक्षयेन्मन्त्रं यदर्ध्येणार्चितं पुरा ।
ततोपविश्य सन्तर्प्य आ धारासनपूर्वकम् ॥ १०२ ॥

2.103
साङ्गं सपरिवारं च मन्त्रं तदनु वै क्रमात् ।
इन्द्रादीन् विष्णुपूर्वांश्च वासुदेवादिकानपि ॥ १०३ ॥

2.104
मूर्तीर्द्वादशशक्तीश्च परमात्मानमेव च ।
पृथिव्यादीनि भूतानि ऋषींश्च पितृभिस्सह ॥ १०४ ॥

2.105
आदौ नाम द्वितीयान्तं तर्पयामीति चोच्चरन् ।
एष मन्त्रस्तु निर्दिष्टस्तर्पणेषु यथाक्रमम् ॥ १०५ ॥

2.106
तिलोदकैस्तर्पयित्वा स्वपितॄंश्च पितामहान् ।
प्रपितामहसंज्ञांश्च सदाराननुतर्पयेत् ॥ १०६ ॥

2.107
तर्पयेत्सर्वपितॄणां दक्षिणाभिमुखेन तु ।
देवानां च तदन्येषां प्राङ्मुखो वाऽप्युदङ्मुखः ॥ १०७ ॥

2.108
पवित्रकं त्यजेत् पश्चात् पुनराचम्य मन्त्रवित् ।
सायं प्रातर्दिशो वन्द्याद्ध्यात्वा नारायणं प्रभुम् ॥ १०८ ॥

2.109
करशुद्धिसमोपेतं दिग्बन्धं चावकुण्ठनम् ।
प्राणायामादिकं कुर्याद्भुतशुद्धिसमन्वितम् ॥ १०९ ॥

2.110
मन्त्रन्यासं ततः कृत्वा मुद्रां बध्वा स्मरेद्धरिम् ।
जलमध्येऽपि यागस्य भोगैश्चैवासनादिकैः ॥ ११० ॥

2.111
ततो मन्त्री समभ्यर्च्य पत्रपुष्पफलैर्विभुम् ।
संभवे सति पुष्पाणां विहितं तत्र चार्चनम् ॥ १११ ॥

2.112
औदकेनोपचारेण भावनाभावितेन च ।
तर्पयेदम्भसा प्राग्वद्धोमभावनयाऽखिलम् ॥ ११२ ॥

2.113
एवं कृत्वा जगन्नाथं समिद्दानं समाचरेत् ।
जुहुयाच्च यथाशक्ति ततस्तिलघृतादि यत् ॥ ११३ ॥

2.114
न्यूनातिरिक्तशान्त्यर्थं सर्वकर्मसमाप्तये ।
पूर्णाहुत्यवसानान्तं कुर्याद्वै जलतर्पणे ॥ ११४ ॥

2.115
स्तुत्वा च प्रणमेद्विप्र अष्टाङ्गेनाथ दण्डवत् ।
दूर्वां सिद्धार्थकोपेतां शिखामन्त्राभिमन्त्रिताम् ॥ ११५ ॥

2.116
चूड्योत्तमाङ्गे शिरसा उपसंहृत्य सासनम् ।
वाच्यं जलात् स्वहृद्व्योम्नि मनसा निष्कलात्मना ॥ ११६ ॥

2.117
कृत्वाभिगमनं कृत्यं सन्यसेच्च विचक्षणः ।
कुर्याद्भोगार्जनं पश्चान्यायोपायसमार्जितम् ॥ ११७ ॥

2.118
मूलेन वाऽस्त्रमन्त्रेण पुष्पमूलफलादिकम् ।
अवपन्नं त्वभिमतमनाप्तं भावदूषितम् ॥ ११८ ॥

2.119
व्यामिश्रहीनसंस्पृष्टं शुक्तं लीढं च वर्जयेत् ।
सम्यक् पूरकयुक्त्या तु धिया वाचकमुच्चरन् ॥ ११९ ॥

2.120
अपामार्गशमीशाखायुग्मं संभ्राम्य मूर्धनि ।
सव्यापसव्ययोगेन पृष्ठतोऽस्त्रं पठन् क्षिपेत् ॥ १२० ॥

2.121
स्नानवस्त्रं च निष्पीड्य ततश्चाचम्य वाग्यतः ।
इत्युक्तमौदकं स्नानमथ मान्त्रं निबोध मे ॥ १२१ ॥

2.122
तोयाभावे च यत्कुर्याद्दुर्गे काले तु शीतले ।
गमने क्षिप्रसिद्धौ वा गुरुकार्येऽस्वतन्त्रताम् ॥ १२२ ॥

2.123
प्राप्तां वा वीक्ष्य विप्रेन्द्र निशाभागे दिनस्य वा ।
प्रक्षाल्य पादावाचम्य प्रोद्धृतेन च वारिणा ॥ १२३ ॥

2.124
स्थानं दश दिशः प्राग्वत् संशोध्योपविशेत्ततः ।
प्राणायामगणं कुर्याद्भुतशुद्धिं ततस्तनौ ॥ १२४ ॥

2.125
मूलमन्त्रादितः कुर्यात् सर्वमन्त्रगणेन तु ।
केवलादुदकस्नानात् संस्कारपरिवर्जितात् ॥ १२५ ॥

2.126
प्रयागादिषु तीर्थेषु यत्फलं कुरुते द्विज ।
स्नानाच्छतगुणं तस्मान्मन्त्रस्नानस्य सत्तम् ॥ १२६ ॥

2.127
ध्यानस्नानमथो वक्ष्ये द्वाभ्यामपि परं तु यत् ।
खस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिं प्रभुं स्मरेत् ॥ १२७ ॥

2.128
तत्पादोदकजां धारां पतमानां हि मूर्धनि ।
चिन्तयेद्ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम् ॥ १२८ ॥

2.129
तया संक्षालयेत् सर्वमन्तर्देहगतं मलम् ।
तत्क्षणाद्विरजा मन्त्रीजायते स्फटिकोपमः ॥ १२९ ॥

2.130
ध्यानस्नानं परं मन्त्रस्नानाच्छतगुणं स्मृतम् ।
सध्यानस्नानमित्युक्तं दिव्यस्नानादिकं श्रृणु ॥ १३० ॥

2.131
सहातपेन वर्षेण स्नानं दिव्यमनन्तरम् ।
समिधां दीपितानां च गोमयस्य हुत स्य च ॥ १३१ ॥

2.132
सितेन भस्मनाऽङ्गेषु ललाटादिषु च क्रमात् ।
यदूर्ध्वपुण्ड्रकरणं मन्त्रोच्चारणपूर्वकम् ॥ १३२ ॥

2.133
दाहनं तु भवेत्स्नानं शोधनं परमं स्मृतम् ।
गच्छत्सु गोषु वातोत्थै रजोभिर्भूमिसंभवैः ॥ १३३ ॥

2.134
स्पर्शनं वपुषः स्नानं वायव्यं तदुदाहृतम् ।
प्रशस्ते पर्वताग्रादौ जातया श्वेतमृत्स्नया ॥ १३४ ॥

2.135
उच्चार्य केशवादीनि नामान्यङ्गे यथाक्रमम् ।
ललाटादौ यद्विधानमूर्ध्वपुण्ड्रस्य तत्स मम् ॥ १३५ ॥

2.136
पार्थिवस्नानमित्येवं सर्वपापहरं शुभम् ।
तस्मादेकतमं कार्यं स्नानं श्रद्धापरेण तु ॥ १३६ ॥

2.137
स्नानाचमनशौचेन प्राणायामेन देशिकः ।
अन्तर्बहिः शरीरस्य साधकस्तु विशुध्यति ॥ १३७ ॥

2.138
स्नानपूर्वाः क्रियाः सर्वाः फलसंसिद्धिहेतवः ।
तस्मात्स्नानं प्रकुर्वीत देवर्षिपितृतर्पणम् ॥ १३८ ॥


Kapitel 3

। । श्रीः ।
तृतीयोऽध्यायः ।

3.1
सास्त्रं दूर्वाङ्कुरं दत्वा पत्रं पुष्पं तिलांस्तु वा ।
सोदकानात्मनो मूर्ध्नि शिखास्थाने च सत्तम ॥ १ ॥

3.2
ततः कलशपूर्वं तु अम्बुपूर्णं तु भाजनम् ।
समादायाम्बरच्छन्नं पाणिना भगवद्गृहम् ॥ २ ॥

3.3
एकान्तं निर्जनं यायान्मनोज्ञं दोषवर्जितम् ।
अनुकूलं शुचिं दक्षं संयतं समये स्थितम् ॥ ३ ॥

3.4
एकायनं वैदिकं वा ब्राह्मणं चार्ध्यवाहकम् ।
हृन्मध्यस्थं स्मरन्मन्त्रं प्रबुद्धानन्दविग्रहम् ॥ ४ ॥

3.5
दिगन्तरमवीक्षन् वै मौनी संरोधितानिलः ।
प्राप्य स्थानं स्वमन्त्रं तं नासाग्रेण विरेचयेत् ॥ ५ ॥

3.6
उच्चरन्द्वादशार्णं तु प्रविश्यान्तः प्रदक्षिणम् ।
प्रासादोद्देशमखिलं मार्जयेत् प्रोक्षयेत्ततः ॥ ६ ॥

3.7
परिचारैस्तु कर्तव्यं बलिपीठान्तमेव हि ।
द्वाराद्बाह्ये यथाशास्त्रं शुद्धेन सलिलेन च ॥ ७ ॥

3.8
आजानुपादौ प्रक्षल्य हस्तौ चामणिबन्धनात् ।
पूर्वोक्तेन विधानेन समाचम्योर्ध्वुण्ड्रकैः ॥ ८ ॥

3.9
चन्दनाद्यैः सुगन्धैर्वा धर्मक्षेत्रे विशेषतः ।
पर्वताग्रे नदीतीरे सिन्धुतीरे तथैव च ॥ ९ ॥

3.10
वल्मीके तुलसीमूले प्रशस्ता मृत्तिका द्विज ।
वश्यार्थी रक्तया श्रीच्छन् पीतया शान्तिकामिकः ॥ १० ॥

3.11
श्यामया मोक्षकामी च श्वेतया चोर्ध्वपुण्ड्रकम् ।
वर्तिदीपाकृतिं चैव वेणुपत्राकृतिं यथा ॥ ११ ॥

3.12
पद्मस्य मुकुलाकारमुत्पलं मुकुलाकृति ।
मत्स्यकूर्माकृतिं चैव शङ्खाकारमतः परम् ॥ १२ ॥

3.13
पुष्टिप्रदेनाङ्गुष्ठेन तर्जन्या मुक्तिसिद्धये ।
वाञ्छितार्थप्रदायिन्या मुनेऽनामिकयाऽथ वा ॥ १३ ॥

3.14
आयुष्कामी मध्यमया अङ्गुल्या चअथ देवता ।
एताभिरङ्गुलीभिस्तु कारयेन्न नखैः स्पृशेत् ॥ १४ ॥

3.15
ललाटे वासुदेवं च हृदि संकर्षणं न्यसेत् ।
प्रद्युम्नं दक्षिणे चांसे अनिरुद्धोत्तरांसके ॥ १५ ॥

3.16
जलनिर्मथितेनैव ह्यूर्ध्वपुण्ड्रचतुष्टयम् ।
ललाटे केशवं विद्यान्नारायणमथोदरे ॥ १६ ॥

3.17
माधवं हृदये कुर्याद्गोविन्दं कण्ठकूपके ।
उदरे दक्षिणे पार्श्वे विष्णुरित्यभिधीयते ॥ १७ ॥

3.18
तत्पार्श्वे बाहुमध्ये तु मधुसूदन इष्यते ।
त्रिविक्रमं काण्ठकूपे वामे कुक्षौ तु वामनम् ॥ १८ ॥

3.19
श्रीधरं वामबाहौ च हृषीकेशं तु कण्ठके ।
अपरे पद्मनाभं तु ककुद्दामोदरं स्मरेत् ॥ १९ ॥

3.20
एवं द्वादशनामं तु वासुदेवं तु मूर्धनि ।
यज्ञो दानं तपो होमो भोजनं पितृकर्म च ॥ २० ॥

3.21
तत्सर्वं निष्फलं प्रोक्तमूर्ध्वपुण्ड्रविनाकृतम् ।
तस्मात्सर्वप्रयत्नेन धारयेत्सर्वसिद्धिदम् ॥ २१ ॥

3.22
चतुरङ्गुलमग्रं तु सदाविष्ण्वधिदैवतम् ।
महाविष्ण्वधिदैवस्तु ग्रन्थिरेकाङ्गुलो भवेत् ॥ २२ ॥

3.23
विष्ण्व धिदैवं वलयं द्वयमङ्गुलमुच्यते ।
पवित्रं हस्तयुग्मे चानामिकायां नियोजयेत् ॥ २३ ॥

3.24
दर्भैर्विना तु यत्स्नानं विना नैवेद्यमर्चनम् ।
विनोदकं तु यद्दानं तत्सर्वं निष्फलं भवेत् ॥ २४ ॥

3.25
अर्चनं जपहोमौ च दानं च पितृतर्पणम् ।
अपवित्रानुपाणिश्चेत् तत्सर्वं च विनश्यति ॥ २५ ॥

3.26
तस्मात् सर्वप्रयत्नेन सदा धार्यं पवित्रकम् ।
गन्धैः स्रग्भिरलङ्कारै सोत्तरीयैश्च भूषितः ॥ २६ ॥

3.27
कर्णभूषणहाराद्यैः कटकैरङ्गुलीयकैः ।
अलाभे त्वङ्गुलीयेन अलङ्कृत्य तु साधकः ॥ २७ ॥

3.28
वदनं नासिकारन्ध्रे स्थगयित्वाऽम्बरेण तु ।
स्वश्वासोपहतं चैव न भवेच्च यथा द्विज ॥ २८ ॥

3.29
शुक्लवासाः सुवेषश्च शुक्लदन्तः शुचिव्रतः ।
ताम्बूलशुद्धवदनो ललाटे चाक्षतैर्युतः ॥ २९ ॥

3.30
एवमुक्तगुणैर्युक्तो बोधयेत् पुरुषोत्तमम् ।
शङ्खध्वनिसमोपेतं दुन्दुभीपटहस्वनैः ॥ ३० ॥

3.31
वन्दिबृन्दोत्थितोच्चाबिर्नानावाग्भिर्महामते ।
महाजयजयारावैः पुनःपुनरुदीरितैः ॥ ३१ ॥

3.32
प्रवोधलक्षणैः स्तोत्रैरुत्थाप्य शयनात्ततः ।
द्वारमासाद्य तत्रस्थो दशदिग्बन्धपूर्वकम् ॥ ३२ ॥

3.33
अवकुण्ठ्याथ तर्जन्या मन्त्रं कवचमुच्चरन् ।
स्थिते वा कल्पिते तत्र पूजयेद्बलिमण्डले ॥ ३३ ॥

3.34
सर्वं खगेशपूर्वं तु परिवारं हि साच्युतम् ।
नमसा प्रणवाद्येन पुष्पमादाय कीर्तयेत् ॥ ३४ ॥

3.35
समस्तपरिवाराय अच्युताय नमो नमः ।
वास्तुपूरुषमन्यांश्च समभ्यर्च्य यथाक्रमम् ॥ ३५ ॥

3.36
मूलमन्त्रेण साङ्गेन निरङ्गेनाथवा ततः ।
न्यासं कगृत्वा त्रिराचार्यो हस्ततालं हृदा ततः ॥ ३६ ॥

3.37
मूलमन्त्रेण चोद्धाट्य कवाटं नेत्रमन्त्रतः ।
नित्यदीपांस्ततोज्ज्वाल्य हस्तौ प्रक्षाल्य वारिणा ॥ ३७ ॥

3.38
प्रासादादि यदा न स्यात्तदा देशं मनोहरम् ।
आसाद्य कल्पयेन्मान्त्रं गृहं तदधुनोच्यते ॥ ३८ ॥

3.39
मूलमन्त्रं पुरा ध्यायेद्ब्रह्मवत् सर्वगं ततः ।
विदिक्षु दिक्षु मध्ये च ज्वलन्तं भानुकोटिवत् ॥ ३९ ॥

3.40
हृन्मन्त्रं च तदन्तस्थमाक्रम्याखिलमात्मना ।
शिरोमन्त्रं च तन्मध्ये ब्रह्मनाडीस्वरूपिणम् ॥ ४० ॥

3.41
स्तम्भभूतं तु विश्वस्य संचाराध्ववदुज्ज्वलम् ।
शिखामन्त्रं च सर्वस्माद्बहिः प्रकारवत् स्थितम् ॥ ४१ ॥

3.42
वर्ममन्त्रं तु कर्मात्मा परमात्मानुवेधयेत् ।
गवाक्षद्वारभूतं च नेत्रमन्त्रं च भावयेत् ॥ ४२ ॥

3.43
स्फुरद्वह्निस्फुलिङ्गोर्मिसहस्रपरिराजितम् ।
सर्वविघ्नप्रशमनं बहिरस्त्रं च भावयेत् ॥ ४३ ॥

3.44
एवं मान्त्रगृहं ध्यात्वा ततो द्वारं तु चेतसा ।
त्रिभागीकृत्य तन्मध्ये भागमेकं द्विधा पुनः ॥ ४४ ॥

3.45
विभज्य वामदेशेन दक्षिणेनाङ्घ्रिणा ततः ।
शनैः शनै प्रविश्यान्तः सास्त्रमन्त्रेण तेन वै ॥ ४५ ॥

3.46
धरणीहननं कृत्वा भगवन्तं प्रणम्य च ।
मनसा गुरुवंशं च तदाज्ञां मानसीमथ ॥ ४६ ॥

3.47
शिरसा धारयेत् स्वेष्टं फलं संकल्प्य चेतसा ।
देवाय च निवेद्यै तत् यागागारस्य मध्यतः ॥ ४७ ॥

3.48
प्रासादं विग्रहं क्लृप्त्वा वर्ममन्त्रं सविग्रहम् ।
तज्जीवं भगवन्तं च ध्यात्वा यागगृहं ततः ॥ ४८ ॥

3.49
सशलाकैस्ततो दर्भैः सहदेवीविमिश्रितैः ।
संमार्ज्य बहुतोयेन प्रक्षाल्याऽलिप्य गोमयैः ॥ ४९ ॥

3.50
गोमयं च नवं ग्राह्यं भूमिष्ठं धेनुसंभवम् ।
सजलं शिथिलं शुष्कं कीठवच्च विवर्जयेत् ॥ ५० ॥

3.51
उपलिप्तमथास्त्रेण संविध्य शकलं त्यजेत् ।
पञ्चगव्येन सास्त्रेण वारा वा प्रोक्ष्य चन्दनैः ॥ ५१ ॥

3.52
कुङ्कुमागरुकर्पूरैः समालिप्य समन्ततः ।
कुशदूर्वाक्षतांश्चैव विकिरेत् स्थानशुद्धये ॥ ५२ ॥

3.53
प्रासादं शोधयित्वा तु ततो मौनपरो द्विज ।
देवेशस्याग्रतो वाऽपि दक्षिणं भागमाश्रयेत् ॥ ५३ ॥

3.54
दर्भे चर्मणि वस्त्रे वा फलके यज्ञकाष्ठजे ।
स्वासनं न्यस्यनं वार्भि श्च मूलमन्त्राभिमन्त्रितैः ॥ ५४ ॥

3.55
प्रोक्ष्य छोटिकयाऽस्त्रेण दद्यात्तच्छुद्धये पुनः ।
तुर्यादीनां तु तत्रैकं भावयेदासनं त्वथ ॥ ५५ ॥

3.56
तुर्यं नामऽसनं पूर्वं कारणप्रणवा न्वितम् ।
सुषुप्तिर्नाम तद्व्याप्ताव्यक्तपङ्कजसंस्थितिः ॥ ५६ ॥

3.57
स्वप्नः शेषाहिपूर्वं तु वह्निपर्यन्तमासनम् ।
क्षीरार्णवादितो भावासनान्तं जाग्रदासनम् ॥ ५७ ॥

3.58
तत्र सुप्तं तुरीयं वा करशुद्धेः पुरा स्मरेत् ।
स्वप्नं मानसयागात्तु पूर्वं तुर्योक्तकालतः ॥ ५८ ॥

3.59
जाग्रदासनकल्पे तु विशेषो गृह्यतामयम् ।
स्वदेहमन्त्रविन्यासात् पूर्वमब्ध्यादिकं त्रयम् ॥ ५९ ॥

3.60
न्यसेदस्त्राम्बुना प्रोक्ष्य ताडयित्वाऽस्त्रपुष्पतः ।
तत्रैव भगवद्योगपीठार्चायाः पुरोत्तिरम् ॥ ६० ॥

3.61
न्यसेदाधारशक्त्यादि भावपीठान्तमासनम् ।
प्रणवेनाथ तद्व्याप्तिं स्मृत्वा स्वार्णेन तेन वै ॥ ६१ ॥

3.62
अभ्यर्च्य तदुपर्यास्यपद्माद्येकतमान्वितम् ।
यागोपस्करसंभूतौ भगवन्तमनुस्मरन् ॥ ६२ ॥

3.63
विनीतान् शिष्यपुत्रादीन् स्नातानाज्ञापयेत्तदा ।
पात्रशुद्धिं ततः कुर्याद्यथा तच्छृणु सत्तम ॥ ६३ ॥

3.64
अम्लकल्केन तोयेन हेमं ताम्रं च शोधयेत् ।
राजतं गृहधूमेन शान्ताङ्गारेण वा पुनः ॥ ६४ ॥

3.65
भस्ममिश्रेण तोयेन लोहयुक्तं बिशोधयेत् ।
शङ्खशुक्तिमयानां च लवणेव विशोधयेत् ॥ ६५ ॥

3.66
फलपत्रमयानां च मृद्भिरद्भिश्च शोधयेत् ।
लेपगन्धापनोदेन शुद्धिर्भवति कारयेत् ॥ ६६ ॥

3.67
द्रव्यशुद्धिर्भवत्येवं यथावद्विधि चोदिता ।
अथार्कोदयकालस्य पूर्वं कर्म समारभेत् ॥ ६७ ॥

3.68
प्रच्छन्नपटसंयुक्तं पूजाकाले प्रपूजयेत् ।
पापिष्ठानाश्रमभ्रष्टान्नास्तिकान् वै न दर्शयेत् ॥ ६८ ॥

3.69
आगमार्थं च देवानां गमनार्थं च रक्षसाम् ।
कुर्याद्घण्टारवं तत्र देवताह्वानलाञ्छनम् ॥ ६९ ॥

3.70
शङ्खादिघोषसंयुक्तं गेयवाद्यसमन्वितम् ।
आवाहने तथाऽभ्यङ्गे स्नानारम्भावसानयोः ॥ ७० ॥

3.71
तथा तिलकदाने च दीपे मात्रानिवेदने ।
नीराजने त्वाहरणे नैवेद्यस्य महानसात् ॥ ७१ ॥

3.72
तन्निवेदनकाले तु पूर्णाहुत्यवसानके ।
जलाहरणकाले च यानारोहावरोहयोः ॥ ७२ ॥

3.73
कवाटयोर्विघटने तथा बन्धे द्विजोत्तम ।
एतेषु नित्यकालेषु शङ्खमापूरयेत् त्रिधा ॥ ७३ ॥

3.74
प्रवृत्तस्यार्चने विष्णोः कृतमौनस्य तत्वतः ।
तस्याविक्षिप्तबुद्धेर्वै वाग्दानं सुविरोधकृत् ॥ ७४ ॥

3.75
अतः सव्यभिचारं तु मौनं वर्ज्यं क्रियापरैः ।
शुभमव्यभिचारं यत्तत्कार्यं सर्ववस्तुषु ॥ ७५ ॥

3.76
यदङ्गसंकेतमयैरव्यक्तैर्नासिकाक्षरैः ।
कृतमोष्ठपुटैर्बद्धैर्मौनं तत्सिद्धिहानिकृत् ॥ ७६ ॥

3.77
स्वयमेव स्वबुद्ध्या यत्सर्ववस्तुषु वर्तते ।
शब्दैरनुपदिष्टैस्तु तन्मौनं सर्वसिद्धिदम् ॥ ७७ ॥

3.78
करशुद्धिं ततः कुर्याद्यथाव दवधारय ।
द्वे तले हस्तपृष्ठे द्वे सर्वाश्चाङ्गुलयस्तथा ॥ ७८ ॥

3.79
अस्त्रमन्त्रेण संशोध्य ध्यानमुद्रान्वितेन तु ।
कृत्वैवं करशुद्धिं च स्थानशुद्धिं समाचरेत् ॥ ७९ ॥

3.80
ध्यात्वा देवं ज्वलद्रपं सहस्रार्कसमप्रभम् ।
ज्वालाकोटिसमाकीर्णं वमन्तं ज्वलनं मुखात् ॥ ८० ॥

3.81
तेन संपूरयेत् सर्वमाब्रह्मभवनान्तिमम् ।
दिगोघं प्रज्वलन्तं च भावयेन्मन्त्रतेजसा ॥ ८१ ॥

3.82
क्ष्मामण्डलमिदं सर्वं स्मरेत् पक्वं च वह्निना ।
मन्त्रजेन द्विजश्रेष्ठ मृण्मयं भाजनं यथा ॥ ८२ ॥

3.83
स्थानशुद्धिर्भवत्येवं सुधाकल्लोलसेचनात् ।
भावयेदथ दिग्बन्धं कुर्यादास्ये तु पावकम् ॥ ८३ ॥

3.84
किरन्तमस्त्रमन्त्रं च बाहुभ्यां दक्षिणेन वा ।
दिग्विदिक्षु च सर्वत्र विरेच्य स्वासनाद्बहिः ॥ ८४ ॥

3.85
शरजालचिताकारं प्राकारं बन्धयेद्बुधः ।
यद्वा तु पूर्ववत् कुर्याद्दिग्बन्धं हृदयादिकैः ॥ ८५ ॥

3.86
अस्त्रेण वै विदिग्बन्धं नेत्रेण तु अथोर्ध्वतः ।
आदित्यायुतदीप्तेन ज्वलत्कञ्चुकरूपिणा ॥ ८६ ॥

3.87
कवचेन तु तर्जन्या रक्षार्थमवकुण्ठयेत् ।
एवं कृत्वा तु दिग्बन्धं प्राणायाममथारभेत् ॥ ८७ ॥

3.88
प्रमाथिनो दृढस्याथ चञ्चलस्य तु चेतसः ।
समाधियोग्यतासिद्ध्यै प्राणादिविजयाय च ॥ ८८ ॥

3.89
तमोनि र्हरणार्थाश्च कुर्यात् प्राणायतीरथ ।
शरीरे नाडिसंस्थानं तथा प्राणादिसंस्थितम् ॥ ८९ ॥

3.90
प्राणायामस्वरूपं च ज्ञात्वा यामान् समाचरेत् ।
नाडीचक्रं प्रवक्ष्यामि यथावन्मुनिपुङ्गव ॥ ९० ॥

3.91
नाडीनां कन्दनाभिः स्यादुत्पत्तिस्थानमुत्तमम् ।
द्विसप्ततिसहस्राणि नाडयोऽन्तर्व्यवस्थिताः ॥ ९१ ॥

3.92
तिर्यगूर्ध्वमधश्चैव देहं व्याप्य व्यवस्थिताः ।
आग्नेयाः सौम्यरूपाश्च सौम्याग्नेयास्तथैव च ॥ ९२ ॥

3.93
आग्नेया ऊर्ध्ववदनाः सौम्यसंज्ञा अधोमुखाः ।
तिर्यग्गता नाडयस्तु सौम्याग्नेया उदाहृताः ॥ ९३ ॥

3.94
नाडीनामपि सर्वासां प्रधाना दश नाडयः ।
इडा च पिङ्गला चैव सुषुम्ना चोर्ध्वगामिनी ॥ ९४ ॥

3.95
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ।
अलम्बुसा कुहूश्चैव को शिनी दशमी स्मृता ॥ ९५ ॥

3.96
सुषुम्नाख्या मध्यनाडी कन्दादूर्ध्वप्रवाहिनी ।
मध्यनाड्याः सुषुम्नाया वामदक्षिणतः स्थिते ॥ ९६ ॥

3.97
इडपिङ्गलसंज्ञे द्वे ते तु नासापुटावधी ।
पुरतः पृष्ठतस्तस्या गान्धारी हस्तिजिह्वके ॥ ९७ ॥

3.98
वामेतराक्ष्यवधिके कन्ददेशात् समुत्थिते ।
पूषायशस्विन्याख्ये द्वे सव्यान्यश्रोत्रनिष्ठिते ॥ ९८ ॥

3.99
कन्दाद्वै पादमूलान्ता संस्थिता स्यादलम्बुसा ।
कुहूर्मेढ्रान्तपर्यन्ता पादाङ्गुष्ठे तु कोशिनी ॥ ९९ ॥

3.100
शुक्लेडा पिङ्गला रक्ता गान्धारी पीतवर्णका ।
हस्तिजिह्वा कृष्णरूपा पूषा स्यात् कृष्णपीतका ॥ १०० ॥

3.101
यशस्विनी श्यामवर्णा बभ्रुवर्णा ह्यलम्बुसा ।
कुहूररुणसंकाशा कोशिनी ह्यञ्जनप्रभा ॥ १०१ ॥

3.102
एवं दशप्रधानास्तु नाडयः परिकीर्तिताः ।
वायवो दश संप्रोक्ताः शरीरे नाडिषु स्थिताः ॥ १०२ ॥

3.103
प्राणोऽपानः समानश्च उदानो व्यान एव च ।
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ १०३ ॥

3.104
इडाख्या वहति प्राणं गान्धार्याख्या अपानकम् ।
अलम्बुसा समानं तु कुहूर्व्यानं द्विजोत्तम ॥ १०४ ॥

3.105
उदानं तु सुषुम्नाख्या पिङ्गला नागसंज्ञितम् ।
पूषा वायुं तु कूर्माख्यं कृकरं तु यशस्विनी ॥ १०५ ॥

3.106
हस्तिजिह्वा देवदत्तं कोशिनी तु धनञ्जयम् ।
विद्रुमाभौ प्राणनागाविन्द्रकोपोपमावुभौ ॥ १०६ ॥

3.107
कूर्मापानौ खसंकाशौ समानकृकरावुभौ ।
कॢञ्जल्कसदृशौ देवदत्तोदानौ धनंजयः ॥ १०७ ॥

3.108
व्यानश्च फेनवर्णाभः सर्वशास्त्रेषु निश्चयः ।
अथ प्राणायतिःसा च निश्वासोच्छ्वासयोर्गतेः ॥ १०८ ॥

3.109
स्तम्भनं तत्र निश्वासो बाह्यवातोपयोगिना ।
घ्राणेनानयनं वायोरन्तः कोष्ठानिलस्य च ॥ १०९ ॥

3.110
बहिर्निष्कासनं नास्या उच्छ्वासो बुद्धिपूर्वकम् ।
अभ्यन्तरा स्तम्भवृत्तिर्वायोरन्तः प्रपूरणम् ॥ ११० ॥

3.111
बाह्यं तु तद्वत् प्रथमं प्राणसंरोधनं विदुः ।
अभ्यन्तराद्द्वितीयस्तु स्तम्भवृत्तिस्तृतीयकम् ॥ १११ ॥

3.112
बाह्या तत्राधमा प्राणधारणा मध्यमा मता ।
अभ्यन्तरा स्तम्भवृत्तिरुत्तमा धारणा मता ॥ ११२ ॥

3.113
सदा निश्वासरूपा तु बाह्या रेचकमुच्यते ।
अभ्यन्तरा समुच्छ्वासरूपा संपूरकस्तथा ॥ ११३ ॥

3.114
श्वासोच्छ्वासनिरोधात्मा स्तम्भवृत्तिस्तु कुम्भकः ।
एकद्वित्रिभिरुद्घातैर्मृदुमध्यमतीक्ष्णकाः ॥ ११४ ॥

3.115
क्रमेणैते भवन्त्यत्र प्राणादेर्नाभिदेशतः ।
उद्गतस्याहतिः पूर्वमुद्घातः स्याद्द्वितीयकम् ॥ ११५ ॥

3.116
निवृत्तिरुदरादूर्ध्वं तस्य चाथ तृतीयकम् ।
अन्यत्र निग्रहोऽस्येह मृदुः पूर्वोऽथ मध्यमः ॥ ११६ ॥

3.117
द्वितीयस्तु तृतीयोऽथ तीक्ष्णस्स्वेदादिकारणम् ।
प्राणायामगणं कुर्यात् पूर्वमस्त्रेण रेचकम् ॥ ११७ ॥

3.118
तत्र द्वादशमात्रस्तु रेचकः पूरकः स्मृतः ।
चतुर्विशतिमात्रस्तु षट्त्रिंशन्मात्रकं विदुः ॥ ११८ ॥

3.119
कुम्भकं चाथ भूयोऽपि केवलानिलनिःसृतिः ।
या सा प्राणायतिः साऽपि रेचकाख्या विधीयते ॥ ११९ ॥

3.120
मात्राव्यतिक्रमान्न्यूना विपर्यासे तु साऽस मा ।
तस्मान्मात्राविशेषेण ज्ञातव्या प्राणजिष्णुना ॥ १२० ॥

3.121
जानुं प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ।
कुर्यादङ्गुलिविस्फोटं सा मात्रा परिकीर्तिता ॥ १२१ ॥

3.122
प्राणायमगणं कुर्यात् पूर्वमस्त्रेण रेचकम् ।
पूरकं हृदयेनाथ नेत्रमन्त्रेण कुम्भकम् ॥ १२२ ॥

3.123
प्रागुक्तेनाचरेद्भूयो रेचकं द्विजसत्तम ।
वामेतराङ्गुलीभ्यां तु पिदधद्वामनासिकाम् ॥ १२३ ॥

3.124
नाभिदेशस्थितं ध्यायेन्मूलमन्त्रेण वै हरिम् ।
वासनादोषसंमिश्रान् दशप्राणान् सगर्भकान् ॥ १२४ ॥

3.125
अगर्भश्च सगर्भश्च प्राणायामो द्विधा मतः ।
जपध्यानं विनाऽगर्भः सगर्भस्तद्युत श्च यः ॥ १२५ ॥

3.126
अगर्भाद्गर्भसंयुक्तः प्राणायामः शताधिकः ।
आकृष्यास्त्रं समुच्चार्य दक्षिणघ्राणतो बहिः ॥ १२६ ॥

3.127
रेचयेद्वातचक्रं तु दशनाडीष्ववस्थितम् ।
मात्रयैकैकयाऽन्योन्यं मोचयित्वाऽत्र पूषि काम् ॥ १२७ ॥

3.128
द्वाभ्यां तु पिङ्गलां द्वाभ्यां बहिर्नाभ्यास्तु रेचयेत् ।
विरेच्यैवं हरिं तावत् संस्थाप्यादाय पावकम् ॥ १२८ ॥

3.129
वातचक्रस्थितं ध्यायेत्तमेवान्तः प्रवेशयेत् ।
दक्षिणाङ्गुष्ठतो द्वारं पिदधद्वामनासया ॥ १२९ ॥

3.130
हरिं सवातचक्रं तं मात्राभ्यामिडयोच्चरन् ।
हृन्मन्त्रमन्तः संवेश्य तं ध्यात्वा हृदये स्थितम् ॥ १३० ॥

3.131
मात्राचतुष्टयेनाथ तेन वातेन पिङ्गलाम् ।
द्वाभ्यां सुषुम्नां गान्धारीं द्विद्विकाभिस्तु पूषिकाम् ॥ १३१ ॥

3.132
द्वाभ्यां द्वाभ्यां हस्तिजिह्वालम्बुसे च यशस्विनीम् ।
कोशिनीं च कुहूं चैव क्रमात् संपूरयेत् गतीः ॥ १३२ ॥

3.133
नासापुटादिकादूर्ध्वं नेत्रेणासीत कुम्भवत् ।
षट्त्रिंशद्भिस्तु मात्राभिरथ नाभ्यग्निमिश्रितैः ॥ १३३ ॥

3.134
परिभ्रमद्भिः सर्वत्र तैर्वातैर्दोषसंहतीः ।
ध्यात्वा निरस्ता नाडीश्च शोधितास्तु शनैः शनैः ॥ १३४ ॥

3.135
केवलं वातचक्रं तु बहिः प्राग्वद्विरेचयेत् ।
यद्वा षोडशमात्रा स्याद्रेचके द्विगुणः स्मृतः ॥ १३५ ॥

3.136
पूरकः कुम्भकोऽपि स्यात् सचतुःषष्टिमात्रकः ।
नाडीस्ता मोचयेत् प्राग्वत् षण्मात्राभिस्तु पिङ्गलाम् ॥ १३६ ॥

3.137
नाडीस्तु दश तन्त्रीभिः पञ्चमात्राभिरर्जयेत् ।
प्राणायाममिदं प्रोक्तमुत्तमादिविभेदतः ॥ १३७ ॥

3.138
त्रिप्रकारे विधानेऽत्र यथासंभवमाचरेत् ।
प्राणायामत्रयं कृत्वा पञ्च वा सप्त वाऽथवा ॥ १३८ ॥

3.139
भवेत् प्राणजयः पुंसः प्राणायामः स उच्यते ।
ततस्तु कायशुद्ध्यर्थं वर्णं भौमादि विन्यसेत् ॥ १३९ ॥

3.140
भूतशुद्धिं श्रृणु मुने यथावदनुपूर्वशः ।
पृथ्व्यप्तेजोनिलाकाशं शरीरं भूतपञ्चकम् ॥ १४० ॥

3.141
इन्द्रजालोपमं विद्धि ज्ञानाद्यैरुज्ज्ञितं गुणैः ।
मलिनं चास्वतन्त्रं च रेतोरक्तोद्भवं क्षयि ॥ १४१ ॥

3.142
यावन्न शोधितं सम्यग्धारणाभिर्निरन्तरम् ।
तावदेतदयोग्यं स्यान्मन्त्रन्यासादिवस्तुषु ॥ १४२ ॥

3.143
पञ्चभिर्धारणाभिर्वा द्वाभ्या वा शोधयेत्तनुम् ।
सुषुम्नादक्षिणद्वारान्निर्गमय्य हरिं बहिः ॥ १४३ ॥

3.144
सहस्ररविसङ्काशं वृत्तमण्डलमध्यगम् ।
तप्तकाञ्चनवर्णाभमासीनं परमे पदे ॥ १४४ ॥

3.145
मन्त्रात्मानं तु तं ध्यात्वा ह्युपरि द्वादशाङ्गुले ।
प्रभाचक्रं तु तदधस्तत्वाधिष्ठातृसंयुतम् ॥ १४५ ॥

3.146
निष्कलं मन्त्रदेहं तु ध्यात्वा तु तदधःक्रमात् ।
तुर्यश्रां पीतलां भूमिं चिन्तयेद्वज्रलाञ्छिताम् ॥ १४६ ॥

3.147
शब्दाद्यैः पञ्चभिर्युक्तां नगद्रुमसमाकुलाम् ।
पुरप्राकारसुसरिद्द्वीपार्णवपरिष्कृताम् ॥ १४७ ॥

3.148
संविशन्तीं स्मरेद्बाह्यात् पूरकेण स्वविग्रहे ।
प्रोच्चरंश्चैव तन्मन्त्रं विश्रान्तामथ चिन्तयेत् ॥ १४८ ॥

3.149
जान्वोः पादतलं यावत्तया व्याप्तं क्रमेण तु ।
कुम्भकेन द्विजश्रेष्ठ मन्त्रमूर्तौ स्वके ततः ॥ १४९ ॥

3.150
शनैः शनैर्लयं यातां गन्धशक्तौ च मन्त्रराट् ।
गन्धशक्तिं च तां पश्चाद्रेचकेन बहिः क्षिपेत् ॥ १५० ॥

3.151
तोयाख्ये च महाधारे ततस्तोयं च वैभवम् ।
ससमुद्रसरित्स्रोतोरसषटकं च सौषधिम् ॥ १५१ ॥

3.152
यान्यन्यान्यम्बुभूतानि भूतानि भुवनान्तरे ।
अर्धचन्द्रसमाकारं कमलध्वजशोभितम् ॥ १५२ ॥

3.153
वारुणं विभवं बाह्ये ध्यात्वा तेनाथ विग्रहम् ।
संपूर्य पूरकाख्येन करणेन शनैः शनैः ॥ १५३ ॥

3.154
ऊरुमूलाच्च जान्वन्तं शारीरं मण्डलं स्वकम् ।
तेनाखिलं तु संव्याप्तं कुम्भकेन स्मरेद्द्विज ॥ १५४ ॥

3.155
तन्मध्ये वारुणं मन्त्रं धारणाख्यं विचिन्त्य च ।
अम्मयं विभवं सर्वं तन्मन्त्रे विलयं गतम् ॥ १५५ ॥

3.156
ततस्तं रसशक्तौ च सा शक्तिर्वह्निमण्डले ।
रेचकेन विनिक्षिप्य ततो वाह्नं च वैभवम् ॥ १५६ ॥

3.157
त्रिकोणभुवनाकारं दीप्तिमद्भिर्विभूषितम् ।
विद्युच्चन्द्रार्कनक्षत्रमणिरत्नैश्च धातुभिः ॥ १५७ ॥

3.158
स्वप्रकाशशरीरैस्तु अशरीरैश्च खेचरैः ।
चिह्नितं स्वस्तिकैर्दीप्तैर्ध्यात्वैवं विभवं महत् ॥ १५८ ॥

3.159
तैजसं मुनिशार्दूल तन्मन्त्रं चाथ संस्मरेत् ।
तन्मण्डलान्तरस्थं तु प्रोच्चरन् वै तमेव हि ॥ १५९ ॥

3.160
प्रविष्टं पूर्ववद्ध्यायेत्तेनैव करणेन तु ।
आनाभेः पायुपर्यन्तं व्याप्तं कृत्वाऽवधार्य च ॥ १६० ॥

3.161
तं विप्र विभवं सर्वं तैजसं परिभावयेत् ।
तन्मन्त्रविग्रहे शान्तं तन्मत्रं चानलात्मकम् ॥ १६१ ॥

3.162
रूपशक्तौ लयं यातं शक्तिः संविन्मयी च सा ।
तया मन्त्रशरीरं स्वं स्वशक्त्या विलयीकृतम् ॥ १६२ ॥

3.163
रेचकेन तु तां शक्तिं वाय्वाधारे बहिः क्षिपेत् ।
ततस्तु वायवीयं वै विभवं बाह्यतः स्मरेत् ॥ १६३ ॥

3.164
वृत्तं राजोपलाभं तु बिम्बैर्युक्तं तु तैजसैः ।
पूर्णं नानाविधैर्गन्धैरनेकैस्तद्गुणैस्तथा ॥ १६४ ॥

3.165
स्वमन्त्रेण समाक्रान्तं धारणाख्येन संस्मरेत् ।
तथा स्वरूपं तन्मन्त्रं ध्यात्वोच्चार्य समाहरेत् ॥ १६५ ॥

3.166
पूर्वोक्तकरणेनैवं घ्राणाग्रेण शनैः शनैः ।
आकण्ठं नाभिदेशान्तं तेन व्याप्तं तु भावयेत् ॥ १६६ ॥

3.167
प्रागुक्तकरणेनैव वायव्यं विभवं तु तम् ।
अधिष्ठातृलयं यातं स्मृत्वा तं च महामते ॥ १६७ ॥

3.168
स्पर्शाख्यायां महाशक्तौ तां शक्तिमविनश्वरीम् ।
व्याप्तिं नित्यामनित्यां च स्वशक्तिविभावान्विताम् ॥ १६८ ॥

3.169
शब्दाख्ये तु महाधारे निक्षिपेद्व्योममण्डले ।
ध्यात्वाऽथ विभवं सर्वं व्योमाख्यं विग्रहाद्वहिः ॥ १६९ ॥

3.170
नानाशब्दसमाकीर्णं नीरूपं चाञ्जनप्रभम् ।
अविग्रहैः शब्दमयैः पूर्णं सिद्धैरसंख्यकैः ॥ १७० ॥

3.171
तन्मध्ये धारणामन्त्रं व्योमाख्यं संस्मरेद्द्विज ।
धारयन्तं स्वमात्मानं स्वसामार्थ्येन सवदा ॥ १७१ ॥

3.172
शब्दमात्रमरूपं तु व्यापकं विभवेष्वपि ।
धिया च संपरिच्छिन्नं कृत्वा विन्यस्य विग्रहे ॥ १७२ ॥

3.173
प्रागुक्तकरणेनैव तेन व्याप्तं च भावयेत् ।
आकण्ठाद्ब्रह्नरन्ध्रान्तं व्योमाख्यविभवेन च ॥ १७३ ॥

3.174
सन्धार्य कुम्भकेनैव यावत्कालं तु योगिना ।
ध्यायेत् परिणतं पश्चात् स्वमन्त्रे तु महामुने ॥ १७४ ॥

3.176
व्योमाख्यं धारणामन्त्रं शक्तौ पिरणतं स्मरेत् ।
॥ १७६ ॥

3.177
तां शक्तिं ब्रह्मरन्ध्रेण प्रयान्तीमनुभावयेत् ।
युक्तां शक्तिचतुष्केण गन्धाद्येनाविनश्वरीम् ॥ १७७ ॥

3.178
आश्रयेन्निष्कलं मन्त्रं तत्वाधिष्ठातृसंयुतम् ।
समन्त्रं विभवं भौतमेवमस्तं नयेत् क्रमात् ॥ १७८ ॥

3.179
चैतन्यं जीवभूतं यत् प्रस्फुरत्तारकोपमम् ।
भावनीयं तु विश्रान्तं निःसृतं भूतपञ्जरात् ॥ १७९ ॥

3.180
निष्प्रपञ्चे परे मन्त्रे पञ्चशक्त्याख्यविग्रहे ।
अनेन क्रमयोगेन जीव आत्मानमात्मना ॥ १८० ॥

3.181
ईक्षेत तद्धृदाकाशे अचलं सूर्यवर्चसम् ।
स्फुरद्द्युतिभिराकीर्णमीश्वरं व्यापकं परम् ॥ १८१ ॥

3.182
ततो मन्त्रशरीरस्थः समाधिं चाभ्यसेत् परम् ।
गन्धतन्मात्र पूर्वाभिर्युक्तत्वात् पञ्चशक्तिभिः ॥ १८२ ॥

3.183
हेयं चेत्थमिदं बुद्ध्वा यदा तत्स्थानबृंहितः ।
अतृप्तोऽकृतकृत्यश्च मन्त्रहृत्पद्मसेवनात् ॥ १८३ ॥

3.184
षट्पदो ह्यात्मतत्वश्च ज्ञानरज्ज्ववलम्ब्य च ।
हृत्कोटरोर्ध्वान्निर्यान्तं स्वात्मानं स्वात्मना स्मरेत् ॥ १८४ ॥

3.185
भारूपनाडिमार्गेण मन्त्रवह्नेः शिखा हि सा ।
पद्मसूत्रप्रतिकाशा सुषुम्ना चोर्ध्वगामिनी ॥ १८५ ॥

3.186
तद्ब्रह्मरन्ध्रगां स्मृत्वा सुपथा तेन सत्तम ।
शनैःशनैःस्वमात्मानं रेचयेज्ज्ञानवायुना ॥ १८६ ॥

3.187
मान्त्रं करणषट्कं च एवमव्यापकं त्यजेत् ।
प्राप्नुयाच्च तदूर्ध्वात्तु यः परात् प्रभुविग्रहात् ॥ १८७ ॥

3.188
उदितो द्विजशार्दूल तेजः पुञ्जो ह्यनूपमः ।
तत्प्रभाचक्रनाभिस्थस्वानन्दानन्दनन्दितः ॥ १८८ ॥

3.189
एवं पदात्पदस्थस्य ह्यात्मतत्वस्य वै ततः ।
तत्वनिर्मुक्तदेहस्य केवलस्य चिदात्मनः ॥ १८९ ॥

3.190
उदेति महदानन्दः सा शक्तिर्वैष्णवी परा ।
अलुप्तकर्मकर्तारं जीवं कृत्वा तमात्मसात् ॥ १९० ॥

3.191
यत्रोदिता च तत्रैव पुनरेवावतिष्ठते ।
तच्च संकल्पनिर्मुक्तमवाच्यं विद्धि सत्तम ॥ १९१ ॥

3.192
एवं स्वस्थानमासाद्य त्यक्त्वा भौतं च विग्रहम् ।
तत्र स्थितो दहेत् पिण्डं शक्तितन्मात्रवर्जितम् ॥ १९२ ॥

3.193
षाट्कौशिकमसारं च निर्दण्ड तृणरूपिणम् ।
इच्छानिर्मथनोत्थेन मन्त्रजेन तु वह्निना ॥ १९३ ॥

3.194
तेनाङ्घ्रिदेशादारभ्य तं पिण्डं ज्वलितं स्मरेत् ।
दक्षिणाङ्घ्रेरथाङ्गुष्ठप्रान्तदेशे शिखाक्षरम् ॥ १९४ ॥

3.195
ध्यात्वा युगान्तहुतभुग्रूपज्वालाशतावृतं ।
तेन स्वविग्रहं ध्यायेत् प्रज्वलन्तं समन्ततः ॥ १९५ ॥

3.196
नाभिकन्दान्तरोद्देशे नेत्रमन्त्रेण पावकम् ।
ध्यायेज्ज्वालागणोपेतं निनयेत्तेन भस्मसात् ॥ १९६ ॥

3.197
दहनेन स्वकं देह हृन्मन्त्रं भावयंस्ततः ।
देहजां भावयेज्ज्वालां मन्त्रनाथे लयं गताम् ॥ १९७ ॥

3.199
भस्मराशिसमप्रख्यं शान्ताग्निं तमनुस्मरेत् ॥
तद्वाचकेन तद्भस्म यातं ध्यात्वा इतस्ततः ॥ १९९ ॥

3.200
ततः समन्त्रं तद्बिम्बं पूर्णचन्द्रायुतोपमम् ।
ध्यात्वा तन्निःसृतेनैव त्वमृतौघेन चाम्बरात् ॥ २०० ॥

3.201
प्लावयेद्देहजां भूतिं सर्वं ध्यायेत् सुधात्मकम् ।
तत्राधारमयीं शक्तिं मध्ये विन्यस्य वैष्णवीम् ॥ २०१ ॥

3.202
बीजभूतां च सर्वस्य तदुत्थं चाम्बुजं स्मरेत् ।
षडध्वं तत्वभूतं च सितं तेजोमयं शुभम् ॥ २०२ ॥

3.203
मण्डलत्रितयाकीर्णं स्फुरत्किरणभास्वरम् ।
मन्त्रात्मानं च तन्मध्ये ध्यायेन्नारायणं प्रभुम् ॥ २०३ ॥

3.204
निष्कलं केवलं शुद्धं पञ्चसन्मन्त्रविग्रहम् ।
तन्मन्त्रशक्तिभिर्भूयो भावयेन्मूर्छितं द्विज ॥ २०४ ॥

3.205
व्योमादिपञ्चभूतीयं मान्त्रमीश्वरपञ्चकम् ।
तेभ्योऽथ प्रसरन्तं च व्योमाद्यं विभवं स्मरेत् ॥ २०५ ॥

3.206
संयोगजनितं पिण्डं ध्यायेद्विभवपञ्चकात् ।
सहस्रसूर्यसंकाशं शतचन्द्रगभस्तिमत् ॥ २०६ ॥

3.207
निर्मलस्फटिकप्रख्यं जरामरणवर्जितम् ।
जनित्वैवं स्वपिण्डं तु परमं भोगमोक्षयोः ॥ २०७ ॥

3.208
साधनं मुनिशार्दूल सहजं सर्वदेहिनाम् ।
तमासाद्य क्रमेणैव सिसृक्षालक्षणेन च ॥ २०८ ॥

3.209
स्वपदान्निस्तरङ्गाच्च कृत्वा शक्त्या सहोदयम् ।
स्वानन्दं च महानन्दात् स्वानन्दस्याप्यपाश्रयात् ॥ २०९ ॥

3.210
मारीचं नाभसं चक्रं तस्माद्रूपं स्वकं च यत् ।
सूर्यकोटिकराभासं प्रस्फुरन्तं स्वभाससा ॥ २१० ॥

3.211
कदम्बगोलका कारं निशाम्बुकणनिर्मलम् ।
एवमात्मानमानीय स्वस्थानात् स्वात्मना द्विज ॥ २११ ॥

3.212
विशेन्मन्त्रशरीरं स्वं ब्रह्मरन्ध्रेण पूर्ववत् ।
ज्योत्स्नानाडीपथेनैव पुर्यष्टककजान्तरम् ॥ २१२ ॥

3.213
स्ववाचकं भावयन् वै ध्वनिना निष्कऌएन तु ।
ततस्तु निष्कलान्मन्त्राद्यावद्भौतं च विग्रहम् ॥ २१३ ॥

3.214
पञ्चकं चाभिमानं तु आसाद्यालोकविग्रहम् ।
स्वमन्त्रादमृतौघेन सेचयेद्विग्रहं स्वकम् ॥ २१४ ॥

3.215
ततः स्वमन्त्रं तद्बिम्बमाकृष्य हृदि विन्यसेत् ।
निस्तरङ्गा परा शक्तिर्महानन्दमयी च सा ॥ २१५ ॥

3.216
स्वानन्दाच्च प्रभाचक्रं रूपमात्मीयभास्वरम् ।
सौषुम्नस्तादृशो मार्गः पिण्डमन्त्रश्च निष्कलः ॥ २१६ ॥

3.217
सत्याद्यो मन्त्रशक्त्योघो धारणेश्वरपञ्चकम् ।
तेषां विभवसङ्घो यः पिण्डस्तत्सामुदायिकः ॥ २१७ ॥

3.218
स्मरेल्लोलीकृतं सर्वमपृथक् च पृथक् स्थितम् ।
स्थूलसूक्ष्मपराख्येन त्रिविधेन तु सत्तम ॥ २१८ ॥

3.219
करणेनोदिता सम्यक् शुद्धिरेषा च भौतिकी ।
शोधितैः पञ्चभिर्भूतैः पृथिव्याद्यैः खपश्चिमैः ॥ २१९ ॥

3.220
घ्राणजिह्वाक्षित्वक्छ्रोत्ररूपज्ञानेन्द्रियाणि च ।
उपस्थपायुपादाख्यपाणिवागात्मकानि च ॥ २२० ॥

3.221
कर्मेन्द्रियाणि पञ्चैव शोधितानि भवन्ति हि ।
तत्रापि पूरकादीनां काल आयामवत्स्मृतः ॥ २२१ ॥

3.222
धारणापञ्चकेनैवं मुख्यकल्पे प्रकीर्तिता ।
अनुकल्पे तु तां वक्ष्ये यथावद्विनिबोध मे ॥ २२२ ॥

3.223
क्ष्माजलानलवाय्वाख्यनाभसीयं महामते ।
धारणापञ्चकं चैव संक्षिप्तं विहितं द्वयम् ॥ २२३ ॥

3.224
दहनाप्यायनाच्चैव यदा देहात् स्वशुद्धये ।
नाभिक्षेत्रगतं ध्यायेन्मारुतं कवचेन तु ॥ २२४ ॥

3.225
नयेद्देहगतं तेन शोषभावं रसं द्विज ।
नाभिकन्दान्तरोद्देशे नेत्रमन्त्रेण पावकम् ॥ २२५ ॥

3.226
ध्यायेज्ज्वालागणोपेतं निनयेत्तेन भस्मसात् ।
दहनेन स्वकं देहं हृन्मन्त्रं भावयंस्ततः ॥ २२६ ॥

3.227
तिष्ठेद्गगनमाश्रित्य शिरोमन्त्रेण भावयेत् ।
जलं मुक्ताफलस्वच्छं तदुद्भूतमथ स्मरेत् ॥ २२७ ॥

3.228
शिखामन्त्रेण कमलं वसुधागुणलक्षणम् ।
तदधिष्ठातृभावेन नयेदात्मनि सत्तम ॥ २२८ ॥

3.229
ध्यायेत्तदुत्थितं कोशं भूततत्वमयं वपुः ।
हृदयादीन् स्मरन् पञ्चतत्वानां कारणात्मनाम् ॥ २२९ ॥

3.230
ततः समाचरेन्न्यासं तस्मिन् ध्यानोत्थिते पुरे ।
मुख्यानुकल्पभेदेन भूतशुद्धिः प्रक्रीर्तिता ॥ २३० ॥


Kapitel 4

श्रीः ।
चतुर्थोऽध्यायः ।

4.1
संशुद्धविग्रहो मन्त्री मन्त्रन्यासं समाचरेत् ।
येन विन्यस्तमात्रेण देवदेवसमो भवेत् ॥ १ ॥

4.2
पूजादिसर्वकार्याणामधिकारी च जायते ।
भवेद्वै सर्वसिद्धीनामाविर्भावस्तु येन च ॥ २ ॥

4.3
यं कृत्वा निर्भयस्तिष्ठेद्देशे दुष्टसमाकुले ।
विजयश्चापमृत्यूनां स्याद्येन विहितेन च ॥ ३ ॥

4.4
व्यापारो मानसो ह्येष न्यासाख्यो यद्यपि स्मृतः ।
न बध्नाति स्थितिं सम्यक् तथाऽपि क्रियया विना ॥ ४ ॥

4.5
कराधीना पुनस्सा तु प्राङ्न्यासस्तु तयोः स्थितः ।
अथ हस्तद्वये न्यस्य दीप्तिमद्द्वादशाक्षरम् ॥ ५ ॥

4.6
मणिबन्धान्नखाग्रान्तं त्वादित्यातपवत्ततः ।
सृष्टिसंस्थितिसंहारन्यासं कुर्याद्यथाविधि ॥ ६ ॥

4.7
दक्षहस्ततलारम्भो वामान्तः सृष्टिसंज्ञितः ।
दक्षाङ्गुष्ठादिको वामतलान्तः स्थितिसंज्ञितः ॥ ७ ॥

4.8
वामहस्ततलारम्भो दक्षान्त इतरः स्मृतः ।
सृष्टौ दक्षतले तारं तदङ्गुष्ठादिके क्रमात् ॥ ८ ॥

4.9
अङ्गुलीनां तु दशके यावद्वामकनिष्ठिका ।
विन्यस्य दशवर्णांस्तु न्यसेद्वामतलेऽन्तिमम् ॥ ९ ॥

4.10
स्थित्याख्ये दक्षिणाङ्गुष्ठादारभ्याङ्गुलिपञ्चके ।
तत्तलान्तं तु ताराद्यं वर्णषट्कं तु विन्यसेत् ॥ १० ॥

4.11
वामाङ्गुष्ठात्तत्तलान्तं विन्यसेत् षट्कमुत्तरम् ।
संहाराख्येऽक्षरं न्यस्य वामहस्ततलेऽन्तिमम् ॥ ११ ॥

4.12
अप्ययाख्यक्रमेणैव दक्षहस्ततलावधि ।
ततो वर्णगणं शेषं न्यसेत् प्रणवपश्चिमम् ॥ १२ ॥

4.13
तर्जन्या तत्तदङ्गुष्ठे तत्तदङ्गुष्ठकेन च ।
तर्जन्यादिषु शाखासु तत्तन्मध्यमया तले ॥ १३ ॥

4.14
न्यासं कुर्याद्यथायोगं ततोऽङ्गन्यासमाचरेत् ।
आरभ्य दक्षिणाङ्गुष्ठाच्छाखासु दशसु द्विज ॥ १४ ॥

4.15
क्रमाद्वामकनिष्ठान्तं दक्षिणादि तलद्वये ।
हृदादिद्वादशाङ्गानि भास्वद्रूपाणि विन्यसेत् ॥ १५ ॥

4.16
दक्षिणे मध्यतः पझं प्रस्फुरत्किरणोज्ज्वलम् ।
गदां वामतले न्यस्येज्ज्वलन्तीं स्वेन तेजसा ॥ १६ ॥

4.17
दक्षे महाप्रभं चक्रं शङ्खं वामतले न्यसेत् ।
किरीटं दक्षिणे हस्ते श्रीवत्सं वाममध्मतः ॥ १७ ॥

4.18
कौस्तुभं दक्षिणतले वनमालां तथाऽपरे ।
श्रियं दक्षिणहस्ते तु पुष्टिं वामतले न्यसेत् ॥ १८ ॥

4.19
अङ्गुष्ठाद्दक्षिणादादौ वामान्तं मूलदेशतः ।
गारुडं विन्यसेन्मन्त्रं दशस्वङ्गुलिषु क्रमात् ॥ १९ ॥

4.20
अनेन विधिना पूर्वं हस्तन्यासं समाचरेत् ।
या विभोः परमा शक्तिर्हृत्पझकुहरान्तगा ॥ २० ॥

4.21
वायव्यं रूपमास्थाय दशधा संव्यवस्थिता ।
इच्छया स्वप्रवाहेण पाणिमार्गेण निर्गता ॥ २१ ॥

4.22
नाडीदशकमाश्रित्य ता एवाङ्गुलयो मताः ।
अत एव द्विजश्रेष्ठ शक्त्याख्ये प्रभुविग्रहे ॥ २२ ॥

4.23
पूर्वं मन्त्रगणं न्यस्य ततो भूतमये न्यसेत् ।
विग्रहे मन्त्रसंघातं यथा तदवधारय ॥ २३ ॥

4.24
आमूर्ध्नश्चरणान्तं च द्वादशार्णं न्यसेत्तनौ ।
व्यापकत्वेन विन्यस्य पादाद्भूयः शिरोऽन्तिमम् ॥ २४ ॥

4.25
सृष्टिसंस्थितिसंहारन्यासं कुर्यात्ततः परम् ।
मूर्धादिपादपर्यन्तः सृष्टिन्यासः प्रकीर्तितः ॥ २५ ॥

4.26
पादादिश्च शिरोऽन्तस्तु संहृतिन्यास उच्यते ।
यथाऽभिलषितं कुर्यात् सर्वथा कर्तुरिच्छया ॥ २६ ॥

4.27
मूर्ध्नि वक्त्रेंऽसयुग्मे च क्रमात् सव्येतरे हृदि ।
पृष्ठे नाभौ तथा कट्यां जानुनोरथ पादयोः ॥ २७ ॥

4.28
क्रमेण प्रणवाद्यं तु यान्तं द्वादशवर्णकम् ।
विन्यसेदेष सृष्ट्याख्यो न्यासः प्रोक्तो यथार्थतः ॥ २८ ॥

4.29
प्रणवाद्यान्न्यसेद्वर्णान् स्थानेषु हृदयादिषु ।
अह्गोपाङ्गोक्तमार्गेण स्थितिन्यासः प्रकीर्तितः ॥ २९ ॥

4.30
पादयोर्जानुनोः कट्यां नाभौ पृष्ठे हृदन्तरे ।
सव्येतरेसयुग्मे च वक्त्रे मूल्धनि च न्यसेत् ॥ ३० ॥

4.31
यादिवर्णांस्तु तारान्तानेष संहारसंज्ञकः ।
ततो हृदादिस्थानेषु अङ्गोपाह्गानि विन्यसेत् ॥ ३१ ॥

4.32
न्यसेत्तु हृदये ज्ञानं यतो व्यज्येत तत्र तत् ।
ऐश्वर्यं शिरसोद्देशे यस्मादुपरि तिष्ठति ॥ ३२ ॥

4.33
प्राकृतं तात्विकं वाऽपि सर्वत्र मुनिसत्तम् ।
हृदग्नेरूर्ध्वगायां तु शिखायां शक्तिमन्त्रराट् ॥ ३३ ॥

4.34
बलं चाखिलगात्राणां त्वग्गतं वायुना सह ।
मूर्छितं सर्वगात्रैर्यत्तद्वीर्यं हस्तयोर्न्यसेत् ॥ ३४ ॥

4.35
अन्तर्बोधस्वरूपं यत् प्राकृतध्वान्तशान्तिकृत ।
तेजस्तत्तैजसे स्थाने न्यासकाले समस्यते ॥ ३५ ॥

4.36
यथोक्तविधिना सोऽयं विधिरूर्ध्वं प्रवक्ष्यते ।
ततः पझगदाचक्रशङ्खान् प्राग्वत्तु विन्यसेत् ॥ ३६ ॥

4.37
किरीटं मूर्ध्नि विन्यस्य वह्न्यर्कायुतदीधितिम् ।
श्रीवत्सं वक्षसोऽवामे पूर्णेन्दुसदृशद्युतिम् ॥ ३७ ॥

4.38
कौस्तुभं हृदये न्यस्य चण्डदीधितिलक्षणम् ।
नानाब्जवनपुष्पोत्थां वनमालां च कण्ठतः ॥ ३८ ॥

4.39
आचांसाद्धक्षिणे भागे न्यस्या श्रीरुत्तरे तथा ।
पुष्टिं गुल्फावसाने च गरुडं चोरुमूलतः ॥ ३९ ॥

4.40
भास्वद्रूपाणि चाङ्गानि चिदेकविभवानि च ।
किरीटादीनि चान्यानि सर्वाण्याभरणानि च ॥ ४० ॥

4.41
यथा प्रसिद्धरूपाणि स्वस्वकान्तिधराणि च ।
मन्त्रन्यासं तु कृत्वैवं यथोद्दिष्टकमेण तु ॥ ४१ ॥

4.42
आमूलमन्त्रात् सर्वासां मुद्राणां बन्धमाचरेत् ।
स्वं स्वं उदीरयन्मन्त्रं परमेश्वरवत्ततः ॥ ४२ ॥

4.43
संचिन्त्य रूपमात्मीयं साभिमानं महामते ।
मूलमन्त्राभिजप्तं च कुसुमं च शिखावधौ ।
स्वविग्रहे तु शिरसा दद्याद्गन्धाम्बुभावितम् ॥ ४३ ॥


Puja bei Yoga Vidya: ein heutiger Ausdruck von Hingabe.

Begleitvortrag: Aufbau, Logik und Bestandteile einer Puja.

Kapitel 5

श्रीः ।
पञ्चमोऽध्यायः ।

5.1
कृत्वैवं तु ततः पश्चान्मानसं यागमारभेत् ।
पद्मासनादिकं बध्वा नाभौ ब्रह्माञ्चलिं दृढम् ॥ १ ॥

5.2
मनस्युपरतं कुर्यादक्षग्रामं बहिः स्थितम् ।
चित्तं बुद्धौ विनिक्षिप्य तां बुद्धिं ज्ञानगोचरे ॥ २ ॥

5.3
ज्ञानभावनया कर्म कुर्याद्वै पारमार्थिकम् ।
चतुश्चक्रे नवद्वारे देहे देवगृहे पुरे ॥ ३ ॥

5.4
कण्ठकूपधरारूढं हृत्पद्मं यदधोमुखम् ।
तत्कर्णिकावनेर्मध्यदे शमाश्रित्य भावयेत् ॥ ४ ॥

5.5
नाभिमेढ्रान्तरे ध्यायेच्छक्तिं चाधाररूपिणीम् ।
कालाग्निं च तदुर्ध्वे तु अनन्तं तस्य चोपरि ॥ ५ ॥

5.6
तदूर्ध्वे वसुधां देवीं चतुर्भिः पूरितं स्मरेत् ।
कन्द नाभ्यवसानं च चतुर्धा भाजितैः पदैः ॥ ६ ॥

5.7
नाभौ क्षीरार्णवं ध्यात्वा ततः पद्मं समुत्थितम् ।
सहस्रदलसंयुक्तं सहस्रकिरणावृतम् ॥ ७ ॥

5.8
सहस्ररश्मिसंकाशं तत्पृष्ठे चासनं न्यसेत् ।
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च चतुर्थकम् ॥ ८ ॥

5.9
अवतार्य स्वमन्त्रेण आग्नोयाद्ये चतुष्टये ।
चतुष्कमेतद्विन्यस्य यावदीशानगोचरम् ॥ ९ ॥

5.10
तत्पूर्वदिग्विभागादि यावदुत्तरगोचरम् ।
न्यस्याधर्मं तथाऽज्ञानमवैराग्यमनैश्वरम् ॥ १० ॥

5.11
पुरुषाकृतयस्त्वेते बन्धूककुसुमोज्ज्वलाः ।
प्रागीशानदिगन्ते तु प्रागाग्नेयदिगन्तरे ॥ ११ ॥

5.12
यातुवारुणमध्ये तु वायव्यवरुणान्तरे ।
ऋग्वेदाद्यं चतुष्कं तु कृताद्यं युगसङ्घकम् ॥ १२ ॥

5.13
ईशानसोमदिङ्मध्ये अन्तकाग्निदिगन्तरे ।
याम्यराक्षसमध्ये तु सोमसामीरणान्तरे ॥ १३ ॥

5.14
तन्मूर्ध्नि कालचक्रं तु तन्मध्येऽव्यक्तपङ्कजम् ।
वायव्योद्भूतनालं तु विकाराधारसंस्थितम् ॥ १४ ॥

5.15
भूतान्याधारशक्तौ तु तन्मात्राः कालपावके ।
वागादिकं तथैवाक्षमनन्तं व्याप्त संस्थितम् ॥ १५ ॥

5.16
श्रोत्रादिकं धरण्यां च मनः क्षीरार्णवे द्विज ।
अनन्तदलपद्मे तु अहङ्कारः समाश्रितः ॥ १६ ॥

5.17
द्विरष्टकं च धर्माद्यमधिष्टाय च धी स्थिता ।
तदूर्ध्वपझे प्रकृतिर्गुणसाम्यविभागिनी ॥ १७ ॥

5.18
धामत्रयाश्रितः कालो भावाख्ये पुरुषस्थितिः ।
आधेयमब्जसंभूत स्वे विकारे स्वरूपिणि ॥ १८ ॥

5.19
स्वयमाद्यन्तयो रुद्धं सूत्रे मणिगणो यथा ।
प्रागाधारात्मना चैव विश्वाकारतया ततः ॥ १९ ॥

5.20
नानामन्त्रात्मना ह्यूर्ध्वे निस्तरङ्गो हि तत्वतः ।
अभ्यस्तवासनानां च कर्मिणां कर्मशान्तये ॥ २० ॥

5.21
तदिच्छाविष्कृतानां च भोगकैवल्यसिद्धये ।
अनाद्यविद्याविद्धानामियत्तैषा ह्यवस्तुनि ॥ २१ ॥

5.22
नातोर्ध्वे तत्वदृष्टीनां तत्वतो वाऽस्ति पौष्कर ।
न तिर्यक्पृष्ठपूर्वे च न हेयादिविकल्पना ॥ २२ ॥

5.23
या विशेषविकल्पैस्तु प्रत्यस्तमितलक्षणा ।
शक्तिर्भगवतो विष्णोः साधाराख्याऽभिधीयते ॥ २३ ॥

5.24
प्राग्वदासनसामर्थ्यं बीजमादाय चेच्छया ।
अव्यक्तव्यक्तरूपा च यथादित्यकदम्बकम् ॥ २४ ॥

5.25
भाविप्रसरधर्मित्वाद्विश्वबीजचयस्य च ।
सांप्रतं संहृताङ्गस्य कूर्मसंज्ञा विधीयते ॥ २५ ॥

5.26
यो विश्वं निर्दहत्यन्ते कालवैश्वानरात्मना ।
दैवतं यस्य भगवान् कूर्मात्मा लोकपूजितः ॥ २६ ॥

5.27
अजहद्भगवच्छक्ति सामर्थ्यं पुनरेव तत् ।
अनन्तं सविकल्पानां यद्विश्वाङ्कुरमव्ययम् ॥ २७ ॥

5.28
नयत्यूर्ध्वं यथा कूर्मो ग्रीवां स्वात्मनि संवृ ताम् ।
शेषाक्यफणिदैवत्यं तदनन्तं हि गीयते ॥ २८ ॥

5.29
आश्रयं बीजभूतानां चतुर्णां यन्महामते ।
तद्गन्धविटपस्तस्माद्व्यक्तिमब्येति पूर्ववत् ॥ २९ ॥

5.30
भूरात्मा भगवान् यस्मिन्नभिमानाख्यदेवता ।
फलं रसात्मकं तस्माद्व्यज्यत्यमृतलक्षणम् ॥ ३० ॥

5.31
यस्याभिमानिकं रूपं क्षीरार्णवमनश्वरम् ।
तस्मादनन्तरत्नोत्थकान्तिं कमलमब्जज ॥ ३१ ॥

5.32
व्यक्तं यस्य च वै शक्तिर्नित्या दहनलक्षणा ।
तदनन्तदलं विद्धि दिव्यं विकसितं सितम् ॥ ३२ ॥

5.33
परपूर्वेण भेदेन एकद्वित्रिगुणात्मना ।
स्थिता बुद्धिर्विकारैस्तु सह चाष्टाभिरब्जज ॥ ३३ ॥

5.34
यत्राधिदेवतात्वेन वाग्विकारा ऋगादयः ।
तथा कालविकारा ये चत्वारः कृतपूर्वकाः ॥ ३४ ॥

5.35
तत्र रूपं हि सर्वेषां सत्तामात्रं परं स्मृतम् ।
व्यक्तिकारणधानाभिः साङ्गाभिरपरं तु तत् ॥ ३५ ॥

5.36
तृतीयमभिमानाक्यदेवतादेहलक्षणम् ।
तस्माद्वै वायुदैवत्यं स्पर्शतन्मात्रमेव च ॥ ३६ ॥

5.37
जाता यस्य स्फुटा व्यक्तिर्नानाचक्राङ्गलक्षणा ।
तस्मादाकाशदैवत्यं शब्दमुत्पन्नमब्जज ॥ ३७ ॥

5.38
सर्वाङ्गसंहृता चक्रव्यक्तिर्यस्यामलं वपुः ।
गीयते व्योमवृत्तं तत् प्रधानकमलालयम् ॥ ३८ ॥

5.39
यस्यान्तस्थानि भूतानि यस्मिन् सर्वं प्रतिष्ठितम् ।
यस्मादुन्मेषपूर्वं हि महत्प्रलयपश्चिमम् ॥ ३९ ॥

5.40
प्रवर्तते कालतानं भेदकृत् सर्ववस्तुषु ।
वाङ्भात्रेणैव भिन्नस्य अभिन्नस्यैव तत्वतः ॥ ४० ॥

5.41
ज्ञानादिगुणबृन्दस्य ब्रह्नणश्चतुरात्मनः ।
नित्योदितत्वान्नित्यत्वाद्व्यापकत्वात् परं पदम् ॥ ४१ ॥

5.42
पूर्णत्वात् षड्गुणत्वाच्च न कालो लब्धगोचरः ।
शब्दादादित्यदैवत्यमहङ्कारं महामते ॥ ४२ ॥

5.43
मनश्च चन्द्रदैवत्यमहङ्कारादभूत्ततः ।
बुद्धिः प्रकाशदैवत्या व्यक्तानन्दात्मनो विभोः ॥ ४३ ॥

5.44
दऌआदिकर्णिकान्तायाः सूर्यपूर्वादिकल्पना ।
प्रधानकमलस्यैषा मूर्तिर्गुणमयी स्मृता ॥ ४४ ॥

5.45
बुद्ध्यादीनां च तत्वानां कारणं यदनश्वरम् ।
अव्यक्ताख्यं महाबुद्धे ह्यभिन्नगुणमूर्तिभृत् ॥ ४५ ॥

5.46
स्वगुणानधरीकृत्य स्वप्रतिष्ठं प्रवर्तते ।
अद्यात्मलक्षणावृत्तिः सर्वाः संहृत्य वै हृदि ॥ ४६ ॥

5.47
उत्पद्यन्ते हि चैतस्माद्भावाः सर्वे द्विजोत्तम ।
विपद्यन्तेऽत्र वै भूयस्तस्मात्पझं परं त्विदम् ॥ ४७ ॥

5.48
चिदादित्यकलाजालं ग्राह्यग्राहकलक्षणम् ।
संक्रान्तं यत्र स्वं धाम स्वसामर्थ्यं च वेत्यपि ॥ ४८ ॥

5.49
विमलाख्या विमलता ज्ञानशक्ति र्ज्ञताब्जज ।
प्रभ्व्याख्या प्रभुता चैव सत्यसंज्ञा च सत्यता ॥ ४९ ॥

5.50
नित्याख्या नित्यता चैव प्रकाशाख्या प्रकाशता ।
अनन्तता ह्यनन्ताख्या कला कमलसंभव ॥ ५० ॥

5.51
सहानुग्रहशक्त्या वै ज्ञेयाऽनुग्रहता परा ।
द्विचतुष्कं कलानां यत् स्वप्रतिष्ठं हि वर्तते ॥ ५१ ॥

5.52
संवर्तते परं चैव पुनरेव निवर्तते ।
परापरविभागेन कलास्त्वेताश्चिदात्मनः ॥ ५२ ॥

5.53
प्रोक्ताः कमलसंभूत यासामानन्त्यमुत्तमम् ।
यथाक्रमेण सर्वेषां ध्यानमाकर्णयामलम् ॥ ५३ ॥

5.54
शानत्मुज्झितचेष्टं च सितमन्तर्मुखं स्थितम् ।
आधेयोल्लिङ्गिताकारमाधाराख्यं स्मरेत् प्रभुम् ॥ ५४ ॥

5.55
कूर्ममुद्रान्वितं कूर्मवक्त्रं निष्ठप्तरुक्मभम् ।
शह्खपझधरं कूर्मं स्वस्तिकेन स्थितं स्मरेत् ॥ ५५ ॥

5.56
मुञ्चन्तमनिशं तेजो देहाद्भीषणमुत्कटम् ।
तिर्यगूर्ध्वं च धातारं ज्वालाजालमिवोच्च्वलम् ॥ ५६ ॥

5.57
अनन्तशशिसंकाशमनन्तमथ संस्मरेत् ।
सहस्रफणमालाढ्यं सहस्रभुजभूषितम् ॥ ५७ ॥

5.58
स्वपाणिसंपुटेनैव शोभयन् स्वान्तभूस्थलम् ।
सितारविन्दशङ्खाक्षसूत्रचक्रकरान्वितम् ॥ ५८ ॥

5.59
पतनाशङ्किबुद्धेर्वै वित्रस्तमनसस्तु च ।
मा भैरित्यभयं यच्छन्नाब्रह्नभवनस्य च ॥ ५९ ॥

5.60
निःशेषरत्नहेमाङ्गां प्राबृट्छ्रियमिवोच्च्वलाम् ।
पझासनेनोपविष्टां ध्यायेत् पझाञ्जलिं धराम् ॥ ६० ॥

5.61
फुल्लकुन्दावदातं च सितस्निग्धजटाधरम् ।
ध्मायमानं सितं शङ्खं मुक्तादामैरलङ्कृतम् ॥ ६१ ॥

5.62
विस्तीर्णसर्वावयवं विक्षिप्तोरुद्वयं स्थितम् ।
विक्षिप्तजानुपादं च संस्मर्तव्यं पयोनिधिम् ॥ ६२ ॥

5.63
सुपव्काम्रफलश्यामपाणिपादतलोज्ज्वलम् ।
रक्ताक्षं च तथा विप्रकीर्णकेशं स्मिताननम् ॥ ६३ ॥

5.64
पझासनेनोपविष्टमलिमालाशताकुलम् ।
पझमुद्रान्वितं पझं सुदीर्घचरणं स्मरेत् ॥ ६४ ॥

5.65
तुहिनाच्छोपलस्वच्छमुक्ताफलशशिप्रभाः ।
मृगेन्द्रस्कन्धवदना धर्मज्ञानादयश्चतुः ॥ ६५ ॥

5.66
पझरागप्रवालाग्निसद्दाडिमफलोज्ज्वलाः ।
अन्तर्दयोपरक्ताश्च राजराजेश्वरोपमाः ॥ ६६ ॥

5.67
द्विरष्टवर्षवद्विद्धि चत्वारो ऽधर्मपूर्वकाः ।
हेमचम्पकखद्योतहरितालदलोज्ज्वलाः ॥ ६७ ॥

5.68
वाजिवक्त्राः स्मृता वेदाः संपूर्णनरलक्षणाः ।
एवं वृषेन्द्रवदना युगा ब्रह्नन् कृतादयः ॥ ६८ ॥

5.69
सुपव्काम्रातसीपुष्पनीलाब्जशुकसन्निभाः ।
सर्वे सद्वस्त्रसत्पुष्पसदलङ्करणान्विताः ॥ ६९ ॥

5.70
शङ्खपझधराः सर्वे वराभयकरास्तु वै ।
आधेयचक्रविन्यस्तमस्तका स्वात्मसिद्धये ॥ ७० ॥

5.71
समर्पितान्तःकरणाः परस्मिन् मन्त्रकारणे ।
युगान्तार्काग्निसङ्काशस्वगोमण्डलमध्यगम् ॥ ७१ ॥

5.72
स्वमुद्रान्वितपाणिं च वल्गन्तं हेतिराट् स्मरेत् ।
चिन्त्यमव्यक्तपझं च हिमहेमाग्निभास्वरम् ॥ ७२ ॥

5.73
शान्तमष्टभुजं सौम्यं संस्थितं स्वस्तिकेन तु ।
स्फटिकोपलकान्तिं च चिद्धनं ध्रुवमव्ययम् ॥ ७३ ॥

5.74
सर्वशक्तिनिधिं ध्यायेदमूर्तं चित्प्रभाकरम् ।
सर्वे स्वविभवान्तस्थास्तत्राधारात्मनो विभोः ॥ ७४ ॥

5.75
स्वसत्ताभासितं सत्वं गुणसत्वाद्विलक्षणम् ।
विभवं विद्धि विप्रेन्द्र ज्वालौघं कच्छपात्मनः ॥ ७५ ॥

5.76
स्वभोगं नागनाथस्य भूः क्षितेः काञ्चनी तथा ।
आसारमामृतं दिव्यं वीच्योघैस्तु समन्वितम् ॥ ७६ ॥

5.77
क्षीरोदकीयविभवं परिज्ञेयमनश्वरम् ।
बीजकोशं सकिञ्जल्कं कमलस्य दलान्वितम् ॥ ७७ ॥

5.78
धर्माद्यस्य चतुष्कस्य सद्विवेकं सुनिर्मलम् ।
द्वि द्विकस्या धर्मादेरविद्याविभवं महत् ॥ ७८ ॥

5.79
वाक्प्रपञ्चमहेयं यत् तदृगादिगणस्य च ।
विभवं च कृतादीनां महत्कल्पान्तमात्रुटेः ॥ ७९ ॥

5.80
चक्रस्य विभवं विद्धि भ्रमं मायाश्रयं हि यत् ।
गौणीवृत्तिरमेया या विभवं प्राकृतं हि तम् ॥ ८० ॥

5.81
विमलादिकलाजालं पौरुषं विभवं स्मृतम् ।
विभोर्मन्त्रात्मनस्चेदमशेषममरार्चितम् ॥ ८१ ॥

5.82
आमहन्मन्त्रनाथेब्यो नानामन्त्रगणं हि यत् ।
स्वशक्तिनिचयोपेतं तद्विष्णोः परमात्मनः ॥ ८२ ॥

5.83
विभवं कमलोद्भूत ज्ञात्वैवं संयजेत् सदा ।
शब्दव्यक्तिस्तदूर्ध्वे तु स्थितार्केन्द्वग्निलक्षणा ॥ ८३ ॥

5.84
त्रिदीप्तिभास्वरा नाडी त्वव्यक्तध्वनिविग्रहा ।
व्यक्तचक्रत्रयस्योर्ध्वे वर्तते या महामते ॥ ८४ ॥

5.85
निःसृता ब्रह्नरन्ध्रेण गता सूर्यपथात् परम् ।
वायुद्वारेण पातालं भित्वा याता स्वगोचरम् ॥ ८५ ॥

5.86
सङ्कल्पविषयः सर्वस्तद्बद्धः प्रतितिष्ठति ।
सूत्रे मणिगणो यद्वन्मध्यनाडी ह्यतः स्मृता ॥ ८६ ॥

5.87
लक्ष्यस्थाने तु पूर्वोक्ते तस्यामभ्यन्तरे तु वै ।
संपुटे शशिसूर्याख्ये निमेषोन्मेषलक्षणे ॥ ८७ ॥

5.88
तत्राब्जं चार्कमालम्ब्य परा वाग्भ्रमरी स्थिता ।
या सर्वमन्त्रजननी शक्तिः शान्तात्मनो विभोः ॥ ८८ ॥

5.89
नदन्ती वर्णजं नादं शब्दव्रह्नेति यः स्मृतः ।
अकारपूर्वो हान्तश्च धारा सन्तानरूपधृक् ॥ ८९ ॥

5.90
नादावसानगगने देवोऽनन्तः सनातनः ।
वरदाभयदेनैव शङ्कचक्राह्कितेन तु ॥ ९० ॥

5.91
त्रैलोक्यधृतिदक्षेण युक्तः पाणिद्वयेन तु ।
शान्तः संवित्स्वरूपस्तु भक्तानुग्रहकाम्यया ॥ ९१ ॥

5.92
अनौपम्येन वपुषा ह्यमूर्तो मूर्ततां गतः ।
तस्मादावाहनं कुर्याद्यथा तदवधारय ॥ ९२ ॥

5.93
स्वशक्त्याधिष्ठितं कृत्वा स्वस्वभावस्वभावया ।
ग्राह्यग्राहकरूपाया एवमव्यक्तपुष्करम् ॥ ९३ ॥

5.94
समास्ते केवलं शुद्धमीषत्काललवं द्विज ।
सामान्यचिन्मयो भूत्वा सांप्रतं शक्तयः कलाः ॥ ९४ ॥

5.95
अस्मिता लक्षणं धर्मं स्वकं सम्यङ्निरस्य च ।
मवर्तते तन्निरासात् आनन्दमतुलं द्विज ॥ ९५ ॥

5.96
स्वप्रकाशमनौपम्यं तमिच्छेन्मन्त्रमव्ययम् ।
परिच्छेद्यां दिगाद्यैस्तु प्रकाशाकाशवर्तिनीम् ॥ ९६ ॥

5.97
कृत्वाश्रित्य कलामूर्तिं समनन्तरमब्जज ।
विहायोमध्यदेशं च प्रकाशगहनात्ततः ॥ ९७ ॥

5.98
धृतिशक्त्यासने स्वेऽथ उपविश्य यथासुखम् ।
विद्यादेहेन सूक्ष्मेण भूतदेहानुकारिणा ॥ ९८ ॥

5.99
अथानन्दकदम्बं तद्यत्स्वरूपंपृथक् स्थितम् ।
रञ्जयेच्छास्त्रदृष्टेन व्यवहारगतेन च ॥ ९९ ॥

5.100
स्वकेनालम्बनेनैव देवतालक्षणेन च ।
मणिर्यथा विभागेन नीलपीतादिभिर्युतः ॥ १०० ॥

5.101
रूपभेदमवाप्नोति ध्यानभेदात्तथा विभुः ।
एवं प्रवर्तते सम्यङ्भन्त्ररूपं परात्मकम् ॥ १०१ ॥

5.102
हृत्पुण्डरीकमध्यस्थं चैतन्यज्योतिरव्ययम् ।
कदम्बगोलकाकारं विश्वरूपं मणिप्रभम् ॥ १०२ ॥

5.103
रत्नदीपसमाकारमच्छिन्नप्रसरं महत् ।
श्रोत्रपूर्वैः खरन्ध्रैस्तु रश्मयस्तस्य निर्गताः ॥ १०३ ॥

5.104
छेद्रपूर्णाद्यथा कुम्भान्महादीपयुताद्द्विज ।
याति भासां गणो बाह्ये शरीरादेवमेव हि ॥ १०४ ॥

5.105
मान्त्रो रश्मिसमूहस्तु नाडीभिः प्रसरेद्वहिः ।
अप्रत्यक्षः सदाक्षाणां मन्त्रात्मा यद्यपि द्विज ॥ १०५ ॥

5.106
तथाऽप्यनेन न्यायेन प्रत्यक्षमुपलभ्यते ।
बहिः स्थितं यद्भूतानां क्ष्मादीनां गुणपञ्चकम् ॥ १०६ ॥

5.107
तेन तच्चोपलब्धव्यं प्रत्यक्षेण परोक्षकम् ।
तस्य भौमो गुणस्थैर्यं तद्गुणेन हि सा स्थिरा ॥ १०७ ॥

5.108
परस्परानुभावेन संवित्तौ तदुपारुहेत् ।
आह्लादो यस्तदीयो हि स तोये चोपलभ्यते ॥ १०८ ॥

5.109
तौयो गुणस्तु तस्यास्ति कथं स्यादन्यथा मुने ।
स्मृतमात्रेण मन्त्रेण आहलादो मनसो महान् ॥ १०९ ॥

5.110
रूपात्मना परिणतः स चाग्नौ पारमेश्वरः ।
यो रूपाख्यो गुणश्चाग्नेः स मन्त्रात्मनि तिष्ठति ॥ ११० ॥

5.111
तेजो विना यतो द्यानं कुत्रचिन्नोपपद्यते ।
स्पर्शधर्मो हि यो वायोः स तदीयो महामुने ॥ १११ ॥

5.112
यो वायव्यो गुणः सूक्ष्मः स च मन्त्रतनौ स्थितः ।
स चान्तःकरणेनैव संयमे स्यात्तदुत्थितः ॥ ११२ ॥

5.113
यदाकाशस्य शून्यत्वमस्ति तत् स्यात्तदुद्भवम् ।
स मन्त्रात्मनि संश्लिष्टो गुणो ह्यस्ति महामते ॥ ११३ ॥

5.114
अग्राह्यत्वाच्च करणैः प्राकृतैर्भावनां विना ।
इत्येवं मन्त्रसामर्थ्यं पुरा ज्ञात्वा यथार्थतः ॥ ११४ ॥

5.115
सन्निधानं भवेद्येन पूजाकाले ह्युपस्थिते ।
तस्मिन्नङ्गानि विन्यस्य प्राक् संपूर्णगुणानि च ॥ ११५ ॥

5.116
स्वमन्त्रैरर्चयेदेव स्थानभेदं विना ततः ।
तस्मिन् कदम्बकुसुमसदृशे मन्त्रगोलके ॥ ११६ ॥

5.117
द्वादशाक्षरमन्त्रेण अभिन्नेन तु सांप्रतम् ।
व्यक्तिमापद्यते तस्माद्ध्येया हृत्पझमध्यगा ॥ ११७ ॥

5.118
या परा प्रकृतिर्वाणी चिद्रपा निर्मलात्मिका ।
पूरिताध्यक्षभावेन निष्कलेन महात्मना ॥ ११८ ॥

5.119
शरीरमिव जीवेन स्थूलं सूक्ष्मं द्विलक्षणम् ।
मूलमन्त्रादितः प्राग्वत् सर्वमन्त्रगणस्य च ॥ ११९ ॥

5.120
करन्यासं विना देहे न्यासं तस्य च संस्मरेत् ।
सृष्टिसंस्थितिसंहारन्यासं चापि तथाऽचरेत् ॥ १२० ॥

5.121
ततः खाब्जखमध्यात्त्वप्यूर्ध्वस्थात् संस्मरेच्च्युताम् ।
गङ्गां भगवतो मूर्ध्नि तेनामृतजलेन तु ॥ १२१ ॥

5.122
अर्घ्याद्यखिलभोगानां कार्या वै शुभकल्पना ।
यं यं संकल्पयेद्भोगं तं तं भाव्यसुधामयम् ॥ १२२ ॥

5.123
पतन्तमम्बराद्वेगादमृतांशुपरिप्लुतम् ।
साक्षादमृतरूपैस्तु तैस्तैरमृतसंभवैः ॥ १२३ ॥

5.124
बृंहितं मुदितं मग्नं मन्त्रराट् स्मरेत् ।
ततस्तु देवदेवस्य अर्ध्यं दत्वा यथाविधि ॥ १२४ ॥

5.125
सन्निधिं सन्निरोधं च सांमुख्यं च समाचरेत् ।
हृदयादीनि चाङ्गानि लाञ्छनं कमलादिकम् ॥ १२५ ॥

5.126
भूषणं च किरीटाद्यं लक्ष्म्याद्याः शक्तयस्तथा ।
गरुडो मूर्तयो वान्या देहे देवस्य याः स्थिताः ॥ १२६ ॥

5.127
व्यापकस्य तथात्वेन स्वे स्वे स्थाने प्रभात्मकाः ।
तद्देहसंस्थिताः सर्वे पूजनीयाः क्रमेण तु ॥ १२७ ॥

5.128
परिवारं विना मन्त्रैः स्वैः स्वैरर्घ्यादिभिर्द्विज ।
लययागो ह्ययं विप्र हृदादिष्वनुकीर्तितः ॥ १२८ ॥

5.129
तस्माद्धत्कर्णिकाधारे मूर्तौ वा यत्र कुत्रचित् ।
मूलमन्त्रशरीरस्थं परिवारं यजेत् सदा ॥ १२९ ॥

5.130
याग एष लयाख्यस्तु संक्षिप्तः सर्वसिद्धिदः ।
मन्त्रराट् कर्णिकामध्ये लक्ष्म्याद्याः केसरादिषु ॥ १३० ॥

5.131
साकाराः केवलाः सर्वे यत्र भोगाभिधः स तु ।
केवलेन च यागेन पृथग्भूतेन नारद ॥ १३१ ॥

5.132
पूजनं कमलादीनामधिकाराभिधः स तु ।
एवं कृत्वा लयाख्यं तु यागं भोगाभिधं तथा ॥ १३२ ॥

5.133
ततः क्रमाद्यजेद्देवं भोगैरमृतसंभवैः ।
सुसमस्तादिभिः सम्यक्ताम्बूलान्तैर्यथोदितैः ॥ १३३ ॥

5.134
सर्वं कृत्वा यथायोगं यावदात्मनिवेदनम् ।
मानसान् जयशब्दांश्च कृत्वा विज्ञापयेदिदम् ॥ १३४ ॥

5.135
स्वागतं तव देवेश सन्निधिं भज मेऽच्युत ।
गृहाण मानसीं पूजा यथार्थपरिभाविताम् ॥ १३५ ॥

5.136
ज्ञात्वा तु सुप्रसन्नं त प्रसादाभिमुखं प्रभुम् ।
विस्तरेण द्विजश्रेष्ठ मानसं यागमारभेत् ॥ १३६ ॥

5.137
संकल्पजनितैर्भोगैः पवित्रैरक्षयैः शुभैः ।
सांस्पर्शैरौपचाराख्यैस्तथा चाभ्यवहारिकैः ॥ १३७ ॥

5.138
महद्रपैः प्रभूतैस्तु सप्तलोकसमुद्भवैः ।
यथोदितैस्तु विधिवदुत्कृष्टतरलक्षणैः ॥ १३८ ॥

5.139
एवंविधांस्तु तान् भोगान् सद्भक्त्या विनिवेद्य च ।
समुच्चरन् धिया मन्त्रं प्रसन्नेनान्तरात्मना ॥ १३९ ॥

5.140
गजाश्वधेनुयानानि सुवस्त्रालङ्कतानि च ।
निवेद्यचान्त र्मानानि ग्राहयन्तं स्मरेत्ततः ॥ १४० ॥

5.141
आत्मानं ससुतान् दारान् सर्वस्वेन समायुतान् ।
निवेद्य प्रणतो मूर्ध्ना आनन्दाश्रुसमन्वितः ॥ १४१ ॥

5.142
कामधेनुमयीं मुद्रां मनसा मन्त्रसंयुताम् ।
बध्वा संचिन्तयेद्विष्णोः सर्वकामप्रपूरणीम् ॥ १४२ ॥

5.143
ततो विशेषयजनं कल्पयेदच्युतस्य तु ।
सौवर्णपुष्पसंपूर्णमञ्जलिं संप्रसार्य च ॥ १४३ ॥

5.144
मूलमन्त्रं समुच्चार्य प्रयत्नैः पूरकादिकैः ।
दीर्घघण्टारवप्रख्यं यावत्तत्संभवावधि ॥ १४४ ॥

5.145
स्फुरद्रश्मिचयाकीर्णं वह्न्यर्केन्दुशतप्रभम् ।
ध्यात्वा नारायणं देवमञ्जलौ सन्निरोधयेत् ॥ १४५ ॥

5.146
तमञ्जलिं क्षिपेन्मूर्ध्नि तस्मिन् वै मन्त्रविग्रहे ।
अर्ध्यं निवेदयेद्भूयः पुनः पुष्पाञ्जलिं शुभम् ॥ १४६ ॥

5.147
मुद्रां सन्दर्श्य मूलाख्यां मानसीं जपमारभेत् ।
संख्याहीनं यथाशक्ति घण्टाख्यकरणेन च ॥ १४७ ॥

5.148
भोगस्थानगतानां च लक्ष्म्यादीनां क्रमेण तु ।
मनसा दर्शयेन्मुद्रां जपं कुर्यात् सकृत् सकृते ॥ १४८ ॥

5.149
स्तोत्रमन्त्रैः पवित्रैश्च स्तुत्वा सम्यक् प्रसादयेत् ।
एवं क्रमेण विप्रेन्द्र कृत्वा यागं तु मानसम् ॥ १४९ ॥

5.150
होमं तथाविधं कुर्यान्मोक्षलक्ष्मीप्रदं शुभम् ।
नाभिचक्रान्तरस्थं तु ध्यायेद्वह्निगृहं मुने ॥ १५० ॥

5.151
त्रिकोणं त्रिगुणेनैव अव्यक्तेनावृतं परि ।
ध्यानारणिं तु निर्मथ्य चिदग्निमवतार्य च ॥ १५१ ॥

5.152
सुशुद्धं संस्कृतं दीप्तं सदैवोर्ध्वशिख द्विज ।
वासुदेवात्मकं यस्मात् स वसत्यन्तरात्मसु ॥ १५२ ॥

5.153
प्रोच्चरेन्मूलमन्त्रं तु यावच्छब्दस्य गोचरः ।
तत्रस्थमाहरेद्दिव्यमाह्लादाज्यामृतं परम् ॥ १५३ ॥

5.154
ब्रह्नसर्पिस्समुद्राद्यन्निस्तरङ्गात् परिच्युतम् ।
गृहीत्वाऽमृतमार्गेण ब्रह्यरन्ध्रेण संविशेत् ॥ १५४ ॥

5.155
हृदयान्मध्य मार्गेण चिन्मयेन सदीप्तिना ।
प्रोल्लसन्तं स्मरेन्मन्त्रं व्रह्नशक्त्युपबृंहितम् ॥ १५५ ॥

5.156
स्वकारणाग्नौ नाभिस्थे य ऊर्ध्वेन्धनवत् स्थितः ।
स्वभावदीप्तब्रह्नाग्नौ परितश्चोदरोज्ज्वलम् ॥ १५६ ॥

5.157
स्मृत्वा यन्त्रं तु तन्मूर्ध्नि पतमानं द्विजाम्बरात् ।
चिन्तयेदा मृतं त्वाज्यं पुरावच्चाहृतं द्विज ॥ १५७ ॥

5.158
चिदग्निमेवं सन्तर्प्य नाभौ मन्त्रस्वरूपिणम् ।
ज्वालाग्रावस्थितं चैव भूयो हृत्पङ्कजे स्मरेत् ॥ १५८ ॥

5.159
प्रोच्चारयंश्च मन्त्रेशं प्लुतं ध्यानसमन्वितम् ।
कृत्वैवमेकसन्धानं स्थानद्वयगतस्य च ॥ १५९ ॥

5.160
विण्णोर्मन्त्रस्वरूपस्य नानामन्त्रात्मकस्य च ।
सर्वं तु विन्यसेत् पश्चात्तस्मिन् कर्मकृतं च यत् ॥ १६० ॥

5.161
तोयपुष्पाक्षतैः पूर्णं भावयेद्दक्षिणं करम् ।
तन्मध्ये निष्कलं मन्त्रं संस्मरेत् किरणाकुलम् ॥ १६१ ॥

5.162
यागोत्थां फलसंपत्तिं लक्ष्मीरूपां विचिन्त्य च ।
मूलमन्त्रं समुच्चार्य पाणिमध्ये तथा स्मरेत् ॥ १६२ ॥

5.163
भूयश्च निष्कलं मन्त्रं तस्यामुपरि भावयेत् ।
सशीर्षे जानुनी भूमौ कृत्वा विष्णोर्निवेदयेत् ॥ १६३ ॥

5.164
प्रसादाभिमुखेनाथ तेन तच्चात्मसात्कृतम् ।
भावनीयं द्विजश्रेष्ठ परितुष्टेन चादरात् ॥ १६४ ॥

5.165
निर्वृत्ते पुरुषार्थे तु हृदये बाह्यतोऽपि वा ।
क्रमान्मन्त्रगणं स्मृत्वा यातं मन्त्रेश्वरे लयम् ॥ १६५ ॥

5.166
मन्त्रव्यक्तिं स्वसंकल्पशक्तावथ शमं नयेत् ।
सह संकल्पशक्त्या वै विद्यामूर्तिं स्वकां ततः ॥ १६६ ॥

5.167
स्वकलासु लयीकुर्यात् कलाजातं तथाऽत्मनि ।
प्राग्वदानन्दसन्दोहपरिपूर्णं तु जायते ॥ १६७ ॥

5.168
बहिर्यजामीति यदा संकल्पं मनसा कृतम् ।
तदा संहृत्य तां व्यक्तिमास्ते मध्याह्नसूर्यवात् ॥ १६८ ॥

5.169
विसर्जयेन्नतं यावन्न कृता बाह्यतः क्रियाः ।
न्यसनीयो ह्यसौ यस्मान्मण्डलादिषु वस्तु षु ॥ १६९ ॥

5.170
सृष्टिकमेण संहृत्य आधारं यत् पुरोदितम् ।
ज्ञानिनां विगलत्येष स्वभावात्तत्ववेदिनाम् ॥ १७० ॥

5.171
निष्कियाणां महाबुद्धे निष्पन्नानां स्वकर्मणा ।
विकासमेति चान्येषां नित्याकाररतात्मनाम् ॥ १७१ ॥

5.172
मन्त्रक्रियारतानां च नानात्वेना समात्मनाम् ।
धृतमच्युतशक्त्या वै ह्यपरिच्युतसत्तया ॥ १७२ ॥

5.173
सद्वि कल्पस्वरूपं च विश्वासनमिदं द्विज ।
विधृतं विभुना व्याप्तं स्वसामर्थ्येन यद्यपि ॥ १७३ ॥

5.174
तत्रापि तच्छरीराणां जीवानां तन्निवासिनाम् ।
स्वशक्त्यानुगृहीतानां तमाक्रम्य महामते ॥ १७४ ॥

5.175
नानामन्त्रात्मना त्वास्ते तस्मिन्नानाविधात्मनि ।
इत्येवमुक्तमाधारस्वरूपं हि यथा स्थितम् ॥ १७५ ॥

5.176
जायते यत्परिज्ञानात् कर्मिणां कर्मसंक्षयः ।
अयं यो मानसो यागो ज्वरव्याधिलयापहः ॥ १७६ ॥

5.177
पापोपसर्गशमनो भवाभावकरो द्विज ।
सतताभ्यासयोगेन देहपातात् प्रमोचयेत् ॥ १७७ ॥

5.178
यस्त्वेवं परया भक्त्या सकृदाचरते नरः ।
क्रमोदितेन विधिना तस्य तुष्याम्यहं मुने ॥ १७८ ॥

5.179
याजकानां च सर्वेषां प्रधानत्वेन वर्तते ।
तारयेत् स्वपितॄन् सर्वान् यातानेष्यांश्च साम्प्रतम् ॥ १७९ ॥

5.180
किं पुनर्नित्ययुक्तो यस्तद्भावगतमानसः ।
मन्त्राराधनमार्गस्थः श्रद्धाभक्तिसमन्वितः ॥ १८० ॥

5.181
न तस्य पुनरावृत्तिः स याति परमं पदम् ।
ज्ञात्वैवं यत्नतो नित्यं कुर्याद्यागं तु मानसम् ॥ १८१ ॥

5.182
इदं रहस्यं परमं मयोक्तं तेऽद्य नारद ।
नाशिष्याणां च वक्तव्यं नाभक्तानां कथंचन ॥ १८२ ॥

5.183
अत्यन्तभवभीतानां भक्तानां भावितात्मनाम् ।
इदं रहस्यं वक्तव्यं सम्यग्भावं परीक्ष्य च ॥ १८३ ॥


Kapitel 6

श्रीः ।
षष्ठोऽध्यायः ।

6.1
पुराऽनेन विधानेन कृत्वा यागं तु मानसम् ।
कर्मणा भक्तियुक्तेन बहिर्वृत्तौ यजेत्ततः ॥ १ ॥

6.2
सनकः ।
भगवंस्त्वत्प्रसादेन ज्ञातो ह्यज्ञाननाशनः ।
ज्ञानविज्ञानसहितो हृद्यागः सर्वसिद्धिदः ॥ २ ॥

6.3
किमर्थं बाह्यतः पूजा कार्या वै प्रतिमादिषु ।
एतदाचक्ष्व भगवन्नत्र मे संशयो महान् ॥ ३ ॥

6.4
शाण्डिल्यः ।
बाह्योत्था वासना विप्र बहुजन्मार्जिता दृढा ।
लोलीकृतोऽनया ह्यात्मा शुद्धोऽशुद्धस्वरूपया ॥ ४ ॥

6.5
या मन्त्रविषया शुद्धा क्रियाशान्तस्वरूपदा ।
समुत्थानविनाशार्थं तस्याः संपरिकीर्तिता ॥ ५ ॥

6.6
स बाह्याभ्यन्तराभ्यां च क्रियाभ्यां तन्मयो भवेत् ।
दृढोत्थवासनानां च तानवं स्याच्छनैः शनैः ॥ ६ ॥

6.7
यन्मयः साधको विप्र देहस्थः सांप्रतं भवेत् ।
तन्मयो देहपातात् स्यादित्येतत् कथितं मया ॥ ७ ॥

6.8
अथ बाह्योत्थयागस्य विधानमवधारय ।
देवं हृत्कमलाकाशे तेजोरूपतया स्थितम् ॥ ८ ॥

6.9
तस्मात् स्थानात् समानीय तं कुर्यान्नेत्रमद्यगम् ।
वासुदेवाभिधानं तु प्रागुक्तं च समाश्रयेत् ॥ ९ ॥

6.10
ततो लोचनयुग्मेन स्तब्धेन द्विजसत्तम ।
जपन् लोचनमन्त्रं तु अवलोक्याखिलं तु तम् ॥ १० ॥

6.11
स्थापितो य उपार्जित्य संभारो ह्युदकादिकः ।
ध्यायेद्दक्षिणपाणौ तु अस्त्रमादित्यसन्निभम् ॥ ११ ॥

6.12
द्रव्यदोषगणं तेन दग्ध्वा तन्मन्त्रमुच्चरन् ।
संचिन्त्य भस्मभूतं तु तं सर्वं द्विजसत्तम ॥ १२ ॥

6.13
दग्धदोषमथाप्याय्य वामहस्त गतेन तु ।
हृदा पूर्णेन्दुतुल्येन अमृतासारवर्षिणा ॥ १३ ॥

6.14
तन्मन्त्रमुच्चरन् पश्चात् कान्तिमन्तं विचिन्तयेत् ।
दग्धमाप्यायितं सर्वमथ चैवं समाचरेत् ॥ १४ ॥

6.15
प्रचण्डकिरणव्रातैर्भास्करीयैर्दहेत् पुरा ।
संचिन्त्य भस्मभूतं तं ततः पूर्णेन्दुरश्मिभिः ॥ १५ ॥

6.16
आप्याय्यामृतकल्लोलधारापातेन सत्तम ।
कान्तिमच्चिन्तयेद्भूयो यद्दग्धं भानुना ततः ॥ १६ ॥

6.17
बध्द्वा कामदुघां मुद्रां स्रवन्तीं मन्त्रसंयुताम् ।
गोरूपां हिमशैलाभां निराधारपदे स्थिताम् ॥ १७ ॥

6.18
तया तदमृतीकुर्याद्भोगजालं यथास्थितम् ।
निर्मलो द्रव्यसङ्घश्च यागयोग्यो भवेत्तदा ॥ १८ ॥

6.19
गालितेनाम्बुना पूर्णं स्वाहृतेनाम्बुना सह ।
स्वोत्तरे वर्मणा स्थाप्य कुम्भं सर्वोपयोगि यत् ॥ १९ ॥

6.20
उपार्जितं पुरा यद्वै यागोपकरणं महत् ।
तत् सर्वं दक्षिणे कृत्वा मध्ये भद्रासनं न्यसेत् ॥ २० ॥

6.21
प्रतिमालक्षणाध्याये वक्ष्यते तस्य लक्षणम् ।
यत्किञ्चित् पत्रपुष्पाद्यं परिदृश्येत पीठगम् ॥ २१ ॥

6.22
पाणिना तत् समाहृत्य शुचिस्थाने निधाय वै ।
गव्यैर्वा चामरैर्वालैः शिखिपक्षैः कुशैरथ ॥ २२ ॥

6.23
संमार्ज्य भद्रपीठं तु वाससा सुसितेन वा ।
बहुना वस्त्रपूतेन वारिणा तदनन्तरम् ॥ २३ ॥

6.24
प्रक्षाल्य द्वादशार्णेन प्रणवाद्यन्तगेन तु ।
एवमाराधनाधारं क्षालयित्वा च वारिणा ॥ २४ ॥

6.25
तत्तावदस्त्रपुष्पेण कुर्याद्विघ्नगणोज्झितम् ।
आराध्योऽयमथारोप्य तत्र मन्त्रमयीं शुभाम् ॥ २५ ॥

6.26
सर्वोपकरणोपेतां सर्वलक्षणसंयुताम् ।
प्रतिमां धातुपाषाणनिर्मितामात्मसिद्धये ॥ २६ ॥

6.27
अष्टाङ्गेन नमस्कृत्य दद्यादर्घ्यं तु मूर्धनि ।
अनुलेपनसंयुक्तं ततः पुष्पाञ्जलिं शुभम् ॥ २७ ॥

6.28
साङ्गं सावरणं भक्त्या पूजयेत् पुरुषोत्तमम् ।
यद्वार्घ्यपाद्याचमनैर्देवमभ्यर्च्य वै ततः ॥ २८ ॥

6.29
भुक्तमर्घ्यादिकं तस्मादपनीयाभिवाद्य च ।
समर्प्य विष्वक्सेनस्य संशोध्य मृदुना द्विज ॥ २९ ॥

6.30
उशीरवंशकूर्चेन क्षालयेद्गन्धवारिणा ।
उच्चरन् मूलमन्त्रं वा कुर्यान्मार्गत्रयं विभो ॥ ३० ॥

6.31
सुधौते देवदेवस्य वाससी परिधापयेत् ।
चित्रस्थाद्भगवद्बिम्बाद्भुक्तपुष्पादिकं हि यत् ॥ ३१ ॥

6.32
अपनीय तु तत् कुर्याद्वाससा रेणुमार्जनम् ।
यद्वा प्राग्यागभवनप्रवेशानन्तरं द्विज ॥ ३२ ॥

6.33
न्यस्य भद्रासनाद्यं तदन्यदन्यत् समाचरेत् ।
यद्वा तदातने काले न्यस्य भद्रासनादिकम् ॥ ३३ ॥

6.34
आद्यं मार्गत्रयं कृत्वा यथोक्तविधिना ततः ।
योगपीठार्चनारम्भे बिम्बोक्तं सर्वमाचरे त् ॥ ३४ ॥

6.35
अथार्घ्यादीनि पात्राणि प्रक्षाल्यास्त्रेण वारिणा ।
समापूर्य सुगन्धेन जलेन हृदयेन तु ॥ ३५ ॥

6.36
द्रव्याणि निक्षिपेत्तेषु यथोक्तक्रमयोगतः ।
भद्रासनस्य कोणेषु पुरतो वाससास्तृते ॥ ३६ ॥

6.37
भूतले वाऽथ पात्राणि आधारोपरि विन्यसेत् ।
स्वपूर्वनियमेनैव उदक्पश्चिमकोणगम् ॥ ३७ ॥

6.38
अर्घ्याम्बुकलशं न्यस्य ततः प्रागुत्तरान्तरे ।
न्यसेदाचमनीयाख्यमाग्नेये स्नानसंज्ञितम् ॥ ३८ ॥

6.39
विन्यस्य पाद्यसंज्ञं तु पदे दक्षिणपश्चिमे ।
अग्रतो वापि तन्मद्ये न्यसेदर्घ्यं द्वितीयकम् ॥ ३९ ॥

6.40
अग्निकोणे त्वर्घ्यपात्रं पाद्यमैशानकोणके ।
आचामं नैऋते भागे स्नानार्थं वायवे तथा ॥ ४० ॥

6.41
ईश्वरप्राग्वशादर्घ्यमाग्नेयादिषु कोणके ।
मुख्यामुख्यार्घ्यपाद्यादिक्रमाद्द्रव्याणि निक्षिपेत् ॥ ४१ ॥

6.42
चन्दनं शशिबाह्लीकदूर्वासिद्धार्थकानि च ।
साक्षतानि कुशाग्रणि तण्डुलानि तिलानि च ॥ ४२ ॥

6.43
काञ्चनं रजतं ताम्रं रत्नानि च फलानि च ।
कदलीफलपूर्वाणि प्रधानेऽर्घ्ये विनिक्षिपेत् ॥ ४३ ॥

6.44
द्वितीये दधिमध्वाज्यक्षीरबिन्दुचतुष्टयम् ।
कुशाग्रेण सबाह्लीकं सपुष्पं तिल तण्डुलम् ॥ ४४ ॥

6.45
दूर्वां च विष्णुकान्तां च श्यामाकं शङ्खपुष्पकम् ।
पद्मकं कुन्दरेणुं च पाद्यपात्रे विनिक्षिपेत् ॥ ४५ ॥

6.46
एलालवङ्गतक्कोलैः सहजातिफलानि च ।
चन्दनं च सकर्पूरं क्षिपेदाचमनीयके ॥ ४६ ॥

6.47
कुष्टं मांसीं हरिद्रे द्वे मुरा शैलेयचम्पकान् ।
वचाकच्चोरमुस्ताश्च स्नानीये तु विनिक्षिपेत् ॥ ४७ ॥

6.48
पात्रन्यासक्रमेणैव तानि पात्राणि कल्पयेत् ।
तत्तत्कल्पनमन्त्रैस्तु यद्वा प्रागेव तानि तु ॥ ४८ ॥

6.49
तोयैः संपूर्य निक्षिप्य द्रव्याण्यपि यथाक्रमम् ।
तत्तत्कल्पनमन्त्रैस्तु स्वाधारेषु निवेशयेत् ॥ ४९ ॥

6.50
यथास्थानं ततः कुर्याद्दहनाप्यायनादिकम् ।
पात्राणां तु तदानीं वा भोगानामपि तत् त्रयम् ॥ ५० ॥

6.51
दक्षिणेन तु हस्तेन पुष्पमादाय तत्र वै ।
ध्यात्वा निष्कलरूपं तु मूलमन्त्रमनन्यधीः ॥ ५१ ॥

6.52
तत्प्रोक्षणार्घ्ये निक्षिप्य चतुरावर्त्य तं तथा ।
जपन् पुनस्तदुद्धृत्य तस्मात् स्थानाद्बहिः क्षिपेत् ॥ ५२ ॥

6.53
ततस्तदम्भसास्त्रेण वेदिं भोगानुपार्जितान् ।
आत्मानं चापि संप्रोक्ष्य ह्यर्घ्यादीनभिमन्त्रयेत् ॥ ५३ ॥

6.54
सास्त्रेण मूलमन्त्रेण तानभ्यर्च्य प्रसूनकैः ।
साङ्गेन मूलमन्त्रेण ततोऽभ्यर्च्य यथाविधि ॥ ५४ ॥

6.55
धूपपात्रं च घण्टां च तानि धूपेन पूजयेत् ।
धूपपात्रस्य घण्टायाः पूजनं चावधारय ॥ ५५ ॥

6.56
धूपपात्रस्य मूले तु क्ष्मातत्वं कमले जलम् ।
चक्रेऽग्निं किङ्किणीजाले वायुं खं कर्णिकोपरि ॥ ५६ ॥

6.57
एवं ध्यात्वार्च्य तन्मन्त्रैस्तन्मन्त्रेणार्चयेत्तु वा ।
यच्चक्रं तच्च हृदयं पद्मं हृत्कोटरं विदुः ॥ ५७ ॥

6.58
चक्रे याश्च अराख्यास्ता नाड्यो वै द्वादश स्मृताः ।
किङ्किण्यो याः स्थिता विप्र ज्ञेयास्ताः सूक्ष्मनाडयः ॥ ५८ ॥

6.59
यासां वै मध्यमा शक्तिर्भुजङ्गकुटिलोपमा ।
धूमधूसरवर्णाभा अण्डं भित्वा विनिर्गता ॥ ५९ ॥

6.60
कालाग्निहृदयोत्था सा सत्यान्ते तु लयं गता ।
तया संबोधितो ह्यात्मा मन्त्रमूर्तिधरः प्रभुः ॥ ६० ॥

6.61
सन्निधौ भवति क्षिप्रमव्युच्छिन्नं दहेत्तथा ।
अथ स्वरूपं घण्टाया यथावदवधारय ॥ ६१ ॥

6.62
व्यक्तं तत्राश्रिता नित्यं मातृकावर्णविग्रहा ।
तत्र चाक्रमराबृन्दं स्वरद्वादशकं स्मृतम् ॥ ६२ ॥

6.63
तदेव षोडशारे च वर्णैः सह नपुंसकैः ।
वर्णानां त्रिविधं रूपं सर्वेषां द्विजसत्तम ॥ ६३ ॥

6.64
संस्थितं वैखरीनिष्ठं पस्यन्ती पूर्वकं क्रमात् ।
अराश्रितं द्विषट्कारे वाक्स्वरूपं परं हि यत् ॥ ६४ ॥

6.65
तदेव षोडशारे च तत्र वैकर्तने षु च ।
मध्यमाख्यस्वरूपेण नित्यमेव हि वर्तते ॥ ६५ ॥

6.66
अत ऊर्ध्वं चतुर्विंशत्संख्यं वर्णगणं हि यत् ।
दलजालं हि तत् पद्मं परिज्ञेयं महामते ॥ ६६ ॥

6.67
मकारसंज्ञं यद्वर्णं विद्धि तत् पद्मकर्णिकाम् ।
शङ्खं यकारवर्णं च समुष्टीके सदा गृहे ॥ ६७ ॥

6.68
रादयः सप्त ये वर्णा हान्ताः पर्वगदात्मकाः ।
क्षार्णं पतत्रिराजाद्यमेवं ध्यात्वा ततो द्विज ॥ ६८ ॥

6.69
शब्दब्रह्मस्वरूपा च घण्टाविग्रहलक्षणा ।
विज्ञेया भगवच्छक्तिः षाड्गुण्यान्तर्गता हि सा ॥ ६९ ॥

6.70
तेजोगुणसमोपेता तैजसद्रव्यरूपधृक् ।
घण्टाख्यमेतद्वै विद्धि आध्यक्षीयं गुणद्वयम् ॥ ७० ॥

6.71
अस्यामाश्रित्य ये वर्णा ज्ञातव्यास्ते सदैव हि ।
नित्यमर्चनकाले तु साधकैः सिद्धिलालसैः ॥ ७१ ॥

6.72
कालवैश्वानरोपेतमनन्तं शब्दचोदके ।
मुक्ताहाराश्रितं शङ्खं घण्टाया वदने स्थितम् ॥ ७२ ॥

6.73
संस्थितं च महाबुद्धे तदूर्ध्वे गगनाश्रितम् ।
चक्रं यस्मिन्नरोद्देशे द्वादशात्मा स्थितो रविः ॥ ७३ ॥

6.74
मासात्मना पुनः सो वैकर्तनेष्ववतिष्ठते ।
षोडशारेऽमृतात्मा वै कलादेहस्तु चन्द्रमाः ॥ ७४ ॥

6.75
सर्वेषु वृत्तक्षेत्रेषु नभस्वान् स्वयमेव हि ।
तत्वसङ्घं हि चाव्यक्तं पद्मपत्राश्रितं तु वै ॥ ७५ ॥

6.76
जीवः कमलकिञ्जल्के कर्णिकाश्रित ईश्वरः ।
शङ्खाश्रितश्च प्रणवो विद्यां विद्धि गदाश्रिताम् ॥ ७६ ॥

6.77
प्राणाधिदैवं गरुडमित्येवं देवतागणम् ।
ध्यात्वार्चयेत् पुरार्घ्याद्यैर्धूपान्तैरथवा द्विज ॥ ७७ ॥

6.78
अधोमुखं तु ब्रह्माण्डं ध्यायेज्जनरवाकुलम् ।
सनालं च तदुर्ध्वे तु पद्ममष्टदलं स्मरेत् ॥ ७८ ॥

6.79
प्रकीर्णपत्रं सुसितं केसरालिसुकर्णिकम् ।
तन्मध्ये चिन्तयेद्देवीं वर्गाष्टकभुजान्विताम् ॥ ७९ ॥

6.80
मुख्ये हस्तचतुष्के तु लाञ्छनं कमलादिकम् ।
स्फाटिकं चाक्षसूत्रं च तथा विज्ञानपुस्तकम् ॥ ८० ॥

6.81
अभयं वरदं चैव हस्तद्विद्वितये परे ।
पद्मासने चोपविष्टां पद्मपत्रायतेक्षणाम् ॥ ८१ ॥

6.82
पद्मगर्भप्रतीकाशां पद्ममालाविभूषिताम् ।
सिताभरणसञ्छन्नां पीतवस्त्रविवेष्टिताम् ॥ ८२ ॥

6.83
मन्त्रौघमुद्गिरन्तीं च मन्त्रज्वालाप्रभान्विताम् ।
देवैः संस्तूयमानां च ब्रह्माद्यैर्ब्रह्मवादिभिः ॥ ८३ ॥

6.84
ऋषिभिर्मुनिभिः सिद्धैर्लोकानुग्रहकारिभिः ।
नम्यमानां स्मरेत् सम्यक् पूजाकाले सदैव हि ॥ ८४ ॥

6.85
योऽनया पूजयेन्मन्त्रं तस्य सिद्धिर्नदूरतः ।
एवं ध्यात्वार्चयेत् सम्यगर्घ्याद्यैस्तु ततः स्मरेत् ॥ ८५ ॥

6.86
शब्दब्रह्ममहो यद्यद्धृदब्जाकाशमध्यगम् ।
नित्योदितमनौपम्यमनभ्यासादगोचरम् ॥ ८६ ॥

6.87
उपदेष्टुमतोऽन्येषामभक्तानां न युज्यते ।
परस्वरूपमन्त्राणामेतल्लक्षणमब्जज ॥ ८७ ॥

6.88
दशप्रकारे यच्छब्दे विसर्गान्तेऽक्षरादिके ।
नानामन्त्रस्वरूपेण वर्तते वर्णविग्रहे ॥ ८८ ॥

6.89
भोगमोक्षप्रदो मन्त्रो य आप्तः सद्गुरोर्मुखात् ।
पञ्चस्थानगतो ज्ञेयो भक्तैर्दिव्यक्रियापरैः ॥ ८९ ॥

6.90
बहिःस्थप्रतिमादौ तु जिह्वाग्रे हृत्कुशेशये ।
धूपधूमशिखायां च घण्टाशब्दे सुलक्षणे ॥ ९० ॥

6.91
स्वरूपज्योतिरेवान्तर्भावयेत् संस्थितं हृदि ।
मध्यमेन स्वरूपेण अव्युच्छिन्नं महामते ॥ ९१ ॥

6.92
धूपधूमाश्रितं विद्धि वैखरीविग्रहं पुनः ।
घण्टायां चाल्यमानायामच्छिन्नमनुभूयते ॥ ९२ ॥

6.93
एवं स्मृत्वा ततस्तां तु सुमन्त्रन्यस्तविग्रहाम् ।
अर्चितां ध्यानसंयुक्तामर्घ्याद्यैर्धूपसंयुतैः ॥ ९३ ॥

6.94
सञ्चालयेत्ततः सम्यक् सुशब्दां मन्त्रबोधिनीम् ।
त्रैलोक्यद्राविणीं घण्टां सर्वदुष्टनिबर्हिणीम् ॥ ९४ ॥

6.95
एषा द्रुतिर्हि मन्त्राणां सुप्तानां च प्रबोधिनी ।
वारणी सर्वविघ्नानां सर्वमन्त्रप्रसादिनी ॥ ९५ ॥

6.96
प्रणवान्ते ध्वनिर्ह्येषा शब्दशक्तौ लयं गता ।
वर्णदेहाः स्मृता मन्त्रा मन्त्रदेहाश्च देवताः ॥ ९६ ॥

6.97
घण्टास्तनितमूलास्ते प्रबुद्धाः कर्मसिद्धिदाः ।
परशब्दोत्थिता शक्तिर्घण्टास्तनितरूपिणी ॥ ९७ ॥

6.98
वर्णत्वं समनुप्राप्ता तैर्वर्णैर्मुनिसत्तम ।
मन्त्राणां कल्पिता देहा नानाकाराः सहस्रशः ॥ ९८ ॥

6.99
स्वेच्छया त्वनया शक्त्या सामर्थ्यात् स्वात्मनः स्वयम् ।
अनुग्रहार्थं भविनां भक्तानां भावितात्मनाम् ॥ ९९ ॥

6.100
मननान्मुनिशार्दूल त्राणं कुर्वन्ति वै यतः ।
ददते पदमात्मीयं तस्मान्मन्त्राः प्रकीर्तिताः ॥ १०० ॥

6.101
अनभिव्यक्तशब्दास्ते निराकारास्तथैव च ।
घण्टायां चाल्यमानायां निर्यान्ति च सहस्रशः ॥ १०१ ॥

6.102
अत एव मुनिश्रेष्ठ मन्त्रमाता प्रकीर्तिता ।
एषा घण्टाभिधा शक्तिर्वागीशा च सरस्वती ॥ १०२ ॥

6.103
वाचि मन्त्राः स्थिताः सर्वे वाच्यं मन्त्रे प्रतिष्ठितम् ।
मन्त्ररूपात्मकं विश्वं सबाह्याभ्यन्तरं ततः ॥ १०३ ॥

6.104
घण्टाशब्दगतं सर्वं तस्मात्तां चालयेत् पुरा ।
स्वेषु चोक्तेषु कालेषुतांस्तु मे गदतः श्रृणु ॥ १०४ ॥

6.105
गणेशपीठद्वारस्थदेवानामर्चने ततः ।
आहूतिकाले मन्त्राणां धूपदाने विशेषतः ॥ १०५ ॥

6.106
दीपदानेऽर्घ्यदाने च तथा नैवेद्यजोषणे ।
जपस्तुत्यवसानाभ्यां प्रवृत्ते चाग्नितर्पणे ॥ १०६ ॥

6.107
पूर्णाहुतिप्रदाने च मन्त्राणां तु विसर्जने ।
विष्वक्सेनार्चने चैव तत्पूजाप्रतिपादने ॥ १०७ ॥

6.108
बलिप्रदानकाले तु देवतानां विशेषतः ।
नातोऽन्यदा स्याद्विहितं चालनं सिद्धिमिच्छिताम् ॥ १०८ ॥

6.109
धूपं दत्वाऽथ पात्राणां घण्टाशब्दसमन्वितम् ।
धूपं दद्याद्यथाकालं यद्वार्घ्यादौ सकृत् सकृत् ॥ १०९ ॥

6.110
अनुकल्पे तु हृन्मन्त्रं कुर्यादावर्तनं बुधः ।
आवाहने सन्निधाने सन्निरोधे तथाऽर्चने ॥ ११० ॥

6.111
विसर्जनेऽर्घ्यदानं तु प्राक्पात्रान्नित्यमाचरेत् ।
तदम्भसा चार्हणं तु तथैव परिषेचनम् ॥ १११ ॥

6.112
कुर्यात् प्रणयनादानं प्रीणनं प्रीतिकर्मणि ।
प्रोक्षणं सर्ववस्तूनामन्यस्मादुदकेन तु ॥ ११२ ॥

6.113
आरम्भे सर्वकार्याणां तत्समाप्तौ सदैवहि ।
न्यूनाधिकानां शान्त्यै तु ज्ञानव्यत्ययशान्तये ॥ ११३ ॥

6.114
कार्यं तदर्घ्यदानं च नित्यं मन्त्रात्मनो विभोः ।
कुम्भोपकुम्भकुण्डानां मन्त्रास्त्रकलशार्चने ॥ ११४ ॥

6.115
संपूजने च भोगानां गुर्वादीनां महामते ।
दक्षशिष्यात्मपूजार्थं द्वार्स्थानामर्चनं प्रति ॥ ११५ ॥

6.116
प्रासादासनदेवानां गुरूणां सन्ततेस्तथा ।
लाञ्छनाङ्गपरीवारशक्तिभूषणरूपिणाम् ॥ ११६ ॥

6.117
मण्डलावरणस्थानां देवानां चार्चनं तथा ।
मुद्राबन्धे कराभ्युक्षां तदर्चाक्षालनं तथा ॥ ११७ ॥

6.118
जपकालेऽक्षसूत्रस्य कुर्यात्तत्पूजनं तथा ।
पाद्यदानं तृतीयात्तु नित्यं पात्रात् समाचरेत् ॥ ११८ ॥

6.119
चतुर्थात्तु यथाकालं दद्यादाचमनं पुनः ।
हस्तप्रक्षालनं चैव गण्डूषं मुखधावनम् ॥ ११९ ॥

6.120
स्नानीयाच्चाचरेत् स्नानं प्रयोजकविधिस्त्वयम् ।
अर्ध्यपात्रात् द्वितीयात्तु किञ्चिदुद्धृत्य वै जलम् ॥ १२० ॥

6.121
तेन स्वदेहविन्यस्तान् मन्त्रानिष्ट्वा यथाक्रमम् ।
अनुलेपनपुष्पेण धूपेन च ततो मुने ॥ १२१ ॥

6.122
मत्पूजार्थं प्रक्लृप्तानि गन्धपुष्पाणि यानि च ।
तानि सर्वाण्यथाचार्यो धारयेन्न कदाचन ॥ १२२ ॥

6.123
धारयेद्यदि संमोहाल्लोभाद्वा तानि देशिकः ।
गन्धादीन्यर्चनार्थानि सा पूजा निष्फला भवेत् ॥ १२३ ॥

6.124
तस्मात् सर्वप्रयत्नेन पृथक्कुर्याद्यथाविधि ।
अर्घ्यादिकं समादाय द्वार्स्थदेवान् समर्चयेत् ॥ १२४ ॥

6.125
निर्गत्य द्वारबाह्ये तु स्थितो वासीन एव वा ।
वास्तुक्षेत्रेशगरुडद्वार्श्रीचण्डप्रचण्डकान् ॥ १२५ ॥

6.126
अभ्यर्च्यार्द्यादिभिर्देवान् प्रासादस्थांश्च पूजयेत् ।
प्रासादेऽथ चतुर्द्वारे मण्डपे चेतरेषु च ॥ १२६ ॥

6.127
द्वारत्रयेऽथ धातारं विधातारं जयं तथा ।
विजयं चापि भद्रं च सुभद्रं च गणेश्वरम् ॥ १२७ ॥

6.128
यदङ्गभावमभ्येति द्वार्स्थाद्यं देवतागणम् ।
विष्वक्सेनावसानं च नराणामल्पमेधसाम् ॥ १२८ ॥

6.129
जन्तोरेकान्तिनस्तद्वै चित्तखेदकृदर्चनम् ।
विघ्नकृत् प्रकृतस्यापि शिष्याणां तदनर्चनम् ॥ १२९ ॥

6.130
अतस्तदनुकम्पार्थं देवभृत्यधियाऽर्चनम् ।
भक्तिथद्धोज्झितं चैव विहितं त्वेवमेव हि ॥ १३० ॥

6.131
ते तत्प्राणिच्युतं प्रह्वा दत्तमप्यवहेलया ।
गृह्णन्ति मनसा श्रेयः परं ध्यात्वा धिया हृदि ॥ १३१ ॥

6.132
यतः सर्वेऽच्युतमयास्तच्चित्तार्पितमानसाः ।
एतावदर्चनात्तेषां गुरोरेकान्तिनस्तु वै ॥ १३२ ॥

6.133
स्याद्विरोधनिरासस्तु यतो भृत्यास्तु ते हरेः ।
कृत्वैवं द्वारयागं तु ततः पुष्पं च संमुखम् ॥ १३३ ॥

6.134
गृहीत्वाङ्गुष्ठपूर्वेण स्वाङ्गुलित्रितयेन तु ।
अभिमन्त्र्य तदस्त्रेण चक्रं तदुपरि स्मरेत् ॥ १३४ ॥

6.135
निशितारं ज्वलद्रूपं वर्षन्तमनलाशनिम् ।
क्षयकृद्विघ्नजालानां क्षिपेद्यागगृहान्तरे ॥ १३५ ॥

6.136
ततस्तत्तेजसा विघ्नजालं निष्कासयेन्महत् ।
बहिर्भवनमध्यात्तु ततस्तदनुकम्पया ॥ १३६ ॥

6.137
स्वदेहादामृतं भागममृतांशुसमं स्मरेत् ।
प्राङ्मन्त्रमात्रविन्यासात् स तेषामनलप्रभः ॥ १३७ ॥

6.138
प्रतिभाति यतस्तेन मन्त्रपुष्पसमाश्रयात् ।
निर्गच्छन्ति तमाश्रित्य वामभागमतस्तु ते ॥ १३८ ॥

6.139
दक्षिणां तर्जनीं विप्र कुर्यादूर्ध्वमुखीं ततः ।
शिखामन्त्रेण संयुक्तां विद्युद्विलसितप्रभाम् ॥ १३९ ॥

6.140
स्मृत्वा स्वां विघ्नशान्त्यर्थं भ्रामयन्नन्तराविशेत् ।
स्वासनं च ततः प्रोक्ष्य अर्घ्यपात्रोदकेन च ॥ १४० ॥

6.141
सास्त्रेण ताड्य पुष्पेण तत्पृष्ठे क्रमशो द्विज ।
आधारशक्तिपूर्वं तु मन्त्रसङ्घं प्रपूजयेत् ॥ १४१ ॥

6.142
उपविश्यासने यागमारभेत समाहितः ।
समये वात्र कुर्वीत सर्वभोगनिरीक्षणम् ॥ १४२ ॥

6.143
न्यस्य भद्रासनं मूलात् प्रोक्षणार्घ्यप्लुतेन तु ।
पाणिनाऽप्यथ कूर्चेन तज्जलेन तु मार्जयेत् ॥ १४३ ॥

6.144
तत्तावदस्त्रपुष्पेण कुर्याद्विघ्नगणोज्झितम् ।
सर्वलोकमयं तत्र सर्वदेवसमाश्रयम् ॥ १४४ ॥

6.145
सर्वाधारमयं ध्यायेदन्तर्लीनं तु चक्रराट् ।
प्रणवेन स्वनाम्नाऽथ नमोऽन्तेनार्चयेच्च तम् ॥ १४५ ॥

6.146
ततस्तु सर्वमन्त्राणां विन्यासं तत्र चेतसा ।
समाचरेद्यथायोगं पुष्पदानपुरस्सरम् ॥ १४६ ॥

6.147
अर्घ्यालभनधूपैस्तु माल्यैर्नानास्रगुद्भवैः ।
योगपीठार्चनं कुर्याद्यथावदवधारय ॥ १४७ ॥

6.148
बिम्बेन सहितं पीठं योगपीठमुदाहृतम् ।
अनुसन्धानयागे तु योगपीठं प्रकल्पयेत् ॥ १४८ ॥

6.149
तन्मन्त्रासनमित्युक्तं मन्त्रन्यासं तु सर्वतः ।
कुर्यात्तत्स्थस्य देवस्य पीठस्याधो निवेशयेत् ॥ १४९ ॥

6.150
आधारशक्तिं तस्योर्ध्वे कूर्मं कालाग्निसंज्ञिकम् ।
तन्मूर्ध्नि शेषसंज्ञं तु योगपीठपदोपरि ॥ १५० ॥

6.151
भुवं न्यस्य तदूर्ध्वे तु जङ्घायां क्षीरसागरम् ।
आधारपद्मं कुमुदे तदूर्ध्वे कण्ठमूलतः ॥ १५१ ॥

6.152
आग्नेय्यादौ तु धर्माद्यमैशान्तं तच्चतुष्टयम् ।
प्रागाशादौ त्वधर्माद्यमुत्तरान्तं न्यसेत् परम् ॥ १५२ ॥

6.153
ऋग्वेदं कल्पयेदेवं प्रागीशानदिगन्तरे ।
यजुःप्राग्वह्निदिङ्मध्ये सामान्तर्यातुवारुणे ॥ १५३ ॥

6.154
वारुणानिलदिङ्मध्येऽथर्ववेदं ततःपरम् ।
ईशानसोमदिङ्मध्ये कृतं याम्यानलान्तरे ॥ १५४ ॥

6.155
त्रेतायुगं यातुयाम्यदिङ्मध्ये द्वापारं युगम् ।
सोमवाय्वन्तरोद्देशे कलिसंज्ञं युगं क्रमात् ॥ १५५ ॥

6.156
आधारशक्तेरारभ्य अनुसन्धानपूर्वकम् ।
युगावसानं प्राग्दत्वा स्थूलं मन्त्रासनासनम् ॥ १५६ ॥

6.157
तच्च षोडशकं न्यस्य भूयो भूयो दिगष्टके ।
सूक्ष्मरूपधरं विप्र प्राक्पदादीशगोचरम् ॥ १५७ ॥

6.158
तत्रोर्ध्वे मध्यदेशे वै प्रागुक्तविधिना न्यसेत् ।
द्विरष्टकं तु धर्माद्यं कान्तिमत् पररूपधृत् ॥ १५८ ॥

6.159
तन्मूर्ध्नि कालचक्रं तु व्योमवत्पट्टिकागतम् ।
तन्मध्येऽव्यक्तपद्मं तु गुणत्रयसमन्वितम् ॥ १५९ ॥

6.160
तद्दले सूर्यपरिधिं केसरे सोममण्डलम् ।
कर्णिकायामग्निचक्रं तद्बीजे चित्प्रभाकरम् ॥ १६० ॥

6.161
स्मरेच्च विमलां शक्तिं तत्समीपे दिगष्टके ।
ज्ञानशक्तिं विभोः शक्तिं सत्यशक्तिमनश्वरीम् ॥ १६१ ॥

6.162
प्रकाशशक्तिं चानन्तामीशानुग्रहशक्तिके ।
यथोक्तरूपान् ध्यात्वैतान् विभवं च यथाक्रमम् ॥ १६२ ॥

6.163
स्वस्वतत्वानि विन्यस्य कुर्यादर्घ्यादिनार्चनम् ।
प्रदर्शयेच्च तन्मुद्रां पीठे वै सुस्थिरे सदा ॥ १६३ ॥

6.164
आधारशक्तेरारभ्य मन्त्रग्रामस्य पौष्कर ।
सुस्थिरे सन्निरोधश्च सर्वेषां विहितः सदा ॥ १६४ ॥

6.165
यत्र यत्रानुरूपं यत्तत्र तन्न्यासमाचरेत् ।
ईशानुग्रहशक्त्यन्तमाक्षितेः कमलोद्भव ॥ १६५ ॥

6.166
मन्त्राणां सान्निधिः कार्या चलपीठे तु केवले ।
तात्कालिकस्तु विहितो निरोधस्तत्र सार्चनः ॥ १६६ ॥

6.167
आहूतोपविशेद्यत्र मन्त्रनाथोऽभिसंमुखः ।
तत्प्रागपेक्षया कुर्याद्धर्मादीनां निवेशनम् ॥ १६७ ॥

6.168
सांमुख्यं भजते यस्मात् साधकं परमेश्वरः ।
तदासनं हि चिद्रूपं सिद्धमेतस्य वाहनात् ॥ १६८ ॥

6.169
चलबिम्बेन सह वै एकीभावगतस्य च ।
पीठस्य मन्त्रविन्यासो विहितश्चलपीठवत् ॥ १६९ ॥

6.170
सुस्थिरस्यैकयोनेर्वै वियोनौ सुस्थिरस्य च ।
मन्त्राणां विहितो न्यासः स्थिरपीठोदितस्तु वै ॥ १७० ॥

6.171
पीठोपपीठयुक्तानां साङ्गानां केवलात्मनाम् ।
एकादिगात्रपादानां सबिम्बानां यथाक्रमम् ॥ १७१ ॥

6.172
मण्डलोक्तविधानेन समभ्यूह्य समाचरेत् ।
एवं चास्याचले पीठे शयानस्य विभोस्त्वथ ॥ १७२ ॥

6.173
सशक्तिकाच्चितो भानोरूर्ध्वेऽनन्तं समर्चयेत् ।
यानारूढे त्वनन्तस्य स्थाने तार्क्ष्यं समर्चयेत् ॥ १७३ ॥

6.174
लक्ष्म्यादीनां तु देवीनां पीठस्याधः फणीश्वरम् ।
तत्कोणेषु च धर्मादींस्तदूर्ध्वेऽव्यक्तपङ्कजम् ॥ १७४ ॥

6.175
धामत्रयं ततस्तस्मिन् विन्यसेत् पूर्ववर्त्मना ।
व्योमबाह्ये त्वपीठानामग्निकोणादितो न्यसेत् ॥ १७५ ॥

6.176
ज्ञान स्वभावमूर्तं च धर्माद्यं यच्चतुष्टयम् ।
तन्निविष्टं तथाभूतं तद्व्यत्ययगणं हि यत् ॥ १७६ ॥

6.177
सह ऋक्पूर्वसामान्तकालभेदेन चान्वितम् ।
तत्पीठवसुधोद्देशे मण्डलादिषु वृत्तिषु ॥ १७७ ॥

6.178
आत्मनः प्राग्वशाद्वायुकोणादारभ्य पूजनम् ।
कार्यं विघ्नेशपूर्वाणां तत्पदाद्वाग्रभूः पदम् ॥ १७८ ॥

6.179
स्वोत्तरात् पश्चिमद्वारदेशाद्वायुपदावधि ।
वीथौ सवीथिकानां तु यागानामेतदाचरेत् ॥ १७९ ॥

6.180
बहिर्वारणरेखाणां तन्मुक्तानां महामते ।
युक्तानां न बहिर्दोषस्तिर्यक्त्वेनार्चने सति ॥ १८० ॥

6.181
विन्यस्य विष्टरान् दार्भान् कुसुमस्तबकानि च ।
बिन्दून् वा सर्वरोगोत्थान् क्रमात्तदुपरि न्यसेत् ॥ १८१ ॥

6.182
गणनाथं च वागीशां गुरुं च तदनन्तरम् ।
पूजयेच्च ततो भक्त्या गुरुं परमसंज्ञितम् ॥ १८२ ॥

6.183
आदिसिद्धसमूहं तु भगवद्ध्यानतत्परम् ।
नित्याधिकारिणश्चाप्तान् भगवत्तत्ववेदिनः ॥ १८३ ॥

6.184
चत्वारो मनवश्चान्ये ऋषयः सप्तपूर्वकाः ।
एतेषां क्रमशो ध्यानं समाकर्णय सांप्रतम् ॥ १८४ ॥

6.185
ध्यायेच्चम्पकवर्णाभं बद्धपद्मासनं द्विज ।
स्थूलाङ्गमेकदंष्ट्रं च लम्बक्रोडं गजाननम् ॥ १८५ ॥

6.186
वरदाभयहस्तं च दक्षिणेऽस्याक्षसूत्रकम् ।
विश्रान्तं चिन्तयेद्वामं चतुर्थं परशूपरि ॥ १८६ ॥

6.187
वरदाभयहस्ताभ्यामस्य मुद्राद्वयं स्मरेत् ।
तर्जन्यङ्गुष्ठसंघट्टाज्जायते यदयत्नतः ॥ १८७ ॥

6.188
सितकुन्देन्दुधवलां शङ्खपद्मकरोद्यताम् ।
वरदाभयहस्तां वा विलिखन्तीं च पुस्तकम् ॥ १८८ ॥

6.189
द्विनेत्रामेकवक्त्रां च हेमकुण्डलभूषिताम् ।
ध्यात्वा भगवती ह्येषा शक्तिः शब्दात्मनो विभोः ॥ १८९ ॥

6.190
समभ्यस्ता ददात्याशु साधकानामभीप्सितम् ।
गणनाथं विना चान्ये सुस्थिताः शान्तविग्रहाः ॥ १९० ॥

6.191
गणित्राभयहस्ताश्च सर्वानुग्रहकारकाः ।
सर्वे पद्मासना वाथ जटामण्डलभूषिताः ॥ १९१ ॥

6.192
एवं ध्यात्वा समभ्यर्च्य मुद्राः संदृश्य तत्क्रमात् ।
अनुज्ञां प्रार्थयेत्तेभ्यो यथानुक्रममेव च ॥ १९२ ॥

6.193
गृहीत्वा शिरसा तां च तत आवाहयेत् प्रभुम् ।
अभ्यन्तरे विमानस्य गर्भभूमौ तु मध्यतः ॥ १९३ ॥

6.196
। सन्ध्याजलदसन्दोहसन्देहकरणक्षमम् ।
सरसीरुहमास्थाय सहस्रदलसंकुलम् ॥ १९६ ॥

6.197
शयानं स्थितमासीनं यानारूढमथापि वा ।
निष्केवलेन सत्त्वेन संपन्नं रुचिरप्रभम् ॥ १९७ ॥

6.198
वपुषा सुन्दरेणैव दिव्येनाविकृतेन च ।
मुञ्चन्तमनिशं देहादालोकं ज्ञानलक्षणम् ॥ १९८ ॥

6.199
प्रयत्नेन विनाऽज्ञाननाशकृद्ध्यायिनां महत् ।
स्रग्वस्त्राभरणैर्दिव्यैः स्वानुरूपैरनूपमैः ॥ १९९ ॥

6.200
चिन्मयैः स्वप्रकाशैश्च अन्योन्यरुचिरञ्जितैः ।
दन्तज्योत्स्नावितानैस्तु प्रकटीकृतदिङ्मुखम् ॥ २०० ॥

6.201
रेखोत्थितैस्तु कल्हारैः पादपद्मतलेऽङ्कितम् ।
निमग्नजनसन्तापशमनव्यापृताननम् ॥ २०१ ॥

6.202
करुणापूर्णहृदयं जगदुद्धरणोद्यतम् ।
स्वदेहतेजःसंभूतज्वालामण्डलमध्यगम् ॥ २०२ ॥

6.203
घनकुञ्चितनीलालिगलिताञ्जनसन्निभैः ।
कर्पूरधूसरैर्दिव्यैः पुष्पसंवलितान्तरैः ॥ २०३ ॥

6.204
किरीटमकुटाक्रान्तैः शोभितं सुशिरोरुहैः ।
ईषदारक्तगोक्षीरशुद्धनीलाब्जलोचनम् ॥ २०४ ॥

6.205
शीतलैर्दृष्टिपातैस्तु जगदाप्यायकारिणम् ।
सुभ्रूललाटं सुनसं सुस्मिताधरविद्रुमम् ॥ २०५ ॥

6.206
सौन्दर्यचन्द्रसंकाशविलसद्गण्डमण्डलम् ।
पूर्वकर्मानलार्तानां ध्यायिनां खेदशान्तये ॥ २०६ ॥

6.207
स्वदन्तेन्दुचयोत्थेन ह्लादयन् गोगणेन तु ।
मुखसौन्दर्यनिष्यन्दचिबुकस्थलशोभितम् ॥ २०७ ॥

6.208
सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम् ।
कम्बुग्रीवं महाबाहुं श्रीवत्साङ्कितवक्षसम् ॥ २०८ ॥

6.209
सिंहस्क्तन्धं विशालाक्षं दीर्घबाहुं महोरसम् ।
शङ्खचक्राङ्कितारक्तकरद्वयविभूषितम् ॥ २०९ ॥

6.210
दक्षिणं भोगिभोगाभमुपधाय महाभुजम् ।
प्रसारितोत्तरकरं कटिदेशस्य पार्श्वतः ॥ २१० ॥

6.211
कौस्तुभेनाङ्कितोरस्कं लक्ष्मीश्रीवत्सभूषितम् ।
आब्रह्मस्तम्बपर्यन्तजगद्वासतनूदरम् ॥ २११ ॥

6.212
ईषत्कुञ्चितवामाङ्घ्रिपङ्कजं पङ्कजेक्षणम् ।
प्रसार्य दक्षिणं पादमीषदुत्तानशायिनम् ॥ २१२ ॥

6.213
अनेकरत्नरचितकिरीटमकुटोज्ज्वलम् ।
उद्यदादित्यसंकाशैर्विचित्रैर्मणिसंचयैः ॥ २१३ ॥

6.214
विराजमानया सम्यक्स्फुरच्चूलिकयोज्ज्वलम् ।
रत्नावतंसप्रभया दीप्तश्रवणशेखरम् ॥ २१४ ॥

6.215
ललाटान्तसमालम्बिबालालङ्कारभूषितम् ।
ललाटतिलकेनैव सुन्दरेण विराजितम् ॥ २१५ ॥

6.216
अनेकरविसङ्काशलसन्मकरकुण्डलम् ।
प्रभूतमणिमुक्ताढ्यग्रैवेयकविराजितम् ॥ २१६ ॥

6.217
वज्रवैढूर्यमाणिक्यपद्मरागादिशोभितैः ।
हारैरनेकैर्विविधैरुपशोभितवक्षसम् ॥ २१७ ॥

6.218
उदयादित्यसंकाशकौस्तुभेन विराजितम् ।
भ्राजयन्त्या जगत् सर्वं स्वतेजोभिर्निरन्तरम् ॥ २१८ ॥

6.219
मालया वैजयन्त्या च भ्राजमानमहोरसम् ।
नानादामविचित्रेण मुक्तादामविलम्बिना ॥ २१९ ॥

6.220
स्फुरता ब्रह्मसूत्रेण काञ्चनेन सुशोभितम् ।
द्युतिमद्भिर्महारत्नै राजितेन सुवर्चसा ॥ २२० ॥

6.221
काञ्चनेनाथ सूत्रेण उदरे कृतबन्धनम् ।
नाभिदेशं तथा पद्मं जगछृङ्खलया स्वया ॥ २२१ ॥

6.222
नानामाणिक्यविलसत्कटिसूत्रेण भूषितम् ।
अनेकरत्नसन्दर्भरशनादाममण्डितम् ॥ २२२ ॥

6.223
अनेककोटिमार्ताण्डविलसत्पीतवाससम् ।
अनेकरत्नसंभिन्ननूपुरादिविभूषितम् ॥ २२३ ॥

6.224
एवमन्यैश्च विविधैः केयूरकटकादिकैः ।
यथार्हभूषणै रम्यैर्ज्वलद्भिः परिभूषितम् ॥ २२४ ॥

6.225
प्रावृड्जलदसङ्काशं भिन्नाञ्जनगिरिप्रभम् ।
अभिन्नपूर्णषाड्गुण्यविभवेनोपबृंहितम् ॥ २२५ ॥

6.226
योगिध्येयमजं नित्यं जगज्जन्मादिकारणम् ।
अनादिनिधनं देवं साक्षाल्लक्ष्मीपतिं विभुम् ॥ २२६ ॥

6.227
अप्राकृततनुं शान्तं वासुदेवं परात्परम् ।
चतुर्भुजमनुध्यायेच्छुद्धस्फटिकनिर्मलम् ॥ २२७ ॥

6.228
शङ्खचक्रगदापद्मैश्चतुर्भिः कृतलक्षणम् ।
तस्मिन्नावाहनं कुर्यात् कृत्वा हस्तौ सुगन्धिनौ ॥ २२८ ॥

6.229
गन्धार्घ्यपुष्पैः संपूर्य मूलमन्त्रं समुच्चरन् ।
पीठोपरि हरेरग्रे मूर्ध्नि पुष्पाञ्जलिं क्षिपेत् ॥ २२९ ॥

6.230
स्वं प्रत्यभिमुखं शान्तं सुप्रबुद्धं स्मरेच्च तम् ।
करन्यासं विना तत्र सृष्टिन्यासादिकं त्रयम् ॥ २३० ॥

6.231
मूलमन्त्रादितार्क्ष्यान्तमन्त्राणां न्यासमेव च ।
दीपयेद्बिम्बतोऽन्यत्र तस्मिन् पुष्पाञ्जलौ हरिम् ॥ २३१ ॥

6.232
आगच्छपदयुक्तेन मूलमन्त्रेण हृत्कजात् ।
एवं तेजोमयं देवं नाडीदक्षिणमार्गतः ॥ २३२ ॥

6.233
तन्नासाग्रेण चावाह्य पीठकुम्भादिषु क्षिपेत् ।
तत्कदम्बप्रसूनाभे तस्मिन् मन्त्रात्मगोलके ॥ २३३ ॥

6.234
स्थानभेदं विनाङ्गानि न्यस्याभ्यर्च्येह देहतः ।
सकलीकृत्य देवेशं तं ध्यायेद्व्यक्ततां गतम् ॥ २३४ ॥

6.235
प्राग्वदङ्गादिकांस्तत्र तत्तन्मन्त्रैस्तु निक्षिपेत् ।
एवमाहूय देवेशं दत्वार्घ्यं सन्निधित्सया ॥ २३५ ॥

6.236
भूयोऽप्यर्घ्यं प्रदायास्मै हृदा मुद्रापुरस्सरम् ।
सन्निधाप्यार्घ्यदानेन मुद्रापूर्वं च वर्मणा ॥ २३६ ॥

6.237
सन्निरोध्य तु मूलेन तन्मुद्रासहितेन तु ।
संमुखीकृत्य मूलादीन् मन्त्रांस्तत्र समुच्चरन् ॥ २३७ ॥

6.238
प्रदर्शयंस्तथा मुद्रास्त्वष्टाङ्गेनाभिवादयेत् ।
अनेकमूर्तियागे तु प्रधानावाहनादिकान् ॥ २३८ ॥

6.239
आहूतदेवश्रान्त्यर्थं गन्धादीनेवमेव च ।
व्यूहानां विभवानां प्राङ्मूलादङ्गगणार्चनम् ॥ २३९ ॥

6.240
पश्चादन्येषु कुर्वीत क्रमेणावाहनादिकान् ।
स्थितमायतने वाथ साकारं परमेश्वरम् ॥ २४० ॥

6.241
शङ्खचक्रधरं विष्णुं सुरसिद्धावतारितम् ।
ऋषिभिर्मनुजैर्वाथ भक्तियुक्तैः प्रतिष्ठितम् ॥ २४१ ॥

6.242
तन्मूर्तौ च स्वमन्त्रेण यजेदावाहनं विना ।
प्रत्यहं कर्मबिम्बानां मूलबिम्बहृदब्जकात् ॥ २४२ ॥

6.243
कुर्यादावाहनं किञ्चित्तीर्थक्षेत्रादिगामिभिः ।
नरैरा राध्यबिम्बेषु प्रत्यहं स्वहृदब्जतः ॥ २४३ ॥

6.244
प्राग्वदावाहनं कुर्यादथ तद्विग्रहस्थितान् ।
मन्त्रन्यासादिनाभ्यर्च्य तांस्तद्देहस्फुलिङ्गवत् ॥ २४४ ॥

6.245
ध्यात्वावतार्य स्थानेषु स्वेषु भोगावनौ क्रमात् ।
सकलीकृत्य चार्घ्याद्यैरर्चयेदत्र तु क्रमः ॥ २४५ ॥

6.246
द्विषट्स्वब्जदलेष्वत्र मन्त्रेशस्य पुरो दलात् ।
तदाराद्दलपर्यन्तं हृदाद्यङ्गानि निक्षिपेत् ॥ २४६ ॥

6.247
पीठोपरि दलाद्बाह्ये देवस्याग्नेयकोणके ।
पद्ममैशे गदां कोणे नैरृते चक्रमुज्ज्वलम् ॥ २४७ ॥

6.248
वायव्ये पाञ्चजन्यं च गदायाश्च समीपतः ।
किरीटं दक्षिणे पार्श्वे वामे श्रीवत्समेव च ॥ २४८ ॥

6.249
कौस्तुभं पद्मसामीप्ये वनमालां च दक्षिणे ।
देवस्य कर्णिकायां तु श्रियं पुष्टिं ततोऽपरे ॥ २४९ ॥

6.250
अग्रतः पीठतो बाह्ये न्यसेच्चारात् पतत्रिपम् ।
अङ्गोपाङ्गादिकानां तु सर्वेषां ध्यानमुच्यते ॥ २५० ॥

6.251
आहूतो मन्त्रनाथस्तु यथा ध्यातः सविग्रहः ।
तद्वदेव हि हृन्मन्त्रं ध्यायेत् कुमुदपाण्डरम् ॥ २५१ ॥

6.252
पद्मरागाचलाकारमारक्तं च शिरः स्मरेत् ।
अञ्जनाद्रिप्रतीकाशं शिखामन्त्रं तथाकृतिम् ॥ २५२ ॥

6.253
परितः सूर्यसन्तप्तं यथा कनकपर्वतम् ।
तथा कवचमन्त्रं च ध्यानकाले विचिन्तयेत् ॥ २५३ ॥

6.254
वृतं ज्वालासहस्रैस्तु अयस्कान्तसमद्युति ।
सर्वास्त्रशक्तिसंपूर्णमस्त्रमन्त्रं प्रकीर्तितम् ॥ २५४ ॥

6.255
निर्धूमाङ्गारसदृशं भावयेन्नेत्रमन्त्रराट् ।
ध्येयाः स्वरुचिसंयुक्ताः द्विभुजाः पुरुषोपमाः ॥ २५५ ॥

6.256
एवमेव ह्युपाङ्गानां स्मरेद्ध्यानं सुलक्षणम् ।
वीक्षमाणान् विभोर्वक्त्रं ध्यायेन्मुनिवरोत्तम ॥ २५६ ॥

6.257
स्थितानामादिमूर्तीनां स्थितान् ध्यायेत् सदैव हि ।
आसीनानामथासीनान् वाहनस्थे सवाहनान् ॥ २५७ ॥

6.258
शयितानामथासीनानुत्थितान् वा स्मरेद्धिया ।
लाञ्छनाभरणादीनां श्रृणु ध्यानं यथाक्रमम् ॥ २५८ ॥

6.259
कुन्दावदातं कमलं सौम्यमीषत्स्मिताननम् ।
रवं रवन्तं मधुरं श्रोत्रेन्द्रियसुखावहम् ॥ २५९ ॥

6.260
गदां हेमाद्रिसंकाशां तन्वीं कुवलयेक्षणाम् ।
द्विरष्टवर्षवत्कान्तां कुमारीं नवयौवनाम् ॥ २६० ॥

6.261
स्वोत्थेन रश्मिजालेन भासयन्तीं नभःस्थलम् ।
स्वरश्मिमण्डलान्तरःस्थं वल्गन्तं हेतिराट् स्मरेत् ॥ २६१ ॥

6.262
विभोराज्ञां प्रतीक्षन्तं ह्रस्वाङ्गं रक्तलोचनम् ।
तुहिनाचलसंकाशं शङ्खं कमललोचनम् ॥ २६२ ॥

6.263
सदागमादिसामान्तमुद्गिरन्तं स्वकैर्मुखैः ।
किरीटः सौम्यवदनः काञ्चनाभो महातनुः ॥ २६३ ॥

6.264
भाभिराकृतियुक्ताभिर्नानारूपाभिरावृतः ।
स्थितो वैद्याधरीयेण स्थानकेनान्तरिक्षगः ॥ २६४ ॥

6.265
स्फाटिकाद्रिप्रतीकाशं श्रीवत्समथ भावयेत् ।
बद्धपद्मासनासीनं न्यस्तहस्तं स्वपार्श्वयोः ॥ २६५ ॥

6.266
वहन्तं कूर्ममुद्रां च मुख्यहस्तद्वयेन च ।
पद्मरागाचलाकारं कौस्तुभं रत्रनायकम् ॥ २६६ ॥

6.267
दिशो दश द्योतयन्तं संलग्नाङ्घ्रिस्थितं स्मरेत् ।
वहन्तं चोरसो मध्ये स्वहस्तकृतसंपुटम् ॥ २६७ ॥

6.268
सन्धारयन्तमपरं तथा वै शिरसि स्फुटम् ।
ध्येया भगवती माला चित्रवर्णा मनोरमा ॥ २६८ ॥

6.269
सर्वगन्धान्विता सौम्या ईषद्विह सितानना ।
ध्येयाः स्वरुचिसंयुक्ता द्विभुजाः पुरुषोपमाः ॥ २६९ ॥

6.270
सास्त्राः किरीटपूर्वा ये गदामालाङ्गनाकृती ।
एतेऽस्त्रनायकाः सर्वे विभोराज्ञाप्रतीक्षकाः ॥ २७० ॥

6.271
प्रोत्थिता विचलन्तश्च सुसमैः स्थानकैः स्थिताः ।
श्रोणीतटार्पितकराश्चामरव्यजनोद्यताः ॥ २७१ ॥

6.272
सपद्मं तु किरीटाद्यं वर्जयित्वा चतुष्टयम् ।
तर्जयन्तं च दुष्टौघमन्येषां दक्षिणं करम् ॥ २७२ ॥

6.273
स्मरेद्वै ध्यानकाले च सर्वेषामथ मस्तके ।
ध्येयं स्वकं स्वकं चिह्नं सुप्रसिद्धं निराकृति ॥ २७३ ॥

6.274
रक्तपङ्कजवर्णाभा लक्ष्मीर्नीलाम्बुजेक्षणा ।
दुग्धौघधवला पुष्टिरानन्दाकुलितानना ॥ २७४ ॥

6.275
भोक्तृशक्तिः स्मृता लक्ष्मीः पुष्टिर्वै कर्तृसंज्ञिता ।
भोगार्थमवतीर्णस्य तस्य लोकानुकम्पया ॥ २७५ ॥

6.276
उदितं सह तेनैव शक्तिद्वितयमव्ययम् ।
रक्ततुण्डं महाप्राणं भीमभ्रुकुटिलोचनम् ॥ २७६ ॥

6.277
द्रवच्चामीकराकारं पक्षमण्डलमण्डितम् ।
संस्मरेद्गरुडं विप्र गृध्रवक्त्रं पृथूदरम् ॥ २७७ ॥

6.279
यथोक्तमूर्तियुक्तांश्च ततो ध्यायेद्यथाक्रमम् ।
अपांपतिर्वै कमलं गदादेवी सरस्वती ॥ २७९ ॥

6.280
स्वयं शशाङ्कः श्रीवत्सो मालाषण्माधवादयः ।
प्राणं पतत्रिपं विद्यादेवं तत्त्वेषु संस्थितान् ॥ २८० ॥

6.281
अधिष्टातृ क्रमाच्चैतानर्चयेदर्घ्यपुष्पकैः ।
अष्टपत्राम्बुजे पूर्वदले हृन्मन्त्रपं शिरः ॥ २८१ ॥

6.282
शिखामाग्नेयपत्रे तु कवचं चास्त्रमन्त्रपम् ।
दक्षिणे पत्रमध्ये तु नैरृते पत्रमध्यतः ॥ २८२ ॥

6.283
नेत्रं पश्चिमपत्रे तु उदरं पृष्ठमन्त्रपम् ।
वायन्ये बाहुमन्त्रं तु ऊरू जानू तथोत्तरे ॥ २८३ ॥

6.284
ईशानपत्रमध्ये तु पादमन्त्रं तु विन्यसेत् ।
दलोपदलसंयुक्तेऽप्येवमेवाम्बुजे क्रमः ॥ २८४ ॥

6.285
अथवा दिग्दलेष्वत्र हृदाद्यं यच्चतुष्टयम् ।
अस्त्रं विदिग्दलेषु स्यान्नेत्रं केसरगं पुनः ॥ २८५ ॥

6.286
उपाङ्गं स्यादुपदले तद्विधानमतः श्रृणु ।
पूर्वपत्रसमीपस्थतलयोरुदरं न्यसेत् ॥ २८६ ॥

6.287
पृष्ठमन्त्रं न्यसेत्तद्वद्दलयोः पश्चिमस्थयोः ।
बाहूरू मन्त्रपौ न्यस्यौ दलयोर्दक्षिणस्थयोः ॥ २८७ ॥

6.288
जानू पादौ तथा न्यस्यौ दलयोरुत्तरस्थयोः ।
मन्त्ररूपे षडङ्गे तु पद्मस्याष्टदलस्य तु ॥ २८८ ॥

6.289
पूर्वस्मिन् हृदयं वामे कवचं दक्षिणे शिरः ।
पश्चिमे तु शिखां न्यस्येत् परे दलचतुष्टये ॥ २८९ ॥

6.290
अग्रतोऽस्त्रं कर्णिकायां केसरे च पुरोदले ।
नेत्रं न्यस्यार्चयेत् प्राग्वत् पद्मादिन्यासमाचरेत् ॥ २९० ॥

6.291
त्रिदलादिषु पद्मेषु दलमूले यथोदितम् ।
बुद्ध्या स्थानं विभज्यात्र पञ्च षड्द्वादशाथवा ॥ २९१ ॥

6.292
न्यसेदङ्गान्यथादृष्टपृष्ठभागस्य वै विभोः ।
परिवारसमेतस्य त्वङ्गं न्यस्येत्तु दक्षिणे ॥ २९२ ॥

6.293
भागं कृत्वा प्रकृत्याग्रात् क्रमात् प्रागादि कल्पयेत् ।
आश्रित्य वामभागं तु प्रोक्तमारभ्य चैश्वरीम् ॥ २९३ ॥

6.294
चान्द्रं वात्यं वारुणं च दिग्विभागं प्रकल्पयेत् ।
तयोः षट्कक्रमात् कुर्याद्द्वादशस्थानकल्पनम् ॥ २९४ ॥

6.295
धर्मादिदेवता न्यस्य ह्येवं दिग्विदिगाश्रयाः ।
श्रीपुष्ट्योस्तु य दा यागे पृथक् पद्मोपरि स्थितम् ॥ २९५ ॥

6.296
तदाधिकारयागेऽपि पृथगेवासनादिकम् ।
वाहानां लाञ्छनादीनां विहीने वाथ पार्श्वतः ॥ २९६ ॥

6.297
कल्पयेदथ तं भोगैर्यजेत सुसमस्तकैः ।
विनिवेद्यासनवरं समाहूतस्य वै विभोः ॥ २९७ ॥

6.298
पादपीठं तु सामान्यं मृद्वास्तरणभूषितम् ।
घण्टाशब्दसमोपेतं दत्वार्घ्यं मन्त्रमूर्धनि ॥ २९८ ॥

6.299
पाद्यप्रतिग्रहं हैमं विभोर्दद्यात् सरत्नकम् ।
पाद्यं पादोदकाकर्षशाटकेनानुलेपनम् ॥ २९९ ॥

6.300
सप्रतिग्रहमाचामं सानुलेपं च मालिकाम् ।
घृतादिकैर्महादीपैरच्छिन्नैरर्चयेद्धरिम् ॥ ३०० ॥

6.301
सुगन्धैर्मधुरैर्धूपैः प्रभूतैरर्चयेद्विभुम् ।
अर्हणं मधुपर्कं च दर्पणं तदनन्तरम् ॥ ३०१ ॥

6.302
। ततः स्नानासनादीनां भोगानां सन्निधापनम् ।
कृत्वाभ्यर्च्यापि देवस्य पाणिना दक्षिणं पदम् ॥ ३०२ ॥

6.303
दक्षिणेनाथ वामेन वामं संगृह्य मन्त्रतः ।
विज्ञाप्य मज्जनार्थं तु कृत्वा मार्गत्रयं ततः ॥ ३०३ ॥

6.304
स्नानासनं निवेद्याथ देवस्य द्वितयं तु वै ।
स्नानार्थमवतीर्णस्य पादपीठमनन्तरम् ॥ ३०४ ॥

6.305
भक्तिनम्रेण शिरसा दद्यादर्घ्यं तु मूर्धनि ।
विनिवेद्य ततो हैमं सरत्नं च प्रतिग्रहम् ॥ ३०५ ॥

6.306
दद्याद्वै पाद्यकलशात् पाद्यं पादाम्बुजद्वये ।
शुभे च पादुके चाथ तदन्ते स्नानशाटकम् ॥ ३०६ ॥

6.307
सुगन्धशालिसंपूर्णं मात्रार्थं पात्रमुत्तमम् ।
दर्पणं पूर्णचन्द्राभं गन्धतोयमनन्तरम् ॥ ३०७ ॥

6.308
पाणि प्रक्षालनार्थं तु पादपीठं ततः शुभम् ।
शिरस्पृष्टेन तैलेन किंचिन्नाङ्गमुपस्पृशेत् ।
दन्तकाष्ठं च तदनु कर्मण्यक्षीरवृक्षजम् ॥ ३०८ ॥

6.309
मुखधावनपात्रं च जिह्वानिर्लेहनं तथा ।
गण्डूषाचामसलिले ताम्बूलं गन्धभावितम् ॥ ३०९ ॥

6.310
स्नानारम्भानुवृत्तांश्च तैलादीन् संनिधाप्य च ।
तत्पात्राभ्यर्चनं कृत्वा ततस्तैलं समर्चयेत् ॥ ३१० ॥

6.311
स्कन्धो संछाद्य वस्त्रेण सुकेशान् विकिरेत् प्रभोः ।
मध्ये शिरसि देवस्य सेचयेत्तैलमुत्तमम् ॥ ३११ ॥

6.312
आवृत्यावृत्य निष्पीड्य तथा कण्डूयनं नखैः ।
बहूपचारसंयुक्तं संमार्ज्यं तैलजं लवम् ॥ ३१२ ॥

6.313
केतकोत्पलमालाश्च दत्वा केशांश्च बन्धयेत् ।
हस्तौ प्रक्षाल्य तोयेन स्कन्धवस्त्रं विमुच्य च ॥ ३१३ ॥

6.314
स्पृष्ट्वा तैलं तथाङ्गानि उपाङ्गानि च मर्दयेत् ।
ततो बहुसुगन्धं तु चूर्णं गोधूमशालिजम् ॥ ३१४ ॥

6.315
रजनीचूर्णसंमिश्रमीषत्पद्मकभावितम् ।
देयमुद्वर्तनार्थं तु माषीं च तदनन्तरम् ॥ ३१५ ॥

6.316
स्नानार्थं खलिसंयुक्तं तोयमुष्णमनन्तरम् ।
चन्दनं मुखलेपार्थं घृष्टं कर्पूरभावितम् ॥ ३१६ ॥

6.317
तत आमलकस्नानं लोध्रं कालेयकं तथा ।
वर्णकं केयूरकं च तगरूणि प्रियङ्गवः ॥ ३१७ ॥

6.318
सुगन्धं चैव सिद्धार्थं सर्वौषधिसरत्नकम् ।
सहस्रधारया विष्णोर्दद्याच्छुद्धोदकं तथा ॥ ३१८ ॥

6.319
कालेयकं च तदनु लोध्रस्नानं तु वर्णकम् ।
शरीरार्थानि चान्यानि शिरोर्थानि तु सत्तम ॥ ३१९ ॥

6.320
यद्वा क्षीरादिसंपूर्णकुम्भैः संस्नानपयेद्विभुम् ।
गव्यं प्रभूतं स्नानार्थं क्षीरं दधि घृतं मधु ॥ ३२० ॥

6.321
ऐक्षवं तु रसं हृद्यमभावाच्छर्करोदकम् ।
धात्रीफलोदकं चैव लोध्रतोयमनन्तरम् ॥ ३२१ ॥

6.322
रक्तचन्दनतोयं च रजनीनीरमुत्तमम् ।
ग्रन्थिपल्लववार्येव ततस्तु तगरोदकम् ॥ ३२२ ॥

6.323
प्रियङ्गुवारि तदनु मांसीजलमतः परम् ।
सिद्धार्थकोदकं चाथ सर्वौषधिजलं ततः ॥ ३२३ ॥

6.324
पत्रपुष्पोदके चैव फलबीजोदके त्वथ ।
गन्धोदकं च तदनु हेमरत्नजले ततः ॥ ३२४ ॥

6.325
पुण्यतीर्थसरित्तोये केवलं तदनन्तरम् ।
स्नानार्थं कल्पितेनैव तूदकेन विमिश्रितम् ॥ ३२५ ॥

6.326
योक्तव्यं क्रमशो ह्येतदर्घ्यपुष्पसमन्वितम् ।
अन्तरान्तरयोगेन स्नानानां च महामते ॥ ३२६ ॥

6.327
क्षालनं चार्घ्यकलशादर्घ्यदानसमन्वितम् ।
ततः स्नानीयशेषेण हेमादिद्रव्यनिर्मितम् ॥ ३२७ ॥

6.328
संपूर्णमम्भसा कुम्भं हरिद्राशालितण्डुलैः ।
सुपिष्टैरुपरिष्टाच्च लिप्तं युक्तं स्रगादिना ॥ ३२८ ॥

6.329
पाणौ कृत्वा तमेकस्मिन्नपरस्मिंस्तु मल्लकम् ।
धूमायमानं सिद्धार्थैर्भ्राम्य मूर्ध्नि बहिः क्षिपेत् ॥ ३२९ ॥

6.330
सुधौतमहतं चाथ शाटकं विनिवेद्य च ।
कचोदकापकर्षार्थमपरं देहवारिहृत् ॥ ३३० ॥

6.331
अधरोत्तरवस्त्रे द्वे गन्धधूपाधिवासिते ।
स्कन्धप्लोतं निवेद्याथ सुसूक्ष्ममहतं सितम् ॥ ३३१ ॥

6.332
शिरःश्यानं ततः कुर्याच्छशिधूपसमन्वितम् ।
कर्पूरचूर्णसंमिश्रं कुर्याद्देवस्य मूर्धजम् ॥ ३३२ ॥

6.333
विभाव्यालङ्कृतं भक्त्या भोगैः स्रक्चन्दनादिभिः ।
एवं हि चित्रपूर्वाणामन्येषां कमलासन ॥ ३३३ ॥

6.334
सद्रत्नब्रह्मपाषाणवर्जितानां समाचरेत् ।
स्नानाद्यं कर्मबिम्बे तु तत्समीपेऽथ दर्पणे ॥ ३३४ ॥

6.335
स्नानविज्ञापनं कृत्वा कर्मार्चां तस्य सन्निधौ ।
स्नानासने समारोप्य तस्यां सर्वं समाचरेत् ॥ ३३५ ॥

6.336
तदभावे दर्पणे तु स्नानभोगानि चार्पयेत् ।
चित्रस्थ एव दद्याच्च भोगानन्यान् यथाक्रमम् ॥ ३३६ ॥

6.337
तदभावे च तान् सर्वान् पाणिनादाय चेतसा ।
निवेदयेन्मण्डलादिष्वेवं भोगनिवेदनम् ॥ ३३७ ॥

6.338
प्रोक्षणं यदि वा कुर्यादर्घ्याद्यैरवशिष्टकैः ।
प्रणालभागादपरं स्थानं भद्रासनात्तु वै ॥ ३३८ ॥

6.339
भूरिनीरघटैः शुद्धं कृत्वा तत्रावतार्य च ।
सपीठं भगवद्बिम्बं तद्विना वार्चितं यदि ॥ ३३९ ॥

6.340
खप्लुतं भावयेद्देवं निश्शेषं क्षालयेत्ततः ।
भूयो गन्धोदकेनैव पूर्यं कुम्भचतुष्टयम् ॥ ३४० ॥

6.341
स्नानकुम्भं विनान्येषां प्राग्वत् कार्या च कल्पना ।
हृन्मन्त्रेण चतुर्णां तु कुर्याद्वै द्रव्ययोजनम् ॥ ३४१ ॥

6.342
सास्त्रेण मूलमन्त्रेण सर्वं तच्चाभिमन्त्र्य तु ।
मार्गत्रयं क्रमात् कृत्वा विनिवेद्यासनं ततः ॥ ३४२ ॥

6.343
तृतीयं रत्नखचितं तत्रस्थं परमेश्वरम् ।
समभ्यर्च्यार्घ्यपाद्येन पादुकाभ्यामनन्तरम् ॥ ३४३ ॥

6.344
देयमाचमनं भूयः पादपीठं तथैव च ।
समालभ्य सुगन्धेन भक्तितश्चन्दनादिना ॥ ३४४ ॥

6.345
संवीज्य व्यजनेनैव मायूरेण तथेन च ।
ततोऽप्यचटनं हैमं राजतं दारुजं तु वा ॥ ३४५ ॥

6.346
केशप्रसादकृत्कूर्चं पुष्पताम्बूलकर्तरीम् ।
निवेद्यदेवदेवाय दुकूलवसने सिते ॥ ३४६ ॥

6.347
घृष्टकुङ्कुमकस्तूरीमृगस्नेहानुलेपनम् ।
उपवीतं सोत्तरीयं मकुटाद्यमननन्तरम् ॥ ३४७ ॥

6.348
पादनूपुरपर्यन्तमलङ्करणमुत्तमम् ।
विचित्रं हि शिरोमाल्यं वेष्टनेन समन्वितम् ॥ ३४८ ॥

6.349
स्रग्दामसूत्रसंबद्धमाकर्णा च्चरणावधि ।
मुक्तपुष्पं ततो दद्याद्यथाकालसमुद्भवम् ॥ ३४९ ॥

6.350
रुचिरं कङ्कणं चाद्य दद्यात् प्रतिसरं ततः ।
धातुभिः कुङ्कुमाद्यैर्वा विचित्रं सितसूत्रजम् ॥ ३५० ॥

6.351
पूरितं मृदुतूलेन ग्रथितं चान्तरान्तरा ।
अञ्जनं सशलाकं च ताम्बूलं गन्धभावितम् ॥ ३५१ ॥

6.352
ललाटतिलकं हैमं मुखवासं सरोचनम् ।
कर्णावतंसके पुष्पे मण्डनं दर्पणं महत् ॥ ३५२ ॥

6.353
प्रकिरन् चित्रकुसुमैर्दी प्तरत्नप्रभोज्ज्वलैः ।
प्रदीप्तैस्तु महाज्वालै स्तिलतैलाज्यपूरितैः ॥ ३५३ ॥

6.354
अभुक्ताहतसुश्वेतरञ्जि तैर्वस्त्र वेष्टितैः ।
गर्भीकृतत्वगेलाद्यैः पूजयेत्तदनन्तरम् ॥ ३५४ ॥

6.355
कर्पूरचूर्णसंमिश्रं सुगन्धिमधुरं बहु ।
मृष्टधूपसमायुक्तं गुग्गुलुं धूपयेच्छूभम् ॥ ३५५ ॥

6.356
सहघण्टारवै रम्यैश्चाल्यमानेन बाहुना ।
उपानहौ सितच्छत्रं शिबिकां च रथादि यत् ॥ ३५६ ॥

6.357
वाहनं गजपर्यन्तं सपताकं खगध्वजम् ।
सितासितौ तु चमरौ मात्रावित्तमनन्तरम् ॥ ३५७ ॥

6.358
जानुनी भूगते कृत्वा शिरसावनतेन तु ।
आदायोत्तानपाणिभ्यां विनिवेद्य जगत्प्रभोः ॥ ३५८ ॥

6.359
संपूरणार्थं भोगानां सर्वेषां द्विजसत्तम ।
भेरीमृदङ्गशब्दार्द्यैजयशब्दसमन्वितैः ॥ ३५९ ॥

6.360
गीतकैर्विविधैर्नृत्तैस्तन्त्रीवाद्यसमन्वितैः ।
वंशैः श्रृङ्गैस्तथा वाद्यैरन्यैः श्राव्यैश्च पूजयेत् ॥ ३६० ॥

6.361
स्तोत्रमन्त्रजपं कुर्याज्जितन्ताद्यं महामते ।
व्यस्तं चैव समस्तं च वाक्ययुक्तं विशेषतः ॥ ३६१ ॥

6.362
ततः प्रदक्षिणं कुर्याच्चत्वारि द्विजसत्तम ।
कुसुमक्षेपसंयुक्तं चतुर्दिक्षु समं तु वै ॥ ३६२ ॥

6.363
सहान्तःकरणेनैव भक्तियुक्तेन चेतसा ।
नतपृष्ठशिरोजानुललाटतटहृत्करः ॥ ३६३ ॥

6.364
गृहस्थ आचरेन्नित्यं प्रणामं सप्रदक्षिणम् ।
सन्यासी दण्डवत् कुर्यात् प्रणिपातं च सर्वदिक् ॥ ३६४ ॥

6.365
विहितं स्नातकादीनामन्येषामेवमेव हि ।
स्मरन् सर्वेश्वरं बुद्ध्या सकृत् प्रवितते क्षितौ ॥ ३६५ ॥

6.366
संकटे सति भूभागे भगवत्यग्रतः स्थितः ।
धिया तु भक्तितः कुर्याद्बध्वा तु करसंपुटम् ॥ ३६६ ॥

6.367
हृद्देशे मूर्ध्नि कम्पैस्तु स्मरन् सर्वेश्वरं हरिम् ।
अन्तर्गर्भगृहे विष्णोर्गर्भद्वारार्धमण्टपे ॥ ३६७ ॥

6.368
प्रणिपातगणं कुर्यात् प्रदक्षिणगणं विना ।
चक्रवद्भ्रामयेन्नाङ्गं पृष्ठभागं न दर्शयेत् ॥ ३६८ ॥

6.369
पश्चाद्भागेन निर्गच्छेद्देवाग्निगुरुसन्निधौ ।
वह्निस्थस्य विभोर्यस्मात् पाणिपृष्ठस्य दर्शनम् ॥ ३६९ ॥

6.370
बहुष्वपि च भोगेषु प्रधानं प्रापणं तथा ।
पश्चादुत्सवबिम्बं तत्क्रमेणैव तु पूजयेत् ॥ ३७० ॥

6.371
जानुभ्यां सह पाणिभ्यां पाणिभ्यां वा समाचरेत् ।
जानुप्रदक्षिणं मुक्त्वा अन्तः सन्निकटे विभोः ॥ ३७१ ॥

6.372
विरुद्धमपरं चैव भक्तानां चरणभ्रमम् ।
एवं प्रदक्षिणीकृत्वा क्षिप्त्वा पुष्पाञ्जलिं ततः ॥ ३७२ ॥

6.373
सुस्नाना दित्रयं पृच्छेद्भगवन्तं तदापि च ।
सार्घ्याचामे तु वा चार्घ्यगन्धपुष्पप्रधूपकैः ॥ ३७३ ॥

6.374
इष्ट्वा नीराजयेद्देवं विभोरर्घ्यं समर्पयेत् ।
भोज्यासनं निवेद्याथ मार्गत्रयपुरस्सरम् ॥ ३७४ ॥

6.375
छन्नं दुकूलतूलोत्थमसूरकवरेण तु ।
अर्घ्यं पाद्याचमे दद्यात् प्रतिग्रहसमन्विते ॥ ३७५ ॥

6.376
तर्पणं संप्रतिष्ठाप्य वासितं चार्घ्यवारिणा ।
अथार्हणजलं स्वच्छं सुगन्धं पात्रतः कृतम् ॥ ३७६ ॥

6.377
मधुपर्कं दधिघृतं मधुयुक्तमनन्तरम् ।
समस्तमेवमेकाङ्गं दधि वापि निवेदयेत् ॥ ३७७ ॥

6.378
शीतलं तर्पणजलं अथ चूर्णं पुरोदितम् ।
देयं निष्पुंसनार्थं च पुनराचमनं विभोः ॥ ३७८ ॥

6.379
स्वलङ्कतां सुरूपां च स्रग्युक्तां विनिवेद्य गाम् ।
ओषधीः शालिपूर्णाश्च स्रक्फलाढ्यं वनस्पतिम् ॥ ३७९ ॥

6.380
मूर्तिं निवेदयेत् पूर्वं ततः संस्थाप्य तर्पणम् ।
प्रच्छादनाम्बरं चैव प्रदद्यादर्हणोदकम् ॥ ३८० ॥

6.381
षड्रसप्रभवैर्दिव्यैर्नैवेद्यैः पावनैः फलैः ।
गुडखण्डचितैर्भर्क्ष्यैबहुर्भिघृतपाचितैः ॥ ३८१ ॥

6.382
गुडमुद्गपयोमिश्रैर्निशाज्यतिलमिश्रितैः ।
दधिमिश्रैस्सर्वमिश्रैर्मधुस्वादुयुतैः फलैः ॥ ३८२ ॥

6.383
क्रमादन्नैरष्टविधैरपूपान् विनिवेदयेत् ।
सरसाभी रसालाभिः पयसा सुश्रृतेन च ॥ ३८३ ॥

6.384
पवित्रैः शीतलैः स्वादुरसगन्धैश्च पानकैः ।
भक्ष्यैर्भोज्यैस्तथा लेह्यैः पेयैरन्यैरनेकशः ॥ ३८४ ॥

6.385
श्रद्धापूतेन मनसा यष्टव्य मजमव्ययम् ।
एकैकस्मिंस्तु वै भोगे प्रोक्षयेदर्घ्यवारिणा ॥ ३८५ ॥

6.386
छोटिकां मन्त्रसंयुक्तां कृत्वा पाणिद्वयेन तु ।
धारणाद्वितयेनैव अर्कसोममयेन तु ॥ ३८६ ॥

6.387
सम्यक् सर्वं तु संस्कुर्याद्यथा तदवधारय ।
प्रचण्डकिरणव्रातैर्भास्करीयैर्दहेत् पुरा ॥ ३८७ ॥

6.388
संचिन्त्य भस्मभूताहं ततः पूर्णेन्दुरश्मिभिः ।
आप्याय्यामृतकल्लोलधारापातेन नारद ॥ ३८८ ॥

6.389
कान्तिमच्चिन्तयेद्भूयो यद्दग्धं भानुना तु वै ।
वध्वा कामदुघां मुद्रां स्रवन्तीं मन्त्रसंयुताम् ॥ ३८९ ॥

6.390
गोरूपां हिमशैलाभां निराधारपथे स्थिताम् ।
दत्वा पुष्पार्घ्यमुपरि संस्पृशेद्विष्णुपाणिना ॥ ३९० ॥

6.391
सव्येन पाणिना स्पृश्य प्रकोष्ठं दक्षिणस्य तु ।
तेन दक्षिणहस्तेन अग्रसंकुचितेन तु ॥ ३९१ ॥

6.392
निवेदयेत्ततो विप्र शिरसाऽवनतेन तत् ।
पावनैः पानकैः स्वच्छैः शीतलेर्मधुरादिकैः ॥ ३९२ ॥

6.393
त्वगेलाद्यन्वितैर्मृष्टधूपकर्पूरवासितैः ।
नालिकेरोदकोपेतैस्तर्पणीयमनन्तरम् ॥ ३९३ ॥

6.394
मसूरमाषचूर्णेन रजनीशालिजेन च ।
समुद्वर्त्य च संक्षाल्य शीतलैर्बहुवारिभिः ॥ ३९४ ॥

6.395
नैवेद्याचमनार्थं तु गन्धोदकमनुत्तमम् ।
वाससा निर्मलं कृत्वा चन्दनेन सितेन च ॥ ३९५ ॥

6.396
समालभ्य सुघृष्टेन कर्पूरसहितेन च ।
तिलान्यथ स रत्नानि सौवर्णे वाथ राजते ॥ ३९६ ॥

6.397
पात्रे कृत्वाथ मात्रार्थं देवाय विनिवेदयेत् ।
लवङ्गतक्कोलैलात्वक्कर्पूरपरिभावितम् ॥ ३९७ ॥

6.398
जातिपूगफलोपेतं ससुगन्धच्छदं बहु ।
कर्पूरचूर्णसंमिश्रं मुक्ताचूर्णसमन्वितम् ॥ ३९८ ॥

6.399
मातुलुङ्गफलोपेतं नालिकेरफलान्वितम् ।
प्रदद्यात् प्रणतश्चान्ते ताम्बूलं जगतःपतेः ॥ ३९९ ॥

6.400
प्रक्षाल्य गन्धतोयेन अर्घ्यपात्रोद्धृतेन वै ।
पाणियुग्मं यथा वै स्यात् स्वच्छमत्यन्तनिर्मलम् ॥ ४०० ॥

6.401
नैवेद्यधूपपात्राद्यैः पात्रैश्चानिर्मलीकृतम् ।
कृत्वा तु गन्धदिग्धौ तौ अर्घ्येणार्च्य परस्परम् ॥ ४०१ ॥

6.402
मुद्रामूलादिमन्त्राणां दर्शयित्वा यथाक्रमम् ।
भूयोऽर्घ्यगन्धपुष्पेण धूपान्तेन समर्च्य च ॥ ४०२ ॥

6.403
जपयज्ञविधानेन देवं सन्तर्पयेत्ततः ।
स्फाटिकेनाक्षसूत्रेण स्वकैर्वा करपर्वभिः ॥ ४०३ ॥

6.404
पात्रं संस्थापयेत् पश्चादर्घ्यपात्राच्च वारिणा ।
विलिप्य चन्दनाद्यैस्तु स्थापयेद्भाजने शुभे ॥ ४०४ ॥

6.405
संपूज्य पुष्पधूपाद्यैर्मन्त्रं तत्र च विन्यसेत् ।
साधारमासनं चैव शक्तिपूर्वैः समावृतम् ॥ ४०५ ॥

6.406
चतुर्भुजं तु विरजो नारायणमिवापरम् ।
वरदाभयहस्तं च बद्धाञ्जलिधरं स्मरेत् ॥ ४०६ ॥

6.407
ब्रह्मस्थानस्थितं तं च सूत्रं ध्यायेच्छिखोपमम् ।
सन्निधौ भव देवेश संनिरुद्धो भवाच्युत ॥ ४०७ ॥

6.408
सूत्राख्यमणिजालेऽस्मिन् यावच्चन्द्रार्कतारकम् ।
एवं मुने प्रतिष्ठाप्य मन्त्रं सूत्रेऽक्षसंज्ञिके ॥ ४०८ ॥

6.409
प्रतिष्ठितस्य वै पश्चान्मुद्रां स्वां च प्रदर्शयेत् ।
यथाशक्ति जपं कुर्याच्छतमष्टाधिकं तु वा ॥ ४०९ ॥

6.410
तन्निवेद्य विभोः पश्चाद्वाक्कर्ममनसान्वितम् ।
पुण्डरीकाक्ष विश्वात्मन् मन्त्रमूर्ते जनार्दन ॥ ४१० ॥

6.411
गृहाणेदं जपं नाथ मम दीनस्य शाश्वत ।
इत्युक्त्वार्घ्योदकं पश्चात् पुष्पं दक्षिणपाणिगम् ॥ ४११ ॥

6.412
अग्रतो निक्षिंपेद्विष्णोर्मूलमन्त्रेण नारद ।
भावयेच्च ततस्सम्यक्स्फुरन्तीं तारकावलिम् ॥ ४१२ ॥

6.413
प्रविष्टां भगवद्वक्त्रे वक्त्रात्तां हृद्गतां पुनः ।
हृदयाद्द्विजशार्दूल संहाराख्यक्रमेण तु ॥ ४१३ ॥

6.414
पूर्ववद्ब्रह्मरन्ध्रेण परेण सह योजयेत् ।
एकैकं हृदयादीनां सर्वेषां विहितं त्वथ ॥ ४१४ ॥

6.415
क्रियाङ्गत्वान्न दोषोऽस्ति अन्यथा तज्ज्पं विना ।
धूपं दत्वा प्रणम्याथ स्तु त्वा मन्त्रेश्वरं ततः ॥ ४१५ ॥

6.416
द्विधा प्रदक्षिणं कुर्यात् प्रणामं च तथाविधम् ।
नैकत्रिपञ्चसप्ताख्यगणनाविषमं च यत् ॥ ४१६ ॥

6.417
यतः समो हि भगवान् देवः सर्वस्य वै हरिः ।
संपूज्य गन्धधूपैश्च ततस्तु भगवन्मयान् ॥ ४१७ ॥

6.418
यथाक्रमं समभ्यर्च्य नैवेद्यं प्रतिपाद्य च ।
तेषां मात्रावसानं च आसनाद्यं निवेदयेत् ॥ ४१८ ॥

6.419
यद्वैभ्यो देव यज्ञान्ते तन्मात्रान्तं प्रदाय तु ।
अस्मिन् कालेऽर्हणाद्यं तु ताम्बूलान्तं समर्पयेत् ।
शय्यासनं ततो दद्यादग्नौ सन्तर्पयेत्ततः ॥ ४१९ ॥


Kapitel 7

श्रीः ।
सप्तमोऽध्यायः ।

7.1
न्यस्त्वास्त्रमासने यायादनलालयमर्घ्यभृत् ।
पूर्ववद्द्वारयागं तु कृत्वा संप्रविशेत्ततः ॥ १ ॥

7.2
तत्र पूर्वोक्तविधिना उपविश्य समाहितः ।
नाकुण्डहवनं यस्मात् सिद्धिकृन्मन्त्रयाजिनाम् ॥ २ ॥

7.3
तस्मात् कुण्डं सदा कार्यं सौत्रं वा जङ्गमं स्थिरम् ।
भगवद्वह्निशक्तेर्वै ज्वालाद्या प्रकृतिः परा ॥ ३ ॥

7.4
अपरा प्रकृतिर्धिष्ण्या नानाकारा यथानलाः ।
अत एताग्निरूपा वै कुण्डा हवनकर्मणि ॥ ४ ॥

7.5
चतुरश्रादिभेदोत्थाः काम्यानां कर्मणां द्विज ।
सद्रत्नमालाश्रीवत्समकुटाङ्गदलक्षणाः ॥ ५ ॥

7.6
शङ्खचक्रगदापद्मशार्ङ्गनानाशरोपमाः ।
परश्वथं तथा सीरसदृशाः सर्वसिद्धिदाः ॥ ६ ॥

7.7
वज्राद्यस्त्रचयाकारा भृङ्गारकरकोपमाः ।
सर्वे सपीठा विहिताश्चतुस्त्रिद्व्येकमेखलाः ॥ ७ ॥

7.8
चक्रपद्मगदाशङ्खसमस्तव्यस्तलाञ्छिताः ।
ततोष्ठयोनिनिर्वाहैः स्वैरङ्गै रुचिरैर्युताः ॥ ८ ॥

7.9
आद्वादशाङ्गुलात् कुण्डाः करान्ता ये त्रयोदश ।
सर्वाकृतिधराश्चैव जङ्गमा मेखलोज्झिताः ॥ ९ ॥

7.10
अनुकल्पे तु विहिता भक्तानां मन्त्रतर्पणे ।
एक द्विहस्तपर्यन्ता यथालक्षणलक्षिताः ॥ १० ॥

7.11
भूमावुल्लिख्य संपूर्य धान्यैर्बीजैर्मृदा तु वा ।
सामग्रीविरहाच्चापि शश्वत्कर्मसमाप्तये ॥ ११ ॥

7.12
अनुकल्पानुकल्पे तु नित्यमेवाविरोधकृत् ।
प्राजापत्ये दैशिकीये शैष्येऽर्धकरसम्मिते ॥ १२ ॥

7.13
क्षेत्रे क्रमान्नयेद्वृद्धिं तावदेकैकमङ्गुलम् ।
यावदष्टकरं क्षेत्रं धिष्ण्यार्थमुपजायते ॥ १३ ॥

7.14
एवं स्यान्मानभेदेन एकाशीत्यधिकं शतम् ।
एवं कृते शुभे कुण्डे अग्निकार्यं समाचरेत् ॥ १४ ॥

7.15
चुल्ल्यां वा मल्लके वापि होमं कुर्याद्यथाविधि ।
शतार्धसंख्या होमे च कुण्डं स्याद्द्वादशाङ्गुलम् ॥ १५ ॥

7.16
होमे साष्टशते चैव मुष्ट्यरत्निसमं भवेत् ।
होमे सार्धशते चैव सारत्निः सकनिष्ठिका ॥ १६ ॥

7.17
हस्तं सहस्रहोमे तु अयुताख्ये द्विहस्तकम् ।
लक्षहोमे चतुर्हस्तं कोटिहोमेऽष्टहस्तकम् ॥ १७ ॥

7.18
एवं सुलक्षणं कुण्डं विभवानुगुणं शुभम् ।
सुधाद्यैर्वर्णकैः शुद्धैर्भूषयित्वोपलिप्य च ॥ १८ ॥

7.19
सुगन्धैश्चन्दनाद्यैश्च पञ्चगव्यपुरस्सरैः ।
कुण्डस्यारम्भकाले तु संस्कारा न कृता यदि ॥ १९ ॥

7.20
निष्पन्नस्य च ते सर्वे विधेयाश्च क्रमेण तु ।
ताडयेदस्त्रमन्त्रेण पुष्पैर्दक्षिणपाणिना ॥ २० ॥

7.21
खननं तीक्ष्णशस्त्रेण देशिकश्चास्त्रविद्यया ।
गृहीत्वा चैकदेशात्तु कुण्डमध्यात्तु मृत्कणम् ॥ २१ ॥

7.22
अङ्गुष्ठानामिकाम्यां तु हृदयेन समुद्धरेत् ।
अस्त्रेणैव समीकृत्य न स्यान्निम्नोन्नतं यथा ॥ २२ ॥

7.23
सेचयेत् कवचेनैव कुट्टयेत्तदनन्तरम् ।
लेपयेद्गन्धतोयेन अस्त्रेण परिशोधयेत् ॥ २३ ॥

7.24
अस्त्रजप्तैः कुशाकाण्डैस्तीक्ष्णलाङ्गलवर्जितैः ।
अस्त्राभिमन्त्रितेनैव दर्भकाण्डद्वयेन तु ॥ २४ ॥

7.25
तन्मध्ये च कुशाग्रेण प्राग्भागमवलम्ब्य च ।
आरभ्य दक्षिणाशाया लिखेद्रेखामुदग्गताम् ॥ २५ ॥

7.26
विलिख्यार्गलरेखां प्राक् काष्ठा वैषुवती च सा ।
तस्यामुपरि संलिख्य रेखाणां त्रितयं स्फुटम् ॥ २६ ॥

7.27
प्रागग्रं दक्षिणाशादि ह्युदीच्यन्तं च सान्तरम् ।
उत्तराशावधिर्यावद्दद्याद्रेखात्रयं तु वा ॥ २७ ॥

7.28
प्रत्यग्भागात् समारभ्य नयेत् पूर्वमुखं तु तत् ।
तन्मध्ये त्रितयं चाऽन्य द्रेखाणामुत्तरामुखम् ॥ २८ ॥

7.29
प्रत्यग्भागात् समारभ्य मद्यैका पिङ्गलाभिधा ।
दक्षिणोत्तरयोर्द्वे तु सुषुम्नोडाधिदैवते ॥ २९ ॥

7.30
नीत्वा शुद्धिमथास्त्रेण क्षालयेच्छिरसाम्बुना ।
संशोष्य कवचेनैव नेत्रेणाथावलोक्य च ॥ ३० ॥

7.31
विलिप्योद्धृष्य चास्त्रेण प्रपूज्य हृदयेन तु ।
दर्भकाण्डद्वयेनाथ मद्ये मद्येऽन्तरीकृते ॥ ३१ ॥

7.32
वर्मणा क्षालनाद्येन चतुप्पथधिया पुनः ।
नीत्वा व्यक्तिं यथावच्च हृन्मन्त्रेण महामते ॥ ३२ ॥

7.33
मृदुदर्भसमूहं च नीरसं चाश्मकुट्टितम् ।
शुष्कगोमयचूर्णेन युक्तं गन्धाश्मना सह ॥ ३३ ॥

7.34
कुण्डे द्रोणांशमात्रं तु समारोप्य प्रसार्य च ।
अच्छिन्नाग्रैस्ततो दर्भैरस्त्रमन्त्राभिमन्त्रितैः ॥ ३४ ॥

7.35
कुण्डभित्तिगणं सर्वं प्रोत्थितैः परिभूषयेत् ।
वर्मणा चाक्षवाटं तु संकल्प्य तदनन्तरम् ॥ ३५ ॥

7.36
समब्यर्च्यार्घ्यपुष्पाद्यैः मध्यतः प्रणवेन तु ।
तेनैव विधिना नाभिं पूजयेच्चन्द्रसन्निभाम् ॥ ३६ ॥

7.37
ततः पवित्रकं दार्भं शिखामन्त्राभिमन्त्रितम् ।
प्राक् समालभनोपेतं चतुष्पथपदे न्यसेत् ॥ ३७ ॥

7.38
हृन्मन्त्रेण च विन्यस्य तत्रोपर्यथ पूजयेत् ।
आधारशक्तिपूर्वं तु आसनं वैष्णवं च यत् ॥ ३८ ॥

7.39
अथवा पूजयेच्छक्तिं केवलाधारसंज्ञिताम् ।
तत्र नारायणाख्यां वै शक्तिं विद्योतलक्षणाम् ॥ ३९ ॥

7.40
लक्ष्म्याकृतिपदं प्राप्ताममृतामृतरूपिणीम् ।
सर्वातिशायिरूपां च सर्वशक्तिसमन्विताम् ॥ ४० ॥

7.41
सौकुमार्येण रूपेण सर्ववस्त्वन्तरस्थिताम् ।
शाश्वतीं सृष्टिमार्गेण अवतार्य हृदम्बुजे ॥ ४१ ॥

7.42
पुनर्ध्यानक्रमेणैव हृन्मन्त्रेण हृदम्बुजात् ।
स्वनामपदयुक्तेन सनमःप्रणवादिना ॥ ४२ ॥

7.43
रेचकेन विनिक्षिप्य कुण्डे हृत्पझमध्यतः ।
संपूज्य गन्धपुष्पाद्यैः पझमुद्रां प्रदर्श्य च ॥ ४३ ॥

7.44
ताम्रपात्रेऽथवान्यस्मिन् समादाय हुताशनम् ।
आरण्यं लौकिकं वाऽथ मणिजं दर्पणोद्भवम् ॥ ४४ ॥

7.45
निधाय कुण्डस्यैशान्यां संस्कारार्थं च साम्प्रतम् ।
सन्ताड्च चास्त्रमन्त्रेण प्रोक्षयेच्छिखया च तम् ॥ ४५ ॥

7.46
हृदाभ्यर्च्यामृतध्यानं दत्त्वाच्छाद्याथ वर्मणा ।
मूलं स्मृत्वा समानीय पूरकेण हृदन्तरे ॥ ४६ ॥

7.47
मन्त्रानिलकराकृष्टं कृत्वा तस्माद्विनिर्गतम् ।
व्यस्तो गुणगणात् षष्ठस्तेजोनाम गुणो हि यः ॥ ४७ ॥

7.48
परस्य ब्रह्नणः सोऽयं सामान्यं सर्वतेजसाम् ।
विरेच्य विन्यसेत्तस्मिन् वन्हिपात्रे पुरार्चिते ॥ ४८ ॥

7.49
ततोऽग्निपात्रमादाय निर्धूममतिदीप्तिमत् ।
दक्षिणेन करेणैव पाणिभ्यामथवा द्विज ॥ ४९ ॥

7.50
भ्रामयित्वा चतुर्धा वै ततः कुण्डान्तरे क्षिपेत् ।
ध्यायेदेकत्वमापन्नं ततो मन्त्रार्चिषा सह ॥ ५० ॥

7.51
याज्ञीयैरिन्धनैः शुष्कैः प्रज्वाल्यास्त्राभिमन्त्रितैः ।
हृदा दक्षिणहस्तेन कुर्यात् परिसमूहनम् ॥ ५१ ॥

7.52
प्रदक्षिणक्रमेणैव ह्यार्द्रपाणितलेन तु ।
तिर्यक् चाधोमुखस्थेन नखपृष्ठमदर्शयन् ॥ ५२ ॥

7.53
अस्त्राभिमन्त्रितेनैव प्रोक्षयेदर्घ्यवारिणा ।
ततस्त्वभग्नमूलाग्रैः समैर्दद्यात् कुशैंस्तरम् ॥ ५३ ॥

7.54
दिशि दिश्युत्तराशान्तं याम्याशादौ तु सान्तरम् ।
चतुर्गुणैश्चतुर्धा वाप्यग्रच्छन्नैः परस्परम् ॥ ५४ ॥

7.55
प्राक्प्रान्तैः पूर्वभागाच्च यावदुत्तरगोचरम् ।
चतुर्भिरस्त्रजप्तैर्वा चतुर्दिक्षु त्रिधा त्रिधा ॥ ५५ ॥

7.56
चतुर्भिश्च चतुर्भिर्वा प्राक्प्रतीच्योरुदङ्मुखैः ।
दक्षिणोत्तरयोश्चैव तत्संख्यैः प्राङ्मुखैर्द्विज ॥ ५६ ॥

7.57
अवतार्य तदूर्ध्वे तु दक्षिणस्यां तथात्मनः ।
द्वन्द्वद्वयप्रयोगेण द्रव्यस्थापनमाचरेत् ॥ ५७ ॥

7.58
परिधींश्चोध्मनिचयं मुक्तदर्भैस्तरण्डिकाम् ।
स्रुक्स्रुवौ च चतुष्कं यदेकत्र विनिवेश्य च ॥ ५८ ॥

7.59
स्रक्धूपमधुपर्कं च बीजान्येकत्र वै ततः ।
कौशेयं धूतकेशं च विष्टरं च घृतं चरुम् ॥ ५९ ॥

7.60
आज्यस्थालीचतुष्कं च निधाय तदनन्तरम् ।
प्रणीतं पात्रयुगलं करकं चार्घ्यभाजनम् ॥ ६० ॥

7.61
चतुष्कमेतदपरं अग्रतो विनिवेश्य च ।
प्रादेशमात्राः समिधः प्रभूतं शुष्कमिन्धनम् ॥ ६१ ॥

7.62
पक्ष्मकं स्वेदहृद्वस्त्रं वामभागे निधाय च ।
अर्घ्योदकेन सास्त्रेण कृत्स्नं पावनतां नयेत् ॥ ६२ ॥

7.63
सुसमं कुण्डबाह्ये तु प्राग्भागे मेखलाश्रितम् ।
पवित्रकाष्टकं कृत्वा तेषु चाष्टविधान् न्यसेत् ॥ ६३ ॥

7.64
क्ष्मादिकां प्रकृतिं देवीमहङ्कारावसानिकाम् ।
प्रभवाप्ययभेदेन विभुना चतुरात्मना ॥ ६४ ॥

7.65
अधिष्ठितां महाबुद्धे तामभ्यर्च्य महात्मना ।
स्वनामपदयुक्तेन नतिना प्रणवेन च ॥ ६५ ॥

7.66
ऊर्ध्वाधोमेखलानां तु चतुर्णां दिक्चतुष्टये ।
कौशेयविष्टरस्थांश्च वासुदेवादिकान् यजेत् ॥ ६६ ॥

7.67
विदिक्ष्वप्यययोगेन ऊर्ध्वान्तमधरात्तु वै ।
तद्वदेवार्घ्यपुष्पाद्यैः पूजनीयाः क्रमेण तु ॥ ६७ ॥

7.68
ततस्तन्मूलदेशस्था ब्रह्नवृक्षादिकोत्थिताः ।
सपर्णाः सत्वचः स्पष्टा अधोनेमेस्तु चाधिकाः ॥ ६८ ॥

7.69
प्राक्प्रत्यगुत्तराग्रौ च प्रागग्रौ दक्षिणोत्तरौ ।
चतस्रो वै परिधयः शिखामन्त्रेण पूजयेत् ॥ ६९ ॥

7.70
विष्टराणि ततो दद्यात्तेषु पृष्ठे हृदा मुने ।
तत्पृष्ठे पूजयेन्नित्यं लोकपालान् स्वदिक्स्थितान् ॥ ७० ॥

7.71
दर्भान् प्रसव्यमावेष्ट्य मूलात् प्रादेशसंमितान् ।
परतो द्व्यङ्गुलं पाशं कृत्वावेष्ट्य त्रिरग्रतः ॥ ७१ ॥

7.72
पाशे निवेश्य द्वि त्रि गुणं गुणेष्वायम्य मूलतः ।
समीकृत्यातिरिक्ताग्राण्यनखं विनिकृन्तयेत् ॥ ७२ ॥

7.73
कृत्वा वेदोपयामं तं वामाङ्गुष्ठान्तरार्पयेत् ।
स्रुक्स्रुवाभ्यां च संस्कारमुपयामाग्रगैः कुशैः ॥ ७३ ॥

7.74
स्रुचं द्वादशधा शोध्य सास्त्रेणोष्णेन वारिणा ।
तथैव द्विजशार्दूल स्रुवं शोध्य द्विधैव तु ॥ ७४ ॥

7.75
तथैव स्रुक्स्रुवौ ह्येव शिखामन्त्रेण वै ततः ।
प्रताप्यास्त्रेण सन्ताड्य सार्घ्यपुष्पासनान्वितैः ॥ ७५ ॥

7.76
तदा प्रमेयं तु स्रुचो ज्ञातव्यं कर्मसिद्धये ।
शतपत्रात्मनानन्तो मुष्टिस्थोऽनन्तवक्त्रधृक् ॥ ७६ ॥

7.77
अन्तर्बीजात्मभावेन स्थित्वा चोर्ध्वमुखं पनः ।
सप्तस्कन्धं यदध्यात्मभूतप्राणमरुन्महत् ॥ ७७ ॥

7.78
प्रेरितं ब्रह्नरन्ध्रेण तत्तदिच्छावशात् पुनः ।
सप्तपातालनागं च अगमत् क्ष्माम्बुजात्मना ॥ ७८ ॥

7.79
यदाश्रित्य स्ववाहे तु अमृतात्मा जलस्थितः ।
सचक्ररचनाजाले स्थितस्तेजस्त्रिमूर्तिधृक् ॥ ७९ ॥

7.80
शङ्खविग्रहधृग्वायुराज्यकोशं च खं ततः ।
निर्बींजमजमक्षोभ्यमाद्यं स्यादधिदैवतम् ॥ ८० ॥

7.81
अपरस्मिन् स्रुवे ज्ञेयं यथा ज्ञायेत तच्छृणु ।
साक्षादमृतमूर्तिर्वै वरुणः कलशात्मना ॥ ८१ ॥

7.82
नालात्मना तदस्त्रं च संस्थितं विघ्नधीतिकृत् ।
जगदाप्यायकृच्चन्द्रः पझत्वेनाग्रदेशतः ॥ ८२ ॥

7.83
आनन्दारव्यं हि सामर्थ्यं ज्ञेयं तत् पारमेश्वरम् ।
सत्यभूतममेयं च प्रमेयमिदमाच्युतम् ॥ ८३ ॥

7.84
संस्कारकाले त्वारोप्य नित्यं सन्मन्त्रतर्पणे ।
स्वसंज्ञा प्रणवोपेता नमस्कारपदान्विता ॥ ८४ ॥

7.85
सर्वेषामर्चने विप्र आराध्य हृदयेन वा ।
पूजयित्वार्घ्यगन्धाद्यैर्न्यस्तमन्त्रगणं ततः ॥ ८५ ॥

7.86
अम्बुपूतेऽथ पात्रे द्वे हेमादिद्रव्यनिर्मिते ।
पूरयित्वाम्भसा ताभ्यां विष्टरद्वितयं न्यसेत् ॥ ८६ ॥

7.87
एकस्मिन् मूलमन्त्रं तु सासनं संप्रपूज्य च ।
तदस्त्रमपरस्मिन् वै तेन प्रागादितस्तरम् ॥ ८७ ॥

7.88
प्रदक्षिणक्रमेणैव स्रुचा सिच्य निधाय च ।
पूरयित्वाऽम्भसा भूयो द्वितीयेन सहोत्तरे ॥ ८८ ॥

7.89
विनिधाय च दिग्भागे अर्चयित्वा प्रणम्य च ।
आज्यौघं च तदस्त्रेण प्रोक्षयेत्ताडयेद्द्विज ॥ ८९ ॥

7.90
भाण्डस्थस्य यदाज्यस्य दर्भैः प्रज्वलितैः पुरा ।
स्पर्शनं विद्धि संस्कारमधिश्रयणसंज्ञकम् ॥ ९० ॥

7.91
उपाधिश्रयणं नाम यत्तद्द्रावणमुच्यते ।
परिवर्तनमन्यस्मिन् भाण्डे दोषापनुत्तये ॥ ९१ ॥

7.92
प्रसादीकरणं ह्येतदुच्चस्थेन करेण तु ।
पुनरादाय कृत्वाग्रे आधारोपरि यत्नतः ॥ ९२ ॥

7.93
परावर्त्य स्रुवेणादौ चतुस्त्रिद्व्येकसंख्यया ।
दर्भकाण्डचतुष्कं तु द्वादशाङ्गुलसंमितम् ॥ ९३ ॥

7.94
तिर्यगुत्तानपाणिभ्यामवष्टभ्य च सान्तरम् ।
अनामाङ्गुष्ठयुग्मेन यथा मध्यं नतं भवेत् ॥ ९४ ॥

7.95
तैराज्यं चतुरो वारानानयेच्चतुरो नयेत् ।
अन्तरान्तरयोगेन ह्यात्मनोऽग्नेस्तु संमुखम् ॥ ९५ ॥

7.96
प्रणवेनोक्तसंख्येन कुण्डमध्ये विनिक्षिपेत् ।
यद्वा हृदा द्विदर्भेण निनयेदानयेत् त्रिधा ॥ ९६ ॥

7.97
संप्लवोत्प्लवने कृत्वा ततो दार्भं पवित्रकम् ।
विनिक्षिपेच्च तन्मध्ये पवित्रीकरणं च तत् ॥ ९७ ॥

7.98
नीराजीकृत्य नेत्रेण कुशाग्रैरर्चिषान्वितैः ।
हृदा संयोजनं कुर्यादुपयामस्य तत्र च ॥ ९८ ॥

7.99
तेजसा हृदयस्थेन दृग्गतेनावलोकनम् ।
निरीक्षणमिदं विप्र नेत्रेण हृदयेन वा ॥ ९९ ॥

7.100
निरीक्ष्यैवं तु तत्पश्चात् कवचोदरगं स्मरेत् ।
अवगुण्ठनमेतद्धि स्थितं तत्रोपरि स्मरेत् ॥ १०० ॥

7.101
चन्द्रमण्डलमध्यस्थं धेनुमुद्रासमन्वितम् ।
मन्त्रं वै सौरभीयं च स्फुरदिन्दुशतप्रभम् ॥ १०१ ॥

7.102
तदन्तरस्थं मन्त्रेशं हिमाचलनिभं स्मरेत् ।
तत्स्रुतैरमृतौघैश्च शशिजैर्धेनुजैरपि ॥ १०२ ॥

7.103
कवचेनामृतीकृत्य निदध्यादुत्तरे घृतम् ।
अमृतीकरणं नाम इदं ते संप्रकाशितम् ॥ १०३ ॥

7.104
सामान्याज्यस्य संस्कारान् कृत्वा पञ्चदश द्विज ।
अथाज्यप्रोक्षणं कुर्याद्योग्यं तदखिलं तु वै ॥ १०४ ॥

7.105
समित्कुसुमपूर्वं तु विष्टरेण स्रुवेण वा ।
हृदाज्यसिक्तैः कुसुमैः सर्पिषा वा धिया द्विज ॥ १०५ ॥

7.106
गर्भाधानादिसंस्कारान् कुर्याद्दारावसानकान् ।
श्रीकुक्षिकुहरे यद्वै बहिष्ठस्य प्रवेशनम् ॥ १०६ ॥

7.107
गर्भाधानं तु तद्विद्धि संस्कारं प्रथमं मुने ।
प्राणयोगाच्च या शक्तिर्वाह्नी श्रीजठरे स्थिता ॥ १०७ ॥

7.108
जडरूपाक्षया सूक्ष्मा तस्याश्चित्प्रसरो हि यः ।
भगवच्छक्तिचैतन्यसामर्थ्याच्च शनैः शनैः ॥ १०८ ॥

7.109
स्मृत्वैवं जुहुयादाज्यं हृन्मन्त्रेणोदितेन च ।
भवेत् पुंसवनं चाग्नोश्चिच्छक्तिनयनात्तु वै ॥ १०९ ॥

7.110
सीमन्ताख्यं तु संस्कारमग्नेः कुर्यादनन्तरम् ।
अव्यक्ताश्च तदन्तस्थाः शिरः पाण्यादयोऽखिलाः ॥ ११० ॥

7.111
स्वां स्वां वै कर्मसीमानं प्रबुद्धाः संश्रयन्ति ये ।
विभागकल्पनं तेषां सीमन्तं तदुदाहृतम् ॥ १११ ॥

7.112
अग्नेर्वै जातकर्मार्थं पूर्ववद्धोमयेत् सकृत् ।
निस्सृतस्य च वै गर्भात् स्नातस्य प्राशनं द्विज ॥ ११२ ॥

7.113
हिरण्यमधुसर्पिर्ब्यां जातकर्म भवेत्तु तत् ।
होमयेन्नामकर्मार्थं घृतपूर्णस्वुवेण च ॥ ११३ ॥

7.114
जातस्याग्नेः प्रयत्नेन वासुदेवादिना द्विज ।
अङ्कयेत् सुप्रसिद्धेन नामकर्म भवेदिदम् ॥ ११४ ॥

7.115
अन्नप्राशनकर्मार्थं पूर्ववद्धोममाचरेत् ।
एवं संस्कारशुद्धस्य वैष्णवाग्नेः प्रयत्नतः ॥ ११५ ॥

7.116
मन्त्रान्नदानपूर्वं यत्तदन्नप्राशन भवेत् ।
शिखाबन्धं यदग्नेस्तु तच्चौलमिति चोच्यते ॥ ११६ ॥

7.117
यदग्नेर्होमयोग्यत्वं तच्चोपनयनं स्मृतम् ।
वेदव्रतं च गोदानं समावर्तविवाहकौ ॥ ११७ ॥

7.118
कृत्वानलस्य जिह्वानां भावयेत् सप्तकं पुनः ।
नवखण्डे समिद्धाग्नौ कुण्डेऽग्नावर्चिषोद्धते ॥ ११८ ॥

7.119
ईशप्रागनलाख्यानां पदानां भावयेत् त्रयम् ।
यातुधाने तु वारुण्ये वायन्ये तु पदत्रये ॥ ११९ ॥

7.120
जिह्वात्रयं तु बोद्धव्यं मध्यतो दक्षिणोत्तरे ।
एका चैव परिज्ञेया ताः कमेण निबोध तु ॥ १२० ॥

7.121
हव्या कव्या च धूम्रा वै तिस्रः प्राच्यां दिशि स्थताः ।
काली मनोजवा चेति कराली चेति पश्चिमे ॥ १२१ ॥

7.122
एकां वै लेलिहाख्यां च विद्धि शेषपदत्रये ।
रक्तं श्वेतं तथा नीलं कृष्णं पीतं तथारुणम् ॥ १२२ ॥

7.123
सौदामिनीनिभं ध्यायेज्जिह्वानां सप्तकं क्रमात् ।
स्वस्वबीजैः स्वसंज्ञैर्वा सबीजैर्वा स्वनामभिः ॥ १२३ ॥

7.124
एतैर्मन्त्रैर्द्विजश्रेष्ठ भावयेच्च यथाक्रमम् ।
प्रभादीप्तिः प्रकाशा च मरीचिस्तापनी तथा ॥ १२४ ॥

7.125
कराला लेलिहा चैव कुण्डं व्याप्य व्यवस्थिताः ।
ईशपूर्वाग्निदिग्भागे प्रभाद्यं त्रितयं स्मृतम् ॥ १२५ ॥

7.126
रक्षोवारुणवायव्ये मरीच्याद्यं त्रयं तु तत् ।
उदग्दिङ्भध्यतो याम्ये स्थितैका लेलिहाभिधा ॥ १२६ ॥

7.127
विभागमेवं ज्ञात्वा वै जिह्वानामग्निकर्मणि ।
आधेयोल्लिङ्किताकारं ध्यात्वा कुण्डगतानलम् ॥ १२७ ॥

7.128
तज्जनित्रीं ततः कुण्डाज्ज्वालामार्गेण चोद्गताम् ।
परानन्दप्रकाशाभां नासिक्या द्वादशावधि ॥ १२८ ॥

7.129
ततोऽवतारयोगेन प्रविष्टां भावयेद्धदि ।
हृन्मन्त्रेणआर्चयित्वाग्निं सार्घ्यपुष्पैश्च निर्मलैः ॥ १२९ ॥

7.130
धूपैर्दीपेन दध्नाच तिलैरक्षतमिश्रितैः ।
अन्नैर्भक्ष्यफलोपेतैराज्येन क्रमशो द्विज ॥ १३० ॥

7.131
संपूज्यैवं विधाने स्वमन्त्रेणाथवा ततः ।
तर्पयेत यथाशक्ति तिलाज्याद्यैरनुक्रमात् ॥ १३१ ॥

7.132
आज्येन वा केवलेन सहस्रशतसंख्यया ।
दद्यात् पूर्णाहुतिं पश्चात् पूजितां कुसुमादिकैः ॥ १३२ ॥

7.133
स्रुक्स्रुवेणोपयामेन ह्यूर्ध्वाधः संस्थितेन च ।
स्रुवा संपुटयोगेन वह्नेर्वदनमद्यगम् ॥ १३३ ॥

7.134
प्रादक्षिण्येन चामध्याद्धारापातं समाचरेत् ।
नयेन्मद्यपदे निष्ठामाज्यधारां तथा पुनः ॥ १३४ ॥

7.135
प्रदर्श्य हार्दयीं मुद्रामग्निमुद्रा तु वा द्विज ।
नारायणात्मकं वह्नि प्राग्वदभ्यर्चयेत्ततः ॥ १३५ ॥

7.136
पूर्ववच्च स्मरेद्वह्निं साकारं निष्कलप्रभम् ।
स्वयोगबलवीर्येण व्यापकं सर्वदिग्गतम् ॥ १३६ ॥

7.137
कदम्बकुसुमाकारं स्वप्रभाभिर्विराजितम् ।
कुण्डमापूरयन् सर्वं सर्वाकृत्या तु सर्वतः ॥ १३७ ॥

7.138
एवं हि विततो व्यापी निराकारः सुदीप्तिमान् ।
अथ ज्वालाजटाधारे वह्नौ वै कुण्डमध्यतः ॥ १३८ ॥

7.139
अनुसन्धीयते बुद्ध्या विष्टरं तु यथोदितम् ।
तदर्चनमथो कुर्यात् पुष्पैर्धूपैः सचन्दनैः ॥ १३९ ॥

7.140
मुद्राबन्धं ततः कुर्यात् पीठामरगणस्य च ।
ततोऽवतार्य तन्मद्ये हृदयात् परमेश्वरम् ॥ १४० ॥

7.141
नीरौदकात् स्वमन्त्रेण दद्यात् पुष्पाञ्जलिं विभोः ।
साङ्गं सलाञ्छनं ध्यायेत् सकलं परमेश्वरम् ॥ १४१ ॥

7.142
सांमुख्यं सन्निधानं च सन्निरोधनमाचरेत् ।
अर्घ्यप्रदानपूर्वं तु सर्वं कुर्यात्तु पूर्ववत् ॥ १४२ ॥

7.143
मूलबिम्बे यथा ध्यानमग्निमध्ये तथा भवेत् ।
यानगे यानगं ध्यायेदग्नौ स्थाने यथास्थितम् ॥ १४३ ॥

7.144
आसीने त्वथ चासीनं शयाने च तथाविधम् ।
पझरागारुणरुचिं स्मर्तव्यमनलास्पदे ॥ १४४ ॥

7.145
मूलादिसर्वमन्त्राणां तत्तन्मुद्रां प्रदर्श्य च ।
अर्ध्यगन्धादिना पस्चात् पूजयेत् सकलं प्रभुम् ॥ १४५ ॥

7.146
लयभोगात्मना सम्यकू पूर्वोक्तविधिनाऽथवा ।
समिद्गणं तु पात्रस्थं कृत्वाभ्यर्च्य हृदा मुने ॥ १४६ ॥

7.147
शिरसावनतेनैव विनिवेद्य ततः प्रभोः ।
इध्मानामष्टकं चापि चतुष्कं द्वयमेव वा ॥ १४७ ॥

7.148
आज्येन सर्वतः सिक्तं ब्रह्नक्षीरद्रुमोद्भवम् ।
समादाय द्विधा कृत्वा मूलेन द्विजसत्तम ॥ १४८ ॥

7.149
निधाय दक्षिणस्यां च मध्ये आग्नेयदिग्गतम् ।
विश्रान्तं नैरृतपदे उत्तरस्यां तथापरम् ॥ १४९ ॥

7.150
वाय्वीशपदसंरुद्धमाघाराज्यं ततः क्षिपेत् ।
इध्ममूलादथाग्रान्तमिध्मेध्मोपरि संस्थितम् ॥ १५० ॥

7.151
स्रुवमाज्येन संपूर्य सूर्यबीजेन चिन्तयेत् ।
सहस्रांशुं च तन्मध्ये दद्यात् कुण्डस्य दक्षिणे ॥ १५१ ॥

7.152
अपरस्मिन् स्रुचि ध्यात्वा सोमाख्येनाक्षरेण तु ।
पूर्णं शशाङ्कबिम्बं च प्रदद्यात्तु तदुत्तरे ॥ १५२ ॥

7.153
संख्यानुगुणमिध्मानां घृतं च जुहुयात्तु वै ।
सूर्यसोमात्मकं चाग्नेर्विद्धि तल्लोचनद्वयम् ॥ १५३ ॥

7.154
एतयोरन्तरं यद्वै तदग्नैर्वदनं स्मृतम् ।
तत्रैव जुहुयात् पूर्वं समिधां सप्तकं क्रमात् ॥ १५४ ॥

7.155
घृतसिक्तां चतुस्संख्यामेकैकां हि सुपुष्कलाम् ।
प्राक्कुह्कुमादिना लिप्तां काष्ठसंज्ञां तु होमयेत् ॥ १५५ ॥

7.156
स्रग्धूपमधुपर्कं च बीजान्नाज्यं यथाक्रमम् ।
तत्रान्नसमिदाधाने विशेषोऽयं विधीयते ॥ १५६ ॥

7.157
साधितं संस्कृतेऽग्नौ प्राक् तन्निधायाग्रतश्चरुम् ।
समुद्धाट्यावलोक्यादौ संप्रोक्ष्यार्घ्याम्बुना ततः ॥ १५७ ॥

7.158
दर्भकाण्डचतुष्केन सानग्निना तदनु स्पृशेत् ।
तन्मध्ये स्रुक्चतुष्कं तु मन्त्रेणाज्यस्य निक्षिपेत् ॥ १५८ ॥

7.159
अथादाय स्रुचं तत्र तद्वद्दद्याच्चतुष्टयम् ।
चतुरङ्गुलमानेन अन्नग्रासमथाहरेत् ॥ १५९ ॥

7.160
तन्निधाय स्रुवा गर्भे तद्र्ध्वे पूर्ववद्धृतम् ।
दद्यादग्नौ चतुष्कं तु क्षिपेदन्नाहुतिं ततः ॥ १६० ॥

7.161
भूयोऽग्नौ स्रुक्चतुष्कं तु ह्याज्यस्यापाद्य यत्नतः ।
ततोऽन्यमाज्यसंसिक्तं प्राग्वत् कृत्वाहुतं पुनः ॥ १६१ ॥

7.162
दद्यात् पूर्वप्रयोगेण त्वेवमेव चतुष्टयम् ।
हुत्वाप्यन्नाहुतीनां तु ह्याज्याख्यां जुहुयात्ततः ॥ १६२ ॥

7.163
यादृङ्निवेद्यते बिम्बे होतव्यश्चापि तादृशः ।
स्रुवमध्येन स्रुग्गर्भे एकैकं वा घृतस्य तु ॥ १६३ ॥

7.164
प्रत्येकमन्नसमिधः क्षिपेदाद्यन्तयोस्तथा ।
तिलैर्घृतसमायुक्तरैरष्टोत्तरसहस्रकम् ॥ १६४ ॥

7.165
शतं शतार्धं पादं वा यथाशक्ति समाचरेत् ।
आज्याक्तैरक्षतैस्तद्वत्तिलैश्च जुहुयात्ततः ॥ १६५ ॥

7.166
अर्धमर्धांशसंयुक्तमधिकं चाग्रवर्तिनाम् ।
जपकाले तथा होमे कर्तव्यं सिद्धिमिच्छता ॥ १६६ ॥

7.167
स्विष्टकृद्धवनं कुर्यादन्नग्रासेन वै सकृत् ।
काम्यैरवश्यफलदैर्देशकालसमुद्भवैः ॥ १६७ ॥

7.168
तिलैर्घुतेन पयसा दध्ना वा पायसेन तु ।
सिद्धान्नैः साधितैर्भक्ष्यैर्बीजैर्लाजैश्च तण्डुलैः ॥ १६८ ॥

7.169
मूलैः फलैः पल्लवैश्च सुप्रशस्तैश्च कोमलैः ।
सुगन्धैः स्थलपझाद्यैः पुष्पैर्द्विज सितादिकैः ॥ १६९ ॥

7.170
गुग्गुलेनाज्यमिश्रेण सज्जश्रीवेष्टकेन वा ।
धात्रीफलैश्च सरसैरुत्पलैश्च शुभैस्तथा ॥ १७० ॥

7.171
सुसितैः सितरक्तैश्च पझैर्बिल्वैः सुशोभनैः ।
दूर्वाकाण्डैरभग्नार्ग्रैदन्तिसद्दन्तनिर्मलैः ॥ १७१ ॥

7.172
एधोभिर्ब्रह्नवृक्षोत्थैः क्षीरद्रममयेस्तथा ।
अमृताक्षीरसंयुक्ता औदुम्बर्यो मधुप्लुताः ॥ १७२ ॥

7.173
अच्छिन्नाग्रा ह्यभग्नास्च कण्टकैः परिवर्जिताः ।
सर्वास्त्रिमधुयुक्ताश्च घृतयुक्तास्तु वा पुनः ॥ १७३ ॥

7.174
योक्तव्यान्यग्निमध्ये तु समिद्भिः सह सर्वदा ।
सर्वाण्यन्नविशेषाणि चन्दनादीनि यान्यपि ॥ १७४ ॥

7.175
सदन्तकाष्ठताम्बूलमुत्कटक्षारवर्जितम् ।
दाप्यानि लक्षहोमे तु आसनादीनि यानि च ॥ १७५ ॥

7.176
मधुलवणपानाम्बुकटुतैलोज्झितानि च ।
आज्ययुक्तैस्तिलैः शान्तिः सिद्धयः सकलास्तथा ॥ १७६ ॥

7.177
धृतेन पयसा दध्ना होमस्तृप्तिं प्रयच्छति ।
पायसेन तु सिद्धान्नैर्भक्ष्यैः पुष्टिः सदा भवेत् ॥ १७७ ॥

7.178
बीजैर्धान्यैस्तण्डुलैश्च तर्पितो मन्त्रराड्द्विज ।
प्रयच्छति सदा श्रेयः प्रसन्नः परमेश्वरः ॥ १७८ ॥

7.179
पल्लवैः फलमूलैश्च होमस्तुष्टिं प्रयच्छति ।
जहाति चापमृत्युं च रोगांश्चोपशमं नयेत् ॥ १७९ ॥

7.180
तर्पितः स्थलपझाद्यैः पुष्पैश्चान्यैः सितादिकैः ।
सौभाग्यमतुलं विप्र अचिरात् संप्रयच्छति ॥ १८० ॥

7.181
गुग्गुल्वाज्यैर्द्विजारोग्यं शुभैर्धात्रीफलैस्तथा ।
शर्करैर्बिल्वफलकैः पञ्चगव्यसमुक्षितैः ॥ १८१ ॥

7.182
आज्याक्तैः पझबीजैश्च लक्ष्मीं शीघ्रं प्रयच्छति ।
उत्पलैर्वश्यकामस्तु भोगकामश्च होमयेत् ॥ १८२ ॥

7.183
दूर्वाङ्कुरैस्च होमेन आयुषो वृद्धिमाप्नुयात् ।
एधोभिश्च शुभैर्होमो माषैः शान्तिप्रदः प्रभुः ॥ १८३ ॥

7.184
तिलानां शस्यते होमो हरिणाननमुद्रया ।
घृतस्य कार्षिको होमः क्षीरस्य च विशेषतः ॥ १८४ ॥

7.185
शुक्तिमात्राहुतिर्दध्नः प्रसृतिः पायसस्य च ।
ग्रासार्धमानमन्नानां भक्ष्याणां स्वप्रमाणतः ॥ १८५ ॥

7.186
तृतीयं मूलकन्दानां पुष्पाणां स्वप्रमाणतः ।
सर्वेषामेव बीजानां मुष्टिना होममाचरेत् ॥ १८६ ॥

7.187
अग्राङ्गलिस्तु लाजानां शालीनां पञ्चकं हुनेत् ।
फलानां स्वप्रमाणं च पल्लवानां तथैव च ॥ १८७ ॥

7.188
कर्कन्धुमात्रा गुलिका होतव्या गुग्गुलोः सदा ।
धात्रीफलप्रमाणं वा संभवे सति होमयेत् ॥ १८८ ॥

7.189
दूर्वाकाण्डानि विप्रेन्द चतुरष्टाङ्गुलानि वा ।
समित्प्रादेशमानेन समच्छेदास्त्वगन्विताः ॥ १८९ ॥

7.190
अग्नेर्वर्णाश्च गन्धाश्च शब्दाश्चाकृतयस्तथा ।
विकारा विशिखाश्चैव संवेद्याः कर्मसिद्धये ॥ १९० ॥

7.191
पद्मरागद्युतिश्रेष्ठो लाक्षालक्तकसन्निभः ।
बार्लाकवर्णो हुतभुग्जयार्थं शस्यते द्विज ॥ १९१ ॥

7.192
इन्द्रगोपकसंकाशः शोणाभो वाथ पावकः ।
शक्रचापनिभः श्रेष्ठः कुङ्कुमाभस्तथैव च ॥ १९२ ॥

7.193
रक्तानां पुष्पजातीनां वर्णेनाग्निरिहेष्यते ।
सुगन्धद्रव्यगन्धोऽग्निर्घृतगन्धश्च शोभनः ॥ १९३ ॥

7.194
आयुर्दः पद्मगन्ध स्याद्बिल्वगन्धश्च सुव्रत ।
उग्रगन्धोऽभिचारे तु विहितः सर्वदानलः ॥ १९४ ॥

7.195
जीमूतवल्लकीशङ्खमृदङ्गध्वनितुल्यकः ।
शब्दोऽग्नेः सिद्धये हेतुरतोऽन्यः स्यादसिद्धिदः ॥ १९५ ॥

7.196
छत्राकारो भवेच्छ्रेष्ठो ध्वजचामररूपकः ।
विमानादिवितानानां प्रासादानां वृषस्य च ॥ १९६ ॥

7.197
आकारेणाथ हंसानां मयूराणां च सिद्धिदः ।
रक्ताभस्तु यदा वह्निः क्षीणार्चिः परिदृश्यते ॥ १९७ ॥

7.198
भग्नराजोपलाभश्च स्फटिकाभस्तथा शुभः ।
यद्रपं कथितं पूर्वं यदि तस्य प्रदक्षिणम् ॥ १९८ ॥

7.199
अन्योन्यत्वं प्रपद्येत तथा सिद्धिकरोऽनलः ।
गर्हितेन तु वर्णेन यदि कापोतकादिना ॥ १९९ ॥

7.200
परिवर्तं करोत्यग्निस्तदा विप्रविपर्ययः ।
होमान्ते तन्निमित्तं वै होमं कुर्याच्छताधिकम् ॥ २०० ॥

7.201
विषमाश्च शिखावन्हेस्त्र्यादयश्च शुभावहाः ।
ह्रस्वा ह्रस्वोन्नता दीर्घा ज्वाला सिद्धिप्रदा स्मृता ॥ २०१ ॥

7.202
स्निग्धः प्रदक्षिणावर्तः श्रुतिप्रच्छादितध्वनिः ।
स नित्यमेव शुभकृद्यदन्यैर्वर्जितो गुणैः ॥ २०२ ॥

7.203
प्रदीप्तेलोलिहानेऽग्नौ निर्धूमे सगुणे तथा ।
हृद्ये तुष्टिप्रदे चैव होतव्यं श्रुतिमिच्छता ॥ २०३ ॥

7.204
अल्पतेजोऽल्परूपश्च विस्फुलिङ्गसमन्वितः ।
ज्वालाभ्रमविहीनश्च कृशानुर्नैव सिद्धिदः ॥ २०४ ॥

7.205
अप्रबुद्धे सधूमे च जुहुयाद्यो हुताशने ।
कर्महानिर्भवेत्तस्य त्वाभिचारार्थमश्रुते ॥ २०५ ॥

7.206
दुर्गन्धः पीतवर्णश्च अवलीढश्च योऽशुभः ।
प्रभामूर्तिगतो मन्त्रस्तर्पितो यदि सत्तम ॥ २०६ ॥

7.207
विद्यां प्रयच्छत्यचिराद्दीप्तिस्थो भूप्रदः प्रभुः ।
तापयत्याशु शत्रूणां प्रकाशोपर्यवस्थया ॥ २०७ ॥

7.208
शत्रुक्षयं ददात्याशु मरीच्यामूर्ध्वगो विभुः ।
तापिन्यामूर्ध्वगो मन्त्रः सर्वतापोपशान्तिदः ॥ २०८ ॥

7.209
विपक्षोच्चाटनं कुर्यात् करालासंस्थितो हुतः ।
लेलिहावस्थितो मन्त्रो यदि सन्तर्प्यते मुने ॥ २०९ ॥

7.210
ददात्यभीप्सितं चैव देहान्ते परमं पदम् ।
स्वाहाकारं सदा होमे पूर्णायां वौषडेव च ॥ २१० ॥

7.211
तमेव शान्तिके कुर्याद्वषडाप्यायने तथा ।
स्वधां पितृक्रियायां च फट्कारं क्षयकर्मणि ॥ २११ ॥

7.212
विद्वेषे हुं वशे ह्रीं च नमो मोक्षप्रसिद्धये ।
कर्महोमावसाने च घृतेनापूर्य च स्रुचम् ॥ २१२ ॥

7.213
अभावाच्च प्रभूतेन होमद्रव्येण पूरयेत् ।
तत्रोपरि घृतं दद्यात्ततोऽर्घ्यकुसुमादिभिः ॥ २१३ ॥

7.214
मूलदेशात् समारभ्य स्रुक् संपूज्या स्रुवान्विता ।
घृतयुक्तं तु तद्द्रव्यं स्रुचः पुष्करकुक्षिगम् ॥ २१४ ॥

7.215
द्रवच्चन्द्रोपमं ध्यायेत्ततः पूर्णां समुद्धरेत् ।
स्रुग्दण्डे देहनाभौ तु मूले संरुध्य संस्मरेत् ॥ २१५ ॥

7.216
निष्कलं मन्त्रनाथं तु पूर्णशीतांशुविग्रहम् ।
आमूलाच्च मरुच्छक्त्या प्रोद्धरेच्च स्वविग्रहात् ॥ २१६ ॥

7.217
विधाय चेश्वराधारे तस्माद्धारामृतं महत् ।
नासिकासन्धिमार्गेण स्रुक्पझे पतितं स्मरेत् ॥ २१७ ॥

7.218
सामृतामाज्यधारां च वसुधारामिव क्षिपेत् ।
मुखमध्ये तु मन्त्रत्य तद्व्रह्नविवरेऽथवा ॥ २१८ ॥

7.219
हृत्पझान्तर्गतां सम्यक् प्रविष्टामनुभावयेत् ।
तया वै बृह्नितं मन्त्रं भावयेद्ब्रह्नधारया ॥ २१९ ॥

7.220
तृप्तं हृष्टं च पुष्टं च तुष्टं वै साधकोपरि ।
मन्त्रोच्चारसमेता वै शरीरकरणान्विता ॥ २२० ॥

7.221
ध्यानोपेता द्विजश्रेष्ठ पूर्णेयं परिपातिता ।
सर्वसिद्धिकरी शश्वन्मोक्षलक्ष्मीविवर्धनी ॥ २२१ ॥

7.222
बहु शुष्केन्धनेऽग्नौ च होतव्या कर्मसिद्धये ।
एका अनेकप्रयोगाणां न तु कर्मणि कर्मणि ॥ २२२ ॥

7.223
ततोऽर्घ्यगन्धपुष्पाद्यैर्मन्त्रनाथं समचयेत् ।
मुद्रं प्रदर्शयेत् सर्वा मूलमन्त्रादितः क्रमात् ॥ २२३ ॥

7.224
चतुर्थांशेन चाह्गानां कुर्यान्मूलस्य र्तपणम् ।
लाञ्छनाभरणानां च लक्ष्म्यादीनां तदर्थतः ॥ २२४ ॥

7.225
अथवा हृदयादीनामतोऽर्धेनाखिलासु च ।
परमेश्वरकान्तासु तदर्धेन द्विजोत्तम ॥ २२५ ॥

7.226
लाञ्छनाभरणादिनि सर्वाणि जुहुयात् क्रमात् ।
हृदादिसर्वमन्त्राणाभेकैकं जुहुयात्तु वा ॥ २२६ ॥

7.227
विसर्जनं ततः कुर्याद्दत्त्वार्घ्यं धूपसंयुतम् ।
भोगस्थानगता मन्त्राः पूजिता ये यथाक्रमम् ॥ २२७ ॥

7.228
मुख्यमन्त्रशरीरं च संप्रविष्टांश्च संस्मरेत् ।
ज्वालाज्वालान्तरे यद्वत् समुद्रस्येव निम्नगाः ॥ २२८ ॥

7.229
तन्मन्त्रविग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज ।
प्रविष्टं भावयेत् सूक्ष्मे अध्यक्षे हृदयात्मके ॥ २२९ ॥

7.230
परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम् ।
तं परं प्रस्फुरद्रूपं निराधारपदाश्रितम् ॥ २३० ॥

7.231
सन्धिमार्गेण हृत्पझे संप्रविष्टं तु भावयेत् ।
मन्त्रमुद्रासमेतेन पूरकेण तु सत्तम ॥ २३१ ॥

7.232
बासितं भावयेद्देहं तेनापादाच्छिरोवधि ।
प्रविष्टेन तु मन्त्रेण प्रयत्नेन विना द्विज ॥ २३२ ॥

7.233
विग्रहः कम्पते यस्य मन्त्रस्तस्य प्रसीदति ।
एवं विसृज्य मन्त्रेशं मुद्राबन्धेन वै सह ॥ २३३ ॥

7.234
साधारासनमन्त्राणां गणेशस्य गिरः सदा ।
गुर्वादीनां तु विहितमर्धं लाञ्छनतर्पणात् ॥ २३४ ॥

7.235
एतेषां च लयं विप्र कुर्यात् सृष्टिकमेण तु ।
द्वार्स्थत्रिलोकपालानां वप्रस्थहरिसेविनाम् ॥ २३५ ॥

7.236
गुरुपूर्वक्रमादित्थमर्धमर्धं यथाक्रमम् ।
सकृत् सकृत् स्वशक्त्या वा पूर्णां सर्वेर्ष्वधः क्षिपेत् ॥ २३६ ॥

7.237
विष्वक्सेनस्ततो भक्त्या तर्पणीयस्तिलाक्षतैः ।
वौषडन्तेन मन्त्रेण दद्यात् पूर्णाहुतिं द्विज ॥ २३७ ॥

7.239
पूजयित्वा यथान्यायं कुर्यात्तस्य विसर्जनम् ।
अनलं पूजयित्वा तु शक्तितस्तर्पयेत्ततः ॥ २३९ ॥

7.240
कुण्डे पुष्पाञ्जलिं क्षिप्त्वा वह्निमन्त्रमनुस्मरन् ।
जलनिर्मथितेनैव हयूर्ध्वपुण्ड्रचतुष्टयम् ॥ २४० ॥

7.241
शिरस्तनुत्रहृन्मन्त्रैर्ललाटे चांसयोर्हृदि ।
कुण्डस्थभस्मना चैव कुर्याद्दीपशिखाकृतिम् ॥ २४१ ॥

7.242
ज्वालया हृदयं स्पृश्य नेत्रे चास्त्रेण वै पुरा ।
क्षान्त्वा चैव नमस्कृत्य यथाविधि विसृज्य तत् ॥ २४२ ॥

7.243
समाघ्राय न्यसेत् कोष्ठे ह्यवतारक्रमेण तु ।
प्रतिष्ठिताग्नेः संस्कारं पर्यग्निकरणादितः ॥ २४३ ॥

7.244
विसर्जनं तु कुर्याद्वै धूमच्छेदे न तत्र च ।
संमार्ज्य स्रुकूस्रुवेऽग्नौ तु स्रुचं निक्षिप्य चाम्भसा ॥ २४४ ॥

7.245
अर्ध्यपात्रात्तु चापूर्य कुण्डबाह्ये प्रदक्षिणम् ।
कुर्यादीशानकोणाद्वै अच्छिद्रोदकधारया ॥ २४५ ॥

7.246
पवित्रकेणाथ ऊर्ध्वे विनिक्षिप्य करेण तु ।
दद्याच्छिरसि वै शेषं स्रुगधोवदनां न्यसेत् ॥ २४६ ॥

7.247
आत्मनो वामभागे तु विष्टरस्रुवसंयुतात् ।
अपवास्य जलं तस्माद्द्वितयस्मात्तदर्चितम् ॥ २४७ ॥

7.248
उपसंहृत्य वै यायादर्चनालयमर्घ्यभृत् ।
नमस्कुर्याज्जगन्नाथमष्टाङ्गपतनेन तु ॥ २४८ ॥

7.249
आपूर्य पाणियुगलं पुष्पैस्तत्रोपरि स्थितम् ।
संस्मरेन्निष्कलं मन्द्रममृतेनोपबृह्नितम् ॥ २४९ ॥

7.250
प्रभूतदीप्तच्छुरितं निक्षिपेन्मन्त्रमूर्धनि ।
तर्पितोऽसि विभो भक्त्या होमेनानलमध्यगः ॥ २५० ॥

7.251
होमद्रव्येषु यद्वीर्यं तदिदं चात्मसात्कुरु ।
विनिवेद्य विभोर्होमं पूजां कृत्वा यथाविधि ॥ २५१ ॥

7.252
गृहीतं भावयेत्तेन प्रसन्नेनान्तरात्मना ।
इदमुक्तं समासेन मन्त्रसन्तर्पणं द्विज ॥ २५२ ॥

7.253
वाच्यं नादीक्षितानां च नाभक्तानां कदाचन ।
नानय्दर्शनसंक्थानां नापहासरतात्मनाम् ॥ २५३ ॥

7.254
सद्भावज्ञे तु वक्तव्यं समयज्ञे सपुत्रके ।
साधके तु गुरौ वापि भक्ते स्निग्धे विमत्सरे ॥ २५४ ॥

7.255
सत्यधर्मव्रतपरे साचारे शासनस्थिते ।
एवं समाप्य होम तमर्घ्यगन्धादिभिर्विभुम् ॥ २५५ ॥

7.256
समभ्यर्च्य पितॄणां च संविभागमथाचरेत् ।
पौष्कराख्ये विशेषेण देवदेवेन विस्तृतम् ॥ २५६ ॥

7.257
विधानमेतद् विप्रेन्द्र प्रोक्तं पुष्करजन्मने ।
सात्त्वतोक्तविधानेन तद्विधानं वदामि ते ॥ २५७ ॥

7.258
आराध्यस्याग्रतो विप्र प्रत्यहं क्रियते तु यत् ।
विज्ञेयं संविभागं तदुत्तमं सर्वकर्मणाम् ॥ २५८ ॥

7.259
संविभागात् पितॄणां च भवत्यनृणवान्नरः ।
प्रयान्ति तृप्तिमतुलां तेन कर्मवशादपि ॥ २५९ ॥

7.260
निमन्त्रितं वा संप्राप्तं नित्यमङ्गीकृतं तथा ।
द्विजेन्द्रं पञ्चकालज्ञं षट्कर्मनिरतं तु वा ॥ २६० ॥

7.261
स्नानादीनि पुरा कृत्वा प्रयतः संविशेत् पुनः ।
स्वयमर्ध्याम्बुना विप्र पवित्रीकृत्य पाणिना ॥ २६१ ॥

7.262
सन्ताड्य कुसुमास्त्रेण मन्त्रास्त्राधिष्ठितेन च ।
समुच्चरन्नेत्रमन्त्रमवलोक्याखिलं ततः ॥ २६२ ॥

7.263
निवेश्य भगवत्यग्रे प्रणवाधिष्ठितासने ।
पूजिते वितते पूते संमुखं वोत्तराननम् ॥ २६३ ॥

7.264
उदग्दिग्वीक्षणाणं च विनिवेश्य तथा च तम् ।
यथा मन्त्रेशदृग्रश्मिप्रसरेणाभिविध्यते ॥ २६४ ॥

7.265
मन्त्रेणाराध्य तं ध्यात्वा भ्रूयात् संयतवाग्भव ।
तैश्चापि मौननिष्ठैश्च भवितव्यं सुयन्त्रितैः ॥ २६५ ॥

7.266
समाधाय जगन्नाथं हृत्पझगगनेऽर्कवत् ।
सत्पात्रस्याथ पात्राभ्यां पात्राणामब्जसंभव ॥ २६६ ॥

7.267
एवं कृत्वा प्रतिष्ठानं प्राग्यत्नेनात्र कर्मणि ।
समुद्दिश्य पितॄन् दद्याद्दानमन्तरवेदिकम् ॥ २६७ ॥

7.268
निवेशितद्विजेन्द्रं यद्व्यक्किस्थमपि मन्त्रराट् ।
अन्तर्वेदी तु सा ज्ञेया त्वाब्यामभ्यन्तरं तु यत् ॥ २६८ ॥

7.269
संप्रदानं पितॄणां यत् कुर्यात् सत्पात्रपिव्डकम् ।
तद्दिव्यममलं यस्माच्चैतन्यमवलम्ब्य वै ॥ २६९ ॥

7.270
तत्कालसंविभज्याश्च तिष्ठन्ति कमलोद्भव ।
प्रदातृसंकल्पवशादतः पुष्करसंभव ॥ २७० ॥

7.271
एकस्य वा बहूनां वा प्रदद्यादासनोपरि ।
पुनरेवासनं दार्भमग्रन्थि बहुभिः कुशैः ॥ २७१ ॥

7.272
विभोर्यज्ञाङ्गदेहस्य लोमानि तु कुशाः स्मृताः ।
ता एव नाडयः सर्वास्तस्य भूतशरीरगाः ॥ २७२ ॥

7.273
रश्मयो भूतदेहे तु चिन्मूर्तेः शक्तयोऽखिलाः ।
अत एव हि विप्रेन्द्र पितॄणां तु कुशासनम् ॥ २७३ ॥

7.274
श्राद्धकाले तु विहितमाहूतानां तदूर्ध्वतः ।
यत्किञ्चिद्दीयते भक्त्या ब्रह्मभूतं तु तद्भवेत् ॥ २७४ ॥

7.275
पुरा वै हेतुमानेन नृणामविदितात्मनाम् ।
कर्मण्यत्र कुशाजालं विहितं कमलोद्भव ॥ २७५ ॥

7.276
येषां सर्वगतं ब्रह्म मन्त्ररूपीश्वरोऽच्युतः ।
भावस्थस्तत्वतस्ताभिस्तेषां नैव प्रयोजनम् ॥ २७६ ॥

7.277
न्यसेत्तस्मादभग्नाग्रानुदङ्मूलान् कुशान् द्विजः ।
यस्माद्दिव्यमुदग्भागं पित्र्यं दक्षिणसंज्ञकम् ॥ २७७ ॥

7.278
स्वकेनामृतवीर्येण नित्यं संवर्धयन्ति च ।
दर्भमार्गच्छलेनैव पितॄणां तेऽमरा द्विज ॥ २७८ ॥

7.279
वसत्यतः पितृगणो भागमाश्रित्य दक्षिणम् ।
चित्कलांशस्वरूपेण नृणामेवं हि चोत्तरे ॥ २७९ ॥

7.280
कृतास्पदा अमला नित्या त्वमृताख्याक्षया कला ।
अत एव हि यत् किञ्चिदाब्रह्मविदितैर्द्विज ॥ २८० ॥

7.281
प्रदीयते पितॄणां च तत् सव्येन तु पाणिना ।
चेऽधिकृत्य जगद्योनिं मन्त्रात्मानमजं हरिम् ॥ २८१ ॥

7.282
प्रयछन्ति पितॄणां च तोयतर्पणपूर्वकम् ।
तेषां तदाश्रयत्वाच्च यदुक्तं तन्न कारणम् ॥ २८२ ॥

7.283
कर्तव्यस्य च पारम्यं प्रकृतस्य महामते ।
स्फुरत्यन्तर्गतं येषां मन्त्राराधनपूर्वकम् ॥ २८३ ॥

7.284
तत् स्वोत्तरवशात्तेषां मन्त्रसामुख्यदिग्वशात् ।
चेतसा निर्विकल्पेन कृतं भवति चाक्षयम् ॥ २८४ ॥

7.285
किंतु पुष्करसंभूत दुर्लभा भुवि ते नराः ।
इति चेतसि वै येषां निश्चयीकृत्य वर्तते ॥ २८५ ॥

7.286
कुण्डस्य योनिदिग्भागे भद्रपीठोर्ध्वतोऽथवा ।
समीपे पुरतस्तस्य भूभागे चार्घ्यवारिणा ॥ २८६ ॥

7.287
प्रोक्षिते चास्त्रमन्त्रेण दक्षिणाग्रान् कुशांस्तरेत् ।
तदूर्ध्वे पितृतीर्थेन सतिलानक्षतोदकान् ॥ २८७ ॥

7.288
विकिरेदस्त्रजप्तांश्च दर्भाग्रैः प्रणवेन तु ।
कौशस्तराग्रपर्यन्तं यस्मादेतद्द्वयं द्विज ॥ २८८ ॥

7.289
सर्वस्य भोगजालस्य जनकं भुवनत्रये ।
विशेषात् पितृदेयस्य श्रद्धापूतस्य वस्तुनः ॥ २८९ ॥

7.290
अग्नीषोमस्वरूपेण क्रोडात्मा भगवान् स्वयम् ।
व्यक्तः कर्मात्मतत्वानां मूर्तत्वेनात्मसिद्धये ॥ २९० ॥

7.291
तत्तेजस्तिलभावेन ह्लादो वर्तत्यबात्मना ।
अत एवाप्रबुद्धानां प्रबुद्धानामपि द्विज ॥ २९१ ॥

7.292
तिलोदकेऽङ्गभांव तु गछतः श्राद्धकर्मणि ।
श्राद्धस्य च परा रक्षा ते द्वे नित्यप्रमन्त्रिणाम् ॥ २९२ ॥

7.293
तत्स्वरूपविदां चेव विशेषान्मन्त्रवेदिनाम् ।
एवं तिलोदके बुद्ध्वा प्रकाशाह्लादलक्षणे ॥ २९३ ॥

7.294
स्तरोर्ध्वे स्वस्वसंज्ञाभिरग्रान्तं तु यथाक्रमम् ।
भावयेत् पुरुषादीनां सारूप्यं समुपागतान् ॥ २९४ ॥

7.295
पितॄन् पितामहांश्चैव तथैव प्रपितामहान् ।
तप्तितॄंश्चाथ शंसन्तः सन्तानं स्वविभागतः ॥ २९५ ॥

7.296
देवान्नोच्छेषसंयुकं पाकाग्रं पात्रसंभृतम् ।
मधुयुक्तेन हविषा दर्भकाण्डैस्तिलैः सह ॥ २९६ ॥

7.297
भावितं वह्निना कृत्वा हृदा दर्भाग्रगेण तु ।
निर्दोषं ज्ञस्वभावं च धामत्रयसमप्रभम् ॥ २९७ ॥

7.298
ध्यायेद्द्रव्यगतं दोषं निर्दहन्तं समन्ततः ।
देवतानां पितॄणां यत् तृप्तयेऽन्नं महामते ॥ २९८ ॥

7.299
तत् साधनं च विहितं संस्कृतेन पुराग्निना ।
तमालकदलीपूर्वदलेषु क्षालितेषु च ॥ २९९ ॥

7.300
संविभज्य चतुर्धान्नं निधाय प्रणवेन तु ।
प्रोक्षितान्यन्नपात्राणि चत्वारि कबलानि वा ॥ ३०० ॥

7.301
तृप्तये त्वथ सर्वेषां देवाय विनिवेद्य च ।
पितॄणां तर्पयेत्तेन पिण्डाद्यन्नेन सादरम् ॥ ३०१ ॥

7.302
क्रमेण प्रागदृष्टानां हृदा संज्ञापदेन तु ।
एवं दृष्टस्वरूपाणां ज्ञात्वा तेषां स्थितिं पुरा ॥ ३०२ ॥

7.303
प्राग्वत् स्वधावसानाद्यैर्मन्त्रैरोह्कारपूर्वकैः ।
हृन्मन्त्रालिङ्गितैर्विप्र तथा संज्ञापदान्वितैः ॥ ३०३ ॥

7.304
पिण्डं प्रकल्पयामी ति ततः पूर्ववदाचरेत् ।
प्रणवैर्दक्षिणाग्राणि सेचितानि तिलाम्बुना ॥ ३०४ ॥

7.305
नाडीरूपाणि दर्भाणि पिण्डानामूर्ध्वतो न्यसेत् ।
प्रविष्टान् भावयेत्तेषु नाडीमार्गैरनुक्रमात् ॥ ३०५ ॥

7.306
पितॄनावाहयामी ति स्तरोर्ध्वे प्राक्स्थितांस्ततः ।
क्रमेण चातुरात्मीयैर्मन्त्रैरप्यययोगतः ॥ ३०६ ॥

7.307
समर्चयेद्यथान्यायमर्ध्यगन्धादिभिश्च तान् ।
ततस्तु नाम्ना गोत्रेण मन्त्रपूर्वं तिलोदकम् ॥ ३०७ ॥

7.308
सर्वेषामर्घ्यकलशात् प्रदद्याच्च यथाक्रमम् ।
शिरसावनतेनाथ जानुयुग्मे क्षितौ कृते ॥ ३०८ ॥

7.309
पाणियुग्मे ललाटस्थे एकचित्तः पठेदिदम् ।
ॐ नमो वः पितरः नमो वः पुरुषोत्तमाः ॥ ३०९ ॥

7.310
नमो विष्णुपदस्थेभ्यः स्वधा वः पितरो नमः ।
हरये पितृनाथाय ह्यग्नीषोमात्मने नमः ॥ ३१० ॥

7.311
सत्सोमपात्मने विष्णो नमो बर्हिषदात्मने ।
आसंसारं हि जनका अग्निष्वात्ता अथाच्युत ॥ ३११ ॥

7.312
पितामहाः सोमपास्त्वं त्वमन्ये प्रपितामहाः ।
तुभ्यं नमो भगवते पितृमूर्ते ऽच्युताय च ॥ ३१२ ॥

7.313
नारायणाय हंसाय विष्णो त्रिपुरुषात्मने ।
मुक्त्वा त्वामेव भगवन् न नमाम्यर्चयामि च ॥ ३१३ ॥

7.314
न तर्पयामि सर्वेश नान्यमावाहयाम्यहम् ।
स्तुत्वैवं हि पितृव्यूहं भक्त्या परमया युतम् ॥ ३१४ ॥

7.315
संभवे सति संमानं पिण्डमूर्तेः समाचरेत् ।
तदग्रतोपविष्टस्य क्रमाद्द्विजगणस्य च ॥ ३१५ ॥

7.316
अनुसन्धाय वै द्वाभ्यामेकस्मिन् वा द्विजोत्तम ।
देवभावस्थितं ध्यात्वा पित्र्यं प्रागगणं क्रमात् ॥ ३१६ ॥

7.317
प्रणवेन खरूपं तु समुत्थाय ततः स्वयम् ।
मध्ये तिर्यक्स्थितौ स्थित्वा ह्यदूरेऽन्योन्यदृक्स्थिते ॥ ३१७ ॥

7.318
उत्तराभिमुखश्चैव दक्षिणास्योऽथवा द्विज ।
तदुत्तराननवशाद्धृन्मन्त्रं हृदयान्न्यसेत् ॥ ३१८ ॥

7.319
नमोऽन्तं प्रणवाद्यं तु मरुदम्बरविग्रहम् ।
पिण्डाग्रे ह्युपविष्टस्य प्राणशक्तिं द्विजस्य वा ॥ ३१९ ॥

7.320
बहूनां वा प्रयत्नेन स्वातन्त्र्यान्निर्गतां बहिः ।
ध्यात्वा तया सह क्षिप्रमेकीभूतत्वमागतम् ॥ ३२० ॥

7.321
आत्मशक्तौ लयं नीत्वा याति ह्यूष्माख्यलक्षणम् ।
कृत्वैवं प्राणसञ्चारं पितॄणां विप्रविग्रहे ॥ ३२१ ॥

7.322
प्राग्वदानन्दसंरुद्धे भोजयेत् पितृरूपिणः ।
तादर्थ्येनाथ चतुरो विनिवेश्यासनेषु च ॥ ३२२ ॥

7.323
लब्धलक्ष्यान् परे तत्त्वे ब्राह्यणान् पाञ्चरात्रिकान् ।
प्राङ्मुखं द्वितयं चैव द्वितयं चाप्युदङ्मुखम् ॥ ३२३ ॥

7.324
संपत्यभावे ह्येकं वा विनिवेश्योत्तराननम् ।
पादयोरपि पाद्यार्थं कं क्षिपेद्दक्षिणादितः ॥ ३२४ ॥

7.325
अथ तेषां क्रमात् कुर्यादर्चनं चातुरात्म्यवत् ।
अर्ध्यानुलेपनाद्यैस्तु भोगैर्मात्रावसानिकैः ॥ ३२५ ॥

7.326
तत्तत्कालोचितैः सर्वैरनुपादेयवर्जितैः ।
तैश्चापि मौननिष्ठैस्तु भवितव्यं सुयन्त्रितैः ॥ ३२६ ॥

7.327
अथास्त्रपरिजप्तेन भूतिना वाथ शङ्कुना ।
मसृणेनाश्मचूर्णेन परिघां स्वधयाथवा ॥ ३२७ ॥

7.328
बहिस्तदासने कुर्यात्त्वग्रे दैर्घ्याच्छमाधिकाम् ।
वैपुल्याच्छममानं तु प्राग्वत् पावनतां नयेत् ॥ ३२८ ॥

7.329
न्यसेत् तत्राप्यभग्नाग्रानुदङ्मूलान् कुशान् द्विज ।
तत्रापि च विशेषेण तिलतोये समुत्किरेत् ॥ ३२९ ॥

7.330
न्यस्तास्त्राण्यस्त्रजप्तानि तत्र पात्राणि विन्यसेत् ।
सर्वाणि चक्रवृत्तानि हेमाद्युत्थानि संभवे ॥ ३३० ॥

7.331
पात्राणि कदलीपझतमालच्छदनान्यथ ।
दर्भाण्यस्त्राम्बुयुक्तानि शुभपर्णमयानि वा ॥ ३३१ ॥

7.332
निदध्यात्तेषु चान्नानि भोज्यानि मधुराण्यपि ।
भक्ष्याणि फलमूलानि दधिक्षीरादिकान्यपि ॥ ३३२ ॥

7.333
पानकानि रसालानि सपानीयानि सत्तम ।
कर्मण्यानि तथान्यानि तत्तत्कालोद्भवानि च ॥ ३३३ ॥

7.334
पुरोपस्तरणार्थं च पात्राणां दक्षपाणिषु ।
निपातव्याऽमृती धारा वारिणाप्युद्धतेन च ॥ ३३४ ॥

7.335
वाग्यता लब्धलक्षास्तु ह्यन्नमूर्तौ जनार्दने ।
येऽश्र्नन्ति पितरस्तेन तृप्तिमायान्ति शाश्वतीम् ॥ ३३५ ॥

7.336
अतः सव्यभिचारं तु मौनं वर्ज्यं क्रियापरैः ।
शुभमव्यभिचारं यत् तत् कार्यं सर्ववस्तुषु ॥ ३३६ ॥

7.337
यदङ्गसङ्केतमयैरव्यक्तैर्नासिकाक्षरैः ।
कृतमोष्ठपुटैर्वद्धैर्मौनं तत् सिद्धिहानिकृत् ॥ ३३७ ॥

7.338
स्वयमेव स्वबुद्ध्या यत् सर्ववस्तुषु वर्तते ।
शब्दैरनुपदिष्टैस्तु तन्मौनं सर्वसिद्धिदम् ॥ ३३८ ॥

7.339
तस्माद्वै श्राद्धभोक्तॄणां दिव्ये वा पितृकर्मणि ।
दद्यान्नैवेद्यवत् सर्वं मर्यादाभ्यन्तरेऽग्रतः ॥ ३३९ ॥

7.340
येनाचमनपर्यन्तं कालं तिष्ठन्ति वाग्यताः ।
सर्वेवामेकमाप्तं तु तृप्तये यदि योजितम् ॥ ३४० ॥

7.341
ओमाद्यमस्मच्छब्दं तु पितृभ्यस्तदनन्तरम् ।
इदमर्ध्यमिदं पाद्यं तदन्ते संस्मरेत् स्वधाम् ॥ ३४१ ॥

7.342
सर्वस्मिन्नुपचारान्ते ह्येवं वा संस्मरेन्नमः ।
नमः स्वधाऽथवा ब्रूयान्नमोन्ता त्वथवा स्वधा ॥ ३४२ ॥

7.343
एवमेव हि यः कुर्यात् कर्तव्यत्वेन सत्तम ।
तुल्यानां च स्वकुल्यानां नमस्तत्र च केवलम् ॥ ३४३ ॥

7.344
सत्युक्ते व्यत्ययं नित्यं बिहितं च स्वधा द्विज ।
स्वयमेव हि सन्यासी ददाति च फलार्थिनाम् ॥ ३४४ ॥

7.345
कार्यस्तेन नमस्कारः स्वधान्तो नित्यमेव हि ।
ददाति फलकामस्तु यो नित्यमफलार्थिनाम् ॥ ३४५ ॥

7.346
स्वधाकारावसाने तु विहितं तत् सदा नमः ।
एवमिच्छावशेनैव संविभज्य पितॄन् द्विज ॥ ३४६ ॥

7.347
पृष्ट्वा पात्रमुखेनैव संतृप्तिं च पुनः पुनः ।
ततोऽम्भश्चुलकं पाणौ हृन्मन्त्रेणामृतोपमम् ॥ ३४७ ॥

7.348
दद्यात् पूर्णेन्दुतुल्यं तद्ध्यातव्यं तत्कलाः पठन् ।
सानुस्वारमकाराद्यैर्भिन्नं षोडशभिः स्वरेः ॥ ३४८ ॥

7.349
सकारं नतिनिष्ठं च तत्र प्राक्स्थं सतारकम् ।
इत्युक्तं सकलस्येन्दोर्वाचकं मन्त्रमब्जज ॥ ३४९ ॥

7.350
पाणिप्रक्षालनात् पूर्वं पातव्यं तेन पूर्ववत् ।
येनामृतपुटान्तस्थमन्नवीर्यमनश्वरम् ॥ ३५० ॥

7.351
भवत्याप्यायकृद्व्रह्यन् पितृदेवगणस्य च ।
माषचूर्णादिना पाणिं प्रक्षाल्यामणिबन्धनात् ॥ ३५१ ॥

7.352
समाचम्योपसंहृत्य ह्युच्छिष्टं च यथाविधि ।
पवित्रीकृत्य वसुधां पाणौ कृत्वा तिलोदकम् ॥ ३५२ ॥

7.353
प्रीणनं भगवत्यग्रे समुत्थायाचरेत् ततः ।
ममास्तु भगवान् पूर्वं प्रीतः पितृगणस्तथा ॥ ३५३ ॥

7.354
शारीरो देवताव्यूह आपादाद्यो व्यवस्थितः ।
नयन्त्वमृततामन्नमिदं विष्णुपुरस्सराः ॥ ३५४ ॥

7.355
देवा नद्यस्तथा गावः सूर्यः सोमो बृहस्पतिः ।
माधवो भगवान् मन्त्रमूर्तिर्मधुमयो महान् ॥ ३५५ ॥

7.356
मधुभावेन चान्नेऽस्मिन् स्थित्वा तृप्तिं करोतु वै ।
अनुलिप्यासनं कुर्यात् पितॄणां प्रीणनं द्विज ॥ ३५६ ॥

7.357
तस्मिन्नेव हि भूभागे यस्यां तत्पिण्डचित्क्षितौ ।
स्थितिः सर्वपितॄणां च साम्प्रतं कमलासन ॥ ३५७ ॥

7.358
यावत् प्राणावियुक्तानां पिण्डातां नोपसंहृतिः ।
स्वोद्दिष्टानां कृता सम्यक् तदन्ते संव्रजन्ति ते ॥ ३५८ ॥

7.359
स्वस्थानमाशिषं दत्वा श्राद्धकर्तुर्धिया मुमे ।
सामृतं सोदकं सान्नं सतिलं मन्त्रतेजसा ॥ ३५९ ॥

7.360
विविक्तं वः कृतं मार्गं पुनरागमनाय च ।
नारायणाख्यसन्मन्त्रकर्मब्रह्नजवीकृते ॥ ३६० ॥

7.361
स्वे स्वेन्द्रियरथे कृत्वा तृप्ता याताच्युतास्पदम् ।
एवं सुवितते कुर्यात् कर्म त्वाराधनालये ॥ ३६१ ॥

7.362
संकटे पुनरन्यत्र यायादभ्यर्थ्य मन्त्रराट् ।
स्थानं संस्कारसंशुद्धं कृत्वा प्राक् ताडनादिना ॥ ३६२ ॥

7.363
व्याप्तिशक्त्याश्रितं भूयस्तोयाधारगतं स्मरेत् ।
मन्त्रमर्चनपूर्वं तु तदग्रे सर्वमाचरेत् ॥ ३६३ ॥

7.364
देवान् पितॄन् समुद्दिश्य भोजनं भगवद्गृहे ।
अविरुद्धं द्विजेन्द्राणामन्यथा तद्विरोधकृत् ॥ ३६४ ॥

7.365
विधिनानेन वै नित्यमथ यज्ञे तु वैष्णवे ।
संविभागः पितॄणां च कार्यः सद्रविर्णैनैरः ॥ ३६५ ॥

7.366
कृत्वा तिलोदकान्तं वा फलमूलैः स्वशक्तितः ।
तदर्धं ग्रासमात्रं तु दद्याद्गोष्वथ भैक्षुके ॥ ३६६ ॥

7.367
यस्माद्दिव्यैर्महामन्त्रैर्दत्तं यत् पूजितेऽच्युते ।
पित्रर्थमल्पं वा भूरि तत्तेषामक्षयं भवेत् ॥ ३६७ ॥

7.368
सम्यगर्च्यार्घ्यगन्धाद्यैर्मूलमूर्तिगतं विभुम् ।
प्राङ्कणेषु च सर्वेषु प्रासादेष्वाश्रयेषु च ॥ ३६८ ॥

7.369
प्रतिष्ठितेषु शोभार्थं विभवव्यूहमूर्तिषु ।
तथैव गोपुरद्वारदिङ्मूर्तिषु च मण्डपे ॥ ३६९ ॥

7.370
सान्निध्यं चैव यातासु शक्त्या नित्यं समर्चनम् ।
षोडशैरुपचारैर्वा द्वात्रिंशद्भिस्ततोऽधिकैः ॥ ३७० ॥

7.371
कुर्यात्रन्मूर्तिमन्त्रैश्च तथा नैमित्तिकेष्वपि ।
जपान्तं हवनान्तं वा स्नानाद्यं साधकस्ततः ॥ ३७१ ॥

7.372
तत्तन्मूर्त्यग्रदेशस्थे कुण्डे होमं समाचरेत् ।
न कर्मार्चादिकं तत्र स्नपने चोत्सवादिकम् ॥ ३७२ ॥

7.373
बलिदानं च सर्वत्र पवित्रारोहणादिकम् ।
नाचर्तव्यं विशेषेण परतन्त्रासु मूर्तिषु ॥ ३७३ ॥

7.374
नित्याभिषेकमात्रं तु तासु तत्र समाचरेत् ।
सितादिवर्णयुक्तासु प्रोक्षणं वा निवेदनम् ॥ ३७४ ॥

7.375
मूलालयार्चया सार्धं परतन्त्रासु देशिकैः ।
पवित्रारोहणं कार्यमङ्गत्वेनाधिवासितैः ॥ ३७५ ॥

7.376
पूरकेषु च सर्वेषु तथैवाग्रयणादिके ।
खगेशविष्वक्सेनादिपरिवारगणेष्वपि ॥ ३७६ ॥

7.377
प्रतिष्ठितेषु गेहेषु पूज्यमाश्रयमूर्तिवत् ।
अमूर्तस्य खगेशस्य विष्वक्सेनादिकस्य च ॥ ३७७ ॥

7.378
कुमुदादिगणेशानां द्वारावरणवासिनाम् ।
अन्येषां परिवाराणां महापीठनिवासिनाम् ॥ ३७८ ॥

7.379
अग्रे नित्योत्सवार्चाया दद्यात् कालत्रये बलिम् ।
साकारो वा निराकारो विष्वक्सेनो गणैः सह ॥ ३७९ ॥

7.380
यद्वा समर्चनीयश्च बल्यन्ते शिष्टवस्तुभिः ।
नित्योत्सवं ततः कुर्यात् सर्वालंकारसंयुतम् ॥ ३८० ॥

7.381
प्राङ्कणद्वारदेवानां बलिदानपुरस्सरम् ।
सनकः ।
त्वया नित्योत्सवार्चायाः पुरस्ताद्भगवन् मम ॥ ३८१ ॥

7.382
द्वारावरणदेवानां बलिदानमुदाहृतम् ।
तद्विभागं विशेषेण वद मे सर्वसिद्धिदम् ॥ ३८२ ॥

7.383
शाण्डिल्यः ।
विस्तृतं तव वक्ष्यामि श्रृणु नित्योत्सवादिकम् ।
कृतेन येन भक्तानामभीष्टं जायते फलम् ॥ ३८३ ॥

7.384
नित्योत्सवार्थबिम्बं तु सौवर्णं राजतं तु वा ।
ताम्रजं पैत्तलं वाथ नात्युच्चं तच्चतुर्भुजम् ॥ ३८४ ॥

7.385
मूलबेरानुरूपं च स्थापितं पूजितं पुरा ।
वस्त्राभरणमाल्यैश्च यथाशोभमलङ्कृतम् ॥ ३८५ ॥

7.386
मूलबिम्बगतां शक्तिं तस्मिन्नारोप्य मन्त्रतः ।
समभ्यर्च्यार्घ्यपुष्पाद्यैर्भोगैर्धूपान्तिमैस्तथा ॥ ३८६ ॥

7.387
आप्तैराराधिते देवे स्वयंव्यक्तालयादिषु ।
साधकं वरयेदन्यं बलिदानादिकर्मणि ॥ ३८७ ॥

7.388
पुरा गर्भगृहद्वारि तथा चैवाग्रमण्डपे ।
घण्टानादसमेतेन दीपेन ज्वलितेन तु ॥ ३८८ ॥

7.389
द्वार्स्थानर्घ्यादिधूपान्तैः समभ्यर्च्यार्घ्यवारिणा ।
दत्वार्हणं ततश्चान्नं तर्पणाम्भस्ततः परम् ॥ ३८९ ॥

7.390
ताम्बूलं च क्रमाद्दत्वा तत्तन्मन्त्रैरनुक्रमात् ।
स्वर्णादिनिर्मितं यानं पुरस्तात् प्रथमाङ्कणे ॥ ३९० ॥

7.391
सुगन्धपुष्पप्रभया क्षौमैर्माल्यैः सितादिभिः ।
यथाशोभमलंकृत्य तस्मिन् बल्यर्थकौतुकम् ॥ ३९१ ॥

7.392
प्राचीमुखं समारोप्य प्राङ्कणेषु प्रदक्षिणम् ।
आतपत्रैः सिताद्यैश्च मायूरैः केतुयष्टिभिः ॥ ३९२ ॥

7.393
पताकाभिश्चामरैश्च तालवृन्तैश्च शोभनैः ।
गणिकादेवदासीभिर्गायकैर्वाद्यसञ्चयैः ॥ ३९३ ॥

7.394
भेरीपटहघोषैश्च श्रुतिघोषसमन्वितैः ।
एवमाद्यैरलङ्कारैर्गोमयेनोपलेपिते ॥ ३९४ ॥

7.395
मण्डले हस्तमात्रे तु बलिदानपुरस्सरम् ।
द्वारावरणदेवानां ध्यातानां वा स्वदिक्षु च ॥ ३९५ ॥

7.396
वक्ष्यमाणविधानेन नियतोत्सवामाचरेत् ।
पीठोर्ध्वे विष्णुभूतानां सगणानामथार्चनम् ॥ ३९६ ॥

7.397
कृत्वा समुत्किरेच्छेषं तृप्त्यर्थं सोदकं बलिम् ।
पीठं प्रदक्षिणं नीत्वा चतुर्धा वा द्विधा तथा ॥ ३९७ ॥

7.398
सन्तोष्य नृत्तगीताद्यैर्देवमन्तः प्रेवशयेत् ।
प्राङ्कणेषु विशालेषु बहिष्ठेषु च सादरम् ॥ ३९८ ॥

7.399
मण्डितं रथमारोप्य परिभ्रमणमाचरेत् ।
यानादेरवरोप्याथ पादुके विनिवेद्य च ॥ ३९९ ॥

7.400
अग्रमण्डपभूमिष्ठे भद्रपीठे निवेश्य च ।
पाद्यार्घ्याचमनाम्भोभिः चन्दनाद्यनुलेपनैः ॥ ४०० ॥

7.401
माल्यैर्नानाविधैश्चापि धूपैस्ताम्बूलपश्चिमैः ।
अभ्यर्च्य श्रमशान्त्यर्थं स्वस्थाने सन्निवेशयेत् ॥ ४०१ ॥

7.402
आदौ निवेशितां शक्तिं तस्मिन् मूले नियोज्य च ।
तमभ्यर्च्यार्घ्यगन्धाद्यैः प्रणमेत् स्तुतिपूर्वकम् ॥ ४०२ ॥

7.403
त्रिकालं यत्र विधिवत् क्रियते नियतोत्सवः ।
तत्र सर्वसमृद्धिः स्याद्राज्ञो राष्ट्रस्य चानिशम् ॥ ४०३ ॥

7.404
अभावे बलिबिम्बस्य हेतुनाऽसन्निधीकृते ।
कूर्चेन वान्नमूर्त्या वा कुर्यान्नित्योत्सवं ततः ॥ ४०४ ॥

7.405
निश्शेषस्योपसंहारं कृत्वा चार्घ्यादिकस्य च ।
नत्वा स्तुत्वा च देवेशं ततः पाद्यप्रतिग्रहात् ॥ ४०५ ॥

7.406
पादोदकं समादाया विग्रहं सेचयेत् स्वक्म् ।
भुक्तानि पत्रपुष्पाणि निदद्यान्मूर्धनि स्वके ॥ ४०६ ॥

7.407
पुष्पार्घ्यगन्धपूर्वाणां देवयज्ञे कृते सति ।
विनयादाहृतानां च भक्तानां मन्त्रसेविनाम् ॥ ४०७ ॥

7.408
मूर्ध्नि सन्धारणाच्छश्वद्दौर्भाग्यं क्षयमेति च ।
कीर्तिं कान्तिं श्रियारोग्यं सिद्धिं समुपयाति च ॥ ४०८ ॥

7.409
पश्चाच्छरीरयात्रार्थमब्यर्थ्य परमेश्वरम् ।
लब्धानुज्ञस्तु वै कुर्यादनुयागं यथाविधि ॥ ४०९ ॥

7.410
प्रविश्य भोजनस्थानं विविक्तं दोषवर्जितम् ।
घृतपूरितपात्रस्थं दीपमारोप्य वै ततः ॥ ४१० ॥

7.411
गोमयेनोपलिप्याथ तुर्यश्रं तत्र मण्डलम् ।
प्रणवेन प्रतिष्ठाप्य तन्मध्ये फलकादिकम् ॥ ४११ ॥

7.412
प्रक्षालिताङ्घ्रिः स्वाचान्तस्तन्मद्ये चोपविश्य च ।
भोज्यं नैवेद्यपूर्वं तु सर्वमादाय पात्रगम् ॥ ४१२ ॥

7.413
विनिवेद्य च देवाय पवित्रीकृत्य चाम्भसा ।
सत्यरूपा ह्यलक्ष्या चाप्यन्नदोषक्षयङ्करी ॥ ४१३ ॥

7.414
चेतसा चातुरात्मीया भावनीया च भावना ।
रसात्माध्यक्षसंज्ञोऽन्ने स्वादुभावे व्यवस्थितः ॥ ४१४ ॥

7.415
प्रद्युम्नो भगवान् रूपे त्वेतद्वीर्ये तु लाङ्गली ।
भोक्ताहमात्मा भगवान् वासुदेवः स्वयं त्वजः ॥ ४१५ ॥

7.416
इदं तदमृतं ब्रह्न इदमायुरनश्वरम् ।
इदं ज्ञानमिदं वीर्यमिदं तेजस्तु वैष्णवम् ॥ ४१६ ॥

7.417
इदमिन्दुरखण्डश्च स्थितं चान्नात्मना स्वयम् ।
पर्जन्यात्मा स भगवान् व्यञ्जनस्थितिसिद्धये ॥ ४१७ ॥

7.418
हार्दानलात्मना भुङ्क्ते ह्यद्यक्षः परमेश्वरः ।
तच्छक्त्यानुगृहीतत्वात् सोऽहं प्राकृतिकः पुमान् ॥ ४१८ ॥

7.419
एवमन्नदमन्नादं ज्ञेयमन्नं पुरः स्थितम् ।
बाह्यतस्चाज्यदानेन संबोधमुपयाति च ॥ ४१९ ॥

7.420
यथा तथा म्बुनाभ्येति देहस्थो हुतभुक् प्रभुः ।
कारणं रसमन्नस्य षड्गुणं षड्रसस्य च ॥ ४२० ॥

7.421
आत्मा ब्रह्नाऽदनात्मा स्यादीषत्तत्करणात्मना ।
साम्मुक्यमात्मनो नीत्वा ततोऽन्नं जुहुयाच्छनैः ॥ ४२१ ॥

7.422
चतुः प्रणवसञ्जप्तं ततोम्भश्चुलकं पिबेत् ।
वक्त्रकुण्डेऽथ तेनैवाप्यन्नाहुतिचतुष्टयम् ॥ ४२२ ॥

7.423
प्रान्तपर्वैश्चतुर्धा प्राक् चातुरात्म्यव्यपेक्षया ।
त्रियपेक्षावशेनैव जुहुयादाहुतित्रयम् ॥ ४२३ ॥

7.424
सहृदा मूलमन्त्रेण भुञ्जीयात् कबलैस्ततः ।
प्रयतास्यकरश्चान्ते पिबेन्मन्त्राभिमन्त्रितम् ॥ ४२४ ॥

7.425
तोयं तद्ध्यानपादाब्जपरिस्रुतमथापि वा ।
प्रतिष्ठितस्य वा पूर्वं तदा कृतिधरस्य च ॥ ४२५ ॥

7.426
यतस्तत् सर्वपापघ्नं सर्वदोषक्षयङ्करम् ।
सर्वोपतापशमनं सर्वसौख्यप्रदं सदा ॥ ४२६ ॥

7.427
पावनं सर्वतीर्थेभ्यो मन्त्रेभ्यो मुनिसत्तम ।
अतस्तु भोजनान्ते वै हार्धाग्नेस्तर्पणं पुरा ॥ ४२७ ॥

7.428
भावभक्तिपरो नित्यं कं पिबेदाज्यदो भवेत् ।
ब्रह्नतीर्थेन च शनैद्बिर्वा त्रिर्वा चतुः क्रमात् ॥ ४२८ ॥

7.429
समाचम्य पुनर्यायात् प्रयतो भगवद्गृहम् ।
मनोबुध्यभिमानेन सह न्यस्य धरातले ॥ ४२९ ॥

7.430
कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम् ।
प्रदक्षिणसमेतेन त्वेवं रूपेण सर्वदा ॥ ४३० ॥

7.431
अष्टाह्गेन नमस्कुर्याद्द्वादशार्णं समुच्चरन् ।
यत्र द्वादशकालेज्या कर्तव्या भूतिविस्तरात् ॥ ४३१ ॥

7.432
तत्र प्राभातिकीं कुर्यात् पूजामष्टाङ्गसंयुताम् ।
अह्गद्वयं तु पास्चात्यं विना वा तां समाष्य च ॥ ४३२ ॥

7.433
पितॄणां संविभागं च अनुयागं यथोदितम् ।
देशिकः स्वेच्छया कुर्यान्नित्यं मध्यन्दिनार्चने ॥ ४३३ ॥

7.434
त्रिकालेष्वेकमष्टाङ्गं षडङ्गं चाचरेद्द्वयम् ।
योगार्थिनां च स्वाध्यायं योगमध्यात्मसंज्ञितम् ॥ ४३४ ॥

7.435
तत्तत्कालेषु कुर्वीत स्वाध्यायमधुनोच्यते ।
अष्टाङ्गेन नमस्कृत्य ह्युपविश्याग्रतो विभोः ॥ ४३५ ॥

7.436
आगमाध्ययनं कुर्यात्तद्वाक्यार्थविचारणम् ।
प्राप्तेऽथ सन्ध्यासमये स्नात्वा वा जघनावधि ॥ ४३६ ॥

7.437
क्षालयित्वा ततः कुर्याद्वाससां परिवर्तनम् ।
सायन्तनार्चनं कुर्यात् षडङ्गं बलिपश्चिमम् ॥ ४३७ ॥

7.438
जपं कृत्वा यथाशक्ति स्वासाद्य शयनं ततः ।
समाधाय बहिर्देवं निरालम्बपदे स्थितम् ॥ ४३८ ॥

7.439
अप्रयत्रेन वै तावदनिरुद्धेन चेतसा ।
सह तेनैव ते निद्रा यावदभ्येति साम्प्रतम् ॥ ४३९ ॥

7.440
समुत्थायार्धरात्रेऽथ जितनिद्रो जितश्रमः ।
कमण्डलुस्थिनेनैव समाचम्य तु वारिणा ॥ ४४० ॥

7.441
अथ योगविभूत्यर्थं योगं युञ्जीत वैष्णवम् ।
सुगुप्ते विजने देशे निर्द्वन्द्वे शुभलक्षणे ॥ ४४१ ॥

7.442
जितदर्पां मतिं कृत्वा सर्वभूतहिते स्थितः ।
देवाग्निगुरुभक्तश्च सच्छास्त्राभिरतः सदा ॥ ४४२ ॥

7.443
भूतद्रोहपरित्यागी अस्तेयः संयतेन्द्रियः ।
आसने चोपविष्टस्तु सुशुभे लक्षणान्विते ॥ ४४३ ॥

7.444
शुभदारुसमुत्थे तु चतुर्विशाङ्गुलायते ।
द्वादशाङ्गुलकोत्सेधे सुधौतेनापि वाससा ॥ ४४४ ॥

7.445
कुशैश्च मृदुभिश्छन्ने पवित्रेणाथ चर्मणा ।
तत्रोपविष्टः सततं योगाङ्गानि समभ्यसेत् ॥ ४४५ ॥

7.446
रेचकादिचतुर्भिस्तु मात्राभेदकृतैस्तु यः ।
कनीयान् मध्यमो ज्येष्ठः प्राणायामः प्रकीर्तितः ॥ ४४६ ॥

7.447
प्रत्याहारं प्रकुर्वीत चित्तसंयमनं तु यत् ।
बुद्धिर्मनस्त्वहङ्कारस्त्रिभिश्चित्तं प्रकीर्तितम् ॥ ४४७ ॥

7.448
तथापि मनसः कुर्यात् प्रत्याहारं प्रयत्नतः ।
मनश्चतुर्विधं प्रोक्तं प्रत्याहारेण निर्जितम् ॥ ४४८ ॥

7.449
तिष्ठते लक्ष्यमार्गे तु नान्यथा तु कदाचन ।
ध्यानं लक्ष्यस्य निष्पत्तिश्चिन्तनं तत् प्रकीर्तितम् ॥ ४४९ ॥

7.450
धारणापि ततो धार्या तदा पापापनुत्तये ।
पञ्चधा पूर्ववत् सा तु प्रतिमन्त्रव्यवस्थया ॥ ४५० ॥

7.451
जपं निमीलिताक्षेण कुर्यान्मन्त्रस्य वाचकम् ।
वाच्यस्य प्रतिपत्यर्थं बीजपिण्डपदात्मकम् ॥ ४५१ ॥

7.452
त्रिविधं वै समुद्दिष्टं प्रागुक्तविधिभावितम् ।
योगोऽपि त्रिविधः प्रोक्तस्तं च कार्त्स्न्येन मे श्रृणृ ॥ ४५२ ॥

7.453
प्राकृतं पौरुषं चैव ऐश्वरं च तृतीयकम् ।
ऊहस्तु कीर्त्यते तर्कः तं च विद्धि विचारकम् ॥ ४५३ ॥

7.454
समाधिस्त्वात्मलाभस्तु भानन्दः परिकीर्तितः ।
स तु लक्ष्यं परित्यज्य मन्त्रोच्चारणवर्जितः ॥ ४५४ ॥

7.455
यदा विभज्यते ब्रह्नकलांशो विधिवर्जिंतः ।
समाधौ परिनिष्पन्ने परमाप्नोति पूरुषम् ॥ ४५५ ॥

7.456
प्राणायामादितो यावत् समाध्यन्तं प्रकीर्तितम् ।
द्गिगुणं त्रिगुणं चैव मात्राभेदेन संस्थितम् ॥ ४५६ ॥

7.457
योगासनस्थः कुर्वीत विधिमेवं यथोदितम् ।
योगासनानि चत्वारि योगपट्टेन बन्धयेत् ॥ ४५७ ॥

7.458
पर्यङ्कं कमलं वापि भद्रं वा स्वस्तिकं दृढम् ।
तेषामेकतमे स्थित्वा ऋजुकायोर्ध्वतः क्रमात् ॥ ४५८ ॥

7.459
स्रस्ताह्गसन्धिः कुर्वीत विस्तीर्णोरुः सुकन्धरः ।
बाहू उपरि समौ कृत्वा किञ्चिदाकुञ्चयेच्छिरः ॥ ४५९ ॥

7.460
नाभौ जघनमद्ये तु हस्तौ कच्छपवत् स्थितौ ।
सव्यस्य चोपरिस्थं तु वामे सव्यं तथापि वा ॥ ४६० ॥

7.461
उत्तानौ तु करौ कृत्वा कच्छपी तान्नियोजयेत् ।
ग्रीवां तु हृदयाद्यन्तां नातिस्तब्धां न कुञ्चिताम् ॥ ४६१ ॥

7.462
किञ्चिन्निमीलयेन्नेत्रे नासाग्रमवलोकयन् ।
समुद्नवत् पिधायास्यं दन्तैर्दन्तानसंस्पृशन् ॥ ४६२ ॥

7.463
सगर्भं योगमातिष्ठेन्निर्गर्भं बा सुयन्त्रितः ।
ततः प्रमथयेद्वायुं प्राणाख्यं चित्तसंयुतम् ॥ ४६३ ॥

7.464
रेचकादिचतुर्भेदैः प्राणायामः प्रकीर्तितः ।
चित्तं जयेत् सदा यत्नाता दुर्जयं देवदानवैः ॥ ४६४ ॥

7.465
यद्यप्यभ्यासवैराग्यैः चित्तं संयम्यते बलात् ।
तथापि यत्नमातिष्ठेदुपाधीनां तु वर्जने ॥ ४६५ ॥

7.466
द्विविधास्ते तु विज्ञेयाः सन्निकृष्टा मनोगताः ।
सन्निकृष्ठाः स्थानकृताश्चित्तोत्था वासनाकृताः ॥ ४६६ ॥

7.467
न दंशमशकाकीर्णे निश्शब्दे गन्धवर्जिते ।
निमीलिताक्षः सन्तिष्ठेत् सर्वेन्द्रियविवर्जितः ॥ ४६७ ॥

7.468
एवं परित्यजेत् सर्वानुपाधीन् सन्निकर्षजान् ।
वासनोत्थांश्च विविधान् सम्यक् लक्ष्यं समास्थिः ॥ ४६८ ॥

7.469
प्रत्याहरेत् सदा चित्तं विक्षिप्तं सर्ववस्तुषु ।
तामसं तत्तु बोद्धव्यं चित्तं सर्वगतं तदा ॥ ४६९ ॥

7.470
गतं रागादितो ज्ञेयमभ्यासाद्राजसं तु तत् ।
तत् साधु कथ्यते चित्तं संश्लिष्टं लक्ष्यगोचरे ॥ ४७० ॥

7.471
सुलीनं च ततो ज्ञेयं गुणातीतं तपोधन ।
ध्यानमेवंविधं कुर्यात् सगर्भं प्राणनिग्रहे ॥ ४७१ ॥

7.472
उच्यते च ततो भूयस्त्रिविधा योगिनां गतिः ।
सकलं निष्कलं विष्णुं तृतीयं पररूपि च ॥ ४७२ ॥

7.473
अन्यत्तत् त्रिविधं ज्ञेयं शब्दं व्योमसविग्रह्णम् ।
विग्रहं देवदेवस्य लक्ष्यरूपं विचिन्तयेत् ॥ ४७३ ॥

7.474
ध्यानमेवं समुद्दिष्टं यावद्व्योमान्तिकं भवेत् ।
तावच्च भावयेल्लक्ष्यं यावल्लक्ष्यं न भावयेत् ॥ ४७४ ॥

7.475
भावे ह्यभावमापन्ने सस्वभावः परः स्मृतः ।
स्थूलं पूर्वं समब्यस्य ततः सूक्ष्मं ततः परम् ॥ ४७५ ॥

7.476
एवं विलीयते चित्तं लक्ष्यं चोपाधिभिः सह ।
विग्रंह देवदेवस्य ध्यायेद्धृत्पझगोचरे ॥ ४७६ ॥

7.477
ततोऽन्यं चिन्तयेल्लक्ष्यं स्थूलं सूक्ष्मं ततः परम् ।
एवमभ्यस्यमानस्य गुणोत्कर्षः प्रजायते ॥ ४७७ ॥

7.478
योगोऽयं मुनिशार्ढूल सामान्यः समुदाहृतः ।
परात्पराद्वासुदेवात् प्रकाशानन्दलक्षणात् ॥ ४७८ ॥

7.479
अतीन्द्रियादनौपम्यात् सच्चिद्रूपात् सदोदितात् ।
द्विभुजादेकमूर्तेश्च वरदाभयपाणिकात् ॥ ४७९ ॥

7.480
स्वास्तेः षाड्गुण्यसंसिद्धाच्चातुरात्म्यस्वभाविनः ।
संशान्तपरमानन्दस्वरूपाद्ब्रह्नणः सतः ॥ ४८० ॥

7.481
अनुग्रहार्थं भक्तानामवतीर्णस्य चेच्छया ।
परव्यूहादिरूपस्य दीपाद्दीपवदुज्ज्वलात् ॥ ४८१ ॥

7.482
एकाद्यनेकरूपस्य विग्रहोऽयं प्रकाशितः ।
तत्र चित्तं समाधाय योगी विज्ञानभावनाम् ॥ ४८२ ॥

7.483
तत्तन्मन्त्रपदेनैव योगाभ्यासं समाचरेत् ।
एवं यः कुरुते याति स कालेन परात्परम् ॥ ४८३ ॥

7.484
प्राप्तुमिच्छति यः शीघ्रं तस्य योगः समुच्यते ।
नित्योदितं परं ब्र्हन यत् पुरा ते प्रकाशितम् ॥ ४८४ ॥

7.485
वाच्यं तद्द्वादशार्णस्य ध्यात्वा युञ्जीत बुद्धिमान् ।
नासाग्रे भुवि सद्ब्रह्न ध्यायन् कुर्याज्जपं द्विधा ॥ ४८५ ॥

7.486
जिह्वाग्रे तु चतुर्धाप्सु तालुन्यग्नौ तथा च षट् ।
जिह्वामध्ये तथा वायावष्टधावर्तयेन्मनुम् ॥ ४८६ ॥

7.487
जिह्वामूले तथा व्योम्नि दशधा द्वादशाक्षरम् ।
कण्ठकूपे तु मनसि ध्यात्वा षोडशधा जपेत् ॥ ४८७ ॥

7.488
उरोदेशे बुद्धितत्वे चतुर्विंशतिधा जपेत् ।
उरोन्तेऽहङ्कतौ द्यायञ्जपेच्चाशीतिधा पुनः ॥ ४८८ ॥

7.489
शतं कर्मणि कालेऽब्जज अर्धयुक्तं शतं जपेत् ।
ततः पुष्करनाड्यां वै शतद्वयमनाकुलः ॥ ४८९ ॥

7.490
अध्यक्षाद्वासुदेवान्तं हृद्याकाशे चतुःशतम् ।
हृदि नादावसानोर्ध्वं गगने योजयेत्तु वा ॥ ४९० ॥

7.491
एवं वा प्रणवेनाड्यां प्रणवार्णेन वाचरेत् ।
एवं मन्त्रविशेषेण बहुधा योग ईरितः ॥ ४९१ ॥

7.492
इति यः कुरुते योगं नित्ययुक्तः समाहितः ।
प्राप्नोति परमं स्थानं नित्योदितमनामयम् ॥ ४९२ ॥

7.493
समाधायात्मनाऽत्मानमेवं जप्त्वा जपक्रियाम् ।
ज्ञातृज्ञेयाविभागेन यावत्तन्मयतां व्रजेत् ॥ ४९३ ॥

7.494
यथा संवेद्यनिर्मुक्ते समाधौ लभते स्थितिम् ।
अब्यासाद्भववद्योगी ब्रह्न सम्पद्यते तदा ॥ ४९४ ॥

7.495
ततः श्रमजयं कुर्यात् त्यक्त्वा ध्यानासनक्रमान् ।
शय्यासनं निवेद्याथ मूलमूर्तेरनन्तरम् ॥ ४९५ ॥

7.496
लक्ष्म्यादिशक्तियुक्तस्य यागमूर्तिगतस्य च ।
तस्मिन्नारोपयेद्देवं सर्वाङ्गपरिशोभिते ॥ ४९६ ॥

7.497
अर्घ्यं पाद्यं तथाचामं प्रतिग्रहसमन्वितम् ।
दत्वा समालभेत् पश्चाच्चन्दनाद्यनुलेपनैः ॥ ४९७ ॥

7.498
सुगन्धपुष्पमाल्यादि दीपधूपे निवेद्य च ।
भक्ष्याण्यपूपपूर्वाणि सक्षीराणि फलानि च ॥ ४९८ ॥

7.499
तर्पणाम्भश्च ताम्बूलं साङ्गं सद्गन्धभावितम् ।
निवेद्य देवदेवाय विभवानुगुणं ततः ॥ ४९९ ॥

7.500
सर्वं तु विन्यसेत् पश्चात्तस्मिन् कर्मकृतं च यत् ।
तुष्टं गृहीतं तत् पूर्णं भावयेद्दक्षिणं करम् ॥ ५०० ॥

7.501
तन्मध्ये निष्कलं मन्त्रं सर्वं यत् किरणाकुलम् ।
योगोत्थां फलसम्पत्तिं लक्ष्मीरूपां विचिन्त्य च ॥ ५०१ ॥

7.502
मूलमन्त्रं समुच्चार्य पाणिमध्ये तथा स्मरेत् ।
भूयश्च निष्कलं मन्त्रं तस्मादुपरि भावयेत् ॥ ५०२ ॥

7.503
सशीर्षे जानुनी भूमौ कृत्वा विष्णोर्निवेदयेत् ।
प्रसादाभिमुखेनाथ तेन तच्चात्मसात् कतम् ॥ ५०३ ॥

7.504
भावनीयं द्विजश्रेष्ठ परितुष्टेन चादरात् ।
सन्यासं सञ्चयं वाथ कृत्वा सम्यक्कृतस्य च ॥ ५०४ ॥

7.505
मन्त्ररूपानुकारिण्या मुद्रणीयं च मुद्रया ।
फलार्थं प्रसवं येन नैति सन्यासकारिणा ॥ ५०५ ॥

7.506
फलपर्यावसाने च कालमागमचोदितम् ।
भर्तुर्नो युज्यते येन सिद्धार्थैस्तु फलार्थिनाम् ॥ ५०६ ॥

7.507
नित्यं प्रतिष्ठितं बिम्बं विना स्थलजलादिकान् ।
विसर्जनं ततः कुर्याद्दत्वार्घ्यं धूपसंयुतम् ॥ ५०७ ॥

7.508
भोगस्थानगता मन्त्राः पूजिता ये यथाक्रमम् ।
मुख्यमन्त्रशरीरं तु संप्रविष्टांश्च संस्मरेत् ॥ ५०८ ॥

7.509
ज्वालाज्वालान्तरे यद्वत् समुद्रेष्विव निम्नगाः ।
तन्मन्त्रविग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज ॥ ५०९ ॥

7.510
प्रविष्टं भावयेत् सूक्ष्मे ह्यध्यक्षे ह्युभयात्मके ।
परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम् ॥ ५१० ॥

7.511
तस्मात् परं स्फुरद्रूपं निराधारपदाश्रितम् ।
दर्पणं दर्शयित्वा तु निर्मलं तस्य चाग्रतः ॥ ५११ ॥

7.512
सन्धिमार्गेण हृत्पझे संप्रविष्टं तु भावयेत् ।
स्मृत्वा परात्मना तं च स्वसंविद्गगने हृदि ॥ ५१२ ॥

7.513
विश्रान्तं भावयेद्देवं स्वभावेन समन्वितम् ।
कर्मार्चादिषु बिम्बेषु षट्सु नित्यादिसिद्धये ॥ ५१३ ॥

7.514
प्रतिष्ठितेषु विधिवन्नित्यं प्राभातिकेऽर्चने ।
तच्छक्त्या योजितां शक्तिं मूलबिम्बाद्यथापुरा ॥ ५१४ ॥

7.515
समभ्यर्च्यार्घ्यपुष्पाद्यैस्ताम्बूलान्तैः पुरोदितैः ।
पुनरारोपयेन्मूले तत्र तत्र नियोजिताम् ॥ ५१५ ॥

7.516
पूजार्थं कर्मबिम्बादौ नित्यनैमित्तिकादिषु ।
प्राप्तेषु तत्तत्कर्मादौ मूलादावाह्य मन्त्रवित् ॥ ५१६ ॥

7.517
समाप्य तेषु तत्कर्माण्रारब्धानि यथार्थतः ।
समर्प्य मूलबिम्बे तु तेभ्यस्तत्र विसर्जयेत् ॥ ५१७ ॥

7.518
मन्त्रानर्घ्यादिपात्रस्थान् विसृज्य प्राक् प्रयोगतः ।
शेषमर्घ्यादिकं सर्वं भुक्तपूर्वेण वै सह ॥ ५१८ ॥

7.519
पाणिना तोयपूतेन विष्वक्सेनाय चार्प्य च ।
न्यासद्वयं च संहृत्य मनसा च स्वविग्रहात् ॥ ५१९ ॥

7.520
निश्शेषस्योपसंहारं कुर्यादर्घ्यादिकस्य च ।
यागोद्देशात्तथा कुण्डात्स्तराद्यस्याखिलस्य च ॥ ५२० ॥

7.521
सहोपलेपनेनैव सर्वमंभसि निक्षिपेत् ।
धर्तव्यं न चिरं चाग्रे यत् पुरा विनिवेदितम् ॥ ५२१ ॥

7.522
नैवेद्यं मन्त्रमूर्तीनां किञ्चित् पुष्पफलादृते ।
कवाटबन्धनं कुर्यान्मन्त्रं कवचमुच्चरन् ॥ ५२२ ॥

7.523
नियोज्य तत्र रक्षार्थं चक्रं च विहगेश्वरम् ।
स्वपेच्छय्यागतो मन्त्री प्रातरुत्थाय पूर्ववत् ॥ ५२३ ॥

7.524
यथोक्तं सकलं कुर्यात् प्रबोधयजनादिकम् ।
सकृत् त्रयहं च सप्ताहं पक्षं मासमथापि वा ॥ ५२४ ॥

7.525
योयजेद्विधिनानेन भक्तिश्रद्धासमन्वितः ।
सोऽपि यायात् परं स्थानं किंपुनर्योऽत्र संस्थितः ॥ ५२५ ॥


Kapitel 8

श्रीः ।
अष्टमोऽध्यायः ।
सनकः ।

8.1
भगवन् मुनिशार्दूल सर्वज्ञ वदतां वर ।
गरुडप्रमुखानां यदर्चनं प्रागुदीरितम् ॥ १ ॥

8.2
तदिदानीं विशेषेण विस्तरेण प्रकाशय ।
शाण्डिल्यः ।
श्रृणु वक्ष्यामि ते सम्यग्गरुडस्यार्चनं पुरा ॥ २ ॥

8.3
येन विज्ञातमात्रेण वाञ्छितं साधकोऽश्नुते ।
विष्णोःसङ्कर्षणाख्यस्य विज्ञानबलशालिनः ॥ ३ ॥

8.4
मूर्तिर्ज्ञानबलाख्या या सर्वाधारस्वरूंपिणी ।
महिमेति जगद्धातुर्विज्ञोयो विहगेश्वरः ॥ ४ ॥

8.5
सर्वरोगभयघ्नश्च क्षेपकः सर्वविद्विषाम् ।
ततस्तमर्चयेन्नित्यं प्रासादे स्थाप्य मन्त्रवित् ॥ ५ ॥

8.6
प्राङ्कणे प्रथमे वाऽथ द्वितीये मूलमन्दिरात् ।
अग्रदेशे प्रकुर्वीत प्रासादं मण्टपाकृतिम् ॥ ६ ॥

8.7
चतुर्द्वारसमोपेतं वर्गत्रयसमन्वितम् ।
वर्गषट्कान्वितं वाथ सर्वालङ्कारशोभितम् ॥ ७ ॥

8.8
मूलगेहात्रिभागोच्चमर्धोच्चं वा सुविस्तरम् ।
तस्मिन् ब्राह्नेऽथ दिव्ये वा दिव्ययुक्तेऽथ मानुषे ॥ ८ ॥

8.9
संस्थाप्य लोहजां वाथ शैलीमर्चां यथोदिताम् ।
त्रिकालमर्चयेन्नित्यं मुख्यमूर्त्यर्चनान्तिमे ॥ ९ ॥

8.10
तद्विधानं विशेषेण मन्त्रपूर्वं श्रृणु क्रमात् ।
प्रणवं पूर्वमुद्धृत्य पक्षिशब्दमनन्तरम् ॥ १० ॥

8.11
पञ्चाक्षरो महामन्त्रः स्वाहान्तः संप्रकीर्तितः ।
मन्त्रार्णानि सबिन्दूनि प्रागोङ्कारान्वितानि च ॥ ११ ॥

8.12
समुच्चार्याथ तुर्यान्तैर्ज्ञानाद्यैश्च हृदादिभिः ।
अनेत्रैरस्त्रपर्यन्तैरङ्गानीत्यवधारय ॥ १२ ॥

8.13
प्राङ्मूलमन्त्रमद्याद्यव्यत्ययाद्विषहा भवेत् ।
सोऽयं मन्त्रः समाख्यातस्त्रिदशैरपि दुर्लभः ॥ १३ ॥

8.14
पञ्चाक्षर इति ख्यातो गारुढो मुनिसत्तम ।
पञ्चाङ्गानि यथापूर्वमक्षरैः स्युः सबिन्दुकैः ॥ १४ ॥

8.15
साङ्गेनानेन मन्त्रेण स्थापनीयो विधानतः ।
मूलालयगते बिम्बे सुस्थिते वाथ यानगे ॥ १५ ॥

8.16
स्थितैव गारुडी मूर्तिर्याने वा गमनोन्मुखी ।
शयने चासने चैव त्वासीना वाथ सुस्थिता ॥ १६ ॥

8.17
द्वारावरणदेवानां ध्यानाध्याये विशेषतः ।
ध्वजारोहेऽपि सुव्यक्तं लक्षणं चास्य वक्ष्यते ॥ १७ ॥

8.18
एवं ज्ञात्वा यथाकालं तन्मन्त्रनिरतो द्विज ।
स्नात्वा तदीयमन्त्रेण कृतपादावनेजनः ॥ १८ ॥

8.19
उपस्पृश्य यथान्यायं प्रासादं संप्रविश्य च ।
स्वासने सुखमासीनः प्राड्मुखो वाप्युदड्मुखः ॥ १९ ॥

8.20
करशुद्धिं च दिग्बन्धं प्राणायामं समाप्य च ।
भूतशुद्धिं च विधिवन्मन्त्रविन्यस्तविग्रहः ॥ २० ॥

8.21
पक्षीशमुद्रां बद्ध्वाथ हृदयाम्भोरुहोदरे ।
स्वानन्दधामनिष्ठस्य देवस्य चतुरात्मनः ॥ २१ ॥

8.22
संकर्षणांशात् संपूर्णविज्ञानबलसंकुलात् ।
अवतार्यामृनैर्भोगैर्जपान्तं प्राग्वदर्च्य च ॥ २२ ॥

8.23
ततो मूर्तैर्यजेद्बाह्यैः प्रागुक्तैर्भोगसंचयैः ।
पात्रशिष्टैश्च देवान्नैः साधितैः पृथगेव वा ॥ २३ ॥

8.24
तदर्थं कल्पयेत् प्राग्वदर्घ्याद्यं पात्रपञ्चकम् ।
द्वितयं चाथवैकस्मिन् पाद्यं स्नानीयवारि च ॥ २४ ॥

8.25
अर्घ्याचामे तदन्यस्मिन्नेकस्मिन् सकलं तु वा ।
प्राग्वत् स्वदेहविन्यस्तान् मन्त्रानभ्यर्च्य मन्त्रवित् ॥ २५ ॥

8.26
अर्घ्याद्यैर्धूपपर्यन्तैस्ततो द्वारचतुष्टये ।
वास्त्वीशं क्षेत्तनाथं च द्वारलक्ष्मीं स्वमन्त्रतः ॥ २६ ॥

8.27
चण्डाद्यं च गणं प्राग्वदासनं कल्पयेत् ततः ।
शेषपूर्वं च धर्माद्यमष्टकं वा द्विरष्टकम् ॥ २७ ॥

8.28
कालचक्रं तदूर्ध्वे तु सरोजाद्यं चतुष्टयम् ।
समब्यर्च्य च गन्धाद्यैर्गणनाथादिकानपि ॥ २८ ॥

8.29
हृत्पजकर्णिकामध्ये मानसैरर्चितं पुरा ।
स्वविद्यया समावाह्य स्वस्थानाद्बिम्बहृत्कजे ॥ २९ ॥

8.30
सकलीकृत्य विधिवदङ्गलाञ्छनभूषणैः ।
सत्याख्यया दक्षिणतो बलशक्त्या स्वरूपया ॥ ३० ॥

8.31
गणित्रकं च मन्दारकुसुमस्तबकं तथा ।
कलशं चामृताधारं फणीन्द्रं दक्षिणादितः ॥ ३१ ॥

8.32
विन्यसेल्लाञ्छनान्येवं किरीटं वनमालिकाम् ।
अनन्तादीनि नागानि न्यस्यानि तदनन्तरम् ॥ ३२ ॥

8.33
शक्तिः प्रागुदिता तस्य बलधर्मस्वरूपिणी ।
पक्षीशमुद्रां सन्दर्श्य लययागं समाचरेत् ॥ ३३ ॥

8.34
भोगयागश्च कर्तव्यः पझपीठतलोपरि ।
प्रागादिपझपत्रेषु हृदयादीनि पूर्वत् ॥ ३४ ॥

8.35
विदिक्पत्रेषु चैवास्त्रमेषां वर्णानि पूर्ववत् ।
रूपलावण्यभूषाद्यैर्मूलमन्त्रशरीरवत् ॥ ३५ ॥

8.36
अग्नीशरक्षोवायव्यकोणेषु विहगेशितुः ।
चतुष्टयं गणित्राद्यं किरीटं वनमालिकाम् ॥ ३६ ॥

8.37
पुरस्तात् पृष्ठतो न्यस्य दक्षिणोत्तरयोस्तथा ।
चतुष्टयं क्रमेणैव शेषाद्याः पन्नगेश्वराः ॥ ३७ ॥

8.38
दक्षिणे विहगेशस्य सत्याख्या कर्णिकोपरि ।
प्राणापानसमानोदानव्यान प्राणरूपिणः ॥ ३८ ॥

8.39
मध्यस्थस्य खगेशस्य बहिः प्रागादितः क्रमात् ।
सत्यः सुपर्णो गरुडस्तार्क्ष्यश्च विहगेश्वरः ॥ ३९ ॥

8.40
पञ्चात्मकस्य प्राणस्य विकारस्त्वेष पञ्चधा ।
सत्याद्या दिक्षु चत्वारः कोणेषु विहगेश्वरः ॥ ४० ॥

8.41
द्यानमेषां विशेषेण समाकर्णय साम्प्रतम् ।
आचाङ्घ्रिगोचरात् सर्वो यस्य देहस्तु पौरुषः ॥ ४१ ॥

8.42
द्विभुजस्तुहिनाभस्तु स सत्यः प्राणदैवतम् ।
सुपर्णः पझरागाभो निर्मलः स्वर्णलोचनः ॥ ४२ ॥

8.43
गरुडः काञ्चनाभस्तु कुटिलभ्रवरुणेक्षणः ।
केकराक्षस्तु तार्क्ष्यो वै प्राबृड्जलदसन्निभः ॥ ४३ ॥

8.44
द्रवत्कनकनेत्रस्तु शबलाभस्तु पञ्चमः ।
चतुर्भुजाः सुपर्णाद्याः सौम्यरूपा ह्यनाकुलाः ॥ ४४ ॥

8.45
पतत्रिचरणाः सर्वे पक्षमण्डलमण्डिताः ।
लम्बोदराः सुपीनाङ्गाः कुण्डलाद्यैर्विभूषिताः ॥ ४५ ॥

8.46
कुटिलभ्रूसुवृत्ताक्षा वक्र तुण्डाः सिताननाः ।
अपानादिसमीराणामाधिपत्येन संस्थिताः ॥ ४६ ॥

8.47
महाबला महाकाया रक्ततुण्डोऽत्र पञ्चमः ।
स्वस्वाङ्गुष्ठद्वयप्रोतगणित्रोभयपाणिना ॥ ४७ ॥

8.48
पुष्पाञ्जलिधराः सर्वे मुख्येन विहगोत्तमाः ।
सुपर्णः पश्चिमाभ्यां तु पाणिभ्यां दक्षिणादितः ॥ ४८ ॥

8.49
मन्दारपुष्पस्तबकं दधद्विस्मयमुद्रिकाम् ।
तथाविधाभ्यां गरुडस्ते धत्ते व्यत्ययेन तु ॥ ४९ ॥

8.50
तार्क्ष्यः पश्चिमयोर्नित्यं धत्ते दक्षिणवामयोः ।
कद्रूं तथाऽमृतं कुम्भं पञ्चमो विहगेश्वरः ॥ ५० ॥

8.51
दक्षिणेन सुधाकुम्भं वामेन तु फणीश्वरम् ।
नित्योदितस्य व्यूहस्य तथा शान्तोदितस्य च ॥ ५१ ॥

8.52
प्राणापानादिवायूनां पञ्चानामपि नामभाक् ।
गरुडः परिवारत्वे ध्वजत्वेपि विशेषतः ॥ ५२ ॥

8.53
योजनीयस्तथान्येषु सषुप्त्यादिपदेषु तु ।
वासुदेवादिमूर्तीनां चतुर्णां क्रमशस्त्वमी ॥ ५३ ॥

8.54
सत्याद्यास्तार्क्ष्यपर्यन्तास्तत्तन्मूर्त्यन्तरेषु तु ।
त्रिषु त्रिषु समादेयाः सत्याद्याः केशवादिषु ॥ ५४ ॥

8.55
पझनाभादिमूर्तीनां पञ्चमो विहगेश्वरः ।
परात्परपरव्यूह व्यूहान्तरतनोर्विभोः ॥ ५५ ॥

8.56
प्रादुर्भावतनोश्चापि जगद्रक्षणकाङ्क्षिणः ।
खगानां कारणत्वाच्च प्रागुक्तो वा खगेश्वरः ॥ ५६ ॥

8.57
इति ते गारुडव्यूहप्रभावः संप्रकीर्तितः ।
कुमुदाद्यास्ततो बाह्ये शक्राद्यास्तद्बहिः क्रमात् ॥ ५७ ॥

8.58
तद्बहिः कुमुदादीनां भूतेशाश्चोत्कटादयः ।
गणशः पूजनीया वा तदग्रे बलिण्डले ॥ ५८ ॥

8.59
महापीठेऽथवा पूज्या गरुडस्यानुयायिनः ।
पालयन्तश्च तद्भक्तान् दिव्यान्यायतनान्यपि ॥ ५९ ॥

8.60
ध्यात्वैवमर्चनं कुर्यादासनाद्यैर्यथोदितैः ।
चतुष्षष्ट्युपचारैर्वा द्वात्रिंशद्भिस्तु वेतरैः ॥ ६० ॥

8.61
षोडशैरुपचारैर्वा मुख्यमद्याधमक्रमात् ।
तन्निवेदितमन्नाद्यं नराणां रोगिणां सदा ॥ ६१ ॥

8.62
वन्ध्यानां वनितानां च जयेच्छूनां च भूभुजाम् ।
विषोपहतवेषाणां प्रदद्यात् संविभज्य च ॥ ६२ ॥

8.63
आर्द्रायां प्रतिमासं तं विशेषेणैवमर्चयेत् ।
उत्सवेषु विशेषेण भ्रामयेदुत्सवार्चया ॥ ६३ ॥

8.64
इति सम्यक् समाख्यातं गरुडस्यार्चनं परम् ।
इतः परं यच्छ्रोतव्यं तद्वदस्व मुनेऽधुना ॥ ६४ ॥

8.65
सनकः ।
मुने सकलधर्मज्ञ भगवन् भक्तवत्सल ।
विष्वक्सेनस्य विघ्नारेः पूजनं विहितं पुरा ॥ ६५ ॥

8.66
तद्विधानं विशेषेण वद सानुग्रहो यदि ।
शाण्डिल्यः ।
पौष्काराख्ये महाशास्त्रे पुरा पुष्करजन्मनः ॥ ६६ ॥

8.67
विष्वक्सेनार्चनं प्रोक्तं यथावच्छृणु तन्मुने ।
पौष्कर उवाच ।
किमर्थमाह भगवन् विघ्नोच्छेदकरं प्रभुम् ॥ ६७ ॥

8.68
समस्तविघ्ननाथानां परमं कारणं च यः ।
विष्वक्सेनस्तु यष्टव्यो भोगभूमिगतेऽच्युते ॥ ६८ ॥

8.69
कैर्द्रव्यैः केनविधिना किं करोत्यभिपूजितः ।
श्रीभगवानुंवाच ।
भविनां भाविनो विग्नाः सद्धर्मविनिवारकाः ॥ ६९ ॥

8.70
न यागयज्ञधर्माद्यैर्मन्ये संसारिणां शुभम् ।
तत्प्रवृत्तौ तु ये विग्नाः प्रोत्साहविनिवारकाः ॥ ७० ॥

8.71
व्यपयान्ति च ते सर्वे चक्रज्वालाभयार्दिताः ।
प्रागार्जितेन केनापि कर्मणा द्विज साम्प्रतम् ॥ ७१ ॥

8.72
अनुभुङ्क्ते फलं यागाद्द्विविधं चाग्रतःस्थितम् ।
तस्य संरक्षणार्थं तु विष्वक्सेनः सदैव हि ॥ ७२ ॥

8.73
काले यागावसानाख्ये द्वितीयेऽवसरेऽथवा ।
कृत्वा निर्व्याकुलं चित्तं यष्टव्यः फलसिद्धये ॥ ७३ ॥

8.74
यागनिर्वर्तनाच्छेषैरम्लानैरर्घ्यपूर्वकैः ।
उपचारमयैर्भोगैः सर्वैराभरणादिकैः ॥ ७४ ॥

8.75
नैवेद्यैर्मधुपर्काद्यैर्मुख्यमूर्तेर्निवेदितैः ।
द्विजप्रदानशिष्टैस्तु स्वयं प्राशनवर्जितैः ॥ ७५ ॥

8.76
तथा चर्वन्तरस्थैश्च ह्यपरेभ्योऽनिवेदितैः ।
संस्कृतैरूष्मणोपेतैर्मधुराज्यपरिप्लुतैः ॥ ७६ ॥

8.77
पैष्कर उवाच ।
क एषोऽतुलवीर्यो हि यस्य दूराद्द्रवन्ति च ।
विघ्ना निमेषमात्रेण त्रैलोक्योन्मूलनक्षमाः ॥ ७७ ॥

8.78
श्रीभगवानुवाच ।
कालवैश्वानराख्या या मूर्तिस्तुर्यात्मनो विभोः ।
स एव द्विजदेवास्यो विष्वक्सेनः प्रकीर्तितः ॥ ७८ ॥

8.79
स्थित आहवनीयादिभेदेन मखयाजिनाम् ।
ऋक्पूतं हुतमादाय तर्पयत्यखिलं जगत् ॥ ७९ ॥

8.80
एवं मन्त्रमयाद्यागात् सात्विकाद्ब्रह्नभावितात् ।
संप्राप्य गुरुमूर्तेर्बै प्रापणं मन्त्रसंस्कृतम् ॥ ८० ॥

8.81
अनाहुतामराणां च सर्वलोकनिवासिनाम् ।
स्वयं संविभजत्याशु तदनुग्रहकाम्यया ॥ ८१ ॥

8.82
ज्ञात्वैवं तस्य माहात्म्यं व्यक्तिस्थं फलसिद्धये ।
त्रिसन्ध्यं नित्यपूजायां बल्यन्ते तं समर्चयेत् ॥ ८२ ॥

8.83
वत्सरोत्सवपूर्वेषु तथा वैशेषिकेष्वपि ।
व्यक्त्याद्याधारभूतेषु क्रमात् कृत्वा पुरार्चनम् ॥ ८३ ॥

8.84
केवलं वाथ होमान्तं स्वशक्त्या विभवेन वा ।
विस्तरेणाथवा शश्वत्ततः कमलसंभव ॥ ८४ ॥

8.85
कृत्वा पर्णपुटे तोयं पात्रे वा कलशेऽव्रणे ।
तमात्मनोत्तरे भागे ह्यर्चयित्वा निवेद्य च ॥ ८५ ॥

8.86
अथापरस्मिन् बाण्डे तु तदस्त्रपरिमन्त्रिते ।
नैवेद्याद्भागमादाय तथा चर्वन्तरस्थितात् ॥ ८६ ॥

8.87
ओदनादंशमुद्धृत्य दध्याज्यव्यञ्जनैः सह ।
समालभनपुष्पार्ध्यकुशाम्बुपरिभावितम् ॥ ८७ ॥

8.88
तद्धृन्मन्त्रेण बहुशो ह्यभिमन्त्र्याब्जसंभव ।
तन्मूलमन्त्रमुच्चार्य ध्यानभावनयान्वितम् ॥ ८८ ॥

8.89
प्राक्सन्निवेशिते भाण्डे समुत्कीर्य पिधाय तत् ।
प्रणवाष्टकजप्तं वा तन्नाम्ना सह पौष्कर ॥ ८९ ॥

8.90
एकं वै सोदकं पात्रं सनैवेद्यं जलाप्लुतम् ।
सर्वत्र सर्वदा यागे कुर्यात् प्राग्विधिना विना ॥ ९० ॥

8.91
तच्चापि क्ष्मातले कूपे तटाकादौ तु चोत्किरेत् ।
नोपभोगं यथा याति काकादिष्वब्जसंभव ॥ ९१ ॥

8.92
यस्मात् सन्मन्त्रपूतं तत् प्राधान्येनाभिवर्धते ।
अतो निषिद्धः पापानामपापानां विशेषतः ॥ ९२ ॥

8.93
ज्ञात्वैवं यत्रतो मन्त्री तन्मन्त्रेण समर्चयते ।
साङ्गं मन्त्रमतो वक्ष्ये यथावदवधारय ॥ ९३ ॥

8.94
आक्रान्तमनलेनैव प्राणाख्यं बीजनायकम् ।
त्रैलोक्त्यैश्वर्यदोपेतमूर्जोपरि गतं तु तत् ॥ ९४ ॥

8.95
ततो वाराहमादाय भूधरव्योम भूषितम् ।
विष्वक्सेनाय तदनु सनमस्कं पदं न्यसेत् ॥ ९५ ॥

8.96
प्रणवाद्यो ह्ययं मन्त्रो विष्वक्सेनस्य कीर्तितः ।
पूर्वबीजं हि यच्चास्य ऊकारस्वरवर्जितम् ॥ ९६ ॥

8.97
आकाराद्यैश्च षड्दीर्घैर्भिन्नमङ्गगणं नयेत् ।
प्रणवेन स्वनाम्नाथ जातिभिष्षड्भिरन्वितम् ॥ ९७ ॥

8.98
नमस्स्वाहादिभिश्चायं विष्वक्सेनस्य अङ्गकः ।
साङ्गेनानेन मन्त्रेण प्रतिष्ठाप्यो विधानतः ॥ ९८ ॥

8.99
प्रथमावरणे वाथ द्वितीयावरणेऽथवा ।
ईशानसोमदिङ्मध्ये प्रासादे दक्षिणामुखे ॥ ९९ ॥

8.100
मूलालयोच्चान्नीचे तु कल्पिते गर्भमन्दिरे ।
ब्रह्नस्थानेऽथवा दिव्ये मूलबेरांशमानतः ॥ १०० ॥

8.101
कल्पितस्य शिलादारुलीहपूर्वैस्तु वस्तुभिः ।
पूजनं मुख्यकल्पं स्यादनुकल्पेऽग्रमण्टपे ॥ १०१ ॥

8.102
प्रागुक्तकोणभूभागे मेखलात्रयनिर्मिते ।
पीठेऽवतार्य गगनादमूर्तं मूर्तमेव वा ॥ १०२ ॥

8.103
केबलं बलिदानेन तर्पयेदुदकेन च ।
चतुस्स्थानावतीर्णस्य मण्डलादिषु वृत्तिषु ॥ १०३ ॥

8.104
परव्यूहादिरूपस्य देवस्य यजनावधौ ।
प्रासादान्तर्गतस्यापि स्वस्थानस्थस्य मण्टपे ॥ १०४ ॥

8.105
पूजनं विधिवत् कार्यमारम्भदिवसादितः ।
सर्वकर्मावसाने तु मण्डलादिगते विभौ ॥ १०५ ॥

8.106
स्वे स्वे धाम्नि विसृष्टे तु ध्यात्वा मण्डलमध्यतः ।
पूजयेद्विधिवन्मन्त्री द्वितीये वासरेऽपि च ॥ १०६ ॥

8.107
भगवद्यजनार्थं तु प्रासादस्थं विशेषतः ।
यथाविधि समब्यर्च्य नैवेद्यैस्तन्निवेदितैः ॥ १०७ ॥

8.108
अर्घ्याद्यैरखिलैरन्यैस्ताम्बूलाद्यैश्च नित्यशः ।
जलस्थलादिनिलयांस्तद्भूतांश्चाथ तर्पयेत् ॥ १०८ ॥

8.109
प्रासादस्थस्य तस्याथ देहमानानुसारतः ।
कृत्वा हेमादिभिर्द्रव्यैर्विशेषार्यां विधानतः ॥ १०९ ॥

8.110
उग्रां वा शान्तरूपां वा विघ्नविध्वंसनक्षमाम् ।
चतुर्भुजां वा द्विभुजामासीनां वा समुत्थिताम् ॥ ११० ॥

8.111
द्विभुजस्य चतुर्हस्तामन्यथा वा प्रकल्पिताम् ।
वैशेषिकेषु प्राप्तेषु पूजयेदुत्सवार्चया ॥ १११ ॥

8.112
मृगयाद्युत्सवे प्राप्ते यत्र यत्र व्रजेत् प्रभुः ।
तत्र तत्र नयेदेनं निर्विध्नफलसिद्धये ॥ ११२ ॥

8.113
ध्यानमस्य प्रवक्ष्यामि यथावच्छृणु सत्तम ।
नवदूर्वाङ्कुराभं च त्वीषत्पित्तलकान्तिभृत् ॥ ११३ ॥

8.114
चतुर्दंष्ट्रं चतुर्बाहुं चतुष्किष्कुं चतुर्गतिम् ।
पूर्णाङ्गं केसरिस्कन्धं पृथूरस्थलराजितम् ॥ ११४ ॥

8.115
दक्षिणावर्तनिम्नेन नाभिरन्ध्रेण शोभितम् ।
आजानुबाहुं श्रीमन्तं पिङ्गलार्जिर्जटाधरम् ॥ ११५ ॥

8.116
द्रवत्कनकपिङ्गाक्षं चिपिटं पृथुनासिकम् ।
सितदीर्घनखश्रेणीशोभितं कुटिलभ्रुवम् ॥ ११६ ॥

8.117
विस्तीर्णगण्डवदनं बालेन्दुकुटिलोपमैः ।
नवकिंश्वरुणाकारैर्लोमैः संपूर्णविग्रहम् ॥ ११७ ॥

8.118
शोभनेन प्रलम्बेन पृथुना प्रोन्नतेन च ।
माणिक्यकुण्डलाढ्येन युक्तं श्रोत्रद्वयेन तु ॥ ११८ ॥

8.119
मकुटेनोन्नतेनैव हाराद्यैरुपशोभितम् ।
चित्रकौशेयवसनं विचित्रस्रग्विमण्डितम् ॥ ११९ ॥

8.120
प्रलयद्वादशादित्यसहस्रगुणदीधितिम् ।
ईषदूर्घ्वे तथादिर्यग्विनिपातितलोचनम् ॥ १२० ॥

8.121
कुन्देन्दुकान्तिदशनं किञ्चिद्विहसिताननम् ।
स्वभावसौम्यममलं मायाक्रोधोपरञ्जितम् ॥ १२१ ॥

8.122
सविलासचलत्पादन्यासस्थानकसंस्थितम् ।
स्वेनान्तः करणेनैव भावयन्तं परं पदम् ॥ १२२ ॥

8.123
अङ्गुष्ठादि कनिष्ठान्तं वामपाणौ लतात्रयम् ।
नामयत्युन्नता चैका घ्राणाग्रे विनियोजिता ॥ १२३ ॥

8.124
सद्विघ्नभीतिप्रदया त्वनया मुद्रयान्वितम् ।
रथाङ्गशङ्खहस्तं च लम्बमानगदाधरम् ॥ १२४ ॥

8.125
श्रोणीतटनिबिष्टेन सावहेलेन पाणिना ।
इत्थंरूपधरं देवमनेकाद्भुतविक्रमम् ॥ १२५ ॥

8.126
उग्ररूपमिति ध्यायेदाग्नेयमनलप्रभम् ।
दंष्ट्रातर्जननिर्मुक्तं साभयं शान्तलक्षणम् ॥ १२६ ॥

8.127
मुख्यदक्षिणहस्तेन भक्तानामभयप्रदम् ।
तथाविधेन वामेन लम्बमानगदाधरम् ॥ १२७ ॥

8.128
पृष्ठदक्षिणवामाभ्यां चक्रशङ्खधरं क्रमात् ।
एवं चतुर्भुजस्योक्तं द्विभुजस्यावधारय ॥ १२८ ॥

8.129
उक्ताभ्यामुग्रशान्ताभ्यां शङ्खचक्रद्वयं विना ।
प्रागुक्तद्वितयं वाथ द्वितीयं चिन्तितं तु वा ॥ १२९ ॥

8.130
गदाविरहितं वाथ वामकट्यवलम्बितम् ।
स्थानके वाऽसने वाममूरुदेशे निवेशितम् ॥ १३० ॥

8.131
गोपनीमुद्रया वाथ कटकाकारमुद्रया ।
उभाभ्यामपि पाणिभ्यां विश्रान्तं पीठपृष्ठतः ॥ १३१ ॥

8.132
अवष्टभ्य गदामूर्ध्वे मातङ्गमुसलाकृतिम् ।
प्राक्पढदलमाक्रम्य पादाब्यां कर्णिकासनम् ॥ १३२ ॥

8.133
सुस्थितं कर्णिकायां वा प्राग्वदन्यैरलंकृतम् ।
एवं ध्यानविशेषेषु त्वेकं स्थाप्य विधानतः ॥ १३३ ॥

8.134
समर्चयीत कालेषु प्रागुक्तेषु स्वमन्त्रतः ।
चतुस्स्थानार्चनार्थं तु ण्डलानां तु मध्यतः ॥ १३४ ॥

8.135
पूजितेष्वथ मन्त्रेषु नियुक्तेषु स्वधामनि ।
ईशानसोमदिङ्मध्ये चतुरश्रे पुरेऽथवा ॥ १३५ ॥

8.136
द्वारशोभाश्रनिर्मुक्ते रेखात्रितयभूषिते ।
तदन्तरेऽर्धचन्द्रस्थे कमलेऽष्टदलान्विते ॥ १३६ ॥

8.137
साम्राज्येन नियुक्तेऽस्मिन् विग्नानामच्युतेन तु ।
पूजिते विधिना शश्वदभीष्टं साधकोऽश्नुते ॥ १३७ ॥

8.138
तस्मान्मन्त्रैस्तदीयैस्तु स्नात्वा पूर्वविधानतः ।
प्रक्षाल्य पाणिपादौ वा त्वाचम्य न्यासमाचरेत् ॥ १३८ ॥

8.139
तदधिष्ठातृकत्वेन धारणाभिः स्वविग्रहम् ।
शोधयित्वा पुनर्न्यस्य षडङ्गं तत्करादितः ॥ १३९ ॥

8.140
प्राग्वदानन्दधामाच्च ह्यवतार्य तथा प्रभुम् ।
इष्ट्वा हृत्पुण्डरीके तु स्वापेक्षानिप्कलात्मकम् ॥ १४० ॥

8.141
तमेव सकलत्वेन यातं ध्यात्वा यजेद्वहिः ।
प्राग्वदर्ध्यादिपात्राणि प्रतिष्ठाप्य स्वविग्रहे ॥ १४१ ॥

8.142
विन्यस्तमन्त्रानभ्यर्च्य द्वारेदक्षिणसौम्ययोः ।
चण्डप्रचण्डसदृशौ बलप्रबलसंज्ञितौ ॥ १४२ ॥

8.143
वायुवेगं महाप्राणं द्वाराग्रे गरुडोपमम् ।
समभ्यर्च्य यथापूर्वं प्राग्दत्वा कमलासनम् ॥ १४३ ॥

8.144
धर्माद्यनन्तपर्यन्तं पञ्चकं नवकं तु वा ।
सत्वेनाच्छादितं पश्चात् केवलेनाम्बुजं स्मरेत् ॥ १४४ ॥

8.145
तस्मिन्नावाह्य तं देवं हृदये ध्यानचोदितम् ।
सन्निधानादिकं कृत्वा मुद्राबन्धपुरस्सरम् ॥ १४५ ॥

8.146
समभ्यर्च्यार्घ्यपुष्पाद्यैर्लययागविधानतः ।
कर्णिकामध्यगं तस्य हृदाद्यं मुख्यमन्त्रवत् ॥ १४६ ॥

8.147
पझच्छदान्तरस्थाश्च तदाकारद्युतिं विना ।
किन्त्वङ्गानां च सर्वत्र घ्यानमुक्तं सितादिकम् ॥ १४७ ॥

8.148
क्रियाख्यां तैजसीं शक्तिं स्वाहापर्यायरूपिणीम् ।
लक्ष्मीरूपधरां पीतां सर्वालङ्कारमण्डिताम् ॥ १४८ ॥

8.149
प्रियानुरूपां सततं स्वासीनां वाथ सुस्थिताम् ।
दक्षिणोत्तरयोगेन चामरोभयधारिणीम् ॥ १४९ ॥

8.150
ह्रीं क्रियायै स्वाहान्तो मन्त्रोऽयं संप्रकीर्तितः ।
अनेन स्वामिनो देहात्तैजसाद्विघ्नसूदनात् ॥ १५० ॥

8.151
वामपार्श्वेऽवतार्यास्य भोगयागावसानतः ।
गजाननो जयत्सेनो हरिवक्त्रो महाबलः ॥ १५१ ॥

8.152
कालप्रकृतिसंज्ञश्च चतुर्थः कमलोद्भव ।
गणराजेश्वरा ह्येते चत्वारश्चण्डविग्रहाः ॥ १५२ ॥

8.153
आज्ञाप्रतीक्षकाश्चास्य सुश्वेतचमरोद्यताः ।
विनायकादयश्चैव विघ्नेशाः प्रवरास्तु ये ॥ १५३ ॥

8.154
अमीषां गणनाथानां नित्यमाज्ञानुपालिनः ।
ईशानादिषु कोणेषु पद्मबाह्ये स्थितान् न्यसेत् ॥ १५४ ॥

8.155
वीक्षमाणा विभोर्वक्त्रं तत्तुल्यस्थानकैः स्थिताः ।
तद्वत्कराङ्किताः सर्वे किन्तु मुद्राविवर्जिताः ॥ १५५ ॥

8.156
ध्यानमेषां पृथग्भूतं शारीरमवधारय ।
भीमद्विपेन्द्रवदनं चतुरदंष्ट्रं त्रिलोचनम् ॥ १५६ ॥

8.157
कम्बुग्रीवं चतुर्बाहुं पूर्णचन्द्रायुतद्युतिम् ।
हारनूपुरकेयूरमेखलादाममण्डितम् ॥ १५७ ॥

8.158
नानास्रग्गन्धवस्त्राढ्यमनौपम्यपराक्रमम् ।
ध्यायेद्गजाननमतो जयत्सेनं च संस्मरेत् ॥ १५८ ॥

8.159
महत्तुरङ्गवदनं पझरागाचलप्रभम् ।
द्रवच्चामीकराक्षं च त्वनेकाद्भुतविग्रहम् ॥ १५९ ॥

8.160
हरिवक्त्रमतो ध्यायेत् सटाच्छुरितमस्तकम् ।
निष्टप्तकनकप्रख्यं द्योरघर्घरनिस्वनम् ॥ १६० ॥

8.161
मृगराड्वदनं विप्र कल्पान्तनिलवेगिनम् ।
कालप्रकृतिनामानं भावयेदञ्जनद्रिवत् ॥ १६१ ॥

8.162
दंष्ट्राकरालवदनं पिङ्गलश्मश्रुलोचनम् ।
झषकुण्डलभृद्रौद्रं मीनवन्निम्ननासिकम् ॥ १६२ ॥

8.163
गणराजेश्वराः ह्येते महापुरुषलक्षणैः ।
संयुक्ताश्चाखिलैर्विप्र आपादात् कन्धरावधि ॥ १६३ ॥

8.164
यत्किञ्चिन्मण्डनं वस्तु तदाद्योक्तं स्मरेत्त्रिषु ।
एतेषामर्चनं कुर्यात् स्वनाम्ना प्रणवादिना ॥ १६४ ॥

8.165
नमोन्तेनाब्जसंभूत नानासिद्धिफलाप्तये ।
अष्टाष्टकैस्तदर्धैर्वातस्यार्धैर्वा यथारुचि ॥ १६५ ॥

8.166
क्षिप्रकर्मप्रसिध्द्यर्थमष्टभिर्वा समर्चयेत् ।
तन्निवेदितमन्नाद्यमर्घ्यस्रक्चन्दनादिकम् ॥ १६६ ॥

8.167
न देयं कस्याचित् प्राज्ञैरैहिकामुष्मिकाप्तये ।
स्वाश्रितानामनुज्ञातं भूतानां चैव तेन तत् ॥ १६७ ॥

8.168
नित्यं तदूर्ध्वतस्तेषामाशास्थगितचारिणी ।
अत एव हि भोक्तॄणामर्थहानिं ददन्ति ते ॥ १६८ ॥

8.169
नूनमाशागणं सर्वं ध्वंसयन्ति सदैव हि ।
तस्माद्ददाति योऽन्येषां स्वयमश्नाति वाऽधमेः ॥ १६९ ॥

8.170
मोहादुपेक्षते वापि स याति नरकेऽधमः ।
अतः श्रेयोर्थिना कार्यः परिहारः सदैव हि ॥ १७० ॥

8.171
तच्चापि क्ष्मातले कूषे तटाकादौ तु चोत्क्षिपेत् ।
नोपभोगं यथा याति काकादिष्वब्जसंभव ॥ १७१ ॥

8.172
य स्मात् सन्मन्त्रपूतं तत् प्राधान्येनापि वर्धते ।
अतो निषिद्धः पापानामपापानां विशेषतः ॥ १७२ ॥

8.173
इति सम्यक् समाख्यातं विष्वक्सेनार्चनं तव ।
अतः परं यद्वक्तव्यमस्ति चेत्तद्वदस्व भे ॥ १७३ ॥

8.174
सनकः ।
कुमुदाद्यावृतीशानां द्वारावरणवासिनाम् ।
शिलालोहादिभिः क्लृप्ता या या मूर्तिः प्रतिष्ठिता ॥ १७४ ॥

8.175
तत्र तत्र च किं कार्यमर्चने तद्वदस्व मे ।
शाण्डिल्यः ।
द्वारावरणदेवानां सुस्थितानां स्वसझसु ॥ १७५ ॥

8.176
चलानां वाथ हेमाद्यैर्निर्मितानां यथाविधि ।
त्रिकालं वा द्विकालं वा संकटे त्वेककालिकम् ॥ १७६ ॥

8.177
तत्तन्मन्त्रेण कुर्वीत पूजामष्टोपचारतः ।
परव्यूहादिरूपस्य विष्णोर्दिव्यालयादिषु ॥ १७७ ॥

8.178
प्रासादबेरप्राकारगोपुरद्वारमण्टपान् ।
पचनालयपानीयशालापुष्पादिमण्टपान् ॥ १७८ ॥

8.179
धनधान्याम्बरावासमालिकाबलिविष्टरान् ।
तथाङ्गाश्रयसद्मानि गोशालावाहनास्पदान् ॥ १७९ ॥

8.180
अपूर्वानथवा जीर्णान् नष्टांश्चैबोद्धरन्ति ये ।
ग्रामादिरथ्यावरणानुत्सवभ्रमणाय च ॥ १८० ॥

8.181
फलपुष्पद्रुमाढ्यानि वापीकूपान्वितानि च ।
विश्राममण्डपोपेतनिपानालह्कृतानि च ॥ १८१ ॥

8.182
उद्यानानि प्रकुर्वन्ति ये भक्त्या तु जगत्प्रभोः ।
केदारापणपूर्वाणि साधनानि ददन्ति ये ॥ १८२ ॥

8.183
समाराधकपूर्वाणां तदैव परिचारिणाम् ।
दासीदासकुटुम्बानां देवालायनिवासिनाम् ॥ १८३ ॥

8.184
पोषं कुर्वन्ति ये वृत्या नित्यया प्रीतये विभोः ।
देवस्याङ्गाङ्गिरूपस्य परिवारगणस्य च ॥ १८४ ॥

8.185
नू पुरादिकिरीटान्तैर्विग्रहं भूषयन्ति ये ।
प्रासादगोपुरादीनि चामीकरमयानि च ॥ १८५ ॥

8.186
शयनासनयानानि रथानि विविधानि च ।
महान्ति हेमसद्रत्नरचितानि समन्ततः ॥ १८६ ॥

8.187
द्विरदांश्च वराश्वांश्च यागोपकरणानि च ।
पाद्यार्घ्यपात्रपूर्वाणि पादोदादिप्रतिग्रहान् ॥ १८७ ॥

8.188
भद्रपीठं तथा दीपधूपयोर्लक्षणान्वितम् ।
पात्रयुग्मं च वै घण्टामक्षसूत्रादिकान्यपि ॥ १८८ ॥

8.189
छत्राणि चामरादीनि सितानि विविधानि च ।
उपानत्पादुकादीनि पादपीठान्यनेकशः ॥ १८९ ॥

8.190
हविःस्थालीश्च विविधाः साधाराश्च सलक्षणाः ।
हेमराजतताम्रोत्थास्ताम्बूलाधारसंयुताः ॥ १९० ॥

8.191
स्रुक् स्रुवादीनि भाण्डानि यान्यन्यानि समर्चने ।
उपयोग्यानि सर्वाणि येऽर्पयन्ति जगद्विभोः ॥ १९१ ॥

8.192
देवद्रव्याणि रक्षन्ति देवस्वं च भयान्विताः ।
सदागमादिसिद्धान्तनिश्चयार्थप्रशंसकाः ॥ १९२ ॥

8.193
दीक्षापयन्ति सद्भक्तान् ये वेदान्तार्थसूचकाः ।
भाषाभिः स्वस्वकीयाभिर्ये तदर्थप्रबन्धकाः ॥ १९३ ॥

8.194
भक्तोत्तमास्ते विज्ञेयास्तान् दिव्यायतनादिषु ।
चलस्थिरविभागेन लोहैर्वा शिलयाथवा ॥ १९४ ॥

8.195
स्वस्ववर्णाश्रमाचारसदृशाकृतिचेष्टितान् ।
बद्धाञ्जलिपुटान् वाथ प्रमाणेनोपलक्षितान् ॥ १९५ ॥

8.196
लाञ्छितान्श्चक्रशङ्खाभ्यां भुजयोर्दक्षिणादितः ।
पझविष्टरमध्ये तु स्वासीनान् वाथ सुस्थितान् ॥ १९६ ॥

8.197
ऋजुस्थित्या यथाशोभं वैशाखस्थानकेन वा ।
निर्माय च विधानेन प्राङ्कमे मण्टपेऽथवा ॥ १९७ ॥

8.198
प्रासादेष्वनुरूपेषु कल्पितेष्वग्रतो विभोः ।
यथावकाशं वामे वा दक्षिणे वाथ पश्चिमे ॥ १९८ ॥

8.199
स्वस्वमन्त्रैः प्रतिष्ठाप्य विधिवच्छ्रद्धयार्चयेत् ।
श्रृणु मन्त्रांस्तदीयांस्तु स्थापनादिषु कर्मसु ॥ १९९ ॥

8.200
प्रधानपुरुषेशात्मतारकब्रह्नणाऽथवा ।
अहं स तारकेणैव सविसर्गेण चान्तिमे ॥ २०० ॥

8.201
आद्येन वा द्वितीयेन युक्तया त्रितयेन वा ।
संज्ञया योजनीयास्ते साङ्गयागानतः श्रृणु ॥ २०१ ॥

8.202
ताराद्ययोर्द्वयोरेकं षोढा कृत्वा तदन्तिमे ।
ज्ञानादिहृदयादीनि चतुर्थ्यन्तान्युदीरयेत् ॥ २०२ ॥

8.203
प्रणवाधारयुक्तानि प्रागेवाङ्गान्यमूनि वै ।
विन्यस्य संयजेन्नित्यं भक्तान् परमधर्मिणः ॥ २०३ ॥

8.204
पारतन्त्र्ये विधिरयं भक्तानां संप्रकीर्तितः ।
स्वातन्त्र्ये चाग्रहारादौ विपिने वा नदीतटे ॥ २०४ ॥

8.205
सप्राकारं विमानं तु यथेष्टतलशोभितम् ।
कल्पयित्वा प्रयत्नेन रथ्याभिश्च परिष्कृतम् ॥ २०५ ॥

8.206
देशान्तरगतानां वा भगवल्लोकवासिनाम् ।
दृश्यरूपमदृश्यं वा देवसारूप्यतां गतम् ॥ २०६ ॥

8.207
स्थापयित्वा विधानेन प्रासादे मानुषे पदे ।
दिव्यमानुषयोर्वाथ दिव्ये वा मानुषाश्रिते ॥ २०७ ॥

8.208
विष्णोर्मन्त्रासनाव्यक्तपझमध्यस्थचेतनात् ।
भक्तबिम्बहृदम्भोजे चैतन्यमवतार्य च ॥ २०८ ॥

8.209
सकलीकृत्य मन्त्रेण साङ्गेनाभ्यर्चयेत् सदा ।
आवाहने विशेषोऽयं जीवतां वाप्यजीवताम् ॥ २०९ ॥

8.210
सर्वत्राव्यक्तपझाद्यैरष्टभिर्वा द्विरष्टभिः ।
भोगैः प्रागुदितैः स्फीतैस्ताम्बूलान्तैरनुक्रमात् ॥ २१० ॥

8.211
तत्तज्जन्मदिने कार्यं तेषां वैशेषिकार्चनम् ।
कृत्वा पझध्वजारोहं कार्यस्तत्र महोत्सवः ॥ २११ ॥

8.212
देवेन सह कर्तव्यः परतन्त्रोत्सवे ध्वजः ।
भक्तप्रणीता गाधाश्च श्रुत्यन्तार्थोपबृह्निताः ॥ २१२ ॥

8.213
श्रावयेद्विधिवद्देवं भक्त्या गीतिपुरस्सरम् ।
तन्निवेदितमन्नाद्यं गायकेब्यः प्रदापयेत् ॥ २१३ ॥

8.214
इति ते वैनतेयादिपरिवारगणस्य च ।
पूजनं सर्बमाख्यातं नानासिद्धिफलप्रदम् ॥ २१४ ॥

8.215
गोपनीयं प्रयत्नेन नास्तिकानांविशेषतः ।
प्रकाशयस्व भक्तानां नित्यकर्मरतात्मनाम् ॥ २१५ ॥


Kapitel 9

श्रीः ।
नवमोऽध्यायः ।
शाण्डिल्यः ।

9.1
एवं कालत्रये कुर्यात् पूजनं मन्त्रवित्तमः ।
न च कालत्रयान्न्यूनं पूजनं विहितं सदा ॥ १ ॥

9.2
प्रासादेषु स्वयंव्यक्तपूर्वेषु द्विजसत्तम ।
कालत्रयं प्रधानं स्यात्तदूर्ध्वं कर्तुरिच्छया ॥ २ ॥

9.3
विभवापेक्षया चैव वर्धयेत यथाक्रमम् ।
यावद्द्वादशमः कालस्तावद्वै मुनिपुङ्गव ॥ ३ ॥

9.4
श्रेष्ठः प्रबातकालः स्यात् त्रिषु कालेषु वै पुनः ।
यथावन्मन्त्रविन्यासमात्मनः करदेहयोः ॥ ४ ॥

9.5
हृद्यागं स्थानसंशुद्धिं सायामां भौतिकीं ततः ।
नित्यं प्राभातिके कुर्यादन्यत्रेच्छानुरूपतः ॥ ५ ॥

9.6
स्नपनं बलिदानं च कुर्यात् कालत्रये सदा ।
मूर्तेरासनपूजा तु कार्या कालचतुष्टये ॥ ६ ॥

9.7
पञ्चकाले भवेन्न्यासः षट्काले हवनक्रिया ।
अत ऊर्ध्वेषु कालेषु जपान्तं पूजनं भवेत् ॥ ७ ॥

9.8
अलङ्कारासनाद्यं च पूर्ववत् क्रमयोगतः ।
विनोक्तेन प्रकारेण ह्यन्यथा न समाचरेत् ॥ ८ ॥

9.9
मुख्यकल्पे तु होमान्ता नित्यनैमित्तिकात्मकाः ।
पूजाः क्रमेण वै कुर्यात् तत्तद्धोमावसानिकाः ॥ ९ ॥

9.10
अनुकल्पे तु जप्यान्तं यागानन्तरितेषु वै ।
यागेषु हवनान्तेषु नित्यनैमित्तिकादिषु ॥ १० ॥

9.11
तत्तद्यागं जपान्तं च क्रमात् कृत्वा ततः परम् ।
तत्तद्धोमान् मुनिश्रेष्ठ क्रमात् कुर्याद्यथाविधि ॥ ११ ॥

9.12
अनुकल्पेषु यागेषु ह्युपकालोदितेषु वै ।
आसनार्घ्ये ततऋ पाद्यमाचामं सप्रतिग्रहम् ॥ १२ ॥

9.13
गन्धं माल्यं तथा दीपं धूपं मात्रां क्रमेण तु ।
दत्वा भोज्यावसानं तु क्रमाद्दद्याद्विधानतः ॥ १३ ॥

9.14
अथ द्वादशकालादि यावत् कालत्रयं द्विज ।
नाडिकानां विभागं तु क्रमेणैवावधारय ॥ १४ ॥

9.15
ब्राह्नान्मुहूर्तादारभ्य सपादं घटिकाद्वयम् ।
निर्वर्त्य नित्यकर्म प्राक् स्नानपूर्वं यथाविधि ॥ १५ ॥

9.16
सपादैकोत्तरा नाड्यो दश प्राभातिकेऽर्चने ।
ततो नाडीचतुष्कं तु भवेद्यागद्वयस्य तु ॥ १६ ॥

9.17
ततस्त्वर्धोत्तरा नाड्यस्तिस्रः स्युस्स्वान्हिकस्य तु ।
पश्चादर्धोत्तराः सप्त नाड्यो मध्यन्दिनार्चने ॥ १७ ॥

9.18
भूयस्तु घटिकायुग्मं यागस्य द्विजसत्तम ।
ततोऽपराह्णयागस्य भवेत्तु घटिकात्रयम् ॥ १८ ॥

9.19
स्वाध्यायस्य भवेत् कालस्ततस्तु घटिकाद्वयम् ।
अर्धोत्तरा भवेन्नाडी स्वस्य सायन्तनी क्रिया ॥ १९ ॥

9.20
ततः प्रदोषयागस्य सार्धाः सप्त च नाडिकाः ।
ततो यागद्वयं कुर्याद्धटिकानां चतुष्टये ॥ २० ॥

9.21
पश्चान्निशीथयागस्य भवेद्वै नाडिकात्रयम् ।
भूयस्तु पूजनं विप्र कुर्याद्वै घटिकाद्वये ॥ २१ ॥

9.22
ततस्तु प्रत्युषो यागः सार्धं स्यान्नाडिकाद्वयम् ।
योगपूर्वं तु विश्रामश्चतस्रो नाडिकास्ततः ॥ २२ ॥

9.23
यत्र द्वादशकालेज्या तत्रायं कालनिर्णयः ।
यत्रैकादशकालेज्या तत्रायं क्रम उच्यते ॥ २३ ॥

9.24
निशीथयजनादूर्ध्वं प्रत्युषः पूजनं भवेत् ।
यद्वा प्रादोषिकादूर्ध्वं कालमेकं विलोपयेत् ॥ २४ ॥

9.25
विश्रामस्य भवेत् कालो नाडीनां षट्कमेव च ।
यदा तु दशकालेषु पूजनं विहितं तदा ॥ २५ ॥

9.26
मध्याह्नपूजनादूर्ध्वमपराह्णार्चनं भवेत् ।
तथा मध्याह्णपूजायाः सार्धास्तु नव नाडिकाः ॥ २६ ॥

9.27
यत्र कालेषु नवसु पूजनं विहितं तदा ।
निशीथपूजनात् पूर्वमेकं यागं तु लोपयेत् ॥ २७ ॥

9.28
दश नाड्योऽर्धहीनाः स्युस्तदा प्रादोषिकेऽर्चने ।
यत्र कालाष्टके यागा विहिता द्विजसत्तम ॥ २८ ॥

9.29
तदा प्राभादिकादूर्ध्वमेकं यागं विलोपयेत् ।
तदा प्राभातिके यागे सांशा नाड्यस्त्रयोदश ॥ २९ ॥

9.30
यजनं सप्तकालेषु यदा स्याद्द्विजसत्तम ।
प्रदोषश्च निशीथस्च प्रत्यूषश्च तथा निशि ॥ ३० ॥

9.31
निशीथस्य भवेत् कालश्चतस्रो नाडिकास्तदा ।
अर्धहीनाश्चतस्रस्तु घटिकाश्चरमस्य तु ॥ ३१ ॥

9.32
यत्र वै कालषट्के तु पूजनं विहितं तदा ।
पूर्वमध्यापराह्णास्तु दिवाकालास्त्रयः स्मृताः ॥ ३२ ॥

9.33
स्वस्य प्राभातकृत्यस्य सांशं नाडीत्रयं तदा ।
सार्धाश्चतस्रो नाड्यस्तु स्वस्य मध्यन्दिनस्य तु ॥ ३३ ॥

9.34
प्रातराद्या निशीथान्ताः पञ्चकाला उदाहृताः ।
तदा शिष्टास्तु घटिका योगविश्रामयोः स्मृताः ॥ ३४ ॥

9.35
एतेऽपराह्णरहिताश्चतुष्कालाः प्रकीर्तिंताः ।
पञ्चकं घटिकानां तु स्वाध्यायस्य भवेत्तदा ॥ ३५ ॥

9.36
प्रातर्मध्यन्दिनं सायं त्रयः काला यथाक्रमम् ।
तदानीमवशिष्टास्तु घटिकाः स्वस्य कर्मणः ॥ ३६ ॥

9.37
अनुकल्पे तु कालः स्यादेको माध्यन्दिनोऽथवा ।
माध्यन्दिनश्च नैशश्च द्वौ कालौ शक्तितो द्विज ॥ ३७ ॥

9.38
यत्रावरणबाहुल्यं तथा च बलिविस्तरः ।
भगवद्यागविस्तारो महता विभवेन तु ॥ ३८ ॥

9.39
अनेका मूर्तयो यत्र पूज्यन्ते विस्तरेण तु ।
तत्र तत्र समभ्यूह्य स्वबुद्ध्या तु समाचरेत् ॥ ३९ ॥

9.40
वृद्धिं प्रधानकाले तु नाडिकानां महामते ।
संक्षेपमुपसन्ध्यासु तत्तत्कर्मानुगुण्यतः ॥ ४० ॥

9.41
एवमुक्तेषु कालेषु यः पूजयति सर्वदा ।
स पूजाफलमाप्नोति साकल्येन महामते ॥ ४१ ॥

9.42
यथा कालात्ययो न स्यात्तथा कुर्यात् प्रयत्नतः ।
उक्तेऽस्मिन् समतिक्रान्ते काले दोषो भवेन्महान् ॥ ४२ ॥

9.43
मनुजैः कल्पिते स्थाने इत्युक्ता नाडिकास्थितिः ।
स्वयं व्यक्तादिकेऽप्येवं स्थानानामार्षपश्चिमे ॥ ४३ ॥

9.44
चतुष्टये भवेद्विप्र कालानां तु विनिर्णयः ।
विशेषः श्रूयतामत्र नियतेष्वपि कर्मसु ॥ ४४ ॥

9.45
वत्सरोत्सवपूर्वेषु नानानैमित्तिकेषु च ।
पवित्रारोहणान्तेषु काम्येषु विविधेषु च ॥ ४५ ॥

9.46
तथा च प्रायश्चित्तेषु राष्ट्रभङ्गादिदोषतः ।
यद्वा यजनविस्तारादसामर्थ्यादिकेन वा ॥ ४६ ॥

9.47
तत्तत्कर्मोदिते काले समतीते क्षणादिके ।
न दोषो विद्यते विप्र तत्तत्स्थानप्रभावतः ॥ ४७ ॥

9.48
सदागमपरैर्विप्रैः पश्चकालपरायणैः ।
चातुरात्म्यैकनिष्ठैस्तु अनन्यैरधिकारिभिः ॥ ४८ ॥

9.49
प्रागुक्तैर्व्यापकैर्मन्द्नैर्द्वादशाक्षरपूर्वकैः ।
अङ्गोपाङ्गादिसंयुक्तैर्दिव्यशास्त्रोक्तमार्गतः ॥ ४९ ॥

9.50
यजनं क्रियते यत्र तत्रापि च विशेषतः ।
कालातिक्रमदोषस्तु विद्यते न कदाचन ॥ ५० ॥

9.51
तथापि कालातिक्रान्तौ विशेषमवधारय ।
व्यामिश्रयाजिभिर्वर्णैर्निर्मितायतनास्तु ये ॥ ५१ ॥

9.52
तेषु कर्मणि नित्येऽपि काम्ये नैमित्तिकेऽपि वा ।
विविधेऽपि तथा विप्र प्रायश्चित्ताख्यकर्मणि ॥ ५२ ॥

9.53
तत्तदुक्तस्य कालस्य मुहूर्तस्याप्यतिक्रमे ।
कर्तुर्गुरोश्च स्थानस्य तस्य दोषो महान् भवेत् ॥ ५३ ॥

9.54
अनन्यशरणैर्वर्णैः स्थाने तु परिकल्पिते ।
आरम्भः प्रातरिज्याया अपि यामाष्टमांशकम् ॥ ५४ ॥

9.55
नातिक्रामेन्न मध्याह्नः साष्टांशं प्रहरद्वयम् ।
न च सायन्तनारम्भो रात्रौ यामाष्टमांशकम् ॥ ५५ ॥

9.56
निशीथपूजानारम्भो न च नाडीस्त्रयोदश ।
प्रत्युषः पूजनारम्भः न च ह्येकोनविंशतिम् ॥ ५६ ॥

9.57
अतिक्रमेच्चेद्दोषः स्यात् कर्त्रादित्रितयस्य च ।
नैमित्तिकादिके प्राग्वद्भवेद्दोषस्य निर्णयः ॥ ५७ ॥

9.58
सच्छूद्रैः कल्पिते विप्र स्थाने तु विनिबोध मे ।
अहनि प्रातरारम्भो यामांशं न व्यतिक्रमेत् ॥ ५८ ॥

9.59
न च माध्यन्दिनारम्भः सपादं प्रहरद्वयम् ।
रात्रौ सायन्तनारम्भो यामांशं न व्यतिक्रमेत् ॥ ५९ ॥

9.60
निशीथयजनारम्भो न च नाडीद्विसप्तकम् ।
नातिक्रामेत् प्रत्युषस्तु विंशतिं यद्यतिक्रमेत् ॥ ६० ॥

9.61
सबन्धुकस्य वै कर्तुः स्थानस्य च गुरोर्भवेत् ।
भयं नैमित्तिकादीनां प्राग्वत्तत्तदतिक्रमे ॥ ६१ ॥

9.62
सद्वैश्यैः कल्पिते स्थाने विभागमवधारय ।
प्रागिज्योपक्रमे नाडीद्वितयं ह्युदयात् परम् ॥ ६२ ॥

9.63
नातिक्रमेन्न माध्याह्नो ह्यष्टाविंशतिनाडिकाः ।
रात्रौ सायन्तनारम्भक्त्रितयं न व्यतिक्रमेत् ॥ ६३ ॥

9.64
निशीथयजनारम्भो यामौ द्वौ न ह्यतिक्रमेत् ।
प्रत्युषः पूजनारम्भो न च नाड्येकविंशतिम् ॥ ६४ ॥

9.65
नैमित्तिकाद्यं त्रितयं न च कालमतिक्रमेत् ।
प्रागुक्तं यद्यतिक्रामेत् कर्तुर्वै देशिकस्य च ॥ ६५ ॥

9.66
सबन्धुकस्य जायेत महाव्याध्यादिपीडनम् ।
स्थानस्य धान्यनाशः स्यान्महाभूतैरुपप्लवः ॥ ६६ ॥

9.67
सदागमज्ञैः क्षत्रैस्तु क्लृप्ते वक्ष्याम्यतः परम् ।
प्रातरिज्यासमारम्भो यामार्धं न ह्यतिक्रमेत् ॥ ६७ ॥

9.68
न च माध्यन्दिनारम्भः सार्धं यामद्वयं द्विज ।
न च सायन्तनारम्भो यामार्धं न ह्यतिकमेत् ॥ ६८ ॥

9.69
निशीथयजनारम्भो नाडीषोडशकं न च ।
यामत्रयं तदन्यस्तु न च नैमित्तिकादिकम् ॥ ६९ ॥

9.70
उक्तं कालमतिक्रामेत् प्रमादाद्यद्यतिक्रमेत् ।
देशक्षोभादिदोषः स्यात् पूर्वोक्तत्रितयस्य च ॥ ७० ॥

9.71
पञ्चकालपरैर्विप्रैः कल्पितेऽपि निबोध मे ।
प्रागिज्योपक्रमो नाडीपञ्चकं न व्यतिक्रमेत् ॥ ७१ ॥

9.72
न च माध्यन्दिनारभ्भो नाडिकानां तु विंशतिम् ।
न च सायन्तनारम्भो नाडीष्ट्कमतिक्रमेत् ॥ ७२ ॥

9.73
नातिक्रमेन्निशीथेज्या नाड्यः सप्तोत्तरा दश ।
चतुर्विंशतिमन्तेज्या नाडीनां न ह्यतिक्रमेत् ॥ ७३ ॥

9.74
न च नैमित्तिकाद्यस्य प्राप्तकालव्यतिक्रमः ।
एवमुक्तं तु नियमं येन केनाप्यतिक्रमेत् ॥ ७४ ॥

9.75
स्थानभ्रंशादिदोषः स्याद्देशिकादित्रयस्य च ।
ऋषिभिः कल्पिते स्थाने विशेषमवधारय ॥ ७५ ॥

9.76
नातिक्रमेत् प्रागिज्याया नाडीषट्कमुपक्रमः ।
माध्यन्दिनसमारम्भो न च नाड्येकविंशतिम् ॥ ७६ ॥

9.77
सायमिज्यासमारम्भो नाडीनां न च सप्तकम् ।
नातिक्रामेन्निशीथेज्या नाड्यष्टादशकं द्विज ॥ ७७ ॥

9.78
नातिक्रामेत् पश्विमेज्या नाडिकापञ्चपञ्चकम् ।
अतिक्रमेच्चेत् कर्तुः स्यात् क्षयव्याधिप्रपीडनम् ॥ ७८ ॥

9.79
तद्देशे स्यादनावृष्टिः स्थानस्य च महद्भयम् ।
कल्पिते मन्त्रसिद्धैस्तु स्थाने समवधारय ॥ ७९ ॥

9.80
आरम्भः प्रातरिज्यायाः प्रहरं न ह्यतिक्रमेत् ।
एकविंशतिकं सार्धं मद्याह्नो न व्यतिक्रमेत् ॥ ८० ॥

9.81
नातिक्रमेत्तु प्रहरं सायं याग उपक्रमः ।
निशीथयागो नाडीनां न च त्वेकोनविंशतिम् ॥ ८१ ॥

9.82
षड्विंशतिमतिक्रामेन्न च पश्चिमपूजनम् ।
अतिक्रमेच्चेद्वे कर्तुः पुत्रहानिर्भविष्यति ॥ ८२ ॥

9.83
स्थाने द्रव्यविनाशः स्याद्राष्ट्रस्य व्याधिपीडनम् ।
दिव्यस्थानेऽथ वक्ष्यामि प्रागिज्याया उपक्रमः ॥ ८३ ॥

9.84
अष्टकं न त्वतिक्रामेन्नाडीनां द्विजसत्तम ।
द्वाविंशतिं न मध्याह्नो न च सायन्तनोऽष्टकम् ॥ ८४ ॥

9.85
विंशतिं न निशीथेज्या सप्तविंशतिमन्तिमः ।
नातिक्रामेन्मुनिश्रेष्ठ प्रमादाद्यद्यतिक्रमेत् ॥ ८५ ॥

9.86
देशाधिपस्य पीडा स्याज्ज्वरादिव्याधिभिः सदा ।
स्थाने धान्यादिनाशः स्यात्तत्तद्देशनिवासिनाम् ॥ ८६ ॥

9.87
अथ स्थाने स्वयं व्यक्ते श्रृणु कालविधिं द्विज ।
प्रथमेज्यासमारम्भो घटिकादशकं न च ॥ ८७ ॥

9.88
अतिक्रामेन्न मध्याह्नो नाडीनां पञ्चविंशतिम् ।
सायमिज्यासमारम्भो दशकं न ह्यतिक्रमेत् ॥ ८८ ॥

9.89
द्वाविंशतिं निशीथेज्या नातिक्रामेत पश्चिमः ।
आदित्योदयवेलां तु नातिक्रामेत् कदाचन ॥ ८९ ॥

9.90
प्रमादाद्बुद्धिपूर्वाद्वा अतिक्रामेद्यदि द्विज ।
अरातिभिः परिभवो महाव्याध्यादिपीडनम् ॥ ९० ॥

9.91
सदा देशाधिपस्य स्यात् प्रजानां व्याधिपीडनम् ।
तत्स्थानस्य न सम्पत्तिस्तद्देशे वृष्टिवर्जनम् ॥ ९१ ॥

9.92
नित्यनैमित्तिकं कर्म नक्षत्रादिनिमित्तकम् ।
तत्तत्कर्मोदितं कालं नातिक्रामेत्तु मानुषे ॥ ९२ ॥

9.93
आर्षादिंके तु त्रितये पूर्वभागोदितं तु यत् ।
तत् कुर्यात्तदतिक्रान्तौ भागे तु तदनन्तरे ॥ ९३ ॥

9.94
तत्कालातिक्रमे दोषो नित्यातिक्रान्तिवद्भवेत् ।
अपरांशोदितं कर्म तत्रैव तु समाचरेत् ॥ ९४ ॥

9.95
पूर्वाह्णे विहितं कर्म मध्याह्ने तु समाचरेत् ।
मद्याह्ने विहितं यत्तदपराह्ने समाचरेत् ॥ ९५ ॥

9.96
पूर्वरात्रोदितं कर्म मध्यरात्रे समाचरेत् ।
मध्यरात्रोदितं यत्तत् कुर्यादपररात्रिके ॥ ९६ ॥

9.97
स्वयं व्यक्ते तु पूर्वांशविहितं स्यात्तु मध्यमे ।
पश्चिमे वापि तत्रोक्तं पूर्वे वा मध्यमेऽपि वा ॥ ९७ ॥

9.98
आचरेदनुकल्पे तु पूर्वाह्नविहितं तु यत् ।
तत् कुर्यादथ मध्याह्ने अपराह्णेऽथवा द्विज ॥ ९८ ॥

9.99
पूर्वरात्रोदितं कुर्यान्मध्ये वा पश्चिमेऽपि वा ।
ऋक्षाणां पूर्वभागे तु ऋक्षकर्म समाचरेत् ॥ ९९ ॥

9.100
तिथीनां पश्चिमे भागे तिथिकर्म समाचरेत् ।
नक्षत्रभेदे चाधिक्ये तिथिभेदे तदन्तिमे ॥ १०० ॥

9.101
तत्रापि चेदमावास्या सङ्गवात् परतो भवेत् ।
तस्मिन् कुर्यात्तु तत् कर्म तत् स्यात् पूर्वेद्युरन्यथा ॥ १०१ ॥

9.102
अतीते भगवद्यागमाचरेदुत्तरायणे ।
पश्चात् षोडशनाडीनामन्तरे होमपश्चिमम् ॥ १०२ ॥

9.103
स्नपनाद्यं मुनिश्रेष्ठ चैत्रे च विषुवे तथा ।
प्रागेव भगवद्यागमाचरेद्दक्षिणायने ॥ १०३ ॥

9.104
स्नपनाद्यं तु होमान्तं नाडीषोडशकान्तरे ।
अनुकल्पे तु तत् कुर्यात् पश्चात् षोडशकान्तरे ॥ १०४ ॥

9.105
एवमाश्वयुजे मासि विषुवेऽपि समाचरेत् ।
उत्तरायणवत् कुर्यात् तत्सङ्क्रान्तिचतुष्टये ॥ १०५ ॥

9.106
यल्लग्नहेतुकं कर्म यन्मुहूर्तनिमित्तकम् ।
तत् सशेषं समापाद्य प्रायेण विभवेन तु ॥ १०६ ॥

9.107
तस्मिन् प्राप्ते शुभे काले शश्वच्छेषं समापयेत् ।
अर्घ्याद्यैर्देवमिष्ट्वा तु अग्नौ पूर्णाहुनिं ददेत् ॥ १०७ ॥

9.108
नैमित्तिकं दिवोक्तं तु दिवैव तु समापयेत् ।
नैमित्तिकं निशोक्तं तु निश्येव तु समापयेत् ॥ १०८ ॥

9.109
यस्मिन् यस्मिन्नहोरात्रे विहितं कर्म यद्द्विज ।
समापयेत् तत्तस्मिन् यत्नतोऽवश्यमेव हि ॥ १०९ ॥

9.110
महोत्सवः सदाकालं विहितं न त्वतिक्रमेत् ।
नि शोत्सवस्य कालः स्यात्तपनस्योदयावधि ॥ ११० ॥

9.111
कालः स्यात्तीर्थयात्रायां विंशन्नाड्चन्तरे दिवा ।
मनुष्यनिर्मिते स्थाने मुख्यकल्पे द्विजोत्तम ॥ १११ ॥

9.112
अनुकल्पे तु तत्कालो यावदस्तमयावधि ।
स्वयं व्याक्तादिके स्थाने दिवा स्यान्मुख्यकल्पके ॥ ११२ ॥

9.113
अनुकल्पे निशायां तु पूर्वार्धावधिको भवेत् ।
मुख्यकल्पेऽपि रात्रौ वा ह्ययनादेस्तु संभवे ॥ ११३ ॥

9.114
मर्त्यप्रतिष्ठिते स्थाने पवित्रारोहणस्य तु ।
कालः स्यादह्नि विप्रेन्द्र नाडीविंशतिकान्तरे ॥ ११४ ॥

9.115
स्वयं व्यक्तादिके स्थाने यावदस्तमयावधि ।
रात्रौ तु भूषणारोपं न कदाचित् समाचरेत् ॥ ११५ ॥

9.116
चन्द्रसूर्योपरागे च तत्कालात् पूर्वमेव तु ।
चतुस्स्थानस्थितस्यापि स्थानद्वयगतस्य वा ॥ ११६ ॥

9.117
देवस्य यजनं कृत्वा होमान्तं स्नपनादिकम् ।
औपचारिकसांस्पर्शैः प्रभूतैर्हृदयङ्गमैः ॥ ११७ ॥

9.118
पयोघृतादिभिः सम्यक् सविशेषैर्महामते ।
ततोऽक्षसूत्रमादाय तावत् कुर्याज्जपं सुधीः ॥ ११८ ॥

9.119
यावद्राहुविमुक्तस्य चन्द्रादेर्दर्शनं भवेत् ।
पूजाहोमजपादीनां फलानन्त्यमवाप्नुयात् ॥ ११९ ॥

9.120
अन्यथा विफलं कर्म कर्तुर्व्याध्यादिपीडनम् ।
अतोऽप्यन्यदनित्यं यन्नैमित्तिकमुदाहृतम् ॥ १२० ॥

9.121
पुण्यकालवशेनैव तत्राप्येवं समाचरेत् ।
काम्यानि सर्वकर्माणि तत्तत्काले समाचरेत् ॥ १२१ ॥

9.122
अन्यथा तानि कर्माणि न सिध्यन्त्यचिरेण तु ।
स्वयंव्यक्तादिके तानि सर्वदैव समाचरेत् ॥ १२२ ॥

9.123
प्रायश्चित्तं तु वै कुर्यात् सञ्जाते तन्निमित्तके ।
तदैव वाथ कर्मान्ते त्रिदिनाभ्यन्तरे तु वा ॥ १२३ ॥

9.124
तद्गुरुत्वानुगुण्येन पञ्चसप्तदिनान्तरे ।
तदारम्भः समाप्तिर्वा ह्यन्यथा द्विगुणं चरेत् ॥ १२४ ॥

9.125
प्रायश्चित्तं तु वै कुर्यात् स्वयंव्यक्तादिके स्थले ।
स्वयंव्यक्तादिके स्थानचतुष्केऽपि महामते ॥ १२५ ॥

9.126
प्राकारगोपुरादीनामारम्भं स्थापनं तथा ।
तथा च कर्मबिम्बानां स्थापनं च विशेषतः ॥ १२६ ॥

9.127
जीर्णोद्धारविधानं च पुनः संस्थापनं तथा ।
अङ्कुरारोपणं चैव ध्वजारोहावरोहणे ॥ १२७ ॥

9.128
सुमुदूर्ते सुनक्षत्रे सुलग्नेऽपि समाचरेत् ।
दोषः स्यात्तदतिक्रान्तौ तच्छान्तिं च समाचरेत् ॥ १२८ ॥

9.129
द्वादशी तु कलामात्रा त्रयोदश्यां समाचरेत् ।
कर्मावसाने शयनं प्रबोधं पुनरेव हि ॥ १२९ ॥

9.130
पवित्रारोहणाद्येषु विविधेषु तु कर्मसु ।
मुहूर्तातिक्रमे दोषो न भवेत्तु कदाचन ॥ १३० ॥

9.131
यत्र तु व्यापकैर्मन्त्रैरनन्यैरधिकारिभिः ।
दिव्यशास्त्रोक्तमार्गेण पूजनं क्रियते विभोः ॥ १३१ ॥

9.132
तत्र स्यात् कालनियमो दिव्यस्थानोक्तमार्गतः ।
एतेषां द्वितयं यत्र तत्र कालस्तु सैद्धवत् ॥ १३२ ॥

9.133
यत्र त्रयाणामेकं स्यात् तत्रार्षस्थानवद्भवेत् ।
पुरोदितेषु स्थानेषु सर्वेष्वपि यथाक्रमम् ॥ १३३ ॥

9.134
य उक्तः कालनियमो नियताद्येषु कर्मसु ।
मुख्यानुकल्पभेदेन द्विविधस्तदतिक्रमे ॥ १३४ ॥

9.135
तद्दोषशान्तिं वै कृत्वा तानि कुर्यादनन्तरे ।
काले यथा क्रर्महानिर्न कदाचित्तु जायते ॥ १३५ ॥

9.136
तथा क्रमेण वै कुर्यात्तानि कर्माणि सर्वदा ।
नित्यनैमित्तिके प्राप्ते ह्येकस्मिन् समये तदा ॥ १३६ ॥

9.137
पूर्वं नैमित्तिकं कृत्वा पश्चान्नित्यं समाचरेत् ।
नैमित्तिके ह्यनित्ये च नित्ये च युगपद्गते ॥ १३७ ॥

9.138
प्रागनित्यं ततः पश्चान्नित्यनैमित्तिकं चरेत् ।
नैमित्तिके च काम्ये च प्राप्ते काम्यं तु पूर्वतः ॥ १३८ ॥

9.139
एतेष्वपि च सर्वेषु प्रायश्चित्ताख्यकर्मणि ।
एककाले तु संप्राप्ते प्रायश्चित्तं तु पूर्वतः ॥ १३९ ॥

9.140
समाप्य पश्चाद्वै कुर्यात् तानि कर्माणि सर्वदा ।
यदा नैमित्तिकाद्यं तु विभवाद्यैस्तु विस्तृतम् ॥ १४० ॥

9.141
तदा तात्कालिकं नित्यं तत्कालात् प्राक् समाचरेत् ।
कालातिक्रमदोषस्तु तत्र न स्यात् कदाचन ॥ १४१ ॥

9.142
देशिका बहवो यत्र बहवः परिचारकाः ।
तत्तत्कर्मोर्थबिम्बानि संभवन्ति बहूनि च ॥ १४२ ॥

9.143
तत्र सर्वाणि कर्माणि ह्येकदैव समाचरेत् ।
कालातिक्रमदोषस्तु विद्यते तत्र पूर्ववत् ॥ १४३ ॥

9.144
वक्ष्यन्ते देशिका ऊर्धं स्वयंव्यक्तादिषु द्विज ।
इदानीं मूर्तिभेदेषु लक्ष्यन्ते देशिकाः श्रृणु ॥ १४४ ॥

9.145
परात्परस्वरूपस्य परस्य च विभोः सदा ।
आचार्यान् शास्त्रविहितांश्चतुरः परिकल्पयेत् ॥ १४५ ॥

9.146
अष्टौ द्वादश वा कल्प्या व्यूहे मूर्त्यन्तरेऽपि च ।
वैभवेष्वपि मूर्तेषु देशिकेन्द्रास्तथैव हि ॥ १४६ ॥

9.147
साधकाश्चैवमेव स्युः सदा षोडश वा द्विज ।
विभवेषु स्वतन्त्रेषु साधका द्वादशैव वा ॥ १४७ ॥

9.148
अवतारेषु दशसु स्वतन्त्रेषु महामते ।
प्रासादे स्थापितेष्वेषु कल्प्या वाराधका दश ॥ १४८ ॥

9.149
यथोक्ताचारसंयुक्तास्तथाप्यधिकसंख्यकाः ।
तत्रैतत् कल्पनं श्रेष्ठमन्यत्र तदन्रथकम् ॥ १४९ ॥

9.150
न तु केवल एवैते दशकल्प्यः कदाचन ।
परात्परादिषु सदा दश संख्यां न कल्पयेत् ॥ १५० ॥

9.151
अस्वतन्त्रेऽवतारेऽपि दशसंख्यां न कल्पयेत् ।
परिचारकसंख्यां तु वक्ष्याम्युपरि विस्तरात् ॥ १५१ ॥

9.152
इति स्वार्थाविरोधेन परार्थाधिकृतस्य तु ।
एकायनस्य विदुषः प्रोक्ताः कालाः क्रमेण तु ॥ १५२ ॥

9.153
तथा वै दीक्षितस्यापि सिद्धान्तरतचेतसः ।
इदानीं कर्मणि स्वार्थे तयोर्निरतयोः सदा ॥ १५३ ॥

9.154
नित्यानां कालभेदं तु समाकर्णय साम्प्रतम् ।
अथाभिगमनाद्यास्तु पञ्चकालाः प्रकीर्तिताः ॥ १५४ ॥

9.155
पूर्वोऽभिगमनाख्यः स्यादुपादानाभिसंज्ञितः ।
कालानां प्रविभागं तु पृष्टः पुष्करजन्मना ॥ १५५ ॥

9.156
स्वाध्ययाख्यश्चतुर्थः स्यात् पञ्चमो योगसंज्ञितः ।
कालानां प्रविभागं तु पृष्टः पुष्करजन्मना ॥ १५६ ॥

9.157
नारदेनापि भेदेन प्रोवाच भगवान् स्वयम् ।
स एव क्रमशो विप्र प्रोच्यतेऽत्र पृथग्द्विज ॥ १५७ ॥

9.158
पौष्कर ।
ज्ञातुमिच्छामि भगवन् कालभेदेन वै सह ।
स्वरूपं मन्त्रसिद्धान्ताद्यागमानां यथास्थितम् ॥ १५८ ॥

9.159
श्रीभगवानुवाच ।
कालमेकं द्विजश्रेष्ठ तद्व्यापारवशात् पुनः ।
भिन्नमाभाति कर्तॄणां भगवद्भाविनां तु वै ॥ १५९ ॥

9.160
नाडिकाकलितं यद्वै अहोरात्रं तु संस्मृतम् ।
पञ्चधा विषमांशैस्तदाप्रभाताद्विभज्य च ॥ १६० ॥

9.161
ब्राह्नं मुहूर्तमासाद्य मन्त्रज्ञः प्रयतः शुचिः ।
शोधयित्वा स्वकं देहमायामाद्यैर्यथोदितैः ॥ १६१ ॥

9.162
मन्त्रविन्यस्तदेहोऽथ कुर्यान्मन्त्रार्चनं ततः ।
जपस्तोत्रावसानं च यावदादित्यदर्शनम् ॥ १६२ ॥

9.163
कुर्याद्भोगार्चनं पश्चात् पुष्पमूलफलादिकम् ।
गते दिनाष्टमे भागे स्नानपूर्वं समाचरेत् ॥ १६३ ॥

9.164
प्राग्वदाराधनं मान्त्रं तृतीयप्रहरावधि ।
ततश्चतुर्थे प्रहरे शास्त्राध्ययनमाचरेत् ॥ १६४ ॥

9.165
चिन्तनं श्रवणोपेतं व्याख्यानं स्वधियेच्छया ।
अस्तं गते दिनकरे आसाद्याराधनालयम् ॥ १६५ ॥

9.166
कुर्यान्मन्त्रार्चनं सम्यग्जपध्यानसमन्वितम् ।
आसाद्य शयनं पश्चात् स्मरेन्मन्त्रेश्वरं हृदि ॥ १६६ ॥

9.167
क्षपयित्वा निशांशं तु उत्थाय शयनात्ततः ।
योगं युञ्जीत वै मान्तनं प्राग्वद्धृत्कमलोदरे ॥ १६७ ॥

9.168
तल्पमासाद्य वै भूयः प्रबुद्धः कमलोद्भव ।
उत्थायं शयनं त्यकत्वा ततः पूर्वोक्तमाचरेत् ॥ १६८ ॥

9.169
कालभेदमिमं विद्धि सप्रपञ्चं पुरोदितम् ।
नारदः ।
एको हि श्रूयते देव कालो लोके न चापरः ॥ १६९ ॥

9.170
पञ्चकालास्त्वयोद्दिष्टाः किमेतन्मेऽत्र संशयः ।
श्रीभगवानुवाच ।
एकस्यैव हि कालस्य भेदशून्यस्य नारद ॥ १७० ॥

9.171
आप्रभातान्निशान्तं वै पञ्चधा परिकल्पना ।
पृथक्कर्मवशात् कार्या न काला बहवः स्मृताः ॥ १७१ ॥

9.172
नारदः ।
एककालाश्रितानां च कर्मणां लक्षणं वद ।
परिज्ञातैस्तु यैः सम्यक् कृतकृत्यो भवाम्यहम् ॥ १७२ ॥

9.173
श्रीभगवानुवाच ।
ब्राह्नान्मुर्तादारभ्य प्रागंशं विप्र वासरे ।
जपध्यानार्चनस्तोत्रैः कर्मवाक्चित्तसंयुतैः ॥ १७३ ॥

9.174
अभिगच्छेज्जगद्योनिं तच्चाभिगमनं स्मृतम् ।
ततः पुष्पफलादीनामुत्थायार्जनमाचरेत् ॥ १७४ ॥

9.175
भगवद्यागनिष्पत्तिकारणं प्रहरं परम् ।
तदुपादानसंज्ञं वै कर्मकालपदाश्रितम् ॥ १७५ ॥

9.176
ततोऽष्टाङ्गेन योगेन पूजयेत् परमेश्वरम् ।
साधकः प्रहरं विप्र इज्याकालस्तु स स्मृतः ॥ १७६ ॥

9.177
श्रवणं चिन्तनं व्याख्या ततः पाठसमन्वितः ।
स्वाध्यायसंज्ञं तं विद्धि कालांशं मुनिसत्तम ॥ १७७ ॥

9.178
दिनावसाने संप्राप्ते पूजां कृत्वा समब्यसेत् ।
योगं निशावसाने च विश्रमैरन्तरीकृतम् ॥ १७८ ॥

9.179
पञ्चमो योगसंज्ञोऽसौ कालांशो ब्रह्नसिद्धिदः ।
नारदः ।
श्रुतो मयाखिलः पूर्वं भगवद्याग उत्तमः ॥ १७९ ॥

9.180
तस्याङ्गानि विभागेन ज्ञातुमिच्छाम्यहं पुनः ।
श्रीभगवानुवाच ।
अन्तःकरणयागादि यावदात्मनिवेदनम् ॥ १८० ॥

9.181
तदाद्यमङ्गं यागस्य नाम्नाभिगमनं महत् ।
पूजनं चार्घ्यपुष्पाद्यैर्भोगैर्यदखिलं मुने ॥ १८१ ॥

9.182
बाह्योपचारैस्तद्विद्धि भोगसंज्ञं तु नारद ।
मध्वाज्याक्तेन दध्ना च पूजा च पशुना च या ॥ १८२ ॥

9.183
तत् तृतीयं हि यागाङ्गं तुर्यमन्नेन पूजनम् ।
निवेदितस्य यद्दानं पूर्वोक्तविधिना मुने ॥ १८३ ॥

9.184
सम्प्रदानं तु तन्नाम यागाङ्गं पञ्चमं स्मृतम् ।
वह्निसन्तर्पणं षष्ठं पितृयागस्तु सप्तमः ॥ १८४ ॥

9.185
प्राणाग्निहवनं नाम्ना त्वनुयागस्तदष्टमम् ।
इत्येतत् कथितं सर्वं यत् त्वया परिचोदितम् ॥ १८५ ॥

9.186
प्रदद्यादचिराद्यद्वै तन्निष्ठानां स्वकं पदम् ।
इति प्रोक्तं क्रमेणैव कर्मभेदेन वै सह ॥ १८६ ॥

9.187
पञ्चकालविभागं तु द्वयोरप्यधिकारिणोः ।
तत्रायं हि विशेषः स्यात् सत्यसंकल्पयाजिनः ॥ १८७ ॥

9.188
चातुरात्म्यैकनिष्ठस्य मूलधर्मैकचेतसः ।
आयामन्यासपूर्वं तु विघ्नजिद्यजनान्तिमम् ॥ १८८ ॥

9.189
इहोदितं यत् तत् सर्वं वर्जनीयं प्रयत्नतः ।
आत्मनोऽभीष्टसिध्द्यर्थं सात्त्वताद्युक्तमार्गतः ॥ १८९ ॥

9.190
पूजने दीक्षितस्यापि शिष्यस्याधिकृतेऽपि च ।
तस्यापि विहितं सर्वमायामाद्यं पुरोदितम् ॥ १९० ॥

9.191
इति सम्यक् समाख्यातः कालभेदो मया तव ।
यज्ज्ञानात् सकलं कर्म कर्तुं युज्येत सत्तमः ॥ १९१ ॥


Japa: den Klang mit Aufmerksamkeit und einem offenen Herzen verbinden.

Video zur musikalischen Hinwendung an das Göttliche; ergänzende Anregung zur Lektüre.

Kapitel 10

श्रीः ।
दशमोऽध्यायः ।
सनकः ।

10.1
पूर्वं तु भगवद्यागवेलायामुक्तमर्चनम् ।
प्रासादावयवस्थानां लोकादीनां समासतः ॥ १ ॥

10.2
तेषां स्वरूपं नामानि स्थानान्यपि विशेषतः ।
विस्तराच्छ्रोतुयिच्छामि प्रबूहि वदतां वर ॥ २ ॥

10.3
शाण्डिल्यः ।
अनेकभेदभिन्नेषु प्रासादेषु महामते ।
विस्तरेण समस्तेषु वृतायतपुरस्सरम् ॥ ३ ॥

10.4
वक्ष्ये लोकाध्वतत्वानां देवतानां च संस्थितिम् ।
सन्निरोघ्य च भूलोकं पादक्षितितलेऽखिलम् ॥ ४ ॥

10.5
एवं प्रासादपीठेषु भुवर्लोकं यथास्थितम् ।
स्मरेज्जङ्घावधिर्यावत् स्वर्लोकं तत्तदूर्ध्वगम् ॥ ५ ॥

10.6
आरभ्य प्रस्तरोद्देशात् महच्छिखरभूमिगम् ।
जनोलोकं च तद्वेद्यां तपःसंज्ञ तदण्डकम् ॥ ६ ॥

10.7
सत्यसंज्ञं च यल्लोकं तच्छिखायां तु संस्मरेत् ।
भावयेच्च पुरा व्याप्तिमेवं वै साप्तलौकिकीम् ॥ ७ ॥

10.8
ततश्चाध्वमयीं व्याप्तिं भावयेत्तु यथाक्रमम् ।
कुम्भाधारोपलान्तस्थमध्वषट्कं स्मरन् यजेत् ॥ ८ ॥

10.9
बीजभूतं तदन्तस्थामध्वव्याप्तिमनुस्मरेत् ।
बीजतश्चाङ्कुरीभूता परस्ताद्व्यक्तिमेति सा ॥ ९ ॥

10.10
प्रासादपीठपर्यन्तं कुम्भाधारोपलात्तु वै ।
भुवनाध्वा यथावस्थो भावनीयस्तु सर्वतः ॥ १० ॥

10.11
गर्भोच्छ्रायावधिर्यावत् पदाध्वानं विलोकयेत् ।
मन्त्राध्वा शुकनासान्तं तत्त्वाद्व्य वेदिकावधि ॥ ११ ॥

10.12
कलाद्वा तु गलान्तं च वर्णाध्वा च तदूर्ध्वतः ।
एवं कृत्वाध्वकीं व्याप्तिं ततस्तत्वानि विन्यसेत् ॥ १२ ॥

10.13
संयोज्य पार्थिवं तत्वं पादक्षितितले द्विज ।
तोयतत्वं न्यसेत् पीठे जङ्घायां तैजसं स्मरेत् ॥ १३ ॥

10.14
ग्रीवोद्देशावधिर्यावद्वायुतत्वं तदूर्ध्वतः ।
आकाशं शिखरस्थं स्यात्तदुद्देशात् क्रमेण तु ॥ १४ ॥

10.15
न्यसेच्छब्दादितन्मात्रं यावत् पादतलान्तिमम् ।
पार्श्वतो नासिके श्रोत्रे त्वक् सुधा समुदाहृता ॥ १५ ॥

10.16
गवाक्षे चक्षुषी स्यातां जिह्वा भद्राख्यवेदिका ।
घ्राणस्तु शुकनासा स्यादास्यं द्वारमुदाहृतम् ॥ १६ ॥

10.17
विज्ञेयाः पाणयः स्तम्भाः पादाः पादशिला घटाः ।
पायुः स्याज्जलनिर्याणमुपस्थं तु तदन्तरम् ॥ १७ ॥

10.18
मनोऽन्तर्व्योमविज्ञेयं गर्वो ब्रह्नशिलागतः ।
बुद्धिस्तु पिण्डिका ज्ञेया प्रकृतिः स्यात्तदन्तरम् ॥ १८ ॥

10.19
पञ्चविंशतमो ज्ञेयः प्रतिमा पुरुषः परः ।
एवं न्यस्तेषु तत्वेषु न्यस्तव्या देवताः क्रमात् ॥ १९ ॥

10.20
घटाधारोपलस्याधस्त्वनन्तो नाम नागराट् ।
सहस्रसंख्यासंख्यातफणामण्डलमण्डितः ॥ २० ॥

10.21
तदूर्ध्वे संस्थितं चक्रं सहस्रारोपशोभितम् ।
या शिला कलशाधारसंज्ञा तां विद्धि सर्वगा ॥ २१ ॥

10.22
सामर्थ्यशक्तिः सामान्या निष्कला पारमेश्वरी ।
तदूर्ध्वसंस्थिताः कुम्भा नव संख्यास्तु ये द्विज ॥ २२ ॥

10.23
तेषां विदिकस्थितानां च चतुर्णां मध्यतो न्यसेत् ।
पझासनगतां लक्ष्मीं निधिभिः परिवारिताम् ॥ २३ ॥

10.24
चतुर्णामपि चान्येषां रत्नराट् कौस्तुभाभिधः ।
स्वमन्त्रेण स्वनाम्ना च निधिनाथैः समन्वितः ॥ २४ ॥

10.25
भगवान् सर्वशक्त्यात्मा एकस्मिन् परिचिन्तयेत् ।
षडक्षरेण मन्त्रेण निष्कलं शब्दविग्रहम् ॥ २५ ॥

10.26
तत्र मध्यमकुम्भस्य पिधाने मध्यतो न्यसेत् ।
शक्तिर्वै या परा देधी विश्वसन्धारणक्षमा ॥ २६ ॥

10.27
प्रभा सर्वेश्वरी दिक्षु ज्ञानशक्तिः स्मृता च सा ।
विदिग्व्यक्तिसमूहे च स्मरेदानन्दलक्षणा ॥ २७ ॥

10.28
क्रियाख्या याऽच्युती शक्तिः शुद्धवर्गस्य जन्मदा ।
पिधाननवके त्वस्मिन्नामद्यादीशगोचरम् ॥ २८ ॥

10.29
स्मर्तव्याः सर्वतो व्याप्ताः क्रमेणैव महामते ।
ज्ञानभासा निवसती तथाऽनन्तबला प्रभा ॥ २९ ॥

10.30
सर्वगा ब्रह्नवदना द्योतकी सत्यविक्रमा ।
संपूर्णा चेति कथिताः शक्तयो विश्वधारिकाः ॥ ३० ॥

10.31
शक्त्यष्टकं तु न्यस्तव्यं तद्बहिर्दिग्विदिक्षु च ।
प्रागादीशानदिङ्निष्ठं क्रमेणैव शिलाष्टके ॥ ३१ ॥

10.32
बलवीर्यवती नित्या अनन्ताख्या स्थिरा ध्त्रुवा ।
स्त्याख्या धृतिसंज्ञा च स्थितिर्नाम्ना द्विजाष्टमी ॥ ३२ ॥

10.33
शिलानामन्तरे भूमौ षट्कं क्रमेण तु ।
न्यस्तव्यं पूर्ववर्णाच्च वर्णानां सावसानकम् ॥ ३३ ॥

10.34
क्षार्णेन चिन्तयेद्व्याप्तिं तद्वहिश्चाङ्गुलीयकम् ।
ततो मसूरकाधारे धर्माद्यं यद्द्विरष्टकम् ॥ ३४ ॥

10.35
तदूर्ध्वं कोणदेशेषु यदा पझचतुष्टयम् ।
कल्पितं तु तदा विप्र कमलोपरि संस्थिताः ॥ ३५ ॥

10.36
मूर्तयो वासुदेवाद्याः पावकादीशपश्चिमम् ।
अथोपानतलोद्देशे चक्रं कालानलप्रभम् ॥ ३६ ॥

10.37
अधिष्ठानप्रदेशे तु पझं धामत्रयाश्रितम् ।
सर्वाभिः शक्तिभिर्युक्तस्तन्मद्ये चिन्मयः पुमान् ॥ ३७ ॥

10.38
पीठस्य दिक्चतुष्के तु पूर्वाद्युत्तरपश्चिमम् ।
अनन्तविहगाम्भोजचक्राक्याः क्रमशः स्थिताः ॥ ३८ ॥

10.39
ततश्चरणपझे तु प्रागादौ दिक्चतुष्टये ।
वासुदेवादयः स्थाप्याः पुरुषाद्यास्तु वा क्रमात् ॥ ३९ ॥

10.40
सर्वाधारमयं चक्रं शाखामूलं समाश्रितम् ।
ज्ञानक्रियात्मके तत्वे शाखयोर्युगले स्थिते ॥ ४० ॥

10.41
परभेश्वर आद्यस्तु द्वारस्योर्ध्व उदुम्बरे ।
संस्थितः सर्वतो व्यापी तत्पृष्टे मध्यदेशतः ॥ ४१ ॥

10.42
चतुष्पात् सकलो धर्मः स्थितः सत्ववतां वरः ।
यदा कवाटौ द्वारस्य कल्पितौ द्विजसत्तम ॥ ४२ ॥

10.43
कालबैश्वानरो देवो ह्यपां पतिरुभाविमौ ।
दक्षिणोत्तरयोगेन कवाटपरिसंस्थितौ ॥ ४३ ॥

10.44
कल्पितौ शुकनासौ वा यदा साङ्गौ महामते ।
इच्छाप्राणौ तयोः स्थाप्यावग्नीषोमौ गवाक्षयोः ॥ ४४ ॥

10.45
ततो जङ्घाद्विषट्के तु तथैवान्तरभूमिषु ।
कालो वियन्नियन्ता च शास्त्रं नानाह्गलक्षणम् ॥ ४५ ॥

10.46
विद्याधिपतयश्चैव सरुद्रः सगणः शिवः ।
प्रजापतिसमूहस्तु इन्द्रः सपरिवारकः ॥ ४६ ॥

10.47
मुनयः सप्तपूर्वेऽन्ये ग्रहास्तारादिकैर्वृताः ।
जीमूताश्चाखिला नागा अप्सरोण उत्तमः ॥ ४७ ॥

10.48
ओषध्यश्चैव पशवो यज्ञाः साङ्गाखिलास्तु ये ।
विद्याश्चैवापरा विद्या पावकश्चैवमारुतः ॥ ४८ ॥

10.49
चन्द्रार्कौ वारिवसुधे इत्येते देवतागणाः ।
चतुर्विंशतिसंख्याता घ्यातव्यास्तु यथाक्रमम् ॥ ४९ ॥

10.50
मूर्तयः केशवाद्यास्तु जङ्घाग्रपरिसंस्थिताः ।
पार्श्वयोः शुकनासाया भित्तिमूलसमाश्रितम् ॥ ५० ॥

10.51
गणेशं योगनिद्रां च न्यसेद्वा दक्षिणादितः ।
तदूर्ध्वं प्रस्तरोद्देशकपोततलसंस्थितम् ॥ ५१ ॥

10.52
नासिकानवकं यच्च यास्तदन्तरभूमयः ।
तस्मिंस्तासु च सर्वासु ह्येते स्थाप्याः क्रमेण तु ॥ ५२ ॥

10.53
चक्रशह्खौ गदापझे लाङ्गलं मुसलं शराः ।
शार्ङ्गं च खङ्गखेटौ तु दण्डः परशुरीतिहा ॥ ५३ ॥

10.54
पाशाङ्कुशौ मुद्गरं च वज्रं शक्तिसमन्वितम् ।
प्रासादे चतुरश्रे च चतुरश्रायतेऽपि च ॥ ५४ ॥

10.55
गरुडं प्रस्तरस्योर्ध्वे न्यसेत् कोणचतुष्टये ।
तदूर्ध्वं वेदिकायां तु भावनीया महामते ॥ ५५ ॥

10.56
एते पूर्वादियोगेन एकश्रृङ्गतनुस्ततः ।
देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः ॥ ५६ ॥

10.57
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ।
ज्वलत्परशुधृग्रामो रामश्चान्यो धनुर्धरः ॥ ५७ ॥

10.58
वेदविद्भगवान् कल्की पातालशयनः प्रबुः ।
ततो ग्रीवातले घ्येयः कूर्मः पातालधारकः ॥ ५८ ॥

10.59
वराहो नारसिंहश्चाप्यमृताहरणस्तु वै ।
श्रीपतिर्दिव्यदेहोऽथ कान्तात्माऽमृतधारकः ॥ ५९ ॥

10.60
राहुजित् कालनेमिघ्नः पारिजातहरो महान् ।
लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः ॥ ६० ॥

10.61
न्यग्रोधशायी भगवानित्येते द्विजसत्तम ।
ततस्तु शिखरोद्देशं त्रिधाकृत्य यथासमम् ॥ ६१ ॥

10.62
यावत्तु कलशाधारवेदिका द्विजसत्तम ।
अधोभागे क्रमाद्घ्येयाः शिष्टा देवास्तु वैभवाः ॥ ६२ ॥

10.63
अनन्तो भगवान् देवः शक्त्यात्मा मधुसूदनः ।
विद्याधिदेवः कपिलो विश्वरूपो विहङगमः ॥ ६३ ॥

10.64
क्रोडात्मा बडबावक्त्रो धर्मो वागीश्वरस्तथा ।
देव एकार्णवशय इति ये द्वादश स्मृताः ॥ ६४ ॥

10.65
ध्रुवस्तु सर्वतो व्यापी तदूर्ध्वपदसंस्थितः ।
पझनाभस्तदूर्ध्वे तु व्यापकः परितिष्ठति ॥ ६५ ॥

10.66
शुकनासामुखे देवः पूजनीयः परः पुमान् ।
भगवान् जगदाधारो जगदीशः सनातनः ॥ ६६ ॥

10.67
वासुदेवः परं ब्रह्न जगत्कारणमच्युतः ।
लोकानध्वगणं नित्यं तत्वाद्यमपि देवताः ॥ ६७ ॥

10.68
प्रासादोपरि विन्यस्ताः समाक्रम्य च संस्थिताः ।
यत्र प्रासाददेहे तु शुकनासा न कल्पिता ॥ ६८ ॥

10.69
तत्राग्रतो नासिकायां वासुदेवं तु संस्मरेत् ।
नासिकात्रितये शिष्टे अच्युताद्यास्त्रयः स्थिताः ॥ ६९ ॥

10.70
अथवा पुरुषाद्यास्तु नराद्या वा द्विजोत्तम ।
वराहाद्यास्तु वा यद्वा धर्ममूर्त्यादयः क्रमात् ॥ ७० ॥

10.71
यद्वा परशुरामाद्याः स्मर्तव्याः क्रमयोगतः ।
एते तु शक्तिभिः सर्वे युक्ता वा केवलास्तु वा ॥ ७१ ॥

10.72
द्रुमैः पत्रलतायुक्तैर्भूषिते वेदिकातले ।
विन्यसेत् षडरं चक्रं तेजोज्वालासहस्रधृक् ॥ ७२ ॥

10.73
ततः सामलसारेषु वासुदेवादिकान् स्मरेत् ।
तदग्रदेशे चक्राणि घ्यातव्यानि यथाक्रमम् ॥ ७३ ॥

10.74
अमलं शान्तसंज्ञं तु तथा शान्तोदितोदितम् ।
नराद्यं कृष्णपर्यन्तं शुकनासाघटे तु वै ॥ ७४ ॥

10.75
अन्तर्मण्डलकोणेषु वन्ह्यादीशानपश्चिमम् ।
वराहरूपी भगवान् शेषमूर्तिधरः प्रभुः ॥ ७५ ॥

10.76
नृसिंहरूपी पुरुषस्तथा नारायणो विभुः ।
प्रासादाङ्गेषु विप्रेन्द्र क्रमान्निगदितेषु च ॥ ७६ ॥

10.77
देवताधारभूतेषु यद्यदङ्गं न कल्पितम् ।
यत्र वा तत्तदधिकं यत्रापि च समाचरेत् ॥ ७७ ॥

10.78
तत्तत्स्थाने स्वबुध्द्या तु देवतान्यासमूहतः ।
यद्वा ह्यनवक्लप्ताङ्गे देवतेष्टिं तु वर्जयेत् ॥ ७८ ॥

10.79
लोकाः सप्त तथाद्वानस्तत्वसङ्घाश्च देवताः ।
ध्यातव्यास्तु निराकाराः साधकैर्द्विजसत्तम ॥ ७९ ॥

10.80
विमानेऽपि तथा सिद्धविबुधैश्च प्रतिष्ठिते ।
किन्तु तत्र विप्रानाङ्गमूर्तिनां लाञ्छनादिकम् ॥ ८० ॥

10.81
तासां स्थानानि विप्रेन्द्र कल्पितानि यथाविधि ।
विमानावयवांश्चापि संपरीक्ष्यैव यत्नतः ॥ ८१ ॥

10.82
पूजयेत् सावधानेन चेतसा ध्यानपूर्वकम् ।
लाञ्छनाद्येषु मूर्तीनां प्रासादावयवेष्वपि ॥ ८२ ॥

10.83
अनभिव्यक्तरूपेषु लक्षणादेः परीक्षणात् ।
स्वप्नादेश्चापि विप्रेन्द्र देशिकेन्द्रोपदेशतः ॥ ८३ ॥

10.84
यथावत् संपरीक्षेत् प्रयत्नेन द्विजोत्तम ।
लक्षणादिषु हीनेषु विपर्यस्तेष्वपि द्विज ॥ ८४ ॥

10.85
न लक्षणादिकं कुर्यादन्यथा द्विजसत्तम ।
लक्षणं न परीक्षेत् ह्यन्यथाकरणेञ्छया ॥ ८५ ॥

10.86
अन्यथाकरणार्थं तु लक्षणाद्ये परीक्षिते ।
क्षयत्यायुः कृते तस्मिन् लक्षणैर्नरकं व्रजेत् ॥ ८६ ॥

10.87
तस्मात् सर्वप्रयत्नेन स्वयंव्यक्तादिकेऽपि च ।
विमाने संस्थितानां तु मूर्तीनां लक्षणादिकम् ॥ ८७ ॥

10.88
स्थानान्यपि च तासां वै विमानावयवानपि ।
यथास्थितं परीक्ष्यैव कृत्वा मूर्तिविनिर्णयम् ॥ ८८ ॥

10.89
स्वेन स्वेन विशेषेण लाञ्छनाद्येन वै स्फुटम् ।
स्वेन स्वेन तु मन्त्रेण पूजनं च समाचरेत् ॥ ८९ ॥

10.90
प्रासादेषु स्वयंव्यक्तं श्रेष्ठं सर्वेषु सत्तम ।
तद्रूपी भगवान् देवः स्वग्रमेवावतिष्ठते ॥ ९० ॥

10.91
तत्र सन्निहितः साक्षाद्भगवान् भक्तवत्सलः ।
जाते जीर्णादिदोषेऽपि न त्यजन्ति कदाचन ॥ ९१ ॥

10.92
स्वं स्वं प्रदेशमेतास्तु मन्त्राणां शक्तयः पराः ।
प्रासादान्तः स्थिताश्चापि स्वयंव्यक्तपुरस्सराः ॥ ९२ ॥

10.93
आकारास्तु विभोः सम्यग्ज्ञेयाः पूर्वोक्तयोगतः ।
नास्त्रैर्मन्त्रैर्ध्वजैर्येषां व्यक्तिर्व्यक्ता जगत्त्रये ॥ ९३ ॥

10.94
तेऽपि लाञ्छनबृन्दं तु धारयन्त्यङ्घ्रिगोचरे ।
लालाटे चांसपट्टे तु पृष्ठे पाणितलद्वये ॥ ९४ ॥

10.95
तनूरुहचये मूर्ध्नि कर्मिणां प्रतिपत्तये ।
तत्तल्लाञ्छनबृन्दं तु परीक्ष्यैवं विशेषतः ॥ ९५ ॥

10.96
तत्तदाकारनियतैर्वाचकैः संप्रपूजयेत् ।
येषां लाञ्छनबृन्दं तु न व्यक्तं चरणादिषु ॥ ९६ ॥

10.97
तानर्चयेद् द्विषट्कार्णपुरोगाणां महामते ।
व्यापकानां तु मन्त्राणामेकेनाबिमतेन तु ॥ ९७ ॥

10.98
इति ज्ञात्वा यथावच्च यः पूजयति मन्त्रवित् ।
स पूजाफलमाप्नोति ह्यन्यथा विपरीतभाक् ॥ ९८ ॥

10.99
एतान्युक्तानि सर्वाणि लोकादीनि क्रमेण तु ।
समाराधनकालेषु देवस्यामिततेजसः ॥ ९९ ॥

10.100
द्वार्स्थदेवार्चनं कृत्वा पूजयेत्तदनन्तरम् ।
नमस्कारपदान्तेन स्वानाम्ना प्रणवादिना ॥ १०० ॥

10.101
अर्घ्यालभनमाल्यैश्च धूपेन द्विजसत्तम ।
अग्रतो देवदेवस्य द्वारदेशस्य बाह्यतः ॥ १०१ ॥

10.102
अन्तर्मण्डलदेशे तु गत्वा वा पूजयेत् क्रमात् ।
एवं प्रासादभेदे तु यस्मिन् साधकसत्तमैः ॥ १०२ ॥

10.103
एककालं द्विकालं वा त्रिकालं वार्चनं द्विज ।
नित्यशः क्रियते तत्र सदा संन्निहितो विभुः ॥ १०३ ॥

10.104
अत एव द्विजश्रेष्ठ तदर्चनपुरस्सरम् ।
कुर्यादाराधन विष्णोः साधकः सिद्धिलालसः ॥ १०४ ॥

10.105
य एवं कुरुते भक्त्या ह्ननन्यपरया सदा ।
सोऽचिराल्लभते कामानिह लोके परत्र च ॥ १०५ ॥

10.106
मोक्षार्थी कुरुते यस्तु स याति परमं पदम् ।
सनकः ।
प्रासादानां स्वयंव्यक्तपूर्वाणां तु विशेषतः ॥ १०६ ॥

10.107
प्रासादं तु स्वयंव्यक्तमत्यर्थं त्वं प्रशंससि ।
कीदृशं तत्स्वरूपं स्यादन्येषां वापि कीदृशम् ॥ १०७ ॥

10.108
कीदृशी च महत्तास्य ज्ञातुमिच्छामि सांप्रतम् ।
शाण्डिल्यः ।
यदिदं दृश्यते विष्णोर्मायया निर्मितं जगत् ॥ १०८ ॥

10.109
कालादिबहुभिर्भेदैर्भिन्नं नानास्वरूपकैः ।
तदीये प्रभवो ह्यह्नि प्रलयश्च निशागमे ॥ १०९ ॥

10.110
दिव्यं युगसहस्रं हि तदीयं विद्धि वासरम् ।
रात्रिश्च तावती ज्ञेया एवं रात्रिक्षये सति ॥ ११० ॥

10.111
प्रवर्तमाने त्वहनि काले सन्ध्याख्यलक्षणे ।
स्वकारणमनुज्झित्य कार्यार्थं मुनिपुङ्गव ॥ १११ ॥

10.112
ज्ञानयोगप्रभावेन अमेयमहिमावृतम् ।
प्रेरितं नाभिरन्ध्रेण तेन हार्दं कुशेशयम् ॥ ११२ ॥

10.113
विज्ञप्तिमात्ररूपं तु स्वस्यान्तःकरणे स्थितम् ।
सहस्रार्कप्रतीकाशं सहस्रशशिकेसरम् ॥ ११३ ॥

10.114
सहस्रवह्निगर्भं च हेमनालं महाप्रभम् ।
तन्मध्ये मानसो ब्रह्या तेन सृष्टश्चतुर्मुखः ॥ ११४ ॥

10.115
जगद्विभवकृद्विप्र विद्यादेहः सनातनः ।
सर्वसंस्कारसंपूर्णो वेदवेदाङ्गपारगः ॥ ११५ ॥

10.116
अणिमाद्यष्टकोपेतः सिसृक्षाशक्तिभिर्युतः ।
न तस्य विदितश्चासौ यदा यातः सगर्वताम् ॥ ११६ ॥

10.117
अस्मीति प्रत्ययं लब्ध्वा रजसा कलुषीकृतः ।
तस्मिंश्चान्तर्हिते तस्य पौष्करस्य मतिस्तदा ॥ ११७ ॥

10.118
विपर्यस्ता ततः सृष्टौ प्रवृत्तिर्नाभवदद्विज ।
कार्याकार्यविशेषज्ञो नाभूदुद्विग्नचेतनः ॥ ११८ ॥

10.119
ततः प्रसन्नचेतास्तु तपस्तेपे सुदुश्चरम् ।
अचिरात् पुण्डरीकाक्षं द्रष्टुकामः प्रजापतिः ॥ ११९ ॥

10.120
ततस्तु तप्यमानस्य ब्रह्नणो द्विजसत्तम ।
हरेः स्तोत्रार्थमुद्भूता बुद्धिर्बुद्धिमतांवर ॥ १२० ॥

10.121
ततो जगौ परं जप्यं साञ्जलिप्रग्रहो विभुः ।
ब्रह्ना ।
नमस्ते ब्रह्नहृदय नमस्ते ब्रह्नपूर्वज ॥ १२१ ॥

10.122
योगार्धनयनश्रेष्ठ सांख्ययोगनिधे विभो ।
व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थित ॥ १२२ ॥

10.123
विश्वभुक् सर्वभूतानामन्तरात्मन्नयोनिज ।
अहं प्रसादजस्तुभ्यं लोकधाम्ने स्वयम्भुवे ॥ १२३ ॥

10.124
त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ।
चाक्षुषं यद्द्वितीयं मे जन्मेहासीत् पुरातनम् ॥ १२४ ॥

10.125
त्वत्प्रसादाच्च मे जन्म तृतीयं वाचिकं महत् ।
तत्वतः श्रावणं चापि चतुर्थं जन्म मे विभो ॥ १२५ ॥

10.126
नासिक्यं वापि मे जन्म त्वत्तः पञ्चममुच्यते ।
अण्डजं चापि मेजन्म त्वत्तः षष्ठं विनिर्मितम् ॥ १२६ ॥

10.127
इदं च सप्तमं जन्म पझजं त्वमितप्रभ ।
सर्गे सर्गे ह्यहं पुत्रस्तृतीयगुणवर्जित ॥ १२७ ॥

10.128
प्रथमः पुण्डरीकाक्षः प्रधानगुणकल्पितः ।
त्वमीश्वर प्रभावश्च भूतानां च प्रभावनः ॥ १२८ ॥

10.129
त्वं पञ्चकालकर्तॄणां गतिस्त्वं पाञ्चरात्रिक ।
त्वया हि निर्मितोऽहं वै वेदचक्षुर्वचोऽतिग ॥ १२९ ॥

10.130
स्रष्टुं जगदिदं सर्वं चेतनाचेतनात्मककम् ।
का शक्तिर्मम देवेश जगत् स्रष्टं जगत्प्रभो ॥ १३० ॥

10.131
एवं स्तुतः स भगवान् पुरुषः सर्वतोमुखः ।
स्वरूपं दर्शयामास तस्मै दिव्यमनुत्तमम् ॥ १३१ ॥

10.132
तं दृष्ट्वा महता युक्तो हर्षेण कमलासनः ।
आनन्दाश्रुसमाविष्टः प्रणम्य प्राञ्जलिः स्थितः ॥ १३२ ॥

10.133
ततस्तु पुण्डरीकाक्षस्तमुवाच जगत्पतिः ।
सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा ॥ १३३ ॥

10.134
क्षेयस्तव विधास्यामि बलं तेजश्च सुव्रत ।
वेदं च मत्तो गृह्णीष्व सात्वतं नाम नामतः ॥ १३४ ॥

10.135
तेन सर्वं कृतयुगं स्थापयस्व यथाविधि ।
प्रजानामपि सर्वासां संवृत्ते सर्गकर्मणि ॥ १३५ ॥

10.136
दिव्यस्य महतो धाम्नः साक्षाद्व्यक्तस्य चान्तरे ।
स्वयंव्यक्तेन दिव्येन ह्याकारेणामलेन च ॥ १३६ ॥

10.137
अनन्तभोगिशयने शयानः पङ्कजेक्षणः ।
प्रकाशयिष्यति पुरो वासुदेवः परात्परः ॥ १३७ ॥

10.138
तमाराधय देवेशं विमानाभ्यन्तरस्थितम् ।
सर्वेषामपि लोकानां सृष्टिस्थित्यन्तकारणम् ॥ १३८ ॥

10.139
वासुदेवं तुपरमं पुमांसं भक्तवत्सलम् ।
द्वादशाक्षरमन्त्रेण भोगैः सांस्पर्शिकादिकैः ॥ १३९ ॥

10.140
हृदयङ्गमसंज्ञैश्च विविधैरोपचारिकैः ।
स्वाधिकारप्रवृत्यर्थं लोकानां हितकाम्यया ॥ १४० ॥

10.141
महोपनिषदाख्येन शास्त्रेणोक्तप्रकारतः ।
यत्पौष्कराक्यया लोके प्रथिमानं प्रयास्यति ॥ १४१ ॥

10.142
पौष्करस्य तवोक्तत्वात् प्रथित तु तथा भवेत् ।
महाविभूतिरिति च तद्वक्ष्याम्यपरे युगे ॥ १४२ ॥

10.143
अस्मिन्नादौ कृतयुगे समतीते तु मानुषे ।
ततो ब्रह्ना नमस्चक्रे देवाय हरिमेधसे ॥ १४३ ॥

10.144
व्रह्ना चाग्र्यं स जग्राह सनिषत्संहितान्वितम् ।
कर्मारम्भादिभिर्मन्त्रैर्द्विषट्कार्णसमन्वितैः ॥ १४४ ॥

10.145
दिव्यैः समन्वितं विप्र द्वादशाध्यात्मसंयुत्म् ।
अनिच्छातोऽधिकारीणां तत्प्राप्त्येकफलप्रदम् ॥ १४५ ॥

10.146
चातुरात्म्यैकनिष्ठं च वासुदेवमुख्रोद्गतम् ।
एवं स भगवान् देव आद्यं वेदं सनातनम् ॥ १४६ ॥

10.147
उपदिश्य ततो विप्र ब्रह्नणेऽमिततेजसे ।
दत्वा श्रेयो बलं तेजः सृष्टिकर्मप्रवर्तकम् ॥ १४७ ॥

10.148
जगाम तमसःपारं यत्राव्यक्तं व्यवस्थितम् ।
ततोऽथ वरदो देवो ब्रह्ना लोकपितामहः ॥ १४८ ॥

10.149
असृजत् स तदा लोकान् कृत्स्नान् स्थावरजङ्गमान् ।
एवं सृष्ट्वा जगत् सर्वं भूयश्च कमलासनः ॥ १४९ ॥

10.150
कदा द्रक्ष्याम्यहं देवं लोकानां हितकारिणम् ।
वा सुदेवं विमानान्तःशयानं पीतवाससम् ॥ १५० ॥

10.151
इति चिन्तासमाविष्टस्तपस्तेपे सुदुश्चरम् ।
प्रादुरासीत् ततो दिव्यं विमानं परमाद्भुतम् ॥ १५१ ॥

10.152
प्रकाशयद्दिशः सर्वाः प्रकाशेनामलेन च ।
उपानजगतीयुक्तं पीठाङ्घ्रिप्रस्तरादिकैः ॥ १५२ ॥

10.153
ग्रीवाशिखरतत्संस्थवेदीघटशिखान्तिमैः ।
दिव्यैरवयवैर्युक्तं दिव्यालङ्कारशोभितम् ॥ १५३ ॥

10.154
वृत्तायतं तु परितः शुकनासापरिष्कृतम् ।
तं दृष्ट्वा महदार्श्चयमानन्दाश्रुपरिप्लुतः ॥ १५४ ॥

10.155
पुलकाचितसर्वाङ्गः प्रीतिविस्फारितेक्षणः ।
ससम्भ्रमं समुत्थाय प्रणम्य प्राञ्जलिः स्थितः ॥ १५५ ॥

10.156
पीठाद्येषु शिखान्तेषु विमानावयवेषु च ।
भूराद्यं सत्यपर्यन्तं लोकानां सप्तकं क्रमात् ॥ १५६ ॥

10.157
अध्वनां भुवनाध्वादिषट्कं वर्णाध्वपश्चिमम् ।
धरादिपुरुषान्तं च तत्वबृन्दं द्विजोत्तम ॥ १५७ ॥

10.158
सत्तास्वरूपमास्थाय संस्थितं सन्ददर्श ह ।
ततस्तु देवताबृन्दं क्रमेण समलोकयत् ॥ १५८ ॥

10.159
पीठस्याधारभागे तु ह्यनन्तो नाम नागराट् ।
चक्रं सामर्थ्यशक्त्यादिशक्तिसङ्घं तथैव च ॥ १५९ ॥

10.160
ज्ञानभासादिकानां तु शक्तीनामष्टकं तथा ।
बलवीर्यवती पूर्वमष्टकं स्थितिपश्चिमम् ॥ १६० ॥

10.161
अकारादि क्षकारान्त वर्णचक्रं द्विजोत्तम ।
ततः पीठप्रदेशाच्च धर्माद्यं च द्विरष्टकम् ॥ १६१ ॥

10.162
चक्रं कालानलज्योतिः पझं धामत्रयाश्रितम् ।
चिन्मयः पुरुषो मध्ये सर्वाभिः शक्तिभिर्युतः ॥ १६२ ॥

10.163
दिक्चतुष्के ह्यनन्ताद्यं ततश्चरणवर्गके ।
वासुदेवादिकं दिक्षु शाखामूले सुदर्शनम् ॥ १६३ ॥

10.164
ज्ञानक्रियात्मके तत्वे शाखयोः परमेश्वरम् ।
आद्यं तूदुम्बरे ह्यूर्ध्वे तत्पृष्ठे धर्म एव च ॥ १६४ ॥

10.165
कवाटयोस्तु कालाग्निं वरुणं तु ततो द्विज ।
स्तम्भयोः शुकनासाया इच्छाप्राणौ गवाक्षयोः ॥ १६५ ॥

10.166
अग्नीषोमौ ततो जङ्घा द्विषट्केऽन्तरभूमिषु ।
कालादिवसुधान्तं च जङ्घाग्रे केशवादिकम् ॥ १६६ ॥

10.167
नासिकानां तु नवके कपोतस्थेऽन्तरेऽपि च ।
चक्राद्यायुधसंघातं सत्तारूपेण संस्थितम् ॥ १६७ ॥

10.168
शुकनासामुखे देवं वासुदेवं जगत्पतिम् ।
नासिकात्रितये शिष्टे ह्यच्युताद्यं क्रमात् स्थितम् ॥ १६८ ॥

10.169
सशक्तिकं तु पत्राद्यैर्भूषिते वेदिकातले ।
सुदर्शनं तु षडरं घटानां तु चतुष्टये ॥ १६९ ॥

10.170
वासुदेवादिकान् विप्र रथाङ्गानां तदग्रतः ।
अमलाद्यं चतुष्कं तु क्रमेणोदितपश्चिमम् ॥ १७० ॥

10.171
अध्यक्षाद्यादिमूर्त्यन्तं शुकनासाघटेषु वै ।
सर्वलोकमयं विप्र सकलाध्वमयं तथा ॥ १७१ ॥

10.172
सर्वतत्वमयं चैव सर्वदेवमयं तथा ।
इति क्रमेण सन्दृश्य विमानं हृष्टचेतनः ॥ १७२ ॥

10.173
ततः प्रदक्षिणीकृत्य चतुर्धा प्रणिपत्य च ।
सर्वाङ्गैर्दण्डबद्भूमौ भक्त्या तु पुरुषोत्तमम् ॥ १७३ ॥

10.174
ततः कृतार्थमात्मानं मन्यमानः प्रविश्य च ।
अभ्यन्तरं विमानस्य गर्भभूमौ तु मध्यतः ॥ १७४ ॥

10.175
आत्मप्रमाणरचिते मृदुस्पर्शे मनोहरे ।
शुद्धस्फटिकसंकाशे दीप्यमानेऽतिभास्वरे ॥ १७५ ॥

10.176
फणामण्डलमध्यस्थैर्मणिभिर्दीपिते तथा ।
अनन्तभोगशयने शयानं पीतवाससम् ॥ १७६ ॥

10.177
निष्केवलेन सत्वेन संपन्नं रुचिरप्रभम् ।
वपुषा सुन्दरेणैव दिव्येनाविकृतेन च ॥ १७७ ॥

10.178
मुञ्चन्तमनिशं देहादालोकं ज्ञानलक्षणम् ।
प्रयत्नेन विनाऽज्ञाननाशकृद्ध्यायिनां महत् ॥ १७८ ॥

10.179
स्रग्वस्त्राभरणैर्युक्तं स्वानुरूपैरनूपमैः ।
चिन्मयैः स्वप्रकाशैश्च अन्योन्यरुचिरञ्जितैः ॥ १७९ ॥

10.180
दन्तज्योत्स्नावितानैस्तु प्रकटीकृतदिङ्मुखम् ।
रेखोत्थितैश्च कल्हारैः पादपझतलेऽङ्कितम् ॥ १८० ॥

10.181
निमग्नजनसन्तापशमनव्यापृताननम् ।
करुणापूर्णहृदयं जगदुद्धरणोद्यतम् ॥ १८१ ॥

10.182
स्वदेहतेजःसंभूतज्वालामण्डलमध्यगम् ।
घनकुञ्चितनीलालि गलिताञ्जनसन्निभैः ॥ १८२ ॥

10.183
कर्पूरधूसरैर्दिव्यैः पुष्पसंवलितान्तरैः ।
किरीटमकुटाक्रान्तैः शोभितं सुशिरोरुहैः ॥ १८३ ॥

10.184
ईषदारक्तगोक्षीरशुद्धनीलाब्जलोचनम् ।
शीतलैर्दृष्टिपातैस्तु जगदाप्यायकारणम् ॥ १८४ ॥

10.185
सुभ्रूललाटं सुनसं सुस्मिताधरविद्रुमम् ।
सौन्दर्यचन्द्रसंकाशविलसद्गण्डमण्डलम् ॥ १८५ ॥

10.186
पूर्वकर्मानलार्तानां ध्यायिनां खेदशान्तये ।
स्वदन्तेन्दुचयोत्थेन ह्लादयन् गोगणेन तु ॥ १८६ ॥

10.187
मुखसौन्दर्यनिष्यन्दचिबुकस्थलशोभितम् ।
सविलासस्मिताधारं बिब्राणं मुखपङ्कजम् ॥ १८७ ॥

10.188
कम्बुग्रीवं महाबाहुं श्रीवत्साङ्कितवक्षसम् ।
सिंहस्कन्धं विशालाक्षं दीर्घबाहुं महोरसम् ॥ १८८ ॥

10.189
शङ्खचक्राङ्कितारक्तकरद्वयविभूषितम् ।
दक्षिणं भोगिभोगाभमुपधाय महाभुजम् ॥ १८९ ॥

10.190
प्रसारितोतरकरं कटिदेशस्य पार्श्वतः ।
कौस्तुभेनाङ्कितोरस्कं लक्ष्मीभूषितवक्षसम् ॥ १९० ॥

10.191
आब्रह्नस्तम्बपर्यन्तजगद्वासतनूदरम् ।
ईषत्कुञ्चितवामाङ्घ्रिपङ्कजं पङ्कजेक्षणम् ॥ १९१ ॥

10.192
प्रसार्य दक्षिणं पादमीषदुत्तानशायिनम् ।
अनेकरत्नखचितकिरीटमकुटोज्ज्वलम् ॥ १९२ ॥

10.193
उद्यदादित्यसंकाशैर्विचित्रैर्मणिसंचयैः ।
विराजमानया सम्यक् स्फुरच्चूलिकयोज्ज्वलम् ॥ १९३ ॥

10.194
रत्नावतंसप्रभया दीप्तश्रवणशेखरम् ।
ललाटान्तसमालम्बि बालालङ्कारभूषितम् ॥ १९४ ॥

10.195
ललाटतिलकेनैव सुन्दरेण विराजितम् ।
अनेकरविसङ्काशलसन्मकरकुण्डलम् ॥ १९५ ॥

10.196
प्रभूतमणिमुक्ताढ्चग्रैवेयकविराजितम् ।
वज्रवैडूर्यमाणिक्यपझरागादिशोभितैः ॥ १९६ ॥

10.197
हारैरनेकैर्विविधैरुपशोभितवक्षसम् ।
उद्यदादित्यसंकाशकौस्तुभेन विराजितम् ॥ १९७ ॥

10.198
भ्राजयन्त्या जगत् सर्वं स्वतेजोभिर्निरन्तरम् ।
मालया वैजयन्त्या च भ्राजमानमहोरसम् ॥ १९८ ॥

10.199
नानारत्नविचित्नेण मुक्तादामविलम्बिना ।
स्फुरता ब्रह्नसूत्रेण काञ्चनेन सुशोभितम् ॥ १९९ ॥

10.200
द्युतिमद्भिर्महारत्नै राचितेन सुवर्चसा ।
काञ्चनेनाथसूत्रेण उदरे कृतबन्धनम् ॥ २०० ॥

10.201
नानामाणिक्यविलसत्कटिसूत्रेण शोभितम् ।
अनेकरत्नसन्दर्भरशनादाममण्डितम् ॥ २०१ ॥

10.202
अनेककोटिमार्ताण्डविलसत्पीतवाससम् ।
अनेकरत्नसंभिन्ननू पुरादि विभूषितम् ॥ २०२ ॥

10.203
एवमन्यैश्च विविधैः केयूरकटकादिकैः ।
यथार्हैर्भूषणै रम्यैर्ज्वलद्भिः परिभूषितम् ॥ २०३ ॥

10.204
प्रावृड्जलदसंकाशं भिन्नाञ्जनचयप्रभम् ।
अभिन्नपूर्णषाड्गुण्यविभवेनोपबृंहितम् ॥ २०४ ॥

10.205
योगिध्येयमजं नित्यं जगञ्जन्मादिकारणम् ।
अनादिनिधनं देवं साक्षाल्लक्ष्मीपतिं प्रभुम् ॥ २०५ ॥

10.206
अप्राकृततनुं शान्तं वासुदेवं परात् परम् ।
जनलोकगतैःसिद्धैः सनकाद्यैरभिष्टुतम् ॥ २०६ ॥

10.207
नेत्राभ्यामनिमेषाभ्यां तृषिताभ्यां पिबन्निव ।
उदैक्षत प्रहृष्टात्मा प्रणिपत्य मुहुर्मुहुः ॥ २०७ ॥

10.208
स्तुत्वा च विविधैस्स्तोत्रैर्हर्षगद्गदया गिरा ।
तदादाय महद्दिव्यं विमानं शिरसा ततः ॥ २०८ ॥

10.209
जगाम भवनं विप्र स्वकीयं कमलासनः ।
तत्र संपूजयामास द्विषट्कब्रह्मविद्यया ॥ २०९ ॥

10.210
महता विभवेनैव ब्रह्मा लोकपितामहः ।
अत्रान्तरे तु विप्रेन्द्र पौष्करस्य महात्मनः ॥ २१० ॥

10.211
जिज्ञासायां तु जातायां शास्त्रे पौष्करसंज्ञके ।
प्रादुर्भूतस्तदा विप्र वासुदेवो जगत्पतिः ॥ २११ ॥

10.212
महोपनिषदं शास्त्रं ग्राहयामास पद्मजम् ।
योमूलवेदो विख्यातस्तादृक् तस्मात् परिस्रुतम् ॥ २१२ ॥

10.213
सिद्धिमोक्षप्रदं विप्र सर्वशास्त्रार्थगर्भितम् ।
नानाव्यूहसमोपेतं मूर्त्यन्तरसमन्वितम् ॥ २१३ ॥

10.214
नानाविभवसंयुक्तं प्रादुर्भावान्तरान्वितम् ।
लक्ष्म्यादिशङ्खचक्राख्यगारुत्म सदिगीश्वरैः ॥ २१४ ॥

10.215
सगणैरस्त्रनिष्ठैस्तु संपूर्णं द्विजसत्तम ।
बीजैः पिण्डात्मकैश्चैव पदैःसंज्ञामयैर्द्विज ॥ २१५ ॥

10.216
मन्त्रव्यूहैस्तु विविधैर्ध्यानैश्च विविधैर्युतम् ।
तत्वसंख्यासमाख्यातैर्मण्डलैर्भद्रकादिभिः ॥ २१६ ॥

10.217
तथा चतुर्दशव्यूहैरजेककजगर्भितैः ।
षड्विंशैररकैर्युक्तैश्चक्राब्जैर्नवभिस्तथा ॥ २१७ ॥

10.218
द्य्वरकादिसहस्रारपर्यन्तैश्च सकारणैः ।
तथाष्टादशभिर्विप्र मिश्रचक्राभिधानकैः ॥ २१८ ॥

10.219
आवार्यावरकेणैव रूपेण परिसंस्थितैः ।
महाख्यनवनाभेन बिम्बभेदस्थितेन च ॥ २१९ ॥

10.220
घण्टास्रुक्स्रुवपूर्वैस्तु क्रियाङ्गैर्विविधैरपि ।
नानालक्षणसंयुक्तैः कुण्डैश्च परिभूषितम् ॥ २२० ॥

10.221
वत्सरोत्सवपर्यन्तैः स्थापनाद्यैश्च कर्मभिः ।
नित्यैर्नैमित्तिकैःकाम्यैः परिपूर्णं द्विजोत्तम ॥ २२१ ॥

10.222
स्वयंव्यक्तादिभेदोत्थैः प्रासादैश्च समन्वितम् ।
तस्याधिकारवृत्त्यर्थं लोकानां हितकाम्यया ॥ २२२ ॥

10.223
ततस्तदुक्तमार्गेण विविधैर्भोगसञ्चयैः ।
नित्यैर्नैमित्तिकैः काम्यैर्विविधैश्च महोत्सवैः ॥ २२३ ॥

10.224
तत्र प्रतिदिनं कुर्वन् पूजां लोकपितामहः ।
व्यापारान् जगतां चक्रे विविधान् लोकपूजितः ॥ २२४ ॥

10.225
ततो मन्वन्तरे विप्र प्राप्ते वैवस्वताभिधे ।
इक्ष्वाकुर्नामनृपतिः सूर्यवंशसमुद्भवः ॥ २२५ ॥

10.226
महात्मा सततं योगी सर्वभूतहिते रतः ।
द्रष्टुकामः प्रसन्नात्मा वासुदेवं जगत्पतिम् ॥ २२६ ॥

10.227
तापसं वेषमास्थाय तपश्चर्तुं गतो वनम् ।
प्रविश्य तु तपस्तेपे शाकमूलफलाशनः ॥ २२७ ॥

10.228
ग्रीष्मे पञ्चाग्निमध्यस्थो नयन् कालं महातपाः ।
वार्षिके तु निरालम्बो हैमन्ते तु सरोजले ॥ २२८ ॥

10.229
इन्द्रियाणि समस्तानि नियम्य हृदये पुनः ।
मनो विण्णौ समाविश्य मन्त्रं वै द्वादशाक्षरम् ॥ २२९ ॥

10.230
जपतो वायुभक्षस्य तस्य राज्ञो महात्मनः ।
आविर्बभूव भगवान् ब्रह्या लोकपितामहः ॥ २३० ॥

10.231
तमागतमथालोक्य पझयोनिं चतुर्मुखम् ।
प्रणम्य भक्तिभावेन स्तुत्या च परितोषयन् ॥ २३१ ॥

10.232
नमो हिरण्यगर्भाय जगत्स्रष्ट्रे महात्मने ।
वेदशास्त्रार्थविदुषे चतुर्वक्त्राय ते नमः ॥ २३२ ॥

10.233
इति स्तुतो जगत्स्रष्ट्रा ब्रह्ना प्राह नृपोत्तमम् ।
तपस्यभिरतं शान्तं त्यक्तराज्यमहासुखम् ॥ २३३ ॥

10.234
लोकप्रकाशको राजन् सूर्यस्तव पितामहः ।
वसूनामपि सर्वेषां सदा मान्यो मनुः पिता ॥ २३४ ॥

10.235
कृतवन्तौ तपः पूर्वं तीव्रं पितृपितामहौ ।
तावतीत्य तपस्तेऽद्य वर्तते निस्पृहस्य वै ॥ २३५ ॥

10.236
किमर्थं राज्यभोगं तु त्यक्त्वा सर्वं नृपोत्तम ।
तपः करोषि घोरं त्वमाचक्ष्व च महामते ॥ २३६ ॥

10.237
इत्युक्तो ब्रह्नणा राजा तं प्रणम्याब्रवीद्वचः ।
द्रष्टुमिच्छंस्तपश्चर्याबलेन मधुसूदनम् ॥ २३७ ॥

10.238
करोम्यत्र तपो ब्रह्नन् शङ्खचक्रगदाधरम् ।
इत्युक्तः प्राह राजानं पझजन्मा हसन्निव ॥ २३८ ॥

10.239
न शक्यस्तपसा राजन् द्रष्टुं नारायणो विभुः ।
मादृशैश्च न दृश्योऽजः केशवः क्लेशनाशनः ॥ २३९ ॥

10.240
त्वादृशैः किं पुनस्त्वीशो माधवस्त्विति भावय ।
पुरातनीं पुण्यकथां कथयामि निबोध मे ॥ २४० ॥

10.241
अहं पुरा महाराज वासुदेवं सनातनम् ।
द्रष्टुकामः प्रजासर्गे तपश्चर्यां सुदारुणाम् ॥ २४१ ॥

10.242
अकार्षं तपसश्चान्ते भगवान् भक्तवत्सलः ।
प्रसन्नः प्रादुरासीन्मे पश्यतः पझलोचनः ॥ २४२ ॥

10.243
प्रणम्य पुण्डरीकाक्षमस्तौषं विविधैः स्तवैः ।
तत्र श्रेयो बलं तेजो दत्वा स्रष्टुं जगद्विभुः ॥ २४३ ॥

10.244
अथोपदिष्टवान् मह्यमाद्यं वेदं सनातनम् ।
सदागमाख्यं मूलं तु परब्रह्नप्रकाशकम् ॥ २४४ ॥

10.245
दिव्यं सिद्धिप्रदं चैव शान्तिकृद्विश्वकर्मिणाम् ।
सर्गस्योत्तरकाले तु विमाने दिव्यलक्षणे ॥ २४५ ॥

10.246
अनन्तभोगशयने शयानः पद्मलोचनः ।
प्रादुर्भविष्यति पुरस्तं पूजय विशेषतः ॥ २४६ ॥

10.247
द्वादशार्णेन मन्त्रेण पौष्करेणोक्तमार्गतः ।
वक्ष्यमाणेन विधिना यथावत् कमलोद्भव ॥ २४७ ॥

10.248
इत्युक्त्वान्तर्दधे देवः परमात्मा जगत्प्रभुः ।
प्रादुरासीत्ततो दिव्यं विमानं परमाद्भुतम् ॥ २४८ ॥

10.249
शास्त्रं चापि मया लब्धं महोपनिषदाख्यकम् ।
तत्रस्थं देवदेवेशं वासुदेवं जगत्पतिम् ॥ २४९ ॥

10.250
पूजयामि विधानेन तदुक्तेन नृपोत्तम ।
तदहं ते प्रयच्छामि केशवानन्दमन्दिरम् ॥ २५० ॥

10.251
विसृज्येदं तपो घोरं पुरं व्रज निजं नृप ।
प्रजानां पालनं धर्मस्तपश्चेव महीभृतः ॥ २५१ ॥

10.252
विमानं प्रेषयिष्यामि दिवः सिद्धं नृपोत्तम ।
संयुक्तं पञ्चकालज्ञैः सद्ब्रह्ननिरतैर्द्विजैः ॥ २५२ ॥

10.253
तत्राराधय देवेशं बाह्यान्तरखिलैः शुभैः ।
वासुदेवमनन्ताहौ शयानं पुरुषोत्तमम् ॥ २५३ ॥

10.254
द्विषट्कार्णेन मन्त्रेण पौष्करोक्तविधानतः ।
क्रतुभिर्विविधैश्चैव यजन् देवं नृपोत्तम ॥ २५४ ॥

10.255
निष्कामो नृपशार्दूल प्रजा धर्मेण पालय ।
प्रसादाद्वासुदेवस्य मुक्तिस्ते भविता नृप ॥ २५५ ॥

10.256
इत्युक्त्वा पौष्करं शास्त्रमुपदिश्य यथाक्रमम् ।
तस्मै तु भूमिपालाय विधातान्तरभूत् पुनः ॥ २५६ ॥

10.257
इक्ष्वाकुश्चिन्तयन्नास्ते पझयोनेर्वचो द्विज ।
आविर्बभूव पुरतो विमानं तन्महीभृतः ॥ २५७ ॥

10.258
ब्रह्नदत्तं द्विजयुतं माधवानन्तयोः शुभम् ।
तं दृष्ट्वा परया भक्त्या नत्वा च पुरुषोत्तमम् ॥ २५८ ॥

10.259
ऋषीन् प्रणम्य वृद्धांश्च तदादाय ययौ पुरम् ।
पौरैर्जनैश्च नारीभिर्दृष्टं शोभासमन्वितैः ॥ २५९ ॥

10.260
लाजानि विक्षिपद्भिश्च ततो राजा स्क्कं गृहम् ।
स्वमन्दिरे विशाले तु विमानं वैष्णवं शुभम् ॥ २६० ॥

10.261
संस्थाप्याराधयामास भावितात्मा नृपोत्तमः ।
पौष्करोक्तविधानेन तैर्द्विजैरर्चितं हरिम् ॥ २६१ ॥

10.262
मानुष्यः शोभनाङ्ग्यस्तु घृष्ट्वा तु हरिचन्दनम् ।
मालाः कृत्वा सुगन्धाढ्याः प्रीतिं तस्य वितेनिरे ॥ २६२ ॥

10.263
पौराः कर्पूरश्रीखण्डकुङ्कुमाद्यं ददुस्तथा ।
पुष्पाणि विष्णुयोग्यानि ददुरानीय भूपतेः ॥ २६३ ॥

10.264
तत्तत्कर्मार्थबिम्बानि प्रतिष्ठाप्य यथाविधि ।
स्वे स्वे यथोदिते स्थाने सन्निवेश्य सुविस्तृतम् ॥ २६४ ॥

10.265
ततोऽष्टाष्टकसंख्यैस्तु भोगैः सर्वैरकृत्रिमैः ।
प्रधानैः साङ्गभोगैस्तु विविधैरौपचारिकैः ॥ २६५ ॥

10.266
सांस्पर्शिकैस्तथा विप्र हृदयङ्गमसंज्ञितैः ।
अर्चयित्वा जगन्नाथं वासुदेवं परात्परम् ॥ २६६ ॥

10.267
त्रिसन्ध्यं परया भक्त्या जप्यैः स्तोत्रैश्च वैष्णवैः ।
कारयामास देवस्य सुचिरं वत्सरोत्सवम् ॥ २६७ ॥

10.268
तथा च वत्सरीयाणि नानानैमित्तिकान्यपि ।
प्रितष्ठां तत्प्रकारं च स्थानभेदं तथैव च ॥ २६८ ॥

10.269
उत्सवादिप्रकारं च वक्ष्याम्युपरि विस्तृतम् ।
भोगैश्च तोषयित्वा तं सर्वदेवमय हरिम् ॥ २६९ ॥

10.270
निष्कामो दानधर्मैश्च परं ज्ञानमवाप्तवान् ।
यजन् यज्ञान् महीं रक्षन् स कुर्वन् केशवार्चनम् ॥ २७० ॥

10.271
उत्पाद्य पुत्रान् पित्रर्थं चिरात् त्यक्त्वा कलेबरम् ।
ध्यायन्निष्कल्मषं देवं प्राप्तवान् वैष्णवं पदम् ॥ २७१ ॥

10.272
ततश्चैतत् क्रमाल्लेभे देवः सर्वेश्वरः स्वयम् ।
रामो राजीवनयनो भ्रातृभेदैस्त्रिभिः सह ॥ २७२ ॥

10.273
निहन्ता राक्षसानां यो मनुष्योऽहमिति स्मरन् ।
दशेन्द्रियाननं घोरं यो मनोरजनीचरम् ॥ २७३ ॥

10.274
विवेकशरजालेन शमं नयति देहिनाम् ।
कृतकृत्यस्तु यो वेत्ति स्वभावं दिव्यमुत्तमम् ॥ २७४ ॥

10.275
ददौ विभीषणायासौ प्रियाय प्रियकारिणे ।
शास्त्रोपदेशपूर्वं तु विमानं दिव्यलक्षणम् ॥ २७५ ॥

10.276
सोऽपि तच्छिरसा गृह्य ययौ देशं स्वकं प्रति ।
रवौ मध्यन्दिने प्राप्ते कवेरतनया तटे ॥ २७६ ॥

10.277
चन्द्रपुष्करिणीमध्येऽनन्तपीठेऽवतारयत् ।
दक्षाध्वरे च रुद्रेण परिभूतो निशाकरः ॥ २७७ ॥

10.278
मूर्ध्नि तस्य कृतावासो यत्र तप्त्वा महत्तपः ।
यस्मिंस्तु पुण्डरीकाक्षो देवो वामनरूपधृक् ॥ २७८ ॥

10.279
प्राप्तवान्नयसंस्कारं यत्र तु स्वयमेव हि ।
विमानप्रवरं दिव्यं श्रीरह्गमिति शब्दितम् ॥ २७९ ॥

10.280
प्रतिष्ठास्यति चात्रेति विनिश्चित्य जगत्पतिः ।
गणेशं योगनिद्रां च रक्षाहेतोः समादिशत् ॥ २८० ॥

10.281
तत्रावतार्य तन्मध्ये विमानं तद्विभीषणः ।
ततसंपूजयामास तैर्द्विजैरर्चितं हरिम् ॥ २८१ ॥

10.282
रमणीयैस्तु विविधैर्भोगैः सांस्पर्शिकादिकैः ।
तदुद्धर्तुमसौ यत्नमकरोद्बलवानपि ॥ २८२ ॥

10.283
न शशाक मनागस्मादेतच्चलयितुं तदा ।
अथापतद्धरण्यां वै विलपन् स च दुःखितः ॥ २८३ ॥

10.284
आर्तं विभीषणं दृष्ट्वा विलपन्तमनाथवत् ।
उवाच भगवान् रङ्गी स्वरेण महता तदा ॥ २८४ ॥

10.285
श्रीभगवानुवाच ।
आर्य धर्मज्ञ देशोऽयं रमणीयो हि मे मतः ।
अस्मिन्नेव शयानोऽहं रंस्ये त्वामभिवीक्ष्य च ॥ २८५ ॥

10.286
एतैरेकान्तिभिः सार्धं मदाराधनतत्परैः ।
विभीषणानुजानीहि कुरुष्व च मम प्रियम् ॥ २८६ ॥

10.287
एतानाराधकान् विप्रान् पञ्चकालपरायणान् ।
क्षेत्रारामगृहाद्यैस्तु सुसमृद्धान् कुरुष्व च ॥ २८७ ॥

10.288
मा भूस्त्वं दुर्मना याहि क्षिप्रं लङ्कां निशाचर ।
तत्र त्वं सुसमृद्धार्थः श्रियं भुङ्क्ष्वानपायिनीम् ॥ २८८ ॥

10.289
इत्युक्तः सुसमृद्धार्थान् क्षेत्रारामगृहादिभिः ।
कृत्वा चैकायनांस्तांस्तु पञ्चकालपरायणान् ॥ २८९ ॥

10.290
ततस्तु प्रययौ चार्तो लङ्कामेव विभीषणः ।
मर्त्यानां भाग्यवैषम्याद्ब्राह्नणानां हिताय च ॥ २९० ॥

10.291
देवानां च प्रतिष्ठायै रेमे तत्र नदीतटे ।
रङ्गधामनि रङ्गेशः शयानस्तु द्विजोत्तम ॥ २९१ ॥

10.292
तद्धामोभयतोऽगच्छत् परिरभ्य सरिद्वरा ।
यथा पतिं चिरं प्राप्तं भुजाभ्यां प्रियमङ्गना ॥ २९२ ॥

10.293
दिव्यं ह्येतन्महद्धाम दिव्यास्तत्र निवासिनः ।
दिव्या चेयं नदी तद्वद्दिव्यतीर्थमिदं सरः ॥ २९३ ॥

10.294
अनन्तशक्तियुक्तं तद्विमानं हि स्वयम्भवम् ।
किह्गरा विष्णुभूतेशा बलिनः कामरूपिणः ॥ २९४ ॥

10.295
ते च रक्षन्ति तं देशं सर्वे ह्यनिमिषेक्षणाः ।
ये निष्य न्दा निराहाराः सात्विकाश्च वसन्ति ते ॥ २९५ ॥

10.296
प्रव्याहरन्तो मधुरां वाणीं कर्णसुखावहाम् ।
न तत्र वसतां पीडा क्षुत्पिपासाद्युपस्थिता ॥ २९६ ॥

10.297
नाध्यात्मिकादिपीडा वा न जरा नाविवेकिता ।
त्रैकाल्यज्ञानसंपन्नाः सर्वकामविवर्जिताः ॥ २९७ ॥

10.298
पदार्थसप्तकज्ञानसंपूर्णा नान्ययाजिनः ।
द्वादशाध्यात्मनिरताः पञ्चकालपरायणः ॥ २९८ ॥

10.299
तमर्चयन्तोऽहरहस्तत्रैव निवसन्ति हि ।
षट्कर्मनिरताश्चापि ब्रह्नण्याहितचेतसः ॥ २९९ ॥

10.300
चरन्ति तत्र विमलाः पुरुषाः संशितव्रताः ।
देवासुरमुनीन्द्राद्याः सदा देवाभिकाङ्क्षिणः ॥ ३०० ॥

10.301
वसन्ति तत्र चास्थाय चित्रां स्थावररूपताम् ।
अप्युन्मत्तः प्रसान्तः स्याद्वधिरोऽपि सुबोधवान् ॥ ३०१ ॥

10.302
तस्य देशस्य माहात्म्यं सम्यग्ज्ञातुं न शक्यते ।
ब्रह्नणापि मुनिश्रेष्ठ किं पुनः खलु मादृशैः ॥ ३०२ ॥

10.303
तदेतत् परमं धाम श्रीरङ्गमिति शब्दितम् ।
दिव्यलक्षणसंयुक्तं स्वयंव्यक्तमिति श्रुतम् ॥ ३०३ ॥

10.304
अत्र सन्निहितः साक्षाद्भगवान् पुरुषोत्तमः ।
भक्तानां पुण्डरीकाक्षः परमात्माऽच्युतो हरिः ॥ ३०४ ॥

10.305
विविधेष्वपि चान्येषु नित्यं स्थानेषु यद्यपि ।
वासुदेवस्तु मन्त्रज्ञात्मा स्थितः सन्निहितः स्वयम् ॥ ३०५ ॥

10.306
तथापि वलवत्त्वेन सन्निधिं भजतेऽत्र वै ।
ग्रीष्मकालं समासाद्य यथार्कस्तीक्ष्णतां व्रजेत् ॥ ३०६ ॥

10.307
स्वरूपमजहन्नेव तथैवात्र जगत्पतिः ।
दोषैः स दिग्विभागाद्यैस्त्वन्यथात्वं न याति च ॥ ३०७ ॥

10.308
नित्यसन्निधिमाहात्म्यात् कालं कल्पक्षयावधि ।
उत्तरोत्तरता चैव जगत्यस्मिन् हि वर्तते ॥ ३०८ ॥

10.309
भूत्या कान्त्या च कीर्त्या च क्रियया चाप्रमयेया ।
दुष्टोपशान्तिदा शक्त्या सिद्धिदा या च वै सह ॥ ३०९ ॥

10.310
मुक्तिकामाश्च भविनः फलकामाश्च सत्तम ।
यथाभिमतसंप्राप्तिमिहैवायान्त्यनश्वरीम् ॥ ३१० ॥

10.311
इह कर्मपराः सर्वे सायं प्रातस्तु मध्यतः ।
कुर्वते सर्वकर्माणि विमानाभिमुखाः सदा ॥ ३११ ॥

10.312
एवं तु पुष्करक्षेत्रे तोताद्रिशिखरेऽपि च ।
क्ष्माङ्गे पुराणसंज्ञे तु मधुभाण्डाभिधेऽपि च ॥ ३१२ ॥

10.313
स्थितः संनिहितो देवः स्वयंव्यक्तो जगत्पतिः ।
भगवान् पुण्डरीकाक्षो लोकानां हितकाम्यया ॥ ३१३ ॥

10.314
देवदेवो जगन्नाथ एवं क्षेत्रेषु केषुचित् ।
स्थापितो विबुधाद्यैस्तु सन्निधत्ते द्विजोत्तम ॥ ३१४ ॥

10.315
केषुचिन्मनुजेन्द्रैस्तु भक्तिबृंहितमानसैः ।
स्थापितो विधिवद्विप्र सन्निधत्ते जगत्पतिः ॥ ३१५ ॥

10.316
एवं भगवदाकारैर्नानासंस्थानलक्षणैः ।
नानाविशेषरूपैश्च नानाकार्यवशेन तु ॥ ३१६ ॥

10.317
विश्वमापूरितं सर्वं सर्वानुग्रहकाम्यया ।
स्वयंव्यक्तं तथासिद्धविबुधैश्च प्रतिष्ठितम् ॥ ३१७ ॥

10.318
मुनिमुख्यैस्तु गन्धर्वैर्यक्षैर्विद्याधरैरपि ।
रक्षोभिरसुरैर्मुख्यैः स्थापितं मन्त्रविग्रहम् ॥ ३१८ ॥

10.319
दिव्यशास्त्रोक्तविधिना पूजयेच्छास्त्रकोविदः ।
स्थापितं मनुजैर्देवं मुनिवाक्योक्तमार्गतः ॥ ३१९ ॥

10.320
पूजयेद् द्विज तत्रापि ज्ञानिभिस्तत्त्बदर्शिभिः ।
वासुदेवैकनिष्ठैस्तु देवतान्तरवर्जितैः ॥ ३२० ॥

10.321
व्यामिश्रयागमुक्तैस्तु तीव्रभक्तिसमन्वितैः ।
स्थापितं मनुजेन्द्रैस्तु ह्यनुवेधादिकोविदैः ॥ ३२१ ॥

10.322
अर्चयेद्देवदेवेशं दिव्यशास्त्रोक्तवर्त्मना ।
मुनिवाक्योक्तमार्गेण पूजनं यत्र वर्तते ॥ ३२२ ॥

10.323
तत्रापि दिव्यमार्गाच्चेत् पूजनं कर्तुमिच्छति ।
मुनिमार्गं परित्यज्य दिव्यमार्गेण पूजयेत् ॥ ३२३ ॥

10.324
भवेत् सन्निधिमाहात्म्यं कालं कल्पक्षयावधि ।
दिव्यमार्गेण पूजाद्यं वर्तते यत्र नित्यशः ॥ ३२४ ॥

10.325
तत्र दिव्यं परित्यज्य न कदाचिन्महामते ।
मुनिवाक्योक्तमार्गेण कुर्यात् संपूजनादिकम् ॥ ३२५ ॥

10.326
कुर्याद्वा यदि संमोहाद्विप्रः संमूढचेतनः ।
संप्रयात्यचिरातस्य भक्तिर्बीजेन वै सह ॥ ३२६ ॥

10.327
समन्त्रं कर्मतन्त्रं च सिद्धयश्च पराङ्मुखाः ।
इहैव शीघ्रं विप्रेन्द्र देहान्ते गतसन्ततिः ॥ ३२७ ॥

10.328
घोरं प्रयाति नरकं राजा राष्ट्रं च नश्यति ।
तस्मात् सर्वप्रयत्नेन दिव्यमार्गं तु न त्यजेत् ॥ ३२८ ॥

10.329
तामसेन तु मार्गेण पूजनं यत्र वर्तते ।
तत्रापि राजसेनैव पूजन सिद्धिदं भवेत् ॥ ३२९ ॥

10.330
राजसेन तु पूजाद्यं वर्तते यत्र नित्यशः ।
तत्रापि सात्विकेनैव पूजनं शुभदं सदा ॥ ३३० ॥

10.331
सात्विकेन तु पूजाद्यं वर्तते यत्र चान्वहम् ।
तत्र राजसमार्गेण न कुर्यात् पूजनादिकम् ॥ ३३१ ॥

10.332
यत्र राजसमार्गेण प्रवृत्तं त्वर्चनादिकम् ।
तत्र तामसमार्गेण न कुर्यादर्चनादिकम् ॥ ३३२ ॥

10.333
विविधानां राजसानामन्योन्यं स्याभ संकरः ।
सर्वत्रपौरुषे वाक्ये तद्ग्राह्यमविरोधि यत् ॥ ३३३ ॥

10.334
सनकः ।
केवलं तद्विधानेन न कुर्यात् स्थापनादिकम् ।
दिव्याद्यायतनानां च षूजार्थं यत् त्वयोदितम् ॥ ३३४ ॥

10.335
शास्त्रं दिव्यादिभेदेन श्रोतुमिच्छामि तत्वतः ।
यज्ज्ञात्वा विनिवर्तेयं शास्त्रसाङ्कर्यदोषतः ॥ ३३५ ॥

10.336
शाण्डिल्यः ।
वासुदेवेन यत् प्रोक्तं शास्त्रं भगवता स्वयम् ।
अनुष्टुप्छन्दोबन्धेन समासव्यासभेदतः ॥ ३३६ ॥

10.337
तथैव ब्रह्नरुद्रेन्द्रप्रमुखैश्च प्रवर्तितम् ।
लोकेष्वपि च दिव्येषु तद्दिव्यं विद्धि सत्तम ॥ ३३७ ॥

10.338
ब्रह्नरुद्रमुखैर्देवैः ऋषिभिश्च तपोधनैः ।
स्वयं प्रणीतं यच्छास्त्रं तद्विद्धि मुनिभाषितम् ॥ ३३८ ॥

10.339
एतत्तु त्रिविधं विद्धि सात्विकादिविभेदतः ।
विज्ञाय पुण्डरीकाक्षादर्थजालं यथास्थितम् ॥ ३३९ ॥

10.340
तद्बोधकं प्रणीतं यच्छास्त्रं तत् सात्विकं स्मृतम् ।
तस्माज्ज्ञातेऽर्थजाते तु किञ्चित् समवलम्ब्य च ॥ ३४० ॥

10.341
स्वबुद्धयुन्मुषितस्यैव ह्यर्थजातस्य बोधकम् ।
यत् प्रणीतं द्विजश्रेष्ठ तथा विज्ञाय तत्वतः ॥ ३४१ ॥

10.342
ग्रन्थविस्तरसंयुक्तं शास्त्रं सर्वेश्वरेश्वरात् ।
तत्संक्षेपप्रसादेन स्वविकल्पविजृम्भणैः ॥ ३४२ ॥

10.343
व्रह्नादिभिः प्रणीतं यत् तथा तदृषिभिर्द्विज ।
ब्रह्नादिभ्यः परिश्रुत्य तत् संक्षेपात्मना पुनः ॥ ३४३ ॥

10.344
स्वविकल्पात् प्रणीतं यत् तत् सर्वं विद्धि राजसम् ।
तत् स्याद् द्वेधा पञ्चरात्रवैस्वानसविभेदतः ॥ ३४४ ॥

10.345
केवलात् स्वविकल्पोक्तैः कृतं यत् तामसं तु तम् ।
केवलं मनुजैर्यत्तु कृतं तत् पौरुषं भवेत् ॥ ३४५ ॥

10.346
सनक ।
यैर्लिङ्गैर्वदतांश्रेष्ठ भगवद्वाक्यपूर्वकम् ।
भेदं जानामि तत्वेन तानि विस्तरतो वद ॥ ३४६ ॥

10.347
शाण्डिल्य ।
यदर्थाढ्यमसन्दिग्धं स्वच्छमल्पाक्षरं स्थिरम् ।
चातुरात्म्यस्वरूपेण संस्थितस्य विभोः सदा ॥ ३४७ ॥

10.348
स्वाभाविकं परत्वं तु यत्र यत्र समीरितम् ।
अन्यासां मन्त्रमूर्तीनां यत्र चौपाधिकं तु यत् ॥ ३४८ ॥

10.349
तुर्यादिजाग्रत्पर्यन्तः पदभेदः प्रकाशितः ।
भक्तानामनुकम्पार्थं यत्र वै चतुरात्मनः ॥ ३४९ ॥

10.350
शक्तीशस्य विभोर्यत्र विभवः संप्रकाशितः ।
अङ्गलाञ्छनभूषाणां शक्तीनां विहगेशितुः ॥ ३५० ॥

10.351
लयादिभेदभिन्नं तु स्वरूपं यत्र भाषितम् ।
बीजपिण्डपदाद्येन चातुर्विध्येन सत्तम ॥ ३५१ ॥

10.352
मन्त्राः प्रवर्तिता यत्र यत्र स्थापनकर्मणि ।
अनुवेधक्रिया प्रोक्ता यत्र वै नित्यपूजनम् ॥ ३५२ ॥

10.353
मूलमूर्तौ तु संपूर्णं प्रोक्तं प्राधान्यतो द्विज ।
तत्र कर्तुमशक्यं यत् स्नानाद्यं तावदेव तु ॥ ३५३ ॥

10.354
बिम्बान्तरे तदर्थं तु कर्मबिम्बपुरस्सरे ।
विहितं दर्पणाद्येषु तदभावान्महामते ॥ ३५४ ॥

10.355
क्ष्माजलानलवाय्वाख्यनाभसीयेन वै द्विज ।
धारणापञ्चकेनैव धारणाद्वितयेन च ॥ ३५५ ॥

10.356
दहनाप्यायनाख्येन यत्र शुद्धिश्च भौतिकी ।
आगमश्रुतिमूलत्वं स्वस्य यद्धयुपपादकम् ॥ ३५६ ॥

10.357
तत् पारमेश्वरं वाक्यमाज्ञासिद्धं हि मोक्षदम् ।
एवमादेयवाक्योत्थ आगमो यो महामते ॥ ३५७ ॥

10.358
सन्मार्गदर्शनं कृत्स्नं विधिवादं च विद्धि तत् ।
तत्प्रामाण्यात्तु यत्किञ्चित् समभ्यूह्य यथार्थतः ॥ ३५८ ॥

10.359
पूर्वापराबिरोधेन निर्वाह्यमविचारतः ।
सर्वेषां रञ्जकं गूढं निश्चयीकरणाक्षमम् ॥ ३५९ ॥

10.360
पारमेश्वरवाक्योक्तमर्थजालं यथास्थितम् ।
प्रत्यभिज्ञापकं यद्यत् सात्विकं मुनिभाषितम् ॥ ३६० ॥

10.361
प्रशंसकं यत् सिद्धीनां संप्रवर्तकमप्यथ ।
मूलमूर्तिमनादृत्य कर्मार्चायां तु पुष्कलम् ॥ ३६१ ॥

10.362
नित्यसंपूजनं प्रोक्तं प्राधान्येन तु यत्र वै ।
ब्रह्नरुद्रादिबिम्बानां प्रमाणं लक्षणं तथा ॥ ३६२ ॥

10.363
स्थापनं यत्र निर्दिष्टं यत्र वै जगतां पतेः ।
पूजनं तु समुद्दिष्टं प्राकृतानां जडात्मनाम् ॥ ३६३ ॥

10.364
तत्वानामपि विप्रेन्द्र दिशां कालस्य वाचकैः ।
परमेष्ठ्यादिभिर्मन्त्रैः पञ्चभिर्यत्र वै क्रमात् ॥ ३६४ ॥

10.365
स्थापनादिप्रतिष्ठान्तं पञ्चकं समुदीरितम् ।
यागपूर्वा हरिस्तोमपर्यन्ताः सप्त कीर्तिताः ॥ ३६५ ॥

10.366
यागा यत्र तथा सप्त तत्क्रमादधिकारिणः ।
उक्तं यत्र प्रतिष्ठया षोडशन्यासकल्पनम् ॥ ३६६ ॥

10.367
एतज्जानीहि तत् सर्वं राजसं मुनिभाषितम् ।
भगवन्तं समुद्दिश्य ह्यङ्गभावं विनैव तु ॥ ३६७ ॥

10.368
ब्रह्नरुद्रमुखानां तु विबुधानां तथैव च ।
मातॄणामपि दुर्गायाः स्वातन्त्र्येण तु यत्र वै ॥ ३६८ ॥

10.369
मन्त्रं ध्यानं प्रमाणं च लक्षणं स्थापनं तथा ।
निर्दिष्टं तामसं नाम मुनिवाक्यं तु विद्धि तत् ॥ ३६९ ॥

10.370
अनर्थकमसंबद्धमल्पार्थं शब्दडम्बरम् ।
अनिर्वाहकमाद्योक्तेर्वाक्यं तत् पौरुषं स्मृतम् ॥ ३७० ॥

10.371
हेयं चानर्थसिद्धीनामाकरं नरकावहम् ।
पारमेश्वरवाक्यार्थैर्यद्विरोधि न तद् द्विज ॥ ३७१ ॥

10.372
संग्राह्यं सात्विकाद्येषु मुनिवाक्येषु यत्नतः ।
यद्दिव्यापेक्षितं विप्र संग्राह्यमविरोधि तत् ॥ ३७२ ॥

10.373
सात्विकादिक्रमात्तेषु समभ्यूह्य महामते ।
प्रसिद्धार्थानुपादाय सङ्गतार्थं विलक्षणम् ॥ ३७३ ॥

10.374
अपि चेत् पौरुषं वाक्यं ग्राह्यं तन्मुनिवाक्यवत् ।
सनक ।
दिव्यपूर्वाणि शास्त्राणि प्रोक्तैरेतैस्तु लिङ्गकैः ॥ ३७४ ॥

10.375
लिङ्गितानि द्विजश्रेष्ठ व्यक्तनामान्वितानि च ।
कौतूहलं हि मे श्रोतुं प्रब्रूहि गणशस्तथा ॥ ३७५ ॥

10.376
विज्ञातव्यान्यसंकीर्णं यथा च स्वल्पबुद्धिभिः ।
शाण्डिल्य ।
सात्वतं पौष्करं चैव जयाख्यं च तथैव च ॥ ३७६ ॥

10.377
एवमादीनि शास्त्राणि दिव्यानीत्यवधारय ।
संहिता चेश्वरस्यापि भरद्वाजस्य संहिता ॥ ३७७ ॥

10.378
सौमन्तवी तथा ह्येतत् पारमेश्वरसंज्ञितम् ।
वैहायसी संहिता च शास्त्रं चित्रशिखण्डिजम् ॥ ३७८ ॥

10.379
तथा जयोत्तरं तत्र एवमादीनि तत्वतः ।
सात्विकानि विजानीहि मुनिवाक्यानि सत्तम ॥ ३७९ ॥

10.380
तन्त्रं सनत्कुमारख्यं तथा पझोद्भवाभिधम् ।
सत्यापि तेजोद्रविणं मायावैभविकं तथा ॥ ३८० ॥

10.381
इत्यादीन्यवगच्छ त्वं राजसान्येव तत्वतः ।
पञ्चप्रश्नं शुकप्रश्नं तत्वसागरसंहिता ॥ ३८१ ॥

10.382
इत्यादीन्यवबुद्ध्यस्व तामसानि विशेषतः ।
पूर्वोक्तलक्षणेनैव ज्ञातव्यं तत्र पौरुषम् ॥ ३८२ ॥

10.383
प्रासादानां च शास्त्राणां यथावत् संप्रकाशितम् ।
भेदं दिव्यादिकं सम्यग् ज्ञात्वा सर्वं समाचरेत् ॥ ३८३ ॥

10.384
यो न ज्ञात्वा तु साङ्कर्यं पूजाद्यमनुतिष्ठति ।
स हि सर्वस्य जगतः साङ्कर्यं कुरुते सदा ॥ ३८४ ॥

10.385
विशेषात् स्वस्य वंशस्य तस्मादापद्यपि द्विज ।
न कुर्याच्छास्त्रसाङ्कर्यं हितैषी शास्त्रकोबिदः ॥ ३८५ ॥


Kapitel 11

श्रीः ।
एकादशोऽध्यायः ।
सनकः ।

11.1
नित्योत्सवविधौ ब्रह्मन् पूजनं समुदाहृतम् ।
द्वारावरणदेवानां तेषां ध्यानादिकं क्रमात् ॥ १ ॥

11.2
ज्ञातुमिच्छामि विप्रेन्द्र प्रब्रूहि मम विस्तरात् ।
शाण्डिलयः ।
श्रूयतामभिधास्यामि यदहं चोदितस्त्वया ॥ २ ॥

11.3
प्रासादद्वारदेवेभ्यः समारभ्य यथाक्रमम् ।
प्रासादद्वारबाह्ये तु ह्यधस्थौदुम्बरान्तिमे ॥ ३ ॥

11.4
वास्त्वीशक्षेत्रनाथौ द्वौ स्थितौ दक्षेतरक्रमात् ।
शुक्लवक्त्रः कृष्णदेहो द्विभुजो रत्नपात्रधृक् ॥ ४ ॥

11.5
दक्षिणेन करेणैव सर्वामरसमाश्रयः ।
पुण्डरीकसमानाभवस्त्रस्रगनुलेपनः ॥ ५ ॥

11.6
गदोद्यतकरो विप्र ध्यातव्यो वास्तुपूरुषः ।
क्षेत्रेशं द्विभुजं ध्यायेद्धेमाभवसनस्रजम् ॥ ६ ॥

11.7
नीलजीमूतसंकाशं दण्डहस्तं महातनुम् ।
मुष्टिकृद्वामहस्तेन यागक्षेत्य पालकम् ॥ ७ ॥

11.8
कुण्डलाद्यैरलङ्कारैरेतौ शोभितविग्रहौ ।
वीक्षमाणौ विभोर्वक्त्रं तेजसातीव निर्भरौ ॥ ८ ॥

11.9
तप्तकाञ्चनवर्णाभां प्रवालसदृशाम्बराम् ।
हारनूपुरकेयूरकरण्डमकुटादिकैः ॥ ९ ॥

11.10
अलङ्कृतामलङ्कारैः पुण्डरीकनिभेक्षणाम् ।
अकलङ्कसुसम्पूर्णशरच्चन्द्रनिभाननाम् ॥ १० ॥

11.11
पझकुम्भकरां लक्ष्मीं पझोपरिगतां स्मरेत् ।
पद्मासनेनोपविष्टां द्वारस्योर्ध्व उदुम्बरे ॥ ११ ॥

11.12
तरुणादित्यसंकाशो महोरस्कश्चतुर्भुजः ।
उन्नतश्चोन्नतांसश्च पूर्णाङ्गो नातिमांसलः ॥ १२ ॥

11.13
तनूदरो निम्ननाभो रोमराजिविराजितः ।
दंष्ट्राकरालवदनः पिङ्गश्मश्रुजटाधरः ॥ १३ ॥

11.14
मधुपिङ्गलनेत्रश्च कुटिलभ्रूलतायुतः ।
प्रलम्बलोलश्रवणः पृथुघ्राणः स्मिताननः ॥ १४ ॥

11.15
कुण्डलालङ्कृतस्चैव हारकेयूरभूषितः ।
बद्धोष्णीषललाटश्च तिलकेनाप्यल्ङकृतः ॥ १५ ॥

11.16
शुक्लाम्बरधरः स्रग्वी भुजयुग्मेऽस्य दक्षिणे ।
प्रोद्यतं संस्मरेच्चक्रं प्रज्वलन्तीं गदां परे ॥ १६ ॥

11.17
श्रोणीतटनिषण्णां च विश्रान्तां वसुधातले ।
पूर्वे वामकरे शङ्खमन्यस्मिश्चाक्षसूत्रकम् ॥ १७ ॥

11.18
एवं गणाधिपश्चण्डो विक्रमेणापराजितः ।
क्रुद्धो विघ्नायुतानां च क्षणात् संहरणक्षमः ॥ १८ ॥

11.19
ध्येयो गर्भगृहद्वारशाखामूले तु दक्षिणे ।
तत्रैवापरभागे तु प्रचण्डं त्वीदृशं यजेत् ॥ १९ ॥

11.20
किंतु सव्यापसव्याभ्यां भुजाभ्यां स्याद्विपर्ययः ।
भुजद्वये यच्चण्डस्य वामे संपरिकीर्तितम् ॥ २० ॥

11.21
दक्षिणे तत् प्रचण्डस्य ध्येयं वा परिकलप्य च ।
ध्यायेद्द्वाराग्रदेशे तु गरुडं काञ्चनप्रभम् ॥ २१ ॥

11.22
कुटिलभ्रुसुवृत्ताक्षं पक्षमण्डलमण्डितम् ।
लम्बोदरं सुपीनाङ्गं सर्वभूषणभूषितम् ॥ २२ ॥

11.23
मकुटाद्यैरलङ्कारैर्नूपुराद्यैर्विराजितम् ।
नीलं वसानं वसनं नानामाल्योपशोभितम् ॥ २३ ॥

11.24
संमुखं देवदेवस्य भूगतं विधृताञ्जलिम् ।
द्विभुजं तुहिनाभं च सत्याख्यं विहगाधिपम् ॥ २४ ॥

11.25
प्राणाधिदैवतं चक्रे बलिमण्डलमध्यगे ।
संस्थितं संस्मरेत् सर्वैरङ्गैः पुरुषरूपिणम् ॥ २५ ॥

11.26
प्रलम्बमानजठरं पक्षराजिविराजितम् ।
दक्षिणेन करेणैव धारयन्तं गणित्रकम् ॥ २६ ॥

11.27
उत्तानितेतरकरं कुण्डलाद्यैर्विभूषितम् ।
नीलकौशेयवसनं नीलमाल्यानुलेपनम् ॥ २७ ॥

11.28
अनाकुलाभ्यां नेत्राभ्यां वीक्षमाणं सदा विभुम् ।
अथाग्रमण्डपद्वारशाखायुगलसंस्थितौ ॥ २८ ॥

11.29
पझगर्भप्रतीकाशावतिभीमपराक्रमौ ।
चण्डप्रचण्डसदृशौ भुजलाञ्छनभूषणैः ॥ २९ ॥

11.30
रक्ताम्बरधरौ चैव रक्तस्रगनुलेपनौ ।
गणौ धातृविधातारौ ध्यात्वा सपूज्य तत्परः ॥ ३० ॥

11.31
कुमुदादिगणेशानान् प्रथमावरणे यजेत् ।
पूर्वे च वह्निदिग्भागे पूज्यौ द्वौ गणनायकौ ॥ ३१ ॥

11.32
कुमुदः कुमुदाक्षश्च प्रसन्नवदनेक्षणौ ।
तुहिनाचलसङ्काशौ प्रथमे वयसि स्थितौ ॥ ३२ ॥

11.33
नानाभरणदिग्धाङ्गौ नानाकुण्डलभूषितौ ।
नानामाल्यचितौ चैव नानामौलिधरौ द्विज ॥ ३३ ॥

11.34
नानागन्धविलिप्ताङ्गौ नानावस्त्रविभूषितौ ।
कुमुदाख्यगणेशस्य ध्यातव्यो दक्षिणः करः ॥ ३४ ॥

11.35
चन्द्ररश्मिप्रतीकाशचामरेण विराजितः ।
अभिगच्छाभयं ध्यायेद्द्वितीयं दक्षिणं करम् ॥ ३५ ॥

11.36
भवभङ्गात् प्रपन्नानां परेषां गुणशासनम् ।
तस्यैवाद्यं वामकरं प्रबुद्धकमलोद्यतम् ॥ ३६ ॥

11.37
तूष्णीं भीसूचकं ध्यायेद्बहिःस्थानां परं करम् ।
एतेद्वै कुमुदाक्षस्य वैपरीत्येन भावयेत् ॥ ३७ ॥

11.38
द्वाभ्यां द्वाभ्यां कराभ्यां वै त्वन्येषामेवमेव हि ।
पुण्डरीको वामनश्च द्वावेतौ हुतभुक्प्रभौ ॥ ३८ ॥

11.39
गरुडध्वजहस्तौ च शेषमन्यत् पुरोदितम् ।
कृत्वा ध्यात्वाऽथवा न्यस्य दक्षिणे नैरृतेऽपि च ॥ ३९ ॥

11.40
शङ्कुकर्णाभिधानो यः सर्वनेत्राभिसंज्ञितः ।
द्वावेतौ चम्पकाभौ तु मयूरव्यजनोद्यतौ ॥ ४० ॥

11.41
महाविभूतेर्देवस्य प्रत्यग्वायुदिगास्थितौ ।
सुमुखः सुप्रतिष्ठश्च विभोः सोमेशदिक्स्थितौ ॥ ४१ ॥

11.42
चिन्त्यौ मुद्गफलश्यामावातपत्रकरोद्यतौ ।
नोक्तशेषकराणां तु तद्विद्धि कुमुदोदितम् ॥ ४२ ॥

11.43
मानवः पृश्निगर्भश्च जगत्यम्बरसंस्थितौ ।
तप्तकाञ्चनवर्णाभौ करण्डमकुटोज्ज्वलौ ॥ ४३ ॥

11.44
दंष्ट्राकरालवदनौ नानामाल्यधरौ द्विज ।
तत्र मानवसंज्ञस्च पक्षनागविभूषितः ॥ ४४ ॥

11.45
तस्य दक्षिणहस्तश्च शङ्खराजेन शोभितः ।
तत्पृष्ठे कटके हस्ते अङ्गुष्ठान्तरलोलगा ॥ ४५ ॥

11.46
अक्षमालेति सा प्रोक्ता सर्वसिद्धिकरी सदा ।
मुख्यवामकरे चक्रं तत्पृष्ठे चोर्ध्वगा गदा ॥ ४६ ॥

11.47
एतद्धि पृश्निगर्भस्य वैपरीत्येन भावयेत् ।
कटिहस्ताद्गतां ध्यात्वा पक्षनागौ विना द्विज ॥ ४७ ॥

11.48
एते भगवतो विप्र त्वन्तरह्गा मयोदिताः ।
कर्मणा मनसा वाचा तद्भावगतमानसाः ॥ ४८ ॥

11.49
ज्ञानादिषड्गुणोपेतैराकीर्णाः कोटिशः परैः ।
भूतैः सिद्धैरनन्तैश्च प्रार्थयानैः परं पदम् ॥ ४९ ॥

11.50
वस्त्रभूषाङ्गरागाद्यैः सर्वे ते कुमुदोपमाः ।
श्वेतमृत्कल्पितेनैव ह्यूर्ध्वपुण्ड्रेण भूषिताः ॥ ५० ॥

11.51
ललाटस्थेन सर्वेऽपि कुमुदादिगणाधिपाः ।
एवमन्येऽपि भूताद्याः सर्वे पारिषदा द्विज ॥ ५१ ॥

11.52
एवमावृतिदेवाश्च द्वारस्थाश्च तथैव हि ।
एवं तदीया विप्राश्च क्षत्रविट्च्छूद्रजातयः ॥ ५२ ॥

11.53
मृदैव वा चन्दनेन कल्पितैरूर्ध्वपुण्ड्रकैः ।
द्वादशैश्च चतुर्भिर्वा भूषिताः स्युः सदा द्विज ॥ ५३ ॥

11.54
अतसीकुसुमश्यामौ पीतमाल्याम्बरान्वितौ ।
पीतोष्णीषधरौ रौद्रौ प्राग्वद्भुजविभूषितौ ॥ ५४ ॥

11.55
गणौ चण्डाकृतिधरौ दुर्दर्शौ दुरतिक्रमौ ।
जयं च विजयं नाम्ना यजेत्तद्वारपार्श्वयोः ॥ ५५ ॥

11.56
तदुद्देशात् समारभ्य बहिर्द्वारावसानकम् ।
द्वितीयावरणक्षेत्रं षोढा कृत्वा तु पञ्चमे ॥ ५६ ॥

11.57
भागे तु गरुडं कृत्वा विप्र ध्यात्वाऽथवा न्यसेत् ।
द्रवच्चामीकराकारं भीमभ्रकुटिलोचनम् ॥ ५७ ॥

11.58
पृथुदंष्ट्रं पृथुध्राणं पृथुगात्रं पृथूदरम् ।
पक्षाङ्कुराञ्चितोरस्कं पक्षमण्डलमण्डितम् ॥ ५८ ॥

11.59
हारकेयूरताटङ्कमकुटाद्यैस्तु भूषणैः ।
भूषितं नीलवसनं नानामाल्यविभूषितम् ॥ ५९ ॥

11.60
नानागन्धविलिप्ताङ्गं नागैकादशभूषितम् ।
पुष्पस्तबकसंपूर्णमञ्जलिं दधतं द्विज ॥ ६० ॥

11.61
उन्नम्य दक्षिणं जानुमासनीकृत्य चेतरत् ।
सुखासनसमासीनं विभोराज्ञाप्रतीक्षकम् ॥ ६१ ॥

11.62
ततः कर्मात्मतत्वानां दशकं सिद्धतां गतम् ।
भगवत्तुल्यसामर्थ्यसार्वज्ञ्यादिगुणैर्युतम् ॥ ६२ ॥

11.63
वियुक्तं प्राकृताद् दुःखान्नियुक्तं चेश्वरेण तु ।
भवसन्तारकत्वेन ह्येतदावृतिकं क्रमात् ॥ ६३ ॥

11.64
उपेन्द्रः पूर्वदिग्भागे संस्थितो द्विजसत्तम ।
वह्नौ तेजोधराख्यस्तु दक्षिणे दुरतिक्रमः ॥ ६४ ॥

11.65
नैरृते तु महाकर्मा पश्चिमे तु महाह्रदः ।
अग्राह्यो वायुदिग्भागे वसुरेतास्तथोत्तरे ॥ ६५ ॥

11.66
पूर्वोत्तरे वर्धमानः साक्षी गगनगोचरे ।
आधारनिलयं नाम्ना सर्वस्याधोगतं स्मरेत् ॥ ६६ ॥

11.67
एते स्फटिकवर्णाभाश्वेतमाल्याम्बरान्विताः ।
गणित्रकं रथाङ्गं च शङ्खं चैव गदां तथा ॥ ६७ ॥

11.68
दधाना मुख्यदक्षादिमुख्यवामान्तमेव हि ।
करैश्चतुर्भिः सुसमा मकुटादिविभूषिताः ॥ ६८ ॥

11.69
तेजसा विघ्नजालानि प्रेरयन्तो महौजसः ।
स्थानकैः संस्थिताः सर्वे ध्यानोन्मीलितलोचनाः ॥ ६९ ॥

11.70
अथवा द्विभुजा एते वज्राद्यं दशकं क्रमात् ।
दक्षेण लोकपालीयं धारयन्तः करेण तु ॥ ७० ॥

11.71
गणित्रकं तु वामेन वरदाभयदास्तु वा ।
तदा वर्णाङ्गरागाद्यैरिन्द्रादिसदृशास्तु वा ॥ ७१ ॥

11.72
द्वितीयगोपुरद्वारपार्श्वयोरन्तरस्थयोः ।
विन्यसेद् द्वारपालाख्यावेतौ वामादितो गणौ ॥ ७२ ॥

11.73
निधीशौ शङ्खपझौ तु निधिभाण्डोपरिस्थितौ ।
स्थूलदन्तौ च दान्तौ च द्विभुजौ भगवन्मयौ ॥ ७३ ॥

11.74
कुटिलभ्रूलतायुक्तौ किञ्चिदुन्नतवक्षसौ ।
लम्बोदरौ सुपीनाङ्गौ ह्रस्वपाणिपदौ द्विज ॥ ७४ ॥

11.75
शङ्कपझसमानाभौ नीलशुक्लाम्बरस्रजौ ।
मकुटाद्यैस्तु विविधैरलङ्कारैरलंकृतौ ॥ ७५ ॥

11.76
दक्षिणेन करेणैव धारयन्तौ सरोरुहम् ।
इतरेण करेणैव ह्युत्तानेन निधिं स्वकम् ॥ ७६ ॥

11.77
अथवा वामहस्ताभ्यां प्रवेशाभीतिदान्वितौ ।
कर्दवयेन शङ्खं वा पझं वा दधतौ द्विज ॥ ७७ ॥

11.78
वामेव धारयेत् पझं यद्वा शङ्खं निधीश्वरः ।
शङ्खपझधरौ वापि शिरसा मकुटोपरि ॥ ७८ ॥

11.79
शङ्खचक्रधरौ वापि साधकेच्छावशेन तु ।
उन्नम्य दक्षिणं जानुं ह्यासनीकत्य चेतरत् ॥ ७९ ॥

11.80
एवं शङ्खनिधेः पझनिधेस्तु विपरीतवत् ।
तद्द्वारशाखानिष्ठौ तु संस्मरेद्दक्षिणादितः ॥ ८० ॥

11.81
क्षीरकुन्दावदातौ च नीलकौशेयवाससौ ।
नीलनीरजवर्णाभैः पुष्पैर्भूषितविग्रहौ ॥ ८१ ॥

11.82
पूर्वोक्तगणसादृश्यौ नाम्ना भद्रसुभद्रकौ ।
तद्द्वारबाह्यतः पश्चात् पार्श्वयोर्गोपुरस्थितौ ॥ ८२ ॥

11.83
एतौ गणेश्वरौ न्यस्येद् ध्यात्वा वा परिकलप्य च ।
अथवा द्विभुजावेतौ तदा भद्रस्य दक्षिणम् ॥ ८३ ॥

11.84
करं तु तर्जनीयुक्तं वाममीषत्तु कुञ्चितम् ।
गदाग्रोपरिविश्रान्तं गदामूलोपरिस्थितम् ॥ ८४ ॥

11.85
व्यत्यस्तदक्षिणं पादं वामं तु भुवि संस्थितम् ।
भद्रस्य वामयोर्विप्र यदुक्तं पाणिपादयोः ॥ ८५ ॥

11.86
दक्षयोस्तत् सुभद्रस्य दक्षोक्तं वामगं भवेत् ।
किन्तु तद्वामहस्तं तु युक्तं विस्मयमुद्रया ॥ ८६ ॥

11.87
चण्डप्रजण्डौ धाता च विधाता च जयस्तथा ।
विजयश्चापि भद्रश्च सुभद्रश्च गणेश्वरः ॥ ८७ ॥

11.88
एते गणेश्वरा ह्यष्टौ प्रभापुष्पाम्बरैर्विना ।
देहवक्त्राकृतैस्तुल्यास्तथैवाभरणायुधैः ॥ ८८ ॥

11.89
भक्तानां विघ्नजालस्य सर्वदिक्संस्थितस्य च ।
संसारफलदातुर्वै च्छेदनार्थं समुद्यताः ॥ ८९ ॥

11.90
परस्परमुखाः सर्वे स्थानकैः संस्थिताः समैः ।
गणेशायुतलक्षैस्तु नानावर्णवपूर्धरैः ॥ ९० ॥

11.91
अच्युताराधनपरैरेकैकं परिवारिताः ।
तृतीयावरणे पश्चात् पूर्वादिक्रमयोगतः ॥ ९१ ॥

11.92
इन्द्रादिलोकपालानां दशकं विन्यसेद्द्विज ।
शतधामनिभं ध्यायेच्चतुर्बाहुं पुरन्दरम् ॥ ९२ ॥

11.93
सुसितद्विपसंस्थं तु सुतीक्ष्णकुलिशोद्यतम् ।
अजारूढं स्मरेद्रक्तं शक्तिपाणिं हुताशनम् ॥ ९३ ॥

11.94
सहस्रार्चिभिराकीर्णं सहस्नादित्यभासुरम् ।
महामहिषसंस्थं तु त्वञ्जनाद्रिसमप्रभम् ॥ ९४ ॥

11.95
सुभूमदण्डहस्तं तु स्मरेद्देवं पित्रीस्वरम् ।
दंष्ट्राकरालवदनं कृष्णमेघसमप्रभम् ॥ ९५ ॥

11.96
घोरं प्रेतासनं ध्यायेत् खङ्गधृग्राक्षसेश्वरम् ।
मुक्ताफलद्युतिसमं भीमं पाशकरोद्यतम् ॥ ९६ ॥

11.97
नागकन्यासहस्नाढ्चं मकरस्थमपांपतिम् ।
नीलतोयदसंकाशं महाध्वजपटाङ्कितम् ॥ ९७ ॥

11.98
ध्यायेत् समीरणं देवं संस्थितं हरिणोपरि ।
सोमं तारागणोपेतं शङ्खगोक्षीरपाण्डरम् ॥ ९८ ॥

11.99
बृहच्छशकपृष्ठस्थं शिशिरास्त्रकरं स्मरेत् ।
सितभूतिविलिप्ताङ्गं त्रिनेत्रं वृषवाहनम् ॥ ९९ ॥

11.100
त्रिशूलायुधहस्तं च त्वीशानं ज्ञानिनं स्मरेत् ।
पातालदिग्गतं ध्यायेत् कूर्मारूढं हलायुधम् ॥ १०० ॥

11.101
सितं सहस्रफणभृद्योनन्तो नाम नागराट् ।
भचक्रं भ्राम्यमाणं तु दण्डहस्तं प्रजापतिम् ॥ १०१ ॥

11.102
हंसारूढं खसंस्थं तु ध्यायेद्ध्रुवमजं विभुम् ।
एते चतुर्भुजाः सर्वे अक्षसूत्रविभूषिताः ॥ १०२ ॥

11.103
चिन्तयन्तः परं तत्त्वं वराभयकरोद्यताः ।
दिव्याभरणदिग्धाङ्गा दिव्यमाल्याम्बरान्विताः ॥ १०३ ॥

11.104
दिव्यरूपधराश्चैव दिव्यगन्धवहा द्विज ।
रक्तशुक्लनिशापीतनीलचम्पकसप्रभैः ॥ १०४ ॥

11.105
व्योमस्फटिकमार्तण्डराजोपलनिभैस्तथा ।
माल्याङ्गरागवसनैः महार्घैः समलंकृताः ॥ १०५ ॥

11.106
भूषिता भूषणैश्चित्रैः करण्डमकुटादिभः ।
एभ्यश्चतुर्भुजो ब्रह्मन् विज्ञेयो वृषभध्वजः ॥ १०६ ॥

11.107
द्विभुजास्त्वमराश्चान्ये वरदाभयदास्तु वा ।
इति लोकेश्वेरेषूक्तं ततो वै द्विजसत्तम ॥ १०७ ॥

11.108
तृतीयावरणद्वारे शाखामूले तु दक्षिणे ।
सुदर्शनं चतुर्हस्तं ह्रस्वकायं ज्वलत्प्रभम् ॥ १०८ ॥

11.109
क्रौधरक्तेक्षणं दैत्यदानवासृग्विलेपनम् ।
नृत्यन्तं मदमत्तं च सहस्रारान्तरस्थितम् ॥ १०९ ॥

11.110
दंष्ट्राकरालवदनं कुटिलभ्रूलतायुतम् ।
कल्पान्तपावकाकारं स्वरश्मिपरिवेष्टितम् ॥ ११० ॥

11.111
दक्षिणे भुजयुग्मे तु पूर्वेण च सुदर्शनम् ।
धारयन्तं ततोऽन्येन विश्रान्तां भूतले गदाम् ॥ १११ ॥

11.112
शङ्खं मुख्येन वामेन ह्यपरेण गणित्रकम् ।
हारकेयूरताटङ्कमकुटादिविभूषणैः ॥ ११२ ॥

11.113
विभूषितं विचित्रैस्तु श्वेतमाल्याम्बरादिकैः ।
विघ्नानुत्पाटयन्तं च दीप्तेन स्वेन तेजसा ॥ ११३ ॥

11.114
संस्मरेत्तु ततोऽन्यस्मिन् शाखामूले महामते ।
सुस्थितं गरुढं विप्र तप्तकाञ्चनसन्निभम् ॥ ११४ ॥

11.115
सौम्यवक्त्रं विवृत्ताक्षं रक्ततुण्डं सुभीषणम् ।
पृथूदरं दीर्घपुच्छपक्षमण्डलमण्डितम् ॥ ११५ ॥

11.116
रक्ताम्बरधरं चैव रक्तस्रगनुलेपनम् ।
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम् ॥ ११६ ॥

11.117
विचित्रकञ्चुकधरं भुजगेन्द्रैरलंकृतम् ।
मकुटाद्यैरलंकारैर्विविधैस्तु विभूषितम् ॥ ११७ ॥

11.118
भुजद्वये यच्चक्रस्य वामे संपरिकीर्तितम् ।
दक्षिणे तद्भवेदस्य दक्षोक्तं वामगं भवेत् ॥ ११८ ॥

11.119
वज्रं शक्तिस्तथा दण्डःखङ्गः पाशो ध्वजस्तथा ।
शिशिराख्यं त्रिशूलं च लाङ्गलं मुसलं तथा ॥ ११९ ॥

11.120
पूर्वादिक्रमयोगेन चतुर्थावरणे स्थिताः ।
एतेषां क्रमशो ध्यानं समाकर्णय साम्प्रतम् ॥ १२० ॥

11.121
वज्रं वज्रोपलाभं तु सितदीर्घनखाङ्कितम् ।
दंष्ट्राकरालवदनं ज्वलत्कनकलोचनम् ॥ १२१ ॥

11.122
सौदामिनीप्रभां शक्तिं शान्ताग्निवदनेक्षणाम् ।
घनघर्घरनिर्घोषमुद्गिरन्तीं मुहुर्मुङुः ॥ १२२ ॥

11.123
बद्धमुष्टिं स्मरेद्दण्डं रक्ताङ्गं रक्तलोचनम् ।
क्रोधमूर्तिं स्वदशनैर्दशन्तमधर स्वकम् ॥ १२३ ॥

11.124
स्व रश्मिखचितं ध्यायेन्नृत्यमानं च नन्दकम् ।
शरदाकाशसंकाशं दशन्तं दशनावलीम् ॥ १२४ ॥

11.125
पाशं गुणगणाकीर्णं विद्युज्जिह्वं भयानकम् ।
हेमालिपाण्डराभं च घोरास्यं रक्तलोचनम् ॥ १२५ ॥

11.126
शरज्जलदसंकाशं ध्वजं कुटिललोचनम् ।
स्वतेजसा जगत् सर्वं द्योतयन्तं बलोत्कटम् ॥ १२६ ॥

11.127
शिशिरं शीतधामाभं पीनाङ्गं पृथुविग्रहम् ।
जटाकलापधृक्सौम्यं पुण्डरीकनिभेक्षणम् ॥ १२७ ॥

11.128
उदयार्कसहस्राभं त्रिशूलं भीषणाकृतिम् ।
कल्पान्तपावकाकारस्वरश्मिपरिवेष्टितम् ॥ १२८ ॥

11.129
सन्ध्याजलदसंकाशं लाङ्गलं भीमलोचनम् ।
क्षामाङ्गमुन्नतांसं च वज्रकायं बलोत्कटम् ॥ १२९ ॥

11.130
कुन्दावदातं मुसलं सौम्यमीषत्स्मिताननम् ।
रवं रवन्तं मधुरं श्रोत्रेन्द्रियसुखावहम् ॥ १३० ॥

11.131
नीलरक्तसितापीतपावकाञ्जनसन्निभैः ।
हेमचन्द्रहिमाकाशसमानाभैः क्रमेण तु ॥ १३१ ॥

11.132
माल्याङ्गरागवसनै रुचिरैः समलंकृताः ।
दिव्यैराभरणैर्युक्ताः स्वचिङ्नाङ्कितमस्तकाः ॥ १३२ ॥

11.133
तर्जयन्तश्च दुष्टौघं दक्षिणेन करेण तु ।
वामेन कटिमालम्ब्य सुसमैः स्थानकैः स्थिताः ॥ १३३ ॥

11.134
चतुर्थावरणद्वारदक्षिणोत्तरशाखयोः ।
गङ्गां च यमुनां चैव ध्यात्वा संपूजयेत् क्रमात् ॥ १३४ ॥

11.135
भगवत्पादसंभूतां गङ्गां कुमुदसन्निभाम् ।
नवयौवनलावण्यसौकुमार्यगुणैर्वृताम् ॥ १३५ ॥

11.136
नीलाङ्गरागवसनां नीलमाल्यैरलंकृताम् ।
द्विभुजां सौम्यवदनां पुण्डरीकनिभेक्षणाम् ॥ १३६ ॥

11.137
हारनू पुरकेयूरकुण्डलाद्युपशोभिताम् ।
संसारतापसन्तप्तानारुरुक्षून् पंर पदम् ॥ १३७ ॥

11.138
वासनाकर्मपङ्कानि क्षालयन्तीं स्वतेजसा ।
वहन्तीं दक्षिणेनैव कलशं वारिपूरितम् ॥ १३८ ॥

11.139
वामेन तर्जयन्तीं च करेण प्राकृतान् जनान् ।
यमुनां नीलरत्ना भां नीलकुञ्चितमूर्धजाम् ॥ १३९ ॥

11.140
सिताङ्गरागवसनां सितमाल्योपशोभिताम् ।
दक्षिणे तर्जनी मुद्रा वामे तु कलशः स्मृतः ॥ १४० ॥

11.141
अन्यत् सर्वं तु गङ्गोक्तमत्रापि स्यान्महामते ।
लोहिताक्षो महावीर्यस्त्वप्रमेयः सुशोभनः ॥ १४१ ॥

11.142
वीरहा विक्रमो भीमः शतावर्तस्तु चाष्टमः ।
ऐश्वरीदिक्क्रमेणैव पञ्चमावरणे स्थिताः ॥ १४२ ॥

11.143
ध्यायेच्चन्द्रप्रतीकाशं लोहिताक्षं बलोत्कटम् ।
नीलाम्बरधरं नीलमाल्यं नीलानुलेपनम् ॥ १४३ ॥

11.144
महावीर्यं महाकायं पीतवर्णं महाभुजम् ।
प्रवालाभाम्बरधरं रक्तस्नगनुलेपनम् ॥ १४४ ॥

11.145
संस्मरेदप्रमेयाक्यमप्रमेयबलोत्कटम् ।
हरिताकृतिमापीतवसनस्रग्विलेपनम् ॥ १४५ ॥

11.146
सुशोभनं शोभनाङ्गं मुक्ताफलनिभं स्मरेत् ।
अतसीपुष्पसंकाशवासोमाल्यानुलेपनम् ॥ १४६ ॥

11.147
वीरघ्नं वीरहाख्यं च ध्यायेच्चम्पकसप्रभम् ।
बाह्लीकरञ्जितं रक्तवसनस्रग्विमण्डितम् ॥ १४७ ॥

11.148
विक्रमं विक्रमावासं चाषोदरनिभं स्मरेत् ।
कुन्देन्दुकान्तिवसनं सितमाल्यानुलेपनम् ॥ १४८ ॥

11.149
भीमं भीमाकृतिं ध्यायेत्तप्तकाञ्चनसन्निभम् ।
पाण्डरारुणकौशेयं तद्वद्गन्धस्रगन्वितम् ॥ १४९ ॥

11.150
अतसीकुसुमश्यामं शतावर्तं तु भावयेत् ।
पीताम्बरधरं पीतमाल्यगन्धविभूषितम् ॥ १५० ॥

11.151
भुजद्वयान्विता ह्येते चान्तर्मुदितमानसाः ।
दक्षिणैः पाणिभिसर्वेर्ज्वलन्तं परशुं तथा ॥ १५१ ॥

11.152
वामैः शङ्खवरं दीप्तं दधानाश्चारुकुण्डलाः ।
समाः समविभक्ताङ्गाः प्रशान्ताकृतयस्तथा ॥ १५२ ॥

11.153
स्थानकैः संस्थिताः सर्वे स्वप्रभाभिर्विराजिताः ।
प्रसन्नवदनाः सौम्यास्त्रैलोक्योद्धरणक्षमाः ॥ १५३ ॥

11.154
हारनूपुरकेयूरपूर्वभूषाविभूषिताः ।
तदाज्ञाप्रेक्षकाश्चैव दुष्टदोषोपशान्तिदाः ॥ १५४ ॥

11.155
बलेन महता क्षिप्तदेवासुरमहोरगाः ।
एकवीराऽसहायाश्च त्वप्रयत्नेन लीलया ॥ १५५ ॥

11.156
आब्रह्नभवनं शश्वत् परिवर्तयितुं क्षमाः ।
एतदावरणद्वारचतुष्के द्वारदेवताः ॥ १५६ ॥

11.157
न्यसेद्युग्मप्रयोगेण पूर्वद्वारादितः क्रमात् ।
वज्रनाभं हरीशं च पूर्वस्यां दक्षिणोत्तरे ॥ १५७ ॥

11.158
ध्यायेत्तु वज्रनाभाख्यं शतधामसमप्रभम् ।
मुख्यदक्षिणहस्तेन निषेधाभिनयान्वितम् ॥ १५८ ॥

11.159
वेत्रलतां द्वितीयेन चक्रराजं तृतीयतः ।
मुख्यवामकरेणैव श्रोणीतटकृतार्पणम् ॥ १५९ ॥

11.160
शङ्खराजं द्वितीयेन तथा वज्रं तृतीयतः ।
धारयन्तं तथा रुक्मभूषणैर्विविधैरपि ॥ १६० ॥

11.161
रक्तमाल्याम्बरधरं रक्तस्रगनुलेपनम् ।
एवमेव हरीशं च निषेधाभिनयोज्झितम् ॥ १६१ ॥

11.162
प्रवेशाभिनयाख्येन पाणिना किन्तु चिह्नितम् ।
एको ह्यत्र निषेधं च त्वभक्तानां करोति वै ॥ १६२ ॥

11.163
भक्तानामपरश्चैव प्रवेशं संप्रयच्छति ।
द्वारे द्वारे प्रतीहारद्वयस्यैवं प्रयोजनम् ॥ १६३ ॥

11.164
दक्षोक्तं वज्रनाभस्य तद्धरीशस्य वामगम् ।
आद्यवामगतं सर्वमन्यद्दक्षिणपाणिगम् ॥ १६४ ॥

11.165
धर्माध्यक्षनियन्त्रीशौ दक्षिणे दक्षिणोत्तरे ।
कुर्यादन्तकसादृश्यौ पूर्ववद्भुजभूषितौ ॥ १६५ ॥

11.166
पीतकौशेयवसनौ पीतमाल्यविलेपनौ ।
किन्तु दण्डगदाहस्तौ वज्रचक्रविवर्जितौ ॥ १६६ ॥

11.167
शुद्धाक्षममृतानन्दं प्रतीच्यां दक्षिणादितः ।
वाणकार्मुकमेकस्मिन् पाणौ पाशमथापरे ॥ १६७ ॥

11.168
आद्यं करचतुष्कं यत्तद्व्यग्रं पूर्ववद्भवेत् ।
आकृतौ जलनाथस्य सदृशौ सर्वदैव हि ॥ १६८ ॥

11.169
नीलकौशेयवसनौ नीलस्रगनुलेपनौ ।
वसुनाथं सुधानन्दमुदग्दिग्दक्षिणोत्तरे ॥ १६९ ॥

11.170
खड्गमुद्गरहस्तौ च प्राग्वच्छेषं चतुष्टयम् ।
कराणामनयोः कार्यं रूपेणोडुपतेः समम् ॥ १७० ॥

11.171
अतसीकुसुमश्यामकौशेयस्रग्विलेपनौ ।
भूषणैर्भूषिता ह्येते विविधैर्वज्रनाभवत् ॥ १७१ ॥

11.172
षष्ठावरणदेवानां तद्द्वार्स्थानां विशेषतः ।
ध्यानं श्रृणु क्रमेणैव तत्त्वतो मुनिपुङ्गव ॥ १७२ ॥

11.173
पूर्वादीशानपर्यन्तं षष्ठावरणसंस्थिताः ।
एताश्च देवता विप्र तेजोरूपं समाश्रिताः ॥ १७३ ॥

11.174
कालो वियन्नियन्ता च शास्त्रं नानाङ्गलक्षणम् ।
विद्याधिपतयश्चैव सरुद्राः सगणः शिवः ॥ १७४ ॥

11.175
प्रजापतिसमूहस्तु इन्द्रः सपरिवारकः ।
तन्मुख्यद्वाश्चतुष्के तु पूर्ववत् संस्थिताः क्रमात् ॥ १७५ ॥

11.176
चक्रशङ्खौ पद्मगदे लाङ्गलं मुसलं शराः ।
शार्ङ्गं चैते क्रमाद्ध्येया विद्युत्तुहिनकुन्दभाः ॥ १७६ ॥

11.177
पीतनीलसितारक्तसितगोक्षीरसन्निभैः ।
हरितालारुणाभैस्तु वस्त्रमाल्यानुलेपनैः ॥ १७७ ॥

11.178
सर्वरत्नमयैर्युक्तैर्भूषणैरप्यलङ्कृताः ।
महाबला महावीर्यास्त्वेकवक्त्रा द्विबाहवः ॥ १७८ ॥

11.179
एते तु नायकाः सर्वे स्वचिन्हाङ्कितमस्तकाः ।
दुष्टौघं तर्जयन्तश्च दक्षिणेन करेण तु ॥ १७९ ॥

11.180
कटिमालम्ब्य वामेन स्थानकैः सुसमैः स्थिताः ।
दृढव्रतो बहुशिरा महाकायो महाबलः ॥ १८० ॥

11.181
जितक्रोधो दुराधर्षो महोत्साहस्त्रिविक्रमः ।
अतुलो दुष्टहाऽर्चिष्मान् सर्वदृग् दुरतिक्रमः ॥ १८१ ॥

11.182
विषमो गहनोऽमोघः षोडशोपप्रवेशकाः ।
शक्राग्निमध्यमारभ्य शक्रेशानान्तरावधि ॥ १८२ ॥

11.183
शुक्लशोणसुवर्णालिपिङ्गरक्तसितासिताः ।
रक्तपीतातसीहेमाः शोणशुभ्रसितासिताः ॥ १८३ ॥

11.184
वर्णानुरूपसद्वस्त्रमाल्यालेपनभूषणाः ।
नामानुरूपचारित्राः शङ्खमुद्गरधारिणः ॥ १८४ ॥

11.185
सव्येतरक्रमेणैव प्रवेशकनिषेधकाः ।
क्षणाद्भुवनसंहारसृष्टिस्थितिकृतिक्षणाः ॥ १८५ ॥

11.186
उक्तानेतान् क्रमेणैव पूर्ववत् संप्रपूजयेत् ।
मुनयः सप्त पूर्वेऽन्ये ग्रहास्तारादिकैर्वृताः ॥ १८६ ॥

11.187
जीमूताश्चाखिला नागास्त्वप्सरोगण उत्तमः ।
ओषध्यश्चैव पशवो यज्ञाः साङ्गखिलास्तु ये ॥ १८७ ॥

11.188
सूक्ष्मरूपेण तिष्ठन्ति पूर्ववत् सप्तमावृतौ ।
संभवः प्रभवश्चैव पूर्णः पुष्कर एव च ॥ १८८ ॥

11.189
आनन्दो नन्दनश्चैव वीरसेनसुषेणकौ ।
तन्मुख्यद्वारशाखास्थौ द्वौ द्वौ दक्षिणवामयोः ॥ १८९ ॥

11.190
संभवः श्वेतवर्णस्तु प्रभवः कुन्दसन्निभः ।
पूर्णस्तु रक्तवर्णाभस्त्वतिरक्तस्तु पुष्करः ॥ १९० ॥

11.191
आनन्दः पीतवर्णस्तु हेमाभो नन्द उच्यते ।
कृष्णाभो वीरसेनस्तु सुषेणोऽञ्जनसन्निभः ॥ १९१ ॥

11.192
मकुटाङ्गदचित्राङ्गा गदाहस्ता द्विबाहवः ।
चतुर्भुजा वा विप्रेन्द्र शङ्खचक्रगदाधराः ॥ १९२ ॥

11.193
पूर्ववत् पाणिनान्येन प्रेवशकनिषेधकाः ।
दंष्ट्राकरालवदना निग्रहानुग्रहक्षमाः ॥ १९३ ॥

11.194
क्षेमकृच्छिवकृत् प्राज्ञो होमकृद्भूतभावनः ।
युगान्ताग्न्यशनश्चैव संवर्तो भीषणस्तथा ॥ १९४ ॥

11.195
संक्रन्दनश्चानिमिषः शतपर्वा शताननः ।
औदुम्बरः प्राकृतिको द्वि रामश्चांशुमाल्यपि ॥ १९५ ॥

11.196
औपदौवारिकं त्वेतद्गणषोडशकं क्रमात् ।
दृढव्रतादिसदृशं वर्णतः षड्भूजान्वितम् ॥ १९६ ॥

11.197
वामदक्षिणयोगेन पृष्ठतः पूर्वपश्चिमम् ।
शङ्खमुद्गरपझाक्षवराभयसमन्वितम् ॥ १९७ ॥

11.198
नानावर्णस्रगुष्णीषवस्त्रालेपनभूषणम् ।
प्रागुक्तगणशौर्याढ्यं सर्वकर्मकृतिक्षमम् ॥ १९८ ॥

11.199
तच्छोभाष्टकरक्षार्थं शतमन्युर्विरोचनः ।
अप्रतर्क्यस्त्वनुल्लङ्घ्यस्त्वप्रमेयाभिधानकः ॥ १९९ ॥

11.200
अमर्षी च महद्भूतः केऽराक्षस्तथाष्टमः ।
इन्द्राग्निमध्योपद्वारपार्श्वशोभास्वनुक्रमात् ॥ २०० ॥

11.201
एकाकशः स्थिताः शूराः प्रवेशकनिषेधकाः ।
नीलपीतजपाश्यामसितहिङ्गुलकेन्दुभाः ॥ २०१ ॥

11.202
महाबला महावीर्याः सुदुर्लङ्घ्यपारक्रमाः ।
नानाविधाम्बरैः स्रग्भिर्भूषणैरनुलेपनैः ॥ २०२ ॥

11.203
अन्यैरनुपदिष्टैश्च यथाशोभमलंकृताः ।
षाड्गुण्यमहिमायुक्ताश्चतुर्हस्ताः क्रमेण तु ॥ २०३ ॥

11.204
पृष्ठदक्षिणवामाभ्यां चक्रशङ्खसमन्विताः ।
गदाग्रोपरिविश्रान्तमुक्यहस्तद्वयान्विताः ॥ २०४ ॥

11.205
द्वारोपद्वारशोभेशानेतान् संपूजयेत् क्रमात् ।
विद्या चैवापरा विद्या पावकश्चैव मारुतः ॥ २०५ ॥

11.206
चन्द्गार्कौ वारि वसुधेत्येताः संसारदेवताः ।
सूक्ष्मरूपेण तिष्ठन्ति बाह्यावरणभूतले ॥ २०६ ॥

11.207
अमरेशो विरूपाक्षः सुधर्मिष्ठो नियामकः ।
सर्वसत्त्वाश्रयश्चातिगहनस्तदनन्तरम् ॥ २०७ ॥

11.208
महाराजेश्वरश्चापि धनाध्यक्षेश्वरस्तथा ।
एत् गणेश्वरास्त्वष्टौ तन्मुख्यद्वारपालकाः ॥ २०८ ॥

11.209
ध्येयाश्चतुर्भुजाः सर्वे मुख्यपाणिद्वयेन तु ।
अमरेशविरूपाक्षौ वज्रवेत्रलताकरौ ॥ २०९ ॥

11.210
पृष्ठकाभ्यां तु पाणिब्यां चक्रशङ्खसमुज्ज्वलौ ।
कुङ्कुमाञ्जनसंकाशौ दंष्ट्रया विकृताननौ ॥ २१० ॥

11.211
दक्षिणोत्तरयोगेन लाञ्छनव्यत्ययान्वितौ ।
द्वारदक्षिणवामस्थौ प्रवेशकनिषेधकौ ॥ २११ ॥

11.212
सुधर्मिष्ठो नियन्ता च सुसितश्यामलप्रभौ ।
सुभीमदण्डहस्तौ च वज्रायुधविवर्जितौ ॥ २१२ ॥

11.213
यथाक्रमोदितानन्यान् धारयन्तौ यथाविधि ।
सर्वसत्वाश्रयश्चातिगहनः श्यामलः सितः ॥ २१३ ॥

11.214
किन्तु पाशकरावेतौ पूर्ववद्भुजभूषितौ ।
महाराजेश्वरो रक्तो धनाध्यक्षेश्वरोऽसितः ॥ २१४ ॥

11.215
शिशिरायुधसंयुक्तौ त्रिकमन्यद्यथा पुरा ।
महाबला महावीर्या दुष्टदोषभयङ्कराः ॥ २१५ ॥

11.216
दुर्निरीक्षाश्च दुर्धार्षा दैत्यदानवहिंसकाः ।
नानामहार्घवासोभिः भूषालेपैरलंकृताः ॥ २१६ ॥

11.217
महर्षभं प्रभूतं च गम्भीरं प्राणगोचरम् ।
योगाङ्गं योगनिलयं सनातनमश्रृङ्खलम् ॥ २१७ ॥

11.218
तारकान्तरितं तारं विरामं विषमं तथा ।
दुरतिक्रमं दुर्ग्रहं च सुधूम्रमनिलाशनम् ॥ २१८ ॥

11.219
तत्सालकोपद्वारेषु विन्यसेत् पूर्ववर्त्मना ।
उक्तोपद्वारपालानां वर्णतः सममुज्ज्वलम् ॥ २१९ ॥

11.220
गणषोडशकं त्वेतच्चतुष्पाणिसमन्वितम् ।
गौणवामकराद्यं तु मुख्यवामकरावधि ॥ २२० ॥

11.221
शङ्खपट्टसहस्तं च निषेधाबिनयोद्यतम् ।
प्रवेशाभिनयाङ्कं च नानावर्णाम्बरस्रजम् ॥ २२१ ॥

11.222
नानास्थानकसंयुक्तं नानाभूषणभूषितम् ।
अक्षसूत्रधरं वाऽथ प्रपन्नानां प्रवेशकृत् ॥ २२२ ॥

11.223
निषेधकृत्तथान्येषां न्यस्तव्यं मुनिसत्तम ।
देवव्रतं निरातङ्कं भीमं च पुरुषं तथा ॥ २२३ ॥

11.224
उग्रं वीरेश्वरं रम्यमरिष्टं मुनिसत्तम ।
अनिर्विण्णं युगान्तांशं शतानन्दं शताननम् ॥ २२४ ॥

11.225
तेजोधरं विशालाक्षं युगांशं देवनन्दनम् ।
एतद्द्विरष्टशोभासु गणमेकैकशो न्यसेत् ॥ २२५ ॥

11.226
उपद्वारेशसदृशं वर्णतो लाञ्छनैर्विना ।
चतुर्भिः पाणिभिश्चैव पृष्ठदक्षिणपूर्वकम् ॥ २२६ ॥

11.227
मुख्यदक्षिणहस्तान्तं शह्खचक्रगदाधरम् ।
निषेधकृच्च पापानामपापानां प्रवेशकृत् ॥ २२७ ॥

11.228
नानास्रगम्बरोष्णीषभूषालेपाद्यलंकृताः ।
अनन्ताचिन्त्यविभवाः सर्वभूतसमाश्रयाः ॥ २२८ ॥

11.229
नानाशस्त्रास्त्रकुशला नानाज्ञानसमन्विताः ।
निरस्तानेकदैत्येशाः साधूनां पालनौद्यताः ॥ २२९ ॥

11.230
द्वारद्वयान्विते साले मुख्यद्वारगतावुभौ ।
तिष्ठतः सूक्ष्मरूपेण तदन्यद्वारपार्श्वयोः ॥ २३० ॥

11.231
प्राकारसर्वकोणेषु वह्निकोणादितो न्यसेत् ।
प्रभवाप्ययरूपाणां मूर्तीनां चतुरात्मनाम् ॥ २३१ ॥

11.232
तथा मूर्त्यन्तराणां च तत्कान्तानामनुक्रमात् ।
मन्त्राणामस्त्रसह्घादि तेषां रूपमनुस्मरन् ॥ २३२ ॥

11.233
चतुर्णामपि कोणानामव्यक्तं भवनाद्बहिः ।
संयजेद्भवनाम्नावै यस्मान्नान्यो भवः स्मृतः ॥ २३३ ॥

11.234
तेषां बहिः स्वमन्त्रेण दिक्क्रमेण तु हेतिराट् ।
स्वमरीचिगणेनैव भासयन्तं निवेशय् च ॥ २३४ ॥

11.235
न्यस्यैवमर्चनं कुर्यान्मन्त्रमुद्रान्वितेन तु ।
निरीक्षणादिशुद्धेन अर्घ्यस्रक्चन्दनादिना ॥ २३५ ॥

11.236
वासुदेवाभिधानस्तु देवः षाड्गुण्यविग्रहः ।
कर्मिणामुपकारार्थं प्रासादं स्थूलविग्रहम् ॥ २३६ ॥

11.237
सर्वज्ञानक्रियाढ्यं च सर्वतत्वसमाश्रयम् ।
समासाद्यानुगृह्णाति सदार्चान्तर्गतः प्रभुः ॥ २३७ ॥

11.238
तस्मात्तदङ्गभूतेषु प्राकारेष्वष्टसु क्रमात् ।
पृष्व्यादिबुद्धिनिष्ठं तु बाह्यं तत्वाष्टकं न्यसेत् ॥ २३८ ॥

11.239
प्रासादश्चाह्गसंयुक्तः प्रकृतिस्त्रिगुणात्मिका ।
तद्गता प्रतिमा जीवस्तद्गतः परमः पुमान् ॥ २३९ ॥

11.240
अतोऽधिदैवतान्यत्र तत्वान्येतान्यनुक्रमात् ।
सर्वत्र व्यापकत्वेन ध्यात्वा संपूजयेत्ततः ॥ २४० ॥

11.241
सर्वाधारमयेनैव सर्वतत्वाश्रयेण च ।
सर्वदोषविषघ्नेन कालचक्राम्बुजेन तु ॥ २४१ ॥

11.242
सम्पुटीकृत्य भवनं सप्राकारमधोर्ध्वतः ।
संपूज्य ह्नादयीं मुद्रां चक्रमुद्रासमन्विताम् ॥ २४२ ॥

11.243
प्रदर्श्य सर्वतोदिक्कं कवचेनावकुण्ठयेत् ।
एकमूर्तिविधाने च तथैकद्वारभूषिते ॥ २४३ ॥

11.244
भवनेऽयं विधानः स्याद्दिग्व्यूहपरिनिष्ठिते ।
चतुर्द्वारान्विते गेहे दिग्द्वाराग्रस्थमण्डपे ॥ २४४ ॥

11.245
सर्वतोभद्रसाले च अघनिर्मोचनेऽपि च ।
सदध्वाख्येऽथ धर्माख्ये द्वारद्विद्वितयान्विते ॥ २४५ ॥

11.246
द्वारपालगणन्यासे विशेषोऽयं प्रदर्श्यते ।
चण्डाद्याश्च सुभद्रान्ताः प्रासादद्वाश्चतुष्टये ॥ २४६ ॥

11.247
न्यसनीयाः क्रमेणैव पूर्ववद् द्वन्द्वयोगतः ।
द्वारोर्ध्वोदुम्बरद्वन्द्वद्वितयस्था यथाक्रमम् ॥ २४७ ॥

11.248
लक्ष्मी कीर्तिर्जया माया देव्यः प्रागुक्तलक्षणाः ।
सत्यः सुपर्णो गरुडः तार्क्ष्यस्त्वग्रेषु संस्थिताः ॥ २४८ ॥

11.249
अनिर्वर्ती महावर्ती दर्पहा सर्वजित् स्थिरः ।
जयन्तो भयकृन्मानी त्वष्टमो द्विजसत्तम ॥ २४९ ॥

11.250
दिगग्रमण्डपद्वारशाखापार्श्वं समास्थिताः ।
अनिर्वर्ती महावर्ती कृष्णाभः शुकसन्निभः ॥ २५० ॥

11.251
दर्पहा सर्वजिच्चैव पाण्डुरक्तसुवर्णभौ ।
स्थिरो जयन्तः सततं श्यामाञ्जनसमद्युती ॥ २५१ ॥

11.252
भयकृच्चैव मानी च पिङ्गलः पाण्डुरोज्ज्वलः ।
द्विभुजाः सर्व एवैते दक्षिणेन करेण तु ॥ २५२ ॥

11.253
नन्दकं शङ्खमन्येन दधानाः क्रूरविक्रमाः ।
यदा चतुर्भुजा ध्येयाः तदा चैते गणेश्वराः ॥ २५३ ॥

11.254
मुख्यदक्षिणहस्तेन खड्गवेत्रलतान्विताः ।
तथा वामकरे शङ्खं पृष्ठगे दक्षिणादितः ॥ २५४ ॥

11.255
पाणिद्वये चक्रपझौ बिभ्रतो ज्वलनप्रभौ ।
नानावस्त्रस्रगुष्णीषभूषणालेपनान्विताः ॥ २५५ ॥

11.256
व्यत्यस्तहस्तचरणा लाञ्झनव्यत्ययान्विताः ।
ऊर्जितश्चामृताङ्गस्तु सर्वाङ्गः सर्वतोमुखः ॥ २५६ ॥

11.257
शुभ्राङ्गो वरदश्चैव वागीशः शब्दविक्रमः ।
पाञ्चजन्यविशेषा हि द्वौ द्वौ चैव क्रमात् स्थितौ ॥ २५७ ॥

11.258
सर्वतोभद्रसालस्थचतुर्द्वारेषु पूर्ववत् ।
द्विबाहवस्तु संस्मार्या दक्षिणेन करेण तु ॥ २५८ ॥

11.259
गृहीतमुसलाः सर्वे शङ्खमन्येन पाणिना ।
दधानाश्चैव चत्वारः पूर्वे बन्धूकसन्निभाः ॥ २५९ ॥

11.260
अन्ये परभृताभास्तु सर्वभूषणभूषिताः ।
बलेन महता क्षिप्तदेवासुरमहोरगाः ॥ २६० ॥

11.261
एकवीराऽसहायाश्च अप्रयत्नेन लीलया ।
आब्रह्नभवनं शश्वत् परिवर्तनकृत्क्षमाः ॥ २६१ ॥

11.262
विश्वेशो विश्वभुग्विश्वो विश्वात्मा विश्वलोचनः ।
विश्वपादो विश्वभुजः तथा वै विश्वकर्मकृत् ॥ २६२ ॥

11.263
एते द्वितीयसालस्य दिग्द्वारेषु नियामकाः ।
द्विबाहवः परिज्ञेया वामदक्षिणयोगतः ॥ २६३ ॥

11.264
गदाखड्गास्त्रसंयुक्ताः करण्डमकुटान्विताः ।
शोणपिङ्गसितश्यामरक्तपीतसितासिताः ॥ २६४ ॥

11.265
सर्वर्णाम्बरालेपस्रग्भूषाभिर्विराजिताः ।
एकवीराऽसहायाश्च सर्वदोषनिवारकाः ॥ २६५ ॥

11.266
तद्द्वारान्तरभागेषु वामदक्षिणयोगतः ।
प्रासादाभिमुखान् न्यस्येन्निधिनाथेश्वरान् क्रमात् ॥ २६६ ॥

11.267
शङ्खपझौ महापझशतधामाभिधौ ततः ।
अखण्डितः सन्ततश्चानन्तधार इति श्रुतः ॥ २६७ ॥

11.268
सर्वद्वार इति ख्यातः प्रथमौ पूर्वमीरितौ ।
अन्येषां वक्ष्यते षण्णां वर्णरूपादिकं क्रमात् ॥ २६८ ॥

11.269
रक्तः कृष्णः सुवर्णाभः सितारुणतमालभाः ।
शङ्खपझनिधीशोक्तसर्वलक्षणलक्षिताः ॥ २६९ ॥

11.270
वसुरत्नसुवर्णाष्टलोहधान्यधनाधिपाः ।
सर्वौषधिनिधीशानास्तेषामूर्ध्वे सुखासनाः ॥ २७० ॥

11.271
सर्वालङ्कारसंयुक्ताः स्वाश्रिताभिमतप्रदाः ।
ततस्तृतीयावरणद्वारेषु द्वन्द्वयोगतः ॥ २७१ ॥

11.272
तद्दक्षिणोत्तराभ्यां तु शाखाभ्यां विन्यसेत् क्रमात् ।
पुरतश्चक्रगरुडौ हलतालौ तु दक्षिणे ॥ २७२ ॥

11.273
पश्चिमे शार्ङ्गमकरौ सौम्ये नन्दकऋश्यकौ ।
चक्रपक्षीशताराणां शार्ङ्गनन्दकयोरपि ॥ २७३ ॥

11.274
स्वेषु स्थानेषु पूर्वोक्तं वर्णरूपादिकं द्विज ।
अन्येषां तालपूर्वाणां त्रयाणामथ वक्ष्यते ॥ २७४ ॥

11.275
तालो ध्वजः स्याद्भूतादिकालरूपाभिमानकः ।
झषः सर्वाङ्गनिभृतो जगद्बीज उदाहृतः ॥ २७५ ॥

11.276
स सर्वोपद्रवो ऋश्यः संसारश्चपलात्मकः ।
एतान् सूक्ष्मस्वरूपेण ध्यात्वा संपूजयेत् क्रमात् ॥ २७६ ॥

11.277
गङ्गा च यमुना गोदा नदी च महती तथा ।
वितस्ता नर्मदा चैव जम्ब्वाख्या च सरस्वती ॥ २७७ ॥

11.278
नद्यश्चतुर्थसालस्य दिग्द्वारेषु क्रमात् स्थिताः ।
गङ्गायमुनायोरुक्तं वर्णरूपादिकं पुरा ॥ २७८ ॥

11.279
ताभ्यामन्याः समानास्तु वर्णशोभां विनैव तु ।
सितारुणासितस्वर्णसितकुन्दसमप्रभाः ॥ २७९ ॥

11.280
प्रमत्तप्रौढवेषाश्च नानाभरणभूषिताः ।
सर्वधातुविचित्राङ्गाः सर्वरत्नविराजिताः ॥ २८० ॥

11.281
सुधाकुम्भधरा द्वाभ्यां कराभ्यां पूर्ववच्च ताः ।
एवं दिग्द्वारभवनद्वार्स्थस्थितिरुदाहृता ॥ २८१ ॥

11.282
एकमूर्तेषु दिङ्मूर्तेः प्राकारेषूर्ध्वगेषु च ।
द्वारादयस्तदीयाश्च सामान्याः समुदाहृताः ॥ २८२ ॥

11.283
सर्वसालप्रतीहारशाखापार्श्वगतावुभौ ।
ध्येयौ वा स्थापनीयौ वा बाह्यहारगतौ यदि ॥ २८३ ॥

11.284
यथोक्तलक्षणोपेतौ स्थापनीयौ यथाक्रमम् ।
एवमावरणेशानान् ध्यात्वा संस्थाप्य वार्चयेत् ॥ २८४ ॥

11.285
ध्यानोत्थाः पीठदेशेषु स्वाकाराः स्वासु सझसु ।
तदर्थमङ्कणक्षेत्रं त्रिधा वा पञ्चधा भवेत् ॥ २८५ ॥

11.286
त्रिभागमेकभागं वा त्यक्त्वा तन्मध्यतो बहिः ।
पीठं वायतनं कुर्यात् सर्वदिक्ष्वनत्रेऽथवा ॥ २८६ ॥

11.287
अधरोत्तरनिष्ठाभ्यां प्रागुक्ते पूर्ववत् स्थिते ।
शिलेष्टकादिभिः क्लृप्ताः पीठिका हस्तविस्तृताः ॥ २८७ ॥

11.288
तदर्धेनोछ्रिताः सर्वाः सर्वालङ्कारशोभिताः ।
चतुश्राः सुवृत्ता वा संपूज्या वाऽथ केवलाः ॥ २८८ ॥

11.289
प्रामादिवास्तुदेवानां स्वदिग्भागगतेषु च ।
गोमयादिविलिप्तेषु मण्डलेषु बलिं हरेत् ॥ २८९ ॥

11.290
विस्तारोच्छ्रायमानाद्वै पीठाः प्रागुक्तलक्षणाः ।
अर्धमानेन वा कार्या रथयात्राऽविरोधकम् ॥ २९० ॥

11.291
एवमावरणेशानाः पीठेषु स्वासु दिक्षु च ।
दुष्टदोषनिरासार्थं प्रासादाभिमु खाः स्थिताः ॥ २९१ ॥

11.292
चतुः स्थानावतीर्णस्य द्वारे च यजनालये ।
स्थापनं गणनाथानां श्रृणु त्वं मुनिपुङ्गव ॥ २९२ ॥

11.293
वास्तुक्षेत्रेशसंज्ञौ द्वौ प्राग्द्वारे पूर्ववत् स्थितौ ।
लक्ष्मीः कीर्तिर्जया माया द्वारेषूर्ध्वस्थिताः क्रमात् ॥ २९३ ॥

11.294
वज्रनाभादयो देवा द्वौ द्वौ दिग्द्वारशाखयोः ।
प्रागादिद्वारकुम्भेषु संभवप्रभवादयः ॥ २९४ ॥

11.295
कुमुदाद्यन्तरङ्गं च भूतानामष्टकं परम् ।
द्वारान्तर्युग्मयुक्त्या तु भ्रमणीदेशमाश्रितम् ॥ २९५ ॥

11.296
सुपर्णश्चक्रसंज्ञश्च सत्यः कौमोदकी द्विज ।
योजनीयाः क्रमेणैव द्वाराणामग्रभूतले ॥ २९६ ॥

11.297
हेमदण्डगतः सत्यः किन्तु पश्चिमदिग्गतः ।
चण्डाद्याश्च सुभद्रान्ता द्वौ द्वौ प्रागादिषु द्विज ॥ २९७ ॥

11.298
दक्षिणोत्तरयोगेन तोरणस्तम्भमूलगाः ।
चक्रद्वितयमध्यस्थः पक्षीशस्तोरणोपरि ॥ २९८ ॥

11.299
सुसितासु पताकासु सत्याख्यो विहगाधिपः ।
सुपर्णः शोणवर्णासु गरुजः पिङ्गलासु च ॥ २९९ ॥

11.300
राजपाषाणवर्णासु तार्क्ष्यसंज्ञः प्रतिष्ठितः ।
नानावर्णपताकायां संपूज्यो विहगेश्वरः ॥ ३०० ॥

11.301
इन्द्रादिलोकपालास्ते सिद्धसङ्घपुरस्सराः ।
वज्रादयस्तदस्त्राश्च स्वासु दिक्षु बहिः स्थिताः ॥ ३०१ ॥

11.302
मुख्यकल्पेऽथवान्येषु निमित्तेष्वेवमाचरेत् ।
अनुकल्पेऽथ चण्डादीन् वास्तुनाथादिपूर्वकम् ॥ ३०२ ॥

11.303
द्वारेषु केवलान् न्यस्य गरुडान्तं प्रपूजयेत् ।
सर्वद्वारेषु वा पूज्यः सहेतीशः पतत्रिपः ॥ ३०३ ॥

11.304
विविधासु प्रतिष्ठासु जीर्णोद्धारविधावपि ।
महोत्सवेषु सर्वेषु ध्वजारोहणकर्मणि ॥ ३०४ ॥

11.305
मङ्गलाङ्कुररोपे च पवित्रारोहणादिषु ।
तथा चानन्तकलशाद्यभिषेकविधावपि ॥ ३०५ ॥

11.306
प्रायश्चित्तेष्वनित्येषु तुलारोहादिषु द्विज ।
शान्तिकादिषु मुख्येषु काम्येष्वन्येषु नित्यशः ॥ ३०६ ॥

11.307
मुख्यकल्पोक्तविधिना कुर्यादन्यत्र चान्यथा ।
सिद्धसङ्घास्तथेन्द्राद्यास्तदस्त्राश्च यथाक्रमम् ॥ ३०७ ॥

11.308
लोकदिक्पालकास्त्वेते स्वसेनाभिः समावृताः ।
प्रसिद्धप्राग्वशेनैव नित्यं स्वस्थानमाश्रिताः ॥ ३०८ ॥

11.309
दिकपालकत्वादासृष्टेर्यतस्तेषां स्थितिः स्थिरा ।
भगवन्मन्त्रमूर्तीनामनन्तानां महामते ॥ ३०९ ॥

11.310
स्वस्थानस्था नमस्यन्ति पूजयन्ति जपन्ति च ।
ध्वजाद्यैरुपचारैश्च सम्यक् परिचरन्ति च ॥ ३१० ॥

11.311
कैवल्यसिद्धये शश्वद्बहुभिः स्वानुगैः सह ।
पालयन्ति च भक्तानां बलमोजो ददन्ति च ॥ ३११ ॥

11.312
ध्वंसयन्ति च विघ्नौघमनिशं मन्त्रयाजिनाम् ।
संरक्षन्ति फलं मान्त्रं वर्धमानं द्विलक्षणम् ॥ ३१२ ॥

11.313
अधिकारमनादीयं शक्तिबीजं जगत्प्रभोः ।
दिक्सिद्धये दशात्मत्वं तदव्यत्त्यष्टदिशात्मिका ॥ ३१३ ॥

11.314
बाह्यत्रिसालभूमिष्ठाः कालाद्या भवदेवताः ।
तत्साधकत्वात् पूर्वोक्तदिग्भागनियताः सदा ॥ ३१४ ॥

11.315
वज्रनाभादयो देवा लोकदिग्द्वारपालकाः ।
तथामरेशपूर्वाश्च संभवप्रभवादयः ॥ ३१५ ॥

11.316
प्रसिद्धप्राक्क्रमेणैव दिग्द्वारेषु स्थिताः क्रमात् ।
कालाद्यमष्टकं नित्यमिन्द्राद्यं रुद्रपश्चिमम् ॥ ३१६ ॥

11.317
नियन्ता कालतत्वान्ते तदन्ते सुस्थितं वियत् ।
क्रमात् पूर्वोत्तरे कोणे न्यसेद्दक्षिणपश्चिमे ॥ ३१७ ॥

11.318
विद्याऽविद्याद्वयं यद्वै स्वपदस्थेऽग्निमारुते ।
चन्द्रादित्यावुदग्याम्यस्थानयोर्विनिवेश्य च ॥ ३१८ ॥

11.319
प्रत्यग्भागगतं तोयं प्राग्भागे विन्यसेद्धराम् ।
कुमुदाद्यावृतीशाना लोहिताक्षादयस्तथा ॥ ३१९ ॥

11.320
वज्रनाभादिकं मुक्त्वा द्वारपालत्रिरष्टकम् ।
द्वारपालगणास्त्वन्ये सालकोणगणास्तथा ॥ ३२० ॥

11.321
प्रोक्तक्रमेण तिष्ठन्ति भगवत्प्रागपेक्षया ।
कुमुदादिगणेशानाः पुरग्रामादिवास्तुनि ॥ ३२१ ॥

11.322
पालिकावसथे चैव दिक्पालोक्तवशात् स्थिताः ।
त्रिसन्ध्यमेवं देवानां बलिदानं समाचरेत् ॥ ३२२ ॥

11.323
संकल्पितेषु सालेषु द्वारावरणवासिनाम् ।
असंकल्पितसालोक्तदेवानां नाचरेद्बलिम् ॥ ३२३ ॥

11.324
तत्तन्निर्माणकाले तान् प्रतिष्ठाप्य यथाविधि ।
देवयात्रा समेतं तु बलिदानं समाचरेत् ॥ ३२४ ॥

11.325
एवं सर्वं समपाद्य महापीठोर्ध्वभूतलम् ।
प्रक्षालितं समारुह्य प्राङ्मुखो वाप्युदङ्मुखः ॥ ३२५ ॥

11.326
तदूर्ध्वाम्बुजदिक्पत्रे कुमुदादीनथान्तरे ।
सर्वभूतान् पारिषदानाहूय ग्रहसंज्ञितान् ॥ ३२६ ॥

11.327
संपूज्य सोदकं तत्त बलिशेषं समुत्किरेत् ।
पश्चादाचम्य विधिवत् स्नात्वा वा संविशेद्गृहम् ॥ ३२७ ॥

11.328
सर्वद्वारावृतीशानां सोणस्थानां समर्चने ।
नतिप्रणवसंयुक्तस्वनाम मन्त्र ईरितः ॥ ३२८ ॥

11.329
महापीठस्थभूतानां पार्षदानां गृहात्मनाम् ।
तारान्ते विष्णुशब्दं च नियुञ्ज्यादुदितक्रमात् ॥ ३२९ ॥

11.330
सर्वकोणगता मन्त्राः फडन्ताः समुदीरिताः ।
सर्वे समुदिता मन्त्राः स्वाहान्ता होमकर्मणि ॥ ३३० ॥

11.331
ध्यात्वैवमर्च्य तन्मन्त्रैरर्घ्याद्यैरुपचारकैः ।
दर्शयेदावृतीशानां मुद्रां तर्जनिसंज्ञिताम् ॥ ३३१ ॥

11.332
द्वारपालगणानां तु चण्डाद्युक्तमनन्तरम् ।
धर्माद्यावरणादूर्ध्बं हेतुना येन केनचित् ॥ ३३२ ॥

11.333
बलिदानमशक्यं चेत्तत्रत्यानां यथाक्रमम् ।
सर्वतोभद्रपूर्वेषु द्विगुणीकृत्य चाचरेत् ॥ ३३३ ॥

11.334
मुख्यकल्पे तथान्यत्र यथाशक्त्यावृतिक्षितौ ।
तद्बाह्यावृतिदेवानामावृत्यावृत्य तर्पयेत् ॥ ३३४ ॥

11.335
द्वारोपद्वारपालानां तस्मिन् द्वारे समर्पयेत् ।
महापीठोदितानां च तद्द्वाराग्रगमण्डले ॥ ३३५ ॥

11.336
ध्यानोत्थानां तु सञ्चारे न दोषः केन हेतुना ।
तत्तदावरणद्वारदेशेषूक्तक्रमेण तु ॥ ३३६ ॥

11.337
द्रव्यमूर्तिगतानां च संचारः स्यादनिष्टदः ।
एवमावृतिदेवानां त्रिसन्ध्यं बलिमाचरेत् ॥ ३३७ ॥

11.338
नित्योत्सवार्थबिम्बस्य सन्निधौ तत् समाचरेत् ।
नृत्तगेयादिसंयुक्तं वेदघोषसमन्वितम् ॥ ३३८ ॥

11.339
नित्योत्सवार्थबिम्बे तु यानान्निपतिते भुवि ।
उत्तमं स्नपनं कृत्वा शान्तिहोमं समाचरेत् ॥ ३३९ ॥

11.340
यानमारोप्य तद्बिम्बं पुनर्नित्योत्सवं चरेत् ।
द्वादशाहं व्रतं कुर्यात् साधकः खिन्नमानसः ॥ ३४० ॥

11.341
जपेत् स्वमन्त्रायुतकं यदि भेदादिदूषिते ।
विधिवत् तत् समाधाय कृत्वा संप्रोक्षणं ततः ॥ ३४१ ॥

11.342
उत्सवं शेषणापाद्य खिन्नचित्तस्तु साधकः ।
तदारभ्य निराहारो ब्रह्नचर्यव्रते स्थितः ॥ ३४२ ॥

11.343
चतुष्कमयुतानां तु स्वमन्त्रस्य तदा जपेत् ।
तत्र त्रिरात्रं षडहं द्वादशाहं द्विपक्षकम् ॥ ३४३ ॥

11.344
व्रतमाचर्य यत्नेन पात्रेभ्यो दानमाचरेत् ।
गोभूहेमादिकानां तु यथाशक्ति द्विजोत्तम ॥ ३४४ ॥

11.345
दैवाद्बृहति भङ्गे वा तदा बिम्बान्तरेण तु ।
स्नपनादिनियुक्तेन बलिदानैस्तु कैवलैः ॥ ३४५ ॥

11.346
कर्मशेषं समापाद्य कृत्वा मन्त्रविसर्जनम् ।
जीर्णोद्धारक्रमेणैव व्रताचरणमाभेत् ॥ ३४६ ॥

11.347
जपायुतचतुष्क च त्रिरात्राद्यं चतुष्टयम् ।
यावद्बिम्बसमापत्तिर्भूयः कृछ्रादिकं चरेत् ॥ ३४७ ॥

11.348
बिम्बारम्भदिनात् पूर्वं ततस्त्वेकादशाह्निकम् ।
व्रतं कृत्वा तु देवे तु विम्बारम्भदिने द्विज ॥ ३४८ ॥

11.349
संपूज्य द्वादशाचार्यान् सममूल्यं पृथक् पृथक् ।
तेब्यो द्वादशदानानि दत्बा गोभूतिलानि वा ॥ ३४९ ॥

11.350
एतेषां सन्निधौ भूयो बिम्बापादनमारभेत् ।
यद्वाबिम्बं समादध्यात् प्रतिष्ठादिक्रमाच्चरेत् ॥ ३५० ॥

11.351
गोभूहेमादिकानां तु दानं चापि समाचरेत् ।
जातलोकापवादस्तु भूयश्च व्रतमाचरेत् ॥ ३५१ ॥

11.352
यावल्लोकापवादस्तु शान्तः स्यातावदाचरेत् ।
मनःप्रसादपर्यन्तकालं च व्रतमाचरेत् ॥ ३५२ ॥

11.353
अन्येषामपि बिम्बानां जाते भेदादिके सति ।
एवमेव भेवद्विप्र प्रायस्चित्तविधिक्रमः ॥ ३५३ ॥

11.354
शूद्रस्याराधकस्यैवं प्रायश्चित्तं समीरितम् ।
वैश्यस्य द्विगुणं त्वेतत् त्रिगुणं क्षत्रियस्य तु ॥ ३५४ ॥

11.355
चतुर्गुणं ब्राह्नणस्य प्रायश्चित्तं समीरितम् ।
मनुष्यस्थापितानां तु बिम्बानां भेदनादिके ॥ ३५५ ॥

11.356
सञ्जाते साधकस्यैवं प्रायश्चित्तं समीरितम् ।
आर्षे तु भगवद्बिम्बे तदेव द्विगुणं भवेत् ॥ ३५६ ॥

11.357
देवैः प्रतिष्ठिते बिम्बे तदेव त्रिगुणं भवेत् ।
सिद्धप्रतिष्ठिते बिम्बे तदेतत् स्याच्चतुर्गुणम् ॥ ३५७ ॥

11.358
स्वयंव्यक्तेषु बिम्बेषु जाते भेदादिके सति ।
प्रायश्चित्तं यथोक्तं तु भवेत् पञ्चगुणं द्विज ॥ ३५८ ॥

11.359
द्विविधं स्यात् स्वयंव्यक्तं बिम्बं भगवतो विभोः ।
सालग्रामशिलारूपैरितरैस्तु शिलादिभिः ॥ ३५९ ॥

11.360
उभयत्र समानं स्यात् प्रायश्चित्तं समीरितम् ।
तत्रायं हिविशेषः स्यात् स्वयंव्यक्तादिषु द्विज ॥ ३६० ॥

11.361
पूजायां वर्तमानायां समाधानादिकं चरेत् ।
प्रायश्चित्तादिकं सर्वं सविशेषं समाचरेत् ॥ ३६१ ॥

11.362
स्वयंव्यक्तादिकानां तु विना मर्त्यप्रतिष्ठितम् ।
सर्वेषामपि विम्बानां प्राप्तमेकतमं तु यत् ॥ ३६२ ॥

11.363
खीकारसमये विप्र लक्षणादिविवर्जितम् ।
खण्डितं स्फुटितं वापि यथावस्थितमेव हि ॥ ३६३ ॥

11.364
स्वीकृत्याराधयेन्नित्यं न दोषस्तस्य विद्यते ।
सालग्रामशिलाबिम्बे तत्तन्मूर्तिविनिर्णयम् ॥ ३६४ ॥

11.365
तत्तद्व्यवस्थितैश्चिह्नैर्ज्ञात्वा सम्यक् समर्चयेत् ।
पश्चाद्भदादिके जाते प्रायश्चित्तं समाचरेत् ॥ ३६५ ॥

11.366
पूर्वोदितं प्रयत्नेन साधकः क्षीणमानसः ।
चोरभूवारिवन्ह्याद्यैर्जाते भेदादिकेऽपि च ॥ ३६६ ॥

11.367
बिम्बे चापहृते वापि मार्जाराद्यैश्च जन्तुभिः ।
भेदादिकेऽपि संजाते प्रागुक्तं साधकश्चरेत् ॥ ३६७ ॥

11.368
तस्माद्दिनात् समारभ्य प्रायश्चित्तं तु यत्नतः ।
यस्मात् प्रागार्जितं पापं कर्म तत्रापि कारणम् ॥ ३६८ ॥

11.369
तस्मात्तच्छान्तये वापि ह्यपवादस्य शान्तये ।
प्रायश्चित्तं तु कर्तव्यं विहितं प्राक् प्रयत्नतः ॥ ३६९ ॥

11.370
अन्यथा पातकी स स्यादेतस्मात् पातकाद्द्विज ।
प्रमादतः कृतेप्येवं प्रायश्चित्तं समाचरेत् ॥ ३७० ॥

11.371
बुद्धिपूर्वकृते मेदे प्रायश्चित्तैर्न निष्कृतिः ।
अवश्यं दण्ड्य एव स्यात् स पापिष्ठोऽतिदुर्मतिः ॥ ३७१ ॥

11.372
स्वप्रमादकृते भेदे जन्त्वन्तरकृतेपि वा ।
साधको ह्यनुतापार्तो नाचरेद्यदि कीर्तितम् ॥ ३७२ ॥

11.373
प्रायश्चित्तं तथा सोपि दड्यः स्यात् प्रथमं ततः ।
प्रायश्चित्तं च वै कुर्यादयोग्यस्त्वन्यथा भवेत् ॥ ३७३ ॥

11.374
गोपन्नपि च दोषस्य तस्य भेदादिकस्य च ।
दण्डश्च प्रायश्चित्तं च विधेयमुभयं भवेत् ॥ ३७४ ॥

11.375
एवं भेदादिके जाते भयं स्याद्राजराष्ट्रयोः ।
तच्छान्त्यै सप्तदिवसं यजेत् कुम्भस्थलादिकम् ॥ ३७५ ॥

11.376
एकस्मिन् वा त्रिसप्ताहं बिम्बसंस्थं च मन्तनपम् ।
दोषे प्रसिद्धे भेदादौ प्रायश्चित्तं समीरितम् ॥ ३७६ ॥

11.377
अप्रकाशे यथोक्तात्तु चतुर्थांशं समाचरेत् ।
पूर्वं त्वपहृतं बिम्बं भूयः प्राप्तं यदि द्विज ॥ ३७७ ॥

11.378
प्रायश्चित्ताद्यथोक्तात्तु यत्नेनार्थं समाचरेत् ।
बिम्बानां तु क्षते जाते श्रृणु दोषान् विशेषतः ॥ ३७८ ॥

11.379
क्षतमिन्द्रियचक्रस्थं कर्तुर्भवति दोषदम् ।
आकण्ठान्नाभिपझान्तं मन्त्रस्थं पुत्रमृत्युकृत् ॥ ३७९ ॥

11.380
पार्श्वद्वये तु जायायाः पृष्ठस्थं भ्रातृहानिदम् ।
नाभेर्यन्मेढ्रप्रयन्तं स्थानमासाद्य तिष्ठति ॥ ३८० ॥

11.381
क्षतं सुतशिशूनां च नाशकृद्भवति द्विज ।
आकटेः पायुपर्यन्तं भगिनीनां क्षयावहम् ॥ ३८१ ॥

11.382
ऊरुमूलाच्च जान्वन्तं यत्र यत्र भवेत् क्षतम् ।
धनधान्यपशूनां च क्षयो भवति सर्वदा ॥ ३८२ ॥

11.383
जान्वोः पादतलान्तं च भृत्यवर्गस्य दोबदम् ।
सर्वेषामनुकम्पार्थमात्मनश्चापि तृप्तये ॥ ३८३ ॥

11.384
कर्ता कमलसंभूत क्षतमक्षततां नयेत् ।
अल्पक्षते समाधानं विहितं तु निबोध मे ॥ ३८४ ॥

11.385
योजयेच्चित्रबिम्बस्य गलितं गन्धभावितैः ।
सितरक्तादिकै रागैः पावनैरस्त्रमन्त्रितैः ॥ ३८५ ॥

11.386
मृण्मयानां तु बिम्बानां मध्वाज्यक्षीरमिश्रया ।
मृदा कौशेयसंपूर्णयुक्त्या हेमोदसिक्तया ॥ ३८६ ॥

11.387
सन्धानं कारयेद्विप्र दारुजस्य निबोधतु ।
भेदे भङ्गे च सन्दध्यादस्त्रशस्त्रद्वयेन तु ॥ ३८७ ॥

11.388
अश्मजानां क्षते जाते सति रत्नशलाकया ।
सहेमया च विहितं घृष्टशाणस्य घर्षणम् ॥ ३८८ ॥

11.389
मनुष्यनिर्मितानां तु ह्यश्मजानां बृहत्क्षते ।
सर्वथा विहितस्त्यागः स्वयंव्यक्तादिकेषु तु ॥ ३८९ ॥

11.390
शिलामयेषु बिम्बेषु भिन्नं भग्नं च योजयेत् ।
सुवर्णनिर्मितैः पट्टैर्यथा दृढतरं भवेत् ॥ ३९० ॥

11.391
यद्वा तदङ्गैर्हैमेन कृत्वा सम्यङ्नियोजयेत् ।
दारुजे लोहजेष्वेवं स्वयं व्यक्तादिकेष्वपि ॥ ३९१ ॥

11.392
भेदे भङ्गे समाधिस्स्यात् स्वयं व्यक्ताश्मबिम्बवत् ।
रत्नजेऽपि समाधानमेवमेव समाचरेत् ॥ ३९२ ॥

11.393
सालग्रामशिलाविम्बं भिन्नं भग्नं बृहत् क्षतम् ।
अल्पक्षतं च सौवर्णैः पट्टैर्दृढतरं यथा ॥ ३९३ ॥

11.394
बन्धयेल्लोहजे बिम्बे श्रृणु मर्त्यप्रतिष्ठिते ।
केवलस्य हि हैमस्य यथालाभं क्षेते क्षिपेत् ॥ ३९४ ॥

11.395
स्वर्णरत्नमयं चूर्णं द्वादशाक्षरमन्त्रितम् ।
अन्यधा तूत्थिते बिम्बे क्षतं सम्यङ्महामते ॥ ३९५ ॥

11.396
ईषत्सुवर्णमिश्रेण पूरयेत् स्वेन धातुना ।
स्वयं व्यक्तादिकेऽप्येवं मुख्यकल्पे समाचरेत् ॥ ३९६ ॥

11.397
प्रासादे मण्डपे वापि गोपुरादिषु वा द्विज ।
शोभार्थं संस्थितानां च बिम्बानां पररूपिणाम् ॥ ३९७ ॥

11.398
व्यूहानां विभवानां च सदा भगवतो विभोः ।
भेदादिके तु सञ्जाते समादध्यात् तथैव तु ॥ ३९८ ॥

11.399
तत्तत्सन्निध्यनुगुणं प्रतिष्ठादिकमाचरेत् ।
प्रायश्चित्तं समभ्यूह्य साधकस्तु समाचरेत् ॥ ३९९ ॥


Kapitel 12

श्रीः ।
द्वादशोऽध्यायः ।
सनकः ।

12.1
जाते ह्याकस्मिके लोपे सद्व्यापारस्य नित्यशः ।
स्नानादियोगनिष्ठस्य तथा नैमित्तिकस्य च ॥ १ ॥

12.2
वत्सरोत्सवनिष्ठस्य विविधस्य महामते ।
कृच्छ्रचान्द्रायणादीनां सद्वृत्तानां तथैव च ॥ २ ॥

12.3
चतुर्णामाश्रमस्थानां वर्णानां च स्त्रियस्तथा ।
श्रेष्ठमध्यमवित्तानां न्यू नानामपि तत्वतः ॥ ३ ॥

12.4
भक्तानां पुण्डरीकाक्षे श्रद्धासंयमसेविनाम् ।
यावज्जीवावधिं कालं तत्पूजाकृतचेतसाम् ॥ ४ ॥

12.5
साक्षात्तन्मन्त्रनिष्ठानां यथावन्मुनिपुङ्गव ।
पातत्राणमुपायं तु श्रोतुमिच्छामि साम्प्रतम् ॥ ५ ॥

12.6
कृतेन येन भक्तानां जायते कृतकृत्यता ।
शाण्डिल्यः ।
वक्ष्ये सम्यङ्महाबुद्धे सारमुद्धृत्य सर्वतः ॥ ६ ॥

12.7
सर्वलोकहितार्थाय सावधानेन चेतसा ।
लोप बुद्धिं विना यस्य भोगानामप्यसंभवः ॥ ७ ॥

12.8
सामर्थ्येन विना यस्य कृच्छ्रादीनां वरिच्युतिः ।
ज्वरादिव्याधिदोषेण जातं यस्याह्निकक्षयम् ॥ ८ ॥

12.9
चातुर्मास्तस्य चाप्राप्तिः यस्य स्वातन्त्र्यतो विना ।
तस्य तस्य महाबुद्धे श्रृणु यद्विहितं हितम् ॥ ९ ॥

12.10
सांस्पर्शिकानां भोगानां मात्रावित्तं हि पूरणम् ।
हृदयङ्गमसंज्ञानामन्नं च हविषा प्लुतम् ॥ १० ॥

12.11
औपचारिकभोगानां बीजानि विविधानि च ।
कृच्छ्रचान्द्रायणादीनां व्रतानां परिपूरकः ॥ ११ ॥

12.12
विशेषार्चनसंयुक्तश्चातुर्मास्यस्य संयमः ।
सौत्रं प्रतिसरं चित्रं मुक्ताहारोपमं शुभम् ॥ १२ ॥

12.13
शमं नयति भक्तानां सर्वदा लोपमाह्निकम् ।
यथाश्वमेधं विप्राणां सर्वेच्छापरिपूरकम् ॥ १३ ॥

12.14
राजसूयं नृपाणां च भक्तानां भूषणं तथा ।
भूषणानां यथा मध्ये कौस्तुभं वरभूषणम् ॥ १४ ॥

12.15
ज्ञेयं पवित्रकं तद्वद्भोगजालस्य चान्तरे ।
यत् पूरयति भक्तानां व्यापारं पारमेश्वरम् ॥ १५ ॥

12.16
भोगमोक्षाप्तये शश्वद्भोदस्तस्मात्तु कोऽधिकः ।
भक्तानां सततं भक्त्या सालोक्यं विदधाति वै ॥ १६ ॥

12.17
सामीप्यं साधकानां च नानासिद्धिसमन्वितम् ।
सायुज्यं साधकेन्द्राणां स्वमन्त्रात्मनि यच्छति ॥ १७ ॥

12.18
तदुत्तरायणेऽतीते चातुर्मास्यस्य मध्यतः ।
कुर्याच्छुभे दिने विप्र सर्वदोषविवर्जिते ॥ १८ ॥

12.19
कालोऽपि त्रिविधः प्रोक्तश्चातुर्मास्योपलक्षितः ।
आषाढपञ्चदश्यास्तु यावद्वै कार्तिकस्य च ॥ १९ ॥

12.20
संपूर्णचन्द्रदिवसं तं कालं चान्द्रमन्तिमम् ।
आकर्कटकसंक्रान्तेस्तुलाभोगक्षयावधि ॥ २० ॥

12.21
कालं तमष्टपक्षं च सौरं मध्यमसंज्ञितम् ।
एकादश्यादि वाऽन्तो यश्चातुर्मास्योपलक्षितः ॥ २१ ॥

12.22
कालं तं वैष्णवं विद्धि तूत्तमं सर्वसिद्धिदम् ।
अप्राप्तेरस्य कालस्य त्वन्तरायेण केनचित् ॥ २२ ॥

12.23
निर्वाहणीयो ह्यपरः कालश्चान्द्रायणादिना ।
सम्पाद्यं चैव तन्मध्ये विधिवद्यागपूरकम् ॥ २३ ॥

12.24
प्रावृट्काले प्रवृत्ते तु त्रैलोक्योदरवर्तिनाम् ।
मनुष्यामरसिद्धानां कर्तव्यं चाग्रवर्तिनाम् ॥ २४ ॥

12.25
प्रवर्तन्ते हि वै येन श्रद्धया वत्सरं प्रति ।
महत्यस्मिन् महाबुद्धे व्यापारे पारमेश्वरे ॥ २५ ॥

12.26
विभोः शयनसंस्थस्य काले पुष्पफलाकुले ।
गगने लम्बमाने तु सबलाकैर्वलाहकैः ॥ २६ ॥

12.27
कुमुदोत्पलकल्हारैर्भूषिते वसुधातले ।
वनोपवन उद्यानैर्हरिते शाद्वलादिकैः ॥ २७ ॥

12.28
शालिसस्यादिकैर्युक्ते पल्वलोदकशोभिते ।
पवित्रकं कृतं विष्णोरनन्तस्यातितुष्टिदम् ॥ २८ ॥

12.29
तस्माद्यत्नेन तत् कुर्याच्चातुर्मास्यस्य मध्यतः ।
श्रावण्यां शुक्लपक्षे तु द्वादश्यां द्विजसत्तम ॥ २९ ॥

12.30
आदावन्ते तथा कुर्यादद्वादशीष्वखिलासु च ।
सङ्क्रान्तिषु च सर्वासु पौर्णमासीषु वा द्विज ॥ ३० ॥

12.31
अमावास्यास्वशेषासु तृतीयासु तथैव च ।
नभस्येषु च रोहिण्यामष्टम्यां च महामते ॥ ३१ ॥

12.32
प्रथमा च द्वितीया च पञ्चमी च त्रयोदशी ।
दशम्येकादशीत्येवमेतास्वपि यथारुचि ॥ ३२ ॥

12.33
कृष्णपक्षेऽप्रशस्ताःस्युः शुक्लपक्षे विशेषतः ।
चन्द्रो गुरुस्सितश्चान्द्रो ज्ञेयास्त्वेते शुभप्रदाः ॥ ३३ ॥

12.34
पवित्रारोहणादौ तु नक्षत्राणि श्रृणुष्व मे ।
त्र्युत्तरासु च रेवत्यामश्बिन्यां भरणीषु च ॥ ३४ ॥

12.35
पुनर्वसौ तथा हस्ते रोहिण्यां श्रवणेऽपि च ।
वैष्णवेष्वथ ऋक्षेषु तत्क्षणेष्वखिलेषु च ॥ ३५ ॥

12.36
चातुर्मास्यस्य कालस्य तूत्थानद्वादशी तु या ।
षडशीतिमुखा दिव्या तस्यामारोपयेत्तु यः ॥ ३६ ॥

12.37
पवित्रकं जगद्योनेः स पवित्रीकरोति च ।
अतीतां वर्तमानां च एष्यां स्वकुलसन्ततिम् ॥ ३७ ॥

12.38
तत्र सन्निहितः साक्षान्नानानिर्माणविग्रहैः ।
भक्तानां पुण्डरीकाक्षः परमात्माच्युतो हरिः ॥ ३८ ॥

12.39
यद्यप्येवं महाबुद्धे भक्तानां नित्यमेव हि ।
नारायणस्तु मन्त्रात्मा स्थितः सन्निहितः स्वयम् ॥ ३९ ॥

12.40
तथापि बलवत्ता वै तत्तिथेस्तत्र कर्मणि ।
सन्निधिं भजते येन मन्त्रिणां मन्त्रराट् प्रभुः ॥ ४० ॥

12.41
ग्रीष्मकालं समासाद्य यथार्कस्तीक्ष्णतां ब्रजेत् ।
स्वरूपमजहन्नेव सन्निधानतरं विभोः ॥ ४१ ॥

12.42
सत्पात्रदेशकालानामासृष्टेः स्थितये तु वै ।
अतः पवित्रकं तस्यामन्यस्यां तदसम्भवात् ॥ ४२ ॥

12.43
कार्यं क्रियापरैर्भक्त्या साखण्डा येन जायते ।
पवित्रारोहणं विष्णोर्वर्जयेदितरेषु च ॥ ४३ ॥

12.44
प्रासादस्याग्रतः कुर्यात्तदर्थं मण्टपं द्विज ।
प्रथमावरणे वापि द्वितीयावरणेऽपि वा ॥ ४४ ॥

12.45
तृतीयावरणे वाथ चतुर्थे पञ्चमेऽपि वा ।
अग्रालाभे तदन्यत्र यथावाञ्छितदिग्गतम् ॥ ४५ ॥

12.46
चतुरश्रं समं वापि प्राक्पश्चिमदिगायतम् ।
सौम्ययाम्यायतं वापि कर्तुरिच्छानुरूपतः ॥ ४६ ॥

12.47
तथा प्रागाननं यद्वा यथाभिमतदिङ्मुखम् ।
द्वाविंशतिधनुर्मानं मण्टपं चोत्तमं भवेत् ॥ ४७ ॥

12.48
अष्टादशधनुर्मानं मण्टपं मध्यमं भवेत् ।
अधमं द्वादशधनुर्मानं स्यादथवा द्विज ॥ ४८ ॥

12.49
पञ्चहस्तात् समारभ्य द्विद्विहस्तविवर्धनात् ।
त्रिसप्तकरपर्यन्तं मानैर्नवविधं भवेत् ॥ ४९ ॥

12.50
यद्वोत्तमं दशकरं मध्यमं चाष्टहस्तकम् ।
ष़ड्द्दस्तमधमं विद्यात् क्षुद्रं हस्तत्रयायतम् ॥ ५० ॥

12.51
त्रिंशत्करावसानं वा षट्करात् पञ्जविंशतिः ।
एकं संगृह्यमानेषु ह्येषु वित्तानुरूपतः ॥ ५१ ॥

12.52
सोपपीठमधिष्ठानं केवलं वा मसूरकम् ।
अधिष्ठानोपरिस्तम्भं प्रस्तरं च त्रिवर्गकम् ॥ ५२ ॥

12.53
कपोतवृतिसंयुक्तं यद्वोक्ताकृतिवर्जितम् ।
एकत्रिपञ्चसप्तादिभित्तिभेदैः समावृतम् ॥ ५३ ॥

12.54
प्रत्यङ्गोक्तैरलङ्कारैर्युक्तं वा तद्विवर्जितम ।
शिलयेष्टकया वापि प्कया वाप्यव्कया ॥ ५४ ॥

12.55
एकद्वारं चतुर्द्वारं यद्वा द्वारद्वयान्वितम् ।
बित्तियुक्तमयुक्तं वा कोणभित्तियुतं तु वा ॥ ५५ ॥

12.56
केवलं वा प्रपामात्रमुक्तलक्षणवर्जितम् ।
क्षिप्रकर्मप्रसिद्ध्यर्थं शरकाष्ठमयं शुभम् ॥ ५६ ॥

12.57
गवाक्षकान्वितं चैव द्वारैस्तु परिभूषितम् ।
छन्नं वितानकेनोर्ध्वे प्राकारं परिकल्पयेत् ॥ ५७ ॥

12.58
क्षेत्रसङ्कोचविस्तारौ कर्तुरिच्छानुरूपतः ।
शिल्पशास्त्रानुसारेण कृत्वैवं मण्डपं द्विज ॥ ५८ ॥

12.59
यागार्थं सुशुभं विप्र तन्मद्येऽथ प्रकल्पयेत् ।
दृढां समां तदाकारामीषत् प्रागुत्तरप्लवाम् ॥ ५९ ॥

12.60
प्रोछ्रितां च विशेषेण स्थलां दर्पणसन्निभाम् ।
सामान्या न भवेद्येन मेदिनीमण्टपस्य तु ॥ ६० ॥

12.61
द्विद्विकेनाङ्गुलीनां तु प्रोन्नतेर्यावदष्टकम् ।
एकवृद्ध्याल्पमानानां यागानां तु स्थलांगणम् ॥ ६१ ॥

12.62
नवाङ्गुलोन्नतेस्तावद्यावत्पञ्चदशाह्गुलम् ।
प्रोन्नतत्वं स्थलानां च मध्यमानमितात्मनाम् ॥ ६२ ॥

12.63
चतुर्विंशत्यङ्गुलान्तमुछ्रायं षोडशाङ्गुलात् ।
प्रागुक्तवृद्ध्या कर्तव्यं ज्येष्ठमानमितात्मनाम् ॥ ६३ ॥

12.64
एतदुच्छ्रायमानं च कथितं ते स्थलासु च ।
पादमर्धं तु हस्तं वा बिस्तारात् सर्वदिक्षु वै ॥ ६४ ॥

12.65
स्थलानामिष्टकाद्यैश्च चिन्वीयात् प्रथमं ततः ।
मृदा सम्पूर्य तन्मध्यमीषद्वालुकयान्वितम् ॥ ६५ ॥

12.66
परिक्ष्य केशकीटादीनाकोट्य तदनन्तरम् ।
यावद्भवति पूर्वोक्तलक्षणं वा विशेषतः ॥ ६६ ॥

12.67
स्थलां मध्योन्नतां रम्यां सप्ताहं संपरीक्ष्य सा ।
न ददाति यथाभेदं यागयोग्या भवेत्तदा ॥ ६७ ॥

12.68
तदूर्ध्वे वेदिकां कुर्यात् अनेकचरणान्विताम् ।
तोरणैश्च समायुक्तां विभवेच्छानुरूपतः ॥ ६८ ॥

12.69
पावनैर्यज्ञकाष्ठेश्च सुदृढैः सरलैः समैः ।
यथालक्षणयुक्तानि तोरणानि चतुर्दिशि ॥ ६९ ॥

12.70
द्वाराणां बाह्यतो विप्र तदन्तर्वा नियोजयेत् ।
त्रीणि त्रीण्यथवा सम्यगेकैकस्यां न्यसेद्दिशि ॥ ७० ॥

12.71
बुद्ध्वा मण्टपविस्तारं पञ्चकं सप्तकं तु वा ।
एतानि हेमरत्नाद्यैश्चित्रयेद्विभवे सति ॥ ७१ ॥

12.72
श्रीवृक्षोदुम्बरवटप्लक्षोत्थैरथवा द्विज ।
पूर्वाद्युत्तरपर्यन्त तोरणानां चतुष्टयम् ॥ ७२ ॥

12.73
चतुष्टयं चतुर्दिक्षु ह्येषामेकैकमेव वा ।
तोरणानां समुच्छ्रायस्तम्भायामसमः स्मतः ॥ ७३ ॥

12.74
स्तम्भद्वयान्तरस्थेन मानेन स्यात्तु विस्तृतिः ।
स्तम्भमस्तकमानेन साधिकेन सदैव हि ॥ ७४ ॥

12.75
तद्दण्डौ विन्यसेदभूमौ स्तम्भाभ्यन्तरगा स्थितिः ।
सदैव दृक्स्वरूपाणां कार्या वेदविदांवर ॥ ७५ ॥

12.76
द्वाराणां बाह्यतो विप्र तोरणानां यथा स्थितिः ।
तलाच्छिखरपर्यन्तं मानमुछ्रायतस्तदा ॥ ७६ ॥

12.77
सार्धं समं वा द्विगुणं तद्दण्डेषु च भूगतम् ।
चक्रद्वितयमध्यस्थं पक्षमण्डलमण्डितम् ॥ ७७ ॥

12.78
तोरणे तोरणे कुर्याद्गरुडं चोर्ध्वसंस्थितम् ।
मत्स्यादीनवतारांश्च प्रादुर्भावाननेकशः ॥ ७८ ॥

12.79
चित्रोदितेन विधिना चतुर्दिक्षु समालिखेत् ।
मुनिसिद्धामरव्रातैरनेकाद्भुतदर्शिभिः ॥ ७९ ॥

12.80
द्वीपाचलवनोद्यानैर्बहुभिर्मृगयूथपैः ।
सरःसारसकल्हारैर्जलक्रीडापरान्वितैः ॥ ८० ॥

12.81
खेचरैरङ्गनायुक्तैर्नृपैर्विद्याधरादिकैः ।
प्रशान्तमानसैर्विप्रैरात्मध्यानपरायणैः ॥ ८१ ॥

12.82
एवमाद्यैरनन्तैश्च व्यापारैश्चित्रसंभवैः ।
तद्यागवेश्म सकलं रञ्जनीयं प्रयत्नतः ॥ ८२ ॥

12.83
कुर्यात् सुधाविलिप्तं वा भूषयेत्तदनन्तरम् ।
दर्पणैश्चामरैर्वस्त्रैर्दुकूलैर्विविधोज्ज्वलैः ॥ ८३ ॥

12.84
घण्टाभिरर्धचन्द्राद्यैरातपत्रैर्मनोहरैः ।
प्रोच्छ्रितैः कदलीपूगैर्द्रुमाङ्गैः पावनैर्दृढैः ॥ ८४ ॥

12.85
मध्वाज्यदधिसत्क्षीरसंपूर्णैः कांस्यभाजनैः ।
शालितण्डुलपात्रैश्च सहिरण्यैः फलैः शुभैः ॥ ८५ ॥

12.86
लाजसिद्धार्थकैर्बीजभाजनैः षड्रसान्वितैः ।
सत्सुगन्धैस्त्वगेलाद्यैः पर्णैः पूगफलैस्तथा ॥ ८६ ॥

12.87
मधूकबदरद्राक्षा इक्षुभिस्त्रिफलैः फलैः ।
यथर्तुप्रभवैः पुष्पैर्वहुभिः प्रकरीयकैः ॥ ८७ ॥

12.88
इत्येवमाद्यैर्विविधैर्भोगपूगैस्तु पावनैः ।
पवित्रेण वितानेन सुसितेनोज्ज्वलेन वा ॥ ८८ ॥

12.89
चक्राम्बुरुहचिह्नेन भूषयेच्च तदूर्ध्वतः ।
स्तम्भान् संवेष्टयेत् पश्चाद्दुकूलैर्विविधैः पृथक् ॥ ८९ ॥

12.90
प्रागुत्तरादिदिग्भागाद्यावत्कोणं च मारुतम् ।
सितादिवर्णभेदोत्थाः पताकास्तत्र योजयेत् ॥ ९० ॥

12.91
एवं रागविभागेन प्रत्यग्भागाच्च वै पुनः ।
दक्षिणाशावधिर्यावद्द्वितीयं च चतुष्टयम् ॥ ९१ ॥

12.92
एकैव सर्ववर्णा च नाभौ कार्या वितानके ।
बाह्यतो वेदिकायास्तु मण्डपस्य दिगष्टके ॥ ९२ ॥

12.93
वह्निकोणात् समारभ्य यावत्कोणं तु शाङ्करम् ।
सितारुणं च पीतं च कृष्णं कुर्याच्चतुष्टयम् ॥ ९३ ॥

12.94
भूयश्चोत्तरदिग्भागाद्यावद्दिक्पश्चिमा द्विज ।
तथाविधं चतुष्कं तु ध्वजानां परिखीर्तितम् ॥ ९४ ॥

12.95
राजपाषाणवर्णाभं चक्रपक्षीश्वरोपगम् ।
वैजयन्तीत्रयं कुर्यात्तोरणे पूर्वदिक्स्थिते ॥ ९५ ॥

12.96
दक्षिणे स्फटिकाभं तु आप्ये सिन्दूरवर्चसम् ।
हेमाभं चोत्तरे कुर्यात्तोरणे ध्वजकत्रयम् ॥ ९६ ॥

12.97
चतुष्केण पताकानां युक्तं श्वेतादिकेन च ।
एकैकं तोरणं वात्र त्रितयं पञ्चकं तु वा ॥ ९७ ॥

12.98
अर्धेन तोरणायामात् पताकानां च दीर्घता ।
एवं त्वभिनवं कृत्वा यागार्थं मण्डपं द्विज ॥ ९८ ॥

12.99
स्नपनाद्युत्सवान्तस्य वैशेषिकगणस्य च ।
पुरा प्रकल्पितं वाथ मण्डपं भूषयेत्तदा ॥ ९९ ॥

12.100
एवं कृते ततः पश्चाद्वेदिकां तोरणैः सह ।
विलिप्य चन्दनाद्यैस्तु गन्धवर्णोज्ज्वलैः क्रमात् ॥ १०० ॥

12.101
चन्दनेन समालभ्य वेदिकां केवलेन च ।
बाह्लीकभावितेनैव तेनैवाद्यं च तोरणम् ॥ १०१ ॥

12.102
लिप्तं मृगमदेनैव कुर्याद्दक्षिणदिग्गतम् ।
तुषारधूलीधवलं पश्चिमं कारयेत्ततः ॥ १०२ ॥

12.103
कुङ्कुमेन समालभ्य केवलेनोत्तरे स्थितम् ।
क्षीरेण चन्दनेनैव कुङ्कुमेन कृतां स्थलाम् ॥ १०३ ॥

12.104
रजनीचूर्णयुक्तेन हरीबेरेणाम्बुना सह ।
पुण्यगन्धौषधीभिस्तु द्वाराणां मण्डपावनिम् ॥ १०४ ॥

12.105
ततस्तु विविधैर्धूपैर्बहुभिर्धूपयेद्द्विज ।
ततस्तिरस्करिण्या तद्वेष्टयेत् सर्वतो बहिः ॥ १०५ ॥

12.106
मण्डपस्योत्तरे भागे कुर्यात् कुण्ड पुरैव तु ।
यद्वा द्विज ततोऽन्यत्र यागाग्रस्था च वर्ज्यदिक् ॥ १०६ ॥

12.107
दिक्त्रयेऽभिमता या दिक् कुर्यादनलमण्डपम् ।
धूमनिर्गमनोपेतं नानाकुण्डबिभूषितम् ॥ १०७ ॥

12.108
सार्द्रै श्च सुपलाशैश्च सुयुक्तं तोराणादिकैः ।
यद्वा पचनगेहे तु कुण्डं कुर्यात् सलक्षणम् ॥ १०८ ॥

12.109
अन्यन्नैमित्तिकार्थं तु पुरा क्लृप्तं तु वा भवेत् ।
एवं कृते ततः कुर्यात् सम्भारग्रहणं द्विज ॥ १०९ ॥

12.110
सप्तमे पञ्चमे वापि वासरे कर्मवासरात् ।
पूर्वं कृत्वाङ्कुरारो पं ततः कर्म समारभेत् ॥ ११० ॥

12.111
ततः प्रवेशयेत्तस्मिन् सम्भारान् यागमण्डपे ।
दशम्यां द्विजशार्दूल यत्किञ्चिच्चोपयुज्यते ॥ १११ ॥

12.112
भूषणादि ततः कुर्याद्यथा तदवधारय ।
तेषां तु द्विविधं रूपं सूक्ष्मस्थूलविभेदतः ॥ ११२ ॥

12.113
सर्वभावेन भक्तानां यत् पालयति सर्वदा ।
मनोवाक्चित्तजं कृत्स्नं व्यापारं शुभलक्षणम् ॥ ११३ ॥

12.114
परिज्ञेयमतस्तस्मात् स्वरूपं तस्य यादृशम् ।
फलमेति च वै येन भक्तानां तत्समापनात् ॥ ११४ ॥

12.115
यदच्छिन्नं जगद्योनेरनन्तप्रसरं सितम् ।
विच्छेदमकृतज्ञानामेति नानात्मना स्वयम् ॥ ११५ ॥

12.116
जगत्सूत्रं तु तद्विद्धि हेमसूत्रादिना तु वै ।
षाड्गुण्यमहिमानं यद्धत्ते प्रतिसरात्मना ॥ ११६ ॥

12.117
ज्ञानरागोपरक्तं तु युक्तं कार्यैस्तु वीर्यजैः ।
तैजसैरावृतं मन्त्रैर्बलेनावसितं परि ॥ ११७ ॥

12.118
ऐश्वर्यमुपचारे तु सम्पत्तौ शक्तितोऽव्ययम् ।
एवं पवित्रकं तावत् परिज्ञातं जगत्प्रभोः ॥ ११८ ॥

12.119
ब्रह्नण्यधिपतौ विण्णौ तथाकारे प्रतिष्ठिते ।
भक्त्या च विधिवद्दत्तं ददाति भगवत्पदम् ॥ ११९ ॥

12.120
स्थूलस्य व्यतिरिक्तस्य व्यवहारपदस्थितैः ।
पदार्थैः कल्पनीया च यथा तदवधारय ॥ १२० ॥

12.121
सूक्ष्मं दृढं सितं श्र्लक्षणं सूत्रं ब्रह्नप्रसूतया ।
विनिर्मितं कुमार्या वा वृद्धया वा विनीतया ॥ १२१ ॥

12.122
शुद्धया वा विधवया सम्पादितमथापि वा ।
क्षौमं वा पट्टजं वापि केशरोमादिवर्जितम् ॥ १२२ ॥

12.123
यथालब्धं समादाय सम्यक् प्रक्षाल्य वारिणा ।
तस्य शुद्धिं पुरा कृत्वा दहनाप्यनेन च ॥ १२३ ॥

12.124
अवलोक्य स्मरन्मूलं विनिष्पाद्य चतुर्गुणम् ।
चातुरात्म्यव्यपेक्षायामथवाष्टगुणं द्विज ॥ १२४ ॥

12.125
प्रभवाप्ययबुद्ध्या तु भेदभिन्नोपलक्षितम् ।
केशवादिष्वधिष्ठातृभावेन त्रिचतुर्गुणम् ॥ १२५ ॥

12.126
तन्तुभिर्विषमैर्विष्णोः समस्य परिवर्जयेत् ।
पावित्रिकी क्रिया यस्माद्विषमा सा न कस्यचित् ॥ १२६ ॥

12.127
पवित्रकाणि कार्याणि तन्तुभिस्तैः सुतानितैः ।
मूलमन्त्रादिमन्त्राणां सर्वेषां मुनिसत्तम ॥ १२७ ॥

12.128
कुम्भस्थमन्त्रमूर्तेः प्राक् कल्पयेद्भूषणं द्विज ।
अध्यर्धशमजैर्व्यासाद्धाराकारैश्च तन्तुभिः ॥ १२८ ॥

12.129
शतेनाष्टोत्तरेणाद्यं द्विगुणेन द्वितीयकम् ।
त्रिगुणेन तृतीयं तु व्यासमेवं तु तन्नयेत् ॥ १२९ ॥

12.130
षट्त्रिंशद्ग्रन्थिकं चाद्यं द्वितीयं द्विगुणं स्मृतम् ।
तृतीयं त्रिगुणं कुर्यादेवमेव महामते ॥ १३० ॥

12.131
मण्डलस्थस्य च विभोस्तथा वह्निगतस्य च ।
बिम्बस्थस्य पवित्राणां विशेषमवधारय ॥ १३१ ॥

12.132
मालाकृतिं च शिरसि यथेच्छग्रन्थिपूर्वकम् ।
द्वितीयमंसयोर्यावल्लम्बितं जानुमण्डले ॥ १३२ ॥

12.133
मूर्ध्नः पादावधिर्यावत्तृतीयमिति विस्तृतम् ।
आमूर्ध्नः पीठपर्यन्तं वनमालापवित्रकम् ॥ १३३ ॥

12.134
पृथक्पीठस्य वै कुर्यात् स्वप्रमाणेन शोभनम् ।
बिम्बप्रतिसराणां च व्पासश्चानियतः स्मृतः ॥ १३४ ॥

12.135
सूत्रमानं च पूर्वोक्तं द्विगुणं सति संभवे ।
त्रिगुणं वा मुनिश्रेष्ठ वनमालाख्यभूषणम् ॥ १३५ ॥

12.136
अष्टोत्तेरण सूत्राणां सहस्रेण समन्वितम् ।
यद्वा तदर्धं पादं वा कुर्याद्वित्तानुरूपतः ॥ १३६ ॥

12.137
लेपभित्तिपटस्थे तु मूलबिम्बे यदा द्विज ।
कुर्यादुत्सवबिम्बस्य भूषणानां तु षञ्चकम् ॥ १३७ ॥

12.138
तदापि मूलबिम्बस्य भूषणान्यपि पूर्ववत् ।
क्लपयेदाद्यपूर्वाणि बिम्बप्रतिसरेषु तु ॥ १३८ ॥

12.139
विभवे देवदेवेशं हारपञ्चसमन्वितम् ।
नानाकाराणि तन्तूनि मुक्ताहारसमन्वितम् ॥ १३९ ॥

12.140
त्र्यङ्गुलान्तरिता देयाः सर्वेषां ग्रन्थयः समाः ।
सङ्ख्यानेन विना सम्यङ्मातुलुङ्गोपमाः शुभाः ॥ १४० ॥

12.141
अष्टोत्तरशतग्रन्थिसंयुक्ता वनमालिका ।
चतुः स्थानावतीर्णस्य विभोरामन्त्रणाय च ॥ १४१ ॥

12.142
पवित्रमाद्यसदृशमेकैकं वा द्वयं द्वयम् ।
सर्वेषां कर्मबिम्बानां तथा वै गोपुरादिषु ॥ १४२ ॥

12.143
स्थितानां मन्त्रबिम्बानां भजतां सन्निधिं सदा ।
उत्तमादीनि सर्वाणि कुर्याद्वै मुख्यकल्पने ॥ १४३ ॥

12.144
प्रकल्पयेत् तत्सदृशं मध्यमेनोत्तमेन वा ।
द्वितयं द्वितयं वापि ह्येकैकं वानुकल्पने ॥ १४४ ॥

12.145
अङ्गानामप्युपाङ्गानां लाञ्छनानामपि द्विज ।
भूषणानां च शक्तीनां तथैव विहगेशितुः ॥ १४५ ॥

12.146
प्राग्वत्त्रीण्यथवा द्वे द्वे ह्येकैकं वाथवा द्विज ।
यथेच्छमानसंख्योत्थैः सूत्रैस्तु परिकल्पयेत् ॥ १४६ ॥

12.147
सूत्रभ्रमसमोपेतैर्गभैर्भूषणसञ्चयम् ।
अन्येषां मण्डलाङ्गानां देवानां विभवे सति ॥ १४७ ॥

12.148
पवित्रकगणं कुर्याद्यथेच्चग्रन्थितन्तुभिः ।
तथैव विष्वक्सेनादेः परिवारगणस्य च ॥ १४८ ॥

12.149
मन्त्रास्त्रकुम्भयोर्द्वे वै ह्येकं वै मण्डलस्य च ।
द्वयं च कुण्डानलयोः शास्त्रपीठस्य च द्वयम् ॥ १४९ ॥

12.150
लिपेर्वाक्तत्वभूतस्य शब्दतत्वस्य च प्रभोः ।
घण्टाक्षसूत्रपूर्वाणां क्रियाङ्गानां महात्मनाम् ॥ १५० ॥

12.151
बलिपीठादिदेवानां देशान्तरनिवासिनाम् ।
गुर्वादीनां चतुर्णां तु हरिवीप्साप्रलापिनाम् ॥ १५१ ॥

12.152
द्विजोत्तमादिवर्णानां नित्यमच्युतभाविनाम् ।
गृहस्थब्रह्नचारीणां यतीनां वनवासिनाम् ॥ १५२ ॥

12.153
वृद्धानां जनकादीनां भगवत्तत्ववेदिनाम् ।
बन्धूनां भ्रातृपूर्वाणां नारायणरतात्मनाम् ॥ १५३ ॥

12.154
जायाया भक्तिनम्राया रताया अर्चने हरेः ।
सम्बन्धिनां च मित्राणां भगवद्धामसेविनाम् ॥ १५४ ॥

12.155
तदुत्तरसहायानां चातुरात्म्याभिलाषिणाम् ।
भृत्यानां स्वानुकूलानां पुरुषोत्तमयाजिनाम् ॥ १५५ ॥

12.156
वृद्धये योग्यतायैव पवित्रीकरणाय च ।
यथाभिमतमानैस्तु तन्तुभिर्ग्रन्थिभिस्तथा ॥ १५६ ॥

12.157
कुर्यात् पवित्रनिचयमथवा मुनिसत्तम ।
गुर्वादीनां चतुर्णां तु यतीनां च कुटुम्बिनाम् ॥ १५७ ॥

12.158
क्रमाच्चतुर्विंशतिभिः सूत्रैः षोडशभिस्तथा ।
ततो द्वादशभिश्चैव अष्टाभिःषट्त्रिभिस्तथा ॥ १५८ ॥

12.159
पवित्रकाणि कार्याणि ग्रन्थयः सूत्रसंख्यया ।
आराधकस्य च गुरोः कुर्याद्वे भूषणद्वयम् ॥ १५९ ॥

12.160
स्थूलकल्पमिदं प्रोक्तं सूक्ष्मकल्पमतः श्रृणु ।
शिरःप्रमाणेनार्चाया भूषणं प्रथमं स्मृतम् ॥ १६० ॥

12.161
चतुःशतेन सूत्राणां द्वात्रिंशद्भिस्तथाधिकैः ।
सूत्रावर्तैश्च सुसमैः परिकल्प्य सुशोभनम् ॥ १६१ ॥

12.162
सप्तविंशत्प्रमाणेन दत्वास्मिन् ग्रन्थिसञ्चयम् ।
कर्मादूर्ध्वगतं नाभिप्रमाणेन पवित्रकम् ॥ १६२ ॥

12.163
परिकल्प्य द्वितीयं च सूत्राणां मुनिसत्तम ।
शतत्रयेण च तथा चतुर्विंशद्भिरेव च ॥ १६३ ॥

12.164
द्विगुणैर्ग्रन्थिनिचयैरनुगर्भं तु तत् स्मृतम् ।
स्कन्धदेशात् समारभ्य यावत्पादद्वयावधि ॥ १६४ ॥

12.165
नेत्रसूत्रैस्त्रिभागोनैः सूत्रग्रामैश्च कल्पयेत् ।
त्रिगुणैर्ग्रन्थिनिचयैस्ततो ।़न्यद्द्विजसत्तम ॥ १६५ ॥

12.166
अष्टोत्तरेण सूत्राणां शतेन ग्रन्थिभिस्तथा ।
शिरः पूर्वावतारादौ यावत्पीठं तु वैष्णवम् ॥ १६६ ॥

12.167
सूत्रैर्ग्रन्थिगणैश्चैव गर्भैस्तु विविधैस्ततः ।
मण्डलस्य प्रमाणेन कुर्याच्चान्यच्चतुष्टयम् ॥ १६७ ॥

12.168
प्रथमं पझमानेन नाभिमानं द्वितीयकम् ।
अरतुल्यं तृतीयं स्याच्चतुर्थं नेमिभिः समम् ॥ १६८ ॥

12.169
एकाशीतिभिरावर्तैः सूत्राणां द्विजसत्तम ।
अग्नेः कुण्डप्रमाणेन ग्रन्थिभिस्तावदेव हि ॥ १६९ ॥

12.170
भूषणत्रितयं कुर्याद्यथायोगं महामते ।
अष्टोत्तरशतादर्धैः सूत्रैस्तद्ग्रन्थिभिस्तथा ॥ १७० ॥

12.171
भूषणं सुसमं चैव सुशुभं परिकल्पयेत् ।
द्विजेन्द्र द्विजमुख्यानां ब्राह्नणानां तदर्धतः ॥ १७१ ॥

12.172
मुख्यमेतत् स्मृतं कल्पमनुकल्पमिदं श्रुणु ।
अष्टाधिकेन सूत्रेण शतेन प्रथमं त्विदम् ॥ १७२ ॥

12.173
चतुर्भागोनमपरं तदर्धेन तृतीयकम् ।
आद्याच्चतुर्थभागेन चतुर्थं कलपयेत् ततः ॥ १७३ ॥

12.174
त्रिभागोनं चतुर्थात्तु अग्नेः कुर्यात्तु भूषणम् ।
द्विजेन्द्राणां प्रकुर्वीत सप्तविंशतितन्तुजम् ॥ १७४ ॥

12.175
ब्राह्मणानां प्रकुर्वीत तन्तुभिर्नवभिर्द्विज ।
स्तनादूर्ध्वमधोनाभेर्न कर्तव्यं कदाचन ॥ १७५ ॥

12.176
सूत्रत्रयेण चान्येषां भक्तानां तु जगद्गुरोः ।
सूक्ष्मकल्पमिदं विद्धि परकल्पमिदं श्रृणु ॥ १७६ ॥

12.177
चतुःस्थानावतीर्णस्य मुख्यमन्त्रस्य वै विभोः ।
शतेनाष्टोत्तरेणैव ह्यर्धेनांशेन वा मुने ॥ १७७ ॥

12.178
तन्तूनां भूषणं कुर्यादेकैकं वा त्रयं त्रयम् ।
जपहोमादिका संख्या पूर्णआरिक्ता महात्मनाम् ॥ १७८ ॥

12.179
समीकरोति भक्तानां मन्त्रिणामत एव हि ।
कुर्यात्तदग्रन्थिनिचयं सूत्रसंख्योपलक्षितम् ॥ १७९ ॥

12.180
यदृच्छया ततोऽन्येषां याज्यानां परिकल्प्य च ।
सूत्रभ्रमसमोपेतैर्गर्भैर्भूषणसञ्चयम् ॥ १८० ॥

12.181
ततस्तु देवदेवस्य चतुः स्थानस्थितस्य यत् ।
पवित्रकगणं विप्र प्रोक्तमाद्यपुरस्सरम् ॥ १८१ ॥

12.182
कुर्यात्तु गर्भरचनां तस्य सर्वस्य सत्तम ।
हेमसद्रत्नकर्पूरमालयक्षोदकुङ्कुमैः ॥ १८२ ॥

12.183
सर्वौषधिसमोपेतैस्त्वगेलादिविमिश्रितैः ।
पावनैर्विविधैर्द्रव्यैर्नीव्या च पिचुना सह ॥ १८३ ॥

12.184
बीजपूरसमाकारमार्द्रामलकशङ्खवत् ।
तदन्तरालानि पुनस्त्वच्छिन्नेन तु तन्तुना ॥ १८४ ॥

12.185
विभागप्रतिपत्यर्थं ग्रथनीयान्यदूरतः ।
अन्येषां सर्वबिम्बानां यथावित्तानुरूपतः ॥ १८५ ॥

12.186
कल्पयेद्गर्भरचनां पूर्वोक्तद्रव्यसञ्चयैः ।
आराधकस्य च गुरोः सगर्भं भूषणद्वयम् ॥ १८६ ॥

12.187
विहितं भगवन्मन्त्रन्यासात्तादात्म्यभावनात् ।
अतोऽन्येषामगर्भं च रचनीयं यथाक्रमम् ॥ १८७ ॥

12.188
अन्तरालगणं गार्भं कुर्याद्बाह्लीकरञ्जितम् ।
अलङ्कृत्य च सौवर्णैरुपरिष्टाच्च रूप्यकैः ॥ १८८ ॥

12.189
पवित्रच्छेदसम्मूलं जातरूपमयैस्तु वा ।
शङ्खपजगदाचकमालाश्रीवत्सपूर्वकैः ॥ १८९ ॥

12.190
एकस्थैव बहूनां वा यथावित्तानुसारतः ।
एवं कृत्वा पवित्राणि क्रमेण द्विजसत्तम ॥ १९० ॥

12.191
धातुजे वितते भाण्डे वस्त्रच्छन्ने निधाय च ।
अथवा पैत्तले भाण्डे मृण्मये वा सुशोभने ॥ १९१ ॥

12.192
पालाशे वापि चैकस्मिन् मान्त्रं भूषणसञ्चयम् ।
अन्यस्मिन् लौकिकं स्थाप्य समस्तं द्विजसत्तम ॥ १९२ ॥

12.193
आच्छाद्य वाससा पश्चात् सुसितेनाहतेन तु ।
बन्धयित्वा तु सृत्रेण दृढेन सुसितेन च ॥ १९३ ॥

12.194
मध्ये तु यागद्रव्याणां ते भाण्डे विनिवेश्य ।
देशिकः पूर्वविधिना कृतस्नानः कृताह्निकः ॥ १९४ ॥

12.195
देशिकेन्द्रेण सहितौ गत्वा मन्त्रेशसन्निधिम् ।
प्रपूज्य देवदेवेशमर्ध्यगन्धादिभिः क्रमात् ॥ १९५ ॥

12.196
विज्ञाप्य देवदेवाय मा मे विघ्नं भव त्विति ।
तस्मादनुज्ञां संगृह्य शिरसावनतेन तु ॥ १९६ ॥

12.197
निशामुखे प्रवृत्ते तु कर्तार्घ्यकुसुमोद्यतः ।
सहसद्ब्रह्नघोषेण स्तुतिमङ्गलपाठकैः ॥ १९७ ॥

12.198
शङ्खतूर्यनिनादैश्च पुष्पैरर्घ्यसमन्वितैः ।
कृत्वा द्वार्स्थार्चनं विप्र प्रविशेद्यागमण्टपम् ॥ १९८ ॥

12.199
इदमुच्चारयेन्मन्त्रं स्वरेणोच्चतरेण तु ।
नमो ब्रह्नण्यदेवायाच्युतायाव्ययाय च ॥ १९९ ॥

12.200
ऋग्यजुस्सामरूपाय शब्ददेहाय विष्णवे ।
प्रविश्य कल्शस्थानं समीपे तु वरासने ॥ २०० ॥

12.201
प्राङ्मुखः संस्मरेन्मन्त्रं पूर्ववद्व्याप्तिभाविते ।
उपविश्य यथान्यायमन्तर्यागान्तमाचरेत् ॥ २०१ ॥

12.202
करादिशुद्धिपूर्वं तु पश्चादर्घ्यादिकल्पनम् ।
प्राग्वत् कृत्वा ततोऽभ्यर्च्य मन्त्रसङ्घं तु देहजम् ॥ २०२ ॥

12.203
द्वौ द्वौ तु पूर्णकलशौ सौवर्णौ राजतौ तु वा ।
ताम्रजौ मृण्मयौ वाथ सापिधानौ सपल्लवौ ॥ २०३ ॥

12.204
फलै रत्नादिकैर्युक्तौ सूत्रेण परिवेष्टितौ ।
शालिपीठोपरि स्थाय्य प्रतिद्वारं तु पार्श्वयोः ॥ २०४ ॥

12.205
पालिकानां शरावाणां विन्यसेत्तु त्रयं त्रयम् ।
प्रितकोणं तु संस्थाप्य घटिकानां त्रयं त्रयम् ॥ २०५ ॥

12.206
द्वारयागं ततः कुर्यात् पूर्वाद्युत्तरपश्चिमम् ।
अर्घ्यालभनमाल्यैश्च धूपैर्गुग्गुलुमिश्रितैः ॥ २०६ ॥

12.207
वास्त्वीशः क्षेत्रनाथश्च द्वारलक्ष्मीस्तथा द्विज ।
चण्डप्रचण्डौ गरुडः पूर्वद्वारे तु संस्थिताः ॥ २०७ ॥

12.208
दक्षे धातृविधातारौ पश्चिमे तु जयेतरौ ।
भद्राख्यश्च सुभद्राख्यो ह्युत्तरे दक्षिणादितः ॥ २०८ ॥

12.209
मूलबिम्बे यदा कुर्यात् पवित्रारोहणं तदा ।
मण्डलस्थस्य देवस्य प्रागाद्युत्तरपश्चिमम् ॥ २०९ ॥

12.210
संस्थानं द्वार्स्थदेवानां यात्राबिम्बे यदा भवेत् ।
तत्प्रागपेक्षया तेषां संस्थानमुदितं तदा ॥ २१० ॥

12.211
मुख्येनार्घ्याम्भसा प्रोक्ष्य पृथग्भाण्डे स्थितं पुरा ।
पञ्चगव्यं ततो विप्र कल्पयित्वा हृदादिकैः ॥ २११ ॥

12.212
कुशोदकं तदस्त्रेण दत्वाद्येनाभिमन्त्रयेत् ।
कल्पयेत् पञ्चगव्यं तु पञ्चोपनिषदैस्तु वा ॥ २१२ ॥

12.213
अथ पाणिद्वयेनैव अग्नीषोमात्मकेन तु ।
योग्यतापदवीं नीत्वा शोधयेद्वसुधां ततः ॥ २१३ ॥

12.214
मूलेन साम्भसानेन प्रोक्षयेद्यत् पुराहृतम् ।
कौशेयेन पवित्रेण ध्यायमानस्तमेव हि ॥ २१४ ॥

12.215
सर्वबीजानि धान्यानि सिद्धार्थकयुतान्यथ ।
कृत्वास्त्रपरिजप्तानि ध्यात्वा ह्यस्त्रसमानि च ॥ २१५ ॥

12.216
विघ्नोपशान्तये वेगाद्दशदिक्षु विनिक्षिपेत् ।
संहृत्य बहुकूर्चेन प्राच्यां दिशि निधाय वै ॥ २१६ ॥

12.217
ईशानदिशि वा न्यस्त्वा यागस्येच्छानुरूपतः ।
तद्गर्भीकृत्य संलिख्य हेतिराट् चन्दनादिना ॥ २१७ ॥

12.218
चक्रं ध्यात्वा मण्डपोर्ध्वे पङ्कजं वसुधातले ।
र्निगमे च गदां देवीं शङ्खं च ककुभाष्टके ॥ २१८ ॥

12.219
प्राकाराकारदेहां च नानाज्वालासमाकुलाम् ।
शक्तिरूपां गदां वाथ केवलां मन्त्रतो न्यसेत् ॥ २१९ ॥

12.220
एवं कृते तदा सम्यग्भवेद्विघ्नविनाशनम् ।
अथादाय दृढं शुद्धमेकरूपं च निर्व्रणम् ॥ २२० ॥

12.221
कुम्भं च मृण्मयं रम्यं सौवर्णं वाथ राजतम् ।
रत्नहाटकस्रग्गन्धफलसर्वौषधीयुतम् ॥ २२१ ॥

12.222
शुभपादपशाखाढ्यं पट्टस्रग्गन्धभूषितम् ।
गालितोदकसंपूर्णवारिधारान्वितं नवम् ॥ २२२ ॥

12.223
चन्दनाद्युपलिप्तं च परितश्चाक्षतान्वितम् ।
वेष्टितं परितः सूत्रैः विकीर्योपरि तन्न्यसेत् ॥ २२३ ॥

12.224
तद्देवताशरीरं तु वश्यदं बलवर्चसम् ।
सास्त्रेण चक्रमन्त्रेण मन्त्रयेदथ वर्धनीम् ॥ २२४ ॥

12.225
पूर्वोक्तद्रव्यसंयुक्तां परितः सूत्रवेष्टिताम् ।
आवाह्य मन्त्रनाथस्य दक्षिणे कलशोत्तरे ॥ २२५ ॥

12.226
विन्यस्य परितस्तत्र स्थापयेत् कलशाष्टकम् ।
सपल्लवं सापिधानं सूत्रेण परिवेष्टितम् ॥ २२६ ॥

12.227
कुम्भमध्ये विभोःप्राग्वदासनं परिकल्प्य च ।
तन्मद्ये पुण्डरीकाक्षं समावाह्य विधानतः ॥ २२७ ॥

12.228
सन्निधिं सन्निरोधादिभोगयागावसानकम् ।
पूर्ववत् सकलं कृत्वा तस्य दक्षिणदिग्गतम् ॥ २२८ ॥

12.229
अस्त्रविग्रहरूपं च ध्यात्वाऽभ्यर्च्य यथाविधि ।
ध्वंसयन्तं च विघ्नानां जालं कर्मावसानिकम् ॥ २२९ ॥

12.230
इदमभ्यर्थयेद्देवं सास्त्रं बद्धाञ्जलिः स्थितः ।
यागालयं हि विश्वेश गृहाण रचितं मया ॥ २३० ॥

12.231
आसमाप्तं भज विभो क्रियाङ्गानां च सन्निधिम् ।
ततोऽस्त्रोदकधारां चाप्यच्छिन्नां भित्तिगां नयेत् ॥ २३१ ॥

12.232
प्रदक्षिणेन प्राग्भागात्तत्पदान्तं च तत् स्मरेत् ।
अथवेशानदिग्भागात् तत्पदान्तं द्विजोत्तम ॥ २३२ ॥

12.233
पृष्ठतः कलशौ भ्राम्य तुल्यकालं तु वा पृथक् ।
कल्शं वर्धनीयुक्तं विन्यस्य विकिरोर्ध्वगम् ॥ २३३ ॥

12.234
अर्घ्यदानं तयोः कृत्वा पुष्पाद्यैः पूजयेत् पुनः ।
अस्त्रेण वस्त्रयुग्मं तु अहतं चाभिमन्त्र्य वै ॥ २३४ ॥

12.235
धूपादिवासितं कृत्वा तावुभौ परिवेष्ट्य च ।
अथवा भद्रपीठं तु विन्यसेद्विकिरोर्ध्वगम् ॥ २३५ ॥

12.236
सास्त्रं हि मन्त्रकलशं तत्राधारगतं न्यसेत् ।
चतुस्त्रिद्व्येकभारैर्वा शालिभिर्विष्टरे कृते ॥ २३६ ॥

12.237
तावन्मानांस्तदर्धान् वा तदूर्ध्वे तण्डुलान् न्यसेत् ।
तत्पादांस्तत्समान् वापि तदूर्ध्वे विन्यसेत्तिलान् ॥ २३७ ॥

12.238
तदूर्ध्वे चाहतं वस्त्रयुग्ममास्तीर्य वै शुभम् ।
कलशं वर्घनीयुक्तं तदूर्ध्वे वापि विन्यसेत् ॥ २३८ ॥

12.239
प्राग्वत् सास्त्रं तु देवेशमासनादिक्रमाद्यजेत् ।
व्यापारमाचरेद्दिव्यं कुम्भके च स्मरन् विभुम् ॥ २३९ ॥

12.240
नानिसं युज्यते यस्मात् तस्मादेषा प्रतिक्रिया ।
विभाव्या मन्त्रिणा कौम्भी आस्त्रीरक्षार्थमेव हि ॥ २४० ॥

12.241
ततोऽवतार्यो भगवान् स्थण्डिलेऽभ्यर्च्य सासनम् ।
प्रदक्षिणप्रणामान्तं कुर्यात् सर्वं तु पूर्ववत् ॥ २४१ ॥

12.242
मण्डले कुम्भयागे च प्रोक्षणस्नानमाचरेत् ।
ततस्तु ब्रह्नघोषेण यायाद्देवनिकेतनम् ॥ २४२ ॥

12.243
अथ देवगृहं गत्वा पुण्डरीकाक्षमच्युतम् ।
अष्टाङ्गेन नमस्कृत्य पूजयेत् पुरुषोत्तमम् ॥ २४३ ॥

12.244
अर्घ्यालभनमाल्यैश्च धूपैरङ्गादिसंयुतम् ।
तत् सर्वं योग्यमाहर्तुं पूजान्तरनिवेदितम् ॥ २४४ ॥

12.245
पुष्पपूर्वं समादाय शिरसा चाभिनन्द्य तत् ।
समर्प्य विष्वक्सेनस्य ह्यस्त्रमन्त्राबिमन्त्रितैः ॥ २४५ ॥

12.246
सपीठं भगवद्बिम्बं निर्मलीकृत्य वारिभिः ।
प्रासादं शोधयित्वा तु देवदेवं समर्चयेत् ॥ २४६ ॥

12.247
स्नानैस्तु क्षीरपूर्वैर्वा धात्रीफलपुरस्सरैः ।
यथाक्रमोपदिष्टैस्तु चान्यैर्भोगैरकृत्रिमैः ॥ २४७ ॥

12.248
प्रदक्षिणप्रणामान्तं विशेषात् सर्वमाचरेत् ।
लेपभित्तिपटस्थं तु मूलबिम्बं यदा द्विज ॥ २४८ ॥

12.249
तदा नैमित्तिके बिम्बे सर्वं कुर्याद्विशेषतः ।
एतस्य सन्निधौ विप्र कृत्वा स्नपनमात्रकम् ॥ २४९ ॥

12.250
स्नपनाधिकृते बिम्बे नित्यनैमित्तिकेऽपि वा ।
सर्वमन्यत् पवित्रान्तं मूलबिम्बे स्माचरेत् ॥ २५० ॥

12.251
नित्योत्सवार्थबिम्बे तु तदा कुर्यात् तदुत्सवम् ।
तेषामसन्निधौ विप्र दर्पणे तत्समीपगे ॥ २५१ ॥

12.252
कुर्यात् स्नपनमात्रं तु तदा कुर्यात् तदुत्सवम् ।
दर्भमञ्जरिजे कूर्चे चक्रे वा कुम्भकेऽपि वा ॥ २५२ ॥

12.253
प्राग्वदन्यत् समस्तं तु मूलबिम्बे समाचरेत् ।
ततो होमगृहं गत्वा कुण्डं संस्कृत्य पूर्ववत् ॥ २५३ ॥

12.254
तत्रानर्ल च संस्कृत्य कुर्याद्वै मन्त्रतर्पणम् ।
पूर्वोक्तविधिना पश्चात् संस्कृतेनाथ वह्निना ॥ २५४ ॥

12.255
चरुं संश्रापयेच्चुल्यां हृदा क्षीराज्यतण्डुलैः ।
समुद्धृत्याज्यपूतं तं विनिवेद्य यथाक्रमम् ॥ २५५ ॥

12.256
कलशस्थलबिम्बानामेकांशं जुहुयात्ततः ।
यद्वा यागसमारम्भात् पूर्वं संसाध्य वै चरुम् ॥ २५६ ॥

12.257
कलशस्थलबिम्बानां क्रमात् कृत्वा तु पूजनम् ।
सर्वं द्विजप्रदानान्तं वह्नौ सन्तर्पयेत्ततः ॥ २५७ ॥

12.258
दत्वा पूर्णाहुतिं पश्चात् प्रयायाद्बिम्बसन्निधिम् ।
पुरा यस्मिन् दिने विप्र अतीते वत्सरे कृतः ॥ २५८ ॥

12.259
पवित्रकोपसंहारस्तद्दिनादादितः स्मरन् ।
अर्घ्यपुष्पादिबलिभिः पूजयेत् सर्वमध्वरम् ॥ २५९ ॥

12.260
तद्वदाज्यं सपूर्णान्तं क्रमेण जुहुयात्ततः ।
मण्डलाग्रमथासाद्य मुद्राबन्धादिकं तु वै ॥ २६० ॥

12.261
कृत्वा प्रणामपर्यन्तं ततस्त्वेकं पवित्रकम् ।
वासितं धूपगन्धाभ्यां चतुःस्थानस्थितस्य च ॥ २६१ ॥

12.262
विनिवेद्य क्रमेणैव धूपं दत्वार्घ्यपूर्वकम् ।
निजानन्दमयैर्भोगैर्नित्यतृप्तस्त्वमव्ययः ॥ २६२ ॥

12.263
तथापि भक्त्याऽतृप्तोऽहं त्वां यजाम्यात्मसिद्धये ।
इति विज्ञाप्य देवस्य ततोऽस्त्रेणार्घ्यवारिणा ॥ २६३ ॥

12.264
सर्वं भूषणपूर्वं तु संप्रोक्ष्य द्रव्यसञ्चयम् ।
शालिभिस्तडुण्लैर्वापि तिलैर्वा त्रितयेन वा ॥ २६४ ॥

12.265
चतुस्त्रिद्व्येकभारैर्वा कृते पीठेऽथवा स्थले ।
निवेश्य वायुदिग्भागे स्थलस्थप्रागपेक्षया ॥ २६५ ॥

12.266
यद्वा पश्चिमदिग्भागे देशिकेच्छानुरूपतः ।
सितवस्त्रान्वितेनैव त्वक्षतेनैव वर्मणा ॥ २६६ ॥

12.267
अर्जयित्वास्त्रमन्त्रेण स्थगयेत् कवचेन तु ।
एवं सर्वत्र वा कुर्याद्द्रव्याणामधिवासनम् ॥ २६७ ॥

12.268
बर्हिपक्षसमोपेतं साङ्गमिष्वष्टकं ततः ।
दिग्विदिक्ष्वस्त्रजप्तं तद्दद्याद्यागनिकेतनम् ॥ २६८ ॥

12.269
पञ्चरङ्गेण सूत्रेण दृढेन सुसितेन वा ।
चतुर्गुणेन संवेष्ट्याभ्यन्तराद्यागमण्डपम् ॥ २६९ ॥

12.270
प्रदक्षिणचतुष्कं तु वर्ममन्त्रं तु संस्मरन् ।
प्रासादं बाह्यतस्तद्वद्वेष्टयोदग्निमन्दिरम् ॥ २७० ॥

12.271
वेष्टयेदन्तरा प्राग्वत्ततो देशिकसत्तमः ।
स्वयं समूहमभ्यर्थ्य पञ्चकालपरायणम् ॥ २७१ ॥

12.272
षट्कर्मनिरतं चापि यतिबृन्दं तु वैष्णवम् ।
समक्षं भवतां भक्त्या श्वः प्रभुं पूजयाम्यहम् ॥ २७२ ॥

12.273
सन्निधानमतः कार्यं मदनुग्रहकाम्यया ।
एवमब्यर्थितेब्यस्तु ह्यनुज्ञां प्रतिगृह्य च ॥ २७३ ॥

12.274
प्राङ्मुखस्त्वासनारूढो गुरुपाणिपरिच्युतम् ।
ब्रह्नकूर्चं पिबेत् पश्चाच्चरुशेषं तु भक्षयेत् ॥ २७४ ॥

12.275
पिबेद्धृदयसंजप्तं हेमरत्नकुशोदकम् ।
भगवत्पादतोयं च सर्वपापहरं शुभम् ॥ २७५ ॥

12.276
अद्यात्तदनु ताम्बूलं दन्तकाष्ठसमन्तिम् ।
आचम्य न्यासपूर्वं तु सकलीकृत्य विग्रहम् ॥ २७६ ॥

12.277
स्थलस्थं मन्त्रमुद्धृत्य कुम्भेऽग्नौ न्यस्य वात्मनि ।
कुतपे कम्बलोपेते स्थित्वा च सकुशास्तरे ॥ २७७ ॥

12.278
जपेन्मन्त्रवरं साङ्गं पठंस्तोत्रवरान् शुभान् ।
कथां सार्वेश्वरीं पुण्यां कुम्भं निष्पाद्य मण्डलम् ॥ २७८ ॥

12.279
एकाब्जं बहुपझं वा चक्राब्जाद्यमथापि वा ।
स्वयं भगवता प्रोक्तमेतेषां लक्षणादिकम् ॥ २७९ ॥

12.280
पौष्करे देवदेवेन सम्यक् पुष्करजन्मनः ।
अथवा मण्डलं कुम्भमपरे वासरे द्विज ॥ २८० ॥

12.281
भूषणानां ततो गत्वा सन्निधिं द्विजसत्तम ।
दाहाप्यायनयोगेन कुर्याच्चैवाधिवासनम् ॥ २८१ ॥

12.282
ध्यात्वा दक्षिणहस्ते तु द्वादशारं ज्वलत्प्रभम् ।
कलाद्वादशसंयुक्तं तदन्तःस्थं दिवाकरम् ॥ २८२ ॥

12.283
दग्धं तद्रश्मिसङ्घेन भस्मकूटगतं स्मरेत् ।
मान्त्रं पवित्रसङ्घं तु निश्शेषं जनयेत्ततः ॥ २८३ ॥

12.284
सितं षोडशपत्राढ्यं वामहस्तेऽम्बुजं स्मरेत् ।
क्षपाकरं तु तन्मध्ये ध्यायेत् पूर्णकलान्वितम् ॥ २८४ ॥

12.285
पीयूषवृष्टिसंपातं मुञ्चमानं विचिन्तयेत् ।
तेनामृतेन तद्भस्म भावयेत् सञ्चितं द्विज ॥ २८५ ॥

12.286
समुत्थितं भस्ममध्यात् तत् सर्वं चिन्तयेत् पुनः ।
पञ्चभूतात्मकं ध्यात्वा व्यापकत्वेन तत् पुनः ॥ २८६ ॥

12.287
मूलमन्त्रेण सम्प्रोक्ष्य संस्पृश्याथ निरीक्ष्य च ।
कुम्भयोग्यानि चैकस्मिन् माण्डलीयानि चापरे ॥ २८७ ॥

12.288
बिम्बयोग्यानि चैकस्मिन्नाग्नेयान्यपरे द्विज ।
अन्यानि मन्त्रयोग्यानि ह्येकस्मिन् द्विजसत्तम ॥ २८८ ॥

12.289
पात्रे पात्रे पृथक् स्थाप्य पात्रलाभानुरूपतः ।
आच्छाद्य वाससा पश्चात् सुसितेनाहतेन तु ॥ २८९ ॥

12.290
तानि भूषणपात्राणि क्रमेण च पृथक् पृथक् ।
बन्धनीयानि सूत्रेण दृढेन सुसितेन च ॥ २९० ॥

12.291
आच्छाद्य पूर्ववत् तानि जागरेण नयेन्निशाम् ।
एकादशयां प्रभातेऽथ स्नात्वा पूज्य जनार्दनम् ॥ २९१ ॥

12.292
आनिमन्त्र्य गृहं गत्वा यन्त्रितः प्रणिपत्य च ।
ब्राह्नणान् गुरुपूर्वांश्च विष्णुभक्तान् दृढव्रतान् ॥ २९२ ॥

12.293
स्वधर्मनिरतांश्चैव देवदेवक्रियापरान् ।
आपत्कालेऽपि संप्राप्ते येऽर्चयन्त्यच्युतं प्रभुम् ॥ २९३ ॥

12.294
अथान्यान् वैष्णवान् कांश्चित् सुहृत्सम्बन्धिबान्धवान् ।
ततः पुण्याहघोषेण प्रवृत्ते तु निशामुखे ॥ २९४ ॥

12.295
शङ्खशब्दैः सुमङ्गल्यैर्ब्राह्नणैर्ध्वनिभिः सह ।
पठद्भिःशाकुनं सूक्तं प्रविशेद्देवमन्दिरम् ॥ २९५ ॥

12.296
ततो नैमित्तिकं बिम्बं वस्त्रैर्माल्यैश्च भूषणैः ।
विलेपनैरलङ्कृत्य मूर्तिपैः सह देशिकः ॥ २९६ ॥

12.297
यानमारोप्य निष्क्रम्य शङ्खकाहलतूर्यकैः ।
तालवृन्तैस्तथा च्छत्रैश्चामरैर्विविधैः सितैः ॥ २९७ ॥

12.298
नरनाथो यथादेवं मण्डपे सन्निवेशयेत् ।
अथ भद्रासने देवं चतुष्पादसमन्विते ॥ २९८ ॥

12.299
समारोप्यार्चयेद्देवं सविशेषं विधानतः ।
महाहविर्निवेद्याथ तर्पयेद्वन्हिमध्यतः ॥ २९९ ॥

12.300
ततोऽपराङ्णवेलायां प्रवृत्ते वा निशामुखे ।
पुण्याहोद्धोषणाद्यैश्च सहोक्तैः सर्वमङ्गलैः ॥ ३०० ॥

12.301
प्रवेशयेज्जगन्नाथं देवेशं यागमण्डपे ।
यागस्य पश्चिमे देशे सौवर्णे भद्रविष्टरे ॥ ३०१ ॥

12.302
उपरीष्टाद्वितानेन मौक्तिकेनैव शोभयेत् ।
देवमारोप्य यागस्थविभोरभिमुखं द्विज ॥ ३०२ ॥

12.303
यद्वा दशम्यां बिम्बस्थं यागागारे विभुं न्यसेत् ।
प्राग्दिक्प्रत्यङ्मुखा योज्या ऋङ्मयाः स्वासनेषु च ॥ ३०३ ॥

12.304
दक्षिणे च उदग्वक्त्रान् यजुर्वेदांश्च योजयेत् ।
प्राङ्मुखान् पश्चिमे भागे सामज्ञान् विनिवेश्य च ॥ ३०४ ॥

12.305
सह चैकायनैर्विप्रैर्मूर्तिसंज्ञोपलक्षितैः ।
दिश्युत्तरस्यां च ततो नित्यकर्मपरायणान् ॥ ३०५ ॥

12.306
निवेश्याथर्ववेदज्ञान् सर्वान् द्विद्विकसंख्यया ।
श्रृणु विध्यन्तरं भूयो विस्तराद्द्विजसत्तम ॥ ३०६ ॥

12.307
पूर्वे प्रत्य्ङ्मुखं कृत्वा आसनस्थं द्विजोत्तमम् ।
पुष्पवस्त्रैस्तथोष्णीषैर्भूषितं चाङ्गुलीयकैः ॥ ३०७ ॥

12.308
ऋङ्भन्त्रान् पाठयेत् पुण्यान् मन्त्रविद्भगवन्मयान् ।
अथ दक्षिणदिक्संस्थं वीक्षमाणमुदग्दिशम् ॥ ३०८ ॥

12.309
यजुर्बृन्दं वैष्णवं तत् पाठयेद्देशिकस्तु तत् ।
गायेच्छुद्धानि सामानि सामज्ञः पश्चिमे स्थितः ॥ ३०९ ॥

12.310
भक्तश्चोदक्स्थितो व्रूयाद्द्दक्षिणास्योऽप्यथर्ववित् ।
स्वशाखोक्तांस्ततो मन्त्रान् ज्ञानलिङ्गानशेषतः ॥ ३१० ॥

12.311
एकैकं शिष्यवर्गेण वृतो योग्यः क्रमेण तु ।
भगवद्भाविनो ये च यतयः पाञ्चरात्रिकाः ॥ ३११ ॥

12.312
चतुर्भिराप्तैर्विप्राद्यैर्युक्तस्त्वीशदिशि न्यसेत् ।
एकान्तिनस्त्वनाप्तैश्च युक्तांश्चाग्नेयदिग्गतान् ॥ ३१२ ॥

12.313
निवेश्य विप्रानैरृत्यां भक्तान् वैखानसांस्तथा ।
चतुर्भिरञ्जलीकैस्तु ततो वायव्यगोचरे ॥ ३१३ ॥

12.314
सारम्भिणः सात्वतांश्च तत्काले भगवन्मयान् ।
चत्वारोऽथ चतुर्दिक्षु योज्याश्च शिशिनो मुने ॥ ३१४ ॥

12.315
तेषां चैवानुयायीरंश्चत्वारस्तु प्रवर्त्तिनः ।
ब्राह्नणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तम ॥ ३१५ ॥

12.316
एकायनीयशाखोत्थान् मन्त्रान् परमपावनान् ।
पाठयेच्च यतीनाप्तपूर्वान् वै पाञ्चरात्रिकान् ॥ ३१६ ॥

12.317
स्वानुष्ठाने स्वकान् मन्त्रान् जपन्तः संवदन्ति च ।
प्रागादौ चोत्तरान्तं च चत्वारो गुरुपूर्वकाः ॥ ३१७ ॥

12.318
बहवः समयज्ञानाः सात्वतज्ञाः स्वशक्तितः ।
कृतन्यासास्तथा ध्यानमुद्रालङ्कृतपाणयः ॥ ३१८ ॥

12.319
स्ववाससा स्वकां मुद्रां च्छन्नां कुर्युः परस्परम् ।
गीतनृत्तपराश्चान्ये अग्रतः स्तोत्रपाठकाः ॥ ३१९ ॥

12.320
वन्दिबृन्दयुता बाह्ये तथा दुन्दुभिवादिनः ।
अन्ये तु वैष्णवाः सर्वे पृष्ठतः पार्श्वतोऽपि च ॥ ३२० ॥

12.321
एवं निवेशनं कृत्वा सर्वेषां तु यथाक्रमम् ।
ततस्तु देवदेवस्य चतुःस्थानस्थितस्य च ॥ ३२१ ॥

12.322
क्रमेण पूजनं कुर्यात् पूर्ववद्द्विजसत्तम ।
आसाद्य कलशोद्देशं विनिवेदनमाचरेत् ॥ ३२२ ॥

12.323
नानाविशेषभोगानां विभारामन्त्रणाय च ।
दन्तकाष्ठं सताम्बूलं मुखवासं सदर्पणम् ॥ ३२३ ॥

12.324
चन्दनादीनि गन्धानि जातिपूगफलानि च ।
विनिवेद्य निधायाग्रे दक्षिणेऽथ जगत्प्रभोः ॥ ३२४ ॥

12.325
गुग्गुलुं मृष्टधूपं च प्राकाशं ताम्रपात्रगम् ।
दृक्प्रभामण्डनं रम्यं हेमसूत्रं सकङ्कणम् ॥ ३२५ ॥

12.326
मध्वाज्यपूरिते पात्रे तैजसे रोचनाञ्जनम् ।
न्यसेत् षट्कं महन्मूर्तेर्नेत्रवस्त्रे सितारुणे ॥ ३२६ ॥

12.327
पश्चिभे च विभोर्दद्यात् पुण्यनद्युदकं तथा ।
तीर्थतोयं नगोत्थं च नगमृच्छ्रीफलादि यत् ॥ ३२७ ॥

12.328
शाद्वलं नीलदर्भांश्च ताम्रपात्रेऽथवायसे ।
उत्तरेऽथ विभोर्दद्याद्देवदेवस्य सत्तम ॥ ३२८ ॥

12.329
माल्यान्योषधयः सप्त बीजानि च फलानि च ।
तिलतण्डुलपात्राणि क्षीरं दधि घृतं सिता ॥ ३२९ ॥

12.330
गन्धबृन्दं त्वगेलाद्यं धातवो गैरिकादयः ।
सफलं नारिकेलं च विकारास्त्वैक्षवाखिलाः ॥ ३३० ॥

12.331
सराजते कांस्यपात्रे संभवानुगुणं द्विज ।
यज्ञपर्णपुटे वा तु विनिवेद्यमसंभवे ॥ ३३१ ॥

12.332
सकुशोदं स्थलस्थस्य ताम्बूलं दन्तधावनम् ।
सितानि सोत्तरीयाणि उपवीतानि चन्दनम् ॥ ३३२ ॥

12.333
चतुर्दिग्विनिवेद्याथ बिम्बेऽग्नावेवमेव हि ।
तानि भूषणपात्राणि विनिवेद्य पृथक् पृथक् ॥ ३३३ ॥

12.334
सन्निवेश्यानि पुरतश्चतुःस्थानस्थितस्य च ।
मूलबिम्बे यदा कुर्यात्तदा सर्वं तदग्रतः ॥ ३३४ ॥

12.335
स्थाप्य भूषणपर्यन्तं विनिवेद्य यथाक्रमम् ।
कुङ्कुमागरुकर्पूरश्रीखण्डैरधिवासितम् ॥ ३३५ ॥

12.336
चतुः स्थानावतीर्णस्य दद्याद्गन्धपवित्रकम् ।
ततोऽर्घ्य पुष्पधूपं च मुद्राबन्धं समाचरेत् ॥ ३३६ ॥

12.337
आदिमध्यावसाने तु सम्यक् च्छिद्रस्य शान्तये ।
जपेन्मन्त्रवरं साङ्गं पश्चाद्बद्धाञ्जलिः पठेत् ॥ ३३७ ॥

12.338
प्रणवद्विद्वयाद्यं तु स्तोत्रमन्त्रं निमन्त्रयेत् ।
सर्वमन्त्रमयाऽनन्त नित्यसन्निहिताव्यय ॥ ३३८ ॥

12.339
गुणप्रधानयोगेश भावनाभोगविग्रह ।
नारायण परं ब्रह्न प्राणेश चतुराकृते ॥ ३३९ ॥

12.340
सर्वगाच्युत सन्मूर्ते सर्वज्ञ पुरुषोत्तम ।
अस्मात् काललवाद्यावद्विसर्जनदिनावधि ॥ ३४० ॥

12.341
नानामन्त्रगणोपेतः सन्निधिं भज मे प्रभो ।
देवबिम्बे तु सन्मूर्तौ कलशे मण्डलक्षितौ ॥ ३४१ ॥

12.342
संख्यासूत्रेऽक्षसूत्रे च पावके गुरुविग्रहे ।
घण्टायां सास्त्रपीठे च यागोपकरणेषु च ॥ ३४२ ॥

12.343
स्रुक् स्रुवाद्येष्वशेषेषु एकान्तिद्विजमूर्तिषु ।
विष्णुपार्षदभेदेषु जन्मकर्मरतेषु च ॥ ३४३ ॥

12.344
श्रद्धापूतेषु दक्षेषु त्वदेकशरणेषु च ।
अतीतवात्सरीयाणां स्नानादीनां हि कर्मणाम् ॥ ३४४ ॥

12.345
नैमित्तिकानां नित्यानामपूर्णानां हि शान्तये ।
त्वत्प्रीतये यथाशास्त्रमद्य निर्वर्तयाम्यहम् ॥ ३४५ ॥

12.346
पावित्रकविधानं च सर्वकर्मप्रपूरणम् ।
अतोऽद्य मुखवासाद्यमुपचारं हि चार्चनम् ॥ ३४६ ॥

12.347
होमान्तमधिवासीयं कुरु सर्वं हि चात्मसात् ।
त्वामर्चयाम्यहं भक्त्या शक्त्यातीतेऽथ जागरे ॥ ३४७ ॥

12.348
यथावद्ब्रह्नसूत्रान्तैर्भोगैर्भोगापवर्गदैः ।
विज्ञप्तोऽसीति भगवन् वेत्सि सर्वं हृदि स्थितम् ॥ ३४८ ॥

12.349
भक्तस्य मम वात्सल्यात् प्रातः कार्यस्त्वनुग्रहः ।
एवं निमन्त्रयित्वाजमष्टाङ्गेन नमेत् क्षितौ ॥ ३४९ ॥

12.350
चतुः प्रदक्षिणीकृत्य हृदि मन्त्रमनुस्मरन् ।
गीतनृत्तादिकैः स्तोत्रेर्वेदपाठसमन्वितैः ॥ ३५० ॥

12.351
जयशब्दसमेतैस्तु जागरेण नयेन्निशाम् ।
स्नात्वा ब्राह्ने मुहूर्तेऽथ कृतकोतुकमङ्गलः ॥ ३५१ ॥

12.352
महता विभवेन प्राग्द्वारयागं समाचरेत् ।
नित्यं कर्म पुरा कृत्वा ह्येकस्मिन्नधिकारिणि ॥ ३५२ ॥

12.353
कुम्भस्थं तु यजेत् प्राग्वन्मण्डलस्थं ततः क्रमात् ।
बिम्बस्थं देवदेवेशं सविशेषं समर्चयेत् ॥ ३५३ ॥

12.354
क्षीरादिपञ्चविंशद्भिर्यथावदधिवासितैः ।
स्नानैरन्यैश्च विविधैर्भोगैर्भक्ष्यादिनिर्मितैः ॥ ३५४ ॥

12.355
सांस्पर्शिकैरासनाद्यैर्विविधैरुपचारकैः ।
हृदयङ्गमसंज्ञैस्तु बहुभेदविनिर्मितैः ॥ ३५५ ॥

12.356
जपमुद्रावसानान्तमेवं कृत्वा क्रमेण तु ।
अग्निस्थं तर्पयेत् पश्चाद्यथावदनुपूर्वशः ॥ ३५६ ॥

12.357
अथ भूषणपात्रस्य गत्वा वै स्न्निधिं द्विज ।
पूजयित्वा समुद्धाट्य पात्रं प्रातिसरीयकम् ॥ ३५७ ॥

12.358
अवलोक्य समादाय गत्वा कलशसन्निधिम् ।
आराधनाङ्गनिचयमव्यक्तं तात्विकं भवेत् ॥ ३५८ ॥

12.359
तृतीयमुभयात्मं तु आध्यात्म्यादित्रयं तथा ।
अनुसन्धाय वै तस्मिन् संस्मरनं हृदयं धिया ॥ ३५९ ॥

12.360
तत्राष्टाष्टकसंख्यं तु अव्यक्तं भोगसङ्गरहम् ।
मन्त्रमुद्रासमूहं तु तात्विकं परिकीर्तितम् ॥ ३६० ॥

12.361
स्वाध्यायगीतवाद्यादिव्रतानि नियमानि च ।
दानान्युत्सवपूर्वाणि नानानैमित्तिकानि च ॥ ३६१ ॥

12.362
एतान्युभयरूपाणि पुरुषार्थप्रदानि च ।
प्रीतिदानि जगद्योनौ मन्त्रमूर्तौ जनार्दने ॥ ३६२ ॥

12.363
भास्वरं चिन्मयं शुद्धं यदेषां रूपमक्षयम् ।
तद्गर्भेष्वनुसन्धेयं सूक्ष्मं तदनु भास्वरम् ॥ ३६३ ॥

12.364
सूर्येन्दुवह्निसंकाशमियत्तापरिकल्पितम् ।
तद्ग्रन्थिगणदेशेषु भावनीयं महामते ॥ ३६४ ॥

12.365
सुस्थूलं व्यावहार्यं च तृतीयं सार्वलौकिकम् ।
तत् तन्तुनिचयोद्देशे भावनीयं सदैव हि ॥ ३६५ ॥

12.366
एवमाध्यात्मिकीं व्याप्तिं लक्षयित्वा तु तत्परम् ।
चिन्तयेदधिदेवाख्यां व्याप्ति मान्त्रीमनश्वरीम् ॥ ३६६ ॥

12.367
चतुर्णामविनाभावि यद्रूपममृतोपमम् ।
नानाभासगणाकीर्णं मूर्तामूर्तमनश्वरम् ॥ ३६७ ॥

12.368
किरीटमालाश्रीवत्सकौस्तुभानां महामते ।
सन्निधिं भावयेन्नित्यमधिदैवात्मनां त्रयम् ॥ ३६८ ॥

12.369
पृथ्व्यंप्तेजोऽनिलाकाशपञ्चानां समुदायि यत् ।
रमणीयं शुभं रूपं भक्तानां परितोषकृत् ॥ ३६९ ॥

12.370
तदस्य चाधिभूतत्वं मन्तव्यं योजनावधौ ।
ध्यात्वैनं मूलमन्त्रं तु समुदीर्य ततः परम् ॥ ३७० ॥

12.371
प्रणवालङ्कृतं मन्त्रं तमुद्यतकरः पठेत् ।
त्वत्प्रप्तिसाधनं देव तानं यदमलं परम् ॥ ३७१ ॥

12.372
भक्तिश्रद्धासमोपेता सत्क्रिया त्वत्प्रकाशिता ।
अखण्डसिंद्धये तस्या ह्युपायः कथितस्त्वया ॥ ३७२ ॥

12.373
ज्ञानकर्मप्रसक्तानां भक्तानां भावितात्मनाम् ।
पवित्राख्यं यथाशक्त्या त्वत्प्रसादान्मया कृतम् ॥ ३७३ ॥

12.374
यथोचितमिदानीं तद्ध्यायस्व परमेश्वरम् ।
तस्माच्छुभतरं कर्म विज्ञानममलं हि यत् ॥ ३७४ ॥

12.375
विध्यन्तरं मन्त्रगणं द्रव्यसङ्घस्त्वमेव हि ।
प्राप्तिः पूरयिता पूर्णमपूर्णानां हि कर्मणाम् ॥ ३७५ ॥

12.376
तथ्येनानेन भगवन् भवभङ्गार्दितस्य च ।
अशठस्य क्रियाकांडमखण्डं सर्वमस्तु ते ॥ ३७६ ॥

12.377
विज्ञप्तोऽसीति भगवन् आर्थिता मे परा त्वयि ।
विना त्वत्परितोषेण सम्यज्ज्ञानप्रदेन च ॥ ३७७ ॥

12.378
आपंत्कालेऽपि संप्राप्ते बुद्धिपूर्वं मयाच्पुत ।
न सन्त्याज्यं क्रियाज्ञानं त्वं सर्वं वेत्सि तत्वतः ॥ ३७८ ॥

12.379
यथाकालं यथावच्च भोगैर्देव यथोचितैः ।
नार्चितोऽसि यथा सम्यक् खेदश्चेतसि तेन मे ॥ ३७९ ॥

12.380
पूजनं भोगसंभोगैराज्यहोमैस्तु तर्पणैः ।
त्वयेतत् कृतकृत्यत्वान्न किञ्चिदुपयुज्यते ॥ ३८० ॥

12.381
सुक्षेत्रं वापितं ह्येतदखिलार्थस्य मेऽखिलम् ।
फलिष्यत्यमृतत्वेन ज्ञात्वैवं हि मया पुरा ॥ ३८१ ॥

12.382
अङ्गीकृतं गुरुमुखात् किन्तु सर्वेश्वर प्रभो ।
परिस्फुरति मे बुद्धौ न निर्व्यूढं यथास्थितम् ॥ ३८२ ॥

12.383
मनोवाक्कायकर्मैस्तु आप्रभातान्निशावधि ।
अस्वातन्त्र्यादसामर्थ्यान्मनसश्चानवस्थितेः ॥ ३८३ ॥

12.384
शीतोष्णवातवर्षार्द्येरन्तरायैर्ज्वरादिभिः ।
असम्पत्तेः क्रियाङ्गानां देव त्वदनुरूपिणाम् ॥ ३८४ ॥

12.385
आप्रवृत्तेः परानन्दप्राप्तिनिष्ठं यदाह्निकम् ।
यथोक्तममराणां तु यस्मान्न घटते ततः ॥ ३८५ ॥

12.386
तस्य सम्पूरणार्थं तु प्रधानतरमर्चनम् ।
पवित्रकाख्त्यमादिष्टं वत्सरं प्रति यत् त्वया ॥ ३८६ ॥

12.387
तन्मया कृतमध्यक्षमर्चितं यदनिर्मलम् ।
क्रियायोगादसंपूर्णं तन्मे निर्मलतां नय ॥ ३८७ ॥

12.388
ज्ञानतोऽझानतो वापि यथोक्तं न कृतं मया ।
तत् सर्वं पूर्णमेवास्तु सुतृप्तो भव सर्वदा ॥ ३८८ ॥

12.389
ओमच्युत जगन्नाथ मन्त्रमूर्ते जनार्दन ।
रक्ष मां पुण्डरीकाक्ष क्षमस्वाज प्रसीद ॐ ॥ ३८९ ॥

12.390
उक्त्वेवं मूलमन्त्रं तु हृदाद्यैर्लाञ्छनैः सह ।
समुदीर्य ततो दद्यान्मूर्ध्नि मन्त्रात्मनो विभोः ॥ ३९० ॥

12.391
सर्वज्ञानक्रियाभोगशुभसंकल्पविग्रहम् ।
मण्डलान्तर्गतस्यैवं प्रासादान्तःस्थितस्य च ॥ ३९१ ॥

12.392
एवमग्नेः पवित्रे द्वे प्रदद्याद्द्विजसत्तम ।
यद्वा किरीटमाद्ये तु मध्ये श्रीवत्सकौस्तुभे ॥ ३९२ ॥

12.393
तृतीये वनमालां च मन्त्रैरेभिस्तु विन्यसेत् ।
पझराजे किरीटाय पझरागवृतः स्वयम् ॥ ३९३ ॥

12.394
पवित्रकेऽस्मिन्नागच्छ क्षिप्रं सन्निहितो भव ।
श्रीवत्साय नमस्तुम्यं कौस्तुभागच्छ ॐ नमः ॥ ३९४ ॥

12.395
पवित्रकेऽस्मिन् सन्तिष्ठ सच्छ्रीवत्सामलप्रभ ।
आगच्छ वनमाले त्वं अस्मिन् सन्निहिता भव ॥ ३९५ ॥

12.396
पवित्रके जगद्योनेर्यन्मया परिकल्पितम् ।
श्रृणु विध्यन्तरं भूयो ध्यायेदाद्ये द्विजाखिलम् ॥ ३९६ ॥

12.397
सांवत्सरं तु यत् कर्म आप्रभातान्निशान्तिमम् ।
ध्यानोत्थं निष्कलं सम्यगपवर्गप्रदं तु यत् ॥ ३९७ ॥

12.398
संस्मृत्य निष्कलं मन्त्रं शुद्धोच्चारक्रमेण तु ।
मन्त्रे सन्धाय तत्सूत्रं सूत्रे मन्त्रं तथैव च ॥ ३९८ ॥

12.399
एकीकृत्यात्मना सार्धं दद्याद्वै मन्त्रमूर्धनि ।
समादायापरं सूत्रं तस्मिन् सकलनिष्कलम् ॥ ३९९ ॥

12.400
ध्यानकर्मस्वरूपं तु कर्म ध्यायेच्च वात्सरम् ।
स्मृत्वा चोभयरूपं तु मन्त्रं कलशपूजितम् ॥ ४०० ॥

12.401
पूर्ववच्चानुसन्धानं कृत्वा दद्यात् पवित्रकम् ।
ततः प्रतिसरं विप्र तृतीयं च समाहरेत् ॥ ४०१ ॥

12.402
बाह्यसांवत्सरं कर्म सकलं चाखिलं स्मरेत् ।
पूजयन्तं स्वमात्मानमाधाराच्च परावधिम् ॥ ४०२ ॥

12.403
लयभोगाधिकाराख्यक्रमेण सकलात्मना ।
सकलं मन्त्रनाथं तु लयभोगाधिविग्रहम् ॥ ४०३ ॥

12.404
स्मृत्वा कृत्वा च सन्धानं दद्यात् प्रतिसरं ततः ।
अर्घ्यपुष्पैस्तथा गन्धैर्माल्यैर्धूपैस्तथा द्विज ॥ ४०४ ॥

12.405
पूजया सम्पुटीकुर्याद्भूषणानि पृथक् पृथक् ।
अन्तरान्तरयोगेन घण्टाशब्दसमन्वितम् ॥ ४०५ ॥

12.406
समस्तरत्नसद्धातुपुष्पाक्षतफलान्विता ।
सत्सुगन्धार्घ्यदर्भाढ्यलाजसिद्धार्थकैर्युता ॥ ४०६ ॥

12.407
प्रक्षेप्तव्या तु बहुशो वृष्टि करघनैर्मुदा ।
केवला पुष्पवृष्टिर्वा शङ्खादीन्यपि नादयेत् ॥ ४०७ ॥

12.408
मन्त्रास्त्रकुम्भयोर्दद्याद्भूषणे ध्यानवर्जिते ।
दत्वैवं कलशस्थस्य पुरा विप्र पवित्रकम् ॥ ४०८ ॥

12.409
अनेन विधिना दद्यान्मण्डलस्थस्य वै पुरा ।
पवित्रकत्रयं शुभ्रं भोगस्थाने च नारद ॥ ४०९ ॥

12.410
दद्यात् समस्तमन्त्राणां त्रीम्येकं वा यथेच्छया ।
बिम्बस्थं तु समब्यर्च्य प्रदद्याद्भूषणानि तु ॥ ४१० ॥

12.411
कलशोक्तक्रमेणैव वनमालाख्यभूषणे ।
अव्यक्ताद्यनुसन्धानं यद्वा विध्यन्तरोदितम् ॥ ४११ ॥

12.412
परादिस्थूलपर्यन्तं सर्वं कृत्वा निवेदयेत् ।
पुषङ्न्यासो यथा प्रोक्तः किरीटाद्यस्य सत्तम ॥ ४१२ ॥

12.413
तत्रायं हि विशेषः स्यात् किरीटाद्यं चतुष्टयम् ।
क्रमेणावाहयेद्विप्र भूषणानां चतुष्टये ॥ ४१३ ॥

12.414
किरीटाख्यसुरेशस्य भानुतुल्यप्रभान्वित ।
परिवारयुतस्तिष्ठ त्वमस्मिन् शीर्षभूषणे ॥ ४१४ ॥

12.415
वक्षः स्थले जगद्योनेर्भूषणं कल्पितं मया ।
श्रीवत्सागच्छ पूर्णेन्दुसमान भगवत्प्रिय ॥ ४१५ ॥

12.416
वक्षःस्भले जगद्योनेर्भूषणं कल्पितं मया ।
कौस्तुमागच्छ रत्नानामीश त्वं भगवत्प्रिय ॥ ४१६ ॥

12.417
धातुपुष्पसमाकीर्णे प्रवालमणिभूषिते ।
वनमाले समागच्छ देवदेवप्रिये शुभे ॥ ४१७ ॥

12.418
चतुर्भिरेतैर्मन्त्रैस्तु क्रमेणावाहयेद्द्विज ।
अङ्गानामप्युपाङ्गानां लाञ्छनानां तथैव च ॥ ४१८ ॥

12.419
भूषणानां च शक्तीनां गरुडस्य च वै क्रमात् ।
पीठस्य तु पवित्राणि प्रदद्यात् क्रमशस्ततः ॥ ४१९ ॥

12.420
एवमेव विभोर्दद्यान्मूलबिम्बगतस्य च ।
सर्वेषां कर्मबिम्बानां लक्ष्म्यादीनां तथैव च ॥ ४२० ॥

12.421
अन्येषामङ्गबिम्बानां परिवारगणस्य च ।
क्रमेण भूषणं दत्वा यायादग्निनिकेतनम् ॥ ४२१ ॥

12.422
अग्निस्थस्य विभोर्दद्याद्भूषणानि तु पूर्ववत् ।
यदा पवित्रकारोपो मूलबिमेबे तदा भवेत् ॥ ४२२ ॥

12.423
नित्ये कुण्डेऽन्यथा स स्यान्नित्येनैमित्तिकेऽपि च ।
अग्नौ निवेदयेद् विप्र भूषणं न तु होमयेत् ॥ ४२३ ॥

12.424
यस्मात् सन्यासमूर्ध्वे तु विहितं भूषणस्य च ।
नाहर्तुं युज्यते दग्धं दोषमाहरणं विना ॥ ४२४ ॥

12.425
देशिकस्य हृदारोप्य पूजितस्य च देववत् ।
स्वं स्वं चारोप्य चान्येषां देशिकानां तथैव च ॥ ४२५ ॥

12.426
साधकानां ततो दत्वा यागाङ्गानामपि द्विज ।
शास्त्रात्मनस्ततो दत्वा ह्यन्येषां क्रमशस्तथा ॥ ४२६ ॥

12.427
पश्चात् पझासनं बद्ध्वा देवस्याभिमुखं स्थितः ।
सकृज्जपेन्महामन्त्रं सर्वकर्मप्रवर्धनम् ॥ ४२७ ॥

12.428
नाशनं समयानां च दोषाणां स्मरणादपि ।
ततः संश्रावयेद्देवं त्रिस्थानस्थं क्रमेण तु ॥ ४२८ ॥

12.429
कामतोऽकामतो वापि न कृतं नियमार्चयम् ।
केनचिद्विघ्नदोषेण मया यत्परमेश्वर ॥ ४२९ ॥

12.430
तेन मे मनसोऽतीव सन्तापो दहनात्मकः ।
यतः समयदोषेण बाधितोऽस्मि जनार्दन ॥ ४३० ॥

12.431
त्वयोद्दिष्टं पुरा नाथ भक्तानां हितकाम्यया ।
दोषविध्वंसकृच्चुभ्रं पवित्रं तत् कृतं मया ॥ ४३१ ॥

12.432
प्रसीद मे कुरु त्राणं जहि कोपं हि लोपजम् ।
निमज्जतो भवाम्भोधौ समयप्रच्युतस्य च ॥ ४३२ ॥

12.433
नमो नमस्ते मन्त्रात्मन् प्रसीद परमेश्वर ।
पाहि पाहि त्रिलोकेश केशवाऽर्तिविनाशन ॥ ४३३ ॥

12.434
त्वत्प्रसादाच्च मे मास्तु दोषः समयसंज्ञितः ।
अद्यास्तु कर्मसम्पत्तिर्नित्यनैमित्तिके प्रभो ॥ ४३४ ॥

12.435
श्रुत्वैवमादरात्तस्य संसारार्तस्य मन्त्रराट् ।
पूर्णभावं नयेच्छीघ्रं हन्ति दोषांश्च सामयान् ॥ ४३५ ॥

12.436
ततः प्रावरणैर्दानैर्यथासम्पत्तिसंभृतैः ।
सोपवीतोत्तरियैश्च च्छत्रोपानहसंयुतैः ॥ ४३६ ॥

12.437
विविधैर्भोजनैर्विप्र धूपार्घ्यालभनादिकैः ।
पूजयेदाप्तपूर्वांश्च यतिपूर्वांस्तथैव च ॥ ४३७ ॥

12.438
पञ्च वैखानसान्तांश्च विप्रादींश्चतुरस्तथा ।
पञ्च योगरताद्यांस्तु तथान्यान् वैष्णवान् द्विज ॥ ४३८ ॥

12.439
एकायनीयशाखोत्थमन्त्राणां प्रथमं ततः ।
त्रयीमयानां मन्त्राणां स्तोत्राणां च तथैव च ॥ ४३९ ॥

12.440
उद्घोषणं च कर्तव्यं ब्राह्नणैरग्रतो विभोः ।
शङ्खभेरीनिनादैश्च काहलीगीतकैस्तथा ॥ ४४० ॥

12.441
नृत्तैश्च निनदैरन्यैर्मङ्गलैस्तोषयेत् प्रभुम् ।
पश्चादुत्सवबिम्बं तु यानमारोप्य देशिकः ॥ ४४१ ॥

12.442
महोत्सवविधिप्रोक्तं सर्वमह्गलसंयुतम् ।
प्रदक्षिणक्रमेणैव प्रासादं तु प्रमेशयेत् ॥ ४४२ ॥

12.443
प्रार्थनां च ततः कुर्याद्यतीनां भावितात्मनाम् ।
युष्मत्प्रसादसामर्थ्यान्मनसः परिपूर्णता ॥ ४४३ ॥

12.444
क्रियाङ्गानां तु सर्वेषां मा मेऽस्तु समयच्युतिः ।
एवमस्त्विति वक्तव्यं सर्वैस्तालसमन्वितम् ॥ ४४४ ॥

12.445
तांश्चानुपृच्छ्य नैवेद्यपूर्वं कुर्यात् सुभोजनम् ।
बन्धुभृत्यसमोपेतः स विशेषं द्विजोत्तम ॥ ४४५ ॥

12.446
एकरात्रं त्रिरात्रं वा सप्तरात्रं तु वा द्विज ।
पवित्रकं स्थापयित्वा ततः सन्यासमाचरेत् ॥ ४४६ ॥

12.447
अथवार्चागतं विप्र तावत् संस्थाप्य भूषणम् ।
यावदेकादशी शुक्ला संवृत्ता कार्तिकस्य तु ॥ ४४७ ॥

12.448
अपनीय च माल्यादीन् प्रदद्याद्वा दिने दिने ।
नो यान्ति म्लानतां यावत् संप्राप्ते कालवासरे ॥ ४४८ ॥

12.449
महदर्चनपूर्वं तु कृत्वा पूर्णावसानकम् ।
क्रमशश्चोपसहृत्य स्वयं गुर्वात्मना तु वा ॥ ४४९ ॥

12.450
आदाय पूजिते पात्रे अर्चयित्वा यथाविधि ।
जानुनी भूगते कृत्वा प्रणिपत्य च देशिकम् ॥ ४५० ॥

12.451
मानयित्वार्घ्यपुष्पाद्यैः प्रणिपत्य स्वयं पुरा ।
विनिवेद्य च तत् पात्रं प्रसादः क्रियतां प्रभो ॥ ४५१ ॥

12.452
स्वाशिषं भगवत्प्रीतिर्वाच्याचार्येण तस्य तु ।
यथागमं यथाशास्त्रं प्रसादाच्चतुरात्मनः ॥ ४५२ ॥

12.453
त्वयि सांवत्सरं कृत्यं सुसंपूर्णं सुतास्तु ॐ ।
समुत्कीर्य ततस्तस्य आसनस्थस्य मूर्धनि ॥ ४५३ ॥

12.454
कलशद्वितयं मान्त्रं कृत्वा सौभाग्यमोक्षदम् ।
विसर्जनं विभोः कुर्यात् पूजापूर्वं यथाक्रमम् ॥ ४५४ ॥

12.455
विष्वक्सेनं यजेत् साङ्गं तर्पयेत् तदनन्तरम् ।
समाहृत्याखिलं पश्चात् कृते चैतद्विसर्जने ॥ ४५५ ॥

12.456
यद्यन्निवेदितं तस्य ह्यगाधेऽम्भसि निक्षिपेत् ।
यथासंवत्सरकृतो दोषः समयपूर्वकः ॥ ४५६ ॥

12.457
नाशमायाति वै क्षिप्रं पवित्रारोपणान्मुने ।
पाति यस्मात् सदोषं हि पतनात् परिरक्षति ॥ ४५७ ॥

12.458
विशेषेण द्विजं त्राति पूर्णं कर्म करोति च ।
साधके च क्रियाहीने तस्मादुक्तो महान् मया ॥ ४५८ ॥

12.459
याग एष पवित्राख्य उक्तलक्षणलक्षितः ।
पतितं च क्रियालोपाद्विधिवत् त्रायते यदा ॥ ४५९ ॥

12.460
तदा वपित्रकं विप्र भूषणं सूत्रजं स्मरेत् ।
अज्ञानादथवा मोहाद्यद्वा कर्मण्यनादरात् ॥ ४६० ॥

12.461
नास्तिक्याद्वाप्यहङ्कारात् कर्तॄणामुपरोधतः ।
वैशेषिकान्तरप्राप्तेर्यद्वा निद्रादिदोषतः ॥ ४६१ ॥

12.462
कालातिक्रान्तिभीत्या वा त्वेवमन्येन केनचित् ।
विकलं यजनं कृत्वा यदा दद्यात् पवित्रकम् ॥ ४६२ ॥

12.463
मन्त्रेशस्य तदानीं तु भवेत् तत् कर्म तामसम् ।
देशाधिपो देशिकश्च प्राप्नुयात् तामसं फलम् ॥ ४६३ ॥

12.464
ज्वरादिव्याधिपीडा स्यात् तदा तद्देशवासिनाम् ।
त्वराविष्टोऽथवा विप्र रजसा कलुषीकृतः ॥ ४६४ ॥

12.465
यागं कृत्वा तु देवस्य यदा दद्यात् पवित्रकम् ।
तदा स्याद्राजसं कर्म फलं स्यादेव तादृशम् ॥ ४६५ ॥

12.466
अज्ञानपूर्वकैर्दोषैः प्रागुक्तैस्तु विवर्जितः ।
यागं कृत्वा सुपूर्णं तु भूषणेन यदा यजेत् ॥ ४६६ ॥

12.467
तदा कर्ता गुरुश्चापि पवित्रोक्तं फलं लभेत् ।
तदा सांवत्सरं कर्म परिपूर्णतरं भवेत् ॥ ४६७ ॥

12.468
पतितस्य क्रियालोपात् परित्राणं भवेत् तदा ।
तस्मात्तु यजनं सम्यग्विभोः कृत्वा सुविस्तरम् ॥ ४६८ ॥

12.469
तदन्ते शोभने प्राप्ते मुहूर्ते देशिको विभुम् ।
भूषणैर्भूषयेत् सम्यगत्वरः शान्तमानसः ॥ ४६९ ॥

12.470
न लभ्यते मुहूर्तं तु यागान्ते यदि शोभनम् ।
तदन्यस्मिन् समारोप्य पवित्राणि यथाविधि ॥ ४७० ॥

12.471
तदतिक्रान्तिदोषस्य शान्तयेऽथ जपेद्गुरुः ।
अष्टोत्तरसहस्रं तु मूलमन्त्रं तथास्त्रपम् ॥ ४७१ ॥

12.472
जपेत् समयदोषघ्नमष्टधा मन्त्रनायकम् ।
एवं सर्वेषु यागेषु मुहूर्तातिक्रमे भवेत् ॥ ४७२ ॥

12.473
तिथिनक्षत्रवारेषु पवित्रारोहणे विधिः ।
कथितो मुनिशार्दूल यदा पुण्येक्षणादिके ॥ ४७३ ॥

12.474
केवले वैष्णवे वापि तत् कुर्यात् तत्र मे श्रृणु ।
पुण्यक्षणादिकं यस्मिन् दिने भवति तद्दिनात् ॥ ४७४ ॥

12.475
प्राक्सप्तमे दिने कृत्वा प्राग्वदङ्कुररोपणम् ।
प्राग्वत् कृत्वाधिवासं तु पुरस्ताद्वासरद्वये ॥ ४७५ ॥

12.476
ततः कर्मदिने ब्राह्ने मुहूर्ते स्नानकर्म च ।
कृत्वा प्राग्वत् समभ्यर्च्य चतुःस्थानस्थितं विभुम् ॥ ४७६ ॥

12.477
केवलं बिम्बगं वापि यथाकालानुरूपतः ।
क्षणे तु वैष्णवे प्राप्ते पवित्रैस्तु यजेद्विभुम् ॥ ४७७ ॥

12.478
यदा तु केवले बिम्बे पवित्रारोपणं भवेत् ।
तदा स्याद्बिम्बगस्यैव अधिवासोक्तपूजनम् ॥ ४७८ ॥

12.479
तथा वह्निगतस्यापि वर्जयेत् कुम्भमण्डले ।
अतीतेऽस्मिन् मुहूर्ते तु भगवद्यागविस्तरात् ॥ ४७९ ॥

12.480
क्षणान्तरे तु तत् कृत्वा सास्त्रमूलायुतं जपेत् ।
समस्तदोषशमनमष्टाविंशतिकं जपेत् ॥ ४८० ॥

12.481
तिलैराज्यैरक्षतैर्वा सहस्रं जुहुयादगुरुः ।
विरोधात् समतिक्रान्ते क्षणे तस्मिन् महामते ॥ ४८१ ॥

12.482
तदन्यस्मिन् समारोप्य पवित्राणि यथाविधि ।
ततस्तु पूर्वनवके प्रथमस्नपनं चरेत् ॥ ४८२ ॥

12.483
द्वितीयं वा तृतीयं वा गुरोरिच्छावशेन तु ।
यद्वा मूलायुतं सास्त्रं जप्त्वा पश्चात्तिलादिकैः ॥ ४८३ ॥

12.484
आहुतीनां सहस्रं तु प्रत्येकं जुहुयात् त्रिभिः ।
जपेन्मन्त्रवरं पश्चात् पञ्चाशच्चतुरुत्तरम् ॥ ४८४ ॥

12.485
विधानमेवं कथितं स्थाने मर्त्यप्रतिष्ठिते ।
स्वयंव्यक्तादिके स्थाने पवित्रारोहणादिषु ॥ ४८५ ॥

12.486
नैमित्तिकेषु सर्वेषु नित्येष्वपि विशेषतः ।
मुहूर्तातिक्रमे तत्तत्कालातिक्रमणेऽपि च ॥ ४८६ ॥

12.487
न दोषो द्विज पूर्वोक्तस्तत्रापि च विशेषतः ।
भगवद्यागविस्तारादृतेऽन्येन च केनचित् ॥ ४८७ ॥

12.488
विध्नानामुद्यमे तेन अतिक्रान्ते क्षणादिके ।
तत्तत्कर्माखिलं कृत्वा कालेऽन्यस्मिन् यथाविधि ॥ ४८८ ॥

12.489
तद्दोषशान्तये कुर्यान्महामन्त्रजपं सुधीः ।
सकृद्द्विधा चतुर्धा वा अष्टधा वा द्विपञ्चधा ॥ ४८९ ॥

12.490
द्विषट्षोडशधा वापि अष्टाविंशतिधा तु वा ।
तत्तत्कर्मविशेषाणां गुरुत्वाद्यानुगुण्यतः ॥ ४९० ॥

12.491
यद्वाधिकं जपं कुर्याद्यथा चित्तं प्रसीदति ।
प्रायश्चित्तविशेषं तु हयूर्ध्वं वक्ष्यामि विस्तरात् ॥ ४९१ ॥

12.492
दोषसंभावना प्रोक्ता तत्र कालावधिस्तथा ।
कीर्तितो विस्तरेणैव तस्मान्नात्र प्रतन्यते ॥ ४९२ ॥

12.493
इत्येष कथितः सम्यक् पवित्रारोहणे विधिः ।
कृते पवित्रके विप्र भक्तैर्मन्त्रक्रियापरैः ॥ ४९३ ॥

12.494
कश्चिद्विशेषनियमः पालनीयः प्रयत्नतः ।
यावदेकादशी शुक्ला कार्तिकस्यातिपुण्यदा ॥ ४९४ ॥

12.495
वक्ष्यते सूक्ष्मरूपोऽन्यः प्रकारो मुनिपुङ्गव ।
केवले बिम्बके वापि यागमन्दिरसंस्थिते ॥ ४९५ ॥

12.496
प्रासादसंस्थिते वापि दशम्यामधिवासिते ।
कल्पयेद्भूषणारोपं विना कलशमण्डले ॥ ४९६ ॥

12.497
अग्निस्थेऽपि तदा कुर्यात् तत् प्राग्वदधिवासिते ।
एकं द्वे त्रीणि वा दद्यात् पवित्राणि तदा विभोः ॥ ४९७ ॥

12.498
समानीयोत्तमाद्येन भेदेन तु कृतानि वा ।
द्रव्याभावो द्विजश्रेष्ठ अशक्तिर्यदि वा भवेत् ॥ ४९८ ॥

12.499
सद्योऽधिवासं द्वादश्यां कृत्वा शक्त्या तु कारयेत् ।
सोपवासं द्विजश्रेष्ठ अर्चायां भूषणं विभोः ॥ ४९९ ॥

12.500
यथेच्छाकल्पितैः सूत्रैर्ग्रन्थिभिस्तु यथेच्छया ।
निशारोचनया वापि पवित्राणां च धातुना ॥ ५०० ॥

12.501
केनचिद्ग्रन्थयो विप्र विधिवत् परिरञ्जयेत् ।
पुष्पपूर्णानि गर्भाणि कृत्वा वा केवलान्यतः ॥ ५०१ ॥

12.502
प्रपूज्य पूर्ववद्द्विप्र बिम्बसन्निहितं विभुम् ।
निवेद्य भूषणं दद्याद्वाणीमुच्चारयेदिमाम् ॥ ५०२ ॥

12.503
यन्मया ब्रह्नसूत्रं च कल्पितं ग्राहयस्व च ।
कर्मणां पूरणार्थाय यथा दोषो न मे भवेत् ॥ ५०३ ॥

12.504
इत्युक्त्वा च ततो दद्यात् पूज्योपरि पवित्रकम् ।
स्तुत्वा च देवदेवेशं द्वितीयेऽह्नि प्रयत्नतः ॥ ५०४ ॥

12.505
पूजयित्वाथ देवेशं कुर्यात् तदुपसंहृतिम् ।
गृहे पवित्रयागे तु विशेषमधुनोच्यते ॥ ५०५ ॥

12.506
बिम्बस्थे मण्डलस्थे वा चतुस्स्थानस्थितेऽपि वा ।
पवित्राणां त्रयं दद्यादेकैकं वा यथेच्छया ॥ ५०६ ॥

12.507
इत्युक्तं योगिनां श्रेष्ठ पवित्रारोहणं परम् ।
ऊनातिरिक्ताद्यत् पाति भुवि भक्तजनं सदा ॥ ५०७ ॥

12.508
तस्य निर्वर्तनाद्भक्त्या ब्राह्नणो वेदविद्भवेत् ।
श्रीमानत्युग्रशक्तिर्वै क्षत्रियोऽन्छिन्नसन्ततिः ॥ ५०८ ॥

12.509
धनधान्ययुतो वैश्यः शूद्रस्तु सुखभाग्भवेत् ।
गोभूहिरण्यदानानामनन्तानां हि यत् फलम् ॥ ५०९ ॥

12.510
यावज्जीवं प्रदत्तानां प्रत्यहं तत् समाः शतम् ।
परमायुश्च संपूर्णं तत् फलं प्राप्नुयान्नरः ॥ ५१० ॥

12.511
प्राप्तकालं स्वबुद्ध्या तु आसाद्यायतनं हरेः ।
स्मरन् सर्वेश्वरं सम्यक् समुत्सृजति विग्रहम् ॥ ५११ ॥

12.512
यानैश्चन्द्रप्रकाशैश्च दिव्यस्त्रीजनसङ्घकैः ।
वीज्यमानो दिवं याति पूज्यमानस्तथाऽमरैः ॥ ५१२ ॥

12.513
भुञ्जीत सकलान् भोगान् सर्वलोकान्तरोद्भवान् ।
यः कुर्याद्भूषणारोपं निष्कामः प्रीतये विभोः ॥ ५१३ ॥

12.514
संप्राप्य विष्णुलोकं स आस्ते कल्पशतान् बहून् ।
कालेन महतासाद्य मानुष्यं पुनरेव हि ॥ ५१४ ॥

12.515
शुभे काले शुभे देशे जायते सुशुभे कुले ।
निवृत्ते बालभावे तु व्यक्ते करणसङ्ग्रहे ॥ ५१५ ॥

12.516
बुद्धितत्वे प्रबुद्धे तु ऋगभ्यासवशात्तु वै ।
कर्मणा मनसा वाचा नारायणपरो भवेत् ॥ ५१६ ॥

12.517
नित्यं क्रियापरो धीमान् ब्रह्नण्यः सत्यविक्रमः ।
अनन्ययाजी शुद्धात्मा दुष्टसङ्गविवर्जितः ॥ ५१७ ॥

12.518
व्याधिशोकविनिर्मुक्तः पुत्रदारादिकैर्युतः ।
अपमृत्युविनिर्मुक्तो ज्ञानमासाद्य निर्मलम् ॥ ५१८ ॥

12.519
श्वेतद्वीपं समासाद्य सुराणां यत् सुदुर्लभम् ।
ज्ञानिनामपि चान्येषां तत्र दृष्ट्वा जगत्पतिम् ॥ ५१९ ॥

12.520
परब्रह्नत्वमायाति तत्कर्मपरमः पुमान् ।
पश्यन्त्यारोप्यमाणं ये ब्रह्नसूत्रं जगत्प्रभोः ॥ ५२० ॥

12.521
तथानुमोदन्त्यन्योन्यं यान्ति ते परमां गतिम् ।
श्रृण्वन्ति ये विधानं तु पवित्रं पापनाशनम् ॥ ५२१ ॥

12.522
प्राप्नुवन्ति च ते पुण्यमिष्टापूर्तोदितं हि यत् ।
नारी ह्यनन्यशरणा पतिना परिचोदिता ॥ ५२२ ॥

12.523
तद्भक्ता सद्गुणा साध्वी कर्मणा मनसा गिरा ।
नित्यं भर्तरि चाद्रोहा प्रयाता सह तेन वै ॥ ५२३ ॥

12.524
पवित्रकं जगद्योनेरारोपयति वा द्विज ।
सातुलं चैव सौभाग्यं प्राप्नुयादचिरेण तु ॥ ५२४ ॥

12.525
देहान्ते देवनारीणां देवानां याति पूज्यताम् ।
सा त्वरुन्धतिपूर्वाणामर्वाक् समभिवीक्ष्यते ॥ ५२५ ॥

12.526
ज्ञानमासादयत्यन्ते येन यात्यच्युतं पदम् ।
प्रोत्तारयति बन्धूनां दुष्कृतेभ्योऽब्जसंभव ॥ ५२६ ॥

12.527
पितॄणां जनकादीनां नाम्ना स्नेहपरस्तु यः ।
ददाति भूषणं विप्र मन्त्री मन्त्रात्मनो विभोः ॥ ५२७ ॥

12.528
दुर्गतेः सुगतिं यान्ति द्युसिन्धोरस्थिना यथा ।
यथा सुराणाममृतं नृणं गाङ्गं यथा जलम् ॥ ५२८ ॥

12.529
स्वधा यथा पितॄणां च कर्मिणां तद्वदेव हि ।
पवित्रकं क्रियाढ्यानां पावनं भूतिवर्धनम् ॥ ५२९ ॥

12.530
सर्वदोषभयघ्नं च सर्वोपद्रवनाशनम् ।
सर्वसौख्यप्रदं चैव सर्वगुह्यप्रकाशनम् ॥ ५३० ॥

12.531
तपोदानव्रतानां च विहितस्याह्निकस्य च ।
निश्शेषयागभोगानां कृत्वा संपूरणक्रियाम् ॥ ५३१ ॥

12.532
अपरेऽहनि वै कुर्याच्चतुर्थे सप्तमेऽपि वा ।
स्नपनं पूज्यमन्त्रस्य तीर्थोद्देशेऽथ सङ्गमे ॥ ५३२ ॥

12.533
नद्यां समुद्रगामिन्यां देवखाते ह्रदे तु वा ।
प्रीतये परमेशस्य त्वात्मनो दुःखहानये ॥ ५३३ ॥

12.534
आह्लादायामराणां च पितॄणां तृप्तये तु वै ।
आप्यायनार्थं भूतानां भुवनानां च भूतये ॥ ५३४ ॥

12.535
देशदोषप्रशान्त्यर्थं गोब्राह्नणहिताय वै ।
यथावत् स्रपनं कुर्यात्रीर्थबिम्बे विशेषतः ॥ ५३५ ॥

12.536
नित्यस्नपनबिम्बे वा कुर्यात्तत्तदसन्निधौ ।
नित्योत्सवपरे बिम्बे ह्याचरेत्तदसन्निधौ ॥ ५३६ ॥

12.537
तदभावे पवित्रे तु दर्भमञ्जरिजे शुभे ।
विधानमत्र मे सम्यक् श्रृणु विप्र समाहितः ॥ ५३७ ॥

12.538
बहुशाखमभग्नाग्रं समूलं यदपुष्पितम् ।
प्राङ्मुखो दर्भमादाय प्रणवेन पुरा क्षितेः ॥ ५३८ ॥

12.539
ततस्तेनैव तन्मूलं प्राग्वत् कुर्यादधिष्ठितम् ।
तस्य मद्यमनालं यन्न्यग्भूतमवतिष्ठते ॥ ५३९ ॥

12.540
आराध्य मन्त्रनाथेन स्मरेद्व्याप्तं महात्मना ।
विवर्तं परमात्मीयमध्यक्षाख्यं च विद्धि तम् ॥ ५४० ॥

12.541
अनेकगर्भमुच्चं यत् काण्डं काण्डेषु चोत्तमम् ।
अणिमादिगुणैर्युक्तं पुंस्तत्वं तेन कल्प्यते ॥ ५४१ ॥

12.542
वाचकं तस्य योक्तव्यं हंसयुक्तं द्विलक्षणम् ।
बहिष्काण्डचतुष्केण चित्तपूर्वं चतुष्टयम् ॥ ५४२ ॥

12.543
ग्रथनीयमथो वक्त्रमव्यक्तान्तं स्वकैः पदैः ।
प्रणवादिनमोन्तैस्तु व्यापकं सूक्ष्मलक्षणम् ॥ ५४३ ॥

12.544
एवं श्रोत्रादिकान् पञ्च स्वनाम्ना ग्रथयेत्तदा ।
कर्मेन्द्रियाणि तदनु ततस्तन्मात्रपञ्चकम् ॥ ५४४ ॥

12.545
पञ्चकं त्वथ भूतानां बद्ध्वा वै क्ष्मावसानिकम् ।
अवशिष्टैस्तु तत्काण्डैर्बध्नीयात्तु करण्डवत् ॥ ५४५ ॥

12.546
विना शिखासमूहेन समुत्थानावधेरथ ।
किञ्चित्तदूर्ध्वदेशाच्च यथा नो याति वै पुनः ॥ ५४६ ॥

12.547
बहुधा काण्डसङ्घस्तु कल्पितस्तत्त्वसंख्यया ।
विभिन्नानां च काण्डानां भङ्गादेकतरस्य च ॥ ५४७ ॥

12.548
उत्पद्यतेऽन्यथात्वं च तस्मात्तद्ग्रथयेद्दृढम् ।
दर्भमञ्जरिजं त्वेवं सम्पाद्यादौ पवित्रकम् ॥ ५४८ ॥

12.549
अनुसन्धीयते तत्र मान्त्रध्यानं यथास्थितम् ।
पूजयित्वार्घ्यपुष्पाद्यैरलङ्कत्य पठेदिदम् ॥ ५४९ ॥

12.550
त्वमेव तीर्थं भगवंस्त्वमेवायतनं परम् ।
त्वयैवाधिष्ठितं सर्वमिदं जानामि तत्त्वतः ॥ ५५० ॥

12.551
तत्रापि च त्वया दिष्टं क्रियाकाण्डं शुभप्रदम् ।
यत्तन्निर्वाहयाम्यद्य त्वदनुग्रहकाम्यया ॥ ५५१ ॥

12.552
एवं विज्ञाप्य भगवन् मन्त्रमूर्तिं परात्परम् ।
तत्पत्रपात्रगं कृत्वा ब्रह्नयानगतं तु वा ॥ ५५२ ॥

12.553
वेदगेयध्वनीशङ्खशब्दमङ्गलपूर्वकम् ।
नीत्वा तीर्थान्तिकं तत्र तीरदेशे निधाय च ॥ ५५३ ॥

12.554
पूर्वामुखं च तद्यानमादाय च पवित्रकम् ।
वामहस्ततले कुर्यात् क्ष्मामण्डलगतं त्विव ॥ ५५४ ॥

12.555
विधृयान्मध्यभागाच्च पाणिना दक्षिणेन तु ।
अवतीर्याम्भसो मध्यं निमज्जेत् सह तेन वै ॥ ५५५ ॥

12.556
सन्निधिं तत्र तत्कालं प्रकुर्वन्त्यचिरात्तु वै ।
निश्शेषाणि च तीर्थानि लोकत्रयगतानि च ॥ ५५६ ॥

12.557
मन्त्रात्मा यत्र रक्षार्थं क्षणमास्ते जलाशये ।
तत्रायतनतीर्थानां सर्वेषां स्यात् समागमः ॥ ५५७ ॥

12.558
किं पुनर्यत्र भगवान् मन्त्रमूर्तिरधोक्षजः ।
साधकाभ्यर्थितः स्नायात् सर्वानुग्रहया धिया ॥ ५५८ ॥

12.559
विद्वान् योऽनेन विधिना तीर्थमासाद्य तत्ववित् ।
स्नापयेद्बान्धवादीनां प्राप्नुवन्त्यचिराच्च ते ॥ ५५९ ॥

12.560
तैर्थं फलमनायासान्मन्त्रमूर्तेः प्रसादतः ।
किं तु तद्यानवादित्रवर्जितस्तु भवेद्विधिः ॥ ५६० ॥

12.561
इमं विद्धि महाबुद्धे विशेषं चात्र कर्मणि ।
सामान्यमविनाशं यच्चिन्मयं रूपवर्जितम् ॥ ५६१ ॥

12.562
विशेषज्ञानसंबद्धं जीवहंसं विभाव्य तम् ।
पवित्रकं तदाकारं स्मृत्वाऽप्लाव्यं ततोऽम्भसा ॥ ५६२ ॥

12.563
एवं तेनैव चान्येषां बहूनां बहुभिस्तु वा ।
सम्पाद्यं विष्टरे स्नानं दूरस्थानां सदैव हि ॥ ५६३ ॥

12.564
सम्पन्ने स्नपने त्वेवं द्वितीयेऽह्नि महामते ।
रथे कृत्वार्चिते तं वै प्रपूज्य च यथाविधि ॥ ५६४ ॥

12.565
यात्राख्यमुत्सवं कुर्यादन्नदानपुरस्सरम् ।
सनृत्तगेयवादित्रं जागरेण समन्वितम् ॥ ५६५ ॥

12.566
एकरात्रं द्विरात्रं वा त्निरात्रं भक्तिपूर्वकम् ।
सकृत् संवत्सरस्यान्ते तूत्सवं स्नपनादिकम् ॥ ५६६ ॥

12.567
कुर्याद्यो मन्त्रनाथस्य स सिद्धिं लभते पराम् ।
प्रस्वापे च प्रबोधे च हयुत्सवे वत्सरीयके ॥ ५६७ ॥

12.568
तथा सहस्रकलशैरबिषेकविधावपि ।
अङ्कुरारोपणे चैव मन्त्राह्गाभरणे द्विज ॥ ५६८ ॥

12.569
विविधासु प्रतिष्ठासु जीर्णोद्धारविधावपि ।
प्रायश्चित्तेषु मुख्येषु तुलाभारादिकेऽपि च ॥ ५६९ ॥

12.570
एवमादिनिमित्तेषु काम्येष्वपि तथैव च ।
द्वादश्यादिषु कालेषु कल्पयेद्यागपूर्वकम् ॥ ५७० ॥

12.571
यागमण्डपविन्यासं चतुस्स्थानार्चनक्रियाम् ।
तत्रायं हि विशेषः स्यात् पूर्वेद्युः कर्मवासरात् ॥ ५७१ ॥

12.572
रजन्यामधिवासःस्यात् प्रभाते कर्म तद्भवेत् ।
उत्सवेषु तदारम्भवासरे ह्यधिवासनम् ॥ ५७२ ॥

12.573
तद्रात्रौ कर्म कुर्वीत कुम्भाद्यर्चनपूर्वकम् ।
पुष्पयागेषु विप्रेन्द्र कुर्यात् सद्योऽधिवासनम् ॥ ५७३ ॥

12.574
संप्रोक्षणे च पूर्वं तु दहनाप्यायनात्मकम् ।
स्याद्वा सर्वत्र तत् सद्यो देशकालानुरूपतः ॥ ५७४ ॥

12.575
प्रस्वापे स्वस्तिकं नाम कुर्याद्यागवरं द्विज ।
प्रबोधे तु विवेकाख्यं व्यूहेष्वेकतमं तु वा ॥ ५७५ ॥

12.576
उत्सवे ह्येकपझं वा नैकाब्जं चक्रपङ्कजम् ।
भूषितं परितो विप्र केवलः परशूपमैः ॥ ५७६ ॥

12.577
कर्तर्यन्तरितैर्वापि यद्वा पझदलोपमैः ।
इन्दीवरदलाकारैर्यववल्मीकरूपकैः ॥ ५७७ ॥

12.578
यागं वा नवनाभाख्यं यागानामुत्तमोहि सः ।
यद्वा कुम्भोदरान्तानां वृत्तादीनां क्रमेण तु ॥ ५७८ ॥

12.579
नवानामपि बिम्बानामेकैकं प्रतिवासरम् ।
प्रथमाहात् समारभ्य यावन्नवमवासरम् ॥ ५७९ ॥

12.580
यागं व्यूहाभिधानं वा नवभिः पङ्कजैर्युतम् ।
अथ व्यूहाच्चतुष्पझाद् यावदष्टसरोरुहम् ॥ ५८० ॥

12.581
नवानां व्यूहयागानामेकैकं च क्रमेण तु ।
नियमो नवसंख्याख्यस्तत्संख्ये स्यान्महोत्सवे ॥ ५८१ ॥

12.582
न्यूनाधिकदिनेऽन्यस्मिन्नुत्सवे नववासरे ।
द्वयोरप्येकपझादिविधिः साधारणो भवेत् ॥ ५८२ ॥

12.583
सर्वदा पुष्पयागे तु मातुलुङ्गोपमाऽरकैः ।
युक्तं चक्राम्बुजं कुर्यादनन्तकलशे द्विज ॥ ५८३ ॥

12.584
चक्राम्बुजं चाभिमतमङकुरारोपणे तथा ।
विविधासु प्रतिष्ठासु चक्राब्जे संयजेद्विभुम् ॥ ५८४ ॥

12.585
यथाभिमतरूपे तु व्यूहे वाभीप्सिते द्विज ।
भूतावासाह्वये वापि धरुवे वा नित्यसंज्ञके ॥ ५८५ ॥

12.586
जीर्णोद्धारादिविधिषु ह्येवमेव महामते ।
क्ष्मापरिग्रहपूर्वेषु सर्वेष्वपि च कर्मसु ॥ ५८६ ॥

12.587
प्रायश्चित्तनिमित्ते तु संजाते संकरादिके ।
अभीष्टैररकैर्युक्तं कुर्याच्चक्राम्बुजं सदा ॥ ५८७ ॥

12.588
तुलाभारादिकेऽप्येवं यद्वा काम्यानुरूपतः ।
सङ्क्रान्तिद्विचतुष्केषु मेषसंक्रान्तिपूर्वकम् ॥ ५८८ ॥

12.589
सदध्वदे तु धर्माख्ये वसुगर्भे क्रमेण तु ।
सर्वकाम्ये ह्यमित्रघ्ने ह्यायुष्ये वलभद्रके ॥ ५८९ ॥

12.590
आरोग्ये संयजेद्देवं पुण्डरीकाक्षमव्ययम् ।
वाग्विभूतिप्रदे चैव मानसाख्येऽयनद्वये ॥ ५९० ॥

12.591
चन्द्रसूर्योपरागे तु जयेऽनन्ते तदेव हि ।
द्वादश्योः सुप्रतिष्ठाख्ये बुद्ध्याधारे तु पूर्वयोः ॥ ५९१ ॥

12.592
अमोघसंज्ञितेऽन्यासु प्रशस्तासु तिथिष्वपि ।
नक्षत्रेषु प्रशस्तेषु यजेद्यागे गुणाकरे ॥ ५९२ ॥

12.593
शान्तिकर्मणि वै कुर्याद्यागे शङ्खोदराभिधे ।
पूजनं देवदेवस्य यागे वा शान्तिकाह्वये ॥ ५९३ ॥

12.594
पौष्टिके च यथायागे ह्यथवा कौस्तुभोदरे ।
वनमालोदरे वाथ यष्टव्यो भगवान् विभुः ॥ ५९४ ॥

12.595
रक्षाकर्मण्यमित्रघ्ने आरोग्ये वा यजेत् प्रभुम् ।
आप्यायनेऽर्धचन्द्राख्ये यद्वा पूर्णएन्दुमण्डले ॥ ५९५ ॥

12.596
कजाभिधाने यागे वा यजेत् कुम्भोदरे तु वा ।
धर्मार्थी संयजेन्नित्यं देवदेवं जनार्दनम् ॥ ५९६ ॥

12.597
सदध्वदेवा धर्माख्ये अघनिर्मोचनेऽथवा ।
अर्थार्थी पूजयेन्नित्यं पझे कौमोदकीगदे ॥ ५९७ ॥

12.598
वसुगर्भाभिधे यागे सर्वतोभद्रकेऽथवा ।
काम्याभिलाषी कुर्वीत सर्वकामप्रदाभिधम् ॥ ५९८ ॥

12.599
विजयो राज्यलाभश्च शतारं मिश्रचक्रराट् ।
सहस्रारं तु वा मिश्रं मिश्रं वारिजचक्रराट् ॥ ५९९ ॥

12.600
इच्छासंख्यारसंपूर्णं सहस्रारावसानकम् ।
मोक्षार्थी परमानन्दे यागे वा चक्रपङ्कजे ॥ ६०० ॥

12.601
सहस्रसंख्यासंख्यातैररकैः परिभूषिते ।
अथवा मिश्रचक्रे तु तत्संख्यारपरिष्कृते ॥ ६०१ ॥

12.602
सर्वेष्वेतेषु यागेषु सर्वेषामपि कर्मणाम् ।
पूजयेद्वा जगन्नाथं वासुदेवं सनातनम् ॥ ६०२ ॥

12.603
प्रस्वापं च प्रभोधं च उत्सवं वात्सरीयकम् ।
पवित्रारोहणं चैव स्थापनं विविधं तथा ॥ ६०३ ॥

12.604
जीर्णोद्धारविधानं च तुलाभारादि कर्म च ।
प्रायश्चित्तानि मुख्यानि वर्जयित्वा तु कर्मसु ॥ ६०४ ॥

12.605
नैमित्तिकाख्येष्वन्येषु सर्वेषु द्विजसत्तम ।
अनुकल्पे यजेद्देवं कुम्भमण्डलके विना ॥ ६०५ ॥

12.606
प्रायश्चित्तप्रकारस्तु विभिन्नस्त्रित्रिभेदतः ।
उत्तमादिविभागेन कलशे मण्डलक्षितौ ॥ ६०६ ॥

12.607
बिम्बेऽग्नौ संयजेद्देवं प्रकारे ह्युत्तमोत्तमे ।
कुम्भमण्डलवह्निस्थं यजेत्तन्मध्यमे विभुम् ॥ ६०७ ॥

12.608
कुम्भेऽग्नौ च यजेद्देवं विभुं तदधमे द्विज ।
बिम्बेऽग्नौ च यजेद्देवं गुरोरिच्छानुरूपतः ॥ ६०८ ॥

12.609
स्नपनैः परभेदोत्थैः स्नापयेन्मध्यमोत्तमे ।
अपरोदितभेदैस्तु चतुर्भिः स्नापयेद्विभुम् ॥ ६०९ ॥

12.610
क्रमेण मध्यमध्याद्ये न्यूनमद्यावसानिके ।
चतुष्टये तदन्यस्मिन्नग्नौ सन्तर्पयेद्विभुम् ॥ ६१० ॥

12.611
प्रायश्चित्तेषु सर्वेषु जपं वापि समाचरेत् ।
देशकालस्वसामर्थ्यद्रव्यादेरानुगुण्यतः ॥ ६११ ॥

12.612
प्रायश्चित्तेषु सर्वेषु चतुस्स्थानार्चनादिके ।
दशप्रकारे विप्रेन्द्र दिनसंख्यां निबोध मे ॥ ६१२ ॥

12.613
दिनानि चत्वारिंशच्च त्रिंशद्विंशतिरेव च ।
तथा पञ्चदशाहश्च क्रमादेकदिनान्तिमम् ॥ ६१३ ॥

12.614
एवमष्टादशविधा दिनसंख्या प्रकीर्तिता ।
उत्तमोत्तमपूर्वेण भेदेन नवधा तु वा ॥ ६१४ ॥

12.615
द्विकद्विकक्रमेणैव तदा द्व्येकदिनान्तिमम् ।
प्रायश्चित्तप्रकारस्तु प्रसड्गादत्र कीर्तितः ॥ ६१५ ॥

12.616
विस्तरेण प्रवक्ष्यामि ह्युपरिष्टान्महामते ।
इति पावित्रकं सम्यग्विधानं कथितं माय ।
इतः परं मुनिश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि ॥ ६१६ ॥


Kapitel 13

श्रीः ।
त्रयोदशोऽध्यायः ।
सनकः ।

13.1
शयनस्थे जगन्नाथे चातुर्मास्यस्य मध्यतः ।
पवित्रारोहणं प्रोक्तं त्वया मतिमतां वर ॥ १ ॥

13.2
किं देवशयनं नाम किं देवः स्वप्स्यतीत्यसौ ।
देवः किमर्थं स्वपिति किं विधानं तथा वद ॥ २ ॥

13.3
के मन्त्राः के च नियमाः व्रतान्यस्य क्रिया तु का ।
किं ग्राह्यं किं च मोक्तव्यं सुप्ते देवे जनार्दने ॥ ३ ॥

13.4
शाण्डिल्यः ।
श्रूयतामभिधास्यामि गुह्याद्गुह्यतरं तव ।
पुरा तपः प्रभावेन तोषितो योगनिद्रया ॥ ४ ॥

13.5
ममाङ्गं मानयस्वे ति प्रार्थितो जगतांपतिः ।
निरीक्ष्य चात्मनो देहे रुद्धं लक्ष्म्या उरःस्थलम् ॥ ५ ॥

13.6
शङ्खचक्रासिशार्ङ्गाद्यैर्बाहवः सुविभूषिताः ।
अधोनाभेर्निरुद्धं च वैनतेयेन पक्षिणा ॥ ६ ॥

13.7
मकुटेन शिरो रुद्धं कुण्डलाभ्यां श्रवोयुगम् ।
ततो ददौ सुसन्तुष्टो नेत्रयोः स्थानमादरात् ॥ ७ ॥

13.8
चतुरो वार्षिकान् मासान् वासं प्रीता गमिष्यसि ।
योगनिद्रापि तद्वाक्यं श्रुत्वा हृष्टतनूरुहा ॥ ८ ॥

13.9
चकार लोचनावासमत्यर्थं शार्ङ्गधन्वनः ।
द्वादश्यां शुक्लपक्षस्य आषाढस्य द्विजाधिप ॥ ९ ॥

13.10
तदादौ कौमुदाख्यस्य यावन्मासस्य तद्दिनम् ।
देवः सर्वेश्वरस्तां तु मानयन्नयनस्थिताम् ॥ १० ॥

13.11
योगनिद्रां महानिद्रां शेषाहिशयने स्वपन् ।
क्षीरोदतोयबीच्यग्रैः धौतपादः समाहितः ॥ ११ ॥

13.12
लक्ष्मीकराम्बुजश्लक्ष्णमृज्यमानपदद्वयः ।
प्रवृत्ते तौहिने काले प्रबुद्ध्यति जनार्दनः ॥ १२ ॥

13.13
वासुदेवो जगन्नाथः क्रियार्थं स्वेच्छया द्विज ।
सेवमानोऽपि तां निद्रां जडतां न व्रजेत् प्रभुः ॥ १३ ॥

13.14
यथा प्राकृतिकः सुप्तः कश्चिन्मलिनमानसः ।
अकर्ता सर्वकार्याणां योगनिद्रावशीकृतः ॥ १४ ॥

13.15
न तादृक्त्वे जगद्धातुरप्रमेयः सनातनः ।
यतः प्रबुद्धःसर्वज्ञो नित्योऽजः परमेश्वरः ॥ १५ ॥

13.16
तस्य निद्रादयो दोषाः सततं यान्ति वश्यताम् ।
निद्रादिदोषरहिते प्रसुप्ते ह्यच्युतेऽमले ॥ १६ ॥

13.17
निवर्तन्ते क्रियाः सर्वाश्चातुर्वर्ण्यस्य सर्वशः ।
विवाहव्रतबन्धादिचूडासंस्कारदीक्षणम् ॥ १७ ॥

13.18
यज्ञो गृहप्रवेशादिगोदानार्चाप्रतिष्ठनम् ।
पुण्यानि यानि कर्माणि वर्जयेद्दक्षिणायने ॥ १८ ॥

13.19
असङ्क्रान्तं तु यन्मासं दिव्ये पित्र्ये च वर्जयेत् ।
मलिम्लुचमशौचं च सूर्यसङ्क्रान्तिवर्जितम् ॥ १९ ॥

13.20
नैमित्तिकान् मासि मासि तथा संवत्सरोत्सवान् ।
विशेषयागसंयुक्तान् सर्वसंपूरणादृते ॥ २० ॥

13.21
नान्यन्नैमित्तिकं काम्यं कार्यं मासचतुष्टये ।
अबीष्टव्रतमाश्रित्य नेतव्यं तच्चतुष्टयम् ॥ २१ ॥

13.22
भगवद्भक्तिनिष्णातैः कार्यं यच्चापरं श्रृणु ।
विष्णोरायतनस्याग्रे कुर्याच्छयनमन्दिरम् ॥ २२ ॥

13.23
षट्करादादितो यावच्चतुर्दशकरावधि ।
स्तम्भयुक्तं सुधालिप्तं नानारागैः सुरञ्जितम् ॥ २३ ॥

13.24
ऊर्ध्वं तथा भित्तिगणं पूरयेच्चित्रनिर्मितैः ।
ब्रह्नरुद्रेन्द्रचन्द्रार्कबिम्बैश्चान्यैस्तु वै बुधैः ॥ २४ ॥

13.25
अष्टयोनिगतैर्विप्र सर्वैश्चोपनतस्थितैः ।
ब्रह्नर्षिसिद्धमनुजैर्भक्तैश्चान्यैस्तथाऽसुरैः ॥ २५ ॥

13.26
अप्सरोभिश्च विविधैस्तुवद्बद्धाञ्जलीयकैः ।
सम्मुखे देवदेवस्य सर्वाभरणभूषितैः ॥ २६ ॥

13.27
एवं तु शयनागारं कृत्वा वस्त्रादिभूषितम् ।
ब्रह्नस्थानं समाश्रित्य तस्मिन् कुर्यात्ततो द्विज ॥ २७ ॥

13.28
एकद्विचतुरष्टाभिः स्वकीयैस्तु करैः स्थलाम् ।
कोणेषु तत्समैर्दण्डैः शुभैर्यज्ञतरूद्भवैः ॥ २८ ॥

13.29
सुश्लक्ष्णैर्वेदिका कार्या चतुर्भिस्तोरणान्विता ।
वितानकं तदूर्ध्वे तु मध्ये पङ्कजभूषितम् ॥ २९ ॥

13.30
प्रलम्बिपुष्पमालाभिर्घण्टाचामरदर्पणैः ।
भूषयेद्बुद्बुदाद्यैश्च सुवर्णरजतोद्भवैः ॥ ३० ॥

13.31
मुक्तेन्द्रनीलवैडूर्यपझरागविचित्रितैः ।
सितादिवस्त्रभेदेन पताकाभिस्तथा ध्वजैः ॥ ३१ ॥

13.32
खगेन्द्रतालमकरऋश्यसंज्ञैः समुच्छ्रितैः ।
पूर्वादिदिक्षु संयुक्तैः कोणे पूर्णघटैर्युतम् ॥ ३२ ॥

13.33
बीजैर्गन्धैस्त्वगेलाद्यैः पूरितैः पात्रसञ्चयैः ।
राजद्भिः सत्फलोपेतैर्विविधैः परितो वृताम् ॥ ३३ ॥

13.34
विचित्रपुष्पप्रकरां चन्दनाद्यनुलेपिताम् ।
विचित्रवस्त्रसञ्छन्नां कुर्याद्वेदिं जगद्गुरोः ॥ ३४ ॥

13.35
इत्येवं शयनागारं संपाद्यादौ मनोहरम् ।
हेमरत्नविचित्राङ्गं शयनं लक्षणान्वितम् ॥ ३५ ॥

13.36
सुपर्णतालमकरऋश्यैर्दिक्स्थैर्विभूषितम् ।
मकरास्यसमायुक्तं व्याघ्राङ्घ्रिसदृशाङ्घ्रिकम् ॥ ३६ ॥

13.37
यद्वा गर्भगृहे विष्णोर्मूलमूर्तेस्तु दक्षिणे ।
शयनं कल्पयेद्विप्र स्वगृहे वाऽनुकल्पने ॥ ३७ ॥

13.38
एवं पुरा समापाद्य यथा वित्तानुरूपतः ।
संगृह्य सर्वसंभारान् दशम्यां द्विजसत्तम ॥ ३८ ॥

13.39
संकल्प्य पूर्वविधिना पूर्वोक्तं यागमण्डपम् ।
प्रविशेद्देशिकेन्द्राख्य एकादश्यां निशामुखे ॥ ३९ ॥

13.40
पूर्ववत् पूजनं कुर्यात् कलशे मण्डले क्षितौ ।
संप्रविश्य ततः प्राग्वन्मूलमूर्तौ तु पूजनम् ॥ ४० ॥

13.41
कुर्यात् स्नपनयोग्यायां यात्रामूर्तावतोऽन्यथा ।
वह्नौ सन्तर्पयेन्मन्त्रं समिद्भिः सप्तभिः क्रमात् ॥ ४१ ॥

13.42
यागमण्डपमासाद्य जागरेण नयेन्निशाम् ।
ब्राह्ने मुहूर्ते संप्राप्ते उत्थाय शयनात्ततः ॥ ४२ ॥

13.43
स्नातः कृताभिगमनो नित्यं निर्वर्त्य पूरयेत् ।
पूर्वोक्तमण्डलं विप्र रजोभिर्विविधैस्ततः ॥ ४३ ॥

13.44
कुम्भमण्डलयोः पूर्वं समाराध्य यथाक्रमम् ।
ततो नैमित्तिकं बिम्बं पश्चिमे मण्डपस्य तु ॥ ४४ ॥

13.45
संस्थाप्य संयजेत् सम्यग्भोगैर्व्यक्तैः क्रमोदितैः ।
अष्टाष्टसंख्यासंख्यातैर्विविधैरौपचनारिकैः ॥ ४५ ॥

13.46
सांस्पर्शिकैस्ततो ब्रह्नन् हृदयङ्गमसंज्ञकैः ।
एवमिष्ट्वा तु होमान्तं सविशेषं विधानतः ॥ ४६ ॥

13.47
इन्द्रादिलोकपालानां बलिं दद्याद्द्विजोत्तम ।
ततो विसृज्य मन्त्रेशं कुम्भमण्डलकुण्डगम् ॥ ४७ ॥

13.48
विष्वक्सेनं यजेत् साङ्गं भोगैर्मण्डलमध्यतः ।
ततस्तां भगवद्व्यक्तिं प्रासादान्तः प्रवेशयेत् ॥ ४८ ॥

13.49
उत्सवोक्तविधानेन सर्वालङ्कारसंयुतम् ।
संप्रवेश्य प्रेवद्याथ मूलमूर्तिं महामते ॥ ४९ ॥

13.50
अर्घ्येण गन्धपुष्पाभ्यां धूपेन सुशुभेन च ।
प्रपूज्यावाह्य शय्यार्थमूर्तौ वै मूलमूर्तितः ॥ ५० ॥

13.51
तां समानीय यागार्थमण्डपे स्नापयेत् क्रमात् ।
अलह्कृतामलङ्कारैर्नू पुरान्तैः समुज्ज्वलैः ॥ ५१ ॥

13.52
श्रीखण्डशशिबाह्लीकविलिप्तां पुष्पवेष्टिताम् ।
प्रावृतां नेत्रवस्त्रेण मृष्टधूपैः सुधूपिताम् ॥ ५२ ॥

13.53
पूजयेद्विभवेनैव भोगपूगैस्तु पावनैः ।
यद्वाह्यनुमतो विप्र देशिको गुरुणा मुने ॥ ५३ ॥

13.54
पूर्वमेव यजेन्मूर्तिमेनां स्नपनपूर्वकम् ।
ततो निशामुखे प्राप्ते देशिकः साधकैः सह ॥ ५४ ॥

13.55
यानेनाभिमतेनैव प्रदक्षिणचतुष्टयम् ।
प्रासादं संपरिक्रम्य सर्वाण्यावरणानि वा ॥ ५५ ॥

13.56
सह चैकायनैर्विप्रैर्द्विजेन्द्रैः पाञ्चकालिकैः ।
सिद्धान्तनिष्ठैस्तत्कर्मनिरतैर्भगवन्मयैः ॥ ५६ ॥

13.57
मङ्गलानि प्रयुञ्जानैः पुष्पाक्षतकरैर्द्विज ।
कृत्वा द्वार्स्थार्चनं सार्घ्यैः पुष्पगन्धानुलेपनैः ॥ ५७ ॥

13.58
लक्ष्मीनिवासेश विभो भोगपर्यङ्कशायन ।
ममाशु पापनिचयं विघ्नजालं विनाशय ॥ ५८ ॥

13.59
पठन्मन्त्रमिमं सम्यक् प्रणबब्रह्नंसयुतम् ।
प्रविशेच्छयनागारं हृदि मन्त्रमनुस्मरन् ॥ ५९ ॥

13.60
ततः शयनदेशे तु पश्चिमे हेमविष्टरे ।
निवेश्य प्राङ्मुखीं मूर्तिं यदा गर्भगृहे तदा ॥ ६० ॥

13.61
निवेश्य द्वाराभिमुखीं स्वयं समुपविश्य तु ।
पञ्चगव्येन चाभ्युक्ष्य ततः शय्यास्थलं द्विज ॥ ६१ ॥

13.62
कुङ्कुमागरुकर्पूरेरुपलिप्य च चन्दनैः ।
तस्मिन् मध्ये शुभं कुर्यात् स्वस्तिकं सूक्ष्मलक्षणम् ॥ ६२ ॥

13.63
शुक्लारुणैस्तथा पीतैर्धातुभिश्चासितैर्मुने ।
चतुर्विधेन रजसा कुर्याद्रत्नोद्भवेन वा ॥ ६३ ॥

13.64
मूर्धोपथानसंयुक्तं मसूरकबरान्वितम् ।
गग्डोपधानसंयुक्तं चरणाधारसंयुतम् ॥ ६४ ॥

13.65
ज्योत्स्नावितानसदृशप्रच्छादनपटान्वितम् ।
सुधूपितं च शयनं संस्थाप्य च तथोपरि ॥ ६५ ॥

13.66
प्रागुत्तरशिरश्शुभ्रं प्राक्छिरस्त्वथवा द्विज ।
मूलबिम्बे शयनगे स्थाप्यं तदनुरूपतः ॥ ६६ ॥

13.67
तद्दक्षिणेऽथ दिग्भागे देशं समवलम्ब्य वै ।
तस्मिन् शुभतरे ब्रह्नन् शयने शशिवासिते ॥ ६७ ॥

13.68
क्षीरोदार्णवमद्यस्थं सहस्रफणमौलिनम् ।
हिमकुन्देन्दुधवलं नागराजं महामते ॥ ६८ ॥

13.69
प्रणवेन स्वनाम्ना च वर्णान्तेन सबिन्दुना ।
घ्यात्वार्चयित्वा स्तुत्वा च नमस्कृत्वा प्रसाद्य च ॥ ६९ ॥

13.70
निवेश्य तस्मिंस्तां मूर्तिं केवलां वा श्रिया सह ।
स्वबीजं मन्त्रपूतं तु ॐ लक्ष्मीपतये नमः ॥ ७० ॥

13.71
समुदीर्य धियाचार्य अङ्गोपाङ्गक्रमेण तु ।
द्वादशाक्षरवर्णैस्तु स्वनामपदसंयुतैः ॥ ७१ ॥

13.72
दत्वा गन्धानि माल्यं च धूपं शव्यास्थितं प्रभुम् ।
पूजयेत् पूर्वविधिना भोगैः सर्वैर्यथोदितैः ॥ ७२ ॥

13.73
ततस्त्वभिनवं कुण्डं संस्कृत्याभ्यन्तरे द्विज ।
तेजस्तस्मिन् समाहूय मन्त्रेणानेन विन्यसेत् ॥ ७३ ॥

13.74
हुताशनागच्छ विभो कुण्डेऽस्मिन् हव्यवाहन ।
सन्निधानं घटे चास्मिन् कुरु मासचतुष्टयम् ॥ ७४ ॥

13.75
ततश्चावाह्य देवेशं तर्पयेत् पूर्ववत् क्रमात् ।
होमं समाप्य संपूज्य ह्यर्घ्याद्येः संपठेदिदम् ॥ ७५ ॥

13.76
सुप्ते त्वयि जगन्नाथे जगत् सुप्तं भवेदिदम् ।
प्रबुद्धेद त्वयि बुध्येत जगत् सर्वं चराचरम् ॥ ७६ ॥

13.77
शाययित्वोपरि सितं दुकूलं धूपधूपितम् ।
दत्वोपरि समभ्यर्च्य पुष्पधूपविलेपनैः ॥ ७७ ॥

13.78
सर्वसत्वोपसंहारां चिन्ताशक्तिं च विन्यसेत् ।
दक्षिणे त्वभिमानाक्यमूर्तिं तु चमरोद्यताम् ॥ ७८ ॥

13.79
एवं ज्ञाननिशां वामे तालवृन्तकरोद्यताम् ।
उत्तमाङ्गपदे निद्रां करसंवाहने रताम् ॥ ७९ ॥

13.80
पदारविन्ददेशस्थां लालयन्तीं कराम्बुजैः ।
आदाय चरणौ दिव्यौ साक्षाच्छ्रीं निधिसंश्रिताम् ॥ ८० ॥

13.81
आनन्दं ब्रह्नणो रूपं तस्यै देवोऽदिदेवता ।
तदन्तः स्मरणानन्दजातविस्मयलोचनाम् ॥ ८१ ॥

13.82
स्वनामपदमन्त्रैस्ताः सम्पूज्याः प्रणवादिभिः ।
राजती काञ्चनी मूर्तिस्ताम्रजा रीतिजाऽथवा ॥ ८२ ॥

13.83
पूर्वा पूर्वा प्रशस्ता स्याच्छयनोत्थानकर्मणि ।
यदि कुर्याद्विपर्यासं राजा राष्ट्रं विनश्यति ॥ ८३ ॥

13.84
दर्भमञ्जरिजे कूर्चे सर्वाभावे तदाऽचरेत् ।
एवं हि देवशयनं प्रतिष्ठाप्य द्विजोत्तम ॥ ८४ ॥

13.85
तस्यैवाग्रे स्वयं वाचा गृह्णीयान्नियमान्नरः ।
चतुरो वार्षिकान् मासान् देवस्योत्थापनावधि ॥ ८५ ॥

13.86
स्त्री वा नरो वा तद्भक्तो धर्मार्थी सुदृढव्रतः ।
गृह्णीयान्नियमानेतान् दन्तधावनपूर्वकम् ॥ ८६ ॥

13.87
तेषां फलानि वक्ष्यामि तत्कर्तॄणां पृथक् पृथक् ।
मधुस्वरो भवेद्विप्र पुरुषो गुडवर्जनात् ॥ ८७ ॥

13.88
लभेत सन्ततिं दीर्घां तैलसेवाविवर्जनात् ।
अभ्यह्गवर्जनाद्ब्रह्नन् सुन्दराङ्गः प्रजायते ॥ ८८ ॥

13.89
कटुतैलपरित्यागाच्छक्रावासमावाप्नुयात् ।
प्रधूकतैलत्यागेन सौभाग्यमतुलं लभेत् ॥ ८९ ॥

13.90
पुष्पादिभोगत्यागेन स्वर्गे विद्याधरो भवेत् ।
योगाभ्यासी भवेद्यस्तु स ब्रह्नपदमाप्नुयात् ॥ ९० ॥

13.91
कस्तूरीकुङ्कुमक्षोदचन्दनाद्यनुलेपनम् ।
यो वर्जयेत् स वैरूप्यं दौर्गन्ध्यं न तु वाप्नुयात् ॥ ९१ ॥

13.92
ताम्बूलवर्जनाद्भोगी रक्तकण्ठश्च जायते ।
घृतत्यागात् स लावण्यं सर्वस्निग्धतनुर्भवेत् ॥ ९२ ॥

13.93
फलत्यागाच्च मतिमान् वहुपुत्रश्च जायते ।
पादाभ्यह्गपरित्यागाच्छिरोभ्यङ्गविवर्जनात् ॥ ९३ ॥

13.94
दीप्तिमान् दीप्तकरणः साक्षाद्द्रव्यपतिर्भवेत् ।
दधिदुग्धतक्रनियमाद्गोलोकं लभते नरः ॥ ९४ ॥

13.95
इन्द्रातिथित्वमाप्नोति स्थालीपाकविवर्जनात् ।
लभते सन्ततिं दीर्घामपि पव्कमभक्षयन् ॥ ९५ ॥

13.96
भूमौ प्रस्तरशायी च विष्णोरनुचरो भवेत् ।
सदा मुनिः सदा योगी मधुमांसस्य वर्जनात् ॥ ९६ ॥

13.97
एवमादिपरित्यागाद्धर्मी स्याद्धर्मनन्दनः ।
एकान्तरोपवासेन ब्रह्नलोके महीयते ॥ ९७ ॥

13.98
धारणान्नखरोमाणां गङ्गास्नानं दिने दिने ।
मौनव्रती भवेद्यस्तु तस्याज्ञा तुलिता भवेत् ॥ ९८ ॥

13.99
द्विषट्काक्षरनिष्णातः प्राप्नुयात् परमं पदम् ।
नमो नारायणायेति जपन्नामशतं फलम् ॥ ९९ ॥

13.100
पादाभिवन्दनाद्विष्णोर्लभेद्गोदानजं फलम् ।
विष्णुपादाम्बुसंस्पर्शात् कृतकृत्यो भवेन्नरः ॥ १०० ॥

13.101
विष्णोरायतने कुर्यादुपलेपनमार्जने ।
कल्पस्थायी भवेद्विप्र स नरो नात्र संशयः ॥ १०१ ॥

13.102
प्रदक्षिणशतं यस्तु करोति स्तुतिपाठकः ।
हंसयुक्तविमानेन स च विष्णुपुरं व्रजेत् ॥ १०२ ॥

13.103
गीतवाद्यकरो विष्णोर्गान्धर्वं लोकमाप्नुयात् ।
कृत्वा प्रदक्षिणं दिव्यं स्थानमप्सरसां व्रजेत् ॥ १०३ ॥

13.104
नित्यं शास्त्रविनोदेन लोकान् यस्तु प्रबोधयेत् ।
स व्यासरूपी विष्ण्वग्रे अन्ते विष्णुपुरं व्रजेत् ॥ १०४ ॥

13.105
पुष्पमालाकुलां पूजां कृत्वा विष्णोःपुरं व्रजेत् ।
प्रातःस्नायी नरो यस्तु नरकं स न गच्छति ॥ १०५ ॥

13.106
भोजनं वर्जयेद्यस्तु स स्नानं पौष्करं लभेत् ।
तीर्थाम्बुना हरेःस्नानान्निर्मलं देहमाप्नुयात् ॥ १०६ ॥

13.107
पञ्चगव्याशनाद्विप्र चान्द्रायणफलं लभेत् ।
पर्णेषु यो नरो भुङ्क्ते कुरुक्षेत्रफलं लभेत् ॥ १०७ ॥

13.108
शिलायां भोजनान्नित्यं स्नानं प्रायागजं लभेत् ।
यामद्वयाशनत्यागान्न रोगैः परिभूयते ॥ १०८ ॥

13.109
एवमादिव्रतैर्देवस्तुष्टिमाप्नोति तोषितः ।
यस्मिन् देशे तु तद्भक्तो यो मासांश्चतुरः क्षिपेत् ॥ १०९ ॥

13.110
व्रतैरनेकैर्नियमैर्महद्भिः श्रेष्ठमानसः ।
कल्पस्थायी विष्णुलोके संवसेन्नात्र संशयः ॥ ११० ॥

13.111
चतुरो वार्षिकान् मासान्नियमो येन यत्कृते ।
कथयित्वा द्विजेन्द्रेभ्यो भुक्तेभ्यस्तं स दक्षिणाम् ॥ १११ ॥

13.112
दत्वा विसर्जयेद्विप्रांस्ततो भुञ्जीत च स्वयम् ।
यन्नक्तं चतुरो मासान् प्रवृत्तिं तस्य वाऽचरेत् ॥ ११२ ॥

13.113
एवं य आचरेद्विद्वान् सोऽनन्तं धर्ममाप्नुयात् ।
यस्य विष्णोः समाप्येत चातुर्मास्यव्रतं द्विज ॥ ११३ ॥

13.114
स भवेत् कृतकृत्यस्तु न पुनर्मानुषो भवेत् ।
तदन्ते जन्म चासाद्य शुचीनां श्रीमता गृहे ॥ ११४ ॥

13.115
शास्त्रमेकायनं ज्ञात्वा सम्यक् कृत्वा तदुद्भवम् ।
त्रयोदशविधं कर्म भगवन्तं समाप्नुयात् ॥ ११५ ॥

13.116
एवं संकल्प्य नियमानन्यान् वै शास्त्रचोदितान् ।
कार्यात्र प्रत्यहं पूजा मार्जनं चोपलेपनम् ॥ ११६ ॥

13.117
मृदा धातुविकारैर्वा सुगन्धैश्चन्दनादिकैः ।
प्रदानं धूपदीपानां व्यजनेनानिलोत्थितिः ॥ ११७ ॥

13.118
शशिचन्दनसंमिश्रं शीतलोदकसत् क्रिया ।
कदलीफलकल्हारैः पझोत्पलविमिश्रितैः ॥ ११८ ॥

13.119
स्वेदशान्तिं समापाद्य पौनः पुन्येन पूजनम् ।
वेणुवीणासमोपेतां गीतिं च मधुरस्वनाम् ॥ ११९ ॥

13.120
एवं मासद्वये याते याते मेघरवेऽम्बरात् ।
ब्रह्नन् भाद्रपदे मासि द्वादश्यां हि निशामुखे ॥ १२० ॥

13.121
ईषत् प्रबोधमाश्रित्य देवदेवो ह्यधोक्षजः ।
स्थित्यर्थममराणां च परिवर्तनमाचरेत् ॥ १२१ ॥

13.122
दक्षिणेनाङ्गसङ्गेन त्यक्त्वा चोत्तानशायिनीम् ।
योगनिद्रां समाश्रित्य प्रकुर्वन् प्रभवाप्ययौ ॥ १२२ ॥

13.123
वायुचक्रान्तरस्थस्य जगद्बीजचयस्य च ।
मुखेन्दुमण्डलाच्चाथ अपोह्याच्छादनाम्बरम् ॥ १२३ ॥

13.124
आस्ते चाश्वयुजे चैव द्वादश्यां परमेश्वरः ।
सन्त्यज्य शयनं दिव्यं निशायां कार्तिकस्य तु ॥ १२४ ॥

13.125
उत्थायामरनाथस्तु समाक्रम्य पतत्रिराट् ।
निश्शेषभुवनग्रामवीधीनां दोषशान्तये ॥ १२५ ॥

13.126
विचरत्यप्रमेयात्मा नन्दयंस्तु सुरादिकान् ।
संहर्षयन् जगत्यस्मिन् सुकृतां धर्मपद्धतिम् ॥ १२६ ॥

13.127
एवं भक्तजनैः कार्यं तस्य तच्चेष्टितं महत् ।
विविधैरुत्सवैर्दानैर्जपजागरणस्तवैः ॥ १२७ ॥

13.128
नृत्तगीतसमोपेतैर्विलासैर्हास्यसंयुतैः ।
क्रीडमानैः सुमनसैः प्रयतैः प्रणतैर्विभोः ॥ १२८ ॥

13.129
एकदेशस्थितैर्विप्र अननय्मनसैः सदा ।
विशेषयागपूर्वं तु परिवर्तनमाचरेत् ॥ १२९ ॥

13.130
तद्वत् प्रभातवेलायामासनं च विधीयते ।
प्रबोधनं ततः कुर्याच्छयनस्थस्य वै विभोः ॥ १३० ॥

13.131
द्वादश्यां शुक्लपक्षस्य कार्तिके मासि वै द्विज ।
दशम्यां विधिवत् कृत्वा संकल्पं पूर्ववद्बुधः ॥ १३१ ॥

13.132
निमन्त्रणं द्विजातीनामेकादश्यां तथैव च ।
पूर्ववते पूजनं कृत्वा चतुःस्थानस्थितस्य वै ॥ १३२ ॥

13.133
रात्रौ प्रजागरं कुर्यात् सहायैः सह देशिकः ।
पुण्याख्यानकथाभिस्तु स्तोत्रपूर्वैस्तु गीतकैः ॥ १३३ ॥

13.134
सवाद्यैर्मधुरैर्नृत्तैरपहासैस्तु हर्षदैः ।
जयशब्दैर्नमस्कारैः करतालसमन्वितैः ॥ १३४ ॥

13.135
सोपवासः शुचिः स्नात्वा समाराध्य परं प्रभुम् ।
भोगैः षड्रसपूर्णैस्तु सुपूर्णैरौपचारिकैः ॥ १३५ ॥

13.136
अर्घ्यैर्विलेपनैर्माल्यैर्मृष्टधूपसमन्वितैः ।
ब्राह्ने मुहूर्ते द्वादश्यां मन्त्रमूर्तिं प्रबोधयेत् ॥ १३६ ॥

13.137
प्रबुद्ध त्वं जगन्नाथ प्रबुद्ध परमेश्वर ।
प्रबुद्ध पुण्डरीकाक्ष भक्तानामनुकम्पया ॥ १३७ ॥

13.138
त्वयि प्रबुद्धे देवेश तवाग्रे परमेश्वर ।
लौकिकानीह यज्ञानि तानि निर्वर्तयाम्यहम् ॥ १३८ ॥

13.139
अग्रतः सर्वयज्ञानां त्वं प्रभुर्नामतः सदा ।
नापरेषु जगन्नाथ पूजितेषु सुरेषु च ॥ १३९ ॥

13.140
मयि यज्ञसमाप्तिः स्यात् त्वयि सन्तर्पितेऽनले ।
सर्वे देवानलमुखाः स चाग्निस्त्वन्मुखे कृतः ॥ १४० ॥

13.141
ब्रह्ना स्वयं ब्रह्नलोके स्वर्गे स्वर्गनिवासिनः ।
सात्विका मानुषे लोके नागाद्याश्च रसातले ॥ १४१ ॥

13.142
त्वयि प्रबोधयन्त्येते स्वार्थसंसिद्धये सदा ।
त्यज योगमयीं निद्रां कृपां कुरु सनातन ॥ १४२ ॥

13.143
बोधश्च मामनिर्बोध इति मन्त्रमुदाहरन् ।
उत्तिष्ठ ब्रह्नणस्पते उदुत्यं जातवेदसम् ॥ १४३ ॥

13.144
इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । ।
समूढमस्य पां सुरे स्वाहा ॥ १४४ ॥

13.145
जितंतेनोच्चया वाचा समस्तव्यस्तयोगतः ।
शङ्खध्वनिसमोपेतैः दुन्दुभीपटहस्वनैः ॥ १४५ ॥

13.146
वन्दिबृन्दोत्थितोच्चाभिर्नानावाग्भिर्महामते ।
महाजयजयारावैः पुनःपुनरुदीरितैः ॥ १४६ ॥

13.147
प्रवोधलक्षणैः स्तोत्रैरुत्थाप्य शयनात्ततः ।
अर्घ्यगन्धादिनाभ्यर्च्य प्रविशेद्यागमण्डपम् ॥ १४७ ॥

13.148
संपूर्याभिमतं रागैर्मण्डलं चाधिवासितम् ।
कुम्भमण्डलयोः पूर्वं पूजां कृत्वा विधानतः ॥ १४८ ॥

13.149
पश्चादुत्सवमूर्तिं च यजेन्मण्डलपश्चिमे ।
महास्नपनपूर्वैस्तु भोगैः पूर्णैर्यथोचितैः ॥ १४९ ॥

13.150
होमं तु विधिवत् कृत्वा तोषयेत् परितो द्विज ।
एकायनीयशाखोत्थैः साक्षात्तत्प्रतिपादकैः ॥ १५० ॥

13.151
दिव्यैर्बलादिकैर्मन्त्रैर्व्यापकैः प्रणवान्वितैः ।
ऋग्यजुस्सामसंभूतैर्मन्त्रैः स्तोत्रैः पृथग्विधैः ॥ १५१ ॥

13.152
गीतकैर्विविधैर्नृत्तैर्वाद्यैस्तन्त्र्यादिभिस्तदा ।
एवं प्रवृत्ते गीताद्ये यायाच्छ्य्यानिकेतनम् ॥ १५२ ॥

13.153
प्रबोधितं तु विधिवत् स्नापयेत् पूर्ववत् प्रभुम् ।
संपूज्य च तथा भक्त्या क्रमेण च महामुने ॥ १५३ ॥

13.154
महाविभूतिसंभारैः पुष्पधूपानुलेपनैः ।
नैवेद्यैर्विविधैर्विप्र स्तोत्रवादित्रपूर्वकैः ॥ १५४ ॥

13.155
अग्नौ सन्तर्पयेत् पश्चात् सविशेषं यथाविधि ।
पश्चादुत्सवमूर्तिं तां पूजितां यागमण्डपात् ॥ १५५ ॥

13.156
समानीय रथाद्येषु यानेत्वभिमतेर्चिते ।
स्थाप्य प्रासादपूर्वं वा भ्रामयेद्ग्रामपूर्वकम् ॥ १५६ ॥

13.157
वक्राधिष्ठानपूर्वं वा संस्थाप्य भ्रामयेद्द्विज ।
गणिका भगवद्भक्तैः सह नागरिकैर्जनैः ॥ १५७ ॥

13.158
परिव्राड्ब्रह्नचारिभिः जपस्तुतिपरायणैः ।
द्विजेन्द्रप्रमुखैर्वृत्तसंयुक्तैस्तत्परायणैः ॥ १५८ ॥

13.159
श्वेताम्बरधरैः सर्वैर्ध्वजोत्तरकरैः शुभैः ।
वालव्यजनहस्तैश्च पताकोद्यतपाणिभिः ॥ १५९ ॥

13.160
पझोत्पलकरैश्चान्यैर्द्विजैर्वेत्रलताकरैः ।
लाजसिद्धार्थककरैरन्यैरक्षतपाणिभिः ॥ १६० ॥

13.161
सुसुगन्धतयाच्छिन्नधूपपात्रकरैस्तथा ।
फलपुष्पकरैश्चान्यैस्तथा पूर्णघटोद्यतैः ॥ १६१ ॥

13.162
अन्यैः कलशहस्तैश्च गदाचक्रधरैः सदा ।
शङ्खातपत्रहस्तैश्च दण्डलाङ्गलधारिभिः ॥ १६२ ॥

13.163
ऋङ्भन्त्रोद्धोषणपरैर्जपस्तुतिपरैस्तथा ।
प्रयत्नाद्देवतासीभिर्नृत्तगीतादि चोत्सवम् ॥ १६३ ॥

13.164
कारयेत् सर्वतो वीथीर्वाद्यैरन्यैः पृथग्विधैः ।
प्रदहेत् सुरभिं धूपं पृथक् साज्यं च गुग्गुलुम् ॥ १६४ ॥

13.165
अर्थिनश्चार्थनिचयैस्तर्पणीयाश्च शक्तितः ।
देवीयब्रह्नयानस्य भ्रममाणस्य वै द्विज ॥ १६५ ॥

13.166
अल्पमात्रं तु यो दद्यात् पञ्चकालपरायणे ।
दानं सहस्रगुणितं विस्तारं याति तत्र तत् ॥ १६६ ॥

13.167
पुष्पमूलादिनैवेद्यैः फलमूलैर्धनैस्तथा ।
ब्रह्नयानगतं देवं यः पूजयति भक्तितः ॥ १६७ ॥

13.168
तद्दानं लक्षगुणितं विस्तारं नात्र संशयः ।
सर्षपाक्षतपुष्पाणि अग्रतः पृष्ठतो विभोः ॥ १६८ ॥

13.169
क्षेप्तव्यानि द्विजश्रेष्ठ ऊर्ध्वे च ककुबष्टके ।
एवं विधं ब्रह्नरथं वेष्णवं विघ्ननाशनम् ॥ १६९ ॥

13.170
ग्रामे पुरे वा नगरे भ्राम्यते यत्र कुत्नचित् ।
विपापोऽसौ भवेद्देशो न दुर्भिक्षभयं भवेत् ॥ १७० ॥

13.171
नाकालमृत्युना किञ्चित् प्राप्यते विधिना तथा ।
ईतयोपद्रवाद्याश्च पर्समं यान्ति सर्वदा ॥ १७१ ॥

13.172
नश्यन्ति तस्करास्तत्र नाधर्मः संप्रवर्तते ।
धर्मयुक्तो भवेद्राजा जना धर्मपरास्तथा ॥ १७२ ॥

13.173
भवन्ति सुखिनः सर्वे दुःखशोकविवर्जिताः ।
एवं प्रदक्षिणीकृत्य क्षिप्त्वा पुष्पाञ्जलिं ततः ॥ १७३ ॥

13.174
अवतार्य रथान्मन्त्रं चक्राधिष्ठानपूर्वकम् ।
यष्टव्यमर्घ्यगन्धाद्यैर्मुद्रां बद्ध्वा जपेत्ततः ॥ १७४ ॥

13.175
तर्पणीयमथाज्याद्यैर्दद्यात् पूर्णाहुतिं शुभाम् ।
अर्घ्यधूपप्रधानाद्यैः क्षमयेत् पुरुषोत्तमम् ॥ १७५ ॥

13.176
ततो यागगृहं नीत्वा प्रणिपत्य मुहुर्मुहुः ।
ततः शयनमूर्तेस्तु गत्वैवं सन्निधिं गुरुः ॥ १७६ ॥

13.177
चतुः प्रदक्षिणीकृत्य अष्टाङ्गेन नमेत् क्षितौ ।
तोषयित्वा जगन्नाथं ब्रह्नयानादिषु द्विज ॥ १७७ ॥

13.178
संस्थाप्य भ्रामयेद्भक्त्या प्रासादं साम्प्रतं क्रमात् ।
प्रविश्य गर्भगेहं तु द्वारदेशे स्थितः प्रभुम् ॥ १७८ ॥

13.179
अर्घ्यपाद्यादिभिः पूज्य निनयेदन्तरं ततः ।
मूलमूर्तिं प्रणम्याथ अर्घ्यगन्धादिभिर्यजेत् ॥ १७९ ॥

13.180
विसर्जयेत्तु तन्मूर्तौ मन्त्रं शयनमूर्तिगम् ।
पश्चादुत्सवमूर्तिं तां पूजितां यागमण्डपात् ॥ १८० ॥

13.181
प्रदक्षिणक्रमेणऐव गर्भगेहं प्रवेशयेत् ।
मूलमूर्तिगतं देवमर्घ्याद्यैः संप्रपूज्य च ॥ १८१ ॥

13.182
स्तुत्वा विज्ञाप्य तद्भूयो गुणातीतमधोक्षजम् ।
अनेनोत्सवयोगेन यागपूजादिकेन च ॥ १८२ ॥

13.183
निर्वर्तितेन भगवंस्त्वं मम प्रीयतामिति ।
ततो विसर्जयित्वा तु कुम्भमण्डलमध्यगम् ॥ १८३ ॥

13.184
कृत्वा यागं गणेशस्य कुर्यात्तस्य विसर्जनम् ।
अनुकल्पे तु देवस्य परिभ्रमणकर्मणः ॥ १८४ ॥

13.185
प्रागेव देवदेवेशं कुम्णमण्डलकुण्डगम् ।
विसर्जयित्वा तत्पश्चात् परिभ्रमणमाचरेत् ॥ १८५ ॥

13.186
यद्वा विघ्नेशयागं च तथैव तु समाचरेत् ।
प्रागेव मुख्यकाले तु कृत्वा शयनगं विभुम् ॥ १८६ ॥

13.187
ततो विसर्जयेद्देवं कुम्भमण्डलकुण्डगम् ।
यानपात्रं तथा च्छ्त्रं प्रतिपाद्य सदक्षिणम् ॥ १८७ ॥

13.188
शयनं स्वगुरोर्विप्र द्विजानां तदसन्निधौ ।
देवदेवस्य देवस्य मूलमूर्तिगतस्य च ॥ १८८ ॥

13.189
कृत्वा जानुद्वयं भूमौ बद्धाञ्जलिरिदं पठेत् ।
देव सर्वेश्वरानादे कर्मणानेन चाखिलाम् ॥ १८९ ॥

13.190
शुभां गतिं जनो यातु प्रीतिं च परमां भज ।
इति विज्ञाप्य देवस्य बाह्नणान् प्रीणयेत्ततः ॥ १९० ॥

13.191
विविधैरन्नपानाद्यैर्यथाशक्ति द्विजोत्तम ।
बन्धुभृत्यसमोपेतमनुयागमथाचरेत् ॥ १९१ ॥

13.192
अनेन विधिना कुर्याच्छयनस्थस्य बोधनम् ।
यदा तु मूलमूर्तौ तु चतुःस्थानार्चनं भवेत् ॥ १९२ ॥

13.193
तदाप्युत्सवमूर्तौ स्यात् पूजितायां तदुत्सवम् ।
कुर्याच्छयनमूर्तौ च शयनं शास्त्रकोविदः ॥ १९३ ॥

13.194
यात्राव्यक्तेरभावे तु मूलबिम्बेऽर्चनं भवेत् ।
तदा स्नपनबिम्बे तु तदीयस्नपनं भवेत् ॥ १९४ ॥

13.195
तदा शयनमूर्तौ स्यादुत्वो द्विजसत्तम ।
तदभावे तु तत् कर्म दर्भमञ्चरिजे हितम् ॥ १९५ ॥

13.196
विष्टरे विष्टरं कल्प्य रक्षार्थं किञ्चिदूनतः ।
तदा मन्त्रेशकुम्भेस्याच्छस्त्रकुम्भे तदुत्सवम् ॥ १९६ ॥

13.197
अथवा चक्रराजस्य विष्टरे वा समाचरेत् ।
अभावे स्नपनव्यक्तेर्दर्पणे स्नपनं भवेत् ॥ १९७ ॥

13.198
तदभावे निवेद्यैव प्रक्षिपेत् कलशान् क्रमात् ।
इत्येवमुक्तं देवस्य शयनं च प्रबोधनम् ॥ १९८ ॥

13.199
यदुक्तमेवामखिलं यथाकालमसंभवात् ।
अस्वातन्त्र्यादसामर्थ्याद्वित्ताभावात्तु वा द्विज ॥ १९९ ॥

13.200
द्रादशीष्वखिलास्वेवं कुर्यात् संवत्सरान्तरे ।
परीते तु शयानां तु चातुर्मास्ये तु संयमे ॥ २०० ॥

13.201
भक्तैर्निर्वहणीयं तु तुलाभोगावसानकम् ।
पूर्वोक्तविधिना शय्यां यो विष्णोः परिकल्पयेत् ॥ २०१ ॥

13.202
सोऽचिराल्लभते लक्ष्मीं सौभाग्यमतुलं तथा ।
पुत्रदारकुटुम्बेषु कदाचित् केनचित् सह ॥ २०२ ॥

13.203
वियोगं नाप्नुयात् किञ्चिद्योषिद्वा पुरुषस्तथा ।
अतुलं पुण्यमाप्नोति दीर्घमायुश्च विन्दति ॥ २०३ ॥

13.204
रोगाच्च मुच्यते रोगी भीतो मुच्येत वै भयात् ।
अजय्यः सर्वशत्रूणां पूज्य सर्वजनस्य च ॥ २०४ ॥

13.205
भुक्त्वा भोगांस्तु विविधान् विष्णुलोके महीयते ।
शेषशय्यागतं विष्णुं यः पूजयति भक्तितः ॥ २०५ ॥

13.206
विभवेनाथ भक्त्या वा तस्य तुप्यति केशवः ।
तस्मिन् काले तु ये किचित्तत्र तिष्ठन्ति मानवाः ॥ २०६ ॥

13.207
याति पापं क्षयं तेषामन्ते स्वर्गं व्रजन्ति च ।
इदं शय्याविधानं तु श्रृणुयाद्यस्तु वैष्णवः ॥ २०७ ॥

13.208
त्रिविधस्य तु पापस्य क्षयस्तस्य तु वै क्षणात् ।
अनेन विधिना यस्तु कुर्याद्विष्णोः प्रबोधनम् ॥ २०८ ॥

13.209
सकामानखिलान् प्राप्य दीर्घमायुश्च विन्दति ।
विधिनानेन यः कुर्यात् प्रतिसंवत्सरं द्विज ॥ २०९ ॥

13.210
प्रबोधनं तु देवस्य स वै जन्मनि जन्मनि ।
सुखप्रबुद्धो भवति सर्वदोषविवर्जितः ॥ २१० ॥

13.211
सर्वेषां बान्धवादीनां वन्दनीयस्त्वसौ नरः ।
विष्णोर्भक्तिपरो ब्रह्नन् स गच्छेद्वैष्णवं पदम् ॥ २११ ॥

13.212
दुग्धाब्धिभोगिशयने भगवाननतो ।
यस्मिन् दिने स्वपिति वाथ विबुध्यते वा ।
तस्मिन्ननन्यमनसामुपवासभाजां ।
पुंसां ददाति सुगतिं गरुडांससंस्थः ॥ २१२ ॥


Kapitel 14

श्रीः ।
चतुर्दशोऽध्यायः ।
सनकः ।

14.1
स्नपनानां विधिं ब्रह्नन् समाख्याहि सविस्तरम् ।
यझ्ज्ञानात् सकलाः पूर्णाः नित्यनैमित्तिकाः क्रियाः ॥ १ ॥

14.2
शाण्डिल्य ।
श्रृणुवत्स महाबुद्धे सावधानेन चेतसा ।
विधानं स्नपनानां तु बहुभेदविनिर्मितम् ॥ २ ॥

14.3
प्रासादस्याग्रतः कुर्यान्मण्डपं तु तदर्थतः ।
प्रथमावरणे वापि द्वितीयावरणेऽपि वा ॥ ३ ॥

14.4
तृतीयावरणे वापि चतुर्थे पञ्चमेऽथवा ।
आग्नेय्यां दक्षिणस्यां वा नैरृत्यां पश्चिमे तु वा ॥ ४ ॥

14.5
वायव्यामुत्तरस्यां वा ऐशान्यां वा यथा रुचि ।
कुर्यान्मानादिकं सर्वं यागमण्डपवद्द्विज ॥ ५ ॥

14.6
विना यागस्थलान्मद्ये वेदिं चापि तदूर्ध्वतः ।
अधिवासश्च कुम्भानां स्थापनं स्नपनं तथा ॥ ६ ॥

14.7
युज्यतेवै यथैकस्यां तथाभ्यूह्य समाचरेत् ।
आचार्यांश्चतुरो विप्र षडष्टौ द्वादशापि वा ॥ ७ ॥

14.8
यजमानस्तु वरयेच्छास्त्रज्ञान् गुरुणा सह ।
प्रवीणांश्च बहुत्वे तु तत्संख्यानियतिः कृता ॥ ८ ॥

14.9
तेषां यथोक्तसंख्यानामभिज्ञानामसन्निधौ ।
तादृशान् वरयेद्विप्रांश्चतुस्त्रिद्येकमेव वा ॥ ९ ॥

14.10
साधकांश्चतुरः षड्वा ह्यष्टौ द्वादश षोडश ।
वरयेच्छास्त्रकुशलान् प्रवीणानुक्तकर्मसु ॥ १० ॥

14.11
एवं सर्वेषु यागेषु नित्यनैमित्तिकात्मसु ।
आचार्याणां साधकानां संख्यानियम ईरितः ॥ ११ ॥

14.12
संख्याहीनं न गृण्डीयादापद्यापि कदाचन ।
मोहेन यदि गृण्डीयाद्भयं स्याद्राजराष्ट्रयोः ॥ १२ ॥

14.13
प्राङ्मुखे मण्डपे भागे तृतीये पश्चिमे स्थिते ।
मध्यसूत्रं समाश्रित्य स्नानपीठं प्रकल्पयेत् ॥ १३ ॥

14.14
प्राग्गतं प्रत्यगास्ये तु सौम्यास्ये दक्षिणागतम् ।
तदास्ये चोत्तरासंस्थं यथा लक्षणलक्षितम् ॥ १४ ॥

14.15
यदा स्नपनबिम्बादौ बिम्बे स्नपनमाचरेत् ।
एवं तदा प्रकुर्वीत मण्डपं द्विजसत्तम ॥ १५ ॥

14.16
मूलबिम्बे यदा कुर्यात्तदग्रे मण्डपं तदा ।
तदानीं न तु कुर्वीत स्नानपीठं द्विजोत्तम ॥ १६ ॥

14.17
सप्तमे पञ्चमे वापि पूर्वे स्नपनवासरे ।
तृतीये वा मुनिश्रेष्ठ तस्मिन्नहनि वा द्विज ॥ १७ ॥

14.18
अङ्कुरानर्पयित्वा तु ततः स्नपनमारभेत् ।
यदा पूर्वदिने कुर्यात् कुम्भानामधिवासनम् ॥ १८ ॥

14.19
तदानीं पूर्वरात्रौ तु कुर्यात् कौतुकबन्धनम् ।
पूर्वेद्युर्विघ्निते पश्चात्तस्मिन्नहनि वाचरेत् ॥ १९ ॥

14.20
यदा कर्मदिने विप्र कुर्यात् कुम्भाधिवासनम् ।
तदानीं तु दिने तस्मिन् कुर्यात् कौतुकबन्धनम् ॥ २० ॥

14.21
ततः प्रभात आचार्यः कृतस्नानः प्रसन्नधीः ।
प्रविश्य मण्डपं सार्धं परिचर्यापरैर्जनैः ॥ २१ ॥

14.22
शलाकासहितैर्दर्भैः सहदेवीविमिश्रितैः ।
मार्जयेत् सर्वतो विप्र प्राङ्मुखो वा वाप्युदङ्मुखः ॥ २२ ॥

14.23
आलेपयेद्गोमयेन पूर्वादीशानपश्चिमम् ।
नूतनेनाम्बरेणैव गालितेन जलेन तु ॥ २३ ॥

14.24
प्रोक्षयेत् सर्वदिग्विप्र पञ्चगव्यकुशाम्बुभिः ।
एको द्वौ बहवो वापि देशिकाः स्नपने स्मृताः ॥ २४ ॥

14.25
नवसूत्रधराः सर्वे सर्वालङ्कारसंयुताः ।
नववस्त्रोत्तरीयाश्च सोष्णीषा गुरुसम्भताः ॥ २५ ॥

14.26
नियमस्थास्तु बहवस्तथैव परिचारकाः ।
यद्यद्योग्यं भवेद्ब्रह्नन् स्नपने यत्र यत्र तु ॥ २६ ॥

14.27
तत् समस्तं समाहृत्य मण्डपे संप्रवेश्य च ।
स्नपनं प्रारभेत् पश्चाद्देशिकः शास्त्रपारगः ॥ २७ ॥

14.28
स्नपनं द्विविधं विद्धि परापरविभेदतः ।
परं तु दशधा प्रोक्तं प्रधानादिविभेदतः ॥ २८ ॥

14.29
प्रधानं प्रथमं विद्धि द्वितीयं तु परं स्मृतम् ।
तृतीयं परसूक्ष्मं स्यात् परस्थूलं चतुर्थकम् ॥ २९ ॥

14.30
पञ्चमं स्यात् सूक्ष्मपरं सूक्ष्मसूक्ष्मं तु षष्ठकम् ।
सूक्ष्मस्थूलं सप्तमं स्यात् स्थूलं स्यात् परमष्टमम् ॥ ३० ॥

14.31
स्थूलसूक्ष्मं तु नवमं स्थूलस्थूलं तदुत्तरम् ।
चतुर्धा त्वपरं विद्धि ह्येकैकं नवधा स्थितम् ॥ ३१ ॥

14.32
उत्तमोत्तमपूर्वेण भेदेन द्विजसत्तम ।
परापरविभेदानामेषां साधारणं स्थितम् ॥ ३२ ॥

14.33
अनन्तकलशं नाम्ना स्नपनं सर्वपूरकम् ।
एषां प्रधानपूर्वाणां सूत्रपातपुरस्सरम् ॥ ३३ ॥

14.34
सर्वमुद्धारपर्यन्तं क्रमेण श्रृणु सत्तम ।
लोहजं दारुजं वापि मृण्मयं वा सुशोभनम् ॥ ३४ ॥

14.35
मण्डपेशानदिग्भागे संस्थाप्य जलभाजनम् ।
वेदिं प्रक्षाल्य तोयेन वस्त्रैः संवेष्ट्य नूतनैः ॥ ३५ ॥

14.36
सूत्रपातं ततः कुर्यात् कुम्भसंख्यानुरूपतः ।
यथोक्तमानविस्तीर्णक्षेत्रमण्डपमध्यतः ॥ ३६ ॥

14.37
मण्डपस्य तु विप्रेन्द्व प्राग्भागमवलम्ब्य वा ।
स्वीकृत्य पश्चात् प्राक् प्रत्यक् दद्यात् सूत्रचतुष्टयम् ॥ ३७ ॥

14.38
दक्षिणोत्तरगं सूत्रपञ्चकं विनिवेशयेत् ।
एवं कृते भवन्त्यत्र पदानि द्वादश द्विज ॥ ३८ ॥

14.39
एकैकस्य तु विस्तारं तालं प्रादेशभेव वा ।
हस्तं वाऽरत्निमात्रं वा मण्डपस्यानुरूपतः ॥ ३९ ॥

14.40
सहत्त्वस्य च कुम्भानामेवं सर्वत्र चोर्ध्वतः ।
पिष्टचूर्णैरलङ्कृत्य चतुर्दिक्षु समन्ततः ॥ ४० ॥

14.41
कोष्ठेषु पीठिकां कुर्यात्तण्डुलैव्रीहिभिस्तु वा ।
तासां हि प्रतिकोष्ठं तु कुर्यादाढकसंमितैः ॥ ४१ ॥

14.42
अर्धाथिकैस्त्रिभिः प्रश्थैरथवा केवलैस्त्रिभिः ।
अर्धोत्तरेण वा विप्र कुर्यात् प्रस्थद्वयेन वा ॥ ४२ ॥

14.43
यद्वा प्रस्थद्वयेनैव प्रस्थेनार्धोत्तरेण वा ।
प्रस्थेन वा तदर्धेन तत्पादेनाथवा द्विज ॥ ४३ ॥

14.44
तुर्याश्रामथवा वृत्तां कृत्वैवं पीठिकां ततः ।
सौवर्णा राजता ग्राह्यास्तम्रा वा भेदवर्जिताः ॥ ४४ ॥

14.45
श्र्लक्ष्णा न सुषिराः कुम्भा चतुर्विंशाङ्गुलोन्नताः ।
विस्तृतेर्मध्यतस्तद्वत्तद्गलं त्र्यङ्गुलोन्नतम् ॥ ४५ ॥

14.46
ततमङ्गुलिषट्केन तत्रास्यं त्र्यङ्गुलं स्मतम् ।
मेखला परितो ज्ञेया त्र्यङ्गुला द्विजसत्तम ॥ ४६ ॥

14.47
यद्वा तदर्धमानं तु सर्वमुच्छ्रायपूर्वकम् ।
यद्वोत्तमोत्तमा विप्र द्रोणमानोदपूरकाः ॥ ४७ ॥

14.48
तदष्टमांशतो न्यूनाः क्रमात् प्रस्थद्वयाबधि ।
अधमाधमकुम्भास्तु प्रस्थमात्रोदपूरकाः ॥ ४८ ॥

14.49
एवं लक्षणयुक्तास्तु कार्या वित्तानुरूपतः ।
चक्राधारोपरिस्थास्तु वितताः कमठो दराः ॥ ४९ ॥

14.50
पाञ्चजन्यवलिग्रीवाः शतपत्रमुखाननाः ।
ऊर्ध्वाधः कौमुदीमालामण्डलालंकतृता द्विज ॥ ५० ॥

14.51
मकाराननशेषाभिः अमृताम्बुप्रबाहकाः ।
नदीसमुद्र श्रीवृक्षनानामाल्येः परिष्कताः ॥ ५१ ॥

14.52
चक्राधाराधिभिर्यद्वा रहिताः सत्यसंभवे ।
मृण्मया वानुकल्पे तु भेदश्छिद्रविवर्जिताः ॥ ५२ ॥

14.53
पव्कविम्बफलाकाराः कालवृत्तैर्विवर्जिताः ।
न द्वितप्ताः सुतप्ताश्च ह्येकवर्णास्तु सुस्वनाः ॥ ५३ ॥

14.54
संगृह्य क्षालयेत् सम्यक् शुद्धतोयैश्च सर्वतः ।
सूत्रेण वेष्टयेद्यत्नादङ्गुलाङ्गुलमन्तरम् ॥ ५४ ॥

14.55
पश्चिमे कलशस्थानात् कलशानधिवासयेत् ।
शालिभिः स्थण्डिलं कृत्वा केवले स्थण्डिले तु वा ॥ ५५ ॥

14.56
पूर्वाग्रानुत्तराग्रांश्च कुशांस्तत्र परिस्तरेत् ।
तारेण तत्र कलशान् न्यस्य पुष्पेण पूज्य च ॥ ५६ ॥

14.57
अधोमुखांस्तु तानेव न्यस्य पङ्क्तिक्रमेण तु ।
कुशानुपरि संस्तीर्य प्राङ्मुखं परमेष्ठिना ॥ ५७ ॥

14.58
दर्भमुद्रां प्रदर्श्याथ गन्धतोयेन सर्वतः ।
संप्रोक्ष्य पुंसा विश्वेन विकिरेदक्षतानि च ॥ ५८ ॥

14.59
निवृत्या चोन्मुखीकृत्य सर्वेण मुनिपुड्गव ।
पृथगुद्धृत्य कलशान् स्वस्थानेषु क्रमान्न्यसेत् ॥ ५९ ॥

14.60
कुम्भन्यासादि सर्वं तु द्विषट्कार्णेन वाचरेत् ।
निरीक्षणादिसंशुद्धान् कृत्वा सहृदयेन तु ॥ ६० ॥

14.61
द्वादशाक्षरमन्त्रेण मन्त्रयेत् तान् सकृत् सकृत् ।
तेनैव पूजयेत् पश्चादर्घ्यस्रकचन्दनादिना ॥ ६१ ॥

14.62
तदाहरणोहमं तु यथाशक्ति समाचरेत् ।
पूर्णान्तमथ संपूर्य क्रमाद्द्रव्यैर्निबोध तत् ॥ ६२ ॥

14.63
पङ्क्तित्रये पश्चिमादि पूर्वान्तं च चतुश्चतुः ।
तत्र दक्षिणदिक्पङ्क्तौ कलशे पश्चिमे स्थिते ॥ ६३ ॥

14.64
धात्रीफलोदकं चैव लोध्रतोयमनन्तरम् ।
रक्तचन्दनतोयं च रजनीनीरमुत्तमम् ॥ ६४ ॥

14.65
ततस्तु मध्यपङ्क्तौ तु तथैव विनिवेशयेत् ।
ग्रन्थिपल्लववार्येव ततस्तु तगरोदकम् ॥ ६५ ॥

14.66
प्रियङ्गुवारि तदनु मांसीजलमतः परम् ।
तथैवोत्तरपङ्क्तौ तु भवेदेतच्चतुष्टयम् ॥ ६६ ॥

14.67
सिद्धार्थकोदकं चैव सर्वौषधिजलं ततः ।
सर्वरत्नोदकं चैव शुद्धोदकमतः परम् ॥ ६७ ॥

14.68
न्यसेत् कूर्चं कुशं दार्भमुदग्रं षोडशाङ्गुलम् ।
अङ्गुलं ग्रन्थिमानं तु मूलं वै द्वादशाङ्गुलम् ॥ ६८ ॥

14.69
शेषमग्रं बिजानीयादित्येतत् कूर्चलक्षणम् ।
अधवार्थाङ्गुलो ग्रन्थिरग्रं वै व्द्यङ्गुलं भवेत् ॥ ६९ ॥

14.70
मूलं कुर्यात्तु विप्रेन्द्र द्वादशाङ्गुलसंमितम् ।
ब्राह्नणस्य चतुर्दर्भं त्रिदर्भं क्षत्रियस्य तु ॥ ७० ॥

14.71
द्विदर्भं तु विशां कुर्चं स्त्रीशूद्राणां तथा भवेत् ।
सर्वेषामथवा कूर्चं चतुस्सप्तकृतं तु वा ॥ ७१ ॥

14.72
मूलमन्त्रेण तदनु पूजयेद् द्द्वादशात्मना ।
अर्घ्यालभनपुष्पैश्च धूपेन मुनिपुह्गव ॥ ७२ ॥

14.73
अपिधाय क्रमेणैव विधानैः सूत्रवेष्टितैः ।
प्रतिकुम्भं तु वसनैवेर्ष्टयेद्विभवे सति ॥ ७३ ॥

14.74
आच्छाद्य नववस्त्रेण सर्वतः प्रागुदङ्मुखः ।
पूर्ववत् पूजयित्वा तु ततो होमं समारभेत् ॥ ७४ ॥

14.75
अष्टोत्तरशतं हुत्वा समिदादीन् पृथक् पृथक् ।
पूर्णाहुतिं ततो हुत्तत्वा कलशानभिमन्त्रयेत् ॥ ७५ ॥

14.76
मूलमन्त्रेण सर्वेषां म्नपनं विहितं द्विज ।
अन्तरान्तरयोगेन कुम्भैः शुद्धोदपूरितैः ॥ ७६ ॥

14.77
स्नपनं चार्घ्यदानं च द्रव्याणां तु समाचरेत् ।
द्रव्यन्यासक्रमेणैव तदुद्धारः प्रकीर्तितः ॥ ७७ ॥

14.78
प्रधानमेतत् कथितं द्विषट्ककलशात्मकम् ।
सर्वेषां कारणमिदं कार्याण्यन्यानि सत्तम ॥ ७८ ॥

14.79
अम्बुना पञ्चगव्येन क्षीरेण तदनन्तरम् ।
दद्ना धृतेन मधुना सर्वौषधिजलेन तु ॥ ७९ ॥

14.80
बीजाम्बुफलतोयं च गन्धपुष्पाम्बुना ततः ।
हेमरत्नोदकेनाथ पूरितं तु यथाक्रमम् ॥ ८० ॥

14.81
कलशानां द्विषट्कं यत् परमेतदुदाथृतम् ।
पच्चगव्यदधिक्षीरघृतमध्विक्षुवारिणा ॥ ८१ ॥

14.82
सर्वौषधीगन्धरत्नफलपुष्पजलैस्तथा ।
केवलेनोदकेनापि क्रमेण परिपूरितम् ॥ ८२ ॥

14.83
द्विषट्कमेतत् कुम्भानां परसूक्ष्ममुदाहृतम् ।
पयोदधिघृतक्षौद्रैः सर्वगन्धोदकेन च ॥ ८३ ॥

14.84
सर्वौषधिजलेनापि पत्रपुष्पफलाम्बुभिः ।
बीजाम्बुना हेमरत्नजलेनैकीकृतेन च ॥ ८४ ॥

14.85
मिश्रैः पुण्यसरित्तोयैः परिपूर्णं क्रमेण तु ।
परस्थूलमिमिदं विद्धि कलशं द्वादशात्मकम् ॥ ८५ ॥

14.86
सूत्रपातादिकं चान्यत् त्रितयेऽस्मिन् प्रधानवत् ।
पञ्चधा भाजिते क्षेत्ने भागाः स्युः पञ्चविंशतिः ॥ ८६ ॥

14.87
बहिः प्रागादियोगेन कलशानां द्विरष्टके ।
क्षीरं दधि घृतं चैवमधुवै रसमैक्षवम् ॥ ८७ ॥

14.88
धात्रीफलादिदशकं सर्वौषध्यन्तमेव हि ।
पत्रोदकं ततः पश्चात् तदन्तः कलशाष्टके ॥ ८८ ॥

14.89
प्रागादिपुष्पतोयं फलबीजोदके त्वथ ।
गन्धोदकं च तदनु हेमरत्नजले तथा ॥ ८९ ॥

14.90
पुण्यतर्त्सरेत्तोयं मद्ये शुद्धोदकम् न्यसते ।
द्रव्यन्यासक्रमेणैव तदुद्धार उदाहृतः ॥ ९० ॥

14.91
एवं क्रमाद् द्रव्ययुक्तकलशैर्द्विजसत्तम ।
स्नपनं पञ्चविंशद्भि रेतत् सूक्ष्मपरं स्मृतम् ॥ ९१ ॥

14.92
पञ्चविंशतिकोष्ठानि कल्पयित्वा तु पूर्ववत् ।
मध्ये शुद्धोदकं न्यस्य बहिरिन्द्रादियोगतः ॥ ९२ ॥

14.93
पूर्वं क्षीराम्भसा पूर्णं परं शुद्धेन वारिणा ।
तृतीयं रत्नतोयेन हेमतोयेन चापरम् ॥ ९३ ॥

14.94
गन्धसंमिश्रितं चान्यत् फलपुष्पोदकान्वितम् ।
शालिबीजाम्भसा पूर्णभष्टमं परिकीर्तितम् ॥ ९४ ॥

14.95
कुम्भाष्टकं तु तद्बाह्यदिगष्टकसमाश्रितम् ।
धात्रीफलोदकं पूर्वे पथ्यातोयं ततोऽपरे ॥ ९५ ॥

14.96
गलूचीक्षोदमन्मस्मिन् विभीतकजलं परे ।
कुमारीव्कथितं तोयं व्याघ्रीसलिलमेव च ॥ ९६ ॥

14.97
नागरोदकमन्यस्मिन् तथान्यस्मिन् मधूदकम् ।
विहितोऽत्र समुद्धारो द्रव्यन्यासक्रमेण तु ॥ ९७ ॥

14.98
सत्याद्यैः पञ्चभिर्मन्त्रैस्त्रिभिः सिंहादिभिः क्रमात् ।
अन्तरावरणस्थानां कलशानां महामते ॥ ९८ ॥

14.99
एकैकं सप्तधामन्त्र्य प्रागादौ तद्बहिः स्थितान् ।
कलशांश्चक्रमन्त्रेण हृदाद्येनाभिमन्त्रयेत् ॥ ९९ ॥

14.100
गायत्र्यान्तर्गतैर्विप्र कलशैः स्नापयेत् क्रमात् ।
द्वितीयावरणस्थैस्तु उपचारा हृदा मुने ॥ १०० ॥

14.101
केवलेनोदकेनाथ अस्त्रजप्तेन सेचयेत् ।
यद्वा प्रागुदितेनैव वर्त्मना सर्वमाचरेत् ॥ १०१ ॥

14.102
दशभिः सप्तभिकुम्भैः सूक्ष्मसूक्ष्ममिदं स्मृतम् ।
चतुर्हस्तं त्रिहस्तं वा क्षेत्रं सार्धद्विहस्तकम् ॥ १०२ ॥

14.103
द्विहस्तं वा समापाद्य तदर्धं तु द्विधा भवेत् ।
एकेन कर्णिकां कुर्याद्द्वितयेन द्विरष्टकम् ॥ १०३ ॥

14.104
दलानां तु ततो ब्रह्नन् कर्णिकोपरि विन्यसेत् ।
कलशानां चतुष्कं तु दिक्चतुष्कसमाश्रितम् ॥ १०४ ॥

14.105
पूर्वं तु पुष्पतोयेन गन्धोदेन ततः परम् ।
स्वर्णोदेनापरं चान्यत् सर्वरत्नजलेन तु ॥ १०५ ॥

14.106
पूर्वपत्रात् समारभ्य यावदीशानगोचरम् ।
षोडशान्यान् प्रतिष्ठाप्य तत्रैव कलशान्मुने ॥ १०६ ॥

14.107
प्रथमं पञ्चगव्येन केवलेन तु पूरयेत् ।
गोमूत्रेण द्वितीयं तु तृतीयं गोमयाम्बुना ॥ १०७ ॥

14.108
त्रेताग्निभूतिना विप्र चतुर्थं सोदकेन तु ।
गजगोवृषभश्रृङ्गवल्मीकाक्यमृदा परम् ॥ १०८ ॥

14.109
शालिक्षेत्रान्नदीमध्यात् पझषण्डाच्च पर्वतात् ।
मृद्भिः षष्ठं तु कलशं पूरणीयं ततो द्विज ॥ १०९ ॥

14.110
सप्तमं सर्षपाम्भोभिः सर्वौषधिभिरष्टमम् ।
क्षीरेण नवमं विद्धि दध्ना दशममुच्यते ॥ ११० ॥

14.111
घृतेन चैकादशमं मधुना द्वादशं द्विज ।
सर्वैस्त्रयोदशं बीजैः फलैः सर्वैश्चतुर्दशम् ॥ १११ ॥

14.112
समस्तधान्यैरपरं सर्वगन्धैस्तु षोडशम् ।
दलस्थान् पूर्वमुद्धृत्य द्रव्यन्यासक्रमेण तु ॥ ११२ ॥

14.113
पश्चात्तु कर्णिकासंस्थांस्तथैव तु सुमुद्धरेत् ।
हृदाभिमन्त्रितं कृत्वा एकैकं कलशं पुरा ॥ ११३ ॥

14.114
स्नापयेन्मूलमन्त्रैण एकैकेन ततः क्रमात् ।
इति विंशतिभिः कुम्भैरन्वितं द्विजसत्तम ॥ ११४ ॥

14.115
सूक्ष्मस्थूलमिदं प्रोक्तं ततोऽन्यच्छृणु विस्तृतम् ।
प्राक्प्रत्यगायतं सूत्रपञ्चकं विनिवेश्य च ॥ ११५ ॥

14.116
दक्षिणोत्तरसूत्रानामेकादश विनिक्षिपेत् ।
एवं कृते तु कोष्ठानि चत्वारिंशद्भवन्ति हि ॥ ११६ ॥

14.117
तत्र पश्चिमदिक्पङ्क्तेरारभ्य क्रमयोगतः ।
दक्षिणादुत्तरान्तं च कलशानां चतुश्चतुः ॥ ११७ ॥

14.118
विन्यस्य पूरयेत्तांस्तु क्रमाद्द्रव्यैर्निबोध तत् ।
पाद्यार्घ्याचमनीयार्थद्रव्यैः पूर्वोदितैस्त्रयम् ॥ ११८ ॥

14.119
नगादाद्यन्तमध्येभ्यो नदीमृत्तीरसंभवा ।
ह्रदाद्वल्मीकशिखरादूगजदन्तक्षतीकृतात् ॥ ११९ ॥

14.120
हलोत्था गोवृषश्रृङ्गशालीनां तु समुद्भवा ।
तथा च पझषण्डोत्था त्वेकस्मिन् गोमयं परे ॥ १२० ॥

14.121
वनदाहसमुद्भतं तथैव च महानसात् ।
त्रेताग्निभस्म त्वपरे विनिवेश्य घटान्तरे ॥ १२१ ॥

14.122
अन्यस्मिन् पञ्चगव्यं तु कुशोदकसमन्वितम् ।
सघृतं तैलकुम्भं तु चमसीवारिपूरितम् ॥ १२२ ॥

14.123
पलाशखदिराश्वत्थशमीलोहितचन्दनम् ।
कषायोदकमन्यस्मिन् परे तु त्रिफलोदकम् ॥ १२३ ॥

14.124
वचा शतावरी कन्या व्याघ्री सिंही कृताञ्जलिः ।
गोलोमी सिंहलोमी च कुष्ठं भूम्यञ्जनं तथा ॥ १२४ ॥

14.125
महागरुडवेगा च कलशेऽन्यत्र सत्तम ।
महानीला गलूची च सहदेवी शतावरी ॥ १२५ ॥

14.126
विष्णुक्रान्ता च कार्कोटा सांहा वह्निशिखापरे ।
यष्टी वराहकर्णी चाप्यन्यस्मिन् गजपिप्पली ॥ १२६ ॥

14.127
श्रीफलाद्यानि चान्यस्मिन् पावनानि फलानि च ।
दधिक्षीराज्यकुम्भांश्च द्वौ मध्विक्षुरसान्वितौ ॥ १२७ ॥

14.128
मूलान्यम्भोरुहाणां च तान्यन्यस्मिन् घटे न्यसेत् ।
द्रुमाणां पावनानां तु सक्षीराणां विशेषतः ॥ १२८ ॥

14.129
पत्रपुष्पफलोपेतमेकस्मिन् मञ्जरीगणम् ।
जात्यादिकमथैकस्मिन् कौसुमीयं लताचयम् ॥ १२९ ॥

14.130
रोचनारजनीयुग्मं बालमोटाथ पझकम् ।
इति पञ्चकमन्यस्मिन् दर्भदूर्वाङ्कुराणि च ॥ १३० ॥

14.131
सास्यं शाल्यङ्कुरचयं कलशे ह्यपरे तु वै ।
सिदधार्थकान् सिताद्यांस्तु प्रियङ्गुं गन्धसंज्ञकम् ॥ १३१ ॥

14.132
अपरस्मिन् न्यसेत् कुम्भे सह वै नागकेसरैः ।
ग्राम्याश्चोषधयः सप्त सप्तारण्या घटद्वये ॥ १३२ ॥

14.133
बाह्लीकं चन्दनं चैव रसं कर्पूरमेव च ।
चतुष्कमेतदपरे त्वन्यस्मिन् धातवः शुभाः ॥ १३३ ॥

14.134
ताम्रजाम्बूनदाद्यास्तु परे रत्नचयं महत् ।
न्यसेद्विद्रुमजालं च द्वये मुक्ताफलानि च ॥ १३४ ॥

14.135
अर्घ्योदकमकमथैकस्मिन्नदीतीर्थोदकं द्वये ।
सर्वौषधिघटं चैव सुशीताम्भोघटं ततः ॥ १३५ ॥

14.136
सुगन्धपुष्पकलशं चत्वारिंशत् त्वमी स्मृताः ।
द्रव्यन्यासक्रमोद्धार इदं स्थूलं परं स्मृतम् ॥ १३६ ॥

14.137
शीताम्बुपूरितानां च घटानां केवलं द्विज ।
चत्वारिंशत् समायुक्तं स्थूलसूक्ष्मं प्रकाशितम् ॥ १३७ ॥

14.138
गन्धोदकेन पूर्णानां चत्वारिंशद्भिरेव च ।
समन्वितं घटानां तु स्थूलस्थूलं प्रकीर्तितम् ॥ १३८ ॥

14.139
सूत्रपातविधानं च कुम्भन्यासक्रमं ततः ।
उद्धारं चानयोः कुर्यात् स्थूलाद्यसदृशं द्विज ॥ १३९ ॥

14.140
भक्तिश्रद्धावशाच्चापि विभवानुगुणं तु वा ।
त्रिविधं स्थूलभेदं तु द्विगुणं तु समाचरेत् ॥ १४० ॥

14.141
अनुकल्पे तदर्धं वा पादमष्टांशमेव वा ।
चतुष्टयं वा कुम्भानां प्रत्येकं वा द्वयं द्वयम् ॥ १४१ ॥

14.142
एकैकं वापि विप्रेन्द्र सर्वद्रव्यमयं घटम् ।
नवानां परिपूर्णानामुक्तादन्यदपेक्षितम् ॥ १४२ ॥

14.143
कुर्यादभ्यूह्य तत् सर्वं प्रधानोदितवर्त्मना ।
एवं तु दशधा विप्र परभेदाः प्रकाशिताः ॥ १४३ ॥

14.144
अपरस्य विभेदांस्तु क्रमेण श्रृणु सत्तम ।
चतुरश्रीकृते क्षेत्रे ह्येकत्रिंशद्विभाजिते ॥ १४४ ॥

14.145
कोष्ठकानां नवशतमेकपष्टिस्तथैव च ।
मध्ये पङ्क्तित्रयं स्थाप्य मार्जयेत्तद्बहिर्द्वयम् ॥ १४५ ॥

14.146
वीथ्यर्थं तद्बहिर्भूयः स्थाप्य पङ्क्तित्रयं पुनः ।
द्वयं विमृज्य वीथ्यर्थं स्थापयेत् सप्तकं पुनः ॥ १४६ ॥

14.147
विभज्य वा त्रिणवधा ह्येकैकं विमृजेद्द्विज ।
वीथ्यर्थं संकटे देशे कलशानां तु पूर्ववत् ॥ १४७ ॥

14.148
क्रमेण तेषु कोष्ठेषु कलशान् पूर्ववन्न्यसेत् ।
घृतमुष्णोदकं चैव रत्नवारि फलोदकम् ॥ १४८ ॥

14.149
लोहाम्भो मार्जनाम्भश्च गन्धाम्भोऽक्षतवारि च ।
यवोदकमथेशान्तं मध्यादारभ्य मध्यमे ॥ १४९ ॥

14.150
पाद्यमर्घ्य तथाचामं पञ्चगव्यं क्रमेण तु ।
द्विचतुष्केण संवीतनकानां तु मध्यमे ॥ १५० ॥

14.151
ऐन्द्राद्युत्तरपर्यन्तं विदिक्स्थानां तु मध्यमे ।
दधि क्षीरं मधु तथा कषायं वह्निदिक्क्रमात् ॥ १५१ ॥

14.152
एवं सप्तदश प्रोक्तः प्रधानद्रव्यसंयुताः ।
शेषाश्चान्ये चतुष्षष्टिः शुद्धोदकसमन्विताः ॥ १५२ ॥

14.153
इत्येकाशीतिकलशा मध्यतः संस्थिता द्विज ।
ततस्त्वेकोनपञ्चाशत्कलशास्तद्दिगष्टके ॥ १५३ ॥

14.154
तत्र मध्यमकुम्भेषु दिक्स्थितानां च सेचयेत् ।
गुलोदकं चेक्षुरसं नालिकेररसं तथा ॥ १५४ ॥

14.155
शान्तिवारि मुनिश्रेष्ठ पूर्वदिक्क्रमयोगतः ।
विदिक्स्थब्रह्नकुम्भेषु सेचयेन्मड्गलोदकम् ॥ १५५ ॥

14.156
आग्नेयादीशपर्यन्तं शिष्टमन्यच्छतत्रयम् ।
असीतियुक्तं कुम्भानां तथैव चतुरुत्तरम् ॥ १५६ ॥

14.157
सुगन्धैः शीतलैस्तोयैः संपूर्णं द्विजसत्तम ।
पस्चान्मध्यस्थनवके मध्यादीशानपश्चिमम् ॥ १५७ ॥

14.158
वासुदेवाद्वराहान्तं मूर्तीनां नवकं यजेत् ।
अर्घ्यालभनमाल्यैश्च धूपेन च यथाक्रमम् ॥ १५८ ॥

14.159
तद्वहिर्नवकानां तु ब्रह्नकुम्भेषु पूजयेत् ।
केशवाद्वामनान्तं च द्विचतुः पूर्वदिक्क्रमात् ॥ १५९ ॥

14.160
तत एकोनपञ्चाशत् कलशानां महामते ।
पूजयेद्ब्रह्नकुम्भेषु श्रीधराद्यं चतुष्टयम् ॥ १६० ॥

14.161
पूर्वाद्युत्तरपर्यन्तं वह्न्यादीशानपश्चिमम् ।
नराद्यं कृष्णपर्यन्तं चतुष्कं पूजयेद्द्विज ॥ १६१ ॥

14.162
प्राग्वत् कूर्चानि संन्यस्य चक्रिकाभिः पिधाय च ।
तत आच्छादयेद्वर्स्त्रैनूतनैस्तु पृथक् पृथक् ॥ १६२ ॥

14.163
तत ऊर्ध्वं यजेद्देवं वासुदेवं जगत्पतिम् ।
पाद्यमर्घ्यं तथाचामं पञ्चगव्यं घृतं दधि ॥ १६३ ॥

14.164
पयो मधु कषायं च उष्णाम्भः फलपारि च ।
मार्जनाम्भो ऽक्षताम्भश्च रत्नाम्भो लोहवारि च ॥ १६४ ॥

14.165
गन्धाम्भश्च यवाम्भश्च गुलोदेक्षुरसौ तथा ।
नालिकेररसं चापि शान्तितोयं च मङ्गलम् ॥ १६५ ॥

14.166
क्रमेणानेन विप्रेन्द्र ह्याचरेत् स्नपनं विभोः ।
मूलमन्त्रेण सर्वेषां स्नपनं विहितं द्विज ॥ १६६ ॥

14.167
अथवा पाद्यपूर्वं तु गन्धतोयावसानकम् ।
ऋग्भिः पुरुषसूक्तस्य तथेदं विष्णुरित्यृचा ॥ १६७ ॥

14.168
यवाम्भो गुलतोयाद्यं चतुष्कं शान्तिपश्चिमम् ।
त्वं विष्णुरिति मन्त्रेण विष्णोर्नुकमिति द्विज ॥ १६८ ॥

14.169
स्नापयेन्मङ्गलाद्येन तोयेन मुनिपुङ्गव ।
येनाभिषिञ्चेद्देवेशं प्रधानकलशेन तु ॥ १६९ ॥

14.170
तच्छुद्धवारिकलशैस्तन्मन्त्रेणाभिषेचयेत् ।
प्रतिद्रव्यं तु वस्त्रेण ह्यर्घ्यालभनमाल्यकैः ॥ १७० ॥

14.171
धूयेन च समभ्यर्च्य ततस्तेनाभिषेचयेत् ।
यद्वार्घ्यं पाद्यमाचामं गन्धस्रग्धूपदीपकम् ॥ १७१ ॥

14.172
दद्याद्यथाक्रमं सर्वं केवलं चार्ध्यमेव वा ।
युक्तं शतचतुष्केण सप्तत्या च त्रयेण च ॥ १७२ ॥

14.173
कुम्भानां स्नपनं ह्येतदुत्तमोतममुच्यते ।
हीनमष्टाष्टसंख्यातैरन्तश्शुद्धोदवारिभिः ॥ १७३ ॥

14.174
कलशैः स्नपनं यत्तु तत् स्यादुत्तममध्यमम् ।
तथा पङ्क्तिचतुष्कं तु हीनं स्यात् पूर्वनिश्चितात् ॥ १७४ ॥

14.175
यदेतत् स्नपनं युक्तमेकाशीत्या च मध्यतः ।
दिक्षु चैकोनपञ्चाशच्चतुष्केन विदिक्षु च ॥ १७५ ॥

14.176
ब्राह्नदैविकभागस्थैः कलशैरन्वितं द्विज ।
शेषैःषष्टयुत्तरशतसंख्यातैः शुद्धवारिभिः ॥ १७६ ॥

14.177
विहीनं कलशैर्विप्र तद्भवेदुत्तमाधमम् ।
शतद्वयेन कुम्भानां चतुर्दिक्संस्थितेन च ॥ १७७ ॥

14.178
चतुर्हीनेन वै विप्र ह्येकाशीत्या च मध्यतः ।
संयुक्तं स्नपनं प्राग्वत् तद्भवेन्मध्यमोत्तमम् ॥ १७८ ॥

14.179
अष्टाष्टपरिसङ्ख्यातैरन्तः शुद्धोदवारिभिः ।
कलशैर्यद् भवेद्धीनं तत् स्यान्मद्यममध्यमम् ॥ १७९ ॥

14.180
एकाशीत्या च कुम्भानां मध्यतस्तु समन्वितम् ।
दिक्षु चैकोनपञ्चाशन्मध्यस्थनवसंयुतम् ॥ १८० ॥

14.181
शेषैः शुद्धोदकलशैर्विहीनं मध्यमाधमम् ।
पङ्क्तीनामष्टकेनात्र हीनं क्षेत्रं तु कल्पयेत् ॥ १८१ ॥

14.182
एकाशीत्या च कुम्भानां केवलं पूर्ववद् द्विज ।
अधमोत्तममेतत्तु स्नपनं परिकीर्तितम् ॥ १८२ ॥

14.183
द्वात्रिंशद्भिस्तु कल्शैः सौणस्थैः शुद्धवारिभिः ।
विहीनं स्नपनं यत्तद् भवेद धममध्यमम् ॥ १८३ ॥

14.184
यच्चतुष्षष्टिकलशैर्विहीनं सर्वदिक्स्थितैः ।
शुद्धोदकैर्द्विजश्रेष्ठ तद्भवेद धमाधमम् ॥ १८४ ॥

14.185
नवधा सप्तधा वात्र क्षेत्रं कृत्वा तु पीडयेत् ।
द्वयं चतुष्कं वा शिष्टं कुम्भानां स्थापनार्थतः ॥ १८५ ॥

14.186
इत्युक्तमाद्यं नवधा द्वितीयं श्रृणु सत्तम ।
चतुरश्रीकृते क्षेत्रे ह्यष्टादशविभाजिते ॥ १८६ ॥

14.187
यद्वा षोडशधा विप्र पङ्क्तिषट्कं तु मध्यतः ।
संस्थाप्य तद्बहिर्वीथ्यै मार्जयेद्द्वितयं द्विज ॥ १८७ ॥

14.188
एकैकं वापि तद्बाह्ये स्थापयेत्तु चतुष्टयम् ।
पूर्ववत्तेषु कलशान् न्यस्य द्रव्याणि निक्षिपेत् ॥ १८८ ॥

14.189
मध्ये कुम्भचतुष्के तु सर्वरत्नजलं ततः ।
द्वितये मौक्तिकं प्राच्यामेकस्मिन् वह्निदिग्गते ॥ १८९ ॥

14.190
वज्रं याम्यद्वये विप्र गोमेदकमनन्तरे ।
एकस्मिन्निन्द्रनीलं तु पुष्यरागं ततो द्वये ॥ १९० ॥

14.191
पश्चिमस्थे तु वायव्ये ह्येकस्मिन् ब्रह्नरागकम् ।
चन्द्रकान्तं द्वये सौम्ये ह्येकस्मिन् विद्रुमं परे ॥ १९१ ॥

14.192
द्वितीयावरणे प्राच्यामाज्यं कुम्भद्वये द्विज ।
कुम्भ आग्नेयकोणस्थे ह्येकस्मिग्नौपमानिकम् ॥ १९२ ॥

14.193
क्षीरं द्वये दक्षिणस्थे नैरृत्यां मार्जनं तथा ।
दधि द्वये पश्चिमस्थे गन्धो वायव्यकोणगे ॥ १९३ ॥

14.194
सौम्यद्वये माक्षिकं स्यात् कषायं चेशकोणगे ।
गन्धोदकेन संपूर्णं कुम्भानां शिष्टमष्टकम् ॥ १९४ ॥

14.195
एवं मध्यस्थिताः कुम्भाः षट्त्रिंशत्संख्यया द्विज ।
चतुर्विंशत्तु कलशाः प्रतिदिक्कं तु तद्बहिः ॥ १९५ ॥

14.196
विदिक्स्थितास्तु प्रत्येकं कलशाः षोडश द्विज ।
पूर्वदिक्संस्थितानां तु कुम्भानां मध्यमे स्थिते ॥ १९६ ॥

14.197
चतुष्केऽर्घ्य तथा पाद्यं दक्षिणे पश्चिमे तथा ।
आचामं सौम्यमध्यस्थचतुष्के पञ्चगव्यकम् ॥ १९७ ॥

14.198
वह्निदिक्कलशानां तु चतुष्के मध्यसंस्थिते ।
तैलं गुलोदं निरृतौ वायुसंस्थे तिलोदकम् ॥ १९८ ॥

14.199
अक्षतं त्वीशदिक्संस्थे ह्यष्टाविशोत्तरं शतम् ।
अवशिष्टं तु कुम्भानां पूर्णं गन्धोदकेन तु ॥ १९९ ॥

14.200
अर्घ्यादिसर्वरत्नान्तमुद्धारक्रम इष्यते ।
अर्घ्यं पाद्यं तथाचामं पञ्चगव्यं ततः परम् ॥ २०० ॥

14.201
तैलं गुलोदकं चैब तिलोदं चाक्षतोदकम् ।
आज्यं तथा चौपमान्यं क्षीरं मार्जनमेव च ॥ २०१ ॥

14.202
दधि गन्धं माक्षिकानि कषायं मौक्तिकं तथा ।
वज्रादिसर्वरत्नान्तमष्टकं क्रमशो द्विज ॥ २०२ ॥

14.203
शतद्वयेन कुम्भानां चतुर्न्यूनेन संयुतम् ।
एतत् स्नपनमाख्यातमुत्तमोत्तमसंज्ञितम् ॥ २०३ ॥

14.204
चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ।
कोष्ठकानां भवत्यत्र चतुर्न्यूनं शतद्वयम् ॥ २०४ ॥

14.205
मध्ये पङ्क्तिचतुष्कं तु संस्थाप्य परिमार्जयेत् ।
एकैकं वीथये बाह्ये स्थापयेच्च चतुष्टयम् ॥ २०५ ॥

14.206
तत्रापि कोष्ठकानां तु कलशस्थापनार्थतः ।
संश्थाप्याष्टोत्तरशतं शेषाणि परिमार्जयेत् ॥ २०६ ॥

14.207
पूर्ववत्तेषु कलशान् न्यस्य द्रव्याणि निक्षिपेत् ।
विन्यसेद्रत्ननिचयं मध्ये कुम्भचतुष्टयम् ॥ २०७ ॥

14.208
प्राङ्भध्यसूत्राद्दक्षिणतः कलशे मौक्तिकं द्विज ।
एतद्दक्षिणतः संश्थे वज्रगोमेदके क्रमात् ॥ २०८ ॥

14.209
इन्द्रनीलं पुष्यरागं पश्चिमस्थे द्वये तथा ।
ब्रह्नरागं चन्द्रकान्तं सोमदिक्स्थे द्वये द्विज ॥ २०९ ॥

14.210
प्राङ्भध्यसूत्रोत्तरतो विद्रुमं कलशे द्विज ।
एवं द्विषट्कं कुम्भानां मध्यतः तद्दिगष्टके ॥ २१० ॥

14.211
प्रतिदिक्कलशानां तु द्विषट्कं द्विजसत्तम ।
तेषां मध्यस्थिते कुम्भे चतुष्के प्राग्दिगादितः ॥ २११ ॥

14.212
अर्घ्यं तैलं तथा पाद्यं गुलाम्ब्वाचमनीयकम् ।
तिलोदकं पञ्चगव्यमक्षतं त्वीशपश्चिमम् ॥ २१२ ॥

14.213
शेषाः कुम्भाश्चतुष्षष्टिः पूर्णा गन्धोदकेन तु ।
अर्घ्यादिसर्वरत्नान्तमुद्धारक्रम इष्यते ॥ २१३ ॥

14.214
एवमष्टोत्तरशतैः कुम्भैरुत्तमध्यमम् ।
चतुरश्रीकृते क्षेत्रे त्रयोदशविभाजिते ॥ २१४ ॥

14.215
पङ्क्तीनां पञ्चमं मद्ये संस्थाप्य परिमार्जयेत् ।
एकैकं वीथये बाह्ये स्थापयेत् त्रितयं पुनः ॥ २१५ ॥

14.216
मध्यमे रत्नकुम्भं तत् प्रागादीशावसानकम् ।
मुक्ताफलं तथा वज्रं गोमेदकेन्द्रनीलकौ ॥ २१६ ॥

14.217
पुष्यरागो ब्रह्नरागश्चन्द्रकान्तश्च विद्रुमः ।
तद्बहिः प्राकक्रमेणैव धृतं चैवोपमानिकम् ॥ २१७ ॥

14.218
क्षीरं मार्जनतोयं च दधि गन्धं च माक्षिकम् ।
कषायमष्टौ शिष्टाश्च गन्धाम्भः परिपूरिताः ॥ २१८ ॥

14.219
एवं मध्यस्थिता विप्र कलशाः पञ्चविंशतिः ।
अष्टकं नवकानां तु तद्बहिस्तु दिगष्टके ॥ २१९ ॥

14.220
तेषां मध्ये क्रमादर्ध्यं तैलं पाद्यं गुलोदकम् ।
आचामं तिलतोयं च पञ्चगव्यं तथाक्षतम् ॥ २२० ॥

14.221
प्रागाशादीशदिङ्निष्ठं शिष्टमष्टाष्टकं द्विज ।
पूरितं गन्धतोयेन ह्येवं कुम्भसमन्वितम् ॥ २२१ ॥

14.222
नवत्या सप्ताधिकया तद्भवेदुत्तमाधमम् ।
त्रिपञ्चधा कृते क्षेत्रे भागानां तु भवन्ति हि ॥ २२२ ॥

14.223
शतद्वयं तथा पञ्चविंशतिर्मुनिपुङ्गव ।
पङ्क्तीनां पञ्चकं मध्ये तद्बहिर्विमृजेद्द्वयम् ॥ २२३ ॥

14.224
वीथ्यर्थं तद्बहिर्भूयः स्थापयेत् त्रितयं द्विज ।
तन्मध्ये रत्नकलशं दिक्स्थिते तु चतुष्टये ॥ २२४ ॥

14.225
रत्नाष्टकं मौक्तिकादि द्वन्द्वशः पूर्वदिक्क्रमात् ।
प्रागादीशानपर्यन्तं तद्बहिः कलशाष्टके ॥ २२५ ॥

14.226
घृतपूर्वकषायान्तद्रव्याणामष्टकं द्विज ।
ऐन्द्रादिनवकानां तु ह्यष्टानां द्विज मध्यमे ॥ २२६ ॥

14.227
अर्घ्याद्यक्षतपर्यन्तं क्रमादीशानपश्चिमम् ।
शेषाः कुम्भास्चतुष्षष्टिर्गन्धोदकसमन्विताः ॥ २२७ ॥

14.228
पञ्चाशीतिघटोपेतमेतत् स्यान्मध्यमोत्तमम् ।
मध्यमे रत्नतोयं तु तद्बहिः कलशाष्टकम् ॥ २२८ ॥

14.229
मुक्तादिद्रुव्यसंयुक्तं पूर्ववन्नवकाद्बहिः ।
इत्येकाशीतिकलशैर्भवेन्मध्यममध्यमम् ॥ २२९ ॥

14.230
सप्तधा भाजिते क्षेत्रे चत्वारिंशन्नवोत्तरम् ।
कोष्ठकानि भवन्त्यत्र कलशान् विन्यसेत्ततः ॥ २३० ॥

14.231
पूर्ववद्द्रव्यसंयुक्ताः कलशाः पञ्चविंशतिः ।
चपुर्विंशतिशेषास्तु शुद्धोदकसमन्विताः ॥ २३१ ॥

14.232
एवमेकोनपञ्चाशत्कलशैर्मध्यमाधमम् ।
रत्नादिककषायान्ता युक्ताः सप्तोत्तरा दश ॥ २३२ ॥

14.233
अष्टौ गन्धोदसंयुक्ता एतत् स्यादधमोत्तमम् ।
शुद्धोदाष्टकहीनं तद्भवेदधममध्यमम् ॥ २३३ ॥

14.234
रत्नादिविद्रमान्तेन द्रव्यसङ्घेन संयुतम् ।
नवकं कलशानां यत् तद्भवेदधमाधमम् ॥ २३४ ॥

14.235
एवं द्वितीयभेदास्तु कीर्तिताः तृतीयं श्रृणु ।
क्षेत्रं तु सप्तधा कृत्वा प्राग्वदापाद्य संस्थितम् ॥ २३५ ॥

14.236
उदङ्मुखस्थितो बूत्वा प्रणवं बन्धयेत्ततः ।
तन्मुद्रां विन्यसेत् कुम्भे जितन्ताख्येन मध्यतः ॥ २३६ ॥

14.237
दैविकेऽष्टाक्षरैः कुम्भान् प्राङ्मुखःप्राग्दिगादितः ।
मानुषांस्तु द्विषट्केन षोडशप्रागुदड्मुखः ॥ २३७ ॥

14.238
फट्कारैः पैतृकान् विप्र न्यसेत् प्रत्यगुदङ्मुखः ।
तन्मुद्रां बन्धयित्वा तु मध्यादुत्तरपश्चिमम् ॥ २३८ ॥

14.239
कुम्भानां पञ्चके विप्र पाद्यार्घ्याचमनान्यपि ।
पञ्चगव्यं घृतं चापि पञ्चोपनिषदैः क्रमात् ॥ २३९ ॥

14.240
विदिक्कुम्भचतुष्के तु वह्न्यादीशानपश्चिमम् ।
दधि क्षीरं मधु तथा ह्युष्णाम्भोमूर्तिवाचकैः ॥ २४० ॥

14.241
चतुर्भिः कलशैर्विप्र तद्वहिर्दिक्चतुष्टये ।
कषायं मार्जनाम्भश्च फलाम्भः परिमार्जनम् ॥ २४१ ॥

14.242
आग्नेयादीशपर्यन्तं कलशानां चतुष्टये ।
रत्नोदं सर्वलोहाम्भः कुशाम्भः सक्तुवारि च ॥ २४२ ॥

14.243
क्षिपेत् क्रमेण विप्रेन्द्र वर्णैरष्टाक्षरोदितैः ।
शुद्धाम्भसान्तरालस्थं पूरितं कलशाष्टकम् ॥ २४३ ॥

14.244
प्रागग्निमध्यादारभ्य ईशप्राङ्भध्यपश्चिमम् ।
प्रणवाख्येन मन्त्रेण केवलेन ततो वहिः ॥ २४४ ॥

14.245
दिक्कुम्भानां चतुष्के तु गन्धाम्भः पुष्पवारि च ।
औपमानिकसंज्ञं च तथाचामलकोदकम् ॥ २४५ ॥

14.246
आग्नेयादिक्रमेणैव कलशानां चतुष्टये ।
अक्षताम्भस्तिलाम्भश्च यवाम्भस्तण्डुलोदकम् ॥ २४६ ॥

14.247
द्विषट्कमन्त्रेण ततो विष्णुगायत्रिया द्विज ।
शेषाः षोडश शुद्धाम्भः परिपूर्णाः क्रभेण तु ॥ २४७ ॥

14.248
एवं संपूरयित्वा तु प्रणम्याञ्जलिमुद्रया ।
वासुदेवादियागाद्यं सर्वं कृत्वा तु पूर्ववत् ॥ २४८ ॥

14.249
द्रव्यन्यासक्रमेणैव समुद्धारः प्रकीर्तितः ।
मूलमन्त्रेण वै दद्यात् सर्वं यद्वा द्विजोत्तम ॥ २४९ ॥

14.250
इदं विष्ण्वाख्यतः पाद्यमर्घ्यमापो वहन्त्विति ।
आपः पुनन्त्वित्याचामं गायत्र्या पञ्चगव्यकम् ॥ २५० ॥

14.251
धृतं दद्यात्ततो विप्र घृतं शुक्रमसीति च ।
दधिक्रा इति मन्त्रेण दधि दद्यात्ततः परम् ॥ २५१ ॥

14.252
क्षीरमाप्याययस्वेति पधुवातेति वै मधु ।
आदित्यः शुक्रमित्येवमुष्णाम्भो मुनिपुङ्गव ॥ २५२ ॥

14.253
ततः कषायतोयं तु शदसस्पतिमित्यृचा ।
शन्नोदेवीरित्यनेन दद्याद्वै मार्जनं ततः ॥ २५३ ॥

14.254
गणानामिति मन्त्रेण दद्याच्चैव फलोदकम् ।
त्वं विष्णुरिति मन्त्रेण दद्यात्तु परिमार्जनम् ॥ २५४ ॥

14.255
अग्न आयाहिवीतये इति रत्नोदकं ततः ।
इषेत्वेति च लोहाम्भस्त्वग्निमीके कुशोदकम् ॥ २५५ ॥

14.256
किमित्त इति मन्त्रेण दद्यात् सक्तूदकं ततः ।
दद्याच्छुद्धोदकान्यष्टावापो अस्मानिति क्रमात् ॥ २५६ ॥

14.257
अष्टौ गन्धोदकादीनि मानस्तोक्या निवेदयेत् ।
शेषान् पुरुषसूक्तेन षोडश प्रत्यृचं क्रमात् ॥ २५७ ॥

14.258
एवमेकोनपञ्चाशत्कलशैरुत्तमोत्तमम् ।
बहिःषोडश शुद्धोदैर्हीनमुत्तममध्यमम् ॥ २५८ ॥

14.259
तत्रस्थेः कोणकलशैर्हीनं स्यादुत्तमाधमम् ।
अन्तः शुद्धोदकस्थाने स्थितं गन्धोदकाष्टकम् ॥ २५९ ॥

14.260
विहीनं सर्वकलशैर्बहिरावरणस्थितैः ।
तदन्तः पञ्चविंशद्भिरन्वितं मध्यमोत्तमम् ॥ २६० ॥

14.261
मानुषे दिक्चतुष्केन हीनं मध्यममध्यमम् ।
तत्रस्थैः सर्वकलशैर्हीनं स्यान्मध्यमाधमम् ॥ २६१ ॥

14.262
नवकं कलशानां यत्तद्भवेदधमोत्तमम् ।
तृतीयमेवं कथितं चतुर्थं श्रृणु सत्तम ॥ २६२ ॥

14.263
मध्यस्थितैककुम्भेन तद्भवेदधमाधमम् ।
तृतीयमेवं कथितं चतुर्थं श्रृणु सत्तम ॥ २६३ ॥

14.264
सप्तभक्ते स्थिता भागाश्चत्वारिंशन्नवोत्तरम् ।
घृतमुष्णोदकं चैव रत्नवारि फलोदकम् ॥ २६४ ॥

14.265
लोहाम्भो मार्जनाम्भश्च गन्धाम्भोऽक्षतवारि च ।
यवोदकमथेशान्तं मध्यादारब्य मध्यमे ॥ २६५ ॥

14.266
पाद्यमर्घ्यं तथाऽचामं पञ्चगव्यं तथा दधि ।
पयो मधु कषायं च दिग्विदिक्षु च तद्बहिः ॥ २६६ ॥

14.267
गुलोदकं चेक्षुरसं नालिकेररसं तथा ।
शान्तिवारि चतुर्दिक्षु पूर्वादिक्रमयोगतः ॥ २६७ ॥

14.268
विदिक्कुम्भचतुष्केषु विन्यसेन्मङ्गलोदकम् ।
शेषा भागाश्चतुर्विशच्छून्याः स्युर्द्विजसत्तम ॥ २६८ ॥

14.269
मन्त्रार्चनं तथोद्धारो यथा चाद्योत्तमोत्तमे ।
उत्तमोत्तममेतद्धि स्नपनं परिकीर्तितम् ॥ २६९ ॥

14.270
पञ्चभागीकृते स्थाने कलशाः पञ्चविंशतिः ।
मूलमन्त्रेण कलशान् विन्यस्य प्रोक्षयेत्ततः ॥ २७० ॥

14.271
द्रव्याणि निक्षिपेत्तेन प्राङ्मुखः प्रयतो वशी ।
ब्राह्नं तु मध्यमं कुम्भं स्नानतोयेन पूरयेत् ॥ २७१ ॥

14.272
ततस्तु मानुषे भागे प्रागाद्ये दिक्चतुष्टये ।
पाद्यमर्घ्यं तथाऽचामं पञ्चगव्यं तथैव च ॥ २७२ ॥

14.273
घृतं दधि तथा क्षीरं मधु चाग्नेयपूर्वकम् ।
इन्द्राग्निमध्यादारब्य तदीशान्तरपश्चिमम् ॥ २७३ ॥

14.274
उष्णोदकं कषायं च मार्जनं च फलोदकम् ।
तिलाम्बु रत्नतोयं च लोहतोयं कुशोदकम् ॥ २७४ ॥

14.275
ततस्तु दैविके भागे पूर्ववद्दिक्चतुष्टये ।
गन्धोदकं च पुष्पाम्भ औपमान्यामलोदके ॥ २७५ ॥

14.276
आग्नेयादीशपर्यन्तमक्षताम्भस्तथैव च ।
नालिकेररसं चेक्षुरसं वै तण्डुलोदकम् ॥ २७६ ॥

14.277
एवं च पञ्चविंशद्भिः कुम्भैरुत्तममध्यमम् ।
पाद्यं च मध्यमे भागे प्रागादीशानपश्चिमम् ॥ २७७ ॥

14.278
अर्घ्यमाचमनं चापि पञ्चगव्यं घृत दधि ।
क्षीरं मधूष्णतोयं च अन्तरालेषु वै क्रमात् ॥ २७८ ॥

14.279
कषायं मार्जनाम्भश्च फलाम्भः परिमार्जनम् ।
रत्नाम्भो लोहतोयं च कुशाम्भश्चोष्णतोयकम् ॥ २७९ ॥

14.280
ततस्तु दैविके भागे प्रागादीशानपश्चिमम् ।
गन्धाम्भः पुष्वतोयं च औपमान्यामलाम्बुनी ॥ २८० ॥

14.281
अक्षताम्भस्तिलोदं च यवोदं तण्डुलोदकम् ।
विहितश्च समुद्धारः पाद्यात्तण्डुलपश्चिमाः ॥ २८१ ॥

14.282
एवं तु पञ्चविंशद्भिः स्नपनं चोत्तमाधमम् ।
सप्तभक्ते स्थले प्राग्वद्धृताच्छान्त्यम्बु पश्चिमम् ॥ २८२ ॥

14.283
कलशैरेकविंशद्भिः स्नपनं मध्यमोत्तमम् ।
त्रिधा विभक्ते कोष्ठानां नवकं तत्र सत्तम ॥ २८३ ॥

14.284
मध्यादीशानपर्यन्तं धृतं दधि पयो मधु ।
तथोद्वर्तनचूर्णं च ततः कोणचतुष्टये ॥ २८४ ॥

14.285
उष्णोदकं च गन्धाम्भः पुष्पाम्भो मङ्गलोदकम् ।
द्रव्यन्यासक्रमेणैव समुद्धारः प्रकीर्तितः ॥ २८५ ॥

14.286
एवं तु नवभिः कुम्भैर्भवेन्मध्यममध्यमम् ।
घृतं पयो दधि मधु गन्धहेमाम्बुनी तथा ॥ २८६ ॥

14.287
रत्नाम्भश्चोषधीवारि शालिचूर्णानि च क्रमात् ।
मध्यमादीशदिङ्निष्ठमेतत् स्यान्मध्यमाधमम् ॥ २८७ ॥

14.288
मध्यमे दिक्चतुष्के तु पञ्चगन्यैस्तु पञ्चकम् ।
आग्नेयादीशपर्यन्तं कलशानां चतुष्टयम् ॥ २८८ ॥

14.289
शुद्धाम्भसा तु संपूर्णमेतत् स्यादधमोत्तमम् ।
मध्ये रत्नजलं दिक्षु कुम्भानां तु चतुष्टयम् ॥ २८९ ॥

14.290
मुक्तादिरत्नसंयुक्तं द्वन्द्वयोगेन सत्तम ।
एवं तु पञ्चभिः कुम्भैर्भवेदधममध्यम् ॥ २९० ॥

14.291
सर्वरत्रजलं मध्ये दिग्द्वये पूर्वपश्चिमे ।
द्वौ कुम्भौ तत्र पूर्वस्मिन् मौक्तिकादिचतुष्टयम् ॥ २९१ ॥

14.292
चतुष्कं पुष्परागादि ह्यन्यस्मिन् द्विजसत्तम ।
एवं कुम्भत्रयेणैव स्नपनं त्वधमाधमम् ॥ २९२ ॥

14.293
एवं ह्यपरभेदास्तु षट्त्रिंशत् संप्रकाशिताः ।
कुम्भाधिवासपूर्वं तु सर्वं पूर्ववदाचरेत् ॥ २९३ ॥

14.294
आज्यस्य दैवतं देवो वासुदेवः परः स्मृतः ।
उष्णाम्भसः सङ्कर्षणः प्रद्युम्नो रत्नबारिणः ॥ २९४ ॥

14.295
फलाम्भसोऽनिरुद्धस्तु भगवान् दैवतं द्विज ।
नारायणस्तु मन्त्रात्मा लोहतोयस्य दैवतम् ॥ २९५ ॥

14.296
मार्जनस्य हयग्रीवो विष्णुः स्याद्गन्धवारिणः ।
नृसिंहोऽक्षततोयस्य वराहो यववारिणः ॥ २९६ ॥

14.297
पाद्यस्य केशवो देवोऽर्घ्यस्य नारायणः स्मृतः ।
देव आचमनीयस्य माधवस्त्वधिदेवता ॥ २९७ ॥

14.298
गोविन्दः पञ्चगव्यस्य विष्णुस्तु दधिदैवतम् ।
मधुसूदनसंज्ञस्तु पयसो देवता स्मृता ॥ २९८ ॥

14.299
त्रिविक्रमाख्यो मधुनः कषायस्य च वामनः ।
भगवान् श्रीधराख्यस्तु गुलतोयस्य देवता ॥ २९९ ॥

14.300
देवदेवो हृषीकेश इक्षुसारस्य दैवतम् ।
दामोदरोऽधिदैवं तु नालिकेराम्भसो द्विज ॥ ३०० ॥

14.301
पझनाभस्तु भगवान् शान्तितोयस्य देवता ।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥ ३०१ ॥

14.302
आग्नेयादीशपर्यन्तं देवता मङ्गलाम्भसः ।
परिमार्जनसंज्ञे तु शङ्खः स्यादधितैवतम् ॥ ३०२ ॥

14.303
कुशोदकस्य पझं स्याद्गदा स्यात् सक्तुनो द्विज ।
वनमाला पुष्पतोये चक्रं स्यादौपमानिके ॥ ३०३ ॥

14.304
किरीटमधिदैवं तु भवेदामलकाम्भसः ।
कौस्तुभस्तिलतोयस्य श्रीवत्सस्तण्डुलाम्भसः ॥ ३०४ ॥

14.305
एकाशीतिस्थितानां तु शुद्धोदानां तु देवता ।
कान्त्याद्युन्नतिपर्यन्तमष्टकं प्रतिदिक्क्रमात् ॥ ३०५ ॥

14.306
बहिरेकोनपञ्चाशच्छुद्धतोयेषु च क्रमात् ।
स्वधादिगायत्र्यन्तास्तु शक्तयो ह्यधिदेवताः ॥ ३०६ ॥

14.307
अष्टावष्टौ तु पूर्वादिदिक्ष्वगन्यादिविदिक्षु च ।
अन्येषां स्नपनानां तु सर्वेषां द्विजसत्तम ॥ ३०७ ॥

14.308
मर्यादा चैव हृष्टिश्च शुद्धोदेष्वधिदेवता ।
कलशानां तु गरुडः शेषः सूत्रस्य दैवतम् ॥ ३०८ ॥

14.309
कूर्चानां तु परं ब्रह्न चक्रिकानां तु चक्रराट् ।
वाससां वासुदेवस्तु सर्वेषां च स एव वा ॥ ३०९ ॥

14.310
मार्जनं प्रोक्षणं चैव शकृता चानुलेपनम् ।
सूत्रपातमलङ्कारं पिष्टचूर्णैः समन्ततः ॥ ३१० ॥

14.311
द्वादशाक्षरमन्त्रेण कारयेत् पञ्च मन्त्रवित् ।
पञ्चोपनिषदा मन्त्री कलशानधिवासयेत् ॥ ३११ ॥

14.312
विष्णुगायत्रिया तत्र कोष्ठेषु कलशान् न्यसेत् ।
तत्र द्रव्याधिदेवानां वाचकैः पूरयेत् क्रमात् ॥ ३१२ ॥

14.313
कूर्चांस्तु प्रक्षिपेत्तेषु द्विषट्कब्रह्नविद्यया ।
तत्तद्द्रव्याधिदेवांस्तु तत्तद्द्रव्येषु पूजयेत् ॥ ३१३ ॥

14.314
चक्रिकाः स्थापयेत् पश्चाच्चक्रमन्त्रेण साधकः ।
वासोभिश्छादयेत् पश्चाद्द्विषट्कार्णेन मन्त्रवित् ॥ ३१४ ॥

14.315
वस्त्रापनयनं कुर्यान्मूलमन्त्रेण मन्त्रवित् ।
प्रणवेन तु सूत्राणि च्छित्त्वा तेनाभिवन्द्य च ॥ ३१५ ॥

14.316
उद्ध्त्य विष्णुगायत्र्या दद्याद्धस्ते गुरोस्तथा ।
यस्मिन् यस्मिन्न मन्त्रोऽत्र विहितः कर्मणि द्विज ॥ ३१६ ॥

14.317
द्वादशाक्षरमन्त्रण तत्तत् कुर्याद्विचक्षणः ।
अथवा सर्वकर्माणि द्वादशाक्षरविद्यया ॥ ३१७ ॥

14.318
पूर्वोक्तः परभेदानां स्नपनानां महामते ।
अर्घ्यादिद्रव्यनिचयः इतरेषां तु कथ्यते ॥ ३१८ ॥

14.319
विष्णुपर्णी च दूर्वा च पझं श्यामाकमेव च ।
एतानि पाद्यस्याङ्गानि चत्वारि द्विजपुङ्गव ॥ ३१९ ॥

14.320
गन्धपुष्पेऽक्षतफले यवसिद्धार्थकं तिलम् ।
कुशाग्रमर्घ्यस्याङ्गानि ह्येतान्यष्टौ भवन्ति हि ॥ ३२० ॥

14.321
लवङ्गजातितक्कोलमङ्गमाचमनीयके ।
शकृद्रसं च गोमूत्रं क्षीरं दधि घृतं तथा ॥ ३२१ ॥

14.322
अङ्गानि पञ्चगव्यस्य पञ्चैतानि च सर्वतः ।
शम्योदुम्बरबिल्वानां पलाशवटयोस्तथा ॥ ३२२ ॥

14.323
खदिराश्वत्थयोश्चापि विकङ्कततरोस्तथा ।
त्वक्सारं तु कषायं स्यात् सर्वपापापनोदनम् ॥ ३२३ ॥

14.324
कुष्ठं मांसी हरिद्रे द्वे मुराशैलेयचम्पकाः ।
वचाकच्चोरमुस्ताश्च सर्वौषध्यः प्रकीर्तिताः ॥ ३२४ ॥

14.325
पलाशबिल्ववकुलकदम्बाम्रशिरीषजाः ।
न्यग्रोधाश्वत्थजाश्चापि पल्लवाः पत्रवारिणः ॥ ३२५ ॥

14.326
केतकीमल्लिका जातिनन्द्यावर्तोत्पलोद्भवाः ।
पझचम्पककुन्दोत्थाः कुसुमाः पुष्पवारिणः ॥ ३२६ ॥

14.327
कदलीविल्वचूताश्च पनसं मातुलङ्गकम् ।
नालिकेरं चामलकं बीजपूरं फलाम्भसः ॥ ३२७ ॥

14.328
अङ्गान्येतानि विप्राष्टौ फलानि कथितानि वै ।
यवगोधूमकत्रीहिशालिमुद्गप्रियङ्गुकाः ॥ ३२८ ॥

14.329
माषनीवारकौ चाङ्गं कथितं बीजवारिणः ।
बाह्लीकं चन्दनं चैव कर्पूरमगरुं तथा ॥ ३२९ ॥

14.330
गन्धाङ्गानि च चत्वारि त्वथवा मुनिपुङ्गव ।
चन्दनं कुङ्कुमं मांसी हरिबेरं मुतं तथा ॥ ३३० ॥

14.331
उशीरं कुष्ठमगरु गन्धाम्भो ऽङ्गं तु चाष्टकम् ।
सूर्यकान्तं पझरागमिन्द्रकान्तं तथैव च ॥ ३३१ ॥

14.332
वैडूर्यं चाप्ययस्कान्तमिन्द्रनीलप्रवालकौ ।
गरुडं पुष्यरागं च स्फटिकब्रह्नरागकौ ॥ ३३२ ॥

14.333
वज्रं मौक्तिकमङ्गानि रत्नोदस्य अथवा द्विज ।
मणिमुक्ताफलं वज्रं प्रवालं पुष्यकं तथा ॥ ३३३ ॥

14.334
रत्नोदकाङ्गान्येतानि पञ्च वै कथितानि ते ।
अपरस्नपनानां तु द्वितीयं नवकं विना ॥ ३३४ ॥

14.335
तत्र मुक्ताफलं वज्रं गोमेदकेन्द्रनीलकौ ।
पुष्यरागं ब्रह्नरागं चन्द्रकान्तं च विद्रुमम् ॥ ३३५ ॥

14.336
रत्नाम्भसोऽष्टावङ्गानि ह्यमूनि घदितानि वै ।
सहदेवी शिरीषं च रजनी सूर्यवर्तिनी ॥ ३३६ ॥

14.337
सदाभद्रा कुशाग्राणि मार्जनाङ्गानि षड् द्विज ।
रुक्मं रूप्यं च ताम्रं चाप्ययस्त्रपुकमेव च ॥ ३३७ ॥

14.338
अह्गानि कथितान्येव पञ्च वै लोहवारिणः ।
तिलसिद्धार्थनीवारयववेणुयवानि च ॥ ३३८ ॥

14.339
तुलसीपत्रयुक्तानि शान्तम्भो ऽङ्गानि चैव षट् ।
इन्द्रवल्ल्यङ्कुरं पझमश्वत्थाङ्कुरमेव च ॥ ३३९ ॥

14.340
एकपझं च चत्वार्यङ्गानि मङ्गलवारिणः ।
नद्यां तटाके वल्मीके पर्वते चैव मृत्तिका ॥ ३४० ॥

14.341
परिमार्जनवस्तूनि कथितानि द्विजोत्तम ।
शङ्खं चक्रं च कूर्मं च वैनतेयं तथैव च ॥ ३४१ ॥

14.342
कुर्यात् प्रतिकृतिं लोहैरौपमानिकमुच्यते ।
शुद्धोदकलशाः सर्वे चन्दनैकाङ्गसंयुताः ॥ ३४२ ॥

14.343
अथवानन्तकलशं नाम्ना सकलपूरकम् ।
यदेतस्य विधानं त्व क्रमेण श्रृणु विस्तृतम् ॥ ३४३ ॥

14.344
पूर्ववन्मण्डपं कुर्याच्चत्वारिंशत्करायतम् ।
द्वात्रिंशत्करविस्तारं चतुर्द्वारादिसंयुतम् ॥ ३४४ ॥

14.345
ध्वजाद्यैरप्यलंकारैः पूर्ववत् सुविभूषितम् ।
आपाद्या वा प्रपामात्रं यथाभिमतदेशगम् ॥ ३४५ ॥

14.346
यागार्थमण्डपं प्राग्वत् कल्पयेत् तत्समीपतः ।
उक्ते दिनेऽङ्कुरारोपं कृत्वा कर्मदिनात् पुरा ॥ ३४६ ॥

14.347
तदर्थान् सर्वसंभारान् संभृत्य सुसमाहितः ।
देशिकेन्द्रस्तु पूर्वेद्युः सुस्नातश्च कृताह्निकः ॥ ३४७ ॥

14.348
भूषणैर्विविधैर्वस्त्रैर्नूतनैश्च विभूषितः ।
सितोष्णीषोत्तरीयश्च चित्रैर्माल्यैरलंकृतः ॥ ३४८ ॥

14.349
चतुर्भिरष्टभिर्वा र्यैस्तादृशैरपि साधकैः ।
तत्संख्यैः शास्त्रकुशलैः कञ्चुकादिविभूषितैः ॥ ३४९ ॥

14.350
अन्यैश्च सुसितैर्वस्त्रैः स्थगितानननासिकैः ।
तत्तत्प्रयोगकुशलैरनेकैः परिचारकैः ॥ ३५० ॥

14.351
प्राप्तेऽपराङ्णसमये कृत्वा द्वार्स्थार्चनं विशेत् ।
यागार्थमण्डपं तत्र देवं कुम्भादिके यजेत् ॥ ३५१ ॥

14.352
तत्रैव वा यजेद्बिम्बं बह्नौ सन्तर्प्य पूर्ववत् ।
ततोऽनुज्ञां समादाय क्रमेण मुनिपुङ्गव ॥ ३५२ ॥

14.353
अनुकल्पविधाने तु प्रासादं संप्रविश्य च ।
मूलबिम्बं तु संपूज्य अर्घ्यालभनमाल्यकैः ॥ ३५३ ॥

14.354
धूपेन च ततोऽनुज्ञां समादायारभेत् ततः ।
द्वार्स्थाभ्यर्चनपूर्वं तु विशेत् स्नपनमण्डपम् ॥ ३५४ ॥

14.355
प्रोक्षयेत् पञ्चगव्येन द्विषट्कार्णेन सर्वतः ।
नानाविधानि पुष्पाणि विकिरेत् सर्वदिक् तथा ॥ ३५५ ॥

14.356
सिद्धार्थकांश्च बीजानि ततो मण्डपमध्यतः ।
सार्धद्वाविंशतिकरं भजेत् क्षेत्रं तु पञ्चधा ॥ ३५६ ॥

14.357
एकैकं नवधा भूयश्चचत्वारिंशच्च पञ्च च ।
पङ्क्तयश्चापि कोष्ठानां पञ्चविंशोत्तरं भवेत् ॥ ३५७ ॥

14.358
द्विसहस्रं ततो मध्ये कलशस्थापनार्थतः ।
एकाशीति च कोष्ठानि संस्थाप्य परिमार्जयेत् ॥ ३५८ ॥

14.359
परितोवीथये पङ्क्तिद्वितयं तद्बहिः पुनः ।
पूर्वादिदिक्चतुष्के तु एकाशीतिपदानि च ॥ ३५९ ॥

14.360
कल्पयेत् पार्श्वतो वीथ्यै पुनः पङ्क्तिद्वयं भवेत् ।
चतुर्षु कोणेष्वेकोनपञ्चाशत्कोष्ठकानि तु ॥ ३६० ॥

14.361
कल्पयेत्तत्र चाप्येकाशीतिमध्यानुसारतः ।
मध्यतो नवकं स्थाप्य पङ्क्त्यैकां लोपयेत् परि ॥ ३६१ ॥

14.362
बहिः पङ्क्तिद्वये दिक्षु षट्कं षट्कं विदिक्षु च ।
चतुश्चतुश्च संस्थाप्य शेषाणि परिमार्जयेत् ॥ ३६२ ॥

14.363
तद्बहिः परितो वीथ्यै लुम्पेत् पङ्क्तिद्वयं ततः ।
कोणानि कल्पयेद्यत्नात् पदषोडशकानि तु ॥ ३६३ ॥

14.364
तत्पार्श्वे लोपयेत् पङ्क्तिमेकैकां दिक्चतुष्टये ।
पङ्क्तिद्वयेन द्वाराणामन्तर्भागास्त्रयो बहिः ॥ ३६४ ॥

14.365
पञ्चपार्श्वे तु शोभार्थं चतुरतर्बहिर्द्वयम् ।
तदन्तः पङ्क्तित्रितये त्नयस्त्रिंशत्पदानि तु ॥ ३६५ ॥

14.366
वींथ्या सहैकतां नीत्वा ह्येकैकं स्थापयेद्बहिः ।
द्वाराणामपि कोणानां मध्ये षोडशसंख्यया ॥ ३६६ ॥

14.367
पच्चविंशतिकोष्ठानि स्थापयित्वा तु पार्श्वतः ।
अन्ययोन्यं लोपयेत् पङ्क्तिमेकैकां तु महामुने ॥ ३६७ ॥

14.368
एवमापाद्य कुम्भानां पदानि स्थापनार्थतः ।
ततः सुगन्धरजसा सितेन सुसमा द्विज ॥ ३६८ ॥

14.369
अङ्गुष्ठविस्तरोत्सेधा ऋज्वी रेखास्तु कल्पयेत् ।
विकीर्य कोष्ठेषु रजः पश्चाद्द्वाराणि पूरयेत् ॥ ३६९ ॥

14.370
तेनैव शोभां पीतेन विचित्रैः कुसुमान्वितैः ।
लताबृन्दैर्मुनिश्रेष्ठ वीथीः सर्वत्र भूषयेत् ॥ ३७० ॥

14.371
ततः संगृह्य कलशान् पूर्वलक्षणलक्षितान् ।
अष्टोत्तरशतं कृत्वा मूलमन्त्रेण वै घृतम् ॥ ३७१ ॥

14.372
गायत्र्या वा ततो द्वारा चतुष्के पूर्वदिक्क्रमात् ।
द्वौ द्वौ संस्थाप्य कलशौ कुमुदादीन् प्रपूज्य च ॥ ३७२ ॥

14.373
पुष्पैरभ्यर्च्य कोष्ठानि विचित्रैर्मन्त्नमन्त्नितैः ।
सर्वधान्यैः प्रयत्नेन कल्पयित्वा तु पीठिकाः ॥ ३७३ ॥

14.374
तासु द्वौ द्वौ कुशाग्रौ च निक्षिपेन्मूलमन्त्रतः ।
सूत्रेण वेष्ठितान् कृत्वा कलशान् पूर्ववद्द्विज ॥ ३७४ ॥

14.375
गायत्र्या क्षालयित्वा तान् कोष्ठेषु न्यस्य तारतः ।
अधोमुखान् न्यसेत् पृष्ठे परमेष्ठ्यात्मना कुशान् ॥ ३७५ ॥

14.376
ततः संप्रोक्षयेत् पुंसा पञ्चगव्येन तान् कुशैः ।
विश्वेन विकिरेत् सर्वानक्षतांश्च तदूर्ध्वतः ॥ ३७६ ॥

14.377
उत्तानये न्निवृत्या तान् क्रमाद्यत्नेन वै ततः ।
गालितेन तु तोयेन सुगन्धैश्चन्दनादिकैः ॥ ३७७ ॥

14.378
वासितेन तु तान् विप्र सर्वेणापूरयेत् क्रमात् ।
मध्यैकाशीतिमघ्यस्थनवके मध्यकुम्भके ॥ ३७८ ॥

14.379
सूर्यकान्तं पझरागं वैडूर्यं चन्द्रकान्तकम् ।
अयस्कान्तमिन्द्रनीलं प्रवालं गारुडं तथा ॥ ३७९ ॥

14.380
पुष्यरागं स्फाटिकं च ब्रह्नरागं च मेचकम् ।
वज्रं च रजतं चैव मौक्तिकं ताम्रमेव च ॥ ३८० ॥

14.381
सर्वाण्येतानि निक्षिप्य तद्बहिर्नवकाष्टके ।
पूर्वादीशानपर्यन्तं मध्यकुम्भेषु वै क्रमात् ॥ ३८१ ॥

14.382
द्रव्याणि षोडशैतानि द्वन्द्वयोगेन विन्यसेत् ।
द्विसप्तति च संख्येषु न्यसेच्छेषेषु मौक्तिकम् ॥ ३८२ ॥

14.383
पूर्वैकाशीतिमध्यस्थनवके मध्यगोचरे ।
कदलीपनसाम्राणां क्षीरिकाबदराख्ययोः ॥ ३८३ ॥

14.384
मातुलङ्गकेसरयोः ह व्यजम्बीरयोरपि ।
फलानि निक्षिपेत् पश्चात्तद्बहिर्नवकाष्टके ॥ ३८४ ॥

14.386
प्रागादीशानपर्यन्तं मातुलङ्गं च दाडिमम् ।
नारङ्गं चापि जम्बीरं तक्कोलं बदरीं तथा ॥ ३८६ ॥

14.387
क्षुद्रपूर्वं च पनसं कदलीमोचके तथा ।
क्रमाद्द्वन्द्वप्रयोगेण मद्यकुम्मेषु विन्यसेत् ॥ ३८७ ॥

14.388
नवकाष्टककुम्मेषु बदराणि विनिक्षिपेत् ।
उशीर कुङ्कुमं चैव मांसी मलयजं तथा ॥ ३८८ ॥

14.389
मुरं च हरिबेरं च कुष्ठं चागरुमेव च ।
एकाशीतिपदे याम्ये विश्वान्येतानि निक्षिपेत् ॥ ३८९ ॥

14.390
मध्ये मध्यस्थकलशे पूर्वादिक्रमयोगतः ।
शेषेषु मध्यकुम्भेषु न्यसेदेकैकजं फलम् ॥ ३९० ॥

14.391
विनिक्षिपेन्मलयजमेतेषामष्टकेषु च ।
समुद्रवापीकूपानां तटाकानां ह्रदस्य च ॥ ३९१ ॥

14.392
वृष्टीनदीहिमानां च तोयानि प्रतिपादयेत् ।
वारुणे मध्यमे कुम्भे एकैकं शेषमध्यमे ॥ ३९२ ॥

14.393
शेषेषु चाष्टवर्ग्येषु शुद्धोदानि विनिक्षिपेत् ।
यवगोधूमकब्रीहिशालिमुद्गप्रियङ्गुकान् ॥ ३९३ ॥

14.394
माषनीवारकौ वापि नवके मध्यमे घटे ।
शेषेषु धान्यमेकैकं मद्यकुम्भेषु च क्रमात् ॥ ३९४ ॥

14.395
अष्टकेषु च सिद्धानि तोयानि प्रतिपादयेत् ।
आग्नेयैकोनपञ्चाशन्नवके पूरयेद्घृतम् ॥ ३९५ ॥

14.396
षट्केष्वैन्द्रादियोगेन गोमूत्रं गोमयं तथा ।
क्षीरं दधि विनिक्षिप्य कोणेषूष्णोदकं न्यसेत् ॥ ३९६ ॥

14.397
नैरृते मध्यनवके तैलं विन्यस्य तद्बषिः ।
शेषेषु चत्वारिंशत्सु कलशेषु गुलोदकम् ॥ ३९७ ॥

14.398
वायव्यनवके मध्ये न्यसेत् तैलं तु सार्षपम् ।
कलशेषु च शेषेषु विन्यसेदैक्षवं रसम् ॥ ३९८ ॥

14.399
ईशानैकोनपञ्चाशन्नवके मधु विन्यसेत् ।
शेषेषु नालिकेराम्भः तत्क्षीरं वापि विन्यसेत् ॥ ३९९ ॥

14.400
ऐन्द्रादिपञ्चविंशत्सु प्रथमे मध्यमे घटे ।
क्षेत्रतीर्थाब्धिशैलेभ्यः सूकराख्यबिलाद्गजात् ॥ ४०० ॥

14.401
वल्मीकाद्वृषशृङ्गाच्च मृदमादाय पूरयेत् ।
शेषेष्वष्टसु चैकैकं षोडसे गन्धवारि च ॥ ४०१ ॥

14.402
सहदेवी वचा चैव शतमूली शतावरी ।
कुमारी च गलूची च सिंही व्याग्री तथैव च ॥ ४०२ ॥

14.403
द्वितीये मध्यमे कुम्भे विन्यस्य बहिरष्टके ।
एकैकं प्राक्क्रमेणैव षोडशे पूर्ववद्भवेत् ॥ ४०३ ॥

14.404
न्यग्रोधोदुम्बराश्वत्थजम्बूबिल्वपलाशजैः ।
शिरीषमधुकोत्थैश्च त्वग्रसैर्मध्यमं घटम् ॥ ४०४ ॥

14.405
तृतीये पूरयित्वाष्टौ व्यस्तैः षोडशपूर्ववत् ।
पलाशबिल्ववकुलकदम्बाम्रशिरीषजान् ॥ ४०५ ॥

14.406
न्यग्रोधाश्वत्थजान् क्षिप्त्वा चतुर्थे पल्लवान् घटे ।
मध्यमेऽष्टासु च व्यस्तान् प्राग्वत् षोडश विन्यसेत् ॥ ४०६ ॥

14.407
मल्लिकाजातिवकुलनन्द्यावर्तप्रियङ्गुजैः ।
पझचम्पककुन्दैश्च पुष्पैरापूर्य मध्यमम् ॥ ४०७ ॥

14.408
कलशं पञ्चमव्यस्तैरष्टौ शेषांस्तु पूर्ववत् ।
सिद्धार्थं सर्षपं माषं रोचनां गोसमुद्भवाम् ॥ ४०८ ॥

14.409
इन्द्रयवं वेणुयवं शमीश्यामाकबीजके ।
षष्ठे मध्यस्थिते कुम्भे न्यसेदष्टासु च क्रमात् ॥ ४०९ ॥

14.410
व्यस्तानि तानि द्रव्याणि प्राग्वत् शेषांस्तु षोडश ।
तिलं वनतिलं चैव जीरकं कृष्णजीरकम् ॥ ४१० ॥

14.411
अतसीं शतपुष्पां च कुठारच्छिन्नमेव च ।
ऋषिबीजं च विन्यस्य मध्यकुम्भे तु सप्तमे ॥ ४११ ॥

14.412
एकैकं बहिरष्टासु प्राग्वत् षोडशसु द्विज ।
षष्टिश्यामाकशालीनां नीवारस्य च तण्डुलम् ॥ ४१२ ॥

14.413
दूर्वाकुशेन्द्रवल्लीनामङ्कुरान् पिप्पलस्य च ।
न्यसेन्मध्येष्टमेऽष्टासु व्यस्तानन्येषु पूर्ववत् ॥ ४१३ ॥

14.414
कुशोदीच्येक्षुकाशानामुशीरशरपुङ्खयोः ।
अगर्वपामा र्गयोश्च मूलानि नवमे न्यसेत् ॥ ४१४ ॥

14.415
कुम्भे मध्यस्थितेः ऽष्टासु व्यस्तानन्येषु पूर्ववत् ।
तुलस्याः कृष्णतुलस्याश्च ग्रन्थिवेणोरपिच्छदाः ॥ ४१५ ॥

14.416
भृङ्गराजस्य बिल्वस्य शम्याः केतकि जातयोः ।
दशमे मध्यमेऽष्टासु व्यस्तान् शेषेषु पूर्ववत् ॥ ४१६ ॥

14.417
मुस्तानगरमुस्ताख्यकन्दे कुवलयस्य च ।
कुमुदोत्पलयोश्चापि शीतलीयककन्दकम् ॥ ४१७ ॥

14.418
कल्हारस्य कशेरोश्च कन्दे एकादशे क्षिपेत् ।
मध्ये कुम्मेषु चैतानि क्रमादन्येषु पूर्ववत् ॥ ४१८ ॥

14.419
मुद्गमाषकनिष्पावशिम्बव्रीहियवाङ्कुरान् ।
आढकानां कुलुत्थानामङ्कुरान् द्वादशे क्षिपेत् ॥ ४१९ ॥

14.420
मध्यकुम्भेऽष्टके व्यस्तान् प्राग्वत् षोडशसु द्विज ।
शङ्खापुष्पी सदाभद्रा विष्णुक्रान्त्येकफझयोः ॥ ४२० ॥

14.421
बलायाः खरमञ्जर्याः सहायाश्च तथैव च ।
अङ्कुरान् सहदेव्याश्च यध्ये कुम्भे त्रयोदशे ॥ ४२१ ॥

14.422
विन्यस्याष्टासु च व्यस्तानन्येषु प्राग्वदाचरेत् ।
श्वेतार्कं ब्रह्नदण्डीं च तथा ब्रह्नसुवर्चलाम् ॥ ४२२ ॥

14.423
सरक्तां च विरक्तां च पृश्निपर्णीं स्थिरां तथा ।
परण्डं चापि विन्यस्य मध्ये कुम्भे चतुर्दशे ॥ ४२३ ॥

14.424
अष्टासु तानि व्यस्तानि प्राग्वदन्येषु विन्यसेत् ।
सुरभीं पझकिञ्जल्कं नागकेसरमेव च ॥ ४२४ ॥

14.425
पत्रमेलात्वचं चैव लतां कस्तूरिकां तथा ।
जातीफलं च वै पञ्च दशमै मध्यसंस्थिते ॥ ४२५ ॥

14.426
कुम्भे न्यस्याष्टके व्यस्तं शेषं पूर्ववदाचरेत् ।
सुवर्णं रजतं ताभ्रमायसं त्रपु सीसकम् ॥ ४२६ ॥

14.427
आरं कांस्यं च विन्यस्य षोडशे मध्यसंस्थिते ।
कलशेऽष्टासु च व्यस्तं प्राग्वत् षोडशसु द्विज ॥ ४२७ ॥

14.428
एवं द्रव्याणि विन्यस्य क्रमेण सुसमाहितः ।
तत आग्नेयकोणे तु देवस्याराधनार्थतः ॥ ४२८ ॥

14.429
अर्घ्यादेर्द्रव्यनिचयं मधुपर्कं च विन्यसेत् ।
ततो निरृतिकोणे तु सरिद्राशालिपिष्टके ॥ ४२९ ॥

14.430
दूर्वामश्वत्थपत्रं च सिद्धार्थं च तथाक्षतम् ।
माल्यानि पूर्वकुम्भं च न्यसेन्नीराजनार्थतः ॥ ४३० ॥

14.431
तथाचोद्वर्तनार्थं च चूर्णं गोधूमशालिजम् ।
रजनीचूर्णसंमिश्रमीषत् पझकभावितम् ॥ ४३१ ॥

14.432
चमषीं च खलिं चैव तथा च मुनिपुङ्गव ।
चन्दनं मुखलेपार्थं घृष्टकर्पूरभावितम् ॥ ४३२ ॥

14.433
चम्पकैर्मुरमांसीभ्यां हरिबेरैः समन्वितम् ।
पिष्टमामलकं चैव शिरः स्नानार्थकं न्यसेत् ॥ ४३३ ॥

14.434
पृथक् पृथक् च पात्रेषु ततो वायव्यकोणके ।
धौतवस्त्रं करण्डं च पुष्पमाल्यादिभाजनम् ॥ ४३४ ॥

14.435
तत ईशानकोणे तु शलाकान्यायसानि तु ।
आयसा गुलिकाश्चैव तथा सन्दंशनं द्विज ॥ ४३५ ॥

14.436
अन्यद्यदुपयोगि स्यात् स्थापयेत् तद्यथारुचि ।
एतदुक्तं समस्तं वा यथाभिमतकोणगम् ॥ ४३६ ॥

14.437
मध्यैकाशीतिमध्यस्थनवके मध्यसंस्थिते ।
कुम्भे यजेद्वासुदेवं ततः प्रागादियोगतः ॥ ४३७ ॥

14.438
दिक्स्थानां नवकानां तु मध्येषु प्रभवक्रमात् ।
चतुरो वासुदेवादीन् विदिक्स्थानां तु मध्यतः ॥ ४३८ ॥

14.439
ईशादिवह्निपर्यन्तं तानेवाप्यययोगतः ।
मध्यं शुद्धद्ककुम्मेषु सत्यं सर्वेषु पूजयेत् ॥ ४३९ ॥

14.440
बहिर्दिङ्नवकानां तु शुद्धोदेषु च दिक्क्रमात् ।
सुपर्णं गरुडं चैव तार्क्ष्यं तु विहगेश्वरम् ॥ ४४० ॥

14.441
वह्न्यादीशानपर्यन्तं नवकानां चतुष्टये ।
शुद्धोदेषु च तानेव क्रमेण परिपूजयेत् ॥ ४४१ ॥

14.442
एकाशीतिषु दिक्स्थेषु पूर्वादिक्रमयोगतः ।
मध्यकुम्भेषु षट्त्रिंसशत्संख्यातेषु यथाक्रमम् ॥ ४४२ ॥

14.443
पझनाभादयो विप्र देवा वेदविदन्तिमाः ।
पूज्या नवकयुक्त्या तु मध्यादिशानपश्चिमम् ॥ ४४३ ॥

14.444
मध्ये शुद्धोदकुम्भेषु यजेत् कल्किकस्वरूपिणम् ।
वहिर्नवकशुद्धोदकलशेषु यजेत् प्रभुम् ॥ ४४४ ॥

14.445
पातालशयनाख्यं तु पश्चादग्निदिगादितः ।
चतुर्षु कोणेष्वेकोनपञ्चाशन्नवकेषु च ॥ ४४५ ॥

14.446
मध्येषु केशवादीनां क्रमात् त्रिकचतुष्टये ।
आद्यान् दिक्स्थेषु कुम्भेषु द्विदीयांस्तु चतुर्ष्वपि ॥ ४४६ ॥

14.447
विदिक्स्थेषु तृतीयांश्च षट्कं षोडशके क्रमात् ।
चक्रादिवज्रपर्यन्तमस्त्रषोडशकं यजेत् ॥ ४४७ ॥

14.448
कोणस्थेषु चतुष्केषु न्यसेच्छक्तिं ततःपरम् ।
ऐन्द्री दक्षिणतः पञ्चविंशतौ प्रथमे यजेत् ॥ ४४८ ॥

14.449
सर्वसम्पत्प्रदां लक्ष्मीं मध्यकुम्भेषु तद्बहि ।
अष्टास पुष्टि तद्बाह्य कान्ति षोडशके द्विज ॥ ४४९ ॥

14.450
एमाद्येषु चान्येषु पञ्चविंशतिषु क्राम ।
प्रभादीना च शक्तीनां त्रिय् त्रिययं यजेत् ॥ ४५० ॥

14.451
तत्रापि पञ्चदशमे बहिः षोडशके न्यसेत् ।
किरीट मन्ति मे पञ्चविंशतौ त्रितयं यजेत् ॥ ४५१ ॥

14.452
श्रीवत्सकौस्तुभं चापि वनमालां तथैव च ।
वासुदेवादिमन्त्रैस्तु वनमालान्तिमैः क्रमात् ॥ ४५२ ॥

14.453
अष्टाविंशतिसंख्यं तु हुत्वाज्यं तु यथारुचि ।
पूर्णान् दत्वा ततः कुम्भान् संपातविधिना स्तृशेत् ॥ ४५३ ॥

14.454
पिधाय चक्रिकाभिस्तु सर्वानुक्तक्रमेण तु ।
वासोभिश्छादयेत् पश्चान्नूतनैस्तु पऋथक् पृथक् ॥ ४५४ ॥

14.455
भूयः पूर्णाहुतिं दत्वा दिक्षु भूतबलिं हरेत् ।
मृदादिसर्वरत्नान्तमुद्धारक्रम इष्यते ॥ ४५५ ॥

14.456
पूर्वं विष्णोर्नुकमिति मन्त्रेण च महामते ।
पूर्वादीशानपर्यन्तं मृत्कुम्भैरभिषिच्य च ॥ ४५६ ॥

14.457
सर्वमृत्कलशेनैव मध्यस्थेन ततो बहिः ।
कुम्भैः षोडशभिर्विप्र प्रागादिक्रमयोगतः ॥ ४५७ ॥

14.458
एवमेव क्रमः सर्वपञ्चविंशतिषु द्विज ।
प्रतद्विष्णुरि त्यनेन मूलाद्भिरभिषेचयेत् ॥ ४५८ ॥

14.459
प्रतत्ते विष्णुवास इति कषायैरन्विताम्बुभिः ।
यस्य त्रिपूर्णे त्येतेन कलशैः पल्लवान्वितैः ॥ ४५९ ॥

14.460
तदस्ये ति च मन्त्रेण पुष्पैरापूरितैर्घटैः ।
तावामिति च मन्त्रेण सिद्धार्थादिसमन्वितैः ॥ ४६० ॥

14.461
प्रवः पान्तमि त्येतेन तिलाद्यन्वितवारिभिः ।
परो मात्रे तिमन्त्रेण षष्ट्यादिद्रव्यवारिभिः ॥ ४६१ ॥

14.462
न ते विष्णो रित्यनेन कुशमूलान्विताम्बुभिः ।
इरावती ति मन्त्रेण तुलस्यादिजलैस्ततः ॥ ४६२ ॥

14.463
अतो देवे ति मन्त्रेण मुस्ताकन्दादिसंयुतैः ।
इदं विष्णुरि त्यनेन मुद्गाद्यङ्कुरपूरितैः ॥ ४६३ ॥

14.464
त्रीणि पदे ति मन्त्रेण शङ्खपुष्पादिवारिभिः ।
विष्णोः कर्माणी त्यनेन श्वेतार्काद्यम्बुभिस्ततः ॥ ४६४ ॥

14.465
तद्विष्णो रिति मन्त्रेण सुरभ्यादिजलैस्ततः ।
तद्विप्रास इत्यनेन स्नापयेल्लोहवारिभिः ॥ ४६५ ॥

14.466
प्रागेकाशीतिकलशैः स्नापयेत् क्रमयोगतः ।
पूर्वादिमध्यपर्यन्तनवके स्नपनक्रमः ॥ ४६६ ॥

14.467
ऐन्द्रेण नवकेनादावुरुयज्ञाय इत्यृचा ।
इन्द्राविष्णू दृंहिते ति वह्निदिक्संस्थितेन च ॥ ४६७ ॥

14.468
इयं मनीषे ति याम्येन नवकेनाभिषेचयेत् ।
वषट् ते विष्णुवासे ति नैरृतेन ततः परम् ॥ ४६८ ॥

14.469
तिस्रोवाच इत्यनेन वारुणेन महामते ।
योवर्ध ओषधि मन्त्रेण वायव्यनवकेन तु ॥ ४६९ ॥

14.470
स्तरीरत्वदभवती ति सौम्येन नवकेन तु ।
ईशानदिक्स्थितेनैव यस्मिन् विश्वेति चेत्यृचा ॥ ४७० ॥

14.471
इदं वचः पर्जन्याये ति स्नापयेन्मघ्यमेन तु ।
याम्येकाशीतिकलशैस्ततः संस्नापयेद्विभुम् ॥ ४७१ ॥

14.472
सहस्रशीर्षं देव मिति मन्त्रपुरस्सरैः ।
सन्ततं सिराभि रितिपर्यन्तैश्च क्रमेण तु ॥ ४७२ ॥

14.473
अष्टमन्त्रैर्मुनिश्रेष्ठ प्रागादिनवकाष्टकैः ।
एतैरेव समस्तैस्तु स्नापयेन्मध्यमेन तु ॥ ४७३ ॥

14.474
एकाशीत्या तु वारुण्या कलशैरभिषेचयेत् ।
समुद्रज्येष्ठा इत्यनेन पूर्वादिनवकेन तु ॥ ४७४ ॥

14.475
वापीकूपतटाकाब्धिर्ह्रदवृष्टिसमुद्भवैः ।
या आपो दिव्या इति मन्त्रेणैवाभिषेचयेत् ॥ ४७५ ॥

14.476
नद्यम्भसा स्नापनीत यासां राजे त्यृचा ततः ।
यासु राजे ति मन्त्रेण हिमतोयेन वै ततः ॥ ४७६ ॥

14.477
समुद्रज्येष्ठपूर्वैस्तु चतुर्भिर्मध्यमेन तु ।
ततोऽभिषिञ्चेत् सौम्यैकाशीतिकुम्भैः क्रमेण तु ॥ ४७७ ॥

14.478
यदिमा इति मन्त्रेण शाक्रेण नवकेन तु ।
यस्यौषधि रित्येतेन वह्निदिक्संस्थितेन तु ॥ ४७८ ॥

14.479
साकं यक्ष्मे ति याम्येन अन्यावो इति नैरृते ।
याः फलिनी ति मन्त्रेण वारुण्यां नवकेन तु ॥ ४७९ ॥

14.480
मुञ्चतु मा शपय्या दिति वायुदिङ्नवकेन तु ।
आपः पुनन्त्वित्य नेन सोमदिक्संस्थितेन तु ॥ ४८० ॥

14.481
ओषधीः सोमराज्ञी ति मन्त्रैणैशानकेन तु ।
या ओषधीस्सोमराज्ञी विष्ठिता इति मध्यतः ॥ ४८१ ॥

14.482
ततोऽग्न्येकोनपञ्चाशत्कलशैरभिषेचयेत् ।
गायत्र्या चैन्द्रषट्केन गन्धद्वारे ति याम्यतः ॥ ४८२ ॥

14.483
पयस्वतीरोषधय इति षट्केन पश्चिमे ।
दधिक्राव्ण इत्यृचा सौम्यषटकेन तत्परम् ॥ ४८३ ॥

14.484
सम्यक स्रवन्ति सरितः सूक्तेनैव घृतेन च ।
नैरृतैकोनपञ्चाशत्कलशैरभिषेचयेत् ॥ ४८४ ॥

14.485
तेजोसी त्यादियजुषा तैलेन स्नापयेत्ततः ।
द्वादशाक्षरमन्त्रेण प्राक्क्रमेण गुडोदकेः ॥ ४८५ ॥

14.486
तेजसीत्यादि मन्त्रेण वायौ तैलेस्तु सार्षपेः ।
द्वादशार्णाख्यमन्त्रेण सर्वैरिक्षुरसैस्ततः ॥ ४८६ ॥

14.487
मधुवातादिभिर्मन्त्रैः कलशैर्मधुपूरितैः ।
पूर्वोदितेन मन्त्रेण नालिकेरजलैः क्रमात् ॥ ४८७ ॥

14.488
तेनेवोष्णजलैः पश्चाद्वह्न्यादीशानपश्चिमम् ।
सुतप्तायोगुडक्षेपात् सञ्जातोष्णैस्तदैव तु ॥ ४८८ ॥

14.489
उद्वर्तयेत्तयो देवं द्रपदा दीति मन्त्रतः ।
शिरस्यामलकं दद्या न्मानस्तोके ति मन्त्रतः ॥ ४८९ ॥

14.490
प्रक्षाल्य शुद्धतोयैश्च बहुभिश्च सुगन्धिभिः ।
मध्यैकाशीतिकलशैस्ततः संस्नापयेत् क्रमात् ॥ ४९० ॥

14.491
सहस्रशीर्षे त्यनया ऋचैन्द्रीनवकैर्घटैः ।
अष्टाभिरष्टदिक्संस्थैर्मघ्यमेन द्वितीयया ॥ ४९१ ॥

14.492
द्वाभ्यां द्वाभ्यां तथा ऋघ्भां क्रमान्नवकसप्तकैः ।
पौरुषेण तु सूक्तेन समस्तेन शनैः शनैः ॥ ४९२ ॥

14.493
स्नापयेद्देवदेवेशं मध्यस्थनवकेन तु ।
यद्वा सर्वस्य वशिन मित्याद्यैर्मनुभिः क्रमात् ॥ ४९३ ॥

14.494
महोपनिषदन्तस्थैः दिक्स्थितैः कलशाष्टकैः ।
एक एव नारायण इति मध्यगतेन तु ॥ ४९४ ॥

14.495
यद्वा द्विषट्कमन्त्रेण सर्वकुम्भैः क्रमेण तु ।
मृदादि सर्वरत्नान्तं स्नापयेद्द्विजसत्तम ॥ ४९५ ॥

14.496
उद्धार एवं कथितः श्रृणु कर्मक्रमं द्विज ।
प्रभाते तु कृतस्नानः कृतकौतुकमङ्गलः ॥ ४९६ ॥

14.497
देशिकेन्द्रस्तथान्यैश्च देशिकैश्च समन्वितः ।
प्रासादं संप्रविश्याथ नित्यं निर्वर्त्य पूर्ववत् ॥ ४९७ ॥

14.498
यागमण्डपमासाद्य रजोभिः पूर्य मण्डलम् ।
कुम्भमण्डलयोरिष्ट्वा प्रासादं संप्रविश्य च ॥ ४९८ ॥

14.499
ततस्त्वर्घ्यादिभिर्भोगैः मूलबिम्वं तु पूजयेत् ।
तस्मात् स्नपनबिम्बे तु समावाह्य तथैव च ॥ ४९९ ॥

14.500
इष्ट्वालंकृत्य विविधैर्वस्त्रैर्माल्यैश्च भूषणैः ।
शिबिकादौ समारोप्य सर्वालङ्कारसंयुतम् ॥ ५०० ॥

14.501
पूर्वोक्तवर्त्मना विप्र निनयेत् स्नानमण्डपम् ।
स्नानपीठे समारोप्य पूर्वोदितविधानतः ॥ ५०१ ॥

14.502
यथाक्रमं समभ्यर्च्य यावदात्मनिवेदनम् ।
ततस्तु देवदेवस्य कुर्यात् कौतुकबन्धनम् ॥ ५०२ ॥

14.503
देवस्य पुरतः कुर्याच्छकृता मण्डलं शुभम् ।
पिष्टचूर्णैरलंकृत्य न्यसेत् कोणेषु पालिकाः ॥ ५०३ ॥

14.504
व्रीहिभिः पीठिकां कृत्वा तदूर्ध्वं विनिवेशयेत् ।
हैमं वा राजतं पात्रं पूरितं शालितण्डुलैः ॥ ५०४ ॥

14.505
स्वारिमानैस्तदर्धैर्वा ताम्बूलैश्च विभूषितम् ।
तदूर्ध्वे विन्यसेत् सूत्रं पट्टजं तु चतुर्गुणम् ॥ ५०५ ॥

14.506
मन्त्रयित्वास्त्रमन्त्रेण संपूज्य कुसुमैरपि ।
तत् पात्रं शिरसि स्थाप्य परिचर्यापरस्य च ॥ ५०६ ॥

14.507
शिष्यस्य मण्डपं पश्चाच्चतुष्कुर्यात् प्रदक्षिणम् ।
सर्वमङ्गलसंयुक्तं प्रासादाभ्यन्तरे यदि ॥ ५०७ ॥

14.508
प्रथमावरणे वापि द्वितीयावरणेऽथवा ।
प्रदक्षिणचतुष्कं तु कुर्याद्वा संकटे द्वयम् ॥ ५०८ ॥

14.509
देवस्याग्रे तु तत्पात्रमाधारस्योपरि न्यसेत् ।
कृत्वा पुण्याहघोषं तु देवमर्घ्यादिभिर्यजेत् ॥ ५०९ ॥

14.510
ततः प्रतिसरं चेष्ट्वा गन्द्यधूपाधिवासितम् ।
कौतुकं देवदेवस्य बन्धयेद्दक्षिणे करे ॥ ५१० ॥

14.511
संपूज्यार्ग्यादिभिर्भूयस्ताम्बूलैस्तोषयेद्द्विजान् ।
दीक्षितान् वैष्णवांश्चापि देशिकेन्द्रपुरस्सरान् ॥ ५११ ॥

14.512
आचार्यः स्वयमादद्यात्तदर्धं तण्डुलादिकम् ।
एवं सर्वेषु यागेषु कार्यं कौतुकबन्धनम् ॥ ५१२ ॥

14.513
कुम्भानां विहितं कर्म न कृतं यदि व पुरा ।
कया त्वनुपपत्या तु तदा तत् सर्वमाचरेत् ॥ ५१३ ॥

14.514
स्नानासनोदितैर्भोगैः मुखलेपान्तिमैः क्रमात् ।
पूजयित्वा ततः कुम्भैः स्नापयेदुक्तवर्त्मना ॥ ५१४ ॥

14.515
सर्वेषामपि कुम्भानां स्नानशेषं तु पूरयेत् ।
घटान्तरं तु द्रव्याणामन्तरान्तरयोगतः ॥ ५१५ ॥

14.516
शुद्धाम्भसा स्नापयित्वा वस्त्रेणार्घ्यादिभिर्यजेत् ।
एवं सुस्नाप्य विधिवद्रजनीचूर्णपूरितैः ॥ ५१६ ॥

14.517
कौतुकोक्तेन मार्गेण पुरस्तादधिवासितैः ।
पञ्चविंशतिभिः कुम्भैर्नवभिः पञ्चभिस्तु वा ॥ ५१७ ॥

14.518
एकेन वापि तच्चूर्णं द्विषट्कब्रह्नविद्यया ।
प्रदद्यान्मूर्घ्निदेवस्य भूयश्चार्घ्यादिभिर्यजेत् ॥ ५१८ ॥

14.519
सर्वाङ्गं परिमृज्याथ भक्तानां मूर्घ्नि दापयेत् ।
विष्वक्सेनस्य दत्वा तु तन्मन्त्रेण ततो द्विज ॥ ५१९ ॥

14.520
सहस्रधारास्नपनमाचरेच्छद्धवारिभिः ।
सवन्दनादिकं दत्वा ततः पीठात्ततः प्रभुम् ॥ ५२० ॥

14.521
अलङ्कारासनं नीत्वा आसनादिक्रमाद्यजेत् ।
भोगैः सांस्पर्शिकैः प्राग्वद्विविधैरौपचारिकैः ॥ ५२१ ॥

14.522
हृदयङ्गमसंज्ञैश्च विचित्रैश्च मनोहरैः ।
एवं द्विजप्रदानान्तं होमान्तं वा प्रपूज्य च ॥ ५२२ ॥

14.523
शिबिकादौ समारोप्य पूर्ववत् संप्रवेशयेत् ।
प्रदक्षिणक्रमेणैव प्रासादाभ्यन्तरं ततः ॥ ५२३ ॥

14.524
तत्रावरोप्य तद्बिम्बं स्वस्थाने सन्निवेश्य च ।
इष्ट्वाचार्घ्यादिभिर्भोगैः मूलबिम्बं तथैव च ॥ ५२४ ॥

14.525
समार्प्य च कृतं कर्म कुर्याच्चैव विसर्जनम् ।
ततश्चौत्सवबिम्बं तद्विचित्रैर्वसनैस्तथा ॥ ५२५ ॥

14.526
ततश्चोत्सवबिम्बं तद्विचित्रैर्वसनैस्तथा ।
अनेकैर्भूषणै रम्यैर्माल्यैश्च सुसुगन्धिभिः ॥ ५२६ ॥

14.527
अलंकृत्य समारोप्य शिबिकां संप्रवेशयेत् ।
आस्थानमण्डपं सम्यगुत्सवोदितवर्त्मना ॥ ५२७ ॥

14.528
तत्रावरोप्य यानाच्च सौवर्णे वितते शुभे ।
भद्रासनेऽथवा विप्र विचित्रास्तरणान्विते ॥ ५२८ ॥

14.529
यथाक्रमोदितेनैव वर्त्मना संप्रपूजयेत् ।
सांस्पर्शादिकैर्भोगैर्विविधैस्तु विशेषतः ॥ ५२९ ॥

14.530
महाहविर्निवेद्याथ कृत्वा सर्वं क्रमेण तु ।
द्विजप्रदानपर्यन्तमग्नौ सन्तर्पयेत् क्रमात् ॥ ५३० ॥

14.531
समर्पणादिकं सर्वं कृत्वा देवं जगत्पतिम् ।
समारोप्य च यानादौ सर्वमङ्गलसंयुतम् ॥ ५३१ ॥

14.532
प्रवेशयेत्तु प्रासादं यानादेरवरोप्य च ।
स्वस्थाने सन्निवेश्याथ अर्घ्यगन्धादिभिर्यजेत् ॥ ५३२ ॥

14.533
मूलबिम्बं तथाभ्यर्च्य कृतं कर्म समर्पयेत् ।
स्नानशेषेण तोयेन कुम्भस्थेन क्रमेण तु ॥ ५३३ ॥

14.534
द्वारस्थान् सकलान् देवांस्तथा चावरणस्थितान् ।
बलिदानक्रमेणैव संप्रोक्ष्य परिपूज्य च ॥ ५३४ ॥

14.535
बलिं च दत्वा शेषेण गणेशमभिषिच्य च ।
पूजयेदर्घ्यगन्धाद्यैरथवा ह्यनुकल्पके ॥ ५३५ ॥

14.536
पूजावसाने देवस्य स्नपनव्यक्तिगस्य तु ।
प्रोक्षणं देवतानां च गणेशस्याभिषेचनम् ॥ ५३६ ॥

14.537
आचरेत् क्रमयोगेन यजमानस्ततो द्विज ।
आचार्यान् साधकांश्चैव तोषयेद्विविधैर्धनैः ॥ ५३७ ॥

14.538
अन्यांश्च वैष्णवान् सर्वान् यथाशक्ति च तोषयेत् ।
अनिवारितमन्नाद्यं सार्वजन्यं तु कारयेत् ॥ ५३८ ॥

14.539
एवमेव हि सर्वेषु स्नपनेषु क्रियाक्रमः ।
प्रोक्षणं परिवाराणां बलिदानं च वर्जयेत् ॥ ५३९ ॥

14.540
महाहविर्विधानं च विभवे सति कल्पयेत् ।
प्रधानादिक्रमेणैव स्नपनानां तु पञ्चकम् ॥ ५४० ॥

14.541
कुर्यान्नित्यविधौ विप्र तथा नैमित्तिकेऽपि च ।
ततस्तु सूक्ष्मसूक्ष्मादिस्थूलस्थूलान्तपञ्चकम् ॥ ५४१ ॥

14.542
चातुरात्म्यादिदेवानां कार्यं स्थापनकर्मणि ।
अयने विषुवे चैव ग्रहणे सोप्रसूर्ययोः ॥ ५४२ ॥

14.543
स्नपनं मुख्यकल्पे तु कुर्यादाद्योत्तमोत्तमम् ।
अनुकल्पे तु तन्मध्यं तन्न्यूनादि चतुष्टयम् ॥ ५४३ ॥

14.544
अयनद्वयमध्यस्थसंक्रान्तिद्विचतुष्टये ।
आवृत्तिक्रमयोगेन कल्पयेन्मुनिपुड्गव ॥ ५४४ ॥

14.545
उत्सवारम्भदिवसे तदन्ते च समारभेत् ।
अधमोत्तमसंज्ञं तु तन्मध्यं वानुकल्पके ॥ ५४५ ॥

14.546
महाहविर्विधाने तु तन्न्यूनं तु समाचरेत् ।
देशकालानुरूपेण द्वितीयं नवकं तु वा ॥ ५४६ ॥

14.547
तृतीयं वा चतुर्थं वा कल्पयेत्तु यथाक्रमम् ।
प्रायश्चित्तेषु कार्येषु सर्वाण्येतानि कल्पयेत् ॥ ५४७ ॥

14.548
तेषु स्नपनभेदं तु वक्ष्याम्युपरि विस्तृतम् ।
स्नपनानां विधानं तु दिव्यशास्त्रोक्तवर्त्मना ।
यथावत् कथितं सम्यक्किमन्यच्छ्रोतुमिच्छसि ॥ ५४८ ॥

Innere Sammlung und achtsames Handeln

Die ersten vierzehn Kapitel zeigen, wie sorgfältige Vorbereitung, Japa und Meditation ineinandergreifen. Ihre ethische Mitte ist klar: den Geist von Hochmut lösen, das Wohl aller Wesen suchen und niemanden verletzen (7.441–443). Diese Haltung kann jede spirituelle Übung tragen.

Im zweiten Devanagari-Teil weitet sich der Blick auf Weihe und gemeinschaftliches Tempelleben. Für die eigene Sadhana darf zunächst ein einfacher Schritt genügen: einen Vers verstehen, einen Augenblick gesammelt verweilen und einem Menschen mit Wohlwollen begegnen.

Siehe auch

Weitere Tantra- und Saṃhitā-Schriften für die vergleichende Lektüre:

Zur Schriftfassung

Diese Devanagari-Fassung ist eine regelbasierte Umschrift des bereinigten IAST-Grundtextes. Sie bewahrt auch dessen erkannte Leseschäden und ist kein unabhängiger Textzeuge.

Textgrundlage und Lesarten

Grundlage ist der Sanskrittext der Parameśvara Saṃhitā bei Wisdomlib. Kapitel 2 wurde aus der zugehörigen Kapitelseite ergänzt. Die übrigen Kapitel folgen der übermittelten IAST-Kopie. Webseitenbedienelemente, ein isolierter technischer Zahlenmarker vor der Überschrift von Kapitel 16 und unsichtbare Verbindungszeichen wurden entfernt. Die Sanskritlesungen wurden nicht stillschweigend verbessert. Zusätzlich entfernt wurden fremde Satzmarker: eingefügte Großbuchstaben R in Kapitel 8–9, vorangestellte B in 15.403, 15.751 und 15.1074 sowie 16.434, außerdem die fremde Klammer in 22.38. Die beschädigte Wortform „sthūlasa6kṣmātmako“ in 24.25 und die ausdrückliche Lücke in 24.110 bleiben sichtbar; sie werden nicht als sichere Mantralesungen behandelt.

Die Fassung umfasst 26 Kapitel mit 8.284 nummerierten Texteinheiten. Das ist keine gesicherte Zählung metrisch vollständiger Ślokas. Die in 1.93 erwähnte Fassung von 16.000 Versen ist mit dem hier vorliegenden Umfang nicht gleichzusetzen. Kapitel 1.95–113 kündigt Erkenntnis- und Ritualteil an; die Überschrift von Kapitel 2 bezeichnet ausdrücklich den Kriyākāṇḍa. Eine vollständige erhaltene Zweiteilung lässt sich aus diesem Textbestand nicht belegen.

Folgende Nummern fehlen: 2.78; 3.175 und 3.198; 6.194, 6.195 und 6.278; 7.238; 14.385; 16.336. Fehlende Nummern bedeuten nicht in jedem Fall fehlende vollständige Verse: Unter 2.79 stehen beispielsweise vier Zeilen. Bei 3.176 ist nur ein Halbvers vorhanden. Nach 16.335 steht ein zweites Mal 326, wahrscheinlich statt 336; die Quellenzählung bleibt sichtbar. In Kapitel 19 kommt 458 zweimal vor; der zweite dieser Texte wird unter 459 erneut wiederholt. Zur Unterscheidung dienen redaktionelle Zusätze „zweites Vorkommen“.

Die Kapitel haben Eingangsüberschriften und teilweise Sprecherangaben, aber keine durchgehende Reihe ausführlicher Schlusskolophone. Es wurden keine Kolophone ergänzt. Der Rahmendialog wird von Śāṇḍilya und Sanaka getragen. Eingeschobene Anreden an Nārada und den Lotosgeborenen bleiben erhalten. Sie zeigen unterschiedliche Redeebenen; sie werden nicht zu einer künstlich einheitlichen Sprecherfolge umgeschrieben.

Der Text enthält zahlreiche erkennbare Schreib- oder Übertragungsprobleme, etwa „pajha“ in Zusammenhängen, in denen „padma“ zu erwarten ist, und „brahna“ statt „brahma“. Diese Arbeitsgrundlage ersetzt keine kritisch geprüfte Sanskritedition. Bei Mantras darf eine beschädigte Buchstabenfolge nicht allein aufgrund ihrer äußeren Plausibilität als sichere Rezitationsfassung gelten.

Medien und weiterführende Zugänge

Die Bilder und Videos begleiten die heutige Beschäftigung mit dem Werk. Die Vorträge erläutern allgemeine spirituelle Themen; sie sind keine vollständigen Kommentare zur Parameshvara Samhita. Die Bild- und Videoeinbindungen sind auf den Yoga-Wiki-Seiten zu Vishnu, Puja und Meditation nachgewiesen.

Seminare

Kundalini Yoga

30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Arjuna Wingen
06.11.2026 - 08.11.2026 Kundalini Yoga Einführung

Gründliche Einführung in die Theorie und Praxis des Kundalini Yoga, Yoga der Energie. Die praktischen Übungen des Kundalini Yoga umfassen Pranayama (…
Arjuna Wingen

Indische Schriften

26.12.2026 - 02.01.2027 Indische Rituale Ausbildung

Du interessierst dich für indische Rituale? Du hast die einzigartige Gelegenheit, in dieser Rituale Ausbildung bei Yoga Vidya die kleine Puja, große P…
Sukadev Bretz, Shankari Winkelbauer
01.01.2027 - 10.01.2027 Yogalehrer Weiterbildung Intensiv A1 - Jnana Yoga und Vedanta

Kompakte, vielseitige Weiterbildung für Yogalehrer rund um Jnana Yoga und Vedanta.
Tauche tief ein ins Jnana Yoga und Vedanta, studiere die indischen S…
Vedamurti Dr Olaf Schönert

Chakras

20.11.2026 - 22.11.2026 Heilreise durch die Chakren

Tauche ein in eine transformative Reise durch die sieben Hauptchakren und erfahre, wie du deine Energiezentren aktivieren, ausbalancieren und für dein …
Nese Niekrens, Gajendra Sebastian Niekrens
26.12.2026 - 01.01.2027 Kundalini Yoga Intensiv Praxis - Live Online

Intensives Praktizieren der im Mittelstufen-Seminar gelernten Übungen für noch tiefere Erfahrung und Erweiterung des Bewusstseins ohne viel Theorie. L…
Sukadev Bretz, Shaktipriya Vogt, Radharani Birkner

Energiearbeit

30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Arjuna Wingen
04.11.2026 - 04.11.2026 Einführung in die Chakratherapie - Online Workshop

Uhrzeit: 18 - 21 Uhr
Ein Chakra ist ein feinstoffliches Kraftzentrum des Körpers, welches wichtige Körperfunktionen steuert und bestimmten Organen zug…
Beate Menkarski

Hauptartikel · Sanskrit IAST · Devanagari, Teil 1 · Devanagari, Teil 2 · 108 inspirierende Verse und Mantras