Ishanashivagurudeva Paddhati Yogapada Sanskrit Devanagari

Aus Yogawiki

Ishanashivagurudeva Paddhati – Yogapada in Devanagari

Der Yogapada führt die Aufmerksamkeit nach innen. Seine drei Kapitel fragen nach dem Selbst, nach einer tragfähigen Lebensführung und nach Sammlung. Entsagung wird dabei nicht auf Kleidung oder äußere Kennzeichen verkürzt: Entscheidend ist der Umgang mit Wünschen, Handlungen und ihren Früchten.

Diese Fassung bewahrt den gelieferten Sanskrittext mit seinen Lesungen, Versmarken, Zitaten und Kolophonen. Die deutschen Kapitelüberschriften und Inhaltsbeschreibungen sind redaktionelle Orientierungshilfen. Für den Sinnzusammenhang ist die entsprechende deutsche Übersetzung unmittelbar verlinkt.

Markierungen wie ⟦Quellbyte …⟧ stehen für in der elektronischen Vorlage nicht eindeutig lesbare UTF-8-Bytes; sie ersetzen keine erschlossenen Sanskritzeichen.

Zur Textausgabe: Hauptartikel · Deutsch · IAST · Devanagari · 108-Auswahl · Mantrasammlung

← Vorheriger Teil

Ein Zugang für dein Studium: Verfolge den Weg von Vairagya (Nichtanhaften) über die Lebensführung zur Sammlung und Meditation. Lies dabei besonders aufmerksam, wo das Werk äußere Kennzeichen von innerer Freiheit unterscheidet. Frage nicht nur, welche Übung beschrieben wird, sondern auch, welche geistige Haltung sie tragen soll.

Die Devanagari-Fassung lädt zur Begegnung mit der Schriftgestalt des Sanskrit ein. Nutze die verlinkte IAST-Fassung zur Orientierung und die deutsche Übersetzung für den Sinnzusammenhang.

Weiterführende Lektüre: Vijnana Bhairava Tantra ist ein anregender Vergleichstext zur Sammlung. Lies beide mit der Frage, wie Aufmerksamkeit gelenkt und vertieft wird. Kularnava Tantra kann das Studium um Fragen nach geistiger Vorbereitung und Lehrerbeziehung ergänzen. Die unterschiedlichen Lehrzusammenhänge bleiben dabei zu beachten.

Shiva in Meditation: eine moderne Begleitabbildung zum Thema innere Sammlung.

(तुरीयो योगपादः)


Yogapada, Kapitel 1: Vergänglichkeit, Entsagung und Befreiung

Der Yogapada wendet sich von der äußeren Ritualordnung ausdrücklich der Befreiung zu. Sein erstes Kapitel verwendet eine scharf asketische Betrachtung von Körper und Sinnesfreuden, um Vairagya, das Nachlassen des Anhaftens, zu begründen. Diese historische Perspektive wird quellengetreu wiedergegeben. Der anschließende Gedankengang unterscheidet innere Entsagung deutlich von bloßer Kleidung oder sozialer Rolle.

Zur deutschen Übersetzung dieses Kapitels

अथ प्रथमः पटलः |

अथ मोक्षस्तु संसिध्येत् सम्यग् ज्ञानेन देहिनः |
ज्ञानं जायेत वैराग्याद् वैराग्यं च स्वभावतः || १ ||

स्वभावो नाम संसारस्वरूपस्य निरूपणम् |
संसारस्त्वात्मबुद्धिः स्याद् देहे स्वत्वेन वस्तुषु || २ ||

देहोऽपि द्विविधो ज्ञेयः स्थूलसूक्ष्मप्रभेदतः |
पृथिव्यादीनि भूतानि श्रोत्राद्याधारकान्यपि || ३ ||

वागादिकर्मेन्द्रियाणि वातपित्तकफास्तथा |
त्वगसृङ्मांसमेदोस्थिमज्जाशुक्लैश्च नाडिभिः || ४ ||

मूलाधारे कुण्डलिन्यां नाभिहृत्कण्ठमूर्धसु |
चतुष्षडष्टजगतीविकाराक्षिच्छदाम्बुजैः || ५ ||

युक्तं स्थूलशरीरं स्यात् सूक्ष्मं पुर्यष्टकात्मकम् |
तत्तच्छब्दादयः पञ्च मनो बुद्धिरहङ्कृतिः || ६ ||

देहद्वयं तु साध्यात्मं साधिभूताधिदैवतम् |

तद्यथा -

श्रोत्रादयश्च वागाद्यास्तथाध्यात्मानि वै पृथक् || ७ ||

शब्दादिवक्तव्यादीनामधिभूतत्वमिष्यते |
खवायुतेजांसि जलं पृथिवी च तथानलः || ८||

इन्द्रो विष्णुश्च मित्रश्च प्र(दे? जे) शश्चाधिदैवतम् |
अध्यात्मानि मनो बुद्धिरहंकारश्च तत्त्रयम् || ९ ||

प्. ६१७)

मन्तव्यं चैव बोद्धव्यं मानश्चैवाधिभूतकम् |
चन्द्रो जीवो विरिञ्चश्चाअप्यधिदैवा?न्यनुक्रमात् || १० ||

गुणत्रयमयी या सा प्रकृतिः पुरुषस्तथा |
रागो विद्यादितत्त्वानि मायान्तान्यखिलानि तु || ११ ||

मलं कर्म च माया च सर्वमस्य प्रवर्तकम् |
जाग्रत् स्वप्नः सुषुप्तिश्चेत्यवस्थात्रितयं तथा || १२ ||

कामः क्रोधश्च लोभश्च मोहश्च मदमत्सरौ |
षडूर्मय इमे व्याप्ये मोहाब्धौ व्यापकाः स्मृताः || १३ ||

एवम्भूतं शरीरं यदाममृत्कुम्भसन्निभम् |
जन्मादिभिः षड्विकारैरध्यस्तमतिनश्वरम् || १४ ||

अस्वतन्त्रं कर्मवशात् प्रविशन् निर्विशन्नपि |
प्रवसन्नपि संसारे भ्रमत्यात्मा ह्यलक्षितः || १५ ||

शरीराणि तथैतानि पञ्चधा मानसानि च |
जरायुजान्यण्डजानि स्वेदजान्युद्भिदान्यपि || १६ ||

तत्र देवादिदेहाः स्युर्मानसाश्चाजरायुजाः |
जरायुजा मनुष्याणां पशूनां च भवन्ति हि || १७||

सरीसृपाहिविहगशरीराण्यण्डजानि तु |
जरायुजाश्चाण्डजाश्च देहाः स्युर्जलचारिणम् || १८ ||

स्वेदजाः क्रिमयः प्रोक्ताः स्थावराश्चोद्भिदा मताः |
सर्वे स्वकर्मवशगा भवन्ति न भवन्ति च || १९ ||

मृतिजन्मजले घोरे सुखदुःखझषाकुले |
शोकमोहादिकलिले त्वगाधे भवसागरे || २०||

उन्मज्जन्तो निमज्जन्तः पुण्यपापैकबन्धनैः |
निबद्धा देहिनः सर्वे स्वर्गभूनरकादिषु || २१ ||

मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिपञ्जरे |
त्वचावृते शरीरेऽस्मिन् सौन्दर्यं स्मर्यते कुतः || २२ ||

अस्थिपञ्जरसारेऽस्मिन् मूत्रश्लेष्ममलाशये |
मांसकेशनखस्नायुरुधिरत्वक्समावृते || २३ ||

प्. ६१८)

देहे चेत् प्रीयते कश्चित् प्रीयते नरकेऽपि सः |
यद्वाप्यज्ञानिभिर्देहे सुखबुद्ध्यात्र भण्यते || २४ ||

शब्दादीन्द्रियसौख्यान्यप्यन्वयव्यतिरेकतः |
असाराणि यथागीतं मत्तोन्मत्तप्रलापवत् || २५ ||

वादयन्तश्च दृश्यन्ते यथोन्मत्ता विकुर्वते |
स्वर्णसौख्यं तथोपाधेरुपाध्यन्तरसङ्गमात् || २६ ||

व्रणादेस्तु यथापूयमूत्रादेर्निर्गमात् सुखम् |
पामकण्डूतिसौख्यं वा तत्तुल्यं सुरते सुखम् || २७ ||

चक्षुरिन्द्रियसौख्यं यन्नृत्तकान्तादिदर्शने |
उन्मत्तचेष्टितान्नृत्तं न किञ्चिदपि हीयते || २८ ||

स्वक्षी सुनासा सुमुखी सुदतीत्यादिदर्शने |
सौख्यं त्वगस्थिमांसादौ कतरत् स्यान्मनोहरम् || २९ ||

आस्वाद्येषु पदार्थेषु रसनेन्द्रियचापलात् |
क्षुत्तृण्णिवृत्त्या सौहित्यं दुःखापायो न तत् सुखम् || ३० ||

निद्रादुःखं यदि लसैत् सौख्यं स्वापे सुखं यथा |
तदात्मसुखमुद्दिष्टं करणानां तु संहृतौ || ३१ ||

घ्रेयेष्वपि सुगन्धेषु यत्नात् प्राप्येषु दृश्यते |
अयत्नेन वनादौ च प्राप्तुं तच्छक्यते सुखम् || ३२ ||

गर्भवासे च जनने बाल्ये वास्य कुतः सुखम् |
अस्वतन्त्रस्येव परैर्यन्त्रितस्येव पक्षिणः || ३३ ||

यौवनेऽनिष्टसंयोगादिष्टलाभे वियोगतः |
रागाद्याक्रान्तचित्तस्य कुतः सौख्यं शरीरिणः || ३४ ||

वार्धक्येऽण्प्र?समर्थस्य विषयांस्तु बुभुत्सतः |
प्रक्षीणेन्द्रियवृत्तेस्तु रोगरागाद्युपद्रवैः || ३५ ||

पीड्यमानस्य तत्सौख्यं कुतो वास्य मरिष्यतः |
म्रियमाणस्य यद् दुःखे नरकेऽपि न तद् भवेत् || ३६ ||

ततः पापकृतां दुःखं यमलोकाय गच्छताम् |
तद्दर्शनेन पततां पतितानां पतिष्यताम् || ३७ ||

प्. ६१९)

नरकेषु प्रसिद्धं हि दुःखं तस्मान्न भण्यते |
यदि पुण्यकृदेव स्यात् स्वर्गे देवादिदेहवान् || ३८ ||

विमानादिषु दिव्येषु भोगेषूपनतेष्वपि |
दृष्ट्वा (पापा? त्वल्पां) श्रियं दीप्तामन्येषामात्मनोऽधिकाम् || ३९ ||

सन्तप्त एष विषयान् भुङ्क्ते दुःखं धिया वहन् |
ततोऽपि क्षीणपुण्यानां पतनाद्यवलोक्य तु || ४० ||

यादृशं हृदये दुःखं न तद् वर्णयितुं क्षमम् |
अथ राज्यादिषु सुखं स्याच्चेत् सन्ध्यादिदुःखिनः || ४१ ||

पुत्रेभ्योऽपि भयं यस्य तस्य सौख्यं कुतो भवेत् |

अत्र पराशरः -

यावतः कुरुते जन्तुः संबन्धान् मनसः प्रियान् |
तावन्तोऽस्य निखन्यन्ते हृदये शोकशङ्कवः ||

यद् यद् गृहे तन्मनसि यत्रतत्रावतिष्ठतः |
[नाशदाहापहरणं तत् तस्यास्यैव तिष्ठति इति विष्णुपुराणे पठ्यते|
] नाशव्ययादिभीत्या क्व परिग्रहवतां सुखम् ||

इति |

तथा चाहुः -

यतो यतो निवर्तते ततस्ततः सुखी भवेत् |
निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ||

इति |

तथापि तृष्णया जन्तुः पीड्यमानो दिवानिशम् |
अर्थाद्यार्जनवैतृष्ण्यं न कदाचिन्निगच्छति ||

तथाचोक्तं -

जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः |
चक्षुश्श्रोत्रे च जीर्येते तृष्णैका निरुपद्रवा ||

यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः |
नालमेकस्य तु यतस्तां तृष्णां दुरतस्त्यजेत् ||

प्. ६२०)

अतो न कर्मणा कार्यं प्रजया वा धनेन वा |
त्यागेनैवामृतत्वं हि प्राप्तुं शक्यं मनीषिभिः || ४२ ||

तस्माद् धर्मार्थकामेभ्यो मोक्ष एव विशिष्यते |
अस्थिरत्वात् त्रिवर्गाणां दुस्संपादतयापि च || ४३ ||

अलमलमतिविस्तरेण |
प्रस्तुतमेवानुसन्धीयते |

इत्थं विज्ञाय संसारमसारं तद्विरागतः |
मोक्षमार्गः परो योगः साङ्गः साध्यो विपश्चिता || ४४ ||

स च सन्न्यसनात् सम्यग् योगः प्राप्यो न चान्यथा |
सन्न्यासो मुण्डनान्न स्याद् दण्डादेर्ग्रहणादपि || ४५ ||

काषायावरणाद्यं च मुण्डनं दण्डधारणम् |
यदन्यदप्येवमाद्यं देहस्योक्तं न देहिनः || ४६ ||

जडस्येह शरीरस्य घटकुड्यादिधर्मणः |
वेषलङ्घनमात्रेण देही मोक्षं कथं व्रजेत् || ४७ ||

अत एव शरीरस्य कर्तृत्वं नापि भोक्तृता |
शरीरकर्मणां कर्ता संस्कार्यस्तत्फलार्थिभिः || ४८ ||

अत एव हि सन्न्यासस्त्यागः स्यात् काम्यकर्मणाम् |
काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः || ४९ ||

लोकार्थपुत्रैषणाभ्यो निवृत्तो यः सदैव हि |
स्ववर्णाश्रमयुक्तानां तथा स्वसमयस्य तु || ५० ||

विहितानां तु धर्माणां तत्फलेप्वनपेक्षया |
ईश्वरार्पणबुद्ध्या तु करणं न्यास इष्यते || ५१ ||

तद्वान् यतिश्च सन्न्यासी न स्यात् केवलमुण्डितः |
ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति || ५२ ||

ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः |
चीरवासा जटी वापि द्विदण्डो वाथ [ख्: स] मुण्डितः || ५३ ||

विवासाः शुक्लवस्त्रो वा काषायवसनोऽथवा |
कर्मसन्न्यासनं कृत्वा साङ्गयोगं समाश्रितः || ५४ ||

प्. ६२१)

शिवानुग्रहमासाद्य योगी मोक्षमवाप्नुयात् |
विज्ञाय संसारमसारमेवं वैराग्यतोऽनुग्रहतश्च शम्भोः |
संप्राप्य योगं तु गुरूपदेशाद् योगी विमुक्तिं न चिरादुपैति || ५५ ||

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे योगपादे योगलक्षणं नाम प्रथमः पटलः ||


Yogapada, Kapitel 2: Die Glieder des Yoga und die innere Körperlehre

Das zweite Kapitel erläutert Yamas, Niyamas, Sitzhaltungen und Pranayama. Ethische Haltung, maßvolles Leben und Verehrung bilden die Grundlage. Es folgt eine traditionelle Darstellung von Nadis und Lebenswinden. Diese innere Körperlehre wird als Lehre des Werkes dargestellt und nicht mit heutiger Anatomie gleichgesetzt.

Zur deutschen Übersetzung dieses Kapitels

Heutige Puja. Das Bild veranschaulicht Verehrung, nicht die historische Ausführung eines bestimmten Kapitels.

Moderne Begleitung: Kundalini – die kosmische Kraft

Dieser Beitrag erläutert einen allgemeinen Yoga- und Tantra-Zusammenhang; er ist keine Rezitation dieser Schrift.


अथ द्वितीयः पटलः |

अथ योगस्तु विज्ञेयो गुणैश्वर्यविमुक्तिदः |
चित्तवृत्तिनिरोधं तु योगमाह पतञ्जलिः || १ ||

युजेर्धातोः समाधौ तु क्षेत्रज्ञपरमात्मनोः |
युक्तिर्योगः समुद्दिष्टस्तथाचाह महामुनिः || २ ||

मनो हि सर्वभूतानां कारणं बन्धमोक्षयोः |
वृत्तिहीनं मनः कृत्वा स्वात्मानं परमात्मनि || ३ ||

परमात्मा [रात्मना स] समायोज्य योगं कु * * * * |
* * * * विमुक्तः [क्: क्ति] स्यान्मुख्योऽयं योग इष्यते |

इति |

सम्यक् शिवगतं चित्तं यदा न चलति स्थिरम् |
शिवत्वव्यक्तभावस्य कैवल्यं योग इष्यते || ३ ||

तच्च रागादिदोषाणां वर्जनेन प्रकाशते |
ते च नश्यन्ति रागाद्या योगा⟦Quellbyte 0x94⟧न्गानां निषेवणात् || ४ ||

योगाङ्गानि च तान्यष्टौ प्रवदन्ति हि तद्विदः |

तद्यथा -

यमाश्च नियमास्तद्वदासनं प्राणसंयमाः || ५ ||

प्रत्याहारा धारणाश्च ध्यानानि च समाधयः |
यमाः पञ्चप्रकाराः स्युर्नियमाश्चैव पञ्चधा || ६ ||

आसनानि च पञ्च स्युः प्राणायामास्तु नैकधा |
प्रत्याहाराः पञ्चविधा धारणा बहुधा स्मृताः || ७ ||

प्. ६२२)

ध्यानानि नैकधा त्वकः समाधिरथवा त्रिधा |
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ || ८ ||

यमाः पञ्चविधास्तेषां पृथग्भेदा भवन्ति हि |
मनोवाक्कर्मभिहिंसास्त्रिविधाः प्राणिनामिह || ९ ||

ताभ्यो निवृत्तिं सर्वत्र अहिंसां परिचक्षते |
सत्यं यथार्थकथनं सर्वभूतहितं च यत् [तत् परपीडाकरं सत्यं यदा] || १० ||

परपीडाकरं सत्यमेवं सयतं विदुर्बुधाः |
असत्यमपि भूतानां हितं चेत् सत्यमेव तत् || ११ ||

परपीडाकरं सत्यं यदा मौनं तदा भजेत् |
अन्यैः परिगृहीतानां त्यक्तानां वाश्रमादिषु || १२ ||

निक्षिप्तानां तृणानां वा कर्मणा मनसा गिरा |
परार्थानामनादानमस्तेयं परमं स्मृतम् || १३ ||

ब्रह्मचर्यमिति प्राहुरिन्द्रियाणां तु संयमम् |
तत्राप्युपस्थविषयनिवृत्तिं तु विशेषतः || १४ ||

किन्तु

दर्शनस्पर्शनापेक्षासङ्कल्पाभाषणादिभिः |
योषित्संभोगवैमुख्यं ब्रह्मचर्यं परं विदुः || १५ ||

तत्रापि च गृहस्थानां स्वदारान्नव्यतिक्रमात् |
ऋतुस्नाताभिगमनं ब्रह्मचर्यं परं स्मृतम् || १६ ||

अ[क्: आ]र्जनक्षयसंरक्षाहिंसादोषादिदर्शनात् |
अस्वीकरणमर्थानां मुख्यः स्यादपरिग्रहः || १७ ||

भिक्षूणामयमुद्दिष्ट अन्येषामन्यथा स्मृतः |
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा मुनिः || १८ ||

सकुटुम्बस्तु यस्तस्य गुर्वादीनां तु पुष्टये |
असत्प्रतिग्रहेभ्यस्तु निवृत्तिरपरिग्रहः || १९ ||

|| एवं यमाः ||

नियमाः शौचसन्तोषौ स्वाध्यायस्तप एव च |
तद्वदीश्वरपूजेति पञ्च भिन्नास्तु ते पुनः || २० ||

प्. ६२३)

शौचं तु शुद्धिर्विज्ञेया मनोवाक्कायकर्मणाम् |
अचिन्तनमकृत्यानां यत् तच्छौच तु मानसम् || २१ ||

अक्ली(नं? बं) वाचिकं स्यात् तु कायिकं तु मृदा जलैः |
मलानां क्षालनञ्चान्तःकरणस्य विशोधनम् || २२ ||

पापानामननुष्ठानं कर्मिणां शौचमिष्यते |
वर्णाश्रमादिधर्माणामविरोधागतेन तु || २३ ||

धनधान्यादिना वृत्त्या तृप्तिः सन्तोष उच्यते |
(ग)तेष्वननुशोकः स्याद् भविष्यार्थेष्वलोलता || २४ ||

वर्तमानेष्वसक्तिश्च सन्तोषः परिपठ्यते |
हर्षागमेष्वनुत्सेकः शोकस्थानेष्वशोकता || २५ ||

समता चापि सर्वेषु सोऽपि सन्तोष उच्यते |
प्रणवस्य तथाभ्यासस्तथोपनिषदामपि || २६ ||

तत्फलानभिसन्धानात् स्वस्वमन्त्रजपोऽपि च |
स्वाध्याय इति निर्दिष्टस्त्रिविधोऽपि च योगिनाम् || २७ ||

तथाचाहुः -

स्वाध्यायाद् योगमासीत योगात् स्वाध्यायमात्मनि |
स्वाध्याययोगसम्पत्त्या परमात्मा प्रकाशते ||

शब्दब्रह्म च तद् ब्रह्म वेदितव्ये उभे अपि |
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ||

इति |

एकभुक्तोपवासाद्यैः कृच्छ्रचान्द्रायणादिभिः |
कर्शनं तु शरीरस्य यत्तत्तप उदाहृतम् || २८ ||

तत्राप्यनशनं नेष्टं नेष्टमत्यशनं तथा |
व्रतचोदितकालाशी तपस्वी योगभाग् भवेत् || २९ ||

तथाचाह भगवान् -

नात्यश्नतस्तु योगोऽस्ति नचैकान्तमनश्नतः |
नचातिस्वप्नशीलस्य जाग्रतो नापि चार्जुन! ||

प्. ६२४)

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु |
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ||

इति |

आभ्यन्तरैस्तथा बाह्यैर्द्रव्यैर्गन्धादिभिः क्रमात् |
चोदिताराधनं शम्भोर्यत् तदीश्वरपूजनम् || ३० ||

तत्राप्यनभिसन्धाय फलं भक्त्योपपत्तितः |
देवस्येष्टस्य यजनं कर्मणा मनसापि च || ३१ ||

योगिनां योगसिध्यर्थं शस्तमीश्वरपूजनम् |
याज्ञवल्क्यो वसिष्ठश्च योगाचार्यौ महामुनी || ३२ ||

पृथग्यमांश्च नियमान् दशभेदानिहोचतुः |
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् || ३३ ||

क्षमा धृतिर्मिताहारः शौचं चेति यमादयः |
तपः सन्तोष आस्तिक्यं दानमीश्वरपूजनम् || ३४ ||

सिद्धान्तश्रवणं चैव ह्वीर्मतिश्च? जपो हुतम् |

एते तु नियमाः |
इति

|| नियमाः ||

आसनान्यपि चोक्तानि बहुधा पूर्वपद्धतौ || ३५ ||

तेषां पञ्चैव शस्तानि योगसिद्धिकराणि वै |
स्वस्तिकं पद्मसंज्ञं च भद्रं योगासनं तथा || ३६ ||

गोमुखं चेति तेषां तु लक्षणं पृथगुच्यते |

उपविश्य तु विष्टरेऽथ जान्वोर्विवरेऽङ्गुष्ठनिपीडनं विधाय |
ऋजुमध्यगलक्षणाग्रकायो भवति स्वस्तिकमासनं निविष्टम् || ३७ ||

चरणाग्रयुगं तथोपरिष्टादधिरोप्योरुयुगस्य मूलदेशे |
उपविश्य पुरेव पद्मसंज्ञं कथितं तद्विपरीततस्तु भद्रम् || ३८ ||

अधिरोप्य तु दक्षिणाङ्घ्रिमूरावथ सव्यं चरणं तु दक्षिणोरौ |
अधिरोप्य पुरेव सूपविष्टो यदि योगासनमिष्टदं तदाहुः || ३९ ||

वृषणे तु निगृह्य वामजङ्घापदगुल्फे त्वधिरूढसस्फिगुरूः |
उपरिस्थितदक्षिणोरुजानुः खलु योगी स तु गोमुखासनस्थः || ४० ||

|| आसनानि ||

प्. ६२५)

प्राणस्य धारणं देहे प्राणायाम इतीरितः || ४१ ||

स च नैकविधः प्रोक्तो योगशास्त्रविऽसारदैः |
पूरकः कुम्भकश्चैव रेचकश्चेति ते त्रयः || ४२ ||

प्राणसंयमनानां तु खात्यान्यङ्गान्यनुक्रमात् |
(?) त्रिभिरङ्गैर्युतस्त्र्यंग स्याकुत्पूरकं विना (?) || ४३ ||

नासापुटेन वामेन पूरयेदुदरेऽनिलम् |
निर्दिष्टोद्घातमात्राभिर्विज्ञेयः स तु पूरकः || ४४ ||

पूरितस्याथवा वायोः केवलस्य निरोधतः |
संपूर्णकुम्भवत् तिष्ठेद् यदासौ कुम्भकः स्मृतः || ४५ ||

वामेतरेण घ्राणेन (मा? म)रुतः पूरितस्य तु |
शनैः क्रमेण यो मोक्षो रेचकः परिपठ्यते || ४६ ||

तत्र षोडशमात्रस्तु सामान्यः पूरको मतः |
कुम्भकः षष्टिमात्रः स्यात् पञ्चोद्धातस्तु संस्मृतः || ४७ ||

युग्मोद्धातो रेचकः स्याच्चतुर्विंशतिमात्रकः |
प्राणायामो ह्ययं मन्दो मध्योऽस्माद् द्विगुणो भवेत् || ४८ ||

त्रिगुणस्तूत्तमो ज्ञेयः क्रमेणाभ्यासयोगतः |
अगर्भाश्च सगर्भाश्च प्राणायामास्तु ते स्मृताः || ४९ ||

अन्तर्मन्त्रजपोपेताः प्राणायामाः सगर्भकाः |
अन्तर्जपविहीना ये ते त्वगर्भा इति स्मृताः || ५०||

प्राणयामादगर्भात् तु सगर्भः श्रेष्ठ उच्यते |

तद्यथा -

कुम्भीकृत्योदरे वायुं स्वस्वमन्त्रं धिया जपेत् || ५१ ||

प्राणायामं सगर्भं तु कुर्यात् तद्गतमानसः |
एकाक्षरः स्वमन्त्रश्चेत् तस्य स्याद् द्विशतं जपः || ५२ ||

प्रत्यक्षरविवृद्ध्यात्वा त्रिंशद्वर्णाननुक्रमात् |
भावयि[ख्: हापयि]त्वायतप्राणः प्राणायामं समाचरेत् || ५३ ||

प्. ६२६)

अष्टार्णादिप्रकृत्यन्तं तत्राप्येकैकलोपतः |
प्राणायामा विधातव्यास्तत्तद्ध्यानोपबृंहिताः || ५४ ||

तत्र विज्ञाय देहं च नाडीर्वायुं च तत्स्थितम् |
तच्छुद्धिं च विधायाथ प्राणायामं समाचरेत् || ५५ || तद्यथा -

षण्णवत्यङ्गुलो देहो देहो लब्धा⟦Quellbyte 0x94⟧न्गुलैः स्वकैः |
ऊर्ध्वं शरीरादधिकं प्राणः स्याद् द्वादशाङ्गुलम् || ५६ ||

मेढ्रादूर्ध्वं द्व्यङ्गुलं तु देहमध्यमुदीरितम् |
मूलाधारः स च त्र्यश्रो देवादीना नृणामपि || ५७ ||

पश्वादीनां तु वेदाश्रस्त्वण्डजानां तु वर्तुलम् |
चतुष्पदानां हृन्मध्ये क्रोडमध्येऽण्डजन्मनाम् || ५८ ||

मूलादूर्ध्वं मनुष्याणां नाभिकन्दो नवाङ्गुलात् |
नाभिचक्रं तदूर्ध्वं तु द्वादशारमसुस्थितिः || ५९ ||

नाभेरधस्तात् कन्दाख्ये कुण्डलिन्यष्टवर्तुला |
प्रसुप्तभुजगाकारा चतुरङ्गुलविस्तृता || ६० ||

द्वासप्ततिसहस्राणि नाड्यस्तन्मध्यनिर्गताः |
अष्टाविंशतिसंख्याः स्युस्तासां मुख्यास्तु नाडयः || ६१ ||

तासां च दश वै श्रेष्ठा इडाद्यास्तास्वपि त्रयम् |
इडा पिङ्गा सुषुम्ना च गान्धारी हस्तिजिह्विका || ६२ ||

सुयशालम्बुषा पूषा कुहूश्चैव च शङ्खिनी |
एतास्विडा पिङ्गला च सुषुम्ना चोत्तमाः स्मृताः || ६३ ||

तासामथ सुषुम्नाख्या ब्रह्मनाडी परा स्मृता |

इति नाडीदशकम् ||

विमला घोषणी पृथ्वी ततस्त्वाप्यायनी मता || ६४ ||

तेजोवती वायवी च गगना चैव रोधनी |
रसावाहा च मृद्वङ्गी स्नंसनी? चापि मर्शनी || ६५ ||

शब्दस्पर्शवहे दूर्णा सुरूपा रसधारणी |
सर्वगा चेति निर्दिष्टा नाडयोऽष्टादश क्रमात् || ६६ || प्. ६२७)

अथ प्राणादयः पञ्च नागाद्याश्चापि पञ्च हि |
प्राणस्तु हृत्पद्मगत आसनाद्धृदयस्थितिः || ६७ ||

निःश्वसोच्छ्वासकासादीन् कुर्वन् वक्षः समाश्रितः |
प्रयाणं कुरुते नित्यं य(स्या? स्मात्) प्राणः प्रकीर्तितः || ६८ ||

अवाङ्मूत्रमलादीनामपानो[क्: नां व्यानो ह](?) हस्तादिसन्धिगः |
हानोपादानकर्मा च तस्माद् व्यान इति स्मृतः || ६९ ||

ऊर्ध्वं नयत्युदानस्तु नाभेराशिरसि स्थितः |
गात्रनेत्रविकाराद्यं कर्मोदानस्य तु स्मृतम् || ७० ||

समानः सर्वकायं तु व्याप्य सन्धिषु च स्थितः |
त्वगसृङ्मांसमेदोस्थिसंस्था नागादिवायवः || ७१ ||

ललाटिकोरश्शङ्खांसनाभिस्थास्ते त्वनुक्रमात् (?) |

अथ वर्णाः -

नीलेन्द्रगोपगोक्षीरविद्युदर्केन्दुसप्रभाः || ७२ ||

कुन्दभिन्नाञ्जनार्काश्मकुसुम्भकुसुमोपमाः |
आहारपचनाद्यन्तं प्राणकृत्यमितीरितम् || ७३ |

पोषणाद्यं समानस्य कर्मेति परिपठ्यते |
उद्गाराद्यं तु नागस्य कूर्मस्योन्मीलनादिकम् || ७४ ||

कृकरस्य क्षुतं कर्म जृम्भाद्यं देवदत्तजम् |
धनञ्जयस्य शो(भा? षाद्यं) मृतं च न विमुञ्चति || ७५ ||

मध्येन तु शरीरस्य सुषुम्ना सूत्रवत् स्थिता |
बिन्दोर्मूर्धानमासाद्य ब्रह्मरन्ध्रेण निर्गता || ७६ ||

इडा च पिङ्गला चैव वामतोऽस्याश्च दक्षिणे |
सुषुम्नायां स्थिते वामदक्षिणप्राणयोः सृते [ख्: स्मृ] || ७७ ||

इडापृष्ठात्तु गान्धारी सव्यनेत्रविनिर्गता |
हस्तिजिह्वा च वामाङ्घ्रेरङ्गुष्ठाग्राद् विनिर्गता || ७८ ||

सुयशा दक्षिणस्याङ्घ्रेर्ज्यष्ठिकाग्रान्तनिर्गमा |
अलम्बुषा त्वधो नाभेः पायुमूलान्तनिर्गमा || ७९ ||

प्. ६२८)

पूषा तु पिङ्गला[ख्: कुण्डला]पृष्ठाद् दक्षिणश्रोत्रनिर्गता |
नाडयो विमलाद्यास्तु दश हस्ताग्रनिर्गताः || ८० ||

कुहूस्तु पिङ्गलापृष्ठाद् दक्षिणा[क्: णो]क्षिविनिर्गता |
विश्वोदरोदरं याता सरस्वत्यपि मेढ्रगा || ८१ ||

अन्तस्सुषिरसंयुक्ताः सर्वा अपिच नाडयः |
पूर्णरक्ताश्च ताः सर्वाः पद्मतन्तुवि * * * || ८२ ||

तासां शाखोपशाखानां भेदस्तु बहुधा स्मृतः |
देहाद् बहिर्निर्गताग्रा रोमसंज्ञाः शरीरगाः || ८३ ||

श्मश्रूणि मुखजातानि केशाः शिरसि निर्गताः |
तिस्रः कोट्योऽर्धकोटिश्च केशरोमाणि देहगाः || ८४ ||

जरायुजानां देहेषु पशूनां त्रिगुणाः स्मृताः |
पक्षिणां तु ततोऽर्धार्धं सिरारोमाणि संख्यया || ८५ ||

सिरारोमादिनियमो नहि कीटादिजातिषु |
स्थावराणामपि तथा सर्वे ते प्राणिनः [ना] स्मृताः || ८६ ||

एवं नाडीर्विदित्वा तु प्राणायामं समाचरेत् |

एवं यमाश्च नियमा (नि? श्च) तथासनानि प्राणादयश्च पवना अपि नाडिचक्रम् |
योगस्य या[ख्: हा]नि बहिरङ्गतयोदितानि सेव्यानि तानि विदितानि यथोपदेशम् || ८७ ||

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे योगपादे योगलक्षणादिपटलो द्वितीयः ||


Yogapada, Kapitel 3: Atem, Meditation und Samadhi

Das abschließende Kapitel führt von der Vorbereitung des Übenden über Pranayama, Pratyahara, Dharana und Dhyana zu Samadhi. Es unterscheidet religiöse Verheißungen und besondere Fähigkeiten vom eigentlichen Ziel der Befreiung. Historische Atemzahlen und Heilungsbehauptungen werden als Aussagen der Quelle übersetzt; sie bilden keine heutige medizinische oder selbstständig auszuführende Atemanleitung. Größere überlieferte Lücken im Dharana-Abschnitt bleiben sichtbar.

Zur deutschen Übersetzung dieses Kapitels

Shiva und Parvati als Begleitbild zur Beziehung von Bewusstsein und göttlicher Kraft.

Moderne Begleitung: Shiva-Shakti-Philosophie und Tantra

Dieser Beitrag erläutert einen allgemeinen Yoga- und Tantra-Zusammenhang; er ist keine Rezitation dieser Schrift.


अथ तृतीयः पटलः |

अथ योगं विविदिषुः प्राप्य योगविदं गुरुम् |
शुश्रूषार्थप्रदानाद्यैराराध्य परितोष्य च || १ ||

तस्माद् विज्ञाय योगं तु दत्त्वा तु गुरुदक्षिणाम् |
अनुज्ञातस्तु गुरुणा गत्वा देशं मनोरमम् || २ ||

प्. ६२९)

पुण्यक्षेत्रनदीतीर्थवनसानुमदादिकम् |
तत्राश्रमे मठे वाथ प्राज्य[क्: ण्य]मूलफलोदके || ३ ||

ग्रामे देवालये वापि स्वगृहे वा मनोरमे |
परिशुद्धा(त्म)वान् योगी निस्संगो विजितेन्द्रियः || ४ ||

स्ववर्णाश्रमकर्माणि चोदितानि समाचरन् |
युक्ताहारविहारस्तु युक्तस्वप्नावबोधनः || ५ ||

शान्तस्त्रिषवणस्नायी सर्वत्र समदर्शनः |
पिचुतूलादिसंपूर्ण आसने सोत्तरच्छदे || ६ ||

विशुद्धे सम्यगासीनो विजितासनमास्थितः |
विनायकं गुरुं चाथ नमस्कृत्य ततः शिवौ || ७ ||

ऋजुकायशिरोग्रीवः कृत्वान्तर्यजनं हृदि |
योगं युञ्जीत मतिमान् न द्रुतं न विलम्बितम् || ८ ||

अथ ये ग्रन्थयः पञ्च भूतशुद्धौ प्रदर्शिताः |
हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रस्थिताः क्रमात् || ९ ||

तानूर्ध्ववायुना भित्त्वा मुक्त्वा दक्षिणनासया |
वामनासापुटेनाथ पूरयेन्मरुतोदरम् || १० ||

पूरकस्तु स विज्ञेयो मात्राषोडश(का? को) विधिः |
निरुन्ध्यान्निर्गमं तस्य कुम्भकाख्यः स तु स्मृतः || ११ ||

स चापि षष्टिमात्रः स्याद् रेचकस्तस्य रेचनात् |
पिधाय वामघ्राणं तु दक्षिणेनैव रेचयेत् || १२ ||

स तु रेचक उद्दिष्टो मानं तेषां निगद्यते |
पूरके द्व्यष्टमात्राभिर्नाभिपद्मे चतुर्मुखम् || १३ ||

अकारमूर्तिमगुणं समाधिस्थं चतुर्भुजम् |
कुम्भके च चतुष्षष्टिमात्रामात्रं तु धारयेत् || १४ ||

उकारमूर्तिं शङ्खाभं वासुदेवं हृदम्बुजे |
शङ्खचक्रधरं सौम्यं समाधिस्थं चतुर्भुजम् || १५ ||

किरीटिनं स्मरेच्छक्त्या यावत् तावत् तु कुम्भयेत् |
रुद्रं मकारमूर्तिं तु भ्रूमध्यकमले स्मरन् || १६ ||

प्. ६३०)

शुक्लवर्णं समाधिस्थं चतुर्बाहुं त्रिलोचनम् |
एणटङ्कधरं सौम्यमिन्दुमौलिं कपर्दिनम् || १७ ||

मात्राद्वादशमात्रं तु दक्षिणेनैव रेचयेत् |
अथ प्रणवतो वायुं समापूर्य भ्रुवोऽन्तरात् || १८||

बिन्दुमत्यक्षरे तस्मिन् नियम्यात्मानमात्मनि |
मनसा तपदोङ्कारं जपेन्मात्रत्रयाधिकम् || १९||

एष प्राणजयोपायो दृष्टादृष्टफलप्रदः |
भूतशुद्ध्युक्तमार्गेण प्राणायामास्तु पञ्च ते || २० ||

शोषणाद्यास्त्रयश्च स्युः सहैतान् पृथगाचरेत् |
सन्ध्ययोर्वायुमाकृष्य पिबन् वाग्ग्मी च जायते || २१ ||

व्याधयो ह्यस्य नश्यन्ति मासान् मासैस्तु वा क्रमात् |
बधिरो मूर्ध्न्यथात्मानमाधायापूर्य मारुतम् || २२ ||

पिधाय सर्वद्वाराणि व्योमेन्दोरमृताप्लुतम् |
कर्णाभ्यां विसृजेद् वायुं बाधिर्यादेष मुच्यते || २३ ||

पार्श्वयोर्वाथ नाभौ वा धारयेद् गुल्मशूलनुत् |
यत्र यत्र रुजा देहे तत्र तत्र तु मारुतम् || २४ ||

आरोप्य प्राणनियमात् तं तं रोगं व्यपोहति |
अथापानं समुत्कृष्य वह्निस्थाने नियोजयेत् || २५||

निरुन्ध्याच्च षडक्षाणि ततो नादः प्रवर्तते |
नाभेरामूर्धतो वीणाध्वनिर्नादः प्रवर्तते || २६ ||

सुषुम्नयोर्ध्वङ्गमया तच्छ्रुत्वासौ विमुच्यते |
ब्रह्मरन्ध्रेण तस्याथ प्राणोऽप्युच्चरतीच्छया || २७ ||

हृदयाम्भोरुहान्तःस्थः प्राणो हंस इतीरयन् |
उच्छ्वासं जनयेच्छश्वदहोरात्रे तु संख्यया || २८ ||

षष्ट्युछ्वासः स्मृतः प्राणः षट् प्राणा घटिका स्मृता |
घटिकानां स्मृतः षष्ट्या त्वहोरात्रस्तु मानुषः || २९ ||

श्वासनिःश्वासविच्छेदः प्राणायामात् प्रवर्तते |
अथोदरे नाभिपद्मे ध्यात्वा तु चतुराननम् || ३० ||

प्. ६३१)

अकारमूर्तिमिडया पूरयेन्मरुतोदरम् |
कुम्भीकृत्य यथापूर्वं धियैव प्रणवं जपन् || ३१ ||

स्थिरीकृत्य तु संहृत्य रेचयेद् दक्षिणेन तु |
अथवा हृदयाब्जस्थं वासुदेवं चतुर्भुजम् || ३२ ||

शङ्खचक्रधरं सौम्यं शुक्लवर्णं किरीटिनम् |
चतुर्बाहुमुदारस्थमुकारमयविग्रहम् || ३३ ||

स्मरञ्जपन् धिया तारं पूर्ववत् पूरकुम्भकौ |
रेचकं च विधाय स्यात् प्राणायामस्तु वैष्णवः || ३४ ||

भ्रुवोरन्तरतोऽम्भोजे मकारमयविग्रहम् |
भस्माङ्गरागधवलं रुद्रं ध्यायंस्त्रिलोचनम् || ३५ ||

सूपविष्टं चतुर्बाहुं पूर्ववत् प्रणवं जपेत् |
पूरकाद्यैर्यथापूर्वं रौद्रोऽयं प्राणसंयमः || ३६ ||

बिन्दुस्थानेऽम्बुजासीनमष्टबाहुं चतुर्मुखम् |
ईश्वरं प्रोक्तरूपादिं ध्यायंस्तारं जपन् धिया || ३७ ||

पूरकाद्यैर्यथापूर्वं प्राणायामोऽयमैश्वरः |
तथैव मूर्ध्नि कमले ध्यायन् देवं सदाशिवम् || ३८ ||

तारं जपन् धिया प्राग्वत् प्राणानायम्य पूर्ववत् |
सर्वदोषहरोऽयं स्यात् सादेशः प्राणसंयमः || ३९ ||

कारणाधीशसंयुक्ताः पञ्चैते प्राणसंयमाः |
सर्वकल्मषदोषघ्नाः सर्वे सर्वार्थसाधकाः || ४० ||

योगसिद्धिकराः पञ्च प्राणायामा भवन्ति हि |
अथ हृत्पद्ममध्ये वा वि(न्दू? न्दौ) वा व्योमपङ्कजे || ४१ ||

सूर्यादिमण्डलाधीशतत्त्वतत्त्वेशमूर्तिभिः |
पुर्यष्टकाष्टच्छदने स्वस्वाङ्गावरणान्विते || ४२ ||

यो यो यस्या देवताया भक्तस्तां तत्र संस्मरन् |
तत्तन्मन्त्रं जपन् बुद्ध्या पूरकादिक्रमेण तु || ४३ ||

प्राणसंयमनं कुर्वन् योगसिद्धिमवाप्नुयात् |
अथवा हृदयाब्जादौ पश्यञ् ज्योतिर्निरञ्जनम् || ४४ ||

प्. ६३२) ब्रह्मादिकारणोपाधिनिर्मुक्तं चिद्धनं शिवम् |
ध्यायंस्त्रिमात्रं चिन्मात्रप्रणवं वा धिया जपन् || ४५ ||

प्राणायामं प्रकुर्वीत न चिरात् सिद्धिमश्नुते मूलाब्जात् कुण्डलिन्यास्तु ध्यायञ्च्छक्तिं विनिर्गताम् || ४६ ||

विद्युल्लेखोपमामूर्ध्व⟦Quellbyte 0x94⟧न्गमामा व्योमप⟦Quellbyte 0x94⟧न्कजा(न्? त्) |
परमामृतनिःष्यन्दैः प्लाव्यमानां ततोऽपि हि || ४७ ||

निवृत्तां पुनरायान्तीं मूलाम्भोजं पुनः पुनः |
सुषुम्नयोर्ध्वं गच्छन्तीममृतासारवर्षिणीम् || ४८ ||

ध्यायञ्च्छक्तिं परां सूक्ष्मां चिन्मात्र(प्रणवं) तु वा |
जपन् धिया यथापूर्वं प्राणानायम्य योगवित् || ४९ ||

योगसिद्धिमवाप्नोति नचिरान्नात्र संशयः |
अथवा प्रणवाद्यां तु सप्तव्याहृतिपूर्विकाम् || ५० ||

गायत्रीं शिरसोपेतां त्रिः पठन् मनसा हृदि |
व्योम्नि वा परमात्मानं सावित्रीं सूर्यमेव वा || ५१ ||

ध्यायन् प्रागुक्तमार्गेण पूरकादिक्रमेण तु |
प्राणसंयमनं कुर्वन् योगी सिद्धिमवाप्नुयात् || ५२ ||

षड्भिर्द्वादशभिश्चाथ तथा षोडशभिः क्रमात् |
मनोवाक्कर्मजानीह पातकानि विनाशयेत् || ५३ ||

प्राणायामस्ततश्चापि द्विगुणैस्त्रिगुणैरपि |
अष्टोत्तरसतस्यापि (?) भ्रूणहत्यां च नाशयेत् || ५४ ||

अत्र याज्ञवल्क्यवसिष्ठौ -

अपि भ्रूणहनं मासात् पुनात्यहरहः कृतः |
ऋतुत्रयात् पुनात्येनं जन्मान्तरकृतादघात् || वत्सरादिह सर्वज्ञो ब्रह्मविच्चापि जायते |
प्रस्वेदकम्पोत्थानानां जननाः कुंभकाः (पुनः) ||

कनिष्ठमध्यश्रेष्ठाः स्युः फलं तेषां च तादृशम् |
प्राणायामैः क्रमाभ्यस्तैर्विजिताः स्युश्च वायवः ||

प्. ५३३) निःश्वासोच्छ्वसनाद्यं च विना ज्ञानं च शक्यते |
विनैव पूरकं तद्वद् रेचकं च विनैव तु || कुम्भकेनैव सुचिरमपि तिष्ठेज्जितानिलः |
मनोजव(इ?ग)तिश्च स्याद् दूरादर्थांश्च पश्यति ||

खेचरो द्वादशाब्देन जरापलितवर्जितः |
चिरजीवी च भवति ततो द्विगुणवत्सरैः ||

ऋषिगन्धर्वदेवादीन् पश्यत्याभाषतेऽपि च |
ततोऽपि द्विगुणैर्वर्षैर्लभते चाणिमादिकान् ||

प्राणायामाधिकारः |

इन्द्रियाणां यथास्वं स्वं विषयं परिधावताम् |
बलादाहरणं तेषां प्रत्याहारं प्रचक्षते || ५५ ||

कर्मणां वि(जि? हि)तानां तु नित्यादीनां विधिं विना |
मनसा हृद्यनुष्ठानं प्रत्याहारं विदुर्बुधाः || ५६ ||

अथवाष्टादशस्थानेष्वाकृष्याधाय मारुतम् |
स्ववशे स्थापनं केचित् प्रत्याहारं वदन्ति हि || ५७ ||

तानि तानि स्थानानि -

पादा⟦Quellbyte 0x94⟧न्गुष्ठद्वयं गुल्फे ज⟦Quellbyte 0x94⟧न्घे जानूरुपायवः |
मेढ्रं कटिस्ततः कन्दो नाभी हृदयवक्षसी || ५८ ||

कण्ठकूपं तथा तालु घ्राणं नेत्रे भ्रुमध्यकम् |
मूर्धा चाष्टादशैतेषु स्थानात् स्थानं क्रमेण तु || ५९ ||

आहृत्य धा?रणं वायोः प्रत्याहारः स्मृतो बुधैः |
अनेन रोगशान्तिः स्यादायुषो वर्धनं तथा || ६० ||

प्रत्याहाराधिकारः |

यमाद्यैः पञ्चभिः (क?)स्तैर्विशुद्धस्य तु योगिनः |
आत्मन्यवस्थितिं बुद्धेर्धारणं सम्प्रचक्षते || ६१ ||

प्रदेशावस्थितं देहे बुद्धेस्तु मरुता सह |
* * * * * * * * * * *

  • * * * * || ६२ ||

प्. ५३४)

  • * * * * * * * * * * * * * * * |
    * * * * * भूतेषु ब्रह्मादीन्

कारणेश्वरान् || ६३ ||

जान्वादिभूतशुद्ध्युक्तमार्गेण स्वस्वबीजतः |
स्मृत्वा बुद्धिं तु तत्रैव प्रतीत्यन्तरवर्जिताम् || ६४ ||

संस्थाप्य प्राणसहितां धारणाभिश्च पञ्चभिः |
त्रिभिस्त्रिभिर्भवे * * * * * * * * * * || ६५ ||

ब्रह्मादीन् कारणेशांस्तु स्वैःस्वैः संयोज्य कारणैः |
प्रणवाक्षरसम्भेदात् क्षित्याद्यैर्मण्डलाक्षरैः || ६६ ||

निष्कले द्वादशान्तस्थे शिवे संयोज्य चिद्धने |
तन्मयं च स्वमात्मानं सर्वगं? सर्ववेदिना || ६७ ||

  • * * * * * * * * * * * * * * * |
    * * * * * * * * * * * * * * * भाक् ||

६८ ||

धारणाधिकारः |

अथ ध्यानं द्विधा प्रोक्तं सकलं निष्कलं तथा |
साकारं सकलं ध्यानं निराकारं तु निष्कलम् || ६९ ||

चतुर्भुजादिशुक्लादिद्वित्र्यक्षैकाननादिभिः |
भेदैरिष्टसुराकारस्मरणं हृदयादिषु || ७० ||

साकारध्यानमुद्दिष्टं निराकारमथोच्यते |
हृत्पद्मे वा भ्रुवोर्मध्ये बिन्दौ वा द्वादशान्तगे || ७१ ||

लै⟦Quellbyte 0x94⟧न्गिकं परमं ज्योतिर्ध्यायेद⟦Quellbyte 0x94⟧न्गुष्ठमात्रकम् |
कदम्बगोलकाकारं भाभासितदिगन्तरम् || ७२ ||

तस्मान्नीवारशूकाभं ज्योतिरूर्ध्वं सुषुम्नया |
निर्गतं द्वादशान्तस्थशिवेनाप्येकतां गतम् || ७३ ||

स्वेदेहरोमकूपेभ्यो निर्यज्ज्योतिश्शिखोज्ज्वलम् |
विश्वमावृत्य तु व्याप्तं ध्यायेन्निश्चलमानसः || ७४ ||

ध्यानानामुत्तमं त्वेतद् योगश्चायं परो मतः |
एवं सन्त[ख्: त]तयुक्तात्मा योगी निर्धूतबन्धनः || ७५ ||

प्. ६३५) अणिमादिगुणैश्वर्याण्यधिगम्याप्यविस्मितः |
षडूर्मिभिरसंस्पृष्टो मैत्रादिगुणवर्जितः || ७६ ||

क्षमादमशमोपेतः सर्वभूतानुकम्पकः |
छित्त्वा गुणमयान् पाशान् परं निर्वाणमृच्छति || ७७ ||

धारणानां द्वादशकैरायतं ध्यानमिष्यते |
ध्यानाद् द्वादशकायामः समाधिर्भवति स्फुटम् || ७८ ||

ध्यानाधिकारः |

समाधिः समभावः स्याज्जीवात्मपरमात्मनोः |
तद्वच्छिवाह्वयं ब्रह्म परंज्योतिः सुनिर्मलम् || ७९ ||

एकं ज्ञानघनं शान्तं सर्वकारणकारणम् |
अवस्थात्रयनिर्मुक्तं षड्भावविकृतेः परम् || ८० ||

सर्वानुग्राहकं विश्वव्यापि नित्यं निरञ्जनम् |
आकाशादिमहाभूतैः शब्दाद्यैर्विषयैरपि || ८१ ||

दशेन्द्रियमनोबुद्धिसाह⟦Quellbyte 0x94⟧न्कारगुणैरपि |
प्राणादिभिः प्रकृत्या च पुरोगाभ्यामविद्यया || ८२ ||

नियत्या कलया कालमायाभ्यां च विवर्जितम् |
सादेशेश्वरविद्याभिः शक्त्या चाखिलकारणम् || ८३ ||

नादान्तभासकं शश्वत् पञ्चकृत्यैकहेतुमत् |
अनाद्यन्तं पर सूक्ष्मं तद् योऽहं सोऽहमित्यपि || ८४ ||

चित्ताधानं शिवे सम्यक् स समाधिरिति स्मृतः |
यदा समरसं चित्तं सर्वत्र समदर्शनात् || ८५ ||

रागादिदोषरहितं हेयोपादेयनिःस्पृहम् |
आहितं स्याच्छिवे शश्वत् समाधिः परमः स्मृतः || ८६ ||

अनात्मबुद्धिदेहेऽस्मिन्नस्वबुधिश्च वस्तुषु |
एषणात्रयमुक्तस्य कर्मपुत्रार्थवर्जनात् || ८७ ||

सर्वारम्भपरित्यागात् सर्वस⟦Quellbyte 0x94⟧न्गविवर्जनात् |
सर्वव्यापिनि चिन्मात्रे शिवेनैक्येन भावना || ८८ ||

प्. ६३६)

अविच्छेदेन सततं समाधिः पा(शमोचनः) |
* * * * * * * * * * *

  • त एव वा || ८९ ||

जिघ्रतो मौनिनो वाचं ब्रुवतः शयितस्य वा |
आसीनस्यापि मिषतो मीलिताक्षस्य तिष्ठतः || ९० ||

जाग्रतः स्वपतो वापि स्वप्नान् वा परिपश्यतः |
गच्छतोऽपि यदा चेतः समाधिस्थस्य निश्चलम् || ९१ ||

करणानां तु संहारादव्यक्तिर्विषयेष्वपि |
स योगः परमो ज्ञेयस्तद्वान् योगीन्द्र उच्यते || ९२ ||

ऐश्वर्याण्यणिमादीनि योगस्यावान्तरं फलम् |
अष्टैश्वर्यगुणा योगस्यान्तराया भवन्ति हि || ९३ ||

ते(ष? षु)योग * * * * * * * नाभिरोचयेत् |
फलं हि मोक्षो योगस्य तस्मात् तदभिरोचयेत् || ९४ ||

एवं सा⟦Quellbyte 0x94⟧न्गोऽत्र योगस्तु समासात् संप्रदर्शितः |
संस्मृत्य योगशास्त्रेभ्यः शिवानुग्रहतः स्फु(टम्) || ९५ ||

  • * * त्र हि मुख्यमित्थमुदितं भोगा यतो वाञ्छिताः

पश्वादिप्रविचारचारुविशदज्ञानक्रियायोगतः |
अष्टैश्वर्यगुणास्तथैव सुलभं निःश्रेयसं श्रेय(सा) तामीशानशिवोऽभ्यधाद् सुरगुरुः सिद्धान्ततापद्धतिम् || ९६ ||

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे योगपादे प्राणायामादिपटलस्तृतीयः |

योगपादः समाप्तः ||

समाप्ता चेयमीशानशिवगुरुदेवस्य कृतिः सिद्धान्तसारपद्धतिः ||

शुभं भूयात् ||



Schlussbetrachtung

Der Yogapada richtet den Blick auf Befreiung und mahnt, an besonderen Fähigkeiten und Nebenfrüchten der Übung nicht hängen zu bleiben. Diese Orientierung kann auch heutige Aspiranten tragen: Die Tiefe einer Sadhana zeigt sich nicht allein in ungewöhnlichen Erfahrungen, sondern ebenso in einem ruhigeren, wahrhaftigeren und mitfühlenderen Umgang mit dem Leben. Dies ist eine heutige Besinnung auf die Zielrichtung des Textes.

Lass am Ende der Lektüre eine Weile Stille entstehen. Was darf leichter werden? Was möchtest du mit mehr Aufmerksamkeit tun? Kehre mit dieser Frage zu deiner vertrauten Meditation zurück. Der Schlusssegen des Werkes – „Möge Gutes sein“ – kann dabei als weiter Wunsch nachklingen, der die eigene Übung mit dem Wohl anderer verbindet.

Kehre beim Schriftstudium zu einer kurzen, gut lesbaren Stelle zurück. Das ruhige Vergleichen von Devanagari, IAST und deutscher Bedeutung verbindet Aufmerksamkeit für das Einzelne mit dem Blick auf den ganzen Gedanken.


Verwandte Schriften und Siehe auch

Für den Vergleich bieten sich drei Fragen an: Wie beschreiben andere Agamas Shiva und die Bindung der Seele? Wie ordnen Ritualhandbücher Verehrung und Diksha? Wie führen Meditationstexte zur inneren Sammlung? Die folgenden Verweise dienen diesem Vergleich; sie behaupten weder identische Lehren noch eine direkte Abhängigkeit aller genannten Werke.

Quellen und Literatur

  • Muktabodha Indological Research Institute: īśānaśivagurudevapaddhati, vier elektronische Bände, jeweils IAST und Devanagari: M00016 (Samanyapada 1–14), M00017 (Mantrapada 15–52), M00018 (Kriyapada 1–30), M00233 (Kriyapada 31–64 und Yogapada 1–3). Herausgeber laut Dateiköpfen: Ganapati Shastri; elektronische Erfassung unter Aufsicht von Mark Dyczkowski. Dateiköpfe: Creative Commons BY-NC 4.0. Die gelieferte IAST-Fassung ist Übersetzungsgrundlage; örtlich wurde die getrennt gelieferte Devanagari-Fassung verglichen.
  • Bibliographische Angaben der Dateien: Band 1 nennt 1921, die weiteren Bände 1922. Druckausgabe, in den Köpfen genannter Verlag und elektronische Fassung sind zu unterscheiden; insbesondere bezeichnet der Beschreibungssatz von M00233 den Band abweichend als „Volume 3“. Die inhaltliche Fortsetzung und der Dateititel weisen ihn hier als Band 4 aus.
  • J. P. Prajith: Isanasivagurudeva Paddhati – study, 2008, Kapitel 2. Autor und Datierung. Nur zur historischen Einordnung, nicht als zusätzliche Sanskritgrundlage verwendet.
  • Moderne Begleitmedien: Yoga-Vidya-Wiki, Nyasa und Shiva-Shakti-Philosophie. Bilddateien auf dem Wiki und Videotitel beim Anbieter am 24. September 2026 geprüft. Bilder und Videos zeigen beziehungsweise erläutern heutige Praxis, keine historisch belegte Durchführung dieses konkreten Werkes.
  • Seminarverweise: Indische Schriften und Chakra; die vier eingebundenen Feeds wurden am 24. September 2026 abgerufen.


Seminare

Kundalini Yoga

06.11.2026 - 08.11.2026 Kundalini Yoga Einführung

Gründliche Einführung in die Theorie und Praxis des Kundalini Yoga, Yoga der Energie. Die praktischen Übungen des Kundalini Yoga umfassen Pranayama (…
Arjuna Wingen
13.11.2026 - 15.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Manuel Hirning

Indische Schriften

26.12.2026 - 02.01.2027 Indische Rituale Ausbildung

Du interessierst dich für indische Rituale? Du hast die einzigartige Gelegenheit, in dieser Rituale Ausbildung bei Yoga Vidya die kleine Puja, große P…
Sukadev Bretz, Shankari Winkelbauer
01.01.2027 - 10.01.2027 Yogalehrer Weiterbildung Intensiv A1 - Jnana Yoga und Vedanta

Kompakte, vielseitige Weiterbildung für Yogalehrer rund um Jnana Yoga und Vedanta.
Tauche tief ein ins Jnana Yoga und Vedanta, studiere die indischen S…
Vedamurti Dr Olaf Schönert

Chakras

20.11.2026 - 22.11.2026 Heilreise durch die Chakren

Tauche ein in eine transformative Reise durch die sieben Hauptchakren und erfahre, wie du deine Energiezentren aktivieren, ausbalancieren und für dein …
Nese Niekrens, Gajendra Sebastian Niekrens
26.12.2026 - 01.01.2027 Kundalini Yoga Intensiv Praxis - Live Online

Intensives Praktizieren der im Mittelstufen-Seminar gelernten Übungen für noch tiefere Erfahrung und Erweiterung des Bewusstseins ohne viel Theorie. L…
Sukadev Bretz, Shaktipriya Vogt, Radharani Birkner

Energiearbeit

04.11.2026 - 04.11.2026 Einführung in die Chakratherapie - Online Workshop

Uhrzeit: 18 - 21 Uhr
Ein Chakra ist ein feinstoffliches Kraftzentrum des Körpers, welches wichtige Körperfunktionen steuert und bestimmten Organen zug…
Beate Menkarski
06.11.2026 - 08.11.2026 Kundalini Yoga Einführung

Gründliche Einführung in die Theorie und Praxis des Kundalini Yoga, Yoga der Energie. Die praktischen Übungen des Kundalini Yoga umfassen Pranayama (…
Arjuna Wingen

Zur Textausgabe: Hauptartikel · Deutsch · IAST · Devanagari · 108-Auswahl · Mantrasammlung

← Vorheriger Teil