Ishvara Samhita Sanskrit Devanagari

Aus Yogawiki

Ishvara Samhita Sanskrit Devanagari – Kapitel 1–18

Die Kapitel 1–18 entfalten Ursprung und Überlieferung der Lehre, innere und äußere Puja, Feste sowie die Errichtung und Weihe heiliger Bilder und Räume. Im Devanagari-Text kannst du wiederkehrende Begriffe und die Verbindung von Mantra und Ritual unmittelbar verfolgen. Die deutsche Übersetzung erklärt den Zusammenhang; die IAST-Umschrift erleichtert das vergleichende Lesen.

Wenn du die Schrift noch lernst, genügt für den Anfang ein einzelner Vers. Suche bekannte Namen und Wörter, vergleiche ihre Schreibweise mit der Umschrift und lies dann die Übersetzung. Diese ruhige Form des Studiums lässt dich Schritt für Schritt mit der Sprache der Überlieferung vertraut werden.

Die Sanskritlesungen folgen den im Hauptartikel und in den Kapiteln genannten Devanagari-Ausgaben. IAST wird aus dem redigierten Devanagari abgeleitet. Die englische kritische Ausgabe dient der Kontrolle. Verbleibende Leselücken und unsichere Deutungen sind ausdrücklich bezeichnet; IAST teilt die Unsicherheiten seiner Textgrundlage.

Die Verehrung richtet sich auf die göttliche Gegenwart.

Zur Ausgabe: Einführung · Deutsche Übersetzung · Sanskrit IAST · Devanagari · 108 Verse und Mantras · Nächster Teil · Deutsche Übersetzung dieser Kapitel

Kapitel 1 – Ursprung und Überlieferung der Lehre

Die Weisen fragen Narada nach dem Weg zur Befreiung. Das Kapitel erzählt von der göttlichen Überlieferung des Ekayana und erklärt die besondere Stellung der Sattvata Samhita. Seine Aussagen über den Vorrang einzelner Schriften geben das traditionelle Selbstverständnis dieses Werkes wieder.


Vorangestellte Anrufungen des Druckes श्रीरस्तु ।
श्रियः कान्ताय नमः ।
श्रीमते हयग्रीवाय नमः ।

नमस्सकलकल्याणदायिने चक्रपाणये ।
विषयार्णवमग्नानां समुद्धरणहेतवे ॥ १ ॥

नारायणपदाम्भोजसमाराधनलालसाः ।
वेदवेदाङ्गनिपुणास्तपोनिष्ठा महर्षयः ॥ २ ॥

इतिहासपुराणज्ञा धर्मशास्त्रविशारदाः ।
भगवद्भक्तिनिरताश्शमादिगुणसागराः ॥ ३ ॥

नारायणं तपस्यन्तं नरनारायणाश्रमे ।
संसेवन्तस्सदा भक्त्या मोक्षोपायविदित्सवः ॥ ४ ॥

संस्थिता मुनयस्सर्वे नारायणपरायणाः ।
कालेन केनचित्स्वर्गान्नारायणदिदृक्षया ॥ ५ ॥

तत्रावतीर्य देवर्षिर्नारदस्सकुतूहलः ।
दृष्ट्वा नारायणं देवं नमस्कृत्य कृताञ्जलिः ॥ ६ ॥

पुलकाञ्चितसर्वाङ्गः प्रहृष्टवदनो मुनिः ।
स्तुत्वा नानाविधैः स्तोत्रैः प्रणम्य च मुहुर्मुहुः ॥ ७ ॥

पूजयामास तं देवं नारायणमनामयम् ।
अथ नारायणो देवस्तमाह मुनिपुङ्गवम् ॥ ८ ॥

मुनयोऽत्र तिष्ठन्ति प्रार्थयाना हरेः पदम् ।
एतेषां सात्वतं शास्त्रमुपदेष्टुं त्वमर्हसि ॥ ९ ॥

इत्युक्त्वान्तर्दधे श्रीमन्नारायणमुनिस्तदा ।
तच्छ्रुत्वा भगवद्वाक्यं मुनिर्हृष्टतनूरुहः ॥ १० ॥

तदाज्ञां कर्तुकामोऽथ निर्जगाम मुनीश्वरः ।
अपश्यदाश्रमवरमृषीणामूर्ध्वरेतसाम् ॥ ११ ॥

नानापक्षिगणाकीर्णं नानामृगनिषेवितम् ।
तरुपुष्पलताढ्यं वापीकूपह्रदान्वितम् ॥ १२ ॥

तत्र गत्वा मुनिवरस्तत्रत्यैर्द्विजसत्तमैः ।
पूजितश्चार्घ्यपाद्याद्यैर्विष्टरेऽभिनिवेशितः ॥ १३ ॥

मुनीनां प्रीतिजनकं वाक्यमेवमुवाच सः ।
नारायणोऽत्र सततं भवद्भिस्सेव्यते यतः ॥ १४ ॥

भवत्सु करुणा तस्य परिपूर्णा हि वर्तते ।
भवद्भिस्सह सम्बन्धात्कृतार्थोऽद्य भवाम्यहम् ॥ १५ ॥

आदिष्टोऽहं भगवता भवदर्थे मुनीश्वराः ।
अधीत्य साम्प्रतं सर्वे रहस्याम्नायमुत्तमम् ॥ १६ ॥

अद्य प्रभृति देवेशमाराधयत योगिनः ।
मुनयः ।
मुने चिरप्रपन्नानामस्माकं त्वं परा गतिः ॥ १७ ॥

नारायणपदप्राप्तेरुपायं सम्प्रकाशय ।
नारदः ।
शृणुध्वं मुनयस्सर्वे वेदमेकायनाभिधम् ॥ १८ ॥

मोक्षायनाय वै पन्था एतदन्यो न विद्यते ।
तस्मादेकायनं नाम प्रवदन्ति मनीषिणः ॥ १९ ॥

मूलभूतस्तु महतो वेदवृक्षस्य यो महान् ।
सद्ब्रह्मवासुदेवाख्यपरतत्त्वैकसंश्रयम् ॥ २० ॥

दिव्यैर्बलादिकैर्मन्त्रैस्साक्षात्तत्प्रतिपादकैः ।
अलङ्कृतमसन्दिग्धमविद्यातिमिरापहम् ॥ २१ ॥

इत्युक्त्वाध्याप्य योगीन्द्रान्सञ्जगादास्य वैभवम् ।
एष प्रकृतिधर्माख्यो वासुदेवैकगोचरः ॥ २२ ॥

प्रवर्त्यते कृतयुगे ततस्त्रेतायुगादिषु ।
विकारवेदास्सर्वत्र देवतान्तरगोचराः ॥ २३ ॥

महतो वेदवृक्षस्य मूलभूतो महानयम् ।
स्कन्धभूता ऋगाद्यास्ते शाखाभूताश्च योगिनः ॥ २४ ॥

जगन्मूलस्य वेदस्य वासुदेवस्य मुख्यतः ।
प्रतिपादकता सिद्धा मूलवेदाख्यता द्विजाः ॥ २५ ॥

आद्यं भागवतं धर्ममादिभूते कृते युगे ।
मानवा योग्यभूतास्ते अनुतिष्ठन्ति नित्यशः ॥ २६ ॥

ततस्त्रेतायुगे सर्वे नानाकामसमन्विताः ।
व्यामिश्रयाजिनो भूत्वा त्यजन्त्याद्यं सनातनम् ॥ २७ ॥

अन्तर्दधाति सर्वोऽयं वासुदेवसमाहृतः ।
ततो योग्याय भगवान्प्रादुर्भावयति स्वयम् ॥ २८ ॥

एवं मया पुराधीतश्श्वेतद्वीपे मुनीश्वराः ।
सनस्सनत्सुजातश्च सनकश्च सनन्दनः ॥ २९ ॥

सनत्कुमारः कपिलस्सप्तमश्च सनातनः ।
एते एकान्तिधर्मस्य आचार्याश्च प्रवर्तकाः ॥ ३० ॥

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
वसिष्ठश्च महातेजा एते चित्रशिखण्डिनः ॥ ३१ ॥

मनुस्स्वायम्भुवश्चापि समाराध्य जगत्पतिम् ।
महता तपसा चैव देवं नारायणं प्रभुम् ॥ ३२ ॥

दिव्यं वर्षसहस्रन्तु तदन्ते समधीत्य च ।
मूलश्रुतिं यथावच्च ऋषयोऽध्यापितास्तु ते ॥ ३३ ॥

ततस्ते ऋषयस्त्वष्टौ लोकानां हितकाम्यया ।
श्लोकानां शतसाहस्रैर्मूलवेदं निरीक्ष्य च ॥ ३४ ॥

तथा दिव्यानि शास्त्राणि सात्वतादीनि चादरात् ।
निरीक्ष्यान्यत्तु तन्त्राख्यं शास्त्रं विदधिरे द्विजाः ॥ ३५ ॥

एवं मूलश्रुतेरर्थान्ज्ञात्वा मन्वादयोऽपि च ।
धर्मशास्त्राण्यनेकानि करिष्यन्ति यथातथम् ॥ ३६ ॥

अन्येषामपि शास्त्राणां योनिरेतद्भविष्यति ।
अस्मिन्धर्मश्च कामश्च अर्थश्चोक्तस्सविस्तरम् ॥ ३७ ॥

मोक्षश्च सूचितः पश्चात्तस्मात्सारतमो ह्ययम् ।
पुरा तोदाद्रिशिखरे शाण्डिल्योऽपि महामुनिः ॥ ३८ ॥

समाहितमना भूत्वा तपस्तप्त्वा महत्तरम् ।
अनेकानि सहस्राणि वर्षाणां तपसोऽन्ततः ॥ ३९ ॥

द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च ।
साक्षात्सङ्कर्षणाल्लब्ध्वा वेदमेकायनाभिधम् ॥ ४० ॥

सुमन्तुं जैमिनिं चैव भृगुं चैवौपगायनम् ।
मौञ्ज्यायनं च तं वेदं सम्यगध्यापयत्पुरा ॥ ४१ ॥

नरनारायणाभ्यां च जगतो हितकाम्यया ।
तथानुष्ठीयते मूलधर्मोऽत्र मुनिपुङ्गवाः ॥ ४२ ॥

एष एकायनो वेदः प्रख्यातस्सर्वतो भुवि ।
दुर्विज्ञेयो दुष्करश्च प्रतिबुद्धैर्निषेव्यते ॥ ४३ ॥

Zur Orientierung: Die folgenden Verse fragen nach dem Zugang zur Lehre für Menschen, die noch nicht erwacht sind. Vergleiche die deutsche Übersetzung und die Begriffe Bhakti und Shraddha.

मुनयः ।

भगवन्सर्वशास्त्रज्ञ शरणागतवत्सल ।
त्वत्प्रसादेन सम्प्राप्तो मूलवेदो महानयम् ॥ ४४ ॥

तत्प्रभावश्च विदितस्सर्वलोकेषु पूजितः ।
प्रतिबुद्धैर्निषेव्योऽयं मूलवेदस्सनातनः ॥ ४५ ॥

कथमप्रतिबुद्धैस्तैर्मग्नैर्भवमहाम्बुधौ ।
प्राप्यते भगवन्धर्म एकान्तिभिरनुष्ठितः ॥ ४६ ॥

नारदः ।

श्रूयतामभिधास्यामि सर्वलोकहितैषिणः ।
पुरैव भगवानेव समालोच्य हरिस्स्वयम् ॥ ४७ ॥

परित्यज्य परं धर्मं मिश्रधर्ममुपेयुषाम् ।
भूयस्तत्पदकाङ्क्षाणां श्रद्धाभक्ती उपेयुषाम् ॥ ४८ ॥

अनुग्रहार्थं वर्णानां योग्यतापादनाय च ।
तथा जनानां सर्वेषामभीष्टफलसिद्धये ॥ ४९ ॥

मूलवेदानुसारेण छन्दसानुष्टुभेन च ।
सात्वतं पौष्करं चैव जयाख्येत्येवमादिकम् ॥ ५० ॥

दिव्यं सच्छास्त्रजालं तदुक्त्वा सङ्कर्षणादिभिः ।
प्रवर्तयामास भुवि सर्वलोकहितैषिभिः ॥ ५१ ॥

एवं दिव्यानि शास्त्राणि शाण्डिल्योऽपि महामुनिः ।
सङ्कर्षणाद्भगवतः श्रुत्वाध्यापयन्मुनीन् ॥ ५२ ॥

मल्याचलनिष्ठाश्च पुरा रामस्य चाज्ञया ।
प्रथमं सात्वतं शास्त्रं सम्यगध्यापिता मया ॥ ५३ ॥

वासुदेवेन यत्प्रोक्तं शास्त्रं भगवता स्वयम् ।
अनुष्टुप्छन्दोबन्धेन समासव्यासभेदतः ॥ ५४ ॥

तथैव ब्रह्मरुद्रेन्द्रप्रमुखैश्च प्रवर्तितम् ।
लोकेष्वपि च दिव्येषु तद्दिव्यं मुनिसत्तमाः ॥ ५५ ॥

ब्रह्मरुद्रमुखैर्देवैर्ऋषिभिश्च तपोधनैः ।
स्वयं प्रणीतं यच्छास्त्रं तज्ज्ञेयं मुनिभाषितम् ॥ ५६ ॥

एतत्तु त्रिविधं विद्धि सात्त्विकादिविभेदतः ।
विज्ञाय पुण्डरीकाक्षादर्थजालं यथास्थितम् ॥ ५७ ॥

तद्बोधकं प्रणीतं यच्छास्त्रं तत्सात्त्विकं स्मृतम् ।
तस्माज्ज्ञातेऽर्थजाते तु किञ्चित्तदवलम्ब्य च ॥ ५८ ॥

स्वबुद्ध्युन्मेषितस्यैव ह्यर्थजातस्य बोधकम् ।
यत्प्रणीतं द्विजश्रेष्ठ तथा विज्ञाततत्त्वतः ॥ ५९ ॥

ग्रन्थविस्तरसंयुक्तं शास्त्रं सर्वेश्वरेश्वरात् ।
तत्सङ्क्षेपप्रसादेन स्वविकल्पविजृम्भणैः ॥ ६० ॥

ब्रह्मादिभिः प्रणीतं यत्तथा तदृषिभिर्द्विजाः ।
ब्रह्मादिभिः परिश्रुत्य तत्सङ्क्षेपात्मना पुनः ॥ ६१ ॥

स्वविकल्पात्प्रणीतं यत्तत्सर्वं राजसं स्मृतम् ।
तस्माद्द्वेधा पञ्चरात्रवैखानसविभेदतः ॥ ६२ ॥

केवलस्वविकल्पोक्तैः कृतं यत्तामसं स्मृतम् ।
केवलं मनुजैर्यत्तु कृतं तत्पौरुषं स्मृतम् ॥ ६३ ॥

अतो दिव्यात्परतरं नास्ति शास्त्रं मुनीश्वराः ।
सात्वतं पौष्करं चैव जयाख्यं च तथैव च ॥ ६४ ॥

एवमादीनि दिव्यानि शास्त्राणि हरिणा स्वयम् ।
मूलवेदानुसारेण प्रोक्तानि हितकाम्यया ॥ ६५ ॥

सात्वताद्यं त्रिकं चैतद्व्यापकं मुनिसत्तमाः ।
यथा चाष्टाक्षरादीनां मन्त्राणां त्रितयं बुधाः ॥ ६६ ॥

एतत्तन्त्रत्रयोक्तेन विधिना यादवाचले ।
श्रीरङ्गे हस्तिशैले च क्रमात्सम्पूज्यते हरिः ॥ ६७ ॥

एतेषु दिव्यशास्त्रेषु सात्वतन्तूत्तमोत्तमम् ।
वक्ता साक्षादीश्वरोऽस्य श्रोता सङ्कर्षणः प्रभुः ॥ ६८ ॥

किं वर्ण्यतेऽस्य माहात्म्यं सात्वतस्य मुनीश्वराः ।
अतस्साक्षादीश्वरोक्तशास्त्राणां द्विजपुङ्गवाः ॥ ६९ ॥

सारभूतं विशेषेण सात्वतार्थोपपादकम् ।
ईश्वराख्यमिदं तन्त्रं साक्षात्सङ्कर्षणाच्छ्रुतम् ॥ ७० ॥

सम्प्रवक्ष्यामि मुनयः शृणुध्वमवधानतः ।
इत्युक्त्वा नारदो योगी नत्वा नारायणं प्रभुम् ॥ ७१ ॥

सङ्कर्षणं नमस्कृत्य वक्तुं समुपचक्रमे ।

इति श्रीपाञ्चरात्रे ईश्वरसंहितायां शास्त्रावतारो नाम प्रथमोऽध्यायः ॥


Kapitel 2 – मानसयागविधिः / mānasayāgavidhiḥ

Die innere Verehrung – Orientierung und Übersetzung unter Kapitel 2 der deutschen Übersetzung.

नारदः ।

आराधनविधिं वक्ष्ये शृणुध्वं मुनिपुङ्गवाः ।
ब्राह्मे मुहूर्ते सम्प्राप्ते मन्त्रज्ञः प्रयतश्शुचिः ॥ १ ॥

नाम्नां सङ्कीर्तनं कुर्यादुत्थाय शयने स्थितः ।
परिच्युतमलस्स्नातश्शुद्धवासा जितेन्द्रियः ॥ २ ॥

धृतोर्ध्वपुण्ड्रः काल्योक्तकर्माणि विनिवर्त्य च ।
गन्धैस्स्रग्भिरलङ्कारैः कटकाद्यैरलङ्कृतः ॥ ३ ॥

सपवित्रकरो मौनी आसाद्य भगवद्गृहम् ।
द्वाराद्बाह्ये यथाशास्त्रं शुद्धेन सलिलेन च ॥ ४ ॥

आजानु पादौ प्रक्षाल्य हस्तौ चामणिबन्धनात् ।
आचम्य च प्रविश्यान्तः प्रणम्य मन्त्रमुच्चरन् ॥ ५ ॥

धाम प्रदक्षिणीकृत्य बोधयेत्पुरुषोत्तमम् ।
शङ्खध्वनिसमोपेतं दुन्दुभीपटहस्वनैः ॥ ६ ॥

वन्दिवृन्दोत्थितोच्चाभिर्नानावाग्भिर्महामते ।
महाजयजयारावैः पुनःपुनरुदीरितैः ॥ ७ ॥

प्रबोधलक्षणैः स्तोत्रैरुत्थाप्य शयनात्ततः ।
द्वारमासाद्य तत्रस्थो दशदिग्बन्धपूर्वकम् ॥ ८ ॥

अवकुण्ठ्याथ तर्जन्या मन्त्रं कवचमुच्चरन् ।
स्थिते वा कल्पिते तत्र पूजयेद्बलिमण्डले ॥ ९ ॥

सर्वं खगेशपूर्वन्तु परिवारं हि साच्युतम् ।
नमसा प्रणवाद्येन विष्णुमादाय कीर्तयेत् ॥ १० ॥

समस्तपरिवाराय अच्युताय नमो नमः ।
वास्तुपूरुषमन्यांश्च समभ्यर्च्य यथाक्रमम् ॥ ११ ॥

मूलमन्त्रेण साङ्गेन निरङ्गेनाथ वा पुनः ।
न्यासं कृत्वा त्रिराचार्यो हस्ततालं हृदा ततः ॥ १२ ॥

मूलमन्त्रेण चोद्घाट्य कवाटं नेत्रमन्त्रतः ।
नित्यदीपांस्ततो ज्वाल्य हस्तौ प्रक्षाल्य वारिणा ॥ १३ ॥

प्रासादान्तःप्रवेशार्थं ततो द्वारन्तु चेतसा ।
त्रिभागीकृत्य तन्मध्यभागमेकं द्विधा पुनः ॥ १४ ॥

विभज्य वामदेशेन दक्षिणेनाङ्घ्रिणा ततः ।
शनैश्शनैः प्रविश्यान्तस्सास्त्रमन्त्रेण तेन वै ॥ १५ ॥

धरणीहननं कृत्वा भगवन्तं प्रणम्य च ।
मनसा गुरुवंशं च तदाज्ञां मानसीमथ ॥ १६ ॥

शिरसा धारयेत्स्वेष्टं फलं सङ्कल्प्य चेतसा ।
देवाय तन्निवेद्याथ यागागारस्य मध्यतः ॥ १७ ॥

प्रासादं विग्रहं कृत्वा वर्ममन्त्रं सविग्रहम् ।
तज्जीवं भगवन्तं च ध्यात्वा यागगृहं ततः ॥ १८ ॥

सशलाकैस्ततो दर्भैस्सहदेवीविमिश्रितैः ।
सम्मार्ज्य बहु तोयेन प्रक्षाल्यालिप्य गोमयैः ॥ १९ ॥

उपलिप्तमथास्त्रेण संविध्य शकलं त्यजेत् ।
पञ्चगव्येन सास्त्रेण वारिणा प्रोक्ष्य चन्दनैः ॥ २० ॥

कुङ्कुमागरुकर्पूरैस्समालिप्य समन्ततः ।
कुशदूर्वाक्षताश्चैव विकिरेत्स्थानशुद्धये ॥ २१ ॥

प्रासादं शोधयेदेवं स्वयमेव तु देशिकः ।
प्रासादोद्देशमखिलं मार्जयेत्प्रोक्षयेत्ततः ॥ २२ ॥

परिचारैस्तु कर्तव्यं बलिपीठान्तमेव हि ।
यागोपस्कारसम्भूतौ भगवन्तमनुस्मरन् ॥ २३ ॥

विनीतान्शिष्यपुत्रादीन्स्नातानाज्ञापयेत्ततः ।
पात्रशुद्धिं च तैरेव कारयेद्द्विजसत्तमः ॥ २४ ॥

आम्रकल्केन तोयेन हेम ताम्रं च शोधयेत् ।
राजतं गृहधूमेन शान्ताङ्गारेण वा पुनः ॥ २५ ॥

भस्ममिश्रेण तोयेन लोहयुक्तं विशोधयेत् ।
शङ्खशुक्तिमयानां च लवणेन विशोधयेत् ॥ २६ ॥

फलपत्रमयानां च मृद्भिरद्भिश्च शोधयेत् ।
लेपगन्धापनोदेन शुद्धिर्भवति कारयेत् ॥ २७ ॥

द्रव्यशुद्धिर्भवत्येवं यथावद्विधिचोदिता ।
पात्राणि शोधयित्वैवं ततो मौनपरो द्विजः ॥ २८ ॥

देवेशस्याग्रतो वापि दक्षिणं भागमाश्रयेत् ।
ईश्वरप्राग्वशादेव ह्युत्तराभिमुखो द्विजः ॥ २९ ॥

अथोपविश्य वै दार्भे काष्ठजे वाजिनासने ।
आगमार्थं च देवानां गमनार्थं च रक्षसाम् ॥ ३० ॥

कुर्याद्घण्टारवं तत्र देवतास्थानलाञ्छनम् ।
शङ्खादिघोषसंयुक्तं गेयवाद्यसमन्वितम् ॥ ३१ ॥

करशुद्धिं ततः कुर्याद्यथावन्मुनिपुङ्गवाः ।
द्वे तले हस्तपृष्ठे द्वे सर्वाश्चाङ्गुलयस्तथा ॥ ३२ ॥

अस्त्रमन्त्रेण संशोध्य ध्यानमुद्रान्वितेन तु ।
कृत्वैवं करशुद्धिं च स्थानशुद्धिं समाचरेत् ॥ ३३ ॥

ध्यात्वा देवं ज्वलद्रूपं सहस्रार्कसमप्रभम् ।
ज्वालाकोटिसमाकीर्णं वमन्तं ज्वलनं मुखात् ॥ ३४ ॥

तेन सम्पूरयेत्सर्वमाब्रह्मभवनान्तिमम् ।
दिगोघं प्रज्वलन्तं च भावयेन्मन्त्रतेजसा ॥ ३५ ॥

क्ष्मामण्डलमिदं सर्वं स्मरेत्पक्वं च वह्निना ।
मन्त्रजेन द्विजश्रेष्ठा मृन्मयं भाजनं यथा ॥ ३६ ॥

स्थानशुद्धिर्भवत्येवं सुधाकल्लोलसेचनात् ।
सम्भाव्यैवं ततः कुर्याद्दिग्बन्धं हृदयादिकैः ॥ ३७ ॥

अस्त्रेणैव विदिग्बन्धं नेत्रेण त्वथ ऊर्ध्वतः ।
आदित्यायुतदीपेन ज्वलत्कञ्चुकरूपिणा ॥ ३८ ॥

कवचेन तु तर्जन्या रक्षार्थमवकुण्ठयेत् ।
सायामां भूतसंशुद्धिं धारणाभ्यां समाचरेत् ॥ ३९ ॥

केवलेन तु मन्त्रेण भावनासहितेन तु ।
नाभिदेशस्थितं ध्यात्वा देवं सङ्गृह्य कल्मषम् ॥ ४० ॥

निस्सृतं वायुमार्गेण द्वादशान्तावधौ क्षिपेत् ।
निरस्तपापमाकृष्य वातचक्रसमन्वितम् ॥ ४१ ॥

नासाग्रेण तु मन्त्रेशं देहसम्पूरणाय च ।
तं ध्यायेद्धृदयस्थं च गतिरुद्धेन वायुना ॥ ४२ ॥

चित्तोपशमनार्थं तु नूनं वायुजयाय च ।
शनैश्शनैरथ बहिः केवलं मारुतं क्षिपेत् ॥ ४३ ॥

विनान्त्यरेचकेनैवमन्येषामुत्तरोत्तरम् ।
कालाभ्यासं यथाशक्ति नित्यमेवं समाचरेत् ॥ ४४ ॥

द्वादशान्तेऽथ मन्त्रेशं तप्तहाटकसन्निभम् ।
सहस्ररविसङ्काशवृत्तमण्डलमध्यगम् ॥ ४५ ॥

स्मृत्वाथ मुक्तं तन्मात्रैर्निर्दहेद्विग्रहं स्वकम् ।
दक्षिणाङ्घेरथाङ्गुष्ठान्ते देशे शिखाक्षरम् ॥ ४६ ॥

ध्यात्वा युगान्तहुतभुग्रूपज्वालासमावृतम् ।
तेन स्वविग्रहं ध्यायेत्प्रज्वलन्तं समन्ततः ॥ ४७ ॥

देहजां भावयेज्ज्वालां मन्त्रनाथे लयं गताम् ।
दिव्यप्रशान्तागारं तु तमधिष्ठाय चेतसा ॥ ४८ ॥

स्वमन्त्रादमृतौघेन सेचयेद्विग्रहं स्वकम् ।
ततस्स्वमन्त्रं तद्बिम्बमाकृष्य हृदि विन्यसेत् ॥ ४९ ॥

एवं स शुद्धदेहोऽथ मन्त्रन्यासं समाचरेत् ।
येन विन्यस्तमात्रेण देवदेवसमो भवेत् ॥ ५० ॥

पूजादिसर्वकार्याणामधिकारश्च जायते ।
हस्तद्वयेऽपि विन्यस्येद्दीप्तमष्टाक्षरं परम् ॥ ५१ ॥

मणिबन्धान्नखाग्रान्तमादित्यातपवत्स्थितम् ।
सृष्टिसंस्थितिसंहारन्यासं कुर्याद्यथाविधि ॥ ५२ ॥

पर्वदक्षिणतर्जन्याः प्रारभ्याङ्गुलिपर्वसु ।
पर्वान्तं वामतर्जन्या न्यासस्सृष्टिरुदाहृतः ॥ ५३ ॥

व्यत्यासेन तु संहारस्थिती तु करयोर्द्वयोः ।
प्रारभ्य तर्जनीपर्वकनिष्ठापर्वविश्रमः ॥ ५४ ॥

अङ्गुष्ठाभ्यामङ्गुलीनां मध्यपर्वसु विन्यसेत् ।
मन्त्राक्षराणि त्वाद्यन्तपर्वसु प्रणवं न्यसेत् ॥ ५५ ॥

अङ्गुष्ठद्वितयं यावत्कनिष्ठाद्वितयावधि ।
ज्ञानाद्यं वीर्यपर्यन्तं विन्यसेदङ्गपञ्चकम् ॥ ५६ ॥

मूलवद्व्यापकत्वेन नेत्रमूर्ध्वाङ्गुलीषु च ।
किरीटं दक्षिणे हस्ते श्रीवत्सं वाममध्यतः ॥ ५७ ॥

कौस्तुभं दक्षिणतले वनमालां तथापरे ।
दक्षिणे मध्यतः पद्मं प्रस्फुरत्किरणोज्ज्वलम् ॥ ५८ ॥

गदां वामतले न्यस्येज्ज्वलन्तीं स्वेन तेजसा ।
दक्षे महाप्रभं चक्रं शङ्खं वामतले न्यसेत् ॥ ५९ ॥

श्रियं दक्षिणहस्ते तु पुष्टिं वामतले न्यसेत् ।
अङ्गुष्ठाद्दक्षिणादादौ वामान्तं मूलदेशतः ॥ ६० ॥

गारुडं विन्यसेन्मन्त्रं दशस्वङ्गुलिषु क्रमात् ।
अनेन विधिना पूर्वं हस्तन्यासं समाचरेत् ॥ ६१ ॥

आब्रह्मरन्ध्रात्पादान्तं मूलमन्त्रं तु विग्रहे ।
व्यापकत्वेन विन्यस्य पादादूर्ध्वशिरोऽन्तिमम् ॥ ६२ ॥

सृष्टिस्थितिलयन्यासेष्वेकं देहे समाचरेत् ।
मूर्धादिपादपर्यन्तं सृष्टिन्यासः प्रकीर्तितः ॥ ६३ ॥

पादादिमूर्धपर्यन्तं संहारन्यास इष्यते ।
नाभ्यादिहृदयान्तस्तु स्थितिन्यास उदाहृतः ॥ ६४ ॥

मूर्ध्नि मध्यमयाङ्गुल्या तर्जन्या च तदा दृशोः ।
साङ्गुष्ठयानामिकया मुखमध्ये तु विन्यसेत् ॥ ६५ ॥

साङ्गुष्ठतर्जन्यग्रेण हृदये विन्यसेत्ततः ।
तथाङ्गुष्ठकनिष्ठाभ्यां नाभौ न्यासं समाचरेत् ॥ ६६ ॥

व्यङ्गुष्ठाभिश्चतसृभिरुपस्थे जानुनोरपि ।
सर्वाभिरङ्गुलीभिस्तु पादयोर्न्यासमाचरेत् ॥ ६७ ॥

मन्त्राक्षरं तु सर्वत्र तारसम्पुटितं न्यसेत् ।
एवमष्टाक्षरन्यासं कृत्वाङ्गन्यासमाचरेत् ॥ ६८ ॥

ततस्तु हृदये ज्ञानं यतो व्यज्येत तत्र तत् ।
ऐश्वर्यं शिरसो देशे यस्मादुपरि तिष्ठति ॥ ६९ ॥

प्राकृतं तात्त्विकं वापि सर्वत्र कमलेक्षणम् ।
हार्दाग्नेरूर्ध्वगायां तु शिखायां शक्तिमन्त्रराट् ॥ ७० ॥

बलं चाखिलगात्राणां त्वग्गतं वायुना सह ।
मूर्च्छितं सर्वगात्रैर्यत् तद्वीर्यं हस्तयोर्न्यसेत् ॥ ७१ ॥

अन्तर्बोधस्वरूपं यत्प्राकृतध्वान्तशान्तिकृत् ।
तेजस्तैजसे स्थाने न्यासकाले समस्यते ॥ ७२ ॥

किरीटं मूर्ध्नि विन्यस्येद् वह्न्यर्कायुतदीधितिम् ।
श्रीवत्सं वक्षसो वामे पूर्णेन्दुसदृशद्युति ॥ ७३ ॥

कौस्तुभं हृदये न्यस्य चण्डदीधितिलक्षणम् ।
नानाम्बुजवनपुष्पोत्थां वनमालां च कण्ठतः ॥ ७४ ॥

ततः पद्मगदाचक्रशङ्खान् प्राग्वत्तु विन्यसेत् ।
आ चांसाद्दक्षिणे भागे न्यस्याच्छ्रीरुत्तरे तथा ॥ ७५ ॥

पुष्टिं गुल्फावसाने च गरुडं चोरुमध्यतः ।
मन्त्रन्यासं तु कृत्वैवं ततः पाणिद्वयेन तु ॥ ७६ ॥

Zur Orientierung: Nun beginnt die innere Verehrung. Die folgenden Bilder verbinden Dhyana, Shakti und Mantra.

मुद्रां बद्ध्वा स्मरेद्ध्यानं देवोऽहमिति भावयेत् ।
कृत्वैवं तु ततः पश्चान्मानसं यागमारभेत् ॥ ७७ ॥

पद्मासनादिकं बद्ध्वा नाभौ ब्रह्माञ्जलिं दृढम् ।
मनस्युपरतं कुर्यादक्षग्रामं बहिः स्थितम् ॥ ७८ ॥

चित्तं बुद्धौ विनिक्षिप्य तां बुद्धिं ज्ञानगोचरे ।
ज्ञानभावनया कर्म कुर्याद्वै पारमार्थिकम् ॥ ७९ ॥

अथ प्रणवपूर्वेण स्वनाम्नानतिना सह ।
शेषपूर्वं तु वह्न्यन्तमासनं परिकल्पयेत् ॥ ८० ॥

तथाक्रम्याय तस्यैव कार्या स्वहृदि कल्पना ।
चतुश्चक्रे नवद्वारे देहे देवगृहे पुरा ॥ ८१ ॥

कण्ठकूपधरारूढं हृत्पद्मं यदधोमुखम् ।
तत्कर्णिकावनमध्ये रूढमूर्ध्वमुखं तु यत् ॥ ८२ ॥

शब्दव्यक्तिस्तदूर्ध्वं तु स्थितार्केन्द्वग्निलक्षणा ।
श्रीदीप्तिर्भास्वरा नाडी त्वव्यक्तध्वनिविग्रहा ॥ ८३ ॥

व्यक्तचक्रद्वयस्योर्ध्वं वर्तते या महामते ।
निःसृता ब्रह्मरन्ध्रेण गता सूर्यपथात् परम् ॥ ८४ ॥

वायुद्वारेण पातालं भित्त्वा याता स्वगोचरम् ।
सङ्कल्पविषयः सर्वस्तद्बन्धः प्रतितिष्ठति ॥ ८५ ॥

सूत्रे मणिगणो यद्वन्मध्यनाडी ह्यतः स्मृता ।
लक्ष्यस्थाने तु पूर्वोक्ते तस्यामभ्यन्तरे तु वै ॥ ८६ ॥

सम्पुटे शशिसूर्याख्ये निमेषोन्मेषलक्षणे ।
तत्राब्जं चार्कमालम्ब्य परावाक् भ्रमरी स्थिता ॥ ८७ ॥

या सर्वमन्त्रजननी शक्तिः सर्वात्मनो विभोः ।
नदन्ती वर्णजं नादं शब्दब्रह्मेति यत् स्मृतम् ॥ ८८ ॥

अकारपूर्वो हान्तश्च धारासन्तानरूपधृक् ।
नादावसानगगने देवोऽनन्तसमन्वितः ॥ ८९ ॥

वरदाभयदेनैव शङ्खचक्राङ्कितेन तु ।
त्रैलोक्योद्धृतिदक्षेण युक्तः पाणिद्वयेन तु ॥ ९० ॥

शान्तः संवित्स्वरूपस्तु भक्तानुग्रहकाम्यया ।
अनौपम्येन वपुषा ह्यमूर्तो मूर्ततां गतः ॥ ९१ ॥

विश्वमाप्याययन् कान्त्या पूर्णेन्द्वयुततुल्यया ।
रश्मिभिर्भास्करो यद्वत्समुद्र इव वीचिभिः ॥ ९२ ॥

स्वमूर्तिभिरमूर्ताभिरच्युतादिभिरन्वितः ।
दीप्तिमन्दिरमूर्तेस्तु सुधाकल्लोलसङ्कुलः ॥ ९३ ॥

पूर्णाभरणैः सर्वैः निर्विकाराङ्घ्रिविग्रहः ।
तस्माद् देवं समावाह्य हृदये कल्पितासने ॥ ९४ ॥

मन्त्रन्यासं ततः कुर्याद्धस्तन्यासं विना विभोः ।
ततः खाब्जकमध्यात्तु ह्यूर्ध्वस्थात् संस्मरेच्च्युताम् ॥ ९५ ॥

गङ्गां भगवतो मूर्ध्नि तेनामृतजलेन तु ।
अर्घ्याद्यखिलभोगानां कार्या वै शुभकल्पना ॥ ९६ ॥

यं यं सङ्कल्पयेद्भोगं तं तं भाव्यं सुधामयम् ।
पतन्तमम्बराद्वेगादमृतांशुपरिप्लुतम् ॥ ९७ ॥

साक्षादमृतरूपैस्तु तैस्तैरमृतसम्प्लवैः ।
बृंहितं मुदितं मग्नं स पुनर्मन्त्रराजं स्मरेत् ॥ ९८ ॥

ततस्तु देवदेवस्य अर्घ्यं दत्त्वा यथाविधि ।
सन्निधिं सन्निरोधं च साम्मुख्यं च समाचरेत् ॥ ९९ ॥

हृदयादीनि साङ्गानि किरीटाद्यं तु भूषणम् ।
गदाद्यं लाञ्छनं यत्तु लक्ष्म्याद्याश्शक्तयस्तथा ॥ १०० ॥

गरुडो मूर्तयो वान्या देहे देवस्य याः स्थिताः ।
व्यापकस्य तथात्वेन स्वे स्वे स्थाने प्रभात्मकाः ॥ १०१ ॥

तद्देहसंस्थिताः सर्वे पूजनीयाः क्रमेण तु ।
परिवारं विना मन्त्रैः स्वैः स्वैरर्घ्यादिभिर्द्विजाः ॥ १०२ ॥

लययागो ह्ययं विप्राः हृदादिष्वनुकीर्तितः ।
मन्त्रराट् कर्णिकामध्ये हृदाद्याः प्राग्दलादिषु ॥ १०३ ॥

साकाराः केवलाः सर्वे पूज्या भोगाभिधो ह्ययम् ।
केवलेन च यागेन पृथग्भूतेन वै द्विजाः ॥ १०४ ॥

तेषामभ्यर्चनविधिरधिकाराभिधः स्मृतः ।
एवं कृत्वा लयाख्यं तु यागं भोगयागाभिधं तथा ॥ १०५ ॥

ध्यात्वाथ भावनाजातैर्भोगैः परमपावनैः ।
अभ्यर्चयेत् स्वहृदये देवं विज्ञापयेदिदम् ॥ १०६ ॥

स्वागतं देवदेवेश सन्निधिं भज मेऽच्युत ।
गृहाण मानसीं पूजां यथार्थपरिभाविताम् ॥ १०७ ॥

ज्ञात्वा तु सुप्रसन्नं तं प्रसादाभिमुखं प्रभुम् ।
विस्तरेण द्विजश्रेष्ठो मानसं यागमारभेत् ॥ १०८ ॥

सङ्कल्पजनितैर्दिव्यैः पवित्रैरक्षयैः शुभैः ।
सर्वकामप्रदं देवं मन्त्रमूर्तिधरं यजेत् ॥ १०९ ॥

अभ्यङ्गोद्वर्तने पूर्वं स्नानं चाथ विलेपनम् ।
वस्त्रपूर्वाणि माल्यानि सुगन्धीनि निवेद्य च ॥ ११० ॥

हारकेयूरकटकैर्मकुटैर्भूषितं स्मरेत् ।
चित्रेण कटिसूत्रेण हेमरत्नमयेन च ॥ १११ ॥

माणिक्यरचितैः शुद्धैर्मुक्ताहारैश्च भूषयेत् ।
सम्पूर्णेन्दुसमानं च हेमदण्डसमन्वितम् ॥ ११२ ॥

छत्रं निवेदयेद्विष्णोर्मायूरव्यजनं शुभम् ।
कर्पूरचूर्णसम्मिश्रं सुगन्धिमधुरं बहु ॥ ११३ ॥

धूपं भगवतो दत्त्वा दीपमालां घृतेन च ।
मधुसर्पिःप्लुतं चाथ मधुपर्कं निवेदयेत् ॥ ११४ ॥

पशुं च विविधं मूर्तं पावनं शकुनिं तथा ।
ओषधीः शालिदूर्वाश्च सत्फलाढ्यं वनस्पतिम् ॥ ११५ ॥

मूर्तं निवेदयेत् पूर्वमिदमन्नं चतुर्विधम् ।
निवेद्य विविधं शुद्धं भक्ष्यभोज्यान्यनेकशः ॥ ११६ ॥

हृद्यानि फलमूलानि षड्रसप्रभवानि च ।
षड्रसानि विचित्राणि पानान्यथ निवेद्य च ॥ ११७ ॥

सर्वाण्यात्मोपभोग्यानि भक्तिश्रद्धावशाद्द्विजाः ।
प्रदिक्ष्वप्यविरुद्धानि देवाय विनिवेदयेत् ॥ ११८ ॥

तन्त्रीवाद्यान्यनेकानि नृत्तगेयान्वितानि च ।
भेरीपटहघोषादिस्तुतिपाठान्वितानि च ॥ ११९ ॥

चिन्तयेद्देवदेवस्य लोकत्रयगतानि च ।
किङ्किणीजालयुक्तेन चामरेणोपवीज्य च ॥ १२० ॥

वितानकं पताकांश्च ध्वजानि विविधानि च ।
विनिवेद्य विभोर्भक्त्या प्रसन्नेनान्तरात्मना ॥ १२१ ॥

गजाश्वधेनुयानानि सुवस्त्रालङ्कृतानि च ।
निवेद्य चान्तरा तानि ग्राहयन्तं स्मरेत्ततः ॥ १२२ ॥

आत्मानं ससुतं दारान् सर्वस्वेन समायुतान् ।
निवेद्य प्रणतो मूर्ध्ना आनन्दाश्रुसमन्वितः ॥ १२३ ॥

कामधेनुमयीं मुद्रां मनसा मन्त्रसंयुताम् ।
बद्धां सञ्चिन्तयेद्विष्णोः सर्वकामप्रपूरिणीम् ॥ १२४ ॥

ततो विशेषयजनं कल्पयेदच्युतस्य तु ।
सौवर्णपुष्पसम्पूर्णमञ्जलिं सम्प्रसार्य तु ॥ १२५ ॥

मूलमन्त्रं समुच्चार्य प्रयत्नैः पूरकादिभिः ।
दीर्घघण्टारवप्रख्यं यावत्तत्सम्भवावधि ॥ १२६ ॥

स्फुरद्रश्मिद्वयाकीर्णं वह्न्यर्केन्दुसमप्रभम् ।
ध्यात्वा नारायणं देवमञ्जलौ सन्निरोधयेत् ॥ १२७ ॥

तमञ्जलिं क्षिपेन्मूर्ध्नि तस्मिन्वै मन्त्रविग्रहे ।
अर्घ्यं निवेदयेद्भूयः पुनः पुष्पाञ्जलिं शुभम् ॥ १२८ ॥

मुद्रां सन्दर्श्य मूलाख्यां मानसं जपमारभेत् ।
सङ्ख्याहीनं यथाशक्ति घण्टाख्याकरणेन च ॥ १२९ ॥

भोगस्थानगतानां च हृदादीनां क्रमेण तु ।
मनसा दर्शयेन्मुद्रां जपं कुर्यात्सकृत्सकृत् ॥ १३० ॥

स्तोत्रमन्त्रैः पवित्रैश्च स्तुत्वा सम्यक् प्रसादयेत् ।
जपान्तं चैवमभ्यर्च्याप्यवतार्य बहिर्यजेत् ॥ १३१ ॥

इति श्रीपाञ्चरात्रे ईश्वरसंहितायां मानसयागविधिर्नाम द्वितीयोऽध्यायः ॥


Kapitel 3 – विमानदेवतार्चनविधिः / vimānadevatārcanavidhiḥ

Die Verehrung der Gottheiten des Tempels. Siehe deutsche Übersetzung und Texthinweise.

पुराऽनेन विधानेन कृत्वा यागं तु मानसम् ।
कर्मणा भक्तियुक्तेन बहिर्बिम्बे यजेत्ततः ॥ १ ॥

बाह्ययागविधिं सम्यक् शृणुध्वं मुनिपुङ्गवाः ।
देवं हृत्कमलाकाशे तेजोरूपतया स्थितम् ॥ २ ॥

तस्मात्स्थानात्समानीय तं कुर्यान्नेत्रमध्यगम् ।
वासुदेवाभिधानन्तु प्रागुक्तञ्च समाश्रयेत् ॥ ३ ॥

ततो लोचनयुग्मेन स्तब्धेन मुनिपुङ्गवाः ।
जपँल्लोचनमन्त्रन्तु पश्येद्यागोपयोगिनम् ॥ ४ ॥

सम्भारमखिलं तेन द्रव्यसङ्घो विशुद्ध्यति ।
उपार्जितं पुरा यद्वै यागोपकरणं महत् ॥ ५ ॥

तत्सर्वं दक्षिणे कृत्वा वामे तु करकं न्यसेत् ।
गालितेनाम्भसा पूर्णं मध्ये भद्रासनं न्यसेत् ॥ ६ ॥

यत्किञ्चित्पत्रपुष्पाद्यं परिदृश्येत पिङ्गलम् ।
पाणिना तत्समाहृत्य शुचिस्थाने निधाय वै ॥ ७ ॥

गव्यैर्वा चामरैर्वालैः शिखिपक्षैः कुशैरथ ।
सम्मार्ज्य भद्रपीठन्तु वाससा सुसितेन वा ॥ ८ ॥

बहुना वस्त्रपूतेन वारिणा तदनन्तरम् ।
प्रक्षाल्य द्वादशार्णेन प्रणवाद्यन्तकेन तु ॥ ९ ॥

एवमाराधनाधारं क्षालयित्वा च वारिणा ।
तत्तावदस्त्रपुष्पेण कुर्याद्विघ्नगणोज्झितम् ॥ १० ॥

आराध्यायामथारोप्य तत्र मन्त्रमयीं शुभाम् ।
सर्वोपकरणोपेतां सर्वलक्षणसंयुताम् ॥ ११ ॥

प्रतिमां धातुपाषाणनिर्मितामात्मसिद्धये ।
दिव्यार्घ्यपाद्याचमनैर्देवमभ्यर्च्य वै ततः ॥ १२ ॥

भुक्तमर्घ्यादिकं तस्मादपनीयाभिवाद्य च ।
समर्प्य विष्वक्सेनस्य संशोध्य मृदुना द्विजाः ॥ १३ ॥

उशीरवंशकूर्चेन क्षालयेदम्भसा ततः ।
उच्चरन् मूलमन्त्रं वा कुर्यान्मार्गत्रयं विभोः ॥ १४ ॥

सुधौते देवदेवस्य वाससी परिधापयेत् ।
चित्रस्थाद्ध्रुवबिम्बाद्भुक्तपुष्पादिकं हि यत् ॥ १५ ॥

अपनीय तु तत्कुर्याद्वाससा रेणुमार्जनम् ।
यद्वा प्राग्यागभवनप्रवेशानन्तरं द्विजाः ॥ १६ ॥

न्यस्य भद्रासनाद्यन्तमन्यदन्यत्समाचरेत् ।
यद्वा तदातने काले न्यस्य भद्रासनादिकम् ॥ १७ ॥

आद्यं मार्गत्रयं कृत्वा यथोक्तविधिना ततः ।
योगपीठार्चनारम्भे बिम्बोक्तं सर्वमारभेत् ॥ १८ ॥

अथार्घ्यादीनि पात्राणि प्रक्षाल्यास्त्रेण वारिणा ।
गालितेनाम्भसापूर्य पात्राणि मुनिसत्तमाः ॥ १९ ॥

मुख्यामुख्यार्घ्यपात्रादिक्रमाद्द्रव्याणि निक्षिपेत् ।
एकस्मिंश्चन्दनादीनि दूर्वासिद्धार्थकानि च ॥ २० ॥

साक्षतानि कुशाग्राणि तण्डुलानि तिलांस्तु वै ।
सरत्नानुत्तमान्धातून् सफलान् विनिवेशयेत् ॥ २१ ॥

द्वितीये दधिमध्वाज्यक्षीरबिन्दुचतुष्टयम् ।
कुशाग्रेण सबाह्लीकं सपुष्पतिलतण्डुलम् ॥ २२ ॥

दूर्वाञ्च विष्णुक्रान्ताञ्च श्यामाकं शङ्खपुष्पकम् ।
पद्मकं कुन्दरेणुञ्च पाद्यपात्रे विनिक्षिपेत् ॥ २३ ॥

त्वगेलाद्यचयं सर्वं सकर्पूरञ्च चन्दनम् ।
न्यसेदाचमनीयाख्यपात्रे तु मुनिसत्तमाः ॥ २४ ॥

कुष्ठं मांसी हरिद्रे द्वे मुराशैलेयचम्पकान् ।
वचाकच्चोरमुस्ताश्च स्नानीये तु विनिक्षिपेत् ॥ २५ ॥

हृन्मन्त्रेणैव सर्वत्र कुर्याद्वै द्रव्ययोजनम् ।
आधारोपरि पात्राणि स्वपूर्वनियमेन तु ॥ २६ ॥

वायव्यादिषु विन्यस्य तत्तत्कल्पनमन्त्रतः ।
ओमर्घ्यं कल्पयामीति उक्त्वा वायुपदे न्यसेत् ॥ २७ ॥

कलशं तद्वदैशान्यां न्यसेदाचमनार्थतः ।
स्नानार्थमग्निकोणे तु पाद्यार्थं नैर्ऋते तथा ॥ २८ ॥

अग्रतो वापि तन्मध्ये न्यसेदर्घ्यं द्वितीयकम् ।
यद्वा प्रागेव पात्राणि न्यस्याधारोपरि द्विजाः ॥ २९ ॥

तत्तत्कल्पनमन्त्रैस्तु तानि हस्तेन संस्पृशेत् ।
दक्षिणोत्तरहस्ताभ्यां हृद्बीजेन विचिन्त्य च ॥ ३० ॥

सूर्यसोमौ ततः कुर्याद्द्रव्यदाहसमुद्भवौ ।
बद्ध्वा कामदुघां मुद्रां स्रवन्तीं मन्त्रसंयुताम् ॥ ३१ ॥

गोरूपां हिमशैलाभां निराधारपदे स्थिताम् ।
तया तदमृतीकुर्यात् द्रव्यजालं यथास्थितम् ॥ ३२ ॥

वर्गेऽष्टमे तृतीयार्णं वकारोपरि संस्थितम् ।
ईकारानुस्वारयुक्तं नमःप्रणवमध्यगम् ॥ ३३ ॥

सौरभीयो ह्ययं मन्त्रः स्ववाणीसंयुतो द्विजाः ।
एवं वाणीद्वयेनैव अग्नीषोमात्मकेन तु ॥ ३४ ॥

योग्यतां पदवीं नीत्वा प्रोक्षयेद्यदुदाहृतम् ।
तोयमादाय पात्रेऽथ तत्र हृन्मन्त्रितं क्षिपेत् ॥ ३५ ॥

पुष्पगन्धसमोपेतं सुसितं शालितण्डुलम् ।
मन्त्रयेत्प्रणवाद्येन बहुशो हृदयेन तु ॥ ३६ ॥

तदुद्धृतेनाम्भसा वै अस्त्रमन्त्रं समुच्चरन् ।
प्रोक्षयेत्स्वासनं स्थानं यागोपकरणं तथा ॥ ३७ ॥

सास्त्रेण मूलमन्त्रेण अर्घ्यादीनभिमन्त्र्य तु ।
सषडङ्गेन तेनैव कुर्यात्पुष्पादिनार्चनम् ॥ ३८ ॥

धूपपात्रं च घण्टां च समभ्यर्च्य यथाविधि ।
घण्टाचालनपूर्वं तु धूपेनार्घ्यादिकान् यजेत् ॥ ३९ ॥

धूपपात्रस्य घण्टायाः पूजनं चोच्यतेऽधुना ।
पद्मचक्राङ्कितं दिव्यमाधारकजरूपिणम् ॥ ४० ॥

एकनालं च कर्तव्यं शेषं सप्तफणं विभुम् ।
बद्धाञ्जलिपुटं नित्यं ध्यायन्तं कारणं परम् ॥ ४१ ॥

चक्रलाङ्गलहस्तं च पद्मासनगतं विभुम् ।
कर्तव्यं धूपधर्तारं किङ्किणीजालशोभितम् ॥ ४२ ॥

चक्रं तच्चक्रहृदयं पद्मं हृत्कोटरं विदुः ।
चक्रे या या अराख्यास्ता नाड्यो वै द्वादश स्मृताः ॥ ४३ ॥

किङ्किण्यो याः स्थिता विप्राः ज्ञेयास्तास्सूक्ष्मनाड्यः ।
यासां वै मध्यमा शक्तिर्भुजङ्गकुटिलोपमा ॥ ४४ ॥

धूमधूसरवर्णाभा अण्डं भित्त्वा विनिर्गता ।
कालाग्निहृदयोत्था सा सत्यान्ते तु लयं गता ॥ ४५ ॥

तया सञ्चोदितो ह्यात्मा मन्त्रमूर्तिधरः प्रभुः ।
सन्निधौ भवति क्षिप्रमव्युच्छिन्नं दहेत्तथा ॥ ४६ ॥

मन्त्रेणानेन विप्रर्षे तन्मन्त्रमवधारय ।
ओङ्कारं पूर्वमुद्धृत्य परमात्मा ततः पुनः ॥ ४७ ॥

व्योमानन्देन संयुक्तमनन्ताय पदं ततः ।
कालाग्निरूपाय पदं जगद्धूमपदं तथा ॥ ४८ ॥

सुगन्धिने पदं कुर्यात्सर्वगन्धवहाय च ।
नमस्स्वाहा समायुक्तमेकत्रिंशाक्षरं पदम् ॥ ४९ ॥

मन्त्रं द्विजसमाख्यातं धूपपात्रस्य नारद ।
मुद्राध्यानसमायुक्तं सर्वसिद्धिकरं परम् ॥ ५० ॥

मन्त्रेणानेन सम्पूज्य धूपपात्रमनन्तरम् ।
घण्टासम्पूजनं कुर्यात्तद्विधानमिहोच्यते ॥ ५१ ॥

आदाय प्रणवं पूर्वमनन्तेशमतः परम् ।
तं चानलेन सम्मिश्रमूर्ध्वाधो मुनिसत्तम ॥ ५२ ॥

त्रैलोक्यैश्वर्यदेनाथ लाञ्छयेत्तञ्च बिन्दुना ।
दद्यादस्यावसाने तु जगद्ध्वनिपदं ततः ॥ ५३ ॥

मन्त्रमात्रे पदं चान्यत्स्वाहाक्षरसमन्वितम् ।
तदन्ते परमात्मानं प्रज्ञाधारोपरि स्थितम् ॥ ५४ ॥

भूधरेण युतं मूर्ध्नि भूधरोपरि विन्यसेत् ।
विश्वाप्यायकरान्तस्थत्रैलोक्यैश्वर्यदं मुने ॥ ५५ ॥

त्रयोदशाक्षरो मन्त्रो घण्टाख्यस्सर्वसिद्धिकृत् ।
विन्यासकाले यस्या वै प्लुतमुच्चारयेत्ततः ॥ ५६ ॥

ध्यानयुक्तं द्विजश्रेष्ठ तद्ध्यानमवधारय ।
अधोमुखं तु ब्रह्माण्डं ध्यायेज्जनरवाकुलम् ॥ ५७ ॥

सनालं च तदूर्ध्वे तु पद्ममष्टदलं स्मरेत् ।
प्रकीर्णपत्रं सुसितं केसरालिसुकर्णिकम् ॥ ५८ ॥

तन्मध्ये चिन्तयेद्देवीं वर्गाष्टकभुजान्विताम् ।
मुख्ये हस्तचतुष्के तु लाञ्छनं कमलादिकम् ॥ ५९ ॥

स्फाटिकं चाक्षसूत्रं च तथा विज्ञानपुस्तकम् ।
अभयं वरदं चैव हस्तद्विद्वितये परे ॥ ६० ॥

पद्मासनेनोपविष्टां पद्मपत्रायतेक्षणाम् ।
पद्मगर्भप्रतीकाशां पद्मलाञ्छनभूषिताम् ॥ ६१ ॥

सिताभरणसञ्छन्नां पीतवस्त्रविमण्डिताम् ।
मन्त्रौघमुद्गिरन्तीं च मन्त्रज्वालाप्रभान्विताम् ॥ ६२ ॥

देवैस्सुस्तूयमानां च ब्रह्माद्यैः ब्रह्मवादिभिः ।
ऋषिभिर्मुनिभिस्सिद्धैर्लोकानुग्रहकारिभिः ॥ ६३ ॥

नम्यमानां स्मरेत्सम्यक्पूजाकाले सदैव हि ।
योऽनया पूजयेन्मन्त्री तस्य सिद्धिर्न दूरतः ॥ ६४ ॥

एवं ध्यात्वार्चयेत्सम्यगर्घ्याद्यैस्तु ततः स्मरेत् ।
शब्दब्रह्ममहो यद्धृदब्जाकाशमध्यगम् ॥ ६५ ॥

नित्योदितमनोपम्यमनभ्यासादगोचरम् ।
उपदेष्टुमतोऽन्येषामभक्तानां न युज्यते ॥ ६६ ॥

परस्वरूपं मन्त्राणामेतल्लक्षणमब्जज ।
दशप्रकारे यच्छब्दे विसर्गान्तेऽक्षरादिके ।
नानामन्त्रस्वरूपेण वर्तते वर्णविग्रहे ॥ ६७ ॥

भोगमोक्षप्रदो मन्त्रो य आतस्सद्गुरोर्मुखात् ।
पञ्चस्थानगतो ज्ञेयो भक्तैर्दिव्यक्रियापरैः ॥ ६८ ॥

बहिस्स्थप्रतिमादौ तु जिह्वाग्रे हृत्कुशेशये ।
धूपधूमशिखायां च घण्टाशब्दे सुलक्षणे ॥ ६९ ॥

स्वरूपज्योतिरेवान्तर्भावयन् संस्थितं हृदि ।
मध्यमेन स्वरूपेण अव्युच्छिन्नं महामते ॥ ७० ॥

धूपधूमाश्रितं विद्धि वैखरीविग्रहं पुनः ।
घण्टायां चाल्यमानायामच्छिन्नमनुभूयते ॥ ७१ ॥

एवं स्मृत्वा ततस्तां तु स्वमन्त्रन्यस्तविग्रहाम् ।
अर्चितां ध्यानसंयुक्तामर्घ्याद्यैर्धूपसंयुतैः ॥ ७२ ॥

सञ्चालयेत्ततस्सम्यक् सुशब्दां मन्त्रबोधिनीम् ।
त्रैलोक्यद्राविणीं घण्टां सर्वदुष्टनिबर्हिणीम् ॥ ७३ ॥

एषा द्रुतिर्हि मन्त्राणां सुप्तानां च प्रबोधिनी ।
वारिणी सर्वविघ्नानां सर्वमन्त्रप्रसादिनी ॥ ७४ ॥

प्रणवान्ते ध्वनिर्ह्येषा शब्दशक्तौ लयं गता ।
वर्णदेहाः स्मृता मन्त्राः मन्त्रदेहाश्च देवताः ॥ ७५ ॥

घण्टास्तनितमूलास्ते प्रबुद्धाः कर्मसिद्धिदाः ।
परशब्दोत्थिता शक्ति घण्टा स्तनितरूपिणी ॥ ७६ ॥

वर्णत्वं समनुप्राप्ता तैर्वर्णैर्मुनिसत्तम ।
मन्त्राणां कल्पिता देहाः नानाकारास्सहस्रशः ॥ ७७ ॥

स्वेच्छया त्वनया शक्त्या सामर्थ्यात्त्वात्मनस्स्वयम् ।
अनुग्रहार्थमिह हि भक्तानां भावितात्मनाम् ॥ ७८ ॥

मननान्मुनिशार्दूल त्राणं कुर्वन्ति वै यतः ।
ददते पदमात्मीयं तस्मान्मन्त्राः प्रकीर्तिताः ॥ ७९ ॥

अनभिव्यक्तशब्दास्ते निराकारास्तथैव च ।
घण्टायां चाल्यमानायां निर्यान्ति च सहस्रशः ॥ ८० ॥

अत एव मुनिश्रेष्ठ मन्त्रमाता प्रकीर्तिता ।
एषा घण्टाभिधा शक्तिर्वागीशा च सरस्वती ॥ ८१ ॥

वाचि मन्त्राः स्थिताः सर्वं वाच्यं मन्त्रे प्रतिष्ठितम् ।
मन्त्ररूपात्मकं विश्वं सबाह्याभ्यन्तरं ततः ॥ ८२ ॥

घण्टाशब्दगतं सर्वं तस्मात्तां चालयेत्पुरा ।
आवाहनार्घ्ये धूपे च दीपे नैवेद्यजोषणे ॥ ८३ ॥

जपस्तुत्यवसानाभ्यां प्रवृत्ते चाग्नितर्पणे ।
पूर्णाहुतिप्रदाने च मन्त्राणां तु विसर्जने ॥ ८४ ॥

विष्वक्सेनार्चने चैव तत्पूजाप्रतिपादने ।
बलिप्रदानकाले तु देवतानां विशेषतः ॥ ८५ ॥

नित्यमेव प्रयुञ्जीत सम्यङ्मन्त्रार्थसिद्धये ।
पूजाकालं विनान्यत्र हितं नास्याः प्रचालनम् ॥ ८६ ॥

नानया तु विना कार्यं पूजनं सिद्धिमिच्छता ।
धूपं दत्त्वाथ पात्राणां घण्टाशब्दसमन्वितम् ॥ ८७ ॥

धूपं दद्याद्यथाकालं यद्वार्घ्यादौ सकृत्सकृत् ।
अनुकल्पे तु हृन्मन्त्रं कुर्यादावर्तनं बुधः ॥ ८८ ॥

आवाहने सन्निधाने सन्निरोधे तथार्चने ।
विसर्जनेऽर्घ्यदानं तु प्राक्पात्रान्नित्यमारभेत् ॥ ८९ ॥

तदम्बसा चार्हणे तु तथैव परिषेचनम् ।
कुर्यात् प्रणयनादानं प्रीणनं प्रीतिकर्मणि ॥ ९० ॥

प्रोक्षणं सर्ववस्तूनामन्यस्मादुदकेन तु ।
आरम्भे सर्वकार्याणां तत्समाप्तौ सदैव हि ॥ ९१ ॥

न्यूनाधिकानां शान्त्यै तु ज्ञानव्यत्ययशान्तये ।
कार्यं तदर्घ्यदानं च नित्यं मन्त्रात्मनो विभोः ॥ ९२ ॥

कुम्भोपकुम्भकुण्डानां मन्त्रास्त्रकलशार्चने ।
सम्पूजने च भूतानां गुर्वादीनां महामते ॥ ९३ ॥

दक्षशिष्यात्मपूजार्थं द्वारस्थानामर्चनं प्रति ।
प्रासादासनदेवानां गुरूणां सन्ततेस्तथा ॥ ९४ ॥

लाञ्छनाङ्गपरिवारशक्तिभूषणरूपिणाम् ।
मण्डलावरणस्थानां देवानां चार्चने तथा ॥ ९५ ॥

मुद्राबन्धे कराभ्युक्षं तदर्चाक्षालनं तथा ।
पाद्यदानं तृतीयात्तु नित्यं पात्रात्समाचरेत् ॥ ९६ ॥

चतुर्थात्तु यथाकालं दद्यादाचमनं ततः ।
हस्तप्रक्षालनं चैव गण्डूषं मुखधावनम् ॥ ९७ ॥

स्नानीयाच्चाचरेत्स्नानं प्रयोजकविधिस्त्वयम् ।
अर्घ्यपात्राद् द्वितीयात्तु किञ्चिदुद्धृत्य वै जलम् ॥ ९८ ॥

तेन स्वविग्रहन्यस्तान् मन्त्रानिष्ट्वा यथाक्रमम् ।
गन्धपुष्पप्रधूपैश्च पृथगेव प्रकल्पितैः ॥ ९९ ॥

अथार्घ्यादीन् समादाय द्वारस्थान् देवान् समर्चयेत् ।
निर्गत्य द्वारबाह्ये तु स्थितो वासीन एव वा ॥ १०० ॥

वास्तुक्षेत्रेशगरुडद्वाःश्रीचण्डप्रचण्डकान् ।
अभ्यर्च्यार्घ्यादिभिर्देवान् प्रासादस्थांश्च पूजयेत् ॥ १०१ ॥

अनेकभेदभिन्नेषु प्रासादेषु महामते ।
विस्तरेण समस्तेषु वृत्तायतपुरस्सरम् ॥ १०२ ॥

वक्ष्ये लोकाध्वतत्त्वानां देवतानाञ्च संस्थितिम् ।
सन्निरुध्य च भूर्लोकं पादक्षितितलेऽखिलम् ॥ १०३ ॥

एवं प्रासादपीठेषु भुवर्लोकं यथास्थितम् ।
स्मरेज्जङ्घावधिर्यावत् स्वर्लोकं तत्तदूर्ध्वगम् ॥ १०४ ॥

आरभ्य प्रस्तरोद्देशान्महच्छिखरभूमिगम् ।
जनो लोकं च तद्वेद्यां तपस्संज्ञं गलान्तगम् ॥ १०५ ॥

सत्यसंज्ञं च यल्लोकं तच्छिखायां तु संस्मरेत् ।
भावयेच्च पुरा व्याप्तिमेवं वै साप्तलौकिकीम् ॥ १०६ ॥

ततश्चाध्वमयीं व्याप्तिं भावयेतु यथाक्रमम् ।
कुम्भाधारोपलान्तस्थमध्वषट्कं स्मरन् न्यसेत् ॥ १०७ ॥

बीजभूतं तदन्तस्थमध्वव्याप्तिमनुस्मरेत् ।
बीजतश्चाङ्कुरीभूता परस्ताद्व्यक्तिमेति सा ॥ १०८ ॥

प्रासादपीठपर्यन्तं कुम्भाधारोपलात्तु वै ।
भुवनाध्वा यथावस्थो भावनीयस्तु सर्वतः ॥ १०९ ॥

गर्भोच्छ्रयावधिर्यावत्पदाध्वानं विलोकयेत् ।
मन्त्राध्वा शुकनासान्तं तत्त्वाध्वा वेदिकावधि ॥ ११० ॥

कलाध्वा तु गलान्तं च वर्णाध्वा तु तदूर्ध्वतः ।
एवं कृत्वाध्वकीं व्याप्तिं ततस्तत्त्वानि विन्यसेत् ॥ १११ ॥

संयोज्य पार्थिवं तत्त्वं पादक्षितितले द्विजाः ।
तोयतत्त्वं न्यसेत्पीठे जङ्घायां तैजसं स्मरेत् ॥ ११२ ॥

ग्रीवोद्देशावधिर्यावद्वायुतत्त्वं तदूर्ध्वतः ।
आकाशं शिखरस्थं स्यात्तदुद्देशात्क्रमेण तु ॥ ११३ ॥

न्यसेच्छब्दादि तन्मात्रां यावत्पादतलान्तिमम् ।
पार्श्वस्थे नासिके श्रोत्रे त्वक्सुधा समुदाहृता ॥ ११४ ॥

गवाक्षे चक्षुषी स्यातां जिह्वा भद्राख्यवेदिका ।
घ्राणन्तु शुकनासा स्यादास्यं द्वारमुदाहृतम् ॥ ११५ ॥

विज्ञेयाः पाणयः स्तम्भाः पादाः पादशिलाघटाः ।
पायुभ्यां जलनिर्याणमुपस्थं तु तदन्तरम् ॥ ११६ ॥

मनोऽन्तर्व्योम विज्ञेयं गर्वो ब्रह्मशिलागतः ।
बुद्धिस्तु पिण्डिका ज्ञेया प्रकृतिस्स्यात्तदन्तरे ॥ ११७ ॥

पञ्चविंशतमो ज्ञेयः प्रतिमापुरुषः परः ।
एवं न्यस्तेषु तत्त्वेषु न्यस्तव्या देवताः क्रमात् ॥ ११८ ॥

घटाधारोपलस्याधस्त्वनन्तो नाम नागराट् ।
सहस्रसङ्ख्यातफणामण्डलेन सुमण्डितः ॥ ११९ ॥

तदूर्ध्वे संस्थितं चक्रं सहस्रारोपशोभितम् ।
या शिला कलशाधारसंज्ञां तां विद्धि सर्वगाम् ॥ १२० ॥

सा मध्यशक्तिस्सामान्या निष्कला पारमेश्वरी ।
तदूर्ध्वसंस्थिताः कुम्भाः नवसङ्ख्यास्तु ये द्विजाः ॥ १२१ ॥

तेषां मध्यमकुम्भे तु साङ्गं सपरिवारकम् ।
मन्त्रनाथं समभ्यर्च्य मूलमन्त्रेण देशिकः ॥ १२२ ॥

ततः प्रागादिदिक्स्थेषु वासुदेवादिकान् यजेत् ।
विदिक्स्थेष्वनिरुद्धादीन् यजेदप्यययोगतः ॥ १२३ ॥

तेषां पिधाननवके त्वामध्यादीशगोचरम् ।
स्मर्तव्यास्सर्वतो व्याप्ताः क्रमेण द्विजपुङ्गवाः ॥ १२४ ॥

ज्ञानभासा निवसति तथानन्दबला प्रभा ।
सर्वगा ब्रह्मवदना द्योतकी सत्यविक्रमा ॥ १२५ ॥

सम्पूर्णा चेति कथिताश्शक्तयो विश्वधारिकाः ।
शिलाष्टके दिग्विदिक्षु तद्बहिस्स्थापिते न्यसेत् ॥ १२६ ॥

धर्माद्यं चाग्निकोणात्तु यावदीशपदं पुनः ।
प्रागादावुत्तरान्तं च अधर्माद्यं चतुष्टयम् ॥ १२७ ॥

शिलानामन्तरे भूमौ षट्कं षट्कं क्रमेण तु ।
न्यस्तव्यं पूर्ववर्णाच्च वर्णानां सावसानकम् ॥ १२८ ॥

ततः प्राङ्गणभित्त्यर्थं विन्यस्ते च शिलाष्टके ।
दिग्विदिक्षु न्यसेत्प्राग्वत्सायुक्तांश्च दिगीश्वरान् ॥ १२९ ॥

चक्रं तदन्तर्भूमीनां भ्रमद्वह्निस्फुलिङ्गवत् ।
क्षार्णेन चिन्तयेद्व्याप्तिं भूभागं चाङ्गणीयकम् ॥ १३० ॥

बहिः प्राङ्गणभित्तीनां सास्त्रं सपरिवारकम् ।
प्रागादावीशकोणान्तमिन्द्राद्यं चाष्टकं न्यसेत् ॥ १३१ ॥

तथाविधेषूपलेषु अन्तर्भूमिगतेषु च ।
सर्वाधारमयं चक्रं शाखामूलं समाश्रितम् ॥ १३२ ॥

ज्ञानक्रियात्मके तत्त्वे शाखयोर्युगले स्थिते ।
पारमेश्वर आस्तु द्वारस्योर्ध्व उदुम्बरे ॥ १३३ ॥

संस्थितस्सर्वतो व्याप्तस्तत्पृष्ठे मध्यदेशतः ।
चतुष्पात्सकलो धर्मः स्थितस्सत्त्ववतां वरः ॥ १३४ ॥

यदा कवाटौ द्वारस्य कल्पितौ द्विजसत्तमाः ।
कालवैश्वानरो देवो ह्यपां पतिरुभाविमौ ॥ १३५ ॥

दक्षिणोत्तरयोगेन कवाटोपरि संस्थितौ ।
तद्द्वारपार्श्वयोर्वा श्रीमण्टपद्वारपार्श्वयोः ॥ १३६ ॥

निधीशौ शङ्खपद्माख्यौ पूजनीयौ क्रमेण तु ।
ततो जङ्घासमूहे तु तथैवान्तरभूमिषु ॥ १३७ ॥

भवोपकरणीयानां देवानामर्चनं क्रमात् ।
कालोऽपि यन्नियन्ता च शास्त्रं नानाङ्गलक्षणम् ॥ १३८ ॥

विद्याधिपतयश्चैव सरुद्रस्सगणश्शिवः ।
प्रजापतिसमूहस्तु इन्द्रस्सपरिवारकः ॥ १३९ ॥

मुनयस्सप्त पूर्वेऽन्ये ग्रहास्तारादिकैर्वृताः ।
जीमूतश्चाखिला नागाः अप्सरोगण उत्तमः ॥ १४० ॥

ओषध्यश्चैव पशवो यज्ञास्साङ्गाखिलास्तु ये ।
विद्याचैवापरा विद्या पावकश्चैव मारुतः ॥ १४१ ॥

चन्द्रार्कौ वारिवसुधे इत्येते देवतागणाः ।
चतुर्विंशतिसङ्ख्याताः भवोपकरणामराः ॥ १४२ ॥

मूर्तयः केशवाद्यास्तु जङ्घोपरि संस्थिताः ।
ततस्तु प्रस्तरोद्देशे एते स्थाप्याः क्रमेण तु ॥ १४३ ॥

चक्रशङ्खौ गदापद्मे लाङ्गलं मुसलं शराः ।
शार्ङ्गं च खड्गखेटौ तु दण्डः परशुरीतिहा ॥ १४४ ॥

पाशाङ्कुशौ मुद्गरं च वज्रं शक्तिसमन्वितम् ।
प्रासादे चतुरश्रे तु चतुरश्रायतेऽपि च ॥ १४५ ॥

गरुडं प्रस्तरस्योर्ध्वे न्यसेत्कोणचतुष्टये ।
तदूर्ध्वे वेदिकायां तु भावनीया मुनीश्वराः ॥ १४६ ॥

एते पूर्वादिके योगे नैकशृङ्गतनुस्ततः ।
देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः ॥ १४७ ॥

नरो नारायणश्चैव हरिः कृष्णस्तथैव च ।
ज्वलत्परशुधृग्रामो रामश्चान्यो धनुर्धरः ॥ १४८ ॥

वेदविद्भगवान् कल्की पातालशयनः प्रभुः ।
ततो ग्रीवातले ध्येयः कूर्मः पातालधारकः ॥ १४९ ॥

वराहो नारसिंहश्चाप्यमृताहरणस्तु वै ।
श्रीपतिर्दिव्यदेहोऽथ कान्तात्मामृतधारकः ॥ १५० ॥

राहुजित्कालनेमिघ्नः पारिजातहरो महान् ।
लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः ॥ १५१ ॥

न्यग्रोधशायी भगवानित्येते द्विजसत्तमाः ।
ततस्तु शिखरोद्देशं त्रिधाकृत्य यथासमम् ॥ १५२ ॥

यावत्तु कलशाधारवेदिकात् द्विजसत्तमाः ।
अधोभागे क्रमात् ध्येयाः शिष्टा देवास्तु वैभवाः ॥ १५३ ॥

अनन्तो भगवान् देवश्शक्त्यात्मा मधुसूदनः ।
विद्याधिदेवः कापिलो विश्वरूपो विहङ्गमः ॥ १५४ ॥

क्रोडात्मा बडबावक्त्रो धर्मो वागीश्वरस्तथा ।
देव एकार्णवशय इत्येते द्वादश स्मृताः ॥ १५५ ॥

ध्रुवस्तु सर्वतोव्यापी तदूर्ध्वपदसंस्थितः ।
पद्मनाभस्तदूर्ध्वे तु व्यापकः परितिष्ठति ॥ १५६ ॥

शुकनासामुखे पूज्यो वासुदेवस्सनातनः ।
यत्र प्रासाददेशे तु शुकनासा न कल्पिता ॥ १५७ ॥

तत्राग्रतो नासिकायाः वासुदेवं तु संस्मरेत् ।
शिष्टनासात्रये पूज्याः क्रमात्सङ्कर्षणादयः ॥ १५८ ॥

अथ वा पुरुषस्सत्यो ह्यच्युतोऽनन्त एव च ।
चतुर्दिक्षु क्रमेणैव पूज्या यद्वा क्रमेण तु ॥ १५९ ॥

वराहो नारसिंहश्च श्रीधरश्च हयाननः ।
यद्वा नराद्याश्चत्वारो धर्ममूर्त्यादयोऽपि वा ॥ १६० ॥

यद्वा परशुरामाद्याः स्मर्तव्याः क्रमयोगतः ।
एते तु शक्तिभिस्सर्वे युक्ता वा केवलास्तु वा ॥ १६१ ॥

द्रुमैः पत्रलतायुक्तैर्भूषिते वेदिकातले ।
विन्यसेत् षडरं चक्रं ततस्सामलसारके ॥ १६२ ॥

भगवान् जगदाधारो वासुदेवः परः पुमान् ।
लोकानध्वगणं नित्यं तत्त्वाद्यमपि देवताः ॥ १६३ ॥

प्रासादोपरि विन्यस्तास्समाक्रम्य च संस्थितः ।
तदग्रदेशे हेतीशं यजेद्देवं सुदर्शनम् ॥ १६४ ॥

प्रासादाङ्गेषु विप्रेन्द्राः क्रमान्निगदितेषु च ।
देवताधारभूतेषु यद्यदङ्गं न कल्पितम् ॥ १६५ ॥

यत्र वा तत्तदधिकं तत्रापि च समाचरेत् ।
तत्तत्स्थाने तु बुध्या तु देवतान्यासमूहतः ॥ १६६ ॥

यद्वा ह्यनवक्लृप्ताङ्गे देवतेष्टिं तु वर्जयेत् ।
लोकास्सप्त तथाध्वानस्तत्त्वसङ्घश्च देवताः ॥ १६७ ॥

ध्यातव्यास्तु निराकारास्साधकैर्द्विजसत्तमाः ।
विमानेऽपि तथा सैद्धे विबुधैश्च प्रतिष्ठिते ॥ १६८ ॥

किं तु तत्र विमानाङ्गमूर्तीनां लाञ्छनादिकम् ।
तासां स्थानानि विप्रेन्द्राः कल्पितानि यथाविधि ॥ १६९ ॥

विमानावयवांश्चापि सन्निरीक्ष्यैव यत्नतः ।
पूजयेत्सावधानेन चेतसा ध्यानपूर्वकम् ॥ १७० ॥

लाञ्छनादेषु मूर्तीनां प्रासादावयवेष्वपि ।
अनभिव्यक्तिरूपेण लक्षणाद्यपरीक्षणात् ॥ १७१ ॥

स्वप्नादिभ्यापि विप्रेन्द्रदेशिकेन्द्रोपदेशतः ।
यथावत्सम्परीक्षेत प्रयत्नेन द्विजोत्तमाः ॥ १७२ ॥

लक्षणादिषु हीनेषु विपर्यस्तेष्वपि द्विजाः ।
न लक्षणादिकं कुर्यादन्यथा मुनिपुङ्गवाः ॥ १७३ ॥

लक्षणं न परीक्षेत ह्यन्यथाकरणेच्छया ।
अन्यथाकरणार्थं तु लक्षणाद्ये परीक्षिते ॥ १७४ ॥

क्षयत्यायुः कृते तस्मिन् लक्षणैर्नरकं व्रजेत् ।
तस्मात्सर्वप्रयत्नेन स्वयंव्यक्तादिकेऽपि च ॥ १७५ ॥

विमाने संस्थितानां तु मूर्तीनां लक्षणादिकम् ।
स्थानान्यपि च तासां वै विमानावयवानपि ॥ १७६ ॥

यथास्थितं परीक्ष्यैव कृत्वा मूर्तिविनिर्णयम् ।
स्वेन स्वेन विशेषेण लाञ्छनाद्येन वै स्फुटम् ॥ १७७ ॥

स्वेन स्वेन तु मन्त्रेण पूजनं च समाचरेत् ।
प्रासादेषु स्वयंव्यक्तं श्रेष्ठं सर्वेषु च द्विजाः ॥ १७८ ॥

तद्रूपी भगवान् देवः स्वयमेवावतिष्ठते ।
तत्र सन्निहितस्साक्षाद्भगवान् भक्तवत्सलः ॥ १७९ ॥

जाते जीर्णादिदोषे तु न त्यजन्ति कदाचन ।
स्वं स्वं प्रदेशमेतास्तु मन्त्राणां शक्तयः पराः ॥ १८० ॥

प्रासादान्तस्स्थिताश्चापि स्वयंव्यक्तपुरस्सराः ।
आकारास्तु विभोस्सम्यक् ज्ञेयाः पूर्वोक्तयोगतः ॥ १८१ ॥

अस्त्रैर्मन्त्रैर्ध्वजैर्येषां व्यक्तिर्व्यक्ता जगत्त्रये ।
तेऽपि लाञ्छनवृन्दं तु धारयन्त्यङ्घ्रिगोचरे ॥ १८२ ॥

ललाटे चांसपट्टे तु पृष्ठे पाणितलद्वये ।
तनूरुहचये मूर्ध्नि कर्मिणां प्रतिपत्तये ॥ १८३ ॥

तत्तल्लाञ्छनवृन्दं तु परीक्ष्यैवं विशेषतः ।
तत्तदाकारनियतैर्वाचकैस्सम्प्रपूजयेत् ॥ १८४ ॥

येषां लाञ्छनवृन्दं तु न व्यक्तं चरणादिषु ।
तानर्चयेद्द्विषट्कार्णपुरोगेण मुनीश्वराः ॥ १८५ ॥

व्यापकानां तु मन्त्राणामेकेनाभिमतेन तु ।
इति ज्ञात्वा यथावच्च यः पूजयति मन्त्रवित् ॥ १८६ ॥

स पूजाफलमाप्नोति ह्यन्यथा विपरीतभाक् ।
एतान्युक्तानि सर्वाणि लोकादीनि क्रमेण तु ॥ १८७ ॥

समाराधनकालेषु देवस्यामिततेजसः ।
द्वारस्थदेवार्चनं कृत्वा पूजयेत्तदनन्तरम् ॥ १८८ ॥

नमस्कारपदान्तेन स्वनाम्ना प्रणवादिना ।
अर्घ्यालभनमाल्यैश्च धूपेन द्विजसत्तमाः ॥ १८९ ॥

अग्रतो देवदेवस्य द्वारदेशस्य बाह्यतः ।
अन्तर्मण्डलदेशे तु गत्वा वा पूजयेत्क्रमात् ॥ १९० ॥

एवं प्रासादभेदे तु यस्मिन् साधकसत्तमैः ।
एककालं द्विकालं वा त्रिकालं वार्चनं द्विजाः ॥ १९१ ॥

नित्यशः क्रियते तत्र सदा सन्निहितो विभुः ।
अत एव द्विजश्रेष्ठास्तदर्चनपुरस्सरम् ॥ १९२ ॥

कुर्यादाराधनं विष्णोस्साधकस्सिद्धिलालसः ।
य एवं कुरुते भक्त्या ह्यनन्यपरया सदा ॥ १९३ ॥

सोऽचिराल्लभते कामानिह लोके परत्र च ।
मोक्षार्थी कुरुते यस्तु स याति परमं पदम् ॥ १९४ ॥

इति श्रीपाञ्चरात्रे ईश्वरसंहितायां विमानदेवतार्चनविधिर्नाम तृतीयोऽध्यायः ॥


Kapitel 4 – नीराजनान्तविधिः / nīrājanāntavidhiḥ

Die Verehrung bis zur Lichterzeremonie. Siehe deutsche Übersetzung und Texthinweise.

नारदः ।

प्रासादे संस्थितान् देवानेवमभ्यर्च्य वै द्विजाः ।
द्वारावरणदेवानां पूजनं च यथाक्रमम् ॥ १ ॥

विष्वक्सेनावसानं च कारयेन्मुनिपुङ्गवाः ।
यदङ्गभावमभ्येति द्वारस्थाद्यं देवतागणम् ॥ २ ॥

विष्वक्सेनावसानं च नराणामल्पमेधसाम् ।
जन्तोरेकान्तिनस्तद्वै चित्तखेदकृदर्चनम् ॥ ३ ॥

विघ्नकृत्प्रकृतस्यापि शिष्याणां तदनर्चनम् ।
अतस्तदनुकम्पार्थं देवभृत्यधियाऽर्चनम् ॥ ४ ॥

भक्तिश्रद्धोज्झितं चैवं विहितं त्वेवमेव हि ।
ते तत्पाणिच्युतं प्रह्वा दत्तमप्यवहेलया ॥ ५ ॥

गृह्णन्ति मनसा श्रेयः परं ध्यात्वा धिया हृदि ।
यतस्सर्वेऽच्युतमयास्तच्चित्तार्पितमानसाः ॥ ६ ॥

एतावदर्चनात्तेषां गुरोरेकान्तिनस्तु वै ।
स्याद्विरोधनिरासस्तु यतो भृत्यास्तु ते हरेः ॥ ७ ॥

कृत्वैवं द्वारयागं तु ततः पुष्पं च सम्मुखम् ।
गृहीत्वाऽङ्गुष्ठपूर्वेण स्वाङ्गुलित्रितयेन तु ॥ ८ ॥

अभिमन्त्र्य तदस्त्रेण चक्रं तदुपरि स्मरेत् ।
निशितारं ज्वलद्रूपं वर्षन्तमनलाशनिम् ॥ ९ ॥

क्षयकृद्विघ्नजालानां क्षिपेद्यागगृहान्तरे ।
दक्षिणां तर्जनीं विप्रः कुर्यादूर्ध्वमुखीं ततः ॥ १० ॥

शिखामन्त्रेण संयुक्तां विद्युद्विलसितप्रभाम् ।
स्मृत्वा भ्रामयमाणां तां संविशेद्यागमन्दिरम् ॥ ११ ॥

स्वासनं च ततः प्रोक्ष्य अर्घ्यपाद्योदकेन च ।
उपविश्याऽऽसने यागमारभेत समाहितः ॥ १२ ॥

समये वात्र कुर्वीत सर्वभोगनिरीक्षणम् ।
न्यस्य भद्रासनं मूलात् प्रोक्षणार्घ्यप्लुतेन तु ॥ १३ ॥

पाणिनाऽप्यथ कूर्चेन तज्जलेन तु मार्जयेत् ।
तत्तावदस्त्रपुष्पेण कुर्याद्विघ्नगणोज्झितम् ॥ १४ ॥

सर्वलोकमयं तत्र सर्वदेवसमाश्रयम् ।
सर्वाधारमयं ध्यायेदन्तर्लीनं तु चक्रराट् ॥ १५ ॥

प्रणवेन स्वनाम्नाऽथ नमोऽन्तेनाऽर्चयेच्च तम् ।
अर्घ्यालभनधूपैस्तु माल्यैर्नानास्रगुद्भवैः ॥ १६ ॥

योगपीठार्चनं कुर्यादनुसन्धानपूर्वकम् ।
स्वनाम्ना प्रणवाद्येन नमोऽन्तेन यथाक्रमम् ॥ १७ ॥

ततस्तु सर्वमन्त्राणां विन्यासं तत्र चेतसा ।
समाचरेद्यथायोगं पुष्पदानपुरस्सरम् ॥ १८ ॥

बिम्बेन सहितं पीठं योगपीठमुदाहृतम् ।
अनुसन्धानयोगे तु योगपीठं प्रकल्पयेत् ॥ १९ ॥

तन्मन्त्रासनमित्युक्तं मन्त्रन्यासं तु सर्वतः ।
कुर्यात्तत्स्थस्य देवस्य पीठस्याऽधो मुनीश्वराः ॥ २० ॥

आधारशक्तिं तस्योर्ध्वे कूर्मं कालाग्निसंज्ञकम् ।
अनन्तेशं स्मरेन्मध्ये सर्वाधारमयं प्रभुम् ॥ २१ ॥

आग्नेयादौ तु धर्माद्यमैशान्यन्तं चतुष्टयम् ।
प्रागादौ त्वप्यधर्माद्यमुत्तरान्तं न्यसेत्परम् ॥ २२ ॥

तदूर्ध्वे कमलं ध्यायेत्स्वनाम्नाऽथ तथोपरि ।
स्मरेत्पत्राश्रितं सूर्यं शशाङ्कं केसरावनौ ॥ २३ ॥

कर्णिकास्थं हुतभुजं ततो गन्धादिना यजेत् ।
सुस्थिरे सन्निरोधश्च मन्त्राणां विहितस्सदा ॥ २४ ॥

यत्र यत्रानुरूपं तु तत्र तन्न्यासमाचरेत् ।
चलबिम्बस्य पीठेऽपि ह्येवमेवार्चयेत्क्रमात् ॥ २५ ॥

किं तु तात्कालिकं तत्र मन्त्राणां सन्निरोधनम् ।
आहूतोपविशेद्यत्र मन्त्रनाथो हि सम्मुखः ॥ २६ ॥

तत्प्रागपेक्षया कुर्याद्धर्मादीनां निवेशनम् ।
साम्मुख्यं भजते यस्मात्साधकं परमेश्वरः ॥ २७ ॥

तदासनं हि चिद्रूपं सिद्धमेतस्य वाहनात् ।
एवं चास्याचले पीठे शयानस्य विभोस्त्वधः ॥ २८ ॥

वह्न्यन्तं क्रमशोऽभ्यर्च्य ततोऽनन्तं समर्चयेत् ।
यानारूढे त्वनन्तस्य स्थाने तार्क्ष्यं समर्चयेत् ॥ २९ ॥

लक्ष्म्यादीनां तु देवीनां पीठस्याधः फणीश्वरम् ।
तत्कोणेषु च धर्मादींस्तदूर्ध्वं व्यक्तपङ्कजम् ॥ ३० ॥

धामत्रयं ततस्तस्मिन् विन्यसेत्पूर्ववर्त्मना ।
गणेशाद्यर्चनं कुर्यादथ पीठसमीपतः ॥ ३१ ॥

आत्मनः प्राग्वशाद्वायुकोणादारभ्य पूजयेत् ।
विन्यस्य विष्टरान् दर्भान् कुसुमस्तबकानिव ॥ ३२ ॥

विष्वक्सेनं गणाधीशं गुरूंश्च तदनन्तरम् ।
गुरून् परमसंज्ञांश्च यजेत्सर्वगुरूंस्तथा ॥ ३३ ॥

आदिसिद्धिसमूहं तु भगवद्ध्यानतत्परम् ।
नित्याधिकारिणश्चाप्तान् भगवत्तत्त्ववेदिनः ॥ ३४ ॥

चत्वारो मनवश्चान्ये ऋषयस्सप्त पूर्वकाः ।
अर्घ्यादिना यजेदेतान् तत्तन्नाम्ना यथाक्रमम् ॥ ३५ ॥

सर्वेषां क्रमशो ध्यानं शृणुध्वं मुनिपुङ्गवाः ।
अनन्तशशिसङ्काशमनन्तमथ संस्मरेत् ॥ ३६ ॥

सहस्रफणमालाढ्यं सहस्रभुजभूषितम् ।
स्वपाणिसम्पुटेनैव शोभयन् स्वाङ्गभूतलम् ॥ ३७ ॥

सितारविन्दशङ्खाक्षसूत्रचक्रकरान्वितम् ।
पतनाशङ्किबुद्धेर्वै वित्रस्तमनसस्तु च ॥ ३८ ॥

मा भैरित्यभयं यच्छन्नाब्रह्मभवनस्य च ।
तुहिनाच्छोपलस्वच्छमुक्ताफलशशिप्रभः ॥ ३९ ॥

मृगेन्द्रस्कन्धवदनाः धर्मज्ञानादयश्चतुः ।
पद्मरागप्रवालाग्निसुदाडिमफलोज्ज्वलाः ॥ ४० ॥

अन्तर्दयोपयुक्ताश्च राजराजेश्वरोपमाः ।
द्विरष्टवर्षवद्विद्धि चत्वारोऽधर्मपूर्वकाः ॥ ४१ ॥

सर्वे सद्वस्त्रसत्पुष्पसदलङ्करणान्विताः ।
शङ्खपद्मधराः सर्वे वराभयकरास्तु वै ॥ ४२ ॥

आधेयपदविन्यस्तमस्तकाः स्वात्मसिद्धये ।
समर्पितान्तःकरणाः परस्मिन् मन्त्रकारणे ॥ ४३ ॥

चिन्त्यमव्यक्तपद्मं च हिमहेमाग्निभास्वरम् ।
शान्तमष्टभुजं सौम्यं संस्थितं स्वस्तिकेन तु ॥ ४४ ॥

धामत्रयं तदूर्ध्वे तु संस्मरेत्किरणोज्ज्वलम् ।
संस्मरेद्गणनाथं तु वक्ष्यमाणप्रकारतः ॥ ४५ ॥

गणनाथं विना चान्ये सुस्थिताः शान्तविग्रहाः ।
गणित्राभयहस्ताश्च सर्वानुग्रहकारकाः ॥ ४६ ॥

सर्वे पद्मासना वाथ जटामण्डलभूषिताः ।
एवं ध्यात्वा समभ्यर्च्य मुद्राः संस्पृश्य तत्क्रमात् ॥ ४७ ॥

अनुज्ञां प्रार्थयेतेभ्यो यथानुक्रममेव च ।
गृहीत्वा शिरसा तां च तत आवाहयेत्प्रभुम् ॥ ४८ ॥

ततस्सर्वगतं देवं मन्त्रमूर्तित्वमागतम् ।
समाहूय सुमन्त्रेण त्वागच्छान्तपदेन तु ॥ ४९ ॥

यथा सर्वगतो वायुर्व्यजनेन महामते ।
वृत्तिमभ्येति भगवान् आहूतस्तद्वदेव हि ॥ ५० ॥

भावदर्पणसङ्क्रान्तं कृत्वा हृत्कमलात्तु वै ।
सन्निरुध्य बहिर्वेद्यां मन्त्रोच्चारावसानतः ॥ ५१ ॥

मन्त्रमागच्छमानं तु निर्गतं तु स्वकात्पदात् ।
कालं पाद्यार्घ्यदानान्तमुत्थितं भावयेत्सदा ॥ ५२ ॥

अथोपचर्यमाणं तं भोगैः कालानुकूलतः ।
नानालभनवस्त्रस्रग्दानालङ्करणे तथा ॥ ५३ ॥

अन्यत्र भोगपूजायां स्मरेत्पद्मासनादिना ।
पुनस्तमेवोपविष्टं सानुकम्पं च सम्मुखम् ॥ ५४ ॥

बिम्बं विनान्यत्राधारे भवत्येव महामते ।
बिम्बाकृत्यात्मना बिम्बे समागत्यावतिष्ठते ॥ ५५ ॥

करोत्यमूर्तीमखिलां भोगशक्तिं तु चात्मसात् ।
स्थितमायतने वाथ साकारं परमेश्वरम् ॥ ५६ ॥

शङ्खचक्रधरं विष्णुं सुरसिद्धावतारितम् ।
ऋषिभिर्मनुजैर्वाथ भक्तियुक्तैः प्रतिष्ठितम् ॥ ५७ ॥

तन्मूर्तौ च स्वमन्त्रेण यजेदावाहनं विना ।
तथा प्रबोधयेत्तं तु कृत्वा हस्तौ सुगन्धिनौ ॥ ५८ ॥

गन्धार्घ्यपुष्पैस्सम्पूर्य मूलमन्त्रं समुच्चरन् ।
पीठोपरि हरेरस्य मूर्ध्नि पुष्पाञ्जलिं क्षिपेत् ॥ ५९ ॥

स्वप्रत्यभिमुखं शान्तं सुप्रबुद्धं स्मरेच्च तम् ।
करन्यासं विना तत्र सृष्टिन्यासादितत्रयम् ॥ ६० ॥

मूलमन्त्रादितार्क्ष्यान्तमन्त्राणां न्यासमेव च ।
कृत्वाथ तत्तन्मुद्राश्च तत्तन्मन्त्रैः प्रदर्शयेत् ॥ ६१ ॥

दीपयेद्बिम्बतोऽन्यत्र तस्मिन् पुष्पाञ्जलिं हरौ ।
आगच्छ पदमन्त्रेण मूलमन्त्रेण हृत्कजात् ॥ ६२ ॥

प्रत्यहं कर्मबिम्बानां मूलबिम्बहृदब्जगात् ।
किञ्चिदावाहनं कार्यं तत्र त्वेवं क्रमो द्विजाः ॥ ६३ ॥

मूलबेरे तु यत्तेजष्षड्भागैकं तु चोत्सवे ।
षट्त्रिंशदेकभागस्तु बलिकर्मार्चनादिषु ॥ ६४ ॥

एवं तेजोमयं देवं नाडीदक्षिणमार्गतः ।
तन्नासाग्रेण चावाह्य पीठकुम्भादिषु क्षिपेत् ॥ ६५ ॥

तत्कदम्बप्रसूनाभे तस्मिन् मन्त्रात्मगोलके ।
स्थानभेदं विनाङ्गानि न्यस्याभ्यर्च्येह देहतः ॥ ६६ ॥

सकलीकृत्य देवेशं ध्यायेत्तद्व्यक्ततां गतम् ।
मूलमन्त्रादितार्क्ष्यान्तमन्त्रांस्तत्र च विन्यसेत् ॥ ६७ ॥

एवमाहूय देवेशं दत्त्वार्घ्यं सन्निधित्सया ।
भूयोऽप्यर्घ्यं प्रदायास्मै हृदा मुद्रापुरस्सरम् ॥ ६८ ॥

सन्निधाप्यार्घ्यदानेन मुद्रापूर्वश्च वर्मणा ।
सन्निरोध्य तु मूलेन तन्मुद्रासहितेन तम् ॥ ६९ ॥

सम्मुखीकृत्य मूलादिमन्त्रांस्तत्र समुच्चरन् ।
प्रदर्शयंस्तथा मुद्रास्त्वष्टाङ्गेनाभिवादयेत् ॥ ७० ॥

लययागोक्तविधिना पूजयेत्प्रथमं ततः ।
आमूलात्सर्वमन्त्राणां व्यक्तिस्थानां समर्चनम् ॥ ७१ ॥

अर्घ्यपुष्पादिना कुर्यात् स्वेन स्वेन स्वके पदे ।
ततो भगवतो विष्णोर्भासा भास्वरविग्रहान् ॥ ७२ ॥

हृदादीन् निस्सृतान् ध्यायेत् स्फुलिङ्गनिचयो यथा ।
भोगस्थाने यथायोगमेकैकं विन्यसेत्ततः ॥ ७३ ॥

सकलीकृत्य चार्घ्याद्यैरर्चयेत्तत्र तु क्रमः ।
अष्टपत्राम्बुजे पीठे हृदयाद्यं चतुष्टयम् ॥ ७४ ॥

न्यसेत्कमलपत्राणां पूर्वादुत्तरान्तिमम् ।
अग्नीशरक्षोवायव्यदलेष्वस्त्रं यथाक्रमम् ॥ ७५ ॥

नेत्रं केसरजालस्थं विन्यसेत्तदनन्तरम् ।
पीठोपरि दलाद्बाह्ये देवस्येशानकोणके ॥ ७६ ॥

किरीटं श्रीवत्सकं च विन्यस्याग्नेयकोणके ।
कौस्तुभं वनमालां च न्यसेत्पद्मं च तत्र वै ॥ ७७ ॥

ईशकोणे गदां न्यस्य नैर्ऋते चक्रमुज्ज्वलम् ।
वायव्ये पाञ्चजन्यं च विन्यसेच्च यथाक्रमम् ॥ ७८ ॥

देवस्य कर्णिकायां तु श्रियं पुष्टिं ततोऽपरे ।
अग्रतः पीठतो बाह्ये न्यसेच्चारात्पतत्रिपम् ॥ ७९ ॥

एवं नत्वा ततो ध्यायेन्मन्त्रव्यूहं यथास्थितम् ।
अभ्यन्तरे विमानस्य गर्भभूमौ तु मध्यतः ॥ ८० ॥

सरसीरुहमास्थाय संस्थितं पुरुषोत्तमम् ।
प्रावृड्जलदसन्दोहविलसद्दिव्यविग्रहम् ॥ ८१ ॥

सर्वदेवमयं देवं सर्वेषां तेजसां निधिम् ।
सर्वलक्षणसम्पूर्णं सर्वज्ञादिगुणैर्युतम् ॥ ८२ ॥

वपुषा सुन्दरेणैव दिव्येनाविष्कृतेन च ।
मुञ्चन्तमनिशं देहादालोकं ज्ञानलक्षणम् ॥ ८३ ॥

प्रयत्नेन विनाज्ञाननाशकृद्ध्यायिनां महत् ।
घनकुञ्चितनीलालिदलिताञ्जनसन्निभैः ॥ ८४ ॥

कर्पूरधूसरैर्दिव्यैः पुष्पसंवलितान्तरैः ।
किरीटमुकुटाक्रान्तैश्शोभितं स्वशिरोरुहैः ॥ ८५ ॥

बालचन्द्रप्रतीकाशफालोद्यत्तिलकोज्ज्वलम् ।
सुभ्रुवं सुनसं शान्तं सविलासस्मिताधरम् ॥ ८६ ॥

किञ्चिदारक्तगोक्षीरशुद्धनीलाब्जलोचनम् ।
शीतलेक्षिपातैस्तु जगदाप्यायकारिणम् ॥ ८७ ॥

विलसद्गण्डफलकं श्रवणोज्ज्वलकुण्डलम् ।
मुखसौन्दर्यनिष्यन्दचिबुकस्थलशोभितम् ॥ ८८ ॥

विकलङ्कशरच्चन्द्रविलसन्मुखमण्डलम् ।
कम्बुग्रीवं पीवरांसं दीर्घबाहुं महोरसम् ॥ ८९ ॥

चतुर्भुजमुदाराङ्गं विलसत्पाणिपङ्कजम् ।
पीतकौशेयवसनं निम्ननाभिं तनूदरम् ॥ ९० ॥

चारूरुयुगलं चारुजङ्घाद्वितयमुज्ज्वलैः ।
मणिनूपुरभूषाढ्यैर्विलसत्पादपङ्कजम् ॥ ९१ ॥

दिव्यगन्धानुलिप्ताङ्गं दिव्याम्बरधरं तथा ।
दिव्यसंवेष्टनोपेतं दिव्यालङ्कारमण्डितम् ॥ ९२ ॥

अनेकरत्नखचितकिरीटमकुटोज्ज्वलम् ।
कौस्तुभेनोरसिस्थेन श्रीवत्सेनाप्यलङ्कृतम् ॥ ९३ ॥

रत्नकाञ्चनसन्मुक्तायुक्तया वनमालया ।
सब्रह्मसूत्रया चैव शोभितं परमेश्वरम् ॥ ९४ ॥

मुख्यदक्षिणहस्तेन भीतानामभयप्रदम् ।
श्रोणीतटनिविष्टेन वामहस्तेन लीलया ॥ ९५ ॥

ध्रियमाणां गदां गुर्वीं निषण्णां धरणीतले ।
पश्चाद्दक्षिणहस्तेन चक्रं कालानलद्युति ॥ ९६ ॥

प्रणवध्वनिगर्भं तु हिमाद्रिशतशोभितम् ।
शङ्खं वामकरेणापि दधानमतुलप्रभम् ॥ ९७ ॥

स्वदेहतेजस्सम्भूतज्वालामण्डलमध्यगम् ।
करुणापूर्णहृदयं जगदुद्धरणोद्यतम् ॥ ९८ ॥

अभिन्नपूर्णषाड्गुण्यविभवेनोपबृंहितम् ।
योगिध्येयमजं नित्यं जगज्जन्मादिकारणम् ॥ ९९ ॥

साक्षाल्लक्ष्मीपतिं देवं ध्यायेन्नारायणं प्रभुम् ।
एवं शयानमासीनं यानारूढमथापि वा ॥ १०० ॥

परं व्यूहं वैभवं वा द्विभुजं वा चतुर्भुजम् ।
अष्टबाह्वादिकं वापि नानाभूषणसंयुतम् ॥ १०१ ॥

नानास्त्रगणसंयुक्तं रूपं भगवतस्तथा ।
लक्ष्म्यादिशक्तिजालं च ध्यायेद्भक्तिसमन्वितः ॥ १०२ ॥

एवमेव हि हृन्मन्त्रं ध्यायेत् कुमुदपाण्डरम् ।
पद्मरागाचलाकारमारक्तं च शिरः स्मरेत् ॥ १०३ ॥

अञ्जनाद्रिप्रतीकाशं शिखामन्त्रं तथाकृतिम् ।
परितस्सूर्यसन्तप्तं यथा कनकपर्वतम् ॥ १०४ ॥

तथा कवचमन्त्रं च ध्यानकाले विचिन्त्य च ।
वृतं ज्वालासहस्रैस्तु अयस्कान्तसमद्युति ॥ १०५ ॥

सर्वास्त्रशक्तिसम्पूर्णमस्त्रमन्त्रं प्रकीर्तितम् ।
निर्धूमाङ्गारसदृशं भावयेन्नेत्रमन्त्रराट् ॥ १०६ ॥

ध्येयास्स्वरुचिसंयुक्ता द्विभुजाः पुरुषोत्तमाः ।
वीक्षमाणान् विभोर्वक्त्रं ध्यायेदेतान् मुनीश्वराः ॥ १०७ ॥

स्थितानामादिमूर्तीनां स्थितान् ध्यायेत्सदैव हि ।
आसीनानामथासीनान् वाहनस्थे सवाहनान् ॥ १०८ ॥

शायितानामथासीनान् उत्थितान्वा स्मरेद्धिया ।
अथ ध्यानं भूषणास्त्रशक्तीनामुच्यते क्रमात् ॥ १०९ ॥

किरीटस्सौम्यवदनः काञ्चनाभो महातनुः ।
भाभिराकृतियुक्ताभिर्नानारूपाभिरावृतः ॥ ११० ॥

स्थितो वैद्याधरीयेन स्थानगेनान्तरिक्षगः ।
स्फटिकाद्रिप्रतीकाशं श्रीवत्समथ भावयेत् ॥ १११ ॥

बद्धपद्मासनासीनं हस्तन्यस्तं स्वपार्श्वयोः ।
वहन्तं कूर्ममुद्रां च मुख्यहस्तद्वयेन च ॥ ११२ ॥

पद्मरागाचलाकारं कौस्तुभं रत्ननायकम् ।
दिशो दश द्योतयन्तं संलग्नाङ्घ्रिस्थितं स्मरेत् ॥ ११३ ॥

वहन्तं वक्षसो मध्ये स्वहस्तकृतसम्पुटम् ।
सन्धारयन्तमपरं तथा वै शिरसोपरी ॥ ११४ ॥

ध्येया भगवती माला चित्ररूपा मनोहरा ।
सर्वगन्धान्विता सौम्या ईषद्विहसिता नवा ॥ ११५ ॥

कुन्दावदातं कमलं सौम्यमीषत्स्मिताननम् ।
रवं रवन्तं मधुरं श्रोत्रेन्द्रियसुखावहम् ॥ ११६ ॥

गदां हेमाद्रिसङ्काशां तन्वीं कुवलयेक्षणाम् ।
द्विरष्टवर्षवत्कान्तां कुमारीं नवयौवनाम् ॥ ११७ ॥

स्वोत्थेन रश्मिजालेन भासयन्तीं नभस्स्थलम् ।
स्वरश्मिमण्डलान्तस्स्थं वल्गन्तं हेतिपं स्मरेत् ॥ ११८ ॥

विभोराज्ञां प्रतीक्षन्तं ह्रस्वाङ्गं रक्तलोचनम् ।
तुहिनाचलसङ्काशं शङ्खं कमललाञ्छनम् ॥ ११९ ॥

सदागमादिसामान्तमुद्गिरन्तं स्वकैर्मुखैः ।
ध्येयाः स्वरुचिसंयुक्ता द्विभुजाः पुरुषोपमाः ॥ १२० ॥

सास्त्राः किरीटपूर्वा ये गदामालाङ्गनाकृतीः ।
एतेऽस्त्रनायकास्सर्वे विभोराज्ञाप्रतीक्षकाः ॥ १२१ ॥

प्रोत्थिता विचलन्तश्च सुसमैः स्थानकैः स्थिताः ।
श्रोणीतटार्पितकराश्चामरव्यजनोद्यताः ॥ १२२ ॥

सपद्मं तु किरीटाद्यं वर्जयित्वा चतुष्टयम् ।
तर्जयन्तं च दुष्टौघमन्येषां दक्षिणं करम् ॥ १२३ ॥

स्मरेद्वै ध्यानकाले च सर्वेषामथ मस्तके ।
ध्येयं स्वकं स्वकं चिह्नं सुप्रबुद्धं निराकृति ॥ १२४ ॥

नलिनीतालहस्ता च लक्ष्मी रक्ताम्बुजप्रभा ।
पुष्टा कनकगौरा चामृतकुम्भधरा स्मृता ॥ १२५ ॥

भोक्तृशक्तिः स्मृता लक्ष्मीः पुष्टिर्वै कर्तृसंज्ञिता ।
भोगार्थमवतीर्णस्य लोकानुग्रहकाम्यया ॥ १२६ ॥

उदितं सह तेनैव शक्तिद्वितयमव्ययम् ।
रक्ततुण्डं महाप्राणं भीमभ्रुकुटिलोचनम् ॥ १२७ ॥

दीव्यच्चामीकराकारं पद्ममण्डलमण्डितम् ।
संस्मरेत् गरुडं विप्राः गृध्रवक्त्रं पृथूदरम् ॥ १२८ ॥

यथोक्तमूर्तियुक्ताश्च तथा ध्यायेद्यथाक्रमम् ।
किरीटो हुतभुग्देवः कौस्तुभस्तु प्रभाकरः ॥ १२९ ॥

स्वयं शशाङ्कः श्रीवत्सो मालाष्षण्माधवादयः ।
अपां पतिर्वै कमलं गदा देवी सरस्वती ॥ १३० ॥

कालश्चक्राधिपो ज्ञेयः खं शङ्खः कथितो द्विजाः ।
प्राणं पतत्रिराड्विद्धि एवं तत्त्वेषु संस्थितान् ॥ १३१ ॥

अधिष्ठातॄन् क्रमाच्चैतानर्चयेदर्घ्यपुष्पकैः ।
यजेत्तदनु देवेशं भोगैरर्घ्यादिभिः क्रमात् ॥ १३२ ॥

विनिवेद्यासनवरं समाहूतस्य वै विभोः ।
पादपीठं तु सामान्यं मृद्वास्तरणभूषितम् ॥ १३३ ॥

घण्टाशब्दसमोपेतं दत्त्वार्घ्यं मन्त्रमूर्धनि ।
पाद्यप्रतिग्रहं हेमं विभोर्दद्यात्सुरत्नकम् ॥ १३४ ॥

पाद्यं पादोदकाकर्षं शाटकं चानुलेपनम् ।
सप्रतिग्रहमाचामं सानुलेपं च मालिकाम् ॥ १३५ ॥

घृतादिकैर्महादीपैरच्छिद्रैरर्चयेद्धरिम् ।
सुगन्धैर्मधुरैर्धूपैः प्रभूतैरर्चयेद्विभुम् ॥ १३६ ॥

अर्हणं मधुपर्कं च तर्पणं तदनन्तरम् ।
निष्पुंसनं सपात्रं च आचामं गन्धमेव च ॥ १३७ ॥

अथ चूर्णितकर्पूरं घृष्टं श्रीगन्धभावितम् ।
सपूगफलमुत्कृष्टं ताम्बूलं विनिवेद्य च ॥ १३८ ॥

सपुत्रदारमात्मानमष्टाङ्गपतनेन च ।
चेतसा भक्तियुक्तेन निवेद्य तदनन्तरम् ॥ १३९ ॥

भगवानथ विज्ञाप्यः कृत्वा तत्पादगौ करौ ।
स्फुटीकृतं मया देव त्विदं स्नानवरं त्वयि ॥ १४० ॥

सपादपीठमपरं शुभं स्नानासनं महत् ।
आसादयाशु स्नानार्थं मदनुग्रहकाम्यया ॥ १४१ ॥

विज्ञाप्यैवं मज्जनार्थं कृत्वा मार्गत्रयं ततः ।
स्नानासनं निवेद्याथ देवस्य द्वितयं तु वै ॥ १४२ ॥

स्नानार्थमवतीर्णस्य पादपीठमनन्तरम् ।
भक्तिनम्रेण शिरसा दद्यादर्घ्यं तु मूर्धनि ॥ १४३ ॥

विनिवेद्य ततो हेमं सुरत्नं च प्रतिग्रहम् ।
दद्याद्वै पाद्यकलशात् पाद्यं पादाम्बुजद्वये ॥ १४४ ॥

शुभे च पादुके चाथ तदन्ते स्नानशाटकम् ।
सुगन्धशालिसम्पूर्णं मात्रार्थं पात्रमुत्तमम् ॥ १४५ ॥

दर्पणं पूर्णचन्द्राभं गन्धतोयमनन्तरम् ।
पाणीनां क्षालनार्थं तु पादपीठं ततश्शुभम् ॥ १४६ ॥

दन्तकाष्ठं च तदनु मुखशुद्धिप्रतिग्रहम् ।
जिह्वानिर्लेखनं चैव मुखप्रक्षालनं तु वै ॥ १४७ ॥

पुनराचमनं चैव अभ्यङ्गार्थमनन्तरम् ।
तैलं बहुसुगन्धं च चूर्णं गोधूमशालिजम् ॥ १४८ ॥

रजनीचूर्णसम्मिश्रमीषत्पद्मकभावितम् ।
देयमुद्वर्तनार्थं तु चमषी तदनन्तरम् ॥ १४९ ॥

स्नानार्थं स्ववसंयुक्तं तोयमुष्णमनन्तरम् ।
चन्दनं मुखलेपार्थं घृष्टं कर्पूरभावितम् ॥ १५० ॥

पञ्चविंशतिभिः कुम्भैस्ततस्संस्नापयेद्विभुम् ।
गव्यं प्रभूतं स्नानार्थं क्षीरं दधि घृतं मधु ॥ १५१ ॥

ऐक्षवं तु रसं हृद्यमभावे शर्करोदकम् ।
धात्रीफलोदकं चैव लोध्रतोयमनन्तरम् ॥ १५२ ॥

रक्तचन्दनतोयं च रजनीनीरमुत्तमम् ।
ग्रन्थिपल्लववार्येव ततस्तु तगरोदकम् ॥ १५३ ॥

प्रियङ्गुवारि तदनु मांसीजलमतःपरम् ।
सिद्धार्थकोदकं चाथ सर्वौषधिजलं ततः ॥ १५४ ॥

पत्रपुष्पोदके चैव फलबीजोदके त्वथ ।
गन्धोदकं च तदनु हेमरत्नजलं ततः ॥ १५५ ॥

पुण्यतीर्थसरित्तोये केवलं तदनन्तरम् ।
स्नानार्थं कल्पितेनैव उदकेन विमिश्रितम् ॥ १५६ ॥

योक्तव्यं क्रमशो ह्येतदर्घ्यपुष्पसमन्वितम् ।
अन्तरान्तरयोगेन स्नानानां च महामते ॥ १५७ ॥

क्षालनं चार्घ्यकलशादर्घ्यदानसमन्वितम् ।
यद्वा द्विषट्ककलशैर्नवभिर्वाभिषेचयेत् ॥ १५८ ॥

ततः स्नानीयशेषेण हेमादिद्रव्यनिर्मितम् ।
सम्पूर्णमम्भसा कुम्भं हरिद्राशालितण्डुलैः ॥ १५९ ॥

सुपिष्टैरुपरिष्टाच्च लिप्तं युक्तं स्रगादिना ।
पाणौ कृत्वा तमेकस्मिन् अपरस्मिंस्तु मल्लकम् ॥ १६० ॥

धूमायमानं सिद्धार्थैर्भ्राम्य मूर्ध्नि बहिःक्षिपेत् ।
सुधौतमहतं चाथ शाटकं विनिवेद्य च ॥ १६१ ॥

कचोदकापकर्षार्थमपरं देहवारिधृत् ।
अधरोत्तरवस्त्रे द्वे गन्धधूपादिवासिते ॥ १६२ ॥

स्कन्धप्रोतं निवेद्याथ सुसूक्ष्ममहतं सितम् ।
शिरस्स्यानं ततः कुर्याच्छशिधूपसमन्वितम् ॥ १६३ ॥

कर्पूरचूर्णसम्मिश्रं कुर्याद्देवस्य मूर्धजम् ।
एवं हि चित्रपूर्वाणामन्येषां कमलासन ॥ १६४ ॥

सद्रत्नब्रह्मपाषाणवर्जितानां समाचरेत् ।
स्नानार्थं कर्मबिम्बे तु तत्समीपेऽथ दर्पणे ॥ १६५ ॥

स्नानविज्ञापनं कृत्वा कर्मार्चां तस्य सन्निधौ ।
स्नानासने समारोप्य तस्यां सर्वं समाचरेत् ॥ १६६ ॥

तदभावे दर्पणे तु स्नानभोगान् समर्पयेत् ।
चित्रस्थ एवं दद्याच्च भोगानन्यान् यथाक्रमम् ॥ १६७ ॥

तदभावे च तान् सर्वान् पाणिनादाय चेतसा ।
निवेदयेन्मण्डलादिष्वेवं भोगनिवेदनम् ॥ १६८ ॥

प्रोक्षणं यावता कुर्यादर्घ्याद्यैरवशिष्टकैः ।
प्रणालभागादपरं स्थानं भद्रासनात्तु वै ॥ १६९ ॥

भूरिनीरघटैः शुद्धं कृत्वा तत्रावतार्य च ।
सपीठं भगवद्बिम्बं तद्विना वार्चितं यदि ॥ १७० ॥

खस्थितं भावयेद्देवं निश्शेषं क्षालयेत्ततः ।
भूयो गन्धोदकेनैव पूर्यं कुम्भचतुष्टयम् ॥ १७१ ॥

स्नानकुम्भं विनान्येषां प्राग्वत्कार्या हि कल्पना ।
हृन्मन्त्रेण चतुर्णां तु कुर्याद्वै द्रव्ययोजनम् ॥ १७२ ॥

सास्त्रेण मूलमन्त्रेण सर्वं तच्चाभिमन्त्र्य तु ।
मार्गत्रयं क्रमात्कृत्वा विनिवेद्यासने ततः ॥ १७३ ॥

तृतीयं रत्नखचितं तत्रस्थं परमेश्वरम् ।
विभाव्यालङ्कृतं भक्त्या भोगैस्स्रक्चन्दनादिभिः ॥ १७४ ॥

समभ्यर्च्यार्घ्यपाद्येन पादुकाभ्यामनन्तरम् ।
देयमाचमनं भूयः पादपीठं तथैव च ॥ १७५ ॥

समालभ्य सुगन्धेन भक्तितश्चन्दनादिना ।
संवीज्य चन्दनेनैव मायूरेण ततेन च ॥ १७६ ॥

केशप्रसादकृत्कूर्चं पुष्पताम्बूलकर्तनीम् ।
निवेद्य देवदेवाय दुकूलवसने सिते ॥ १७७ ॥

उपवीतं सोत्तरीयं मकुटाद्यमनन्तरम् ।
पादनूपुरपर्यन्तमलङ्करणमुत्तमम् ॥ १७८ ॥

विचित्रं हि शिरोमाल्यं वेष्टनेन समन्वितम् ।
स्रग्दामसूत्रसम्बद्धमाकर्णाचरणावधि ॥ १७९ ॥

रुचिरं कङ्कणं चाथ दद्यात्प्रतिसरं ततः ।
धातुभिः कुङ्कुमाद्यैर्वा विचित्रं सितसूत्रजम् ॥ १८० ॥

पूरितं मृदुतूलेन ग्रथितं चान्तरान्तरा ।
अञ्जनं सशलाकं च ताम्बूलं गन्धभावितम् ॥ १८१ ॥

ललाटतिलकं हेमं मुखवासं सरोचनम् ।
कर्णावतंसके पुष्पे मण्डनं दर्पणं महत् ॥ १८२ ॥

प्रकरं चित्रकुसुमैर्दीप्तरत्नप्रभोज्ज्वलैः ।
प्रभूतैस्तु महाज्वालैस्तिलतैलाज्यपूरितैः ॥ १८३ ॥

अभुक्ताहतसुश्वेतरचितैर्वर्तिवेष्टितैः ।
ग्रन्थीकृतत्वगेलाद्यैः पूजयेत्तदनन्तरम् ॥ १८४ ॥

कर्पूरचूर्णसम्मिश्रं सुगन्धि मधुरं बहु ।
घृष्टधूपसमायुक्तं गुग्गुलं धूपयेच्छुभम् ॥ १८५ ॥

सहघण्टारवै रम्यैश्चाल्यमानेन बाहुना ।
उपानहौ सितं छत्रं शिविकां च रथादि यत् ॥ १८६ ॥

वाहनं गजपर्यन्तं सपताकं खगध्वजम् ।
सितासितौ चामरौ तु मात्रावित्तमनन्तरम् ॥ १८७ ॥

जानुनी भूगतौ कृत्वा शिरसावनतेन तु ।
आदायोत्तानपाणिभ्यां विनिवेद्य जगत्प्रभोः ॥ १८८ ॥

औपचारिकभोगानामेतेषां पूरणाय च ।
भेरीमृदङ्गशङ्खाद्यैर्जयशब्दसमन्वितैः ॥ १८९ ॥

गीतकैर्विविधैर्नृत्तैस्तन्त्रीवाद्यसमन्वितैः ।
वंशैश्शृङ्गैस्तथा हास्यैरन्यैश्श्राव्यैश्च पूजयेत् ॥ १९० ॥

स्तोत्रमन्त्रैर्नमस्कारैः प्रणामैश्च प्रदक्षिणैः ।
सङ्कटे सति भूभागे भगवत्यग्रतःस्थिते ॥ १९१ ॥

धिया नमस्कृतिं कुर्याद्बद्ध्वा तु करसम्पुटम् ।
हृद्देशे मूर्ध्निकम्पैस्तु स्मरन् सर्वेश्वरं हरिम् ॥ १९२ ॥

अन्तर्गर्भगृहे विष्णोर्गर्भद्वारार्धमण्डपे ।
प्रणिपातगणं कुर्यात्प्रदक्षिणगणं विना ॥ १९३ ॥

सङ्कटे सति तद्देशे बाह्ये तु मुखमण्टपे ।
स्थापयेच्चलबिम्बानि तत्रापि सति सङ्कटे ॥ १९४ ॥

प्रथमावरणे वापि द्वितीयावरणेऽपि वा ।
स्थानं सुविस्तृतं कृत्वा प्रासादाग्र्यं च वर्ज्य दिक् ॥ १९५ ॥

दिक्त्रयेऽभिमते कुर्याद्विदिक्ष्वभिमतेषु च ।
खलूरिकाप्रदेशे वा सुदेशे सुपरीक्षिते ॥ १९६ ॥

स्थापयेद्विधिना यात्राबिम्बं देवीसमन्वितम् ।
अन्यानि सर्वबिम्बानि न बहिःस्थापयेत्क्वचित् ॥ १९७ ॥

मूलबिम्बं समभ्यर्च्य पुरा नीराजनान्तिमम् ।
पश्चाद्बहिस्स्थितान् बिम्बान् पूजयेतु यथाविधि ॥ १९८ ॥

एवं प्रदक्षिणान्तं च देवमभ्यर्च्य वै ततः ।
नीराजयेद्देवदेवं तद्विधानमिहोच्यते ॥ १९९ ॥

नीराजनं तु त्रिविधं सात्त्विकादिविभेदतः ।
स्नानान्ते भोगयज्ञान्ते द्वितयं सात्त्विकं भवेत् ॥ २०० ॥

सायङ्काले प्रतिदिनं कुर्याद्राजससंज्ञितम् ।
पूजायां दीपदानाग्रे नैवेद्यान्तेऽपि तामसम् ॥ २०१ ॥

कुर्यात्प्रासाद एकस्मिन् तेषामेकं न तु त्रयम् ।
स्वयंव्यक्ते तथान्यैश्च विबुधैश्च प्रतिष्ठिते ॥ २०२ ॥

प्रासादे मुनिमुख्यैश्च सात्त्विकाख्यं समाचरेत् ।
ब्राह्मणैः क्षत्रियैर्वैश्यैः स्थापिते राजसं भवेत् ॥ २०३ ॥

शूद्रैस्तु स्थापिते स्त्रीभिस्तामसाख्यं समाचरेत् ।
सात्त्विकस्य विधानं तु शृणुध्वं मुनिपुङ्गवाः ॥ २०४ ॥

कर्तव्यं स्नानभोगान्ते यत्तदुक्तं पुरैव तु ।
अलङ्कारासनान्ते यत्कर्तव्यं तदिहोच्यते ॥ २०५ ॥

कृतं स्वर्णादिभिर्द्रव्यैः कुम्भमापूर्य वारिभिः ।
अर्घ्यपात्रोद्धृतैर्यद्वा केवलैर्गालितैः पुनः ॥ २०६ ॥

अन्तस्सिद्धार्थकान् क्षिप्त्वा कण्ठे कुर्यादलङ्कृतिम् ।
अश्वत्थपल्लवैस्स्रग्भिश्चन्दनेनाक्षतैरपि ॥ २०७ ॥

अन्यत्र रजनीपिष्टैर्लेपयेत्सर्वतो द्विजाः ।
तदास्ये मल्लकं पुष्पं सम्पूर्णं तु नियोजयेत् ॥ २०८ ॥

संस्कृताग्निसमुद्भूतान् पुरा दीपान् प्रदीप्य तु ।
विभवेच्छानुरूपेण चतुर्विंशतिकान् द्विजाः ॥ २०९ ॥

पाकस्थानात्तु वै दीपादुच्छ्रिताश्चतुरङ्गुलैः ।
प्रदीपं मल्लके कृत्वा सकुम्भं विनिवेशयेत् ॥ २१० ॥

अग्रतो देवदेवस्य सदाधारोपरि स्थितम् ।
तमर्घ्यगन्धस्रग्धूपैर्हृन्मन्त्रेण तु पूजयेत् ॥ २११ ॥

केवलं सार्घ्यपुष्पेण साधकस्तदनन्तरम् ।
दद्यादाचमनान्तेऽर्घ्यं मन्त्रेशस्याथ वा द्विजाः ॥ २१२ ॥

अर्घ्यालभनमाल्यानि धूपं चार्घ्यमेव च ।
दीपकुम्भं तु पाणिभ्यामुद्धृतं परिचारिणा ॥ २१३ ॥

देवस्य दक्षिणं पादमारभ्येतरपश्चिमम् ।
भ्रामयेत्सर्वतोऽङ्गानि एकधा वा द्विधा त्रिधा ॥ २१४ ॥

जपन् वै नेत्रमन्त्रं तु हृन्मन्त्रं वा यथारुचि ।
एवं कुम्भं परिभ्राम्य द्विजेन परिचारिणा ॥ २१५ ॥

शुद्धया योषिता वापि द्वारबाह्ये विसर्जयेत् ।
ततस्तु देवदेवस्य दद्यादर्घ्यं तु मूर्धनि ॥ २१६ ॥

पाकस्थानात्तदर्थं तु दीप आनीयते यदा ।
तदानीं तद्विधानं तु शृणुध्वं मुनिपुङ्गवाः ॥ २१७ ॥

दीक्षितास्सुविनीताश्च सुस्नाताः परिचारकाः ।
वदनं नासिकारन्ध्रे स्थगयित्वाम्बरेण तु ॥ २१८ ॥

सितोष्णीषधरास्सर्वे सितचन्दनभूषिताः ।
सौवर्णानि च पात्राणि विततानि यथारुचि ॥ २१९ ॥

राजतान्यथ ताम्राणि आरकूटमयानि च ।
कांस्यानी वापि सम्पाद्य यथावित्तानुसारतः ॥ २२० ॥

एकत्रिपञ्चसप्तापि न चैकादश वा तथा ।
द्विषट् षोडश वा यद्वा चतुर्विंशतिसङ्ख्यया ॥ २२१ ॥

पाकालयं समासाद्य तत्राग्नेस्संस्कृतात्पुरा ।
तेषां मध्ये वर्तिदीपान् पात्राणां तु महामते ॥ २२२ ॥

चतुरङ्गुलिकोत्सेधान् सघृतान् दीपयेत्पुनः ।
उद्धृत्य तानि पात्राणि करैस्तु परिचारकाः ॥ २२३ ॥

वहेयुः पङ्क्तिबन्धेन तदग्रे गणिकाजनाः ।
गच्छेयुर्भगवद्भक्ताः कुर्वन्त्यो नृतगीतके ॥ २२४ ॥

तदग्रे शङ्खभेर्यादिसमुद्घोषणतत्पराः ।
तदग्रे वेत्रिणोऽस्पृश्यजनोत्सारणतत्पराः ॥ २२५ ॥

गच्छेयुः परितस्तेषां दीपिकाधारिणो जनाः ।
एवं क्रमात्समासाद्य तिष्ठेयुर्देवसन्निधौ ॥ २२६ ॥

अथान्यो दीक्षितो विप्रः कुम्भमापाद्य पूर्ववत् ।
समल्लकं तदूर्ध्वं तु तेष्वेकस्मात्प्रदीप्य तु ॥ २२७ ॥

पाकस्थानादाहृतेषु प्रदीपं विनिवेश्य च ।
सदाधारस्थितं कुर्यात्ततस्साधकसत्तमः ॥ २२८ ॥

कुम्भं प्राग्वत्समभ्यर्च्य देवेशं च ततः परम् ।
भ्रामयेत्पूर्ववत्कुम्भं तस्मिन् काले द्विजोत्तमाः ॥ २२९ ॥

ऋगाद्यध्ययनं कुर्युर्द्विजाः प्रागादिदिक्स्थिताः ।
सन्निधौ देवदेवस्य नृत्यं तु गणिकास्तदा ॥ २३० ॥

मङ्गलानि च गीतानि सर्वे गायन्तु गायकाः ।
स्वरेणोच्चतरेणैव स्तुवन्तु स्तोत्रपाठकाः ॥ २३१ ॥

भेरीमृदङ्गशङ्खादीन् घोषयेयुस्समन्ततः ।
एवं सर्वत्र वै कुर्यादृगाद्यध्ययनादिकम् ॥ २३२ ॥

कुम्भमेवं परिभ्राम्य दत्त्वा तत्परिचारिणः ।
हस्तेऽथ दीपपात्राणि दर्शयेदितराणि च ॥ २३३ ॥

दृष्ट्वा सम्यक्ततो दद्यादर्घ्यं देवस्य मूर्धनि ।
कुम्भपूर्वाणि पात्राणि वहन्तः परिचारकाः ॥ २३४ ॥

प्रदक्षिणक्रमात्सार्धं पूर्ववद्गणिकादिभिः ।
क्षिपेयुर्द्वारबाह्ये वा बाह्यद्वारस्य बाह्यतः ॥ २३५ ॥

अथवा विनियुक्तानि तानि सङ्गृह्य योषितः ।
सुस्नाता धौतवसना द्विजातीर्भावितात्मनः ॥ २३६ ॥

ललाटतिलकं दत्त्वा सर्वालङ्कारभूषिताः ।
क्षिपेयुरुदितेनैव वर्त्मना द्विजसत्तमाः ॥ २३७ ॥

अथवा विनियोगात्तु पूर्वं पाकालयादपि ।
योषितो दीपपात्राणि गृहीत्वा प्रोक्तवर्त्मना ॥ २३८ ॥

आनयेयुर्विभोरग्रे कर्तुरिच्छानुरूपतः ।
एवं नीराजनं कुर्यादलङ्कारासनं ततः ॥ २३९ ॥

अथवा भ्रामयेत्कुम्भं दीपाष्टकसमन्वितम् ।
यद्वा तत्रापि वै कुम्भं साग्निमल्लकसंयुतम् ॥ २४० ॥

धूमायमानं सिद्धार्थैर्भ्रामयेद्दीपवर्जितम् ।
एवं नीराजनं प्रोक्तमेकमूर्तेर्द्विजोत्तमाः ॥ २४१ ॥

अनेकमूर्तिपूजायां मुख्यमूर्त्यादितः क्रमात् ।
सर्वासामपि मूर्तीनां दत्त्वार्घ्यं पृथक्पृथक् ॥ २४२ ॥

एकैकेन तु कुम्भेन प्रत्येकमथवा द्विजाः ।
सर्वासामपि कुम्भेन प्राग्वन्नीराजनं चरेत् ॥ २४३ ॥

एवं नीराजनं प्रोक्तं कृतं भगवतो विभोः ।
अनुतिष्ठन्ति साहाय्यं तस्मिन् कर्मणि ये जनाः ॥ २४४ ॥

रजस्तमोविनिर्मुक्ता भवेयुस्ते न संशयः ।
एवं नीराजनं प्रोक्तं सात्त्विकं नाम नामतः ॥ २४५ ॥

इति श्रीपाञ्चरात्रे ईश्वरसंहितायां नीराजनान्तविधिर्नाम चतुर्थोऽध्यायः ॥


Kapitel 5 – भोज्यासनाग्निकार्यविधिः / bhojyāsanāgnikāryavidhiḥ

Siehe deutsche Übersetzung und Texthinweise.

नारदः ।

ततो भोज्यासने देवो भोगैरभ्यवहारिकैः ।
पूज्यस्सपादपीठं वै दद्याद्भोज्यासनं विभोः ॥ १ ॥

छन्नं दुकूलतूलोत्थमसूरकवरेण तु ।
आरोपयित्वा प्रागास्यं तत्र तं भोजनासने ॥ २ ॥

अर्घ्यं पाद्याचमे दद्यात्प्रतिग्रहसमन्विते ।
तर्पणं सम्प्रतिष्ठाप्य वासितञ्चार्घ्यवारिणा ॥ ३ ॥

अथार्हणजलं स्वच्छं सुगन्धं पात्रतः कृतम् ।
मधुपर्कं दधिमधुघृतयुक्तमनन्तरम् ॥ ४ ॥

समस्तमेवमेकाङ्गं दधि वापि निवेदयेत् ।
शीतलं तर्पणजलमथ चूर्णं पुरोदितम् ॥ ५ ॥

देयं निष्पुंसनार्थं तु पुनराचमनं विभोः ।
स्वलङ्कृतां सुरूपां च स्रग्युक्तां विनिवेद्य गाम् ॥ ६ ॥

ओषधीश्शालिपूर्णाश्च स्रक्फलाढ्यं वनस्पतिम् ।
मूर्तं निवेदयेत्पूर्वं ततस्संस्थाप्य तर्पणम् ॥ ७ ॥

प्रच्छादनाम्बरं चैव प्रदद्यादर्हणोदकम् ।
षड्रसप्रभवैर्दिव्यनैवेद्यैः पावनैः फलैः ॥ ८ ॥

गुडखण्डाश्रितैर्भक्ष्यैर्बहुभिर्घृतपाचितैः ।
गुडमुद्गपयोमिश्रैर्निशाज्यतिलमिश्रितैः ॥ ९ ॥

दधिमिश्रैस्सर्पिर्मिश्रैर्मधुस्वादुयुतैः फलैः ।
क्रमादन्नैरष्टविधैरपूपान् विनिवेदयेत् ॥ १० ॥

सरसाभी रसालाभिः पयसा सुश्रितेन च ।
पवित्रैश्शीतलैस्स्वादुरसगन्धैश्च पानकैः ॥ ११ ॥

भक्ष्यैर्भोज्यैस्तथा लेह्यैः पेयैरन्यैरनेकशः ।
श्रद्धापूतेन मनसा यजेत्तमजमव्ययम् ॥ १२ ॥

एकैकस्मिंस्तु भोगेऽपि प्रोक्षयेदर्घ्यवारिणा ।
छोटिकां मन्त्रसंयुक्तां कृत्वा पाणिद्वयेन तु ॥ १३ ॥

अथ पाणिद्वयेनैव अग्नीषोमात्मकेन तु ।
योग्यतापदवीं नीत्वा मुद्रां कामदुघां ततः ॥ १४ ॥

बद्ध्वा तदमृतीकुर्याद्भोगजालं यथास्थितम् ।
दत्त्वार्घ्यं पुष्पमुपरि संस्पृशेद्विष्णुपाणिना ॥ १५ ॥

सव्येन पाणिनाऽऽस्पृश्य प्रकोष्ठं दक्षिणस्य तु ।
तेन दक्षिणहस्तेन अग्रसङ्कुञ्चितेन तु ॥ १६ ॥

निवेदयेत्ततो विप्राश्शिरसाऽवनतेन तत् ।
असन्निधेश्च यो भोगो ह्यङ्गभावमनुस्मरेत् ॥ १७ ॥

तत्तद् ध्यात्वा तु मनसा भक्त्या विष्णोर्निवेदयेत् ।
पावनैः पानकैस्स्वच्छैश्शीतलैर्मधुरादिकैः ॥ १८ ॥

त्वगेलाद्यन्वितैर्मृष्टधूपकर्पूरवासितैः ।
नालिकेरोदकोपेतैस्तर्पणीयमनन्तरम् ॥ १९ ॥

मसूरमाषचूर्णेन रजनीशालिजेन च ।
समुद्घृष्टि च संक्षाल्य शीतलैर्बहुवारिभिः ॥ २० ॥

नैवेद्याचमनार्थं च गन्धोदकमनुत्तमम् ।
वाससा निर्मलं कृत्वा चन्दनेन सितेन च ॥ २१ ॥

समालभ्य सुघृष्टेन कर्पूरसहितेन च ।
तिलान्यथ सुरत्नानि सौवर्णे वाऽथ राजते ॥ २२ ॥

पात्रे कृत्वाऽथ मात्रार्थं देवाय विनिवेदयेत् ।
लवङ्गतक्कोलैलात्वक्कर्पूरपरिभावितम् ॥ २३ ॥

जातीपूगफलोपेतं ससुगन्धच्छदं बहु ।
कर्पूरचूर्णसम्मिश्रं मुक्ताचूर्णविमिश्रितम् ॥ २४ ॥

मातुलङ्गफलोपेतं नालिकेरफलान्वितम् ।
प्रदद्यात्प्रणतश्चान्ते ताम्बूलं जगतः पतेः ॥ २५ ॥

प्रक्षाल्य गन्धतोयेन अर्घ्यपात्रोद्धृतेन वै ।
पाणियुग्मं यथा वै स्यात् स्वच्छमत्यन्तनिर्मलम् ॥ २६ ॥

नैवेद्यधूपपात्राद्यैः पात्रैश्चानिर्मलीकृतम् ।
कृत्वा सद्गन्धदिग्धौ तावर्घ्येणार्च्य परस्परम् ॥ २७ ॥

मुद्रां मूलादिमन्त्राणां दर्शयित्वा यथाक्रमम् ।
भूयोऽर्घ्यगन्धपुष्पेण धूपान्तेन समर्च्य च ॥ २८ ॥

जपयज्ञविधानेन देवं सन्तर्पयेत्ततः ।
स्फाटिकेनाक्षसूत्रेण स्वकैर्वा करपर्वभिः ॥ २९ ॥

पात्रं संस्थापयेत्पश्चादर्घ्यपात्राच्च वारिणा ।
विलिप्य चन्दनाद्यैस्तु स्थापयेद्भाजने शुभे ॥ ३० ॥

सम्पूज्य पुष्पधूपाद्यैर्मन्त्रं तत्र च विन्यसेत् ।
साधारमासनं चैव शक्तिपूर्वैस्समावृतम् ॥ ३१ ॥

चतुर्भुजं तु विरजो नारायणमिवापरम् ।
वरदाभयहस्तं च बद्धाञ्जलिधरं स्मरेत् ॥ ३२ ॥

ब्रह्मस्थानस्थितं तं च सूत्रं ध्यायेच्छिखोपमम् ।
सन्निधौ भव देवेश सन्निरुद्धो भवाच्युत ॥ ३३ ॥

सूत्राख्यमणिजालेऽस्मिन् यावच्चन्द्रार्कतारकाः ।
एवं मुने प्रतिष्ठाप्य सूत्रमन्त्रेऽक्षसंज्ञिके ॥ ३४ ॥

प्रतिष्ठितस्य वै पश्चान्मुद्रां स्वां च प्रदर्शयेत् ।
यथाशक्ति जपं कुर्याच्छतमष्टाधिकं तु वा ॥ ३५ ॥

तन्निवेद्य विभोः पश्चाद्वाक्कर्म मनसान्वितम् ।
पुण्डरीकाक्ष विश्वात्मन् मन्त्रमूर्ते जनार्दन ॥ ३६ ॥

गृहाणास्मिन् जपं नाथ मम दीनस्य शाश्वतम् ।
इत्युक्त्वा सोदकं पश्चात्पुष्पं दक्षिणपाणिगम् ॥ ३७ ॥

अग्रतो निक्षिपेद्विष्णोर्मूलमन्त्रेण नारद ।
भावयेच्च ततस्सम्यक् स्फुरन्तीं तारकावलिम् ॥ ३८ ॥

प्रविष्टां भगवद्वक्त्रे वक्त्रात्तद्धृद्गतां पुनः ।
हृदयात् द्विजशार्दूल संहाराख्यक्रमेण तु ॥ ३९ ॥

पूर्ववद्ब्रह्मरन्ध्रेण परेण सह योजयेत् ।
एकैकं हृदयादीनां सर्वेषां विहितं त्वथ ॥ ४० ॥

क्रियाङ्गत्वान्न दोषोऽस्ति अन्यथा तज्जपं विना ।
धूपं दत्त्वा प्रणम्याथ स्तुत्वा मन्त्रेश्वरं ततः ॥ ४१ ॥

अज्ञानात् ज्ञानतो वापि जातमूनाधिकं च यत् ।
दासस्य मम दीनस्य क्षन्तव्यं लोकलोचन ॥ ४२ ॥

इति विज्ञाप्य देवेशं भक्तितस्साधकोत्तमः ।
सम्पूज्य गन्धधूपैश्च ततस्तु भगवन्मयान् ॥ ४३ ॥

यथाक्रमं समभ्यर्च्य नैवेद्यं प्रतिपाद्य च ।
तेषां मन्त्रावसानं च अर्हणार्थं निवेदयेत् ॥ ४४ ॥

यद्वेभ्यो देवयज्ञान्ते तन्मात्रान्तं प्रदाय तु ।
अस्मिन् कालेऽर्हणार्थं तु ताम्बूलान्तं समर्पयेत् ॥ ४५ ॥

शय्यासनं ततो दद्यादग्नौ सन्तर्पयेत्ततः ।
न्यस्यास्त्रमासने यायादनलालयमध्यमम् ॥ ४६ ॥

पूर्ववत् द्वारयागं तु कृत्वा सम्प्रविशेत्ततः ।
तत्र पूर्वोक्तविधिना उपस्पृश्य समाहितः ॥ ४७ ॥

प्रमाणपरिशुद्धं च विभवानुगुणं शुभम् ।
चतुरावरणं कुण्डं कृत्वा होष्ठविभूषितम् ॥ ४८ ॥

त्र्यंशेनार्धेन वांशेन खाताव्यासो विधीयते ।
चक्रशङ्खाम्बुजाकारं वृत्तं वा चतुरश्रकम् ॥ ४९ ॥

गदादेश्चक्रपर्यन्तैर्लाञ्छनैर्लाञ्छितं तु वा ।
अग्निकार्योपयोग्यानि यानि यानि महामते ॥ ५० ॥

स्रुक्स्रुवादीनि भाण्डानि त्वङ्कितव्यानि तैरपि ।
यद्वा किरीटश्रीवत्समालाकौस्तुभलक्षणम् ॥ ५१ ॥

शङ्खचक्रगदापद्मसमस्तन्यस्तलाञ्छितम् ।
भृङ्गारकरकाकारं कुण्डं कुर्याद्विचक्षणः ॥ ५२ ॥

कुण्डं चतुर्मेखलं वा त्रिमेखलमथापि वा ।
द्विमेखलं तथैकमेखलं वा प्रकल्पयेत् ॥ ५३ ॥

स्थिरं समेखलं कुर्याज्जङ्गमं तु विमेखलम् ।
देशकालवशाच्चैव कुण्डं न घटते यदि ॥ ५४ ॥

तं विना हवनच्छेदो न कार्यस्सिद्धिमिच्छता ।
शोधिते ह्युपलिप्ते च स्थलेऽच्छलमृदान्विते ॥ ५५ ॥

होमस्तु विहितस्सम्यक् मन्त्रस्यामन्त्रितस्य च ।
पिण्डिका चतुरश्रा तु बहिस्सर्वत्र शस्यते ॥ ५६ ॥

मध्ये पद्मं प्रकुर्वीत श्रीपदं पद्ममध्यगम् ।
एवं कृते शुचौ कुण्डे अग्निकार्यं समाचरेत् ॥ ५७ ॥

चुल्ल्यां वा मल्लके वापि होमं कुर्याद्यथाविधि ।
एतेष्वेकतमं कुण्डं सम्भवानुगुणं शुभम् ॥ ५८ ॥

सुधाद्यैर्वर्णकैश्शुद्धैर्भूषयित्वोपलिप्य च ।
सुगन्धैश्चन्दनाद्यैश्च पञ्चगव्यपुरस्सरैः ॥ ५९ ॥

कुण्डस्यारम्भकाले तु संस्कारा न कृता यदि ।
निष्पन्नस्य च ते सर्वे विधेयाश्च क्रमेण तु ॥ ६० ॥

ताडयेदस्त्रमन्त्रेण पुष्पैर्दक्षिणपाणिना ।
खननं तीक्ष्णशस्त्रेण देशिकश्चास्त्रविद्यया ॥ ६१ ॥

गृहीत्वा चैकदेशात्तु कुण्डमध्यात्तु मृत्कणम् ।
अङ्गुष्ठानामिकाभ्यां तु हृदयेन समुद्धरेत् ॥ ६२ ॥

अस्त्रेणैव समीकृत्य न स्यान्निम्नोन्नतं यथा ।
सेचयेत्कवचेनैव कुट्येत्तदनन्तरम् ॥ ६३ ॥

लेपयेद्गन्धतोयेन अस्त्रेण परिशोधयेत् ।
अस्त्रजप्तैः कुशाकाण्डैस्तीक्ष्णलाङ्गूलवर्जितैः ॥ ६४ ॥

अस्त्राभिमन्त्रितेनैव दर्भकाण्डद्वयेन तु ।
तन्मध्ये च कुशाग्रेण प्राग्भागमवलम्ब्य च ॥ ६५ ॥

आरभ्य दक्षिणाशायां लिखेल्लेखामुदङ्गताम् ।
तस्यामुपरि संलिख्य लेखानां त्रितयं स्फुटम् ॥ ६६ ॥

प्रागग्रं दक्षिणाशादि ह्युदीच्यन्तं च सान्तरम् ।
तत्र प्रागग्ररेखासु मध्यैका पिङ्गलाभिधा ॥ ६७ ॥

दक्षिणोत्तरयोर्द्वे तु सुषुम्नेडाधिदेवते ।
चतुर्धा प्रणवेनाथ प्रोक्षयेदर्घ्यवारिणा ॥ ६८ ॥

तदभ्यर्च्यार्घ्यपुष्पाद्यैर्ध्यायेत्तद्भद्रपीठवत् ।
प्रणवैस्तु प्रतिष्ठानं प्राग्वदस्य समाचरेत् ॥ ६९ ॥

चतुरश्रस्थले कुण्डे दिग्विदिगष्टके बहिः ।
सम्पूर्णपात्रं कुम्भानामष्टकं विनिवेश्य च ॥ ७० ॥

ऊर्ध्वाधोमेखलानां च चतुर्णां दिक्चतुष्टये ।
कौशेयविष्टरस्थांश्च वासुदेवादिकान् यजेत् ॥ ७१ ॥

विदिक्ष्वप्यययोगेन ह्यूर्ध्वान्तमधरात्तु वै ।
तद्वदेवार्घ्यपुष्पाद्यैः पूजनीयाः क्रमेण तु ॥ ७२ ॥

मृदुदर्भसमूहं च नीरसं चाश्मकुट्टिमम् ।
शुष्कगोमयचूर्णेन युक्तं गन्धाश्मना सह ॥ ७३ ॥

कुण्डे द्रोणांशमात्रं तु समारोप्य प्रसार्य च ।
अच्छिन्नाग्रैस्ततो दर्भैरस्त्रमन्त्राभिमन्त्रितैः ॥ ७४ ॥

कुण्डभित्तिगणं सर्वं प्रोत्थितैः परिभूषयेत् ।
वर्मणा चाक्षवाटं तु सङ्कल्प्य तदनन्तरम् ॥ ७५ ॥

समभ्यर्च्य च पुष्पाद्यैर्मध्यतः प्रणवेन तु ।
तेनैव विधिना नाभिं पूजयेच्चन्द्रसन्निभाम् ॥ ७६ ॥

ततः पवित्रकं दार्भं शिखामन्त्राभिमन्त्रितम् ।
प्राक्समालेपनोपेतं चतुष्पथपदे न्यसेत् ॥ ७७ ॥

हृन्मन्त्रेण ततस्तत्र योगपीठं प्रकल्पयेत् ।
तत्र नारायणाख्यां वै शक्तिं विद्योतलक्षणाम् ॥ ७८ ॥

लक्ष्म्याकृतिपदं प्राप्ताममृतामृतरूपिणीम् ।
सर्वातिशयरूपां च सर्वशक्तिसमन्विताम् ॥ ७९ ॥

सौकुमार्येण रूपेण सर्ववस्त्वन्तरस्थिताम् ।
शाश्वतीं सृष्टिमार्गेण अवतार्य हृदम्बुजे ॥ ८० ॥

पुरा ध्यानक्रमेणैव हृन्मन्त्रेण हृदम्बुजात् ।
स्वनामपदयुक्तेन सनमःप्रणवादिना ॥ ८१ ॥

रेचकेन विनिक्षिप्य कुण्डहृत्पद्ममध्यतः ।
सम्पूज्य गन्धपुष्पाद्यैः पद्ममुद्रां प्रदर्श्य च ॥ ८२ ॥

ताम्रपात्रेऽथ वान्यस्मिन् समादाय हुताशनम् ।
आरण्यं लौकिकं वाथ मणिजं दर्पणोद्भवम् ॥ ८३ ॥

निधाय कुण्डस्यैशान्ये संस्कारार्थं च साम्प्रतम् ।
सन्ताड्य चास्त्रमन्त्रेण प्रोक्षयेच्छिखया च तम् ॥ ८४ ॥

हृदाभ्यर्च्यामृतं ध्यानं दत्त्वाच्छाद्याथ वर्मणा ।
मूलं स्मृत्वा समानीय पूरकेण हृदन्तरे ॥ ८५ ॥

मन्त्रानिलकराकृष्टं कृत्वा तस्माद्विनिर्गतम् ।
व्यस्तो गुणगणात् षष्ठस्तेजो नाम गुणो हि यः ॥ ८६ ॥

परस्य ब्रह्मणस्सोऽयं सामान्यं सर्वतेजसाम् ।
विरेच्य विन्यसेत्तस्मिन् वह्निपात्रे पुरार्चिते ॥ ८७ ॥

ततोऽग्निपात्रमादाय निर्धूममतिदीप्तिमत् ।
दक्षिणेन करेणैव पाणिभ्यामथ वा द्विजाः ॥ ८८ ॥

भ्रामयित्वा चतुर्धा वै ततः कुण्डान्तरे क्षिपेत् ।
ध्यायेदेकत्वमापन्नं ततो मन्त्रार्चिषा सह ॥ ८९ ॥

याज्ञियैरिन्धनैश्शुष्कैः प्रज्वाल्यास्त्राभिमन्त्रितैः ।
हृदा दक्षिणहस्तेन कुर्यात्परिसमूहनम् ॥ ९० ॥

प्रदक्षिणक्रमेणैव ह्यार्द्रं पाणितलेन तु ।
तिर्यग्वाधोमुखस्थेन नखपृष्ठमदर्शयन् ॥ ९१ ॥

अस्त्राभिमन्त्रितेनैव प्रोक्षयेदर्घ्यवारिणा ।
ततस्त्वभग्नमूलाग्रैस्समैर्दद्यात्कुशैस्तरम् ॥ ९२ ॥

दिशि दिश्युत्तराशान्तं याम्याशादौ तु सान्तरम् ।
चतुर्गुणैश्चतुर्धा त्वप्यच्छन्नैः परस्परम् ॥ ९३ ॥

प्राक्प्रान्तैः पूर्वभागाच्च यावदुत्तरगोचरम् ।
होमोपकरणं सर्वं होमभाण्डपुरस्सरम् ॥ ९४ ॥

अवतार्य तदूर्ध्वे तु दक्षिणस्यां तथात्मनः ।
द्वन्द्वद्वन्द्वप्रयोगेण द्रव्यस्थापनमाचरेत् ॥ ९५ ॥

परिधींश्चेध्मनिचयं मुक्तदर्भैः करण्डिकाम् ।
स्रुक्स्रुवौ च चतुष्कं यदेकत्र विनिवेश्य च ॥ ९६ ॥

स्रग्धूपमधुपर्कं च बीजान्येकत्र वै ततः ।
कौशेयं धूतकेशं तु विष्टरं च घृतं चरुम् ॥ ९७ ॥

आज्यस्थालीचतुष्कं च निधाय तदनन्तरम् ।
प्रणीतापात्रयुगलं करकं चार्घ्यभाजनम् ॥ ९८ ॥

चतुष्कमेतदपरमग्रतो विनिवेश्य च ।
प्रादेशमात्रास्समिधः प्रभूतं शुष्कमिन्धनम् ॥ ९९ ॥

पक्ष्मकस्वेदहृद्वस्त्रे वामभागे निधाय वै ।
अर्घ्योदकेन सास्त्रेण कृत्स्नं पावनतां नयेत् ॥ १०० ॥

ततस्तु मूलदेशस्थाः ब्रह्मवृक्षादिकोत्थिताः ।
सपर्णास्सत्वचस्स्पष्टा अधो नेमेस्तु चाधिकाः ॥ १०१ ॥

प्राक्प्रत्यगुत्तराग्रौ च प्रागग्रौ दक्षिणोत्तरौ ।
चतस्रो वै परिधयश्शिखामन्त्रेण पूजयेत् ॥ १०२ ॥

विष्टराणि ततो दद्यात् हृदा कुम्भाष्टके ततः ।
तेषु क्रमात्पूजयेच्च लोकपालान् स्वदिक्स्थितान् ॥ १०३ ॥

आदाय सोदकं चाथ प्रणीताख्यं च भाजनम् ।
पवित्रकं तु तन्मध्ये चतुर्दर्भकृतं न्यसेत् ॥ १०४ ॥

उद्धृत्योद्धृत्य हस्तेन जलं तत्रैव निक्षिपेत् ।
ततस्त्वष्टाक्षरं मन्त्रं जपमानो हि साधकः ॥ १०५ ॥

भूयस्तदम्भसा सर्वं प्रोक्षयेद्विष्टरेण तु ।
शेषस्य स्रावणं कुर्यात्सर्वदिक्षु स्तरोपरि ॥ १०६ ॥

पुनरेवाम्भसापूर्य तन्मध्ये परमेश्वरम् ।
ध्यात्वार्चयित्वा संस्थाप्य त्वग्रतस्तदनन्तरम् ॥ १०७ ॥

प्रणीते चापरस्मिन् वै पात्रे चाग्रे कृते सति ।
सपवित्रं तु तत्रार्घ्यं दत्त्वा चक्रं तु विन्यसेत् ॥ १०८ ॥

मन्त्रनाथं तदूर्ध्वे तु ध्यात्वाभ्यर्च्य यथाक्रमम् ।
तत्पात्रमुत्तरस्यां च कृत्वा सम्पूज्य वै पुनः ॥ १०९ ॥

अथाज्यं दशसंस्कारैस्संस्कुर्यात्साधकोत्तमः ।
अधिश्रयणमत्रादावुपाधिश्रयणं तथा ॥ ११० ॥

प्रसादीकरणं चैव हृन्मन्त्रेण समाचरेत् ।
सम्प्लवोत्प्लवने कुर्यात्प्रणवेन तु साधकः ॥ १११ ॥

हृदा पवित्रीकरणं दृशा नीराजनं तथा ।
ततः कवचमन्त्रेण कुर्यात्तदवकुण्ठनम् ॥ ११२ ॥

अवलोकामृतीकारौ क्रमान्नेत्रेण वर्मणा ।
भाण्डस्थस्य यदाज्यस्य दर्भैः प्रज्वलितैः पुरा ॥ ११३ ॥

स्पर्शनं विद्धि संस्कारमधिश्रयणसंज्ञकम् ।
उपाधिश्रयणं नाम यत्तद्द्रावणमुच्यते ॥ ११४ ॥

आज्यस्थालीमथादाय त्वाज्यं यत्प्राग्द्रवीकृतम् ।
तत्तत्र निक्षिपेदाज्यभाण्डाद्दोषापनुत्तये ॥ ११५ ॥

प्रसादीकरणं ह्येतदुच्चस्थेन करेण तु ।
पुनरादाय कृत्वाग्रे आधारोपरि यत्ततः ॥ ११६ ॥

दर्भकाण्डचतुष्कं तु द्वादशाङ्गुलसम्मितम् ।
तिर्यगुत्तानपाणिभ्यामवष्टभ्य च सान्तरम् ॥ ११७ ॥

अनामाङ्गुष्ठयुग्मेन यथा मध्यं नतं भवेत् ।
तैराज्ये चतुरो वारानानयेच्चतुरो नयेत् ॥ ११८ ॥

अन्तरान्तरयोगेन ह्यात्मनोऽग्नेस्तु सम्मुखम् ।
प्रणवेनोक्तसङ्ख्येन कुण्डमध्येऽथ निक्षिपेत् ॥ ११९ ॥

सम्प्लवोत्प्लवने त्वेवं कृत्वा दार्भं पवित्रकम् ।
विनिक्षिपेच्च तन्मध्ये पवित्रीकरणं च तत् ॥ १२० ॥

कुण्डादुल्मुकमादाय ज्वलन्तं धूमवर्जितम् ।
तेनावर्तं सकृद्विप्र तद्वै नीराजनं स्मृतम् ॥ १२१ ॥

नीराजीकृत्य तत्पश्चात्कवचोदरगं स्मरेत् ।
अवकुण्ठनमेतद्विद्धि तर्जन्या यत्प्रदक्षिणम् ॥ १२२ ॥

तेजसा हृदयस्थेन दृग्गतेनावलोकनम् ।
निरीक्षणमिदं विप्र ततस्तत्रोपरि स्मरेत् ॥ १२३ ॥

चन्द्रमण्डलमध्यस्थं धेनुमुद्रासमन्वितम् ।
मन्त्रं वै सौरभेयं च स्फुरदिन्दुशतप्रभम् ॥ १२४ ॥

तदन्तरस्थं मन्त्रेशं हिमाचलनिभं स्मरेत् ।
तत्स्रुतैरमृतौघैश्च शशिजैर्धेनुजैरपि ॥ १२५ ॥

सर्वसंस्कारसंयुक्तं स्मरेदाज्यं च भावितम् ।
अमृतीकरणं नाम इदं ते सम्प्रकाशितम् ॥ १२६ ॥

स्रुक्स्रुवावथ चादाय दर्भपुञ्जलिकेन च ।
रजोऽपनयनं कुर्यात्प्रक्षाल्योष्णेन वारिणा ॥ १२७ ॥

निर्मलीकृत्य कूर्चेन ज्वालाभिस्सम्प्रतप्य च ।
प्रोक्षयित्वार्घ्यतोयेन ताडयेद्गन्धपुष्पकैः ॥ १२८ ॥

तदाप्रमेयं स्रुचो ज्ञातव्यं कर्मसिद्धये ।
शतपत्रात्मनानन्तो मुष्टिस्थोऽनन्तवक्त्रधृत् ॥ १२९ ॥

अन्तर्बीजात्मभावेन स्थित्वा चोर्ध्वमुखः पुनः ।
सप्तस्कन्धं यदध्यात्मं भूतप्राणमरुन्महत् ॥ १३० ॥

प्रेरितं ब्रह्मरन्ध्रेण तत्तदिच्छावशात्पुनः ।
सप्तपातालनागं च अगमत् क्ष्माम्बुजात्मना ॥ १३१ ॥

यदाश्रयत्यध्ववाहे त्वमृतात्मा जलं स्थितः ।
सचक्ररचनाजाले स्थितस्तेजस्त्रिमूर्तिधृक् ॥ १३२ ॥

शङ्खविग्रहधृग्वायुराज्यकोशे च खं ततः ।
निर्बीजमजमक्षोभ्यमाद्यं यस्याधिदेवतम् ॥ १३३ ॥

अपरस्मिन् स्रुवे ज्ञेयं यथा जायेत तच्छृणु ।
साक्षादमृतमूर्तिर्वै वरुणः कलशात्मना ॥ १३४ ॥

नालात्मना तदस्त्रं च संस्थितं विघ्नभीतिहृत् ।
जगदाप्यायकृच्चन्द्रः पद्मत्वेनाग्रदेशतः ॥ १३५ ॥

आनन्दाख्यं हि सामर्थ्यं ज्ञेयं तत्पारमेश्वरम् ।
सत्यभूतममेयं च प्रमेयमिदमुच्यते ॥ १३६ ॥

संस्कारकाले त्वारोप्य नित्यं सन्मन्त्रतर्पणे ।
स्वसंज्ञाप्रणवोपेता नमस्कारपदान्विताः ॥ १३७ ॥

सर्वेषामर्चने विप्रा आराध्य हृदयेन वा ।
पूजयित्वार्घ्यगन्धाद्यैर्न्यस्तमन्त्रगणं ततः ॥ १३८ ॥

बहुशाखैरभग्नाग्रैस्समूलैस्सुसमैः कुशैः ।
चतुर्भिर्वामहस्तेन त्वादायाथ पवित्रकम् ॥ १३९ ॥

दक्षिणानामिकायां तु चतुष्काण्डविनिर्मितम् ।
अङ्गुलीयकरूपं च कृत्वा वै तदनन्तरम् ॥ १४० ॥

संस्कृताज्यस्य विप्लुड्भिस्संस्पृशेदिन्धनादिकम् ।
निःशेषदोषशान्त्यर्थमथाग्नेराहृतस्य च ॥ १४१ ॥

शतं शतार्धं पादं वा त्वाहुतीनां स्वशक्तितः ।
तिलानां घृतसिक्तानां शुद्धेन हविषा सह ॥ १४२ ॥

होतव्यं कर्मसिद्ध्यर्थं यथावदवधारय ।
आहुत्यामुद्धृतायां च मूलमन्त्रावसानतः ॥ १४३ ॥

प्रणवान्तं पदं ब्रूयादग्निं शोधय शोधय ।
यथावस्थितरूपेण ततस्तेनैव बुद्धिमान् ॥ १४४ ॥

दद्यात्पूर्णाहुतिं पश्चाद्घृतेन च चतुष्फलीम् ।
अग्नेर्होमोऽथ कर्तव्यस्सर्वसंस्कारसिद्धये ॥ १४५ ॥

हृदानलं पुटीकृत्य कर्मनाम समुच्चरेत् ।
सम्पादयामि स्वाहान्तं सर्वकर्मस्वयं क्रमः ॥ १४६ ॥

आज्येन सिक्तैः कुसुमैस्सर्पिषा वा धिया द्विज ।
गर्भाधानादि संस्कारान् कुर्याद्दारावसानकान् ॥ १४७ ॥

श्रीकुक्षिकुहरे यद्वै बहिःस्थस्य प्रवेशनम् ।
गर्भाधानं तु तद्विद्धि संस्कारं प्रथमं मुने ॥ १४८ ॥

प्राणयोगाच्च या शक्तिर्वह्निश्रीजठरे स्थिता ।
जडरूपा च या सूक्ष्मा तस्याश्चित्प्रसरो हि यः ॥ १४९ ॥

भगवच्छक्तिचैतन्यसामर्थ्याच्च शनैश्शनैः ।
स्मृत्वैवं जुहुयादाज्यं तन्मन्त्रेणोदितेन च ॥ १५० ॥

भवेत्पुंसवनं चाग्नेश्चिच्छक्तिनयनात्तु वै ।
सीमन्ताख्यं तु संस्कारमग्नेः कुर्यादनन्तरम् ॥ १५१ ॥

अव्यक्ताश्च तदन्तस्थाश्शिरःपाण्यादयोऽखिलाः ।
स्वां स्वां वै कर्मसीमानं प्रबुद्धास्संश्रयन्ति ये ॥ १५२ ॥

विभागकलनात्तेषां सीमन्तं तदुदाहृतम् ।
अग्नेर्वै जातकर्मार्थं पूर्ववद्धोमयेत्सकृत् ॥ १५३ ॥

निस्सृतस्य च वै गर्भाज्जातकं तदुदाहृतम् ।
हिरण्यमधुसर्पिर्भ्यां स्तनसम्प्राशनं द्विज ॥ १५४ ॥

कुर्यात्तदनु वै नाम जातस्याग्नेः प्रयत्नतः ।
वासुदेवादिनाम्ना वै प्रसिद्धेनाङ्कयेत्तु तम् ॥ १५५ ॥

एवं संस्कारशुद्धस्य वैष्णवाग्नेः प्रयत्नतः ।
मन्त्रान्नदानं पूर्वं यत्तदन्नप्राशनं भवेत् ॥ १५६ ॥

शिखाबन्धं यदग्नेस्तु तच्चौलमिति चोच्यते ।
यदग्नेर्होमयेदाज्यं तच्चोपनयनं स्मृतम् ॥ १५७ ॥

वेदव्रतं च गोदानं समावर्तविवाहकौ ।
कृत्वानलस्य जिह्वानां भावयेत्सप्तकं पुनः ॥ १५८ ॥

नवखण्डे समिन्धाने कुण्डेऽग्नावर्चिषोद्भृते ।
प्रभा दीप्तिप्रकाशा च मरीचिस्तापिनी तथा ॥ १५९ ॥

कराला लेलिहा चैव कुण्डं व्याप्य व्यवस्थिताः ।
ईशपूर्वाग्निदिग्भागे प्रभाद्यं त्रितयं स्मृतम् ॥ १६० ॥

रक्षोवारुणवायव्ये मरीच्याद्यं त्रयं तु तत् ।
उदग्दिङ्मध्यतो याम्ये स्थितैका लेलिहाभिधा ॥ १६१ ॥

रक्तं श्वेतं तथा नीलं कृष्णं पीतं तथारुणम् ।
सौदामिनीनिभं ध्यायेज्जिह्वानां सप्तकं क्रमात् ॥ १६२ ॥

स्वस्वबीजैस्स्वस्वसंज्ञैर्वा स्वबीजैर्वा स्वनामभिः ।
एतैर्मन्त्रैर्द्विजश्रेष्ठ भावयेच्च यथाक्रमम् ॥ १६३ ॥

अङ्गारार्चिषश्चैव शक्तिर्या दहनात्मिका ।
त्रिलक्षणोऽयमाधारः आधेयो हुतभुग्विभुः ॥ १६४ ॥

आत्मनोऽग्नेस्तु विश्वेशो वासुदेवस्सनातनः ।
एवं ज्ञात्वा पुरा सम्यक् सक्तं वैश्वानरीं पराम् ॥ १६५ ॥

आधेयोल्लिङ्गिताकारं ध्यात्वा कुण्डगतानलम् ।
तज्जनित्रीं ततः कुण्डज्वालामार्गेण चागताम् ॥ १६६ ॥

परानन्दप्रकाशाभां नासिकायां द्वादशावधि ।
ततोऽवतारयोगेन प्रविष्टां भावयेद्धृदि ॥ १६७ ॥

तस्यसंशुद्धदेहस्य पुनरेवं समाचरेत् ।
सम्बोधनकं होमं जडभावप्रशान्तिदम् ॥ १६८ ॥

उच्चार्य मूलमन्त्रं तु प्रणवद्वितयान्वितम् ।
जुहुयादाहुतीनां च सहस्रं शतमेव वा ॥ १६९ ॥

तद्घृताज्येन सन्तर्प्य दद्यात्पूर्णाहुतिं तथा ।
संस्कृतस्याथ वै देहः पूजां कुर्यात्तु भक्तितः ॥ १७० ॥

पुष्पैर्धूपेन दध्ना च तिलैरक्षतमिश्रितैः ।
अन्नैर्भक्ष्यफलोपेतैराज्येन क्रमशो द्विज ॥ १७१ ॥

सम्पूज्यैवं विधानेन स्वमन्त्रेणानलं ततः ।
तर्पयेत् यथाशक्ति तिलाज्याद्यैरनुक्रमात् ॥ १७२ ॥

आज्येन वा केवलेन सहस्रशतसङ्ख्यया ।
अग्नेः पूर्णाहुतिं दत्त्वा वौषडन्तां घृतेन तु ॥ १७३ ॥

ततः पूजा प्रकर्तव्या देवस्याग्नेस्तु मध्यतः ।
पूर्ववत् स्मरेद्वह्निं साकारं निष्कलप्रभम् ॥ १७४ ॥

स्वयोगबलवीर्येण व्यापकं सर्वदिग्गतम् ।
कदम्बकुसुमाकारं स्वप्रभाभिविराजितम् ॥ १७५ ॥

कुण्डमापूरयन् सर्वं सर्वीकृत्या तु सर्वतः ।
एवं हि विततो व्यापी निराकारस्सुदीप्तिमान् ॥ १७६ ॥

अथ ज्वालाजटाधारे वह्नेर्वै कुण्डमध्यतः ।
अनुसन्दधीयते बुद्ध्याविष्टरं तु यथोदितम् ॥ १७७ ॥

तदर्चनमधः कुर्यात्पुष्पैर्धूपैस्सचन्दनैः ।
मुद्राबन्धं ततः कुर्यात्पीठामरगणस्य च ॥ १७८ ॥

ततोऽवतार्य तन्मध्ये हृदयात्परमेश्वरम् ।
निरौदकात्स्वमन्त्रेण दद्यात्पुष्पाञ्जलिं विभोः ॥ १७९ ॥

साङ्गं सलाञ्छनं ध्यायेत्सकलं परमेश्वरम् ।
साम्मुख्यं सन्निधानं च सन्निरोधनमाचरेत् ॥ १८० ॥

अर्घ्यप्रदानपूर्वं तु सर्वं कुर्यात्तु पूर्ववत् ।
मूलबिम्बे यथा ध्यानमग्निमध्ये तथा भवेत् ॥ १८१ ॥

यानगे यानगं ध्यायेदग्नौ स्थाने यथास्थितम् ।
आसीने त्वथ चासीनं शयाने च तथाविधम् ॥ १८२ ॥

पद्मरागरुणरुचिं स्मर्तव्यमनलास्पदे ।
मूलादिसर्वमन्त्राणां तत्तन्मुद्राः प्रदर्श्य च ॥ १८३ ॥

अर्घ्यगन्धादिनाभ्यर्च्य पूजयेत्सकलं विभोः ।
लयभोगात्मना सम्यक् पूर्वोक्तविधिना सह ॥ १८४ ॥

समिद्गणं तु पात्रस्थं कृत्वाभ्यर्च्य हृदा ततः ।
शिरसाऽवनतेनैव विनिवेद्य ततः प्रभोः ॥ १८५ ॥

आज्येनोभयतस्सिक्तं ब्रह्मक्षीरद्रुमोद्भवम् ।
इध्माष्टकं समादाय द्विधा कृत्वा द्विजोत्तमः ॥ १८६ ॥

निधाय दक्षिणस्यां च मध्य आग्नेयदिग्गतम् ।
विश्रान्तं नैर्ऋतपदे उत्तरस्यां तथापरम् ॥ १८७ ॥

वायवीशपदसंस्पृष्टमाधाराय घृतं क्षिपेत् ।
इध्ममूलाद्यथाकान्तमिध्मेध्मोपरि संस्थितम् ॥ १८८ ॥

स्रुवमाज्येन सम्पूर्य सूर्यबीजेन चिन्तयेत् ।
सहस्रांशुं च तन्मध्ये दद्यात्कुण्डस्य दक्षिणे ॥ १८९ ॥

अपरस्मिन् स्रुचि ध्यात्वा सोमाख्येनाक्षरेण तु ।
पूर्णं शशाङ्कबिम्बं च प्रदद्यात्तदुत्तरे ॥ १९० ॥

सङ्ख्यानुगुणमिध्मानां घृतं च जुहुयात्तु वै ।
सूर्यसोमात्मकं चाग्नेर्विद्धि तल्लोचनद्वयम् ॥ १९१ ॥

एतयोरन्तरं यद्वै तदग्नेर्वदनं स्मृतम् ।
तत्र वै जुहुयात्पूर्वं समिधां सप्तकं क्रमात् ॥ १९२ ॥

घृतसिक्तां चतुस्सङ्ख्यामेकैकां हि सुपुष्कलाम् ।
प्राक्कुङ्कुमादिना लिप्तां काष्ठसंज्ञां तु होमयेत् ॥ १९३ ॥

स्रग्धूपमधुपर्कं च बीजान्याज्यं यथाक्रमम् ।
तत्रान्नसमिधो दाने विशेषोऽयं विधीयते ॥ १९४ ॥

सादितं संस्कृताग्नौ प्राक् तं निधायाग्रतश्चरुम् ।
समुद्घाट्यावलोक्यादौ सम्प्रोक्ष्यार्घ्याम्भसा ततः ॥ १९५ ॥

दर्भकाण्डचतुष्केण साग्निना तदनु स्पृशेत् ।
तन्मध्ये स्रुक् चतुष्कं तु मन्त्रेणाज्यस्य निक्षिपेत् ॥ १९६ ॥

अथादाय स्रुवं तत्र तद्वद्धृद्या चतुष्टयम् ।
चतुरङ्गुलमानेनान्नग्रासमथाचरेत् ॥ १९७ ॥

तं निधाय स्रुवागर्भे तदूर्ध्वं पूर्ववद्घृतम् ।
दद्यादाज्यं चतुष्कं तु क्षिपेदन्नाहुतिं ततः ॥ १९८ ॥

भूयोऽग्नौ स्रुक् चतुष्कं त्वाज्यस्यापाद्य यत्नतः ।
ततोऽन्नमाज्यसंसिक्तं प्राग्वत्कृत्वाहुतिं पुनः ॥ १९९ ॥

दद्यात्पूर्वप्रयोगेण एवमेव चतुष्टयम् ।
हुत्वाप्यन्नाहुतीनां च आज्याख्यां जुहुयात्ततः ॥ २०० ॥

तिलैर्घृतसमायुक्तैरष्टोत्तरसहस्रकम् ।
शतं शतार्धं पादं वा यथाशक्ति समाचरेत् ॥ २०१ ॥

आज्याक्तैरक्षतैस्तद्वत्तिलैश्च जुहुयात्ततः ।
अर्धमर्धांशसंयुक्तमधिकं चाग्रवर्तिनाम् ॥ २०२ ॥

जपकाले तथा होमे कर्तव्यं सिद्धिमिच्छता ।
स्विष्टकृद्धवनं कुर्यादन्नग्रासेन वै सकृत् ॥ २०३ ॥

काम्यैरवश्यफलदैर्देशकालसमुद्भवैः ।
तिलैर्घृतेन पयसा दध्ना वा पायसेन च ॥ २०४ ॥

सिद्धान्नैः साधितैर्भक्ष्यैर्बीजैर्लाजैश्च तण्डुलैः ।
मूलैः फलैः पल्लवैश्च सुप्रशस्तैश्च कोमलैः ॥ २०५ ॥

सुगन्धैस्स्थलपद्माद्यैः पुष्पैश्चैव सितादिकैः ।
गुग्गुलुना चाज्यमिश्रेण सम्यक्श्रीवेष्टकेन वा ॥ २०६ ॥

धात्रीफलैश्च सरसैरुत्पलैश्च शुभैस्तथा ।
सुसितासितरक्तैश्च पद्मैर्बिल्वैस्सुशोभनैः ॥ २०७ ॥

दूर्वाकाण्डैरभग्नाग्रैर्दन्तसद्दन्तनिर्मलैः ।
एधोभिर्ब्रह्मवृक्षोत्थैः क्षीरद्रुममयैस्तथा ॥ २०८ ॥

अमृताक्षीरसंयुक्ता औदुम्बर्यौ मधुप्लुताः ।
अच्छिन्नाग्रा ह्यभग्नाश्च कण्टकैः परिवर्जिताः ॥ २०९ ॥

सर्वास्त्रिमधुयुक्ताश्च घृतयुक्तास्तु वा पुनः ।
योक्तव्यान्यग्निमध्ये तु समिद्भिस्सह सर्वदा ॥ २१० ॥

सर्वाण्यन्नविशेषाणि चन्दनादीनि यान्यपि ।
सदन्तकाष्ठं ताम्बूलमुत्कटक्षारवर्जितम् ॥ २११ ॥

दाय्यानि लक्षहोमे तु आसनादीनि यानि च ।
मधुलवणपानांशुकटुतैलोज्झितानि च ॥ २१२ ॥

आज्यसिक्तैस्तिलैः शान्तिः सिद्धयस्सकलास्तथा ।
घृतेन पयसा दध्ना होमस्तृप्तिं प्रयच्छति ॥ २१३ ॥

पायसेन तु सिद्धान्नैर्भक्ष्यैः पुष्टिस्सदा भवेत् ।
बीजैर्धान्यैस्तण्डुलैश्च तर्पितो मन्त्रराट् द्विज ॥ २१४ ॥

प्रयच्छति सदा श्रेयः प्रसन्नः परमेश्वरः ।
पल्लवैः फलमूलैश्च होमस्तुष्टिं प्रयच्छति ॥ २१५ ॥

जहाति चापमृत्युं च रोगांश्चोपरमं नयेत् ।
तर्पितस्स्थलपद्माद्यैः पुष्पैश्चान्यैः सितादिकैः ॥ २१६ ॥

सौभाग्यमतुलं विप्रा अचिरात्सम्प्रयच्छति ।
गुग्गुलाज्यैर्द्विजारोग्यं शुभैर्धात्रीफलैस्तथा ॥ २१७ ॥

शर्करैर्बिल्वफलिकैः पञ्चगव्यसमुक्षितैः ।
आज्यान्नैः पद्मबीजैश्च लक्ष्मीं शीघ्रं प्रयच्छति ॥ २१८ ॥

उत्पलैर्वश्यकामस्तु भोगकामस्तु होमयेत् ।
दूर्वाङ्कुरैश्च होमेन आयुषो बुद्धिमाप्नुयात् ॥ २१९ ॥

एधोभिश्च शुभैर्होमो माषैश्शान्तिप्रदः प्रभुः ।
तिलानां शस्यते होमो हरिणाननमुद्रया ॥ २२० ॥

घृतस्य कार्षिको होमः क्षीरस्य च विशेषतः ।
शुक्तिमात्राहुतिर्दध्नः प्रसृतिः पायसस्य वा ॥ २२१ ॥

ग्रासार्धमानमन्नानां भक्ष्याणां स्वप्रमाणतः ।
सर्वेषामेव बीजानां मुष्टिना होममाचरेत् ॥ २२२ ॥

अग्राङ्गुलिस्तु लाजानां शालीनां पञ्चकं हुनेत् ।
फलानां स्वप्रमाणं च पल्लवानां तथैव च ॥ २२३ ॥

कर्कन्धुमात्रा गुलिका होतव्या गुग्गुलोस्सदा ।
धात्रीफलप्रमाणं वा सम्भवे सति होमयेत् ॥ २२४ ॥

दूर्वाकाण्डानि विप्रेन्द्र चतुरष्टाङ्गुलानि वा ।
समित्प्रादेशमानेन समच्छेदास्त्वगन्विताः ॥ २२५ ॥

अग्नेर्वर्णाश्च गन्धाश्च शब्दाश्चाकृतयस्तथा ।
विकारा विशिखा चैव संवेद्याः कर्मसिद्धये ॥ २२६ ॥

पद्मरागद्युतिः श्रेष्ठो लाक्षालक्तकसन्निभः ।
बालार्कवर्णो हुतभुक् जयार्थं शस्यते द्विज ॥ २२७ ॥

इन्द्रकोपकसङ्काशः शोणाभो वाथ पावकः ।
चक्रचापनिभः श्रेष्ठः कुङ्कुमाभस्तथैव च ॥ २२८ ॥

रक्तानां पुष्पजातीनां वर्णेनाग्निरिहोच्यते ।
सुगन्धो द्रव्यगन्धोऽग्निर्घृतगन्धश्च शोभनः ॥ २२९ ॥

आयुर्दः पद्मगन्धः स्याद्बिल्वगन्धश्च सुव्रतः ।
उग्रगन्धोऽभिचारे तु विहितः सर्वदानलः ॥ २३० ॥

जीमूतवल्लकीशङ्खमृदङ्गध्वनितुल्यकः ।
शब्दोऽग्नेस्सिद्धये हेतुरतोऽन्यस्स्यादसिद्धिदः ॥ २३१ ॥

रक्ताभस्तु यदा वह्निः क्षीणार्चिः परिदृश्यते ।
पद्मरागोपलाभश्च स्फटिकाभस्तथा शुभः ॥ २३२ ॥

यद्रूपं कथितं पूर्वं यदि तस्य प्रदक्षिणम् ।
अन्योन्यत्वं प्रपद्येत तदा सिद्धिकरोऽनलः ॥ २३३ ॥

गर्हितेन तु वर्णेन यदि कापोतकादिना ।
परिवर्तं करोत्यग्निस्तथा विप्र विपर्ययः ॥ २३४ ॥

होमान्ते तन्निमित्तं वै होमं कुर्याच्छताधिकम् ।
विषमा च शिखा वह्नेरुदयाश्च शुभावहाः ॥ २३५ ॥

ह्रस्वाह्रस्वोन्नता दीर्घा ज्वाला सिद्धिप्रदा स्मृता ।
स्निग्धप्रदक्षिणावर्तः श्रुतिप्रच्छादितध्वनिः ॥ २३६ ॥

स नित्यमेव शुभकृदन्यैर्वर्जितो गुणैः ।
प्रदीप्ते लेलिहानोऽग्नौ निर्धूमे सगुणे तथा ॥ २३७ ॥

हृद्ये तुष्टिप्रदे चैव होतव्यं श्रियमिच्छता ।
अल्पतेजोऽल्परूपश्च विस्फुलिङ्गसमन्वितः ॥ २३८ ॥

ज्वालाभ्रमविहीनश्च कृशानुर्नैव सिद्धिदः ।
अप्रबुद्धे सधूमे च जुहुयाद्यो हुताशने ॥ २३९ ॥

कर्महानिर्भवेत्तस्य त्वाभिचारार्थमश्नुते ।
दुर्गन्धः पीतवर्णश्च अवलीढश्च योऽशुभः ॥ २४० ॥

प्रभामूर्तिगतो मन्त्रस्तर्पितो यदि सत्तम ।
विद्यां प्रयच्छत्यचिराद्दीप्तिस्थो भूमिदः प्रभुः ॥ २४१ ॥

तापयत्याशु शत्रूणां प्रकाशोपर्यवस्थया ।
शत्रुक्षयं ददत्याशु मरीच्यामूर्तिगो विभुः ॥ २४२ ॥

तापिन्यामूर्तिगो मन्त्रस्सर्वतापोपशान्तिदः ।
विपक्षोच्चाटनं कुर्यात्करालासंस्थितो हुतः ॥ २४३ ॥

लेलिहावस्थितो मन्त्रो यदि सन्तर्प्यते मुने ।
दद्यादभीप्सितं चैव देहान्ते परमं पदम् ॥ २४४ ॥

स्वाहाकारं सदा होमे पूर्णायां वौषडेन च ।
तमेव शान्तिके कुर्याद्वषडाप्यायने तथा ॥ २४५ ॥

स्वधा पितृक्रियायां च फट्कारं क्षयकर्मणि ।
विद्विषे हुं वशे स्त्रीणां नमो मोक्षप्रसिद्धये ॥ २४६ ॥

कर्महोमावसाने च घृतेनापूर्य च स्रुचम् ।
अभावाच्च प्रभूतेन होमद्रव्येण पूरयेत् ॥ २४७ ॥

तत्रोपरि घृतं दद्यात्ततोऽर्घ्यकुसुमादिभिः ।
मूलदेशात्समारभ्य स्रुचं पूज्यस्रुवान्वितम् ॥ २४८ ॥

घृतयुक्तं तु तद् द्रव्यं स्रुचः पुष्करकुक्षिगम् ।
द्रवच्चन्द्रोपमं ध्यायेत्ततः पूर्णं समुद्धरेत् ॥ २४९ ॥

स्रुग्दण्डे देहनाभौ तु मूले संरुध्य संस्मरेत् ।
निष्कलं मन्त्रनाथं तु पूर्णशीतांशुविग्रहम् ॥ २५० ॥

आमूलाच्च मरुच्छक्त्या प्रोद्धरेत्स्वविग्रहात् ।
विधाय चेश्वराधारे तस्माद्धारामृतं महत् ॥ २५१ ॥

नासिकासन्धिमार्गेण स्रुक्पद्मे पतितं स्मरेत् ।
सामृतामाज्यधारां च वसुधारामिव क्षिपेत् ॥ २५२ ॥

मुखमध्ये तु मन्त्रस्य तद्ब्रह्मविवरेऽथ वा ।
हृत्पद्मान्तर्गतां सम्यक् प्रविष्टमनुभावयेत् ॥ २५३ ॥

तया वै बृंहितं मन्त्रं दारयेद्ब्रह्मधारया ।
तृप्तं पुष्टं च हृष्टं च तुष्टं वै साधकोपरि ॥ २५४ ॥

मन्त्रोच्चारसमेता वै शरीरकरणान्विता ।
ध्यानोपेता द्विजश्रेष्ठ पूर्णेयं परिकीर्तिता ॥ २५५ ॥

सर्वसिद्धिकरी शाश्वन्मोक्षलक्ष्मीविवर्धनी ।
बहुशुष्केन्धनेऽग्नौ च होतव्यं कर्मसिद्धये ॥ २५६ ॥

एकानेकप्रयोगाणां न तु कर्मणि कर्मणि ।
ततोऽर्घ्यगन्धपुष्पाद्यैर्मन्त्रनाथं समर्चयेत् ॥ २५७ ॥

मुद्राः प्रदर्शयेत्सर्वा मूलमन्त्रादितः क्रमात् ।
चतुर्थांशेन चाङ्गानां कुर्यान्मूलस्य तर्पणात् ॥ २५८ ॥

लाञ्छनाभरणानां च लक्ष्म्यादीनां तदर्धतः ।
अथ वा हृदयादीनां ततोऽर्धेनाखिलासु च ॥ २५९ ॥

परमेश्वरकान्तासु तदर्धेन द्विजोत्तम ।
लाञ्छनाभरणादीनि सर्वाणि जुहुयात्क्रमात् ॥ २६० ॥

हृदयादिसर्वमन्त्राणामेकैकं जुहुयात्तु वा ।
विसर्जनं ततः कुर्याद्दत्त्वार्घ्यं धूपसंयुतम् ॥ २६१ ॥

भोगस्थानगता मन्त्राः पूजिता ये यथाक्रमम् ।
मुख्यमन्त्रशरीरं च सम्प्रविष्टांश्च संस्मरेत् ॥ २६२ ॥

ज्वाला ज्वालान्तरे यद्वत्समुद्रस्येव निम्नगाः ।
तं मन्त्रविग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज ॥ २६३ ॥

प्रविष्टं भावयेत्सूक्ष्मे अध्यक्षे हृदयात्मके ।
परे प्रागुक्तरूपं तु तं सूक्ष्ममुभयात्मकम् ॥ २६४ ॥

तं परं प्रस्फुरद्रूपं निराधारपदाश्रितम् ।
सन्धिमार्गेण हृत्पद्मे सम्प्रविष्टं तु भावयेत् ॥ २६५ ॥

मन्त्रमुद्रासमेतेन पूरकेण तु सप्तमम् ।
भासितं भावयेद्देहं तेनापादाच्छिरोऽवधि ॥ २६६ ॥

प्रविष्टेन तु मन्त्रेण प्रयत्नेन विना द्विज ।
विग्रहः कम्पते यस्य मन्त्रस्तस्य प्रसीदति ॥ २६७ ॥

एवं विसृज्य मन्त्रेशं मुद्राबन्धेन वै सह ।
साधारासनमन्त्राणां गणेशस्य द्विजोत्तमाः ॥ २६८ ॥

गुर्वादीनां तु विहितमर्धं लाञ्छनतर्पणात् ।
एतेषां च लयं विप्र कुर्यात्सृष्टिक्रमेण तु ॥ २६९ ॥

द्वारस्थाखिललोकपालानां वप्रस्थहरिसेविनाम् ।
गुरुपूर्वक्रमादित्थमर्धमर्धं यथाक्रमम् ॥ २७० ॥

सकृत्सकृत्स्वशक्त्या वा पूर्णां सर्वेष्वथ क्षिपेत् ।
विष्वक्सेनस्ततो भक्त्या तर्पणीयस्तिलाक्षतैः ॥ २७१ ॥

वौषडन्तेन मन्त्रेण दद्यात्पूर्णाहुतिं द्विज ।
पूजयित्वा यथान्यायं कुर्यात्तस्य विसर्जनम् ॥ २७२ ॥

अनलं पूजयित्वा तु शक्तितस्तर्पयेत्ततः ।
अच्छिद्रकरणीं पूर्णां पूर्णां मन्त्रेण पातयेत् ॥ २७३ ॥

सन्दर्शयेत्ततो वह्नेर्मुद्रां मन्त्रसमन्विताम् ।
कुण्डे पुष्पाञ्जलिं क्षिप्त्वा वह्निमन्त्रमनुस्मरन् ॥ २७४ ॥

क्षान्त्वा चैव नमस्कृत्य यथाविधि विसृज्य तत् ।
समाघ्राय न्यसेत्कोष्ठे ह्यवतारक्रमेण तु ॥ २७५ ॥

सम्मार्ज्य स्रुक्स्रुवावग्नौ स्रुचं निक्षिप्य चाम्भसा ।
अर्घ्यपात्रात्तु चापूर्य कुण्डबाह्ये प्रदक्षिणम् ॥ २७६ ॥

कुर्यादीशानकोणाद्वै अच्छिद्रोदकधारया ।
पवित्रकेणाथ ऊर्ध्वे विनिक्षिप्य करेण वा ॥ २७७ ॥

दद्याच्छिरसि वै शेषं स्रुगधो वदनान्न्यसेत् ।
आत्मनो वामभागे तु विष्टरस्रवसंयुतम् ॥ २७८ ॥

अपवास्य जलं पात्रद्वितयस्थं तदर्चितम् ।
उपसंहृत्य तु तथा भस्मना तदनन्तरम् ॥ २७९ ॥

जलनिर्मथितेनैव ह्यूर्ध्वपुण्ड्रचतुष्टयम् ।
हृद्यंसयोर्ललाटे च कुर्याद्दीपशिखाकृतिम् ॥ २८० ॥

अथार्घ्यपात्रमादाय गत्वा भगवतो गृहम् ।
नमस्कुर्याज्जगन्नाथमष्टाङ्गपतनेन तु ॥ २८१ ॥

आपूर्य पाणियुगलं पुष्पैस्तत्रोपरि स्थितम् ।
संस्मरेन्निष्कलं मन्त्रममृतेनोपबृंहितम् ॥ २८२ ॥

प्रभूतदीप्तिच्छुरितं निक्षिपेन्मन्त्रमूर्धनि ।
तर्पितोऽसि विभो भक्त्या होमेनानलमध्यग ॥ २८३ ॥

होमद्रव्येषु यद्वीर्यं तदिदं चात्मसात्कुरु ।
विनिवेद्य विभोर्होमं पूजां कृत्वा यथाविधि ॥ २८४ ॥

गृहीतं भावयेत्तेन प्रसन्नेनान्तरात्मना ।
एवं समाप्य होमान्तमर्घ्यगन्धादिभिर्विभुम् ॥ २८५ ॥

Unnummerierter abschließender Halbvers; redaktionelle Kennung 285z.

समभ्यर्च्य पितॄणां च संविभागमथाचरेत् ॥

इति श्रीपाञ्चरात्रे ईश्वरसंहितायां भोज्यासनाग्निकार्यविधिर्नाम पञ्चमोऽध्यायः ॥


Kapitel 6 – पितृसंविभागादिशयनोत्सवान्तविधिः / pitṛsaṃvibhāgādiśayanotsavāntavidhiḥ

Siehe deutsche Übersetzung und Texthinweise.

मुनयः ।

पितॄणां संविभागस्य विधिः कीदृक् फलं च किम् ।
तत्सर्वं मुनिशार्दूल वर्ण्यतां भवताधुना ॥ १ ॥

नारदः ।

आराध्यस्याग्रतो विप्राः प्रत्यहं क्रियते तु यत् ।
विज्ञेयं संविभागं तमुत्तमं सर्वकर्मणाम् ॥ २ ॥

संविभागात्पितॄणां च भवत्यनृणवान् नरः ।
प्रयान्ति तृप्तिमतुलां तेन कर्मवशादपि ॥ ३ ॥

संविभागः पितॄणां च यथा कार्यस्तथोच्यते ।
कुण्डस्य योनिनिकटे दक्षिणाग्रांस्तरे कुशान् ॥ ४ ॥

भद्रपीठसमीपे तु क्ष्मातले वा तदूर्ध्वतः ।
स्तरोपरि विकीर्याथ तिलान् सरजतोदकान् ॥ ५ ॥

क्रमेण भावयेत्तत्र पितॄनथ पितामहान् ।
तृप्तये ह्यथ सर्वेषां देवाय विनिवेद्य च ॥ ६ ॥

प्रोक्षितान्यन्नपात्राणि चत्वारि कबलानि वा ।
स्तरोर्ध्वे तु निधायाथ सम्पूज्यार्घ्यादिना ततः ॥ ७ ॥

क्रमेण चातुरात्मीयैर्मन्त्रैरप्यययोगतः ।
ततस्तु नाम्ना गोत्रेण मन्त्रपूतं तिलोदकम् ॥ ८ ॥

सर्वेषामर्घ्यकलशात् प्रदद्याच्च यथाक्रमम् ।
तादर्थ्येनाथ चतुरो विनिवेश्यासनेषु च ॥ ९ ॥

लब्धलक्षान्परे तत्त्वे ब्राह्मणान् पाञ्चरात्रिकान् ।
प्राङ्मुखं द्वितयं चैव द्वितयञ्चाप्युदङ्मुखम् ॥ १० ॥

सम्पद्यभावेऽप्येकं वा विनिवेश्योत्तराननम् ।
अथ तेषां क्रमात्कुर्यादर्चनं चातुरात्म्यवत् ॥ ११ ॥

अर्घ्यानुलेपनाद्यैस्तु भोगैर्मात्रावसानकैः ।
तत्तत्कालोचितैस्सर्वैरनुपादेयवर्जितैः ॥ १२ ॥

तैश्चापि मौननिष्ठैस्तु भवितव्यं सुयन्त्रितैः ।
वाग्यता बद्धलक्षास्त्वप्यन्नमूर्तौ जनार्दने ॥ १३ ॥

येऽश्नन्ति पितरस्तेन तृप्तिमायान्ति शाश्वतीम् ।
अतस्सव्यभिचारं तु मौनं वर्ज्यं क्रियापरैः ॥ १४ ॥

शुभमव्यभिचारं यत् तत्कार्यं सर्ववस्तुषु ।
यदङ्गसङ्केतमयैरव्यक्तैर्नासिकाक्षरैः ॥ १५ ॥

कृतमोष्ठपुटैर्बद्धैर्मौनं तत्सिद्धिहानिकृत् ।
स्वयमेव स्वबुद्ध्या यत्सर्ववस्तुषु वर्तते ॥ १६ ॥

शब्दैरनुपदिष्टैस्तु तन्मौनं विद्धि सर्वदा ।
तस्माद्वै श्राद्धभोक्तॄणां दिव्ये वा पितृकर्मणि ॥ १७ ॥

दद्यान्नैवेद्यवत्सर्वं मर्यादाभ्यन्तरेऽग्रतः ।
येनाचमनपर्यन्तं कालं तिष्ठन्ति वाग्यताः ॥ १८ ॥

विधिनानेन वै नित्यमथ यज्ञे तु वैष्णवे ।
संविभागः पितॄणां च कार्यस्तद्द्रविणैर्नरैः ॥ १९ ॥

कृत्वा तिलोदकान्तं वा फलमूलैस्त्वशक्तितः ।
तदर्थं ग्रासमात्रं तु दद्याद्गोष्पथभैक्षुके ॥ २० ॥

यस्माद्दिव्यैर्महामन्त्रैर्दत्तं यत्पूजितेऽच्युते ।
पित्रर्थमल्पं वा भूरि तत्तेषामक्षयं भवेत् ॥ २१ ॥

तमभ्यर्च्यार्घ्यगन्धाद्यैर्मूलमूर्तिगतं विभुम् ।
प्राङ्गणेषु च सर्वेषु प्रासादेष्वाश्रमेषु च ॥ २२ ॥

प्रतिष्ठितेषु शोभार्थं विभवव्यूहमूर्तिषु ।
तथैव गोपुरद्वारदिङ्मूर्तिषु च मण्टपे ॥ २३ ॥

सान्निध्यं चैव यातासु शक्त्या नित्यं समर्चनम् ।
षोडशैरुपचारैर्वा द्वात्रिंशद्भिस्ततोऽधिकैः ॥ २४ ॥

कुर्यात्तन्मूर्तिमन्त्रैश्च तथा नैमित्तिकेष्वपि ।
जपान्तं हवनान्तं वा स्नानाद्यं साधकस्ततः ॥ २५ ॥

तत्तन्मूर्त्यग्रदेशस्थे कुण्डे होमं समाचरेत् ।
न कर्मार्चादिकं तत्र स्नपनं चोत्सवादिकम् ॥ २६ ॥

बलिदानं च सर्वत्र पवित्रारोहणादिषु ।
नार्चतव्यं विशेषेण परतन्त्रासु मूर्तिषु ॥ २७ ॥

नित्याभिषेकमात्रं तु तासु तत्र समाचरेत् ।
सितादिवर्णयुक्तासु प्रोक्षणं वा निवेदनम् ॥ २८ ॥

मूलालयार्चया सार्धं परतन्त्रासु देशिकैः ।
पवित्रारोहणं कार्यमङ्गत्वेनाधिवासितैः ॥ २९ ॥

पूरकेषु च सर्वेषु तथैवाग्रयणादिके ।
खगेशविष्वक्सेनादिपरिवारगणेष्वपि ॥ ३० ॥

प्रतिष्ठितेषु गेहेषु पूज्यमाश्रयमूर्तिवत् ।
अमूर्तस्य खगेशस्य विष्वक्सेनादिकस्य तु ॥ ३१ ॥

कुमुदादिगणेशानां द्वारावरणवासिनाम् ।
अन्येषां परिवाराणां महापीठनिवासिनाम् ॥ ३२ ॥

अग्रे नित्योत्सवार्चायाः दद्यात्कालत्रये बलिम् ।
साकारो वा निराकारो विष्वक्सेनो गणैस्सह ॥ ३३ ॥

यद्वा समर्चनीयश्च बल्यन्ते शिष्टवस्तुभिः ।
नित्योत्सवं ततः कुर्यात्सर्वालङ्कारसंयुतम् ॥ ३४ ॥

प्राकारद्वारदेवानां बलिदानपुरस्सरम् ।
तद्विधानं प्रवक्ष्यामि शृणुध्वं मुनिपुङ्गवाः ॥ ३५ ॥

कृतेन येन भक्तानामभीष्टं जायते फलम् ।
नित्योत्सवार्थं बिम्बं तु सौवर्णं राजतं तु वा ॥ ३६ ॥

ताम्रजं पैत्तलं वाथ नात्युच्चं तच्चतुर्भुजम् ।
मूलबेरानुरूपं च यदेव स्थापितं पुरा ॥ ३७ ॥

वस्त्राभरणमाल्यैश्च यथाशोभमलङ्कृतम् ।
मूलबिम्बगतां शक्तिं तस्मिन्नारोप्य मन्त्रतः ॥ ३८ ॥

समभ्यर्च्यार्घ्यपुष्पाद्यैर्भोगैर्धूपान्तिमैस्ततः ।
आप्तैराराधिते देवे स्वयंव्यक्तालयादिषु ॥ ३९ ॥

साधकं वरयेदन्यं बलिदानादिकर्मणि ।
पुरा गर्भगृहद्वारि तथा चैवाग्रमण्टपे ॥ ४० ॥

घण्टानादसमेतेन दीपेन ज्वलितेन तु ।
द्वारस्थानर्घ्यादिधूपान्तैस्समभ्यर्च्यार्घ्यवारिणा ॥ ४१ ॥

दत्त्वार्हणं ततश्चान्नं तर्पणाम्भस्ततः परम् ।
ताम्बूलं च क्रमाद्दत्त्वा तत्तन्मन्त्रैरनुक्रमात् ॥ ४२ ॥

स्वर्णादिनिर्मितं यानं पुरस्तात्प्रथमाङ्गणे ।
सुगन्धपुष्पप्रभया क्षौमैर्माल्यैस्सितादिभिः ॥ ४३ ॥

यथाशोभमलङ्कृत्य तस्मिन् बल्यर्थकौतुकम् ।
प्राचीमुखं समारोप्य प्राङ्गणेषु प्रदक्षिणम् ॥ ४४ ॥

आतपत्रैस्सिताद्यैश्च मायूरैः केतुयष्टिभिः ।
पताकाभिश्चामरैश्च तालवृन्तैश्च शोभनैः ॥ ४५ ॥

गणिकादेवदासीभिर्गायकैर्वाद्यसञ्चयैः ।
भेरीपटहघोषैश्च श्रुतिघोषसमन्वितैः ॥ ४६ ॥

एवमाद्यैरलङ्कारैर्गोमयेनोपलेपिते ।
मण्डले हस्तमात्रे तु बलिदानपुरस्सरम् ॥ ४७ ॥

द्वारावरणदेवानां ध्यातॄणां वा स्वदिक्षु च ।
वक्ष्यमाणविधानेन नियतोत्सवमाचरेत् ॥ ४८ ॥

पीठोर्ध्वे विष्णुभूतानां सगणानामथार्चनम् ।
कृत्वा समुत्किरेच्छेषं तृप्त्यर्थं सोदकं बलिम् ॥ ४९ ॥

पीठं प्रदक्षिणं नीत्वा चतुर्धा वा द्विधाथ वा ।
सन्तोष्य नृत्तगीताद्यैर्देवमन्तः प्रवेशयेत् ॥ ५० ॥

आङ्गणेषु विशालेषु बहिष्ठेषु च सादरम् ।
मण्डितं रथमारोप्य परिभ्रमणमाचरेत् ॥ ५१ ॥

यानादेरवरोप्याथ पादुके विनिवेद्य च ।
अग्रमण्टपभूमिष्ठे भद्रपीठे निवेश्य च ॥ ५२ ॥

पाद्यार्घ्याचमनाम्भोभिश्चन्दनानुलेपनैः ।
माल्यैर्नानाविधैश्चापि धूपैस्ताम्बूलपश्चिमैः ॥ ५३ ॥

अभ्यर्च्य श्रमशान्त्यर्थं स्वस्थाने सन्निवेशयेत् ।
आदौ निवेशितां शक्तिं तन्मूले विनियोज्य च ॥ ५४ ॥

तमभ्यर्च्यार्घ्यगन्धाद्यैः प्रणमेत्स्तुतिपूर्वकम् ।
त्रिकालं यत्र विधिवत्क्रियते नियतोत्सवः ॥ ५५ ॥

तत्र सर्वसमृद्धिः स्याद्राज्ञो राष्ट्रस्य चानिशम् ।
अभावे बलिबिम्बस्य हेतुनासन्निधीकृते ॥ ५६ ॥

कूर्चेन वान्नमूर्त्या वा कुर्यान्नित्योत्सवं ततः ।
निःशेषस्योपसंहारं कृत्वा चार्घ्यादिकस्य च ॥ ५७ ॥

नत्वा स्तुत्वा च देवेशं ततः पाद्यप्रतिग्रहात् ।
पादोदकं समादाय विग्रहं सेचयेत्स्वकम् ॥ ५८ ॥

भुक्तानि पत्रपुष्पाणि विदध्यान्मूर्धनि स्वके ।
पुष्पार्घ्यगन्धपूर्वाणां देवयज्ञे कृते सति ॥ ५९ ॥

विनयादाहृतानां च भक्तानां मन्त्रसेविनाम् ।
मूर्ध्नि सन्धारणाच्छश्वद्दौर्भाग्यं क्षयमेति च ॥ ६० ॥

कीर्तिं कान्तिं श्रियारोग्यसिद्धिं समुपयाति च ।
पश्चाच्छरीरयात्रार्थमभ्यर्थ्य परमेश्वरम् ॥ ६१ ॥

लब्धानुज्ञस्तु वै कुर्यादनुयागं यथाविधि ।
भोज्यं नैवेद्यपूर्वं तु सर्वमादाय पात्रगम् ॥ ६२ ॥

विनिवेद्य च देवाय पवित्रीकृत्य चाम्भसा ।
सत्यरूपा ह्यलक्ष्या चाप्यन्नदोषक्षयङ्करी ॥ ६३ ॥

चेतसा चातुरात्मीया भावनीया च भावना ।
रसात्माध्यक्षसञ्ज्ञोऽन्ने स्वादुभावे व्यवस्थितः ॥ ६४ ॥

प्रद्युम्नो भगवान् रूपे एतद्वीर्ये तु लाङ्गली ।
भोक्ता महात्मा भगवान् वासुदेवः स्वयं त्वजः ॥ ६५ ॥

चतुःप्रणवसञ्जप्तं ततोऽम्भश्चुलकं पिबेत् ।
वक्त्रकुण्डे तु तेनैवाप्यन्नाहुतिचतुष्टयम् ॥ ६६ ॥

हुत्वा चाभिमतैर्ग्रासैस्ततोऽश्नीयाद्यथारुचि ।
समाचम्य पुनर्यायात्प्रयतो भगवद्गृहम् ॥ ६७ ॥

मनो बुद्ध्यभिमानेन सह न्यस्य धरातले ।
कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम् ॥ ६८ ॥

प्रदक्षिणसमेतेन त्वेवंरूपेण सर्वदा ।
अष्टाङ्गेन नमस्कुर्यादष्टाक्षरपुरस्सरम् ॥ ६९ ॥

एवमष्टाङ्गयजनमनुयागान्तमीरितम् ।
अन्तःकरणयागादि यावदात्मनिवेदनम् ॥ ७० ॥

तदाद्यमङ्गयागस्य नाम्नाभिगमनं महत् ।
पूजनं चार्घ्यपुष्पाद्यैर्भोगैर्यदखिलं मुने ॥ ७१ ॥

बाह्योपचारैस्तद्विद्धि भोगसञ्ज्ञं तु नारद ।
मध्वाज्याक्तेन दध्ना च पूजा च पशुनार्चया ॥ ७२ ॥

तत्तृतीयं हि यागाङ्गं तुर्यमन्नेन पूजनम् ।
निवेदितस्य यद्दानं पूर्वोक्तविधिना मुने ॥ ७३ ॥

सम्प्रदानं तु तन्नाम यागाङ्गं पञ्चमं स्मृतम् ।
वह्निसन्तर्पणं षष्ठं पितृयागस्तु सप्तमम् ॥ ७४ ॥

प्राणाग्निहवनं नाम्ना त्वनुयागस्तदष्टमम् ।
एवमष्टाङ्गसहितां पूजां कुर्याद्यथाविधि ॥ ७५ ॥

यत्र द्वादशकालेज्या कर्तव्याभूतिविस्तरात् ।
तत्र प्राभातिकीं कुर्यात्पूजामष्टाङ्गसंयुताम् ॥ ७६ ॥

अङ्गद्वयं तु पाश्चात्यं विना गाथां समाप्य च ।
पितॄणां संविभागं च अनुयागं यथोदितम् ॥ ७७ ॥

देशिकः स्वेच्छया कुर्यान्नित्यं माध्यन्दिनार्चने ।
त्रिकालेष्वेकमष्टाङ्गं षडङ्गं चाचरेद्द्वयम् ॥ ७८ ॥

योगार्थिनां च स्वाध्यायं भोगमध्यात्मसञ्ज्ञितम् ।
तत्तत्कालेषु कुर्वीत स्वाध्यायमधुनोच्यते ॥ ७९ ॥

अष्टाङ्गेन नमस्कृत्य ह्युपविश्याग्रतो विभोः ।
आगमाध्ययनं कुर्यात्तद्वाक्यार्थविचारणम् ॥ ८० ॥

प्राप्तेऽथ सन्ध्यासमये स्नात्वा वा जघनावधि ।
क्षालयित्वा ततः कुर्याद्वाससां परिवर्तनम् ॥ ८१ ॥

सायन्तनार्चनं कुर्यात्षडङ्गं बलिपश्चिमम् ।
तत्तत्कालेषु कुर्वीत यथाशास्त्रोदितेन च ॥ ८२ ॥

जपं कृत्वा यथाशक्ति स्वासाद्य शयनं ततः ।
समाधाय बहिर्देवं निरालम्बपदे स्थितम् ॥ ८३ ॥

अप्रयत्नेन वै तावदनिरुद्धेन चेतसा ।
सह तेनैव वै निद्रां यावदभ्येति साम्प्रतम् ॥ ८४ ॥

समुत्थायार्धरात्रेऽथ जितनिद्रो जितश्रमः ।
कमण्डलुस्थितेनैव समाचम्य तु वारिणा ॥ ८५ ॥

गुरुं देवं नमस्कृत्य उपविश्याजिनासने ।
योगाभ्यासं ततः कुर्याद्यथाविधि मुनीश्वराः ॥ ८६ ॥

समाधायात्मनात्मानमेवं त्यक्त्वा जपक्रियाम् ।
ध्यातृध्येयविभागेन यावत्तन्मयतां व्रजेत् ॥ ८७ ॥

सदा संवेद्यनिर्मुक्ते समाधौ लभते स्थितिम् ।
अभ्यासाद्भगवद्योगी ब्रह्म सम्पद्यते तदा ॥ ८८ ॥

तत्र श्रमजयं कुर्यात्त्यक्त्वा ध्यानासने क्रमात् ।
शय्यासनं निवेद्याथ मूलमूर्तेरनन्तरम् ॥ ८९ ॥

लक्ष्म्यादिशक्तियुक्तस्य यागमूर्तिगतस्य च ।
तस्मिन्नारोपयेद्देवं सर्वाङ्गपरिशोभिते ॥ ९० ॥

अर्घ्यं पाद्यं तथाचामं परिग्रहसमन्वितम् ।
दत्त्वा समालभेत्पश्चाच्चन्दनानुलेपनैः ॥ ९१ ॥

सुगन्धपुष्पमाल्यादिदीपधूपौ निवेद्य च ।
भक्ष्याण्यपूपपूर्वाणि सक्षीराणि फलानि च ॥ ९२ ॥

तर्पणाम्भश्च ताम्बूलं साङ्गं सद्गन्धभावितम् ।
निवेद्य देवदेवाय विभवानुगुणं ततः ॥ ९३ ॥

सर्वं च विन्यसेत्पश्चात्तस्मिन् कर्म कृतं च यत् ।
तुष्टं गृहीतं तत्पूर्णं भावयेद्दक्षिणं करम् ॥ ९४ ॥

तन्मध्ये निष्कलं मन्त्रं सर्वं यत्किरणाकुलम् ।
योगोत्थां फलसम्पत्तिं लक्ष्मीरूपां विचिन्तयेत् ॥ ९५ ॥

मूलमन्त्रं समुच्चार्य पाणिमध्ये तथा स्मरेत् ।
भूयश्च निष्कलं मन्त्रं तस्मादुपरि भावयेत् ॥ ९६ ॥

सशीर्षे जानुनी भूमौ कृत्वा विष्णोर्निवेदयेत् ।
प्रसादाभिमुखेनाथ तेन तच्चात्मसात्कृतम् ॥ ९७ ॥

भावनीयं द्विजश्रेष्ठाः परितुष्टेन चादरात् ।
सन्न्यासं सञ्चयं वाथ कृत्वा सम्यक्तु तस्य च ॥ ९८ ॥

मन्त्ररूपानुकारिण्या मुद्रणीयं च मुद्रया ।
फलार्थं प्रसवं येन नैति सन्न्यासकारिणाम् ॥ ९९ ॥

फलपर्यवसाने च काममागमचोदितम् ।
भर्तुर्नो युज्यते येन सिद्धार्थैस्तु फलार्थिनाम् ॥ १०० ॥

नित्यं प्रतिष्ठितं बिम्बं विना स्थलजलादिकान् ।
विसर्जनं ततः कुर्याद्दत्त्वार्घ्यं धूपसंयुतम् ॥ १०१ ॥

भोगस्थानगता मन्त्राः पूजिता ये यथाक्रमम् ।
मुख्यमन्त्रशरीरं तु सम्प्रविष्टांश्च संस्मरेत् ॥ १०२ ॥

ज्वाला ज्वालान्तरे यद्वत्समुद्रस्येव निम्नगाः ।
तन्मन्त्रं विग्रहं स्थूलं सर्वमन्त्रास्पदं द्विजाः ॥ १०३ ॥

प्रविष्टं भावयेत्सूक्ष्मे ह्यध्यक्षे ह्युभयात्मके ।
परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम् ॥ १०४ ॥

तस्मात्परं स्फुरद्रूपं निराधारपदाश्रितम् ।
दर्पणं दर्शयित्वा तु निर्मलं तस्य चाग्रतः ॥ १०५ ॥

सन्धिमार्गेण हृत्पद्मं सम्प्रविष्टं तु भावयेत् ।
स्मृत्वा परात्मना तं च स्वसंविद्गगने हृदि ॥ १०६ ॥

विश्रान्तं भावयेद्देवं स्वभावेन समन्वितम् ।
कर्मार्चादिषु बिम्बेषु षट्सु नित्यादिसिद्धये ॥ १०७ ॥

प्रतिष्ठितेषु विधिवन्नित्यं प्रागादिकेऽर्चने ।
तच्छक्त्या योजितां शक्तिं मूलबिम्बाद्यथाविधि ॥ १०८ ॥

समभ्यर्च्यार्घ्यपुष्पाद्यैस्ताम्बूलाद्यैः पुरोदितैः ।
पुनरारोपयेन्मूले तत्र तत्र नियोजिताम् ॥ १०९ ॥

पूजार्थं कर्मबिम्बादौ नित्यनैमित्तिकादिषु ।
प्राप्ते तु तत्तत्कर्मादौ मूलादावाह्य मन्त्रवित् ॥ ११० ॥

समाप्य तेषु तत्कर्माण्यारब्धानि यथार्थतः ।
समर्च्य मूलबिम्बे तु तेभ्यस्तत्र विसर्जयेत् ॥ १११ ॥

मन्त्रानर्घ्यादिपात्रस्थान् विसृज्य प्राग्वद्योगतः ।
शेषमर्घ्यादिकं सर्वं भुक्तपूर्वेण वै सह ॥ ११२ ॥

पाणिना तोयपूतेन विष्वक्सेनाय चार्च्य च ।
न्यासद्वयं च संहृत्य मनसा च स्वविग्रहात् ॥ ११३ ॥

निःशेषस्योपसंहारं कुर्यादर्घ्यादिकस्य च ।
यागोद्देशात्तथा कुण्डात्स्तराद्यस्याखिलस्य च ॥ ११४ ॥

सहोपलेपनेनैव सर्वमम्भसि निक्षिपेत् ।
कवाटबन्धनं कुर्यान्मन्त्रं कवचमुच्चरन् ॥ ११५ ॥

नियोज्य तत्र रक्षार्थं चक्रं च विहगेश्वरम् ।
स्वापेच्छयाथ गतो मन्त्री प्रातरुत्थाय पूर्ववत् ॥ ११६ ॥

यथोक्तं सकलं कुर्यात्प्रबोधयजनादिकम् ।
सकृत्त्र्यहं च सप्ताहं पक्षं मासमथापि वा ॥ ११७ ॥

यो यजेद्विधिनानेन भक्तिश्रद्धासमन्वितः ।
सोऽपि यायात्परं स्थानं किं पुनर्योऽत्र संस्थितः ॥ ११८ ॥

Unnummerierter abschließender Halbvers; redaktionelle Kennung 118z.

यावज्जीवावधिं कालं बद्धकक्ष्यो महामतिः ॥

इति श्रीपाञ्चरात्रे ईश्वरसंहितायां पितृसंविभागादिशयनोत्सवान्तविधिर्नाम षष्ठोऽध्यायः ॥


Kapitel 7 – लक्ष्मीसुदर्शनार्चनविधिः / lakṣmīsudarśanārcanavidhiḥ

Siehe deutsche Übersetzung und Texthinweise.

मुनयः ।

भगवन्मुनिशार्दूल सर्वशास्त्रविशारद ।
पुरा प्रधानमूर्तेर्वै पूजनात्समनन्तरम् ॥ १ ॥

प्राङ्गणेषु च सर्वेषु प्रासादेष्वाश्रयेषु च ।
प्रतिष्ठितानां बिम्बानां पूजनं समुदीरितम् ॥ २ ॥

तत्र श्रीभ्वादिदेवीनां पूजनं तु विशेषतः ।
देवर्षे श्रोतुमिच्छामो विस्तरेण प्रकाशय ॥ ३ ॥

नारदः ।

शृणुध्वं मुनयः सर्वे श्रीभूदेव्यर्चनं परम् ।
येन विज्ञातमात्रेण वाञ्छितान् लभते नरः ॥ ४ ॥

भोक्तृशक्तिः स्मृता लक्ष्मीः पुष्टिर्वै कर्तृसञ्ज्ञिता ।
भोगार्थमवतीर्णस्य तस्य लोकानुकम्पया ॥ ५ ॥

उदितं सह तेनैव शक्तिद्वितयमव्ययम् ।
नानात्वेन हि वै यस्य परिणामः प्रकाशितः ॥ ६ ॥

तत्र श्रियादिदेवीनां रूपत्रयमुदाहृतम् ।
श्रीवत्सगा योगलक्ष्मीर्भोगलक्ष्मीस्तु पार्श्वगा ॥ ७ ॥

वीरलक्ष्मीः पृथक्स्थाने स्वातन्त्र्येण प्रतिष्ठिता ।
एवमन्यासु देवीषु रूपत्रयमुदाहृतम् ॥ ८ ॥

योगलक्ष्मीभोगलक्ष्म्योर्देवेन सह पूजनम् ।
वीरलक्ष्मीं पृथग्गेहे पूजयेत यथाविधि ॥ ९ ॥

यत्र सा पूज्यते देवी तत्र श्रीर्निश्चला भवेत् ।
तद्विधानं प्रवक्ष्यामि शृणुध्वं मुनिपुङ्गवाः ॥ १० ॥

प्रथमावरणे वापि द्वितीयावरणेऽपि वा ।
तृतीयावरणादौ वा श्रियः स्थानं प्रकल्पयेत् ॥ ११ ॥

तुष्टिं पुष्टिं च सावित्रीं वाग्देवीं च मुनीश्वराः ।
तद्विमानचतुर्दिक्षु दिङ्मूर्तीः परिकल्पयेत् ॥ १२ ॥

कोणेषु वैनतेयं वा सिंहं वापि यथारुचि ।
तदन्तर्ब्रह्मभागे तु दिव्ये वा स्थापयेत् श्रियम् ॥ १३ ॥

चतुर्भुजामुदाराङ्गीं सर्वलक्षणसंयुताम् ।
पद्मासनेनोपविष्टां पद्मपत्रायतेक्षणाम् ॥ १४ ॥

मुख्याभ्याञ्चैव हस्ताभ्यामभीतिवरदायिनीम् ।
जघन्याभ्यां तु हस्ताभ्यां दिव्यपङ्कजधारिणीम् ॥ १५ ॥

त्रिकालमर्चयेद्देवीं तन्मन्त्रेण द्विजोत्तमाः ।
प्रणवं पूर्वमुद्धृत्य श्रीबीजं तदनन्तरम् ॥ १६ ॥

श्रियै नमः षडर्णोऽयं मन्त्रः सर्वार्थसिद्धिदः ।
श्रा श्री श्रू श्रै श्रौ श्र इति योजयेद्धृदयादिभिः ॥ १७ ॥

मन्त्रेणानेन वै पूर्वं स्नात्वा देशिकसत्तमः ।
प्रक्षाल्य पाणिपादौ च त्वाचम्य च यथाविधि ॥ १८ ॥

प्रासादं सम्प्रविश्याथ कुर्यात्सर्वं यथोचितम् ।
स्वासने सुखमासीनः प्राङ्मुखो वाप्युदङ्मुखः ॥ १९ ॥

करशुद्धिं च दिग्बन्धं प्राणायामं समाप्य च ।
धारणाद्वितयेनाथ शोधयित्वा निजं वपुः ॥ २० ॥

श्रीमन्त्रं तु ततः साङ्गं हस्ते देहे च विन्यसेत् ।
किरीटं वनमालां च कमलद्वयमेव च ॥ २१ ॥

हस्तादौ पूर्ववन्न्यस्य बद्ध्वा वै पद्ममुद्रिकाम् ।
तादात्म्यमवलम्ब्याथ हृदयाम्भोरुहोदरे ॥ २२ ॥

स्वानन्दधामनिष्ठस्य देवस्य परमात्मनः ।
श्रीवत्सात्तु श्रियं देवीं सर्वलक्षणसंयुताम् ॥ २३ ॥

अवतार्यामृतैर्भोगैर्जपान्तं प्राग्वदर्चयेत् ।
ततो बहिर्यजेद्देवीं प्रागुक्तैर्भोगसञ्चयैः ॥ २४ ॥

तदर्थं कल्पयेत्प्राग्वदर्घ्याद्यं पात्रपञ्चकम् ।
प्राग्वत्स्वदेहविन्यस्तान् मन्त्रानभ्यर्च्य मन्त्रवित् ॥ २५ ॥

अर्घ्याद्यैर्धूपपर्यन्तैर्द्वारयागमथाचरेत् ।
वास्त्वीशं क्षेत्रनाथं च द्वारलक्ष्मीं तथैव च ॥ २६ ॥

चण्डीं चैव प्रचण्डीं च गर्भद्वारस्य पार्श्वयोः ।
समभ्यर्च्य विमानस्य पूजनं च समाचरेत् ॥ २७ ॥

लोकाध्वतत्त्वविन्यासं प्राग्वदेव समाचरेत् ।
देवतान्यसने त्वेष विशेषः श्रूयतामिह ॥ २८ ॥

यजेन्मसूरकाधारे धर्माद्यं यच्चतुष्टयम् ।
मूर्तयो वासुदेवाद्याः केशवाद्याश्च मूर्तयः ॥ २९ ॥

पद्मनाभादयश्चापि यत्र पूज्या मुनीश्वराः ।
तत्तच्छक्तीस्तत्र तत्र यजेत्तानेव वा क्रमात् ॥ ३० ॥

यद्वा तच्छक्तिभिः सार्धं पूजयेत्तान् यथाक्रमम् ।
लक्ष्मीः कीर्तिर्जया माया व्यूहशक्तय ईरिताः ॥ ३१ ॥

श्रीश्च वागीश्वरी कान्तिक्रियाशक्तिविभूतयः ।
इच्छा प्रीती रतिश्चैव माया धीर्महिमेति च ॥ ३२ ॥

शक्तयः केशवादीनां क्रमेण परिकीर्तिताः ।
धीस्तारा वारुणी शक्तिः पद्मा विद्या तथैव च ॥ ३३ ॥

साङ्ख्या विश्वा खगा भूर्गौर्लक्ष्मीर्वागीश्वरी तथा ।
अमृता हरिणी छाया नारसिंही तथा सुधा ॥ ३४ ॥

श्रीकान्तिवीराः कामा च सत्या शान्तिः सरोरुहा ।
माया पद्मासना खर्वा विक्रान्तिर्नरसम्भवा ॥ ३५ ॥

नारायणी हरिप्रीतिर्गान्धारी काश्यपी तथा ।
वैदेही वेदविद्या च पद्मिनी नागशायिनी ॥ ३६ ॥

त्रिंशच्चाष्टाविमा देव्यः पद्मनाभादिशक्तयः ।
यत्रान्या भगवन्मूर्तिः पूज्या तत्र श्रियं यजेत् ॥ ३७ ॥

अन्यान् विमानदेवांस्तु पूर्वोक्तानेव पूजयेत् ।
विमानस्य चतुर्दिक्षु कल्पितां च विशेषतः ॥ ३८ ॥

तुष्टिं पुष्टिं च सावित्रीं वाग्देवीं च समर्चयेत् ।
अथाग्रमण्डपद्वारे दक्षिणे तु बलाकिनी ॥ ३९ ॥

वनमालिन्युदग्भागे पूजनीये क्रमेण तु ।
कृत्वैवं द्वारयागं तु कल्पयेदासनं ततः ॥ ४० ॥

सर्वाधारमयं देवं पीठस्याधः फणीश्वरम् ।
तत्कोणेषु च धर्मादींस्तदूर्ध्वेऽव्यक्तपङ्कजम् ॥ ४१ ॥

धामत्रयं ततस्तस्मिन् यजेदर्घ्यादिभिः क्रमात् ।
गणनाथादिकांश्चाथ समभ्यर्च्य यथाविधि ॥ ४२ ॥

ततः श्रियं समावाह्य मन्त्रन्यासादिकं चरेत् ।
सन्निधानादिकं कृत्वा पद्ममुद्रां प्रदर्शयेत् ॥ ४३ ॥

मन्त्रान् विग्रहविन्यस्तान् लयोक्तविधिनार्चयेत् ।
भोगयागश्च कर्तव्यः पद्मपीठतलोपरि ॥ ४४ ॥

प्रागादिदिक्पत्रेषु हृदयादीनि पूर्ववत् ।
विदिग्दलेषु चैवास्त्रं नेत्रं केसरजालकम् ॥ ४५ ॥

पीठोपरि दलाद्बाह्ये त्वाग्नेयेशानकोणयोः ।
किरीटं वनमालां च यातुवायव्यकोणयोः ॥ ४६ ॥

कमलद्वितयं चापि विन्यसेत्तदनन्तरम् ।
ततो ध्यानं प्रवक्ष्यामि शृणुध्वं द्विजसत्तमाः ॥ ४७ ॥

अभ्यन्तरे विमानस्य दिव्ये सरसिजासने ।
पद्मासनेनोपविष्टां फुल्लपद्मोदरप्रभाम् ॥ ४८ ॥

सर्वलक्षणसम्पन्नां सर्वालङ्कारभूषिताम् ।
चलद्द्विरेफपटलसमाक्रान्तालकावलिम् ॥ ४९ ॥

विलसद्रत्नखचितकिरीटपरिशोभिताम् ।
अर्धचन्द्रललाटस्थराजमानललाटिकाम् ॥ ५० ॥

प्रबुद्धोत्पलविस्तीर्णलोचनां सुस्मिताननाम् ।
कटाक्षैः करुणापूर्णैर्जगदाप्यायकारिणीम् ॥ ५१ ॥

दर्पणोदरसङ्काशविलसद्गण्डमण्डलाम् ।
प्रस्फुरन्नासिकावंशमौक्तिकां भ्रूलतोज्ज्वलाम् ॥ ५२ ॥

मुक्ताफलाभरदनां विलसद्विद्रुमाधराम् ।
रत्नताटङ्कविलसत्कर्णद्वयमनोहराम् ॥ ५३ ॥

पूर्णचन्द्रप्रतीकाशवदनां कम्बुकन्धराम् ।
रत्नग्रैवेयकोपेतां माङ्गल्यमणिभूषिताम् ॥ ५४ ॥

चतुर्भुजां पीवरांसां मुक्ताहारैश्च भूषिताम् ।
सुकर्कशदृढोत्तुङ्गपीनवृत्तघनस्तनीम् ॥ ५५ ॥

विचित्रकञ्चुकेनाढ्यां नानाभूषाविभूषिताम् ।
मुख्यदक्षिणहस्तेन भीतानामभयप्रदाम् ॥ ५६ ॥

सव्येन पाणिपद्मेन श्रितानां वरदायिनीम् ।
पश्चाद्दक्षिणहस्तेन पद्मकुड्मलधारिणीम् ॥ ५७ ॥

तथाविधेन वामेन दधानां फुल्लपङ्कजम् ।
मणिकङ्कणकेयूरनानारत्नाङ्गुलीयकैः ॥ ५८ ॥

मण्डितां दिव्यवसनां मेखलाद्यैरलङ्कृताम् ।
गम्भीरनाभिं त्रिवलीविभूषिततनूदराम् ॥ ५९ ॥

विचित्रमणिमञ्जीरविलसत्पादपल्लवाम् ।
दिव्यगन्धानुलिप्ताङ्गीं दिव्यमाल्यविभूषिताम् ॥ ६० ॥

पूर्णेन्द्वयुततुल्याभां सौन्दर्यामृतवारिधिम् ।
वीरलक्ष्मीमिमां ध्यायेत्सर्वाभीष्टप्रदायिनीम् ॥ ६१ ॥

एवं ध्यात्वा श्रियं देवीं हृदयादींश्च पूर्ववत् ।
किरीटं वनमालां च तथैव कमलद्वयम् ॥ ६२ ॥

ध्यात्वाथ पूजनं कुर्यादासनाद्यैर्यथोदितैः ।
चतुःषष्ट्युपचारैर्वा द्वात्रिंशद्भिस्तु वा द्विजाः ॥ ६३ ॥

हविर्निवेदयेद्देव्यै पृथक् देवार्पितं तु वा ।
जपान्तं पूजयेद्देवीं होमान्तं वा यथाविधि ॥ ६४ ॥

पारतन्त्र्याद्बलिं तत्र कदापि न समाचरेत् ।
मूलालयार्चया सार्धं तस्या देशिकसत्तमैः ॥ ६५ ॥

पवित्रारोहणं कार्यमङ्गत्वेनाधिवासितैः ।
तज्जन्मर्क्षादिके कुर्यात्स्नपनञ्चोत्सवादिकम् ॥ ६६ ॥

पारतन्त्र्येऽपि वै लक्ष्म्या नवरात्रिषु चोत्सवम् ।
अङ्कुरार्पणपूर्वं तु रक्षाबन्धपुरस्सरम् ॥ ६७ ॥

चतुःस्थानार्चनयुतं कुर्याद्राष्ट्राभिवृद्धये ।
बलिदानं ध्वजारोहं तीर्थं तत्र विवर्जयेत् ॥ ६८ ॥

पारतन्त्र्ये विधिरयं स्वातन्त्र्ये तूच्यतेऽधुना ।
ग्रामे वा नगरे वापि पर्वते वा नदीतटे ॥ ६९ ॥

सप्राकारं श्रियः स्थानं सविमानं प्रकल्पयेत् ।
तत्र श्रियं प्रतिष्ठाप्य तन्मन्त्रेण यथाविधि ॥ ७० ॥

श्रीवत्साद्देवदेवस्य श्रियं बिम्बहृदम्बुजे ।
समावाह्य तु मन्त्रेण साङ्गेन सकलीक्रियाम् ॥ ७१ ॥

कृत्वा सम्पूजयेद्देवीं भोगैस्तु हविरन्तिमैः ।
अथ श्रियं त्वग्निमध्ये प्रीणयेत्समिदादिभिः ॥ ७२ ॥

संस्कृत्य विधिवत्कुण्डं वह्निमुत्पादितं तथा ।
संस्कृताज्यस्य विप्रुड्भिः संस्पृशेदिन्धनादिकम् ॥ ७३ ॥

सन्तर्पणं तथाग्नेश्च तस्मिन् मन्त्रासनादिकम् ।
तन्मध्ये हृदयाद्देवीं समावाह्य यथाविधि ॥ ७४ ॥

समिद्भिश्चापि नित्याभिः काम्यैश्च जुहुयात्तथा ।
स्विष्टकृद्धवनं चाथ प्रायश्चित्ताहुतिं त्वपि ॥ ७५ ॥

पूर्णाहुत्यादिकं कृत्वा ततो लक्ष्मीं हृदम्बुजे ।
विसृज्य परिवाराणां होमं कृत्वा यथाविधि ॥ ७६ ॥

प्रविश्य तु ततो देव्या मन्दिरं यजनास्पदम् ।
समर्पणं च होमस्य पितॄणां तर्पणं त्वपि ॥ ७७ ॥

बलिदानं च भूतानामिष्टशिष्टजनस्य च ।
प्रदानं यज्ञशीलानां कारिणां भावितात्मनाम् ॥ ७८ ॥

अनुयागं च विधिवन्नैवेद्यप्राशनादिकम् ।
पूर्ववत्सकलं कुर्याद्भोगमोक्षप्रसिद्धये ॥ ७९ ॥

अत्रैवं बलिदानादौ परिवारार्चनक्रमः ।
प्रथमावरणे पूज्याः प्रागादौ कुमुदादिकाः ॥ ८० ॥

विभीषिकां शाङ्करीं च यजेत्तद्द्वारपार्श्वयोः ।
द्वितीयावरणे पश्चादुपेन्द्रादीन् प्रपूजयेत् ॥ ८१ ॥

तद्द्वारपार्श्वयोश्चैव शङ्खपद्मनिधी यजेत् ।
तृतीयावरणे पश्चादिन्द्रादीन् परिपूजयेत् ॥ ८२ ॥

तद्द्वारपार्श्वयोः पूज्यौ नलकूबरजुम्भलौ ।
चतुर्थावरणे चैव वज्रादीन् परिपूजयेत् ॥ ८३ ॥

तद्द्वारदक्षिणे पार्श्वे शिबिकुण्डलमर्चयेत् ।
उत्तरे मणिभद्रं च पञ्चमावरणे ततः ॥ ८४ ॥

लोहिताक्षादिकानिष्ट्वा ततस्तद्द्वारपार्श्वयोः ।
जयां च विजयां चैव पूजयेत यथाक्रमम् ॥ ८५ ॥

महापीठे तु विधिवत्कुमुदादीन् समर्चयेत् ।
सुमुखीं पूजयेद्विष्वक्सेनस्थाने चतुर्भुजाम् ॥ ८६ ॥

वेत्रहस्तां दक्षिणेन तर्जनीं चापि बिभ्रतीम् ।
पश्चाद्दक्षिणहस्ताभ्यां दधानां पङ्कजद्वयम् ॥ ८७ ॥

एवं सर्वपरीवारान् बलिदानादिभिर्यजेत् ।
पवित्रारोहणादीनि पृथक्कुर्याद्यथाविधि ॥ ८८ ॥

गरुडध्वजमारोप्य कुर्याच्चैव महोत्सवम् ।
चतुःस्थानार्चनादीनि श्रीमन्त्रेण समाचरेत् ॥ ८९ ॥

एवमुक्तो मुनिश्रेष्ठाः श्र्यादिदेव्यर्चनक्रमः ।
एवं पुष्ट्यादिदेवीश्च पूजयेत्स्वस्वमन्त्रतः ॥ ९० ॥

मुनयः ।

भगवन् सर्वशास्त्रज्ञ शरणागतवत्सल ।
श्रुतं श्रियाद्यर्चनं तु त्वत्तोऽस्माभिर्मुनीश्वर ॥ ९१ ॥

सुदर्शनार्चनं त्वद्य वक्तुमर्हसि नः प्रभो ।
नारदः ।
शृणुध्वं मुनयः सर्वे सावधानेन चेतसा ॥ ९२ ॥

सौदर्शनार्चनविधिमैहिकामुष्मिकप्रदम् ।
सौदर्शनीया मन्त्राश्च मूर्तयश्चाप्यनेकधा ॥ ९३ ॥

तत्राभिमतमन्त्रेण मूर्तिं चाभिमतां यजेत् ।
दिव्याद्यायतने चित्रे प्राङ्गणादौ तु कुत्रचित् ॥ ९४ ॥

ग्रामादौ तु नदीतीरे विपिने पर्वतेऽपि वा ।
प्रासादं मण्डपं वाथ सचित्रं सर्वतोमुखम् ॥ ९५ ॥

प्राङ्मुखं वापि कुर्वीत सगवाक्षकवाटकम् ।
एकादितलसंयुक्तं चक्रलाञ्छनलाञ्छितम् ॥ ९६ ॥

मुखभद्रसमोपेतमारोहणसमन्वितम् ।
सप्राकारं समासाद्य प्रासादाभ्यन्तरे तथा ॥ ९७ ॥

बिम्बं सौदर्शनं तत्र प्रतिष्ठाप्य यथाविधि ।
यजेत्त्रिकालं प्रयतो देशिकस्तस्य मन्त्रतः ॥ ९८ ॥

तत्राधिव्याधिदुर्भिक्षभूतवेतालदुर्ग्रहाः ।
न बाधन्ते जनान् सर्वान् शुभं भवति नित्यशः ॥ ९९ ॥

तत्रार्चनविधानं तु शृणुध्वं मन्त्रपूर्वकम् ।
सुगुप्ते भूतले शुद्धे वर्णचक्रं परिस्तरेत् ॥ १०० ॥

अकारादि क्षकारान्तं सर्वार्णमयरूपिणम् ।
स्वक्षनाभ्यरनेमीभिः प्रधिभिश्चाप्यलङ्कृतम् ॥ १०१ ॥

कारणं सर्वमन्त्राणां क्षेत्रे प्रणवमालिखेत् ।
अकाराद्या विसर्गान्ताः स्वरा नाभ्यङ्गमाश्रिताः ॥ १०२ ॥

ककारादीनि भान्तानि तदराणां त्रिरष्टके ।
मादिहान्तानि नेमौ तु क्षार्णं प्रधिगणे स्थितम् ॥ १०३ ॥

शब्दब्रह्ममयं चक्रं पुरा वर्णगतं ततः ।
प्रणवाद्यैर्नमोऽन्तैश्च सञ्ज्ञाभिः क्रमशस्ततः ॥ १०४ ॥

विन्यस्तमातृयन्त्रं स्वं देशिको विधिवद्गुरुः ।
समभ्यर्च्यार्घ्यपुष्पाद्यैर्मातृकामन्त्रविग्रहम् ॥ १०५ ॥

ततः समुद्धरेन्मन्त्रान् सर्वाभिमतसिद्धिदान् ।
जेतुं शक्त्यात्मना या तु सृष्टिस्थितिलयोन्मुखी ॥ १०६ ॥

क्रियाशक्तिः समुद्दिष्टा सुकल्पजननी पुरा ।
कालरूपमधिष्ठाय तयेदं बृंहितं जगत् ॥ १०७ ॥

कालचक्रं जगच्चक्रं तस्मात्सौदर्शनं वपुः ।
तमधिष्ठाय सा शक्तिर्जीवभूता व्यवस्थिता ॥ १०८ ॥

विनाकृतं तया सर्वमसत्कल्पमिदं भवेत् ।
तस्मात्समुद्धरेच्छक्तिमग्नीषोमसमप्रभाम् ॥ १०९ ॥

अक्षाधारां तु वै नित्यामनाद्यन्तां च वैष्णवीम् ।
पूर्वं नेम्यन्तिमद्वन्द्वं तदाद्यं सानलद्वयम् ॥ ११० ॥

नाभितुर्यान्तिमद्वाभ्यां पिण्डमेतदलङ्कृतम् ।
सौदर्शनमहाशक्तिः सर्वसिद्धिप्रदायिनी ॥ १११ ॥

जीवभूता षडर्णस्य प्रकाशानन्दरूपिणी ।
हृदयाद्यङ्गसिद्ध्यर्थं पिण्डमेतत्स्वरोज्झितैः ॥ ११२ ॥

दीर्घैराद्यैस्त्रिभिश्चान्त्यैर्हृदयेनेत्रपश्चिमम् ।
प्रणवादीनि चैतानि तुर्यान्तैर्हृदयादिभिः ॥ ११३ ॥

नमःस्वाहावषड्ढुंफड्वौषड्भिर्जातिभिः सह ।
क्रमान्नियोजनीयानि विज्ञानादिगुणैः सह ॥ ११४ ॥

शक्तेः प्रकृतिरूपस्य षडर्णस्योद्धृतिस्त्वथ ।
पूर्ववत्समुपाहृत्य चान्तिमद्वयमन्तिमम् ॥ ११५ ॥

तत्राद्यं सतृतीयमस्यां यान्त्यन्ततोऽन्तिमम् ।
सपञ्चमस्वरान्तं च कुर्यान्नेम्याद्यभूषितम् ॥ ११६ ॥

पश्चादेकादशारार्णयुक्तं तद्द्विगुणारगम् ।
अन्त्यार्णमविमुक्तं तु कुर्यात्तत्पञ्चषष्ठयोः ॥ ११७ ॥

अयं सौदर्शनो मन्त्रः षडर्णः समुदीरितः ।
तृतीयः पञ्चमः षष्ठः प्रत्येकं त्र्यक्षरः स्मृतः ॥ ११८ ॥

अन्ये वर्णसमोपेता वर्णाः स्युर्द्व्यक्षरास्त्रयः ।
एष कालात्मनो विष्णोर्विश्वरूपस्य वाचकः ॥ ११९ ॥

सतारया च शक्त्या च ह्यष्टार्णः परिकीर्तितः ।
क्षेत्रक्षेत्रज्ञयुक्त्या तु यथा प्रकृतिगः पुमान् ॥ १२० ॥

स्थूलसूक्ष्मात्मको ध्येयस्तथा सौदर्शनो हरिः ।
दर्शनं परतत्त्वस्य स्यात्तदाख्यानदर्शनम् ॥ १२१ ॥

तन्निष्ठानामिदं नित्यमज्ञानतिमिरापहम् ।
छिनत्ति संशयं तेषां सदुपायप्रवृत्तये ॥ १२२ ॥

रूपान्तरमिदं तस्य संशयच्छेदकारणम् ।
नूनं वर्णाश्रमाचारनिष्ठानामाननेषु तु ॥ १२३ ॥

छिनत्ति दूषकान् जन्तून् स्वकविद्याप्रभावतः ।
लाञ्छितानामनेनाशु भक्तानां भावितात्मनाम् ॥ १२४ ॥

करस्थो विजयस्तु स्यादिह लोके परत्र च ।
किं पुनर्विषये यत्र स्थापिते पूजिते सति ॥ १२५ ॥

लक्षणं हृदयादीनां मन्त्राणां तूच्यतेऽधुना ।
प्रागेव हृदयादीनां मन्त्रार्णानि यथाक्रमम् ॥ १२६ ॥

विन्यसेद्बीजभूतानि तारान्ते बिन्दुना ततः ।
अविसूनां क्रमादन्ते तथा सूर्याक्षरद्वयात् ॥ १२७ ॥

महासुदर्शनज्वालापदयोरन्तिमेष्वपि च ।
चक्रायेति पदं षोढा शिरोऽन्ते योजयेत्क्रमात् ॥ १२८ ॥

विज्ञानादिगुणोपेतैस्तुर्यान्तैर्हृदयादिभिः ।
नमःस्वाहादिनेत्रान्तैः प्रागुक्तविधिना लिखेत् ॥ १२९ ॥

ध्येयान्याकारवन्तानि भोगस्थानेषु मूलवत् ।
वर्णभूषणवस्त्रास्त्रभुजसंस्थानचेष्टितैः ॥ १३० ॥

ज्ञात्वैवं मन्त्रमाहात्म्यं योऽर्चयेद्विधिपूर्वकम् ।
दिग्बन्धवह्निप्राकारगायत्र्यावाहनादिकैः ॥ १३१ ॥

यागोपकरणैर्मन्त्रैर्भोगदाननिवर्जितैः ।
क्रमात्सर्वफलावाप्तिर्मन्त्रसिद्धिश्च जायते ॥ १३२ ॥

दशदिग्बन्धमन्त्राणां वक्ष्यते लक्षणं पुरा ।
ओंपूर्वं पुरुषायेति स्वाहान्तं तदनन्तरम् ॥ १३३ ॥

अस्त्रेण बन्धयामीति स्वाहान्तं च षडक्षरम् ।
इति दिग्बन्धमन्त्रोऽयमीरितो दुष्टदोषहृत् ॥ १३४ ॥

प्रणवं प्राक्समुद्धृत्य मनुं त्वग्निजाययोः ।
आयान्तं विन्यसेच्चक्रमग्निप्राकारसञ्ज्ञकम् ॥ १३५ ॥

कीर्तितां चक्रगायत्रीं शृणुध्वं मुनिसत्तमाः ।
जातिपूर्वं पुरस्कृत्य चक्रायेति समुद्धरेत् ॥ १३६ ॥

द्वितीयं विष्णुगायत्र्या नृसूक्तादक्षरत्रयम् ।
नेत्राभ्यां पदमादाय नेमिपूर्वान्तयोजितम् ॥ १३७ ॥

धीमहीति तदन्ते नो विनिवेश्योऽनिवारितः ।
गायत्र्यन्तं समुद्धार्य तदन्ते चतुरक्षरम् ॥ १३८ ॥

सौदर्शनी समुद्दिष्टा गायत्री तारकाक्षरा ।
सतारका पुरा चेयं भवेदेकाक्षराधिका ॥ १३९ ॥

अथ मन्त्रत्रयं वक्ष्ये सामान्यं सर्वपूजने ।
तारद्वयं पुरोद्धृत्य परमं पदमुद्धरेत् ॥ १४० ॥

धामेत्यवस्थितं चाथ नेम्याद्यं द्विनवारगम् ।
द्विदशारं गतं वर्णं नाभिपञ्चममूर्धनि ॥ १४१ ॥

ततस्तु ग्रहकाम्ययो इति पञ्चार्णमुद्धरेत् ।
युतं नेमिद्वितीयेन द्विनवारं गतं ततः ॥ १४२ ॥

षोडशारं गतं वर्णं द्वितीयस्वरसंयुतम् ।
नेमिपञ्चमवर्णं च षोडशारं गतं पुनः ॥ १४३ ॥

तृतीयस्वरसंयुक्तं तृतीयं नेमिमण्डलात् ।
नेम्यन्तमास्वरोपेतमरान्तश्च स्वरान्तरम् ॥ १४४ ॥

नेम्याद्यं षोडशारस्थं नेम्यष्टममिकारगम् ।
न्यूनविंशारगोर्ध्वं तु द्विनवाक्षरमूर्धनि ॥ १४५ ॥

स्वरं तृतीयं संयोज्य ततश्च द्विनवारगम् ।
पुनर्मन्त्रशरीरेति प्रणवान्तं ततो नमः ॥ १४६ ॥

पुनश्च नमसा युक्तो मन्त्र आवाहनोचितः ।
प्रदाने सर्वभोगानां मन्त्रोऽयं सम्प्रकाश्यते ॥ १४७ ॥

प्रणवं पूर्वमुच्चार्य सर्वभोगैककारणम् ।
नेम्यन्तं बिन्दुसंयुक्तं त्रिधेदं पदमप्यथ ॥ १४८ ॥

गृहाणेति शिरोऽन्तोऽयं भोगदानस्य वाचकः ।
आवाहने तथार्चायां विसर्जनविधौ तथा ॥ १४९ ॥

प्रणवं पूर्वमुद्धृत्य सम्बोध्य भगवन्निति ।
मन्त्रमूर्तेः पदं दद्यात्स्वपदं च द्वितीयया ॥ १५० ॥

आसादय क्षमस्वेति प्रणवान्तं समुद्धरेत् ।
सुदर्शनार्चनार्थं तु मन्त्रास्त्वेवं मयोदिताः ॥ १५१ ॥

इहार्चनविधानं तु प्रवक्ष्यामि मुनीश्वराः ।
प्राग्वत्स्नानादिकं कृत्वा प्रविश्य यजनालयम् ॥ १५२ ॥

प्रक्षाल्य पादावाचम्य सोत्तरीयः स्वलङ्कृतः ।
धृतोर्ध्वपुण्ड्रः कुसुमैर्द्वास्थानभ्यर्च्य पूर्ववत् ॥ १५३ ॥

कवाटोद्घाटनं कृत्वा प्रविश्याभ्यन्तरे विभुम् ।
प्रणिपत्य च गायत्र्या पाणिप्रक्षालनादिकम् ॥ १५४ ॥

अवतीर्यां विष्टरे यन्त्रे कृत्वा मार्गत्रयं ततः ।
प्रासादं शोधयित्वास्य पुरतः फलकादिके ॥ १५५ ॥

प्रोक्षिते चास्त्रमन्त्रेण सम्मुखं रुचिरासने ।
समासीनः स्वपार्श्वस्थयाज्ञीयं चाधिवासनम् ॥ १५६ ॥

करशुद्धिं स्थानशुद्धिं कृत्वास्त्रेण यथापुरम् ।
पाणिभ्यामुक्तमन्त्रेण संयुक्तेनास्त्रमुद्रया ॥ १५७ ॥

पूजास्थानगतान् विघ्नान् बाह्यतो ह्यदृश्यविग्रहान् ।
विरेच्य बन्धनं कुर्याद्दिक्षु चैव विदिक्षु च ॥ १५८ ॥

कवचेनावकुण्ठ्याथ प्राणानायम्य पूर्ववत् ।
भूतशुद्धिं ततः कृत्वा मन्त्रन्यासमथाचरेत् ॥ १५९ ॥

अकारादिक्षकारान्तं मातृकां मन्त्रमातरम् ।
विन्यसेत्करयोः पूर्वं विग्रहे चक्रमाप्लवन् ॥ १६० ॥

कृत्वैवं व्यापकन्यासमादित्यातपसमप्रभम् ।
दक्षेतरक्रमेणैव शाखासु तलयोरपि ॥ १६१ ॥

अङ्गुष्ठादिकनिष्ठान्तमेकेकस्याश्चतुश्चतुः ।
एवं द्वाविंशकं न्यस्य तलयोर्दशकं ततः ॥ १६२ ॥

मध्ये च द्विचतुष्के च पञ्चकं पञ्चकं तथा ।
प्रणवद्वयमध्यस्थानेवं न्यस्य करद्वये ॥ १६३ ॥

व्यापकन्यासपूर्वं तु स्वशरीरेऽपि विन्यसेत् ।
मूर्ध्नः पादतलं यावत्पाणिभ्यां तपनांशुवत् ॥ १६४ ॥

व्यापयित्वा ततो न्यासं पृथगेव समाचरेत् ।
केशान्ते वक्त्रवृत्ते च नेत्रयोः श्रवणद्वये ॥ १६५ ॥

घ्राणरन्ध्रद्वये गण्डद्वये दक्षेतरक्रमात् ।
उत्तराधरयोगेन दन्तयोस्तच्छदद्वये ॥ १६६ ॥

मूर्ध्नि न्यसेत्स्वरानन्यान् सविसर्गाननन्तरम् ।
कवर्गं दक्षिणे बाहौ सन्धिपञ्चगतं क्रमात् ॥ १६७ ॥

वामे तथा चवर्गं च पादयोर्दक्षिणादितः ।
सन्धिगौ टतवर्गौ च पूर्ववत्तुन्दपार्श्वयोः ॥ १६८ ॥

पृष्ठे नाभौ च हृदये पवर्गं धातुसप्तके ।
यादिसान्तानि वर्णानि हकारं हृदयान्तरे ॥ १६९ ॥

क्षकारं हृदयाकाशे न्यस्यैवं मातृकां पुरा ।
ततः शक्त्या षडर्णं तु न्यसेत्करशरीरगम् ॥ १७० ॥

करन्यासं पुरा कुर्याच्छृणुध्वं मुनीश्वराः ।
पुटीकृतेन ताराभ्यां मन्त्रेणैव सशक्तिना ॥ १७१ ॥

नखान्तं मणिबन्धादि प्राग्वत्पाणिद्वयं मृजेत् ।
आद्यन्ते तारशक्त्याद्यैः शक्तिवर्णैः सबिन्दुकैः ॥ १७२ ॥

अङ्गुष्ठादिकनिष्ठान्तं न्यस्य मध्यमपर्वसु ।
विन्यसेत्करजाग्रेषु चरमं वर्णमेव च ॥ १७३ ॥

एवमर्णानि विन्यस्य हृदयादीनि विन्यसेत् ।
मूलाग्रपर्वस्वङ्गानि वर्णन्यासक्रमेण तु ॥ १७४ ॥

पाणिभ्यामालभेद्देहमामूर्ध्नश्चरणावधि ।
कृत्वैवं व्यापकन्यासमङ्गन्यासं समाचरेत् ॥ १७५ ॥

मूर्ध्नि वक्त्रे च हृदये नाभौ गुह्ये च पादयोः ।
पादादिश्च शिरोन्तस्तु संहृतिन्यास उच्यते ॥ १७६ ॥

हृदि मूर्ध्नि शिखायां तु स्कन्धयोः करमध्यतः ।
नेत्रयोर्न्यसनीयानि स्वस्वमन्त्रैरुदितैः क्रमात् ॥ १७७ ॥

हृदयादीनि विन्यस्य पश्चात्पाणितलद्वये ।
किरीटं कौस्तुभं मालां श्रीवत्सं च यथापुरम् ॥ १७८ ॥

विन्यसेदायुधान्यष्टौ पद्मादीनि यथाक्रमम् ।
दक्षिणोत्तरयोरंसे इच्छाशक्तिं स्वपार्श्वयोः ॥ १७९ ॥

ऊरुमूले मनस्तत्त्वं न्यस्य मन्त्रमयं स्वकम् ।
भावयेदहमित्यन्तः सुदर्शनवपुर्हरिः ॥ १८० ॥

गायत्र्यावर्तयेद्बाह्ये स्वात्मानं चक्रमुद्रया ।
चक्रज्वालावलिं विप्राः परितो मन्त्रवित्तमः ॥ १८१ ॥

भावनाजनितं यागमाचरेदादिचोदितम् ।
नियम्य करणग्रामं प्राग्वद्धि ज्ञानगोचरे ॥ १८२ ॥

आसनं हृदि सङ्कल्प्य त्वनन्ताद्यं तु पूर्ववत् ।
परस्माद्भगवत्तत्त्वाच्चित्स्वरूपं परात्मकम् ॥ १८३ ॥

मनसा मन्त्रमुच्चार्य विष्टरोर्ध्वेऽवतार्य च ।
मन्त्रन्यासादिकं कृत्वा लयभोगार्चनं तथा ॥ १८४ ॥

शिरोध्वे देवदेवस्य भावयेदिन्दुमण्डलम् ।
तत्स्रुतैरमृतौघैश्च कुर्यादर्घ्यादिकल्पनम् ॥ १८५ ॥

षोडशैरुपचारैर्वा द्वात्रिंशद्भिस्तु वा यजेत् ।
कृत्वैवं मानसं यागं जपान्तं तु यथाविधि ॥ १८६ ॥

ततो बहिर्यजेद्देवं हेतीशं देशिकोत्तमः ।
मूर्तेरर्घ्यादिभिर्भोगैर्विधिवत्समुपाहृतैः ॥ १८७ ॥

प्राग्वदर्घ्यादिपात्राणां स्थापनं पूजनं ततः ।
देहविन्यस्तमन्त्राणां गर्भद्वारस्थपूजनम् ॥ १८८ ॥

चण्डं चैव प्रचण्डं च गर्भद्वारे प्रपूजयेत् ।
तथाग्रमण्टपद्वारे यजेद्धातृविधातृकौ ॥ १८९ ॥

कृत्वैवं द्वारयागं तु प्रविश्याभ्यन्तरं ततः ।
फणीश्वरं समारभ्य योगपीठं प्रकल्पयेत् ॥ १९० ॥

गणनाथादिकांश्चैव समभ्यर्च्य यथाविधि ।
ततः सुदर्शनं देवं समावाह्य तु पूर्ववत् ॥ १९१ ॥

मन्त्रन्यासं ततः कुर्यात्सृष्टिन्यासादित्रयम् ।
स्थानेषु हृदयादीनि भूषणानि तथैव च ॥ १९२ ॥

ततश्चास्त्रवराणां तु ह्यष्टकं चापि विन्यसेत् ।
इच्छाशक्तिं मनस्तत्त्वं विन्यसेच्च स्वदेहवत् ॥ १९३ ॥

लयभोगौ च कृत्वाथ ध्यायेद्देवं सुदर्शनम् ।
सहस्रारं महाचक्रमयुताग्निचयोत्कटम् ॥ १९४ ॥

षडध्वमयमुद्भ्रान्तं भगवच्छक्तिजृम्भितम् ।
अक्षस्थं परमात्मानं नारायणमनामयम् ॥ १९५ ॥

चक्ररूपिणमीशानं दिव्यकुङ्कुमसन्निभम् ।
पिङ्गाक्षं पिङ्गकेशाढ्यं रक्ताम्बरधरं विभुम् ॥ १९६ ॥

महौजसं महाकायं भुजैरष्टभिरन्वितम् ।
दंष्ट्रानिष्ठ्यूतघोराग्निज्वालाकोलाहलाकुलम् ॥ १९७ ॥

कुटिलभ्रुकुटीभङ्गभङ्गुरालकषट्पदम् ।
ललाटनयनोद्गीर्णज्वालाज्वलितदिङ्मुखम् ॥ १९८ ॥

ऊर्ध्वज्वालगणालीढकिरीटतटशोभितम् ।
श्रीवत्सकौस्तुभोरस्कं दिव्यमालाविभूषितम् ॥ १९९ ॥

उद्यज्जानुमनेकास्त्रं स्थितं परमशोभनम् ।
पद्माङ्कुशौ च मुसलं चक्रमत्युग्रतेजसम् ॥ २०० ॥

शङ्खं च सशरं चापं पाशं कौमोदकीं क्रमात् ।
मुख्यदक्षिणहस्तादि मुख्यवामकरावधि ॥ २०१ ॥

दधानमतुलं वीरं दिव्याभरणभूषितम् ।
निजाट्टहाससन्त्रस्तदैत्यदानवसञ्चयम् ॥ २०२ ॥

अयुतायुतवह्नीनामास्पदे दीप्ततेजसाम् ।
अध्वषट्कमये चक्रे चक्रिणं चक्रमुत्तमम् ॥ २०३ ॥

ध्यायेदेवंविधं देवं चिन्तितार्थफलप्रदम् ।
ध्यायेच्च हृदयादीनि किरीटादीनि पूर्ववत् ॥ २०४ ॥

आयुधानामथ ध्यानं शृणुध्वं द्विजसत्तमाः ।
चक्रशङ्खगदाः पद्मं प्राग्वद्ध्यायेद्गुरूत्तमः ॥ २०५ ॥

कृशाङ्गं दीर्घबाहुं च पिङ्गलाक्षं तु चाङ्कुशम् ।
विकरालमुखं रौद्रं भिन्नाञ्जनगिरिप्रभम् ॥ २०६ ॥

कृशोदरं च मुसलमग्निज्वालावलीवृतम् ।
अङ्गारराशिसदृशं प्रलम्बमतिनिष्ठुरम् ॥ २०७ ॥

नीलोत्पलदलश्याममिष्वस्त्रं बाणविग्रहम् ।
नानारूपं च निशितं दीर्घदिग्बन्धविक्रमम् ॥ २०८ ॥

कार्मुकं हेमगौरं च किङ्किणीजालमण्डितम् ।
आस्फोटयन्तं स्वकरौ महाजलदनिःस्वनम् ॥ २०९ ॥

पाशं फणिगणाकीर्णं विद्युत्जिह्वं भयानकम् ।
हेमालिपाण्डुराभं च घोरास्यं रक्तलोचनम् ॥ २१० ॥

ध्येयाः स्वरुचिसंयुक्ता द्विभुजाः पुरुषोत्तमाः ।
एतेऽस्त्रनायकाः सर्वे विभोराज्ञाप्रतीक्षकाः ॥ २११ ॥

प्रोत्थिता विचलन्तश्च सुसमैः स्थानकैः स्थिताः ।
श्रोणीतटार्पितकराश्चामरव्यजनोद्यताः ॥ २१२ ॥

सपद्मं तु किरीटाद्यं वर्जयित्वा चतुष्टयम् ।
तर्जयन्तश्च दुष्टौघमन्येषां दक्षिणं करम् ॥ २१३ ॥

स्मर्तव्यं ध्यानकाले तु सर्वेषामथ मस्तके ।
ध्येयं स्वकं स्वकं चिह्नं सुप्रसिद्धं निराकृति ॥ २१४ ॥

अधिष्ठातृक्रमस्तेषां कथ्यते मुनिसत्तमाः ।
ज्ञातव्यश्चाङ्कुशः कामो मुसलं नागनायकः ॥ २१५ ॥

शब्दादयः सायकास्त्रं धनुर्विद्धि समीरणम् ।
पाशो मायेति विज्ञेय एवं ध्यात्वा समर्चयेत् ॥ २१६ ॥

आसनाद्यैश्च सांस्पर्शैर्हृदयङ्गमपश्चिमैः ।
प्रीणयेत्तु विधानेन होमान्तं वा जपान्तिमम् ॥ २१७ ॥

एवमेव स्वयंव्यक्तं दिव्यं सैद्धमथापि वा ।
स्थापितं मनुजैर्वापि शैलमृल्लोहसम्भवम् ॥ २१८ ॥

अष्टबाहुं चतुर्बाहुं तथा षोडशबाहुकम् ।
चलस्थिरविभागेन स्थापितं च यथारुचि ॥ २१९ ॥

त्रिकालमर्चयेद्देवं सर्वानिष्टनिवारकम् ।
नैमित्तिकानि काम्यानि नित्यानि यजनानि च ॥ २२० ॥

विशेषेणैव कार्याणि विना स्वापं महोत्सवम् ।
शान्तिके पौष्टिके चैव तथैवाप्ययनादिषु ॥ २२१ ॥

ध्यानेन पूजितेनैव हुतेन जपितेन च ।
समीहितानि पूर्यन्ते भक्तानां भावितात्मनाम् ॥ २२२ ॥

Unnummerierter abschließender Halbvers; redaktionelle Kennung 222z.

इति सम्यक् समाख्यातं परं सौदर्शनार्चनम् ।

इति श्रीपाञ्चरात्रे ईश्वरसंहितायां लक्ष्मीसुदर्शनार्चनविधिर्नाम सप्तमोऽध्यायः ॥


Kapitel 8 – गरुडादिपरिवारार्चनविधिः / garuḍādiparivārārcanavidhiḥ

Siehe deutsche Übersetzung und Texthinweise.

मुनयः ।

भगवन्मुनिशार्दूल भगवच्छास्त्रकोविद ।
गरुडप्रमुखानां च पूजनं प्रागुदीरितम् ॥ १ ॥

तद्विधानं विशेषेण प्रकाशय कृपानिधे ।
नारदः ।
शृणुध्वं मुनयः सर्वे गरुडस्यार्चनं पुरा ॥ २ ॥

येन विज्ञातमात्रेण वाञ्छितं साधकोऽश्नुते ।
विष्णोः सङ्कर्षणाख्यस्य विज्ञानबलशालिनः ॥ ३ ॥

मूर्तिर्ज्ञानबलाख्या या सर्वाधारस्वरूपिणी ।
महिमेति जगद्धातुर्विज्ञेयो विहगेश्वरः ॥ ४ ॥

सर्वरोगभयघ्नश्च क्षेपकः सर्वविद्विषाम् ।
ततस्तमर्चयेन्नित्यं प्रासादे स्थाप्य मन्त्रवित् ॥ ५ ॥

प्राङ्गणे प्रथमे वाथ द्वितीये मूलमन्दिरात् ।
अग्रदेशे प्रकुर्वीत प्रासादं मण्डपाकृतिम् ॥ ६ ॥

चतुर्द्वारसमोपेतं वर्गत्रयसमन्वितम् ।
वर्गषट्कान्वितं वाथ सर्वालङ्कारशोभितम् ॥ ७ ॥

मूलगेहात्त्रिभागोच्चमर्धोच्चं वा सविस्तरम् ।
तस्मिन् ब्राह्मेऽथ दिव्ये वा दिव्ययुक्तेऽथ मानुषे ॥ ८ ॥

संस्थाप्य लोहजां वाथ शैलीमर्चां यथोदिताम् ।
त्रिकालमर्चयेन्नित्यं मुख्यमूर्त्यर्चनान्तिमे ॥ ९ ॥

तद्विधानं विशेषेण मन्त्रपूर्वमिहोच्यते ।
प्रणवं पूर्वमुद्धृत्य पक्षिशब्दमनन्तरम् ॥ १० ॥

पञ्चाक्षरो महामन्त्रः स्वाहान्तः सम्प्रकीर्तितः ।
मन्त्रार्णानि सबिन्दूनि प्रागोङ्कारान्वितानि च ॥ ११ ॥

समुच्चार्याथ तुर्यान्तैर्ज्ञानाद्यैश्च हृदादिभिः ।
अनेत्रैरस्त्रपर्यन्तैरङ्गान्येतानि वै द्विजाः ॥ १२ ॥

प्राङ्मूलमन्त्रमध्याद्यव्यत्ययाद्विषहा भवेत् ।
सोऽयं मन्त्रः समाख्यातस्त्रिदशैरपि दुर्लभः ॥ १३ ॥

पञ्चाक्षर इति ख्यातो गारुडो मुनिसत्तमाः ।
पञ्चाङ्गानि यथापूर्वमक्षरैः स्युः सबिन्दुकैः ॥ १४ ॥

साङ्गेनानेन मन्त्रेण स्थापनीयो विधानतः ।
मूलालयगते बिम्बे सुस्थिते वाथ यानगे ॥ १५ ॥

स्थितैव गारुडी मूर्तिर्याने वा गमनोन्मुखी ।
शयने चासने चैव त्वासीना वाथ सुस्थिता ॥ १६ ॥

द्वारावरणदेवानां ध्यानाध्याये विशेषतः ।
ध्वजारोहेऽपि सुव्यक्तं लक्षणं चास्य वक्ष्यते ॥ १७ ॥

एवं ज्ञात्वा यथाकालं तन्मन्त्रनिरतो द्विजाः ।
स्नात्वा तदीयमन्त्रेण कृतपादावनेजनः ॥ १८ ॥

उपस्पृश्य यथान्यायं प्रासादं सम्प्रविश्य च ।
स्वासने सुखमासीनः प्राङ्मुखो वाप्युदङ्मुखः ॥ १९ ॥

करशुद्धिं च दिग्बन्धं प्राणायामं समाप्य च ।
भूतशुद्धिं च विधिवन्मन्त्रविन्यस्तविग्रहः ॥ २० ॥

पक्षीशमुद्रां बद्ध्वाथ हृदयाम्भोरुहोदरे ।
स्वानन्दधामनिष्ठस्य देवस्य चतुरात्मनः ॥ २१ ॥

सङ्कर्षणांशात्सम्पूर्णविज्ञानबलसङ्कुलात् ।
अवतार्यामृतैर्भोगैर्जपान्तं प्राग्वदर्च्य च ॥ २२ ॥

ततो मूर्तैर्यजेद्बाह्ये प्रागुक्तैर्भोगसञ्चयैः ।
पात्रशिष्टैश्च देवान्नैः साधितैः पृथगेव वा ॥ २३ ॥

तदर्थं कल्पयेत्प्राग्वदर्घ्यार्थं पात्रपञ्चकम् ।
द्वितयं चाथ वैकस्मिन् पाद्यं स्नानीयवारि च ॥ २४ ॥

अर्घ्याचामे तदन्यस्मिन्नेकस्मिन् सकलं तु वा ।
प्राग्वत्स्वदेहविन्यस्तान् मन्त्रानभ्यर्च्य मन्त्रवित् ॥ २५ ॥

अर्घ्याद्यैर्धूपपर्यन्तैस्ततो द्वारचतुष्टये ।
वास्त्वीशं क्षेत्रनाथं च द्वारलक्ष्मीं स्वमन्त्रतः ॥ २६ ॥

चण्डाद्यं च गणं प्राग्वदासनं कल्पयेत्ततः ।
शेषपूर्वं च धर्माद्यमष्टकं विन्यसेत्क्रमात् ॥ २७ ॥

तदूर्ध्वेऽव्यक्तपद्मं च धामत्रयसमन्वितम् ।
समभ्यर्च्य च गन्धाद्यैर्गणनाथादिकानपि ॥ २८ ॥

हृत्पद्मकर्णिकामध्ये मानसैरर्चितं पुरा ।
स्वविद्यया समावाह्य स्वस्थानाद्बिम्बहृत्कजे ॥ २९ ॥

सकलीकृत्य विधिवदङ्गभूषणलाञ्छनैः ।
किरीटं वनमालां च विन्यस्य तदनन्तरम् ॥ ३० ॥

अनन्तादींश्च नागेशान् न्यसेद्वामकरादिषु ।
सत्याख्यया दक्षिणतो बलशक्त्या स्वरूपया ॥ ३१ ॥

गणित्रकं च मन्दारकुसुमस्तबकं तथा ।
कलशं चामृताधारं फणीन्द्रं दक्षिणादितः ॥ ३२ ॥

शक्तिः प्रागुदिता तस्य बलधर्मस्वरूपिणी ।
पक्षीशमुद्रां सन्दर्श्य लययागं समाचरेत् ॥ ३३ ॥

भोगयागश्च कर्तव्यः पद्मपीठतलोपरि ।
प्रागादिदिक्पत्रेषु हृदयादीनि पूर्ववत् ॥ ३४ ॥

विदिक्पत्रेषु चैवास्त्रमेषां वर्णानि पूर्ववत् ।
रूपलावण्यभूषाद्यैर्मूलमन्त्रशरीरवत् ॥ ३५ ॥

किरीटं वनमालां च न्यसेद्देशिकसत्तमः ।
पुरस्तात्पृष्ठतश्चास्य दक्षिणोत्तरयोः क्रमात् ॥ ३६ ॥

चतुष्टयक्रमेणैव शेषाद्याः पन्नगेश्वराः ।
अग्नीशरक्षोवायव्यकोणेषु विहगेशितुः ॥ ३७ ॥

चतुष्टयं गणित्राद्यं विन्यसेत्तु यथाक्रमम् ।
दक्षिणे विहगेशस्य सत्याख्या कर्णिकोपरि ॥ ३८ ॥

प्राणापानसमानोदानव्यानप्राणरूपिणः ।
मध्यस्थस्य खगेशस्य बहिः प्रागादितः क्रमात् ॥ ३९ ॥

सत्यः सुपर्णो गरुडस्तार्क्ष्यश्च विहगेश्वरः ।
पञ्चात्मकस्य प्राणस्य विकारस्त्वेष पञ्चधा ॥ ४० ॥

सत्याद्या दिक्षु चत्वारः कोणेषु विहगेश्वरः ।
ध्यानमेषां विशेषेण समासात्कथ्यतेऽधुना ॥ ४१ ॥

आचाङ्घ्रिगोचराः सर्वे यस्य देहस्तु पौरुषः ।
द्विभुजस्तुहिनाभस्तु स सत्यः प्राणदैवतम् ॥ ४२ ॥

सुपर्णः पद्मरागाभो निर्मलः स्वर्णलोचनः ।
गरुडः काञ्चनाभस्तु कुटिलभ्र्वरुणेक्षणः ॥ ४३ ॥

केकराक्षस्तु तार्क्ष्यो वै प्रावृड्जलदसन्निभः ।
द्रवत्कनकनेत्रस्तु शबलाभश्च पञ्चमः ॥ ४४ ॥

चतुर्भुजाः सुपर्णाद्याः सौम्यरूपा ह्यनाकुलाः ।
पतत्रिचरणाः सर्वे पक्षमण्डलमण्डिताः ॥ ४५ ॥

लम्बोदराः सुपीनाङ्गाः कुण्डलाद्यैर्विभूषिताः ।
कुटिलभ्रुववृत्ताक्षा वज्रतुण्डाः सिताननाः ॥ ४६ ॥

अपानादिसमीरणामाधिपत्येन संस्थिताः ।
महाबला महाकाया रक्ततुण्डोऽत्र पञ्चमः ॥ ४७ ॥

स्वस्वाङ्गुष्ठद्वयप्रोतगणित्रोभयपाणिना ।
पुष्पाञ्जलिधराः सर्वे मुख्येन विहगोत्तमाः ॥ ४८ ॥

सुपर्णः पश्चिमाभ्यां तु पाणिभ्यां दक्षिणादितः ।
मन्दारपुष्पस्तबकं दधद्विस्मयमुद्रिकाम् ॥ ४९ ॥

तथाविधाभ्यां गरुडस्ते धत्ते व्यत्ययेन तु ।
तार्क्ष्यः पश्चिमयोर्नित्यं धत्ते दक्षिणवामयोः ॥ ५० ॥

कद्रूं तथामृतं कुम्भं पञ्चमो विहगेश्वरः ।
दक्षिणेन सुधाकुम्भं वामेन तु फणीश्वरम् ॥ ५१ ॥

नित्योदितस्य व्यूहस्य तथा शान्तोदितस्य च ।
प्राणापानादिवायूनां पञ्चानामपि नामभाक् ॥ ५२ ॥

गरुडः परिवारत्वे ध्वजत्वेऽपि विशेषतः ।
योजनीयस्तथान्येषु सुषुप्त्यादिपदेषु च ॥ ५३ ॥

वासुदेवादिमूर्तीनां चतुर्णां क्रमशस्त्वमी ।
सत्याद्यास्तार्क्ष्यपर्यन्तास्तत्तन्मूर्त्यन्तरेषु च ॥ ५४ ॥

त्रिषु त्रिषु समादेयाः सत्याद्याः केशवादिषु ।
पद्मनाभादिमूर्तीनां पञ्चमो विहगेश्वरः ॥ ५५ ॥

परात्परपरव्यूहव्यूहान्तरतनोर्विभोः ।
प्रादुर्भावतनोश्चापि जगद्रक्षणकाङ्क्षिणः ॥ ५६ ॥

खगानां कारणत्वाच्च प्रागुक्तो वा खगेश्वरः ।
इति ते गरुडव्यूहप्रभावः सम्प्रकाशितः ॥ ५७ ॥

कुमुदाद्यास्ततो बाह्ये शक्राद्यास्तद्बहिः क्रमात् ।
तद्बहिः कुमुदादीनां भूतेशाश्चोत्कटादयः ॥ ५८ ॥

गणेशः पूजनीयो वा तदग्रे बलिमण्डपे ।
महापीठेऽथ वा पूज्याः गरुडस्यानुयायिनः ॥ ५९ ॥

पालयन्तश्च तद्भक्तान् दिव्यान्यायतनान्यपि ।
ध्यात्वैवमर्चनं कुर्यादासनाद्यैर्यथोदितैः ॥ ६० ॥

चतुःषष्ट्युपचारैर्वा द्वात्रिंशद्भिस्तु वेतरैः ।
षोडशैरुपचारैर्वा मुख्यमध्याधमक्रमात् ॥ ६१ ॥

तन्निवेदितमन्नाद्यं नराणां रोगिणां सदा ।
वन्ध्यानां वनितानां च जयेच्छूनां च भूभुजाम् ॥ ६२ ॥

विषोपहतवेषाणां प्रदद्यात्संविभज्य च ।
आर्द्रायां प्रतिमासं तु विशेषेणैवमर्चयेत् ॥ ६३ ॥

उत्सवेषु विशेषेण भ्रामयेदुत्सवार्चया ।
इति सम्यक् समाख्यातं गरुडस्यार्चनं परम् ॥ ६४ ॥

विष्वक्सेनार्चनं त्वद्य पौष्करोक्तं तु कथ्यते ।
शृणुध्वं मुनयः सर्वे सावधानेन चेतसा ॥ ६५ ॥

पौष्कर उवाच ।

किमर्थमाह भगवन् विघ्नोच्छेदकं प्रभुम् ।
समस्तविघ्ननाथानां परमं कारणं च यत् ॥ ६६ ॥

विष्वक्सेनस्तु यष्टव्यो भोगभूमिगतेऽच्युते ।
कैर्द्रव्यैः केन विधिना किं करोत्यभिपूजितः ॥ ६७ ॥

श्रीभगवान् ।

भाविनां भाविनो विघ्नाः सद्धर्मविनिवारकाः ।
न यागयज्ञधर्माद्यैर्मन्ये संसारिणां शुभम् ॥ ६८ ॥

तत्प्रवृत्तौ तु ये विघ्नाः प्रोत्साहविनिवारकाः ।
व्यपयान्ति च ते सर्वे चक्रज्वालाभयार्दिताः ॥ ६९ ॥

प्रागार्जितेन केनापि कर्मणा चैव साम्प्रतम् ।
अनुभुङ्क्ते फलं यागाद्विविधं चाग्रतः स्थितम् ॥ ७० ॥

तस्य संरक्षणार्थं तु विष्वक्सेनस्तदैव हि ।
काले यागावसानाख्ये द्वितीये वासरेऽथवा ॥ ७१ ॥

कृत्वा निर्व्याकुलं चित्तं यष्टव्यः फलसिद्धये ।
यागनिर्वर्तनोच्छेषैरम्लानैरर्घ्यपूर्वकैः ॥ ७२ ॥

उपचारमयैर्भोगैः सर्वैराभरणादिकैः ।
नैवेद्यैर्मधुपर्काद्यैर्मुख्यमूर्तिनिवेदितैः ॥ ७३ ॥

द्विजप्रदानशिष्टैस्तु स्वयम्प्राशनवर्जितैः ।
तथा चर्वन्तरस्थैश्च ह्यपरेभ्योऽनिवेदितैः ॥ ७४ ॥

संस्कृतैरूष्मलोपेतैर्मधुराज्यपरिप्लुतैः ।
पौष्करः ।
क एषोऽतुलवीर्यो हि यस्य दूराद्द्रवन्ति च ॥ ७५ ॥

विघ्ना निमेषमात्रेण त्रैलोक्योन्मूलनक्षमाः ।
भगवान् ।
कालवैश्वानराख्या या मूर्तिस्तुर्यात्मनो विभोः ॥ ७६ ॥

स एव द्विजदेवो हि विष्वक्सेनः प्रकीर्तितः ।
स्थित आहवनीयादिभेदेन मखयाजिनाम् ॥ ७७ ॥

ऋक्पूतं हुतमादाय तर्पयत्यखिलं जगत् ।
एवं मन्त्रमयाद्यागात्सात्त्विकाद्ब्रह्मभावितात् ॥ ७८ ॥

सम्प्राप्य गुरुमूर्तेर्वै प्रापणं मन्त्रसंस्कृतम् ।
अनाहूतामराणां च सर्वलोकनिवासिनाम् ॥ ७९ ॥

स्वयं संविभजत्याशु सदनुग्रहकाम्यया ।
ज्ञात्वैवं तस्य माहात्म्यं वृत्तिस्थं फलसिद्धये ॥ ८० ॥

त्रिसन्ध्यं नित्यपूजायां बल्यन्ते तं समर्चयेत् ।
वत्सरोत्सवपूर्वेषु तथा वैशेषिकेष्वपि ॥ ८१ ॥

वृत्त्याद्याधारभूतेषु क्रमात्कृत्वा पुरार्चनम् ।
केवलं वाथ होमान्तं स्वशक्त्या विभवेन वा ॥ ८२ ॥

विस्तरेणाथ वा शश्वत्ततः कमलसम्भव ।
कृत्वा पर्णपुटे तोयं पात्रे वा कलशेऽव्रणे ॥ ८३ ॥

तमात्मनोत्तरे भागे ह्यर्चयित्वा निवेद्य च ।
अथापरस्मिन् भाण्डे तु तदस्त्रपरिमन्त्रिते ॥ ८४ ॥

नैवेद्याद्भागमादाय तथा चर्वन्तरस्थितात् ।
ओदनादंशमुद्धृत्य दध्याज्यव्यञ्जनैः सह ॥ ८५ ॥

समालभनपुष्पार्घ्यकुशाम्बुपरिभावितम् ।
तद्धृन्मन्त्रेण बहुशो ह्यभिमन्त्र्याब्जसम्भव ॥ ८६ ॥

तन्मूलमन्त्रमुच्चार्य ध्यानभावनयान्वितम् ।
प्राक्सन्निवेशिते भाण्डे समुत्कीर्य पिधाय तत् ॥ ८७ ॥

प्रणवाष्टकजप्तं वा तन्नाम्ना सह पौष्कर ।
एकं वै सोदकं पात्रं सनैवेद्यं जलाप्लुतम् ॥ ८८ ॥

सर्वत्र सर्वदा यागे कुर्यात्प्राग्विधिना विना ।
तच्चापि क्ष्मातले कूपे तटाकादौ तु चोत्किरेत् ॥ ८९ ॥

ज्ञात्वैवं यत्नतो मन्त्री तन्मन्त्रेण समर्चयेत् ।
साङ्गं मन्त्रमथो वक्ष्ये यथावदवधारय ॥ ९० ॥

आक्रान्तमनलेनैव प्राणाख्यं बीजनायकम् ।
त्रैलोक्यैश्वर्यदोपेतमूर्जोपरिगतं तु तत् ॥ ९१ ॥

ततो वराहमादाय भूधरव्योमभूषितम् ।
विष्वक्सेनाय तदनु सनमस्कं पदं न्यसेत् ॥ ९२ ॥

प्रणवाद्यो ह्ययं मन्त्रो विष्वक्सेनस्य कीर्तितः ।
पूर्वबीजं हि यच्चास्य उकारस्वरवर्जितः ॥ ९३ ॥

आकाराद्यैश्च षड्दीर्घैर्भिन्नमङ्गगणं नयेत् ।
प्रणवेन स्वनाम्नाथ जातिभिः षड्भिरन्वितम् ॥ ९४ ॥

नमः स्वाहादिभिश्चायं विष्वक्सेनस्य वाचकः ।
साङ्गेनानेन मन्त्रेण प्रतिष्ठाप्यो विधानतः ॥ ९५ ॥

प्रथमावरणे वाथ द्वितीयावरणेऽथवा ।
ईशानसोमदिङ्मध्ये प्रासादे दक्षिणामुखे ॥ ९६ ॥

मूलालयोच्चान्नीचे च कल्पिते गर्भमन्दिरे ।
ब्रह्मस्थानेऽथवा दिव्ये मूलबेरांशमानतः ॥ ९७ ॥

कल्पितस्य शिलादारुलोहपूर्वैस्तु वस्तुभिः ।
पूजनं मुख्यकल्पं स्यादनुकल्पेऽग्रमण्डपे ॥ ९८ ॥

प्रागुक्तकोणभूमागे मेखलात्रयनिर्मिते ।
पीठेऽवतार्य गगनादमूर्तं मूर्तमेव वा ॥ ९९ ॥

केवलं बलिदानेन तर्पयेदुदकेन च ।
चतुःस्थानावतीर्णस्य मण्डलादिषु वृत्तिषु ॥ १०० ॥

परव्यूहादिरूपस्य देवस्य यजनावधौ ।
प्रासादान्तर्गतस्यापि स्वस्थानस्थस्य मण्डपे ॥ १०१ ॥

पूजनं विधिवत्कार्यमारम्भदिवसादितः ।
सर्वकर्मावसाने तु मण्डलादिगते विभौ ॥ १०२ ॥

स्वे स्वे धाम्नि विसृष्टे तु ध्यात्वा मण्डलमध्यतः ।
पूजयेद्विधिवन्मन्त्री द्वितीये वासरेऽपि च ॥ १०३ ॥

भगवद्यजनार्थं तु प्रासादस्थं विशेषतः ।
यथाविधि समभ्यर्च्य नैवेद्यैस्तन्निवेदितैः ॥ १०४ ॥

अर्घ्याद्यैरखिलैरन्यैस्ताम्बूलाद्यैश्च नित्यशः ।
जलस्थलादिनिलयांस्तद्भूतांश्चाथ तर्पयेत् ॥ १०५ ॥

प्रासादस्थस्य तस्याथ देहमानानुसारतः ।
कृत्वा हेमादिभिर्द्रव्यैर्विशेषार्चां विधानतः ॥ १०६ ॥

उग्रां वा शान्तरूपां वा विघ्नविध्वंसनक्षमाम् ।
चतुर्भुजां वा द्विभुजामासीनां वाथ सुस्थिताम् ॥ १०७ ॥

द्विभुजस्य चतुर्हस्तामन्यथा वा प्रकल्पिताम् ।
वैशेषिकेषु प्राप्तेषु पूजयेदुत्सवार्चया ॥ १०८ ॥

मृगयाद्युत्सवे प्राप्ते यत्र यत्र व्रजेत्प्रभुः ।
तत्र तत्र नयेदेनां निर्विघ्नफलसिद्धये ॥ १०९ ॥

ध्यानमस्य प्रवक्ष्यामि यथावच्छृणु सत्तम ।
नवदूर्वाङ्कुराभं च त्वीषत्पीतलकान्तिभाक् ॥ ११० ॥

चतुर्दंष्ट्रं चतुर्बाहुं चतुष्किष्कुं चतुर्गतिम् ।
पूर्णाङ्गं केसरिस्कन्धं पृथूरःस्थलराजितम् ॥ १११ ॥

दक्षिणावर्तनिम्नेन नाभीरन्ध्रेण शोभितम् ।
आजानुबाहुं श्रीमन्तं पिङ्गलार्चिर्जटाधरम् ॥ ११२ ॥

द्रवत्कनकपिङ्गाक्षं चिपिटं पृथुनासिकम् ।
सितदीर्घनखश्रेणीशोभितं कुटिलभ्रुवम् ॥ ११३ ॥

विस्तीर्णगण्डवदनं बालेन्दुकुटिलोपमैः ।
नवकिंशुकवर्णाकारैर्लोमभिः पूर्णविग्रहम् ॥ ११४ ॥

शोभनेन प्रलम्बेन पृथुना प्रोन्नतेन च ।
माणिक्यकुण्डलाढ्येन युक्तं श्रोत्रद्वयेन तु ॥ ११५ ॥

मकुटेनोन्नतेनैव हाराद्यैरुपशोभितम् ।
चित्रकौशेयवसनं विचित्रस्रग्विमण्डितम् ॥ ११६ ॥

प्रलयद्वादशादित्यसहस्रगुणदीधितिम् ।
ईषदूर्ध्वं तथा तिर्यग्विनिपातितलोचनम् ॥ ११७ ॥

कुन्देन्दुकान्तिदशनं किञ्चिद्विहसिताननम् ।
स्वभावसौम्यममलं मायाक्रोधोपरञ्जितम् ॥ ११८ ॥

सविलासचलत्पादन्यासस्थानकसंस्थितम् ।
स्वेनान्तःकरणेनैवं भावयन्तं परं पदम् ॥ ११९ ॥

अङ्गुष्ठादिकनिष्ठान्तं वामपाणौ लतात्रयम् ।
नमयित्वोन्नता चैका घ्राणाग्रे विनियोजिता ॥ १२० ॥

सद्विघ्नभीतिप्रदया त्वनया मुद्रयान्वितम् ।
रथाङ्गशङ्खहस्तं च लम्बमानगदाधरम् ॥ १२१ ॥

श्रोणीतटनिविष्टेन सावहेलनपाणिना ।
इत्थं रूपधरं देवमनेकाद्भुतविग्रहम् ॥ १२२ ॥

उग्ररूपमिमं ध्यायेदाग्नेयमनलप्रभम् ।
दंष्ट्रातर्जननिर्मुक्तं साभयं शान्तलक्षणम् ॥ १२३ ॥

मुख्यदक्षिणहस्तेन भक्तानामभयप्रदम् ।
तथाविधेन वामेन लम्बमानगदाधरम् ॥ १२४ ॥

पृष्ठदक्षिणवामाभ्यां चक्रशङ्खधरं क्रमात् ।
एवं चतुर्भुजस्योक्तं द्विभुजस्यावधारय ॥ १२५ ॥

उक्ताभ्यामुग्रशान्ताभ्यां चक्रशङ्खधरं विना ।
प्रागुक्तद्वितयं वाथ द्वितीयं चिन्तितं तु वा ॥ १२६ ॥

गदाविरहितं वाथ वामकट्यवलम्बितम् ।
स्थानकेनासने वाममूरुदेशे निवेशितम् ॥ १२७ ॥

गोपनीमुद्रया वाथ कटकाकारमुद्रया ।
उभाभ्यामपि पाणिभ्यां विश्रान्तं पीठपृष्ठतः ॥ १२८ ॥

अवष्टभ्य गदामूर्ध्वे मातङ्गमुसलाकृतिम् ।
प्राक्पद्मदलमाक्रम्य पादाभ्यां कर्णिकासनम् ॥ १२९ ॥

सुस्थितं कर्णिकायां वा प्राग्वदन्यैरलङ्कृतम् ।
एवं ध्यानविशेषेषु त्वेकं स्थाप्य विधानतः ॥ १३० ॥

समर्चयीत कालेषु प्रागुक्तेषु स्वमन्त्रतः ।
चतुःस्थानार्चनार्थं तु मण्डलानां तु मध्यतः ॥ १३१ ॥

पूजितेष्वथ मन्त्रेषु नियुक्तेषु स्वधामनि ।
ईशानसोमदिङ्मध्ये चतुरश्रे पुरेऽथवा ॥ १३२ ॥

द्वारशोभाग्रनिर्मुक्ते रेखात्रितयभूषिते ।
तदन्तरेऽर्धचन्द्रस्थे कमलेऽष्टदलान्विते ॥ १३३ ॥

साम्राज्येन नियुक्तेऽस्मिन् विघ्नानामच्युतेन तु ।
पूजिते विधिना शश्वदभीष्टं साधकोऽश्नुते ॥ १३४ ॥

तस्मान्मन्त्रैस्तदीयैस्तु स्नात्वा पूर्वं विधानतः ।
प्रक्षाल्य पाणिपादौ वा त्वाचम्य न्यासमाचरेत् ॥ १३५ ॥

तदधिष्ठातृकत्वेन धारणाभिः स्वविग्रहम् ।
शोधयित्वा पुनर्न्यस्य षडङ्गादि करादितः ॥ १३६ ॥

प्राग्वदानन्दधामाच्च ह्यवतार्य तथा प्रभुम् ।
इष्ट्वा हृत्पुण्डरीके तु स्वापेक्षां निष्कलात्मकम् ॥ १३७ ॥

तमेव सकलत्वेन यातं ध्यात्वा बहिर्यजेत् ।
प्राग्वदर्घ्यादिपात्राणि प्रतिष्ठाप्य स्वविग्रहे ॥ १३८ ॥

विन्यस्तमन्त्रानभ्यर्च्य द्वारदक्षिणसौम्ययोः ।
चण्डप्रचण्डसदृशौ बलप्रबलसंज्ञितौ ॥ १३९ ॥

वायुवेगं महाप्राणं द्वाराग्रे गरुडोपमम् ।
समभ्यर्च्य यथापूर्वं प्राग्दत्त्वा कमलासनम् ॥ १४० ॥

धर्माद्यनन्तपर्यन्तं पञ्चकं नवकं तु वा ।
सत्त्वेनाच्छादितं पश्चात्केवलेनाम्बुजं स्मरेत् ॥ १४१ ॥

तस्मिन्नावाह्य तं देवं हृदये ध्यानचोदितम् ।
सन्निधानादिकं कृत्वा मुद्राबन्धपुरःसरम् ॥ १४२ ॥

समभ्यर्च्यार्घ्यपुष्पाद्यैर्लययागविधानतः ।
कर्णिकामध्यगं तस्य हृदाद्यं मुख्यमन्त्रवित् ॥ १४३ ॥

पद्मच्छदान्तरस्थाश्च तदाकारद्युतिं विना ।
किन्त्वङ्गानां च सर्वत्र ध्यानमुक्तं सितादिकम् ॥ १४४ ॥

क्रियाख्यां तैजसीं शक्तिं स्वाहापर्यायरूपिणीम् ।
लक्ष्मीरूपधरां प्रीतां सर्वालङ्कारमण्डिताम् ॥ १४५ ॥

प्रियानुरूपां सततं स्वासीनां वाथ सुस्थिताम् ।
दक्षिणोत्तरयोगेन चामरोभयधारिणीम् ॥ १४६ ॥

ॐ हीं क्रियायै स्वाहान्तो मन्त्रोऽयं सम्प्रकीर्तितः ।
अनेन स्वामिनो देहात्तैजसाद्विघ्नसूदनात् ॥ १४७ ॥

वामपार्श्वेऽवतार्यास्य भोगयागावसानतः ।
गजाननो जयत्सेनो हरिवक्त्रो महाबलः ॥ १४८ ॥

कालप्रकृतिसंज्ञश्च चतुर्थः कमलोद्भव ।
गणराजेश्वराश्चैते चत्वारश्चण्डविग्रहाः ॥ १४९ ॥

आज्ञाप्रतीक्षकाश्चास्य सुश्वेतचामरोद्यताः ।
विनायकादयश्चैव विघ्नेशप्रवरास्तु ये ॥ १५० ॥

अमीषां गणनाथानां नित्यमाज्ञानुपालिनः ।
ईशानादिषु कोणेषु पद्मबाह्ये स्थितान्न्यसेत् ॥ १५१ ॥

वीक्ष्यमाणा विभोर्वक्त्रं तत्तुल्यस्थानके स्थिताः ।
तद्वत्कराङ्किताः सर्वे किन्तु मुद्राविवर्जिताः ॥ १५२ ॥

ध्यानमेषां पृथग्भूतं शारीरमवधारय ।
भीमद्विपेन्द्रवदनं चतुर्दंष्ट्रं त्रिलोचनम् ॥ १५३ ॥

कम्बुग्रीवं चतुर्बाहुं पूर्णचन्द्रायुतद्युतिम् ।
हारनूपुरकेयूरमेखलादाममण्डितम् ॥ १५४ ॥

नानास्रग्गन्धवस्त्राढ्यमनौपम्यपराक्रमम् ।
ध्यायेद्गजाननमतो जयत्सेनं च संस्मरेत् ॥ १५५ ॥

महत्तुरङ्गवदनं पद्मरागाचलप्रभम् ।
द्रवच्चामीकराक्षं च त्वनेकाद्भुतविग्रहम् ॥ १५६ ॥

हरिवक्त्रमतो ध्यायेत्सटाच्छुरितमस्तकम् ।
निष्टप्तकनकप्रख्यं घोरघर्घरनिःस्वनम् ॥ १५७ ॥

मृगराड्वदनं विप्राः कल्पान्तानलवेगिनम् ।
कालप्रकृतिनामानं भावयेदञ्जनाद्रिवत् ॥ १५८ ॥

दंष्ट्राकरालवदनं पिङ्गलश्मश्रुलोचनम् ।
झषकुण्डलभृद्रौद्रं मीनवन्निम्ननासिकम् ॥ १५९ ॥

गणराजेश्वरा ह्येते महापुरुषलक्षणैः ।
संयुक्ताश्चाखिलैर्विप्राः आपादात्कन्धरावधि ॥ १६० ॥

यत्किञ्चिन्मण्डनं वस्तु तदाद्योक्तं स्मरेत्त्रिषु ।
एतेषामर्चनं कुर्यात्स्वनाम्ना प्रणवादिना ॥ १६१ ॥

नमोन्तेनाब्जसम्भूत नानासिद्धिफलाप्तये ।
अष्टाष्टकैस्तदर्धैर्वा तस्यार्धैर्वा यथारुचि ॥ १६२ ॥

क्षिप्रकर्मप्रसिद्ध्यर्थमष्टाभिर्वा समर्चयेत् ।
तन्निवेदितमन्नाद्यमर्घ्यस्रक्चन्दनादिकम् ॥ १६३ ॥

न देयं कस्यचित्प्राज्ञैरैहिकामुष्मिकाप्तये ।
स्वाश्रितानामनुज्ञातं भूतानां चैव तेन तत् ॥ १६४ ॥

नित्यं तदूर्ध्वतस्तेषामाशास्थगितचारिणी ।
अत एव हि भोक्तॄणामर्थहानिं ददाति तत् ॥ १६५ ॥

नूनमाशागणं सर्वं ध्वंसयन्ति सदैव हि ।
तस्माद्ददाति योऽन्येषां स्वयमश्नाति वाधमः ॥ १६६ ॥

मोहादुपेक्षते वापि स याति नरकेऽधमः ।
अतः श्रेयोऽर्थिना कार्यः परिहारः सदैव हि ॥ १६७ ॥

तच्चापि क्ष्मातले कूपे तटाकादौ तु चोत्क्षिपेत् ।
नोपभोगं यथा याति काकादिष्वब्जसम्भव ॥ १६८ ॥

यस्मात्सन्मन्त्रपूतं तत्प्राधान्येनापि वर्धते ।
अतो निषिद्धः पापानामपापानां विशेषतः ॥ १६९ ॥

इति सम्यक् समाख्यातं विष्वक्सेनार्चनं परम् ।
पूजनं कुमुदादीनां शृणुध्वमथ योगिनः ॥ १७० ॥

द्वारावरणदेवानां सुस्थितानां स्वसद्मसु ।
चलानां वाथ हेमाद्यैर्निर्मितानां यथाविधि ॥ १७१ ॥

त्रिकालं वा द्विकालं वा सङ्कटे त्वेककालकम् ।
तत्तन्मन्त्रेण कुर्वीत पूजामष्टोपचारतः ॥ १७२ ॥

इत्येवं वैनतेयादिपरिवारगणस्य च ।
पूजनं सर्वमाख्यातं सर्वसिद्धिफलप्रदम् ॥ १७३ ॥

इतोऽन्यच्छ्रोतुमिच्छा चेत्कथ्यतां मुनिसत्तमाः ।
मुनयः ।
भगवन् मन्दिरे विष्णोः स्थापिताः लोकपूजिताः ॥ १७४ ॥

विष्णुभक्ताः कथं पूज्यास्तद्विधानं वदस्व नः ।
नारदः ।
एकान्तिनो महाभागाः शठकोपपुरःसराः ॥ १७५ ॥

क्षोण्यां कृतावतारा ये लोकोज्जीवनहेतुना ।
शाण्डिल्याद्याश्च ये चान्ये पाञ्चरात्रप्रवर्तकाः ॥ १७६ ॥

प्रह्लादश्चैव सुग्रीवो वायुसूनुर्विभीषणः ।
ये चान्ये सनकाद्याश्च पञ्चकालपरायणाः ॥ १७७ ॥

भक्तोत्तमास्ते विज्ञेयास्तान् दिव्यायतनादिषु ।
चरस्थिरविभागेन लोहैर्वा शिलयापि वा ॥ १७८ ॥

स्वस्ववर्णाश्रमाचारसदृशाकृतिचेष्टितान् ।
लाञ्छितांश्चक्रशङ्खाभ्यां भुजयोर् दक्षिणादितः ॥ १७९ ॥

पद्मविष्टरमध्ये तु स्वासीनान् वाथ सुस्थितान् ।
ऋजुस्थितान्यथाशोभं पैशाचस्थानकेऽथवा ॥ १८० ॥

निर्माय च विधानेन प्राङ्गणे मण्डपेऽथ वा ।
प्रासादेष्वनुरूपेषु कल्पितेष्वग्रतो विभोः ॥ १८१ ॥

यथावकाशं वामे वा दक्षिणे वाथ पश्चिमे ।
स्वस्वमन्त्रैः प्रतिष्ठाप्य विधिवच्छुद्धयार्चयेत् ॥ १८२ ॥

शृणुध्वमथ तन्मन्त्रान् स्थापनादिषु कर्मसु ।
प्रधानपुरुषेशात्मतारकब्रह्मणाथवा ॥ १८३ ॥

अहं स तारकेणैव सविसर्गेण चान्तिके ।
आद्येन वा द्वितीयेन युक्त्या त्रितयेन वा ॥ १८४ ॥

संज्ञया योजनीयास्ते साङ्गयागस्त्वथोच्यते ।
ताराद्ययोर्द्वयोरेकं षोढा कृत्वा तदन्तिमे ॥ १८५ ॥

ज्ञानादिहृदयादीनि चतुर्थ्यन्तान्युदीरयेत् ।
प्रणवाधारयुक्तानि प्रागेवाङ्गान्यमूनि वै ॥ १८६ ॥

मन्त्रेणानेन वै भक्तान् पूजयेत्तु यथाविधि ।
प्राग्वत्स्नानादिकं कृत्वा सोर्ध्वपुण्ड्रः स्वलङ्कृतः ॥ १८७ ॥

पादौ प्रक्षाल्य चाचम्य प्रविश्य यजनालयम् ।
कवाटोद्घाटनं कुर्याद्द्वाःस्थाभ्यर्चनपूर्वकम् ॥ १८८ ॥

तन्मन्त्रेण प्रणम्याथ बिम्बशुद्ध्यादिकं तथा ।
प्रासादशोधनादीनि कृत्वा वै तस्य दक्षिणे ॥ १८९ ॥

पार्श्वे समुपविश्याथ करशुद्धिं समाचरेत् ।
दिग्बन्धं चैव सायामां भूतशुद्धिं समाप्य च ॥ १९० ॥

पुटीकृतेन ताराभ्यां भक्तमन्त्रेण मन्त्रवित् ।
नखान्तं मणिबन्धाद्यं प्राग्वत्पाणिद्वयं मृजेत् ॥ १९१ ॥

अङ्गानि चैव विन्यस्य पूर्वोक्तविधिना ततः ।
तुलसीनलिनाक्षाणां मालिकाद्वितयं तथा ॥ १९२ ॥

चक्रशङ्खौ पाणितलद्वये न्यस्य यथाक्रमम् ।
कृत्वैवं करविन्यासं ततस्तन्मन्त्रमुच्चरन् ॥ १९३ ॥

पाणिभ्यामालभेद्देहमामूर्ध्नश्चरणावधि ।
कृत्वैवं व्यापकन्यासं हृदयादीनि विन्यसेत् ॥ १९४ ॥

ततो मालाद्वयं कण्ठे चक्रशङ्खौ भुजद्वये ।
विन्यस्य हार्दीमुद्रां बद्ध्वा तादात्म्यमाश्रयेत् ॥ १९५ ॥

ततः स्वहृदयाम्भोजे देवस्य परमात्मनः ।
पादाधस्ताच्चेतनं तु विचिन्त्य तदन्तरम् ॥ १९६ ॥

तस्माच्चैतन्यमावाह्य यजेद्भोगैस्तु मानसैः ।
ततो बहिर्यजेद्भक्तं प्रागुक्तैर्भोगसञ्चयैः ॥ १९७ ॥

तदर्थं पञ्चपात्राणि चतुस्त्रिद्व्येकमेव वा ।
कल्पयित्वा ततो देहन्यस्तान् मन्त्रान् समर्चयेत् ॥ १९८ ॥

द्वारयागं ततः कुर्यादर्घ्याद्यैर्देशिकोत्तमः ।
सावित्रं सवितारं च गर्भद्वारस्य पार्श्वयोः ॥ १९९ ॥

सम्पूज्य तद्विमाने तु चतुर्दिक्षु यथाक्रमम् ।
भक्तमूर्तीः समभ्यर्च्य अर्घ्याद्यैर्मुनिसत्तमाः ॥ २०० ॥

ततोऽग्रमण्डपद्वारे दुर्गां गणपतिं यजेत् ।
इन्द्रादिलोकपालांस्तु प्रथमावरणादिषु ॥ २०१ ॥

सम्पूज्यावरणद्वारे त्विन्द्रं चेन्द्रजयं यजेत् ।
यद्वा द्वारेषु सर्वेषु तथैवावरणेषु च ॥ २०२ ॥

तत्तच्छिष्यगणानेव परिवारान् प्रकल्पयेत् ।
महापीठे यजेत्सर्वभूतेभ्यो नम इत्यथ ॥ २०३ ॥

गर्भगेहं सम्प्रविश्य कल्पयेदासनं गुरुः ।
धर्मादीन् चतुरः पीठकोणेष्वभ्यर्च्य पूर्ववत् ॥ २०४ ॥

सत्त्वेनाच्छादितं पश्चात्केवलेनाम्बुजं यजेत् ।
तत्रावतार्य तं भक्तं मन्त्रन्यासं समाचरेत् ॥ २०५ ॥

यथा देहे तथा बिम्बे लयोक्तविधिना ततः ।
समभ्यर्च्य ततो भोगयागं कुर्याद्यथाविधि ॥ २०६ ॥

प्रागादिपद्मपत्रेषु हृदयादीनि पूर्ववत् ।
विदिग्दलेषु चैवास्त्रं नेत्रं केसरजालगम् ॥ २०७ ॥

पीठोपरि दलाद्बाह्ये त्वाग्नेयेशानकोणयोः ।
मालाद्वयं तु पूर्वोक्तं चक्रशङ्खौ च पूजयेत् ॥ २०८ ॥

ततो ध्यायेद्विष्णुभक्तं सर्वलक्षणसंयुतम् ।
स्वस्ववर्णाश्रमाचारसदृशाकृतिचेष्टितम् ॥ २०९ ॥

बद्धाञ्जलिपुटं वाथ व्याख्यामुद्रासमन्वितम् ।
पद्मविष्टरमध्ये तु स्वासीनं वाथ सुस्थितम् ॥ २१० ॥

ललाटादिषु चाङ्गेषु ह्यूर्ध्वपुण्ड्रैरलङ्कृतम् ।
लाञ्छितं चक्रशङ्खाभ्यां भुजयोर्दक्षिणादितः ॥ २११ ॥

तुलसीनलिनाक्षाणां मालाद्वितयभूषितम् ।
एवं ध्यात्वा विष्णुभक्तं हृदयादींश्च पूर्ववत् ॥ २१२ ॥

ध्यात्वाथ पूजनं कुर्यादासनाद्यैर्यथोदितैः ।
द्वात्रिंशदुपचारैर्वा ह्यष्टभिर्वा द्विरष्टभिः ॥ २१३ ॥

जपान्तं वापि होमान्तं तत्तन्मन्त्रेण पूर्ववत् ।
अस्वातन्त्र्याद्बलिं तत्र न कदापि समाचरेत् ॥ २१४ ॥

तत्तज्जन्मदिने कुर्यात्तेषां वैशेषिकार्चनम् ।
सहैव देवदेवेन सङ्क्रान्त्यामयनादिषु ॥ २१५ ॥

कालेष्वेतेषु कर्तव्यमुत्सवभ्रमणादिकम् ।
पृथग्वाप्युत्सवः कार्यो ध्वजारोहणवर्जितः ॥ २१६ ॥

न होमो न बलिस्तीर्थं पारतन्त्र्ये विधिस्त्वयम् ।
स्वातन्त्र्ये चाग्रहारादौ विपिने वा नदीतटे ॥ २१७ ॥

सप्राकारं विमानं तु यथेष्टतलशोभितम् ।
कल्पयित्वा प्रयत्नेन रथ्याभिश्च परिष्कृतम् ॥ २१८ ॥

देशान्तरगतानां वा भगवल्लोकवासिनाम् ।
दृश्यरूपमदृश्यं वा देवसारूप्यतां गतम् ॥ २१९ ॥

स्थापयित्वा विधानेन प्रासादे मानुषे पदे ।
दिव्यमानुषयोर्वाथ दिव्ये वा मानुषाश्रिते ॥ २२० ॥

विष्णोर्मन्त्रासनाव्यक्तपद्ममध्यस्थचेतनात् ।
भक्तबिम्बहृदम्भोजे चैतन्यमवतार्य च ॥ २२१ ॥

सकलीकृत्य मन्त्रेण साङ्गेनाभ्यर्चयेत्सदा ।
आवाहने विशेषोऽयं जीवतां वाप्यजीवताम् ॥ २२२ ॥

सर्वत्राव्यक्तपद्माद्यैरष्टभिर्वा द्विरष्टभिः ।
भोगैः प्रागुदितैः स्फीतैस्ताम्बूलान्तैः समर्चयेत् ॥ २२३ ॥

कृत्वा पद्मध्वजारोहं हंसध्वजमथापि वा ।
समारोप्य यथाशास्त्रं कुर्यात्तत्र महोत्सवम् ॥ २२४ ॥

बलिदानादिकं तीर्थं सर्वं तत्र समाचरेत् ।
भक्तप्रणीता गाथाश्च श्रुत्यन्तार्थोपबृंहिताः ॥ २२५ ॥

श्रावयेद्विधिवद्देवं भक्त्या गीतिपुरःसरम् ।
तन्निवेदितमन्नाद्यं गायकेभ्यः प्रदापयेत् ॥ २२६ ॥

इति सम्यक् समाख्यातं विष्णुभक्तार्चनं परम् ।
गोपनीयं प्रयत्नेन नास्तिकानां विशेषतः ॥ २२७ ॥

Unnummerierter abschließender Halbvers; redaktionelle Kennung 227z.

प्रकाशनीयं भक्तानां नित्यकर्मरतात्मनाम् ।

इति श्रीपाञ्चरात्रे ईश्वरसंहितायां गरुडादिपरिवारार्चनविधिर्नाम अष्टमोऽध्यायः ॥


Kapitel 9 – द्वारावरणदेवतालक्षणादिविधिः / dvārāvaraṇadevatālakṣaṇādividhiḥ

Siehe deutsche Übersetzung und Texthinweise.

मुनयः ।

पुरा नित्योत्सवविधौ द्वारावरणवासिनाम् ।
देवानां पूजनं प्रोक्तं तेषां ध्यानादिकं क्रमात् ॥ १ ॥

वदस्व मुनिशार्दूल सर्वशास्त्रविशारद ।
नारदः ।
शृणुध्वं मुनयः सर्वे सावधानेन चेतसा ॥ २ ॥

द्वारावरणदेवानां लक्षणं तु यथाविधि ।
प्रासादद्वारदेवेभ्यः समारभ्य यथाक्रमम् ॥ ३ ॥

प्रासादद्वारबाह्ये तु ह्यधःस्थौदुम्बरान्तिमे ।
वास्त्वीशक्षेत्रनाथौ द्वौ स्थितौ दक्षेतरक्रमात् ॥ ४ ॥

शुक्लवक्त्रः कृष्णदेहो द्विभुजो रत्नपात्रधृक् ।
दक्षिणेन करेणैव सर्वामरसमाश्रयः ॥ ५ ॥

पुण्डरीकसमानाभवस्त्रस्रगनुलेपनः ।
गदोद्यतकरो विप्रा ध्यातव्यो वास्तुपूरुषः ॥ ६ ॥

क्षेत्रेशं द्विभुजं ध्यायेद्धेमाभवसनस्रजम् ।
नीलजीमूतसङ्काशं दण्डहस्तं महातनुम् ॥ ७ ॥

मुष्टिकृद्वामहस्तेन यागक्षेत्रस्य पालकम् ।
कुण्डलाद्यैरलङ्कारैरेतौ शोभितविग्रहौ ॥ ८ ॥

वीक्षमाणौ विभोर्वक्त्रं तेजसातीव निर्भरौ ।
तप्तकाञ्चनवर्णाभां प्रवालसदृशाम्बराम् ॥ ९ ॥

हारनूपुरकेयूरकरण्डमकुटादिकैः ।
अलङ्कृतामलङ्कारैः पुण्डरीकनिभेक्षणाम् ॥ १० ॥

अकलङ्कसुसम्पूर्णशरच्चन्द्रनिभाननाम् ।
पद्मकुम्भकरां लक्ष्मीं पद्मोपरि गतां स्मरेत् ॥ ११ ॥

पद्मासनेनोपविष्टां द्वारस्योर्ध्व उदुम्बरे ।
तरुणादित्यसङ्काशो महोरस्कश्चतुर्भुजः ॥ १२ ॥

उन्नतश्चोन्नतांसश्च पूर्णाङ्गो नातिमांसलः ।
तनूदरो निम्ननाभो रोमराजिविवर्जितः ॥ १३ ॥

दंष्ट्राकरालवदनः पिङ्गश्मश्रुजटाधरः ।
मधुपिङ्गलनेत्रश्च कुटिलभ्रूलतायुतः ॥ १४ ॥

प्रलम्बलोलश्रवणः पृथुघ्राणः स्मिताननः ।
कुण्डलालङ्कृतश्चैव हारकेयूरभूषितः ॥ १५ ॥

बद्धोष्णीषललाटश्च तिलकेनाप्यलङ्कृतः ।
शुक्लाम्बरधरः स्रग्वी भुजयुग्मेऽस्य दक्षिणे ॥ १६ ॥

प्रोद्यतं संस्मरेच्चक्रं प्रज्वलन्तीं गदां परे ।
श्रोणीतटनिषण्णां तु विश्रान्तां वसुधातले ॥ १७ ॥

पूर्ववामकरे शङ्खमन्यस्मिंश्चाक्षसूत्रकम् ।
एवं गणाधिपश्चण्डो विक्रमेणापराजितः ॥ १८ ॥

क्रुद्धो विघ्नायुतानां तु क्षणात्संहरणक्षमः ।
ध्येयो गर्भगृहद्वारशाखामूले तु दक्षिणे ॥ १९ ॥

तत्रैवापरभागे तु प्रचण्डं त्वीदृशं यजेत् ।
किन्तु सव्यापसव्याभ्यां भुजाभ्यां स्याद्विपर्ययः ॥ २० ॥

भुजद्वये यच्चण्डस्य वामे सम्परिकीर्तितम् ।
दक्षिणे तत्प्रचण्डस्य ध्येयं वा परिकल्प्य च ॥ २१ ॥

ध्यायेद्द्वाराग्रदेशे तु गरुडं काञ्चनप्रभम् ।
कुटिलभ्रूसुवृत्ताक्षं पक्षमण्डलमण्डितम् ॥ २२ ॥

लम्बोदरं सुपीनाङ्गं सर्वभूषणभूषितम् ।
मकुटाद्यैरलङ्कारैर्नूपुराद्यैर्विराजितम् ॥ २३ ॥

नीलं वसानं वसनं नानामाल्योपशोभितम् ।
सम्मुखं देवदेवस्य भूगतं विधृताञ्जलिम् ॥ २४ ॥

द्विभुजं तुहिनाभं तु सत्याख्यं विहगाधिपम् ।
प्राणाधिदैवतं चक्रे बलिमण्डलमध्यगे ॥ २५ ॥

संस्थितं संस्मरेत्सर्वैरङ्गैः पुरुषरूपिणम् ।
प्रलम्बमानजठरं पक्षराजिविराजितम् ॥ २६ ॥

दक्षिणेन करेणैव धारयन्तं गणित्रकम् ।
उत्तानितेतरकरं कुण्डलाद्यैर्विभूषितम् ॥ २७ ॥

नीलकौशेयवसनं नीलमाल्यानुलेपनम् ।
अनाकुलाभ्यां नेत्राभ्यां वीक्षमाणं सदा विभुम् ॥ २८ ॥

अथाग्रमण्डपद्वारशाखायुगलसंस्थितौ ।
पद्मगर्भप्रतीकाशावतिभीमपराक्रमौ ॥ २९ ॥

चण्डप्रचण्डसदृशौ भुजलाञ्छनभूषणैः ।
रक्ताम्बरधरौ चैव रक्तस्रगनुलेपनौ ॥ ३० ॥

गणौ धातृविधातारौ ध्यात्वा सम्पूज्य तत्परः ।
कुमुदादिगणेशानान् प्रथमावरणे यजेत् ॥ ३१ ॥

पूर्वे च वह्निदिग्भागे पूज्यौ द्वौ गणनायकौ ।
कुमुदः कुमुदाक्षश्च प्रसन्नवदनेक्षणौ ॥ ३२ ॥

तुहिनाचलसङ्काशौ प्रथमे वयसि स्थितौ ।
नानाभरणदिग्धाङ्गौ नानाकुण्डलभूषितौ ॥ ३३ ॥

नानामाल्याञ्चितौ चैव नानामौलिधरौ द्विजाः ।
नानागन्धविलिप्ताङ्गौ नानावस्त्रविभूषितौ ॥ ३४ ॥

कुमुदाख्यगणेशस्य ध्यातव्यो दक्षिणः करः ।
चन्द्ररश्मिप्रतीकाशचामरेण विराजितः ॥ ३५ ॥

अभिगच्छदभयं ध्यायेद्द्वितीयं दक्षिणं करम् ।
भवभङ्गात्प्रपन्नानां परेषां गुणशासनम् ॥ ३६ ॥

तस्यैवाद्यं वामकरं प्रबुद्धकमलोद्यतम् ।
तूष्णीं भीसूचकं ध्यायेद्बहिःस्थानां परं करम् ॥ ३७ ॥

एतद्वै कुमुदाक्षस्य वैपरीत्येन भावयेत् ।
द्वाभ्यां द्वाभ्यां कराभ्यां वै त्वन्येषामेवमेव हि ॥ ३८ ॥

पुण्डरीको वामनश्च द्वावेतौ हुतभुक्प्रभौ ।
गरुडध्वजहस्तौ च शेषमन्यत्पुरोदितम् ॥ ३९ ॥

कृत्वा ध्यात्वाथवा न्यस्य दक्षिणे नैर्ऋतेऽपि च ।
शङ्खकर्णाभिधानो यः सर्वनेत्राभिसंज्ञितः ॥ ४० ॥

द्वावेतौ चम्पकाभौ तु मायूरव्यजनोद्यतौ ।
महाविभूतेर्देवस्य प्रत्यग्वायुदिगास्थितौ ॥ ४१ ॥

सुमुखः सुप्रतिष्ठश्च विभोः सोमेशदिक्स्थितौ ।
चिन्त्यौ मुद्गफलश्यामावातपत्रकरोद्यतौ ॥ ४२ ॥

नोक्तशेषकराणां तु तद्विद्धि कुमुदोदितम् ।
एते भगवतो विप्रास्त्वन्तरङ्गा मयोदिताः ॥ ४३ ॥

कर्मणा मनसा वाचा तद्भावगतमानसाः ।
ज्ञानादिषड्गुणोपेतैराकीर्णाः कोटिशः परैः ॥ ४४ ॥

भूतैः सिद्धैरनन्तैश्च प्रार्थयानैः परं पदम् ।
वस्त्रभूषाङ्गरागाद्यैः सर्वे ते कुमुदोपमाः ॥ ४५ ॥

श्वेतमृत्कल्पितेनैव ह्यूर्ध्वपुण्ड्रेण भूषिताः ।
ललाटस्थेन सर्वेऽपि कुमुदादिगणाधिपाः ॥ ४६ ॥

एवमन्येऽपि भूताद्याः सर्वे पारिषदा द्विजाः ।
एवमावृतिदेवाश्च द्वारस्थाश्च तथैव हि ॥ ४७ ॥

एवं तदीया विप्राश्च क्षत्रविट्शूद्रजातयः ।
मृदैव वा चन्दनेन कल्पितैरूर्ध्वपुण्ड्रकैः ॥ ४८ ॥

द्वादशैश्च चतुर्भिर्वा भूषिताः स्युः सदा द्विजाः ।
अतसीकुसुमश्यामौ पीतमाल्याम्बरान्वितौ ॥ ४९ ॥

पीतोष्णीषधरौ रौद्रौ प्राग्वद्भुजविभूषितौ ।
गणौ चण्डाकृतिधरौ दुर्दर्शौ दुरतिक्रमौ ॥ ५० ॥

जयं च विजयं नाम्ना यजेत्तद्द्वारपार्श्वयोः ।
तदुद्देशात्समारभ्य बहिर्द्वारावसानकम् ॥ ५१ ॥

द्वितीयावरणक्षेत्रं षोढा कृत्वा तु पञ्चमे ।
भागे तु गरुडं विप्राः कृत्वा ध्यात्वाथवा न्यसेत् ॥ ५२ ॥

दीप्यच्चामीकराकारं भीमभ्रुकुटिलोचनम् ।
पृथुदंष्ट्रं पृथुघ्राणं पृथुगात्रं पृथूदरम् ॥ ५३ ॥

पक्षाङ्कुराञ्चितोरस्कं पक्षमण्डलमण्डितम् ।
हारकेयूरताटङ्कमकुटाद्यैस्तु भूषणैः ॥ ५४ ॥

भूषितं नीलवसनं नानामाल्यविभूषितम् ।
नानागन्धविलिप्ताङ्गं नागैकादशभूषितम् ॥ ५५ ॥

पुष्पस्तबकसम्पूर्णमञ्जलिं दधतं द्विजाः ।
उन्नम्य दक्षिणं जानुमासनीकृत्य चेतरत् ॥ ५६ ॥

सुखासने समासीनं विभोराज्ञाप्रतीक्षकम् ।
ततः कर्मात्मतत्त्वानां दर्शकं सिद्धतां गतम् ॥ ५७ ॥

भगवत्तुल्यसामर्थ्यसार्वज्ञ्यादिगुणैर्युतम् ।
वियुक्तं प्राकृताद्दुःखान्नियुक्तं चेश्वरेण तु ॥ ५८ ॥

भवसन्तारकत्वेन ह्येतदावृतिके क्रमात् ।
उपेन्द्रः पूर्वदिग्भागे संस्थितो द्विजसत्तमाः ॥ ५९ ॥

वह्नौ तेजोधराख्यस्तु दक्षिणे दुरतिक्रमः ।
नैर्ऋते तु महाकर्मा पश्चिमे तु महाह्रदः ॥ ६० ॥

अग्राह्यो वायुदिग्भागे वसुरेतास्तथोत्तरे ।
पूर्वोत्तरे वर्धमानः साक्षी गगनगोचरः ॥ ६१ ॥

आधारनिलयं नाम्ना सर्वस्याधोगतं स्मरेत् ।
एते स्फटिकवर्णाभाः श्वेतमाल्याम्बरान्विताः ॥ ६२ ॥

गणित्रकं रथाङ्गं च शङ्खं चैव गदां तथा ।
दधाना मुख्यदक्षादिमुख्यवामान्तमेव हि ॥ ६३ ॥

करैश्चतुर्भिः सुसमा मकुटादिविभूषिताः ।
तेजसा विघ्नजालानि प्रेरयन्तो महौजसः ॥ ६४ ॥

स्थानकैः संस्थिताः सर्वे ध्यानोन्मीलितलोचनाः ।
अथवा द्विभुजा एते वज्राद्यं दशकं क्रमात् ॥ ६५ ॥

दक्षिणे लोकपालीयं धारयन्तः करेण तु ।
गणित्रकं तु वामेन वरदाभयदास्तु वा ॥ ६६ ॥

तथा वर्णाङ्गरागाद्यैरिन्द्रादिसदृशास्तु वा ।
द्वितीयगोपुरद्वारपार्श्वयोरन्तरस्थयोः ॥ ६७ ॥

विन्यसेद्द्वारपालाख्यावेतौ वामादितो गणौ ।
निधीशौ शङ्खपद्मौ तु निधिभाण्डोपरि स्थितौ ॥ ६८ ॥

स्थूलदन्तौ च दान्तौ च द्विभुजौ भगवन्मयौ ।
कुटिलभ्रूलतायुक्तौ किञ्चिदुन्नतवक्षसौ ॥ ६९ ॥

लम्बोदरौ सुपीनाङ्गौ ह्रस्वपाणिपदौ द्विजाः ।
शङ्खपद्मसमानाभौ नीलशुक्लाम्बरस्रजौ ॥ ७० ॥

मकुटाद्यैस्तु विविधैरलङ्कारैरलङ्कृतौ ।
दक्षिणेन करेणैव धारयन्तौ सरोरुहम् ॥ ७१ ॥

इतरेण करेणैव ह्युत्तानेन निधिं स्वकम् ।
अथवा वामदक्षाभ्यां प्रवेशाभीतिदान्वितौ ॥ ७२ ॥

करद्वयेन शङ्खं वा पद्मं वा दधतौ द्विजाः ।
वामेन दधतौ पद्मं दक्षं शङ्खं निधीश्वरौ ॥ ७३ ॥

शङ्खपद्मधरौ वापि शिरसा मकुटोपरि ।
शङ्खचक्रधरौ वापि साधकेच्छावशेन तु ॥ ७४ ॥

तद्द्वारशाखानिष्ठौ तु संस्मरेद्दक्षिणादितः ।
क्षीरकुन्दावदातौ च नीलकौशेयवाससौ ॥ ७५ ॥

नीलनीरजवर्णाभैः पुष्पैर्भूषितविग्रहौ ।
पूर्वोक्तगणसादृश्यौ नाम्ना भद्रसुभद्रकौ ॥ ७६ ॥

तद्द्वारबाह्यतः पश्चात्पार्श्वयोर्गोपुरस्थितौ ।
एतौ गणेश्वरौ न्यसेद्ध्यात्वा वा परिकल्प्य वा ॥ ७७ ॥

अथवा द्विभुजावेतौ तदा भद्रस्य दक्षिणम् ।
करं तु तर्जनीयुक्तं वाममीषत्तु कुञ्चितम् ॥ ७८ ॥

गदाग्रोपरि विश्रान्तं गदामूलोपरि स्थितम् ।
व्यत्यस्तं दक्षिणं पादं वामं तु भुवि संस्थितम् ॥ ७९ ॥

भद्रस्य वामयोर्विप्र यदुक्तं पाणिपादयोः ।
दक्षयोस्तत्सुभद्रस्य दक्षोक्तं वामकं भवेत् ॥ ८० ॥

किन्तु तद्वामहस्तं तु युक्तं विस्मयमुद्रया ।
यद्वा भद्रो दक्षकरेऽभीतिमुद्रासमन्वितः ॥ ८१ ॥

गदोपरिष्टाद्विश्रान्तवामहस्तो द्विजोत्तमाः ।
पश्चात्करद्वयेनापि चक्रशङ्खधरः क्रमात् ॥ ८२ ॥

सुभद्रस्तु गदान्यस्तदक्षहस्तस्तथेतरे ।
अभीतिमुद्रासंयुक्तश्चक्रशङ्खसमन्वितः ॥ ८३ ॥

चण्डादिष्वप्येवमेव द्विभुजत्वादिकं भवेत् ।
चण्डप्रचण्डौ धाता च विधाता च जयस्तथा ॥ ८४ ॥

विजयश्चापि भद्रश्च सुभद्रश्च गणेश्वरः ।
एते गणेश्वरा ह्यष्टौ प्रभापुष्पाम्बरैर्विना ॥ ८५ ॥

देहवक्त्राकृत्यैस्तुल्यास्तथैवाभरणायुधैः ।
भक्तानां विघ्नजालस्य सर्वदिक्संस्थितस्य च ॥ ८६ ॥

संसारफलदातुर्वै छेदनार्थं समुद्यताः ।
परस्परमुखाः सर्वे स्थानकैः संस्थिताः समैः ॥ ८७ ॥

गणेशायुतलक्षैस्तु नानावर्णवपुर्धरैः ।
अच्युताराधनपरैरनेकैः परिवारिताः ॥ ८८ ॥

तृतीयावरणे पश्चात्पूर्वादिक्रमयोगतः ।
इन्द्रादिलोकपालानां दशकं विन्यसेद्द्विजाः ॥ ८९ ॥

शतधामनिभं ध्यायेच्चतुर्बाहुं पुरन्दरम् ।
महितद्विपसंस्थं तु सुतीक्ष्णकुलिशोद्यतम् ॥ ९० ॥

अजारूढं स्मरेद्रक्तं शक्तिपाणिं हुताशनम् ।
सहस्रार्चिर्भिराकीर्णं सहस्रादित्यभासुरम् ॥ ९१ ॥

महामहिषसंस्थं तं त्वञ्जनाद्रिसमप्रभम् ।
सभीमदण्डहस्तं च स्मरेद्देवं पित्रीश्वरम् ॥ ९२ ॥

दंष्ट्राकरालवदनं कृष्णमेघसमप्रभम् ।
घोरं प्रेतासनं ध्यायेत्खड्गधृग्राक्षसेश्वरम् ॥ ९३ ॥

मुक्ताफलद्युतिसमं भीमं पाशकरोद्यतम् ।
नागकन्यासहस्राढ्यं मकरस्थमपां पतिम् ॥ ९४ ॥

नीलतोयदसङ्काशं महाध्वजपटाङ्कितम् ।
ध्यायेत्समीरणं देवं संस्थितं हरिणोपरि ॥ ९५ ॥

सोमं तारागणोपेतं शङ्खगोक्षीरपाण्डुरम् ।
बृहच्छशकपृष्ठस्थं शिशिरास्त्रकरं स्मरेत् ॥ ९६ ॥

सितभूतिविलिप्ताङ्गं त्रिनेत्रं वृषवाहनम् ।
त्रिशूलायुधहस्तं च त्वीशानं ज्ञानिनं स्मरेत् ॥ ९७ ॥

पातालदिग्गतं ध्यायेत्कूर्मारूढं हलायुधम् ।
सितं सहस्रफणभृद्योऽनन्तो नाम नागराट् ॥ ९८ ॥

भचक्रं भ्रामयन्तं तु दण्डहस्तं प्रजापतिम् ।
हंसारूढं स्वसंस्थं तु ध्यायेद्ध्रुवमजं विभुम् ॥ ९९ ॥

एते चतुर्भुजाः सर्वे अक्षसूत्रविभूषिताः ।
चिन्तयन्तः परं तत्त्वं वराभयकरोद्यताः ॥ १०० ॥

दिव्याभरणदिग्धाङ्गा दिव्यमाल्याम्बरान्विताः ।
दिव्यरूपधराश्चैव दिव्यगन्धवहा द्विजाः ॥ १०१ ॥

रक्तशुक्लनिशापीतनीलचम्पकसप्रभैः ।
व्योमस्फटिकमार्तण्डराजोपलनिभैस्तथा ॥ १०२ ॥

माल्याङ्गरागवसनैर्महार्हैः समलङ्कृताः ।
भूषिता भूषणैश्चित्रैः करण्डमकुटादिभिः ॥ १०३ ॥

एभ्यश्चतुर्भुजस्त्वत्र विज्ञेयो वृषभध्वजः ।
द्विभुजास्त्वथवा चान्ये वरदाभयदास्तु वा ॥ १०४ ॥

इति लोकेश्वरेषूक्तं ततो वै द्विजसत्तमाः ।
तृतीयावरणद्वारे शाखामूले तु दक्षिणे ॥ १०५ ॥

सुदर्शनं चतुर्हस्तं ह्रस्वकायं ज्वलत्प्रभम् ।
क्रोधरक्तेक्षणं दैत्यदानवासृग्विलेपनम् ॥ १०६ ॥

नृत्यन्तं मदमत्तं च सहस्रारान्तरस्थितम् ।
दंष्ट्राकरालवदनं कुटिलभ्रूलतायुतम् ॥ १०७ ॥

कल्पान्तपावकाकारं स्वरश्मिपरिवेष्टितम् ।
दक्षिणे भुजयुग्मे तु पूर्वेण च सुदर्शनम् ॥ १०८ ॥

धारयन्तं ततोऽन्येन विश्रान्तां भूतले गदाम् ।
शङ्खं मुख्येन वामेन ह्यपरेण गणित्रकम् ॥ १०९ ॥

हारकेयूरताटङ्कमकुटादिविभूषणैः ।
विभूषितं विचित्रैस्तु श्वेतमाल्याम्बरादिकैः ॥ ११० ॥

विघ्नानुत्पाटयन्तं तु दीप्तेन स्वेन तेजसा ।
संस्मरेत्तु ततोऽन्यस्मिन् शाखामूले ततो द्विजाः ॥ १११ ॥

सुस्थितं गरुडं विप्रास्तप्तकाञ्चनसन्निभम् ।
सौम्यवक्त्रं विवृत्ताक्षं रक्ततुण्डं सुभीषणम् ॥ ११२ ॥

पृथूदरं दीर्घपुच्छं पक्षमण्डलमण्डितम् ।
रक्ताम्बरधरं चैव रक्तस्रगनुलेपनम् ॥ ११३ ॥

दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम् ।
विचित्रकञ्चुकधरं भुजगेन्द्रैरलङ्कृतम् ॥ ११४ ॥

मकुटाद्यैरलङ्कारैर्विविधैस्तु विभूषितम् ।
भुजद्वये यच्चक्रस्य वामे सम्परिकीर्तितम् ॥ ११५ ॥

दक्षिणे तद्भवेदस्य दक्षोक्तं वामकं भवेत् ।
वज्रं शक्तिस्तथा दण्डः खड्गः पाशो ध्वजस्तथा ॥ ११६ ॥

शिशिराख्यं त्रिशूलं तु लाङ्गलं मुसलं तथा ।
पूर्वादिक्रमयोगेन चतुर्थावरणे स्थिताः ॥ ११७ ॥

एतेषां क्रमशो ध्यानं साम्प्रतं कथ्यते द्विजाः ।
वज्रं वज्रोपलाभं तु सितदीर्घनखाङ्कितम् ॥ ११८ ॥

दंष्ट्राकरालवदनं ज्वलत्कनकलोचनम् ।
सौदामिनीप्रभां शक्तिं शान्ताभिवदनेक्षणाम् ॥ ११९ ॥

घनघर्घरनिर्घोषमुद्गिरन्तीं मुहुर्मुहुः ।
बद्धमुष्टिं स्मरेद्दण्डं रक्ताङ्गं रक्तलोचनम् ॥ १२० ॥

क्रोधमूर्तिं स्वदशनैर्दशन्तमधरं स्वकम् ।
स्वरश्मिखचितं ध्यायेन्नृत्यमानं तु नन्दकम् ॥ १२१ ॥

शरदाकाशसङ्काशं दशन्तं दशनावलीम् ।
पाशं गुणगणाकीर्णं विद्युत्जिह्वं भयानकम् ॥ १२२ ॥

हेमालिपाण्डुराभं तु घोरास्यं रक्तलोचनम् ।
शरज्जलदसङ्काशं ध्वजं कुटिललोचनम् ॥ १२३ ॥

स्वतेजसा जगत्सर्वं द्योतयन्तं बलोत्कटम् ।
शिशिरं शीतधामाभं पीनाङ्गं पृथुविग्रहम् ॥ १२४ ॥

जटाकलापधृत्सौम्यं पुण्डरीकनिभेक्षणम् ।
उदयार्कसहस्राभं त्रिशूलं भीषणाकृतिम् ॥ १२५ ॥

कल्पान्तपावकाकारं स्वरश्मिपरिवेष्टितम् ।
सन्ध्याजलदसङ्काशं लाङ्गलं भीमलोचनम् ॥ १२६ ॥

क्षामाङ्गमुन्नतांसं तु वज्रकायं बलोत्कटम् ।
कुन्दावदातं मुसलं सौम्यमीषत्स्मिताननम् ॥ १२७ ॥

रवं रवन्तं मधुरं श्रोत्रेन्द्रियसुखावहम् ।
नीलरक्तासितापीतपावकाञ्जनसन्निभैः ॥ १२८ ॥

हेमचन्द्रहिमाकाशसमानाभैः क्रमेण तु ।
माल्याङ्गरागवसनैरुचितैः समलङ्कृताः ॥ १२९ ॥

दिव्यैराभरणैर्युक्ताः स्वचिह्नाङ्कितमस्तकाः ।
तर्जयन्तश्च दुष्टौघं दक्षिणेन करेण तु ॥ १३० ॥

वामेन कटिमालम्ब्य सुसमैः स्थानकैः स्थिताः ।
चतुर्थावरणद्वारदक्षिणोत्तरशाखयोः ॥ १३१ ॥

गङ्गां च यमुनां चैव ध्यात्वा सम्पूजयेत्क्रमात् ।
भगवत्पादसम्भूतां गङ्गां कुमुदसन्निभाम् ॥ १३२ ॥

नवयौवनलावण्यसौकुमार्यगुणैर्वृताम् ।
नीलाङ्गरागवसनां नीलमाल्यैरलङ्कृताम् ॥ १३३ ॥

द्विभुजां सौम्यवदनां पुण्डरीकनिभेक्षणाम् ।
हारनूपुरकेयूरकुण्डलाद्युपशोभिताम् ॥ १३४ ॥

संसारतापसन्तप्तानारुरुक्षून् परं पदम् ।
वासनाकर्मपङ्कानि क्षालयन्तीं स्वतेजसा ॥ १३५ ॥

वहन्तीं दक्षिणेनैव कलशं वारिपूरितम् ।
वामेन तर्जयन्तीं तु करेण प्राकृतान् जनान् ॥ १३६ ॥

यमुनां नीलरत्नाभां नीलकुञ्चितमूर्धजाम् ।
सिताङ्गरागवसनां सितमाल्योपशोभिताम् ॥ १३७ ॥

दक्षिणे तर्जनीमुद्रा वामे तु कलशः स्मृतः ।
अन्यत्सर्वं तु गङ्गोक्तमत्रापि स्यान्मुनीश्वराः ॥ १३८ ॥

लोहिताक्षो महावीर्यस्त्वप्रमेयः सुशोभनः ।
वीरहा विक्रमो भीमः शतावर्तस्तु चाष्टमः ॥ १३९ ॥

ऐश्वरीदिक्क्रमेणैव पञ्चमावरणे स्थिताः ।
ध्यायेच्चन्द्रप्रतीकाशं लोहिताक्षं बलोत्कटम् ॥ १४० ॥

नीलाम्बरधरं नीलमाल्यं नीलानुलेपनम् ।
महावीर्यं महाकायं पीतवर्णं महाभुजम् ॥ १४१ ॥

प्रवालाभाम्बरधरं रक्तस्रगनुलेपनम् ।
संस्मरेदप्रमेयाख्यमप्रमेयबलोत्कटम् ॥ १४२ ॥

हरिताकृतिमापीतवसनस्रग्विलेपनम् ।
सुशोभनं शोभनाङ्गं मुक्ताफलनिभं स्मरेत् ॥ १४३ ॥

अतसीपुष्पसङ्काशवासोमाल्यानुलेपनम् ।
वीरघ्नं वीरहाख्यं च ध्यायेच्चम्पकसन्निभम् ॥ १४४ ॥

बाह्लीकारञ्जितारक्तवसनस्रग्विमण्डितम् ।
विक्रमं विक्रमावासं चापोदरनिभं स्मरेत् ॥ १४५ ॥

कुन्देन्दुकान्तिवसनं सितमाल्यानुलेपनम् ।
भीमं भीमाकृतिं ध्यायेत्तप्तकाञ्चनसन्निभम् ॥ १४६ ॥

पाण्डुरारुणकौशेयं तद्वद्गन्धस्रगन्वितम् ।
अतसीकुसुमश्यामं शतावर्तं तु भावयेत् ॥ १४७ ॥

पीताम्बरधरं पीतमाल्यगन्धविभूषितम् ।
भुजद्वयान्विता ह्येते चान्तर्मुदितमानसाः ॥ १४८ ॥

दक्षिणैः पाणिभिः सर्वे ज्वलन्तं परशुं तथा ।
वामैः शङ्खवरं दीप्तं दधानाश्चारुकुण्डलाः ॥ १४९ ॥

समाः समविभक्ताङ्गाः प्रशान्ताकृतयस्तथा ।
स्थानकैः संस्थिताः सर्वे सप्रभाविराजिताः ॥ १५० ॥

प्रसन्नवदनाः सौम्यास्त्रैलोक्योद्धरणक्षमाः ।
हारनूपुरकेयूरपूर्वभूषाविभूषिताः ॥ १५१ ॥

तदाज्ञाप्रेक्षकाश्चैव दुष्टदोषोपशान्तिदाः ।
बलेन महता क्षिप्तदेवासुरमहोरगाः ॥ १५२ ॥

एकवीरा असहायाश्च त्वप्रयत्नेन लीलया ।
आब्रह्मभवनं शश्वत्परिवर्तयितुं क्षमाः ॥ १५३ ॥

एतदावरणद्वारचतुष्के द्वारदेवताः ।
न्यसेद्युग्मप्रयोगेण पूर्वद्वारादितः क्रमात् ॥ १५४ ॥

वज्रनाभं हरीशं च पूर्वस्यां दक्षिणोत्तरे ।
ध्यायेत्तु वज्रनाभाख्यं शतधामसमप्रभम् ॥ १५५ ॥

मुख्यदक्षिणहस्तेन निषेधाभिनयान्वितम् ।
वेत्रलतां द्वितीयेन चक्रराजं तृतीयतः ॥ १५६ ॥

मुख्यवामकरेणैव श्रोणीतटकृतार्पणम् ।
शङ्खराजं द्वितीयेन तथा वज्रं तृतीयतः ॥ १५७ ॥

धारयन्तं तथा रुक्मभूषणैर्विविधैरपि ।
रक्तमाल्याम्बरधरं रक्तस्रगनुलेपनम् ॥ १५८ ॥

एवं वामे हरीशं च निषेधाभिनयोज्झितम् ।
प्रवेशाभिनयाख्येन पाणिना किन्तु चिह्नितम् ॥ १५९ ॥

एको ह्यत्र निषेधं च त्वभक्तानां करोति वै ।
भक्तानामपरश्चैव प्रवेशं सम्प्रयच्छति ॥ १६० ॥

द्वारे द्वारे प्रतीहारद्वयस्यैवं प्रयोजनम् ।
दक्षोक्तं वज्रनाभस्य तद्धरीशस्य वामगम् ॥ १६१ ॥

आद्यवामगतं सर्वमन्यदक्षिणपाणिगम् ।
धर्माध्यक्षनियन्त्रीशौ दक्षिणे दक्षिणोत्तरे ॥ १६२ ॥

कुर्यादन्तकसादृश्यौ पूर्ववद्भुजभूषितौ ।
पीतकौशेयवसनौ पीतमाल्यविलेपनौ ॥ १६३ ॥

किन्तु दण्डगदाहस्तौ वज्रचक्रविवर्जितौ ।
शुद्धाक्षममृतानन्दं प्रतीच्यां दक्षिणादितः ॥ १६४ ॥

बाणकार्मुकमेकस्मिन् पाणौ पाशमथापरे ।
आद्यं करचतुष्कं यत्तत्त्रयं पूर्ववद्भवेत् ॥ १६५ ॥

आकृतौ जलनाथस्य सदृशौ सर्वदैव हि ।
नीलकौशेयवसनौ नीलस्रगनुलेपनौ ॥ १६६ ॥

वसुनाथं सुधानन्दमुदग्दिग्दक्षिणोत्तरे ।
खड्गमुद्गरहस्तौ च प्राग्वच्छेषं चतुष्टयम् ॥ १६७ ॥

कराणामनयोः कार्यं रूपेणोडुपतेः समौ ।
अतसीकुसुमश्यामकौशेयस्रग्विलेपनौ ॥ १६८ ॥

भूषणैर्भूषिता ह्येते विविधैर्वज्रनाभवत् ।
षष्ठावरणदेवानां तद्द्वाःस्थानां विशेषतः ॥ १६९ ॥

शृणुध्वं ध्यानमधुना तत्त्वतो मुनिपुङ्गवाः ।
पूर्वादीशानपर्यन्तं षष्ठावरणसंस्थिताः ॥ १७० ॥

एताश्च देवता विप्रास्तेजोरूपसमन्विताः ।
कालो वियन्नियन्ता च शास्त्रं नानाङ्गलक्षणम् ॥ १७१ ॥

विद्याधिपतयश्चैव सरुद्रः सगणः शिवः ।
प्रजापतिसमूहस्तु इन्द्रः सपरिवारकः ॥ १७२ ॥

मुख्ये द्वारचतुष्के तु पूर्ववत्संस्थिताः क्रमात् ।
चक्रशङ्खौ पद्मगदे लाङ्गलं मुसलं शराः ॥ १७३ ॥

शार्ङ्गं चैते क्रमाद्ध्येया विद्युत्तुहिनकुन्दभाः ।
पीतनीलसितारक्तसितगोक्षीरसन्निभैः ॥ १७४ ॥

हरितालारुणाभैस्तु वस्त्रमाल्यानुलेपनैः ।
सर्वरत्नमयैर्युक्तैर्भूषणैरप्यलङ्कृताः ॥ १७५ ॥

महाबला महावीर्यास्त्वेकवक्त्रा द्विबाहवः ।
एते तु नायकाः सर्वे स्वचिह्नाङ्कितमस्तकाः ॥ १७६ ॥

दुष्टौघं तर्जयन्तश्च दक्षिणेन करेण तु ।
कटिमालम्ब्य वामेन स्थानकैः सुसमैः स्थिताः ॥ १७७ ॥

दृढव्रतो बहुशिरा महाकायो महाबलः ।
जितक्रोधो दुराधर्षो महोत्साहस्त्रिविक्रमः ॥ १७८ ॥

अतुलो दुष्टहार्चिष्मान् सर्वदृग्दुरतिक्रमः ।
विषमो गहनोऽमोघः षोडशोपप्रवेशदाः ॥ १७९ ॥

शक्राग्निमध्यमारभ्य शक्रेशानान्तरावधि ।
शुक्लशोणसुवर्णालिपिङ्गरक्तसितासिताः ॥ १८० ॥

रक्तपीतातसीहेमशोणशुभ्रसितासिताः ।
वर्णानुरूपसद्वस्त्रमाल्यलेपनभूषणाः ॥ १८१ ॥

नामानुरूपचारित्राः शङ्खमुद्गरधारिणः ।
सव्येतरक्रमेणैव प्रवेशकनिषेधकाः ॥ १८२ ॥

क्षणाद्भुवनसंहारसृष्टिस्थितिकृतिक्षमाः ।
उक्तानेतान् क्रमेणैव पूर्ववत्सम्प्रपूजयेत् ॥ १८३ ॥

मुनयः सप्त पूर्वेऽन्ये ग्रहास्तारादिकैर्वृताः ।
जीमूताश्चाखिला नागास्त्वप्सरोगण उत्तमः ॥ १८४ ॥

ओषध्यश्चैव पशवो यज्ञाः साङ्गाखिलास्तु ये ।
सूक्ष्मरूपेण तिष्ठन्ति पूर्ववत्सप्तमावृतौ ॥ १८५ ॥

सम्भवः प्रभवश्चैव पूर्णः पुष्कर एव च ।
आनन्दो नन्दश्चैव वीरसेनः सुषेणकः ॥ १८६ ॥

तन्मुख्यद्वारशाखास्थौ द्वौ द्वौ दक्षिणवामयोः ।
सम्भवः श्वेतवर्णस्तु प्रभवः कुन्दसन्निभः ॥ १८७ ॥

पूर्णस्तु रक्तवर्णाभस्त्वतिरक्तस्तु पुष्करः ।
आनन्दः पीतवर्णस्तु हेमाभो नन्द उच्यते ॥ १८८ ॥

कृष्णाभो वीरसेनस्तु सुषेणोऽञ्जनसन्निभः ।
मकुटाङ्गदचित्राङ्गा गदाहस्ता द्विबाहवः ॥ १८९ ॥

चतुर्भुजा वा विप्रेन्द्राः शङ्खचक्रगदाधराः ।
पूर्ववत्पाणिनान्येन प्रवेशकनिषेधकाः ॥ १९० ॥

दंष्ट्राकरालवदना निग्रहानुग्रहक्षमाः ।
क्षेमकृच्छिवकृत्प्राज्ञो होमकृद्भूतभावनः ॥ १९१ ॥

युगान्ताग्न्यशनश्चैव संवर्तो भीषणस्तथा ।
सङ्क्रन्दनश्चानिमिषः शतपर्वा शताननः ॥ १९२ ॥

औदुम्बरः प्रकृतिको विरामश्चांशुमाल्यपि ।
औपदौवारिकं त्वेतद्गणषोडशकं क्रमात् ॥ १९३ ॥

दृढव्रतादिसदृशं वर्णतः षड्भुजान्वितम् ।
वामदक्षिणयोगेन पृष्ठतः पूर्वपश्चिमम् ॥ १९४ ॥

शङ्खमुद्गरपद्माक्षवराभयसमन्वितम् ।
नानावर्णस्रगुष्णीषवस्त्रलेपनभूषणम् ॥ १९५ ॥

प्रागुक्तगुणशौर्याढ्यं सर्वकर्मकृतिक्षमम् ।
तच्छोभाष्टकरक्षार्थं शतमन्युर्विरोचनः ॥ १९६ ॥

अप्रतर्क्यस्त्वनुल्लङ्घ्यस्त्वप्रमेयाभिधानकः ।
अमर्षी च महाभूतश्चकोराक्षस्तथाष्टमः ॥ १९७ ॥

इन्द्राग्निमध्योपद्वारपार्श्वशोभास्वनुक्रमात् ।
एकैकशः स्थिताः शूराः प्रवेशकनिषेधकाः ॥ १९८ ॥

नीलपीतजपाश्यामसितहिङ्गुलकेन्दुभाः ।
महाबला महावीर्याः सुदुर्लङ्घ्यपराक्रमाः ॥ १९९ ॥

नानाविधाम्बरस्रग्भिर्भूषणैरनुलेपनैः ।
अन्यैरनुपदिष्टैश्च यथाशोभमलङ्कृताः ॥ २०० ॥

षाड्गुण्यमहिमायुक्ताश्चतुर्हस्ताः क्रमेण तु ।
पृष्ठदक्षिणवामाभ्यां चक्रशङ्खसमन्विताः ॥ २०१ ॥

गदाग्रोपरिविश्रान्तमुख्यहस्तद्वयान्विताः ।
द्वारोपद्वारशोभेशानेतान् सम्पूजयेत्क्रमात् ॥ २०२ ॥

विद्या चैवापराविद्या पावकश्चैव मारुतः ।
चन्द्रार्कौ वारिवसुधे ह्येताः संसारदेवताः ॥ २०३ ॥

सूक्ष्मरूपेण तिष्ठन्ति बाह्यावरणभूतले ।
अमरेशो विरूपाक्षः सुधर्मिष्ठो नियामकः ॥ २०४ ॥

सर्वसत्त्वाश्रयश्चेति गहनस्तदनन्तरम् ।
महाराजेश्वरश्चापि धनाध्यक्षेश्वरस्तथा ॥ २०५ ॥

एते गणेश्वरास्त्वष्टौ तन्मुख्यद्वारपालकाः ।
ध्येयाश्चतुर्भुजाः सर्वे मुख्यपाणिद्वयेन तु ॥ २०६ ॥

अमरेशविरूपाक्षौ वज्रवेत्रलताकरौ ।
पृष्ठगाभ्यां तु पाणिभ्यां चक्रशङ्खसमुज्ज्वलौ ॥ २०७ ॥

कुङ्कुमाञ्जनसङ्काशौ दंष्ट्रया विकृताननौ ।
दक्षिणोत्तरयोगेन लाञ्छनव्यत्ययान्वितौ ॥ २०८ ॥

द्वारदक्षिणवामस्थौ प्रवेशकनिषेधकौ ।
सुधर्मिष्ठो नियन्ता च सुसितश्यामलप्रभौ ॥ २०९ ॥

सुभीमदण्डहस्तौ च वज्रायुधविवर्जितौ ।
यथाक्रमोदितानन्यान् धारयन्तौ यथाविधि ॥ २१० ॥

सर्वसत्त्वाश्रयश्चातिगहनः श्यामलः सितः ।
किन्तु पाशकरावेतौ पूर्ववद्भुजभूषितौ ॥ २११ ॥

महाराजेश्वरो रक्तो धनाध्यक्षेश्वरोऽसितः ।
शिशिरायुधसंयुक्तौ त्रिकमन्यद्यथा पुरा ॥ २१२ ॥

महाबला महावीर्या दुष्टदोषक्षयङ्कराः ।
दुर्निरीक्षाश्च दुर्धर्षा दैत्यदानवहिंसकाः ॥ २१३ ॥

नानामहार्हवासोभिर्भूषालेपैरलङ्कृताः ।
महर्षभं प्रभूतं च गम्भीरं प्राणगोचरम् ॥ २१४ ॥

योगाङ्गं योगनिलयं सनातनमशृङ्खलम् ।
तारकान्तरितं तारं विरामं विषमं तथा ॥ २१५ ॥

दुरतिक्रमं दुर्ग्रहं च सुधूम्रमनिलाशनम् ।
तत्सालकोपद्वारेषु विन्यसेत् पूर्ववर्त्मना ॥ २१६ ॥

उक्तोपद्वारपालानां वर्णतः सममुज्ज्वलम् ।
गणषोडशकं त्वेतच्चतुष्पाणिसमन्वितम् ॥ २१७ ॥

गौणवामकराद्यं तु मुख्यवामकरावधि ।
शङ्खपट्टसहस्तं च निषेधाभिनयाङ्कितम् ॥ २१८ ॥

प्रवेशाभिनयाढ्यं च नानावर्णाम्बरस्रजम् ।
नानास्थानकसंयुक्तं नानाभूषणभूषितम् ॥ २१९ ॥

अक्षसूत्रधरं वाथ प्रपन्नानां प्रवेशकृत् ।
निषेधकृत्तथान्येषां न्यस्तव्यं मुनिसत्तमाः ॥ २२० ॥

देवव्रतं निरातङ्कं भीष्मं च पुरुषं तथा ।
उग्रं वीरेश्वरं रम्यमरिष्टं मुनिसत्तमाः ॥ २२१ ॥

निर्विषण्णं युगान्तांशं शतानन्दं शताननम् ।
तेजोधरं विशालाक्षं युगांशं देवनन्दनम् ॥ २२२ ॥

एतद् द्विरष्टशोभासु गणमेकैकशो न्यसेत् ।
उपद्वारेशसदृशं वर्णतो लाञ्छनैर्विना ॥ २२३ ॥

चतुर्भिः पाणिभिश्चैव पृष्ठदक्षिणपूर्वकम् ।
मुख्यदक्षिणहस्तान्तं शङ्खचक्रगदाधरम् ॥ २२४ ॥

निषेधकृच्च पापानामपापानां प्रवेशकृत् ।
नानास्रगम्बरोष्णीषभूषालेपाद्यलङ्कृताः ॥ २२५ ॥

अनन्ताचिन्त्यविभवाः सर्वभूतसमाश्रयाः ।
नानाशस्त्रास्त्रकुशलाः नानाज्ञानसमन्विताः ॥ २२६ ॥

निरस्तानेकदैत्येशाः साधूनां पालनोद्यताः ।
द्वारद्वयान्विते साले मुख्यद्वारगतावुभौ ॥ २२७ ॥

तिष्ठतः सूक्ष्मरूपेण तदन्यद्वारपार्श्वयोः ।
प्राकारसर्वकोणेषु वह्निकोणादितो न्यसेत् ॥ २२८ ॥

प्रभवाप्ययरूपाणां मूर्तीनां चतुरात्मनाम् ।
तथा मूर्त्यन्तराणां च तत्कान्तानामनुक्रमात् ॥ २२९ ॥

मन्त्राणामस्त्रसङ्घादि तेषां रूपमनुस्मरन् ।
चतुर्णामपि कोणानामव्यक्तं भवनाद् बहिः ॥ २३० ॥

संयजेद्भवनाम्ना वै यस्मान्नान्यो भवः स्मृतः ।
तेषां बहिः स्वमन्त्रेण दिक्क्रमेण तु हेतिराट् ॥ २३१ ॥

स्वमरीचिगणेनैव भासयन्तं निवेश्य च ।
न्यस्यैवमर्चनं कुर्यान्मन्त्रमुद्रान्वितेन तु ॥ २३२ ॥

निरीक्षणादिशुद्धेन अर्घ्यस्रक्चन्दनादिना ।
वासुदेवाभिधानस्तु देवः षाड्गुण्यविग्रहः ॥ २३३ ॥

कर्मिणामुपकारार्थं प्रासादं स्थूलविग्रहम् ।
सर्वज्ञानक्रियाढ्यं च सर्वतत्त्वसमाश्रयम् ॥ २३४ ॥

समासाद्यानुगृह्णाति सदाऽर्चान्तर्गतः प्रभुः ।
तस्मात् तदङ्गभूतेषु प्राकारेष्वष्टसु क्रमात् ॥ २३५ ॥

पृथ्व्यादि बुद्धिनिष्ठं तु बाह्यतत्त्वाष्टकं न्यसेत् ।
प्रासादश्चाङ्गसंयुक्तः प्रकृतिस्त्रिगुणात्मिका ॥ २३६ ॥

तद्गता प्रतिमा जीवस्तदन्तः परमः पुमान् ।
अतोऽधिदेवतान्यत्र तत्त्वान्येतान्यनुक्रमात् ॥ २३७ ॥

सर्वत्र व्यापकत्वेन ध्यात्वा सम्पूजयेत् ततः ।
सर्वाधारमयेनैव सर्वसत्त्वाश्रयेण च ॥ २३८ ॥

सर्वदोषविषघ्नेन कालचक्राम्बुजेन तु ।
सम्पुटीकृत्य भवनं सप्राकारमथोर्ध्वतः ॥ २३९ ॥

सम्पूज्य हार्दयीं मुद्रां चक्रमुद्रासमन्विताम् ।
प्रदर्श्य सर्वतो दिक्षु कवचेनावकुण्ठयेत् ॥ २४० ॥

एकमूर्तिविधाने च तथैकद्वारभूषिते ।
भवने इदं विधानं स्याद्विव्यूहपरिनिष्ठिते ॥ २४१ ॥

चतुर्द्वारान्विते गेहे दिग्द्वाराग्रस्थमण्डपे ।
सर्वतोभद्रसाले च अघनिर्मोचनेऽपि च ॥ २४२ ॥

सदध्वदेशधर्माख्ये द्वारद्विद्वितयान्विते ।
द्वारपालगणन्यासे विशेषोऽयं प्रकाश्यते ॥ २४३ ॥

चण्डाद्याश्च सुभद्रान्ताः प्रासादद्वारचतुष्टये ।
न्यसनीयाः क्रमेणैव पूर्ववद् द्वन्द्वयोगतः ॥ २४४ ॥

द्वारोर्ध्वोदुम्बरद्वन्द्वद्वितयस्थाः यथाक्रमम् ।
लक्ष्मीः कीर्तिर्जया माया देव्यः प्रागुक्तलक्षणाः ॥ २४५ ॥

सत्यः सुपर्णो गरुडस्तार्क्ष्यस्त्वग्रेषु संस्थिताः ।
अनिवर्ती महावृत्तिर्दर्पहा सर्वजित् स्थिरः ॥ २४६ ॥

जयन्तो भयकृन्मानी त्वष्टमो द्विजसत्तमाः ।
दिग्ग्रमण्डपद्वारशाखापार्श्वे समास्थिताः ॥ २४७ ॥

अनिवर्ती महावृत्तिः कृष्णाभः शुकसन्निभः ।
दर्पहा सर्वजिच्चैव पाण्डुरक्तसुवर्णभौ ॥ २४८ ॥

स्थिरो जयन्तः सततं श्यामाञ्जनसमद्युती ।
भयकृच्चैव मानी च पिङ्गलः पाण्डुरोज्ज्वलः ॥ २४९ ॥

द्विभुजाः सर्व एवैते दक्षिणेन करेण तु ।
नन्दकं शङ्खमन्येन दधानाः क्रूरविक्रमाः ॥ २५० ॥

यदा चतुर्भुजा ध्येयास्तदा चैते गणेश्वराः ।
मुख्यदक्षिणहस्तेन खड्गवेत्रलतान्विताः ॥ २५१ ॥

तथा वामकरे शङ्खं पृष्ठगे दक्षिणादितः ।
पाणिद्वये चक्रपद्मे बिभ्रतो ज्वलनप्रभाः ॥ २५२ ॥

नानावस्त्रास्त्रगुष्णीषभूषणालेपनान्विताः ।
व्यत्यस्तहस्तचरणा लाञ्छनव्यत्ययान्विताः ॥ २५३ ॥

ऊर्जितश्चामृताङ्गस्तु सर्वाङ्गः सर्वतोमुखः ।
शुभाङ्गो वरदश्चैव वागीशः शब्दविक्रमः ॥ २५४ ॥

पाञ्चजन्यविशेषा हि द्वौ द्वौ चैव क्रमात् स्थितौ ।
सर्वतोभद्रसालस्थचतुर्द्वारेषु पूर्ववत् ॥ २५५ ॥

द्विबाहवस्तु संस्मर्याः दक्षिणेन करेण तु ।
गृहीतमुसलाः सर्वे शङ्खमन्येन पाणिना ॥ २५६ ॥

दधानाश्चैव चत्वारः पूर्वे बन्धूकसन्निभाः ।
अन्ये परभृताभास्तु सर्वभूषणभूषिताः ॥ २५७ ॥

बलेन महता क्षिप्तदेवासुरमहोरगाः ।
एकवीरा असहायाश्च अप्रयत्नेन लीलया ॥ २५८ ॥

आब्रह्मभवनं शश्वत्परिवर्तयितुं क्षमाः ।
विश्वेशो विश्वकृद्विश्वो विश्वात्मा विश्वलोचनः ॥ २५९ ॥

विश्वपादो विश्वभुजस्तथा वै विश्वकर्मकृत् ।
एते द्वितीयसालस्य दिग्द्वारेषु नियामकाः ॥ २६० ॥

द्विबाहवः परिज्ञेया वामदक्षिणयोगतः ।
गदाखड्गास्त्रसंयुक्ताः करण्डमकुटान्विताः ॥ २६१ ॥

शोणपिङ्गसितश्यामा रक्तपीतसितासिताः ।
सर्ववर्णाम्बरालेपस्रग्भूषाभिर्विराजिताः ॥ २६२ ॥

एकवीरा असहायाश्च सर्वदोषनिवारकाः ।
तद्द्वारान्तरभागेषु वामदक्षिणयोगतः ॥ २६३ ॥

प्रासादाभिमुखान्न्यसेन्निधिनाथेश्वरान् क्रमात् ।
शङ्खपद्मौ महापद्मशतधामाभिधौ ततः ॥ २६४ ॥

अखण्डितः सन्ततश्चानन्तधार इति श्रुतः ।
सर्वद्वार इति ख्यातः प्रथमौ पूर्वमीरितौ ॥ २६५ ॥

अन्येषां वक्ष्यते षण्णां वर्णरूपादिकं क्रमात् ।
रक्तः कृष्णः सुवर्णाभः सितारुणतमालभाः ॥ २६६ ॥

शङ्खपद्मनिधीशोक्तसर्वलक्षणलक्षिताः ।
वसुरत्नसुवर्णाष्टलोहधान्यधनाधिपाः ॥ २६७ ॥

सर्वौषधिनिधीशानास्तेषामूर्ध्वे सुखासनाः ।
सर्वालङ्कारसंयुक्ताः स्वाश्रिताभिमतप्रदाः ॥ २६८ ॥

ततस्तृतीयावरणद्वारेषु द्वन्द्वयोगतः ।
तद्दक्षिणोत्तराभ्यां तु शाखाभ्यां विन्यसेत् क्रमात् ॥ २६९ ॥

पुरतश्चक्रगरुडौ हलतालौ तु दक्षिणे ।
पश्चिमे शार्ङ्गमकरौ सौम्ये नन्दकऋष्यकौ ॥ २७० ॥

चक्रपक्षीशसीराणां शार्ङ्गनन्दकयोरपि ।
स्वेषु स्थानेषु पूर्वोक्तं वर्णरूपादिकं द्विजाः ॥ २७१ ॥

अन्येषां तालपूर्वाणां त्रयाणामथ वक्ष्यते ।
तालो ध्वजः स्याद् भूतादिकालरूपाभिमानकः ॥ २७२ ॥

झषः सर्वाङ्गनिभृतो जगद्बीज उदाहृतः ।
ससर्वोपद्रवो ऋष्यो संसारश्चपलात्मकः ॥ २७३ ॥

एतान् सूक्ष्मस्वरूपेण ध्यात्वा सम्पूजयेत् क्रमात् ।
गङ्गा च यमुना गोदा नदी च महती तथा ॥ २७४ ॥

वितस्ता नर्मदा चैव जम्ब्वाख्या च सरस्वती ।
नद्यश्चतुर्थसालस्य दिग्द्वारेषु क्रमात् स्थिताः ॥ २७५ ॥

गङ्गायमुनयोरुक्तं वर्णरूपादिकं पुरा ।
ताभ्यामन्याः समानास्तु वर्णशोभां विनैव तु ॥ २७६ ॥

सितारुणाः सितस्वर्णसितकुन्दसमप्रभाः ।
प्रमत्तप्रौढवेषाश्च नानाभरणभूषिताः ॥ २७७ ॥

सर्वधातुविचित्राङ्ग्यः सर्वरत्नविराजिताः ।
सुधाकुम्भधराः द्वाभ्यां कराभ्यां पूर्ववच्च ताः ॥ २७८ ॥

एवं दिग्द्वारभवनद्वाःस्थस्थितिरुदाहृता ।
एकमूर्तेषु दिङ्मूर्तेः प्राकारसूर्ध्वगेषु च ॥ २७९ ॥

द्वारादयस्तदीयाश्च सामान्याः समुदाहृताः ।
सर्वसालप्रतिहारशाखापार्श्वगतावुभौ ॥ २८० ॥

ध्येयौ वा स्थापनीयौ वा बाह्यागारगतौ यदि ।
यथोक्तलक्षणोपेतौ स्थापनीयौ यथाक्रमम् ॥ २८१ ॥

एवमावरणेशानान् ध्यात्वा संस्थाप्य वार्चयेत् ।
ध्यानोत्थाः पीठदेशेषु स्वाकारास्त्वसु सद्मसु ॥ २८२ ॥

तदर्थमङ्गणक्षेत्रं त्रिधा वा पञ्चधा भजेत् ।
त्रिभागमेकभागं वा त्यक्त्वा तन्मध्यतो बहिः ॥ २८३ ॥

पीठं वायतनं कुर्यात् सर्वदिक्ष्वन्तरेऽथवा ।
अधरोत्तरनिष्ठाभ्यां प्रागुक्ते पूर्ववत् स्थिते ॥ २८४ ॥

शिलेष्टकादिभिः क्लृप्ताः पीठिका हस्तविस्तृताः ।
तदर्धेनोच्छ्रिताः सर्वाः सर्वालङ्कारशोभिताः ॥ २८५ ॥

चतुरश्राः सुवृत्ता वा सम्पूज्या वाथ केवलाः ।
ग्रामादिवास्तुदेवानां स्वदिग्भागगतेषु च ॥ २८६ ॥

गोमयादिविलिप्तेषु मण्डलेषु बलिं हरेत् ।
विस्तारोच्छ्रायमानाढ्यैः पीठाः प्रागुक्तलक्षणाः ॥ २८७ ॥

अर्धमानेन वा कार्या रथयात्राऽविरोधतः ।
एवमावरणेशानाः पीठेषु स्वासु दिक्षु च ॥ २८८ ॥

दुष्टदोषनिरासार्थं प्रासादाभिमुखं स्थिताः ।
चतुःस्थानावतीर्णस्य द्वारे च यजनालये ॥ २८९ ॥

स्थापनं गणनाथानां शृणुध्वं मुनिपुङ्गवाः ।
वास्तुक्षेत्रेशसंज्ञौ द्वौ प्राग्द्वारे पूर्ववत् स्थितौ ॥ २९० ॥

लक्ष्मीः कीर्तिर्जया माया द्वारेषूर्ध्वस्थिताः क्रमात् ।
वज्रनाभादयो देवा द्वौ द्वौ दिग्द्वारशाखयोः ॥ २९१ ॥

प्रागादिद्वारकुम्भेषु सम्भवप्रभवादयः ।
कुमुदाद्यन्तरङ्गं च भूतानामष्टकं परम् ॥ २९२ ॥

द्वारान्तर्भूमियुक्त्या तु भ्रमणीदेशमाश्रितम् ।
सुपर्णः शक्रसंज्ञश्च सत्यः कौमोदकी द्विजाः ॥ २९३ ॥

योजनीयाः क्रमेणैव द्वाराणामग्रभूतले ।
हेमदण्डगतः सत्यः किन्तु पश्चिमदिग्गतः ॥ २९४ ॥

चण्डाद्याश्च सुभद्रान्ता द्वौ द्वौ प्रागादिषु द्विजाः ।
दक्षिणोत्तरयोगेन तोरणस्तम्भमूलगाः ॥ २९५ ॥

चक्रद्वितयमध्यस्थः पक्षीशस्तोरणोपरि ।
तत्पार्श्वयोः स्थितं चक्रं नानावर्णपताकयोः ॥ २९६ ॥

सत्यादिकं चतुष्कं तु मध्यवेद्यां ध्वजाष्टके ।
प्रभवाप्यययोगेन पूज्यं प्रागादियोगतः ॥ २९७ ॥

इन्द्रादिलोकपालास्ते सिद्धसङ्घपुरःसराः ।
वज्रादयस्तदस्त्राश्च स्वासु दिक्षु बहिः स्थिताः ॥ २९८ ॥

मुख्यकल्पेऽथ वान्येषु निमित्तेष्वेवमाचरेत् ।
अनुकल्पेऽथ चण्डादीन् वास्तुनाथादिपूर्वकम् ॥ २९९ ॥

द्वारेषु केवलान्न्यस्य गरुडान्तं प्रपूजयेत् ।
सर्वद्वारेषु वा पूज्यः सहेतीशः पतत्रिपः ॥ ३०० ॥

विविधासु प्रतिष्ठासु जीर्णोद्धारविधावपि ।
महोत्सवेषु सर्वेषु ध्वजारोहणकर्मणि ॥ ३०१ ॥

मङ्गलाङ्कुररोपे च पवित्रारोहणादिषु ।
तथा चानन्तकलशाद्यभिषेकविधावपि ॥ ३०२ ॥

प्रायश्चित्तेष्वनित्येषु काम्येष्वपि च नित्यशः ।
मुख्यकल्पोक्तविधिना कुर्यादन्यत्र चान्यथा ॥ ३०३ ॥

सिद्धसङ्घास्तथेन्द्राद्यास्तदस्त्राश्च यथाक्रमम् ।
लोकदिक्पालकास्त्वेते स्वसेनाभिः समावृताः ॥ ३०४ ॥

प्रसिद्धप्राग्वशेनैव नित्यं स्वस्थानमाश्रिताः ।
दिक्पालकत्वादासृष्टेस्तेषां स्थितिः स्थिरा ॥ ३०५ ॥

भगवन्मन्त्रमूर्तीनामनन्तानां मुनीश्वराः ।
स्वस्थानस्था नमस्यन्ति पूजयन्ति जपन्ति च ॥ ३०६ ॥

ध्वजाद्यैरुपचारैश्च सम्यक् परिचरन्ति च ।
कैवल्यसिद्धये शश्वद्बहुभिः स्वानुगैः सह ॥ ३०७ ॥

पालयन्ति च भक्तानां बलमोजो ददति च ।
ध्वंसयन्ति च विघ्नौघमनिशं मन्त्रयाजिनाम् ॥ ३०८ ॥

संरक्षन्ति फलं मान्त्रं वर्धमानं द्विलक्षणम् ।
अधिकारमनाद्यन्तं शक्तिबीजं जगत्प्रभोः ॥ ३०९ ॥

दिक्सिद्धये दशत्वं तद्व्यक्तयेऽष्टदिशात्मता ।
बाह्यत्रिसालभूमिष्ठाः कालाद्या भवदेवताः ॥ ३१० ॥

तत्साधकत्वात् पूर्वोक्तदिग्भागे नियताः सदा ।
वज्रनाभादयो देवाः लोकदिग्द्वारपालकाः ॥ ३११ ॥

तथाऽमरेशपूर्वाश्च सम्भवप्रभवादयः ।
प्रसिद्धप्राक्क्रमेणैव दिग्द्वारेषु स्थिताः क्रमात् ॥ ३१२ ॥

कालाद्यमष्टकं नित्यमिन्द्राद्यं रुद्रपश्चिमम् ।
नियन्ता कालतत्त्वान्ते तदन्ते सुस्थितं वियत् ॥ ३१३ ॥

क्रमात् पूर्वोत्तरे कोणे न्यसेद् दक्षिणपश्चिमे ।
विद्याऽविद्याद्वयं यद्वै स्वपदस्थेऽग्निमारुते ॥ ३१४ ॥

चन्द्रादित्यावुदग्याम्यस्थानयोर्विनिवेश्य च ।
प्रत्यग्भागगतं तोयं प्राग्भागे विन्यसेद्धराम् ॥ ३१५ ॥

कुमुदाद्या वृतीशाना लोहिताक्षादयस्तथा ।
वज्रनाभादिकं मुक्त्वा द्वारपालं त्रिरष्टकम् ॥ ३१६ ॥

द्वारपालगणास्त्वेते सालकोणगतास्तथा ।
प्रोक्तक्रमेण तिष्ठन्ति भगवत्प्रागपेक्षया ॥ ३१७ ॥

कुमुदादिगणेशानां पुरग्रामादिवास्तुनि ।
पालिकावसथे चैव दिक्पालोक्तवशात् स्थिताः ॥ ३१८ ॥

त्रिसन्ध्यमेव देवानां बलिदानं समाचरेत् ।
सङ्कल्पितेषु सालेषु द्वारावरणवासिनाम् ॥ ३१९ ॥

असङ्कल्पितसालोक्तदेवानां नाचरेद् बलिम् ।
तत्तन्निर्माणकाले तान् प्रतिष्ठाप्य यथाविधि ॥ ३२० ॥

देवयात्रासमेतं तु बलिदानं समाचरेत् ।
एवं सर्वं समापाद्य महापीठोर्ध्वभूतलम् ॥ ३२१ ॥

प्रक्षालितं समारुह्य प्राङ्मुखो वाप्युदङ्मुखः ।
तदूर्ध्वाम्बुजदिक्पत्रे कुमुदादीनथान्तरे ॥ ३२२ ॥

सर्वभूतान्पारिषदानाहूय ग्रहसंज्ञितान् ।
सम्पूज्य सोदकं तत्र बलिशेषं समुत्किरेत् ॥ ३२३ ॥

पश्चादाचम्य विधिवत् स्नात्वा वा संविशेद् गृहम् ।
सर्वद्वारावृतीशानां कोणस्थानां समर्चने ॥ ३२४ ॥

नतिप्रणवसंयुक्तस्वनाम मन्त्र ईरितः ।
महापीठस्थभूतानां पार्षदानां ग्रहात्मनाम् ॥ ३२५ ॥

तारान्ते विष्णुशब्दं च नियुञ्ज्यादुदितक्रमात् ।
सर्वकोणगता मन्त्राः फडन्ताः समुदीरिताः ॥ ३२६ ॥

सर्वे समुदिता मन्त्राः स्वाहान्ता होमकर्मणि ।
ध्यात्वैवमर्च्य तन्मन्त्रैरर्घ्याद्यैरुपचारकैः ॥ ३२७ ॥

दर्शयेदावृतीशानां मुद्रां तर्जनीसंज्ञिताम् ।
द्वारपालगणानां तु चण्डाद्युक्तमनन्तरम् ॥ ३२८ ॥

धर्माद्यावरणादूर्ध्वं हेतुना येन केनचित् ।
बलिदानमशक्यं चेत् तत्रत्यानां यथाक्रमम् ॥ ३२९ ॥

सर्वतोभद्रपूर्वेषु द्विगुणीकृत्य चाचरेत् ।
मुख्यकल्पे तथान्यत्र यथाशक्त्यावृतिक्षितौ ॥ ३३० ॥

तद्बाह्यावृतिदेवानामावृत्यावृत्य तर्पयेत् ।
द्वारोपद्वारपालानां तस्मिन् द्वारे समर्पयेत् ॥ ३३१ ॥

महापीठोदितानां च तद्द्वाराग्रस्थमण्डले ।
ध्यानोत्थानां त्वसञ्चारे न दोषः केन हेतुना ॥ ३३२ ॥

तत्तदावरणद्वारदेशभुक्तक्रमेण तु ।
द्रव्यमूर्तिगतानां च सञ्चारः स्यादनिष्टकः ॥ ३३३ ॥

एवमावृतिदेवानां त्रिसन्ध्यं बलिमाचरेत् ।
नित्योत्सवार्थबिम्बस्य सन्निधौ तत्समाचरेत् ॥ ३३४ ॥

नृत्तगेयादिसंयुक्तं वेदघोषसमन्वितम् ।
द्वारावरणदेवानां ध्यानादीत्थं प्रकाशितम् ॥ ३३५ ॥

एवं हि बलिदानान्तं यत्र पूजां समाचरेत् ।
तत्र देवस्य सान्निध्यं नैरन्तर्येण सिद्ध्यति ॥ ३३६ ॥

एवं कालत्रये कुर्यात् पूजनं देशिकोत्तमः ।
न च कालत्रयान्न्यूनं पूजनं विहितं सदा ॥ ३३७ ॥

प्रासादेषु स्वयंव्यक्तपूर्वेषु द्विजसत्तमाः ।
कालत्रयं प्रधानं स्यात् तदूर्ध्वं कर्तुरिच्छया ॥ ३३८ ॥

विभवापेक्षया चैव वर्धयेत् यथाक्रमम् ।
यावत् द्वादशमः कालस्तावद्वै मुनिपुङ्गवाः ॥ ३३९ ॥

श्रेष्ठः प्रभातकालः स्यात् त्रिषु कालेषु वै पुनः ।
यथावन्मन्त्रविन्यासमात्मनः करदेहयोः ॥ ३४० ॥

हृद्यागं स्थानसंशुद्धिं सायामां भौतिकीं ततः ।
नित्यं प्राभातिके कुर्यादन्यत्रेच्छाऽनुरूपतः ॥ ३४१ ॥

स्नपनं बलिदानं च कुर्यात् कालत्रये सदा ।
मूर्तेरासनपूजा तु कार्या कालचतुष्टये ॥ ३४२ ॥

पञ्चकाले भवेन्न्यासः षट्काले हवनक्रिया ।
अत ऊर्ध्वेषु कालेषु जपान्तं पूजनं भवेत् ॥ ३४३ ॥

अलङ्कारासनाद्यं च पूर्ववत् क्रमयोगतः ।
विनोक्तेन प्रकारेण ह्यन्यथा न समाचरेत् ॥ ३४४ ॥

मुख्यकल्पे तु होमान्तं नित्यनैमित्तिकात्मिकाम् ।
पूजां क्रमेण वै कुर्यात् तत्तद्धोमावसानिकाम् ॥ ३४५ ॥

अनुकल्पे तु जप्यान्तं यागानन्तरितेषु च ।
यागेषु हवनान्तेषु नित्यनैमित्तिकादिषु ॥ ३४६ ॥

तत्तद्यागं जपान्तं च क्रमात् कृत्वा ततः परम् ।
तत्तद्धोमं मुनिश्रेष्ठाः क्रमात् कुर्याद्यथाविधि ॥ ३४७ ॥

अनुकल्पेषु यागेषु ह्युपकालोदितेषु वै ।
आसनार्घ्ये ततः पाद्यमाचामं सप्रतिग्रहम् ॥ ३४८ ॥

गन्धं माल्यं तथा दीपं धूपं मात्रां क्रमेण तु ।
दत्त्वा भोज्यावसानं तु क्रमाद् दद्याद् विधानतः ॥ ३४९ ॥

इत्येवमर्चनविधिः साङ्गोपाङ्गः प्रदर्शितः ।
इतोऽन्यच्छ्रोतुमिच्छा चेत् कथ्यतां मुनिपुङ्गवाः ॥ ३५० ॥

इति श्रीपाञ्चरात्रे ईश्वरसंहितायां द्वारावरणदेवतालक्षणादिविधिर्नाम नवमोऽध्यायः ॥


Kapitel 10 – महोत्सवध्वजारोहणान्तविधिः / mahotsavadhvajārohaṇāntavidhiḥ

Siehe deutsche Übersetzung und Texthinweise.

मुनयः ।

भगवन् मुनिशार्दूल सर्वज्ञ वदतां वर ।
नित्यार्चनादिकं सर्वं श्रुतं त्वत्तः सविस्तरम् ॥ १ ॥

महोत्सवाद्युत्सवांस्तु साम्प्रतं वक्तुमर्हसि ।
नारदः ।
अथातः सम्प्रवक्ष्यामि महोत्सवविधिक्रमम् ॥ २ ॥

सव इत्युच्यते दुःखं विद्वद्भिर्मुनिपुङ्गवाः ।
उद्धृतः स सवो यस्मात् तस्मादुत्सव उच्यते ॥ ३ ॥

नित्यो नैमित्तिकः काम्यस्त्रिविधः स महोत्सवः ।
वत्सरे वत्सरे यस्तु क्रियते स तु नित्यकः ॥ ४ ॥

भूमिकम्पे दिशां दाहे महोत्पातेषु सत्सु च ।
दुर्भिक्षे व्याधिते राष्ट्रे तथा वै शत्रुसङ्कटे ॥ ५ ॥

अनावृष्टौ च सर्वत्र नक्षत्रपतने च खात् ।
हसने भगवन्मूर्तेरङ्गानां चलने सति ॥ ६ ॥

रोदने चासनाद् बिम्बे परिभ्रमति सत्तमाः ।
व्यत्यासे शशिसूर्यस्य तथान्येष्वेवमादिषु ॥ ७ ॥

शान्त्यर्थं यत् प्रकुर्वीत स नैमित्तिक उच्यते ।
चतुर्णां पुरुषार्थानामुद्दिश्यान्यतमं फलम् ॥ ८ ॥

उत्सवोऽनुष्ठितः काम्यः सङ्कल्पितफलप्रदः ।
ज्योतिःशास्त्रेषु कुशलैर्ब्राह्मणैः सह देशिकः ॥ ९ ॥

पूर्वं कृत्वा यथाशास्त्रं तीर्थर्क्षविनिर्णयम् ।
तीर्थयात्रानुसारेण ध्वजारोहं प्रकल्पयेत् ॥ १० ॥

मन्त्रमूर्तिप्रतिष्ठानकाल एव मुनीश्वराः ।
प्रासादस्य शिखाग्रे तु स्थापितः खगराड्ध्वजः ॥ ११ ॥

हेतिराजसमायुक्तो यत्र यत्र सदा द्विजाः ।
विना त्वन्यध्वजारोहमुत्सवं परिकल्पयेत् ॥ १२ ॥

तत्राप्यन्यध्वजारोहं कुर्याद् वा विभवे सति ।
कुर्यादुत्सवमन्यत्र ध्वजारोहणपूर्वकम् ॥ १३ ॥

नवाहं दैविकं प्रोक्तं सप्ताहं मध्यमं भवेत् ।
पञ्चाहमधमं विद्यात् त्रिविधं चोत्सवं स्मृतम् ॥ १४ ॥

तत्र तावत् प्रवक्ष्यामि नवाहस्य विधिक्रमम् ।
ध्वजाधिवासपूर्वेद्युः देशिको मन्त्रवित्तमः ॥ १५ ॥

स्नायाद्वपनपूर्वं तु भगवद्यागसिद्धये ।
निशामुखे प्रवृत्ते त्वाचार्यो मूर्तिपैः सह ॥ १६ ॥

स्नानादिनित्यनियमान् कृत्वा चैव यथाविधि ।
भूषणैर्विविधैर्वस्त्रैर्नूतनैश्च विभूषितः ॥ १७ ॥

सितोष्णीषोत्तरीयश्च चित्रमाल्यैरलङ्कृतः ।
प्रविश्य देवसदनं यजमानसमन्वितः ॥ १८ ॥

नित्यार्चनावसाने तु वैष्णवान् द्विजसत्तमान् ।
षट्कर्मनिरतांश्चैव पञ्चकालपरायणान् ॥ १९ ॥

समभ्यर्च्य ततस्तेभ्यो ह्यनुज्ञां प्रतिगृह्य च ।
विष्वक्सेनं समभ्यर्च्य यागविघ्नप्रशान्तये ॥ २० ॥

पश्चात् स्वदेहशुद्ध्यर्थं पुण्याहं वाचयेद् गुरुः ।
प्रकल्प्य भूतले शुद्धे धान्यपीठं यथाविधि ॥ २१ ॥

विन्यस्य मङ्गलं कुम्भं सम्पूर्णं गन्धवारिणा ।
रत्नहाटककूर्चस्रग्वस्त्रपल्लवसंयुतम् ॥ २२ ॥

चन्दनाद्युपलिप्तं च परितश्चार्घ्यचर्चितम् ।
तत्कुम्भस्य चतुर्दिक्षु चतुरो मूर्तिपान्न्यसेत् ॥ २३ ॥

अर्घ्यगन्धैस्तथा पुष्पैरक्षतैर्दक्षिणादिभिः ।
तोषयित्वा तु तान् सर्वान् ततः कुम्भे सुदर्शनम् ॥ २४ ॥

समावाह्य समभ्यर्च्य ध्यायमानोऽच्युतं हृदि ।
दर्भैः स्पृशंस्तु कलशं ब्राह्मणैः सह देशिकः ॥ २५ ॥

ओङ्काराद्यं पवित्रान्तं मन्त्राणां प्राक्चतुष्टयम् ।
पाठयेच्च सपुण्याहं गायत्रीत्रितयान्वितम् ॥ २६ ॥

ततश्चात्मानुवादं चात्मव्यूहं तथैव च ।
ततश्च शुद्धिमन्त्रास्तु पठेदेवं समाहितः ॥ २७ ॥

शुद्धयेऽस्तु परो देवो वासुदेवोऽस्तु शुद्धये ।
सङ्कर्षणः शुद्धयेऽस्तु प्रद्युम्नश्चाऽस्तु शुद्धये ॥ २८ ॥

शुद्धयेऽस्त्वनिरुद्धोऽपि केशवश्चास्तु शुद्धये ।
नारायणोऽस्तु विश्वेशः शुद्धये सर्वकर्मसु ॥ २९ ॥

शुद्धये माधवश्चास्तु सर्वलोकहिते रतः ।
गोविन्दः शुद्धये चाऽस्तु परमात्मा सनातनः ॥ ३० ॥

शुद्धये विष्णुरस्त्वाद्यः शुद्धये मधुसूदनः ।
सर्वलोकहितो देवः शुद्धयेऽस्तु त्रिविक्रमः ॥ ३१ ॥

वामनः शुद्धये चास्तु श्रीधरोऽद्यास्तु शुद्धये ।
शुद्धयेऽस्तु हृषीकेशः पद्मनाभोऽस्तु शुद्धये ॥ ३२ ॥

सदा दामोदरो देवः शुद्धयेऽस्तु जगत्पतिः ।
शुद्धये पद्मनाभोऽस्तु शुद्धयेऽस्तु सदा ध्रुवः ॥ ३३ ॥

अनन्तः शुद्धये चास्तु शक्त्यात्मा चास्तु शुद्धये ।
सर्वकर्मसु चैवास्तु शुद्धये मधुसूदनः ॥ ३४ ॥

सदा विद्याधिदेवोऽस्तु शुद्धये कपिलस्तथा ।
शुद्धये विश्वरूपोऽस्तु शुद्धयेऽस्तु विहङ्गमः ॥ ३५ ॥

क्रोडात्मा शुद्धये चास्तु शुद्धये बडबाननः ।
शुद्धयेऽस्तु सदा धर्मश्चास्तु वागीश्वरस्तथा ॥ ३६ ॥

देव एकार्णवशयः शुद्धयेऽस्तु निरन्तरम् ।
शुद्धयेऽस्तु सदा देवः कूर्मः पातालधारकः ॥ ३७ ॥

वराहः शुद्धये चास्तु नारसिंहोऽस्तु शुद्धये ।
अमृताहरणश्चास्तु शुद्धये सर्वकर्मणाम् ॥ ३८ ॥

श्रीपतिः शुद्धये चास्तु कान्तात्मा चास्तु शुद्धये ।
शुद्धये राहुजिच्चास्तु कालनेमिघ्न एव च ॥ ३९ ॥

पारिजातहरश्चास्तु लोकनाथोऽस्तु शुद्धये ।
सर्वत्र शुद्धये चास्तु दत्तात्रेयो महाप्रभुः ॥ ४० ॥

न्यग्रोधशायी भगवान् शुद्धये चास्तु सर्वदा ।
एकशृङ्गतनुश्चास्तु वामनश्चापि शुद्धये ॥ ४१ ॥

त्रिविक्रमः शुद्धयेऽस्तु शुद्धयेऽस्तु नरः सदा ।
नारायणः शुद्धयेऽस्तु हरिः कृष्णश्च शुद्धये ॥ ४२ ॥

ज्वलत्परशुधृग्रामः शुद्धयेऽस्तु धनुर्धरः ।
रामश्च शुद्धये चास्तु वेदविद्भगवांस्ततः ॥ ४३ ॥

शुद्धयेऽस्तु सदा कल्की सर्वदोषक्षयङ्करः ।
शुद्धयेऽस्तु सदा देवः पातालशयनः प्रभुः ॥ ४४ ॥

शुद्धये सन्तु सर्वेषां सर्वे सर्वत्र सर्वदा ।
एते सर्वे सदा देवाः शान्तये सन्तु पूजिताः ॥ ४५ ॥

ऋद्धये पुष्टये सन्तु सिद्धये भक्तयेऽपि च ।
शिवाय मुक्तये सन्तु वृद्धये सर्वकर्मणाम् ॥ ४६ ॥

मन्त्राणां देशिकानां च स्थानानामपि सर्वदा ।
पुत्रमित्रकलत्राणां दासीदासगवामपि ॥ ४७ ॥

वेदशास्त्रागमादीनां व्रतानामिष्टसम्पदाम् ।
मनोरथानां सर्वेषां हितानां सन्तु सर्वदा ॥ ४८ ॥

आयुष्यारोग्यमेधानां धनधान्यादिसम्पदाम् ।
पुण्यानामणिमादीनां गुणानां श्रेयसामपि ॥ ४९ ॥

राज्ञो जनपदस्यापि यजमानस्य मन्त्रिणाम् ।
वैष्णवानां विशेषेण परत्र हितमिच्छताम् ॥ ५० ॥

पञ्चकालविशुद्धानां सत्त्वस्थानां शुभात्मनाम् ।
स्वस्त्यस्तु च शिवं चास्तु शुभं चास्तु पुनः पुनः ॥ ५१ ॥

अविघ्नमनिशं चास्तु दीर्घमायुष्यमस्तु वै ।
समाहितं मनश्चास्तु सम्पदश्चोत्तरोत्तरम् ॥ ५२ ॥

पुण्याहं शुद्धये चास्तु वासुदेवादिमूर्तयः ।
शङ्खचक्रगदापद्मयुक्तः सर्वेश्वरेश्वरः ॥ ५३ ॥

प्रीयतां भगवान् देवो लाङ्गली प्रीयतां सदा ।
प्रद्युम्नः प्रीयतां नित्यमनिरुद्धः सुरेश्वरः ॥ ५४ ॥

नारायणः सुरेशोऽपि कर्मणां पूरणाय च ।
न्यूनाधिकानां शान्त्यर्थं प्रीयतां प्रीयतां विभुः ॥ ५५ ॥

पुण्याहं स्वस्ति ऋद्धिं च संवाच्य सह मूर्तिपैः ।
तदद्भिः शतधारेण स्थानानीत्यादिकेन च ॥ ५६ ॥

आत्मानं प्रोक्षयेत् पश्चाद्देशिकस्त्वात्मशुद्धये ।
एवं सर्वेषु यागेषु कुर्यात् पुण्याहवाचनम् ॥ ५७ ॥

गोहिरण्यादिदानैश्च शुद्धिं प्राप्याथ देशिकः ।
देवस्य सन्निधिं गत्वा ह्युपविष्टस्तथासने ॥ ५८ ॥

सायामां भूतसंशुद्धिं धारणाभ्यां समाचरेत् ।
देहविन्यस्तमन्त्रोऽथ मानसं यागमाचरेत् ॥ ५९ ॥

मन्त्रासने ततो देवं समभ्यर्च्य यथाविधि ।
स्नानासनं ततो नीत्वा स्नापयेन्नवभिर्घटैः ॥ ६० ॥

देवस्य पुरतो भूमिं स्नपनार्थं यथाविधि ।
त्रेधा विभज्य कोष्ठानां नवके द्विजसत्तमाः ॥ ६१ ॥

धान्यपीठादिकं कृत्वा कलशानधिवास्य च ।
पाद्यमर्घ्यं तथाऽऽचामं सर्वौषधिजलं तथा ॥ ६२ ॥

प्रागाद्युत्तरपर्यन्तं न्यसेत् कोष्ठचतुष्टये ।
दधि क्षीरं मधु घृतमाग्नेयादिषु विन्यसेत् ॥ ६३ ॥

शुद्धाम्भःकलशं मध्ये विन्यस्य तदनन्तरम् ।
हरिद्राचूर्णकुम्भं तु तेषां च पुरतो न्यसेत् ॥ ६४ ॥

पुण्याहं वाचयित्वा तु प्रोक्षयेत् तज्जलैस्तु तान् ।
प्रागादिदिक्षु विन्यस्तकुम्भेषु प्रभवक्रमात् ॥ ६५ ॥

चतुरो वासुदेवादीन् विदिक्स्थकलशेषु तु ।
ईशानादिवह्निपर्यन्तं तानेवाप्यययोगतः ॥ ६६ ॥

मध्ये शुद्धोदकलशे यजेन्नारायणं विभुम् ।
अर्घ्यालभनपुष्पैश्च धूपेन मुनिपुङ्गवाः ॥ ६७ ॥

हरिद्राचूर्णकुम्भे तु श्रियं देवीं समर्चयेत् ।
स्नानासनोदितैर्भोगैर्मुखलेपान्तिमैः क्रमात् ॥ ६८ ॥

सम्पूज्य देवदेवेशं कुम्भैः संस्नापयेत् ततः ।
प्रथमं विष्णुगायत्र्या तथेदं विष्णुरित्यृचा ॥ ६९ ॥

ततस्त्रीणि पदादेन विष्णोः कर्माणि मन्त्रतः ।
प्रागादिदिक्षु विन्यस्तैः पाद्याद्यैः स्नापयेत् क्रमात् ॥ ७० ॥

दधिक्राविण्णमन्त्रेण आप्यायस्वेति मन्त्रतः ।
मधुवातेति मन्त्रेण ततः शुक्रमसीत्यृचा ॥ ७१ ॥

विदिक्षु न्यस्तकलशैर्दध्याद्यैः स्नापयेद् विभुम् ।
श्रीसूक्तेन ततो देवं हारिद्रेण विलेपयेत् ॥ ७२ ॥

ततः पुरुषसूक्तं तु पठित्वा ब्राह्मणैः सह ।
सहस्रधारया देवं शुद्धोदेनाभिषेचयेत् ॥ ७३ ॥

प्रतिद्रव्यं तु वस्त्रेण ह्यालभनमाल्यकैः ।
धूपेन च समभ्यर्च्य ततस्तेनाभिषेचयेत् ॥ ७४ ॥

यद्वार्घ्यपाद्यमाचामं गन्धस्रग्धूपदीपकम् ।
नैवेद्यं चार्पयेत् सर्वं केवलं चार्घ्यमेव च ॥ ७५ ॥

ततो नीराजनादींश्च कृत्वा देवस्य पूर्ववत् ।
अलङ्कारासनं नीत्वाऽऽसनादिक्रमाद्यजेत् ॥ ७६ ॥

भोगैः सांस्पर्शिकैः प्राग्वद्विविधैरौपचारिकैः ।
हृदयङ्गमसंज्ञैश्च समभ्यर्च्य यथाविधि ॥ ७७ ॥

स्तुत्वा स्तोत्रैर्जितन्ताद्यैः प्रणमेद्देशिको विभुम् ।
अथाङ्कुरार्पणं कुर्याद् देशिको मन्त्रवित्तमः ॥ ७८ ॥

तद्विधानं विस्तरेण शृणुध्वं मुनिसत्तमाः ।
त्रिविधानि च पात्राणि मङ्गलाङ्कुररोपणे ॥ ७९ ॥

पालिका घटिकाश्चेति शरावश्चेति भेदतः ।
पालिकानामथोच्छ्रायः पञ्चविंशाङ्गुलो भवेत् ॥ ८० ॥

तदाननस्य विस्तारो भवेद् वै षोडशाङ्गुलः ।
अष्टाङ्गुलस्तदुच्छ्रायो ह्यङ्गुलं वलयं ततः ॥ ८१ ॥

भवेत् कण्ठबिलं विप्रास्ततोऽष्टाङ्गुलविस्तृतम् ।
आरभ्य वक्त्रवलयाद्यावत्कण्ठबिलं द्विजाः ॥ ८२ ॥

ह्रासयेदनुपातेन तन्नालं द्वादशाङ्गुलम् ।
उच्छ्रायादथ विस्तारान्मध्यतस्तु षडङ्गुलम् ॥ ८३ ॥

अधस्तादङ्गुलानां तु चतुष्कं विस्तृतं भवेत् ।
ततः कण्ठबिलाच्चैव ह्रासयेदनुपाततः ॥ ८४ ॥

पादपीठमथोत्सेधाद्विज्ञेयं चतुरङ्गुलम् ।
दशाङ्गुलस्तद्विस्तारस्तत्सन्धिश्चाङ्गुलो भवेत् ॥ ८५ ॥

तत्सन्धेश्च भवेन्नालं सार्धमेकाङ्गुलं द्विजाः ।
उन्मत्तकुसुमाकारं वक्त्रं पद्माकृतिर्भवेत् ॥ ८६ ॥

पालिकोत्सेधतुल्यास्तु घटिकाः समुदाहृताः ।
अङ्गुलत्रयहीना वा तदूर्ध्वं कलशाकृतिः ॥ ८७ ॥

घटिकाः पञ्चवक्त्राः स्युरेतासां मध्यमं मुखम् ।
षडङ्गुलं च विस्तीर्णं चतुर्दिक्षु चतुष्टयम् ॥ ८८ ॥

चतुरङ्गुलविस्तारं कलशोदरविस्तृतिः ।
षोडशाङ्गुलमानोक्ता शेषं प्राग्वत् समाचरेत् ॥ ८९ ॥

यदाङ्गुलत्रयन्यूनास्तदा सप्ताङ्गुलोच्छ्रितम् ।
तदाननं तु तन्नालमर्धोत्तरदशाङ्गुलम् ॥ ९० ॥

सार्धत्र्यङ्गुलं पीठं प्राग्वत् सर्वत्र विस्तरः ।
शरावाः पालिकोत्सेधतुल्याः पञ्चभिरङ्गुलैः ॥ ९१ ॥

हीना वा वक्त्रविस्तारात् समारभ्य मुनीश्वराः ।
पादपीठस्य विस्तारं यावत् तावत् क्रमेण तु ॥ ९२ ॥

पूर्वोक्तात्पादहीना तु भवेत् सर्वत्र विस्तृतिः ।
भवेत् त्रिपादहीना तु पादपीठस्य विस्तृतिः ॥ ९३ ॥

यदा शरावा हीनाः स्युरङ्गुलैः पञ्चभिस्तदा ।
मुखं षडङ्गुलोच्छ्रायं तन्नालं तु दशाङ्गुलम् ॥ ९४ ॥

त्र्यङ्गुलं पादपीठं स्यात् प्राग्वत् सर्वत्र विस्तृतिः ।
एतदुत्तममानं तु पात्राणां कथितं द्विजाः ॥ ९५ ॥

एतदेव मुनिश्रेष्ठाः पादहीनं तु मध्यमम् ।
अर्धहीनं तु तन्मानमधमं परिकीर्तितम् ॥ ९६ ॥

अतो न्यूनं न कर्तव्यं कदाचित्सिद्धिकाङ्क्षिभिः ।
हेमादिलोहजाः सर्वे मृन्मया वा यथावसु ॥ ९७ ॥

प्रत्येकं पालिकादीनां द्विषट्कं चोत्तमं भवेत् ।
द्विरष्टकं वा षट्त्रिंशद्विभवे सति कल्पयेत् ॥ ९८ ॥

प्रत्यष्टकं मध्यमं स्याच्चतुष्कमधमं भवेत् ।
सर्वार्थे पालिकाः प्राग्वच्छोडशाष्टौ यथाबलम् ॥ ९९ ॥

चतस्रो वा ततस्तासु मङ्गलाङ्कुरकल्पनम् ।
अयुग्मा मानुषे कार्ये दैवे युग्मास्तु पालिकाः ॥ १०० ॥

महोत्सवे प्रतिष्ठायां पवित्रारोपणे तथा ।
जीर्णोद्धारविधौ चापि सहस्रकलशे तथा ॥ १०१ ॥

त्रिवर्णपालिका यद्वा भवेदुत्तमसङ्ख्यया ।
भवेन्मध्यमया वापि नान्यथा द्विजसत्तमाः ॥ १०२ ॥

कर्मस्वन्येषु सर्वेषु यथावित्तं यथारुचि ।
अङ्कुरावापनस्थानमण्डपं परिकल्पयेत् ॥ १०३ ॥

प्रथमावरणे वापि द्वितीयावरणेऽपि वा ।
तृतीयावरणे वापि चतुर्थावरणेऽपि वा ॥ १०४ ॥

शुभे विविक्तेऽभिमते देशे वै देशिकोत्तमः ।
चतुर्दिक्षु चतुर्द्वारं चतुर्वन्दनमालिकम् ॥ १०५ ॥

दर्भमालापरिक्षिप्तं मुक्तादामविराजितम् ।
विततक्षौमसञ्छन्नं गोमयालिप्तभूतलम् ॥ १०६ ॥

प्रदीपमालाविततमक्षतैश्चापि सर्वतः ।
सुधाचूर्णैश्च धवलैश्चित्रिताभ्यन्तरस्थलम् ॥ १०७ ॥

मण्डपं कल्पयित्वैवं यद्वा स्नपनमण्डपे ।
यागाख्यमण्डपे वाऽपि कुर्यादङ्कुररोपणम् ॥ १०८ ॥

अङ्कुरानर्पयेद् रात्रौ य इच्छेद् राष्ट्रवर्धनम् ।
बीजानामधिपः सोम ओषधीशोऽमृतात्मकः ॥ १०९ ॥

न प्रीणाति सदा तत्र अङ्कुरार्पणमह्नि चेत् ।
तस्मात् सर्वप्रयत्नेन रात्र्यामेवाङ्कुरार्पणम् ॥ ११० ॥

कुर्यात् सम्यग्विधानेन भगवद्भक्तिसंयुतः ।
तस्मिन् जगत्प्रिये प्रीते शीतांशौ प्राणिजीवने ॥ १११ ॥

तद्देशे सर्वसस्यानां सम्पत्तिर्महती भवेत् ।
गवां च लोकमातॄणां नृणामपि च सर्वशः ॥ ११२ ॥

अज्ञानादह्नि कुर्याच्चेदङ्कुराणामथार्पणम् ।
अशोभनं भवेद् राष्ट्रमसमृद्धजनान्वितम् ॥ ११३ ॥

सद्यःकालीनके विप्राः कर्मणि स्याद् दिवाऽपि वा ।
यद्यत्तत्रोपयोग्यं स्यात् तत्सर्वं च समार्जयेत् ॥ ११४ ॥

सम्भृत्य सर्वसम्भारानाचार्यो मूर्तिपैः सह ।
तदर्घ्यमर्पयित्वा तु यजमानसमन्वितः ॥ ११५ ॥

भगवन्तं जगद्योनिं पूजयित्वा विधानतः ।
ततस्त्वभिनवे पात्रे सौवर्णे राजतेऽथवा ॥ ११६ ॥

तिलसर्षपनीवारशालिमाषप्रियङ्गवः ।
कुलुत्थमुद्गनिष्पावयवगोधूमवैणवाः ॥ ११७ ॥

बीजानि द्वादशैतानि पृथक् पात्रेषु वा द्विजाः ।
सम्भृत्य तु मुनिश्रेष्ठाः स्थापयित्वा तु मूर्धनि ॥ ११८ ॥

दीक्षितस्य तु विप्रस्य पुष्पाक्षतकराञ्जलिः ।
आचार्यः प्रविशेत् सार्धं साधकैर्भगवन्मयैः ॥ ११९ ॥

प्रासादाभ्यन्तरं विप्राः तत्राधारोपरि न्यसेत् ।
बीजपात्रं ततोऽर्घ्येण गन्धैः पुष्पैश्च धूपकैः ॥ १२० ॥

सम्पूज्य मूलबिम्बस्थं तथा चोत्सवबिम्बगम् ।
बीजपात्रं ततोऽभ्यर्च्य देवाय विनिवेदयेत् ॥ १२१ ॥

सह शङ्खनिनादैश्च मङ्गलैर्गीतनिस्वनैः ।
तूर्यनादैश्च विविधैः श्रुतिघोषैः समन्ततः ॥ १२२ ॥

स्थापयित्वा तु तत्पात्रं दीक्षितस्यैव मूर्धनि ।
साधकैः सहितो विप्राः बहिर्निर्गत्य देशिकः ॥ १२३ ॥

धाम प्रदक्षिणीकृत्य न्यसेदङ्कुरमण्डपे ।
विष्वक्सेनं तु वा तार्क्ष्यं हनुमत्प्रमुखं तु वा ॥ १२४ ॥

हेतीशं वापि वस्त्राद्यैरलङ्कृत्य विशेषतः ।
यानादिकं समारोप्य प्रक्षाल्याद्भिः खनित्रकम् ॥ १२५ ॥

नवेन वाससाऽऽच्छाद्य भूषयित्वा तु माल्यकैः ।
देशिको वाहयेद्विप्रैः शूद्रैर्वा दीक्षितैर्द्विजाः ॥ १२६ ॥

चित्रध्वजपताकाभिः सार्धमङ्कुरपात्रकैः ।
त्रिविधैः पालिकाद्यैश्च शङ्खतूर्यादिभिः सह ॥ १२७ ॥

आम्नायोद्घोषणपरैर्भक्तैर्भगवतो विभोः ।
गायकैर्गणिकाभिश्च तथान्यैर्मङ्गलैः सह ॥ १२८ ॥

क्रमात् प्रदक्षिणीकृत्य सर्वेष्वावरणेषु च ।
दिशं प्राचीमुदीचीं वाऽथवा प्रागुदग्दिशम् ॥ १२९ ॥

अदूरं समनुप्राप्य तत्रोद्याने मनोहरे ।
केवले वा शुचौ देशे मृदं शुद्धां समाहरेत् ॥ १३० ॥

अस्त्रमन्त्रेण धरणीं सम्प्रोक्ष्य प्रथमं गुरुः ।
महीसूक्तेन संस्पृश्य ध्यायेदेकाग्रचेतस् ॥ १३१ ॥

मूर्तिं देवस्य वाराहीमभ्यर्च्य कुसुमैर्भुवम् ।
अस्त्राम्बुना प्रोक्षितेन पुष्पैरभ्यर्चितेन च ॥ १३२ ॥

खनित्रेण खनेद् भूमिं प्राङ्मुखः क्रोडमन्त्रतः ।
लोहजे भाजने मृत्स्नां वेत्रजे वा यथारुचि ॥ १३३ ॥

गृहीत्वा मूलमन्त्रेण वेष्टयित्वा च वाससा ।
प्रत्यग्रेण तथा नद्या वालुकां गोमयं तथा ॥ १३४ ॥

गोकुलात् पूर्ववत् पात्रे गृहीत्वाऽऽच्छाद्य वाससा ।
यानादिकं समारोप्य यद्वा दीक्षितमूर्धनि ॥ १३५ ॥

गत्वा प्रदक्षिणं ग्रामं प्रविशेन्मण्डपं ततः ।
मण्डपं शोधयित्वा तु यथोक्तविधिना द्विजाः ॥ १३६ ॥

ततो मण्डपमध्ये तु सूत्राण्यास्फालयेत् क्रमात् ।
प्रागायतानि प्रथमं क्रमात् सप्तदश क्षिपेत् ॥ १३७ ॥

उदगायतसूत्राणि चतुर्दश निपातयेत् ।
सूत्रात् सूत्रादन्तरालं षोडशाङ्गुलसम्मितम् ॥ १३८ ॥

त्र्यधिकदशैव स्युः पूर्वपश्चिमपङ्क्तयः ।
एवं षोडशसङ्ख्याता दक्षिणोत्तरपङ्क्तयः ॥ १३९ ॥

बीजपात्रप्रतिष्ठार्थं पूर्वपश्चिमपङ्क्तिषु ।
मध्ये पङ्क्तित्रयं स्थाप्य वीथ्यर्थं द्वितयं मृजेत् ॥ १४० ॥

भूयश्च पङ्क्तित्रितयं स्थापयेत् पार्श्वयोर्द्वयोः ।
दक्षिणोत्तरमध्ये तु स्थाप्य पङ्क्तिचतुष्टयम् ॥ १४१ ॥

द्वितयं द्वितयं पार्श्वे वीथ्यर्थं विमृजेत् पुनः ।
चतुश्चतुश्च पङ्क्तीनां स्थापयेत् क्रमयोगतः ॥ १४२ ॥

आशास्वष्टासु मध्ये च शरावघटपालिकाः ।
द्वादश द्वादश स्थाप्याः शतमष्टोत्तरं भवेत् ॥ १४३ ॥

आग्नेये दक्षिणे भागे नैर्ऋतेऽपि च पालिकाः ।
घटिका वारुणे ब्राह्मे तथा पौरन्दरेऽपि च ॥ १४४ ॥

शरावा मारुते सौम्ये त्वैशाने च यथाविधि ।
प्रत्येकं पालिकादीनां षोडशत्वेन कल्पने ॥ १४५ ॥

दक्षिणोत्तरगं सूत्रपञ्चकं विनिवेशयेत् ।
प्रागायतानि सूत्राणि पूर्ववद् विनिवेशयेत् ॥ १४६ ॥

आचरेत् पूर्ववद् विप्राः प्राक्प्रत्यक्पङ्क्ति कल्पनम् ।
तत्र दक्षिणतः पङ्क्तिचतुष्के स्थापयेत् क्रमात् ॥ १४७ ॥

पालिकाः षोडश पुरा मध्ये पङ्क्तिचतुष्टये ।
घटिकाः षोडश न्यस्य उत्तरे विनिवेशयेत् ॥ १४८ ॥

शरावानपि तत्सङ्ख्यानथ द्वादशकल्पने ।
दक्षिणोत्तरसूत्राणि चत्वार्यत्र विनिक्षिपेत् ॥ १४९ ॥

पूर्वापराणि सूत्राणि पूर्ववद् विनिपातयेत् ।
अष्टाधिकानि कोष्ठानि चत्वारिंशद्भवन्ति हि ॥ १५० ॥

याम्ये द्वादशकोष्ठानि स्थापयित्वा ततो मृजेत् ।
वीथ्यर्थं भागषट्कं तु मध्यतः स्थापयेत् ततः ॥ १५१ ॥

भागद्वादशकं पश्चाद् भागषट्कं विलोपयेत् ।
भूयश्चोत्तरदिक्स्थायं कोष्ठद्वादशकं क्रमात् ॥ १५२ ॥

न्यसेत् तु पालिकादीनि भागद्वादशकत्रये ।
आग्नेयादीशपर्यन्तं दक्षिणाशादितः क्रमात् ॥ १५३ ॥

प्रत्येकं पालिकादीनामष्टसङ्ख्याप्रकल्पने ।
दक्षिणोत्तरसूत्राणि त्रीण्येवं तु नियोजयेत् ॥ १५४ ॥

अन्यत्सर्वं भवेत् प्राग्वदथ प्रति चतुष्टये ।
दक्षिणोत्तरगं सूत्रत्रितयं विनिपातयेत् ॥ १५५ ॥

पूर्वपश्चिमसूत्राणि ह्येकादश विनिक्षिपेत् ।
सर्वार्थे पालिकानां तु षोडशानां परिग्रहे ॥ १५६ ॥

पञ्च दक्षिणसूत्राणि प्राक्सूत्राणि तथा क्षिपेत् ।
प्राक्सूत्रात् पञ्च चाधूनां दक्षसूत्रत्रयं क्षिपेत् ॥ १५७ ॥

चतुर्विंशतिसङ्ख्यानां पालिकानां परिग्रहे ।
पूर्वदक्षिणसूत्राणां सप्तकं पञ्चकं क्षिपेत् ॥ १५८ ॥

चतुःपरिग्रहे सूत्रं त्रितयं त्रितयं क्षिपेत् ।
पूर्ववत् सूत्रपातः स्याद्यथासङ्ख्यासु पञ्चसु ॥ १५९ ॥

एवमास्फाल्य सूत्राणि विभवेच्छानुसारतः ।
पदेषु पालिकादीनां शालिभिर्व्रीहिभिस्तथा ॥ १६० ॥

आढकादिमितैः प्राग्वदुत्तमादिव्यपेक्षया ।
वृत्तं वा चतुरश्रं वा कल्पयेत् पीठिकां क्रमात् ॥ १६१ ॥

पालिकादीनि पात्राणि क्षालयेन्मूलमन्त्रतः ।
सहदेवीं च दूर्वां च सार्धमश्वत्थपल्लवैः ॥ १६२ ॥

शिरीषपल्लवैश्चापि निशापत्रैस्तथैव च ।
कण्ठेषु पालिकादीनां बन्धयेत् तदनन्तरम् ॥ १६३ ॥

कुशकाशतृणैस्तेषां बिलमूलानि पूरयेत् ।
बिलानि प्रथमं मृद्वालुकाभिरनन्तरम् ॥ १६४ ॥

करीषचूर्णैरुपरि सममृदं पूरयेद् बिलम् ।
यद्वा मृदादिकं विप्राः सर्वं सम्मिश्र्य पूरयेत् ॥ १६५ ॥

कोष्ठेषु विन्यसेत् तानि पालिकादीन्यनुक्रमात् ।
आग्नेयादीशपर्यन्तं प्रतिस्कन्धं द्विजोत्तमाः ॥ १६६ ॥

द्वादशानां तु नवकमष्टोत्तरशतं न्यसेत् ।
ब्रह्मादीशानपर्यन्तमुदितक्रमयोगतः ॥ १६७ ॥

तेषां तु पश्चिमे स्थाने धान्यराशौ सलक्षणम् ।
विन्यसेत् सोमकुम्भं तु वेष्टितं नववाससा ॥ १६८ ॥

गन्धसर्वौषधिरत्नकूर्चपल्लवसंयुतम् ।
एवं सर्वं समापाद्य दीक्षितैः परिचारकैः ॥ १६९ ॥

तत्तत्सर्वं समापाद्य यद्यत्प्रागनुपार्जितम् ।
समारभेत् ततः कर्म देशिकः प्राङ्मुखः पदे ॥ १७० ॥

पश्चिमे घटिकास्थानादुपविश्यासने शुभे ।
न्यासमुद्दीप्य विधिना प्रोक्षणार्घ्यं प्रकल्पयेत् ॥ १७१ ॥

देहविन्यस्तमन्त्राणां कुर्यादर्घ्यादिनार्चनम् ।
द्वारपालार्चनं कृत्वा विभवेच्छानुरूपतः ॥ १७२ ॥

तोरणानि ध्वजांश्चैव द्वारकुम्भांश्च पूजयेत् ।
पुण्याहं वाचयित्वा तु पूर्वोक्तविधिना गुरुः ॥ १७३ ॥

यजेदर्घ्यादिभिः पश्चात् पालिकाद्यधिदेवताः ।
अब्जनाभं परं चैव पद्मनाभं ध्रुवं तथा ॥ १७४ ॥

पात्रस्कन्धत्रिके विप्राः क्रमेण परिपूजयेत् ।
पालिकानां द्वादशके वह्न्यादीशानपश्चिमम् ॥ १७५ ॥

अनन्तादिद्वादशकं घटिकाद्वादशे ततः ।
कूर्मादिकं द्वादशकं शरावाणां तु द्वादशे ॥ १७६ ॥

द्विषट्कमेकशृङ्गाद्यं क्रमेण परिपूजयेत् ।
प्रत्येकं पालिकादीनां कृते षोडशकल्पने ॥ १७७ ॥

अनन्ताद्यं च षट्त्रिंशत्पातालशयनान्तिमम् ।
लक्ष्म्यादिमतिपर्यन्तं शक्तिद्वादशकं यजेत् ॥ १७८ ॥

प्रत्येकं पालिकादीनां षट्त्रिंशत्परिकल्पने ।
चतुष्टयं तु मूर्तीनां स्वप्नाख्यपदसंस्थितम् ॥ १७९ ॥

प्रभवाप्यययोगेन जाग्रूपं तथाऽष्टकम् ।
मूर्त्यन्तरद्वादशकं तच्छक्तीनां चतुष्टयम् ॥ १८० ॥

अनन्ताद्यं च षट्त्रिंशत्पातालशयनान्तिमम् ।
स्वधादीनां च शक्तीनां चतुस्त्रिंशच्च तत्परम् ॥ १८१ ॥

चक्रशङ्खौ क्रमाद् भोगैरर्घ्यगन्धादिभिर्यजेत् ।
अष्टके केशवाद्यांश्च तदीयाः शक्तयो यजेत् ॥ १८२ ॥

चतुष्के केशवाद्यांस्तु केवलान् द्वादशार्चयेत् ।
सर्वार्थे पालिकानां तु क्रमाच्छोडशके यजेत् ॥ १८३ ॥

वासुदेवादिचतुरः केशवादींश्च द्वादश ।
अष्टके वासुदेवादीन् प्रभवाप्यययोगतः ॥ १८४ ॥

चतुष्के वासुदेवादीन् प्रभवानुक्रमेण तु ।
एवमिष्ट्वा ततः सोमकुम्भपूजां समाचरेत् ॥ १८५ ॥

कुम्भे सोमात्मकं देवं करके च सुदर्शनम् ।
अष्टदिक्षु च विन्यस्तकुम्भेष्विन्द्रादिकान्यजेत् ॥ १८६ ॥

एवं कुम्भार्चनं कृत्वा बीजक्षालनमाचरेत् ।
गव्येन पयसा सम्यङ्मूलमन्त्रेण वै द्विजाः ॥ १८७ ॥

बीजानां नामधेयैस्तु चतुर्थ्यन्तैः पृथक् पृथक् ।
अर्घ्याद्यैः पूजयित्वा तु वाससा परिवेष्ट्य च ॥ १८८ ॥

कुण्डे वा स्थण्डिले वाऽग्निं प्रतिष्ठाप्य यथाविधि ।
कृत्वा सन्तर्पणं चाग्नेस्तस्मिन् मन्त्रासनादिकम् ॥ १८९ ॥

परिकल्प्य च तन्मध्ये देवमावाह्य पूर्ववत् ।
सन्निधानादिकं सर्वं प्राग्वदेव समाचरेत् ॥ १९० ॥

समिद्भिश्चैव नित्याभिः काम्यैश्च जुहुयात् ततः ।
पालिकाद्यधिदेवानां मन्त्रैश्चापि यथाक्रमम् ॥ १९१ ॥

अष्टौ चतुः सकृद् वापि हुनेदाज्येन वै द्विजाः ।
हुत्वा सोमादिमन्त्रैश्च सम्पाताज्यं समाहरेत् ॥ १९२ ॥

हुतावशिष्टमाज्यं तु तदन्यं वाऽपि संस्कृतम् ।
आदाय लोहजे पात्रे मृन्मये वा यथारुचि ॥ १९३ ॥

उभाभ्यां चैव हस्ताभ्यां दूर्वामादाय मूलतः ।
घृते निमज्य चाग्राणि पालिकादिषु सेचयेत् ॥ १९४ ॥

हस्तव्यत्यासमार्गेण वह्न्यादीशानपश्चिमम् ।
प्रतिस्कन्धं घृतारोपे दूर्वाभेदः प्रकीर्तितः ॥ १९५ ॥

एवं कृत्वा घृतारोपं भूयः स्कन्धाधिदेवताः ।
प्रपूज्य सर्वबीजानि मन्त्रयेन्मूलमन्त्रतः ॥ १९६ ॥

आचार्यादीननुज्ञाप्य देशिकेन्द्र उदङ्मुखः ।
प्राङ्मुखो वा मुहूर्ते तु शोभने पालिकादिषु ॥ १९७ ॥

अष्टाक्षरेण मन्त्रेण सर्वबीजानि वापयेत् ।
यद्वा जितन्तामन्त्रेण ह्युभयेनाथ वा द्विजाः ॥ १९८ ॥

आग्नेयादीशपर्यन्तं प्रतिस्कन्धं क्रमेण तु ।
शङ्खदुन्दुभिनिर्घोषजयनादसमन्वितम् ॥ १९९ ॥

बीजानि द्वादशोक्तानि वपेद् द्वादशसु क्रमात् ।
यद्वा सर्वाणि सम्मिश्र्य वपेदिच्छानुसारतः ॥ २०० ॥

बीजानामप्यलाभे तु मुद्गमेकं तु वा वपेत् ।
आचार्यानुमताश्चान्ये देशिकाः साधका अपि ॥ २०१ ॥

वपेयुर्ध्यानसंयुक्ताः केवलं गुरुरेव वा ।
हरिद्राचूर्णसम्मिश्रैर्जलैः कुसुमवासितैः ॥ २०२ ॥

बहुभिः सेचयेद् विप्राः देशिकेन्द्रः क्रमेण तु ।
प्रतिस्कन्धोपरिष्टात् तु चन्द्रमण्डलमध्यगम् ॥ २०३ ॥

तत्कान्तिसन्निभं देवं स्वदेहोत्थैर्निरन्तरैः ।
सिञ्चन्तममृतौघैस्तु बीजान्युप्तानि सर्वतः ॥ २०४ ॥

ध्यात्वाऽर्चयित्वा पात्राणि नवैस्तु सदशैः शुभैः ।
आच्छादयित्वा वसनैः प्रतिस्कन्धं क्रमेण तु ॥ २०५ ॥

वासुदेवं जगद्योनिं सर्वेषामूर्ध्वतो यजेत् ।
भूतक्रूरबलिं दद्यादष्टदिक्षु द्विजोत्तमाः ॥ २०६ ॥

भूतानां कुमुदादीनां पूर्वदिक्क्रमयोगतः ।
तदाप्रभृति ते सर्वे रक्षन्ति कुमुदादयः ॥ २०७ ॥

आचार्यान् गुरुपूर्वांश्च साधकान् वैष्णवानपि ।
प्रभूतैस्तु तथोदिष्टैस्ताम्बूलैः सुमनःफलैः ॥ २०८ ॥

गुरुं च तोषयेद् वित्तैर्यजमानः प्रयत्नवान् ।
क्रमादुद्धृत्य तान् सर्वान् सुगुप्ते स्थापयेत् ततः ॥ २०९ ॥

मण्डपेशानकोणे वा देशेऽन्यत्र यथारुचि ।
तत्रापि पालिकादीनां परितोऽष्टासु दिक्षु च ॥ २१० ॥

भूतानां कुमुदादीनामैन्द्रादिक्रमयोगतः ।
बलिं तु मण्डपे दद्याद् भूतक्रूरविधानतः ॥ २११ ॥

दीपान् बहूननिर्वाणान् परितः परिदीपयेत् ।
ऊनाधिक्योपशान्त्यर्थं शतमष्टोत्तरं हुनेत् ॥ २१२ ॥

पूर्णाहुत्यादिकं कृत्वा देशिकेन्द्रो यथाविधि ।
ततः कुण्डगतं देवं विसृज्य हृदयान्तरि ॥ २१३ ॥

चतुर्द्वाराधिदेवानां मन्त्रैश्चापि यथाक्रमम् ।
हुत्वाऽऽज्येन ततो वह्निं विसृजेत् तु यथाविधि ॥ २१४ ॥

परितः पालिकादीनां प्रतिरात्रं पृथक् पृथक् ।
दद्याद् दिवा रजन्यां वा बलिं कालद्वयेऽपि वा ॥ २१५ ॥

प्रातः कर्मदिने दद्याद् बलिं देशिकसत्तमः ।
यदा चोप्तानि बीजानि तदाप्रभृति नित्यशः ॥ २१६ ॥

न कश्चित् प्रविशेत् तत्र न स्पृशेद् वा कथञ्चन ।
आचार्य एव प्रविशेत् तच्छिष्यो वा समाहितः ॥ २१७ ॥

उच्छिष्टादीनि सर्वाणि दूरतः परिवर्जयेत् ।
अदत्त्वा तु बलिं काञ्चिन्न कुर्यात् पालिकाक्रियाम् ॥ २१८ ॥

हरिद्रावारिभिः सिञ्चेदङ्कुराणामभिवृद्धये ।
अङ्कुरान् श्यामलान् रक्तान् कृष्णांस्तिर्यग्गतांस्तथा ॥ २१९ ॥

अप्ररूढान् मुनिश्रेष्ठाः वर्जयेत् तु यत्नतः ।
श्यामेषु द्रव्यनाशः स्याद् रक्तेषु कलहो भवेत् ॥ २२० ॥

कृष्णेषु मानसी पीडा रोगो तिर्यग्गतेषु च ।
अप्ररूढेषु मरणं भवेत् तत्र न संशयः ॥ २२१ ॥

शुभं पीतेषु शुक्लेषु ऋजुषूर्ध्वगतेष्वपि ।
सर्वसम्पत्समृद्धिश्च कर्तुः कारयितुर्भवेत् ॥ २२२ ॥

कर्मार्थमङ्कुरान्यादौ यः समारोपयेद् गुरुः ।
स एव कर्म कार्त्स्न्येन कुर्यात् प्राज्ञोऽपि नेतरः ॥ २२३ ॥

अनुज्ञया वा तत्पुत्रः शिष्यो वा तत् समाचरेत् ।
एवं सर्वेषु यागेषु चाङ्कुरारोपणं भवेत् ॥ २२४ ॥

देशं कालं तथा वित्तं ज्ञात्वा स्वाधीनतां तथा ।
उक्तं सर्वं समभ्यूह्य कुर्यात् कर्म प्रधानकम् ॥ २२५ ॥

एवं कृत्वाङ्कुरारोपं गत्वा देवस्य सन्निधिम् ।
देवमर्घ्यादिनाभ्यर्च्य नैवेद्यान्तं यथाविधि ॥ २२६ ॥

अनिर्वाणं यथादीपं रात्रिशेषं समापयेत् ।
तदन्येद्युः प्रभातायां ध्वजार्थं पटमाहरेत् ॥ २२७ ॥

यथावित्तानुसारेण क्रीतं वाऽभिनवं शुभम् ।
दुकूलपट्टं देवाङ्गं चित्रक्षौममथापि वा ॥ २२८ ॥

अथ कार्पासकं वाऽपि नीलरोमादिवर्जितम् ।
सुलक्षणं दृढं स्निग्धं पटमानमिहोच्यते ॥ २२९ ॥

आयतं नवभिर्हस्तैः सप्तभिःपञ्चभिस्तु वा ।
मूलबेरसमायामं द्वारायाममथापि वा ॥ २३० ॥

आयामार्धेन विस्तीर्णं पादेन कृतशेखरम् ।
शेखरेण समं पुच्छं तदर्धं कर्णपुच्छकम् ॥ २३१ ॥

बालाख्यध्वजवस्त्रं तु पटाख्यपरिसम्मितम् ।
विस्तारं पटतुल्यं तु पूर्ववच्छिखरं भवेत् ॥ २३२ ॥

निर्णेजितं खलीयुक्तं शोषितं लक्षणान्वितम् ।
पटं विचित्रयेद् विद्वान् शिल्पिना कुशलेन वै ॥ २३३ ॥

छत्रं शिखरे कुर्यात् पार्श्वयोः श्वेतचामरे ।
अधोऽनेकदलं पद्मं तदधः पूर्णकुम्भकम् ॥ २३४ ॥

कुम्भस्य पार्श्वे विलिखेत् साङ्कुरं पालिकागणम् ।
दीपौ सुशोभनौ कुर्यात् पालिकानां तु पार्श्वयोः ॥ २३५ ॥

ध्वजं तु गरुडाकारमेकमूर्तेस्तु सत्तमाः ।
सत्यः सुपर्णो गरुडस्तार्क्ष्यश्च चतुरात्मनः ॥ २३६ ॥

पञ्चमूर्तेस्तु चत्वारो विहगेश्वरसंयुताः ।
सुपर्णतालमकरऋष्या वा चतुरात्मनः ॥ २३७ ॥

तत ऊर्ध्वं तु सर्वेषां व्यूहानां गरुडो ध्वजः ।
पटमध्ये तु गरुडं द्विभुजं विधृताञ्जलिम् ॥ २३८ ॥

पुष्पाञ्जलिपुटं वाऽथ सुवर्णाचलसन्निभम् ।
गगने गमनारम्भपक्षविक्षेपणान्वितम् ॥ २३९ ॥

कुञ्चितो वामपादस्तु दक्षिणः पृष्ठतः स्थितः ।
किञ्चिदायतवृत्ताक्षं नीलदीर्घाग्रनासिकम् ॥ २४० ॥

अतीव शान्तवेषं तु तथा प्रहसिताननम् ।
बालचन्द्रसमाकारं दंष्ट्राद्वयविराजितम् ॥ २४१ ॥

कुटिलभ्रुकुटीभङ्गं भङ्गुरालकशोभितम् ।
कम्बुग्रीवं बृहद्बाहुं पीनांसं दृढवक्षसम् ॥ २४२ ॥

पृथूदरं निम्ननाभिं रोमराजिविराजितम् ।
सुवृत्तकनकस्तम्भपीवरोरुद्वयान्वितम् ॥ २४३ ॥

हेमरम्भासमाकारजङ्घाक्रान्तपदद्वयम् ।
करण्डमकुटाक्रान्तपुष्पापीडविराजितम् ॥ २४४ ॥

वृत्तवैपुल्यमानेन लोचने पद्मपत्रवत् ।
भ्रूयुगं नारसिंहोत्थं घ्राणाग्रं शुकतुण्डवत् ॥ २४५ ॥

सिंहवन्मध्यदेशस्तु तदंसं गजपृष्ठवत् ।
तदेवं देवदीर्घेण विस्तृतं हंसपक्षवत् ॥ २४६ ॥

स्वपक्षमानाद् द्विगुणं तत्पुच्छं शतशाखिनम् ।
सर्वेषामेव सामान्यं विशेषाख्यमथोच्यते ॥ २४७ ॥

मकुटादिसपादान्तं नानारत्नेन शोभितम् ।
हारकेयूरकटकब्रह्मसूत्रविभूषितम् ॥ २४८ ॥

प्रलम्बकर्णपाशान्तविश्रान्तशुभकुण्डलम् ।
ललाटतिलकोपेतं पुष्पकर्णवतंसकम् ॥ २४९ ॥

रत्नाङ्गुलीयकोपेतं शिञ्जिनीरञ्जिताङ्घ्रिकम् ।
अन्यैराभरणैर्दिव्यैर्भूषितं सर्वभूषितम् ॥ २५० ॥

नीलाम्बरधरं नीलवारकाणविराजितम् ।
फुल्लश्वेतोत्पलदलस्रग्भिर्मण्डितकन्धरम् ॥ २५१ ॥

तथा विचित्रकुसुमस्रग्भिरत्यभिरुज्ज्वलम् ।
अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः ॥ २५२ ॥

तक्षकः कटिसूत्रं तु हारः कार्कोटकस्तथा ।
पद्मो दक्षिणकर्णे तु महापद्मस्तु वामतः ॥ २५३ ॥

शङ्खः शिरःप्रदेशे तु गुलिकश्च भुजान्तरे ।
एतैरष्टोरगैराद्यैर्भूषितं भुजगोत्तमैः ॥ २५४ ॥

अनन्तः शुक्लवर्णाभो रक्तवर्णस्तु वासुकिः ।
तक्षकः पीतवर्णाभो धूम्रः कार्कोटकस्तथा ॥ २५५ ॥

शङ्खस्तुहिनवर्णाभो गुलिकस्त्वलिसन्निभः ।
पद्मः पद्मसमानाभो महापद्मस्तु पिङ्गलः ॥ २५६ ॥

पञ्चवर्णैर्लिखेदेवं देवं पञ्चायुधं तथा ।
चक्रं शङ्खं शरं चैव शङ्खं शार्ङ्गं गदां तथा ॥ २५७ ॥

पटोर्ध्वे ह्युभये पार्श्वे विलिखेच्च यथाविधि ।
तदधो दक्षिणे पार्श्वे वह्निमण्डलमालिखेत् ॥ २५८ ॥

तद्विलिखेद् वामभागे स्वस्तिकं लक्षणान्वितम् ।
लेपयेत् पटशेषं तु श्यामलेनासितेन वा ॥ २५९ ॥

विचित्रपुष्पसंयुक्तपत्रवल्लीसमन्वितम् ।
एवं शिल्पिवरेणैव कारयेद् देशिकोत्तमः ॥ २६० ॥

शूद्रेण वा द्विजश्रेष्ठाः दीक्षितेन यथाविधि ।
कुलालेनाथवा मन्त्री कारयेत् कुशलेन च ॥ २६१ ॥

एवं सर्वं समापाद्य देशिकः सुसमाहितः ।
सायंकाले तु सम्प्राप्ते सहितो मूर्तिधारकैः ॥ २६२ ॥

कारुशालां प्रविश्याथ तोषयित्वा तु शिल्पिनम् ।
तत्पटं तु समादाय विन्यसेच्छिष्यमूर्धनि ॥ २६३ ॥

शङ्खदुन्दुभिनिर्घोषैः काहलध्वनिभिस्तथा ।
गीतैश्च विविधैरन्यैः श्रुतिघोषैः पृथग्विधैः ॥ २६४ ॥

सह ध्वजपटं तस्मादानयेन्मुखमण्डपे ।
प्रविश्याभ्यन्तरं मूलबिम्बस्थं परमेश्वरम् ॥ २६५ ॥

अभिवाद्यार्घ्यगन्धाद्यैः पूजयेत् पुष्पधूपकैः ।
विसृज्य शिल्पिनं पश्चात् सम्प्रोक्ष्यार्घ्याम्भसा पटम् ॥ २६६ ॥

सिद्धार्थकान्वितैः पुष्पैस्ताडयेदस्त्रमन्त्रतः ।
दर्शयेद् देवदेवस्य सम्मुखं साधकोत्तमः ॥ २६७ ॥

दहनाप्यायने कुर्याद् विधिदृष्टेन कर्मणा ।
भूयोऽर्घ्यगन्धपुष्पाद्यैः प्रपूज्य परमेश्वरम् ॥ २६८ ॥

गिरोच्चया त्विमं मन्त्रं बद्धाञ्जलिकरः पठेत् ।
भगवन् पुण्डरीकाक्ष सर्वेश्वर जगन्मय ॥ २६९ ॥

त्वया यथा तु कथितं तथा कर्तुं न शक्यते ।
अस्वातन्त्र्यादसामर्थ्याच्छ्रद्धादीनामभावतः ॥ २७० ॥

तस्मान्मानादिसर्वेषामूनाधिक्योपशान्तये ।
समालोकय नेत्राभ्यां शीतलाभ्यां पटस्थितम् ॥ २७१ ॥

सर्वदोषापहारिभ्यां वैनतेयं प्रसीद ओम् ।
दीक्षितानां ततो विप्राः हस्ते दत्त्वा तु तं पटम् ॥ २७२ ॥

चतुःप्रदक्षिणीकृत्य तेन सार्धं तु देशिकः ।
प्रथमावरणे वाऽपि द्वितीयावरणेऽपि वा ॥ २७३ ॥

प्रविशेद् यजमानेन प्रासादाग्रस्थमण्डपम् ।
तत्र न्यस्य भद्रपीठं तदूर्ध्वे शालितण्डुलैः ॥ २७४ ॥

वेदिं कृत्वा तु तत्पृष्ठे भद्राख्यं मण्डलं लिखेत् ।
विभवे सति वस्त्रं तु समास्तीर्य तदूर्ध्वतः ॥ २७५ ॥

तिलराशिं समुत्कीर्य तन्मध्ये स्वस्तिकं लिखेत् ।
तस्योपरिष्टात् संस्थाप्य प्रासादाभिमुखं पटम् ॥ २७६ ॥

उपविश्यासने पश्चादाचार्यः सुसमाहितः ।
करशुद्ध्यादिपूर्वोक्तं स्वदेहार्चनपश्चिमम् ॥ २७७ ॥

सर्वं खगेशमन्त्रेण साङ्गेन तु समाचरेत् ।
द्वाःस्थतोरणकुम्भादियजनं प्राग्वदाचरेत् ॥ २७८ ॥

ततः पुण्याहघोषं तु कारयेत् पूर्ववद्द्विजाः ।
गरुडस्याग्रतः प्राग्वत् कुम्भं करकसंयुतम् ॥ २७९ ॥

भारमात्रोपक्लृप्ते तु धान्यपीठे तु विन्यसेत् ।
जलद्रोण्यादिकं पात्रं गन्धतोयैः सुपूरितम् ॥ २८० ॥

दक्षिणे करकस्याथ विनिवेश्य च तत्र तु ।
सद्यश्छायाधिवसनमाचरेद् गरुडस्य तु ॥ २८१ ॥

अधमाधममार्गेण स्नपनं तु समाचरेत् ।
अग्रतो वैनतेयस्य वेदिकोपरि संस्थिते ॥ २८२ ॥

दर्पणे तु ततः पश्चान्मुहूर्ते शोभने गुरुः ।
नयनोन्मीलनं कुर्याद् वक्ष्यमाणविधानतः ॥ २८३ ॥

सर्वेषामपि सर्पाणां नेत्रोन्मीलनमाचरेत् ।
प्राग्वत् संशुद्धदेहस्तु शिल्पी प्रकटतां नयेत् ॥ २८४ ॥

सर्वं तु विधिवत् कुर्यान्नेत्रयोः पूरणादिकम् ।
कुम्भे च करके चैव आसनं परिकल्प्य च ॥ २८५ ॥

कुम्भे गरुडमावाह्य करके मन्त्रमस्त्रपम् ।
पूजयित्वाऽर्घ्यगन्धाद्यैस्ततो दिक्कलशाष्टके ॥ २८६ ॥

इन्द्रादिलोकपालांस्तु प्रादक्षिण्येन पूज्य च ।
भित्तिसंसेचनं कृत्वा भूयः संस्थाप्य तत्र तु ॥ २८७ ॥

ततो ध्वजपटे प्राग्वदासनं परिकल्प्य च ।
ततो गरुडमन्त्रं तु सहस्रादित्यभास्वरम् ॥ २८८ ॥

सर्वरोगप्रशमनं सर्वोपद्रवनाशनम् ।
सर्वसिद्धिप्रदं नृणां सर्वदारिद्र्यनाशनम् ॥ २८९ ॥

हृदयाद्रेच्य विप्रेन्द्राः पटस्थगरुडे न्यसेत् ।
सकलीकरणं कृत्वा सन्निधिं च समाचरेत् ॥ २९० ॥

सन्निरोधं च साम्मुख्यं मुद्राबन्धं तथैव च ।
लययागं भोगयागं यथावद् द्विजसत्तमाः ॥ २९१ ॥

सर्वं गरुडमन्त्रेण साङ्गेन तु समाचरेत् ।
कुम्भे च करके चैव पटे च क्रमयोगतः ॥ २९२ ॥

महता विभवेनैव पूजनं च समाचरेत् ।
अलङ्कारासनान्तं च यथोक्तेन क्रमेण तु ॥ २९३ ॥

कृत्वा सम्पूजनं विप्राः गरुडस्य ततः परम् ।
प्रासादाभ्यन्तरे विप्राः देशिकानुमतेन तु ॥ २९४ ॥

अन्येन गुरुणा यद्वा साधकेन विशेषवत् ।
पूजनं कारयेत् सम्यङ्मूलमूर्तिगतस्य च ॥ २९५ ॥

यात्रामूर्तिगतस्यापि विभोर्दानान्तमेव च ।
तत्परं वैनतेयस्य भोज्यासनपुरःसरैः ॥ २९६ ॥

विविधैर्मधुपर्कान्तैर्हृद्यैः सफलमूलकैः ।
अन्यैरतिप्रभूतैश्च तथान्यैर्विविधैरपि ॥ २९७ ॥

भोगैरिष्ट्वा जपान्तं च पूर्ववत् क्रमयोगतः ।
सम्प्रदानं पृथक् कुर्यात् कारिभ्यस्तु यथाविधि ॥ २९८ ॥

मन्त्रास्त्रकुम्भयोर्दत्तमाचार्येभ्यो ददेत्ततः ।
पटस्थस्यापि नैवेद्यं किञ्चिदादाय पात्रगम् ॥ २९९ ॥

देशिकः स्वयमादद्याद् गुर्वादिभ्योऽपि वै ददेत् ।
मूलबिम्बाश्रितस्यापि यात्राबिम्बस्थितस्य च ॥ ३०० ॥

देवस्य मधुपर्काद्यैर्नैवेद्यं प्रतिपादितम् ।
दापयेद् देशिकादिभ्यस्ततो होमं समाचरेत् ॥ ३०१ ॥

कुण्डं सलक्षणं कृत्वा प्राग्भागे गरुडस्य तु ।
तत्रानलं तु संस्कृत्यावाह्य विहगेश्वरम् ॥ ३०२ ॥

समिधां सप्तकं हुत्वा शान्त्यर्थं तु तिलैर्घृतैः ।
आहुत्यष्टोत्तरशतं हुत्वा पूर्णां निवेदयेत् ॥ ३०३ ॥

यद्वा नैमित्तिके कुण्डे होमं कुर्यात्तु देशिकः ।
एवं ध्वजाधिवासं तु कृत्वा गर्भगृहं व्रजेत् ॥ ३०४ ॥

रक्षाबन्धं ततः कुर्याद् यथाविधि मुनीश्वराः ।
मूलमूर्तिगतं देवमर्घ्याद्यैः सम्पूज्य च ॥ ३०५ ॥

तत्पादाग्रौ करौ कृत्वा देवं विज्ञापयेदिदम् ।
भगवन् पुण्डरीकाक्ष करिष्ये कौतुकक्रियाम् ॥ ३०६ ॥

महोत्सवार्थं देवेश तदर्थं त्वं प्रसीद मे ।
इति विज्ञाप्य देवेशमावाह्योत्सवकौतुके ॥ ३०७ ॥

अर्घ्यगन्धादिनाभ्यर्च्य वासोभिर्विविधैः शुभैः ।
भूषणैर्दिव्यगन्धैश्चाप्यलङ्कृत्य विशेषतः ॥ ३०८ ॥

सौवर्णं यानमारोप्य शङ्खभेर्यादिसंयुतम् ।
छत्राद्यैश्च समायुक्तं प्रादक्षिण्यक्रमेण तु ॥ ३०९ ॥

आस्थानमण्डपं नीत्वा सौवर्णे भद्रविष्टरे ।
तत्र मुक्तावितानाद्यैरुपरिष्टाद्विभूषिते ॥ ३१० ॥

सर्वसाधनसंयुक्ते समारोप्य विधानतः ।
पूजयित्वा जगन्नाथं प्रभूतान्नं निवेद्य च ॥ ३११ ॥

कृत्वा सन्तर्पणान्तं च प्रासादं सम्प्रवेशयेत् ।
ततस्तु हेमजं पात्रं राजतं वा समाहरेत् ॥ ३१२ ॥

शालिभिस्तण्डुलैर्विप्राः भारमात्रैः सुपूरितम् ।
तदर्धैर्वापि तत्पादैः षडंशैर्वाष्टमांशकैः ॥ ३१३ ॥

तदूर्ध्वे हेमजं सूत्रं क्षौमं कार्पासमेव वा ।
पट्टजं पञ्चभिः सूत्रैश्चतुर्भिः सप्तभिस्तु वा ॥ ३१४ ॥

कृतं न्यस्य सताम्बूलं तत्पात्रं विन्यसेत्ततः ।
गर्भाग्रमण्डपे पीठे शालिभिः परिकल्पिते ॥ ३१५ ॥

भारमानैस्तदर्धैर्वा एवं शालिविनिर्मिते ।
पीठे पात्रान्तरे न्यस्येदपूपिकसमन्वितम् ॥ ३१६ ॥

अर्घ्यादिना समभ्यर्च्य सम्यगाच्छाद्य वाससा ।
पात्रद्वयं दीक्षितयोर्न्यस्य शिरसि देशिकः ॥ ३१७ ॥

यानादिके वा संस्थाप्य विभवानुगुणं द्विजाः ।
सह ताभ्यां तु पात्राभ्यां नृत्तगीतादिसंयुतम् ॥ ३१८ ॥

प्रदक्षिणं परिभ्राम्य सर्वेष्वावरणेष्वपि ।
एकस्मिन् वा चतुःकृत्वा ग्रामादौ वा प्रदक्षिणम् ॥ ३१९ ॥

नीत्वैकधा ततो विप्राः प्रविशेन्मूलमन्दिरम् ।
यद्वा सुदर्शनोपेतं विष्वक्सेनेन वा द्विजाः ॥ ३२० ॥

खगेशं वा हनूमन्तं विभीषणसमन्वितम् ।
यानादिकं समारोप्य भ्रामयेत् तु यथारुचि ॥ ३२१ ॥

गर्भगेहं प्रविश्याथ देवदेवस्य सन्निधौ ।
पात्रद्वयं तु विन्यस्य आधारोपरि पूजयेत् ॥ ३२२ ॥

अष्टाक्षरेण मन्त्रेण अर्घ्यगन्धादिकैस्तथा ।
कृत्वा पुण्याहघोषं तु देवमर्घ्यादिभिर्यजेत् ॥ ३२३ ॥

ततः प्रतिसरं चेष्ट्वा गन्धधूपाधिवासितम् ।
प्रथमं देवदेवस्य मूलमूर्तिगतस्य च ॥ ३२४ ॥

बन्धयेत् कौतुकं सूत्रैर्हेमजैः पट्टजैस्तु वा ।
हेमजं सूत्रमादाय गन्धेनालिप्य बन्धयेत् ॥ ३२५ ॥

देवस्य दक्षिणे हस्ते यात्रामूर्तिगतस्य च ।
जितन्ताख्येन मन्त्रेण शङ्खगीतादिसंयुतम् ॥ ३२६ ॥

स्पृष्ट्वा दक्षिणहस्तेन सूत्रमस्त्रशतं जपेत् ।
श्रियो वामकरे कुर्यात् पट्टसूत्रेण कौतुकम् ॥ ३२७ ॥

श्रीसूक्तमुच्चरन् वापि तन्मन्त्रेण द्विजोत्तमाः ।
पुष्ट्यास्तु वामहस्ते तु क्षौमसूत्रेण बन्धयेत् ॥ ३२८ ॥

कुर्यात् स्नपनबिम्बस्य पट्टसूत्रेण कौतुकम् ।
बलिबिम्बादिकानां च कृत्वैवं कौतुकं ततः ॥ ३२९ ॥

कौतुकं देशिकेन्द्रस्तु कार्पासेन स्वदक्षिणे ।
करे तु मूलमन्त्रेण बन्धयेत्तु ततः परम् ॥ ३३० ॥

तथैव कर्मकर्तॄणां कौतुकं बन्धयेत् क्रमात् ।
विभवे सति सर्वेषां सूत्रं हेममयं भवेत् ॥ ३३१ ॥

देवमर्घ्यादिनाभ्यर्च्य अपूपादीन् निवेदयेत् ।
ताम्बूलादीन् समर्प्याथ ताम्बूलैस्तोषयेद् द्विजान् ॥ ३३२ ॥

दीक्षितान् वैष्णवांश्चापि देशिकेन्द्रपुरःसरान् ।
आचार्यः स्वयमादद्यात् तदर्थं तण्डुलादिकम् ॥ ३३३ ॥

एवं सर्वेषु यागेषु कार्यं कौतुकबन्धनम् ।
रक्षाबन्धं तु कृत्वैवं रात्रिशेषं समापयेत् ॥ ३३४ ॥

ततः प्रभाते सुस्नातः स्वाचान्तो देशिकोत्तमः ।
नित्यार्चनं विभोः कृत्वा विशेषयजनं तथा ॥ ३३५ ॥

वैनतेयं ततोऽभ्यर्च्य कुम्भपूर्वं यथाविधि ।
महाहविर्निवेद्याथ होमं कृत्वा तु पूर्ववत् ॥ ३३६ ॥

ततः कुर्याद् ध्वजस्तम्भस्थापनं देशिकोत्तमः ।
प्रथमावरणे वापि द्वितीयावरणादिके ॥ ३३७ ॥

स्थापयेद् गोपुरस्यान्तर्बहिर्वा स्तम्भमुत्तमम् ।
अथवा बलिपीठस्य पुरोभागे मुनीश्वराः ॥ ३३८ ॥

पश्चाद्भागेऽपि वा कुर्याद् ध्वजपीठप्रकल्पनम् ।
तयोस्तदन्तरं कुर्याद्धस्तं वा तालमेव वा ॥ ३३९ ॥

उत्तरे ध्वजपीठस्य पूर्वस्यां दिशि वा द्विजाः ।
शाययेच्च ध्वजस्तम्भं ध्वजयष्टिसमन्वितम् ॥ ३४० ॥

पूर्वाग्रमुत्तराग्रं वा लक्षणाढ्यं सुशोभनम् ।
अन्तःसारो बहिःसारो निःसारस्त्रिविधस्तरुः ॥ ३४१ ॥

अन्तःसारश्चन्दनादिः प्रशस्तः स्तम्भकल्पने ।
क्रमुकादिर्बहिःसारः सोऽपि शस्तो मुनीश्वराः ॥ ३४२ ॥

किंशुकाद्यं तु निःसारं वर्जयेत् स्तम्भकर्मणि ।
आर्द्रं नवमृजुं स्निग्धं वक्रस्फोटनवर्जितम् ॥ ३४३ ॥

अयुग्मपर्वकं स्निग्धं सत्वचं सुस्थिरं तथा ।
ग्राहयेत्तु ध्वजस्तम्भं शास्त्रदृष्ट्या परीक्ष्य तु ॥ ३४४ ॥

शततालं तु मुख्यं स्याद्विंशत्यूनमथापि वा ।
षष्टितालमितं वापि मानाङ्गुलवशेन तु ॥ ३४५ ॥

मात्राङ्गुलवशेनापि प्रमाणं परिकल्पयेत् ।
प्रासादशिखराग्रोच्चं प्रासादोच्चमथापि वा ॥ ३४६ ॥

कर्णोच्चं गोपुरोच्चं वा यथाशक्ति प्रकल्पयेत् ।
चतुर्धा विभजेत् स्तम्भमेकांशेनैव मस्तकम् ॥ ३४७ ॥

तस्य चाधारभूतानां छिद्रितानां त्रिमूलतः ।
त्रयाणामपि पीठानां स्तम्भाग्रे विनिवेशनम् ॥ ३४८ ॥

अग्रे पीठद्वयच्छिद्रे ध्वजयष्टिं तु योजयेत् ।
दर्भमुष्टिं तदूर्ध्वे तु बन्धयेत् घण्टया सह ॥ ३४९ ॥

वेष्टयेद् दर्भमालाभिर्ध्वजदण्डं प्रदक्षिणम् ।
एवं कृत्वा ध्वजस्तम्भं प्रोक्षयेदस्त्रवारिणा ॥ ३५० ॥

ध्वजपीठस्थिते गर्ते रत्नधान्यानि निक्षिपेत् ।
देशिकस्तार्क्ष्यमन्त्रेण ततो ब्राह्मणसत्तमैः ॥ ३५१ ॥

शूद्रैर्वा दीक्षितैर्विप्राः देवदासैरथापि वा ।
शङ्खभेर्यादिनिर्घोषगीतवादित्रसंयुतम् ॥ ३५२ ॥

स्थापयेत् तु ध्वजस्तम्भं तस्मिन् गर्ते ऋजुस्थितम् ।
प्रासादाभिमुखं स्थाप्य वालुकाभिश्च पूरयेत् ॥ ३५३ ॥

हस्तपादादिभिः कृत्वा सुदृढं तु यथा भवेत् ।
स्तम्भमूलस्थले वेदिं पञ्चहस्तसमुच्छ्रिताम् ॥ ३५४ ॥

त्रिहस्तैश्चोच्छ्रितां वापि एकहस्तसमुच्छ्रिताम् ।
तावद्भिरेव विस्तीर्णां चतुरश्रां प्रकल्पयेत् ॥ ३५५ ॥

तदूर्ध्वे मध्यदेशे तु पद्ममष्टदलैर्युतम् ।
कर्णिकास्थो यथा स्तम्भस्तथा कुर्याद् विचक्षणः ॥ ३५६ ॥

प्रासादान्तः प्रविश्याथ मूलमूर्तिगतं विभुम् ।
अर्घ्यगन्धादिनाभ्यर्च्य तस्मादुत्सवकौतुके ॥ ३५७ ॥

किञ्चिदावाह्य तं चापि देवीभ्यां सहितं ततः ।
पूजयित्वा जगन्नाथं पादुके विनिवेद्य च ॥ ३५८ ॥

याने प्ररोप्य तदनु सौवर्णप्रभयान्विते ।
एवमेव हि बल्यर्चामिष्ट्वा याने निवेशयेत् ॥ ३५९ ॥

आचार्यो मूर्तिपैः सार्धं गत्वा गरुडसन्निधिम् ।
रथे वा कुञ्जरे याने ध्वजमारोप्य यत्नतः ॥ ३६० ॥

प्रभया चित्रकुसुमैः कृतया भूषयेद् ध्वजम् ।
वासोभिर्भूषणैः स्रग्भिर्विचित्राभिश्च भूषयेत् ॥ ३६१ ॥

छत्रचामरपूर्वैश्च मयूरव्यजनैस्ततः ।
विचित्रैस्तालवृन्तैश्च आतपत्रैर्मनोहरैः ॥ ३६२ ॥

केतुदण्डैर्विचित्रैश्च दुकूलपटशोभितैः ।
चतुर्वेदमयोद्घोषैः स्तोत्रघोषसमन्वितैः ॥ ३६३ ॥

गीतकैर्विविधैर्वाद्यैः शङ्खकाहलनिःस्वनैः ।
भेरीमृदङ्गपूर्वाणां घोषैरन्यैश्च मङ्गलैः ॥ ३६४ ॥

ब्राह्मणैर्ध्रियमाणैश्च साङ्कुरैः पालिकागणैः ।
सुवेषगणिकासङ्घैः सदा भक्तजनैः सह ॥ ३६५ ॥

क्ष्वेलितास्फोटितैर्युक्तं जयशब्दसमन्वितम् ।
बलिबिम्बं पुरस्कृत्य मध्ये ध्वजपटं ततः ॥ ३६६ ॥

यात्रामूर्तिं च तदनु क्रमेण भ्रामयेत् ततः ।
प्रथमावृतिमारभ्य रथ्यावरणपश्चिमम् ॥ ३६७ ॥

बलिदानपुरस्कं तु कृत्वा ग्रामप्रदक्षिणम् ।
यात्राबिम्बं च तदनु नयेदास्थानमण्डपे ॥ ३६८ ॥

निवेश्य विष्टरे हैमे ध्वजपीठस्य सम्मुखम् ।
आचार्यो मूर्तिपैः सार्धमादाय गरुडध्वजम् ॥ ३६९ ॥

सह शङ्खनिनादाद्यैः प्रादक्षिण्येन योगतः ।
ध्वजपीठं समानीय स्तम्भं प्रक्षाल्य सजलैः ॥ ३७० ॥

विभवे सति वस्त्रेण संवेष्ट्य ध्वजदण्डकम् ।
त्रिवृत्कृतैस्तु कार्पाससूत्रैरतिदृढैः कृताम् ॥ ३७१ ॥

रज्जुमादाय तदनु सुदृढां देशिकोत्तमः ।
यष्ट्यग्रसंस्थिते यन्त्रे योजयित्वा तया ततः ॥ ३७२ ॥

ध्वजस्य शिखरं विप्राः बन्धयेत् सुदृढं ततः ।
सर्वैः परिजनैः सार्धं कुम्भपार्श्वं समाश्रयेत् ॥ ३७३ ॥

तत्कुम्भं तु समुद्धृत्य विन्यसेच्छिष्यमूर्धनि ।
उपकुम्भाष्टकं चैव वाहयेद् ब्राह्मणैः सह ॥ ३७४ ॥

वर्धनीं च समादाय आचार्यः स्वकरेण तु ।
अच्छिन्नधारया युक्तं वाद्यघोषपुरःसरम् ॥ ३७५ ॥

देवागारं परिभ्राम्य स्तम्भमूलं समाश्रयेत् ।
पुण्याहं वाचयित्वा तु सम्प्रोक्ष्यास्त्रेण वै ध्वजम् ॥ ३७६ ॥

गारुडेनैव मन्त्रेण पटस्थं गरुडं यजेत् ।
अर्घ्यं पाद्यं तथाचामं गन्धं माल्यं च धूपकम् ॥ ३७७ ॥

अपूपान् पृथुकांश्चापि पानकं तर्पणं ततः ।
नालिकेरजलैर्युक्तमाचामं तदनन्तरम् ॥ ३७८ ॥

कर्पूरादिसमायुक्तं दत्त्वा ताम्बूलमुत्तमम् ।
तन्मुद्रां दर्शयित्वा तु ततः पुरुषसूक्ततः ॥ ३७९ ॥

महाकुम्भस्थतोयेन सम्प्रोक्ष्य गरुडं ततः ।
महाकुम्भस्थगारुडं पटस्थे तु निवेशयेत् ॥ ३८० ॥

उपकुम्भाष्टकैनेव अष्ट नागान् यथाक्रमम् ।
आयुधानां तथैवोक्तं करकास्त्रजलेन तु ॥ ३८१ ॥

एवं क्रमेण सम्प्रोक्ष्य ततो देशिकसत्तमः ।
मन्त्रन्यासादिकं कृत्वा पुष्पाञ्जलिपुरःसरम् ॥ ३८२ ॥

सन्निधिं सन्निरोधं च साम्मुख्यं च समाचरेत् ।
ततस्त्वर्घ्यादिभिः पूज्य उपहारान् बहूनपि ॥ ३८३ ॥

मुद्गान्नादीन् निवेद्याथ ताम्बूलादीन् समर्पयेत् ।
स्तोत्रैः स्तुवीत गरुडं बद्धाञ्जलिपुटो गुरुः ॥ ३८४ ॥

वाहनाय महाविष्णोः तार्क्ष्यायामिततेजसे ।
गरुडाय नमस्तुभ्यं सर्वसर्पेन्द्रमृत्यवे ॥ ३८५ ॥

नमो नमस्ते पक्षीन्द्र स्वाध्यायवपुषे नमः ।
विहगेन्द्र नमस्तेऽस्तु समुत्पाटितकल्पक ॥ ३८६ ॥

आहृतामृतकुम्भाय जननीदास्यमोचिने ।
सुरासुरेन्द्रजयिने नागेन्द्राभरणाय ते ॥ ३८७ ॥

यदाधारमिदं सर्वं तदाधाराय ते नमः ।
पक्षौ यस्य बृहत्साम रथन्तरमपि द्वयम् ॥ ३८८ ॥

अक्षिणी चापि गायत्री त्रिवृत्साम शिरः स्मृतम् ।
स्तोम आत्मा नमस्तस्मै वामदेव्याङ्गसम्पदे ॥ ३८९ ॥

नमः प्राणादिवायूनामीशानाय गरुत्मते ।
दोषानपनयाखण्डान् गुणानावह सर्वतः ॥ ३९० ॥

विघ्नानि जहि सर्वाणि आत्मसात्कुरु मामपि ।
स्तुत्वैवं श्रावयेत् तस्य बृहत्साम रथन्तरम् ॥ ३९१ ॥

तत्काले देशिकेन्द्रस्तु ध्यायमानः खगेश्वरम् ।
नैवेद्यं कबलीकृत्य मन्त्रयित्वा तु मन्त्रवित् ॥ ३९२ ॥

पौरुषैर्गारुडैर्मन्त्रैः वन्ध्यानामपि योषिताम् ।
क्षिपेदञ्जलिषु ध्यात्वा गरुडं चाच्युतं हरिम् ॥ ३९३ ॥

भक्षयित्वा स्त्रियः पिण्डान् जनयेयुः सुतान् बहून् ।
ततस्तु गरुडाग्रे तु ताम्बूलैर्गन्धमाल्यकैः ॥ ३९४ ॥

दैवज्ञं पूजयित्वा तु लब्ध्वा लग्नं शुभप्रदम् ।
सुमुहूर्ते सुलग्ने च आशीर्वादपुरःसरम् ॥ ३९५ ॥

घण्टाशब्दैर्मृदङ्गैश्च सर्ववाद्यरवैः सह ।
रज्जुनारोहयेद् धीरो सुपर्णोऽसीति मन्त्रतः ॥ ३९६ ॥

रज्जुं च बन्धयेत् स्तम्भे प्रादक्षिण्यक्रमेण तु ।
प्रासादाभिमुखं स्तम्भे स्थापयेद् गरुडध्वजम् ॥ ३९७ ॥

पूर्वाह्णे वाथ मध्याह्ने ध्वजस्यारोहणं महत् ।
यात्रामूर्तिं च तदनु यानमारोप्य देशिकः ॥ ३९८ ॥

ध्वजस्तम्भसमीपं तु नीत्वा च दर्शयेद् ध्वजम् ।
आह्वानार्थमशेषाणां भक्तानां पतगेश्वरम् ॥ ३९९ ॥

नियुज्य देवस्तदनु प्राप्नुयान्मण्डपोर्वनिम् ।
प्रार्थयेत् सन्निधिं चाथ गरुडस्य ध्वजोदरे ॥ ४०० ॥

अस्माद्दिनात् समारभ्य यावत्तीर्थदिनान्तिमम् ।
सन्निधिं कुरु पक्षीन्द्र राज्ञो जनपदस्य च ॥ ४०१ ॥

ग्रामस्य यजमानस्य वैष्णवानां विशेषतः ।
तुष्ट्यै पुष्ट्यै चैव सर्वशत्रुजयाय च ॥ ४०२ ॥

अपमृत्युजयार्थाय वैनतेय प्रसीद ॐ ।
इति विज्ञाप्य पक्षीन्द्रं विकिरेत् कुसुमाञ्जलिम् ॥ ४०३ ॥

सन्निधौ देवदेवस्य गत्वा पुष्पाञ्जलिं क्षिपेत् ।
ज्ञानतोऽज्ञानतो वापि यथोक्तं न कृतं मया ॥ ४०४ ॥

तत्सर्वं पूर्णमेवास्तु सुतृप्तो भव सर्वदा ।
ओमच्युत जगन्नाथ मन्त्रमूर्ते जनार्दन ॥ ४०५ ॥

रक्ष मां पुण्डरीकाक्ष क्षमस्वाद्य प्रसीद ॐ ।
इति विज्ञाप्य देवेशं यात्रामूर्तिगतं विभुम् ॥ ४०६ ॥

अन्यत्र मण्डपे नीत्वा विशेषार्चनपूर्वकम् ।
प्रभूतान्नं निवेद्याथ सर्वं हवनपश्चिमम् ॥ ४०७ ॥

कृत्वा यथाक्रमेणैव प्रासादं तु प्रवेशयेत् ।
कल्पयेद् ध्वजपीठोर्ध्वे चतुःस्तम्भान्वितां प्रपाम् ॥ ४०८ ॥

यद्वा स्तम्भाष्टकोपेतां षोडशस्तम्भसंयुताम् ।
चतुस्तोरणसंयुक्तां दर्भमालापरिष्कृताम् ॥ ४०९ ॥

भूषितां तु पताकाद्यैर्बहिर्यवनिकान्विताम् ।
दीपान् प्रदीपयेत् तत्र अनिर्वाणान् समन्ततः ॥ ४१० ॥

तद्वासरात् समारभ्य पुष्पयागदिनान्तिमम् ।
त्रिसन्ध्यमर्चनं कुर्यात् सविशेषं जपान्वितम् ॥ ४११ ॥

बलिकाले बलिं दद्यादस्यापि प्रतिवासरम् ।
एवं ध्वजाधिरोहान्तं दिनकृत्यमुदीरितम् ॥ ४१२ ॥

इति श्रीपाञ्चरात्रे ईश्वरसंहितायां महोत्सवध्वजारोहणान्तविधिर्नाम दशमोऽध्यायः ॥


Die göttliche Gestalt als Gegenstand von Hingabe und Meditation.

Kapitel 11 – महोत्सवविधिः / mahotsavavidhiḥ

Siehe deutsche Übersetzung und Texthinweise.

नारदः ।

निशामुखे प्रवृत्ते तु देशिको मूर्तिपैः सह ।
स्नानादिनित्यनियमान् कृत्वा चैव यथाविधि ॥ १ ॥

देवस्य सन्निधिं गत्वा नित्यपूजां समाचरेत् ।
यात्रामूर्तिगतं देवं श्रीपुष्टिभ्यां समन्वितम् ॥ २ ॥

आस्थानमण्डपं नीत्वा स्थापयेत् स्नानविष्टरे ।
ततस्तु वक्ष्यमाणं यत् स्नपनं त्वधमोत्तमम् ॥ ३ ॥

तेन संस्नापयेद्देवं यथाविभवविस्तरम् ।
अलङ्कारासनेऽभ्यर्च्य भोगैः परमपावनैः ॥ ४ ॥

प्रभूतमथ नैवेद्यं विनिवेद्य यथाक्रमम् ।
कृत्वा जपावसानं तु भेरीताडनमाचरेत् ॥ ५ ॥

देवस्य दक्षिणे पार्श्वे उपविश्यासने गुरुः ।
भेरीसंस्थापनार्थं तु देवेशस्याग्रतस्ततः ॥ ६ ॥

चरणपवित्रमुच्चार्य महीं प्रक्षाल्य वारिणा ।
विष्णोरराटमन्त्रेण दर्भैः सन्मार्ज्य देशिकः ॥ ७ ॥

गन्धद्वारेति मन्त्रेण गोमयेनानुलेपयेत् ।
आपउन्दन्तुमन्त्रेण सुधाचूर्णैरलङ्कृतिः ॥ ८ ॥

देवस्यत्वेति मन्त्रेण विकिरेदक्षतान् क्षितौ ।
ग्रीष्मोहेमन्तमन्त्रेण धान्यपीठं प्रकल्पयेत् ॥ ९ ॥

शन्नोदेवीति मन्त्रेण शतपत्रं चतुर्दिशि ।
त्रातारमिति मन्त्रेण मध्ये पद्मं च संलिखेत् ॥ १० ॥

धन्वनागेति मन्त्रेण ऊर्ध्वं दर्भैः परिस्तरेत् ।
मूर्धानमिति मन्त्रेण नमस्कुर्याद्ध्रुवं ततः ॥ ११ ॥

तत्र कोणचतुष्के तु न्यसेद्दीपचतुष्टयम् ।
वाचयेत् स्वस्ति पुण्याहं ततो देशिकसत्तमः ॥ १२ ॥

तज्जलैः प्रोक्षयेद्भेरीमापउन्दन्तुमन्त्रतः ।
अग्निरायुष्ममन्त्रेण प्रोक्षयेत्सर्ववाद्यकान् ॥ १३ ॥

अर्यमायेति तद्भेरीं विन्यसेद्धान्यविष्टरे ।
तत्पूर्वे शङ्खनिकरं वह्नौ काहलसञ्चयम् ॥ १४ ॥

याम्ये तु मर्दलं तन्त्री वंशयुक्ता तु यातुदिक् ।
वारुण्यां तु मृदङ्गं च डुड्डुकान् ह्रस्वमर्दलान् ॥ १५ ॥

वायव्ये झल्लरीं न्यस्य कांस्यतालसमन्वितम् ।
पटहं ह्रस्वपटहं सोमे तु हुडुकसंयुतम् ॥ १६ ॥

ऐशान्यां डुड्डुका झल्ली ह्रस्वघण्टासमन्विताम् ।
तेषां बाह्ये तु विप्रेन्द्राः दक्षिणे गणिकाजनान् ॥ १७ ॥

न्यसेन्मङ्गलगानार्थं तत्पार्श्वे मन्त्रगायकान् ।
नर्तकानग्रतः स्थाप्य उत्तरे बन्दिवृन्दकान् ॥ १८ ॥

स्वस्वस्थानेषु संस्थाप्य अन्यान्वै वाद्यकोविदान् ।
एवं क्रमेण संस्थाप्य सम्भवानुगुणं द्विजाः ॥ १९ ॥

गरुडस्थानमासाद्य अर्घ्याद्यैर्हविरन्तिमैः ।
आराध्य गरुडं पूर्वं भेरीपार्श्वं समाश्रयेत् ॥ २० ॥

वाससा वेष्टयेद्भेरीं यथावित्तानुसारतः ।
शब्दविग्रहमाकाशं भेर्यां संस्कृत्य पूजयेत् ॥ २१ ॥

भेरीमध्ये ततो विष्णुं पूजयेद्विष्णुमन्त्रतः ।
ब्रह्माणं दक्षिणेऽभ्यर्च्य रुद्रमभ्यर्च्य वामके ॥ २२ ॥

कोणं तद्दक्षिणे स्थाप्य वायुं तत्र सुपूजयेत् ।
शङ्खेषु विष्णुमभ्यर्च्य काहलेषु सरस्वतीम् ॥ २३ ॥

मर्दलेष्विन्दुमभ्यर्च्य तन्त्र्यां गन्धर्वमर्चयेत् ।
मृदङ्गे रुद्रमभ्यर्च्य पञ्चमुखं डुड्डुकेषु च ॥ २४ ॥

ह्रस्वमर्दलवाद्येषु मेदिनीं च समर्चयेत् ।
झल्लर्यां विष्णुमभ्यर्च्य ब्रह्माणं कांस्यतालके ॥ २५ ॥

पटहेषु श्रियं देवीं घण्टायां तु सरस्वतीम् ।
अन्येषु सर्ववाद्येषु विष्णुमेव समर्चयेत् ॥ २६ ॥

भेर्यादिसर्ववाद्यानि यजेदेवं गुरुः स्वयम् ।
तत्काले वारवनिताः पुष्पाञ्जलिमुदान्विताः ॥ २७ ॥

भेर्यूर्ध्वे तानि पुष्पाणि विकिरेयुर्मुदान्विताः ।
ततः पारशवं शान्तं दर्भपाणिमलङ्कृतम् ॥ २८ ॥

उपवीतादिसंयुक्तं पञ्चसंस्कारशालिनम् ।
भगवद्भक्तिसंयुक्तमग्रतः स्थाप्य दीक्षयेत् ॥ २९ ॥

अस्त्रेण प्रोक्षयेत्पश्चादर्घ्यतोयेन तत्परम् ।
मुहूर्ते शोभने प्राप्ते भेरीमेवं प्रपूजिताम् ॥ ३० ॥

कोणेन ताडयेन्मूर्तित्रयं ध्यायन् गुरुः स्वयम् ।
तद्विष्णोरिति मन्त्रेण प्रथमं ताडनं भवेत् ॥ ३१ ॥

ब्रह्मजज्ञानमन्त्रेण द्वितीयं ताडनं भवेत् ।
कद्रुद्रायेति मन्त्रेण तृतीयं ताडनं भवेत् ॥ ३२ ॥

त्रिस्थानादिषु देवानां त्रिधा वै तेन ताडयेत् ।
ततः पारशवस्तां तु वहन् भेरीमलङ्कृताम् ॥ ३३ ॥

प्रथमं वामहस्तेन त्रिधा सन्ताडनं चरेत् ।
दक्षिणेन ततः सम्यक्तथा सन्ताडयेत्त्रिधा ॥ ३४ ॥

प्रथमं शङ्खनादं तु द्वितीयं काहलस्वनम् ।
तृतीयं ताडनं प्रोक्तं क्रमेणैवं हि कारयेत् ॥ ३५ ॥

देवताह्वानवेलायां सर्ववाद्यानि घोषयेत् ।
देवतावाहिनीं गाथां संस्कृतां प्राकृतां तु वा ॥ ३६ ॥

द्रामिडीं वा यथेच्छातस्तदा संश्रावयेद्विभुम् ।
तत्काले देवतानृत्तं तत्तद्गीतादिसंयुतम् ॥ ३७ ॥

दर्शयेद्देवदेवस्य देवतानां सुतृप्तये ।
ततस्तु चोत्सवं बिम्बं देवीभ्यां सह देशिकः ॥ ३८ ॥

यानमारोप्य सुदृढमलङ्कृत्य विशेषतः ।
बलिबिम्बपुरस्कं तु यात्रामूर्तिमनन्तरम् ॥ ३९ ॥

भ्रामयेत्क्रमयोगेन वाद्यघोषपुरःसरम् ।
सर्वैः परिजनैः सार्धं बलिदानपुरःसरम् ॥ ४० ॥

पायसं द्रोणमानं तु समादायाथ पात्रतः ।
तथार्घ्यगन्धमाल्यानि धूपं ताम्बूलमेव च ॥ ४१ ॥

प्रासादद्वारमारभ्य बहिर्द्वारावसानकम् ।
आवृतिष्वपि सर्वासु वीथ्यावरणपश्चिमम् ॥ ४२ ॥

बलिं प्रदाय विधिना गीतनृत्तादिसंयुतम् ।
ततः प्रविश्य ग्रामं तु पूर्वस्यां दिशि संस्थितः ॥ ४३ ॥

देवताऽऽवाहनं कुर्यात्प्राङ्मुखो देशिकः स्वयम् ।
तत्पुत्रस्तस्य शिष्यो वा स्वरेणोच्चतरेण तु ॥ ४४ ॥

आगच्छतामरगणाः प्रागाशां येऽधिशेरते ।
विरूपाश्च सुरूपाश्च सपर्यामुद्यतामिमाम् ॥ ४५ ॥

गृहीत्वा पान्तु नस्तृप्ताः कुमुदस्यानुयायिनः ।
महन्त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ ४६ ॥

अनेन मन्त्रेणावाह्य कुमुदं सगणं ततः ।
अर्घ्यलेपनमाल्यानि धूपं तोयं यथाक्रमम् ॥ ४७ ॥

पायसान्नं पुनस्तोयं ताम्बूलं च प्रदापयेत् ।
पश्चात्सन्तोषयेद्रम्यैर्महद्भिः शङ्खजै रवैः ॥ ४८ ॥

तदीयतालसङ्गीतनृत्तैश्चापि ततः परम् ।
आगच्छतामरगणाः येऽग्न्याशामधिशेरते ॥ ४९ ॥

भीमा भीममुखा रौद्राः सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ताः कुमुदाक्षानुयायिनः ॥ ५० ॥

महन्त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ।
अनेन कुमुदाक्षं तु समावाह्य गणाधिपम् ॥ ५१ ॥

प्राग्वत्सन्तोषयित्वा तु ततः सम्प्राप्य याम्यदिक् ।
आगच्छत पितृगणाः याम्याशां येऽधिशेरते ॥ ५२ ॥

दारुणा दारुणाचाराः सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ताः पुण्डरीकानुयायिनः ॥ ५३ ॥

महन्त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ।
अनेन पुण्डरीकाख्यं समावाह्य गणेश्वरम् ॥ ५४ ॥

क्रमेण पूजयित्वा तु गत्वा वै यातुधानदिक् ।
आगच्छत यातुगणा यात्वाशां येऽधिशेरते ॥ ५५ ॥

क्रव्याशिनः क्रूरधियः सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ताः वामनस्यानुयायिनः ॥ ५६ ॥

महन्त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ।
इत्यावाह्य गणेशं तु वामनं पूजयेत्क्रमात् ॥ ५७ ॥

वारुणाशां ततो गत्वा शङ्कुकर्णं गणेश्वरम् ।
आगच्छताहिप्रथमाः प्रतीचीं येऽधिशेरते ॥ ५८ ॥

महाविषा दन्दशूकाः सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ताः शङ्कुकर्णानुयायिनः ॥ ५९ ॥

महन्त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ।
इत्यावाह्य यजेत्प्राग्वत्पश्चात्सम्प्राप्य वायुदिक् ॥ ६० ॥

आयान्तु गन्धर्वगणाः वाय्वाशां येऽधिशेरते ।
सुदर्शना भीमवेगाः सपर्यामुद्यतामिमाम् ॥ ६१ ॥

गृहीत्वा पान्तु नस्तृप्ताः सर्वनेत्रानुयायिनः ।
महन्त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ ६२ ॥

अनेनावाह्य सगणं सर्वनेत्रं तु तोषयेत् ।
ततः सोमदिशं गत्वा सुमुखं तु गणाधिपम् ॥ ६३ ॥

आगच्छत यक्षगणा उदीचीं येऽधिशेरते ।
विरूपा दण्डहस्ताश्च सपर्यामुद्यतामिमाम् ॥ ६४ ॥

गृहीत्वा पान्तु नस्तृप्ताः सुमुखस्यानुयायिनः ।
महन्त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ ६५ ॥

इति मन्त्रेण चावाह्य तोषयेत्पूर्ववत्तथा ।
ततस्तीशदिशं गत्वा गणेशं सुप्रतिष्ठितम् ॥ ६६ ॥

आयान्तु पिशाचगणाः ईशाशां येऽधिशेरते ।
सशूलायुधहस्ताश्च सपर्यामुद्यतामिमाम् ॥ ६७ ॥

गृहीत्वा पान्तु नस्तृप्ताः सुप्रतिष्ठानुयायिनः ।
महन्त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ ६८ ॥

मन्त्रेणावाह्य सम्पूज्य गत्वा वै ग्राममध्यतः ।
तत्र चावाहयेदूर्ध्वे पृश्निगर्भं गणेश्वरम् ॥ ६९ ॥

आगच्छत सिद्धगणाः गगनं येऽधिशेरते ।
शुचिमतयः शुचयः सपर्यामुद्यतामिमाम् ॥ ७० ॥

गृहीत्वा पान्तु नस्तृप्ताः पृश्निगर्भानुयायिनः ।
महन्त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ ७१ ॥

आवाह्य तोषयित्वा तु अधस्तान्मानवं ततः ।
आगच्छताधरगणाः पृथिवीं येऽधिशेरते ॥ ७२ ॥

बहुरूपा बहुज्ञानाः सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ताः मानवस्यानुयायिनः ॥ ७३ ॥

महन्त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ।
आवाह्य तोषयेत्प्राग्वत्क्रमात्कृत्वावसानकम् ॥ ७४ ॥

तृप्तये सर्वभूतानां बलिशेषं ततः क्षिपेत् ।
बलिदाने तु पूर्वादि वैवस्वतदिगान्तिमम् ॥ ७५ ॥

आचार्यः प्राङ्मुखः स्थित्वा कुर्यादावाहनादिकम् ।
यात्वादित्रितये कुर्यात्पूर्वादितमुदङ्मुखः ॥ ७६ ॥

सोमेशदिग्द्वये ग्राममध्येऽपि प्राङ्मुखो भवेत् ।
समतालस्तथा बद्धतालो वै शृङ्गिणी तथा ॥ ७७ ॥

मल्लतालो मङ्गलश्च जयतालश्च भद्रकः ।
ढक्करीसंज्ञितस्तालो ब्रह्मतालस्तथैव च ॥ ७८ ॥

अनन्तताल इत्येते दश तालाः प्रकीर्तिताः ।
कुमुदादिगणेशानां दशानां क्रमशो द्विजाः ॥ ७९ ॥

षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा ।
धैवतश्चैव निषादो धैवतो मध्यमस्तथा ॥ ८० ॥

पञ्चमश्च क्रमेणैव कथिताः स्युर्दश स्वराः ।
गान्धाररागः कौलाख्यः कौशिको नटभाषिकः ॥ ८१ ॥

श्रीः कामदश्च तत्केशी दक्षरागस्तथैव च ।
चालापाण्यभिधो रागो मेघरागश्च पञ्चमः ॥ ८२ ॥

इत्येते कुमुदादीनां दशरागाः प्रकीर्तिताः ।
विलासं सर्वतोभद्रं खेटकं चक्रमण्डलम् ॥ ८३ ॥

कान्तारकुट्टिमं पृष्ठकुट्टिमं कटिबन्धनम् ।
वामजानूर्ध्वनृत्तं तु आदिमं च द्वयं पुनः ॥ ८४ ॥

एते नृत्तविशेषाश्च कुमुदादेः क्रमात् स्मृताः ।
एते ह्यावृतिदेवानां क्रमात्तालादयः स्मृताः ॥ ८५ ॥

अन्येषां सर्वदेवानां तालो भद्रः प्रशस्यते ।
भवेद्गरुडतालस्तु पक्षीशस्य तु मध्यमः ॥ ८६ ॥

स्वरो रागस्तु गौडः स्यान्नृत्तं वै विष्णुक्रान्तकम् ।
विघ्नारेर्जयतालं स्यान्नृत्तं स्वस्तिकमुच्यते ॥ ८७ ॥

ऋषभस्तु स्वरः प्रोक्तो वराटीराग एव च ।
भेरीताडनपूर्वं तु देवतावाहनं चरेत् ॥ ८८ ॥

घोषयेद्गारुडं तालमन्तराले तु वै दिशाम् ।
तत्काले देशिकेन्द्रेण स्वयं संस्कृतगाथया ॥ ८९ ॥

अन्ये चतुर्मुखमुखा आहूतव्या मरुद्गणाः ।
देवस्योत्सवसेवार्थं तथान्ये भगवद्गणाः ॥ ९० ॥

तथान्ये भगवद्भक्ताः जनास्तत्पादसेविनः ।
यद्वा गुरोरनुमतेर्भगवद्भक्तिबृंहितैः ॥ ९१ ॥

आहूतव्यास्तु तैर्विप्रैर्दिव्यया गाथया द्विजाः ।
एवं ग्रामं परिभ्राम्य प्रासादं सम्प्रविश्य तु ॥ ९२ ॥

गरुडस्थानमासाद्य तोषयित्वा खगध्वजम् ।
तालादिकैस्ततस्त्वेनं विष्वक्सेनं तु तोषयेत् ॥ ९३ ॥

ततस्तु चौत्सवं बिम्बं यागशालां प्रवेशयेत् ।
वक्ष्यमाणप्रकारेण सर्वलक्षणसंयुताम् ॥ ९४ ॥

प्रथमावरणे वापि द्वितीयावरणेऽपि वा ।
तृतीयावरणादौ वा यथाभिमतदिग्गताम् ॥ ९५ ॥

तथा प्रागाननां यद्वा यथाभिमतदिङ्मुखाम् ।
एकद्वारां चतुर्द्वारां यद्वा द्वारद्वयान्विताम् ॥ ९६ ॥

भित्तियुक्तामयुक्तां वा कोणभित्तिसमन्विताम् ।
क्षिप्रकर्मप्रसिद्ध्यर्थं केवलं वा प्रपाकृतिम् ॥ ९७ ॥

धूमनिर्गमनोपेतां मध्ये वेदिसमन्विताम् ।
तदूर्ध्वे होमकुण्डं तु सचतुर्मेखलं भवेत् ॥ ९८ ॥

मेखलात्रययुक्तं वा द्विमेखलमथापि वा ।
तथैकमेखलं वापि चतुरश्रं सलक्षणम् ॥ ९९ ॥

तत्पूर्वे मण्डलोपेतां वह्नौ दीपघटान्विताम् ।
पश्चिमे बिम्बसंयुक्तामुत्तरे चाङ्कुरैर्युताम् ॥ १०० ॥

ईशान्ये कुम्भसंयुक्तां सर्वोपकरणयुताम् ।
अलङ्कृतां वितानाद्यैस्तोरणध्वजशोभिताम् ॥ १०१ ॥

एवंविधां यागशालां प्रविश्य गुरुसत्तमः ।
प्राग्दिक्प्रत्यङ्मुखा योज्या ऋङ्मयाः स्वासनेषु च ॥ १०२ ॥

दक्षिणे च उदङ्वक्त्रान् यजुर्वेदांश्च योजयेत् ।
प्राङ्मुखान् पश्चिमे भागे सामगान्विनिवेशयेत् ॥ १०३ ॥

सह चैकायनैर्विप्रैर्मूर्तिसंज्ञोपलक्षितैः ।
दिश्युत्तरस्यां च ततो नित्यकर्मपरायणान् ॥ १०४ ॥

निवेश्याथर्ववेदज्ञान् सर्वान् द्विद्विकसंख्यया ।
प्रवर्तिते वेदघोषे वाद्यघोषे च बाह्यतः ॥ १०५ ॥

प्रविश्य कलशस्थानं समीपे तु वरासने ।
प्राङ्मुखः संस्मरेन्मन्त्रं पूर्ववद्व्यापिभाविते ॥ १०६ ॥

उपविश्य यथान्यायमन्तर्यागान्तमाचरेत् ।
करादिशुद्धिपूर्वं तु पश्चादर्घ्यादिकल्पनम् ॥ १०७ ॥

प्राग्वत्कृत्वा ततोऽभ्यर्च्य मन्त्रसङ्घं तु देहगम् ।
पुण्याहं वाचयित्वा तु प्रोक्षयेत्सर्वसाधनम् ॥ १०८ ॥

द्वौ द्वौ तु पूर्वं कलशौ सौवर्णौ राजतौ तु वा ।
ताम्रजौ मृण्मयौ वाथ सापिधानौ सपल्लवौ ॥ १०९ ॥

फलरत्नादिकैर्युक्तौ सूत्रेण परिवेष्टितौ ।
शालिपीठोपरि स्थाप्य प्रतिद्वारे तु पार्श्वयोः ॥ ११० ॥

द्वारयागं ततः कुर्यात्पूर्वाद्युत्तरपश्चिमम् ।
अर्घ्यालेपनमाल्यैश्च धूपैर्गुग्गुलमिश्रितैः ॥ १११ ॥

अथादाय दृढं शुभमेकरूपं च निर्व्रणम् ।
कुम्भं च मृण्मयं रम्यं सौवर्णं वाथ राजतम् ॥ ११२ ॥

रत्नहाटकस्रग्गन्धफलसर्वौषधीयुतम् ।
शुभपादपशाखाढ्यं पट्टस्रग्गन्धभूषितम् ॥ ११३ ॥

गालितोदकसम्पूर्णं वारिधारान्वितं नवम् ।
चन्दनाद्यनुलिप्तं च परितश्चाक्षतार्चितम् ॥ ११४ ॥

वेष्टितं परितः सूत्रैर्विकीर्योपरि तं न्यसेत् ।
तद्देवताशरीरं तु पश्येदमलवर्चसम् ॥ ११५ ॥

सास्त्रेण चक्रमन्त्रेण मन्त्रयेदथ वर्धनीम् ।
पूर्वोक्तद्रव्यसंयुक्तां परितः सूत्रवेष्टिताम् ॥ ११६ ॥

आवाह्य मन्त्रनाथस्य दक्षिणे कलशोत्तरे ।
विन्यस्य परितस्तत्र स्थापयेत्कलशाष्टकम् ॥ ११७ ॥

सपल्लवं सापिधानं सूत्रेण परिवेष्टितम् ।
कुम्भमध्ये विभोः पश्चादासनं परिकल्प्य च ॥ ११८ ॥

तन्मध्ये पुण्डरीकाक्षं समावाह्य विधानतः ।
सन्निधिं सन्निरोधादि भोगयागावसानकम् ॥ ११९ ॥

पूर्ववत्सकलं कृत्वा तस्य दक्षिणदिग्गतम् ।
अस्त्रविग्रहरूपं च ध्यात्वाभ्यर्च्य यथाविधि ॥ १२० ॥

ध्वंसयन्तं च विघ्नानां जालं कर्मावसानकम् ।
अष्टासु तत्र कुम्भेषु परितः स्थापितेषु च ॥ १२१ ॥

वासुदेवादयः पूज्याः प्रभवाप्यययोगतः ।
इदमभ्यर्थयेद्देवं सास्त्रं बद्धाञ्जलिः स्थितः ॥ १२२ ॥

यागालयं हि विश्वेश गृहाण रचितं मया ।
आसामपि भज विभो क्रियाङ्गानां च सन्निधिम् ॥ १२३ ॥

ततोऽस्त्रोदकधारां चाप्यविच्छिन्नां भित्तिकां नयेत् ।
प्रदक्षिणेन प्राग्भावात्तत्पादान्तं च तत् स्मरेत् ॥ १२४ ॥

अथवेशानदिग्भागात्तत्पादान्तं द्विजोत्तमाः ।
पृष्ठतः कलशं भ्राम्य तुल्यकालं तु वा पृथक् ॥ १२५ ॥

कलशं वर्धनीयुक्तं विन्यस्य विकिरोध्वगम् ।
अर्घ्यदानं तयोः कृत्वा पुष्पाद्यैः पूरयेत्पुनः ॥ १२६ ॥

अस्त्रेण वस्त्रयुग्मं तु अहतं चाभिमन्त्र्य वै ।
धूपाधिवासितं कृत्वा तावुभौ परिवेष्ट्य च ॥ १२७ ॥

अथ वा भद्रपीठं तु विन्यसेद्विकिरोध्वगम् ।
सास्त्रं हि मन्त्रकलशं तत्राधारगतं न्यसेत् ॥ १२८ ॥

चतुस्त्रिद्वैकभारैर्वा शालिभिर्विष्टरे कृते ।
तावन्मानांस्तदर्धान्वा तदूर्ध्वे तण्डुलान्न्यसेत् ॥ १२९ ॥

तत्पादांस्तत्समान्वापि तदूर्ध्वे विन्यसेत्तिलान् ।
तदूर्ध्वे चाहतं वस्त्रयुग्ममास्तीर्य वै शुभम् ॥ १३० ॥

कलशं वर्धनीयुक्तं तदूर्ध्वे वापि विन्यसेत् ।
प्राग्वत्सास्त्रं तु देवेशमासनादिक्रमाद्यजेत् ॥ १३१ ॥

व्यापारमाचरेद्दिव्यं कुम्भके च स्मरन्विभुम् ।
नानिशं युज्यते यस्मात्तस्मादेषा प्रतिक्रिया ॥ १३२ ॥

विभाव्या मन्त्रिणां कौम्भी अस्त्रं रक्षार्थमेव हि ।
ततो मण्डलवेदिं तु समासाद्य च देशिकः ॥ १३३ ॥

उपलिप्याथ भूभागं साम्भसा गोमयेन तु ।
तत्र मण्डलमालेख्यं सूत्रयित्वा यथाविधि ॥ १३४ ॥

तद्विधानं विशेषेण शृणुध्वं मुनिपुङ्गवाः ।
संसाध्य यष्टियोगेन सूत्रात्पूर्वापरे पुरा ॥ १३५ ॥

तद्द्वितयान्तरे दद्यात्पार्श्वे सूत्रचतुष्टयम् ।
समांशेन द्विधा कृत्वा स्फुटं मध्यात्तदन्त्य च ॥ १३६ ॥

साधितेनार्धमानेन प्राक्प्रत्यक्स्थेन तन्तुना ।
दक्षिणोत्तरभागाभ्यां समुत्पाद्य चतुष्पथौ ॥ १३७ ॥

सूत्रं पूर्वापरसमं कृत्वा तदुपरि क्षिपेत् ।
पुनरर्धसमं दिक्षु दत्त्वा कोणचतुष्टयम् ॥ १३८ ॥

चतुष्पथचतुष्केण नयेद्व्यक्तिं प्रसार्य वै ।
समं सूत्रचतुष्कं च चतुरश्राश्रसिद्धये ॥ १३९ ॥

तद्विभज्याष्टदशभिश्चतुर्दिक्षु पदैः समैः ।
क्षिपेत्सूत्रगणं तत्र घटिकारेणुरञ्जितम् ॥ १४० ॥

मध्ये पद्मावनीं कुर्याद्भागपङ्क्तित्रये क्रमात् ।
तद्बहिः पदपङ्क्त्या तु पीठमष्टदिगन्वितम् ॥ १४१ ॥

तस्य भागचतुष्काढ्यं दिक्चतुष्कं प्रकल्प्य च ।
विदिक्चतुष्के त्रिपदं पङ्क्त्या पीठप्रदक्षिणम् ॥ १४२ ॥

प्रदक्षिणक्षितेर्बाह्याच्चतुष्के दिक्चतुष्टयात् ।
चतुर्णां तु चतुर्णां तु बाह्याद्बाह्यं द्वयं द्वयम् ॥ १४३ ॥

शोधयित्वा तु तद्बाह्याच्चतुष्कं द्वारसिद्धये ।
चतुष्टयं क्रमेणैव भूयो दिक्षु पदं पदम् ॥ १४४ ॥

सबाह्याभ्यन्तरगतं शोधनीयं प्रयत्नतः ।
पुनः सर्वपदाभ्यां तु पदैकं पदकं तु चान्तरात् ॥ १४५ ॥

सम्मार्ज्य पूर्णशोभार्थं तत्र रक्तोत्पलाष्टकम् ।
यथा दिक्षु स्थितं कुर्यात्पूजनाय दिवौकसाम् ॥ १४६ ॥

बाह्यस्थपदपद्मात्तु त्रीणि त्रीणि तु लोपयेत् ।
त्रयाणामन्तरस्थं यत्पदमेकात्मतां नयेत् ॥ १४७ ॥

उपशोभं तु तं विद्धि कुर्यान्नीलाब्जभूषितम् ।
पञ्चकं पञ्चकं कोणाद्वीथ्यौ नीत्वा लयं पुरा ॥ १४८ ॥

शेषैः कोणं तु निर्वर्त्य सान्तरं च ततो बहिः ।
दद्यात्सूत्रत्रयं चैव मध्येऽथ कमलं लिखेत् ॥ १४९ ॥

सचक्रमष्टपत्रं तु तस्य लक्षणमुच्यते ।
षट्त्रिंशत्कोष्ठमध्ये तु शङ्कुं संस्थाप्य यत्नतः ॥ १५० ॥

सूत्रभ्रमैस्तु सुसमं कुर्यान्मण्डलपञ्चकम् ।
तेष्वाद्यं मण्डलं मध्ये भवेद्वै कर्णिकास्पदम् ॥ १५१ ॥

द्वितीयं मण्डलं त्रेधा भङ्क्त्वा सूत्रभ्रमैः पुनः ।
तेष्वाद्यं केसरस्थानं द्वितीयं दलमण्डलम् ॥ १५२ ॥

तृतीयं तत्पुनस्त्रेधा भक्तं नाभित्रयं चरेत् ।
नाभेर्बहिर्मण्डल्योः द्वादशाराणि कल्पयेत् ॥ १५३ ॥

तद्बहिर्मण्डलं त्वेकं नेमिस्थानं प्रकल्पयेत् ।
कृत्वैवं वर्णकैः पूतैः पूरणीयं महोज्ज्वलैः ॥ १५४ ॥

उच्चाग्रविततां पीतां सबीजां विद्धि कर्णिकाम् ।
रेखान्वितानि पत्राणि सर्वाणि सुसितानि च ॥ १५५ ॥

केसरत्रितयं कुर्यात्पत्रे पत्रेऽरुणप्रभम् ।
दलान्तरालमसितं श्वेतं पीतं च पाटलम् ॥ १५६ ॥

नाभित्रयं क्रमेण स्याद्रक्तवर्णान्यराणि तु ।
नेमेस्तु पूर्वभागः स्यात्कृष्णवर्णः सितोऽन्तिमः ॥ १५७ ॥

सितानि पीठकोणानि रक्तं तद्दिक्चतुष्टयम् ।
राजोपलप्रभा वीथी पत्रमाल्याद्यलङ्कृता ॥ १५८ ॥

पश्चिमांशं विना सर्वद्वाराण्यम्बुजपत्रवत् ।
कृष्णानि सर्वशोभानि द्वारदेशस्थितानि च ॥ १५९ ॥

तदर्धाकृतितुल्यानि उपशोभानि गर्भवत् ।
कोणानि केसराभानि सितशङ्खान्वितानि च ॥ १६० ॥

शोणहेमादिवर्णं च क्रमाद्रेखागणं बहिः ।
कृत्वैवमनुसन्धाय सर्वात्मत्वेन देहवत् ॥ १६१ ॥

रजांसि विद्धि भूतानि सितपीतादिकानि च ।
तन्मात्राण्युपशोभानि शोभानि करणानि च ॥ १६२ ॥

एवं सर्वाणि कोणानि सहद्वाराणीन्द्रियाणि च ।
बहिरावरणं यद्वै सत्त्वाद्यं त्रितयं हि यत् ॥ १६३ ॥

मनः सुवितता वीथी गर्वः पीठमुदाहृतम् ।
धीः पद्मं तदधिष्ठाता बीजात्मा चिन्मयः पुमान् ॥ १६४ ॥

अमूर्त ईश्वरश्चात्र तिष्ठत्यानन्दलक्षणः ।
यस्य सन्दर्शनादेव शश्वद्भावः प्रसीदति ॥ १६५ ॥

ससङ्गानामसङ्गानां वपुष्पाते कृते सति ।
प्रायशो मुक्तिभाजां च इह जन्मैकशेषिणाम् ॥ १६६ ॥

देव आस्तेऽज्ञतां हित्वा बहिरन्तश्च कर्मिणाम् ।
अन्यथा दृष्टमात्राद्धि कथमाह्लादमेति वै ॥ १६७ ॥

अन्तः संवेदनसममस्तित्वप्रतिपादकम् ।
यथात्वलक्षणं तत्त्वम् तत्सर्वत्र सिद्धिदम् ॥ १६८ ॥

वस्तुत्वेन गृहीत्वैवं मण्डलं पूर्वनिर्मितम् ।
नाम्नाब्जनाभभुवनं सर्वदुःखक्षयङ्करम् ॥ १६९ ॥

ततस्तस्मिन् विभोः प्राग्वदासनं परिकल्प्य च ।
तन्मध्ये देवदेवेशं समावाह्य यथाविधि ॥ १७० ॥

सन्निधिं सन्निरोधादि भोगयागावसानकम् ।
सर्वं च पूर्ववत्कृत्वा आसनाद्यैः पुरोदितैः ॥ १७१ ॥

पूजयेज्जपयज्ञान्तं देवेशं मण्डले गुरुः ।
मण्डले कुम्भयागे च प्रोक्षणे स्नानमाचरेत् ॥ १७२ ॥

ततस्तु मूर्तिपैः सार्धं गत्वा वै बिम्बसन्निधिम् ।
तत्र सम्पूजयेद्देवं महता विभवेन तु ॥ १७३ ॥

ततः कुण्डसमीपं तु गत्वा देशिकसत्तमः ।
कुण्डं तत्रानलं चापि संस्कृत्य विधिवत्ततः ॥ १७४ ॥

अग्नौ सन्तर्पणं कुर्याद्यथोक्तविधिना विभोः ।
समिद्भिश्चैव नित्याभिः काम्याभिश्च यथाक्रमम् ॥ १७५ ॥

पूर्णाहुत्यादिकं सर्वं प्राग्वदेव समाचरेत् ।
नोत्सृजेत्परिधीन् दर्भान् देवाश्चोद्वासयेत्ततः ॥ १७६ ॥

प्रत्यहं धारयेदग्निं यावत्तीर्थदिनान्तिमम् ।
अहोरात्रं प्रतिदिनं जुहुयादुक्तवर्त्मना ॥ १७७ ॥

ततो बिम्बान्तिकं गत्वा कृत्वा होमनिवेदनम् ।
सर्वं तु सम्प्रदानान्तं क्रमात्कृत्वा ततः परम् ॥ १७८ ॥

विभवे सति वै कुर्याद्भूयः सम्पूजनं विभोः ।
ततो द्वारबलिं दद्याचतुर्दिक्षु यथाविधि ॥ १७९ ॥

ततश्च यागगेहात्तु देवमन्तः प्रवेशयेत् ।
ततः सम्पूज्य देवेशं रात्रिशेषं समापयेत् ॥ १८० ॥

अङ्कुरारोपणदिनात्पुष्पयागदिनान्तिमम् ।
व्रतं कुर्याद्देशिकेन्द्रो दिनद्वादशके क्रमात् ॥ १८१ ॥

स्नानार्चनादिकं कृत्वा पीत्वा तच्चरणोदकम् ।
कुशोदकसमायुक्तं जपेदष्टाक्षरं मनुम् ॥ १८२ ॥

नैवेद्यप्राशनं पूर्वं कुर्यान्नक्ताशनं द्विजाः ।
जपेद्द्वादशनामानि क्रमाद्वाच्यमनुस्मरन् ॥ १८३ ॥

द्वितीये दिवसे प्राप्ते देशिको मन्त्रवित्तमः ।
स्नानादिनित्यनियमान् निर्वर्त्य सह मूर्तिपैः ॥ १८४ ॥

नित्यार्चनं विभोः कृत्वा विशेषेण यजेत्ततः ।
प्रविश्य यागसदनं पूर्वोक्तविधिना गुरुः ॥ १८५ ॥

कृत्वा द्वारार्चनान्तं तु गत्वा कुम्भस्य सन्निधिम् ।
कुम्भे च मण्डले चैव यजेद्देवं यथाविधि ॥ १८६ ॥

कुम्भे च मण्डले चैव पूर्वं यत्रार्चनं कृतम् ।
अन्येद्युरपि तत्रैव पूजनं तु समाचरेत् ॥ १८७ ॥

न पर्युषितदोषोऽस्ति तयोर्यस्मान्मुनीश्वराः ।
स्थले भस्मनिभे पूर्वे पूजनं निष्फलं भवेत् ॥ १८८ ॥

योजयित्वा तु कुम्भस्थे वर्तयेन्मण्डलं ततः ।
सिताद्यैः पावनै रङ्गैस्ततः कुम्भे समर्चयेत् ॥ १८९ ॥

यथावद्देवदेवेशं पूजयेन्मण्डले ततः ।
एवं कुम्भेऽपि दोषाणां सम्भवे मुनिपुङ्गवाः ॥ १९० ॥

कुम्भं संशोध्य भूयोऽपि सम्पूर्य विमलोदकैः ।
तत्र स्थितं देवदेवं मण्डले योजयेद्गुरुः ॥ १९१ ॥

पूर्ववत्समलङ्कृत्य तत्र सम्पूजयेद्विभुम् ।
अथ देवगृहं गत्वा पुण्डरीकाक्षमच्युतम् ॥ १९२ ॥

अष्टाङ्गेन नमस्कृत्य पूजयेत्पुरुषोत्तमम् ।
अर्घ्यालेपनमाल्यैश्च धूपरङ्गादिसंयुतम् ॥ १९३ ॥

तत्सर्वं योग्यमाहर्तुं पूजान्तर्निवेदितम् ।
पुष्पपूर्वं समादाय शिरसा चाभिनन्द्य तत् ॥ १९४ ॥

समर्प्य विष्वक्सेनस्य हृन्मन्त्राभिमन्त्रितैः ।
सपीठं भगवद्बिम्बं निर्मलीकृत्य वारिभिः ॥ १९५ ॥

प्रासादं शोधयित्वा तु देवदेवं समर्चयेत् ।
स्नानैस्तु क्षीरपूर्वैर्वा धात्रीफलपुरःसरैः ॥ १९६ ॥

यथाक्रमोपदिष्टैस्तु चान्यभोगैरकृत्रिमैः ।
प्रदक्षिणप्रणामान्तं विशेषोत्सवमाचरेत् ॥ १९७ ॥

ततो यागगृहं गत्वा वह्नौ सन्तर्पयेद्विभुम् ।
पूर्वोक्तविधिना पश्चात्संस्कृतेनाथ वह्निना ॥ १९८ ॥

चरुं संश्रापयेच्चुल्यां हृदा क्षीराज्यतण्डुलैः ।
समुद्धृत्याज्यपूतं तु विनिवेद्य यथाक्रमम् ॥ १९९ ॥

कलशस्थलबिम्बानामेकांशं जुहुयात्ततः ।
यद्वा यागसमारम्भात्पूर्वं संसाध्य वै चरुम् ॥ २०० ॥

कलशस्थलबिम्बानां क्रमात्कृत्वा तु पूजनम् ।
सर्वं द्विजप्रदानान्तं वह्नौ सन्तर्पयेत्ततः ॥ २०१ ॥

दत्त्वा पूर्णाहुतिं पश्चात्कुर्याद्द्वारबलिं तथा ।
गत्वा बिम्बसमीपं तु कृत्वा होमनिवेदनम् ॥ २०२ ॥

बलिबिम्बमथादाय यानमारोप्य वै ततः ।
अलङ्कुर्याद्विशेषेण वस्त्राभरणमाल्यकैः ॥ २०३ ॥

वहेयुर्ब्राह्मणा यानं ध्यायन्तो विहगेश्वरम् ।
प्रथमावृतिमारभ्य रथ्यावरणपश्चिमम् ॥ २०४ ॥

प्रदक्षिणक्रमेणैव बलिदानपुरःसरम् ।
भ्रामयित्वा तु देवेशं ततो ग्रामेऽपि पूर्ववत् ॥ २०५ ॥

ग्रामस्येन्द्रादियोगेन दिशासु विदिशासु च ।
मध्ये च कुमुदादीनां सगणानां क्रमेण तु ॥ २०६ ॥

पीठिकासु बलिं दद्यान्निर्मितासु पुरैव तु ।
भूतले गोमयाद्येन लेपिते वा यथारुचि ॥ २०७ ॥

दशानां कुमुदादीनां गणेशानां द्विजोत्तमाः ।
प्रणवाद्यैर्नमोन्तैस्तु स्वैः स्वैर्नामभिरेव च ॥ २०८ ॥

अर्घ्यं गन्धं तथा माल्यं धूपं गण्डाम्बुपूर्वकम् ।
बलिं भूयो जलं चापि ताम्बूलं क्रमशो ददेत् ॥ २०९ ॥

नृत्तगीतादिकं सर्वं पूर्ववत्परिकल्पयेत् ।
एवं ग्रामबलिं कृत्वा बलिबिम्बाग्रतो गुरुः ॥ २१० ॥

अनुक्तानां च सर्वेषां ग्राममध्ये मुनीश्वराः ।
नमः पारिषदेभ्यश्चेत्युक्त्वा शिष्टबलिं क्षिपेत् ॥ २११ ॥

ततस्तु बलिबिम्बं तु प्रवेश्यान्तर्मुनीश्वराः ।
अभ्यर्च्य श्रमशान्त्यर्थं स्वस्थाने सन्निवेशयेत् ॥ २१२ ॥

एवं कालद्वये कुर्याद्बलिं तीर्थदिनान्तिमम् ।
आरम्भदिवसे रात्रौ समाप्तिदिवसेऽहनि ॥ २१३ ॥

बलिमेकं क्षिपेन्मध्यदिवसेषु बलिद्वयम् ।
एवं दिवा रजन्यां च नित्यपूजापुरःसरम् ॥ २१४ ॥

विशेषयजनं कुर्याद्बल्यन्तं देशिकोत्तमः ।
वाहनारोहणं रात्रौ दिवसे वा यथारुचि ॥ २१५ ॥

बल्यन्ते देशिकः कुर्यात्तद्विधानमिहोच्यते ।
यात्राबिम्बगतं देवं देवीभ्यां सह वा विना ॥ २१६ ॥

अलङ्कृत्य विशेषेण विचित्रवसनैस्तथा ।
विविधैर्भूषणैश्चापि माल्यैर्नानाविधैस्तथा ॥ २१७ ॥

अलङ्कृतं विशेषेण यानं हेमादिनिर्मितम् ।
समानीय तु सम्प्रोक्ष्य ध्यात्वा गरुडरूपिणम् ॥ २१८ ॥

तन्मन्त्रेण समभ्यर्च्य यानमर्घ्यादिभिस्ततः ।
कृत्वा पुण्याहघोषं च श्रुतिघोषसमन्वितम् ॥ २१९ ॥

शङ्खतूर्यादिसंयुक्तं प्रादक्षिण्यक्रमेण तु ।
याने तत्र समारोप्य यात्रामूर्तिगतं विभुम् ॥ २२० ॥

दृढीकृत्य विशेषेण ह्यलङ्कुर्याज्जगत्प्रभुम् ।
अर्घ्याद्यैरर्चयित्वा तु ताम्बूलादीन् निवेदयेत् ॥ २२१ ॥

वहेयुर्ब्राह्मणा यानं ध्यायन्तो विहगेश्वरम् ।
अथवा वैष्णवाः शूद्रा वहेयुर्भक्तिसंयुताः ॥ २२२ ॥

ग्रामे वा नगरे वापि पट्टणे वा मुनीश्वराः ।
प्रदक्षिणक्रमेणैव परिभ्रमणमाचरेत् ॥ २२३ ॥

ब्राह्मणैर्ध्रियमाणैश्च कञ्चुकोष्णीषधारिभिः ।
मौक्तिकैरातपत्रैश्च मायूरैश्च सुशोभनैः ॥ २२४ ॥

हेमदण्डसमायुक्तैस्तालवृन्तैस्तथाविधैः ।
पट्टजैर्विविधैश्चापि चामरैश्च सितासितैः ॥ २२५ ॥

केतुदण्डैश्च विविधैर्वैजयन्तीविभूषितैः ।
केवलै रत्नदण्डैश्च तथान्यैर्माङ्गलीयकैः ॥ २२६ ॥

वन्दिवृन्दैश्च विविधैर्वीणावेणुस्वनैस्तथा ।
सुवर्णशङ्खघोषैश्च तथान्यैर्मङ्गलस्वनैः ॥ २२७ ॥

गणिकादेवदासीभिस्तथा नागरकैर्जनैः ।
विप्रैर्वेत्रलताहस्तैः कञ्चुकोष्णीषभूषितैः ॥ २२८ ॥

सुमृष्टधूपपात्राणि वहद्भिः पार्श्वतस्तथा ।
अनेकशतसङ्ख्यातैर्दीपैरतिसमुज्ज्वलैः ॥ २२९ ॥

पादुके रत्नखचिते पात्रे हेमादिनिर्मिते ।
विन्यस्य देवपुरतो वहद्भिः परिचारकैः ॥ २३० ॥

ऋग्यजुःसामवेदांस्तु पठद्भिः पृष्ठतः स्थितैः ।
ब्राह्मणैर्दक्षिणे भागे तथा चैकायनीं श्रुतिम् ॥ २३१ ॥

संहिताः सात्वताद्याश्च पठद्भिर्भक्तिसंयुतैः ।
वासुदेवस्य माहात्म्यं कथयद्भिश्च सन्ततम् ॥ २३२ ॥

वासुदेवार्चनपरैः सात्त्विकैः पाञ्चरात्रिकैः ।
वामे तु सेतिहासानि पुराणानि स्तुतीरपि ॥ २३३ ॥

नानाभाषाविरचिताः विष्णुपारम्यसूचकाः ।
पठद्भिर्ब्राह्मणैर्भक्तैस्त्रय्यन्तार्थविचारिभिः ॥ २३४ ॥

शाब्दिकैस्तार्किकैश्चैव तथा मौहूर्तिकादिभिः ।
तत्तच्छास्त्रप्रमेयं तु ब्रुवाणैर्विनयान्वितैः ॥ २३५ ॥

गायद्भिरग्रे देवस्य द्रामिडीं श्रुतिमुत्तमाम् ।
तथा भाषाप्रबन्धांश्च गद्यपद्यात्मकानि च ॥ २३६ ॥

तथा च वैष्णवीं भक्त्या ब्रुवाणैर्वैष्णवोत्तमैः ।
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च भगवत्परैः ॥ २३७ ॥

भगवद्दर्शनासक्तचित्तैः प्रणतिशालिभिः ।
सेनया सर्वतो दिक्षु चतुरङ्गबलाढ्यया ॥ २३८ ॥

राजोचितैः परिकरैरन्यैश्च विविधैः सह ।
देवं ग्रामादिवीथीषु भ्रामयेत्तु प्रदक्षिणम् ॥ २३९ ॥

यात्रायां वर्तमानायां देवदेवाय भक्तितः ।
मुखवासं सताम्बूलं बहुशो विनिवेदयेत् ॥ २४० ॥

चन्दनं श्रमशान्त्यर्थं कर्पूराद्यैः सुभावितम् ।
प्रदद्याद्देवदेवाय माल्यानि विविधान्यपि ॥ २४१ ॥

शीतलं तर्पणजलं नालिकेरजलान्वितम् ।
श्रमशान्तिनिमित्तानि अन्यान्यपि निवेदयेत् ॥ २४२ ॥

दिगष्टके च ग्रामादेस्तन्मध्ये च विशेषतः ।
गीतकैर्विविधैर्नृत्तैस्तन्त्रीवाद्यसमन्वितैः ॥ २४३ ॥

शङ्खभेरीमृदङ्गाद्यैर्देवेशं परितोषयेत् ।
एवं देवं परिभ्राम्य नयेद्बाह्ये तु मण्डपे ॥ २४४ ॥

समारोप्य च सौवर्णे विष्टरे जगतांपतिम् ।
अर्घ्यं पाद्यं तथाचामं गन्धमाल्ये च दीपकम् ॥ २४५ ॥

धूपं नीराजनं चैव समर्प्य च यथाविधि ।
अथार्हणजलं स्वच्छमपूपान् पृथुकानपि ॥ २४६ ॥

तर्पणं नालिकेरोत्थरसमाचमनं तथा ।
मुखवाससमोपेतं ताम्बूलं च क्रमेण तु ॥ २४७ ॥

निवेद्य देवदेवाय उपहारांस्तु दर्शयेत् ।
पूजाकाले तु सर्वत्र भूषामाल्याम्बरार्पणम् ॥ २४८ ॥

विसर्जनं च तेषां वै तथा चाभ्यवहारिकैः ।
भोगैरभ्यर्चनं चैव इतरालक्ष्यमाचरेत् ॥ २४९ ॥

तत्सिद्ध्यै देवमभितः स्तरेद्यवनिकापटम् ।
ततस्तु मण्डपात्तस्मान्मन्दिरान्तः प्रवेशयेत् ॥ २५० ॥

महापीठस्य पुरतो देवमर्घ्यादिभिर्यजेत् ।
अपूपानुपहारांश्च ताम्बूलादीन् निवेदयेत् ॥ २५१ ॥

देवाग्रे चतुरो वेदान् पाठयेत्तदनन्तरम् ।
पाठयेद्द्रामिडीं चापि स्तुतिं वैष्णवसत्तमैः ॥ २५२ ॥

शङ्खमर्दलनादैश्च नृत्तगीतादिभिः सह ।
भ्रामयेद्देवदेवेशं प्रादक्षिण्येन मन्दिरम् ॥ २५३ ॥

ततः प्रवेशयेन्मन्दं मन्दं सोपानमार्गतः ।
तदानीं देवदेवाय ताम्बूलादीन् समर्पयेत् ॥ २५४ ॥

चामरैस्तालवृन्ताद्यैर्वीजयेच्छ्रमशान्तये ।
स्तोत्रैः स्तुवीत देवेशं संस्कृतैर्द्रामिडैस्तु वा ॥ २५५ ॥

वीणावेणुमृदङ्गैश्च मङ्गलैस्तालनिःस्वनैः ।
द्रामिडस्तुतिगीतानि कुर्वद्भिर्वैष्णवोत्तमैः ॥ २५६ ॥

तथा मङ्गलगानाभिर्गणिकाभिः पदे पदे ।
उच्चैरुद्गीयमानैश्च वन्दिस्तोत्ररवैः सह ॥ २५७ ॥

नानाविधोपचारैश्च देवमन्तः प्रवेशयेत् ।
प्रासादद्वारदेशे तु देवदेवस्य भक्तितः ॥ २५८ ॥

अर्घ्यं पाद्यं तथाचामं गन्धं माल्यं च धूपकम् ।
निवेद्य देवदेवेशं स्वस्थाने सन्निवेशयेत् ॥ २५९ ॥

वाहनारोहणं त्वेवं कुर्याद्दिवसस्य नित्यशः ।
प्रथमे शिबिकायानं द्वितीये शेषपीठिका ॥ २६० ॥

तृतीये चन्द्रबिम्बं च दिवा चेत्सूर्यमण्डलम् ।
चतुर्थे दिवसे प्राप्ते पुष्पमण्डपवाहनम् ॥ २६१ ॥

पञ्चमे दिवसे प्राप्ते गरुडारोहणं भवेत् ।
षष्ठे दिने तु सम्प्राप्ते तन्निशायां दिवापि वा ॥ २६२ ॥

बल्यन्तमर्चनं कृत्वा देवमास्थानमण्डपे ।
भद्रासने समारोप्य पुरतस्तस्य शोधिते ॥ २६३ ॥

भूतले धान्यपीठे तु चूर्णकुम्भं च विन्यसेत् ।
प्रोक्ष्य पुण्याहतोयेन श्रियं तत्र समर्चयेत् ॥ २६४ ॥

सदर्भवेष्टणाच्छाद्य चक्रं तत्र नियोजयेत् ।
रक्षार्थं च ततो देवमर्घ्याद्यैर्हविरन्तिमैः ॥ २६५ ॥

समभ्यर्च्य च हारिद्रं चूर्णमादाय देशिकः ।
श्रीसूक्तमुच्चरन्देवं चूर्णैः समभिषेचयेत् ॥ २६६ ॥

मण्डपस्यैकदेशे तु शालितण्डुलनिर्मिते ।
विष्टरे तु जलद्रोणीं सौवर्णीमथ राजतीम् ॥ २६७ ॥

ताम्रजां वा यथालाभं चतुस्त्रिद्विकरायताम् ।
तदर्धविस्तृतामूर्ध्वे मूले तत्पादविस्तृताम् ॥ २६८ ॥

वृतायतामधोभागे प्रणालेन समन्विताम् ।
उन्मत्तकुसुमाकारसदृशीमथ वा द्विजाः ॥ २६९ ॥

बिम्बमानानुरूपां तां सर्वलक्षणसंयुताम् ।
निवेश्य तां समापूर्य गालितेन जलेन तु ॥ २७० ॥

कुङ्कुमक्षोदयुक्तेन चन्दनेनान्वितेन च ।
कर्पूरचूर्णयुक्तेन कुसुमैर्वासितेन च ॥ २७१ ॥

तत्पार्श्वे देवमानीय चार्घ्याद्यैः परिपूज्य च ।
भेरीपटहवादित्रशङ्खघोषसमन्वितम् ॥ २७२ ॥

स्तुतिमङ्गलघोषैस्तु श्रुतिघोषसमन्वितम् ।
सूक्तेन पौरुषेणैव विभोः कृत्वावगाहनम् ॥ २७३ ॥

याने देवं समारोप्य सह स्नानार्द्रवाससा ।
कुङ्कुमेन समालिप्य आपादान्मस्तकावधि ॥ २७४ ॥

भ्रामयेत्प्राङ्गणं वीथीं प्रीतये करुणस्य च ।
जनानामपि सर्वेषां पवित्रीकरणाय च ॥ २७५ ॥

तत्काले देवदेवेशं भक्त्या पश्यन्ति ये द्विजाः ।
ते सर्वे धूतपाप्मानो भवन्ति निरुपद्रवाः ॥ २७६ ॥

ततस्तु मण्डपे देवं विष्टरे विनिवेश्य च ।
स्नानवस्त्रादिसकलमाचार्यः स्वयमाहरेत् ॥ २७७ ॥

ततो देवमलङ्कृत्य कुर्यात्सम्यग्गजोत्सवम् ।
सप्तमे दिवसे प्राप्ते कृत्वा बल्यन्तमर्चनम् ॥ २७८ ॥

प्रतिष्ठितं रथं पूर्वं सर्वलक्षणसंयुतम् ।
मुक्ताप्रपावितानैश्च सौवर्णैर्मञ्जरीगणैः ॥ २७९ ॥

मुक्तादामसमोपेतैर्विचित्रैः पुष्पदामभिः ।
हैमेन च वितानेन प्रभया च विशेषतः ॥ २८० ॥

मध्यतो भद्रपीठेन सौवर्णेन तथैव च ।
ध्वजैश्च विविधै रम्यैः पताकाभिश्च सर्वतः ॥ २८१ ॥

भूषयेद्रथयानं तु तथा गरुडकेतुना ।
सौवर्णकुम्भशिखरैः रथमेवमलङ्कृतम् ॥ २८२ ॥

सम्प्रोक्ष्य पञ्चगव्येन तथा पुण्याहवारिभिः ।
रथस्य पादादूर्ध्वान्तं स्थितान् देवान् समर्चयेत् ॥ २८३ ॥

प्रथमं पादचक्रेषु वह्न्यादीशानपश्चिमम् ।
सत्यं सुपर्णं गरुडं तार्क्ष्यं चैव यथाक्रमम् ॥ २८४ ॥

तत्तन्मन्त्रैः समभ्यर्च्य अन्यत्र विहगेश्वरम् ।
चक्रदण्डद्वये मायां चक्रे च शशिभास्करौ ॥ २८५ ॥

अनन्तं च तदाधारे भाराख्ये दण्डकद्वये ।
विश्वरूपधरो विष्णुः शक्तीशश्चाप्युभौ विभो ॥ २८६ ॥

परितः पट्टिकाजाले केशवादीननुक्रमात् ।
गात्रेषु गात्रपात्रेषु धर्माद्यं त्वष्टकं यजेत् ॥ २८७ ॥

गात्राद्गात्रान्तरं न्यस्येच्चक्राद्यायुधसञ्चयम् ।
रथप्रासादमूर्ध्नि स्थूपिकायां सदाहरिम् ॥ २८८ ॥

कूटशालासु पूर्वोक्तवासुदेवादिकान्यजेत् ।
एकभङ्गादिकं न्यस्त्वा परितो वेदिकातले ॥ २८९ ॥

कुमुदादीन्दश तथा ग्रीवायां परितो यजेत् ।
शिखरे तु यजेत्पश्चादनन्तादीननुक्रमात् ॥ २९० ॥

सर्वेषामूर्ध्वतो विप्राः पद्मनाभं ध्रुवं यजेत् ।
अर्घ्यस्रग्गन्धधूपैश्च क्रमेणैतान् प्रपूज्य च ॥ २९१ ॥

चण्डाद्यं च सुभद्रान्तं द्वौ द्वौ दिक्षु समर्चयेत् ।
कुमुदादिगणेशानान् लोकपालान् यथाक्रमम् ॥ २९२ ॥

तत्तत्स्थानेषु सम्पूज्य रथं गरुडरूपिणम् ।
ध्यात्वाभ्यर्च्य ततोऽर्घ्याद्यैर्हविरन्तं ततो गुरुः ॥ २९३ ॥

चण्डादीनां बलिं दत्त्वा रथस्य परितस्ततः ।
देवगेहं समासाद्य मूर्तिपैः सह देशिकः ॥ २९४ ॥

यानमारोप्य देवेशं श्रीपुष्टिभ्यां समन्वितम् ।
आस्थानमण्डपं नीत्वा समारोप्य च विष्टरे ॥ २९५ ॥

अर्घ्याद्यैर्देवमभ्यर्च्य विविधैरुपचारकैः ।
यात्रानिर्विघ्नसिद्ध्यर्थं बीजानि विविधानि च ॥ २९६ ॥

फलानि च हिरण्यानि तथा दध्योदनं द्विजाः ।
देवस्य सन्निधौ दत्त्वा विप्रेभ्यो देशिकोत्तमः ॥ २९७ ॥

सुमुहूर्ते सुलग्ने च दैवज्ञपरिचोदिते ।
रथस्यारोहणार्थं तु देवमभ्यर्च्य यत्नतः ॥ २९८ ॥

पादुके विनिवेद्याथ यानमारोप्य पूर्ववत् ।
वेदघोषैस्तथा घण्टाघोषैर्मङ्गलनिःस्वनैः ॥ २९९ ॥

तथा जयजयरावैः काहलैः शङ्खनिःस्वनैः ।
भेरीपटहवादित्रनृत्तगीतादिभिः सह ॥ ३०० ॥

छत्रचामरपूर्वैश्च यात्रोपकरणैः सह ।
प्रथमावृतिमारभ्य रथ्यावरणपश्चिमम् ॥ ३०१ ॥

प्रदक्षिणक्रमेणैव परिभ्राम्य च पूर्ववत् ।
रथं प्रदक्षिणीकृत्य सुमुहूर्ते सुलग्नके ॥ ३०२ ॥

रथमारोपयेद्देवं ब्राह्मणैः सुप्रयत्नतः ।
रथस्योर्ध्वतले देवं विष्टरे विनिवेश्य च ॥ ३०३ ॥

यात्रार्थं देवदेवाय अर्घ्यं पाद्यं तथैव च ।
आचामं गन्धमाल्ये च दीपं धूपं तथैव च ॥ ३०४ ॥

अर्हणं मधुपर्कं च नैवेद्यं विविधं तथा ।
पृथुकाद्यं पानकं च तर्पणाचमने तथा ॥ ३०५ ॥

ताम्बूलं विनिवेद्याथ मुखवाससमन्वितम् ।
तत्काले पुत्रकामानां स्त्रीणां चारोग्यमिच्छताम् ॥ ३०६ ॥

नैवेद्यं कबलीकृत्य दद्याद्देवस्य सन्निधौ ।
आचार्यः साधकश्चापि रथस्योर्ध्वतले स्थिताः ॥ ३०७ ॥

तस्याधस्तात् स्थले स्थाप्याः पश्चिमे छत्रधारकाः ।
तत्र तत्पार्श्वतः स्थाप्यौ मायूरच्छत्रधारिणौ ॥ ३०८ ॥

दक्षिणोत्तरपार्श्वस्थावत्र चामरधारिणौ ।
सारथिस्तत्स्थले स्थाप्यस्त्वग्रतो मध्यदेशतः ॥ ३०९ ॥

ततस्तद्रथयानं तु भ्रामयेत्सर्ववीथिषु ।
प्रादक्षिण्येन वै ग्रामे नगरे पत्तनेऽपि वा ॥ ३१० ॥

ततो रथात्तु देवेशमवरोप्य सुयत्नतः ।
यानान्तरे समारोप्य स्वस्थाने सन्निवेशयेत् ॥ ३११ ॥

अष्टमेऽह्नि तद्रात्रौ डोलारोहणपूर्वकम् ।
अश्वारोहं ततः कुर्यान्मृगयां चापि कारयेत् ॥ ३१२ ॥

भक्तसन्त्राणलीलां च ब्राह्मे नगरशोधनम् ।
प्रणयः कलहश्च स्याद्देव्योर्देवेन वै मिथः ॥ ३१३ ॥

सन्त्वानमुभयोः कुर्यात् क्षम्यतामिति चोच्चरेत् ।
नवमेऽवभृतं कुर्यात्तद्रात्रौ शिबिकोत्सवम् ॥ ३१४ ॥

वाहनारोहणस्यैवं क्रमः सम्यङ्निरूपितः ।
अपूर्वैराभरणैर्माल्यैश्चाप्यम्बरैस्तथा ॥ ३१५ ॥

अपूर्वोद्यानयानाद्यैर्यथा कौतूहलं भवेत् ।
तथा विशेषः कर्तव्यो यावत्तीर्थदिनावधि ॥ ३१६ ॥

अथावभृथकार्यस्य विधानं तूच्यते द्विजाः ।
आचार्यो मूर्तिपैः सार्धं प्रविश्य भगवद्गृहम् ॥ ३१७ ॥

देवं प्रपूज्य विधिवद्बल्यन्तं सर्वमाचरेत् ।
आचार्यो यजमानेन साधकैश्च समन्वितः ॥ ३१८ ॥

प्रासादं सम्प्रविश्याथ मूलबिम्बस्य पादयोः ।
प्रणम्य दण्डवत्तत्र तीर्थबिम्बं समानयेत् ॥ ३१९ ॥

तदभावे मुनिश्रेष्ठाः नित्यस्नपनकौतुकम् ।
अभावेऽप्यस्य बिम्बस्य बलिबिम्बं तु वा द्विजाः ॥ ३२० ॥

मूलबिम्बस्य पुरतः संस्थाप्यावाह्य पूज्य च ।
तीर्थबिम्बं समुद्धृत्य वाद्यघण्टारवैः सह ॥ ३२१ ॥

ध्वजपीठसमीपं तु समानीय यथाविधि ।
शोधितेऽलङ्कृते तत्र मण्डपे स्नानविष्टरे ॥ ३२२ ॥

निवेश्य स्नानबिम्बं तु मूलबिम्बस्य सम्मुखम् ।
तदग्रतस्तु संस्थाप्य स्नपनं त्वधमाधमम् ॥ ३२३ ॥

पुरतः स्थण्डिलं कृत्वोलूखलं तत्र विन्यसेत् ।
मुसलानि चतुर्दिक्षु विन्यस्योलूखलोपरि ॥ ३२४ ॥

मुसलोलूखले गृह्य दूर्वाकाण्डेन बन्धयेत् ।
नववस्त्रेण संवेष्ट्य तत्र चूर्णं विनिक्षिपेत् ॥ ३२५ ॥

सौवर्णं रजनीचूर्णसम्मिश्रं गन्धसंयुतम् ।
चतुर्भिर्वैष्णवैर्विप्रैर्वैष्णवीभिस्तु वा द्विजाः ॥ ३२६ ॥

कारयेदवघातं तु गीयमाने तु मङ्गले ।
स्थापितस्नपनाद्विप्राः प्राग्भागे वा तदुत्तरे ॥ ३२७ ॥

तण्डुलैः पीठिकां कृत्वा तत्र कुम्भं निवेश्य च ।
ससूत्रं तत्र निक्षिप्य चूर्णं वस्त्रेण वेष्ट्य च ॥ ३२८ ॥

अथ वा पञ्च नव वा कलशान् चूर्णपूरितान् ।
अर्चयित्वा तु मूलेन ततः संस्नापयेद्विभुम् ॥ ३२९ ॥

तैलेनाभ्यज्य देवेशं समुद्धृत्य च पूर्ववत् ।
ततः संस्नाप्य विधिना पाद्याद्यैः कलशैः क्रमात् ॥ ३३० ॥

अभ्यर्च्य देवमर्घ्याद्यैर्हेमचूर्णादिपूरितम् ।
आदाय कुम्भं तैश्चूर्णैः श्रीसूक्तेनाभिषेचयेत् ॥ ३३१ ॥

सहस्रधारया स्नानं कृत्वा संशुध्य वारिणा ।
अधरोत्तरवस्त्राभ्यां नवाभ्यां परिधाय च ॥ ३३२ ॥

अलङ्कृत्य विशेषेण समभ्यर्च्य यथाविधि ।
मुद्गान्नपायसादीन् विनिवेद्य ततः परम् ॥ ३३३ ॥

शिबिकादौ समारोप्य तीर्थबिम्बमलङ्कृतम् ।
तथैव चौत्सवं बिम्बं श्रीपुष्टिभ्यां समन्वितम् ॥ ३३४ ॥

शिबिकादौ समारोप्य ह्यलङ्कृत्य विशेषतः ।
तीर्थबिम्बं पुरस्कृत्य यात्रामूर्तिगतं विभुम् ॥ ३३५ ॥

छत्रचामरशङ्खादिसर्वसाधनसंयुतम् ।
प्रदक्षिणं परिभ्राम्य सर्वेष्वावरणेषु च ॥ ३३६ ॥

तीर्थपार्श्वे समासाद्य तत्तीरे मण्टपेऽथ वा ।
प्रपायां देवदेवेशं विनिवेश्य च विष्टरे ॥ ३३७ ॥

यात्राबिम्बस्य पुरतः स्नानपीठं निधाय वै ।
निवेश्य तत्र तीर्थार्चां पञ्चविंशतिभिर्घटैः ॥ ३३८ ॥

यद्वा द्वादशभिः कुम्भैर्नवभिर्वाभिषेचयेत् ।
चूर्णस्नानं तु विधिवत्कृत्वा देवस्य देशिकः ॥ ३३९ ॥

अर्घ्याद्यैः पूजयित्वाथ बिम्बं तु परिमार्ज्य च ।
भुक्तावशिष्टं यच्चूर्णं भक्तानां मूर्ध्नि दापयेत् ॥ ३४० ॥

गङ्गास्नानफलं चूर्णं सर्वपापप्रणाशनम् ।
क्रीडया वापि तच्चूर्णं शिरसा धारयेत्तु यः ॥ ३४१ ॥

तस्य देहगतं पापं तत्क्षणादेव नश्यति ।
कृत्वा पुण्याहघोषं तु तीर्थं सम्प्रोक्ष्य देशिकः ॥ ३४२ ॥

तत्तीरे सर्वतीर्थानि समावाह्य समर्चयेत् ।
ततश्च देशिकेन्द्रस्तु यात्रामूर्तिगतं विभुम् ॥ ३४३ ॥

समासाद्य तु तत्पादे प्रणम्य तदनुज्ञया ।
मुहूर्ते शोभने प्राप्ते रवौ मध्यन्दिनं गते ॥ ३४४ ॥

तीर्थबिम्बं समादाय घण्टाशङ्खरवैः सह ।
वामहस्ततले कुर्यात् क्ष्मामण्डलगतः स्वयम् ॥ ३४५ ॥

विधृयान्मध्यभागे तु पाणिना दक्षिणेन तु ।
तीर्थतीरं समासाद्य देशिकेन्द्रः समाहितः ॥ ३४६ ॥

आशीर्वादं पुरा कृत्वा राजराष्ट्रादिकस्य च ।
जलमध्यं समासाद्य नाभिदघ्ने जले स्थितः ॥ ३४७ ॥

जपन् वै मूलमन्त्रं तु बिम्बेन सह देशिकः ।
निमज्जेद्भक्तिसंयुक्तो ध्यायमानोऽच्युतं हृदि ॥ ३४८ ॥

निमज्जेयुस्तदा सर्वे भक्ता भागवता अपि ।
देवेन सह तत्काले निमज्जन्ति च ये जनाः ॥ ३४९ ॥

विमुक्तकर्मपाशास्ते वै प्राप्नुयुः परमां गतिम् ।
स्वयंव्यक्तादिके स्थाने मध्याह्ने वापराह्णके ॥ ३५० ॥

रजन्यां पूर्वभागे वा कुर्यादवभृथं विभोः ।
मुहूर्तातिक्रमप्राप्तदोषस्तत्र न विद्यते ॥ ३५१ ॥

ततस्तीरे समारोप्य तीर्थबिम्बं तु विष्टरे ।
शाटकद्वितयं दत्त्वा स्नानवस्त्रे विसृज्य च ॥ ३५२ ॥

देशिकः स्वयमादाय ते वस्त्रे मूर्ध्नि धारयेत् ।
अर्घ्याद्यैश्च समभ्यर्च्य अलङ्कृत्य विशेषतः ॥ ३५३ ॥

महाहविर्निवेद्याथ ब्राह्मणान् भोजयेत्ततः ।
प्रत्यहं भोजयेद्विप्रान् सहस्रं शतमेव वा ॥ ३५४ ॥

याने देवं समारोप्य ततो गेहं प्रवेशयेत् ।
तीर्थबिम्बगतां शक्तिं मूलबिम्बे विसर्जयेत् ॥ ३५५ ॥

सायङ्काले तु सम्प्राप्ते देवदेवं जगत्पतिम् ।
वस्त्राभरणमाल्याद्यैरलङ्कृत्य विशेषतः ॥ ३५६ ॥

शिबिकायां समारोप्य देवीभ्यां सह देशिकः ।
शङ्खादिमङ्गलरवैः छत्रचामरकेतुभिः ॥ ३५७ ॥

राजचिह्नैः परिकरैर्गणिकादेवदासिभिः ।
सर्वैः परिजनैः सार्धं कृत्वा ग्रामं प्रदक्षिणम् ॥ ३५८ ॥

मन्दिरान्तः प्रवेश्याथ बलिपीठसमीपतः ।
मधुपर्कं निवेद्याथ अपूपादीन् निवेदयेत् ॥ ३५९ ॥

शीतलं तर्पणजलं ताम्बूलादीन् निवेदयेत् ।
देवागारं परिभ्राम्य महामण्टपमाश्रयेत् ॥ ३६० ॥

निवेश्य विष्टरे तत्र देवमर्घ्यादिभिर्यजेत् ।
कृत्वा नीराजनान्तं तु देशिकेन्द्रः समाहितः ॥ ३६१ ॥

स्थानस्य राज्ञो राष्ट्रस्य यजमानस्य मन्त्रिणाम् ।
प्रजानां परिवाराणां वैष्णवानां विशेषतः ॥ ३६२ ॥

आशीर्वादं ततः कुर्याद्वीक्षमाणो विभोर्मुखम् ।
ओमित्येवं प्रतिब्रूयुः सर्वे देवस्य सन्निधौ ॥ ३६३ ॥

ततस्तु देवदेवेशं यागशालां प्रवेशयेत् ।
तत्र पश्चिमवेद्यां तु देवमारोप्य पूर्ववत् ॥ ३६४ ॥

कुम्भपूर्वं क्रमेणैव चतुःस्थानस्थितं विभुम् ।
यथाविधि समभ्यर्च्य प्रभूतान्नसमन्वितम् ॥ ३६५ ॥

ततो द्वाराधिदेवानां प्रदाप्य विधिना बलिम् ।
कुण्डस्थं मण्डलस्थं च देवं हृदि विसर्ज्य च ॥ ३६६ ॥

विसर्जयेद्यथावच्च तथा द्वाराधिदेवताः ।
वाहयेच्चौत्सवं बिम्बं महाकुम्भपुरस्सरम् ॥ ३६७ ॥

करकास्त्रं समादाय आचार्यः स्वकरेण तु ।
अच्छिन्नधारया युक्तं कृत्वा गेहं प्रदक्षिणम् ॥ ३६८ ॥

प्रासादं तु समासाद्य मूलबिम्बस्य सम्मुखम् ।
निवेश्य चोत्सवं बिम्बं सम्पूज्यार्घ्यादिभिः सह ॥ ३६९ ॥

प्रोक्षयेत्कुम्भतोयेन मूलमूर्तिगतं विभुम् ।
पुंसूक्तमुच्चरन् पश्चाद्यात्राबिम्बं च सेचयेत् ॥ ३७० ॥

महाकुम्भगतां शक्तिं मूलबिम्बे समर्पयेत् ।
करकास्त्रगतां शक्तिमायुधेषु समर्पयेत् ॥ ३७१ ॥

तथैव वासुदेवादीन् पीठोर्ध्वे योजयेत्क्रमात् ।
तत्काले तु विशेषेण गुरोः सम्मानमाचरेत् ॥ ३७२ ॥

वस्त्रैश्च दुकूलाद्यैर्देवस्य प्राङ्निवेदितैः ।
विविधैः स्रग्वरैश्चापि सुगन्धैश्चन्दनादिकैः ॥ ३७३ ॥

आचार्योऽपि समादाय दुकूलद्वयमनुत्तमम् ।
बद्ध्वा स्वोष्णीषवत्तस्मिन् शिरसि द्विजसत्तमाः ॥ ३७४ ॥

माल्यादींश्च यथायोगं धारयन् प्रणिपत्य च ।
पुष्पाञ्जलिं ततः कृत्वा प्रणम्य च मुहुर्मुहुः ॥ ३७५ ॥

सर्वं न्यूनातिरिक्तं च मया पूर्वं हि यत्कृतम् ।
तत्सर्वं देवदेवेश क्षन्तुमर्हसि नः प्रभो ॥ ३७६ ॥

इति विज्ञाप्य देवेशं करस्थमथ कौतुकम् ।
विसृज्य हृदयेनैव यात्रामूर्तिगतं विभुम् ॥ ३७७ ॥

स्वस्थाने सन्निवेश्याथ अर्घ्याद्यैः परिपूज्य च ।
अपूपानुपहारांश्च समर्प्य च विभोस्तदा ॥ ३७८ ॥

शय्यासनं समर्प्याथ रात्रिशेषं समापयेत् ।
तदन्येद्युः प्रभातायां कृतस्नानः कृताह्निकः ॥ ३७९ ॥

आचार्यो मूर्तिपैः सार्धं प्रासादं सम्प्रविश्य तु ।
कृत्वा नित्यार्चनान्तं तु देवदेवस्य देशिकः ॥ ३८० ॥

ततस्तु वक्ष्यमाणं यत्स्नपनं चाधमोत्तमम् ।
तेन संस्नाप्य देवेशं हविरन्तं समर्चयेत् ॥ ३८१ ॥

सायङ्काले च सम्प्राप्ते नित्यपूजावसानतः ।
देवेशस्याग्रतः स्थित्वा विज्ञापनमथाचरेत् ॥ ३८२ ॥

भगवन् पुण्डरीकाक्ष शरणागतवत्सल ।
अङ्कुरार्पणमारभ्य उत्सवावभृथान्तिमम् ॥ ३८३ ॥

यन्मयानुष्ठितं कर्म तव सम्प्रीतये विभो ।
तथान्यैर्मदनुज्ञातैर्देशिकैश्चापि यत्कृतम् ॥ ३८४ ॥

साधकैश्च तथान्यैश्च विविधैः परिचारकैः ।
तत्तत्सम्पूरणार्थं च न्यूनाधिक्योपशान्तये ॥ ३८५ ॥

त्वामद्य वासरे यष्टुं पुष्पयागविधानतः ।
प्रवृत्तमनुजानीहि मदनुग्रहकाम्यया ॥ ३८६ ॥

इति विज्ञाप्य देवस्य तदनुज्ञामवाप्य च ।
देवमुत्सवबिम्बस्थं देवीभ्यां सह देशिकः ॥ ३८७ ॥

आस्थानमण्टपं नीत्वा सौवर्णे भद्रविष्टरे ।
तत्र देवं समारोप्य अलङ्कृत्य विशेषतः ॥ ३८८ ॥

ततस्तस्य पुरोभागे पुष्पमण्डलमालिखेत् ।
श्वेतैः पीतैस्तथा रक्तैः पाटलैश्च सितासितैः ॥ ३८९ ॥

पञ्चवर्णैस्तु पुष्पाद्यैः श्यामलैस्तुलसीदलैः ।
मण्डले पूरयित्वा तु यथालोचनसुप्रियम् ॥ ३९० ॥

मण्डलेशानभागे तु महाकुम्भं च विन्यसेत् ।
मण्टपस्य चतुर्दिक्षु द्वारकुम्भाष्टकं न्यसेत् ॥ ३९१ ॥

मण्टपं समलङ्कृत्य वितानध्वजतोरणैः ।
पुष्पाङ्कुरं ततः कुर्याद्यथोक्तविधिना गुरुः ॥ ३९२ ॥

मण्डलस्योत्तरे भागे सूत्राण्यास्फाल्य पूर्ववत् ।
पालिकादीनि पात्राणि शालिपीठोपरि न्यसेत् ॥ ३९३ ॥

विभवेच्छानुसारेण केवलं पालिकास्तु वा ।
प्रक्षाल्य पालिकादीनि अलङ्कृत्य यथाविधि ॥ ३९४ ॥

कुशकाशतृणैस्तेषां बिलमूलानि पूरयेत् ।
बिलानि तण्डुलैरेव पूरयेत्तु यथाविधि ॥ ३९५ ॥

प्रोक्ष्य पुण्याहतोयेन यजेत्पात्राधिदेवताः ।
पूर्वोक्तक्रमयोगेन तेषु पुष्पाणि वापयेत् ॥ ३९६ ॥

सोमकुम्भार्चनं होमं वर्जयेदत्र देशिकः ।
रक्षाबन्धं ततः कुर्यान्मूलबिम्बादिषु क्रमात् ॥ ३९७ ॥

औत्सवं बिम्बमादाय मुद्गास्तरणशोभिते ।
पुष्पमण्डलमध्ये तु प्राङ्मुखं विनिवेश्य च ॥ ३९८ ॥

तस्य पार्श्वद्वये विप्राः श्रियं पुष्टिं च विन्यसेत् ।
कुम्भपार्श्वं समासाद्य प्राग्वद्देशिकसत्तमः ॥ ३९९ ॥

कृत्वा मानसयागान्तं द्वारयागं समाचरेत् ।
महाकुम्भे मूलबिम्बात्किञ्चिदावाह्य पूजयेत् ॥ ४०० ॥

करकास्त्रार्चनं तु सर्वं प्राग्वत्समाचरेत् ।
बिम्बेऽथ पूजनं कुर्यात्प्राग्वन्नीराजनान्तिमम् ॥ ४०१ ॥

उपहारान्निवेद्याथ पुनः पूजां समाचरेत् ।
अर्घ्यं पाद्यं तथाचामं गन्धं माल्यं च दीपकम् ॥ ४०२ ॥

धूपं ततोऽर्हणजळमपूपान् पृथुकानपि ।
तर्पणं नालिकेरोत्थरसमाचमनं तथा ॥ ४०३ ॥

मुखवाससमोपेतं ताम्बूलं च समर्पयेत् ।
एवं द्वादशवारं तु कृत्वा पूजां जगत्प्रभोः ॥ ४०४ ॥

महाहविर्निवेद्याथ कुर्यात्पुष्पाधिवासनम् ।
सौवर्णे राजते वापि पात्रे पुष्पाणि पूरयेत् ॥ ४०५ ॥

तत्पात्रं देवपुरतः शालिपीठे निधाय वै ।
प्रोक्ष्य पुण्याहतोयेन पूजयेन्मूलमन्त्रतः ॥ ४०६ ॥

वस्त्रेणाच्छाद्य तत्पात्रं गत्वा यागनिकेतनम् ।
कुण्डमग्निं च संस्कृत्य तन्मध्ये देवमर्चयेत् ॥ ४०७ ॥

समिद्भिश्चैव नित्याभिः काम्याभिश्च यथाविधि ।
पूर्णाहुत्यादिकं कृत्वा देवादींस्तु विसर्जयेत् ॥ ४०८ ॥

सम्पाताज्यमथादाय गत्वा देवस्य सन्निधिम् ।
होमं समर्प्य देवाय देशिको मन्त्रवित्तमः ॥ ४०९ ॥

सम्पाताज्येन पुष्पाणि संसिच्य तदनन्तरम् ।
देवस्य पादयोः पुष्पं पुंसूक्तेन समर्पयेत् ॥ ४१० ॥

अथाष्टाक्षरबीजानि हृदयादीनि च क्रमात् ।
भूषणानि च दिव्यानि किरीटादीन्यनुक्रमात् ॥ ४११ ॥

आयुधानि च दिव्यानि श्रियं पुष्टिं खगेश्वरम् ।
तथैव परिवारांश्च समुद्दिश्य यथाक्रमम् ॥ ४१२ ॥

देवस्य पादयोः पुष्पं दद्याद्देशिकसत्तमः ।
ततस्तु देवदेवेशं यानमारोप्य यत्नतः ॥ ४१३ ॥

अलङ्कृत्य विशेषेण वस्त्राभरणमाल्यकैः ।
सर्वमङ्गलसंयुक्तं प्रथमावरणादिषु ॥ ४१४ ॥

परिभ्राम्य च देवेशं तथा वै ग्रामवीथिषु ।
प्रवेश्य देवसदनं ध्वजपीठसमीपके ॥ ४१५ ॥

देवमर्घ्यादिनाभ्यर्च्य निवेद्य च हविस्ततः ।
ध्वजस्थानं समासाद्य पतत्रीशं समर्चयेत् ॥ ४१६ ॥

महाहविर्निवेद्याथ ध्वजस्थं विहगेश्वरम् ।
विसर्जयित्वा स्वहृदि ध्वजं समवरोपयेत् ॥ ४१७ ॥

ध्वजदण्डं ध्वजपटं तद्यष्टिं तत्प्रपां तथा ।
आचार्यः स्वयमादद्याद्यागोपकरणान्यपि ॥ ४१८ ॥

ततस्तु देवदेवेशं प्रथमावरणेऽपि वा ।
द्वितीयावरणे वापि मण्टपे भद्रविष्टरे ॥ ४१९ ॥

निवेश्य प्राङ्मुखं वापि ह्युत्तराभिमुखं तु वा ।
देवस्योत्सवसेवार्थं ये देवाः पूर्वमागताः ॥ ४२० ॥

वैकुण्ठवासिनश्चैव कुमुदादिगणेश्वराः ।
ब्रह्मरुद्रादयश्चैव तथा देवर्षिसत्तमाः ॥ ४२१ ॥

तथा वै भगवद्भक्ताः देशान्तरनिवासिनः ।
देवदेवस्य कल्याणमनुसन्धातुमागताः ॥ ४२२ ॥

तेषां स्वदेशयानार्थं देवानुज्ञापुरस्सरम् ।
कृत्वा विसर्जनं पश्चाद्देवमन्तः प्रवेशयेत् ॥ ४२३ ॥

ततस्तु देवं देवीभ्यां मूलबिम्बस्य सम्मुखम् ।
निवेश्य चोभयोर्मध्ये महाकुम्भं तु विन्यसेत् ॥ ४२४ ॥

कुम्भप्रोक्षणपूर्वं तु कौतुकोत्सर्जनान्तिमम् ।
प्राग्वत्कृत्वा यथाशास्त्रं देवमन्तः प्रवेशयेत् ॥ ४२५ ॥

अर्घ्यगन्धादिनाभ्यर्च्य मूलबिम्बे विसर्जयेत् ।
शय्यासनं समर्प्याथ जागरेण नयेन्निशाम् ॥ ४२६ ॥

ब्राह्मे मुहूर्ते सम्प्राप्ते देशिको मन्त्रवित्तमः ।
उद्वासनबलिं दद्यान्मूकैः परिजनैः सह ॥ ४२७ ॥

ग्रामे चावाहितान् पूर्वं कुमुदादीन् गणान्वितान् ।
सन्तोष्य बलिदानेन सविशेषं विसर्जयेत् ॥ ४२८ ॥

महातटाके नद्यादौ देशिको मन्त्रवित्तमः ।
ऋत्विग्भिः परिचारैश्च सर्वैः परिजनैः सह ॥ ४२९ ॥

स्नानं कृत्वा तु विधिवद्गत्वा देवगृहं ततः ।
नित्यपूजादिकं सर्वं यथाविधि समाचरेत् ॥ ४३० ॥

यजमानो गुरुं हैमैर्भूषणैः कटकादिभिः ।
वसनैर्गन्धपुष्पाद्यैरलङ्कृत्याभिपूज्य च ॥ ४३१ ॥

उत्तमां दक्षिणां दद्यात्स्वर्णनिष्कशतान्विताम् ।
ततोऽधिकां तु वा दद्याद्विभवस्यानुगुण्यतः ॥ ४३२ ॥

तदर्धं मध्यमां वापि तदर्धमधमां तु वा ।
यथावित्तानुरूपं तु यथाश्रद्धं तु वा ददेत् ॥ ४३३ ॥

तदर्धमृत्विजां दद्यात्तदर्धं परिचारिणाम् ।
वेदपाठकपूर्वांश्च तथा गायकसत्तमान् ॥ ४३४ ॥

अन्यांश्चैव यथाशक्ति दक्षिणाभिः प्रतोषयेत् ।
यागस्तु दक्षिणाहीनो निष्फलः स्यान्न संशयः ॥ ४३५ ॥

तस्माद्वित्तानुगुण्येन देया स्वल्पापि दक्षिणा ।
तत्काले यजमानस्तु अलङ्कृत्य तु देशिकम् ॥ ४३६ ॥

वस्त्रस्रक्चन्दनाद्यैश्च समारोप्य च यानके ।
शङ्खकाहलवादित्रभेरीपटहसंयुतम् ॥ ४३७ ॥

छत्रदीपसमायुक्तं गायकादिसमन्वितम् ।
देशिकं देववत्स्मृत्वा स्वगृहे सम्प्रवेशयेत् ॥ ४३८ ॥

एवं हि देवदेवस्य उत्सवं कारयेत्तु यः ।
इह लोके सुखं प्राप्य परलोके महीयते ॥ ४३९ ॥

Unnummerierter abschließender Halbvers; redaktionelle Kennung 439z.

एवं निगदितः सम्यङ्महोत्सवविधिर्द्विजाः ।

इति श्रीपाञ्चरात्रे ईश्वरसंहितायां महोत्सवविधिर्नाम एकादशोऽध्यायः ॥


Kapitel 12 – पक्षोत्सवविधिः / pakṣotsavavidhiḥ

Siehe deutsche Übersetzung und Texthinweise.

नारदः ।

अतः परं प्रवक्ष्यामि पक्षमासोत्सवादिकान् ।
तथा वसन्तोत्सवादीन् शृणुध्वं मुनिपुङ्गवाः ॥ १ ॥

पक्षे पक्षे च द्वादश्यां मासे मासे तथैव च ।
अमावास्यां पौर्णमास्यां श्रवणे चोत्तरे दिने ॥ २ ॥

अवतारदिनेष्वेवं देवदेवस्य वै द्विजाः ।
यजमानादिजन्मर्क्षे चैत्रादिविषुवद्वये ॥ ३ ॥

अयनद्वितये चापि तथा सङ्क्रान्तिषु द्विजाः ।
आचरेद्देवदेवस्य विशेषयजनं गुरुः ॥ ४ ॥

नक्षत्रभेदे सम्प्राप्ते पूर्वमेव फलप्रदम् ।
परेद्युर्दशनाडी चेत्परमेव शुभं भवेत् ॥ ५ ॥

तिथिभेदे तथा प्राप्ते परमेव फलप्रदम् ।
एकादश्याममावास्यां द्वादश्यादिषु वा द्विजाः ॥ ६ ॥

परेद्युश्चेत्कलामात्रं तदेव शुभदं भवेत् ।
उत्तरायणपूर्वेषु षट्सु सङ्क्रान्तिषु द्विजाः ॥ ७ ॥

पश्चात् षोडशनाडीनामन्तरे देवमर्चयेत् ।
दक्षिणायनपूर्वेषु षट्सु सङ्क्रमणेषु च ॥ ८ ॥

प्रागेवाभ्यर्चयेद्देवं नाडीषोडशकान्तरे ।
अनुकल्पे तु तत्कुर्यात्पश्चात् षोडशकान्तरे ॥ ९ ॥

एवमृक्षादिकं ज्ञात्वा कुर्यात्तत्तद्दिनेऽर्चनम् ।
द्वादश्यादिषु कर्तव्यमुत्सवं त्वधुनोच्यते ॥ १० ॥

पुरा नित्यार्चनं कृत्वा देवदेवस्य सत्तमाः ।
संस्नाप्य विधिवद्देवं मूलमूर्तिगतं विभुम् ॥ ११ ॥

यात्रामूर्तिगतं वापि यद्वा स्नपनकौतुकम् ।
अलङ्कारासनं नीत्वा समभ्यर्च्य विधानतः ॥ १२ ॥

महाहविर्निवेद्याथ होमान्तं वा जपान्तिमम् ।
सर्वं कुर्याद्विशेषेण मूलादुत्सवकौतुके ॥ १३ ॥

किञ्चिदावाह्य तदनु यात्रामूर्तिगतं विभुम् ।
यानमारोप्य सौवर्णं सपुष्पप्रपयान्वितम् ॥ १४ ॥

अलङ्कृत्य विशेषेण पूर्वोक्तविभवैः सह ।
उत्सवभ्रमणं कृत्वा सम्यग्ग्रामप्रदक्षिणम् ॥ १५ ॥

भगवन्मन्दिराग्रे वा बलिपीठाग्रतोऽपि वा ।
देवस्य श्रमशान्त्यर्थं कुर्यादभ्यर्चनं गुरुः ॥ १६ ॥

अर्घ्यं पाद्यं तथाचामं गन्धं माल्यं च दीपकम् ।
धूपं तथार्हणजळमपूपान्पृथुकानपि ॥ १७ ॥

तर्पणं नालिकेरोत्थरसमाचमनं तथा ।
मुखवाससमोपेतं ताम्बूलं च निवेदयेत् ॥ १८ ॥

विविधैर्नृत्तगीताद्यैः सदा सन्तोषयेत्प्रभुम् ।
गणिका देवदास्यश्च तथा वै वाद्यकोविदाः ॥ १९ ॥

वन्दिनश्च तथान्येऽपि सर्वे भक्तिसमन्विताः ।
देवं प्रदक्षिणीकृत्य बलिपीठेन वै सह ॥ २० ॥

द्विवारं वा चतुर्वारं प्रणमेयुश्च भक्तितः ।
ततस्तु देवदेवेशं मन्दिरान्तः प्रवेशयेत् ॥ २१ ॥

यानात्समवरोप्याथ पादुके विनिवेद्य च ।
अग्रमण्टपभूभागे भद्रपीठे निवेश्य च ॥ २२ ॥

अर्घ्याद्यैः प्राग्वदभ्यर्च्य स्वस्थाने सन्निवेशयेत् ।
आदौ नियोजितां शक्तिं मूलबिम्बे नियोजयेत् ॥ २३ ॥

द्वादश्यादिषु कर्तव्यमुत्सवं त्वेवमीरितम् ।
मधुमाधवमासे तु शुक्लपक्षे विशेषतः ॥ २४ ॥

कलयापि चतुर्दश्या ह्यस्पृष्टे पर्वणि द्विजाः ।
जलक्रीडां तु देवस्य कुर्याद्देशिकसत्तमः ॥ २५ ॥

जलक्रीडानुसारेण सप्ताहं वा नवाहकम् ।
पञ्चाहं वा त्र्यहं वापि एकाहं वोत्सवं चरेत् ॥ २६ ॥

उत्सवारम्भदिवसात्पूर्वेद्युर्निशि देशिकः ।
अङ्कुरारोपणं कृत्वा रक्षाबन्धं यथाविधि ॥ २७ ॥

उत्सवारम्भदिवसादारभ्य प्रतिवासरम् ।
चतुःस्थानार्चनं कुर्यात्सायम्प्रातर्यथाविधि ॥ २८ ॥

बलिं नित्योक्तविधिना कुर्यात्कालद्वयेऽपि च ।
मध्याह्ने बलिदानान्ते यात्रामूर्तिगतं विभुम् ॥ २९ ॥

शिबिकायां समारोप्य श्रीपुष्टिभ्यां सह द्विजाः ।
नीत्वा महामण्टपं तु तत्र वै भद्रविष्टरे ॥ ३० ॥

समारोप्य च देवस्य पुरतो धान्यविष्टरे ।
चूर्णाधिवासनं प्राग्वत्कृत्वा देशिकसत्तमः ॥ ३१ ॥

अर्घ्याद्यैर्देवमभ्यर्च्य हविरन्तं यथाविधि ।
श्रीसूक्तेन ततो देवं श्रियं पुष्टिं च देशिकः ॥ ३२ ॥

अभिषिच्य च चूर्णेन हारिद्रेण यथाविधि ।
देवीभ्यां सह देवेशं भ्रामयेद्ग्रामवीथिषु ॥ ३३ ॥

प्रादक्षिण्येन पूर्वोक्तयात्रोपकरणैः सह ।
तदा देवस्य देव्याश्च युद्धक्रीडां च कारयेत् ॥ ३४ ॥

प्रथमे गन्धयुद्धं तु द्वितीये पुष्पयुद्धकम् ।
तृतीये चूर्णयुद्धं च चतुर्थे तैलयुद्धकम् ॥ ३५ ॥

पञ्चमे क्षीरयुद्धं स्यात्षष्ठे कर्पूरकुङ्कुमैः ।
नालिकेरजलैर्युद्धं सप्तमे तु समाचरेत् ॥ ३६ ॥

गन्धाम्भसाष्टमे युद्धं नवमे जलयुद्धकम् ।
गेहादिग्राममध्यान्तं भक्तैर्भागवतैः सह ॥ ३७ ॥

गणिकादेवदासीभिः कार्यं युद्धं विनोदितः ।
युद्धक्रीडां तु कृत्वैवं देवमन्तः प्रवेशयेत् ॥ ३८ ॥

सप्ताहमुत्सवे कुर्याच्चूर्णयुद्धादिसप्तकम् ।
पञ्चाहमुत्सवे कुर्यात्क्षीरयुद्धादिपञ्चकम् ॥ ३९ ॥

त्र्यहोत्सवे नालिकेररसयुद्धादिकं भवेत् ।
केवलं जलयुद्धं तु कुर्यादेकाह उत्सवे ॥ ४० ॥

जलक्रीडाविधानं तु शृणुध्वं मुनिपुङ्गवाः ।
तृतीयावरणादौ वा यद्वा गोपुरबाह्यतः ॥ ४१ ॥

खात्वा पुरुषमात्रं तु क्षितौ वै मुनिसत्तमाः ।
शिलाभिरिष्टकाभिर्वा दृढीकृत्य समन्ततः ॥ ४२ ॥

सोपानपङ्क्तिभिर्युक्तां जलद्रोणीं प्रकल्पयेत् ।
चतुःस्तम्भसमायुक्तं मण्टपं वा प्रपां तु वा ॥ ४३ ॥

कृत्वोपरिष्टाद्द्रोणीं पूरयेच्छुद्धवारिभिः ।
प्राग्वत्कटाहं वापूर्य कस्तूरीकुङ्कुमादिभिः ॥ ४४ ॥

सुरभीकृत्य तदनु प्रसूनैर्विकिरेच्छुभैः ।
पृथक्चूर्णाधिवासं तु कृत्वा यागगृहे गुरुः ॥ ४५ ॥

कुण्डे वा स्थण्डिले वाग्नौ श्रियमावाह्य मन्त्रवित् ।
तत्र सन्तर्प्य विधिवत्सम्पाताज्येन सेचयेत् ॥ ४६ ॥

तच्चूर्णपात्रमादाय वाद्यघोषपुरस्सरम् ।
जलद्रोणीं समासाद्य पुण्याहोक्तिपुरस्सरम् ॥ ४७ ॥

तत्र चूर्णं विनिक्षिप्य वसन्तं तत्र पूजयेत् ।
परितो लोकपालांश्च समभ्यर्च्य विशेषतः ॥ ४८ ॥

बलिं दद्यादष्टदिक्षु गेयवाद्यपुरस्सरम् ।
जलद्रोण्यां तु संस्कारस्त्वेवमुक्तो मुनीश्वराः ॥ ४९ ॥

देवीभ्यां सह देवेशं मण्टपे प्राग्वदर्चयेत् ।
कृत्वा चूर्णाभिषेकान्तं जलद्रोणीसमीपतः ॥ ५० ॥

देवमानीय देवीभ्यामर्घ्याद्यैः परिपूज्य च ।
भेरीपटहवादित्रशङ्खघोषसमन्वितम् ॥ ५१ ॥

स्तुतिमङ्गलघोषैश्च वेदघोषसमन्वितम् ।
पौरुषेणैव सूक्तेन कुर्यात्तत्रावगाहनम् ॥ ५२ ॥

यद्वा कूर्चे पादुकायां देवमावाह्य मन्त्रवित् ।
तत्रावगाहयेद्विप्रास्तदानीं देशिकोत्तमः ॥ ५३ ॥

यजमानो मूर्तिपाश्च भूसुरा वैष्णवोत्तमाः ।
यतयो ब्रह्मनिष्ठाश्च सिञ्चेयुर्मङ्गलाम्भसा ॥ ५४ ॥

चातुर्वर्ण्यभवाः सर्वे पुरुषाश्च स्त्रियोऽपि च ।
गणिका देवदास्यश्च तथान्ये वाद्यवादकाः ॥ ५५ ॥

परस्परं च सिञ्चेयुः सर्वे मङ्गलवारिभिः ।
गङ्गास्नानफलं प्राप्य विष्णुसायुज्यमाप्नुयुः ॥ ५६ ॥

याने देवं समारोप्य सह स्नानार्द्रवाससा ।
जलक्रीडापुरस्कं तु यात्रोपकरणैः सह ॥ ५७ ॥

भ्रामयेद्ग्रामवीथीषु प्रीतये वरुणस्य च ।
प्रजानामपि सर्वेषां पवित्रीकरणाय च ॥ ५८ ॥

ततस्तु देवदेवेशं मन्दिरान्तः प्रवेशयेत् ।
तत्र देवं यथाशास्त्रं पञ्चविंशतिभिर्घटैः ॥ ५९ ॥

अभिषिच्य विशेषेण हविरन्तं समर्चयेत् ।
प्रत्यहं चापि युद्धान्ते स्नपनं त्वेवमाचरेत् ॥ ६० ॥

तद्रात्रौ पूर्ववत्कुर्यात्कुम्भसम्प्रोक्षणान्तिमम् ।
आचार्यं पूजयेत्पश्चाद्वस्त्रहेमाङ्गुलीयकैः ॥ ६१ ॥

मूर्तिपादीन्यथान्यायं तोषयेद्द्रविणैस्तथा ।
इति सङ्क्षेपतः प्रोक्तो वसन्तोत्सव उत्तमः ॥ ६२ ॥

चैत्रे तु शुक्लद्वादश्यां कुर्याद्दमनिकोत्सवम् ।
पवित्रारोहवत्कुर्याच्चतुःस्थानार्चनादिकम् ॥ ६३ ॥

भूषणान्युत्तमादीनि कुर्याद्दमनिकैस्तथा ।
तत्तु सङ्ख्याविरचितं यथा शोभानुरूपतः ॥ ६४ ॥

पञ्चविंशतिकुम्भांस्तु स्थापयित्वाभिषेचयेत् ।
एक एव नारायण इति प्राक्कलशेन तु ॥ ६५ ॥

तस्य ध्यानान्तःस्थस्येति द्वितीयकलशेन तु ।
अथ पुनरेव नारायण इति तु तृतीयतः ॥ ६६ ॥

अथ पुनरेव नारायण इति चतुर्थतः ।
सहस्रशीर्षा पुरुष इति पञ्चमकुम्भतः ॥ ६७ ॥

पतिं विश्वस्यात्मेश्वरमिति वै षष्ठकुम्भतः ।
नारायणपरं ब्रह्म इति वै सप्तमेन तु ॥ ६८ ॥

यच्च किञ्चिज्जगत्यस्मिन्निति ह्यष्टमकुम्भतः ।
अनन्तमव्ययं कविमिति नवमेनाभिषेचयेत् ॥ ६९ ॥

अथो निष्ठ्या वितस्त्यां तु इति स्याद्दशमेन वै ।
सन्ततं सिराभिस्तु इत्येकादशेन तु ॥ ७० ॥

तस्य मध्ये महानग्निरिति द्वादशेन वै ।
सन्तापयति स्वं देहमिति त्रयोदशेन तु ॥ ७१ ॥

नीलतोयदमध्यस्था इति चतुर्दशेन वै ।
तस्याः शिखाया मध्य इति पञ्चदशेन वै ॥ ७२ ॥

सर्वस्य वशिनमिति षोडशमेन तु ।
बहिरावरणस्थैस्तु कलशैरभिषेचयेत् ॥ ७३ ॥

बहिरावरणे नास्ति इति प्राक्संस्थितेन तु ।
यन्नाभिपद्मादभवदिति वह्निगतेन तु ॥ ७४ ॥

धृतोर्ध्वपुण्ड्रः परमिति याम्यदिक्संस्थितेन तु ।
दक्षिणे तु भुजे विप्र इति यातुगतेन तु ॥ ७५ ॥

विष्णुनात्तमश्नन्तीति वारुणीसंस्थितेन तु ।
पुम्प्रधानेश्वरो विष्णुरिति वायुगतेन तु ॥ ७६ ॥

इमां महोपनिषदमिति सोमगतेन तु ।
ओमिति प्रथमं नाम इतीशानगतेन तु ॥ ७७ ॥

पुरुषो ह वै वासुदेव इति मध्यगतेन तु ।
यद्वा पुरुषसूक्तीयैर्मन्त्रैः षोडशभिः क्रमात् ॥ ७८ ॥

बहिरावरणस्थैस्तु कलशैरभिषिच्य च ।
पूर्वोक्तब्रह्मसूक्तस्थैर्मन्त्रैर्द्विद्विकसङ्ख्यया ॥ ७९ ॥

अन्तरावरणस्थैस्तु संस्नाप्य कलशैः क्रमात् ।
अवशिष्टैस्त्रिभिश्चान्ते मध्यकुम्भेन सेचयेत् ॥ ८० ॥

रजनीचूर्णसम्मिश्रान् संस्थाप्य नवकुम्भकान् ।
अर्घ्याद्यैरर्चयित्वा तु चक्ररश्मिसमप्रभान् ॥ ८१ ॥

रजनीचूर्णनिचयान् ध्यात्वा तैरभिषेचयेत् ।
सर्वविघ्ननिरासार्थं सर्वसम्पूरणाय च ॥ ८२ ॥

दक्षिणे तु भुजे विप्र इति प्राक्संस्थितेन तु ।
निचिक्षेप सुपर्णमिति वह्निगतेन तु ॥ ८३ ॥

प्र ते विष्णो अब्जचक्रे इति याम्यगतेन तु ।
एभिर्वयमुरुक्रमस्येति यातुगतेन तु ॥ ८४ ॥

धृतोर्ध्वपुण्ड्रः कृतचक्रेति पश्चिमगेन तु ।
पवित्रमित्यग्निरिति वायुकोणगतेन तु ॥ ८५ ॥

चरणं पवित्रं विततमिति सोमगतेन तु ।
लोकस्य द्वारमर्चिमदिति रुद्रगतेन तु ॥ ८६ ॥

मन्त्रैरेतैस्तु चाष्टाभिरन्यैः सौदर्शनैस्तथा ।
संस्नाप्य मध्यकुम्भेन शुद्धोदैरभिषिच्य च ॥ ८७ ॥

महोपनिषदन्तस्थैर्ब्रह्मसूक्तैः पुरोदितैः ।
मन्त्रैश्चतुर्भिः पुंसूक्तमन्त्रैः षोडशभिस्तथा ॥ ८८ ॥

वासुदेवद्विषड्वर्णब्राह्मणद्वितयेन तु ।
ओङ्कारादिपवित्रान्तैश्चतुर्भिर्व्यापकैस्तथा ॥ ८९ ॥

सहस्रधारया देवं स्नापयेद्विधिपूर्वकम् ।
यद्वाष्टाक्षरमन्त्रेण सर्वं स्नपनमाचरेत् ॥ ९० ॥

ततोऽन्यैः सकलैर्भोगैः प्राग्वदिष्ट्वा क्रमेण तु ।
सर्वैः पुरोदितैर्मन्त्रैर्मूलमन्त्रेण वा द्विजाः ॥ ९१ ॥

होमं कृत्वा विशेषेण समिद्भिस्त्रिमधुप्लुतैः ।
ततो दमनिकारोपमाचरेत्तु यथाविधि ॥ ९२ ॥

अत्रानुक्तं तु सकलं पवित्रारोहवद्भवेत् ।
अतः परं प्रवक्ष्यामि विशाखोत्सवमुत्तमम् ॥ ९३ ॥

वृषभस्थे दिनकरे पौर्णमासी तु या भवेत् ।
विशाखर्क्षयुक्ता वा ह्ययुक्ता वा द्विजोत्तमाः ॥ ९४ ॥

चतुर्दश्या ह्यविद्धायां तस्यामुत्सवमाचरेत् ।
सहकारफलादीनि नालिकेरफलान्यपि ॥ ९५ ॥

द्राक्षाखर्जूरकादीनि मातुलुङ्गफलान्यपि ।
अन्यानि चैव योग्यानि यथालब्धानि वा द्विजाः ॥ ९६ ॥

आहृत्य सर्वाण्येकत्र न्यस्य पात्रेषु च द्विजाः ।
तानि पात्राणि विन्यस्य परिचारकमूर्धसु ॥ ९७ ॥

विष्वक्सेनं पुरस्कृत्य वाद्यघोषसमन्वितम् ।
ग्रामं प्रदक्षिणीकृत्य मन्दिरान्तः प्रवेशयेत् ॥ ९८ ॥

महानसादौ निक्षिप्य फलपात्राण्यतः परम् ।
वैष्णवैर्ब्राह्मणैः शुद्धैर्महाहर्षसमन्वितैः ॥ ९९ ॥

वस्त्रेण पिहितास्यैश्च जिह्वाचापल्यवर्जितैः ।
निस्त्वक्करणयोग्यानि तथा निस्त्वक्चि कारयेत् ॥ १०० ॥

यथावस्थितरूपेण शोधनार्हाणि शोधयेत् ।
तथैव क्षालनार्हाणि क्षालयेच्छुद्धवारिभिः ॥ १०१ ॥

फलानि सहकाराणां क्षीरेण गुडमिश्रितम् ।
पाचयेन्नालिकेराणां खण्डैश्चैव मरीचिभिः ॥ १०२ ॥

एलाकर्पूरचूर्णैश्च मिश्रयेदेवमेव हि ।
महाहविः पायसादीनपूपांश्च प्रकल्पयेत् ॥ १०३ ॥

दिवापि वा रजन्यां वा नित्यपूजावसानतः ।
मन्त्रासनपुरस्कं तु देवं स्नानासनं नयेत् ॥ १०४ ॥

पञ्चविंशतिभिः कुम्भैः संस्नाप्य पुरुषोत्तमम् ।
अलङ्कारासनेऽभ्यर्च्य ततो भोज्यासनं नयेत् ॥ १०५ ॥

महाहविः पायसाद्यं सहकारफलादिकम् ।
निवेद्य देवदेवाय ताम्बूलादीन्निवेदयेत् ॥ १०६ ॥

कारिभ्यो वैष्णवेभ्यश्च तत्प्रसादं प्रदापयेत् ।
ततस्तु चौत्सवं बिम्बं श्रीपुष्टिभ्यां समन्वितम् ॥ १०७ ॥

यानमारोप्य वस्त्राद्यैरलङ्कृत्य विशेषतः ।
सर्वमङ्गलसंयुक्तं नीत्वा ग्रामं प्रदक्षिणम् ॥ १०८ ॥

मन्दिरान्तः प्रवेश्याथ स्वस्थाने सन्निवेशयेत् ।
यजमानोऽथ गुर्वादींस्तोषयेद्दक्षिणादिभिः ॥ १०९ ॥

एवं विशाखोत्सवस्य विधानं सम्प्रकीर्तितम् ।
अथ प्लवोत्सवविधिं शृणुध्वं मुनिपुङ्गवाः ॥ ११० ॥

शिशिराद्येषु ऋतुषु त्रिष्वेकस्मिन् समाचरेत् ।
शुक्लपक्षेऽथ वा कृष्णे देवेशस्य प्लवोत्सवम् ॥ १११ ॥

यजमानस्य जन्मर्क्षे देवेशस्य जन्मर्क्षकेऽपि वा ।
प्लवाधिरोहणं कुर्याद्राजराष्ट्राभिवृद्धिदम् ॥ ११२ ॥

तन्नक्षत्रानुसारेण सप्ताहं वा नवाहकम् ।
पञ्चाहं वा त्र्यहं वापि एकाहं वोत्सवं भवेत् ॥ ११३ ॥

उत्सवारम्भपूर्वेद्युरङ्कुरार्पणमाचरेत् ।
रक्षाबन्धं च विधिवत्कृत्वा देशिकसत्तमः ॥ ११४ ॥

आरम्भदिनमारभ्य प्रत्यहं कालयोर्द्वयोः ।
चतुःस्थानार्चनं कुर्याद्बलिदानसमन्वितम् ॥ ११५ ॥

आदावन्ते च देवेशमधमोत्तममार्गतः ।
संस्नापयेत्प्रतिदिनं वाहनारोहणं भवेत् ॥ ११६ ॥

अन्तिमे तु दिने कार्यमुडुपस्याधिरोहणम् ।
प्रत्यहं चापि मध्याह्ने देवं देवीसमन्वितम् ॥ ११७ ॥

यानमारोप्य वस्त्राद्यैरलङ्कृत्य विशेषतः ।
ग्रामं प्रदक्षिणीकृत्य सरस्तीरं समानयेत् ॥ ११८ ॥

तत्र प्रकल्पिते दिव्ये मण्टपे सुमनोहरे ।
भद्रासने देवदेवं समारोप्य विशेषतः ॥ ११९ ॥

अर्घ्याद्यैस्तु समभ्यर्च्य महता हविषा तथा ।
ततस्तु देवदेवेशं मन्दिरान्तः प्रवेशयेत् ॥ १२० ॥

उडुपारोहणदिनेऽप्येवं देवं सरस्तटे ।
समाराध्य विशेषेण हविरन्तं जगत्प्रभुम् ॥ १२१ ॥

स्वस्तिके चतुरश्रे वा वृत्ते वापि सरोवरे ।
परितः कृतसोपाने चतुर्द्वारोपशोभिते ॥ १२२ ॥

चतुर्दिक्षु महोत्तुङ्गगोपुरैश्चोपशोभिते ।
समध्यमण्टपे दिव्ये विमलोदकपूरिते ॥ १२३ ॥

प्रकल्पितं प्लवं दिव्यं फलकाभिर्दृढीकृतम् ।
अनेकस्तम्भसंयुक्तं लोहकीलैर्दृढीकृतम् ॥ १२४ ॥

विमानसदृशाकारं मण्टपाकृतिमेव वा ।
द्वितलं त्रितलं वापि चतुःपञ्चतलान्वितम् ॥ १२५ ॥

अलङ्कृतं च विविधैर्वितानैः पुष्पमाल्यकैः ।
दर्पणैश्चामरैश्चैव ध्वजैश्च विविधैरपि ॥ १२६ ॥

नालिकेरैः पूगफलस्तबकैः कदलीफलैः ।
हीवेरैश्चैव घण्टाभिः परितः समलङ्कृतम् ॥ १२७ ॥

प्रोक्ष्य पुण्याहतोयेन सरस्तोयं च देशिकः ।
दहनाप्यायनाभ्यां च संशोध्य विमलोदके ॥ १२८ ॥

क्षीरार्णवं समावाह्य सम्पूज्यार्घ्यादिभिर्द्विजाः ।
प्लवे फणीन्द्रमावाह्य परितः कुमुदादिकान् ॥ १२९ ॥

समभ्यर्च्यार्घ्यगन्धाद्यैः कुम्भे चावाह्य पूजयेत् ।
अथानन्तमन्त्रेण हुत्वा चैव यथाविधि ॥ १३० ॥

प्लवं तत्कुम्भतोयेन प्रोक्षयेद्देशिकोत्तमः ।
एवं प्लवं तु संस्कृत्य मुहूर्ते तु सुशोभने ॥ १३१ ॥

देवीभ्यां सह देवेशं प्लवमारोपयेद्गुरुः ।
आचार्यः साधकश्चैव दीक्षिताः परिचारकाः ॥ १३२ ॥

सेवापरास्तथान्ये च वैष्णवा वेदपाठकाः ।
तिष्ठेयुः परितो देवमन्येषां तु पृथक्प्लवः ॥ १३३ ॥

अन्ये तु न स्पृशेयुस्तं यस्तु शेषात्मकः प्लवः ।
वन्दिनो वारवनिताः ये चान्ये वाद्यवादकाः ॥ १३४ ॥

ते ते पृथक्प्लवारूढाः कुर्युर्नृत्तादिकं तथा ।
शङ्खभेर्यादिनिनदैर्वेदघोषैः समन्ततः ॥ १३५ ॥

पुष्पवर्षैर्विनोदैश्च देवं सन्तोषयेत्तदा ।
प्रदक्षिणत्रयं कुर्यात्पञ्चकं सप्तकं तु वा ॥ १३६ ॥

ततः सरोमध्यभागमण्टपे देवमानयेत् ।
तत्र देवं समभ्यर्च्य अर्घ्याद्यैर्देशिकोत्तमः ॥ १३७ ॥

अर्हणं पृथुकापूपनालिकेररसं तथा ।
तर्पणं चैव ताम्बूलं मुखवाससमन्वितम् ॥ १३८ ॥

निवेद्य देवदेवाय ताम्बूलाद्यैस्ततः परम् ।
सेवाजनांश्च सन्तोष्य यावदस्तमयं रवेः ॥ १३९ ॥

नानाविनोदैः सन्तोष्य देवं नीत्वा पुनः प्लवम् ।
तीरमासाद्य देवेशमवरोप्य प्लवात्ततः ॥ १४० ॥

ग्रामप्रदक्षिणं देवं मन्दिरान्तः प्रवेशयेत् ।
नित्यार्चनं पुरा कृत्वा विशेषयजनं तथा ॥ १४१ ॥

प्राग्वत्कुम्भप्रोक्षणान्तं सर्वं कुर्याद्यथाविधि ।
यजमानो गुरुं चैव तोषयेद्दक्षिणादिभिः ॥ १४२ ॥

एवं प्लवोत्सवविधिः प्रोक्तः सङ्क्षेपतो द्विजाः ।
अथ चाग्रयणाख्यस्य विधानं किञ्चिदुच्यते ॥ १४३ ॥

आषाढे पूर्वफल्गुन्यां पुष्ये चैव विशेषतः ।
माघमासे तु पञ्चम्यां सप्तम्यामथ वा द्विजाः ॥ १४४ ॥

मुहूर्ते शोभने प्राप्ते कुर्याद्धान्यस्य सङ्ग्रहम् ।
सेनाधिपं तदर्थं तु तार्क्ष्यं वा मारुतिं तु वा ॥ १४५ ॥

आरोप्य शिबिकायां सर्वैः परिजनैः सह ।
आचार्यो यजमानश्च वाद्यघोषपुरस्सरम् ॥ १४६ ॥

क्षेत्रदेशं समासाद्य पुण्याहं वाचयेद्गुरुः ।
क्षेत्रमर्घ्यादिनाभ्यर्च्य भूमन्त्रेणैव मन्त्रवित् ॥ १४७ ॥

लवित्रं चापि सम्प्रोक्ष्य मूलमन्त्रेण पूजयेत् ।
ततस्तु क्षेत्रपालेभ्यो बलिं दद्यात्समन्ततः ॥ १४८ ॥

दध्योदनं पायसं वा देशिकः क्षेत्रवृद्धये ।
सुमुहूर्ते मौनयुक्तो देशिको मूलमन्त्रतः ॥ १४९ ॥

धान्यानां लवनं कुर्यात्ततश्चैवं कृषीवलैः ।
कारयित्वा धान्यभारान् विविधानि फलानि च ॥ १५० ॥

सङ्गृह्य वाहयन् पश्चाद्वेदवाद्यरवैः सह ।
विष्वक्सेनपुरस्कं तु कृत्वा ग्रामप्रदक्षिणम् ॥ १५१ ॥

देवगेहं समासाद्य प्रासादान्तः प्रविश्य च ।
देवस्य दक्षिणे हस्ते धान्यं किञ्चित्प्रदर्शयेत् ॥ १५२ ॥

आतपे शोषयेत्पश्चादवघातं समाचरेत् ।
तत्स्थानं गोमयाम्भोभिः समालिप्य समन्ततः ॥ १५३ ॥

सुधाचूर्णैरलङ्कृत्य मुसलं तदुलूखलम् ।
क्षालयित्वा शुद्धजलैरर्घ्यगन्धादिनार्चयेत् ॥ १५४ ॥

धान्यान्युलूखले न्यस्य सुमुहूर्तेऽवघातयेत् ।
सार्धं मङ्गलगानैश्च सर्ववाद्यरवैः सह ॥ १५५ ॥

सधवब्राह्मणस्त्रीभिर्देवदासीगणैस्तु वा ।
तुषानपोह्य शूर्पेण क्षालयेच्छुद्धवारिणा ॥ १५६ ॥

शोधयित्वा पुनः सर्वान् गुडपाकेन मिश्रितान् ।
मरीचिजीरकैर्युक्तान्नालिकेरफलान्वितान् ॥ १५७ ॥

विधाय मूलबिम्बादीनभ्यर्च्य च विशेषतः ।
निवेद्य तानि तदनु वह्नौ सन्तर्पयेद्विभुम् ॥ १५८ ॥

होमान्ते सप्तसमिधां तण्डुलैर्जुहुयात्ततः ।
पश्चान्निवेदितं सर्वं गुर्वादिभ्यः प्रदापयेत् ॥ १५९ ॥

एवमाग्रयणाख्यं हि अश्वमेधसहस्रतः ।
उत्तमं देवदेवस्य कारयेत्प्रतिवत्सरम् ॥ १६० ॥

अथ डोलोत्सवविधिं शृणुध्वं मुनिपुङ्गवाः ।
उत्तरायणकाले वा दक्षिणायन एव च ॥ १६१ ॥

शुक्लपक्षे विशेषेण पञ्चमीं सप्तमीं तु वा ।
एकादशीं वा दशमीं द्वादशीं पूर्णिमां तु वा ॥ १६२ ॥

समारभ्योत्सवं कुर्यात्सप्ताहं वा नवाहकम् ।
पञ्चाहं वा त्र्यहं वापि विभवेच्छानुसारतः ॥ १६३ ॥

उत्सवारम्भपूर्वेद्युर्निशायामङ्कुरार्पणम् ।
रक्षाबन्धं च विधिवत्कुर्याद्देशिकसत्तमः ॥ १६४ ॥

प्रथमावरणे वापि द्वितीयावरणादिके ।
बहिर्वा गोपुरद्वाराल्लङ्कृतसुमनोहरे ॥ १६५ ॥

देशे डोलोत्सवार्थं तु मण्टपं परिकल्पयेत् ।
द्वात्रिंशत्स्तम्भसंयुक्तं चतुर्विंशतिभिस्तु वा ॥ १६६ ॥

षोडशस्तम्भयुक्तं वा चतुर्द्वारसमन्वितम् ।
मण्टपं समलङ्कुर्यान्नानावर्णवितानकैः ॥ १६७ ॥

विचित्रक्षौमवासैश्च मुक्तादामभिरेव च ।
नानाकुसुममाल्यैश्च दर्पणैश्चामरादिभिः ॥ १६८ ॥

ध्वजैश्च विविधै रम्यैः प्रसूनस्तबकैस्तथा ।
घण्टाभिः फलभारैश्च प्रदीपावलिभिस्तथा ॥ १६९ ॥

मण्टपाभ्यन्तरभुवं कस्तूरीकुङ्कुमादिभिः ।
कर्पूरैश्च समालिप्य सुधाचूर्णादिभिर्भुवम् ॥ १७० ॥

अलङ्कृत्य विशेषेण कुसुमैरक्षतैः शुभैः ।
विकीर्य दिव्यधूपैश्च धूपयित्वा समन्ततः ॥ १७१ ॥

सौवर्णीं राजतीं ताम्रीं दारुजां वा यथारुचि ।
यथोक्तलक्षणां डोलां वृत्तां वा चतुरश्रकाम् ॥ १७२ ॥

विमानसदृशीं वापि यथेष्टतलशोभिताम् ।
चतुःस्तम्भसमायुक्तां यद्वा स्तम्भद्वयान्विताम् ॥ १७३ ॥

वितानैर्विविधैर्माल्यैर्दर्पणैः केतुभिस्तथा ।
अलङ्कृत्य विशेषेण लम्बयेन्मण्टपान्तरे ॥ १७४ ॥

रज्जुभिर्लोहशृङ्खलाभिः क्षौमकार्पासतन्तुभिः ।
कृताभिर्वा यथायोगं ततो देशिकसत्तमः ॥ १७५ ॥

पुण्याहं वाचयित्वा तु डोलां सम्प्रोक्ष्य मन्त्रवित् ।
डोलायाः फलकामध्ये अनन्तं परिपूजयेत् ॥ १७६ ॥

पादेषु चैव धर्माद्यमष्टकं वा चतुष्टयम् ।
स्तम्भेषु गरुडव्यूहमभ्यर्च्य क्रमयोगतः ॥ १७७ ॥

तथैव चतुरो वेदान् रज्जुषु क्रमशोऽर्चयेत् ।
इतिहासपुराणानि वेदाङ्गानि तथैव च ॥ १७८ ॥

फलकायामष्टदिक्षु पूजयेन्मुनिसत्तमाः ।
व्यापकांस्तु चतुर्मन्त्रान् पादेषु परिपूजयेत् ॥ १७९ ॥

इष्ट्वा ध्वजेषु सावित्रीं छत्रेषु व्याहृतीस्तथा ।
प्रणवं तु पताकासु तोरणेषु स्वरांस्तथा ॥ १८० ॥

व्यजनानि च सम्पूज्य डोलां कृत्वा तु वाङ्मयीम् ।
डोलायाः परितो दिक्षु इन्द्रादीन् परिपूजयेत् ॥ १८१ ॥

डोलायास्तु पुरोभागे यद्वान्यत्र यथाविधि ।
धान्यपीठे महाकुम्भमुपकुम्भाष्टकान्वितम् ॥ १८२ ॥

विन्यस्य तत्र डोलोक्तान्देवानावाह्य पूजयेत् ।
उपकुम्भाष्टके चैव इन्द्रादीन् परिपूजयेत् ॥ १८३ ॥

कुण्डे वा स्थण्डिले वापि वह्निं संस्कृत्य पूर्ववत् ।
तान्देवांस्तत्र चावाह्य तत्तन्मन्त्रैस्तु क्रमात् ॥ १८४ ॥

पृथगष्टाहुतीर्हुत्वा घृताद्यैर्देशिकोत्तमः ।
पूर्णाहुत्यादिकं कृत्वा विसृज्याग्निं ततो गुरुः ॥ १८५ ॥

सम्पाताज्येन तां डोलां संसिच्य सुमुहूर्तके ।
कुम्भतोयेन सम्प्रोक्ष्य पूजयेच्च विशेषतः ॥ १८६ ॥

डोलायाः परितो दिक्षु इन्द्रादिभ्यो बलिं ददेत् ।
एवं डोलां तु संस्कृत्य कुर्याड्डोलोत्सवं विभोः ॥ १८७ ॥

चतुःस्थानार्चनयुतं बलिदानसमन्वितम् ।
आरम्भे चावसाने च पूर्वोक्तस्नपनान्वितम् ॥ १८८ ॥

सायं नित्यार्चनं कृत्वा विशेषयजनं तथा ।
देवं याने समारोप्य श्रीपुष्टिभ्यां समन्वितम् ॥ १८९ ॥

धाम प्रदक्षिणीकृत्य डोलापार्श्वं समानयेत् ।
शङ्खभेरीनिनादैश्च तूर्यमङ्गलनिस्वनैः ॥ १९० ॥

सुमुहूर्ते सुलग्ने च डोलामारोपयेद्विभुम् ।
तत्रार्चयेज्जगन्नाथमलङ्कारासनोदितैः ॥ १९१ ॥

भोगैर्नीराजनान्तं च ततो भोज्यासने विभुम् ।
नीत्वा महाहविर्दिव्यमपूपानुपहारकान् ॥ १९२ ॥

निवेद्य तर्पणादीनि ताम्बूलान्तं निवेदयेत् ।
डोलारज्जून् चतुर्दिक्षु गृहीत्वा द्विजसत्तमाः ॥ १९३ ॥

मन्दं मन्दं चालयेयुस्तदानीं देशिकसत्तमः ।
पुंसूक्ताद्यैर्देवदेवं स्तुवन्नुच्चावचैस्तदा ॥ १९४ ॥

कस्तूरीकुङ्कुमाद्यैश्च कर्पूरैः परिभावितम् ।
दिव्यगन्धं तु देवाय समर्प्य च विशेषतः ॥ १९५ ॥

वीजयेयुस्तालवृन्तैश्चामरैश्च विशेषतः ।
विचित्रकुसुमस्रग्भिर्हेमरत्नसरादिभिः ॥ १९६ ॥

अलङ्कुर्याद्दिवदेवं तत्काले द्विजसत्तमाः ।
विविधानुपहारांश्च पुनराचमनं तथा ॥ १९७ ॥

मुखवाससमोपेतं ताम्बूलं च निवेदयेत् ।
विविधानि च नृत्तानि कुर्युर्वाराङ्गनास्तदा ॥ १९८ ॥

वीणावेणुनिनादैश्च गीतैश्च विविधैस्तदा ।
तोषयेद्देवदेवेशं स्तोत्रैश्च विविधैस्तथा ॥ १९९ ॥

स्तुवन्तु वन्दिनः सर्वे भगवद्भक्तिबृंहिताः ।
एवमन्यैश्च विविधैरुपचारैश्च तोषयेत् ॥ २०० ॥

डोलाचालनवेलायां ये पश्यन्ति श्रियः पतिम् ।
इह ते प्राप्य चाभीष्टान्प्राप्नुवन्ति परां गतिम् ॥ २०१ ॥

ततस्तु देवं देवीभ्यां यानमारोप्य देशिकः ।
धाम प्रदक्षिणं कृत्वा प्रासादान्तः प्रवेशयेत् ॥ २०२ ॥

सकृत्त्र्यहं वा पञ्चाहं सप्ताहं वा नवाहकम् ।
कृत्वैवमुत्सवं नित्यं सायङ्काले यथाविधि ॥ २०३ ॥

प्राग्वत्कुर्यादुत्सवान्ते कुम्भसम्प्रोक्षणान्तिमम् ।
आचार्यं पूजयेद्यागवद्यजमानस्तु पूर्ववत् ॥ २०४ ॥

इति डोलोत्सवविधिः सङ्क्षेपेण प्रदर्शितः ।
आषाढशुक्लद्वादश्यां स्वापोत्सवमथाचरेत् ॥ २०५ ॥

तदादि कौमुदाख्यस्य यावन्मासस्य तद्दिनम् ।
तपसा योगनिद्रायाः सन्तुष्टो जगदीश्वरः ॥ २०६ ॥

योगनिद्रां भजति लोकरक्षणहेतुना ।
नैमित्तिकान्मासिमासि तथा संवत्सरोत्सवान् ॥ २०७ ॥

विशेषयागसंयुक्तान् सर्वसम्पूरणादृते ।
नान्यं नैमित्तिकं काम्यं कुर्यान्मासचतुष्टये ॥ २०८ ॥

अभीष्टव्रतमाश्रित्य नेतव्यं तच्चतुष्टयम् ।
भगवद्भक्तिनिष्णातैः कार्यं तत्रेदमुच्यते ॥ २०९ ॥

प्रासादस्य पुरोभागे यद्वान्यत्र मुनीश्वराः ।
कल्पयेच्छयनागारं सर्वालङ्कारसंयुतम् ॥ २१० ॥

सर्वोपकरणैर्युक्तं पर्यङ्काद्युपशोभितम् ।
यद्वा गर्भगृहे विष्णोर्मूलमूर्तेस्तु दक्षिणे ॥ २११ ॥

शयनं कल्पयेद्विप्राः सर्वोपकरणैः सह ।
सङ्गृह्य सर्वसम्भारान् दशम्यां द्विजसत्तमाः ॥ २१२ ॥

एकादश्यां निशि विभुं चतुःस्थानेषु पूजयेत् ।
यागमण्टपमासाद्य जागरेण नयेन्निशाम् ॥ २१३ ॥

ब्राह्मे मुहूर्ते सम्प्राप्ते कृतस्नानः कृताह्निकः ।
नित्यार्चनं पुरा कृत्वा चतुःस्थानार्चनं तथा ॥ २१४ ॥

ततो विसृज्य देवेशं कुम्भमण्डलकुण्डगम् ।
अर्घ्येण गन्धपुष्पाभ्यां धूपेन सुसुभेन च ॥ २१५ ॥

मूलमूर्तिं समभ्यर्च्य तस्माच्छयनकौतुके ।
कूर्चे वा देवमावाह्य श्रीभूमिभ्यां समन्वितम् ॥ २१६ ॥

संस्नाप्य समलङ्कृत्य अभ्यर्च्य हविरन्तिमम् ।
निशामुखे प्रवृत्ते तु कृत्वा नित्यार्चनं विभोः ॥ २१७ ॥

ततस्तु शयनागारं नीत्वा शयनकौतुकम् ।
ततः शयनदेशे तु पश्चिमे हेमविष्टरे ॥ २१८ ॥

निवेश्य प्राङ्मुखं देवं हविरन्तं समर्चयेत् ।
होमं विधाय विधिवत्कृत्वा होमसमर्पणम् ॥ २१९ ॥

पर्यङ्केऽनन्तमावाह्य तस्मिन् देवं यथाविधि ।
शाययित्वाथ तत्रोक्तान् नियमान् शास्त्रचोदितान् ॥ २२० ॥

सङ्कल्प्य चतुरो मासान् देवस्योत्थापनावधि ।
व्रतानुष्ठाननिरतः प्रत्यहं देवमर्चयेत् ॥ २२१ ॥

सर्वेऽपि वैष्णवाः कुर्युस्तदादि व्रतमुत्तमम् ।
शयनाङ्गोपचारैश्च प्रत्यहं तोषयेद्विभुम् ॥ २२२ ॥

एवं मासद्वये याते मासि भाद्रपदे द्विजाः ।
द्वादश्यां शुक्लपक्षस्य देशिकेन्द्रो निशामुखे ॥ २२३ ॥

विशेषयागपूर्वं तु परिवर्तनमाचरेत् ।
प्रबोधनं ततः कुर्यात् शयनस्थस्य वै प्रभोः ॥ २२४ ॥

द्वादश्यां शुक्लपक्षस्य कार्तिके मासि तु द्विजाः ।
दशम्यां पूर्ववत्सर्वसम्भारान् समुपार्ज्य च ॥ २२५ ॥

एकादश्यां निशायां तु चतुःस्थानस्थितं विभुम् ।
समभ्यर्च्य विशेषेण जागरेण नयेन्निशाम् ॥ २२६ ॥

ब्राह्मे मुहूर्ते द्वादश्यां मन्त्रमूर्तिं प्रबोधयेत् ।
नित्यार्चनं पुरा कृत्वा चतुःस्थानार्चनं तथा ॥ २२७ ॥

ततः शयनमूर्तिं च समभ्यर्च्य विशेषतः ।
स्नानादिहविरन्तं तु गर्भगेहे प्रवेशयेत् ॥ २२८ ॥

विसर्जयेन्मूलमूर्तौ मन्त्रं शयनमूर्तिगम् ।
ततस्तु चौत्सवं बिम्बं देवीभ्यां समलङ्कृतम् ॥ २२९ ॥

रथादिके समारोप्य यात्रोपकरणैः सह ।
ग्रामप्रदक्षिणं कृत्वा स्वस्थाने सन्निवेशयेत् ॥ २३० ॥

ततो विसर्जयेद्देवं कुम्भमण्डलकुण्डगम् ।
तदा चाश्रमिणः सर्वे कुर्युर्व्रतविसर्जनम् ॥ २३१ ॥

यजमानोऽथ गुर्वादीन् साधकान् ब्राह्मणानपि ।
हिरण्यैस्तोषयेत्सर्वान् यथाशक्ति द्विजोत्तमाः ॥ २३२ ॥

इत्येवमुक्तं देवस्य शयनं च प्रबोधनम् ।
शयनस्थे जगन्नाथे चातुर्मासस्य मध्यतः ॥ २३३ ॥

Unnummerierter abschließender Halbvers; redaktionelle Kennung 233z.

पवित्रारोहणं कुर्यादनन्तस्यातितुष्टिदम् ।

इति श्रीपाञ्चरात्रे ईश्वरसंहितायां पक्षोत्सवविधिर्नाम द्वादशोऽध्यायः ॥


Hingabe trägt das Studium der heiligen Sprache.

Kapitel 13 – पक्षोत्सवादिविधिः / pakṣotsavādividhiḥ

Siehe deutsche Übersetzung und Texthinweise.

नारदः ।

जन्मोत्सवं च कृष्णस्य शृणुध्वं मुनिपुङ्गवाः ।
कृष्णजन्मदिनं त्वेतद्द्विविधं परिकीर्तितम् ॥ १ ॥

जन्माष्टमी जयन्तीति तयोर्भेदस्तु कथ्यते ।
चन्द्रोदयेऽष्टमीयुक्ता सप्तमीकलया विना ॥ २ ॥

रोहिणीरहिता वापि सा हि जन्माष्टमी स्मृता ।
सिंहं गतेऽर्के सा मुख्या यद्वा श्रावणमासगा ॥ ३ ॥

तस्यामभ्यर्चनं विष्णोर्धर्मकामार्थसिद्धिदम् ।
निष्कामो यदि कैवल्यफलदं भवति ध्रुवम् ॥ ४ ॥

सूर्योदयेऽपि सप्तम्या तथा कृत्तिकयापि च ।
कलयापि ह्यविद्धा या रोहिणी द्विजपुङ्गवाः ॥ ५ ॥

अष्टमीसहिता वापि अष्टमीरहितापि वा ।
तथैव बुधवारेण सहिता रहितापि वा ॥ ६ ॥

जयन्ती नाम सा प्रोक्ता जयत्यशुभमित्यसौ ।
अष्टम्यां वा नवम्यां वा दशम्यां वापि रोहिणी ॥ ७ ॥

अविद्धा यदि लभ्येत कलामात्रापि वैष्णवैः ।
ग्राह्या कदापि विद्धा तु न ग्राह्या वैष्णवोत्तमैः ॥ ८ ॥

मृगशीर्षं तु वा ग्राह्यं शुद्धर्क्षस्य ह्यभावतः ।
सितभाद्रपदे मुख्या जयन्ती सिंहगापि वा ॥ ९ ॥

तस्मिन् मासे मुनिश्रेष्ठा यदा ऋक्षद्वयं भवेत् ।
परत्रैवोत्सवं कुर्यान्महापातकनाशनम् ॥ १० ॥

पश्चाचेद्रोहिणी विद्धा पूर्वत्रैव समाचरेत् ।
एवमेव हि सङ्क्रान्तिवेधत्यागोऽपि शस्यते ॥ ११ ॥

दिवा सङ्क्रान्तियोगश्चेज्जयन्तीं पूर्वतस्त्यजेत् ।
परतो निशि योगे तु त्यजेद्योगान्वितामपि ॥ १२ ॥

उभयोः क्रान्तिवेधश्चेज्जयन्त्योर्मुनिसत्तमाः ।
उत्सवं मृगशीर्षे वा पूर्वमेव समाचरेत् ॥ १३ ॥

एवं जयन्त्यां रामस्य नरसिंहवराहयोः ।
वामनादिजयन्त्यामप्येवमेव विनिर्णयः ॥ १४ ॥

जयन्त्यां तत्र कृष्णस्य दिवोपोष्य विशेषतः ।
रात्रावभ्यर्चनं कुर्यात्तद्विधानमिहोच्यते ॥ १५ ॥

नित्यकर्माणि निर्वर्त्य सायं देशिकसत्तमः ।
भगवद्गृहमासाद्य कृत्वा नित्यार्चनं पुरा ॥ १६ ॥

प्रासादस्य पुरोभागे मण्टपं परिकल्पयेत् ।
क्लृप्तं वा मण्टपं पूर्वमलङ्कुर्याद्विशेषतः ॥ १७ ॥

चतुर्द्वारसमायुक्तं ध्वजतोरणभूषितम् ।
वितानैर्विविधैश्चित्रैः सर्वतः परिशोभितम् ॥ १८ ॥

परितश्चैव कौशेयमहायवनिकान्वितम् ।
मुक्तासरैश्च विविधपुष्पमाल्यैर्विराजितम् ॥ १९ ॥

कदलीजम्बुजम्बीरनालिकेरफलादिभिः ।
रम्भास्तम्भैः पूगफलस्तबकैः समलङ्कृतम् ॥ २० ॥

दर्पणैर्दीपमालाभिः शोभितं धूपधूपितम् ।
कुङ्कुमागरुकस्तूरीसमालिप्तमहीतलम् ॥ २१ ॥

सुधाचूर्णादिभिश्चित्रैः परितः समलङ्कृतम् ।
मध्ये प्रविलसद्दिव्यरत्नविष्टरशोभितम् ॥ २२ ॥

एवं पूर्वमलङ्कृत्य मण्टपं तु ततः परम् ।
कृष्णबिम्बं समानीय विन्यसेद्भद्रविष्टरे ॥ २३ ॥

अर्घ्यादिभिः समभ्यर्च्य ततस्तु तदनुज्ञया ।
पुष्पाङ्कुरं निधायाथ रक्षाबन्धं समाचरेत् ॥ २४ ॥

देवस्यैशानभागे तु महाकुम्भं तु विन्यसेत् ।
मण्डलं तु पुरोभागे समालिख्य यथाविधि ॥ २५ ॥

मण्टपस्य पुरोभागे कुण्डं तु परिकल्पयेत् ।
एवं सर्वं समापाद्य यावच्चन्द्रोदयं गुरुः ॥ २६ ॥

देवस्य दक्षिणोपार्श्वे जपन्नष्टाक्षरं मनुम् ।
गापयन् कृष्णमाहात्म्यं तथान्यवैष्णवीः कथाः ॥ २७ ॥

गानैर्नृत्तैर्विनोदैश्च तोषयेज्जगतां पतिम् ।
उदिते तु निशानाथे जननकाले जगत्पतेः ॥ २८ ॥

कुम्भे च मण्डले कृष्णं यथोक्तविधिना यजेत् ।
ततो बिम्बे समभ्यर्च्य देवं मन्त्रासनान्तिमम् ॥ २९ ॥

एकाशीतिघटैर्देवं स्नापयेद्धोमपूर्वकम् ।
पञ्चविंशतिकुम्भैर्वा स्नापयेत्तु यथाविधि ॥ ३० ॥

अलङ्कारासनं नीत्वा समभ्यर्च्य विशेषतः ।
कृत्वा नीराजनान्तं च ततो भोज्यासनं नयेत् ॥ ३१ ॥

अर्घ्यादिभिः समभ्यर्च्य अर्हणं च समर्पयेत् ।
मधुपर्कं निवेद्याथ नवनीतं च शर्कराम् ॥ ३२ ॥

गोक्षीरं घृतसंयुक्तं फलानि विविधानि च ।
पृथुकादींश्चोपहारान् गुडखण्डान्वितानपि ॥ ३३ ॥

माषमुद्गैस्तिलैर्यवैर्दधिमध्वाज्यदुग्धकैः ।
हरिद्राजीरकैलाद्यैर्योजितानि विशेषतः ॥ ३४ ॥

विविधानि च भक्ष्याणि गोघृते पाचितानि च ।
क्रमाद्विविधास्तानि सुशृतं क्षीरमुत्तमम् ॥ ३५ ॥

शीतलं तर्पणजलं पानकं च विशेषतः ।
भक्ष्यं भोज्यं तथा लेह्यं पेयं चापि ह्यनेकशः ॥ ३६ ॥

निवेद्य देवदेवाय मात्रान्तं देशिकोत्तमः ।
मुखवाससमोपेतं ताम्बूलं विनिवेद्य च ॥ ३७ ॥

कृत्वाथ जपयज्ञान्तं गत्वा कुण्डसमीपम् ।
तत्र प्रतिष्ठिताग्नौ तु योगपीठं प्रकल्पयेत् ॥ ३८ ॥

तन्मध्ये कृष्णमावाह्य सकलीकृत्य मन्त्रवित् ।
कृत्वा ससमिद्धोमं ततः पूर्णां निवेदयेत् ॥ ३९ ॥

ततो देवं विसृज्याग्निं च विसृजेद्गुरुः ।
ततस्तु देवदेवाय कृत्वा होमसमर्पणम् ॥ ४० ॥

अर्घ्यदानं विशेषेण कुर्यात्सर्वफलप्रदम् ।
तद्विधानं प्रवक्ष्यामि देवस्य पुरतो भुवि ॥ ४१ ॥

गोमयेनोपलिप्याथ वृत्ताकारं सुशोभनम् ।
सुधाचूर्णैरलङ्कृत्य गन्धपुष्पाक्षतैः फलैः ॥ ४२ ॥

तन्मण्डले रोहिण्या सह चन्द्रं समर्चयेत् ।
ततस्तस्मै नमस्कुर्यान्मन्त्रेणानेन वै द्विजाः ॥ ४३ ॥

ज्योत्स्नापते नमस्तुभ्यं नमस्ते ज्योतिषां पते ।
नमस्ते रोहिणीकान्त सुधाकुम्भ नमोऽस्तु ते ॥ ४४ ॥

इति चन्द्रं नमस्कृत्य दत्त्वार्घ्यं ततः परम् ।
शङ्खे तोयं समापूर्य गोक्षीरेण विमिश्रितम् ॥ ४५ ॥

शङ्खाग्रे चन्द्रमभ्यर्च्य तन्मूले कृष्णमर्चयेत् ।
हस्ताभ्यां शङ्खमादाय सपुष्पफलचन्दनम् ॥ ४६ ॥

जानुभ्यामवनिं स्पृष्ट्वा चन्द्रायार्घ्यं निवेदयेत् ।
क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव ॥ ४७ ॥

गृहाणार्घ्यं शशाङ्केन्दो रोहिण्या सहितो मम ।
इति चन्द्रायार्घ्यदानं कृष्णसन्तोषकारणम् ॥ ४८ ॥

प्रीणनं सर्वदेवानां सर्वसस्यविवृद्धिदम् ।
कृष्णायार्घ्यं ततो दद्यान्मन्त्रेणानेन वै द्विजाः ॥ ४९ ॥

जातः कंसवधार्थाय भूमेरोत्तारणाय च ।
पाण्डवानां हितार्थाय धर्मसंस्थापनाय च ॥ ५० ॥

कौरवाणां विनाशाय दैत्यानां निधनाय च ।
गृहाणार्घ्यं मया दत्तं देवक्या सहितो हरे ॥ ५१ ॥

इति कृष्णायार्घ्यदानं राजराष्ट्राभिवृद्धिदम् ।
सर्वसम्पत्करं चैव सर्वलोकहितार्थकृत् ॥ ५२ ॥

यजमानोऽपि वा दद्यादर्घ्यमेवं जगत्प्रभोः ।
इह सर्वाभीष्टसिद्ध्यै परत्र च सुखाप्तये ॥ ५३ ॥

तत्काले देशिकादिभ्यो गोभूस्वर्णान्यनेकशः ।
दद्याद्देवस्य सन्तुष्ट्यै यजमानो विशेषतः ॥ ५४ ॥

अथोपहारैर्विविधैस्ताम्बूलाद्यैश्च देशिकः ।
जपस्तोत्रादिभिश्चैव तोषयेत्तु श्रियः पतिम् ॥ ५५ ॥

निवेदितान्नभक्ष्यादीन् चतुर्धा विभजेत्ततः ।
आचार्यः स्वयमादद्यादेकांशं तु ततस्त्रिभिः ॥ ५६ ॥

मूर्तिपान् वैष्णवानन्यान् भक्तान् भागवतोत्तमान् ।
तोषयित्वा ततः सर्वांस्ताम्बूलाद्यैश्च तोषयेत् ॥ ५७ ॥

कुम्भस्थं मण्डलस्थं च प्राग्वद्देवं विसर्जयेत् ।
ततस्तु देवदेवस्य शयनं कारयेद्गुरुः ॥ ५८ ॥

रम्ये तु मण्टपे डोलां कृत्वा मणिमयीं शुभाम् ।
मृदूपधानतूलाढ्यां स्वर्णरज्जुविलम्बिताम् ॥ ५९ ॥

सौवर्णकिङ्किणीयुक्तां मुक्तादामविलम्बिताम् ।
कस्तूरीकुङ्कुमाद्यैश्च वासितां धूपधूपिताम् ॥ ६० ॥

तत्रानन्तं समभ्यर्च्य देवमारोपयेद्गुरुः ।
शयनासनभोगैस्तु देवं तत्र समर्चयेत् ॥ ६१ ॥

एवं हि शयनान्तं तु कृत्वा चैकदिनोत्सवम् ।
अनुयागं ततः कुर्यादाचार्यो वैष्णवैः सह ॥ ६२ ॥

वैष्णवानामुत्सवान्ते पारणं विहितं द्विजाः ।
यद्वा फलेच्छया कार्यं पारणं तु परेहनि ॥ ६३ ॥

ततोऽवशिष्टयामिन्यामाचार्यो देवसन्निधौ ।
भक्तैर्भागवतैः सार्धं गापयन् वैष्णवीः कथाः ॥ ६४ ॥

गानैर्नृत्तैस्तथा हास्यैर्जागरेण नयेन्निशाम् ।
ततः प्रभाते त्वाचार्यः कृतस्नानः कृताह्निकः ॥ ६५ ॥

देवमुत्थाप्य विधिवन्नित्यपूजां समाचरेत् ।
विशेषेणार्चयेद्देवं स्नानाद्यैर्हविरन्तिमैः ॥ ६६ ॥

ततः कृष्णमलङ्कृत्य विविधैर्वस्त्रभूषणैः ।
दिव्ये तु कुञ्जरे वाश्वे शिबिकायां रथेऽपि वा ॥ ६७ ॥

समारोप्य दृढीकृत्य ह्यलङ्कृत्य विशेषतः ।
उत्सवं देवदेवस्य कुर्याद्ग्रामप्रदक्षिणम् ॥ ६८ ॥

विचित्रैर्दारुरचितैश्चतुःस्तम्भैर्मनोहरैः ।
चित्रवस्त्रवितानाढ्यैः फलपल्लवसंयुतैः ॥ ६९ ॥

मध्यालम्बिक्षीरघटैर्नवनीतघटान्वितैः ।
दधिभाण्डान्वितैश्चैव तोरणैर्विविधैस्तदा ॥ ७० ॥

चित्रध्वजपताकाभिः पुष्पमालाशतान्वितैः ।
वितानैः फलभारैश्च रम्भास्तम्भादिभिस्तथा ॥ ७१ ॥

अलङ्कृतासु सिक्तासु दिव्यकुङ्कुमवारिभिः ।
सुधाचूर्णालङ्कृतासु कीर्णासु कुसुमाक्षतैः ॥ ७२ ॥

दिव्यधूपैर्धूपितासु वीथीषु द्विजसत्तमाः ।
शनैः शनैर्देवदेवं सविलासं नयेत्तदा ॥ ७३ ॥

छत्रध्वजपताकाभिर्वन्दिभिर्गणिकादिभिः ।
वाद्यघोषैर्वेदघोषैर्भक्तैर्भागवतोत्तमैः ॥ ७४ ॥

तैलं च रजनीचूर्णं विकिरद्भिः परस्परम् ।
नवनीतं च दधि च क्षीरं च कुसुमादिकम् ॥ ७५ ॥

क्षिपद्भिश्च हसद्भिश्च भक्षयद्भिश्च कैश्चन ।
अर्थीन् सन्तोषयद्भिश्च नवनीतघृतादिकैः ॥ ७६ ॥

ताम्बूलं रजनीचूर्णं ददद्भिः पौरयोषिताम् ।
विकिरद्भिः पुष्पगन्धैः कुङ्कुमैः कृष्णमव्ययम् ॥ ७७ ॥

हस्तमुद्धृत्य कूजद्भिस्तथा गोपालबालकैः ।
दध्यादिभाण्डान् भिन्दद्भिः कृष्णस्य पुरतो भुवि ॥ ७८ ॥

पिबद्भिः क्षीरदध्यादीन् किरद्भिश्च परस्परम् ।
आस्वाद्य नवनीतं च क्षिपद्भिर्बहुधा मिथः ॥ ७९ ॥

रोहद्भिस्तोरणस्तम्भान्नृत्यद्भिर्गर्जितैर्मुहुः ।
आभीरकुलजैर्युक्तैः कृष्णानुचरभावतः ॥ ८० ॥

यन्त्रस्थभाण्डान् दण्डेन ताडयद्भिर्मुहुर्मुहुः ।
तत्र भाण्डगतां धारां पिबद्भिश्च पदे पदे ॥ ८१ ॥

एवं क्रीडारतैर्भक्तैर्विनोदैरेवमादिभिः ।
ग्रामप्रदक्षिणं कृत्वा मन्दिरान्तः प्रवेशयेत् ॥ ८२ ॥

आस्थानमण्टपं नीत्वा देवं वै हेमविष्टरे ।
समारोप्य समभ्यर्च्य विविधैरुपहारकैः ॥ ८३ ॥

ताम्बूलाद्युपचारैश्च देवमन्तः प्रवेशयेत् ।
सकृत्त्र्यहं वा पञ्चाहं सप्ताहं वा नवाहकम् ॥ ८४ ॥

पक्षं मासं तु वा चैवमुत्सवैस्तोषयेद्विभुम् ।
स्वतन्त्रं परतन्त्रं वा कृष्णमेवं समर्चयेत् ॥ ८५ ॥

अभावे कृष्णबिम्बस्य तत्तत्प्रासादसंस्थितम् ।
देवमेवार्चयेद्भक्त्या जयन्त्यां तु विशेषतः ॥ ८६ ॥

एवं नृसिंहं रामं च वराहं वामनादिकान् ।
तत्तज्जन्मदिने सम्यग्विशेषस्नपनेन तु ॥ ८७ ॥

महता हविषा चैव चतुःस्थानेषु पूजयेत् ।
कुम्भे च मण्डले बिम्बे वह्नौ च यजनं विभोः ॥ ८८ ॥

मुख्ये कल्पे प्रकुर्वीत ह्यनुकल्पे तु मण्डलम् ।
विना कुम्भादिषु यजेद्बिम्बवह्न्योस्तु वा यजेत् ॥ ८९ ॥

इत्थं यः कारयेद्भक्त्या जयन्त्युत्सवमुत्तमम् ।
इहेप्सितार्थान् सम्पाद्य सायुज्यं पदमाप्नुयात् ॥ ९० ॥

अथ चाश्वयुजे मासि कर्तव्यं सर्वसिद्धिदम् ।
वीरलक्ष्म्युत्सवविधिं वक्ष्यामि मुनिसत्तमाः ॥ ९१ ॥

तस्मिन् मासि सिते पक्षे ह्यष्टमीकलयापि वा ।
अविद्धायां नवम्यां तु श्रीदेव्युत्सवमाचरेत् ॥ ९२ ॥

तद्वासरानुसारेण नवाहोत्सवमाचरेत् ।
तिथिलोपे ह्यमावास्यामारभ्योत्सवमाचरेत् ॥ ९३ ॥

वृद्धौ द्वितीयामारभ्य नवाहोत्सवमाचरेत् ।
सप्ताहं वापि पञ्चाहं त्र्यहमेकाहमेव वा ॥ ९४ ॥

आचरेदुत्सवं लक्ष्म्याः फलकामनया द्विजाः ।
नवाहं वैष्णवं प्रोक्तं सप्ताहं त्वापकं भवेत् ॥ ९५ ॥

पञ्चाहं त्वैन्द्रकं प्रोक्तं त्र्यहं शैवमुच्यते ।
एकाहमुत्सवं ब्राह्मं पञ्चधैवं प्रकीर्तितम् ॥ ९६ ॥

ब्राह्मं वै ब्रह्मसिद्ध्यर्थं शैवं रोगविनाशनम् ।
ऐन्द्रं दुर्भिक्षनाशार्थमापं राष्ट्राभिवृद्धिदम् ॥ ९७ ॥

वैष्णवं तूत्सवं प्रोक्तं भक्तिमुक्तिफलप्रदम् ।
उत्सवारम्भपूर्वेद्युर्निशायामङ्कुरार्पणम् ॥ ९८ ॥

रक्षाबन्धं च विधिवत्कुर्याद्देशिकसत्तमः ।
आरम्भे चावसाने च अधमोत्तममार्गतः ॥ ९९ ॥

संस्नापयेच्छ्रियं देवीं श्रीमन्त्रेणैव देशिकः ।
प्रत्यहं नित्यपूजान्ते विशेषार्चनमाचरेत् ॥ १०० ॥

कुम्भे च मण्डले बिम्बे वह्नौ चापि यथाविधि ।
तत्र तत्र विशेषो यः कथ्यते सम्प्रति द्विजाः ॥ १०१ ॥

कुम्भार्चने श्रियं देवीं मध्यकुम्भे समर्चयेत् ।
सुदर्शनं तु वर्धन्यां प्राग्वदेव समर्चयेत् ॥ १०२ ॥

लक्ष्मीः कीर्तिर्जया माया उपकुम्भाष्टके द्विजाः ।
प्रभवाप्यययोगेन पूज्याः प्रागादिषु क्रमात् ॥ १०३ ॥

तत्र द्वारार्चनाविधिं शृणुध्वं मुनिपुङ्गवाः ।
वास्त्वीशक्षेत्रपालौ द्वौ सर्वद्वारेषु पूजयेत् ॥ १०४ ॥

लक्ष्मीः कीर्तिर्जया माया द्वारेषूर्ध्वस्थिताः क्रमात् ।
सृष्टिर्लज्जा जया माया सावित्री च क्षमा तथा ॥ १०५ ॥

शुद्धाऽशुद्धा तथा द्वे द्वे प्रागादिद्वारशाखयोः ।
तथाऽष्टदिग्द्वारकुम्भेषु ज्येष्ठाविद्योस्तथैव च ॥ १०६ ॥

श्रद्धाकान्त्योः क्रियासृष्ट्योः क्षमामूर्तिजयाख्ययोः ।
क्रमाद्द्वन्द्वप्रयोगेण पूजनं तु समाचरेत् ॥ १०७ ॥

चण्डीं चैव प्रचण्डीं च पूर्वद्वारे प्रपूजयेत् ।
दक्षिणोत्तरयोगेन तोरणस्तम्भमूलयोः ॥ १०८ ॥

बलाकिनीं दक्षिणे तु यजेच्च वनमालिनीम् ।
विभीषिकां शाङ्करीं च पश्चिमे सम्प्रपूजयेत् ॥ १०९ ॥

तथैव चोत्तरद्वारे शङ्खपद्मनिधी यजेत् ।
सत्यादींश्च पताकासु इन्द्रादींश्च यथाक्रमम् ॥ ११० ॥

प्राग्वदेवार्चयेद्विप्रा अयं द्वारार्चनक्रमः ।
प्रातर्विशेषयागान्ते उत्सवं च समाचरेत् ॥ १११ ॥

सौवर्णशिबिकायाने अथ वा पुष्पमण्टपे ।
श्रियं देवीं समारोप्य ह्यलङ्कृत्य विशेषतः ॥ ११२ ॥

सर्वैर्यात्रोपकरणैर्नयेद्ग्रामप्रदक्षिणम् ।
एवं कृत्वोत्सवं पश्चाद्देवीमास्थानमण्टपे ॥ ११३ ॥

हेमपीठे समारोप्य ह्यलङ्कारासनोदितैः ।
भोगैः क्रमेण सम्पूज्य नयेद्भोज्यासनं ततः ॥ ११४ ॥

अर्घ्यादीनर्हणं चापि मधुपर्कं समर्पयेत् ।
मुद्गान्नपायसादीनि भक्ष्याणि विविधानि च ॥ ११५ ॥

पृथुकादींश्चोपहारान् श्रिये देव्यै निवेदयेत् ।
शीतलं तर्पणं चैव नालिकेररसं तथा ॥ ११६ ॥

समर्प्य दद्यात्ताम्बूलं मुखवाससमन्वितम् ।
जपयज्ञं ततः कुर्याल्लक्ष्मीमन्त्रेण मन्त्रवित् ॥ ११७ ॥

निवेदितं तु यद्द्रव्यं चतुर्धा विभजेत्ततः ।
तेष्वेकांशं समादाय आचार्याय प्रदापयेत् ॥ ११८ ॥

शिष्टानंशांस्तथा सर्वान् भक्तेभ्यश्च प्रदापयेत् ।
स्तोत्रैश्च विविधैर्नृत्तैर्गीतैर्वाद्यरवैः सह ॥ ११९ ॥

तदा सन्तोषयेल्लक्ष्मीं सर्वाभीष्टफलप्रदाम् ।
एवं कृत्वा ततो लक्ष्मीं प्रासादान्तः प्रवेशयेत् ॥ १२० ॥

एवं प्रतिदिनं कुर्यान्नवम्यन्तं महोत्सवम् ।
सायं प्रातश्चतुःस्थानपूजनेन समन्वितम् ॥ १२१ ॥

नवमीदिवसे प्राप्ते प्राग्वत्कृत्वोत्सवादिकम् ।
रात्रौ विशेषयागान्ते कुण्डमण्डलमध्यगाम् ॥ १२२ ॥

श्रियं विसृज्य हृदये कुम्भं देव्यास्तु सन्निधिम् ।
समानीय समभ्यर्च्य श्रियं श्रीसूक्तमुच्चरन् ॥ १२३ ॥

कुम्भतोयेन सम्प्रोक्ष्य कौतुकं च विसृज्य च ।
हविरन्तं समभ्यर्च्य प्रणिपत्य क्षमापयेत् ॥ १२४ ॥

यजमानो दक्षिणाभिराचार्यादीन् प्रतोषयेत् ।
एवं यः कारयेद्भक्त्या महानवमिकोत्सवम् ॥ १२५ ॥

आयुष्यारोग्यमैश्वर्यं तेजः कीर्तिं च सन्ततिम् ।
सर्वाभीष्टांश्च सम्प्राप्य ब्रह्मसायुज्यमाप्नुयात् ॥ १२६ ॥

तदन्येद्युर्दशम्यां तु देवस्य मृगयोत्सवम् ।
वक्ष्यमाणेन विधिना कुर्याद्राष्ट्राभिवृद्धिदम् ॥ १२७ ॥

नवम्यामेव देवस्य तुरगं च विशेषतः ।
अलङ्कृतं तथास्त्रौघं देवस्य धनुरादिकम् ॥ १२८ ॥

वाहयंस्तु नदीतीरं सरस्तीरमथापि वा ।
समानीयाथ संस्नाप्य तुरगं चायुधादिकम् ॥ १२९ ॥

अलङ्कृत्य विशेषेण माल्यैर्वस्त्रादिकैस्तथा ।
छत्रध्वजपताकाद्यैर्नृत्तवाद्यरवैः सह ॥ १३० ॥

ग्रामप्रदक्षिणं नीत्वा आलयं सम्प्रवेशयेत् ।
तत्र देवस्य तुरगं तार्क्ष्यमन्त्रेण मन्त्रवित् ॥ १३१ ॥

समभ्यर्च्यार्घ्यगन्धाद्यैर्हविरन्तं समर्चयेत् ।
आयुधान्यर्चयेत्तद्वत्तत्तन्मन्त्रेण देशिकः ॥ १३२ ॥

दशम्यां देवदेवस्य कृत्वा नित्यार्चनं पुरा ।
यात्रामूर्तिगतं देवं नयेदास्थानमण्टपम् ॥ १३३ ॥

तं देवं तत्र संस्नाप्य पञ्चविंशतिभिर्घटैः ।
अलङ्कारासनेऽभ्यर्च्य निवेद्य च महाहविः ॥ १३४ ॥

देवमश्वे समारोप्य ततस्तु मृगयोचितैः ।
अलङ्कारैरलङ्कृत्य यात्रोपकरणैः सह ॥ १३५ ॥

भक्तैर्भागवतैः सार्धं सन्नद्धैः सायुधैर्भटैः ।
महावनं समानीय तत्र तत्र विशेषतः ॥ १३६ ॥

वानप्रस्थैस्तापसाद्यैरर्पितानि च भक्तितः ।
कन्दमूलफलादीनि विविधाः कुसुमस्रजः ॥ १३७ ॥

समर्प्य देवदेवाय वह्निवृक्षसमीपतः ।
नीत्वा प्रदक्षिणीकृत्य देवं तत्र प्रपादिके ॥ १३८ ॥

भद्रासने समावेश्य वह्निवृक्षस्य मूलतः ।
आयुधानि समभ्यर्च्य पुण्याहोक्तिपुरस्सरम् ॥ १३९ ॥

शमीपत्रं तु सङ्गृह्य मूलमन्त्रेण देशिकः ।
दत्त्वा देवस्य शिरसि अर्घ्याद्यैः सम्प्रपूज्य च ॥ १४० ॥

ताम्बूलं विनिवेद्याथ देशिकस्तदनुज्ञया ।
धनुर्बाणान् समादाय सर्वदिग्विजयाय च ॥ १४१ ॥

सर्वशत्रुविनाशाय राजराष्ट्राभिवृद्धये ।
चतुर्दिक्षु चतुर्बाणानूर्ध्वेऽधश्च शरद्वयम् ॥ १४२ ॥

प्रयुञ्जेदस्त्रमन्त्रेण धन्वनागेति वा ऋचा ।
ततोऽर्चयेद्देवदेवं विविधैरुपहारकैः ॥ १४३ ॥

सायङ्काले तु सम्प्राप्ते आरोप्याश्वे जगत्प्रभुम् ।
प्रदीपशतसंयुक्तं नानावाद्यसमन्वितम् ॥ १४४ ॥

ग्रामप्रदक्षिणं देवं मन्दिरान्तः प्रवेशयेत् ।
देवेशं नवभिः कुम्भैः स्नाप्यालङ्कृत्य देशिकः ॥ १४५ ॥

श्रीपुष्टिभ्यां सह विभुं हविरन्तं समर्चयेत् ।
एवं दशम्यां कर्तव्यमुत्सवं च प्रकीर्तितम् ॥ १४६ ॥

अतः परं प्रवक्ष्यामि दीपोत्सवमनुत्तमम् ।
वृश्चिकस्थे दिनकरे पौर्णमासी तु या द्विजाः ॥ १४७ ॥

चतुर्दश्या भरण्याश्च कलयाप्यरुणोदये ।
अविद्धा कृत्तिकायुक्ता ह्ययुक्ता वा मुनीश्वराः ॥ १४८ ॥

तस्यां वृषभकाले तु दीपारोपणमाचरेत् ।
द्वयोरहोः सज्जतिश्चेत्पर्वणस्त्वन्तिमे दिने ॥ १४९ ॥

ग्राह्यं पर्व कलामात्रमपि दीपोत्सवादिके ।
दीपं कुर्यात्प्रतिपदि त्वलब्धौ शुद्धपर्वणः ॥ १५० ॥

पर्वद्वये तु सम्प्राप्ते तस्मिन्मासे द्विजोत्तमाः ।
दीपोत्सवं तु मासान्तपर्वण्येव समाचरेत् ॥ १५१ ॥

तस्मिन् सङ्क्रान्तिदुष्टे तु पूर्वमेव समाचरेत् ।
उभयत्रापि सङ्क्रान्तौ कृत्तिकाभिः समन्विते ॥ १५२ ॥

पर्वण्येव मुनिश्रेष्ठा दीपारोपणमाचरेत् ।
पर्वद्वयं कृत्तिकाभिरयुक्तं चेत्तदा द्विजाः ॥ १५३ ॥

रोहिण्या वापि संयुक्ते पर्वण्युत्सवमाचरेत् ।
रोहिण्या अप्ययोगे तु तदा मासान्तपर्वणि ॥ १५४ ॥

सङ्क्रान्तियोगदुष्टेऽपि दीपारोपणमाचरेत् ।
अथ चन्द्रोपरागेण दुष्टं पर्व यदि द्विजाः ॥ १५५ ॥

प्राक्पश्चादुपरागस्य सन्त्यक्त्वा सप्त नाडिकाः ।
दीपं रात्र्यन्तरे कुर्याद्राजराष्ट्रसुखावहम् ॥ १५६ ॥

एवं सम्यग्विचार्याथ कुर्याद्दीपोत्सवं बुधः ।
तद्विधानं विस्तरेण वक्ष्यामि मुनिसत्तमाः ॥ १५७ ॥

तद्दिने देवदेवस्य मन्दिरं सर्वतो द्विजाः ।
प्रासादभागमारभ्य बहिरावरणान्तिमम् ॥ १५८ ॥

संक्षालयेच्छुद्धतोयैर्ब्राह्मणैः परिचारकैः ।
शलाकासहितैर्दर्भैः सहदेवीविमिश्रितैः ॥ १५९ ॥

मार्जयेत्सर्वतस्तत्रालेपयेद्गोमयाम्बुभिः ।
अस्त्रेण प्रोक्षयेत्पश्चात्पञ्चगव्यकुशाम्बुभिः ॥ १६० ॥

सुधाचूर्णैरलङ्कृत्य विकिरेदक्षतैर्भुवम् ।
वितानैः पुष्पमालाभिरलङ्कृत्य च सर्वतः ॥ १६१ ॥

चन्दनागरुकर्पूरधूपैः सर्वत्र धूपयेत् ।
ततोऽपराह्णे सम्प्राप्ते देशिको मूर्तिपैः सह ॥ १६२ ॥

प्रासादं सम्प्रविश्याथ मूलबिम्बगतं विभुम् ।
समभ्यर्च्यार्घ्यगन्धाद्यैस्तस्मादुत्सवकौतुके ॥ १६३ ॥

समावाह्य समभ्यर्च्य श्रीपुष्टिभ्यां समन्वितम् ।
यात्राबिम्बं भद्रपीठे निवेश्यास्थानमण्टपे ॥ १६४ ॥

पुष्पाङ्कुरं ततः कृत्वा मूलबिम्बादिषु द्विजाः ।
रक्षाबन्धं च विधिवत्कृत्वा देशिकसत्तमः ॥ १६५ ॥

चतुःस्थानार्चनं कुर्याद्यथोक्तविधिना ततः ।
संस्नापयेत्तदा देवं पञ्चविंशतिभिर्घटैः ॥ १६६ ॥

महता हविषा चैव अपूपैरुपहारकैः ।
अभ्यर्च्य देवदेवेशं कुर्याद्दीपाधिवासनम् ॥ १६७ ॥

मूलबिम्बस्य पुरतो धान्यपीठं प्रकल्पयेत् ।
सौवर्णं राजतं वापि ताम्रं मृण्मयमेव वा ॥ १६८ ॥

दीपपात्रं समादाय तस्मिन्नाढकसम्मितम् ।
गव्यमाज्यं समापूर्य वर्तिं तन्मध्यतो न्यसेत् ॥ १६९ ॥

नूतनैर्वस्त्रखण्डैर्वा कृतां कार्पासतन्तुभिः ।
तत्पात्रं धान्यपीठोर्ध्वे विन्यस्य मुनिपुङ्गवाः ॥ १७० ॥

तत्पात्रपरितश्चाष्टौ शरावान् घृतपूरितान् ।
सवर्तिकान् न्यसेत्तत्र प्रागादिषु यथाक्रमम् ॥ १७१ ॥

पुण्याहं वाचयित्वा तु प्रोक्षयेदस्त्रवारिणा ।
प्रदोषे दीपपात्राणि वाहयन् दीक्षितैर्द्विजैः ॥ १७२ ॥

गत्वा कुण्डसमीपं तु तत्र कुण्डस्थवह्निना ।
दीपान् प्रज्वाल्य नेत्रेण वाहयन् ब्राह्मणैस्तदा ॥ १७३ ॥

वेदघोषैर्वाद्यघोषैः साकं धामप्रदक्षिणम् ।
कृत्वा देवस्य पुरतः प्राग्वत्पीठे तु विन्यसेत् ॥ १७४ ॥

नेत्रेण वाग्निमन्त्रेण दीपमर्घ्यादिभिर्यजेत् ।
ततः शुभे मुहूर्ते तु वृषलग्ने गुरूत्तमः ॥ १७५ ॥

देवमर्घ्यादिनाभ्यर्च्य दीपपात्रं समुज्ज्वलम् ।
आदाय नेत्रमन्त्रेण उद्दीप्यस्वेति वा ऋचा ॥ १७६ ॥

प्रदर्श्य देवदेवाय सर्वमङ्गलसंयुतम् ।
परिचारकहस्ते तद्दीपं दत्त्वा ततो गुरुः ॥ १७७ ॥

तेन द्वारेषु सर्वेषु मण्टपावरणेषु च ।
विन्यस्ता दीपिकाः सर्वा दीपयेद्द्विजपुङ्गवाः ॥ १७८ ॥

तदानीमौत्सवं बिम्बं श्रीपुष्टिभ्यां समन्वितम् ।
यानमारोप्य वस्त्राद्यैरलङ्कृत्य विशेषतः ॥ १७९ ॥

यात्रोपकरणैः सार्धं प्रदीपानां सहस्रकैः ।
अधीयानैर्द्विजैश्चैव मन्त्राननलदेवतान् ॥ १८० ॥

प्रथमावरणाद्येषु सर्वेष्वावरणेष्वपि ।
भ्रामयेद्देवदेवेशं प्रादक्षिण्येन वै द्विजाः ॥ १८१ ॥

देवस्योत्सववेलायां सर्वत्रावरणादिषु ।
दीपा नानाविधाकाराः कल्पनीयाः समन्ततः ॥ १८२ ॥

तथा प्रासाददिग्भागे मण्टपे गोपुरेषु च ।
श्रियादीनां मन्दिरेषु परिवारालयेषु च ॥ १८३ ॥

धनधान्यादिगेहेषु तथा पुष्पालयादिके ।
दीपारोपं तदा कुर्याद्यात्राबिम्बस्य सन्निधौ ॥ १८४ ॥

ततस्तु देवदेवेशं गोपुरद्वारमानयेत् ।
तत्र द्विजा वक्ष्यमाणं विष्णुदीपं प्रकल्पयेत् ॥ १८५ ॥

शैलजं लोहजं वापि दारुजं वा यथारुचि ।
प्रासादोच्छ्रयमानं वा शततालमथापि वा ॥ १८६ ॥

तदर्धं वा तदर्धं वा दीपस्तम्भं समाचरेत् ।
चतुर्धा विभजेत्स्तम्भमेकांशं चतुरश्रकम् ॥ १८७ ॥

त्र्यंशं तूर्ध्वं षोडशाश्रमष्टाश्रं वृत्तमेव वा ।
एकहस्तं द्विहस्तं वा त्रिहस्तं वा घनं तथा ॥ १८८ ॥

स्तम्भाग्रे चतुरश्रं च पीठं कुर्यात्सपद्मकम् ।
तथा स्तम्भमलङ्कृत्य पत्रपुष्पलताद्यैः ॥ १८९ ॥

आहृत्यैवंविधं स्तम्भं बहिर्द्वारस्य बाह्यतः ।
संस्थापयेदन्तरालं स्तम्भगोपुरयोर्भवेत् ॥ १९० ॥

द्वात्रिंशद्धस्तमानं वा चतुर्विंशत्करं तु वा ।
रथयात्राऽविरोधेन ततोऽप्यधिकमेव वा ॥ १९१ ॥

यद्वा स्तम्भं गोपुरान्तः स्थापयेन्मुनिपुङ्गवाः ।
पीठगोपुरयोर्मध्ये यद्वा स्तम्भं प्रकल्पयेत् ॥ १९२ ॥

स्तम्भमूले चतुर्हस्तं त्रिहस्तं वायतं द्विजाः ।
तावन्मानेन विस्तीर्णं द्वित्रिहस्तोच्छ्रितं द्विजाः ॥ १९३ ॥

सार्धहस्तोच्छ्रितं वापि चतुरश्रं तु पीठकम् ।
शिलाभिरिष्टकाभिर्वा कल्पयेन्मुनिपुङ्गवाः ॥ १९४ ॥

स्तम्भाधस्तात्पूर्वभागे सिंहं दक्षे तु मारुतिम् ।
पश्चिमे वैनतेयं चाप्युत्तरे हंसमालिखेत् ॥ १९५ ॥

एवं कृते दीपदण्डे यथाशास्त्रं सुशोभने ।
मुहूर्ते तार्क्ष्यमन्त्रेण पूर्वमेव प्रतिष्ठिते ॥ १९६ ॥

तदा पूर्वोदितं दीपपात्रमारोपयेद्द्विजैः ।
इत्येवं विष्णुदीपस्य विधानं सङ्कीर्तितम् ॥ १९७ ॥

एवं कृत्वा ततो देवं नयेद्ग्रामप्रदक्षिणम् ।
तत्र तत्र ग्रामवीथ्यां दीपारोपणमाचरेत् ॥ १९८ ॥

तीर्थतीरेषु चोद्याने कूपतीरादिषु द्विजाः ।
चत्वरेषु च सर्वत्र दीपारोपणमाचरेत् ॥ १९९ ॥

गृहे गृहे तथा कुर्याद्गमयन् सर्ववीथिकाः ।
ततस्तु देवदेवेशं मन्दिरान्तः प्रवेशयेत् ॥ २०० ॥

आस्थानमण्टपे भद्रविष्टरे सन्निवेश्य तु ।
अर्घ्यादिभिः समभ्यर्च्य अपूपानुपहारकान् ॥ २०१ ॥

पायसादीन् तथा लाजान् ताम्बूलादीन्निवेदयेत् ।
अग्नौ सन्तर्पयेद्देवं प्रायश्चित्ताहुतीस्तथा ॥ २०२ ॥

घृतेनाष्टोत्तरशतं जुहुयाद्देशिकोत्तमः ।
ततो विसर्जयेद्देवं कुण्डमण्डलमध्यगम् ॥ २०३ ॥

कुम्भसम्प्रोक्षणादींस्तु प्राग्वदेव समाचरेत् ।
ततस्तु चौत्सवं बिम्बं प्रासादान्तः प्रवेशयेत् ॥ २०४ ॥

तत्र चावाहितां शक्तिं पुनर्मूले नियोजयेत् ।
यजमानो दक्षिणाभिराचार्यादीन् प्रतोषयेत् ॥ २०५ ॥

एवं यः कारयेद्भक्त्या दीपोत्सवमनुत्तमम् ।
इहलोके सुखं प्राप्य परलोके महीयते ॥ २०६ ॥

कार्तिक्यां पौर्णमास्यां हि कर्तव्यमिदमुत्सवम् ।
तोषकृद्देवदेवस्य विस्तरेण प्रकीर्तितम् ॥ २०७ ॥

कार्तिके मासि विप्रेन्द्राः शुक्लैकादशिका तु या ।
तस्यामुपोष्य रात्र्यां तु जागरेण जगत्पतिम् ॥ २०८ ॥

तत्कालोचितरागोत्थैस्तोषयित्वा तु गीतकैः ।
ब्राह्मे मुहूर्ते सम्प्राप्ते विशेषेण यजेद्विभुम् ॥ २०९ ॥

संश्रावयेद्गीतकानि स्तोत्राणि विविधाः कथाः ।
होमावसानं सर्वं तु सविशेषं समाचरेत् ॥ २१० ॥

तत्काले ये च गायन्ति तच्च शृण्वन्ति ये जनाः ।
तेषां पुण्यफलावाप्तिं कः शक्नोत्यभिवर्णितुम् ॥ २११ ॥

अतः परं प्रवक्ष्यामि मार्गशीर्षोत्सवं परम् ।
कोदण्डस्थे दिनकरे तत्काले सङ्क्रमे द्विजाः ॥ २१२ ॥

संस्नाप्य देवदेवेशमधमोत्तममार्गतः ।
अलङ्कारासनं नीत्वा ह्यर्घ्याद्यैः परिपूज्य च ॥ २१३ ॥

वासोभिर्भूषणैर्माल्यैर्गन्धैः कस्तूरिकादिभिः ।
अलङ्कृत्य च देवेशं विष्वक्सेनादिकांस्तथा ॥ २१४ ॥

तथैव भक्तबिम्बांश्च संस्नाप्य नवभिर्घटैः ।
अलङ्कृत्य विशेषेण यजेदर्घ्यादिभिः क्रमात् ॥ २१५ ॥

ततस्तु देवदेवेशं नीत्वा भोज्यासनं शुभम् ।
मुद्गान्नं पायसान्नं च शर्कराघृतसंयुतम् ॥ २१६ ॥

नानाविधानि भक्ष्याणि विविधानि फलानि च ।
ताम्बूलं मुखवासं च विनिवेद्य यथाविधि ॥ २१७ ॥

निवेदितान्नभक्ष्यादीन् विष्वक्सेनादिकस्य च ।
भक्तानां च निवेद्याथ देवदेवं श्रियः पतिम् ॥ २१८ ॥

प्रदक्षिणीकृत्य तदा प्रणम्य च यथाविधि ।
तोषयेद्वैष्णवैर्देवं स्तोत्रैर्नानाविधैस्तथा ॥ २१९ ॥

संस्कृतैर्द्रामिडैर्वापि देवपारम्यसूचकैः ।
मानसं ध्यानमित्युक्तं कायिकं कर्म चोच्यते ॥ २२० ॥

वाचिकं स्तोत्रमित्युक्तं त्रिविधैस्तोषयेत्प्रभुम् ।
ततस्तु वैष्णवाग्र्याणां वैष्णवस्तुतिगायिनाम् ॥ २२१ ॥

तीर्थं निवेदितान्नादीन् दद्याद्देवस्य सन्निधौ ।
वैष्णवा भगवद्भक्ता गृहीत्वा विनयान्विताः ॥ २२२ ॥

पीत्वा तीर्थं प्रसादं च भक्षयेयुर्देवसन्निधौ ।
आरभ्य सङ्क्रमादेवं मासान्तं मुनिपुङ्गवाः ॥ २२३ ॥

अरुणस्योदयात्पूर्वं समाराध्य यथाविधि ।
मुद्गान्नपायसान्नादीन् भक्ष्याणि विविधानि च ॥ २२४ ॥

निवेदयेच्च देवाय भक्तेभ्यश्च दिने दिने ।
भक्तप्रणीतगाथाभिः स्तुवीत पुरुषोत्तमम् ॥ २२५ ॥

तस्मिन् मासे विशेषेण देवदेवस्य सन्निधौ ।
सर्पिषा तिलतैलैर्वा दीपारोपणमाचरेत् ॥ २२६ ॥

त्रिंशद्दिने विशेषेण दीपमारोपयेत्तु यः ।
इह भुक्त्वाखिलान् भोगान् विष्णुलोकं स गच्छति ॥ २२७ ॥

एवं त्रिंशद्दिनं कुर्यादर्चनं त्वरुणोदये ।
तस्मिन्नन्त्ये दशदिने विशेषोत्सवमाचरेत् ॥ २२८ ॥

उत्सवारम्भपूर्वेद्युर्निशायामङ्कुरार्पणम् ।
रक्षाबन्धं च विधिवत्कृत्वा देशिकसत्तमः ॥ २२९ ॥

उत्सवारम्भदिवसादारभ्यान्त्यदिनावधि ।
चतुःस्थानार्चनं कुर्यात्सायम्प्रातर्यथाविधि ॥ २३० ॥

आरम्भे चावसाने च स्नपनं प्राग्वदाचरेत् ।
द्वितीयावरणादौ वा गोपुराद्बहिरेव वा ॥ २३१ ॥

कल्पयेद्देवदेवस्य महामण्टपमुत्तमम् ।
वितानैः फलपुष्पैश्च दर्पणैश्चामरादिभिः ॥ २३२ ॥

अलङ्कुर्याद्विशेषेण यथालोचनसुप्रियम् ।
मध्याह्ने देवदेवेशं श्रीपुष्टिभ्यां समन्वितम् ॥ २३३ ॥

शिबिकायां समारोप्य ह्यलङ्कृत्य विशेषतः ।
विष्वक्सेनादिभिश्चैव भक्तबिम्बादिभिः सह ॥ २३४ ॥

यात्रोपकरणैः सार्धं कृत्वा ग्रामप्रदक्षिणम् ।
महामण्टपमानीय तत्र वै सिंहविष्टरे ॥ २३५ ॥

देवमारोप्य देवीभ्यां विष्वक्सेनादिकानपि ।
देवस्याभिमुखं स्थाप्य ह्यलङ्कारासनोदितैः ॥ २३६ ॥

भोगैर्देवं समभ्यर्च्य भक्तबिम्बांश्च देशिकः ।
सदागमादिकान्वेदांस्तथा दिव्याश्च संहिताः ॥ २३७ ॥

इतिहासपुराणानि स्तोत्रं दैवं च मानुषम् ।
वेदोपबृंहणं चान्यत्संस्कृतं प्राकृतं तु वा ॥ २३८ ॥

भाषान्तरगतं वापि तदा संश्रावयेद्विभुम् ।
ततस्त्वष्टविधान्नानि भक्ष्याणि विविधानि च ॥ २३९ ॥

पृथुकान्नालिकेरेक्षुकदलीचणकादिकान् ।
नालिकेरोदकादीनि ताम्बूलमुपहारकान् ॥ २४० ॥

निवेद्य देवदेवाय भक्तेभ्यश्च यथाक्रमम् ।
निवेदितान्नभक्ष्यादीन् वैष्णवेभ्यः प्रदापयेत् ॥ २४१ ॥

ततस्तु देवदेवेशं श्रीपुष्टिभ्यां समन्वितम् ।
शिबिकायां समारोप्य भक्तबिम्बादिभिः सह ॥ २४२ ॥

सविलासं नयेत्तत्र मण्टपे द्विजसत्तमाः ।
तत्काले भक्तबिम्बानां सम्मानं च समाचरेत् ॥ २४३ ॥

वेदघोषैः स्तोत्रघोषैर्गद्यपद्यात्मकैः स्तवैः ।
वीणावेणुरवैश्चैव नृत्तगीतादिभिः सह ॥ २४४ ॥

मण्टपं द्विः परिभ्राम्य पुनः सिंहासने विभुम् ।
समारोप्य समभ्यर्च्य सायङ्काले विशेषतः ॥ २४५ ॥

चतुःसहस्रिकामात्रां द्रामिडीं स्तुतिमुत्तमाम् ।
गापयेद्वैष्णवैस्तत्र नैवेद्यान्ते दिने दिने ॥ २४६ ॥

ततस्तु देवदेवेशं पूर्वोक्तविधिना द्विजाः ।
धामप्रदक्षिणं नीत्वा मन्दिरान्तः प्रवेशयेत् ॥ २४७ ॥

आस्थानमण्टपं नीत्वा कृत्वा नित्यार्चनं विभोः ।
चतुःस्थानार्चनं चापि कृत्वा स्वस्थानमानयेत् ॥ २४८ ॥

एवं दशदिनं कुर्यादुत्सवं मुनिसत्तमाः ।
उत्सवान्ते तु कुम्भादिगतं देवं यथाविधि ॥ २४९ ॥

विसर्जयेत्ततो देवं प्रणिपत्य क्षमापयेत् ।
यजमानो दक्षिणाभिराचार्यादीन् प्रतोषयेत् ॥ २५० ॥

मार्गशीर्षोत्सवविधिरित्येवं सम्प्रकीर्तितः ।
मकरस्थे दिनकरे तत्काले सङ्क्रमे द्विजाः ॥ २५१ ॥

संस्नाप्य देवदेवेशं पञ्चविंशतिभिर्घटैः ।
अलङ्कृत्य विशेषेण हविरादीन्निवेदयेत् ॥ २५२ ॥

तत्काले यजमानश्च गोभूस्वर्णादिकांस्तथा ।
कूष्माण्डव्रीहिदानं च कुर्याद्देवस्य तुष्टये ॥ २५३ ॥

तदन्येद्युर्देवदेवं समभ्यर्च्य विशेषतः ।
अश्वरत्ने समारोप्य देवमुत्सवबिम्बगम् ॥ २५४ ॥

पूर्वोक्तविधिना कुर्यान्मृगयोत्सवमुत्तमम् ।
वने वने समानीय सविलासं जगत्पतिम् ॥ २५५ ॥

तत्र तत्र विशेषेण समभ्यर्च्य यथाविधि ।
मृगयां कारयेत्पश्चात्सविनोदं मुनीश्वराः ॥ २५६ ॥

वराहवारणव्याघ्रकृष्णसारशशादिकान् ।
मध्ये कृत्वा तु परितः सेनां विन्यस्य सायुधाम् ॥ २५७ ॥

अतिशूरभटास्तत्र मध्ये संविश्य यत्नतः ।
जीवग्राहं मृगान् बद्ध्वा नयेयुर्देवसन्निधिम् ॥ २५८ ॥

ततो विमोचयेत्सर्वान्मृगानेकैकशः क्रमात् ।
हतानां वा मृगाणां च भवेत्पुण्यगतिर्ध्रुवम् ॥ २५९ ॥

ततस्तु देवदेवेशं मण्टपे वा प्रपादिके ।
भद्रासने समारोप्य समभ्यर्च्य विशेषतः ॥ २६० ॥

सायङ्काले तु सम्प्राप्ते पूर्वोक्तविभवैः सह ।
ग्रामप्रदक्षिणं नीत्वा मन्दिरान्तः प्रवेशयेत् ॥ २६१ ॥

संस्नाप्य देवदेवेशमलङ्कृत्य यथाविधि ।
श्रीपुष्टिभ्यां सह विभुं हविरन्तं समर्चयेत् ॥ २६२ ॥

एवं हि देवदेवस्य मृगयोत्सव ईरितः ।
प्रतिसंवत्सरं त्वेवं देवस्य सकलोत्सवान् ॥ २६३ ॥

यः कारयति विप्रेन्द्राः स तु साम्राज्यसंयुतः ।
इह लोके सुखं भुक्त्वा चिरं भोगान् यथेप्सितान् ॥ २६४ ॥

देहसन्न्यासकाले तु प्राप्नोति भगवत्पदम् ।
इति सङ्कीर्तिताः सम्यग्देवस्य सकलोत्सवाः ॥ २६५ ॥

Unnummerierter abschließender Halbvers; redaktionelle Kennung 265z.

इतोऽन्यच्छ्रोतुमिच्छा चेत्कथ्यतां मुनिपुङ्गवाः ।

इति श्रीपाञ्चरात्रे ईश्वरसंहितायां पक्षोत्सवादिविधिर्नाम त्रयोदशोऽध्यायः ॥


Kapitel 14 – पवित्रोत्सवादिविधिः / pavitrotsavādividhiḥ

Siehe deutsche Übersetzung und Texthinweise.

मुनयः ।

शयनस्थे जगन्नाथे चातुर्मास्यस्य मध्यतः ।
पवित्रारोपणं कार्यमित्युक्तं भवता पुरा ॥ १ ॥

तद्विधानं विस्तरेण वदस्व वदतां वर ।
नारदः ।
वक्ष्ये लोकहितार्थाय पवित्रारोपणक्रमम् ॥ २ ॥

शृणुध्वं सावधानेन चेतसा मुनिपुङ्गवाः ।
लोपबुद्धिं विना यस्य भोगानामप्यसम्भवः ॥ ३ ॥

सामर्थ्येन विना यस्य कृच्छ्रादीनां परिच्युतिः ।
ज्वरादिव्याधिदोषेण जातो यस्याह्निकक्षयः ॥ ४ ॥

चातुर्मास्यस्य वाऽप्राप्तिर्यस्य स्वातन्त्र्यतो विना ।
तस्य तस्य महाबुद्धे शृणु यद्विहितं हितम् ॥ ५ ॥

सांस्पर्शिकानां भोगानां मात्रावित्तं हि पूरणम् ।
हृदयङ्गमसंज्ञानामन्नं च हविषाऽऽप्लुतम् ॥ ६ ॥

औपचारिकभोगानां बीजानि विहितानि वै ।
कृच्छ्रचान्द्रायणादीनां व्रतानां परिपूरकः ॥ ७ ॥

विशेषार्चनसंयुक्तश्चातुर्मास्यस्य संयमः ।
सौत्रं प्रतिसरं चित्रं मुक्ताहारोपमं शुभम् ॥ ८ ॥

शमं नयति भक्तानां सर्वदा लोपमाह्निकम् ।
तच्च मासचतुष्कस्य मध्ये कुर्याच्छुभे दिने ॥ ९ ॥

आषाढपञ्चदश्यास्तु यावद्वै कार्तिकस्य च ।
सम्पूर्णं चन्द्रदिवसं तं कालं चान्द्रमन्तिमम् ॥ १० ॥

आकर्कटकसङ्क्रान्तेस्तुलाभोगक्षयावधि ।
कालं तमष्टपक्षं च सौरं मध्यमसंज्ञितम् ॥ ११ ॥

एकादश्यां दिनान्तो यश्चातुर्मास्योपलक्षितः ।
कालं तं वैष्णवं विद्धि तूत्तमं सर्वसिद्धिदम् ॥ १२ ॥

अप्राप्तेरस्य कालस्य त्वन्तरायेण केनचित् ।
निर्वाहणीयोऽप्यपरः कालश्चान्द्रायणादिना ॥ १३ ॥

सम्पाद्यश्चैव तन्मध्ये विधिवद्यागपूर्वकम् ।
प्रासादस्याग्रतः कुर्यात्तदर्थं मण्टपं द्विजाः ॥ १४ ॥

प्रथमावरणे वापि द्वितीयावरणेऽपि वा ।
तृतीयावरणे वाथ चतुर्थे पञ्चमेऽपि वा ॥ १५ ॥

अग्र्यालाभे तदन्यत्र यथा वाञ्छितदिग्गतम् ।
चतुरश्रं समं वापि प्राक्पश्चिमदिगायतम् ॥ १६ ॥

सौम्ययाम्यायतं वापि कर्तुरिच्छानुरूपतः ।
तथा प्रागाननं यद्वा यथाभिमतदिङ्मुखम् ॥ १७ ॥

द्वाविंशतिधनुर्मानं मण्टपं चोत्तमं भवेत् ।
अष्टादशधनुर्मानं मण्टपं मध्यमं भवेत् ॥ १८ ॥

अधमं द्वादशधनुर्मानं स्यादथ वा द्विजाः ।
पञ्चहस्तात्समारभ्य द्विद्विहस्तप्रवर्धनात् ॥ १९ ॥

त्रिसप्तकरपर्यन्तं मानेनैवविधं भवेत् ।
यद्वोत्तमं दशकरं मध्यमं चाष्टहस्तकम् ॥ २० ॥

षड्ढस्तं त्वधमं विद्यात् क्षुद्रं हस्तत्रयायतम् ।
त्रिंशत्करावसानं वा षट्करात्पञ्चविंशतिः ॥ २१ ॥

एकं सङ्गृह्य मानेषु ह्येषु वित्तानुरूपतः ।
सोपपीठमधिष्ठानं केवलं वा मसूरकम् ॥ २२ ॥

अधिष्ठानोपरि स्तम्भं प्रस्तरं च त्रिवर्गकम् ।
कपोतप्रतिसंयुक्तं यद्वोक्ताकृतिवर्जितम् ॥ २३ ॥

एकत्रिपञ्चसप्तादिभित्तिभेदैः समावृतम् ।
प्रत्यङ्गोक्तैरलङ्कारैर्युक्तं वा तद्विवर्जितम् ॥ २४ ॥

शिलयेष्टकया वापि पक्वया वाप्यपक्वया ।
एकद्वारं चतुर्द्वारं यद्वा द्वारद्वयान्वितम् ॥ २५ ॥

भित्तियुक्तमयुक्तं वा कोणभित्तियुतं तु वा ।
केवलं वा प्रपामात्रमुक्तलक्षणवर्जितम् ॥ २६ ॥

क्षिप्रकर्मप्रसिद्ध्यर्थं शरकाष्ठमयं शुभम् ।
गवाक्षकान्वितं चैव द्वारैस्तु परिभूषितम् ॥ २७ ॥

छन्नं वितानकेनोर्ध्वे प्रासादं परिकल्पयेत् ।
क्षेत्रसङ्कोचविस्तारौ कर्तुरिच्छानुसारतः ॥ २८ ॥

शिल्पशास्त्रानुसारेण कृत्वैवं मण्टपं द्विजाः ।
यागार्थं सुशुभं विप्रास्तन्मध्येऽथ प्रकल्पयेत् ॥ २९ ॥

मसूरकमधिष्ठानं वास्त्वाधारं धरातलम् ।
दृढां समां तदाकारामीषत्प्रागुत्तरप्लवाम् ॥ ३० ॥

प्रोच्छ्रितां च विशेषेण स्थलीं दर्पणसन्निभाम् ।
सामान्या न भवेद्येन मेदिनी मण्टपस्य तु ॥ ३१ ॥

द्विद्विकेनाङ्गुलानां तु प्रोन्नतेर्यावदष्टकम् ।
एकवृद्ध्याल्पमानानां यागानां तु स्थलाङ्गणम् ॥ ३२ ॥

नवाङ्गुलोन्नतेस्तावद्यावत्पञ्चदशाङ्गुलम् ।
प्रोन्नतत्वं स्थलानां च मध्यमानां मितात्मनाम् ॥ ३३ ॥

चतुर्विंशत्यङ्गुलान्तमुच्छ्रायं षोडशाङ्गुलात् ।
प्रागुक्तवृद्ध्या कर्तव्यं ज्येष्ठमानां मितात्मनाम् ॥ ३४ ॥

एवमुच्छ्रायमानं च कथितं च स्थलीषु हि ।
पादमर्धं तु हस्तं वा विस्तारात्सर्वदिक्षु वै ॥ ३५ ॥

स्थलीनामिष्टकाद्यैश्च चिन्वीयात्प्रथमं ततः ।
मृदा सम्पूर्य तन्मध्यमीषद्वालुकयान्वितम् ॥ ३६ ॥

परीक्ष्य केशकीटादीनाकोट्य तदनन्तरम् ।
यावद्भवति पूर्वोक्तलक्षणं वा विशेषतः ॥ ३७ ॥

स्थलीं मध्योन्नतां रम्यां सप्ताहं सम्परीक्ष्य सा ।
न ददाति यदा भेदं यागयोग्या भवेत्तदा ॥ ३८ ॥

तदूर्ध्वे वेदिकां कुर्यादनेकचरणान्विताम् ।
तोरणैश्च समायुक्तां विभवेच्छानुसारतः ॥ ३९ ॥

पावनैर्यज्ञकाष्ठैश्च सुदृढैः सरलैः समैः ।
यथालक्षणयुक्तानि तोरणानि चतुर्दिशि ॥ ४० ॥

द्वाराणां बाह्यतो विप्रास्तदन्तर्वा नियोजयेत् ।
त्रीणि त्रीण्यथ वा सम्यगेकैकस्यां न्यसेद्दिशि ॥ ४१ ॥

बुध्वा मण्टपविस्तारं पञ्चकं सप्तकं तु वा ।
एतानि हेमरत्नाद्यैश्चित्रयेद्विभवे सति ॥ ४२ ॥

श्रीवृक्षोदुम्बरवटप्लक्षोत्थैरथ वा द्विजाः ।
पूर्वाद्युत्तरपर्यन्तं तोरणानां चतुष्टयम् ॥ ४३ ॥

चतुष्टयं चतुर्दिक्षु शेषामेकैकमेव वा ।
तोरणानां समुच्छ्रायः स्तम्भायामसमः स्मृतः ॥ ४४ ॥

स्तम्भद्वयान्तरस्थेन मानेन स्यात्तु विस्तृतिः ।
स्तम्भमस्तकमानेन साधिकेन सदैव हि ॥ ४५ ॥

तद्दण्डान् विन्यसेद्भूमौ स्तम्भाभ्यन्तरगा स्थितिः ।
सदैव ह्रस्वरूपाणां कार्या वेदविदां वराः ॥ ४६ ॥

द्वाराणां बाह्यतो विप्रास्तोरणानां यदा स्थितिः ।
तलाच्छिखरपर्यन्तं मानमुच्छ्रायतस्तदा ॥ ४७ ॥

सार्धं समं वा द्विगुणं तद्दण्डेषु च भूगतम् ।
चक्रद्वितयमध्यस्थं पक्षमण्डलमण्डितम् ॥ ४८ ॥

तोरणे तोरणे कुर्याद्गरुडं चोर्ध्वसंस्थितम् ।
तत्पार्श्वयोश्चक्रचिह्नौ नानावर्णध्वजौ न्यसेत् ॥ ४९ ॥

सितरक्तादिभेदेन प्रागादौ तु ध्वजाष्टकम् ।
निवेश्य मध्यवेद्यां तु प्रभवाप्यययोगतः ॥ ५० ॥

मत्स्यादीनवतारांश्च प्रादुर्भावाननेकशः ।
चित्रोदितेन विधिना चतुर्दिक्षु समालिखेत् ॥ ५१ ॥

मुनिसिद्धामरव्रातैरनेकाद्भुतदर्शिभिः ।
द्वीपाचलवनोद्यानैर्बहुभिर्मृगयूथपैः ॥ ५२ ॥

सरस्सारसकह्लारजल्क्रीडापरान्वितैः ।
खेचरैरङ्गनायुक्तैर्नृपैर्विद्याधराधिपैः ॥ ५३ ॥

प्रशान्तमानसैर्विप्रैरात्मध्यानपरायणैः ।
एवमाद्यैरनन्तैश्च व्यापारैश्चित्रसम्भवैः ॥ ५४ ॥

तद्यागवेश्म सकलं रञ्जनीयं प्रयत्नतः ।
कुर्यात्सुधावलिप्तं वा भूषयेत्तदनन्तरम् ॥ ५५ ॥

दर्पणैश्चामरैर्वस्त्रैर्दुकूलैर्विविधोज्ज्वलैः ।
घण्टाभिरर्धचन्द्राद्यैरातपत्रैर्मनोहरैः ॥ ५६ ॥

प्रोच्छ्रितैः कदलीपूगैर्द्रुमाङ्गैः पावनैर्दृढैः ।
मध्वाज्यदधिसत्क्षीरसम्पूर्णैः कांस्यभाजनैः ॥ ५७ ॥

शालितण्डुलपात्रैश्च सहिरण्यैः फलैः शुभैः ।
लाजसिद्धार्थकैर्बीजभाजनैः षड्रसान्वितैः ॥ ५८ ॥

सत्सुगन्धैस्त्वगेलाद्यैः पर्णैः पूगफलैस्तथा ।
मधूकबदरद्राक्षाङ्घ्रिभिर्निष्फलैः फलैः ॥ ५९ ॥

यथर्तुप्रभवैः पुष्पैर्बहुभिः प्रकरीयकैः ।
इत्येवमाद्यैर्विविधैर्भोगपूगैस्तु पावनैः ॥ ६० ॥

पवित्रेण वितानेन सुसितेनोज्ज्वलेन वा ।
चक्राम्बुरुहचिह्नेन भूषयेच्च तदूर्ध्वतः ॥ ६१ ॥

स्तम्भान् संवेष्टयेत्पश्चाद्दुकूलैर्विविधैः पृथक् ।
प्रागुत्तरादिदिग्भागाद्यावत्कोणं च मारुतम् ॥ ६२ ॥

सितादिवर्णभेदोत्थाः पताकास्तत्र योजयेत् ।
एवं रागविभागेन प्रत्यग्भागाच्च वै पुनः ॥ ६३ ॥

दक्षिणाशावधिर्यावद्द्वितीयं च चतुष्टयम् ।
एकैव स्वर्णवर्णा च नाभौ कार्या वितानके ॥ ६४ ॥

बाह्यतो वेदिकायास्तु मण्टपस्य दिगष्टके ।
वह्निकोणात्समारभ्य यावत्कोणं तु शाङ्करम् ॥ ६५ ॥

सितारुणं च पीतं च कृष्णं कुर्याच्चतुष्टयम् ।
भूयश्चोत्तरदिग्भागाद्यावत्पश्चिमदिक् द्विजाः ॥ ६६ ॥

तथाविधं चतुष्कं तु ध्वजानां परिकीर्तितम् ।
राजपाषाणवर्णाभं चक्रपक्षीश्वरोपगम् ॥ ६७ ॥

वैजयन्तीत्रयं कुर्यात्तोरणे पूर्वदिक्स्थिते ।
दक्षिणे स्फटिकाभं तु आप्ये सिन्दूरवर्चसम् ॥ ६८ ॥

हेमाभं चोत्तरे कुर्यात्तोरणे ध्वजकत्रयम् ।
चतुष्केण पताकानां युक्तं श्वेतादिकेन च ॥ ६९ ॥

एकैकं तोरणं वात्र त्रितयं पञ्चकं तु वा ।
अर्धेन तोरणायामात्पताकानां च दीर्घता ॥ ७० ॥

एवं त्वभिनवं कृत्वा यागार्थं मण्टपं द्विजाः ।
स्नपनाद्युत्सवान्तस्य वैशेषिकगणस्य च ॥ ७१ ॥

पुरा प्रकल्पितं वाथ मण्टपं भूषयेत्तदा ।
एवं कृते ततः पश्चाद्वेदिकां तोरणैः सह ॥ ७२ ॥

विलिप्य चन्दनाद्यैस्तु गन्धवर्णोज्ज्वलैः क्रमात् ।
चन्दनेन समालभ्य वेदिकां केवलेन च ॥ ७३ ॥

बाह्लीकभावितेनैव तेनैवाद्यं च तोरणम् ।
लिप्तं मृगमदेनैव कुर्याद्दक्षिणदिग्गतम् ॥ ७४ ॥

तुषारधूलीधवलं पश्चिमं कारयेत्ततः ।
कुङ्कुमेन समालभ्यं केवलेनोत्तरे स्थितम् ॥ ७५ ॥

क्षीरेण चन्दनेनैव कुङ्कुमेन कृतां स्थलीम् ।
रजनीचूर्णयुक्तेन ह्रीबेरणाम्बुना सह ॥ ७६ ॥

पुण्यगन्धौषधीभिस्तु द्वाराणां मण्टपावनिम् ।
ततस्तु विविधैर्धूपैर्बहुभिर्धूपयेद्द्विजाः ॥ ७७ ॥

ततस्तिरस्करिण्या तद्वेष्टयेत्सर्वतो बहिः ।
मण्टपस्योत्तरे भागे कुर्यात्कुण्डं पुरेव तु ॥ ७८ ॥

यद्वा द्विजास्ततोऽन्यत्र यागाग्रस्था च वर्ज्यदिक् ।
दिक्त्रयेऽभिमता या दिक्कुर्यादनलमण्टपम् ॥ ७९ ॥

धूमनिर्गमनोपेतं नानाकुण्डविभूषितम् ।
सान्द्रैश्च सुपलाशैश्च संयुक्तं तोरणादिकैः ॥ ८० ॥

यद्वा पचनगेहे तु कुण्डं कुर्यात्सलक्षणम् ।
अन्यनैमित्तिकार्थं तु पुरा क्लृप्तं तु वा भवेत् ॥ ८१ ॥

यागमण्टपविन्यासं सर्वत्रैवं समाचरेत् ।
एवं कृते ततः कुर्यात्सम्भारग्रहणं द्विजाः ॥ ८२ ॥

तत्र तावत्पवित्राणां निर्माणमधुनोच्यते ।
तेषां तु द्विविधं रूपं सूक्ष्मस्थूलविभेदतः ॥ ८३ ॥

सर्वभावेन भक्तानां यत्पालयति सर्वदा ।
मनोवाक्चित्तजं कृत्स्नं व्यापारं शुभलक्षणम् ॥ ८४ ॥

परिज्ञेयमतस्तस्मात्स्वरूपं तस्य यादृशम् ।
फलमेति च वै येन भक्तानां तत्समापनात् ॥ ८५ ॥

यदच्छिन्नं जगद्योनेरनन्तप्रसरं सितम् ।
विच्छेदमकृतज्ञानामेति नानात्मना स्वयम् ॥ ८६ ॥

जगत्सूत्रं तु तद्विद्धि हेमसूत्रादिना तु वै ।
षाड्गुण्यमहिमानं यद्धत्ते प्रतिसरात्मना ॥ ८७ ॥

ज्ञानरागोपरक्तं तु युक्तं कार्यैस्तु वीर्यजैः ।
तैजसैरावृतं मन्त्रैर्बलेनावासितं परि ॥ ८८ ॥

ऐश्वर्यमुपचारे तु सम्पत्तौ शक्तितोऽव्ययम् ।
एवं पवित्रकं तावत्परिज्ञेयं जगत्प्रभोः ॥ ८९ ॥

ब्रह्मण्याधिपतौ विष्णौ तदाकारे प्रतिष्ठिते ।
भक्त्या च विधिवद्दत्तं ददाति भगवत्पदम् ॥ ९० ॥

स्थूलस्य व्यतिरिक्तस्य व्यवहारपदे स्थितेः ।
पदार्थैः कल्पनीयं च तद्विधानमिहोच्यते ॥ ९१ ॥

सूक्ष्मं दृढं सितं श्लक्ष्णं सूत्रं ब्रह्मप्रसूतया ।
विनिर्मितं कुमार्या वा वृद्धया वा विनीतया ॥ ९२ ॥

शुद्धया वा विधवया सम्पादितमथापि वा ।
क्षौमं वा पट्टजं वापि केशरोमादिवर्जितम् ॥ ९३ ॥

यथालब्धं समादाय सम्यक्प्रक्षाल्य वारिणा ।
तस्य शुद्धिं पुरा कृत्वा दहनाप्यायनेन च ॥ ९४ ॥

अवलोक्य स्मरन्मूलं विनिष्पाद्य चतुर्गुणम् ।
चातुरात्म्यव्यपेक्षायामथ वाष्टगुणं द्विजाः ॥ ९५ ॥

प्रभवाप्ययबुद्ध्या तु भेदभित्रोपलक्षितम् ।
केशवादिष्वधिष्ठातृभावेन त्रिचतुर्गुणम् ॥ ९६ ॥

तन्तुभिर्विषमैर्विष्णोः समस्य परिवर्जयेत् ।
पावित्रिकी क्रिया यस्माद्विषमा सा न कस्य चित् ॥ ९७ ॥

पवित्रकाणि कार्याणि तन्तुभिस्तैः सितासितैः ।
मूलमन्त्रादिसर्वेषां मन्त्राणां मुनिसत्तमाः ॥ ९८ ॥

कुम्भस्थमन्त्रमूर्तेः प्राक्कल्पयेद्भूषणं द्विजाः ।
अध्यर्धशतजैर्व्यासाद्धाराकारैश्च तन्तुभिः ॥ ९९ ॥

शतेनाष्टोत्तरेणाद्यं द्विगुणेन द्वितीयकम् ।
त्रिगुणेन तृतीयं तु व्यासमेवं तु तन्नयेत् ॥ १०० ॥

षट्त्रिंशद्ग्रन्थिकं चाद्यं द्वितीयं द्विगुणं स्मृतम् ।
तृतीयं त्रिगुणं कुर्यादेवमेव महामतिः ॥ १०१ ॥

मण्डलस्थस्य च विभोस्तथा वह्निगतस्य च ।
बिम्बस्थस्य पवित्राणां विशेषोऽप्यवधार्यताम् ॥ १०२ ॥

मालाकृतिं तु शिरसि यथेच्छग्रन्थिपूर्वकम् ।
द्वितीयमंसयोर्यावलम्बितं जानुमण्डले ॥ १०३ ॥

मूर्ध्नः पादावधिर्यावत्तृतीयमिति विश्रुतम् ।
आमूर्ध्नः पीठपर्यन्तं वनमालापवित्रकम् ॥ १०४ ॥

पृथक्पीठस्य वै कुर्यात्स्वप्रमाणेन शोभनम् ।
बिम्बप्रतिसराणां च व्यासश्चानियतः स्मृतः ॥ १०५ ॥

सूत्रमानं च पूर्वोक्तं द्विगुणं सति सम्भवे ।
त्रिगुणं वा मुनिश्रेष्ठाः वनमालाख्यभूषणम् ॥ १०६ ॥

अष्टोत्तरेण सूत्राणां सहस्रेण समन्वितम् ।
यद्वा तदर्धं पादं वा कुर्याद्वित्तानुरूपतः ॥ १०७ ॥

लेपभित्तिपटस्थे तु मूलबिम्बे यदा द्विजाः ।
कुर्यादुत्सवबिम्बस्य भूषणानां तु पञ्चकम् ॥ १०८ ॥

तदापि मूलबिम्बस्य भूषणान्यपि पूर्ववत् ।
कल्पयेदाद्यपूर्वाणि बिम्बप्रतिसरेषु तु ॥ १०९ ॥

विभवे देवदेवेशे हारपञ्चकसंयुतम् ।
नानाकाराणि तन्तूनि मुक्ताहारसमन्वितम् ॥ ११० ॥

त्र्यङ्गुलान्तरिता देयाः सर्वेषां ग्रन्थयः समाः ।
सङ्ख्यानेन विना सम्यङ्मातुलुङ्गोपमाः शुभाः ॥ १११ ॥

अष्टोत्तरशतग्रन्थिसंयुक्ता वनमालिका ।
चतुःस्थानावतीर्णस्य विभोरामन्त्रणाय च ॥ ११२ ॥

पवित्रमाद्यसदृशमेकैकं वा द्वयं द्वयम् ।
सर्वेषां कर्मबिम्बानां तथा वै गोपुरादिषु ॥ ११३ ॥

स्थितानां मन्त्रबिम्बानां भजतां सन्निधिं सदा ।
उत्तमादीनि कर्माणि कुर्याद्वै मुख्यकल्पने ॥ ११४ ॥

प्रकल्पयेत्तत्सदृशं मध्यमेनोत्तमेन वा ।
द्वितयं द्वितयं वापि ह्येकैकं वानुकल्पने ॥ ११५ ॥

अङ्गानां भूषणानां च लाञ्छनानां तथैव च ।
शक्तीनां विहगेशस्य पवित्रं कल्पयेत्तथा ॥ ११६ ॥

प्राग्वत्त्रीण्यथ वा द्वे द्वे एकैकं वाथ वा द्विजाः ।
यथेच्छामानसंख्योत्थैः सूत्रैस्तु परिकल्पयेत् ॥ ११७ ॥

सूत्रग्रामसमोपेतैर्गर्भैर्भूषणसञ्चयम् ।
अन्येषां मण्डलाङ्गानां देवानां विभवे सति ॥ ११८ ॥

पवित्रकगणं कुर्याद्यथेच्छाग्रन्थितन्तुभिः ।
तथैव विष्वक्सेनादेः परिवारगणस्य च ॥ ११९ ॥

मन्त्रास्त्रकुम्भयोर्द्वे वै ह्येकं वै मण्डलस्य च ।
द्वयं च कुण्डानलयोः शास्त्रपीठस्य च द्वयम् ॥ १२० ॥

लिपिवर्णत्वभूतस्य शब्दतत्त्वस्य च प्रभोः ।
घण्टाक्षसूत्रपूर्वाणां क्रियाङ्गानां महात्मनाम् ॥ १२१ ॥

बलिपीठाधिदेवानां देशान्तरनिवासिनाम् ।
गुर्वादीनां चतुर्णां तु हरिलिप्साप्रलापिनाम् ॥ १२२ ॥

द्विजोत्तमादिवर्णानां नित्यमच्युतभाविनाम् ।
गृहस्थब्रह्मचारिणां यतीनां वनवासिनाम् ॥ १२३ ॥

वृद्धानां जनकादीनां भगवत्तत्त्ववेदिनाम् ।
बन्धूनां भ्रातृपुत्राणां नारायणरतात्मनाम् ॥ १२४ ॥

जायाया भक्तिनम्राया रताया अर्चने हरेः ।
सम्बन्धिनां च मित्राणां भगवद्धामवासिनाम् ॥ १२५ ॥

तदुत्तरसहायानां चातुरात्म्याभिलाषिणाम् ।
भृत्यानां स्वानुकूलानां पुरुषोत्तमयाजिनाम् ॥ १२६ ॥

वृद्धये योग्यतायै च पवित्रीकरणाय च ।
यथाभिमतमानैस्तु तन्तुभिर्ग्रन्थिभिस्तथा ॥ १२७ ॥

कुर्यात्पवित्रनिचयमथ वा मुनिसत्तमाः ।
गुर्वादीनां चतुर्णां तु यतीनां च कुटुम्बिनाम् ॥ १२८ ॥

क्रमाच्चतुर्विंशतिभिः सूत्रैः षोडशभिस्तथा ।
ततो द्वादशभिश्चैव अष्टभिः षड्भिस्तथा ॥ १२९ ॥

पवित्रकाणि कार्याणि ग्रन्थयः सूत्रसंख्यया ।
आराधकस्य च गुरोः कुर्याद्वै भूषणद्वयम् ॥ १३० ॥

स्थूलकल्पमिदं प्रोक्तं सूक्ष्मकल्पमिहोच्यते ।
शिरःप्रमाणेनार्चाया भूषणं प्रथमं स्मृतम् ॥ १३१ ॥

चतुःशतेन सूत्राणां द्वात्रिंशद्भिस्तथाधिकैः ।
सूत्रावर्तैश्च सुसमैः परिकल्प्य च शोभनम् ॥ १३२ ॥

सप्तविंशत्प्रमाणेन दत्वास्मिन् ग्रन्थिसञ्चयम् ।
कर्णादूर्ध्वगतं नाभिप्रमाणेन पवित्रकम् ॥ १३३ ॥

परिकल्प्य द्वितीयं च सूत्राणां मुनिसत्तमाः ।
शतत्रयेण च तथा चतुर्विंशद्भिरेव च ॥ १३४ ॥

द्विगुणैर्ग्रन्थिनिचयैरनुगर्भं तु तत्स्मृतम् ।
स्कन्धदेशात्समारभ्य यावत्पादद्वयावधि ॥ १३५ ॥

नेत्रसूत्रैस्त्रिभागोनैः सूत्रग्रामैश्च कल्पयेत् ।
त्रिगुणैर्ग्रन्थिनिचयैस्ततोऽन्यद्द्विजसत्तमाः ॥ १३६ ॥

अष्टोत्तरेण सूत्राणां शतेन ग्रन्थिभिस्तथा ।
शिरःपूर्वावतारादौ यावत्पीठं तु वैष्णवम् ॥ १३७ ॥

सूत्रैर्ग्रन्थिगणैश्चैव गर्भैस्तु विविधैस्ततः ।
मण्डलस्य प्रमाणेन कुर्याच्चान्यच्चतुष्टयम् ॥ १३८ ॥

प्रथमं पद्ममानेन नाभिमानं द्वितीयकम् ।
अरतुल्यं तृतीयं स्यात् चतुर्थं नेमिभिः समम् ॥ १३९ ॥

एकाशीतिभिरावर्तैः सूत्राणां द्विजसत्तमाः ।
अग्नेः कुण्डप्रमाणेन ग्रन्थिभिस्तावदेव हि ॥ १४० ॥

भूषणत्रितयं कुर्याद्यथायोगं महामतिः ।
अष्टोत्तरशतादर्धैः सूत्रैस्तद्ग्रन्थिभिस्तथा ॥ १४१ ॥

भूषणं सुसमं चैव सुशुभं परिकल्पयेत् ।
द्विजेन्द्रा द्विजमुख्यानां ब्राह्मणानां तदर्धतः ॥ १४२ ॥

मुख्यमेतत्स्मृतं कल्पमनुकल्पोऽधुनोच्यते ।
अष्टाधिकेन सूत्रेण शतेन प्रथमं त्विदम् ॥ १४३ ॥

चतुर्भागोनमपरं तदर्धेन तृतीयकम् ।
आद्याच्चतुर्थभागेन चतुर्थं कल्पयेत्ततः ॥ १४४ ॥

त्रिभागोनं चतुर्थात्तु अग्नेः कुर्यात्तु भूषणम् ।
द्विजेन्द्राणां प्रकुर्वीत सप्तविंशतितन्तुजम् ॥ १४५ ॥

ब्राह्मणानां प्रकुर्वीत तन्तुभिर्नवभिर्द्विजाः ।
स्तनादूर्ध्वमधो नाभेर्न कर्तव्यं कदाचन ॥ १४६ ॥

सूत्रत्रयेण चान्येषां भक्तानां तु जगद्गुरोः ।
सूक्ष्मकल्पमिदं प्रोक्तं परकल्पमिहोच्यते ॥ १४७ ॥

चतुःस्थानावतीर्णस्य मुख्यमन्त्रस्य वै विभोः ।
शतेनाष्टोत्तरेणैव ह्यर्धेनांशेन वा द्विजाः ॥ १४८ ॥

तन्तूनां भूषणं कुर्यादेकैकं वा त्रयं त्रयम् ।
जपहोमादिका सङ्ख्या पूर्णा रिक्ता महात्मनाम् ॥ १४९ ॥

समीकरोति भक्तानां मन्त्रिणामत एव हि ।
कुर्यात्तद्ग्रन्थिनिचयं सूत्रसङ्ख्योपलक्षितम् ॥ १५० ॥

यदृच्छया ततोऽन्येषां याज्यानां परिकल्प्य च ।
सूत्रग्रामसमोपेतैर्गर्भैर्भूषणसञ्चयम् ॥ १५१ ॥

ततस्तु देवदेवस्य चतुःस्थानस्थितस्य यत् ।
पवित्रकगणं विप्राः प्रोक्तमाद्यपुरस्सरम् ॥ १५२ ॥

कुर्यात्तु गर्भरचनां तस्य सर्वस्य सत्तमाः ।
हेमसदृशकर्पूरमल्यक्षोदकुङ्कुमैः ॥ १५३ ॥

सर्वौषधिसमोपेतैस्त्वगेलादिविमिश्रितैः ।
पावनैर्विविधैर्द्रव्यैर्नीव्या सपिचुना सह ॥ १५४ ॥

बीजपूरसमाकारमाग्रामलकशङ्कुवत् ।
तदन्तरालानि पुनस्त्वच्छिन्नेन तु तन्तुना ॥ १५५ ॥

विभागप्रतिपत्त्यर्थं ग्रथनीयान्यदूरतः ।
अन्येषां सर्वबिम्बानां यथावित्तानुरूपतः ॥ १५६ ॥

कल्पयेद्गर्भरचनां पूर्वोक्तैर्द्रव्यसञ्चयैः ।
आराधकस्य च गुरोः सगर्भं भूषणद्वयम् ॥ १५७ ॥

विहितं भगवन्मन्त्रन्यासात्तादात्म्यभावनात् ।
अतोऽन्येषामगर्भं च रचनीयं यथाक्रमम् ॥ १५८ ॥

अन्तरालगुणं गर्भं कुर्याद्बाहीकरञ्जितम् ।
अलङ्कृत्य च सौवर्णैरुपरिष्टाच्च रूप्यकैः ॥ १५९ ॥

पवित्रच्छेदसंमूलं जातरूपमयैस्तु वा ।
शङ्खपद्मगदाचक्रमालाश्रीवत्सपूर्वकैः ॥ १६० ॥

एकस्यैव बहूनां वा यथावित्तानुसारतः ।
एवं कृत्वा पवित्राणि क्रमेण द्विजसत्तमाः ॥ १६१ ॥

धातुजे वितते भाण्डे वस्त्रच्छन्ने निधाय च ।
अथ वा वैदले भाण्डे मृण्मये वा सुशोभने ॥ १६२ ॥

पालाशे वापि चैकस्मिन् मान्त्रं भूषणसञ्चयम् ।
अन्यस्मिन् लौकिकं स्थाप्य समस्तं द्विजसत्तमाः ॥ १६३ ॥

आच्छाद्य वाससा पश्चात्सुसितेनाहतेन च ।
बन्धयित्वा तु सूत्रेण दृढेन सुसितेन च ॥ १६४ ॥

मध्ये तु यागद्रव्याणां ते भाण्डे विनिवेशयेत् ।
एवं हि सर्वसम्भारान् सम्पाद्य द्विजसत्तमाः ॥ १६५ ॥

चातुर्मास्ये त्वन्यतमे मासे वै शुक्लपक्षके ।
द्वादश्यां देवदेवस्य पवित्रारोपमाचरेत् ॥ १६६ ॥

पूर्वं दशम्येकादश्योः कुर्यात् कर्माधिवासनम् ।
एकादश्यां वानुकल्पे अधिवासनमाचरेत् ॥ १६७ ॥

सद्योऽधिवासं द्वादश्यां कुर्याद्वा शक्त्यभावतः ।
अधिवासदिनात्पूर्वदिने कृत्वाङ्कुरार्पणम् ॥ १६८ ॥

अधिवासदिने कुर्याद्रक्षाबन्धं च देशिकः ।
अधिवासादिकं सर्वं शृणुध्वं मुनिपुङ्गवाः ॥ १६९ ॥

आचार्यो मूर्तिपैः सार्धं दशम्यां तु निशामुखे ।
मन्त्रेशसन्निधिं गत्वा प्रपूज्यार्घ्यादिभिः क्रमात् ॥ १७० ॥

तस्मादनुज्ञामादाय प्रासादाग्रस्थितं शुभम् ।
यागमण्टपमासाद्य द्वारार्चनपुरस्सरम् ॥ १७१ ॥

पूर्ववत्पूजनं कुर्यात्कलशे मण्डलक्षितौ ।
सम्प्रविश्य ततः प्राग्वन्मूलमूर्तौ तु पूजनम् ॥ १७२ ॥

प्रदक्षिणप्रणामान्तं सविशेषं समाचरेत् ।
लेपभित्तिपटस्थं तु मूलबिम्बं यदा द्विजाः ॥ १७३ ॥

तदा नैमित्तिके बिम्बे सर्वं कुर्याद्विशेषतः ।
एतस्य सन्निधौ विप्राः कृत्वा स्नपनमात्रकम् ॥ १७४ ॥

स्नपनाधिकृते बिम्बे नित्यनैमित्तिकेऽपि वा ।
सर्वमन्यत्पवित्रान्तं मूलबिम्बे समाचरेत् ॥ १७५ ॥

नित्योत्सवार्थं बिम्बे तु तदा कुर्यात्तदुत्सवम् ।
तेषामसन्निधौ विप्राः दर्पणे तत्समीपगे ॥ १७६ ॥

कुर्यात्स्नपनमात्रं तु तदा कुर्यात्तदुत्सवम् ।
दर्भमञ्जरिजे कूर्चे चक्रे वा कुम्भकेऽपि वा ॥ १७७ ॥

प्राग्वदन्यत्समस्तं तु मूलबिम्बे समाचरेत् ।
ततो होमगृहं गत्वा कुण्डं संस्कृत्य पूर्ववत् ॥ १७८ ॥

तत्रानलं च संस्कृत्य कुर्याद्वै मन्त्रतर्पणम् ।
प्रासादं सम्प्रविश्याथ कृत्वा होमसमर्पणम् ॥ १७९ ॥

प्रणम्य देवदेवेशं ततस्त्वेकं पवित्रकम् ।
दहनाप्यायसंशुद्धं प्रोक्षितं चार्घ्यवारिणा ॥ १८० ॥

वासितं गन्धधूपाभ्यां चतुःस्थानस्थितस्य च ।
निवेद्य च क्रमेणैव धूपं दत्त्वार्घ्यपूर्वकम् ॥ १८१ ॥

निजानन्दमयैर्भोगैर्नित्यतृप्तस्त्वमव्ययः ।
तथापि भक्त्या तुष्टोऽहं त्वां यजाम्यात्मसिद्धये ॥ १८२ ॥

इति विज्ञाप्य देवस्य ततोऽस्त्रेणार्घ्यवारिणा ।
सर्वं भूषणपूर्वं तु सम्प्रोक्ष्य द्रव्यसञ्चयम् ॥ १८३ ॥

अथ पाणिद्वयेनैव अग्नीषोमात्मकेन तु ।
योग्यतापदवीं नीत्वा सर्वं भूषणसञ्चयम् ॥ १८४ ॥

मूलमन्त्रेण सम्प्रोक्ष्य संस्पृश्याथ निरीक्ष्य च ।
कुम्भयोग्यानि चैकस्मिन् मण्डलीयानि चापरे ॥ १८५ ॥

बिम्बयोग्यानि चैकस्मिन्नग्नियोग्यानि चापरे ।
अन्यानि मन्त्रयोग्यानि एकस्मिन् द्विजसत्तमाः ॥ १८६ ॥

पात्रे पात्रे पृथक् स्थाप्य पात्रलाभानुरूपतः ।
आच्छाद्य वाससा पश्चात्सुसितेनाहतेन तु ॥ १८७ ॥

तानि भूषणपात्राणि क्रमेण च पृथक् पृथक् ।
बन्धनीयानि सूत्रेण दृढेन सुसितेन च ॥ १८८ ॥

शालिभिस्तण्डुलैर्वापि तिलैर्वा त्रितयेन वा ।
चतुस्त्रिद्व्येकभारैर्वा कृते पीठेऽथ वा स्थले ॥ १८९ ॥

तानि भूषणपात्राणि संस्थाप्य पुरतो विभोः ।
प्रणवेनार्चयित्वा तु वर्मणा स्थगयेत्पुनः ॥ १९० ॥

देवागारं बहिश्चान्तः मन्दिरं यागसंज्ञितम् ।
संवेष्ट्य सितसूत्रेण चतुर्धा तद्गुणेन तु ॥ १९१ ॥

ततोऽभ्यर्थ्य समूहं तु पञ्चकालपरायणम् ।
षट्कर्मनिरतं चापि यतिवृन्दं तु वैष्णवम् ॥ १९२ ॥

समक्षं भवतां भक्त्या श्वः प्रभुं पूजयाम्यहम् ।
सन्निधानमतः कार्यं मदनुग्रहकाम्यया ॥ १९३ ॥

एवमभ्यर्थ्य तेभ्यस्तु ह्यनुज्ञां प्रतिगृह्य च ।
सन्निधौ देवदेवस्य जागरेण नयेन्निशाम् ॥ १९४ ॥

एकादश्यां प्रभातेऽथ कृतस्नानः कृताह्निकः ।
आचार्यो ब्राह्मणैः सार्धं यतिभिर्वैष्णवोत्तमैः ॥ १९५ ॥

स्वकर्मनिरतैश्चैव विष्णुभक्तैर्दृढव्रतैः ।
प्रविश्य भगवद्गेहं कृत्वा नित्यार्चनं विभोः ॥ १९६ ॥

चतुःस्थानार्चनं चापि सविशेषं समाचरेत् ।
तथैव रात्रावपि च सविशेषं समाचरेत् ॥ १९७ ॥

हवनान्तं क्रियाकाण्डं जपस्तुतिपुरस्सरः ।
आराध्यस्याग्रतः स्थित्वा जागरेण नयेन्निशाम् ॥ १९८ ॥

स्नात्वा ब्राह्मे मुहूर्तेऽथ देशिको वैष्णवैः सह ।
प्रविश्य देवसदनं कृत्वा नित्यार्चनं विभोः ॥ १९९ ॥

चतुःस्थानस्थितं देवं समभ्यर्च्य यथाविधि ।
ततस्तु चौत्सवं बिम्बं श्रीपुष्टिभ्यां समन्वितम् ॥ २०० ॥

यानमारोप्य वस्त्राद्यैरलङ्कृत्य विशेषतः ।
मण्टपं तु समानीय विनिवेश्य च विष्टरे ॥ २०१ ॥

पाठयेच्चतुरो वेदान् चतुर्दिक्षु यथाविधि ।
अथ भूषणपात्रस्य गत्वा वै सन्निधिं द्विजाः ॥ २०२ ॥

पूजयित्वा समुद्घाट्य पात्रं प्रतिसरीयकम् ।
अवलोक्य समादाय ध्यायेदाद्यखिलं द्विजाः ॥ २०३ ॥

सांवत्सरं तु यत्कर्म आप्रभातान्निशान्तिमम् ।
ध्यानोत्थं निष्कलं सम्यगपवर्गप्रदं तु यत् ॥ २०४ ॥

संस्मृत्य निष्कलं मन्त्रं शुद्धोच्चारक्रमेण तु ।
मन्त्रे सन्धाय तत्सूत्रं सूत्रे मन्त्रं तथैव च ॥ २०५ ॥

एकीकृत्यात्मना सार्धं दद्याद्वै मन्त्रमूर्धनि ।
समादायापरं सूत्रं तस्मिन् सकलनिष्कलम् ॥ २०६ ॥

ध्यानकर्मस्वरूपं तु कर्म ध्यायेच्च वात्सरम् ।
स्मृत्वा चोभयरूपं तु मन्त्रं कलशपूजितम् ॥ २०७ ॥

पूर्ववच्चानुसन्धानं कृत्वा दद्यात्पवित्रकम् ।
ततः प्रतिसरं विप्राः तृतीयं च समाचरेत् ॥ २०८ ॥

बाह्यं सांवत्सरं कर्म सकलं चाखिलं स्मरेत् ।
पूजयन्तं स्वमात्मानं आधाराच्च परावधिम् ॥ २०९ ॥

लयभोगाधिकाराख्यक्रमेण सकलात्मना ।
सकलं मन्त्रनाथं तु लयभोगादिविग्रहम् ॥ २१० ॥

स्मृत्वा कृत्वा च सन्धानं दद्यात्प्रतिसरं ततः ।
अर्घ्यपुष्पैस्तथा गन्धैर्माल्यैर्धूपैस्तथा द्विजाः ॥ २११ ॥

पूजया सम्पुटीकुर्याद्भूषणानि पृथक् पृथक् ।
अन्तरान्तरयोगेन घण्टाशब्दसमन्विता ॥ २१२ ॥

समस्तरत्नसद्धातुपुष्पाक्षतफलान्विता ।
सत्सुगन्धार्घ्यदर्भाढ्या लाजसिद्धार्थकैर्युता ॥ २१३ ॥

प्रक्षेप्तव्या तु बहुशो वृष्टिः करगतैर्मुदा ।
केवलपुष्पवृष्टिर्वा शङ्खादीनपि नादयेत् ॥ २१४ ॥

दत्त्वैवं कलशस्थस्य पुरा विप्राः पवित्रकम् ।
अनेन विधिना दद्यान्मण्डलस्थस्य वै पुरा ॥ २१५ ॥

पवित्रकत्रयं शुभं भोगस्थाने च नारद ।
दद्यात्समस्तमन्त्राणां त्रीण्येकं वा यथेच्छया ॥ २१६ ॥

बिम्बस्थं तु समभ्यर्च्य प्रदद्याद्भूषणानि तु ।
कलशोक्तक्रमेणैव वनमालाख्यभूषणे ॥ २१७ ॥

पूर्ववच्चानुसन्धानं सर्वं कृत्वा निवेदयेत् ।
पृथङ्न्यासो यदा प्रोक्तः किरीटाद्यं चतुष्टयम् ॥ २१८ ॥

क्रमेणावाहयेद्विप्रा भूषणानां चतुष्टये ।
किरीटाख्य सुरेशस्य भानुतुल्यप्रभान्वित ॥ २१९ ॥

परिवारयुतस्तिष्ठ त्वमस्मिन् शीर्षभूषणे ।
श्रीवत्सागच्छ पूर्णेन्दुसमान भगवत्प्रिय ॥ २२० ॥

वक्षःस्थले जगद्योनेर्भूषणं कल्पितं मया ।
कौस्तुभागच्छ रत्नानामीश त्वं भगवत्प्रिय ॥ २२१ ॥

वक्षःस्थले जगद्योनेर्भूषणं कल्पितं मया ।
धातुपुष्पसमाकीर्णे प्रवालमणिभूषिते ॥ २२२ ॥

वनमाले समागच्छ देवदेवप्रिये शुभे ।
चतुर्भिरेतैर्मन्त्रैस्तु क्रमेणावाहयेद्द्विजाः ॥ २२३ ॥

अङ्गानां भूषणानां च लाञ्छनानां तथैव च ।
शक्तीनां विहगेशस्य तथैव मुनिसत्तमाः ॥ २२४ ॥

पीठस्य च पवित्राणि प्रदद्यात्क्रमशस्ततः ।
एवमेव विभोर्दद्यान्मूलबिम्बगतस्य च ॥ २२५ ॥

सर्वेषां मूलबिम्बानां लक्ष्म्यादीनां तथैव ।
अन्येषामङ्गबिम्बानां परिवारगणस्य च ॥ २२६ ॥

शास्त्रपीठस्य च लिपेः शब्दतत्त्वस्य च प्रभोः ।
घण्टाक्षसूत्रपूर्वाणां अर्घ्यपात्रादिकस्य च ॥ २२७ ॥

छत्रचामरपूर्वाणां सर्वोपकरणस्य च ।
द्वारावरणदेवानां सर्वेषां च द्विजोत्तमाः ॥ २२८ ॥

क्रमेण भूषणं दत्त्वा यायादग्निनिकेतनम् ।
अग्निस्थस्य विभोर्दद्याद्भूषणानि तु पूर्ववत् ॥ २२९ ॥

अग्नौ निवेदयेद्विप्रा भूषणं न तु होमयेत् ।
यस्मात्सन्न्यासमूर्ध्वे तु विहितं भूषणस्य च ॥ २३० ॥

नाहर्तुं युज्यते दग्धं दोषमाभरणं विना ।
तथैव स्रुक्स्रुवादीनां दद्यात्प्रतिसरं तदा ॥ २३१ ॥

देशिकस्य हृदारोप्य पूजितस्य च देववत् ।
स्वं स्वं चारोप्य चान्येषां देशिकानां तथैव च ॥ २३२ ॥

साधकानां ततो दद्याद्यागाङ्गानामपि क्रमात् ।
मूलबिम्बे यदा कुर्यात्पवित्रारोपणं द्विजाः ॥ २३३ ॥

तदा तु मूलबेरस्य दत्त्वा प्रतिसरं पुरा ।
नैवेद्यान्तं समभ्यर्च्य पश्चादुत्सवकौतुके ॥ २३४ ॥

यागमण्टपमानीय अथ वास्थानमण्टपे ।
भद्रासने समारोप्य पूर्वोक्तविधिना ततः ॥ २३५ ॥

चतुःस्थानस्थितस्यापि दद्यात्प्रतिसरं द्विजाः ।
एवं हि देवदेवस्य चतुःस्थानस्थितस्य च ॥ २३६ ॥

अलङ्कारासने मूलमन्त्रेण प्रणवेन वा ।
आमूर्ध्नः क्रमशो दत्त्वा भूषणानि यथाविधि ॥ २३७ ॥

भोज्यासनं ततो नीत्वा विविधाभ्यवहारिकैः ।
भोगैरभ्यर्च्य देवेशं ब्रूयाद्बद्धाञ्जलिस्त्विदम् ॥ २३८ ॥

नावलेपान्न मोहाच्च कर्मत्यागो मया कृतः ।
त्वमेव सर्वं जानासि सर्वेश हृदये स्थितः ॥ २३९ ॥

यथाशक्त्या त्वनिच्छातस्तत्रापि परमेश्वर ।
तन्निमित्तमिदं कर्म त्वत्प्रीतये मया कृतम् ॥ २४० ॥

एवमुक्त्वा समभ्यर्च्य चतुरः पाञ्चरात्रिकान् ।
भगवत्प्रतिपत्त्या तु शक्त्या प्रावरणैर्धनैः ॥ २४१ ॥

तथा प्रतिसरान्तैस्तु ब्रह्मचारीन् यतीन् गुरून् ।
तर्पयित्वाथ चान्नेन पूतेन विविधेन तु ॥ २४२ ॥

पश्चादुत्सवबिम्बं तु यानमारोप्य देशिकः ।
महोत्सवविधिप्रोक्तं सर्वमङ्गलसंयुतम् ॥ २४३ ॥

प्रदक्षिणक्रमेणैव प्रासादं तु प्रवेशयेत् ।
देशिकस्त्वथ नैवेद्यपूर्वं कुर्याच्च भोजनम् ॥ २४४ ॥

बन्धुभ्रातृसमोपेतः सविशेषं द्विजोत्तमाः ।
सायम्प्रातः प्रतिदिनं भूषणोत्सर्जनावधि ॥ २४५ ॥

चतुःस्थानस्थितं देवं समभ्यर्च्य यथाविधि ।
मण्टपे चौत्सवं बिम्बं सविशेषं समर्चयेत् ॥ २४६ ॥

उत्सवं देवदेवस्य कुर्यात्कालद्वयेऽपि च ।
वाहनारोहणं रात्रौ दिवसे वाचरेद्द्विजाः ॥ २४७ ॥

समाप्तिदिवसे प्रातर्विशेषयजनं ततः ।
चतुःस्थानस्थितस्यापि मध्ये मध्येऽर्चनैः सह ॥ २४८ ॥

अवरोप्य पवित्राणि रात्रौ मण्डलवह्निगम् ।
विसृज्य विधिवत्कुर्यात्कुम्भसम्प्रोक्षणादिकम् ॥ २४९ ॥

एकरात्रं त्रिरात्रं वा पञ्च वा सप्तरात्रकम् ।
पवित्रकं स्थापयित्वा ततः सन्न्यासमाचरेत् ॥ २५० ॥

अथवार्चागतं विप्राः तावत्संस्थाप्य भूषणम् ।
यावदेकादशी शुक्ला संवृत्ता कार्तिकस्य तु ॥ २५१ ॥

अपनीय च माल्यादीन् प्रदद्याद्वा दिने दिने ।
नो याति म्लानतां यावत्सम्प्राप्ते कालवासरे ॥ २५२ ॥

अपनीय गुरोर्भक्त्या निवेद्य ब्राह्मणस्य वा ।
पञ्चकालप्रसक्तस्य तदभावात्तु नारद ॥ २५३ ॥

षट्कर्मसम्प्रवृत्तस्य विष्णुभक्तस्य तत्त्वतः ।
विशेषयागहोमान्ते कृत्वाचार्यप्रपूजनम् ॥ २५४ ॥

वैष्णवाः पूर्ववत्पूज्या दद्यादाच्छादनं ततः ।
तेषां चैव यथाशक्ति अभावादथ नारद ॥ २५५ ॥

युग्ममेकं तु वा वस्त्रमेकस्यावश्यमेव हि ।
उपवीतानि चान्येषां सौतरीयाणि योजयेत् ॥ २५६ ॥

प्रार्थना च ततः कार्या यतीनां संयतात्मनाम् ।
युष्मत्प्रसादसामर्थ्यान्ममास्तु परिपूर्णता ॥ २५७ ॥

क्रियाङ्गानां च सर्वेषां मा मेऽस्तु समयच्युतिः ।
एवमस्त्विति वक्तव्यं सर्वैस्तत्कालसमन्वितम् ॥ २५८ ॥

संवत्सरकृताकृत्यदोषः समयपूर्वकः ।
नाशमायाति वै क्षिप्रं पवित्रारोपणात्तु सः ॥ २५९ ॥

पाति यस्मात्सदोषं हि पतनात्परिरक्षति ।
विशेषेण द्विजांस्त्राति पूर्णं कर्म करोति च ॥ २६० ॥

साधके च क्रियाहीने तस्मादुक्तो मया महान् ।
याग एष पवित्रस्य उक्तलक्षणलक्षितः ॥ २६१ ॥

वक्ष्यते सूक्ष्मरूपोऽन्यः प्रकारो मुनिपुङ्गवाः ।
केवले बिम्बके वापि यागमन्दिरसंस्थिते ॥ २६२ ॥

प्रासादसंस्थिते वापि दशम्यामधिवासिते ।
कल्पयेद्भूषणारोपं विना कलशमण्डले ॥ २६३ ॥

अग्निसंस्थिते तदा कुर्यात्तत्प्राग्वदधिवासिते ।
एकं द्वे त्रीणि वा दद्यात्पवित्राणि तदा विभोः ॥ २६४ ॥

समानीयात्मनाध्येन भेदेन तु कृतानि वा ।
द्रव्याभावे द्विजश्रेष्ठा अशक्तिर्यदि वा भवेत् ॥ २६५ ॥

सद्योऽधिवासं द्वादश्यां कृत्वा शक्त्या तु कारयेत् ।
सोपवासं द्विजश्रेष्ठा अर्चायां भूषणं विभोः ॥ २६६ ॥

यथेच्छाकल्पितैः सूत्रैर्ग्रन्थिभिस्तु यथेच्छया ।
निरगर्भरचनया वापि पवित्राणां च धातुना ॥ २६७ ॥

केनचिद्रञ्जयोद्विप्रा विधिवत्परिरञ्जयेत् ।
पुष्पपूर्णानि गर्भाणि कृत्वा वा केवलान्यतः ॥ २६८ ॥

प्रपूज्य पूर्ववद्विप्रा बिम्बसन्निहितं विभुम् ।
निवेद्य भूषणं दद्याद्वाणीमुच्चारयेदिमाम् ॥ २६९ ॥

यन्मया ब्रह्मसूत्रं च कल्पितं ग्राह्यस्य च ।
कर्मणां पूरणार्थाय यथा दोषो न मे भवेत् ॥ २७० ॥

इत्युक्त्वा च ततो दद्यान्मूर्ध्न्युपरि पवित्रकम् ।
स्तुत्वा च देवदेवेशं द्वितीयेऽह्नि प्रयत्नतः ॥ २७१ ॥

पूजयित्वाथ देवेशं कुर्यात्तदुपसंहृतिम् ।
गृहे पवित्रयागे तु विशेषोऽयमथोच्यते ॥ २७२ ॥

बिम्बस्थे मण्डलस्थे वा चतुःस्थानस्थितेऽपि वा ।
पवित्राणां त्रयं दद्यादेकैकं वा यथेच्छया ॥ २७३ ॥

इत्युक्तं योगिनां श्रेष्ठाः पवित्रारोपणं परम् ।
एवं कृते सति तदा सिद्धिर्भवति शाश्वती ॥ २७४ ॥

सर्वार्थाः साधकानां च चेतसामीप्सितं तदा ।
तपोदानव्रतानां च विहितस्याह्निकस्य च ॥ २७५ ॥

निःशेषयागभोगानां कृत्वा सम्पूरणक्रियाम् ।
अपरेऽहनि वै कुर्याच्चतुर्थे सप्तमेऽपि वा ॥ २७६ ॥

स्नपनं पूज्यमन्त्रस्य तीर्थौघेऽस्य सज्जले ।
नद्यां समुद्रगामिन्यां देवखाते ह्रदे तु वा ॥ २७७ ॥

प्रीतये परमेशस्य त्वात्मनो दुःखहानये ।
आह्लादायामराणां च पितॄणां तृप्तये तु वै ॥ २७८ ॥

आप्यायनार्थं भूतानां भुवनानां च भूतये ।
देशदोषप्रशान्त्यर्थं गोब्राह्मणहिताय च ॥ २७९ ॥

यथावत्तत्स्नपनं कुर्यात्तीर्थबिम्बे विशेषतः ।
नित्यस्नपनबिम्बे तु कुर्यात्तत्सन्निधौ ॥ २८० ॥

नित्योत्सवपरे बिम्बे ह्याचरेत्तदसन्निधौ ।
तदभावे पवित्रे तु दर्भमञ्जरिजे शुभे ॥ २८१ ॥

विधानमत्र मे सम्यक् शृणुध्वं सुसमाहिताः ।
बहुशाखसमग्राग्रं समूलं यददूषितम् ॥ २८२ ॥

प्राङ्मुखो दर्भमादाय प्रणवेन पुरा स्थितेः ।
ततस्तेनैव तन्मूलं प्राग्वत्कुर्यादधिष्ठितम् ॥ २८३ ॥

तस्य मध्यमनाळे यदग्र्यभूतमवस्थिते ।
आराध्य मन्त्रनाथेन स्मरेद्यातं महात्मना ॥ २८४ ॥

विवर्तं परमात्मीयमध्यात्माख्यं च विद्धि तम् ।
अनेककर्मभुच्च यत्काण्डं काण्डेषु चोत्तमम् ॥ २८५ ॥

अणिमादिगुणैर्युक्तं पुंस्तत्त्वं तेन कल्पयेत् ।
वाचकं तस्य योक्तव्यं हंसयुक्तं द्विलक्षणम् ॥ २८६ ॥

बहिः काण्डचतुष्केण चित्पूर्वं चतुष्टयम् ।
ग्रथनीयमथोक्तक्रमव्यक्तान्तं स्वके पदे ॥ २८७ ॥

प्रणवादिनमोन्तैस्तु व्यापकं सूक्ष्मलक्षणम् ।
एवं श्रोत्रादिकान् पञ्च स्वनाम्ना ग्रथयेत्तदा ॥ २८८ ॥

कर्मेन्द्रियाणि तदनु ततस्तन्मात्रपञ्चकम् ।
पञ्चकं त्वथ भूतानां बध्वा वै क्ष्मावसानिकम् ॥ २८९ ॥

अवशिष्टैस्तु तृणकाण्डैर्दीर्घीयात्तु कराण्डवत् ।
विना शिखासमूहेन समुत्थानावधेरथ ॥ २९० ॥

किञ्चित्तदूर्ध्वदेशाच्च यथा नो याति वै पुनः ।
बहुधा काण्डसङ्घस्तु कल्पितस्तत्त्वसङ्ख्यया ॥ २९१ ॥

विभिन्नानां च काण्डानां भङ्गादेकतरस्य च ।
उत्पद्यतेऽन्यथात्वं च तस्माद्बन्धयेत् दृढम् ॥ २९२ ॥

दर्भमञ्जरिजं त्वेवं सम्पाद्यादौ पवित्रकम् ।
अनुसन्धीयते तत्र मात्राध्यानं यथास्थितम् ॥ २९३ ॥

पूजयित्वार्घ्यपुष्पाद्यैरलङ्कृत्य पठेदिदम् ।
त्वमेव तीर्थं भगवंस्त्वमेवायतनं परम् ॥ २९४ ॥

त्वयैवाधिष्ठितं सर्वमिदं जानामि तत्त्वतः ।
तत्रापि च त्वयाऽऽदिष्टं क्रियाकाण्डं शुभप्रदम् ॥ २९५ ॥

यत्तन्निर्वाहयाम्यद्य त्वदनुग्रहकाम्यया ।
एवं विज्ञाप्य भगवन्मन्त्रमूर्तिं परात्परम् ॥ २९६ ॥

तत्पात्रपाणगं कृत्वा ब्रह्मयानगतं तु वा ।
वेदगेयध्वनीशङ्खशब्दमङ्गलपूर्वकम् ॥ २९७ ॥

नीत्वा तीर्थान्तिकं तत्र नीरदेशे निधाय च ।
पूर्वमुखं च तद्यामादाय च पवित्रकम् ॥ २९८ ॥

वामहस्ततले कुर्यात् क्ष्मामण्डलगतं त्विव ।
निधुयान्मध्यभागे च पाणिना दक्षिणेन तु ॥ २९९ ॥

अवतीर्याम्भसो मध्यं निमज्जेत्सह तेन वै ।
सन्निधिं तत्र तत्कालं प्रकुर्यादचिरात्तु वै ॥ ३०० ॥

अशेषाणि च तीर्थानि लोकत्रयगतानि च ।
मन्त्रात्मा यत्र रक्षार्थं क्षणमास्ते जलाशये ॥ ३०१ ॥

तत्रायतनतीर्थानां सर्वेषां स्यात्समागमः ।
किं पुनर्यत्र भगवान्मन्त्रमूर्तिरधोक्षजः ॥ ३०२ ॥

साधकाभ्यर्थितः स्नायात्सर्वानुग्रहया धिया ।
विद्वान् योऽनेन विधिना तीर्थमासाद्य तत्त्ववित् ॥ ३०३ ॥

स्नापयेद्बान्धवादीनां प्राप्नुवन्त्यचिराच्च ते ।
तैर्थं फलमनायासान्मन्त्रमूर्तेः प्रसादतः ॥ ३०४ ॥

किं तु तद्गानवादित्रवर्जितस्तु भवेद्विधिः ।
इमं विद्यान्महाबुद्धिर्विशेषं चात्र कर्मणि ॥ ३०५ ॥

सामान्यमविनाशं यच्चिन्मयं रूपवर्जितम् ।
विशेषज्ञानसम्बन्धं जीवहंसं विभाव्य तम् ॥ ३०६ ॥

पवित्रकं तदाकारं स्मृत्वा स्नाप्यं ततोऽम्भसा ।
एवं तेनैव चान्येषां बहूनां बहुभिस्तु वा ॥ ३०७ ॥

सम्पाद्य विष्टरे स्नानं दूरस्थानां सदैव हि ।
सम्पन्ने स्नपने त्वेवं द्वितीयेऽह्नि महामतिः ॥ ३०८ ॥

रथे कृत्वार्चिते तं वै प्रपूज्य च यथाविधि ।
यात्राख्यमुत्सवं कुर्यादन्नदानपुरस्सरम् ॥ ३०९ ॥

सनृत्तगेयवादित्रं जागरेण समन्वितम् ।
एकरात्रं द्विरात्रं वा त्रिरात्रं भक्तिपूर्वकम् ॥ ३१० ॥

सकृत्संवत्सरस्यान्ते तूत्सवं स्नपनादिकम् ।
कुर्याद्वै मन्त्रनाथस्य स सिद्धिं लभते पराम् ॥ ३११ ॥

अथवा मन्दिरे देवमुत्तमोत्तममार्गतः ।
संस्नाप्य समलङ्कृत्य रथादौ जगतां पतिम् ॥ ३१२ ॥

समारोप्य विशेषेण यात्रोत्सवमथाचरेत् ।
इति पावित्रकं सम्यग्विधानं परिकीर्तितम् ॥ ३१३ ॥

Unnummerierter abschließender Halbvers; redaktionelle Kennung 313z.

इतः परं च श्रोतव्यमस्ति चेत्कथ्यतां द्विजाः ।

इति श्रीपाञ्चरात्रे ईश्वरसंहितायां पवित्रोत्सवादिविधिर्नाम चतुर्दशोऽध्यायः ॥


Kapitel 15 – स्नपनविधिः / snapanavidhiḥ

Siehe deutsche Übersetzung und Texthinweise.

मुनयः ।

स्नपनानां विधिं सम्यक्समाख्याहि मुनीश्वर ।
यज्ज्ञानात्सकलाः पूर्णा नित्यनैमित्तिकाः क्रियाः ॥ १ ॥

नारदः ।

शृणुध्वं मुनयः सर्वे सावधानेन चेतसा ।
विधानं स्नपनानां तु बहुभेदविनिर्मितम् ॥ २ ॥

प्रासादस्याग्रतः कुर्यान्मण्टपं तु तदर्थतः ।
प्रथमावरणे वापि द्वितीयावरणेऽपि वा ॥ ३ ॥

तृतीयावरणे वापि चतुर्थे पञ्चमेऽपि वा ।
आग्नेय्यां दक्षिणस्यां वा नैर्ऋत्यां पश्चिमे तु वा ॥ ४ ॥

वायव्यामुत्तरस्यां वा ऐशान्यां वा यथारुचि ।
कुर्यान्मानादिकं सर्वं यागमण्टपवद्द्विजाः ॥ ५ ॥

विना यागस्थलं मध्ये वेदीं चापि तदूर्ध्वतः ।
अधिवासश्च कुम्भानां स्थापनं स्नपनं तथा ॥ ६ ॥

युज्यते वै यथैकस्मिन् तथाभ्यूह्य समाचरेत् ।
आचार्यांश्चतुरो विप्राः षडष्टौ द्वादशापि वा ॥ ७ ॥

यजमानस्तु वरयेच्छास्त्रज्ञान् गुरुणा सह ।
प्रवीणांश्च बहुत्वे तु तत्संख्यानियतिः कृता ॥ ८ ॥

तेषां यथोक्तसंख्यानामभिज्ञानामसन्निधौ ।
तादृशान् वरयेद्विप्रांश्चतुस्त्रिद्व्येकमेव वा ॥ ९ ॥

साधकांश्चतुरः षड्वा ह्यष्टौ द्वादश षोडश ।
वरयेच्छास्त्रकुशलान् प्रवीणानुक्तकर्मसु ॥ १० ॥

एवं सर्वेषु यागेषु नित्यनैमित्तिकात्मसु ।
आचार्याणां साधकानां सङ्ख्यानियम ईरितः ॥ ११ ॥

सङ्ख्याहीनं न गृह्णीयादापद्यपि कदाचन ।
मोहेन यदि गृह्णीयाद्भयं स्याद्राजराष्ट्रयोः ॥ १२ ॥

प्राङ्मुखे मण्टपे भागे तृतीये पश्चिमे स्थिते ।
मध्यसूत्रं समाश्रित्य स्नानपीठं प्रकल्पयेत् ॥ १३ ॥

प्राग्गतं प्रत्यगास्ये तु सौम्यास्ये दक्षिणागतम् ।
तदास्ये चोत्तरासंस्थं यथालक्षणलक्षितम् ॥ १४ ॥

यदा स्नपनबिम्बादौ बिम्बे स्नपनमाचरेत् ।
एवं तदा प्रकुर्वीत मण्टपं द्विजसत्तमाः ॥ १५ ॥

मूलबिम्बे यदा कुर्यात्तदग्रे मण्टपं तदा ।
तदानीं न तु कुर्वीत स्नानपीठं द्विजोत्तमाः ॥ १६ ॥

सप्तमे पञ्चमे वापि पूर्वं स्नपनवासरात् ।
तृतीये वा मुनिश्रेष्ठास्तस्मिन्नहनि वा द्विजाः ॥ १७ ॥

अङ्कुरानर्पयित्वा तु ततः स्नपनमारभेत् ।
यदा पूर्वदिने कुर्यात्कुम्भानामधिवासनम् ॥ १८ ॥

तदानीं पूर्वरात्रौ तु कुर्यात्कौतुकबन्धनम् ।
पूर्वेद्युर्विहिते पश्चात्तस्मिन्नहनि वाचरेत् ॥ १९ ॥

यदा कर्मदिने विप्राः कुर्यात्कुम्भाधिवासनम् ।
तदानीं तु दिने तस्मिन् कुर्यात्कौतुकबन्धनम् ॥ २० ॥

ततः प्रभात आचार्यः कृतस्नानः प्रसन्नधीः ।
प्रविश्य मण्टपं सार्धं परिचर्यापरैर्जनैः ॥ २१ ॥

शलाकासहितैर्दर्भैः सहदेवीविमिश्रितैः ।
मार्जयेत्सर्वतो विप्राः प्राङ्मुखो वाप्युदङ्मुखः ॥ २२ ॥

आलेपयेद्गोमयेन पूर्वादीशानपश्चिमम् ।
नूतनेनाम्बरेणैव गालितेन जलेन तु ॥ २३ ॥

प्रोक्षयेत्सर्वदिग्विप्राः पञ्चगव्यकुशाम्बुभिः ।
एको द्वौ बहवो वापि देशिकाः स्नपने स्मृताः ॥ २४ ॥

नववस्त्रधराः सर्वे सर्वालङ्कारसंयुताः ।
नववस्त्रोत्तरीयाश्च सोष्णीषा गुरुसम्मताः ॥ २५ ॥

नियमस्थास्तु बहवस्तथैव परिचारकाः ।
यद्यद्योग्यं भवेद्विप्राः स्नपने यत्र यत्र तु ॥ २६ ॥

तत्समस्तं समाहृत्य मण्टपे सम्प्रवेश्य च ।
स्नपनं प्रारभेत्पश्चाद्देशिकः शास्त्रपारगः ॥ २७ ॥

स्नपनं द्विविधं विद्धि परापरविभेदतः ।
परं तु दशधा प्रोक्तं प्रधानादिविभेदतः ॥ २८ ॥

प्रधानं प्रथमं विद्धि द्वितीयं तु परं स्मृतम् ।
तृतीयं परसूक्ष्मं स्यात्परस्थूलं चतुर्थकम् ॥ २९ ॥

पञ्चमं स्यात्सूक्ष्मपरं सूक्ष्मसूक्ष्मं तु षष्ठकम् ।
सूक्ष्मस्थूलं सप्तमं स्यात् स्थूलं स्यात्परमष्टमम् ॥ ३० ॥

स्थूलसूक्ष्मं तु नवमं स्थूलस्थूलं तदुत्तरम् ।
उत्तमादिविभेदेन त्वपरं नवधा स्थितम् ॥ ३१ ॥

परापरविभेदानामेषां साधारणं स्मृतम् ।
अनन्तकलशं नाम्ना स्नपनं सर्वपूरकम् ॥ ३२ ॥

एषां प्रधानपूर्वाणां सूत्रपातपुरस्सरम् ।
सर्वमुद्धारपर्यन्तं क्रमेण शृणुत द्विजाः ॥ ३३ ॥

लोहजं दारुजं वापि मृण्मयं वा सुशोभनम् ।
मण्टपेशानदिग्भागे संस्थाप्य जलभाजनम् ॥ ३४ ॥

वेदिं प्रक्षाल्य तोयेन वस्त्रैः संवेष्ट्य नूतनैः ।
सूत्रपातं ततः कुर्यात्कुम्भसंख्यानुरूपतः ॥ ३५ ॥

यथोक्तमानविस्तीर्णं क्षेत्रमण्टपमध्यतः ।
मण्टपस्य तु विप्रेन्द्राः प्राग्भागमवलम्ब्य वा ॥ ३६ ॥

स्वीकृत्य पश्चात्प्राक्प्रत्यग्दद्यात्सूत्रचतुष्टयम् ।
दक्षिणोत्तरगं सूत्रपञ्चकं विनिवेशयेत् ॥ ३७ ॥

एवं कृते भवन्त्यत्र पदानि द्वादश द्विजाः ।
एकैकस्य तु विस्तारं तालं प्रादेशमेव वा ॥ ३८ ॥

हस्तं वारत्निमात्रं वा मण्टपस्यानुरूपतः ।
महत्त्वस्य च कुम्भानामेवं सर्वत्र चोर्ध्वतः ॥ ३९ ॥

पिष्टचूर्णैरलङ्कृत्य चतुर्दिक्षु समन्ततः ।
कोष्ठेषु पीठिकां कुर्यात्तण्डुलैर्व्रीहिभिस्तु वा ॥ ४० ॥

तासां हि प्रतिकोष्ठं तु कुर्यादाढकसम्मितैः ।
अर्धाधिकैस्त्रिभिः प्रस्थैरथवा केवलैस्त्रिभिः ॥ ४१ ॥

अर्धोत्तरेण वा विप्राः कुर्यात्प्रस्थद्वयेन वा ।
यद्वा प्रस्थद्वयेनैव प्रस्थेनार्धोत्तरेण वा ॥ ४२ ॥

प्रस्थेन वा तदर्धेन तत्पादेनाथ वा द्विजाः ।
तुर्यश्रांमथ वा वृत्तां कृत्वैवं पीठिकां ततः ॥ ४३ ॥

सौवर्णा राजता ग्राह्यास्ताम्रा वा भेदवर्जिताः ।
श्लक्ष्णा असुषिराः कुम्भाश्चतुर्विंशाङ्गुलोन्नताः ॥ ४४ ॥

विस्तृतं मध्यतस्तद्वत्तद्गलं त्र्यङ्गुलोन्नतम् ।
ततमङ्गुलिषट्केन तत्रास्यं त्र्यङ्गुलं स्मृतम् ॥ ४५ ॥

मेखला परितो ज्ञेया त्र्यङ्गुला द्विजसत्तमाः ।
यद्वा तदर्धमानं तु सर्वमुच्छ्रायपूर्वकम् ॥ ४६ ॥

यद्वोत्तमोत्तमा विप्रा द्रोणमानोदपूरकाः ।
तदष्टमांशतो न्यूनाः क्रमात्प्रस्थद्वयावधि ॥ ४७ ॥

अधमाधमकुम्भास्तु प्रस्थमात्रोदपूरकाः ।
एवं लक्षणयुक्तास्तु कार्या वित्तानुसारतः ॥ ४८ ॥

चक्राधारोपरिस्थास्तु वितताः कमठोदराः ।
पाञ्चजन्यवलिग्रीवाः शतपत्रमुखाननाः ॥ ४९ ॥

ऊर्ध्वाधः कौमुदीमालामण्डलालङ्कृता द्विजाः ।
मकराननशेषाभिरमृताम्बुप्रवाहकाः ॥ ५० ॥

नदीसमुद्रश्रीवृक्षनानामाल्यैः परिष्कृताः ।
चक्राधारादिभिर्यद्वा रहिताः सत्यसम्भवे ॥ ५१ ॥

मृण्मया वानुकल्पे तु भेदाच्छिद्रविवर्जिताः ।
न द्वितप्ताः सुतप्ताश्च ह्येकवर्णास्तु सुस्वराः ॥ ५२ ॥

सङ्गृह्य क्षालयेत्सम्यक् शुद्धतोयैश्च सर्वतः ।
सूत्रेण वेष्टयेत्पश्चादङ्गुलाङ्गुलमन्तरम् ॥ ५३ ॥

पश्चिमे कलशस्थानात्कलशानधिवासयेत् ।
शालिभिः स्थण्डिलं कृत्वा केवले स्थण्डिले तु वा ॥ ५४ ॥

पूर्वाग्रानुत्तराग्रांश्च कुशांस्तत्र परिस्तरेत् ।
तारेण तत्र कलशान् न्यस्य पुष्पेण पूजयेत् ॥ ५५ ॥

अधोमुखांस्तु तानेव न्यस्य पङ्क्तिक्रमेण तु ।
कुशानुपरि संस्तीर्य प्राङ्मुखं परमेष्ठिना ॥ ५६ ॥

दर्भमुद्रां प्रदर्श्याथ गन्धतोयेन सर्वतः ।
सम्प्रोक्ष्य पुंसा विश्वेन विकिरेदक्षतानि च ॥ ५७ ॥

निवृत्या चोन्मुखीकृत्य सर्वेण मुनिपुङ्गवाः ।
पृथगुद्धृत्य कलशान् स्वस्थानेषु क्रमान्न्यसेत् ॥ ५८ ॥

कुम्भन्यासादिकं सर्वं मूलमन्त्रेण वाचरेत् ।
निरीक्षणादिसंशुद्धान् कृत्वा सहृदयेन तु ॥ ५९ ॥

अष्टाक्षरेण मन्त्रेण मन्त्रयेत्तान् सकृत्सकृत् ।
तेनैव पूजयेत्पश्चादर्घ्यस्रक्चन्दनादिना ॥ ६० ॥

तदाहरणहोमं तु यथाशक्ति समाचरेत् ।
पूर्णान्तमथ सम्पूर्य क्रमाद्द्रव्यैर्नियोजयेत् ॥ ६१ ॥

पङ्क्तित्रये पश्चिमादि पूर्वान्तं च चतुश्चतुः ।
तत्र दक्षिणदिक्पङ्क्तौ कलशे पश्चिमस्थिते ॥ ६२ ॥

धात्रीफलोदकं चैव लोध्रतोयमनन्तरम् ।
रक्तचन्दनतोयं च रजनीनीरमुत्तमम् ॥ ६३ ॥

ततस्तु मध्यपङ्क्तौ तु तथैव विनिवेशयेत् ।
ग्रन्थिपल्लववार्येव ततस्तु तगरोदकम् ॥ ६४ ॥

प्रियङ्गुवारि तदनु मांसीजलमतः परम् ।
तथैवोत्तरपङ्क्तौ तु भवेदेतच्चतुष्टयम् ॥ ६५ ॥

सिद्धार्थकोदकं चैव सर्वौषधिजलं ततः ।
सर्वरत्नोदकं चैव शुद्धोदकमतः परम् ॥ ६६ ॥

न्यसेत्कूर्चं कुशं दार्भमुदग्रं षोडशाङ्गुलम् ।
अङ्गुलं ग्रन्थिमानं तु मूलं वै द्वादशाङ्गुलम् ॥ ६७ ॥

शेषमग्रं विजानीयादित्येतत्कूर्चलक्षणम् ।
अथ वार्धाङ्गुला ग्रन्थिरग्रं वै त्र्यङ्गुलं भवेत् ॥ ६८ ॥

मूलं कुर्यात्तु विप्रेन्द्रा द्वादशाङ्गुलसम्मितम् ।
ब्राह्मणस्य चतुर्दर्भं त्रिदर्भं क्षत्रियस्य तु ॥ ६९ ॥

द्विदर्भं तु विशां कूर्चं स्त्रीशूद्राणां तथा भवेत् ।
सर्वेषामथ वा कूर्चं चतुःसप्तकृतं तु वा ॥ ७० ॥

मूलमन्त्रेण तदनु पूजयेत्कलशान् क्रमात् ।
अर्घ्यालेपनपुष्पैश्च धूपेन मुनिपुङ्गवाः ॥ ७१ ॥

अपिधाय क्रमेणैव पिधानैः सूत्रवेष्टितैः ।
प्रतिकुम्भं तु वसने वेष्टयेद्विभवे सति ॥ ७२ ॥

आच्छाद्य नववस्त्रेण सर्वतः प्रागुदङ्मुखः ।
पूर्ववत्पूजयित्वा तु ततो होमं समारभेत् ॥ ७३ ॥

अष्टोत्तरशतं हुत्वा समिदादीन् पृथक् पृथक् ।
पूर्णाहुतिं ततो हुत्वा कलशानभिमन्त्रयेत् ॥ ७४ ॥

मूलमन्त्रेण सर्वेषां स्नपनं विहितं द्विजाः ।
अन्तरान्तरयोगेन कुम्भैः शुद्धोदपूरितैः ॥ ७५ ॥

स्नपनं चार्घ्यदानं च द्रव्याणां तु समाचरेत् ।
द्रव्यन्यासक्रमेणैव तदुद्धारः प्रकीर्तितः ॥ ७६ ॥

प्रधानमेतत्कथितं द्विषट्कलशात्मकम् ।
सर्वेषां कारणमिदं कार्याण्यन्यानि सत्तमाः ॥ ७७ ॥

अम्बुना पञ्चगव्येन क्षीरेण तदनन्तरम् ।
दध्ना घृतेन मधुना सर्वौषधिजलेन तु ॥ ७८ ॥

बीजाङ्कुरफलतोयेन गन्धपुष्पाम्बुना ततः ।
हेमरत्नोदकेनाथ पूरितं तु यथाक्रमम् ॥ ७९ ॥

कलशानां द्विषट्कं यत्परमेतदुदाहृतम् ।
पञ्चगव्यदधिक्षीरघृतमध्विक्षुवारिणा ॥ ८० ॥

सर्वौषधीगन्धरत्नफलपुष्पजलेस्तथा ।
केवलेनोदकेनापि क्रमेण परिपूरितम् ॥ ८१ ॥

द्विषट्कमेतत्कुम्भानां परसूक्ष्ममुदाहृतम् ।
सूत्रपातादिकं चास्मिन् द्वितीयेऽपि प्रधानवत् ॥ ८२ ॥

पाद्यमर्घ्यं तथाचामं सर्वौषधिजलं तथा ।
दधि क्षीरं मधु घृतं तथा शुद्धोदकं द्विजाः ॥ ८३ ॥

कुम्भानां नवकं त्वेतत्परस्थूलमुदाहृतम् ।
सूत्रपातादिकं चास्य प्रागेव परिकीर्तितम् ॥ ८४ ॥

पञ्चधा भाजिते क्षेत्रे भागाः स्युः पञ्चविंशतिः ।
बहिः प्रागादियोगेन कलशानां द्विरष्टके ॥ ८५ ॥

क्षीरं दधि घृतं चैव मधु वै रसभेदवत् ।
धात्रीफलादिदशकं सर्वौषध्यन्तमेव हि ॥ ८६ ॥

पत्रोदकं ततः पश्चात्तदन्तः कलशाष्टके ।
प्रागादि पुष्पतोयं च फलबीजोदके तथा ॥ ८७ ॥

गन्धोदकं च तदनु हेमरत्नजले तथा ।
पुण्यतीर्थसरित्तोये मध्ये शुद्धोदकं न्यसेत् ॥ ८८ ॥

द्रव्यन्यासक्रमेणैव तदुद्धार उदाहृतः ।
एवं क्रमाद्द्रव्ययुतकलशैर्द्विजसत्तमाः ॥ ८९ ॥

स्नपनं पञ्चविंशद्भिरेतत्सूक्ष्मपरं स्मृतम् ।
पञ्चविंशतु कोष्ठानि कल्पयित्वा तु पूर्ववत् ॥ ९० ॥

मध्ये शुद्धोदकं न्यस्य बहिरिन्द्रादियोगतः ।
पूर्वं क्षीराम्बुना पूर्णं परं शुद्धेन वारिणा ॥ ९१ ॥

तृतीयं रत्नयोगेन हेमतोयेन चापरम् ।
गन्धांबुमिश्रितं चान्ये फलपुष्पोदकान्विते ॥ ९२ ॥

शालिबीजाम्भसा पूर्णमष्टमं परिकीर्तितम् ।
कुम्भाष्टकं तु तद्बाह्यदिगष्टकसमाश्रितम् ॥ ९३ ॥

धात्रीफलोदकं पूर्वे पथ्यातोयं ततोऽपरे ।
गुडूचीक्षोदमन्‍यस्मिन् विभीतकजलं परे ॥ ९४ ॥

कुमारीकथितं तोयं व्याघ्रीसलिलमेव च ।
नागरोदकमन्यस्मिन् तथान्यस्मिन् मधूदकम् ॥ ९५ ॥

विहितोऽत्र समुद्धारो द्रव्यन्यासक्रमेण तु ।
नृसिंहमन्त्रैर्जप्तेन केवलेनोदकेन तु ॥ ९६ ॥

सत्याद्यैः पञ्चभिर्मन्त्रैस्त्रिभिः सिंहादिभिः क्रमात् ।
अन्तरावरणस्थानां कलशानां मुनीश्वराः ॥ ९७ ॥

एकैकं सप्तधामन्त्र्य प्रागादौ तद्बहिःस्थितान् ।
कलशांश्चक्रमन्त्रेण हृदाद्येनाभिमन्त्रयेत् ॥ ९८ ॥

गायत्र्यन्तर्गतैर्विप्राः कलशैः स्नापयेत्क्रमात् ।
द्वितीयावरणस्थैस्तु उपचारा हृदा मताः ॥ ९९ ॥

केवलेनोदकेनाथ अस्त्रजप्तेन सेचयेत् ।
यद्वा प्रागुदितेनैव वर्त्मना सर्वमाचरेत् ॥ १०० ॥

दशभिः सप्तभिः कुम्भैः सूक्ष्मसूक्ष्ममिदं स्मृतम् ।
चतुर्हस्तं त्रिहस्तं वा क्षेत्रं सार्धद्विहस्तकम् ॥ १०१ ॥

द्विहस्तं वा समापाद्य तदर्धं तु द्विधा भवेत् ।
एकेन कर्णिकां कुर्याद्द्वितीयेन द्विरष्टकम् ॥ १०२ ॥

दलानां तु ततो विप्राः कर्णिकोपरि विन्यसेत् ।
कलशानां चतुष्कं तु दिक्चतुष्कमाश्रितम् ॥ १०३ ॥

पूर्वं तु पञ्चगव्येन तथैव मृदम्भुना ।
सर्वौषध्युदकेनैव केवलेनाम्भसाऽथ च ॥ १०४ ॥

पूर्वपत्रात्समारभ्य यावदीशानगोचरम् ।
षोडशान्यान् प्रतिष्ठाप्य तत्रैव कलशान् क्रमात् ॥ १०५ ॥

प्रथमं पञ्चगव्येन केवलेन तु पूरयेत् ।
गोमूत्रेण द्वितीयं तु तृतीयं गोमयाम्बुना ॥ १०६ ॥

त्रेताग्निभूतिना विप्राश्चतुर्थं सोदकेन तु ।
गजगोवृषभशृङ्गवल्मीकास्यमृदा परम् ॥ १०७ ॥

शालिक्षेत्रान्नदीमध्यात्पद्मषण्डाच्च पर्वतात् ।
मृद्भिः षष्ठं तु कलशं पूरणीयं ततो द्विजाः ॥ १०८ ॥

सप्तमं सर्षपाम्भोभिः सर्वौषधिभिरष्टमम् ।
क्षीरेण नवमं विद्धि दध्ना दशममुच्यते ॥ १०९ ॥

घृतेन चैकादशं मधुना द्वादशं द्विजाः ।
सर्वैस्त्रयोदशं बीजैः फलैः सर्वैश्चतुर्दशम् ॥ ११० ॥

समस्तधान्यैरपरं सर्वगन्धैस्तु षोडशम् ।
विहितोऽत्र समुद्धारो द्रव्यन्यासक्रमेण तु ॥ १११ ॥

हृदाभिमन्त्रितं कृत्वा एकैकं कलशं पुरा ।
स्नापयेन्मूलमन्त्रेण एकैकेन ततः क्रमात् ॥ ११२ ॥

इति विंशतिभिः कुम्भैरन्वितं द्विजसत्तमाः ।
सूक्ष्मस्थूलमिदं प्रोक्तं ततोऽन्यत्कथ्यते द्विजाः ॥ ११३ ॥

प्राक्प्रत्यगायतं सूत्रपञ्चकं विनिवेश्य च ।
दक्षिणोत्तरसूत्राणामेकादश विनिक्षिपेत् ॥ ११४ ॥

एवं कृते तु कोष्ठानि चत्वारिंशद्भवन्ति हि ।
तत्र पश्चिमदिक्पङ्क्तेरारभ्य क्रमयोगतः ॥ ११५ ॥

दक्षिणादुत्तरान्तं च कलशानां चतुश्चतुः ।
विन्यस्य पूरयेत्तांस्तु क्रमाद्द्रव्यैर्निबोधत ॥ ११६ ॥

पाद्यार्घ्याचमनीयार्थद्रव्यैः पूर्वोदितैस्त्रयम् ।
नगाद्यन्तमध्यमेभ्यो नदीमृत्तीरसम्भवा ॥ ११७ ॥

ह्रदाद्वल्मीकशिखराद्गजदन्तक्षतीकृतात् ।
हलोत्था गोवृषभशृङ्गशालीनां तु समुद्भवा ॥ ११८ ॥

तथा च पद्मषण्डोत्था त्वेकस्मिन्गोमयं परे ।
वनदाहसमुद्भूतं तथैव च महानसात् ॥ ११९ ॥

त्रेताग्निभस्म त्वपरे विनिवेश्य घटान्तरे ।
अन्यस्मिन् पञ्चगव्यं तु कुशोदकसमन्वितम् ॥ १२० ॥

सघृतं तैलकुम्भं तु चमसीवारिपूरितम् ।
पलाशखादिराश्वत्थशमीलोहितचन्दनम् ॥ १२१ ॥

कषायोदकमन्यस्मिन् परे तु त्रिफलोदकम् ।
वचा शतावरी कन्या व्याघ्री सिंही कृताञ्जलिः ॥ १२२ ॥

गोलोमी सिंहलोमी च कुष्ठं भूम्यञ्जनं तथा ।
महागरुडवेगा च कलशेऽन्यत्र सत्तमाः ॥ १२३ ॥

महानीला गुडूची च सहदेवी शतावरी ।
विष्णुक्रान्ता च कार्कोटा श्यामा वह्निशिखा परे ॥ १२४ ॥

यष्टी वराहकर्णी चाप्यन्यस्मिन् गजपिप्पली ।
श्रीफलान्यपि चान्यस्मिन् पावनानि फलानि च ॥ १२५ ॥

दधिक्षीराज्यकुम्भाश्च द्वौ मध्विक्षुरसान्वितौ ।
मूलान्यम्भोरुहाणां च तान्यन्यस्मिन् द्वये न्यसेत् ॥ १२६ ॥

द्रुमाणां पावनानां तु सक्षीराणां विशेषतः ।
पत्रपुष्पफलोपेतमेकस्मिन् मञ्जरीगणम् ॥ १२७ ॥

जात्यादिकमथैकस्मिन् कौसुमीयं लताचयम् ।
रोचनारजनीयुग्मं बला मोटाथ पञ्चकम् ॥ १२८ ॥

इति पञ्चकमन्यस्मिन् दर्भदूर्वाङ्कुराणि च ।
सास्यं शाल्यङ्कुरचयं कलशे ह्यपरे तु वै ॥ १२९ ॥

सिद्धार्थकान् सिताद्यांस्तु प्रियङ्गुं गन्धसंज्ञितम् ।
अपरस्मिन् न्यसेत्कुम्भे सह वै नागकेसरैः ॥ १३० ॥

ग्राम्याश्चौषधयः सप्त सप्तारण्याः घटद्वये ।
बाह्लीकं चन्दनं चैव रसं कर्पूरमेव च ॥ १३१ ॥

चतुष्कमेतदपरे त्वन्यस्मिन् धातवः शुभाः ।
ताम्रजाम्बूनदाद्यास्तु परे रत्नचयं महत् ॥ १३२ ॥

न्यसेद्विद्रुमजालं च द्वयोर्मुक्ताफलानि च ।
अर्घ्योदकमथैकस्मिन् नदीतीर्थोदकं द्वये ॥ १३३ ॥

सर्वौषधिघटं चैव सुशीताम्भोघटं ततः ।
सुगन्धपुष्पकलशं चत्वारिंशत्त्वमी स्मृताः ॥ १३४ ॥

द्रव्यन्यासक्रमोद्धार इदं स्थूलपरं स्मृतम् ।
शीताम्बुपूरितानां च घटानां केवलं द्विजाः ॥ १३५ ॥

चत्वारिंशत्समायुक्तं स्थूलसूक्ष्मं प्रकाशितम् ।
गन्धोदकेन पूर्णानां चत्वारिंशद्भिरेव च ॥ १३६ ॥

समन्वितं घटानां तु स्थूलस्थूलं प्रकीर्तितम् ।
सूत्रपातविधानं च कुम्भन्यासक्रमं तथा ॥ १३७ ॥

उद्धारं चानयोः कुर्यात् स्थूलाद्यसदृशं द्विजाः ।
भक्तिश्रद्धावशाच्चापि विभवानुगुणं तु वा ॥ १३८ ॥

त्रिविधं स्थूलभेदं तु द्विगुणं तु समाचरेत् ।
अनुकल्पे तदर्धं वा पादमष्टांशमेव वा ॥ १३९ ॥

चतुष्टयं वा कुम्भानां प्रत्येकं वा द्वयं द्वयम् ।
एकैकं वापि विप्रेन्द्राः सर्वद्रव्यमयं घटम् ॥ १४० ॥

नवानां परिपूर्णानामुक्तादन्यदपेक्षितम् ।
कुर्यादभ्यूह्य तत्सर्वं प्रधानोदितवर्त्मना ॥ १४१ ॥

एवं तु दशधा विप्राः परभेदाः प्रकीर्तिताः ।
अपरस्य विभेदांस्तु क्रमेण शृणुत द्विजाः ॥ १४२ ॥

चतुरश्रीकृते क्षेत्रे ह्येकत्रिंशद्विभाजिते ।
कोष्ठकानां नवशतमेकषष्टिस्तथैव च ॥ १४३ ॥

मध्ये पङ्क्तित्रयं स्थाप्य मार्जयेत्तद्बहिर्द्वयम् ।
वीथ्यर्थं तद्बहिर्भूयः स्थाप्य पङ्क्तित्रयं पुनः ॥ १४४ ॥

द्वयं विमृज्य वीथ्यर्थं स्थापयेत्सप्तकं पुनः ।
विभज्य वा त्रिनवधा ह्येकैकं विमृजेद्द्विजाः ॥ १४५ ॥

वीथ्यर्थं सङ्कटे देशे कलशानां तु पूर्ववत् ।
क्रमेण तेषु कोष्ठेषु कलशान् पूर्ववन्न्यसेत् ॥ १४६ ॥

घृतमुष्णोदकं चैव रत्नवारि फलोदकम् ।
लोहाम्भो मार्जनाम्भश्च गन्धाम्भोऽक्षतवारि च ॥ १४७ ॥

यवोदकमथेशान्तं मध्यादारभ्य मध्यमे ।
पाद्यमर्घ्यं तथाचामं पञ्चगव्यं क्रमेण तु ॥ १४८ ॥

द्विचतुष्कोणसंवीतनवकानां तु मध्यमे ।
ऐन्द्राद्युत्तरपर्यन्तं विदिक्स्थानां तु मध्यमे ॥ १४९ ॥

दधि क्षीरं मधु तथा कषायं वह्निदिक्क्रमात् ।
एवं सप्तदश प्रोक्ताः प्रधानद्रव्यसंयुताः ॥ १५० ॥

शेषाश्चान्ये चतुःषष्टिः शुद्धोदकसमन्विताः ।
इत्येकाशीतिकलशा मध्यतः संस्थिता द्विजाः ॥ १५१ ॥

ततस्त्वेकोनपञ्चाशत्कलशास्तद्दिगष्टके ।
तत्र मध्यमकुम्भेषु दिक्स्थितानां तु सेचयेत् ॥ १५२ ॥

गुडोदकं चेक्षुरसं नालिकेररसं तथा ।
शान्तिवारि मुनिश्रेष्ठाः पूर्वादिक्रमयोगतः ॥ १५३ ॥

विदिक्स्थब्रह्मकुम्भेषु सेचयेन्मङ्गलोदकम् ।
आग्नेयादीशपर्यन्तं शिष्टमन्यच्छतत्रयम् ॥ १५४ ॥

अशीतियुक्तं कुम्भानां तथैव चतुरुत्तरम् ।
सुगन्धैः शीतलैस्तोयैः सम्पूर्णं द्विजसत्तमाः ॥ १५५ ॥

पश्चान्मध्यस्थनवके मध्यादीशानपश्चिमम् ।
वासुदेवाद्वराहान्तं मूर्तीनां नवकं यजेत् ॥ १५६ ॥

अर्घ्यालभनमाल्यैश्च धूपेन च यथाक्रमम् ।
तद्बहिर्नवकानां तु ब्रह्मकुम्भेषु पूजयेत् ॥ १५७ ॥

केशवाद्वामनान्तं च द्विचतुः पूर्वदिक्क्रमात् ।
तत एकोनपञ्चाशत्कलशानां मुनीश्वराः ॥ १५८ ॥

पूजयेद्ब्रह्मकुम्भेषु श्रीधराद्यं चतुष्टयम् ।
पूर्वाद्युत्तरपर्यन्तं वह्न्यादीशानपश्चिमम् ॥ १५९ ॥

नराद्यं कृष्णपर्यन्तं चतुष्कं पूजयेद्द्विजाः ।
प्राग्वत्कूर्चानि विन्यस्य चक्रिकाभिः पिधाय च ॥ १६० ॥

ततः प्रच्छादयेद्वस्त्रैर्नूतनैस्तु पृथक् पृथक् ।
तत ऊर्ध्वं यजेद्देवं वासुदेवं जगत्पतिम् ॥ १६१ ॥

पाद्यार्घ्यमङ्गलान्तैस्तु कुम्भैः संस्नापयेद्विभुम् ।
अष्टाक्षरेण मन्त्रेण द्विषट्काक्षरतोऽपि वा ॥ १६२ ॥

विष्णुगायत्रिया वापि तन्मूर्तिमनुनापि वा ।
स्नपनं सर्वकलशैर्विहितं त्वथवा द्विजाः ॥ १६३ ॥

देवं वैष्णवगायत्र्या स्नापयेत्पाद्यवारिणा ।
तद्विष्णोरिति मन्त्रेण स्नापयेदर्घ्यवारिणा ॥ १६४ ॥

प्र ते विष्णो इति ऋचा स्नानमाचमनेन तु ।
विष्णोः कर्मेति मन्त्रेण स्नानं स्यात्पञ्चगव्यकैः ॥ १६५ ॥

दधिक्राविण्णमन्त्रेण दध्ना संस्नापयेद्विभुम् ।
आप्यायस्वेति मन्त्रेण गोक्षीरेणाभिषेचयेत् ॥ १६६ ॥

मधुवातेति मन्त्रेण मधुना स्नपनं विभोः ।
ओषध्य इति मन्त्रेण कषायैः स्नपनं भवेत् ॥ १६७ ॥

त्वं विष्णुरिति मन्त्रेण स्नपनं तप्तवारिणा ।
फलिनीत्यादि मन्त्रेण स्नापयेत्फलवारिणा ॥ १६८ ॥

शन्नो देवीति मन्त्रेण स्नपनं मार्जनाम्बुभिः ।
सावित्र्याक्षततोयेन अग्न आयाहि मन्त्रतः ॥ १६९ ॥

रत्नोदकेरिषेत्वेति लोहतोयेन सेचयेत् ।
गन्धद्वारेति मन्त्रेण स्नपनं यववारिणा ॥ १७० ॥

शतधारेति मन्त्रेण स्नपनं गन्धवारिणा ।
घृतेन स्नापयेद्देवं ततः शुक्रमसीत्यृचा ॥ १७१ ॥

अथ वा पाद्यपूर्वं तु यावत्तोयावसानकम् ।
ऋग्भिः पुरुषसूक्तस्य ततः शुक्रमसीत्यृचा ॥ १७२ ॥

आज्यं च गुडतोयाद्यं चतुष्कं शान्तिपश्चिमम् ।
त्वं विष्णुरिति मन्त्रेण विष्णोर्नुकमिति द्विजाः ॥ १७३ ॥

स्नापयेन्मङ्गलाख्येन तोयेन मुनिपुङ्गवाः ।
येनाभिषिञ्चेद्देवेशं प्रधानकलशेन तु ॥ १७४ ॥

तच्छुद्धवारिकलशैस्तन्मन्त्रेणाभिषेचयेत् ।
प्रतिद्रव्यं तु मन्त्रेण ह्यर्घ्यालभनमाल्यकैः ॥ १७५ ॥

धूपेन च समभ्यर्च्य ततस्तेनाभिषेचयेत् ।
यद्वार्घ्यं पाद्यमाचामं गन्धस्रग्धूपदीपकम् ॥ १७६ ॥

दद्याद्यथाक्रमं सर्वं केवलं चार्घ्यमेव वा ।
युक्तं शतचतुष्केण सप्तत्या च त्रयेण च ॥ १७७ ॥

कुम्भानां स्नपनं ह्येतदुत्तमोत्तममुच्यते ।
हीनमष्टाष्टसङ्ख्यातैरन्तः शुद्धोदवारिभिः ॥ १७८ ॥

कलशैः स्नपनं यत्तु तत्स्यादुत्तममध्यमम् ।
तथा पङ्क्तिचतुष्कं तु हीनं स्यात्पूर्वनिश्चितात् ॥ १७९ ॥

यदेतत् स्नपनं युक्तमेकाशीत्या च मध्यतः ।
दिक्षु चैकोनपञ्चाशच्चतुष्केण विदिक्षु च ॥ १८० ॥

ब्राह्मदैविकभागस्थैः कलशैरन्वितं द्विजाः ।
शेषैः षष्ट्युत्तरशतसङ्ख्यातैः शुद्धवारिभिः ॥ १८१ ॥

विहीनं कलशैर्विप्रास्तद्भवेदुत्तमाधमम् ।
शतद्वयेन कुम्भानां चतुर्दिक्संस्थितेन च ॥ १८२ ॥

चतुर्हीनेन वै विप्रा ह्येकाशीत्या च मध्यतः ।
संयुक्तं स्नपनं प्राग्वत्तद्भवेन्मध्यमोत्तमम् ॥ १८३ ॥

अष्टाष्टपरिसङ्ख्यातैरन्तः शुद्धोदवारिभिः ।
कलशैर्यद्विहीनं तत्स्यान्मध्यममध्यमम् ॥ १८४ ॥

एकाशीत्या च कुम्भानां मध्यतस्तु समन्वितम् ।
दिक्षु चैकोनपञ्चाशन्मध्यस्थनवसंयुतम् ॥ १८५ ॥

शेषैः शुद्धोदकलशैर्विहीनं मध्यमाधमम् ।
पङ्क्तीनामष्टकेनात्र हीनक्षेत्रे तु कल्पयेत् ॥ १८६ ॥

एकाशीत्या च कुम्भानां केवलं पूर्ववद्द्विजाः ।
अधमोत्तममेतत्तु स्नपनं परिकीर्तितम् ॥ १८७ ॥

द्वात्रिंशद्भिस्तु कलशैः कोणस्थैः शुद्धवारिभिः ।
विहीनं स्नपनं यत्तद्भवेदधममध्यमम् ॥ १८८ ॥

यच्चतुःपङ्क्तिकलशैर्विहीनं सर्वदिक्स्थितैः ।
शुद्धोदकैर्द्विजश्रेष्ठास्तद्भवेदधमाधमम् ॥ १८९ ॥

नवधा सप्तधा वात्र क्षेत्रे कृत्वा तु पीडयेत् ।
द्वयं चतुष्कं वा शिष्टं कुम्भानां स्थापनार्थतः ॥ १९० ॥

इत्येवमपरं प्रोक्तं नवधा मुनिसत्तमाः ।
कुम्भाधिवासपूर्वं तु सर्वं पूर्ववदाचरेत् ॥ १९१ ॥

आज्यस्य दैवतं देवो वासुदेवः परः स्मृतः ।
उष्णाम्भसः सङ्कर्षणः प्रद्युम्नो रत्नवारिणः ॥ १९२ ॥

फलाम्भसोऽनिरुद्धस्तु भगवान् दैवतं द्विजाः ।
नारायणस्तु मन्त्रात्मा लोहतोयस्य दैवतम् ॥ १९३ ॥

मार्जनस्य हयग्रीवो विष्णुः स्याद्गन्धवारिणः ।
नृसिंहोऽक्षततोयस्य वराहो यववारिणः ॥ १९४ ॥

पाद्यस्य केशवो देवोऽर्घ्यस्य नारायणः स्मृतः ।
देव आचमनीयस्य माधवस्त्वधिदैवता ॥ १९५ ॥

गोविन्दः पञ्चगव्यस्य विष्णुस्तु दधिदैवतम् ।
मधुसूदनसंज्ञस्तु पयसो देवता स्मृता ॥ १९६ ॥

त्रिविक्रमाख्यो मधुनः कषायस्य च वामनः ।
भगवान् श्रीधराख्यस्तु गुडतोयस्य देवता ॥ १९७ ॥

देवदेवो हृषीकेश इक्षुसारस्य दैवतम् ।
दामोदरोऽधिदैवं तु नालिकेराम्भसो द्विजाः ॥ १९८ ॥

पद्मनाभस्तु भगवान् शान्तितोयस्य देवता ।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥ १९९ ॥

आग्नेयादीशपर्यन्तं देवता मङ्गलाम्भसः ।
एकाशीतिस्थितानां तु शुद्धोदानां च दैवतम् ॥ २०० ॥

कान्त्याद्युन्नतिपर्यन्तमष्टकं प्रतिदिक्क्रमात् ।
बहिरेकोनपञ्चाशच्छुद्धतोयेषु च क्रमात् ॥ २०१ ॥

स्वधादिगायत्र्यन्तास्तु शक्तयो ह्यधिदेवताः ।
अष्टावष्टौ तु पूर्वादिदिक्ष्वग्न्यादिविदिक्षु च ॥ २०२ ॥

कलशानां तु गरुडः शेषः सूत्रस्य दैवतम् ।
कूर्चानां तु परं ब्रह्म चक्रिकाणां तु चक्रराट् ॥ २०३ ॥

वाससां वासुदेवस्तु सर्वेषां च स एव वा ।
मार्जनं प्रोक्षणं चैव शकृदा चानुलेपनम् ॥ २०४ ॥

सूत्रपातमलङ्कारं पिष्टचूर्णैः समन्ततः ।
अष्टाक्षरादिमन्त्रेण कारयेत्पञ्च मन्त्रवित् ॥ २०५ ॥

पञ्चोपनिषदा मन्त्री कलशानधिवासयेत् ।
विष्णुगायत्रिया तत्र कोष्ठेषु कलशान्न्यसेत् ॥ २०६ ॥

तत्र द्रव्याधिदेवानां वाचकैः पूरयेत्क्रमात् ।
कूर्चांस्तु प्रक्षिपेत्तेषु द्विषट्कब्रह्मविद्यया ॥ २०७ ॥

तत्तद्द्रव्याधिदेवांस्तु तत्तद्द्रव्येषु पूजयेत् ।
चक्रिकाः स्थापयेत्पश्चाच्चक्रमन्त्रेण साधकः ॥ २०८ ॥

वासोभिश्च्छादयेत्पश्चाद्द्विषट्कार्णेण मन्त्रवित् ।
वस्त्रापनयनं कुर्यान्मूलमन्त्रेण मन्त्रवित् ॥ २०९ ॥

प्रणवेन तु सूत्राणि छित्त्वा तेनाभिवन्द्य च ।
उद्धृत्य विष्णुगायत्र्या दद्याद्धस्ते गुरोस्तथा ॥ २१० ॥

यस्मिन्यस्मिन्न मन्त्रोक्तो विहितः कर्मणि द्विजाः ।
अष्टाक्षरेण मन्त्रेण तत्तत्कुर्याद्विचक्षणः ॥ २११ ॥

अथ वा सर्वकर्माणि मूलेनैव समाचरेत् ।
पूर्वोक्तः परभेदानां स्नपनानां द्विजोत्तमाः ॥ २१२ ॥

अर्घ्यादिद्रव्यनिचय इतरेषां तु कथ्यते ।
विष्णुपर्णी च दूर्वा च पद्मं श्यामाकमेव च ॥ २१३ ॥

एतानि पाद्यस्याङ्गानि चत्वारि द्विजपुङ्गवाः ।
गन्धपुष्पाक्षतफले यवसिद्धार्थकं तिलम् ॥ २१४ ॥

कुशाग्रमर्घ्यस्याङ्गानि ह्येतान्यष्टौ भवन्ति हि ।
लवङ्गजातितक्कोलमम्भ आचमनीयके ॥ २१५ ॥

शकृद्रसं च गोमूत्रं क्षीरं दधि घृतं तथा ।
अङ्गानि पञ्चगव्यस्य पञ्चैतानि च सर्वतः ॥ २१६ ॥

शम्युदुम्बरबिल्वानां पलाशवटयोस्तथा ।
खदिराश्वत्थयोश्चापि विकङ्कततरोस्तथा ॥ २१७ ॥

त्वक्सारं तु कषायं स्यात्सर्वपापापनोदनम् ।
कदलीबिम्बचूताश्च पनसं मातुलुङ्गकम् ॥ २१८ ॥

नालिकेरं चामलकं बीजपूरं फलाम्भसः ।
अङ्गान्येतानि चैवाष्टौ फलानि कथितानि वै ॥ २१९ ॥

सहदेवी शिरीषं च रजनी सूर्यवर्तिनी ।
सदाभद्रा कुशाग्राणि मार्जनाङ्गानि षड्द्विजाः ॥ २२० ॥

सूर्यकान्तं पद्मरागमिन्दुकान्तं तथैव च ।
वैडूर्यं चाप्ययस्कान्तमिन्द्रनीलप्रवालकौ ॥ २२१ ॥

गारुडं पुष्यरागं च स्फटिकब्रह्मरागकौ ।
वज्रं मौक्तिकमङ्गानि रत्नोदस्याथ वा द्विजाः ॥ २२२ ॥

मणिर्मुक्ताफलं वज्रं प्रवालं पुष्यकं तथा ।
रत्नोदकाङ्गान्येतानि पञ्चैव मुनिपुङ्गवाः ॥ २२३ ॥

बाह्लीकं चन्दनं चैव कर्पूरमगरुं तथा ।
गन्धाङ्गानि च चत्वारि त्वथ वा मुनिपुङ्गवाः ॥ २२४ ॥

चन्दनं कुङ्कुमं मांसी ह्रीवेरं मुरं तथा ।
उशीरं कुष्ठमगरुं गन्धाम्भोऽङ्गं तु चाष्टकम् ॥ २२५ ॥

रुक्मं रूप्यं च ताम्रं चाप्ययस्त्रपुकमेव च ।
अङ्गानि कथितान्येव पञ्च वै लोहवारिणः ॥ २२६ ॥

तिलसिद्धार्थनीवारयववेणुयवानि च ।
तुलसीपत्रयुक्तानि शान्त्यम्भोऽङ्गानि चैव षट् ॥ २२७ ॥

इन्द्रवल्ल्यङ्कुरं पद्ममश्वत्थाङ्कुरमेव च ।
एकपर्णं च चत्वार्यङ्गानि मङ्गलवारिणः ॥ २२८ ॥

शुद्धोदकलशाः सर्वे चन्दनैकाङ्गसंयुताः ।
इत्युक्तोऽपरभेदानां स्नपनानां यथाक्रमम् ॥ २२९ ॥

द्रव्याणां निचयश्चाथ सर्वौषध्यादि चोच्यते ।
कुष्ठं मांसी हरे द्वे मुरशैलेयचम्पकाः ॥ २३० ॥

वचाकचोरमुस्ताश्च सर्वौषध्यः प्रकीर्तिताः ।
पलाशबिल्वबकुलकदम्बाग्निशिरीषजाः ॥ २३१ ॥

न्यग्रोधाश्वत्थजाश्चापि पल्लवाः पत्रवारिणः ।
केतकीमल्लिकाजातिनन्द्यावर्तोत्पलोद्भवाः ॥ २३२ ॥

पद्मचम्पककुन्दोत्थाः कुसुमाः पुष्पवारिणः ।
यवगोधूमकव्रीहिशालिमुद्गप्रियङ्गुकाः ॥ २३३ ॥

माषनीवारकौ चाङ्गं कथितं बीजवारिणः ।
अथ चानन्तकलशं नाम्ना सकलपूरकम् ॥ २३४ ॥

यदेतस्य विधानं तु शृणुध्वं मुनिसत्तमाः ।
पूर्ववन्मण्टपं कुर्याच्चत्वारिंशत्करायतम् ॥ २३५ ॥

द्वात्रिंशत्करविस्तारं चतुर्द्वारादिसंयुतम् ।
ध्वजाद्यैरप्यलङ्कारैः पूर्ववत्सुविभूषितम् ॥ २३६ ॥

आपाद्य वा प्रपामात्रं यथाभिमतदेशगम् ।
यागार्थं मण्टपं प्राग्वत्कल्पयेत्तत्समीपतः ॥ २३७ ॥

उक्ते दिनेऽङ्कुरारोपं कृत्वा कर्मदिनात्पुरा ।
तदर्थान् सर्वसम्भारान् संभृत्य सुसमाहितः ॥ २३८ ॥

देशिकेन्द्रस्तु पूर्वेद्युः सुस्नातश्च कृताह्निकः ।
भूषणैर्विविधैश्चैव नूतनैश्च विभूषितः ॥ २३९ ॥

सितोष्णीषोत्तरीयश्च चित्रैर्माल्यैरलङ्कृतः ।
चतुर्भिरष्टभिर्वार्यैस्तादृशैरपि साधकैः ॥ २४० ॥

तत्सङ्ख्यैः शास्त्रकुशलैः कञ्चुकादिविभूषितैः ।
अन्यैश्च सुसितैर्वस्त्रैः स्थगितानननासिकैः ॥ २४१ ॥

तत्तत्प्रयोगकुशलैरनेकैः परिचारकैः ।
प्राप्तेऽपराह्णसमये कृत्वा द्वारस्थार्चनं विशेत् ॥ २४२ ॥

यागार्थं मण्टपं तत्र देवं कुम्भादिके यजेत् ।
तत्रैव वा यजेद्बिम्बं वह्नौ सन्तर्प्य पूर्ववत् ॥ २४३ ॥

ततोऽनुज्ञां समादाय क्रमेण मुनिपुङ्गवाः ।
अनुकल्पविधाने तु प्रासादं सम्प्रविश्य च ॥ २४४ ॥

मूलबिम्बं तु सम्पूज्य अर्घ्यालभनमाल्यकैः ।
धूपेन च ततोऽनुज्ञां समादायारभेत्ततः ॥ २४५ ॥

द्वारस्थार्चनपूर्वं तु विशेत्स्नपनमण्टपम् ।
प्रोक्षयेत्पञ्चगव्येन मूलमन्त्रेण सर्वतः ॥ २४६ ॥

नानाविधानि पुष्पाणि विकिरेत्सर्वदिक्षु च ।
सिद्धार्थकांश्च बीजानि ततो मण्टपमध्यतः ॥ २४७ ॥

सार्धद्वाविंशतिकरं भजेत् क्षेत्रं तु पञ्चधा ।
एकैकं नवधा भूयश्चत्वारिंशच्च पञ्च च ॥ २४८ ॥

पङ्क्त्यश्चापि कोष्ठानां पञ्चविंशोत्तरं भवेत् ।
द्विसहस्रं ततो मध्ये कलशस्थापनार्थतः ॥ २४९ ॥

एकाशीतिं च कोष्ठानि संस्थाप्य परिमार्जयेत् ।
परितो वीथ्यः पङ्क्तिद्वितयं तद्बहिः पुनः ॥ २५० ॥

पूर्वादिदिक्चतुष्के तु एकाशीतिपदानि च ।
कल्पयेत्पार्श्वतो वीथ्यै पुनः पङ्क्तिद्वयं भवेत् ॥ २५१ ॥

चतुर्षु कोणेष्वेकोनपञ्चाशत्कोष्ठकानि च ।
कल्पयेत्तत्र चाप्येकाशीतिमध्यानुसारतः ॥ २५२ ॥

मध्यतो नवकं स्थाप्य पङ्क्त्येकां लोपयेत्परि ।
बहिः पङ्क्तिद्वये दिक्षु षट्कं षट्कं विदिक्षु च ॥ २५३ ॥

चतुश्चतुश्च संस्थाप्य शेषाणि परिमार्जयेत् ।
तद्बहिः परितो वीथ्यै लुम्पेत्पङ्क्तिद्वयं ततः ॥ २५४ ॥

कोणानि कल्पयेद्यत्नात्पदषोडशकानि तु ।
तत्पार्श्वे लोपयेत्पङ्क्तिमेकैकां दिक्चतुष्टये ॥ २५५ ॥

पङ्क्तिद्वये तु द्वाराणामन्तर्भागास्त्रयो बहिः ।
पञ्च पार्श्वे तु शोभार्थं चतुरं तद्बहिर्द्वयम् ॥ २५६ ॥

तदन्तः पङ्क्तित्रितये त्रयस्त्रिंशत्पदानि तु ।
वीथ्या सहैकतां नीत्वा ह्येकैकं स्थापयेद्बहिः ॥ २५७ ॥

द्वाराणामपि कोणानां मध्ये षोडशसङ्ख्यया ।
पञ्चविंशतिकोष्ठानि स्थापयित्वा तु पार्श्वतः ॥ २५८ ॥

अन्योन्यं लोपयेत्पङ्क्तिमेकैकां तु मुनीश्वराः ।
एवमापाद्य कुम्भानां पदानि स्थापनार्थतः ॥ २५९ ॥

ततः सुगन्धरजसा सितेन सुसमा द्विजाः ।
अङ्गुष्ठविस्तरोत्सेधा ऋज्वी रेखास्तु कल्पयेत् ॥ २६० ॥

विकीर्य कोष्ठेषु रजः पश्चाद्द्वाराणि पूरयेत् ।
तेनैव शोभां पीतेन विचित्रैः कुसुमान्वितैः ॥ २६१ ॥

लतावृन्दैर्मुनिश्रेष्ठा वीथीः सर्वत्र भूषयेत् ।
ततः सङ्गृह्य कलशान् सर्वलक्षणलक्षितान् ॥ २६२ ॥

अष्टोत्तरशतं हुत्वा मूलमन्त्रेण वै घृतम् ।
गायत्र्या वा ततो द्वारचतुष्के पूर्वदिक्क्रमात् ॥ २६३ ॥

द्वौ द्वौ संस्थाप्य कलशौ कुमुदादीन्प्रपूज्य च ।
पुष्पैरभ्यर्च्य कोष्ठानि विचित्रैर्मन्त्रमन्त्रितैः ॥ २६४ ॥

सर्वधान्यैः प्रयत्नेन कल्पयित्वा तु वीथिकाः ।
तासु द्वौ द्वौ कुशाग्रौ च निक्षिपेन्मूलमन्त्रतः ॥ २६५ ॥

सूत्रेण वेष्टितान् कृत्वा कलशान् पूर्ववद्द्विजाः ।
गायत्र्या क्षालयित्वा तान् कोष्ठेषु न्यस्य तारतः ॥ २६६ ॥

अधोमुखान् न्यसेत्पृष्ठे परमेष्ठ्यात्मना कुशान् ।
ततः सम्प्रोक्षयेत्पुंसा पञ्चगव्येन तान् कुशैः ॥ २६७ ॥

विश्वेन विकिरेत्सिक्तान् अक्षतांश्च तदूर्ध्वतः ।
उत्तानयेन्निवृत्या तान् क्रमाच्चलनेन वै ततः ॥ २६८ ॥

गालितेन तु तोयेन सुगन्धैश्चन्दनादिकैः ।
वासितेन तु तान् विप्राः सर्वान्पूरयेत्क्रमात् ॥ २६९ ॥

मध्यैकाशीतिमध्यस्थनवके मध्यकुम्भके ।
सूर्यकान्तं पद्मरागं वैडूर्यं चन्द्रकान्तकम् ॥ २७० ॥

अयस्कान्तं चेन्द्रनीलं प्रवालं गारुडं तथा ।
पुष्यरागं स्फाटिकं च ब्रह्मरागं च मेचकम् ॥ २७१ ॥

वज्रं च रजतं चैव मौक्तिकं ताम्रमेव च ।
सर्वाण्येतानि निक्षिप्य तद्बहिर्नवकाष्टके ॥ २७२ ॥

पूर्वादीशानपर्यन्तं मध्यकुम्भेषु वै क्रमात् ।
द्रव्याणि षोडशैतानि द्वन्द्वयोगेन विन्यसेत् ॥ २७३ ॥

द्विसप्ततिकसङ्ख्येषु न्यसेच्छेषेषु मौक्तिकम् ।
पूर्वैकाशीतिमध्यस्थनवके मध्यगोचरे ॥ २७४ ॥

कदलीपनसाम्राणां क्षीरिकाबदराख्ययोः ।
मातुलुङ्गकेसरयोर्भव्यजम्बीरयोरपि ॥ २७५ ॥

फलानि निक्षिपेत्पश्चात्तद्बहिर्नवकाष्टके ।
प्रागादीशानपर्यन्तं मातुलुङ्गं च दाडिमम् ॥ २७६ ॥

नारङ्गं चापि जम्बीरं तकोलं बदरी तथा ।
क्षीरिकामलकं चैव द्राक्षाखर्जूरकौ तथा ॥ २७७ ॥

आम्रं च सहकारं च पनसस्य फलं तथा ।
क्षुद्रपूर्वं च पनसं कदलीमोचके तथा ॥ २७८ ॥

क्रमाद्द्वन्द्वयोगेन मध्यकुम्भेषु विन्यसेत् ।
नवकाष्टककुम्भेषु बदराणि विनिक्षिपेत् ॥ २७९ ॥

उशीरं कुङ्कुमं चैव मांसी मलयजं तथा ।
मुरं च ह्रीवेरं च कुष्ठं चागुरुमेव च ॥ २८० ॥

एकाशीतिपदे याम्ये विश्वान्येतानि निक्षिपेत् ।
मध्ये मध्यस्थकलशे पूर्वादिक्रमयोगतः ॥ २८१ ॥

शेषेषु मध्यकुम्भेषु न्यसेदेकैकजं परम् ।
विनिक्षिपेन्मलयजमेतेषामष्टकेषु च ॥ २८२ ॥

समुद्रवापीकूपानां तटाकानां ह्रदस्य च ।
वृष्टेर्नदीहिमानां च तोयानि प्रतिपादयेत् ॥ २८३ ॥

वारुणे मध्यमे कुम्भ एकैकं शेषमध्यमे ।
शेषेषु चाष्टवर्गेषु शुद्धोदानि विनिक्षिपेत् ॥ २८४ ॥

यवगोधूमकव्रीहिशालिमुद्गप्रियङ्गुकान् ।
माषनीवारकौ चापि नवमे मध्यमे घटे ॥ २८५ ॥

शेषेषु धान्यमेकैकं मध्यकुम्भेषु च क्रमात् ।
अष्टकेषु च शुद्धानि तोयानि प्रतिपादयेत् ॥ २८६ ॥

आग्नेयैकोनपञ्चाशन्नवके पूरयेद्घृतम् ।
षट्केष्विन्द्रादियोगेन गोमूत्रं गोमयं तथा ॥ २८७ ॥

क्षीरं दधि विनिक्षिप्य कोणेषूष्णोदकं न्यसेत् ।
नैर्ऋते मध्यनवके तैलं विन्यस्य तद्बहिः ॥ २८८ ॥

शेषेषु चत्वारिंशत्सु कलशेषु गुडोदकम् ।
वायव्यनवके मध्ये न्यसेत्तैलं तु सार्षपम् ॥ २८९ ॥

कलशेषु च शेषेषु विन्यसेदैक्षवं रसम् ।
ईशानैकोनपञ्चाशन्नवके मधु विन्यसेत् ॥ २९० ॥

शेषेषु नालिकेराम्भस्तत्क्षीरं वापि विन्यसेत् ।
ऐन्द्रादिपञ्चविंशत्सु प्रथमे मध्यमे घटे ॥ २९१ ॥

क्षेत्रतीर्थाब्धिशैलेभ्यः सूकराख्यबिलाद्गजात् ।
वल्मीकाद्वृषशृङ्गाच्च मृदमादाय पूरयेत् ॥ २९२ ॥

शेषेष्वष्टसु चैकैकं षोडशे गन्धवारि च ।
सहदेवी वचा चैव शतमूली शतावरी ॥ २९३ ॥

कुमारी च गुडूची च सिंही व्याघ्री तथैव च ।
द्वितीये मध्यमे कुम्भे विन्यसेद्बहिरष्टके ॥ २९४ ॥

एकैकं प्राक्क्रमेणैव षोडशे पूर्ववद्भवेत् ।
न्यग्रोधोदुम्बराश्वत्थजम्बुबिल्वपलाशजैः ॥ २९५ ॥

शिरीषमधुकोत्थैश्च त्वग्रसैर्मध्यमं घटम् ।
तृतीये पूरयित्वाष्टौ व्यस्तैः षोडश पूर्ववत् ॥ २९६ ॥

पलाशबिल्वबकुलकदम्बाम्रशिरीषजान् ।
न्यग्रोधाश्वत्थजान् क्षिप्त्वा चतुर्थे पल्लवान् घटे ॥ २९७ ॥

मध्यमेऽष्टासु च व्यस्तान् प्राग्वत् षोडश विन्यसेत् ।
मल्लिकाजातिबकुलनन्द्यावर्तप्रियङ्गुजैः ॥ २९८ ॥

पद्मचम्पककुन्दैश्च पुष्पैरापूर्य मध्यमम् ।
कलशं पञ्चमे व्यस्तैरष्टौ शेषांश्च पूर्ववत् ॥ २९९ ॥

सिद्धार्थं सर्षपं माषं रोचनां गोसमुद्भवाम् ।
इन्द्रयवं वेणुयवं शमीश्यामाकबीजके ॥ ३०० ॥

षष्ठे मध्यस्थिते कुम्भे न्यसेदष्टासु च क्रमात् ।
व्यस्तानि तानि द्रव्याणि प्राग्वच्छेषांश्च षोडश ॥ ३०१ ॥

तिलं वनतिलं चैव जीरकं कृष्णजीरकम् ।
अतसीं शतपुष्पां च कुठारच्छिन्नमेव च ॥ ३०२ ॥

ऋषिबीजं च विन्यस्य मध्यकुम्भे तु सप्तमे ।
एकैकं बहिरष्टासु प्राग्वत् षोडशसु द्विजाः ॥ ३०३ ॥

षष्टीश्यामाकशालीनां नीवारस्य च तण्डुलम् ।
दूर्वाकुशेन्द्रवल्लीनामङ्कुरान् पिप्पलस्य च ॥ ३०४ ॥

न्यसेन्मध्येऽष्टमेऽष्टासु व्यस्तानन्येषु पूर्ववत् ।
कुशोदीच्येक्षुकाशानामुशीरशरपुङ्खयोः ॥ ३०५ ॥

अगर्वपामार्गयोश्च मूलानि नवमे न्यसेत् ।
कुम्भे मध्यस्थितेऽष्टासु व्यस्तानन्येषु पूर्ववत् ॥ ३०६ ॥

तुलस्याः कृष्णतुलस्या ग्रन्थिवेणोरपि च्छदाः ।
भृङ्गराजस्य बिल्वस्य शम्याः केतकिजातयोः ॥ ३०७ ॥

दशमे मध्यमेऽष्टासु व्यस्तान् शेषेषु पूर्ववत् ।
मुस्तानागरमुस्ताख्यकन्दे कुवलयस्य च ॥ ३०८ ॥

कुमुदोत्पलयोश्चापि शीतलीयककन्दकम् ।
कल्हारस्य कशेरोश्च कन्दे एकादशे क्षिपेत् ॥ ३०९ ॥

मध्यकुम्भेषु चैतानि क्रमादन्येषु पूर्ववत् ।
मुद्गमाषकनिष्पावशिम्बिव्रीहियवाङ्कुरान् ॥ ३१० ॥

आढकानां कुलुत्थानामङ्कुरान् द्वादशे क्षिपेत् ।
मध्यकुम्भेऽष्टके व्यस्तान् प्राग्वत् षोडशसु द्विजाः ॥ ३११ ॥

शङ्खपुष्पी सदाभद्रा विष्णुक्रान्तैकपद्रयोः ।
बलायाः खरमञ्जर्याः सहायाश्च तथैव च ॥ ३१२ ॥

अङ्कुरान् सहदेव्याश्च मध्ये कुम्भे त्रयोदशे ।
विन्यस्याष्टासु च व्यस्तानन्येषु प्राग्वदाचरेत् ॥ ३१३ ॥

श्वेतार्कं ब्रह्मदण्डीं च तथा ब्रह्मसुवर्चलाम् ।
सरक्तां च विरक्तां च पृश्निपर्णीं स्थिरां तथा ॥ ३१४ ॥

एरण्डं चापि विन्यस्य मध्ये कुम्भे चतुर्दशे ।
अष्टासु तानि व्यस्तानि प्राग्वदन्येषु विन्यसेत् ॥ ३१५ ॥

सुरभिं पद्मकिञ्जल्कं नागकेसरमेव च ।
पत्रमेलात्वचं चैव लतां कस्तूरिकां तथा ॥ ३१६ ॥

जातीफलं च वै पञ्चदशमे मध्यसंस्थिते ।
कुम्भे न्यस्याष्टके व्यस्तं शेषं पूर्ववदाचरेत् ॥ ३१७ ॥

सुवर्णं रजतं ताम्रमायसं त्रपु सीसकम् ।
आरं कांस्यं च विन्यस्य षोडशे मध्यसंस्थिते ॥ ३१८ ॥

कलशेऽष्टासु च व्यस्तं प्राग्वत् षोडशासु द्विजाः ।
एवं द्रव्याणि विन्यस्य क्रमेण सुसमाहितः ॥ ३१९ ॥

तत आग्नेयकोणे तु देवस्याराधनार्थतः ।
अर्घ्यादिद्रव्यनिचयं मधुपर्कं च विन्यसेत् ॥ ३२० ॥

ततो नैर्ऋतकोणे तु हरिद्राशालिपिष्टके ।
दूर्वामश्वत्थपत्रं च सिद्धार्थं च तथाक्षतम् ॥ ३२१ ॥

माल्यानि पूर्णकुम्भं च न्यसेन्नीराजनार्थतः ।
तथा चोद्वर्तनार्थं च चूर्णं गोधूमशालिजम् ॥ ३२२ ॥

रजनीचूर्णसम्मिश्रमीषत्पद्मकभावितम् ।
चमसी च खली चैव तथैव मुनिपुङ्गवाः ॥ ३२३ ॥

चन्दनं मुखलेपार्थं घृष्टकर्पूरभावितम् ।
चम्पकैर्मुरमांसीभ्यां ह्रीवेरैः समन्वितम् ॥ ३२४ ॥

पिष्टमामलकं चैव शिरःस्नानार्थकं न्यसेत् ।
पृथक् पृथक् च पात्रेषु ततो वायव्यकोणके ॥ ३२५ ॥

धौतवस्त्रं करण्डं च पुष्पमाल्यादिभाजनम् ।
तत ईशानकोणे तु शलाकान्यायसानि तु ॥ ३२६ ॥

आयसा गुलिकाश्चैव तथा सन्दंशनं द्विजाः ।
अन्यद्यदुपयोगि स्यात् स्थापयेत्तद्यथारुचि ॥ ३२७ ॥

एतदुक्तं समस्तं वा यथाभिमतकोणगम् ।
मध्यैकाशीतिमध्यस्थनवके मध्यसंस्थिते ॥ ३२८ ॥

कुम्भे यजेद्वासुदेवं ततः प्रागादियोगतः ।
दिक्स्थानां नवकानां तु मध्येषु प्रभवक्रमात् ॥ ३२९ ॥

चतुरो वासुदेवादीन् विदिक्स्थानां तु मध्यतः ।
ईशादिवह्निपर्यन्तं तानेवाप्यययोगतः ॥ ३३० ॥

मध्यशुद्धोदकुम्भेषु सत्यं सर्वेषु पूजयेत् ।
बहिर्दिङ्नवकानां तु शुद्धोदेषु च दिक्क्रमात् ॥ ३३१ ॥

सुपर्णं गरुडं चैव तार्क्ष्यं च विहगेश्वरम् ।
वह्न्यादीशानपर्यन्तं नवकानां चतुष्टये ॥ ३३२ ॥

शुद्धोदेषु च तानेव क्रमेण परिपूजयेत् ।
एकाशीतिषु दिक्स्थेषु पूर्वादिक्रमयोगतः ॥ ३३३ ॥

मध्यकुम्भेषु षट्त्रिंशत्सङ्ख्यातेषु यथाक्रमम् ।
पद्मनाभादयो विप्रा देवा वेदविदन्तिमाः ॥ ३३४ ॥

पूज्या नवकयुक्त्या तु मध्यादीशानपश्चिमम् ।
मध्यशुद्धोदकुम्भेषु यजेत्कल्किस्वरूपिणम् ॥ ३३५ ॥

बहिर्नवकशुद्धोदकलशेषु यजेद्विभुम् ।
पातालशयनाख्यं तु पश्चादग्निदिगादितः ॥ ३३६ ॥

चतुर्षु कोणेष्वेकोनपञ्चाशन्नवकेषु च ।
मध्येषु केशवादीनां क्रमात्त्रिकचतुष्टये ॥ ३३७ ॥

आद्यान् दिक्स्थेषु कुम्भेषु द्वितीयांस्तु चतुर्ष्वपि ।
विदिक्स्थेषु तृतीयांश्च षट्कषोडशके क्रमात् ॥ ३३८ ॥

चक्रादिवज्रपर्यन्तमस्त्रषोडशकं यजेत् ।
कोणस्थेषु चतुष्केषु न्यसेच्छक्तिं ततः परम् ॥ ३३९ ॥

ऐन्द्रीदक्षिणतः पञ्चविंशतौ प्रथमे यजेत् ।
सर्वसम्पत्प्रदां लक्ष्मीं मध्यकुम्भेषु तद्बहिः ॥ ३४० ॥

अष्टासु पुष्टिं तद्बाह्ये कान्तिं षोडशके द्विजाः ।
एवमाद्येषु चान्येषु पञ्चविंशतिषु क्रमात् ॥ ३४१ ॥

प्रभादीनां च शक्तीनां त्रितयं त्रितयं यजेत् ।
तत्रापि पञ्चदशमे बहिः षोडशके न्यसेत् ॥ ३४२ ॥

किरीटमन्तिमे पञ्चविंशतौ त्रितयं यजेत् ।
श्रीवत्सं कौस्तुभं चापि वनमालां तथैव च ॥ ३४३ ॥

वासुदेवादिमन्त्रैस्तु वनमालान्तिमैः क्रमात् ।
अष्टाविंशतिसङ्ख्यं तु हुत्वाज्यं वै यथारुचि ॥ ३४४ ॥

पूर्णां दत्त्वा ततः कुम्भान् सम्पातविधिना स्पृशन् ।
पिधाय चक्रिकाभिस्तु सर्वानुक्तक्रमेण तु ॥ ३४५ ॥

वासोभिः छादयेत्पश्चान्नूतनैस्तु पृथक् पृथक् ।
भूयः पूर्णाहुतिं दत्त्वा दिक्षु भूतबलिं हरेत् ॥ ३४६ ॥

मृदादि सर्वस्नानामुद्धारक्रम इष्यते ।
पूर्वं विष्णोर्नुकमिति मन्त्रेण च मुनिश्रेष्ठाः ॥ ३४७ ॥

पूर्वादीशानपर्यन्तं मृत्कुम्भैरभिषिच्य च ।
सर्वमृत्कलशेनैव मध्यस्थेन ततो बहिः ॥ ३४८ ॥

कुम्भैः षोडशभिर्विप्राः प्रागादिक्रमयोगतः ।
एवमेव क्रमः सर्वपञ्चविंशतिषु द्विजाः ॥ ३४९ ॥

प्र तद्विष्णुरित्यनेन मूलाद्भिरभिषेचयेत् ।
प्र त ते विष्णुवास इति कषायैरन्विताम्बुभिः ॥ ३५० ॥

यस्य त्रिपूर्णेत्येतेन कलशैः पल्लवान्वितैः ।
तदस्येति च मन्त्रेण पुष्पैरापूरितैर्घटैः ॥ ३५१ ॥

तावामिति च मन्त्रेण सिद्धार्थादिसमन्वितैः ।
प्र वः पान्तमित्यनेन तिलाद्यन्वितवारिभिः ॥ ३५२ ॥

परोमात्रेतिमन्त्रेण षष्ट्यादिद्रव्यवारिभिः ।
न ते विष्णोरित्यनेन कुशमूलान्विताम्बुभिः ॥ ३५३ ॥

इरावतीति मन्त्रेण तुलस्यादिजलैस्ततः ।
अतो देवेति मन्त्रेण मुस्ताकन्दादिसंयुतैः ॥ ३५४ ॥

इदं विष्णुरित्यनेन मुद्गाङ्कुरपूरितैः ।
त्रीणि पदेति मन्त्रेण शङ्खपुष्प्यादिवारिभिः ॥ ३५५ ॥

विष्णोः कर्माणीत्यनेन श्वेतार्काद्यम्बुभिस्ततः ।
तद्विष्णोरिति मन्त्रेण सुरभ्यादिजलैस्ततः ॥ ३५६ ॥

तद्विप्रास इत्यनेन स्नापयेल्लोहवारिभिः ।
प्रागेकाशीतिकलशैः स्नापयेत्क्रमयोगतः ॥ ३५७ ॥

पूर्वादिमध्यपर्यन्तनवकस्नपने क्रमः ।
ऐन्द्रेण नवकेनादौ पुरुष्यज्ञाय इत्यृचा ॥ ३५८ ॥

इन्द्राविष्णू दृंहितेति वह्निदिक्संस्थितेन च ।
यं मनीषेति याम्येन नवकेनाभिषेचयेत् ॥ ३५९ ॥

वषट् ते विष्णुवासेति नैर्ऋतेन ततः परम् ।
तिस्रोवाच इत्यनेन वारुणेन मुनीश्वराः ॥ ३६० ॥

यो वद्रोषधीमन्त्रेण वायव्यनवकेन तु ।
स्तरीरुत्कं भवतीति सौम्येन नवकेन तु ॥ ३६१ ॥

ईशानदिक्स्थितेनैव यस्मिन्विधेनचेत्यृचा ।
इदं वचः पर्जन्यायेति स्नापयेन्मध्यमेन तु ॥ ३६२ ॥

याम्यैकाशीतिकलशैस्ततः संस्नापयेद्विभुम् ।
सहस्रशीर्षं देवमिति मन्त्रपुरस्सरैः ॥ ३६३ ॥

सन्ततं सिराभिरिति पर्यन्तैश्च क्रमेण तु ।
अष्टमन्त्रैर्मुनिश्रेष्ठाः प्रागादिनवकाष्टकैः ॥ ३६४ ॥

एतैरेव समस्तैस्तु स्नापयेन्मध्यमेन तु ।
एकाशीत्या तु वारुण्या कलशैरभिषेचयेत् ॥ ३६५ ॥

समुद्रज्येष्ठा इत्यनेन पूर्वादिनवकेन तु ।
वापीकूपतटाकोत्थैर्ह्रदवृष्टिसमुद्भवैः ॥ ३६६ ॥

या आपो दिव्या इति मन्त्रेणैवाभिषेचयेत् ।
नद्यम्भसा स्नापयित्वा यासां राजेत्यृचा ततः ॥ ३६७ ॥

यासु राजेतिमन्त्रेण हिमतोयेन वै ततः ।
समुद्रज्येष्ठपूर्वैस्तु चतुर्भिर्मध्यमेन तु ॥ ३६८ ॥

ततोऽभिषिञ्चेत्सौम्यैकाशीतिकुम्भैः क्रमेण तु ।
यदिमा इति मन्त्रेण शाक्रेण नवकेन तु ॥ ३६९ ॥

यस्यौषधीरित्येतेन वह्निदिक्संस्थितेन तु ।
साकंयक्ष्मेति याम्येन अन्यावो इति नैर्ऋते ॥ ३७० ॥

याः फलिनीरिति मन्त्रेण वारुण्यां नवकेन तु ।
मुञ्चन्तु मा शपथ्यादिति वायुदिङ्नवकेन तु ॥ ३७१ ॥

अवपतन्तीरित्यनेन सोमदिक्संस्थितेन च ।
या ओषधीः सोमराज्ञीरिति मन्त्रेणैशानकेन तु ॥ ३७२ ॥

या ओषधीः सोमराज्ञीर्विष्ठिता इति मध्यतः ।
ततोऽग्न्येकोनपञ्चाशत्कलशैरभिषेचयेत् ॥ ३७३ ॥

गायत्र्या चैन्द्रषट्केण गन्धद्वारेति याम्यतः ।
पयस्वतीरोषधय इति षट्केण पश्चिमे ॥ ३७४ ॥

दधिक्राव्ण्ण इत्यृचा सौम्यषट्केण तत्परम् ।
सम्यक्स्रवन्तिसरितस्सूक्तेनैव घृतेन च ॥ ३७५ ॥

नैर्ऋतेकोनपञ्चाशत्कलशैरभिषेचयेत् ।
तेजोऽसीत्यादियजुषा तैलेन स्नापयेत्ततः ॥ ३७६ ॥

द्वादशाक्षरमन्त्रेण प्राक्क्रमेण गुडोदकैः ।
तेजोऽसीत्यादिमन्त्रेण वायौ तैलैस्तु सार्षपैः ॥ ३७७ ॥

द्वादशार्णाख्यमन्त्रेण सर्वैरिक्षुरसैस्ततः ।
मधुवातादिभिर्मन्त्रैः कलशैर्मधुपूरितैः ॥ ३७८ ॥

पूर्वोदितेन मन्त्रेण नालिकेरजलैः क्रमात् ।
तेनैवोष्णजलैः पश्चाद्वह्न्यादीशानपश्चिमम् ॥ ३७९ ॥

सुतप्तायोगुलक्षेपात्सञ्जातोष्णैस्तदेव तु ।
उद्वर्तयेत्ततो देवं द्रुपदादिति मन्त्रतः ॥ ३८० ॥

शिरस्यामलकं दद्यान्मानस्तोकेति मन्त्रतः ।
प्रक्षाल्य शुद्धतोयैश्च बहुभिश्च सुगन्धिभिः ॥ ३८१ ॥

मध्यैकाशीतिकलशैस्ततः संस्नापयेत्क्रमात् ।
सहस्रशीर्षेत्यनया ऋचैन्द्रीनवकैः परैः ॥ ३८२ ॥

अष्टाभिरष्टदिक्संस्थैर्मध्यमेन द्वितीयया ।
द्वाभ्यां द्वाभ्यां तथा ऋग्भ्यां क्रमान्नवकसप्तकैः ॥ ३८३ ॥

पौरुषेण तु सूक्तेन समस्तेन शनैः शनैः ।
स्नापयेद्देवदेवेशं मध्यस्थनवकेन तु ॥ ३८४ ॥

यद्वा सर्वस्य वह्निमित्याद्यैर्मनुभिः क्रमात् ।
महोपनिषदन्तःस्थैर्दिक्स्थितैः कलशाष्टकैः ॥ ३८५ ॥

एक एव नारायण इति मध्यगतेन तु ।
यद्वाक्षरमन्त्रेण सर्वकुम्भैः क्रमेण तु ॥ ३८६ ॥

मृदादि सर्वस्नानान्तं स्नापयेद्द्विजसत्तमाः ।
उद्धार एवं कथितः कर्मक्रम इहोच्यते ॥ ३८७ ॥

प्रभाते तु कृतस्नातः कृतकौतुकमङ्गलः ।
देशिकेन्द्रस्तथा चान्यैर्देशिकैश्च समन्वितः ॥ ३८८ ॥

प्रासादं सम्प्रविश्याथ नित्यं निर्वर्त्य पूर्ववत् ।
यागमण्टपमासाद्य रजोभिः पूर्य मण्डलम् ॥ ३८९ ॥

कुम्भमण्डलयोरिष्ट्वा प्रासादं सम्प्रविश्य च ।
ततस्त्वर्घ्यादिभिर्भोगैर्मूलबिम्बं तु पूजयेत् ॥ ३९० ॥

तस्मात् स्नपनबिम्बे तु समावाह्य तथैव च ।
इष्ट्वालङ्कृत्य विविधैर्वस्त्रमाल्यैश्च भूषणैः ॥ ३९१ ॥

शिबिकादौ समारोप्य सर्वालङ्कारसंयुतम् ।
पूर्वोक्तविधिना विप्रा निनयेत्स्नानमण्टपम् ॥ ३९२ ॥

स्नानपीठे समारोप्य पूर्वोदितविधानतः ।
यथाक्रमं समभ्यर्च्य यावदन्ननिवेदनम् ॥ ३९३ ॥

ततस्तु देवदेवस्य कुर्यात्कौतुकबन्धनम् ।
कुम्भानां विहितं कर्म न कृतं यदि वै पुरा ॥ ३९४ ॥

कया त्वनुपपत्त्या तु तदा तत्समाचरेत् ।
स्नानासनादिभोगैर्मुखलेपान्तिमैः क्रमात् ॥ ३९५ ॥

पूजयित्वा ततः कुम्भैः स्नापयेदुक्तवर्त्मना ।
सर्वेषामपि कुम्भानां स्नानशेषे तु पूरयेत् ॥ ३९६ ॥

घटान्तरं तु द्रव्याणामन्तरान्तरयोगतः ।
शङ्खाम्भसा स्नापयित्वा वस्त्रेणाभ्यादिभिर्मृजेत् ॥ ३९७ ॥

एवं संस्नाप्य विविधरजनीचूर्णपूरितैः ।
अलङ्कृते धान्यपीठे पुरस्तादधिवासितैः ॥ ३९८ ॥

पञ्चविंशतिभिः कुम्भैर्नवभिः पञ्चभिस्तु वा ।
एकेन वापि तच्छूर्णं श्रीसूक्तेन द्विजोत्तमाः ॥ ३९९ ॥

प्रदद्यान्मूर्ध्नि देवस्य भूयश्चार्घ्यादिभिर्यजेत् ।
सर्वाङ्गं परिमृज्याथ भक्तानां मूर्ध्नि दापयेत् ॥ ४०० ॥

विष्वक्सेनस्य दत्त्वा तु तन्मन्त्रेण ततो द्विजाः ।
सहस्रधारास्नपनमाचरेच्छुद्धवारिभिः ॥ ४०१ ॥

सर्वचन्दनादिकं दत्त्वा ततः पीठात्ततः प्रभुम् ।
अलङ्कारासनं नीत्वा आसनादिक्रमार्यजेत् ॥ ४०२ ॥

भोगैः सांस्पर्शिकैः प्राग्वद्विविधैरौपचारिकैः ।
हृदयङ्गमसंज्ञैश्च विचित्रैश्च मनोहरैः ॥ ४०३ ॥

एवं द्विजप्रदानान्तं होमान्तं वा प्रपूज्य च ।
शिबिकादौ समारोप्य पूर्ववत्सम्प्रवेशयेत् ॥ ४०४ ॥

प्रदक्षिणक्रमेणैव प्रासादाभ्यन्तरं ततः ।
तत्रावरोप्य तद्बिम्बं स्वस्थाने सन्निवेश्य च ॥ ४०५ ॥

इष्ट्वा चार्घ्यादिभिर्भोगैर्मूलबिम्बं तथैव च ।
समर्प्य च कृतं कर्म कुर्याच्चैव विसर्जनम् ॥ ४०६ ॥

मृण्मयादौ मूलबिम्बे विधिरेवं प्रकीर्तितः ।
शिलामयादिके मूले स्नपनार्हे मुनीश्वराः ॥ ४०७ ॥

तमेव स्नाप्य पूर्वोक्तविधिना कौतुकादिमम् ।
हविरन्तैः समभ्यर्च्य होमान्तं सर्वमाचरेत् ॥ ४०८ ॥

ततस्तु चौत्सवं बिम्बं विचित्रैर्वस्त्रसक्तया ।
अनेकैर्भूषणै रम्यैर्माल्यैश्च सुसुगन्धिभिः ॥ ४०९ ॥

अलङ्कृत्य समारोप्य शिबिकां सम्प्रवेशयेत् ।
आस्थानमण्टपं सम्यगुत्सवोदितवर्त्मना ॥ ४१० ॥

तत्रावरोप्य यानाच्च सौवर्णे वितते शुभे ।
भद्रासनेऽथ वा विप्रा विचित्रास्तरणान्विते ॥ ४११ ॥

यथाक्रमोदितेनैव वर्त्मना सम्पूजयेत् ।
सांस्पर्शिकादिकैर्भोगैर्विविधैस्तु विशेषतः ॥ ४१२ ॥

महाहविर्निवेद्याथ कृत्वा सर्वं क्रमेण तु ।
द्विजप्रदानपर्यन्तमग्नौ सन्तर्पयेत्क्रमात् ॥ ४१३ ॥

समर्पणादिकं सर्वं कृत्वा देवं जगत्पतिम् ।
समारोप्य च यानादौ सर्वमङ्गलसंयुतम् ॥ ४१४ ॥

प्रवेशयेत्तु प्रासादं यानादेरवरोप्य च ।
स्वस्थाने सन्निवेश्याथ अर्घ्यगन्धादिभिर्यजेत् ॥ ४१५ ॥

मूलबिम्बं तथाभ्यर्च्य कृतं कर्म समर्पयेत् ।
स्नानशेषेण तोयेन कुम्भस्थेन क्रमेण तु ॥ ४१६ ॥

द्वारस्थान् सकलान् देवान् तथा चावरणस्थितान् ।
बलिदानक्रमेणैव सम्प्रोक्ष्य परिपूज्य च ॥ ४१७ ॥

बलिं च दत्त्वा शेषेण गणेशमभिषिच्य च ।
पूजयेदर्घ्यगन्धाद्यैरथ वा ह्यनुकल्पके ॥ ४१८ ॥

पूजावसाने देवस्य स्नपनव्यक्तिगस्य च ।
प्रोक्षणं देवतानां च गणेशस्याभिषेचनम् ॥ ४१९ ॥

आचरेत्क्रमयोगेन यजमानस्ततो द्विजाः ।
आचार्यान् साधकांश्चैव तोषयेद्विविधैर्धनैः ॥ ४२० ॥

अन्यांश्च वैष्णवान् सर्वान् यथाशक्ति च तोषयेत् ।
अनिवारितमन्नाद्यं सार्वजन्यं तु कारयेत् ॥ ४२१ ॥

एवमेव हि सर्वेषु स्नपनेषु क्रियाक्रमः ।
प्रोक्षणं परिवाराणां बलिदानं च वर्जयेत् ॥ ४२२ ॥

महाहविर्विधानं च विभवे सति कल्पयेत् ।
प्रधानादिक्रमेणैव स्नपनानां तु पञ्चकम् ॥ ४२३ ॥

कुर्यान्नित्ये विधौ विप्रास्तथा नैमित्तिकेषु च ।
ततस्तु सूक्ष्मसूक्ष्मादिस्थूलस्थूलान्तपञ्चकम् ॥ ४२४ ॥

चातुरात्म्यादिदेवानां कार्यं स्नापनकर्मणि ।
अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ॥ ४२५ ॥

स्नपनं मुख्यकल्पे तु ह्याचरेदुत्तमोत्तमम् ।
अनुकल्पे तु तन्मध्यं तन्न्यूनादिचतुष्टयम् ॥ ४२६ ॥

अयनद्वयमध्यस्थसङ्क्रान्तिद्विचतुष्टये ।
आवृत्तिक्रमयोगेन कल्पयेन्मुनिपुङ्गवाः ॥ ४२७ ॥

उत्सवारम्भदिवसे तदन्ते च समारभेत् ।
अधमोत्तमसंज्ञं तु तन्मध्यं वानुकल्पके ॥ ४२८ ॥

महाहविर्विधाने तु तन्न्यूनं तु समाचरेत् ।
प्रायश्चित्तेषु कार्येषु सर्वाण्येतानि कल्पयेत् ॥ ४२९ ॥

तेषां स्नपनभेदं तु वक्ष्याम्युपरि विस्तृतम् ।
स्नपनानां विधानं तु दिव्यशास्त्रोक्तवर्त्मना ॥ ४३० ॥

Unnummerierter abschließender Halbvers; redaktionelle Kennung 430z.

यथावत्कथितं सम्यक् किमन्यच्छ्रोतुमिच्छथ ।

इति श्रीपाञ्चरात्रे ईश्वरसंहितायां स्नपनविधिर्नाम पञ्चदशोऽध्यायः ॥


Kapitel 16 – प्रासादादिप्रतिष्ठाविधिः / prāsādādipratiṣṭhāvidhiḥ

Siehe deutsche Übersetzung und Texthinweise.

मुनयः ।

भगवन्मुनिशार्दूल सर्वज्ञ वदतां वर ।
प्रतिष्ठा मन्त्रबिम्बस्य कथं कार्या नरोत्तमैः ॥ १ ॥

प्रासादस्य च बिम्बस्य पीठादेर्लक्षणं कथम् ।
तत्सर्वं विस्तरेणैव वदस्व कृपयाधुना ॥ २ ॥

नारदः ।

शृणुध्वं मुनयः सर्वे सावधानेन चेतसा ।
मन्त्रबिम्बप्रतिष्ठाया विधानं लक्षणादिकम् ॥ ३ ॥

तत्सर्वं देवदेवेन सात्वतादिषु कीर्तितम् ।
तेषां सारं समुद्धृत्य प्रवक्ष्यामि समासतः ॥ ४ ॥

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा भगवन्मयः ।
श्रद्धाभक्तिसमायुक्तः सम्पन्नः शान्तमानसः ॥ ५ ॥

आस्तिकः सत्यसन्धश्च सदाचारसमन्वितः ।
आचार्यं वरयेत्पूर्वं भगवच्छास्त्रकोविदम् ॥ ६ ॥

तत्त्वज्ञं भगवद्भक्तं भगवद्वंशसम्भवम् ।
आचार्यो यजमानश्च सह सम्मन्त्र्य शिल्पिभिः ॥ ७ ॥

पुण्ये देशेऽनुकूले च मनोज्ञे साधुसेविते ।
मृद्वारिफलपुष्पाढ्ये कुशेन्धनसमन्विते ॥ ८ ॥

गोसस्यशालिसुभगे क्षुद्रप्राणिविवर्जिते ।
पर्वताग्रे च तन्मध्ये सानुदेशे द्विजोचिते ॥ ९ ॥

भूगते तु वने रम्ये पादपौषधिसङ्कुले ।
भद्रे चोपवने हृद्ये प्रशस्ते कमलान्विते ॥ १० ॥

कूलेषु निम्नगानां च तासामपि च सङ्गमे ।
समीपे पुण्यतीर्थानां सुस्थिरे सारसङ्कुले ॥ ११ ॥

दुष्टप्राणिविनिर्मुक्ते चोरातङ्कभयोज्झिते ।
सर्वदोषविनिर्मुक्ते देशे दिव्ये मनोहरे ॥ १२ ॥

भुवं परीक्ष्य तत्रादौ शास्त्रदृष्टेन वर्त्मना ।
ततः परं द्विजश्रेष्ठाः क्ष्मापरिग्रहमाचरेत् ॥ १३ ॥

क्ष्मापरिग्रहपूर्वाणामारम्भे सर्वकर्मणाम् ।
द्वादशाक्षरपूर्वस्तु मन्त्रः सर्वेश्वरः पुरा ॥ १४ ॥

आराध्यो भगवान्भक्त्या वेद्यां वा कलशे स्थले ।
सन्तर्प्योज्यादिके भक्त्या मन्त्रैः श्रुतिमयैस्ततः ॥ १५ ॥

भगवान् विश्वकर्मात्मा सगणेशं तु याजयेत् ।
विविधैरुपचारैस्तु पुष्पधूपानुलेपनैः ॥ १६ ॥

विसर्जने कृते विष्णोः सानले कमलोद्भव ।
शिल्पिनो यत्र ये दक्षाः मान्यास्ते तदनन्तरम् ॥ १७ ॥

यथा प्रसन्नबुद्ध्या तु शश्वन्निर्वर्तयन्ति च ।
तैरपि प्रयतैः स्नातैस्तर्पणीयः स्वकः पतिः ॥ १८ ॥

ततः परिगृहीतव्यं क्षेत्रं त्वभिमतं द्विजाः ।
अभुक्तमथवा भुक्तं वसुधागुणलक्षितम् ॥ १९ ॥

निःशल्यमनुकूलं च स्थपतीनां च सम्मतम् ।
समादाय प्रतिष्ठार्थं यथाभिमतविस्तृतम् ॥ २० ॥

महेन्द्रोपापतिर्युग्वित्तपेशानदिक्षु च ।
पदमासाद्य वै कुर्याद्दिव्याद्यायतनाश्रितम् ॥ २१ ॥

पञ्चायतनपूर्वं तु शुभे देवगृहं महत् ।
सिद्धये तत्स्वमार्गात्तु विमार्गात्तदसिद्धये ॥ २२ ॥

एतावद्दर्शनान्मुक्तमतोऽन्येषां तु दोषकृत् ।
स्वमार्गं परमार्गं वा येषां सर्वगतो हरिः ॥ २३ ॥

स्फुरत्यविरतं बुद्धौ गुरुं तं शास्त्रतः स्वयम् ।
शुभेऽनुकूले नक्षत्रे नमस्कृत्याच्युतं विभुम् ॥ २४ ॥

निर्वर्त्य नित्यं विघ्नेशपूर्वमर्चयेद्द्विजाः ।
सह चैकायनैश्चान्यैः ऋग्यजुस्सामपाठकैः ॥ २५ ॥

सालङ्कारैश्च सोष्णीषैः सिताम्बरधरैस्तथा ।
समालभनमाल्यैश्च भूषितैः साङ्गुलीयकैः ॥ २६ ॥

शङ्खवादित्रनिर्घोषैर्गीतिभिर्माङ्गलीयकैः ।
फलपुष्पाक्षतकरो लाजसिद्धार्थकादिकम् ॥ २७ ॥

समादाय शुचिः कर्ता देशिकेन सह द्विजाः ।
स्थानमासाद्य सर्वेषां वासुदेवं हृदि स्मरन् ॥ २८ ॥

पुण्याहं वाचयित्वा तु पूर्वोक्तविधिना ततः ।
जपन्नष्टाक्षरं तिष्ठन् कर्तास्ते देशिकस्ततः ॥ २९ ॥

बहिः क्षेत्रस्य चैशान्यां प्राच्यां वा मुनिपुङ्गवाः ।
ततां पर्णकुटीं कृत्वा वातवृष्टिक्षमां शुभाम् ॥ ३० ॥

तत्र पुष्पार्घ्यधूपाद्यं कृत्वा वै भद्रपीठगम् ।
पञ्चगव्यं समापाद्य सार्धं मन्त्रैर्विलक्षणैः ॥ ३१ ॥

नारायणमपां मूर्तिं हेमार्चे कुतपे शुभे ।
सन्निधीकृत्य सम्पूज्य सरित्तीर्थाम्बुपूरिते ॥ ३२ ॥

हेमसर्वौषधीरत्नदर्भवर्गैरगान्विते ।
मन्त्रास्त्रकलशाभ्यां तु सम्पाद्य रचनां ततः ॥ ३३ ॥

साधारमासनं ताभ्यां ध्यात्वा कुर्यात्तदर्चनम् ।
हृदि मन्त्रेश्वरं साङ्गं पूजयित्वा यथाविधि ॥ ३४ ॥

न्यस्तव्यमासने कौम्भे प्रणवं नमसा सह ।
सौम्यनाडीपथा चैव ततो ह्यस्त्रं समन्त्रराट् ॥ ३५ ॥

दक्षिणेन तु मार्गेण त्वपसव्यघटे विभोः ।
अवतार्य ज्वलद्रूपं दहन्तं विघ्नसञ्चयान् ॥ ३६ ॥

मन्त्रत्रयं तु सामान्यं सर्वत्र विहितं द्विजाः ।
षडष्टाक्षरमन्त्रं यत्तथा वै द्वादशाक्षरम् ॥ ३७ ॥

हेतीशं यत्सहस्रारं परिज्ञेयं तथायुधम् ।
कृतदीक्षेण यल्लब्धं सुप्रसन्नाच्च वै गुरोः ॥ ३८ ॥

अस्त्रं तदङ्गमापाद्यं सविशेषमिदं शुभम् ।
साङ्गं समर्चयित्वा तु भोगैर्मात्रावसानकैः ॥ ३९ ॥

सत्सूक्तैर्यजुभिः सामैर्यथावसरलक्षणैः ।
व्यञ्जकैरथ सर्वेशमथ होमं समाचरेत् ॥ ४० ॥

सहस्रशतसङ्ख्यं यत्पूर्णान्तं साक्षतैस्तिलैः ।
कुण्डे मन्त्रास्त्रदिक्पूते एवं कुर्यात्तु देशिकः ॥ ४१ ॥

स्थलेषु वालुकाढ्येषु प्रागादौ विनिवेश्य च ।
चत्वारश्चातुरात्मीयाः मन्त्रज्ञाः कृतमण्डनाः ॥ ४२ ॥

ऋग्वेदाद्याश्चतस्रो ये ईशाद्वायुपथावधि ।
भक्त्यानया परा योज्या होमार्थे क्षेत्रसङ्ग्रहे ॥ ४३ ॥

होतव्यं भूमिलिङ्गैस्तैर्मन्त्रैराज्यादिकं बहु ।
चतुर्भिश्चातुरात्मीयैर्द्विष्कर्णपुरस्सरैः ॥ ४४ ॥

होतव्यमपरैर्विप्रैः स्मरन् सर्वेश्वरं हरिम् ।
उपद्रष्टा चतुष्कोणे एकैकं विनियोज्य च ॥ ४५ ॥

होमार्थं सर्वकुण्डेषु मन्त्रविन्यस्तविग्रहम् ।
शुचयः संयता दक्षा वास्तुशास्त्रकृतश्रमान् ॥ ४६ ॥

विश्वकर्मकुलोद्भूतानाहूयाग्रे निवेश्य च ।
पञ्चगव्यादिनाभ्युक्ष्य सिताम्बरधरांस्तु वै ॥ ४७ ॥

माल्यचन्दनसुष्णीषैः भूषितानङ्गुलीयकैः ।
संवीक्ष्य पावनीकृत्य ह्यादाय घटिकान्वितम् ॥ ४८ ॥

कार्पासं सुदृढं सूत्रं सहस्राराभिमन्त्रितम् ।
स्थपतीनां करे दद्यात्सह चैकशलाकया ॥ ४९ ॥

प्रोक्षितान् पञ्चगव्येन सहस्राराभिमन्त्रितान् ।
विकीर्य लाजसम्मिश्रान् बीजान् सिद्धार्थकान्वितान् ॥ ५० ॥

जपन्नस्त्रं सचक्रं च त्रिधा कुर्यात्प्रदक्षिणम् ।
प्राक्पदात्तत्पदं यावत्सह घण्टारवैः शुभैः ॥ ५१ ॥

क्षेत्रमानमथादाय करैरभिमतैस्ततः ।
शिष्यदेशिककर्तृस्थैर्विश्वकर्माङ्गजैस्तु वा ॥ ५२ ॥

ईशकोणादि तत्सूत्रं चतुर्दिक्षु प्रसार्य च ।
शङ्कुभिर्यज्ञदारूत्थैस्तम्भेद्धृदयेन दिगष्टकम् ॥ ५३ ॥

ततो भूतबलिं दद्यात्प्रादक्षिण्येन बुद्धिमान् ।
तिलपिष्टं निशाचूर्णं साजं दधिसक्तुकम् ॥ ५४ ॥

भूतकूरमिति प्रोक्तं तेन भूतबलिं हरेत् ।
भूतानि राक्षसा वापि यत्र तिष्ठन्ति के चन ॥ ५५ ॥

ते सर्वेऽद्यापगच्छन्तु स्थानं कुर्यामिमं हरेः ।
शलवेत्रलताचर्मपुञ्जाद्यैर्ग्रथितान् द्रुमान् ॥ ५६ ॥

मृदङ्गोर्वीसमाकारान् पाण्डुमृद्ग्रहणक्षमान् ।
न चाङ्गहोमाः स्युस्तीक्ष्णान् कुद्दालाख्यान् खनित्रकान् ॥ ५७ ॥

सुदृढान् यज्ञकाष्ठोत्थान् हस्तिपादांश्च पूजयेत् ।
क्षेत्रब्रह्मपदे स्थित्वा यथाभिमतदिङ्मुखः ॥ ५८ ॥

संस्मृत्य द्वादशार्णेन भगवान् भूतभावनः ।
अधिभूताधिदेवाख्यं स्मरेदध्यात्मलक्षणम् ॥ ५९ ॥

सप्तद्वीपवतीं तत्र समुद्रादिसमन्विताम् ।
सप्तपातालसहितां भूतैर्युक्तां नरादिकैः ॥ ६० ॥

शक्तिभिः शब्दनिष्ठाभिः सर्वगाभिः समावृताम् ।
ब्रह्मबीजसमेतेन लकारेण सबिन्दुना ॥ ६१ ॥

स्वयं ज्ञाननियुक्तेन मानयित्वा पुरा ततः ।
भावयित्वाधिभूतत्वमधिदैवमतः स्मरेत् ॥ ६२ ॥

सामर्थ्यं यद्भगवतो विष्णोः सर्वेश्वरस्य च ।
परमध्यात्मरूपं च वाराहं वैष्णवं महत् ॥ ६३ ॥

एतावदुक्तं सामान्यं ध्यानं क्षितिपरिग्रहे ।
देवालयवशादन्यद्विशेषं चात्र संस्मरेत् ॥ ६४ ॥

चतुरश्रे चतुर्मूर्तिव्यक्तिव्यूहं विचिन्त्य च ।
चतुरश्रायते ध्यायेद्दिव्यं विद्यागमाभिधम् ॥ ६५ ॥

वृत्ते शान्तोदितं चक्रं संवृतावयवं स्मरेत् ।
अनन्तशयनं देवं ध्यायेद्वृत्तायते गृहे ॥ ६६ ॥

पर्यङ्कं यदमलं कालपुष्करदेहभूत् ।
नाभिरन्ध्रोद्भवं विष्णोः स्थितमष्टदिगात्मनाम् ॥ ६७ ॥

देवालये तथाष्टाश्रे स्मर्तव्यं वसुधागृहम् ।
ध्यात्वैवं द्वादशार्णेन मन्त्रेणैव पुनः पुनः ॥ ६८ ॥

षडक्षरेण संरोध्य मुद्रां बद्ध्वा तथाच्युतम् ।
अभिध्यानसमाधानाद्यावत्कलशसन्निधिम् ॥ ६९ ॥

प्राग्वद्विलक्षणैर्भोगैः अथाष्टार्णेन पूजयेत् ।
सह विप्रैः स्वयं दद्यादग्नौ पूर्णाहुतिं पुनः ॥ ७० ॥

सर्वकर्मसमाप्त्यर्थं क्षेत्रे क्षेत्रीकृते सति ।
कुर्यात्पादप्रतिष्ठां वै सुशुभे दिवसेऽपरे ॥ ७१ ॥

अथ कर्मकरा दक्षाः नियोक्तव्याः क्रमेण तु ।
सन्तोष्य चान्नपानाद्यैस्तोषमायान्ति वै यथा ॥ ७२ ॥

एवं परिगृहीते तु क्ष्मांशे शल्योज्झिते सति ।
आघृष्टे सोपला बाला वसुधा वसुभूमिदा ॥ ७३ ॥

शुद्धिं सापेक्षते किञ्चित्कृत्रिमामुदपास्तर ।
यावन्नोपवनस्तां तु चिररूढैर्महाद्रुमैः ॥ ७४ ॥

सङ्कीर्णां तत्प्रसूतैश्च मूलैर्व्याप्ता निरन्तरैः ।
ज्ञातं तस्यापि बालत्वं शुद्धिर्वै भाविनी स्मृता ॥ ७५ ॥

त्यक्ता सरित्प्रवाहैर्नगरग्रामदेशिका ।
महान्तं प्रेक्षते शुद्धिं भुक्ता सा बहुशो यतः ॥ ७६ ॥

खात्वा वैभवमुद्धृत्य यावदभ्येति मृच्छुभाम् ।
सितामशर्करां स्निग्धां जलान्तं निखनेत वा ॥ ७७ ॥

दृष्ट्वा जलं समभ्यर्च्य तर्पयेद्यादसां पतिम् ।
नागनाथसमोपेतं सुरसङ्घमतः स्थितम् ॥ ७८ ॥

स्थित्यर्थमुपलैः सर्वैः सह सम्पूर्यते मृदा ।
मृदोपलैश्च सम्पूर्य जातिषु स्निग्धया तया ॥ ७९ ॥

आकोट्य पौनःपुन्येन बालाद्वै वारिसेचनात् ।
समीकृत्योपलिप्याथ गोगणांस्तत्र वासयेत् ॥ ८० ॥

बालवत्ससमेतं च वृषेन्द्रगणसंयुतम् ।
सतोयाः शालयश्चैव प्रभूततृणसञ्चयम् ॥ ८१ ॥

विकीर्य सलिलं तत्र सन्त्यक्ते गोमयादिके ।
अपास्य गोगणं तत्र त्रिदिनान्ते पुनर्महीम् ॥ ८२ ॥

शोधयित्वा चतुर्थेऽह्नि लाङ्गलैः परिवर्तितम् ।
प्रदीप्तेनैककेनाथ स्पर्शनीया च सर्वशः ॥ ८३ ॥

ततः काञ्चनजं रेणुं ताम्रतारमयं त्वपि ।
रत्नजं गन्धमाल्याढ्यं सस्यशालिफलान्वितम् ॥ ८४ ॥

सुपुष्पाक्षतलाजाढ्यं सिद्धार्थैश्च तिलैर्युतम् ।
श्रीकरं पञ्चगव्येन भूमौ सर्वत्र सेचयेत् ॥ ८५ ॥

अकृते वा कृते खाते शुद्धिमेति च तत्क्षणात् ।
यस्मात्तस्मादिदं सम्यग्यत्रकुत्र समाचरेत् ॥ ८६ ॥

ततो भुवं समीकृत्य गोमयेनोपलिप्य च ।
समर्चयित्वा विधिवत्ततो दिक्सिद्धिमाचरेत् ॥ ८७ ॥

शास्त्रदृष्टेन मार्गेण शङ्कुसंस्थापनादिकम् ।
कृत्वा यथोक्तविधिना प्रासादं कर्तुमारभेत् ॥ ८८ ॥

आरभ्यमाणे प्रासादे ये वै प्रत्यूहकारिणः ।
भूतदानवयक्षाश्च राक्षसास्तत्प्रशान्तये ॥ ८९ ॥

बालालये देवदेवं प्रतिष्ठाप्य यथाविधि ।
अर्चयेद्विविधैर्भोगैर्यावद्वै मूलमन्दिरे ॥ ९० ॥

स्थापनं देवदेवस्य तदन्ते बालबिम्बगाम् ।
शक्तिं कुम्भे समावाह्य मूलबिम्बे समर्पयेत् ॥ ९१ ॥

एवं बालगृहे विष्णौ पूजिते मुनिपुङ्गवाः ।
प्रत्यूहकारिणः सर्वे प्रणश्यन्ति ततो गुरुः ॥ ९२ ॥

शुभे दिनेऽनुकूले च नक्षत्रे पूजितग्रहे ।
लग्ने स्थिरे स्थिरांशे च ह्यकृते चोत्तरायणे ॥ ९३ ॥

दिव्यायुधपातसंशुद्धे सितपक्षेऽमलेऽम्बरे ।
आजलान्ते कृते खाते पूर्ववत्सम्पूरिते ॥ ९४ ॥

विमुक्तदोषे भूभागे सर्वलक्षणलक्षिते ।
पूरणादंशशेषे तु सूपलिप्ते धरातले ॥ ९५ ॥

चतुःषष्टिपदे भूते प्राग्वत्सूत्रेण सर्वदिक् ।
स्नातः शुक्लाम्बरः स्रग्वी कृतन्यासः सुशान्तधीः ॥ ९६ ॥

सर्वसाधनसंयुक्तशिष्यौपाससमन्वितः ।
माङ्गल्यकुम्भमादाय ध्यायमानोऽच्युतं हृदि ॥ ९७ ॥

सह चैकायनैर्विप्रैः सदागमपरायणैः ।
तथा ऋग्जयुर्वेदैस्तु आमूलाद्ब्राह्मणयैः ॥ ९८ ॥

विशेत्प्रासादभूभागं मध्ये कुम्भं निधाय तम् ।
कुर्यान्निरीक्षणं भूमेस्ताडनं प्रोक्षणं तथा ॥ ९९ ॥

सेचनं पञ्चगव्येन सह चास्त्रोदकेन तु ।
ओङ्काराद्यं पवित्रान्तं मन्त्राणां प्राक् चतुष्टयम् ॥ १०० ॥

पाठयेच्च सुपुण्याहं ब्राह्मणान् कृतमङ्गलान् ।
बह्वृचान् शाकुनं सूक्तं ततो भद्रं यजुर्भियान् ॥ १०१ ॥

इडामयेति सामज्ञान् शान्त्यौचित्यथर्वणान् ।
ईशकोणात्समारभ्य प्रागादौ प्रतिपङ्क्तिषु ॥ १०२ ॥

द्वादशाक्षरमन्त्रेण स्वनाग्रा तु पदे पदे ।
नतिप्रणवगर्भेण दैवतं देहलक्षणम् ॥ १०३ ॥

यक्ष्यो वास्तुपुरुषो दृष्टिश्रवकन्दनादिना ।
सात्विकेनोपहारेण अग्नौ सन्तर्पयेत्ततः ॥ १०४ ॥

यद्वा विध्यन्तरं भूयः शृणुध्वं मुनिपुङ्गवाः ।
सर्वदिक्षु समैर्भागैर्नवधा संविभज्य च ॥ १०५ ॥

सूत्रैः सुधावलितैश्च यागागारवसुन्धराम् ।
एकाशीतिपदोपेतां कुर्वीतां सम्यगन्ततः ॥ १०६ ॥

प्रत्येकस्मिन् पदे कुर्यात्तुर्यांशेन चाम्बुजम् ।
दलाष्टकयुतं चैव कर्णिकाकेसरान्वितम् ॥ १०७ ॥

अग्निनिरक्षोवायव्यवहिः कोणपदेषु च ।
चतुष्थं यत्पद्मानां केवलं तच्च बुद्धिकम् ॥ १०८ ॥

ईशानपदपद्मान्तु समारभ्य प्रपूजयेत् ।
बाह्यपङ्क्तिषु पद्मेषु क्रमादेवासुरान् ऋषीन् ॥ १०९ ॥

वृषाङ्कपदपद्मे तु ब्रह्माणं कर्णिकान्तरे ।
ईश्वरं तपनं चैव दितिं चैव तथादितिम् ॥ ११० ॥

पूर्वपत्रं समारभ्य विन्यसेदावृत्तस्ततः ।
एवं तस्मिन् पदाब्जे तु पूजयित्वा तु पञ्चकम् ॥ १११ ॥

यक्ष्यं च ततः सम्यग्विबुधानां च सप्तकम् ।
क्रमात्सप्तपदस्थानां पद्मानां कर्णिकोपरि ॥ ११२ ॥

वाल्याख्यं चापवत्सं च जयेन्द्रः समरीयकः ।
रविः सत्यात्मदेवौ च ततो दक्षिणपदाम्बुजे ॥ ११३ ॥

भूयः पितामहं मध्ये पूर्वपत्रे न्यसेदृगुम् ।
गगनं हि विभुं पूषा दक्षिणे पश्चिमोत्तरे ॥ ११४ ॥

ईक्ष्यं कोणपदेषु पत्रस्थं च चतुष्टयम् ।
यजेद्राक्षसकोणान्तमभ्जेष्वथ सप्तकम् ॥ ११५ ॥

सवित्राख्यश्च सावित्रः ससैन्यश्च गृहक्षमः ।
विवस्वान् धर्मदेवस्तु गन्धर्वाधिपतिः स्मृतः ॥ ११६ ॥

पदे नैर्ऋतकोणस्थे भूयो ब्रह्माणमन्तरे ।
भुजाख्यो भुजराट् चैव ततः पितृगणाधिपः ॥ ११७ ॥

दैवदौवारिकाख्यश्च प्राक्पत्रादौ चतुष्टयम् ।
ततोऽष्टपत्रपद्मेषु देवतासप्तकं क्रमात् ॥ ११८ ॥

कर्णिकान्तर्गतं न्यस्य यावद्वायुपदावधि ।
इन्द्रश्रेष्ठपदाख्यश्च सुग्रीवः कुसुमद्विजः ॥ ११९ ॥

मित्राख्यो वरुणश्चैव त्वसुराधिपतिः पुनः ।
वायव्यपदपद्मे तु मध्ये चैव प्रजापतिम् ॥ १२० ॥

प्राक्पूर्वेषु च पत्रेषु शोषधर्म एव च ।
यन्मयाधिपतिश्चैव नागेन्द्रस्तदनन्तरम् ॥ १२१ ॥

सप्तकं देवतानां च पूर्ववत्पूजयेत्ततः ।
पूवाख्यो रुद्रदासश्च मुखौ मल्लकसोमकौ ॥ १२२ ॥

धराधरश्च मत्संज्ञा इत्येतद्देवतागणम् ।
पूजयित्वा ततः पश्चादेकैकस्मिंस्तु पङ्कजे ॥ १२३ ॥

स्वनाम्ना वास्तुनाथं तु पत्रमध्ये स्थितं यजेत् ।
कोणभागस्थपद्मानां केसराग्रो यजेत तम् ॥ १२४ ॥

प्रणवं वास्तुनाथाय नमश्चान्ते प्रपूजयेत् ।
पूजयित्वा विधानेन पुष्पधूपादिकेन च ॥ १२५ ॥

दधिक्षीरोदकेनैव मध्ये सफळमूलकैः ।
ईक्ष्यैवं विभुपान्तं बाह्ये त्वावरणे पुरा ॥ १२६ ॥

तदन्तरपदाब्जानामीशकोणादितः पुनः ।
यावन्मध्यपदाब्जं तु पूर्वं वर्णक्रमेण तु ॥ १२७ ॥

मातृकावर्णभेदेन अकारादिक्रमेण तु ।
यावद्बकारवर्णं तु ततोऽब्जदलेषु च ॥ १२८ ॥

तेनैव क्रमयोगेन पूजयेद्देवतागणम् ।
द्वितीयावरणे चैव अन्तरीये निबोधत ॥ १२९ ॥

धाता याता ध्रुवः कालः कामः कर्ता जयन्तकः ।
जीवः प्राणस्तरो यक्षो रविश्च मृगयाम्यकौ ॥ १३० ॥

लोकनाथो विधाता वै भृगुः स्रष्टा नियामकः ।
मनोजवश्च कल्याणः पर्जन्यो द्रविणस्ततः ॥ १३१ ॥

स्रष्टारो विश्वकर्मा च इत्येता मुनिपुङ्गवाः ।
देवताश्चान्तरे पूज्याश्चतुर्विंशतिसंख्यया ॥ १३२ ॥

एतेषामन्तरे भूयस्तृतीयावरणे तथा ।
षोडशानां ततः सम्यग्देवतानां गणं क्रमात् ॥ १३३ ॥

समुद्रा मातरो द्वीपा मासा नक्षत्रतारकाः ।
विश्वे देवाश्चाप्सरसो मनवो ऋषयस्तथा ॥ १३४ ॥

वसवो मरुतः सिद्धा नागाः साध्या ग्रहाः क्रमात् ।
इन्द्रादिलोकपालांस्तु चतुर्थावरणे न्यसेत् ॥ १३५ ॥

तत्तत्पदादौ तु चैशान्तं पद्मानां पत्रमध्यतः ।
मध्यपद्मे तु पद्मस्थं विश्वरूपं यजेत्तमुम् ॥ १३६ ॥

यस्यैवं देवताचक्रं वाहनास्त्रानुयायिभिः ।
संयुक्तं तिष्ठते देहे सकलस्य महात्मनः ॥ १३७ ॥

प्रणवेन स्वनाम्ना च नमस्कारयुतेन तु ।
एकैकं पूजयेद्देवं तथैकैकमिहाक्षरम् ॥ १३८ ॥

ईक्ष्यैवं देवताः प्राग्वदग्नौ सन्तर्पयेत्ततः ।
कुर्यात्कुम्भप्रतिष्ठानं यथा तदवधार्यताम् ॥ १३९ ॥

पूर्ववत्तोरणाद्यैस्तु भूभागमुपशोभयेत् ।
निर्णिक्तालयवक्त्रस्य अग्रतस्त्वक्षितेर्बहिः ॥ १४० ॥

पूर्वोपकरणोपेतं कुर्यान्मण्डलमुत्तमम् ।
कुण्डाष्टकान्तरस्थं च स्थलं तत्राष्टहस्तकम् ॥ १४१ ॥

सपिण्डिका द्विहस्तास्तु कुण्डाः पूर्वोक्तलक्षणाः ।
त्रिहस्तपरिता वीथी स्यादेवं द्विनवः शमः ॥ १४२ ॥

पूर्ववत्प्रतिकुण्डे तु विनिवेश्य च साधनम् ।
आत्मनश्चोत्तरे कुर्यात्कुण्डं चाथ समस्थले ॥ १४३ ॥

दक्षिणे पूर्ववद्देवमवतार्य यजेत्क्रमात् ।
स्थलायां स्थण्डिलस्योर्ध्वे उन्नतायां च पूर्ववत् ॥ १४४ ॥

तर्पयित्वा यथाकाममुद्धृत्याग्निगणं ततः ।
दिक्कुण्डेषु विनिक्षिप्य संस्कृतेषु च पूर्ववत् ॥ १४५ ॥

तथैव च विदिक्स्थेषु उद्धृत्याभ्यर्च्य वै क्रमात् ।
ततः प्रभवयोगेन चतुर्दिक्षु निवेशयेत् ॥ १४६ ॥

चतुरो वासुदेवादीन् नाम्ना एकायनान् द्विजान् ।
स्वाभिः स्वाभिरसंख्यं तु तैः कार्यमभिधाय च ॥ १४७ ॥

कर्मावसानं हवनं साज्यैस्तु तिलतण्डुलैः ।
एवमप्यययोगेन वाय्वादीशानगोचरम् ॥ १४८ ॥

ऋग्वेदाद्यांस्तु चतुरः संस्कृत्यादौ तथा न्यसेत् ।
तैरप्यच्युतलिङ्गैस्तु स्वशाखोक्तैश्च पावनैः ॥ १४९ ॥

हवनं विधिवत्कार्यं भक्तियुक्तेन चेतसा ।
अथेशकोणमासाद्य ब्राह्मणैरपरैः सह ॥ १५० ॥

प्राग्निर्दिष्टं न्यसेत्तत्र स्नानोपकरणं तु यत् ।
दशार्धगव्यपूर्वं तु कलशेषु पृथक् पृथक् ॥ १५१ ॥

तानर्च्योर्घ्यादिना पश्चाद्द्विषडर्णाभिमन्त्र्य च ।
समानीय शिलोपेतान् कलशान् पूर्वसम्भृतान् ॥ १५२ ॥

उत्कृष्टधातुसम्भूतान् नव शैलमयांस्तु वा ।
समान् सुपक्वान् सुघनान् मृण्मयांस्तदभावतः ॥ १५३ ॥

द्वादशाङ्गुलविस्तीर्णान् तन्मानेन तु चोन्नतान् ।
द्विगुणान् सति सामर्थ्ये नृपाणां हेमजान् हितान् ॥ १५४ ॥

तत्संख्यं चतुरश्रं तु द्वादशाङ्गुलविस्तृतम् ।
तत्तुर्यांशतुल्यं बाहुल्याच्छिलावृन्दं समाहरेत् ॥ १५५ ॥

संस्थाप्य विधिवत्कुम्भान् पूर्वोक्तेन क्रमेण तु ।
कंबुतुल्यमथैकं वा तत्कण्ठं त्र्यङ्गुलोन्नतम् ॥ १५६ ॥

तद्द्विगुणैरपि विस्तीर्णं तत्खातोऽष्टाङ्गुलः स्मृतः ।
परितः कर्णवर्जन्तु शङ्खो वा सुसितो महान् ॥ १५७ ॥

विहितो हृतनासस्तु अन्तः शुद्धस्तु साक्षतः ।
एवं हि सान्तराद्बाह्यात्समालभ्याधिवास्य च ॥ १५८ ॥

फलैर्हेमादिकै रत्नैः सर्वौषधिमयैस्ततः ।
गन्धैर्बीजैस्तथा धान्यैर्विद्रुमाद्यैस्तु मौक्तिकैः ॥ १५९ ॥

नेत्रवस्त्रैरलङ्कारैर्भूषयेत्स्रग्वरैः शुभैः ।
द्वादशाक्षरमन्त्रेण एकैकस्य समाचरेत् ॥ १६० ॥

मूर्तिसंसिद्धये न्यासं प्रणवैः सच्चिदात्मनाम् ।
ततश्चार्घ्यादिकैर्भोगैर्बल्यन्तैर्विविधैर्यजेत् ॥ १६१ ॥

शिलास्वेवं कृतेः पश्चान्निनयेत्कुण्डसन्निधिम् ।
सशिलं कुम्भवृन्दं तु आधारेषूपरि न्यसेत् ॥ १६२ ॥

तदाधारशिलां पश्चात्तत्र वा मण्डपाद्बहिः ।
एवमेव च संस्कृत्य भावयेत्प्रणवेन तु ॥ १६३ ॥

ज्वलन्तीं गोसहस्रेण खचितां सूर्यबिम्बवत् ।
ततश्चाराध्य मन्त्रं तु सन्तर्प्य शतसङ्ख्यया ॥ १६४ ॥

मध्ये तत्कलशं न्यस्य साङ्गं सपरिवारकम् ।
निरशेषशक्तिगर्भं तु व्यापकं ब्रह्मतत्त्ववित् ॥ १६५ ॥

अत ऊर्ध्वं तिर्यग्भागैर्वागाद्याभिश्च शक्तिभिः ।
व्रतमूर्तिसमेताभिरभिन्नाभिस्तु तत्त्वतः ॥ १६६ ॥

पाठयेद्ब्राह्मणान् तत्र आत्मव्यूहं तु मन्त्रराट् ।
तथैवात्मानुवादं च प्रणवाद्यन्तगन्तु वै ॥ १६७ ॥

तमर्चयित्वा विधिवत्तर्पयित्वा त्वनन्तरम् ।
दिक्स्थितानां च कुम्भानां वासुदेवादिकान् न्यसेत् ॥ १६८ ॥

पूर्ववच्चानिरुद्धाद्यान् विदिक्संस्थापितेषु च ।
पाठयेच्चातुरात्मीयं संज्ञामन्त्रचतुष्टयम् ॥ १६९ ॥

प्रभवाप्यययोगेन ततः सूक्तं तु पौरुषम् ।
ऋग्वेदान् पाठयेद्भक्त्या युञ्जतेत्यपरान् यजुः ॥ १७० ॥

रथन्तराख्यं यत्साम सामज्ञान् भगवन्मयान् ।
सहस्रशिरसं चैति मन्त्रं चाथर्वणं ततः ॥ १७१ ॥

एकस्मिन् वा मुनिश्रेष्ठाः सर्वोक्तं कलशे हितम् ।
तथैव हवनं कुण्डे मध्यमे विहितं स्वयम् ॥ १७२ ॥

किं तु क्रमेण वै मन्त्रान् पाठयेच्च यथास्थितान् ।
एवं सम्पातहोमं तु कृत्वा पूर्णान्तिकं ततः ॥ १७३ ॥

महाशक्तिसमूहस्तु परः सामर्थ्यलक्षणः ।
अभेदेन च मन्त्रादिमूर्तीनां यः स्थितः स्फुटम् ॥ १७४ ॥

समर्चेयः शिलानां च स्वनाम्ना प्रणवेन तु ।
ज्ञानभासा निवसति तथा नन्दबला प्रभा ॥ १७५ ॥

सर्वगा ब्रह्मवदना द्योतकी सत्यविक्रमा ।
सम्पूर्णा चेति कथिताः शक्तयो विश्वधारिकाः ॥ १७६ ॥

या शिला कलशाधारसंज्ञा तां विद्धि सर्वगाम् ।
सामर्थ्यशक्तिसामान्यां निष्कलां पारमेश्वरीम् ॥ १७७ ॥

सन्तर्प्य मूलमन्त्राच्च शिखामन्त्रेण लाजतिलैः ।
अजस्यनाभावध्येकमन्त्रेणैकायनैस्ततः ॥ १७८ ॥

तादर्थ्येन तु होतव्यं मृण्मयैस्तु तथैव हि ।
होतव्यमस्य वाग्मीयं गायत्रीभिरतोऽपरैः ॥ १७९ ॥

होतव्यं ब्राह्मणैः सम्यक्तद्व्याप्तेरुपलक्षकैः ।
दत्त्वा पूर्णां स्वयं कृत्वा स्थलस्थस्यार्चनं पुनः ॥ १८० ॥

बलिदानं च भूतानां समाचम्य ततो व्रजेत् ।
प्रासादब्रह्मभूभागं न्यसेत्तत्र महाशिलाम् ॥ १८१ ॥

संस्मरंश्चक्रमन्त्रं तु सान्तं प्रणवेन वै ।
बीजभूतं तदन्तःस्थमध्वषट्कं स्मरन् यजेत् ॥ १८२ ॥

निःशेषमन्त्रवृन्देन तामर्घ्यादेरनन्तरम् ।
द्वारदिग्वीक्षमाणं तु मध्ये मन्त्रघटं न्यसेत् ॥ १८३ ॥

स्वदिक्ष्वन्यान्यथावस्थान् स्वैः स्वैर्मन्त्रैर्निवेशयेत् ।
ततः स्वशक्तिपाषाणैरेकैकं स्थगयेद्घटम् ॥ १८४ ॥

पूरयेदस्त्रमन्त्रेण घटानामन्तरं ततः ।
मृदुमृद्वालुकाभिस्तु सुधयाऽचलसिद्धये ॥ १८५ ॥

संवेष्ट्य नेत्रवस्त्रैस्तु ऋग्वेदान् पाठयेत्ततः ।
आत्वा हार्षेति सूक्तं तु प्रतिष्ठासाम सामगान् ॥ १८६ ॥

द्वादशाक्षरसंयुक्तं बलमन्त्रं पुनः पुनः ।
वक्तव्यं ब्रह्मनिष्ठैस्तु प्रणवान्तं सुभावितैः ॥ १८७ ॥

तदेकतनुतां यातं संस्मरेत्प्रणवेन तु ।
मूर्त्यादिशक्तिनिष्ठं यन्नामरूपक्रियात्मकम् ॥ १८८ ॥

द्वादशाक्षरमन्त्रेण भूयः सहृदयङ्गमैः ।
मन्त्राराध्यं स्वमूर्तिं तु संस्मरेत्तेजसां निधिम् ॥ १८९ ॥

ततस्त्वोम्भगवन्भोगैः पाठयेत्पाञ्चरात्रिकान् ।
अर्चामीतीति ऋग्वेदान् अर्चीसाम च तद्विदः ॥ १९० ॥

ततः परिगृहीते तु क्षेत्रे देवगृहीयके ।
द्वादशाङ्गुलमानं तु दिग्विदिक्ष्वष्टकं न्यसेत् ॥ १९१ ॥

स्नापितं पूजितं सम्यक् शिष्याणां शुभलक्षणम् ।
तदन्तः सन्निरोध्यो बुद्धिधर्मगुणः क्रमात् ॥ १९२ ॥

धर्माद्याश्चाग्निकोणात्तु यावदीशपदं पुनः ।
प्रागादावुत्तरान्तं च अधर्माद्यं चतुष्टयम् ॥ १९३ ॥

शिलानामन्तरे भूमौ षट्कं षट्कं क्रमेण तु ।
न्यस्तव्यं पूर्ववर्णाच्च वर्णानां सावसानकम् ॥ १९४ ॥

शब्दब्रह्मानुविद्धां च कृत्वैवं बुद्धिवागुराम् ।
सूत्रभूतां न्यसेत्सम्यक् प्रासादतलसंस्थिताम् ॥ १९५ ॥

न्यसेत्प्राङ्गणभित्त्यर्थं तथैव हि शिलाष्टकम् ।
तासु संरोधयेत्सम्यक् प्रागुक्तांस्तु दिगीश्वरान् ॥ १९६ ॥

चक्रं तदन्तभूमीनां भ्रमद्वहिस्फुलिङ्गवत् ।
क्षार्णेन चिन्तयेद्व्याप्तं भूभागं चाङ्गणीयकम् ॥ १९७ ॥

आभोगं तदधः शेषं तदूर्ध्वे गगनेश्वरम् ।
बहिः प्राङ्गणभित्तीनां साङ्गं सपरिवारकम् ॥ १९८ ॥

प्रागादावीशकोणान्तमिन्द्राद्यं चाष्टकं न्यसेत् ।
तथाविधेषूपलेषु अन्तर्भूमिगतेषु च ॥ १९९ ॥

तत्तत्स्वनाम्नाऽर्चयित्वा तु ऋग्वेदान् पाठयेत्ततः ।
क्रीबो न विद्वानिति वै ये देवास्तु यजुर्मयान् ॥ २०० ॥

देवव्रतं च सामज्ञान् प्रविश्याभ्यन्तरं ततः ।
स्थित्वाग्रतो मन्त्रमूर्तेरध्वव्याप्तिमनुस्मरेत् ॥ २०१ ॥

बीजतश्चाङ्कुरीभूता पुरस्ताद्व्यक्तिमेति सा ।
प्रासादपीठपर्यन्तं कुम्भाधारोपलात्तु वै ॥ २०२ ॥

भुवनाध्वा यथावस्थो भावनीयस्तु सर्वदा ।
गर्भोच्छ्रायविधिपर्यन्तदध्वानं विलोकयेत् ॥ २०३ ॥

मन्त्राध्वा शुकनासान्तं तत्त्वाध्वा वेदिकावधि ।
कलाध्वा तु गलान्तं च वर्णाध्वा तु तदूर्ध्वतः ॥ २०४ ॥

समीकृत्य पुरा सर्वं प्रासादं प्रारभेततः ।
प्रासादस्थैर्यसिद्ध्यर्थं देवसान्निध्यसिद्धये ॥ २०५ ॥

सर्वदोषप्रशान्त्यर्थं सर्वसम्पत्तिसिद्धये ।
गर्भन्यासं पुरा कुर्याद्भिन्ने गेहे यथाविधि ॥ २०६ ॥

रत्नैर्लोहैस्तथा बीजैः कन्दैर्मुद्रैश्च पूरिताम् ।
सौवर्णीं राजतीं वाप्यथ ताम्रजां वा स्वशक्तितः ॥ २०७ ॥

नवगर्तसमायुक्तो मञ्जूषां सापिधानकाम् ।
सम्प्रोक्ष्य चास्त्रतोयेन नवसूत्रेण वेष्टयेत् ॥ २०८ ॥

धान्यराशौ तु विन्यस्य मूलमन्त्रेण देशिकः ।
अर्घ्यगन्धादिनाभ्यर्च्य कुण्डे वा स्थण्डिलेऽपि वा ॥ २०९ ॥

देवमभ्यर्च्य विधिवत्समिद्भिः सप्तभिः क्रमात् ।
हुत्वा पूर्णाहुतिं पश्चादाचार्यः समुपोषितः ॥ २१० ॥

शुक्लवस्त्रोत्तरीयश्च भूषणैरपि भूषितः ।
गन्धमाल्यालङ्कृताङ्गः रात्रौ लग्ने सुशोभने ॥ २११ ॥

भाजनं तत्समादाय वेदघोषैश्च मङ्गलैः ।
वाद्यघोषैश्च सहितः कृत्वा गेहं प्रदक्षिणम् ॥ २१२ ॥

प्रविश्य गर्भभूभागं तत्र द्वारस्य दक्षिणे ।
कृतं श्वभ्रं पञ्चगव्यैः सेचयित्वा समन्ततः ॥ २१३ ॥

तत्र भूमिं तु चास्त्राद्यैः समभ्यर्च्य ततस्तु ताम् ।
परिचिन्त्य ऋतुस्नातामात्मानं च हरिं स्मरन् ॥ २१४ ॥

सर्वभूतधरे कान्ते पर्वतस्तनमण्डिते ।
समुद्रपरिधानिये देवि गर्भं समाश्रय ॥ २१५ ॥

इत्युक्त्वा भाजनं श्वभ्रे निधाय सुधया ततः ।
दृढीकृत्य ततः श्वभ्रं मृदापूर्य समन्ततः ॥ २१६ ॥

त्रिचतुः पञ्चरात्रं वा रक्षां कुर्यान्मुनीश्वराः ।
गर्भन्यासस्त्वयं विप्राः देवधाम्नोश्च वृद्धिदः ॥ २१७ ॥

अकृते गर्भविन्यासे प्रत्यवायो महान् स्मृतः ।
तस्मात्सर्वप्रयत्नेन गर्भन्यासं समाचरेत् ॥ २१८ ॥

प्रासादस्याथ वक्ष्यामि लक्षणं मुनिपुङ्गवाः ।
तलादूनाधिकाश्चैव साङ्गुलैरुचितैः करैः ॥ २१९ ॥

द्विद्वादशकरं यावत्तलेनोनाधिकेन तु ।
शुभाय सिद्ध्यै विघ्नार्तिं देवगृहस्य च ॥ २२० ॥

कृत्वा क्षेत्राङ्गुलानां च करणां वा धनं पुरा ।
त्यजेत्तदष्टभिः सम्यग्यच्छेषं तद्विचार्य च ॥ २२१ ॥

एकाद्यष्टमपर्यन्ता ध्वजधूममृगेश्वराः ।
श्वा च गोखरमातङ्गवायसास्तु ततः शुभाः ॥ २२२ ॥

एकत्रिपञ्चसप्ताख्याः सर्वत्रैव विधीयते ।
एवमन्तर्भ्रमेणैव सह भित्तिगणेन तु ॥ २२३ ॥

गर्भद्विगुणविस्तीर्णं क्षेत्रं देवगृहस्य च ।
मन्दिरे त्वेकभित्तीये क्षेत्रमानं विधीयते ॥ २२४ ॥

गर्भोक्तं तत्त्रिभागेन युक्तं युक्तेन वर्त्मना ।
तत्रापि ह्रासवृद्ध्या तु आयशुद्धिं विचारयेत् ॥ २२५ ॥

एवं निर्जगतीकं च भागपीठं विवर्जितम् ।
प्रासादक्षेत्रमानं च तद्युक्तमवधार्यताम् ॥ २२६ ॥

षड्भागेनाथ पादेन त्रिभागेनोभयान्तिका ।
अधिकाधं चतुर्दिक्षु तत्पञ्चांशैस्तु वै त्रिभिः ॥ २२७ ॥

तृतीयांशेन वै मध्ये निर्गमस्तु विधीयते ।
कोणात्कोणात्तु वै शेषं भागं भागं प्रवेशयेत् ॥ २२८ ॥

उच्चं गर्भसमं पीठं तत्पीठेन दलेन वा ।
पीठोक्तालयपीठस्य लक्ष्मस्थित्यंशकल्पना ॥ २२९ ॥

चतुर्दिक्षु विधेया वै बहुधानन्तपूर्विका ।
अथोच्छ्रायं तु वै क्षेत्रात् त्रिकोणं मन्दिरस्य च ॥ २३० ॥

कुर्याद्द्व्यर्धगुणं चैव द्विगुणं वा यथेच्छया ।
द्विरेकादशधा कुर्यात्तं च भागैः समं पुरा ॥ २३१ ॥

विधेयं पीठवत्पश्चादेकांशेन मसूरकम् ।
तदूर्ध्वे विहिता जङ्घा गर्भमानेन चोन्नता ॥ २३२ ॥

भवोपकरणीयाभिर्देवताभिरलङ्कृता ।
जङ्घायामंशयुग्मेन उपर्यूनाधिकेन वै ॥ २३३ ॥

कार्यं शिखरपीठं तु पूर्वलक्षणलक्षितम् ।
किं तु प्रवेशनिर्यासौ तत्र चार्धांशसम्मितौ ॥ २३४ ॥

शिखरं चात्र विहितं भूमिकानवकान्वितम् ।
सङ्कोच्य तत्पुरा सूत्रमादायोन्नतिसम्मितम् ॥ २३५ ॥

एतस्मादेकवर्णात्तु जङ्घोर्ध्वीयातसाच्च च ।
संस्पृशेच्छिखरं पीठमञ्जसा तन्निरुध्य च ॥ २३६ ॥

प्रासादाद्बहिराद्यत्र भूभागे त्वमलेक्षण ।
कर्णादूर्ध्वं नयेत्सूत्रं लाञ्छ्यमानं क्रमेण तु ॥ २३७ ॥

शिखरोन्नतिपर्यन्तं चतुर्दिक्ष्वेवमेव हि ।
पर्यटेल्लाञ्छ्यमानं तु कर्णात्कर्णं मुनीश्वराः ॥ २३८ ॥

यावत्कुमुदपत्राभा सा स्याच्छिखरमञ्जरी ।
एवमालेख्यदृष्ट्या तु सम्पाद्यातन्तुपाततः ॥ २३९ ॥

भूमिकाण्डप्रसिद्ध्यर्थं कार्या सा दशधा पुनः ।
उपरिष्टात्तु भागेन भवेदामलसारकम् ॥ २४० ॥

भूमयो भागमानास्तु ततस्तासां समाचरेत् ।
क्षयवृद्ध्या विधानं तु तद्ध्र्यंशसम्मितम् ॥ २४१ ॥

विभिन्ना पीठरचना तासु कार्या यथास्थिता ।
सचक्रैर्विविधैः पद्मैः प्रादुर्भावैस्तु चाखिलैः ॥ २४२ ॥

सर्वैर्लाञ्छनैर्मूर्तैर्नृत्तगीतरसस्थितैः ।
नवांशेनोर्ध्वभागात्तु स्वपादेन विनिर्गतम् ॥ २४३ ॥

उष्णीषमूर्ध्वभूमेस्तु कार्यं वै रचनोर्जितम् ।
शिष्टं कृत्वा त्रिधा पीठं मण्डलस्थेन पूर्ववत् ॥ २४४ ॥

द्वितीयेन ततः कण्ठं तृतीयेनोर्ध्वगेन तु ।
सुसमं श्रीयुतं कुर्यादण्डं धात्रीफलाण्डवत् ॥ २४५ ॥

नवधोष्णीषकं कृत्वा चतुर्भिर्वेदिकाक्रमम् ।
त्रिभागपृथुभागेन सस्तम्भा ह्यथ केवला ॥ २४६ ॥

उन्नता शिखरार्धेन साप्युत्पलदलोपमा ।
कार्या शिखरपीठोर्ध्वे दिव्यकर्मविभूषिता ॥ २४७ ॥

ततः शुभतरं कुर्यान्मण्डपं स्तम्भसंयुतम् ।
भूषितं विहगेन्द्रेण बलिमण्डलगेन तु ॥ २४८ ॥

चतुर्द्वारे तथा दिक्षु विधेयं मण्डपत्रयम् ।
प्रवेशत्रितयोपेतं मण्डपे मण्डपं भवेत् ॥ २४९ ॥

कुर्यान्मण्डपमुक्तं वा यथाभिमतनिर्गमम् ।
रथोपरथकार्यं तु तेषां गर्भाद्विधीयते ॥ २५० ॥

निर्यासो दशमांशेन द्वादशांशेन लाञ्छितः ।
अथवा षोडशांशेन ते कार्यौ नेमिवत्पुनः ॥ २५१ ॥

चतुर्दिक्पक्षसंलिप्ताः पीठकर्मविभूषिताः ।
शिखरस्य चतुर्दिक्षु पीठोपरि समापयेत् ॥ २५२ ॥

समं रथकयुक्त्या तु नासिकामञ्जरीगणम् ।
मध्यदेशचतुर्दिक्षु कुर्याद्द्वारगणं समम् ॥ २५३ ॥

त्रिचतुःपञ्चषड्भागे ततो गर्भाद्विधीयते ।
द्विगुणं चोन्नतत्वेन त्रिपञ्चनवशाखिकम् ॥ २५४ ॥

युक्तं द्वारस्थद्वयेनैव कुम्भेभदशनैस्तु वा ।
विधिवत् स्थापनं तस्य मन्त्रपूर्वं समाचरेत् ॥ २५५ ॥

संस्नाप्य मूलमन्त्रेण सम्पूज्यार्घ्यादिना हृदा ।
शाखामूलगतां कुर्याद्धातुरत्नमयीं स्थितिम् ॥ २५६ ॥

सर्वाधारमयं मन्त्रं सन्निरोध्य हि तत्र च ।
ज्ञानक्रियात्मकं ध्यात्वा शिखामन्त्रेण शाश्वतम् ॥ २५७ ॥

दक्षिणोत्तरभागाभ्यां शाखायुग्मं तु विन्यसेत् ।
हृन्मन्त्रेण तदूर्ध्वे तु रुध्वाद्यं परमेश्वरम् ॥ २५८ ॥

सन्निधीकृत्य सम्पूज्य गगनस्थे ह्युदुम्बरे ।
द्विविधं धातुजालं तु रत्नं सिद्धार्थकान् तिलान् ॥ २५९ ॥

चन्दनाद्या हि गन्धा ये क्षीरं दधि घृतं मधु ।
शालयः सर्वबीजानि सर्वौषध्यः सविद्रुमाः ॥ २६० ॥

कृत्वा नेत्रेण नेत्रस्थान् द्वारोर्ध्वे विनिवेश्य तान् ।
ह्रस्वं भोगाय चैव त्वह्रस्वं मोक्षसिद्धये ॥ २६१ ॥

चतुष्पात्सकलो धर्मः तदूर्ध्वे सन्निरोध्य च ।
चत्वारि शृङ्गा इति यत् पाठयेदृङ्मयांस्ततः ॥ २६२ ॥

कर्महोमचयं कृत्वा पूर्णां मूलेन पातयेत् ।
एतद्बिम्बप्रतिष्ठानात्प्राग्वत्पश्चात्समाचरेत् ॥ २६३ ॥

स्थित्यपेक्षावशेनैव ह्यालयस्य तु वै विभोः ।
अनन्तभुवनं नाम सर्वकामापवर्गदम् ॥ २६४ ॥

चतुष्प्रकारमेवं हि प्रासादं विद्धि पीठवत् ।
रचनासन्निवेशोत्थभेदेनानेकधा तथा ॥ २६५ ॥

पतत्रीशमृगेन्द्रैस्तु निधिभूतौपमैर्घटैः ।
शङ्खपद्माङ्किताभिस्तु सोपानपदपङ्क्तिभिः ॥ २६६ ॥

युक्तं द्वारवशेनैव तथा पीठवशात्तु वै ।
विस्तारः प्रतिदिक्कस्थरथकस्य विधीयते ॥ २६७ ॥

गर्भेऽर्धक्षेत्रसंज्ञा च जगतीकस्य लाञ्छिन् ।
ज्ञेयः सजगतीकस्य तन्मानेनापि सर्वदिक् ॥ २६८ ॥

एष्यः पादादिकं कुर्यात्पादाद्यंशोज्झितं तु वै ।
बुध्वा चायतनानां च संस्थितञ्चाङ्गणे पुरा ॥ २६९ ॥

चतुरायतनं हेतत्प्रासादैः दिक्त्रयस्थितैः ।
आद्येन सह कोणस्थैः तत्पञ्चायतनं स्मृतम् ॥ २७० ॥

विधेयमष्टायतनं त्रिभिरन्यैस्तु दिग्गतैः ।
विना मध्यस्थितेनैव दिग्गतैस्तु द्विभिर्द्विभिः ॥ २७१ ॥

तदष्टायतनं तेन युक्तमेकाधिकं भवेत् ।
प्रतीचीपक्षगेनैव प्रासादद्वितयेन तु ॥ २७२ ॥

द्वादशायतनं ह्येतत्सह मध्यस्थितेन तु ।
तदेवाधिकसंज्ञं तु अतोऽन्येऽनन्तसंज्ञकः ॥ २७३ ॥

परस्परमुखौ कुर्यात्प्रासादौ द्वारदेशगौ ।
प्रासादाभिमुखाश्चैव दिक्क्रयेऽवस्थितास्तु ये ॥ २७४ ॥

कोणस्थाभ्यां च साम्मुख्यं द्वाभ्यां द्वाभ्यां विधीयते ।
द्वाभ्यां चाभिमताभ्यां तु कुर्याद्विनिवृङ्मुखम् ॥ २७५ ॥

द्वौ परस्परवक्रौ तु कोणदेशसमाश्रितौ ।
द्वाराण्यनन्तायतने प्रासादानां मुनीश्वराः ॥ २७६ ॥

यथाभिमतदिक्स्थानि कर्तव्यान्यविशङ्कया ।
न तत्र तेषां भवति वेददोषः परस्परम् ॥ २७७ ॥

अङ्गभावगतत्वाच्च प्रधानायतनस्य वै ।
अर्धेन च त्रिभागेन हितः पादेन चाङ्गणात् ॥ २७८ ॥

परण्डकस्य चोच्छ्रायस्तद्विस्तारस्तथोच्छ्रितेः ।
तच्च पीठोपमं कुर्यात्क्षणं सोष्णीषमेव वा ॥ २७९ ॥

युक्तं कीटिगणेनाथ नानादेवान्वगेन तु ।
यदेकायतनं चैव तल्लक्षणं तन्मुनीश्वराः ॥ २८० ॥

युक्तं लघुपरण्डेन केवलं वा परण्डकम् ।
यद्वा द्व्यायतनाद्यं च द्वादशायतनान्तिमम् ॥ २८१ ॥

एकदिग्वीक्षमाणं च चतुरश्रायतेऽष्टगे ।
वृत्तायते वा वितते प्रासादे चोक्तलक्षणे ॥ २८२ ॥

यस्माद्देवालयानां च अङ्गणानां विशेषतः ।
चतुरश्रादिपीठानां नित्यमेव मुनीश्वराः ॥ २८३ ॥

अन्योन्यानुगतत्वं तु हितं वाप्येधिकं तु वै ।
भूमिभागवशेनैव तथैवार्चावशेन तु ॥ २८४ ॥

नानाफलवशेनापि तथा शोभावशेन च ।
भूलाभश्चतुरश्रात्तु चतुरश्रायताद्धनम् ॥ २८५ ॥

वर्तुलात्सर्वकामाप्तिर्निर्वृतिस्तु तदायतात् ।
दृष्टादृष्टफलेप्सूनां लोकास्तु महदादयः ॥ २८६ ॥

यच्छन्ति वैष्णवं स्थानमारोग्यं भूतिमुत्तमाम् ।
वैष्णवानामकामानां च्युतेरन्ते परं पदम् ॥ २८७ ॥

मुनयः ।

प्रासादलक्षणमिदं श्रुतं त्वत्तो मुनीश्वर ।
तस्य संस्थापनविधिं विस्तरेण प्रकाशय ॥ २८८ ॥

नारदः ।

प्रासादादिप्रतिष्ठानां शृणुध्वं विधिमुत्तमम् ।
प्रासादस्याग्रतः कृत्वा पूर्ववद्यागमण्डपम् ॥ २८९ ॥

सर्वोपकरणैर्युक्तं सर्वलक्षणसंयुतम् ।
प्रासादस्यापि परितः कुर्यात्कुण्डाष्टकं गुरुः ॥ २९० ॥

सामग्र्यादेरभावे तु प्रासादाग्रप्रकल्पिते ।
यागमण्डपभूमागे कुण्डमेकं प्रकल्पयेत् ॥ २९१ ॥

समस्तमूर्तिपीयं च होमं तत्रैव कल्पयेत् ।
प्रासादस्थापनारम्भात्तृतीये पञ्चमेऽपि वा ॥ २९२ ॥

दिवसे त्वङ्कुरारोपं यथाविधि समाचरेत् ।
शैलोत्थं पूर्ववत्कुम्भं कृत्वा धातुमयं तु वा ॥ २९३ ॥

तद्विगोलकमानेन मन्त्रबिम्बेन वै सह ।
शुभेऽन्यस्मिन् दिने यागमण्डपे ह्युक्तलक्षणे ॥ २९४ ॥

अधिवास्य यथान्यायं सर्वोपकरणान्वितम् ।
स्नानाद्यमखिलं ताभ्यामापाद्य च यथाविधि ॥ २९५ ॥

तस्मिन् रत्नादिसंयुक्ते बिम्बं कुम्भे निवेश्य च ।
वस्त्रैराभरणैः पुष्पैश्छन्नं कृत्वार्घ्यपुष्पवत् ॥ २९६ ॥

शनैः प्रासादपर्यङ्कमारुहेन्मूर्तिपैः सह ।
तत्र प्राक्ताडनादींस्तु कुर्यात्सङ्क्षालनादिकान् ॥ २९७ ॥

आचरेद्बीजविन्यासं सर्वं वाऽऽवाहनोदितम् ।
निवेशनीयमित्येव बिम्बं कुम्भसमन्वितम् ॥ २९८ ॥

हृदाद्यन्तनिरुद्धेन मूलमन्त्रेण लाञ्छिन् ।
तत्राध्वमनुसन्धानमेकं कृत्वा परान्वितम् ॥ २९९ ॥

सामान्यलक्षणं पश्चात्पूर्वोक्तं वै कलात्मकम् ।
सम्पूज्य वाससाच्छाद्य सुधया व्यक्ततां नयेत् ॥ ३०० ॥

ततः पिण्डं तदूर्ध्वे तु साण्डं कुर्याद्यथोदितम् ।
प्रासादं स्नापयेत्पश्चात्पङ्क्तिः सिद्धार्थकादिभिः ॥ ३०१ ॥

सुधामयं चेत्प्रासादं दर्पणे स्नानमाचरेत् ।
समालभ्याचितं च स्रगाद्यैर्मण्डयेत्ततः ॥ ३०२ ॥

प्रासादपट्टिकायां तु पञ्चविंशतितन्तुभिः ।
बद्ध्वा तु कौतुकं पश्चात्कुर्याच्छायाधिवासनम् ॥ ३०३ ॥

स्नपनं दर्पणे कुर्यात्प्राग्वद्देशिकसत्तमः ।
प्रासादस्य चतुर्दिक्षु मूर्तयः कल्पिता यदि ॥ ३०४ ॥

तेषां नेत्राणि चोन्मील्य यथाविधि मुनीश्वराः ।
सर्वमन्यद्यथायोगं वक्ष्यमाणेन वर्त्मना ॥ ३०५ ॥

प्रासादस्यापि कुर्वीत कूर्चद्वाराधिवासनम् ।
प्रासादस्याग्रपर्यन्तं कुम्भाधारोपलात्तु वै ॥ ३०६ ॥

लोकाध्वतत्त्वदेवानां न्यासं प्राग्वत्समाचरेत् ।
दिङ्मूर्तीनां तथाऽङ्गेषु मूलमन्त्रादिकान् न्यसेत् ॥ ३०७ ॥

कलशे मण्डले चैव प्रासादस्थान् समर्चयेत् ।
प्रासादपरितः क्लृप्तकुण्डेष्वग्निं यथाविधि ॥ ३०८ ॥

संस्कृत्य वासुदेवादीन् प्रभवाप्यययोगतः ।
सन्तर्पयेद्यथाशास्त्रं यद्वा तत्पुरतः स्थिते ॥ ३०९ ॥

कुण्डे तु सकलं होममाचार्यः स्वयमाचरेत् ।
मन्त्रांश्च पाठयेद्विप्रांस्तत्प्रतिष्ठां नयेत्तु वै ॥ ३१० ॥

संरोध्य वर्ममन्त्रं तु तत्र ध्यानधिया स्वयम् ।
पूर्णान्तमखिलं कृत्वा विधिनानेन वै पुनः ॥ ३११ ॥

क्षुरो हरते वै साम पाठयेत्सामगांस्तु वै ।
चक्रमामलसारस्य मध्यतः सन्निवेशयेत् ॥ ३१२ ॥

यथाभिमतरूपं तु द्विग्वक्त्रं द्वादशाननम् ।
स्वशक्तिवरणदण्डस्थं चण्डमार्ताण्डभास्वरम् ॥ ३१३ ॥

चक्रमन्त्रं न्यसेत्तस्मिन् वर्णाध्वानं पुरोदितम् ।
गत्यागतिप्रयोगेण प्राक्क्रमेयज्ञलक्षणम् ॥ ३१४ ॥

नान्यथावत्पुरा ज्ञात्वा द्रव्यमूर्तिगते विभुम् ।
कुर्यात्ततोऽध्वसन्धानं नान्यथा तु मुनीश्वराः ॥ ३१५ ॥

अमलं शान्तसंज्ञं वै तथा शान्तोदितोदितम् ।
एकमेव हि तन्मूर्तिं यश्चक्रं वेत्ति तत्त्वतः ॥ ३१६ ॥

सोऽस्मिन् संसारचक्रे तु सर्वाश्रमनिवासिनाम् ।
सर्वधर्मरतानां च चक्रवर्तित्वमाप्नुयात् ॥ ३१७ ॥

यच्छक्तिर्ब्रह्ममूर्त्यैव सिद्धा साक्षान्निराश्रया ।
अन्तर्बहिःस्थं सर्वेषां मोक्षदं चामलं स्मृतम् ॥ ३१८ ॥

क्षीरोदार्णवतुल्यं यत्सहस्रादित्यसन्निभम् ।
निरङ्गं तीक्ष्णधारं वै तच्छान्ताख्यं हि योगतः ॥ ३१९ ॥

यत्तु नानाङ्गभावेन स्वातन्त्र्यात्स्वयमेव हि ।
सर्वदिक्प्रसृतां कृत्वा स्वात्मवृत्तिं हि वर्तते ॥ ३२० ॥

ईषद्वल्यवभामेरणामन्तरे खवत् ।
शान्तोदितं च तद्विद्धि चक्रमिच्छाफलप्रदम् ॥ ३२१ ॥

यच्छान्तमूर्तौ सम्बन्धः सर्वं कृत्वावतिष्ठते ।
प्रवृत्तं नाभिपूर्वं तु उदिताख्यं तु चक्रराट् ॥ ३२२ ॥

तस्मिन्नाराधितो मन्त्रस्तद्देहे सम्पूजितं स्मृतम् ।
जप्तं सन्तर्पितं भक्त्या सर्वेषां सर्वमृच्छति ॥ ३२३ ॥

एवं चाभिमतं चक्रं सर्वविघ्नक्षयङ्करम् ।
प्रतिष्ठाप्य समभ्यर्च्य तस्यैवं समनन्तरम् ॥ ३२४ ॥

त्र्यंशेन शिखरादुच्चं खगराट् परिभूषितम् ।
संस्कृत्य ध्वजदण्डं च शिखामन्त्रेण विन्यसेत् ॥ ३२५ ॥

ततो विविधवर्णं च किङ्किणीगणभूषितम् ।
ध्वजाग्रशिखराग्रं तु यत्तद्दीर्घमकृत्रिमम् ॥ ३२६ ॥

दैर्घ्याद्दशमांशेन द्विनवांशेन वा ततम् ।
कृत्वास्त्रसन्निधिं तस्मिन् लाञ्छनाख्ये पुरा पटे ॥ ३२७ ॥

निवेश्य ध्वजदण्डाग्रे गन्धाद्यैरर्चयेत्ततः ।
सुधामयादिबिम्बानां स्थापने मुनिपुङ्गवाः ॥ ३२८ ॥

बिम्बप्रासादयोर्विप्राः युगपत् स्थापनं भवेत् ।
प्रासादस्य प्रतिष्ठेत्थं समासात्कीर्तिता मया ॥ ३२९ ॥

मण्डपादिप्रतिष्ठां च शृणुध्वं मुनिपुङ्गवाः ।
प्रथमं मण्डपं चाग्र्यं तथैवास्थानमण्डपम् ॥ ३३० ॥

प्राकारं पचनावासं कोशागाराम्बरास्पदे ।
पुष्पपानीयशाले च तथा वै यागमण्डपम् ॥ ३३१ ॥

धान्यागारादिकं सर्वं सङ्क्षाल्य बहुभिर्जलैः ।
पर्यग्निकरणं चैव मार्जनोल्लेखनादिकम् ॥ ३३२ ॥

कारयित्वा द्विजवरैर्गव्यैः सम्प्रोक्ष्य पञ्चभिः ।
वितानाद्यैरलङ्कृत्य मण्डपादीन् विशेषतः ॥ ३३३ ॥

प्रधूपयित्वागरुभिर्दीपानारोप्य सर्वतः ।
सुधाचूर्णैरलङ्कृत्य अक्षतान्विकिरेद्भुवि ॥ ३३४ ॥

पुण्याहं वाचयित्वा तु वास्तुपुरुषमर्चयेत् ।
धान्यपीठं प्रकल्प्याथ कुम्भं तत्र सलक्षणम् ॥ ३३५ ॥

सोपकुम्भं सकरकं न्यस्य प्राग्वत्सलक्षणम् ।
तत्र देवं समभ्यर्च्य साङ्गं सपरिवारकम् ॥ ३३६ ॥

कुण्डे वा स्थण्डिले वापि प्रतिष्ठाप्यानलं ततः ।
तत्र देवं तु सन्तर्प्य पूर्णान्तं देशिकोत्तमः ॥ ३३७ ॥

सुमुहूर्ते तु सम्प्राप्ते प्रोक्षयेत्कुम्भतोयतः ।
सर्वत्र मूलमन्त्रेण देशिको मन्त्रवित्तमः ॥ ३३८ ॥

इत्येवं मण्डपादीनां प्रतिष्ठाविधिरीरितः ।
मण्डपादिप्रतिष्ठायां गोपुरस्थापने तथा ॥ ३३९ ॥

क्ष्मापरिग्रहपूर्वं तु गर्भन्यासं समाचरेत् ।
गर्भं तु मण्डपादीनामग्निकोणे तु विन्यसेत् ॥ ३४० ॥

गोपुरस्य भवेद्याम्ये गर्भन्यासो मुनीश्वराः ।
गोपुरस्य प्रतिष्ठां तु कुर्यात्प्रासादवद्बुधः ॥ ३४१ ॥

तत्र वै देवतान्यासे विशेषः कथ्यतेऽधुना ।
शाखामूलादिषु यजेच्चक्राद्यान् धर्मपश्चिमान् ॥ ३४२ ॥

कवाटद्वितये पूज्यौ कालाग्निर्वरुणस्तथा ।
न्यसेज्जङ्घासमूहे तु भवोपकरणं महत् ॥ ३४३ ॥

मूर्तयः केशवाद्यास्तु जङ्घाग्रोपरि संस्थिताः ।
विन्यसेत्प्रस्तरोद्देशे चक्राद्यायुधसञ्चयम् ॥ ३४४ ॥

पूर्ववद्वेदिकाग्रीवाशिखरोद्देशभूमिषु ।
न्यस्या विभवदेवाश्च पद्मनाभान्तिमं द्विजाः ॥ ३४५ ॥

तले तले गोपुरस्य दिङ्मूर्तीश्च यथापुरम् ।
प्रासादोक्तविधानेन कल्पयेन्मुनिपुङ्गवाः ॥ ३४६ ॥

ततस्तु कलशाधारवेदिकायास्तले द्विजाः ।
सुदर्शनं तु षडरं यजेत्कुम्भचतुष्टये ॥ ३४७ ॥

वासुदेवादिकाः पूज्याः कुम्भषट्के कृते सति ।
सम्पूज्यं केशवादीनां षट्कं कुम्भाष्टके कृते ॥ ३४८ ॥

केशवाद्यष्टकं पूज्यं द्विषट्के द्वादशार्चयेत् ।
युग्मयोगेन कुम्भानां स्थापनं मोक्षकाङ्क्षिणः ॥ ३४९ ॥

इतरस्यायुग्मयुक्त्या कुम्भस्थापनमाचरेत् ।
एकस्मिन् स्थापिते कुम्भे वासुदेवं समर्चयेत् ॥ ३५० ॥

त्रयादौ केशवादींश्च पूजयेद्द्विजसत्तमाः ।
इत्येवं देवतावृन्दं गोपुरे न्यस्य पूजयेत् ॥ ३५१ ॥

Unnummerierter abschließender Halbvers; redaktionelle Kennung 351z.

प्रासादादिप्रतिष्ठाया विधिरेवं मुनीश्वराः ।

इति श्रीपाञ्चरात्रे ईश्वरसंहितायां प्रासादादिप्रतिष्ठाविधिर्नाम षोडशोऽध्यायः ॥


Kapitel 17 – प्रतिमादिलक्षणम् / pratimādilakṣaṇam

Siehe deutsche Übersetzung und Texthinweise.

नारदः ।

अथ बिम्बस्य पीठादेर्लक्षणं वक्ष्यते द्विजाः ।
चित्रमृत्काष्ठशैलोत्थं सल्लोहमयमेव च ॥ १ ॥

भेदभिन्नं द्विजातीनां हितं बिम्बं फलार्थिनाम् ।
तदभिन्नमकामानां प्राप्तं चाप्याविरोधकृत् ॥ २ ॥

अत्र चित्रमयं विद्धि भित्तिकाष्ठाम्बराश्रितम् ।
पुनर्वर्णक्रमेणैव चतुर्धा चाम्बरोत्थितम् ॥ ३ ॥

तच्च कार्पासकौशेयक्षौमशाणमयं तु वै ।
मुञ्जमेवं सिताद्युत्थं वार्क्षं विविधमेव च ॥ ४ ॥

आश्वत्थं ब्रह्मवृक्षोत्थं श्रीपर्णीसुरदारुजम् ।
सालतालमयं चैव शारवन्तीन्दुसारजम् ॥ ५ ॥

एवं द्वयं द्वयं विद्धि द्विजातीनां यथाक्रमम् ।
अतोऽन्ये दृढमूलाश्च सारवन्तो हि याज्ञिकाः ॥ ६ ॥

साधारणाश्चतुर्णां तु प्रतिमाद्ये च कर्मणि ।
सामान्यं भुक्तिमुक्त्यर्थमश्ममृण्मयवत्स्मृतम् ॥ ७ ॥

तारहाटकताम्रोत्थमारकूटमयं तथा ।
एवं हि भूमयो वस्त्रपाषाणा धातवो द्रुमाः ॥ ८ ॥

वज्रादयोऽखिला रत्नाः सितरक्तादिलक्षणाः ।
असामान्याः फलेप्सूनां लाभालाभवशात्पुनः ॥ ९ ॥

सम्यक् स्वमूर्तिमन्त्रैस्तु जपहोमार्चनादिना ।
नयेत्सामान्यभासित्वं तथा तत्कारणार्चनात् ॥ १० ॥

यजेत्सेन्द्रां धरां शैलमृदापादनकर्मणि ।
एवं पटद्रुमार्थं तु वरुणं सवनस्पतिम् ॥ ११ ॥

सरत्नानां च धातूनां सम्बन्धेऽर्केन्दुपावकान् ।
रत्नाश्रयेण धात्वर्थं नाच्यादेशेन वै विना ॥ १२ ॥

तथार्चनासनेनैव चक्रपद्ममयादिना ।
न रत्नी प्रतिमा शस्ता ध्यायिनां ध्यानसिद्धये ॥ १३ ॥

केवला लघुमाना च प्रमाणावयवोज्झिता ।
वर्णाश्रमगुरुत्वाच्च स्वामित्वादखिलस्य च ॥ १४ ॥

भूतादिदेवरूपत्वादुत्तमाद्येषु वस्तुषु ।
नृपश्चार्हति वै नित्यं सविशेषपदे स्थितः ॥ १५ ॥

किं पुनर्योऽफलाकाङ्क्षी भक्तिश्रद्धापरः सदा ।
बुध्वैवं चित्रबिम्बार्थी यत्नेनैदं समाचरेत् ॥ १६ ॥

गुह्यकान् गृहदेवांस्तु हृदार्च्यार्घ्यादिना पुरा ।
मलभस्मतुषाङ्गारकेशकीटनखास्तृणम् ॥ १७ ॥

मूलकण्टकचर्मास्थिसामान्याङ्ग्रमहि भित्तिका ।
भवत्यनर्थदा वश्यमतः प्राक्चतुरङ्गुलम् ॥ १८ ॥

विहाय मृद्दलं भित्तेरीषद्बिम्बात्तु वाधिकम् ।
उक्तदोषविमुक्ताथ पञ्चगव्येन साम्भसा ॥ १९ ॥

मर्दितया मृदा भूयस्तद्रित्त्यंशं प्रपूर्य च ।
शस्त्रेण काष्ठफलकां मृगचर्मसमां पुरा ॥ २० ॥

छविं विहाय शुद्ध्यर्थं तुरीमुक्तं तु वै पटम् ।
प्रक्षाल्य सलिलेनैव त्वस्त्रजप्तेन सप्तधा ॥ २१ ॥

हृन्मन्त्रेण तु साङ्गेण मूर्तिमन्त्रान्वितेन च ।
तीर्थदेशान्नदीतीरात्पुण्यक्षेत्राच्च पर्वतात् ॥ २२ ॥

अपास्य दोषसङ्कीर्णामूर्ध्वादादाय मृत्तिकाम् ।
साऽवचूर्ण्याथ संशोष्य सूपलिप्ते धरातले ॥ २३ ॥

शाणमूर्णं च कार्पासं ससूत्रं चाविजं तथा ।
कृत्वा पाषाणभिन्नं प्राग्योज्यं तत्र सवालुकम् ॥ २४ ॥

ईषद्गोमययुक्तेन भूरिक्षीरघृतादिना ।
भावयेत्पञ्चगव्येन खादिरेण कषेण च ॥ २५ ॥

सिद्धार्थकातसीस्नेहतिलोत्थेन तु वै सह ।
क्लेदयेच्च त्रिसप्ताहं भाण्डे कृत्वाऽयसादिके ॥ २६ ॥

मारुतानलसूर्येन्दुदर्शनेन विनैव हि ।
तया समाप्य तद्बिम्बं शुभकाष्ठान्तरीकृतम् ॥ २७ ॥

वस्त्रवच्चैव लोहानां कृत्वा प्रक्षालनं ततः ।
मार्जनं भूतिना भूयस्तथा तन्मन्त्रितेन च ॥ २८ ॥

भक्त्या प्रवर्तमानस्तु बिम्बसाधनकर्मणि ।
सर्वत्र चास्त्रमन्त्रस्य कुर्याद्विघ्नशान्तये ॥ २९ ॥

पूजनं हवनं भूतबलिदानं सदक्षिणम् ।
सम्यग्ग्रहणकाले तु एतत्सामान्यमेव च ॥ ३० ॥

सच्छैलदारुग्रहणे विशेषस्त्वधुनोच्यते ।
सर्वत्रारम्भकाले तु निमित्तमुपलक्ष्य च ॥ ३१ ॥

विशेषार्चनयात्रायां तच्छुभेन शुभोदयः ।
अशुभेन निमित्तेन यात्रा विघ्नवती भवेत् ॥ ३२ ॥

विरामेण तु जप्येन शान्तिस्वस्त्ययनादिना ।
निवर्तनेन तद्धन्यादहते शुभकृद्यतः ॥ ३३ ॥

मन्त्रमभ्यर्च्य यात्रायामभ्यर्थ्याज्ञां विनम्य च ।
नैवेद्यशेषभुग्वामचारस्थः संयतेन्द्रियः ॥ ३४ ॥

प्राङ्मुखः संस्मरेन्मन्त्रं समुत्थायामृतोदये ।
परिज्ञाय परां मूर्तिं तन्मूर्त्यन्तरमेव वा ॥ ३५ ॥

यायात्तदीयं दिग्भागं तदभावात्तु चान्यदिक् ।
सहायैरप्रमत्तैस्तु शिल्पिभिः सह संवृतः ॥ ३६ ॥

लाजदध्यक्षतैः कुम्भैः यायात्पुण्यपुरस्सरैः ।
सौमनस्यं महोत्साहस्त्वङ्गस्पन्दस्तु दक्षिणः ॥ ३७ ॥

शुभा वाणी ध्वनिः शङ्खस्तन्त्रीवाद्यफलादयः ।
गोगजाश्वद्विजाः कन्या नवभाण्डं च मृद्दधि ॥ ३८ ॥

आर्द्रमांसान्यलङ्कारो मदिराग्निर्घृतं पयः ।
सिद्धान्नं शालिबीजानि दर्भाः सद्रुममञ्जरी ॥ ३९ ॥

छत्रं वस्त्रं ध्वजो यानं रोचना कुङ्कमं मधु ।
दर्पणं चामरो हारो धातवः शस्त्रवर्जिताः ॥ ४० ॥

रत्नानि वैबुधं बिम्बं मधुमत्तोऽप्यकातरः ।
जीवन्मत्स्या निमित्तं च मनसो यदखेददम् ॥ ४१ ॥

तत्सर्वं दर्शने श्रेष्ठं तत्खेददमशोभनम् ।
स्वगृहद्वारदेशाच्च पथि सप्तपदावधि ॥ ४२ ॥

क्रममाणो निमित्तं च फलं यच्छति तेन हि ।
निर्गत्य नगराद्ग्रामात्क्रोशार्धं क्रोशमेव वा ॥ ४३ ॥

गृह्णीयाच्छाकुनं चिह्नं नकुलादिमयं ततः ।
पूर्णात्सार्धाधिकाक्रोशात् हितकृन्मृगदर्शनम् ॥ ४४ ॥

दिङ्मुखे निर्मले सिद्धिर्जेयत्र विशेषतः ।
सिद्धिदृक्चाम्बरं स्वच्छं सुदीप्ता भास्करादयः ॥ ४५ ॥

मरुत्सुखावहः स्निग्धप्रदक्षिणगतिः स्थिरः ।
दिव्याद्युत्पातनिर्मुक्तः स कालः सिद्धिसूचकः ॥ ४६ ॥

हंसः शुको भरद्वाजः कोकिलः खञ्जरीटकः ।
मयूरो भ्रमरश्चक्रवाकाः खेचराः शुभाः ॥ ४७ ॥

भूचराः नकुलाः सौम्याः सिताहिगृहगोधिका ।
गन्धाखुर्जम्बुकश्चैव सर्वेषां दर्शनं शुभम् ॥ ४८ ॥

मृगाणां हरिणः सिंहः व्याघ्रः शशकचित्रकाः ।
सिद्धिसंसूचनाः सर्वे सर्वेषां विहितं तु वै ॥ ४९ ॥

प्रदक्षिणं विशेषेण व्यत्यये जम्बुकः शुभः ।
द्विजादिकं रुतं तिग्मं सिद्धिकृच्च सौख्यदम् ॥ ५० ॥

समुत्पन्ने निमित्ते तु धातुसङ्क्षेपकर्मणि ।
प्रतीक्षितुं न युज्येत यदा शान्तिं तदाचरेत् ॥ ५१ ॥

पूर्वोक्तां चित्तशुद्ध्यर्थं सविशेषां सदक्षिणाम् ।
प्रविश्य विधिवत्क्षेत्रं निरीक्षेत स्वतेजसा ॥ ५२ ॥

पश्येच्छिलां गुणवतीं तरुं वा कर्मणि क्षमम् ।
वर्जयेदतिवृद्धां च परिक्षीणत्वचं तथा ॥ ५३ ॥

सभङ्गां दावदग्धां च निःशब्दां रूक्षविग्रहाम् ।
सवाळुकां च सच्छिद्रां बिन्दुयुक्तां पुटोद्भवाम् ॥ ५४ ॥

आखुदर्दरमीनाहिमार्जारशशकोपमाम् ।
सवर्णपरवर्णोत्थसिराजालेन सन्तताम् ॥ ५५ ॥

प्रागुक्तरूपस्याभावादमीषां ग्रहणं हितम् ।
पारावतद्युकाब्जाभा मधुमाञ्जिष्ठमाषभा ॥ ५६ ॥

गुर्वी दृढा शुभा स्निग्धा अतो वान्याभिधास्यते ।
सुहृद्ये भूतले मग्ना जलाशयतलस्थिता ॥ ५७ ॥

छन्ना तरुवरेणैव वनराजिष्ववस्थिता ।
वेष्टिता वल्लिवृन्देन तथैवौषधिभिर्वृता ॥ ५८ ॥

ऊर्ध्वगा जनदेशाच्च एकपिण्डीकृता मृदुः ।
मोक्षदा च स्ववक्रा वै भोगदा सुतलानना ॥ ५९ ॥

दिङ्मुखी चोभयकरी प्राङ्मूर्धा भूतिरायुषे ।
अतोऽन्यमस्तका कीर्तियशोवृद्धिकरी मता ॥ ६० ॥

वंशवृद्धिदमारोग्यशान्तिकृत्कं यदाप्यदिक् ।
पुष्टिमुन्नतिसन्मेधां यच्छत्युत्तरमस्तका ॥ ६१ ॥

एवं पुरा परिज्ञाय पृष्ठोरुचरणं शिरः ।
बलात्मना सवीर्येण प्रोद्धृत्य सह शिल्पिभिः ॥ ६२ ॥

प्राङ्मुखं चोत्तरस्यां वै प्राग्भागे चोत्तराननम् ।
स्थलेऽवतार्य मन्त्रेशमिष्ट्वा स्रक्चन्दनादिना ॥ ६३ ॥

ध्यात्वा शिलान्तः संरुद्धं सम्पूज्य जुहुयात्ततः ।
उक्तदिग्द्वितयस्यैकदेशे कुण्डेऽथ वा स्थले ॥ ६४ ॥

दत्त्वा पूर्णाहुतिं ध्यानजपयुक्तः क्षिपेदहः ।
निशागमेऽर्चनं कुर्याद्बलिभिर्भूततर्पणम् ॥ ६५ ॥

नैवेद्यशेषप्राशीयान्मन्त्रविन्यस्तविग्रहः ।
तद्दक्षिणेन दर्भेषु प्राक्शिराः प्रस्वपेज्जनम् ॥ ६६ ॥

पूर्ववत्स्वप्नलाभार्थमुत्थाय रजनीक्षये ।
कुर्यात्स्वकृत्यं जुहुयाद्दुःस्वप्नशान्तये ॥ ६७ ॥

अभिनन्द्य शुभं स्वप्नं हृदयावर्जकं स्फुटम् ।
पर्वतं च स्वात्मानं स्थानं तदुपलस्थलम् ॥ ६८ ॥

स्फटिकामलसङ्काशं पश्येद्धृतहेमवत् ।
निर्धूमाङ्गारकूटाभं तदाशु लभते शुभम् ॥ ६९ ॥

सशस्त्रमथ चादाय मुद्गरं चास्त्रमन्त्रितम् ।
प्राङ्मुखश्चतुरो वारांस्ताडयेन्मस्तकावधेः ॥ ७० ॥

पाददेशाच्च वा मध्यादवेक्ष्य च फलं पुरा ।
चतुरश्रायतां कृत्वा भित्तिं पीठेन यन्त्रगाम् ॥ ७१ ॥

आनाय्य वा पृथक्पीठां छत्रां कर्मालयं शुभम् ।
विन्यस्य वै पुरा तेन विधिना चोद्धरेच्छिलाम् ॥ ७२ ॥

पीठार्थं भिन्नवर्णां च तद्रूपां वा यथेच्छया ।
अङ्गाङ्गिभावगुणवद्वृद्धिदां तु मुनीश्वराः ॥ ७३ ॥

काष्ठलोहमणीनां चाप्यलाभे सति वै शुभम् ।
सति लाभे न वै कुर्याद्वैषम्यं व्यत्ययं च वा ॥ ७४ ॥

तत्कालमेव चाहृत्य रत्नाधारां शिलां शुभाम् ।
पुंस्त्रीनपुंसकोत्थाभिः शिलाभिस्त्रितयं हितम् ॥ ७५ ॥

बिम्बाख्यं विद्धि चाभावात्सर्वं बिम्बोपलात्तु वै ।
निषिद्धं भगवद्बिम्बं रत्नपीठमयोपलात् ॥ ७६ ॥

लक्ष्म्याद्या देवताकाराः स्त्रीपलाः सर्वसिद्धिदाः ।
या हतानलबिन्दूंश्च सनादमभिमुञ्चति ॥ ७७ ॥

पुमानिति शिला सा वै निस्तेजाः सस्वनाऽबला ।
आदिमध्यावसानेषु नाभिर्यस्या न च ध्वनिः ॥ ७८ ॥

नपुंसकेति सा ज्ञेया स्वपदस्था फलप्रदा ।
ज्ञात्वैवं देवदेवस्य लक्ष्म्यादीनां तथैव च ॥ ७९ ॥

सर्वेषां परिवाराणां पीठादीनां तथैव च ।
प्रासादादेः शिलाश्चैव तत्तन्मन्त्रैर्यथाक्रमम् ॥ ८० ॥

समभ्यर्च्य शिलाः सर्वाः सङ्गृह्य शकटादिषु ।
समारोप्य समानीय बिम्बादीन् कारयेद्गुरुः ॥ ८१ ॥

शिलाग्रहणमित्युक्तं दारुग्रहणमुच्यते ।
आपर्वतान्तःसञ्चारो निर्व्रणः सरळो बृहत् ॥ ८२ ॥

रोगमुक्तं न सिंहाद्यैः प्राङ्नखैः संक्षतीकृतम् ।
नानिलाशनिदावाग्निहतवीर्यं न बाह्यगम् ॥ ८३ ॥

सलक्षणं तु सुस्निग्धं भूभागे चोन्नते स्थितम् ।
प्राग्वत्तमधिवास्यादौ परेऽह्न्यर्चयेत्ततः ॥ ८४ ॥

तदाश्रितामविज्ञातस्वरूपां देवतां पठन् ।
इहाश्रितात्मने तुभ्यं नमः सर्वेश्वराय च ॥ ८५ ॥

क्षमस्वावतरान्यत्र सन्तिष्ठात्र चिदात्मना ।
अथास्त्रोदकशुद्धेन विलिप्तेन घृतादिना ॥ ८६ ॥

जपन्मन्त्रवरं वौषट् छिन्द्याद्वै क्रकचादिना ।
प्राच्यामुदीच्यामैशान्यां पतत्यभिमुखे यदि ॥ ८७ ॥

परिज्ञेयं शुभं कुर्यादन्यपातेऽर्चनादिकम् ।
आनाय्य देवभागं चाप्यनादेशेन वै विना ॥ ८८ ॥

बिम्बमिच्छति वै कर्तुं वार्क्षं चैवातिविस्तृतम् ।
अनेकभुजवक्त्रास्त्रभूषितं तत्तरूस्थितैः ॥ ८९ ॥

भिन्नैरवयवैर्मानयुक्तैः शिष्टैर्न दुष्यति ।
भक्तिश्रद्धावशाच्चैव सर्वं चार्णमयं यतः ॥ ९० ॥

एवमेकतमस्यापि भक्तिपूर्वस्य वस्तुनः ।
सङ्ग्रहं च पुरा कृत्वा कुर्यादाकारमीप्सितम् ॥ ९१ ॥

तादर्थ्येन तु सामान्यं सौम्यमानं पुरोच्यते ।
ऋज्वाख्यमविकारं च व्यापकं त्वेकमूर्तिमत् ॥ ९२ ॥

भूभागे सुसमे लक्ष्म मानमुत्कीर्य तेन वै ।
निरूप्यावयवानां च लक्ष्म विस्तृतिपूर्वकम् ॥ ९३ ॥

अष्टाधिकशतांशो यः स्वोन्नतेरङ्गुलं च तत् ।
द्वे अङ्गुले कला नेत्रे गोलकं भाव एव च ॥ ९४ ॥

अङ्गुलादष्टभागो यः स यवः परिकीर्तितः ।
षट्कलं च परिज्ञेयं तालं बिम्बादिकर्मणि ॥ ९५ ॥

मुखाङ्गनाभिमेढ्रक्ष्मास्तालमानास्त्वथोरुयुक् ।
द्विकले च तथा जङ्घे गुल्फं जानुगलं च कम् ॥ ९६ ॥

त्र्यङ्गुलं त्र्यङ्गुलं ज्ञेयमित्युन्मानमुदाहृतम् ।
जटाधराणां बिम्बानां दीर्घह्रस्ववशेन तु ॥ ९७ ॥

चतुष्कलं च त्रिकलं मानं मानाद्बहिः क्षिपेत् ।
त्रिपञ्चसप्तशिखरो मौलिर्षट्कलोन्नतः ॥ ९८ ॥

निर्जटानां ललाटोर्ध्वे मकुटं वा सुशोभनम् ।
तालेन ह्रासवृद्धी तु कार्ये त्वत्र व्यपेक्षया ॥ ९९ ॥

यथोदितेषु भागेषु एकैकेनाङ्गुलेन तु ।
आस्यानासाललाटार्थं वदनांशं भजेत्त्रिधा ॥ १०० ॥

ततोऽग्रतः कलामानं घ्राणं स्यात्तिलपुष्पवत् ।
कलार्धेन तु विस्तारः सोन्नतिस्तत्पुटद्वये ॥ १०१ ॥

नासाग्रासनिर्मुक्तं गोजीमानं चतुर्यवम् ।
तच्चतुर्थवमानेन घ्राणाग्रेणान्तरीकृतम् ॥ १०२ ॥

अर्धाङ्गुलं चोत्तरोष्ठमधरोष्ठं तु चाङ्गुलम् ।
गोलकं चिबुकं वित्त सुक्किण्यौ चतुरङ्गुले ॥ १०३ ॥

आद्यस्य नासिकांशस्य मध्यभागसमाश्रिते ।
कुर्यान्नेत्रश्रुतिच्छिद्रे तत्र नेत्रे कलान्तरे ॥ १०४ ॥

कलायामसमं दैर्घ्यात्कलार्धेन तु विस्तृतम् ।
यदुत्पलदलाकारं द्वियवेनाधिकं तु तत् ॥ १०५ ॥

कुर्यात्पद्मदलाकारं नेत्रार्धं वृत्ततारकम् ।
तारादैर्घ्यत्रिभागेन त्वाद्यस्यान्यस्य चाधिका ॥ १०६ ॥

यवेनेकैन सार्धेन ज्योतिस्तत्पञ्चभागिकम् ।
त्रिभागेनापि विहितं तत्पद्मदललोचन ॥ १०७ ॥

द्विषड्यवं नेत्रकोशं विस्तरेण यवाधिकम् ।
सार्धाङ्गुलद्वयं दैर्घ्याद्भ्रूलते द्विकले स्मृते ॥ १०८ ॥

मध्यतो वृद्धिते बालचन्द्रतुल्ये क्रमक्षते ।
तदन्तरं कलार्धं च तत्कोटी समसूत्रके ॥ १०९ ॥

श्रोत्रे त्र्यङ्गुलविस्तीर्णे आयामेन द्विगोलके ।
द्वियवः कर्णपरिधिः पर्वणी द्वे चतुर्यवे ॥ ११० ॥

मध्यं ताभ्यां तथा विद्धि द्रोणी सार्धाङ्गुला तु वै ।
कलार्धेन तु तच्छिद्रं पाशमानं यथारुचि ॥ १११ ॥

अङ्गुलाद्द्विकलान्तं तु वैषम्यमपि तत्र तत् ।
अन्तश्छिद्रविनिर्मुक्तं तद्विज्ञेयं चतुर्यवम् ॥ ११२ ॥

सदलङ्करणोपेतमेवं श्रोत्रद्वयं स्मृतम् ।
चतुष्कलं ललाटन्तु शिखरे द्वे द्विगोलके ॥ ११३ ॥

उच्छ्रायात् त्र्यङ्गुले चैव अग्रतोऽङ्गुलविस्तृते ।
केशभूमेः समुद्भूतं ललाटोपरि संस्थितम् ॥ ११४ ॥

कुर्यात्कलार्धमानं तु वक्रं चालकसञ्चयम् ।
कपोलपरिधिं कुर्यात्कर्णात्कण्ठगतं समम् ॥ ११५ ॥

तन्मध्ये वर्तुलौ गण्डौ परिच्छिन्नौ पुरोदितैः ।
शिरसः परिणाहं तु वित्त षट्त्रिंशदङ्गुलम् ॥ ११६ ॥

श्रोत्रकोटिद्वयाच्चैव मस्तकस्य यदन्तरम् ।
तत् षोडशाङ्गुलं वित्त वर्तिभ्यां पृष्ठतस्तथा ॥ ११७ ॥

सार्धतालं परिज्ञेयं ललाटात्ककुभान्तरम् ।
तत्कम्बुसदृशी ग्रीवा मूलमध्याग्रतो हि सा ॥ ११८ ॥

परिधिर्द्वादशकला एकविंशाङ्गुलाग्रतः ।
अष्टादशाङ्गुला चैव स्वांशात् त्र्यंशेन विस्तृता ॥ ११९ ॥

तन्मूलं विस्तृतौ स्कन्धौ तुङ्गौ वृतायतौ समौ ।
षडङ्गुलं तद्बाहुल्यं बाहुमानं तथोच्यते ॥ १२० ॥

स्कन्धोत्तमाङ्गं त्रिकलं सन्ध्यन्तं षट्कलं स्मृतम् ।
सन्धेर्वै मणिबन्धान्तं मानं नवकलं स्मृतम् ॥ १२१ ॥

मणेर्मध्यमशाखान्तो हस्तः सप्ताङ्गुलो मतः ।
परिज्ञेयं कलाहीनं तन्मानं मध्यमाङ्गुले ॥ १२२ ॥

तच्चतुर्यवहीनाच्च सनामा तु प्रदेशिनी ।
द्विकला च परिज्ञेया साङ्गुला तु कनीयसी ॥ १२३ ॥

द्विपर्वा च स्मृतोऽङ्गुष्ठः सर्वाश्चाङ्गुली विस्तृताः ।
स्वासां मूलपर्यन्ताद्ध्रासयेच्च यवं यवम् ॥ १२४ ॥

अग्रपर्वार्धमानेन कार्या लिङ्गोपमा नखाः ।
मानमङ्गुष्ठमूलस्य परिधेश्चतुरङ्गुलम् ॥ १२५ ॥

तच्चतुर्यवहीनं च ज्ञेयं त्रिष्वङ्गुलीषु च ।
न्यूनाङ्गुलेः कला सार्धा प्राग्वद्ध्रासश्च वेष्टनात् ॥ १२६ ॥

अङ्गुष्ठमङ्गुलं चाग्रात्तिस्रोऽन्याः षड्यवाः स्मृताः ।
अर्धाङ्गुलाग्रतोन्यूना वित्त मध्यं क्रमक्षतम् ॥ १२७ ॥

निजलक्ष्मोपेतं चाग्रात्साङ्गुलं द्विकलं करम् ।
ईषन्निम्नतलं चैव लक्ष्मरेखाविभूषितम् ॥ १२८ ॥

शाखामूलावधः पाणी बाहुल्यं द्वे यवेऽङ्गुलम् ।
चतुर्यवाधिकं चैव मणिबन्धावधेः स्मृतम् ॥ १२९ ॥

मध्ये कलार्धहीनं तु तद्बाहुल्यमुदाहृतम् ।
मणिबन्धावधेर्वै वेष्टनं षट्कलं स्मृतम् ॥ १३० ॥

सन्धेः सप्तकलं वित्त साङ्गुलं त्र्यवमप्युत ।
हीनमर्धाङ्गुलेनैव मूलाद्वै नवगोलकम् ॥ १३१ ॥

तथैव सन्धेरूर्ध्वं तु विस्तारः प्राग्वदेव च ।
अत्रापि पूर्ववद्दृष्ट्या कार्यान्तस्था क्षितिः स्वयम् ॥ १३२ ॥

तालं गलावधेस्त्यक्त्वा तन्मानेनान्तरीकृते ।
स्तनद्वयं समं कुर्यान्नत्वरा च समांसला ॥ १३३ ॥

निम्नं हृद्गोलकार्धेन ऊर्ध्वतो रत्नराड्युतम् ।
स्तनाभ्यां त्रिकलौ पार्श्वौ त्रियवं स्तनमण्डलम् ॥ १३४ ॥

यवोन्नतं तथाग्रान्याद्विस्तृतं तेन चूचुकम् ।
लोचनं त्रियवं सार्धं कक्षमानमुदाहृतम् ॥ १३५ ॥

स्कन्धमानविनिर्मुक्तं पृष्ठसंसावधेः समम् ।
द्रोणीनिकाशसदृशमध्यराशेः समांसलम् ॥ १३६ ॥

कक्षान्तर्वेष्टनं वित्त पञ्चतालं सलोचनम् ।
विनाङ्गुलद्वयेनैव द्वे ताले द्विगुणीकृते ॥ १३७ ॥

यवत्रयसमायुक्ते वित्त तत्कुक्षिवेष्टनम् ।
त्रियवोनं कलामानं विज्ञेयं नाभिमण्डलम् ॥ १३८ ॥

तन्मानं तु त्र्यवोनं तु तन्निश्चलं विधीयते ।
परिधिर्नाभिमध्ये तु त्रितालः सत्रिलोचनः ॥ १३९ ॥

षड्गोलकं च तन्मानं परिध्यर्थं कटेः स्मृतम् ।
करिकुम्भोपमौ पीनौ परितः पञ्चगोलकौ ॥ १४० ॥

स्फिजौ कौपीनराजी च द्व्यङ्गुला मूलतः स्मृता ।
परितोऽङ्गुलमानासौ मेढ्रं तु त्रिकलं स्मृतम् ॥ १४१ ॥

चतुर्यवं तु तत्कोशं वेष्टनं तु षडङ्गुलम् ।
द्व्यङ्गुलौ वृषणौ दैर्घ्यान्मूलान्तं समविस्तृतौ ॥ १४२ ॥

परितो द्व्यङ्गुलं वित्त वायुरन्ध्रं सुवर्तुलम् ।
ऊरुमानं परिज्ञेयं मध्यभूमेर्नवाङ्गुलम् ॥ १४३ ॥

षट्कलं मूलदेशाच्च अग्रान्तं त्रिकलं स्मृतम् ।
हीनमेकाङ्गुलेनैव द्विकलं जानुमण्डलम् ॥ १४४ ॥

विस्तारेणोन्नतत्वेन चतुर्यवसमं तु तत् ।
जङ्घामूले परिज्ञेयं वेष्टनं नवगोलकम् ॥ १४५ ॥

द्विसप्ताङ्गुलकं मध्ये सार्धपञ्चकलं ततः ।
अत्रापि वेष्टनाद्विद्धि तृतीयांशेन विस्तृतम् ॥ १४६ ॥

मध्यमूलावसानेभ्यो विस्तारमनुगुण्यतः ।
भुजाभ्यां मध्यदेशस्य तथाङ्गुलिगणस्य च ॥ १४७ ॥

ऊरुयुग्मस्य जङ्घाभ्यामापाद्या द्विप्रहस्तता ।
सतालभागमानं च दैर्घ्ये वै चरणं स्मृतम् ॥ १४८ ॥

पार्ष्णी द्विगोलकतले तन्मध्ये साङ्गुले कले ।
त्रिकलं चाग्रतश्चैव बाहुल्येन कलासमम् ॥ १४९ ॥

पदमङ्गुष्ठनिकरात्रियवोनं प्रकीर्तितम् ।
बाहुल्यं च कलामानं गुल्फदेशाच्च साङ्गुलम् ॥ १५० ॥

कनीयाङ्गुलिमूलाच्च गुल्फान्तं पिण्डिकाङ्गुलम् ।
जङ्घावसानदेशाच्च वेष्टनं सप्तलोचनम् ॥ १५१ ॥

कलाहीनं तदेवाग्रात्परिणाहो विधीयते ।
चरणं विधिना तेन कूर्मपृष्ठं समाप्य च ॥ १५२ ॥

त्र्यङ्गुलेन च तद्दैर्घ्यादङ्गुष्ठस्य च दीर्घता ।
पञ्चाङ्गुलः परिज्ञेयः परिधिस्तस्य लाञ्छिन् ॥ १५३ ॥

यवादर्धाधिका कार्या तद्दैर्घ्यात्तु प्रदेशिनी ।
अङ्गुष्ठायामतुल्याथ कार्या वै पदमध्यमा ॥ १५४ ॥

मध्याङ्गुले द्विरष्टांशहीना तदनु या स्थिता ।
तद्वत्तदनुगा या च त्रिपर्वास्तास्तु पूर्ववत् ॥ १५५ ॥

संयुक्ता नखजालेन कूर्मपृष्ठोपमेन च ।
द्विकलं तु यवार्धोनं पादतर्जनिवेष्टनम् ॥ १५६ ॥

चतुश्चतुर्यवोनं च तच्छेषाणां प्रकीर्तितम् ।
त्र्यंशेन वेष्टनाद्ज्ञेयं सर्वासां चैव विस्तृतम् ॥ १५७ ॥

सर्वे समांसलाः सौम्याः समास्त्ववयवाः शुभाः ।
दशनावळिबाह्यस्थे दंष्ट्रे सप्तयवोन्नते ॥ १५८ ॥

यवद्वयोन्नतं मानं मध्यदन्तचतुष्टये ।
तत्पक्षगानां सर्वेषां मानं वित्त चतुर्यवम् ॥ १५९ ॥

त्रियवं द्विजविस्तारमायामान्मूलाद्यवद्वयम् ।
तत्सार्धं मध्यदेशाच्च सर्वे दन्ता निरन्तराः ॥ १६० ॥

लोमप्रदक्षिणावर्तमयुग्जन्मोत्थितं शुभम् ।
सुनिश्चितं हितं चैतन्मानमव्यभिचारि यत् ॥ १६१ ॥

मनोहारित्वमेकत्र रूपलावण्यभूषितम् ।
सर्वदा चानयोर्वित्त अन्योन्यत्वेन संस्थितिम् ॥ १६२ ॥

ससौन्दर्यै तु मानस्य काचिदाक्रम्य वर्तते ।
लावण्यस्य क्वचिन्मानं समाच्छाद्यावतिष्ठते ॥ १६३ ॥

यथाभिरूपवान् लोके दरिद्रोऽप्येति मान्यताम् ।
विरूपोऽप्यतिवित्ताढ्यो नारूपी नैव निर्धनः ॥ १६४ ॥

एवं द्वयोज्झितं बिम्बमनादेयत्वमेति च ।
आदेयमेकयुक्तं च नित्यं यस्मान्मुनीश्वराः ॥ १६५ ॥

सम्यङ्माने च सौन्दर्ये भक्तानुग्रहकाम्यया ।
मन्त्रसन्निधिशक्तिर्वै सफलाध्यवतिष्ठते ॥ १६६ ॥

सा सम्यक्प्रतिपन्नस्य बिम्बे दृग्गोचरस्थिते ।
आमूर्तेर्ह्लादयत्याशु ज्ञात्वैवं यत्नमाचरेत् ॥ १६७ ॥

मानोन्मानप्रमाणानामथ सौन्दर्यसिद्धये ।
ऋजोः सुसमपादस्य त्र्यङ्गुलं चरणान्तरम् ॥ १६८ ॥

तद्वै विषमपादस्य अग्रात्तालसमं स्मृतम् ।
तत्पार्ष्णिद्वयमध्यात्तु परिज्ञेयं द्विगोलकम् ॥ १६९ ॥

स्थित्यर्थं ब्रह्मनाड्या वै तथा मार्गद्वयस्य च ।
सूत्रेण सुसमे कुर्याद्देहोत्थे दक्षिणोत्तरे ॥ १७० ॥

समपादस्य बिम्बस्य ललाटादानयेद्मस्तकम् ।
प्रसार्य सूत्रमाच्छाद्य तेन नाभेर्हृदन्तरम् ॥ १७१ ॥

घ्राणाग्रमलकानां च सिद्धिर्यत्तिलकोर्ध्वगः ।
एवं विषमपादस्य दक्षाङ्गुष्ठाग्रतं नयेत् ॥ १७२ ॥

गात्रसाम्यं समापाद्य क्षेत्रात् क्षेत्रगतेन च ।
सूत्रेण सर्वबिम्बानां वैषम्यविनिवृत्तये ॥ १७३ ॥

चतुस्त्र्यश्रिपरितः परिशुद्धा यतः शुभाः ।
अशुभाऽपरिशुद्धा तु बिम्बोत्थावयवस्थितिः ॥ १७४ ॥

ललाटमध्ववक्त्रस्य विस्ताराद्द्वादशाङ्गुलम् ।
अष्टलोचनमायामादग्रतश्चतुरङ्गुलम् ॥ १७५ ॥

कलार्धसुषिरे घ्राणरन्ध्रे भागान्तरीकृते ।
अष्टाङ्गुले तु हनुके सुक्किण्यौ द्वेऽत्र तत्समे ॥ १७६ ॥

मध्यतः श्रोत्रशुक्ती द्वे द्व्यङ्गुले द्विकलोन्नते ।
द्व्यङ्गुलं घ्राणवंशं तु तदूर्ध्वं द्विकलं स्मृतम् ॥ १७७ ॥

वित्त वक्त्रविकासं च द्वियवं चाग्रतः क्रमात् ।
तमेव हि यवांशेन हन्वन्तं तनुतां नयेत् ॥ १७८ ॥

घ्राणवंशस्य पक्षौ द्वौ मध्यान्निम्नौ च संहितौ ।
यवद्वयेन सार्धेन दृग्घ्राणाभ्यां तु चान्तरे ॥ १७९ ॥

अथो दलं तु दृग्द्रोण्यैवमानेन साश्रितम् ।
ललाटे सालकं पार्श्वदृङ्मध्ये साङ्गुला कला ॥ १८० ॥

नृसिंहस्य मुखे वित्त परितश्चाष्टलोचनम् ।
तदोष्टखण्डदेशाच्च कुर्यात्कर्णद्वयोत्थितम् ॥ १८१ ॥

तत्कर्णद्वयमानेन ललाटान्तं नयेत्पुनः ।
प्रमाणात्प्राक्प्रणीताच्च संरम्भघ्राणलक्षणम् ॥ १८२ ॥

प्रफुल्लविकसच्छिद्रं घ्राणवंशान्वितं भवेत् ।
तच्छिद्रे पूर्वमानाच्चाप्यस्य वै त्रियवाधिकम् ॥ १८३ ॥

सगोलमुत्तराङ्गेषु सकलांशं च लोचनम् ।
अधरोष्ठं परिज्ञेयं सचतुर्यवमङ्गुलम् ॥ १८४ ॥

सार्धं चतुष्कलं वक्त्रं शेषायामो हनोः स्मृतः ।
तद्विकासः परिज्ञेयो नेत्रमानं यवाधिकम् ॥ १८५ ॥

अग्रतो ह्रासमायाति सुक्किण्यन्तं हि चाङ्गुलम् ।
सर्ववृत्तं तदर्धेन नेत्रयुग्मं सविस्मयम् ॥ १८६ ॥

पूर्ववद्विस्तृतं श्रोत्रं कलार्धेन तदुन्नतेः ।
तुल्या चेन्द्रकलायुग्मयोगस्य मूषिकगोलका ॥ १८७ ॥

तन्मध्यं तु कलामानं शङ्खावर्तोपमं महत् ।
भागमानं समावृत्तं कार्यं तच्छिरसि स्फुटम् ॥ १८८ ॥

दैर्घ्येण सार्धतालं च क्ष्माधरस्याननं स्मृतम् ।
विस्तारेण ललाटाच्च तन्मानं द्व्यङ्गुलोज्झितम् ॥ १८९ ॥

सौम्यरूपस्य च विभोः प्रोद्यतस्य कलोज्झितम् ।
तच्चतुर्थांशमानेन पोत्रदेशस्य विस्तृतिः ॥ १९० ॥

तस्योपरिष्टाद्बाहुल्यं तत्समं चाङ्गुलं त्वधः ।
हनुद्वयस्य वै मानं सार्धं सप्ताङ्गुलं स्मृतम् ॥ १९१ ॥

शेषमानान्तरं तु सुक्किणीभ्यां यदन्तरम् ।
तद्विकासाच्च सार्धेन कलार्धेनाग्रदेशतः ॥ १९२ ॥

स एवाङ्गुलमानेन विज्ञेयः सुक्किणीद्वयात् ।
घ्राणरन्ध्रश्च वक्त्रोक्ते दंष्ट्रे त्वर्धकलोन्नते ॥ १९३ ॥

नासावंशं यथापूर्वं कदलीनाळिकापृथवत् ।
श्रोत्रे वाजिमुखोक्ते तु कोटेः सप्तकलान्तरे ॥ १९४ ॥

तत्तुल्ये लोचने किं तु प्रान्ततीक्ष्णे यवोज्झिते ।
एतेषां विहिता ग्रीवा ह्यङ्गुलद्वितयेन तु ॥ १९५ ॥

प्रत्येकदेशात्संयुक्ता सौम्यमूर्त्युदिता च या ।
विनोच्छ्रायेण नृहरेः यस्य गात्रस्य या प्रमा ॥ १९६ ॥

सा सा संवेष्टनाद्यासात्कलार्धेनाधिका भवेत् ।
वक्षःकट्युदरांसस्फिक्कलामानाधिकानि च ॥ १९७ ॥

तथैव नखपत्राणि देहश्चास्य समांसलः ।
सम्पूर्णो दक्षिणावर्तैर्लोमभिश्चातिकुञ्चितैः ॥ १९८ ॥

त्रिचतुःपञ्चवक्त्रस्य विनेवोर्ध्वमुखेन तु ।
दक्षिणोत्तरवक्त्रस्य ह्रासं कुर्याद्द्विगोलकम् ॥ १९९ ॥

विकासः सिंहवक्त्रोक्तः उदग्वक्त्रस्य तत्र च ।
समो दृक्सन्निवेशस्तु चतुर्णां मोक्षसिद्धये ॥ २०० ॥

आरोग्यभोगकैवल्यप्राप्तयेऽर्धाङ्गुलेन च ।
कुर्यात्सव्यापसव्याभ्यामथो दृक्सन्निवेशनम् ॥ २०१ ॥

सह पूर्वाननेनैव सम्यक्प्रत्यङ्मुखस्य च ।
निष्कासायामविस्तारघ्राणदृग्भ्रूश्रुतिष्वथ ॥ २०२ ॥

ईषत्तिर्यक्षितिन्यस्तदृङ्मुखं दक्षिणं शुभम् ।
तद्वच्च प्रोन्नतदृग्वक्त्रमुत्तरं सर्वसिद्धिकृत् ॥ २०३ ॥

स्वकार्यसूचनान्नूनं तन्मन्त्रस्य च सन्निधिः ।
अतोऽन्यथा समाश्रित्य शान्तिमास्ते च मन्त्रराट् ॥ २०४ ॥

नित्यं तत्सन्निधानाच्च भूतवेताळराक्षसाः ।
आदर्शनात्पलायन्ते आविशन्ति च दर्शनम् ॥ २०५ ॥

आदाय शिरसा मन्त्रिसमाज्ञां सम्प्रयान्ति ते ।
अतः समाचरेद्यत्नेन स्याद्बिम्बसन्निधिः ॥ २०६ ॥

न हि तत्सन्निधानाद्वै कश्चिदारभते शुभम् ।
वराहदंष्ट्रं सिंहाक्षं तथा चिपिटनासिकम् ॥ २०७ ॥

विधेयं पश्चिमं वक्त्रं पञ्चवक्त्रस्य वै विभोः ।
अस्याधरोत्तराभ्यामप्योष्ठाभ्यां समता भवेत् ॥ २०८ ॥

विभिन्नताङ्गुलार्धेन ताभ्यां तन्मध्यगा स्फुटा ।
कार्या दशनपङ्क्ती वै मूलमध्याग्रतः समा ॥ २०९ ॥

कलार्धेनोल्बणं वृत्तं तद्गण्डद्वितयं ततः ।
द्विकलं चाग्रतः श्मश्रु कला चार्धकला क्रमात् ॥ २१० ॥

सम्बन्धवेणिः पूर्वोक्तमानेन शुभकृद्भवेत् ।
सिंहसूकरवन्मुख्यवक्त्राणां सौम्यतां नयेत् ॥ २११ ॥

प्रमाणं दृग्गतालक्षव्यवहारमयात्तु वै ।
विकासश्चाश्ववक्त्रोक्तः सौम्यरूपस्य भूभृतः ॥ २१२ ॥

तदाद्योक्तस्तु नृहरेः प्रागुक्तो यः समाचरेत् ।
तथा वक्त्राङ्गभावित्वे विभोः शक्तीश्वरस्य च ॥ २१३ ॥

हारनूपुरवस्त्रस्रक्कटकाङ्गदभूषिता ।
माल्योपवीतकेयूरमकुटाद्युपशोभिता ॥ २१४ ॥

प्रतिमा मन्त्रमूर्तीनां कृता भवति सिद्धिदा ।
यत्पुरा पञ्चधा प्रोक्तं वाहनं प्राणदैवतम् ॥ २१५ ॥

तस्य बिम्बसमुत्थेन तालेन मुखमण्डलम् ।
द्व्यङ्गुलं तु ललाटोक्ते जटाबन्धो द्विलोचनः ॥ २१६ ॥

द्व्यङ्गुलेनोन्नतः कर्णः उरः पञ्चकलं स्मृतम् ।
अष्टाङ्गुलं तदुदरं कटिः पञ्चाङ्गुलोन्नता ॥ २१७ ॥

नवाङ्गुलोन्नतावूरू जानुनी द्व्यङ्गुले स्मृते ।
अष्टाङ्गुलोच्छ्रिते जङ्घे द्व्यङ्गुले पदपिण्डके ॥ २१८ ॥

सममेकं कलाहीनं तद्द्विग्रीवायाश्च वेष्टनम् ।
बिम्बतुल्या परिज्ञेया सर्वदा साङ्गविस्तृतिः ॥ २१९ ॥

तद्द्विभागाधिकं वित्त वेष्टनं ह्युदरस्य च ।
परिधिः कटिदेशस्य चतुर्नेत्राधिकस्तु वै ॥ २२० ॥

बिम्बोक्तसदृशं वित्त तदूर्वोर्मूलवेष्टनम् ।
तदेव जङ्घमध्यस्य जङ्घान्तस्य तदेव हि ॥ २२१ ॥

पादं पञ्चकलायामं चतुरङ्गुलविस्तृतम् ।
त्र्यङ्गुलं पार्ष्णिदेशाच्च अङ्गुष्ठोऽर्धकलासमः ॥ २२२ ॥

विज्ञेया अग्रदेशाच्च यवेनाङ्गुल्यः क्रमात् ।
नाभिरन्ध्रं सुविस्तीर्णं द्व्यर्धलोचनविस्तृतम् ॥ २२३ ॥

मध्यमाङ्गुलिपर्यन्तं मणिबन्धान्नवाङ्गुलम् ।
त्रिकलः पाणिविस्तारः तन्नखा निशितोन्नताः ॥ २२४ ॥

तद्बाहुमस्तकं वित्त उच्छ्रायेण द्विलोचनम् ।
भुजोपभुजयुग्मं यत्तत् द्वितालसमं स्मृतम् ॥ २२५ ॥

कलार्धमानं बिम्बबाहोस्तद्बाहुवेष्टनम् ।
बिम्बोक्ता सद्विधोर्ध्वेवं स्तनभूलोचनोन्नता ॥ २२६ ॥

वृत्तवैपुल्यमानेन लोचने पद्मपत्रवत् ।
भ्रूयुग्मं नरसिंहोत्थं घ्राणाग्रं शुकचञ्चुवत् ॥ २२७ ॥

कलार्धमाने दीर्घे च तद्वंशं गजपृष्ठवत् ।
स्वायामदीर्घं तत्पक्षयुगलं कुक्षिदेशगम् ॥ २२८ ॥

तदेव दैर्घ्यादर्धेन विस्तृतं हंसपक्षवत् ।
स्वपक्षमानाद्द्विगुणं तत्पुच्छं शतशाखकम् ॥ २२९ ॥

सपक्षभिममायामं सत्यं त्ववयवान्वितम् ।
सर्वेषां वित्त सामान्यं विशेषाख्यमथोच्यते ॥ २३० ॥

ऊरुद्वयाच्चैव ह्रासमङ्गुलानां त्रयं तथा ।
जङ्घाकाण्डोच्छ्रितेः कुर्याज्जङ्घाभ्यां चात्र वेष्टनम् ॥ २३१ ॥

बिम्बाख्यं मणिबन्धस्य सममूलान् महामते ।
जालदेशात्तदर्धेन सह चार्धाङ्गुलेन तु ॥ २३२ ॥

पादे जालं परिज्ञेयं विस्तारेण षडङ्गुलम् ।
शेषं सत्योदितं सर्वं सर्वेषां वित्त सर्वदा ॥ २३३ ॥

किं तु पादोज्झितौ पक्षौ दैर्घ्यात्तद्दलविस्तृतौ ।
एषा चोड्डीयमानानां स्वायामा पक्षविस्तृतिः ॥ २३४ ॥

पञ्चानां च परिज्ञेया स्थितानामर्धलक्षणा ।
एतदादाय मानं तु पुच्छभूपक्षवर्जितम् ॥ २३५ ॥

विद्धि वामनरूपस्य लक्षणं किं तु लाञ्छिन् ।
ललाटनासावक्त्रेभ्यः समादायाङ्गुलत्रयम् ॥ २३६ ॥

मस्तकस्योपरिष्टात्तु जटाबन्धं प्रकल्पयेत् ।
जटावसानमायामं यथा स्यात्पञ्चतालकम् ॥ २३७ ॥

ततस्तु कर्मबिम्बेषु विशेषः कथ्यतेऽधुना ।
कर्मार्चा चोत्सवार्चा च बल्यर्चा तीर्थकौतुकम् ॥ २३८ ॥

निमित्तस्नपनार्चा च शयनार्चेति षड्विधाः ।
अर्चाः कार्यास्त्विमा विप्राः बहुबेरविधानके ॥ २३९ ॥

एकबेरे तु कर्मार्चां विना पञ्च प्रकल्पयेत् ।
एतैः सर्वैरङ्गबिम्बैर्युक्तं चेन्मूलकौतुकम् ॥ २४० ॥

उत्तमं स्यात्त्रिभिर्युक्तं मध्यमं परिकीर्तितम् ।
एकेन युक्तमधमं तत्तन्मानमिहोच्यते ॥ २४१ ॥

मूलबिम्बसमुच्छ्रायं द्विधा वापि त्रिधापि वा ।
चतुर्धा वा संविभज्य एकभागेन कल्पयेत् ॥ २४२ ॥

उत्सवार्चां तदुच्छ्रायां द्विधा वापि त्रिधापि वा ।
चतुर्धा वा विभज्यैकभागेन परिकल्पयेत् ॥ २४३ ॥

कर्मार्चादीनि बिम्बानि पञ्चापि द्विजपुङ्गवाः ।
बिम्बषट्कं च देवीभ्यां सहितं परिकल्पयेत् ॥ २४४ ॥

अथवा चौत्सवं बिम्बं तथा शयनकौतुकम् ।
श्रीपुष्टिसहितं कार्यं मूलबिम्बे द्विजोत्तमाः ॥ २४५ ॥

स्थिते वा वाहनारूढे समासीनेऽपि वा द्विजाः ।
कर्मबिम्बादिषट्कं च तथैव स्यात्स्थितं तु वा ॥ २४६ ॥

मूलबिम्बे शयाने तु कर्मबिम्बादयो द्विजाः ।
स्थितावपि समासीनाः विधातव्या मुनीश्वराः ॥ २४७ ॥

नित्योत्सवार्थबिम्बं तु सर्वत्रैव स्थितं भवेत् ।
मुनयः ।
केलिज्ञमुनिशार्दूल बेरैकत्वबहुत्वकम् ॥ २४८ ॥

ज्ञातव्यं तदशेषेण वदस्व वदतां वर ।
नारदः ।
शिलया मणिना वापि लोहैर्वापि कृता तु या ॥ २४९ ॥

नित्यादिसकलस्नानविषया रहिता सदा ।
कर्मार्चयापि देवीभिः स्थिता वाप्यासीनतां गता ॥ २५० ॥

स्थाप्यते केवला मूर्तिरेकबेरं तु वित्त तत् ।
मृद्दारुजं तु यद्बिम्बं कर्मार्चादिसमन्वितम् ॥ २५१ ॥

नित्यादिसर्वस्नानार्थं शक्तिभिः सहितं न वा ।
मणिवज्रादिशैलोत्थं निमित्तस्नपनक्षमम् ॥ २५२ ॥

सदा तु नित्यस्नानार्थं कर्मार्चासहितं तु यत् ।
बृहद्बिम्बं तु लक्ष्म्यादिसहितं रहितं तु वा ॥ २५३ ॥

नित्यनैमित्तिकायुक्तसकलस्नपनक्षमम् ।
लक्ष्म्यादिभिः समोपेतं यद्बिम्बं शक्तिभिः सदा ॥ २५४ ॥

तदेतत्त्रिविधं वित्त बहुबेरं मुनीश्वराः ।
यत्तु चित्रमयं बिम्बं भित्तिकाष्ठाम्बराश्रयम् ॥ २५५ ॥

कर्मबिम्बसमोपेतं नित्यादिस्नानकर्मणि ।
यच्चापि मृण्मयं बिम्बं त्रिविधं चापि चित्रजम् ॥ २५६ ॥

नित्यनैमित्तिकस्नाने दर्पणादिसमन्वितम् ।
कर्मबिम्बान्वये योग्यं विभवेच्छानुसारतः ॥ २५७ ॥

एतच्चतुर्विधं वित्त बहुबेरं विशेषकम् ।
बहुबेरं यथायोगं स्थितमासीनमेव वा ॥ २५८ ॥

शयानं यानगं वापि भवेदिच्छानुरूपतः ।
बहुबेरादिभेदास्तु पञ्चधा परिकीर्तिताः ॥ २५९ ॥

अन्यानि कर्मबिम्बानि यात्राबिम्बपुरस्सरम् ।
तत्तत्कर्मविशेषार्थं बहुबेरेकबेरयोः ॥ २६० ॥

ह्यथैव कल्पनीयानि विभवस्यानुरूपतः ।
इत्युक्तं लेशतो बिम्बलक्ष्म पीठमथोच्यते ॥ २६१ ॥

बिम्बानामुपविष्टानां चतुरश्रं तु तद्भवेत् ।
चतुरश्रायतं चैव प्रोत्थितानां सदैव हि ॥ २६२ ॥

वृत्तवृत्तायतत्वेन ह्यन्यो रूपमन्यथा ।
यदङ्गुलैः परमाण्वैराराधकमयैस्तु वा ॥ २६३ ॥

धत्तेऽर्चा तु समायामद्वाराद्य मन्दिरोत्थितात् ।
तन्मानेन तु पीठस्य दैर्घ्यमर्धेन विस्तृतिः ॥ २६४ ॥

द्वारोच्चाच्च त्रिरन्तानि एकपूर्वाणि वै पुरा ।
सन्त्यज्य द्वादशांशाद्वै अथ पीठोन्नतिस्त्रिभिः ॥ २६५ ॥

शेषेणांशसङ्घेन प्रतिमा चोत्थिता भवेत् ।
अथवा वाहनारूढा न्यूना वा मध्यमोत्तमा ॥ २६६ ॥

चतुर्भिर्द्वादशांशैस्तदुपविष्टस्य चोन्नतिः ।
विहिता चास्य सर्वत्र प्रतिमार्धेन विस्तृतिः ॥ २६७ ॥

तत्त्र्यंशकविलुप्ता वा चतुर्थांशोज्झिताथ वा ।
परिवारवशेनैव चातुरात्म्यस्य वै पुनः ॥ २६८ ॥

अक्लृप्तांशं च विहितपीठायामं च सर्वदिक् ।
चतुर्दिङ्मुखगतस्यैव एकदिङ्मुखगतस्य च ॥ २६९ ॥

तदेव दैर्घ्यं द्विगुणं लाञ्छनैरावृतस्य च ।
सार्धं चानावृतस्यैव तद्बाहुल्यं पुरोदितम् ॥ २७० ॥

चतुष्कमेकपीठानां केवलं लक्ष्मवर्जितम् ।
एकैकं लक्ष्मभेदेन तत्सङ्ख्यं वित्त वै पुनः ॥ २७१ ॥

अनन्तासनमाद्यं च द्वितीयं पक्षमन्दिरम् ।
कमलाङ्कं तृतीयं तु चतुर्थं चक्रभूषितम् ॥ २७२ ॥

एवं हि सर्वसामान्यं पीठानां हि द्विरष्टकम् ।
भेदभिन्नं समासेन पुनरेव निबोधत ॥ २७३ ॥

दिक्षु लक्ष्माणि पीठानां वित्त कण्ठगतानि च ।
अन्योन्यसन्निवेशाच्च तेषां बह्वात्मना पुनः ॥ २७४ ॥

चक्राम्बुजाभ्यां तत्स्थाभ्यां लुप्ताभ्यामथ तत्स्थितेः ।
ताभ्यामन्योन्ययोगाच्च दिक्ष्वनन्तखगाश्रयात् ॥ २७५ ॥

द्विद्व्यात्मना द्व्यात्मना वा बहुत्वमवधार्यताम् ।
पद्मेनोर्ध्वगतेनैव द्वयं चक्रेण तद्बहिः ॥ २७६ ॥

एवं ह्यधोगतेनैव परिज्ञेयं द्वयं द्वयम् ।
उपरिष्टात्तु पद्माभ्यामधश्चक्रं द्वयं द्वयम् ॥ २७७ ॥

द्वितयव्यत्ययाच्चान्यत्परिज्ञेयं मुनीश्वराः ।
अन्तर्बहिःस्थितिवशाच्चक्रपद्मद्वयस्य च ॥ २७८ ॥

व्यत्ययादनयोर्वित्त ऊर्ध्वभागाच्चतुष्टयम् ।
अधोभागाद्देवमेव चतुष्कमपरं तु वै ॥ २७९ ॥

पीठानामष्टकमिदमधस्तादूर्ध्वतस्तु वा ।
युक्तमेकेन वै कुर्याच्चक्रेण कमलेन वा ॥ २८० ॥

चक्राकारास्तु विहिता ह्येकक्रमसमाश्रिताः ।
बहवोऽपि तलास्तद्वदीषत्कर्णिकान्विताः ॥ २८१ ॥

इति लाञ्छनसञ्चारो बहुधा तन्मयोदितम् ।
यस्मिन् प्रकृतिभूते तु पीठे तदधुनोच्यते ॥ २८२ ॥

कृत्वा द्विदशधा पीठं पुरायामात्समैः पदैः ।
एकेन चरणं जङ्घाकलशौ च त्रिभिस्त्रिभिः ॥ २८३ ॥

कण्ठवीथीमथैकेन षड्भिः कण्ठं तदूर्ध्वतः ।
भागेन कण्ठसूत्रं तु शुक्तिकांशत्रयेण तु ॥ २८४ ॥

उष्णीषं च तदूर्ध्वे तु कुर्यादंशद्वयेन वै ।
निर्गमः स्वदलेनैव विहितश्चरणस्य तु ॥ २८५ ॥

चतुर्दिक्षु महात्मानः क्षेत्रतो ह्यधिकः स्मृतः ।
समवृत्तं घटं कुर्यात्पद्वैर्बालकैः युतम् ॥ २८६ ॥

परितोऽंशद्वयेनैव कर्णपीठं प्रवेशयेत् ।
अन्तः प्रवेशमेकैव वीथ्यंशेन गलस्य च ॥ २८७ ॥

कुर्यान्निर्गमप्रवेशस्य समां सूत्रस्य निःसृताम् ।
शुक्तेरूर्ध्वः कण्ठसूत्रभागात्पादेन निर्मितम् ॥ २८८ ॥

वदनान्तं समासेन शतेः सङ्कोचमाचरेत् ।
उष्णीषघटजङ्घानामाश्रसाम्यं यथास्थितम् ॥ २८९ ॥

घटवङ्शपयेच्छुक्तिकमसेकैर्बीजपङ्कजैः ।
तत्रोपरिष्टात्परिधिः चतुरंशकसम्मितम् ॥ २९० ॥

सन्त्यज्य निखनेद्द्रोणीमंशत्रित्रांश समन्ततः ।
विस्तृते मध्यमभागेऽस्य स्वत्र्यंशेन च निम्नम् ॥ २९१ ॥

तन्मानं चतुरश्रं तु पीठक्षेत्राद्विनिर्गतम् ।
तच्चाग्रतस्त्रिधा कृत्वा पक्षभागौ क्षयं नयेत् ॥ २९२ ॥

अनुपादेन चामूलात्सम्यक् लाङ्गलवक्त्रवत् ।
अग्रतो मूलदेशाच्च कृत्वादौ वै त्रिधा त्रिधा ॥ २९३ ॥

भूयस्तन्निखनेन्मध्याज्जलं याति यथा द्रुतम् ।
सूकराननतुल्यं तु भवत्येवं मुनीश्वराः ॥ २९४ ॥

कुर्याद्वै शङ्खसदृशं मकरास्योपमं तु वा ।
जलनिर्गममेतद्वै पीठेषूदितलक्षणम् ॥ २९५ ॥

न कुर्यात्कर्मबिम्बानामश्मादिभिन्नात्मनाम् ।
चित्रमृत्काष्ठजानां तु चलानां तु विशेषतः ॥ २९६ ॥

तथैव चतुरश्रस्य चतुर्मूर्तिगतस्य च ।
प्रणालमग्रगं मूर्तेर्यतः संसिद्धिहानिकृत् ॥ २९७ ॥

प्रयोजनं विना काचित् न क्षतिस्तस्य तद्विना ।
सामान्यस्य तु वै यस्मादाधारस्य विशेषतः ॥ २९८ ॥

सप्रणालं भवेत्पीठमासनं च प्रणालकम् ।
भूरि नीरादिना स्नानं यत्र यच्छति साधकः ॥ २९९ ॥

प्रत्यहं तद्विना तत्र प्रत्यवायो भवेत्स्फुटम् ।
एवमेव बृहद्बिम्बं भूषितानां विधीयते ॥ ३०० ॥

धातुशैलोत्थितानां च निमित्तस्नपनार्थतः ।
भद्रासनगते कर्मबिम्बे तस्य समाचरेत् ॥ ३०१ ॥

सततं च यथालाभं दधिक्षीरघृतादिना ।
तोयेन तन्नयेद्यत्नाद्भूभागं वा प्रतिग्रहम् ॥ ३०२ ॥

यथा नाक्रम्यते पादैर्जन्तुभिस्तन्महर्द्धिदम् ।
अतः प्रणालं विहितं निषिद्धमत एव हि ॥ ३०३ ॥

जन्मान्तं वा जगत्यन्तं कैरवान्तं गलान्तकम् ।
पट्टिमध्यस्तलं पञ्चभेदं सर्वेषु धामसु ॥ ३०४ ॥

तत्संस्थापनकाले तु देवानां दिग्द्वये हितम् ।
प्राक्प्रत्यगाननानां च तदुदग्दिग्गतं शुभम् ॥ ३०५ ॥

उदग्दक्षिणवक्त्राणां प्राग्भागे विहितं सदा ।
तत्तु भद्रपीठीयदेवाद्वामेऽर्थसिद्धिकृत् ॥ ३०६ ॥

सदेवाराधकानां तु विलोमाद्विपरीतदम् ।
इत्येवं पीठलक्ष्मापि समासात्कथितं मया ॥ ३०७ ॥

इति श्रीपाञ्चरात्रे ईश्वरसंहितायां प्रतिमादिलक्षणं नाम सप्तदशोऽध्यायः ॥


Kapitel 18 – प्रतिष्ठाविधानम् / pratiṣṭhāvidhānam

Siehe deutsche Übersetzung und Texthinweise.

नारदः ।

अतः परं प्रवक्ष्यामि मन्त्रबिम्बनिवेशनम् ।
भोगेप्सूनां च वर्णानां साम्प्रतं यदभीष्टदम् ॥ १ ॥

कैवल्यदं शमाच्चैव चातुराश्रम्यसेविनाम् ।
यज्ञकर्मरतानां च सहायं च फलैस्तु तत् ॥ २ ॥

प्राग्देवगृहस्याग्रे दिग्भागे सति मण्डपम् ।
चतुरश्रं चतुर्द्वारं दर्भमालान्तरीकृतम् ॥ ३ ॥

अन्यत्र तदलाभे तु यथाभिमतदिङ्मुखम् ।
चतुर्दशकराच्चैव यावत्त्रिंशत्करावधि ॥ ४ ॥

षट्करान्तं पुरस्तस्माद्दिग्मानव्यपेक्षया ।
कार्या मध्ये स्थली तेषां द्विसप्तांशैरतोऽष्टभिः ॥ ५ ॥

समन्तभद्रा सुश्लक्ष्णा चिता पक्वेष्टकादिभिः ।
तालोन्नतेः समारभ्य सामान्येऽस्मिन् हि कर्मणि ॥ ६ ॥

उन्नताङ्गुलवृद्ध्या तु नीता तद्धस्ततां क्रमात् ।
द्वित्रिरष्टांशकैर्मध्ये सर्वासां मण्डलं भवेत् ॥ ७ ॥

चतुरश्रं चतुर्द्वारं चक्राम्बुरुहभूषितम् ।
दक्षिणे शयनं सौम्ये कुण्डमग्नेस्तु पूर्ववत् ॥ ८ ॥

समेखलं द्विहस्तं तु चक्रपद्माङ्कितं शुभम् ।
तदर्धं चतुरश्रं प्राग्दाममेखलिकान्वितम् ॥ ९ ॥

अथ दक्षिणदिग्भागे कुर्याद्वै चक्रचिह्नितम् ।
वर्तुलं पश्चिमे सौम्ये कमलाङ्कं मनोहरम् ॥ १० ॥

शङ्खाङ्कं सर्वकोणेषु मानमेषां यथोर्ध्वगे ।
सर्वे दशान्तहस्तानां चतुर्णामेकमेखलाः ॥ ११ ॥

मण्डपानां तु किं त्वत्र ऊर्ध्वगं सर्वमेखलम् ।
अतोऽधःसंस्थिताः सर्वे एककुण्डास्तु मण्डपाः ॥ १२ ॥

तेषां समेखलं चाद्यं द्वाविंशत्यङ्गुलं भवेत् ।
ह्रासादङ्गुलयुग्मस्य यावद्वै षोडशाङ्गुलम् ॥ १३ ॥

स्यात् षट्करे गृहे कुण्डं कार्या वा मेखलाधिका ।
अष्टहस्तोच्छ्रितं पूर्वमथोर्ध्वकरवर्धिताः ॥ १४ ॥

न ह्रासं षट्करान्तानां न्यूनानामुच्छ्रितेर्भवेत् ।
त्रयोदशकरादीनां चतुर्णां पातयेत्ततः ॥ १५ ॥

अष्टकं चाङ्गुलानां तु सप्तपञ्चचतुःक्रमात् ।
एवं स्नानगृहाणां तु विस्तारश्चोन्नतेः सह ॥ १६ ॥

किं तु वै वालुकापीठैर्मध्यतश्चोपशोभिताः ।
द्विचतुर्भिर्द्विहस्ताश्च विस्तृताः प्राग्वदुन्नताः ॥ १७ ॥

स्नानीयागमगेहाद्वै दिक्क्षयोभिमते शुभे ।
अर्धमानसमं मुख्यात्सुपीठशयनान्वितम् ॥ १८ ॥

दृग्दानभवनं कुर्यान्माङ्गल्यकलशैः सह ।
सर्वेषामपि भूभागे कोणस्तम्भैर्विभूषितम् ॥ १९ ॥

सुनेत्रैर्वेष्टितं कुर्याच्चक्राद्यैः पूर्ववद्युतम् ।
सुस्थितं दृढपादं च स्नानाम्भोग्रहणक्षमम् ॥ २० ॥

अर्धेन वालुकापीठं दीर्घमाद्यक्रमेण तु ।
वर्धितं चार्धहस्तेन ह्रासितं चतुरङ्गुलैः ॥ २१ ॥

स्वदैर्घ्यादर्धविस्तीर्णं कृत्वैवं सप्रणालकम् ।
तेन तद्वालुकापीठं भूषयेन्मध्यगेन तु ॥ २२ ॥

यागागारस्य वै दिक्षु द्वारार्थं तत्र चान्तरे ।
शमार्धवृद्धियोगेन ह्रासोऽन्यत्र कलादिकः ॥ २३ ॥

तोरणानि बहिः कुर्याद्दृढैः काष्ठैः सुपूजितैः ।
पञ्चहस्तानि चार्धेन वर्धितानि करेण तु ॥ २४ ॥

न ह्रासमाचरेत्तेषामन्यत्र करणे सति ।
न समात्पञ्चहस्तानामृते भूमौ प्रवेशयेत् ॥ २५ ॥

शमार्धं वर्धितानां च द्वे द्वे संवर्धयेत्कले ।
दैर्घ्यात्प्रवेशशिष्टात्तु त्रिभागेन तदन्तरम् ॥ २६ ॥

सर्वे चक्रध्वजाः कार्या वस्त्रस्रङ्मञ्जरीयुताः ।
सुधाद्यैर्वर्णकैः पीतैश्चन्दनाद्यैस्तु लेपिताः ॥ २७ ॥

भिन्नाङ्गमेतदखिलं यथैकस्मिन् हि युज्यते ।
कर्म यागगृहे शश्वद्विमूर्तेर्वावनेर्विना ॥ २८ ॥

पञ्चत्रिंशत्करं क्षेत्रं चतुर्थांशेन विस्तृतम् ।
तन्मध्ये तु चतुर्हस्तं त्वापाद्यं स्थलसप्तकम् ॥ २९ ॥

स्थलानां व्यवधानं तु कुर्याद्वै तालसम्मितम् ।
एकापायेन वै कुर्याद्द्विहस्तान्तं स्थलाङ्गणम् ॥ ३० ॥

क्रमेणाष्टाङ्गुलान्मानाद्द्व्यङ्गुलं द्व्यङ्गुलं विना ।
स्थलानां सङ्कटानां च व्यवधानं द्विगोलकम् ॥ ३१ ॥

एवमेव समुच्छ्रायः सर्वेषां परिकीर्तितः ।
परितो विहितं वीथेर्मानमत्र स्वपीठजम् ॥ ३२ ॥

एवं वा सङ्कटे कुर्यादाद्योक्तान्मण्डपद्वयात् ।
मध्यमण्डलपीठं तु तस्य दक्षिणदिग्भवेत् ॥ ३३ ॥

समीपे शयनस्थानं कुम्भानां स्थापनायनम् ।
एवं हि वामनिकटे भोगानां मन्त्रतर्पणम् ॥ ३४ ॥

ऋग्यजुस्सामपूर्वाणां श्रुतीनां हवनं परे ।
दृग्दानं शयनस्थानं ह्यन्यस्मिन् शयने हितम् ॥ ३५ ॥

प्रासादस्याष्टदिङ्मूर्तिपानामेव यथोदितम् ।
स्थण्डिलेष्वथ कुण्डेषु तादर्थ्येनाथ वा स्वयम् ॥ ३६ ॥

स्वकुण्डे हवनं कुर्याच्चतुर्वेदमये परे ।
समस्तमूर्तिपीयं वा स्वयमेव समाचरेत् ॥ ३७ ॥

सामग्रीविरहाद्योग्यमूर्तिपानामभावतः ।
एवं त्वभिनवं कृत्वा यागार्थं मण्डपं द्विजाः ॥ ३८ ॥

पूर्वोदितैरलङ्कारैरलङ्कृत्य पृथग्विधैः ।
सितरक्तादिभेदेन प्रागादौ तु ध्वजाष्टकम् ॥ ३९ ॥

निवेश्य मध्यवेद्यां तु पुनरप्येव तथा ।
तदर्थान् सर्वसम्भारान् सम्भृत्य सुसमाहितः ॥ ४० ॥

दिने कर्मदिनात्पूर्वे सप्तमे पञ्चमेऽपि वा ।
अङ्कुरानर्पयित्वा तु ततः कर्म समारभेत् ॥ ४१ ॥

प्रधानदिवसात्पूर्वे दिने देशिकसत्तमः ।
स्नातः शुक्लाम्बरः स्रग्वी कृतन्यासः सुशान्तधीः ॥ ४२ ॥

कृताह्निकोऽधिवासार्थं सर्वालङ्कारभूषितः ।
सर्वसाधनसंयुक्तस्त्वर्घ्यपात्रसमन्वितः ॥ ४३ ॥

माङ्गल्यकुम्भमादाय ध्यायमानोऽच्युतं हृदि ।
सह चैकायनैर्विप्रैः सदागमपरायणैः ॥ ४४ ॥

तथा ऋङ्मयपूर्वैस्तु आमूलाद्भगवन्मयैः ।
भेरीपटहवादित्रशङ्खशब्दादिकैः सह ॥ ४५ ॥

ऋग्यजुस्सामपूर्वैस्तु प्रशस्ताः सम्पठन् श्रुतीः ।
द्वारपालार्चनं कृत्वा यागागारं प्रविश्य च ॥ ४६ ॥

संस्मृत्य स्वासने व्याप्तिमर्चयित्वोपविश्य च ।
मध्यपीठसमीपे तु प्राङ्मुखः पश्चिमे पदे ॥ ४७ ॥

अग्रे माङ्गल्यकलशमाधारस्योपरि विन्यसेत् ।
विप्रानृङ्मयपूर्वांश्च उपवेश्य च पूर्ववत् ॥ ४८ ॥

पूर्वोक्तस्त्वधिकैर्युक्तो द्रव्यैर्द्रव्यगणः शुभः ।
यत्र यत्रोपयोज्यस्तु तत्र तं सम्प्रवेशयेत् ॥ ४९ ॥

मन्त्राणामुपदेष्टा च अनुकूलो महामतिः ।
योक्तव्यः कर्मदक्षस्तु सर्वेष्ववसरेषु च ॥ ५० ॥

दक्षिणे ह्यात्मनो विप्राः एकचित्तः समाहितः ।
स्वयं वस्त्वनुसन्धाय हवनार्चनकर्मणाम् ॥ ५१ ॥

आस्ते हृत्पत्तिपूर्वाणां न्यासान्तानामनन्यधीः ।
करशुद्ध्यादि सर्वं तु चक्रादिन्यासपश्चिमम् ॥ ५२ ॥

सर्वं क्रमेण कृत्वा तु पुण्याहं वाचयेत्ततः ।
पूर्वोक्तविधिना कुर्यात्सहोमं कलशार्चनम् ॥ ५३ ॥

कुर्यात्ततोरणानां च ध्वजानां स्थापनं ततः ।
सत्यादिकं चतुष्कं तु मध्यवेद्यां ध्वजाष्टके ॥ ५४ ॥

प्रभवाप्यययोगेन यजेत्प्रागादियोगतः ।
उत देवा अवहिता ऋङ्मयान् पाठयेत्ततः ॥ ५५ ॥

प्रागादिदिक्चतुष्केषु तोरणानां चतुष्टये ।
सुशोभनं सुभद्रं च सुगन्धं च यजेत्क्रमात् ॥ ५६ ॥

सुनेत्रं च ततश्चक्रं विहगेश्वरसंयुतम् ।
उपरिष्टान्मुनिश्रेष्ठाः पूजयेत्प्रतितोरणम् ॥ ५७ ॥

एतेषामथ वा पूर्वं भवेद्द्वास्थैः सहार्चनम् ।
पाठयेद्द्वारपालीयं साम सामविदस्ततः ॥ ५८ ॥

अथार्घ्यपुष्पभृन्मूर्तिधरैर्यात्समावृतः ।
यत्र तिष्ठति विश्वेशः पीठब्रह्मशिलान्वितः ॥ ५९ ॥

तत्रावलोकनं तेषां कुर्यात्सन्ताडनादिकम् ।
चक्रास्त्रमन्त्रितैः स्नानकलशैः स्नापयेत्ततः ॥ ६० ॥

सिद्धार्थकैस्तथा पञ्चगव्यमृद्धूतिवारिणा ।
वल्मीकमृज्जलेनाथ चक्राङ्कौषधिवारिणा ॥ ६१ ॥

संक्षाल्याभ्यर्च्य चोद्धृत्य क्षालयेदस्त्रवारिणा ।
तमर्घ्येणर्चयित्वा च ततस्तन्मन्त्रितान् करे ॥ ६२ ॥

सिद्धार्थकान् दक्षिणे तु बद्ध्वाग्रे पाठयेदृचम् ।
प्ररोहणं तथा सर्वान्नयेत्प्रतिसरे मणीन् ॥ ६३ ॥

सर्वत्र वेष्टितं कृत्वा समारोप्य रथोत्तमे ।
कर्मारम्भं च पठतस्तस्य दक्षिणदिङ्न्यसेत् ॥ ६४ ॥

ऋक्सामपूर्वान् वामे तु ब्राह्मणांश्च चतुश्चतुः ।
पुरतोऽस्त्रं स्मरन्यायात्स्वयं विघ्नांस्तु सूदयन् ॥ ६५ ॥

सनृत्तगीतवादित्रस्तुतिमङ्गलपाठकैः ।
इदं विष्णुर्विचक्रम इति ऋङ्मयैः सहपाठकैः ॥ ६६ ॥

एकायनांस्तदन्ते तु ओं नमो ब्रह्मणे तु यत् ।
तथैव शाकुनं सूक्तं श्रीसूक्तेन समन्वितम् ॥ ६७ ॥

स्वर्णादिनार्थिनः शक्त्या तर्पयेत्तन्निवेशयेत् ।
यागभूमिं ततो बिम्बमवरोप्य रथादिकात् ॥ ६८ ॥

निषण्णं दृढकाष्ठोत्थतोरणे सन्निवेश्य च ।
स्नानभूमौ ततः कुर्यादस्त्रेणाज्यतिलाहुतीः ॥ ६९ ॥

यद्वा पूर्वं समानीय पीठं ब्रह्मशिलान्वितम् ।
भूमिष्ठे भद्रपीठे तु वेदिकायां निवेश्य च ॥ ७० ॥

ततो बिम्बं समानीय स्थापयेत्पिण्डिकोपरि ।
स्थाप्यमाने बृहद्बिम्बे विशेषः कथ्यते द्विजाः ॥ ७१ ॥

पूर्ववत्कर्मशालायां संस्थाप्याकारशुद्धये ।
संस्नाप्य विधिना कृत्वा नयनोन्मीलनं ततः ॥ ७२ ॥

स्नपनं बृहदापाद्य केवलं वा बहूदकैः ।
स्नानकर्मशिलादीनामीषत्कृत्वा तु सार्चनम् ॥ ७३ ॥

उत्थाप्य मूर्तिपाद्यैस्तु बहुभिस्तु रथस्थितम् ।
समानीय ततो यत्नात्प्रासादाभ्यन्तरं तु वै ॥ ७४ ॥

यथावद्रत्नविन्यासपूर्वं पीठे निवेश्य च ।
बृहद्बिम्बं ततः कुर्यात्कर्मबिम्बेऽखिलं तु वै ॥ ७५ ॥

सन्निरोधस्तु मन्त्राणां तत्र लग्नोदये स्मृतः ।
आबृहत्स्नपनात्पूर्वं यत्किञ्चिदपि तत्र तत् ॥ ७६ ॥

निर्वर्तनीयं पूर्णान्तं प्राङ्मुनीश्वराः ।
तथा कार्यं शुभे येन मुहूर्तो नावसीदति ॥ ७७ ॥

एवं हि चित्रपूर्वाणामन्येषां मुनिसत्तमाः ।
सद्रत्नब्रह्मपाषाणवर्जितानां समापयेत् ॥ ७८ ॥

स्नानाद्यं कर्मबिम्बे तु तत्समीपेऽथ दर्पणे ।
कर्मबिम्बं विनान्येषां प्रस्वापाद्यं हि विष्टरे ॥ ७९ ॥

कुर्यात्प्रवेशपूर्वं तु सर्वमुत्सवपश्चिमम् ।
शक्तिभिः कर्मबिम्बैश्च गरुडाद्यैर्यदा सह ॥ ८० ॥

समाचरेत्प्रतिष्ठानं मूलबिम्बस्य वै सह ।
तदानीं तानि बिम्बानि यागभूमौ प्रवेशयेत् ॥ ८१ ॥

एवं प्रवेश्य तद्बिम्बं स्नानार्थं स्थापयेद्घटान् ।
अथ वा कर्मदिवसात्तृतीये वासरे पुरा ॥ ८२ ॥

प्रागुक्तविधिना कृत्वा सहोमं कलशार्चनम् ।
आचार्यो मूर्तिपैः सार्धं कर्मशालां प्रविश्य च ॥ ८३ ॥

प्राप्तेऽपराह्णसमये बिम्बाकारशुद्धये ।
संस्नाप्य विधिना पश्चाद्बिम्बं तोयेऽधिवास्य च ॥ ८४ ॥

अपरस्मिन्दिने प्रातर्देशिकस्तु कृताह्निकः ।
जलादुत्थाप्य तद्बिम्बं यागभूमौ प्रवेशयेत् ॥ ८५ ॥

मुनयः ।

तोयाधिवासनविधिः कथं कार्यो मुनीश्वर ।
तद्विधानं विस्तरेण वदस्व वदतां वर ॥ ८६ ॥

नारदः ।

जलाधिवासनविधिं शृणुध्वं मुनिपुङ्गवाः ।
प्रासादस्य विशुद्ध्यर्थं बिम्बशुद्ध्यर्थमेव च ॥ ८७ ॥

मानोन्मानप्रमाणानामूनाधिक्योपशान्तये ।
जगदाप्यायनार्थं च सर्वसम्पूर्णसिद्धये ॥ ८८ ॥

प्रतिष्ठार्थक्रियारम्भात्पूर्वमेव शुभे दिने ।
पञ्चगव्यादिना स्नानं पूजाहोमौ तथा जपम् ॥ ८९ ॥

समाचरेत्स्वमन्त्रस्य यत्रैवं न कृतं पुरा ।
हेतुना केनचित्तत्र जलवासं समाचरेत् ॥ ९० ॥

नदीषु दीर्घिकायां वा तटाके निर्झरे ह्रदे ।
सम्भवे सति कुर्वीत जलवासं यथाविधि ॥ ९१ ॥

असम्भवे जलद्रोण्यां कटाहे धातुनिर्मिते ।
यथासम्भवमन्यस्मिन् पात्रे वा मृण्मयादिके ॥ ९२ ॥

अल्पतोये श्मशानान्ते लवणोदपरिप्लुते ।
कटुके च कषाये च तिक्ते फेनैश्च दूषिते ॥ ९३ ॥

चैत्यवृक्षसमीपे च नीचावाससमीपके ।
वर्णान्तरयुते स्वल्पे ऊषरे शैवलान्विते ॥ ९४ ॥

एवमादिषु दुष्टेषु जलवासं न कारयेत् ।
एकत्रिपञ्चरात्रं वा जलमध्येऽधिवासयेत् ॥ ९५ ॥

देशकालानुसारेण सद्यो वा जलवासनम् ।
प्रतिष्ठादिवसात्पूर्वं तृतीये पञ्चसप्तमे ॥ ९६ ॥

दिनेऽपराह्णसमये कर्मशालां प्रविश्य च ।
अस्त्रमन्त्रेण सम्प्रोक्ष्य बिम्बं सन्ताडयेत्ततः ॥ ९७ ॥

सिद्धार्थकैस्तिलैर्दर्भैरस्त्रमन्त्राभिमन्त्रितैः ।
संस्नाप्याकारशुद्ध्यर्थं षड्भिः सिद्धार्थकादिभिः ॥ ९८ ॥

वस्त्राभरणपुष्पाद्यैरलङ्कृत्य च भूषणैः ।
पूर्ववत्कौतुकं बद्ध्वा समारोप्य रथादिके ॥ ९९ ॥

पूर्ववच्छ्रुतिघोषैश्च शङ्खभेर्यादिकैः सह ।
विविधैर्नृत्तगेयैश्च तथान्यैर्मङ्गलैः सह ॥ १०० ॥

ग्रामं वा नगरं वापि प्रासादं च प्रदक्षिणम् ।
भ्रामयित्वा जलोद्देशमानयेन्मूर्तिपैः सह ॥ १०१ ॥

प्रपायां तु जलाभ्यर्णे अवरोप्य रथादिकम् ।
विष्टरे विनिवेश्याथ प्राङ्मुखं वाप्युदङ्मुखम् ॥ १०२ ॥

मण्डपं जलमध्ये तु वातवृष्टिक्षमं शुभम् ।
चतुःस्तम्भसमायुक्तं चतुस्तोरणभूषितम् ॥ १०३ ॥

वितानध्वजसंयुक्तं वेष्टितं दर्भमालया ।
विचित्रैश्च फलैर्युक्तं द्रुमाङ्गैः पावनैस्तथा ॥ १०४ ॥

मुक्तादामसमायुक्तं स्रग्दामभिरलङ्कृतम् ।
कोणप्रदीपसंयुक्तं चामरैरुपशोभितम् ॥ १०५ ॥

पुरैव कारयित्वा तु कुर्यात्पुण्याहघोषणम् ।
प्राग्वच्छुद्धिमपां कृत्वा तन्मध्ये विन्यसेत्ततः ॥ १०६ ॥

प्रतिमानुगुणं भद्रपीठमास्तरणान्वितम् ।
सोपधानं तदूर्ध्वे तु कल्पयेन्मान्त्रमासनम् ॥ १०७ ॥

अनन्तं कल्पयित्वोर्ध्वे अर्घ्यगन्धादिनार्चयेत् ।
मूलमन्त्रेण बिम्बस्य अर्घ्यं पाद्यं तथैव च ॥ १०८ ॥

आचामं वासितं गन्धमुपवीतोत्तरीयके ।
भूषणानि च माल्यानि दीपं धूपं यथाक्रमम् ॥ १०९ ॥

दत्त्वा कृत्वा घृतारोपं संस्मरेत्संहृतिक्रमम् ।
संहारस्य क्रमं वक्ष्ये समाकर्णयत द्विजाः ॥ ११० ॥

आत्मानं सर्वगं ध्यात्वा सर्वज्ञं विष्णुमव्ययम् ।
कुर्याद्भावान्वितो मन्त्री तद्विष्णोरधिवासनम् ॥ १११ ॥

प्रणवेन समारोप्य जीवमर्चाभिमानिनम् ।
उत्क्रम्याथैकतां कृत्वा स्वस्मिन् सर्वेश्वरे हरौ ॥ ११२ ॥

संशोध्य मलिनां पृथ्वीं दग्ध्वा बीजान्विताग्निना ।
अद्भिः सम्प्लाव्य तां वायुशुष्कां वह्नौ विलाप्य च ॥ ११३ ॥

संहृत्य वायुना वह्निं वायुमाकाशतां नयेत् ।
आध्यात्मिकाधिदैवैस्तु करणैर्विषयैः सह ॥ ११४ ॥

तन्मात्रसंस्थितान्येव क्रमात्संहृत्य देशिकः ।
नभो मनसि संहृत्य मनोऽहङ्कृति तत्पुनः ॥ ११५ ॥

महत्यात्मनि तं चापि नयेदव्याकृतैकताम् ।
शान्तानन्ते परे व्योम्नि निष्कले ज्ञानविग्रहे ॥ ११६ ॥

तं ध्यायेत्परमानन्दे संस्थितं शान्तविग्रहम् ।
यस्मिन्नव्याकृतं लीनं सावस्थं यत्स्वरूपकम् ॥ ११७ ॥

वासुदेवोऽपि विज्ञेयः सर्वात्मा सर्वकृत्प्रभुः ।
तस्मिन्नेव तु संहृत्य पृथिव्यादीनि देशिकः ॥ ११८ ॥

एवं ध्यात्वा यथान्यायं बिम्बं वस्त्रेण वेष्टयेत् ।
स्थगयित्वांशुकैर्दिव्यैर्दर्भैः सर्वैः स्रगादिभिः ॥ ११९ ॥

आचार्यो मूर्तिपैर्मन्त्रान् व्यापकांश्चतुरोऽपि वा ।
पठद्भिः शाकुनं सूक्तं तथा चान्यैस्त्रयीमयैः ॥ १२० ॥

आम्नायोद्घोषणपरैः सार्धमादाय तीरतः ।
तद्बिम्बं जलमध्ये तु पीठोर्ध्वे शाययेत्स्वयम् ॥ १२१ ॥

अम्भस्येति च मन्त्रेण प्राङ्मूर्धानमुदङ्मुखम् ।
दुन्दुभीर्विविधाकारा नादयित्वा दिशो दश ॥ १२२ ॥

जयशब्दैश्च गीताद्यैः सपुण्याहपुरस्सरम् ।
आत्मन्यासं क्रमात्कृत्वा दिशोऽस्त्रेणावबध्नियात् ॥ १२३ ॥

अवलोक्य च नेत्रेण कवचेनावकुण्ठयेत् ।
लोकपालान् बहिर्ध्यात्वा स्थानादस्मात्समन्ततः ॥ १२४ ॥

तीरदेशमनुप्राप्य कुम्भं सूत्रेण वेष्टितम् ।
वेष्टितं नववस्त्राभ्यां सपिधानं सपल्लवम् ॥ १२५ ॥

संस्थाप्य तद्दक्षिणतः करकं च तथैव हि ।
इन्द्रादीशानपर्यन्तं कलशान् परितो न्यसेत् ॥ १२६ ॥

सवस्त्रान् सापिधानांश्च सहिरण्यान् सकूर्चकान् ।
कुम्भे विशाखयूपं तु करके च सुदर्शनम् ॥ १२७ ॥

आवाह्यार्घ्यादिनाभ्यर्च्य इन्द्रादीन् कलशाष्टके ।
बिम्बस्य शिरसो देशे कुम्भं च करकं न्यसेत् ॥ १२८ ॥

अर्चितं परितश्चाष्टौ कलशान्विन्यसेत्क्रमात् ।
कोणेषु पालिका न्यस्य अनिर्वाणैश्च दीपकैः ॥ १२९ ॥

दर्शयेच्चक्रमुद्रां च रक्षामुद्रां तथैव च ।
अत ऊर्ध्वं न वै कुर्याद्ग्राम्यधर्मं तु तज्जले ॥ १३० ॥

दारुलोहशिलोत्थानां बिम्बानां जलवासनम् ।
साक्षाद्भवेत्तदन्यत्र भवेच्छायाधिवासनम् ॥ १३१ ॥

विधानं तत्र वक्ष्यामि यथावन्मुनिपुङ्गवाः ।
स्नानमाकारशुद्ध्यर्थं दर्पणे तु समाचरेत् ॥ १३२ ॥

अन्यच्च सकलं विप्राः प्राग्वद्बिम्बे समाचरेत् ।
अग्रतो देवबिम्बस्य छायाधिवसनार्थतः ॥ १३३ ॥

जलद्रोणीं कटाहं वा स्थापयेल्लोहनिर्मितम् ।
मृण्मयं दारुजं वापि भाजनं धान्यसञ्चये ॥ १३४ ॥

पूरयेद्गन्धतोयेन शुद्धस्फटिकवर्चसा ।
पूर्ववद्विष्टरं कृत्वा दर्भमञ्जरिजं शुभम् ॥ १३५ ॥

अष्टाविंशतिदर्भोत्थं कूर्चं कृत्वा द्विजोत्तमाः ।
देशिकेन्द्रो विधानेन तत्रावाह्य जगद्गुरुम् ॥ १३६ ॥

अर्घ्यगन्धादिनाभ्यर्च्य स्मृत्वा वै संहृतिक्रमम् ।
विष्टरं जलमध्ये तु प्राङ्मूर्धानं तु शाययेत् ॥ १३७ ॥

चक्रमुद्रां प्रदर्श्याथ कुम्भादीन् पूर्ववन्न्यसेत् ।
शक्तीनामपि विप्रेन्द्राः पूर्ववद्विष्टरं भवेत् ॥ १३८ ॥

अथ वा तु त्रिभिर्दर्भैः कूर्चं कुर्याद्विधानतः ।
छायाधिवासमात्रं तु तासामपि पृथक्पृथक् ॥ १३९ ॥

सर्वाङ्गं नववस्त्रेण प्रतिमायाः समन्ततः ।
छादयित्वा समन्ताच्च सिद्धार्थान् विकिरेत्क्षितौ ॥ १४० ॥

रक्षोहणेति मन्त्रेण रक्षां कुर्यात्समन्ततः ।
अनुक्तमत्र यत्किञ्चित्प्राग्वत्सर्वं समाचरेत् ॥ १४१ ॥

मृण्मये भित्तिसंस्थे च बिम्बे छायाधिवासनम् ।
अन्तः प्रविश्य प्रासादे देशिकेन्द्रः समाचरेत् ॥ १४२ ॥

अन्येषां यागगेहस्य प्राग्वत्कृत्वा तु मण्डपम् ।
कुटीं वा तत्र कुर्वीत छायाधिवसनं गुरुः ॥ १४३ ॥

दारुलोहशिलोत्थानां बिम्बानां विभवे तदा ।
जलद्रोण्यादिके पात्रे तोयाधिवसनं चरेत् ॥ १४४ ॥

तदापि जलवासं तु आचरेन्मण्डपान्तरे ।
यद्वा स्नानार्थतः क्लृप्तमण्डपे वा समाचरेत् ॥ १४५ ॥

अथ वा यागसदने स्नानभूमौ तु तद्भवेत् ।
एवं जलाधिवासं तु कृत्वा वै देशिकोत्तमः ॥ १४६ ॥

उपयोज्यं प्रतिष्ठायां यद्यद्द्रव्यमुपार्जितम् ।
तत्सर्वं समुपाहृत्य प्रासादादींश्च शोधयेत् ॥ १४७ ॥

पर्यग्निकरणं चापि कारयेद्ब्राह्मणेन तु ।
मार्जनैर्गोमयालेपैः शोधयित्वा तु मन्दिरम् ॥ १४८ ॥

सुधाचूर्णैरक्षताद्यैर्भूषयित्वा समन्ततः ।
पञ्चगव्यैस्ततः प्रोक्ष्य दीपानारोप्य सर्वतः ॥ १४९ ॥

वितानाद्यैरलङ्कृत्य गन्धद्रव्यैश्च धूपयेत् ।
नास्तिकान् भिन्नमर्यादान् देवब्राह्मणनिन्दकान् ॥ १५० ॥

पापयोगयुतानन्यान् निन्दितान् पिशुनांस्तथा ।
पाषण्डिनो हीनवृत्तीन् प्रतिलोमान् समत्सरान् ॥ १५१ ॥

लुब्धान्मूर्खानविदुषो बहिर्निर्वासयेत्ततः ।
कर्माद्यद्वासरे विप्राः अपराह्णे गुरुः स्वयम् ॥ १५२ ॥

जलाधिवासदेशं तु सम्प्राप्य सह मूर्तिपैः ।
उत्थाप्य बिम्बमुदकात्कुम्भं च कलशानपि ॥ १५३ ॥

उद्वास्य देवतास्तत्स्थास्तद्बिम्बं तीरविष्टरे ।
प्राङ्मुखं समवस्थाप्य वारिभिः क्षालयेत्ततः ॥ १५४ ॥

लोहजाश्चेद्विशुद्ध्यन्ति तिन्त्रिणीफलवारिभिः ।
प्राग्वत्सृष्टिक्रमं कृत्वा विधानेन मुनीश्वराः ॥ १५५ ॥

वस्त्राभरणपुष्पाद्यैरलङ्कृत्य मनोहरैः ।
यानमारोप्य तद्बिम्बं शङ्खभेर्यादिसंयुतम् ॥ १५६ ॥

ग्रामं प्रदक्षिणीकृत्य ह्यालयं वा समानयेत् ।
यागगेहं तु यानादेरवरोप्य निवेशयेत् ॥ १५७ ॥

स्थाने पूर्वोदिते पश्चादारभेत्स्नपनं गुरुः ।
लेख्यादौ सम्प्रविश्याथ प्रासादं मूर्तिपैः सह ॥ १५८ ॥

प्रागधिवासितं कूर्चं जलात्तस्मात्समुद्धरेत् ।
बिम्बाच्च वस्त्राभरणमाल्यान्यपनयेत्ततः ॥ १५९ ॥

पीठे तु स्नानकुम्भानां स्थापनार्थं प्रकल्पिते ।
पूर्वोदितं स्थूलपरं स्नपनं स्थापयेद्द्विजाः ॥ १६० ॥

पूर्वादिपश्चिमाशान्तं पृथक्स्नपनमण्डपम् ।
विहितं यत्र तत्रैव देवदेवस्य वामतः ॥ १६१ ॥

यातुधानपदं यावदग्निकोणादितो न्यसेत् ।
स्नपनं स्थूलपराख्यं स्थूलसूक्ष्मं तु पृष्ठतः ॥ १६२ ॥

ईशकोणात्समारभ्य यावदाग्नेयगोचरम् ।
देवस्य दक्षिणे पार्श्वे ईशानाद्वायुपश्चिमम् ॥ १६३ ॥

स्थूलस्थूलाभिधं स्नानं स्थापयेत्क्रमयोगतः ।
अधिवासदिने कुर्यात्स्नानं स्थूलपराभिधम् ॥ १६४ ॥

प्रतिष्ठादिवसे कुर्यात्स्नपनं स्थूलसूक्ष्मकम् ।
चतुर्थे दिवसे स्नानं स्थूलस्थूलाभिधं भवेत् ॥ १६५ ॥

तदा तत्तद्दिने तत्तत्स्नपनं स्थापयेद्गुरुः ।
एवं हि स्नानकलशान् क्रमात्संस्थाप्य पूर्ववत् ॥ १६६ ॥

तदर्पणावसानेऽथ शयनं कल्पयेद्द्विधा ।
नयनोन्मीलनार्थं तु शयनं कल्पयेत्पुरा ॥ १६७ ॥

द्वादशाक्षरमन्त्रेण पीठं सम्प्रोक्षयेत्ततः ।
प्रागग्रानुदगग्रान्वा दर्भानास्तीर्य पुष्कलान् ॥ १६८ ॥

पञ्चभारमितान् शालीनथ वा चार्धसम्मितान् ।
वृत्तं वा चतुरश्रं वा कम्बलानुपरि न्यसेत् ॥ १६९ ॥

उपधानानि चित्राणि शयनाङ्गानि कल्पयेत् ।
माङ्गल्यकुम्भान् संस्थाप्य दिगष्टकमाश्रितान् ॥ १७० ॥

ततो बिम्बाधिवासार्थं शयनं परिकल्पयेत् ।
तदर्थं वेदिकोर्ध्वे तु कुर्यात्स्वस्तिकमण्डलम् ॥ १७१ ॥

रजसा कुसुमैर्वाथ चतुर्वर्णैर्महोज्ज्वलैः ।
प्रागग्रानुदगग्रांश्च दर्भानास्तीर्य तत्परम् ॥ १७२ ॥

पञ्चभारप्रमाणेन शालींस्तत्र विनिक्षिपेत् ।
तदर्धं तण्डुलं शुद्धं तदर्धं तु तिलं तथा ॥ १७३ ॥

उपर्युपरि निक्षिप्य लाजानूर्ध्वे तु विन्यसेत् ।
काष्ठजं सुदृढं स्निग्धं चतुर्गात्रसमन्वितम् ॥ १७४ ॥

चतुष्पादसमायुक्तं चतुरश्रायतं ततम् ।
खट्वासञ्ज्ञितपर्यङ्कं तदूर्ध्वे स्थापयेत्ततः ॥ १७५ ॥

दुकूलं मृदुतल्पं च विन्यसेत्सोपरिच्छदम् ।
केवलं तल्पमात्रं वा विन्यसेदथ वा द्विजाः ॥ १७६ ॥

खट्वातूले विसृज्याथ लाजोर्ध्वे रक्तकम्बलम् ।
न्यसेदभिनवं पश्चाद्वस्त्रं कार्पासजं नवम् ॥ १७७ ॥

क्षौमवस्त्रं न्यसेन्मध्ये चित्रवस्त्रं ततोपरि ।
शिरोपधानसंयुक्तं पादगण्डूकसंयुतम् ॥ १७८ ॥

सर्वानभिनवान् शुभ्रान् सकपोलोपधानकान् ।
सुगन्धधूपितान् वस्त्रान् कुसुमामोदसम्मितान् ॥ १७९ ॥

इन्द्रादीशानपर्यन्तं कलशान् सूत्रवेष्टितान् ।
तोयपूर्णान् समान्स्निग्धान् सापिधानान्सवस्त्रकान् ॥ १८० ॥

सरत्नपल्लवैर्युक्तान् धान्यराशिषु निक्षिपेत् ।
शङ्खचक्रगदापद्मैर्ध्वजैश्चेन्द्रादिषु क्रमात् ॥ १८१ ॥

श्रीवत्सं गरुडं कूर्मं सौवर्णं तेषु निक्षिपेत् ।
मध्ये मध्ये च कुम्भानां धान्योर्ध्वे मङ्गलान्न्यसेत् ॥ १८२ ॥

शङ्खं चक्रं तथा लक्ष्मीं कुम्भं श्रीवत्समेव च ।
दर्पणं स्वस्तिकं मत्स्ययुग्मं वै मङ्गलाष्टकम् ॥ १८३ ॥

वस्त्रैराच्छादितास्तद्वन्न्यसेत्कोणेषु पालिकाः ।
एवं शयनयुग्मं तु प्रकल्प्य तदधो यजेत् ॥ १८४ ॥

सर्वाधारमनन्तं तु तदूर्ध्वे सर्वगं प्रभुम् ।
प्रभवाप्यययोगेन यजेत्प्रागादियोगतः ॥ १८५ ॥

पाठयेत्सर्पसामादि संज्ञां ज्ञानबलात्मिकाम् ।
हुत्वा शताष्टसङ्ख्यं तु मूलं तदनु कल्पयेत् ॥ १८६ ॥

मण्डलं पावनं रागैः सिताद्यैर्माङ्गलीयकैः ।
तदूनाधिकशान्त्यर्थं हुत्वा कुण्डगणं ततः ॥ १८७ ॥

संस्कृत्य प्रतिकुण्डस्य निकटे कुम्भमध्यगम् ।
प्रभवाप्यययोगेन चातुरात्म्यं तु संयजेत् ॥ १८८ ॥

हृदादि यद्वा दिक्स्थेषु विदिक्स्थेषु तदस्त्रपम् ।
दत्त्वा तदर्थं पूर्णां तु पूर्णात्पूर्णं च पाठयेत् ॥ १८९ ॥

एकायनान्यजुर्मयानाश्रावितमनन्तरम् ।
एवं सर्वं समापाद्य प्रयायाद्बिम्बसन्निधिम् ॥ १९० ॥

बिम्बमर्घ्यादिनाभ्यर्च्य गुरुः स्नपनमारभेत् ।
अथास्त्रमन्त्रेण पुरा माङ्गल्यकलशाम्भसा ॥ १९१ ॥

संसिच्य बिम्बं तदनु स्नापयेत्तन्मृदाम्भसा ।
पाठयेत्तत्र कूष्माण्डान् बलमन्त्रादनन्तरम् ॥ १९२ ॥

ततो गोमयकुम्भेन इह गावः प्रपाठयेत् ।
भूतिस्त्वमिति मन्त्रेण पाठ्यमाने विभूतिना ॥ १९३ ॥

पञ्चगव्येन तदनु पाठयेच्छाकरन्ततः ।
पूर्ववच्च ततोऽभ्यर्च्य विधिवच्चमसाम्बुना ॥ १९४ ॥

क्षालयित्वा जलैः शुद्धैरभिषिच्य ततोऽर्चयेत् ।
शिल्पिदोषविनाशार्थं स्नानमेतदुदाहृतम् ॥ १९५ ॥

परिधाय ततो विप्रा वाससी अधरोत्तरे ।
नयनोन्मीलनार्थं तु शयनं यत्प्रकल्पितम् ॥ १९६ ॥

तत्र पूर्वशिरस्कं च बिम्बं प्रस्वापयेद्द्विजाः ।
ततः समन्ताद्बिम्बं तु छादयेत्कम्बलादिभिः ॥ १९७ ॥

सौवर्णं राजतं चैव पात्रमाढकपूरणम् ।
धान्यराशौ निधायाग्रे पूरयेद्यथाक्रमम् ॥ १९८ ॥

मधुना सर्पिषा चैव ततस्तु मधुपात्रके ।
अर्कमण्डलमध्यस्थं मार्तण्डायुतसन्निभम् ॥ १९९ ॥

ध्यात्वा मन्त्रेशमभ्यर्च्य तदन्यस्मिन् मुनीश्वराः ।
चन्द्रमण्डलमध्यस्थं धेनुमुद्रासमन्वितम् ॥ २०० ॥

मन्त्रं वै सौरभीयं च स्फुरदिन्दुशतप्रभम् ।
तदन्तरस्थं मन्त्रेशं हिमाचलनिभं स्मरेत् ॥ २०१ ॥

तत्स्रुतैरमृतौघैश्च शशिजैर्धेनुजैरपि ।
सुभावितं स्मरेद्बिम्बं मधुवातेति मन्त्रतः ॥ २०२ ॥

घृतादि मन्त्रयेत्तत्पश्चाद्वस्त्रेणाच्छादयेत्तु तत् ।
अष्टाङ्गुला च सौवर्णी शलाका राजती तथा ॥ २०३ ॥

केवला वापि सौवर्णी शलाका स्याद्द्विजोत्तमाः ।
अष्टधान्यानि परितः पात्रेषु विनिवेशयेत् ॥ २०४ ॥

गाः कन्यकाः शुभाकारा भूषणैश्चापि भूषिताः ।
आनीय स्थापयेत्पार्श्वे ब्रह्मघोषेण घोषयेत् ॥ २०५ ॥

स्वयं शलाकां सौवर्णीं कृत्वा नेत्राभिमन्त्रिताम् ।
मध्वक्तां च तया नेत्रं दक्षिणं त्वीषदुल्लिखेत् ॥ २०६ ॥

संस्मरन् परमं ज्योतिर्नेत्रमन्त्रेण देशिकः ।
आज्याक्तया तया वापि राजत्या वाममुल्लिखेत् ॥ २०७ ॥

तन्मन्त्रितेन शस्त्रेण शिल्पी स्नातोऽवलोकितः ।
यथावत्प्रकटीकुर्याद्विधिदृष्टेन वर्त्मना ॥ २०८ ॥

वारुणं पाठयेत्साम सह चान्द्रेण सामगान् ।
पूरयेन्मधुसर्पिर्भ्यां नेत्रयुग्मं क्रमेण तु ॥ २०९ ॥

वौषडन्तेन मूलेन तेनैव जुहुयात्ततः ।
सिञ्चन्तममृतौघं तु हृदयान्तेन सेचयेत् ॥ २१० ॥

तन्मूर्ध्नि शशिबिम्बं तु ध्यायेत्तापादिशान्तये ।
व्यपोच्छादनपटं दर्शयेन्मधुसर्पिषी ॥ २११ ॥

अष्टधान्यानि गाश्चैव कन्यकाः पुरतःस्थिताः ।
मध्वाज्ये च शलाके च प्रदद्याच्छिल्पिने द्विजाः ॥ २१२ ॥

अष्टधान्यानि गाश्चैव शय्योपकरणं तथा ।
प्रदद्याद्देशिकेन्द्राय साधकः सिद्धिलालसः ॥ २१३ ॥

यद्वा मध्वादि सकलमाचार्याय निवेदयेत् ।
यथाशक्ति तथान्येषां मूर्तिपानां च दक्षिणाः ॥ २१४ ॥

मृण्मये मूलबिम्बे तु भित्तिस्थेऽथ प्रविश्य तु ।
प्रासादं तत्र कुर्वीत नयनोन्मीलनक्रियाम् ॥ २१५ ॥

एवं श्रियादिशक्तीनां नयनोन्मीलनं भवेत् ।
एवं नेत्रे समुन्मील्य बिम्बस्य तु ततः परम् ॥ २१६ ॥

दहनाप्यायने कुर्यादस्त्रेण हृदयेन च ।
आमूर्ध्नो मूलमन्त्रं तु मूर्त्यर्थं पूर्ववन्न्यसेत् ॥ २१७ ॥

स्नानार्थतः पुरा क्लृप्ते पीठे बिम्बं नयेत्ततः ।
व्याप्तिसत्तासमायुक्ते संस्कृते प्रोक्षणादिना ॥ २१८ ॥

आधारादिक्रमोपेते समालब्धे सुपूजिते ।
पीठेऽवतार्य संवेष्ट्य वाससी ह्यधरोत्तरे ॥ २१९ ॥

अथ क्रमोदितैः कुम्भैर्द्विषोडशावर्तितैर्हृदा ।
स्नापयेत्पाठयेद्विप्रानोषधीनामिति श्रुतिम् ॥ २२० ॥

या ओषधय इत्यादि ऋग्वेदांस्तदनन्तरम् ।
एवं दशावशिष्टान्तैः सेचिते कलशैः सति ॥ २२१ ॥

ततः कुम्भचतुष्केण चतुर्भिर्मूर्तिधारकैः ।
ऋक्सामपूर्वैर्विधिवत्स्नपनीयं च पाठयेत् ॥ २२२ ॥

उदुत्तमं हि ऋग्वेदान्पाठयेद्द्रविणं यजुः ।
ततस्तु वारुणं साम सामज्ञोऽथर्वणस्ततः ॥ २२३ ॥

अयं ते वरुणश्चेति पवित्रं ते ततो ऋचम् ।
वसोः पवित्रं हि यजुः पाठयेत्सुमहांस्ततः ॥ २२४ ॥

पवित्रं ते हि यत्साम संयोज्यैकायनांस्ततः ।
मूर्तिपान् समुदायेन पावमानीचतुष्टयम् ॥ २२५ ॥

तदन्ते तु परं मन्त्रं व्यूहीयं भगवानिति ।
पवित्रमन्त्रं तदनु इदं विष्णुर्विचक्रमे ॥ २२६ ॥

ततो विभवमन्त्रैस्तु सर्वैः सम्मन्त्रितेन च ।
कुम्भेन सेचयित्वा तु व्यूहमन्त्रैः परेण तु ॥ २२७ ॥

स्नापयित्वार्चयित्वा च जुहुयात्साधिकं शतम् ।
यथावत्प्रणवेनाथ व्याप्तिं कृत्वा च पाठयेत् ॥ २२८ ॥

मा प्रगामेति ऋग्वेदानग्नेवायुर्यजुर्मयान् ।
प्राणापानं हि यत्साम ततः प्राणाय वै नमः ॥ २२९ ॥

यातव्येति परं मन्त्रं विप्रानेकायनांस्ततः ।
ध्यानयुक्तो धिया सम्यक्पठेदाराधकस्ततः ॥ २३० ॥

आवाहयाम्यमरवृन्दनताङ्घ्रियुग्मं लक्ष्मीपतिं भुवनकारणमप्रमेयम् ।
आद्यं सनातनतनुं प्रणवासनस्थं पूर्णेन्दुभास्करहुताशसहस्रदीप्तिम् ॥ २३१ ॥

ध्येयं परं सकलतत्त्वविदां च वेद्यं वाराहकापिलतुकेसरिसौम्यमूर्तिम् ।
श्रीवत्सकौस्तुभमहामणिभूषिताङ्गं कौमोदकीकमलशङ्खरथाङ्गहस्तम् ॥ २३२ ॥

सर्वत्रगोऽसि भगवन् किल यद्यपि त्वामावाहयामि हि यथा व्यजनेन वायुम् ।
गूढो यथैव दहनो मथनादुपैति आवाहितोऽपि हि तथा त्वमुपैषि चार्चाम् ॥ २३३ ॥

मालाधराच्युत विभो परमार्थमूर्ते सर्वज्ञ नाथ परमेश्वर सर्वशक्ते ।
आगच्छ मे कुरु दयां प्रतिमां भजस्व पूजां गृहाण मदनुग्रहकाम्ययाद्य ॥ २३४ ॥

ततो विमृज्य वस्त्रेण भोगैः पूर्वोदितैर्यजेत् ।
अर्घ्याद्यैर्दक्षिणान्तैस्तु पाठयेदृङ्मयांस्ततः ॥ २३५ ॥

अर्चामि तेति मन्त्रं वै सामगांश्चार्चितस्त्विति ।
ओं भगवानिति तदङ्गांस्तु अग्नौ सन्तर्पयेत्ततः ॥ २३६ ॥

स्वकुण्डे देशिकेन्द्रस्तु समिधां सप्तकं हुनेत् ।
पश्चाच्छताष्टसङ्ख्यं च साज्यैश्च तिलतण्डुलैः ॥ २३७ ॥

तर्पयित्वा तु पूर्णान्तमुद्धृत्याग्निकणं ततः ।
दिक्कुण्डेषु विनिक्षिप्य संस्कृतेषु पुरैव तु ॥ २३८ ॥

तथैव च विदिक्स्थेषु उद्धृत्याभ्यर्च्य वै क्रमात् ।
ततः प्रभवयोगेन चतुर्दिक्षु निवेशयेत् ॥ २३९ ॥

चतुरो वासुदेवादिनाम्ना एकायनान् द्विजान् ।
स्वाभिः स्वाभिरसङ्ख्यं च तैः कार्यमभिधादिभिः ॥ २४० ॥

समित्सप्तकपूर्वैस्तु साज्यैस्तु तिलतण्डुलैः ।
एवमप्यययोगेन वाय्वादीशानसानकम् ॥ २४१ ॥

ऋग्वेदाद्यांस्तु चतुरः संस्कृत्याग्नौ तथा न्यसेत् ।
तैरप्यच्युतलिङ्गैस्तु स्वशाखोक्तैश्च पावनैः ॥ २४२ ॥

हवनं विधिवत्कार्यं भक्तियुक्तेन चेतसा ।
एवं क्रमेण कुण्डांस्तु सर्वान् हुत्वा ततो गुरुः ॥ २४३ ॥

द्वास्थादीनां पुरोक्तानां दिक्पतीनां समाचरेत् ।
हवनं विधिवत्कुण्डे स्थण्डिले वा मुनीश्वराः ॥ २४४ ॥

प्रासादस्येशदिग्भागे तदर्थं पूर्वनिर्मिते ।
स्तुत्वा जितन्तेमन्त्रेण सामज्ञान्पाठयेत्पुनः ॥ २४५ ॥

सह गायत्रसाम्ना तु यद्रथन्तरसञ्ज्ञितम् ।
प्रजप्य द्वादशार्णं तु मुद्रां बद्ध्वा प्रणम्य च ॥ २४६ ॥

अष्टाङ्गेनाथ विज्ञाप्यो भगवान्भूतभावनः ।
मूर्तिभेदेन रूपेण अनेनैव हि साम्प्रतम् ॥ २४७ ॥

लोकानज्ञाततत्त्वांस्तु समाह्लादय नागरान् ।
येनान्तःसम्प्रविष्टेन ईषत्कालवशात्तु वै ॥ २४८ ॥

जन्मान्तरसहस्रोत्थान्मोक्षमायान्ति किल्बिषात् ।
एवमर्थ्यो हि भगवान्लोकानुग्रहकृत्प्रभुः ॥ २४९ ॥

दत्त्वार्घ्यगन्धस्रग्धूपदीपनैवेद्यमेव च ।
निवेद्याचमनं चार्घ्यं कुर्यान्नीराजनं ततः ॥ २५० ॥

पुण्याहजयघोषेण वेदध्वनियुतेन च ।
शङ्खवादित्रनिर्घोषपटहैर्गीतिभिः सह ॥ २५१ ॥

करावभिगतौ कृत्वा देवदेवस्य देशिकः ।
पाठयेदृङ्मयं मन्त्रमुत्तिष्ठेति ततः सह ॥ २५२ ॥

यात्रोपकरणैर्मन्त्रं कृत्वा ब्रह्मरथे स्थिरे ।
सुयन्त्रिते च क्षीराज्यदध्योदनसमन्विते ॥ २५३ ॥

सुभिक्षक्षेमशान्त्यर्थं परमान्नफलैर्युते ।
पाठयेदस्यवामीयमृङ्मयं तदनन्तरम् ॥ २५४ ॥

तन्मयान्बलमन्त्रं तु दशार्थेति मुनीश्वराः ।
स्वयमाद्यन्तसंरुद्धं हृदा तु कवचं जपेत् ॥ २५५ ॥

भ्रामयेच्च बलिदानं च क्रियमाणं तु सर्वदिक् ।
रत्नकाञ्चनवस्त्राणां पूर्ववत्क्षेपमाचरेत् ॥ २५६ ॥

दिव्याद्यायतनानां च कार्या पूजा यथोचिता ।
पञ्चरात्रविदां चैव यतीनां ब्रह्मचारिणाम् ॥ २५७ ॥

षट्कर्मनिरतानां च दानं दीनजनेष्वपि ।
रथस्थे मन्त्रबिम्बे तु यावत्पदशतं व्रजेत् ॥ २५८ ॥

तद्रथं तूर्यघोषेण तावत्क्रतुशतं फलम् ।
आप्नोत्याराधकः शश्वत्सकामो नियतव्रतः ॥ २५९ ॥

ततस्तोरणदेशस्थं रथं कृत्वार्चयेत्प्रभुम् ।
पाद्यार्घ्यपुष्पधूपैश्च नमस्कृत्य च पाठयेत् ॥ २६० ॥

उत्तिष्ठेति द्विषट्कार्णं सजितन्तं तु चाखिलम् ।
सम्पठन् पौरुषं सूक्तं यागवेश्म प्रवेशयेत् ॥ २६१ ॥

शय्यायां प्राक्शिरो बिम्बं शाययेद्धृदयेन तु ।
देशिको मूर्तिपैः सार्धं यात्राहोमं समापयेत् ॥ २६२ ॥

ततस्तच्छिरसो देशे चक्राधारस्थिते घटे ।
पूर्वोक्तलक्षणे नेत्रमन्त्रसम्पुटितं यजेत् ॥ २६३ ॥

पूजयेन्मङ्गलान्यष्टौ प्रागादौ तु स्वनामभिः ।
अष्टासु तत्र कुम्भेषु पुरेव स्थापितेषु च ॥ २६४ ॥

वासुदेवादयः पूज्याः प्रभवाप्यययोगतः ।
हृदादि यद्वा दिक्स्थेषु विदिक्स्थेषु तदस्त्रपम् ॥ २६५ ॥

यद्वा प्राच्यां तु वाराहो नारसिंहस्तु दक्षिणे ।
प्रतीच्यां श्रीधरो देवो हयवक्त्रस्तथोत्तरे ॥ २६६ ॥

आग्नेय्यां भार्गवो रामो नैर्ऋते राम एव च ।
वायव्ये वामनश्चापि विष्णुरीशानगोचरे ॥ २६७ ॥

स्वनाम्ना पूजयित्वैतानर्घ्यगन्धादिभिस्ततः ।
पूजयित्वार्घ्यगन्धाद्यैः शयनस्थं विभुं ततः ॥ २६८ ॥

वर्मणाच्छादनपटं दत्त्वा धूपाधिवासितम् ।
मूलेन शयनस्थस्य कुर्यादाप्यायनं ततः ॥ २६९ ॥

देवाङ्घ्रिनिकटोद्देशे उपविष्टस्तु देशिकः ।
मन्त्रविद्देवबिम्बस्य मन्त्रन्यासं समाचरेत् ॥ २७० ॥

लेख्यादौ मन्त्रबिम्बे तु प्रासादस्थे द्विजोत्तमाः ।
उत्सवं कर्मबिम्बे तु विष्टरे वा प्रकल्प्य च ॥ २७१ ॥

प्रस्वाप्य शयने प्राग्वत्प्रासादं सम्प्रविश्य च ।
मन्त्रन्यासादिकं कुर्याद्वक्ष्यमाणविधानतः ॥ २७२ ॥

सुविस्तृतं तद्विधानं शृणुध्वं मुनिपुङ्गवाः ।
पीठे पुष्पाञ्जलिं कृत्वा गन्धयुक्तं च साक्षतम् ॥ २७३ ॥

न्यसेदष्टाक्षरं प्राग्वदामूर्ध्नश्चरणान्तिमम् ।
न्यसेद्धृदादिषण्मन्त्रान्स्थानेषु हृदयादिषु ॥ २७४ ॥

किरीटं शिरसो देशे श्रीवत्सं तु गलादधः ।
वक्षसो वामभागे तु विन्यसेत्तदनन्तरम् ॥ २७५ ॥

कौस्तुभं हृदये न्यस्य वनमालां च कण्ठतः ।
देवस्य दक्षिणे हस्ते चक्रं शङ्खं तु वामतः ॥ २७६ ॥

वामहस्ते गदाखड्गौ ह्यथवा दक्षवामयोः ।
क्रमाल्लाञ्छनमन्त्रांस्तु चक्रादीन् लाञ्छनान्न्यसेत् ॥ २७७ ॥

श्रियं दक्षिणभागे तु पुष्टिमुत्तरतो न्यसेत् ।
ऊरुमूले वैनतेयमथेदानीं निबोधत ॥ २७८ ॥

चतुर्भुजस्य देवस्य चक्रादेर्विनिवेशनम् ।
मुख्यदक्षिणहस्तेऽब्जं गदां वामकरे न्यसेत् ॥ २७९ ॥

अपरे दक्षिणे चक्रं शङ्खं वामकरे परे ।
अन्यान्लाञ्छनमन्त्रांस्तु यथायोगं च विन्यसेत् ॥ २८० ॥

अन्येषु षड्भुजाद्येषु मुख्यदक्षोदितः क्रमात् ।
सर्वान्लाञ्छनमन्त्रांस्तु यथास्थानगतान्न्यसेत् ॥ २८१ ॥

संस्थाप्या भगवन्मूर्तिर्धत्ते चक्रादिलाञ्छनम् ।
हस्ते येन क्रमेणैव लाञ्छनानि न्यसेत्तथा ॥ २८२ ॥

मन्त्रान्किरीटपूर्वांश्च प्राग्वत्सर्वत्र विन्यसेत् ।
पादादिद्वादशाङ्गेषु ततो दामोदरादिकान् ॥ २८३ ॥

तच्छक्तिकांस्तथा मन्त्रान्तद्वद्व्यापकलक्षणान् ।
ऐश्वरेणाथ बीजेन यथावस्थेन भावयेत् ॥ २८४ ॥

पादादि तन्मयैरेव तद्वन्मन्त्रवरेण तु ।
प्राग्वदप्यययुक्त्या तु शान्तज्योतिरमेयात्मना ॥ २८५ ॥

विभुना वाक्स्वरूपेण तदेवाथ परं पदम् ।
सुशान्तं सर्वगं बुद्ध्वा निस्तरङ्गमिवोदधिम् ॥ २८६ ॥

विद्यां गदामित्याद्यं यत्पाठयेत्पाञ्चरात्रिकान् ।
देहसन्न्यासिकं मन्त्रं धारणाख्यमनन्तरम् ॥ २८७ ॥

जीमूतस्येति ऋग्वेदान्नासदासीत्तु पाठयेत् ।
क्रमेणानेन हुत्वा तु पदार्थैः शतसङ्ख्यया ॥ २८८ ॥

तिलानां च तथाज्यस्य मन्त्रैभिर्मुनिपुङ्गवाः ।
दत्त्वा पूर्णाहुतिं भास्वदुपसंहारलक्षणाम् ॥ २८९ ॥

ततस्तत्परमं ब्रह्म हृद्युदितं पूर्ववत्स्मरेत् ।
सर्वशक्तिमयेनैव स्वभावेन स्वकेन तु ॥ २९० ॥

ओजो बलात्मना तद्वद्गन्धो द्रव्यात्मना तु वै ।
बीजं तरुस्वरूपेण समुद्रो बुद्बुदात्मना ॥ २९१ ॥

एवमन्यपदेश्या या शक्तिः स्वे शक्तिदर्पणे ।
स्थितमादाय विश्वेशं स्वातन्त्र्याच्च मुनीश्वराः ॥ २९२ ॥

मन्त्ररूपां तनुं धत्ते सम्यगाराधनाय च ।
नानात्वमुपयातस्य प्रसरं तस्य च स्वयम् ॥ २९३ ॥

निष्प्रभत्वे प्रयातस्य चिद्बीजनियमस्य च ।
आविष्कृतस्य भेदे वाप्यमूर्तेन बलीयसा ॥ २९४ ॥

अज्ञानगहनेनेव नित्यानित्यामलात्मना ।
स्मृत्वैवं मूलमन्त्रं तु बिम्बहृत्पद्मगं स्मरेत् ॥ २९५ ॥

षट्शक्तिकरणोपेतं तैस्तद्द्रव्यमयीं तनुम् ।
संस्मरेत्संहरन्तं च प्रागुक्तेनैव वर्त्मना ॥ २९६ ॥

स्वरूपममलं भूयः स्मरेन्मूर्त्यात्मना तु तत् ।
नयन्तं पूर्वविधिनाप्येवं स परमेश्वरः ॥ २९७ ॥

मन्त्रात्मना स्वतन्त्रत्वमुपयातो यदा तदा ।
सहस्रशिरसं देवमिति सर्वांस्तु पाठयेत् ॥ २९८ ॥

पाठयेद्ब्राह्मणान्धातर्यद्धक्षेति च मन्त्रकम् ।
यो विश्वतश्चक्षुरिति ध्यातव्यो भवतीति च ॥ २९९ ॥

द्वा सुपर्णेति तदनु अतो देवेति वै ततः ।
ऋङ्मयं पौरुषं सूक्तं ततः परस्तमानिति ॥ ३०० ॥

शाश्वताच्च ततः कालकालेति समुदाहरेत् ।
एषा बुद्धिः सप्तधेति अत्रेदानीं च पाठयेत् ॥ ३०१ ॥

ततोऽर्चयित्वा मन्त्रेशं शयने बिम्बवृतिकम् ।
सांस्पर्शिकैरासनाद्यैर्विविधैरौपचारिकैः ॥ ३०२ ॥

हृदयङ्गमसञ्ज्ञैश्च मधुपर्कादिभिर्द्विजाः ।
परमान्नादिभिश्चान्नैः पवित्रैः पावनैस्तथा ॥ ३०३ ॥

अन्यैश्च विविधैर्भोगैर्यथा चानुक्रमेण तु ।
सर्वं तु सम्प्रदानान्तं कृत्वा पश्चात्तु मण्डले ॥ ३०४ ॥

सन्निधीकृत्य सम्पूज्य महता विभवेन तु ।
अग्नौ सन्तर्पयेत्साङ्गं समित्सप्तकपूर्वकम् ॥ ३०५ ॥

जुहुयुर्मूर्तिपाश्चापि स्वे स्वे कुण्डे यथाक्रमम् ।
प्रागादिदिक्षु कुण्डेषु क्रमेण समिधः स्मृताः ॥ ३०६ ॥

पलाशवृक्षखदिरबिल्वोदुम्बरभूरुहाम् ।
आग्नेयादिविदिक्षु स्युः पिप्पलप्लक्षसम्भवाः ॥ ३०७ ॥

न्यग्रोधप्रभवाश्चैव करमर्दप्रभवास्तथा ।
पलाशसमिधोऽन्यत्र भूयसां परिकल्पने ॥ ३०८ ॥

उक्ताभावे तु सर्वत्र पालाश्यः समिधो मताः ।
चतस्रो धेनवः स्थाप्या दक्षिणस्यामुदङ्मुखाः ॥ ३०९ ॥

गङ्गा सरस्वती गोदा यमुना रूपधारिणी ।
दुग्धैस्तदीयैः श्रपणं चरूणामाहुतिस्तथा ॥ ३१० ॥

श्रपयेत्पयसा पूर्वे शालितण्डुलमाढकम् ।
कृसरैर्दक्षिणाग्नौ तु पाश्चात्ये गुडमिश्रितम् ॥ ३११ ॥

उदीच्याग्नौ हरिद्रान्नं शुद्धान्नमितराग्निषु ।
प्रत्येकं शतमष्टौ च होमाः स्युः समिदादिभिः ॥ ३१२ ॥

तदर्धं वापि पादं वा देशकालानुरूपतः ।
तिलशालियवैर्वेणुगोधूमबीजान्यनुक्रमात् ॥ ३१३ ॥

तिलैरितरकुण्डेषु तैर्वा सर्वत्र कल्पयेत् ।
स्वमूर्तिकुम्भान्मन्त्रेण जलमुद्धृत्य भाजने ॥ ३१४ ॥

बिम्बमूर्ध्नि क्रमाद्देयं सर्वैरेकायनादिकैः ।
चतुर्दर्भकृतेनैव कूर्चेन तदनन्तरम् ॥ ३१५ ॥

पलाशखदिराश्वत्थबिल्वशाखाभिरङ्कुभिः ।
सिञ्चेयुर्मूर्तिपाः सम्यग्वेदिकाकलशस्थितैः ॥ ३१६ ॥

आचार्यः कोणदेशस्थैर्मन्त्रैर्वेतसशाखया ।
सन्तर्पयित्वा तदनु मन्त्रं सपरिवारकम् ॥ ३१७ ॥

आज्यादिना प्रभूतेन दत्त्वा पूर्णाहुतिं ततः ।
बिम्बात्मना प्रयातानां क्ष्मादीनामक्षरूपिणाम् ॥ ३१८ ॥

आपादनेऽपि प्राणार्थं पिण्डीभूतार्थमेव च ।
आरम्भादेव जातानां छिद्राणां शमने तु वै ॥ ३१९ ॥

आप्यायनार्थं मन्त्राणां द्रव्यैर्होमं समाचरेत् ।
द्विषट्केणाहुतीनां च एकैकेन चतुर्हृदा ॥ ३२० ॥

आचाङ्घ्रेर्जानुपर्यन्तं स्पृष्ट्वाज्यं होमयेत्पुरा ।
आनाभि जानुदेशाच्च तथैव जुहुयाद्दधि ॥ ३२१ ॥

नाभेराकण्ठतः क्षीरमामूर्ध्नः कण्ठतो मधु ।
सम्मिश्रं जुहुयात्सर्वं स्पृष्ट्वा देहं तु चाखिलम् ॥ ३२२ ॥

दत्त्वा घृतेन वै पश्चात्पूर्णां मूलेन तत्परम् ।
संस्कृत्य बिम्बपीठं भिन्नं ब्रह्मशिलां तथा ॥ ३२३ ॥

प्राणाभिमानदेवं वा यस्य यो विहितस्तु वै ।
वेष्टयित्वाकुशैर्मन्त्रैश्चक्रमन्त्रेण वै ततः ॥ ३२४ ॥

कार्यो ब्रह्मशिलाहोमः शताधिकसङ्ख्यया ।
गायत्रीभिस्तदर्थं च बह्वृगाद्यैः पृथक्पृथक् ॥ ३२५ ॥

अजस्य नाभावित्यादिमन्त्रैरेकायनैस्ततः ।
अभ्यादिमतिमूर्तं तु भोग्यं वापि पृथक्स्थितम् ॥ ३२६ ॥

देवतानां त्वधिष्ठानं पीठं कृत्वा तु बुद्धिगम् ।
होतव्यं प्रणवेनैव स्वयं व्याहृतिभिस्ततः ॥ ३२७ ॥

अग्नेर्नेत्रमन्त्रेण प्रणवान्तेन हावयेत् ।
ततो हवनमन्त्रेण तर्पणीयं तमेव हि ॥ ३२८ ॥

स्वनाम्ना प्रणवेनैव स्वाहान्तेनाग्रेस्तथा ।
संरोधस्तर्पितानां च कार्यः पूर्णान्तमेव हि ॥ ३२९ ॥

साम्भसा विष्टरेणैव भावेन सजपेन च ।
सर्वेश्वरस्य देवस्य स्वकीयासु च मूर्तिषु ॥ ३३० ॥

शब्दात्मिकासु मूर्तासु तद्वच्छ्रुतिमयस्य च ।
कृत्वैवं च तदा दिक्षु मूर्तिपान्विनिवेश्य च ॥ ३३१ ॥

पार्श्वदेशे तु कुण्डानां तर्पयेत्पायसेन तु ।
दक्षिणां च यथाशक्ति दद्याद्धेमादिकां ततः ॥ ३३२ ॥

गृहीत्वा दक्षिणां मन्त्रः प्रीणनीयस्तु तैस्ततः ।
अथ निद्रायमाणं तु देवं स्तुत्वावकुण्ठ्य च ॥ ३३३ ॥

अर्चयित्वा नमस्कृत्य तत्र सर्वान्प्रवेशयेत् ।
विप्रानेकायनांश्चापि तथा वै बह्वृचादिकान् ॥ ३३४ ॥

स्वस्वशाखोदितान्मन्त्रान्पाठयेत्क्रमयोगतः ।
स्तुतिपाठकपूर्वांश्च नृत्तगीतपरायणान् ॥ ३३५ ॥

वीणावेणुमृदङ्गादीनितरांश्च प्रवेशयेत् ।
विदिक्स्थान्प्रणवे जापे मूर्तिपान्विनिवेशयेत् ॥ ३३६ ॥

दिक्स्थितान्मूर्तिपान्विप्रान्द्वादशार्णे नियोजयेत् ।
रक्षामुद्रां ततः कृत्वा दर्शयेत्सर्वदिक्ष्वथ ॥ ३३७ ॥

शाययेद्दर्भशय्यायां यजमानमुपोषितम् ।
स्थण्डिले स्वप्नसिद्ध्यर्थं प्राक्शिरस्कं ततो द्विजाः ॥ ३३८ ॥

एवं कृत्वाधिवासं तु जागरेण नयेन्निशाम् ।
प्रभातायां तु शर्वर्यां कृत्वा स्नानादिकाः क्रियाः ॥ ३३९ ॥

प्रतिष्ठामारभेत्पश्चाद्देशिकः शास्त्रवित्तमः ।
प्रबुद्धं यजमानं तु स्वप्नं पृच्छेच्छुभाशुभम् ॥ ३४० ॥

तत्राशुभोपशान्त्यर्थं तदानीं जुहुयाद्गुरुः ।
शतं सहस्रं साष्टं वा यथाशक्त्यथ वा द्विजाः ॥ ३४१ ॥

मध्वाज्यक्षीरसम्मिश्रान्सफलांश्च तिलानपि ।
अस्त्रसम्पुटितेनैव नाम्ना स्वाहान्वितेन तु ॥ ३४२ ॥

दोषं जहि जहीत्येवं पदं नामावसानकम् ।
केवलेनाथ वाक्येन सिंहमन्त्रेण होमयेत् ॥ ३४३ ॥

एवं दुःस्वप्नशान्तिं तु कृत्वा स्थापनमाचरेत् ।
प्रासादं दर्भशाखाभिर्बहिरन्तश्च मार्जयेत् ॥ ३४४ ॥

विकीर्य साक्षतं पुष्पं गुग्गुलुं धूपयेत्पुनः ।
सहमूर्तिधरैर्विप्राः शिल्पिभिश्चाथ देशिकः ॥ ३४५ ॥

सार्घ्यपुष्पाक्षतकरः प्रासादान्तं व्रजेत्ततः ।
हन्यात्सिद्धार्थकैस्तत्स्थान्विघ्नानस्त्राभिमन्त्रितैः ॥ ३४६ ॥

प्राङ्मध्ये विधिनानेन श्वभ्रं वा साम्प्रतं खनेत् ।
तदर्थं गर्भगेहं तु सूत्रपातैर्विभाजयेत् ॥ ३४७ ॥

प्रासाद एकद्वारे तु गर्भमानं विनिश्चितम् ।
द्वारात्पश्चिमभित्त्यन्तं दक्षिणोत्तरमायतम् ॥ ३४८ ॥

सप्तधा विभजेत्सम्यक्पैशाचः प्रथमः स्मृतः ।
द्वितीयो मानुषो भागस्तृतीयो देवसञ्ज्ञितः ॥ ३४९ ॥

ब्राह्मश्चतुर्थो विज्ञेयः क्रमादन्ये त्रयस्तथा ।
दैवमानुषपैशाचा विज्ञेया द्विजसत्तमाः ॥ ३५० ॥

प्रासादे तु चतुर्द्वारे चतुर्दिक्षु समैः पदैः ।
विभजेत्सप्तधा मध्यो भागः स्याद्ब्रह्मसञ्ज्ञितः ॥ ३५१ ॥

दिव्यमानुषपैशाचाः क्रमात्पङ्क्तिक्रमेण तु ।
चतुर्द्वारभवने ब्रह्माख्ये मध्यमे पदे ॥ ३५२ ॥

चतुर्दिग्वीक्षमाणस्य स्थापनं चतुरात्मनः ।
प्रासाद एकद्वारे तु देवं संस्थापयेद्द्विजाः ॥ ३५३ ॥

ब्राह्मदैविकभागाभ्यां दैवमानुषयोस्तु वा ।
ब्राह्मे वा दैविके वाथ तस्मिन्दिव्याश्रिते तु वा ॥ ३५४ ॥

मानुषाश्रितदैवेन फलभेदवशात्तु वै ।
ब्राह्मभागे तु मोक्षः स्याद्दिव्यं स्थानाभिवृद्धिकृत् ॥ ३५५ ॥

भोगमोक्षफलावाप्तिर्ब्राह्मे दिव्यसमाश्रिते ।
दिव्यभागफलावाप्तिर्मानुषाश्रितदैवके ॥ ३५६ ॥

दैवमानुषभागाच्च त्वैहिकामुष्मिकं फलम् ।
विबुधब्रह्मभागाच्च सैहिकं तु गुणाष्टकम् ॥ ३५७ ॥

अग्रदेशोऽथ बिम्बस्य वेदिभागद्वयोपरि ।
आराधनार्थतो विप्राः स्थापनीया शिलान्विता ॥ ३५८ ॥

पीठोपर्यथ वा देवं यन्त्राराधयते सदा ।
मध्ये रत्नोपलं पीठे न्यस्त्वोर्ध्वे स्थापयेत्तु तम् ॥ ३५९ ॥

देवीसमन्वितं यत्र स्थापनं भवति द्विजाः ।
मूलबिम्बस्य पार्श्वे तु पीठदेशं विसृज्य च ॥ ३६० ॥

सपीठानां तु देवीनां स्थापनं तु समाचरेत् ।
एका सव्ये दक्षिणे वा स्थाप्या द्वे दक्षवामयोः ॥ ३६१ ॥

चतस्रस्तु क्रमेणैव स्थाप्या दक्षिणवामयोः ।
प्रमादाद्बुद्धिपूर्वाद्वा तत्तत्स्थानविपर्ययम् ॥ ३६२ ॥

न कुर्याद्राजराष्ट्रादेर्हितैषी देशिकोत्तमः ।
भिन्नप्रेक्षावशान्मध्ये सति भूयः समाचरेत् ॥ ३६३ ॥

क्षालितेऽम्बुना लिप्ते हृदा वै चन्दनादिना ।
अशेषो घटरुद्धानां मन्त्राणां च निवेशयेत् ॥ ३६४ ॥

पूर्वोक्तेन विधानेन धिया स्वे स्वेन तथा ।
कृत्वार्चनं यथोद्दिष्टं पूर्णान्तं तत्र विन्यसेत् ॥ ३६५ ॥

बाहुल्येन तु षट्पञ्च चतुर्गोलकसम्मिताम् ।
पीठाद्विनिर्गतां किञ्चिद्भूतये सुस्थिरां शिलाम् ॥ ३६६ ॥

यस्तां पीठेन मुक्त्यर्थं नवरन्ध्रकृतां पुरा ।
स्वमन्त्रेण तु तत्रापि प्रतिष्ठासीति पाठयेत् ॥ ३६७ ॥

प्रागादौ प्रभवेनाथ पञ्चकं पञ्चकं न्यसेत् ।
शिलावटेषु द्रव्याणां तत्र वज्रं च हाटकम् ॥ ३६८ ॥

हरितालमुशीरं च व्रीहयो दक्षिणे त्वथ ।
इन्द्रनीलमयश्चैव कासीसं चन्दनं तिलम् ॥ ३६९ ॥

मुक्ताफलं च रजतं पारदश्चापि दिक्तथा ।
सहोशीराश्च वै मुद्गाः पद्मरागमथोत्तरे ॥ ३७० ॥

कांस्यं सराजपाषाणं राजेन्द्रं चणकैः सह ।
विशङ्कं विन्यसेन्मध्ये पूर्वमेव ततो बहिः ॥ ३७१ ॥

विदिक्ष्वप्यययोगेन त्वेवमन्यत्पृथक्पृथक् ।
एवं वैडूर्यपूर्वं तु चक्राङ्कं चाभ्रकं तथा ॥ ३७२ ॥

पाष्टिकं त्विशिदिग्वायोः पुष्यरागो हरीतिका ।
गैरिकं शारिकाश्चैव मसूराण्यथ यातुदिक् ॥ ३७३ ॥

महानीलश्च वङ्गं च तथा पाषाणमाक्षिकम् ।
यवान्सागरुकांश्चैव आग्नेय्यां स्फटिकं तथा ॥ ३७४ ॥

ताम्रं मनःशिलाश्चैव गोधूमाशङ्खपुष्पिकाः ।
मध्ये सर्वाणि तदनु ततो गर्तं तु तत् ॥ ३७५ ॥

लेपैराच्छादितं कृत्वा साङ्गं मन्त्रं पदे पदे ।
पूजयित्वा यजुर्वेदं श्रमपङ्क्तांश्च पाठयेत् ॥ ३७६ ॥

तदूर्ध्वे विन्यसेत्पीठं तच्छ्वभ्रे विनिवेश्य च ।
अष्टलोहमयं चक्रं तदूर्ध्वे तु महामते ॥ ३७७ ॥

द्वादशाख्या द्विषोडशोत्थादधारो यस्य यः स्वकः ।
हैमन्तदूर्ध्वे कमलं तज्जं वा ताम्रमेव वा ॥ ३७८ ॥

यथाक्रमस्थितं ह्येतत्पञ्चकं चतुरात्मनि ।
न्यसेदनन्तं चक्रस्य मीनकूर्मौ तु तस्य वै ॥ ३७९ ॥

कूर्मानन्तौ तु मीनस्य मीनानन्तौ तु तस्य च ।
सर्वस्य विहितं पद्मं तस्यानन्तं तु विन्यसेत् ॥ ३८० ॥

लक्ष्म्यादीनां च शक्तीनां चक्रस्थापनकर्मणि ।
न्यस्य पूर्णान्तिकं कृत्वा कर्माण्यत्र च तर्पणम् ॥ ३८१ ॥

मण्डपे तु खगेशस्य एवमेव समाचरेत् ।
सह मूर्तिधरैः प्राग्वत्कार्या दर्भोदकक्रिया ॥ ३८२ ॥

चतुर्गुणितसूत्रेण वेष्टयेद्देवमन्दिरम् ।
छादयेन्नववस्त्रेण तथा वै दर्भमालया ॥ ३८३ ॥

ततस्तु मूर्तिपैः सार्धं प्रविशेद्यागमण्डपम् ।
प्रतीक्षेल्लग्नकालं तु यावत्कालं न याति च ॥ ३८४ ॥

तावद्विनोदैर्होमैश्च हास्यैः पाठैश्च सङ्क्षिपेत् ।
प्राप्ते लग्नोदये विप्राः शयनस्थं प्रबोधयेत् ॥ ३८५ ॥

अर्घ्यालभनमाल्याद्यैरर्चयित्वा त्विमं पठेत् ।
मन्त्रात्मन् रूपमात्मीयं प्रभूतमुपसंहर ॥ ३८६ ॥

समाश्रयस्व सौम्यत्वं स्थित्यर्थं परमेश्वर ।
नमस्तेऽस्तु हृषीकेश उत्तिष्ठ परमेश्वर ॥ ३८७ ॥

मदनुग्रहहेत्वर्थं पीठभूमिं समाश्रय ।
उद्धृत्य हृदयेनाथ त्यक्तनिद्रं च मन्त्रम् ॥ ३८८ ॥

उत्थाप्य मूर्तिमन्त्रेण सह मूर्तिधरैर्बलात् ।
तथा तच्छिरसो देशे चक्राधारस्थितं घटम् ॥ ३८९ ॥

तदष्टदिक्स्थितांश्चापि कुम्भांस्तन्मङ्गलैः सह ।
उत्थाप्य मूर्तिपाद्यैस्तु वाहयन्देशिकोत्तमः ॥ ३९० ॥

यायात्क्षिपमाणस्तु रत्नांश्च विविधान्बहून् ।
नानाविधैस्तु कुसुमैर्लाजधान्यान्मिश्रितान्बहून् ॥ ३९१ ॥

प्रतिमामुद्वहन्तो ये मूर्तिधरास्त्वनन्तरम् ।
अन्ये यथा न गच्छेयुरन्तराचार्यबिम्बयोः ॥ ३९२ ॥

अष्टकुम्भधराश्चान्ये ये च मङ्गलपाठकाः ।
परितस्तेऽपि गच्छेयुः पठन्तः शाकुनं तथा ॥ ३९३ ॥

वाग्यतो यजमानस्तु कुशपाणिः प्रणामवान् ।
तेषां वै पृष्ठतस्त्वन्ये गच्छेयुः परिवारकाः ॥ ३९४ ॥

तोरणेन च निष्क्रम्य प्रदक्षिणचतुष्टयम् ।
कुर्यात्प्रासादपीठस्य द्वाराग्रे सन्निरोध्य च ॥ ३९५ ॥

पाद्यार्घ्याचमनं दत्त्वा हृन्मन्त्रेण प्रवेशयेत् ।
शाखाद्यमस्पृशन्तं च पाठयेद्विदस्ततः ॥ ३९६ ॥

चतुश्चक्रेति तदनु पुरमेकादशेति च ।
वर्माभिमन्त्रितेनाथ दुकूलेन सितेन च ॥ ३९७ ॥

पादाम्बुरुहनालं प्राक्शिखामन्त्रेण वेष्टयेत् ।
अग्नीषोमौ समीकृत्य प्रणवाद्यन्तकेन तु ॥ ३९८ ॥

मूलमन्त्रेण पीठोर्ध्वे बिम्बं संस्थापयेत्स्थिरम् ।
द्वारमध्यं न सन्त्याज्यं देवस्थापनकर्मणि ॥ ३९९ ॥

न ततश्चाग्रतः स्थाप्यं न पार्श्वे न च पृष्ठतः ।
वामतो मारुतं पश्चात्सन्त्यजेद्देशिकोत्तमः ॥ ४०० ॥

प्रतिष्ठालिङ्गशब्दौ च द्वौ मन्त्रौ पाठयेत्क्रमात् ।
शान्तं ब्रह्ममयं रूपं स्वकं समवलम्ब्य च ॥ ४०१ ॥

यत्रापि केवले ब्राह्मे स्थापनं समुदीरितम् ।
तत्रापि वामतः किञ्चिद्दिव्यभागं समाश्रयेत् ॥ ४०२ ॥

यतो हितार्थं सर्वेषां निर्गतः षड्गुणात्मना ।
अतो ब्रह्मपदादीषद्देवभागे समानयेत् ॥ ४०३ ॥

मोक्षादिफलसिद्धीनां प्राप्तये ह्यविचारतः ।
करस्थमथ मोक्तव्यं कौतुकं हृदयेन तु ॥ ४०४ ॥

सर्वाङ्गमर्घ्यमन्त्रेण दत्त्वा मूलमनुस्मरेत् ।
हृदाश्वपरिजप्तेन वज्रलेपेन वै ततः ॥ ४०५ ॥

बिम्बपीठशिलानां चाप्येकत्वेनाचरेत्स्थितम् ।
ततस्तु नेत्रकुम्भस्थैस्तथा कुम्भाष्टकस्थितैः ॥ ४०६ ॥

तोयैः कूर्चाग्रसंलग्नैर्बिम्बं सम्प्रोक्ष्य मन्त्रतः ।
तत्तत्कुम्भगतान्मन्त्रान्बिम्बेन सह योजयेत् ॥ ४०७ ॥

बालबिम्बगतां चापि शक्तिं मूले न्यसेत्तदा ।
मूलबिम्बे मुनिश्रेष्ठाः मृदादिद्रव्यनिर्मिते ॥ ४०८ ॥

कर्मार्चायां विष्टरे वा दर्भमञ्जरिजे द्विजाः ।
प्रबोधनं च वै कर्म तथा प्रादक्षिणक्रियाम् ॥ ४०९ ॥

प्रासादं सम्प्रवेशं च कृत्वान्यत्सर्वमाचरेत् ।
मूलबिम्बे क्रमेणैव देशिकेन्द्रः समाहितः ॥ ४१० ॥

मूलमन्त्रं ततो ध्यात्वा संशान्तब्रह्मलक्षणम् ।
आधारादिध्वजाग्रान्तं व्याप्तं तेनाखिलं स्मरेत् ॥ ४११ ॥

इति सामान्यसन्धानं प्राक्कृत्वा तद्विशिष्यते ।
स्थूलसूक्ष्मपरत्वेन स्थूलं षोढा शिलान्तगम् ॥ ४१२ ॥

पिण्डिकायां तथा सूक्ष्मं तत्परं बिम्बविग्रहे ।
विन्यासं पीठमूलेऽथ देवतानां समाचरेत् ॥ ४१३ ॥

भवोपकरणीयानामेतासां मुनिपुङ्गवाः ।
विन्यासं मन्त्रबिम्बे तु न कदाचित्समाचरेत् ॥ ४१४ ॥

पीठोर्ध्वे तु मुनिश्रेष्ठाः प्रतिष्ठैवं विनैव तु ।
न्यसेद्विभवदेवांस्तु ह्युपर्युपरि पूर्ववत् ॥ ४१५ ॥

घटोद्देशात्समारभ्य परमव्योमगं ततः ।
एवं हि सर्वदेवानां विनिवेशवशात्तु वै ॥ ४१६ ॥

चिन्तामणिमयो न्यासः कृतो भवति सिद्धिदः ।
मन्त्रन्यासं ततः कुर्याद्बिम्बाङ्गेषु यथाविधि ॥ ४१७ ॥

सृष्टिसंस्थितिसंहारन्यासं कुर्यात्त्रयं विभोः ।
स्थितेऽपि च तथासीने शयाने यानगेऽपि च ॥ ४१८ ॥

एतेष्वपि च सर्वेषु कुर्यान्न्यासत्रयं द्विजाः ।
यद्वा स्थिते स्थितिन्यासमासीने सृष्टिसञ्ज्ञितम् ॥ ४१९ ॥

शयाने संहृतिन्यासमाचरेद्द्विजसत्तमाः ।
अङ्गमन्त्रस्थितिं कुर्यात्स्थानेषु हृदयादिषु ॥ ४२० ॥

अन्यानि भूषणादीनि विन्यस्य गरुडान्तिमम् ।
ततः सम्पूजयेत्सर्वं लययागेन चाखिलम् ॥ ४२१ ॥

पीठस्थं भोगयागेन मन्त्रचक्रं यजेत्पुनः ।
स्वनाम्नि स्वामिशब्दं तु समारोप्य परं तु वा ॥ ४२२ ॥

हरिकेशवपूर्वं तु ततस्तारसमन्वितम् ।
प्रब्रूयुर्मूर्तिपाद्या वै सुप्रतिष्ठितमस्त्विति ॥ ४२३ ॥

पुष्पाक्षताञ्जलिं पूर्णं क्षिपमाणाश्च सर्वतः ।
सर्वे वदेयुस्तत्रस्थाः सुप्रतिष्ठितमस्त्विति ॥ ४२४ ॥

आ त्वाहार्षेति सह वै प्रतिष्ठासीति पाठयेत् ।
विश्वस्य मित्रमित्यादि मन्त्रमेकायना द्विजाः ॥ ४२५ ॥

ओं नमोऽस्तु नमश्चान्तो ऋग्वेदाद्यैस्तु तैः सह ।
ओं नमो ब्रह्मणेभीक्ष्णं जितन्तेत्येवमेव हि ॥ ४२६ ॥

जयशब्दसमोपेतं स्तोत्रं श्रोतृमनोहरम् ।
देशिकैः सह सर्वैस्तु वाग्भिरुच्चाभिरुच्चरेत् ॥ ४२७ ॥

जीवभूतेन चैतेन विभुना मन्त्रमूर्तिना ।
प्रतिष्ठितेन विप्रेन्द्रा वित्त सर्वं प्रतिष्ठितम् ॥ ४२८ ॥

एवं कृत्वाधिवासादि मूलबिम्बेन वै सह ।
स्थापयेत्कर्मबिम्बादीन् मूलबिम्बाग्रतो द्विजाः ॥ ४२९ ॥

लक्ष्म्यादींश्च यथाशक्ति स्थापयेत्तु विधानतः ।
अथ मण्डपमध्ये तु देवदेवस्य सम्मुखम् ॥ ४३० ॥

स्थितेऽपि तन्मुहूर्तांशे स्थापनीयश्च पक्षिराट् ।
स्नातोऽनुलिप्तो मन्त्रेण स्वेन यः संस्कृतः पुरा ॥ ४३१ ॥

शक्त्या सह बिम्बेन यस्माद्भिन्नेषु वस्तुषु ।
बिम्बसन्निकटस्थेषु अथवान्यत्र सत्तमाः ॥ ४३२ ॥

तत्कालमङ्गभावत्वं व्रजमानेषु सर्वदा ।
हवनान्तं च निःशेषं ध्यानार्चनपुरस्सरम् ॥ ४३३ ॥

स्वयमेवानुरूपेण कर्म सामान्यतां व्रजेत् ।
तस्मात्तद्यागभवनादुत्थाप्यादाय बिम्बवत् ॥ ४३४ ॥

देवं प्रदक्षिणीकृत्य प्राग्वत्संस्थापनापदे ।
एकस्मिन्मध्यरन्ध्रे तु वज्राद्यं पञ्चकं न्यसेत् ॥ ४३५ ॥

एक एव तदूर्ध्वे तु आधारो य उदीरितः ।
प्राग्वन्निवेशनीयश्च तत्पीठोर्ध्वेऽथ भावनम् ॥ ४३६ ॥

भावनीयं शरीरे च शेषं विज्ञप्तिलक्षणम् ।
पाठयेद्ब्राह्मणांस्तद्वत्सुपर्णोऽसीति मन्त्रराट् ॥ ४३७ ॥

तमेवास्त्रार्चितं कृत्वा त्वथ प्राक्शाङ्करे ततः ।
सोमेशानान्तरे वापि अह्णे वापि तत्पदे ॥ ४३८ ॥

अथ वा मूर्तिपीठस्थं भवनाभ्यन्तरेऽपि च ।
स्वगोक्तेन विधानेन विष्वक्सेनं निवेश्य च ॥ ४३९ ॥

द्वारस्थानखिलान्देवांस्तथा चावरणस्थितान् ।
पूर्वोदितान्क्रमेणैव स्थापयेद्देशिकोत्तमः ॥ ४४० ॥

सम्प्रोक्ष्य कुम्भतोयेन यायात्पाकगृहं ततः ।
चुल्लीष्वग्निं प्रतिष्ठाप्य अग्निमीळेति पाठयेत् ॥ ४४१ ॥

तत्र वै पायसादीनि हवींषि विविधानि च ।
पाचयेच्च ततो विप्रा यायाद्देवनिकेतनम् ॥ ४४२ ॥

कलशैः पृष्ठभागस्थैः स्नापनीयस्ततो विभुः ।
सह मूर्तिधरैः सर्वैर्यथा चानुक्रमेण तु ॥ ४४३ ॥

सहाघमर्षणेनैव गायत्र्यावर्तितेन तु ।
प्रागृङ्मयस्तु तदनु चतुर्धावर्तितैः स्वयम् ॥ ४४४ ॥

हृदाद्यावर्तितैः षड्भिर्यजुर्ज्ञस्तेन सेचयेत् ।
भूयः स्वयं तथा कुम्भैः सामवित्स्नापयेत्ततः ॥ ४४५ ॥

षड्भिरन्यैः स्वयं पश्चात्तेनैवाथर्वणस्ततः ।
पवित्रावर्तितैरेव कलशैरन्तरान्तरा ॥ ४४६ ॥

सह चैकायनैस्तु स्नपनीयमनन्तरम् ।
चतुर्मूर्तिमयैर्मन्त्रैर्बहुशः परिभावितैः ॥ ४४७ ॥

स्नापयेत्कलशेनाथ शेषमादाय वै घटम् ।
तच्छतावर्तितं कृत्वा समूलेनाद्यमूर्तिना ॥ ४४८ ॥

सार्घ्यं वै देवदेवस्य मूर्ध्नि चोत्कीर्य पाठयेत् ।
जितन्त इति वै सर्वांस्ततश्चास्त्रोदकेन तु ॥ ४४९ ॥

प्रासादं शोधयित्वा तु गत्वा वै कुम्भसन्निधिम् ।
तत्र सम्पूज्य देवेशं पूर्वोक्तेन क्रमेण तु ॥ ४५० ॥

मण्डले पूजयित्वाथ प्रयायाद्बिम्बसन्निधिम् ।
तत्र सम्पूजयेद्देवं स्नानवर्जं विशेषतः ॥ ४५१ ॥

सांस्पर्शिकैरासनाद्यैर्विविधैरौपचारिकैः ।
हृदयङ्गमसञ्ज्ञैश्च पायसाद्यैश्चतुर्विधैः ॥ ४५२ ॥

अन्नैः प्रभूतैरन्यैस्तु भक्ष्यभोज्यादिभिस्तथा ।
सम्प्रदानावसानान्तं क्रमात्कृत्वा द्विजोत्तमाः ॥ ४५३ ॥

सदक्षिणं विशेषेण गुरौ मूर्तिधरेषु च ।
समित्सप्तकपूर्वं तु वह्नौ सन्तर्प्य वै क्रमात् ॥ ४५४ ॥

महानसेऽपि नित्याग्निं प्रतिष्ठाप्य यथाविधि ।
हुत्वा नित्योक्तमार्गेण कृत्वा होमसमर्पणम् ॥ ४५५ ॥

देवं प्रणम्य विज्ञाप्य कर्मणा मनसा गिरा ।
त्वमर्चान्तर्गतो देव मया यच्चानलादिषु ॥ ४५६ ॥

नीतोऽसि चाभिमुख्यं तु क्षन्तव्यं तन्ममाच्युत ।
एवं प्रणम्य विज्ञाप्य क्षान्त्वा निष्क्रम्य सम्मुखम् ॥ ४५७ ॥

आमूलाद्ध्वजपर्यन्ते प्रासादो यः पुराकृतः ।
देवं प्रदक्षिणीकृत्य अष्टाङ्गेन प्रणम्य च ॥ ४५८ ॥

गृहीत्वा चार्घ्यपात्रं तु यायाद्देवगृहाद्बहिः ।
स्नानादिना समभ्यर्च्य वाहनं भगवन्मयम् ॥ ४५९ ॥

पूर्वोदितानां द्वास्थानां दिक्पतीनां तथैव च ।
पूर्ववत्तु बलिं दद्यात्क्रमेण च ततः परम् ॥ ४६० ॥

प्रभूतानां च भूतानां बलिदानं समाचरेत् ।
गृह्णन्तु भगवद्भक्ता भूताः प्रासादबाह्यगाः ॥ ४६१ ॥

जलमन्त्रपवित्राश्च तेषामनुचराश्च ये ।
एवं क्रमाद्बलिं दत्त्वा सर्वेषां पाठयेत्ततः ॥ ४६२ ॥

ऋग्विद्धिरण्यगर्भेति या देवास्त्विति वै क्रमात् ।
सामज्ञांश्चान्नसामानि सहधेनुमयानि च ॥ ४६३ ॥

सर्वेष्वावरणेष्वेवं बल्यर्थं तु प्रदक्षिणम् ।
कृत्वा तु देशिकः पश्चादाचम्य भवनं विशेत् ॥ ४६४ ॥

न्यूनातिरिक्तशान्त्यर्थं पूर्णान्तं जुहुयाच्छतम् ।
हृन्मन्त्रेण तु साङ्गेन दद्यात्पूर्णाहुतिं ततः ॥ ४६५ ॥

एवं तद्दिनमारभ्य कुर्याद्दिनचतुष्टयम् ।
पूजनं देवदेवस्य चतुःस्थानेषु च क्रमात् ॥ ४६६ ॥

प्राप्तेऽहनि चतुर्थे तु अपनीय स्रगादिकम् ।
कलशान्मण्डलाद्बिम्बात्ततो यागगृहेऽर्चनम् ॥ ४६७ ॥

होमावसानं मन्त्रस्य कृत्वा पूर्वं यथा पुरा ।
आचम्य च बलिं दत्त्वा यायाद्देवगृहं ततः ॥ ४६८ ॥

तत्रासनादिकैरिष्ट्वा स्नानान्तैः पूर्ववत्प्रभुम् ।
अपनीताम्बरैः कुम्भैर्धान्यपीठोपरि स्थितैः ॥ ४६९ ॥

हृन्मन्त्रपूजितैर्भूयः सलिलेन सुपूरितैः ।
सह मूर्तिधरैः प्राग्वदन्तरान्तरयोगतः ॥ ४७० ॥

कार्यं वै स्नानकर्माथ विधिदृष्टेन कर्मणा ।
निरोदकेऽथ प्रासादे पुनराराध्य पूर्ववत् ॥ ४७१ ॥

भोगैरासनपूर्वैस्तु सम्प्रदानान्तमच्युतम् ।
मुद्रां बद्ध्वा जपेन्मन्त्रं स्तुत्वा क्षान्त्वा बहिर्व्रजेत् ॥ ४७२ ॥

शतं सहस्रं साष्टं वा जुहुयान्मन्त्रराट्स्वयम् ।
साङ्गं सपरिवारं च संहितोच्चारयुक्तितः ॥ ४७३ ॥

मूर्तिपैः प्रणवाद्याभिर्गायत्रीभिः शतं शतम् ।
एकायनैस्त्रिभिः स्वकीयाभिस्तु तत्समम् ॥ ४७४ ॥

प्रदापयेत्ततः पूर्णामृग्वेदाद्यांस्तु मूर्तिपान् ।
एकायनांस्तदन्ते तु क्रमात्तान्पाठयेत्ततः ॥ ४७५ ॥

पूर्णात्पूर्णेति वै मन्त्रमाद्यात्पूर्णमसीति यत् ।
सनमस्केन मन्त्रेण स्वयं साङ्गेन निक्षिपेत् ॥ ४७६ ॥

बलिभिस्तु ततः सर्वान् भूतपूर्वांस्तु तर्पयेत् ।
प्रविश्याचम्य तदनु क्षान्त्वा देवं तु कुम्भगम् ॥ ४७७ ॥

पूर्ववन्मण्डलस्थं तु कुण्डस्थं तदनन्तरम् ।
विष्वक्सेनं यजेत्प्राग्वद्विशिष्टैस्तु वै क्रमात् ॥ ४७८ ॥

भूषयेद्गुरुपूर्वांस्तु मूर्तिपान्कटकादिकैः ।
गुरोर्वा गुरुपुत्रस्य यागद्रव्यं निवेदयेत् ॥ ४७९ ॥

सिद्धिमूर्त्योरभीप्सार्थं स्नायादवभृथेन च ।
इत्येतत्साधकस्योक्तं मन्त्राराधनकाङ्क्षिणः ॥ ४८० ॥

मन्त्रमूर्तिप्रतिष्ठानं यत्रस्थः सिद्धिमाप्नुयात् ।
स्थापने यजमानस्य फलं वक्ष्ये समासतः ॥ ४८१ ॥

आ देवालयभूभागाद्ध्वजान्ताद्वापि मण्डपात् ।
सर्वोपकरणोपेतात्सर्वेष्वावरणेषु च ॥ ४८२ ॥

समन्तात्परमाणूनां सर्वेषां द्विजसत्तमाः ।
यावती जायते सङ्ख्या तावत्कर्ता समावसेत् ॥ ४८३ ॥

भोगभुग्विष्णुलोके च यात्यन्ते परमं पदम् ।
कर्ता वै ब्राह्मणो विप्राः सर्वविद्याधिपो भवेत् ॥ ४८४ ॥

क्षत्रियो यजमानस्तु सर्वदेशाधिपो भवेत् ।
वैश्यस्तु यजमानः स्याद्धनधान्यसमृद्धिमान् ॥ ४८५ ॥

शूद्रस्तु यजमानः स्यान्मोदते बन्धुभिः सह ।
सज्जन्मना च ज्ञानेन एवमेव भवेत्तु सः ॥ ४८६ ॥

पुत्रार्थी पुत्रमाप्नोति राज्यार्थी राज्यमाप्नुयात् ।
अकामानां तु भक्तानां भक्तिरव्यभिचारिणी ॥ ४८७ ॥

यच्चापि शाश्वतं ज्ञानं भवेत्तद्धर्मणा सह ।
स्वयं कृतानां बिम्बानां स्थापनं सम्प्रकीर्तितम् ॥ ४८८ ॥

एवं बिम्बं प्रतिष्ठाप्य प्रासादे स्वगृहे तु वा ।
ततः प्रभृति कालाच्च पूजयेत्प्रतिवासरम् ॥ ४८९ ॥

जीर्णोद्धारविधिर्यावत्तावत्कालं विधानतः ।
प्रमादाद्बुद्धिपूर्वाद्वा पूजालोपं न कारयेत् ॥ ४९० ॥

एवं श्रियादिदेवीनां चक्रादीनां तथैव च ।
सर्वेषां विष्णुभक्तानां प्रतिष्ठां च समाचरेत् ॥ ४९१ ॥

प्रथमावरणादौ वा मण्डपे वाङ्कणादिके ।
लक्ष्मीप्रतिष्ठया सर्वा समृद्धिर्जायते नृणाम् ॥ ४९२ ॥

चक्रसंस्थापनात्स्थानसंरक्षा भवति ध्रुवम् ।
विष्णुभक्तप्रतिष्ठानादैहिकामुष्मिकं फलम् ॥ ४९३ ॥

तस्मात्कार्यं श्रियादीनां स्थापनं देवमन्दिरे ।
देवप्रतिष्ठाकाले वा ह्यन्यकालेऽपि वा पृथक् ॥ ४९४ ॥

सहसंस्थापने त्वेषां न पृथक्त्वङ्कुरादिकम् ।
न यागगेहनिर्माणं परिवारोक्तवद्भवेत् ॥ ४९५ ॥

सर्वं तत्रापि कर्तव्यं शृणुध्वं मुनिसत्तमाः ।
सिद्धार्थकादिभिः षड्भिः स्नानं कौतुकबन्धनम् ॥ ४९६ ॥

जलाधिवसनं चैव सूक्ष्मसूक्ष्मादिपञ्चसु ।
स्नानेष्वन्यतमस्नानं नयनोन्मीलनं तथा ॥ ४९७ ॥

शय्यायामधिवासं च तत्तन्मन्त्राधिकस्य च ।
तत्तल्लाञ्छनजालस्य न्यसनं च यथाविधि ॥ ४९८ ॥

तत्तन्मन्त्रैस्तथा होमं कुर्यात्कुण्डे पृथक्कृते ।
तत्तत्पीठादिसंस्कारं पीठसंस्थापनं तथा ॥ ४९९ ॥

वज्रादिपञ्चकन्यासं प्राग्वत्संस्थापने पदे ।
तदाधारनिवेशं च यस्य यः समुदीरितः ॥ ५०० ॥

बिम्बसंस्थापनं चैव पीठोर्ध्वे तु यथाविधि ।
तत्तत्स्थापनकाले तु तत्तन्मन्त्रप्रपाठनम् ॥ ५०१ ॥

एतत्सर्वं समभ्यूह्य कुर्याद्देशिकसत्तमः ।
पृथक्संस्थापने कुर्यात्सर्वं कर्म यथाविधि ॥ ५०२ ॥

तत्तन्मन्त्रैस्तथा तत्तत्परिवारार्चनैः सह ।
चक्रसंस्थापने कश्चिद्विशेषः श्रूयतां द्विजाः ॥ ५०३ ॥

अमूर्तं द्वादशारं तु अष्टारं षडरं तु वा ।
चक्रं संस्थापयेत्तत्र प्रासादशिखरोपरि ॥ ५०४ ॥

मूर्तमङ्कणदेशे तु षोडशाष्टभुजं तु वा ।
तस्य स्थापनकाले तु तस्य सञ्ज्ञामनुं जपेत् ॥ ५०५ ॥

विद्यां गदामित्याद्यं यत्पाठयेत्तद्विदो जनान् ।
चमूषच्छ्येन इति च प्र ते विष्णो इति त्वृचौ ॥ ५०६ ॥

पाठयेद्बह्वृचान्पश्चाच्छाकुनं सूक्तमेव च ।
धृतोर्ध्वपुण्ड्रः कृतचक्रेति मन्त्रं ततः परम् ॥ ५०७ ॥

पवित्रं ते विततमिति मन्त्रान्यजुर्मयान् ।
आरोहेति च सामज्ञान्पवित्रं तेभिरित्यपि ॥ ५०८ ॥

एभिर्वयमुरुक्रमस्येत्याथर्वणिकान्द्विजान् ।
एवं संस्थाप्य विधिवन्नवभिः कलशैस्ततः ॥ ५०९ ॥

स्नापयेद्ब्रह्मसूक्तस्थैर्मन्त्रैरष्टभिरेव च ।
विश्वस्य वशिनं देवमिति प्राक्स्थापितेन तु ॥ ५१० ॥

बहिरावरणेनास्तीत्याग्निदिक्संस्थितेन तु ।
यन्नाभिपद्मादभवदिति याम्यस्थितेन तु ॥ ५११ ॥

धृतोर्ध्वपुण्ड्र इति च यातुधानगतेन तु ।
दक्षिणे तु भुजे विप्र इति पश्चिमगेन वै ॥ ५१२ ॥

विष्णुनातमश्नन्तीति वायुदिक्संस्थितेन वै ।
पुंप्रधानेश्वरो विष्णुरिति सोमगतेन वै ॥ ५१३ ॥

इमां महोपनिषदमितीशानगतेन तु ।
मन्त्रैरेतैः समस्तैस्तु मध्यकुम्भेन सेचयेत् ॥ ५१४ ॥

प्रासादाग्रस्थिते चक्रे प्रोक्षणं तु समाचरेत् ।
महोपनिषदन्तस्थानष्टौ मन्त्रान्पुरोदितान् ॥ ५१५ ॥

यद्वा पुरुषसूक्तं तु सर्वैश्चान्त्ये ततो जपेत् ।
अत्रानुक्तं तु सकलं पूर्वोक्तं तु समाचरेत् ॥ ५१६ ॥

इत्थं हि वीरलक्ष्म्यादिप्रतिष्ठा च प्रकीर्तिता ।
भूषोपकरणानां तु प्रतिष्ठा तूच्यतेऽधुना ॥ ५१७ ॥

तदर्थमिह सर्वेषां शृणुध्वं देवताक्रमम् ।
किरीटे कौस्तुभे चैव श्रीवत्सवनमालयोः ॥ ५१८ ॥

ता एव देवतास्तासां रूपं प्रागेव कीर्तितम् ।
प्रभायां तु प्रभा देवी पीठेऽनन्तादयस्तथा ॥ ५१९ ॥

पादुकायां वैनतेयो घण्टायां तु सरस्वती ।
शिविकायां तथा याने हंसकेसरिणोस्तथा ॥ ५२० ॥

गजाश्वयो रथे चैव गरुत्मानेव देवता ।
शेषपक्षीशयोश्चैव तथा चन्द्रार्कबिम्बयोः ॥ ५२१ ॥

वायुसूनो ध्वजाः साक्षाच्छेषाद्या एव देवताः ।
एवं ज्ञात्वा पुरा तत्तद्देवताः क्रमशो द्विजाः ॥ ५२२ ॥

तत्तत्संस्थापनं कुर्यात्तत्तन्मन्त्रेण देशिकः ।
अङ्कुरारोपणं कृत्वा सद्योऽङ्कुरमथापि वा ॥ ५२३ ॥

सिद्धार्थकादिभिः षड्भिः स्नाप्य कौतुकबन्धनम् ।
कृत्वा छायाधिवसनं जलाधिवसनं तु वा ॥ ५२४ ॥

कृत्वा मूर्तस्य नयने समुन्मील्य यथाविधि ।
कुम्भैः संस्नाप्य विधिवत्कृत्वा शय्याधिवासनम् ॥ ५२५ ॥

कुम्भं संस्थाप्य तत्रेष्टा तत्तद्देवांस्तदङ्गके ।
तत्तन्मन्त्रादिकान्न्यस्य तत्तन्मन्त्रैः समर्चयेत् ॥ ५२६ ॥

कुण्डेषु वा स्थण्डिलेषु हुनेदेकत्र वा द्विजाः ।
ततः शुभमुहूर्ते तु प्रोक्षयेत्कुम्भतोयतः ॥ ५२७ ॥

आचार्यदक्षिणादीनि यथाशक्ति प्रदापयेत् ।
एवं सामान्यतः प्रोक्तः सर्वेषां स्थापनक्रमः ॥ ५२८ ॥

रथस्य स्थापने ज्ञेयो विशेषो मन्दिरोक्तवत् ।
अन्यत्सर्वोपकरणं छत्रचामरपूर्वकम् ॥ ५२९ ॥

भूषणानि च दिव्यानि धूपपात्रादिकानि च ।
अर्घ्यादिसर्वपात्राणि वाद्यानि विविधानि च ॥ ५३० ॥

क्षालनार्हाणि प्रक्षाल्य कृत्वा पुण्याहवाचनम् ।
सम्प्रोक्ष्य पञ्चगव्येन दहनाप्यायनादिकैः ॥ ५३१ ॥

संस्कृत्य देवदेवस्य पूजनादौ नियोजयेत् ।
नानारत्नप्रभाढ्यानि लाञ्छनान्यङ्गदानि च ॥ ५३२ ॥

निर्मितानि सुवर्णाद्यैः प्रभोः संयोजयन्ति ये ।
ते धूतकल्मषाः सर्वे देहमासाद्य निष्कलम् ॥ ५३३ ॥

सम्यग्ज्ञानेन युज्यन्ते भावं नायान्ति ये चन ।
आत्मनश्चोपकाराय सर्वदुःखनिवृत्तये ॥ ५३४ ॥

अङ्गुष्ठाग्राच्च गुल्फान्तमाजान्वंसावधीह वा ।
मणिमुक्ताप्रवालाढ्यं कवचं काञ्चनादिकम् ॥ ५३५ ॥

यः क्षिपत्यतिभक्त्या वै स्वशक्त्या चार्चितेऽच्युते ।
स याति परमं स्थानं सवत्रपशुबान्धवः ॥ ५३६ ॥

लग्नं यद्भगवन्मूर्तावङ्गदं नूपुरादिकम् ।
वियोजयति यो मोहात्तस्यावीचौ स्थिता स्थितिः ॥ ५३७ ॥

यः पञ्चकालसक्तानां विप्राणामधिकारिणाम् ।
पञ्चकालविदां चैव भक्तानां सिद्धिकाङ्क्षिणाम् ॥ ५३८ ॥

अथ वोच्छिन्नशाखानां नारायणरतात्मनाम् ।
तपस्विनां व्रतीनां वा स्नातकब्रह्मचारिणाम् ॥ ५३९ ॥

भक्तानामथवान्येषामर्चनानिरतात्मनाम् ।
प्रीतये परमेशाय कृत्वा सम्यक्प्रयच्छति ॥ ५४० ॥

शालाद्यायतनोपेतमरम्यपक्वेष्टकान्वितम् ।
ग्राम्यैर्धान्यैस्तथारण्यैः पूर्णं सद्व्रतिसङ्कुलम् ॥ ५४१ ॥

वणिक्कुटुम्बभृतकरक्षापालैः समन्वितम् ।
सोऽनन्तं फलमाप्नोति कालमाचन्द्रतारकम् ॥ ५४२ ॥

संस्थितिं शाश्वते लोके प्राप्नुयादक्षयं यशः ।
भोगोपयोगिनीं भद्रां रम्यां पूर्वोक्तलक्षणाम् ॥ ५४३ ॥

यागनिष्पत्तये कुर्याद्योऽग्रतः पीठसन्निधेः ।
बहिरावरणार्थं वा कर्मिणां ब्रह्मयोजिनाम् ॥ ५४४ ॥

ऋषिदेवपितृभ्यश्च मुच्यते स ऋणत्रयात् ।
मध्यतो गरुडाक्रान्तं सचक्राम्बुरुहाङ्कितम् ॥ ५४५ ॥

चतुरश्रमथवा वृत्तं कुण्डवत्पदवीयुतम् ।
बलिपीठं बहिः कुर्याद्दाता यस्त्वच्युतालये ॥ ५४६ ॥

स याति चाच्युतं स्थानं विमानैः सूर्यवर्चसैः ।
यस्तु प्राङ्गणमारामं सम्प्रयच्छति वै विभोः ॥ ५४७ ॥

नानापुष्पफलोपेतं वापीद्रुमसमाकुलम् ।
सान्द्रतोयाशयोपेतं मार्गखण्डसमन्वितम् ॥ ५४८ ॥

स नन्दनवने भोगान् भुक्त्वा यात्यच्युतालयम् ।
क्षोणीं यः सस्यसम्पूर्णां युक्तां सद्गन्धशालिना ॥ ५४९ ॥

केदारं जलपातैस्तु परिच्छिन्नं समन्ततः ।
स गच्छति जगद्योनेः कालमासाद्य शाश्वतम् ॥ ५५० ॥

स यायात्सुसितद्वीपं तत्रास्ते भगवानिव ।
स्नानोपभोगमन्त्रार्थं सवृषेन्द्रं तु गोगणम् ॥ ५५१ ॥

समर्चयित्वा योऽर्चां वै वैष्णवीं प्रतिपादयेत् ।
सापित्रान्मुक्तदोषस्तु विष्णुलोकं प्रयाति च ॥ ५५२ ॥

गजं रथं वराश्वं च दीपस्थालीं सुलक्षणाम् ।
व्यजनं चामरं छत्रं वादित्रं गणिकागणम् ॥ ५५३ ॥

शुभवस्त्राणि नेत्राणि दिव्यान्याभरणानि च ।
वितानं वैजयन्तीं च चित्रपत्रलतागणम् ॥ ५५४ ॥

सुस्वरामुपघण्टां च धूपस्थालीं सुलक्षणाम् ।
भृङ्गारं दर्पणं तोयकुम्भं गन्धोपलं महत् ॥ ५५५ ॥

पूर्वोद्दिष्टानि चान्यानि धान्यानि विविधानि च ।
यो ददाति हरेर्भक्त्या स तल्लोकमवाप्नुयात् ॥ ५५६ ॥

ईक्षमाणं विभोर्वक्त्रं वहन्तं दीपभाजनम् ।
महान्तं चाथवा दीपं यन्त्रं कूर्मादिरूपधृक् ॥ ५५७ ॥

शरयज्ञासनस्थं च चित्रसम्पुटभूषितम् ।
सच्छास्त्रपीठं विविधं श्रद्धया यो मुनीश्वराः ॥ ५५८ ॥

ददाति देवदेवस्य परं स्थानं प्रयाति सः ।
पुरस्कृत्य जगद्योनिं यद्यच्छ्रद्धया प्रदीयते ॥ ५५९ ॥

तदाराधनसक्तानां तत्तदक्षय्यतामियात् ।
इत्येवं बिम्बपूर्वाणां प्रतिष्ठाविधिरीरितः ॥ ५६० ॥

Unnummerierter abschließender Halbvers; redaktionelle Kennung 560z.

इतोऽन्यच्छ्रोतुमिच्छा चेत्कथ्यतां मुनिपुङ्गवाः ।

इति श्रीपाञ्चरात्रे ईश्वरसंहितायां प्रतिष्ठाविधानं नाम अष्टादशोऽध्यायः ॥

weiter zu Teil 2 Ishvara Samhita Sanskrit Text Devanagari

Die Sprache der Verehrung entdecken

Vom Lob Narayanas bis zur Weihe des Heiligtums entfalten diese Kapitel eine reiche Sprache der Bhakti. Wiederkehrende Wörter verbinden innere Sammlung, Gaben und rituelle Handlungen miteinander. Langsames Lesen hilft, diese Beziehungen wahrzunehmen.

Nimm einen kurzen Abschnitt und vergleiche ihn mit der deutschen Übersetzung und der IAST-Umschrift. Lass dir Zeit für ein Wort, dessen Bedeutung dich berührt. Im zweiten Sanskritteil führt der Weg weiter zu Einweihung, Mantra und Meditation.

Siehe auch

Seminare

Bhakti Yoga

27.10.2026 - 27.10.2026 Mantra-Konzert mit Shamana OM

Konzert mit Shamana OM
Shamana OM
31.10.2026 - 31.10.2026 Mantra-Konzert mit Gruppe Mudita

Konzert mit der Gruppe Mudita
Gruppe Mudita

Mantras und Musik

27.10.2026 - 27.10.2026 Mantra-Konzert mit Shamana OM

Konzert mit Shamana OM
Shamana OM
30.10.2026 - 01.11.2026 Freude im Herzen - Mantra Singen und Yoga

Lerne neue wunderschöne Mantras mit den Muditas kennen. Und geniesse auch die bekanntesten und beliebtesten Mantras. Gemeinsam widmen wir uns dem Mantr…
Gruppe Mudita

Hinduistische Rituale

30.10.2026 - 01.11.2026 Rituale für die Verstorbenen

Mit Ritualen unseren Ahnen Kraft schenken, damit sie in die nächsthöheren lichtvollen Welten aufsteigen können. Wir selbst erfahren dadurch Trost und…
Maharani Fritsch de Navarrete
08.11.2026 - 08.11.2026 Diwali - das Fest des Lichts

Diwali ist eines der wichtigsten Feste in Indien. Diwali ist das Lichterfest zur Öffnung des Herzens und der Entfaltung allumfassender Liebe. 20:00 Uhr…
Sukadev Bretz

Sanskrit und Devanagari

06.01.2027 - 15.12.2027 Jahresgruppe Sanskrit - Lektüre der AMRITA SIDDHI 2 - online

Termine: 16x mittwochs: 06.01., 27.01., 17.02., 10.03., 31.03., 21.04., 12.05., 02.06., 23.06., 14.07., 08.09., 29.09., 20.10., 10.11., 01.12., 15.12.20…
Dr phil Oliver Hahn
09.04.2027 - 11.04.2027 Sanskrit Intensivwochenende

Du bist fasziniert vom Klang des Sanskrit und der tiefgehenden Wirkung der Wörter dieser uralten Sprache? Hast bereits Übersetzungen von Mantras oder …
Dr phil Oliver Hahn


Zur Ausgabe: Einführung · Deutsche Übersetzung · Sanskrit IAST · Devanagari · 108 Verse und Mantras · Nächster Teil · Deutsche Übersetzung dieser Kapitel