Ishvara Samhita Sanskrit Devanagari/Teil 2
Ishvara Samhita Sanskrit Devanagari – Kapitel 19–25: Die Kapitel 19–25 verbinden die Erneuerung des Gottesdienstes mit Diksha, spiritueller Disziplin, Mantra und Dhyana. Den Abschluss bilden die Gestaltung der Ritualgeräte und die Zubereitung der Speisegaben. Lies diesen Sanskrittext zusammen mit der deutschen Übersetzung: So bleiben sowohl die genaue Vorschrift als auch ihr Platz im Weg der Hingabe erkennbar.
Die deutsche Parallelfassung hilft besonders bei den Fachbegriffen und den verschlüsselten Mantraangaben. Lies solche Abschnitte im Zusammenhang mit ihren Erläuterungen. Eine kurze, gut verstandene Passage kann für dein Schriftenstudium ein guter Ausgangspunkt sein.
Die Sanskritlesungen folgen den im Hauptartikel und in den Kapiteln genannten Devanagari-Ausgaben. IAST wird aus dem redigierten Devanagari abgeleitet. Die englische kritische Ausgabe dient der Kontrolle. Verbleibende Leselücken und unsichere Deutungen sind ausdrücklich bezeichnet; IAST teilt die Unsicherheiten seiner Textgrundlage.

Zur Ausgabe: Einführung · Deutsche Übersetzung · Sanskrit IAST · Devanagari · 108 Verse und Mantras · Vorheriger Teil · Deutsche Übersetzung dieser Kapitel
Kapitel 19 – प्रायश्चित्तविधिः / prāyaścittavidhiḥ
Siehe deutsche Übersetzung und Texthinweise.
मुनयः ।
भगवन्नारदमुने जीर्णोद्धारविधिं तथा ।
बिम्बस्यास्पृश्यसंस्पर्शे महोत्पातादिसम्भवे ॥ १ ॥
नित्यपूजादिलोपे च प्रायश्चित्तं तु कृत्स्नशः ।
श्रोतुमिच्छामहे योगिंस्तत्सर्वं सम्प्रकाशय ॥ २ ॥
नारदः ।
शृणुतेह प्रवक्ष्यामि जीर्णोद्धारादिकं द्विजाः ।
यत्कृत्वा देशिकादीनां चतुर्णां सुखमेधते ॥ ३ ॥
मनुष्यनिर्मिते स्थाने वक्ष्ये जीर्णविधिं पुरा ।
धातुमृच्छैलदारूत्थो वस्त्रादिष्ववतारितः ॥ ४ ॥
यो यो भगवदाकारस्तस्य तस्य मुनीश्वराः ।
उपाङ्गभङ्गे सन्धानं कुर्याद्भग्ने महाङ्गके ॥ ५ ॥
तद्बिम्बं तु परित्यज्य सृजेद्बिम्बान्तरं पुनः ।
तत्र तावत्प्रवक्ष्यामि महाङ्गोपाङ्गकक्रमम् ॥ ६ ॥
शिरो वक्त्रं तथा कण्ठं पाणी वक्षस्तथोदरम् ।
नाभिमेढ्रपदं चैव महाङ्गानि द्विजोत्तमाः ॥ ७ ॥
चक्षुःश्रोत्रं तथा नासा तालुहस्तपदाङ्गुलिः ।
केशाश्मश्रु च रोमाणि नखदन्तास्तथैव हि ॥ ८ ॥
चक्राद्यायुधसङ्घश्च वनमालादिभूषणम् ।
उपाङ्गानि मुनिश्रेष्ठा मृद्बिम्बे शृणुताधुना ॥ ९ ॥
प्रधानशूलं यत्तत्र महाङ्गमिति कथ्यते ।
वक्षोदण्डः कटीदण्डो बाहुकूर्परकोष्ठकम् ॥ १० ॥
जङ्घोरुजानु चान्यानि उपाङ्गानि मुनीश्वराः ।
महाङ्गभङ्गे जातेऽपि बिम्बस्य मुनिपुङ्गवाः ॥ ११ ॥
सति सन्धानयोग्यत्वे न कदाचित्परित्यजेत् ।
तस्य त्यागो विनाशश्च ह्युपर्युपरि बाधकृत् ॥ १२ ॥
बिम्बादीनां तु बृहतां परित्यागो न युज्यते ।
वक्त्रभेदे तु बिम्बस्य सर्वदा त्यागमाचरेत् ॥ १३ ॥
परित्यक्तानि बिम्बानि धातुद्रव्योद्भवं विना ।
जलाशये ह्यगाधे वा समुद्रे विधिना क्षिपेत् ॥ १४ ॥
भूमौ वा निखनेद्विप्रा देशकालानुसारतः ।
उत्कृष्टानां हेमतारताम्रजानां विशेषतः ॥ १५ ॥
नोचितः स्यात्परित्यागस्तस्मात्सन्धानमाचरेत् ।
प्रयत्नेनाप्ययोग्यत्वे परित्यागं समाचरेत् ॥ १६ ॥
परित्यक्तं तु वा द्रव्यं द्रवीकृत्य यथाविधि ।
तद्द्रव्येण यथापूर्वं बिम्बकर्म समापयेत् ॥ १७ ॥
अथवा हीनताम्रोत्थमारकूटमयं तु यत् ।
सन्धानकरणायोग्यं तद्ध्यं तु परित्यजेत् ॥ १८ ॥
परित्यक्तं तु तद्बिम्बं क्षिपेत्पूर्वोक्तवर्त्मना ।
ततो बिम्बान्तरं कुर्याद्रजतं वा सुवर्णजम् ॥ १९ ॥
उत्कृष्टतज्जातीयद्रव्यजं वा मुनीश्वराः ।
कर्मबिम्बेषु सर्वेषु ह्येवमेव समाचरेत् ॥ २० ॥
भग्नाङ्गस्य सन्धानप्रकारं शृणुत द्विजाः ।
लोहाश्मदारुबिम्बानां भग्नाङ्गं लोहपट्टकैः ॥ २१ ॥
बन्धयेदथवा लोहबिम्बाङ्गं भग्नमेव तु ।
स्वर्णादीनां द्रवितेन योज्यं यत्नाद्द्विजोत्तमाः ॥ २२ ॥
चित्रमृण्मयबिम्बानां भग्नाङ्गं मुनिसत्तमाः ।
तत्तज्जातीयद्रव्येण सन्धेयं यत्नगौरवात् ॥ २३ ॥
सर्वेषां भग्नमङ्गं तु नष्टं चेत्तत्तथा पुनः ।
तत्तज्जातीयद्रव्येण कृत्वा योज्यं प्रयत्नतः ॥ २४ ॥
महाङ्गे रत्नबिम्बस्य भग्नेऽपि मुनिसत्तमाः ।
सन्धेयमेव न त्याज्यं स्वयंव्यक्ताश्मबिम्बवत् ॥ २५ ॥
सर्वाङ्गसमाधाने पुनः सृष्टौ तु वा द्विजाः ।
जीर्णबिम्बगतां शक्तिं कुम्भे त्वावाह्य देशिकः ॥ २६ ॥
कुर्वन्नभ्यर्चनं तत्र बिम्बसन्धानमाचरेत् ।
मासादर्वाक्समाधाने कुम्भे शक्तिं समर्चयेत् ॥ २७ ॥
तदूर्ध्वं द्वादशाब्दान्तं समाधानविलम्बने ।
कृत्वा बालगृहं तत्र बालबिम्बं यथाविधि ॥ २८ ॥
संस्थाप्य तत्र तच्छक्तिं समावाह्य समर्चयेत् ।
अङ्गमात्रसमाधाने कुर्यात्सम्प्रोक्षणं द्विजाः ॥ २९ ॥
बिम्बान्तरस्य करणे प्रतिष्ठां पुनराचरेत् ।
मूलबिम्बाङ्गसन्धाने कुर्याद्बालगृहादिकम् ॥ ३० ॥
कर्मबिम्बाङ्गभङ्गे तु तत्तद्बिम्बगतं विभुम् ।
मूलबिम्बे समुद्वास्य सन्धानादि समाचरेत् ॥ ३१ ॥
बालालये तु प्रथमे जीर्णोद्धाराभिधेऽन्तिमे ।
प्रायश्चित्तं प्रवक्ष्यामि शृणुध्वं मुनिपुङ्गवाः ॥ ३२ ॥
अतीते प्रार्थिते काले कर्त्रा प्रासादबेरयोः ।
निर्माणे स्नपनं कुर्यादुत्तमं शास्त्रचोदितम् ॥ ३३ ॥
पश्चादभ्यर्थयेत्कालं वाञ्छितं तत्समापने ।
अकृत्वैवं गते पश्चात्काले द्वादशाब्दिके ॥ ३४ ॥
पुनः प्रतिष्ठां कुर्वीत मूले बालालये तु वा ।
बिम्बे चोरादिभिर्नष्टे बालगेहे प्रमादतः ॥ ३५ ॥
तदेवापाद्य तामर्चां प्रतिष्ठाप्य यथाविधि ।
उत्तमस्नपनं कृत्वा शान्तिहोमं समाचरेत् ॥ ३६ ॥
चोरैरपहृतं बिम्बं पुनः प्राप्तं यदि द्विजाः ।
पुनः प्रतिष्ठां कुर्वीत नयनोन्मीलनं विना ॥ ३७ ॥
स्वस्थानाच्चलिते तस्मिन्हेतुना येन केनचित् ।
यथापूर्वं प्रतिष्ठाप्य स्थापयेत्पुरुषोत्तमम् ॥ ३८ ॥
सर्वं बालगृहे कार्यं नित्यनैमित्तिकादिकम् ।
पूर्वं संस्थापितं बिम्बं लक्षणैरुज्झितं यदि ॥ ३९ ॥
जीर्णोद्धारस्य काले तु कुर्याल्लक्षणसंयुतम् ।
जीर्णाख्यस्य विधेः पूर्वं न कदाचित्समाचरेत् ॥ ४० ॥
रीतिजे ताम्रजे वापि आरकूटमयेऽपि वा ।
प्रणीते पूज्यमाने तु कर्मबिम्बादिके सति ॥ ४१ ॥
कालान्तरेण जीर्णेऽस्मिन्नुत्कृष्टसमुपस्थिते ।
निकृष्टं सन्त्यजेद्विद्वान्न दोषस्तत्र विद्यते ॥ ४२ ॥
लोहपाषाणमृत्काष्ठैः स्थापिते मूलकौतुके ।
न सम्पाद्यमतोऽन्येन कदाचिन्मुख्यवस्तुना ॥ ४३ ॥
पुरावज्जीर्णतां यातं कर्तव्यं मूलकौतुकम् ।
प्राक्स्थितं बहुबेरं वा एकबेरमथापि वा ॥ ४४ ॥
जीर्णोद्धारेऽपि कर्तव्यं पूर्ववन्मुनिपुङ्गवाः ।
व्यत्यासं नैव कुर्वीत बहुबेरैकबेरयोः ॥ ४५ ॥
लक्ष्म्यादिकान्तरहिते बहुबेरे पुरास्थिते ।
जीर्णोद्धारे तु देवीभ्यां कल्पयेत्सहसा विना ॥ ४६ ॥
सर्वदा बहुबेरत्वहानिर्न स्याद्विपर्ययात् ।
शयनं वासनं यानं स्थानं वा प्राग्यथास्थितम् ॥ ४७ ॥
तथैव स्यात्पुनःसृष्टावन्यथा स्वेच्छया भवेत् ।
जीर्णे देवे पुनःसृष्टे देव्यो यदि यथास्थिताः ॥ ४८ ॥
देवीभिस्ताभिरेवायं योज्यो देवो न चान्यथा ।
एवं मानुषबिम्बस्य जीर्णोद्धारः प्रकीर्तितः ॥ ४९ ॥
स्वयंव्यक्ते तथा दिव्ये सैद्धे चार्षेऽप्यमानुषे ।
जीर्णोद्धारविधिं वक्ष्ये शृणुध्वं मुनिसत्तमाः ॥ ५० ॥
स्वयंव्यक्तादिबिम्बानां महाङ्गे वाह्युपाङ्गके ।
भग्ने सन्धानमेव स्यात्त्यागस्तु न कदाचन ॥ ५१ ॥
सन्धानायोग्यमपि तन्न त्याज्यं मुनिसत्तमाः ।
सालिग्रामशिलाबिम्बं भिन्नं भग्नं बृहत्तु क्षतम् ॥ ५२ ॥
अल्पक्षतं च सौवर्णैः पट्टैर्दृढतरं यथा ।
बन्धयेत्तथैवेषु स्वयंव्यक्तादिकेष्वपि ॥ ५३ ॥
शिलामयेषु बिम्बेषु भिन्नं भग्नं च योजयेत् ।
सुवर्णनिर्मितैः पट्टैर्यथा दृढतरं भवेत् ॥ ५४ ॥
यद्वा तदङ्गं हेम्ना कृत्वा सम्यङ्नियोजयेत् ।
दारुजे लोहजे चैव स्वयंव्यक्तादिकेष्वपि ॥ ५५ ॥
भेदे यस्य समाधिः स्यात्स्वयंव्यक्ताश्मबिम्बवत् ।
रत्नजेऽपि समाधानमेवमेव समाचरेत् ॥ ५६ ॥
मृण्मये मूलबिम्बे तु जीर्णे वाथ जलादिभिः ।
हीनाङ्गे वा तथा कुर्यात्सन्धानन्तु प्रयत्नतः ॥ ५७ ॥
एवं वर्णविहीनेऽपि सन्धानन्तु समाचरेत् ।
मृत्तिकाशूलरज्ज्वादीन्न कदाचित्परित्यजेत् ॥ ५८ ॥
तथैव चित्रबिम्बाङ्गं गलितं गन्धभावितैः ।
सितरक्तादिकैः रागैः पावनैरस्त्रमन्त्रितैः ॥ ५९ ॥
चित्रयेत्तु यथापूर्वं शिल्पिभिः शास्त्रकोविदैः ।
अत्रायं हि विशेषः स्यात्स्वयंव्यक्तादिषु द्विजाः ॥ ६० ॥
न बालगेहबिम्बाद्यं कुर्यात्तत्रैव पूर्ववत् ।
पूजायां वर्तमानायां समाधानादिकं चरेत् ॥ ६१ ॥
सन्धानान्ते तु विधिवत्कुर्यात्सम्प्रोक्षणादिकम् ।
देवादिपूजिते वापि स्वयंव्यक्ते तु कौतुके ॥ ६२ ॥
मृद्दारुजे तु सञ्जीर्णे क्रिमिवह्निजलादिभिः ।
तत्तद्बालगृहं कृत्वा पूज्यमाने तु पूर्ववत् ॥ ६३ ॥
क्रमादर्चान्तरं कृत्वा स्थापयेच्च यथाविधि ।
बालबिम्बे तु जीर्णेऽत्र कुर्यादेवं पुनः पुनः ॥ ६४ ॥
स्वयंव्यक्तादिबिम्बानि यादृशानि भवन्ति हि ।
लक्षणैश्च प्रमाणैश्च युक्तानि रहितानि वा ॥ ६५ ॥
उत्कृष्टलोहजातानि अपकृष्टोत्थितानि वा ।
तादृशानि भवन्त्येव न कुर्यादन्यथा पुनः ॥ ६६ ॥
न लक्षणान्तरं कुर्यान्न प्रमाणान्तरं तथा ।
न तु द्रव्यान्तरं चैव न तु कुर्यात्क्रियान्तरम् ॥ ६७ ॥
मन्त्रान्तरं न कुर्वीत सर्वं कुर्याद्यथापुरम् ।
कुर्याच्चेल्लक्षणादीनां विपर्यासं मुनीश्वराः ॥ ६८ ॥
राज्ञो राष्ट्रस्य सर्वेषां प्रत्यवायो महान्भवेत् ।
तस्मात्पौराणिकस्थाने न विपर्यासमाचरेत् ॥ ६९ ॥
लक्षणादिष्वपि तथा न कुर्यादन्यथा पुनः ।
येषु व्यक्तेषु चिह्नानि नाभिव्यक्तानि वै द्विजाः ॥ ७० ॥
तान्यपि स्वानि चिह्नानि ललाटे वांसपट्टके ।
पृष्ठे वाप्यङ्गपट्टे वा पाणिपादतलेषु वा ॥ ७१ ॥
मूर्ध्नि वा दधते तस्मात्तत्र तत्र निरीक्षयेत् ।
तस्मादलक्षणा व्यक्तिर्विद्यते न कदाचन ॥ ७२ ॥
स्वयंव्यक्तादिके चैव मानुषे च मुनीश्वराः ।
शिलामयादिबिम्बानां नासाद्यवयवेषु च ॥ ७३ ॥
एकद्वित्रियवामात्रं न्यूनता सम्भवेद्यदि ।
पूर्ववत्कारयेत्तत्तीक्ष्णशस्त्रेण यत्नतः ॥ ७४ ॥
ततः सम्प्रोक्षणं कुर्याद्देवस्य मुनिपुङ्गवाः ।
एवं पीठादिभङ्गेऽपि सन्धानं सम्यगाचरेत् ॥ ७५ ॥
प्रतिमा चैव तत्पीठं प्रासादे गर्भमन्दिरम् ।
विग्रहं देवदेवस्य चतुष्टयमिदं समम् ॥ ७६ ॥
समाधिश्च तथा शान्तिः कार्या तत्र सदा समा ।
प्रभाभङ्गो यदि भवेद्बन्धयेल्लोहपट्टकैः ॥ ७७ ॥
पीठभङ्गे तु तं पीठं सर्वदा सन्त्यजेद्बुधः ।
किञ्चिन्न्यूनं तु तं पीठं बन्धयेल्लोहपट्टकैः ॥ ७८ ॥
प्राक्तनार्चाङ्गभङ्गादिदोषैर्यो चातिदूषिता ।
निर्दोषासनात्तस्मात्तामुत्थाप्य विसृज्य च ॥ ७९ ॥
पूर्ववन्निर्मितां पीठे स्थापयेत्तु यथाविधि ।
पीठभङ्गे तथान्यस्मिन्कल्पिते योजयेद्दृढम् ॥ ८० ॥
प्रतिमापीठयोरष्टबन्धविश्लेषणेऽपि च ।
अष्टबन्धं पुनः कृत्वा सम्प्रोक्षणमथाचरेत् ॥ ८१ ॥
स्वयंव्यक्तादिके वापि मानुषे वा मुनीश्वराः ।
बिम्बे चोराद्यपहृते तत्तद्द्रव्येण पूर्ववत् ॥ ८२ ॥
निर्माय लक्षणोपेतं प्रतिष्ठाप्य तदेव तु ।
पूर्ववत्पूजयेन्मन्त्री बिम्बं सर्वत्र सर्वदा ॥ ८३ ॥
द्रव्यान्तरेण वा कुर्याद्देशिको यागसिद्धये ।
चोरैरपहृतं बिम्बं पुनः प्राप्तं यदि द्विजाः ॥ ८४ ॥
कृत्वा सम्प्रोक्षणं पूज्यं मानुषे तु द्विजोत्तमाः ।
पुनः प्रतिष्ठां कुर्वीत नयनोन्मीलनं विना ॥ ८५ ॥
मूलबिम्बेऽग्निना दग्धे मानुषे वाप्यमानुषे ।
सहस्रकलशस्नानमाचर्तव्यं विधानतः ॥ ८६ ॥
वह्निना कर्मबिम्बादौ वैवर्ण्यं समुपागते ।
तत्तद्बिम्बेषु कुर्वीत स्नपनं चोत्तमं क्रमात् ॥ ८७ ॥
वह्निदाहादिना मूलबिम्बे वा कर्मकौतुके ।
भिन्नाङ्गे सति सन्धेयं प्राग्वत्तच्छिल्पिवित्तमैः ॥ ८८ ॥
सन्धानान्ते तु सर्वत्र कुर्यात्सम्प्रोक्षणं विभोः ।
प्रासादादेस्ततो विप्रा जीर्णोद्धारश्च वक्ष्यते ॥ ८९ ॥
तत्र पूर्वं मानुषस्य विधानं शृणुत द्विजाः ।
भग्ने विमानैकदेशे शिखाकुम्भादिकेऽपि वा ॥ ९० ॥
विमानसंस्थितान्देवान्मूलबेरस्य पीठके ।
समावाह्यार्चयन्भग्नं प्रासादावयवं दृढम् ॥ ९१ ॥
सन्धाय पश्चाद्देवस्य सप्रासादस्य सत्तमाः ।
सम्प्रोक्षणादिकं कुर्याच्छास्त्रदृष्टेन वर्त्मना ॥ ९२ ॥
विमाने सर्वतो भग्ने बालस्थानं प्रकल्प्य च ।
प्रासादान्तर्गता यास्तु देवतास्ता मुनीश्वराः ॥ ९३ ॥
बालबिम्बस्य पीठस्थाः कृत्वा पूज्यास्तु पूर्ववत् ।
तथैव बालबिम्बे तु नित्यनैमित्तिकादिकम् ॥ ९४ ॥
पवित्रारोहणान्तं च सर्वं कर्म समाचरेत् ।
प्रासादं तु पुनः कृत्वा प्रतिष्ठाप्य यथाविधि ॥ ९५ ॥
सम्प्रोक्षणादिकं कुर्याद्देवस्य मुनिपुङ्गवाः ।
एवं हि मण्डपे साले गोपुरे मालिकादिके ॥ ९६ ॥
जीर्णे तत्रस्थिताः सर्वा नीत्वान्यत्र तु देवताः ।
यथापूर्वं नवं कृत्वा प्रतिष्ठाप्य विधानतः ॥ ९७ ॥
उत्तमस्नपनं कुर्यात्तस्य दोषस्य शान्तये ।
प्रासादादि पुराक्लृप्तं लक्षणैरुज्झितं यदि ॥ ९८ ॥
जीर्णोद्धारप्रकरणे कुर्यात्तल्लक्षणान्वितम् ।
प्रासादादौ पुराक्लृप्ते मृण्मये चेष्टकेऽपि वा ॥ ९९ ॥
जीर्णे पुनः समुद्धारे शिलाभिर्वा प्रकल्पयेत् ।
स्वयंव्यक्तादिके धाम्नि जीर्णोद्धारस्तु वक्ष्यते ॥ १०० ॥
प्रासादादेरेकदेशभङ्गश्चेत्तत्र संस्थिताः ।
देवास्त्वन्यत्र नोद्वास्याः पूजयन्नेव तत्र ताः ॥ १०१ ॥
भग्नैकदेशं सन्धाय कुर्यात्सम्प्रोक्षणं द्विजाः ।
प्रासादे सर्वतो भग्ने प्रासादस्थास्तु देवताः ॥ १०२ ॥
मूलबिम्बस्य पीठे तु समावाह्य समर्चयेत् ।
प्राक्तनैरेवैकाद्यैस्तत्सजातीयवस्तुभिः ॥ १०३ ॥
नूतनैश्चापि मिलितैः प्रासादं कल्पयेत्पुनः ।
पूर्वं विमानं यद्द्रव्यं यादृग्लक्षणसंयुतम् ॥ १०४ ॥
तादृगेव पुनः कुर्यान्न कुर्यादन्यथा पुनः ।
पुनःकृतं विमानाद्यं प्रतिष्ठाप्य यथाविधि ॥ १०५ ॥
सम्प्रोक्षणादिकं कुर्याद्देवस्य मुनिपुङ्गवाः ।
स्वयंव्यक्तादिके वापि देवसिद्धादिकल्पिते ॥ १०६ ॥
बिम्बे विमाने प्राकारे गोपुरे द्वारि मण्डपे ।
पीठे वा पचनावासे कोशागारादिकेऽपि वा ॥ १०७ ॥
लक्षणैरन्विते वापि लक्षणैरुज्झितेऽपि वा ।
जीर्णे पुनस्तथा कुर्यात्पूर्वरूपानुसारतः ॥ १०८ ॥
अन्यथा करणे विप्राः प्रत्यवायो महान्भवेत् ।
स्वयंव्यक्तादिके धाम्नि तथा देवादिकल्पिते ॥ १०९ ॥
चिरकालवशात्किञ्चिच्छैथिल्यं समुपागते ।
निर्वाहकाणां भक्तानां शास्त्रज्ञानामनुज्ञया ॥ ११० ॥
बाह्ये वाभ्यन्तरे धाम्नो रक्षणार्थं शिलादिभिः ।
निपुणैः शिल्पिभिः कार्यो भित्तिबन्धः समन्ततः ॥ १११ ॥
विमाने वह्निदग्धे तु मानुषे वाप्यमानुषे ।
तद्दोषशान्तये कुर्यादधमस्नपनं विभोः ॥ ११२ ॥
वह्निदाहादिना भग्ने प्रासादे पूर्ववत्तु तत् ।
शोधिते शिल्पनिपुणैः कुर्यात्सम्प्रोक्षणादिकम् ॥ ११३ ॥
क्ष्माभेदे जलवेगाद्यैः पतितं भगवद्गृहम् ।
प्राग्बिम्बसहितं तस्माद्देशादन्यत्र कल्पयेत् ॥ ११४ ॥
नष्टे सबिम्बे सदने दिव्यादौ प्राग्वदाचरेत् ।
चोरनद्यादिवेगाद्यैरतिनष्टे तु मानुषे ॥ ११५ ॥
बिम्बे पश्चात्प्रकुर्वीत पूर्ववद्वान्यथा तु वा ।
न शून्यमूलबिम्बत्वाद्बालार्चावाहनादिकम् ॥ ११६ ॥
न कुर्याद्देशिकेन्द्रस्तु पूर्ववत्स्थाप्य पूजयेत् ।
एवं हि सर्वदेवानां परव्यूहादिरूपिणाम् ॥ ११७ ॥
विश्वक्सेनगणेशादिपरिवारगणस्य च ।
क्लृप्तानां गोपुराद्येषु विभवव्यूहरूपिणाम् ॥ ११८ ॥
सान्निध्यातिशयात्तेषु पूजितानां दिनं प्रति ।
जीर्णोद्धारविधिः प्रोक्तः सर्वेषां मुनिपुङ्गवाः ॥ ११९ ॥
तत्तत्सान्निध्यानुगुणं प्रतिष्ठादिकमाचरेत् ।
प्रायश्चित्तं समभ्यूह्य साधकस्तु समाचरेत् ॥ १२० ॥
बिम्बादीनां च धामादेरङ्गभङ्गादिके सति ।
आचार्यस्त्वनुतापार्तः स्वमन्त्रमयुतं जपेत् ॥ १२१ ॥
तदारभ्य ब्रह्मचर्यव्रतस्थः साधकैः सह ।
यावद्बिम्बसमाप्ति जपेन्मन्त्रमतन्द्रितः ॥ १२२ ॥
चतुःस्थानार्चनं कुर्यात्सर्वदोषप्रशान्तये ।
त्रिरात्रं वा सप्तरात्रं पात्रेभ्यो दानमाचरेत् ॥ १२३ ॥
गोभूहेमादिकानां तु यथा शक्ति मुनीश्वराः ।
ब्राह्मणान्भोजयेन्नित्यं शतं वापि सहस्रकम् ॥ १२४ ॥
यावद्बिम्बस्य सन्धानं विशेषेणार्चयेद्विभुम् ।
सन्धानान्ते तु देवस्य कृत्वा सम्प्रोक्षणादिकम् ॥ १२५ ॥
शान्तिहोमं तथा दानं ब्राह्मणानां च भोजनम् ।
कारयेद्यजमानस्तु आचार्यं दक्षिणादिभिः ॥ १२६ ॥
तोषयेच्छक्त्यनुगुणं तेन तुष्यति केशवः ।
अपूर्वकल्पनाज्जीर्णसमुद्धारेऽधिकं फलम् ॥ १२७ ॥
लभते यजमानस्तु नात्र कार्या विचारणा ।
इत्येवं मुनिशार्दूला जीर्णोद्धारो मयोदितः ॥ १२८ ॥
ततस्तु बिम्बस्यास्पृश्यस्पर्शादौ मुनिपुङ्गवाः ।
प्रायश्चित्तं प्रवक्ष्यामि शृणुध्वमवधानतः ॥ १२९ ॥
अस्नातो देशिकश्चैव चण्डालाद्युपघातितः ।
केशास्थ्याद्यशुचिस्पृष्टः स्त्रियं गत्वा ह्यनाप्लुतः ॥ १३० ॥
स्पृशेच्चेद्भगवद्बिम्बं स्नापयेन्नवभिर्घटैः ।
आचरेच्छान्तिहोमं च शतवारं जपेन्मनुम् ॥ १३१ ॥
एतेषां गर्भगेहान्तःप्रवेशश्चेत्तदा विभुम् ।
संस्नाप्य पञ्चभिर्घटैः शान्तिहोमादिकं चरेत् ॥ १३२ ॥
अदीक्षितैरन्यतन्त्रदीक्षितैः ऋत्विकेतरैः ।
स्पृष्टे बिम्बे तथा कुर्यात्स्नपनं त्वधमाधमम् ॥ १३३ ॥
शान्तिहोमं जपं चापि तद्दोषस्य प्रशान्तये ।
एतेषां गर्भगेहान्तःप्रवेशे नवभिर्घटैः ॥ १३४ ॥
संस्नाप्य देवदेवेशं शान्तिहोमादिकं चरेत् ।
स्त्रीभिरनुपनीतैर्वा तथा वैखानसैर्द्विजैः ॥ १३५ ॥
अवैष्णवैर्वा संस्पृष्टे बिम्बे त्वधममध्यमम् ।
स्नपनं विधिवत्कृत्वा शान्तिहोमादिकं चरेत् ॥ १३६ ॥
एतैः प्रविष्टे गेहान्तस्त्वधमाधममार्गतः ।
संस्नाप्य विधिवद्देवं शान्तिहोमं समाचरेत् ॥ १३७ ॥
पतितः पातकी वापि कुष्ठ्यपस्माररोगवान् ।
काणो वान्धश्च मूको वा बधिरो वाङ्गहीनकः ॥ १३८ ॥
परस्त्रीगमनासक्तः कुण्डो वा गोलकोऽपि वा ।
रजस्वलान्त्यजाद्यैश्च संस्पृष्टो गर्दभादिभिः ॥ १३९ ॥
स्पृशेच्चेद्भगवद्बिम्बमधमोत्तममार्गतः ।
संस्नाप्य देवं विधिवच्छान्तिहोमं तथाचरेत् ॥ १४० ॥
एतैः प्रविष्टे धामान्तः कुर्यादधममध्यमम् ।
स्नपनं देवदेवस्य शान्तिहोमं तथाचरेत् ॥ १४१ ॥
क्षत्रियैर्वैश्यैस्तथा शूद्रैस्तत्तत्स्त्रीभिस्तु वा द्विजाः ।
बिम्बे स्पृष्टे क्रमात्कुर्यात्स्नपनं त्वधमोत्तमम् ॥ १४२ ॥
मध्यमाधमसंज्ञं च तथा मध्यममध्यमम् ।
एतैर्गर्भगृहाभ्यन्तःप्रवेशे मुनिपुङ्गवाः ॥ १४३ ॥
अधमाधमसंज्ञं च तथाधममध्यमम् ।
अधमोत्तमसंज्ञं च क्रमात्स्नपनमाचरेत् ॥ १४४ ॥
सर्वत्र शान्तिहोमं च सहस्रं जपमाचरेत् ।
अनुलोमजसंस्पर्शे बिम्बस्य स्नपनं भवेत् ॥ १४५ ॥
मध्यमोत्तमसंज्ञं तु प्रविष्टे गेहान्तरे ।
विमाने वापि संस्पृष्टे स्नपनं मध्यमाधमम् ॥ १४६ ॥
प्रतिलोमजसंस्पृष्टे बिम्बे तूत्तममध्यमम् ।
स्नपनं त्वाचरेत्तेषां प्रवेशे गर्भमन्दिरे ॥ १४७ ॥
प्रासादे वापि तैः स्पृष्टे स्नपनं तूत्तमाधमम् ।
कुर्यात्सर्वत्र होमं च जपं प्राग्वन्मुनीश्वराः ॥ १४८ ॥
चोरभूतो ब्राह्मणो वा क्षत्रियो वैश्य एव वा ।
शूद्रोऽनुलोमजो वापि प्रतिलोमज एव वा ॥ १४९ ॥
स्पृशेच्चेद्देवबिम्बं तु क्रमेण स्नपनं भवेत् ।
मध्यमाधमसंज्ञं च तथा मध्यममध्यमम् ॥ १५० ॥
मध्यमोत्तमसंज्ञं च ह्युत्तमाधमसंज्ञकम् ।
तन्मध्यमं च स्नपनं तदन्यदुत्तमोत्तमम् ॥ १५१ ॥
एतैस्तु गर्भगेहान्तःप्रवेशे ह्यधमोत्तमम् ।
मध्यमाधमपूर्वं च त्रितयं चोत्तमाधमम् ॥ १५२ ॥
तन्मध्यमं च स्नपनं ह्याचरेत्क्रमशो द्विजाः ।
अज्ञातजातिभिश्चोरैर्बिम्बसंस्पर्शने कृते ॥ १५३ ॥
सहस्रकलशैर्देवं स्नापयेद्विधिपूर्वकम् ।
तैस्तु गर्भगृहाभ्यन्तःप्रवेशे तूत्तमोत्तमम् ॥ १५४ ॥
स्नपनं स्यात्तु सर्वत्र शान्तिहोमो जपस्तथा ।
आशौचवद्भिर्मनुजैर्महापातकिभिर्नरैः ॥ १५५ ॥
चण्डालैः सूतिकोदक्याम्लेच्छैर्वा पुल्कसादिभिः ।
संस्पृष्टे भगवद्बिम्बे गोघृतेनाभिषिच्य तत् ॥ १५६ ॥
सम्प्रोक्षणं च विधिवत्कृत्वा शान्तिं समाचरेत् ।
गोदानादिंस्तथा कुर्याद्ब्राह्मणांश्चापि भोजयेत् ॥ १५७ ॥
चित्रमृण्मयबिम्बं तु नवीकृत्य यथाविधि ।
पुनः प्रतिष्ठां कुर्वीत स्वयंव्यक्तादिकेषु च ॥ १५८ ॥
चित्रबिम्बादिकं वापि न नवीकृत्य पूर्ववत् ।
सम्प्रोक्षणादिकं कुर्यात्तत्तु तेनैव शुध्यति ॥ १५९ ॥
एतैराशौचवत्पूर्वैः प्रवेशे गर्भमन्दिरे ।
विमानस्पर्शने वापि ह्यालयस्थानि सर्वतः ॥ १६० ॥
मृत्पात्राणि परित्यज्य लोहपात्राणि शोधयेत् ।
आलयं चापि संशोध्य मार्जनालिम्पनादिभिः ॥ १६१ ॥
पञ्चगव्येन सम्प्रोक्ष्य सर्वत्र मुनिपुङ्गवाः ।
उत्तमोत्तममार्गेण स्नापयेद्विधिवद्विभुम् ॥ १६२ ॥
तैरग्रमण्डपाभ्यन्तः प्रथमावरणेऽपि वा ।
प्रवेशे धामसंशुद्धिं प्राग्वत्कृत्वा मुनीश्वराः ॥ १६३ ॥
अधमोत्तममार्गेण स्नापयेत्पुरुषोत्तमम् ।
द्वितीयावृतिमारभ्य रथ्यावरणपश्चिमम् ॥ १६४ ॥
तैरन्तःसम्प्रविष्टे तु कृत्वाऽऽलयविशोधनम् ।
अधमाधममार्गेण देवं संस्नापयेद्द्विजाः ॥ १६५ ॥
सर्वत्र शान्तिहोमं च कुर्याद्ब्राह्मणभोजनम् ।
चण्डालैः श्वपचैर्वापि प्रमादाद्विष्णुमन्दिरे ॥ १६६ ॥
निरन्तरं कृते वासे मासमेकं मुनीश्वराः ।
मृत्पात्राणि परित्यज्य सम्मार्ज्य भगवद्गृहम् ॥ १६७ ॥
गोमयेनोपलिप्याथ पर्यग्निकरणं चरेत् ।
पुण्याहं वाचयित्वाथ प्रोक्षयेत्पञ्चगव्यकैः ॥ १६८ ॥
गोगणं वासयेत्तत्र सर्वदोषप्रशान्तये ।
वाचयित्वा महाशान्तिं ब्राह्मणैर्वेदपारगैः ॥ १६९ ॥
भोजयित्वा द्विजांस्तत्र तेभ्यो दद्यात्तु दक्षिणाम् ।
एवं मासं तु मासार्धं सप्तपञ्चत्र्यहन्तु वा ॥ १७० ॥
कृत्वा शुद्धिं मन्दिरस्य बिम्बानां गोघृतैः पुरा ।
कृत्वाभिषेचनं प्राग्वत्सम्प्रोक्षणमथाचरेत् ॥ १७१ ॥
मानुषं मृण्मयं बिम्बं तथा चित्रमयं द्विजाः ।
नवीकृत्य यथापूर्वं प्रतिष्ठां पुनरारभेत् ॥ १७२ ॥
चण्डालश्वपचाद्यास्तु प्रमादाद्भगवद्गृहे ।
कर्मण्यधिकृताश्चेत्तैः सहवासोऽपि च द्विजाः ॥ १७३ ॥
स्नात्वा सर्वे कुशाम्भश्च पीत्वा चान्द्रायणादिकम् ।
कृत्वा चालयसंशुद्धिं द्विजभोजनपश्चिमम् ॥ १७४ ॥
सम्प्रोक्षणादिकं सर्वं प्राग्वदेव समाचरेत् ।
अन्ते महोत्सवं कुर्यात्सर्वदोषप्रशान्तये ॥ १७५ ॥
तथैव प्रतिलोमाद्याः कर्मण्यधिकृता यदि ।
प्राग्वदालयशुद्ध्यन्तं सर्वं कृत्वा यथाविधि ॥ १७६ ॥
सहस्रकलशैः स्नानमुत्सवं च समाचरेत् ।
ब्रह्मक्षत्रियविट्शूद्रशवैश्चानुलोमजैः ॥ १७७ ॥
शवैः स्पृष्टे कौतुके तु गोघृतेनाभिषिच्य तम् ।
सम्प्रोक्षणं प्रकुर्वीत सहस्रकलशाप्लवम् ॥ १७८ ॥
शान्तिहोमं च कुर्वीत जपं चायुतसंख्यया ।
मानुषं चित्रबिम्बाद्यं नवीकृत्य यथाविधि ॥ १७९ ॥
पुनः प्रतिष्ठां कुर्वीत सहस्रकलशाप्लवम् ।
तैः शवैर्गर्भगेहान्तर्विमाने वापि दूषिते ॥ १८० ॥
कुर्यात्सम्प्रोक्षणं चापि स्नपनं चोत्तमोत्तमम् ।
प्रतिलोमजचण्डालसूतिकाशवदूषिते ॥ १८१ ॥
बिम्बे प्रतिष्ठां कुर्वीत नयनोन्मीलनं विना ।
सहस्रकलशैश्चापि स्नापयेत्पुरुषोत्तमम् ॥ १८२ ॥
प्रासादे दूषिते तैस्तु शवैः सम्प्रोक्षणं चरेत् ।
सहस्रकलशैश्चापि स्नापयेद्विधिपूर्वकम् ॥ १८३ ॥
प्रथमावृतिमारभ्य रथ्यावरणपश्चिमे ।
ब्राह्मणादिशवैर्वापि प्रतिलोमशवादिकैः ॥ १८४ ॥
दूषिते प्राङ्गणक्षेत्रे चतुर्हस्तमितां क्षितिम् ।
खात्वा मृदं समुद्धृत्य बहिः प्रक्षिप्य शुद्धया ॥ १८५ ॥
सम्पूर्य च समीकृत्य कारयेन्मार्जनादिकम् ।
शिलातलं चेत्तां भूमिं दाहयेत्खननं विना ॥ १८६ ॥
गोमयेनोपलिप्याथ पुण्याहोद्घोषणादिकम् ।
पञ्चगव्येन चाभ्युक्ष्य गोगणं तत्र वासयेत् ॥ १८७ ॥
वाचयित्वा महाशान्तिं भोजयेत्तत्र वै द्विजान् ।
कृत्वैवं स्थलसंशुद्धिं शान्तिं कुर्यादतः परम् ॥ १८८ ॥
मुख्योत्तमान्तु स्नपनान्नीचान्तिममनुक्रमात् ।
स्नापयित्वा विशेषेण शान्तिहोमादिकं चरेत् ॥ १८९ ॥
आलये जनने वापि प्रमादान्मुनिपुङ्गवाः ।
प्रायश्चित्तं भवेत्तत्तत्तदावरणक्रमात् ॥ १९० ॥
सालमण्डपपीठेषु गोपुरेषु मन्दिरेषु वा ।
विमानाद्बाह्यतो वापि परिवारालयादिषु ॥ १९१ ॥
वर्णानां ब्राह्मणादीनामनुलोमादिकस्य च ।
मरणे जनने वापि तत्तदावरणोक्तवत् ॥ १९२ ॥
प्रायश्चित्तं प्रकुर्वीत बिम्बस्पर्शादिकेऽपि च ।
तत्तत्सान्निध्यानुगुणं प्रायश्चित्तं समाचरेत् ॥ १९३ ॥
एवं महानसे वापि यागमण्डप एव वा ।
चण्डालादिप्रवेशे वा शवाद्यैर्वापि दूषिते ॥ १९४ ॥
मृत्पात्राणि परित्यज्य खननाद्यैर्महीतलम् ।
संशोध्य कुण्डचुल्लीस्थमग्निं त्यक्त्वा यथाविधि ॥ १९५ ॥
पुनरग्निं प्रतिष्ठाप्य शान्तिहोमादिकं चरेत् ।
स्वयंव्यक्ताद्यालयानामङ्गत्वेन प्रकल्पिते ॥ १९६ ॥
ग्रामादौ ब्रह्मवर्णस्य मरणं सम्भवेद्यदि ।
ग्राममध्ये गतो यावच्छवस्तिष्ठति वै द्विजाः ॥ १९७ ॥
ग्रामस्य तावदाशौचं तदा देवस्य पूजनम् ।
न कुर्यात्तच्छवे ग्रामाद्बहिर्नीते मुनीश्वराः ॥ १९८ ॥
सम्प्रोक्ष्य सर्वतो ग्रामं पुण्याहोद्घोषपूर्वकम् ।
ततस्तु देवदेवस्य प्रकुर्यात्पूजनादिकम् ॥ १९९ ॥
आरब्धे पूजने विप्रा ग्रामश्चेच्छवदूषितः ।
आरब्धपूजनं शीघ्रं कुर्यात्तन्त्रेण देशिकः ॥ २०० ॥
प्राग्वद्ग्रामप्रोक्षणान्ते पुनः पूजनमाचरेत् ।
ग्रामे शूद्रादिमरणं सम्भवेद्यदि वै तदा ॥ २०१ ॥
आशौचं गृहमात्रस्य ग्रामाशौचं न विद्यते ।
तत्रापि भगवद्गेहसमीपे द्विजसत्तमाः ॥ २०२ ॥
एकादशधनुर्भ्योऽन्तः शूद्रादिशवदूषिते ।
निष्कास्य तच्छवं पश्चात्कुर्याद्देवस्य पूजनम् ॥ २०३ ॥
पुरग्रामाद्यङ्गतया क्लृप्तेऽपि भगवद्गृहे ।
अन्तःशवं चेद्ग्रामाद्यं न कुर्याद्देवपूजनम् ॥ २०४ ॥
चतुःशतब्राह्मणैस्तु युक्ते ग्रामपुरादिके ।
अन्तःशवेऽपि नैवास्ति ग्रामाशौचं मुनीश्वराः ॥ २०५ ॥
तत्रापि भगवद्गेहसमीपे चैकवीथिषु ।
शवस्तिष्ठति चेद्देवं नार्चयेत्प्रोक्षणात्पुरा ॥ २०६ ॥
उत्सवाङ्गतया क्लृप्तग्रामादौ राष्ट्रसङ्कुलात् ।
चण्डालपतितोदक्यासूतिकाशबरादिभिः ॥ २०७ ॥
अधिष्ठिते च श्वानाद्यैर्मद्यमांसादिभिस्तथा ।
शवास्थिभिश्च सन्दुष्टे सर्वत्रैकत्र वा क्षितिम् ॥ २०८ ॥
खात्वा मृदं समुद्धृत्य बहिः प्रक्षिप्य शुद्धया ।
समापूर्य समीकृत्य पञ्चगव्योक्षणादिभिः ॥ २०९ ॥
शुद्धिं कृत्वा ग्रामशान्तिं कुर्यात्तद्दोषशान्तये ।
रेतोमूत्रपुरीषाद्यै रुधिरापेयवान्तिभिः ॥ २१० ॥
निष्ठीवनास्थिमांसाद्यैर्बिम्बे स्पृष्टे मुनीश्वराः ।
उत्तमोत्तममार्गेण स्नापयेच्छान्तिमाचरेत् ॥ २११ ॥
एतैः प्रासादसंस्पर्शे मध्यमोत्तममार्गतः ।
संस्नाप्य देवदेवेशं शान्तिहोमं समाचरेत् ॥ २१२ ॥
प्रथमावरणे तैस्तु संस्पृष्टे मुनिपुङ्गवाः ।
अधमोत्तममार्गेण स्नापयेत्पुरुषोत्तमम् ॥ २१३ ॥
द्वितीयावरणादौ तु शकृन्मूत्रादिदूषिते ।
तत्क्षणात्तद्बहिर्नीत्वा मार्जनालिम्पनादिभिः ॥ २१४ ॥
शोधयित्वा भुवं पश्चात्पञ्चगव्यैस्तु सेचयेत् ।
शान्तिहोमं ततः कुर्यात्सर्वदोषप्रशान्तये ॥ २१५ ॥
तथैव भगवद्गेहे प्रथमावरणादिषु ।
रजसा दूषिते स्त्रीणां तद्भुवं जानुमात्रकम् ॥ २१६ ॥
खात्वा तु मृदं निर्नीयाभिरापूर्य धरणीतलम् ।
गोमयाम्भोभिरालिप्य पर्यग्निकरणं तथा ॥ २१७ ॥
पुण्याहवाचनं पञ्चगव्यैरभ्युक्षणं तथा ।
कृत्वा रजस्वलाभिस्तु स्पृष्टं द्वारकवाटकम् ॥ २१८ ॥
सङ्क्षाल्य वारिणा भूयसासां मार्गं च मार्जनैः ।
गोमयालेपनैश्चैव शोधयित्वालयस्थितान् ॥ २१९ ॥
मृद्भाण्डांश्च परित्यज्य प्रासादान्तःस्थितं विभुम् ।
अधमोत्तममार्गेण स्नापयित्वा तथैव हि ॥ २२० ॥
रजस्वलासन्निकृष्टं बिम्बं च स्नाप्य शास्त्रतः ।
शान्तिहोमं जपं चापि कुर्याद्देशिकसत्तमः ॥ २२१ ॥
मार्जालमूषिकासर्पमण्डूकसरटादिभिः ।
गौलीभिश्चापि खद्योतैर्बिम्बसंस्पर्शने सति ॥ २२२ ॥
स्नापयेन्नवभिः कुम्भैर्देवदेवं मुनीश्वराः ।
पिपीलिकाद्यैर्बिम्बस्य स्पर्शे दोषो न विद्यते ॥ २२३ ॥
बिम्बे गोमुखसंस्पृष्टे तथा वै वर्षबिन्दुभिः ।
अधमाधममार्गेण स्नाप्य शान्तिं समाचरेत् ॥ २२४ ॥
श्वानैश्च गर्दभैरुष्ट्रैर्वराहैश्च शिवाशशैः ।
बिम्बे स्पृष्टे स्नापयेत्तमुत्तमोत्तममार्गतः ॥ २२५ ॥
सहस्रसङ्ख्यया शान्तिहोमं च जपमाचरेत् ।
एतैर्गर्भगृहाभ्यन्तःप्रवेशे स्पर्शनेऽपि वा ॥ २२६ ॥
मध्यमोत्तममार्गेण स्नापयेत्पुरुषोत्तमम् ।
प्रथमावरणाभ्यन्तःप्रवेशे त्वधमोत्तमम् ॥ २२७ ॥
स्नपनं कारयेत्तेषां द्वितीयावरणादिषु ।
प्रवेशश्चेद्देवदेवमधमाधममार्गतः ॥ २२८ ॥
संस्नाप्य शान्तिहोमं च सहस्रं जपमाचरेत् ।
मार्जालादिशवैर्बिम्बस्पर्शने त्वधमोत्तमम् ॥ २२९ ॥
स्नपनं शान्तिहोमं च कुर्याद्देशिकसत्तमः ।
तैस्तु गर्भगृहाभ्यन्तर्दूषिते नवभिर्घटैः ॥ २३० ॥
स्नापयेद्देवदेवं तु शान्तिहोमं तथाचरेत् ।
प्रथमावरणादौ तैर्दूषिते तद्बहिर्नयेत् ॥ २३१ ॥
मार्जनैर्गोमयालेपैः पञ्चगव्यैश्च शोधयेत् ।
गोमहिष्यव्यजाद्यैस्तु वानरादिशवैस्तथा ॥ २३२ ॥
बिम्बस्पर्शे स्नापयेत्तमुत्तमोत्तममार्गतः ।
एतैस्तु गर्भगेहान्तर्दूषिते मध्यमोत्तमम् ॥ २३३ ॥
स्नपनं शान्तिहोमं च कुर्याद्देशिकसत्तमः ।
पूर्वोक्तानां गवादीनां प्रथमावरणादिषु ॥ २३४ ॥
जनने मरणे चैव तद्भुवं खननादिभिः ।
संशोध्य स्नापयेद्देवमधमोत्तममार्गतः ॥ २३५ ॥
श्वगर्दभवराहादिशवैः स्पृष्टे तु कौतुके ।
सम्प्रोक्षणं तथा शान्तिहोमादींश्च समाचरेत् ॥ २३६ ॥
एतैः प्रासादसंस्पर्शे उत्तमोत्तममार्गतः ।
स्नापयेद्देवदेवं तु प्रथमावरणादिषु ॥ २३७ ॥
तैर्दूषिते देवदेवं मध्यमोत्तममार्गतः ।
संस्नाप्य शान्तिहोमादीन् कुर्याद्देशिकसत्तमः ॥ २३८ ॥
तथा महानसे यागगेहे श्वादिप्रवेशने ।
तच्छवैर्दूषिते वापि मृत्पात्राणि परिवर्जयेत् ॥ २३९ ॥
लोहपात्राणि संशोध्य कृत्वा सम्मार्जनादिकम् ।
पञ्चगव्यैश्च सम्प्रोक्ष्य शान्तिहोमं समाचरेत् ॥ २४० ॥
तैस्तु कुण्डादिसंस्पर्शे चुल्लीस्पर्शे तथा द्विजाः ।
त्यक्त्वा तमग्निमन्यन्तु स्थापयेद्विधिवद्द्विजाः ॥ २४१ ॥
काकैर्गृध्रैस्तथा घूकैः कुक्कुटैश्च कपोतकैः ।
श्येनादिभिश्च गोधाभिर्बिम्बस्पर्शे मुनीश्वराः ॥ २४२ ॥
मध्यमोत्तममार्गेण स्नापयेच्छान्तिमाचरेत् ।
एतेषां गर्भगेहान्तःप्रवेशे मुनिपुङ्गवाः ॥ २४३ ॥
अधमोत्तममार्गेण स्नाप्य शान्तिं समाचरेत् ।
प्रथमावरणाद्येषु ह्यप्रवेश्यस्थले द्विजाः ॥ २४४ ॥
एषां प्रवेशे तत्स्थानं प्रोक्षयेत्पञ्चगव्यकैः ।
शान्तिहोमादिकं कुर्यात्सर्वदोषप्रशान्तये ॥ २४५ ॥
काकादीनां शवैः स्पृष्टे बिम्बे चैवोत्तमोत्तमम् ।
स्नपनं शान्तिहोमं च कुर्यात्तद्दोषशान्तये ॥ २४६ ॥
तैस्तु प्रासादसंस्पर्शे मध्यमोत्तममार्गतः ।
स्नापयेद्देवदेवं तु प्रथमावरणादिषु ॥ २४७ ॥
तैर्दूषिते स्थले तत्तु मार्जनालेपनादिभिः ।
संशोध्य पञ्चगव्यैश्च प्रोक्षणं शान्तिमाचरेत् ॥ २४८ ॥
महानसादौ तैर्दुष्टे प्राग्वत्सर्वं समाचरेत् ।
शिथिलीसरणतुम्भीवल्मीकादौ तु वा द्विजाः ॥ २४९ ॥
बिम्बोपरि समुत्पन्ने तत्समुद्धृत्य तत्क्षणात् ।
बिम्बाभिषेचनं कृत्वा पञ्चगव्यैर्यथाविधि ॥ २५० ॥
कृत्वा सम्प्रोक्षणं पश्चाच्छान्तिहोमं समाचरेत् ।
गोभूतिलादिकं दद्यात्तद्दोषस्य प्रशान्तये ॥ २५१ ॥
सहस्रं ब्राह्मणांश्चैव भोजयेन्मुनिपुङ्गवाः ।
प्रासादे गर्भगेहे वा शिथिल्यादिसमुद्भवे ॥ २५२ ॥
उत्तमोत्तममार्गेण स्नापयेत्पुरुषोत्तमम् ।
शान्तिहोमादिकं सर्वं प्राग्वदेव समाचरेत् ॥ २५३ ॥
प्राकारे मण्डपे वापि गोपुरे वाहनादिके ।
शिथिलसरटादीनां वल्मीकादिस्समुद्भवे ॥ २५४ ॥
छत्रकाणां समुत्पत्तौ ब्रह्मदण्डसमुत्थितौ ।
तत्क्षणात्तत्समुद्धृत्य प्रोक्षयेत्पञ्चगव्यकैः ॥ २५५ ॥
अधमोत्तममार्गेण संस्नाप्य पुरुषोत्तमम् ।
शान्तिहोमादिकं सर्वं प्राग्वदेव समाचरेत् ॥ २५६ ॥
भगवन्मन्दिरे विप्राः कृतं चेदृत्विगेतरैः ।
आसनोपासनं चैव शयनं भोजनादिकम् ॥ २५७ ॥
तत्स्थानं पञ्चगव्येन प्रोक्ष्य शान्तिं समाचरेत् ।
बिम्बोपर्यशनेः पाते भग्नाङ्गं च यथाविधि ॥ २५८ ॥
सन्धाय प्रोक्षणं कृत्वा सहस्रकलशैस्तथा ।
संस्नाप्य देवं शान्त्यर्थं हुत्वा ब्राह्मणभोजनम् ॥ २५९ ॥
सहस्रसङ्ख्यया कृत्वा कुर्यादन्ते महोत्सवम् ।
प्रासादे त्वशनेः पाते भग्नं सन्धाय पूर्ववत् ॥ २६० ॥
सम्प्रोक्षणादिकं कृत्वा उत्तमोत्तममार्गतः ।
संस्नाप्य देवं तदनु शान्तिहोमादिकं चरेत् ॥ २६१ ॥
प्रथमावरणाद्येषु गोपुरे मण्डपे तु वा ।
भवेदशनिपातश्चेदधमोत्तममार्गतः ॥ २६२ ॥
स्नपनं शान्तिहोमं च ब्राह्मणानां च भोजनम् ।
अथोत्पातस्य शान्तिं तु वक्ष्यामि शृणुत द्विजाः ॥ २६३ ॥
उल्काशन्यादिपाते च नक्षत्रे पतिते च खात् ।
सधूमे च दिशां दाहे भूताद्यावेशिते नृपे ॥ २६४ ॥
दुर्भिक्षे व्याधिते राष्ट्रे तथा वै शत्रुसङ्कटे ।
सूर्योदयस्य व्यत्यासे भूकम्पे तद्विदारणे ॥ २६५ ॥
अतिवृष्टावनावृष्टौ दिव्यदुन्दुभिनिस्वने ।
रात्राविन्द्रधनुर्दर्शे जलेऽग्निजनने तथा ॥ २६६ ॥
चन्द्रोदयेऽन्धकारे च विनाग्निं धूमदर्शने ।
प्रतिसूर्यप्रदर्शे च दिवा नक्षत्रदर्शने ॥ २६७ ॥
दर्शने वालमीनस्य रात्रौ सूर्यप्रदर्शने ।
स्वप्ने तु चन्द्रपतने भूमौ ज्वलनदर्शने ॥ २६८ ॥
भूतादिदर्शने चैव व्योम्नि नेमिस्वने तथा ।
आकाशे ग्रहयुद्धे च निमित्तं तु विना द्विजाः ॥ २६९ ॥
आर्द्रवृक्षस्य पतने तथैव पतिते गिरौ ।
वृक्षे त्वन्यफले दृष्टे शिलायामङ्कुरे तथा ॥ २७० ॥
शिलावर्षे तटाकादौ रक्तशैवालदर्शने ।
द्विशीर्षजन्तुप्रसवे द्रुमे शोणितसम्भवे ॥ २७१ ॥
विभिन्नजन्तुप्रसवे मनुष्यपशुपक्षिषु ।
एवमन्येष्वद्भुतेषु महोत्पातेषु सत्स्वपि ॥ २७२ ॥
तद्दोषशान्तिं विप्रेन्द्राः कारयेदचिरान्नृपः ।
स्थापनोक्तविधानेन कल्पिते मण्डपे शुभे ॥ २७३ ॥
चक्राम्बुरुहपूर्वेषु यथावत्कल्पितेषु च ।
कुण्डेषु दशसङ्ख्येषु ब्रह्मवृक्षादिसम्भवैः ॥ २७४ ॥
समिद्गणैस्तिलैराज्यैः सेचितैः प्रागुदीरितैः ।
पञ्चभिर्मधुराद्यैश्च मिश्रीभूतैः क्रमेण तु ॥ २७५ ॥
महत्तराणां दोषाणां शान्तये मन्त्रवित्तमैः ।
अयुतं नियुतं लक्षं कोटिनिष्ठं यथाबलम् ॥ २७६ ॥
होतव्यं पूर्णया सार्धं दशभिर्मन्त्रवित्तमैः ।
कुण्डेषु मध्यपूर्वेषु मन्त्राणां नियतिः क्रमात् ॥ २७७ ॥
चक्राब्जे द्वादशार्णेन वस्वश्रेऽष्टाक्षरेण तु ।
षडर्णेन षडश्रे तु शङ्खाभे प्रणवेन तु ॥ २७८ ॥
जितन्तया चतुरश्रे विश्वत्रात्रा त्रिकोणके ।
द्वात्रिंशद्दलपद्माख्ये नृसिंहानुष्टुभेन तु ॥ २७९ ॥
सुदर्शननृसिंहेन चक्रकुण्डाक्षरारके ।
वाराहेणार्धचन्द्राख्ये वृत्ते सौदर्शनेन तु ॥ २८० ॥
धिष्ण्यद्वयं मध्यवेद्यां प्रागुक्तं दक्षिणोत्तरे ।
शेषाणि परितः कुर्याद्दिक्षु चैव विदिक्षु च ॥ २८१ ॥
सिद्धमन्त्रा नियोक्तव्या होतारः शान्तिकर्मणि ।
सर्वकुण्डानि सर्वेषां मन्त्राणामिच्छया गुरोः ॥ २८२ ॥
कल्पनीयानि वा मन्त्रा यतः सर्वफलप्रदाः ।
न्यस्तमन्त्रैर्यथान्यायं जप्यास्ते सङ्ख्यया तथा ॥ २८३ ॥
गोभूहेमतिलान्नानां दानैर्योग्यजनस्य च ।
तृप्तिः कार्या विशेषेण दिव्याद्यायतनस्य च ॥ २८४ ॥
प्रजापालनशीलेन भूपेनात्महितेच्छुना ।
शान्तिरेवंविधा कार्या शास्त्रज्ञैर्बहुभिर्धनैः ॥ २८५ ॥
मुख्यकल्पे विधिरयमनुकल्पे द्विजोत्तमाः ।
पूर्ववद्यागगेहे तु पञ्चकुण्डेष्वनुक्रमात् ॥ २८६ ॥
व्यापकैः पञ्चभिर्मन्त्रैरष्टाक्षरपुरस्सरैः ।
मधुक्षीरादिभिर्द्रव्यैः पञ्चभिर्नियुताख्यया ॥ २८७ ॥
सङ्ख्यया जुहुयान्मन्त्री लक्षसङ्ख्या यथा भवेत् ।
गोभूतिलादिकं दद्यात्प्राग्वदेव मुनीश्वराः ॥ २८८ ॥
सर्वत्रान्ते ध्वजारोहपूर्वकं तूत्सवं चरेत् ।
तथा बिम्बस्य हसने चलने रोदने तथा ॥ २८९ ॥
पतने भ्रमणे स्वेदसम्भवे रक्तसम्भवे ।
सम्प्रोक्षणं तु कृत्वाथ पूर्वोक्तां शान्तिमाचरेत् ॥ २९० ॥
महोत्सवान्तं देवस्य सर्वदोषप्रशान्तये ।
प्रासादान्तःस्थिते बिम्बे अकस्मादुष्णसम्भवे ॥ २९१ ॥
पयोमधुघृतैश्चैव नालिकेरजलैस्तथा ।
पृथक्प्रस्थसहस्रैस्तु स्नापयेत्सप्तवासरान् ॥ २९२ ॥
ततः पूर्वोदितां शान्तिमुत्सवान्तां समाचरेत् ।
रक्तवर्षे तु सञ्जाते प्रासादादीन् मुनीश्वराः ॥ २९३ ॥
शुद्धोदकैः क्षालयित्वा गोमयालेपनं तथा ।
पर्यग्निकरणं पञ्चगव्यैः सम्प्रोक्षणं तथा ॥ २९४ ॥
कृत्वा देवस्य विधिवत्सम्प्रोक्षणमथाचरेत् ।
संस्नाप्य मधुसर्पिर्भ्यां देवं प्रस्थसहस्रकैः ॥ २९५ ॥
कुर्यात्पूर्वोदितां शान्तिमुत्सवान्तां यथाविधि ।
मधुवर्षे क्षीरवर्षे तत्तत्प्रस्थसहस्रकैः ॥ २९६ ॥
संस्नाप्य देवं सप्ताहं प्राग्वच्छान्तिं समाचरेत् ।
अकस्माद्धामपतने तदूर्ध्वे पतिते द्रुमे ॥ २९७ ॥
सन्धाय पूर्ववच्छीघ्रं कृत्वा सम्प्रोक्षणं विभोः ।
कुर्यात्पूर्वोदितां शान्तिमन्ते कुर्यान्महोत्सवम् ॥ २९८ ॥
एवं महोत्पातदोषशान्तिर्विप्राः प्रकीर्तिताः ।
अथ नित्यार्चनादीनां प्रायश्चित्तं तु वक्ष्यते ॥ २९९ ॥
अस्नातोऽनूर्ध्वपुण्ड्रश्चापवित्रोऽनुपवीतकः ।
नग्नो वा ह्येकवस्त्रो वा जीर्णवस्त्रधरस्तु वा ॥ ३०० ॥
तथा पर्युषितं वासो दधानो नीलवस्त्रधृक् ।
दग्धवस्त्रधरो वापि ह्यार्द्रवस्त्रधरस्तु वा ॥ ३०१ ॥
अनाचान्तो ध्यानहीनो मुक्तकेशस्तथा द्विजाः ।
स्विन्नाङ्गश्च हसन् कुप्यन् श्वसंश्च प्रलपन् द्विजाः ॥ ३०२ ॥
निष्ठीवादियुतश्चापि देवं सम्पूजयेद्यदि ।
तद्दोषशान्तये विप्रा अष्टाक्षरमनुत्तमम् ॥ ३०३ ॥
जपेत्सहस्रवारं तु शतवारं तु वा द्विजाः ।
पुनः सम्पूजनं कुर्याद्देवस्य विधिपूर्वकम् ॥ ३०४ ॥
केशास्थिलोष्टचीरासृगस्पृश्यस्पर्शदूषितः ।
तथा मूत्रपुरीषादीन् समाक्रम्य ह्यनाप्लुतः ॥ ३०५ ॥
आशौचवद्भिः संस्पृष्टश्चण्डालाद्युपघातकः ।
रुधिराद्यन्विताङ्गश्च पूजयेद्यदि केशवम् ॥ ३०६ ॥
पञ्चगव्यैः स्नापयित्वा पुनः पूजनमाचरेत् ।
काकगृध्रादिभिः स्पृष्टः श्वानैर्वा गर्दभादिभिः ॥ ३०७ ॥
पाषण्डप्रतिलोमाद्यैः पतितैर्हीनवृत्तिभिः ।
चैत्यवृक्षादिभिश्चापि संस्पृष्टः पूजयेद्यदि ॥ ३०८ ॥
अधमाधममार्गेण स्नापयेत्पुरुषोत्तमम् ।
चण्डालाद्यैर्वा तथा म्लेच्छैरुदक्यासूतिकादिभिः ॥ ३०९ ॥
महापातकिभिः स्पृष्टः स्त्रियं गत्वा ह्यनाप्लुतः ।
पूजयेद्यदि देवेशं नीचमध्यममार्गतः ॥ ३१० ॥
संस्नाप्य देवं तदनु पुनः पूजनमाचरेत् ।
परस्त्रीगमनासक्तः कुष्ठी वाप्यङ्गहीनकः ॥ ३११ ॥
काणो वान्धोऽपि मूको वा बधिरः पङ्गुरेव वा ।
अपस्मारी तथोन्मत्तो देवं सम्पूजयेद्यदि ॥ ३१२ ॥
अधमोत्तममार्गेण देवं संस्नापयेद्द्विजाः ।
आशौचवान्वा पतितः कुण्डो वा गोलकोऽपि वा ॥ ३१३ ॥
महापातकवांश्चापि देवं सम्पूजयेद्यदि ।
उत्तमोत्तममार्गेण संस्नाप्य पुरुषोत्तमम् ॥ ३१४ ॥
शान्तिहोमं मूलमन्त्रजपं चापि समाचरेत् ।
क्रिमिकीटादिभिर्दुष्टधान्यपुष्पफलादिभिः ॥ ३१५ ॥
प्राण्यङ्गतुषभस्मास्थिकेशदन्तनखादिभिः ।
स्पृष्टैर्द्रव्यैस्तथाऽस्पृश्यपाणिस्पृष्टैः फलादिभिः ॥ ३१६ ॥
तथा पर्युषितैर्वान्यैः पत्रपुष्पफलादिभिः ।
पूजने सति देवस्य मूलमन्त्रशतं जपेत् ॥ ३१७ ॥
चण्डालपतितोदक्यासूतिकाप्रतिलोमजैः ।
शबराद्यैश्च संस्पृष्टैर्द्रव्यैः शास्त्रविनिन्दितैः ॥ ३१८ ॥
पत्रपुष्पादिभिश्चैव स्पृष्टैर्वा गोमुखादिभिः ।
मनुष्यलोहितद्रव्यैस्तथाऽस्पृश्यमृगादिभिः ॥ ३१९ ॥
क्रिमिकीटपतङ्गास्थिदन्तकेशनखादिभिः ।
तुषैश्च भस्मलोष्टाद्यैर्युक्तैर्द्रव्यैस्तथा द्विजाः ॥ ३२० ॥
पूर्वं समर्पितैर्द्रव्यैस्तथा पर्युषितोदकैः ।
पूजने सति देवस्य पुंसूक्तेन कुशोदकैः ॥ ३२१ ॥
स्नापयित्वा मूलमन्त्रमष्टोत्तरशतं जपेत् ।
शान्तिहोमं तु वा कुर्यात्सर्वदोषप्रशान्तये ॥ ३२२ ॥
जन्तुभक्षितपुष्पाद्यैर्नीचावाससमीपगैः ।
अन्यारामोद्भवैः पुष्पैर्ग्रथितैर्दीक्षितेतरैः ॥ ३२३ ॥
शूद्रानीतैः पुष्पगेहाद्बहिर्बद्धैश्च रोगिभिः ।
भूतलैः पत्रपुष्पाद्यैः फलाद्यैर्वार्चने हरेः ॥ ३२४ ॥
क्षीरेण स्नाप्य देवेशमष्टोत्तरशतं जपेत् ।
मूलमन्त्रं पुनः शुद्धपत्रपुष्पादिभिर्यजेत् ॥ ३२५ ॥
जीर्णवस्त्रैरधौतैश्च जीर्णैश्छत्रादिभिस्तथा ।
अशोधितार्घ्यपात्राद्यैः कृते देवस्य पूजने ॥ ३२६ ॥
अष्टोत्तरशतं जप्त्वा पुनः पूजनमाचरेत् ।
केशास्थ्याद्यशुचिस्पृष्टैः स्पृष्टैः शूद्रादिभिस्तथा ॥ ३२७ ॥
श्वानादिभिर्वा संस्पृष्टैश्चण्डालाद्युपघातकैः ।
वस्त्रैः सम्पूजिते देवे अधमोत्तममार्गतः ॥ ३२८ ॥
संस्नाप्य देवदेवेशं तु शान्तिहोमं समाचरेत् ।
चण्डालसूतिकोदक्यास्पृष्टैर्वस्त्रैः प्रपूजने ॥ ३२९ ॥
उत्तमोत्तममार्गेण स्नाप्य शान्तिं समाचरेत् ।
केशास्थिश्वादिभिर्दुष्टैः स्पृष्टं कार्पासवस्त्रकम् ॥ ३३० ॥
पुनः संशोध्य देवाय दद्याच्चण्डालपूर्वकैः ।
स्पृष्टं कार्पासवस्त्रं तु सन्त्यजेन्मुनिपुङ्गवाः ॥ ३३१ ॥
पट्टवस्त्रं तु शूद्राद्यैः स्पृष्टं सम्प्रोक्षयेद्द्विजाः ।
चण्डालपूर्वैः स्पृष्टं तु जलैः सङ्क्षालयेद्गुरुः ॥ ३३२ ॥
अजाविमहिषोष्ट्राज्यैस्तैलेरैरण्डजैस्तथा ।
प्राण्यङ्गसम्भवैस्तैलेः फलजैर्वापि दीपने ॥ ३३३ ॥
अजादिक्षीरदध्याज्यहोमे वा मुनिपुङ्गवाः ।
शान्तिहोमं प्रकुर्वीत तद्दोषस्य प्रशान्तये ॥ ३३४ ॥
पूर्वोक्ताज्यादिभिर्देवस्नपने वा निवेदने ।
अधमोत्तममार्गेण स्नपनं शान्तिमाचरेत् ॥ ३३५ ॥
नरभुक्तैर्वस्त्रखण्डैर्दीपवर्त्यादिके कृते ।
शान्तिहोमं प्रकुर्वीत सहस्रं जपमाचरेत् ॥ ३३६ ॥
धूपैः प्राण्यङ्गसम्मिश्रैस्तैलजैः स्नुहिजैरपि ।
अन्यैर्दुर्गन्धजैश्चैव पूजयेद्यदि मोहतः ॥ ३३७ ॥
कपिलागोघृतेनैव हुत्वाहुतिसहस्रकम् ।
जातिपुष्पसहस्रेण देवमभ्यर्च्य देशिकः ॥ ३३८ ॥
पुनः शुद्धं मुनिश्रेष्ठाः कर्पूरागरु धूपयेत् ।
देवतान्तरनिर्माल्यदुष्टद्रव्यैः प्रपूजने ॥ ३३९ ॥
अधमाधममार्गेण स्नाप्य शान्तिं समाचरेत् ।
चण्डालसूतिकोदक्यास्पृष्टाद्वा शवदूषितात् ॥ ३४० ॥
कूपात्समुद्धृतैस्तोयैः कृते देवस्य पूजने ।
उत्तमोत्तममार्गेण स्नापयेत्पुरुषोत्तमम् ॥ ३४१ ॥
अन्तस्तिर्यक्छवात्कूपात्स्पृष्टाद्वा प्रतिलोमजैः ।
समुद्धृतैर्जलैर्देवमर्चयेद्यदि मोहतः ॥ ३४२ ॥
तद्दोषशान्तये कुर्यात्स्नानमुत्तममध्यमम् ।
अन्तर्जन्तुशवात्कूपाद्विण्मूत्रापेयदूषितात् ॥ ३४३ ॥
देवतान्तरनिर्माल्यदुष्टाद्वोद्धृतवारिभिः ।
पूजने देवदेवस्य स्नानं स्यादुत्तमाधमम् ॥ ३४४ ॥
अन्तःशवोषिताद्वापि स्पृष्टाच्चण्डालपूर्वकैः ।
सरसः प्रोद्धृतैस्तोयैः पूजने मध्यमोत्तमम् ॥ ३४५ ॥
स्नानं कुर्यात्तु देवस्य अन्तस्तिर्यक्छवोषितात् ।
स्पृष्टाद्वा प्रतिलोमाद्यैः सरसः प्रोद्धृतैर्जलैः ॥ ३४६ ॥
पूजने सति देवस्य स्नानं मध्यममध्यमम् ।
स्पृष्टाच्चण्डालपूर्वैर्वा मनुष्यशवदूषितात् ॥ ३४७ ॥
तटाकादुद्धृतैस्तोयैः पूजने त्वधमोत्तमम् ।
स्नपनं देवदेवस्य कुर्याद्देशिकसत्तमः ॥ ३४८ ॥
अन्तःशवोषिते कूपे स्पृष्टे चण्डालपूर्वकैः ।
सर्वमुद्धृत्य तत्तोयं तदर्धं वा मुनीश्वराः ॥ ३४९ ॥
पुण्याहं वाचयित्वाथ प्रोक्षयेत्पञ्चगव्यकैः ।
तिर्यक्छवादिभिर्दुष्टे जलस्यार्धं समुद्धरेत् ॥ ३५० ॥
पादं वापि समुद्धृत्य प्रोक्षयेत्पञ्चगव्यकैः ।
छुचुन्दर्यादिजन्तूनां शवैर्मूत्रपुरीषकैः ॥ ३५१ ॥
दुष्टे वा शिवनिर्माल्यैः कूपे तज्जलमुद्धरेत् ।
पादं वापि तदर्धं वा सेचयेत्पञ्चगव्यतः ॥ ३५२ ॥
चण्डालाद्यशुचिस्पर्शमनुष्यशवदूषिते ।
प्रतिलोमजसंस्पर्शतिर्यक्छवादिदूषिते ॥ ३५३ ॥
कुर्यात्सरसि कूपोक्तप्रायश्चित्तार्धमेव च ।
तटाके शवचण्डालस्पर्शनाद्यैर्विदूषिते ॥ ३५४ ॥
आचरेत्सरसि प्रोक्तप्रायश्चित्तार्धमेव च ।
यद्वा सरसि विस्तीर्णे तटाके च महत्तरे ॥ ३५५ ॥
कुम्भानां तु सहस्रं वा शतं वा जलमुद्धरेत् ।
दिवा समुद्धरेत्तोयं रात्रौ चेदग्निसन्निधौ ॥ ३५६ ॥
चण्डालसूतिकोदक्याशबरैर्मद्यपादिभिः ।
श्वसृगालवराहाद्यैः काकगृध्रादिभिस्तथा ॥ ३५७ ॥
स्पृष्टान्नपानभक्ष्यादेर्देवाय विनिवेदने ।
तथा रुधिरमांसास्थिस्पृष्टान्नविनिवेदने ॥ ३५८ ॥
शवादिदूषिते गेहे पक्वान्नस्य निवेदने ।
मृत्पात्राणि परित्यज्य लोहपात्राणि शोधयेत् ॥ ३५९ ॥
कृत्वा चालयसंशुद्धिं सर्वे स्नात्वा यथाविधि ।
कुर्युः कुशोदपानं च स्नपनं चोत्तमोत्तमम् ॥ ३६० ॥
कृत्वा देवस्य विधिवच्छान्तिहोमं समाचरेत् ।
परस्त्रीगमनासक्तैर्भक्ष्याभक्ष्याविवेकिभिः ॥ ३६१ ॥
अवैष्णवैश्च संस्पृष्टहविषो विनिवेदने ।
त्यक्तं पर्युषितं वापि दृष्टं वाऽयोग्यमानुषैः ॥ ३६२ ॥
मण्डूकमूषिकासर्पैर्बिडालैः स्पृष्टमेव वा ।
क्रिमिकीटपतङ्गाद्यैः स्पृष्टं केशादिदूषितम् ॥ ३६३ ॥
श्वासाहतं तथाघ्रातं तथा पूर्वं निवेदितम् ।
निवेदयेच्चेदन्नाद्यं कुम्भैर्द्वादशभिः क्रमात् ॥ ३६४ ॥
संस्नाप्य देवदेवेशं शान्तिहोमं समाचरेत् ।
श्वगृध्रादिस्पृष्टचुल्ल्यां पक्वान्नविनिवेदने ॥ ३६५ ॥
प्राग्वद्द्वादशभिः कुम्भैः स्नापयेत्पुरुषोत्तमम् ।
चण्डालाद्यैः स्पृष्टचुल्ल्यां पक्वान्नविनिवेदने ॥ ३६६ ॥
पञ्चविंशतिभिः कुम्भैः स्नापयेत्पुरुषोत्तमम् ।
अत्युष्णं चातिशीतं च रजस्तुषकणान्वितम् ॥ ३६७ ॥
मृत्पाषाणैर्दूषितं वा हविश्चेद्विनिवेदयेत् ।
जपेत्सहस्रवारं तु मूलमन्त्रं द्विजोत्तमाः ॥ ३६८ ॥
अयज्ञीयैः कोद्रवाद्यैः कृतस्य हविषोऽर्पणे ।
निषिद्धशाकमूलानां फलानां वा निवेदने ॥ ३६९ ॥
गोघृतेन स्नाप्य देवं शान्तिहोमं समाचरेत् ।
महाहविर्विधाने तु विशेषः श्रूयतां द्विजाः ॥ ३७० ॥
पचनालयतोऽन्यत्र साधितं दीक्षितेतरैः ।
अमन्त्रसंस्कृतं चान्नमविभक्तमलक्षणम् ॥ ३७१ ॥
निरीक्षितमयोग्यैश्च संस्पृष्टं मक्षिकादिभिः ।
सम्प्रोक्ष्य चास्त्रतोयेन निवेद्यं यत्नगौरवात् ॥ ३७२ ॥
अन्यत्रैवं दुष्टहविःकल्पने शान्तिमाचरेत् ।
माक्षिकाघुणभृङ्गाद्यैर्दष्टं दुष्टं पुरीषकैः ॥ ३७३ ॥
पत्रपुष्पफलाद्यन्नं त्यक्तव्यं तदधिष्ठितम् ।
अस्त्रोदकेन सम्प्रोक्ष्य दद्याद्देवाय भक्तितः ॥ ३७४ ॥
अकृत्वा भूतसंशुद्धिं मन्त्रन्यासादिकं तु वा ।
हृदि देवमनभ्यर्च्य निर्माल्योद्वासनादिकम् ॥ ३७५ ॥
बिम्बसंशोधनं वापि स्थानसंशोधनं तथा ।
अकृत्वा देवयजनं कुर्याच्चेन्मोहतो द्विजाः ॥ ३७६ ॥
तद्दोषशान्तये मूलमन्त्रं जप्त्वा सहस्रकम् ।
लुप्तकर्म ततः कृत्वा पुनः पूजनमाचरेत् ॥ ३७७ ॥
अर्घ्यादीनां द्रव्यलोपे दहनाप्यायनादिके ।
लुप्ते वा विष्णुगायत्रीं शतं जप्त्वा यथाविधि ॥ ३७८ ॥
द्रव्यन्यासादिसंस्कारं कृत्वार्घ्यादीन् समर्चयेत् ।
प्रासादद्वारदेवानां तथाऽऽवरणवासिनाम् ॥ ३७९ ॥
लुप्तेऽर्चने तत्पुरतस्तत्तन्मन्त्रान्यथाक्रमम् ।
अष्टोत्तरशतं जप्त्वा पुनरर्चनमाचरेत् ॥ ३८० ॥
प्रासादद्वारदेवानां परिवारगणस्य वा ।
विपर्यासे मूलमन्त्रं शतं जप्त्वा क्रमाद्यजेत् ॥ ३८१ ॥
पीठार्चनमकृत्वैव देवसम्पूजने कृते ।
पीठादिदेवतामन्त्रं शतं जप्त्वा यथोदितम् ॥ ३८२ ॥
पुनः पीठार्चनं कृत्वा देवमभ्यर्चयेद्गुरुः ।
कर्मार्चाद्यङ्गबिम्बेषु विनाऽऽवाहनमर्चने ॥ ३८३ ॥
लययागं भोगयागं विना वाऽभ्यर्चने कृते ।
सहस्रवारं सञ्जप्त्वा मूलमन्त्रं यजेत्पुनः ॥ ३८४ ॥
मन्त्रहानौ क्रियाहानौ मुद्राहानौ तथैव च ।
भोगमन्त्रक्रियादीनां विपर्यासेऽपि च द्विजाः ॥ ३८५ ॥
तद्दोषशान्तये मन्त्रमष्टोत्तरशतं जपेत् ।
पूजाकाले तु घण्टायाश्चालने तु विवर्जिते ॥ ३८६ ॥
वेदघोषविहीने वा शान्तिहोमं समाचरेत् ।
पूर्वक्लृप्तोपचारे तु न्यूने द्विगुणवस्तुभिः ॥ ३८७ ॥
पुनरर्चनं कृत्वा अष्टोत्तरशतं जपेत् ।
औपचारिकसंस्पर्शहृदयङ्गमरूपिणाम् ॥ ३८८ ॥
परिच्युतौ च भोगानां त्रयाणां क्रमशो द्विजाः ।
पूजने सर्वबीजानि मात्राचित्तं घृतोदनम् ॥ ३८९ ॥
निवेदनीयं देवस्य विशेषेण परस्परम् ।
मात्रादानविहीनौ तु देवं मङ्गलवारिभिः ॥ ३९० ॥
संस्नाप्य शान्तिहोमं च कुर्यात्तद्दोषशान्तये ।
अकस्माद्दीपनिर्वाणे पूजामध्ये मुनीश्वराः ॥ ३९१ ॥
पुनरुद्दीप्य शान्त्यर्थं हुत्वा नेत्रमनुं जपेत् ।
अनिर्वाणस्य दीपस्य नाशे तु मुनिपुङ्गवाः ॥ ३९२ ॥
क्षीरेण स्नाप्य देवेशं शान्तिहोमं समाचरेत् ।
पुनरारोप्य तद्दीपं जपेन्मूलसहस्रकम् ॥ ३९३ ॥
पाकस्थानादाहृतेषु देवनीराजनार्थतः ।
दीपेष्वेकतमो दीपो यायादुपरतिं यदि ॥ ३९४ ॥
प्रमादादातवेगाद्यैः पुरस्ताद्धि निवेदनात् ।
श्रीभङ्गो जायते पश्चाद्यदि व्याध्यादिपीडनम् ॥ ३९५ ॥
तस्मात्प्रदीप्य सहसा मूलमष्टोत्तरं जपेत् ।
तथा नीराजने नष्टे प्राक्पश्चाद्वा समर्पणात् ॥ ३९६ ॥
पुनः प्रदीप्य सहसा जपेन्मन्त्रं सहस्रधा ।
अयोग्यजनसंस्पृष्टे तत्कुम्भं तं विहाय तु ॥ ३९७ ॥
कुम्भान्तरं समापाद्य तेन तत्तु समाचरेत् ।
पूजाकाले धूपपात्रे दीपपात्रे तु वा द्विजाः ॥ ३९८ ॥
नीराजनार्थकुम्भे वा प्रमादात्पतिते सति ।
घण्टायाश्चार्घ्यपात्रादेश्छत्रादीनां तु वा द्विजाः ॥ ३९९ ॥
पतने प्रजपेन्मन्त्रमष्टोत्तरसहस्रकम् ।
धूपपात्रादिके भग्ने पुनः सन्धाय पूर्ववत् ॥ ४०० ॥
पञ्चगव्यैस्तु सम्प्रोक्ष्य पूजनादौ नियोजयेत् ।
षट्सु पूजाकालेषु लुप्ते कस्मिंश्चिदर्चने ॥ ४०१ ॥
तदनन्तरकाले तु देवं द्विगुणवस्तुभिः ।
पूजयेद्द्वित्रिकालेषु लुप्तेषु मुनिसत्तमाः ॥ ४०२ ॥
त्रिचतुर्गुणितैर्द्रव्यैः पूजयेत्पुरुषोत्तमम् ।
एकाहमर्चने हीने त्वधमाधममार्गतः ॥ ४०३ ॥
देवं संस्नाप्य विधिवच्छान्तिहोमं समाचरेत् ।
यजेद्द्विगुणितैर्द्रव्यैर्ब्राह्मणान् भोजयेत्तथा ॥ ४०४ ॥
द्विदिनादौ च पक्षान्ते पूजाहीने मुनीश्वराः ।
अधमोत्तममार्गेण स्नाप्य शान्तिं समाचरेत् ॥ ४०५ ॥
तावद्द्विगुणितैर्द्रव्यैर्दिनसङ्ख्यावशेन तु ।
देवमाराध्य विधिवद्ब्राह्मणान् भोजयेद्बहून् ॥ ४०६ ॥
एकमासेऽर्चनाहीने तूत्तमोत्तममार्गतः ।
संस्नाप्य देवं विधिवत्प्राग्वच्छान्त्यादिकं चरेत् ॥ ४०७ ॥
संवत्सरत्रयादर्वाङ्मासादूर्ध्वे द्विजोत्तमाः ।
पूजालोपे तु देवस्य कुर्यात्सम्प्रोक्षणं तथा ॥ ४०८ ॥
तावद्द्विगुणितैर्द्रव्यैर्माससङ्ख्यावशेन तु ।
देवमभ्यर्च्य विधिवत्सहस्रं भोजयेद्द्विजान् ॥ ४०९ ॥
संवत्सरत्रयादूर्ध्वे पूजालोपे तु मानुषे ।
पुनः प्रतिष्ठां कुर्वीत स्वयंव्यक्तादिकेषु तु ॥ ४१० ॥
कुर्यात्सम्प्रोक्षणं चापि सहस्रकलशाप्लवम् ।
मनुष्यनिर्मिते स्थाने पूजालोपादिके द्विजाः ॥ ४११ ॥
प्रायश्चित्तं तु कृत्वैव नित्यपूजादिकं चरेत् ।
स्वयंव्यक्तादिके स्थाने पूजालोपादिके सति ॥ ४१२ ॥
पूजायां वर्तमानायां प्रायश्चित्तं समाचरेत् ।
समित्परिधिदर्भाणां कूर्चानां हविषामपि ॥ ४१३ ॥
आज्यस्थाल्यादिपात्राणामग्नेः स्थण्डिलकुण्डयोः ।
स्रुक्स्रुवस्य प्रणीताया अभावे लक्षणोज्झिते ॥ ४१४ ॥
शान्त्यर्थं जुहुयान्मन्त्री प्राग्वद्व्यापकपञ्चकैः ।
एतेषां भेदने छेदे वह्निदाहादिके सति ॥ ४१५ ॥
पुनरन्यं समापाद्य शान्तिहोमं समाचरेत् ।
अभावे काष्ठसमिधामाज्येन चरुणा हुनेत् ॥ ४१६ ॥
समिद्विराज्याभावे तु तिलैर्वा होममाचरेत् ।
अलाभे हविषान्येषामाज्येन जुहुयात्सुधीः ॥ ४१७ ॥
सर्वथा होमकार्यार्थं तिलमाज्यं न लोपयेत् ।
तिलाज्ययोरभावे तु हवनं स्यान्निरर्थकम् ॥ ४१८ ॥
शान्तिहोमं प्रकुर्वीत तद्दोषस्यापनुत्तये ।
वह्नौ कुण्डे स्थले चुल्ल्यां संस्कृतेऽनुगतिं गते ॥ ४१९ ॥
पुनराधाय संस्कृत्य शान्तिहोमादिकं हुनेत् ।
अग्निप्रतिष्ठाकर्मादौ मोहादविधिवत्कृते ॥ ४२० ॥
पुनर्विधिवदापाद्य शान्तिहोमं समाचरेत् ।
वह्नौ स्पृष्टे तथाऽस्पृश्यैः केशास्थिनखैरपि ॥ ४२१ ॥
यथावन्मूलमन्त्रेण जुहुयात्सर्पिषा शतम् ।
उदक्यासूतिकाद्यैश्च सन्निकृष्टेऽयुतं हुनेत् ॥ ४२२ ॥
संस्पृष्टेऽन्यं समाधाय जुहुयाच्चायुतं जपेत् ।
असंस्कृते हुतेऽग्नौ तु पुनर्होमं समाचरेत् ॥ ४२३ ॥
नैमित्तिकेषु काम्येषु चोत्सवेषु विशेषतः ।
तदङ्गहुतभुग्यागं कुण्डेऽन्यस्मिन् समाचरेत् ॥ ४२४ ॥
विपर्यासे कृते मोहाच्छान्तिहोमं समाचरेत् ।
हुतशेषहविःशेषे भुक्ते योग्यजनैर्विना ॥ ४२५ ॥
जपेन्मूलायुतं मन्त्री दाता किल्बिषशान्तये ।
एकद्वित्रिचतुःपञ्चषट्कालेषु यथाक्रमम् ॥ ४२६ ॥
सङ्कल्प्य यागं होमान्तं हवनं न कृतं यदि ।
द्विगुणं हवनं कुर्यात्पूर्णान्तं मन्त्रवित्तमः ॥ ४२७ ॥
एकं दिनं समारभ्य मासान्तं होमलोपने ।
अधमोत्तममार्गेण संस्नाप्य पुरुषोत्तमम् ॥ ४२८ ॥
तत्तद्द्विगुणितैर्द्रव्यैर्होमकर्म समाचरेत् ।
मासोर्ध्वं वत्सरादर्वाक् होमलोपेऽधमोत्तमम् ॥ ४२९ ॥
स्नपनं शान्तिहोमं च सहस्राहुतिभिश्चरेत् ।
वर्षोर्ध्वं होमलोपे तु स्नपनं मध्यमोत्तमम् ॥ ४३० ॥
शान्तिहोमं च गोदानं कुर्याद्ब्राह्मणभोजनम् ।
पतने बलिवस्तूनां तत्त्यक्त्वाऽन्येन देशिकः ॥ ४३१ ॥
बलिं दत्त्वाथ तच्छान्त्यै शान्तिहोमं समाचरेत् ।
तथैव बलिवस्तूनामस्पृश्यस्पर्शने द्विजाः ॥ ४३२ ॥
तथैव पात्रेऽभिमते केशलोष्टादिदूषिते ।
तत्त्यक्त्वाऽन्येन निर्वर्त्य मूलमष्टोत्तरं जपेत् ॥ ४३३ ॥
बलिं दुष्टेन दद्याच्चेच्छान्तिहोमपुरस्सरम् ।
बलिं दत्त्वा विशेषेण परिवारमनुं जपेत् ॥ ४३४ ॥
मुद्रामन्त्रक्रियाध्यानद्रव्याणां भोगरूपिणाम् ।
तत्तद्गानस्वराणां च तालनृत्तादिकस्य च ॥ ४३५ ॥
विशेषाद्बलिकाले तु हानिरुत्पद्यते यदि ।
जपेन्मूलसहस्रं तु मन्त्री ध्यानसमन्वितः ॥ ४३६ ॥
यानस्थे बलिबिम्बे तु व्यूढेऽयोग्यजनैः सति ।
कुशोदकेन सम्प्रोक्ष्य शान्तिहोमं समाचरेत् ॥ ४३७ ॥
अस्पृश्यैर्यदि संस्पृष्टा बलिबिम्बस्य वाहकाः ।
पञ्चगव्येन सम्प्रोक्ष्य शुचिनाऽन्येन वाहयेत् ॥ ४३८ ॥
बलिकाले दीपनाशे पुनरारोप्य दीपकम् ।
कृत्वा चोत्सवशेषं तु शान्तिहोमं समाचरेत् ॥ ४३९ ॥
बलिबिम्बे निपतिते शिविकादौ मुनीश्वराः ।
स्थापयित्वा यथापूर्वं बलिशेषं नयेत्ततः ॥ ४४० ॥
तद्दोषशान्तये कुम्भैर्नवभिः स्नापयेद्विभुम् ।
सबिम्बयानपतनेऽप्येवं शान्तिं समाचरेत् ॥ ४४१ ॥
नित्योत्सवार्थबिम्बे तु यानान्निपतिते भुवि ।
तदैवोद्धृत्य तद्बिम्बमक्षतं स्नाप्य मन्त्रवित् ॥ ४४२ ॥
अधमाधममार्गेण शान्त्यर्थं जुहुयादनु ।
तथैव च क्षतं बिम्बं समाधाय यथापुरम् ॥ ४४३ ॥
कृत्वा प्रातिष्ठिकं कर्म स्वस्थाने स्थापयेद्दनु ।
यावत्समाधानकालं तु तावद्बिम्बान्तरेण वा ॥ ४४४ ॥
कूर्चेन वाऽन्यबिम्बेन कुर्यान्नित्योत्सवं हरेः ।
बलिबिम्बस्य मूर्धस्थपुष्पादिपतने तु वा ॥ ४४५ ॥
किरीटपतने चापि तद्दोषस्य प्रशान्तये ।
स्नपनं नवभिः कुम्भैः शान्तिहोमं समाचरेत् ॥ ४४६ ॥
बलिकाले तु नृत्यन्त्याः पतने वारयोषितः ।
तद्दोषशान्तये कुर्याच्छान्तिहोमं द्विजोत्तमाः ॥ ४४७ ॥
बलिदानविहीने तु एककालार्चनादिके ।
बलिं द्विगुणितं दद्यात्तथा त्वेकदिने द्विजाः ॥ ४४८ ॥
बलिप्रदानहीने तु हुत्वा मूलशतं ततः ।
तत्तदावरणद्वारदेवानां स्वस्वसंज्ञया ॥ ४४९ ॥
जुहुयात्तिलमिश्रेण घृतेनैव शतं शतम् ।
द्विदिनादौ च मासान्तं तदूर्ध्वे वत्सरान्तिमम् ॥ ४५० ॥
वर्षादूर्ध्वं च रहिते बलिदानेऽधमाधमम् ।
तदुत्तमं च स्नपनं क्रमाद्वै मध्यमोत्तमम् ॥ ४५१ ॥
शान्तिहोमं च कुर्वीत द्रव्यैर्द्विगुणितैर्बलिम् ।
सूतकं वा मृताशौचं पूजाकाले श्रुतं यदि ॥ ४५२ ॥
आशौचमाचरेद्विप्राः पूजान्ते देशिकोत्तमः ।
देवस्य नित्यपूजादौ मोहात्सिद्धान्तसङ्करे ॥ ४५३ ॥
संहितासङ्करे वापि जाते तद्दोषशान्तये ।
सम्प्रोक्षणं पुरा कृत्वा सहस्रकलशाप्लवम् ॥ ४५४ ॥
महोत्सवं च कुर्वीत नान्यथा शान्तिरिष्यते ।
एकत्र दीक्षितस्तन्त्रे सिद्धान्ते वा मुनीश्वराः ॥ ४५५ ॥
न कुर्याद्देशिकोऽन्यत्र पूजादीनपि द्विजाः ।
तन्त्रभेदे च सिद्धान्तभेदे वाप्युत्सवादिषु ॥ ४५६ ॥
आचार्यत्वं तथार्त्विज्यं न कार्यं मोहातः कृते ।
दोषाय कल्पते राजराष्ट्रधामक्षयात्मने ॥ ४५७ ॥
पञ्चरात्रोक्तमार्गेण पूज्यमाने प्रतिष्ठिते ।
वैखानसैः पूजिते तु प्रतिष्ठां पुनराचरेत् ॥ ४५८ ॥
तथैव कर्मबिम्बानां साङ्कर्यमपि नाचरेत् ।
कर्मणां स्नपनादीनां यत्कर्म विहितं द्विजाः ॥ ४५९ ॥
यस्मिन् वै कर्मबिम्बे तु तत्रैव च समाचरेत् ।
तत्तत्कर्मार्थबिम्बे तु तत्र सन्निहिते सति ॥ ४६० ॥
तत्तत्कर्मविशेषाणां व्यत्ययं न समाचरेत् ।
असन्निधाने तेषां तु राष्ट्रभङ्गादिदोषतः ॥ ४६१ ॥
तद्देशकालानुगुणं तत्र सन्निहितं भवेत् ।
यद्यत्कर्मार्थबिम्बं तु तत्र सर्वं समाचरेत् ॥ ४६२ ॥
स्नपनद्वितयञ्चैव नित्यनैमित्तिकात्मकम् ।
नित्योत्सवविधानं च तथा नैमित्तिकोत्सवम् ॥ ४६३ ॥
तीर्थयात्राविधानं चेत्येवं कर्माणि पञ्च वै ।
शयनोत्थापनं कर्म तदा कूर्चे समाचरेत् ॥ ४६४ ॥
यद्वा शोभार्थबिम्बे तु पूज्यमाने प्रतिष्ठिते ।
एवं कथितमेकस्मिन् बिम्बे सन्निहिते सति ॥ ४६५ ॥
बिम्बद्वये सन्निहिते तत्तत्कर्मविभेदतः ।
कृत्वा तदन्यत्सकलं यथायोगं समाचरेत् ॥ ४६६ ॥
एवमभ्यूह्य कर्तव्यं तत्तद्बिम्बे प्रकाशिते ।
सर्वेषु कर्मबिम्बेषु तत्र सन्निहितेषु वै ॥ ४६७ ॥
तदा तेषां तु बिम्बानां व्यत्ययं न समाचरेत् ।
प्रमादाद्व्यत्यये जाते कुर्यात्स्नपनमुत्तमम् ॥ ४६८ ॥
अतः परं प्रवक्ष्यामि प्रायश्चित्तं तु चोत्सवे ।
पुरस्तात्सर्वकर्मार्थमर्पितेष्वङ्कुरेष्वनु ॥ ४६९ ॥
रक्तेषु श्यामवर्णेषु तथा तिर्यग्गतेषु च ।
वक्रेषु चाप्ररूढेषु दक्षिणाभिमुखेषु च ॥ ४७० ॥
विधिहीनेषु चास्पृश्यस्पृष्टेष्वधिकृतैर्विना ।
पालिकादिषु भिन्नेषु नष्टेषु पतितेषु च ॥ ४७१ ॥
मूषिकाद्यैश्च दष्टेषु मूलमन्त्रायुतं जपेत् ।
पुनः कृत्वाङ्कुरारोपं शान्तिहोमं समाचरेत् ॥ ४७२ ॥
सकृन्नियुक्तपात्रेषु मृण्मयेषु पुनर्द्विजाः ।
बीजावापे कृते विप्रा महान् दोषः प्रजायते ॥ ४७३ ॥
तच्छान्त्यै शान्तिहोमं तु कृत्वा भूयोऽङ्कुरार्पणम् ।
समाचरेत्पालिकादौ वल्मीकादिसमुद्भवे ॥ ४७४ ॥
तान् त्यक्त्वाऽन्येषु पात्रेषु बीजावापं समाचरेत् ।
शान्तिहोमं तथा कृत्वा भोजयेद्ब्राह्मणान् शतम् ॥ ४७५ ॥
कर्मार्थमङ्कुरं कृत्वा तत्कर्माकरणे द्विजाः ।
अङ्कुरानपि तान् त्यक्त्वा शान्तिहोमं समाचरेत् ॥ ४७६ ॥
अनर्प्य त्वङ्कुरं मोहादारब्धे तु महोत्सवे ।
सद्यः कृत्वा तदन्येद्युर्बीजावापं यथाविधि ॥ ४७७ ॥
शान्तिहोमं प्रकुर्वीत तद्दोषस्यापनुत्तये ।
देवताव्यत्यये जाते पालिकादौ मुनीश्वराः ॥ ४७८ ॥
अष्टोत्तरशतं जप्त्वा शान्तिहोमं समाचरेत् ।
तथैव पालिकादीनां स्थानव्यत्ययसम्भवे ॥ ४७९ ॥
अष्टोत्तरशतं जप्त्वा क्रमेण स्थापयेत्पुनः ।
पात्राणां पालिकादीनां विहीने लक्षणादिके ॥ ४८० ॥
जपेदष्टाक्षरमनुमष्टोत्तरसहस्रकम् ।
करस्थे देशिकादीनां देवदेवस्य वा द्विजाः ॥ ४८१ ॥
नष्टे कौतुकसूत्रे तु छिन्ने वा मुनिपुङ्गवाः ।
सूत्रान्तरं पुनर्बद्ध्वा शान्तिहोमं समाचरेत् ॥ ४८२ ॥
रक्षाबन्धं विना कर्मप्रारम्भे मुनिसत्तमाः ।
सद्यो बद्ध्वा प्रतिसरं शान्तिहोमं समाचरेत् ॥ ४८३ ॥
महोत्सवाद्युत्सवेषु प्रतिष्ठाप्रोक्षणादिके ।
कर्मणि स्नपनादौ वा बद्धप्रतिसरो गुरुः ॥ ४८४ ॥
ऋत्विजश्च तथाभूता मध्येऽप्याशौचसम्भवे ।
भवन्ति नैवाशुचयस्तत्तत्कर्मावसानकम् ॥ ४८५ ॥
शावं वा सूतकाशौचं कर्मानन्तरमाचरेत् ।
कर्ममध्ये स्नानमात्रं कार्यं शावस्य सम्भवे ॥ ४८६ ॥
कर्ममध्येऽपि वाशौचं भवेदात्मान्विते मृते ।
पिता माता ज्येष्ठपुत्रो भार्या चात्मान्विताः स्मृताः ॥ ४८७ ॥
तदा गुरोरभ्यनुज्ञां लब्ध्वाऽन्यो देशिकोत्तमः ।
तद्दोषस्य प्रशान्त्यर्थमुत्तमोत्तममार्गतः ॥ ४८८ ॥
देवं संस्नाप्य शान्त्यर्थं हुत्वाऽऽहुतिसहस्रकम् ।
गोभूतिलादिकं दत्त्वा ब्राह्मणान् भोजयेद्बहून् ॥ ४८९ ॥
ततः समापयेत्कर्मशेषं भक्तिसमन्वितः ।
एवं गुरौ व्याधिते वा मृते वाऽन्यः समाचरेत् ॥ ४९० ॥
कर्मशेषं द्विजश्रेष्ठाः प्रायश्चित्तपुरस्सरम् ।
प्रमाणरहिते वंशे पटे बालध्वजेऽपि च ॥ ४९१ ॥
वर्णभूषणनामाद्ये दण्डयष्टौ तु वैणवे ।
फेणके चावटे पीठे प्रपायां ध्वजरज्जुषु ॥ ४९२ ॥
आचरेच्छान्तिहोमं च अष्टोत्तरशतं जपम् ।
छिन्ने भिन्नेऽग्निना दग्धे नष्टे मूषकदंशिते ॥ ४९३ ॥
विण्मूत्ररुधिरापेयरेतोनिष्ठीवनादिभिः ।
दूषिते ध्वजमुत्सृज्य प्राग्वदन्यं समाचरेत् ॥ ४९४ ॥
प्रतिष्ठाप्याथ दण्डाग्रमानायित्वाऽधमेन तु ।
संस्नाप्य दोषशान्त्यर्थं जुहुयात्सर्पिषा शतम् ॥ ४९५ ॥
स्तम्भाग्रे ध्वजवस्त्रस्य रक्षा कार्यार्थदीक्षितैः ।
आरोहणे न दोषोऽत्र रक्षाहेतोर्द्विजातिभिः ॥ ४९६ ॥
ध्वजस्य रज्जुविच्छेदे किञ्चिच्छिन्ने तु वा ध्वजे ।
यष्टिघण्टाविहीने वा शान्तिहोमं समाचरेत् ॥ ४९७ ॥
सजीर्णान् फेणदण्डादीन् परित्यज्य ततोऽपरान् ।
संस्कृत्य योजयेत्तत्र बद्ध्वा तु ध्वजमञ्जसा ॥ ४९८ ॥
मध्यमस्नपनान्ते तु शान्तिहोमं समाचरेत् ।
वर्षवातातपस्पर्शैर्हृतवर्णे खगध्वजे ॥ ४९९ ॥
न किञ्चिदप्यनिष्टं स्यात्स्तम्भाग्रे यावदुत्सवम् ।
बद्धध्वजपटे स्तम्भे वातवेगादिहेतुभिः ॥ ५०० ॥
मूलदेशे तु विच्छिन्ने सध्वजे पतिते सति ।
अकृत्वा ध्वजविच्छेदं स्थापयेच्छेषमञ्जसा ॥ ५०१ ॥
स्नपनं चोत्तमं कुर्यात्चतुःस्थानार्चनादिकम् ।
गोभूहेमतिलादीनां दानं शक्त्या समाचरेत् ॥ ५०२ ॥
उत्सवध्वजभङ्गेन राज्याद्भ्रष्टो भवेन्नृपः ।
तस्मात्तत्परिहारार्थं त्वरया शान्तिमाचरेत् ॥ ५०३ ॥
हेतुभिर्वातवेगाद्यैर्ध्वजे निपतिते भुवि ।
क्षिप्रमुद्धृत्य तद्बद्ध्वा स्नपनं चाधमेन तु ॥ ५०४ ॥
शान्त्यर्थं जुहुयादाज्यं तिलेन शतसङ्ख्यया ।
ध्वजे निपतिते छिन्ने कुर्यात्स्नपनमुत्तमम् ॥ ५०५ ॥
पुनरन्यं समुत्पाद्य बध्नीयात्संस्कृतं तथा ।
अन्यथा यदि दोषः स्याद्राज्ञो राष्ट्रस्य मन्त्रिणः ॥ ५०६ ॥
ग्रामप्रदक्षिणे काले ध्वजे वातादिना भुवि ।
पतिते तदनु याने स्थाप्य नीत्वाऽऽलयं ततः ॥ ५०७ ॥
स्नाप्याधमाधमेनाथ शान्तिहोमं समाचरेत् ।
सकृन्नियुक्तस्तम्भादौ पुनश्चापि नियोजिते ॥ ५०८ ॥
अधमोत्तममार्गेण स्नपनं शान्तिमाचरेत् ।
विपरीतध्वजपटं बध्नयेद्यदि मोहतः ॥ ५०९ ॥
तं मोचयित्वा बद्ध्वाऽन्यमधमाधममार्गतः ।
स्नपनं शान्तिहोमं च कुर्याद्दोषापनुत्तये ॥ ५१० ॥
पक्षीशाधिष्ठिते कुम्भे नष्टे वा पतिते भुवि ।
स्पृष्टेऽस्पृश्यैस्तथा केशलोष्टास्थिशकृदादिभिः ॥ ५११ ॥
कुम्भेऽन्यस्मिन् समारोप्य तां शक्तिं कुम्भमध्यगाम् ।
हुत्वा मूलायुतं जप्त्वा शेषं कर्म समाचरेत् ॥ ५१२ ॥
ध्वजारोहणकाले तु अतिक्रान्ते द्विजोत्तमाः ।
शान्तिहोमं तु वा कुर्यात्सहस्रं जपमेव वा ॥ ५१३ ॥
ध्वजस्तम्भेऽग्निना किञ्चिद्दग्धे सन्धाय पूर्ववत् ।
शान्तिहोमं प्रकुर्वीत तद्दोषस्यापनुत्तये ॥ ५१४ ॥
स्तम्भस्य तु महादाहे छेदे भेदे तु वा द्विजाः ।
स्तम्भान्तरं प्रतिष्ठाप्य देवस्योत्तममार्गतः ॥ ५१५ ॥
स्नपनं शान्तिहोमं च कुर्याद्देशिकसत्तमः ।
ध्वजस्तम्भे तु चण्डालोदक्यादिस्पर्शदूषिते ॥ ५१६ ॥
तं त्यक्त्वाऽन्यं प्रतिष्ठाप्य प्राग्वच्छान्तिं समाचरेत् ।
सूतकाप्रेतकस्पृष्टे स्पृष्टे वा प्रतिलोमजैः ॥ ५१७ ॥
पञ्चगव्यैस्तु सम्प्रोक्ष्य शान्तिहोमं समाचरेत् ।
ध्वजस्तम्भे खगेशस्य पूजालोपे मुनीश्वराः ॥ ५१८ ॥
पूजालोपोदितं प्राग्वत्प्रायश्चित्तं समाचरेत् ।
देवतावाहनार्थं तु भेरीताडनकर्मणि ॥ ५१९ ॥
वाद्यजालेषु सर्वेषु मृदङ्गपणवादिषु ।
न स्थापितेषु स्वस्थाने तत्तत्पूजाविलोपने ॥ ५२० ॥
पुण्याहपाठराहित्ये जप्त्वा मनुसहस्रकम् ।
तत्तत्कुर्याद्यथाशास्त्रं भेरीताडनलोपने ॥ ५२१ ॥
अधमाधममार्गेण देवं स्नाप्य यथाविधि ।
पुनस्तत्ताडनं कुर्याच्छान्तिहोमपुरस्सरम् ॥ ५२२ ॥
भेरीताडनकाले तु कोणच्छेदे द्विजोत्तमाः ।
चर्मविच्छेदने चैव शान्तिहोमपुरस्सरम् ॥ ५२३ ॥
जप्त्वा गारुत्मतं मन्त्रं पुनरन्यं समाचरेत् ।
ताडयेद्विधिवद्भेरीं तथाऽऽवाहनगाथया ॥ ५२४ ॥
सगणेषु च भूतेषु सग्रहोत्कटादिषु ।
स्वासु दिक्षु यथान्यायमनाहूतेषु सत्सु च ॥ ५२५ ॥
द्वारावरणरथ्यासु ग्रामवास्तुष्वनुक्रमात् ।
बलिप्रदानहीने तु तथा तालस्वरादिषु ॥ ५२६ ॥
गेयनृत्तेषु हीनेषु शान्तिहोमपुरस्सरम् ।
प्रत्येकं देवतामन्त्रमष्टावर्तयेद्बुधः ॥ ५२७ ॥
पुनरापादयेत्सर्वं देवतावाहनादिकम् ।
आरम्भस्नपने हीने शान्तिहोमपुरस्सरम् ॥ ५२८ ॥
देवं संस्नापयेल्लुप्ते महाहविषि सत्तमाः ।
शान्तिहोमपुरस्कं तु द्विगुणं हविराचरेत् ॥ ५२९ ॥
द्वाःस्थानां यागगेहस्य पूजालोपे प्रमादतः ।
तत्तन्मन्त्रानष्टवारं जप्त्वा भूयः समर्चयेत् ॥ ५३० ॥
चतुःस्थानार्चनाहीने त्वेककालं द्विजोत्तमाः ।
शान्तिहोमपुरस्कं तु यजेद्द्विगुणवस्तुभिः ॥ ५३१ ॥
एकाहमर्चनाहीने चतुःस्थानस्थितस्य तु ।
अधमाधममार्गेण देवं स्नाप्य यथाविधि ॥ ५३२ ॥
शान्तिहोमपुरस्कं तु यजेद्द्विगुणवस्तुभिः ।
भेदे च्छेदे तु वा जाते महाकुम्भस्य सत्तमाः ॥ ५३३ ॥
तथा चास्पृश्यसंस्पर्शे तच्छक्तिं मण्डलावनौ ।
समावाह्य तु तत्कुम्भं त्यक्त्वाऽन्यस्मिन् सलक्षणे ॥ ५३४ ॥
कुम्भे प्राग्वत्समावाह्य यजेच्छान्तिं समाचरेत् ।
मण्डलेऽप्येवमादीनां दोषाणां सम्भवे द्विजाः ॥ ५३५ ॥
कुम्भे देवं समावाह्य प्राग्वत्सर्वं समाचरेत् ।
वल्मीकशिथिलीदुष्टे मण्डले तत्स्थदेवताः ॥ ५३६ ॥
कुम्भे विसृज्य तद्वेदीं खात्वाऽऽपूर्य च सैकतैः ।
पुनर्मण्डलमालिख्य प्राग्वत्तत्र समर्चयेत् ॥ ५३७ ॥
तद्दोषशान्तये देवमधमाधममार्गतः ।
संस्नाप्य शान्तिहोमं च कुर्याद्देशिकसत्तमः ॥ ५३८ ॥
ध्वजतोरणकुम्भानां कूर्चपल्लववाससाम् ।
प्रतिमाधान्यपीठादेर्लोपे शान्तिं समाचरेत् ॥ ५३९ ॥
अष्टोत्तरशतं जप्त्वा यथाशास्त्रं प्रकल्पयेत् ।
ध्वजतोरणपूर्वाणां पीठानामङ्गरूपिणाम् ॥ ५४० ॥
प्रपामण्डपपात्राणामन्येषां वा मुनीश्वराः ।
अग्निदाहे समुत्पन्ने पुनरुत्पाद्य तानपि ॥ ५४१ ॥
शान्तिहोमं प्रकुर्वीत मूलमन्त्रजपं तथा ।
प्रमादादुत्सवाग्नेस्तु नाशे जाते मुनीश्वराः ॥ ५४२ ॥
पुनरग्निं प्रतिष्ठाप्य देवमावाह्य पूर्ववत् ।
शान्तिहोमं प्रकुर्वीत शतब्राह्मणभोजनम् ॥ ५४३ ॥
यागशालाकुम्भदीपनिर्वाणे मुनिपुङ्गवाः ।
शान्तिहोमपुरस्कं तु दीपमुद्दीप्य पूर्ववत् ॥ ५४४ ॥
जपेदष्टोत्तरशतं नेत्रमन्त्रं द्विजोत्तमाः ।
चण्डालसूतिकोदक्यागर्दभश्वानसूकरैः ॥ ५४५ ॥
उष्ट्रादिभिः सूतकिभिस्तथैव प्रतिलोमजैः ।
प्रविष्टे यागगेहान्तः कुम्भमण्डलवह्निषु ॥ ५४६ ॥
स्थितान् देवान् स्वहृदये समावाह्य यथाविधि ।
कुम्भमण्डलवह्न्यादीन् त्यक्त्वा लोहमयानि चेत् ॥ ५४७ ॥
पात्राणि तानि संशोध्य मार्जनोल्लेखनादिभिः ।
यागगेहं शोधयित्वा सेचयेत्पञ्चगव्यकैः ॥ ५४८ ॥
पुनः कुम्भादिकान् स्थाप्य हृदयस्थास्तु देवताः ।
यथापूर्वं समावाह्य शान्तिहोमं समाचरेत् ॥ ५४९ ॥
मूलमन्त्रायुतं जप्त्वा भोजयेद्ब्राह्मणान् शतम् ।
प्रतिरात्रं बलिद्रव्यव्यत्यासे सर्पिषा शतम् ॥ ५५० ॥
हुत्वाऽग्नौ मूलमन्त्रेण जपेदष्टोत्तरं शतम् ।
काले तस्मिन् बलिं दद्यात्काले प्राप्तेऽञ्जसा ॥ ५५१ ॥
व्यत्यासे बलिदेवानां जपो होमश्च तादृशः ।
अस्वतन्त्रालये ग्रामबलिदानेऽकृते द्विजाः ॥ ५५२ ॥
शान्तिहोमं प्रकुर्वीत तद्दोषस्य प्रशान्तये ।
सायं प्रातस्तु कर्तव्यमुत्सवेषु बलिद्वयम् ॥ ५५३ ॥
तन्न्यूनाधिक्यदोषे तु अधमोत्तममार्गतः ।
संस्नाप्य देवं विधिवत् शान्तिहोमं समाचरेत् ॥ ५५४ ॥
बिम्बाधिष्ठितयानस्य पतने भुवि सत्तमाः ।
उद्धृत्योत्सवशेषं तु कृत्वा नवघटैर्विभुम् ॥ ५५५ ॥
संस्नाप्य शान्तिहोमं च कुर्याद्देशिकसत्तमः ।
अधिष्ठितेषु बिम्बेन यानेषु पतनादिना ॥ ५५६ ॥
भिन्नेष्वपि च वाहेषु प्रमादाद्यत्र कुत्रचित् ।
यानान्तरे समारोप्य वाहने वाऽथ कौतुकम् ॥ ५५७ ॥
शान्तिहोमं पुरा कृत्वा जपेन्मूलसहस्रकम् ।
गोभूहेमादिकं दद्याद्वैष्णवेभ्यो गुरोरपि ॥ ५५८ ॥
यानाद्वा वाहनाद्वापि बिम्बे तु पतिते सति ।
उत्तमं स्नपनं कृत्वा शान्तिहोमं समाचरेत् ॥ ५५९ ॥
यानमारोप्य तद्बिम्बं पुनरुत्सवमाचरेत् ।
तथैव च क्षतं बिम्बं समाधाय यथापुरम् ॥ ५६० ॥
कृत्वा सम्प्रोक्षणं पश्चादुत्सवशेषमाचरेत् ।
समाधौ दीर्घकालीने कुर्याच्छोभार्थकौतुके ॥ ५६१ ॥
शेषकर्म महार्चायां निवृत्ते सन्धिकर्मणि ।
पूर्ववत्तां प्रतिष्ठाप्य यथावच्छान्तिमाचरेत् ॥ ५६२ ॥
बिम्बेनाधिष्ठिते याने व्यूढेऽस्पृश्यजनैस्तदा ।
यानादीन् क्षालयेद्देवमधमाधममार्गतः ॥ ५६३ ॥
स्नापयेत्केवलं याने व्यूढे तैः शुद्धवारिणा ।
सङ्क्षाल्य यानं विधिवत्प्रोक्षयेत्पञ्चगव्यकैः ॥ ५६४ ॥
देवस्योत्सवकाले तु जातायां दीपनिर्वृतौ ।
पतने वापि दीपस्य मूलमन्त्रेण मन्त्रवित् ॥ ५६५ ॥
अष्टोत्तरसहस्रं तु हुत्वा तत्सङ्ख्यया जपेत् ।
छत्रचामरपूर्वाणां पतने तु शतं जपेत् ॥ ५६६ ॥
वह्निदाहे समुत्पन्ने पुनरुत्पाद्य तानपि ।
सजपं शान्तिहोमं तु कुर्यादष्टोत्तरं शतम् ॥ ५६७ ॥
देवस्योत्सवकाले तु ग्रामे मरणसम्भवे ।
पश्चाद्ग्रामं तु सम्प्रोक्ष्य अधमाधममार्गतः ॥ ५६८ ॥
देवं संस्नापयेत्पश्चाच्छान्तिहोमं समाचरेत् ।
देवस्योत्सवकाले तु ग्रामादौ वह्निदाहतः ॥ ५६९ ॥
दूषिते पञ्चगव्यैस्तु प्रोक्ष्य ग्रामादिकं बुधः ।
शान्तिहोमं च कृत्वाथ पुनरुत्सवमाचरेत् ॥ ५७० ॥
ग्रामादावग्निना दग्धे वात्यासारादिदूषिते ।
शान्तिहोमं पुरा कृत्वा पश्चादुत्सवमाचरेत् ॥ ५७१ ॥
अन्यथा चोत्सवे कृते त्वधमोत्तममार्गतः ।
देवं संस्नाप्य विधिवच्छान्तिहोमं समाचरेत् ॥ ५७२ ॥
शून्येषु ग्रामनगरपत्तनादिषु चोत्सवम् ।
बलिदानं न कुर्वीत कृते तत्रापि निष्फलम् ॥ ५७३ ॥
धामन्येवोत्सवं कुर्याद्बलिदानं च देशिकः ।
अन्यथा करणे देवमुत्तमोत्तममार्गतः ॥ ५७४ ॥
संस्नाप्य शान्तिहोमं च कुर्यात्तद्दोषशान्तये ।
समाहिते तु ग्रामादौ ग्रामशान्तिपुरस्सरम् ॥ ५७५ ॥
पुनरप्युत्सवं कुर्याद्ब्राह्मणानामनुज्ञया ।
रिपुचोराग्निवृष्ट्यादिभयात्कस्मिंश्चिदुत्सवे ॥ ५७६ ॥
विघ्निते मुनिशार्दूलाः केवलं बलिमाचरेत् ।
अतिक्रान्तोत्सवं कुर्यादन्येद्युः शान्तिपूर्वकम् ॥ ५७७ ॥
विघ्निते बलिदानेऽपि ह्यन्येद्युरधमोत्तमम् ।
स्नपनं शान्तिहोमं च कृत्वाऽतिक्रान्तमुत्सवम् ॥ ५७८ ॥
बलिदानं च कुर्वीत द्विदिनं त्रिदिनं तु वा ।
चतुःपञ्चदिनं वापि उत्सवे विघ्निते सति ॥ ५७९ ॥
तत्तद्दोषानुरूपेण प्रायश्चित्तं विधाय च ।
अतिक्रान्तोत्सवान् कुर्याद्बलिदानानि च क्रमात् ॥ ५८० ॥
देवस्योत्सवकाले तु महावातेस्तथाऽऽतपैः ।
पांसुभिर्वर्षनीहारैः स्पृष्टे बिम्बेऽधमोत्तमम् ॥ ५८१ ॥
स्नपनं शान्तिहोमं च कुर्यात्तद्दोषशान्तये ।
बिम्बे चोरादिभिर्नष्टे वर्तमाने महोत्सवे ॥ ५८२ ॥
बिम्बान्तरं समापाद्य प्रतिष्ठाप्य यथापुरम् ।
महाभिषेकं हवनं जपं चैव यथाविधि ॥ ५८३ ॥
कुर्यादुत्सवशेषं तु कर्मार्चादिषु नाचरेत् ।
रथस्य यात्राकाले तु चक्रच्छेदेऽक्षभेदने ॥ ५८४ ॥
रज्जुच्छेदेऽपि वाऽन्यं संयोज्य च यथापुरम् ।
यात्रान्ते शान्तिहोमं तु कुर्यात्तद्दोषशान्तये ॥ ५८५ ॥
शिखाकुम्भस्य पतने सारथेः पतने तु वा ।
पुनर्यथापुरं स्थाप्य कृत्वा पुण्याहवाचनम् ॥ ५८६ ॥
रथं सम्प्रोक्ष्य यात्रान्ते शान्तिहोमं समाचरेत् ।
रथोपरि त्वयोग्यानामारोहे पञ्चगव्यकैः ॥ ५८७ ॥
रथं सम्प्रोक्ष्य यात्रान्ते त्वधमाधममार्गतः ।
स्नापयेद्देवदेवेशं रथे वै किञ्चिदग्निना ॥ ५८८ ॥
दग्धे पुनर्नवीकृत्य सेचयेत्पञ्चगव्यकैः ।
यात्रान्ते स्नपनं कुर्यादधमोत्तमसंज्ञकम् ॥ ५८९ ॥
रथस्य तु महादाहे रथाद्देवं खगोपरि ।
समारोप्याऽऽलयं नीत्वा उत्तमोत्तममार्गतः ॥ ५९० ॥
स्नपनं शान्तिहोमं च कुर्याद्ब्राह्मणभोजनम् ।
रथाद्बिम्बस्य पतने रथोपरि खगे तु वा ॥ ५९१ ॥
पुनर्देवं समारोप्य नीत्वा वै मन्दिरं ततः ।
उत्तमोत्तममार्गेण स्नपनं हवनं तथा ॥ ५९२ ॥
मूलमन्त्रायुतजपं कृत्वा गोभूतिलादिकम् ।
दत्त्वा तद्दोषशान्त्यर्थं सहस्रं भोजयेद्द्विजान् ॥ ५९३ ॥
सबिम्बस्य रथस्यैव पतने प्राग्वदाचरेत् ।
प्रायश्चित्तं द्विजश्रेष्ठाः रथभङ्गे तु तं पुनः ॥ ५९४ ॥
सन्धायोत्सवशेषं तु कृत्वा शान्त्यै हुनेद्गुरुः ।
असन्धेये रथे देवमारोप्य च खगोपरि ॥ ५९५ ॥
नीत्वाऽऽलयं तत्र देवमधमोत्तममार्गतः ।
संस्नाप्य शान्तिहोमादि कुर्याद्दोषशान्तये ॥ ५९६ ॥
रथचक्रादिघातैस्तु मनुष्यमरणे सति ।
शवं बहिर्विनिष्कास्य तद्देशखननादिकम् ॥ ५९७ ॥
पञ्चशुद्धिं क्रमात्कृत्वा यात्रान्ते त्वधमोत्तमम् ।
स्नपनं शान्तिहोमं च कुर्याद्ब्राह्मणभोजनम् ॥ ५९८ ॥
चक्रघातादिना तिर्यङ्मरणे प्राग्वदाचरेत् ।
भूमिशुद्ध्यादिकं सर्वं स्नपनं त्वधमाधमम् ॥ ५९९ ॥
यात्राकाले तथाऽन्योन्यविरोधादायुधादिना ।
रथान्तिके जनमृतौ प्राग्वन्निष्कृतिः स्मृता ॥ ६०० ॥
तद्रक्ताद्यै रथस्पृष्टे रथं सङ्क्षाल्य वारिभिः ।
पञ्चगव्येन सम्प्रोक्ष्य यात्रान्ते त्वधमाधमम् ॥ ६०१ ॥
स्नपनं शान्तिहोमं च कुर्याद्देशिकसत्तमः ।
रथोत्सवस्य काले तु तद्ग्रामे यत्र कुत्र वा ॥ ६०२ ॥
मरणे ब्राह्मणादीनां तच्छवं ग्रामतो बहिः ।
निष्कास्य ग्रामवीथीस्तु मार्जनोल्लेखनादिभिः ॥ ६०३ ॥
संशोध्य पञ्चगव्येन प्रोक्ष्य यात्रां समाचरेत् ।
ततोऽधमाधमं स्नानं शान्तिहोमं समाचरेत् ॥ ६०४ ॥
एकद्वित्रिदिनान्ते तु रथे स्वस्थाने संस्थिते ।
अधमोत्तममार्गेण स्नपनं हवनं तथा ॥ ६०५ ॥
कृत्वा ततस्त्वतिक्रान्तमुत्सवं बलिमाचरेत् ।
तथा तीर्थदिने वापि ह्यप्रविष्टे रथे स्थलम् ॥ ६०६ ॥
अवरोप्य रथाद्देवं समारोप्य खगेश्वरे ।
ग्रामप्रदक्षिणं नीत्वा उत्तमोत्तममार्गतः ॥ ६०७ ॥
स्नपनं शान्तिहोमं च कृत्वाऽतिक्रान्तमुत्सवम् ।
बलिदानं च कुर्वीत ततस्तीर्थादिकं चरेत् ॥ ६०८ ॥
एकद्वित्रिदिनान्तं तु रथारोहे तु विघ्निते ।
अधमोत्तममार्गेण स्नपनं हवनं तथा ॥ ६०९ ॥
द्विजानां भोजनं कृत्वा सद्यः कुर्याद्रथोत्सवम् ।
एकद्वित्रिचतुर्वर्षे विघ्निते तु रथोत्सवे ॥ ६१० ॥
उत्तमस्नपनं होमं सहस्रद्विजभोजनम् ।
गोभूदानादिकं कृत्वा रथप्रोक्षणमाचरेत् ॥ ६११ ॥
रथस्था देवताः पूज्य खगेशमनुना ततः ।
अष्टोत्तरशतं हुत्वा तिलैराज्यैश्च तण्डुलैः ॥ ६१२ ॥
रथस्थदेवतामन्त्रैः पृथगष्टाहुतीर्हुनेत् ।
एवं कृत्वाऽथ देवस्य रथयात्रां समाचरेत् ॥ ६१३ ॥
महोत्सवाङ्गभूते तु वसन्तोत्सवकर्मणि ।
डोलोत्सवे च मृगयोत्सवे च मुनीश्वराः ॥ ६१४ ॥
युद्धारम्भे च देवीभ्यां तथा चूर्णाभिषेचने ।
लुप्ते कुर्यात् शान्तिहोमं तत्तद्दोषप्रशान्तये ॥ ६१५ ॥
मुहूर्तातिक्रमेऽप्येवमुत्सवे सर्वकर्मणाम् ।
शान्तिहोमं प्रकुर्वीत अष्टोत्तरशतं तथा ॥ ६१६ ॥
दिवारात्र्युत्सवं कुर्यादासूर्यास्तमयोदयात् ।
कालयोर्विपरीतश्चेदधमस्नपनं चरेत् ॥ ६१७ ॥
तीर्थयात्रा प्रकर्तव्या सूर्यस्यास्तमयात्पुरा ।
पूर्वभागे रजन्यां वा कुर्यात्स्वव्यक्तदिव्ययोः ॥ ६१८ ॥
उत्तमस्नपनं कुर्यात्तीर्थकालविपर्यये ।
भ्रष्टायां तीर्थयात्रायामवरोप्य खगध्वजम् ॥ ६१९ ॥
पूर्ववद्ध्वजमुत्थाप्य कुर्यात्तीर्थार्थमुत्सवम् ।
कुम्भप्रोक्षणलोपे तु स्नपनं मध्यमोत्तमम् ॥ ६२० ॥
महोत्सवान्ते स्नपने न कृते स्नापयेत्ततः ।
उत्तमोत्तममार्गेण शान्त्यर्थं जुहुयात्ततः ॥ ६२१ ॥
निशायां सर्वशान्त्यर्थी पुष्ट्यर्थी मध्यमे दिने ।
आप्यायनार्थी पूर्वाह्णे धर्मार्थी मध्यतो निशि ॥ ६२२ ॥
तथा रिपुक्षयार्थी च पुष्पयागं समाचरेत् ।
न तु पर्युषितैः पुष्पैः परिम्लानैस्तथाऽर्चयेत् ॥ ६२३ ॥
तद्दोषशान्तये कुर्यात्स्नपनं त्वधमाधमम् ।
न कृते पुष्पयागेऽस्मिन् कुर्यात्स्नपनमुत्तमम् ॥ ६२४ ॥
तद्रात्रौ ध्वजदण्डाग्रादवरोप्य खगध्वजम् ।
ग्रामादिवास्तुनिष्ठानां बलिं दत्त्वा विसर्जयेत् ॥ ६२५ ॥
उत्सवान्ते ध्वजे नष्टे पुरस्तादवरोहणात् ।
प्राग्वद्ध्वजं समुत्थाप्य पुनरेवावरोहयेत् ॥ ६२६ ॥
तीर्थान्ते पञ्चदिवसादूर्ध्वं चाप्यवरोहणे ।
ध्वजस्य न कृते कुर्यात्स्नपनं मध्यमोत्तमम् ॥ ६२७ ॥
अवरोप्य ध्वजं पश्चाद्देवतास्तु विसर्जयेत् ।
उद्वासनबलिलोपे शान्तिहोमपुरस्सरम् ॥ ६२८ ॥
द्विगुणं तु बलिं दत्त्वा देवतोद्वासनं चरेत् ।
आचार्यदक्षिणाहीने निष्फलः स्यात्स उत्सवः ॥ ६२९ ॥
आचार्यदक्षिणाहीनमृत्विजां च तथैव च ।
यत्कर्म क्रियते सर्वमभिचाराय कल्पते ॥ ६३० ॥
तच्छान्त्यै शान्तिहोमं तु कारयेद्गुरुणा ततः ।
प्रणम्य दण्डवद्भूमौ यजमानः स्वयं गुरोः ॥ ६३१ ॥
सन्तोषं कारयेद्धीमान् वस्त्रहेमाङ्गुलीयकैः ।
दक्षिणां द्विगुणां दद्यात्तेन शान्तिर्भविष्यति ॥ ६३२ ॥
द्विजभोजनलोपेऽपि ह्येवं शान्तिं समाचरेत् ।
अतुष्टेषु ब्राह्मणेषु न प्रीणाति हरिः सदा ॥ ६३३ ॥
यत्र विप्रास्तु सन्तुष्टास्तत्र देवः प्रसीदति ।
ततस्तद्दोषशान्त्यर्थं द्विगुणं भोजयेद्द्विजान् ॥ ६३४ ॥
दैवाद्वा मानुषाद्धेतो राष्ट्रक्षोभादिनापि वा ।
एकद्वित्रिदिनं विप्रा अनारब्धे महोत्सवे ॥ ६३५ ॥
ब्राह्मणान् समनुज्ञाप्य देवेशस्याधमोत्तमम् ।
स्नपनं शान्तिहोमं च कृत्वा ब्राह्मणभोजनम् ॥ ६३६ ॥
अङ्कुरार्पणपूर्वं तु द्रव्यैर्द्विगुणितैस्ततः ।
अतिक्रान्तोत्सवान् कृत्वा क्रमप्राप्तमथाचरेत् ॥ ६३७ ॥
चतुःपञ्चदिनं विघ्ने स्नपनं मध्यमोत्तमम् ।
कुर्यात्तद्दोषशान्त्यर्थं सर्वं पूर्ववदाचरेत् ॥ ६३८ ॥
षट्सप्तदिनपर्यन्तमनारब्धे तु चोत्सवे ।
उत्तमोत्तममार्गेण स्नानमन्यत्तु पूर्ववत् ॥ ६३९ ॥
तथाऽष्टदिनपर्यन्तमनारब्धे महोत्सवे ।
सहस्रकलशैर्देवं स्नाप्य प्राग्वदाचरेत् ॥ ६४० ॥
यद्वा तीर्थदिने विप्रा आरभ्यः पुनरुत्सवः ।
तथा तीर्थदिने चापि ह्यतिक्रान्ते द्विजोत्तमाः ॥ ६४१ ॥
तदनन्तरमासस्थतीर्थर्क्षवशेन तु ।
पुनरप्युत्सवं कुर्यात्सर्वदोषप्रशान्तये ॥ ६४२ ॥
तस्मिन् मासेऽप्यतिक्रान्ते मासि स्यात्तदनन्तरे ।
एवं संवत्सरान्तं स्यादतिक्रान्तेऽपि वत्सरे ॥ ६४३ ॥
सहस्रकलशस्नानं शान्तिहोमोऽयुतं जपः ।
सहस्रब्राह्मणानां च भोजनं कारयेद्द्विजाः ॥ ६४४ ॥
तेनैव शान्तिर्भवति न गतोत्सवमाचरेत् ।
नवाहोत्सवपूर्वेषु पूर्वं यावद्दिनोत्सवम् ॥ ६४५ ॥
सङ्कल्पितं तथैव स्यात्प्रतिसंवत्सरं द्विजाः ।
तावन्न्यूनाधिकदिनं नोत्सवं परिकल्पयेत् ॥ ६४६ ॥
अमत्या यदि कुर्वीत पुनरुत्सवमाचरेत् ।
वैशेषिकेषु प्राप्तेषु वर्तमाने महोत्सवे ॥ ६४७ ॥
द्वादश्यादिषु तत्सर्वं यथान्यायं समाचरेत् ।
न लोपयेत्प्रयत्नेन प्राप्तं वैशेषिकं सुधीः ॥ ६४८ ॥
जपेदस्त्रायुतं मन्त्री त्वकृतेषु च शान्तये ।
एवमादिषु चान्येषु दोषेषु मुनिसत्तमाः ॥ ६४९ ॥
उत्सवाग्नौ यथाशास्त्रं शान्तिहोमं समाचरेत् ।
पर्वोत्सवेषु लुप्तेषु स्नपनं त्वधमाधमम् ॥ ६५० ॥
हविर्निवेदनं चापि विशेषेण समाचरेत् ।
श्रवणोत्सवे लुप्ते स्नपनं त्वधमोत्तमम् ॥ ६५१ ॥
लुप्ते तु कृत्तिकादीपे तदनन्तरमासि वा ।
कुर्वीत वह्निनक्षत्रे स्नपनं त्वधमोत्तमम् ॥ ६५२ ॥
दीपोत्सवं प्रकुर्वीत शान्तिहोमपुरस्सरम् ।
अन्येष्वप्युत्सवेष्वेवं लुप्तेषु मुनिपुङ्गवाः ॥ ६५३ ॥
तदनन्तरमासे वा तत्तदुत्सववासरे ।
आचरेदुत्सवं प्राग्वत्स्नानहोमपुरस्सरम् ॥ ६५४ ॥
प्रायश्चित्तमथो वक्ष्ये पवित्रारोपणे द्विजाः ।
अप्रमाणे पवित्रे तु अस्त्रमन्त्रायुतं जपेत् ॥ ६५५ ॥
अतीत उक्तकाले तु चातुर्मास्यस्य मध्यतः ।
मध्यमं स्नपनं कृत्वा कालेऽन्यस्मिंस्तदाचरेत् ॥ ६५६ ॥
पवित्रे केशपाषाणचर्माङ्गारनखादिभिः ।
दूषिते वाऽग्निना दग्धे छिन्ने दष्टेऽतिभक्षिते ॥ ६५७ ॥
मूषिकाद्यैश्च काकाद्यैः स्पृष्टे त्यक्त्वा तु तत्पुनः ।
सूत्रैस्तथाविधं कृत्वा विधिवच्चाधिवासयेत् ॥ ६५८ ॥
एवं दुष्टपवित्राणां मोहादारोपणे कृते ।
तत्परित्यज्य देवेशमधमोत्तममार्गतः ॥ ६५९ ॥
संस्नाप्य हुत्वा शान्त्यर्थं दद्याच्छुद्धपवित्रकम् ।
अक्रमेण तु देवस्य पवित्रारोपणे कृते ॥ ६६० ॥
शान्तिहोमं तदा कृत्वा सहस्रं जपमाचरेत् ।
मुहूर्ते समतिक्रान्ते शुद्धे यजनविस्तरात् ॥ ६६१ ॥
तदन्यस्मिन् विभोर्दद्यात्पवित्रं शान्तिपूर्वकम् ।
पावित्रिकी तीर्थयात्रा न कृता चेन्मुनीश्वराः ॥ ६६२ ॥
उत्तमं स्नपनं कृत्वा पुनरुत्सवमाचरेत् ।
पवित्रे देवदेवस्य अयोग्यानां नियोजिते ॥ ६६३ ॥
शान्तिहोमं तदा कृत्वा सहस्रं जपमाचरेत् ।
चातुर्मास्ये तु देवस्य कुर्वीत शयनोत्सवम् ॥ ६६४ ॥
तद्व्यत्यये विलोपे च चतुःस्थानार्चनादिकम् ।
जप्त्वा मूलायुतं मन्त्री शान्त्यर्थं जुहुयात्तथा ॥ ६६५ ॥
कलशस्नापनार्थं चेन्न कुर्यादङ्कुरार्पणम् ।
तथा प्रतिसरबन्धं मूलमन्त्रायुतं जपेत् ॥ ६६६ ॥
पुरस्तादङ्कुरानर्च्य बद्ध्वा बिम्बे तु कौतुकम् ।
अमत्या वा समत्या वा स्नपनं नाचरेद्यदि ॥ ६६७ ॥
शान्तिहोमं पुरा कृत्वा जपेदष्टाक्षरायुतम् ।
कौतुकाङ्कुरपूर्वं तु पुनरेवाभिषेचयेत् ॥ ६६८ ॥
अकृत्वाङ्कुरयागं तु तथा कौतुकबन्धनम् ।
स्नापितो यदि देवेशः स्नपनं निष्फलं भवेत् ॥ ६६९ ॥
विधिवच्चाङ्कुरावापं कृत्वा कौतुकबन्धनम् ।
स्नापयेद्विधिवन्मन्त्री शान्तिहोमपुरस्सरम् ॥ ६७० ॥
सङ्कल्पिते तु स्नपने त्वकृते द्विगुणं चरेत् ।
नासादितैर्द्रव्यहीनैः स्नापितेऽप्येवमाचरेत् ॥ ६७१ ॥
स्थापितेष्वथ कुम्भेषु हीनेषु स्थाप्य पूर्ववत् ।
जपेत्कलशदैवत्यं मन्त्रमष्टोत्तरं शतम् ॥ ६७२ ॥
समुद्धृतेषु कुम्भेषु रिक्तेषु सुषिरादिना ।
प्राग्वदन्यं प्रतिष्ठाप्य जपेदष्टोत्तरं शतम् ॥ ६७३ ॥
मार्जालमूषिकाद्यैस्तु स्पृष्टे वा लङ्घिते घटे ।
केशास्थिलोष्टसंस्पृष्टे भेदच्छेदादिदूषिते ॥ ६७४ ॥
पिपीलिकादेर्गव्यादौ पतने सूत्रवस्त्रयोः ।
अग्निदाहे तथा कुम्भे कालमण्डलदूषिते ॥ ६७५ ॥
तं तं कुम्भं परित्यज्य स्थाप्य कुम्भान्तरं पुनः ।
सम्पूज्य कुम्भदैवत्यं मन्त्रमष्टोत्तरं जपेत् ॥ ६७६ ॥
स्थापिते स्नानकलशे श्वानकुक्कुटवायसैः ।
अस्पृश्यैश्चापि संस्पृष्टे उदक्यासूतिकादिभिः ॥ ६७७ ॥
चण्डालैर्वा सन्निकृष्टे स्पृष्टे सूतकिभिर्नरैः ।
सर्वान् कुम्भान् परित्यज्य शुद्धान् संस्थाप्य पूर्ववत् ॥ ६७८ ॥
पुण्याहपूर्वकं चेष्ट्वा जप्त्वा मूलसहस्रकम् ।
मन्त्रं कलशदैवत्यमष्टवारं जपेत्पृथक् ॥ ६७९ ॥
दुष्टैः संस्नापिते देवे पुनरप्यभिषेचयेत् ।
माहिषाजोष्ट्रसम्भूतदधिक्षीरघृतादिभिः ॥ ६८० ॥
मासातीतघृतैर्वापि पयोभिर्दधिसंयुतैः ।
क्षीरयुक्तैश्च दधिभिर्गुडमिश्रैश्च माक्षिकैः ॥ ६८१ ॥
अन्यैश्च सङ्करद्रव्यैस्तथा पर्युषितोदकैः ।
अगालितैश्च सलिलैस्तथा वै पल्वलोदकैः ॥ ६८२ ॥
संस्नापिते तु देवेशे पुनरप्यभिषेचयेत् ।
शान्तिहोमं च कुर्वीत तत्तद्दोषप्रशान्तये ॥ ६८३ ॥
अधिवासितकुम्भस्थतोयानां पूर्वमेव तु ।
न पर्युषितदोषोऽस्ति अधिवासैस्तथार्चनैः ॥ ६८४ ॥
अनर्चने च कुम्भानामक्रमेण समर्चने ।
अक्रमेण समुद्धारे स्थापने द्रव्ययोजने ॥ ६८५ ॥
द्रव्ये न्यूनेऽधिके वापि शरावे कलशे तथा ।
कूर्चे वस्त्रे तथा कोष्ठे पीठादौ तोरणादिके ॥ ६८६ ॥
प्रमाणरहिते धान्यपीठाभावे मुनीश्वराः ।
सूत्रवस्त्राद्यभावे च शतवारं जपेन्मनुम् ॥ ६८७ ॥
गेयमङ्गलवादित्रस्तोत्रनृत्तादिभिर्विना ।
वीणावेणुनिनादैश्च तथा पुण्याहवाचनैः ॥ ६८८ ॥
विनाभिषेचने मूलमष्टोत्तरशतं जपेत् ।
मोक्षार्थी स्नापयेद्देवं सर्वकालं यथाविधि ॥ ६८९ ॥
रिपूणां निग्रहार्थी तु दिवा कुर्यात्तु सर्वदा ।
स्वर्गकामस्तु पूर्वाह्णे धर्मार्थी दिनमध्यमे ॥ ६९० ॥
दिनान्ते सर्वभोगार्थी प्रायश्चित्तेषु सर्वदा ।
चन्द्रसूर्योपरागे च तत्काले स्नापयेत्प्रभुम् ॥ ६९१ ॥
सङ्क्रान्तिषु च सूर्यस्य प्राग्वत्पश्चात्तथैव च ।
सङ्क्रान्तिकाला विज्ञेया नाड्यः षोडश षोडश ॥ ६९२ ॥
तदानीं स्नापयेद्देवमतिक्रान्ते हुनेन्मनुम् ।
सहस्रकृत्वस्तदनु तत्समं जपमाचरेत् ॥ ६९३ ॥
बद्धप्रतिसरे बिम्बे स्नपनार्थं तु मन्त्रिणा ।
सम्प्राप्ते स्नपनेऽन्यस्मिन् प्रायश्चित्तनिमित्ततः ॥ ६९४ ॥
तदर्थं कौतुकं बद्ध्वा स्नानकर्म समाप्य च ।
पूर्वारब्धं प्रकुर्वीत प्रायश्चित्तादनन्तरम् ॥ ६९५ ॥
अन्यत्तु क्रमशः कुर्यात्पूर्वारब्धं समाप्य च ।
अन्यथा चेदिदं कर्म निष्फलं भवति द्विजाः ॥ ६९६ ॥
तद्दोषपरिहारार्थं शान्तिहोमो जपस्तथा ।
सहस्रसङ्ख्यया युक्तो मूलमन्त्रेण मन्त्रवित् ॥ ६९७ ॥
विनाऽवभृथकालं तु देवमालयतो बहिः ।
स्नापयेद्यदि सम्मोहाच्छान्तिहोमं समाचरेत् ॥ ६९८ ॥
बहुबेरेऽभिषेकार्चां तां गृहीत्वाऽग्रमण्डपात् ।
न गच्छेद्बहतो मन्त्री स्नपनार्थे बहिर्गते ॥ ६९९ ॥
शान्तिहोमं प्रकुर्वीत तस्य दोषस्य शान्तये ।
बिम्बेऽभिषिच्यमाने तु पतिते स्नानविष्टरात् ॥ ७०० ॥
प्रतिष्ठास्नपनं कृत्वा शान्तिहोमं समाचरेत् ।
स्नानकाले विशेषेण बिम्बस्य चलने द्विजाः ॥ ७०१ ॥
चलने स्नानवेद्याश्च शान्तिहोमं समाचरेत् ।
प्रभापीठास्त्रवस्त्राङ्गभेदभङ्गादिदूषिते ॥ ७०२ ॥
तत्तद्बिम्बगतां शक्तिं नियोज्य धृतकौतुके ।
सन्धानं शिल्पिभिः कृत्वा सुसंस्कृत्य तदेव तु ॥ ७०३ ॥
शेषकर्मणि निवृत्ते स्नापयेदुत्तमक्रमात् ।
तिलेन चरुणाऽऽज्येन प्रत्येकञ्च सहस्रशः ॥ ७०४ ॥
जुहुयान्मूलमन्त्रेण तेन शान्तिर्भविष्यति ।
तदा न घटितुं शक्तिर्यदि स्यात्कालगौरवात् ॥ ७०५ ॥
शोभार्थबिम्बे पुरतः स्थापिते शेषमाचरेत् ।
एवमुत्सवतीर्थार्थशयनादिषु मूर्तिषु ॥ ७०६ ॥
तत्तदङ्गादिसन्धानं स्थापनं योजनं पुनः ।
क्ष्मापरिग्रहकाले तु दुर्निमित्तोदये द्विजाः ॥ ७०७ ॥
शान्तिहोमं पुरा कृत्वा सहस्रं जपमाचरेत् ।
तथैव क्षेत्रमानार्थं सूत्रं यत्संप्रसारितम् ॥ ७०८ ॥
विच्छेदे तस्य सूत्रस्य शङ्कूनां वा विदारणे ।
भूतानां बलिकाले तु पतिते बलिपात्रके ॥ ७०९ ॥
भूतले खन्यमाने तु भस्माङ्गारतुषादिके ।
क्रिमिकीटादिके वापि दृष्टे तच्छान्तये द्विजाः ॥ ७१० ॥
नारसिंहेन मन्त्रेण तिलैराज्यैः सहस्रशः ।
हुनेदाचार्यवरणमकृत्वा क्ष्मापरिग्रहम् ॥ ७११ ॥
मन्दिरे निर्मिते विप्रा ब्राह्मणानामनुज्ञया ।
शान्तिहोमपुरस्कन्तु क्ष्मापरिग्रहमाचरेत् ॥ ७१२ ॥
बालस्थानमकृत्वैव मन्दिरे निर्मिते द्विजाः ।
मूलार्चास्थापनात्पूर्वं यजमानान्वितो गुरुः ॥ ७१३ ॥
रविमण्डलमध्यस्थं देवं सम्पूज्य भक्तितः ।
ओंनमः पुण्डरीकाक्ष भक्तानुग्रहकारक ॥ ७१४ ॥
क्षन्तुमर्हसि देवेश यन्मयाप्यकृतं कृतम् ।
इति प्रणम्य देवेशं वासस्थानं यथाविधि ॥ ७१५ ॥
निर्माय तत्र देवं तु प्रतिष्ठाप्य समर्चयेत् ।
खातप्रदेशे प्रासादभूमध्ये मुनिसत्तमाः ॥ ७१६ ॥
विना प्रासादनिर्माणे कुम्भसंस्थापनादिकम् ।
ब्राह्मणान् समनुज्ञाप्य खात्वा प्रासादमध्यतः ॥ ७१७ ॥
तत्र कुम्भस्थापनादि यथासम्भवमाचरेत् ।
शान्तिहोमं च कुर्वीत सर्वदोषप्रशान्तये ॥ ७१८ ॥
गर्भन्यासेऽपि न कृते तथा गर्भं च विन्यसेत् ।
आयशुद्ध्यादिहीने वा प्रासादे लक्षणोज्झिते ॥ ७१९ ॥
यथाशास्त्रं पुनः कृत्वा शान्तिहोमं समाचरेत् ।
न स्थापिते शिखाकुम्भे प्रासादे चाप्रतिष्ठिते ॥ ७२० ॥
तत्तत्कर्म पुनः कृत्वा कुर्याच्छान्तिहोमपुरस्सरम् ।
प्राकारमण्डपादीनां गोपुरादेस्तथा द्विजाः ॥ ७२१ ॥
अकृते स्थापने शान्तिपूर्वं तत्तत्समाचरेत् ।
दारुलोहशिलादीनां संग्रहावसरे द्विजाः ॥ ७२२ ॥
दुर्निमित्तोदये चैव तथा दुःस्वप्नदर्शने ।
नारसिंहेन मन्त्रेण तिलाज्यैस्तु सहस्रशः ॥ ७२३ ॥
शान्तिहोमं प्रकुर्वीत सर्वदोषप्रशान्तये ।
दारुलोहशिलामृत्स्नावस्त्रादीनां परिग्रहे ॥ ७२४ ॥
तत्तदङ्गतयोदीर्णद्रव्यमन्त्रक्रियादिषु ।
परिच्युतेषु तत्कुर्याच्छान्तिहोमजपादिकम् ॥ ७२५ ॥
अकृते पर्वतादौ तु दार्वादीनां परिग्रहे ।
आनीतस्यालयक्षेत्रे शिल्पिभिः सत्क्रियां विना ॥ ७२६ ॥
यथावदाचरेद्विद्वानर्चाद्रव्यस्य सङ्ग्रहम् ।
विनैव सङ्ग्रहं कर्मबिम्बादौ निर्मिते सति ॥ ७२७ ॥
पश्चादपि च तत्कुर्याच्छान्तिहोमपुरस्सरम् ।
बिम्बपीठशिलादीनां मानोन्मानादिलक्षणे ॥ ७२८ ॥
रहिते शान्तिहोमं तु कुर्यात्तद्दोषशान्तये ।
बिम्बपीठशिलानां तु व्यत्यस्ते पुंशिलादिके ॥ ७२९ ॥
तत्तत् त्यक्त्वा पुनः कुर्याद्यथोक्तशिलया द्विजाः ।
निर्मिता प्रतिमा शीघ्रं स्वगृहे न निवेशिता ॥ ७३० ॥
राज्ञो राष्ट्रस्य तत्कर्तुरनिष्टमुपपादयेत् ।
एकविंशदिनादूर्ध्वमासुरी सा भवेद्ध्रुवम् ॥ ७३१ ॥
कृत्वा महाभिषेकाद्यं स्थापयेदन्यथा त्यजेत् ।
जलाधिवासे स्नपने तथा नयनमोक्षणे ॥ ७३२ ॥
शयने वेदिकायां च मन्त्रन्यासादिकर्मसु ।
कुम्भमण्डलपूजायां द्वारतोरणकुम्भयोः ॥ ७३३ ॥
होमे पीठादिसंस्कारे अकृते वान्यथा कृते ।
शान्तिहोमं प्रकुर्वीत सहस्राहुतिसंख्यया ॥ ७३४ ॥
मूलमन्त्रायुतजपं शतब्राह्मणभोजनम् ।
अस्थाने स्थापिते बिम्बे पादाधारशिलान्वितम् ॥ ७३५ ॥
तदानीमेव चोद्धृत्य स्थापयेत्तं स्वके पदे ।
उत्तमस्नपनं कृत्वा शान्तिहोमं समाचरेत् ॥ ७३६ ॥
न स्थापिते मुहूर्तेऽस्मिन् न तदा बिम्बमुद्धरेत् ।
पूर्ववत्स्नपने होमे कृते शान्तिर्भविष्यति ॥ ७३७ ॥
स्थापनेऽधिकृते मुख्ये देशिके व्याधिते सति ।
न्यस्तदेहेऽथवा मध्ये वर्तमाने क्रियाक्रमे ॥ ७३८ ॥
क्रियामन्त्रोपदेष्टा च प्रतिष्ठाकर्मणि स्थितः ।
पुत्रो वा देशिकेन्द्रस्य स्थापने शेषमाचरेत् ॥ ७३९ ॥
अन्ते सहस्रकलशैरभिषिच्य सुरेश्वरम् ।
चक्रांबुरुहकुण्डे तु मधुक्षीरादिभिः क्रमात् ॥ ७४० ॥
शान्त्यर्थं मधुना हुत्वा तत्संख्यं जपमाचरेत् ।
प्रतिष्ठाकर्मकालादावाचार्ययजमानयोः ॥ ७४१ ॥
ऋत्विगाचार्ययोर्वापि संजाते कलहे द्विजाः ।
कर्मनिष्फलतां याति शान्तिहोमं समाचरेत् ॥ ७४२ ॥
नमस्कृत्याभ्यर्च्य गुरुं क्षम्यतामिति चोच्चरेत् ।
दोषाणामेवमादीनां सम्भवेऽपि मुनीश्वराः ॥ ७४३ ॥
तत्तच्छान्तिं प्रकुर्वीत शान्तिहोमजपादिभिः ।
मुनयः ।
प्रायश्चित्तान्यशेषाणि श्रुतानि मुनिपुङ्गव ॥ ७४४ ॥
तत्र तत्र त्वया प्रोक्तं कर्म संप्रोक्षणाभिधम् ।
ग्रामशान्तिविधिश्चापि शान्तिहोमश्च भूयशः ॥ ७४५ ॥
तद्विधानादिकं सर्वं ज्ञातुमिच्छामहे मुने ।
नारदः ।
सम्प्रोक्षणविधानादीन् वक्ष्यामि मुनिसत्तमाः ॥ ७४६ ॥
शृणुष्वमधुना सर्वे सावधानेन चेतसा ।
बिम्बपीठविमानानां भग्नाङ्गे तु समाहिते ॥ ७४७ ॥
प्रतिमापीठयोरष्टबन्धने तु पुनः कृते ।
आशौचवद्भिर्मनुजैर्महापातकिभिर्नरैः ॥ ७४८ ॥
चण्डालोदक्यादिभिश्च म्लेच्छैर्वा पुल्कसादिभिः ।
देवबिम्बे तु संस्पृष्टे चण्डालश्वपचादिभिः ॥ ७४९ ॥
निरन्तरं त्वेकमासमालये समधिष्ठिते ।
चण्डालश्वपचादीनां प्रमादाद्भगवद्गृहे ॥ ७५० ॥
कर्मण्यधिकृतौ तैस्तु सहवासेऽपि च द्विजाः ।
बिम्बे प्रासादभागे वा शवैः स्पृष्टे द्विजोत्तमाः ॥ ७५१ ॥
बिम्बे वल्मीकशिथिलीसरघाणां समुद्भवे ।
बिम्बे त्वशनिसंस्पृष्टे प्रासादे वा मुनीश्वराः ॥ ७५२ ॥
बिम्बस्य हसने चैव चलने रोदने तथा ।
पतने भ्रमणे चैव स्वेदरक्तादिसम्भवे ॥ ७५३ ॥
कम्पने च तथा विप्राः रक्तवर्षादिसम्भवे ।
आराधने च विच्छिन्ने मासादूर्ध्वं मुनीश्वराः ॥ ७५४ ॥
संहितासङ्करे चैव तथा सिद्धान्तसङ्करे ।
भूगुप्ते चोद्धृते बिम्बे मासादूर्ध्वं द्विजोत्तमाः ॥ ७५५ ॥
सम्प्रोक्षणं प्रकुर्वीत तत्तद्दोषप्रशान्तये ।
दोषैरुपहतं ज्ञात्वा प्रासादप्रतिमादिकम् ॥ ७५६ ॥
असम्प्रोक्ष्यार्चनं कुर्वन् राजानं राष्ट्रमञ्जसा ।
देवतायतनं ग्रामं नाशयेन्नात्र संशयः ॥ ७५७ ॥
तस्मात्सम्प्रोक्षणं कार्यं प्रासादप्रतिमादिषु ।
पुरा सम्प्रोक्षणदिनं राजराष्ट्राभिवृद्धिदम् ॥ ७५८ ॥
निश्चयीकृत्य कालज्ञैः पुरस्तादुक्तवासरे ।
अङ्कुरानर्प्य विधिवत्पश्चात्संशोधिते गृहे ॥ ७५९ ॥
सर्वत्र गोमयाम्भोभिः पुण्याहोक्तिपुरस्सरम् ।
सम्प्रोक्ष्य पञ्चभिर्गव्यैः कुशोदकसमन्वितैः ॥ ७६० ॥
मूलबेरादिबिम्बानां षड्भिः सिद्धार्थकादिभिः ।
पवित्रावर्तितैरद्भिर्बहुशः क्षालने कृते ॥ ७६१ ॥
प्रधानदिनपूर्वस्यां रात्रौ यागादिमण्टपे ।
तोरणद्वारकलशे वितानध्वजशोभिते ॥ ७६२ ॥
दीक्षाधिवासवत्कृत्वा कुम्भे वै मण्टपस्थले ।
पूजनं विभवेनैव जपान्तं मूलमन्दिरे ॥ ७६३ ॥
क्षीराद्यैः पञ्चविंशद्भिः स्नापयेद्ध्रुवकौतुकम् ।
लेपभित्तिपटस्थस्य पुरस्ताद्भद्रविष्टरे ॥ ७६४ ॥
कर्मार्चामथवा कूर्चदर्पणे प्रतिबिम्बितम् ।
संस्नाप्य विधिवत्कुम्भैः स्थापितैर्यागमण्टपे ॥ ७६५ ॥
उत्सवार्चादिबिम्बानामङ्गानामाश्रयात्मनाम् ।
पूजनं स्नपनं कार्यं पाश्चात्ये यागमण्टपे ॥ ७६६ ॥
तत्रस्थे हवनं कुण्डे शङ्खचक्रादिलक्षणे ।
मधुक्षीरादिभिः कार्यं सहस्रशतसंख्यया ॥ ७६७ ॥
कर्मबिम्बं विनान्येषां बिम्बानामङ्गरूपिणाम् ।
दक्षिणे मण्टपस्याथ शयनं कल्पयेन्महत् ॥ ७६८ ॥
तिलतण्डुलशालीनां भारैर्वस्त्रादिभिः सह ।
तदूर्ध्वं शाययेदर्चां विधिवद्बद्धकौतुकाम् ॥ ७६९ ॥
सम्पूज्यकम्बलाद्यैश्च छादयेत्तां सितादिभिः ।
वर्णकैर्मण्डलं कुर्याच्चक्रांबुरुहभूषितम् ॥ ७७० ॥
यावत्प्रभातसमयं बिम्बस्थस्य समीपतः ।
देशिको मूलमन्त्रस्य जपेनैव नयेन्निशाम् ॥ ७७१ ॥
प्रभातायां तु शर्वर्यां कृतसन्ध्याविधिर्गुरुः ।
चतुःस्थानार्चनं कृत्वा पूर्ववत्स्नपनान्वितम् ॥ ७७२ ॥
पूर्णाहुत्यादिकं सर्वं विधाय तु यथाविधि ।
कुण्डस्थं मण्डलस्थञ्च देवं हृदि विसृज्य च ॥ ७७३ ॥
उद्वास्य द्वारदेवांश्च बलिदानपुरस्सरम् ।
मुहूर्ते शोभने प्राप्ते नववस्त्रपरिष्कृतम् ॥ ७७४ ॥
सोत्तरीयोपवीतं च कृतकौतुकबन्धनम् ।
समस्ततत्त्वविन्यस्तमभ्यर्च्यार्घ्यादिभिः क्रमात् ॥ ७७५ ॥
तासु स्वहृदयांभोजात्पुष्पाञ्जलिपुरस्सरम् ।
अग्राह्यमपरिच्छेद्यममूर्तममलं महत् ॥ ७७६ ॥
नित्यशुद्धमनौपम्यं सुसूक्ष्ममचलं स्फुटम् ।
सच्चिद्रूपं त्वसामान्यं भास्वरं सुदृढं महत् ॥ ७७७ ॥
तेजस्तु सङ्क्रम्याथ दण्डवत्प्रणिपत्य तु ।
विनिवेद्य विभोः सर्वं कृतं कर्म द्विजोत्तमाः ॥ ७७८ ॥
उत्थाप्योत्सवबिम्बादीन् पूर्ववन्मङ्गलैः सह ।
महाकुम्भं च पुरतो वाहयन् मूर्तिपादिभिः ॥ ७७९ ॥
करकास्त्रं समादाय त्वाचार्यः पुरतो व्रजेत् ।
शलाकामात्रयाऽच्छिद्रधारया सेचयन् भुवम् ॥ ७८० ॥
प्रादक्षिण्येन धामान्तः प्रविश्य मुनिपुङ्गवाः ।
महोत्सवोक्तमार्गेण कुम्भप्रोक्षणमाचरेत् ॥ ७८१ ॥
द्वारावरणदेवांश्च आलयाभ्यन्तरवर्तिनः ।
खगेशविष्वक्सेनादिपरिवारांश्च सर्वशः ॥ ७८२ ॥
कुम्भावशिष्टतोयेन प्रोक्षयेत्सर्वतः क्रमात् ।
अवशिष्टं कुम्भतोयं बलिपीठेऽभिषेचयेत् ॥ ७८३ ॥
एवं सम्प्रोक्ष्य विधिवत्प्रासादान्तः प्रविश्य च ।
करस्थं कौतुकं चाथ हृदयेन विसृज्य तु ॥ ७८४ ॥
गोभूहेमादिकं दत्त्वा सर्वदोषप्रशान्तये ।
देवमर्घ्यादिनाभ्यर्च्य हविरन्तं विशेषतः ॥ ७८५ ॥
ब्राह्मणान् भोजयेत्पश्चात् सहस्रं शतमेव वा ।
सद्यो वा सकलं चैव कुर्यात्सम्प्रोक्षणं विभोः ॥ ७८६ ॥
पुष्पाङ्कुरपुरस्कं तु तत्तद्दोषप्रशान्तये ।
न तिथिर्न च नक्षत्रं कालवेला न विद्यते ॥ ७८७ ॥
सद्यस्सम्प्रोक्षणे विप्रा निशि वा दिवसेऽपि वा ।
प्रायश्चित्तविलम्बे तु कुर्यात्कालनिरीक्षणम् ॥ ७८८ ॥
इति सम्प्रोक्षणं प्रोक्तं सर्वञ्चापि द्विजोत्तमाः ।
प्रायश्चित्तं तु वै कुर्यात् सञ्जाते तन्निमित्तके ॥ ७८९ ॥
तत्तदैवाथ कर्मान्ते त्रिदिनाभ्यन्तरेऽपि वा ।
तद्गुरुत्वानुगुण्येन पञ्च सप्त दिनान्तरे ॥ ७९० ॥
तदारम्भसमाप्तिर्वा ह्यन्यथा द्विगुणं चरेत् ।
प्रायश्चित्तं तु सर्वत्र स्वयंव्यक्तादिके स्थले ॥ ७९१ ॥
अथातः संप्रवक्ष्यामि ग्रामशान्तिं द्विजाः ।
राज्यक्षोभावसाने च शून्ये ग्रामे च हेतुना ॥ ७९२ ॥
ग्रामे वा वह्निना दग्धे वात्यासारादिदूषिते ।
पुनः समाहिते रक्तमधुवर्षादिसम्भवे ॥ ७९३ ॥
ग्रामे बहुब्रह्मवधे तथा गोवधसम्भवे ।
चण्डालशबराद्यैस्तु ग्रामे बहुदिनोषिते ॥ ७९४ ॥
महामारीदिरोगेण सङ्घातमरणादिके ।
ग्रामशान्तिं प्रकुर्वीत सर्वदोषप्रशान्तये ॥ ७९५ ॥
तद्ग्रामे मुनिशार्दूलाः सर्वत्रैकत्र वा क्षितिम् ।
खात्वा मृदं समुद्धृत्य बहिः प्रक्षिप्य शुद्धया ॥ ७९६ ॥
सम्पूर्य च समीकृत्य कुशाद्भिः परिमृज्य च ।
पर्यग्निकरणं विप्रैः कारयित्वा समन्ततः ॥ ७९७ ॥
संसिच्य गोमयाम्भोभिः पुण्याहोद्घोषपूर्वकम् ।
पञ्चगव्येन चाभ्युक्ष्य गोगणं तत्र वासयेत् ॥ ७९८ ॥
वाचयित्वा महाशान्तिं ब्राह्मणैर्वेदपारगैः ।
भोजयित्वा द्विजांस्तत्र तेभ्यो दद्यात्तु दक्षिणाम् ॥ ७९९ ॥
कृत्वैवं स्थलसंशुद्धिं शान्तिं कुर्यादनुक्रमात् ।
देवगेहपुरोभागे बहिर्द्वारस्य सन्निधौ ॥ ८०० ॥
मण्टपं कारयेत्पूर्वं चतुर्द्वारादिसंयुतम् ।
तन्मध्ये वेदिकां कुर्यादूर्ध्वकुण्डसमन्विताम् ॥ ८०१ ॥
परितः कल्पयेत्कुण्डान्यष्टौ वा चतुरोऽपि वा ।
मध्यकुण्डेऽपि वा सर्वं होमं कुर्याद्द्विजोत्तमाः ॥ ८०२ ॥
सर्वांश्च यागसम्भारान् सम्भृत्य सुसमाहितः ।
निशामुखे प्रवृत्ते तु कृतस्नानः कृताह्निकः ॥ ८०३ ॥
देवगेहं समासाद्य ऋत्विग्भिः सह देशिकः ।
देवदेवं समभ्यर्च्य तदनुज्ञापुरस्सरम् ॥ ८०४ ॥
सर्वैः परिजनैः सार्धं यागगेहं प्रविश्य तु ।
द्वारकुम्भादिकांस्तत्र परिकल्प्य यथाविधि ॥ ८०५ ॥
वेदिकोर्ध्वे तु कुण्डस्य दक्षिणे करकान्वितम् ।
महाकुम्भं च विन्यस्य वामे शान्तिघटं न्यसेत् ॥ ८०६ ॥
करशुद्ध्यादिकं सर्वं कृत्वा हृदयागपश्चिमम् ।
पुण्याहं वाचयित्वा तु सम्भारान् प्रोक्ष्य कृत्स्नशः ॥ ८०७ ॥
द्वारार्चनपुरस्कन्तु महाकुम्भे यथाविधि ।
अभ्यर्च्य देवमर्घ्याद्यैर्हविरन्तैस्तथास्त्रकम् ॥ ८०८ ॥
परितो वासुदेवादींस्ततः शान्तिघटे द्विजाः ।
शान्तिं पुष्टिं च तुष्टिं च समभ्यर्च्य यथाविधि ॥ ८०९ ॥
वास्तुदेवगणांश्चापि तत्रैव परिपूजयेत् ।
तदष्टदिक्षु कुम्भेषु कुमुदादीन् समर्चयेत् ॥ ८१० ॥
अथोर्ध्वकुण्डे विधिवत्प्रतिष्ठाप्य हुताशनम् ।
तत्र देवं तु सन्तर्प्य समिद्भिः सप्तभिः क्रमात् ॥ ८११ ॥
अष्टोत्तरसहस्राख्यसंख्यया सघृतैस्तिलैः ।
तर्पयित्वा तु शान्त्यर्थमुद्धृत्याग्निगणं ततः ॥ ८१२ ॥
दिक्कुण्डेषु विनिक्षिप्य विदिक्कुण्डेषु च क्रमात् ।
प्रागादिदिक्षु चतुरो ऋत्विजः सन्निवेश्य तु ॥ ८१३ ॥
वासुदेवादिभिर्मन्त्रैः समित्सप्तकपूर्वकम् ।
सहस्रसंख्यया देवान् तर्पयेत्सघृतैस्तिलैः ॥ ८१४ ॥
एवमध्ययनयोगेन वाय्वादीशावसानकम् ।
ऋग्वेदादींश्च चतुरः चतुर्हृषु सन्निवेश्य यथाक्रमम् ॥ ८१५ ॥
तैश्चापि वैष्णवैः सूक्तैः शान्तिसूक्तैश्च पावनैः ।
सहस्रसंख्यया साज्यतिलहोमं तु कारयेत् ॥ ८१६ ॥
शान्तिं पुष्टिं च तुष्टिं च वास्तुदेवगणांस्तथा ।
कुमुदादिगणांश्चापि मध्यकुण्डे यथाक्रमम् ॥ ८१७ ॥
प्रत्येकमष्टाहुतिभिस्तर्पयेद्वसुधारया ।
ब्रह्मा मरीचिरत्रिश्च विवस्वान् पृथिवीश्वरः ॥ ८१८ ॥
चित्रश्चैवापवत्सश्च सन्धिता च सवित्रकः ।
रुद्रो रुद्रजयश्चैव इन्द्र इन्द्रजयस्तथा ॥ ८१९ ॥
ईशश्चैवाथ पर्जन्यो जयन्तश्च महेन्द्रकः ।
भानुः सत्यो भृगुश्चैव अन्तरिक्षश्च पूर्वकः ॥ ८२० ॥
अग्निः पूषा कृशो भानुर्गुहः क्षेत्राधिपस्तथा ।
गन्धर्वो भृङ्गराजश्च मृत्युश्चैव तथान्तकः ॥ ८२१ ॥
पितृदौवारिकश्चैव सुग्रीवः पुष्पदन्तकः ।
वरुणश्च भृशश्चापो यक्ष्मासमनोजवः ॥ ८२२ ॥
योगो नागश्च मृत्यन्तो भल्लाटः सोम एव च ।
अदितिर्वास्तुनाथश्च ग्रामवास्तुगणाः स्मृताः ॥ ८२३ ॥
एतांस्तु स्वस्वनाम्नैव स्वाहान्तेन हुनेत्क्रमात् ।
ग्रामाश्रितांस्तथा देवान् नगराश्रितदेवताः ॥ ८२४ ॥
भूपालाश्रितदेवांश्च चैत्यप्रासाददेवताः ।
उद्यानोपवनस्थांश्च पर्वतद्रुमसंस्थितान् ॥ ८२५ ॥
सर्वानभ्यागतान् देवान् तर्पयेद्घृतधारया ।
सम्पाताज्यं तु संगृह्य शान्तिकुम्भे तु सेचयेत् ॥ ८२६ ॥
कुम्भस्थं देवदेवं तु पुनरभ्यर्च्य देशिकः ।
गेहादिग्राममध्यान्तं बलिदानं समाचरेत् ॥ ८२७ ॥
रात्रिशेषं समाप्याथ प्रभाते देशिकोत्तमः ।
नित्यकर्माणि निर्वर्त्य गत्वा वै यागमन्दिरम् ॥ ८२८ ॥
द्वारार्चनपुरस्कन्तु महाकुम्भादिषु स्थितान् ।
देवानर्घ्यादिभिर्भोगैर्हविरन्तं यजेत्क्रमात् ॥ ८२९ ॥
ततस्तु मूर्तिपैः सार्धं मध्यकुण्डादिषु क्रमात् ।
देवं सन्तर्प्य विधिना पूर्वोक्तेन मुनीश्वराः ॥ ८३० ॥
पूर्णाहुत्यादिकं सर्वं विधाय च यथाविधि ।
अग्निमध्यस्थितं देवं विसृज्य स्वहृदि क्रमात् ॥ ८३१ ॥
द्वारदेवान् विसृज्याथ बलिदानपुरस्सरम् ।
महाकुम्भादिकान् सर्वान् वाहयन्मूर्तिपादिभिः ॥ ८३२ ॥
पठद्भिः शान्तिसूक्तानि ब्राह्मणैः सह देशिकः ।
शङ्खादिमङ्गलरवैर्घण्टारवसमन्वितैः ॥ ८३३ ॥
देवगेहं समासाद्य देवमर्घ्यादिभिर्यजेत् ।
पुंसूक्तेन प्रोक्षयेत्तं महाकुम्भस्थतोयतः ॥ ८३४ ॥
प्रासादद्वारमारभ्य बलिपीठान्तिमं क्रमात् ।
कुम्भावशिष्टतोयेन प्रोक्षयेत्पूर्ववद्द्विजाः ॥ ८३५ ॥
शान्तिकुम्भजलेनाथ शान्तिसूक्तैः समन्ततः ।
ग्रामं सम्प्रोक्षयेद्विप्राः सर्वदोषप्रशान्तये ॥ ८३६ ॥
ततो गेहं समासाद्य सम्पूज्य पुरुषोत्तमम् ।
महाहविर्निवेद्याथ होमान्तं सर्वमाचरेत् ॥ ८३७ ॥
ततस्तु बलिबिम्बं तु यानमारोप्य देशिकः ।
नित्योत्सवविधानेन यानोपकरणैः सह ॥ ८३८ ॥
द्वारावरणदेवानां बलिं दद्या विशेषतः ।
कुमुदादिबलिं दद्याद्ग्रामेऽपि च यथाविधि ॥ ८३९ ॥
बलिबिम्बं ततोऽभ्यर्च्य स्वस्थाने सन्निवेश्य तु ।
मूलबिम्बं समभ्यर्च्य प्रणिपत्य क्षमापयेत् ॥ ८४० ॥
गोभूहेमादिकं दद्यात्तत्काले सर्वशान्तये ।
आचार्यऋत्विगादींश्च दक्षिणाभिः प्रतोषयेत् ॥ ८४१ ॥
ब्राह्मणान् भोजयेत्पश्चात्सहस्रं शतमेव वा ।
तेभ्यश्च दक्षिणां दद्याद्राजराष्ट्रसुखावहः ॥ ८४२ ॥
ग्रामशान्तिविधिस्त्वेष कथितो मुनिपुङ्गवाः ।
अथातः सम्प्रवक्ष्यामि शान्तिहोमविधिक्रमम् ॥ ८४३ ॥
सर्वदोषप्रशमनं सर्वच्छिद्रप्रपूरणम् ।
सर्वैश्वर्यप्रदं नृणां सर्वारिष्टविनाशनम् ॥ ८४४ ॥
कर्तुः कारयितुश्चैव प्रजानां वाञ्छितप्रदम् ।
अतिवृष्टिरनावृष्टौ दुर्भिक्षे रोगसम्भवे ॥ ८४५ ॥
दुःस्वप्नादौ दुर्निमित्ते महोत्पातेषु सत्सु च ।
आराधनाङ्गवैकल्ये गलिते चोत्सवाङ्गके ॥ ८४६ ॥
प्रतिष्ठास्नपनादीनामङ्गवैकल्यसम्भवे ।
बिम्बोपकरणादीनामस्पृश्यस्पर्शनादिके ॥ ८४७ ॥
पूर्वोक्तेषु निमित्तेषु सर्वेषु मुनिपुङ्गवाः ।
शान्तिहोमं प्रकुर्वीत तत्तद्दोषप्रशान्तये ॥ ८४८ ॥
प्रासादस्याग्रतो वापि प्रथमावरणादिके ।
तदर्थं मण्टपं कुर्याच्चतुर्द्वारसमन्वितम् ॥ ८४९ ॥
यद्वा पूर्वं कृते विप्राः कुत्रचिन्मण्टपादिके ।
यागार्थमन्दिरे वापि पचनालय एव वा ॥ ८५० ॥
गोष्ठागारादिके वापि उद्यानोपवनादिषु ।
द्विहस्तमेकहस्तं वा वृत्तं वा चतुरश्रकम् ॥ ८५१ ॥
कुण्डं प्रकल्पयेद्यद्वा स्थण्डिले होममाचरेत् ।
कुण्डस्य दक्षिणे पार्श्वे धान्यपीठे सुलक्षणम् ॥ ८५२ ॥
सोपकुम्भं सकरकं महाकुम्भं तु विन्यसेत् ।
शान्तिकुम्भं च तत्पार्श्वे विन्यस्य तु सुलक्षणम् ॥ ८५३ ॥
कृत्वा मानसयागान्तं करशुद्ध्यादिकं द्विजाः ।
पुण्याहं वाचयित्वाथ सम्भारान्प्रोक्ष्य कृत्स्नशः ॥ ८५४ ॥
अर्घ्यादीन् परिकल्प्याथ द्वारार्चनपुरस्सरम् ।
महाकुम्भे योगपीठं परिकल्प्य यथाविधि ॥ ८५५ ॥
तत्रावाह्य नृसिंहं तु सर्वदोषप्रशान्तिदम् ।
सकलीकृत्य विधिवल्लयभोगादिकं क्रमात् ॥ ८५६ ॥
कृत्वासनादिभिर्भोगैर्हविरन्तं समर्चयेत् ।
सुदर्शनं च करके प्रागादिकलशेषु च ॥ ८५७ ॥
वासुदेवादिकांश्चेष्ट्वा प्रभवाप्यययोगतः ।
शान्तिं पुष्टिं च तुष्टिं च शान्तिकुम्भे समर्चयेत् ॥ ८५८ ॥
कुण्डं संस्कृत्य तत्राग्निं प्रतिष्ठाप्य यथाविधि ।
तत्रापि नृहरिं देवं समावाह्य यथाविधि ॥ ८५९ ॥
समिद्भिः सप्तभिश्चापि सन्तर्प्याथ स्वमन्त्रतः ।
विशेषेण हुनेद्दोषशान्त्यर्थं मुनिपुङ्गवाः ॥ ८६० ॥
ओं क्षौं नमश्चेतिमन्त्रसंयुक्तेनादितो द्विजाः ।
ओं नमो भगवते नारसिंहायेत्यनेन तु ॥ ८६१ ॥
एतद्दोषं जहि जहि स्वाहेत्यन्तेन देशिकः ।
मध्वाज्यक्षीरसंमिश्रान् सफलांस्तु तिलान् द्विजाः ॥ ८६२ ॥
शतं सहस्रं साष्टं वा यथाशक्त्यथवा हुनेत् ।
पालाशं खादिरं चैव बिल्वमौदुम्बरं तथा ॥ ८६३ ॥
अश्वत्थप्लक्षन्यग्रोधमपामार्गमिति द्विजाः ।
समिधामष्टकं ह्येतं मधुक्षीरान्वितैर्घृतैः ॥ ८६४ ॥
अष्टाक्षरेण जुहुयात्पृथगष्टोत्तरं शतम् ।
द्वादशाक्षरेण मन्त्रेण केवलाज्यं हुनेत्तथा ॥ ८६५ ॥
षडक्षरेण मन्त्रेण तिलं साज्यं हुनेच्छतम् ।
बीजानि विष्णुगायत्र्या हुत्वा चाष्टोत्तरं शतम् ॥ ८६६ ॥
चरुं पुरुषसूक्तेन जुहुयाद्देशिकोत्तमः ।
कृत्वाथ स्विष्टकृद्धोमं प्रायश्चित्ताहुतीस्तथा ॥ ८६७ ॥
नारसिंहेन मन्त्रेण दद्यात्पूर्णाहुतिं ततः ।
सम्पाताज्यं समादाय सेचयेत्कुम्भमध्यतः ॥ ८६८ ॥
पुनः कुम्भे स्थितं देवं समभ्यर्च्य यथाविधि ।
शान्तिकुम्भं तु संस्पृश्य ब्राह्मणैः सह देशिकः ॥ ८६९ ॥
नारसिंहेन मन्त्रेण शान्तिसूक्तैश्च मन्त्रयेत् ।
ततश्च द्वारदेवेभ्यो बलिं दद्याद्यथाविधि ॥ ८७० ॥
एवं पूर्वदिने रात्रौ कृत्वा देशिकसत्तमः ।
परेद्युः प्रातरुत्थाय कृतस्नानः कृताह्निकः ॥ ८७१ ॥
इष्ट्वा कुम्भस्थितं देवं सन्तर्प्याग्नौ यथाविधि ।
द्रव्यैः पूर्वोदितैश्चापि अष्टाविंशतिसंख्यया ॥ ८७२ ॥
पूर्णाहुतिं च कृत्वाथ विसृज्याग्निस्थितं विभुम् ।
विसृज्य द्वारदेवांश्च बलिदानपुरस्सरम् ॥ ८७३ ॥
महाकुम्भं शान्तिकुम्भं वाहयन् ब्राह्मणैः सह ।
वेदघोषैर्वाद्यघोषैर्घण्टारवसमन्वितैः ॥ ८७४ ॥
आसाद्य देवसदनं समभ्यर्च्य जगत्प्रभुम् ।
पुंसूक्तेन महाकुम्भस्थतोयेन प्रोक्षयेद्विभुम् ॥ ८७५ ॥
शान्तिकुम्भजलेनाथ देवं वा मन्दिरादिकम् ।
सर्वोपकरणं वापि दूषितं दोषशान्तये ॥ ८७६ ॥
प्रोक्षयेच्छान्तिसूक्तेन दोषशान्तिर्भविष्यति ।
यजमानो गुरुं पश्चात्तोषयेद्दक्षिणादिभिः ॥ ८७७ ॥
सद्यःकालेऽपि वा देवं तत्तद्दोषानुसारतः ।
शान्तिहोमं प्रकुर्वीत सर्वदोषप्रशान्तये ॥ ८७८ ॥
कुम्भार्चनं विना वापि केवलं होममाचरेत् ।
महोत्सवाद्युत्सवेषु प्रतिष्ठास्नपनादिके ॥ ८७९ ॥
तत्तत्कर्माङ्गभूतेऽग्नौ शान्तिहोमं समाचरेत् ।
इति सर्वं समाख्यातं किमन्यच्छ्रोतुमिच्छथ ॥ ८८० ॥
इति श्रीपाञ्चरात्रे ईश्वरसंहितायां प्रायश्चित्तविधिर्नाम एकोनविंशोऽध्यायः ॥
Kapitel 20 – यादवाचलमाहात्म्यम् / yādavācalamāhātmyam
Siehe deutsche Übersetzung und Texthinweise.
मुनयः ।
भगवन्मुनिशार्दूल सर्वशास्त्रविशारद ।
भवता तत्र तत्रेह स्वयंव्यक्तादिभेदतः ॥ १ ॥
विशेषः कीर्तितः पूर्वं जीर्णोद्धारादिकर्मसु ।
किं किं भुवि स्वयंव्यक्तं महत्त्वं तस्य कीदृशम् ॥ २ ॥
तत्सर्वं विस्तरेणैव प्रकाशय दयानिधे ।
नारदः ।
स्वयंव्यक्तादिभेदं च तन्माहात्म्यं च कृत्स्नशः ।
प्रवक्ष्यामि शृणुध्वं तत्सावधानेन चेतसा ॥ ३ ॥
क्षेत्रेषु पुष्कराद्येषु वासुदेवो जगत्पतिः ।
स्वयं व्यक्तिं समभ्येत्य भक्तानां हितकाम्यया ॥ ४ ॥
स्थितः सन्निहितो देवः स्वयंव्यक्तो मुनीश्वराः ।
क्षेत्रेषु केषुचिद्देवः स्थापितो देवतोत्तमैः ॥ ५ ॥
तथैव केषुचित्सिद्धैः केषुचिदृषिपुङ्गवैः ।
गन्धर्वैश्चापि यक्षैश्च तथा विद्याधरोत्तमैः ॥ ६ ॥
असुरै राक्षसैश्चैव मनुजेन्द्रैश्च केषुचित् ।
स्थापितो विधिवद्देवः सन्निधत्ते जगत्प्रभुः ॥ ७ ॥
एवं भगवदाकारैर्नानासंस्थानलक्षणैः ।
नानाविशेषरूपैश्च नानाकार्यवशेन तु ॥ ८ ॥
विश्वमापूरितं सर्वं सर्वानुग्रहकाम्यया ।
भगवद्भक्तिनिरतैर्मनुजेन्द्रैः प्रतिष्ठितात् ॥ ९ ॥
माहात्म्यं स्याद्दशगुणं राक्षसेन्द्रप्रतिष्ठिते ।
ततः शतगुणं प्रोक्तमसुरैः स्थापिते विभौ ॥ १० ॥
सहस्रगुणितं प्रोक्तं विद्याधरकृते द्विजाः ।
ततो दशगुणं विप्राः माहात्म्यं यक्षकल्पिते ॥ ११ ॥
ततो दशगुणं प्रोक्तं गन्धर्वैश्च प्रतिष्ठिते ।
आर्षे कोटिगुणं प्रोक्तं सैद्धे दशगुणं ततः ॥ १२ ॥
कोटिकोटिगुणं दिव्ये स्वयंव्यक्ते मुनीश्वराः ।
माहात्म्यं स्यादसंख्यातमिति शास्त्रेषु निश्चितम् ॥ १३ ॥
तत्स्याद्द्वेधा स्वयंव्यक्तबिम्बं भगवतो विभोः ।
सालग्रामशिलारूपैरितरैस्तु शिलादिभिः ॥ १४ ॥
उभयत्र समानं स्याद्धरेः सान्निध्यमुत्तमम् ।
सालग्रामशिलाबिम्बे तत्तन्मूर्तिविनिर्णयम् ॥ १५ ॥
तत्तद्व्यवस्थितैश्चिह्नैः ज्ञात्वा कार्यं समर्चनम् ।
क्षेत्रेषु पुष्कराद्येषु स्वयमेव जगत्पतिः ॥ १६ ॥
अर्चारूपेणावतीर्य व्यक्तैश्चक्रादिलाञ्छनैः ।
समन्वितः सन्निधत्ते भक्तानां हितकाम्यया ॥ १७ ॥
तत्तत्क्षेत्रस्थितान् देवान् प्रवक्ष्यामि मुनीश्वराः ।
यत् ज्ञात्वा मनुजो लोके सर्वपापैः प्रमुच्यते ॥ १८ ॥
पुष्करं क्षेत्रमाश्रित्य पुण्डरीकाक्षसंज्ञया ।
वासुदेवस्तु भगवान् नित्यं सन्निहितः स्थितः ॥ १९ ॥
एवं क्षेत्रवरे दिव्ये श्रीरङ्गे नैमिशाह्वये ।
क्षेत्रेष्वन्येषु च तथा वासुदेवादिसंज्ञया ॥ २० ॥
चतुर्मूर्तिः स्थितो देवो लोकरक्षणहेतुना ।
केशवः केशिहा लोके कुरुक्षेत्रादिषु स्थितः ॥ २१ ॥
नारायणो मुनिश्रेष्ठाः स्थितो नारायणाचले ।
माधवो वेङ्कटगिरौ गोविन्दः पुरुषोत्तमः ॥ २२ ॥
भूभागपद्ममाश्रित्य संस्थितो नागसाह्वये ।
स्थाने वृन्दावनाख्येऽपि द्विधैव कमलोद्भव ॥ २३ ॥
विष्णुर्लोभापहे विप्राः स्थितो विष्णुपदेऽपि च ।
मन्दराख्यं गिरिं चैव आसाद्य मधुसूदनः ॥ २४ ॥
भूतानामनुकम्पार्थमवतीर्य च संस्थितः ।
यामुनं जलमाश्रित्य देवदेवस्त्रिविक्रमः ॥ २५ ॥
स्थितः कमलसम्भूत तरणं सुगतिप्रदम् ।
मूर्त्यन्तरं वामनाख्यं सिंहाद्रौ कमलोद्भव ॥ २६ ॥
स्वसत्त्वादेत्य विश्रान्तं भविनां शोकशान्तये ।
नर्मदाख्यं हि चाक्रम्य जलं पापक्षयंकरम् ॥ २७ ॥
श्रीधरः संस्थितो देवः कौण्डलेऽपि श्रिया सह ।
हृषीकेशस्तु भगवान् संस्थितोऽप्यात्मना भुवि ॥ २८ ॥
धराधरे ध्वजाख्ये तु क्षेत्रे कुब्जाम्रकेऽब्जज ।
पद्मनाभस्तु देवेशस्त्ववतीर्य च संस्थितः ॥ २९ ॥
दक्षिणां दिशमाश्रित्य समीपे जलधिक्षितेः ।
गिरौ रैवतके विप्र स्वसत्त्वादेत्य वर्तते ॥ ३० ॥
दामोदरस्तु भगवान् हितार्थं भावितात्मनाम् ।
एभिर्मूर्त्यन्तरैः सार्धं मूर्तिभिर्विश्वमन्दिरम् ॥ ३१ ॥
समाक्रान्तं द्विजश्रेष्ठ अतोन्येषां च संस्थितम् ।
निबोधतु महाबुद्धे सावधानेन चेतसा ॥ ३२ ॥
सिद्धामराश्रितं विद्धि श्वेतद्वीपे तु हंसराट् ।
मत्स्यात्मा भगवानप्सु अश्वात्मा वडवामुखे ॥ ३३ ॥
रसातले तु कूर्मात्मा विन्ध्यारण्ये तु पौष्कर ।
विज्ञातव्यो मृगेन्द्रात्मा पापहा सर्वदेहिनाम् ॥ ३४ ॥
सौकरीयेण रूपेण क्षेत्रे तत्सञ्ज्ञके तु वै ।
गाङ्गे शुभजले कूले सुरसिद्धनिषेविते ॥ ३५ ॥
हेमोत्तमाङ्गधृग्देवो हेमशैलमहान्तरे ।
नौबन्धनगिरावेवं मीनवक्त्रः स्थितः प्रभुः ॥ ३६ ॥
कृष्णाश्वेऽश्वशिराः देवः क्षितिक्षेत्रे च मानिते ।
लवणोदधिपर्यन्ते भूभागे सिद्धसेविते ॥ ३७ ॥
कूर्मवक्त्रश्च भगवान् संस्थितः शङ्खचक्रधृत् ।
नृहरिः कृतशौचे तु उज्जयिन्यामपि द्विजाः ॥ ३८ ॥
विशाखमूलसञ्ज्ञे तु स्थाने त्वेवं स्थितस्त्रिधा ।
कोकामुखे वराहस्तु वाराहे तु नगोत्तमे ॥ ३९ ॥
मन्दमाले वितस्ते तु कुलकुक्षौ हिमाचले ।
वामनः खर्वमूर्तिश्च वैश्वरूप्येण संस्थितः ॥ ४० ॥
मध्यदेशे तु गङ्गायाः कुरुक्षेत्रे तु पौष्कर ।
यामुनं कूलमाश्रित्य प्रादुर्भावान्तरं महत् ॥ ४१ ॥
स्थितं त्रिविक्रमाख्यं यत् त्रैलोक्याक्रान्तविग्रहम् ।
नगोत्तमे महेन्द्राख्ये परश्वथकरं द्विज ॥ ४२ ॥
रामसञ्ज्ञश्च भगवान् संस्थितः क्षत्रियान्तकः ।
धराधरे चित्रकूटे रक्षःक्षयकरो महान् ॥ ४३ ॥
संस्थितश्चापरो रामः पद्मपत्रायतेक्षणः ।
रामोऽन्यः सीरपाणिश्च यामुनं भ्रामयन् जलम् ॥ ४४ ॥
संस्थितो मानुषीयेषु भूभागेषु शुभेषु च ।
सामुद्रेऽपि ततो द्वीपे द्वारकाख्येऽमरार्चिते ॥ ४५ ॥
वर्तते भगवान् कृष्णः सर्वात्मा परमेश्वरः ।
कल्की विष्णुश्च भगवान् स्तूयमानो द्विजैः स्थितः ॥ ४६ ॥
समासाद्य विपाशां च नदीं नियतमानसः ।
धर्ममूर्तिर्महात्मा वै धर्मारण्ये सुरार्चिते ॥ ४७ ॥
अनुग्रहपरस्त्वास्ते लोकानां लोकपूजितः ।
नरसञ्ज्ञो जगन्नाथः सिद्धैः सम्पूजितेषु च ॥ ४८ ॥
भूभागेषु च रम्येषु नित्यं सन्निहितस्थितिः ।
गिरौ गोवर्धनाख्ये तु देवः सर्वेश्वरो हरिः ॥ ४९ ॥
संस्थितः पूजिते स्थाने गवां निष्क्रमणेषु च ।
सालग्रामे च भगवान् राजेन्द्राख्ये वने द्विजाः ॥ ५० ॥
तथैव वसुधांशे च स्थितो देवव्रताभिधे ।
कृष्णोऽपरश्चतुर्मूर्तिरवतीर्य धरातले ॥ ५१ ॥
स्थितः पिण्डारके विप्र मोचयन् दुष्कृताज्जनान् ।
श्वेतद्वीपे कुरुक्षेत्रे हिमवन्ताचलेऽब्जज ॥ ५२ ॥
वेदिकायामपि तटे विश्वरूपः स्थितः प्रभुः ।
क्षीरोदधौ पद्मनाभः शेषाहिशयनो हरिः ॥ ५३ ॥
स्थितो नन्वब्जसम्भूत यस्माच्चेदं पितामह ।
चतुर्धा रूपमाश्रित्य विश्वस्मिन् सैव वर्तते ॥ ५४ ॥
हिताय सर्वलोकानां यथावदवधारय ।
आसाद्य शयनं ब्रह्मन् पातालतलसंस्थितः ॥ ५५ ॥
वटमादाय चाग्नेयं योऽन्ते संहरते जगत् ।
वटमूलं समाश्रित्य प्रयागे सुरपूजिते ॥ ५६ ॥
जगदेकाणर्वं कृत्वा दिव्यमासाद्य पादपम् ।
सन्तिष्ठते स भगवान् तस्मिन् तीरे क्षितौ द्विजाः ॥ ५७ ॥
न्यग्रोधशायिनं चैव ध्यायेद्दिव्यगतिप्रदम् ।
हिमाचलैकदेशे तु तुङ्गे वै भृगुसञ्ज्ञके ॥ ५८ ॥
मधुकैटभमाथी च संस्थितः सेवनातले ।
क्षीरोदकक्षितिक्षेत्रे सुरासुरनिषेविते ॥ ५९ ॥
मन्दराद्रिकरो देवो वर्तते देवपूजितः ।
तत्रैवामृतजिद्देवः संस्थितः सिद्धसेवितः ॥ ६० ॥
कान्तारूपधरश्चैव सुधाकलशधृक्प्रभुः ।
सिद्धानां च मुनीनां च देवानां मृत्युजित् स्थितः ॥ ६१ ॥
द्विधा कर्ता गणोपेतो देवो गरुडवाहनः ।
सालवृक्षभुजादेशे सालग्रामे स्थितो विभुः ॥ ६२ ॥
त्रिकूटगिरिपृष्ठे तु रम्ये गगनचारिणाम् ।
गजेन्द्रमुक्तिच्छलेनैव अप्रमेयाख्यया स्थितः ॥ ६३ ॥
श्वेतद्वीपपतिर्देव अवतीर्य च संस्थितः ।
गङ्गासमुद्रसंयोगे क्षित्युर्देशे मनोरमे ॥ ६४ ॥
यज्ञभुग्भगवान् देवो नैमिषे सिद्धपूजिते ।
सैन्धवारण्यमाश्रित्य अनन्तो भगवान् स्थितः ॥ ६५ ॥
शार्ङ्गपाणिस्तु देवेशो दण्डकारण्यसञ्ज्ञके ।
उत्पलावर्तके देशे शौरिसञ्ज्ञोऽच्युतः स्थितः ॥ ६६ ॥
क्षितौ समुद्रबन्धे च सङ्गमे सिद्धसेविते ।
ज्ञानोपदेष्टा भगवान् संस्थितो दुःखशान्तये ॥ ६७ ॥
आसाद्य सूकरक्षेत्रं देवो गरुडवाहनः ।
संस्थितो गरुडारूढः पारिजातकराङ्कितः ॥ ६८ ॥
सिद्धैः सुरगणैः सार्धं गगने चापि पौष्कर ।
देवदेवो जगन्नाथो हस्तिपर्वतमस्तके ॥ ६९ ॥
एकदेशं समासाद्य सर्वस्य वरदः स्थितः ।
माल्योदपाणीवैकुण्ठो मागधायां महामते ॥ ७० ॥
उड्डीयपुण्यभूमागे संस्थितः पुरुषोत्तमः ।
अचिन्त्यात्माथ भगवान् पर्वते गन्धमादने ॥ ७१ ॥
शिपिविष्टाख्यया देशे शिपिविष्टवृतः स्थितः ।
प्राक्समुद्रापयाने तु भूभागे शुभलक्षणे ॥ ७२ ॥
कापिलीं मूर्तिमास्थाय वासुदेवः स्थितः प्रभुः ।
अवतीर्य स्वसत्त्वाच्च ब्रह्मसञ्ज्ञः प्रजापतिः ॥ ७३ ॥
मणिबन्धं समासाद्य नित्यं सन्निहितः स्थितः ।
मगधामण्डले विप्र महाबोधधराश्रयः ॥ ७४ ॥
संस्थितो लोकनाथात्मा देवदेवो जनार्दनः ।
देवदक्षिणगाक्ष्णो वै योऽभिमानतनुर्द्विज ॥ ७५ ॥
सूर्यसञ्ज्ञस्तु भगवान् हेमशैलोपरि स्थितः ।
अच्युतो वामनेत्रे तु योऽभिमानतनुर्विभुः ॥ ७६ ॥
भगवान् सोमसञ्ज्ञस्तु सोमतीर्थाश्रमेऽपि च ।
अग्निस्वरूपमजितं संस्थितं बाडवानले ॥ ७७ ॥
वस्वात्मा भगवान् विप्र भासते त्वसुरान्तकृत् ।
विष्णुनाम्ना पुनर्देवस्त्वनेकायुधमण्डितः ॥ ७८ ॥
जयाख्ययोज्जयिन्यां वै स्थितः पापजयो नृणाम् ।
काश्मीरमण्डले पुण्ये क्षेत्रे चक्रधराभिधे ॥ ७९ ॥
चक्रपाणिस्तु भगवान् भक्तानां मोक्षदः स्थितः ।
सुरोत्तमाभिधानं च गदापाणिं तु पौष्कर ॥ ८० ॥
सदा सन्निहितं विद्धि गङ्गाद्वारे सुरैः सह ।
चतुर्भुजश्चतुर्मूर्तिः चतुर्वक्त्रश्चतुर्गतिः ॥ ८१ ॥
स्थितः पिण्डारके देवो विष्वक्सेनः सनातनः ।
शुभमासाद्य भूभागं प्राक्ज्योतिषपुरे तथा ॥ ८२ ॥
देवं विश्वेश्वराख्यं च स्थितमेत्य स्वगोचरात् ।
सातत्रनाभिधक्षेत्रे सिद्धविद्याधरान्विते ॥ ८३ ॥
स्वामिसञ्ज्ञो जगन्नाथः स्थितो मन्दाकिनीतटे ।
भद्राटके महायोगो ध्यायिनामपवर्गदः ॥ ८४ ॥
धरातले नृसिंहाख्ये देविकायास्तटाश्रिते ।
रिपुक्षयाख्यया विप्र देवः सर्वेश्वरः स्थितः ॥ ८५ ॥
शङ्कराख्ये तु भूभागे सर्वदेवनिषेविते ।
ज्ञानमूर्तिर्जगन्नाथः संस्थितः शुभकृन्नृणाम् ॥ ८६ ॥
पृथिव्यां तु पितृक्षेत्रे मोचयन्नृणत्रयात् ।
जनार्दनाख्यो ब्रह्मन् विश्वात्मा भगवान् स्थितः ॥ ८७ ॥
एतेऽवताराः कथिता लेशतः कमलोद्भव ।
एभिः क्षितितलं व्याप्तं पौनःपुन्येन च स्वयम् ॥ ८८ ॥
संसारिणाम् जनानां तु अनुग्रहधियाब्जज ।
सङ्कीर्तनमगम्यानां त्रिसन्ध्यं नित्यमाचरेत् ॥ ८९ ॥
मतिं चक्रे च गम्यानां सेवने दर्शनेऽपि च ।
म्लेच्छानां तेषु देशेषु क्षितौ क्षेत्रादयो हि ये ॥ ९० ॥
साङ्कर्यपरिहारेण द्रष्टव्यास्ते सदैव हि ।
ऋषिभिः सामरैः सिद्धैः स्वाश्रमेषु महत्सु च ॥ ९१ ॥
जलाशयेषु पुण्येषु पृथिव्यां विविधेषु च ।
सर्वे भगवदाकारा विभवव्यूहलक्षणाः ॥ ९२ ॥
उक्तागताश्च ये चान्ये सम्प्रेक्ष्य धिया स्वयम् ।
प्रतिष्ठाश्च विधिवत्तन्मन्त्राः सत्यविक्रमाः ॥ ९३ ॥
स्थित्या नानाप्रकारा ये भूतभव्यादिकाख्यया ।
सौम्याग्नेयोग्राख्येन सन्निवेशवशेन वै ॥ ९४ ॥
लीलारुचिमयेनैव चित्तसौख्यप्रदेन च ।
भुजायुधसंस्थानकेतुभेदेन वै सह ॥ ९५ ॥
अलङ्कृतं च भूमागं मनुजैस्त्वेवमेव हि ।
भक्तैरनुगृहीतैश्च सिद्धैश्चैव यथोदितम् ॥ ९६ ॥
आदिदेवादयश्चैते तत्त्वेशाः समुदीरिताः ।
परस्मिन् भगवत्तत्त्वेऽभेदेन व्यवस्थिताः ॥ ९७ ॥
सूर्यस्य रश्मयो यद्वद्धरार्चिर्गणा यथा ।
जलकल्लोलसङ्घा यद्वत्तद्वद्वोऽब्जसम्भव ॥ ९८ ॥
चित्सामान्या नित्यशुद्धा व्यापकाः परमेश्वराः ।
तत्सत्तां समाश्रित्य ज्ञानाद्यैः समलङ्कृताः ॥ ९९ ॥
अणिमाद्यष्टकोपेताः संस्थिताः स्वतन्त्राः तु वै ।
अध्वावनिषु सर्वासु नित्यं कुर्वन्ति सन्निधिम् ॥ १०० ॥
मुक्तये सर्वभूतानां विशेषेण तु वै भुवि ।
आविश्वप्रभवात्कालादारभ्य प्रलयावधि ॥ १०१ ॥
क्षेत्रेषु तीर्थतीरेषु शब्दब्रह्ममयात्मना ।
सामान्येनापि मन्त्रेण तद्विवर्तेन भास्मना ॥ १०२ ॥
ततो व्यक्ततरं रूपमास्थायन्ति च पार्थिवम् ।
हितार्थं सकललोकानामवतीर्णमनश्वरम् ॥ १०३ ॥
जगत्यायतनाख्यायामत्र सिध्यन्ति योगिनः ।
कालान्तरेण व्यक्तीनां मज्जनं जायते यदि ॥ १०४ ॥
सन्निधिं शक्तिभावेन नित्यं कुर्वन्ति तत्र च ।
योगेश्वरामराः सिद्धाः स्मृत्वाकारं तदात्मकम् ॥ १०५ ॥
शैलमृद्दारुधातूत्थां व्यक्तिं संस्थापयन्ति च ।
यत्रानुवेदं कुरुते मन्त्रशक्तिधरास्तु ये ॥ १०६ ॥
येनाच्युतीयनाम्ना वै यद्वत्स्थानान्तरं स्मृतम् ।
सन्निधिस्तत्र वैरूपा शब्दमूर्तिधरस्य च ॥ १०७ ॥
भिन्नात्मनां स्वयंव्यक्तरूपेष्वव्यक्तेषु च ।
सन्निरुद्धेषु मन्त्रेषु इच्छाशक्तिगतिषु च ॥ १०८ ॥
आकारः सन्निवेशाच्च पारमेश्वरमन्यथा ।
अन्यथा वै जगत्यस्मिन् ख्याताख्यातं च शाश्वतम् ॥ १०९ ॥
एवमायतनानां च नित्यत्वं समकथितम् ।
अनादित्वमसंख्यं च महत्त्वमपि पौष्कर ॥ ११० ॥
एवं क्षेत्रस्थिता मूर्तिभेदाः सम्यक्प्रकीर्तिताः ।
क्षेत्रेष्वेतेषु योगीन्द्राः सारभूतं चतुष्टयम् ॥ १११ ॥
श्रीरङ्गं वेङ्कटाद्रिश्च हस्तिशैलस्त्वनन्तरम् ।
ततो नारायणाद्रिश्च मम धामचतुष्टयम् ॥ ११२ ॥
एवमुक्तं भगवता साक्षान्नारायणेन हि ।
अस्मिन् क्षेत्रचतुष्के तु संस्थितं पुरुषोत्तमम् ॥ ११३ ॥
महाभक्तिसमायुक्ताः सेवन्ते ये नरोत्तमाः ।
सर्वक्षेत्रस्थिताः देवास्तैः सेवितास्तेन संशयः ॥ ११४ ॥
मुनयः ।
भगवन्मुनिशार्दूल सर्वज्ञ वदतां वर ।
नारायणाद्रिमाहात्म्यं श्रोतुमिच्छामहे वयम् ॥ ११५ ॥
इह नारायणस्यैव ध्यानमाराधनादिकम् ।
कथितं हि त्वया पूर्वं न तु नारायणो हरिः ॥ ११६ ॥
कथं प्राप्तो गिरिवरं महत्ता तस्य कीदृशी ।
तत्सर्वं विस्तरेणैव वदस्व वदतां वर ॥ ११७ ॥
नारदः ।
साधु पृष्टं महाभागाः भवद्भिर्मुनिपुङ्गवाः ।
नारायणाचलस्थस्य हरेर्माहात्म्यमुत्तमम् ॥ ११८ ॥
सङ्क्षेपेण प्रवक्ष्यामि शृणुध्वमवधानतः ।
आदौ नारायणः श्रीमान् स्वस्य नाभिसरोरुहात् ॥ ११९ ॥
चतुर्मुखं समुत्पाद्य सर्वसंस्कारसंस्कृतम् ।
वेदशास्त्रार्थतत्त्वज्ञं कृत्वा तं पुरुषोत्तमः ॥ १२० ॥
सृष्टौ नियोज्य ब्रह्माणं ततस्त्वन्तर्हितोऽभवत् ।
तस्मिन्नन्तर्हिते देवे विपर्यस्तमतिर्विधिः ॥ १२१ ॥
इति कर्तव्यतामूढो बभूवोद्विग्नमानसः ।
तदासौ तप आतिष्ठद्द्रष्टुकामो जगत्पतिम् ॥ १२२ ॥
बहुकाले व्यतीते तु तप्यमाने पितामहे ।
आविरास जगन्नाथो ब्रह्मणः पुरतो द्विजाः ॥ १२३ ॥
तं दृष्ट्वा कमलाकान्तं परमाश्चर्यसंयुतः ।
तुष्टाव विविधैः स्तोत्रैः श्रुतिसिद्धैश्चतुर्मुखः ॥ १२४ ॥
तेन स्तुतो जगद्धाता करुणापूर्णमानसः ।
ब्रह्माणं समुवाचेदं मेघगम्भीरया गिरा ॥ १२५ ॥
त्वया वत्स कृतस्त्वेवं तपस्तत्सुदुस्तरम् ।
तुष्टोऽहं तपसा तेऽद्य किं तवाभीप्सितं वद ॥ १२६ ॥
ब्रह्मा ।
नान्यदस्ति फलं देव भवतो दर्शनादृते ।
त्वया नियोजितोऽहं हि जगत्सृष्टौ पुरा विभो ॥ १२७ ॥
स्रष्टुं जगदिदं सर्वं का शक्तिर्मम माधव ।
अत्रोपायं समाचक्ष्व करुणामृतवारिधे ॥ १२८ ॥
इत्युक्तो ब्रह्मणा देवो मन्त्रमष्टाक्षरं परम् ।
तस्योपदिदेश भगवान् तदर्थञ्च विशेषतः ॥ १२९ ॥
अष्टाक्षरमिमं मन्त्रं सततं हृदि चिन्तयन् ।
मन्त्रस्यास्य प्रभावेण जगत्स्रष्टुं त्वमर्हसि ॥ १३० ॥
सर्वकर्मणि सम्पन्ने एतन्मन्त्रप्रभावतः ।
आविर्भविष्यति पुरः साक्षान्नारायणो विभुः ॥ १३१ ॥
तमभ्यर्च्य देवेशं मन्त्रेणानेन पद्मज ।
ततस्त्वदधिकारेऽन्ते मत्पदं प्राप्यसि ध्रुवम् ॥ १३२ ॥
इत्युक्त्वान्तर्दधे देवः ततस्तुष्टश्चतुर्मुखः ।
जपमानो मूलमन्त्रं चेतनाचेतनात्मकम् ॥ १३३ ॥
ससृजे जगदिदं सर्वं विरिञ्चिर्मुनिपुङ्गवाः ।
नारायणं द्रष्टुकामस्तत्पस्तेपे सुदुस्तरम् ॥ १३४ ॥
आविरासीततो दिव्यं विमानं शुभलक्षणम् ।
श्रीवैकुण्ठाच्चतुर्वक्त्रतपःफलमिवाद्भुतम् ॥ १३५ ॥
अनेककोटिमार्ताण्डविलसत्तेजसावृतम् ।
अनन्तविहगेशेन विष्वक्सेनपुरोगमम् ॥ १३६ ॥
श्रिया सुदर्शनेनापि पार्श्वयोः समन्वृतम् ।
कुमुदाद्यैः परिवृतं सर्वावयवशोभितम् ॥ १३७ ॥
वृत्ताकारं शङ्करं सर्वालङ्कारशोभितम् ।
तं दृष्ट्वा सहसोत्थाय सन्तुष्टः कमलासनः ॥ १३८ ॥
पुलकाञ्चितसर्वाङ्गः सन्तोषाश्रान्तलोचनः ।
प्रणम्य प्राञ्जलिः स्थित्वा विमानमवलोकयत् ॥ १३९ ॥
पीठाद्येषु शिखान्तेषु विमानावयवेषु च ।
भूराद्यं सत्यपर्यन्तं लोकानां सप्तकं क्रमात् ॥ १४० ॥
अध्वनां भुवनाद्यादिषट्कं वर्णाध्वपश्चिमम् ।
धरादिपुरुषान्तं च तत्त्ववृन्दं मुनीश्वराः ॥ १४१ ॥
सत्तारूपमवस्थाय संस्थितं सन्ददर्श ह ।
ततस्तु देवतावृन्दं क्रमेण समलोकयत् ॥ १४२ ॥
घटाधारशिलाधस्तादनन्तममितद्युतिम् ।
चक्रं तदूर्ध्वं सामर्थ्यं शक्तिं चापि शिलान्तरे ॥ १४३ ॥
मन्त्रनाथं मध्यकुम्भे प्रागादिकलशाष्टके ।
वासुदेवादिकांश्चैव प्रभवाप्यययोगतः ॥ १४४ ॥
संस्थितान् तत्पिधानेषु मध्यादीशादिगन्तिमम् ।
ज्ञानाभासादिकानां च शक्तीनां नवकं क्रमात् ॥ १४५ ॥
धर्मादीनामष्टकं च तथापादशिलाष्टके ।
अकारादिक्षकारान्तं वर्णचक्रं तदन्तरे ॥ १४६ ॥
सर्वाधारमयं चक्रं शाखामूलं समाश्रितम् ।
ज्ञानक्रियात्मके तत्त्वे शाखयोः परमेश्वरम् ॥ १४७ ॥
आद्यं ह्युदुम्बरस्योर्ध्वे तत्पृष्ठे धर्ममेव च ।
कवाटयोस्तु कालाग्निं वरुणं च मुनीश्वराः ॥ १४८ ॥
शङ्खपद्मनिधी चैव तदग्रद्वारपार्श्वयोः ।
ततो जङ्घासमूहे तु तथैवान्तरभूमिषु ॥ १४९ ॥
कालादिवसुधान्तांश्च भवोपकरणामरान् ।
जङ्घाग्रे केशवादीनां द्विषट्कं प्रस्तरस्थले ॥ १५० ॥
चक्राद्यायुधसङ्घं च सत्तारूपेण संस्थितम् ।
नासाचतुष्कस्थानेषु वराहादिचतुष्टयम् ॥ १५१ ॥
सशक्तिकं तु पत्राद्यैर्भूषिते वेदिकातले ।
सुदर्शनं शिखाकुम्भे वासुदेवं परात्परम् ॥ १५२ ॥
तदग्रदेशे हेतीशं सूर्यकोटिसमप्रभम् ।
सर्वलोकमयं विप्राः सकलाध्वमयं तथा ॥ १५३ ॥
सर्वतत्त्वमयं चैव सर्वदेवमयं तथा ।
आनन्दमयसञ्ज्ञं तद्विमानं कमलासनः ॥ १५४ ॥
एवं क्रमेणावलोक्य प्रणिपत्य पुनः पुनः ।
तथा प्रदक्षिणीकृत्य विष्वक्सेनाभ्यनुज्ञया ॥ १५५ ॥
विमानान्तः संविवेश्य जपन्नष्टाक्षरं मनुम् ।
अभ्यन्तरे विमानस्य गर्भभूमौ तु मध्यतः ॥ १५६ ॥
सरसीरुहमास्थाय संस्थितं पुरुषोत्तमम् ।
प्रावृड्जलदसन्दोहविलसद्दिव्यविग्रहम् ॥ १५७ ॥
सर्वदेवमयं देवं सर्वेषां तेजसां निधिम् ।
सर्वलक्षणसम्पूर्णं सार्वज्ञ्यादिगुणैर्युतम् ॥ १५८ ॥
वपुषा सुन्दरेणैव दिव्येनाविष्कृतेन च ।
मुञ्चन्तमनिशं देहादालोकं ज्ञानलक्षणम् ॥ १५९ ॥
प्रयत्नेन विनाज्ञाननाशकृद्ध्यायिनां महत् ।
घनकुञ्चितनीलालिदलिताञ्जनसन्निभैः ॥ १६० ॥
कर्पूरक्षोददिव्यैः पुष्पसंवलितान्तरेः ।
किरीटमुकुटाक्रान्तैः शोभितं स्वशिरोरुहैः ॥ १६१ ॥
बालचन्द्रप्रतीकाशफालोद्यत्तिलकोज्ज्वलम् ।
सुभ्रुवं सुनसं कान्तं सविलासस्मिताधरम् ॥ १६२ ॥
किञ्चिदारक्तगोक्षीरशुद्धनीलाब्जलोचनम् ।
शीतलेक्षितैस्तु जगदाप्ययकारिणम् ॥ १६३ ॥
विलसद्गण्डफलकं श्रवणोज्ज्वलकुण्डलम् ।
मुखसौन्दर्यनिष्पन्दचुबुकस्थलशोभितम् ॥ १६४ ॥
विकलङ्कशरच्चन्द्रविलसन्मुखमण्डलम् ।
कंबुग्रीवं पीवरांसं दीर्घबाहुं महोरसम् ॥ १६५ ॥
चतुर्भुजमुदाराङ्गं विलसत्पाणिपङ्कजम् ।
पीतकौशेयवसनं निम्ननाभिं तनूदरम् ॥ १६६ ॥
चारूरुयुगलं चारु जङ्घाद्वितयमुज्ज्वलैः ।
मणिनूपुरभूषाद्यैर्विलसत्पदपङ्कजम् ॥ १६७ ॥
दिव्यगन्धनुलिप्ताङ्गं दिव्याम्बरधरं तथा ।
दिव्यस्रग्वेषोपेतं दिव्यालङ्कारमण्डितम् ॥ १६८ ॥
अनेकरत्नखचितकिरीटमुकुटोज्ज्वलम् ।
कौस्तुभेनोरसिस्थेन श्रीवत्सेनाप्यलङ्कृतम् ॥ १६९ ॥
रक्तकाञ्चनसन्मुक्तायुक्तया वनमालया ।
सब्रह्मसूत्रया चैव शोभितं परमेश्वरम् ॥ १७० ॥
मुख्यदक्षिणहस्तेन भीतानामभयप्रदम् ।
श्रोणीतटनिविष्टेन वामहस्तेन लीलया ॥ १७१ ॥
ध्रियमाणां गदां गुर्वीं निषण्णां धरणीतले ।
पश्चाद्दक्षिणहस्तेन चक्रं कालानलद्युतिम् ॥ १७२ ॥
प्रणवध्वनिगर्भं तु हिमाद्रिशतशोभिकम् ।
शङ्खं वामकरेणापि दधानमतुलप्रभम् ॥ १७३ ॥
स्वदेहतेजस्सम्भूतज्वालामण्डलमध्यगम् ।
करुणापूर्णहृदयं जगदुद्धरणोद्यतम् ॥ १७४ ॥
अभिन्नपूर्णषाड्गुण्यविभवेनोपबृंहितम् ।
योगिध्येयमजनित्यं जगज्जन्मादिकारणम् ॥ १७५ ॥
साक्षाल्लक्ष्मीपतिं देवं नारायणमनामयम् ।
दृष्ट्वा प्रहृष्टहृदयः प्रणिपत्यमुहुर्मुहुः ॥ १७६ ॥
तुष्टाव कमलाकान्तं स्तोत्रैर्नानाविधैर्विधिः ।
ततस्तत्स्तोत्रसन्तुष्टो नारायण उदारधीः ॥ १७७ ॥
पितामहमुवाचेदं मेघगम्भीरया गिरा ।
सन्तुष्टस्तपसा तेऽहमष्टाक्षरपरायण ॥ १७८ ॥
समभ्यर्चय मामत्र युगानामयुतं विधे ।
ततो भुवं गमिष्यामि केनचित्कारणेन तु ॥ १७९ ॥
इत्युक्तश्चतुर्वक्त्रो हर्षेण महतान्वितः ।
विमानं तत्समादाय स्थापयित्वा निजे गृहे ॥ १८० ॥
सात्वतोक्तविधानेन मनुनाऽष्टाक्षरेण तु ।
पूजयामास विधिवद्भोगैर्नानाविधैर्विभुम् ॥ १८१ ॥
एवं बहुषु कालेषु व्यतीतेषु मुनीश्वराः ।
सनत्कुमारो योगीन्द्रः कदाचित्क्षीरसागरात् ॥ १८२ ॥
सत्यलोकं समासाद्य तव नारायणं प्रभुम् ।
दृष्ट्वा श्रिया समेतं सर्वचित्तापहारिणम् ॥ १८३ ॥
प्रणम्य प्राञ्जलिस्तस्थावुवाचेदं चतुर्मुखम् ।
भवान् गुरुः पिता चापि मम वात्सल्यवारिधे ॥ १८४ ॥
त्वतोऽन्यो नास्ति मे लोके गतिः सर्वार्थदायक ।
इयन्तं कालमाश्राय श्रीमन्नारायणो विभुः ॥ १८५ ॥
भवताराधितः सम्यग्भोगैर्नानाविधैरपि ।
अत्राहं यष्टुमिच्छामि भवदाराधितं विभुम् ॥ १८६ ॥
नारायणं जगन्नाथं दातुमर्हसि मे पितः ।
इति सम्प्रार्थितो ब्रह्मा पुत्रवात्सल्यवानपि ॥ १८७ ॥
वियोगभीत्या विष्णोश्चिन्तापरवशोऽभवत् ।
तदा नारायणः श्रीमान् चिन्ताव्याकुलमानसम् ॥ १८८ ॥
दृष्ट्वाऽब्जसम्भवं प्रीत्या वाक्यमेतदुवाच ह ।
चिन्तां जहि महाबुद्धे विश्लेषान्मम पद्मज ॥ १८९ ॥
अर्चान्तरमिदं मेऽपि ददामि तव सम्प्रति ।
मामादाय मुनीन्द्रोऽयं सम्प्राप्य धरणीतलम् ॥ १९० ॥
संस्थाप्य पूजयेनित्यं पद्मकूटाभिधे गिरौ ।
यत्र मां द्रष्टुमनिशं तपस्यन्ति मुनीश्वराः ॥ १९१ ॥
इत्युक्त्वा भगवान् देवो रूपं स्वं स्वं हृदयोद्भवम् ।
श्रिया पुष्ट्या च सहितं प्रायच्छद्ब्रह्मणे तदा ॥ १९२ ॥
पितामहस्तदादाय रूपं श्रीपुष्टिसंयुतम् ।
अभ्यर्चयद्विशेषेण भोगैर्विस्मितमानसः ॥ १९३ ॥
ततः सनत्कुमारं तमाहूय कमलोद्भव ।
सन्तोषोत्फुल्लनयनः प्रोवाचेदं मुनीश्वराः ॥ १९४ ॥
सनत्कुमार हे वत्स सत्पुत्रोऽसि भवान्मम ।
साक्षान्नारायणो देवो यतः सानुग्रहस्त्वयि ॥ १९५ ॥
इत्युक्त्वाथ मुनीन्द्राय दिव्यमष्टाक्षरं मनुम् ।
उपदिश्य तदर्थञ्च तथा सात्वतसञ्ज्ञकम् ॥ १९६ ॥
महोपनिषदं तन्त्रं ग्राहयामास योगिनम् ।
यो मूलवेदो विख्यातस्तद्वक्त्रसमात्परिस्रुतम् ॥ १९७ ॥
सिद्धिमोक्षप्रदं विप्राः सर्वशास्त्रार्थगर्भितम् ।
यत्र शान्ततरं व्यूहं शान्तोदितमनन्तरम् ॥ १९८ ॥
सुषुप्तिसञ्ज्ञं स्वप्नाख्यं जाग्रद्व्यूहं यथोदितम् ।
मूर्त्यन्तरं केशवाद्यं प्रादुर्भावान्तरं तथा ॥ १९९ ॥
हृत्पद्मपद्मपीठादौ लक्ष्मीपुष्ट्यादिशक्तिभिः ।
लाञ्छनैः शङ्खचक्राद्यैः गरुडप्रमुखैरपि ॥ २०० ॥
भूतसिद्धादिभिः शास्त्रपर्यन्तैः पूजनं हितम् ।
विश्वत्रातुर्नृसिंहस्य दीक्षापूर्वं तथा परम् ॥ २०१ ॥
विभवव्यूहसूक्ष्माख्यमधिकारं यथाक्रमम् ।
समयीपुत्रकादीनां चतुर्णामभिषेचनम् ॥ २०२ ॥
तथैव समयाचारं मूर्तीनां स्थापनक्रमः ।
मन्त्रमण्डलमुद्राणां कुण्डादीनां च लक्षणम् ॥ २०३ ॥
यत्र प्रोक्तं भगवता लोकोज्जीवनहेतुना ।
तदर्थश्चोपदिश्याथ तत्प्राप्तिं च व्यवार्णयत् ॥ २०४ ॥
इदं हि सात्वतं तन्त्रं वासुदेवाज्जगत्प्रभोः ।
सङ्कर्षणेन सम्प्राप्तं तस्मात्सङ्कर्षणात्पुनः ॥ २०५ ॥
प्रद्युम्नाख्येन सम्प्राप्तमनिरुद्धेन वै ततः ।
अनिरुद्धान्मया प्राप्तं मत्तो रुद्रादिभिस्तथा ॥ २०६ ॥
सर्वेषु दिव्यशास्त्रेषु नास्त्यस्मादधिकं मुने ।
यथा सर्वेषु मन्त्रेषु नास्ति चाष्टाक्षरात्परम् ॥ २०७ ॥
एतदुक्तविधानेन नारायणममुं मुने ।
समभ्यर्चय लोकेशं भोगैः सांस्पर्शिकादिभिः ॥ २०८ ॥
वैकुण्ठवर्धनं नाम क्षेत्रमस्ति महीतले ।
तत्रास्ति पद्मकूटाख्यः कश्चिद्गिरिवरो महान् ॥ २०९ ॥
कावेर्या उत्तरे भागे मुने योजनमात्रतः ।
अप्राकृतं हि तत्स्थानं भूवैकुण्ठमिति श्रुतम् ॥ २१० ॥
पुरा भगवदाज्ञाः साक्षाच्छेषो हि शैलताम् ।
सम्प्राप्यागमनं विष्णोः प्रतीक्षन् वर्ततेऽधुना ॥ २११ ॥
विरजाप्यंशभागेन तद्गिरेरुत्तरे तटे ।
प्रवहत्यमला नित्यं सर्वदोषप्रणाशिनी ॥ २१२ ॥
तथैवानेकतीर्थानि क्षेत्राणि विविधानि च ।
सन्ति तत्र गिरिश्रेष्ठे सेव्यानि विबुधोत्तमैः ॥ २१३ ॥
कलौ युगेऽपि तत्रत्या न दुष्यन्ति कदाचन ।
तस्य प्रलयकालेऽपि नाशो नास्ति गिरेर्मुने ॥ २१४ ॥
ततस्तत्सदृशं स्थानं ब्रह्माण्डान्तर्न किञ्चन ।
तस्मिन् गिरौ मुनिवरा बहवः संशितव्रताः ॥ २१५ ॥
नारायणममुं द्रष्टुं तपस्यन्त्यमलाशयाः ।
तेष्वप्यनुग्रहो जातो देवस्यास्य कृपानिधेः ॥ २१६ ॥
तस्माद्विमानमेतत्त्वं समादाय समाहितः ।
तस्मिन् गिरिवरे स्थाप्य यज नारायणं प्रभुम् ॥ २१७ ॥
एवमुक्तो मुनिवरः सन्तुष्टहृदयस्ततः ।
पितामहाद्देवदेवं लब्ध्वा नारायणं प्रभुम् ॥ २१८ ॥
फाल्गुन्यां पौर्णमास्यां हि हस्तर्क्षे मुनिसत्तमाः ।
तमानीय गिरिश्रेष्ठं तद्भूमौ मुनिसेविते ॥ २१९ ॥
तीरे तीर्थवरस्यैव तद्विमानममितप्रभम् ।
संस्थापयामास तदा तत्रत्या मुनिपुङ्गवाः ॥ २२० ॥
दृष्ट्वा नारायणं देवं हर्षेण महतान्विताः ।
अस्माकमिह कल्याणं कल्याणमिति चोचिरे ॥ २२१ ॥
ततः कल्याणतीर्थं तद्वदन्ति मनीषिणः ।
ततः सनत्कुमारस्तु सात्वतोक्तविधानतः ॥ २२२ ॥
समभ्यर्चयन् जगन्नाथं सन्तुष्टहृदयोऽभवत् ।
अतो नारायणस्तत्र गिरौ वसति सन्ततम् ॥ २२३ ॥
नारायणाचल इति ततः प्रभृति कथ्यते ।
तत्र नारायणस्यैवमवतारः समीरितः ॥ २२४ ॥
अर्चान्तरस्तु यत्प्रोक्तं नारायणहृदुद्भवम् ।
तच्चापि तं गिरिं प्राप कुतश्चित्कारणात्पुरा ॥ २२५ ॥
तद्वृत्तमिह वक्ष्यामि शृणुध्वं मुनिपुङ्गवाः ।
पुरा नारायणः श्रीमान् लोकरक्षणहेतुना ॥ २२६ ॥
अवतीर्य रघोर्वंशे रामो रक्षःकुलान्तकः ।
पितृवाक्योपदेशेन दण्डकारण्यवासिनाम् ॥ २२७ ॥
मुनीनां रक्षणार्थाय तत्र तत्राश्रमे वसन् ।
लक्ष्मणेन च लावण्यपूर्णया सीतयान्वितः ॥ २२८ ॥
नारायणगिरिं प्राप्य कदाचिन्मुनिसेवितम् ।
कृतातिथ्यो मुनिगणैः कौतूहलसमन्वितैः ॥ २२९ ॥
अधित्यकायां तस्योच्चतुङ्गशृङ्गेऽतिमञ्जुले ।
सीतावारिविहारार्थं सुमित्रासूनुना क्षणात् ॥ २३० ॥
धनुष्कोट्या कृते खाते सद्यस्सञ्जातवारिणि ।
विहृत्य सीतया सार्धं निमज्ज्यान्तर्जले जपन् ॥ २३१ ॥
ऋचोऽघमर्षणीरस्तत्र ददर्श परमाद्भुतम् ।
रूपं भगवतः पश्चादुन्मज्ज्यालोच्य राघवः ॥ २३२ ॥
पर्यटन् परितः शैलं विस्मयाविष्टमानसः ।
पारे कल्याणतीर्थस्य पद्मपत्रायतेक्षणम् ॥ २३३ ॥
पश्यन्नारायणं देवं प्रणम्य शिरसासकृत् ।
पूजयन् कतिचिन्मासानुवास तदनन्तरम् ॥ २३४ ॥
उवाच भगवान् रामं परितुष्टोऽस्मि पूजया ।
दत्ताभयो मुनीनां त्वं जित्वा राक्षसपुङ्गवान् ॥ २३५ ॥
सर्वैः परिजनैः सार्धं साकेतपुरमाविश ।
तत्रांशेनागमिष्यामि तदा मां यष्टुमर्हसि ॥ २३६ ॥
इत्युक्तो रघुशार्दूल इन्दिरारमणाज्ञया ।
कृत्वा निष्कण्टकां पृथ्वीं साकेतनगरे वरे ॥ २३७ ॥
अभिषिक्तः स्वभक्ताय राक्षसेन्द्राय धीमते ।
स्ववंशार्चितं देवं दत्त्वा रङ्गेश्वरं विभुम् ॥ २३८ ॥
नीते रङ्गाधिपे तेन चिन्ताविष्टचेतनः ।
तद्विदित्वा चतुर्वक्त्रः श्रीभूसहितं विभुम् ॥ २३९ ॥
नारायणांशमादाय साकेतनगरीं जवात् ।
समभ्येत्य च रामाय ददौ स्वार्चितं हरिम् ॥ २४० ॥
ततो रामः सम्प्रहृष्टः श्रीभूमिसहितं विभुम् ।
अर्चयामास विधिवच्चिरं निजगृहे द्विजाः ॥ २४१ ॥
अतो रामप्रिय इति तस्य नामाभवद्द्विजाः ।
ततः कुशो रामपुत्रः स्वपित्राराधितं विभुम् ॥ २४२ ॥
पूजयन् स्वसुतां काञ्चिद्यदुवंशाय भूभृते ।
दत्त्वा तया प्रार्थितः सन् प्रादात्तस्मै तमच्युतम् ॥ २४३ ॥
लब्ध्वा कन्यां च तं देवं यदुशेखरसञ्ज्ञकः ।
मधुरानगरीमेत्य तत्रैव निजमन्दिरे ॥ २४४ ॥
संस्थाप्य कमलाकान्तं समभ्यर्चयदादरात् ।
ततस्तु तत्क्रमाल्लब्ध्वा यदुवंशसमुद्भवः ॥ २४५ ॥
कृष्णः श्रियः पतिं देवं पूजयन् विनतासुतात् ।
प्राप्तं किरीटमतुलं कलशार्णवशायिनः ॥ २४६ ॥
समर्प्य तस्मै देवाय विविधोत्सवमातनोत् ।
ततः कदाचिन्मुसली तीर्थयात्रानिमित्ततः ॥ २४७ ॥
गत्वा नारायणगिरिं तत्र कल्याणनामके ।
तीर्थे तथाष्टतीर्थेषु स्नात्वा तच्छैलमूर्धनि ॥ २४८ ॥
योगासनसमासीनं योगानन्दं जगत्प्रभुम् ।
सर्वदेवमयं देवं सर्वेषां तेजसां निधिम् ॥ २४९ ॥
सर्वलक्षणसम्पूर्णं सार्वज्ञ्यादिगुणैर्युतम् ।
निष्टप्तकनकाभं च सम्पूर्णाङ्गं महत्तनुम् ॥ २५० ॥
घोरशार्दूलवदनं चण्डमार्ताण्डलोचनम् ।
सौदामिनीचयप्रख्यैर्लोमभिः परिपूरितम् ॥ २५१ ॥
अरुणाम्भोजपत्राभं वज्राधिककरोरुहम् ।
चलत्फणीश्वरसटं चन्द्रकोटितडिद्द्युतिम् ॥ २५२ ॥
प्रलयाम्बुधिनिर्घोषमुदीर्यन्तं स्ववाचकम् ।
युगान्तहुतभुग्ज्वालामण्डलान्तर्व्यवस्थितम् ॥ २५३ ॥
जान्वासक्तभुजद्वन्द्वं योगपट्टविभूषितम् ।
रथाङ्गशङ्खधारिं पश्चाद्बाहुद्वयेन च ॥ २५४ ॥
मार्ताण्डकोटिसदृशकिरीटमकुटोज्ज्वलम् ।
कौस्तुभेनोरसिस्थेन श्रीवत्सेनाप्यलङ्कृतम् ॥ २५५ ॥
रक्तकाञ्चनसन्मुक्तायुक्तया वनमालया ।
सब्रह्मसूत्रया चैव शोभितं परमेश्वरम् ॥ २५६ ॥
दिव्यगन्धानुलिप्ताङ्गं दिव्याम्बरधरं तथा ।
दिव्यस्रग्वेषोपेतं दिव्यालङ्कारमण्डितम् ॥ २५७ ॥
सुभीषणं सौम्यरूपं स्वाश्रिताभीष्टसिद्धिदम् ।
देवं नरहरिं दृष्ट्वा नत्वा तत्पादपङ्कजे ॥ २५८ ॥
स्तोत्रैर्नानाविधैः स्तुत्वा सन्तुष्टहृदयो हली ।
तस्मिन् गिरिवरे विप्राश्चरन् तत्र च सञ्चरन् ॥ २५९ ॥
आनन्दमयमध्यस्थं सौन्दर्यामृतवारिधिम् ।
दृष्ट्वा नारायणं देवं निमग्नो विस्मयाम्बुधौ ॥ २६० ॥
नत्वा तत्पादकमले तुष्टावेत्थं जगत्पतिम् ।
जितन्ते पुण्डरीकाक्ष जितन्ते भक्तवत्सल ॥ २६१ ॥
जितन्ते कमलाकान्त जितन्ते पुरुषोत्तम ।
नारायण नमस्तेऽस्तु वासुदेव नमोऽस्तु ते ॥ २६२ ॥
नमोऽस्तु विष्णवे तुभ्यं नमस्ते सर्वशेषिणे ।
नमस्ते पररूपाय नमस्ते व्यूहरूपिणे ॥ २६३ ॥
नमो विभवरूपाय नमस्ते त्वन्तरात्मने ।
नमस्तेऽर्चावताराय नानाकाराय ते नमः ॥ २६४ ॥
भवान् हि लोकरक्षार्थं लक्ष्म्या कारुण्यरूपया ।
सुदर्शनेनापि युतो विहरस्यत्र भूतले ॥ २६५ ॥
अद्य मे सफला दृष्टिः सौन्दर्यामृतवारिधिः ।
यद्भवान् सर्वलोकेशो मम दृष्टिपथं गतः ॥ २६६ ॥
पुण्यक्षेत्रेषु सर्वेषु सर्वदेवायतनेषु च ।
न पश्यामि जगन्नाथ भगवन्तं भवादृशम् ॥ २६७ ॥
शरणं त्वां प्रपन्नोऽस्मि शरणागतवत्सल ।
कटाक्षैः करुणापूर्णैः समालोकय मां विभो ॥ २६८ ॥
एवं नानाविधैः स्तोत्रैः स्तुतो नारायणो हरिः ।
उवाच बलभद्रं तं करुणापूर्णमानसः ॥ २६९ ॥
बलभद्र भवान् भक्तः शेषोऽसि मम किङ्करः ।
अभीप्सितं किं भवतो ब्रूहि तद्वददामि ते ॥ २७० ॥
इत्युक्तो बलभद्रोऽयं प्रत्युवाच जगत्प्रभुम् ।
नारायण दयाम्बोधे तव कैङ्कर्यतः विना ॥ २७१ ॥
किमस्त्यभीप्सितं नाथ त्वामिहार्चितुं विभो ।
अभिलषामि रमाकान्त पुरयास्मन्मनोरथम् ॥ २७२ ॥
इति सम्प्रार्थितो देवः प्रत्युवाच बलं तदा ।
श्रीनारायणः ।
अस्ति ते विमला भक्तिः मयि यादवनन्दन ॥ २७३ ॥
प्रथमं शेषरूपो मे कैङ्कर्यमकरोद्भवान् ।
ततस्तु लक्ष्मणो भूत्वा मामाराधितवानिह ॥ २७४ ॥
इदानीमपि मां यष्टुं बलभद्र त्वमर्हसि ।
कलावपि युगे भूयः कश्चिद्भूत्वा द्विजोत्तमः ॥ २७५ ॥
नानाविधैर्भोगजालैः अर्चनं मे करिष्यसि ।
इत्युक्तो देवदेवेन बलभद्रः प्रहृष्टधीः ॥ २७६ ॥
पूजयामास विधिवद्भोगैर्नानाविधैर्हरिम् ।
तदर्चनेनातितुष्टः श्रीमान्नारायणो विभुः ॥ २७७ ॥
उत्सवादीन् कर्तुकामं बलमेवमुवाच ह ।
श्रिया भूम्या च सहितं रूपं मम हृदुद्भवम् ॥ २७८ ॥
मधुरायां भवद्गेहे पूज्यते किल यादव ।
तदानीतोत्सवार्चां मे कृत्वा नानाविधोत्सवान् ॥ २७९ ॥
कर्तुमर्हसि भक्त्या त्वं तेन तुष्याम्यहं हलिन् ।
एवमुक्तो रोहिणेयस्त्वरया मधुरां पुरीम् ॥ २८० ॥
एत्य कृष्णाय तद्वृत्तं विस्तरेण न्यवेदयत् ।
तच्छ्रुत्वा भगवान् कृष्णो बभूवातिविस्मितः ॥ २८१ ॥
ततो यदूद्वहौ कृष्णबलरामौ श्रियः पतिम् ।
शिबिकायां समारोप्य सर्वाभरणभूषितम् ॥ २८२ ॥
यात्रोपकरणैः सर्वैश्चतुरङ्गबलैः सह ।
माघमासे तु चित्रर्क्षे सुमुहूर्ते मनोहरे ॥ २८३ ॥
नीत्वा गिरिवरं तत्र नारायणपुरो भुवि ।
संस्थाप्य च महानन्दात् पूजयामासतुर्हरिम् ॥ २८४ ॥
ततस्तु देवदेवस्य कर्तुकामौ महोत्सवम् ।
बल्यर्चां स्नपनार्चां च प्रतिष्ठाप्याज्ञया हरेः ॥ २८५ ॥
महोत्सवं तु विधिवत्कृत्वा देवस्य शार्ङ्गिणः ।
फाल्गुने मासि हस्तर्क्षे सर्वतीर्थसमाश्रिते ॥ २८६ ॥
तस्मिन् कल्याणसरसि चक्रातेऽवभृथोत्सवम् ।
यतस्तत्रार्चितो देवो यादवाभ्यां रमासखः ॥ २८७ ॥
तदा प्रभृति तच्छैलो यादवद्रिरितीर्यते ।
इति नारायणस्यास्य माहात्म्यं कीर्तितं मया ॥ २८८ ॥
इतः परं यच्छ्रोतव्यं कथ्यतां तन्मुनीश्वराः ।
मुनयः ।
सर्वज्ञ मुनिशार्दूल तत्र यादवभूधरे ॥ २८९ ॥
अस्ति कल्याणतीर्थमाहात्म्यं यत्तदुत्पत्तिं तथैव हि ।
तच्छैलाग्रे संस्थितस्य नृहरेर्वैभवं वयम् ॥ २९० ॥
आकर्णयितुमिच्छामस्तदपि त्वं प्रकाशय ।
नारदः ।
साधु पृष्टं महाभागा भवद्भिः सारवेदिभिः ॥ २९१ ॥
कल्याणतीर्थमाहात्म्यं वक्ष्यामि शृणुताधुना ।
पुरा वराहो भगवान् मग्नमम्भौ वसुन्धराम् ॥ २९२ ॥
समुद्धृत्य यथापूर्वं संस्थाप्याथ महीधरे ।
तस्मिन् शेषात्मके देव्या भूम्या सह समाश्रितः ॥ २९३ ॥
तदा देवाङ्गसंलग्नाः समुद्रजलबिन्दवः ।
गलितास्तत्र तत्तीर्थं कल्याणमभवद्द्विजाः ॥ २९४ ॥
तदा देवाः पुष्पवर्षैः समाकीर्य जगत्पतिम् ।
तुष्टुवुर्विविधैः स्तोत्रैः ननृतुश्चाप्सरोगणाः ॥ २९५ ॥
दिव्यदुन्दुभयो नेदुः बभूव मुदितं जगत् ।
ततो ब्रह्मादयो देवाः सर्वे देवर्षिपुङ्गवाः ॥ २९६ ॥
तत्रागत्य वराहन्तं प्रार्थयामासुरच्युतम् ।
देवाः ।
देवदेव जगन्नाथ सर्वलोकैकरक्षक ॥ २९७ ॥
त्वया हतो महादैत्यो वसुधापि समुद्धृता ।
वयं च रक्षिता देव करुणामृतवारिधे ॥ २९८ ॥
इहानेनैव रूपेण भवान् भूम्या समन्वितः ।
स्थातुमर्हसि लोकेश भक्तानुग्रहकाम्यया ॥ २९९ ॥
इति देवैः प्रार्थितोऽयं वराहो भगवान् हरिः ।
स्वाङ्के वसुन्धरां न्यस्य तस्याः उपदिशन् मनुम् ॥ ३०० ॥
प्राग्भागे तस्य तीर्थस्य ह्यद्याप्यास्ते मुनीश्वराः ।
तत्र तेन वराहेण स्वाज्ञाप्तः पतगेश्वरः ॥ ३०१ ॥
श्वेतद्वीपाच्छुद्धमृदं समाहृत्य सरस्तटे ।
पुरा निक्षिप्तवान् सा हि मृत्तिका लोकपूजिता ॥ ३०२ ॥
फाल्गुने मासि कल्याणसंज्ञे तस्मिन् सरोवरे ।
गङ्गाद्याः सकला नद्यो भजन्ते सन्निधिं द्विजाः ॥ ३०३ ॥
तन्मासि पौर्णमास्यां हि ब्रह्माद्या देवतोत्तमाः ।
स्नातुं कल्याणसरसि समागच्छन्ति भक्तितः ॥ ३०४ ॥
दिव्यं कल्याणतीर्थं तद्ये पश्यन्ति स्मरन्ति वा ।
प्रदक्षिणं वा कुर्वन्ति प्रणमन्ति भजन्ति वा ॥ ३०५ ॥
ये वा तत्तीर्थमाहात्म्यं भक्त्या शृण्वन्ति मानवाः ।
स्नानं वा तत्र कुर्वन्ति तत्तीर्थन्तु पिबन्ति वा ॥ ३०६ ॥
ये वार्चयन्ति पुष्पाद्यैस्ते जना लोकपावनाः ।
आयुरारोग्यमैश्वर्यं विद्या तेजो जयं यशः ॥ ३०७ ॥
सत्सुतांश्चापि सन्तोषं यद्यदिष्टमिह द्विजाः ।
तत्सर्वमचिरादेव लभन्ते नात्र संशयः ॥ ३०८ ॥
तस्य तीर्थस्य माहात्म्यं ब्रह्माद्यैरपि देवतैः ।
सम्यक् न शक्यते ज्ञातुं किं पुनः खलु मादृशैः ॥ ३०९ ॥
इत्युक्तं लेशतस्तीर्थमाहात्म्यं मुनिपुङ्गवाः ।
अथ श्रीनारसिंहस्य माहात्म्यं वक्ष्यते द्विजाः ॥ ३१० ॥
प्रह्लादो नृहरेर्भक्तः पुरा वैष्णवसत्तमः ।
तपसाराधितुं देवं नृसिंहं भक्तिसंयुतः ॥ ३११ ॥
अन्वेषमाणो विमलं तपःस्थानं धरातले ।
नारायणाचलं प्राप्य दृष्ट्वा तद्रामणीयकम् ॥ ३१२ ॥
नास्त्यस्मादधिकं स्थानं भुवीति कृतनिश्चयः ।
तत्र कल्याणसरसि स्नात्वा तत्तीरेगां शुभाम् ॥ ३१३ ॥
श्वेतमृत्स्नां समादाय धृत्वा चैवोर्ध्वपुण्ड्रकान् ।
तच्छैलशिखरं प्राप्य विविक्तमतिनिर्मलम् ॥ ३१४ ॥
यमादिनियमैर्युक्तो नृसिंहैकाक्षरं शुभम् ।
तथैवानुष्टुभं मन्त्रं जपमानस्तदेकधीः ॥ ३१५ ॥
द्रष्टुं नरहरिं भूयः तपस्तेपे सुदुस्तरम् ।
ततस्तत्तपसा तुष्टो नृहरिर्भक्तवत्सलः ॥ ३१६ ॥
प्रादुरासीज्जगन्नाथः तस्य शैलस्य मूर्धनि ।
प्रह्लादः स्वतपःफलं नरहरिं वात्सल्यवारानिधिं श्रीवत्साङ्कितवक्षसं शुभगुणं चक्राब्जभास्वत्करम् ।
तच्छैलाग्रशिलातले शुभतरे योगासनस्थं परं दृष्ट्वा हृष्टतनूरुहो मुनिवरा वल्गन् ननर्तादरात् ॥ ३१७ ॥
तुष्टाव चेत्थं नृहरिं विस्मयाविष्टमानसः ।
नमस्ते श्रीनृसिंहाय नमस्ते दैत्यसूदन ॥ ३१८ ॥
नमस्ते जगतां नाथ नमस्ते भक्तवत्सल ।
रक्षकस्त्वं हि लोकस्य त्वदात्मकमिदं जगत् ॥ ३१९ ॥
ब्रह्माद्याः सकला देवा भवत्पादाब्जसेवकाः ।
नास्ति त्वतोऽधिका लोके देवता पुरुषोत्तम ॥ ३२० ॥
वेदान्तेषु विचिन्वन्ति त्वां मुनीन्द्राः सनातनम् ।
स भवान् करुणाम्भोधे मम दृष्टिपथं गतः ॥ ३२१ ॥
शरणं त्वां प्रपन्नोऽस्मि आत्मसात्कुरु मां विभो ।
इति नानाविधैः स्तोत्रैः स स्तुतो नरकेसरी ॥ ३२२ ॥
उवाचामृतवर्षिण्या गिरा प्रह्लादसञ्ज्ञकम् ।
प्रह्लाद तेऽद्य तपसा तुष्टोऽहं वरमीप्सितम् ॥ ३२३ ॥
वृणीष्व तत्प्रदास्यामि इत्युक्तः प्रह्लादनामकः ।
बद्धाञ्जलिपुटो भूत्वा प्रत्युवाच महामतिः ॥ ३२४ ॥
भवान् गुरुः पिता माता सुहृद्बन्धुश्च मे विभो ।
विद्या धनं च सकलं नास्ति त्वत्तो परं यतः ॥ ३२५ ॥
त्वां विनाहं क्षणमपि वस्तुं नेच्छे भुवीश्वर ।
तस्मान्निरन्तरं देव भवत्पादाब्जसेवनाम् ॥ ३२६ ॥
दातुमर्हसि देवेश त्विति सम्प्रार्थितो विभुः ।
प्रह्लादानुग्रहार्थाय तस्मिन्नेव महीधरे ॥ ३२७ ॥
कृतावासो नरहरिस्तेन सम्पूजितो भृशम् ।
अद्यापि राजते तत्र स्वाश्रिताभीष्टसिद्धिकृत् ॥ ३२८ ॥
एवं नारायणगिरेर्माहात्म्यं लेशतो मया ।
सङ्कीर्तितं मुनिवराः किमन्यच्छ्रोतुमिच्छथ ॥ ३२९ ॥
इति श्रीपाञ्चरात्रे ईश्वरसंहितायां यादवाचलमाहात्म्यं नाम विंशोऽध्यायः ॥
Kapitel 21 – दीक्षाविधिः / dīkṣāvidhiḥ
Siehe deutsche Übersetzung und Texthinweise.
मुनयः ।
भगवन्मुनिशार्दूल सर्वज्ञ वदतां वर ।
अदीक्षितानां पूजादौ प्रागुक्तानधिकारिता ॥ १ ॥
तस्माद्दीक्षाविधिं सम्यग्वदस्व मुनिपुङ्गव ।
नारदः ।
शृणुध्वं मुनयः सर्वे भवन्ति भगवन्मयाः ॥ २ ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा मुनिपुङ्गवाः ।
पूर्वोक्तलक्षणो ज्ञातः कश्चिद्दृढतरः पुमान् ॥ ३ ॥
संसारभयभीतस्तु निर्वाणमभिवाञ्छति ।
वैराग्यधीरचपलश्चिरकालं गुरोर्गृहे ॥ ४ ॥
संस्थितो दासभावेन स्वेदोद्वेगविवर्जितः ।
ज्ञात्वा तस्यार्थितं नूनमाहूयाग्रे निवेश्य च ॥ ५ ॥
कृताकृतं च प्रष्टव्यं आजन्मस्तत्क्षणावधि ।
ज्ञात्वा दोषबलं सम्यक्प्रायश्चित्तैर्यथोदितैः ॥ ६ ॥
कृच्छ्रातिकृच्छ्रपूर्वैस्तु छेदनीयं प्रयत्नतः ।
बहूनां परिपीडानामसामर्थ्यात्तु लाङ्गलिन् ॥ ७ ॥
मनःप्रसादपर्यन्तं कालं वा द्वादशाहिकम् ।
नियोक्तव्यो मिते पूतेऽयाचिते नक्तभोजने ॥ ८ ॥
स्तुतिसम्मार्जनस्नानपुष्पाद्याहरणोद्यमे ।
आश्रमे वैष्णवानां तु दिव्यायतने विभोः ॥ ९ ॥
अनिशं भगवद्बिम्बस्यापीठादवलोकने ।
अभिजाततनुर्यः प्राग्दुष्कृतमलिनीकृतः ॥ १० ॥
साम्प्रतं भगवद्भक्त्या पवित्रीकृतमानसः ।
अहोरात्रोषितो भूत्वा नखकेशादिलुण्ठितः ॥ ११ ॥
पञ्चगव्यमथापाद्य हृदाद्यैः सकुशोदकम् ।
मन्त्रैस्तद्वासुदेवाद्यैः समावर्त्य चतुःशतम् ॥ १२ ॥
एवं दिनचतुष्कं तु स्नापयेत्तेन तं सुधीः ।
प्रत्यहं चतुरो वारानाप्रभातान्निशागमम् ॥ १३ ॥
ब्रह्मतीर्थचतुष्कं त्वापूर्यापूर्य समं पिबेत् ।
क्रमात्सद्योदितैर्मन्त्रैः समाचम्यान्तरान्तरा ॥ १४ ॥
अतृप्तमशनं कुर्यादन्ते क्षीराज्यभावितम् ।
सेवयेत्फलमूलैर्वा अहोरात्रचतुष्टयम् ॥ १५ ॥
इति भक्त्या प्रपन्नानामाजीवमपि दुष्कृतात् ।
कथितं विरतानां च देहशुद्धिकरं परम् ॥ १६ ॥
ब्रह्मकूर्चसमेतं तु प्रायश्चित्तं मयाद्य ते ।
ज्ञात्वा महत्त्वं दोषाणां त्रिविधानां तु वै पुरा ॥ १७ ॥
सम्भवे सति हेमादिदानं सततमाचरेत् ।
पूर्वोक्तविहितकालाल्लघुदुष्कृतिनां क्रमात् ॥ १८ ॥
चतुर्थांशेन ह्रासस्तु ब्रह्मकूर्चं पिबेत्ततः ।
कालेन वर्णोत्कर्षेण सह सामान्य मुच्यते ॥ १९ ॥
प्रायश्चित्तं हि सर्वेषां सर्वकल्मषनाशनम् ।
उत्तरोत्तरतां बुद्ध्वा प्रथमं दुष्कृतस्य च ॥ २० ॥
क्षपयेत्तद्द्विजेन्द्रस्तु मासैर्द्वित्रिचतुर्गुणैः ।
नृपविट्शूद्रजातीय एकैकं वर्धयेत्क्रमात् ॥ २१ ॥
मासमेकादिकान् कालान् समारभ्य यथाक्रमात् ।
दुराचारोऽपि सर्वाशी कृतघ्नो नास्तिकः पुरा ॥ २२ ॥
समाश्रयेदादिदेवं श्रद्धया शरणं यदि ।
निर्दोषं विद्धि तं जन्तुं प्रभावात्परमात्मनः ॥ २३ ॥
किं पुनर्योऽनुतापार्तः शासनेऽस्मिन् हि संस्थितः ।
विरतः कुकृताच्चैव भक्तिच्छायां समाश्रितः ॥ २४ ॥
एवं संशुद्धदोषाणां बहुजन्मार्जितस्य च ।
कल्मषस्य विघातार्थं नारसिंहीं महामते ॥ २५ ॥
कृत्वा वै साम्प्रतं दीक्षां दद्याद्वै मन्त्रपूर्वकम् ।
आराधनं हि तस्यैव वैभवीयस्य वै विभोः ॥ २६ ॥
सबाह्याभ्यन्तरं चैव सम्यङ्मासचतुष्टयम् ।
मासाष्टकं वत्सरं वा बुद्ध्या भावबलं पुरा ॥ २७ ॥
ज्ञात्वा भव्याशयानां च प्रसादं पारमेश्वरम् ।
विभवव्यूहसूक्ष्माख्यां दीक्षां कुर्यात्तदन्तरम् ॥ २८ ॥
अथ दीक्षाविधिं वक्ष्ये शृणुध्वं मुनिसत्तमाः ।
संप्राप्तप्रत्ययानां च द्विजादीनां च सांप्रतम् ॥ २९ ॥
सम्यक्प्रक्षीणपापानामारूढानामिह क्रमे ।
शुभेऽनुकूले नक्षत्रे तिथौ लग्ने शुभे क्षणे ॥ ३० ॥
भक्तानामधिवासार्थं क्ष्मापरिग्रहमाचरेत् ।
पुण्यदेशेऽनुकूले च मनोज्ञे साधुसेविते ॥ ३१ ॥
मृद्वारिफलपुष्पाढ्ये कुशेन्धनसमन्विते ।
गोसस्यशालिसुभगे क्षुद्रप्राणिविवर्जिते ॥ ३२ ॥
तत्र वर्णानुरूपां क्ष्मां भजेत्पूर्वोक्तलक्षणाम् ।
सर्वदोषविनिर्मुक्तां सत्पक्षिमृगसेविताम् ॥ ३३ ॥
या शुभायतनोद्देशे मठगोष्ठापणैर्गृहैः ।
तोयाशयाश्रमक्षेत्रैः सद्वृतैरन्तरीकृता ॥ ३४ ॥
जलाद्भयविनिर्मुक्ता बलाद्भुक्ता च सज्जनैः ।
वनैरुपवनैर्ग्रामैः नगराङ्गैः समावृता ॥ ३५ ॥
अलाभे सति लाभे वा स्वभूमेर्ब्राह्मणादिषु ।
स्वमन्त्रेणार्चनात्स्वत्वं कुर्याद्वर्णव्यपेक्षया ॥ ३६ ॥
उद्धृतां कृतखातां च ज्ञात्वा दोषान्वितां पुरा ।
शुभमृत्पूरितां कृत्वा लघ्वश्मभिरथान्तरात् ॥ ३७ ॥
ततश्च कुट्टयेत्पश्चात्पञ्चगव्येन सेचयेत् ।
युक्तां हेमादिसद्रत्नैः समीकृत्योपलिप्य च ॥ ३८ ॥
तत्रार्चनं विभोः कुर्याद्धवनान्तं च पूर्ववत् ।
भूतानां बलिदानं च सुरभीणां च तर्पणम् ॥ ३९ ॥
द्विजानां दक्षिणान्तं वै ततस्तत्र समापयेत् ।
प्राग्दिक्षु सिद्धिपूर्वं तु मण्डपं मण्डनान्वितम् ॥ ४० ॥
स्तम्भद्विद्वितयेनैव कोणकेनोपशोभितम् ।
पार्थिवेन च पीठेन मध्येन विराजितम् ॥ ४१ ॥
विस्तारात्तु द्विजादीनां शूद्रान्तानां समं स्मृतम् ।
अष्टाश्रमथ वा वृत्तं तुर्यश्रं सोपपीठकम् ॥ ४२ ॥
अष्टाङ्गुलसमुत्सेधादेकापायेन लक्षितम् ।
स्वोन्नत्यर्धेनोपीठं सर्वेषां परिकल्पयेत् ॥ ४३ ॥
विस्तारमुपपीठानामुच्छ्रायाद्द्विगुणं समम् ।
उपपीठस्य संलग्नात्तन्मानेन तु चोन्नता ॥ ४४ ॥
आप्यदिक्स्थाग्रहस्ता च सम्पाद्यासनपिण्डिका ।
नैवेद्यमुपपीठे तु विनिवेश्य निधाय च ॥ ४५ ॥
तस्य दक्षिणदिग्भागे त्वन्तर्गमनसंयुतम् ।
विविक्ते लोचनोपेतं पिण्डिकाकुण्डभूषितम् ॥ ४६ ॥
सकवाटार्गलोपेतं कुर्याद्धवनमण्डपम् ।
उपलिप्यास्त्रजप्तेन वारिणा गोमयेन तु ॥ ४७ ॥
विधिवच्छोभनं कुर्यादित्येवं मण्डपद्वयम् ।
विहितो वित्तविरहादधिवासो द्विजालये ॥ ४८ ॥
शिष्ये वाचार्यभवने तत्र कुर्यात्परिग्रहम् ।
प्राग्वदर्चनपूर्वं तु भूततर्पणपश्चिमम् ॥ ४९ ॥
ओदनं दधिलाजाज्यमधुतोयपरिप्लुतम् ।
भूततर्पणमित्युक्तं तद्विना तत्र तेऽनिशम् ॥ ५० ॥
सन्तिष्ठन्ते बहिः क्रुद्धाः काङ्क्षमाणाः परं पदम् ।
अथश्च विहितं यत्नात् स्थाने क्षेत्रीकृते सति ॥ ५१ ॥
निर्विघ्नसिद्धये दद्याद्बलिं सर्वत्र सर्वदा ।
कृत्वैवं मङ्गलार्थं तु दीर्घघण्टारवोपमम् ॥ ५२ ॥
स्वपदात्प्राग्वदुत्थाप्य प्रोच्चार्य प्रणवं महत् ।
प्रवेशयेत्ततस्तस्माल्लाजान् सिद्धार्थकान् शुभान् ॥ ५३ ॥
फलानि श्रीफलादीनि चन्दनादीनि रोचनाम् ।
श्वेतपूर्वाः सुमनसस्तन्महीरुहमञ्जरीम् ॥ ५४ ॥
साग्रान् हरितदर्भांश्च सर्वरत्नानि काञ्चनम् ।
सर्वौषधीत्वगेलाख्यं सुगन्धिनिचयं शुभम् ॥ ५५ ॥
पद्मकं शङ्खपुष्पं च विष्णुक्रान्तां च कुन्दकम् ।
सप्त सप्त च धान्यानि बीजानि च समानि षट् ॥ ५६ ॥
शालिश्यामाकनीवारतण्डुलं भूरि संभृतम् ।
गोसम्भवानि वै पञ्च पात्रेष्वौदुम्बरेषु च ॥ ५७ ॥
तत्स्राववर्जितान्यानि तान्येव सुबहून्यपि ।
प्रतिक्षणोपयोगार्थं भाण्डेष्वभिनवेषु च ॥ ५८ ॥
पाद्याचमनमर्घ्यार्थं दध्यन्तं विनिवेदने ।
हेमाद्युत्थानि पात्राणि मृदुपर्णपुटानि वा ॥ ५९ ॥
पाण्डुराणि दुकूलानि वस्त्रयुग्मद्वयं नवम् ।
उपवीतं सोत्तरीयं सुसिते धौतवाससी ॥ ६० ॥
कौशेयानि पवित्राणि कङ्कणं साङ्गुलीयकम् ।
स्फाटिकं चाक्षसूत्रं तु पद्माक्षन्तु गणित्रकम् ॥ ६१ ॥
पञ्चलोहमयं चक्रं सशङ्खं द्वादशारकम् ।
कुतपं योगपट्टं च नेत्रवस्त्रं मृगाजिनम् ॥ ६२ ॥
बृसिकां शाटकं पट्टं पादुके च उपानहौ ।
दण्डं प्रतिग्रहच्छत्रं चूर्णं गोधूममाषजे ॥ ६३ ॥
चतुर्वर्णानि माल्यानि सुन्दरं पावनं लघु ।
नीलशाद्वलसम्मिश्रं हरितं पत्रसञ्चयम् ॥ ६४ ॥
गुग्गुलुं मृष्टधूपं च दीपतैलं च वर्तयः ।
दर्पणं धूपपात्रं च घण्टा कूर्चं च दर्भजम् ॥ ६५ ॥
रजांसि करणीयुग्मं पालिकां घटिकां सिताम् ।
पञ्चाङ्गुलं तु सुदृढं हेमाद्यं कुशपञ्चकम् ॥ ६६ ॥
अलक्तरञ्जितं सूत्रं सुसितं कर्तरीक्षुरम् ।
काण्डान्यष्टौ तु साग्राणि बर्हिपक्षान्वितानि च ॥ ६७ ॥
प्रोन्नतानि स्थिरास्थीनि लोहमृत्काष्ठजानि वा ।
रञ्जितानि सुधाद्यैस्तु तदाधाराणि यानि च ॥ ६८ ॥
महुकान्यम्बुकुम्भानि भृङ्गारकरवीं शुभाम् ।
अकाममूलं निर्दाहं साधारं कलशं तथा ॥ ६९ ॥
स्थालीकमण्डलुं दर्वीं तसिधानं तु चुल्लिकाम् ।
भद्रपीठं चतुष्पादं चतुरश्रायतं नवम् ॥ ७० ॥
मात्रावित्तं सताम्बूलं दन्तधावनसञ्चयम् ।
शुष्कगोमयसंयुक्तामरणीं चाग्निदं मणिम् ॥ ७१ ॥
पलाशपूर्वाः समिधः साग्राः परिधयस्तु वै ।
प्रभूतमिन्धनं शुष्कमाज्याक्तं तिलतण्डुलम् ॥ ७२ ॥
प्रागुक्तं स्रुक्स्रुवाद्यं च होमोपकरणं च यत् ।
सर्वं पक्ष्मकपर्यन्तं बृहत्पात्रद्वयान्वितम् ॥ ७३ ॥
पूर्वोक्तानां च भोगानां मध्यादस्थण्डिलार्चने ।
संयाति चाङ्गभावं तत्तु ज्ञात्वा सर्वं प्रवेशयेत् ॥ ७४ ॥
अधिवासदिनात्पूर्वदिने कृत्वाङ्कुरार्पणम् ।
अधिवासदिने पूर्वं कृत्वा वै कौतुकं शिशोः ॥ ७५ ॥
अनुग्रहधियाचार्यो भक्तानां भाविनां विभोः ।
दिव्यभोगफलेप्सूनां निःश्रेयसपदार्थिनाम् ॥ ७६ ॥
प्रत्येकैकं हि यागाङ्गं वर्धयेद्दिव्यमूर्तिना ।
नित्येनाव्यक्ततत्त्वेन सन्मन्त्रब्रह्मणा सह ॥ ७७ ॥
स्वात्मकर्महुमद्रव्यं मन्त्रव्यूहं यथागमम् ।
फलदं स्यात्सकामानामकामानां हि मोक्षदम् ॥ ७८ ॥
सहसा यस्ततस्तत्र प्राग्वत्स्नात्वा कृताह्निकः ।
सम्प्रविश्याप्यदिक्संस्थः प्राङ्मुखः प्रविशेततः ॥ ७९ ॥
पद्मासनादिना मार्गे चर्मण्यास्यात्मपूर्वकम् ।
कुर्याद्यदधिकारेण मन्त्रेणानुग्रहं शिशोः ॥ ८० ॥
तेनाङ्गसहितेनैव सर्वकर्म समाचरेत् ।
समस्तवैभवैर्मन्त्रैः कार्या वानुग्रहो यदि ॥ ८१ ॥
सर्वाराधनदानार्थं द्विषट्कं चास्य वै तदा ।
विशाखयूपमन्त्रेण कुर्यात्तद्धारणाद्वयम् ॥ ८२ ॥
तद्बीजेन तनुं व्याप्य प्राग्वत्तदभिमन्त्रितैः ।
पुराहृतैर्यथाशक्ति मण्डलं च समाचरेत् ॥ ८३ ॥
प्राक्समालभनैर्वस्त्रैः कटकाङ्गुलीयकैः ।
सितोष्णीष महता सितमाल्येन वै सह ॥ ८४ ॥
मुखवासैस्ताम्बूलैर्ललाटतिलकेन च ।
कृत्वा शुभेन शारीरं योगपट्टेन संस्थितम् ॥ ८५ ॥
हृत्पुण्डरीकमध्ये तु सस्यसद्बीजमैश्वरम् ।
करयोः पद्मनाभीयं ध्रुवाख्यमथ विग्रहे ॥ ८६ ॥
शेषैरङ्गस्य पादान्तमाम्रक्ष्यापि पूर्ववत् ।
हस्तयोर्विग्रहे साङ्गं विन्यसेद्बीजमैश्वरम् ॥ ८७ ॥
मुद्रावसानं कृत्वैवं सम्यक्तदनु चाहरेत् ।
पाणिभ्यां शङ्खचक्रे द्वे स्वमन्त्रेणाभिमन्त्रिते ॥ ८८ ॥
भूत्वा तदात्मना पश्चात्तौ निधाय धरातले ।
अवलोक्याखिलं तत्त्वं प्रवर्तेताथ कर्मणि ॥ ८९ ॥
अस्त्रमन्त्राभिमन्त्रितं कृत्वा कर्मागारान्तरे स्थितः ।
तेनोपलिप्य सम्मार्ज्य यागस्थानं निघृष्य च ॥ ९० ॥
तद्ब्रह्माख्यवयो भूयस्तेजसोऽभिवृद्धये ।
हेमपूर्वाणि रत्नानि बीजानि विनिवेश्य च ॥ ९१ ॥
प्राग्वदर्घ्यादि पात्राणि परिकल्प्य यथाविधि ।
मुख्यार्घ्यवारिणा प्रोक्ष्य पृथग्भाण्डस्थितं पुरा ॥ ९२ ॥
पञ्चगव्यं ततः प्राग्वत्कल्पनीयं हृदादिकैः ।
कुशोदकं तदस्त्रेण दद्वाचेनाभिमन्त्र्य च ॥ ९३ ॥
अथ पाणिद्वयेनैव अग्नीषोमात्मकेन च ।
योग्यतापदवीं नीत्वा प्रोक्षयेत्तत्पुराहृतम् ॥ ९४ ॥
साम्मसा तेन वै सर्वं विष्टराग्रगतैः कुशैः ।
सर्वबीजानि धान्यानि सिद्धार्थकयुतानि च ॥ ९५ ॥
कृत्वास्त्रपरिजप्तानि ध्यात्वा चास्त्रसमानि च ।
विघ्नोपशान्तये योगाद्दशदिक्षु विनिक्षिपेत् ॥ ९६ ॥
संहृत्य बर्हिकूर्चेन प्राच्यां दिशि निधाय वै ।
तद्गर्भीकृत्य संलिख्य हेतिराट् चन्दनादिना ॥ ९७ ॥
करकं कुम्भसंयुतमलङ्कृत्य यथापुरा ।
भोगैः प्रावरणान्तैश्च मूर्तिभूतौ विचिन्त्य च ॥ ९८ ॥
अस्त्रमन्त्रं तु तन्मध्ये ध्यात्वाभ्यर्च्य यथाविधि ।
ध्वंसयन्तं च विघ्नानां कालं कर्मावसानकम् ॥ ९९ ॥
इदमभ्यर्थ्य भगवान् सास्त्रो बद्धाञ्जलिः स्थितः ।
यागालयं हि विश्वेश गृहाण रचितं मया ॥ १०० ॥
आसमाप्तेर्भज विभो क्रियाङ्गानां च सन्निधिम् ।
तदस्त्रोदकधारां चाप्यच्छिन्नां भित्तिगां नयेत् ॥ १०१ ॥
प्रादक्षिण्येन प्राग्भागात्पादान्तं च संस्मरेत् ।
तन्निधायाथ कुम्भेन सह कुर्यात्प्रदक्षिणम् ॥ १०२ ॥
अर्घ्यदानं तयोः कृत्वा प्राग्भागे विकिरोध्वगम् ।
पूजितं वाससा च्छन्नं चक्रमन्त्राभिमन्त्रितम् ॥ १०३ ॥
निदध्याद्भद्रपीठं तु तत्राधारगतं न्यसेत् ।
सास्त्रं हि मन्त्रकलशमर्चयित्वा प्रणम्य च ॥ १०४ ॥
दिगीश्वरगणं दिक्षु पूर्वोक्तं विन्यसेत्ततः ।
निरोधं सार्चनं तेषां कृत्वास्त्रेण हृदा सह ॥ १०५ ॥
प्रणवेन स्वनाम्ना च नमस्कारानुगेन वै ।
तोरणध्वजपूर्वाणां कार्यमर्घ्यादिनार्चनम् ॥ १०६ ॥
ततो हवनभूमध्ये ध्यात्वा पीठं पुरोदितम् ।
तत्रार्चनं विभोः कुर्यात्पूर्वोक्तेन क्रमेण तु ॥ १०७ ॥
पूर्णान्तं तर्पणं कुर्यात्प्राग्वत्कुण्डे तु पूजिते ।
ततस्तु भगवद्भूतान् क्षेत्रनाथसमन्वितान् ॥ १०८ ॥
अर्घ्यपुष्पादिनाभ्यर्च्य बलिमादाय पात्रगम् ।
इदमुक्त्वा च तदनु क्षिपेद्यागगृहाद्बहिः ॥ १०९ ॥
ये विष्णुभाविनो भूता ये च तेष्वनुयायिनः ।
आहरन्तु बलिं तुष्टाः प्रयच्छन्तु शुभं मम ॥ ११० ॥
प्रक्षालिताङ्घ्रिस्त्वाचान्तः संविशेद्यागमन्दिरम् ।
अग्निगेहेऽथ संस्कृत्य चुल्लीं प्राग्दिश्यवस्थिताम् ॥ १११ ॥
पचनालयमुत्सृज्य स्वदेशात्कुण्डमध्यगाम् ।
स्थालीं चास्त्रेण संक्षाल्य बाह्यतो गोमयादिना ॥ ११२ ॥
विलिप्यान्तस्सुगन्धैस्तु प्रताप्य ज्वलितैः कुशैः ।
सन्ताड्य कुसुमास्त्रेण सितसूत्रेण कण्ठतः ॥ ११३ ॥
चतुर्धा वर्मजप्तेन संवेष्ट्यार्घ्यादिनार्च्य च ।
चुल्ल्यां कृत्वा समारोप्य तस्यां मधु घृतं पयः ॥ ११४ ॥
परिशुद्धे शृते क्षीरे त्वस्त्रेणारोप्य तण्डुलान् ।
पाचयेन्मूलमन्त्रेण दृष्ट्वा नेत्रेण संस्कृतम् ॥ ११५ ॥
हृदावतार्याभिघार्य शिखामन्त्रेण घट्टयेत् ।
शिरसालिप्य संक्षाल्य सुप्रसन्नेन वारिणा ॥ ११६ ॥
भूतिना चन्दनाढ्येन भूषयेदूर्ध्वपुण्ड्रकैः ।
विष्टरोपरि चान्यत्र निदध्यान्मण्डलान्तरे ॥ ११७ ॥
होमं च सिद्धये कृत्वा पूर्णान्तमथ वै चरौ ।
आधारदानमाज्येन कुर्यात्तेजोऽमृतात्मकम् ॥ ११८ ॥
ईशाब्जनाभरुद्धेन हंसार्णेन सबिन्दुना ।
तद्वद्वौषड्वषट्कारप्रणवद्वितयेन च ॥ ११९ ॥
यतो विना भावितोऽत्र स्थितिर्द्वाभ्यां च साम्प्रतम् ।
अतः पुरोदितेनैव तदन्नं सम्पुटेन च ॥ १२० ॥
अत ऊर्ध्वं च संछन्नं स्मरेदादाय वै हृदि ।
द्रव्यसम्पातहोमेऽथ पूर्णान्ते तु कृते सति ॥ १२१ ॥
उद्धृत्याहुतियोगेन पात्रत्रयगतं तु यत् ।
स्थण्डिले कलशेऽग्नौ च विनियुज्य यथाविधि ॥ १२२ ॥
तदाज्यभावितं शेषं कुशाक्रान्तं विधाय च ।
क्रमान्मूलास्त्रनेत्रेण जुहुयाच्च शतत्रयम् ॥ १२३ ॥
नीत्वा सम्पूर्णभावं च पूर्णया पुनरेव हि ।
ततश्चोत्तरदिक्कुर्यान्मण्डलं गोमयादिना ॥ १२४ ॥
प्राक्सान्तं विष्टरं तत्र दद्याद्दार्भं हृदन्तरे ।
तन्मध्ये विन्यसेच्छिष्यं समाङ्घ्रिं स्तब्धविग्रहम् ॥ १२५ ॥
प्राङ्मुखं यतवाक्चित्तवृत्तिरूपं धृताञ्जलिम् ।
अस्त्रेण पूर्ववत्कुर्यात्प्रोक्षणं तस्य चाम्भसा ॥ १२६ ॥
तेनैव ताडयेन्मूर्ध्नि दीप्तैः सिद्धार्थकैस्तिलैः ।
अनादिवासनोत्थानां बन्धानां चालनाय च ॥ १२७ ॥
फडन्तेनाथ चास्त्रेण कुशाग्रेणाङ्घ्रिगोचरात् ।
समुल्लिख्य शिखान्तं च ऋज्वर्थं मार्गसन्ततेः ॥ १२८ ॥
जालवन्मन्त्रजालेन व्याप्तं स्मृत्वा च साम्प्रतम् ।
बध्नीयान्नेत्रमन्त्रेण तस्य नेत्रे च वाससा ॥ १२९ ॥
वस्त्वर्घ्यकुसुमैर्गन्धैः कृत्वा पूर्णाञ्जलिं पुरा ।
पाणिनादाय चाम्नेति निधायाग्रे स्थितं वटुम् ॥ १३० ॥
प्रक्षेपयेद्देवधाम्नि नतमूर्ध्नोऽञ्जलिश्रितम् ।
तस्योद्घाटितनेत्रस्य त्वदृष्टस्येतरैर्जनैः ॥ १३१ ॥
कुशलाध्वनिविष्टस्य दृष्ट्वा वै भक्तिलक्षणम् ।
रोमाञ्चौत्सुक्यहर्षाद्यमानन्दाश्रुसमन्वितम् ॥ १३२ ॥
सप्रणामजयालापदिक्प्रदक्षिणसंयुतम् ।
पूतान्तःकरणं बुद्ध्वा योग्योऽयमिति भावयेत् ॥ १३३ ॥
यदा तदच्युताख्या यानुगृहीतो धिया तया ।
स्मरेद्दक्षिणपाणौ तु चक्राम्बुरुहमध्यगम् ॥ १३४ ॥
प्रधानदेवतावृन्दं स्वे स्वे धाम्नि परे स्थितम् ।
स्वमरीचिगणेनैव द्योतयन्तं तु चाखिलम् ॥ १३५ ॥
तेनाच्युतकरेणैव सोदकेनालभेत तम् ।
पुष्पपूर्णाञ्जलौ पृष्ठे तस्य तत्त्रितयाश्रितम् ॥ १३६ ॥
कृत्वा मन्त्रगणान्तं वै मोक्षविघ्नोपशान्तये ।
पुनरप्यर्चयेच्छ्रीत्वा मन्त्रेण परमेश्वरम् ॥ १३७ ॥
आधाराधेयभावेन बुद्ध्वान्तस्संस्थितं पुरा ।
क्ष्मादीनां बुद्धिनिष्ठानां वासनानां तथात्मनाम् ॥ १३८ ॥
ततः कुर्याच्च विश्लेषं तेषां ध्यानार्चनादिना ।
आत्मसत्यं समाश्रित्य कर्मचक्रं हि वर्तते ॥ १३९ ॥
तच्चक्रमवलम्ब्यास्ते बुद्धिनिष्ठं हि सप्तकम् ।
अज्ञानव्यापकत्वं च सुखदुःखनिवेदनम् ॥ १४० ॥
सर्वज्ञस्यात्मतत्त्वस्य कर्मचक्रावलम्बनात् ।
चपलं कर्मचक्रं तद्वर्धमानं सदैव हि ॥ १४१ ॥
क्ष्माद्यमाधारमाश्रित्य तावदेवावतिष्ठते ।
यावत्स सर्वशक्त्या वै कर्मात्मा न प्रबोधितः ॥ १४२ ॥
प्रबुद्धस्तस्य संरोधं कर्तुं शक्नोति सर्वदा ।
मन्त्राराधनरूपेण ज्ञाननिष्ठेन कर्मणा ॥ १४३ ॥
अतो य आश्रयः क्ष्माद्यस्तत्साधारो हि पौरुषम् ।
नीरसं चेरिणीभूतं कुर्यात्संस्थाप्य साम्प्रतम् ॥ १४४ ॥
निर्मुक्ताचित्फलो येन कर्मवृक्षो विनश्यति ।
शुध्यर्थमात्मनस्तस्मात्सर्वज्ञस्याग्रतः स्थले ॥ १४५ ॥
भूतादिदेवमन्त्राणां कुर्याद्वै पूजनं क्रमात् ।
चित्तनुं विद्धि सामान्यं मन्त्रनाथैरधिष्ठितम् ॥ १४६ ॥
क्ष्माध्वानं तु बुद्ध्यन्तं ध्यात्वा षट्पत्रवत्पुरा ।
तत्र मध्येऽब्जनाभं च प्राग्भागे केसरैर्ध्वनम् ॥ १४७ ॥
षट्कं तु विश्वरूपाद्यं क्ष्माधारान्तं तु विन्यसेत् ।
नीत्वा स्वनाम्ना आद्यार्णं क्ष्मान्तानां बीजतां गतम् ॥ १४८ ॥
तेन तेषां दलान्तं प्राग्विन्यासं संस्मरेत्क्रमात् ।
क्ष्माबीजं च दलाग्रेषु मूलनिष्ठेषु सत्तु च ॥ १४९ ॥
सर्वं सर्वेन्द्रियाधारमित्यभिन्नं पुरा ततः ।
चिन्वानः स्कन्दवृन्देन खभूतेनान्तरीकृतम् ॥ १५० ॥
उपर्युपरि योगेन बुद्ध्यन्तं समुपस्थितम् ।
भेददृष्ट्या यजेत्सम्यग्भूयः संहारवर्त्मना ॥ १५१ ॥
सवज्रं स्वेन बीजेन पीतं तुर्यश्रलक्षणम् ।
हेमाब्जभूषितं ध्यात्वा क्ष्मातत्त्वं तत्र मध्यतः ॥ १५२ ॥
वाराहं सत्यजेन्मन्त्रं साङ्गं सावरणं क्रमात् ।
तत्कारणाश्रितं कृत्वा परिवारसमन्वितम् ॥ १५३ ॥
अधस्तान्मण्डलोर्ध्वस्थमर्धेन्दुसदृशं सितम् ।
पुरं पद्माङ्कितं स्मृत्वा सितपद्मोदरं महत् ॥ १५४ ॥
सरस्स्थं तदन्तस्थमभिसन्धाय संयजेत् ।
तेजोमयं तदूर्ध्वं तु त्रिकोणं भावयेत्पुरम् ॥ १५५ ॥
रक्तज्वालागणाकीर्णं स्वस्तिकैः रुपलाञ्छितम् ।
नृसिंहं पूजयेत्तत्र मध्ये रक्तच्छविं विभुम् ॥ १५६ ॥
तस्योपर्यसितं वृत्तं पुरं तारागणाङ्कितम् ।
स्मृत्वा नीलाम्बुजाक्रान्तं स्मरेत्तत्र खगासनम् ॥ १५७ ॥
नीरूपं खं तदूर्ध्वे तु स्मरेच्छब्दैकलक्षणम् ।
ध्यायेत् तदन्तः सूर्याभं प्राग्वर्णं तु पङ्कजम् ॥ १५८ ॥
तत्र वागीश्वरं देवमभ्यर्च्य विधिवत्ततः ।
तत्कर्णिकोदराकाशे नानारत्नरुचिं ततः ॥ १५९ ॥
संस्मरेत्कमलाकारं चित्तवृत्तिमयं तु यत् ।
यजेत्तन्मध्यगं विश्वरूपं तु मनसस्पतिम् ॥ १६० ॥
तदूर्ध्वेऽमृतगर्भं तु शीतांशुकोटिवत् ।
पद्मं स्वेनात्मनात्मानं धारयन्तं विभाव्य च ॥ १६१ ॥
समभ्यर्च्य तदन्तस्थो ह्यब्जनाभो धियां पतिः ।
एवं गन्धरसरूपस्पर्शशब्दमनोधियाम् ॥ १६२ ॥
क्रमेणाधीशसंघं तु अवतार्य पराद्यजेत् ।
अर्चयित्वार्चयित्वा च न्यसेत्तत्रैव तं पुनः ॥ १६३ ॥
ये वर्णभूतयोनीनां रश्मयः कमलोपमाः ।
संस्थितं संस्मरेत्तेषामस्मिन् शक्तौ तथात्मन् ॥ १६४ ॥
अनादिवासनारूपां त्वभेदेनात्मनि स्थिताम् ।
निःशेषबीजैरभ्युत्थां पद्मनाभविधारिणीम् ॥ १६५ ॥
निर्गतां वैषयात्सर्वाद्वियुक्तां स्वामिना कृताम् ।
स्फुरद्रूपां परिभ्रष्टां निराधारां च संस्मरेत् ॥ १६६ ॥
प्रणवेन समभ्यर्च्य दीक्षाकाले ह्युपस्थिते ।
साधिभूताधिदैवं च इत्येवं भूतसप्तकम् ॥ १६७ ॥
स्वयमभ्यर्चयेत्पश्चाच्छिष्यमञ्जलिना च तम् ।
ततोऽग्नेः सन्निधिं गत्वा ध्यात्वा धामत्रयोपरि ॥ १६८ ॥
दक्षिणेनात्मनो दार्भे विष्टरे चक्रमन्त्रिते ।
सकुशेन स्वहस्तेन दक्षिणं चरणं गुरोः ॥ १६९ ॥
अवलम्ब्य समास्ते वै स्पर्शनाच्चैकतात्मना ।
बीजेनाङ्घ्रिशिखान्तं च स्मरेत्तेजोमयं विभुम् ॥ १७० ॥
विश्लेषयन्तं सहसा ह्यनाद्युतमविग्रहम् ।
संसारचक्रं विविधं प्रेरकं दुःखवर्त्मनि ॥ १७१ ॥
नाड्यैक्यमभिसन्धायाभिसन्धाय चेतसा ।
विश्लेषं कर्मणां तद्वर्मणास्त्रेण होमयेत् ॥ १७२ ॥
क्रमेण सघृतानां च तिलानां द्वादशाहुतिम् ।
अनुसन्धाय सम्पाद्यो मयायं वै परात्मनि ॥ १७३ ॥
दद्यादाहुतिकाश्चाष्टौ मूलेन सघृताः पुरा ।
तदुत्तमाङ्गं संस्पृश्य स्रुवेणाज्यान्वितेन च ॥ १७४ ॥
हुत्वा ज्ञानाय तेनैव भूयस्सर्वगुणात्मना ।
प्राक्संख्यमाचरेद्धोममन्तरान्तरे योगतः ॥ १७५ ॥
अग्नेरपाद्यसर्वं नेत्रान्तं होममेव हि ।
इति संपातहोमो वै सम्पन्ने सति जायते ॥ १७६ ॥
कर्तव्यो मन्त्रमाहात्म्यात् संस्कारो निष्कलैर्युतः ।
साम्प्रतं चाणिमादीनां गुणानामुत्तरत्र तु ॥ १७७ ॥
विभोराराधनात्सम्यग्योगाभ्यासाच्च भाजनम् ।
कृते संपातहवने आज्येनाथ सकृत्सकृत् ॥ १७८ ॥
मन्त्राणां तर्पणं कृत्वा सार्चनं श्रावयेद्विभुम् ।
अस्य कर्माख्यतत्त्वस्य कर्मबन्धं सवासनम् ॥ १७९ ॥
तदनेकप्रकारं तु त्वच्छक्त्या स्तम्भितं मया ।
प्रायश्चित्तनिमित्तं तु जुहुयाच्च तदनन्तरम् ॥ १८० ॥
बीजेनान्तर्निरुद्धेन स्वाजेनाहुतिकाष्टकम् ।
एतावता महाबुद्धेर्जन्तोर्जन्माश्रितस्य च ॥ १८१ ॥
याति व्यामिश्ररूपस्य हेयरूपस्य सङ्क्षयः ।
मोक्षैकफलदो धर्म उपादेयस्त्वनन्तरम् ॥ १८२ ॥
योऽसौ सांमुख्यमायाति विविधस्तस्य चाच्युतः ।
येनान्तर्लीनमभ्येति ह्यज्ञानं सहसा क्षयम् ॥ १८३ ॥
अथादायारुणं सूत्रं कृत्वानेकगुणं पुरा ।
निरीक्ष्य तं दृशा चास्त्रवारिणा परिशोधितम् ॥ १८४ ॥
तदङ्गुष्ठावधि यावच्छिखायाः सम्प्रसार्य च ।
संस्मरेत्सर्वदुःखानां सर्वथानां तदास्पदम् ॥ १८५ ॥
संविश्य देवयानेन शिशुचैतन्यसन्निधिम् ।
हुंफडन्तं च शिष्यस्य नाम च प्रणवादिकम् ॥ १८६ ॥
हृन्मन्त्रसम्पुटस्थं च कृत्वा वै पितृवर्त्मना ।
आनीय सह सूत्रेण नयन्नेत्रेण सांयताम् ॥ १८७ ॥
अभ्यर्च्यार्घ्यादिनावेष्ट्य कवचेन महात्मना ।
ओं हुं अदन्यै हुं स्वाहेत्यनेनाहुति सप्तकम् ॥ १८८ ॥
हुत्वास्त्रमन्त्रजप्तेन सितेन रजसा ततः ।
सन्ताड्य शैशवं कायं विशेषात्पादावधे तथा ॥ १८९ ॥
विश्लेषयामुकं भूयात्पदं वीर्यपदानुगम् ।
तं ज्ञानवाचकेनाथ त्वाद्यन्तेन विकृष्य च ॥ १९० ॥
स्वबुद्ध्यानुगतं कृत्वा ध्यात्वा नक्षत्रगोलवत् ।
सन्धायाभ्यन्तरे सूत्रे हंसार्णेन सबिन्दुना ॥ १९१ ॥
नति प्रणवगर्भेण रुद्धशक्ति च विग्रहे ।
वासनामयमित्येवमातिवाहिकसंज्ञकम् ॥ १९२ ॥
सूत्रात्मकं वपुः स्मृत्वा आत्मशक्त्या विभावितम् ।
बलमन्त्रेण संरुद्धं तदर्धं जुहुयात्ततः ॥ १९३ ॥
उक्त्वा ओमात्मने स्वाहा द्विषट्कपरिसंख्यया ।
आदाय भाविनो बन्धान्व्यापकान् शुद्धभोगदान् ॥ १९४ ॥
ज्ञानादयः समाश्रित्य येन तिष्ठन्ति सर्वदा ।
स्वस्थानात्तु स्वमन्त्रैश्च यतास्तु तत्रैव योजयेत् ॥ १९५ ॥
यथाक्रमोपचितानां कृत्वा तेषां च तर्पणम् ।
अथ संस्कारचक्रस्य तत्त्ववृन्दाश्रितस्य च ॥ १९६ ॥
सर्वगस्यापि वै विद्धि स्थितिं नियतलक्षणम् ।
तत्त्वव्याप्तिश्च तेनैव शरीरे पाञ्चभौतिके ॥ १९७ ॥
गुल्फजानुकटीवक्षः कण्ठभ्रूकटावधि ।
बुद्ध्यन्तानां धरादीनां क्रमाद्विनसप्तकम् ॥ १९८ ॥
अहङ्कारस्तदुत्थास्तु ये भेदा विविधा अपि ।
चित्तजा अपि ये चान्ये तिष्ठन्ति मनसा सह ॥ १९९ ॥
सकालोत्थास्तथा बौद्धास्तत्पूर्वास्त्वपरे च ये ।
अनेकभेदभिन्नास्तु श्रिता आश्रित्य तां धियम् ॥ २०० ॥
द्विसप्तभुवनं विश्वमनेक रचनान्वितम् ।
शतकोटिप्रविस्तीर्णमष्टयोन्यर्थसेवितम् ॥ २०१ ॥
स्थिरं धराश्रितं भूयो बोद्धव्यं सर्वदैव हि ।
चतुष्कं जाग्रदाद्यं यत्पदानामप्सु वर्तते ॥ २०२ ॥
मन्त्रकोटिसहस्राणां विविधानां महामते ।
योगसिद्धसमेतानां संस्थितस्तैजसे पदे ॥ २०३ ॥
चातुरात्मीयतत्त्वानां ज्ञेयं कैवल्यदेहिनाम् ।
शान्तोदितस्वरूपाणां सन्निवेशो मरुत्पदे ॥ २०४ ॥
अनेकशक्तिभूतानां ज्ञानादीनां च लाङ्गलिन् ।
कालानामाश्रयो व्योम या सा मूर्तिं न लक्ष्यते ॥ २०५ ॥
संस्थिताश्चादयो वर्णाः पदे षष्ठे तु मानसे ।
अस्मिन्नाम्नायभूतानि कीर्तितेऽस्मिन् षडध्वनि ॥ २०६ ॥
क्षिपंस्तु चाहरंस्तत्त्वं शुद्ध्यर्थं लीलयैव हि ।
स्थितः कर्मात्मतत्त्वानि बुद्धिशक्तिपदे प्रभुः ॥ २०७ ॥
निरस्तदोषं कृत्वा प्राक् समाविश्य तदेव हि ।
स्वां शक्तिमुपसंहृत्य शान्तिमभ्येति शाश्वतीम् ॥ २०८ ॥
मधुसूदनपर्यन्तं पातालशयनाद्यथ ।
सप्तकं सप्तकं षट्कं संपश्येत् क्ष्मादिपञ्चके ॥ २०९ ॥
मनस्यवस्थितं ह्येवं शक्तीशात्त्रितयं हि यत् ।
बुद्धौ कमलनाभात्मा देवः सर्वेश्वरः प्रभुः ॥ २१० ॥
पुनः स्वसिद्धीकृतानां सर्वेषां पार्थिवे पदे ।
द्विसप्तभेदभिन्ने तु बोद्धव्या संस्थितिः शुभा ॥ २११ ॥
तीव्रमन्दादिकं बुद्ध्वा भावं भक्तिसमन्वितम् ।
आलम्बनवशात्कुर्यात्तेषां स्वपदे स्थितिम् ॥ २१२ ॥
एष वैभवदीक्षायामधिवासन कर्मणि ।
क्रम उक्तस्त्वथेदानीमपरायां निबोध तु ॥ २१३ ॥
आपादान्नाभिदेशान्तं महाभूतैर्धरादिकैः ।
व्याप्तं चतुर्धा वाय्वन्तैस्तदूर्ध्वं नभसा पुनः ॥ २१४ ॥
पूरितं हृदयान्तं च तदूर्ध्वाच्छिखावधि ।
विभाव्य मनसा व्याप्तमनेनैव क्रमेण तु ॥ २१५ ॥
स्थितास्सङ्कर्षणान्ताश्चध्यनिर्बुद्धादयस्तु वै ।
समाक्रम्याध्वषट्कन्तु अध्वातीतस्तु बुद्धिगः ॥ २१६ ॥
मनसा आत्मतत्त्वं च प्राग्वदभ्येत्य मूर्तिताम् ।
व्यापिका मूर्तयस्त्वेताः पृथङ्भक्तपरायणैः ॥ २१७ ॥
तदाकारैरसंख्यैस्तु संवृताः क्ष्मावनीषु च ।
प्राक्संख्यासु तिष्ठन्ति सर्वास्तस्सर्वासु सर्वदा ॥ २१८ ॥
स्मृत्वा ह्यभेदभावेन पञ्चकं मोदकवत्पुरा ।
शिखान्तं क्ष्मादिना तेन सर्वं व्याप्तं विचिन्तयेत् ॥ २१९ ॥
चतुरात्मानमव्यक्तं शब्दमूर्तिं निराकृतिम् ।
गुणमात्रैर्विभिन्नं च खं च तत्रैव भावयेत् ॥ २२० ॥
अग्राहेणाथ वपुषा स्वस्वभावमयेन च ।
सङ्क्रान्तेन तु वै बुद्धौ सर्वं समुदितेन तु ॥ २२१ ॥
स्वशक्त्या वै ह्यनिच्छातो जीवमादाय सोर्ध्वगम् ।
स्वसामर्थ्यं स्वशक्त्या तच्छान्तात्मास्ते विलाप्य च ॥ २२२ ॥
शुद्धाशयानां भक्तानां तत्पदैकाभिलाषिणाम् ।
तत्सामर्थ्यानुविद्धानां सर्वत्र व्यक्तिमेति च ॥ २२३ ॥
अतस्तु यद्यत्संवेद्यं हेयं परिमितन्त्वपि ।
तत्तदात्मतामभ्येति सर्वदा भावितात्मनाम् ॥ २२४ ॥
इत्यादौ सर्वसामान्यो नित्यो विद्याख्य आश्रयः ।
बोद्धव्यः सोऽपि तदनु ह्यसामान्यतया गतः ॥ २२५ ॥
आमोक्षादङ्गभावं च जीवानां स्वयमेव हि ।
वज्रवत्सूक्ष्मरूपेण संपूज्येन महामते ॥ २२६ ॥
दीक्षाकाले तु शिष्याणां परिज्ञेयं यथोदितम् ।
एवमेव विजानीयाद्भूयः सौत्रे तु विग्रहे ॥ २२७ ॥
सप्तधा तु विभज्यादौ सन्धीन्वै कुङ्कुमादिना ।
चित्रीकृत्य तदुद्देशात्प्रणवाद्यन्तगैस्ततः ॥ २२८ ॥
स्वनामपदसंयुक्तं ग्रथनीयं स्वकारणैः ।
एवं व्याप्तिमयैर्भोगैर्हृदा पूर्णान्तिमे कृते ॥ २२९ ॥
नीत्वा वै मण्डलस्थस्य विभोस्तं सन्निवेदयेत् ।
वर्मणाच्छादितं कृत्वा निधाय कलशाग्रतः ॥ २३० ॥
सशिष्योऽथार्चनं कुर्यात्पुनर्विश्वात्मनो विभोः ।
प्रदक्षिणैः प्रणामैस्तु नानास्तुतिपदैः सह ॥ २३१ ॥
तत्रोपलिप्ते भूभागे मण्डलान्तं च तं बहिः ।
स्थानभेदस्थितं कृत्वा नेत्रहृन्मन्त्र मन्त्रितैः ॥ २३२ ॥
पञ्चगव्ये चरौ दन्तधावने विनियोज्य तम् ।
भुक्तोज्झिते दन्तकाष्ठे कुर्यात्सिद्धिविचारणम् ॥ २३३ ॥
सौम्यवारुण ईशाने यदि पूर्वदिगाननम् ।
तत्सिद्धिसूचकं विद्धि विपरीतमतोन्यथा ॥ २३४ ॥
तत् ध्वंसनाय जुहुयाद्वीर्यमन्त्रेण वै शतम् ।
धूपानुलेपनादीनि रजांसि घटिकादयः ॥ २३५ ॥
साज्यानि च तिलादीनि योग्यान्यन्यानि लाङ्गलिन् ।
उद्धृत्योत्तरतः कृत्वा वर्मजप्तेन वाससा ॥ २३६ ॥
अभुक्तेनाहतेनैव त्वाच्छाद्य सुसितेन च ।
समभ्यर्च्यास्त्रमन्त्रेण पुष्पधूपानुलेपनैः ॥ २३७ ॥
क्षान्त्वा स्थलस्थितं देवमग्नौ वा कलशे न्यसेत् ।
अथ शुद्धे तु भूभागे हृन्मन्त्रितकुशास्तरे ॥ २३८ ॥
कृत्वा प्राक्मस्तकं शिष्यं बलजप्तांशुकेन तु ।
हृदावकुण्ठिततनुं मुख्यमन्त्रमनुस्मरन् ॥ २३९ ॥
स्वापयेत्स्वप्नलाभाय ततो हृन्मन्त्रितैस्तिलैः ।
सिद्धार्थकयुतैः तस्य निदध्यात्परितो बहिः ॥ २४० ॥
सबर्हिपक्षं मन्त्रेण प्राग्वद्दिगष्टकम् न्यसेत् ।
प्रदक्षिणेन तच्चापि सितसूत्रेण वर्मणा ॥ २४१ ॥
चतुर्धा वेष्टयित्वा तु मण्डपान्निष्क्रमेद्बहिः ।
दन्तकाष्ठादिकं कर्म विनिष्पाद्य स्वयं स्वपेत् ॥ २४२ ॥
कुतपे दर्भशय्यायां कृत्वा दक्षिणतःशिरः ।
संस्पृशेत्स्वाङ्घ्रियुग्मेन शिशुं शयनसंस्थितम् ॥ २४३ ॥
भगवन्तं हि मनसा प्रार्थयन्नपवर्गदम् ।
ओमादीश जगन्नाथ सर्वज्ञ हृदयेशय ॥ २४४ ॥
तत्राहं योजयाम्येनं सत्कर्म त्वत्परायणम् ।
प्राप्तानुज्ञस्तु शिष्याणां कुर्याद्वै तत्र योजनम् ॥ २४५ ॥
यत्र यत्र च तत्तेषामवश्यं शाश्वतं भवेत् ।
इत्थं दीक्षाधिवासस्य विधानं संप्रकीर्तितम् ॥ २४६ ॥
एकानेकरूपा तु दीक्षेदानीं प्रकीर्त्यते ।
आसाद्य यां समायान्ति देहान्तेऽभिमतं पदम् ॥ २४७ ॥
कैवल्यफलदा ह्येका भोगकैवल्यदा परा ।
भोगदैव तृतीया च प्रबुद्धानां सदैव हि ॥ २४८ ॥
आचार्यानुमताः सर्वाः कार्याः सम्यक् फलाप्तये ।
भक्तिभावानुविद्धानां शिष्याणां भाविनां तु वै ॥ २४९ ॥
वृद्धानामङ्गनानां च बालानां भावितात्मनाम् ।
विनाचारसमूहेन दुःशकेन च ता हिताः ॥ २५० ॥
पुरा धिया विचार्यैवमुपसन्नेन वै सह ।
तदीयमाशयं ज्ञात्वा सम्पाद्यैका महामते ॥ २५१ ॥
अथातीतेऽर्धरात्रे तु उत्थाय शयनाद्गुरुः ।
कमण्डलुं समादाय बहिराचम्य संविशेत् ॥ २५२ ॥
संस्मरेदग्रतश्चास्त्रं हुतभुग्राशिसन्निभम् ।
तदन्तस्संविशेदेवं स्नानं मान्त्रं कृतं भवेत् ॥ २५३ ॥
निद्रामोहमलं येन शश्वदायाति सङ्क्षयम् ।
शङ्कून्वै घटिकासूत्रं रजांस्यस्त्रवरेण तु ॥ २५४ ॥
समादाय च संस्कृत्य निष्पिष्याध्यर्महीतले ।
शुष्कगोमयसंस्पृष्टे मण्डलं यत्पुरोदितम् ॥ २५५ ॥
भद्रत्वपरिरक्षार्थं न्यस्याः कोणेषु शङ्कवः ।
कमले भ्रमसिद्ध्यर्थमेकं मध्ये निवेश्य च ॥ २५६ ॥
ईषन्नायाति वैषम्यं तद्रात्रिसमये यथा ।
महान्यूनाधिके दोषः सशिष्यस्य यतो गुरोः ॥ २५७ ॥
अतस्तद्रक्षणीयं च यत्नेन महता सदा ।
निर्वर्त्य नित्यं प्रत्यूषे पुरा वै स्नानपूर्वकम् ॥ २५८ ॥
शिष्यमादाय सच्चोद्य स्वप्नप्राप्तिं शुभाशुभाम् ।
चतुर्मूर्तिसमूहं तु यथादिक्संस्थितं तु वै ॥ २५९ ॥
पर्यङ्काङ्कनिविष्टं च उपविष्टं तु चोत्थितम् ।
तन्मध्याद्भगवत्तत्त्वमेकं वा भिन्नलक्षणम् ॥ २६० ॥
प्रादुर्भावसमूहं च तल्लाञ्छनगणाश्च यः ।
देवीयं वनितावृन्दं सर्वमेकतमाथ वा ॥ २६१ ॥
भवोपकरणव्रातमशेषं वा पृथक्स्थितम् ।
रुद्रेन्द्रचन्द्रसूर्याम्बुहुतभुग्वातलक्षणम् ॥ २६२ ॥
पञ्चरात्रविदो विप्रा आराधनपरायणाः ।
त्रयीमुद्घोषयन्तश्च निगदन्तश्च वा द्विजाः ॥ २६३ ॥
यतयः शुद्धसत्त्वाश्च सद्ब्रह्मपदसंस्थिताः ।
नगस्रक्चन्दनादीनि सुगन्धानि तरूत्तमः ॥ २६४ ॥
उद्यानवनितारामवापी हर्म्यमहालयाः ।
फलबीजौषधीसाम्बुकुम्भो वा पाकनिर्गतः ॥ २६५ ॥
गोगजाश्वनदीयानं कन्या सालङ्कृता शिशुः ।
मङ्गल्यगीति मधुरा भेरी वंशश्च वल्लरी ॥ २६६ ॥
ससारसं सरःपद्मैः पूर्णं छत्रं सितं ततम् ।
हेमादिधातवो रत्नजालं गोसम्भवानि च ॥ २६७ ॥
नवो नेत्रचयःशुक्लं तद्वस्त्रमनाहतम् ।
राजापुरोधाः सामन्तो राजपत्नी च दर्पणम् ॥ २६८ ॥
तुषारपातसद्वृष्टि महामेघोदयो दिवि ।
शोणितं चार्द्रमांसानि खप्लुतिमेदिरादयः ॥ २६९ ॥
सत्पक्षिमृगसंघातसुरार्चा चामरं सितम् ।
एवमादीनि चान्यानि विद्धि सिद्धिप्रदानि च ॥ २७० ॥
स्वप्नानि यान्यनिष्टानि तानि मे लेशतःशृणु ।
म्लानता क्षितिकम्पश्च उपरागोऽतिभीषणः ॥ २७१ ॥
नीहार उल्कापातश्च निर्घातश्चित्तभङ्गकृत् ।
गर्तप्रवेशो दध्यन्नं स्विन्नमांसस्य भक्षणम् ॥ २७२ ॥
नर्तनं रथविध्वंसं आज्यं स्वाङ्गाह्रिजच्युतिः ।
खरोष्ट्रं चोट्कटं हास्यं कपि ऋक्षाकुलं वनम् ॥ २७३ ॥
धूमाकुलं दह्यमसिताम्बरवेष्टितम् ।
शुष्कत्वं सरिदादीनां प्रतिस्रोतस्त्वमेव च ॥ २७४ ॥
पोतायनं ध्वजच्छत्रतरुभङ्गोऽप्यसिद्धिकृत् ।
अवतारो नगाङ्क्षात्रत्वं प्रेतदर्शनम् ॥ २७५ ॥
वचा कज्जलतैलाज्यलेपो सत्कर्दमे स्थितिः ।
महिषोऽहिर्नरः कृष्णो दक्षिणाशागमः क्षुधा ॥ २७६ ॥
लुण्ठनं नखकेशानामस्थिभङ्गाधिकाद्रतम् ।
एवमादीनि चान्यानि अशुभानि महामते ॥ २७७ ॥
प्राप्ते शुभाशुभे स्वप्न्यभिसन्धाय वै हृदि ।
औत्सुक्यादरिष्टविध्वंसि पूजाहोमं समाचरेत् ॥ २७८ ॥
यथोक्तविधिना देवमवतार्य क्रमाद्यजेत् ।
तर्पयित्वा यथान्यायं पूर्णान्तं चार्चयेत्पुनः ॥ २७९ ॥
ईशकोणेऽथवा सौम्ये पदे यागगृहस्य च ।
मण्डले पूर्वनिर्दिष्टे वृत्ते वा चतुरश्रके ॥ २८० ॥
स्नातं स्रग्वस्त्रभूषाढ्यं कृतन्यासं निवेशयेत् ।
निरीक्ष्य ताड्य संप्रोक्ष्य दर्भैरालभ्य पूर्ववत् ॥ २८१ ॥
संस्कृत्य मूर्तिवत्तन्तु अनुगृह्य धरागतम् ।
आपादान्मन्त्र हस्तेन परामृश्याथ मूर्धनि ॥ २८२ ॥
मन्त्र हस्तं ज्वलद्रूपं दद्याद्यो दुःखबीजजित् ।
अतः शिष्यस्य वै कुर्यात्संस्कारान् पञ्च च क्रमात् ॥ २८३ ॥
तापः पुण्ड्रस्तथा नाम मन्त्रो यागश्च पञ्चमः ।
तत्र तापविधानं तु शृणुध्वं मुनिपुङ्गवाः ॥ २८४ ॥
आचार्यो वैष्णवान् सभ्यान् पूज्य तेषामनुज्ञया ।
गत्वा कुण्डसमीपं तु शिष्येण सहितो गुरुः ॥ २८५ ॥
चक्रशङ्खौ समभ्यर्च्य तत्तन्मन्त्रैः प्रतिष्ठितौ ।
पूर्वं स्वगुरुणा दत्तौ स्वदीक्षावसरे द्विजाः ॥ २८६ ॥
मूलमन्त्रेण जुहुयाच्छतमष्टोत्तरं घृतैः ।
वैष्णव्या चापि गायत्र्या तद्विष्णोरिति वै ऋचा ॥ २८७ ॥
ततः कुण्डानले चक्रशङ्खौ निक्षिप्य पूजयेत् ।
ततस्तु चक्रमन्त्रेण शङ्खमन्त्रेण च द्विजाः ॥ २८८ ॥
हुत्वा चाष्टोत्तरशतं अष्टाविंशतिमेव वा ।
पवित्रन्तेति मन्त्रेण प्र ते विष्णो इति त्वृचा ॥ २८९ ॥
हुत्वा ततस्तु देवेशं ध्यात्वा गुरुपरम्पराम् ।
शिष्यस्य दक्षिणं बाहुमूलं चक्रेण चाङ्कयेत् ॥ २९० ॥
शङ्खेन प्रतप्तसव्यबाहुमूलं मुनीश्वराः ।
ततश्चक्रं च शङ्खं चाभिषिच्य स्वमन्त्रतः ॥ २९१ ॥
संपूज्य मूलमन्त्रेण हुनेत्पूर्णाहुतिं द्विजाः ।
ततस्तु चोर्ध्वपुण्ड्राणि धारयेन्मुनिपुङ्गवाः ॥ २९२ ॥
तद्विधानं प्रवक्ष्यामि शृणुध्वं सावधानतः ।
गृहीत्वा वैष्णवक्षेत्राद्विमलां श्वेतमृत्तिकाम् ॥ २९३ ॥
हस्तौ प्रक्षाल्य चाचम्य प्राङ्मुखं वाप्युदङ्मुखम् ।
उपविश्यासने शुद्धे वामहस्ततलं द्विजाः ॥ २९४ ॥
संक्षाल्य चास्त्रमन्त्रेण तत्र वै श्वेतमृत्तिकाम् ।
प्रणवेन तु विन्यस्य गन्धद्वारेति तां मृदम् ॥ २९५ ॥
जलेन सेचयित्वाथ कृत्वा दिग्बन्धनं द्विजाः ।
मूलमन्त्रेणाभिमन्त्र्य वामहस्तस्थितां मृदम् ॥ २९६ ॥
तन्मध्ये नारसिंहस्य बीजमालिख्य मन्त्रवित् ।
अङ्गुल्या मृदमादाय ललाटादिषु धारयेत् ॥ २९७ ॥
पुष्टिप्रदेनाङ्गुष्ठेन तर्जन्या मुक्तिसिद्धये ।
वाञ्छितार्थप्रदायिन्या तथानामिकयाथ वा ॥ २९८ ॥
आयुष्कामी मध्यमया चाङ्गुल्या च मुनीश्वराः ।
एताभिरङ्गुलीभिस्तु धारयेन्न नखैः स्पृशेत् ॥ २९९ ॥
ऊर्ध्वपुण्ड्रमृजुं रम्यं विष्णोः पादद्वयाकृतिम् ।
सान्तरालं सुपार्श्वं च द्व्यङ्गुलं त्र्यङ्गुलं तु वा ॥ ३०० ॥
विस्तीर्णमथ चायामे चतुरङ्गुलसम्मितम् ।
ललाटे धारयेत्कुक्षौ चतुरङ्गुलविस्तृतम् ॥ ३०१ ॥
अष्टाङ्गुलायतं यद्वा प्रादेशपरिसम्मितम् ।
धारयेदूर्ध्वपुण्ड्रं तु तावन्मानसमन्वितम् ॥ ३०२ ॥
ऊर्ध्वपुण्ड्रं तु हृदये धारयेल्लक्षणान्वितम् ।
ततस्त्र्यङ्गुलविस्तीर्णं चतुरङ्गुलमायतम् ॥ ३०३ ॥
ऊर्ध्वपुण्ड्रं कण्ठदेशे ततो वै दक्षिणोदरे ।
ऊर्ध्वपुण्ड्रं तु पूर्वोक्तकुक्षिपुण्ड्रसमं द्विजाः ॥ ३०४ ॥
ततस्तु दक्षिणे बाहुमध्ये त्वष्टाङ्गुलायतम् ।
चतुरङ्गुलविस्तीर्णमूर्ध्वपुण्ड्रं तु धारयेत् ॥ ३०५ ॥
ततस्तु दक्षिणांसे तु कण्ठपुण्ड्रसमं भवेत् ।
वामकुक्षौ तूर्ध्वपुण्ड्रं कुक्षिपुण्ड्रसमं भवेत् ॥ ३०६ ॥
वामबाहौ भवेत्पुण्ड्रं दक्षबाहूक्तलक्षणम् ।
वामांसे तु ततः पुण्ड्रं कण्ठपुण्ड्रसमं भवेत् ॥ ३०७ ॥
पृष्ठे त्वष्टाङ्गुलायामं चतुरङ्गुलविस्तृतम् ।
ऊर्ध्वपुण्ड्रं ककुद्देशे चतुरङ्गुलमायतम् ॥ ३०८ ॥
तथा त्र्यङ्गुलविस्तारं धारयेन्मुनिपुङ्गवाः ।
एवं द्वादश पुण्ड्राणि धृत्वा चैव यथाक्रमम् ॥ ३०९ ॥
हस्तक्षालनतोयं तु मूर्ध्नि संप्रोक्षयेद् द्विजाः ।
ततस्तु चोर्ध्वपुण्ड्राणां मध्ये विष्णुसमर्पितम् ॥ ३१० ॥
धारयेद्रजनीचूर्णं लक्ष्मीसान्निध्यसिद्धये ।
वर्तिदीपाकृतिं चैव वेणुपत्राकृतिं तु वा ॥ ३११ ॥
एवं धृते ह्यूर्ध्वपुण्ड्रे लक्ष्म्या सार्धं जगत्पतिः ।
क्रीडते सततं तत्र ततो बद्धाञ्जलिर्द्विजाः ॥ ३१२ ॥
नामभिः केशवादीनां तदर्थध्यानपूर्वकम् ।
तत्तच्छक्तिसमेतांस्तु केशवादीन्स्मरेद्बुधः ॥ ३१३ ॥
ललाटे केशवं ध्यायेन्नारायणमथोदरे ।
माधवं हृदये चैव गोविन्दं कण्ठकूबरे ॥ ३१४ ॥
उदरे दक्षिणे पार्श्वे विष्णुं ध्यायेन्मुनीश्वराः ।
तत्पार्श्वे बाहुमध्ये तु चिन्तयेन्मधुसूदनम् ॥ ३१५ ॥
त्रिविक्रमं तु तत्स्कन्धे वामकुक्षौ तु वामनम् ।
श्रीधरं वामबाहौ तु हृषीकेशं तदंसके ॥ ३१६ ॥
अपरे पद्मनाभं तु त्रिके दामोदरं स्मरेत् ।
इत्येवमूर्ध्वपुण्ड्रस्य विधानं सुप्रकीर्तितम् ॥ ३१७ ॥
एवं शिष्यस्योर्ध्वपुण्ड्रं धारयित्वा यथाविधि ।
नाम कुर्याच्च शिष्यस्य तद्विधानमिहोच्यते ॥ ३१८ ॥
तमादाय कराद्देवधामसन्निकटं व्रजेत् ।
कृत्वात्मनो वामभागे भूयः संछाद्य लोचने ॥ ३१९ ॥
प्रक्षेपयेत्तथा सार्घ्यमञ्जलिं मुक्तलोचनः ।
संपश्येत्परमं धाम मान्त्रमिच्छाफलप्रदम् ॥ ३२० ॥
तस्मिन्नवसरे कुर्यान्नाम यस्य यथोचितम् ।
रहस्यसंज्ञं मुख्यं च गौणं वास्य यथास्थितम् ॥ ३२१ ॥
सामान्यं वासुदेवाद्यं नाम स्वाङ्काच्चतुर्ष्वपि ।
सर्वेषां सविशेषं वा यथा चानुक्रमेण तु ॥ ३२२ ॥
द्विषट्कमूर्त्यङ्कितं च स्वाम्यन्तं ब्राह्मणेषु च ।
देवान्तं क्षत्रियाणां च कुर्याद् द्वादशधा पुनः ॥ ३२३ ॥
पाण्यन्तं धरनिष्ठं वा लाञ्छनास्त्रपुरस्सरम् ।
ध्वजलाञ्छनसंज्ञं च यथावस्थं नृपेषु च ॥ ३२४ ॥
एवं वर्धननिष्ठं च मूर्तिलाञ्छनपूर्वकम् ।
विहितं चापि वैश्यानां दासान्तं शूद्रजन्मनाम् ॥ ३२५ ॥
अथोत्थाय नमस्कृत्य मण्डलं कलशं गुरुम् ।
यायात्कुण्डसमीपं तु शिशुना सह देशिकः ॥ ३२६ ॥
कृतस्य कर्मणोऽच्छिद्रसिद्ध्यै च हुते सति ।
सन्ताड्यास्त्रात्मको भूत्वा प्राग्वत् तद्धृदयं विशेत् ॥ ३२७ ॥
प्राणशक्तिवियुक्तं च कृत्वाऽऽनीय समासतः ।
संप्रवेश्य स्वकं स्थानं तत्राग्निकणवच्च तम् ॥ ३२८ ॥
नीत्वा सम्यक्पृथग्भावं विरेच्य सह वायुना ।
स्वभूमौ वाममार्गेण हृदायान्तं निरोधितम् ॥ ३२९ ॥
जन्मग्रहणेनैव मन्त्रयुक्तेन कर्मणा ।
भावध्यानानुविद्धेन पितृमातृमयं त्यजेत् ॥ ३३० ॥
ततः कवचमन्त्रेण दद्यात्सप्ताभिमन्त्रितम् ।
तस्योपवीतमपरमुदितं चापि यस्य तत् ॥ ३३१ ॥
सर्वदा दासभावत्वमापन्नस्य च तत्त्वतः ।
अमद्यपान्वयोत्थस्य लोकधर्मोज्झितस्य च ॥ ३३२ ॥
आप्तवद् ब्रह्मनिष्ठस्य कर्मतन्त्ररतस्य च ।
गोदानं शूद्रजातेर्वै विहितं चैव नान्यथा ॥ ३३३ ॥
वौषट्स्वाहावषट्कारनिष्ठानां तु प्रतिक्रिया ।
नमस्कारेण मन्त्राणां कार्यं प्राप्ते ह्यनुग्रहे ॥ ३३४ ॥
तदीयमर्घ्यपुष्पाद्यं यत्किञ्चिद्यागसाधनम् ।
सुसंस्कृतमसिद्धं वा भक्त्या कर्मण्यतां व्रजेत् ॥ ३३५ ॥
अतोऽन्येषां तु भक्तानां विहिता यागसाधने ।
सम्यक्सत्त्वनिवृत्तिः प्राग्दर्शनप्रोक्षणान्वितम् ॥ ३३६ ॥
मूर्तौ वा मण्डलाग्रे तु पुष्पक्षेपं महामते ।
नक्तं वा परिपीड्य भूतार्थं चैवमेव हि ॥ ३३७ ॥
एवं संस्कारसंशुद्धं कृत्वा वर्णगणं पुरा ।
साङ्गेन विभुना कुर्यात् तत्प्रायश्चित्ततर्पणम् ॥ ३३८ ॥
सदशांशं सहस्रं तु यथा चानुक्रमेण तु ।
गत्वा चाभ्यर्च्य कुम्भेशं सूत्रमादाय तत्स्थितम् ॥ ३३९ ॥
ऋजुभूतं शिशुं कृत्वा तद्धृतसूत्रं प्रसार्य च ।
व्यक्तरूपं च मन्त्रेशं संस्मरेदग्निमध्यम् ॥ ३४० ॥
पश्येद्विभौ शिशुं सूत्रे स्वात्मन्यध्वानमञ्जसा ।
तत्राध्यात्मस्वरूपं च संस्मरेन्मन्त्रदेहगम् ॥ ३४१ ॥
अधिदैवस्वभावं च तत्त्वात्मन्यवतार्य च ।
अधिभूतमयं सूत्रे त्रिविधं शिष्यविग्रहे ॥ ३४२ ॥
मूलमन्त्रावसाने तु सनमस्कं परात्मने ।
पदं कृत्वा तु जुहुयादाहुतीनां चतुष्टयम् ॥ ३४३ ॥
तथा सूक्ष्मात्मने चोक्त्वा ततः स्थूलात्मने तु वै ।
सर्वात्मने च तदनु ततोऽध्वनिचयं हितम् ॥ ३४४ ॥
आपादाग्राच्छिखान्तं च सर्वं ध्यात्वा स्वदेहगम् ।
यथोद्दिष्टक्रमेणैव विभिन्नं त्रिविधं त्वपि ॥ ३४५ ॥
रचनासन्निवेशो यः क्ष्मादीनां चाधिभूतता ।
बोद्ध्यमधिदैवत्वं सामर्थ्यं यस्य यत् स्वकम् ॥ ३४६ ॥
तदधिष्ठातुमन्त्राणामध्यात्मत्वं विधीयते ।
अथ मार्गद्वयं त्यक्त्वा द्वादशान्तं समाश्रयेत् ॥ ३४७ ॥
मूलमन्त्रमयो भूत्वा संव्रजेत्त्स्वधिया ततः ।
ब्रह्मद्वारपदं शैष्यं ततस्तन्मध्यवर्त्मना ॥ ३४८ ॥
पार्थिवं पदमाक्रम्य कुर्यात्तच्छक्तिमात्मसात् ।
बीजभूतां च हृन्मन्त्रसंरुद्धां गन्धविग्रहाम् ॥ ३४९ ॥
नानाण्डबीजसंरुद्धामनेकरचनान्विताम् ।
एवमादाय वै सर्वा बुद्धिनिष्ठास्तु शक्तयः ॥ ३५० ॥
पृथक् पृथक् क्रमेणैव तस्मिन् तु हृन्मन्त्रसम्पुटे ।
स्वेनाध्यात्मगणेनैव परेण व्यापकात्मना ॥ ३५१ ॥
तद्देहं धारयन्तं च स्मरेत्तदुभयात्मकम् ।
कालं भोगक्षयान्तं च तत्कालाच्च महामते ॥ ३५२ ॥
कृत्वैवं भूतशक्तीनां संहारं शिशुविग्रहात् ।
सौत्रं देहमाक्रम्य सौम्यं तेनैव वर्त्मना ॥ ३५३ ॥
प्रोल्लसत्तद्व्रजेत्तत्र व्यञ्जयेत्तु धिया च तत् ।
आदायाध्यात्ममन्त्रांश्च भूतभूतान्वितानथ ॥ ३५४ ॥
नित्यं च लक्षणैः शुद्धैः सन्मन्त्रैः स्वस्थितानपि ।
अथ सूत्राद्विनिष्क्रम्य प्रयायादनलाश्रयम् ॥ ३५५ ॥
तत्रावयवसन्धानान्मन्त्रसाम्यं समाचरेत् ।
समाहृतानां मन्त्राणां परे सर्वज्ञलक्षणे ॥ ३५६ ॥
व्यापके सर्वसामान्ये कृत्वा स्वे स्वे पदे स्थितिम् ।
स्वशरीरमथासाद्य ब्रह्मद्वारेण देशिकः ॥ ३५७ ॥
स्रुवमादाय सन्तर्प्य मन्त्रवृन्दं यथोदितम् ।
तत्त्ववृन्दसमेतं च स्वनाम्ना प्रणवादिना ॥ ३५८ ॥
भूयः संसृष्टियोगेन द्विषट्कपरिसंख्यया ।
पूरकेण समाकृष्य शिष्यं हृत्कमलाद्धृदि ॥ ३५९ ॥
अथ व्यक्तिनिरस्तं च क्ष्माबीजं परलक्षणम् ।
भूशक्त्या ज्ञानसंरुद्धं कृत्वादायानलाद्धृदि ॥ ३६० ॥
प्रणवासनविश्रान्तं विरेच्याब्जे तु शैशवे ।
स्मृत्वाथ शिष्यचैतन्यमेकमेव द्विरूपधृक् ॥ ३६१ ॥
शक्तिमच्छक्तिभावेन शक्तित्वेन तु संस्मरेत् ।
क्ष्मातत्त्वान्तर्गतं कुण्डे शक्तिमत्त्वेन तत्पुनः ॥ ३६२ ॥
रेचयित्वा स्वनाम्ना च विग्रहे मध्यवर्त्मना ।
नियोज्य तत्समाधौ तु जपध्यानैकलक्षणे ॥ ३६३ ॥
तदेवं पार्थिवं बीजं हृदा वै होमकर्मणा ।
सम्यक्तस्योपकारार्थं नेतव्यं सूक्ष्मदेहताम् ॥ ३६४ ॥
स्वाहान्तं भोगसिद्ध्यर्थं नमोऽन्तं मोक्षसिद्धये ।
भोगमोक्षाप्तये वापि तदेवोभयलक्षणम् ॥ ३६५ ॥
कर्मणामवसाने तु सम्पादयपदं न्यसेत् ।
एवं तद्विग्रहे सूक्ष्मे तद्धृत्पद्मगतस्य च ॥ ३६६ ॥
शिरसा चाधिकारं तु तस्यापाद्य यथास्थितम् ।
शिखामन्त्रेण तद्भोगं निर्वर्त्य शतसंख्यया ॥ ३६७ ॥
वर्मणा तत्फलप्राप्तिं तल्लयत्वमपि स्मरेत् ।
स्वतृप्तिमथ नेत्रेण कुर्यात्तेनैव तत्स्थितम् ॥ ३६८ ॥
तत्त्यागश्चास्त्रमन्त्रेण विश्लेषेण युतो भवेत् ।
मूलेनाथ गृहीत्वा तत् कुर्याच्चैवात्मसात्पुनः ॥ ३६९ ॥
तच्छक्तिं तदीयां च कुण्डाद्व्यापकलक्षणात् ।
क्ष्मातत्त्वस्याथ साध्यस्य ह्यसाधारस्य शान्तये ॥ ३७० ॥
पूर्वसंख्यं तु चास्त्रेण कृत्वा होमं महामते ।
स्रुवमाज्येन सम्पूर्य स्कन्धसूत्रात्तु पार्थिवम् ॥ ३७१ ॥
विकर्त्य पूर्णया सार्धं विलाप्याग्नौ स्वके पदे ।
मूलमन्त्रेण सहसा हृत्पद्मे प्रेरितेन तु ॥ ३७२ ॥
स्वदेहाद्रेचकेनाथ प्रेय शक्तिं च शैशवीम् ।
तयाक्रान्तमधःस्थं च संस्मरेद् व्यतिरिक्तया ॥ ३७३ ॥
कबिन्दुनोब्जपत्रमाध्याध्वानं च भौवनम् ।
शिष्यदेहे निरुद्धस्य व्यक्तिक्रोडीकृतस्य च ॥ ३७४ ॥
स्वशक्तिपरिपूर्णस्य क्ष्माबीजस्य तद्वोपरि ।
विरेच्य शक्तिमन्तं च व्यस्तधर्मेण पूर्ववत् ॥ ३७५ ॥
तत्क्षणे बीजसंस्थं तु अध्वानं तु यथास्थितम् ।
प्रकाशयन्तं कृपया तत्रार्थं तस्य सिद्धये ॥ ३७६ ॥
विरक्तं भावयेच्छिष्यं चिन्तयन्तमिदं धिया ।
इदं तत्पार्थिवं तत्त्वं मुधा वै दुःखपञ्जरम् ॥ ३७७ ॥
भावतत्त्वगतं चास्य सुमहत्त्वं च साम्प्रतम् ।
कथमत्र त्वहं चासं यस्य मे न तता इमाः ॥ ३७८ ॥
विमुक्तः पञ्जराद्यद्वत्सुखमास्ते विहङ्गमः ।
ऊर्ध्वपाती तदारूढस्त्वेवं मन्त्रबलाच्छिशुः ॥ ३७९ ॥
समूहमथ विज्ञाप्य तत्रभूतेन यत् स्थितः ।
सन्निरुद्धो भवेत्तस्य सर्वतः सर्वदैव हि ॥ ३८० ॥
युष्मत्प्रसादसामर्थ्यादिह्यावत्पार्थिवो गुणः ।
देहान्तं गन्धतन्मात्रं भवेदासीनमस्य वै ॥ ३८१ ॥
सम्यक्संप्रतिपन्नस्य शासने पारमेश्वरे ।
हे धराधिपते नाथ अस्याद्य प्रभृति त्वया ॥ ३८२ ॥
ध्वंसाय मोक्षविघ्नानां भवितव्यं च कर्मणः ।
इति विज्ञाप्य चाज्ञाप्य आपाद्याहुतयः क्रमात् ॥ ३८३ ॥
सह शक्त्या समाकृष्य भूयस्तत्पूरकेण तु ।
तद्देहे चाम्मयं बीजं साधारं पूर्ववन्न्यसेत् ॥ ३८४ ॥
कुण्डमध्ये तु सन्धाय जीवशक्तिं च पूर्ववत् ।
विरेच्य शक्तिमांस्तत्र नियोज्य तदनन्तरम् ॥ ३८५ ॥
तत्समाधौ यथापूर्वं कुम्भकेन महामते ।
अथाप्यं देहमासाद्य होमध्यानादिना परम् ॥ ३८६ ॥
तत्राधिकारपूर्वं तु सर्वं निर्वर्त्य तस्य वै ।
आप्येन सूत्रस्कन्धेन सह पूर्वां निपात्य च ॥ ३८७ ॥
अप्तत्त्वं पदसंयुक्तं तेनाक्रान्तं स्मरेत्तथा ।
तत्स्थं मन्त्रसमूहं तु सह तत्पतिना तु वै ॥ ३८८ ॥
पूर्ववच्छ्रावयित्वा च रसमाज्ञाप्य गन्धवत् ।
मनोऽवसानं नीत्वैवं तं वर्णाध्वोर्ध्वगोचरम् ॥ ३८९ ॥
निष्ठाङ्गेन महाबुद्धे तेजसा चास्त्रेण चेच्छया ।
समुद्धृत्याथ वै प्राग्वद् योक्तव्यं बुद्धिगोचरे ॥ ३९० ॥
षडध्वमुक्तं मूलेन प्राप्तसंज्ञं च तं शिशुम् ।
तन्तुकञ्चुकनिर्मुक्तं शान्तात्मन्येकतां गतम् ॥ ३९१ ॥
स्मृत्वा शक्त्यात्मनाऽग्नौ तु लब्धलक्षं परे पदे ।
ऐश्वरेण तु बीजेन प्रोत्कसत्त्वान्वितेन च ॥ ३९२ ॥
ततः संवेद निर्मुक्ते समाधौ विनियोज्य च ।
न वेत्ति यत्र संलीनः स्वानन्दं द्वैतमात्रकम् ॥ ३९३ ॥
आहुतीनां शतं हुत्वा तदापादनकर्मणि ।
नीत्वा समानतां सर्वं तेनैव स्वधियाऽखिलम् ॥ ३९४ ॥
सह संवेदजालेन वाक्प्रबन्धं यथास्थितम् ।
निरस्तेङ्गमयो भूत्वा दद्यात्पूर्णाहुतिं पराम् ॥ ३९५ ॥
अथास्मितां प्राप्य गुरुः प्रदद्यादाहुतीः पुनः ।
बीजनाथेन शिष्यस्य त्वपमोक्षनिवृत्तये ॥ ३९६ ॥
पदैरोङ्कारसंरुद्धैः पदावस्थितमानसः ।
सर्वज्ञो भव चोक्त्वैवं जुहुयाद्द्वादशाहुतिम् ॥ ३९७ ॥
भवैवमेव भगवन्निरवद्यो निराश्रयः ।
सर्वेश्वरः सर्वशक्तिः सुसम्पूर्णोऽच्युतो हरिः ॥ ३९८ ॥
व्यापी निरुद्धषाड्गुण्यो निर्विकारो निरञ्जनः ।
नित्यो नित्योदितोऽनूनो नित्यानन्दः सुनिष्कलः ॥ ३९९ ॥
अनाद्यनन्तोऽनिधनो वासुदेवो विभूतिमान् ।
हुत्वैवं च ततः कुर्यात्पूर्णया पुनरेव हि ॥ ४०० ॥
स्थितं वैभवदीक्षायां मुमुक्षोरैश्वरे पदे ।
यत्रस्थो धाम चाभ्येति ह्यचिरात्परमेश्वरम् ॥ ४०१ ॥
ईश्वरेच्छावशेनैव देहपातान्महामते ।
भोगेच्छोः पद्मनाभीय उभयेप्सोः पदद्वये ॥ ४०२ ॥
शक्तिमच्छक्तियोगेन त्वथ बुद्धिमयेऽध्वनि ।
निवेश्यो देहपातान्तं कालमुद्धृत्य तत्पदात् ॥ ४०३ ॥
अन्तर्गूढो यथा काष्ठात्पावकश्च पृथक्कृतः ।
न भूयः सह काष्ठेन साम्यमेति तथा पुमान् ॥ ४०४ ॥
योजितोऽध्वान्तरे भूयो नैति तन्मयतां ततः ।
समाधिच्युतिं कृत्वा विनिवेश्यात्मनोऽग्रतः ॥ ४०५ ॥
यथावदुपदेष्टव्यस्तस्याध्वा च सितासितः ।
संस्थितो यस्त्वभेदेन भिन्नरूपः परात्मनि ॥ ४०६ ॥
वेद्यवेदकनिर्मुक्तमच्युतं ब्रह्म यत्परम् ।
तच्छब्दब्रह्मभावेन स्वशक्त्या स्वयमेव हि ॥ ४०७ ॥
मुक्तयेऽखिलजीवानामुदेति परमेश्वरः ।
तदव्यक्ताक्षरं विद्धि तन्त्रीशब्दो यथा कलः ॥ ४०८ ॥
पृथग्वर्णतामेति याति स्थितयेऽनेकधा स्वयम् ।
नो यान्ति निश्चयं यत्र चातुरात्म्यादनुग्रहात् ॥ ४०९ ॥
ऋते वेदविदो विप्रास्तेऽस्मिन् प्रथमेऽक्षरे ।
स शब्दमूर्तिर्भगवानेति च कलात्मना ॥ ४१० ॥
तद्गृहो युज्यते येन तन्निष्ठानां हि कर्मणा ।
न षाड्गुण्यकलोत्था च यावन्मूर्तिर्निरञ्जना ॥ ४११ ॥
वद केनान्यथाऽमूर्तं तद्ग्रहीतुं नियुज्यते ।
तत्त्वाः कलामयाः सर्वे प्रभवाप्ययलक्षणाः ॥ ४१२ ॥
पूर्वोक्ता वासुदेवाद्या अध्यक्षान्ता यथोदिताः ।
तत्त्वेभ्यो निर्गता मन्त्रास्त्वणिमादिगुणैर्युताः ॥ ४१३ ॥
षट्कलाङ्गलवैर्युक्ता येषु संख्या न विद्यते ।
व्यञ्जिता तैस्सर्वनिर्माणं तुर्याधं पदसंज्ञकम् ॥ ४१४ ॥
कर्मिणामात्मलाभार्थं मोहार्थं तत्क्षयाय च ।
द्विसप्तभुवनं विश्वं गुणत्रयमयं हि यत् ॥ ४१५ ॥
तदशुद्धं जडं नित्यं भोग्ये व्याप्यं पृथक्स्थितम् ।
इत्यध्वषट्कमुद्दिष्टं हेयोपादेयलक्षणम् ॥ ४१६ ॥
भुवनाध्वा पदाध्वा च विना तुर्यपदेन तु ।
हेयशेषमुपादेयं कर्मिणां तदपेक्षया ॥ ४१७ ॥
व्यपेक्षयाऽप्युपेयश्च हेयपक्षे प्रयाति च ।
किन्तु तत्प्राप्त्युपायं वै निस्तरङ्गे परे पदे ॥ ४१८ ॥
विवेकपदसंस्थस्य दीक्षया संस्कृतस्य च ।
विचार्यमाण एवं हि विश्रमो यत्र वै स्फुटम् ॥ ४१९ ॥
जायते तत्परं ब्रह्म वासुदेवाख्यमव्ययम् ।
अम्बरं परमाणूनां बहूनामास्पदं यथा ॥ ४२० ॥
तथा चाद्यः प्रबुद्धानां जीवानां हि निकेतनम् ।
विज्ञेयं भुवनानां च पदानामन्तरं हि यत् ॥ ४२१ ॥
येनेश्वरेच्छया तेषां मन्त्रा वै क्रीडयन्ति च ।
मायीयेऽध्वद्वये तस्मिन् सुखदुःखमयैः फलैः ॥ ४२२ ॥
ईश्वरेच्छानुविद्धानां भक्तानां परमेश्वरे ।
गुरूणां दीक्षितानां चाप्याराधनरतात्मनाम् ॥ ४२३ ॥
भवन्त्यध्वद्वयोर्ध्वस्था मन्त्राश्चाज्ञाप्रतीक्षकाः ।
नयन्ति कर्मिणः सम्यङ्मायीयाध्वद्वयाद्बलात् ॥ ४२४ ॥
स्वस्थानमणिमादीनां भोगानां प्राप्तये तु वै ।
विरक्तस्य च तद्भोगात्स्वशक्त्या प्रेरयन्ति च ॥ ४२५ ॥
स्वव्यापारवशेनापि तत्त्वाध्वन्यमृतोपमे ।
यत्राणिमादिमन्येत तृणानीव च संस्थितः ॥ ४२६ ॥
अनुग्रहपरास्तस्य तत्त्वाध्यक्षादयोऽमलाः ।
नयन्त्यप्ययतां सम्यक् सकलाध्वनि शाश्वते ॥ ४२७ ॥
स षाड्गुण्यमयो ब्रह्म वासुदेवोऽध्वमूर्तिभृत् ।
नित्ये स्वात्मनि सम्बद्धे शब्दब्रह्माभिधेऽध्वनि ॥ ४२८ ॥
करोति योजनान्तस्य यत्रस्थः स्वयमेव हि ।
प्राप्नोति तत्परिज्ञानात् सुशान्तं भगवत्पदम् ॥ ४२९ ॥
सङ्कर्षणः ।
देव वर्णाध्वविज्ञानं वद किं लक्षणं मम ।
प्राप्नोति यत्परिज्ञानादध्वी सद्वासुदेवताम् ॥ ४३० ॥
श्रीभगवान् ।
पञ्चाध्वकोशमुक्तस्य लब्धसत्तस्य चात्मनः ।
योऽनुभूतिपदं याति धारासन्तानरूपधृक् ॥ ४३१ ॥
भिन्नवर्णमयशब्दः पूर्वलक्षणलक्षितः ।
स चातुरात्म्यनिचयो विज्ञेयो हि तदात्मना ॥ ४३२ ॥
प्रभवाप्यययोगेन शब्दभास्वरलक्षणः ।
सकारान्तस्त्वकाराच्च हकारादान्त एव हि ॥ ४३३ ॥
प्रभवे द्वादशान्तस्तु हकारश्च तुरात्मनाम् ।
अकारस्त्वप्यये चैव तुल्यता चातोऽनयोः स्मृता ॥ ४३४ ॥
वर्णव्यूहसमूहेऽस्मिन् ज्ञेयं ज्ञानसमाधिना ।
विश्राम उदयो व्यक्तिर्व्यक्तिराट् वासुदेवता ॥ ४३५ ॥
अत्रैकैका परिज्ञेया मूर्तिर्वै त्वेवमेव हि ।
युक्ता विश्रामपूर्वेण चतुष्केण समासतः ॥ ४३६ ॥
दण्डवत्सन्निवेशेन संस्थिता ह्येवमेव हि ।
द्विषट्कं धारणानां च द्वादशाध्यात्मलक्षणम् ॥ ४३७ ॥
सोपानभूतं यत्कान्ता द्वादशान्तं विशेत्परम् ।
नीत्वैवं व्यक्तिभावेन हृत्पद्मोदरसंस्थितम् ॥ ४३८ ॥
वर्णाध्वानं दीक्षितस्य शब्दब्रह्मेति यः स्थितिः ।
संसेव्य हुतभुग्भूमिं प्रणीतनोदकेन तु ॥ ४३९ ॥
सह शिष्येण चात्मानं तेनैवाच्छिद्रसिद्धये ।
पूर्ववद्भूतिना कृत्वा लक्ष्म चाग्निं प्रणम्य च ॥ ४४० ॥
समुत्थाय ततो यायात्तं गृहीत्वाऽच्युतालयम् ।
पूजयित्वा जगन्नाथं निवेद्य नियमाञ्छिशोः ॥ ४४१ ॥
सविशेषात्समासेन सान्तरोन्योपेतात्वशात् ।
यथावदुपदेष्टव्यं ततस्तस्यार्चनं हृदि ॥ ४४२ ॥
मुद्रा समन्वितो मन्त्रो न्यासध्यानपुरस्सरः ।
इति कर्तव्यताशास्त्रसंक्षिप्ता च सविस्तरा ॥ ४४३ ॥
तत्समं सन्ततस्तेन सर्वं कार्यं यथास्थितम् ।
गुर्वर्चनं ततः कुर्यादात्मना च धनादिना ॥ ४४४ ॥
पूरयित्वाम्भसा पाणिमर्घ्यपात्रात्तु दक्षिणम् ।
षडङ्गमन्त्रसञ्जप्तं क्षेप्तव्यं तस्य मस्तके ॥ ४४५ ॥
मण्डलं प्रणवेनाथ पाणौ सूर्यप्रभं स्मरेत् ।
तत्राभिन्नं न्यसेत्प्राग्वद्वैभवं देवतागणम् ॥ ४४६ ॥
कृत्वा धियार्चितं दद्यात् साशिषं तस्य मूर्धनि ।
यथोक्ता च यथाभीष्टा त्वचिरादेव पुत्रक ॥ ४४७ ॥
तवास्तु वैभवीसिद्धिर्मोक्षलक्ष्मीसमन्विता ।
इति वैभवदीक्षाया लक्षणं समुदाहृतम् ॥ ४४८ ॥
तत्प्रयुक्तस्य सामान्यं सर्वमन्त्रगणस्य च ।
येन येन हि मन्त्रेण दीक्षा कार्याथ कस्यचित् ॥ ४४९ ॥
तस्य तस्य तदीयानां पूर्वोद्दिष्टेन वर्त्मना ।
कार्योऽङ्गावयवानान्तु विनियोगो यथोदितः ॥ ४५० ॥
समूहवद्धृदादीनां ज्ञानान्तानां समाचरेत् ।
सह तत्त्वगणेनैव सर्वदाऽध्यात्मरूपताम् ॥ ४५१ ॥
समभ्यूह्य ततः कुर्यात्प्राग्वदभ्यर्चनन्तु वै ।
नेत्रकर्मणि हृद्बीजं पञ्चाङ्गानां विधीयते ॥ ४५२ ॥
निरङ्गानान्तु मन्त्राणामङ्गमन्त्रोक्तकर्मणाम् ।
प्रणवो विनियोक्तव्यः सह कर्मपदेन तु ॥ ४५३ ॥
सम्पाद्या विधिनानेन व्यूहदीक्षार्थिनां सदा ।
किन्तु वै तत्र योक्तव्यं प्रत्येकस्मिन् हि कर्मणि ॥ ४५४ ॥
चतुष्कं वासुदेवाद्यं बीजानां यत्पुरोदितम् ।
एवमोघाद्यमन्त्रस्तु निःशेषे कर्मसङ्ग्रहे ॥ ४५५ ॥
योक्तव्यो ब्रह्मदीक्षायां षोढा भङ्क्त्वा च पूर्ववत् ।
स्वरूपेण यथावस्थमुक्तेष्ववसरेषु च ॥ ४५६ ॥
किन्त्वेकवचनेनात्र देवानां प्रार्थना मता ।
योजना त्वधिवासोक्ता विज्ञातव्या समासतः ॥ ४५७ ॥
नित्यदीक्षाद्वयस्यास्य नान्यन्मोक्षादृते फलम् ।
तत्रापि चातुरात्मीया दीक्षा प्राक् कमलेक्षण ॥ ४५८ ॥
बलाद्ददाति षाड्गुण्यभोगाप्तिं भावितात्मनाम् ।
फलं स्रक्चन्दनादीनां होमद्रव्यस्य चापि यत् ॥ ४५९ ॥
प्रकृत्या सह चाभ्येति विलयं ब्रह्मदीक्षया ।
एवं दीक्षात्रयं चापि दद्यादेकस्य वा क्रमात् ॥ ४६० ॥
सर्वाराधनयोग्यत्वसिद्धये मुनिपुङ्गवाः ।
यद्वाष्टाक्षरमन्त्रादौ व्यापकत्रितये द्विजाः ॥ ४६१ ॥
एकेन सर्वसामान्यं दीक्षां कुर्याद्यथाविधि ।
तेनाङ्गसहितेनैव सर्वकर्म समाचरेत् ॥ ४६२ ॥
तदापि विभवव्यूहपरमन्त्रांस्तथा द्विजाः ।
शक्तिभूषणवाहास्त्रमन्त्रांश्चोपदिशेद्गुरुः ॥ ४६३ ॥
इत्थं दीक्षाविधिः सम्यक्कीर्तितो मुनिपुङ्गवाः ।
अथ मण्डलदृष्टस्य शास्त्रज्ञस्य यथार्थतः ॥ ४६४ ॥
समाराधनसक्तस्य पुत्रकत्वं गतस्य च ।
सिद्ध्यर्थं सर्वमन्त्राणामधिकाराप्तये तु वा ॥ ४६५ ॥
तत्कालं गुरुणा कार्यं यच्छिष्यस्याभिषेचनम् ।
भगवत्तत्त्ववेत्तॄणां पञ्चकालरतात्मनाम् ॥ ४६६ ॥
संहितापारगाणां च आचार्याणां च सन्निधौ ।
यतीनां बद्धलक्ष्याणां बोधकानां महात्मनाम् ॥ ४६७ ॥
देवस्य पुरतः कुर्याच्चतुरश्रं तु मण्डपम् ।
सर्वोपकरणोपेतं मध्ये भद्रासनान्वितम् ॥ ४६८ ॥
तस्मिन्कुर्यादनन्ताद्यसंस्थानं चासनोदितम् ।
पूजयित्वाऽर्घ्यपुष्पाद्यैस्ततो देवस्य सम्मुखम् ॥ ४६९ ॥
बद्धपद्मासनं शिष्यं तत्रारोप्य कृताञ्जलिम् ।
कान्ताभिर्गीयमानं तु स्तूयमानं च वन्दिभिः ॥ ४७० ॥
शङ्खनादैर्ध्मायमानं तु पठ्यमानन्तु मङ्गलैः ।
जपमानं परं मन्त्रं ध्यायमानमिवाच्युतम् ॥ ४७१ ॥
अष्टाङ्गेनार्चयित्वा तु कुम्भमादाय वैष्णवम् ।
स तत्रस्थेन मन्त्रेण सम्यक् सिद्धिव्यपेक्षया ॥ ४७२ ॥
सहस्रावर्तितं कृत्वा शतावर्तितमेव वा ।
सिद्धये द्रुतहेमाभं स्मृत्वा तमभिषिच्य च ॥ ४७३ ॥
स्वाहान्तं मन्त्रमुच्चार्य प्लुतं हृत्कमलोदरात् ।
एवमुक्त्वा नमोऽन्तस्तु ध्यात्वा तं स्फटिकामलम् ॥ ४७४ ॥
समुत्कीर्य खस्रेण तस्य हृत्पद्मगं स्मरेत् ।
चिच्छक्तिविग्रहं ब्रह्म त्वाह्लादानन्दलक्षणम् ॥ ४७५ ॥
समारोप्यं धिया सम्यक् स्वाधिकारं तु चाखिलम् ।
समाराध्यार्चितं शुद्धं दिव्यागमसञ्चयम् ॥ ४७६ ॥
शुभमाराधनाधारमक्षसूत्रं च किङ्किणीम् ।
स्रुक्स्रुवौ योगपट्टं च शङ्खचक्रे कमण्डलुम् ॥ ४७७ ॥
चमसं कुसुमं चार्घ्यपात्रं कृष्णाजिनं ततम् ।
पादुके पादपीठं च छत्रमासनदर्पणम् ॥ ४७८ ॥
मायूरव्यजनं शुक्लं चामरं भागवद्ध्वजम् ।
यथार्हदण्डसहिते काषाये क्षौमवाससी ॥ ४७९ ॥
समुत्थाप्यासनात्सर्वमाहृत्य स्नानजं जलम् ।
विनिक्षिप्य शुभे स्थाने देवमभ्यर्च्य वै ततः ॥ ४८० ॥
तदर्थ्येन तु सन्तर्प्य पूर्णान्तं चाग्निमध्यमम् ।
क्षान्त्वा पूर्वोक्तविधिना सकुण्डान्मण्डलान्तरात् ॥ ४८१ ॥
अर्घ्यपात्रसमूहाच्च बलिदानं समाचरेत् ।
सोदकेन च भूतानामोदनेनास्त्रमुच्चरन् ॥ ४८२ ॥
बलिमण्डलकं कृत्वा यागागाराच्च बाह्यतः ।
कृत्वान्तर्बलिदानं तु प्रादक्षिण्येन वै पुरा ॥ ४८३ ॥
अथ ऊर्ध्वं इदं चोक्त्वा शेषं तन्मण्डले बहिः ।
नमोऽस्त्वच्युतभूतेभ्यः सर्वेभ्यः सर्वदैव हि ॥ ४८४ ॥
सदिक्पतिभ्यः सास्त्रेभ्यः शान्तये स्वस्य वै शिशोः ।
पूजाद्यमुपसंहृत्य दत्तशेषेण पूर्ववत् ॥ ४८५ ॥
वृत्तमण्डलमध्ये तु सितपद्मोदरे ततः ।
दत्तशेषैर्यजेद्देवं सर्वदेवगुरुं प्रभुम् ॥ ४८६ ॥
तर्पयित्वाऽग्निमध्ये तु कुर्यात्तस्य विसर्जनम् ।
तदीयमथ निक्षिप्य क्ष्मावटे वा जलान्तरे ॥ ४८७ ॥
यागावनौ च तच्चक्रं द्वादशारं विचिन्त्य च ।
न्यस्यात्मन्यर्घ्यपुष्पाद्यैः समभ्यर्च्य तदन्तरे ॥ ४८८ ॥
करकं वारिसम्पूर्णमादाय विनिवेश्य च ।
तत्रेष्ट्वा वीर्यमन्त्रेण मध्ये मन्त्रास्त्रमुत्तमम् ॥ ४८९ ॥
मध्वम्बुपयसा पूर्णमपरं शुभलक्षणम् ।
तदग्रतोऽर्घ्यकलशं तन्मध्येऽस्त्रं च चक्रगम् ॥ ४९० ॥
तदभ्यर्च्य यथान्यायं कृत्वाऽष्टशतमन्त्रितम् ।
वषट्पदनिरुद्धेन मूलमन्त्रेण तं पुनः ॥ ४९१ ॥
दद्यात् तदन्तः सास्त्रेण प्राग्वत्पीयूषधारणाम् ।
निर्वज्रीकरणं कुर्यात्सर्वेषां मन्त्रवारिणा ॥ ४९२ ॥
तदम्बुधारादानेन ध्यानोच्चारयुतेन च ।
संविभज्याथ वैतेषां मन्त्रपानं सुधामयम् ॥ ४९३ ॥
सम्पाद्यास्त्रमयं पश्चात्समन्ताच्चक्रगं न्यसेत् ।
आदाय ततोयकुम्भमस्त्रमन्त्रमुदीरयन् ॥ ४९४ ॥
धारयेत्पूर्ववद्धारामथ मध्ये निधाय तम् ।
सुपूर्णमुदकेनैव कृत्वा फलसमन्वितम् ॥ ४९५ ॥
गुरुयागमतः कुर्याच्छिष्यः प्रयतमानसः ।
भगवद्यागवद्भक्त्या कर्मणा मनसा गिरा ॥ ४९६ ॥
यागोपयुक्तसम्भारं तस्मै सर्वं निवेद्य च ।
सशिरः पाणियुग्मं तु कृत्वा वै तदङ्घ्रिगम् ॥ ४९७ ॥
क्षान्तव्यः सुप्रयत्नेन श्रद्धापूतेन चेतसा ।
पञ्चरात्रविदस्तद्वद् यतींश्च स्नातकादयः ॥ ४९८ ॥
सम्पूज्य विधिवद्दद्यात्तेषां शक्त्या च दक्षिणाम् ।
संवाहनपराकालालब्ध्याऽनुज्ञां तु गौरवीम् ॥ ४९९ ॥
भ्रातृभिः सह चाश्नीयाद् बहुभिः पूर्वदीक्षितैः ।
तथान्यैर्भगवद्भक्तैः सुहृत्सम्बन्धिबान्धवैः ॥ ५०० ॥
व्रजन्तं सह शिष्यैस्तु काले ह्यन्यत्र तत्र वा ।
तदिच्छयाऽप्यनुव्रज्य निवर्तेताथ वै यदा ॥ ५०१ ॥
कृत्वा तु पादपतनं बहुधा सप्रदक्षिणम् ।
आ मोक्षात्सर्वसिद्धीनां भक्तानां भावितात्मनाम् ॥ ५०२ ॥
परागतिर्गुर्यस्मात्प्रासादः स्मृतः एव सः ।
इत्येवमभिषेकस्तु भवेन्मुख्याधिकारिणाम् ॥ ५०३ ॥
स्वार्थे परार्थयजने उभयत्राधिकारिणाम् ।
अन्ये तु दीक्षामात्रेण संस्कार्या मुनिपुङ्गवाः ॥ ५०४ ॥
मुनयः ।
किं स्वार्थं च परार्थं किं के च तत्राधिकारिणः ।
भगवन्मुनिशार्दूल वदस्व वदतां वर ॥ ५०५ ॥
नारदः ।
स्वगृहे स्थापितो देवः स्वार्थ इत्यभिधीयते ।
पर्वताग्रे नदीतीरे सिन्धुतीरे वनादिके ॥ ५०६ ॥
ग्रामे वा नगरे वापि स्वयंव्यक्तादिभेदतः ।
संस्थितो भगवान् विप्राः परार्थ इति कथ्यते ॥ ५०७ ॥
परार्थः सूर्यसदृशः स्वार्थस्तु गृहदीपवत् ।
उत्कृष्टः परशब्दोऽयमर्थो मोक्षादिलक्षणः ॥ ५०८ ॥
यस्मात्स लभ्यते सोऽयं परार्थः परिकीर्तितः ।
स एव सर्वफलदः सर्वेषामपि यद् द्विजाः ॥ ५०९ ॥
तस्मात्सर्वजनैः सेव्यः परार्थः पुरुषोत्तमः ।
स्वार्थः स्वस्वगृहे पूज्यः स्वस्वाभीष्टफलप्रदः ॥ ५१० ॥
स्वार्थस्यापि परार्थस्य पूजायामधिकारिणः ।
शाण्डिल्याद्यन्वये जाता गुरोर्लब्धाभिषेचनाः ॥ ५११ ॥
अन्ये तु केवलं स्वार्थपूजने ह्यधिकारिणः ।
मुनयः ।
शाण्डिल्याद्यास्तु के योगिन् तद्वंश्याः एव केवलम् ।
कथं परार्थयजने भवन्ति ह्यधिकारिणः ॥ ५१२ ॥
तत्सर्वं विस्तरेणैव ब्रूहि नो मुनिपुङ्गव ।
नारदः ।
शाण्डिल्यादिमुनीन्द्राणां शृणुध्वं वैभवं द्विजाः ।
पुरा कृतयुगस्यादौ वासुदेवः परः पुमान् ॥ ५१३ ॥
स्वाराधनार्थं भूलोके सद्धर्माणां प्रवृत्तये ।
लोकसंरक्षणार्थं च स्वस्य पञ्चायुधाधिपान् ॥ ५१४ ॥
समालोक्य भवन्तोऽद्य ह्यवतीर्य धरातले ।
आद्यमेकायनं वेदं मोक्षैकफललक्षणम् ॥ ५१५ ॥
प्रकाशयध्वं सर्वेषां सद्धर्मांश्च विशेषतः ।
तत्र तत्रावतीर्णं मां स्वयंव्यक्तादिभेदतः ॥ ५१६ ॥
सम्पूजयध्वं सर्वेषां मोक्षलाभाय भूतले ।
इत्यादिष्टास्ते वै विष्णोराज्ञानुवर्तिनः ॥ ५१७ ॥
सुदर्शनाद्याः हेतीशाः पञ्च ब्रह्मर्षिरूपतः ।
समुत्पन्ना क्षितितले पौण्ड्रवर्धनस्थलादिषु ॥ ५१८ ॥
पञ्चायुधांशास्ते पञ्च शाण्डिल्यश्चौपगायनः ।
मौञ्ज्यायनः कौशिकश्च भारद्वाजश्च योगिनः ॥ ५१९ ॥
ते मिलित्वा समालोच्य विष्णोराराधनेच्छया ।
अभिसङ्गम्य तोताद्रौ तपश्चक्रुस्सुदुस्तरम् ॥ ५२० ॥
तेषां तु तपसा तुष्टो वासुदेवो जगत्पतिः ।
लक्ष्म्या सार्धं खगेशानमधिरुह्य कृपानिधिः ॥ ५२१ ॥
आजगाम गिरिश्रेष्ठे यत्र सन्ति मुनीश्वराः ।
ततस्ते मुनिशार्दूला दृष्ट्वायान्तं जगत्पतिम् ॥ ५२२ ॥
शङ्खचक्राङ्कितकरं कोटिसूर्यसमप्रभम् ।
पुलकाङ्कितसर्वाङ्गा आनन्दाश्रुसमन्विताः ॥ ५२३ ॥
प्रणर्तन्तस्तुवन्तश्च गायन्तश्च परस्परम् ।
प्रदक्षिणं च कुर्वन्तः प्रणेमुः पुरुषोत्तमम् ॥ ५२४ ॥
आनन्दाब्धिसम्मग्नानेतान्वीक्ष्य प्रियः पतिः ।
उवाच करुणं वाक्यं मेघगम्भीरया गिरा ॥ ५२५ ॥
श्रीभगवान् ।
ऋषयः तपसा युष्मत्कृतेनानन्यचेतसा ।
सन्तुष्टोऽस्मि प्रसन्नोऽस्मि वृणीध्वमभिवाञ्छितम् ॥ ५२६ ॥
इति तद्वचनं श्रुत्वा ऋषयो हृष्टमानसाः ।
बद्धाञ्जलिपुटाः सर्वे प्रत्यूचुर्विनयान्विताः ॥ ५२७ ॥
अधीताः सकला वेदाः शास्त्राणि विविधानि च ।
मोक्षोपायं न जानीमस्ततस्त्वां शरणं गताः ॥ ५२८ ॥
इहैवानुग्रहं कर्तुमर्हसि त्वं दयानिधे ।
इति संप्रार्थितो देवः करुणामृतवारिधिः ॥ ५२९ ॥
तदानीमेव योगीन्द्रान् शाण्डिल्यादींस्तु दीक्षया ।
संस्कृत्य चाभिषिच्याथ स्वयमेव जगत्पतिः ॥ ५३० ॥
आद्यमेकायनं वेदं रहस्याम्नायसंज्ञितम् ।
दिव्यमन्त्रक्रियोपेतं मोक्षैकफललक्षणम् ॥ ५३१ ॥
पञ्चापि पृथगेकैकदिवारात्रं जगत्प्रभुः ।
अध्यापयामास यतस्ततस्तन्मुनिपुङ्गवाः ॥ ५३२ ॥
शास्त्रं सर्वजनेलोके पञ्चरात्रमितीर्यते ।
तदर्थांश्चोपदिश्याथ तानुवाचेदमच्युतः ॥ ५३३ ॥
एष एकायनो वेद उपदिष्टो मया द्विजाः ।
मोक्षायनाय वै पन्था एतदन्यो न विद्यते ॥ ५३४ ॥
तस्मादेकायनं चैनं प्रवदन्ति मनीषिणः ।
एतदुक्तविधानेन दिव्यक्षेत्रादिषु स्थितम् ॥ ५३५ ॥
स्वयंव्यक्तादिरूपेण यजध्वं मुनिपुङ्गवाः ।
स्वार्थे परार्थयजने यूयं मुख्याधिकारिणः ॥ ५३६ ॥
युष्मद्वंश्याश्च ये विप्राः तेऽभिषेच्याः यथाविधि ।
तेऽपि स्वार्थे परार्थे च भवेयुरधिकारिणः ॥ ५३७ ॥
एष कार्तयुगो धर्मः प्रतिबुद्धैर्निषेवितः ।
त्रेतादौ मन्दसञ्चारो भविष्यति मुनीश्वराः ॥ ५३८ ॥
त्रेतायुगादौ सर्वेऽपि नानाकामसमन्विताः ।
व्यामिश्रयाजिनो भूत्वा त्यजन्त्याद्यं सनातनम् ॥ ५३९ ॥
अन्तर्दधाति सर्वोऽयं वेद एकायनाभिधः ।
ततो योग्याय भगवान् प्रादुर्भवयति स्वयम् ॥ ५४० ॥
इत्युक्त्वान्तर्दधे देवो वासुदेवः सनातनः ।
तदा प्रभृति ते सर्वे शाण्डिल्याद्या मुनीश्वराः ॥ ५४१ ॥
आद्यं भागवतं धर्ममादिभूते कृते युगे ।
अनुतिष्ठन्ति सर्वेऽपि मानवाश्च मुनीश्वराः ॥ ५४२ ॥
ततस्त्रेतायुगे जाते नानाकामवशाज्जनाः ।
त्यक्त्वा भागवतं धर्मं बभूवुर्मिश्रयाजिनः ॥ ५४३ ॥
ततश्चैकायनो वेदो मन्दचारो बभूव च ।
तदा मुनीन्द्रः शाण्डिल्यो दृष्ट्वा कामरतान् जनान् ॥ ५४४ ॥
लोकसंरक्षणार्थाय तपस्तेपे सुदुस्तरम् ।
अनेकानि सहस्राणि वर्षाणां तपसोऽन्ततः ॥ ५४५ ॥
द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च ।
साक्षात्सङ्कर्षणो देवः प्राप्य प्रत्यक्षतां मुनेः ॥ ५४६ ॥
परित्यज्य परं धर्मं मिश्रधर्ममुपेयुषाम् ।
भूयस्तत्पदकाङ्क्षाणां श्रद्धाभक्ती उपेयुषाम् ॥ ५४७ ॥
अनुग्रहार्थं वर्णानां योग्यतापादनाय च ।
तथा जनानां सर्वेषामभीष्टफलसिद्धये ॥ ५४८ ॥
मूलवेदानुसारेण सारं सङ्गृह्य सर्वतः ।
अनुष्टुप्छन्दोबन्धेन प्रोक्तानि हरिणा स्वयम् ॥ ५४९ ॥
सात्वतादीनि शास्त्राणि भोगमोक्षप्रदानि च ।
उपदिश्याथ मुसली तत्रैवान्तरधीयत ॥ ५५० ॥
लब्ध्वैवं सात्वतादीनि शास्त्राणि मुनिपुङ्गवाः ।
शाण्डिल्योऽध्यापयामास मुनींश्चैवौपगायनम् ॥ ५५१ ॥
तथा मौञ्ज्यायनादींश्च सनकाद्यांश्च योगिनः ।
ततः प्रभृति ते सर्वे शाण्डिल्याद्या मुनीश्वराः ॥ ५५२ ॥
सात्वताद्युक्तमार्गेण हरेराराधनादिकम् ।
कुर्वन्तः स्वस्ववंश्यांश्च शिष्यांश्चापि सहस्रशः ॥ ५५३ ॥
काण्वीं शाखामधीयानान् वेदवेदान्तपारगान् ।
संस्कृत्य दीक्षया सम्यक्सात्वताद्युक्तमार्गतः ॥ ५५४ ॥
अभिषिच्य च तान् सर्वान् कृत्वा स्वार्थपरार्थयोः ।
पूजाधिकारिणो विप्रा तैरेतत्सात्वतादिकम् ॥ ५५५ ॥
शास्त्रं प्रवर्तयामासुस्ते हि मुख्याधिकारिणः ।
इत्युक्त्वा मुनिशार्दूल शाण्डिल्यादिमहात्मनाम् ॥ ५५६ ॥
माहात्म्यं लेशतो ह्यत्र अधिकारिप्रसङ्गतः ।
एवं दीक्षा चाभिषेको यत्सिद्धान्तेन पूर्वतः ॥ ५५७ ॥
प्राप्तस्तेनैवमार्गेण कार्यों नान्योक्तमार्गतः ।
सिद्धान्तसङ्करं नैव कुर्याच्छास्त्रविशारदः ॥ ५५८ ॥
मुनयः ।
सिद्धान्तं नाम किं को वा भेदस्तस्य मुनीश्वर ।
तत्सर्वं विस्तरेणैव वदस्व वदतां वर ॥ ५५९ ॥
नारदः ।
चतुर्धा भेदभिन्नोऽयं पञ्चरात्राख्य आगमः ।
पूर्वमागमसिद्धान्तं द्वितीयं मन्त्रसंज्ञितम् ॥ ५६० ॥
तृतीयं तन्त्रमित्युक्तमन्यत् तन्त्रान्तरं भवेत् ।
आद्यं नित्योदितव्यूहस्थापनादिप्रकाशकम् ॥ ५६१ ॥
अपौरुषेयं सद्ब्रह्मवासुदेवाख्ययाजिनाम् ।
लक्ष्यभूतं द्विजेन्द्राणां हृदिस्थमधिकारिणाम् ॥ ५६२ ॥
ब्रह्मोपनिषदाख्यं च दिव्यमन्त्रक्रियान्वितम् ।
विवेकदं परं शास्त्रमनिच्छतोऽपवर्गदम् ॥ ५६३ ॥
एवं नित्योदिताख्यस्य नित्याकारस्य च प्रभोः ।
वासुदेवाभिधानस्य षाड्गुण्यादि गुणोदधेः ॥ ५६४ ॥
प्रथमं लक्षणं विद्धि हृदयाद्यङ्गशब्दवत् ।
एतदागमसिद्धान्तं श्रुतिरूपं तु विद्धि तत् ॥ ५६५ ॥
एष कार्तयुगो धर्मः सर्वधर्मोत्तमः स्मृतः ।
ततस्त्रेतायुगस्यादौ भोगमोक्षप्रसिद्धये ॥ ५६६ ॥
तस्मादागमसिद्धान्तान्निस्सृतं बहुभेदकम् ।
मन्त्रसिद्धान्तसंज्ञं तज्जाग्रद्व्यूहादिमूर्तिना ॥ ५६७ ॥
समुत्कीर्णं द्वितीयस्य सात्वतस्य महात्मनः ।
तेन प्रद्युम्नसंज्ञस्य तेन तुर्यात्मनो विभोः ॥ ५६८ ॥
तेन वागीश्वराख्यस्य तस्माद्द्वीपाख्यविग्रहे ।
सङ्क्रान्तं च ततः पश्चाद्रुद्रेन्द्रादित्यवह्निषु ॥ ५६९ ॥
तथैव नारदाद्येषु देवतानां गणेष्वपि ।
सङ्क्रान्तं मन्त्रसिद्धान्तं भेदभिन्नमनेकधा ॥ ५७० ॥
यत्र शान्ततरं व्यूहं शान्तोदितमनन्तरम् ।
सुषुप्तिसंज्ञं स्वप्नाख्यं जाग्रद्व्यूहं यथोदितम् ॥ ५७१ ॥
मूर्त्यन्तरं केशवाद्यं प्रादुर्भावं तथान्तरम् ।
हृत्पद्मपद्मपीठादौ लक्ष्मीपुष्ट्यादिशक्तिभिः ॥ ५७२ ॥
लाञ्छनैश्शङ्खचक्राद्यैर्गरुडप्रमुखैरपि ।
भूतसिद्धादिभिः शास्त्रपर्यन्तैर्यजनं हितम् ॥ ५७३ ॥
विश्वत्रातुर्नृसिंहस्य दीक्षा पूर्वं तथापरम् ।
विभवव्यूहसूक्ष्माख्यमधिकारं यथाक्रमम् ॥ ५७४ ॥
समयी पुत्रकादीनां चतुर्णामभिषेचनम् ।
तथैव समयाचारं मूर्तीनां स्थापनक्रमम् ॥ ५७५ ॥
मन्त्रमण्डलमुद्राणां कुण्डादीनां च लक्षणम् ।
कर्मणामेवमादीनां विधानं यत्र पुष्कलम् ॥ ५७६ ॥
मन्त्रसिद्धान्तसंज्ञं तद्बहुभेदसमन्वितम् ।
परव्यूहादिभेदेन विनैकेन मूर्तिना ॥ ५७७ ॥
साङ्गेन केवलेनाथ कान्ताव्यूहेन भूषणैः ।
तथास्त्रैर्विग्रहोपेतैर्युतं तन्त्रसंज्ञितम् ॥ ५७८ ॥
नृसिंहकपिलक्रोडहंसवागीश्वरादयः ।
मुख्यानुवृत्तिभेदेन केवला वाङ्गसंयुताः ॥ ५७९ ॥
चक्राद्यस्त्रवरैश्चाथ भूषणैर्मुकुटादिभिः ।
कान्तागणैश्च लक्ष्म्याद्यैः परिवारैः खगादिकैः ॥ ५८० ॥
पूजिता विधिना यत्र तत्तन्त्रान्तरमीरितम् ।
ये जन्मकोटिभिः सिद्धास्तेषामन्तोऽत्र संस्थितिः ॥ ५८१ ॥
यस्मात्तस्माद्विजाद्येषा सिद्धान्ताख्यो यथार्थतः ।
शास्त्रमन्त्रक्रियादीनां मूर्तीनां भवनस्य च ॥ ५८२ ॥
देशिकस्याभिजातस्य यथापूर्वं परिग्रहः ।
तथैव यावत्कालन्तु नार्चितव्यं तदन्यथा ॥ ५८३ ॥
विपरीते कृते चात्र राजराष्ट्राद्यनर्थकृत् ।
तत्सिद्धान्तसाङ्कर्यं नार्चितव्यं कृतात्मभिः ॥ ५८४ ॥
यद्यदिष्टतमं लोके पूर्वसिद्धाविरोधि तत् ।
प्रतिग्राह्यमतोऽन्योन्यविरुद्धं सन्त्यजेद्बुधः ॥ ५८५ ॥
वैखानसेषु तन्त्रेषु शैवपाशुपतेषु च ।
विहिताज्जन्यत्र जातानि विरुद्धानीति किं पुनः ॥ ५८६ ॥
एवं सिद्धान्तभेदश्च कीर्तितोऽयं यथाश्रुतम् ।
इतोऽन्यच्छ्रोतुमिच्छा चेत्कथ्यतां मुनिपुङ्गवाः ॥ ५८७ ॥
इति श्रीपाञ्चरात्रे ईश्वरसंहितायां दीक्षाविधिर्नाम एकविंशोऽध्यायः ॥
Kapitel 22 – नियमविधानम् / niyamavidhānam
Siehe deutsche Übersetzung und Texthinweise.
मुनयः ।
नियमा उपदेष्टव्याः शिष्यस्येति पुरा त्वया ।
प्रोक्तं हि मुनिशार्दूल नियमांस्तान् प्रकाशय ॥ १ ॥
नारदः ।
एतदेव पुरा पृष्टो देवस्सङ्कर्षणेन हि ।
प्रोवाच नियमांस्तांस्तु प्रवक्ष्यामि मुनीश्वराः ॥ २ ॥
श्रीभगवान् ।
प्रत्येकस्मिन् हि नियमे निर्गते तु गुरोर्मुखात् ।
ब्रूयाद्धै बाढमित्येवं शिष्यश्शोकाग्निशान्तये ॥ ३ ॥
नाक्रम्या गौरवी च्छाया देवी यानगता त्वपि ।
गुरुवद्गुरुवर्गश्च द्रष्टव्यो नित्यमेव हि ॥ ४ ॥
शयनासनयानाद्यं तदीयमभिवन्दयेत् ।
अतन्द्रितः सदा कुर्याद्व्यापारं तद्गृहेऽखिलम् ॥ ५ ॥
नासने तत्समक्षञ्च वस्तव्यं न च दक्षिणे ।
सुयन्त्रितः संयतवाक् तदाज्ञासम्प्रतीक्षकः ॥ ६ ॥
तत्सन्निधौ तु नान्येषां प्रत्युत्थानं समाचरेत् ।
कुर्यात्संशयविच्छित्तिं न तदादेशतो विना ॥ ७ ॥
व्याख्यानमागमानाञ्च योगाभ्यासश्च धारणा ।
अवश्यतकार्याण्येतानि स्वगृहे न गुरोर्गृहे ॥ ८ ॥
न शङ्खचक्रपद्माङ्के भोक्तव्यं भाजने तु वै ।
तल्लक्ष्म चोपलं काष्ठं लोष्टं वा फलकादिकम् ॥ ९ ॥
क्रमणीयं न पादेन कल्प्यं नैवासनार्थतः ।
भगवच्छासनज्ञानामाराधनरतात्मनाम् ॥ १० ॥
यथोचिता यथाशक्ति पूजा कार्या सदैव हि ।
प्रासादं देवदेवीयमाचार्यं पाञ्चरात्रिकम् ॥ ११ ॥
अश्वत्थञ्च वटं धेनुं सत्समूहं गुरोर्गृहम् ।
दूरात्प्रदक्षिणीकुर्यात् निकटे प्रतिमां विभोः ॥ १२ ॥
दण्डवत्प्रणिपातैस्तु नमस्कुर्याच्चतुर्दिशम् ।
न यानपादुकारूढो न सोपानहपादभृत् ॥ १३ ॥
न विक्षिप्तमना भूत्वा संविशेद्भगवद्गृहम् ।
न व्याख्यावसरे कुर्यात् प्रत्युत्थानाभिवादने ॥ १४ ॥
नाभक्तानां न मूर्खाणां नास्तिकानां विशेषतः ।
दातव्यः सम्प्रवेशश्च नोपहासरतात्मनाम् ॥ १५ ॥
नापूजितं समुद्घाट्य शासनं पारमेश्वरम् ।
समक्षं नान्यभक्तानां न तत्सन्देहशान्तये ॥ १६ ॥
प्रकाशनीयं तल्लोभान्न चान्यायेन नो भयात् ।
सुगन्धफलपुष्पाद्यमपूर्वमुचितञ्च यत् ॥ १७ ॥
अभोज्यं गुरुदेवाग्निविनिवेदितवर्जितम् ।
तस्करात् पतिताच्चण्डाद्दम्भलोभमदान्वितात् ॥ १८ ॥
मात्रावित्तं न गृह्णीयादभक्तादुपचारतः ।
गृहीत्वा भगवद्बिम्बं वृत्त्यर्थमटतीति यः ॥ १९ ॥
नगरापणवीथीनां तस्य देवलकस्य च ।
दर्शनं स्पर्शनं नैव कुर्यात्सम्भाषणं तथा ॥ २० ॥
गायेत्तु भगवद्गाथां यो ग्रामे नगरान्तरे ।
तं प्रभुस्तावकं चैव पूजयेच्चैव सर्वदा ॥ २१ ॥
विष्णुव्रतपरं चैव विष्ण्वायतनवासिनम् ।
विष्ण्वालापकथासक्तं विष्ण्वायतनमार्जकम् ॥ २२ ॥
श्रावकं वैष्णवानाञ्च विष्णुधर्मपरायणम् ।
पर्येष्टिकृद्वैष्णवानां मान्यो वै विष्णुवत्सदा ॥ २३ ॥
प्रातरुत्थाय चिन्वीयात् स्वारामात्स्वयमेव हि ।
पूजार्थमस्त्रमन्त्रेण पुष्पादीन् प्रयतस्सदा ॥ २४ ॥
यायादरण्यमथवा निर्बन्धं हि तदर्जने ।
अकण्टकद्रुमोत्थाश्च कण्टकद्रुमजा अपि ॥ २५ ॥
हृद्याः सुगन्धाः कर्मण्या ग्राह्याः सर्वे सिताद्यः ।
उग्रगन्धा ह्यकर्मण्यास्त्वप्रसिद्धास्तथैव च ॥ २६ ॥
चतुष्पथशिवावासश्मशानावनिमध्यगाः ।
क्षता अशनिपाताद्यैः क्रिमिकीटसमावृताः ॥ २७ ॥
वर्जनीयाः प्रयत्नेन पत्रपुष्पफलादयः ।
अम्बुजानि सुगन्धीनि सितरक्तादिकानि च ॥ २८ ॥
योक्तव्यानि पवित्राणि नित्यमाराधने तु वै ।
साङ्कुराणि च पत्राणि भूगतान्येवमेव हि ॥ २९ ॥
विहितान्यर्चने नित्यं यथर्तुप्रभवानि च ।
न गृहे करवीरोत्थैः कुसुमैरर्चनं हितम् ॥ ३० ॥
विशेषतस्सकामस्य सिद्धिभूतियुतस्य च ।
अतोऽन्यथा न दोषोऽस्ति दोष उन्मत्तकादिभिः ॥ ३१ ॥
सद्योहृतानां विहितस्त्वम्लानानां यथा करः ।
प्रदानमम्बुसिक्तानां तेषां कुर्यान्न चान्यथा ॥ ३२ ॥
निर्दोषतां प्रयान्त्याशु मन्त्रिणामवलोकनात् ।
भवन्ति भक्तिपूतानि हृन्मन्त्रनिरतात्मनाम् ॥ ३३ ॥
न कांस्यपात्रे भोक्तव्यं न तत्र विनिवेदयेत् ।
देवाय मधुपर्काद्यं तथा वै सति सम्भवे ॥ ३४ ॥
मृन्मयायसपात्रेषु न धूपमपि निर्दहेत् ।
धूपार्थं गुग्गुलुः साज्यो देयश्चाभावतोऽपरः ॥ ३५ ॥
सह घण्टारवेणैव दीपार्थं परिवर्जयेत् ।
भेदो मज्जातसीतैलं घृतं तैलविमिश्रितम् ॥ ३६ ॥
नाविकं मधुपर्कार्थं दधिक्षीरादिकं शुभम् ।
कोलोत्यः कोद्रवः कृष्णशाल्युत्थो नौदनो हितः ॥ ३७ ॥
नापात्रं न मांसञ्च नारनालविभावितम् ।
न चार्चनकालेतु समुत्तिष्ठेत् त्वरान्वितः ॥ ३८ ॥
आसमाप्तिक्रियां वैव उपरोधेन केनचित् ।
आधारशङ्खबिम्बाब्जद्रवपीठाजलच्युतिः ॥ ३९ ॥
न कार्या कण्टकैलौहैर्मृदुकूर्चादिना विना ।
न स्नायात्स्वपेन्नो न मौनञ्चाचरेद्गुरौ ॥ ४० ॥
नोच्छिष्टं संस्पृशेत् किञ्चिन्नाश्नीयाद्भगवद्गृहे ।
सन्निकर्षेण चाग्नेस्तु न गृहे मधुसङ्करे ॥ ४१ ॥
भक्तानां कृतदीक्षाणां व्यङ्ग्यः शास्त्रार्थ एव हि ।
अन्येषां धर्मशास्त्रञ्च लोभनिर्मुक्तया धिया ॥ ४२ ॥
शिष्याणां विष्णुभक्तानां नित्यं कुर्याच्च सङ्ग्रहम् ।
मानमात्सर्यकार्पण्यलोभमोहादयोऽगुणाः ॥ ४३ ॥
नेतव्यास्तानवं सर्वे यावज्जीवावधिं क्रमात् ।
अकस्मादुपसन्नानां देशान्तरनिवासिनाम् ॥ ४४ ॥
इष्टोपदेशः कर्तव्यो नारायणरतात्मनाम् ।
यो न वेत्त्यच्युतं तत्त्वं पञ्चरात्रार्थमेव च ॥ ४५ ॥
तथा स वैष्णवीं दीक्षां नानाशास्त्रोक्तलक्षणाम् ।
न तेन सह सम्बन्धः कार्यो भिन्नक्रमेण तु ॥ ४६ ॥
न शास्त्रार्थस्य शास्त्राणां बुद्धिपूर्वं उपप्लवः ।
आचर्तव्य इहाज्ञानात् पारम्पर्यक्रमं विना ॥ ४७ ॥
प्रष्टव्यो भगवद्भक्त आप्तो लक्षणकोविदः ।
प्रसिद्ध आर्जवे वृद्धो नष्टं शास्त्रार्थलक्षणम् ॥ ४८ ॥
मुद्रामण्डलमन्त्राणां निस्सन्देहपरेण च ।
भवितव्यं गुरूणाञ्च सकाशात्सर्वदैव हि ॥ ४९ ॥
न च सर्वज्ञमन्त्राणां विना भावांशकेन तु ।
आनुकूल्यं गवेष्टव्यं मुक्त्वा मण्डलदर्शनात् ॥ ५० ॥
नाभिचक्रे तु हृत्पद्मे कन्दमूले गलावटे ।
भ्रूमध्ये ब्रह्मरन्ध्रे च स्थानेष्वेतेषु मन्त्रराट् ॥ ५१ ॥
स्मर्तव्यः सूर्यसङ्काशः प्रवासे शयनेऽध्वनि ।
मृगसूकरमांसानि नाद्यान्मीनोत्थितानि च ॥ ५२ ॥
न हंसकच्छपीयानि न शृङ्गाटफलानि च ।
न तथा पद्मबीजानि न वटाग्रं समारुहेत् ॥ ५३ ॥
छेद्यमानं न तत्पश्येत् तद्दलं नाङ्घ्रिणा स्पृशेत् ।
पुण्यक्षेत्रं महातीर्थं सिद्धाश्रममनुत्तमम् ॥ ५४ ॥
वैष्णवीं पर्षदं वापि व्यक्तिस्थानं तथाच्युतम् ।
आसाद्य मण्डलं कृत्वा चक्रं वा द्वादशारकम् ॥ ५५ ॥
निर्वहणीयं विधिवच्चातुर्मास्यं महामते ।
गृहे संयमपूर्वं वा चक्रं कृत्वा तु कुड्यगम् ॥ ५६ ॥
चतुर्विधेन रजसा प्रतिमाया अथाग्रतः ।
संयुक्तानपि पूर्वोक्तैरेतांश्च समयान् सदा ॥ ५७ ॥
निर्वाहकाणां भक्तानां प्रयच्छेत्सततं गुरुः ।
ज्ञात्वा निर्वाहकं भक्तं तस्यादौ देशिकेन तु ॥ ५८ ॥
समुदेश्याश्च ते सर्वे निर्वहेत्यथ येषु वै ।
तेषु तेषु नियोक्तव्यो यथा न च्यवते पुनः ॥ ५९ ॥
धावन्ति समयस्थस्य सविघ्नाः सविनाशकाः ।
विमुखाः सिद्धयो यान्ति ह्यापदो हि भवन्ति च ॥ ६० ॥
ज्ञात्वैवं सावधानेन भवितव्यं हि तान् प्रति ।
सारमादाय वै बुद्ध्या निर्मथ्य नियमोदधिम् ॥ ६१ ॥
कृपया गुरुणा देयं समयानान्तु पञ्चकम् ।
भक्तिरग्नौ गुरौ मन्त्रे शास्त्रे तदधिकारिणि ॥ ६२ ॥
नियतं पञ्चकस्यास्य यथावत्परिपालनात् ।
अनुष्ठानात्तु नान्येषां स्वातन्त्र्येण यथेच्छया ॥ ६३ ॥
भक्तानां मनसोऽभीष्टाः प्रवर्तन्ते हि सिद्धयः ।
येऽनिर्मलेन मनसा उपरोधात्तु कुर्वते ॥ ६४ ॥
पालनं समयानाञ्च ते मज्जन्त्यसितेऽध्वनि ।
सुप्रसन्नेन मनसा यथैतत्परिपाल्यते ॥ ६५ ॥
तथा प्रसादमभ्येति स्व आत्मा तु हितैषिणाम् ।
नूनं कालुष्यमुक्तानां स्थितानामिह सत्पथे ॥ ६६ ॥
समयी साधकाचार्य पुत्राणाञ्च भवेच्छुभम् ।
इत्येवमुक्ता नियमा इतः किं श्रोतुमिच्छथ ॥ ६७ ॥
इति श्रीपाञ्चरात्रे ईश्वरसंहितायां नियमविधानं नाम द्वाविंशोऽध्यायः ॥

Kapitel 23 – मन्त्रोद्धारविधानम् / mantroddhāravidhānam
Siehe deutsche Übersetzung und Texthinweise.
मुनयः ।
भगवन्नारदमुने सर्वज्ञ वदतां वर ।
स्वरूपं दिव्यशास्त्रादेर्मन्त्राणां लक्षणं तथा ॥ १ ॥
मुद्राणां लक्षणं मूर्तिध्यानं कुण्डादिलक्षणम् ।
हविरादिविधानञ्च यद्यदत्रोपयुज्यते ॥ २ ॥
तत्सर्वं विस्तरेणैव वदस्वानुग्रहादिह ।
नारदः ।
शास्त्रं दिव्यञ्च मुन्युक्तं पौरुषं चेति वै त्रिधा ।
प्रोक्तं तत्तत्स्वरूपन्तु प्रवक्ष्यामि मुनीश्वराः ॥ ३ ॥
यदर्थाढ्यमसन्दिग्धं स्वच्छमल्पाक्षरं स्थिरम् ।
चातुरात्म्यस्वरूपेण संस्थितस्य विभोः सदा ॥ ४ ॥
स्वाभाविकं परत्वन्तु यत्र यत्र समीरितम् ।
अन्यासां मन्त्रमूर्तीनां यत्र चौपाधिकं तु यत् ॥ ५ ॥
तुर्यादिजाग्रत्पर्यन्तः पदभेदः प्रकाशितः ।
भक्तानामनुकम्पार्थं यत्र वै चतुरात्मनः ॥ ६ ॥
शक्तीशस्य विभोर्यत्र विभवः सम्प्रकाशितः ।
अङ्गलाञ्छनभूषाणां शक्तीनां विहगेशितुः ॥ ७ ॥
लयादिभेदभिन्नं तु स्वरूपं यत्र भाषितम् ।
बीजपिण्डपदाद्येन चातुर्विध्येन सत्तमाः ॥ ८ ॥
मन्त्राः प्रवर्तिता यत्र यत्र स्थापनकर्मणि ।
अनुवेधक्रिया प्रोक्ता यत्र वै नित्यपूजनम् ॥ ९ ॥
मूलमूर्तौ तु सम्पूर्णं प्रोक्तं प्राधान्यतो द्विजाः ।
तत्र कर्तुमशक्यं यत् स्नानाद्यं तावदेव तु ॥ १० ॥
बिम्बान्तरे तदर्थं तु कर्मबिम्बपुरस्सरे ।
विहितं दर्पणाद्येषु तदभावान्महामते ॥ ११ ॥
क्ष्माजलानलवाय्वाख्यनाभसीयेन वै द्विजाः ।
धारणापञ्चकेनैव धारणाद्वितयेन च ॥ १२ ॥
दहनाप्यायनाख्येन यत्र शुद्धिश्च भौतिकी ।
आगमश्रुतिमूलत्वं स्वस्य यदुपपादकम् ॥ १३ ॥
तत्पारमेश्वरं वाक्यमाज्ञासिद्धं हि मोक्षदम् ।
एवमादेववाक्यार्थ आगमो यो महामते ॥ १४ ॥
सन्मार्गदर्शनं कृत्स्नं विधिवादं च विद्धि तत् ।
तत्प्रामाण्यात्तु यत्किञ्चित् समभ्यूह्य यथार्थतः ॥ १५ ॥
पूर्वापरविरोधेन निर्वाह्यमविचारतः ।
सर्वेषां रञ्जकं गूढं निश्चयीकरणक्षमम् ॥ १६ ॥
पारमेश्वरवाक्योक्तमर्थजालं यथास्थितम् ।
प्रत्यभिज्ञापकं यत्तु सात्विकं मुनिभाषितम् ॥ १७ ॥
प्रशंसकं यत्सिद्धीनां सम्प्रवर्तकमप्यथ ।
मूलमूर्तिमनादृत्य कर्मार्चायां तु पुष्कलम् ॥ १८ ॥
नित्यसम्पूजनं प्रोक्तं प्राधान्येन तु यत्र वै ।
ब्रह्मरुद्रादिबिम्बानां प्रमाणं लक्षणं तथा ॥ १९ ॥
स्थापनं यत्र निर्दिष्टं यत्र वै जगतां पतेः ।
पूजनं तु समुद्दिष्टं प्राकृतानां जडात्मनाम् ॥ २० ॥
तत्त्वानामपि विप्रेन्द्र दिशां कालस्य वाचकैः ।
परमेष्ठ्यादिभिर्मन्त्रैः पञ्चभिर्यत्र वै क्रमात् ॥ २१ ॥
स्थापनादिप्रतिष्ठान्तं पञ्चकं समुदीरितम् ।
यागपूर्वा हरिस्तोमपर्यन्ताः सप्तकीर्तिताः ॥ २२ ॥
यागा यत्र तथा सप्त तत्क्रमादधिकारिणः ।
उक्तं यत्र प्रतिष्ठायां षोडशन्यासकल्पनम् ॥ २३ ॥
एतज्जानीहि तत्सर्वं राजसं मुनिभाषितम् ।
भगवन्तं समुद्दिश्य ह्यङ्गभावं विनैव तु ॥ २४ ॥
ब्रह्मरुद्रमुखानां तु विबुधानां तथैव च ।
मातृणामपि दुर्गायाः स्वातन्त्र्येण तु यत्र वै ॥ २५ ॥
मन्त्रं ध्यानं प्रमाणं च लक्षणं स्थापनं तथा ।
निर्दिष्टं तामसं नाम मुनिवाक्यं तु विद्धि तत् ॥ २६ ॥
अनर्थकमसम्बद्धमल्पार्थं शब्दडम्बरम् ।
अनिर्वाहकमाघोकोवाक्यं तत् पौरुषं स्मृतम् ॥ २७ ॥
हेयं चानर्थसिद्धीनामाकरं नरकावहम् ।
पारमेश्वरवाक्यार्थैर्विरोधि न तत् द्विज ॥ २८ ॥
संग्राह्यं सात्विकाद्येषु मुनिवाक्येषु यत्नतः ।
यदप्यपेक्षितं विप्र संग्राह्यमविरोधि तत् ॥ २९ ॥
सात्विकादिक्रमान्तेषु समभ्यूह्य महामते ।
प्रसिद्धार्थं उपादाय सङ्गतार्थं विलक्षणम् ॥ ३० ॥
अपि चेत् पौरुषं वाक्यं ग्राह्यं तन्मुनिवाक्यवत् ।
एवं दिव्यादिशास्त्राणां भेदं ज्ञात्वा यजेद्धरिम् ॥ ३१ ॥
यो न ज्ञात्वा तु साङ्कर्यं पूजाधर्ममनुतिष्ठति ।
स हि सर्वस्य जगतः साङ्कर्यं कुरुते सदा ॥ ३२ ॥
विशेषात् स्वस्य वंशस्य तस्मादापद्यपि द्विजाः ।
न कुर्याच्छास्त्रसाङ्कर्यं हितैषी शास्त्रकोविदः ॥ ३३ ॥
स्वयंव्यक्तं तथा सैद्धं विबुधैश्च प्रतिष्ठितम् ।
मुनिमुख्यैस्तु गन्धर्वैर्यक्षैर्विद्याधरैरपि ॥ ३४ ॥
रक्षोभिरसुरैर्मुख्यैः स्थापितं मन्त्रविग्रहम् ।
दिव्यशास्त्रोक्तविधिना पूजयेच्छास्त्रकोविदः ॥ ३५ ॥
स्थापितं मनुजैर्देवं मुनिवाक्योक्तमार्गतः ।
पूजयेद्द्विज तत्रापि ज्ञानिभिस्तत्त्वदर्शिभिः ॥ ३६ ॥
वासुदेवैकनिष्ठैस्तु देवतान्तरवर्जितैः ।
व्यामिश्रयागमुक्तैस्तु तीव्रभक्तिसमन्वितैः ॥ ३७ ॥
स्थापितं मनुजेन्द्रैस्तु ह्यनुवेदादिकोविदैः ।
अर्चयेद्देवदेवेशं दिव्यशास्त्रोक्तवर्त्मना ॥ ३८ ॥
मुनिवाक्योक्तमार्गेण पूजनं यत्र वर्तते ।
तत्रापि दिव्यमार्गेच्चेत्पूजनं कर्तुमिच्छति ॥ ३९ ॥
मुनिमार्गं परित्यज्य दिव्यमार्गेण पूजयेत् ।
भवेत्सन्निधिमाहात्म्यं कालं कल्पक्षयावधि ॥ ४० ॥
दिव्यमार्गेण पूजाद्यं वर्तते यत्र नित्यशः ।
तत्र दिव्यं परित्यज्य न कदाचिन्महामते ॥ ४१ ॥
मुनिवाक्योक्तमार्गेण न कुर्यात्पूजनादिकम् ।
कुर्याद्वा यदि संमोहाद्द्विजः सम्मूढचेतनः ॥ ४२ ॥
संप्रयात्यचिरात्तस्य भक्तिबीजेन वै सह ।
समन्त्रं कर्मतन्त्रं च सिद्धयश्च पराङ्मुखाः ॥ ४३ ॥
इहैव शीघ्रं विप्रेन्द्र देहान्ते गतसन्ततिः ।
घोरं प्रयाति नरकं राजा राष्ट्रं च नश्यति ॥ ४४ ॥
तस्मात् सर्वप्रयत्नेन दिव्यमार्गं तु न त्यजेत् ।
तामसेन तु मार्गेण पूजनं यत्र वर्तते ॥ ४५ ॥
तत्रापि राजसेनैव पूजनं सिद्धिदं भवेत् ।
राजसेन तु पूजाद्यं वर्तते यत्र नित्यः ॥ ४६ ॥
तत्रापि सात्विकेनैव पूजनं शुभदं सदा ।
सात्विकेन तु पूजाद्यं वर्तते यत्र चान्वहम् ॥ ४७ ॥
तत्र राजसमार्गेण न कुर्यात्पूजनादिकम् ।
यत्र राजसमार्गेण प्रवृत्तं त्वर्चनादिकम् ॥ ४८ ॥
तत्र तामसमार्गेण न कुर्यादर्चनादिकम् ।
विविधानां राजसानामन्योन्यं स्यात्र सङ्करः ॥ ४९ ॥
सर्वत्र पौरुषे वाक्ये तद्ग्राह्यमविरोधि यत् ।
केवलं तद्विधानेन न कुर्यात्स्थापनादिकम् ॥ ५० ॥
एवं दिव्यादिशास्त्रस्य स्वरूपं कथितं मया ।
मन्त्रस्वरूपमधुना कथ्यते मुनिपुङ्गवाः ॥ ५१ ॥
सर्वेषु विष्णुमन्त्रेषु मन्त्राः स्युर्व्यापकास्त्रयः ।
आद्यं नारायणाष्टार्णं द्वितीयं द्वादशाक्षरम् ॥ ५२ ॥
वासुदेवस्य योगीन्द्रस्ततो विष्णुषडक्षरम् ।
साधारणास्त्विमे मन्त्रास्त्रयः सर्वासु मूर्तिषु ॥ ५३ ॥
अन्ये तु मनवस्तत्तन्मूर्तिमात्रपरा ह्यतः ।
व्यापकत्रितयेनार्च्याः सर्वा अपि च मूर्तयः ॥ ५४ ॥
मन्त्रैरन्यैस्तु सम्पूज्यास्तत्तन्मूर्तय एव हि ।
तस्मात्सर्वेषु मन्त्रेषु व्यापकत्रितयं वरम् ॥ ५५ ॥
त्रिष्वप्येषु व्यापकेषु मन्त्रो ह्यष्टाक्षरोऽधिकः ।
अष्टाक्षरादिमन्त्राणामुद्धारं शृणुतादरात् ॥ ५६ ॥
उद्धरेत्प्रणवं पूर्वं नमः शब्दमनन्तरम् ।
ततो नारायणायेति ह्येतदष्टाक्षरो मनुः ॥ ५७ ॥
प्रणवान्ते नमः शब्दं तुर्यान्तं भगवत्पदम् ।
वासुदेवाय वै दद्यादन्तं पञ्चाक्षरं ततः ॥ ५८ ॥
वासुदेवस्य देवस्य मन्त्रोऽयं द्वादशाक्षरः ।
चतुर्थ्यन्तं विष्णुपदं तारेण नमसान्वितम् ॥ ५९ ॥
आदावन्ते च तन्मन्त्रः षडक्षर उदीरितः ।
ज्ञानादिगुणसंयुक्तैरक्षरैर्बिन्दुभूषितैः ॥ ६० ॥
हृदयाद्यङ्गक्लृप्तिः स्याच्छिष्टवर्णान्यपि द्विजाः ।
नेत्रेण योजयेदेवमङ्गक्लृप्तिः प्रकीर्तिता ॥ ६१ ॥
ततस्तु मूर्तिमन्त्राणामुद्धारक्रम उच्यते ।
प्रशस्ते विजने गुप्ते गन्धलिप्ते धरातले ॥ ६२ ॥
सुधूपितेऽर्घ्यपुष्पाद्यैर्वर्णचक्रं प्रसार्य च ।
यस्मिन् प्रतिष्ठितं विश्वमाब्रह्मभुवनादिकम् ॥ ६३ ॥
येनोदितेन जगतः प्रभवः समनन्तरम् ।
स्वात्मन्युपरते तस्मिन् प्रलयः सम्प्रजायते ॥ ६४ ॥
प्रेरकं चन्द्रसूर्याभ्यां सबाह्याभ्यन्तरं तु यत् ।
नित्योदितं यदक्षस्थं वर्णमीश्वरवाचकम् ॥ ६५ ॥
यत्र स्थानविभागेन वर्णात्मा भगवान् स्थितः ।
अकाराद्यो विसर्गान्तः सौरचान्द्रकलागणः ॥ ६६ ॥
ह्रस्वदीर्घविभागेन नाभौ यत्र द्विरष्टकः ।
कादिभान्तोऽप्यसत्तस्थः प्राकृतस्तत्त्वसञ्चयः ॥ ६७ ॥
पृथिव्यादिप्रकृत्यन्तो युग्मयोगेन लाङ्गलिन् ।
कलनादेहभृत्कालो नेमिगो नवलक्षणः ॥ ६८ ॥
मकाराद्यो हवर्णान्तो यत्र प्रथिगणे स्वयम् ।
कालवैश्वानरः साक्षान्मार्तण्डायुतदीधितिः ॥ ६९ ॥
ज्वालायुतसहस्राढ्यो वर्णान्तो भगवान् स्थितः ।
आमध्यात्प्रथिपर्यन्तमाभोतां वर्णसन्ततिम् ॥ ७० ॥
उच्चार्यार्घ्यादिनाऽभ्यर्च्य विद्याबीजं हि चक्रराट् ।
ततः समुद्धरेन्मन्त्रं परमात्मनि वाचकम् ॥ ७१ ॥
गलन्तममृतप्रख्यमचिरान्मोक्षसिद्धिदम् ।
अक्षस्थमुद्धरेत्पूर्वं नेमिषष्ठमनन्तरम् ॥ ७२ ॥
नाभिद्वितीयेनाक्रान्तं द्वितीयमिदमक्षरम् ।
द्वितीयं दशसङ्ख्याच्च तदधश्चाष्टमात्परम् ॥ ७३ ॥
नाभेस्त्रयोदशोपेतं तृतीयमिदमक्षरम् ।
अथ द्वितीयं नवमात्राभितुर्यादिनान्वितम् ॥ ७४ ॥
द्वितीयमष्टमाद्वर्णं केवलं विद्धि पञ्चमम् ।
विज्ञानपदमादाय त्र्यक्षरं तदनन्तरम् ॥ ७५ ॥
आद्येकादशाद्वर्णं भिन्नं नाभ्यपरेण तु ।
नेमेस्तृतीयवर्णस्य ततस्तदुपरि न्यसेत् ॥ ७६ ॥
मन्त्रार्णं नवमं ह्येतद्दशमं मे निबोध तु ।
नाभिद्वितीयेनाक्रान्तं प्राग्वर्णं चाष्टमारगम् ॥ ७७ ॥
नेमेर्द्वितीयं तदनु नेमेराद्य चाष्टकम् ।
तदुद्देशात्तृतीयं च स्थितं तत्पञ्चमोपरी ॥ ७८ ॥
त्रयोदशमिदं विद्धि नवमादपरं ततः ।
षष्ठस्य नेमिवर्णस्य ऊर्ध्वे तत्त्रितयं न्यसेत् ॥ ७९ ॥
युक्तं नाभितृतीयेन अथ षोडशमुच्यते ।
द्वितीयं दशमाद्वर्णाभ्येकादशसंयुतम् ॥ ८० ॥
चैतन्यपदं दद्यात्सनमस्कमतः परम् ।
द्वाविंशार्णो ह्ययं मन्त्रः पदैः षड्भिरलङ्कृतः ॥ ८१ ॥
तत्रैकार्णं पदं ज्ञानं चतुर्वर्णं पदं बलम् ।
षडक्षरैश्वाप्यैश्वर्यं वीर्यं पञ्चाक्षरं परम् ॥ ८२ ॥
चतुर्वर्णं पदं तेजः शान्तं स्याद्द्व्यक्षरं च यत् ।
तेजो वीर्यं बलं शक्तिरैश्वर्यं ज्ञानमेव च ॥ ८३ ॥
दृगस्त्रं कवचं शैखं शिरो हृत् षड्यथाक्रमम् ।
मन्त्रस्समाधिविषये नानाभूमिजयेषु च ॥ ८४ ॥
निराकारो निरङ्गश्च स्मर्तव्यो ब्रह्मलक्षणः ।
तत्प्राप्त्युपाये प्रथमे यागहोमादिके तु वै ॥ ८५ ॥
साकारं संस्मरेत्साङ्गं परिवारेण चावृतम् ।
आनीता व्यक्ततां येन स्वयं ज्ञानादयो गुणाः ॥ ८६ ॥
शश्वद्यागसमाप्त्यर्थं कर्मणामनुकम्पया ।
सोऽनङ्गः संस्मृतो मन्त्रो भक्तिश्रद्धावशेन तु ॥ ८७ ॥
फलं यच्छति वै नूनं नित्यं तद्भावितात्मनाम् ।
प्राधान्येन त्वैश्वर्यं मोक्षो यत्रानुषङ्गतः ॥ ८८ ॥
तत्र तद्विघ्नशान्त्यर्थमस्त्रान्तं विद्धि मन्त्रपम् ।
विपर्यये तु नेत्रान्तो मन्त्रो यस्मान्महामते ॥ ८९ ॥
दृष्टिप्रशुद्धमार्गाणां विघ्नाः शान्तचेतसाम् ।
स्वकमन्तर्गतं तेजः स्वातन्त्र्याच्च बहिष्कृतम् ॥ ९० ॥
येन येन हि मन्त्रेण स च नेत्रान्वितः स्मृतः ।
स्वप्रकाशस्त्वनुपमो येन येन हृदन्तरे ॥ ९१ ॥
सितासितः समाकृष्य स स तद्वाचकोऽन्वितः ।
अथ मन्त्रचतुष्कन्तु भिन्नषाड्गुण्यवाचकम् ॥ ९२ ॥
कर्मिणां मोक्षदं शश्वत् पूर्वोद्दिष्टं निबोध तु ।
आदायाक्षान्तं बीजं नाभिपूर्वमतः परम् ॥ ९३ ॥
अरादेकादशात्पूर्वं तस्याधो विनिवेशयेत् ।
वर्णं नेमिस्तृतीयं यत् तृतीयमिदमक्षरम् ॥ ९४ ॥
द्वितीयमष्टमाद्वर्णं नाभेस्तुर्यादिनान्वितम् ।
ततस्तु नवमं नेमेः केवलं विद्धि पञ्चमम् ॥ ९५ ॥
अष्टमादपरं वर्णं द्वितीयस्वरसंयुतम् ।
षष्ठमेतद्विजानीयात् सप्तमं दशमात्परम् ॥ ९६ ॥
अथ द्वितीयं दशमादादायोर्ध्वे तु विन्यसेत् ।
अष्टमात्तु द्वितीयस्य मन्त्रार्णमिदमष्टकम् ॥ ९७ ॥
द्वितीयात्प्रथमं वर्णमष्टमादपरं ततः ।
नाभ्येकादशमोपेतं द्वितीयं नेमिमण्डलात् ॥ ९८ ॥
पूर्वमेकादशाच्छुद्धं तादृङ्नेमेस्तृतीयकम् ।
नेमिपूर्वं च तदनु नाभेरेकादशाङ्कितम् ॥ ९९ ॥
नेमेः षष्ठमथादाय स्थितं तत्पञ्चमोपरी ।
ततो नाभिद्वितीयेन युक्तं नेमेस्तृतीयकम् ॥ १०० ॥
द्वितीयं केवलं नेमेरादाय च महामते ।
कर्त्रे नमः पदं पश्चाद्योजयेच्चतुरक्षरम् ॥ १०१ ॥
एकविंशतिभिर्वर्णैरयं मन्त्र उदाहृतः ।
अभिन्नः पदभेदेन भवेदेकाधिकस्तु वै ॥ १०२ ॥
प्राग्वर्णेन पदं पूर्वं पञ्चार्णं द्वितयं भवेत् ।
षडक्षरं तृतीयन्तु चतुर्थं तद्वदेव तु ॥ १०३ ॥
द्व्यक्षरं पञ्चमं विद्धि तद्वत् षष्ठं महामते ।
अथापरं महामन्त्रं द्वितीयमवधारय ॥ १०४ ॥
यज्ज्ञात्वा न पुनर्जन्म भवत्याराधकस्य च ।
आदायाक्षस्य मध्यस्थं नाभिपूर्वमतः परम् ॥ १०५ ॥
पूर्वं नेमेस्तु तस्यैव योज्यं नाभित्रयोदशम् ।
द्वितीयादपरं वर्णं सर्वशक्त्यात्मने पदम् ॥ १०६ ॥
द्वितीयं द्वादशाद्वर्णं द्वितीयात्प्रथमं ततः ।
पञ्चमं च बहिष्षष्यस्त्रीनेतान् विद्धि केवलान् ॥ १०७ ॥
नाभ्येकादशसंभिन्नं द्वितीयं चाष्टमात्ततः ।
नमो नमः पदयुतो मन्त्रश्चाष्टादशाक्षरः ॥ १०८ ॥
अस्यैकार्णं पदं पूर्वं त्र्यक्षरं तदनन्तरम् ।
षडक्षरं तृतीयन्तु चतुर्थं चतुरक्षरम् ॥ १०९ ॥
द्वितीयं द्व्यक्षरं चान्यत् पदयोस्सम्प्रकीर्तितम् ।
तृतीयमथ वक्ष्यामि मन्त्रं मन्त्रविदां वर ॥ ११० ॥
यज्ज्ञात्वा मानसं शुद्धिं परमां याति कर्मिणाम् ।
बीजमादाय मध्यस्थमाद्यमेकादशाततः ॥ १११ ॥
नेमेस्तृतीयं तदध ऊर्ध्वं नाभ्यपरं तु वै ।
अथाद्यमष्टमाद्वर्णं द्वितीयस्वरसंयुतम् ॥ ११२ ॥
तद्वदेकादशादाद्यं वर्णमन्यं समाहरेत् ।
दशमादपरं वर्णं नेमेरष्टकमनन्तः ॥ ११३ ॥
युक्तं नाभिद्वितीयेन त्वाद्यं नेम्यक्षरन्तु यत् ।
नाभित्रयोदशोपेतमादाय दशमात्परम् ॥ ११४ ॥
द्वितीयं नवमाद्वर्णं युक्तं नाभ्यपरेण तु ।
तत्संख्यं दशमाच्छुद्धं ततो बाह्यात्तु पञ्चमम् ॥ ११५ ॥
नेमेर्द्वितीयं तदधो युक्तं नाभेः परेण तु ।
द्वितीयं दशमात्प्राणाय त्र्यक्षरं पदम् ॥ ११६ ॥
ततस्त्वेकादशादाद्यं केवलं च समाहरेत् ।
अथ नाभिद्वितीयेन युक्तं नेमेस्तृतीयकम् ॥ ११७ ॥
नाभित्रयोदशोपेतं बहिष्ष्वपरं ततः ।
नेमेस्तृतीयस्योर्ध्वं तु नवमादपरं न्यसेत् ॥ ११८ ॥
ततो नाभिद्वितीयेन युक्तं प्राङ्नेमिमण्डलात् ।
द्वितीयमथ वै बाह्यात् सनमस्कं हि केवलम् ॥ ११९ ॥
त्रयोविंशतिभिर्वर्णैरुपेतो ह्येष मन्त्रराट् ।
पदैः पूर्वोक्तसंख्यैस्तु तेषां भेदोऽथोच्यते ॥ १२० ॥
पूर्वमेकार्णं विद्धि द्वितीयं तु नवाक्षरम् ।
तृतीयं द्व्यक्षरं चैव चतुर्थं त्र्यक्षरं स्मृतम् ॥ १२१ ॥
षडक्षरमथोर्ध्वस्थं द्व्यक्षरं तदनन्तरम् ।
चतुर्थमधुना मन्त्रं निबोध गदतो मम ॥ १२२ ॥
येन विज्ञातमात्रेण संविदुत्पद्यते परा ।
आदायादौ यदक्षस्थं नाभिपूर्वमनन्तरम् ॥ १२३ ॥
ततस्तृतीयात्परं वर्णमादाय लाङ्गलिन् ।
नेमिद्वितीयं तस्याधस्तदधो नाभिपञ्चमम् ॥ १२४ ॥
द्वितीयमष्टमाद्वर्णं तत्संख्यं नेमिमण्डलात् ।
आदायैतद्द्वयं कुर्याद्युक्तं नाभ्यपरेण तु ॥ १२५ ॥
अथ नाभितृतीयेन युक्तं बाह्यात्तु पञ्चमम् ।
आद्यात् पूर्वमथादाय नाभिसप्तमसंयुक्तम् ॥ १२६ ॥
द्वितीयमष्टमाद्वर्णं द्वितीयं नेमिमण्डलात् ।
आदायाभ्यां नियोक्तव्यं द्वितीयं नाभिगोचरात् ॥ १२७ ॥
अथ द्वितीयं दशमात् केवलं वर्णमाहरेत् ।
द्वितीयमष्टमाद्वर्णं तदूर्ध्वे दशमात्परम् ॥ १२८ ॥
नाभिद्वितीयमस्यैव योजयेत् तदनन्तरम् ।
ततो नेमिद्वितीयं तु केवलं वर्णमाहरेत् ॥ १२९ ॥
अथ नाभेर्यदादिस्थं प्राग्वर्णं दशमादरात् ।
तदधो द्वितीयं बाह्यात् प्रथिवर्णमनन्तरम् ॥ १३० ॥
युक्तं नाभिद्वितीयेन त्वादाय तदनन्तरम् ।
नेमिद्वितीयसंख्यं यन्नमस्कारपदं ततः ॥ १३१ ॥
अष्टादशाक्षरो ह्येष द्व्यधिकः पदसंख्यया ।
एकार्णं पदमाद्यं तु द्वितीयं चतुरक्षरम् ॥ १३२ ॥
पञ्चाक्षरं तृतीयं तु चतुर्थं चतुरक्षरम् ।
तथैव पञ्चमं विद्धि ह्यन्तस्थं द्व्यक्षरं स्मृतम् ॥ १३३ ॥
यत्र यत्र पदानाञ्च वर्णाधिक्यमुदाहृतम् ।
तत्रादौ नाभिपूर्वं तु व्याहृत्याद्यं पदं न्यसेत् ॥ १३४ ॥
अथाभिन्नतनोर्मन्त्रं देवस्यास्य महात्मनः ।
विशाखयूपसंज्ञस्य वक्ष्ये विद्याविवेकदम् ॥ १३५ ॥
वर्णमक्षस्थमादाय त्वाद्यमेकादशाततः ।
भिन्नं नाभिद्वितीयेन तृतीयं नेमिमण्डलात् ॥ १३६ ॥
द्वितीयं केवलं बाह्यात्तेजोरूपाय वै पदम् ।
ततस्त्वेकादशात्पूर्वं केवलन्तु समाहरेत् ॥ १३७ ॥
तृतीयमक्षरं बाह्याद्युक्तं नाभिपरेण तु ।
दशमादपरं वर्णं पूर्वमेकादशाततः ॥ १३८ ॥
एकादशस्वराक्रान्तमुद्धरेत्तदनन्तरम् ।
ततो नाभिद्वितीयेन युक्तं प्रथ्यक्षरं हि यत् ॥ १३९ ॥
केवलं द्वितीयं बाह्यादाद्यमेकादशातथा ।
नेमेस्तृतीयं तदनु द्वितीयस्वरसंयुतम् ॥ १४० ॥
दशमादपरं शुद्धं पूर्वमेकादशाततः ।
नाभ्येकादशसंयुक्तं तदन्तेऽमललोचन ॥ १४१ ॥
नाभेस्तृतीयसंयुक्तं प्रथिवर्णं समाहरेत् ।
अथ नाभि द्वितीयेन युक्तं यत्परमष्टमात् ॥ १४२ ॥
नेमेर्द्वितीयं तदनु नमस्कारसमन्वितम् ।
चतुर्विंशतिभिर्वर्णैर्युक्तो मन्त्रो ह्ययं महान् ॥ १४३ ॥
प्रणवेन पदं चास्य पूर्वमेकार्णं स्मृतम् ।
द्वितीयं त्र्यक्षरं प्रोक्तं पञ्चार्णं तदनन्तरम् ॥ १४४ ॥
षडक्षरं चतुर्थन्तु सप्तार्णं चात्र पञ्चमम् ।
पदन्तु द्व्यक्षरं षष्ठं मन्त्रस्यास्य महामते ॥ १४५ ॥
नानामन्त्रस्वरूपेण ह्यादिदेवः परः प्रभुः ।
आदिमध्यावसानेषु स्थितस्सर्वस्य सर्वदा ॥ १४६ ॥
चतुर्व्यूहचतुष्के स्वे शान्तादिव्यक्तलक्षणे ।
प्राधान्येन त्रयाणाञ्च देवानामवतिष्ठते ॥ १४७ ॥
यथाम्बरस्थः सविता त्वेक एव महामते ।
जलाश्रयाणि चाश्रित्य बहुत्वं सम्प्रदर्शयेत् ॥ १४८ ॥
एवमेकोऽपि भगवान् नानामन्त्राश्रयेषु च ।
तुर्यादिपदसंस्थेषु बहुत्वमुपयाति च ॥ १४९ ॥
अनुग्रहार्थं भक्तानां नानाश्रद्धावशेन तु ।
चतुष्कमथ मन्त्राणां निबोध गदतो मम ॥ १५० ॥
सितादिवर्णव्यक्तीनां वाचकत्वेन वै क्रमात् ।
अक्षस्थं नाभिपूर्वञ्च वर्णं यद्दशमात्परम् ॥ १५१ ॥
नेमिपूर्वमथो नाभेस्त्रयोदशसमन्वितम् ।
द्वितीयं द्वादशाद्वर्णं द्वितीयात्परमतः ॥ १५२ ॥
पञ्चमञ्च बहिष्ष्वेष्यस्त्रीनेतान् विद्धि केवलान् ।
ततोऽष्टमाद् द्वितीयन्तु नाभ्येकादशभेदितम् ॥ १५३ ॥
पञ्चार्णं वासुदेवाय पदञ्च तदनन्तरम् ।
त्रयोदशाक्षरो ह्येषः प्रथमः परिकीर्तितः ॥ १५४ ॥
क्रमेण वक्ष्याम्यन्येषामुद्धारन्तु यथा स्थितम् ।
अक्षस्थमक्षरं नाभेर्द्वितीयं तदनन्तरम् ॥ १५५ ॥
पूर्वमन्त्रानुसारेण ततो दद्यात्पदत्रयम् ।
अथात्र पञ्चदशमं नाभेरोङ्कारपूर्वकम् ॥ १५६ ॥
पदत्रयेण तेनैव संयुक्तं विद्धि मन्त्रपम् ।
अथ षोडशसंख्यं यन्नाभेः प्रणवपूर्वकम् ॥ १५७ ॥
पूर्वोक्तलक्षणानान्तु पदानां प्राङ्निवेशयेत् ।
अस्मान्मन्त्रत्रयाद्विद्धि द्वयं प्राङ्मन्त्रसंख्यया ॥ १५८ ॥
एक एकार्णरहितः पदभेदमतः शृणु ।
पदद्वयन्तु सर्वेषामाद्यमेकार्णं स्मृतम् ॥ १५९ ॥
द्व्यक्षरञ्च तृतीयं तु चतुर्थं चतुरक्षरम् ।
पञ्चाक्षरं पञ्चमं वै त्रयाणां समुदाहृतम् ॥ १६० ॥
तदेकस्य चतुर्वर्णं प्रद्युम्नाख्यस्य लाङ्गलिन् ।
एवं स्वप्नपदस्थस्य समासात्परिकीर्तितम् ॥ १६१ ॥
क्रमशोऽथ चतुर्णां वै वक्ष्ये मन्त्रगणं शृणु ।
अक्षान्तर्गतमादाय नाभेः पूर्वमतः परम् ॥ १६२ ॥
भिन्नं नाभिद्वितीयेन नेमिपूर्वमनन्तरम् ।
नाभिपञ्चमसंयुक्तं दशमात्प्रथमं ततः ॥ १६३ ॥
तृतीयं च द्वितीयं च नेमेरादाय चाङ्कयेत् ।
नाभिद्वितीयबीजेन नवमादपरं ततः ॥ १६४ ॥
तदधो विनियोक्तव्य द्वितीयं द्वादशातु यत् ।
पञ्चमेनाथ वै नाभेर्युक्तं कुर्यादनन्तरम् ॥ १६५ ॥
अष्टमादपरं शुद्धं नेमिपूर्वं तथाविधम् ।
युक्तं नाभिद्वितीयेन द्वितीयं नेमिमण्डलात् ॥ १६६ ॥
भूयस्तत्केवलं दद्यादन्तं योगेश्वराय वै ।
तदन्ते चक्रिणेशब्दमथ नेमेर्यदष्टमम् ॥ १६७ ॥
पञ्चमेनान्वितं नाभेस्तदन्ते विनिवेश्य च ।
शुद्धमेकादशात्पूर्वमाद्यं तदनु चाष्टमात् ॥ १६८ ॥
नेमेस्तृतीयेनाक्रान्तं ध्वजायेति पदं न्यसेत् ।
भिन्नमेकादशात्पूर्वं नाभितुर्येण वै ततः ॥ १६९ ॥
अष्टमादपरं शुद्धं पञ्चमं नेमिमण्डलात् ।
द्वितीयस्वरसंयुक्तं ससेऽतिद्व्यक्षरं पदम् ॥ १७० ॥
वासुदेवाय तदनु सनमस्कं पदं भवेत् ।
षट्त्रिंशदक्षरो मन्त्रो भेदस्तस्याधुनोच्यते ॥ १७१ ॥
पदमेकादशार्णन्तु प्रथमं परिकीर्तितम् ।
पञ्चाक्षरं द्वितीयन्तु तृतीयं त्र्यक्षरं स्मृतम् ॥ १७२ ॥
षडक्षरं चतुर्थन्तु पञ्चार्णं पञ्चमं तु वै ।
षष्ठं सप्ताक्षरं विद्धि पदं पदविदां वर ॥ १७३ ॥
प्रणवान्ते त्वथादाय द्वितीयं नाभिमण्डलात् ।
चतुर्दशेन वै नाभेर्युक्तं नेम्यष्टकं ततः ॥ १७४ ॥
द्वितीयं दशमाच्छुद्धमथ भूयस्समाहरेत् ।
तदधो नवमादन्त्यं नाभेस्तुर्यादिनान्वितम् ॥ १७५ ॥
एकादशस्वराक्रान्तं द्वितीयं दशमाततः ।
बाह्यादथाष्टमं नाभेर्युक्तं पञ्चदशेन तु ॥ १७६ ॥
केवलं पञ्चमं नेमेर्द्वितीयं चाष्टमाततः ।
नेमेस्तृतीयेनाक्रान्तं वर्णमेतत्समाहरेत् ॥ १७७ ॥
युक्तं नाभेस्तृतीयेन प्रागारात्प्रथमं तु वै ।
द्वितीयं दशमाद्वर्णं नाभेरेकादशाङ्कितम् ॥ १७८ ॥
पञ्चाक्षरं पदं दद्यादन्ते तालकेतवे ।
भूयस्तदवसाने तु पञ्चार्णं नीलवाससे ॥ १७९ ॥
प्रथमात्प्रथमं चाथ द्वितीयस्वरसंयुतम् ।
केवलं नेमिपूर्वन्तु आद्यमेकादशाततः ॥ १८० ॥
बहिष्षेष्यश्चतुर्थन्तु द्वाभ्यां नाभेः परं न्यसेत् ।
द्वितीयं केवलं बाह्यात् सङ्कर्षणाय वै पदम् ॥ १८१ ॥
तृतीयं प्रथमं नेमेरादायाकारसंयुतम् ।
द्वितीयमपि वै बाह्याच्छुद्धं तदनु वै नमः ॥ १८२ ॥
षट्त्रिंशाक्षरसंयुक्तस्त्वयं मन्त्रो महामते ।
षड्वर्णं पदमस्याद्यं पञ्चार्णं तदनन्तरम् ॥ १८३ ॥
दशाक्षरं तृतीयन्तु त्रीणि पञ्चाक्षराण्यतः ।
अथादायाक्षान्तं बीजं नाभेः पञ्चदशं ततः ॥ १८४ ॥
शार्ङ्गधृते पदं दद्याच्चतुर्वर्णमतः परम् ।
नेमिपूर्वमथादाय प्रागारात्प्रथमं ततः ॥ १८५ ॥
तृतीयञ्च बहिष्ष्यः पदं त्र्यार्णं ध्वजाय वै ।
अथो तृतीयं बाह्यात्तु प्रथमात्प्रथमं ततः ॥ १८६ ॥
तदधो विनियोक्तव्यं द्वितीयं वर्णमष्टमात् ।
द्वितीयस्वरसंयुक्तमथ बाह्यात्तु पञ्चमम् ॥ १८७ ॥
अष्टमन्तु तदुद्देशात्केवलं पुनरेव तत् ।
नाभेरेकादशाक्रान्तं षडक्षरमनन्तरम् ॥ १८८ ॥
पदं सनत्कुमाराय पञ्चाक्षरमनन्तरम् ।
पदं जगत्प्रियायेति प्रद्युम्नाय नमस्ततः ॥ १८९ ॥
चतुस्त्रिंशाक्षरः सोऽयं मन्त्रः शृणु पदान्यपि ।
आद्यं षडक्षरं ज्ञेयं द्वितीयं तद्वदेव हि ॥ १९० ॥
पञ्चाक्षरं तृतीयं तु चतुर्थन्तु षडक्षरम् ।
पञ्चार्णं पञ्चमं विद्धि षड्वर्णं षष्ठमेव हि ॥ १९१ ॥
अक्षस्थं षोडशं नाभेर्द्वितीयं दशमात्तु वै ।
केवलं ह्यथ तेनैव आक्रान्तं नवमात्परम् ॥ १९२ ॥
अथाष्टाद्वा च तत्स्यान्ते प्रथमात्प्रथमं परम् ।
युक्तं नाभिद्वितीयेन वर्णमेतन्महामते ॥ १९३ ॥
वर्णद्वयं पदस्यादौ तद्वदान्तेऽस्य वै पुनः ।
अथ द्वितीयं नवमात्प्रथमात्प्रथमं ततः ॥ १९४ ॥
तृतीयमथ वै नेमेर्द्वितीयस्वरसंयुतम् ।
द्वितीयं केवलं बाह्यात्सप्तमं नाभिमण्डलात् ॥ १९५ ॥
अथ षष्ठेन वै नेमेराक्रान्तं द्वितीयं स्ययेत् ।
प्राग्वर्णं दशमानेमेः पञ्चमस्योर्ध्वगं तथा ॥ १९६ ॥
चतुर्थादपरं वर्णं द्वितीयं नेमिमण्डलात् ।
द्वाभ्यां नाभिद्वितीयं तु योजयेत्तदनन्तरम् ॥ १९७ ॥
दशमादपरं वर्णं तृतीयस्वरसंयुतम् ।
तृतीयमथ वै नेमेर्नाभिपञ्चमसंयुतम् ॥ १९८ ॥
द्वितीयस्वरसंयुक्तं द्वितीयं नवमादरात् ।
अस्यैवाधो नियोक्तव्यं दशमात्प्रथमं हि यत् ॥ १९९ ॥
शुद्धं नेमेर्द्वितीयं तु पदं त्वसितवाससे ।
विष्वक्सेनाय तदनु नमस्कारसमन्वितम् ॥ २०० ॥
द्वात्रिंशार्णो ह्ययं मन्त्रः पदभेदेन वै पुनः ।
एकाधिकस्तु भवति पदान्यथ निबोध मे ॥ २०१ ॥
द्व्यक्षरं तु पदं पूर्वं द्वितीयं त्वष्टवर्णकम् ।
त्रीणि पञ्चाक्षराण्यन्यत् षष्ठं सप्ताक्षरं स्मृतम् ॥ २०२ ॥
अप्ययावसरे प्राप्ते स्मरणे चार्चने विभोः ।
शृणुमन्त्रचतुष्कन्तु पुनरन्यत्समासतः ॥ २०३ ॥
आद्यमेकादशाद्वर्णं पञ्चमस्वरसंयुतम् ।
युक्तं स्वरेण तेनैव तृतीयं नेमिमण्डलात् ॥ २०४ ॥
द्वितीयस्वरसंयुक्तमथ बाह्यात् सप्तमम् ।
द्वितीयं केवलं नेमेराद्यन्ते प्रणवो नमः ॥ २०५ ॥
शुद्धं त्वथाष्टमं बाह्याद्द्वितीयमथ चाष्टमात् ।
अथो नेमेर्द्वितीयेन युक्तं नाभ्यपरेण तु ॥ २०६ ॥
केवलं द्वितीयं बाह्यान्नमस्कारं ततः परम् ।
अथाक्षान्तं नाभिपूर्वं द्वितीयं त्रितयादरात् ॥ २०७ ॥
तदधो द्वितीयं बाह्यान्नाभिपञ्चमसंयुतम् ।
अथ नाभिद्वितीयेन युक्तं यत्परमष्टमात् ॥ २०८ ॥
केवलं द्वितीयं बाह्यान्नमस्कारमतः परम् ।
अक्षस्थबीजं तदनु द्वितीयं द्वादशादरात् ॥ २०९ ॥
द्वितीयात्प्रथमं चाथ पञ्चमं नेमिमण्डलात् ।
केवलं त्रितयं ह्येतद् द्वितीयं च तथाष्टमात् ॥ २१० ॥
एकादशस्वराक्रान्तं वासुदेवाय वै नमः ।
सप्ताक्षरस्तु प्राङ्मन्त्रो द्वितीयस्तु षडक्षरः ॥ २११ ॥
पूर्वतुल्यस्तृतीयस्तु चतुर्थो द्वादशाक्षरः ।
पदभेदविनिर्मुक्तमेतन्मन्त्रचतुष्टयम् ॥ २१२ ॥
गोपनीयं प्रयत्नेन विधिज्ञैः सिद्धिमीप्सुभिः ।
सान्तं षष्ठस्वरारूढमनुस्वारविभूषितम् ॥ २१३ ॥
बीजमाद्यस्य च विभोर्वासुदेवस्य कीर्तितम् ।
तदेव जीवबीजस्थं षष्ठस्वरविवर्जितम् ॥ २१४ ॥
द्वितीयस्वरसंयुक्तं सङ्कर्षणस्य बीजराट् ।
उभयोरन्तरे रेफमाद्यबीजस्य योजयेत् ॥ २१५ ॥
बीजं प्रद्युम्ननाथस्य तृतीयं सर्वकामदम् ।
जीवारूढं हकारन्तु लान्तस्योपरि विन्यसेत् ॥ २१६ ॥
विसर्गसहितं बीजमनिरुद्धस्य वाचकम् ।
हकारं च सकारस्थं कृत्वा षोढा निवेश्य च ॥ २१७ ॥
द्वितीयतुर्यषष्ठाष्टद्विषट्कदशकैः क्रमात् ।
स्वरं नियोजयेद्विद्धि हृदयाद्यनेत्रपश्चिमान् ॥ २१८ ॥
चातुरात्मीयमन्त्राणां साधनत्वेन सर्वदा ।
ततस्तु केशवादीनां मन्त्रांश्च शृणुतादरात् ॥ २१९ ॥
त्रिधा हकारं कृत्वादौ जीवबीजं तथैव च ।
ककारं च क्षकारं च लिखेत्तत्त्रिधा त्रिधा ॥ २२० ॥
द्विषट्कमेवं बीजानां क्रमेणादौ निवेश्य च ।
ततो वायुधरावारिसंज्ञं यच्चाक्षरत्रयम् ॥ २२१ ॥
पौनःपुन्येन सर्वेषामधोभागे नियोजयेत् ।
सर्वे षष्ठस्वरारूढा अनुस्वारविभूषिताः ॥ २२२ ॥
बोद्धव्याः केशवादीनां बीजास्त्वेते पृथक् पृथक् ।
प्रणवाद्यैर्नमोऽन्तैस्तैस्तैस्तुर्यान्तैर्नामभिः सह ॥ २२३ ॥
केशवः प्रथमो वाच्यस्ततो नारायणः परः ।
माधवश्चैव गोविन्दो विष्णुश्च मधुसूदनः ॥ २२४ ॥
त्रिविक्रमो वामनाख्यः श्रीधरः पद्मलोचनः ।
हृषीकेशः पद्मनाभो दामोदर इति श्रुतः ॥ २२५ ॥
बीजैर्दीर्घस्वरोपेतैः प्राग्वदङ्गानि कल्पयेत् ।
अथ मन्त्रान् केशवादिदेवीनां शृणुत द्विजाः ॥ २२६ ॥
क्षसहत्रितयं ह्येतच्चतुर्धा विलिखेत्क्रमात् ।
ततो द्विषट्कं बीजानां तस्याधो विनिवेश्य च ॥ २२७ ॥
क्रमेण सप्तमाद्याद्द्वितीयं च चतुर्थकम् ।
पुनस्तृतीयं तुर्यं च द्वितीयं च तृतीयकम् ॥ २२८ ॥
द्वितीयं च चतुर्थं च चतुर्थं तदनन्तरम् ।
तृतीयमष्टमाच्चाथ तृतीयं सप्तमात्पुनः ॥ २२९ ॥
नवमदादशाभ्यान्तु विशेषमिममाचरेत् ।
अधो नियोजयेद्रेफं तत्त्रयाणां तु मूर्धनि ॥ २३० ॥
षट्सप्तमाष्टसंज्ञानामीकारमुपरि न्यसेत् ।
सानुस्वारं च सर्वेषामिति देवीगणस्य च ॥ २३१ ॥
बीजद्वादशकं प्रोक्तं यथा चानुक्रमेण तु ।
तारबीजनमोयुक्तैर्व्याच्यास्तत्तत्स्वनामभिः ॥ २३२ ॥
श्रीश्च वागीश्वरी कान्तिः क्रियाशान्तिविभूतयः ।
इच्छा प्रीती रतिश्चैव माया धीर्मतिमेति च ॥ २३३ ॥
स्वरजात्यादियुक्तानि बीजानि हृदयादयः ।
इत्येवं केशवादीनां देवीमन्त्राः प्रकीर्तिताः ॥ २३४ ॥
ततस्तदायुधानां मन्त्रान् वक्ष्ये मुनीश्वराः ।
समुद्रमूर्तये स्वाहा पद्मस्य प्रणवादिकः ॥ २३५ ॥
सर्वान्तश्चारिणे कृत्वा ततो गगनमूर्तये ।
स्वाहान्तः प्रणवाद्यश्च मन्त्रः शङ्खस्य कीर्तितः ॥ २३६ ॥
ओंकारो वेदमात्रेऽथ विद्ये स्वाहापदं तु वै ।
गदामन्त्रस्त्वयं प्रोक्तश्चक्रस्याथ निगद्यते ॥ २३७ ॥
ओङ्कारान्ते पदंदद्यात्पञ्चार्णं प्रभविष्णवे ।
तदन्ते कालशब्दन्तु मूर्तये हुं ततस्तु फट् ॥ २३८ ॥
पद्मादीनां चतुर्णां तु ह्येतन्मन्त्रचतुष्टयम् ।
ततो विभवमूर्तीनां मन्त्रान् वक्ष्याम्यहं द्विजाः ॥ २३९ ॥
आराधनार्थं विहितो वाचको हि चतुर्विधः ।
संज्ञानामपदमयः पिण्डाख्यो बीजलक्षणः ॥ २४० ॥
एभ्यो मध्यात्त्वथेकेन वाच्यमामन्त्र्य भक्तितः ।
यत्रैकपिण्डवाक्योत्थमन्त्रेणाथोभयात्मना ॥ २४१ ॥
तत्र वै विधिनानेन कुर्यात्ताभ्यां हि कल्पनाम् ।
अभिन्नलक्षणो वाच्यमेक एवोपचर्यते ॥ २४२ ॥
कृत्वादौ नाममन्त्रस्य बीजं पिण्डाक्षरं तु वा ।
नयेत् तेनाभिमुख्यं च वाच्यमाद्यन्तगेन वा ॥ २४३ ॥
स तत्र पदमन्त्रं तु विधिनानेन वै ततः ।
कुर्यात्प्रणवपीठस्थं नमस्कारध्वजान्वितम् ॥ २४४ ॥
आभ्यां शान्तस्वरूपत्वादेकत्वमत एव हि ।
संज्ञाख्यं पदमन्त्रं च विद्धि संसिद्धलक्षणम् ॥ २४५ ॥
स्वरोत्थं व्यञ्जनोत्थं वा बीजमेकार्णं स्मृतम् ।
स्वरव्यञ्जनसंयोगाद्बह्वर्णः पिण्डमन्त्रराट् ॥ २४६ ॥
द्वाभ्यामादावथान्ताच्च स्वरवर्गान्महामते ।
स्वरूपेण हि मन्त्रत्वमन्येषां सह बिन्दुना ॥ २४७ ॥
स्वरेणैकेन युक्तस्य स्वरयुग्मान्वितस्य वा ।
सानुस्वारस्य बीजत्वं व्यञ्जनस्यापि लाङ्गलिन् ॥ २४८ ॥
य ओंकाराख्यशब्दस्य विवर्तो दीधितिप्रभः ।
सल्लक्षणस्त्वनाकारो विद्धि तद्वाचकं त्रिधा ॥ २४९ ॥
क्वचित्पिण्डं क्वचिद्बीजं क्वचिच्छब्दमनाहतम् ।
तस्य चोदीयमानस्य परिणामः स्फुटो हि यः ॥ २५० ॥
बह्वक्षरो बहुपदः स्तुतिसंबोधलक्षणः ।
अविनाशी स ओङ्कारो बीजादीनां महर्द्धिदः ॥ २५१ ॥
प्राग्दद्यात्प्रणवेनाथ सत्याख्येनासनं महत् ।
तस्माद्वै सत्यभिन्नं तु बीजं तदुपरि न्यसेत् ॥ २५२ ॥
स्वविवर्तेन बीजस्य मूर्त्युत्थानं प्रकल्पयेत् ।
प्राप्तेज्यावसरे नित्यं सम्पन्ने यजने सति ॥ २५३ ॥
तप्तोपले जलं यद्वत् तद्वत्तु विप्रलयं स्मरेत् ।
भानुप्रसरसंकोचतुल्यमेतन्महामते ॥ २५४ ॥
क्रियावशात्तु किन्त्वत्र भेदमात्रोपलक्षणम् ।
न यत्र बीजं पिण्डं वा तत्र वै प्रणवादनु ॥ २५५ ॥
प्राग्वर्णं पदमन्त्रस्य यत्तदालोकवाचकम् ।
तच्छिष्टं विग्रहं वर्णैस्तस्मादुत्थाप्य वृक्षवत् ॥ २५६ ॥
केवलं यत्र वै बीजं पिण्डं वा पदवर्जितम् ।
तत्राकाराख्यवर्णस्य क्षेत्रज्ञत्वं विधीयते ॥ २५७ ॥
क्षेत्रत्वमवशिष्टानां वर्णानां पिण्डरूपिणाम् ।
केवलस्य हि बीजस्य स्वस्थितिर्ब्रह्मवर्णता ॥ २५८ ॥
स्वभावप्रच्युतिर्बीजं बीजोच्चारस्तथाकृतिः ।
बीजवत्पिण्डमन्त्राणां परिज्ञेयः सदोदयः ॥ २५९ ॥
यद्बीजलक्षणं मन्त्रं सामर्थ्यं वैष्णवं महत् ।
असंख्येयमसंख्यानां वाच्यानां भिन्नरूपिणाम् ॥ २६० ॥
तद्यथावत्परिज्ञानाज्जपध्यानात्समर्चनात् ।
हवनात्तन्मयत्वाच्च निर्बीजं पदमृच्छति ॥ २६१ ॥
सहाभिमतसिद्धस्य साधकानां सदैव हि ।
पिण्डादिभगवन्मन्त्रमूर्तीनामेवमेव हि ॥ २६२ ॥
परिज्ञानाद्द्वैकिन्तु पिण्डात्तत्स्थैर्यमुत्तमम् ।
नानात्वं नाममन्त्राच्च नानालोकान्तरोत्थितम् ॥ २६३ ॥
भवेत् सर्वपदप्राप्तिः परिज्ञानात् पदाभिधात् ।
सबीजं वा सपिण्डं वा मन्त्राणां यत्परं द्वयम् ॥ २६४ ॥
विदधाति फलं स्वं स्वं किन्त्वाद्यं भावयेत्पदम् ।
मन्त्रक्षेत्रज्ञरूपत्वाद् यस्मात् सर्वेश्वरोऽच्युतः ॥ २६५ ॥
व्याप्यव्यापकरूपेण वर्ततेऽनुग्रहेच्छया ।
व्याप्यरूपेण भूलोकाद् भोगाद्यस्य चाखिलात् ॥ २६६ ॥
षाड्गुण्यमहिमान्तञ्च ददाति फलमुत्तमम् ।
स्वपदं भोगखिन्नस्य दिव्यदेहस्य कर्मिणः ॥ २६७ ॥
क्षेत्रज्ञबीजपिण्डात्मा निरावरणलक्षणः ।
ज्ञानं यदमलं शुद्धं संयच्छत्यात्मलाभदम् ॥ २६८ ॥
शक्तिव्यक्तिमयत्वं च जाग्रद्वृत्तौ पदात्मनः ।
एवं संज्ञात्मनः स्वप्नवृत्तेरेकत्वमस्ति च ॥ २६९ ॥
सुषुप्तिवृत्तेः पिण्डाख्यमन्त्रस्यैव महामते ।
बीजात्मनस्तुर्यवृत्तेः शक्तिव्यक्तत्वमस्ति वै ॥ २७० ॥
व्यक्तिज्ञानफलोपेता नियता यद्यपि स्मृता ।
भगवन्मन्त्रमूर्तीनां तथापि परमात्मनः ॥ २७१ ॥
आद्यस्य चातुरात्म्यस्य केवलस्याथवा विभोः ।
चतुष्प्रकारं यन्मन्त्रं विद्धि तन्मोक्षभूतिदम् ॥ २७२ ॥
अतोऽन्यथा यदुद्दिष्टममिश्रं मिश्रम् एव हि ।
फलं भाववशाच्चैव तत्तथा विद्धि नान्यथा ॥ २७३ ॥
शृणुध्वमथ बीजानि सावधानेन चेतसा ।
शुचौ देशे मनोज्ञे च सुलिप्ते पुष्पभूषिते ॥ २७४ ॥
चन्दनक्षोदसंयुक्ते सुधूपेनाधिवासिते ।
विलिख्य मातृकाचक्रं भेदेनानेन वै पुनः ॥ २७५ ॥
येन सन्दृष्टमात्रेण शतधा याति कल्मषम् ।
प्रागादौ पञ्चवर्गान्तं मध्यान्तं मध्यतो लिखेत् ॥ २७६ ॥
याद्यो नवनाभिस्था आद्यः षोडशारगाः ।
कादयो नेमिगाः सर्वे पूर्वचक्रे यदक्षगम् ॥ २७७ ॥
तदस्मिन् प्रथिभूतं तु पूजयेद्विधिना ततः ।
शब्दब्रह्ममयं चक्रमर्घ्यपुष्पादिकैः क्रमात् ॥ २७८ ॥
तन्मध्यादुद्धरेदादौ सर्वेषां कारणं हि यत् ।
उदक्स्थमक्षरं चाक्षादरान्तेन भूषितम् ॥ २७९ ॥
विद्धि सर्वेश्वरस्येदं बीजं निर्बीजकारणम् ।
एतदेवाब्जनाभस्य विसर्गसहितं स्मृतम् ॥ २८० ॥
नेमिवर्गाद्द्वितीयं वै ततोऽरात् षष्ठमक्षरम् ।
अष्टमं नाभिदेशाच्च तत्संख्यं नेमिमण्डलात् ॥ २८१ ॥
नेमिपूर्वमतो नाभेः सप्तमं पञ्चमारगम् ।
अराच्चतुर्दशं त्वक्षात्पश्चिमाशागतं हि यत् ॥ २८२ ॥
नेमेरेकादशं चाथ षोडशं च त्रयोदशम् ।
पञ्चमं नाभिदेशाच्च नेमिरेकोनविंशकम् ॥ २८३ ॥
तदन्तं सप्तमं चैव नवमं हि महामते ।
नाभेस्तृतीयं तदनु नेमेस्तत्संख्यमेव च ॥ २८४ ॥
द्वादशञ्च बहिष्षेष्यो दशमं षोडशात्परम् ।
नाभिपूर्वं ततो वर्णं नेमेः पञ्चदशं हि यत् ॥ २८५ ॥
तुर्यसंख्यमराद्बीजं ततो नाभिचतुष्कम् ।
षष्ठं नेमेश्चतुर्थं च मध्यमक्षात्तथा हरेत् ॥ २८६ ॥
तत्रैव पूर्वदिक्स्थं यद् बाह्याद्वै पञ्चमं ततः ।
अक्षाद्दक्षिणदिक्संस्थं नेमेरष्टादशं ततः ॥ २८७ ॥
द्वितीयं नाभिदेशाच्च तदन्ते सप्तमारगम् ।
चतुर्दशमतो नेमेः षष्ठं नाभेरथाहरेत् ॥ २८८ ॥
सर्वे कारणवन्मूर्ध्ना योजनीयाः समासतः ।
प्रणवाद्या नमोऽन्ताश्च तेजसातीव निर्भराः ॥ २८९ ॥
पद्मनाभादयो देवा वाच्यास्तेषां क्रमेण तु ।
पद्मनाभो ध्रुवोऽनन्तः शक्त्यात्मा मधुसूदनः ॥ २९० ॥
विद्याधिदेवः कपिलो विश्वरूपो विहङ्गमः ।
क्रोडात्मा बडबावक्त्रो धर्मो वागीश्वरस्तथा ॥ २९१ ॥
देव एकार्णवशयः कूर्मः पातालधारकः ।
वराहो नारसिंहश्चाप्यमृताहरणस्तु वै ॥ २९२ ॥
श्रीपतिर्दिव्यदेहोऽथ कान्तात्माऽमृतधारकः ।
राहुजित्कालनेमिघ्नः पारिजातहरो महान् ॥ २९३ ॥
लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः ।
न्यग्रोधशायी भगवानेकशृङ्गतनुस्ततः ॥ २९४ ॥
देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः ।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥ २९५ ॥
ज्वलत्परशुधृग्रामो रामश्चान्यो धनुर्धरः ।
वेदविद्भगवान् कल्की पातालशयनः प्रभुः ॥ २९६ ॥
प्रादुर्भवगणो मुख्य इत्युक्तस्ते समासतः ।
यथाक्रमोदितानां च देवानां विनिबोध तु ॥ २९७ ॥
पिण्डमन्त्रगणं मत्तः सावधानेन चेतसा ।
नाभेरष्टमबीजं यत् स्थितं तत्सप्तमोपरी ॥ २९८ ॥
तदधश्चोत्तरं चाक्षादरान्तेन विभूषयेत् ।
अथोत्तरं चाक्षदेशादादाय तदधो न्यसेत् ॥ २९९ ॥
बीजं नेमिद्वितीयं यन्मध्यंमध्यम् तदासने ।
अथारषष्ठसंरूढं कुर्याद्वै नाभि सप्तमम् ॥ ३०० ॥
अष्टमं च तदूर्ध्वे तु एतद्विद्धि तृतीयकम् ।
नाभ्यष्टममथादाय अरात् षष्ठासनस्थितम् ॥ ३०१ ॥
ततो नाभिद्वितीयस्य क्रमेणाथो निवेश्य च ।
तदुद्देशात् तृतीयं च सप्तमं तुर्यमेव च ॥ ३०२ ॥
अथादाय च नेमेः प्राक् तदधो नाभिपञ्चमम् ।
तस्याप्यधस्तदुद्देशात् तृतीयं विनिवेश्य च ॥ ३०३ ॥
ततस्तु नवमं नाभेस्तस्योर्ध्वाधोगतं न्यसेत् ।
तत्रैव यद्द्वितीयन्तु तत्पिण्डं विद्धि सप्तमम् ॥ ३०४ ॥
अरात् षष्ठस्य चोर्ध्वे तु नाभिपूर्वं तु विन्यसेत् ।
सप्तमं चाष्टमं चापि ह्युपर्युपरि वै क्रमात् ॥ ३०५ ॥
अथाष्टमं नाभिदेशादारूढं सप्तमोपरी ।
तदधो मध्यगं चाक्षान्नवमं परिकीर्तितम् ॥ ३०६ ॥
भूयोऽरात्पञ्चमस्योर्ध्वं दद्यान्नाभितृतीयकम् ।
बाह्यात्तृतीयं तन्मूर्ध्नि पिण्डोऽयं दशमः स्मृतः ॥ ३०७ ॥
द्वितीयं नाभिदेशाच्च तत्तृतीयं तदूर्ध्वगम् ।
नेमेराद्यन्तमूर्ध्वे तु स्मृतमेकादशन्त्वदम् ॥ ३०८ ॥
अथो नाभिचतुर्थस्य सप्तमं विनिवेश्य च ।
तदधो नेमिपूर्वं तु एतद्द्वादशं स्मृतम् ॥ ३०९ ॥
नेमेस्त्रिदशमादाय तदधो योजयेत्क्रमात् ।
सप्तमं च चतुर्थं च पूर्वं नाभेर्महामते ॥ ३१० ॥
अरषष्ठासनाः सर्वे पिण्डमेतत् त्रयोदशम् ।
नाभेश्चतुर्थमादाय तदूर्ध्वे सप्तमं न्यसेत् ॥ ३११ ॥
नवमं चापि तन्मूर्ध्नि एतद्विद्धि चतुर्दशम् ।
नेमेश्चतुर्थसंज्ञस्य ऊर्ध्वाधोभ्यां निवेश्य च ॥ ३१२ ॥
वर्णं नाभिद्वितीयं यत्तत्पञ्चदशं स्मृतम् ।
यद्विंशसंख्यकं बाह्यादादायाराख्यमण्डलात् ॥ ३१३ ॥
सान्तिमेन च षष्ठेन युक्तं कुर्यादनन्तरम् ।
नेमेः सप्तमवर्णस्य ऊर्ध्वाधोभ्यां निवेश्य च ॥ ३१४ ॥
नाभिदेशाद् द्वितीयं यद् विद्धि सप्तदशं तु तत् ।
नवमं नाभिदेशाच्च सप्तमस्योपरि स्ययेत् ॥ ३१५ ॥
अथाष्टमं नाभिदेशात्कुर्यात्सप्तगमूर्ध्वगम् ।
द्वितीयमपि तस्याधस्तस्माद्वै नाभिमण्डलात् ॥ ३१६ ॥
अरात् त्रयोदशं चोर्ध्वे न्यूनविंशतिमं हि यत् ।
नाभेश्चतुर्थं तस्योर्ध्वे तत्तृतीयं तदूर्ध्वगम् ॥ ३१७ ॥
तत्रैव सप्तमं यद्वै विद्धि विंशतिमं त्विदम् ।
द्वितीयस्याष्टमं नाभेर्वर्णस्योर्ध्वे नियोज्य च ॥ ३१८ ॥
अरात् षष्ठं च तस्याधः कुर्यात्तदनु लाङ्गलिन् ।
नवमं नाभिदेशाच्च तृतीयस्योपरि न्यसेत् ॥ ३१९ ॥
द्वितीयं तदधः कुर्यात् त्रयोविंशतिमं शृणु ।
अष्टमं सप्तमं नाभेर्द्वितीयं प्रथमं ततः ॥ ३२० ॥
क्रमेण योजयेच्चैव अरात् षष्ठस्य मूर्धनि ।
नेमेस्तप्तममादाय तदधो नाभिसप्तमम् ॥ ३२१ ॥
तत्तृतीयं च तस्याधश्चतुर्विंशतिमं स्मृतम् ।
नाभेस्तृतीयं तस्योर्ध्वं द्वितीयं तस्य चोपरि ॥ ३२२ ॥
निवेश्य नेमिपूर्वं तु षड्विंशमधुनोच्यते ।
अरात् षष्ठासनं कुर्याद्वर्णं नाभितृतीयकम् ॥ ३२३ ॥
तदूर्ध्वं सप्तमं चैव अतोऽन्यदवधारय ।
न्यूनं विंशतिनेमेस्तु तस्योर्ध्वाधोगतं न्यसेत् ॥ ३२४ ॥
सप्तमं नाभिवर्णैस्तत्स्वरवर्णाञ्च पञ्चमम् ।
नेमेराद्यं द्वितीयं च आदाय तदधो न्यसेत् ॥ ३२५ ॥
मध्यमक्षान्महाबुद्धेऽष्टाविंशतिमं स्मृतम् ।
नवमं सप्तमं नाभेस्तृतीयं च द्वितीयकम् ॥ ३२६ ॥
अथोत्तरस्थमक्षाच्च आदाय तदधो न्यसेत् ।
तृतीयं च द्वितीयं च नाभिदेशादनन्तरम् ॥ ३२७ ॥
नाभिद्वितीयमादाय सप्तमं तुर्यमेव च ।
तृतीयस्याथ वै नाभेर्बाह्यादाद्यन्तमूर्ध्वगम् ॥ ३२८ ॥
ततस्तु नवमं नाभेरक्षमध्यस्थमूर्ध्वगम् ।
अष्टमस्याथ वै नाभेरथ ऊर्ध्वे द्वितीयकम् ॥ ३२९ ॥
दद्यात् तदन्वरात् षष्ठं तस्यैवाधोगतं तु वै ।
अरात् षष्ठस्य चोर्ध्वेऽथ नाभिपूर्वं तु तत्परम् ॥ ३३० ॥
विनिवेश्याष्टमं चापि षट्त्रिंशमवधारय ।
सप्तमं च तृतीयं च चतुर्थं नाभिमण्डलात् ॥ ३३१ ॥
योजयित्वा तदूर्ध्वे चाप्यराणां त्रिदशं न्यसेत् ।
अथ यन्नवमं नाभेस्तृतीयं च द्वितीयकम् ॥ ३३२ ॥
तत्सप्तत्रिंशकं विद्धि नाभिदेशादथाहरेत् ।
अरात् षष्ठासनं पूर्वं द्वितीयं च तदूर्ध्वतः ॥ ३३३ ॥
नवमं चापि तस्योर्ध्वे पिण्डास्त्वाद्यादिमं विना ।
अरान्ताद्येन वै मूर्ध्ना सर्वे कार्यां ह्यलङ्कृताः ॥ ३३४ ॥
नमोऽन्ताः प्रणवाद्याश्च युक्तास्संज्ञापदैस्स्वकैः ।
अरान्ताद्यं विना यस्य यदूर्ध्वे वर्तते स्वरः ॥ ३३५ ॥
अधो वा नाभिपूर्वेण सह वा केवलं हितम् ।
अपास्य च ततः कुर्यात्सर्वेषां पूजनाय च ॥ ३३६ ॥
स्वेन स्वेन तु पिण्डेन सिद्धवच्चाङ्गकल्पना ।
नमः प्रणवसंज्ञाद्या जातिः कर्मवशात्पुनः ॥ ३३७ ॥
आ तदुक्तानुयजनान्मोक्षनिष्ठस्समाचरेत् ।
बीजपिण्डपदोत्थानां विनियोगं तु चाखिलम् ॥ ३३८ ॥
किन्त्वेषां वैभवी मुद्रा देयाऽऽराधनकर्मणि ।
तदङ्गमुद्राश्चाङ्गनां योज्या मन्त्रैः स्वकैः सह ॥ ३३९ ॥
सर्वं साधारमुद्दिष्टं सैंहं मन्त्रोदितं मया ।
दीक्षापूर्वं हि मन्त्राणां चतुर्वर्गं हि साधनम् ॥ ३४० ॥
लक्षणं पदमन्त्राणामथेदानीं निबोधतु ।
यैर्विना लब्धसत्तानामर्चनं हि न जायते ॥ ३४१ ॥
विश्वातीताय विमलपदं विद्याविधायिने ।
पद्मनाभाय विश्वव्यापिने च तदनन्तरम् ॥ ३४२ ॥
चतुर्विंशाक्षरं विद्धि एतत्संख्यं परं शृणु ।
ज्योतीरूपाय पञ्चार्णं पदं गगनमूर्तये ॥ ३४३ ॥
ध्रुवाय दद्यात्तदनु परमं त्र्यक्षरं ततः ।
पदप्राप्तिचतुर्वर्णं हेतवे त्र्यक्षरं त्विति ॥ ३४४ ॥
अनन्ताय पदं दद्यात्ततोऽपरिमिताय च ।
सर्वाश्रयाय तदनु तदन्ते धृतशक्तये ॥ ३४५ ॥
एतद्विंशतिसंख्यं च द्वाविंशार्णमतः शृणु ।
नमो भगवते कृत्वा वासुदेवाय वै ततः ॥ ३४६ ॥
सर्वशक्त्यात्मनेऽनन्तमूर्तये तु पदं त्विति ।
वीर्यात्मने महाशब्दं पुरुषाय पदं तु ततः ॥ ३४७ ॥
मोहमायापदं चैव ततो विध्वंसिने तु वै ।
सदोदिताय शब्दं तु सर्वशक्ते पदं ततः ॥ ३४८ ॥
नियोक्तव्यञ्चतुर्वर्णः सप्तविंशाक्षरः स्मृतः ।
पदं वेदविदे विश्वरञ्जकाय ततो भवेत् ॥ ३४९ ॥
तदन्ते विश्वपतये ततो वै परमात्मने ।
एष विंशतिभिर्वर्णैः शृणु सप्तदशाक्षरम् ॥ ३५० ॥
ज्ञानात्मने पदं कुर्यात्संविच्छब्दमतः परम् ।
पदं प्रकाशाशयाय शान्तरूपाय वै ततः ॥ ३५१ ॥
अनन्तशक्तये सर्वव्यापिने तदनन्तरम् ।
जगन्मयाय तदनु विश्वरूपाय वै पदम् ॥ ३५२ ॥
एकविंशतिभिर्वर्णैर्यमुक्तोऽपरं शृणु ।
सत्सत्त्वपदमादाय गुहाशयपदं ततः ॥ ३५३ ॥
ततः परमहंसाय ततो मानसचारिणे ।
न्यूनविंशत्यक्षरश्चैव ततो यज्ञमूर्तये ॥ ३५४ ॥
पदमादाय तदनु विश्वान्तर्वर्तिने तु वै ।
ततो भुवनशब्दं तु वराहाय पदं त्वथ ॥ ३५५ ॥
विभूतिस्वामिने चेति चतुर्विंशाक्षरस्त्वयम् ।
नमो भगवते दद्यात्ततो वै बडवाग्नये ॥ ३५६ ॥
जगज्जलेन्धनपदं प्रदीप्तं पदमेव तु ।
वीर्याय फट् तदन्ते तु एतत्संख्यस्त्वयं स्मृतः ॥ ३५७ ॥
सर्वान्तश्चारिणे दद्यात्प्रसन्नपदमेव च ।
मूर्तयेऽथ पदं चैव दद्याद्धर्मात्मने पदम् ॥ ३५८ ॥
षोडशाक्षरमेतद्वै अतो गुह्यमतःशृणु ।
सर्वविद्येश्वरायाथ दद्याद्वाक्पतये ततः ॥ ३५९ ॥
पदं वदवदादाय ततो वाग्विभवं त्विति ।
न्यूनविंशाक्षरो ह्येष त्वपरं कथयामि ते ॥ ३६० ॥
योगैश्वर्यप्रदायाथ योगनिद्रारसाय वै ।
नीरदाय पदं दद्याद्भगवज्जलशायिने ॥ ३६१ ॥
त्रिरष्टवर्णसंख्यश्च अयमेकाधिकस्तु वै ।
भगवत्पदमादाय अनन्तबलशक्तये ॥ ३६२ ॥
तेजोमयाय भुवनधृतेऽथ द्व्यक्षरं पदम् ।
तदन्ते विनियोक्तव्यं पदं वै कच्छपात्मने ॥ ३६३ ॥
षड्द्विंशार्णक्रमं विद्धि मन्त्रं मन्त्रविदांवर ।
यज्ञाङ्गदेहमादाय महापदमतः परम् ॥ ३६४ ॥
वराहाय ततो दद्यात्पुराणपुरुषाय वै ।
दद्यात्ततः प्रजाशब्दं तदन्ते पतये पदम् ॥ ३६५ ॥
चतुर्विंशाक्षरं मन्त्रमेतन्मन्त्रविदांवर ।
नमो भगवते कृत्वा नारसिंहाय वै ततः ॥ ३६६ ॥
तेजोनिधे पदं दद्यात्पदं हनहनेति च ।
ततो विकर्मजात्यं वै शब्दं पञ्चाक्षरं भवेत् ॥ ३६७ ॥
दुष्कृतं हि तदन्ते वै सप्तविंशाक्षरस्त्वयम् ।
आदायामृतमूर्ते वै ततो ज्ञानपरात्मने ॥ ३६८ ॥
सर्वेश्वराय भगवन्न्यूनविंशाक्षरस्त्वयम् ।
आदायपुण्डरीकाक्ष पदं वै परमेश्वर ॥ ३६९ ॥
ततस्सकलशब्दन्तु सुखसौभाग्य वै पदम् ।
निधे वाञ्छितशब्दन्तु ततस्सिद्धिप्रदेति वै ॥ ३७० ॥
पदं चाखिलदुःखेति ततस्तु शमनाग्नये ।
आनन्दसुन्दरपदं ततो लक्ष्मीपदं न्यसेत् ॥ ३७१ ॥
पतये शब्दमुच्चार्य पञ्चाशार्णं त्रिरूर्जितम् ।
सदसत्पदमादाय मूर्तये तदनन्तरम् ॥ ३७२ ॥
विश्वोत्तमाय तदनु ततोऽमृतनिधे तु वै ।
षोडशार्णस्त्वयं मन्त्र उक्तः कान्तात्मने विभो ॥ ३७३ ॥
पुरुषोत्तमाय शब्दन्तु ततोऽप्रतिहतेति च ।
शक्तयेऽथ पदं दद्यात्सर्वेश्वरपदं ततः ॥ ३७४ ॥
समग्रोग्रभयेत्यत्र निवारण ततः परम् ।
सप्तविंशाक्षरो मन्त्र उक्तश्चातः परं शृणु ॥ ३७५ ॥
नियन्त्रे पदमुद्धृत्य तदन्ते विश्वहेतवे ।
परब्रह्मसमेतं च सेतवे ओमनन्तरम् ॥ ३७६ ॥
मन्त्रो द्विरष्टवर्णश्च कथितोऽयं ततः परम् ।
पदमप्रतिमेत्यादौ प्रभवं तदनन्तरम् ॥ ३७७ ॥
महाविभूते तदनु महामायापदं ततः ।
अथ दर्शकशब्दन्तु तदन्ते तालकेतवे ॥ ३७८ ॥
चतुर्विंशाक्षरो मन्त्रस्त्वयमुक्तस्समासतः ।
शान्तात्मने पदं दद्यादन्ते यम विन्यसेत् ॥ ३७९ ॥
नियमाश्रयाय दद्यात् परमार्द्धिदयाय च ।
नारायणाय शब्दन्तु पूर्वसंख्यासमं स्मृतम् ॥ ३८० ॥
भवभङ्गपदं चैव कारिणे तदनन्तरम् ।
ततो भगवते शब्दं दत्तात्रेयाय वै ततः ॥ ३८१ ॥
वर्णाश्रमपदं चाथ धर्मशब्दमतः परम् ।
परिग्रहाय प्रणवमष्टाविंशाक्षरः स्मृतः ॥ ३८२ ॥
सर्वलोकमयायेति सर्वज्ञाय पदं ततः ।
शब्दं विश्वात्मने चाथ विमलेतिपदं ततः ॥ ३८३ ॥
सर्वेश्वराय न्यग्रोधशयनाय पदं त्वथ ।
त्रयोविंशत्यक्षरश्च त्वथ चान्यं निबोधतु ॥ ३८४ ॥
भूतशब्दमथादाय भावनाय पदं ततः ।
शब्दं विश्वात्मने चाथ विमलेति पदं ततः ॥ ३८५ ॥
निकेतनाय तदनु कन्धराय पदं ततः ।
अयं विंशतिभिर्वर्णैर्द्व्यधिकैर्मन्त्रराट् स्मृतः ॥ ३८६ ॥
विष्णवे पदमादाय निरस्तास्त्राय वै ततः ।
पदं ब्रह्ममयायाथ जटिने दण्डिने ततः ॥ ३८७ ॥
दद्याद्विदितशब्दं वै तदन्ते विभवाय च ।
षड्विंशार्णस्त्वयं मन्त्रः परमस्मान्निबोधतु ॥ ३८८ ॥
सर्वशब्दमथादाय व्यापिने तदनन्तरम् ।
पदं सहस्रार्चिषे च दद्यात्पञ्चाक्षरं शुभम् ॥ ३८९ ॥
त्रिविक्रमायाथ पदं ततोऽपरिमिताय वै ।
प्रभावाय पदं दद्यात्रयोविंशाक्षरः स्मृतः ॥ ३९० ॥
नरनाथाय शब्दन्तु पुरुषप्रवराय वै ।
आत्मध्यानपरायेति णाय वै द्व्यक्षरं ततः ॥ ३९१ ॥
एकविंशाक्षरो मन्त्रस्ततोऽन्यमवधारय ।
नारायणाय शब्दन्तु दद्यात्रिरति वै पदम् ॥ ३९२ ॥
शयानन्दमयायेति पदं निरभिमान वै ।
पदासक्ताय तदनु पञ्चविंशाक्षरस्त्वयम् ॥ ३९३ ॥
पराय पदमादाय ततो वै परमात्मने ।
योगेश्वराय हरये मन्त्रोऽयं षोडशाक्षरः ॥ ३९४ ॥
सप्तार्णं पदमादाय प्राङ्नमः परमात्मने ।
कृष्णाय शब्दं तदनु कमलं त्र्यक्षरं ततः ॥ ३९५ ॥
दलशब्दं तु वितत नेत्राय तदनन्तरम् ।
ब्रह्मिष्ठाय ब्रह्मणे वै अष्टविंशाक्षरस्त्वयम् ॥ ३९६ ॥
भगवत्पदमादाय युगान्तदहनेति च ।
दृप्तयेऽथ पदं दद्यात्संसारपदमेव हि ॥ ३९७ ॥
बन्धविच्छेदकर्त्रे वै द्वाविंशार्णस्त्वयं स्मृतः ।
दद्याद्विश्वशब्दं वै परमार्थपदं ततः ॥ ३९८ ॥
पदं चतुर्मूर्तये वै चतुर्गतिमयाय च ।
शरशार्ङ्गधृते दद्याच्छरदिन्दीवरत्विषे ॥ ३९९ ॥
ततो भगवते दद्यादभिरामपदं ततः ।
शरीराय पदं चैव त्वष्टत्रिंशार्णं स्मृतम् ॥ ४०० ॥
दद्याद्विद्यशब्दं वै परमार्थपदं ततः ।
ततो वेदविदे शब्दं विदुषे व्यापकाय च ॥ ४०१ ॥
स्वामिंस्तदनु वै दद्याद्द्व्यक्षरं चापरं पदम् ।
अयं विंशतिभिर्वर्णैरुक्तस्त्वन्यमतः शृणु ॥ ४०२ ॥
दद्याद्दरुडशब्दन्तु तदन्ते वाहनेति च ।
सर्वशास्त्रास्त्रोद्धातेति शाम्याशुभमेव च ॥ ४०३ ॥
ततो धुन धुनादाय कर्मबन्धांस्तथोच्चरेत् ।
धर्मं पाहि ततो दद्याज्जह्यधर्मं ततोद्धरेत् ॥ ४०४ ॥
चतुस्त्रिंशाक्षरो मन्त्र एष वक्ष्याम्यतः परम् ।
संहारमूर्तये शब्दं कालवैश्वानरार्चिषे ॥ ४०५ ॥
पातालशयनायेति त्वज्ञाननिगलेति वै ।
निचयं हन वीप्सातः प्रणवं तदनन्तरम् ॥ ४०६ ॥
पञ्चत्रिंशाक्षरो ह्येष सर्वसिद्धिकरः स्मृतः ।
प्रणवालङ्कृतास्सर्वे नमस्कारविभूषिताः ॥ ४०७ ॥
संस्कृताः पूजिताश्चैव ध्यानजप्ता विशेषतः ।
तत्रास्ति यत्र यच्छन्ति भक्त्या सत्कर्मणां भुवि ॥ ४०८ ॥
अथ लाञ्छनमन्त्राणां सास्त्राणां लक्षणं शृणु ।
सहस्रदीधिति पदं दद्याच्छुरित वै ततः ॥ ४०९ ॥
विग्रहाय दशार्णञ्च त्र्यधिकं मुकुटस्य च ।
आदाय वाञ्छितपदं ततः सिद्धिप्रदाय वै ॥ ४१० ॥
महाचिन्तापदं दद्यान्मणये तदनन्तरम् ।
विद्धि पञ्चदशार्णञ्च दशार्णमपरं शृणु ॥ ४११ ॥
सर्वलक्षणशब्दन्तु ततस्सम्पत्प्रदाय वै ।
सौभाग्यशब्दमादाय जननि त्र्यक्षरं ततः ॥ ४१२ ॥
सर्वप्रदे तु तदनु अथैव दशाक्षरम् ।
प्राणात्मनेऽथ सत्याय विद्धि सप्ताक्षरं त्विदम् ॥ ४१३ ॥
कालकर्त्रेऽथ चक्राय फडष्टार्ण प्रकीर्तितम् ।
विश्वात्मने पदं दद्यात्ततो विश्वप्रदाय च ॥ ४१४ ॥
नवाक्षरमिदं विद्धि परमष्टाक्षरं शृणु ।
समादाय पदं विद्ये ततो विद्येश्वरार्चिते ॥ ४१५ ॥
प्राक्छब्दमूर्तये कुर्याच्छङ्खायाष्टाक्षरः स्मृतः ।
पदं रसनिधे कुर्याद् भीमशब्दमतः परम् ॥ ४१६ ॥
भीषणाय तदन्ते वै दशाक्षरमिदं स्मृतम् ।
प्राग्भुवनाधिपतये स्तम्भभूताय वै पदम् ॥ ४१७ ॥
त्रयोदशाक्षरं विद्धि ततोऽन्यमवधारय ।
पदमिन्द्रियकोशाय इष्वस्त्राय दशाक्षरम् ॥ ४१८ ॥
कल्पान्तानिलघोषाय विद्युल्लसित वै पदम् ।
प्रभाय षोडशार्णं तु नवाक्षरमतश्शृणु ॥ ४१९ ॥
महामायापदं दद्याद् बन्धवर्णद्वयं ततः ।
ध्वंसिने पदमादाय एतत्सङ्ख्यं परं शृणु ॥ ४२० ॥
सर्वास्त्रग्रसनादाय पराय तदनन्तरम् ।
सन्तापकाय शब्दन्तु दर्पविध्वंसिने ततः ॥ ४२१ ॥
एकादशाक्षरं विद्धि नवाक्षरमथोच्यते ।
अज्ञानखण्डनपदं पराय तदनन्तरम् ॥ ४२२ ॥
त्रैलोक्यमोहनपदं मूर्तये तु नवाक्षरम् ।
सर्वाकर्षकपदं महामायामयेति वै ॥ ४२३ ॥
द्वादशाक्षरसङ्ख्यस्तु नवाक्षरमथोद्धरेत् ।
प्रागखण्डितशब्दन्तु तदन्ते विनियोज्य च ॥ ४२४ ॥
पराक्रमाय शब्दन्तु सप्ताक्षरमतः शृणु ।
दर्पप्रशमकर्त्रे तु पञ्चार्णं विनिबोध वै ॥ ४२५ ॥
तेजोमालिनि चेलेति द्वाविंशत्यनुकीर्तिताः ।
प्राग्वदाद्यन्तसंरुद्धाः स्वनामपदभूषिताः ॥ ४२६ ॥
सङ्ख्यानिष्ठाक्षरस्यान्ते दद्यात्संज्ञापदं सदा ।
चक्रशङ्खास्त्रमन्त्राणां कुर्यान्नामावसानकम् ॥ ४२७ ॥
क्रमात्सप्तदशानान्तु शक्त्यन्तानां च फट्पदम् ।
अथ वक्ष्ये नृसिंहस्य विश्वत्रातुर्मनूत्तमम् ॥ ४२८ ॥
वर्णचक्रन्तु पूर्वोक्तं सुगुप्ते वसुधातले ।
उपलिप्ते तु संलिख्य पूजयित्वा यथाविधि ॥ ४२९ ॥
समुद्धरेत्ततो मन्त्रमनेकाद्भुतविक्रमम् ।
प्रणवं पूर्वमादाय तदन्ते विनियोज्य च ॥ ४३० ॥
नवमं नाभिवर्णेभ्यस्तदूर्ध्वेऽराच्चतुर्दशम् ।
तस्योपरि तदन्तस्थवर्ण गोलकवच्च यसेत् ॥ ४३१ ॥
नमोऽन्तं वर्णमेतद्वै वाचकं परमात्मनः ।
ज्ञानाद्यो गुणः षड्भ्यः प्रागुक्ता हृदयादयः ॥ ४३२ ॥
तदर्थमेव वर्णं तं षोढा संलिख्य केवलम् ।
द्वितीयतुर्थषष्ठैश्च द्वादशेनान्तिमेन च ॥ ४३३ ॥
चतुर्दशेनाराद्वालिक्रिमाद्वै विनियोजयेत् ।
बीजवच्छिरसा सर्वान् लाञ्छयेत्पञ्चमं विना ॥ ४३४ ॥
सर्वेषां प्रणवं पूर्वं स्वसंज्ञान्ते नियोज्य च ।
स्वकीया जातयश्चान्ते वौषडन्ताः क्रमेण तु ॥ ४३५ ॥
ओन्नमो भगवते नारसिंहायेत्यनेन तु ।
द्वादशाक्षरमन्त्रेण स्मृत्वा विग्रहवत्तुरा ॥ ४३६ ॥
Unnummerierter abschließender Halbvers; redaktionelle Kennung 436z.
सबाह्याभ्यन्तरस्थेन साङ्गिनाधेन पूजयेत् ।
इति श्रीपाञ्चरात्रे ईश्वरसंहितायां मन्त्रोद्धारविधानं नाम त्रयोविंशोऽध्यायः ॥

Kapitel 24 – मुद्रालक्षणभगवद्ध्यानादिप्रकारः / mudrālakṣaṇabhagavaddhyānādiprakāraḥ
Siehe deutsche Übersetzung und Texthinweise.
नारदः ।
अथ मुद्राविधिं वक्ष्ये शृणुध्वं मुनिपुङ्गवाः ।
मुदं कर्मात्मतत्त्वानां ददात्यमलयाजिनाम् ॥ १ ॥
द्रावयन्ति च दोषाणां बाह्याभ्यन्तरचारिणाम् ।
तेन मुद्रा समाख्याता कृतस्यापि च मुद्रणात् ॥ २ ॥
तस्मात्स्वाभाविकं कृत्वा बन्धं वा मानसं पुरा ।
स्वेन स्वेन तु मन्त्रेण स्मरेद्व्याप्तं सदैव हि ॥ ३ ॥
चैतन्येनानुविद्धो यश्शाखासङ्घश्च यद्यपि ।
तत्रापि मन्त्रोऽध्यक्षसत्कार्यं सम्प्रयच्छति ॥ ४ ॥
गन्धदिग्धौ करौ कृत्वा मुद्राबन्धं समाचरेत् ।
मध्यमानामिकाभ्यान्तु द्वन्द्वयुक्तं करद्वयात् ॥ ५ ॥
पराङ्मुखञ्च सुस्पष्टं कृत्वा योज्यं परस्परम् ।
आमूलान्नखपर्यन्तं नैरन्तर्येण यत्नतः ॥ ६ ॥
समुत्थाने करतले शेषाश्चाङ्गुलयस्तथा ।
अधरोत्तरयोगेन वामदक्षिणतस्तथा ॥ ७ ॥
तर्जन्यां ऊर्ध्वतोऽङ्गुष्ठे सम्मुखे संप्रसार्य च ।
निविष्टा हृदये कार्या मुद्रेषा मुनिपुङ्गवाः ॥ ८ ॥
चातुरात्म्यार्चने योज्या सर्वसिद्धिप्रदायिनी ।
श्लिष्टौ विकसितौ हस्तौ योज्यौ च मणिबन्धनात् ॥ ९ ॥
तद्बाहुकूर्परौ द्वौ च नाभौ संरोध्य दण्डवत् ।
ईषद्वै दोलयेत्पश्चात् अथ ऊर्ध्वं तु तौ करौ ॥ १० ॥
गुप्तिं कृत्वा तु योज्यैषा मुद्राराधनकर्मणि ।
मूर्तीनां केशवादीनां ततोऽन्यां शृणुत द्विजाः ॥ ११ ॥
श्लेष्य पाणितले द्वे प्राङ्नम्रं कुर्याल्लतागणम् ।
विमुक्तमन्तरीकृत्य सहाङ्गुष्ठद्वयेन तु ॥ १२ ॥
मणिबन्धद्वयं कुर्यात् सुलग्नमतिनिश्चलम् ।
करयुग्मं सगर्भन्तु सन्धार्य स्वधिया चलम् ॥ १३ ॥
ऊरुमध्ये निषण्णे तु कुर्याद्वै बाहुकूर्परे ।
गुप्तं कृत्वा प्रयत्नेन बन्धमस्याः समाचरेत् ॥ १४ ॥
एषा विभवदेवानां मुद्रैका वैभवी द्विजाः ।
प्रणवेन प्रयोज्येयं सहस्रांशुसमप्रभा ॥ १५ ॥
विश्वत्रातृनृसिंहस्य मुद्राद्वयमथोच्यते ।
ध्यात्वा त्रेताग्निरूपं तु दक्षिणादङ्गुलत्रयम् ॥ १६ ॥
स्पष्टमूर्ध्वमुखं सैव ज्येष्ठाक्रान्ता कनीयसी ।
अथाऽखिलाध्वरूपा चाप्यध्वातीतोऽग्निरूपधृक् ॥ १७ ॥
देवो गुणत्रयातीतः तथा मार्गत्रयातिगः ।
धर्मैः स्थूलतरैर्मुक्तो योऽयं व्यक्तो धियार्चितः ॥ १८ ॥
परस्परमुखौ श्लिष्टौ शाखाक्रान्तौ परस्परम् ।
किन्तु वै दक्षिणं हस्तमूर्ध्वं चाप्यधरेऽपरम् ॥ १९ ॥
अविद्यादलिनी ह्येषा मुद्रा पूर्वमुदाहृता ।
ततो हृदादिमन्त्राणां मुद्राषट्कन्तु कथ्यते ॥ २० ॥
सम्पुटं हृदयोद्देशे बद्ध्वा हस्तद्वयेन तु ।
निरन्तराभ्यां शाखाभ्यां मुद्रैषा हार्दिकी स्मृता ॥ २१ ॥
अङ्गुष्ठादिकनिष्ठान्तं शाखायुग्मं पृथक् पृथक् ।
सान्तरं सम्पुटादस्मात् कनिष्ठादौ तथा भवेत् ॥ २२ ॥
शिरश्शिखातनुत्रास्त्रनेत्रमुद्रा यथाक्रमम् ।
हस्तौ मुकुलितौ कृत्वा न्यसेच्छिरसि मन्त्रतः ॥ २३ ॥
ज्ञेया किरीटमुद्रेयं मार्तण्डायुतसन्निभा ।
ततः श्रीवत्समुद्रा तु पद्ममुद्रैव कीर्तिता ॥ २४ ॥
मध्यमानामिकान्यूना मुष्टिवत्पाणिमध्यगा ।
उभयोर्हस्तयोर्विप्र पश्चान्मुष्टिद्वयं तु यत् ॥ २५ ॥
श्लेषयेत्समरन्ध्रेण तर्जन्यौ द्वे प्रसार्य च ।
ततः संश्लेषयेदग्रादङ्गुष्ठाग्रे नियोजयेत् ॥ २६ ॥
मध्यतस्तर्जनीभ्यान्तु अन्योन्येन क्रमेण तु ।
मुद्रैषा कौस्तुभस्योक्ता मालामुद्रामथो शृणु ॥ २७ ॥
शाखाष्टकं कराभ्यां यद्भ्रस्तमग्रान्दूरतः ।
संक्ष्लक्ष्णं लम्बमानञ्च उपविष्टोऽथवा स्थितः ॥ २८ ॥
कुर्याद्बाहुद्वयं विप्र ऊरुमध्यावलम्बितम् ।
मणिबन्धावधौ सम्यङ्मालामुद्रा प्रकीर्तिता ॥ २९ ॥
अङ्गुष्ठौ सङ्गतौ लग्नौ अङ्गुल्यो विरलास्थिताः ।
पाद्मी ह्येषा भवेन्मुद्रा पुष्टिसौभाग्यदायिका ॥ ३० ॥
मुष्टिना ग्राहयेद्वाममङ्गुष्ठं दक्षिणेन तु ।
अङ्गुलीर्वामहस्तास्तु दक्षिणस्योपरि न्यसेत् ॥ ३१ ॥
वामतर्जनिकाग्रन्तु अङ्गुष्ठाग्रञ्च दक्षिणात् ।
परस्परं सम्मुखं तु सुश्लिष्टं विनियोजयेत् ॥ ३२ ॥
शङ्खस्यैषा भवेन्मुद्रा उत्ताना तु यदा स्थिता ।
स्पष्टौ प्रसारितौ हस्तौ परस्परनियोजितौ ॥ ३३ ॥
भ्रमणाच्चक्रवत्तौ तु चक्रमुद्रेति कीर्तिता ।
नाशिनी सर्वदुःखानां मुद्राणां भेदिनी परा ॥ ३४ ॥
बद्ध्वा मुष्टिं दक्षिणेन वामाङ्गुष्ठस्य मूर्धनि ।
कृत्वैवं दर्शयेदेषा कौमोदक्याः सुशोभना ॥ ३५ ॥
गदामुद्रेति विख्याता दोषसैन्यप्रमर्दनी ।
प्रसार्य वाममुत्ताना अङ्गुल्यो विरलाः स्थिताः ॥ ३६ ॥
कार्यास्त्वाकुञ्चिताः प्रान्तादङ्गुष्ठं सेतुबद्धवत् ।
संमुखं तासु संलग्नं करशाखासु मध्यतः ॥ ३७ ॥
हृत्सम्मुखं तु बध्नीयाच्छक्तिमुद्रां सुखप्रदाम् ।
प्रादिशिन्यादितो विद्धि कनिष्ठान्तं श्रियादिषु ॥ ३८ ॥
प्रसार्य संहितं कृत्वा पुरा पाणिद्वयं द्विज ।
अनामा मूलदेशाभ्यां अङ्गुष्ठाग्रद्वयं न्यसेत् ॥ ३९ ॥
अधोमुखं तु पतितं मणिबन्धस्य सम्मुखम् ।
सुस्पष्टमुञ्छितं लग्नं पुच्छवत्कन्यसायुगम् ॥ ४० ॥
पक्षिराजस्य मुद्रैषा केवलस्य महात्मनः ।
सामान्या सर्वमन्त्राणां एका मुद्राञ्जलिः स्मृता ॥ ४१ ॥
स्वेन स्वेन तु मन्त्रेण संयुक्तां तां प्रयोजयेत् ।
दक्षे करतले रक्तपङ्कजे भास्करं स्मरन् ॥ ४२ ॥
द्रव्याणि संस्पृशेत्तेन मुद्रैषा दहनात्मिका ।
वामहस्ततले श्वेतपङ्कजे शशिनं स्मरन् ॥ ४३ ॥
द्रव्याणि संस्पृशेत्तेन मुद्रैषाप्यायनात्मिका ।
ग्रथितौ द्वौ करौ कृत्वा सुश्लिष्टौ चाप्यधोमुखौ ॥ ४४ ॥
कनीयसौ तदङ्गुष्ठौ सुश्लेषेण नियोज्य च ।
मध्यमाङ्गुलियुगन्तु अन्योन्यकरपृष्ठगम् ॥ ४५ ॥
विक्षिप्तानामिकायुग्मं तर्जनीयुगलं तथा ।
मुद्रैषा कामधेन्वाख्या सर्वेच्छापरिपूरिणी ॥ ४६ ॥
अथ चासनमन्त्राणां मुद्राबन्धस्तु वक्ष्यते ।
अधोमुखस्य वामस्य अनामा तर्जनी उभे ॥ ४७ ॥
आकुञ्च्य पृष्ठलग्ने तु मध्यमायां तु संस्थिते ।
तयोरधस्तान्मध्याभ्यां ऋज्वीं कुर्यादधोमुखाम् ॥ ४८ ॥
कनिष्ठिका तु साङ्गुष्ठा कार्या सुप्रसृता मुने ।
अनन्तासनमुद्रेयं अनेनाख्यायते द्विज ॥ ४९ ॥
सर्वं जगदिदं ह्येषा क्रोडीकृत्य च वर्तते ।
करद्वयमसंलग्ने कृत्वा तदनु योजयेत् ॥ ५० ॥
मुखे मुखं तर्जनीभ्यां न्तं मुखेऽथ मध्ययोः ।
कुर्यात्तद्विधं बन्धं तं त्यक्त्वाऽनामिकाद्वये ॥ ५१ ॥
उपसंहृत्य तं चापि द्वे कनिष्ठे नियोजयेत् ।
प्रत्येकबन्धे संलग्नमङ्गुष्ठयुगलं न्यसेत् ॥ ५२ ॥
धर्मादेष्वप्यधर्मादेरिदं मुद्रा चतुष्टयम् ।
तदूर्ध्वस्थस्य पद्मस्य प्रागुक्ता मन्त्रयोगतः ॥ ५३ ॥
दक्षिणस्य तु हस्तस्य तर्जन्यङ्गुष्ठमेलनम् ।
कृत्वा तदनु तद्बन्धं विकास्य च शनैश्शनैः ॥ ५४ ॥
समुत्थानं पृथक्कुर्यात् शाखासङ्घं पृथक्स्थितम् ।
धामत्रयस्य मुद्रैषा गणेशादेस्तथोच्यते ॥ ५५ ॥
वामहस्तकनिष्ठाद्याः तिस्रस्तलमध्यगाः ।
तासामङ्गुष्ठतः पृष्ठे तर्जनी प्रोन्नता भवेत् ॥ ५६ ॥
नासावंशप्रदेशस्था ततो दक्षिणपाणिना ।
अङ्गुली त्रितयेनैवं मुष्टिं बद्ध्वा तु पूर्ववत् ॥ ५७ ॥
तर्जनीं द्विगुणीं कृत्य अङ्गुष्ठाग्रे नियोजयेत् ।
प्रोद्यतो दक्षिणो बाहुश्चक्रक्षेपे यथोद्घतः ॥ ५८ ॥
विष्वक्सेनस्य मुद्रैषा विश्वबन्धनिकर्तनी ।
सम्मुखौ सम्पुटीकृत्य द्वौ हस्तौ संप्रसारितौ ॥ ५९ ॥
विनियोज्यौ ललाटाग्रे शिरसाऽवनतेन तु ।
गुर्वादित्रितयस्यैषा मुद्रा चेतः प्रसादिनी ॥ ६० ॥
करद्वयं समुत्तानं नाभिदेशे नियोजयेत् ।
वामस्य दक्षिणं पृष्ठे मुद्रैषा सिद्धसन्ततेः ॥ ६१ ॥
तदन्येषां तु सर्वेषां मुद्रास्यादञ्जलिर्द्विजाः ।
तथैव परिवाराणां द्वारावरणवासिनाम् ॥ ६२ ॥
स्वमन्त्रयुक्ता चान्येषामर्चितानां यथाक्रमम् ।
पुनः पुनः प्रयोक्तव्या हार्द्धी शिरसा सह ॥ ६३ ॥
पद्माकारौ करौ कृत्वा अङ्गुष्ठे च कनिष्ठके ।
संमील्य चाग्रदेशात्तु कर्णिकेव यथा द्विजाः ॥ ६४ ॥
तर्जन्यादित्रयं शेषमूर्ध्वगं च करद्वयात् ।
असंलग्नन्तु निक्षिप्य मुद्राग्नेः सम्प्रकीर्तिता ॥ ६५ ॥
किञ्चिदाकुञ्चयेद्धस्तं दक्षिणं हृदयोपगम् ।
अङ्गुष्ठौ विरलौ स्पष्टौ मुद्राह्वाहने स्मृता ॥ ६६ ॥
उत्तानौ संहतौ पाणी कृत्वाङ्गुष्ठयेन तु ।
स्वां स्वां कनिष्ठां विसृजेत् एषा सन्निधिमुद्रिका ॥ ६७ ॥
अनामयोर्मध्यमयोः कुर्यादुन्मार्जनं ततः ।
संस्तम्भसन्निरोधौ च द्वौ कृतौ भवतस्तथा ॥ ६८ ॥
पाणिभ्यामञ्जलिं कुर्यात् ईषद्विकसितं द्विजाः ।
एषा साम्मुख्यमुद्रा हि सम्मुखीकुरुते विभुम् ॥ ६९ ॥
खड्गाधारसमाकारौ विरलाङ्गुलिकावुभौ ।
अङ्गुष्ठौ दण्डवत्कृत्वा मुष्टिबन्धं शनैश्शनैः ॥ ७० ॥
कुर्यात्कनिष्ठिकादिभ्यो मुद्रैषा स्याद्विसर्जने ।
अनेन विधिना मुद्रां यो बध्नाति विधानवित् ॥ ७१ ॥
तेनेदं मुद्रितं विश्वं अपुनर्भवसिद्धिदम् ।
अथ प्रागुक्तमन्त्राणां ध्यानं वक्ष्ये क्रमाद्द्विजाः ॥ ७२ ॥
प्रथमं त्वेकमूर्तेर्वै शृणुध्वं ध्यानमुत्तमम् ।
ध्येयः परो जगन्नाथो देवोऽनन्तसमन्वितः ॥ ७३ ॥
वरदाभयदेनैव शङ्खचक्राङ्कितेन तु ।
त्रैलोक्योद्धृतिदक्षेण युक्तः पाणिद्वयेन तु ॥ ७४ ॥
शान्तः संवित्स्वरूपस्तु भक्तानुग्रहकाम्यया ।
अनौपम्येन वपुषा ह्यमूर्तो मूर्ततां गतः ॥ ७५ ॥
विश्वमाप्याययन् कान्त्या पूर्णेन्द्वयुततुल्यया ।
रश्मिभिर्भास्करो यद्वत् समुद्र इव वीचिभिः ॥ ७६ ॥
स्वमूर्तिभिरमुक्ताभिः अच्युतादिभिरन्वितः ।
दीप्तिमद्भिरमूर्तैस्तु सुधाकल्लोलसङ्कुलैः ॥ ७७ ॥
पूर्ण आभरणैः सर्वैर्निर्विकाराङ्घ्रिविग्रहः ।
ततः सुषुप्तिव्यूहस्य वक्ष्ये ध्यानमनुत्तमम् ॥ ७८ ॥
वेदकत्वेन भगवान् ब्रह्मसंवलिताकृतिः ।
स्तम्भवत्कर्णिकामध्ये स्थित्वा वेद्यत्वमेति च ॥ ७९ ॥
स्वयमेवोपकाराय कर्मिणां ब्रह्मयाजिनाम् ।
प्राग्भागादुत्तरं यावद् गुणभेदेन लाङ्गलिन् ॥ ८० ॥
विभजत्यात्मनात्मानं वासुदेवः परः प्रभुः ।
अनुज्झितस्वरूपस्तु प्राग्भागे षड्गुणात्मना ॥ ८१ ॥
बलसंवलितेनैव ज्ञानेनास्तेऽथ दक्षिणे ।
ऐश्वर्येण च वीर्येण प्रत्यग्भागे प्रतिष्ठितः ॥ ८२ ॥
तेजश्शक्त्यात्मना सौम्ये संस्थितः परमेश्वरः ।
यद्यप्यरूपो भगवान् व्यूहात्मा गुणलक्षणः ॥ ८३ ॥
अत्रापि पूर्वमेवोक्तं रूपमस्योपचर्यते ।
किन्तु द्वितीयमूर्तेर्वै शुभे पाणितलद्वये ॥ ८४ ॥
स्फुटो रेखामयः शङ्खः सुव्यक्तं लाङ्गलं महत् ।
रम्येषुणा तृतीयस्य दक्षिणश्चिह्नितः करः ॥ ८५ ॥
तुर्यस्यासिवरेणैव शङ्खमाभ्यां करद्वये ।
अवाङ्मुखः करवशादूर्ध्ववक्त्रः स्वभावतः ॥ ८६ ॥
एतावता लक्षणेन व्यक्तिभावं गतेन च ।
भावस्थितिं निबध्नाति व्यूहेऽस्मिन् साधकस्य तु ॥ ८७ ॥
सादृश्यात् षड्गुणत्वाच्च समत्वाच्च विशेषतः ।
शान्तत्वान्निष्क्रियत्वाच्च न भेदो विद्यते यतः ॥ ८८ ॥
गुणद्वयद्वयेनैव यद्यप्युक्तः पुरा मया ।
एकैकं भगवद्रूपं मुख्यवृत्त्या तथापि हि ॥ ८९ ॥
चतुष्कमवशिष्टं यद् गुणानां समवस्थितम् ।
यद्भजेतानुवृत्तिं च एकैकस्य च सर्वदा ॥ ९० ॥
स्वप्नव्यूहध्यानमथ शृणुध्वं मुनिसत्तमाः ।
येनात्मा स्वप्न एवात्मा कर्मिणामनुकम्पया ॥ ९१ ॥
क्रमेण व्यक्ततां नीतो वाग्वर्णकमलोपरि ।
अभिन्नपूर्णषाड्गुण्य विभवेनोपबृंहितः ॥ ९२ ॥
भाभिः सितादिभिर्दीप्तमभिन्नाभिर्निरन्तरम् ।
अवलोक्यामलं देवमुदितं स्वेन तेजसा ॥ ९३ ॥
कर्णिकाग्रं समाश्रित्य दिव्यं मन्त्रतनुं पुनः ।
पश्येत्तदयं स्वशक्त्या वै कालेनालक्ष्यमूर्तिना ॥ ९४ ॥
संहरन्तं च तद्रूपं व्यक्तं पूर्वोक्तलक्षणम् ।
एवं मन्त्रमयं देवमुपसंहृत्य लाङ्गलिन् ॥ ९५ ॥
आमूलात्कर्णिकाग्रं च सम्पूर्यास्ते स्वतेजसा ।
ब्रह्मयूपस्वरूपेण त्वाक्रम्य स्वं महामते ॥ ९६ ॥
सौम्यमूर्तिचतुष्कन्तु सर्वदिक्प्रसृतं च यत् ।
प्राच्यांसितेन वपुषा सूर्यकान्त्यधिकेन तु ॥ ९७ ॥
व्यक्तिमभ्येति भगवान् वासुदेवात्मना स्वयम् ।
पद्मरागसमानेन तेजसा तदनन्तरम् ॥ ९८ ॥
उदेति दक्षिणस्यां वै प्रभुः सङ्कर्षणात्मना ।
घर्मांशुरश्मिसन्तप्तशतधामाधिकेन तु ॥ ९९ ॥
रूपेण पश्चिमस्यां च व्यक्तं प्रद्युम्नसंज्ञया ।
शरद्गगनसङ्काशवर्णेन परमेश्वरः ॥ १०० ॥
समास्त उत्तरस्यां चाप्यनिरुद्धात्मना ततः ।
संस्थानमादिमूर्तेर्वै सर्वेषां तु समं स्मृतम् ॥ १०१ ॥
सूर्यकोटि प्रभाः सर्वे तेजसा कमलेक्षणाः ।
दन्तज्योत्स्नावितानैस्तु प्रकटीकृतदिङ्मुखाः ॥ १०२ ॥
पूर्णचन्द्रायुताकारा मुक्ताहाराद्यलङ्कृताः ।
लसत्पीयूषसदृशैः स्वाम्बरैः स्रग्वरैर्युताः ॥ १०३ ॥
वरायुधोद्यतकराः स्वकैश्चिह्नैस्त्वनुज्झिताः ।
रेखोत्थितैस्तु कल्हारैः पादपद्मतलाङ्किताः ॥ १०४ ॥
निमग्नजनसन्तापशमनव्यापृताननाः ।
करुणापूर्णहृदया जगदुद्धरणोद्यताः ॥ १०५ ॥
स्वदेहतेजस्सम्भूतज्वालामण्डलमध्यगाः ।
एवमेवैष भगवान् सन्तर्प्यः प्राक्प्रयोगतः ॥ १०६ ॥
एकैकेन तु भागेन प्रभवेण क्रमेण तु ।
पुनरेवानिरुद्धादि प्राङ्मूर्त्यन्तं महामते ॥ १०७ ॥
क्रमान्तरैर्भोगैरभ्यर्च्यः परमेश्वरः ।
प्रणवद्वितयेनैव बुद्ध्या तु सुविशुद्धया ॥ १०८ ॥
अप्ययाख्येन विधिना हृद्यागनिरतैर्बुधैः ।
ततस्तु जाग्रद्व्यूहस्य वक्ष्ये ध्यानक्रमं द्विजाः ॥ १०९ ॥
अनन्तसरसि क्षार्णे विश्रान्तं यन्महामते ।
अकाराक्षरमूलन्तु नित्यं सर्वाश्रयाम्बुजम् ॥ ११० ॥
अकाराक्षरनालन्तु शेषसर्ववर्णपल्लवम् ।
दिगष्टकं समाश्रित्य यत्तु तिष्ठति चक्रवत् ॥ १११ ॥
तत्पत्रमध्ये भगवान् जाग्रत्संज्ञे पदे त्वथ ।
यष्टव्यो भावनीयश्च यथा तदधुनोच्यते ॥ ११२ ॥
परः प्रणवबीजेन सम्पूर्णः स्वेन तेजसा ।
स्थितस्त्वाकर्णिकोर्ध्वञ्च केसरान्तर्निरीक्ष्य च ॥ ११३ ॥
ततः प्रणवपूर्वं तु ब्रह्मबीजचतुष्टयात् ।
कदम्बपुष्पसदृशान्मरीचिशतसङ्कुलात् ॥ ११४ ॥
दिक्क्रमेणोदितं ध्यायेद्विभोर्मूर्तिचतुष्टयम् ।
सुव्यक्तलक्षणं मान्त्रं विभवेनावृतं बहिः ॥ ११५ ॥
स्फुलिङ्गकणतुल्येन समुद्भूतेन वै परात् ।
वाचकान्तर्निविष्टेन व्यक्ततामागतेन च ॥ ११६ ॥
तत्राद्यं भगवद्रूपं हिमकुन्देन्दुकान्तिमत् ।
चतुर्भुजं सौम्यवक्त्रं पुण्डरीकनिभेक्षणम् ॥ ११७ ॥
पीतकौशेयवसनं सुवर्ण ध्वजशोभितम् ।
मुख्यदक्षिणहस्तेन भीतानामभयप्रदम् ॥ ११८ ॥
विद्याकोशस्तु वामेन संगृहीतश्च शङ्खराट् ।
पृष्ठो ह्यपरस्मिंस्तु प्रोद्यतं दक्षिणे त्विरि ॥ ११९ ॥
तथाविधे गदा वामे निषण्णा वसुधा तले ।
सिन्दूरशिखराकारमेकवक्त्रं चतुर्भुजम् ॥ १२० ॥
अतसीपुष्पसङ्काशवासोभृत् ताललाञ्छितम् ।
मुख्येन पाणियुग्मेन तुल्यमाद्यस्य वै विभोः ॥ १२१ ॥
सीरं तच्चक्रहस्तेऽस्य मुसलं तु गदा करे ।
प्रावृण्णिशासमुदितखद्योतचयदीधितिम् ॥ १२२ ॥
रक्तकौशेयवसनं मकरध्वजशोभितम् ।
एकवक्त्रं चतुर्बाहुं तृतीयं परमेश्वरम् ॥ १२३ ॥
मुख्यहस्तद्वयं चास्य प्राग्वद्ध्येयं महामते ।
वामे परस्मिन् शार्ङ्गं च दक्षिणे बाणपञ्चकम् ॥ १२४ ॥
अञ्जनाद्रिप्रतीकाशं सुसिताम्बरवेष्टितम् ।
चतुर्भुजं विशालाक्षं मृगलाञ्छनभूषितम् ॥ १२५ ॥
आदिवत् पाणियुगलमाद्यमस्यापि कीर्तितम् ।
दक्षिणादिक्रमेणाथ द्वाभ्यां वै खड्गखेटकौ ॥ १२६ ॥
वनमालाधराः सर्वे श्रीवत्सकृतलक्षणाः ।
शोभिताः कौस्तुभेनैव रत्नराजेन वक्षसि ॥ १२७ ॥
किरीटमुकुटैः रम्यैर्हारैकेयूरनूपुरैः ।
ललाटतिलकैश्चित्रैः स्फुरन्मकरकुण्डलैः ॥ १२८ ॥
स्रग्वरैर्विविधैर्माल्यैः कर्पूरादिविलेपनैः ।
रम्यैरलङ्कृताश्चैव भावनीयाः सदैव हि ॥ १२९ ॥
पुनरप्यययोगेन प्रागुदङ्मध्यमे दले ।
सितकृष्णेन वपुषा अनिरुद्धं स्मरेत्प्रभुम् ॥ १३० ॥
उदक्पश्चिममध्यस्थे प्रद्युम्नं भावयेच्छदे ।
रूपेण कृष्णपीतेन ह्यप्ययावसरे तु वै ॥ १३१ ॥
प्रत्यग्दक्षिणमध्यस्थे पीतरक्तवपुर्धरम् ।
स्मरेत्सङ्कर्षणं देवं प्रतिस्रोतः क्रियाविधौ ॥ १३२ ॥
मध्ये प्राग्दक्षिणस्यां च सितरक्तेन तेजसा ।
वासुदेवो जगन्नाथो भावनीयो महामते ॥ १३३ ॥
अतिशुद्धाशयत्वेन स्फटिकोपलवद्विभुः ।
स्थानभेदं समासाद्य स च कान्तिद्वयात्तु वै ॥ १३४ ॥
गृह्णाति शबलं रूपमुपसंहारलक्षणम् ।
अभेदेनादिमूर्तेर्वै संस्थितं वटबीजवत् ॥ १३५ ॥
सर्वक्रियाविनिर्मुक्तममूर्तं परमार्थतः ।
चातुरात्म्यं तदाद्यं वै शुद्धसंविन्मयं महत् ॥ १३६ ॥
वह्न्यर्केन्दुसहस्राभमानन्दस्पन्दलक्षणम् ।
बीजं सर्वक्रियाणां यद् विकल्पानां यदास्पदम् ॥ १३७ ॥
चातुरात्म्यं तु तद्विद्धि द्वितीयममलेक्षण ।
नित्यं नित्याकृतिधरं तेजसा सूर्यवर्चसम् ॥ १३८ ॥
भिन्नं सितादिभेदेन ऊर्ध्वाधः संस्थितेन च ।
कैवल्यभोगफलदं भवबीजक्षयङ्करम् ॥ १३९ ॥
चातुरात्म्यं तृतीयं तु सुधासन्दोहसुन्दरम् ।
स्थित्युत्पत्तिप्रलयकृत् सर्वोपकरणान्वितम् ॥ १४० ॥
प्रकृतिं स्वामधिष्ठाय समुदेत्यस्तमेति च ।
चतुर्थं विद्धि तद्यस्य विश्वं तिष्ठति शासनात् ॥ १४१ ॥
धत्ते सितादिकं रूपं चतुर्धा यत् कृते युगे ।
रक्ताद्यं सितनिष्ठञ्च त्रेतायां हि महामते ॥ १४२ ॥
पीतं कृष्णं सितं रक्तं सम्प्राप्ते द्वापरे युगे ।
कलौ कृष्णं सितं रक्तं पीतं चानुक्रमेण तु ॥ १४३ ॥
युगसन्ध्याचतुष्के तु बिभर्ति परमेश्वरः ।
विभिन्नमूर्तिसामान्यं रूपं यत्तन्निबोध मे ॥ १४४ ॥
सितरक्तं कृतान्ते तु रक्तपीतमतः परम् ।
पीतकृष्णं च तदनु कृष्णशुक्लमनन्तरम् ॥ १४५ ॥
भेदः प्रागुदितैर्ज्ञेयः आयुधाम्बरलाञ्छनैः ।
समत्वादन्यथा केन विभागोऽत्रावधार्यते ॥ १४६ ॥
ततस्तु केशवादीनां ध्यानं वक्ष्ये मुनीश्वराः ।
सर्वगं परमं ज्योतिरमूर्तममलं हि यत् ॥ १४७ ॥
स एव वासुदेवेति मत्वा सम्यग्यजेतः ।
चेतसामृतसङ्काशैः पुष्पाद्यैरखिलैः प्रभुम् ॥ १४८ ॥
पश्चात्तममलं धाम ध्यायेन्मूर्तिमनक्षरम् ।
श्रोणीतटार्पितकरं सानुकम्पमनूपमम् ॥ १४९ ॥
दक्षिणेन तु हस्तेन भक्तानामभयप्रदम् ।
पुष्पाभरणवस्त्राढ्यं शङ्खचक्रद्वयान्वितम् ॥ १५० ॥
ततस्तस्मात्तु वै धाम्नो युगपन्निस्सृतं स्मरेत् ।
महत्स्फुलिङ्गसङ्काशं समूहं सततोदितम् ॥ १५१ ॥
तेन चाक्रमरवृन्दं समाक्रान्तं च भावयेत् ।
अथ प्रत्येकतेजोंऽशादुद्भूतं भावयेत्क्रमात् ॥ १५२ ॥
त्रयं त्रयं सिताद्यञ्च केशवाद्यं चतुर्भुजम् ।
दक्षिणोत्तरपाणिभ्यां पृष्ठतः केशवादिषु ॥ १५३ ॥
युग्मं युग्मं परिज्ञेयं क्रमेणोर्ध्वगतं त्विदम् ।
शङ्खचक्रकजं विद्या स च शङ्खो गदाम्बुजम् ॥ १५४ ॥
तच्छङ्खः स कजं विद्या चक्रं चक्रं गदा गदा ।
गदा चक्रं कजं पद्मं चक्रं शङ्खं ततो गदा ॥ १५५ ॥
तद्वद्वयोऽग्रसंस्थाभ्यामधरस्थं द्वयं द्वयम् ।
ज्ञेयं दामोदरान्तानां द्वादशानामिदं शृणु ॥ १५६ ॥
पद्मं गदा ध्वनिश्चक्रं तत्पद्मो हेतिराड् ध्वनी ।
गदा चक्रं च तद्विद्या पद्मं शङ्खश्च सोऽम्बुजम् ॥ १५७ ॥
पद्मध्वनिगदाशङ्खः सविद्याब्जरुकं त्वरि ।
भूयोधामगणात्तस्मात् संस्मरेन्निस्सृतं महत् ॥ १५८ ॥
केशवादिविभागेन श्रियाद्यं च त्रयं त्रयम् ।
कमलादित्रयेणैव त्वन्योन्यत्वेन लाञ्छितम् ॥ १५९ ॥
बद्धपद्मासनस्थं च दिग्विदिक्षु च संमुखम् ।
संवीजयेत्तु विनयाच्चामरेण सितेन च ॥ १६० ॥
देवीद्वादशकं चैव तासां रूपमथोच्यते ।
पूर्णचन्द्राननाः सर्वाः सर्वर्तुकुसुमान्विताः ॥ १६१ ॥
सर्वलक्षणसम्पूर्णाः सर्वाभरणभूषिताः ।
विद्रुमाभं त्रयं त्वाद्यमपरं चम्पकप्रभम् ॥ १६२ ॥
प्रियङ्गुमञ्जरी श्यामं तृतीयं देवतात्रयम् ।
चतुर्थं त्रितयं ध्यायेज्जातिपुष्पसमप्रभम् ॥ १६३ ॥
आद्यायां कमलं पाणावन्यस्यां हेतिराट् करे ।
शङ्खं ध्यायेत्तृतीयस्यामेवं ध्यायेत् त्रिषु त्रिषु ॥ १६४ ॥
ततो विभवदेवानां ध्यानं वक्ष्ये द्विजोत्तमाः ।
वैभवीयो महाबुद्धे देवतानिचयो महान् ॥ १६५ ॥
य उक्तस्ते मया पूर्वमेकैकं विद्धि तत्त्रिधा ।
चतुर्णां युगसन्धीनां युगानां च तथैव हि ॥ १६६ ॥
विश्वविप्लवदोषाणां विनाशाय समुद्यतम् ।
सितरक्तादिरूपेण ज्वलदस्त्रकराङ्कितम् ॥ १६७ ॥
कार्यारम्भे तथा मध्ये ह्यवसाने तु सर्वदा ।
सम्भृते रूपमात्मीयमेक एव त्वनेकधा ॥ १६८ ॥
श्रेयसे सर्वलोकानां स्थूलं तत्कामरूपधृक् ।
अनुद्यतेन वपुषा कुन्देन्दुधवलेन च ॥ १६९ ॥
वीरासनादिना चैव स्थितं मुदितमानसम् ।
लीलाविधृतसर्वास्त्रं सौम्यवक्त्रमनाकुलम् ॥ १७० ॥
धिया दोषाणां सर्वं ध्वंसयन्तं च मोक्षिणाम् ।
तद्व्यक्तं शान्तसंज्ञं च रूपं रूपवतां वरम् ॥ १७१ ॥
प्रकाशयति सन्मार्गं समाधिनिरतात्मनाम् ।
तेजोमयं यद्रूपं वैभवं शान्तसंज्ञकम् ॥ १७२ ॥
उपासकानां भक्तानां सर्वे सर्वफलप्रदाः ।
विशाखयूपो भगवान् स्वयं विश्वसिसृक्षया ॥ १७३ ॥
अध्यक्षेण स्वरूपेण समुदेत्येक एव हि ।
महिमानं तु निश्शेषं शुद्धं संवित्पुरस्सरम् ॥ १७४ ॥
आदायाद्यपदस्थस्य चातुरात्म्यस्य वै विभोः ।
तथा चाधारभूयिष्ठं देवानां चेष्टितं हि यत् ॥ १७५ ॥
सिताद्यः कान्तयो याः श्र्यादिकं च महामते ।
सलाञ्छनं वैभवीयं सायुधं बीजमेव तु ॥ १७६ ॥
ज्ञानाद्यं गुणषट्कं च तदुक्ताः शक्तयोऽखिलाः ।
अणिमाद्यष्टकं चैव स्थित्युत्पत्तिलयोदयाः ॥ १७७ ॥
शक्तिः सा चातुरात्मीया त्वैश्वरीत्यभिधीयते ।
यथार्ककिरणव्रातं त्यक्त्वा तेजःकणो महान् ॥ १७८ ॥
स्वकारणं विना सर्वमापूरयति गोचरम् ।
स्वातन्त्र्यात्परिपूर्णत्वात्तद्वत्स परमेश्वरः ॥ १७९ ॥
विहाय वासुदेवाद्यं मूर्तिशाखाचतुष्टयम् ।
वैभवीयस्य यूथस्य पतित्वेनावतिष्ठते ॥ १८० ॥
सम्भूतिस्थितिसंहारभोगकैवल्यलक्षणम् ।
प्रेरयन् वै धिया चक्रं पञ्चारमिदमुत्तमम् ॥ १८१ ॥
स्मर्तव्यः स्वपदस्थः स स्वबीजेनामलात्मना ।
आमूर्धतोऽङ्घ्रिपर्यन्तं तदीयं गात्रमण्डलम् ॥ १८२ ॥
रत्नवद्वैभवीयैस्तु बीजैर्भाव्यमलङ्कृतम् ।
क्रमादुच्चार्यमाणैस्तैरमृतौघेन पूर्ववत् ॥ १८३ ॥
पूजनात्परमैश्वर्यमचिरादेव यच्छति ।
इत्येवमादिः सर्वेषां भाविनां परमेश्वरः ॥ १८४ ॥
स्थितोऽन्तर्यामिभावेन रूपमासाद्य निष्कलम् ।
आप्तकामः स भगवान् स्वव्यापारवशेन तु ॥ १८५ ॥
स्वां शक्तिमवलम्ब्यास्ते पद्मनाभात्मना पुनः ।
धराम्बुहुतभुग्वातमूलनालदलोदरे ॥ १८६ ॥
चतुस्तत्त्वमये पद्मे गगनैकार्णवोदरे ।
मानसेऽनन्तशयने दिव्यबोधतनुर्विभुः ॥ १८७ ॥
सहस्रांशुसहस्राभ उत्थानस्थो हि लीलया ।
ततो विविधरत्नाभे मायीयै नाभिपुष्करे ॥ १८८ ॥
प्रोद्वहंस्तु स्ववीर्येण विद्यां सामर्थ्यविग्रहाम् ।
मूर्तैर्ध्वजादिकैः सर्वैरावृतस्तत्परायणैः ॥ १८९ ॥
अनन्तचेष्टस्य विभोरित्येवं त्वैश्वरात्मनः ।
भोगापवर्गदं रूपं शान्तं व्यक्तं च वैभवम् ॥ १९० ॥
प्राग्वत् तुर्यपदावस्थं स्मरेद्धृत्कमलाम्बरे ।
दिशो दश द्योतयन्तं नानागात्ररुहैरिश्रितम् ॥ १९१ ॥
सौम्यं द्विरष्टवर्षं च राजीवदललोचनम् ।
भचक्रचक्रभूदेवं गदादेहं तथैव च ॥ १९२ ॥
शक्तिमाधारसंज्ञां च प्रोद्वहन्तं स्मरेद्ध्रुवम् ।
स्थितो यः स्तम्भभूतस्तु अस्मिन्वै विश्वमन्दिरे ॥ १९३ ॥
नभोऽनिलात्मना चैव भूमिकाभिन्नलक्षणैः ।
इत्येवं मुख्यवर्गाणां ध्रुवान्तानां प्रकीर्तितम् ॥ १९४ ॥
शेषादीनाञ्च शेषाणामिदानीमवधारय ।
ध्यानं पातालनिलयपर्यन्तानां यथास्थितम् ॥ १९५ ॥
एक एव जगन्नाथः स्वरूपाढैस्तु शक्तिभिः ।
नानात्वेनाप्यनन्तो यो भक्तानुग्रहकाम्यया ॥ १९६ ॥
तस्याभिमानिकं रूपं शृणु सर्वेश्वरस्य तु ।
तुहिनाचलसङ्काशं पूर्णचन्द्रसमाननम् ॥ १९७ ॥
स्वमणिव्यञ्जितेनैव युक्तं फणगणेन तु ।
प्रोद्वहन्तं हलं चक्रमपसव्यद्वयेन तु ॥ १९८ ॥
वामहस्तद्वयेनैव शङ्खं मुसलमेव च ।
नित्यसन्निहितं शेषशक्तिं सर्वज्ञमच्युतम् ॥ १९९ ॥
मनस्यन्तर्मुखानां यत्कर्मिणां पूरयेच्च तत् ।
शक्तीशोऽप्यथ सञ्चिन्त्यः पुण्डरीकनिभेक्षणः ॥ २०० ॥
इच्छारूपधरश्चैव सौम्यः प्रहसिताननः ।
व्यक्तये च फलादीनां भक्तानामनुकम्पया ॥ २०१ ॥
पीडयन् स्वाङ्घ्रियुग्मेन वसुधां च करद्वयम् ।
युगानुसारिकान्तिश्च चतुर्वक्त्रश्चतुर्भुजः ॥ २०२ ॥
मूर्तचक्रगदाहस्तः स्वमूर्तिच्चाम्बुजाङ्कितः ।
शमं नयति सन्तापं कमलेनेन्दुकान्तिना ॥ २०३ ॥
नानामन्त्रमयीं विद्यां व्यञ्जयत्यमलात्मनाम् ।
सम्यग्वाक्पतिना चैव कम्बुना शब्दमूर्तिना ॥ २०४ ॥
आज्ञाप्रतीक्षकेणैव गदाचक्रद्वयेन तु ।
प्रेरितेन हिनस्त्याशु साधुसन्तापकारिणाम् ॥ २०५ ॥
नारसिंहेन वक्त्रेण भवभीतिविघातकृत् ।
पुष्णाति सर्वभूतानि वाराहेणामृतात्मना ॥ २०६ ॥
कुरुते पश्चिमस्थेन कापिलेनोपसंहृतिम् ।
भक्तिश्रद्धापराणां च स्मृतमात्रे सदैव हि ॥ २०७ ॥
हृन्मध्ये गगने भूमौ वह्निमध्ये जलान्तरे ।
चतुर्णां ब्राह्मणादीनां स्वयमेवाऽनुकम्पया ॥ २०८ ॥
चातुरात्म्येन रूपेण चतुर्धा व्यक्तिमेति च ।
आत्मतुल्येन देहेन शङ्खपद्माङ्कितेन तु ॥ २०९ ॥
मूर्तिमद्वर्हलाढैस्तु युक्तेन वदनैर्विना ।
वर्णानुरूपवर्णेन समेनाप्यसमेन तु ॥ २१० ॥
अन्योन्यानुगतेनैव पूर्वोदितेन नान्यथा ।
प्रलयानलसूर्याभः स्मर्तव्यो मधुसूदनः ॥ २११ ॥
अष्टबाहुर्विशालांसोऽप्यग्निष्टोमकराङ्कितः ।
शङ्खचक्रधरश्चैव बाणकार्मुकधृक् तथा ॥ २१२ ॥
रजस्तमोभ्यां मूर्तिभ्यां समग्रवृतिनिवृत्तये ।
कर्णपीठनिविष्टञ्च ध्येयं पाणियुगं विभोः ॥ २१३ ॥
विद्याधिदेवं भगवन् चतुर्वक्त्रं चतुर्भुजम् ।
लम्बकूर्चं जटादण्डकमण्डल्वक्षसूत्रिणम् ॥ २१४ ॥
फुल्लरक्ताम्बुजाभासं श्वेतपद्मकराङ्कितम् ।
श्रुतीर्ऋगाद्या वक्त्रेभ्यः प्रोद्गिरन्तमतः स्मरेत् ॥ २१५ ॥
निर्धूमाङ्गारवर्णाभं शङ्खपद्माक्षसूत्रिणम् ।
फुल्लरक्तांशु विभवं देवताध्यात्मसूत्रकम् ॥ २१६ ॥
ध्यायेदभयपाणिं तं कपिलं तेजसां निधिम् ।
योऽन्तः सर्वधरो देवः साक्षीभूतो व्यवस्थितः ॥ २१७ ॥
स्फटिकोपलवद्भावान् स्वशक्त्याऽर्थान् बिभर्ति च ।
अविद्याविष्कृतानान्तु भक्तानां सत्पदाप्तये ॥ २१८ ॥
तमनादिं जगन्नाथं बहिः स्थूलतरात्मना ।
द्यावापृथिव्योरन्तःस्थं विश्वरूपमनुस्मरेत् ॥ २१९ ॥
अनेकवक्त्राङ्घ्रिनयनमनेकमकराङ्कितम् ।
यद्यप्यनेकवदनमनेकभुजभूषितम् ॥ २२० ॥
तथापि वै त्रयस्त्रिंशद् वदनैर्विविधैर्युतम् ।
चतुर्भ्यधिकैर्दिव्यैश्चत्वारिंशन्महाभुजैः ॥ २२१ ॥
ब्रह्मरुद्रेन्द्रदक्षार्कचन्द्रसिद्धास्तथा श्रुतिः ।
पौरुषस्य तु वक्त्रस्य चोर्ध्ववक्त्रस्थितास्त्वमी ॥ २२२ ॥
पिशाचाग्निमरुच्छैलद्वीप गन्धर्ववारिभिः ।
वक्त्रैरूर्ध्वस्थितैर्ध्यायेत् दक्षिणं वदनं विभोः ॥ २२३ ॥
पातालदिङ्महामेघलोकराशिग्रहोत्थितैः ।
वक्त्रैस्तारासमेतैस्तु ध्यायेद्वक्त्रं तु पश्चिमम् ॥ २२४ ॥
यक्षान्तकाम्बुनागाद्यैर्वसुनक्षत्रगोगणैः ।
वक्त्रैर्वाराहवक्त्रोर्ध्वं ध्यायेच्चैवमतश्शुभैः ॥ २२५ ॥
पद्माद्यं चातुरात्मीयमन्त्राणां दशकं महत् ।
प्रोच्छ्रितं हि सुवर्णाद्यं तल्लाञ्छनचतुष्टयम् ॥ २२६ ॥
लोकेशास्त्राष्टकं चैव पुस्तकं चाक्षसूत्रकम् ।
दर्वीं कमण्डलुं हैममभयं हि वरान्वितम् ॥ २२७ ॥
दर्भाजिनं ततश्छत्रं सुशुभं चामरं सितम् ।
स्रुक्स्रुवौ चापि कलशौ वेदिर्वह्निसमन्विता ॥ २२८ ॥
चन्द्रार्कमण्डले पूर्णे नागेन्द्रो मणिदर्पणः ।
पुष्पस्रग्व्यजनं दिव्यं विश्वपत्रलता तथा ॥ २२९ ॥
स्मर्तव्यास्तु भुजेष्वस्य विभोः संस्थानकैः समैः ।
यथोदितक्रमेणैव व्यत्ययो न भवेद्यथा ॥ २३० ॥
भाभिर्नानाप्रकाराभिर्देहोत्थाभिरिदं जगत् ।
भासयन्तं जगन्नाथं स्मरेत् हृत्कमलादिषु ॥ २३१ ॥
हंसमूर्तिमथात्मानं ज्ञानयज्ञभुजं स्मरेत् ।
कुन्देन्दुस्निग्धकान्तिं च हेमतुण्डं महातनुम् ॥ २३२ ॥
रजस्तमोऽङ्घ्रि सत्सत्त्वं विग्रहं परमेश्वरम् ।
धर्माधर्मेक्षणे ध्यायेदग्नीषोमात्मकेन तु ॥ २३३ ॥
दक्षिणोत्तरसंस्थेन पक्षयुग्मेन राजितम् ।
बहिःस्थमेवोदकस्थं काञ्चनाचलसन्निभम् ॥ २३४ ॥
ध्यात्वार्चयेत्तु विधिवद्धंसाविग्रहमच्युतम् ।
बहिर्द्रव्यमयस्त्वेकः सामान्यनेकलक्षणम् ॥ २३५ ॥
सम्यङ्निर्वर्णितः स्वर्गं पूर्वमिच्छति चार्थिनाम् ।
अन्तर्वेद्यां चतुर्धा यस्त्वेक एव महामखम् ॥ २३६ ॥
तपोयागजपध्यानस्वरूपः शश्वदेव हि ।
याजिनामपवर्गं तु विदधाति समापनात् ॥ २३७ ॥
तं यज्ञपुरुषं प्रभुं वासुदेवमजं हरिम् ।
ध्यायेद्वै सूकरात्मानमञ्जनाद्रिसमप्रभम् ॥ २३८ ॥
यज्ञाङ्गचिह्निताङ्घ्रिं च महाव्याहृतिदंष्ट्रिणम् ।
भूर्भुवस्स्वश्शरीरं च शब्दब्रह्मैकमानसम् ॥ २३९ ॥
निपुन्तं प्रपन्नानामविद्यापङ्कमञ्जसा ।
वैदेन पोत्रप्रान्तेन त्वक्षयेनामलेन च ॥ २४० ॥
वासनावासितानां च जीवानां भवशान्तये ।
महाविभूतिर्भगवान् पूर्णषाड्गुण्यविग्रहः ॥ २४१ ॥
स्वकाच्छान्ततराद्ब्रह्मतत्त्वादादाय चाञ्जलिम् ।
करोति सेचनं दोषदग्धानां च स्वतेजसा ॥ २४२ ॥
स्थूलरूपेण तमजं बहिराराधनविधौ ।
आध्मातं वायुना यद्वन्निर्धूमाङ्गारपर्वतम् ॥ २४३ ॥
ध्यायेत्तद्वन्महादीप्तं वाजिवक्त्रमलाञ्छनम् ।
बद्धब्रह्माञ्जलीकस्थं द्रवत्कनकलोचनम् ॥ २४४ ॥
घोणाग्रेणाहरन्तञ्च त्रैलोक्योत्थं जलेन्धनम् ।
कृत्वा तद्भस्मसात्सम्यक् स्फूत्कुर्वन्तं मुखेन तु ॥ २४५ ॥
धर्मं सामान्यममलमनादिनिधनं विभुम् ।
दुर्लभं यत्प्रबुद्धानां तत्प्रसादधिया विना ॥ २४६ ॥
तस्य स्थूलतरं रूपं शृणु तत्प्राप्तये परम् ।
तुहिनाचलसङ्काशं सौम्यवक्त्रं चतुर्भुजम् ॥ २४७ ॥
कामार्थावुद्वहन्तञ्च शङ्खपद्मच्छलेन तु ।
साधुमार्गस्थितानान्तु संप्यच्छन्तं धिया च तौ ॥ २४८ ॥
सिताक्षमालागर्भं तु वरपाणिमतः स्मरेत् ।
वाङ्मयं निखिलं यस्य वस्तुजातमनश्वरम् ॥ २४९ ॥
शक्तित्वेन स्वभावस्थं चिद्रूपस्यामितद्युतेः ।
वरवाजिमुखं ध्यायेदथ वागीश्वरं प्रभुम् ॥ २५० ॥
सूर्यकान्तादिसङ्काशमनेकभुजभूषितम् ।
कमलं चाक्षसूत्रं च वेदिं त्रेताग्निभूषितम् ॥ २५१ ॥
साज्यधारौ स्रुक्स्रुवौ तु विष्टरं सोमसंयुतम् ।
दर्भाजिनं मेखलां चाप्यपसव्येषु षट्स्वमी ॥ २५२ ॥
स्मरेद्वामकरेष्वस्य पुस्तकं शङ्खमेव च ।
दण्डं कमण्डलुं दर्वीमेकस्मिंस्त्रितयं करे ॥ २५३ ॥
पूर्णं ग्राम्यैस्तथाऽऽरण्यैश्चरुबीजैस्तु पञ्चमे ।
स्रङ्मूलफलपत्रैस्तु यज्ञद्रव्यैः सदक्षिणैः ॥ २५४ ॥
सर्वाश्रमोपकरणैर्युक्तं चमसभाजनम् ।
ध्येयमस्य भुजे षष्ठे वृतं मूर्तैर्ऋगादिभिः ॥ २५५ ॥
वेदाङ्गैरुपवेदैस्तु संस्कारैः समखैस्तथा ।
विकारवसुधाधारे ह्यभावे तु गुणोदधौ ॥ २५६ ॥
स्वशक्तिभावितं कृत्वा मनः पूर्वं चतुष्टयम् ।
प्रकृत्यन्तः समास्ते यः सर्वज्ञः पुरुषात्मना ॥ २५७ ॥
निषण्णं भोगिशय्यायां तपनीयरुचिं स्मरेत् ।
देवमर्णवशाय्याख्यं मूर्तैश्चक्रादिकैर्वृतम् ॥ २५८ ॥
लक्ष्म्या संवाह्यमानं च समाक्रान्तं च निद्रया ।
वीज्यमानं हि वै प्रीत्या गीयमानं हि विद्यया ॥ २५९ ॥
कूर्मात्मा कूर्मवद्देवो ध्यातव्यस्त्वथ लाङ्गलिन् ।
द्रवत्कनकवर्णाभस्स्वसामर्थ्यजलाश्रयः ॥ २६० ॥
शक्त्यादिककलाद्वन्द्वद्वितयाङ्घ्रिः सनातनः ।
शान्त्यादिककलाढ्यश्च प्रोद्गिरंस्तु श्रुतित्रयम् ॥ २६१ ॥
अतसीपुष्पसङ्काशः शङ्खचक्रगदाधरः ।
मखोपकरणाङ्गश्च निमग्नोद्धरणक्षमः ॥ २६२ ॥
स्वशक्तिविभवाधारमिच्छाज्ञानक्रियार्चिषम् ।
नानाविशेषविज्ञानस्फुलिङ्गोर्मिसदोदितम् ॥ २६३ ॥
दारयन्तं स्थितं हार्दमनूनं मोहमुल्बणम् ।
नद्रादमनाख्येयं तमजं परमेश्वरम् ॥ २६४ ॥
सन्तप्तकनकाभञ्च ध्यायेद्देवं नृकेसरिम् ।
ज्वलदग्निस्फुलिङ्गाभिः स्वदेहोत्थाभिरावृतम् ॥ २६५ ॥
रथाङ्गशङ्खधातारं बृहन्मूर्तिं सुभीषणम् ।
सत्सत्करजश्रेणीदीप्तेनोभयपाणिना ॥ २६६ ॥
संयच्छन्तं धिया सम्यग्भक्तिनां साभयं परम् ।
अमृताध्मातमेधाममृताहरणं विभुम् ॥ २६७ ॥
पीताम्बरधरं ध्यायेदेकवक्त्रं चतुर्भुजम् ।
श्रोणीतटार्पितकरं शङ्खचक्रविभूषितम् ॥ २६८ ॥
मध्यतो दक्षिणेनैव वहन्तं गिरिरूपधृक् ।
शुद्धज्ञानानुविद्धं च कर्मसम्भवभीतिहम् ॥ २६९ ॥
दिशन्तं स्वधिया सम्यग्भक्तानां भक्तवत्सलम् ।
माया मथितदुग्धाब्धिं क्षोभयित्वा प्रकाशितम् ॥ २७० ॥
अमृतं क्षुत्तृषादीनां प्रतिपक्षमनामयम् ।
शुद्धं चानश्वरं भाव्यं मायाख्यार्णवमध्यगम् ॥ २७१ ॥
आत्मामृतमनौपम्यमाहारध्वंसकर्मणा ।
ध्यायेत्कमलगर्भाभं देवदेवं श्रियः पतिम् ॥ २७२ ॥
कमलालयहेतीशविभूषितकरद्वयम् ।
द्वयं देवीपरिणये लीलयैव समर्पयन् ॥ २७३ ॥
प्रकाशयन्नादित्वमात्मनः प्रकृतेः सह ।
मत्करैरनुविद्धेयं प्रकृतिः प्रकृतेरहम् ॥ २७४ ॥
यतोऽहमाश्रयश्चास्या मूर्तिमध्ये तदात्मिका ।
यामालम्ब्य सुखेनैव दुस्तरं हि गुणोदधिम् ॥ २७५ ॥
निस्तरन्त्यचिरेणैव व्यक्तध्यानपरायणाः ।
मदविह्वलनेत्रं च देवमुद्भिन्नयौवनम् ॥ २७६ ॥
फुल्लरक्ताम्बुजाभासमत्यजन्तं निजां स्मृतिम् ।
त्रैलोक्यविस्मयकरं कान्ताकृतिधरं स्मरेत् ॥ २७७ ॥
आनन्दामृतसम्पूर्णवदनेन्दुकान्तिना ।
कलशाकृतिरूपेण करस्थेन विराजितम् ॥ २७८ ॥
लीलाकटाक्षवाग्बाणैस्सूदयन्तं सुरद्विषम् ।
द्विरेफपटलाक्रान्तसहकारलताकरम् ॥ २७९ ॥
कालमूर्त्यभिधानात्मा राहुसंज्ञोऽतिभीषणः ।
मूर्तामूर्तेन रूपेण संग्रसत्यनिशं किल ॥ २८० ॥
अग्नीषोममयीं मूर्तिं कर्मिणामुपकारिणीम् ।
योऽन्तः प्राणादिरूपेण चन्द्रादित्यात्मना बहिः ॥ २८१ ॥
स्थितस्तद्विजयेऽध्यक्षः सत्यध्यानरतात्मनाम् ।
निष्पन्दबोधभावेन तं तु व्यक्तं स्मरेद्बहिः ॥ २८२ ॥
नीलनीरदवर्णाभं पद्मपत्रनिभेक्षणम् ।
मध्याह्नभास्कराकारं द्वादशारकरोद्यतम् ॥ २८३ ॥
श्रोणीतटनिविष्टेन वामहस्तेन लीलया ।
ध्रियमाणां गदां गुर्वीं निषण्णां धरणीतले ॥ २८४ ॥
अविद्याख्या च या नेमिः कालचक्रस्य दुर्धरा ।
समाधीयं समाश्रित्य विग्रहं विधुनोति च ॥ २८५ ॥
जपयज्ञक्रियादीनां तामसेन बलेन च ।
ध्यायेत्तत्प्रसरघ्नं च देवं राजोपलद्युतिम् ॥ २८६ ॥
विज्ञानरश्मिनिर्दीप्तं सत्सत्त्वगरुडासनम् ।
नानास्त्ररूपभूतात्मा सद्विद्याभुजभूषितम् ॥ २८७ ॥
चक्रं खड्गं गदां बाणमङ्कुशं कुन्तमेव च ।
षट्सु दक्षिणहस्तेषु शक्तिं चापं च कार्मुकम् ॥ २८८ ॥
मुसलं मुद्गरं भीमं खेटकं वामबाहुषु ।
देवं आम्रदलाभश्च संस्मार्यः पारिजातजित् ॥ २८९ ॥
अक्लिष्टकर्मा देवेशस्त्वनेकाद्भुतविक्रमः ।
प्रबन्धप्रतिपन्नानां भक्तानामपि देहिनाम् ॥ २९० ॥
यो बोधभूमौ संरूढो ह्यनित्यश्चानरञ्जकः ।
न्यग्रोधविटपाकारोऽप्यविद्याबन्धलक्षणः ॥ २९१ ॥
कर्मवृक्षः सुविततो मोहमायाफलावृतः ।
तदुत्पाटनसिद्ध्यर्थमनुग्राह्यं जनं सदा ॥ २९२ ॥
आविश्यास्तेऽशमात्रेण कृपया स जगत्प्रभुः ।
स विवेकात्मना भूत्वा ज्ञानबाहुवितानधृक् ॥ २९३ ॥
ऐश्वर्यधर्मवैराग्यशमास्थितिशक्तिधृक् ।
आदाय संयमास्त्रौघं नियमास्त्रगणं तथा ॥ २९४ ॥
इन्द्रियारिगणं जित्वा कर्मिणां दोषदो हि यः ।
यदस्य सुरजिद्रूपं तद्द्वादशभुजं स्मरेत् ॥ २९५ ॥
दिव्यमाल्याम्बरधरं दिव्याभरणभूषितम् ।
चतुर्वक्त्रं सुनयनं वामोत्सङ्गार्पितप्रियम् ॥ २९६ ॥
खड्गं चक्रं गदाबाणं मुसलं च तरूतमम् ।
षट्सु दक्षिणहस्तेषु शङ्खमङ्कुशकार्मुकम् ॥ २९७ ॥
छत्रं च फणभृत्पाशं विभोर्वामभुजेष्वमी ।
षष्ठेनालिङ्गिता देवी सारविन्देन बाहुना ॥ २९८ ॥
तदंसलग्नकरया देव्या तच्चिन्तयाऽनिशम् ।
संवीज्यमानं विनयाच्चामरेण सितेन तम् ॥ २९९ ॥
लोकनाथं विशालाक्षं सर्वदेवनमस्कृतम् ।
नरसिंहासनारूढं ध्यानोन्मीलितलोचनम् ॥ ३०० ॥
पद्मासनेनोपविष्टं पद्मगर्भोपमद्युतिम् ।
करुणाविष्टबुद्धिं च शङ्खपद्मकराङ्कितम् ॥ ३०१ ॥
ज्ञानवैराग्यसद्धर्ममार्गत्रयनिदर्शकम् ।
संस्मरेदथ दत्ताख्यं ज्ञानमूर्तिमलेपकम् ॥ ३०२ ॥
मनुष्यमुनिदेवानां समाधिनिरतात्मनाम् ।
ईषल्लब्धरसानां च ब्रह्ममार्गानुसारिणाम् ॥ ३०३ ॥
स्वप्रभानिकरेणैव भासयन्तं च सत्पथम् ।
मनसा सह वायूनामागतिप्रतिषेधकृत् ॥ ३०४ ॥
श्रुतीनामागमानां च व्यापाराणां तथैव च ।
वर्णानामाश्रमाणां चाप्याचाराणां तथैव च ॥ ३०५ ॥
वर्णानामाश्रमाणां च परिरक्षक एव हि ।
मानसैकार्णवान्तस्थे निष्कम्पे बुद्धिपादपे ॥ ३०६ ॥
अभिधानलताढ्ये त्वप्युपरिस्थमनुस्मरेत् ।
प्रावृड्गिरिमिव श्यामं तेजसा ज्वलनोपमम् ॥ ३०७ ॥
ध्वंसकृद्विघ्नजालस्य निद्राऽऽलस्य चयस्य यः ।
उत्कृष्टद्विजरूपेण विकसत्पद्मरूपिणा ॥ ३०८ ॥
स एव द्विभुजो ध्येयो दण्डदर्भाक्षसूत्रधृक् ।
दन्तज्योत्स्नाजिताज्ञानं न्यग्रोधशयनं विभुम् ॥ ३०९ ॥
निषण्णमीषदुत्तानं द्विभुजं शिशुरूपिणम् ।
एवमेव निरस्तास्त्रं शान्तनिद्रारसं स्थितम् ॥ ३१० ॥
अनुज्झितस्वभावं च योगमायाबलेन च ।
त्यजन्तमाहरन्तं च श्वासोच्छ्वासद्वयेन तु ॥ ३११ ॥
आब्रह्मभुवनं सर्वं कर्मप्राधानिकं हि यत् ।
अपौरुषेण रूपेण संवृतावयवात्मना ॥ ३१२ ॥
स्वमायाजलमध्यस्थमध्यक्षमथ संस्मरेत् ।
ज्ञानादिगुणवृन्देन पक्षभूतेन भूषितम् ॥ ३१३ ॥
स्वोत्थं सन्निस्सृतं ब्रह्म एकशृङ्गविराजितम् ।
कल्पावसानसमये वहन्तं चैव चिन्तयेत् ॥ ३१४ ॥
नौरूपां विततां क्षोणीं प्रजापतिगणान्विताम् ।
मुक्ताफलनिभेनैव वपुषा निर्मलेन च ॥ ३१५ ॥
अनिमीलितनेत्रस्तु मीनात्मा भावनाथ ।
यो नित्यं भवभीतानां बुधानां कृपया स्वयम् ॥ ३१६ ॥
हृत्स्थो नियमदण्डेन मार्तण्डायुतसन्निभः ।
जित्वाऽज्ञानबलं भीममिन्द्रियारिगणान्वितम् ॥ ३१७ ॥
संयच्छत्यचिराद्ब्रह्मनन्दनं सत्सुखाय च ।
ध्यायेत्तमेव ह्रस्वाङ्गं श्यामं पद्मदलेक्षणम् ॥ ३१८ ॥
अन्तर्निविष्टभुवनं जटावल्कलभूषितम् ।
छत्रं तद्वामहस्तेऽस्य दण्डमन्यत्र वैणवम् ॥ ३१९ ॥
आक्रम्य जाग्रदादित्यः सूर्येन्दुहुतभुक्प्रभान् ।
तिष्ठन्ननन्तो भगवांस्तुर्याख्यश्चिद्विभूतिधृक् ॥ ३२० ॥
संप्रेरयन्निच्छातः स्वपदादमृतप्रभाम् ।
आह्लादजननीं शक्तिं कर्मिणां भावितात्मनाम् ॥ ३२१ ॥
त्रैलोक्यपूरकं ध्यायेत्तमेव हरितद्युतिम् ।
नानामुद्रास्त्रयुक्तेन भुजवृन्देन भूषितम् ॥ ३२२ ॥
खोत्तेनाङ्घ्रिदण्डेन वहन्तमरिसूदनम् ।
द्युसिन्धुं सद्वैजयन्तीं देवानाञ्च जयार्थिनाम् ॥ ३२३ ॥
खड्गचक्रगदादण्डबाणाङ्कुशमुद्गराः ।
शक्तिः परशुशैलेन्द्रौ दश दक्षभुजेष्वमी ॥ ३२४ ॥
शङ्खतोमरशार्ङ्गञ्च पाशशूलमहीरुहाः ।
कुलिशं क्षुरिका चैव लाङ्गलं मुसलं महत् ॥ ३२५ ॥
वामहस्तेष्वमी ध्येया अन्ये मुद्रान्विता दश ।
भयविस्मयहृद्वेणीकरणग्रहणलक्षणाम् ॥ ३२६ ॥
ध्येया मुद्रा विभोः पञ्च सर्वे तु करपञ्चके ।
वराख्यां भूतिसंज्ञां च युक्ताख्यां सभयान्तु वै ॥ ३२७ ॥
गोपनीं दक्षहस्तेषु तत्सङ्ख्येषु च संस्मरेत् ।
जगत्सूत्रं सहाक्षैस्तु येनोक्तमितात्मनाम् ॥ ३२८ ॥
गुणाष्टकस्वरूपेण पूर्वोक्ताकृतिभिर्विना ।
स्मर्तव्यः स चतुर्धा वै लाञ्छनास्त्रविवर्जितः ॥ ३२९ ॥
सर्वदा परिरक्षन्तु जपपूर्वं चतुष्टयम् ।
योगक्रियातपोऽन्तं च सद्विभूत्यपवर्गदम् ॥ ३३० ॥
नराद्यः कृष्णनिष्ठश्च पृथगेकत्र चेच्छया ।
नरं तत्र प्रवालाभमर्धोन्मीलितलोचनम् ॥ ३३१ ॥
अन्तर्निविष्टभावं च शब्दब्रह्मैकमानसम् ।
पदोपलक्षणं मन्त्रं लपमानमलक्षितम् ॥ ३३२ ॥
स्फाटिकेनाक्षसूत्रेण करस्थेन च शोभितम् ।
गणयन्नक्षसूत्रीयानावर्तान् वामपाणिना ॥ ३३३ ॥
अथ नारायणं देवं ध्यायेत्कुमुदपाण्डुरम् ।
बद्धब्रह्माञ्जलिं शान्तं हृत्पद्मार्पितमानसम् ॥ ३३४ ॥
युञ्जानं च स्वमात्मानं परस्मिन्नक्षये पदे ।
कमण्डलुधरं ध्यायेत्काञ्चनाभमतो हरिम् ॥ ३३५ ॥
विष्टरनिविष्टपाणिञ्च क्रियाकाण्डप्रदर्शकम् ।
पठन्तमनिशं शास्त्रं पञ्चरात्रपुरस्सरम् ॥ ३३६ ॥
कृष्णमिन्दीवरश्याममूर्ध्वबाहुं जटाधरम् ।
पादेनैकेन तिष्ठन्तमाहरन्तञ्च मारुतम् ॥ ३३७ ॥
एकत्रिंशद्विषड्रात्रादितिकृच्छ्रपरायणम् ।
पक्षमासोपवासांश्च दिशन्तमनुचिन्तयेत् ॥ ३३८ ॥
कृष्णाजिनोत्तरीयाश्च सर्वे काषायधारिणः ।
ब्रह्मलिङ्गधरास्सर्वे सर्वे ब्रह्मपरायणाः ॥ ३३९ ॥
मुख्यकर्मपरिक्रान्ताः साधूनां प्रेरणाय च ।
कालानुकूलमाश्रित्य सर्वे सर्वपरायणाः ॥ ३४० ॥
असङ्गशक्त्या भगवान् स कुठाराभिधानया ।
छिनत्ति बन्धमूलान् यः कर्मवृक्षांस्तु कर्मिणाम् ॥ ३४१ ॥
तमेव द्विभुजं ध्यायेदुदयादित्यवर्चसम् ।
कृष्णैणचर्मवसनं सत्कुठारकराङ्कितम् ॥ ३४२ ॥
दशेन्द्रियाननं घोरं यो मनोरजनीचरम् ।
विवेकशरजालेन शमं नयति योगिनाम् ॥ ३४३ ॥
ध्येयः स एव विश्वात्मा सतोयजलदप्रभः ।
रक्तराजीवनयनो धनुश्शरकराङ्कितः ॥ ३४४ ॥
वाग्वेदमण्डलं यो वै स्वरूपद्युतिलक्षणम् ।
स्वयं स्वोत्थं विभजति त्रिधा पश्यन्तिपूर्वकम् ॥ ३४५ ॥
बोधमारुतहत्पूर्वस्थानेष्वभ्युदितं क्रमात् ।
स्मर्तव्यः सोऽपि भगवानतसीकुसुमद्युतिः ॥ ३४६ ॥
वहन्वै वामहस्तेन सर्वशास्त्रार्थपुस्तकम् ।
दक्षिणेन तु शास्त्रार्थमादिशंश्च यथास्थितम् ॥ ३४७ ॥
युगानुसारिभेदानामवेदजननाय च ।
विभजंस्तु चतुर्धानाम वेदमेकं त्रिकालवित् ॥ ३४८ ॥
दानधर्मरतानाञ्च यागयज्ञानुयाजिनाम् ।
तपःस्वाध्यायसक्तानां मुक्तानां वै पुनर्भवात् ॥ ३४९ ॥
संरक्षणाय योग्यत्वविज्ञानव्यक्तयेऽपि च ।
समुदेति जगन्नाथस्तेषां हृत्कमलावनेः ॥ ३५० ॥
मनोवाजिनमाक्रम्य त्वादायात्मगुणायुधान् ।
नूनमुत्पाटयत्याशु जन्मान्तरशतोत्थितम् ॥ ३५१ ॥
वैषयं वासनाजालं शुद्धविज्ञानसिद्धये ।
ध्यायेद्हर्यभं तं वै तनुत्रावृतविग्रहम् ॥ ३५२ ॥
सितोष्णीषललाटञ्च नातिदीर्घजटाधरम् ।
द्रवत्कनकवर्णाभमिषुधिद्वयमध्यमम् ॥ ३५३ ॥
शरचापकरव्यग्रं खड्ग कुन्तकुठारिणम् ।
यज्ञाध्ययनदानादि परिरक्षन्तमेव हि ॥ ३५४ ॥
शान्तयन्तमवर्णाश्चाप्यधर्मनिरतात्मनः ।
सर्वतत्त्वाश्रयं तत्त्वं सर्वशक्तिमयं विभुम् ॥ ३५५ ॥
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
निःशेषभुवनानाञ्च ध्यातव्यं तदधःस्थितम् ॥ ३५६ ॥
अनन्तशयनारूढं कल्पान्तहुतभुक्प्रभम् ।
ज्वलज्ज्वालावलीयुक्तं ज्वलनांशुविवेष्टितम् ॥ ३५७ ॥
चक्राद्यायुधवृन्देन मूर्तेन परिवारितम् ।
स्थिताङ्घ्रिदेशतो लक्ष्मीश्चिन्ता दक्षिणतो विभोः ॥ ३५८ ॥
मूर्धदेशगता निद्रा पुष्टिस्तद्वामतः स्थिता ।
प्रधानदेवताध्यानमिदमुक्तं समासतः ॥ ३५९ ॥
यज्ज्ञात्वा विनिवर्तन्ते जन्ममृत्युजरारुजः ।
नास्त्रैर्वस्त्रैर्ध्वजैर्येषां व्यक्तिर्व्यक्ता जगत्त्रये ॥ ३६० ॥
तेऽपि लाञ्छनवृन्दन्तु धारयन्त्वङ्घ्रिगोचरे ।
ललाटे चांसपट्टे तु पृष्ठे पाणितलद्वये ॥ ३६१ ॥
तनूरुहचये मूर्ध्नि कर्मिणां प्रतिपत्तये ।
अपि संसारिणो जन्तोः स्वभावाद्वैष्णवस्य च ॥ ३६२ ॥
न जहात्यच्युतं लिङ्गं किं पुनर्विभवाकृतेः ।
सर्वेषां कामचारित्वं यदुक्तं वै मया पुरा ॥ ३६३ ॥
तदङ्घ्रिभुजवर्णास्यबृहन्मध्यानुलक्षणः ।
एकाद्यनेकसङ्ख्यश्च दृश्यं सर्वत्र सर्वदा ॥ ३६४ ॥
न त्वन्यरूपता कार्या करणं कामरूपता ।
यस्मादस्मिन् पृथग्भूतो व्यापारो विश्वमन्दिरे ॥ ३६५ ॥
देवानां स्थितिसंहारसृष्टिकाले स्वकः स्वकः ।
सत्येवं नियमे सिद्धे तथापि भगवद्वशात् ॥ ३६६ ॥
चातुरात्म्यसमूहात्तु यत्पद्मदलभूस्थितम् ।
तथा विभवदेवानां मध्यात् पद्मदलेक्षणम् ॥ ३६७ ॥
एकस्त्वनुग्रहार्थं तु शक्त्यात्मा भावितात्मनाम् ।
बिभर्ति बहुभेदोत्थं रूपं सद्वाहनस्थितम् ॥ ३६८ ॥
यदनुस्मरणाद्ध्यानादर्चनादचिरात्पुमान् ।
प्राप्नोति मनसोऽभीष्टं तन्मे निगदतः शृणु ॥ ३६९ ॥
सत्यः सुपर्णो गरुडस्तार्क्ष्यश्च विहगेश्वरः ।
पञ्चात्मकस्य प्राणस्य विकारस्त्वेष पञ्चधा ॥ ३७० ॥
आचाङ्घ्रिगोचरात्सर्वं यस्य देहस्तु पौरुषः ।
द्विभुजस्तुहिनाभश्च स सत्यः प्राणदैवतम् ॥ ३७१ ॥
सुपर्णः पद्मरागाभो निर्मलः स्वर्णलोचनः ।
गरुडः काञ्चनाभस्तु कुटिलभ्रूरक्तलोक्षणः ॥ ३७२ ॥
केकराक्षस्तु तार्क्ष्यो वै प्रावृड्जलदसन्निभः ।
द्रवत्कनकनेत्रस्तु शबलाभस्तु पञ्चमः ॥ ३७३ ॥
चतुर्भुजाः सुपर्णाद्याः सौम्यरूपास्त्वनाकुलाः ।
पतत्रिचरणाः सर्वे पक्षमण्डलमण्डिताः ॥ ३७४ ॥
लम्बोदराः सुपीनाङ्गाः कुण्डलाद्यैस्तु भूषिताः ।
कुटिलभ्रूसुवृत्ताक्षा वक्रतुण्डाः स्मिताननाः ॥ ३७५ ॥
अपानादिसमीरणामाधिपत्येन संस्थिताः ।
महाबला महाकाया रक्ततुण्डोऽत्र पञ्चमः ॥ ३७६ ॥
आधेयचरणाधःस्थ सव्यं आद्यस्य वै करः ।
दक्षिणश्चाक्षसूत्रेण सुसितेन च भासितः ॥ ३७७ ॥
एवमेव सुपर्णस्य परिज्ञेयं भुजद्वयम् ।
नाभ्युदेशेऽपरो वाम उत्तानस्तु सविस्मयः ॥ ३७८ ॥
पुष्पस्तबकसम्पूर्ण ऊर्ध्ववक्त्रस्तु दक्षिणः ।
गरुडस्य द्वयं विद्धि हृद्देशेऽञ्जलिरूपिणम् ॥ ३७९ ॥
तत्रैव सम्पुटाकारं चतुर्थस्य करद्वयम् ।
दक्षिणेऽमृतकुम्भस्तु वामे तु विषमः फणी ॥ ३८० ॥
पञ्चमस्य द्वयं शेषं त्रयाणाञ्च द्वयोस्समम् ।
आधेयचरणाक्रान्तो यदि वै दक्षिणः करः ॥ ३८१ ॥
सञ्चारो विहितो वामे त्वक्षसूत्रस्य वै तदा ।
आधेयचरणाधः स्थं यस्य पाणितलद्वयम् ॥ ३८२ ॥
निरस्तसूत्रं तं विद्धि वाहनं भगवन्मयम् ।
अनुग्रहपरस्त्वास्ते पक्षिपक्षाब्जविष्टरे ॥ ३८३ ॥
स्वतेजोनिजसामर्थ्यमसूरकवरान्विते ।
पद्मासनादिना चैव केवलं वा श्रियान्वितः ॥ ३८४ ॥
सुव्यक्तावयवस्थित्या विद्धि तं गरुडासनम् ।
मेढ्रभूः सोदरास्त्वेव गोपिता वेगगामिना ॥ ३८५ ॥
वीर्यपातात् स्वशिरसा गच्छताक्षाण्डजेन तु ।
लोकान्तराणां कार्यार्थं वात्सल्याद्ध्यायिनामपि ॥ ३८६ ॥
प्रत्यक्षदर्शनार्थन्तु स्मृतो गरुडवाहनः ।
तस्माद्भगवतो विष्णोरेवंरूपधरस्य तु ॥ ३८७ ॥
समाहूतस्य सिद्ध्यर्थमासीनां संस्मरेत्स्थितिम् ।
उपसंहृतवामाङ्घ्रिः कञ्जस्थो वा खगस्थितः ॥ ३८८ ॥
वाममिच्छाफलानां यत् ध्वंसयत्यन्यचिन्तितम् ।
आजानोर्दक्षिणस्यैवमविक्षिप्ते स्मृतोऽच्युतः ॥ ३८९ ॥
आमोक्षात्सर्वसिद्धीनां दक्षिणे ध्यायिनां भवेत् ।
सर्वमेव ऋजुस्थित्या संस्थितश्चार्थिनां स्मृतः ॥ ३९० ॥
स्वस्तिकाद्यैर्भवत्येव किन्तु ते वाहनं विना ।
विहिता पीठकल्हारसिंहासनगतस्य च ॥ ३९१ ॥
विहगाधिपतिश्चात्र योगैश्वर्याद्बिभर्ति च ।
स्ववक्त्रं भुजवृन्दन्तु नागेन्द्रास्त्रवरान्वितम् ॥ ३९२ ॥
विभोराज्ञावशेनैव तुष्ट्यर्थं वा स्वयं विभोः ।
जगज्जयोदयार्थन्तु शान्तये शरणैषिणाम् ॥ ३९३ ॥
विभिन्नेन च रूपेण नानालोकान्तरेषु च ।
अनिरुद्धातिवीरो विचरत्येक एव हि ॥ ३९४ ॥
तदारूढस्य यद्रूपं शक्तीशस्य च सांप्रतम् ।
अनेकभेदभिन्नं तु निबोध गदतो मम ॥ ३९५ ॥
संयच्छन्तं सदा शान्तिं भविनां दक्षिणेन तु ।
प्रोद्वहन्तञ्च वामेन शङ्खं पूर्वोक्तलक्षणम् ॥ ३९६ ॥
द्विभुजस्य त्विदं रूपं शक्तीशस्य तु केवलम् ।
रूपेणानेन च पुनः षोढा समुपयाति च ॥ ३९७ ॥
सहकान्तागणेनैव त्वेकाद्येन पृथक् पृथक् ।
प्राग्वल्लक्ष्म्या समेतं यदेकं रूपमैश्वरम् ॥ ३९८ ॥
श्रीपुष्ट्योस्तु मध्यस्थं द्वितीयं परिकीर्तितम् ।
श्रियादिमायानिष्ठेन चतुष्केणावृतं परम् ॥ ३९९ ॥
शुद्ध्यादिकेन षट्केन चतुर्थं विद्धि सांप्रतम् ।
पुष्ट्यन्तेन श्रियाद्येन त्वष्टकेन तु पञ्चमम् ॥ ४०० ॥
लक्ष्म्याद्येन द्विषट्केन षष्ठं विद्धि समन्वितम् ।
श्रीदेवी कीर्तिदेवी च जयादेवी हलायुधा ॥ ४०१ ॥
चतुर्थी भगवन्माया विश्वस्यास्य निबन्धिनी ।
शुद्धिर्निरञ्जना नित्या ज्ञानशक्त्यपराजिते ॥ ४०२ ॥
प्रकृतिः सुन्दरी षट्कमित्युक्तं सर्वसिद्धिदम् ।
लक्ष्मीः शब्दनिधिः सर्वकामदा प्रीतिवर्धनी ॥ ४०३ ॥
यशस्करी शान्तिदा च तुष्टिदा पुष्टिदाष्टकम् ।
द्विषट्कवैभवे योगे देवीनां कीर्तितं हि यत् ॥ ४०४ ॥
लक्ष्म्याद्यं तच्च बोद्धव्यं भेदेऽस्मिन्पारमेश्वरे ।
पुनश्चतुर्भुजस्यैवं विशेषं भेदसप्तकम् ॥ ४०५ ॥
किन्तु वै शङ्खचक्रे द्वे वामहस्तद्वयेन तु ।
जगत्यस्मिन् हि यच्छन्तं शान्तिमाद्येन शाश्वतीम् ॥ ४०६ ॥
प्रोद्वहन्तं द्वितीयेन त्वपसव्येन वै गदाम् ।
भूयः करचतुष्केन पूर्वोक्तेन क्रमेण तु ॥ ४०७ ॥
चतुर्णामम्बुजपूर्वाणामन्योन्यत्वेन धारणात् ।
धत्ते द्वादशधा रूपं निश्शक्तीकं च केवलम् ॥ ४०८ ॥
पुनर्द्विदशकं तच्च सह शक्तिद्वयेन तु ।
स्थितमेकाधिेनैव षोढा कमललोचन ॥ ४०९ ॥
एवं चतुर्भुजेनैव वपुषा बहुधा स्थितम् ।
सप्तधा षड्भुजाद्येन भुजाधिक्येन वा पुनः ॥ ४१० ॥
स्थितस्त्वनेकधा देवो यथा तदवधारय ।
षड्बाहुरष्टबाहुश्च दशद्वादशबाहुधृक् ॥ ४११ ॥
द्विसप्तषोडशकरस्तथाष्टादशभूषितः ।
केवलादिश्च सर्वेषां प्राग्वदेतस्तु सप्तधा ॥ ४१२ ॥
तन्मे शृणु यथावस्थमस्त्रविन्यासचिह्नितम् ।
षड्भुजो दक्षिणैर्धत्ते निस्त्रिंशं कमलं गदाम् ॥ ४१३ ॥
सशरं कार्मुकं शङ्खं वामैरस्त्रोत्तमं त्रिभिः ।
गदामुसलचक्रासीनष्टबाहुस्तु दक्षिणैः ॥ ४१४ ॥
शङ्खमङ्कुशपाशौश्च वामैस्तु सशरं धनुः ।
खड्गबाणगदापद्मशक्तियुक्तास्तु दक्षिणाः ॥ ४१५ ॥
दशबाहोर्धनुश्शङ्खचक्रखेटाश्च साभयाः ।
षण्णां दक्षिणहस्तानां द्विषट्कभुजभूषितः ॥ ४१६ ॥
सन्धत्ते कमलं खड्गचक्रबाणगदाङ्कुशान् ।
शङ्खपाशाभयं शक्तिं सव्यानां मुसलं धनुः ॥ ४१७ ॥
चतुर्दशभुजो धत्ते वामे तु भुजसप्तके ।
शङ्खं गदाङ्कुशौ पाशं मुसलं मुद्गरं हलम् ॥ ४१८ ॥
दण्डाब्जकुलिशं चक्रं खड्गशक्तिपरश्वधान् ।
बिभ्रत्यात्तोऽष्टभुजो मुख्यहस्तैः समुद्रान् ॥ ४१९ ॥
अभयं कमलं खड्गं शक्तिदण्डशराङ्कुशान् ।
शङ्खचक्रगदावज्रपाशलाङ्गलकार्मुकान् ॥ ४२० ॥
वरं कराष्टकेनैव धत्ते सव्येन विश्वजित् ।
पद्मखड्गगदावज्रचक्रबाणवराङ्कुशान् ॥ ४२१ ॥
दण्डं दक्षिणहस्तैस्तु धत्तेऽष्टादशबाहुधृक् ।
शङ्खाभयो हलं शक्तिं मुद्गरं मुसलं धनुः ॥ ४२२ ॥
कुठारमतुलं पाशं विभुर्मुजैरेभून् ।
बिभर्ति दुष्टशान्त्यर्थं साधूनां पालनाय च ॥ ४२३ ॥
भूयो विशेषरूपाणि एतान्येव विशेषतः ।
सद्वक्त्रद्वयमात्रेण नयत्यमितविक्रमः ॥ ४२४ ॥
सिंहतेजोऽसहिष्णूनां पितृयानरतात्मनाम् ।
अङ्गनादिकसंसारभीतानां वै हिताय च ॥ ४२५ ॥
अमृते वै ग्रहे भागे तैजसे नित्यदक्षिणे ।
वामदक्षिणवक्त्राभ्यां कुर्याद्वै व्यत्ययं प्रभुः ॥ ४२६ ॥
वृद्ध्येऽपि च शान्त्यर्थं तेजसः पद्मलोचनः ।
हेतुना तेन भगवान् बहिरन्तर्गतेन वै ॥ ४२७ ॥
अग्नीषोमौ समीकृत्य त्वास्ते साधारणात्मना ।
व्यक्तिं वागीशवक्त्रन्तु नीत्वैवं शिरसोपरि ॥ ४२८ ॥
पञ्चवक्त्रेण वपुषा त्वामूलाद्यात्यनेकधा ।
शब्दब्रह्मरतानां च ध्यायिनामात्मसिद्धये ॥ ४२९ ॥
आपातालाच्च सर्वेषां लोकानां पूरणाय च ।
नानावपुर्धरो भूयस्त्वेकेनैष याति च ॥ ४३० ॥
भेदेन रूपमाश्रित्य दशधा च सितादिकम् ।
विना वक्त्रैर्नृसिंहाद्यैः सर्वज्ञमहिमान्वित ॥ ४३१ ॥
बिभर्ति रूपाण्येतानि त्वनिरुद्धस्तु तार्क्ष्यकम् ।
एवमाक्रम्य गरुडं प्रद्युम्नो बिभृयात्तनुम् ॥ ४३२ ॥
नानात्वमपि चाप्येति सङ्कर्षणः सुपर्णगः ।
देवस्सत्योमस्तु स्थित्वा विश्वात्मा यात्यनेकधा ॥ ४३३ ॥
सुरसिद्धमनुष्यादिभूतानां दुःखशान्तये ।
चतुर्णां ये निजा वर्णास्ते तु मूर्त्यन्तरेषु च ॥ ४३४ ॥
चतुर्भुजस्यादिमूर्तेर्विष्णोर्मूर्त्यन्तरस्य च ।
वर्णलाञ्छनतुल्यत्वे भेदकृत्सध्वजद्वयम् ॥ ४३५ ॥
अपसव्यस्थितेनैव तत्तालाख्यध्वजेन तु ।
स्वरूपभेदमाप्नोति स्वमूर्त्या सह सर्वदा ॥ ४३६ ॥
यस्मात्कार्यवशेनैव मूर्तीनामपि पाणिगाः ।
चतुः पद्मादयश्शान्ता मूर्ताऽमूर्तस्थयोद्धताः ॥ ४३७ ॥
इत्येवं भगवद्ध्यानं सर्वमूर्ते मुनीश्वराः ।
दिव्यायुधानां केषाञ्चिद्ध्यानमुक्तं पुरैव तु ॥ ४३८ ॥
शेषाणामायुधानान्तु ध्यानं वक्ष्येऽधुना द्विजाः ।
सन्ध्याजलदसङ्काशं लाङ्गलं भीमलोचनम् ॥ ४३९ ॥
क्षामाङ्गमुन्नतांसञ्च वज्रकायं बलोत्कटम् ।
स्वरश्मिखचितं ध्यायेन्नृत्यमानं च नन्दकम् ॥ ४४० ॥
शरदाकाशसङ्काशं दशन्तं दशनावलिम् ।
सूर्यमण्डलसङ्काशं खेटकं सौम्यमूर्तिकम् ॥ ४४१ ॥
ग्रसन्तमस्त्रपूगानि स्ववक्त्रेणानिशं बलात् ।
बद्धमुष्टिं स्मरेद्दण्डं रक्ताङ्गं रक्तलोचनम् ॥ ४४२ ॥
क्रोधमूर्तिं स्वदशनैर्दशन्तमधरं स्वकम् ।
शक्रकार्मुकवर्णञ्च परशुं भीमविग्रहम् ॥ ४४३ ॥
द्रवत्कनकनेत्रञ्च ज्वलज्ज्वालजटाधरम् ।
मुद्गरं शतधामाभं पीनांसं पृथुविग्रहम् ॥ ४४४ ॥
जटाकलापधृत्सौम्यं पुण्डरीकनिभेक्षणम् ।
वज्रं वज्रोपलाभन्तु स्थितं दीर्घनखाङ्कितम् ॥ ४४५ ॥
दंष्ट्राकरालवदनं ज्वलत्कनकलोचनम् ।
सौदामिनीप्रभां शक्तिं शान्ताग्निवदनेक्षणाम् ॥ ४४६ ॥
घनघर्घरनिर्घोषमुद्गिरन्तीं मुहुर्मुहुः ।
अन्यत्सर्वन्तु पूर्वोक्तं ध्यानमेषां मुनीश्वराः ॥ ४४७ ॥
अधिष्ठातृक्रमस्त्वेषामोषध्यो लाङ्गलं द्विजाः ।
नन्दकं सर्वशास्त्राणि खेटकं तु वसुधा स्मृता ॥ ४४८ ॥
ज्ञेयो हि दण्डो नियतिर्वैराग्यं परशुः स्मृतः ।
मुद्गरस्तु परिज्ञेयो ह्यहङ्कारो मुनीश्वराः ॥ ४४९ ॥
विज्ञानममलं वज्रं समाधिः शक्तिरुच्यते ।
भिन्नरूपस्य च विभोर्य उक्तः सुन्दरीगणः ॥ ४५० ॥
साधारश्चाप्यनाधारस्तासां ध्यानं क्रमाच्छृणु ।
चिन्ताऽऽखण्डलचापाभा लक्ष्मी रक्ताम्बुजप्रभा ॥ ४५१ ॥
पुष्टिः कनकगौरा च कीर्तिः कुमुदपाण्डुरा ।
जयार्ककान्तिसदृशी मायाऽञ्जननिभा स्मृता ॥ ४५२ ॥
शुद्धिः किंशुकसङ्काशा कुन्दाभा तु निरञ्जना ।
बन्धुजीवोज्ज्वला नित्या ज्ञानशक्तिः सिताऽरुणा ॥ ४५३ ॥
फुल्लेन्दीवरवर्णा च परिज्ञेयाऽपराजिता ।
रक्तोत्पलाभा प्रकृतिः सितपीता सरस्वती ॥ ४५४ ॥
सर्वकामप्रदा सिद्धिरिन्द्रनीलसमप्रभा ।
सिन्दूरपुञ्जवर्णाभा विज्ञेया प्रीतिवर्धनी ॥ ४५५ ॥
यशस्करी च दुग्धाभा शान्तिदा विद्रुमोज्ज्वला ।
तुष्टिस्तुहिनसङ्काशा दया वैडूर्यसन्निभा ॥ ४५६ ॥
निद्राऽयस्कान्तसदृशी क्षमा पीतारुणप्रभा ।
कान्तिदर्पणसङ्काशा धृतिर्गोरोचनोज्ज्वला ॥ ४५७ ॥
मैत्री बन्धुकपुष्पाभा रतिर्गैरिकसन्निभा ।
मतिर्मरकताभा वै सर्वाः प्रमुदितागुणाः ॥ ४५८ ॥
दिव्यमाल्याम्बरधरा नानालङ्कारभूषिताः ।
दिव्यस्रग्वेष्टनोपेता वीक्षमाणाः स्वकं पतिम् ॥ ४५९ ॥
चतस्रः शक्तयो यास्तु विभोः शयनगस्य तु ।
प्रागुक्तास्तत्र पूर्वाशावस्थिता वीजयन्त्यजम् ॥ ४६० ॥
त्रयं यद्दिक्क्रयस्थं तु तत्संवाहनतत्परम् ।
यत्रैका श्रीर्विभोस्तत्र सन्निवेशः पुरोदितः ॥ ४६१ ॥
यत्रैका श्रीर्विभोस्तत्र वामे वा दक्षिणेऽपि वा ।
श्रीपुष्ट्याख्यद्वयं यत्र तत्र तद्दक्षिणोत्तरे ॥ ४६२ ॥
पद्मासनेनोपविष्टं पक्षिपक्षद्वये स्थिता ।
नलिनीनालहस्ताद्या ह्यमृतकुम्भकरापरा ॥ ४६३ ॥
अग्नीषोममयो देह आद्यो यः सर्वगस्य च ।
तस्य शक्तिद्वयं तदुग्भिन्नं भिन्नलक्षणम् ॥ ४६४ ॥
भोक्तृशक्तिः स्मृता लक्ष्मीः पुष्टिर्वै कर्तृसंज्ञिता ।
भोगार्थमवतीर्णस्य तस्य लोकानुकम्पया ॥ ४६५ ॥
उदितं सह तेनैव शक्तिद्वितयमव्ययम् ।
नानात्वेन हि वै यस्य परिणामः प्रकाशितः ॥ ४६६ ॥
दिक्पत्रचतुरन्तःस्थं यद्वै देवीचतुष्टयम् ।
शक्तिः परशुपाशास्त्रमङ्कुशं तत्करे क्रमात् ॥ ४६७ ॥
षट्कं केसरजालस्थं तत्प्राक्पश्चिमे द्वयम् ।
द्वयं द्वयं सौम्ययाम्ये तासां वामकरेषु च ॥ ४६८ ॥
शङ्खचक्रगदासीरमिष्वस्त्रं नन्दकं सितम् ।
पत्रमध्यनिविष्टन्तु यत्कान्ताष्टकमुत्तमम् ॥ ४६९ ॥
तस्य वामकराणाञ्च विज्ञेयं त्वादितोऽष्टकम् ।
श्रीफलं चाक्षसूत्रं स्रग्दर्पणं पुष्पमञ्जरीम् ॥ ४७० ॥
विष्टरं किङ्किणी शास्त्रसञ्चयः कमलेक्षण ।
विज्ञेयः शक्तिदः पाणिर्द्वदशानान्तु साभयः ॥ ४७१ ॥
अन्तरान्तयोगेन सर्वाश्चामरलाञ्छिताः ।
स्वस्तिकेनोपविष्टाश्चाप्यन्तर्मुदितमानसाः ॥ ४७२ ॥
द्वयादिकस्यास्य सङ्घस्य द्वादशान्तस्य लाङ्गलिन् ।
सितादिकेन वर्णेन लाञ्छनव्यत्ययेन तु ॥ ४७३ ॥
तुल्यलाञ्छनयोगेन तन्निरासे च वै सति ।
वराभयाभ्यामन्योन्यपाणिभ्यामथ केवलात् ॥ ४७४ ॥
बहुधा भेदवृन्दं तु परिज्ञेयं तु पूर्ववत् ।
शेषं भवोपकरणदेवानां निचयो हि यः ॥ ४७५ ॥
सुप्रसिद्धो महाबुद्धे किं त्वब्जाद्यैस्तु पूर्ववत् ।
ध्यातव्या लाञ्छिताः सर्वे पाणिपादतलेषु च ॥ ४७६ ॥
भक्तिश्रद्धाव्रतपरः सर्वेषां यः सदैव हि ।
ध्यात्वैवमर्चनं कुर्याद् भोगैः सांस्पर्शपूर्वकैः ॥ ४७७ ॥
सोऽचिरान्मोक्षनिष्ठन्तु फलमाप्नोत्यभीप्सितम् ।
किरीटाद्यस्त्रनिष्ठेन परिवारेण चावृतम् ॥ ४७८ ॥
भक्त्या ह्यभीप्सितं रूपमर्चनीयमथापि वा ।
निर्मुक्तपरिवारं वा स्वेन ध्यानेन लक्षितम् ॥ ४७९ ॥
विदधात्यर्चनं नूनं स्वं पदं फलसंयुतम् ।
ज्ञात्वैवं साधकः कुर्याद् यथाभिमतमर्चनम् ॥ ४८० ॥
आत्मशक्तिसमैर्भोगैरखिलैः शुद्धविग्रहः ।
हृदि वेद्यां बहिर्मूर्तौ प्रासादे स्वगृहे तु वा ॥ ४८१ ॥
बहुप्राकारनिर्मुक्ते धूमदाहादिनोज्झिते ।
शरणे रमणीये च निस्सम्पर्के तु भाविते ॥ ४८२ ॥
इति श्रीपाञ्चरात्रे ईश्वरसंहितायां मुद्रालक्षणभगवद्ध्यानादिप्रकारो नाम चतुर्विंशोऽध्यायः ॥
Kapitel 25 – कुण्डस्रुक्स्रुवलक्षणहविःपाकविधानम् / kuṇḍasruksruvalakṣaṇahaviḥpākavidhānam
Siehe deutsche Übersetzung und Texthinweise.
नारदः ।
अतः परं प्रवक्ष्यामि कुण्डादीनां च लक्षणम् ।
शृणुध्वमवधानेन चेतसा मुनिपुङ्गवाः ॥ १ ॥
Unnummerierter Einschub; redaktionelle Kennung 1z.
पुरा मण्डलसिद्ध्यर्थं यथा क्षेत्रं विभाजितम् ।
तथैव भाजितात् क्षेत्राच्चतुरश्रान्महामते ॥ पूर्वोद्दिष्टानि धिष्ण्यानि यथा कार्याणि तच्छृणु ।
पञ्चमं ब्रह्मकर्माद्यं मर्म प्राग्दिश्यवस्थितम् ।
अंशदीर्घेण तत्स्थेन कुर्यात्सूत्रेण लाञ्छनम् ॥ २ ॥
अर्धचन्द्रसमाकारं भागयुग्मस्य चान्तरे ।
दक्षिणोत्तरभागाभ्यां तदधस्तत्समं तथा ॥ ३ ॥
लाञ्छनद्वितयं कुर्यात् तिर्यक्संस्थानसंस्थितम् ।
भागद्वादशकस्यैक्यं स्यात्पङ्क्तिद्वितयाद्यथा ॥ ४ ॥
ब्रह्मकर्मचतुर्थं यत् संख्यामानं च पूर्ववत् ।
मर्म तस्य च पक्षस्थावेकं मर्मान्तरीकृतौ ॥ ५ ॥
ताभ्यामवस्थितेनैव सूत्रेणैतत् प्रजायते ।
पुनर्मध्याद्द्वितीयं यद् कर्म चोर्ध्वं प्रवर्तते ॥ ६ ॥
तस्माद्वै त्र्यन्तरीभूतं चतुर्थं पक्षयोर्द्वयोः ।
मर्म तत्स्थेन सूत्रेण वृत्तार्धं पूर्ववल्लिखेत् ॥ ७ ॥
ब्रह्मकर्मणि षष्ठस्य प्रत्यग्दिक्संस्थितस्य च ।
मर्मणोऽप्यथ वै सूत्रं कृत्वा तत्सम्प्रसार्य च ॥ ८ ॥
यावद्वृत्तार्धबुध्नस्थं शृङ्गकोटेस्तु सन्निधिम् ।
एवं सूत्रद्वये दत्ते धिष्ण्यः शङ्खाकृतिर्भवेत् ॥ ९ ॥
तस्य भागसमा कार्या लाञ्छनैर्मेखला बहिः ।
पूर्वोक्तमर्मभिः सूत्रैर्यथा तदवधारय ॥ १० ॥
द्वयंशदीर्घेण सूत्रेण नवचन्द्रकलासमम् ।
चतुर्णामन्तरंशानां प्राग्दिक्कुर्याच्च लाञ्छनम् ॥ ११ ॥
ईशवह्निपदाभ्यान्तु वृत्तातुर्यांशसंस्थिते ।
द्वे लाञ्छने समे कुर्यादेकभागाधिके ततः ॥ १२ ॥
तत्समे ह्यपरे द्वे वै यत्तदा लाञ्छ्य लाञ्छनैः ।
दक्षिणोत्तरभागाभ्यां पक्षात्सूत्रद्वयं क्षिपेत् ॥ १३ ॥
कृत्वा सप्तकमर्मस्थं पूर्वोद्दिष्टक्रमेण तु ।
जीवसूत्रस्य पाश्चात्ये भागे पार्श्वद्वये स्थितम् ॥ १४ ॥
भागद्वयं द्वयं लाञ्छ्यं योन्यर्थं चार्धवृत्तवत् ।
तच्छृङ्गकोटिगे सूत्रे कृत्वा ते सम्प्रसार्य च ॥ १५ ॥
खातभूभागपर्यन्तं तत्पादाद्वटपत्रवत् ।
जायते सर्वकुण्डानां योनिरेवंविधा शुभा ॥ १६ ॥
भागार्धमानसूत्रेण योनेरभ्यन्तरे पुनः ।
अर्धवृत्तद्वयं दद्यात् तद्वत् सूत्रद्वयान्वितम् ॥ १७ ॥
खातस्यान्तर्गतो वर्ज्यश्चतुर्थांशस्तु कोष्ठकात् ।
ओष्ठार्थं निखनेच्छेषं तत्समं वा पुरोदितम् ॥ १८ ॥
दैर्घ्यात्पादाधिका कार्या योनिर्वै पृष्ठतोन्नता ।
गजोष्ठसदृशी चाग्रात् स्पृशन्ती दशनच्छदम् ॥ १९ ॥
पुरोभागचतुर्थांशं योनेरग्राद्विसृज्य तु ।
दद्यात्प्राक्सूत्रसम्बन्धं सूत्राणां द्वितयं परम् ॥ २० ॥
अनुपातेन वै ताभ्यामग्रात्सङ्कोचमाचरेत् ।
भागपङ्क्तित्रयेणैव मेखलात्रितयं बहिः ॥ २१ ॥
सम्पाद्य चतुरश्रं तु शङ्खं तत्त्रितयोपरि ।
आशङ्खान्मेखलानान्तु प्रोन्नतत्वं सविस्तृतेः ॥ २२ ॥
मेखलानान्तु शङ्खस्य यन्मध्येऽश्रचतुष्टयम् ।
तच्चक्रचिह्नितं कुर्यात् तल्लक्षणमथोच्यते ॥ २३ ॥
ब्रह्मकर्मनिरुद्धेन चतुर्भागसमेन तु ।
खातार्थं प्राग्भ्रमं दद्यात् क्षेत्रमध्ये महामते ॥ २४ ॥
बहिर्भागसमानाभिस्तद्बहिर्द्व्यंशविस्तृतम् ।
अरक्षेत्रञ्च तस्यापि नेमिर्भागसमा बहिः ॥ २५ ॥
भागेन तद्बहिस्त्वेका चतुरश्रा च मेखला ।
भ्राम्य मध्यादरक्षेत्रं वृत्तेनैकेन वै पुनः ॥ २६ ॥
तत्र सूत्राष्टकं दद्याद्दिग्विदिक्संस्थितं पुरा ।
तस्य चान्तर्गतं पश्चादष्टकं पातयेत्परम् ॥ २७ ॥
ततस्तेषां समापाद्यमरत्वममलेक्षण ।
अन्तर्वृत्तं निरुद्धेन प्रतिसूत्रस्य पक्षयोः ॥ २८ ॥
सूत्रेण लाञ्छनं कुर्यान्नाभिनेमिभ्रमावधेः ।
एकांशार्धमाने च नेमिवृत्तस्य चान्तरे ॥ २९ ॥
द्वाभ्यां द्वाभ्यामराभ्यान्तु मध्ये कुर्यात्प्रधिं प्रधिम् ।
विस्तारप्रोन्नता नाभिः कूर्मपृष्ठोपमास्त्वरा ॥ ३० ॥
नेमिर्दर्पणवत्कार्या त्विषन्निम्नावसानतः ।
शिष्टं पुरोदितं सर्वमथ पद्माकृतिं शृणु ॥ ३१ ॥
भागार्धं भ्रामयेन्नाभेर्बहिः केसरसिद्धये ।
भ्रामयेदपरं चार्धमरक्षेत्रस्य बाह्यतः ॥ ३२ ॥
नीत्वा लोपमनेनैव विधिना नेमिमण्डलम् ।
अरसूत्रभ्रमं कुर्यादन्तः पद्मदलाष्टकम् ॥ ३३ ॥
केसरभ्रमरुद्धेन सूत्रेणार्धेन्दुलक्षणम् ।
तच्छृङ्गकोटिसंस्थेन परिधेर्बाह्यकेन तु ॥ ३४ ॥
सूत्रद्वयेन पत्राग्रं कुर्याद् बाह्यभ्रमावनेः ।
निरन्तराणामामूलात् केसराणां महामते ॥ ३५ ॥
कर्णिकोच्छ्रायतुल्यानां विभागं जनयेत् स्फुटम् ।
शङ्खकोणचतुष्के तु शेषं पूर्ववदाचरेत् ॥ ३६ ॥
योनिरेकेन भागेन चतुर्भिर्मेखलागणम् ।
खातं पूर्वसमं किन्तु वृत्ते वृत्तास्तु मेखलाः ॥ ३७ ॥
चतुरश्रे तदाकारा इत्युक्तं कुण्डपञ्चकम् ।
कालमाहुतिसङ्ख्यां च होमद्रव्यप्रभूतताम् ॥ ३८ ॥
ज्ञात्वैकैकहस्तात्तु कुर्यादष्टकरावधि ।
ततः स्रुक्स्रुवयोरद्य लक्षणं चोच्यते द्विजाः ॥ ३९ ॥
स्वबाहुदण्डमानेन मन्त्रज्ञः कल्पयेत्पुरा ।
दैवीस्रुक्सिद्धये काष्ठविस्ताराच्च षडङ्गुलम् ॥ ४० ॥
दैर्घ्याद्भागद्वयेनाथ दण्डमष्टाश्रमुच्यते ।
सार्धद्व्यङ्गुलमानन्तु कृत्वा शेषं तु शोधयेत् ॥ ४१ ॥
कमलं दण्डमूले तु कुर्यात्त्वाननं शुभम् ।
कर्णिकास्थो यथा दण्डो भवेद्वै मुनिसत्तम ॥ ४२ ॥
त्रिवलिं त्वथ वा शङ्खं यथादण्डस्तदास्यगः ।
कृत्वाग्रस्थं द्विधा भागं समांशेन प्रयत्नतः ॥ ४३ ॥
द्व्यङ्गुलं चाथ भागस्य वैपुल्यं चाग्रतः क्रमात् ।
दण्डावस्थस्य भागस्य त्र्यङ्गुलं परितस्समम् ॥ ४४ ॥
दत्त्वा भ्रमं ततः कुर्यात् निम्नं खातं सुलक्षणम् ।
तन्मध्ये पद्मजं कुर्यात्फुल्लं चोर्ध्वपल्लवम् ॥ ४५ ॥
आज्यकोशं तु तं विद्धि सप्तपञ्चफलोपमम् ।
पद्ममध्ये निमग्ना च कर्णिका वै सकेसरा ॥ ४६ ॥
द्वादशारं बहिश्चक्रं पद्मस्याष्टदलस्य च ।
पद्मबाह्ये तु कर्तव्यं शङ्खं कोणचतुष्टये ॥ ४७ ॥
तदीयभागस्य मुने पार्श्वयोरुभयोरपि ।
एकैकमङ्गुलं शोध्यं संविभज्य त्रिधा ततः ॥ ४८ ॥
कर्णमेकेन भागेन मध्ये त्वास्यं द्वयेन तु ।
विच्छिन्नं वक्त्रमंसाभ्यां मध्यमेकाङ्गुलेन तु ॥ ४९ ॥
विस्तारं कर्णतुल्यन्तु वर्जयित्वा ततः पुरा ।
कर्णदेशात्समारभ्य शेषन्तु परिशोधयेत् ॥ ५० ॥
क्रमागतेन सूत्रेण स्याद्वाराहाननं यथा ।
ततः पुष्करपर्णान्तु मुखाग्रं यावदेव हि ॥ ५१ ॥
कुर्यादाज्यप्रणालं तु समन्यूनाङ्गुले मुने ।
ईषच्च क्रमसूक्ष्मञ्च नाज्यं याति यथा द्रुतम् ॥ ५२ ॥
हस्तमानं ततः कुर्यात् स्रुवं विप्र मनोरमम् ।
विस्तारं द्व्यङ्गुलं काष्ठं वैपुल्याच्च तदर्धतः ॥ ५३ ॥
विस्तारमानाद्ये स्याद्वृत्तं कुर्याद्द्विरङ्गुलम् ।
क्रमात्तं निम्नखातञ्च गोलकेनैव मुद्रितम् ॥ ५४ ॥
मध्ये मृगपदाकारचिह्नेन तु विराजितम् ।
विस्तारस्य त्रिभागेन ग्रीवा साग्रात्रिरङ्गुला ॥ ५५ ॥
मूले चोभयतः कुर्यात्स्वस्तिकं द्व्यङ्गुलायतम् ।
विचित्ररचनायुक्तदण्डं श्लक्ष्णं तु वा भवेत् ॥ ५६ ॥
स्रुवमेवंविधं कुर्याद्धोमकर्मणि साधकः ।
ततस्तु प्रापणादीनां साधनं शृणुत द्विजाः ॥ ५७ ॥
शालिमुद्गयवा माषा गोधूमाश्च प्रियङ्गवः ।
तिलाः सप्त इमे ग्राह्या ग्राम्या वै चरुकर्मणि ॥ ५८ ॥
वेणुश्यामाकनीवारा जर्तिलाश्च गवीधुकाः ।
कर्कटाः कनकाः सप्त विज्ञेयास्तु वनोद्भवाः ॥ ५९ ॥
शालयस्तेषु मुख्याः स्युस्तदन्यास्तदभावतः ।
रक्तशालयो महाशाल्यः कलमा गन्धशालयः ॥ ६० ॥
श्वेतशालयः ससूकाश्च हेमाभा गर्भशालयः ।
सुकुमाराश्च सूक्ष्माश्च दशैते शालयस्स्मृताः ॥ ६१ ॥
अन्तर्भेदाश्च बहवः सप्तमुद्गा उदाहृताः ।
मुद्गाः कृष्णाश्च हेमाश्च श्वेताः पीता महत्तराः ॥ ६२ ॥
अञ्जनाभश्च सप्तैते अन्तर्भेदा उदाहृताः ।
श्वेताः कृष्णाश्च पीताश्च वन्याश्चैव महातिलाः ॥ ६३ ॥
तिलानां पञ्चभेदास्तु ग्राह्याः स्युः परिकीर्तिताः ।
उपाहृतानि केदाराद्दैवीयाच्च कृषीवलैः ॥ ६४ ॥
शालिमुद्गादिभेदानि कर्मण्यर्चने हरेः ।
अवपातादिभिर्दोषैरष्टभिर्वर्जितानि च ॥ ६५ ॥
आनयेदवघातार्थं अवघातगृहे पुरा ।
गोमयेन समालिप्ते सुधायैः परिमण्डिते ॥ ६६ ॥
शोधिते शतधारेण पवित्रेण कुशाम्बुभिः ।
स्थले प्रणवमुच्चार्य प्राङ्मुखो वाऽप्युदङ्मुखः ॥ ६७ ॥
दीक्षितैर्नियतैर्विप्रैर्धृतचक्रादिलक्षणैः ।
सुस्नातैर्लौहदार्वश्ममृण्मयानि समन्ततः ॥ ६८ ॥
स्थापयित्वोलूखलानि क्षालितैः खादिरैर्दृढैः ।
मुसलैस्त्ववहन्यन्ते द्वादशाक्षरविद्यया ॥ ६९ ॥
निस्तुषान्निष्कणान् कृत्वा तण्डुलान् शूर्पकोटरैः ।
तैस्तावदवहन्तव्या यावन्मुक्ताफलप्रभाः ॥ ७० ॥
अखण्डिताश्चानणवः कृष्णबिन्दुविवर्जिताः ।
मुद्गभेदास्तथा कार्याः सारवन्तश्च निस्तुषाः ॥ ७१ ॥
साध्वीभिर्ब्राह्मणीभिर्वा दीक्षितानामभावतः ।
शूद्रैर्वा दीक्षितैर्देवदासीभिर्देवसद्मनि ॥ ७२ ॥
हविःपाकादिकर्मार्थं कार्याऽवहननक्रिया ।
वैष्णवानां गृहे शुद्धे दीक्षितानां गृहेऽपि वा ॥ ७३ ॥
तण्डुलांस्तु प्रगृह्णीयाद्द्विष्गुणांस्तु देशिकः ।
अकणानतुषानेव क्रिमिहीनानपि क्रमात् ॥ ७४ ॥
केशपाषाणहीनांस्तु प्राण्यङ्गरहितांस्तथा ।
भस्माङ्गारविहीनांस्तु अभग्नानलघूनपि ॥ ७५ ॥
कणैस्तु भवति व्याधिस्तुषैर्दारिद्रकं भवेत् ।
कृमिभिः पुत्रनाशस्स्यात् केशैर्दारविनाशनम् ॥ ७६ ॥
पाषाणैर्मरणं विद्धि अशन्या वह्निना जलेः ।
प्राण्यङ्गैर्व्याधयः प्रोक्ता भस्मना कलहो ध्रुवः ॥ ७७ ॥
अङ्गारैर्वह्निना बाधो भग्ने भङ्गस्तु विग्रहे ।
प्रवासो लघुभिश्चैव तस्मात्तान्परिवर्जयेत् ॥ ७८ ॥
सम्भारानखिलानेवं प्राक्सङ्कल्पितसम्मतान् ।
संभृत्य देशिकस्सार्धं साधकैः पाचकैरपि ॥ ७९ ॥
अवघातगृहं प्राप्य तत्रस्थं तण्डुलादिकम् ।
ब्रह्मशुक्रमिवेत्युक्त्वा नेत्रेणैवावलोकयेत् ॥ ८० ॥
प्राग्वत्संशोध्यतानि दहनाप्यायनादिभिः ।
पैत्तलादिषु शुद्धेषु पात्रेषु विततेष्वपि ॥ ८१ ॥
पचनार्थं समुद्धृत्य तत्सर्वं तण्डुलादिकम् ।
तत्तत्पात्रसमुद्धारो निपुणैः परिचारकैः ॥ ८२ ॥
सुस्नातैश्च सुवेषैश्च वस्त्रेणाच्छादिताननैः ।
आनयेत् पचनागारं शङ्खतूर्यादिमङ्गलैः ॥ ८३ ॥
द्वारस्योत्तरपार्श्वे तु गोमयेनोपलेपिते ।
प्रदेशे निक्षिपेत्तानि भाजनानि यथाक्रमम् ॥ ८४ ॥
गुलोपदंशपूर्वाणि लवणादिरसानि च ।
विन्यसेद् वायुदिग्भागे दधिक्षीरघृतानि च ॥ ८५ ॥
निरृत्याश्रिते भागे होमोपकरणान्यपि ।
चतुर्भिर्व्यापकैर्मन्त्रैर्वस्त्रपूतेन वारिणा ॥ ८६ ॥
क्षालयित्वा चतुर्धा वै यथा स्यात्तण्डुलादिषु ।
शिलाशकलनिर्मुक्तं निस्तुषं निष्कणं यथा ॥ ८७ ॥
अपक्वव्रीहिविहिततण्डुलेनैव साधितम् ।
गव्यदुग्धाज्यसंसिक्तं गुडखण्डफलान्वितम् ॥ ८८ ॥
अक्षारलवणोपेतं देवानां हविरुच्यते ।
तदेव परमान्नं स्यात् क्षीराज्यगुडपाचितम् ॥ ८९ ॥
घृतसिक्तं तु शुद्धान्नमभावे हविरुच्यते ।
अक्षारलवणं सिद्धं गुडक्षीरफलान्वितम् ॥ ९० ॥
शान्तिके व्रतयज्ञे च संसाध्यं हविरुत्तमम् ।
पायसान्नं गुडान्नं च मुद्गान्नं केवौदनम् ॥ ९१ ॥
दध्यन्नं च तिलान्नं च निशान्नं सर्वमिश्रितम् ।
इत्यष्टधा समुद्दिष्टं हविर्देवस्य सम्मतम् ॥ ९२ ॥
प्रारभेत हविःपाकं वक्ष्यमाणेन वर्त्मना ।
आहृत्योदनपाकाग्निं कुण्डादौपासनानलात् ॥ ९३ ॥
चुल्यां निधाय तारेण सप्त तेऽग्न इतीरयन् ।
इन्धनानि विनिक्षिप्य यज्ञदारुमयानि च ॥ ९४ ॥
क्रिमिकीटादिहीनानि ज्योतिरात्रीति मन्त्रतः ।
प्रज्वाल्य व्यजनेनैव ततः स्थालीश्च ताम्रजाः ॥ ९५ ॥
प्रक्षाल्य तिन्त्रिणीतोयैः केवलैर्मृन्मयैस्ततः ।
प्रक्षाल्य द्वादशार्णेन वीर्यमन्त्रेण मन्त्रवित् ॥ ९६ ॥
घृतेनालेपयेत्तासामन्तरं व्यूहविद्यया ।
तण्डुलान्प्रक्षिपेत्तासु गायत्र्या विष्णुपूर्वया ॥ ९७ ॥
अम्भस्यपार इति च मन्त्रेण स हृदा पुनः ।
जलेनापूरयेद्द्रव्यं तण्डुलान्प्रतिपाककान् ॥ ९८ ॥
तण्डुलाढकमानस्य षट्प्रस्थमुदकं भवेत् ।
कर्मारम्भेण ताःस्थालीश्चुल्यामारोपयेत्ततः ॥ ९९ ॥
चक्रमन्त्रेणापिधानैस्तास्सञ्छाद्य यथाक्रमम् ।
पाककाले समुद्घाट्य वीर्यमन्त्रेण तद्ध्वनिम् ॥ १०० ॥
निरीक्ष्य नेत्रमन्त्रेण दर्व्या मूलं समुद्दरन् ।
चतुर्धावर्तयेच्चैव चक्रेणाच्छादयेत्पुनः ॥ १०१ ॥
पक्वे जलमविस्राव्य द्वादशार्णं समुच्चरन् ।
विद्रावितेन गव्येन हविषा चाभिघार्य च ॥ १०२ ॥
शुचीन् सत्क्रियतेत्यादि मन्त्रेणाधारपूततः ।
शोधिते भूतले वाथ व्रीहिभिर्वा प्रसारिते ॥ १०३ ॥
एवं हवींषि सिद्धानि पाणिभ्यामवतार्य च ।
अस्त्राभिमन्त्रितेनैव बहिः प्रक्षाल्य वारिणा ॥ १०४ ॥
तन्मन्त्रितेन शुद्धेन वस्त्रेणावर्तयेततः ।
भस्मना मथितेनान्विद्वासुदेवादिवाचकैः ॥ १०५ ॥
तर्जन्याद्यङ्गुलीभिश्च कुर्याद्दिक्षूर्ध्वपुण्ड्रकम् ।
समाच्छाद्य पिधानैश्च वस्त्रैः क्षालितैस्ततः ॥ १०६ ॥
इत्युक्तं साधनं सम्यक् शुद्धान्नस्य विशेषतः ।
अन्येषां साधनं वक्ष्ये परमान्नपुरस्सरम् ॥ १०७ ॥
तण्डुलस्य तु तुर्यांशं पायसे मुद्गसारकम् ।
तन्मानं घृतमुद्दिष्टं तच्चतुर्गुणितं पयः ॥ १०८ ॥
नालिकेरोद्भवं वापि तत्समं कथितं पयः ।
चतुर्गुणं तण्डुलाच्च खण्डचूर्णसमन्वितम् ॥ १०९ ॥
साधयेदुक्तमार्गेण समन्त्रं केवौदने ।
हंसः शुचिषद् इत्यत्र गोक्षीरस्य निषेचनम् ॥ ११० ॥
तदभावे नियोक्तव्यं नालिकेरोद्भवं पयः ।
अब्जागोजेति तत्क्षेपः स्याद्द्रव्यप्रतियोजने ॥ १११ ॥
गुडान्नपाचने क्षीरमपहायैक्षवं रसम् ।
कथितं गुडखण्डं वा क्षीरमानानुसारतः ॥ ११२ ॥
क्षीरप्रक्षेपमन्त्रेण गुडादीनि नियोजयेत् ।
मुद्गान्ने तण्डुलं सम्यक् मुद्गसारं नियोजयेत् ॥ ११३ ॥
शुद्धान्ने तु पुरा प्रोक्तं विशेषेण घृताप्लुतम् ।
दध्योदने दधिक्षेपं क्षीरार्धपरिसम्मितम् ॥ ११४ ॥
कदलीपनसाम्रादिगुडखण्डसमन्वितम् ।
खण्डचूर्णसमोपेतं कृसरान्ने तु मुद्गकम् ॥ ११५ ॥
आढकस्य हरिद्रान्ने निशापिष्टं पलं भवेत् ।
मुद्गसारसमोपेतं शुद्धखण्डादिसंयुतम् ॥ ११६ ॥
मिश्रान्ने योजयेत्किञ्चित् क्षीराज्यघृतसम्प्लुतम् ।
शान्त्यर्थं पयसा मिश्रं पुष्ट्यर्थं गुडमिश्रितम् ॥ ११७ ॥
वश्यार्थं मुद्गसाराढ्यमाकृष्ट्यै दधिमिश्रितम् ।
कृसरान्नं तु प्रीत्यर्थं मारणोच्चाटनेऽपि च ॥ ११८ ॥
स्तम्भने च हरिद्रान्नं मिश्रान्नं मोहने भवेत् ।
साधारणं तु शुद्धान्नं यात्रासु मृगयादिके ॥ ११९ ॥
विशेषेण तु दध्यन्नं हेमराजतपात्रगम् ।
मरीचिशुण्ठीलिकुचतिन्त्रिणीरसमिश्रितम् ॥ १२० ॥
चूर्णिनं जीरकोत्थेन संस्कुर्याद्रसवस्तुभिः ।
रसभेदसमुत्थानि पनसद्वितयोद्भवम् ॥ १२१ ॥
चूतभेदसमुत्थानि नातिपक्वानि कालतः ।
बृहत्युद्भवार्ताककूष्माण्डप्रभवानि च ॥ १२२ ॥
कारवल्ली लतोत्थानि काकोटीप्रभवानि च ।
पटोलद्वितयोत्थानि कोशातक्युद्भवानि च ॥ १२३ ॥
अलाबुकर्करीनिम्बभेदोत्थं तिन्त्रिणीफलम् ।
क्षुद्रकन्दसमेतञ्च वल्लीकन्दद्वयं तथा ॥ १२४ ॥
सूरणद्वयकन्दञ्च तथा पिण्डारकद्वयम् ।
पद्मोत्पलसमुत्थञ्च हविर्योग्यं विशेषतः ॥ १२५ ॥
उच्छिष्टं कृमिदुष्टञ्च शिवाद्यैर्दंशितं तथा ।
घ्रातं लालाजलस्पृष्टममेध्यस्थलसम्भवम् ॥ १२६ ॥
पादस्पृष्टमकालोत्थमाहृतं चाशुचिस्थले ।
भुक्तशेषं तथाऽस्पृश्यस्पृष्टं दत्तनशेषकम् ॥ १२७ ॥
परीक्ष्य बहुधा मन्त्री वर्जयेत्पाककर्मणि ।
जीवन्तीं वास्तुकं शाकं कारवल्लीदलं तथा ॥ १२८ ॥
तुम्बीदलञ्च पिण्डीञ्च चणमुद्गदलानि च ।
शाकिनीं शतपर्वाणीं तथैव श्वासमर्दितम् ॥ १२९ ॥
आगस्त्यं पाचयेच्छाकं विहितं ब्राह्मणस्य च ।
एकमूलानि चान्यानि गृह्णीयादनिषेधने ॥ १३० ॥
छेदयित्वा लवित्रेण वीर्यमन्त्रं समुच्चरन् ।
निरीक्ष्य कृमिकीटादीन् प्रक्षाल्य बहुधा जलैः ॥ १३१ ॥
प्राग्वत्स्थालीषु निक्षिप्य प्रत्येकं वाऽथ मिश्रितम् ।
सैन्धवैः समरीचैश्च सर्षपैर्जीर्कैरपि ॥ १३२ ॥
श्रीपर्णीदलसम्भिन्नैः पयोभिर्नारिकेलजैः ।
तत्फलैरपि सदुग्धैर्मधुभिर्घृतमिश्रितैः ॥ १३३ ॥
मसूरमाषनिम्बादिमुद्गभेदसमन्वितम् ।
सयूषान् मुद्गभेदादीन्नयूषान् लवणादिभिः ॥ १३४ ॥
रसभेदैस्समेतांश्च साधयेत् तदनन्तरम् ।
त्वचो व्यपोह्य मुद्गाद्यैः सारैः क्षीरेण पाचितैः ॥ १३५ ॥
मरीचजीरलवणैर्घृतयुतैश्च मर्दितैः ।
दर्व्यादिभिश्च संस्कुर्यात् कुल्माषं सरसं यथा ॥ १३६ ॥
स्थालीशरावपूर्णेषु पाचितानि पुरैव तु ।
कदलीपनसादीनि नालिकेरफलानि च ॥ १३७ ॥
कूष्माण्डबृहतीपूगकारवल्लीफलानि च ।
क्षुद्रकन्दसमेतानि वल्लीपिण्डारकानि च ॥ १३८ ॥
अम्बरीषादिपात्रेषु विततेषु समन्ततः ।
घृतलिप्तेषु तप्तेषु समारोप्य प्रसार्य च ॥ १३९ ॥
चूर्णीभूतैमरीचैश्च जीरकेण घृतेन च ।
प्रतापितानि स्निग्धानि दर्व्याऽऽलोड्य पुनः पुनः ॥ १४० ॥
स्थापनीयानि भाण्डेषु छादितान्यम्बरादिभिः ।
आम्रादीनि च शुष्काणि अशुष्काणि फलानि च ॥ १४१ ॥
तिन्त्रिणीगुडमिश्राणि मरीचैर्जीर्कैरपि ।
नालिकेरोद्भवपयसा सर्षपैः पोषितैरपि ॥ १४२ ॥
स्थापयेदाम्रसारोत्थं लवणेन समन्वितम् ।
शृङ्गिवेरञ्च लिकुचं दलितं हरितञ्च वा ॥ १४३ ॥
वासितं लवणोपेतं लिकुचोत्थरसेन तु ।
कदलीपनसाम्राणां केवलानि फलानि च ॥ १४४ ॥
गोधूमशालिजैः पिष्टैर्गुडपाकेन लोलितैः ।
पाचितैर्मुद्गसारैश्च शकलेर्नारिकेलजैः ॥ १४५ ॥
जीर्कैः समरीचैश्च घृतेऽपूपानि पाचयेत् ।
सुवृत्तान्याम्रतुल्यानि धात्रीफलसमानि च ॥ १४६ ॥
न्यग्रोधफलतुल्यानि लिकुचाद्याकृतीनि च ।
अन्तर्निक्षिप्तमुद्गानि रसवन्ति समन्ततः ॥ १४७ ॥
गुडपिष्टेन बद्धानि नालिकेराकृतीनि च ।
नानाभेदसमुत्थानि घृतेऽपूपानि साधयेत् ॥ १४८ ॥
शालिव्रीहिसमुत्थैश्च शालिषु स्फुटितानि च ।
लघूनि वह्नितप्तानि गुडपाकान्वितानि च ॥ १४९ ॥
चूर्णितैश्च मरीचैश्च जीर्कैः खण्डितैरपि ।
नालिकेरफलैः शुष्कैः पृथुकानि च साधयेत् ॥ १५० ॥
भर्जितैश्शालिपिष्टैश्च मिश्रितैर्जीर्कादिना ।
लोलितैर्गुडपाकेन पिण्डीभूतैः पृथक् पृथक् ॥ १५१ ॥
सक्तु स्यात् साधितं तद्वित्तिलैः पिण्डं सुभर्जितैः ।
तिलपिण्ड इति ख्यातः सदा देवस्य सम्मतः ॥ १५२ ॥
सुभृतञ्च घनीभूतं खण्डचूर्णसमन्वितम् ।
क्षीरञ्च मधुसर्पिर्भ्यां संवृतं सुघनं दधि ॥ १५३ ॥
तरुणैः शकलीभूतैरुर्वारुसहकारयोः ।
रूक्षसर्षपसम्मिश्रं समरीचं तथा दधि ॥ १५४ ॥
पृथक्पात्रगतं शुद्धं गालितं माक्षिकं मधु ।
द्राक्षापनसरम्भाम्रसमुत्थैर्मर्दितै रसैः ॥ १५५ ॥
लोलितं गुडखण्डेन जीर्कादिसमन्वितम् ।
रसालमेतद्विद्येयं दधिमिश्रन्तु पानकम् ॥ १५६ ॥
केवलं दधिसम्मिश्रं वारिणा तत्समेन तु ।
मथितं समरीचं च लवणौषधिवासितम् ॥ १५७ ॥
खण्डचूर्णसमोपेतं पानकं शमशान्तिकृत् ।
अन्नानामपि संस्कारो पुरा मन्त्राः प्रकीर्तिताः ॥ १५८ ॥
तदन्येषां तु संस्कारो द्वादशार्णेन वा हृदा ।
साङ्गेन मूलमन्त्रेण सर्वं संसाधयीत वा ॥ १५९ ॥
विष्णुगायत्रिया वाऽथ पञ्चोपनिषदाऽथ वा ।
संसाध्य परमान्नाद्यमुपदंशान्वितं क्रमात् ॥ १६० ॥
फलकादिषु संस्थाप्य चोर्ध्वपुण्ड्राद्यलङ्कृतम् ।
महानसद्वारभूमेरालयद्वारपश्चिमम् ॥ १६१ ॥
गोमयेनानुलिप्तेन सुधाचूर्णेन शोभिना ।
पथाऽस्त्रमन्त्रसञ्जप्तवारिधारापुरस्सरम् ॥ १६२ ॥
शङ्खतूर्यादिघोषेण तथा मङ्गलगीतिभिः ।
प्रदीपच्छत्रयुक्तैश्च हविःपालनतत्परैः ॥ १६३ ॥
वेत्रपाणिभिरन्यैश्च नास्तिकोत्सारणोद्यतैः ।
स्नाताः शुक्लाम्बरा दक्षाः कृतपादावनेजनाः ॥ १६४ ॥
स्वाचान्ताः कुशहस्ताश्च मृदा वा चन्दनादिना ।
धृतोर्ध्वपुण्ड्रा नियताः मनोवाक्कायकर्मभिः ॥ १६५ ॥
सितकञ्चुकधर्तारः स्थगितानननासिकाः ।
बलमन्त्रेण भाण्डानि वहेयुः परिचारकाः ॥ १६६ ॥
मूलालयप्रदेशस्थे मण्टपे विततेऽथ वा ।
प्रथमावरणे धाम्नो दक्षिणे मालिकावनौ ॥ १६७ ॥
सुगुप्ते सुवितानाढ्ये दीपमालाद्यलङ्कृते ।
प्रदेशे वस्त्रसञ्छन्ने स्थाप्यानि फलकादिके ॥ १६८ ॥
हविःप्रमाणतुल्याश्च हेमराजतताम्रजाः ।
स्थालिकाश्च यथालिप्ताः प्रक्षाल्यास्त्रेण वारिणा ॥ १६९ ॥
पाणिना दक्षिणेनैव परामृश्य च तेन च ।
तारेण तासु निक्षिप्याधाराज्यस्य समन्ततः ॥ १७० ॥
स्थालीभ्यः समुपाहृत्य दर्व्या होमादिक्लृप्तया ।
तदूर्ध्वे निक्षिपेन्मौनी पायसादीन्यनुक्रमात् ॥ १७१ ॥
घृतेनाप्लाव्य मधुरव्यञ्जनानि समन्ततः ।
दधिक्षीरादिपूर्णानि चषकान्यूर्ध्वतो न्यसेत् ॥ १७२ ॥
सिद्धान्यपूपभेदानि पृथुकादीनि यान्यपि ।
पानकानि विचित्राणि पृथक्पात्रगतानि च ॥ १७३ ॥
कर्पूरचन्दनक्षोदप्रसूनैश्चाधिवासितम् ।
शीतलं वस्त्रसञ्छन्नं पानीयं करकादिषु ॥ १७४ ॥
एलालवङ्गतक्कोलजातीपूगफलान्वितम् ।
कर्पूरतैलसम्मिश्रं खण्डितञ्च क्षुरादिभिः ॥ १७५ ॥
नागवल्लीदलोपेतं सचूर्णं चेन्दुसंयुतम् ।
ताम्बूलञ्च प्रतिष्ठाप्य पात्रेष्वब्जाकृतीषु च ॥ १७६ ॥
चन्दनादीनि गन्धानि तथा नानाविधास्रजः ।
स्थापयित्वा यथास्थानमाराधकमुखेन तु ॥ १७७ ॥
विज्ञापयेयुर्देवस्य तत्तत्कर्माधिकारिणः ।
भोज्यासनाधिरूढस्य देवाराधकस्स्वयम् ॥ १७८ ॥
अर्घ्याद्यैः प्राग्वदभ्यर्च्य साध्यबीजावसानकैः ।
द्वारस्थाभ्यन्तरगते देवस्य पुरतः स्थले ॥ १७९ ॥
शोधिते चास्त्रतोयेन चन्दनाद्यैश्च मण्डिते ।
मण्डले तु परिस्तीर्य तण्डुलानि यथारुचि ॥ १८० ॥
क्षालितं वस्त्रखण्डन्तु तदूर्ध्वे सम्प्रसार्य च ।
अन्नाधारं प्रतिष्ठाप्य तदूर्ध्वे लोहिनिर्मितम् ॥ १८१ ॥
ऊर्ध्वतो वसनाबद्धं तदूर्ध्वे स्रोतसम्प्लुते ।
विन्यसेत्परमान्नादिपात्राण्येकैकशः क्रमात् ॥ १८२ ॥
तर्पणं तु प्रतिष्ठाप्य हस्तप्रक्षालनम्भसा ।
कुर्याद्दक्षिकरे देवे प्रागुपस्तरणार्हणम् ॥ १८३ ॥
ततो देवादिमूर्तीनां हवींषि विनिवेदयेत् ।
प्रथमं पायसं पश्चात् गुडान्नं मुद्गभेदितम् ॥ १८४ ॥
शुद्धान्नं तिलसम्मिश्रं निशान्नं दधिमिश्रितम् ।
मिश्रान्नं च क्रमाद्दद्यादपूपानि तदन्तिमे ॥ १८५ ॥
पृथुकानि च सक्तूनि तिलपिण्डान्वितानि च ।
कदलीपनसादीनि फलानि विविधानि च ॥ १८६ ॥
रसभेदसमेतानि पानकानि च तर्पणम् ।
नालिकेरसञ्चैव हस्तप्रक्षालनं ततः ॥ १८७ ॥
उपस्पर्शञ्च ताम्बूलं दत्त्वा प्रागुक्तमाचरेत् ।
राजभिर्हविषो नित्यं प्राचुर्ये कल्पिते सति ॥ १८८ ॥
आधारेषु प्रतिष्ठाप्य वितते गर्भमन्दिरे ।
निवेद्यानि यथायोगमन्यथा सङ्कटे भुवि ॥ १८९ ॥
तदेकस्मिन् दृढाधारे वस्त्रच्छन्ने यथाक्रमम् ।
निधाय विनिवेद्याथ तथा तमपनीय च ॥ १९० ॥
प्रोक्षिते चास्त्रमन्त्रेण निक्षिप्य हविरन्तरम् ।
निवेदयेथापूर्वं विशेषोऽत्र समीरितः ॥ १९१ ॥
मन्त्रक्रियाविहीनञ्च गन्धदुष्टं विवर्णकम् ।
अतिपक्वञ्च विस्रावितजलं तथा ॥ १९२ ॥
अदीक्षितैश्च पतितैरीक्षितं प्रतिलोमजैः ।
अत्युष्णमतिशीतं च प्रमाणरहितं तथा ॥ १९३ ॥
समुद्धृतञ्च निश्शेषं मुखवातादिदूषितम् ।
व्यञ्जनादिविहीनं चाप्यपात्रस्थमगोपितम् ॥ १९४ ॥
अन्तस्तण्डुलसंयुक्तं भिन्नभाण्डगतं तथा ।
अनाधारं परस्पृष्टं श्वसितापहतं तथा ॥ १९५ ॥
अङ्गारतुषसंयुक्तं केशपाषाणसंयुतम् ।
कृमिलोष्टादिभिर्जुष्टं प्राण्यङ्गादिसमन्वितम् ॥ १९६ ॥
अपूर्णपाकमाघाररहितं व्यञ्जनोज्झितम् ।
गव्याज्यदधिनिर्मुक्तं काङ्क्षितं चेतरैर्जनैः ॥ १९७ ॥
अपिधानविनिर्मुक्तं देवतान्तरसम्मितम् ।
एवं दुष्टं हविर्बुद्ध्वा प्रक्षिपेज्जलमध्यतः ॥ १९८ ॥
मोहात्त्यक्तं हविर्विष्णोर्यदि दद्यान्तदर्चनम् ।
निरर्थकं स्यात्कर्तॄणां विनाशं च भवेद्ध्रुवम् ॥ १९९ ॥
तस्मात्तदैव मूलस्य सहस्रं जपमाचरेत् ।
ततस्तत्राश्रयाणाञ्च स्थापितानां विधानतः ॥ २०० ॥
विभवव्यूहमूर्तीनां मण्डपे गोपुरादिषु ।
स्थापितानाञ्च मूर्तीनां प्रादुर्भावात्मनामपि ॥ २०१ ॥
पूजितानां यथान्यायं सत्यादीनां खगात्मनाम् ।
कुमुदादिगणेशानां द्वारस्थानामपि सर्वनि ॥ २०२ ॥
प्रतिष्ठितानां भक्तानां प्रागुक्तानां विधानतः ।
तत्तन्मन्त्रेण विधिवत्सिद्धानि च पृथक् पृथक् ॥ २०३ ॥
हवींषि पायसादीनि क्रमेण विनिवेदयेत् ।
गारुडेनैव मन्त्रेण बल्यर्थं साधयेद्धविः ॥ २०४ ॥
अन्येषां प्रणवेनैव सिद्धान्नं निवेदयेत् ।
अग्निकार्यहविस्साध्यं यथा मूलालयाकृतेः ॥ २०५ ॥
सर्वाण्यपूपभेदानि नाग्निकार्ये हितानि वै ।
अन्यानि पायसादीनि नित्यनैमित्तिकादिषु ॥ २०६ ॥
होतव्यानि विशेषेण फलानि विविधानि च ।
भूतानां बलिदानेषु पायसादीनि नित्यशः ॥ २०७ ॥
अपूपानि च सक्तूनि पृथुकानि फलानि च ।
तिलपिण्डसमेतानि मिश्रितान्यथवा पृथक् ॥ २०८ ॥
दातव्यानि यथान्यायं तेषां तृप्तिकरं यतः ।
तेन क्रूरादिभिर्ब्रह्मन् उत्सवादिषु कर्मसु ॥ २०९ ॥
तत्र तन्त्रोक्तविधिना बलिद्रव्याण्युपाहरेत् ।
अभावे सर्ववस्तूनां सोदकं केवौदनम् ॥ २१० ॥
तण्डुलं वोदकेनैव दातव्यं मन्त्रवित्तमैः ।
इति सम्यक् समाख्यातं हविषां साधनादिकम् ॥ २११ ॥
इत्येवं मुनिशार्दूल भवद्भिर्यद्यदर्थितम् ।
तत्सर्वं विस्तरेणैव यथावत्प्रकटीकृतम् ॥ २१२ ॥
सर्वोत्तमा संहितैषा सात्वतार्थप्रकाशिका ।
नाख्येया दुष्टबुद्धीनां अभक्तानां जनार्दने ॥ २१३ ॥
गर्वस्तच्छास्त्रसद्वस्तुनिन्दकानां विशेषतः ।
शास्त्रापकृतृणामन्यदर्शने भावितात्मनाम् ॥ २१४ ॥
देवसंसक्तबुद्धीनां स्वधर्मनिरतात्मनाम् ।
संसारभयभीरूणां प्रपन्नानां महात्मनाम् ॥ २१५ ॥
समाख्येयमिदं शास्त्रं दीक्षां कृत्वा यथाविधि ।
शास्त्रार्थश्चानुवक्तव्यो मन्त्रार्थैश्च समन्वितः ॥ २१६ ॥
एतच्छास्त्रोक्तविधिना योऽर्चयत्यच्युतं विभुम् ।
सोऽचिराल्लभते स्वेष्टान् सर्वार्थांश्च द्विजोत्तमाः ॥ २१७ ॥
इति श्रीपाञ्चरात्रे ईश्वरसंहितायां कुण्डस्रुक्स्रुवलक्षणहविःपाकविधानं नाम पञ्चविंशोऽध्यायः ॥
Studium als bewusste Hinwendung
Mit diesen Kapiteln endet der Sanskrittext der Ishvara Samhita. Die Themen reichen von der Erneuerung der Verehrung bis zur Vorbereitung ihrer Gaben. Guru, Mantra und Dhyana begegnen dir dabei als Bestandteile einer umfassenden religiösen Lebenspraxis.
Für dein eigenes Svadhyaya kannst du zu einem Abschnitt zurückkehren, der eine Frage geweckt hat. Lies ihn gemeinsam mit der deutschen Übersetzung und nimm dir anschließend einen stillen Augenblick. Auch geduldiges Verstehen kann eine Form bewusster Hinwendung sein. Die 108 ausgewählten Verse laden zum weiteren Nachsinnen ein.
Siehe auch
- Pancharatra
- Sattvata Samhita
- Paushkara Samhita
- Jayakhya Samhita
- Ahirbudhnya Samhita
- Vishnu Samhita
- Parameshvara Samhita
- Padma Samhita
- Lakshmi Tantra
- Sanatkumara Samhita
- Bhagavad Gita
- Narada Bhakti Sutra
Seminare
Bhakti Yoga
- 27.10.2026 - 27.10.2026 Mantra-Konzert mit Shamana OM
Konzert mit Shamana OM- Shamana OM
- 31.10.2026 - 31.10.2026 Mantra-Konzert mit Gruppe Mudita
Konzert mit der Gruppe Mudita- Gruppe Mudita
Mantras und Musik
- 27.10.2026 - 27.10.2026 Mantra-Konzert mit Shamana OM
Konzert mit Shamana OM- Shamana OM
- 30.10.2026 - 01.11.2026 Freude im Herzen - Mantra Singen und Yoga
Lerne neue wunderschöne Mantras mit den Muditas kennen. Und geniesse auch die bekanntesten und beliebtesten Mantras. Gemeinsam widmen wir uns dem Mantr…- Gruppe Mudita
Hinduistische Rituale
- 30.10.2026 - 01.11.2026 Rituale für die Verstorbenen
Mit Ritualen unseren Ahnen Kraft schenken, damit sie in die nächsthöheren lichtvollen Welten aufsteigen können. Wir selbst erfahren dadurch Trost und…- Maharani Fritsch de Navarrete
- 08.11.2026 - 08.11.2026 Diwali - das Fest des Lichts
Diwali ist eines der wichtigsten Feste in Indien. Diwali ist das Lichterfest zur Öffnung des Herzens und der Entfaltung allumfassender Liebe. 20:00 Uhr…- Sukadev Bretz
Sanskrit und Devanagari
- 06.01.2027 - 15.12.2027 Jahresgruppe Sanskrit - Lektüre der AMRITA SIDDHI 2 - online
Termine: 16x mittwochs: 06.01., 27.01., 17.02., 10.03., 31.03., 21.04., 12.05., 02.06., 23.06., 14.07., 08.09., 29.09., 20.10., 10.11., 01.12., 15.12.20…- Dr phil Oliver Hahn
- 09.04.2027 - 11.04.2027 Sanskrit Intensivwochenende
Du bist fasziniert vom Klang des Sanskrit und der tiefgehenden Wirkung der Wörter dieser uralten Sprache? Hast bereits Übersetzungen von Mantras oder …- Dr phil Oliver Hahn
Zur Ausgabe: Einführung · Deutsche Übersetzung · Sanskrit IAST · Devanagari · 108 Verse und Mantras · Vorheriger Teil · Deutsche Übersetzung dieser Kapitel