Parashurama Kalpasutra Sanskrit Devanagari
Parashurama Kalpasutra – Sanskrit in Devanagari enthält den vollständigen Grundtext des Parashurama Kalpasutra in zehn Khaṇḍas. Die Schrift verbindet Diksha, Mantra, Nyasa und die Verehrung von Lalita, Shyama, Varahi und Para mit der Erkenntnis des eigenen Bewusstseins. Die deutsche Übersetzung, spirituelle Erläuterungen und eine Auswahl wichtiger Sūtras stehen im Hauptartikel.
Navigation: Einführung und deutsche Übersetzung · Sanskrit IAST · Sanskrit Devanagari

Zur Devanagari-Fassung
Diese Schriftfassung ist regelbasiert aus der GRETIL-IAST-Grundlage abgeleitet. Sie ist keine unabhängig überlieferte oder kollationierte Devanagari-Edition. â, î und û werden als ā, ī und ū umgesetzt. Einfache und doppelte analytische Ausfallzeichen nach langem ā, ī oder ū werden mit dem vorangehenden Vokal zusammengeführt; ein echter Wortausfall wie in so 'ham bleibt als Avagraha erhalten. Die übrigen analytischen Bindestriche bleiben zur Orientierung stehen. Anusvara, Visarga, vokalisches ṛ/ṝ und ḷ/ḹ sowie ungewöhnliche Bija-Konsonantengruppen sind erhalten. Zählung, Kapitelgrenzen und Kolophone stimmen mit der IAST-Seite überein.
Ungeklärte Sanskritlesungen werden durch die Schriftumwandlung nicht geklärt: Dies betrifft insbesondere 1.11, die Bija-Gruppen in 3.20, einzelne vedische Schreibungen in 3.26, die graphische Kurzangabe 5.16 und verschlüsselte Mantra-Anweisungen in Kapitel 10. Die Alternativlesung सु-[स]- in 6.34 und das eingeklammerte Avagraha in 10.10 bleiben sichtbar. Einzelheiten erläutert die deutsche Übersetzung.
1. Khaṇḍa: दीक्षा-विधि
1.1
अथातो दीक्षां व्याख्यास्यामः ॥
1.2
भगवान् परम-शिव-भट्टारकः श्रुत्य्-आद्य्-अष्टादश-विद्याः सर्वाणि दर्शनानि लीलया तत्-तद्-अवस्थापन्नः प्रणीय, संविन्मय्या भगवत्या भैरव्या स्वात्माभिन्नया पृष्टः पञ्चभिः मुखैः पञ्चाम्नायान् परमार्थ-सार-भूतान् प्रणिनाय ॥
1.3
तत्रायं सिद्धान्तः ॥
1.4
षट्त्रिंशत्-तत्त्वानि विश्वम् ॥
1.5
शरीर-कञ्चुकितः शिवो जीवो निष्कञ्चुकः पर-शिवः ॥
1.6
स्व-विमर्शः पुरुसार्थः ॥
1.7
वर्णात्मका नित्याः शब्दाः ॥
1.8
मन्त्राणाम् अचिन्त्य-शक्तिता ॥
1.9
संप्रदाय-विश्वासाभ्यां सर्व-सिद्धिः ॥
1.10
विश्वास-भूयिष्ठं प्रामाण्यम् ॥
1.11
गुरु-मन्त्र-देवतात्म-मनः-पवनानाम्
ऐक्य--निष्फालनाद् अन्तरात्म--वित्तिः ॥
1.12
आनन्दं ब्रह्मणो रूपं, तच् च देहे व्यवस्थितं, तस्याभिव्यञ्जकाः पञ्च म-काराः, तैर् अर्चनं गुप्त्या, प्राकट्यान् निरयः ॥
1.13
भावना-दार्ढ्याद् आज्ञा-सिद्धिः ॥
1.14
सर्व-दर्शनानिन्दा ॥
1.15
अगणनं कस्यापि ॥
1.16
सच्-छिष्ये रहस्य-कथनम् ॥
1.17
सदा विद्यानुसंहतिः ॥
1.18
सततं शिवता-समावेशः ॥
1.19
काम-क्रोध-लोभ-मोह-मद-मात्सर्याविहित-हिंसा-स्तेय-लोक-विद्विष्ट-वर्जनम् ॥
1.20
एक-गुरूपास्तिर् असंशयः ॥
1.21
सर्वत्र निष्परिग्रहता ॥
1.22
फलं त्यक्त्वा कर्म--करणम् ॥
1.23
अनित्य-कर्म-लोपः ॥
1.24
म-पञ्चकालाभे ऽपि नित्य-क्रम-प्रत्यवमृष्टिः ॥
1.25
निर्भयता सर्वत्र ॥
1.26
सर्वं वेद्यं हव्यम् इन्द्रियाणि स्रुचः शक्तयो ज्वालाः स्वात्मा शिवः पावकः स्वयम् एव होता ॥
1.27
निर्विषय-चिद्-विमृष्टिः फलम् ॥
1.28
आत्म-लाभान् न परं विद्यते ॥
1.29
सैषा शास्त्र-शैली ॥
1.30
वेश्या इव प्रकटा वेदादि-विद्याः ।
सर्वेषु दर्शनेषु गुप्तेयं विद्या ॥
1.31
तत्र सर्वथा मतिमान् दीक्षेत ॥
1.32
दीक्षास् तिस्रः शाक्ती शाम्भवी मान्त्री चेति ।
तत्र शाक्ती शक्ति-प्रवेशनात् शाम्भवी चरण-विन्यासात्
मान्त्री मन्त्रोपदिष्टया सर्वाश् च कुर्यात् ॥
1.33
एकैकां वेत्य् एके ॥
1.34
सद्-गुरुः क्रमं प्रवर्त्य साङ्गं हुत्वा तरुणोल्लासवान् शिष्यम् आहूय वाससा मुखं बद्ध्वा गणपति-ललिता-श्यामा-वार्ताली-परा-पात्र-बिन्दुभिस् तम् अवोक्ष्य सिद्धान्तं श्रावयित्वा ॥
1.35
तच्-छिरसि रक्त-शुक्ल-चरणं भावयित्वा तद्-अमृत-क्षालितं सर्व-शरीरम् अलङ्कुर्यात् ॥
1.36
तस्यामूलम् आब्रह्म-बिलं प्रज्वलन्तीं प्रकाश-लहरीं ज्वलद्-अनल-निभां ध्यात्वा तद्-रश्मिभिस् तस्य पाप-पाशान् दग्ध्वा ॥
1.37
त्रि-कटु-त्रि-फला-चतुर्-जात-तक्कोल-मदयन्ती-सहदेवी-दूर्वा-भस्म-मृत्तिका-चन्दन-कुङ्कुम-रोचना-कर्पूर-वासित-जल-पूर्णं वस्त्र-युग-वेष्टितं नूतन-कलशं बाला-षड्-अङ्गेनाभ्यर्च्य श्री-श्यामा-वार्ताली-चक्राणि निक्षिप्य तिसृणाम् आवरण-मन्त्रैर् अभ्यर्च्य संरक्ष्यास्त्रेण प्रदर्श्य धेनु-योनी ॥
1.38
शिव-युक्-सौ-वर्ण-कर्णिके स्वर-द्वन्द्व-जुष्ट-किञ्जल्काष्टके क च ट त प य श लाक्षर-वर्गाष्ट-युक्ताष्ट-दले दिग्-अष्टक-स्थित ठं वं चतुर्-अश्रे मातृका-यन्त्रे शिष्यं निवेश्य तेन कुम्भाम्भसा तिसृभिः विद्याभिः स्नपयेत् ॥
1.39
स-दुकूलं सालेपं साभरणं स-मालं सुप्रसन्नं शिष्यं पार्श्वे निवेश्य मातृकां तद्-अङ्गे विन्यस्य विमुक्त-मुख-कर्पटस्य तस्य हस्ते त्रीन् प्रथम-सिक्तान् चन्दनोक्षितान् द्वितीय-खण्डान् पुष्प-खण्डान् निक्षिप्य तत्त्व-मन्त्रैर् ग्रासयित्वा दक्षिण-कर्णे बालम् उपदिश्य पश्चाद् इष्ट-मनुं वदेत् ॥
1.40
ततस् तस्य शिरसि स्व-चरणं निक्षिप्य सर्वान् मन्त्रान् सकृद् वा क्रमेण वा यथाधिकारम् उपदिश्य स्वाङ्गेषु किम्-अप्य् अङ्गं शिष्यं स्पर्शयित्वा तद्-अङ्ग-मातृका-वर्णादि द्व्य्-अक्षरं त्र्य्-अक्षरं चतुर्-अक्षरं वा आनन्द-नाथ--शब्दान्तं तस्य नाम दिशेत् ॥
1.41
बालोपदिष्टेः पूर्वम् आत्मनः पादुकां षट्-तार-युक्तां दद्यात् ॥
1.42
आचारान् अनुशिष्य, हार्द-चैतन्यम् आमृश्य, विद्या-त्रयेण तद्-अङ्गं त्रिः परिमृज्य परिरभ्य मूर्धन्य् अवघ्राय स्वात्म-रूपं कुर्यात् ॥
1.43
शिष्यो ऽपि पूर्णतां भावयित्वा कृतार्थस् तं गुरुं यथा-शक्ति वित्तैर् उपचर्य विदित-वेदितव्यो ऽशेष-मन्त्राधिकारी भवेद् इति शिवम् ॥
2. Khaṇḍa: गणनायक-पद्धति
2.1
इत्थं सद्-गुरोर् आहित-दीक्षः महा-विद्याराधन-प्रत्यूहापोहाय गाणनायकीं पद्धतिम् आमृशेत् ॥
2.2
ब्राह्मे मुहूर्त उत्थाय द्वादशान्ते सहस्र-दल-कमल-कर्णिका-मध्य-निविष्ट-गुरु-चरण-युगल-विगलद्-अमृत-रस-विसर-परिप्लुताखिलाङ्गो हृदय-कमल-मध्ये ज्वलन्तम् उद्यद्-अरुण-कोटि-पाटलम् अशेष-दोष-निर्वेष-भूतम् अनेकपाननं नियमित-पवन-मनोगतिर् ध्यात्वा तत्-प्रभा-पटल-पाटलीकृत-तनुः बहिर् निर्गत्य मुक्त-मल-मूत्रो दन्त-धावन-स्नान-वस्त्र-परिधान-सूर्यार्घ्य-दानानि विधाय उद्यद्-आदित्य-वर्तिने महा-गणपतये "तत्-पुरुषाय विद्महे, वक्र-तुण्डाय धीमहि ॥ तन् नो दन्ती प्रचोदयात्" इत्य् अर्घ्यं दत्वा नित्य-कृत्यं विधाय चतुर्-आवृत्ति-तर्पणं कुर्यात् । आयुर् आरोग्यम् ऐश्वर्यं बलं पुष्टिर् महद्-यशः ।
कवित्वं भुक्ति-मुक्ती च चतुर्-आवृत्ति-तर्पणात् ॥
2.3
प्रथमं द्वादश-वारं मूल-मन्त्रेण तर्पयित्वा मन्त्राष्टाविंशति-वर्णान् स्वाहान्तान् एकैकं चतुर्-वारं मूलं च चतुर्-वारं तर्पयित्वा पुनः श्री-श्रीपति-गिरिजा-गिरिजापति-रति-रतिपति-मही-महीपति-महालक्ष्मी-महालक्ष्मीपति-ऋद्ध्य्-आमोद-समृद्धि-प्रमोद-कान्ति-सुमुख-मदनावती-दुर्मुख-मदद्रवाविघ्नद्राविणी-विघ्नकर्तृ-वसुधारा-शङ्खनिधि-वसुमती-पद्मनिधि-त्रयोदश-मिथुनेष्व् एकैकां देवतां चतुर्-वारं मूलं चतुर्-वारं च तर्पयेत्, एवं चतुश्चत्वारिंशद्-अधिक-चतुश्शत-तर्पणानि भवन्ति ॥
2.4
अथ याग-विधिः - गृहम् आगत्य स्थण्डिलम् उपलिप्य द्वार-देश उभय-पार्श्वयोर् भद्र-काल्यै भैरवाय - द्वारोर्ध्वे लम्बोदराय नमः इति अन्तःप्रविश्य आसन-मन्त्रेण आसने स्थित्वा प्राणान् आयम्य षड्-अङ्गानि विन्यस्य मूलेन व्यापकं कृत्वा स्वात्मनि देवं सिद्धलक्ष्मी-समाश्लिष्ट-पार्श्वम् अर्धेन्दु-शेखरम् आरक्त-वर्णं मातुलुङ्ग-गदा-पुण्ड्रेक्षु-कार्मुक-शूल-सुदर्शन-शङ्ख-पाशोत्पल-धान्य-मञ्जरी-निज-दन्ताञ्चल-रत्न-कलश-परिष्कृत-पाण्य्-एकादशकं प्रभिन्न-कटम् आनन्द-पूर्णम् अशेष-विघ्न-ध्वंस-निघ्नं विघ्नेश्वरं ध्यात्वा ॥
2.5
पुरतो मूल-सप्ताभिमन्त्रितेन गन्धाक्षत-पुष्प-पूजितेन शुद्धेन वारिणा त्रि-कोण-षट्-कोण-वृत्त-चतुर्-अश्राणि विधाय तस्मिन् पुष्पाणि विकीर्य वह्नीशासुर-वायुषु मध्ये दिक्षु च षड्-अङ्गानि विन्यस्य अग्नि-मण्डलाय दश-कलात्मने अर्घ्य-पात्राधाराय नमः सूर्य-मण्डलाय द्वादश-कलात्मने अर्घ्य-पात्राय नमः सोम-मण्डलाय षोडश-कलात्मने अर्घ्यामृताय नमः इति शुद्ध-जलम् आपूर्य अस्त्रेण संरक्ष्य कवचेनावकुण्ठ्य धेनु-योनि-मुद्रां प्रदर्शयेत् ॥
2.6
सप्त-वारम् अभिमन्त्र्य तज्-जल-विप्रुड्भिर् आत्मानं पूजोपकरणानि च संप्रोक्ष्य तज्-जलेन पूर्वोक्तं मण्डलं परिकल्प्य तद्वद् आदिमं संयोज्य तत्रोपादिमं मध्यमं च निक्षिप्य वह्न्य्-अर्केन्दु-कलाः अभ्यर्च्य वक्र-तुण्ड-गायत्र्या गणानां त्वेत्य् अनया ऋचा चाभिमन्त्र्य अस्त्रादि-रक्षणं कृत्वा तद्-बिन्दुभिस् त्रिशः शिरसि गुरु-पादुकाम् आराधयेत् ॥
2.7
पुरतो रक्त-चन्दन-निर्मिते पीठे महा-गणपति-प्रतिमायां वा चतुर्-अस्राष्ट-दल-षट्-कोण-त्रि-कोण-मये चक्रे वा तीव्रायै ज्वालिन्यै नन्दायै भोगदायै कामरूपिण्यै उग्रायै तेजोवत्यै सत्यायै विघ्ननाशिन्यै ऋं धर्माय ॠं ज्ञानाय ऌं वैराग्याय ॡं ऐश्वर्याय ऋं अधर्माय ॠं अज्ञानाय ऌं अवैराग्याय ॡं अनैश्वर्याय नम इति पीठ-शक्तीर् धर्माद्य्-अष्टकं चाभ्यर्च्य मूलम् उच्चार्य महा-गणपतिम् आवाहयामीत्य् आवाह्य पञ्चधोपचर्य दशधा संतर्प्य मूलेन मिथुनाङ्ग-ब्राह्म्य्-आदीन्द्रादि-रूप-पञ्चावरण-पूजां कुर्यात् ॥
2.8
त्रि-कोणे देवः तस्य षड्-अस्रस्यान्तराले श्री-श्रीपत्य्-आदि-चतुर्-मिथुनानि अङ्गानि च ऋद्ध्य्-आमोदादि-षण्-मिथुनानि षड्-अस्रे मिथुन-द्वयं षड्-अस्रोभय-पार्श्वयोस् तत्-सन्धिष्व् अङ्गानि ब्राह्म्य्-आद्या अष्ट-दले चतुर्-अस्राष्ट-दिक्ष्व् इन्द्राद्याः पूज्याः सर्वत्र देवता-नामसु श्री-पूर्वं पादुकाम् उच्चार्य पूजयामीत्य् अष्टाक्षरीं योजयेत् ॥
2.9
एवं पञ्चावरणीम् इष्ट्वा पुनर् देवं गणनाथं दशधोपतर्प्य षोडशोपचारैर् उपचर्य प्रणव-मायान्ते सर्व-विघ्न-कृद्भ्यः सर्व-भूतेभ्यो हुं स्वाहा - इति त्रिः पठित्वा बलिं दत्वा गणपति-बुद्ध्यैकं बटुकं सिद्धलक्ष्मी-बुद्ध्यैकां शक्तिं चाहूय गन्ध-पुष्पाक्षतैर् अभ्यर्च्यादिमोपादिम-मध्यमान् दत्वा मम निर्विघ्नं मन्त्र-सिद्धिर् भूयाद् इत्य् अनुग्रहं कारयित्वा नमस्कृत्य यथा-शक्ति जपेत् ॥
2.10
यद्य् अग्नि-कार्य-संपत्तिः बलेः पूर्वं विधि-वत् संस्कृते ऽग्नौ स्वाहान्तैः श्री-श्रीपत्य्-आदि-विघ्नकर्तृ-पर्यन्तैः मन्त्रैर् हुत्वा पुनर् आगत्य देवं त्रि-वारं संतर्प्य योग्यैस् सह म-पञ्चकम् उररी-कृत्य महा-गणपतिम् आत्मन्य् उद्वास्य सिद्ध-सङ्कल्पः सुखी विहरेत् इति शिवम् ॥
3. Khaṇḍa: श्री-क्रम
3.1
एवं गणपतिम् इष्ट्वा विधूत-समस्त-विघ्न-व्यतिकरः शक्ति-चक्रैक-नायिकायाः श्री-ललितायाः क्रमम् आरभेत ॥
3.2
ब्राह्मे मुहूर्ते ब्राह्मणो मुक्त-स्वापः पाप-विलापाय परम-शिव-रूपं गुरुम् अभिमृश्य ॥
3.3
मूलादि-विधि-बिल-पर्यन्तं तडित्-कोटि-कडारां तरुण-दिवाकर-पिञ्जरां ज्वलन्तीं मूल-संविदं ध्यात्वा तद्-रश्मि-निहत-कश्मल-जालः कादिं हादिं वा मूल-विद्यां मनसा दशवारम् आवर्त्य ॥
3.4
स्नान-कर्मणि प्राप्ते मूलेन दत्वा त्रिः सलिलाञ्जलीन् त्रिस् तद्-अभिमन्त्रिताः पीत्वापस् त्रिस् सन्तर्प्य त्रिः प्रोक्ष्यात्मानं परिधाय वाससी ह्रां ह्रीं ह्रूं सः इत्य् उक्त्वा मार्ताण्ड-भैरवाय प्रकाश-शक्ति-सहिताय स्वाहेति त्रिस् सवित्रे दत्तार्घ्यः ॥
3.5
तन्-मण्डल-मध्ये नव-योनि-चक्रम् अनुचिन्त्य वाचम् उच्चार्य त्रिपुर-सुन्दरि विद्महे कामम् उच्चार्य पीठ-कामिनि धीमहि - शक्तिम् उच्चार्य, तन् नः क्लिन्ना प्रचोदयाद् इति - त्रिर् महेश्यै दत्तार्घ्यः शतम् अष्टोत्तरम् आमृश्य मनुं मौनम् आलम्ब्य ॥
3.6
याग-मन्दिरं गत्वा कॢप्ताकल्पस् सङ्कल्पाकल्पो वा पीठ-मनुना आसने समुपविष्टः ॥
3.7
त्रितारीम् उच्चार्य रक्त-द्वादश-शक्ति-युक्ताय दीप-नाथाय नम इति भूमौ मुञ्चेत् पुष्पाञ्जलिम् ॥
3.8
सर्वेषां मन्त्राणाम् आदौ त्रितारी-संयोगः । त्रितारी वाङ्-माया-कमलाः ॥
3.9
पुरतः पञ्च-शक्ति-चतुः-श्रीकण्ठ-मेलन-रूपं भू-सदन-त्रय-वलि-त्रय-भूप-पत्र-दिक्-पत्र-भुवनार-द्रुहिणार-विधि-कोण-दिक्-कोण-त्रिकोण-बिन्दु-चक्र-मयं महा-चक्र-राजं सिन्दूर-कुङ्कुम-लिखितं चामीकर-कल-धौत-पञ्च-लोह-रत्न-स्फटिकाद्य्-उत्कीर्णं वा निवेश्य ॥
3.10
तत्र महा-चक्रे अमृताम्भोनिधये रत्न-द्वीपाय नाना-वृक्ष-महोद्यानाय कल्प-वृक्ष-वाटिकायै सन्तान-वाटिकायै हरि-चन्दन-वाटिकायै मन्दार-वाटिकायै पारिजात-वाटिकायै कदम्ब-वाटिकायै पुष्प-राग-रत्न-प्राकाराय पद्म-राग-रत्न-प्राकाराय गो-मेध-रत्न-प्राकाराय वज्र-रत्न-प्राकाराय वैडूर्य-रत्न-प्राकाराय इन्द्र-नील-रत्न-प्राकाराय मुक्ता-रत्न-प्राकाराय मरकत-रत्न-प्राकाराय विद्रुम-रत्न-प्राकाराय माणिक्य-मण्डपाय सहस्र-स्तम्भ-मण्डपाय अमृत-वापिकायै आनन्द-वापिकायै विमर्श-वापिकायै बालातपोद्गाराय चन्द्रिकोद्गाराय महा-शृङ्गार-परिघायै महा-पद्माटव्यै चिन्ता-मणि-गृह-राजाय पूर्वाम्नाय-मय-पूर्व-द्वाराय दक्षिणाम्नाय-मय-दक्षिण-द्वाराय पश्चिमाम्नाय-मय-पश्चिम-द्वारायोत्तराम्नाय-मयोत्तर-द्वाराय रत्न-प्रदीप-वलयाय मणि-मय-महा-सिंहासनाय ब्रह्म-मयैक-मञ्च-पादाय विष्णु-मयैक-मञ्च-पादाय रुद्र-मयैक-मञ्च-पादाय ईश्वर-मयैक-मञ्च-पादाय सदाशिव-मयैक-मञ्च-फलकाय हंस-तूल-तल्पाय हंस-तूल-महोपधानाय कौसुम्भास्तरणाय महा-वितानकाय महा-जवनिकायै नमः - इति चतुश्चत्वारिंशन्-मन्त्रैस् तत्-तद् अखिलं भावयित्वा अर्चयित्वा ॥
3.11
गन्ध-पुष्पाक्षतादींश् च दक्षिण-भागे दीपान् अभितो दत्त्वा मूलेन चक्रम् अभ्यर्च्य मूल-त्रि-खण्डैः प्रथम-त्र्य्-अस्रे ॥
3.12
वाय्व्-अग्नि-सलिल-वर्ण-युक्-प्राणायामैः शोषणं संदहनम् आप्लावनं च विधाय ॥
3.13
त्रिः प्राणान् आयम्य ॥
3.14
अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः ।
ये भूता विघ्न-कर्तारस् ते नश्यन्तु शिवाज्ञया ।
इति वाम-पाद-पार्ष्णि-घात-करास्फोट-समुदञ्चित-वक्त्रस् ताल-त्रयं दत्वा देव्य्-अहम्-भाव-युक्तः स्व-शरीरे वज्र-कवच-न्यास-जालं विदधीत ॥
3.15
बिन्दु-युक्-श्रीकण्ठानन्त-तार्तीयैः मध्यमादि-तल-पर्यन्तं कृत-कर-शुद्धिः ॥
3.16
कुमारीम् उच्चार्य महा-त्रिपुरसुन्दरी-पदम् आत्मानं रक्ष रक्षेति हृदये अञ्जलिं दत्त्वा ॥
3.17
माया-काम-शक्तीर् उच्चार्य देव्य्-आत्मासनाय नमः - इति स्वस्यासनं दत्त्वा ॥
3.18
शिव-युग्-बालाम् उच्चार्य श्री-चक्रासनाय नमः - शिव-भृगु-युग्-बालाम् उच्चार्य सर्व-मन्त्रासनाय - नमो भुवना-मदनौ ब्लेम् उच्चार्य साध्य-सिद्धासनाय नमः - इति चक्र-मन्त्र-देवतासनं त्रिभिर् मन्त्रैश् चक्रे कृत्वा ॥
3.19
बाला-द्विर्-आवृत्त्या त्रि-द्व्य्-एक-दश-त्रि-द्वि-सङ्ख्याङ्गुलि-विन्यासैः कॢप्त-षड्-अङ्गः ॥
3.20
स-बिन्दून् अचो ब्लूम् उच्चार्य वशिनी-वाग्-देवतायै नमः - इति शिरसि । सर्वत्र वर्गाणां बिन्दु-योगः । क-वर्गं क-ल-ह्रीं च निगद्य कामेश्वरी-वाग्-देवतायै नमः - इति ललाटे । चुं गदित्वा न्व्लीं मोदिनी-वाग्-देवतायै नमः - इति भ्रू-मध्ये । टुं भणित्वा य्लूं विमला-वाग्-देवतायै नमः - इति कण्ठे । तुं च प्रोच्य ज्म्रीं अरुणा-वाग्-देवतायै नमः - इति हृदि । पुं च ह्स्ल्व्यूं उच्चार्य जयिनी-वाग्-देवतायै नमः - इति नाभौ । यादि-चतुष्कं झ्म्र्यूं उच्चार्य सर्वेश्वरी-वाग्-देवतायै नमः - इति लिङ्गे । शादि-षट्कं क्ष्म्रीं आख्याय कौलिनी-वाग्-देवतायै नमः - इति मूले ॥
3.21
मूल-विद्या-पञ्चदश-वर्णान् मूर्ध्नि मूले हृदि चक्षुस्-त्रितये श्रुति-द्वय-मुख-भुज-युगल-पृष्ठ-जानु-युगल-नाभिषु विन्यस्य षोढा चक्रे न्यस्यान्यस्य वा ॥
3.22
शुद्धाम्भसा वाम-भागे त्रि-कोण-षट्-कोण-वृत्त-चतुर्-अश्र-मण्डलं कृत्वा पुष्पैर् अभ्यर्च्य साधारं शङ्खं प्रतिष्ठाप्य शुद्ध-जलम् आपूर्य आदिम-बिन्दुं दत्त्वा षड्-अङ्गेनाभ्यर्च्य विद्यया अभिमन्त्र्य तज्-जल-विप्रुड्भिः आत्मानं पूजोपकरणानि च संप्रोक्ष्य ॥
3.23
तज्-जलेन त्रि-कोण-षट्-कोण-वृत्त-चतुर्-अस्र-मण्डलं कृत्वा मध्यं विद्यया विद्या-खण्डैस् त्रि-कोणं बीजावृत्त्या षड्-अश्रं संपूज्य वाचम् उच्चार्य अग्नि-मण्डलाय दश-कलात्मने अर्घ्य-पात्राधाराय नमः - इति प्रतिष्ठाप्य आधारं प्रपूज्य पावकीः कलाः ॥
3.24
मदनाद् उपरि सूर्य-मण्डलाय द्वादश-कलात्मने अर्घ्य-पात्राय नमः इति संविधाय पात्रं संस्पृश्य कलाः सौरीः सौः सोम-मण्डलाय षोडश-कलात्मने अर्घ्यामृताय नमः - इति पूरयित्वा आदिमं दत्त्वोपादिम-मध्यमौ पूजयित्वा विधोः कला-षोडशकम् ॥
3.25
तत्र विलिख्य त्र्य्-अस्रम् अ-क-थादि-मय-रेखं ह-ल-क्ष-युगान्त-स्थित-हंस-भास्वरं वाक्-काम-शक्ति-युक्त-कोणं हंसेनाराध्य बहिर् वृत्त-षट्-कोणं कृत्वा षड्-अस्रं षड्-अङ्गेन पुरो-भागाद्य् अभ्यर्च्य मूलेन सप्तधा अभिमन्त्र्य दत्त-गन्धाक्षत-पुष्प-धूप-दीपः तद्-विप्रुड्भिः प्रोक्षित-पूजा-द्रव्यः सर्वं विद्यामयं कृत्वा तत् स्पृष्ट्वा चतुर्नवति-मन्त्रान् जपेत् ॥
3.26
त्रितारी-नमस्-संपुटिताः तेजस्-त्रितय-कला अष्टत्रिंशत् ।
सृष्टि-ऋद्धि-स्मृति-मेधा-कान्ति-लक्ष्मी-द्युति-स्थिरा-स्थिति-सिद्धयो ब्रह्म-कला दश । जरा पालिनी शान्तिर् ईश्वरी रति-कामिके वरदाह्लादिनी प्रीतिर् दीर्घा विष्णु-कला दश । तीक्ष्णा रौद्री भया निद्रा तन्द्री क्षुधा क्रोधिनी क्रियोद्गारी-मृत्यवो रुद्र-कला दश । पीता श्वेतारुणासिताश् चतस्र ईश्वर-कलाः । निवृत्ति-प्रतिष्ठा-विद्या-शान्तीन्धिका-दीपिका-रेचिका-मोचिका-परा-सूक्ष्मा-सूक्ष्मामृता-ज्ञाना-ज्ञानामृता-प्यायिनी-व्यापिनी-व्योमरूपाः षोडश सदाशिव-कलाः ॥
हंसश् शुचि-षद् वसुर् अन्तरिक्ष-सद् धोता व्वेदि-षद् अतिथिर् दुरोण-सत् ।
नृ-षद् वर-सद् ऋत-सद् वयोम-सद् अब्-जा गो-जा ऋत-जा अद्रि-जा ऋतं बृहत् ॥
प्र तद्-विष्णुः स्तवते वीर्येण मृगो न भीमः कु-चरो गिरि-ष्ठाः ।
यस्योरुषु त्रिषु विक्रमेष्व् अधिक्षियन्ति भुवनानि व्विश्वा ॥
त्र्यम्बकं यजामहे सु-गन्धिं पुष्टि-वर्धनम् ।
उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् ॥
तद्-विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुर् आततम् ॥
तद्-विप्रासो विपन्यवो जागृ-वांसः समिन्धते ।
विष्णोर् यत् परमं पदम् ॥
विष्णुर् योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
आसिञ्चतु प्रजापतिर् धाता गर्भं दधातु ते ॥
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
गर्भं ते अश्विनौ देवाव् आधत्तां पुष्कर-स्रजा ॥
इत्य् एते पञ्च-मन्त्राः ॥
मूल-विद्या चाहत्य चतुर्नवति-मन्त्राः ॥
3.27
अथ हैके पञ्चभिर् अखण्डाद्यैर् अभिमन्त्रणम् आमनन्ति ॥
3.28
अखण्डैक-रसानन्द-करे पर-सुधात्मनि ।
स्व-च्छन्द-स्फुरणम् अत्र निधेह्य् अकुल-नायिके ॥
अकुल-स्थामृताकारे शुद्ध-ज्ञान-करे परे ।
अमृतत्वं निधेह्य् अस्मिन् वस्तुनि क्लिन्न-रूपिणि ॥
तद्-रूपिण्य् ऐकरस्यत्वं कृत्वा ह्य् एतत् स्व-रूपिणि ।
भूत्वा परामृताकारा मयि चित्-स्फुरणं कुरु ॥
इति तिस्रो ऽनुष्टुभो विद्याः ॥
3.29
अथो वाचं ब्लूं झ्रौम् इति जूं सः - इति चोक्त्वा अमृते अमृतोद्भवे अमृतेश्वरि अमृत-वर्षिणि अमृतं स्रावय स्रावय स्वाहेति चतुर्थो मन्त्रः ॥
3.30
वाग्भवो वद वद ततो वाग्-वादिनि वाङ्-मदन-क्लिन्ने क्लेदिनि क्लेदय महा-क्षोभं कुरु-युगलं मादनं शक्तिर् मोक्षं कुरु कुरु शब्दो ह-स-चतुर्दश-पञ्चदश-पिण्डः स-ह-चतुर्दश-षोडश-पिण्डश् चेति पञ्चमीयं विद्यैताभिः अभिमन्त्र्य ज्योतिर्-मयं तद् अर्घ्यं विधाय ॥
3.31
तद्-बिन्दुभिस् त्रिशः शिरसि गुरु-पादुकाम् इष्ट्वा आर्द्रं ज्वलति ज्योतिर् अहम् अस्मि ज्योतिर् ज्वलति ब्रह्माहम् अस्मि यो ऽहम् अस्मि ब्रह्माहम् अस्मि अहम् अस्मि ब्रह्माहम् अस्मि अहम् एवाहं मां जुहोमि स्वाहेति तद् बिन्दुम् आत्मनः कुण्डलिन्यां जुहुयात् ॥
3.32
एतद् अर्घ्य-शोधनम् इति शिवम् ॥
4. Khaṇḍa: ललिता-क्रम
4.1
अथ हृच्-चक्र-स्थिताम् अन्तस्-सुषुम्णा-पद्माटवी-निर्भेदन-कुशलां निरस्त-मोह-तिमिरां शिव-दीप-दीप्तिम् आद्यां संविदं वहन्-नास-पुटेन निर्गमय्य लीलाकलित-वपुषं तां त्रिखण्ड-मुद्रा-शिखण्डे कुसुमाञ्जलौ हस्ते समानीय ॥
4.2
माया-लक्ष्मी परा उच्चार्य देवी-नाम चामृत-चैतन्य-मूर्तिं कल्पयामि नमः - इति कल्पयित्वा ॥
4.3
ह-स-र-युजं वाचं ह-स-युक्तां क-ल-रीं ह-स-र-चतुर्दश-षोडशान् अप्य् उच्चार्य,
महा-पद्म-वनान्तःस्थे कारणानन्द-विग्रहे ।
सर्व-भूत-हिते मातर् एह्य् एहि परमेश्वरि ॥
इति बैन्दव-चक्रे पर-चितिम् आवाह्य ॥
4.4
चतुष्षष्ट्य्-उपचारान् कुर्यात् । सर्वे उपचार-मन्त्राः त्रितारी-पूर्वाः कल्पयामि नमः - इत्य् अन्ताः कर्तव्याः ॥
4.5
त्रितारीम् उच्चार्य पाद्यं कल्पयामि नमः इति क्रमेण आभरणावरोपणं सुगन्धि-तैलाभ्यङ्गं मज्जन-शाला-प्रवेशनं मज्जन-मण्डप-मणि-पीठोपवेशनं दिव्य-स्नानीयोद्वर्तनम् उष्णोदक-स्नानम् कनक-कलश-च्युत-सकल-तीर्थाभिषेकं धौत-वस्त्र-परिमार्जनम् अरुण-दुकूल-परिधानम् अरुण-कुचोत्तरीयम् आलेप-मण्डप-प्रवेशनम् आलेप-मण्डप-मणि-पीठोपवेशनं चन्दनागरु-कुङ्कुम-सङ्कु-मृगमद-कर्पूर-कस्तूरी-गोरोचनादि-दिव्य-गन्ध-सर्वाङ्गीण-विलेपनं केश-भरस्य कालागरु-धूपं मल्लिका-मालती-जाती-चम्पकाशोक-शतपत्र-पूग-कुड्मली-पुन्नाग-कल्हार-मुख्य-सर्व-र्तु-कुसुम-मालां भूषण-मण्डप-प्रवेशनं भूषण-मण्डप-मणि-पीठोपवेशनं नव-मणि-मकुटं चन्द्र-शकलं सीमन्त-सिन्दूरं तिलक-रत्नं कालाञ्जनं पाली-युगलं मणि-कुण्डल-युगलं नासाभरणम् अधर-यावकं प्रथम-भूषणं कनक-चिन्ताकं पदकं महापदकं मुक्तावलिम् एकावलिं छन्न-वीरं केयूर-युगल-चतुष्टयं वलयावलिम् ऊर्मिकावलिं काञ्ची-दाम-कटि-सूत्रं सौभाग्याभरणं पाद-कटकं रत्न-नूपुरं पादाङ्गुलीयकम् एक-करे पाशम् अन्य-करे अङ्कुशम् इतर-करे पुण्ड्रेक्षु-चापम् अपर-करे पुष्प-बाणान् श्रीमन्-माणिक्य-पादुके स्वसमान-वेषाभिर् आवरण-देवताभिः सह महा-चक्राधिरोहणं कामेश्वराङ्क-पर्यङ्कोपवेशनम् अमृतासव-चषकम् आचमनीयं कर्पूर-वीटिकाम् आनन्दोल्लास-विलास-हासं मङ्गलारार्तिकं छत्रं चामर-युगलं दर्पणं ताल-वृन्तं गन्धं पुष्पं धूपं दीपं नैवेद्यं कल्पयामि नमः - इति चतुष्षष्ट्य्-उपचारान् विधाय ॥
4.6
नव-मुद्राश् च प्रदर्श्य ॥
4.7
मूलेन त्रिधा सन्तर्प्य ॥
4.8
देव्या अग्नीशासुर-वायुषु मध्ये दिक्षु च षड्-अङ्गानि पूजयित्वा ॥
4.9
वाक्-स-क-ल-ह्रीं नित्य-क्लिन्ने मद-द्रवे सौः - इति कामेश्वरी । सर्वत्र नित्या-श्री-पादुकेति योज्यम् । वाग्-भग-भुगे भगिनि भगोदरि भग-माले भगावहे भग-गुह्ये भग-योनि भग-निपातिनि सर्व-भग-वशङ्करि भग-रूपे नित्य-क्लिन्ने भग-स्वरूपे सर्वाणि भगानि मे ह्य् आनय वर-दे रेते सुरेते भग-क्लिन्ने क्लिन्न-द्रवे क्लेदय द्रावय अमोघे भग-विच्चे क्षुभ क्षोभय सर्व-सत्त्वान् भगेश्वरि ऐं ब्लूं जें ब्लूं भें ब्लूं मों ब्लूं हें ब्लूं हें क्लिन्ने सर्वाणि भगानि मे वशम् आनय स्त्रीं हर ब्लें ह्रीं भग-मालिनी । तारो माया नित्य-क्लिन्ने मद-द्रवे स्वाहा - इति नित्य-क्लिन्ना । प्रणवः क्रों भ्रों क्रौं झ्रौं छ्रौं ज्रौं स्वाहा - इति भेरुण्डा । प्रणवो माया वह्नि-वासिन्यै नमः - इति वह्नि-वासिनी । माया-क्लिन्ने वाक् क्रों नित्य-मद-द्रवे ह्रीं - इति महा-वज्रेश्वरी । माया शिव-दूत्यै नमः - इति शिव-दूती । प्रणवो माया हुं खे च छे क्षः स्त्रीं हुं क्षें ह्रीं फट् - इति त्वरिता । कुमारी कुल-सुन्दरी । ह-स-क-ल-र-ड-वाग्भव-ह-स-क-ल-र-ड-बिन्दु-मालिनी-ह-स-क-ल-र-ड-चतुर्दश-षोडशा - इति नित्या । माया फ्रें स्रूं अङ्कुश-पाश-स्मर-वाग्भव-ब्लूं-पद-नित्य-मद-द्रवे वर्म फ्रें मायेति नील-पताका । भ-म-र-य-ऊम् इति विजया । स्वौम् इति सर्व-मङ्गला । तारो नमो भगवति ज्वाला-मालिनि देव-देवि सर्व-भूत-संहार-कारिके जात-वेदसि ज्वलन्ति ज्वल ज्वल प्रज्वल प्रज्वल त्रि-जाति-युक्त-माया-रेफ-सप्तक-ज्वाला-मालिनि वर्म-फड्-अग्नि-जायेति ज्वाला-मालिनी । (अं) च्कौं - इति चित्रेति पञ्चदश नित्याः प्रथम-त्र्य्-अस्र-रेखा-स्थित-पञ्चदश-स्वरेषु पूज्यः । विसृष्टौ षोडशीं मूल-विद्यया चाभ्यर्च्य ॥
4.10
मध्ये प्राक्-त्र्यस्रम् अध्यान्तः मुनि-वेद-नाग-सङ्ख्यान् यथा-सम्प्रदायं पादुकान् दिव्य-सिद्ध-मानवौघ-सिद्धान् इष्ट्वा पश्चात् स्व-शिरसि नाथं यजेत् । एतल्-लयाङ्ग-पूजनम् - इति शिवम् ॥
5. Khaṇḍa: ललिता-नवावरण-पूजा
5.1
अथ प्राथमिके चतुर्-अस्रे अणिमा-लघिमा-महिमेशित्व-वशित्व-प्राकाम्य-भुक्तीच्छा-प्राप्ति-सर्वकाम-सिद्ध्य्-अन्ताः मध्यमे चतुर्-अस्रे ब्राह्म्य्-आद्या-महालक्ष्म्य्-अन्ताः तृतीये चतुर्-अस्रे संक्षोभण-द्रावण-कर्षण-वश्योन्मादन-महाङ्कुश-खेचरी-बीज-योनि-त्रिखण्डाः सर्व-पूर्वास् ताः सम्पूज्याः ॥
5.2
एताः प्रकट-योगिन्यस् त्रैलोक्य-मोहन-चक्रे स-मुद्राः स-सिद्धयः सायुधाः स-शक्तयः स-वाहनाः स-परिवाराः सर्वोपचारैः सम्पूजिताः सन्त्व् इति तासाम् एव समष्ट्य्-अर्चनं कृत्वा ॥
5.3
कर-शुद्धिम् उच्चार्य त्रिपुराचक्रेश्वरीम् अवमृश्य द्राम् इति सर्वसंक्षोभिणी-मुद्रां प्रदर्शयेत् । चक्र-योगिनी-चक्रेशीनां नामानि भिन्नानि । शिष्टं समानम् ॥
5.4
षोडश-पत्रे कामाकर्षिणी नित्या-कलेति नित्या-कलान्ताः बुद्ध्य्-आकर्षिणी-अहङ्काराकर्षिणी-शब्दाकर्षिणी-स्पर्शाकर्षिणी-रूपाकर्षिणी-रसाकर्षिणी-गन्धाकर्षिणी-चित्ताकर्षिणी-धैर्याकर्षिणी-स्मृत्य्-आकर्षिणी-नामाकर्षिणी-बीजाकर्षिणी-आत्माकर्षिणी-अमृताकर्षिणी-शरीराकर्षिणी एता गुप्त-योगिन्यः सर्वाशा-परिपूरके चक्रे स-मुद्राः इत्य् आदि पूर्व-वत् आत्म-रक्षाम् उच्चार्य त्रिपुरेशीम् इष्ट्वा द्रीं - इति सर्वविद्राविणीं प्रदर्शयेत् ॥
5.5
दिक्-पत्रे कुसुमा-मेखला-मदना-मदनातुरा-रेखा-वेगिन्य्-अङ्कुशा-मालिनीर् अनङ्ग-पूर्वाः संमृश्यैता गुप्ततर-योगिन्यः सर्व-संक्षोभण-चक्रे स-मुद्राः इत्य् आदि पूर्व-वद् आत्मासनम् उच्चार्य त्रिपुरसुन्दरीम् इष्ट्वा क्लीम् इति सर्वाकर्षिणी-मुद्रां प्रदर्शयेत् ॥
5.6
भुवनारे संक्षोभिणी-द्राविण्य्-आकर्षिण्य्-आह्लादिनी-संमोहिनी-स्तम्भिनी-जृम्भिणी-वशङ्करी-रञ्जन्य्-उन्मादिन्य्-अर्थसाधिनी-सम्पत्तिपूरणी-मन्त्रमयी-द्वन्द्व-क्षयङ्करीः सर्वादीर् अवमृश्यैताः सम्प्रदाय-योगिन्यः सर्वसौभाग्यदायक-चक्रे स-मुद्राः - इत्य् आदि मन्त्र-शेषः चक्रासनम् उच्चार्य त्रिपुरवासिनीं चक्रेश्वरीम् इष्ट्वा ब्लूं - इति सर्ववशङ्करी-मुद्राम् उद्घाटयेत् ॥
5.7
बहिर्-दशारे सिद्धिप्रदा-सम्पत्प्रदा-प्रियङ्करी-मङ्गलकारिणी-कामप्रदा-दुःखविमोचिनी-मृत्युप्रशमनी-विघ्ननिवारिण्य्-अङ्गसुन्दरी-सौभाग्यदायिनीः सर्व-पूर्वाः सम्पूज्यैताः कुलोत्तीर्ण-योगिन्यः सर्वार्थसाधक-चक्रे मनु-शेषम् उक्त्वा मन्त्रासनम् उच्चार्य त्रिपुराश्रीचक्रेश्वरीं प्रत्यवमृश्य स इत्य् उन्मादिनी-मुद्रां दद्यात् ॥
5.8
अन्तर्-दशारे ज्ञान-शक्त्य्-ऐश्वर्यप्रदा-ज्ञानमयी-व्याधिविनाशिन्य्-आधारस्वरूपा-पापहरानन्दमयी-रक्षास्वरूपिणी-प्सितफलप्रदाः सर्वोपपदाः यष्टव्या एतानि गर्भ-योगिन्यः सर्वरक्षाकर-चक्रे शिष्टं तद्-वत् साध्यसिद्धासनम् उच्चार्य त्रिपुरमालिनी मान्या क्रोम् इति सर्वमहाङ्कुशां दर्शयेत् ॥
5.9
अष्टारे वशिन्य्-आद्य्-अष्टकं नमः-स्थाने पूजा-मन्त्र-सन्नाम एता रहस्य-योगिन्यः सर्वरोगहर-चक्रे शिष्टं स्पष्टं मूर्ति-विद्याम् उच्चार्य त्रिपुरासिद्धाम् आराध्य शिव-भृगु-ऋद्धि-युक्-फ्रें - इति खेचरी देया ॥
5.10
बाण-बीजान्य् उच्चार्य सर्व-जृम्भणेभ्यो बाणेभ्यो नमः धं थं सर्व-संमोहनाय धनुषे आं ह्रीं सर्व-वशीकरणाय पाशाय क्रों सर्व-स्थम्भनायाङ्कुशाय नमः इति महा-त्र्य्-अस्र-बाह्य-चतुर्-दिक्षु बाणाद्य्-आयुध-पूजा ॥
5.11
त्रि-कोणे वाक्-काम-शक्ति-समस्त-पूर्वाः कामेश्वरी-वज्रेश्वरी-भगमालिनी-महा-देव्यः बिन्दौ चतुर्थी ॥
5.12
तिसृणाम् आसाम् अनन्तरम् अभेदाय मूल-देव्याः पूजा । कामेश्वर्य्-आदि-चतुर्थी नित्यानां षोडशी चक्र-देवीनां नवमी बिन्दु-चक्र-स्था चेत्य् एकैव । न तत्र मन्त्र-देवता-भेदः कार्यः । तन्-महा-देव्या एव । चतुर्षु स्थलेषु विशेषार्चनम् आवर्तते ॥
5.13
एता अतिरहस्य-योगिन्यः सर्वसिद्धिप्रदे चक्रे । परिशिष्टं द्रष्टव्यम् । आवाहनीम् उच्चार्य त्रिपुराम्बां सम्भाव्य ह्सौं - इति बीज-मुद्रा-कृतिः ॥
5.14
बिन्दु-चक्रे मूलेन देवीम् इष्ट्वा एषा परापर-रहस्य-योगिनी सर्वानन्दमये चक्रे स-मुद्रा स-सिद्धिः सायुधा स-शक्तिः स-वाहना स-परिवारा सर्वोपचारैः संपूजितास्त्व् इति पुनर् मूलम् उच्चार्य, महाचक्रेश्वरीम् इष्ट्वा वाग्भवेन योनिं प्रदर्श्य ॥
5.15
पूर्व-वद् धूप-दीप-मुद्रा-तर्पण-नैवेद्यादि दत्त्वा ॥
5.16
बिन्दुना मुखं बिन्दु-द्वयेन कुचौ स-परार्धेन योनिं कृत्वा काम-कलाम् इति ध्यात्वा ॥
5.17
सौभाग्य-हृदयम् आमृश्य ॥
5.18
वाम-भाग-विहित-त्रि-कोण-वृत्त-चतुर्-अस्रे गन्धाक्षतार्चिते वाग्भवम् उच्चार्य व्यापक-मण्डलाय नमः इत्य् अर्ध-भक्त-भरिताम्भसा आदिमोपादिम-मध्यम-भाजनं तत्र न्यस्य ॥
5.19
प्रणव-मायान्ते सर्व-विघ्न-कृद्भ्यः सर्व-भूतेभ्यो हुं स्वाहा - इति त्रिः पठित्वा बलिं दत्त्वा ॥
5.20
प्रदक्षिण-नमस्कार-जप-स्तोत्रैः सन्तोष्य ॥
5.21
तद्-रूपिणीम् एकां शक्तिं बालयोपचारैः सम्पूज्य तां म-पञ्चकेन सन्तर्प्य ॥
5.22
शिष्टैः सार्धं चिद्-अग्नौ हविश्-शेषं हुत्वा ॥
5.23
खेचरीं बद्ध्वा क्षमस्वेति विसृज्य ताम् आत्मनि संयोजयेत् इति शिवम् ॥
6. Khaṇḍa: श्यामा-क्रम

6.1
इयम् एव महती विद्या सिंहासनेश्वरी साम्राज्ञी, तस्याः प्रधान-सचिव-पदं श्यामा, तत्-क्रम-विमृष्टिः सदा कार्या ॥
6.2
प्रधान-द्वारा राज-प्रसादनं हि न्याय्यम् ॥
6.3
ब्राह्मे मुहूर्ते चोत्थाय शयने स्थित्वैव श्री-पादुकां प्रणम्य प्राणान् आयम्य मूलादि-द्वादशान्त-पर्यन्तं ज्वलन्तीं पर-संविदं विचिन्त्य मनसा मूलं त्रिशो जप्त्वा बहिर् निर्गत्य विमुक्त-मल-मूत्रो दन्त-धावन-जिह्वा-घर्षण-कफ-विमोचन-नास-शोधन-विंशति-गण्डूषान् विधाय ॥
6.4
मन्त्र-भस्म-जल-स्नानेष्व् इष्टं विधाय वस्त्रं परिधाय ॥
6.5
सन्ध्याम् उपास्य सवितृ-मण्डले देवीं सावरणं विचिन्त्य मूलेन त्रिर् अर्घ्यं दत्त्वा यथा-शक्ति सन्तर्प्य ॥
6.6
याग-गृहं प्रविश्यासने आधार-शक्ति-कमलासनाय नम - इत्य् उपविश्य ॥
6.7
समस्त-प्रकट-गुप्त-सिद्ध-योगिनी-चक्र-श्री-पादुकाभ्यो नम इति शिरस्य् अञ्जलिम् आधाय स्व-गुरु-पादुका-पूजां च विधाय ॥
6.8
ऐं ह्रः अस्त्राय फट् इत्य् अस्त्र-मन्त्रेण अङ्गुष्ठादि-कनिष्ठान्तं कर-तलयोः कूर्परयोः देहे च व्यापकत्वेन विन्यस्य ॥
6.9
यं - इति वायुं पिङ्गलयाकृष्य देहम् उपविशोष्य, रं - इति वायुम् आकृष्य देहं दग्ध्वा, वं - इति वायुम् आकृष्यामृतेन दग्ध-देह-भस्म सिक्त्वा, लं - इति वायुम् आकृष्य दृढं विधाय, हंस - इति वायुम् आकृष्य शिव-चैतन्यम् उत्पाद्य ॥
6.10
मूलम् एकश उच्चार्य वायुम् आकृष्य त्रिशः उच्चार्य कुम्भयित्वा सकृद् उच्चार्य रेचयेत् । एवं रेचक-पूरक-कुम्भकं त्रिधा सप्तधा दशधा षोडशधा वा विरच्य तेजो-मय-तनुः ॥
6.11
षड्-अङ्गं बाला-सहितां मातृकां मूल-हृन्-मुखेषु रति-प्रीति-मनोभवान् विन्यस्य ॥
6.12
मूलं सप्तदशधा खण्डयित्वा षट् ब्रह्म-बिले त्रीणि ललाटे चत्वारि भ्रू-मध्ये दक्ष-वामेक्षणयोः षट् चाष्टौ सप्तास्ये दक्ष-वाम-श्रुति-कण्ठेष्व् एकैकं दक्ष-वामांसयोर् अष्टौ च दश हृदि दश दक्ष-वाम-स्तनयोर् अष्टाव् अष्टौ नव नाभौ द्विः स्वाधिष्ठाने षड् आधार एवं विन्यस्य ॥
6.13
पुनर् आधारादि-ब्रह्म-बिल-पर्यन्तं सप्तदश-खण्डान् उक्त-स्थानेषु विन्यस्य ॥
6.14
अमृतोदधि-मध्य-रत्न-द्वीपे मुक्ता-मालाद्य्-अलङ्कृतं चतुर्-द्वार-सहितं मण्डपं विचिन्त्य तस्य प्राग्-आदि-चतुर्-द्वारेषु - सां सरस्वत्यै, लां लक्ष्म्यै, शं शङ्ख-निधये, पं पद्म-निधये नमः - लां इन्द्राय वज्र-हस्ताय सुराधिपतये ऐरावत-वाहनाय स-परिवाराय नमः - रां अग्नये शक्ति-हस्ताय तेजो-ऽधिपतये अज-वाहनाय स-परिवाराय नमः - टां यमाय दण्ड-हस्ताय प्रेताधिपतये महिष-वाहनाय स-परिवाराय नमः - क्षां निरृतये खड्ग-हस्ताय रक्षो-ऽधिपतये नर-वाहनाय स-परिवाराय नमः - वां वरुणाय पाश-हस्ताय जलाधिपतये मकर-वाहनाय स-परिवाराय नमः - यां वायवे ध्वज-हस्ताय प्राणाधिपतये रुरु-वाहनाय स-परिवाराय नमः - सां सोमाय शङ्ख-हस्ताय नक्षत्राधिपतये अश्व-वाहनाय स-परिवाराय नमः - हां ईशानाय त्रिशूल-हस्ताय विद्याधिपतये वृषभ-वाहनाय स-परिवाराय नमः - ॐ ब्रह्मणे पद्म-हस्ताय सत्य-लोकाधिपतये हंस-वाहनाय स-परिवाराय नमः - श्रीं विष्णवे चक्र-हस्ताय नागाधिपतये गरुड-वाहनाय स-परिवाराय नमः - ॐ वास्तु-पतये ब्रह्मणे नमः - इत्य् एकादश-दिक्षु एकादश-देवान् अर्चयेत् ॥
6.15
श्यामा-क्रम-मन्त्राणाम् आदौ त्रितारी-कुमारी-योगः कुमारी-योगो वा, त्रितारी पूर्वोक्ता कुमारी बाला शेषम् उत्तानम् ॥
6.16
गन्ध-द्रव्येण लिप्ताङ्गस् ताम्बूलामोदित-वदनः प्रसन्न-मना भूत्वा ॥
6.17
सुवर्ण-रजत-ताम्र-चन्दन-मण्डलेषु बिन्दु-त्रि-कोण-पञ्च-कोणाष्ट-दल-षोडश-दलाष्ट-दल-चतुर्-दल-चतुर्-अस्रात्मकं चक्र-राजं विलिख्य ॥
6.18
मूलेन त्रिवार-जप्तेन शुद्ध-जलेन चतुर्-अस्र-वृत्त-षट्-कोण-त्रि-कोण-बिन्दून् प्रवेशेन मत्स्य-मुद्रया विधाय - अं आत्म-तत्त्वाय आधार-शक्तये वौषट् - इत्य् आधारं प्रतिष्ठाप्य धूम्रार्चिर् ऊष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी सु-श्रीः सु-रूपा कपिला हव्य-वाहा कव्य-वाहेत्य् अग्नि-कला अभ्यर्च्य - उं विद्या-तत्त्वाय पद्माननाय वौषट् - इति पात्रं प्रतिष्ठाप्य - तपिनी तापिनी धूम्रा मरीचिर् ज्वालिनी रुचिः सुषुम्ना भोग-दा विश्वा बोधिनी धारिणी क्षमा - इति पात्रे सूर्य-कला अभ्यर्च्य - मं शिव-तत्त्वाय सोम-मण्डलाय नमः - इति शुद्ध-जलम् आपूर्य - अमृता मान-दा पूषा तुष्टिः पुष्टी रतिः धृतिः शशिनी चन्द्रिका कान्तिर् ज्योत्स्ना श्रीः प्रीतिर् अङ्ग-दा पूर्णा पूर्णामृता - चेति चन्द्र-कला अभ्यर्च्य अग्नीशासुर-वायुषु मध्ये दिक्षु च षड्-अङ्गानि विन्यस्य अस्त्रेण संरक्ष्य कवचेनावकुण्ठ्य धेनु-योनी प्रदर्श्य - मूल-मन्त्रेण सप्तशो ऽभिमन्त्र्य तज्-जल-विप्रुड्भिः याग-गृहं पूजोपकरणानि चावोक्ष्य ॥
6.19
ताभिर् ई-काराङ्कित-त्रि-कोण-वृत्त-चतुर्-अस्रं मण्डलं विधाय तस्मिन् पुष्पाणि विकीर्य पूर्व-वद् आधारं प्रतिष्ठाप्य अग्नि-कला अभ्यर्च्य पात्रं प्रतिष्ठाप्य तस्मिन् पात्रे ह्रीं ऐं महा-लक्ष्मीश्वरि परम-स्वामिनि ऊर्ध्वशून्य-प्रवाहिनि सोम-सूर्याग्नि-भक्षिणि परमाकाश-भासुरे आगच्छागच्छ विश विश पात्रं प्रतिगृह्ण प्रतिगृह्ण हुं फट् स्वाहेति पुष्पाञ्जलिं विकीर्य सूर्य-कला अभ्यर्च्य
ब्रह्माण्डाखण्ड-सम्भूतम् अशेष-रस-सम्भृतम् ।
आपूरितं महा-पात्रं पीयूष-रसम् आवह ॥
इत्य् आदिमम् आपूर्य द्वितीयं निक्षिप्य अ-क-थादि-त्रि-रेखाङ्कित-कोण-त्रये ह-ल-क्षान् मध्ये हंसं च विलिख्य - मूलेन दशधा अभिमन्त्र्य - चन्द्र-कलाः अभ्यर्च्य - अग्नीशासुर-वायुषु मध्ये दिक्षु, षड्-अङ्गानि विन्यस्य - अस्त्रेण संरक्ष्य - कवचेनावकुण्ठ्य, धेनु-योनी प्रदर्शयेत् ॥
6.20
चक्र-मध्ये श्री-मातम् उक्त्वा गीश्वरी-मूर्तये नमः - इति मूर्तिं कल्पयित्वा भूयः श्री-मातम् उक्त्वा गीश्वर्य्-अमृत-चैतन्यम् आवाहयामि - इत्य् आवाह्य, षोडशभिर् उपचर्य आशुशुक्षणि-त्र्यक्ष-रक्षः-प्रभञ्जन-दिक्षु देव्या मौलौ परितश् च पूज्या अङ्ग-देव्यः । तन्-मन्त्राः सर्व-जनादयः अष्टौ सप्तैकादश दश पुनर् दशाष्टाविंशति-खण्डाः त्रितारी-कुमारी-वाग्-आदयः स-जातयः सामान्य-मनु-युक्ताः ॥
6.21
पश्चाद् आवरण-पूजां कुर्यात् ॥
6.22
सर्व-चक्र-देवतार्चनानि वाम-कराङ्गुष्ठानामिका-सन्दष्ट-द्वितीय-शकल-गृहीत-श्री-पात्र-प्रथम-बिन्दु-सहपतितैः दक्ष-कराक्षत-पुष्प-क्षेपैः कुर्यात् ॥
6.23
त्रि-कोणे रति-प्रीति-मनोभवान् ॥
6.24
पञ्चार-मूले पुर आदि-क्रमेण द्रां द्रावण-बाणाय - द्रीं शोषण-बाणाय - क्लीं बन्धन-बाणाय - ब्लूं मोहन-बाणाय - सः उन्मादन-बाणाय नमः - इति तद्-अग्रे माया-काम-वाग्-ब्लूं स्त्रीम् उपजुष्टाः काम-मन्मथ-कन्दर्प-मकर-केतन-मनोभवाः ॥
6.25
अष्ट-दल-मूले ब्राह्मी-महेश्वरी-कौमारी-वैष्णवी-वाराही-माहेन्द्री-चामुण्डा-चण्डिकाः, सेन्दु-स्वर-युग्मान्त्यादयः पूज्याः । तद्-अग्रे लक्ष्मी-सरस्वती-रति-प्रीति-कीर्ति-शान्ति-पुष्टि-तुष्टयः ॥
6.26
षोडश-दले वामा-ज्येष्ठा-रौद्री-शान्ति-श्रद्धा-सरस्वती-क्रियाशक्ति-लक्ष्मी-सृष्टि-मोहिनी-प्रमथिनी-आश्वासिनी-वीची-विद्युन्मालिनी-सुरानन्दा-नागबुद्धिकाः ॥
6.27
अष्ट-दले असिताङ्ग-रुरु-चण्ड-क्रोधन-उन्मत्त-कपाल-भीषण-संहाराः स-दण्डि-स्वर-युग्मादि-संयुक्ता भैरवान्ताश् च भावनीयाः ॥
6.28
चतुर्-दलं मा-युक्त-तङ्गी सिद्ध-लक्ष्मीश् च महा-मा-युक्त-तङ्गी महा-सिद्ध-लक्ष्मीश् च ॥
6.29
गं गणपति - दुं दुर्गा - बं बटुक - क्षं क्षेत्र-पालाः, चतुर्-अस्रे सम्पूज्याः ॥
6.30
सां सरस्वत्यै नमः, इति-प्रभृति, वास्तु-पतये ब्रह्मणे नमः इति-पर्यन्तं पुनस् तत्रैवाभ्यर्च्य ॥
6.31
हंसमूर्ति-परप्रकाश-पूर्ण-नित्य-करुण-सम्प्रदाय-गुरूंश् चतुर्-अस्र-पूर्व-रेखायाम् अभ्यर्च्य ॥
6.32
स्व-शिरसि सामान्य-विशेष-पादुके अभ्यर्चयेत् ॥
6.33
पुनर् देवीम् अभ्यर्च्य बालया षोडशोपचारान् विधाय ॥
6.34
शुद्ध-जलेन त्रि-कोण-वृत्त-चतुर्-अस्रं विधायार्धान्न-पूर्ण-सलिलं सादिमोपादिम-मध्यमं सु-[स]-गन्ध-पुष्पं साधारं पात्रं निधाय ॥
6.35
श्री-मातम् उक्त्वा गीश्वरीमं बलिं गृह्ण गृह्ण हुं फट् स्वाहा श्री-मातम् उक्त्वा गीश्वरि शरणागतं मां त्राहि त्राहि हुं फट् स्वाहा क्षेत्र-पाल-नाथेमं बलिं गृह्ण गृह्ण फट् स्वाहा - इति मन्त्र-त्रयेण वाम-पार्ष्णि-घात-करास्फोट-समुदञ्चित-वक्त्र-नाराच-मुद्राभिः बलिं प्रदाय ॥
6.36
श्यामलां शक्तिम् आहूय बालया ताम् अभ्यर्च्य तस्या हस्त आदिमोपादिमौ दत्त्वा तत्त्वं शोधयित्वा तच्-छेषम् उररीकृत्य योग्यैः सह हविश्-शेषं स्वीकुर्यात् ॥
6.37
एवं नित्य-सपर्यां कुर्वन् लक्ष-जपं जप्त्वा तद्-दशांश-क्रमेण च होम-तर्पण-ब्राह्मण-भोजनानि विदध्यात् ॥
6.38
एतन्-मनु-जापी न कदम्बं छिन्द्यात् गिरा कालीति न वदेत् वीणा-वेणु-नर्तन-गायन-गाथा-गोष्ठीषु न पराङ्-मुखो गच्छेत् गायकं न निन्द्यात् ॥
6.39
ललितोपासको नेक्षु-खण्डं भक्षयेत् - न दिवा स्मरेद् वार्तालीं - न जुगुप्सेत सिद्ध-द्रव्याणि - न कुर्यात् स्त्रीषु निष्ठुरतां - वीर-स्त्रियं न गच्छेत् - न तं हन्यात् - न तद्-द्रव्यम् अपहरेत् - नात्मेच्छया म-पञ्चकम् उररीकुर्यात् - कुल-भ्रष्टैः सह नासीत - न बहु प्रलपेत् - योषितं सम्भाषमाणाम् अप्रतिसम्भाषमाणो न गच्छेत् - कुल-पुस्तकानि गोपायेत् - इति शिवम् ॥
7. Khaṇḍa: वाराही-क्रम
7.1
इत्थं साङ्गां सङ्गीत-मातृकाम् इष्ट्वा संवित्-साम्राज्ञी-सिंहासनाधिरूढाया ललिताया महा-राज्ञ्या दण्ड-नायिका-स्थानीयां दुष्ट-निग्रह-शिष्टानुग्रह-निरर्गलाज्ञा-चक्रां समय-सङ्केतां कोल-मुखीं विधिवद् वरिवस्येत् ॥
7.2
तत्रायं क्रमो महारात्रे बुद्ध्वा स्व-हृदय-परमाकाशे ध्वनन्तम् अनाहत-ध्वनिम् ऊर्जितानन्द-दायकम् अवमृश्य ॥
7.3
शिवादि-श्री-गुरुभ्यो नमः - इति मूर्ध्नि बध्नीयाद् अञ्जलिम् ॥
7.4
वाचम् उच्चार्य ग्लौम् - इति च पद्धताव् अस्यां सर्वे मनवो जप्याः ॥
7.5
मूलादि-षण्-मन्त्रैः यथा-मन्त्रं लिङ्ग-देहं शोधयेत् ॥
7.6
मूल-शृङ्गाटकात् सुषुम्ना-पथेन जीव-शिवं पर-शिवे योजयामि स्वाहा - यं सङ्कोच-शरीरं शोषय शोषय स्वाहा - रं सङ्कोच-शरीरं दह दह पच पच स्वाहा - वं परम-शिवामृतं वर्षय वर्षय स्वाहा - लं शाम्भव-शरीरम् उत्पादयोत्पादय स्वाहा - हंसः सो ऽहम् अवतरावतर शिव-पदात् जीव सुषुम्ना-पथेन प्रविश मूल-शृङ्गाटकम् उल्लसोल्लस ज्वल ज्वल प्रज्वल प्रज्वल हंसः सो ऽहं स्वाहा - इति भूत-शुद्धिं विधाय ॥
7.7
मातृका-सम्पुटितां द्वितारीं काननवृत्त-द्व्य्-अक्षि-श्रुति-नासा-गण्डोष्ठ-दन्त-मूर्धास्य-दोः-पत्सन्ध्यग्र-पार्श्व-द्वय-पृष्ठ-नाभि-जठर-हृद्-दोर्मूलापरगल-कक्ष-हृद्-आदि-पाणि-पाद-युगल-जठराननेषु - विन्यस्य ॥
7.8
अन्धे-प्रभृति सप्तार्ण-पञ्चकम् अङ्गुष्ठादि-कनिष्ठान्तम् ॥
7.9
वाङ् नमो भगवतीत्य् आरभ्य त्रयोदशभिर् हृदयं, षड्भिः शिरः, दशभिः शिखां, सप्तभिः सप्तभिः सप्तभिः कवच-नेत्रास्त्राणि, विन्यस्य ॥
7.10
गन्धादिभिर् अलङ्कृत्य अर्घ्यं शोधयेत् ॥
7.11
आत्मनो ऽग्र-भागे गो-मयेन विलिप्ते, हेतु-मिश्रित-जलेन चतुर्-अस्रं वर्तुलं षट्-कोणं त्रि-कोणं अन्तरान्तरं - विलिख्य, अर्घ्य-शोधन-मनुभिः श्यामा-क्रमोक्तैः आधारार्घ्य-पात्राणि संशोध्य, सामान्येनाभ्यर्च्य, तद् अर्घ्यं वषड् इत्य् उद्धृत्य, स्वाहेति संस्थाप्य, हुं - इत्य् अवकुण्ठ्य, वौषट् इत्य् अमृतीकृत्य, फड् इति संरक्ष्य, नमः - इति पुष्पं निक्षिप्य, मूलेन निरीक्ष्य, तत्-पृषतैः पावयित्वा सपर्या-वस्तूनि ॥
7.12
(१) शिरो-वदन-हृद्-गुह्य-पादेषु पूर्वोक्त-सप्तक-पञ्चकं विन्यस्य (२) विद्याम् अष्टधा खण्डयित्वा, पादादि-जानु-जान्व्-आदि-कटि-कट्य्-आदि-नाभि-नाभ्य्-आदि-हृदय-हृदयादि-कण्ठ-कण्ठादि-भ्रूमध्य-भ्रूमध्यादि-ललाट-ललाटादि-मौलिषु एकत्रिंशत् सप्त सप्त सप्त सप्त सप्त पञ्चत्रिंशद् एकादशार्ण-खण्डान् (३) मातृका-स्थानेषु मूल-मनु-पदानि च न्यस्य ॥
7.13
पूर्वोक्तान् अष्ट-खण्डान् एकैकश उच्चार्य पूर्वोक्तेषु स्थानेषु ह्लां शर्वाय क्षिति-तत्त्वाधिपतये, ह्लीं भवाय अम्बु-तत्त्वाधिपतये, ह्लूं रुद्राय वह्नि-तत्त्वाधिपतये, ह्लैं उग्राय वायु-तत्त्वाधिपतये, ह्लौं ईशानाय भानु-तत्त्वाधिपतये, सों महादेवाय सोम-तत्त्वाधिपतये, हं महादेवाय यजमान-तत्त्वाधिपतये, औं भीमाय आकाश-तत्त्वाधिपतये नमः - इति तत्त्व-न्यासः ॥
7.14
मूलेन सर्वेण व्यापकं कृत्वा देवीं ध्यात्वा ॥
7.15
पुरतः पट-पट्ट-सुवर्ण-रजत-ताम्र-चन्दन-पीठादि-निर्मितं दृष्टि-मनोहरं चतुर्-अस्र-त्रय-सहस्र-पत्र-शत-पत्राष्ट-पत्र-षड्-अस्र-पञ्चास्र-त्र्य्-अस्र-बिन्दु-लक्षणं कोल-मुखी-चक्रं विरच्य ॥
7.16
तत्र कुसुमाञ्जलिं विकीर्य स्वर्ण-प्राकाराय सुधाब्धये वराह-द्वीपाय वराह-पीठाय नमः इति । आं - आधार-शक्तये, कुं कूर्माय, कं कन्दाय, अं - अनन्त-नालाय नमः - इति च धर्मादिभिः सह षोडश-मन्त्रैः पीठे अभ्यर्च्य ॥
7.17
त्रि-पञ्च-षड्-अर-दलाष्टक-शत-सहस्रार-पद्मासनाय नमः - इति चक्र-मनुना चक्रम् इष्ट्वा ॥
7.18
वह्नि-मण्डलाय सूर्य-मण्डलाय सोम-मण्डलाय नमः - इति त्रयो गुण-मन्त्राः - आत्म-मन्त्राः चत्वारः - इति सप्तविंशतिकम् इदं पीठे वरिवसनीयम् ॥
7.19
हौं प्रेत-पद्मासनाय सदाशिवाय नमः - इति चक्रोपरि देव्य्-आसन-विमृष्टिः ॥
7.20
ॡ षा ई वाराही-मूर्तये ठः ठः ठः ठः हुं फट् - इति, वाग्-ग्लौम्-आदि-ग्लौं-वाग्-अन्ता, मूर्ति-करणी, विद्या ॥
7.21
मूल-विद्यया आवाहन-संस्थापन-संनिधापन-संनिरोधन-सम्मुखीकरणावकुण्ठन-वन्दन-धेनु-योनीर् बद्ध्वा ॥
7.22
देव्य्-अङ्ग-न्यस्त-षड्-अङ्ग-पञ्चाङ्गः ॥
7.23
पाद्यार्घ्याचमनीय-स्नान-वासो-गन्ध-पुष्प-धूप-दीप-नीराजन-छत्र-चामर-दर्पण-रक्षाचमनीय-नैवेद्य-पानीय-ताम्बूलाख्य-षोडशोपचार-कॢप्त्य्-अन्ते ॥
7.24
ध्यानं देव्याः - मेघ-मेचका कुटिल-दंष्ट्रा कपिल-नयना, घन-स्तन-मण्डला चक्र-खड्ग-मुसलाभय-शङ्ख-खेट-हल-वर-पाणिः पद्मासीना वार्ताली ध्येया ॥
7.25
दशधा तस्यास् तर्पणं कुर्यात् ॥
7.26
त्र्य्-अस्रे जम्भिनी-मोहिनी-स्तम्भिन्यः ॥
7.27
पञ्चारे अन्धिनी-रुन्धिन्यौ ताश् च ॥
7.28
षट्-कोणे आ क्षा ई ब्रह्माणी, ई ला ई माहेश्वरी, ऊ हा ई कौमारी, ॠ सा ई वैष्णवी, ऐ शा ई इन्द्राणी, औ वा ई चामुण्डा तस्यैवाग्रेषु मध्ये च य-म-र-यूं यां यीं यूं यैं यौं यः याकिनि जम्भय जम्भय मम सर्व-शत्रूणां त्वग्-धातुं गृह्ण गृह्ण अणिमादि-वशं कुरु कुरु स्वाहेति । अन्यासां धातु-नाथानाम् अप्य् एवं बीजे नामनि धातौ त्व् आराधन-कर्मणि मन्त्र-सन्नामः । र-म-र-यूं राकिणि रक्त-धातुं पिब पिब ल-म-र-यूं लाकिनि मांस-धातुं भक्षय भक्षय ड-म-र-यूं डाकिनि मेदो-धातुं ग्रस ग्रस क-म-र-यूं काकिनि अस्थि-धातुं जम्भय जम्भय स-म-र-यूं साकिनि मज्जा-धातुं गृह्ण गृह्ण ह-म-र-यूं हाकिनि शुक्र-धातुं पिब पिब अणिमादि-वशं कुरु कुरु स्वाहा - इति धातु-नाथ-यजनम् ॥
7.29
अनन्तरं षड्-अस्रोभय-पार्श्वयोः क्रोधिनी-स्तम्भिन्यौ चामर-ग्राहिण्यौ तत्रैव स्तम्भन-मुसलायुधाय आकर्षण-हलायुधाय नमः षड्-अराद् बहिः पुरतो देव्याः क्ष्रौं क्रौं चण्डोच्चण्डाय नमः - इति तद्-यजनम् ॥
7.30
अष्ट-दले वार्ताली-वाराही-वराहमुख्य्-अन्धिन्य्-आदयः पञ्च तद्-बहिः महा-महिषाय देवी-वाहनाय नमः ॥
7.31
(१) शतारे देवी-पुरतो दल-सन्धौ जम्भिन्या इन्द्रायाप्सरोभ्यः सिद्धेभ्यो द्वादशादित्येभ्यो ऽग्नये साध्येभ्यो विश्वेभ्यो देवेभ्यो विश्वकर्मणे यमाय मातृभ्यो रुद्र-परिचारकेभ्यो रुद्रेभ्यो मोहिन्यै निरृतये राक्षसेभ्यो मित्रेभ्यो गन्धर्वेभ्यो भूत-गणेभ्यो वरुणाय वसुभ्यो विद्या-धरेभ्यः किन्नरेभ्यो वायवे स्तम्भिन्यै चित्र-रथाय तुम्बुरवे नारदाय यक्षेभ्यः सोमाय कुबेराय देवेभ्यो विष्णवे ईशानाय ब्रह्मणे अश्विभ्यां धन्वन्तरये विनायकेभ्यो नमः - इति देवता-मण्डलम् इष्ट्वा (२) तद्-बहिः औं क्षौं क्षेत्र-पालाय नमः, सिंह-वराय देवी-वाहनाय नमः - इति च तद् उभयं वरिवस्येत् । तद्-बहिः महा-कृष्णाय मृग-राजाय देवी-वाहनाय नमः - इति तत्-पूजा ॥
7.32
(१) सहस्रारे अष्टधा विभक्ते ऐरावताय पुण्डरीकाय वामनाय कुमुदायाञ्जनाय पुष्प-दन्ताय सार्वभौमाय सुप्रतीकाय नमः - इति तत्-पूजा बहिः सुधाब्धेर् वा । (२) बाह्य-प्राकाराष्ट-दिक्षु अध उपरि च हेतुकादयः, भैरव-क्षेत्र-पाल-शब्द-युक्ताः प्रत्येकं क्षौम्-आदयश् च यष्टव्याः । हेतुक-त्रिपुरान्तकाग्नि-यमजिह्वैकपाद-काल-कराल-भीमरूप-हाटकेशाचलाः दश भैरवाः ॥
7.33
एवं षड्-आवरणीम् इष्ट्वा पुनर् देवीं त्रिधा सन्तर्प्य सर्वैर् उपचारैर् उपचर्य ॥
7.34
पुरतो वाम-भागे हस्त-मात्रं जलेनोपलिप्य रुधिरान्न-हरिद्रान्न-महिष-पल-सक्तु-शर्करा-हेतु-फल-त्रय-माक्षिक-मुद्ग-त्रय-माष-चूर्ण-दधि-क्षीर-घृतैः शुद्धोदनं सम्मर्द्य चरणायुधाण्ड-प्रमाणान् दश-पिण्डान् विधाय तत्र निधाय कपित्थ-फल-मानम् एकं पिण्डं च तत्-समीपे सादिमोपादिम-मध्यमं चषकं च निक्षिप्य दश-पिण्डान् हेतुकादिभ्यो मध्यम-पिण्डं चषकं च चण्डोच्चण्डाय तत्-तन्-मन्त्रैः दत्वा वृन्दम् आराध्य ॥
7.35
यथा-विभवं श्री-गुरुं संतोष्य ॥
7.36
सम्पूर्ण-यौवनाः स-लक्षणा-मदनोन्मादिनीस् तिस्रः शक्तीर् आहूय बटुकं चैकम् अभ्यर्च्य स्नपयित्वा गन्धादिभिर् अलङ्कृत्य वार्ताली-बुद्ध्या एकां शक्तिं मध्ये क्रोधिनी-स्तम्भिनी-बुद्ध्या द्वे इतरे पार्श्वयोश् चण्डोच्चण्ड-धिया बटुकम् अग्रे स्थापयित्वा सर्वैर् द्रव्यैः संतोष्य मम श्री-वार्ताली-मन्त्र-सिद्धिर् भूयाद् इति ताः प्रतिवदेत् ताश् च प्रसीदन्त्व् अधिदेवताः - इति ब्रूयुः ॥
7.37
एवं स-परिवाराम् उदारां भूदार-वदनाम् उपतोष्य लक्षं पुरश्चरणं कृत्वा यद्-दशांशं तापिच्छ-कुसुमैर् हुत्वा मन्त्रं साधयेत् ॥
7.38
ततश् च पूजितां देवीम् आत्मनि योजयित्वा स्वैरं विहरन्न् आज्ञा-सिद्धः सुखी विहरेत् - इति शिवम् ॥
8. Khaṇḍa: परा-क्रम
8.1
इति विधिवत् कृत-वार्ताली-वरिवस्यः सिंहासन-विद्या-हृदयम् अनुत्तरं परा-बीज-रूपं धाम तत्-क्रम-पूर्वं विमृशेत् ॥
8.2
प्रभु-हृदय-ज्ञातुः पदे पदे सुखानि भवन्ति ॥
8.3
अथो ऽनुत्तर-पद्धतिं व्याख्यास्यामाः ॥
8.4
कल्ये समुत्थाय ब्रह्म-कोटर-वर्तिनि सहस्र-दल-कमले सन्निविष्टायाः सौवर्ण-रूपायाः परायाश् चरण-युगल-विगलद्-अमृत-रस-विसर-परिप्लुतं वपुः ध्यात्वा ॥
8.5
स्नातः शुचि-वासो-वसानः, सौः-वर्णेन त्रिर् आचम्य, द्विः परिमृज्य, सकृद् उपस्पृश्य, चक्षुषी, नासिके, श्रोत्रे, अंसे, नाभिं, हृदयं, शिरश् चावमृश्य, एवं त्रिर् आचम्य ॥
8.6
ऊर्णा-मृदु-शुचितमम् आसनं सौ-वर्ण-सूर्य-जपाभिमन्त्रितं मूल-मन्त्रोक्षितम् अधिष्ठाय ॥
8.7
उदग्-वदनो मौनी भूषित-विग्रहो मूल-पूर्वेण देशिक-मनुना मस्तके देशिकम् इष्ट्वा ॥
8.8
वाम-पार्ष्णि-घातैः छोटिका-त्रयेण पातालादि-गतान् भेदावभासिनः विघ्नान् उत्सार्य ॥
8.9
शिरो-मुख-हृन्-मूल-सर्वाङ्गेषु मूलं विन्यस्य ॥
8.10
काक-चञ्चूपुटाकृतिना मुखेन संचोष्यानिलं सप्तविंशतिशो मूलं जप्त्वा वेद्यं नाभौ संमुद्र्य पुनः सप्तविंशतिशो जप्त्वा अङ्गुष्ठेन शिखां बध्वा पुनर् अनिलम् आपूर्य तेन मूले चिद्-अग्निम् उत्थाप्य तत्र वेद्यस्य विलयं विभाव्य ॥
8.11
गोमयेनोपलिप्त-चतुर्-अस्र-भू-तले प्रवहत्-पार्श्व-कर-कृतया मत्स्य-मुद्रया दिव्य-गन्धाम्बु-युतया भू-व्योम-वायु-वह्नि-मण्डलानि कृत्वा ॥
8.12
श्यामा-वत् सामान्य-विशेषार्घ्ये सादयेत् ॥
8.13
सर्वे ऽपि परा-क्रम-मनवः सौः वर्ण-पूर्वाः कार्याः ॥
8.14
भृगु-चतुर्दश-षोडश-द्विर्-आवृत्या, वर्ण-षड्-अङ्गं सर्व-मूल-षड्-आवृत्या, मन्त्र-षड्-अङ्गं च, कृत्वा ॥
8.15
उभाभ्याम् अर्चयित्वा ॥
8.16
मूलम् उच्चार्य, तां चिन्मयीम् आनन्द-लक्षणाम् अमृत-कलश-पिशित-हस्त-द्वयां, प्रसन्नां, देवीं, पूजयामि नमः स्वाहा - इति सुधा-देवीम् अभ्यर्च्य तया सम्प्रोक्ष्य वरिवस्या--वस्तूनि ॥
8.17
पूर्वं नाभौ सम्मुद्रितं चिद्-अग्नि-विलीनं तप्तायो-द्रव-वत् षट्त्रिंशत्-तत्त्व-कदम्बकं हृत्-सरोजे समानीय ॥
8.18
मूल-जप्तैः कुसुम-क्षेपैः वक्ष्यमाणैश् च मन्त्रैर् आसन-कॢप्तिं कुर्यात् - मूलादि-योग-पीठाय नमः - इत्य् अन्तानि तानि च पृथिव्य्-अप्-तेजो-वाय्व्-आकाश-गन्ध-रस-रूप-स्पर्श-शब्दोपस्थ-पायु-पाद-पाणि-वाग्-घ्राण-जिह्वा-चक्षुस्-त्वक्-श्रोत्राहङ्कार-बुद्धि-मनः-प्रकृति-पुरुष-नियति-काल-राग-कलाविद्या-माया-शुद्धविद्येश्वर-सदाशिव-शक्ति-शिवाः । एवं परा-चक्रं कृत्वा ॥
8.19
तत्रैतद्-ऐक्य-विमर्श-रूपिणीं षोडश-कलां परां देवीम् आवाह्य ॥
8.20
अकलङ्क-शशाङ्काभा त्र्य्-अक्षा चन्द्र-कला-वती ।
मुद्रा-पुस्त-लसद्-बाहुः पातु मां, परमा कला ॥
इति ध्यात्वा ॥
8.21
मूलादिम् उच्चार्य प्रकाश-रूपिणी परा-भट्टारिका, मूल-मध्यम् उच्चार्य विमर्श-रूपिणी परा-भट्टारिका, मूलान्त्यम् उच्चार्य प्रकाश-विमर्श-रूपिणी परा-भट्टारिकेति त्रिभिः देव्या मूल-हृन्-मुखेष्व् अभ्यर्च्य समस्तम् उच्चार्य, महा-प्रकाश-विमर्श-रूपिणी परा-भट्टारिकेति, दशवारम् अवमृश्य ताम् एव देवीं, कालाग्नि-कोटि-दीप्तां ध्यात्वा ॥
8.22
तस्यां क्रिया-समभिव्याहारेण वेद्यम् अखिलं हुत्वा ॥
8.23
मूलम् उच्चार्य, सामान्य-पादुकया स्व-मस्तक-स्थाय गुरवे अर्घ्यं निवेद्य ॥
8.24
पुनश् चिद्-अग्निम् उद्दीप्तं विभाव्य ॥
8.25
दिव्यौघं तिस्रः पादुकाः सिद्धौघं तिस्रः मानवौघम् अष्टाव् अभ्यर्च्य ॥
8.26
पराभट्टारिकाघोर-श्रीकण्ठ-शक्तिधर-क्रोध-त्र्यम्बकानन्द-प्रतिभादेव्यम्बा, वीरसंविदानन्द-मधुरादेव्यम्बा, ज्ञान-श्रीराम-योगाः - इति, परा-क्रम-पादुकाः ॥
8.27
ततः कला-मनुना बलिं निवेद्य ॥
8.28
हविश्-शेषम् आत्म-सात्कुर्यात् । इति शिवम् ॥
9. Khaṇḍa: होम--विधि
9.1
अथ स्वेष्ट-मन्त्रस्य होम-विधानं व्याख्यास्यामः ॥
9.2
चतुर्-अस्रं कुण्डम् अथवा हस्तायामम् अङ्गुष्ठोन्नतं स्थण्डिलं कृत्वा ॥
9.3
सामान्यार्घ्यम् उपशोध्य तेनावोक्ष्य ॥
9.4
प्राचीर् उदीचीस् तिस्रस् तिस्रो रेखा लिखित्वा ॥
9.5
तासु रेखासु ब्रह्म-यम-सोम-रुद्र-विष्ण्व्-इन्द्रान्, षट्तारी-नमस्-सम्पुटितान् अभ्यर्च्य ॥
9.6
सहस्रार्चिषे हृदयाय नमः, स्वस्ति-पूर्णाय शिरसे स्वाहा, उत्तिष्ठ पुरुषाय शिखायै वषट्, धूम-व्यापिने कवचाय हुं, सप्त-जिह्वाय नेत्र-त्रयाय वौषट्, धनुर्-धराय अस्त्राय फट् - इति षड्-अङ्गं विधाय तेन षड्-अङ्गेन कुण्डम् अभ्यर्च्य ॥
9.7
तत्राष्ट-कोण-षट्-कोण-त्रि-कोणात्मकं अग्नि-चक्रं विलिख्य पीतायै श्वेतायै अरुणायै कृष्णायै धूम्रायै तीव्रायै स्फुलिङ्गिन्यै रुचिरायै ज्वालिन्यै नम इति त्रि-कोण-मध्ये वह्नेः पीठ-शक्तीः सम्पूज्य - तं तमसे, रं रजसे, सं सत्त्वाय, आम् आत्मने, अम् अन्तरात्मने, पं परमात्मने, ह्रीं ज्ञानात्मने नमः - इति तत्रैवाभ्यर्चयेत् ॥
9.8
ततो जनिष्यमाण-वह्नेः पितरौ वागीश्वरी-वगीश्वरौ पीठे ऽभ्यर्च्य तयोर् मिथुनीभावं भावयित्वा ह्रीं वागीश्वरी-वागीश्वराभ्यां नमः - इति ध्यात्वा ॥
9.9
अरणेः सूर्य-कान्तात् द्विज-गृहाद् वा वह्निम् उत्पाद्य मृत्-पात्रे ताम्र-पात्रे वा आग्नेय्याम् ऐशान्यां नैरृत्यां वा निधाय, अग्नि-शकलं क्राव्यादांशं नैरृत्यां विसार्य निरीक्षण-प्रोक्षण-ताडनावकुण्ठनादिभिः विशोध्य ॐ वैश्वानर जातवेद इहावह लोहिताक्ष सर्व-कर्माणि साधय स्वाहा - इति मूलाधारोद्गत-संविदं ललाट-नेत्र-द्वारा निर्गमय्य तं बाह्याग्नि-युक्तं पातयेत् ॥
9.10
कवच-मन्त्रेण इन्धनैर् आच्छाद्य ॥
9.11
अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्ण-वर्णम् अनलं समिद्धं विश्वतो-मुखम् ॥
इत्य् उपस्थाय ॥
9.12
उत्तिष्ठ हरित-पिङ्गल लोहिताक्ष सर्व-कर्माणि साधय मे देहि दापय स्वाहा - इति वह्निम् उत्थाप्य ॥
9.13
चित्-पिङ्गल हन हन दह दह पच पच सर्व-ज्ञाज्ञापय स्वाहा, इति प्रज्वाल्य ॥
9.14
षट्तार-वाचो नमो-मन्त्रेण पुंसवन-सीमन्त-जातकर्म-नामकरणान्नप्राशन-चौलोपनयन-गोदान-विवाह-कर्माण्य् अमुकाग्नेर् अमुकं कर्म कल्पयामि नमः - इति विधाय ॥
9.15
परिषिच्य परिस्तीर्य परिधाय ॥
9.16
त्रि-णयनम् अरुणाभं बद्ध-मौलिं सुशुक्लां-
शुकम् अरुणम् अनेकाकल्पम् अम्भोज-संस्थम् ।
अभिमत-वर-शक्ति-स्वस्तिकाभीति-हस्तं
नमत कनक-मालालङ्कृतांसं कृशानुम् ॥
इति ध्यात्वा ॥
9.17
(१) अष्ट-कोणे जातवेदसे सप्त-जिह्वाय हव्य-वाहाय अश्वोदराय वैश्वानराय कौमार-तेजसे विश्व-मुखाय देव-मुखाय नमः - इति (२) षट्-कोणे षड्-अङ्गं (३) त्रि-कोणे अग्नि-मन्त्रेण अग्निं पूजयित्वा ॥
9.18
हिरण्यायै कनकायै रक्तायै कृष्णायै सुप्रभायै अतिरक्तायै बहु-रूपायै नमः - इत्य् अग्नेः सप्त-जिह्वासु मूल-शुद्धेनाज्येन सप्ताहुतीः कुर्यात् ॥
9.19
वैश्वानरोत्तिष्ठ-चित्-पिङ्गलैर् अग्नेस् त्रिधाहुतिं विधाय ॥
9.20
बहु-रूप-जिह्वायाम् इष्टां देवताम् आवाह्य पञ्चोपचारैर् उपचर्य ॥
9.21
सर्वासां चक्र-देवीनाम् एकाहुतिं हुत्वा, नमो-ऽन्तान् पादुकान्तान् शेषान् मन्त्रान् स्वाहान्तान् विधाय जुहुयात् ॥
9.22
अथ प्रधान-देवतायै दशाहुतीर् जुहुयात् ॥
9.23
यदि काम्यम् ईप्सेद् अभीष्ट-देवतायै विज्ञाप्य सङ्कल्पं कृत्वैतावत्-कर्म-सिद्ध्य्-अर्थम् एतावद्-आहुतीः करिष्यामीति ॥
9.24
तिलाज्यैः शान्त्या - अन्नेनान्नायामृताय - समिच्-चूत-पल्लवैर् ज्वर-शमाय - दूर्वाभिर् आयुषे - कृत-मालैर् धनायोत्पलैर् भागाय - बिल्व-दलै राज्याय - पद्मैः साम्राज्याय - शुद्ध-लाजैः कन्यायै - नन्द्य्-आवर्तैः कवित्वाय - वञ्जुलैः पुष्टयै - मल्लिका-जाती-पुन्नागैर् भाग्याय - बन्धूक-जपा-किंशुक-बकुल-मधुकरैर् ऐश्वर्याय - लवणैर् आकर्षणाय - कदम्बैः सर्व-वश्याय - शालि-तण्डुलैर् धान्याय - कुङ्कुम-गोरोचनादि-सुगन्धैः सौभाग्याय - पलाश-पुष्पैः कपिला-घृतैर् वा तेजसे - धत्तूर-कुसुमैर् उन्मादाय - विष-वृक्षैः निम्ब-श्लेष्मातक-विभीतक-समिद्भिः शत्रु-नाशाय - निम्ब-तैलाक्त-लवणैर् मारणाय - काकोलूक-पक्षैर् विद्वेषणाय - तिल-तैलाक्त-मरीचैः कास-श्वास-नाशाय - जुहुयात् ॥
9.25
बलिं प्रदाय ॥
9.26
ॐ भूर् अग्नये च पृथिव्यै च महते च स्वाहा ।
ॐ भुवो वायवे चान्तरिक्षाय च महते च स्वाहा ।
ॐ सुवर् आदित्याय च दिवे च महते च स्वाहा ।
ॐ भूर् भुवस् सुवश् चन्द्रमसे च नक्षत्रेभ्यश् च दिग्भ्यश् च महते च स्वाहा ।
इति चतुर्भिर् मन्त्रैः महा-व्याहृति-होमं कृत्वा ॥
9.27
इतः पूर्वं प्राण-बुद्धि-देह-धर्माधिकारतो जाग्रत्-स्वप्न-सुषुप्त्य्-अवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्याम् उदरेण शिश्ना यत् स्मृतं यद् उक्तं यत् कृतं तत् सर्वं ब्रह्मार्पणं भवतु स्वाहा, इति ब्रह्मार्पणाहुतिं कृत्वा ॥
9.28
चिद्-अग्निं देवतां चात्मन्य् उद्वासयामि नमः - इत्य् उद्वास्य ॥
9.29
तद्-भस्म-तिलक-धरो लोक-सम्मोहन-कारः सुखी विहरेत् । इति शिवम् ॥
10. Khaṇḍa: सर्व-साधारण-क्रम
10.1
अथातः सर्वेषां मन्त्राणां सामान्य-पद्धतिं व्याख्यास्यामः ॥
10.2
श्यामा-वत् सन्ध्याद्य्-अर्घ्य-शोधन-पर्यन्तं न्यास-वर्जम् ॥
10.3
अनुक्त-षड्-अङ्गस्य षड्-जाति-युक्त-मायया षड्-अङ्गम् ॥
10.4
बिन्दु-त्रि-षड्-अर-नाग-दल-चतुष्-पत्र-चतुर्-अस्र-मयं चक्रम् ॥
10.5
बिन्दौ मुख्य-देवतेच्छा-ज्ञान-क्रिया-शक्तयस् त्र्य्-अस्रे, षड्-अरे तत्-तत्-षड्-अङ्गान्य् अष्ट-दले ब्राह्म्य्-आद्याः, चतुर्-दले गणपति-दुर्गा-बटुक-क्षेत्रेशाश्, चतुर्-अस्रे दिक्-पालाः ॥
10.6
त्रितारी-कुमारीभ्यां सर्वे क्रम-मन्त्राः प्रयोक्तव्याः ॥
10.7
तत्-तन्-मूलेनावाहनं कला-मनुना बलिर् अनेन क्रमेणाहुतिः ॥
10.8
अथ रश्मि-माला ॥
10.9
सुप्तोत्थितेनैषा मनसैकवारम् आवर्त्या ॥
10.10
(१) प्रणवो भूर् भुवस् सुवः -
तत्-सवितुर् वरेणियं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥
इति त्रिंशद्-वर्णा गायत्री ॥
(२) यत इन्द्र भयामहे ततो नो अभयं कुरु ।
मघवञ् छग्धि तव तन् न ऊतये विद्विषो विमृधो जहि ॥
स्वस्ति-दा विशस्-पतिर् वृत्र-हा विमृधो वशी ।
वृषेन्द्रः पुर एतु नः स्वस्ति-दा अभयङ्करः ॥
इत्य् ऐन्द्री सप्तषष्ट्य्-अर्णा सङ्कटे भय-नाशिनी ॥
(३) प्रणवो घृणिस् सूर्य आदित्य इत्य् अष्टार्णा सौरी तेजो-दा ॥
(४) प्रणवः केवलो ब्रह्म-विद्या मुक्ति-दा ॥
(५) तारः परो-रजसे (ऽ)सावद् ओम् इति नवार्णा तुर्य-गायत्री स्वैक्य-विमर्शिनी ॥
रश्मि-पञ्चकम् एतन्-मूल-हृत्-फाल-विधिबिल-द्वादशान्त-बीजतया विमृष्टव्यम् ॥
10.11
(१) सूर्याक्षि-तेजसे नमः । (२) खेचराय नमः । (३) असतो मा सद् गमय । (४) तमसो मा ज्योतिर् गमय । (५) मृत्योर् मामृतं गमय । (६) उष्णो भगवान् शुचि-रूपः । (७) हंसो भगवान् शुचिर् अप्रतिरूपः ॥
(८) विश्व-रूपं घृणिनं जात-वेदसं
हिरण्-मयं ज्योतिर् एकं तपन्तम् ।
सहस्र-रश्मिः शतधा वर्तमानः
प्राणः प्रजानाम् उदयत्य् एष सूर्यः ॥
(९) ॐ नमो भगवते सूर्याय अहो वाहिनि वाहिन्य् अहो वाहिनि वाहिनि स्वाहा ॥
(१०) वयस् सुपर्णा उपसेदुर् इन्द्रं
प्रियमेधा ऋषयो नाथ-मानाः ।
अपध्वान्तम् ऊर्णुहि पूर्धि चक्षुर्
मुमुग्ध्य् अस्मान् निधयेव बद्धान् ॥
(११) पुण्डरीकाक्षाय नमः । (१२) पुष्करेक्षणाय नमः । (१३) अमलेक्षणाय नमः । (१४) कमलेक्षणाय नमः । (१५) विश्व-रूपाय नमः । (१६) श्री-महा-विष्णवे नमः ॥
इति षोडश-मन्त्र-समष्टि-रूपिणी दूर-दृष्टि-प्रदा चाक्षुष्मती विद्या ॥
10.12
प्रणवो गन्धर्व-राज विश्वा-वसो मम अभिलषितामुकां कन्यां प्रयच्छ ततो ऽग्नि-वल्लभेत्य् उत्तम-कन्या-विवाह-दायिनी विद्या ॥
10.13
तारो नमो रुद्राय पथि-षदे स्वस्ति मा सम्पारय - इति मार्ग-सङ्कट-हारिणी विद्या ॥
10.14
तारस् तारे पदम् उक्त्वा तुत्तारे तुरे शब्दं च दहन-दयितेति जलापच्-छमनी विद्या ॥
10.15
अच्युताय नमः, अनन्ताय नमः, गोविन्दाय नमः - इति महा-व्याधि-विनाशिनी नाम-त्रयी विद्या ॥
10.16
पञ्चेमा रश्मयो मूलादि-परिकरतया प्रपञ्च्याः ॥
10.17
प्रणवः कमला भुवना मदनो ग्लाच् चतुर्दश-पञ्चदशौ गं गणपतये वर-युगलं द सर्व-जनं मे शब्दो वशम् आनयाग्नि-वाम-लोचनेति महा-गणपति-विद्या प्रत्यूह-शमनी ॥
10.18
प्रणवो नमः शिवायै, प्रणवो नमः शिवायेति द्वादशार्णा, शिव-तत्त्व-विमर्शिनी विद्या ॥
10.19
प्रणवः काष्टम-दक्ष-श्रुति-बिन्दु-पिण्डो भृगु-षोडशो मां पालय-द्वन्द्वम् इति दशार्णा मृत्योर् अपि मृत्युर् एषा विद्या ॥
10.20
तारः नमो ब्रह्मणे धारणं मे अस्त्व् अनिरा-करणं धारयिता भूयासं कर्णयोः श्रुतं माच्योढ्वं ममामुष्य ॐ - इति श्रुत-धारिणी विद्या ॥
10.21
श्रीकण्टादि-क्षान्ताः सर्वे वर्णाः बिन्दु-सहिताः मातृका सर्व-ज्ञता-करी विद्या ॥
10.22
रश्मयः पञ्च मूलादि-रक्षात्मकतया यष्टव्याः ॥
10.23
शिव-शक्ति-काम-क्षिति-माया-रवीन्दु-स्मर-हंस-पुरन्दर-भुवना-परा-मन्मथ-वासव-भौवनाश् च शिवादि-विद्या स्व-स्वरूप-विमर्शिनी ॥
10.24
क्ल-शब्दाद् वामेक्षण-बिन्दुर् एको ऽनन्त-योनि-बिन्दवो ऽन्यः शङ्कर-परा-त्रिशूल-विसृष्टयो ऽपरश् चैत एव खण्डाः प्रतिलोमाः षट्-कूटा सम्पत्-करी विद्या ॥
10.25
सम् उच्चार्य सृष्टि-नित्ये स्वाहेति हम् इत्य् उक्त्वा स्थिति-पूर्णे नमः - इत्य् अनल-बिन्दु-महा-संहारिणी कृशे पदाच् चण्ड-शब्दः कालि फट् - इत्य् अग्नि-बिन्दु-सप्तम-मुद्रा-बीजं महा-नाख्ये अनन्त-भास्करि महा-चण्ड-पदात् कालि फट् - इति सृष्टि-स्थिति-संहाराख्यानां प्रातिलोम्यं खेचरी-बीजं महा-चण्ड-वाणी च योगीश्वरीति विद्या-पञ्चक-रूपिणी काल-सङ्कर्षिणी परमायुः-प्रदायिनी ॥
10.26
त्रितारी सप्तम-मुद्रा शिव-युक्-शक्तिर् अहं-युगलम् एतत्-पञ्चैव लोम्यम् इति शुद्ध-ज्ञान-मयी शाम्भवी विद्या ॥
10.27
भृगु-त्रिशूल-विसृष्टयः परा-विद्या ॥
10.28
पञ्चेमा रश्मयो मूलाद्य्-अधिष्ठानतया परिकल्पनीयाः ॥
10.29
वाक्-काम-शक्तयो ऽनुलोम-विलोमाः पुनर् अनुलोमाः - इति श्रियो ऽङ्ग-बाला ॥
10.30
भुवना कमला सुभगा तारो नमो भगवति पूर्णे शेखरम् अन्न ममाभिलषितम् उक्त्वान्नं देहि दहन-जायेति श्रिय उपाङ्गम् अन्न-पूर्णा ॥
10.31
प्रणवः पाशादि-त्र्य्-अर्णा एहि परमेश्वरीत्य् उक्त्वा वह्नि-वामाक्ष्य्-उक्तिर् इति श्री-प्रत्यङ्गम् अश्वारूढा ॥
10.32
तारि-त्रिकं सप्तम-मुद्रा शिव-शक्ति-संवर्त-पु-पञ्चम-पुरन्दर-व-र-यूं शक्ति-शिव-क्ष-मान्ते वादि-व-र-यीं शिव-भृगु-त्रिशूल-बिन्दु-भृगु-शिव-त्रिशूल-विसृष्टयः श्री-पूर्वं स्व-गुरु-नामतो ऽष्टाक्षरी चेति श्री-पादुका च ॥
10.33
एताभिश् चतसृभिर् युक्ता मूल-विद्या साम्राज्ञी मूलाधारे विलोचनीया ॥
10.34
मादन-शक्ति-बिन्दु-मालिनी-वासव-मायाघोष-दोषाकर-कन्दर्प-गगन-मघवद्-भुवन-भृगु-पुष्पबाण-भू-मायेति सेयं तस्या महा-विद्या ॥
10.35
वाङ्-नतिर् उच्छिष्ट-चाण्डलि मातम् उक्त्वा गि सर्व-पदाद् वशङ्करि वह्नि-वाम-लोचनेति श्यामाङ्गं लघु-श्यामा ॥
10.36
कुमारीम् उच्चार्य वद-द्वन्द्वं वाक्-पदं वादिनि वह्नि-प्रियेति श्यामोपाङ्गं वाग्-वादिनी ॥
10.37
प्रणव ओ-पि-ना-कु-दं-प-वृ-प-स-स्यै-च-शा-चा-मा-ह-द-शब्दाः, ष्ठा-धा-न-ली-तैः-रि-ता-विः-र्व-वा-ई-ना-रु-मि-वा-येच्-छेखरा, नकुली श्यामा-प्रत्यङ्गम् ॥
10.38
ललिता-पादुकादि-त्रिक-स्थाने कुमारी योज्या शिष्टं तद्-वत् - इति श्यामा-पादुका च ॥
10.39
चतसृभिर् युक्ता हृच्-चक्रे श्यामा यष्टव्या ॥
10.40
तद्-विद्या तु त्रितारी कुमारी न-भ-व-श्री-तं-श्व-स-ज-म-हा-स-मु-रं-नि-माया-स-रा-व-क-स-स्त्री-रु-व-क-स-दु-मृ-व-क-स-स-व-क-स-लो-व-क-अ-कं-व-मा-य-हा-वर्णा ॐ-मो-ग-ति-मा-गी-रि-र्व-न-नो-रि-र्व-ख-जि-मदन-श्रीं-र्व-ज-शं-रि-र्व-पु-ष-शं-रि-र्व-ष्ट-ग-शं-रि-र्व-त्व-शं-रि-र्व-क-शं-रि-मु-मे-श-न-स्वान्त मन्त्रादि बीज-षट्कं प्रातिलोम्यम् इति अष्टनवति-वर्णाः ॥
10.41
हरः स-बिन्दुर् वा-पूर्व-राहि स्थाणुः स-बिन्दुर् उन्मत्त-पदं भै-शब्दो रवि-पादुकाभ्यां नम इति वार्ताल्य्-अङ्गं लघु-वार्ताली ॥
10.42
वेदादि-भुवनं नमो वाराहि घोरे स्वप्नं ठ-द्वितयं अग्नि-दारा - इति वार्ताल्य्-उपाङ्गं स्वप्न-वार्ताली स्वप्ने शुभाशुभ-फल-वक्त्री ॥
10.43
वाग् घृदयं भगवति तिरस्करिणि महा-माये पशु-पदाज् जन-मनश्-चक्षुस्-तिरस्करणं कुरु-द्वितयं वर्म फट् पावक-परिग्रह इति वार्ताली-प्रत्यङ्गं, तिरस्करिणी ॥
10.44
श्यामा-पादुका-मन्त्रादि-त्रि-बीजम् अपहाय वाग् ग्लौम् - इति योज्यम् । एषा वार्ताली-पादुका ॥
10.45
विद्याभिर् एताभिर् युक्ता फाल-चक्रे परिपूज्या भगवतीयं भूदार-मुखी ॥
10.46
मनुर् इदम् ईयो ऽयं वाक्-पुटितं ग्लौं न-भ-व-वा-लि-र्ता-वा-हि-रा-व-ह-खि-रा-मु-अं-अं-नि-मः-धे-धि-न-जं-जं-नि-मः-हे-हि-न-स्तं-स्तं-नि-मः-र्व-ष्ट-दु-नां-र्वे-स-वाक्-त्त-क्षु-ख-ति-ह्वा-भ-कु-कु-शी-व-शब्दा यथा-क्रमं मो-ग-ति-र्ता-वा-लि-रा-वा-हि-रा-मु-व-ह-खि-धे-धि-न-रुं-रुं-नि-मः-भे-भि-न-मो-मो-नि-मः-भे-भि-न-स-दु-प्र-ष्टा-स-षां-र्व-चि-च-र्मु-ग-जि-स्तं-नं-रु-रु-घ्रं-श्यं-शब्दोपेता वाक् ग्लौं विसृष्ट्य्-अन्ताश् च सप्तमाश् चत्वारो वर्मास्त्राय फड् इति द्वादशोत्तरशताक्षरा ॥
10.47
पञ्चमैकादश-बीज-वर्जा श्रीर् एव श्री-पूर्ति-विद्या ब्रह्म-कोटरे यष्टव्या ॥
10.48
श्यामा-पादुका-प्रथम-त्रिक-स्थाने तार-त्रयं कुमारी वाक् ग्लौं - इति योज्यम् । ततः परस्ताच् छेषं समानम् ॥
10.49
इयं महा-पादुका सर्व-मन्त्र-समष्टि-रूपिणी स्वैक्य-विमर्शिनी महा-सिद्धि-प्रदायिनी द्वादशान्ते यष्टव्या ॥
10.50
एवं रश्मि-माला सम्पूर्णा । सर्व-गात्रः शुद्ध-विद्या-मय-तनुः स एव परम-शिवः ॥
10.51
अथ विघ्न-देवताः । इरि-मिलि-किरि-किलि-पदात् परिमिरोम् इत्य् एकः । प्रणवो माया नमो भगवति महा-त्रिपुराद् भै-वर्णाद् रवि-पदम् अनु मम त्रैपुररक्षां कुरु कुरु - इति द्वितीयः । संहर संहर विघ्न-रक्षो-विभीषकान् कालय हुं फट् स्वाहा - इति तृतीयः । ब्लूं रक्ताभ्यो योगिनीभ्यो नमः - इति चतुर्थः । सां सारसाय बह्व्-आशनाय नमः - इति पञ्चमः । दुमुलुषु मुलुषु माया चामुण्डायै नमः - इति षष्ठः । एते मनवो ललिता-जप-विघ्न-देवताः ॥
10.52
हसन्ति हसितालापे पदं मातम् उक्त्वा गी-परिचारिके मम भय-विघ्न-नाशं कुरु-द्वितयं स-विसर्ग-ठ-त्रितयम् इति श्यामा-विघ्न-देवी ॥
10.53
स्तं स्तम्भिन्यै नमः - इति कोल-मुखी-विघ्न-देवी ॥
10.54
एते तत्-तज्-जपारम्भे जप्तव्याः ॥
10.55
ललिता प्राह्णे । अपराह्णे श्यामा । वार्ताली रात्रौ । ब्राह्मे मुहूर्ते परा ॥
10.56
व्यवहार-देश-स्वात्म्य-प्राणोद्वेग-सहायामय-वयांसि प्रविचार्यैव तद्-अनुकूलः पञ्च-मादि-परामर्शः ॥
10.57
सर्व-भूतैर् अविरोधः ॥
10.58
परिपन्थिषु निग्रहः ॥
10.59
अनुग्रहः संश्रितेषु ॥
10.60
गुरु-वत् गुरु-पुत्र-कलत्रादिषु वृत्तिः ॥
10.61
आदिमस्य स्वयं सेवनम् आगम-दृष्ट्या दोष-दं त्याज्यम् ॥
10.62
सानन्दस्य रुचिरस्यामोदिनो लघुनो वार्क्षस्य गौडस्य पिष्ट-प्रकृतिनः अन्धसो वाल्कलस्य कौसुमस्य वा यथा-देश-सिद्धस्य वा तस्य परिग्रहः ॥
10.63
तद्-अनन्तरं मध्यमयोर् अस्वयम् असु-विमोचनम् । उपादिमे नायं नियमः । मध्यमे तु स्वयं संज्ञपने तत्रायं मन्त्रः -
उद्बुध्यस्व पशो त्वं हि नाशिवस् त्वं शिवो ह्य् असि ।
शिवोत्कृत्तम् इदं पिण्डं मत्तस् त्वं शिवतां व्रज ॥
इति ॥
10.64
सर्वत्र वचन-पूर्वं प्रवृत्तिः ॥
10.65
दश-कुल-वृक्षानुपप्लवः ॥
10.66
स्त्री-वृन्दादिम-कलश-सिद्ध-लिङ्गि-क्रीडाकुल-कुमारी-कुल-सहकाराशोकैक-तरु-परेतावनि-मत्त-वेश्या-श्यामा-रक्त-वसना-मत्तेभानां दर्शने वन्दनम् ॥
10.67
पञ्च-पर्वसु विशेषार्चा ॥
10.68
आरम्भ-तरुण-यौवन-प्रौढ-तदन्तोन्मनानवस्थोल्लासेषु प्रौढान्ताः समयाचाराः । ततः परं यथा-कामी । स्वैर-व्यवहारेषु वीरावीरेष्व् अयथा-मननाद् अधः पातः ॥
10.69
रक्ता-त्याग-विरक्ताक्रमणोदासीना-प्रलोभन-वर्जनम् ॥
10.70
घृणा-शङ्का-भय-लज्जा-जुगुप्सा-कुल-जाति-शीलानां क्रमेणावसादनम् ॥
10.71
गुरु-प्रगुरु-सन्निपाते प्रगुरोः प्रथमं प्रणतिः तद्-अग्रे तद्-अनुरोधेन तन्-नति-वर्जनम् ॥
10.72
अभ्यर्हितेष्व् अपराङ्मुख्यम् ॥
10.73
मुख्यतया प्रकाश-विभावना ॥
10.74
अधिजिगमिषा शरीरार्थासूनां गुरवे धारणम् ॥
10.75
एतद्-उक्त-करणम् ॥
10.76
अपरीक्षणं तद्-वचने व्यवस्था ॥
10.77
सर्वथा सत्य-वचनम् ॥
10.78
पर-दार-धनेष्व् अनासक्तिः ॥
10.79
स्व-स्तुति-पर-निन्दा-मर्म-विरुद्ध-वचन-परिहास-धिक्काराक्रोश-त्रासन-वर्जनम् ॥
10.80
प्रयत्नेन विद्याराधन-द्वारा पूर्ण-ख्याति-समावेशनेच्छा चेत्य् एते सामायिकाचाराः ॥
10.81
परे च शास्त्रानुशिष्टाः ॥
10.82
इत्थं विदित्वा विधि-वद् अनुष्ठितवतः कुल-निष्ठस्य सर्वतः कृत-कृत्यता शरीर-त्यागे श्वपच-गृह-काश्योर् नान्तरं जीवन्-मुक्तः ॥
10.83
य इमां दश-खण्डीं महोपनिषदं महा-त्रैपुर-सिद्धान्त-सर्वस्व-भूताम् अधीते सः - सर्वेषु यज्ञेषु यष्टा भवति यं यं क्रतुम् अधीते तेन तेनास्येष्टं भवति इति हि श्रूयते इत्य् उपनिषत् - इति शिवम् ॥
10.84
अथातः सर्वेषां मन्त्राणां, अथ स्वेष्ट-मन्त्रस्य, इति विधि-वत्, इत्थं साङ्गां, इयम् एव महती विद्या, अथ प्राथमिके चतुरस्रे, अथ हृच्-चक्र-स्थितां, एवं गणपतिम् इष्ट्वा, इत्थं सद्-गुरोः, अथातो दीक्षां व्याख्यास्यामः । अथ, एवम्, अथ, इत्थम्, अथ स्वेष्टेति पञ्च ॥
10.85
इति श्री-दुष्ट-क्षत्रिय-कुल-कालान्तक-रेणुका-गर्भ-सम्भूत-महादेव-प्रधान-शिष्य-जामदग्न्य-श्री-परशुराम-भार्गव-महोपाध्याय-महा-कुलाचार्य-निर्मितं कल्प-सूत्रं संपूर्णम् ॥
Zum Abschluss
Das Schlusskolophon bewahrt die traditionelle Zuschreibung an Parashurama. Die Schrift führt von übertragener Verehrung zur Erkenntnis der Einheit. Für die zusammenhängende Lektüre und die Deutung schwieriger Stellen siehe die vollständige deutsche Übersetzung.
Thematische Einführung zum Shri Yantra.
Textgrundlage
GRETIL, Paraśurāmakalpasūtra, erfasst und bereitgestellt von Claudia Weber, nach A. Mahadeva Sastri (Hrsg.), Baroda: Central Library, 1923, Gaekwad’s Oriental Series 22; elektronischer Header vom 31. Juli 2020. Die Vorlage enthält 337 nummerierte Einheiten in zehn Khaṇḍas. Ihre Nummernfolge wurde vollständig beibehalten, einschließlich des rückläufigen Kapitelregisters 10.84 und des Schlusskolophons 10.85. Keine neue Handschriftenkollation wurde durchgeführt.
Der Quellenheader nennt CC BY-NC-SA 4.0 als Lizenz der elektronischen Textgrundlage. Diese Quellen- und Lizenzangabe ist bei einer Weiterverwendung zu erhalten; die Vereinbarkeit mit der konkreten Veröffentlichungsform ist zu beachten.
Verwandte Schriften und Begriffe
- Nityotsava
- Yogini Hridaya
- Nitya Shodashikarnava
- Vamakeshvara Tantra
- Bhavana Upanishad
- Kama Kala Vilasa
- Varivasyarahasya
- Dakshinamurti Samhita
- Tripura Rahasya
- Sharada Tilaka Tantra
- Kularnava Tantra
- Tantraloka
- Sri Vidya
- Lalita
- Shri Chakra
Seminare
Indische Schriften
- 26.12.2026 - 02.01.2027 Indische Rituale Ausbildung
Du interessierst dich für indische Rituale? Du hast die einzigartige Gelegenheit, in dieser Rituale Ausbildung bei Yoga Vidya die kleine Puja, große P…- Sukadev Bretz, Shankari Winkelbauer
- 01.01.2027 - 10.01.2027 Yogalehrer Weiterbildung Intensiv A1 - Jnana Yoga und Vedanta
Kompakte, vielseitige Weiterbildung für Yogalehrer rund um Jnana Yoga und Vedanta.
Tauche tief ein ins Jnana Yoga und Vedanta, studiere die indischen S…- Vedamurti Dr Olaf Schönert
Kundalini Yoga
- 25.10.2026 - 30.10.2026 Kundalini Yoga Meditation Kursleiter Ausbildung
Kundalini Yoga Meditationen sind ein faszinierendes weites Gebiet, dessen Potential noch bei weitem nicht ausgeschöpft ist. Kundalini Meditationen kön…- Adishakti Stein, Viveka Wilde
- 30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe
Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…- Arjuna Wingen
Navigation: Einführung und deutsche Übersetzung · Sanskrit IAST · Sanskrit Devanagari