Jnanarnava Tantra Sanskrit Devanagari

Aus Yogawiki

Jnanarnava Tantra – Sanskrit in Devanagari enthält alle 26 Paṭalas der vorliegenden Fassung des Jnanarnava Tantra. Der Dialog zwischen Devi und Ishvara verbindet Sri Vidya, Mantra, Nyasa, Puja und spirituelle Erkenntnis. Schon die Eingangsfrage führt von der Wiederholung heiliger Laute zur Wirklichkeit jenseits aller Laute.

Hauptartikel und deutsche Übersetzung · IAST · Devanagari · 108 inspirierende Verse und Mantras

Textgrundlage

Muktabodha Indological Research Institute, M00069, jñānārṇavatantram, herausgegeben von Sudhakar Malaviya; Datenerfassung unter Leitung von Mark S. G. Dyczkowski; Internetveröffentlichung 2007. Die bereitgestellte Devanagari-Fassung wird vollständig wiedergegeben. Die Devanagari-Fassung wurde nicht aus IAST neu erzeugt.

Die Vorlage nennt Creative Commons BY-NC 4.0 für den E-Text. Für diese Lesefassung wurden Kapitelüberschriften und Zeilenumbrüche gestaltet. Der Wortlaut einschließlich editorischer Klammern und Fragezeichen ist bewahrt.

Vers 14.113 steht in der Vorlage verkürzt als 113. In Kapitel 20 folgt auf 112 die Nummer 114; die beiden angrenzenden Einheiten enthalten jeweils drei Halbverse. Die Zählung bleibt unverändert. Der Zahlensprung allein beweist keine Textlücke. Die Ausgabe enthält 1.708 nummerierte Verse beziehungsweise Texteinheiten, einschließlich des verkürzt nummerierten Verses 14.113.

An fünf Stellen wurden technische Übertragungsreste bereinigt: die angehängte Ziffer 1 beziehungsweise १ in 4.17, 4.31 und 15.5; das defekte Trennzeichen nach der Sprecherangabe zu Kapitel 5; sowie ein eingeschobenes Fremdzeichen in 16.117. In 16.117 wurde nur dieses Zeichen entfernt, kein Sanskritlaut ergänzt. Die beiden Fassungen wurden an diesen konkreten Stellen nebeneinander geprüft.

Sanskrittext

Paṭala 1

|| श्रीः ||

ईश्वरप्रोक्तं

ज्ञानार्णवतन्त्रम्

अथ प्रथमः पटलः

श्रीदेव्युवाच --

गणेशनन्दिचण्डेशसुरेन्द्रपरिवारित |
सर्ववन्द्य गणाधीश किं त्वया जप्यते सदा || १-१ || अक्षमालेति किं नाम संशयो मे हृदि स्थितः |
शब्दातीतं परं ब्रह्म त्वमेव परमार्थवित् || १-२ || कथयाऽऽनन्दनिष्यन्दसान्द्रमानसनिश्चयात् |

ईश्वर उवाच --

कथयामि वरारोहे यन्मया जप्यते सदा || १-३ || अकारादिक्षकारान्ता मातृका पीठरूपिणी |
चतुर्दशस्वरोपेता बिन्दुत्रयविभूषिता || १-४ || अनुस्वारेण देवेशि बिन्दुनैकेन मण्डिता |
विसर्गेण च बिन्दुभ्यां संलग्नाभ्यां विराजिता || १-५ || कलामण्डलमाख्यातं शक्तिरूपं महेश्वरि |
ककारादिक्षकारान्ता वर्णास्तु शिवरूपिणः || १-६ || व्यञ्जनत्वात्सदाऽऽनन्देनोच्चारसहिता यतः |
उच्चरेत्स्वरसंभिन्नांस्तदा देवि न संशयः || १-७ || पञ्चाशद्वर्णरूपेण शब्दाख्यं वस्तु सुव्रते |
अकारः प्रथमो देवि क्षकारोऽन्तिम इष्यते || १-८ || अक्षमालेति विख्याता मातृका वर्णरूपिणी |
शब्दब्रह्मस्वरूपेयं शब्दातीतं तु जप्यते || १-९ || शब्दातीतं परं धाम गणनारहितं सदा |
आत्मस्वरूपं जानीहि हंसस्तु परमेश्वरः || १-१० || अस्मिन्नेव परे तत्त्वे बिन्दुत्रयविभूषिते |
मातृकासंपुटत्वेन संस्थितं व्यक्तिमागतम् || १-११ || बिन्दुत्रयं प्रवक्ष्यामि बीजरूपं वरानने |
हकारं बिन्दुरूपेण ब्रह्माणं विद्धि पार्वति || १-१२ || सकारः सर्गबिन्दुभ्यां हरिश्चाहं सुरेश्वरि |
अविनाभावसंस्थानाल्लोके हरिहराविति || १-१३ || ब्रह्मबिन्दुर्महेशानि वामा शक्तिनीगद्यते |
विश्वं वमति यस्मात्तद्वामेयं परिकीतीता || १-१४ || ज्येष्ठा तु वैष्णवी शक्तिः पालयन्ती जगत्त्रयम् |
ततो रौद्री ग्रसन्ती तु क्रमेण परमेश्वरी || १-१५ || एवं बिन्दुत्रयं विद्धि गुणत्रयविभूषितम् |
बिन्दुशब्देन शून्यं तु तथाऽपि गुणसूचकम् || १-१६ || इच्छाज्ञानक्रियारूपं भूर्भुवःस्वःस्वरूपकम् |
पुरत्रयात्मकं विद्धि तत्त्वत्रयमयं प्रिये || १-१७ || बिन्दुत्रये महेशानि सर्वमेतत्प्रतिष्ठितम् |
अम्बिकाबिन्दुभिर्देवि गुणत्रयपरम्परा || १-१८ || जाग्रत्स्वप्नसुषुप्तिश्च बिन्दुत्रयभवा शिवे |
जाग्रत्सत्त्वगुणा ज्ञेया केवलं शक्तिरूपिणी || १-१९ || मनोव्यावृत्तिविस्तारा दुःखदोषाभिलाषिणी |
शिवरूपा सुषुप्तिस्तु सर्वव्यावृत्तिहारिणी || १-२० || देहधर्मपरित्यक्ता शिवतत्त्वस्वरूपिणी |
तमोगुणमयी कर्म ग्रसन्ती मोक्षरूपिणी || १-२१ || सुषुप्त्यन्ते जागरादौ स्वप्नावस्था रजोमयी |
उभयैर्लक्षणैर्युक्ता तृष्णालक्षणलक्षिता || १-२२ || अवस्थात्रयमेतत्तु कथितं बिन्दुसंभवम् |
एतस्मिन्बैन्दवे ज्ञाते तुर्यावस्थां शृणु प्रिये || १-२३ || निद्रादौ जागरस्यान्ते स्फुरत्तामात्रलक्षणा |
अवस्था पूर्णतां प्राप्ता तुर्यावस्था परा कला || १-२४ || भावाभावपरित्यक्ता गुणातीता सुनिश्चला |
इयमेव यदा देवि मनसा प्राप्यते सदा || १-२५ || उन्मनी नाम सद्रूपा ज्ञानवल्ली चिदात्मिका |
बिन्दुत्रयेण नादेन प्रसृताऽऽनन्दरूपिणी || १-२६ || बिन्दुत्रयसमायोगात् त्रिपुरानामरूपिणी |
वर्णातीता सवर्णाऽपि केवलं ज्ञानचित्कला || १-२७ || एनां विद्यां समाराध्य सर्वज्ञत्वं मयि प्रिये |
उपास्यते मया देवि त्रिपुरा चाक्षमालया || १-२८ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे स्वरूपज्ञेयमात्रं नाम प्रथमः पटलः || १||

Die Laute der Matrika verbinden Klang und Bewusstsein.

Paṭala 2

अथ द्वितीयः पटलः


श्री देव्युवाच --

त्रिपुरा परमेशान ज्ञानमार्गेण सूचिता |
तत्त्वरूपेण कथय यद्यहं तव वल्लभा || २-१ || त्रिपुरायाः प्रकारस्तु मन्त्रभेदश्च किंविधः |
सर्वं तच्छ्रेतुमिच्छामि येन सौभाग्यमाप्नुयाम् || २-२ ||

ईश्वर उवाच --

त्रिपुरा त्रिविधा देवि बालां तु प्रथमं शृणु |
यया विज्ञातया देवि साक्षात्सुरगुरुर्भवेत् || २-३ || सूर्यस्वरं समुच्चार्य बिन्दुनादकलान्वितम् |
स्वरान्तं पृथिवीयुक्तं तूर्यस्वरविभूषितम् || २-४ || बिन्दुनादकलाक्रान्तं सर्गवान्भृगुरव्ययः |
शक्रस्वरसमोपेतो विद्येयं त्र्यक्षरी मता || २-५ || गङ्गातरङ्गकल्लोलवाक्पटुत्वप्रदायिनी |
महासौभाग्यजननी महासारस्वतप्रदा || २-६ || महासौन्दर्यसुभगा महामृत्युविनाशिनी |
ब्रह्मविष्णुसुरेन्द्रादिवन्दिता पापहारिणी || २-७ || सर्वतीर्थमयी देवी स्वर्णरत्नादिदायिनी |
सर्वलोकमयी देवी सर्वलोकवशंकरी || २-८ || सर्वक्षेत्रमयी देवी सर्वकार्यार्थसाधिका |
महामोक्षप्रदा शान्ता महामुक्तिप्रदायिनी || २-९ || वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि |
वणीतुं नैव शक्येयं विद्येयं त्र्यक्षरी परा || २-१० || पञ्चवक्त्रेण जिह्वाभिः पञ्चभिर्नैव शक्यते |
वाग्भवेनेन्दुमहसा वागीशत्वप्रदायिनी || २-११ || कामराजेन बीजेन शक्रगोपस्फुरत्त्विषा |
त्रैलोक्यं मोहयन्तीयं शक्तिबीजेन सुव्रते || २-१२ || स्फुरत्सुवर्णवर्णेन सौभाग्यं तस्य मन्दिरे |
एतस्याः साधनं देवि कथयामि समासतः || २-१३ || प्रातरुत्थाय देवेशि ब्रह्मरन्ध्रे निजं गुरुम् |
स्मृत्वा देवीमयो भूत्वा तत्प्रभापटलामलः || २-१४ || स्नानकर्म ततः कुर्यान्मूलमन्त्रं स्मरन्बुधः |
त्रिवारमञ्जलौ वारि मन्त्रयित्वा तु मूर्धनि || २-१५ || निक्षिपेत् परमेशानि त्रिधा चाऽऽचम्य तर्पयेत् |
त्रिधा च प्रोक्षयेद्देहं सूर्यायार्घं निवेदयेत् || २-१६ || मूलमन्त्रेण देवेशि सूर्यमन्त्रेण वा प्रिये |
शिवबीजं वह्निसंस्थं वामनेत्रविभूषितम् || २-१७ || बिन्दुनादसमायुक्तं हंसःपदमथोच्चरेत् |
अनेन मनुना देवि सूर्यायार्घ्यं निवेदयेत् || २-१८ || यथाशक्त्या जपेन्मन्त्रं गायत्रीं परमेश्वरीम् |
मूलविद्याद्यमुच्चार्य वागीश्वरि च विद्महे || २-१९ || द्वितीयं बीजमुच्चार्य कामेश्वरि च धीमहि |
तृतीयं बीजमुच्चार्य तन्नः शक्तिः प्रचोदयात् || २-२० || यथाशक्त्या जपेत्पश्चाद्यागमण्डपमाविशेत् |
धातारं च विधातारं गङ्गां च यमुनां तथा || २-२१ || द्वारश्रियं देहलीं च पुरुषं वास्तुसंज्ञकम् |
संपूज्य परमेशानि पूजयेदासनं बुधः || २-२२ || पराबीजं समुच्चार्य ततश्चाऽऽधारपूर्वकम् |
शक्तीतिपदमालिख्य कमलासनमालिखेत् || २-२३ || ङेन्तं नमःपदं कृत्वा चाऽऽसनस्य मनुः प्रिये |
उपविश्य ततो देवि भूतान् संत्रासयेद्बुधः || २-२४ || भूतशुद्धिविधिं कुर्यात्प्राणायामत्रयेण तु |
वायुबीजं समुच्चार्य षट्कोणादागतं महत् || २-२५ || कृष्णवर्णं महेशानि शोषयेदेनसः तनुम् |
आसने सम्यगासीनो वामेनाऽऽपूर्य चोदरम् || २-२६ || कुम्भकेन त्रिरावृत्त्या दक्षिणेन च रेचयेत् |
कनिष्ठानामिकाङ्गुष्ठेर्यन्नासापुटधारणम् || २-२७ || प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना |
वामकुक्षिस्थितं पापपुरुषं कज्जलप्रभम् || २-२८ || ब्रह्महत्या शिरो यस्य स्वर्णस्तेयं भुजद्वयम् |
सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् || २-२९ || तत्संसगीपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् |
उपपातकरोमाणं कृष्णश्मश्रुविलोचनम् || २-३० || खड्गचर्मधरं क्रुद्धं कुक्षौ पापं विचिन्तयेत् |
शोषयेद्वायुबीजेन देहं च परमेश्वरि || २-३१ || पापेन सहितं शुष्कं कृत्वा तेन क्रमेण हि |
वह्निबीजेन संदग्धं पापेन सहितं शिवे || २-३२ || पापेन रहितं पश्चात्प्लावयेदमृताम्बुना |
प्राणप्रतिष्ठामन्त्रेण जीवं देहे निधापयेत् || २-३३ || मुखवृत्तं समुच्चार्य हंसस्तु विपरीततः |
उच्चरेत्परमेशानि विद्येयं त्र्यक्षरी भवेत् || २-३४ || प्राणप्रतिष्ठामन्त्रोऽयं सर्वकर्माणि साधयेत् |
तेनैव विधिना देवि स्थिरी कुर्यान्निजां तनुम् || २-३५ || विशुद्धदेहो देवेशि न्यासं कुर्यात्समाहितः |
ऋषिरस्य महेशानि दक्षिणामूतीरव्ययः || २-३६ || न्यसेच्छिरसि पूज्यत्वात्पङ्क्तश्छन्दो मुखे प्रिये |
देवता हृदये बाला त्रिपुरा परमेश्वरी || २-३७ || बीजं तु वाग्भवं शक्तिस्तार्तीयं कीलकं तथा |
कामराजं महेशानि छन्दो न्यास उदाहृतः || २-३८ || नाभ्यादिपादपर्यन्तं गलादानाभि चापरम् |
मूर्धादिगलपर्यन्तं त्र्यक्षरीं विन्यसेत्क्रमात् || २-३९ || वामपाणितले चैक दक्षपाणितले तथा |
उभयोः संपुटे विद्यां त्रिबीजां विन्यसेत्प्रिये || २-४० || पञ्च बाणान्क्रमेणैव कराङ्गुलिषु विन्यसेत् |
अङ्गुष्ठादिकनिष्ठान्तं क्रमेण परमेश्वरि || २-४१ || थान्तद्वयं समालिख्य वन्हिसंस्थ क्रमेण हि |
मुखवृत्तेन नेत्रेण वामेन परिमण्डितम् || २-४२ || बाणद्वयमिदं प्रोक्तं मादनं भूमिसंस्थितम् |
चतुर्थस्वरबिन्द्वाढ्यं नावरूपं वरानने || २-४३ || फान्तं क्रमसमायुक्तं वामकर्णविभूषितम् |
बिन्दुनादसमायुक्तं सर्गवांश्चन्द्रमाः प्रिये || २-४४ || पञ्च बाणा महेशानि नामानि शृणु पार्वति |
क्षोभणद्रावणौ देवि तथा कर्षणसंज्ञकः || २-४५ || वश्योन्मादौ क्रमेणैव नामानि परमेश्वरि |
कामास्तत्रैव विज्ञेयास्तेषां बीजानि संशृणु || २-४६ || पराबीजं मध्यबाणं वाग्भवं परमेश्वरि |
तूर्यबाणं ततश्चैव स्त्रीबीजं च क्रमात्प्रिये || २-४७ || पञ्च कामा इमे देवि नामानि शृणु वल्लभे |
काममन्मथकन्दर्पमकरध्वजसंज्ञकाः || २-४८ || मीनकेतुर्महेशानि पञ्चमः परिकीतीतः |
एतान्विन्यस्य देवेशि करन्यासं ततः परम् || २-४९ || मूलविद्यां द्विरावृत्त्या सर्वाङ्गुलितलेषु च |
षडङ्गक्रमयोगेन मातृकां विन्यसेत्ततः || २-५० || मातृकां शृणु देवेशि न्यासात्पापनिकृन्तनीम् |
ऋषिर्ब्रह्माऽस्य मन्त्रस्य गायत्रं छन्द उच्यते || २-५१ || देवता मातृका देवि बीजं व्यञ्जनसंचयः |
शक्तयस्तु स्वरा देवि षडङ्गन्यासमाचरेत् || २-५२ || अंआंमध्ये कवर्गं च इं ई मध्ये चवर्गकम् |
उं ऊं मध्ये टवर्गं च एं एं मध्ये तवर्गकम् || २-५३ || ओं औ मध्ये पवर्गं च क्रमेण परमेश्वरि |
अनुस्वारविसर्गांन्ते यशवर्गौ सलक्षकौ || २-५४ || हृदयं च शिरा देवि शिखां च कवचं ततः |
नेत्रमस्त्रं न्यसेन्ङेन्तं नमःस्वाहाक्रमेण तु || २-५५ || वषड्ढुंवौषडन्तं च फडन्तं योजयेत्प्रिये |
षडङ्गोऽयं मातृकायाः सर्वपापहरः स्मृतः || २-५६ || द्व्यष्टपत्राम्बुजे कण्ठे स्वरान्षोडश विन्यसेत् |
द्वादशच्छदहृत्पद्मे कादीन्द्वादश विन्यसेत् || २-५७ || दशपत्राम्बुजे नाभौ डकारादीन्न्यसेद्दश |
षट्पत्रे लिङ्गसंस्थे च बकारादीन्न्यसेच्च पट् || २-५८ || आधारे चतुरो वर्णान्न्यसेद्वादींश्चतुर्दले |
हक्षौ भ्रूमध्यगे पद्मे द्विदले विन्यसेत्प्रिये || २-५९ || इत्यन्तर्मातृकां न्यस्य सर्वाङ्गन्यासमाचरेत् |
मूर्धनि मुखवृत्ते च नेत्रकर्णेषु पार्वति || २-६० || नासागण्डोष्ठदन्तेषु मूर्धास्येषु च विन्यसेत् |
पाणिपादयुगस्यान्ते संध्यग्रेषु क्रमात्प्रिये || २-६१ || पार्श्वद्वये पृष्ठनाभिजठरेषु क्रमान्न्यसेत् |
यादीन्सधातुकान्देवि क्रमेणैव ततो न्यसेत् || २-६२ || त्वगसृग्मांसमेदोस्थिमज्जाशुक्राणि धातवः |
प्राणात्मा चैव जीवात्मा परमात्मा च विन्यसेत् || २-६३ || हृदये बाहुमूले च तथाऽपरगले प्रिये |
कक्षयोर्हृदयप्रान्ते पाणिपादयुगे तथा || २-६४ || जठराननयोर्देवि व्यापकं च क्रमान्न्यसेत् |
पञ्चाशद्वर्णरूपां च कन्दर्पशशिभूषणाम् || २-६५ || शुद्धस्फटिकसंकाशां शुद्धक्षौमविराजिताम् |
मुक्तावज्रस्फुरद्भूषां जपमालां कमण्डलुम् || २-६६ || पुस्तकं वरदानं च विभ्रतीं परमेश्वरीम् |
एवं ध्यात्वा न्यसेत्पश्चाद्विद्यान्यासं सुरेश्वरि || २-६७ || कुर्वीत देहसंन्नाहं त्रिभिर्बीजैः क्रमात्प्रिये |
करयोवीन्यसेदादौ मणिबन्धे तले नखे || २-६८ || दक्षे वामे च विन्यस्य कक्षकूर्परपाणिषु |
पुनर्दक्षे च वामे च पादयोश्च तथा न्यसेत् || २-६९ || पादान्ते हृदये लिङ्गे न्यसेद्देवि ततः परम् |
एतेष्वङ्गेषु देवेशि संहारक्रमतो न्यसेत् || २-७० || विद्यां सृष्टिक्रमेणैव जानीहि परमेश्वरि |
ततो न्यसेन्महादेवि नवयोन्यङ्किताभिधम् || २-७१ || कर्णयोश्चुबुके भूयः शङ्खयोर्मुखमण्डले |
नेत्रयोर्नासिकायां च बाहुयुग्मे हृदि प्रिये || २-७२ || तथा कूर्परयोर्नाभौ जान्वोरन्धुनि विन्यसेत् |
पादयोर्देवि गुह्ये च पार्श्वयोर्हृत्स्तनद्वये || २-७३ || कण्ठे च नवयोन्याख्यं न्यसेद् बीजत्रयात्मकम् |
षडङ्गमाचरेद्देवि द्विरावृत्त्या क्रमेण तु || २-७४ || त्रिद्व्येकदशकत्रिद्विसंख्यया शैलसंभवे |
अङ्गुलीनां पुनर्देवि बाणान्कामांश्च विन्यसेत् || २-७५ || ललाटगलहृन्नाभिमूलाधारेषु वै क्रमात् |
मूलेन व्यापकं कृत्वा प्राणायामं समाचरेत् || २-७६ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे बालान्यासविधिर्नाम द्वितीयः पटलः || २ ||

Paṭala 3

अथ तृतीयः पटलः


ईश्वर उवाच --

एवं विन्यस्तदेहः सन्समाहितमनास्ततः |
अन्तर्यागविधिं कुर्यात्साक्षाद्ब्रह्ममयं प्रिये || ३-१ || मूलाधारे मूलविद्यां विद्युत्कोटिसमप्रभाम् |
सूर्यकोटिप्रतीकाशां चन्द्रकोटिद्रवां प्रिये || ३-२ || बिसतन्तुस्वरूपां तां बिन्दुत्रिवलयां प्रिये |
ऊर्ध्वशक्तिनिपातेन सहजेन वरानने || ३-३ || मूलशक्तिदृढत्वेन मध्यबीजप्रबोधतः |
परमानन्दसंदोहसानन्दं चिन्तयेत्पराम् || ३-४ || इत्यन्तर्यजनं कृत्वा बाह्यपूजां समाचरेत् |
तत्र प्राङ्मुख आसीनश्चक्रोद्धारं समाचरेत् || ३-५ || सुस्थले श्रीभवे पट्टे लिखेद्यन्त्रमनुत्तमम् |
ईशानादग्निपर्यन्तमृजुरेखां समालिखेत् || ३-६ || ईशादग्नेस्तदग्राभ्यां रेखे आकृष्य देशिकः |
एकीकृत्य च वारुण्यां शक्तिरेखा परा प्रिये || ३-७ || त्रिकोणाकाररूपेयं तस्या उपरि संलिखेत् |
त्रिकोणाकाररूपात्तु शक्तिद्वयमुदाहृतम् || ३-८ || पूर्वशक्त्यग्रभागे तु मानयष्टिवदालिखेत् |
रेखां तु परमेशानि वायुराक्षसकोणगाम् || ३-९ || संधिभेदक्रमेणैव तयोः शक्त्योस्ततः परम् |
रेखे आकृष्य कोणाभ्यां तदग्रात्पूर्वगे कुरु || ३-१० || वह्निमण्डलमेतत्तु पूर्वाग्रं वीरवन्दिते |
एकेन वह्निना शक्तिद्वयेनैतद्भवेत्प्रिये || ३-११ || नवयोनिविशोभाढ्यं चक्रराजमिदं प्रिये |
सर्वसौभाग्यजनकं सर्वैश्वर्यप्रदायकम् || ३-१२ || सर्वसिद्धिप्रदं रोगहरणं धनदायकम् |
एतद्बाह्ये तु संलेख्यं वृत्तं पूर्णेन्दुसंनिभम् || ३-१३ || तल्लग्नमष्टपत्रं च ग्रन्थिभिश्चाष्टभिर्युतम् |
ग्रन्थयः प्रणवाभ्यां च संपुटत्वेन कारयेत् || ३-१४ || ग्रन्थयः कुलिशा ज्ञेयाः प्रणवैरेव सुव्रते |
त्रिशूलाष्टकमालिख्य चतुरस्रं लिखेत्प्रिये || ३-१५ || चतुर्द्वारविशोभाढ्यं सर्वानन्दकरं तथा |
हसौःकारं त्रिकोणान्तः सांलिख्य वरवणीनि || ३-१६ || कामबीजं मध्यमं यदष्टकोणेषु संलिखेत् |
स्वरान् षोडश देवेशि युग्मयुग्ममभेदतः || ३-१७ || दलाष्टकेषु संलिख्य पश्चिमादिप्रदक्षिणम् |
ग्रन्थिस्थानेषु वर्गाणां कादीनां परमेश्वरिः || ३-१८ || विलिखेत्सप्तसंख्यानामाद्यार्णं क्रमतः प्रिये |
क्षकारमष्टमे योज्यं शेषान्वर्णान्क्रमेण तु || ३-१९ || त्रिशूलाग्रेषु संलिख्य पश्चिमादिक्रमेण तु |
तद्बाह्ये मातृकावृत्तं विलिख्य परमेश्वरि || ३-२० || चतुरस्रे महेशानि मातृकां कामगभीताम् |
विलिख्य पूजयेद्यन्त्रं हेमरौप्यादिपट्टके || ३-२१ || ताम्रे वा दर्पणे ताले काश्मीरप्रभवेऽपि वा |
चन्दनाद्यन्विते भूमौ कुङ्कुमेनाथ वा पुनः || ३-२२ || सिन्दूररजसा वाऽपि कस्तूरीघुसृणेन्दुभिः |
भूर्जे गोरोचनाद्रव्यैः कल्पितं मानसेऽथ वा || ३-२३ || सुवर्णरत्नलेखिन्या सर्वकार्यार्थसाधकः |
विलिख्य यन्त्रं देवेशि पूजाद्रव्यैः प्रपूजयेत् || ३-२४ || कुलागमक्रमेणैव ध्यात्वा ब्रह्मविकाशिनीम् |
मूलादिब्रह्मरन्ध्रान्तं बिसतन्तुतनीयतीम् || ३-२५ || उद्यदादित्यरुचिरां स्मरेदशुभशान्तये |
भ्रमदूभ्रमरनीलाभधम्मिल्लामलपुष्पिणीम् || ३-२६ || ब्रह्मरन्ध्रस्फुरद्भृङ्गमुक्तारेखाविराजिताम् |
मुक्तारेखालसद्रत्नतिलकां मुकुटोज्ज्वलाम् || ३-२७ || विशुद्धमुक्तारत्नाढ्यां चन्द्ररेखाकिरीटिनीम् |
भ्रमद्भ्रमरनीलाभनयनत्रयराजिनीम् || ३-२८ || सूर्यभास्वन्महारत्नकुण्डलालङ्कृतां पराम् |
शुक्राकारस्फुरन्मुक्ताहारभूषणभूषिताम् || ३-२९ || ग्रैवेयाङ्गदमुक्ताभिः स्फुरत्कान्तिविराजिताम् |
गङ्गातरङ्गकर्पूरशुभ्राम्बरविराजिताम् || ३-३० || श्रीखण्डवल्लीसदृशबाहुवल्लीविराजिताम् |
कङ्कणादिलसद्भूषां मणिबन्धलसत्प्रभाम् || ३-३१ || प्रवालपल्लवाकारपाणिपल्लवराजिताम् |
वज्रवैदूर्यमुक्तालिमेखलां विमलप्रभाम् || ३-३२ || रक्तोत्पलदलाकारपादपल्लवभूषिताम् |
नक्षत्रमालासंकाशमुक्तामञ्जीरमण्डिताम् || ३-३३ || वामेन पाणिनैकेन पुस्तकं चापरेण तु |
अभयं च प्रयच्छन्तीं साधकाय वरानने || ३-३४ || अक्षमालां च वरदं दक्षपाणिद्वयेन हि |
दधतीं चिन्तयेद्देवीं वश्यसौभाग्यवाक्प्रदाम् || ३-३५ || क्षीरकुन्देन्दुधवलां प्रसन्नां संस्मरेत्प्रिये || ३-३६ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे त्रिपुरेश्वरीध्यानं नाम तृतीयः पटलः || ३||

Paṭala 4

अथ चतुर्थः पटलः


श्रीदेव्युवाच --

चक्रमण्डलमाख्यातं न पूजा तत्र मण्डले |
कथिता परमेशान श्रोतुमिच्छामि तत्त्वतः || ४-१ ||

ईश्वर उवाच --

शृणु देवि प्रवक्ष्यामि पूजामण्डलमुत्तमम् |
पीठपूजां विधायादौ रविदेवीविराजिताम् || ४-२ || वामा ज्येष्ठा च रौद्री च अम्बिकेच्छा ततः परम् |
ज्ञाना क्रिया कुब्जिका च ऋद्धिश्चैव विषघ्निका || ४-३ || दूतरी चैव आनन्दा देवि द्वादश शक्तयः |
मुक्ताफलामलमणिस्फुरच्छत्रं शशिप्रभम् || ४-४ || गङ्गातरङ्गधवलं चामरद्वयमद्रिजे |
नवरत्नस्फुरद्दीप्ति ताम्बूलस्य करण्डकम् || ४-५ || मल्लिकामालतीजातीशतपत्रादिदामभिः |
पूर्णं रत्नमयं भाण्डं तथाऽलङ्कारपूरिताम् || ४-६ || पेटिकां व्यजनद्वन्द्वं नवरत्नाभिभूषितम् |
नीलकण्ठस्य पिच्छैस्तु तथोशीरविराजितम् || ४-७ || कर्पूरमृगनाभ्याढ्यं कुङ्कुमक्षोदमण्डितम् |
चषकं स्वर्णरचितं कङ्कतीं हीरराजिताम् || ४-८ || कज्जलस्य शलाकां च करण्डं चन्द्रपूरितम् |
दधानाः परमेशानि शक्तयः पीठसंस्थिताः || ४-९ || पूर्वादिपरितः पूज्या रविसंख्या वरानने |
संपूज्य मध्ये देवेशि प्रेतसिंहासनं यजेत् || ४-१० || रत्नस्वर्णाकृति स्फारं दीप्तिमच्छुद्धमव्ययम् |
पञ्चप्रेतासनं साक्षान्मोक्षदायि न संशयः || ४-११ ||

श्रीदेव्युवाच --

पञ्च प्रेतान् महेशान ब्रूहि तेषां तु कारणम् |
निर्जीवा अविनाशस्ते नित्यरूपाः कथं विभो || ४-१२ || निर्जीवे नाश एवास्ति ते कथं नित्यतां गताः |

ईश्वर उवाच --

साधु पृष्टं त्वया भद्रे पञ्चप्रेतमयं कथम् || ४-१३ || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः |
पञ्च प्रेता वरारोहे निश्चला एव सर्वदा || ४-१४ || ब्रह्मणः परमेशानि मातृत्वं सृष्टिरूपकम् |
वामाशक्तेस्तु विज्ञेयं ब्रह्मा प्रेतो न संशयः || ४-१५ || शिवस्य करणं नास्ति शक्तेस्तु करणं सदा |
ब्रह्माण्डलक्षनिर्माणं जायते शक्तितः प्रिये || ४-१६ || अत एव महेशानि शिवः प्रेतो न संशयः |
विष्णौ च पालनं नास्ति पालयन्ती परा शिवा || ४-१७ || ज्येष्ठाभिधा महेशानि सैव विष्णुरितीरिता |
विष्णुस्तु निश्चलो देवि वैष्णवी व्याप्तिकारिणी || ४-१८ || पालयन्ती जगत्सर्वं विश्वनाटककारिणी |
अत एव महेशानि विष्णुः प्रेतो न संशयः || ४-१९ || रुद्रस्तु परमं तत्त्वं शिवो निश्चल एव हि |
ग्रसन्ती रुद्रशक्तिस्तु तमोरूपा वरानने || ४-२० || गुणत्रयं शिवे नास्ति गुणातीतः परमेश्वरः |
निर्गुणस्य कथं ग्रासो निश्चलस्य वरानने || ४-२१ || ग्रसन्ती रुद्रशक्तिस्तु त्रैलोक्यं सचराचरम् |
ब्रह्मा विष्णुश्च रुद्रश्च गुणातीताः सदा प्रिये || ४-२२ || सगुणाः परमेशानि सृष्टिस्थितिलयात्मकाः |
ईश्वरोऽपि वरारोहे महाप्रेतः सदाऽनघे |
शिवे निश्चलता कस्मादीश्वरत्वं भवेत्प्रिये || ४-२३ || यः कर्ता च स्वयं हर्ता स ईशो नान्यथा भवेत् |
कर्तृहर्तृत्वयुगलं निश्चले न हि सुन्दरि || ४-२४ || ईश्वरत्वं शिवायां तु न शिवे परमेश्वरि |
अत एव महाप्रेत ईश्वरो नान्यथा भवेत् || ४-२५ || सदाशिवो महाप्रेतः केवलं निश्चलः प्रिये |
अव्यक्तः परमानन्दो ब्रह्मानन्दमयी शिवा || ४-२६ || शक्त्या विना शिवे देवि वासना न प्रवर्तते |
अत एव महेशानि महाप्रेतासनं यजेत् || ४-२७ || चक्रमध्ये स्थितं बीजं सदाशिवमहापदम् |
प्रेतपद्मासनं ङेन्तं हृन्मनुर्मनुरीरितः || ४-२८ || महासनस्य मन्त्रोऽयं कलार्णः परमेश्वरि |
सिंहासनं समभ्यर्च्य ततश्चाऽऽवाहनं कुरु || ४-२९ || वहन्नाडीक्रमेणैव मूलादिब्रह्मरन्ध्रगाम् |
संवित्कलां परेशानि सर्वज्ञां कुलसुन्दरीम् || ४-३० || आवाह्य चक्रमध्ये तु तर्पयेत्कुलसुन्दरीम् |
आवाहनादिमुद्रास्तु कथयामि तवानघे || ४-३१ || ऊर्ध्वांञ्जलिमधः कुर्यादियमावाहनी भवेत् |
इयं तु विपरीता स्यात्तदा वै स्थापनी मता || ४-३२ || मिलितं मुष्टियुगलं संनिधापनरूपिणी |
अन्तरङ्गुष्ठमुष्टिभ्यां संनिरोधनरूपिणी || ४-३३ || एतस्या एव मुद्रायास्तर्जन्यौ सरले यदा |
सव्यापसव्यभ्रमणान्मुद्रेयमवगुण्ठनी || ४-३४ || अङ्गमन्त्रैर्न्यसेद्देवि देव्यङ्गे साधकोत्तमः |
संकलीकरणं नाम मुद्रेयं व्याप्तिकारिणी || ४-३५ || करावेकत्र संयोज्यावङ्गुष्ठौ बन्धयेत्प्रिये |
परमीकरणं नाम मुद्रेयं तु ततः परम् || ४-३६ || परिवर्त्य करौ पश्चात्तर्जनीमध्यमायुगम् |
कनिष्ठानामिकायुग्मं परस्परयुतं कुरु || ४-३७ || धेनुमुद्रेवमाख्याता अमृतीकरणं भवेत् |
एता साधारणा मुद्रा दर्शयित्वा ततः परम् || ४-३८ || वरदाभयमुद्रे च वरदाभयवत्प्रिये |
पुस्तकवद्वामकरं कुर्यात्समतलं प्रिये || ४-३९ || पुस्तकं नाम मुद्रेयं वाग्विलासं प्रयच्छति |
तर्जन्यङ्गुष्ठयोगे तु दक्षहस्ते तु पार्वति || ४-४० || अक्षमालेति मुद्रेयं ज्ञानमुद्रा च वै भवेत् |
मुष्टिं बध्वा दक्षकरे तर्जन्यङ्कुशरूपिणी || ४-४१ || अङ्कुशाख्या महामुद्रा त्रैलोक्याकषीणी भवेत् |
तर्जनीयुगलं देवि वामांसे शृङ्खलाकृति || ४-४२ || पाशमुद्रा समाख्याता त्रैलोक्याकर्षणक्षमा |
यथा हस्तगतं चापं तथा हस्तं कुरु प्रिये || ४-४३ || चापमुद्रेयमाख्याता वामहस्ते व्यवस्थिता |
यथा हस्तगतो बाणस्तथा हस्तं कुरु प्रिये || ४-४४ || बाणमुद्रेयमाख्याता रिपुवर्गनिकृन्तनी |
वामहस्ततलं देवि कपालाकृति कारयेत् || ४-४५ || कपालमुद्रा देवेशि देव्यानन्दकरी सदा |
हस्ताभ्यां कमलाकारो यदा तत्कमलं भवेत् || ४-४६ || एषा कमलमुद्रा च लक्ष्मीवृद्धिकरी मता |
इति चाऽऽयुधमुद्रास्तु दर्शयित्वा वरानने || ४-४७ || गन्धपुष्पाक्षतादीनि दद्यात्स्त्रीसहितः सदा |
उपचारैरलंकारैस्तोषयेत् परमेश्वरीम् || ४-४८ || लयाङ्गं कल्पयेद्देहे सम्यक्सन्तर्पयेच्छिवाम् |
परिवारार्चनं पश्चादादावङ्गाकृतिं प्रिये || ४-४९ || गुरुपूजानन्तरं तु प्रथमं गुरुमर्चयेत् |
प्राग्योनिमध्ययोन्योस्तु मध्ये निजगुरुं यजेत् || ४-५० || विशेषमुद्रां देवेशि दर्शयेत्सर्वसिद्धये |
परिवर्त्य करौ सम्यक्तर्जनीवाहनी समे || ४-५१ || मध्यमे कुरु तन्मध्ये योजयेत्तदनन्तरम् |
अन्योन्यामिके देवि कनिष्ठे तु यथास्थिते || ४-५२ || अङ्गुष्ठाभ्यां योजिताभ्यां योन्याकारं तु कल्पयेत् |
योनिमुद्रेयमाख्याता परा त्रैलोक्यमातृका || ४-५३ || इयमेव हृदि क्षिप्ता त्रैलोक्यक्षोभिणी भवेत् |
त्रैलोक्यद्राविणी नाम मुखस्था परमेश्वरी || ४-५४ || भ्रूमध्यस्था महादेवि त्रैलोक्याकषीणी भवेत् |
ललाटस्था महादेवि त्रैलोक्यवशकारिणी || ४-५५ || ब्रह्मरन्ध्रस्थिता देवि त्रैलोक्योन्मादकारिणी |
पञ्चमुद्रामयीं मुद्रां योनिमुद्रां च दर्शयेत् || ४-५६ || ततः षडङ्गावरणं परितः पीठमद्रिजे |
अग्नीशासुरवायव्यमध्ये दिक्षु च पूजयेत् || ४-५७ || अग्रकोणे रतिं यष्ट्वा प्रीतिमुत्तरकोणके |
मनोभवां दक्षकोणे ततो बाणान् समर्चयेत् || ४-५८ || उत्तरस्यां द्वयं देवि दक्षिणस्यां दिशि द्वयम् |
अग्रे चैकं क्रमेणैव बाणान् पञ्चाद्रिजे यजेत् || ४-५९ || पञ्च कामांस्तथा देवि बाणवत्परिपूजयेत् |
अनङ्गकुसुमां देवि तथाऽनङ्गादिमेखलाम् || ४-६० || अनङ्गमदनां पश्चादनङ्गमदनातुराम् |
सुभगां पञ्चमीं देवि भगां च भगसपीणीम् || ४-६१ || भगमालां महादेवि पूर्वादिक्रमतो यजेत् |
अष्टयोनिषु देवेशि ततो ब्राह्म्यादिका यजेत् || ४-६२ || युग्मयुग्मप्रभेदेन वसुपत्रे वरानने |
असिताङ्गं तथा ब्राह्मीं रुरुं माहेश्वरीं प्रिये || ४-६३ || चण्डं कौमारिकां चैव क्रोधं वैष्णवदेवताम् |
उन्मत्तं चैव वाराहीं माहेन्द्रीं च कपालिनम् || ४-६४ || भीषणं चैव चामुडां संहारं चाष्टमं यजेत् |
महालक्ष्मीं महादेवि युग्मानि परिपूजयेत् || ४-६५ || पश्चिमादिक्रमेणैव ततः पीठाष्टकं यजेत् |
कामरूपं च मलयं ततः कौलगिरिं तथा || ४-६६ || कुलान्तकं च चौहारं जालन्धरमतः परम्ं |
उड्डीयानं द्देवकूटं पीठाष्टकमिदं क्रमात् || ४-६७ || ग्रन्थिस्थानेषु संपूज्यं पश्चिमादिक्रमेण तु |
त्रिशूलं परितो देवि मातृकावृत्तमण्डले || ४-६८ || भैरवा दश संपूज्याः पश्चिमादिक्रमात् प्रिये |
हेतुकं चैव वेतालं तन्मध्ये त्रिपुरान्तकम् || ४-६९ || अग्निजिह्वं च कालान्तं तथा चैव कपालिनम् |
एकपादं भीमरूपं मलयं हाटकेश्वरम् || ४-७० || दशाभ्यर्च्य महादेवि भैरवान् मातृमण्डले |
चतुरस्रे महेशानि लोकपालाष्टकं यजेत् || ४-७१ || इन्द्रमग्निं यमं देवि राक्षसं वरुणं तथा |
वायुं कुबेरमीशानं पूर्वादिक्रमतो यजेत् || ४-७२ || ब्रह्माणं चैव विष्णुं च ऊर्ध्वाधः क्रमतो यजेत् |
वांकारं बीजमुच्चार्य बटुकाय नमो लिखेत् || ४-७३ || यांकारं बीजमुच्चार्य योगिनीभ्यो नमस्तथा |
क्षांकारं बीजमुच्यार्य क्षेत्रपालाय वै नमः || ४-७४ || गांकारं बीजमुच्चार्य ततो गणपतिं लिखेत् |
ङेन्तं नमः पश्चिमादिदिक्षु पूज्याः क्रमेण तु || ४-७५ || चतुरस्रे तु संपूज्या विदिक्षु परमेश्वरि |
वायव्यादिक्रमेणैव वक्ष्यमाणा महेश्वरि || ४-७६ || वसवो द्वादशाऽऽदित्या रुद्राश्चैव ततः प्रिये |
सर्वे भूता वरारोहे क्रमेण परिपूजयेत् || ४-७७ || पूजां विधाय देवेशीमुपचारैः प्रपूजयेत् |
उत्तराभिमुखो भूत्वा यदा चक्रं प्रपूजयेत् || ४-७८ || उत्तराशा तदा देवि पूर्वाशैव व्यवस्थिता |
पश्चिमाशामुखो देवि यदा चक्रं प्रपूजयेत् || ४-७९ || पश्चिमाशा तदा देवि पूर्वाशैव व्यवस्थिता |
दक्षिणाशामुखो देवि तदा चक्रं प्रपूजयेत् || ४-८० || दक्षिणाशा ततो देवि पूर्वाशैव न संशयः || ४-८१ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे त्रिपुरेश्वरीपूजाक्रमविधिर्नाम चतुर्थः पटलः || ४ ||

Paṭala 5

अथ पञ्चमः पटलः


श्रीदेव्युवाच --

कुमारीक्रम आख्यातो मुद्रासनसमन्वितः |
इदानीं श्रोतुमिच्छामि बलिदानादिकं विभो || ५-१ ||

ईश्वर उवाच --

धूपं विस्तारयेत्सम्यङ्मूलमन्त्रं हृदि स्मरन् |
वनस्पतिरसोत्पन्नो गन्धाढ्यो धूप उत्तमः || ५-२ || आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् |
अनेन मनुना देवि देव्यै धूपं निवेदयेत् || ५-३ || सुप्रकाशो महादीपः सर्वत्र तिमिरापहः |
सबाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् || ५-४ || तथैव दीपमन्त्रोऽयं विद्यान्ते परमेश्वरि |
आरात्रिकं ततः कुर्यात्सर्वकार्यार्थसिद्धये || ५-५ || सौवर्णे राजते कांस्ये स्थालके परमेश्वरि |
कुङ्कुमेन लिखेत्पद्मं वसुपत्रं मनोहरम् || ५-६ || चन्द्ररूपं चरुं कृत्वा तन्मध्ये मस्तके शिवे |
दीपमेकं विनिक्षिप्य वसुपत्रेऽष्ट दीपकान् || ५-७ || यवगोधूममुद्गादिरचिताञ् शर्करायुतान् |
चषकान्वितमुद्राभिः शोभितान्घृतपूरितान् || ५-८ || अभिमन्त्र्य महेशानि रत्नेश्वर्या ततः परम् |
श्रीबीजं च पराबीजं संलिख्य वरवणीनि || ५-९ || गसौ च मपनाः पश्चादिन्द्रस्थाः क्रमतः प्रिये |
वामकर्णसमायुक्ता बिन्दुनादविभूषिताः || ५-१० || बीजपञ्चकमेतत्तु पञ्चरत्नानि सुन्दरि |
पूर्वबीजे विलोमेन रत्नेशीयं नवाक्षरी || ५-११ || मूलमन्त्रेण चाभ्यर्च्य ततश्चाऽऽरात्रिकं चरेत् |
स्थालकं तु समुद्धृत्य मस्तकान्तं पुनः पुनः || ५-१२ || नववारं महेशानि ततो नीराजनं चरेत् |
समस्तचक्रचक्रेशीयुते देवि नवात्मिके || ५-१३ || आरातीकमिदं देवि गृहाण मम सिद्धये |
नीराजनमनुर्देवि विद्यान्ते प्रकटीकृतः || ५-१४ || आरातीके महेशानि चक्रमुद्रा व्यवस्थिता |
वामहस्ताङगुष्ठगर्भे कनिष्ठां दक्षिणां नयेत् || ५-१५ || कनिष्ठागर्भगे वामे दक्षाङ्गुष्ठंं विनिक्षिपेत् |
अन्योन्यकरयोर्देवि चक्रमुद्रेयमीरिता || ५-१६ || आरातीकविधिं कृत्वा नैवैद्यं तु निवेदयेत् |
शुद्धस्फटिकसंकाशश्चन्द्ररश्मिसमप्रभः || ५-१७ || लसत्तण्डुलजो देवि चारुमृद्वोदनः प्रिये |
हिङ्गुजीरमरीचाढ्यैरार्द्रकै रुचिरः प्रिये || ५-१८ || वटकः कुङ्कुमाकारः पायसं हेमसंनिभम् |
दुग्धगम्भीरसुभगं शर्करापूरपूरितम् || ५-१९ || कपिलाघृतसंयुक्तं भूर्जत्वङ्मण्डकाः प्रिये |
शर्करालोलिता देवि सूपं मुद्गोद्भवं तथा || ५-२० || नानाविधानि पेयानि व्यञ्जनानि बहूनि च |
इत्याद्यन्नरसोपेतं नैवेद्यं कल्पयेद्बुधः || ५-२१ || मनःकल्पितरूपं वा त्रिपुरायै निवेदयेत् |
हेमापात्रगतं दिव्यं परमान्नं सुसंस्कृतम् || ५-२२ || पञ्चधा षड्र्सोपेतं गृहाण परमेश्वरि |
विद्यान्ते परमेशानि नैवेद्यमनुरीरितः || ५-२३ || परिषिंच्य ततो देवि नित्यहोमं समाचरेत् |
मूलमन्त्रेण देवेशि हुनेत्पञ्चाऽऽहुतिः क्रमात् || ५-२४ || प्राणापानौ तथा व्यान उदानञ्च समानकः |
एतत्स्वरूपं जानीयादाहुतीनां च पञ्चकम् || ५-२५ || षडाहुतीः षडङ्गेन नित्यहोमोऽयमीरितः |
नित्यहोमविधिं कृत्वा बलिदानविधिं चरेत् || ५-२६ || ईशाने च तथाऽऽग्नेये नैरृत्ये च तथा प्रिये |
वायव्ये क्रमतो देवि मण्डलानां चतुष्टयम् || ५-२७ || श्रीचक्रमभितो देवि त्रिकोणं व्योम चाऽऽलिखेत् |
पूर्वमन्त्रैः समभ्यर्च्य बटुकादिभिरद्रिजे || ५-२८ || एह्येहि देवि पुत्रान्ते वटुकान्तेऽथ नाथ च |
कपिलान्ते जटाभार भासुरान्ते त्रिनेत्र च || ५-२९ || ज्वालामुख च सर्वान्ते विघ्नान्नाशय नाशय |
सर्वोपचारसहितं बलिं गृह्ण द्विधापदम् || ५-३० || वह्निजायान्वितो मन्त्रो बटुकस्य उदाहृतः |
अनेन विधिना देवि बटुकस्य बलिं प्रिये || ५-३१ || ऊर्ध्वं ब्रह्माण्डतो वा दिवि वा गगनतले भूतले निष्कले वा |
पाताले वाऽनले वा सलिल-- पवनयोर्यत्र कुत्र स्थिता वा || ५-३२ || क्षेत्रे पीठोपपीठादिषु च कृतपदा धूपदीपादिकेन |
प्रीता देव्यः सदा नः शुभद-- बलिविधिना पान्तु वीरेन्द्रवन्द्याः || ५-३३ || एतदन्ते महेशानि यां बीजं योगिनी ततः |
भ्यः स्वाहा सर्ववर्णान्ते योगिनीपदमालिखेत् || ५-३४ || कवचं चास्त्रमालिख्य वह्निजायां पुनलीखेत् |
अनेन मनुना देवि योगिनीनां बलिं हरेत् || ५-३५ || षड्दीर्घस्वरसंभिन्नं क्षकारं विलिखेत्प्रिये |
स्थानक्षेत्रपदं पालधूपदीपादि चाऽऽलिखेत् || ५-३६ || सहितं बलिमालिख्य गृह्ण गृह्ण वदेत् ततो |
वह्निजायान्वितो मन्त्रः क्षेत्रपालस्य सुन्दरि || ५-३७ || अनेन मनुना देवि क्षेत्रपालबलिः स्मृतः |
गांगींगूंत्रयमालिख्य डेन्तं गणपतिं ततः || ५-३८ || वरान्ते वरदान्ते च सर्वान्ते जनमालिखेत् |
मे वशं चाऽऽनय प्रोच्य सर्वोपपदमालिखेत् || ५-३९ || चारान्ते सहितं चोक्त्वा बलिं गृह्ण द्विधापदम् |
वह्निजायान्वितो मन्त्रो गणपस्य बलिं हरेत् || ५-४० || वामाङ्गुष्ठानामिकाभ्यां बटुकस्य बलिं हरेत् |
तर्जन्यनामिका चैव मध्यमोपरि योजयेत् || ५-४१ || योन्याकारेण वामेन योगिनीनां बलिर्भवेत् |
अङ्गुष्ठमध्यमानामा योन्याकारेण योजयेत् || ५-४२ || वाममुष्टिं विधायाऽऽदौ तर्जनीं सरलां कुरु |
अनया मुद्रया देवि क्षेत्रपालबलिर्भवेत् || ५-४३ || तथा मुष्टेस्तु मध्यस्थामङगुलीं दण्डवत्कुरु |
गजतुण्डा महामुद्रा गणपस्य बलिर्भवेत् || ५-४४ || अथवा वामभागे तु मण्डलं चैकमालिखेत् |
तत्रैव बलिदामं तु कुर्यात्सर्वार्थसिद्धये || ५-४५ || आत्मविद्यां शिवैस्तत्त्वैर्गुरुं संतर्प्य देवताम् |
संतोष्याऽऽनन्दसहितः सर्वकर्माणि साधयेत् || ५-४६ || अनेन विधिना देवि पूजयेत्परमेश्वरीम् |
पञ्चसिंहासनोन्नद्धां परमानन्दरूपिणीम् || ५-४७ || पञ्चसिंहासनोन्नद्धां चित्कलां चिन्तयेत्सदा |
वर्णलक्षं जपेन्मन्त्रं तद्दशांशं हुनेत्प्रिये || ५-४८ || तर्पणं तु तथा कुर्यात्सर्वसौभाग्यवान्भवेत् || ५-४९ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे त्रिपुरेश्वरीयजनविधिर्नाम पञ्चमः पटलः || ५ ||

Paṭala 6

अथ षष्ठः पटलः

श्रीदेव्युवाच --

पञ्चसिंहासनगता कथं सा त्रिपुरा परा |
कथयस्व महेशान कथं सिंहासनं भवेत् || ६-१ ||

ईश्वर उवाच --

यथा श्रीत्रिपुरा बाला तथा त्रिपुरभैरवी |
संंपत्प्रदा नाम तस्याः शृणु निर्मलमानसे || ६-२ || शिवचन्द्रौ वह्निसंस्थौ वाग्भवं तदनन्तरम् |
कामराजं तथा देवि शिवचन्द्रान्वितं ततः || ६-३ || पृथ्वीबीजान्तवह्न्याढ्यं तार्तीयं शृणु वल्लभे |
शक्तिबीजे महेशानि शिवं वह्निं च योजयेत् || ६-४ || व्योमादिवह्निसंस्थं तु विशेषं शृणु वल्लभे |
कुमार्याः परमेशानि हित्वा सर्गं तु बैन्दवम् || ६-५ || त्रिपुरा भैरवी देवी महासंपत्प्रदा प्रिये |
अनया सदृशी विद्या त्रिषु लोकेषु दुर्लभा || ६-६ || ब्रह्मानन्दमयी साक्षात्सर्वसाम्राज्यदायिनी |
ध्यानमस्याः प्रवक्ष्यामि महासंपत्प्रदं प्रिये || ६-७ || आताम्रार्कसहस्राभां स्फुरच्चन्द्रजटाशिखाम् |
किरीटरत्नविलसच्चित्रचित्रितमौक्तिकाम् || ६-८ || स्रवद्रुधिरपङ्काढ्यमुण्डमालावलीयुताम् |
नयनत्रयशोभाढ्यां पूर्णेन्दुवदनान्विताम् || ६-९ || मुक्ताहारलताराजत् पीनोन्नतघनस्तनीम् |
त्रिवलीखचितालग्नां नानाभरणभूषिताम् || ६-१० || रक्ताम्बरपरीधानां यौवनोन्मत्तरूपिणीम् |
पुस्तकं चाभयं वामे दक्षिणे चाक्षमालिकाम् || ६-११ || वरदानरतां नित्यं महासंपत्प्रदां स्मरेत् |
न्यासपूजादिकं सर्वं कुमार्या इव सुव्रते || ६-१२ || त्रिपुरा भैरवी देवी पञ्चसिंहासनान्विता |
प्रथमं शृणु देवेशि ब्रह्मा सृष्टिकरो यदा || ६-१३ || निश्चेतनोऽपि देवेशि तदा त्रिपुरदेवताम् |
समाराध्याभवत्कर्ता सृष्टेस्तु परमेश्वरि || ६-१४ || ब्रह्माणं तं समाराध्य तपसा महता प्रिये |
शक्रोऽभूद्देवराजोऽयं पूर्वस्यां दिशि पालकः || ६-१५ || तदा प्रसन्ना त्रिपुरा पूर्वसिंहासनस्थिता |
शृणु देवि प्रवक्ष्यामि पूर्वसिंहासनस्थिताम् || ६-१६ || वाग्भवं बीजमुच्चार्य जीवप्राणसमन्विताम् |
सकला भुवनेशानि द्वितीयं बीजमुद्धृतम् || ६-१७ || जीवं प्राणं वह्निसंस्थं शक्रस्वरविभूषितम् |
विसर्गाढ्यं महेशानि विद्या त्रैलोक्यमातृका || ६-१८ || त्रैलोक्यमोहनी देवी परब्रह्मचिदात्मिका |
चैतन्यभैरवी नाम चेतना निष्कले शिवे || ६-१९ || उद्यद्भास्वत्सहस्राभां नानालंकारभूषिताम् |
मुकुटोज्ज्वलसच्चन्द्रलेखां रक्ताम्बरान्विताम् || ६-२० || पाशाङ्कुशधरां नित्यां वामहस्तकपालिनीम् |
वरदाभयशोभाढ्यां पीनोन्नतघनस्तनीम् || ६-२१ || एवं ध्यात्वा भजेद्देवीं पूर्वसिंहासनस्थिताम् |
द्विरावृत्त्या षडङ्गानि न्यसेत्सर्वाङ्गलक्षणाम् || ६-२२ || यन्त्रमस्याः प्रवक्ष्यामि देवि त्रैलोक्यमोहनम् |
त्रिकोणं चैव षट्कोणं वसुपत्रं वरानने || ६-२३ || चतुरस्रं चतुर्द्वारमेवं मण्डलमालिखेत् |
तत्राऽऽवाह्य महादेवीं पूर्ववत्परमेश्वरीम् || ६-२४ || मुद्राः प्रदर्शयेत्पश्चात्परिवारार्चनं यजेत् |
प्रथमावरणं देवि षडङ्गानां तु पूर्ववत् || ६-२५ || रत्यादिकास्ततः पूज्याः पूर्ववत्परमेश्वरि |
अग्रे वसन्तं वामे तु कामदेवं वरानने || ६-२६ || चापं दक्षिणकोणे च बाणान् पूर्ववदद्रिजे |
डाकिनीं राकिनीं चैव लाकिनीं काकिनीं तथा || ६-२७ || शाकिनीं हाकिनीं देवि पश्चिमादिक्रमाद्यजेत् |
अनङ्गकुसुमा मुख्या वसुपत्रेषु पूर्ववत् || ६-२८ || परभृत्सारसौ चैव शुकमेघाह्वयौ पुनः |
अपाङ्गम्भ्रूविलासौ च हावभावौ प्रपूजयेत् || ६-२९ || इन्द्राद्या लोकपालास्तु क्रमेण परिपूजयेत् |
पूर्वसिंहासने देवि कथिता वीरवन्दिते || ६-३० || कामेश्वरी च रुद्राणां पूर्वसिंहासनस्थिता |
एतस्या एव विद्याया बीजद्वयमुदाहृतम् || ६-३१ || तदन्ते परमेशानि नित्यक्लिन्ने मदद्रवे |
एतस्या एव तार्तीयं रुद्राणां परमेश्वरि || ६-३२ || पूजाध्यानादिकं देवि चैतन्यायाश्च पूर्ववत् |
त्रिकोणे तु विशेषोऽस्ति कथयामि तवानघे || ६-३३ || अग्रकोणक्रमेणैव नित्यां क्लिन्नां मदद्रवाम् |
षडङ्गावरणात्पश्चात्पूजयेत्सर्वसिद्धये || ६-३४ || अनेनैव प्रकारेण पूर्वसिंहासनस्थिताम् |
त्रिपुरां भैरवीं देवीं पूजयेत्परमेश्वरीम् || ६-३५ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे पूर्वसिंहासनकथनं नाम षष्ठः पटलः || ६ ||

Paṭala 7

अथ सप्तमः पटलः

ईश्वर उवाच --

एतामाराध्य देवेशि महात्रिपुरभैरवीम् |
पालकोऽभून्निश्चलोऽपि प्रेतत्वात्सुरवन्दिते || ७-१ || योगनिद्राछलाद्देवि प्रेतत्वं तस्य निश्चलम् |
तद्ध्यानेन स्वयं शक्तिरभूत्कुवलयेक्षणे || ७-२ || तामाराध्य महाविष्णुरघोरेण मुखेन च |
त्रिपुरो निजीतो देवि त्रैलोक्यभयकारकः || ७-३ || तदा सिंहासने प्रौढा दक्षिणे परमेश्वरि |
मन्त्रं तस्याः प्रवक्ष्यामि रिपुभारनिकृन्तनम् || ७-४ || शिवचन्द्रौ मादनान्तं वान्तं वह्निसमन्वितम् |
शक्तिभिन्नं बिन्दुनादकलाढ्यं वाग्भवं प्रिये || ७-५ || संपत्प्रदाया भैरव्याः कामराजं तदेव हि |
सदाशिवस्य बीजं तु सिंहासनगतस्य च || ७-६ || एषा विद्या महेशानि वणीतुं केन शक्यते |
ध्यानमस्याः प्रवक्ष्यामि रिपुभारनिकृन्तनम् || ७-७ || उद्यत्सूर्यसहस्राभां चन्द्रचूडां त्रिलोचनाम् |
नानालंकारसुभगां सर्ववैरिनिकृन्तनीम् || ७-८ || स्रवद्रुधिरमुण्डालिकलितां रक्तवाससम् |
त्रिशूलं डमरुं चैव खड्गं खेटकमेव च || ७-९ || पिनाकं च शरान्देवि पाशाङ्कुशयुगं क्रमात् |
पुस्तकं चाक्षमालां च शिवसिंहासने स्थिताम् || ७-१० || एवं ध्यात्वा महेशानि पूजामण्डलमारभेत् |
त्रिकोणं चैव वृत्तं च वृत्ताष्टदलनीरजम् || ७-११ || वृत्तं भूसदनोपेतमेषा त्रिपुरयन्त्रिका |
वामां ज्येष्ठां च रौद्रीं च काली च वरलोचने || ७-१२ || कलाढ्यां च बलाढ्यां च यजेद्विकरिणीं पिरये |
बलप्रमथिनीं चैव सर्वभूतान्तमावदेत् || ७-१३ || दमनीं च तथाऽचीत्वा मनोन्मनीपदान्विताम् |
एवं पीठं समभ्यर्च्य ततः सिंहासनं यजेत् || ७-१४ || अघोरविद्यारूपं तु महापापनिकृन्तनम् |
अघोरे वाग्भवं देवि घोरे तु भुवनेश्वरीम् || ७-१५ || घोरघोरतरेभ्यश्च विलिख्य सुरवन्दिते |
सर्वेभ्यः सर्वशर्वेभ्यो देव्या बीजयुगं लिखेत् || ७-१६ || नमस्तेऽस्तुपदं कुर्याद्रुद्ररूपे ह्सौ लिखेत् |
त्रिंशद्भिश्च त्रिभिर्वर्णैवीद्येयं कथिता प्रिये || ७-१७ || अनेन मनुना देवि यजेत्सिंहासनं बुधः |
आवाहनादिकं कुर्यात् क्रमार्चनमतः परम् || ७-१८ || आदावङ्गावृत्तिर्देवि द्विरावृत्त्याऽङ्गपूजनम् |
रत्यादित्रयमभ्यर्च्य तथाऽनङ्गादिका यजेत् || ७-१९ || ब्राह्म्यादियुग्मं संपूज्य वसुपत्रेषु मातृकाः |
भूबिम्बे लोकपालांश्च सायुधान्परमेश्वरी || ७-२० || द्वितीयसिंहासनगां पूजयेद्रुद्रभैरवीम् || ७-२१ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे द्वितीयसिंहासने रुद्रभैरवीयजनं नाम सप्तमः पटलः || ७ ||

Paṭala 8

अथाष्टमः पटलः


ईश्वर उवाच --

पश्चिमे भैरवी देवी षट्कूटा परमेश्वरी |
यत्स्फूर्त्या स शिवो देवि सृष्टिसंहारणक्षमः || ८-१ || डाकिनीराकिनीबीजे लाकिनीकाकिनीयुगात् |
बीजे आहृत्य देवेशि योजयेच्चन्द्रसूर्ययोः || ८-२ || आद्यमैकारसंयुक्तमन्यदीकारमण्डितम् |
शक्रस्वरसमायुक्तं तार्तीयं बीजमालिखेत् || ८-३ || बिन्दुनादकलाक्रान्तं तृतीयं शैलसम्भवे |
एषा विद्या महेशानि रुद्रसिंहासेन स्थिता || ८-४ || ध्यानमस्याः प्रवक्ष्यामि सर्वभूतनिकृन्तनम् |
बालसूर्यप्रभां देवीं जपाकुसुमसन्निभाम् || ८-५ || मुण्डमालावलीरम्यां बालसूर्यसमांशुकाम् |
सुवर्णकलशाकारपीनोन्नतपयोधराम् || ८-६ || पाशाङ्कुशौ पुस्तकं च दधानां जपमालिकाम् |
एवं ध्यात्वा यजेद्देवीं मानसैरुपचारकैः || ८-७ || द्विरावृत्त्यां षडङ्गानि विधाय परमेश्वरि |
यन्त्रमस्या वरारोहे त्रिकोणं तत्पुटं लिखेत् || ८-८ || बहिरष्टदलं पद्मं रविपत्रं समालिखेत् |
चतुरस्रं चतुर्द्वारमेवं मण्डलमालिखेत् || ८-९ || षडङ्गावरणं देवि पूर्ववत्पूजयेत्प्रिये |
रत्यादित्रितयं देवि त्रिकोणे परिपूजयेत् || ८-१० || डाकिन्याद्यास्तु षट्कोणे वसुपत्रे ततः परम् |
ब्राह्म्यादियुगलं पश्चाद्रविपत्रे ततः परम् || ८-११ || बालायाः पीठशक्तीस्तु वामाद्याः पूजयेत्प्रिये |
चतुरस्रे लोकपालान् सायुधान् परमेश्वरि || ८-१२ || एवं पूजाविधिं कुर्याद्भोगमोक्षफलाप्तये |
अनेनैव विधानेन नित्याख्यां भैरवीं यजेत् || ८-१३ || सर्वसौभाग्यदां नित्यां सर्वसाम्राज्यदायिनीम् |
एतस्या एव विद्यायाः षड्वर्णान् क्रमतः स्थितान् || ८-१४ || विपरीतान् वद प्रौढे विद्येयं भोगमोक्षदा |
नित्याख्या भैरवी देवि रिपुभारनिकृन्तनी || ८-१५ || न्यासपूजादिकं सर्वमस्याः पूर्ववदाचरेत् || ८-१६ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे पश्चिमसिंहासनकथनं नामाष्टमः पटलः || ८ ||

Paṭala 9

अथ नवमः पटलः


ईश्वर उवाच --

शृणु देवि महाविद्यां चिन्तितेष्टफलप्रदाम् |
यस्या विज्ञानमात्रेण भुवनाधिपतिर्भवेत् || ९-१ || हंसाद्यं वाग्भवं चाऽऽद्यं हसकान्ते सुरेश्वरि |
भूबीजं भुवनेशानी द्वितीयं बीजमुद्धृतम् || ९-२ || शिवचन्द्रौ महेशानि शक्रस्वरविभूषितम् |
बिन्दुनादकलाक्रान्तं तृतीयं बीजमुद्धृतम् || ९-३ || एषा विद्या महेशानि भुवनेश्वरभैरवी |
मध्यबीजेन देवेशि षड्दीर्घस्वरभेदिना || ९-४ || षडङ्गानि प्रविन्यस्य ध्यायेद्देवीं चतुर्भुजाम् |
जपाकुसुमसंकाशां दाडिमीकुसुमप्रभाम् || ९-५ || चन्द्ररेखाजटाजूटां त्रिनेत्रां रक्तवाससम् |
नानालंकारसुभगां पीनोन्नतघनस्तनीम् || ९-६ || पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां स्मरेत् |
एवं ध्यात्वाऽर्चयेद्देवीं यन्त्रोद्धारं च पूर्ववत् || ९-७ || चैतन्यभैरवी देवी यन्त्रवत्परमेश्वरि |
सिंहासनं समभ्यर्च्य परिवारार्चनं यजेत् || ९-८ || षडङ्गावरणं देवि पूर्ववत्परिपूजयेत् |
रत्याद्याः पूजयेद्देवि त्रिकोणे तदनन्तरम् || ९-९ || ब्रह्मा विष्णुश्च रुद्रश्च पूज्यास्तत्रैव सुन्दरि |
डाकिन्याद्यास्तथा पूज्या वसुपत्रे ततः परम् || ९-१० || अनङ्गकुसुमाद्याश्च ब्राह्म्यादियुगलं ततः |
भूबिम्बे लोकपालांश्च बटुकाद्यांश्च पूजयेत् || ९-११ || योगिनीनां चतुःषष्टिं पूजयेत्सुरवन्दिते |
सदाशिवसखा यस्मात्कुबेरः परमेश्वरि || ९-१२ || येनेयं प्राथीता देवी राजराजस्ततो भवेत् |
तेनैव प्राथीता विद्या गौरी गौरफलप्रदा || ९-१३ || अन्नपूर्णेश्वरी नाम सर्वसंपत्प्रदा सताम् |
अनया विद्यया देवि कुबेरो धननायकः || ९-१४ || लोकपालेषु सर्वेषु धनरत्नादिपूर्णता |
तथाऽन्नपूर्णता तस्मिन्सुस्थिराऽस्याः प्रसादतः || ९-१५ || अन्नपूर्णा महादेवि साक्षात्कामदुघाऽद्रिजे |
मन्त्रमस्याः प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् || ९-१६ || तारं च भुवनेशानीं श्रीबीजं कामराजकम् |
हृदन्ते भगवत्यर्णा माहेश्वरि पदं लिखेत् || ९-१७ || अन्नपूर्णेऽग्निजाया च विद्येयं विंशदक्षरी |
अनया सदृशी विद्या सिद्धिदा नास्ति भूतले || ९-१८ || भुवनेशी महेशानि षड्दीर्घस्वरभिन्नया |
षडङ्गानि महेशानि च्छन्दोन्यासानन्तरम् || ९-१९ || ऋषिर्ब्रह्माऽस्य मन्त्रस्य पङ्तिश्छन्दो वरानने |
अन्नपूर्णेश्वरी देवि देवता परिकीतीता || ९-२० || बीजं च भुवनेशानी श्रीबीजं शक्तिरुच्यते |
कीलकं कामराजं स्यात्षडङ्गानन्तरं ततः || ९-२१ || एकमेकं पुनश्चैकं पुनरेकं द्वयं चतुः |
चतुश्चतुस्तथा द्वाभ्यां पदान्येतानि पार्वति || ९-२२ || पदानि नव देवेशि नव द्वारेषु विन्यसेत् |
मूर्धादिगुदपर्यन्तं पुनस्तेषु वरानने || ९-२३ || गुदादिब्रह्मरन्ध्रान्तं पदानां नवकं न्यसेत् |
ब्रह्मरन्ध्रास्यहृदयमूलाधारेष्वनुक्रमात् || ९-२४ || चतुर्बीजानि विन्यस्य शेषेष्वन्यान् प्रविन्यसेत् |
गोलकं च ततो देवि विन्यस्य विधिवत्प्रिये || ९-२५ || प्राणायामं प्रकुर्वीत पूजामण्डलमालिखेत् |
त्रिकोणं च चतुःपत्रं वसुपत्रं ततः परम् || ९-२६ || कलापत्रं च भूबिम्बं चतुर्द्वारं समालिखेत् |
सिंहासनस्य परितः पीठदेवीः समर्चयेत् || ९-२७ || सिंहासने दक्षिणे तु कथिताः पीठनायिकाः |
ता एव पूजयेत्पीठे वामाद्याः परमेश्वरि || ९-२८ || जया च विजया चैव अजिता चापराजिता |
नित्या विलासिनी दोग्ध्री अघोरा मङ्गलात्मिका || ९-२९ || नवमी परमेशानी सिंहासनसमीपगाः |
समावाह्य यजेद्देवीं ध्यानं कुर्वन्समाहितः || ९-३० || तप्तकाञ्चनवर्णाभां बालेन्दुकृतशेखराम् |
नवरत्नप्रभादीप्तमुकुटां कुङ्कुमारुणाम् || ९-३१ || चित्रवस्त्रपरीधानां मदिराक्षीं त्रिलोचनाम् |
सुवर्णकलशाकारपीनोन्नतघनस्तनीम् || ९-३२ || गोक्षीरधामधवलं पञ्चवक्त्रं त्रिलोचनम् |
प्रसन्नवदनं शान्तं नीलकण्ठविराजितम् || ९-३३ || कपदीनं स्फुरत्सर्पभूषणं कुन्दसंनिभम् |
नृत्यतन्तमतिसंहृष्टं दृष्ट्वाऽऽनन्दमयीं पराम् || ९-३४ || सानन्दमुद्यल्लोलाक्षीं मेखलाढ्यनितम्बिनीम् |
अन्नदानरतां नित्यां भूमिश्रीभ्यामलंकृताम् || ९-३५ || एवं ध्यात्वा यजेद्देवि षडङ्गावरणं यजेत् |
अग्नीशासुरवायव्यमध्ये दिक्ष्वङ्गपूजनम् || ९-३६ || अथ वक्ष्ये महेशानि त्रिकोणस्य च पूजनम् |
तारं प्रासादबीजं च हृच्छिवाय ततः परम् || ९-३७ || सप्ताक्षरी महाविद्या त्वनया देवि पूजयेत् |
नृत्यन्तमीश्वरं देवि त्रिकोणाग्रे सुरेश्वरि || ९-३८ || ओं नमः पदमाभाष्य ततो भगवते पदम् |
ततो वराहरूपाय भूर्भुवःस्वःपतिं तथा || ९-३९ || ङेन्तं च भूपतिं च त्वं मे देहीति च दापय |
वह्निजायान्वितो मन्त्रो वराहस्य वरानने || ९-४० || अनया विद्यया देवि वामकोणे प्रपूजयेत् |
ओं नमः पदमाभाष्य ङेन्तं नारायणं लिखेत् || ९-४१ || नारायणं दक्षकोणे क्रमेण परिपूजयेत् |
वामदक्षिणयोः पूज्ये भूश्रियौ परमेश्वरि || ९-४२ || एकेन मनुना देवि कथयामि तवानघे |
ओं नमो हि पदं चान्नं मे देह्यन्नाधिपान्तङे || ९-४३ || तथेयमान्नं संलिख्य प्रदापय ततः परम् |
वह्निजायान्वितो मन्त्रः संपुटीकृत्य योजयेत् || ९-४४ || ग्लौमात्मकेन रमया वामदक्षिणयोः क्रमात् |
ततश्चर्तुर्दले पूज्या पश्चिमादिक्रमेण तु || ९-४५ || तारेणं परविद्यां च भुवनेशीं तदात्मना |
कमलां रमया भद्रे कामेन सुभगां यजेत् || ९-४६ || वसुपत्रे महेशानि ब्राह्म्याद्याः पश्चिमादितः |
षोडशारे परेशानि चन्द्रमण्डलरूपिणीः || ९-४७ || कलाः षोडश संपूज्याः पश्चिमादिक्रमेण हि |
अमृता मानसी पुष्टिस्तुष्टिः प्रीती रतिस्तथा || ९-४८ || श्रीश्च ह्रीश्च स्वधा रात्रिर्ज्योत्स्ना हैमवती तथा |
छाया च पूणीमा नित्या अमावास्या च षोडशी || ९-४९ || शेषवर्णैः प्रपूज्यास्तु अन्नपूर्णान्तशब्दकाः |
चतुरस्रे लोकपालान्क्रमेण परिपूजयेत् || ९-५० || इत्युत्तरपतेः सम्यक्पूजितान्नसुवर्णदा |
स्वशक्त्या या करोत्येव राजराजं धनाधिपम् || ९-५१ || सिद्धिप्रदा सिद्धिविद्या ममाप्यन्नप्रदा प्रिये |
भुवनेश्वरभैरव्या भेदान्तरमथोच्यते || ९-५२ || सहाद्या सैव देवेशि तदा स सकलेश्वरी |
ध्यानपूजादिकं सर्वमेतस्या एव पार्वति || ९-५३ || उत्तरस्यां वरारोहे सिंहासनमिदं दिशि |
संपत्प्रदा भैरवी च विद्धि कौलेशभैरवी || ९-५४ || हसराद्या भैरवी सा त्रिषु बीजेषु पार्वति |
इयं तु सहराद्या स्यात्पूजाध्यानादिकं तथा || ९-५५ || एतस्या एव विद्याया आद्यन्ते रेफवजीते |
तदेयं परमेशानि नाम्ना सकलभैरवी || ९-५६ || संपत्प्रदा भैरवी च ध्यानपूजादिकं प्रिये |
पञ्चसिंहासनमयी महात्रिपुरभैरवी || ९-५७ || चतुराम्नायविद्याभिर्मान्यं सिंहासनं प्रिये |
हस्रीमात्मकमुच्चार्य सह्रीमात्मकमद्रिजे || ९-५८ || शक्तिः सकलह्रीमन्ते चतुर्बीजमुदाहृतम् |
श्रीबीजं कुरु तार्तीयं नित्या वेदाक्षरी भवेत् || ९-५९ || उन्मनी नाम विद्येयं भोगमोक्षफलप्रदा |
पूर्वाम्नाये महाविद्या दक्षिणाम्नाय उच्यते || ९-६० || वाग्भवं बीजमुच्चार्य क्लिन्ने कामस्य बीजकम् |
मदद्रवे कुले हस्रौ विद्येयं भोगिनी प्रिये || ९-६१ || दक्षिणाम्नायविद्येयं पश्चिमाम्नाय उच्यते |
वाग्भवं च परा श्रीश्च हसखफ्रोमिति प्रिये || ९-६२ || हस्रौभस्तास्ततो देवि पञ्चैते प्रणवाः स्मृताः |
भगवत्यम्ब आलिख्य पृथक्पदमथेश्वरि || ९-६३ || चतुर्थं प्रणवं चैव हसकफ्रोमिति प्रिये |
कुब्जिके चैव हस्रां च हस्रीं हस्रौ ततः परम् || ९-६४ || अघोरे चैव घोरे च त्वघोरमुखि चाऽऽलिखेत् |
हस्रां हस्रीं किणिद्वन्द्व विच्चे द्वात्रिंशदक्षरी || ९-६५ || पूर्वोक्तैः प्रणवैर्देवि संपुटीकृत्य संस्मरेत् |
कुब्जिकेयं महाविद्या पश्चिमाम्नायदेवता || ९-६६ || खफ्रेमात्मकमुच्चार्य महाचण्डपदं लिखेत् |
योगेश्वरीपदं पश्चाद्विद्येयं कालिका प्रिये || ९-६७ || उत्तराम्नायविद्येयं नाम्ना कालीति विश्रुता |
एताभिः परमेशानि पूज्यं सिंहासनं सदा || ९-६८ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे सिंहासनविद्याविधानं नाम नवमः पटलः || ९ ||

Paṭala 10

अथ दशमः पटलः

श्री देव्युवाच --

त्रिपुरा द्विविधा देव भवता प्रकटी कृता |
त्रिविधेति यदुक्तं तत्प्रकटी कुरु शंकर || १०-१ ||

ईश्वर उवाच --

परं ब्रह्मस्वरूपं यन्नादबिन्दुत्रयात्मकम् |
शिवशक्तिमयं तत्तु कथयामि तवानघे || १०-२ || व्याप्य तिष्ठति विश्वं सा शिवं च परमेश्वरि |
पूर्वं गुणैस्तु कथिता शिवशक्त्यात्मकं शणु || १०-३ || हकारादिसकारान्ता मातृका शक्तिरव्यया |
हकारः परमेशानि केवलं शिव उच्यते || १०-४ || आद्यन्ताक्षरभावेन तदाऽहं सकलात्मकः |
यदुच्यते मातृकार्णैस्तत्सर्वमहमीश्वरि || १०-५ || हकारः परमेशानि शून्यरूपी सदाऽव्ययः |
सकारः शक्तिरूपत्वात्परावाची विसर्गवान् || १०-६ || उत्पत्तेः कारणं यस्माच्छक्तिरित्यभिधीयते |
आत्मानं दर्शयेद्योगः सोऽहंशब्देन सुन्दरि || १०-७ || बिन्दुत्रयसमायोगान् महात्रिपुरसुन्दरी |
नादरूपेण सा देवी हकारार्धस्वरूपिणी || १०-८ || हकारः परमेशानि शिवरूपी यतस्तदा |
तस्यार्धांङ्गं महाशक्तिर्हकारार्धस्वरूपिणी || १०-९ || अत एव महाविद्या महात्रिपुरसन्दरी |
नित्येति कथ्यते देवि चित्कला परमेश्वरी || १०-१० || श्रीगुरोः कृपया भद्रे संप्रदायकुलान्वितः |
प्रातरुत्थाय देवेशि गुरुं नत्वा स्वनामभिः || १०-११ || संध्यास्नानादिकं देवि विधाय मनुवित्तमः |
सर्वशृङ्गारवेषाढ्यः कर्पूरघुसृणादिभिः || १०-१२ || महार्हैश्चन्दनाद्यैश्च दीप्ताङ्गः कुङ्कुमारुणः |
नवरत्नविभूषाढ्यो रक्ताम्बरविराजितः || १०-१३ || ताम्बूलरागवदनो मदिरानन्दमानसः |
यागमन्दिरमागत्य लाक्षाचित्रविचित्रितम् || १०-१४ || अनेकधूपबहलं पुष्पप्रकरपूरितम् |
गोमयेन च संलिप्तं चारुपुष्पवितानितम् || १०-१५ || मनोहरे मृदुश्लक्ष्ण आसने उपविश्य तु |
मन्त्रोद्धारं प्रकुर्वीत सर्वकार्यार्थसिद्धये || १०-१६ || आद्यं वाग्भवमुच्चार्य कामराजं द्वितीयकम् |
कुमार्यास्तु तृतीयं तु त्रिपुरा परमेश्वरी || १०-१७ || करशुद्धिकरी विद्या प्रथमा परमेश्वरि |
कुमारी तु द्वितीया स्यात्त्रिपुरेशी महेश्वरि || १०-१८ || त्रिपुरेश्यादिमं त्यक्त्वा भुवनेशीं परिक्षिपेत् |
अनयाऽऽत्मासनं दद्यात्त्रिपुरेश्या षडङ्गकम् || १०-१९ || त्रिपुरेशी महेशानि त्रिबीजा हस्थिता यदा |
चक्रासनगतां देवि विद्धि त्रिपुरवासिनीम् || १०-२० || त्रिपुरेशी महेशानि वाग्भवे कामराजके |
शिवचन्द्रसमायुक्ता तार्तीये शिवरूपिणी || १०-२१ || सर्वमन्त्रासनगता त्रिपुरा श्रीरियं प्रिये |
आत्मासनगतायास्तु हित्वा तार्तीयमद्रिजे || १०-२२ || ब्लेमात्मकमारोप्य साध्यसिद्धासनस्थिता |
(त्रिपुरामालिनी प्रोक्ता सिद्धाख्यां त्रिपुरां शृणु || १०-२३ || भुवनेशी श्रिया युक्ता कुमारी च तथोत्तमा |
मूतीविद्या समुद्दिष्टा माया लक्ष्मीः परास्थिता || १०-२४ || अनया विद्यया देवि यजेत्त्रिपुरसिद्धिकाम्|) |
मायालक्ष्म्योस्तु बीजे द्वे शक्तिबीजं तृतीयकम् || १०-२५ || त्रिपुराद्या त्र्यम्बिकेयमष्टमी परिकीतीता |
संपत्प्रदा भैरवी या तस्यास्तार्तीयबीजके || १०-२६ || बिन्दुं हित्वा तत्र सर्गं निक्षिपेत्सुरसुन्दरि |
अनयाऽऽवाहनं देवि कारयेत्सुरवन्दिते || १०-२७ || मूतीविद्या समुद्दिष्टा माया लक्ष्मीः परा स्थिता |
अनया विद्यया देवि यजेत्त्रिपुरसिद्धिदा {म्} || १०-२८ || सिद्धाम्बावाहिनीमूतीवीद्या च सुरसुन्दरि |
मूलविद्यां शृणु प्रौढे सकलागमसेविताम् || १०-२९ || सर्वदर्शनवन्द्यां च चित्कलामव्ययां प्रिये |
भूमिश्चन्द्रः शिवो माया शक्तिः कृष्णाध्वमादनौ || १०-३० || अर्धचन्द्रश्च बिन्दुश्च नवार्णो मेरुरुच्यते |
महात्रिपुरसुन्दर्या मन्त्रा मेरुसमुद्भवाः || १०-३१ || लकारात्पृथिवी देवि सशैलवनकानना |
पञ्चाशत्पीठसंपन्ना सर्वतीर्थमयी परा || १०-३२ || सर्वगङ्गामयी सर्वक्षेत्रस्थानमयी शिवे |
सकाराच्चन्द्रतारादिग्रहराशिस्वरूपिणी || १०-३३ || हकाराच्छिवसंवादव्योममण्डलंसस्थिता |
ईकाराद्विश्वकर्त्रीयं माया तुर्यात्मिका प्रिये || १०-३४ || एकाराद्वैष्णवी शक्तिवीश्वपालनतत्परा |
रकारात्तेजसा युक्ता परं ज्योतिः स्वरूपिणी || १०-३५ || ककारात्कामदा कामरूपिणी स्फुरदव्यया |
अर्धचन्द्रेण देवेशि विश्वयोनिरितीरिता || १०-३६ || बिन्दुना शिवरूपेण शून्यरूपेण साक्षिणी |
अनया सह सर्वत्र व्याप्तिनिश्चलताऽऽत्मना || १०-३७ || एवं परब्रह्मरूपा मेरुणाऽनेन सुव्रते |
एभिर्नवात्मकैर्वर्णैर्जायते त्रिपुरामनुः || १०-३८ || अन्यथा नैव निष्पत्तिर्नास्ति श्रीत्रिपुरामनौ |
श्रीचक्रमपि देवेशि मेरुरूपं न संशयः || १०-३९ || लकारः पृथिवीबीजं तेन भूबिम्बमुच्यते |
सकारश्चन्द्रमा भद्रे कलाषोडशकात्मकः || १०-४० || तस्मात्षोडशपत्रं तु हकारः शिव उच्यते |
अष्टमूतीः सदा भद्रे तस्माद्वसुदलं भवेत् || १०-४१ || ईकारस्तु महामाया भुवनानि चतुर्दश |
पालयन्तो परा तस्माच्छक्रकोणं भवेत्प्रिये || १०-४२ || शक्तिरेकादशस्थाने स्थित्वा सूतै जगत्त्रयम् |
विश्वयोनिरिति ख्याता सा विष्णुर्दशरूपकम् || १०-४३ || रकारात्परमेशानि चक्रं व्याप्य विजृम्भते |
दशकोणकरी यस्माद्रकारो ज्योतिरव्ययः || १०-४४ || कलादशान्वितो वह्निर्दशकोणप्रकारकः |
ककारान्मदनो देवि शिवश्चाष्टस्वरूपकः || १०-४५ || योनिवश्यं तदा चक्रे वसुयोन्यङ्कितं भवेत् |
अर्धमात्रा गुणान्सूते नादरूपा यतस्ततः || १०-४६ || त्रिकोणरूपा योनिस्तु बिन्दुना बैन्दवं भवेत् |
कामेश्वरस्वरूपं तु विश्वाकारस्वरूपकम् || १०-४७ || श्रीचक्रं तु वरारोहे श्रीविद्यार्णवसंभवम् |
तत्र प्राङ्मुख आसीनश्चक्रराजं समालिखेत् || १०-४८ || भूप्रदेशे समे वर्ये सिन्दूररजसाऽथ वा |
कुङ्कुमस्य रजोभिस्तु भूमौ चक्रं समालिखेत् || १०-४९ || ऋजुरेखं नेत्ररम्यं सन्धिभेदसमं ऋजु |
अथ वा हेमरौप्याभ्यां ताम्रेण बहुधातुभिः || १०-५० || पट्टं विरच्य श्रीखण्डरक्तचन्दनसंभवे |
पट्टे संस्थाप्य विलिखेल्लेखन्या हेमया प्रिये || १०-५१ || रोचनाकुङ्कुमाभ्यां तु कस्तूरीचन्दनेन्दुभिः |
ईशानादग्निपर्यन्तमृजुरेखां समालिखेत् || १०-५२ || ईशादग्नेस्तदग्राभ्यां रेखे आकृष्य देशिकः |
एकीकृत्य च वारुण्यां शक्तिरेखा परा प्रिये || १०-५३ || त्रिकोणाकाररूपेयं तस्या उपरि संलिखेत् |
त्रिकोणाकाररूपं तु शक्तिद्वयमुदाहृतम् || १०-५४ || पूर्वशक्त्यग्रभागे तु मानयष्टिवदालिखेत् |
रेखा तु परमेशानि वायुराक्षसकोणगाम् || १०-५५ || सन्धिभेदक्रमेणैव तयोः शक्त्योस्ततः परम् |
रेखे आकृष्य कोणाभ्यां तदग्रात्पूर्वगे कुरु || १०-५६ || वह्निमण्डलमेतत्तु पूर्वाग्रं वीरवन्दिते |
चक्रत्रयभभूत्तत्र ततः शृणु वरानने || १०-५७ || पूर्वशक्तीशवह्निभ्यां कोणाभ्यां सुरवन्दिते |
पूर्वरेखां तु विस्तार्य तथा पश्चिमवह्नितः || १०-५८ || वायुराक्षसकोणाभ्यां रेखां पश्चिमगां तथा |
विस्तार्य योजयेद्देवि संधिभेदक्रमेण तु || १०-५९ || योन्यग्रगां पूर्वदेशे दक्षिणोत्तरतः क्रमात् |
तथा रेखे वह्निसंस्थे पश्चिमस्यां दिशि क्रमात् || १०-६० || कोणाग्राभ्यां योजयित्वा दशकोणं तथा भवेत् |
तथैव देवदेवेशि द्वितीयं दशकोणकम् || १०-६१ || ईशानवह्निगे रेखे पूर्वयोन्यग्रयोः क्रमात् |
विस्तार्य योजयेत्पश्चात्पश्चिमायां दिशि क्रमात् || १०-६२ || वायुराक्षसकोणाग्ने रेखे विस्तार्य सुन्दरि |
पश्चिमाग्रे तथा देवि योजयेदिन्द्रदिग्गते || १०-६३ || एकत्र पूर्वकोणाग्रचुम्बिनी तु मनोहरा |
योजयेद्देवदेवेशि यथा पङ्क्त्यस्रकं भवेत् || १०-६४ || दक्षकोणस्य देवेशि त्यक्त्वा कोणचतुष्टयम् |
दशकोणान्तरे देवि मध्ये रेखे प्रकाशयेत् || १०-६५ || द्वे दक्षिणे विभागे तु तथा चोत्तरभागके |
षट्कोणस्य ततो देवि सन्धिभेदक्रमेण तु || १०-६६ || योनिं वह्निं च संयोज्य शकारं जायते सदा |
कक्षामध्यगता रेखा ऋजुरूपास्तु योजयेत् || १०-६७ || ऋज्वाकृति यथा देवि जायतेऽतिमनोहरम् |
संमुखं पञ्चशक्त्यग्रं प्राग्वक्त्रं चतुरग्निकम् || १०-६८ || बिन्दुत्रिकोणे वस्वारचक्रमेतद्वरानने |
चक्रमध्यं तु जानीहि दशारयुगलं तथा || १०-६९ || शक्रयोन्यङ्कितं देवि बाह्यमध्यगतं भवेत् |
एतच्चक्रं महेशानि सर्वसौभाग्यवर्धनम् || १०-७० || सर्वसाम्राज्यदं देवि सर्वोपद्रवनाशनम् |
अनेकरत्नमाणिक्यसुवर्णपरिपूरकम् || १०-७१ || महामोक्षप्रदं देवि वाग्विलासकरं महत् |
एतद्बाह्ये महेशानि वृत्तं पूर्णेन्दुसंनिभम् || १०-७२ || तद्युक्तं कुरु मीनाक्षि वसुपत्रं मनोहरम् |
ततः षोडशपत्रं तु विलिखेत्सुरवन्दिते || १०-७३ || तद्बाह्ये देवदेवेशि निवृत्तं मातृकान्वितम् |
चतुरस्रं चतुर्द्वारसहितं परमेश्वरि || १०-७४ || चतुःषष्टियुताः कोट्यो योगिनीनां महौजसाम् |
चक्रेस्मिन्स्ंनिविष्टास्ताः साधकं मानयन्ति हि || १०-७५ || चतुरस्रं मातृकार्णैर्मण्डितं सिद्धिहेतवे |
मुक्तामाणिक्यघटितं समस्थलविराजितम् || १०-७६ || त्रैलोक्यमोहनं नाम कल्पद्रुमफलप्रदम् |
षोडशारं चन्द्रबिम्बरूपं तु सकलालयम् || १०-७७ || सर्वाशापूरकं भद्रे स्रवत्पीयूषवर्षणम् |
अष्टपत्रं महेशानि जपाकुसुमसंनिभम् || १०-७८ || सर्वसंक्षोभणं नाम सर्वकामप्रपूरकम् |
एतत्त्रयं महेशानि सृष्टिचक्रं सुखप्रदम् || १०-७९ || पूर्वाम्नायाधिदेव्या तु मण्डितं सर्वसिद्धिदम् |
चतुर्दशारं देवेशि दाडिमीकुसुमप्रभम् || १०-८० || अनन्तफलदं भद्रे सर्वसौभाग्यसंप्रदम् |
दशारं तप्तहेमाभं सिन्दूरसदृशं प्रिये || १०-८१ || सर्वार्थसाधकं चक्रं मनश्चिन्तितदं सदा |
द्वितीयमपि पङ्क्त्यस्रं जपाकुसुमसंनिभम् || १०-८२ || सर्वरक्षाकरं चक्रं महाज्ञानमयं शिवे |
एतत्त्रयं महेशानि स्थितिचक्रं सुखप्रदम् || १०-८३ || दक्षिणाम्नायपूज्यं तु यथेप्सितफलप्रदम् |
अष्टकोणं वरारोहे बालार्ककिरणारुणम् || १०-८४ || पद्मरागसमप्रख्यं सर्वरोगहरं सदा |
उद्यत्सूर्यसहस्राभं बन्धूककुसुमप्रभम् || १०-८५ || सर्वसिद्धिप्रदं चक्रं सकलालयमीश्वरि |
त्रिकोणं सर्वसंभूतिकारणं भूतिदं सदा || १०-८६ || बिन्दुचक्रं वरारोहे सर्वानन्दमयं परम् |
सदाशिवमयं चक्रनायकं परमेश्वरि || १०-८७ || एतच्चक्रं तु संहाररूपं ब्रह्ममयं सदा |
पश्चिमाम्नायसंसेव्यं त्रयमुत्तरसेवितम् || १०-८८ || अस्ंमिश्चक्रे षड्ध्वानो वर्तन्ते वीरवन्दिते |
चक्रपत्रेषु देवेशि पदाध्वा तु निगद्यते || १०-८९ || चक्रत्रिसंधिभागेषु भुवनाध्वा व्यवस्थितः |
वर्णाध्वा मातृकारूपी कथयामि तवानघे || १०-९० || वर्गाष्टकं मातृकाया दिक्षु सिद्धं यतः क्रमात् |
पाथीवं तन्मयं विद्धि षोडशारं कलात्मकम् || १०-९१ || अष्टपत्रं कादिवर्णैः क्षान्तैदीक्षु विदिक्षु च |
कादिढान्ताः शक्रवर्णाः शक्रकोणेषु संस्थिताः || १०-९२ || णकारादिभकारान्ता दशवर्णा दशारके |
मकारादिशकारान्ता द्वितीयेऽपि दशारके || १०-९३ || वर्णाष्टकं चाष्टकोणे त्रिकोणे कथयामि ते |
अकथादित्रिकोणान्तं हक्षयुग्मं तु मध्यगम् || १०-९४ || वर्णाध्वा कथितो देवि मातृकापीठरूपकः |
षट्विंशत्तत्त्वभरितं चक्रं मूलानुसारतः || १०-९५ || तत्त्वाध्वा कथितो देवि तत्त्वरूपो वरानने |
पञ्चसिंहासनोन्नद्धकलाध्वा चक्रशासनात् || १०-९६ || साबाला भैरवीयुक्ता महात्रिपुरसुन्दरी |
त्रिपुरा त्र्यम्बिकान्साढ्या चक्रं प्राप्य विजृम्भते || १०-९७ || मन्त्राध्वाऽयं समाख्यातो निश्चयेन सदाऽनघे |
एवं षडध्वविमलं श्रीचक्रं परिचिन्तयेत् || १०-९८ || उत्तराशामुखो देवि यदा चक्रं समुद्धरेत् |
उत्तराशा तदा देवि पूर्वाशैव निगद्यते || १०-९९ || ईशानकोणं देवेशि तदाऽऽग्नेयं न संशयः |
पश्चिमादिङ्मुखो मन्त्री यदा चक्रं समुद्धरेत् || १०-१०० || पश्चिमाशा तदा ज्ञेया पूर्वाशैव न संशयः |
वायुकोणं तदाग्नेयमैशानं राक्षसं भवेत् || १०-१०१ || दक्षिणाभिमुखो मन्त्री यदा चक्रं समुद्धरेत् |
पूर्वाशैव तदा सा दिग्रक्षःकोणं तु वह्निवत् || १०-१०२ || एतच्चक्रं मेरुरूपं श्रीविद्यार्णैः समुद्धृतम् |
सर्वागममयं देवि कथितं वीरवन्दिते || १०-१०३ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे करशुद्धिविद्याचतुरासनविद्यावाहन-- विद्यायजनविद्यामेरुस्वरूपश्रीचक्रोद्धारषडध्व निरूपणं नाम दशमः पटलः || १० ||

Paṭala 11

अथैकादशः पटलः


ईश्वर उवाच --

एभिर्वर्णैस्तु देवेशि त्रिपुरा कथ्यतेऽधुना |
नवाक्षरो महामेरुरयं ब्रह्माण्डगोलकः || ११-१ || चतुरस्रं च कोदण्डं त्रिकोणं तत्पुटं मुखम् |
निरालाम्बं तवाऽऽख्यातमेतद्ब्रह्माण्डमण्डलम् || ११-२ || लकारश्चतुरस्रं स्यात्पृथ्वीबीजतया प्रिये |
अर्धमात्रा तु कोदण्डं स्रवत्पीयूषवषीणी || ११-३ || त्रिकोणरूपी वह्निः स्यात्त्रिकोणत्वात्परा शिवा |
एकारश्च रकारश्च ईकारश्च त्रयं भवेत् || ११-४ || मायाविकाररूपेण षट्कोणाश्रयरूपिणी |
हकारो व्योमरूपत्वाद् बिन्दुश्च मुखमण्डले || ११-५ || इच्छारूपेण कामस्तु सर्वत्र परमेश्वरि |
तस्मान्मादनव्याख्यातमेतद्वै मेरुमण्डलम् || ११-६ || शृणु देवि प्रवक्ष्यामि बीजं कामेश्वरीमतम् |
सकला भुवनेशानि कामेशीबीजमुत्तमम् || ११-७ || अनेन सकला विद्याः कथयामि विशेषतः |
शक्त्यर्णस्तुर्यवर्णोंऽयं कलमध्ये सुलोचने || ११-८ || वाग्भवं पञ्चवर्णं तु कामराजमथोच्यते |
मादनं शिवचन्द्राद्यं शिवान्तं मीनलोचने || ११-९ || कामराजमिदं भद्रे षड्वर्णं सर्वमोहनम् |
शक्तिबीजं वरारोहे चन्द्राद्यं सर्षसिद्धिदम् || ११-१० || चतुरक्षररूपं तु त्र्यक्षरी त्रिपुरा परा |
सर्वतीर्थमयी देवि सर्वदेवस्वरूपिणी || ११-११ || सर्वशास्रमयी विद्या सर्वयोगमयी परा |
सर्वयज्ञमयी संवित्सर्वज्ञानस्वरूपिणी || ११-१२ || सर्वदेवमयी साक्षात्सर्वसौभाग्यसुन्दरी |
एनामुपास्य देवेशि कामः सर्वाङ्गसुन्दरः || ११-१३ || कामराजो भवेद्देवि नित्येयं ब्रह्मरूपिणी |

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे एकादशः पटलः || ११ ||

Paṭala 12

अथ द्वादशः पटलः


श्री देव्युवाच --

एतस्या देवदेवेश भेदान् कथय सुन्दर |
केन केनोपासितेयं विशदी कुरु तत्त्वतः || १२-१ ||

ईश्वर उवाच--

शृणु देवि प्रवक्ष्यामि लोपामुद्राभिधां वराम् |
कामराजाख्यविद्यायाः शक्तिं तुर्यां च सुन्दरि || १२-२ || हित्वा मुखे शिवेन्द्वाढ्या लोपामुद्रा प्रकाशिता |
अगस्त्योपासिता विद्या त्रैलोक्यक्षोभकारिणी || १२-३ || एषा विद्या कामराजपूजितैव न संशयः |
विद्याद्वयमिदं भद्रे दुर्लभं भुवनत्रये || १२-४ || कामराजाख्यविद्याया वाग्भवेन वरानने |
विद्योद्धारं प्रवक्ष्यामि शक्तिमादनमध्यगम् || १२-५ || शिवं कुर्याद्वाग्भवे तु शिवाद्यं कामराजकम् |
चन्द्राद्यं तु तृतीयं स्याद्विद्येयं मनुपूजिता || १२-६ || सहाद्यं वाग्भवं देवि चन्द्राद्यं शिवमध्यगम् |
मादनं कामराजे तु शक्तिबीजं सहाननम् || १२-७ || चन्द्राराधितविद्येयं भोगमोक्षफलप्रदा |
हसाद्यं वाग्भवं विद्धि शिवाद्यं सहमध्यगम् || १२-८ || मादनं कामराजे तु तार्तीयं शृणु पार्वति |
हसाद्यं शक्तिबीजं तु कुबेरेण प्रपूजिता || १२-९ || कामराजाख्यविद्यायास्तार्तीयं सुरवन्दिते |
शक्तिबीजं सहाद्यं स्याद्विद्याऽगस्त्यप्रपूजिता || १२-१० || लोपामुद्रा प्रभावेन् साक्षाद्ब्रह्मस्वरूपिणी |
कामराजाख्यविद्याया वाग्भवे मादनं त्यज || १२-११ || चन्द्रं तत्रैव संयोज्य कामराजे ततः परम् |
हित्वा चन्द्रं मुखे कुर्याद्विद्येयं नन्दिपूजिता || १२-१२ || कामराजाख्यविद्याया हित्वा भूमिं तृतीयके |
शक्तिकण्ठे स्थितां देवि चन्द्राधः कुरु तत्र च || १२-१३ || इन्द्राराधितविद्येयं भुक्तिमुक्तिफलप्रदा |
लोपामुद्राख्यविद्याया द्वितीयाया महेश्वरि || १२-१४ || कामराजे भृगुं हित्वा तार्तीये शक्रगः शिवः |
एषा विद्या वरारोहे त्रिपुरा सूर्यपूजिता || १२-१५ || शृणु देवि प्रवक्ष्यामि चतुष्कूटां च शाङ्करीम् |
लोपामुद्रां द्वितीयां तु विलिख्य सुरवन्दिते || १२-१६ || पुनवीलिख्य तामेव चतुर्थे पञ्चमे स्थिताम् |
हित्वा तु भुवनेशानीमेकोच्चारेण प्रपूजिता || १२-१७ || चतुष्कूटा महाविद्या शङ्करेण प्रपूजिता |
लोपामुद्रां पुनर्देवि विलिख्य तदनन्तरम् || १२-१८ || नन्दिकेश्वरविद्यां च षट्कूटा वैष्णवी भवेत् |
दुर्वाससा पुरा देवि निष्कूटा पूजिता परा || १२-१९ || कामराजाख्यविद्यायास्रिकूटेषु वरानने |
या स्थिता भुवनेशानि द्विधा कुरु महेश्वरी || १२-२० || बिन्दुहीना नादहीना दुर्वासःपूजिता भवेत् |
एतैर्द्वादशसंख्याकैर्मन्त्रैस्तु सुरवन्दिते || १२-२१ || द्वादशान्ता स्थिता देवि परब्रह्मस्वरूपिणी |
राज्ञीयं सर्वविद्यानां सर्वाम्नायैस्तु सेविता || १२-२२ || सर्वागममहामन्त्रवन्दिता देववन्दिता |
सर्वयोगैर्नता नित्या केवलं ब्रह्मरूपिणी || १२-२३ || एवं त्रिधा महाविद्या विद्या त्रिपुरसुन्दरी |
इयमेव महादेवी त्रिकूटा परमेश्वरी || १२-२४ || वक्तुं न शक्यते सर्वैर्ब्रह्मविष्ण्वादिभिः सदा |
नो वाचा मनसा बुद्ध्या तुर्या वक्तुं न शक्यते || १२-२५ || साक्षाद्ब्रह्ममयी देवी षोडशार्णस्वरूपिणी |
मनसैव महेशानि स्मृत्वाऽहं तु सदाशिवः || १२-२६ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे त्रिपुरसुन्दरी (विद्याविवरणं नाम) द्वादश पटलः || १२ ||

Paṭala 13

अथ त्रयोदशः पटलः


श्री देव्युवाच --

परब्रह्मतया साक्षाच्छ्रीविद्या षोडशाक्षरी |
कथय त्वं महादेव यद्यहं तव वल्लभा || १३-१ || त्रिकूटाः कथिताः सर्वाश्चतुष्कूटा च शाङ्करी |
षट्कूटा वैष्णवी चैव मनवः कथिता विभो || १३-२ || एतास्तु सकला विद्यास्रिविधास्तु श्रुता मया |
इदानीं श्रोतुमिच्छामि श्रीविद्यां षोडशाक्षरीम् || १३-३ ||

ईश्वर उवाच --

शठत्वेन वरारोहे श्रीविद्यामन्त्रविद्बुधः |
योगिनीनां भवेद्भक्ष्यः श्रीगुरोः शासनात्प्रिये || १३-४ || षोडशार्णां महाविद्यां न दद्यात्कस्यचित् प्रिये |
राज्ञे राज्यप्रदायापि पुत्राय प्राणदाय वा || १३-५ || देयं तु सकलं भद्रे साम्राज्यमपि पार्वति |
शिरोऽपि प्राणसहितं न देया षोडशाक्षरी || १३-६ || उच्चार्यमाणा ये मन्त्रास्ते सर्वे वाचिकाः प्रिये |
उच्चाररहितं वस्तु श्रीविद्या षोडशाक्षरी || १३-७ || सवर्णाऽपि वरारोहे वस्तु साक्षान्निरक्षरम् |
भृङ्गोपभुक्तपुष्पं तु शिवे योग्यं यथा भवेत् || १३-८ || तथा निरक्षरं वस्तु ह्यक्षरैरपि संयुतम् |
उदके लिखितं यद्वन्मन्त्रोच्चारस्तथा भवेत् || १३-९ || भोगमोक्षप्रदा विद्या श्रीविद्या षोडशाक्षरी |
विना गुरूपदेशेन शापो भवति निश्चयात् || १३-१० || चन्द्रान्तं वारुणान्तं च शक्रादिसहितं पृथक् |
वामाक्षि बिन्दुनादाढ्यं विश्वमातृकलात्मकम् || १३-११ || चतुवीधप्रकारेण शृणु देवि प्रकथ्यते |
त्वं मनोहारिणी यस्मात्कथ्यते भुवि दुर्लभम् || १३-१२ || विद्यादौ योजयेद्देवि साक्षाज्जाग्रत्स्वरूपिणी |
उत्पत्तिर्जागरो बोधो व्यावृत्तिर्मनसः सदा || १३-१३ || कलाचतुष्टयं जाग्रदवस्थायां व्यवस्थितम् |
जाग्रत्सत्त्वगुणा प्रोक्ता केवलं शक्तिरूपिणी || १३-१४ || त्रिकूटा सकला भेदाः पञ्चकूटा भवन्ति हि |
वैष्णवी वसुकूटा स्यात्षट्कूटा शांकरी भवेत् || १३-१५ || द्वितीयोऽयं प्रकारः स्याद्दुर्लभो भुवनत्रये |
एषैव शिवरूपा तु व्यापकत्वात्सुरेश्वरि || १३-१६ || निश्चला सर्वभूतेषु सदाशिवमयी परा |
सुषुप्तिरूपिणी साक्षाद्ब्रह्मरूपा यतः प्रिये || १३-१७ || मरणं विस्मृतिर्मूर्छा निद्रा च तमसा वृता |
सुषुप्तिस्तु कला ज्ञेया सुषुप्तिः शिवरूपिणी || १३-१८ || केवलत्वेन जाग्रत्स्यात्पञ्चकूटा च शाम्भवी |
सुषुप्त्यन्ते जागरादौ स्वप्नावस्था रजोमयी || १३-१९ || अभिलाषो भ्रमश्चिन्ता विषयेषु पुनः स्मृतिः |
कलाचतुष्टयं स्वप्नावस्थायां तु विधीयते || १३-२० || शिवरूपा शक्तिरूपा महात्रिपुरदेवता |
वेदादिमण्डिता देवि शिवशक्तिमयी सदा || १३-२१ || सप्त भेदास्तु सकलाः षट्कूटाः परमेश्वरि |
वैष्णवी नवकूटा स्यात्सप्तकूटा च शाङ्करी || १३-२२ || अस्याः स्मरणमात्रेण गजदानं शतं भवेत् |
भेदत्रयं तु कथितं तूर्यां विद्यां शृणु प्रिये || १३-२३ || यस्या विज्ञानमात्रेण ब्रह्म साक्षान्न संशयः |
सुषुप्त्यादौ जागरान्ते स्फुरत्तामात्रलक्षणा || १३-२४ || अवस्थाशेषतां प्राप्ता तुर्या तु परमा कला |
भावाभावविनिर्मुक्ता गुणातीता निगद्यते || १३-२५ || वैराग्यं च मुमुक्षत्वं शमादि विमलं मनः |
सदसद्वस्तुनिर्धारस्तुर्यायास्तु कला इमाः || १३-२६ || आद्यबीजद्वयं भद्रे विपरीतक्रमेण हि |
विलिख्य परमेशानि ततोऽन्यानि समुद्धरेत् || १३-२७ || अन्तर्मुखा वरारोहे कुमारी त्रिपुरेश्वरी |
एभिस्तु पञ्चसंख्याकैर्बीजैः संपुटिता यजेत् || १३-२८ || षट्कूटा परमेशानि विद्येयं षोडशाक्षरी |
त्रिकूटा सकला भद्रे षोडशार्णा भवन्ति हि || १३-२९ || वैष्णव्येकोनविंशार्णा शैवी सप्तदशाक्षरी |
वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि || १३-३० || वणीतुं नैव शक्येयं श्रीविद्या षोडशाक्षरी |
वैष्णवी पञ्चमी चैव कः शक्तो गुणवर्णने || १३-३१ || यतो निरक्षरं वस्तु परा तत्र तु कारणम् |
मूकीभूता हि पश्यन्ति मध्यमा मध्यमा भवेत् || १३-३२ || ब्रह्मविद्यास्वरूपेण भुक्तिमुक्तिफलप्रदा |
एकोच्चारेण देवेशि वाजपेयस्य कोटयः || १३-३३ || अश्वमेधसहस्राणि प्रादक्षिण्यं भुवस्तथा |
काश्यादितीर्थयात्राश्च सार्धकोटित्रयान्विताः || १३-३४ || तुलां नार्हन्ति देवेशि नात्र कार्या विचारणा |
एकोच्चारेण गिरिजे किं पुनर्ब्रह्म केवलम् || १३-३५ || षोडशार्णा महाविद्या न प्रकाश्या कदाचन |
गोपितव्या त्वया भद्रे स्वयोनिरिव पार्वति || १३-३६ || शिवशक्तिसमायोगाद्यद्यत्कर्म प्रजायते |
वेद्यं तन्न भवेत्तद्वच्छ्रीविद्यां षोडशाक्षरीम् || १३-३७ || विना गुरूपदेशेन श्रीविद्या षोडशाक्षरी |
दृष्ट्वा प्रजपते यस्तु स भक्ष्यो योगिनीगणैः || १३-३८ || श्रीगुरोः कृपया लब्धा सर्वसाम्राज्यदायिनी |
भुवनत्रयसौभाग्यं ददाति विपुलां श्रियम् || १३-३९ || साक्षान्मदनसौभाग्यं त्रैलोक्याकर्षणक्षमम् |
सुधातरंङ्गिणीवेयं शब्दचातुर्यदायिनी || १३-४० || सौभाग्यभाग्यसंपन्नकलापटलदायिनी |
परब्रह्मणि लीनत्वं ददाति यश उत्तमम् || १३-४१ || प्रपञ्चसागरे लीनानुद्धरेद्वेदमातृका |
यस्याः सामर्थ्यतो देवि भुवनानि चतुर्दश || १३-४२ || अभूवन्परमेशानि तेषां कारणरूपिणी |
चतुःसागरसामर्थ्यं कृपालोकनतो भवेत् || १३-४३ || ब्रह्माण्डकोटिजननी महामोक्षप्रदायिनी |
निःसरन्ति महामन्त्रा विस्फुलिङ्गा यथा प्रिये || १३-४४ || वह्नेः सकाशाद् बहवो विद्यास्तु बहवस्तथा |
वाग्भवात्तु समुत्पन्नास्तस्माद्वाग्भवमुच्यते || १३-४५ || मातृकार्णास्तथा भद्रे वाग्भवान्निसृताः क्रमात् |
अत एव महेशानि शब्दब्रह्ममयी प्रिये || १३-४६ || पालयन्ती जगत्सर्वं तथा त्रैलोक्यमोहिनी |
मोहयन्ती कामकला पुत्रपौत्रप्रवधीनि || १३-४७ || स्रीपुंभावेन सकलं ग्रथितं कामसूत्रके |
तदा सौभाग्यसंपन्ना ब्रह्मस्थाननिवासिनी || १३-४८ || सौभाग्यगर्वगहना विश्वयोनिरितीरिता |
चतुर्वाङ्मयनिष्ठेयं त्रैलोक्यवशकारिणी || १३-४९ || साक्षात्संविन्मयी ज्ञानरूपिणी भोगदायिनी |
महासंपत्प्रदा नित्या साक्षादक्षररूपिणी || १३-५० || षोडशार्णा मया भद्रे श्रीविद्या कथिता परा |
निधानमिव चोरेभ्यो रक्षणीया तथा प्रिये || १३-५१ || न देया यस्य कस्यापि देया प्राणप्रदायिने |
निर्मलाय स्वभक्ताय प्राणेभ्योऽप्यधिकाय च || १३-५२ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे षोडशीविद्याविवरणं नाम त्रयोदशः पटलः || १३ ||

Das Shri Yantra gehört zur Verehrung der Tripurasundari.

Paṭala 14

अथ चतुर्दशः पटलः


श्रीदेव्युवाच --

चक्रमण्डलमाख्यातं न पूजा तत्र मण्डले |
कथिता परमेशान श्रोतुमिच्छामि तत्त्वतः || १४-१ ||

ईश्वर उवाच --

शृणु देवि प्रवक्ष्यामि पूजाविधिमनुत्तमम् |
तदङ्गकलशादीनां स्थापनं प्रथमं भवेत् || १४-२ || तद्विधानं शृणु प्राज्ञे यथाविधि समासतः |
मण्डलं वामतः कृत्वा जलेन चतुरस्रकम् || १४-३ || बृहत्कराभ्यां देवेशि तत्राऽऽधारं मनोहरम् |
सौवर्णरौप्यताम्रादिरचितं पूजयेत्प्रिये || १४-४ || वह्निमण्डलरूपं तु कलादशकमर्चयेत् |
धूम्रा च नीलवर्णा च कपिला विस्फुलिङ्गिनी || १४-५ || ज्वाला हैमवती कव्यवाहिनी हव्यवाहिनी |
रौद्री संकषीणी चैव वैश्वानरकला दश || १४-६ || आभिः कलाभिः सहितं वह्निं तत्र प्रपूजयेत् |
कलशं हेमजं वाऽन्यं स्थापयेत्तत्र सुन्दरि || १४-७ || पूजयेत्सूर्यरूपं तु कलाभिः परमेश्वरि |
तपिनी तापिनी चैव विबुधा बोधिनी तथा || १४-८ || कलिनी शोषणी चैव वारुण्याकषीणी तथा |
माया विश्वावती हेमा प्रभा सौरकला इमाः || १४-९ || कलशं तु समापूर्य जलेन कमलेक्षणे |
तत्रस्थममृतं साक्षाच्चन्द्ररूपं विचिन्तयेत् || १४-१० || चन्द्रमण्डलमभ्यर्च्य कलाभिः सुरवन्दिते |
अमृता मानसी तुष्टिः पुष्टिः प्रीति रतिस्तथा || १४-११ || श्रीश्च ह्रींश्च स्वधा रात्रिर्ज्योत्स्ना हैमवती तथा |
छाया च पूणीमा नित्या अमावास्या च षोडशी || १४-१२ || एभिः समभ्यर्च्य मन्त्रैर्यजेदानन्दभैरवम् |
शिवचन्द्रौ मातृकान्तं कलाशक्राम्बुवह्नयः || १४-१३ || वायुश्च वामकर्णेन योजितो बिन्दुल्लाञ्छितः |
बीजमेतत्समुच्चार्य तथा चाऽऽनन्दभैरवम् || १४-१४ || ङेन्तं शिखामन्त्रयुक्तं पुनर्बीजं तु संलिखेत् |
चन्द्रं हित्वाऽऽदिमं कुर्यात्कर्णे वामाक्षि योजयेत् || १४-१५ || सुरादेव्यै ततो वौषडियमानन्दभैरवी |
अनेन चन्द्रं संपूज्य पूजार्हः कलशो भवेत् || १४-१६ || विधाय वामभागे तु चतुरस्रं तु मण्डलम् |
यन्त्रिकां तत्र संस्थाप्य शङ्खं तत्र विनिक्षिपेत् || १४-१७ || शुद्धोदकेन संपूर्य पूजयेत्कारणान्वितम् |
षडङ्गं तत्र संपूज्य सामान्यार्घ्यमिदं प्रिये || १४-१८ || अथ वक्ष्ये महेशानि विशेषार्ध्यस्य लक्षणम् |
आत्मश्रीचक्रयोर्मध्ये चतुरस्रं तु मण्डलम् || १४-१९ || सामान्यार्घ्यस्य तोयेन देशिको भूमिजानुकः |
वहत्करोर्ध्वपुटतो यन्त्रिकां तत्र योजयेत् || १४-२० || त्रिकोणवृत्तषट्कोणं चतुरस्रं तु मण्डलम् |
वह्निं तत्र विचिन्त्याथ पूजयेद्यन्त्रिकामयम् || १४-२१ || पूर्ववत्परमेशानि त्रिकूटां मध्यगां यजेत् |
व्यस्तकूटैर्यजेत्तत्र त्रिकोणे परमेश्वरि || १४-२२ || द्विरावृत्त्या षडङ्गानि षट्कोणेषु प्रपूजयेत् |
सौवर्णं राजतं वाऽपि पात्रं संस्थापयेत्प्रिये || १४-२३ || सूर्यरूपं प्रपूज्याथ यन्त्रं पूर्ववदालिखेत् |
समस्तव्यस्तकूटैस्तु पूजयेत्पूर्वत्क्रमात् || १४-२४ || विशेषेण पयापूर्य चन्द्रं द्रवमयं प्रिये |
पूर्ववद्यन्त्रमालिख्य त्रिकूटां यन्त्रमध्यगाम् || १४-२५ || त्रिकोणं चिन्तयेत्तत्तु त्रिकूटैः पूजितं प्रिये |
अकथादित्रिरेखाढ्यं हक्षाभ्यन्तरमुत्तमम् || १४-२६ || द्विरावृत्त्या षडङ्गानि षट्कोणेषु प्रपूजयेत् |
आत्मानं हंसमनुना आनन्देन च पूजयेत् || १४-२७ || मूलविद्यां यजेत्तत्र षोडशार्णां जपेत्ततः |
धूपदीपौ निवेद्याथ नमस्कृत्यार्घ्यकं बुधः || १४-२८ || मुद्राः संदर्शयेत्तत्र साक्षाद्ब्रह्ममयं भवेत् |
प्रोक्षयेत्तेन चाऽऽत्मानं पूजोपकरणानि च || १४-२९ || सर्वत्र प्रोक्षणं कुर्यात्सर्वं ब्रह्ममयं भवेत् |
आत्मानं तु समभ्यर्च्य भूतान्संत्रासयेत्ततः || १४-३० || मूलविद्यास्त्रमुच्चार्य दिग्बन्धं स्फोटनादिभिः |
तन्मुखः संनतो देवि भूतशुद्धिं तु पूर्ववत् || १४-३१ || ततो न्यासादिकं कुर्यात्संनाहं तु शरीरके |
करशुद्धिकरीं विद्यां मध्यमादितलान्तकम् || १४-३२ || अङ्गुलीषु द्विरावृत्त्या करशुद्धिरियं प्रिये |
अत आत्मासनं दद्यात्ततश्चकासन प्रिये || १४-३३ || सर्वमन्त्रासनं दद्यात्साध्यसिद्धासनं यजेत् |
पादयोर्जङ्घयोर्जान्वोलीङ्गे न्यस्य चतुष्टयम् || १४-३४ || कुमार्यास्रिपुरेशान्याः षडङ्गानि च पूर्ववत् |
अथ वक्ष्ये महेशानि श्रीविद्यान्यासमुत्तमम् || १४-३५ || सम्पूर्णां चिन्तयेद्विद्यां ब्रह्मरन्ध्रेऽरुणप्रभाम् |
स्रवत्सुधां षोडशार्णां महासौभाग्यदां स्मरेत् || १४-३६ || वामांसदेशे सौभाग्यदण्डिनीं भ्रामयेत्ततः |
रिपुजिह्वाग्रहां मुद्रां पादमूले न्यसेत्प्रिये || १४-३७ || त्रैलोक्यस्य त्वहं कर्ता ध्यात्वैवं तिलके न्यसेत् |
सम्पूर्णामेव वदने वेष्टनत्वेन विन्यसेत् || १४-३८ || पुनः सम्पूर्णया देहे गलोर्घ्वे विन्यसेत्ततः |
पुनः सम्पूर्णया देहे व्यापकत्वेन विन्यसेत् || १४-३९ || व्यापकान्ते योनिमुद्रां मुखे क्षिप्त्वाऽभिवन्द्य च |
श्रीविद्यापूर्णरूपोऽयं न्यासः सौभाग्यवर्धनः || १४-४० || परिभ्राम्यानामिकां तु मूर्धानं परितः प्रिये |
ब्रह्मरन्ध्रे क्षिपेद्देवि मणिबन्धे न्यसेत्ततः || १४-४१ || ललाटेऽनामिका कुर्यात्षोडशार्णा स्मरन्बुधः |
संमोहनाख्यो देवेशि न्यासोऽयं क्षोभकारकः || १४-४२ || त्रैलोक्यमरुणं ध्यायेच्छ्रीविद्यां मनसि स्मरेत् |
पादयोर्जङ्घयोर्जान्वोः कट्योरन्धुनि पृष्टके || १४-४३ || नाभौ पार्श्वद्वये चैव स्तनयोरंसयोस्तथा |
कर्णयोर्ब्रह्मरन्ध्रे च वदनेऽक्षिणि पार्वति || १४-४४ || ततः कण्ठप्रदेशे तु करवेष्टनयोः क्रमात् |
संहारोऽयं महान्यासो बीजैः षोडशभिः क्रमात् || १४-४५ || श्रीविद्याया षोडशार्णैर्न्यासैवीश्वेश्वरो भवेत् |
सृष्ट्यन्तां विन्यसेद्देवि मातृकां पूर्ववत्प्रिये || १४-४६ || मातृकार्णस्वरूपां च वर्गाष्टकसमन्विताम् |
वशिनीं मातृकां न्यस्येद् बीजाष्टकसमन्विताम् || १४-४७ || अवर्गान्ते लिखेद्बीजं वह्निफान्तं क्षमान्वितम् |
वामकर्णविशोभाढ्यं बिन्दुनादाङ्कितं प्रिये || १४-४८ || वशिनीं पूजयेद्वाचां देवतां देवि सुव्रते |
कवर्गान्ते महेशानि कामेशीबीजमुत्तमम् || १४-४९ || मेरूद्धतं समुच्चार्य वाग्देवीं पूजयेत्ततः |
च वर्गान्ते धान्तलान्तं क्षमातुर्यस्वरान्वितम् || १४-५० || मोदिनीं पूजयेद्वाचां देवतां तदनन्तरम् |
टवर्गान्ते वायुतोयं मुखसंस्थं महेश्वरि || १४-५१ || वामकर्णेन्दुबिद्वाढ्यं विमलां वागधीश्वरीम् |
तवर्गान्ते जमक्ष्माद्यं वामनेत्रविभूषितम् || १४-५२ || बिन्दुनादाङ्कितं बीजं वाग्देवीमरुणां यजेत् |
पवर्गान्ते व्योमचन्द्रं क्षमातोयाग्निमुख्यकम् || १४-५३ || उकारस्वरसंयुक्तं बिन्दुनादकलाङ्कितम् |
जयिनीं पूजयेद्वाचां देवतां वीरवन्दिते || १४-५४ || यवर्गान्ते जान्तकालरेफवायुसमन्वितम् |
ऊमाढ्यं देवतां वाचां सर्वेशीं परिपूजयेत् || १४-५५ || क्षमोवह्निगतं तुर्यं बीजेन परिमण्डितम् |
बिन्दुनादकलाक्रान्तं कौलिनीं वाचमर्चयेत् || १४-५६ || शवर्गान्ते महेशानि न्यसेत् सर्वार्थसिद्धये |
शिरोललाटभ्रूमध्यकण्ठहृन्नाभिगोचरे || १४-५७ || आधारे व्यूहकं यावन्न्यसेद्देवीः क्रमात्प्रिये |
षोढान्यासं ततः कुर्याद्येन ब्रह्माण्डरूपकः || १४-५८ || विराट्स्वरूपी वर्णात्मा शिवः साक्षान्न संशयः |
गणेशः प्रथमो न्यासः सर्वविघ्नविनाशनः || १४-५९ || अरुणादित्यसंकाशान्गजवक्त्रांस्रिलोचनान् |
पाशाङ्कुशवराभीतिकराञ्शक्तिसमन्वितान् || १४-६० || ध्यात्वा प्रविन्यसेद्देवि मातृकान्यासवत्ततः |
विघ्नेश्वरस्तथा श्रीश्च विघ्नराजस्तथा ह्रिया || १४-६१ || विनायकस्तथा तुष्टिः शान्तियुक्तः शिवोत्तमः |
विघ्नकृत्पुष्टियुक्तस्तु विघ्नहृच्च सरस्वती || १४-६२ || विघ्नराड्रतियुक्तस्तु मेधावान् गणनायकः |
एकदन्तश्च कान्तिश्च द्विदन्तः कामिनीयुतः || १४-६३ || गजवक्त्रो मोहिनी च निरञ्जनजटा ततः |
कपर्दी तु तथा तीव्रा दीर्घवक्त्रस्ततः प्रिये || १४-६४ || ज्वालिनीसहितः पश्चान्नन्दासंकर्षणौ ततः |
वृषध्वजश्च शुभगा गणनाथेन संयुता || १४-६५ || कामरूपिणिका पश्चाद्गजेन्द्रः शुभ्रया युतः |
शूर्पकर्णस्तु जयिनी त्रिनेत्रः सत्ययाऽन्वितः || १४-६६ || लम्बोदरश्च विघ्नेशी महानादस्वरूपिणी |
चतुमूत्तीः कामदा च सदाशिवयुता ततः || १४-६७ || मदविह्वलनाम्नी च आमादविकटे ततः |
दुर्मुखश्च तथा घूर्णा सुमुखो भूतिमांस्ततः || १४-६८ || प्रमोदश्च तथा भूमीरेकपादस्तथा सती |
द्विजिह्वश्च रमायुक्तः शूरश्चैव तु मानुषी || १४-६९ || वीरेण सहिता पश्चाच्छैलजे मकरध्वजः |
षण्मुखश्च विकर्णा च वरदो भृकुटी तथा || १४-७० || वामदेवस्तथा लज्जा वक्रतुण्डस्तथा परम् |
दीर्घघोणान्वितः पश्चाद्विरण्डकधनुर्धरा || १४-७१ || सेनानीर्यामिनीयुक्तो ग्रामणी रात्रिसंयुतः |
मत्तश्च चण्डिकायुक्तो विमत्तश्च शशिप्रभा || १४-७२ || मत्तवाहनलोले च जटी च चपलेक्षणा |
शुण्डि ऋज्वीयुतः पश्चात्खड्गी दुर्भगयाऽन्वितः || १४-७३ || वरेण्यश्चैव सुभगा वृषकेतुस्तथा शिवा |
भक्ष्यप्रियश्च दुर्गा च मेघनादश्च कालिका || १४-७४ || गणेशः कालकुब्जा च गणपो विघ्नहारिणी |
मातृवर्णैर्न्यसेद्देवि ग्रहन्यासं ततो न्यसेत् || १४-७५ || पद्मरागं सितं रक्तं श्यामं पीतं च पाण्डुरम् |
धूम्रकृष्णं कृष्णधूम्रं धूम्रधूम्रं विचिन्तयेत् || १४-७६ || रविमुख्यान्कामरूपान्सर्वाभरणभूषितान् |
वामोरुन्यस्तहस्तांश्च दक्षहस्ताभयप्रदान् || १४-७७ || स्वरैरर्कं हृदि न्यस्य यवर्गेण शशी ततः |
भ्रूमध्येऽथ कवर्गेण भौमं नेत्रत्रये न्यसेत् || १४-७८ || चवर्गेण बुधो हृत्स्थष्टवर्गेण बृहस्पतिः |
हृदयोपरि देवेशि तवर्गेण गले भृगुः || १४-७९ || पवर्गेण शनिर्नाभौ राहुर्वक्त्रे शवर्गतः |
लक्षाभ्यां तु गुदे केतुर्न्यसेदेवं वरानने || १४-८० || अथ नक्षत्रवृन्दस्य न्यासं कुर्यात्सुखप्रदम् |
ज्वलत्कालाग्निसंकाशाः सर्वाभरणभूषिताः || १४-८१ || नतिपाण्योऽश्विनीमुख्या वरदाभयपाणयः |
युग्मं युग्मं तथा युग्मं युग्मयुग्मेन रोहिणीम् || १४-८२ || एकमेकं तथा द्वन्द्वमेकं पुष्यान्तमुच्यते |
ललाटे चक्षुषोः पश्चाद्वामदक्षिणकर्णयोः || १४-८३ || नासाद्वये च देवेशि तथा कण्ठे क्रमान्न्यसेत् |
पुष्यान्तं च प्रविन्यस्य खगार्णाभ्यां तु सार्पकम् || १४-८४ || दक्षस्कन्धे घङाभ्यां तु मघां स्कन्धे द्वितीयके |
चपूर्वाफाल्गुनीं दक्षे कूर्परे छजसंयुताम् || १४-८५ || उत्तरफाल्गुनीं वामे कूर्परे विन्यसेत्प्रिये |
झञवर्णास्थितो हस्तो मणिबन्धेऽथ दक्षिणे || १४-८६ || चित्रां टठस्थां वामे च मणिबन्धे न्यसेत्प्रिये |
डकारेण युतां स्वातीं दक्षहस्ते प्रविन्यसेत् || १४-८७ || ढणयुक्तां विशाखां तु वामहस्ते प्रविन्यसेत् |
तथदस्थानुराधां तु नाभौ विन्यस्य पार्वति || १४-८८ || धकारेण युतां ज्येष्ठां न्यसेद्दक्षकटौ प्रिये |
नपफस्थं तथा मूलं न्यसेद् वामकटौ प्रिये || १४-८९ || पूर्वाषाढां वकारेण दक्षोरौ विन्यसेत्प्रिये |
भकारेणोत्तराषाढां वामोरौ तदनन्तरम् || १४-९० || मकारयुक्तं श्रवणं दक्षजानुनि विन्यसेत् |
यरस्थितां धनिष्ठां तु वामजानुनि विन्यसेत् || १४-९१ || लकारेण ततो देवि शतभिषं न्यसेत्प्रिये |
दक्षजङ्घागतां पश्चात्पूर्वाभाद्रपदां ततः || १४-९२ || वशवर्णस्थितां न्यस्य वामजङ्घागतां क्रमात् |
षसहस्थोत्तराभाद्रपदां दक्षिणापादके || १४-९३ || क्षकारेण ततो बिन्दुविसर्गाभ्यां च रेवती |
वामपादे प्रविन्यस्य योगिनीन्यासमाचरेत् || १४-९४ || सितासितारुणा बभ्रूचित्रापीताश्च चिन्तयेत् |
चतुर्भुजाः समैर्वक्त्रैः सर्वाभरणभूषिताः || १४-९५ || डांडींबीजद्वयं चोक्त्वा डमला वरयाः प्रिये |
वामकर्णेन्दुनादाढ्यं डाकिन्यै नम इत्यपि || १४-९६ || स्वरान्ते तु प्रवक्तव्यं मान्ते रक्षपदद्वयम् |
त्वगात्मने कण्ठदेशे विशुद्धौ विन्यसेत्पिरये || १४-९७ || कण्ठवर्णै राकिनीं तु रकाराद्यक्षरैः क्रमात् |
पूर्ववद्बीजसंयुक्तैरसृगात्माऽत्र संवदेत् || १४-९८ || अनाहते न्यसेत्पश्चाड्डकारादिफकारकैः |
लाकिनी च तथा देवि मांसात्मा मणिपूरके || १४-९९ || बंलंवर्णैः काकिनीं तु स्वाधिष्ठाने तथाविधाम् |
भेदस्वरूपां विन्यस्य वसवर्णैस्तु साकिनीम् || १४-१०० || अस्थिरूपां च पूर्वोक्तबीजेनाऽऽधारके न्यसेत् |
हक्षवर्णास्थितां तद्वन्मज्जारूपिणिकां यजेत् || १४-१०१ || भुवोर्मध्ये महेशानि हाकिनीं द्विदले न्यसेत् |
पूर्ववद्बीजसंयुक्तां तद्वच्छुक्रात्मिकां यजेत् || १४-१०२ || सर्वधातुगतां देवीं शुक्लवर्णां तु याकिनीम् |
ब्रह्मरन्ध्रे महेशानि न्यासोऽयं योगिनीयुतः || १४-१०३ || राशिन्यासं ततः कुर्यात्सर्वरक्षाकरं सदा |
रक्तश्वेतहरिद्वर्णपाण्डुचित्राशितान्स्मरेत् || १४-१०४ || पिशङ्गपिङ्गलौ बभ्रुकर्बुरासितधूम्रकान् |
अकारादिचतुष्केण विन्यसेत्सुरवन्दिते || १४-१०५ || मेषं दक्षिणपद्गुल्फे ततो द्वन्द्वेन वै वृषम् |
न्यसेज्जानुनि वेदैस्तु मिथुनं वृषणे ततः || १४-१०६ || द्वाभ्यां कर्काटकं कुक्षौ द्वाभ्यां स्कन्धे च सिंहकम् |
अनुस्वारविसर्गाभ्यां शवर्गेण च कन्यकाम् || १४-१०७ || दक्षिणे तु शिरोभागे विन्यसेद्वीरवन्दिते |
तथा वामशिरोभागे कवर्गेण तुलाभृतम् || १४-१०८ || चवर्गेण तथा स्कन्धे वृश्चिकं विन्यसेत्प्रिये |
टवर्गेण तथा कुक्षौ धन्विनं विन्यसेत्प्रिये || १४-१०९ || मकरं तु तवर्गेण वृषणे विन्यसेत्क्रमात् |
पवर्गेण तथा कुम्भं वामजानुनि विन्यसेत् || १४-११० || यवर्गेणं क्षकारेण मीनं गुल्फेऽथ वामके |
अथ पीठानि विन्यस्येत्सर्वतीर्थमयानि हि || १४-१११ || सितासितारुणाश्यामहारित्पीतान्यनुक्रमात् |
पुनः पुनः क्रमाद्देवि पञ्चाशत्पीठसंचयः || १४-११२ || पीठानि संस्मरेद्विद्वान् सर्वमातृकया युतान्(?) |
मातृकार्णैर्न्यसेद्विद्वान् सर्वकामार्थसिद्धये || ११३ || कामरूपं महापीठं पीठं वाराणसीं ततः |
नेपालं च तथा पीठं तथा वै पौण्ड्र्वर्धनम् || १४-११४ || पुरस्थिरं तथा पीठं चन्द्रस्थिरमतः परम् |
पूर्णशैलं महापीठमर्बुदं च ततः परम् || १४-११५ || आम्रातकेश्वरं पीठमेकाम्रं च ततः परम् |
विस्रोतःपीठमनघं कामकोटं ततः परम् || १४-११६ || कैलासभृगुकेदारं पीठं चन्द्रपुरं ततः |
श्रीपीठं च तथोंकारं जालन्धरमतः परम् || १४-११७ || मालवं च ततः पीठं कुलान्तं देवकोटकम् |
गोकर्णं च महापीठं मारुतेश्वरमेव च || १४-११८ || अट्टहासं च विरजं राजगेहं महापथम् |
पीठं कोल्लगिरिं प्रोक्तमेलापुरमतः परम् || १४-११९ || कामेश्वरं महापीठं महापीठं जयन्तिका |
पीठमुज्जयनी चैव चरित्रं क्षीरकाभिधम् || १४-१२० || हस्तिनापुरपीठं च उड्डीशं च प्रयागकम् |
षष्ठीशं पीठश्रीशैलं मायापूरजलेश्वरम् || १४-१२१ || मलयं च महापीठं श्रीशैलं मेरुकं गिरिम् |
महेन्द्रं वामनं चैव हिरण्यपुरमेव च || १४-१२२ || महालक्ष्मीमयं पीठमुड्डीयानमतः परम् |
छायाच्छत्रपुरं पीठं तथैव परमेश्वरि || १४-१२३ || पञ्चाशत्पीठविन्यासं मातृकाविन्न्यसेत् सदा |
षोढान्यासो महादेवि न्यस्त्वा साक्षात्स्वयं शिवः || १४-१२४ || अथ कामान्न्यसेद्देवी दाडिमीकुसुमप्रभान् |
वामाङ्कशक्तिसहितान्पुष्पबाणेक्षुकार्मुकान् || १४-१२५ || शक्तयः कुङ्कुमनिभाः सर्वाभरणभूषिताः |
नीलोत्पलकरा ध्येयास्त्रैलोक्याकर्षणक्षमाः || १४-१२६ || न्यसेत्कामरतिं पश्चात्कामप्रीतिं सुरेश्वरि |
कान्तश्च कामिनीयुक्तो भ्रान्तो वै मोहिनीयुतः || १४-१२७ || कामाङ्गः कमले तद्वत्कामचारो विलासिनी |
कर्णकल्पलते तद्वत्कोमलश्यामले तथा || १४-१२८ || कामवर्धनसंयुक्ता विज्ञेया तु शुचिस्मिता |
कामश्च विस्मितायुक्तो विशालाक्षीयुतो रमः || १४-१२९ || रमणो लेलिहायुक्ता रतिनाथदिगम्बरे |
रतिप्रियश्च वामा च रात्रिनाथश्च कुब्जिका || १४-१३० || स्मरेण च युता कान्ता रमणः सत्यया युतः |
निशाचरश्च कल्याणी नन्दनो भोगिनी तथा || १४-१३१ || नन्दकः कामदायुक्तो मदनश्च सुलोचना |
सुलावण्यायुतो देवि तथा नन्दसुताभिधः || १४-१३२ || निशाचरश्च मदीन्या रतिर्हंसस्ततः परम् |
कलहः प्रियया युक्तः पुष्पधन्वा च काङ्क्षिणी || १४-१३३ || महाधनुश्च सुमुखा ग्रामणीर्नलिनीयुतः |
भीमश्च जटिनीयुक्तो भ्रामणः पालिनीयुतः || १४-१३४ || भ्रमणः शिखिनीयुक्तो शान्तमुग्धे ततः परम् |
भ्रामणो रमया युक्तो भृगुर्भूमा ततः परम् || १४-१३५ || भ्रान्तश्चामरलोला च भ्रमावहसुचञ्चले |
मोहनो दीर्घजिह्वा च मोचकश्च तथा सती || १४-१३६ || तथा मुग्धश्च लोलाक्षी मोहमर्दनभृङ्गिणी |
मोहकश्च चपेटा च मन्मथो नाथया युतः || १४-१३७ || मातङ्गमालिनीयुग्मं भृङ्गा च कलहंसिनी |
गायकेन समायुक्ता तथा वै विश्वतोमुखी || १४-१३८ || गजःनन्दिकया युक्तो गीतिश्च तदनन्तरम् |
नर्तकः सह रञ्जिन्या खेलः कान्तिसमन्वितः || १४-१३९ || उन्मत्तः कलकण्ठे च मत्तकश्च वृकोदरी |
मेघः श्यामान्वितो देवी विमलश्रीः क्रमात्प्रिये || १४-१४० || मातृकार्णैर्न्यसेद्देवि मातृकावत्सदाऽनघे |
अनेन न्यासयोगेन त्रैलोक्यक्षोभको भवेत् || १४-१४१ || बालायास्रिपुरेशान्या नवयोन्यङ्कितं न्यसेत् |
श्रोत्रयोश्चुबुके चैव शङ्खास्येषु दृशोर्नसि || १४-१४२ || अंसद्वये च हृदये न्यसेत्कूर्परकुक्षिषु |
जान्वन्धुपादगुह्येषु पार्श्वहृत्सु स्तनद्वये || १४-१४३ || कण्ठे च नवयोन्याख्यं न्यसेद्बीजत्रयात्मकम् |
पुनर्बालां समुच्चार्य षोडशार्णां प्रविन्यसेत् || १४-१४४ || पुनर्बालां समुच्चार्य चतुरस्रं च चिन्तयेत् |
गोलकं न्यासयोगेन श्रीचक्रं परिचिन्तयेत् || १४-१४५ || षट्चक्रेषु ललाटे च सीमन्ते च शिरोबिले |
नव स्थानानि संकल्प्य न्यसेद्देवि ततः परम् || १४-१४६ || श्रीविद्यां ब्रह्मरन्ध्रे च पृष्ठतो गुरवः क्रमात् |
तिथिनित्यास्ततो देवि मातृकास्वरसंयुताः || १४-१४७ || मातृकावन्न्यसेद्वक्त्रे सर्वसौभाग्यदायकाः || १४-१४८ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे श्रीविद्यान्यासविधानं नाम चतुर्दशः पटलः || १४ ||

Paṭala 15

अथ पञ्चदशः पटलः


ईश्वर उवाच--

शृणु देवि प्रवक्ष्यामि नित्यामण्डलमुत्तमम् |
कामेश्वरी महाविद्या सर्वलोकवशंकरी || १५-१ || बालां तारं च हृत्प्रान्ते कामेश्वरिपदं लिखेत् |
इच्छाकामफलप्रान्ते प्रदेसर्वपदं लिखेत् || १५-२ || ततः सत्त्ववशं ब्रूयात्करिसर्वजगत्पदम् |
क्षोभणान्ते करि ब्रूयाद्धुंकारत्रितयं लिखेत् || १५-३ || पञ्च बाणान्समालिख्य संहारेण कुमारिकाम् |
एषा कामेश्वरी नित्या प्रसङ्गात्कथिताऽद्रिजे || १५-४ || वाग्भवं भगशब्दान्ते भुगे भगिनि चाऽऽलिखेत् |
भगोदरीति वर्णान्ते च भगमाले भगावहे || १५-५ || भगगुह्ये भगप्रान्ते योनिप्रान्ते भगान्तिके |
निपातिनि च सर्वान्ते ततो भगवशंकरि || १५-६ || भगरूपे ततो लेख्यं नीरजायतलोचने |
नित्यक्लिन्ने भगप्रान्ते स्वरूपे सर्व चाऽऽलिखेत् || १५-७ || भगानि मे ह्यानयेति वरदेति समालिखेत् |
रेत सुरेते भग च क्लिन्ने क्लिन्नद्रवे ततः || १५-८ || क्लेदय द्रावयाथो च सर्वसत्त्वान्भगेश्वरि |
अमोघे भगविच्चे च क्षुभ क्षोभय सर्व च || १५-९ || सत्त्वान्भगेश्वरि ब्रूयाद्वाग्भवं ब्लूंजमादिमम् |
भेब्लूं भोब्लूं च हेंब्लूं च हें क्लिन्ने च ततः परम् || १५-१० || सर्वाणि च भगान्यन्ते मे वशं चाऽऽनयेति च |
स्त्रीबीजं च हर प्रान्ते बलेमात्मकमक्षरम् || १५-११ || भुवनेशीं समालिख्य विद्येयं भगमालिनी |
प्रसङ्गात्कथिता पञ्चचत्वारिंशच्छताक्षरी || १५-१२ || पराबीजं समुच्चार्य नित्यक्लिन्ने मदद्रवे |
अग्निजायान्वितो मन्त्रो नित्यक्लिन्नेयमीरिता || १५-१३ || सर्वसौभाग्यदात्री च सर्वैश्वर्यप्रदायिनी |
प्रणवं पूर्वमुच्चार्य तथाऽङ्कुशयुगं लिखेत् || १५-१४ || तन्मध्ये विलिखेद्देवि भरोमात्मकमक्षरम् |
चवर्गमन्त्यहीनं तु विलिखेद्वह्निसंस्थितम् || १५-१५ || चतुर्दशस्वरोपेतं बिन्दुनादाङ्कितं पृथक् |
वह्निजायान्वितो मन्त्रो भेरुण्डायाः फलप्रदः || १५-१६ || भुवनेशीं समुच्चार्य चतुर्थ्या वह्निवासिनीम् |
हृदन्तोऽयं मनुर्देवि नित्येयं वह्निवासिनी || १५-१७ || प्रणवं भुवनेशानि फरेमात्मकमक्षरम् |
सविसर्गः शशी पश्चान्नित्यक्लिन्ने मदद्रवे || १५-१८ || वह्निजायान्विता विद्या सर्वैश्वर्यप्रदायिनी |
महाविद्येश्वरी नित्या प्रसङ्गेन मयेरिता || १५-१९ || पराबीजं समुच्चार्य शिवदूतीं च ङेयुताम् |
हृदन्तोऽयं मनुर्देवि दूतीयं सर्वकामदा || १५-२० || ओंकारबीजमुच्चार्य परां कवचमालिखेत् |
खे च छे क्षः समालिख्य स्त्रीबीजं च समालिखेत् || १५-२१ || हूंकारं क्षे परा चास्त्रं विद्येयं द्वादशाक्षरी |
त्वरिता नाम नित्येयं त्रिषु लोकेषु दुर्लभा || १५-२२ || सर्वसिंहासनमयी बालेव कुलसुन्दरी |
बालया पुटितां कुर्यात्तथा वै नित्यभैरवी || १५-२३ || पञ्च बाणाश्च देवेशी नित्या शक्राक्षरी भवेत् |
त्रैलोक्यविमला विद्या नित्याख्या परमेश्वरी || १५-२४ || पञ्चाक्षरी बाणबीजैनीत्येयमपरा प्रिये |
प्रणवं भुवनेशानी फरेमात्मकमक्षरम् || १५-२५ || स्रूमात्मकं द्वितीयं च भुवनेश्यङ्कुशं ततः |
नित्यशब्दं समुद्धृत्य संबुद्ध्या तु मदद्रवाम् || १५-२६ || कवचं चाङ्कुशं पञ्चदशैर्नीलपताकिनी |
वान्तं कालसमायुक्तं वह्निवायुगतं ततः || १५-२७ || पृथक्पञ्समायुक्तं ततः शक्रस्वरान्वितम् |
बिन्दुनादाङ्कितं बीजं नित्येयं विजया प्रिये || १५-२८ || चन्द्रवारुणसंयुक्तं तारबीजं समालिखेत् |
चतुर्थ्या तु ततो देवि विलिखेत्सर्वमङ्गलाम् || १५-२९ || हृदन्तोऽयं मनुर्देवि नित्येयं सर्वमङ्गला |
तारं हृद्भगवत्यन्ते ज्वालामालिनी देवि च || १५-३० || द्विरुच्चार्य च सर्वान्ते भूतसंहारकारिके |
जातवेदसि संलिख्य ज्वलन्तिपदयुग्मकम् || १५-३१ || ज्वलेतिप्रज्वलद्वन्द्वं हुंकारद्वितयं लिखेत् |
वह्निबीजत्रयं हुं च अस्त्रस्वाहृन्वितो मनुः || १५-३२ || इयं नित्या महादेवि ज्वालामालिनिका परा |
कवर्गान्तं स्वरान्तं च शक्रस्वरविभूषितम् || १५-३३ || बिन्दुनादकलाक्रान्तं विचित्रा परमेश्वरी |
अकारादिषु सर्वेषु स्वरेषु क्रमतो न्यसेत् || १५-३४ || अःस्वरे परमेशानि श्रीविद्यां विश्वमातृकाम् |
स्वरवद्विन्यसेन्नित्या नीरजायतलोचने || १५-३५ || प्रकटाद्या न्यसेत्पश्चादाधारादिषु मन्त्रवित् |
स्थितिन्यासं ततः कुर्याच्छ्रीविद्याषोडशाक्षरैः || १५-३६ || पञ्चाङ्गुलीषु करयोर्ब्रह्मरन्ध्रे मुखे हृदि |
त्रयं विन्यस्य नाभ्यादिपादान्ते चैकमद्रिजे || १५-३७ || गलादिनाभिपर्यन्तमपरं हि ततः परम् |
ब्रह्मरन्ध्रादिकण्ठान्तमेकं विन्यस्य पादयोः || १५-३८ || अङ्गुलीषु च विन्यस्य न्यासोऽयं स्थितिकारकः |
सृष्टिन्यासं ततः कुर्यात्सर्वसिद्धिप्रदायकम् || १५-३९ || ब्रह्मरन्ध्रेऽलिके नेत्रश्रुतिघ्राणोष्ठकेषु च |
दन्तान्तरोर्ध्वके देवि जिह्वायां गलकूपके || १५-४० || पृष्ठे सर्वाङ्गहृदयस्तनकुक्षिषु लिङ्गके |
श्रीविद्यार्णैर्न्यसेद्देवि मन्त्रं सर्वसमृद्धये || १५-४१ || सर्वाङ्गे विन्यसेत्पश्चाद्व्यापकत्वेन सुन्दरि |
प्राणानायम्य विधिवन्मुद्रासन्नद्धविग्रहः || १५-४२ || संक्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशाः |
खेचरी बीजरूपा च योनिमुद्रेत्यनुक्रमात् || १५-४३ || बीजानि वक्ष्ये क्रमतो मुद्राणां परमेश्वरि |
पञ्चबाणैः पञ्च मुद्राः क्रोमात्मकमक्षरम् || १५-४४ || आद्यं तु रुद्रभैरव्या बीजं सादाशिवं ततः |
ततस्तु वाग्भवं देवि क्रमेण हि चतुष्टयम् || १५-४५ || चतुर्मुद्रासु बीजानि नवमुद्रास्वनुक्रमात् |
अथ वक्ष्ये महेशत्नि मुद्राविवरणं क्रमात् || १५-४६ || वामहस्तेन मुष्टिं तु बद्ध्वा कर्णप्रदेशके |
तर्जनीं सरलां कृत्वा भ्रामयेत्तन्त्रवित्तमः || १५-४७ || सौभाग्यदण्डिनी मुद्रा न्यासकाले तु सूचिता |
अन्तरङ्गुष्ठमुष्ट्या तु निरुध्य जगतीमिमाम् || १५-४८ || रिपुजिह्वाग्रहा मुद्रा न्यासकाले तु सूचिता |
पाणिद्वयं महेशानि परिवर्तनयोगतः || १५-४९ || योजयित्वा तर्जनीभ्यामनामे वारयेत्प्रिये |
मध्यमे योजयेन्मध्ये कनिष्ठे तदधस्तथा || १५-५० || अङ्गुष्ठावपि संयोज्य त्रिधा युग्मक्रमेण तु |
त्रिखण्डा नाम मुद्रेयं त्रिपुराह्वानकर्मणि || १५-५१ || विरलौ तु करौ कृत्वा मध्यमे मध्यमे कुरु |
अङ्गुष्ठाभ्यां कनिष्ठे च संपीड्य सरले ततः || १५-५२ || तर्जन्यौ दण्डवत्कुर्यान्मध्यमस्थ ह्यनामिके |
सर्वसंक्षोभिणी मुद्रा त्रैलोक्यक्षोभकारिणी || १५-५३ || मध्यमे तर्जनीयुक्ते सरले स्यात्तदा भवेत् |
सर्वविद्राविणी मुद्रामोहयेत्सचराचरम् || १५-५४ || मध्यमे तर्जनीयुग्मे वक्रे कुर्यात्सुलोचने |
एतस्या एव मुद्रायास्तदा कर्षणकारिणी || १५-५५ || विपरीतौ तलौ कृत्वा चाङ्गुली हृन्मुखा यजेत् |
परिवर्तनमार्गेण क्रमेण निबिडास्ततः || १५-५६ || अङ्गुष्ठावग्रदेशे तु तर्जन्यावङ्कुशाकृती |
सर्वा एकत्र संयोज्य सर्ववश्यकरी भवेत् || १५-५७ || पुटाञ्जलिकरौ कृत्वा मध्यमागर्भसंस्थिते |
परस्परकनिष्ठे तु तर्जन्यग्रगते ततः || १५-५८ || अनामिके तु सरले मध्यमामुखदेशगौ |
अङ्गुष्ठौ परमेशानि सर्वोन्मादनकारिणी || १५-५९ || एतस्या एव मुद्राया अनामातर्जनीक्रमात् |
अङ्कुशाकारूपा तु मुद्रेयं तु महाङ्कुशा || १५-६० || वामं भुजं दक्षभुजे दक्षिणं वामदेशतः |
निवेश्य योजयेत्पश्चात्परिवर्त्य क्रमेण हि || १५-६१ || कनिष्ठानामिकायुग्मे तर्जनीभ्यां निरोधयेत् |
मध्यमे सरले कृत्वा योनिवत्सरलौ ततः || १५-६२ || अङ्गुष्ठौ खेचरी मुद्रा पाथीवस्थानयोजिनी |
प्रियेयं सर्वदेवानां खेचरत्वप्रदायिनी || १५-६३ || परिवर्त्याञ्जलिं कृत्वा कनिष्ठाग्रगते ततः |
मध्यमे स्थापयेद्देवि कनिष्ठे धारयेत्ततः || १५-६४ || अनामिकाभ्यां सुदृढं तर्जनीमध्यमायुगम् |
अङ्गुष्ठाभ्यां समायोज्यमर्धचन्द्राकृतिं प्रिये || १५-६५ || बीजमुद्रेयमाख्याता सर्वानन्दकरी पिरये |
परिवर्त्य करौ सम्यक्तर्जनीवामने समे || १५-६६ || मध्यमे कुरु तन्मध्ये योजयेत्तदनन्तरम् |
अन्योन्यानामिके देवि कनिष्ठे तु यथास्थिते || १५-६७ || अङ्गुष्ठाभ्यां योजिताभ्यां योन्याकारं तु कारयेत् |
योनिमुद्रेयमाख्याता परा त्रैलोक्यमातृका || १५-६८ || एवं विन्यस्तदेहः सन् मुद्रासन्नद्धविग्रहः |
अन्तर्यागविधिं कुर्याद्येन साक्षात्स्वयं विभुः || १५-६९ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे श्रीविद्यान्यासविवरणं नाम पञ्चदशः पटलः || १५ ||

Paṭala 16

अथ षोडशः पटलः


श्री देव्युवाच --

अन्तर्यागविधिं देव बहिर्यागविधिं तथा |
सकलं कथयेशान यद्यहं तव वल्लभा || १६-१ ||

ईश्वर उवाच --

शृणु देवि प्रवक्ष्यामि यजनं चाऽऽन्तरं महत् |
मूलादिब्रह्मरन्ध्रान्तं बिसतन्तुतनीयसीम् || १६-२ || उद्यत्सूर्यप्रभाजालविद्युत्कोटिप्रभामयी |
चन्द्रकोटिप्रभाद्रावां त्रैलोक्यैकप्रभामयीम् || १६-३ || अशेषजगदुत्पत्तिस्थितिसंहारकारिणीम् |
ध्यायेन्मनो यथा देवीं निश्चलं जायते तथा || १६-४ || सहजानन्दसंदोहमन्दिरं भवति क्षणात् |
मनो निश्चलतां प्राप्तं शिवशक्तिप्रभावतः || १६-५ || समाधिर्जायते तत्र संज्ञाद्वयविजृम्भितः |
स्वयंप्रज्ञातनामैको ह्यसंप्रज्ञातनामधृत् || १६-६ || स्वयंप्रज्ञातसंज्ञस्तु शक्त्याधिक्येन जायते |
असंप्रज्ञातनामैको शिवाधिक्येन वै भवेत् || १६-७ || स्वयंप्रज्ञातभेदस्तु तीव्रस्तीव्रतरो भवेत् |
असंप्रज्ञातभेदस्तु मन्दो मन्दतरस्तथा || १६-८ || (संज्ञा प्रज्ञान यत्रैवं स्वयंप्रज्ञोऽभिधीयते |
असंप्रज्ञो हि भूयस्तु स्थितप्रज्ञः प्रतिष्ठितः || १६-९ || प्रज्ञाप्रज्ञानमेवेदमसंस्मयमिति द्वयम् |
संज्ञाद्वयमिदं देवि शिवतत्त्वेन वै भवेत् || १६-१० || हास्यरोदनरोमाञ्चकम्पस्वेदादिलक्षणः |
तीव्रस्तीव्रतरो देवि समाधिरुपलक्षितः || १६-११ || निमेषवजीते नेत्रे वपुस्तल्लक्षणं स्थिरम् |
मन्दो मन्दतरो देवि समाधिः परिकीतीतः || १६-१२ || शाम्भवेन च वेद्येन सुखी भूयान्निरन्तरम् |
अन्तर्यागविधिं कृत्वा बहिर्यजनमाचरेत् || १६-१३ || एवं विन्यस्तदेहः सन्सर्वात्मा साधकोत्तमः |
ध्यायेन्निरामयं वस्तु जगत्त्रयविमोहिनीम् || १६-१४ || अशेषव्यवहाराणां स्वामिनीं संविदं पराम् |
उद्यत्सूर्यसहस्राभां दाडिमीकुसुमप्रभाम् || १६-१५ || जपाकुसुमसंकाशां पद्मरागमणिप्रभाम् |
स्फुरत्पद्मनिभां तप्तकाञ्चनाभां सुरेश्वरीम् || १६-१६ || रक्तोत्पलदलाकारपादपल्लवराजिताम् |
अनर्घ्यरत्नखचितमञ्जीरचरणद्वयाम् || १६-१७ || पादाङ्गुलीयकक्षिप्तरत्नतेजोविराजिताम् |
कदलीललितस्तम्भसुकुमारोरुकोमलाम् || १६-१८ || नितम्बबिम्बविलसद्रक्तवस्त्रपरिष्कृताम् |
मेखलाबद्धमाणिक्यकिङ्किणीनादविभ्रमाम् || १६-१९ || अलक्ष्यमध्यमां निम्ननाभिं शातोदरीं पराम् |
रोमराजिलतोद्धूतमहाकुचफलान्विताम् || १६-२० || सुवृत्तनिबिडोत्तुङ्गकुचमण्डलराजिताम् |
अनर्घ्यमौक्तिकस्फारहारभारविराजिताम् || १६-२१ || नवरत्नप्रभाराजद् ग्रैवेयकविभूषणाम् |
श्रुतिभूषामनोरम्यकपोलस्थलमञ्जुलाम् || १६-२२ || उद्यदादित्यसंकाशताटङ्कसुमुखप्रभाम् |
पूर्णचन्द्रमुखीं पद्मवदनां वरनासिकाम् || १६-२३ || स्फुरन्मदनकोदण्डसुभ्रुवं पद्मलोचनाम् |
ललाटपट्टसंराजद्रत्नाढ्यतिलकाङ्किताम् || १६-२४ || मुक्तामाणिक्यघटितमुकुटस्थलकिंङ्किणीम् |
स्फुरच्चन्द्रकलाराजन्मुकुटां च त्रिलोचनाम् || १६-२५ || प्रवालवल्लीविलसद्बाहुवलीचतुष्टयाम् |
इक्षुकोदण्डपुष्पेषुपाशाङ्कुशचतुर्भुजाम् || १६-२६ || सर्वदेवमयीमम्बां सर्वसौभाग्यसुन्दरीम् |
सर्वतीर्थमयीं दिव्यां सर्वकामप्रपूरिणीम् || १६-२७ || सर्वमन्त्रमयीं नित्यां सर्वागमविशारदाम् |
सर्वक्षेत्रमयीं देवीं सर्वविद्यामयीं शिवाम् || १६-२८ || सर्वयागमयीं विद्यां सर्वदेवस्वरूपिणीम् |
सर्वशास्रमयीं नित्यां सर्वागमनमस्कृताम् || १६-२९ || सर्वाम्नायमयीं देवीं सर्वायतनसेविताम् |
सर्वानन्दमयीं ज्ञानगह्वरां संविदं पराम् || १६-३० || एवं ध्यात्वा परामम्बां वहन्नासापुटं क्रमात् |
आवाह्य चक्रमध्ये तु मुद्रया हि त्रिखण्डया || १६-३१ || संस्थितां चिन्तयेत्तत्र श्रीपीठान्तनीवासिनीम् |
मुद्राः संदर्शयेद्देवि तर्पणैस्तु त्रिधा यजेत् || १६-३२ || लयाङ्गं कल्पयेद्देहे देव्यास्तु परमेश्वरि |
गन्धपुष्पाक्षतादींश्च देव्यै सम्यङ् निवेदयेत् || १६-३३ || उपचारैः षोडशभिः संपूज्य परदेवताम् |
तर्पणानि पुनर्दद्यात्त्रिवारं मूलविद्यया || १६-३४ || एतस्मिन्समये देवि तिथिनित्यां प्रपूजयेत् |
कामेश्वर्यादिका नित्या विचित्रान्ताः परेश्वरि || १६-३५ || प्रतिपत्पौर्णमास्यन्ततिथिरूपाः प्रपूजयेत् |
विभाव्य च महात्र्यस्रं पूर्वदक्षोत्तरं क्रमात् || १६-३६ || रेखासु विलिखेत्तत्र पञ्चपञ्च क्रमेण हि |
अकराद्या उवर्णान्ता दक्षिणस्यां विचिन्तयेत् || १६-३७ || ततश्च पूर्वरेखायामूकारादिकपञ्चकम् |
विलिख्योत्तररेखायां शक्त्यादि विलिखेत्ततः || १६-३८ || अनुस्वारान्तमन्त्रस्तु विसर्गे षोडशीं यजेत् |
वामावर्तेन देवेशि नित्याः षोडश कीतीताः || १६-३९ || प्रतिपत्तिथिमारभ्य पौर्णमास्यन्तमद्रिजे |
एकैकां पूजयेन्नित्यां महासौभाग्यमाप्नुयात् || १६-४० || कृष्णपक्षे महेशानि पूजयेत्तिथिमण्डलम् |
विचित्राद्या वरारोहे यावत्कामेश्वरी भवेत् || १६-४१ || पूजनीया विलोमेन भक्त्या तु परमेश्वरि |
कलाः षोडश देवेशि यस्तु चन्द्रकलाः क्रमात् || १६-४२ || तिथिनित्यां त्रिधा देवि पूजयेद्भाग्यहेतवे |
पुनः श्रीत्रिपुरानित्या यजेत्सौभाग्यहेतवे || १६-४३ || स सौभाग्यं महादेवि प्राप्नोति गुरुशासनात् |
कामेश्वर्यादिका नित्याः पूजयित्वा क्रमात्ततः || १६-४४ || एतस्मिन्समये देवि गुरुन्संपूजयेद्बुधः |
पुष्पसंकोचयोगेन कथयामि तवानघे || १६-४५ || रश्मिवृन्दं दलमितं गुरवस्तु शताधिकाः |
तस्मांत्संकोचयेत्पुष्पममिताः सिद्धिहानिदाः || १६-४६ || नष्टसंततिविज्ञेया मिताः सर्वसमृद्धिदाः |
पुष्पं संकोचयेन्नोचेद्द्वादशे नष्टसंततिः || १६-४७ || संतत्या नष्टरूपः सन्न भवेद्देवताप्रियः |
अत एव मया सम्यक्पुष्पं संकुचितं प्रिये || १६-४८ || कामराजाख्यविद्याया गुरवस्तु समृद्धिदाः |
मध्यप्राक्त्र्यश्रमध्ये हि गुरुपङ्क्तिं त्रिधाऽर्चयेत् || १६-४९ || परारब्धान्पूजयेदादौ परापरविभक्तिकान् |
ततोऽपरांस्त्रिधा देवि गुरुन् संपूजयेत्प्रिये || १६-५० || दिव्यौघे तु परान्विद्धि सप्तसंख्यान्वरानने |
आनन्दनाथशब्दान्ता गुरवः पुरुषाः प्रिये || १६-५१ || स्त्रियः पराम्बाशब्दान्ता विज्ञेया वीरवन्दिते |
परप्रकाशो देवेशि ततः परशिवो मतः || १६-५२ || परा शक्तिस्तथा देवि कौलेश्वर इति प्रिये |
शुक्ला देवि कुलेशानकामेश्वर्यम्बिकाः क्रमात् || १६-५३ || मुनिसंख्यास्तु गुरवः पराख्या दिव्यरूपिणः |
भोगक्लिन्नस्तु समयो वेदाख्यः सहजस्तथा || १६-५४ || परापराख्यसिद्धौघे मानवौघे शृणु प्रिये |
गगनो विश्वविमलौ मदनो भुवनस्तथा || १६-५५ || लीला स्वात्माप्रियः पश्चान्नागसंख्यास्तु मानवाः |
अपराः परमेशानि नियता अक्षरा इमे || १६-५६ || एतत्त्रयं तु नियतं देशिकानां हिताय च |
मयोद्धृतं महेशानि पुष्पं संकुचितं प्रिये || १६-५७ || मानवौघान्तिके पश्चात्स्वगुरुत्रितयं यजेत् |
परमेष्ठी गुरुः पश्चाद्गुरुः परमसंज्ञितः || १६-५८ || स्वगुरुश्च महेशानि पुजयेत्तु गुरुत्रयम् |
अथ वा मानवौघान्त एकं स्वगुरुमर्चयेत् || १६-५९ || अयं प्रकारः कथितः प्रकारान्तरमुच्यते |
वन्द्यं सर्वप्रकाराणां मानवौघाष्टकादथ || १६-६० || गुरवो नवसंख्याका इह यावद्भवन्ति हि |
नवचक्रेश्वरी यस्मात्तावत्पुष्पं प्रकाशयेत् || १६-६१ || मानवौघे तदा देवि दशसप्त भवन्ति हि |
पश्चात्संकोचयेत्पुष्पं नवमं श्रीगुरुं यजेत् || १६-६२ || अज्ञातगुरुशिष्याणां कथयामि वरानने |
गुरुभ्यो नम उच्चार्य पादुकाभ्यो नमो लिखेत् || १६-६३ || गुर्वन्ते परमान्ते च गुरुभ्यो नम इत्यपि |
एतेषां पादुकास्तद्वदाचार्येभ्यो नमो वदेत् || १६-६४ || आचार्यपादुकास्तद्वत्पूर्वसिद्धास्तु पादुकाः |
सामान्यगुरुशिष्याणां गुरुपङ्क्तिरियं भवेत् || १६-६५ || गुरुपङ्क्तिं प्रपूज्याथ स्वयं श्रीत्रिपुरा भवेत् |
गुरुपङ्क्तिविहीनस्तु पुरुषः पङ्क्तिवजीतः || १६-६६ || सामान्यगुरुपङ्क्तित्वान्न भवेत्पङ्क्तिवजीतः |
पुष्पसंकोचमार्गोऽयं मया सिद्धः कृतः प्रिये || १६-६७ || कृपया परमेशानि साधकानां हिताय च |
कामराजाख्यगुरवः श्रीविद्याविषये क्रमात् || १६-६८ || लोपामुद्राख्यविद्याऽप्यान् गुरुञ्शृणु वरानने |
परमाद्यशिवश्चाऽऽद्या कामेश्वर्यम्बिका तथा || १६-६९ || दिव्यौघश्च महौघश्च सर्वानन्दस्ततः परम् |
प्रज्ञादेव्यम्बिका पश्चात्प्रकाशः सप्तमो भवेत् || १६-७० || दिव्याः पराख्यगुरवो लोपामुद्राप्रभामयाः |
दिव्यश्चित्रश्च कैवल्यदेव्यम्बा च महोदयाः || १६-७१ || सिद्धाः परापरा ज्ञेया मानवौघे शृणु प्रिये |
विद्या शक्तिश्च विश्वश्च चतुर्थः कोमलो भवेत् || १६-७२ || पञ्चमस्तु परानन्दो मनोहर इति प्रिये |
स्वात्मानन्दः सप्तमस्तु प्रतिभोऽष्टम उच्यते || १६-७३ || अपराख्या इमे देवि गुरवः परिकीतीताः |
पूर्ववद्योजयेत् पश्चादष्टानन्तरमेव च || १६-७४ || त्रयं वा स्वगुरुं वाऽपि नवान्तं वाऽब्जलोचने |
दक्षिणामूतीशिष्याणां गुरुक्रम उदाहृतः || १६-७५ || संप्रदाया अनेके च ज्ञातव्याः स्वगुरुक्रमात् |
संप्रदायविहीनस्य न दद्यात्पङ्क्तिमुत्तमाम् || १६-७६ || साधारणास्तु गुरवः सर्वभेदेषु वै समाः |
गुरुक्रमं प्रपूज्याथ यजेदाम्नायदेवताः || १६-७७ || त्रैलोक्यमोहने देवि सर्वाशापरिपूरके |
सर्वसंक्षोभणे चक्रे पूर्वाम्नायं प्रपूजयेत् || १६-७८ || सर्वसौभाग्यदे चक्रे तथा सर्वार्थसाधके |
सर्वरक्षाकरे चक्रे दक्षाम्नायं प्र पूजयेत् || १६-७९ || मध्यचक्रत्रये देवि पश्चिमाम्नायमर्चयेत् |
नवचक्रेषु देवेशि कौबेराम्नायमर्चयेत् || १६-८० || बैन्दवे परमेशानि मध्यसिंहासनं यजेत् |
अनेनैव प्रकारेण पूजयेत्पञ्च पञ्चिकाः || १६-८१ || श्रीविद्या च प्ररं ज्यौतिः परा निष्कलशाम्भवी |
अजया मातृका चेति पञ्च कोशाः प्रकीतीताः || १६-८२ || श्रीविद्या च तथा लक्ष्मीर्महालक्ष्मीस्तथैव च |
त्रिशक्ति सर्वसाम्राज्या पञ्च लक्ष्म्यः प्रकीतीताः || १६-८३ || श्रीविद्या त्वरिता चैव पारिजातेश्वरी तथा |
त्रिपुटा पञ्चबाणेशी पञ्च कल्पलताः स्मृताः || १६-८४ || श्रीविद्या मूलपीठेशी सुधा श्रीरमृतेश्वरी |
अन्नपूर्णेति विख्याताः पञ्चैताः कामधेनवः || १६-८५ || श्रीविद्यां सिद्धलक्ष्मीश्च मातङ्गी भुवनेश्वरी |
वाराहीति च संमोक्ताः पञ्च रत्नाः प्रकीतीताः || १६-८६ || मूलविद्या महेशानि श्रीविद्या परिकीतीता |
वारुणान्तं वह्निसंस्थं बिन्दुनादसमन्वितम् || १६-८७ || वामनेत्रसमायुक्तं लक्ष्मीबीजमुदाहृतम् |
श्रीबीजं तु पराबीजं लक्ष्मीबीजमुदाहृतम् || १६-८८ || प्रणवं पूर्वमुच्चार्य ह्रीमात्मकं समुच्चरेत् |
श्रीपुटां च नु कमले कमलाग्रे प्रसीदतु || १६-८९ || लये मध्यगतां भूमिं रुद्रस्थाने नियोजयेत् |
प्रसीद युगलं दद्याच्छ्रीबीजं भुवनेश्वरीम् || १६-९० || श्रिया बीजं ततो दद्यान्महालक्ष्मी च { श्च} हृन्मनुः |
सप्तविंशतिवर्णात्मा महालक्ष्मीमनुर्मतः || १६-९१ || श्रीबीजं च पराबीजं कामराजं समालिखेत् |
इयं त्रिशक्तिर्देवेशि त्रिषु लोकेषु दुर्लभा || १६-९२ || चन्द्रेण मादनं लक्ष्मीर्देवी दीर्घाक्षिमण्डिता |
विष्णुक्रूरेश्वरीयुक्ता रित्ययं वैष्णवीयुता (?) || १६-९३ || श्रीबीजसंपुटं कुर्यात्सर्वशास्त्रप्रदायिनी |
प्रणवं पूर्वमुच्चार्य पराहंसं समुद्धरेत् || १६-९४ || ततः सोऽहं शिरो देवि वसुवर्णोऽयमीरितः |
वेदादिकेवला देवी परा निष्कलशाम्भवी || १६-९५ || हंसोऽजपार्णान्तः त(वर्णवस्त)त्र मातृकेति प्रकीतीता(तः) |
प्रणवं भुवनेशानी वियच्चन्द्राग्निवायवम् || १६-९६ || भुवनेशी ध्रुवं चैव सरस्वत्यै नमो लिखेत् |
इयं तु पारिजातेशी पारिजातरतोपमा || १६-९७ || काण्डवानीश्वरीविद्या प्रसङ्गात्कथिता मया |
त्रिबीजं च पराबीजं सकामा त्रिपुटोदिता || १६-९८ || पञ्चकामेश्वरीविद्या बालान्यासे समीरिता |
वाग्भवं वामनेत्रं च ध्रुवान्तं बिन्दुसंयुतम् || १६-९९ || मूलपीठेश्वरीविद्या सुगुप्ता कथिता मया |
पराबीजं तु श्रीबीजं बालायामाद्यमक्षरम् || १६-१०० || राज्यदे राजलक्ष्मीति चन्द्रः सर्गविभूषितः |
बिलोमान्यादिबीजानि सुधा श्रीश्च प्रकीतीताः (ता) || १६-१०१ || वाग्भवं भुवनेशानि श्रीबीजं तदनन्तरम् |
वियत्तदादिखफलेमित्यवर्णं समालिखेत् || १६-१०२ || वियत्तदादिकं तं च फ्रानित्येव मनुर्मतः |
चवर्गतृतीयं तुर्यं मायारेफेन्दुसंयुत्तम् || १६-१०३ || महाचण्डं समुद्धृत्य संकर्षणीति संलिखेत् |
कालमहान इत्युक्त्वा वियदिन्दुसमन्वितः (?) || १६-१०४ || मायाबीजं तु कथितः सिद्धलक्ष्म्या महामनुः |
अन्नपूर्णा च देवेशि उत्तराम्नायकीतीता || १६-१०५ || मातङ्गिन्येति चांशं वाङ्मायाश्रीसंपुटं लिखेत् |
इयं मातङ्गिनी विद्या द्वादशार्णा प्रकीतीता || १६-१०६ || वियदग्निसमायुक्ता वामनेत्रेन्दुविभूषितम्(ता) |
भुवनेशी महेशानि दुर्लभा भुवनत्रये || १६-१०७ || वाग्भवं पूर्वमुद्धृत्य संबुद्ध्या भगवत्यपि |
वार्ताली द्वे च वाराही युग्मवाराहमुख्यपि || १६-१०८ || अन्धे अन्धिन्यै नत्यन्तं रुन्धिनी तत्परः परम् |
जम्भे जम्भिन्यै नत्यन्तं मोहे मोहिन्यै युतं नमः || १६-१०९ || स्तम्भे स्तम्भिन्यै हृद्युक्तममुकं स्तम्भनद्वये |
सर्वदुष्टप्रदुष्टानां सर्वेषां सर्वमुच्चरेत् || १६-११० || जिह्वास्तम्भं कुरु द्वन्द्वं शीघ्रवश्यं कुरु द्वयम् |
वाग्क्कूट त्रयं वाचं मन्त्रपावकवल्लभा || १६-१११ || महाविद्येयमाख्याता सर्वतन्त्रेषु गोपिता |

श्री देव्युवाच --

मन्त्रास्तु कथिता देव सर्वतन्त्रेषु गोपिताः || १६-११२ || तानाराध्य कथं लोका जायन्ते भुवि दुर्लभाः |
एतत्सर्वं महादेव कथय त्वं सुविस्तरम् || १६-११३ ||

ईश्वर उवाच --

साधु पृष्टं त्वया भद्रे लोकानां हितकाम्यया |
अविज्ञातमनस्तत्त्वं भजता दुःसुता यथा (?) || १६-११४ || कथ्यतेऽत्र तथा देवि सर्वतन्त्रेषु गोपितम् |
मन्त्राविशोधनं कुर्यान्मन्त्राणां च विशुद्धये || १६-११५ || चतुरस्रभुवं भित्त्वा कृत्वा रेखात्रयं त्रयम् |
वृत्तः षोडशके चैव ततो वर्णान् समालिखेत् || १६-११६ || इन्द्राग्नि रुद्रनवनेत्रयुगेन दिक्षु ऋत्वष्टषोडशचतुर्दश भौतिकेषु |
पाताल पञ्चदशवह्निहिमांशुकोष्ठे वर्णाल्लिखेल्लिपिभवान्क्रमशस्तु धीमान् || १६-११७ || मन्त्राद्यसाधकानां तु नामार्णः पतति ध्रुवम् |
सिद्धिस्थानं च विज्ञेयं द्वितीयं साध्यनामकम् || १६-११८ || सुसिद्धं तु तृतीयं स्याच्चतुर्थमरिसंज्ञकम् |
सिद्धः सिध्यतिकालेन साध्यः सिध्यति वा न वा || १६-११९ || सुसिद्धस्तत्क्षणादेव साधकं भक्षयेदरिः |
सिद्धसिद्धो जपात्सिद्धिद्वीगुणात्सिद्धसाध्यकः || १६-१२० || सिद्धसुसिद्धः संग्राहात्सिद्धारिर्हन्ति वै द्विजान् |
साध्यः सिध्यति संक्लेशात्साध्यसाध्योऽतिदुःखकृत् || १६-१२१ || साध्यः सुसिद्धो भजनात्साध्यारिः स्वाश्रयं हरेत् |
सुसिद्धसिद्धोऽध्ययनात्फलं दद्युर्यथेप्सितम् || १६-१२२ || सुसिद्धसाध्यो जपाद्यैः सिद्धिर्यस्मादतोऽन्यथा |
सुसिद्धे तु सुसिद्धस्तु पूर्वजन्मकृतश्रमात् || १६-१२३ || संस्मात्तु सर्वं सिद्धानां साधको यो जपेन्मनुः |
अभिचारे रिपोरवं यदि स्यान्भुविपन्नयोः (?) || १६-१२४ || संसिद्धेऽरिविशेषेण स्वकुलान्नाशयेद्ध्रुवम् |
अरिसिद्धस्तु संहन्यादरिसाध्यं तु योषितः || १६-१२५ || अरिसिद्धस्वमन्त्रश्च कुलाच्छादनकृच्छलैः |
अर्यरिस्वामहामन्त्रप्राप्तेन सुनिश्चितम् {?} || १६-१२६ || एतदुक्तं महेशानि त्यक्त्वाऽन्यमतमुत्तमम् |
स्वप्नलब्धे स्त्रिया दत्ते मालमन्त्रे त्रिबीजके || १६-१२७ || सिद्धादिशोधनं देवी न वै तेषां तु विद्यते |
श्रीविद्यापूजनस्थाने चक्रराजे महेश्वरि || १६-१२८ || महाकोशेश्वरावृन्दमण्डिता सनसंस्थिता || १६-१२९ || सर्वसौभाग्यजननीपादुकां पूजयामि च |
इत्युच्चार्य परं ज्योतिःकोशाद्यां पूजयेत्सुधीः || १६-१३० || अनेनैव प्रकारेण पूजयेत्पञ्चपञ्चिकाः |
शैवं तु दर्शनं देवि बैन्दवे पूजयेत्प्रिये || १६-१३१ || परितो दर्शनं शाक्तं चक्रस्य परमेश्वरी |
ब्राह्मं तु दर्शनं पूज्यं भूबिम्बे प्रथमे प्रिये || १६-१३२ || शिवस्य वामतो देवि वैष्णवं दर्शनं यजेत् |
सृष्टिचक्रे भवेत्सूर्यदर्शनं कमलेक्षणे || १६-१३३ || स्थितिचक्रे तु संपूज्यं बौद्धदर्शनमुत्तमम् |
एवं संपूज्य सकलं श्रीविद्यां परितोषयेत् || १६-१३४ || तर्पणानि पुनर्दद्यात्त्रिवारं तत्त्वमुद्रया |
अङ्गुष्ठानामिकाभ्यां तु तत्त्वमुद्रेयमीरिता || १६-१३५ || पुष्पं समर्पयेद्देवि मुद्रया ज्ञानसंज्ञया |
अङ्गुष्ठतर्जनीयोगाज्ज्ञानमुद्रा प्रतिष्ठिता || १६-१३६ || सर्वोपचारैराराध्य मुद्राः संदर्शयेत्क्रमात् |
अथाङ्गावरणं कुर्याच्छ्रीविद्यामनुसंभवम् || १६-१३७ || अग्नीशासुरवायव्यमध्यदिक्ष्वङ्गपूजनम् |
मायालक्ष्मीमयं बीजयुग्मं पूर्वक्रमेण तु || १६-१३८ || कथितं योजयेद्देवि त्रयं वा परमेश्वरि |
संपुटक्रमयोगेन चाथवा वीरवन्दिते || १६-१३९ || संयोज्य पूजयेत्सर्वाः क्रमादेव वरानने |
त्रैलोक्यमोहने चक्रे प्रकटा योगिनीर्यजेत् || १६-१४० || चतुरस्रे चतुर्द्वारे शोभिते सिद्धिदायकाः |
अणिमां पश्चिमद्वारे दक्षभागे प्रपूजयेत् || १६-१४१ || लघिमामुत्तरद्वारे दक्षभागे प्रपूजयेत् |
पूर्वद्वारे तु महिमामुत्तरे पूजयेत्प्रिये || १६-१४२ || ईशित्वसिद्धिंर्देवेशि दक्षिणद्वारि पूर्ववत् || १६-१४३ || वशित्वसिद्धिं वायव्ये तेनैव क्रमयोगतः || १६-१४४ || इच्छासिद्धिं पूर्वभागे नैरृत्ये च प्रपूजयेत् |
प्राप्तिसिद्धिः सर्वकामा सिद्धिश्च परमेश्वरि || १६-१४५ || अधोर्ध्वक्रमरूपेण ज्ञातव्ये सुरसुन्दरि |
ब्राह्मी माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा || १६-१४६ || वाराही च तथा षष्ठी चामुण्डा सप्त मातरः |
अष्टमी तु महालक्ष्मीः पश्चिमादिक्रमेण हि || १६-१४७ || वामभागे तु संपूज्या वायव्यादि च पूर्ववत् |
संक्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशाः || १६-१४८ || खेचरीबीजयोन्याख्यास्त्रिखण्डां च प्रपूजयेत् |
एताः संपूज्य चक्रेशीं त्रिपुरां पूजयेत्पराम् || १६-१४९ || अणिमासिद्धिपुरतः सर्वकार्यार्थसाधिकाम् |
सर्वसंक्षोभिणीं मुद्रां दर्शयेत्कमलानने || १६-१५० || सर्वाशापूरकं चक्रं गुप्तयोगिन्यधिष्ठितम् |
षोडशारं ततो देवि पूजयेत्कार्यसिद्धये || १६-१५१ || कामाकषीणिकां देवि बुध्द्याकषीणिकां तथा |
अहंकाराकषीणीं च शब्दाकर्षणरूपिणीम् || १६-१५२ || स्पर्शाकषीणिरूपां च रूपाकषीणिरूपिणीम् |
रसाकर्षकरीं चैव गन्धाकर्षणकारिणीम् || १६-१५३ || चित्ताकषीणिकां तद्वद्धैर्याकषीणिकां प्रिये |
नामाकषीणिकां चैव बीणाकषीणिकां तथा || १६-१५४ || अमृताकषीणीं चैव बीजाकषीणिकां प्रिये |
शरीराकषीणीं चैव आत्माकर्षणरूपिणीम् || १६-१५५ || पश्चिमादिविलोमेन षोडशारे स्वरान्विताः |
एता नित्याः कलाः पूज्याः स्रवत्पीयूषमण्डलाः || १६-१५६ || चक्रेश्वरीं यजेद्देवीं त्रिपुरेशीं समृद्धिदाम् |
कामाकर्षणरूपायाः पुरतः पूजयेत्प्रिये || १६-१५७ || सर्वविद्राविणीं मुद्रां दर्शयित्वा निवेदयेत् |
सर्वसंक्षोभणे चक्रे यजेद्गुप्ततराभिधाः || १६-१५८ || अनङ्गकुसुमां प्राच्यां कवर्गेण प्रपूजयेत् |
दक्षिणे च चवर्गेण तथा चानङ्गमेखलाम् || १६-१५९ || अनङ्गमदनां पश्चाट्टवर्गेण प्रपूजयेत् |
तवर्गेणोत्तरे पश्चादनङ्गमदनातुराम् || १६-१६० || अनङ्गरेखामाग्नेये पवर्गेण प्रपूजयेत् |
राक्षसेऽनङ्गवेगां तु यवर्गेण प्रपूजयेत् || १६-१६१ || वायव्ये तु शवर्गेण तथाऽनङ्गाङ्कुशां यजेत् |
ईशान्ये लक्षवर्गेण पूज्याऽनङ्गादिमालिनी || १६-१६२ || चक्रेश्वरीं यजेद्देवीं ततस्त्रिपुरसुन्दरीम् |
अनङ्गकुसुमाग्रे च सर्वसाम्राज्यदायिनीम् || १६-१६३ || सर्वाकर्षणमुद्रां च दर्शयेत्सुरवन्दिते |
चक्रपूजां निवेद्याथ चतुर्थं चक्रमर्चयेत् || १६-१६४ || सर्वसंक्षोभिणी शक्तिः सर्वविद्राविणी तथा |
सर्वाकषीणिका शक्तिः सर्वाह्लादनकारिणी || १६-१६५ || सर्वसंमोहिनी शक्तिः सर्वस्तम्भनकारिणी |
सर्वजृम्भिणिका शक्तिः सर्वावशकरी तथा || १६-१६६ || सर्वार्थरञ्जिनी शक्तिर्नवमी परमेश्वरी |
सर्वोन्मादनिका शक्तिः शक्तिः सर्वार्थसाधिका || १६-१६७ || सर्वसंपत्तिपूर्णा च सर्वमन्त्रमयी तथा |
चतुर्दशारशक्तिस्तु सर्वद्वन्द्वक्षयंकरी || १६-१६८ || सर्वसौभाग्यदे चक्रे पश्चिमादिविलोमतः |
वाममार्गेण देवेशि संपूज्याः सर्वसिद्धिदाः || १६-१६९ || सर्वसंक्षोभिणी शक्तिः पुरतः पूजयेत्ततः |
चक्रेश्वरी सिद्धिदात्रीं परां त्रिपुरवासिनीम् || १६-१७० || वश्यमुद्रां प्रदर्श्याथ निवेद्य तदनन्तरम् |
सर्वार्थसाधके चक्रे दशारे कुलयोगिनीः || १६-१७१ || पूजयेत्सर्वकार्यार्थसिद्धिदाः पञ्चमे क्रमात् |
सर्वसिद्धिप्रदा देवी सर्वसंपत्प्रदा तथा || १६-१७२ || सर्वप्रियकरी देवी सर्वमङ्गलकारिणी |
सर्वकामप्रपूर्णा च सर्वदुःखप्रमोचनी || १६-१७३ || सर्वमृत्युप्रशमनी सर्वविघ्ननिवारिणी |
सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी || १६-१७४ || पश्चिमादिविलोमेन दशारे पूजयेदिमाः |
सर्वसिद्धिप्रदा देवि पुरतश्चक्रनायिकाम् || १६-१७५ || सर्वसिद्धिप्रदां देवि पूजयेत्त्रित्पुराश्रियम् |
सर्वोन्मादनमुद्रां च दर्शयित्वा निवेद्य च || १६-१७६ || सर्वरक्षाकरे चक्रे नगर्भा योगिनीर्यजेत् |
सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदा ततः || १६-१७७ || सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी |
सर्वाधारस्वरूपा च सर्वपापहरा तथा || १६-१७८ || सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी |
सर्वेप्सितार्थफलदा देव्यः सर्वसमृद्धिदाः || १६-१७९ || पश्चिमादिविलोमेन पूजयेत्पङ्क्तयोनिके |
सर्वज्ञापुरतो देवि चक्रेशीं मालिनीं यजेत् || १६-१८० || महाङ्कुशां महामुद्रां दर्शयित्वा निवेद्य च |
मध्यचक्रे महेशानि योगिनीः पूजयेत्प्रिये || १६-१८१ || सर्वरोगहरे चक्रे वसुकोणे सुरेश्वरि |
रहस्ययोगिनीर्देवि वशिन्याद्यास्तु सिद्धिदाः || १६-१८२ || पश्चिमादिविलोमेन पूर्वोक्ताः पूजयेत्क्रमात् |
वशिनीपुरतः पूज्या सिद्धाम्बा चक्रनायिका || १६-१८३ || खेचरीं दर्शयेन्मुद्रां निवेद्यानन्तरं ततः |
सर्वसिद्धिप्रदे चक्रे त्रिकोणे सर्वकामदे || १६-१८४ || परापररहस्याख्ययोगिनीः परिपूजयेत् |
पञ्च बाणान्समुच्चार्य कामकामेश्वरीमयान् || १६-१८५ || जम्भनाख्यान्महेशानि पूजयेद्बाणदेवताम् |
धमात्मकं कामचापं द्वितीयं तु थमात्मकम् || १६-१८६ || कामेश्वर्या मोहनाख्यां पूजयेच्चापदेवताम् |
द्वितीयं भुवनेशानीपाशयुग्मं वशंकरम् || १६-१८७ || कामेशस्य च कामेश्यास्त्रैलोक्याकर्षणं प्रिये |
अङ्कुशाख्यं करोमात्मबीजं स्तम्भनसंज्ञकम् || १६-१८८ || कामेशस्य च कामेश्या अङ्कुशं पूजयेत्प्रिये |
षडङ्गावरणद्वाह्ये समीपे क्रमतो यजेत् || १६-१८९ || पश्चिमादिक्रमेणैव चतुदीक्षु प्रपूजयेत् |
कामेश्वरीं रुद्रशक्तिमाद्यकूटेन चाग्रतः || १६-१९० || द्वितीयेन च कूटेन कामाख्येन च वैष्णवीम् |
दक्षकोणे समभ्यर्च्य तृतीयेन च पूजयेत् || १६-१९१ || भगमालां ब्रह्मशक्तिमुत्तरे विश्वमातृकाम् |
चक्रेश्वरीमम्बिकाख्यां कामेशीपुरतो यजेत् || १६-१९२ || बीजमुद्रामुपास्याथ चक्रपूजां निवेदयेत् |
सर्वानन्दमये चक्रराजे बैन्दवसंज्ञके || १६-१९३ || ब्रह्मरूपे चित्स्वरूपे संविद्वेद्ये शृणु प्रिये |
परापररहस्याख्यां योगिनीं त्रिपुरां यजेत् || १६-१९४ || कूटत्रयं समुच्चार्य सर्वविद्यास्वरूपकम् |
समस्तदेवतारूपं सर्ववस्तुमयं यजेत् || १६-१९५ || चक्रेशीमपि तामेव महात्रिपुरसुन्दरीम् |
श्रीविद्यां षोडशार्णां च भुक्तिमुक्तिफलप्रदाम् || १६-१९६ || समस्तचक्रचक्रेशीं सर्वागमनमस्कृताम् |
सर्वाम्नायेश्वरीं विद्यालंकृतां ब्रह्मरूपिणीम् || १६-१९७ || उपचारैः समभ्यर्च्य गन्धपुष्पाक्षतादिभिः |
तर्पणानि पुनर्दद्यात्त्रिवारं मूलविद्यया || १६-१९८ || योनिमुद्रां प्रदर्श्याथ मुद्राः संदर्शयेत्क्रमात् |
वनस्पतिरसोत्पन्नैः पवित्रै रम्यगन्धिभिः || १६-१९९ || दशाङ्गाद्यैर्धूपवर्यैर्धूपयेत्परमेश्वरीम् |
(कस्तूरीकुङ्कुमं देवि गुग्गुलं शालसंभवम् || १६-२०० || चन्दनागरुकर्पूरसिताज्यमधुसंयुतम् |
धूपयेद्देशिको नित्यं सर्वसौभाग्यसिद्धये || १६-२०१ || धूपमन्त्रेण देवेशि त्रैलोक्यस्यापि दुर्लभम् |
अभितो वेदिकाचक्रं दीपमाला घृतप्लुताः || १६-२०२ || कर्पूररचिताश्चापि तैलपूर्णास्तु वा यजेत् |
धूपदीपौ निवेद्याथ तर्पयेत्पूर्ववत्प्रिये || १६-२०३ || आरातीकविधिं कुर्यात्पूर्ववद्देववन्दिते |
अन्यदारातीकं वक्ष्ये सर्वकाममपूरकम् || १६-२०४ || स्वर्णादिनिमीते पात्रे मध्ये चक्रं लिखेद्बुधः |
तण्डुलोल्लासितं कृत्वा नवधा कारयेत्ततः || १६-२०५ || नव गोलांश्चन्द्ररूपान्विरच्य तदनन्तरम् |
शर्करागर्भभरितान्मण्डकान्युग्मरूपकान् || १६-२०६ || विरच्य घटिकाः कार्या योजयित्वा तु सप्तकम् |
सप्तसप्तप्रकारेण घटिका नव योजयेत् || १६-२०७ || अष्टकोणेषु संस्थाप्य गोलकांञ्चोपरि क्षिपेत् |
चणमुद्रा विकीर्याथ दीपकान्घृतपाचितान् || १६-२०८ || मुष्टिकाकृतिमुष्टिश्च स्थापयेत्तत्र तत्र तु |
दीपान्प्रज्वाल्य पश्चात्तु पञ्चरत्नैः प्रपूजयेत् || १६-२०९ || पञ्चसिंहासनगता विद्यास्तत्र प्रपूजयेत् |
आमस्तकं समुद्धृत्य नववारं पुनः पुनः || १६-२१० || नवावरणवद्देवि परिभ्राम्य पुनः पुनः |
उत्तीर्य स्थापयेत्पश्चाद्दीपमालामयं महः || १६-२११ || नेत्रयोः सुस्थिरं ध्यायेदारातीकविधिः प्रिये |
नैवेद्यं षड्र्सोपेतं सितापूपादिसंयुतम् || १६-२१२ || शर्करापूरभरितमण्डकैः पायसान्वितम् |
मुक्ताकर्पूरधवलं शुद्धौदनसुपूरितम् || १६-२१३ || घृतकर्पूरशोभाढ्यं सम्पूर्णघृतमण्डितम् |
नानाव्यञ्जनशोभाढ्यं वटकैः कुङ्कुमप्रभैः || १६-२१४ || माषान्नभरितं नानारसपानविराजितम् |
घृतक्षीरेण भरितं चतुर्मुद्राविराजितम् || १६-२१५ || संकल्प्य परमेशान्यै नित्यहोमविधिं चरेत् |
मूलेन प्राणसहिता आहुतीः पञ्च होमयेत् || १६-२१६ || षडाहुतीः षडङ्गानां नित्यहोमः प्रकीतीतः |
उपविश्याऽऽसने रम्ये वामभागे ततः परम् || १६-२१७ || वहत्करोर्ध्वपुटतः साधको भूमिजानुकः |
मण्डलं चतुरस्रं तु तन्मध्ये विलिखेत्प्रिये || १६-२१८ || त्रिकोणमध्ये व्योमाख्यं मण्डलं पूजयेत्ततः |
व्यापकान्ते मण्डलाय हृदन्तो वाग्भवं परम् || १६-२१९ || मुखे कृत्वा पूजनीयं मण्डलं मनुना प्रिये |
एतन्मण्डलमभ्यर्च्य मण्डलानां चतुष्टयम् || १६-२२० || ईशानवह्निनैरृत्यवायुकोणेषु पूर्ववत् |
मण्डलानि निधायाथ पूर्ववत्पूजयेत्प्रिये || १६-२२१ || पूर्ववद्बलिदानं च दद्यात्सर्वसमृद्धये |
बटुकाय महेशानि योगिनीभ्यश्च वल्लभे || १६-२२२ || क्षेत्रपालगणेशाभ्यां पूर्ववद्बलिमुत्सृजेत् |
वामभागे कृतस्याथ मण्डलस्योपरि क्षिपेत् || १६-२२३ || आधारं पूजयेत्तत्र पात्रं चान्नोदकान्वितम् |
सकारणं मन्त्रयित्वा सर्वभूतबलिं हरेत् || १६-२२४ || षोडशार्णेन मनुना त्रिवारं वीरवन्दिते |
तारं च भुवनेशानि सर्वविघ्नपदं ततः || १६-२२५ || कृद्भ्यश्च सर्वभूतेभ्यो हुंकारं वह्निवल्लभाम् |
समुच्चरन्बलिं दद्यान्मुद्रया तत्त्वसंज्ञया || १६-२२६ || बलिपञ्चकमाख्यातं सर्वरक्षाकरं सताम् |
एकत्र वा पञ्च बलीन्दद्याद्व्यापकमण्डले || १६-२२७ || वामभागे स्थितो देवि सर्वविघ्नहरो भवेत् |
चक्रमभ्यर्च्य सकलं विधिवत्परमेश्वरि |
श्रीगुरोः कृपया देवि सर्वज्ञः सर्वतत्त्ववित् || १६-२२८ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे उमामहेश्वरसंवादे श्रीविद्यायजन-- विधिर्नाम षोडशः पटलः || १६ ||

Paṭala 17

अथ सप्तदशः पटलः


श्रीदेव्युवाच --

देवदेव महादेव अश्रुतार्थं महेश्वर |
षोडशाक्षरविद्यायाः श्रीचक्रविधिमुत्तमम् || १७-१ || जपादिकं च यत्सर्वमेकैकाक्षरसाधनम् |
कथयस्व महेशान यद्यहं तव वल्लभा || १७-२ ||

ईश्वर उवाच --

शृणु सर्वांगसुभगे श्रीविद्याविधिमुत्तमम् |
यस्य विज्ञानमात्रेण कर्ता हर्ता स्वयं विभुः || १७-३ || अनेन विधिना यत्र श्रीचक्रं क्रमसंयुतम् |
पूज्यते तत्र सकलं वशी कुर्यान्न संशयः || १७-४ || नगरं वशमायाति देशमण्डलमद्रिजे |
योषितः सकला वश्या ज्वलत्कामाग्निपीडिताः || १७-५ || विद्याविमूढहृदयाः साधकन्यस्तमानसाः |
तद्दर्शनेन देवेशि जायन्ते सर्वयोषितः || १७-६ || अक्षमालां समाश्रित्य मातृकावर्णरूपिणीम् |
अथ मुक्ताफलमयी वाङ्मोक्षफलदायिनी || १७-७ || सर्वसिद्धप्रदा नित्यं सर्वराजवशंकरी |
यथा मुक्ताफलमयी तथा स्फटिकनिमीता || १७-८ || रुद्राक्षमालिका मोक्षे सर्वसंपत्समृद्धिदा |
प्रवालमाला वश्ये तु सर्वकार्यार्थसाधिका || १७-९ || माणिक्यमाला फलदा साम्राज्यफलदायिनी |
पुत्रजीवकमाला तु विद्यालक्ष्मीप्रदा सताम् || १७-१० || पद्माक्षमालया लक्ष्मीर्जायते महती परा |
रक्तचन्दनमाला तु सर्वभोगप्रदायिनी || १७-११ || अक्षमालां प्रपूज्याथ चन्दनेन विलेपिताम् |
समाश्रित्य जपेद्विद्यां लक्षमात्रं यदा बुधः || १७-१२ || योषितो भ्रमयन्त्येव मनस्तस्य सुनिश्चलम् |
तदा द्वितीयलक्षं तु प्रजपेत्साधकोत्तमः || १७-१३ || पातालतलनागेन्द्रकन्यकाः क्षोभयन्ति तम् |
तासां कटाक्षजालैस्तु न मोहं याति साधकः || १७-१४ || तदा लक्षत्रयं कुर्यात्साधकः स्थिरमानसः |
तृतीयलक्षे संप्राप्ते द्रावयन्ति सुराङ्गनाः || १७-१५ || अभिमानेन सौन्दर्यात्सौभाग्यमदकारिणः |
साधकं द्रावयन्त्येव ततश्चासौ मनस्थिरः || १७-१६ || तदा लक्षत्रयं साधु सर्वपापनिकृन्तनम् |
एवं लक्षत्रयजपेद् व्रतस्थः स्वस्थमानसः || १७-१७ || संक्षोभयति भूर्लोकस्वर्लोकततलवासिनः |
पुरुषा योषितो वश्याश्चराचरमपि प्रिये || १७-१८ || गोरोचनादिभिर्द्रव्यैश्चक्रराजं समालिखेत् |
अतीव सुन्दरं रम्यं तन्मध्ये प्रतिमां वराम् || १७-१९ || ज्वलन्तीं नामसहितां महाबीजविदभीताम् |
चिन्तयेत्तु ततो देवि योजनानां सहस्रशः || १७-२० || अदृष्टपूर्वा देवेशि श्रुतमात्राऽपि दुर्लभा |
राजकन्याऽथ वा चार्वी भयलज्जाविवजीता || १७-२१ || आयाति साधकं सम्यग्मन्त्रमूढा सती प्रिये |
चक्रमध्यगतो भूत्वा साधकश्चिन्तयेद्यदा || १७-२२ || उद्यत्सूर्यसहस्राभमात्मानमरुणं तथा |
साध्यमप्यरुणीभूतं कृत्वा मन्त्रं जपेद्बुधः || १७-२३ || अनेन क्रमयोगेण स्वयं कन्दर्परूपवान् |
सर्वसौन्दर्यसुभगः कामिनीवल्लभो भवेत् || १७-२४ || सर्वलोकेषु सुभगः सर्वलोकवशंकरः |
सर्वरक्तोपचारैस्तु मुद्रासनद्धविग्रहः || १७-२५ || चक्रं प्रपूरयेद्यस्तु यस्य नाम विदभीतम् |
स भवेद्दासवद्देवि धनाढ्ये वाऽपि भूपतिः || १७-२६ || चक्रमध्यगतं कुर्यान्नाम यस्यास्तु योषितः |
अदृष्टाया महेशानि योनिमुद्राधरो बुधः || १७-२७ || हठादानयते शीघ्रं यक्षिणीं राजकन्यकाम् |
नागकन्यांसाप्सरसं खेचरीं वा सुराङ्गनाम् || १७-२८ || विद्याधरीं दिव्यरूपामृषिकन्यां रिपुस्रियम् |
मदनोद्भवसंतापां स्फुरज्जघनमण्डलाम् || १७-२९ || कामबाणप्रभिन्नान्तःकरणां लोलचक्षुषाम् |
महाकामकलाध्यानयोगात्तु सुरवन्दिते || १७-३० || क्षोभयेत्स्वर्गभूर्लोकपातालतलयोषितः |
रोचनाभागमेकं तु भागमेकं तु कुङ्कुमम् || १७-३१ || अथ भागद्वयं देवि चन्दनं मर्दयेत्समम् |
एकत्र तिलकं कुर्यात् त्रैलोक्यवशकारिणम् || १७-३२ || अष्टोत्तरशतावृत्त्या मन्त्रयित्वा वशं नयेत् |
राजानं नगरं ग्रामं तेन यद्यत्प्रद्दश्यते || १७-३३ || मन्त्रिणा परमेशानि तत्सर्वं तस्य वश्यगम् |
ताम्बूलं धूपमुदकं पत्रं पुष्पं फलं दधि || १७-३४ || दुग्धं घृतं चूर्णमन्नं वस्त्रं कर्पूरमेव च |
कस्तूरी घुसृणं चैलां लवङ्गं जातिपत्रकम् || १७-३५ || फलं वा वस्तु यद्यत्तु सकलं परमेश्वरि |
शतमष्टोत्तरं जप्त्वा यस्मै कस्मै प्रयच्छति || १७-३६ || स वश्यो जायते देवि नात्र कार्या विचारणा |
स्त्रियस्तु सकला वश्या दासीभूता भवन्ति हि || १७-३७ || जगत्कर्षणमेतत्तु कथितं नान्यथा भवेत् |
रहस्यस्थानके मन्त्री लिखेद्रोचनया भुवि || १७-३८ || चारुशृङ्गारवेषाढ्यां सर्वाभरणभूषिताम् |
प्रतिमां सुन्दरां गीतां विलिख्य सुमनोहराम् || १७-३९ || तद्भालकण्ठहृन्नाभिजन्ममण्डलयोजिताम् |
जन्मनाममहाविद्यामङ्कुशान्तवीदभीताम् || १७-४० || सर्वसन्धिषु देहस्य मदनाक्षरमालिखेत् |
लीनं दाडिमपुष्पाभं चिन्तयेद्देहसन्धिषु || १७-४१ || तदाशाभिमुखो भूत्वा स्वयं देवीस्वरूपकः |
मुद्रां तु क्षोभिणीं बद्ध्वा मन्त्रमष्टशतं जपेत् || १७-४२ || नियोज्य मदनागारे चन्द्रसूर्यकलात्मके |
ततो विकलसर्वाङ्गी कामबाणैः प्रपीडिताम् || १७-४३ || अनन्यमानसां प्रेमभ्रममाणानां मदालसाम् |
एवमाकर्षयेन्नारीं योजनानां शतादपि || १७-४४ || मातृकां विलिखेच्चक्रबाह्यतः सकलां प्रिये |
भूर्जपत्रे स्वर्णपत्रे रौप्यपत्रेऽथ ताम्रजे || १७-४५ || अवध्यः सर्वजन्तूनां व्याघ्रादीनां विशेषतः |
तथैव मातृकायुक्तस्वसंज्ञाचक्रमण्डितः |
कर्पूरकुङ्कुमाद्यैस्तु अजरामरतां लभेत् || १७-४६ || अनेन विधिना देवि रोचनागरुकुङ्कुमैः || १७-४७ || विलिखंश्चक्रयोगेण साध्यनाम वरानने |
विदभीतं स्वनाम्ना तु यस्मिन्कस्न्निपि स्थितम् || १७-४८ || स्थावरं जङ्गमं चापि सकलं जनमण्डलम् |
वशी कुर्यान्महेशानि पादाक्रान्तं न संशयः || १७-४९ || महात्रिपुरसुन्दर्याः कामकूटेन भास्वता |
एकमेकमवष्टभ्य साध्यनामाक्षराणि च || १७-५० || बहिरप्यखिलैर्वर्णैर्मातृकायाः प्रवेष्टयेत् |
हेममध्यगतं कुर्याच्छिखायां वामके भुजे || १७-५१ || धारयेद्यत्र कुत्रापि त्रैलोक्यवशकारकम् |
राजेन्द्रमपि देवेशि दासभूतं करोति हि || १७-५२ || राजानो वाजिनः सर्पा गजा दुष्टा मदोत्कटाः |
व्याघ्राः केसरिणो मत्ता वश्यास्तस्य भवन्ति हि || १७-५३ || पूर्वक्रमेण नगरनाम संदर्भ्य शैलजे |
मध्ये चतुष्पथे वाऽपि चतुदीक्षु निधापयेत् || १७-५४ || महाक्षोभो योषितां तु जनानां महतामपि |
तथैव सर्वदुष्टानां पुरस्थानां च जायते || १७-५५ || एतन्मध्यगतां पृथ्वीं सशैलवनगह्वराम् |
ज्वलन्तीं सर्वराजेन्द्रमण्डितां सागराम्बराम् || १७-५६ || मासषट्कं चिन्तयेद्यः साक्षात्कामोपमो भवेत् |
कटाक्षक्षेपमात्रेण नार्यस्तस्य वशाः प्रिये || १७-५७ || राजानो ब्राह्मणा वैश्याः शूद्राश्च पशवो जगत् |
दृष्ट्वा त्वाकर्षयेद्देवि त्रैलोक्यं सचराचरम् || १७-५८ || सपत्नान्नाशयेद्दृष्ट्वा नात्र कार्या विचारणा |
भूतप्रेतपिशाचांश्च ज्वरांश्चातुथीकादिकान् || १७-५९ || शूलगूल्मादिरोगांश्च दृष्ट्वा नाशयते क्षणात् |
एतत्सिन्दूरसुभगं रात्रौ संपूजितं प्रिये || १७-६० || योजनानां शताद्वाऽपि सम्यगाकर्षयेस्रियम् |
यदा दिक्षु विदिक्ष्वेवं दिविष्ठानपि सुन्दरि || १७-६१ || वशमानयते शीघ्रं सपुत्रपशुबान्धवान् |
भूर्जपत्रे समालिख्य रोचनागरुकुङ्कुमैः || १७-६२ || तन्मध्ये नगर देशं मण्डलं खण्डमेव च |
नाम्ना विदभीतं स्वस्य पूजयित्वा यथाविधि || १७-६३ || भूमिमध्यगतं कृत्वा त्रैलोक्यं वशमानयेत् |
अथ वा धारयेत्कण्ठे शिखायां बाहुमूलके || १७-६४ || यत्र कुत्र स्थितं भद्रे क्षोभयेन्नगरं महत् |
अर्कक्षीरेण संयुक्तं धत्तूरकरसं तथा || १७-६५ || रोचनाकुङ्कुमे चैव लाक्षालक्तकसंयुतम् |
कस्तूरीचन्द्रसंयुक्तमेकीकृत्य ततः परम् || १७-६६ || चक्रमेतत्समालिख्य यस्य नाम्ना महेश्वरि |
तस्य व्याघ्रगजव्याधिरिपुसर्पभयादिकम् || १७-६७ || चोरग्रहजलारिष्टशाकिनीडाकिनीभयम् |
भयं न विद्यते देवि परमन्त्राभिचारजम् || १७-६८ || नित्यं संधारयेद्देवि कालमृत्युं विनाशयेत् || १७-६९ || अथवा मध्यगां देवीं त्रिकोणोभयमध्यगाम् |
अथ स्वनामसंयुक्तां रोचनाकुङ्कुमाङ्किताम् || १७-७० || निधापयेच्च सप्ताहाद्दासवत्ंकिकरो भवेत् |
पीतद्रव्यैः समालिख्य पीतपुष्पैः समर्चयेत् || १७-७१ || पूर्वाशाभिमुखो भूत्वा स्तम्भयेत्सर्ववादिनः |
सहस्रवदनो देवि मूढो भवति तत्क्षणात् || १७-७२ || नाम्ना यस्य स वाग्ग्मी हि पाषाण इव जायते |
चक्रं विलिख्य देवेशि महानीलीरसेन तु || १७-७३ || नाम संयोज्य विधिवद्दक्षिणाभिमुखो बुधः |
वह्नौ दग्ध्वा महेशानि मारणं वैरिणां प्रिये || १७-७४ || महिषाश्वपुरीषाभ्यां सम्यगाधृष्य शैलजे |
गोमूत्रेण च संलिख्य नामसंदर्भ्य पूर्ववत् || १७-७५ || क्षिप्त्वाऽऽरनालमध्यस्थं विद्वेषणकरं भवेत् |
कृत्वा रोचनया नाम काकपक्षस्य मध्यगम् || १७-७६ || लम्बमानं तदाकाशे शत्रूच्चाटनकारकम् |
महानीलीरोचनाभ्यां दुग्धलाक्षारसेन हि || १७-७७ || विलिख्य धारयेन्मन्त्री सर्ववर्णान्वशं नयेत् |
अनेनैव विधानेन स्थापयेद्वारिमध्यगम् || १७-७८ || तेनोदकेन संस्नातः पीतं तत्सर्ववश्यकृत् |
सौभाग्यं जायते तेन पानीयेन न संशयः || १७-७९ || एतन्मध्यगतां पृथ्वीं नगरीं वा सुलोचने |
सप्ताहात्क्षोभयेत्सम्यग्ज्वलमानां विचिन्तयेत् || १७-८० || अथ वक्ष्ये महेशानि महापातकनाशनम् |
शिवां संपूजयेद्देवि सुगन्धैः कुसुमैः प्रिये || १७-८१ || महापातकयुक्तात्मा तत्क्षणात्पापहा भवेत् |
शमीदूर्वाङ्कुराश्वत्थपलाशैरथ वाऽर्कजैः || १७-८२ || मासेन हन्ति कलुषं सप्तजन्मकृतं नरः |
पूर्वाशाभिमुखो भूत्वा पीतद्रव्यैः समर्चयेत् || १७-८३ || पीतस्थाने समालिख्य स्तम्भयेत्सर्ववादिनः |
उत्तराशामुखो भूत्वा सिन्दूररजसा लिखेत् || १७-८४ || पूजयेद्विधिवद्विद्वान् सर्वलोकं वशं नयेत् |
पश्चिमाभिमुखो भूत्वा चन्दनेन समालिखेत् || १७-८५ || संपूज्य विधिवद्विद्वान् सर्वयोषिन्मनो हरेत् |
वल्लभो जायते देवि दासीमिव वशं नयेत् || १७-८६ || यमाशाभिमुखो भूत्वा चक्रे कृष्णं यदाऽर्चयेत् |
यस्य नामाङ्कितं तस्य मन्त्रहानिः प्रजायते || १७-८७ || अग्निराक्षसवायव्यशम्भुकोणेषु पूजितम् |
पूर्ववत्परमेशानि क्रमेण परिपूजितम् || १७-८८ || स्तम्भविद्वेषणव्याधिशत्रूच्चाटकरं भवेत् |
रोचनालिखितं चक्रं क्षीरमध्ये क्षिपेद्बुधः || १७-८९ || सर्ववश्यकरं देवि भवत्येव न संशयः |
गोमूत्रमध्यगं सम्यक्शत्रूच्चाटकरं भवेत् || १७-९० || तैलस्थं चक्रराजं तद्विद्वेषणकरं भवेत् |
ज्वलज्ज्वलनमध्यस्थं शत्रुनाशकरं भवेत् || १७-९१ || यदेकान्ते चतुर्मार्गे सिन्दूररजसा लिखेत् |
सर्वबाह्यत आरभ्य यावन्मध्यं महेश्वरि || १७-९२ || आकारादिक्षकारान्तां मातृकां तत्र विन्यसेत् |
पूजयेद्रात्रिसमये कुलाचारक्रमेण तु || १७-९३ || साधकः खेचरो देवि जायते नात्र संशयः |
गिरावेकतरौ तद्वदर्चयेत्कुलमार्गतः || १७-९४ || अजरामरतां लब्ध्वा सुखी भवति मान्त्रिकः |
श्मशाने पूजयेच्चक्रं महाभूतदिने बुधः || १७-९५ || पूर्वक्रमेण विधिवत्साधकः स्थिरमानसः |
खड्गसिद्धिं च मनःसिद्धिं च गुटिकामपि || १७-९६ || पादुकां वेतालसिद्धिं च मनःसिद्धिं च धातुदाम् |
महाविवरसिद्धिं च यक्षिणीचेटकोद्भवाम् || १७-९७ || सर्वं तल्लभते मन्त्री नात्र कार्या विचारणा |
अथ वक्ष्ये महेशानि श्रीविद्यापूजनं महत् || १७-९८ || ब्रह्महत्यादिदोषाणां पुरश्चरणमुत्तमम् |
रक्तपद्मैर्महेशानि पूजयेच्चक्रमुत्तमम् || १७-९९ || समस्तरश्मिसहितं नित्याम्नायपुरस्कृतम् |
कुलाचारक्रमाद्देवि कर्पूरक्षोदमण्डितम् || १७-१०० || मासमात्रेण देवेशि महापातककोटयः |
जन्मान्तरकृता सर्वा नाशयेन्नात्र संशयः || १७-१०१ || लक्ष्मीस्तस्य गृहे रम्या सुस्थिरा सुरवन्दिते |
जपापुष्पैर्महेशानि पूर्ववत्पूजयेच्छिवाम् || १७-१०२ || मासमात्रं क्रमेणैव पूर्ववत्परमेश्वरि |
ब्रह्महत्यादिपापांश्च पूर्वजन्मकृतान्प्रिये || १७-१०३ || नाशयेन्नात्र संदेहो धनवाञ्जायते बुधः |
केतकैस्तरुणैः पत्रैः पूर्ववत्पूजयेत्प्रिये || १७-१०४ || उपपातकसंघांश्च मासमात्रेण नाशयेत् |
सौभाग्यमतुलं तस्य जायते नात्र संशयः || १७-१०५ || शतपत्रैर्मनोरम्यैः पूजयेन्मासमात्रकम् |
पूर्ववत्परमेशानि पूर्वपापं विनाशयेत् || १७-१०६ || चम्पकैः सुमनोरम्यैः पूर्ववत्पूजयेच्छिवाम् |
मासमात्रेण हन्त्येव पातकाञ्शतजन्मजान् || १७-१०७ || सौभाग्यवान्भवेन्मन्त्री त्रिपुरायाः प्रसादतः |
श्वेतपद्मैर्महेशानि महद्भिः पूजयेत्पराम् || १७-१०८ || पूर्ववन्नाशयेत्पापं विंशज्जन्मभवं प्रिये |
मासमात्रेण सकलं मोक्षस्तस्य करे स्थितः || १७-१०९ || बन्धूककुसुमैर्देवि मासमात्रं प्रपूजयेत् |
त्रैलोक्यं वशगं तस्य पूर्वपापं दहेद्बुधः || १७-११० || बिल्वपत्रैश्च जलजैः सहैव परिपूजयेत् |
पूर्ववत्परमेशानि मासमात्रं प्रसन्नधीः || १७-१११ || समृद्धिमान् भवेद्देवि सर्वपापहरः सदा |
मल्लिकामालतीजातीकुन्दैश्च शतपत्रकैः || १७-११२ || श्वेतोत्पलैमीश्रितैस्तु पूजयेन्मासमात्रकम् |
कुलाचारक्रमेणैव पातकं शतजन्मजम् || १७-११३ || ब्रह्महत्यादिजनितं नाशयेन्नात्र संशयः |
मुक्तिस्तस्य करे देवि वाचा जीवसमो भवेत् || १७-११४ || अगस्त्यबाणबन्धूकजपारक्तोत्पलैः प्रिये |
पूर्वक्रमेण संपूज्य मासमात्रं प्रसन्नधीः || १७-११५ || पातकं नाशयेन्मन्त्री साक्षात्कामसमो भवेत् |
चम्पकैः पाटलैर्दैवि बकुलैर्नागकेसरैः || १७-११६ || कह्लारैः सिन्दुरै रम्यैः पूर्ववत्पूजयेत्क्रमात् |
सौभाग्यमतुलं तस्य मासमात्रेण जायते || १७-११७ || पापं विनाशयेद्देवि यदि जन्मसहस्रजम् |

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे श्रीविद्याप्रयोगविधिर्नाम सप्तदशः पटलः || १७ ||

Paṭala 18

अथाष्टादशः पटलः


ईश्वर उवाच --

रत्नपूजाविधानं तु कथयामि तवानघे |
पुष्पाणि रचयेद्देवि माणिक्यरचितानि हि || १८-१ || तैस्तु पूजा प्रकर्तव्या चक्रराजस्य पूर्ववत् |
नानापुष्पैः सुगन्धैश्च कर्पूरक्षोदचन्दनैः || १८-२ || एकविंशतिरात्रेण विंशतिं धरणीभुजाम् |
दासीभूतां करोत्येव महारोगांश्च नाशयेत् || १८-३ || सूर्यवत्कान्तिमान्मन्त्री जायते नात्र संशयः |
मुक्तारत्नैश्च रचयेत्स्वर्णपुष्पाणि सुन्दरि || १८-४ || तैस्तु पूजा प्रकर्तव्या नानापुष्पैश्च पूर्ववत् |
एकविंशतिरात्रेण राजपत्न्यो वशाः प्रिये || १८-५ || कलाकान्तियुतो देवि जायते सुभगः क्षितौ |
प्रवालघटितैः स्वर्णपुष्पैस्तु बहुभिर्यजेत् || १८-६ || पूर्ववत्परमेशानि कुलाचारक्रमेण तु |
पुष्पैश्च विविधैर्देवि त्रिःसप्ताहात्सुरेश्वरि || १८-७ || क्रूरास्तस्य वशाः सर्वे वैरिवर्गान्विनाशयेत् |
तथा मरकतक्षिप्तस्वर्णपुष्पैस्तु पूजयेत् || १८-८ || एकविंशतिरात्रेण नानापुष्पैः क्रमं यजेत् |
विबुधास्तस्य वरदा वैरी नश्यति नान्यथा || १८-९ || पुष्परागमहारत्नघटितैः स्वर्णनिमीतैः |
कुसुमैः पूजयेच्चक्रं त्रिःसप्ताहात्सुरेश्वरि || १८-१० || सुरास्तस्य वशा देवि बृहस्पतिसमो भवेत् |
सुवर्णरचितैः पुष्पैर्वज्रकेयूरराजितैः || १८-११ || एकविंशतिरात्रेण मोहयेज्जगतीमिमाम् |
दैवदैत्या वशास्तस्य जायन्ते नात्र संशयः || १८-१२ || इन्द्रनीलमयैः स्वर्णपुष्पैश्चक्रं समर्चयेत् |
एकविंशतिरात्रेण तथा नीलैश्च नीरजैः || १८-१३ || वैरिणो नाशमायान्ति शेषा वश्या भवन्ति हि |
गोमेदेघटितैः पुष्पैः सुवर्णस्य यजेद्बुधः || १८-१४ || किंशुकैश्च कुसुमैश्च पूर्ववत्परमेश्वरि |
सप्ताहाद्वैरिणो वश्या घातस्तेषु प्रजायते || १८-१५ || त्रिःसप्ताहान्महापापसंचयं नाशयेत्प्रिये |
क्रव्यादजीवा वश्या हि भवन्त्येव न संशयः || १८-१६ || वैदूर्यघटितैः स्वर्णपुष्पैरभ्यर्चयेत्क्रमम् |
चम्पकादिभिरभ्यर्च्य त्रैलोक्यं स्तम्भयेत्क्षणात् || १८-१७ || एकविंशतिभिर्वारैः सर्वपापहरो भवेत् |
पुष्पैः पर्युषितैर्देवि नार्चयेत्स्वर्णजैरपि || १८-१८ || निर्माल्यभूतैः कुसुमैरुच्छिष्टैः परमेश्वरि |
नवरत्नमयैः स्वर्णपुष्पैर्यदि शिवांं यजेत् || १८-१९ || तदा देवा मनुष्याश्च पन्नगा राक्षसादयः |
सर्वे वश्या भवन्त्येव त्रिःसप्ताहान्न संशयः || १८-२० || जन्मकोटिभवं पापं नाशयेन्नात्र संशयः |
स्वर्णरत्नमयैः पुष्पैर्नवरत्नैः प्रपूजयेत् || १८-२१ || तदाऽश्वमेधदशकं कृतं भवति शैलजे |
स्वर्णरत्नादिपूर्णत्वं यदा नास्ति तदा शृणु || १८-२२ || तैरेव पुष्पैः पूजा तु कर्तव्या साधकोत्तमैः |
यद्यत्पुष्पं यत्र यत्र दत्तं तत्तत्सुरेश्वरि || १८-२३ || तत्र तत्र प्रदातव्यं न दातव्यं यथेच्छया |
अलंकारस्वरूपेण पूजयेच्चक्रनायकम् || १८-२४ || केवलं स्वर्णपुष्पैस्तु त्रैलोक्यं स्तम्भयेच्छिवे |
मासमात्रेण पापानि सप्तजन्मभवान्यपि || १८-२५ || नाशयेन्मोहयेत्सर्वां समुद्रवलयां धराम् || १८-२६ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे श्रीविद्यास्वर्णरत्नपूजाविधि-- विवरणं नामाष्टदशकः पटलः || १८ ||

Paṭala 19

अथैकोनविंशः पटलः


श्रीदेव्युवाच --

त्रिपुरा परमा शक्तिस्त्रैलोक्यवशकारिणी |
एतस्याः परमानन्दसाधनं कथय प्रभो || १९-१ || बीजत्रयस्य देवेश यद्यहं तव वल्लभा |

ईश्वर उवाच --

एषा विद्या वरारोहे पारम्पर्यक्रमागता || १९-२ || भवबन्धं घातयन्ती संस्मृता पापहारिणी |
जपान्मृत्युञ्जयेशानि ध्याता सर्वार्थसाधिका || १९-३ || दुःखदौर्भाग्यदारिद्र्यभयघ्नी पूजिता भवेत् |
विघ्नौघशमनी चैव हवनान्नात्र संशयः || १९-४ || पृथग्बीजत्रयस्याहं साधनं कथयामि ते |
शुभ्राम्बरपरीधानो गन्धकर्पूरमण्डनः || १९-५ || मुक्ताफलस्फुरद्रूपभूषणः शुभ्रमाल्यधृत् |
शुभ्रमन्दिरसंविष्टो ब्रह्मचर्यसमन्वितः || १९-६ || पूजयेच्छुभ्रकुसुमैर्नैवेद्यमपि सूज्ज्वलम् |
पायसं घृतसंपन्नं तथाऽमृतफलौदनम् || १९-७ || घृतमोदकसंपन्नं नानाशुभ्रान्नपूरितम् |
नैवेद्यं दर्शयेद्देव्यै वागीश्वर्यै सुरेश्वरि || १९-८ || उपचारैः सुशुभ्रैश्च साधयेन्मोक्षवाङ्मयम् |
वाग्भवाख्यां जपेद्विद्यां वागीशीं संस्मरन्बुधः || १९-९ || कर्पूरधवलां शुभ्रपुष्पाभरणभूषिताम् |
अत्यन्तशुभ्रवसनां वज्रमौक्तिकभूषणाम् || १९-१० || मुक्ताफलामलमणिजपमालालसत्कराम् |
पुस्तकं वरदानं च दधतीमभयप्रदाम् || १९-११ || एवं ध्यायेन्महेशानि सर्वविद्याधिपो भवेत् |
मूलादिब्रह्मरन्ध्रान्तं स्रवत्पीयूषवषीणीम् || १९-१२ || तस्माज्ज्योतिर्मयीं ध्यायेज्जिह्वां दीपस्वरूपिणीम् |
पाषाणेन समो वाऽपि मूर्खो जीवसमो भवेत् || १९-१३ || अथ कामकलाशक्तिसाधकः परमेश्वरि |
रक्तालंकारसुभगो रक्तगन्धानुलेपनः || १९-१४ || रक्तवस्त्रावृतः सम्यङ्मध्ये कामकलात्मना |
रक्तपुष्पैश्च विविधैः कुङ्कुमादिभिरर्चयेत् || १९-१५ || मूलादिब्रह्मपर्यन्तं स्फुरद्दीपस्वरूपिणीम् |
बन्धूककुसुमाकारकान्तिभूषणभूषिताम् || १९-१६ || इक्षुकोदण्डपुष्पेषुवरदाभयसत्कराम् |
तदीयकायसिन्दूरभरितं भुवनत्रयम् || १९-१७ || चिन्तयेत्परमेशानि त्रैलोक्यं मोहयेत्क्षणात् |
राजानो वशमायान्ति पन्नगा राक्षसाः सुराः || १९-१८ || कन्दर्प इव देवेशि योषितां मानहारकः |
मनश्चिन्तितयोषित्तु दासीव वशगा भवेत् || १९-१९ || चलच्चलेन्दुसंकाशां तरुणारुणविग्रहाम् |
चिन्तयेद्योषितां योनौ क्षोभयेत्सुरसुन्दरीः || १९-२० || किं पुनर्मानुषीर्देवि त्रैलोक्यमपि मोहयेत् |
एषैव चिन्तिता देवी सिन्दूराभा हृदि क्षणात् || १९-२१ || आकर्षयेत्तदा शीघ्रं रम्भां वाऽपि तिलोत्तमाम् |
रक्तवर्णां स्त्रियं ध्यात्वा तदीयसहसत्तमः (?) || १९-२२ || तस्या र्मूध्नि स्मरेद्बीजान्स्रवत्पीयूषवषीणीम् |
ध्यायन्संमोहयेद्देवि मदनोत्तप्तमानसाम् || १९-२३ || क्षणमात्रेण वेशि त्रैलोक्यं वशमानयेत् |
एतत्कामकलाध्यानात्पञ्च कामा वरानने || १९-२४ || मोहयन्ति जगत्सर्वं प्रयोगं शृणु पार्वति |
पूर्वोक्तकामा देवेशि ज्ञातव्याः पञ्चसंज्ञकाः || १९-२५ || विदर्भ्याद्येन कामेन मन्मथान्तर्गतं कुरु |
कन्दर्पसंपुटं कृत्वा कोणगर्भगतं ततः || १९-२६ || मकरध्वजसंज्ञं तु सर्वमेतद्वरानने |
मीनकेतुगतं कुर्यान्मोहयेज्जगतीमिमाम् || १९-२७ || त्रैलोक्यमोहनं नाम योगोऽयं परिकीतीतः |
शृणु देवि प्रवक्ष्यामि शक्तिबीजस्य साधनम् || १९-२८ || सृष्टिसंहारपर्यन्तं शरीरे चिन्तयेत्पराम् |
स्रवत्पीयूषधाराभिर्वर्षन्तीं विषहारिणीम् || १९-२९ || हेमप्रभाभासमानां विद्युन्निकरसुप्रभाम् |
स्फुरच्चन्द्रकलापूर्णकलशं वरदाभयौ || १९-३० || ज्ञानमुद्रां च दधतीं साक्षादमृतरूपिणीम् |
ध्यायन्विषं हरेन्मन्त्री नानाकारव्यवस्थितम् || १९-३१ || एतस्याः स्मरणाद्देवि नीलकण्ठत्वमागतः |
अहं मृत्युञ्जयो भूत्वा विचरामि जले स्थले || १९-३२ || वैनतेयसमो मन्त्री विषभारसहस्रनुत् |
भूतप्रेतपिशाचांश्च नाशयेद्रोगसंचयम् || १९-३३ || चातुथीकज्वरान्सर्वानपस्मारांश्च नाशयेत् |
अथ त्रिकूटा सम्पूर्णा महात्रिपुरसुन्दरी || १९-३४ || चिन्तिता साधकस्याऽऽशु त्रैलोक्यवशकारिणी |
क्रमेण नाभिहृद्वक्त्रमण्डलस्थाऽरुणप्रभा || १९-३५ || पद्मरागमणिस्वच्छा चिन्तनात्सुरवन्दिते |
तस्याष्टगुणमैश्वर्यं सौभाग्यं च प्रजायते || १९-३६ || तन्नाम संस्मरन्मन्त्री योगिनीनां भवेत्प्रियः |
मातृचक्रं तस्य काये तेन सार्धं सुखी भवेत् || १९-३७ || पुत्रवान् देवदेवेशि मन्त्री ध्यानान्न संशयः |
यदा चक्रस्थिता पूर्णा खेचरी सिद्धिदायिनी || १९-३८ || चतुःषष्टिर्यतः कोट्यो योगिनीनां महौजसाम् |
चक्रमेतत्समाराध्य संस्थिता वीरवन्दिते || १९-३९ || आदौ संबन्धिनि पदे बीजाष्टकं बहिः |
कलां ध्यात्वाऽङ्गनासङ्गे कामराज इवापरः || १९-४० || पाशाङ्कुशधनुर्बाणैर्मादनैर्मोहयेत्प्रिये |
त्रैलोक्यसुन्दरीं देवीं किं पुनर्मर्त्ययोषितः || १९-४१ || तथैव शक्तिसंबन्धशस्त्रैस्तन्मयविग्रहः |
सिद्धगन्धर्वदेवांश्च वशी कुर्यान्न संशयः || १९-४२ || एतामाराध्य देवेशि कामः सौभाग्यसुन्दरः |
हरिश्च परमेशानि त्रिपुरासाधनात्प्रिये || १९-४३ || त्रैलोक्यमोहनो भूत्वा स्थितिकर्ताऽभवत्सदा |
एतत्समाराधनेन ब्रह्मा सृष्टिकरोऽभवत् |
चन्द्रसूर्यौ वरारोहे सृष्टिसंहारकारकौ || १९-४४ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रेत्रिपुराबीजत्रयसाधनविधि-- र्नामैकोनविंशः पटलः || १९ ||

Paṭala 20

अथ विंशः पटलः


श्रीदेव्युवाच --

जपहोमविधिं ब्रूहि येन विघ्नं विनाशयेत् |
साधकानां हिताय त्वं वद शंकर सुव्रत || २०-१ ||

ईश्वर उवाच --

शृणु देवि प्रवक्ष्यामि जपहोमविधिं प्रिये |
चक्रं समर्चयेद्देवि सकलं नियतव्रतः || २०-२ || बाह्यं मध्यगतं वाऽपि मध्यं वा चक्रमर्चयेत् |
उपचारैः समाराध्य सहस्रं प्रजपेच्छुचिः || २०-३ || तदग्रे संस्थितो मन्त्री तदनन्तफलं भवेत् |
ध्यात्वाऽथ वा चक्रराजमत्र पूजासमन्वितम् || २०-४ || जपारम्भं सुधीः कुर्यान्महापातकहा भवेत् |
निगदेनोपांशुना वा मानसेनाथ वा जपेत् || २०-५ || निगदः परमेशानि स्पष्टवाचा निगद्यते |
अव्यक्तस्तु स्फुरद्वक्त्र उपांशुः परिकीतीतः || २०-६ || मानसस्तु वरारोहे चिन्तनाक्षररूपवान् |
निगदेन तु यज्जप्तं लक्षमात्रं वरानने || २०-७ || उपांशुस्मरणेनैव तुल्यं भवति शैलजे |
उपांशु लक्षमात्रं तु यज्जप्तं कमलेक्षणे || २०-८ || मानसोच्चारणात्तुल्यमेकेन परमेश्वरि |
मुद्रासंनद्धदेहः सन्पूर्वोक्तध्यानयोगतः || २०-९ || लक्षमात्रं जपेद्यस्तु महापापैः प्रमुच्यते |
लक्षद्वयेन पापानि सप्तजन्मभवान्यपि || २०-१० || महापातकमुख्यानि नाशयेन्नात्र संशयः |
ततो लक्षत्रयं जप्त्वा यस्तु मन्त्रं कुलेश्वरि || २०-११ || महापातककोटीस्तु नाशयेन्नात्र संशयः |
चतुर्लक्षं जपेद्देवि स हि वागीश्वरो भवेत् || २०-१२ || कुबेर एव देवेशि पञ्चलक्षान्न संशयः |
षड्लक्षजपमात्रेण महाविद्याधरो भवेत् || २०-१३ || सप्तलक्षजपान्मन्त्री खेचरीमेलको भवेत् |
अष्टलक्षजपान्मन्त्री देवपूज्यो भवेन्नरः || २०-१४ || अणिमाद्यष्टसिद्धीनां नायको भवति प्रिये |
वशगास्तस्य राजानो योषितस्तु विशेषतः || २०-१५ || नवलक्षप्रमाणं तु जपेत् त्रिपुरसुन्दरीम् |
रुद्रमूतीः स्वयं कर्ता हर्ता साक्षान्न संशयः || २०-१६ || सर्ववन्द्यः सदा सर्वस्वस्थः सौभाग्यभाग्भवेत् |
यत्र वा कुवचिद्भागे लिङ्गं यत्पश्चिमामुखम् || २०-१७ || स्वयंभूबाणलिङ्गं वा वृषशून्यं जलस्थितम् |
पश्चिमायतनं चापि इतरद्वाऽपि सुव्रते || २०-१८ || शक्तिक्षेत्रेषु गङ्गायां नद्यां पर्वतमस्तके |
पवित्रे सुस्थले देवि जपेद्विद्यां प्रसन्नधीः || २०-१९ || तत्र स्थित्वा जपेल्लक्षं साक्षाद्देवीस्वरूपकः |
ततो भवति विद्येयं त्रैलोक्यवशकारिणी || २०-२० || एवं जपेद्यथाशक्ति होमकर्म समारभेत् |
किंशुकैर्हवनं कुर्याद्दशांशेन वरानने || २०-२१ || कुसुम्भकुसुमैर्दैवि मधुत्रयविमिश्रितैः |
विधिनोक्तप्रकारेण विघ्नौघं नाशयेत्क्षणात् || २०-२२ || सर्वकामप्रदा राज्यभुक्तिमुक्तिफलप्रदा |
कुण्डं विरच्य विधिवत्सर्वलक्षणलक्षितम् || २०-२३ || योनिकुण्डं वाक्प्रदं स्यादाकृष्टिकरणं भगम् |
लक्ष्मीप्रदं वर्तुलं स्याच्चन्द्रार्धे हि त्रयं भवेत् || २०-२४ || नवत्रिकोणकुण्डं तु खेचरीसिद्धिदायकम् |
चतुरस्रं शान्तिलक्ष्मीपुष्टिवृद्ध्यम्बुकारणम् || २०-२५ || षडस्रं सर्वसंपत्तिधनसौभाग्यवर्धनम् |
पद्माङ्कं सर्वसंपत्तिकारणं सुरवन्दिते || २०-२६ || अष्टपत्रं वरारोहे समीहितफलप्रदम् |
एतानि सर्वकार्याणि चतुरस्रे भवन्ति हि || २०-२७ || शृणु देवि प्रवक्ष्यामि चतुरस्रस्य लक्षणम् |
चतुरस्रं समं हस्तमात्रं विरचयेत्सुधीः || २०-२८ || मेखलासहितं देवि शृणु लक्षणमुत्तमम् |
पञ्चदशाङ्गुलं खातं रमणीयं यथा भवेत् || २०-२९ || कण्ठदेशेऽङ्गुलं त्यक्त्वा नवाङ्गुलसमुन्नता |
षडङ्गुलप्रविस्तारा मेखला प्रथमा भवेत् || २०-३० || द्वितीया मेखला देवि चतुरङ्गुलविस्तरा |
सप्ताङ्गुलोच्चा कर्तव्या तृतीया मेखला ततः || २०-३१ || पञ्चाङ्गुलोच्चा देवेशि विस्तारे द्व्यङ्गुला भवेत् |
वेदाग्निपक्षविस्तारा कर्तव्या मेखला प्रिये || २०-३२ || कर्तव्यमथ वा खातं द्वादशाङ्गुलसंमितम् |
द्वादशाष्टतदर्धैस्तु मेखला देवि कारयेत् || २०-३३ || चतुरङ्गुलमायामो तथा चैवोच्चता भवेत् |
कुण्डस्य पश्चिमे भागे योनिं कुर्यात्सुलक्षणाम् || २०-३४ || द्वादशाङ्गुलदीर्घी तु तथाऽष्टाङ्गुलविस्तराम् |
अश्वत्थपर्णरूपां तु त्रिकोणां वा विचक्षणः || २०-३५ || अथ चैकतमे पक्षे शृणु वक्ष्ये हि लक्षणम् |
अष्टादशाङ्गुलं खातं कुण्डं कुर्याद्विचक्षणः || २०-३६ || चतुरङ्गुलविस्तारा षडङ्गुलसमुन्नता |
मेखला पूर्ववत्कार्या योनिश्चापि तथा भवेत् || २०-३७ || चतुवींशाङ्गुलं कुण्डं त्रिकोणं परितः पृथक् |
खातं तु पूर्ववत्कुर्यात्कण्ठे हित्वाऽङ्गुलं तथा || २०-३८ || पूर्ववन्मेखलाः कार्या एकाऽपि च तथा भवेत् |
योनिस्तद्वन्महेशानि त्रिकोणं परिकीतीतम् || २०-३९ || चतुरस्रेण कुण्डेन समं कुण्डं यथा भवेत् |
तथा परिमितं कुर्यात्त्रिकोणादिकमद्रिजे || २०-४० || योनिकुण्डं योनिरूपं भगाङ्कं भगरूपकम् |
कुर्यात्त्रिकोणवद्देवि चतुरस्रस्य संख्यया || २०-४१ || चतुर्हस्तमितं सूत्रं वर्तुलाकृति योजयेत् |
वर्तुलं रचयेत्तेन खननं पूर्ववद्भवेत् || २०-४२ || मेखला पूर्ववद्योनिस्तथैव परिकीतीता |
अर्धचन्द्रं तु कुण्डं हि परिवेषक्रमेण च || २०-४३ || चतुर्हस्तमितं कुर्यादर्धचन्द्रं यथा भवेत् |
मेखला योनिसहिता पूर्ववत्परमेश्वरि || २०-४४ || नवत्रिकोणकुण्डं तु कथयामि वरानने |
मध्यचक्रेण सदृशं कुण्डं कुर्याद्विचक्षणः || २०-४५ || मध्यत्रिकोणं देवेशि त्रिकोणमिव पूर्ववत् |
मेखलारहितं तेन नवकोणं यथा भवेत् || २०-४६ || सन्धिभेदक्रमेणैव ततः कोणाष्टकं भवेत् |
खनेत्तत्तत्प्रकारेण गणितेन यथाक्रमम् || २०-४७ || मेखलाः पूर्ववत्कार्यास्त्यक्त्वा कण्ठेऽङ्गुलं क्रमात् |
योनिस्तथैव रचयेत्सर्वसौभाग्यवर्धनी || २०-४८ || अष्टपत्रं महेशानि कमलाकृति संभवेत् |
चतुरस्रस्य मानेन यथा चाष्टदलं भवेत् || २०-४९ || एकत्र खननं चास्य कुर्यान्नेत्रसुखप्रदम् |
मेखला पूर्ववत्कार्या पद्माकृतिसुखावहा || २०-५० || योनिस्तथैव देवेशि कुर्यात्सर्वसमृद्धये |
एवं विरच्य कुण्डं हि होमं कुर्याद्विचक्षणः || २०-५१ || दीपस्थानं समाश्रित्य कुण्डस्य रचना भवेत् |
वर्तुलं रचयेद्देवि कूर्माकृति सुलोचने || २०-५२ || तन्मध्ये नव कोष्ठानि कृत्वा वर्णान्समालिखेत् |
मध्यकोष्ठे क्षेत्रनाम ततोऽन्यत्र समालिखेत् || २०-५३ || स्वरयुग्मं क्रमेणैव दिक्षु चाष्टसु योजयेत् |
अवर्गः कथितो देवि कवर्गादिकसप्तमम् || २०-५४ || पूर्वादक्रमतो देवि कुबेरान्तं ततो लिखेत् |
लक्षवर्णौ शम्भुकोणे विलिखेत्कूर्मसंज्ञके || २०-५५ || यस्मिन्कोष्ठे क्षेत्रनाम तन्मुखं विद्धि पार्वति |
मुखस्य पार्श्वयोः पाणियुग्मं जानीहि पार्वति || २०-५६ || ततः पार्श्वद्वयं कुक्षिस्थानं हि सुरवन्दिते |
ततः पादद्वयं विद्धि चान्ते पुच्छं प्रकीतीतम् || २०-५७ || मुखे कार्याणि सिध्यन्ति मनोरथशतानि हि |
करस्थाने महाक्लेशः सर्वकार्यविनाशकृत || २०-५८ || उदरे दुःखमधिकं पादयोर्हानिरुच्यते |
पुच्छे तु धनहानिश्च जायते नान्यथा भवेत् || २०-५९ || दीपस्थानं मया प्रोक्तं त्रिषु लोकेषु दुर्लभम् |
दीपस्थानं पुरे पश्येद्ग्रामे वा विषयेऽपि वा || २०-६० || यत्र कुत्रापि वा पश्येत्कार्यसिद्धिर्भवेत्प्रिये |
क्षेत्राधिपस्य नाम्ना हि दीपस्थानं विचारयेत् || २०-६१ || दीपस्थाने जपं कुर्याद्धोमं च फलदं सदा |
कुण्डं सुलक्षणं कुर्यादीशाने मण्डपस्य च || २०-६२ || अङ्गुष्ठपर्वमात्रोच्चं वालुकामण्डलं कुरु |
गोमयेन च संलिप्तभूम्यां सुस्थलरूपकम् || २०-६३ || तत्र चोल्लेखनं कुर्यात्त्रिरेखाः पश्चिमाः क्रमात् |
पूर्वाग्रे विलिखेत्पश्चात्तिस्रो रेखाः प्रदक्षिणाः || २०-६४ || उत्तरान्तास्ततो देवि लेखनीं तत्र संक्षिपेत् |
प्रोक्षणं च ततः कृत्वा सिन्दूरेण ततः परम् || २०-६५ || कुङ्कुमेनाथ वा देवि कर्पूररजसाऽथ वा |
चूर्णेन वा हरिद्राया धान्यपिष्टेन वा प्रिये || २०-६६ || त्रिकोणं चैव षट्कोणं वसुपत्रं समालिखेत् |
चतुरस्रं चतुर्द्वारमेवं मण्डलमालिखेत् || २०-६७ || मध्ये पुष्पं विनिक्षिप्य त्रिपुरेश्या वरानने |
ततः स्रुवादिपात्राणां पवित्रीकरणं यजेत् || २०-६८ || इध्मदूर्वाश्च दर्भाश्च द्विधा कृत्वा वरानने |
आज्यस्थालीं चरुस्थालीं स्थापयेद्युग्मभेदतः || २०-६९ || स्रुवं स्रुचं ततः पश्चात्प्रणीतां प्रोक्षणीं क्रमात् |
द्वन्द्वशः परमेशानि स्थापयाधोमुखानि च || २०-७० || अर्ध्यपात्रस्थमुदकं गृहीत्वा प्रोक्षणीं यजेत् |
त्रिधा चोत्पवनं कृत्वा प्रोक्षयेत्तेन वारिणा || २०-७१ || तानि सर्वाणि पात्राणि पवित्रीकरणं भवेत् |
उन्मुखानि ततः कृत्वा बालया चाभिमन्त्रयेत् || २०-७२ || परिस्तीर्य च दूर्वाभिः कुण्डस्य परितः प्रिये |
पूर्वाग्रमुत्तराग्रं च परिस्तरणमुच्यते || २०-७३ || स्रुवं गृहीत्वा वामेन करेण सुमुखं ततः |
दुर्भाङ्कुरेण तद्वक्त्रं पश्चिमात्पूर्वदेशतः || २०-७४ || त्रिवारं परिमृज्याथाधस्तत्करणमानयेत् |
उपरिष्टात्ततो देवि यावद्वक्त्रं तु मन्त्रयेत् || २०-७५ || बालयाऽथ वरारोहे पवित्राणि भवन्ति हि |
मूलविद्यां समुच्चार्य कुण्डाय नम आलिखेत् || २०-७६ || अनेन मनुना देवि कुण्डं सम्पूजयेत्सुधीः |
कामेश्वरीं कुण्डमध्ये सकामामृतुसंयुताम् || २०-७७ || समावाह्य च संपूज्य तद्गर्भे वह्निमानयेत् |
मूलविद्यानेत्रमन्त्रार्णद्वयेन विलोकयेत् || २०-७८ || अस्रमन्त्रेण संरक्ष्य संपुटस्थं ततः परम् |
भ्रामयेत्कुण्डपरितस्त्रिधा दक्षिणतः क्रमात् || २०-७९ || संपुटादग्निखण्डं तु हुंफडन्तेन संत्यजेत् |
क्रव्यादंशं कोणभागे राक्षसे वीरवन्दिते || २०-८० || कवचेन च संपूज्य जानुभ्यामवनिं गतः |
कुण्डमध्ये प्रतिष्ठाप्य कामबीजं च वह्नि च || २०-८१ || मूर्तये नम आलिख्य मनुना पूजयेच्छिवाम् |
नाभिमण्डलदेशस्थवहन्नाडीपुटक्रमात् || २०-८२ || ज्ञानाग्निं बाह्यवह्निं च एकीकृत्य प्रपूजयेत् |
मूलविद्यां समुच्चार्य आंसोहमिति चोच्चरेत् || २०-८३ || वह्निचैतन्यमुच्चार्य ङेन्तं हृन्मन्त्रसंयुतम् |
अनेन मनुना गर्भे कामेश्वर्या विचिन्तयेत् || २०-८४ || वर्ह्नेदेहे षडङ्गानि योजयेत्सुरवन्दिते |
सहस्राचीः स्वस्तिपूर्ण उत्तिष्ठ पुरुषस्तथा || २०-८५ || धूमव्यापी सप्तजिह्वो धनुर्धर उदाहृतः |
चतुर्थ्यन्तान्षडङ्गेषु योजयेत्कमलेक्षणे || २०-८६ || तारं वैश्वानरप्रान्ते जातवेद इहाऽऽवह |
लोहिताक्ष ततः सर्वकर्माणीति च साधय || २०-८७ || वह्निजायान्वितो मन्त्रो वह्निं सम्यक्समर्चयेत् |
ध्यायेद्वह्निं हेमवर्णं शक्तिस्वस्तिकधारिणम् || २०-८८ || वरदायकशोभाढ्यं सुवर्णवरभूषणम् |
एवमग्निं समभ्यर्च्य तन्मुखे कमलेक्षणे || २०-८९ || षट्कोणं चिन्तयेत्तत्र सप्त जिह्वाः समर्चयेत् |
वह्निवायुं वामकर्णं भूषितं नादबिन्दुना || २०-९० || अनेन योजयेद्देवि क्रमेण रसनाः प्रिये |
यकारादिसकारान्ता जिह्वाः सप्त भवन्ति हि || २०-९१ || पद्मरागतप्तहेमवर्णा हि सुरवन्दिते |
हिरण्याख्याः शम्भुकोणे पूजयेत्सुरवन्दिते || २०-९२ || वैदूर्याभा सुवर्णा तु कनकाख्या ततः परम् |
पूर्वकोणे समभ्यर्च्य पूजयेद्रुद्रलोहिताम् || २०-९३ || उद्यदादित्यसंकाशां रक्ताख्यां वह्निकोणके |
नीलां नीलप्रभां देवि कृष्णाख्यां राक्षसे यजेत् || २०-९४ || श्वेतां मुक्ताप्रभां देवि शुभ्राख्यां पश्चिमे यजेत् |
धूमिनीं पद्मरागाभां वायौ रक्ततरां यजेत् || २०-९५ || करालीं चन्द्रकोट्याभां बहुरूपां तु मध्यगाम् |
दक्षिणोत्तरभागस्थां पूजयेत्सर्वसिद्धिदाम् || २०-९६ || क्रमेण जिह्वाबीजान्ते नामानि परिपूजयेत् |
अग्निर्हुतवाहनेऽथ हुताशनेऽथ वर्त्मने || २०-९७ || देवमुखः सप्तजिह्वो वैश्वानरो जातवेदाः |
क्रमेण पूजयेतत्र अष्टौ नामान्यनुक्रमात् || २०-९८ || एवमग्निं तु संपूज्य कामेशीगर्भसंभवम् |
दर्भकङ्कणमादाय करबन्धं सुलोचने || २०-९९ || मूलमन्त्रेण बाणेन चतुर्थेन च होमयेत् |
गर्भाधानं विधायेत्थं सीमन्तोन्नयनादिकम् || २०-१०० || कामेशीगर्भजातस्य वह्नेश्चौलादिसत्क्रियाः |
मूलमन्त्रेण संचिन्त्य बाह्यचक्रं समचंयेत् || २०-१०१ || षट्कोणेषु षडङ्गानि वसुकोणेषु मातरः |
लोकपालांश्च भूबिम्बे वह्निं प्रौढं विचिन्तयेत् || २०-१०२ || ब्रह्माणं दक्षिणेऽभ्यर्च्य घृतस्थालीं प्रपूजयेत् |
वह्निं सम्पूज्य विधिवत्तन्मुखे शैलसंभवे || २०-१०३ || चक्रराजं समावाह्य सर्वरश्मिसमन्वितम् |
सर्वसिंहासनैः सेव्यमुपचारैः समर्चयेत् || २०-१०४ || धूपं विस्तारयेत्सम्यक्कुण्डमण्डपपूरितम् |
दीपं च दर्शयेन्मन्त्री ततो दीपान्बहु प्रिये || २०-१०५ || मालाकारेण संवेष्ट्य मेखलात्रयमाद्रिजे |
विस्तार्य चरुकं पश्चात्सर्वदिक्षु सुखाप्तये || २०-१०६ || नित्यहोमं ततः प्रोक्तं कामनाहोममाचरेत् |
मालतीजातिकामल्लीकुसुमैर्मधुमिश्रितैः || २०-१०७ || घृतपूर्णैर्हुनेद्देवि वागीशत्वं प्रजायते |
मूकस्यापि च मूढस्य शिलारूपस्य नान्यथा || २०-१०८ || जपापुष्पैराज्ययुक्तैः करवीरैस्तथाविधैः |
हवनान्मोहयेन्मन्त्री लोकत्रयनिवासिनः || २०-१०९ || कर्पूरकुङ्कुमे देवि मिश्रं मृगमदेन हि |
हवनान्मदनो देवि मन्त्रिणा विजितो भवेत् || २०-११० || सौभाग्येन विलासेन सामर्थ्येनापि सुव्रते |
चम्पकैः पाटलैर्हुत्वा श्रियं प्रोल्लसिताम्बराम् || २०-१११ || मन्त्री प्राप्नोति महतीं स्तम्भयेज्जगतीभिमाम् |
श्रीखण्डं गुग्गुलं चन्द्रमगरुं होमयेत्ततः |
राजनागेन्द्रदेवानां पुरन्ध्रीर्वशमानयेत् || २०-११२ || सर्वलोका वशास्तस्य भवन्त्येव न संशयः |
लाक्षाहोमाद्भवेद्राज्यं दारिद्र्यभयपीडितः |
दुर्गोपसर्गशमनं पलत्रिमधुहोमतः || २०-११४ || दूरस्थितानां देवेशि गुरुणा प्रोक्तमार्गतः |
होमं कुर्याद्वश्यकामैरन्यथा निष्फलं भवेत् || २०-११५ || रुधिराक्तेन च्छागस्य मांसेन निशि होमतः |
मधुरत्रययुक्तेन गुरुणोक्तविधानतः || २०-११६ || परराष्ट्र्ं महादुर्गं समस्तं स्ववशं नयेत् |
महापलेन देवेशि रिपोः सैन्यं विनाशयेत् || २०-११७ || खेचरो जायते रात्रौ कृत्वा होमं चतुष्पथे |
क्षीरं मधु दधि त्वाज्यं पृथग्घुत्वा वरानने || २०-११८ || आयुर्धनमथाऽऽरोग्यं समृद्धिर्जायते नृणाम् |
क्रमेण शैलजे क्षीरमधुभ्यां मृत्युनाशनम् || २०-११९ || दधिमाक्षिकहोमेन सौभाग्यं धनमाप्नुयात् |
सितया केवलं होमो वैरिस्तम्भनकारकः || २०-१२० || होमो दधिमधुक्षीरलाजभिर्वीरवन्दिते |
रोगहन्ता कालहन्ता मृत्युहन्ता न संशयः || २०-१२१ || कमलैररुणैर्होमः सम्यक्संपत्तिदायकः |
रक्तोत्पलैर्जगद्वश्यं राजानो वशगाः क्षणात् || २०-१२२ || नीलोत्पलैर्महादुष्टा वशमायान्ति नान्यथा |
श्वेतोत्पलैः श्रियं वाचं लभते हवनात्प्रिये || २०-१२३ || श्वेतैश्च ब्रह्मकमलैर्लक्ष्मीं सौभाग्यमाप्नुयात् |
कह्लारहवनान्मन्त्री सौभाग्यं च धनं लभेत् || २०-१२४ || पूर्णं दाडिमहोमेन वशी कुर्यान्महासुरान् |
मातुलुङ्गफलोद्भूतहोमेन क्षत्रिया वशाः || २०-१२५ || नारङ्गफलहोमेन वैश्या वश्या भवन्ति हि |
कूष्माण्डफलहोमेन शूद्रा वश्यास्तथाऽपरे || २०-१२६ || द्राक्षाफलैः सिद्धयोऽष्टौ लक्षहोमान्न संशयः |
कदलीफलहोमेन लक्षमात्रेण भूभृतः || २०-१२७ || वश्यास्तु दशसंख्याका भवन्त्येव न संशयः |
खर्जूरीफलहोमेन लक्षमात्रेण भूभुजः || २०-१२८ || वश्या विंशतिसंख्याका इत्याज्ञा पारमेश्वरी |
नारिकेलफलैर्होमात्समृद्धिर्जायते प्रिये || २०-१२९ || लक्षमात्रेण मन्त्रज्ञो राजाऽपर इव प्रिये |
पक्वाम्रफलहोमेन लक्षमात्रेण सुन्दरि || २०-१३० || चतुःसमुद्रपर्यन्तां मेदिनी वशमानयेत् |
पनसस्य फलैर्होमाल्लक्षेण शतभूभुजः || २०-१३१ || वशा भवन्ति देवेशि नात्र कार्या विचारणा |
तिलाज्यहोमाद्देवेशि कार्यसिद्धिर्भवोत्प्रिये || २०-१३२ || राजिकालवणाभ्यां तु दुष्टलोकान्वशं नयेत् |
गुग्गुलस्य च होमेन सर्वदुःखानि नाशयेत् || २०-१३३ || कुङ्कुमेन हुनेद्देवि त्रैलोक्यं वशमानयेत् |
वैरिणो वशगाः शीघ्रं चन्दनस्यापि होमतः || २०-१३४ || रक्तचन्दनहोमेन वश्या हि पुरुषाः स्त्रियः |
कर्पूरस्य च होमेन वाग्वश्यं जायते नृणाम् || २०-१३५ || कस्तूरीहोमतो देवि राजानो राजमन्त्रिणः |
वश्या भवन्ति सकलाः परिवारयुताः प्रिये || २०-१३६ || तिलतण्डुलहोमेन शान्तिर्भवति मन्दिरे |
शर्करागुडहोमेन सर्वकामार्थसाधकः || २०-१३७ || घृतपायसहोमेन सिता युक्तेन मान्त्रिकः |
त्रैलोक्यं वशमायाति धान्यसिद्धिर्भवेद्ध्रुवम् || २०-१३८ || सोपस्करैश्च वटकैरुपसर्गान् विनाशयेत् || २०-१३९ || बन्धूककुसुमैर्होमः सर्वशत्रून् विनाशयेत् |
जपापुष्पैर्जगद्वश्यं वनपुष्पैश्च मोहनम् || २०-१४० || बकुलस्य हुनेत्पुष्पैः सौभाग्यं जायते महत् |
दशाङ्गधूपहोमेन सौभाग्यमतुलं भवेत् || २०-१४१ || जम्बूफलैः स्त्रियो वश्याः कूष्माण्डैर्दैत्यकन्यकाः |
श्रीफलैरतुलां लक्ष्मीं पत्रैर्वा सुरवन्दिते || २०-१४२ || इक्षुखण्डैः सुखावाप्तिस्तद्रसाद्राजकन्यकाः |
वश्या भवन्ति देवेशि नारिकेलजलेन वा || २०-१४३ || केवलं घृतहोमेन वरदाः सर्वशक्तयः |
शृणु देवि प्रवक्ष्यामि मानं हवनसिद्धिदम् || २०-१४४ || पुष्पं समग्रं जुहुयात्कमलं वाऽपि पुष्कलम् |
कुसुम्भवनपुष्पाणि यथेष्टानि हुनेत्प्रिये || २०-१४५ || शतसंख्यास्तिला देवि राजिकाः शतसंख्यया |
लाजा मुष्टिप्रमाणास्तु घृतं गद्याणमात्रकम् || २०-१४६ || चुलुकार्धं पयः क्षीरमन्नं ग्रासमितं भवेत् |
स्थूलं फलं महेशानि कूष्माण्डं मातुलुङ्गकम् || २०-१४७ || मनःप्रियैश्च खण्डैश्च फलं भवति निश्चयात् |
रम्भाफलं चतुःखण्डैर्लघु चेत्खण्ड्यते न हि || २०-१४८ || नारिकेलस्य खण्डं हि रम्भायाः फलवत्प्रिये |
पर्वस्थाने चेक्षुखण्डं मनःसंतोषकारि वा || २०-१४९ || द्राक्षाफलं समग्रं स्यान्नारङ्गं खार्जुरं तथा |
गुग्गुलं क्रमुकार्धं तु कुङ्कुमं च तथा भवेत् || २०-१५० || गुञ्जासमं च कर्पूरं कस्तूरी घुसृणं तथा |
चन्दनं चागरुं देवि क्रमुकेन समं भवेत् || २०-१५१ || मनःप्रियाणि सर्वाणि फलानि हवने प्रिये |
लाक्षा गुग्गुलसंख्या स्याद्यद्यद्वस्तु मनोहरम् || २०-१५२ || मनःप्रियाहुतीः कृत्वा होमं कुर्यात्सुलोचने |
एतदाहुतिमानं ते कथितं सर्वविघ्नहृत् || २०-१५३ || यथेच्छया वरारोहे श्रीविद्यां परितोषयेत् |
यथाशक्ति जपं कृत्वा तद्दशांशेन होमयेत् || २०-१५४ || किंशुकैः पापसंघातनाशकैरथ वा प्रिये |
नानाद्रव्यैः पृथग्भूतैमीश्रितैर्वा वरानने || २०-१५५ || यथाशक्त्या तु मिलितैर्होमं कुर्याद्विचक्षणः |
शृणु देवि प्रवक्ष्यामि विशेषविधिमुत्तमम् || २०-१५६ || आदौ कुण्डं समुत्पाद्य सर्वलक्षणसंयुतम् |
चतुरस्रं तु शोभाढ्यं शतहोमेऽर्धहस्तकम् || २०-१५७ || सहस्रे हस्तमात्रं च चतुरस्रं द्विहस्तकम् |
द्विहस्तमयुते प्रोक्तं लक्षे हस्तचतुष्टयम् || २०-१५८ || कोटिहोमेऽष्टहहस्तं च कृत्वा कुण्डस्य लक्षणम् |
शान्तिके चतुरस्रं तु वश्ये चैवार्धचन्द्रकम् || २०-१५९ || षट्कोणं स्तम्भने चैव मारणे तद्वदेव हि |
आकर्षणे त्रिकोणं च वृत्तमुच्चाटने तथा || २०-१६० || नानासिद्धिहितार्थाय पद्मकोणं च सिद्धिदम् |
उत्तरे शान्तिकं चैव स्तम्भने वारुणीं दिशम् || २०-१६१ || मारणं दक्षिणे चैव पश्चिमे वश्यकर्मणि |
दाहकर्म च आग्नेये विद्वेषो नैरृते तथा || २०-१६२ || उच्चाटने तु वायव्य ईशान्ये (एशाने) सर्वसिद्धिदम् |
कृत्तिका कर्षणे प्रोक्ता भरणी मारणे तथा || २०-१६३ || स्वाती वश्ये तथोच्चाटे ज्येष्ठा स्तभनमेव च |
विद्वेषणे शततारं चाभिजित्वं तु शान्तिके || २०-१६४ || सोमे सर्वाकर्षणं च मारणं मङ्गले तथा |
बुधेन स्तम्भ कार्यं गुरुवारे तु पौष्टिकम् || २०-१६५ || शुक्रे च सर्वकामास्तु भानोरथ(नावथ)शुभानि च |
पूर्वाह्णे वश्यकर्माणि मध्यान्हे प्रीतिनाशनम् || २०-१६६ || उच्चाटनं चापराह्णे संध्यायां मारणे तथा |
शान्तिके अर्धरात्रं च पौष्टिकं प्रातरेव हि || २०-१६७ || स्तम्भने गजचर्माणि मारणे माहिषं तथा |
मृगचर्म तथोच्चाटे छागलं वश्यकर्मणि || २०-१६८ || विद्वेषे जम्बुकं प्रोक्तं गोचर्मं शान्तिके तथा |
नानासिद्धिहितार्थाय व्याघ्रचर्ममुदाहृतम् || २०-१६९ || श्वेतं व्याघ्रे भवेच्छान्त्यै पीतं स्तम्भनकारकम् |
वश्याकर्षणयो रक्तं क्षोभणार्थं प्रियावहम् || २०-१७० || कृष्णं च मारणे प्रोक्तं धूम्रमुच्चाटनादिके |
राजवृक्षस्य समिधो होतव्याः स्तम्भकर्मणि || २०-१७१ || महिषीघृतसंयुक्तं सदा वै सिद्धिदायकम् |
मारणेऽत्यचिराहोमं समिधै {द्भि} र्दाडिमोद्भवैः || २०-१७२ || अजाघृतेन देवेशि वशयेत्सचराचरम् |
विद्वेषस्यैव होतव्य { व्या } उन्मत्तसमिधस्तथा || २०-१७३ || अतसीतैलसंयुक्ता विद्वेषणमतः परम् |
सर्वविघ्नसमूहं तु नाशयेन्नात्र संशयः || २०-१७४ || पूर्णाहुतिं ततो देवि पूजयित्वा तु कन्यकाः |
पूजितं तेन त्रैलोक्यं कन्यका येन पूजिताः || २०-१७५ || बालया पूजयेद्देवी श्रीविद्यां पूजयेत्ततः |
पञ्चसिंहासनैर्देवि श्रीविद्यां तत्र पूजयेत् || २०-१७६ || सुवासिनीस्ततः पूज्याः श्रीविद्यां तत्र पूजयेत् |
विप्रान्संतोषयेत्पश्चाच्छ्रीविद्यां तत्र पूजयेत् || २०-१७७ || योगिन्यश्च तथा पूज्याः श्रीविद्यां परितोषयेत् |
दर्शनानि समग्राणि पूजयेद्विविधानि च || २०-१७८ || श्रीविद्यां तोषयेत्तत्र पूर्णाहुतिमथाऽऽचरेत् || २०-१७९ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे विंशः पटलः || २० ||

Paṭala 21

अथैकविंशः पटलः


ईश्वर उवाच --

होमान्तरं प्रवक्ष्यामि येन ब्रह्म सनातनम् |
ज्ञानेन चतुरस्राख्यं कुण्डं संचिन्त्य पूर्ववत् || २१-१ || आत्मभिश्चतुरस्रं तद्विज्ञेयं वीरवन्दिते |
आत्मानो वेदसंख्या हि ज्ञातव्या देशिकोत्तमैः || २१-२ || येषां विज्ञानमात्रेण पुनर्जन्म न विद्यते |
साधारणेन पक्षेण वर्तते सर्वजन्तुषु || २१-३ || स आत्मा परमेशानि प्राणरूपी वरानने |
प्राणस्तु पवनो देवि हृदयस्थानमन्दिरः || २१-४ || शरीरं व्याप्य सकलं चरस्याप्यचरस्य च |
हंसस्वरूपी विज्ञेयः श्वासोच्छ्वासविलासवान् || २१-५ || जीव इत्येव नामास्य भ्रान्त्या भासान्न वस्तुतः |
श्वासोच्छ्वासो देहभावाद्भ्रान्तिरेव न संशयः || २१-६ || कुलालचक्रभेदेन घटाकाशं यथा घटे |
दृश्यते परमेशानि आकाशं व्याप्य तिष्ठति || २१-७ || घटे भवति भिन्नत्वं नाऽऽकाशे भिन्नता भवेत् |
तथा देहगतो जीवो देहनाशे वरानने || २१-८ || व्याप्य तिष्ठति सर्वत्र तस्मादात्मा परं महत् |
आत्मज्ञानं मया प्रोक्तं द्वितीयस्य शृणु प्रिये || २१-९ || अन्तरात्मेति किं नाम तच्छृष्णुष्व पदं महत् |
अन्तःशब्देन देवेशि रहस्यं सूक्ष्मरूपकम् || २१-१० || परमाणुस्वरूपेण सर्वं व्याप्य विजृम्भते |
अन्तरङ्गतया तेन चरं वाऽप्यथ वाऽचरम् || २१-११ || व्याप्यते सकलं तस्मादन्तरात्मेति गीयते |
स एव हंस आत्मा हि योगिगम्यो यदा भवेत् || २१-१२ || तारचञ्चुर्वरारोहे निगमागमपक्षवान् |
शिवशक्तिपदद्वन्द्वो बिन्दुत्रयविलोचनः || २१-१३ || अयं परमहंसस्तु सृष्टिं व्याप्यावतिष्ठति |
तदा भूतानि जायन्ते क्रमेण कमलेक्षणे || २१-१४ || आकाशं पवनोऽग्निश्च जलं पृथ्वी वरानने |
पञ्चकस्यास्य देवेशि प्रथमं चित्तमुच्यते || २१-१५ || अविद्याख्यसरोमध्ये मोहपङ्कप्रपूरिते |
प्रपञ्चकमले भूतपञ्चकपरिजृम्भिते || २१-१६ || विहारोऽस्यैव हंसस्य सृष्ट्या मायामयो भवेत् |
अयमेव महादेवि निष्प्रपञ्चो यदा भवेत् || २१-१७ || संहाररूपी हंसस्तु तदाऽऽत्मानं प्रदर्शयेत् |
पक्षित्वमस्य नास्त्येव सोऽहमात्मा प्रतिष्ठितः || २१-१८ || परमात्मेति जानीहि त्रयमेतदुदाहृतम् |
पक्षपुच्छशिरो देवि आकारप्रतिभासकः || २१-१९ || ज्ञानात्मा कथ्यते भद्रे यः साक्षात्साक्षिरूपकः |
येनेदं ज्ञायते सर्वं समत्वेन वरानने || २१-२० || चन्द्रबिम्बं यथा देवि जलक्षीरेषु दृश्यते |
न लिप्तस्त { सं त} स्य देवशि नीरक्षीरविभेदतः || २१-२१ || कर्दमे चन्दने बिम्बं न भवेल्लिप्तमद्रिजे |
सर्वसाक्षी तथा भद्रे ज्ञानात्मा परिकीतीतः || २१-२२ || आत्मान्तरात्मपरमज्ञानात्मानः प्रकीतीताः |
एतद्रूपं हि चित्कुण्डं चतुरस्रं वरानने || २१-२३ || आनन्दमेखलारम्यं बिन्दुत्रिवलयाङ्कतम् |
अर्धमात्रा योनिरूपं ब्रह्मानन्दमयं सदा || २१-२४ || पराहन्तामये सर्वज्ञानदीपविजृम्भिते |
संविदग्नौ हुनेद्देवि प्रपञ्चहविरुत्कटम् || २१-२५ || शब्दाख्यं मातृकारूपमक्षवर्णविराजितम् |
अक्षराणि हुतान्यत्र निःशब्दं ब्रह्म जायते || २१-२६ || पुण्यपापे हविर्देवि कृत्याकृत्ये हविः प्रिये |
संकल्पश्च विकल्पश्च धर्माधर्मौ हविस्तथा || २१-२७ || जुहुयात्परमेशानि मन्त्राभ्यां विमलानने |
मूलविद्यां ब्रह्मरूपां ध्यात्वा तु तदनन्तरम् || २१-२८ || तदन्ते चोच्चरेत्पश्चाद्ब्रह्मप्रात्यै तु देशिकः |
धर्माधर्महविर्दीप्त आत्माग्नौ मनसा स्रुचा || २१-२९ || सुषुम्नावर्त्मना नित्यमक्षवृत्तिं जुहोम्यहम् |
स्वाहान्तेन हुनेद्देवि सकलं निष्कलं जगत् || २१-३० || अन्तर्होममनुर्देवि सर्वमायानिकृन्तनः |
प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीस्रुचा || २१-३१ || धर्माधर्मौ कलास्नेहपूर्णवह्नौ जुहोम्यहम् |
अग्निजायान्वितो मन्त्रो विद्यान्ते कथतस्तव || २१-३२ || निप्रपञ्चे यदा देवि जायते मन्त्रवित्तमः |
तदा सच्चिन्मयः साक्षात्केवलं ब्रह्म साधकः || २१-३३ || दश सोऽहं जुहंसोऽपि पीत्वा मृत्युं सुखी भवेत् || २१-३४ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे ज्ञानहोमविधि-- र्नामैकविंशः पटलः || २१ ||

Paṭala 22

अथ द्वाविंशः पटलः

ईश्वर उवाच --

होमादिकं तु सकलं कुमारीपूजनं विना |
परिपूर्णफलं नैव पूजनात्सफलं भवेत् || २२-१ || कुमारीपूजनाद्देवि पूजाकोटिफलं भवेत् |
पुष्पं कुमार्यै यद्दत्तं तन्मेरुसदृशं भवेत् || २२-२ || कुमारी भोजिता येन त्रैलोक्यं तेनं भोजितम् |
कुमार्यै यज्जलं दत्तं तज्जलं सागरोपमम् || २२-३ || अन्नं तु मीननयने कुलाचलसमं भवेत् |
एकाब्दात्षोडशाब्दान्ताः कन्यकाः पूजयेच्छुभाः || २२-४ || विवाहरहिताः स्युश्चेदुत्तरोत्तरसिद्धिदाः |
विवाहितास्तु देवेशि बाला एव कुमारिकाः || २२-५ || सुवासिन्यो मदप्रौढ.ः संशये त्यज सुव्रते |
कुमारीपूजने देवि कुमारीमनुना भवेत् || २२-६ || मन्त्रभेदेन तेनैव श्रीविद्यां च प्रपूजयेत् |
नैमित्तिकं प्रवक्ष्यामि येन ब्रह्ममयो बुधः || २२-७ || निवीकल्पस्य देवेशि नान्यस्य सुरवन्दिते |
सर्वशङ्काविनिर्मुक्तः सर्वज्ञः साधकोत्तमः || २२-८ || दूतीयागविधिं कुर्यात्खेचरो जायते प्रिये |
अर्घ्यपात्रे वह्निसूर्यसोमामृतमये शिवे || २२-९ || सोमामृतं तु जानीहि नानाद्रव्यमयं सदा |
सविकल्पस्य देवेशि वर्णानुक्रमभेदतः || २२-१० || कथ्यन्ते द्रव्यभेदास्तु क्रमेण वरवणीनि |
क्षीराज्यमधुमैरेयद्रव्यभेदा भवन्ति हि || २२-११ || सर्वज्ञत्वे वरारोहे यज्ञे दोषो न विद्यते |
अश्वमेधादियज्ञेषु वाजिहत्या कथं भवेत् || २२-१२ || द्रव्यभेदा वरारोहे बहवः सन्ति भेदतः |
जलं क्षीरं घृतं भद्रे मधु मैरेयमैक्षवम् || २२-१३ || पौष्पं तरुमयं धान्यसंभवं बहुनिमीतम् |
सहकारभवं देवि विविधं बहुभेदतः || २२-१४ || मादकं धर्मसंछेदाद्वर्ज्यमासीत्सुलोचने |
ज्ञानेन संस्कृतं तत्तु महापातकनाशनम् || २२-१५ || ब्रह्महत्त्यासुरापानस्वर्णस्तेयादिपातकान् |
नाशयेत्पूजनाद्देवि निवीकल्पः स मन्त्रवित् || २२-१६ || विचारयेत्सदा सर्वं सर्वविद्वीरवन्दिते |
जलं जलचरं विद्धि घटं पूर्णं समानयेत् || २२-१७ || स्थापितं देवि सप्ताहाज्जलं जीवसमन्वितम् |
क्षीरं वै यस्य जीवस्य तस्य मांसं न संशयः || २२-१८ || कृशा पुत्रवती नारी वन्ध्या पुष्टा यतः प्रिये |
माकन्दफलजं रम्यं द्रावं सेव्यं द्विजातिभिः || २२-१९ || अमादकत्वाद्देवेशि चैक्षुत्वं सेव्यते बुधैः |
अनामिषं नास्ति किंचित्सर्वं क्षीरादिकं प्रिये || २२-२० || वेदशास्रपुराणेषु गूढो ज्ञानसमुच्चयः |
शमीवृक्षे यथा वह्निस्तथा तिष्ठति सुन्दरि || २२-२१ || सर्वभूतेषु विज्ञानं ज्ञातव्यं देशिकोत्तमैः |
काष्ठनिर्मथनाद्देवि प्रकटो वह्निरुच्यते || २२-२२ || तत्काष्ठं दह्यते तेन तथा ब्रह्ममयं जगत् |
पापपुण्यविनिर्मुक्तं ज्ञानमेतद्वरानने || २२-२३ || किंचिदुल्लासपर्यन्तं ग्राह्यमेतत्सुरेश्वरि |
यज्ञाङ्गं तु यतो लौल्यात्पातकी ब्रह्महा भवेत् || २२-२४ || मादकं वस्तु सकलं वर्जयेत्कनकादिकम् |
कलञ्जं पातकी तस्माद्ब्रह्म ब्रह्मविदां वरः || २२-२५ || धर्माधर्मपरिज्ञानात्सकलेऽपि पवित्रता |
विण्मूत्रं स्रीरजो वाऽपि नखास्थि सकलं प्रिये || २२-२६ || विचारयेन्मन्त्रवित्तु पवित्राण्येव सुव्रते |
अन्नं ब्रह्म विजानीयात्तेन यस्य समुद्भवः || २२-२७ || नानाजीवाश्रयं तत्तु पुरीषं केन निन्द्यते |
नानाविधा हि देवेशि देवताः सलिलस्थिताः || २२-२८ || तेनोदकेन यज्जातं मूत्रं कस्मात्तु दूषयेत् |
गोमूत्रप्राशनं देवि गोमयस्यापि भक्षणम् || २२-२९ || प्रायश्चित्ते तु कथितं ब्रह्महत्यादिके प्रिये |
मले मूत्रे कथं दोषो भ्रान्तिरेव न संशयः || २२-३० || स्त्रीरजः परमेशानि देहस्तेनैव जायते |
कथं तु दूषणं येन प्राप्यते परमं पदम् || २२-३१ || पुरुषस्य तु यद्वीर्यं बिन्दुरित्यभिधीयते |
बिन्दुस्तु परमेशानि कायोऽयं शिवरूपकः || २२-३२ || शिवतत्त्वेन चास्थ्यादिदूषणं नास्ति बैन्दवे |
रेतः पवित्रं देहस्य कारणं केन निन्द्यते || २२-३३ || ज्ञानमार्गोऽयं सकलो निवीकल्पस्य सुन्दरि |
सविकल्पो महेशानि पापभाग्जायते नरः || २२-३४ || मातृगर्भाद्विनिर्गत्य शिशुरेव न संशयः |
इन्द्रियाण्यखिलान्यस्य देहस्थान्यपि वल्लभे || २२-३५ || निवीकारतया तत्र नान्यथा भवति प्रिये |
भगलिङ्गसमायोगो जन्मकाले भवेत्सदा || २२-३६ || काम्यते सा यदा देवि जायते गुरुतल्पगः |
अत एव यदा तस्य वासना कुत्सिता भवेत् || २२-३७ || तत्तद्भूषणसंयुक्तमन्यत्सर्वं शुभं भवेत् |
पवित्रं सकलं भद्रे वासना कलुषा स्मृता || २२-३८ || अत एवार्घ्यपात्रस्य प्रतिष्ठानन्तरं ततः |
मञ्चकं गजदन्तस्य हेमरूप्यादिनिमीतम् || २२-३९ || विशुद्धक्षौमरचितां तूलिकां तत्र योजयेत् |
पुष्पान्विकीर्य तन्मध्ये कर्पूरस्य रजस्तथा || २२-४० || मण्डूकादींस्ततो देवि उपर्युपरि शैलजे |
मण्डूकं पूजयेदादौ रुद्रं कालाग्निसंयुतम् || २२-४१ || आधारशक्तिं कूर्मं च तथाऽनन्तं वराहकम् |
पृथिवीं च तथा कन्दं नालं पद्मं तथा दलान् || २२-४२ || केसराणि च सम्पूज्य कणीकां पूजयेत्ततः |
मञ्चकं च समभ्यर्च्य तत्र पादचतुष्टये || २२-४३ || धर्मं ज्ञानं च वैराग्यमैश्वर्यं च क्रमाद्यजेत् |
अपूर्वान्पूजयेदेतांस्तत्पादानां समीपके || २२-४४ || आत्मन्तरात्मपरम--ज्ञानात्मनः क्रमाद्यजेत् |
मञ्चकाग्रेषु सम्पूज्य गुणत्रयमथार्चयेत् || २२-४५ || दूतीं सुलक्षणां रम्यां सर्वलक्षणलक्षिताम् |
नानालंकारसुभगां सर्वज्ञां शारदामिव || २२-४६ || पूजयेत्परमेशानि पञ्चकामैः शरैस्तथा |
बटुकादिंश्चतुदीक्षु पूजयेत्सिद्धिहेतवे || २२-४७ || मातृकां विन्यसेत्तस्या देहे कामशरान्विताम् |
त्रिकोणं चिन्तयेन्मूघ्नी तत्र सम्पूजयेत्क्रमात् || २२-४८ || त्रिकोणमध्ये बालाख्यां कामेशीं परिपूजयेत् |
गणेशं च कुलाध्यक्षं तथा लक्ष्मीं सरस्वतीम् || २२-४९ || त्रिकोणेषु च सम्पूज्य वसन्तं मदनं प्रिये |
स्तनयोः पूजयेत्पश्चान्मुखे तस्याः कलाधरम् || २२-५० || दक्षपादादिमूर्धान्तं वामे मूर्धादि सुन्दरि |
पादान्तं पूजयेत्सर्वाः कला वै कामसोमयोः || २२-५१ || श्रद्धा प्रीती रतिश्चैव धृतिः कान्तिर्मनोरमा |
मनोहरा मनोरामा मदनोन्मादिनी प्रिये || २२-५२ || मोहिनी दीपनी चैव शोषणी च वशंकरी |
रञ्जनी सुभगा देवि षोडशी प्रियदर्शना || २२-५३ || षोडशस्वरसंयुक्ता एताः कामकला यजेत् |
पूषा वशा च सुमना रतिः प्रीतिस्तथा धृतिः || २२-५४ || ऋद्धिः सौम्या मरीचिश्च शैलजे चांशुमालिनी |
अङ्गिराः शशिनी चैव छाया सम्पूर्णमण्डला || २२-५५ || तथा तुष्ट्यमृते चैव कलाः सोमस्य षोडश |
स्वरैरेव प्रपूज्या हि सर्वकार्यार्थसिद्धिदाः || २२-५६ || बालाक्रमं मस्तकेऽस्याः संपूज्य तदनन्तरम् |
तस्या मदनगेहं तु पूजयेद्भगमालया || २२-५७ || त्रिकोणं तद्भगं ज्ञात्वा सर्वसिद्धिप्रदाभिधम् |
सर्वानन्दमयं मध्ये चक्रयुग्मं प्रपूजयेत् || २२-५८ || पूर्ववत्क्रमयोगेन (ण) श्रीविद्यां तत्र पूजयेत् |
धूपादिकं समर्प्याथ स्वलिङ्गे तदनन्तरम् || २२-५९ || तारं च भुवनेशानि महात्रिपुरसुन्दरि |
नमः शिवाय विद्येयं दशार्णा परिकीतीता || २२-६० || अनया विद्यया देवि स्वलिङ्गे पूजयेच्छिवम् |
यजेत्तत्पुरुषाघोरसद्योवामेशसंज्ञया || २२-६१ || निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च |
शान्त्यतीता च सम्पूज्या षडङ्गावरणं यजेत् || २२-६२ || समग्रविद्यामुच्चार्य नन्दिकेशं प्रपूजयेत् |
मध्ये वृषणयोर्देवि गन्धपुष्पाक्षतादिभिः || २२-६३ || निवेद्य धूपदीपादि विजितेन्द्रियमानसः |
सर्वक्षोभिणीं मुद्रां बद्ध्वा योनिं प्रचालयेत् || २२-६४ || क्षोभिण्यां वाऽथ वा देवि गजतुण्डाख्ययाऽथ वा |
उच्चरन्भगमालां तु द्राविणीबीजमुच्चरेत् || २२-६५ || अक्षुब्धः सन् वरारोहे यावद्रेतः प्रवर्तते |
रजोमयं रजः साक्षात्संविदेव न संशयः || २२-६६ || प्रकृतिः परमेशानि वीर्य पुरुष उच्यते |
सर्वं साक्षात्सामरस्यं शिवशक्तिमयं ततः || २२-६७ || तयोर्योगो महेशानि योग एव न संशयः |
सीत्कारो मन्त्ररूपस्तु वचनं स्तवनं भवेत् || २२-६८ || नखदन्तक्षतान्यत्र पुष्पाणि विविधानि च |
कूजनं गायनं स्तुत्या ताडनं हवनं भवेत् || २२-६९ || आलिङ्गनं तु कस्तूरीघुसृणादिकमद्रिजे |
मर्दनं तर्पणं विद्धि वीर्यपातो विसर्जनम् || २२-७० || कुलद्रव्येण संशोध्य शिवशक्तिमयं प्रिये |
बीजामृतं परब्रह्मरूपं निक्षिप्य सुन्दरि || २२-७१ || अर्घ्यपात्रामृते त्यक्त्वा निवीकल्पः सदाऽनघः |
श्रीविद्याक्रममभ्यर्च्य परब्रह्ममयो भवेत् || २२-७२ || एतत्ते कथितं ज्ञानं सामरस्यं वरानने |
सविकल्पस्तु देवेशि पापभाग्जायते नरः || २२-७३ || विचिकित्साकारो मन्त्री जायते गुरुतल्पगः |
अत एव वरारोहे निवीकल्पः सदा भवेत् || २२-७४ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे श्रीविद्यादूतीयजनविधिर्नाम द्वाविंशः पटलः || २२ ||

Paṭala 23

अथ त्रयोविंशः पटलः


ईश्वर उवाच --

दूत्यन्तरं प्रवक्ष्यामि येन ब्रह्म सनातनम् |
प्रणवाख्यं यागगेहं प्रविश्य सुरवन्दिते || २३-१ || इच्छाज्ञानक्रियाद्रव्यरचितं सुधया युतम् |
अम्बया परमेशानि तत्त्वज्ञानमये शिवे || २३-२ || पर्यङ्के पुरुषार्थैस्तु पादैश्च परिमण्डिते |
आत्मान्तरात्मपरमज्ञानात्माङ्गविभूषिते || २३-३ || तत्पदार्थस्त्वंपदार्थोऽसिपदार्थश्च सुन्दरि |
पदार्थत्रयमेतत्तु ज्ञानसूत्रप्रकाशकम् || २३-४ || एतत्सूत्रमयैः पट्टैर्गुम्फितेऽम्बरमण्डिते |
सुमनोवाससुभगे परां तत्र प्रपूजयेत् || २३-५ || जातिभेदस्तु दूतीनां चतुर्धा वीरवन्दिते |
हस्तिनी शङ्खिनी चैव चित्रिणी पद्मिनी प्रिये || २३-६ || चतुवीधा हि दूत्यस्तु सुन्दर्यश्चारुलोचनाः |
वैखरी हस्तिनी ज्ञेया स्थूला यस्माद्वरानने || २३-७ || ययेदं धार्यते सर्वं ब्रह्माण्डपरिमण्डलम् |
वर्गाष्टकेन देवेशि सूते दिग्गजसंचयम् |
तेनेयं करिणी प्रोक्ता मध्यमा शङ्खिनी भवेत् || २३-८ || शङ्खिनी तु यथा भद्रे विशुद्धा पापवजीता |
सर्वदेवप्रिया सा हि शान्तिसौभाग्यशोभिता || २३-९ || तथा वनस्पतिगता मध्यमा वाग्वरानने |
चित्रिणी वल्लरी देवि महादोषविनाशिनी || २३-१० || यस्याः फलं वरारोहे शिवशक्तिमयं सदा |
शिवशक्तिमयं देवि प्राणिमात्रजगत्त्रयम् || २३-११ || तेषु सर्वेषु पश्यन्ती जीवेषु परमाश्रया |
परब्रह्मणि सा लीना परा वाक्परमेश्वरि || २३-१२ || तां दूतीं तत्र संपूज्य समाधिकुसुमैः शुचिः |
तदङ्गेषु कलाः पूज्याः क्रमेण सुरवन्दिते || २३-१३ || पद्मिनी तु परा ज्ञेया हंसस्वच्छविकासिनी |
हंसोदयेन पद्मं हि त्यक्त्वा संकोचमद्रिजे || २३-१४ || विकासयति सौभाग्यं तथा वस्तुविलासतः |
परा प्रकाशमायाति पद्मिनीत्वमतो भवेत् || २३-१५ || तस्या देहे वरारोहे कलाः पूज्यास्तु षोडश |
चित्कला सत्कला ज्ञानकला संवित्कला तथा || २३-१६ || आत्मनस्तु कला ज्ञेयाश्चतस्रः परमेश्वरि |
विरागता मोक्षकला परमाणुकला तथा || २३-१७ || विद्याकलाचतुष्कं तु विज्ञेयं चान्तरात्मनि |
विद्या संतोषता तृप्तिः परब्रह्मप्रकाशता || २३-१८ || परमात्मकला ज्ञेयाः संलीनाः परवस्तुनि |
लुप्तिः शान्तिकला बोधकला व्याप्तिकला परा || २३-१९ || ज्ञानात्मनः कला ज्ञेयाश्चतस्रः परमेश्वरि |
कलाः षोडश देवेशि श्रीविद्यार्णेषु संस्थिताः || २३-२० || षोडशार्णा ब्रह्मरूपा कला षोडशरूपिणी |
आत्मा जाग्रत्स्वरूपेण त्रैलोक्यं रचयत्यसौ || २३-२१ || अन्तरात्मा सत्त्वरूपस्तमोरूपश्च मिश्रितः |
अत एव रजोरूपस्तमोरूपः परः शिवः || २३-२२ || परमात्मा हि विज्ञेयो ज्ञानात्मा तुर्यया युतः |
एताः कला वरारोहे तस्या देहे प्रकाशयेत् || २३-२३ || तत्पदार्थं तु जानीहि मुखमस्या वरानने |
त्वंपदार्थोऽसिवाक्यार्थः कुचयुग्मं क्रमेण हि || २३-२४ || भोगस्तु परमेशानि नादो ब्रह्ममयो भवेत् |
नादोदितं वरारोहे विश्वं योनिर्न संशयः || २३-२५ || तत्रैव शक्तिं संपूज्य स्वात्मलिङ्गं शिवं यजेत् |
परस्परप्रभावेण ब्रह्मानन्दरसो भवेत् || २३-२६ || तं रसं मनसा देवि वहन्नाड्यगतं प्रिये |
अर्घ्यामृतेन संयोज्य ततः श्रीचक्रमर्चयेत् || २३-२७ || ब्रह्मानन्दमयं ज्ञानं कथयामि वरानने |
न ब्राह्मणो ब्राह्मणस्तु क्षत्रियः क्षत्रियस्तथा || २३-२८ || वैश्यो न वैश्यः शूद्रो न शूद्रस्तु परमेश्वरि |
चाण्डालो नैव चाण्डालः पौल्कसो न च पौल्कसः || २३-२९ || सर्व समं विजानीयात्परमात्मविनिश्चयात् |
आकाशात्पतितं तोयं निम्नमार्गेण गच्छति || २३-३० || ग्राममध्यगतं सर्वं विष्ठामूत्रादिपूरितम् |
मृतगोश्वानमार्जारखरादिरुधिरान्वितम् || २३-३१ || समस्तमपि देवेशि गङ्गायां मिलितं यथा |
गङ्गामृते तु देवेशि कालुष्यं नैव तिष्ठति || २३-३२ || तथा सच्चिन्मये ज्ञाने समता सर्वजन्तुषु |
सर्वद्रव्येषु गिरिजे समता नात्र संशयः || २३-३३ || यथा सूर्यप्रकाशोऽयं समत्वेन प्रवर्तते |
उत्तमस्यापि चान्यस्य तमः संहरते क्षणात् || २३-३४ || शोषयन्दुग्धमूत्राणि चन्दनं चैव कर्दमम् |
अत एव महेशानि मन्त्री सर्वसमो यदा || २३-३५ || सिद्धिस्तदैव विज्ञेया श्रीगुरोः कृपया प्रिये || २३-३६ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे ज्ञानदूतीयजनविधिर्नाम त्रयोविंशः पटलः || २३ ||

Paṭala 24

अथ चतुवींशः पटलः


ईश्वर उवाच --

दीक्षाविधिं प्रवक्ष्यामि येन शिष्यः सुखी भवेत् |
दीयते सकलं देवि गुरवे प्राणसंयुतम् || २४-१ || धन--रत्न--सुवर्णादि--पट्टवस्र--समुच्चयम् |
क्षयं प्राप्नोति तद्भावान्नानापापसमुच्चयः || २४-२ || तस्माद्दीक्षेति नामास्याः सर्वशास्रेषु सुव्रते |
पापिने कृपणायापि शठाय कपटाय च || २४-३ || अदीनायाऽऽचारशून्याय मन्त्रद्वेषपराय च |
निन्दकाय च मूर्खाय तीर्थद्वेषपराय च || २४-४ || भक्तिहीनाय देवेशि न देया मलिनाय च |
दानशीलाय भक्ताय साधवे तीर्थचेतसे || २४-५ || सन्मार्गवतीने चाग्निदेवद्विजरताय च |
सर्वशास्रार्थवेदार्थज्ञानिने सुव्रताय च || २४-६ || दीक्षा देया वरारोहे अन्यथाऽऽपत्तिभाग्भवेत् |
अथ वक्ष्ये वरारोहे दीक्षाकरणमुत्तमम् || २४-७ || मण्डपं वेदिकां कृत्वा पुष्पवैतानमण्डितम् |
दीपमालावलीरम्यं नानाधूपसुधूपितम् || २४-८ || सिन्दूररङ्गमालाभिर्मण्डितं चित्रचित्रितम् |
वेदिकायां वरारोहे कुङ्कुमेनाथ वा प्रिये || २४-९ || सिन्दूररजसा वाऽपि विलिखेच्चक्रमुत्तमम् |
मध्यचक्रं वरारोहे नवकोणविराजितम् || २४-१० || चतुरस्रं च संलिख्य सुवर्णकलशान्नव |
रौप्यताम्रादिरचितान्मृत्तिकारचितांश्च वा || २४-११ || जलपूर्णान्विशेषाढ्यान् स्वर्णरत्नप्रपूरितान् |
फलैः पुष्पैश्च सुभगान् सुगन्धेन च चचीतान् || २४-१२ || वशिन्याद्यष्टकं तत्र वसुकुम्भेषु पूजयेत् |
मध्यकुम्भे वरारोहे श्रीविद्यां परितोषयेत् || २४-१३ || क्रमं समस्तमभ्यर्च्य कुमार्याद्यर्चनं यजेत् |
सुवासिनीर्ब्रह्मवृन्दं योगिनो विविधानपि || २४-१४ || तदङ्गहवनं कुर्यात्सर्वेषां तृप्तिहेतवे |
गुरुः शिष्यमुपानीय भक्तिनम्रमकल्मषम् || २४-१५ || प्राणानायम्य विधिवच्छुद्धपीठे निवेश्य च |
सुरास्त्वामेत्यादिमन्त्रैश्चिरण्टीभिर्युतः स्वयम् || २४-१६ || अभिषिञ्चेच्च तन्मूघ्नी तदेतत्कलशोदकैः |
परिधायय सुवासोभिश्चन्दनादवलेप्य च || २४-१७ || वामतः परमेशानि स्वासने पूजिते शुचिम् |
सर्वशृङ्गारवेषाढ्यं शिष्यं तत्र निवेशयेत् || २४-१८ || षडध्वरूपं श्रीचक्रं तस्य र्मूध्नि विचिन्तयेत् |
अभावे तु बृहच्छङ्खं जलेनाऽऽपूर्य सुन्दरि || २४-१९ || कलास्तत्र समाराध्य देवीं सम्पूज्य सेवयेत् |
स्वदृष्ट्याऽऽलोकयेत्तं तु दृष्ट्या दृष्टिं तु मेलयेत् || २४-२० || आज्ञासंक्रमणं कुर्याद्यावन्निश्चलता भवेत् |
नैश्चलं शाम्भवो वेद्यः शून्याशून्यविवजीतः || २४-२१ || शून्यं शिवमयं वस्तु पुरुषः परमेश्वरि |
अशून्यं शक्तिराद्या हि प्रकृतिः परमेश्वरि || २४-२२ || शक्त्याधिक्ये रजःस्थौल्यं संयोगाच्छिवयोर्यदा |
स्वप्नावस्था तदा ज्ञेया योगः शक्त्यधिकस्ततः || २४-२३ || शक्तिर्जाग्रदिति ख्याता शिवो निश्चलता पिरये |
सुषुप्तिरिति मन्त्रज्ञैः कथिता निश्चला यतः || २४-२४ || गुणत्रयं तु कथितं जाग्रत्सत्त्वगुणा प्रिये |
तमोगुणा सुषुप्तिस्तु शिवे निश्चलरूपिणी || २४-२५ || शिवाधिक्याद्गुणातीतं वस्तु जानीहि सुन्दरि |
शिवशक्तिसमायोगाच्छिवाधिक्यं यदा भवेत् || २४-२६ || तदा तुर्यां विजानीयात्सर्वबन्धनिकृन्तनीम् |
कलाः षोडश देवेशि आत्मज्ञाने व्यवस्थिताः || २४-२७ || श्रीविद्याबीजसंलीनाः शिष्यदेहे प्रकाशयेत् |
चतुवीधा षोडशार्णा महात्रिपुरसुन्दरी || २४-२८ || तद्ध्यानात्तु मनःस्थैर्यमुन्मनीति निगद्यते |
ब्रह्मज्ञाने मनः पक्षी तृष्णाचञ्चुविलक्षितः || २४-२९ || संकल्पेन विकल्पेन पक्षाभ्यां चञ्चलः सदा |
मोहमत्सरकामैश्च क्रोधाहंकारदुर्मदैः || २४-३० || संनद्धपिच्छैःसबलः कृत्याकृत्यपदद्वयः |
संसारवृक्षे देवेशि धनपुत्रादिमूलके || २४-३१ || अविद्याविस्तृते निन्दास्तुतिशाखासुशोभिते |
अभिलाषस्फुरत्पुष्पभरिते पातकादिभिः || २४-३२ || पर्णपूर्णे वरारोहे पापपुण्यफलान्विते |
तत्र शाखाद्वये स्थूले श्रुतदृष्टाभिधः स्थितः || २४-३३ || पक्षिणं तं समाक्रम्य ज्ञानपाशेन पाशयेत् |
पक्षिखेलारतो नित्यं कटाक्षः श्रीगुरोः प्रिये || २४-३४ || तेन पक्षद्वयं छिन्नं यदा भवति निश्चयात् |
तदा समुन्मनीभूत उन्मुखो निश्चयात्प्रिये || २४-३५ || सर्वसंकल्परहिता कला सप्तदशी भवेत् |
उन्मनी नाम तस्या हि भवपाशनिकृन्तनम् || २४-३६ || उन्मन्या सहितो योगी न योगी नोन्मनी परा |
यथा कर्पूरगो दीपो न दीपो न पुनः शशी || २४-३७ || अत एव महेशानि दृष्ट्या संक्रमणं यजेत् |
तत्त्वमस्यादिवाक्येन पश्चाद्वाच्यं हि योजयेत् || २४-३८ || आदावकथ्यसंयोज्यं स्पर्शेनैव सुलोचने |
स्पर्शः स्पर्श इवाऽऽभाति श्रीगुरोः करसंभवः || २४-३९ || स्पर्शेन धातवः सद्यो लोहाद्याः सुरवन्दिते |
सुवर्णतां प्राप्य सर्वे विशिष्टाभरणान्विताः || २४-४० || करस्पर्शस्तु देवेशि प्रपञ्चमलिनादिकम् |
लोहत्वं नाशयित्वा हि सुवर्णत्वं करोति हि || २४-४१ || करे पुष्पफलान्कृत्वा ब्रह्मरन्ध्रे करं क्षिपेत् |
तस्माद्ब्रह्मत्वमेवासीति वाक्यार्थः कराद्भवेत् || २४-४२ || अनिर्वाच्योपदेशोऽयं स्पर्शनाद्ब्रह्मरन्ध्रके |
ब्रह्मरन्ध्रे सहस्रारे कर्पूरधवलो गुरुः || २४-४३ || वराभयकरो नित्यो ब्रह्मरूपी सदाऽनघः |
जागती परमेशानि निजस्थानप्रकाशकः || २४-४४ || पश्चात्षट्चक्रविज्ञानं शिष्याय प्रतिबोधयेत् |
आधारं स्वर्णवर्णं च चतुर्दलसुशोभितम् || २४-४५ || वादिसान्तैश्चतुर्वर्णैस्तप्तहेमसमप्रभैः |
गणेशसहितं विद्धि स्वाधिष्ठानं ततः प्रिये || २४-४६ || इन्द्रगोपप्रतीकाशं स्फुरद्विद्रुमसंनिभैः |
बादिलान्तैः स्फुरद्वर्णैर्ब्रह्मणा मण्डितं प्रिये || २४-४७ || नीलवर्णं तृतीयं हि मणिपूरं दशारकम् |
विद्युत्पुञ्जप्रभावर्णैर्डादिफान्तैश्च मण्डितम् || २४-४८ || गदाधरहरिं प्रौढं चतुर्थं शृणु सुव्रते |
पिङ्गाभं द्वादशारं तु कादिठान्तैः सुलोचने || २४-४९ || विस्फुलिङ्गप्रभैर्वर्णैः शिवेन च युतं प्रिये |
विशुद्धचक्रं देवेशि धूम्रवर्णं कलात्मकम् || २४-५० || स्वरैर्माणिक्यसंकाशैर्मण्डितं परमेश्वरि |
जीवात्मानऽधिष्ठितं हि तज्जानीहि तदन्ततः || २४-५१ || आज्ञाचक्रं महेशानि विद्युत्कोटिसमप्रभम् |
द्विदलं हक्षवर्णाभ्यां शुभ्राभ्यां परिमण्डितम् || २४-५२ || परमात्मस्वरूपाढ्यं नादरूपं हि सप्तमम् |
नादो विलीनो यस्मात्तु तस्माद्ब्रह्म तदुच्यते || २४-५३ || देहेऽक्षराणि देवेशि नाद एवात्र कारणम् |
नादः पवनसंयोगत्कुण्डलिन्या युतो यदा || २४-५४ || प्रसन्नः परमेशानि षट्श्चकाणां दलेषु सः |
पञ्चाशद्वर्णरूपत्वं माप्तवान्सुरवन्दिते || २४-५५ || अव्यक्तरूपता प्राप्ता उदात्तादिस्वरैः क्रमात् |
एवं सर्वज्ञतां तस्मै दद्याच्छिष्याय सद्गुरुः || २४-५६ || शिष्यस्तदा श्रीगुरोस्तु पूजां कुर्यात्सुलक्षणाम् |
रत्नाभरणशोभाढ्यां पट्टवस्रधनान्विताम् || २४-५७ || गजाश्वसहितां भद्रे महिषीगोसमन्विताम् |
क्षेत्रग्राममहारामरम्यां चेटीशतान्विताम् || २४-५८ || सुवर्णरश्मिभरितां कस्तूरीचन्द्रचन्दनाम् |
गुरुं संतोष्य विधिवत्प्रसादं तत्त्वसंयुतम् || २४-५९ || गृह्णीयाच्छिष्यवर्यस्तु गुरुस्तस्मा अनन्तरम् |
बालां प्रकाशयेत्कर्णे दक्षिणे च ततः परम् || २४-६० || पञ्चसिंहासनगता विद्याः पश्चात्प्रकाशयेत् |
ततो रहस्यं परमं महात्रिपुरसुन्दरीम् || २४-६१ || प्रकाशयेद्दक्षकर्णे परब्रह्ममयीं प्रिये |
सर्वसौभाग्यजननीं भोगमोक्षफलप्रदाम् || २४-६२ || श्रीविद्यां षोडशार्णां तु ब्रह्मानन्दस्फुरत्कलाम् |
न प्रकाशये द्देवेशि सर्वस्वमिव सुव्रते || २४-६३ || वेदशास्त्रपुराणेषु यामलेष्वपि सुव्रते |
मुप्ता श्रीषोडशार्णेयं निधानमिव संस्मरेत् || २४-६४ || सहोदराय सर्वस्वप्राणदायापि बन्धवे |
राज्ञे राज्यप्रदायापि पुत्राय प्राणदाय च || २४-६५ || न देया षोडशार्णेयं देयं सर्वस्वमद्रिजे |
सुपुत्रदारसहितं शिरो देयं कथंचन || २४-६६ || न देया षोडशार्णा हि प्राणैः कण्ठगतैरपि |
गोपितव्या महाविद्या स्वयोनिरिव पार्वति || २४-६७ || उदके लवणं लीनं यथा भवति शैलजे |
मनो भवति वै लीनं पादयोः श्रीगुरौः प्रिये || २४-६८ || तदा देया महाविद्या कृपया षोडशाक्षरी |
अक्षरैः सहिता वाऽपि निरक्षरतया स्थिता || २४-६९ || आकाशे नीलिमा देवि भ्रान्त्या दृष्टोदरे यथा |
अक्षराणि तथा सन्ति श्रीविद्यायां सुरेश्वरि || २४-७० || षोडशार्णां ब्रह्मरूपां जानीहि परमेश्वरि |
यथा रत्नमये दीपे कज्जलं नैव विद्यते || २४-७१ || श्रीविद्यायां यथाऽव्यक्तव्यक्तता वीरवन्दिते |
न दद्याद्यस्य कस्यापि दद्यात्प्राणप्रियाय च || २४-७२ || कृतार्थोऽसि शिशोर्वाक्यं प्रवदेद्देशिकोत्तमः |
षोडशार्णां महाविद्यां न दद्याद् ब्रह्मरूपिणीम् || २४-७३ || एकोच्चारेण देवेशि वाजपेयस्य कोटयः |
अश्वमेधसहस्रं तु तुलां नाऽऽयाति सर्वदा || २४-७४ || एकोच्चारेण देवेशि प्रादक्षिण्यं भुवो भवेत् |
धेनूनां कपिलानां हि दत्ता यैः कोटिकोटयः || २४-७५ || एकोच्चारेण देवेशि तुलां नाऽऽयाति सर्वदा |
अर्धोदये पुण्यतिथौ हेमभारसहस्रकम् || २४-७६ || तुलापुरुषकोट्यस्तु तुलां नाऽऽयान्ति षोडशीम् |
यदा यद्वर्ण्यते वस्तु तदा सर्व निरामयम् || २४-७७ || तथा ज्ञेया महाविद्या षोडशार्णा वरानने |
परमात्मस्वरूपेयं विश्वस्पन्दनरूपिणी || २४-७८ || श्वासोच्छ्वासतया देवि षट्शतान्येकविंशतिः |
सहस्राणि दिवा रात्रौ हंसः शब्दजपो भवेत् || २४-७९ || स्यन्दनत्वेन सकलं व्याप्य तिष्ठति सर्वतः |
आत्मत्वेनाजपा ज्ञेया सूर्यसोमस्वरूपिणी || २४-८० || निरञ्जनस्वरूपा च निराभासस्वरूपिणी |
अतनुत्वतनुत्वाभ्यां सूक्ष्मत्वेन वरानने || २४-८१ || प्रबोधापादनेनापि मण्डिता वह्निजायया |
षडङ्गैः शोभितां देवीं हंसेनैव प्रपूजिताम् || २४-८२ || अव्यक्तरूपगायत्रीछन्दोवक्त्रां वरानने |
साक्षात्परमहंसाभां देवतां परमेश्वरीम् || २४-८३ || श्रीविद्यां व्यापिकां विद्धि परज्योतिः स्वरूपिणीम् |
आत्मस्वरूपलिङ्गं हि मायागेहगतं प्रिये || २४-८४ || श्रद्धातरङ्गिणीनीरक्षालितं भववन्दनम् |
सुमनोमण्डितं वाऽपि समाधिकुसुमैर्वरम् || २४-८५ || ज्ञानाङ्गारे प्रपञ्चाख्यं धूपं दीपं च चिन्मयम् |
अधितिष्ठति सर्वत्र सर्वनैवेद्यमण्डितम् || २४-८६ || निष्प्रपञ्चं निराभासं केवलं ब्रह्मसत्कलम् |
षोडशार्णा परा विद्या श्रीविद्येत्यभीधीयते || २४-८७ || शुक्लपक्षे शुभदिने शुभवारे वरानने |
मन्त्राद्यारम्भणं कुर्याद्ग्रहणे चन्द्रसूर्ययोः || २४-८८ || न वारमासदोषा हि ग्रहणे चन्द्रसूर्ययोः |
पवित्रं सर्व देवेशि दानमेव शुभे दिने || २४-८९ || चैत्रे वै निष्फलं ज्ञेयं नीरजायतलोचने |
वैशाखे क्षेत्रलाभं च ज्येष्ठे च मरणं ध्रुवम् || २४-९० || आषाढे बन्धुनाशं च श्रावणे च शतायुषम् |
क्षयो भाद्रपदे मासि आश्विने रत्नसंपदः || २४-९१ || कातीके तु भवेल्लक्ष्मीर्मार्गशीर्षे धनं महत् |
पौषे तु सम्भवेत्क्लेशो माघे सम्पत्तिरुत्तमा || २४-९२ || फाल्गुने सर्वकार्याणि मासानां फलमीदृशम् |
शिष्यस्य प्रथमार्णं हि गृहीत्वा सुन्दरि पिरये || २४-९३ || नाम संकल्पयेद्देवि मनोज्ञं स्थिरबुद्धये || श्रीविद्यां हृदये तस्य न्यसेदव्यक्तरूपिणीम् || २४-९४ || श्रीविद्याक्षरपङ्क्तिस्तु परब्रह्मणि चिन्मयी |
उदके लवणं लीनं यथा तिष्ठति पार्वति || २४-९५ || तस्माद्ब्रह्ममयीं विद्धि सर्वशास्रेषु योजिताम् || २४-९६ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे दीक्षाविधिर्नाम चतुवींशः पटलः || २४ ||

Devi und Ishvara: Frage und Unterweisung führen zur Erkenntnis.

Paṭala 25

अथ पञ्चविंशः पटलः


ईश्वर उवाच --

पवित्रारोपणं वक्ष्ये साधकानां हिताय च |
वर्षमात्रकृता पूजा सफला भवति ध्रुवम् || २५-१ || तस्मात्पवित्रपूजा हि कर्तव्या सिद्धिहेतवे |
आरभ्य मिथुनार्कं हि तुलासंक्रान्तिमासकम् || २५-२ || अतिरम्या महापूजा पवित्राणां सुरेश्वरि |
पक्षद्वयेऽपि पूजा स्याच्चतुर्थ्यामष्टमीदिने || २५-३ || नवम्यां वा चतुर्दश्यां पवित्रारोपणं यजेत् |
सौवर्णरौप्यताम्राणां सूक्ष्मसूत्राणि कारयेत् || २५-४ || कार्पाससंभवान्येव पट्टसूत्रसमुद्भवम् |
त्रसरीसूत्रसंभूतं पद्मवल्कलसंभवम् || २५-५ || दर्भमुञ्जशणोद्भूतं पवित्राय प्रकल्पयेत् |
प्रणवश्चन्द्रमा वह्निर्ब्रह्मा नागो गुहो रविः || २५-६ || साम्बाख्यः सर्वदेवश्च नवतन्तुषु पूजयेत् |
शिरोमन्त्रेणाभिमन्त्र्य हृन्मन्त्रेण ततः परम् || २५-७ || प्रक्षालयेत्ततोऽभ्युक्ष्यास्रमन्त्रेण च देशिकः |
अवरुध्य च नेत्रेण ग्रथितं कवचेन हि || २५-८ || रोचनाकुङकुमाभ्यां च रक्तचन्दनचन्दनैः |
कस्तूरीघुसृणाद्यैश्च कर्पूरैर्न { र्ना } गरैरपि || २५-९ || गैरिकाद्यैवीचित्रं तत्कारयेत्सुमनोहरम् |
मूलमन्त्रेण चाभ्युक्ष्य स्थापयेदीशकोणके || २५-१० || पवित्रवृन्दं सकलं षडङ्गैस्तु पवित्रितम् |
कृत्वा देवेशि पूर्वस्मिन्दिवसे सद्य एव वा || २५-११ || अष्टोत्तरशतैः सूत्रैर्नवसूत्रेण कल्पितैः |
उत्तमं तत्पवित्रं हि तदर्धं मध्यमं स्मृतम् || २५-१२ || तस्याप्यर्धं कनिष्ठं स्यात्त्रिविधं कथितं प्रिये |
अधिवासनवेलायां यवान्विस्तार्य सुव्रते || २५-१३ || चतुभीरासनैस्तत्र पुष्पं निक्षिप्य देशिकः |
पवित्राणि पवित्राणि पञ्चामृतसमुच्चयैः || २५-१४ || रचितान्यमलैः पञ्चरत्नैः सर्वौषधीगणैः |
नववस्त्रयुगेनाथ सम्यगाच्छाद्य सुव्रते || २५-१५ || देवि कुम्भं प्रतिष्ठाप्य पूर्ण चामीकरादिभिः |
देवीमावाह्य तत्कुम्भे मूलमन्त्रेण पूजयेत् || २५-१६ || ततः क्रमं समभ्यर्च्य पवित्रार्पणमारभेत् |
श्रीविद्यया पवित्राणि गुरोर्नाम्ना च देशिकः || २५-१७ || पवित्रं गुरवे दद्यात्सर्वेभ्यस्तदनन्तरम् |
गुरुभ्यस्त्रिविधेभ्यश्च पवित्राण्यर्पयेत्ततः || २५-१८ || तिथिनित्यागणायाथ पवित्रारोपणं यजेत् |
नवचक्रस्थितायाथ चक्रेशीनवकाय च || २५-१९ || रश्मिवृन्दाय देवेशि प्रत्येकं भावपूर्वकम् |
पवित्रकं समर्प्याथ गुरून् संतोषयेत्प्रिये || २५-२० || स्वर्णालंकारवस्त्रैश्च नानाधनसमुच्चयैः |
तत्प्रसादं पवित्रं च धारयेत्तदनन्तरम् || २५-२१ || तदङ्गहोमं निर्वर्त्य पवित्रेण समर्चयेत् |
कुमारीपूजनं कुर्यात्ततः सुवासिनीगणम् || २५-२२ || योगिन्यो योगिनश्चैव ब्राह्मणा विविधा गणाः |
पूज्या हि परमेशानि यदीच्छेत्सिद्धिमात्मनः || २५-२३ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे श्रीविद्यापवित्रारोपणविधिर्नाम पञ्चविंशः पटलः || २५ ||

Paṭala 26

अथ षड्विंशः पटलः


ईश्वर उवाच --

दमनारोपणं वक्ष्ये साधकानां हिताय च |
संवत्सरकृता पूजा येन पूर्णा भवेत् प्रिये || २६-१ || तपोभङ्गाय मदनो मम शैलभवे यदा |
भस्मीभवत्तदा पत्नी रतिः प्रीतिश्च दुःखिते || २६-२ || तन्नेत्रवारिसंभूता दमनस्य लता भवेत् |
तत्सौरभ्यं च सौभाग्यं महदासीत्सुलोचने || २६-३ || तेन संतुष्टसुहृदा वरो दत्तो मया प्रिये |
रत्यै प्रीत्यै च तस्मात्तु मदनः प्रकटीकृतः || २६-४ || दमनेन च यो मन्त्री वर्षमध्ये न पूजयेत् |
तस्य सांवत्सरी पूजा मदनाय भविष्यति || २६-५ || इति तस्मै वरो दत्तो मयैव सुरवन्दिते |
तस्माद्दमनपूजा हि कर्तव्या वीरवन्दिते || २६-६ || अन्यथा तत्फलं वर्षकृतं कामाय जायते |
समूलं दमनं देवि स्थापयेत्पात्रके वरे || २६-७ || दमनं नवधा कूर्यात्पूजयेत्तदनन्तरम् |
आनन्देश्वरबीजेन ततो भिन्नेन सुन्दरि || २६-८ || आनन्देश्वरबीजेन नवधा बिन्दुना सह |
नवप्रकारभिन्नाङ्गं दमनं पूजयेत्क्रमात् || २६-९ || अघोरविद्यया पश्चादभिषिच्य तमेव हि |
पूर्वोक्तया दक्षिणस्यां दिशि सिंहासनोक्तया || २६-१० || अस्त्रेण रक्षणं कुर्यात्कवचेन ततः परम् |
बद्ध्वा त्रिशूलमुद्रां तु भ्रामयेद्दमनोपरि || २६-११ || चैत्रे सितचतुर्दश्यां दमनारोपणं भवेत् |
उद्धरेदस्त्रमन्त्रेण हृदयेन च लेपयेत् || २६-१२ || श्रीखण्डघुसृणेन्द्राद्यैरधिवासं च कारयेत् |
प्रथमे दिवसे कुर्यादधिवासनमुत्तमम् || २६-१३ || सद्योऽधिवासनं वाऽपि वर्षपूर्जासुसिद्धये |
प्रातःकाले चतुर्दश्यां नित्यार्चानन्तरं ततः || २६-१४ || नवकोणं विरच्याथ सिन्दुरेण महाप्रभम् |
कलशान्नव संस्थाप्य हेमरत्नादिपूरितान् || २६-१५ || एकं वा कलशं रम्यं स्थापयेद्देशिकोत्तमः |
दक्षतो मण्डलं कृत्वा कुङ्कुमाद्यैवीचित्रितम् || २६-१६ || अशोकतरुमालिख्य त्रिकोणं मण्डलं लिखेत् |
तन्मध्ये पूजयेत्कामं तरुणं चारुणप्रभम् || २६-१७ || रक्तवस्रं रक्तभूषं वामदक्षिणयोः प्रिये |
रतिप्रीतिविशोभाढ्यं पञ्चबाणं धनुर्धरम् || २६-१८ || बसन्तसहितं कामं कदम्बवनमध्यगम् |
मन्त्रेणानेन तं कामं पूजयेत्सिद्धिहेतवे || २६-१९ || वाग्भवं भुवनेशानीं श्रियं कामात्मकेन च |
कामाय नम आलिख्य विद्येयं नववणीनी || २६-२० || कामबीजत्रयं चोक्त्वा रत्यात्मकमुच्चरेत् |
रत्यै नमश्चाष्टवर्णां रतिविद्या वरानने || २६-२१ || प्रीतिं वदेद्रतिस्थाने प्रीतिमन्त्रोऽष्टवर्णकः |
गौरश्यामे रतिप्रीती क्रमेण मणिभूषणे || २६-२२ || पद्मताम्बूलहस्ते च रक्तवस्त्रविराजिते |
दिव्याभरणभूषे च पुष्पदामविराजिते || २६-२३ || वामदक्षिणयोर्ध्यात्वा कामस्य तदनन्तरम् |
वसन्तं पूजयेत्पश्चात्कदम्बवनमध्यगम् || २६-२४ || गौरवर्णं वामहस्ते सुधापूर्णघटान्वितम् |
दक्षहस्तेन दधतं नानापुष्पसमुच्चयम् || २६-२५ || साङ्गं कामं प्रपूज्याथ धूपदीपादि दर्शयेत् |
दमने पूजितः कामः सर्वकार्याणि साधयेत् || २६-२६ || तेन सम्यक्प्रपूज्याथ महात्रिपुरसुन्दरीम् |
क्रमं समर्चयेत्सम्यक्कुमारीर्भोजयेद्बुधः || २६-२७ || सुवासिनीश्च सम्पूज्य योगिनीगणमर्चयेत् |
ब्राह्मणान् परिपूज्याथ नानादर्शनपारगान् || २६-२८ || तदङ्गहवनात्पश्चाद्गुरुं रत्नादिभूषणैः |
स्वर्णभारसहस्रैश्च दिव्यवस्त्रमनोरमैः || २६-२९ || पूजयित्वा ततो देवि पूर्णाहुतिमथोच्चरेत् |
अनेन विधिना देवि दमनारोपणं यजेत् || २६-३० || तस्य सांवत्सरी पूजा सफला शैलसंभवे || २६-३१ ||

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे देवीश्वरसंवादे श्रीविद्यादमनारोपणविधिर्नाम षड्विंशः पटलः || २६ ||

Weiterlesen

Hauptartikel und deutsche Übersetzung · IAST · Devanagari · 108 inspirierende Verse und Mantras

Der Sanskrittext lädt zum sorgfältigen Studium ein. Die deutsche Übersetzung erschließt den Sinn der Ritualbegriffe; die Versauswahl richtet den Blick besonders auf Guru, Shakti, Dhyana, Jnana und Moksha.

Siehe auch

Weblinks