Lakshmi Tantra Sanskrit Devanagari
Lakshmi Tantra Sanskrit Devanagari bietet den überlieferten Grundtext des Lakshmi Tantra: eine Begegnung mit Lakshmi als göttlicher Kraft, Erkenntnis und schöpferischer Gegenwart Narayanas. Die Schrift führt von der Frage nach dem höchsten Selbst zu Mantra, Gottesverehrung und Befreiung.
Hauptartikel · Sanskrit IAST · Sanskrit Devanagari
Die Lesefassung enthält die 50 Hauptkapitel und den vorhandenen Zusatzbestand bis Kapitel 57. Kapitel 56 ist nicht überliefert; weitere Lücken des Zusatzteils werden an Ort und Stelle ausgewiesen. Die Vorlage enthält daneben Kommentare und Lesarten, die nicht zum laufenden Grundtext dieser Seite gehören.

Diese Sanskritfassung lesen
Die Devanagari-Fassung lädt dazu ein, dem Original in seiner indischen Schrift zu begegnen. Nutze bei Bedarf die IAST-Umschrift als Lesehilfe und die deutsche Übersetzung zum Verständnis. Schon ein einzelner sorgfältig gelesener Vers kann zum Gegenstand von Schriftenstudium und stiller Betrachtung werden.
Für einen ersten Zugang eignen sich Kapitel 14 über Bewusstsein, Kapitel 17 über Zuflucht und Kapitel 50 über das Shri Sukta. Die Links bei jedem Kapitel führen zur entsprechenden Stelle der anderen beiden Fassungen.
Sanskrittext
श्रीः
लक्ष्मीतन्त्रम्
Kapitel 1
Deutsche Übersetzung: Kapitel 1 · Sanskrit IAST: Kapitel 1
नमो नित्यानवद्याय जगतः सर्वहेतवे |
ज्ञानाय निस्तरङ्गाय लक्ष्मीनारायणात्मने || १ - १ ||
खगासनं घृणाधारमीदृशं सोमभूषितम् |
अकलङ्केन्दुसूर्याग्निं लक्ष्मीरूपमुपास्महे || १ - २ ||
वेदवेदान्ततत्त्वज्ञं सर्वशास्त्रविशारदम् |
सर्वसिद्धान्ततत्वज्ञं धर्माणामागतागमम् || १ - ३ ||
जितेन्द्रियं जिताधारं रागद्वेषावशीकृतम् |
चतुर्दशाङ्गयोगस्थं प्रसंख्यानपरायणम् || १ - ४ ||
विद्धे स्वर्भानुना भानौ पुरा तपनतां गतम् |
निदानं तपसामाद्यं तेजोराशिमनामयम् || १ - ५ ||
अत्रिमत्रिगुणोपेतमत्रिवर्गस्थमव्ययम् |
प्रातः संध्यामुपासीनमृषिं हुतहुताशनम् || १ - ६ ||
पतिव्रतानां परमा धर्मपत्नी यशस्विनी |
ब्रह्मविष्णुमहेशानां जननी कारणान्तरे || १ - ७ ||
देवैरभिष्टता शश्वच्छान्तिनित्या तपस्विनी |
विदुषी सर्वधर्मज्ञा नित्यं पतिमनुव्रता || १ - ८ ||
पत्युः श्रुतवती तास्ता विविधा धर्मसंहिताः |
प्रणिपातपुरस्कारमनसूया वचोऽब्रवीत् || १ - ९ ||
अनसूया -
भगवन् सर्वधर्मज्ञ मम नाथ जगत्पते |
त्वत्त एव श्रुता धर्मास्ते ते बहुविधात्मकाः || १ - १० ||
ज्ञानानि च विचित्राणि फलरूपादिभेदतः |
एतेभ्यो भगवद्धर्मो विशिष्टो विधृतो मया || १ - ११ ||
त्वया कथयता तास्ता भगवद्धर्मसंहिताः |
सूचितं तत्र तत्रैव लक्ष्मीमाहात्म्यमुत्तमम् || १ - १२ ||
रहस्यत्वादपृष्टत्वान्न त्वया प्रकटीकृतम् |
तदहं श्रोतुमिच्छामि लक्ष्मीमाहात्म्यमुत्तमम् || १ - १३ ||
यत्स्वभावा हि सा देवी यत्स्वरूपा यदुद्भवा |
यत्प्रमाणा यदाधारा यदुपायाथ यत्फला || १ - १४ ||
तदहं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर |
भवेयं कृतकृत्याहं यस्य विज्ञानयोगतः || १ - १५ ||
तं मे दर्शय पन्थानमुपसन्नास्म्यधीहि भो |
इति तस्या वचः श्रुत्वा भगवानत्रिरब्रवीत् || १ - १६ ||
अत्रिः -
साधु संबोधितोऽस्म्यद्य धर्मज्ञे धर्मचारिणि |
मया पृष्टेन वक्तव्यमिति नोद्धाटितं पुरा || १ - १७ ||
अर्हा त्वमसि कल्याणि लक्ष्मीमाहात्म्यमुत्तमम् |
श्रोतुं श्रुतिशिरःश्रेणिहृदयस्थं सनातनम् || १ - १८ ||
पुरा मलयशैलस्था मुनयो धर्मतत्पराः |
श्रुतसात्त्वतविज्ञाना नारदाद्देवदर्शनात् || १ - १९ ||
अपृच्छन्नेतमेवार्थं भगवन्तं सनातनम् |
नारदं ब्रह्मसंकाशं भगवद्धर्मवेदिनम् || १ - २० ||
ऋषयः
भगवंस्त्वच्छ्रुतोऽस्माभिः सात्त्वतः सत्त्वसंश्रयः |
शुद्धो भागवतो धर्मो मोक्षैकफललक्षणः || १ - २१ ||
तत्र तत्त्वार्थकथने लक्ष्मीमाहात्म्यमुत्तमम् |
सूचितं तत्र तत्रैव नापृष्टत्वात्प्रकाशितम् || १ - २२ ||
इच्छामस्तदिदं श्रोतुं भवसागरतारकम् |
पद्मिनीवैभवं सर्वं प्रज्ञापयतु नो भवान् || १ - २३ ||
नताः स्म शिरसा पादौ तव संसारतारकौ |
अधीहि भो मुने दिव्यं प्रपन्नास्त्वां चिरं वयम् ||
नारदः -
साधु संबोधितोऽस्म्यद्य मुनयः संशितव्रताः |
प्रसन्नः कथयाम्यद्य लक्ष्मीतन्त्रं सनातनम् || १ - २५ ||
यत्र सा दृश्यते देवी स्वरूपगुणवैभवैः पद्मिनी पद्मनाभस्य महिषी पद्मसंभवा || १ - २६ ||
पुरा दुर्वाससः शापादभिभूते पुरंदरे |
निःस्वाध्यायवषट्कारे भ्रष्टश्रीके जगत्त्रये || १ - २७ ||
दरिद्रे देववर्गे च कृशे धर्मे निसंतते |
पितामहे सुरैः सार्धं क्षीरोदार्णवमेयुषि || १ - २८ ||
बहून् वर्षगणान् दिव्यांस्तप्त्वा तीव्रं महत्तपः |
संबोधिते जगन्नाथे देवदेवे जनार्दने || १ - २९ ||
पितामहेन देवाय कार्ये च विनिवेदिते |
श्रीरोदे मथिते देवैस्तदादिष्टेन वर्त्मना || १ - ३० ||
पारिजाते हयश्रेष्ठे गजेन्द्रेऽप्सरसां गणे |
कालकूटे समुद्भूते वारुण्याममृते तथा || १ - ३१ ||
सह चन्द्रमसा देव्यामुत्थितायां महार्णवात् |
पद्मिन्यां पद्मनाभस्य वक्षःस्थायामनन्तरम् || १ - ३२ ||
तयावलोकिते देववर्गे श्रियमुपेयुषि |
तयानवेक्षिते दैत्यवर्गे चैव पराजिते || १ - ३३ ||
स्वाराज्यमखिलं प्राप्य मोदमाने पुरंदरे |
बृहस्पतिरुपागम्य रहसीदं वचोऽब्रवीत् || १ - ३४ ||
बृहस्पतिः -
काले संबोधयाम्येतच्छृणु वाक्यं पुरंदर |
अन्वयव्यतिरेकाभ्यां लक्ष्म्यास्ते कथिता पुरा || १ - ३५ ||
महत्ता महतां नाथ तस्यामायतते स्थितिः |
न भ्रश्येत यथैवैषा तव राज्यस्थितिः परा || १ - ३६ ||
तथा यतस्व देवेश शरणं गच्छ पद्मिनीम् |
एषा हि श्रेयसो मूलमेषा हि परमा गतिः || १ - ३७ ||
श्रुतीनामभिसंधिश्च सैव देवी सनातनी |
एषैव जगतां प्राणा एषैव जगतां क्रिया || १ - ३८ ||
एषैव जगतामिच्छा ज्ञानमेषा परावरा |
एषैव सृजते काले सैषा पाति जगत्त्रयम् || १ - ३९ ||
जगत्संहरते चान्ते तत्तत्कारणसंस्थिता |
मातरं जगतामेनामनाराध्य महत् कुतः || १ - ४० ||
एतत्तु वैष्णवं धाम यतो नावर्तते यतिः |
एषा सा परमा निष्ठा सांख्यानां विदितात्मनाम् || १ - ४१ ||
एषा सा योगिनां निष्ठा यत्र गत्वा न शोचति |
एषा पाशुपती निष्ठा सैषा वेदविदां गतिः || १ - ४२ ||
पञ्चरात्रस्य कृत्स्नस्य सैषा निष्ठा सनातनी |
सैषा नारायणी देवी स्थिता नारायणात्मना || १ - ४३ ||
पृथग्भूतापृथग्भूता ज्योत्स्नेव हिमदीधितेः |
तैस्तैर्ज्ञानैः पृथग्भूतैरागमैश्च पृथग्विधैः || १ - ४४ ||
एकैवैषा परा देवी बहुधा समुपास्यते |
तामुपेहि महाभागां शरणं पद्मसंभवाम् || १ - ४५ ||
तपोविशेषैर्विविधैस्तैस्तैश्च नियमैः शुभैः |
आराध्य महिषीं विष्णोः स्थिरीकुरु निजश्रियम् || १ - ४६ ||
एषा प्रसादसुमुखी स्वं पदं प्रापयिष्यति |
अभिप्सितार्थदा देवी कामिनामपि कामदा || १ - ४७ ||
नारदः -
इति संबोधितः शक्रो गुरुणा गुरुणा स्वयम् |
आराधयितुकामस्तां क्षीरोदस्योत्तरं ययौ || १ - ४८ ||
तत्र दिव्यं तपस्तेपे बिल्वमूलनिकेतनः |
एकपादस्थितो मौनी काष्ठभूतोऽनिलाशनः || १ - ४९ ||
ऊर्ध्वदृग्बाहुवक्त्रश्च नियतो नियतात्मवान् |
दिव्यं वर्षसहस्रं वै तपस्तेपे सुदुश्चरम् || १ - ५० ||
तपसोऽवभृथे तस्य सा देवी पद्मसंभवा |
प्रसन्नवदना विष्णोर्महिषी दर्शनं ययौ || १ - ५१ ||
अग्रतः संस्थितां देवीं जगतां मातरं पराम् |
तां शक्रश्चक्षुषा वीक्ष्य विस्मयं परमं ययौ || १ - ५२ ||
विह्वलः प्रणिपत्याथ प्राञ्जलिर्बलसूदनः |
श्रियं सूक्तेन तुष्टाव पद्मिनीं पाकशासनः || १ - ५३ ||
एकान्तभावमापन्नमव्याजां भक्तिमास्थितम् |
तं वीक्ष्यजगतां माता वाक्यमेतदुवाच ह || १ - ५४ ||
श्रीः -
वत्स शक्र प्रसन्नास्मि तपसा तव सुव्रत |
वरं वृणु महाभाग किमिष्टं करवाणि ते || १ - ५५ ||
शक्रः -
अद्य मे तपसो देवि यमस्य नियमस्य च |
सद्यः फलमवाप्तं यद् दृष्टा भगवती मया || १ - ५६ ||
यदि वापि वरो देयस्त्वया मे परमेश्वरि |
तत्त्वं कथय देवेशि यासि त्वं यत्प्रकारिका || १ - ५७ ||
यत्प्रमाणा यदाधारा यदुपाया सनातनी |
यस्य त्वं तेन वा देवि संबन्धस्तव यद्विधः || १ - ५८ ||
यच्चान्यद्वेदितव्यं ते नानाशास्त्रोपबृंहितम् |
कथयेश्वरि तत्सर्वमुपसन्नोऽस्म्यधीहि भो || १ - ५९ ||
इति प्रसादिता तेन वत्सेनेव पयस्विनी |
स्निह्यता मनसा पद्मा पाकशासनमब्रवीत् || १ - ६० ||
श्रीः -
शृणु शक्र महाभाग या ह्यहं यत्प्रकारिका |
यस्याहं तेन वा यादृक् संबन्धो मम वृत्रहन् || १ - ६१ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे शास्त्रावतारो नाम प्रथमोऽध्यायः ||
Kapitel 2
Deutsche Übersetzung: Kapitel 2 · Sanskrit IAST: Kapitel 2
श्रीरुवाच -
अस्ति निर्दुःखनिःसीमसुखानुभवलक्षणः |
परमात्मा परं यस्य पदं पश्यन्ति सूरयः || २ - १ ||
कश्चित्केषांचिदात्मा स्यात्तास्यान्येषां च कश्चन |
तस्याप्यन्य इतीत्थं तु यत्रैषा व्यवतिष्ठते || २ - २ ||
अध्वनामध्वनः पारं परमात्मानमूचिरे |
अहं नाम स्मृतो योऽर्थः स आत्मा समुदीर्यते || २ - ३ ||
अनवच्छिन्नरूपोऽहं परमात्मेति शब्द्यते |
क्रोडीकृतमिदं सर्वं चेतनाचेतनात्मकम् || २ - ४ ||
येन सोऽहंस्मृतो भावः परमात्मा सनातनः |
स वासुदेवो भगवान् क्षेत्रज्ञः परमो मतः || २ - ५ ||
विष्णुर्नारायणो विश्वो विश्वरूप इतीर्यते |
अहंतया समाक्रान्तं तस्य विश्वमिदं जगत् || २ - ६ ||
वस्त्ववस्तु च तन्नास्ति यन्नाक्रान्तमहंतया |
इदंतया यदालीढमाक्रान्तं तदहंतया || २ - ७ ||
सर्वतः शान्त एवासौ निर्विकारः सनातनः |
अनन्तो देशकालादिपरिच्छेदविवर्जितः || २ - ८ ||
महाविभूतिरित्युक्तो व्याप्तिः सा महती यतः |
तद् ब्रह्म परमं धाम निरालम्बनभावनम् || २ - ९ ||
निस्तरङ्गामृताम्भोधिकल्पं षाड्गुण्यमुज्ज्वलम् |
एकं तच्चिद्धनं शान्तमुदयास्तमयोज्झितम् || २ - १० ||
अपृथग्भूतशक्तित्वाद् ब्रह्माद्वैतं तदुच्यते |
तस्य या परमा शक्तिर्ज्योत्स्नेव हिमदीधितेः || २ - ११ ||
सर्वावस्थागता देवी स्वात्मभूतानपायिनी |
अहंता ब्रह्मणस्तस्य साहमस्मि सनातनी || २ - १२ ||
आत्मा स सर्वभूतानामहंभूतो हरिः स्मृतः |
अहंता सर्वभूतानामहमस्मि सनातनी || २ - १३ ||
येन भावेन भवति वासुदेवः सनातनः |
भवतस्तस्य देवस्य स भावोऽहमितीरिता || २ - १४ ||
भवद्भावात्मकं ब्रह्म ततस्तच्छाश्वतं पदम् |
भवन्नारायणो देवो भावो लक्ष्मीरहं परा || २ - १५ ||
लक्ष्मीनारायणाख्यातमतो ब्रह्म सनातनम् |
अहंतया समाक्रान्तो ह्यहमर्थः प्रसिध्यति || २ - १६ ||
अहमर्थसमुत्था च साहंता परिकीर्तिता |
अन्योन्येनाविनाभावादन्योन्येन समन्वयात् || २ - १७ ||
तादात्म्यं विद्धि संबन्धं मम नाथस्य चोभयोः |
अहंतया विनाहं हि निरुपाख्यो न सिध्यति || २ - १८ ||
अहमर्थं विनाहंता निराधारा न सिध्यति |
भवद्भावात्मकं रूपं समस्तव्यस्तगोचरम् || २ - १९ ||
परोक्षमपरोक्षं च जगति प्रविचिन्त्यते |
निरुन्मेषे निरुन्मेषा साहंता परमेश्वरी || २ - २० ||
क्रोडीकृत्याखिलं सर्वं ब्रह्मणि व्यवतिष्ठते |
उन्मेषस्तस्य यो नाम यथा चन्द्रोदयेऽम्बुधेः || २ - २१ ||
अहं नारायणी शक्तिः सिसृक्षालक्षणा तदा |
निमेषस्तस्य यो नाम संहृतौ परमात्मनः || २ - २२ ||
अहं नारायणी शक्तिः सुषुप्सालक्षणा हि सा |
सिसृक्षाया ममोद्यन्त्या देवाल्लक्ष्मीपतेःस्वयम् || २ - २३ ||
अव्याहतमसंकोचमैश्वर्यं प्रविजृम्भते |
ज्ञानं तत्परमं ब्रह्म सर्वदर्शि निरामयम् || २ - २४ ||
ज्ञानात्मिका तथाहंता सर्वज्ञा सर्वदर्शिनी |
ज्ञानात्मकं परं रूपं ब्रह्मणो मम चोभयोः || २ - २५ ||
शेषमैश्वर्यवीर्यादि ज्ञानधर्मः सनातनः |
अहमित्यान्तरं रूपं ज्ञानरूपमुदीर्यते || २ - २६ ||
प्रकाशकादिकं रूपं स्फटिकादिसलक्षणम् |
अतस्तु ज्ञानरूपत्वं मम नारायणस्य च || २ - २७ ||
अव्याहतिर्यदुद्यत्यास्तदैश्वर्यं परं मम |
इच्छेति सोच्यते तत्तत्तत्त्वशास्त्रेषु पण्डितैः || २ - २८ ||
जगत्प्रकृतिभावो मे यः सा शक्तिरितीर्यते |
सृजन्त्या यच्छ्रमाभावो मम तद्बलमिष्यते || २ - २९ ||
भरणं यच्च कार्यस्य बलं तच्च प्रचक्षते |
शक्त्यंशकेन तत्प्राहुर्भरणं तत्त्वकोविदाः || २ - ३० ||
विकारविरहो वीर्यं प्रकृतित्वेऽपि मे सदा |
स्वभावं हि जहात्याशु पयो दधिसमुद्भवे || २ - ३१ ||
जगद्भावेऽपि सा नास्ति विकृतिर्मम नित्यदा |
विकारविरहो वीर्यमतस्तत्त्वविदां मतम् || २ - ३२ ||
विक्रमः कथितो वीर्यमैश्वर्यांशः स तु स्मृतः |
सहकार्यनपेक्षा मे सर्वकार्यविधौ हि या || २ - ३३ ||
तेजः षष्ठं गुणं प्राहुस्तमिमं तत्त्ववेदिनः |
पराभिभवसामर्थ्यं तेजः केचित्प्रचक्षते || २ - ३४ ||
ऐश्वर्ये योजयन्त्येके तत्तेजस्तत्त्वकोविदाः |
इति पञ्च गुणा एते ज्ञानस्य स्रुतयोऽमलाः || २ - ३५ ||
ज्ञानाद्याः षड्गुणा एते षाड्गुण्यं मम तद्वपुः |
उद्यतीत्थं सिसृक्षाया ममायुततमी कला || २ - ३६ ||
शुद्धाशुद्धात्मको वर्गस्तया क्रोडीकृतोऽखिलः |
तत्र शुद्धमयं मार्गं व्याख्यास्यामि सुरेश्वर || २ - ३७ ||
अभिव्यक्तानभिव्यक्तषाड्गुण्यक्रममुज्ज्वलम् |
आलम्बितचतूरूपं रूपं तत्पारमेश्वरम् || २ - ३८ ||
गुणकल्पनयाध्यस्तो गुणोन्मेषकृतक्रमः |
मूर्तीकृतगुणश्चेति त्रिधा मार्गोऽयमद्भुतः || २ - ३९ ||
युगानि त्रीणि षण्णां यान्याहुर्ज्ञानादिकानि वै |
समासव्यासतस्तेषां चातुरात्म्यं विविच्यते || २ - ४० ||
समस्तव्यस्तभेदेन गुणानां तद्युगत्रयम् |
विवक्ष्यते यदा सा मे शान्तायाश्चातुरात्म्यता || २ - ४१ ||
आकृतीरनवेक्ष्यापि गुणानां कल्पनाकृतम् |
चातुरात्म्यमिदं प्राहुः शान्तायास्तत्त्वचिन्तकाः || २ - ४२ ||
शान्तातिशान्तादुन्मेषो मम रूपाद्युगत्रये |
क्रमव्यक्तं तदाद्यं मे चातुरात्म्यममूर्तिमत् || २ - ४३ ||
अतरङ्गमनिर्देश्यं निःसत्तं सत्त्वमव्ययम् |
सच्चिन्मात्राख्य उन्मेषः साद्या मे शान्तताच्युतिः || २ - ४४ ||
व्यक्तज्ञानबलाख्यायां पूर्वं संकर्षणात्मनि |
तिलकालकवत्सर्वो विकारो मयि तिष्ठति || २ - ४५ ||
तन्मां संकर्षणात्मानं विदुर्ज्ञानबले बुधाः |
स्वयं गृह्णामि कर्तृत्वमुन्मिषन्ती ततः परम् || २ - ४६ ||
प्रद्युम्न इति मामाहुः सर्वार्थद्योतनीं तदा |
युगं प्रस्फुरितं रूपं तस्मिन्नैश्वर्यवीर्ययोः || २ - ४७ ||
ततस्तया क्रियाशक्त्या लब्धावेशा चिकीर्षया |
युज्यमानानिरुद्धाख्यां लम्भिता तत्त्वकोविदैः || २ - ४८ ||
अवस्थाः क्रमशो मे ताः सुषुप्तिस्वप्नजागराः |
तिस्रो मम स्वभावाख्या विज्ञानैश्वर्यशक्तयः || २ - ४९ ||
उन्मिषन्त्यः पृथक्तत्त्वत्रयेण परिकीर्तिताः |
बलं वीर्यं तथा तेज इत्येतत्तु गुणत्रयम् || २ - ५० ||
श्रमाद्यवद्याभावाख्यं ज्ञानादेरुपसर्जनम् |
इत्थं शान्तोदितावस्थाद्वयभेदजुषो मम || २ - ५१ ||
स्वधर्मोर्मिसमुल्लासो न भेदायाम्बुधेरिव |
प्रायो यद्गुणकर्तव्ये वर्ते कृत्या यया ह्यहम् || २ - ५२ ||
तत्र तद्गुणयुग्मं तु मम रूपतयोच्यते |
अतो ज्ञानबले देवः संकर्षण उदीर्यते || २ - ५३ ||
ऐश्वर्यवीर्ये प्रद्युम्नोऽनिरुद्धः शक्तितेजसी |
आद्यस्त्वभिन्नषाड्गुण्यो ब्रह्मतत्त्वापृथक्स्थितौ || २ - ५४ ||
एकोऽप्यनुनयौदार्यक्रौर्यशौर्यादिभिर्गुणैः |
नटः प्रवर्तते यद्वद्वेषचेष्टादिभेदवान् || २ - ५५ ||
तद्वदेकापि सैवाहं ज्ञानशक्त्यादिभिर्गुणैः |
संकर्षणादिसद्भावं भजे लोकहितेप्सया || २ - ५६ ||
क्रमशः प्रलयोत्पत्तिस्थितिभिः प्राण्यनुग्रहः |
प्रयोजनमथा?न्यच्च शास्त्रशास्त्रार्थतत्फलैः || २ - ५७ ||
दशास्तुर्यसुषुप्त्याद्याश्चतुर्व्यूहेऽपि लक्षयेत् |
विभवोऽनन्तरूपस्तु पद्मनाभमुखो विभोः || २ - ५८ ||
अनिरुद्धस्य विस्तारो दर्शितस्तस्य सात्त्वते |
अर्चापि लौकिकी या सा भगवद्भावितात्मनाम् || २ - ५९ ||
मन्त्रमन्त्रेश्वरन्यासात्सापि षाड्गुण्यविग्रहा |
पराद्यर्चावसानेऽस्मिन्मम रूपचतुष्टये || २ - ६० ||
तुर्याद्यवस्था विज्ञेया इतीयं शुद्धपद्धतिः |
ईषद्भेदेन विज्ञेयं तद्व्यूहविभवान्तरम् || शुद्धेतरं त्वथो मार्गं मम शक्र निशामय || २ - ६१ ||
इति श्रीपाञ्चारात्रसारे लक्ष्मीतन्त्रे शुद्धमार्गप्रकाशो नाम द्वितीयोऽध्यायः ||
Kapitel 3
Deutsche Übersetzung: Kapitel 3 · Sanskrit IAST: Kapitel 3
श्रीरुवाच -
नित्यनिर्दोषनिःसीमकल्याणगुणशालिनी |
अहं नारायणी नाम सा सत्ता वैष्णवी परा || ३ - १ ||
देशात्कालात्तथा रूपात्परिच्छेदो न मे स्मृतः |
संवित्तिरेव मे रूपं सर्वैश्वर्यादिको गुणः || ३ - २ ||
स्वस्वातन्त्र्यवशेनैव विभागस्तत्र वर्तते |
विज्ञानैश्वर्यशक्त्यात्मा विभागो यः स ईरितः || ३ - ३ ||
विज्ञानैश्वर्यशक्तीनामुन्मेषस्त्वपरोऽधुना |
अतर्क्याया ममोद्यत्या नियोगानर्हया सदा || ३ - ४ ||
इच्छयान्यत्कृतं रूपमासीज्ज्ञानादिके त्रिके |
यथैवेक्षुरसः स्वच्छो गुडत्वं प्रतिपद्यते || ३ - ५ ||
तद्वत्स्वच्छमयं ज्ञानं सत्त्वतां प्रतिपद्यते |
रजस्त्वं च ममैश्वर्यं तमस्त्वं शक्तिरप्युत || ३ - ६ ||
एते त्रयो गुणाः शक्र त्रैगुण्यमिति शब्द्यते |
रजःप्रधानं तत्सृष्टौ त्रैगुण्यं परिवर्तते || ३ - ७ ||
स्थितौ सत्त्वप्रधानं तत् संहृतौ तु तमोमुखम् |
अहं संविन्मयी पूर्वा व्यापिन्यपि पुरंदर || ३ - ८ ||
अधिष्ठाय गुणान् सृष्टिस्थितिसंहृतिकारिणी |
निर्गुणापि गुणानेतानधिष्ठायात्मवाञ्छया || ३ - ९ ||
चक्रं प्रवर्तयाम्येका सृष्टिस्थित्यन्तरूपकम् |
शक्रः -
विधाद्वयं समास्थाय ज्ञानाद्ये तु युगत्रये || ३ - १० ||
शुद्धेतरविभागेन किमर्थं त्वं प्रवर्तसे |
विधयोरनयोः पद्मे संबन्धः कः परस्परम् || ३ - ११ ||
एतत्पृष्टा मया ब्रूहि नमस्ते पद्मसंभवे |
श्रीः -
अनियोज्यं ममैश्वर्यमिच्छैव मम कारणम् || ३ - १२ ||
मुह्यन्त्यत्र महान्तोऽपि तत्त्वं शृणु तथापि मे |
ईशेशितव्यभावेन परिवर्ते सदा ह्यहम् || ३ - १३ ||
ईशो नारायणो ज्ञेय ईशता तस्य चाप्यहम् |
ईशितव्यं तु विज्ञेयं चिदचिच्च पुरंदर || ३ - १४ ||
चिच्छक्तिस्तु परा तत्र भोक्तृतां प्रतिपद्यते |
भोग्योपकरणस्थानरूपं तस्या अचित्पदम् || ३ - १५ ||
अनाद्यया समाविद्धा सा चिच्छक्तिरविद्यया |
मत्प्रवर्तितया नित्यं चिच्छक्तिर्भोक्तृतां गता || ३ - १६ ||
अहंममत्वसंबन्धाद्ध्यचित्स्वेनाभिमन्यते |
अविद्या सा तिरोभावं विद्यया याति वै यदा || ३ - १७ ||
चिच्छक्तिर्निरभीमाना तदा मद्भावमेष्यति |
तां विद्यां शुद्धमार्गस्थां परव्यूहादिरूपिणी || ३ - १८ ||
प्रवर्तयामि कारुण्याज्ज्ञानसद्भावदर्शिनी |
रक्ष्यरक्षकभावोऽयं संबन्धो विधयोर्द्वयोः || ३ - १९ ||
विधा रक्षति शुद्धाद्या रक्ष्यते च विधापरा |
एतत्ते कथितं शक्र किं भूयः श्रोतुमिच्छसि || ३ - २० ||
शक्रः -
ईशेशितव्यभावेन किमर्थं त्वं प्रवर्तसे |
ईशितव्यं कियद्भेदं किंरूपं तत्र मे वद || ३ - २१ ||
श्रीः -
स्वभावो नानुयोज्योऽयं मम नारायणस्य च |
ईशोऽहमीशितव्यो न स च देवः सनातनः || ३ - २२ ||
ईशितव्यं द्विधा प्रोक्तं चिदचिद्व्यतिरेकतः |
चिच्छक्तिर्भोक्तृरूपात्र सा च चिद्रूपधारिणी || ३ - २३ ||
भोग्योपकरणस्थानैरचिच्छक्तिस्त्रिधा स्थिता |
प्रसरन्त्यास्तृतीयं मे सा च पर्व स्मृतं बुधैः || ३ - २४ ||
विभक्ते अपि ते एते शक्ती चिदचिदात्मिके |
मत्स्वाच्छन्द्यवशेनैव मम रूपे सनातने || ३ - २५ ||
चिच्छक्तिर्विमला शुद्धा चिन्मययानन्दरूपिणी |
अनाद्यविद्याविद्धेयमित्थं संसरति ध्रुवम् || ३ - २६ ||
अचिच्छक्तिर्जडाप्येवमशुद्धा परिणामिनी |
त्रिगुणापि ममैवेदं स्वाच्छन्द्यात् प्रविजृम्भितम् || ३ - २७ ||
धूमकेतुर्यथा धूमं दीप्यमानो भजेत् स्वयम् |
शुद्धसंवित्स्वरूपापि भजे साहमचिद्गतिम् || ३ - २८ ||
अनाक्रान्ता विकल्पेन शब्दैरप्यकदर्थिता |
आध्यानोपधिनाप्येवं वर्तेऽहमचिदात्मना || ३ - २९ ||
बहिरन्तःपदार्थे हि चित्स्वरूपमखण्डितम् |
विशिनष्टि तथाप्येतच्चित्रयोपाधिसंपदा || ३ - ३० ||
स्वातन्त्र्यमेव मे हेतुर्नानुयोज्यास्मि किंचन |
इत्थं प्रभावामेवं मां विदन् बुद्धो भविष्यसि || ३ - ३१ ||
शक्रः -
कथं सृजसि वै लोकान् सुखदुःखसमन्वितान् |
असृष्टिर्हि वरं यद्वा सृष्टिरस्तु सुखात्मिका || ३ - ३२ ||
श्रीः -
अनाद्यविद्याविद्धानां जीवानां सदसन्मयम् |
संचितं कर्म संप्रेक्ष्य मिश्रां सृष्टिं करोम्यहम् || ३ - ३३ ||
शक्रः -
क्षीरोदसंभवे देवि स्वाच्छन्द्यं ते कथं भवेत् |
कर्म चेत्समवेक्ष्य त्वं विदधासि सुखासुखे || ३ - ३४ ||
श्रीः -
कुर्वत्या मम कार्याणि कर्म तत्करणं स्मृतम् |
कर्तुश्च करणापेक्षा न स्वातन्त्र्यविघातिनी || ३ - ३५ ||
निरवद्या स्वतन्त्राहं नानुयोगपदे स्थिता |
विभजे बहुधात्मानं कर्तृकर्मक्रियादिना || ३ - ३६ ||
लीलायै कारणं नात्र मृग्यमेवं स्थिरो भव |
शक्रः -
यद्वा तद्वास्तु तद्देवि स्वातन्त्र्यं ते यदीदृशम् |
सृष्टिप्रकारमाख्याहि नमस्ते पद्मसंभवे || ३ - ३७ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे त्रैगुण्यप्रकाशो नाम तृतीयोऽध्यायः ||
Kapitel 4
Deutsche Übersetzung: Kapitel 4 · Sanskrit IAST: Kapitel 4
श्रीः -
निर्मलाकाशकल्पाहं निःसमानन्दचिन्मयी |
अहं नारायणी नाम भावोऽहं तादृशो हरेः || ४ - १ ||
न शान्ता नोदिता नापि मध्यमाहं चिदात्मिका |
तादृशस्य हरेर्विष्णोः स्वरूपमखिलात्मनः || ४ - २ ||
तस्याचित्रैकरूपस्य विकल्पपदवीजुषः |
अचित्राहं तदाकारा सर्वतः समतां गता || ४ - ३ ||
तयोर्नौ संविदात्मैव क्वचिदुन्मेष उत्थितः |
कोटिकोटिसहस्रौघकोटिकोटितमी कला || ४ - ४ ||
सिसृक्षा नाम तद्रूपा सृष्टिमिष्टां करोम्यहम् |
एकांशेन विशुद्धाध्वरूपा वर्तेऽहमञ्जसा || ४ - ५ ||
वज्ररत्नप्रभा यद्वत्परिस्फुरति सर्वतः |
एवं शुद्धमयो मार्गो मम स्फुरति सर्वतः || ४ - ६ ||
अमेघाकाशसंकाशान्निष्पन्दोदधिरूपतः |
मम ज्ञानघनाद्रूपाच्छुद्धा सृष्टिः प्रवर्तते || ४ - ७ ||
निर्व्यापारं सदानन्दं शुद्धं सर्वात्मकं परम् |
व्यज्यते प्रथमं ज्ञानं स संकर्षण उच्यते || ४ - ८ ||
हेत्वन्तरानपेक्षं यत् स्वातन्त्र्यं विश्वनिर्मितौ |
तदैश्वर्यं तदासीन्मे प्रद्युम्नः पुरुषोत्तमः || ४ - ९ ||
निलीनचित्ररूपा या सर्वत्र समवस्थिता |
अव्याहतासीच्छक्तिर्मे सोऽनिरुद्धः प्रकीर्तितः || ४ - १० ||
सृष्टिस्थित्यन्तकर्तारो विज्ञानैश्वर्यशक्तयः |
मम रूपममी देवाः पुरुषाः पुष्करेक्षणाः || ४ - ११ ||
अतरङ्गार्णवाभासमस्ताम्भोदाम्बरोपमम् |
रूपं सिसृक्षमाणाया वासुदेवो ममादिमम् || ४ - १२ ||
ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः |
उन्मिषन्ति यदा तुल्यं वासुदेवस्तदोच्यते || ४ - १३ ||
तेषां ज्ञानबलोन्मेषे संकर्षण उदीर्यते |
बिभर्ति सकलं विश्वं तिलकालकवत्स्वतः || ४ - १४ ||
बलमित्येव तन्नाम ततो वेदान्तशब्दितम् |
वीर्यैश्वर्यसमुन्मेषे प्रद्युम्नः परिकीर्तितः || ४ - १५ ||
विकारविरहो वीर्यमविकारी ततश्च सः |
शक्तितेजःसमुन्मेषे ह्यनिरुद्धः स ईरितः || ४ - १६ ||
तेजस्त्वन्यानपेक्षत्वमनिरुद्धत्वमप्युत |
शास्त्रं संकर्षणादेव भाति निर्घातशब्दवत् || ४ - १७ ||
तत्क्रिया सकला देवात्प्रद्युम्नात् संभवेद्यतः |
क्रियाफलमशेषं तदनिरुद्धात्प्रचक्षते || ४ - १८ ||
सृजते ह्यनिरुद्धोऽत्र प्रद्युम्नः पाति तत्कृतम् |
सृष्टं तद्रक्षितं चात्ति स च संकर्षणः प्रभुः || ४ - १९ ||
सृष्टिस्थित्यन्तकार्येण शास्त्रधर्मफलेन च |
अनुग्रहमिमे देवाः सदा विदधत्ते स्वयम् || ४ - २० ||
यद्यप्येकगुणोन्मेषस्तथाप्येते हि षड्गुणाः |
अन्यूनानधिकाः सर्वे वासुदेवात्सनातनात् || ४ - २१ ||
अङ्गप्रत्यङ्गबुद्ध्यादिर्नैषां भूतमयः स्मृतः |
षाड्गुण्यमय एवैषां दिव्यो देहः सनातनः || ४ - २२ ||
नैवैषां वास्तवो भेदश्चिन्तनीयो दिवस्पते |
तत्तत्कार्यप्रसिद्ध्यर्थं कृतोऽसौ कल्पनावशात् || ४ - २३ ||
ज्ञानान्नान्यत्तथैश्वर्यं तस्मान्नान्या च शक्तिका |
मयैताः कल्पिताः शक्र ध्यानविश्रामभूमयः || ४ - २४ ||
वस्तु पूर्वं ततो भावः पश्चादर्थस्ततः क्रिया |
चातूरूप्यमिदं ज्ञेयं सर्वभावेषु सर्वदा || ४ - २५ ||
वासुदेवादिरूपेण चतुर्धात्मानमात्मना |
संविभज्यावतिष्ठेऽहं सर्वमावृत्य संविदा || ४ - २६ ||
वासुदेवादयो देवाः प्रत्येकं तु त्रिधा त्रिधा |
केशवादिस्वरूपेण विभजन्ति स्वकं वपुः || ४ - २७ ||
एतद्व्यूहान्तरं नाम पञ्चरात्राभिशब्दितम् |
कार्यस्य नयने देवा द्वादशैते व्यवस्थिताः || ४ - २८ ||
विभोरप्यनिरुद्धस्य हिताय जगतां हरेः |
प्रसरो विभवो नाम पद्मनाभादयः स्मृताः ||
आविश्याविश्य कुरुते यत्र देवनरादिकम् |
जगद्धितं जगन्नाथस्तज्ज्ञेयं विभवान्तरम् || ४ - ३० ||
देवर्षिपितृसिद्धाद्यैः स्वयं वा जगतां हिते |
निर्मितं भगवद्रूपमर्चा सा शुद्धचिन्मयी || ४ - ३१ ||
इत्येष लेशतो मार्गः शुद्धस्ते संप्रदर्शितः |
त्रैगुण्यमपरं मार्गं गदन्त्या मे निशामय || ४ - ३२ ||
यत्ते ज्ञानं पुरा प्रोक्तं तत्सत्त्वेन विवर्तते |
रजस्तया तदैश्वर्य शक्तिश्चापि तमस्तया || ४ - ३३ ||
प्राधान्येन रजस्तत्र सृष्टौ संपरिवर्तते |
अभितः सत्त्वतमसी गुणौ द्वौ तस्य तिष्ठतः || ४ - ३४ ||
या सा पूर्वं मया प्रोक्ता कोटिकोटितमी कला |
तस्याः कोटितमेनाहमंशेन विसृजे जगत् || ४ - ३५ ||
सर्वस्याद्या महालक्ष्मीस्त्रिगुणाहं महेश्वरी |
रजोरूपमधिष्ठाय सृष्टिमिष्टां करोम्यहम् || ४ - ३६ ||
अग्नीषोममयौ भावौ दिव्यौ स्त्रीपुंसलक्षणौ |
बिभ्रती चारुसर्वाङ्गी लोकानां हितकाम्यया ||
चतुर्भुजा विशालाक्षी तप्तकाञ्चनसंनिभा |
मातुलङ्गं गदां खेटं सुधापात्रं च बिभ्रती || ४ - ३८ ||
महालक्ष्मीः समाख्याता साहं सर्वाङ्गसुन्दरी |
महाश्रीः सा महालक्ष्मीश्चण्डा चण्डी च चण्डिका ||
भद्रकाली तथा भद्रा काली दुर्गा महेश्वरी |
त्रिगुणा भगवत्पत्नी तथा भगवती परा || ४ - ४० ||
एताः संज्ञास्तथा चान्यास्तत्र मे बहुधा स्मृताः |
विकारयोगादन्याश्च तास्ता वक्ष्याम्यशेषतः || ४ - ४१ ||
लक्षयामि जगत्सर्वं पुण्यापुण्ये कृताकृते |
महनीया च सर्वत्र महालक्ष्मीः प्रकीर्तिता || ४ - ४२ ||
महद्भिः श्रयणीयत्वान्महाश्रीरिति गद्यते |
चण्डस्य दयिता चण्डी चण्डत्वाच्चण्डिका मता || ४ - ४३ ||
कल्याणरूपा भद्रास्मि काली च कलनात्सताम् |
द्विषतां कालरूपत्वादपि काली प्रकीर्तिता || ४ - ४४ ||
सुहृदां द्विषतां चैव युगपत्सदसद्विधेः |
भद्रकाली समाख्याता मायाश्चर्यगुणात्मिका || ४ - ४५ ||
महत्त्वाच्च महामाया मोहनान्मोहिनी मता |
दुर्गा च दुर्गमत्वेन भक्तरक्षाविधेरपि || ४ - ४६ ||
योजनाच्चैव योगाहं योगमाया च कीर्तिता |
मायायोगेति विज्ञेया ज्ञानयोजनतो नृणाम् || ४ - ४७ ||
पूर्णषाड्गुण्यरूपत्वात्साहं भगवती स्मृता |
भगवद्यज्ञसंयोगात्पत्नी भगवतोऽस्म्यहम् || ४ - ४८ ||
विशालत्वात्स्मृता व्योम पूरणाच्च पुरी स्मृता |
परावरस्वरूपत्वात् स्मृता चाहं परावरा || ४ - ४९ ||
शकनाच्छक्तिरुक्ताहं राज्ञ्यहं रञ्जनात् सदा |
सदा शान्तविकारत्वाच्छान्ताहं परिकीर्तिता || ४ - ५० ||
मत्तः प्रक्रियते विश्वं प्रकृतिः सास्मि कीर्तिता |
श्रयन्ती श्रयणीयास्मि शृणामि दुरितं सताम् || ४ - ५१ ||
शृणोमि करुणां वाचं शृणामि च गुणैर्जगत् |
(शयेऽन्तः) सर्वभूतानां रमेऽहं पुण्यकर्मणाम् || ४ - ५२ ||
ईडिता च सदा देवैः शरीरं चास्मि वैष्णवम् |
एतान्मयि गुणान् दृष्ट्वा वेदवेदान्तपारगाः || ४ - ५३ ||
गुणयोगविधानज्ञाः श्रियं मां संप्रचक्षते |
साहमेवंविधा नित्या सर्वाकारा सनातनी || ४ - ५४ ||
गुणत्रयमधिष्ठात्री त्रिगुणा परिकीर्तिता |
गुणवैषम्यसर्गाय प्रवृत्ताहं सिसृक्षया || ४ - ५५ ||
तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा |
निरालोकमिमं लोकं पूरयामि स्वतेजसा || ४ - ५६ ||
शून्यं तदखिलं लोकं स्वेन पूरयितुं पुरा |
भरामि त्वपरं रूपं तमसा केवलेन तु || ४ - ५७ ||
सा भिन्नाञ्जनसंकाशा दंष्ट्राञ्चितवरानना |
विशाललोचना नारी बभूव तनुमध्यमा || ४ - ५८ ||
खड्गपात्रशिरःखेटैरलंकृतमहाभुजा |
कबन्धहारा शिरसि बिभ्राणाहिशिरःस्रजम् || ४ - ५९ ||
सा मां प्रोवाच संभूता तामसी प्रमदोत्तमा |
नामकर्म च मे मातर्देहि तुभ्यं नमो नमः || ४ - ६० ||
श्रीः -
तामब्रवं वरारोहां तामसीं प्रमदोत्तमाम् |
ददामि तव नामानि यानि कर्माणि तानि ते || ४ - ६१ ||
महाकाली महामाया महामारी क्षुधा तृषा |
निद्रा कृष्णा चैकवीरा कालरात्रिर्दुरत्यया || ४ - ६२ ||
एतानि तव नामानि प्रतिपाद्यानि नामभिः |
एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्नुते सुखम् || ४ - ६३ ||
अपर्याप्तमिमं सर्गं मन्यमानाहमादिमम् |
सत्त्वोन्मेषमयं रूपं भरामि स्मेन्दुसंनिभम् || ४ - ६४ ||
अक्षमालाङ्कुशधरा वीणापुस्तकधारिणी |
सा बभूव वरा नारी नामकर्म तदा ह्यदाम् || ४ - ६५ ||
महाविद्या महावाणी भारती वाक् सरस्वती |
आर्या ब्राह्मी महाधेनुर्वेदगर्भा च धीश्च गीः || ४ - ६६ ||
नामानुरूपं कर्म स्यात् सात्त्विक्याः कार्यमद्भुतम् |
वयं तिस्रो जगद्धात्र्यो मातरश्च प्रकीर्तिताः || ४ - ६७ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे महालक्ष्मीसमुद्भतिर्नाम चतुर्थोऽध्यायः ||
Kapitel 5
Deutsche Übersetzung: Kapitel 5 · Sanskrit IAST: Kapitel 5
श्री -
या साहंता हरेराद्या सर्वाकारा सनातनी |
शुद्धानन्दचिदाकारा सर्वतः समतां गता || ५ - १ ||
साहं सिसृक्षया युक्ता स्वल्पाल्पेनात्मबिन्दुना |
सृष्टिं कृतवती शुद्धां पूर्णषाड्गुण्यविग्रहाम् || ५ - २ ||
अनुज्झितस्वरूपाहं मदीयेनाल्पबिन्दुना |
महालक्ष्मीः समाख्याता त्रैगुण्यपरिवर्तिनी || ५ - ३ ||
रजःप्रधाना तत्राहं महाश्रीः परमेश्वरी |
मदीयं यत्तमोरूपं महामायेति सा स्मृता || ५ - ४ ||
मदीयं सत्त्वरूपं यन्महाविद्येति सा स्मृता |
अहं च ते च कामिन्यौ ता वयं तिस्र ऊर्जिताः || ५ - ५ ||
सृष्टवत्यस्तु मिथुनान्यनुरूपाणि च त्रिधा |
मदीयं मिथुनं यत्तन्मानसं रुचिराकृति || ५ - ६ ||
हिरण्यगर्भं पद्माक्षं सुन्दरं कमलासनम् |
प्रद्युम्रांशादिदं विद्धि संभूतं मयि मानसम् || ५ - ७ ||
धाता विधिर्विरिञ्चिश्च ब्रह्मा च पुरुषः स्मृतः |
श्रीः पद्मा कमला लक्ष्मीस्तत्र नारी प्रकीर्तिता || ५ - ८ ||
संकर्षणांशतो द्वन्द्वं महामायासमुद्भवम् |
त्रिनेत्रं चारुसर्वाङ्गं मानसं तत्र यः पुमान् || ५ - ९ ||
स रुद्रः शंकरः स्थाणुः कपर्दी च त्रिलोचनः |
तत्र त्रयीश्वरा भाषा विद्या चैवाक्षरा तथा || ५ - १० ||
कामधेनुश्च विज्ञेया सा स्त्री गौश्च सरस्वती |
अनिरुद्धांशसंभूतं महाविद्यासमुद्भवम् || ५ - ११ ||
मिथुनं मानसं यत्तत्पुरुषस्तत्र केशवः |
विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः || ५ - १२ ||
उमा गौरी सती चण्डा तत्र स्त्री सुभगा सती |
ब्रह्मणस्तु त्रयी पत्नी सा बभूव ममाज्ञया || ५ - १३ ||
रुद्रस्य दयिता गौरी वासुदेवस्य चाम्बुजा |
रजसस्तमसश्चैव सत्त्वस्य च विवर्तनम् || ५ - १४ ||
आद्यं पर्व तदेतत्ते कथितं मिथुनत्रयम् |
मध्यमं पर्व वक्ष्यामि गुणानां तदिदं शृणु || ५ - १५ ||
भाषया सह संभूय विरिञ्चोऽण्डमजीजनत् |
मदाज्ञया विभेदैतत्स गौर्या सह शंकरः || ५ - १६ ||
अण्डमध्ये प्रधानं यत्कार्यमासीत्तु वेधसः |
तदेतत्पालयामास पद्मया सह केशवः || ५ - १७ ||
तदेतन्मध्यमं पर्व गुणानां परिकिर्तितम् |
तृतीयं पर्व वक्ष्यामि तदिहैकमनाः शृणु || ५ - १८ ||
अण्डमध्ये प्रधानं हि यत्तत्सदसदात्मकम् |
त्रैगुण्यं प्रकृतिर्व्योम स्वभावो योनिरक्षरम् || ५ - १९ ||
तदेतत्सलिलीकृत्य तत्त्वमव्यक्तसंज्ञकम् |
हृषीकेशः स भगवान् पद्मया सह विद्यया || ५ - २० ||
अप्सु संशयनं चक्रे निद्रायोगमुपागतः |
या सा प्रोक्ता महाकाली सा निद्रा तामसी ह्यभूत् || ५ - २१ ||
शयानस्य तदा पद्ममभून्नाभ्यां पुरंदर |
तत्कालमयमाख्यातं पङ्कजं यदपङ्कजम् || ५ - २२ ||
जलाधिकरणं पद्ममाधारः पुष्करं तथा |
चक्रं च पुण्डरीकं चेत्येवं नामानि तस्य तु || ५ - २३ ||
शक्रः -
चिदचित्तत्त्वमाख्यातं चेतनश्चित्प्रकीर्तितः |
अचित् त्रैगुण्यमित्युक्तं कीदृक् कालोऽपरः स्मृतः || ५ - २४ ||
श्रीः -
अचिदंशोऽपरः कालस्त्रैगुण्यमपरं स्मृतम् |
बलादिकं तु यत्पूर्वं षाड्गुण्ये त्रिकमीरितम् || ५ - २५ ||
तदेतत्कालरूपेण सृष्टौ संपरिवर्तते |
स्वतश्चापरिणामीदं त्रैगुण्यं परिणामि तत् || ५ - २६ ||
कालकाल्यात्मकं द्वन्द्वमचिदेतत्प्रकीर्तितम् |
सृजन्त्या विविधान् भावान्मम देव्या महाश्रियः || ५ - २७ ||
कालोऽयं करणत्वेन वर्तते मन्मयः सदा |
तस्मात्कालमयात्पद्माद्विष्णुनाभिसमुद्भवात् || ५ - २८ ||
ब्रह्मा वेदमयो जज्ञे स त्रयया सह वीर्यवान् |
हिरण्यगर्भ उक्तो यः पूर्वं लक्ष्मीसमुद्भवः || ५ - २९ ||
महाकालीसमुद्भूता या सा नारी त्रयी स्मृता |
तदेतन्मिथुनं जज्ञे विष्णोर्नाभिसरोरुहात् || ५ - ३० ||
पद्मं पद्मोद्भवद्वन्द्वं तदेतत् त्रितयं सह |
महांस्तामस आख्यातो विकारः पूर्वकैर्बुधैः || ५ - ३१ ||
प्राणो हिरण्यगर्भश्च बुद्धिश्चेति त्रिधा भिदा |
पद्मपुंस्त्रीसमालम्बान्महत्त्वं तस्य शब्द्यते || ५ - ३२ ||
गुणः प्राणस्य तु स्पन्दो बुद्धेरध्यवसायता |
धर्मादिकमधर्माद्यं द्वयं पुंसो गुणो मतः || ५ - ३३ ||
धर्मो ज्ञानं च वैराग्यमैश्वर्यं चेति वर्णितः |
धर्मादिको गुणो यस्मादधर्माद्याः प्रकीर्तिताः || ५ - ३४ ||
महान्तमाविशन्त्येनं प्रेरयामि स्वसृष्टये |
प्रेर्यमाणात्ततस्तस्मादहंकारश्च जज्ञिवान् || ५ - ३५ ||
पूर्वं यः शंकरः प्रोक्तो महामायासमुद्भवः |
या पत्नी तस्य गौरी सा जज्ञेऽभिमतिरत्र तु || ५ - ३६ ||
आविश्यामुमहंकारं सृष्टये प्रेरयाम्यहम् |
स बभूव त्रिधा पूर्वं गुणव्यतिकरात्तदा || ५ - ३७ ||
तामसस्तत्र भूतादिस्तस्य सर्वमिदं शृणु |
भूतादेः शब्दतन्मात्रं तन्मात्राच्छब्दसंभवः || ५ - ३८ ||
मत्प्रेरिताच्छब्दमात्रात्स्पर्शमात्रं बभूव ह |
स्पर्शस्तु स्पर्शतन्मात्रात्तन्मात्रात्प्रेरितान्मया || ५ - ३९ ||
तदासीद्रूपतन्मात्रं तस्माच्च प्रेरितान्मया |
रूपमाविर्बभूवाद्यं रसमात्रं ततः परम् || ५ - ४० ||
रसमात्रान्मया क्षिप्तात्तस्माज्जज्ञे रसस्ततः |
गन्धतन्मात्रमप्यासीत्तस्माच्च प्रेरितान्मया || ५ - ४१ ||
शुद्धो गन्धः समुद्भूत इतीयं भौतिकी भिदा |
मात्राणि सूक्ष्मभूतानि स्थूलभूतानि चापरे || ५ - ४२ ||
शब्दादयः समाख्याता गुणाः शब्दादयस्तु ये |
स्थूलभूतविसर्गास्ते नान्ये शब्दादयो गुणाः || ५ - ४३ ||
शान्तत्वं चैव घोरत्वं मूढत्वं चेति तत् त्रिधा |
सत्वाद्युन्मेषरूपाणि तानि सूक्ष्मेषु सन्ति न || ५ - ४४ ||
तेन तन्मात्रता तेषां सूक्ष्माणां परिकीर्तिता |
सुखदुःखादिदायित्वात् स्थूलत्वमितरत्र तु || ५ - ४५ ||
स्थूलानामेव भूतानां त्रिधावस्था प्रकीर्तिता |
सूक्ष्माश्च पितृजाश्चैव प्रभूता इति भेदतः || ५ - ४६ ||
घटाद्या विविधा बाह्याः प्रभूता इति शब्द्यते |
शुक्लशोणितसंभूता विशेषाः पितृजाः स्मृताः || ५ - ४७ ||
सूक्ष्मास्तु पञ्चभूताः स्युः सूक्ष्मदेहव्यपाश्रयाः |
सर्गो भूतादिजो ह्येवं क्रमशः परिकीर्तितः || ५ - ४८ ||
अहंकारस्य यावंशौ रजःसत्त्वसमाश्रयौ |
वैकारिक इति प्रोक्तः सात्त्विकोंऽशस्तयोः परः || ५ - ४९ ||
तैजसः कथितः सद्भिस्तयोः सृष्टिमिमां शृणु |
वैकारिकादहंकारादासीच्छ्रोत्रादिधीन्द्रियम् || ५ - ५० ||
कर्मेन्द्रियं च वागादि तैजसात्संप्रवर्तते |
उभयस्मात्ततश्चासीद् बुद्धिकर्मेन्द्रियं मनः || ५ - ५१ ||
श्रोत्रं त्वक् चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् |
बुद्धीन्द्रियाणि पञ्चाहुः शक्तिरेषा मदात्मिका || ५ - ५२ ||
वाक् च हस्तौ च पादौ च तथोपस्थं च पायु च |
कर्मेन्द्रियाणि पञ्चाहुः शक्तिरेषा मदात्मिका || ५ - ५३ ||
या सा विज्ञानशक्तिर्मे पारंपर्यक्रमागता |
बुद्धीन्द्रियाण्यधिष्ठाय विषयेषु प्रवर्तते || ५ - ५४ ||
क्रियाशक्तिश्च या सा मे पारंपर्यक्रमागता |
कर्मेन्द्रियाण्यधिष्ठाय कर्तव्येषु प्रवर्तते || ५ - ५५ ||
श्रोत्रस्य विषयः शब्दः श्रवणं च क्रिया मता |
त्वचश्च विषयः स्पर्शः स्पर्शनं च क्रिया मता || ५ - ५६ ||
चक्षुषो विषयो रूपं दर्शनं च क्रिया मता |
जिह्वाया विषयो रस्यो रसनं च क्रिया मता || ५ - ५७ ||
घ्राणस्य विषयो गन्ध आघ्राणं च क्रिया मता |
वृत्तयो विषयेष्वस्य श्रोत्रादेः श्रवणादयः || ५ - ५८ ||
आलोचनानि कथ्यन्ते धर्मिमात्रग्रहश्च सः |
दिक् च विद्युत्तथा सूर्यः सोमो वसुमती तथा || ५ - ५९ ||
अधिदैवमिति प्रोक्तं क्रमाच्छ्रोत्रादिपञ्चके |
अधिभूतमिति प्रोक्तः शब्दाद्यो विषयः क्रमात् || ५ - ६० ||
श्रोत्रादिपञ्चकं त्वेतदध्यात्मं परिकीर्तितम् |
श्रोत्रादेः सात्त्विकात्सृष्टिर्वियदादिव्यपेक्षया || ५ - ६१ ||
तेन भौतिकमित्युक्तं क्रमाच्छ्रोत्रादिपञ्चकम् |
वाचस्तु विषयः शब्दो वचनं च क्रिया मता || ५ - ६२ ||
हस्तेन्द्रियस्य चादेयमादानं च क्रिया मता |
पादेन्द्रियस्य गन्तव्यं गमनं च क्रिया मता || ५ - ६३ ||
उपस्थस्य तदानन्द्यमानन्दश्च क्रिया मता |
विसृज्यं विषयः पायोर्विसर्गश्च क्रिया मता || ५ - ६४ ||
हस्तादिकं चतुष्कं यत्तत्पञ्चविषयात्मकम् |
अग्निरिन्द्रश्च विष्णुश्च तथैवाद्यः प्रजापतिः || ५ - ६५ ||
मित्रश्चेति क्रमाज्ज्ञेया अधिदेवा विचक्षणैः |
शब्दः पञ्चात्मकं चैव वागादेर्विषयो हि यः || ५ - ६६ ||
सोऽधिभूत इति प्रोक्तो वागाद्यध्यात्ममुच्यते |
मनस्तु सहकार्यस्मिन्नुभयत्रापि पञ्चके || ५ - ६७ ||
ज्ञानेन्द्रियगणैश्चैतद्विकल्पं तनुते मनः |
विकल्पो विविधा कॢप्तिस्तच्च प्रोक्तं विशेषणम् || ५ - ६८ ||
धर्मेण सह संबन्धो धर्मिणश्च स उच्यते |
विकल्पः पञ्चधा ज्ञेयो द्रव्यकर्मगुणादिभिः || ५ - ६९ ||
दण्डीति द्रव्यसंयोगाच्छुक्लो गुणसमन्वयात् |
गच्छतीति क्रियायोगात्पुमान् सामान्यसंस्थितेः || ५ - ७० ||
डित्थः शब्दसमायोगादितीयं पञ्चधा स्थितिः |
कर्मेन्द्रियगणैश्चैतत्संकल्पं तनुते मनः || ५ - ७१ ||
औदासीन्यच्युतिर्या सा संकल्पोद्योगनामिका |
अहंकारेण चैतस्मिन्नुभयत्र गणे स्थितिः || ५ - ७२ ||
ज्ञानेन्द्रियगणे सोऽयमभिमानेन वर्तते |
देशकालान्वयो ज्ञातुरभिमानः प्रकीर्तितः || ५ - ७३ ||
ममाद्य पुरतो भातीत्येवं वस्तु प्रतीयते |
कर्मेन्द्रियगणे त्वेष संरम्भेण प्रवर्तते || ५ - ७४ ||
संकल्पपूर्वरूपस्तु संरम्भः परिकीर्तितः |
बुद्धिरध्यवसायेन ज्ञानेन्द्रियगणे स्थिता || ५ - ७५ ||
बुद्धिरध्यवसायार्थावधारणमुदीर्यते |
अवधारणमर्थानां निश्चयः परिकीर्तितः || ५ - ७६ ||
कर्मेन्द्रियगणे बुद्धिः प्रयत्नेन प्रवर्तते |
त्रयोदशविधं ज्ञेयं तदेतत्करणं बुधैः || ५ - ७७ ||
बाह्यं दशविधं ज्ञेयं त्रिधान्तःकरणं स्मृतम् |
त्रयोविंशतिरेते तु विकाराः परिकीर्तिताः || ५ - ७८ ||
करणानि दश त्रीणि सूक्ष्मांशाः स्थूलसंभवाः |
एतत्सूक्ष्मशरीरं तु विराजः परिकीर्तितम् || ५ - ७९ ||
व्यष्टयः सूक्ष्मदेहाश्च प्रतिजीवं व्यवस्थिताः |
अपवर्गे निवर्तन्ते जीवेभ्यस्ते स्वयोनिजाः || ५ - ८० ||
अन्योन्यानुग्रहेणैते त्रयोविंशतिरुत्थिताः |
महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते || ५ - ८१ ||
तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् |
तस्मिन् प्रजापतिर्जज्ञे विराड् देवश्चतुर्मुखः || ५ - ८२ ||
विराजश्च मनुर्जज्ञे मनोस्ते मानवाः स्मृताः |
मरीचिप्रमुखास्तेभ्यो जगदेतच्चराचरम् || ५ - ८३ ||
प्रकारोऽयं ममोद्यत्या लेशतस्ते प्रदर्शितः |
स्वतः शुद्धापि चिच्छक्तिः संविद्धानाद्यविद्यया || ५ - ८४ ||
दुःखं जन्मजराद्युत्थं तत्रस्था प्रतिपद्यते |
शुद्धविज्ञानसंबन्धाच्छुद्धकर्मसमन्वयात् |
यदा धुनोत्यविद्यां तां तदा सानन्दमश्नुते || ५ - ८५ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे प्राकृतसृष्टिप्रकाशो नाम पञ्चमोऽध्यायः || ५ ||
Kapitel 6
Deutsche Übersetzung: Kapitel 6 · Sanskrit IAST: Kapitel 6
श्रीः -
पूर्णस्तिमितषाड्गुण्यचिदानन्दमहोदधेः |
अहंताहं हरेराद्या निस्तरङ्गार्णवाकृतेः || ६ - १ ||
साहमेवंविधा शुधा क्वचिदुच्छूनतां गता |
सिसृक्षालक्षणा देवी स्वतन्त्रा सच्चिदात्मिका || ६ - २ ||
षट्कोशतां समापद्ये सत्ताहं वैष्णवी परा |
शक्तिर्माया प्रसूतिश्च प्रकृतिस्त्रिगुणात्मिका || ६ - ३ ||
ब्रह्माण्डं जीवदेहश्चेत्येते षट्कोशसंज्ञिताः |
सिसृक्षा या परा विष्णोरहंतायाः समुद्गता || ६ - ४ ||
शक्तिः सा प्रथमः कोशः शुद्धमार्गप्रवर्तनी |
कोशः कुलायपर्यायः शरीरापरनामवान् || ६ - ५ ||
शुद्धेऽस्मिन् प्रथमे कोशे प्रथमोन्मेषलक्षणे |
अहंमानी परो ह्यासीद्देवः संकर्षणः प्रभुः || ६ - ६ ||
तिलकालकवत्तत्र विकारो मसृणः स्थितः |
तस्याहंता तु या देवी साहं सांकर्षणी परा || ६ - ७ ||
श्रीरित्येव समाख्याता विज्ञानबलशालिनी |
यस्तस्या मे समुन्मेषः प्रद्युम्नः स तु कीर्त्यते || ६ - ८ ||
संकर्षणस्य देवस्य शक्तिकोशाभिमानिनः |
बुद्धित्वे वर्तते देवः प्रद्युम्नः पुरुषोत्तमः || ६ - ९ ||
भोक्तृभोग्यसमष्टिस्तु निलीना तत्र तिष्ठति |
मनोभूतस्य देवस्य तस्याहंता तु या स्मृता || ६ - १० ||
साहं सरस्वती नाम वीर्यैश्वर्यविवर्तिनी |
यो मे तस्याः समुन्मेषः सोऽनिरुद्धः प्रकीर्तितः || ६ - ११ ||
तस्य संकर्षणस्याहमहंकारविधौ स्थिता |
संकर्षणादयो देवास्त्रय एते पुरातनाः || ६ - १२ ||
जीवो बुद्धिरहंकार इति नाम्ना प्रकीर्तिताः |
नैवैते प्राकृता देवाः किंतु शुद्धचिदात्मकाः || ६ - १३ ||
आदिव्यूहस्य देवस्य वासुदेवस्य दीव्यतः |
तत्तत्कार्यकरत्वेन तत्तन्नाम्ना निरूपिताः || ६ - १४ ||
सर्वे ते षड्गुणाः प्रोक्ताः सर्वे ते पुरुसोत्तमाः |
पूर्णस्तिमितषाड्गुण्यसदानन्दमहोदधेः || ६ - १५ ||
षण्णां युगपदुन्मेषो गुणानां कार्यवत्तया |
योऽभूत्स वासुदेवस्तु व्यूहः प्रथमकल्पितः || ६ - १६ ||
तस्य शान्तिरहंता तु साहं शक्तिः प्रकीर्तिता |
शक्तिकोशस्थिता देवाः सूयन्ते यत्र चिन्तिताः || ६ - १७ ||
अनिरुद्धस्य याहंता रतिरित्येव संज्ञिता |
सैव देवी महालक्ष्मीर्मायाकोशः स उच्यते || ६ - १८ ||
महालक्ष्म्या य उन्मेषो मायाया गुणसंज्ञितः |
महाकालीमहाविद्याद्वयं संपरिकीर्त्यते || ६ - १९ ||
महालक्ष्मी महामायामहाविद्यामयो महान् |
प्रसूतिर्नाम कोशो मे तृतीयः परिपठ्यते || ६ - २० ||
त्रीण्यत्र मिथुनान्यासन् यानि पूर्वोदितानि ते |
प्रधानं सलिलीकृत्य यच्छेते पुरुषोत्तमः || ६ - २१ ||
सा प्रोक्ता प्रकृतिर्योनिर्गुणसाम्यस्वरूपिणी |
विरिञ्चोऽजनयद्यद्वै पूर्वमण्डं स्वमात्मनि || ६ - २२ ||
तदेके प्रकृतिं प्राहुस्तत्त्वशास्त्रविशारदाः |
महदाद्यैः पृथिव्यन्तैरण्डं यन्निर्मितं सह || ६ - २३ ||
तद्ब्रह्माण्डमिति प्रोक्तं यत्र ब्रह्मा विराडभूत् |
अङ्गप्रत्यङ्गयुक्तं यच्छरीरं जीविनामिह || ६ - २४ ||
एषा कोशविधा षष्ठी क्रमशस्तनुतां गता |
अवरोहाः षडेते मे पूर्णायाः परिकीर्तिताः || ६ - २५ ||
आद्ये कोशे स्वयं देवस्त्रिधैवाहंतया स्थितः |
पञ्चस्वन्येषु कोशेषु जीवा नानाविधाः स्थिताः || ६ - २६ ||
शुभाशुभविभागोत्थां भजन्ते विविधां दशाम् |
दिव्यास्तिस्रस्त्रयस्तासां मिथुनानि च यानि तु || ६ - २७ ||
अण्डमध्येऽवताराश्च तासां तेषां च ये स्मृताः |
स्वातन्त्र्यनिर्मितास्त्वेते नैव कर्मवशानुगाः || ६ - २८ ||
अप्राकृताश्च ते देहा उभयेषां प्रकीर्तिताः |
अन्ये पञ्चसु कोशेषु देवाद्याः स्थावरान्तिमाः || ६ - २९ ||
नानास्थानजुषो जीवाः कर्मभिः संसरन्ति ये |
अधिकारक्षयं नीत्वा शुभपाकवशादिमे || ६ - ३० ||
संप्राप्य ज्ञानभूयस्त्वं योगक्षपितकल्मषाः |
आरोहन्ति शनैः कोशानारूढा न पतन्ति ते || ६ - ३१ ||
सत्यलोकात्प्रभृत्येते यां भूमिमधिरोहिताः |
पुनस्ते न निवर्तन्ते तिष्ठन्त्यूर्ध्वं व्रजन्ति वा || ६ - ३२ ||
शक्रः -
क्षीरोदसंभवे देवि पद्मनाभकुटुम्बिनि |
जीवः को नाम तद् ब्रूहि नमस्ते पद्मसंभवे || ६ - ३३ ||
श्रीः -
पूर्णाहंता हरेराद्या साहं सर्वेश्वरी परा |
तस्याः स्मृताश्चतस्रो मे दशास्त्रिदशपुंगव || ६ - ३४ ||
प्रमातेति विधा त्वेका तदन्तःकरणं परा |
बहिः करणमन्या च चतुर्थी भावभूमिका || ६ - ३५ ||
प्रमाता चेतनः प्रोक्तो मत्संकोचः स उच्यते |
अहं हि देशकालाद्यैरपरिच्छेदमीयुषी || ६ - ३६ |||
स्वातन्त्र्यादेव संकोचं भजाम्यजहती स्वताम् |
प्रथमस्तत्र संकोचः प्रमातेति प्रकीर्त्यते || ६ - ३७ ||
चिदात्मनि यथा विश्वं मयि लीनमवस्थितम् |
प्रमातरि तथैवैतद्दर्पणोदरशैलवत् || ६ - ३८ ||
ऐकरूप्यं द्विरूपत्वं त्रिरूपत्वं चतुर्भिदाम् |
सप्तपञ्चकरूपत्वं प्रमाता यत्प्रपद्यते || ६ - ३९ ||
प्रकाशेनात्मनो ह्येको ग्राह्यग्राहकतावशात् |
द्वैरूप्यं तत्त्रिरूपत्वं ज्ञानाकारक्रियात्मना || ६ - ४० ||
सप्तपञ्चकरूपत्वं तत्तत्तत्त्वस्थितौ स्थितम् |
शक्रः -
कानि तत्त्वानि पद्माक्षि कति कीदृग्विधानि च || ६ - ४१ ||
एतत्पृष्टा मया ब्रूहि नमस्ते सिन्धुसंभवे |
श्रीः -
स्थूलसूक्ष्मविभेदेन भूतानि दश खानि च || ६ - ४२ ||
ज्ञानकर्मविभेदेन त्रीण्यन्तःकरणानि च |
प्रकृतिश्च प्रसूतिश्च माया सत्त्वं रजस्तमः || ६ - ४३ ||
कालश्च नियतिः शक्तिः पुरुषः परमं नभः |
भगवानिति तत्त्वानि सात्त्वताः समधीयते || ६ - ४४ ||
शक्रः -
मया श्रुतानि तत्त्वानि त्वद्वक्त्रसरसीरुहात् |
व्याचक्ष्वैतानि मे देवि नमस्ते सरसीरुहे || ६ - ४५ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे षट्कोशप्रकाशो नाम षष्ठोऽध्यायः || ६ ||
Kapitel 7
Deutsche Übersetzung: Kapitel 7 · Sanskrit IAST: Kapitel 7
श्रीः -
व्याचक्षेऽहं ततः शक्र क्रमशस्तत्त्वपद्धतिम् |
शुद्धाशुद्धविमिश्रेयं तत्त्वपद्धतिरुच्यते || ७ - १ ||
निरम्भोदाम्बराभासो निष्पन्दोदधिसंनिभः |
स्वच्छस्वच्छन्दचैतन्यसदानन्दमहोदधिः || ७ - २ ||
आकारदेशकालादिपरिच्छेदविवर्जितः |
भगवानिति विज्ञेयः परमात्मा सनातनः || ७ - ३ ||
तस्याहंता परा तादृग्भगवत्ता सनातनी |
नारायणी परा सूक्ष्मा निर्विकल्पा निरञ्जना || ७ - ४ ||
ज्ञानशक्तिबलैश्वर्यवीर्यतेजोमहोदधिः |
षण्णां युगपदुन्मेषो गुणानां प्रथमो हि यः || ७ - ५ ||
भवद्भावात्मकत्वेन द्विधा स व्यपदिश्यते |
भवंस्तु वासुदेवोऽत्र भावोऽस्मिन् वासुदेवता || ७ - ६ ||
शान्तिर्नाम्ना समाख्याता साहं देवी सनातनी |
संकर्षणादयो व्यूहाः साहंताः प्राङ्निरूपिताः || ७ - ७ ||
त्रयश्च चातुरात्म्यं तच्चत्वारोऽमी सुरेश्वर |
एतावद्भगवद्वाच्यं निस्तत्त्वं तत्त्वमुत्तमम् || ७ - ८ ||
नभस्तु परमं व्योम परमाकाशशब्दितम् |
यत्र देवो मया सार्द्धं विभज्यात्मानमात्मना || ७ - ९ ||
क्रीडते रमया विष्णुः परमात्मा सनातनः |
षाड्गुण्यस्य समुन्मेषः स देशः परमाम्बरम् || ७ - १० ||
पुरुषो भोक्तृकूटस्थः सर्वज्ञः सर्वतोमुखः |
अंशतः प्रसरन्त्यस्मात्सर्वे जीवाः सनातनाः || ७ - ११ ||
प्रलये त्वपियन्त्येनं कर्मात्मानो नरं परम् |
इयं मातृदशा सा मे या ते पूर्वं मयोदिता || ७ - १२ ||
महालक्ष्मीः समाख्याता शक्तितत्त्वं मनीषिभिः |
नियतिस्तु महाविद्या कालः काली प्रकीर्तिता || ७ - १३ ||
सत्त्वं रजस्तमश्चेति गुणत्रयमुदाहृतम् |
सुखरूपं स्मृतं सत्त्वं स्वच्छं ज्ञानकरं लघु || ७ - १४ ||
दुःखरूपं रजो ज्ञेयं चलं रक्तं प्रवर्तकम् |
मोहरूपं तमो ज्ञेयं गुरु कृष्णं नियामकम् || ७ - १५ ||
माया चैव प्रसूतिश्च प्रकृतिश्चेति वासव |
पुरस्ताद्व्याकृतं तुभ्यं तदेतत्प्रकृतित्रिकम् || ७ - १६ ||
भूतानि दशसंख्यानि तथा खानि त्रयोदश |
त्रयोविंशतिरप्येते सुस्पष्टं व्याकृता पुरा || ७ - १७ ||
तदयं मम संकोचः प्रमाता शुद्धचिन्मयः |
स्वान्तःस्फुरिततत्त्वौघः स्थितो दर्पणवत्सदा || ७ - १८ ||
चातूरूप्यं तु यत्तस्य तदिहैकमनाः शृणु |
आद्यं शून्यमयो माता मूर्छादौ परिकीर्तितः || ७ - १९ ||
ततः प्राणमयो माता सुषुप्तौ परिकीर्तितः |
प्राणा एव प्रतायन्ते सुषुप्तौ पुरुषस्य तु || ७ - २० ||
मूर्छाविषोपघातादौ प्राणोऽपि विनिवर्तते |
केवलं स्वात्मसत्तैव ततः शून्यस्तदा पुमान् || ७ - २१ ||
तृतीयोऽष्टपुरीमात्रः स्वप्ने माता प्रकीर्तितः |
प्राणा भूतानि कर्माणि करणानि त्रयो गुणाः || ७ - २२ ||
प्राग्वासना अविद्या च लिङ्गं पुर्यष्टकं स्मृतम् |
स्वप्नेऽन्तःकरणेनैव स्वैरं हि परिवर्तते || ७ - २३ ||
चेष्टमानः स्वदेहेन देही जाग्रद्दशां गतः |
चातूरूप्यमिदं पुंसस्त्रैरूप्यमपि मे शृणु || ७ - २४ ||
ज्ञानक्रियास्वरूपाणां संकोचस्त्रिविधस्तु यः |
तस्य तद्धि त्रिरूपत्वं तस्य व्याख्यामिमां शृणु || ७ - २५ ||
मायया ज्ञानसंकोच आनैश्वर्यात्क्रियाव्ययः |
अशक्तेरणुता रूपे त्रिधैव व्यपदिश्यते || ७ - २६ ||
अणुः किंचित्करश्चैव किंचिज्ज्ञश्चायमित्युत |
द्वैरूप्यमैकरूप्यं च पूर्वमेव निरूपितम् || ७ - २७ ||
एवं मातृदशामेऽद्य सविशेषा प्रकीर्तिता |
आन्तःकरणिकीं चैव दशां शक्राद्य मे शृणु || ७ - २८ ||
स्वच्छन्दा संविदेवाहं स्वतश्चेतनतां गता |
हित्वा चेतनतां तां चाप्यवरूढा ततः क्रमात् || ७ - २९ ||
चैत्यसंकोचनी चित्तमन्तःकरणमीरितम् |
मनोबुद्धिरहंकार इत्येतत् त्रितयं च तत् || ७ - ३० ||
विकल्पोऽध्यवसायश्चाप्यभिमानश्च वृत्तयः |
मनो विकल्पयत्यर्थमहंकारोऽभिमन्यते || ७ - ३१ ||
अध्यवस्यति बुद्धिश्च चेतनाधिष्ठिता सदा |
बुद्धिरध्यात्ममित्युक्ता निर्णयोऽप्यधिभूतकम् || ७ - ३२ ||
बुद्धिदर्पणसंलीनः क्षेत्रज्ञश्चाधिदैवतम् |
अहंकृतिस्तथाध्यात्ममभिमानोऽधिभूतकम् || ७ - ३३ ||
अधिदैवमथो रुद्रो मनोऽध्यात्मं प्रकीर्तितम् |
विकल्पोऽप्यधिभूतस्तु चन्द्रमा अधिदैवतम् || ७ - ३४ ||
प्राणसंरम्भसंकल्पा गुणा एषां क्रियाविधौ |
प्राणः प्रयत्न इत्युक्तः संरम्भो गर्व उच्यते || ७ - ३५ ||
फलस्वाम्यस्वरूपश्च गर्वः संरम्भः उच्यते |
औदासीन्यच्युतिः प्रोक्तः संकल्पो मानसो बुधैः || ७ - ३६ ||
व्याख्यातेयं द्वितीया मे ह्यान्तःकरणिकी दशा |
प्रच्यवन्ती ततो रूपादान्तःकरणिकादहम् || ७ - ३७ ||
स्त्यानतां क्रमशः प्राप्ता बहिष्करणसंज्ञिता |
करणानि तु बाह्यानि व्याख्यातानि मया पुरा || ७ - ३८ ||
ज्ञानेन्द्रियप्रवृत्तौ तु मन आदि प्रवर्तते |
चक्षुरालोकयत्यर्थं विकल्पयति तन्मनः || ७ - ३९ ||
आलोकनविकल्पस्थमहंकारोऽभिमन्यते |
अध्यवस्य ततो बुद्धिः क्षेत्रज्ञाय प्रयच्छति || ७ - ४० ||
कर्मेन्द्रियप्रवृत्तौ तु विपर्यस्तः क्रमः स्मृतः |
संकल्पादेः पराचीना वचनादिक्रिया यतः || ७ - ४१ ||
अध्यात्मादिविशेषोऽत्र सर्वः पूर्वमुदीरितः |
तृतीयेयं विधाख्याता बहिष्करणवर्तिनी || ७ - ४२ ||
चतुर्थीं त्वमिमां कोटिं मेयरूपां तु मे शृणु |
मेयं तु द्विविधं तावद्बहिरन्तर्व्यवस्थया || ७ - ४३ ||
बाह्यं तु नीलपीतादि सुखदुःखाद्यथान्तरम् |
आभिश्चतसृभिश्चाहं विधाभिः स्त्यानतां गता || ७ - ४४ ||
स्वचित्तोत्थविकल्पार्थैः प्रत्यक्षाप्यस्मि विस्मृता |
सदाचार्योपदेशेन सत्तर्कमनुरुन्धता || ७ - ४५ ||
निरूप्ये निपुणैर्यत्र मेयेऽप्यस्मि तदा स्फुटम् |
विलाप्य सकलं भावं चेत्यरूपमिमं तथा || ७ - ४६ ||
स्वच्छन्दा पूर्णचिद्रूपा प्रकाशेऽहं तदा स्वयम् |
स्वच्छा स्वच्छतरा साहं ततः करणसंज्ञिता || ७ - ४७ ||
ततो मातर्यतिस्वच्छा स्फुरामि स्वच्छचिन्मयी |
आरोहमवरोहं च भावयन्मामकावुभौ |
मच्चित्तो मद्गतप्राणो मद्भावायोपपद्यते || ७ - ४८ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे प्रमातृकरणप्रकाशो नाम सप्तमोऽध्यायः || ७ ||
Kapitel 8
Deutsche Übersetzung: Kapitel 8 · Sanskrit IAST: Kapitel 8
शक्रः -
नमस्ते सिन्धुसंभूते नमस्ते पद्मसंभवे |
नमः सरोरुहावासे नारायणकुटुम्बिनि || ८ - १ ||
अवतारास्तु ये प्रोक्तास्त्वदीयाः कोशपञ्चके |
तान्मे विस्तरतः पद्मे पृच्छते वक्तुमर्हसि || ८ - २ ||
किमर्थाः किंप्रकारास्ते कियन्तः किंस्वरूपकाः |
तत्त्वं कथय मे देवि सर्वज्ञा ह्यसि शाश्वती || ८ - ३ ||
श्रीः -
अतरङ्गमनिर्देश्यमप्रकम्प्यमनूपमम् |
अप्रकारमसंभेद्यमविकल्पमनाकुलम् || ८ - ४ ||
एकं नारायणं ब्रह्म शून्यं शुद्धं निरामयम् |
यदिदं दृश्यते किंचिच्छ्रूयते वानुमीयते || ८ - ५ ||
प्रमाणत्रयसंबोध्यं भावाभावस्वलक्षणम् |
चराचरमणु स्थूलं चेतनाचेतनं जगत् || ८ - ६ ||
तदिदं सकलं ब्रह्म नारायणमनुत्तरम् |
अविद्याविधुरानन्दस्वच्छस्वच्छन्दचिद्घनम् || ८ - ७ ||
भवद्भावात्मकं दिव्यमध्वनः पारमुत्तमम् |
शक्तिमच्छक्तिभावेन तद् द्विधा व्यवतिष्ठते || ८ - ८ ||
शक्तिमत्तत् परं ब्रह्म नारायणमहं भवत् |
शक्तिर्नारायणी साहमहंता भावरूपिणी || ८ - ९ ||
स प्रदेशो न तस्यास्ति येन भूतं मया विना |
स प्रदेशो न मे कश्चिद्विना तद्येन भूयते || ८ - १० ||
एकधा च द्विधा चैव तैस्तैस्तत्त्वाब्धिपारगैः |
व्यपदिश्यावहे शास्त्रैस्तावावां सर्वकारणम् || ८ - ११ ||
भावोत्तरा क्वचित्सृष्टिः क्वचित्सा भवदुत्तरा |
भवद्भावोत्तरा क्वापि विद्वांस्तत्र न मुह्यति || ८ - १२ ||
एक एवावतीर्णो हि देवानां कार्यवत्तया |
नारायणो यदा साहं तत्र तद्भावभाविनी || ८ - १३ ||
एकैव चावतीर्णाहं यदा देवहितेप्सया |
अहंतायां मयि व्यक्तः स देवोऽहंपदार्थवान् || ८ - १४ ||
अवतीर्णौ यदा तुल्यं देवकार्यचिकीर्षया |
अन्योन्ययोः स्थितावावां भवद्भावात्मकौ द्वयोः || ८ - १५ ||
इत्थं व्यवस्थिते तत्त्वे ह्यवतारगतिं शृणु |
अनिरुद्धो विभुर्देवो देवदेवः सनातनः || ८ - १६ ||
महाविद्यासमुद्भूतस्तदाहमपि वासव |
मत्त एव महालक्ष्म्या अभूवं कमलाख्यया || ८ - १७ ||
ताविमौ दम्पती दिव्यौ पितरौ जगतां मतौ |
पद्मनाभावतारे तु तावेतौ द्वावयोनिजौ || ८ - १८ ||
नारायणावतारो यः शक्तीशो नाम नामतः |
प्रकारा बहवस्तस्य सर्वत्राहमनुव्रता || ८ - १९ ||
एकधा द्विचतुर्धा च षोढा चैव तथाष्टधा |
पुनर्द्वादशधा चैव तत्र नामानि मे शृणु || ८ - २० ||
श्रीर्नाम द्विभुजस्याहमङ्कस्था वरवर्णिनी |
तस्यैवोभयतोरूपे श्रीश्च पुष्टिश्च वासव || ८ - २१ ||
चतुर्दिशं तु तस्यैव श्रीः कीर्तिश्च जया तथा |
मायेति कृत्वा रूपाणि भुज्येऽहं तेन विष्णुना || ८ - २२ ||
तस्यैव कोणषट्कस्था षोढाहं शृणु नाम च |
शुद्धिर्निरञ्जना नित्या ज्ञानशक्तिश्च वासव || ८ - २३ ||
तथा पराजिता चैव षष्ठी तु प्रकृतिः परा |
तस्यैव चाष्टधा दिक्षु साहं रूपैर्व्यवस्थिता || ८ - २४ ||
लक्ष्मीः सरस्वती सर्वकामदा प्रीतिवर्धनी |
यशस्करी शान्तिदा च तुष्टिदा पुष्टिरष्टमी || ८ - २५ ||
कोणद्विषट्के तस्यैव स्थिता द्वादशधास्म्यहम् |
श्रीश्च कामेश्वरी कान्तिः क्रियाशक्तिविभूतयः || ८ - २६ ||
इच्छा प्रीती रतिश्चैव माया धीर्महिमेति च |
एवं चतुर्भुजस्यापि षोढाहं क्रमशः स्थिता || ८ - २७ ||
तस्यैव षड्भुजस्याहमष्टबाहोश्च वासव |
द्विषड्बाहोस्तथा साहं द्विसप्तकभुजस्य च || ८ - २८ ||
तथा षोडशहस्तस्य भुजद्विनवकस्य च |
विभज्य बहुधात्मानमियद्भेदा व्यवस्थिता || ८ - २९ ||
अवतारो हि यो विष्णोः सिन्धुशायीति संज्ञितः |
स्थिताहं परितस्तस्य चतुर्धा रूपमेयुषी || ८ - ३० ||
लक्ष्मीर्निद्रा तथा प्रीतिर्विद्या चेति विभेदिनी |
अवतारो हि यो विष्णोः श्रीपतिर्नाम नामतः || ८ - ३१ ||
श्रीरित्येवाख्यया तत्र तस्याहं वामतः स्थिता |
अवतारो हि यो विष्णोर्नामतः परिजातजित् || ८ - ३२ ||
तदंसस्थकरा तस्य वामोत्सङ्गे हरेः स्थिता |
अवतारो हि यो विष्णोर्नाम्ना मीनधरः शुभः || ८ - ३३ ||
अनुभ्रमामि तं तत्र साहं नौरूपधारिणी |
त्रैविक्रमोदयो विष्णोरवतारः परः स्मृतः || ८ - ३४ ||
आह्लादजननी गङ्गा तत्पादात्प्रभवाम्यहम् |
अनन्तशयनो नाम योऽवतारो हरेरहम् || ८ - ३५ ||
स्थिता चतुर्दिशं तस्य चातुरात्म्यमुपेयुषी |
लक्ष्मीश्चिन्ता तथा निद्रा पुष्टिश्चेत्याख्यया युता || ८ - ३६ ||
इत्येषु सह सिद्धाहमवतीर्णाण्डमध्यतः |
अवताराः पृथग्भूता यदा ब्रह्माण्डमध्यतः || ८ - ३७ ||
अनुव्रता तथैवाहमवतीर्णा पृथक् पृथक् |
अवतारो हि यो नाम वराहो वेदविश्रुतः || ८ - ३८ ||
तदाहमपि भूर्नाम पृथग्भूता भजाम्यहम् |
अवतारो हि यो नाम धर्मो विष्णुः पुरातनः || ८ - ३९ ||
तदाहं भार्गवी नाम ख्यातिजा श्रीः प्रकीर्तिता |
अवतारो हि यो नाम दत्तात्रेयोऽत्रिनन्दनः || ८ - ४० ||
तदा हि तस्य भोगाय सरसोऽहं समुत्थिता |
अवतारो हि यो नाम वामनो वैष्णवः शुभः || ८ - ४१ ||
पद्मादहं समुत्पन्ना तदा पद्मेति विश्रुता |
अवतारो यदा विष्णोर्भार्गवो रामसंज्ञितः || ८ - ४२ ||
तदाहं धरणी नाम शक्तिरासमयोनिजा |
अवतारो हि यो नाम रामो दाशरथिः शुभः || ८ - ४३ ||
जाता जनकयज्ञेऽहं क्षेत्राद्धलमुखक्षतात् |
नाम्ना सीतेति विख्याता दशाननविनाशनी || ८ - ४४ ||
अवतारो हि यो विष्णोश्चतुर्धा संभविष्यति |
मधुरायामहं व्यक्तिं चतुर्धैष्यामि वै तथा || ८ - ४५ ||
रेवती रुक्मिणी चैव रतिर्नाम्ना तथा ह्युषा |
अवतारान्तरं यत्तु मोहनं बुद्धसंज्ञकम् || ८ - ४६ ||
ताराहं तत्र नाम्ना वै धारा चैव प्रकीर्तिता |
ध्रुवादयोऽवतारा ये केवला वैष्णवाः स्मृताः || ८ - ४७ ||
तत्तच्छरीरभूताहं तेषां भोग्या व्यवस्थिता |
यत्तु मे मोहनं रूपं श्रूयतेऽमृतधारकम् || ८ - ४८ ||
भवद्भावौ तदा तत्र रूपे तुल्योपलक्षितौ |
देवैः पुरुषरूपेण स्त्रीरूपेण तथेतरैः || ८ - ४९ ||
सह सिद्धं पृथक्सिद्धमित्येतज्जन्म मेऽद्भुतम् |
कीर्तितं तव देवेश केवलं जन्म मे शृणु || ८ - ५० ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे लक्ष्म्यवतारप्रकाशो नामाष्टमोऽध्यायः || ८ ||
Kapitel 9
Deutsche Übersetzung: Kapitel 9 · Sanskrit IAST: Kapitel 9
अहं नारायणी देवी नारायणमनुव्रता |
ज्ञानानन्दक्रियात्मानं ज्ञानानन्दक्रियामयी || ९ - १ ||
तस्या मे न विनाभावस्तेन वा तस्य वा मया |
प्रकर्तुं शक्यते काले कस्मिंश्चिद्देश एव वा || ९ - २ ||
तत्तत्कार्यवशाच्चैवान्यद्भूताद्भुतरूपकौ |
आत्मयोगबलात्तौ स्वः सहैव च विनैव च || ९ - ३ ||
ब्रह्मादिर्दत्तवान् यादृक्तपोयोगबलात्कृतः |
दैत्यादिभ्यो जगद्ध्वंसकरेभ्यो वरमुत्तमम् || ९ - ४ ||
तादृशं तादृशं रूपमास्थायावां सनातनौ |
तत्तत्प्रितिचिकीर्षायै चरावो देवकार्यतः || ९ - ५ ||
मायया भावमाच्छाद्य परमार्थं स्वतेजसा |
अहमेवावतीर्णा हि तत्तद्ध्वंसिजिघांसया || ९ - ६ ||
आदौ देवी महालक्ष्मीः स्मृताहं परमेश्वरी |
अभूवं च पुनर्द्वेधा कृष्णा ब्राह्मीति रूपतः || ९ - ७ ||
गुणत्रयविभागेन रूपमेतत्परं मम |
महालक्ष्मीरहं शक्र पुनः स्वायंभुवेऽन्तरे || ९ - ८ ||
हिताय सर्वलोकानां जाता महिषमर्दनी |
मदीया शक्तिलेशा ये तत्तद्देवशरीरगाः || ९ - ९ ||
संभूय ते ममाभूवन् रूपं परमशोभनम् |
आयुधानि च देवानां यानि यानि सुरेश्वर || ९ - १० ||
तच्छक्तयस्तदाकारा आयुधानि ममाभवन् |
अभिष्टुता सुरैः साहं महिषं जघ्नुषी क्षणात् || ९ - ११ ||
महिषान्तकरीसूक्तं सर्वसिद्धिप्रदं तदा |
देव्या ययादिकं दृष्टं सेन्द्रैर्देवैः सहर्षिभिः || ९ - १२ ||
उत्पत्तिं युद्धविक्रान्तिं स्तोत्रं चेति सुरेश्वर |
कथयन्ति सुविस्तीर्णं ब्राह्मणा वेदपारगाः || ९ - १३ ||
एवं प्रभावां देवीं तां स्तुवन् ध्यायन्नमन्नपि |
लभते च फलं शश्वदाधिपत्यमनश्वरम् || ९ - १४ ||
योगनिद्रा हरेरुक्ता या सा देवी दुरत्यया |
महाकालीतनुं विद्धि तां मां देवीं सनातनीम् || ९ - १५ ||
मधुकैटभनाशे हि मोहितौ तौ तया तदा |
जघ्नाते वरलाभेन देवदेवेन विष्णुना || ९ - १६ ||
विश्वेश्वर्यादिकं सूक्तं दृष्टं तद् ब्रह्मणा सदा |
स्तुतये योगनिद्राया मम देव्याः पुरंदर || ९ - १७ ||
एषा सा वैष्णवी माया महाकाली दुरत्यया |
स्तुत्या वशीकृता कुर्याद्वशे स्तोतुश्चराचरम् || ९ - १८ ||
अस्या देव्याः समुत्पत्तिश्चरितं स्तोत्रमित्यपि |
हिताय सर्वभूतानां धार्यन्ते ब्रह्मवादिभिः || ९ - १९ ||
तामसे त्वन्तरे शक्र महाविद्या हि या परा |
गौरीदेहात्समुद्भूता कौशिकीति तदा ह्यहम् || ९ - २० ||
वधाय दुष्टदैत्यानां तथा सुम्भनिसुम्भयोः |
रक्षणाय च लोकानां देवानामुपकारिणी || ९ - २१ ||
मदीयाः शक्तयो यास्ता देवश्रेष्ठशरीरगाः |
तास्तास्तद्रूपधारिण्यः साहाययं विदधुर्हि मे || ९ - २२ ||
ताभिर्निहत्य दैत्येन्द्रान् हन्तव्या ये तथा तथा |
संहृत्यात्मनि ताः सर्वा मदीया विप्रुषोऽखिलाः || ९ - २३ ||
अहं निजघ्नुषी पश्चात्तयोः सुम्भनिसुम्भयोः |
देवि प्रपन्नातिहरे प्रसीदेत्यादिकं तथा || ९ - २४ ||
नारायणीस्तुतिर्नाम सूक्तं परमशोभनम् |
स्तुतयो मे तदा दृष्टा देवैर्वह्निपुरोगमैः || ९ - २५ ||
एषा संपूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति |
कौशिकी सर्वदेवेश बहुकामप्रदा ह्यहम् || ९ - २६ ||
उत्पत्तिर्युद्धविक्रान्तिः स्तुतिश्चेति पुरातनैः |
पठ्यते त्रितयं विप्रैर्वेदवेदाङ्गपारगैः || ९ - २७ ||
वैवस्वतेऽन्तरे चैतौ पुनः सुम्भनिसुम्भकौ |
उत्पत्स्येते वरोन्मत्तौ देवोपद्रवकारिणौ || ९ - २८ ||
नन्दगोपकुले जाता यशोदागर्भसंभवा |
तावहं नाशयिष्यामि सुनन्दा विन्ध्यवासिनी || ९ - २९ ||
पुनश्चाप्यतिरौद्रेण रूपेण पृथिवीतले |
अवतीर्य हनिष्यामि वैप्रचित्तान् महासुरान् || ९ - ३० ||
भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान् |
रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः || ९ - ३१ ||
ततो मां देवताः सर्वे मर्त्यलोके च मानवाः |
स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् || ९ - ३२ ||
तस्मिन्नेवान्तरे शक्र चत्वारिंशत्तमे युगे |
सर्वतः शतवार्षिक्यामनावृष्ट्यामनम्भसि || ९ - ३३ ||
मुनिभिः संस्मृता भूमौ संभविष्याम्ययोनिजा |
ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन् || ९ - ३४ ||
कीर्तयिष्यन्ति मां शक्र शताक्षीमिति मानवाः |
तदाहमखिलं लोकमात्मदेहसमुद्भवैः || ९ - ३५ ||
भरिष्यामि शुभैः शाकैराविष्टैः प्राणधारकैः |
शाकंभरीति मां देवास्तदा स्तोष्यन्ति वासव || ९ - ३६ ||
तत्रैव च हनिष्यामि दुर्गमाख्यं महासुरम् |
दुर्गादेवीति विख्यातिं ततो यास्याम्यहं भुवि || ९ - ३७ ||
शाकंभरीं स्तुवन् ध्यायन् शक्र संपूजयन्नमन् |
अक्षययामश्नुते शीघ्रमन्नपानोद्भवां रतिम् || ९ - ३८ ||
चतुर्युगे च पञ्चाशत्तमे मुनिभिरर्थिता |
सुन्दरं चातिभीमं च रूपं कृत्वा हिमाचले || ९ - ३९ ||
रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात् |
ततो मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः || ९ - ४० ||
भीमे देवि प्रसीदेति भीमामभयदायिनिम् |
युगे षष्टितमे कश्चिदरुणो नाम दानवः || ९ - ४१ ||
मनुजानां मुनीनां च महाबाधां करिष्यति |
तत्राहं भ्रामरं रूपं कृत्वासंख्येयषट्पदा || ९ - ४२ ||
त्रैलोक्यस्य हितार्थाय बधिष्यामि महासुरम् |
भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वदा || ९ - ४३ ||
इत्थं यदा यदा बाधा दानवोत्था भविष्यति |
तदा तदावतीर्याहं हनिष्यामि महासुरान् || ९ - ४४ ||
अमी ते लेशतः शक्र दर्शिताः परमाद्भुताः |
अवतारा निरातङ्का मदीयाः केवलाह्वयाः || ९ - ४५ ||
एतेषां परमा प्रोक्ता कूटस्था सा महीयसी |
महालक्ष्मीर्महाभागा प्रकृतिः परमेश्वरी || ९ - ४६ ||
अमुष्याः स्तुतये दृष्टं ब्रह्माद्यैः सकलैः सुरैः |
नमो देव्यादिकं सूक्तं सर्वकामप्रदं वरम् || ९ - ४७ ||
इमां देवीं स्तुवन्नित्यं स्तोत्रेणानेन मामिह |
क्लेशानतीत्य सकलानैश्वर्यं महदश्नुते || ९ - ४८ ||
अमुष्याः सावताराया महालक्ष्म्या ममानघ |
जन्मानि चरितैः सार्धं स्तोत्रैर्वैभववादिभिः || ९ - ४९ ||
कथितानि पुरा शक्र वसिष्ठेन महात्मना |
स्वारोचिषेऽन्तरे राज्ञे सुरथाय महात्मने || ९ - ५० ||
समाधये च वैश्याय प्रणतायावसीदते |
भक्तिश्रद्धावता नित्यं वसिष्ठेन कृतेति मे || ९ - ५१ ||
हृदि स्थिता सदा सेयं जन्मकर्मावलिस्तुतिः |
एतां द्विजमुखाच्छ्रुत्वा ह्यधीयानो नरः सदा || ९ - ५२ ||
विधूय निखिलां मायां सम्यग्ज्ञानं समश्नुते |
सर्वां संपदमाप्नोति धुनोति सकलापदः || ९ - ५३ ||
मम प्रभावात् सौभाग्यं कीर्तिं चैव समश्नुते |
केवला अपि यद्येते मदीया विष्णुना विना || ९ - ५४ ||
न मेऽस्ति संभवः सोऽयमहंभूतः स्थितोऽत्र तु |
अन्योन्येनाविनाभावादन्योन्येन समन्वयात् || ९ - ५५ ||
मयययं देवदेवेशस्तत्राहं च सनातनी |
इत्येते लेशतः शक्र दर्शिताः सप्रकारकाः || ९ - ५६ ||
अवतारा मदीयास्ते संभूताः कोशपञ्चके |
शुद्धे कोशे समुद्भूता भवद्भावात्मकाः परे || ९ - ५७ ||
तत्राप्येषा स्थितिर्ज्ञेया विष्णोर्मम सह स्थितिः |
एवं प्रकारां मां ज्ञात्वा प्रत्यक्षां सर्वसंमताम् || ९ - ५८ ||
उपायैर्विविधैः शश्वदुपास्य बहुधात्मिकाम् |
क्लेशकर्माशयातीतो मद्भावं प्रतिपद्यते || ९ - ५९ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे केवलावतारप्रकाशो नाम नवमोऽध्यायः || ९ ||
Kapitel 10
Deutsche Übersetzung: Kapitel 10 · Sanskrit IAST: Kapitel 10
शक्रः -
क्षीरोदमथनायासफलरूपे मधुद्विषः |
नमश्चन्द्रसहोदर्यै नमस्तेऽमृतयोनये || १० - १ ||
भावोत्तराः प्रकारास्ते श्रुतास्त्वद्वक्त्रपङ्कजात् |
इदानीं श्रोतुमिच्छामि प्रकारान् भवदुत्तरान् || १० - २ ||
वैष्णवा अवतारास्ते किंरूपाः कति वाम्बुजे |
एतत्पृष्टा मया ब्रूहि नमस्ते पङ्कजासने || १० - ३ ||
श्रीः -
हन्त ते शक्र वक्ष्यामि प्रकारान् भवदुत्तरान् |
वैष्णवा अवतारास्ते यावन्तो यद्विधाश्च ते || १० - ४ ||
षाड्गुण्यममलं ब्रह्म निर्दोषमजरं ध्रुवम् |
सर्वशक्ति निरातङ्कं निरालम्बनभावनम् || १० - ५ ||
तदुन्मिषति वै पूर्वं शक्तिमच्छक्तिभावतः |
नारायणः परो देवः संस्थितः शक्तिमत्तया || १० - ६ ||
स्थिरा शक्तिरहं तस्य सर्वकार्यकरी विभोः |
तावावां जगतोऽर्थाय बहुधा विक्रियावहे || १० - ७ ||
यथाहमास्थिता भेदैस्तथा ते कथितं पुरा |
विकारानविकारस्य विष्णोः शृणु मयोदितान् || १० - ८ ||
अप्राकृताननौपम्यानचिन्त्यमहिमोज्ज्वलान् |
स्वां शक्तिं मामधिष्ठाय प्रकृतिं परमाद्भुताम् || १० - ९ ||
त्रैरूप्येण जगन्नाथः समुदेति जगद्धिते |
आद्येन पररूपेण व्यूहरूपेण चाप्यथ || १० - १० ||
तथा विभवरूपेण नानाभावमुपेयुषा |
व्यापको भगवान् देवो भक्तानुग्रहकाम्यया || १० - ११ ||
अनौपम्यमनिर्दश्यं वपुः स भजते परम् |
विश्वाप्यायनकं कान्त्या पूर्णेन्द्वयुततुल्यया || १० - १२ ||
वरदाभयहस्तं च द्विभुजं पद्मलोचनम् |
रेखामयेन चक्रेण शङ्खेन च करद्वये || १० - १३ ||
अङ्कितं निर्विकाराङ्घ्रिस्थितं परमशोभनम् |
अन्यूनानतिरिक्तैः स्वैर्गुणैः षड्भिरलंकृतम् || १० - १४ ||
समं समविभक्ताङ्गं सर्वावयवसुन्दरम् |
पूर्णमाभरणैः शुभ्रैः सुधाकल्लोलसंकुलैः || १० - १५ ||
रश्मिभूतैरमूर्तैः रवैरच्युताद्यैरविच्युतम् |
एका मूर्तिरियं दिव्या पराख्या वैष्णवी परा || १० - १६ ||
योगसिद्धा भजन्त्येनां हृदि तुर्यपदाश्रिताम् |
अथ व्यूहस्वरूपं ते द्वितीयं वर्णयाम्यहम् || १० - १७ ||
व्यूह्यात्मानं चतुर्धा स्वं देवः प्रागादिभेदतः |
वासुदेवादिभेदेन सौषुप्ताध्वनि तिष्ठति || १० - १८ ||
संस्थानमादिमूर्तेर्वै सर्वेषां तु समं स्मृतम् |
षड्गुणं प्रथमं रूपं द्वन्द्वैर्ज्ञानादिसंभवैः || १० - १९ ||
इतराणि स्वरूपाणि कथितानि मया पुरा |
वह्न्यर्केन्दुसहस्राभमानन्दास्पन्दलक्षणम् || १० - २० ||
बीजं सर्वक्रियाणां तद्विकल्पानां तदास्पदम् |
सौषुप्तं चातुरात्म्यं तत्प्रथमं विद्धि वासव || १० - २१ ||
अथ स्वाप्रे पदेऽप्येवं विभज्यात्मानमात्मना |
देवः प्रागादिभेदेन वासुदेवादिरूपतः || १० - २२ ||
समासव्यासभेदेन गुणानां पुरुषोत्तमः |
सितरक्तसुवर्णाभ्रसदृशैः परमाद्भुतैः || १० - २३ ||
आदिमूतिसमैः रूपैश्चतुर्धा व्यवतिष्ठते |
कैवल्यभोगफलदं भवबीजक्षयंकरम् || १० - २४ ||
चातुरात्म्यं द्वितीयं तत् सुधासंदोहसुन्दरम् |
अथ जाग्रत्पदे देवः सितरक्तादिभेदतः || १० - २५ ||
चतुर्भुजैरुदाराङ्गैः शङ्खचक्रादिचिह्नितैः |
नानाध्वजविचित्राङ्गैर्वासुदेवादिसंज्ञितैः || १० - २६ ||
व्यूहैः स्वं प्रविभज्यास्ते विभुर्नाम स्वलीलया |
तत्राद्यं भगवद्रूपं हिमकुन्देन्दुकान्तिमत् || १० - २७ ||
चतुर्भुजं सौम्यवक्त्रं पुण्डरीकनिभेक्षणम् |
पीतकौशेयवसनं सुपर्णध्वजभूषितम् || १० - २८ ||
मुख्यदक्षिणहस्तेन भीतानामभयप्रदम् |
तथा विधेन वामेन दधानं शङ्खमुत्तमम् || १० - २९ ||
अपरेण दधानं च दक्षिणेन सुदर्शनम् |
वामेन च गदां गुर्वीं निषण्णां वसुधातले || १० - ३० ||
संचिन्तयेत् पुरो भागे वासुदेवमितीदृशम् |
सिन्दूरशिखराकारं सौम्यवक्त्रं चतुर्भुजम् || १० - ३१ ||
अतसीपुष्पसंकाशवसनं ताललाञ्छितम् |
मुख्येन पाणियुग्मेन तुल्यमाद्यस्य वै विभोः || १० - ३२ ||
सीरं तच्चक्रहस्तेऽस्य मुसलं तु गदाकरे |
दक्षिणे चिन्तयेद्भागे संकर्षणमितीदृशम् || १० - ३३ ||
प्रावृण्निशासमुदितखद्योतनिचयप्रभम् |
रक्तकौशेयवसनं मकरध्वजशोभितम् || १० - ३४ ||
सौम्यवक्त्रं चतुर्बाहुं तृतीयं परमेश्वरम् |
मुख्यहस्तद्वयं चास्य प्राग्वत्तुल्यं महामते || १० - ३५ ||
वामेऽपरस्मिन् शार्ङ्गं च दक्षिणे बाणपञ्चकम् |
अपरे चिन्तयेद्भागे प्रद्यम्नमिति कीर्तितम् || १० - ३६ ||
अञ्जनाद्रिप्रतीकाशं सुपीताम्बरवेष्टितम् |
चतुर्भुजं विशालाक्षं मृगलाञ्छनभूषितम् || १० - ३७ ||
आदिवत् पाणियुगलमाद्यमस्य विचिन्तयेत् |
दक्षिणादिक्रमेणाथ द्वाभ्यां वै खड्गखेटकौ || १० - ३८ ||
दधानमनिरुद्धं तु सौम्यभागे विचिन्तयेत् |
वनमालाधराः सर्वे श्रीवत्सकृतलक्षणाः || १० - ३९ ||
शोभिताः कौस्तुभेनैव रत्नराजेन वक्षसि |
जाग्रत्पदे स्थितं देवं चातुरात्म्यमनुत्तमम् || १० - ४० ||
स्थित्युत्पत्तिप्रलयकृत्सर्वोपकरणान्वितम् |
दिव्यं तच्चिन्तयेद्यस्य विश्वं तिष्ठति शासने || १० - ४१ ||
त्रिविधं चातुरात्म्यं तु सुषुप्त्यादिपदत्रिके |
सुव्यक्तं तत्पदे तुर्ये गुणलक्ष्यं परं स्थितम् || १० - ४२ ||
ज्ञानक्रियादिभिर्विष्णोर्लोकाननुसिसृक्षतः |
व्यूहसंज्ञमिदं रूपं द्वितीयं कथितं मया || १० - ४३ ||
तृतीयं विभवाख्यं तु विश्वमन्दिरमध्यगम् |
नानाकारक्रियाकर्तृ रूपं विष्णोर्निशामय || १० - ४४ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे परव्यूहप्रकाशो नाम दशमोऽध्यायः || १० ||
Kapitel 11
Deutsche Übersetzung: Kapitel 11 · Sanskrit IAST: Kapitel 11
श्री -
निर्दोषो निरधिष्ठेयो निरवद्यः सनातनः |
विष्णुर्नारायणः श्रीमान् परमात्मा सनातनः || ११ - १ ||
षाड्गुण्यविग्रहो नित्यं परं ब्रह्माक्षरं परम् |
तस्य मां परमां शक्तिं नित्यं तद्धर्मधर्मिणीम् || ११ - २ ||
सर्वभावानुगां विद्धि निर्दोषामनपायिनीम् |
सर्वकार्यकरी साहं विष्णोरव्ययरूपिणः || ११ - ३ ||
शुद्धाशुद्धमयैर्भावैर्वितत्यात्मानमात्मना |
परव्यूहादिसंभेदं व्यूहयन्ती हरेः सदा || ११ - ४ ||
शुद्धषाड्गुण्यमादाय कल्पयन्ती तथा तथा |
तेन नानाविधं रूपं व्यूहाद्युचितमञ्जसा || ११ - ५ ||
उन्मेषयामि देवस्य प्रकारं भवदुत्तरम् |
व्यापारस्तस्य देवस्य साहमस्मि न संशयः || ११ - ६ ||
मया कृतं हि यत् कर्म तेन तत् कृतमुच्यते |
अहं हि तस्य देवस्य स्मृता व्याप्रियमाणता || ११ - ७ ||
इति शक्र परं रूपं व्यूहरूपं च दर्शितम् |
तृतीयं विभवाख्यं तु रूपमद्य निशामय || ११ - ८ ||
तुर्यादिजाग्रदन्तं यत् प्रोक्तं पदचतुष्टयम् |
वासुदेवादिना व्याप्तमनिरुद्धान्तिमेन तु || ११ - ९ ||
तत्र तत्र पदे चैव चातुरात्म्यं तथा तथा |
अव्यक्तव्यक्तरूपैः स्वैरुदितं ते यथोदितम् || ११ - १० ||
व्यूहाद् व्यूहसमुत्पत्तौ पदाद्यावत्पदान्तरम् |
अन्तरं सकलं देशं संपूरयति तेजसा || ११ - ११ ||
पूजितस्तेजसां राशिरव्यक्तो मूर्तिवर्जितः |
विशाखयूप इत्युक्तस्तत्तज्ज्ञानादिबृंहितः || ११ - १२ ||
तस्मिंस्तस्मिन् पदे तस्मान्मूर्तिशाखाचतुष्टयम् |
वासुदेवादिकं शक्र प्रादुर्भवति वै क्रमात् || ११ - १३ ||
एवं स्वप्नपदाज्जाग्रत्पदव्यूहविभावने |
स्वप्नात्पदाज्जाग्रदन्ते तैजसः पूज्यते महान् || ११ - १४ ||
विशाखयूपो भगवान् स देवस्तेजसां निधिः |
तुर्याद्ये स्वप्नपर्यन्ते हि यत् || ११ - १५ ||
तत्तदैश्वर्यसंपन्ने षाड्गुण्यं सुव्यवस्थितम् |
तदादायाखिलं दिव्यं शुद्धसंवित्पुरःसरम् || ११ - १६ ||
विभजन्नात्मनात्मानं वासुदेवादिरूपतः |
पुनविभववेलायां विना मूर्तिचतुष्टयम् || ११ - १७ ||
विशाखयूप एवैष विभवान् भावयत्युत |
ते देवा विभवात्मानः पद्मनाभादयो मताः || ११ - १८ ||
पद्मनाभो ध्रुवोऽनन्तः शक्तीशो मधुसूदनः |
विद्याधिदेवः कपिलो विश्वरूपो विहंगमः || ११ - १९ ||
क्रोडात्मा वडवावक्त्रो धर्मो वागीश्वरस्तथा |
एकार्णवान्तःशायी च तथैव कमठाकृतिः || ११ - २० ||
वराहो नरसिंहश्चाप्यमृताहरणस्तथा |
श्रीपतिर्दिव्यदेहोऽथ कान्तात्मामृतधारकः || ११ - २१ ||
राहुजित् कालनेमिघ्नः पारिजातहरस्तथा |
लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः || ११ - २२ ||
न्यग्रोधशायी भगवानेकशृङ्गतनुस्तथा |
देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः || ११ - २३ ||
नरो नारायणश्चैव हरिः कृष्णस्तथैव च |
ज्वलत्परशुभृद्रामो रामश्चान्यो धनुर्धरः || ११ - २४ ||
वेदविद्भगवान् कल्की पातालशयनः प्रभुः |
त्रिंशच्चाष्टाविमे देवाः पद्मनाभादयो मताः || ११ - २५ ||
विभोर्विशाखयूपस्य तत्तत्कार्यवशादिमे |
स्फूर्तयो विभवाः ख्याताः कार्यं चैषामसंकरम् || ११ - २६ ||
शुद्धाशुद्धाध्वनोर्मध्ये पद्मनाभो व्यवस्थितः |
ध्रुवादयोऽपरे देवा विवृता विश्वमन्दिरे || ११ - २७ ||
रूपाण्यस्त्राणि चैतेषां शक्तयश्चापरा विधाः |
सर्वं तत् सात्त्वते सिद्धं संज्ञामात्रं प्रदर्शितम् || ११ - २८ ||
शाखास्तु वासुदेवाद्या विभोर्देवस्य कीर्तिताः |
विशाखयूपो भगवान् वितताभिः करोति तत् || ११ - २९ ||
चतसृभ्योऽथ शाखाभ्यः केशवाद्यं त्रयं त्रयम् |
दामोदरान्तमुद्भूतं तद् व्यूहान्तरमुच्यते || ११ - ३० ||
ताभ्य एव हि शाखाभ्यः श्रियादीनां त्रयं त्रयम् |
पूर्वत्रयानुरूपेण शक्तीनां च समुद्गतम् || ११ - ३१ ||
परादिविभवान्तानां सर्वेषां देवतात्मनाम् |
शुद्धषाड्गुण्यरूपाणि वपूंषि त्रिदशेश्वर || ११ - ३२ ||
यावन्त्यस्त्राणि देवानां चक्रशङ्खादिकानि वै |
भूषणानि विचित्राणि वासांसि विविधानि च || ११ - ३३ ||
ध्वजाश्च विविधाकाराः कान्तयश्च सितादिकाः |
वाहनानि विचित्राणि सत्याद्यानि सुरेश्वर || ११ - ३४ ||
शक्तयो भोगदाश्चैव विविधाकारसंस्थिताः |
आन्तःकरणिको वर्गस्तदीया वृत्तयोऽखिलाः || ११ - ३५ ||
यच्च यच्चोपकरणं सामान्यं पुरुषान्तरैः |
षाड्गुण्यनिर्मितं विद्धि तत्सर्वं बलसूदन || ११ - ३६ ||
शुद्धसंविन्मयी साहं षाड्गुण्यपरिपूरिता |
तथा तथा भवाम्येषामिष्टं यद्धि यथा यथा || ११ - ३७ ||
न विना देवदेवेन स्थितिर्मम हि विद्यते |
मया विना न देवस्य स्थितिर्विष्णोर्हि विद्यते || ११ - ३८ ||
तावावामेकतां प्राप्तौ द्विधा भूतौ च संस्थितौ |
विधां भजावहे तां तां यद्यद्यत्र ह्यपेक्षितम् || ११ - ३९ ||
शक्रः -
सिन्धुकन्ये नमस्तुभ्यं नमस्ते सरसीरुहे |
परव्यूहादिभेदेन किं प्रयोजनमीशितुः || ११ - ४० ||
श्रीः -
अनुग्रहाय जीवानां भक्तानामनुकम्पया |
परव्यूहादिभेदेन देवदेवप्रवृत्तयः || ११ - ४१ ||
शक्रः -
देवदेवप्रिये देवि नमस्ते कमलोद्भवे |
अनुग्रहाय भक्तानामेकैवास्तु विधा हरेः || ११ - ४२ ||
श्रीः -
जीवानां विविधाः शक्र संचिताः पुण्यसंचयाः |
संचिन्वन्ति न ते जीवास्तुल्यकालं कथंचन || ११ - ४३ ||
कश्चिद्धि सुकृतोन्मेषात् कदाचित् पुरुषो नृषु |
श्रीमता कमलाक्षेण जायमानो निरीक्ष्यते || ११ - ४४ ||
अन्यदा पुरुषोऽन्यश्चेत्येवं भिन्नाः शुभाशयाः |
भेदोऽधिकारिणां पुण्यतारतम्येन जायते || ११ - ४५ ||
विवेकः कस्यचिन्मन्दो भगवत्तत्त्ववेदने |
मध्यमस्तु परस्याथ दिव्योऽन्यस्य तु जायते || ११ - ४६ ||
ईशानुग्रहवैषम्यादेवं भेदे व्यवस्थिते |
तत्तत्कार्यानुरोधेन परव्यूहादिभावना || ११ - ४७ ||
क्रियते देवदेवेन शक्तिं मामधितिष्ठता |
संसिद्धयोगतत्त्वानामधिकारः परात्मनि || ११ - ४८ ||
व्यामिश्रयोगयुक्तानां मध्यानां व्यूहभावने |
वैभवीयादिरूपेषु विवेकविधुरात्मनाम् || ११ - ४९ ||
अहंताममतार्तानां भक्तानां परमेश्वरे |
अधिकारस्य वैषम्यं भक्तानामनुदृश्य सः || ११ - ५० ||
भजते विविधं भावं परव्यूहादिशब्दितम् |
इति ते लेशतः शक्र दर्शिता उभयात्मकाः || ११ - ५१ ||
भवद्भावोत्तरा व्यूहा मम नारायणस्य च |
शुद्धे शुद्धेतरस्मिंश्च कोशवर्गे मदुद्भवे || ११ - ५२ ||
स्थितिर्नौ दर्शिता तेऽद्य पृथक् सह च केवला |
एवं प्रकारां मां ज्ञात्वा प्रत्यक्षां सर्वसंमताम् || ११ - ५३ ||
उपायैर्विविधै शश्वदुपास्य विविधात्मिकाम् |
क्लेशकर्माशयातीतो मद्भावं प्रतिपद्यते || ११ - ५४ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे विभवप्रकाशो नाम एकादशोऽध्यायः || ११ ||
Kapitel 12
Deutsche Übersetzung: Kapitel 12 · Sanskrit IAST: Kapitel 12
शक्रः -
चिच्छक्तिरेव ते शुद्धा यदि जीवः सनातनः |
क्लेशकर्माशयस्पर्शः कथमस्य सरोरुहे || १२ - १ ||
क्लेशाः के कति ते प्रोक्ताः कर्म कीदृक् च किंविधम् |
आशयो नाम को देवि तदेतत् किं फलं स्मृतम् || १२ - २ ||
सिन्धुकन्ये तदेतन्मे ब्रुहि तुभ्यं नमो नमः |
सर्वज्ञे न त्वदन्येन वक्तुमेतद्धि शक्यते || १२ - ३ ||
श्रीः -
अहं नारायणी देवी स्वच्छस्वच्छन्दचिन्मयी |
स्वतन्त्रा निरवद्याहं विष्णोः श्रीरनपायिनी || १२ - ४ ||
ईशेशितव्यभेदेन द्विधा रूपं मया कृतम् |
ईशितव्यं च तद्भिन्न स्वाच्छन्द्यादेव मे द्विधा || १२ - ५ ||
चिच्छक्तिरेका भोक्त्राख्या परा भोग्यादिरूपिणी |
कालकाल्यविभेदेन सा द्विधा भेदिता मया || १२ - ६ ||
तत्र काल्यात्मिका शक्तिर्मोहिनी बन्धनी तथा |
प्रकृतिः सविकारैषा चिच्छक्तिर्बध्यतेऽनया || १२ - ७ ||
क्लिश्यते येन रूपेण चिच्छक्तिर्भोक्तृतां गता |
स क्लेशः पञ्चधा ज्ञेयो नामान्यस्य च मे शृणु || १२ - ८ ||
तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः |
अविद्या पञ्चपर्वैषा तमसो गतिरुत्तमा || १२ - ९ ||
असङ्गिन्यपि चिच्छक्तिः शुद्धाप्यपरिणामिनी |
आविद्धमात्मनो रूपं नैर्मल्येन विभर्ति सा || १२ - १० ||
शक्रः -
व्याहतामिव पश्यामि चिच्छक्तेः क्लेशसङ्गिताम् |
मुह्यतीव मनो मेऽद्य तं मोहं छिन्धि पद्मजे || १२ - ११ ||
श्रीः -
स्वतन्त्रा सर्वसिद्धीनां हेतुश्चात्र महाद्भुता |
शक्तिर्नारायणस्याहं नित्या देवी सदोदिता || १२ - १२ ||
तस्या मे पञ्च कर्माणि नित्यानि त्रिदशेश्वर |
तिरोभावस्तथा सृष्टिः स्थितिः संहृतिरेव च || १२ - १३ ||
अनुग्रह इति प्रोक्तं मदीयं कर्मपञ्चकम् |
एतेषां कर्मशो व्याख्यां कर्मणां शक्र मे शृणु || १२ - १४ ||
तत्र नाम तिरोभावोऽन्यद्भावः परिकीर्त्यते |
स्वच्छापि सा मदीया हि चिछक्तिर्भोक्तृसंज्ञिता || १२ - १५ ||
मदीयया यया शक्त्या वर्तते प्रकृतेर्वशे |
तिरोभावाभिधाना मे साविद्याशक्तिरुच्यते || १२ - १६ ||
मदीयं भेदितं रूपं सत्यसंकल्पया मया |
योऽवरोहो मदीयस्ते वर्णितः प्रथमः पुरा || १२ - १७ ||
चिच्छक्तिर्जीव इत्येवं विबुधैः परिकीर्त्यते |
मत्स्वाच्छन्द्यवशादेव तस्य भेदः प्रकीर्तितः || १२ - १८ ||
मदीयं चैत्यरूपं यत् सत्यसंकल्पया कृतम् |
मया तदेकीकरणं चिच्छक्तेः क्रियते हि यत् || १२ - १९ ||
अविद्या सा परा शक्तिस्तिरोभाव इति स्मृतः |
पञ्च पर्वाणि तस्यास्तु सन्ति तानि निबोध मे || १२ - २० ||
तमस्तु प्रथमं पर्व नामाविद्येति तस्य तु |
अनात्मन्यस्वभूते च चैत्ये जीवस्य या मतिः || १२ - २१ ||
स्वतयाहंतया चैव तमोऽविद्या च सा स्मृता |
स्वीकृतेऽहंतया चैत्ये मानो यस्तत्र जायते || १२ - २२ ||
अस्मिताख्यो महामोहो द्वितीयं क्लेशपर्व तत् |
चैत्यचेतनयोरेकभावापत्तिरविद्यया || १२ - २३ ||
मोहोऽस्मिता महामोह इति शब्दैर्निगद्यते |
सुखानुस्मृतिहेतुर्या वासनास्मितयाहिता || १२ - २४ ||
स रागो रञ्ज्यविषयस्तृतीयं क्लेशपर्व तत् |
दुःखानुस्मृतिहेतुर्या वासनास्मितयाहिता || १२ - २५ ||
स द्वेषो द्वेष्यविषयश्चतुर्थं क्लेशपर्व तत् |
दुःखं जिहासतो योगैः प्रेप्सतश्च सुखं तथा || १२ - २६ ||
तदन्तरायैर्वित्रासो मध्ये यो नाम जायते |
अन्धाख्योऽभिनिवेशः स पञ्चमं क्लेशपर्व तत् || १२ - २७ ||
देहमात्मतया बुद्ध्वा ततस्तादात्म्यमागतः |
रञ्जनीयमभिप्रेप्सुर्जिहासुश्च तथेतरत् || १२ - २८ ||
तदन्तरायवित्रस्तस्तत्प्रतीकारमाचरन् |
इष्टस्य प्राप्तयेऽनिष्टविघाताय च चेतनः || १२ - २९ ||
यदयं कुरुते कर्म त्रिविधं त्रिविधात्मकम् |
तत्कर्म गदितं सद्भिः सांख्ययोगविचक्षणैः || १२ - ३० ||
तत्प्रसूतं सुखं दुःखं तथा दुःखसुखात्मकम् |
विपाकस्त्रिविधः प्रोक्तस्तत्त्वशास्त्रविशारदैः || १२ - ३१ ||
वासना आशयाः प्रोक्ताः क्लेशकर्मविपाकजाः |
अन्तःकरणवर्तिन्यः समन्ताच्छेरते हि ताः || १२ - ३२ ||
जन्यन्ते वासना नित्यं पञ्चभिः क्लेशपर्वभिः |
सदृशारम्भहेतुश्च वासना कर्मणा तथा || १२ - ३३ ||
सुखादिवासना चैव विपाकैर्जन्यते त्रिधा |
चतुर्भिर्लक्षणैरित्थंभूता क्लेशादिनामकैः || १२ - ३४ ||
बन्धनी जीवकोशस्य तिरोभावाभिधा विधा |
शक्त्यानयैव बद्धानां जीवानां मम नित्यदा || १२ - ३५ ||
सांतत्येन प्रवर्तन्ते मम सृष्ट्यादिशक्तयः |
सृष्टिशक्तिर्द्विधा सा मे शुद्ध्यशुद्धिवशान्मया || १२ - ३६ ||
विविच्य दर्शिता सा ते सा पुनः सप्तधा स्थिता |
अनिशं क्रियते त्वेका प्राजापत्येन कर्मणा || १२ - ३७ ||
षट्कोशसंभवास्त्वन्यास्तत्तत्कालसमुद्भवाः |
सर्गक्रमे प्रकृत्युत्थे सृष्टिर्ज्ञेया त्रिधा पुनः || १२ - ३८ ||
भाविकी लैङ्गिकी चैव भौतिकी चेति भेदतः |
यथा न्यग्रोधधानायां त्रैगुण्ये प्रकृतौ तथा || १२ - ३९ ||
या स्थितिर्महदादेः सा भावसृष्टिर्निगद्यते |
समष्टिव्यष्टिभेदेन लिङ्गं यत्सृज्यते मया || १२ - ४० ||
विराजश्च तथान्येषां भूतानां लिङ्गजा तु सा |
महदाद्या विशेषान्ता विंशतिश्च त्रयश्च ये || १२ - ४१ ||
पदार्था लिङ्गदेहस्था विराजः परिकीर्तिताः |
खानां समष्टिभूतानां तथान्तःकरणस्य च || १२ - ४२ ||
त्रिधा स्थितस्य ये येंऽशाः प्रतिजीवं व्यवस्थिताः |
स्थूलानां चैव भूतानां ये सूक्ष्माः कीर्तिताः पुरा || १२ - ४३ ||
व्यष्टयोऽष्टादशेमाश्च क्लेशाः कर्माणि वासनाः |
प्राणाश्चेति तदुद्दिष्टं लिङ्गं जीवगणाश्रयम् |
४४ ||
चिच्छक्तयो हि लिङ्गस्थाः संसरन्ति यथा तथा |
शुद्दे हि भगवज्ज्ञाने जाते सत्कर्मजीविनाम् || १२ - ४५ ||
जीवानां विनिवर्तन्ते लिङ्गान्येतानि नान्यदा |
विराजः स्थूलदेहो यो ब्रह्माण्डापरनामवान् || १२ - ४६ ||
चतुर्विधानि चान्यानि शरीराणि शरीरिणाम् |
एषा मे भौतिकी सृष्टिरितीदं सृष्टिचिन्तनम् || १२ - ४७ ||
स्थितिर्नाम तृतीया मे शक्तिर्या ते पुरोदिता |
तस्याः स्वरूपं वक्ष्यामि तन्मे शक्र निशामय || १२ - ४८ ||
आद्यसृष्टिक्षणो यस्तु संजिहीर्षाक्षणश्च यः |
यत्स्थैर्यकरणं नाम तयोरन्तरवर्तिनाम् || १२ - ४९ ||
नानारूपैर्मदीयैः सा स्थितिशक्तिः परा मम |
विष्णुना देवदेवेन मया चैव तथा तथा || १२ - ५० ||
या स्थितिः कथिता सा तु प्रथमा तत्त्वचिन्तकैः |
मन्वन्तराधिपैश्चैव द्वितीया परिकीर्तिता || १२ - ५१ ||
मनुपुत्रैस्तृतीयान्या क्षुद्रैरिति चतुर्विध |
चतुर्थी संहृतीशक्तिस्तस्या भेदमिमं शृणु || १२ - ५२ ||
नाशो जरायुजादीनां भूतानां नित्यदा तु या |
सा नित्या संहृतिस्त्वन्यः शक्र नैमित्तिकी स्मृता || १२ - ५३ ||
त्रैलोक्यविषया सा तु ब्रह्मप्रस्वापहेतुका |
तृतीया प्राकृती प्रोक्ता महदादिव्यपाश्रया || १२ - ५४ ||
प्रासूती तु चतुर्थी स्यादव्यक्तविषया तु सा |
मायी या पञ्चमी प्रोक्त प्रसूतिविषया तु या || १२ - ५५ ||
शाक्ति षष्ठी तु विज्ञेया मायासविषया तु सा |
सप्तम्यात्यन्तिकी प्रोक्ता विलयो योगिनां मयि || १२ - ५६ ||
सूक्ष्माणि विनिवर्तन्ते शरीराणि तदा सताम् |
एषा सप्तविधा शक्र संहृतिस्ते मयोदिता |
पञ्चम्यनुग्रहाख्या मे शक्तिर्व्याख्यामिमां शृणु || १२ - ५७ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे तिरोभावादिशक्तिप्रकाशो नाम द्वादशोऽध्यायः || १२ ||
Kapitel 13
Deutsche Übersetzung: Kapitel 13 · Sanskrit IAST: Kapitel 13
श्रीः -
अनुग्रहात्मिका शक्र शक्तिर्मे पञ्चमी स्मृता |
तामिमां तत्त्वतो वत्स वदामि तव सांप्रतम् || १३ - १ ||
अविद्यया समाविद्धा अस्मितादिवशीकृताः |
मच्छक्त्यैव तिरोभूतास्तिरोधानाभिधानया || १३ - २ ||
उच्चान्निचे पतन्तस्ते नीचादुत्पतयालवः |
निबद्धास्त्रिविधैर्बन्धैः स्थानत्रयविवर्तिनः || १३ - ३ ||
संसाराङ्गारमध्यस्थाः पच्यमानाः स्वकर्मणा |
सुखाभिमानिनो दुःखे नित्यमज्ञानधर्षिताः || १३ - ४ ||
ता योनीरनुधावन्तश्चराचरविभेदिनीः |
अपूर्वापूर्वभूताभिश्चित्रिताभिः स्वहेतुभिः || १३ - ५ ||
देहेन्द्रियमनोबुद्धिवेदनाभिरहर्निशम् |
जननानि प्रबन्ध्नन्तो मरणानि तथा तथा || १३ - ६ ||
क्लिश्यमाना इति क्लेशैस्तैस्तैर्योगवियोगजैः |
उद्यत्कारुण्यसंताननिर्वापिततदागसा || १३ - ७ ||
मया जीवाः समीक्ष्यन्ते श्रिया दुःखविवर्जिताः |
सोऽनुग्रह इति प्रोक्तः शक्तिपातापराह्वयः || १३ - ८ ||
कर्मसाम्यं भजन्त्येते प्रेक्ष्यमाणा मया तदा |
अपश्चिमा तनुः सा स्याज्जीवानां प्रेक्षिता मया || १३ - ९ ||
अहमेव हि जानामि शक्तिपातक्षणं च तम् |
नासौ पुरुषकारेण न चाप्यन्येन हेतुना || १३ - १० ||
केवलं स्वेच्छयैवाहं प्रेक्षे कंचित् कदाप्यहम् |
ततः प्रभृति स स्वच्छस्वच्छान्तःकरणः पुमान् || १३ - ११ ||
कर्मसाम्यं समासाद्य शुक्लकर्मव्यपाश्रयः |
वेदान्तज्ञानसंपन्नः सांख्ययोगपरायणः || १३ - १२ ||
सम्यक्सात्त्वतविज्ञानाद्विष्णौ सद्भक्तिमुद्वहन् |
कालेन महता योगी निर्धूतक्लेशसंचयः || १३ - १३ ||
विधूय विविधं बन्धं द्योतमानस्ततस्ततः |
प्राप्नोति परमं ब्रह्म लक्ष्मीनारायणात्मकम् || १३ - ४४ ||
एषा तु पञ्चमी शक्तिर्मदीयानुग्रहात्मिका |
स्वाच्छन्ध्यमेव मे हेतुस्तिरोभावादिकर्मणि || १३ - १५ ||
इत्थं शक्र विजानीहि नानुयोज्यमतः परम् |
शक्रः -
नमः सरोरुहावासे नमो नारायणाश्रये || १३ - १६ ||
नमो नित्यानवद्यायै कल्याणगुणसिन्धवे |
त्वद्वागमृतसंदोहक्षालितं मे महत्तमः || १३ - १७ ||
भूयोऽहं श्रोतुमिच्छामि चिच्छक्ते रूपमुत्तमम् |
श्रीः -
एको नारायणो देव परमात्मा सनातनः || १३ - १८ ||
सदा ज्ञानबलैश्वर्यवीर्यशक्त्योजसां निधिः |
अनादिरपरिच्छेद्यो देशकालस्वरूपतः || १३ - १९ ||
तस्याहं परमा देवी षाड्गुण्यमहिमोज्ज्वला |
सर्वकार्यकरी शक्तिरहंता नाम शाश्वती || १३ - २० ||
संविदेका स्वरूपं मे स्वच्छस्वच्छन्दनिर्भरा |
सिद्धयो विश्वजीवानामायतन्तेऽखिला मयि || १३ - २१ ||
आत्मभित्तौ जगत्सर्वं स्वेच्छयोन्मीलयाम्यहम् |
मयि लोकाः स्फुरन्त्येते जले शकुनयो यथा || १३ - २२ ||
स्वाच्छन्द्यादवरोहामि पञ्चकृत्यविधायिनी |
साहं यदवरोहामि सा हि चिच्छक्तिरुच्यते || १३ - २३ ||
संकोचो मामकः सोऽयं स्वच्छस्वच्छन्दचिद्घ्नः |
अस्मिन्नपि जगद्भाति दर्पणोदरशैलवत् || १३ - २४ ||
वज्ररत्नवदेवैष स्वच्छः स्फुरति सर्वदा |
चैतन्यमस्य धर्मो यः प्रभा भानोरिवामला || १३ - २५ ||
तया स्फुरति जीवोऽसौ स्वत एवानुरूपया |
विधत्ते पञ्च कृत्यानि जीवोऽयमपि नित्यदा || १३ - २६ ||
या वृत्तिर्नीलपीतादौ सृष्टिः सा कथिता बुधैः |
सक्तिर्या विषये तत्र सा स्थितिः परिकीर्त्यते || १३ - २७ ||
गृहीताद्विषयाद्योऽस्य विरामोऽन्यजिघृक्षया |
सा संहृतिः समाख्याता तत्त्वशास्त्रविशारदैः || १३ - २८ ||
तद्वासना तिरोभावोऽनुग्रहस्तद्विलापनम् |
ग्राह्यग्रसनशीलोऽयं वह्निवद्ग्रसनः सदा || १३ - २९ ||
पुष्यत्येष सदा जीवो मात्रया मे समिन्धनम् |
आविद्यं मत्स्वरूपं तु व्याख्यातं ते पुरा मया || १३ - ३० ||
शुद्धविद्यासमायोगात् संकोचं यज्जहात्यसौ |
तदा प्रद्योतमानोऽयं सर्वतो मुक्तबन्धनः || १३ - ३१ ||
ज्ञानक्रियासमायोगात् सर्ववित्सर्वकृत्सदा |
अनणुश्चाप्यसंकोचान्मद्भावायोपपद्यते || १३ - ३२ ||
यावन्निरीक्ष्यते नायं मया कारुण्यवत्तया |
तावत्संकुचितज्ञानः करणैर्विश्वमीक्षते || १३ - ३३ ||
चक्षुषालोक्य वस्तूनि विकल्प्य मनसा तथा |
अभिमत्याप्यहंकाराद् बुद्ध्यैव ह्यध्यवस्यति || १३ - ३४ ||
जागरायामथ स्वप्ने करणैरान्तरैश्चरन् |
विहाय तत् सुषुप्तौ तु स्वरूपेणावतिष्ठते || १३ - ३५ ||
अवस्थास्ता इमास्तिस्रः प्राकृत्यो नैव जीवगा |
तुर्यापि या दशा जीवे समाधिस्थे प्रजायते || १३ - ३६ ||
सापि नैवास्य किं त्वेषा शुद्धसत्त्वव्यवस्थितिः |
अनवस्थमनाघ्रातमखिलैः प्राकृतैर्गुणैः || १३ - ३७ ||
अनौपाधिकमच्छेद्यं जीवरूपं तु चिन्मयम् |
एवंरूपमपि त्वेतच्छाद्यतेऽनाद्यविद्यया || १३ - ३८ ||
सुदृश्यामात्मभूतां मां नैव पश्यत्यसौ ततः |
शक्रः -
सुदृश्यासि कथं देवि त्वं प्रमाणातिगा सती || १३ - ३९ || वेदान्ता अपि नैव त्वां विदुरित्थंतयाम्बुजे |
श्रीः -
मां तु शक्र विजानीहि प्रत्यक्षां सर्वदेहिनाम् |
समाहितमना भूत्वा शृणुष्वेदं मतं मम || १३ - ४० ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे जीवस्वरूपप्रकाशो नाम त्रयोदशोऽध्यायः || १३ ||
Kapitel 14
Deutsche Übersetzung: Kapitel 14 · Sanskrit IAST: Kapitel 14
श्रीः -
ज्ञानस्वरूपो भगवान् देशकालाद्यभेदितः |
वासुदेवः परं ब्रह्म गुणशून्यं निरञ्जनम् || १४ - १ ||
सुखं सदैकरूपं तु षाड्गुण्यमजरामरम् |
तस्याहं परमा शक्तिरहंता शाश्वती ध्रुवा || १४ - २ ||
व्यापारशक्तिरेषा मे सिसृक्षालक्षणा भवेत् |
अयुतायुतकोट्योघकोटिकोट्ययुतांशतः || १४ - ३ ||
साहं सृजामि स्वाच्छन्द्याद् द्विधा भेदमुपेयुषी |
चेत्यचेतनभावेन चिच्छक्तिश्चेतनोऽनयोः || १४ - ४ ||
चेत्यचेतनतां प्राप्ता संविदेव मदात्मिका |
संविदेव हि मे रूपं स्वच्छ स्वच्छन्दनिर्भरा || १४ - ५ ||
सा त्विक्षुरसवद्योगात् स्त्यानतां प्रतिपद्यते |
अतो निरूप्यमाणं तच्चेत्यं चित्त्वमुपेष्यति || १४ - ६ ||
यथा हि वह्निना लीढमिन्धनं तन्मयं भवेत् |
एवं चिता समालीढं चेत्यं चिन्मयतां व्रजेत् || १४ - ७ ||
नीले पीते सुखे दुःखे चित्स्वरूपमखण्डितम् |
विशिनष्टि विकल्पस्तच्चित्रयोपाधिसंपदा || १४ - ८ ||
विकल्पोऽपि हि मद्रूपं स्वाच्छन्द्यादेव निर्मितम् |
चेत्यं विकल्प्यते येन बहिरन्तर्व्यवस्थया || १४ - ९ ||
न बहिर्नैव चान्तस्तच्चिद्रूपं मम तत् परम् |
वेद्यवेदकरूपेण भेद्यते मे स्वयंतया || १४ - १० ||
यद्विकल्पैरनाक्रान्तं यच्छब्दैरकदर्थितम् |
यदुपाधिभिरम्लानं रूपं तच्चेत्यतां गतम् || १४ - ११ ||
दूरापास्तविकल्पेन चेतसा यत्र भूयते |
मध्यमां वृत्तिमास्थाय चेत्यं संवित्तया तदा || १४ - १२ ||
यथा चक्षुःस्थितं रूपं बाह्ये स्वं रूपमीक्ष्यते |
तथा ज्ञानस्थितं रूपं ज्ञेये स्वं रूपमीक्ष्यते || १४ - १३ ||
यथा वह्निसमाविष्टं काष्ठं तद्रूपमीक्ष्यते |
तथा संवित्समाविष्टं चेत्यं संवित्तयेक्ष्यते || १४ - १४ ||
वेद्यं वेदनतां नीत्वा यदा वेत्त्रा निरूप्यते |
तदा वित्तिमयी साहं प्रत्यक्षा स्फुटभासिनी || १४ - १५ ||
अहंतैव हि चित्तत्वं वेद्याद्भिन्नं स्वलक्षणम् |
सा चाहमेव तेनाहं सर्वतः शुद्धचिन्मयी || १४ - १६ ||
सप्लुतेदंपदद्वीपे प्राप्तैकध्ये चिदम्बुधौ |
मज्जतां चैव चेत्यानामस्मि हस्तावलम्बनम् || १४ - १७ ||
मद्ध्यानामृतनिष्यन्दक्षालिताशेषवासनाः |
मामेवात्मनि पश्यन्ति चेत्यौघग्रसनी चितम् || १४ - १८ ||
मम चित्तैकरूपाया वेद्यवेदकतां जनाः |
अविद्ययैव मन्यन्ते मत्संकल्पितया पुरा || १४ - १९ ||
न शान्ता नोदिता नापि मध्यमाहं स्वरूपतः |
मद्विवेकजुषामेवं प्रकाशे जागरास्वपि || १४ - २० ||
परित्यक्तविभागेन निस्तरङ्गेण चेतसा |
ज्ञाये विकल्प्यमाना तु प्रत्यक्षाप्यस्मि विस्मृता || १४ - २१ ||
पुरः स्थितो यथा भावश्चेतसोऽन्याभिलाषिणः |
न भासते तथैवाहं न भासे वासनाजुषाम् || १४ - २२ ||
बुभुत्सावान् यथा वृत्तीर्निरुध्यान्यत्र चेतसा |
प्रत्यक्षमीक्षते वस्तु तथा मां शुद्धसंविदम् || १४ - २३ ||
सदैवाप्रतिबद्धाया भान्त्या एव वपुर्मम |
प्रत्यक्षं चेत्यसंचारकालेऽपि विमलात्मनाम् || १४ - २४ ||
यथा जात्या सितं वस्त्रं रक्तं रागेण केनचित् |
पुनः स्ववर्णमप्राप्य नैव रागान्तरं श्रयेत् || १४ - २५ ||
नीलाद्येवं विदन् पीतं मध्ये शुद्धचिदात्मनि |
मयि चेन्नैव विश्रान्तः पीतं विद्यात्कथं न्वयम् || १४ - २६ ||
तथैवोच्चारयन् वाक्यं वर्णाद्वर्णं कथं व्रजेत् |
यदि मध्ये न विश्रान्तो मयि शुद्धचिदात्मनि || १४ - २७ ||
एवं शुद्धा स्वतन्त्रापि यदाकारोपरागिणी |
तत्त्यागापरसंचारा मध्ये शुद्धैव भाम्यहम् || १४ - २८ ||
दक्षिणेतरसंचारनिरोधान्मध्यमाश्रितः |
अग्नीषोमेन्धनो भावः प्रकाशयति मे पदम् || १४ - २९ ||
धिया ध्येयमनालम्ब्य विषयं चास्पृशन् बहिः |
यदन्तरा वेदयते तन्मे रूपमनाकुलम् || १४ - ३० ||
अनुवृत्ता तु या सम्यक् तेजस्यपि तमस्यपि |
भाति भावेऽप्यभावेऽपि सा मे तनुरकर्बुरा || १४ - ३१ ||
निवृत्तविषयेच्छस्य मद्भक्त्युल्लसितात्मनः |
आन्तरं यदनालम्बमहंत्वं तद्वपुर्मम् || १४ - ३२ ||
तदेवाभ्यस्यमानानां देहप्राणाद्यगोचरम् |
विवेकिनामहंरूपं मद्भावेनावतिष्ठते || १४ - ३३ ||
ततस्तेजो यथैवार्कं व्यज्यते न तु जन्यते |
भावैश्चिद्रूपमप्येवं व्यक्तं नैव च जन्यते || १४ - ३४ ||
भावैर्विना यथा भानुः समुदेति नभःस्थले |
वेद्यैर्विनैव मे रूपमेवं प्रद्योतते स्वयम् || १४ - ३५ ||
अत्यन्ताच्छस्वभावत्वात् स्फटिकादिर्यथा मणिः |
उपरक्तो जपाद्यैस्तु स्वेन रूपेण नेक्ष्यते || १४ - ३६ ||
मत्संकल्पसमुद्रिक्तैश्चेत्यैः स्वच्छाहमप्यथ |
पृथग्जनैर्न लक्ष्यास्मि नैवाहं नास्मि तावता || १४ - ३७ ||
कुण्डलादेर्यथा भिन्ना न लक्ष्या कनकस्थितिः |
न च शक्या विनिर्देष्टुं तथाप्यस्त्येव सा ध्रुवम् || १४ - ३८ ||
एवं नित्या विशुद्धा च सुख्दुःखाद्यभेदिता |
स्वसंवेदनसंवेद्या मम संविन्मयी स्थितिः || १४ - ३९ ||
विज्ञातरि तथा ज्ञाने ज्ञेये जानातिनान्वयः |
योऽयं मदन्वयः सोऽयं प्रत्ययार्थाविशेषितः || १४ - ४० ||
देशकालक्रियाकाराः प्रसिद्धा भेद हेतवः |
तान् भेदयति या संवित्तस्या भेदः कुतो भवेत् || १४ - ४१ ||
चेत्यभेदो हि यः कालो भूतादित्रितयात्मकः |
संविन्महोदधौ सोऽपि विलीनस्तन्मयो भवेत् || १४ - ४२ ||
यदा हि वर्तमानायां मयि भूतभविष्यती |
प्रतिक्षिप्ते तदा चेयं नैव स्याद्वर्तमानता || १४ - ४३ ||
आधारोऽहमशेषाणां नैवाधेयास्मि केनचित् |
देशोऽप्याधारतः क्लप्तस्ततो मे नैव विद्यते || १४ - ४४ ||
काप्यवस्था न मे सास्ति यस्यां संविन्न वर्तते |
तेन मां चिद्घनामेकां सर्वाकारामुपासते || १४ - ४५ ||
कालो देशस्तथाकारः क्रिया कर्ता च कर्म च |
करणं संप्रदानं च भवेद्यच्च ततः फलम् || १४ - ४६ ||
भोगो भोक्ता च तत्सर्वं विलीनं संविदात्मनि |
देवा दैत्यास्तथा नागा गन्धर्वा रक्षसां गणाः || १४ - ४७ ||
विद्याधराः पिशाचाश्च भूताश्चेति गणाष्टकम् |
मनुजा बहुधात्मानो वर्णकर्मादिभेदिताः || १४ - ४८ ||
पशवोऽथ मृगाश्चैव पक्षिणश्च सरीसृपाः |
स्थावराश्च तथैवान्ये कपूयचरणात्मकाः || १४ - ४९ ||
स्वर्गस्था नरकस्थाश्च लोकाश्चैव चतुर्दश |
सरिद्द्विपसमुद्राश्च विविधा ह्यण्डपद्धतिः || १४ - ५० ||
उच्चावचानि तत्त्वानि विविधाः शब्दराशयः |
भोग्यं भोगोपकरणं भोगस्थानं च यत् स्मृतम् || १४ - ५१ ||
कोशाः षट् कोशजाश्चैव चेतनाचेतनात्मकाः |
शुद्धाशुद्धमयौ भावौ पुरुषार्थश्चतुर्विधः || १४ - ५२ ||
सर्वं प्रकृतिभिर्नद्धं कालेन कलितं तथा |
इत्येतत्सकलं वस्तु भावाभावस्वरूपकम् || १४ - ५३ ||
अमन्मयं मन्मयं च मयि लीनमवस्थितम् |
सर्वात्मना सदैवाहं स्वच्छस्वच्छन्दचिन्मयी || १४ - ५४ ||
लक्ष्या सुखमयी शान्ता भावे भावे विपश्चिता |
एवं व्यवस्थिताया मे तिरोभावाभिधानया || १४ - ५५ ||
बद्धा शक्त्या तु चिच्छक्तिः स्वतो मां नैव विन्दति |
यदा निर्विद्यते सासौ मदनुग्रहबिन्दुना || १४ - ५६ ||
उपायैर्मां तदाराध्य जीवश्चिच्छक्तिसंज्ञकः |
संक्षिण्वन् निखिलान्क्लेशान्विधून्वन्वासनारजः || १४ - ५७ ||
संप्राप्य ज्ञानसद्भावं योगक्षपितबन्धनः |
मामेव परमानन्दमयीं लक्ष्मीं स विन्दति || १४ - ५८ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे लक्ष्मीस्वरूपप्रकाशो नाम चतुर्दशोऽध्यायः || १४ ||
Kapitel 15
Deutsche Übersetzung: Kapitel 15 · Sanskrit IAST: Kapitel 15
शक्रः -
नमस्ते पद्मसंभूते नमः कमलमालिनि |
नमः कमलवासिन्यै गोविन्दगृहमेधिनि || १५ - १ ||
नमस्ते कंजकिञ्जल्ककल्पितालकविभ्रमे |
सर्वज्ञे सर्वभूतानामन्तःस्थे सर्वसाक्षिणि || १५ - २ ||
त्वद्वक्त्रकमलोद्भूतं सर्वं तदवधारितम् |
तत्त्वत्सृष्टं त्वया त्रातं त्वययेव लयमेष्यति || १५ - ३ ||
माता मानं मितिमेयं विधा एतास्त्वदात्मिकाः |
त्वामेवाराध्य जीवास्ते तरन्ति भवसागरम् || १५ - ४ ||
एवमादि मया देवि तत्त्वतस्त्ववधारितम् |
कौतूहलमिदं मेऽद्य वर्तते पद्मसंभवे || १५ - ५ ||
तोषणीयासि केन त्वमुपायेनाम्बुजासने |
परमः पुरुषार्थो यस्त्वत्प्रीतिस्तस्य साधनम् || १५ - ६ ||
त्वत्प्रीतौ क उपायः स्यात्कीदृशः किंविधः स्मृतः |
एतन्मे सकलं ब्रूहि नमस्ते पद्मसंभवे || १५ - ७ ||
श्रीः -
चातुरात्म्यं परं ब्रह्म सच्चिदानन्दलक्षणम् |
सर्वं सर्वोत्तरं सर्वभूतान्तःस्थमनामयम् || १५ - ८ ||
वासुदेवः परं ब्रह्म नारायणमयं महत् |
तस्याहं परमा शक्तिरहंतानन्दचिन्मयी || १५ - ९ ||
भिन्नाऽभिन्ना च वर्तेऽहं ज्योत्स्नेव हिमदीधितेः |
तावावां तत्त्वमेकं तु द्विधा भूतौ व्यवस्थितौ || १५ - १० ||
ब्रह्म नारायणं मां यज्ज्ञानेनैवाप्नुयाद्यतिः |
पन्था नान्योऽस्ति विज्ञानादयनाय विपश्चिताम् || १५ - ११ ||
ज्ञानं तच्च विवेकोत्थं सर्वतः शुद्धमव्रणम् |
वासुदेवैकविषयमपुनर्भवकारणम् || १५ - १२ ||
ज्ञाने तस्मिन् समुत्पन्ने विशते मामनन्तरम् |
तैस्तैरूपायैः प्रीताहं जीवानाममलात्मनाम् || १५ - १३ ||
उद्भावयामि तज्ज्ञानमात्मज्योतिःप्रदर्शकम् |
उपायास्ते च चत्वारो मम प्रीतिविवर्धनाः || १५ - १४ ||
शक्रः -
भगवत्यरविन्दस्थे पङ्कजेक्षणकामिनि |
उपायाः के च चत्वारस्तान्मे दर्शय पङ्कजे || १५ - १५ ||
श्रीः -
उपायांश्चतुरः शक्र शृणु मत्प्रीतिवर्धनान् |
यैरहं परमां प्रीतिं यास्याम्यनपगामिनीम् || १५ - १६ ||
स्वजातिविहितं कर्म सांख्यं योगस्तथैव च |
सर्वत्यागश्च विद्वद्भिरुपायाः कथिता इमे || १५ - १७ ||
चतुर्भिर्लक्षणैर्युक्तं त्रिविधं कर्म वैदिकम् |
स्ववर्णाश्रमसंबन्धि नित्यनैमित्तिकात्मकम् || १५ - १८ ||
अकामहतसंसिद्धं कर्म तत् पूर्वसाधनम् |
चतुर्विधस्तु संन्यासस्तत्र कार्यो विपश्चिता || १५ - १९ ||
मन्त्रोक्तदेवतायां वा प्रकृताविन्द्रियेषु वा |
परस्मिन् देवदेवे वा वासुदेवे जनार्दने || १५ - २० ||
पूर्वं कर्तृत्वसंन्यासः फलसंन्यास एव च |
कर्मणामपि संन्यासो देवदेवे जनार्दने || १५ - २१ ||
शास्त्रीयमाचरन्नेवं नित्यनैमित्तिकात्मकम् |
मदाराधनकामः सञ्शश्वत् प्रीणाति मां नरः || १५ - २२ ||
इति ते लेशतः प्रोक्तं श्रुतिस्मृतिनिदर्शितम् |
द्वितीयं सांख्यविज्ञानमुपायं शृणु सांप्रतम् || १५ - २३ ||
सांख्यास्त्रिस्रो हि मन्तव्याः सांख्यशास्त्रनिदर्शिताः |
प्रथमा लौकिकी संख्या द्वितीया चर्चनात्मिका || १५ - २४ ||
समीचीना तु या धीः सा तृतीया परिपठ्यते |
सांख्यात्रयसमूहो यः सांख्यं तत्परिपठ्यते || १५ - २५ ||
पृथिव्यापस्तथा तेजो वायुराकाशमेव च |
अहंकारो महांश्चैव प्रकृतिः परमा तथा || १५ - २६ ||
एताः प्रकृतयस्त्त्वष्टौ तासां व्याख्यामिमां शृणु |
प्रकृतिस्त्रिविधा प्रोक्ता माया सूतिर्गुणात्मिका || १५ - २७ ||
निःसक्तासक्तमद्वैतमतरङ्गमनश्वरम् |
अचेतनानां परमं सौक्ष्म्यं मायेति गीयते || १५ - २८ ||
ईषदुच्छूनता तस्याः प्रसूतिरिति गीयते |
गुणत्रयसमुन्मेषः साम्येन प्रकृतिः परा || १५ - २९ ||
अव्यक्तमक्षरं योनिरविद्या त्रिगुणा स्थितिः |
माया स्वभाव इत्याद्याः शब्दाः पर्यायवाचकाः || १५ - ३० ||
सत्त्वं रजस्तमश्चेति गुणा एते त्रयो मताः |
तत्र सत्त्वं लघु ज्ञेयं सुखरूपमचञ्चलम् || १५ - ३१ ||
प्रकाशो नाम तद्वृत्तिश्चैतन्योद्ग्रहणात्मकः |
रजोऽपि च लघु ज्ञेयं दुःखरूपं च चञ्चलम् || १५ - ३२ ||
प्रवृत्तिर्नाम तद्वृत्तिः स्पन्दहेतुरनश्वरः |
तमो नाम गुरु ज्ञेयं मोहरूपमचञ्चलम् || १५ - ३३ ||
नियमो नाम तद्वृतिः क्वचित् स्वापनलक्षणम् |
न तदस्ति पृथिव्यां वा दिवि व्योम्नि च वासव || १५ - ३४ ||
भूतं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः |
एते चित्तमधिष्ठाय गुणा इन्द्रियगास्तथा || १५ - ३५ ||
सुखं दुःखं तथा मोहं विषयस्थाश्च कुर्वते |
शरीरेन्द्रियतां याता गुणाः कर्माणि कुर्वते |
इति यस्य मर्तिर्नित्या स गुणात्ययमश्नुते || १५ - ३६ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे उपायप्रकारप्रकाशो नाम पञ्चदशोऽध्यायः || १५ ||

Kapitel 16
Deutsche Übersetzung: Kapitel 16 · Sanskrit IAST: Kapitel 16
श्रीः -
व्याख्यानं महतः शक्र शृणुष्वावहितो मम |
वैषम्यस्य समुन्मेषो गुणानां प्रथमो हि यः || १६ - १ ||
स महान्नाम तस्यापि विधास्तिस्रः प्रकीर्तिताः |
सात्त्विको बुद्धिरित्युक्तो राजसः प्राण एव हि || १६ - २ ||
तामसः काल इत्युक्तस्तेषां व्याख्यामिमां शृणु |
बुद्धिरध्यवसायस्य प्राणः प्रयतनस्य च || १६ - ३ ||
कालः कलनरूपस्य परिणामस्य कारणम् |
महतोऽपि विकुर्वाणादहंकारो व्यजायत || १६ - ४ ||
स चापि त्रिविधो ज्ञेयो गुणवैषम्यसंभवात् |
तामसाद्वियदादिस्तु तन्मात्रगण उज्ज्वलः || १६ - ५ ||
जातः सत्त्वसमुद्रिक्ताद्बुद्धीन्द्रियगणो महान् |
कर्मेन्द्रियगणश्चापि राजसादुभयात्मकम् || १६ - ६ ||
उभयस्मात् समुद्भूतमितीयं तत्त्वपद्धतिः |
अत्र प्रकृतिरेकैव मूलभूता सनातनी || १६ - ७ ||
महदाद्यास्तु सप्तान्ये कार्यकारणरूपिणः |
तन्मात्रेभ्यः समुद्भूता विशेषा वियदादयः || १६ - ८ ||
बुद्धिकर्मेन्द्रियगणौ पञ्चकौ मन एव च |
विकारा एव विज्ञेया एते षोडश चिन्तकैः || १६ - ९ ||
चतुर्विंशतिरेतानि तत्त्वानि कथितानि ते |
यावान्यश्चात्र वक्तव्यो विशेषो यादृशस्त्विह || १६ - १० ||
स सर्वः कथितः पूर्वं तव वृत्रनिषूदन |
विंशत्या च त्रिभिश्चैव विकारैः स्वैः समन्विता || १६ - ११ ||
इयं प्रकृतिरव्यक्ता कथिता ते सुराधिप |
व्यक्ताव्यक्तमयी सैषा नित्यं प्रसवधर्मिणी || १६ - १२ ||
विलक्षणा सा विज्ञेया चिच्छक्तिरविनश्वरा |
स जीवः कथितः सद्भिस्तत्त्वशास्त्रविशारदैः || १६ - १३ ||
अयं स्वरसतः शुद्धः परिणामविवर्जितः |
कूटस्थश्चिद्घनो नित्यो ह्यनन्तोऽप्रतिसंक्रमः || १६ - १४ ||
इमौ स्वरसतोऽसक्तौ सक्तात्मानाविव स्थितौ |
प्रकृतिः पुरुषश्चैव महद्भ्यश्च महत्तरौ || १६ - १५ ||
लिङ्गग्राह्यावुभौ नित्यावलिङ्गौ चाप्युभावपि |
साधर्म्यमेवमाद्येवमनयोरुन्नयेद्बुधः || १६ - १६ ||
वैधर्म्यमनयोः शक्र कथ्यमानं निबोध मे |
प्रकृतिस्त्रिगुणा नित्यं सततं परिणामिनी || १६ - १७ ||
अविवेकाप्यशुद्धा च सर्वजीवसमा सदा |
विषयोऽचेतना चैव सुखदुःखविमोहिनी || १६ - १८ ||
मध्यस्थः पुरुषो नित्यः क्रियावानप्यविह्वलः |
साक्षी दृशिस्तथा द्रष्टा शुद्धोऽनन्तो गुणात्मकः || १६ - १९ ||
वैधर्म्यमनयोरेतत् प्रकृतिं चानयोः शृणु |
या सा सदसदाख्यादिविकल्पविकला ध्रुवा || १६ - २० ||
नित्योदिता सदानन्दा पूर्णषाड्गुण्यविग्रहा |
अहं नारायणी शक्तिर्विष्णोः श्रीरनपायिनी || १६ - २१ ||
मत्तः प्रभवतो ह्येतौ मययेव लयमेष्यतः |
साहमेतावती भावैर्विविधैर्विस्तृतिं गता || १६ - २२ ||
नारायणे प्रतिष्ठाय पुनस्तस्मादुदेम्यहम् |
एको नारायणो विष्णुर्वासुदेवः सनातनः || १६ - २३ ||
अपृथग्भूतशक्तित्वादद्वैतं ब्रह्म निष्कलम् |
ज्ञानशक्तिबलैश्वर्यवीर्यतेजोमहोदधिः || १६ - २४ ||
निस्तरङ्गः सदैवासौ जगदेतच्चराचरम् |
इति ते सांख्यविज्ञानं लेशतः शक्र दर्शितम् || १६ - २५ ||
या तत्त्वगणना संख्या तां पुरा शीलयेद्बुधः |
ततः साधर्म्यवैधर्म्यस्वरूपप्रभवादिकाम् || १६ - २६ ||
कुर्याच्चर्चात्मिकां संख्यां शास्त्रतत्त्वोपदेशजाम् |
चर्चायामिह संख्यायां सिद्धायाममलात्मनि || १६ - २७ ||
उदेति या समीचीना संख्या सत्तत्त्वगोचरा |
एषा सा परमा संख्या मत्प्रसादसमुद्भवा || १६ - २८ ||
सांख्यदर्शनमेतत्ते परिसंख्यानमीरितम् |
एवं हि परिसंख्याय सांख्या मद्भावमागताः || १६ - २९ ||
उपायो यस्तृतीयस्ते वक्ष्यते योगसंज्ञकः |
योगस्तु द्विविधो ज्ञेयः समाधिः संयमस्तथा || १६ - ३० ||
यमाद्यङ्गसमुद्भूता समाधिः संस्थितिः परे |
ब्रह्मणि श्रीनिवासाख्ये ह्युत्थानपरिवर्जिता || १६ - ३१ ||
साक्षात्कारमयी सा हि स्थितिः सद्ब्रह्मवेदिनाम् |
ध्यातृध्येयाविभागस्था मत्प्रसादसमुद्भवा || १६ - ३२ ||
संयमो नाम सत्कर्म परमात्मैकगोचरम् |
तत्पुनर्द्विविधं प्रोक्तं शारीरं मानसं तथा || १६ - ३३ ||
विस्तरेणाभिधास्येते समाधिः संयमस्तथा |
प्रथमो य उपायस्ते कर्मात्मा कथितः पुरा || १६ - ३४ ||
संज्ञानं जनयेच्छुद्धमन्तःकरणशोधनात् |
तेन हि प्रीणिता साहं सदाचारनिषेवणात् || १६ - ३५ ||
ददामि बुद्धियोगं तमन्तःकरणशोधनम् |
सांख्यं नाम द्वितीयो य उपायः कथितस्तव || १६ - ३६ ||
परोक्षः शास्त्रजन्योऽसौ निर्णयो दृढतां गतः |
प्रत्यक्षतामिवापन्नो मत्प्रीतिं जनयेत्पराम् || १६ - ३७ ||
अहं संख्यायमाना हि स्वरूपगुणवैभवैः |
उद्भावयामि तज्ज्ञानं प्रत्यक्षं यद्विवेकजम् || १६ - ३८ ||
तृतीयस्तु समाध्यात्मा प्रत्यक्षोऽविप्लवो दृढः |
प्रकृष्टसत्त्वसंभूतः प्रसादातिशयो हि सः || १६ - ३९ ||
तृतीयस्य विधा योऽसौ संयमो नाम वर्णितः |
भोगैः शुद्धैस्त्रिधोद्भूतैरत्यन्तप्रीतये मम || १६ - ४० ||
अहं हि तत्र विश्वात्मा विष्णुशक्तिः परावरा |
साक्षादेव समाराध्या देवो वा पुरुषोत्तमः || १६ - ४१ ||
इति ते कथिताः सम्यगुपायास्त्रय ऊर्जिताः |
शृणूपायं चतुर्थं मे सर्वत्यागसमाह्वयम् || १६ - ४२ ||
तत्र धर्मान् परित्यज्य सर्वानुच्चावचाङ्गकान् |
संसारानलसंतप्तो मामेकां शरणं व्रजेत् || १६ - ४३ ||
अहं हि शरणं प्राप्ता नरेणानन्यचेतसा |
प्रापयाम्यात्मनात्मानं निर्धूताखिलकल्मषम् || १६ - ४४ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे उपायप्रकारविवरणं नाम षोडशोऽध्यायः || १६ ||
Kapitel 17
Deutsche Übersetzung: Kapitel 17 · Sanskrit IAST: Kapitel 17
शक्रः -
नमस्ते कमलावासे जनन्यै सर्वदेहिनाम् |
गृहिण्यै पद्मनाभस्य नमस्ते सरसीरुहे || १७ - १ ||
उपायास्ते त्रयः पूर्वे कथिता अवधारिताः |
व्याचक्ष्वाम्ब चतुर्थं तमुपायं परमम्बुजे || १७ - २ ||
श्रीः -
एको नारायणो देवो वासुदेवः सनातनः |
चातुरात्म्यं परं ब्रह्म सच्चिदानन्दमव्रणम् || १७ - ३ ||
एकाहं परमा शक्तिस्तस्य देवी सनातनी |
करोमि सकलं कृत्यं सर्वभावानुगामिनी || १७ - ४ ||
शान्तानन्तचिदानन्दं यद् ब्रह्म परमं ध्रुवम् |
महाविभूतिसंस्थानं सर्वतः समतां गतम् || १७ - ५ ||
तस्य शक्तिरहं ब्राह्मी शान्तानन्दचिदात्मिका |
महाविभूतिरनघा सर्वतः समतां गता || १७ - ६ ||
आश्वासनाय जीवानां यत्तन्मूर्तीकृतं महः |
नारायणः परं ब्रह्म दिव्यं नयननन्दनम् || १७ - ७ ||
तदा मूर्तिमती साहं शक्तिर्नारायणी परा |
समा समविभक्ताङ्गा सर्वावयवसुन्दरी || १७ - ८ ||
तयोर्नौ परमं व्योम निर्दुःखं पदमुत्तमम् |
षाड्गुण्यप्रसरो दिव्यः स्वाच्छन्द्याद्देशतां गतः || १७ - ९ ||
स्वकर्मनिरतैः सिद्धैर्वेदवेदान्तपारगैः |
अनेकजन्मसंताननिःशेषितकषायकैः || १७ - १० ||
क्लेशेन महता सिद्धैरन्तरायातिगैः क्रमात् |
संख्याविधिविधानज्ञैः सांख्यैः संख्यानपारगैः || १७ - ११ ||
प्रत्याहृतेन्द्रियग्रामैर्धारणाध्यानशालिभिः |
योगैः समाहितैः शश्वत्क्लेशेन यदवाप्यते || १७ - १२ ||
अच्छिद्राः पञ्चकालज्ञाः पञ्चयज्ञविचक्षणाः |
पूर्णे वर्षशते धीराः प्राप्नुवन्ति यदञ्जसा || १७ - १३ ||
यत्तत्पुराणमाकाशं सर्वस्मात् परमं ध्रुवम् |
यत्पदं प्राप्य तत्त्वज्ञा मुच्यन्ते सर्वबन्धनैः || १७ - १४ ||
सूर्यकोटिप्रतीकाशाः पूर्णेन्द्वयुतसंनिभाः |
यस्मिन् पदे विराजन्ते मुक्ताः संसारबन्धनैः || १७ - १५ ||
इन्द्रियच्छिद्रविधुरा द्योतमानाश्च सर्वतः |
अनिष्यन्दा अनाहाराः षाड्गुण्यतनवोऽमलाः || १७ - १६ ||
एकान्तिनो महाभागा यत्र पश्यन्ति नौ सदा |
क्षपयित्वाधिकारान् स्वान् शश्वत्कालेन भूयसा || १७ - १७ ||
वेधसो यत्र मोदन्ते शंकराः सपुरंदराः |
सूरयो नित्यसंसिद्धाः सर्वदा सर्वदर्शिनः || १७ - १८ ||
वैष्णवं परमं रूपं साक्षात्कुर्वन्ति यत्र ते |
अष्टाक्षरैकसक्तानां द्विषट्कार्णरतात्मनाम् || १७ - १९ ||
षडक्षरप्रसक्तानां प्रणवासक्तचेतसाम् |
जितंतासक्तचित्तानां तारिकानिरतात्मनाम् || १७ - २० ||
अनुताराप्रसक्तानां यत् पदं विमलात्मनाम् |
अनन्तविहगेशानविष्वक्सेनादयोऽमलाः || १७ - २१ ||
मदाज्ञाकारिणो यत्र मोदन्ते सकलेश्वराः |
तत्र दिव्यवपुः श्रीमान् देवदेवो जनार्दनः || १७ - २२ ||
अनन्तभोगपर्यङ्के निषण्णः सुसुखोज्ज्वले |
विज्ञानैश्वर्यवीर्यस्थैः शक्तितेजोबलोल्बणैः || १७ - २३ ||
आयुधैर्भूषणैर्दिव्यैरद्भुतैः समलंकृतः |
पञ्चात्मना सुपर्णेन पक्षिराजेन सेवितः || १७ - २४ ||
सा रूप्यमेयुषा साक्षाच्छ्रीवत्सकृतलक्ष्मणा |
सेनान्या सेवितः सम्यग्विष्वक्सेनेन दीप्यता || १७ - २५ ||
क्षेमाय सर्वलोकानामाध्यानाय मनीषिणाम् |
मुक्तयेऽखिलबन्धानां रूपदानाय योगिनाम् || १७ - २६ ||
आस्ते नारायणः श्रीमान् वासुदेवः सनातनः |
सुकुमारो युवा देवः श्रीवत्सकृतलक्षणः || १७ - २७ ||
चतुर्भुजो विशालाक्षः किरीटी कौस्तुभं वहन् |
हारनूपुरकेयूरकाञ्चीपीताम्बरोज्ज्वलः || १७ - २८ ||
वनमालां दधद्दिव्यां पञ्चशक्तिमयीं पराम् |
सर्वावयवसंपन्नः सर्वावयवसुन्दरः || १७ - २९ ||
राजराजोऽखिलस्यास्य विश्वस्य परमेश्वरः |
कान्तस्य तस्य देवस्य विष्णोः सद्गुणशालिनः || १७ - ३० ||
दयिताहं सदा देवी ज्ञानानन्दमयी परा |
अनवद्यानवद्याङ्गी नित्यं तद्धर्मधर्मिणी || १७ - ३१ ||
ईश्वरी सर्वभूतानां पद्माक्षी पद्ममालिनी |
शक्तिभिः सेविता नित्यं सृष्टिस्थित्यादिभिः परा || १७ - ३२ ||
द्वात्रिंशता सहस्रेण सृष्टिशक्तिभिरावृता |
वृता तद्द्विगुणाभिश्च दिव्याभिः स्थितिशक्तिभिः || १७ - ३३ ||
ततश्च द्विगुणाभिश्च पूर्णा संहृतिशक्तिभिः |
नायिका सर्वशक्तीनां सर्वलोकमहेश्वरी || १७ - ३४ ||
महिषी देवदेवस्य सर्वकामदुघा विभोः |
तुल्या गुणवयोरूपैर्मनःप्रमथनी हरेः || १७ - ३५ ||
तैस्तैरनुगुणैर्भावैरहं देवस्य शार्ङ्गिणः |
करोमि सकलं कृत्यं नित्यं तद्धर्मधर्मिणी || १७ - ३६ ||
साहमङ्के स्थिता विष्णोर्देवदेवस्य शार्ङ्गिणः |
लालिता तेन चात्यन्तं सामरस्यमुपेयुषी || १७ - ३७ ||
कदाचित् सर्वदर्शिन्याः कृपा मे स्वयमुद्गता |
क्लिश्यतः प्राणिनो दृष्ट्वा संसारज्वलनोदरे || १७ - ३८ ||
कथं न्विमे भविष्यन्ति दुःखोत्तीर्णाः सुखोत्तराः |
संसारपरसीमानमाप्नुयुर्मां कथं न्विति || १७ - ३९ ||
साहमन्तः कृपाविष्टा देवदेवमचूचुदम् |
भगवन् देवदेवेश लोकनाथ मम प्रिय || १७ - ४० ||
सर्वादे सर्वमध्यान्त सर्व सर्वोत्तराच्युत |
गोविन्द पुण्डरीकाक्ष पुराण पुरुषोत्तम || १७ - ४१ ||
दुस्तरापारसंसारसागरोत्तारकारण |
व्यक्ताव्यक्तज्ञकालाख्यकॢप्तभावचतुष्टय || १७ - ४२ ||
वासुदेव जगन्नाथ संकर्षण जगत्प्रभो |
प्रद्युम्न सुभग श्रीमन्ननिरुद्धापराजित || १७ - ४३ ||
नानाविभवसंस्थान नानाविभवभाजन |
दिव्यशान्तोदितानन्दषाड्गुण्योदयविग्रह || १७ - ४४ ||
स्फुरत्किरीटकेयूरहारनूपुरकौस्तुभ |
पीताम्बर महोदार पुण्डरीकनिभेक्षण || १७ - ४५ ||
चतुर्मूर्ते चतुर्व्यूह शरदिन्दीवरद्युते |
अभिरामशरीरेश नारायण जगन्मय || १७ - ४६ ||
अमी हि प्राणिनः सर्वे निमग्नाः क्लेशसागरे |
उत्तारं प्राणिनामस्मात्कथं चिन्तयसि प्रभो || १७ - ४७ ||
इत्युक्तो देवदेवेशः स्मयमानोऽब्रवीदिदम् |
अरविन्दासने देवि पद्मगर्भे सरोरुहे || १७ - ४८ ||
उत्तारहेतवोऽमीषामुपाया विहिता मया |
कर्म सांख्यं तथा योग इति शास्त्रव्यपाश्रयाः || १७ - ४९ ||
प्रत्यवोचमहं देवमित्युक्ता पुरुषोत्तमम् |
देवदेव न ते शक्याः कर्तुं कालेन गच्छता || १७ - ५० ||
कालो हि कलयन्नेव स्वतन्त्रो भवदात्मकः |
ज्ञानं सत्त्वं बलं चैषामायुश्च विनिकृन्तति || १७ - ५१ ||
अन्तःकरणसंस्था हि वासना विविधात्मिकाः |
तत्तत्कालवशं प्राप्य यातयन्ति शरीरिणः || १७ - ५२ ||
उदासीनो भवानेवं प्राणिनां कर्म कुर्वताम् |
तत्तत्कालानुकूलानि तत्फलानि प्रयच्छति || १७ - ५३ ||
येन त्वं वत संरब्धः प्राणिनः पालयिष्यसि |
प्रब्रूहि तमुपायं मे प्रणतायै जनार्दन || १७ - ५४ ||
इत्युक्तः प्रत्युवाचेदं भगवानुत्स्मयन्निव |
सरोरुहे विजानीषे सर्वमेवात्मनो गतम् || १७ - ५५ ||
मां तु जिज्ञाससे देवि तथापि शृणु भामिनि |
उपायाश्चाप्यपायाश्च शास्त्रीया निर्मिता मया || १७ - ५६ ||
विहिता य उपायास्ते निषिद्धाश्चेतरे मताः |
अधो नयन्त्यपायास्तं य एनाननुवर्तते || १७ - ५७ ||
ऊर्ध्वं नयन्त्युपायास्तं य एनाननुवर्तते |
उपायापायसंत्यागी मध्यमां वृत्तिमाश्रितः || १७ - ५८ ||
मामेकं शरणं प्राप्य मामेवान्ते समश्नुते |
षडङ्गं तमुपायं च शृणु मे पद्मसंभवे || १७ - ५९ ||
आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम् |
रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा || १७ - ६० ||
आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः |
एवं मां शरणं प्राप्य वीतशोकभयक्लमः || १७ - ६१ ||
निरारम्भो निराशीश्च निर्ममो निरहंकृतिः |
मामेव शरणं प्राप्य तरेत् संसारसागरम् || १७ - ६२ ||
सत्कर्मनिरताः शुद्धाः सांख्ययोगविदस्तथा |
नार्हन्ति शरणस्थस्य कलां कोटितमीमपि || १७ - ६३ ||
इति तस्य वचः श्रुत्वा देवदेवस्य शार्ङ्गिणः |
प्रीताहमभवं शक्र तदिदं वर्णितं तव || १७ - ६४ ||
शक्रः -
देवप्रिये महादेवि नमस्ते पङ्कजासने |
आनुकूल्यादिकं भावं मम व्याचक्ष्व विस्तरात् || १७ - ६५ ||
श्रीः -
आनुकूल्यमिति प्रोक्तं सर्वभूतानुकूलता |
अन्तः स्थिताहं सर्वेषां भावनामिति निश्चयात् || १७ - ६६ ||
मयीव सर्वभूतेषु ह्यानुकूल्यं समाचरेत् |
तथैव प्रातिकूल्यं च भूतेषु परिवर्जयेत् || १७ - ६७ ||
त्यागो गर्वस्य कार्पण्यं श्रुतशीलादिजन्मनः |
अङ्गसामग्र्यसंपत्तेरशक्तेरपि कर्मणाम् || १७ - ६८ ||
अधिकारस्य चासिद्धेर्देशकालगुणक्षयात् |
उपाया नैव सिध्यन्ति ह्यपाया बहुलास्तथा || १७ - ६९ ||
इति या गर्वहानिस्तद्दैन्यं कार्पण्यमुच्यते |
शक्तेः सूपसदत्वाच्च कृपायोगाच्च शाश्वतात् || १७ - ७० ||
ईशेशितव्यसंबन्धादनिदंप्रथमादपि |
रक्षिष्यत्यनुकूलान्न इति या सुदृढा मतिः || १७ - ७१ ||
स विश्वासो भवेच्छक्र सर्वदुष्कृतनाशनः |
करुणावानपि व्यक्तं शक्तः स्वाम्यपि देहिनाम् || १७ - ७२ ||
अप्रार्थितो न गोपायेदिति तत्प्रार्थनामतिः |
गोपायिता भवेत्येवं गोप्तृत्ववरणं स्मृतम् || १७ - ७३ ||
तेन संरक्ष्यमाणस्य फले स्वाम्यवियुक्तता |
केशवार्पणपर्यन्ता ह्यात्मनिक्षेप उच्यते || १७ - ७४ ||
निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः |
संन्यासस्त्याग इत्युक्तः शरणागतिरित्यपि || १७ - ७५ ||
उपायोऽयं चतुर्थस्ते प्रोक्तः शीघ्रफलप्रदः |
अस्मिन् हि वर्तमानानां विधौ विप्रनिषेविते || १७ - ७६ ||
पूर्वे त्रय उपायास्ते भवेयुरमनोहराः |
आनुकूल्येतराभ्यां च विनिवृत्तिरपायतः || १७ - ७७ ||
कार्पण्येनाप्युपायानां विनिवृत्तिरिहोदिता |
रक्षिष्यतीति विश्वासादभीष्टोपायकल्पनम् || १७ - ७८ ||
गोप्तृत्ववरणं नाम स्वाभिप्रायनिवेदनम् |
सर्वज्ञोऽपि हि विश्वेशः सदा कारुणिकोऽपि सन् || १७ - ७९ ||
संसारतन्त्रवाहित्वाद्रक्षापेक्षां प्रतीक्षते |
आत्मात्मीयभरन्यासो ह्यात्मनिक्षेप उच्यते || १७ - ८० ||
हिंसास्तेयादयः शास्त्रैरपायत्वेन दर्शिताः |
कर्मसांख्यादयः शास्त्रैरुपायत्वेन दर्शिताः || १७ - ८१ ||
अपायोपायसंत्यागी मध्यमां स्थितिमास्थितः |
रक्षिष्यतीति निश्चित्य निक्षिप्तस्वस्वगोचरः || १७ - ८२ ||
बुध्येत देवदेवेशं गोप्तारं पुरुषोत्तमम् |
शक्रः -
उपायापाययोर्मध्ये कीदृशी स्थितिरम्बिके || १७ - ८३ ||
अपायोपायतामेव क्रिया सर्वावलम्बते |
स्वीकारे व्यतिरेके च निषेधविधिशास्त्रयोः || १७ - ८४ ||
दृश्यते कर्मणो व्यक्तमपायोपायरूपता |
श्रीः -
त्रिविधां पश्य देवेश कर्मणो गहनां गतिम् || १७ - ८५ ||
निषेधविधिशास्त्रेभ्यस्तां विधां च निबोध मे |
अनर्थसाधनं किंचित्किंचिच्चाप्यर्थसाधनम् || १७ - ८६ ||
अनर्थपरिहारं च किंचित् कर्मोपदिश्यते |
त्रैराश्यं कर्मणामेवं विज्ञेयं शास्त्रचक्षुषा || १७ - ८७ ||
Kapitel 18
Deutsche Übersetzung: Kapitel 18 · Sanskrit IAST: Kapitel 18
शक्रः
नमस्ते पद्मनिलये पद्मसंभवे |
विदितं वेदितव्यं मे वेदान्तेष्वपि दुर्लभम् || १८-१ ||
ब्रूहि मन्त्रमयं मार्गमिदानीं विष्णुवल्लभे |
यं विज्ञायार्चयेयें ते दिव्यां मन्त्रमयीं तनुम् || १८-२ ||
कुतो मन्त्रसमुत्पत्तिः क्व च मन्त्रः प्रलीयते |
मन्त्रस्य किं फलं पद्मे केन मध्ये प्रपूर्यते || १८-३ ||
कियत्यश्च विधा अस्य परिमाणं कियत् किल |
क्षेत्रक्षेत्रज्ञभावश्च कीदृशः परमोऽम्बुजे || १८-४ ||
मन्त्रश्च केन संग्राह्य उपदेष्टा च कीदृशः |
उपासनप्रकारश्च कथमस्याब्जसंभवे || १८-५ ||
उपासनोपयोगी च यावानर्थोऽम्बुजासने |
सिद्धिसाधनयोगश्च प्रत्ययाश्च तथा तथा || १८-६ ||
योगः स्वाध्याययोगश्च रक्षायोगस्तथैव च |
प्रायश्चित्तविधिश्चैव श्राद्धकल्पस्तथैव च || १८-७ ||
दीक्षाप्रतिष्ठयोः कल्पो यन्त्रकल्पस्तथैव च |
एतच्च निखिलं यच्चाप्यदृष्टमुपयुज्यते || १८-८ ||
प्रब्रूहि तदशेषेण नमस्ते पद्मसंभवे |
तवैष शिरसा पादौ नतोऽस्मि कमलारुणौ || १८-९ ||
शरणं च प्रपन्नोऽस्मि पङ्कजे त्वमधीहि भो |
श्रीः .
प्रश्नभारोऽयमतुलस्त्वयोद्दिष्टः पुरंदर || १८-१० ||
वाच्यस्ते प्रीतिसंयोगाच्छृणु वक्ष्याम्यशेषतः |
अहमित्येव यः पूर्णः पुरुषः पुष्करेषणः || १८-११ ||
स्वभावः सर्वभावानामभावानां च वासव |
इदंतयावलीढं यत् सदसज्जगति स्थितम् || १८-१२ ||
तत्तल्लक्षणवन्तो ये तदहंत्वे विलीयते |
विलीनेदंपदद्वीपः प्राप्तैकध्यश्चिदम्बुधिः || १८-१३ ||
निस्तरङ्गोदयोऽनन्तो वासुदेवः प्रकाशते |
पूर्णाहंतास्मि तस्यैका शक्तिरीश्वरतामयी || १८-१४ ||
नित्योदिता सदानन्दा सर्वतः समतां गता |
सर्वभावसमुद्भूतिः सर्वप्रत्यक्षसंमता || १८-१५ ||
या ह्येषा प्रतिभा तत्तत्पदार्थक्रमरूषिता |
उद्धृतेषु पदार्थेषु साहमक्रमशालिनी || १८-१६ ||
अवबोधात्मिकाया मे या प्रत्यगवमर्शिता |
सा स्फुरत्ता महानन्दा शब्दब्रह्मेति गीयते || १८-१७ ||
प्रकाशानन्दसाराहं सर्वमन्त्रप्रसूः परा |
शब्दानां जननी शक्तिरुदयास्तमयोज्झिता || १८-१८ ||
व्यापकं यत्परं ब्रह्म नारायणमनामयम् |
शान्तता नाम यावस्था साहं शान्ताखिलप्रसूः || १८-१९ ||
तस्या मे य उदेति स्म सिसृक्षाख्योऽल्प उद्यमः |
स शब्दार्थविभेदेन शान्त उन्मेष उच्यते || १८-२० ||
शब्दोदयपुरस्कारः सर्वत्रार्थोदयः स्मृतः |
अर्थशब्दप्रवृत्त्यात्मा शब्दस्य स्थूलता हि सा || १८-२१ ||
बोधोन्मेषः स्मृतः शब्दः शब्दोन्मेषोऽर्थ उच्यते |
उद्यच्छब्दोदयः शक्तेः प्रथमः शान्ततात्मनः || १८-२२ ||
स नाद इति विख्यातो वाच्यतामसृणस्तदा |
नादेन सह शक्तिः सा सूक्ष्मेति परिगीयते || १८-२३ ||
नादात् परो य उन्मेषो द्वितीयः शक्तिसंभवः |
बिन्दुरित्युच्यते सोऽत्र वाच्योऽपि मसृणः स्थितः || १८-२४ ||
पश्यन्ती नाम सावस्था मम दिव्या महोदया |
ततः परो य उन्मेषस्तृतीयः शक्तिसंभवः || १८-२५ ||
मध्यमा सा दशा तत्र संस्कारयति संगतिम् |
वाच्यवाचकभेदस्तु तदा संस्कारतामयः || १८-२६ ||
चतुर्थस्तु य उन्मेषः शक्तेर्माध्यमिकात् परः |
वैखरी नाम सावस्था वर्णवाक्यस्फुटोदया || १८-२७ ||
अस्ति शक्तिः क्रियात्मा मे बोधरूपानुयायिनी |
सा प्राणयति नादादिं शक्त्युन्मेषपरंपराम् || १८-२८ ||
शान्तरूपाथ पश्यन्ती मध्यमा वैखरी तथा |
चतूरूपा चतूरूपं वच्मि वाच्यं स्वनिर्मितम् || १८-२९ ||
वासुदेवादयः सूक्ष्मा वाच्याः शान्तादयः क्रमात् |
अहमेकपदी ज्ञेया प्रकाशानन्दरूपिणी || १८-३० ||
वाच्यवाचकभेदेन पुनः सा द्विपदी स्मृता |
ऊष्मान्तःस्थस्वरस्पर्शभेदाच्चाहं चतुष्पदी || १८-३१ ||
अष्टवर्गविभेदाच्च साहमष्टपदी स्मृता |
अघोषरूपेणान्येन युक्ता नवपदी स्मृता || १८-३२ ||
अहमेकपदी दिव्या शब्दब्रह्ममयी परा |
घोषवर्णस्वरूपेण वर्तेऽहं द्विपदी पुनः || १८-३३ ||
तक्षती सलिलं सर्वं द्रव्यजातिगुणक्रियाः |
चतुर्धाभिदधानाहं चतुष्पद्युदिता बुधैः || १८-३४ ||
नामभावद्वयोपेता साहमष्टपदी स्मृता |
अविकल्पविकल्पस्था साहं नवपदी स्मृता || १८-३५ ||
व्योम्न्यहं परमे दिव्या ह्यनन्ताक्षरमालिनी |
इयद्विततिविस्तीर्णा पूर्णाहंताहमादिमा || १८-३६ ||
मन्त्राणां जननी ज्ञेया भुक्तिमुक्तिप्रदायिनी |
उद्यन्ति मन्त्रकल्लोला मत्त एव चिदम्बुधेः || १८-३७ ||
मामाश्रित्य विवर्तन्ते यान्ति चास्तं मुहुर्मयि |
संविदानन्दसंदोहसुन्दराः शब्ददेहकाः || १८-३८ ||
सामर्थ्यपूर्णाः फलदा मन्त्रात्मानो हि मन्मयाः |
वर्णाः पदानि वाक्यानि सहप्रकरणाह्निकैः || १८-३९ ||
अध्यायाश्च परिच्छेदाः सर्गा उच्छ्वासकास्तथा |
पटलाद्या अवच्छेदाः प्रश्नवाकानुवाककाः || १८-४० ||
मण्डलानि च काण्डानि संहिता विविधात्मिकाः |
ऋचो यजूंषि सामानि सूक्तानि च खिलैः समम् || १८-४१ ||
शास्त्रतन्त्रात्मकाः शब्दा बाह्याबाह्यागमास्तथा |
भाषाश्च विविधास्तास्ता व्यक्ताव्यक्तगिरः स्मृताः || १८-४२ ||
मन्त्ररूपमिदं शक्र विद्धि मद्रूपवेदिनाम् |
भावनातारतम्येन मन्त्रमन्त्रिव्यवस्थितिः || १८-४३ ||
मां त्रायतेऽयमित्येवं योगेन स्वीकृतो ध्वनिः |
गुप्ताशयः सदा यश्च मन्त्रज्ञं त्रायते भयात् || १८-४४ ||
स मन्त्रः संस्मृतोऽहंताविकासः शब्दजैः क्रमैः |
पूर्णाहंतासमुद्भूतैः शुद्धबोधान्वयो यतः || १८-४५ ||
सर्वे मन्त्रा मदीयाः स्युः प्रभवाप्ययवेदिनाम् |
मदीयाश्चान्यदीयाश्च भावनातारतम्यतः || १८-४६ ||
प्रकृत्यन्वयिनो मन्त्रा मदीयाः स्युः प्रधानतः |
भवद्भावात्मकं ब्रह्म स्वारस्येन विशन्ति ये || १८-४७ ||
प्रकृत्यन्वयिनो मन्त्रास्तारिकोत्तारिकादयः |
मन्त्राः स्वरसतो यान्ति ये भावं भवदुत्तरम् || १८-४८ ||
तेऽपवर्गप्रदा ज्ञेयास्तारप्रासादकादयः |
भावोत्तरां समां वापि ये भजन्ति भवत्स्थितिम् || १८-४९ ||
भोगापवर्गदा मन्त्रा ज्ञेयास्ते तारिकादयः |
विशन्ति भावमेवैके यान्त्येके भवदेव च || १८-५० ||
भुक्तिदा मुक्तिदाश्चैव द्वितये ते व्यवस्थया |
प्रकृत्यन्वयिनामेवं स्वभावः परिकीर्तितः |
अभिसंधिबलात् सर्वं द्वितये ते वितन्वते || १८-५१ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे मन्त्रस्वरूपकथनं नाम अष्टादशोऽध्यायः ||
Kapitel 19
Deutsche Übersetzung: Kapitel 19 · Sanskrit IAST: Kapitel 19
श्रीः
सिसृक्षालक्षणा पूर्वा पूर्णाहंता हरेरहम् |
सृष्टिरूपा परा शक्तिरूपेत्येवोदितास्म्यहम् || १९-१ ||
दश पञ्च च तुल्या मे दशास्त्रिदशनन्दन |
अनुत्तरं स्वसंवेद्यं चिद्रूपं मम शाश्वतम् || १९-२ ||
वाक्तत्त्वं तदकारात्मा सर्ववाङ्मयसंभवः |
तदेवानन्दरूपेण द्वितीयः स्वर इष्यते || १९-३ ||
इच्छात्मना तृतीयः स्यादीशानात्मा तुरीयकः |
उन्मेषः पञ्चमः षष्ठ ऊर्जतारूप उच्यते || १९-४ ||
चतुष्कं मध्यमं यत्तदिच्छादेरेव विक्रिया |
अनुत्तरेच्छासंयोगादेकारो नाम जायते || १९-५ ||
तस्यैवानन्दसंयोगाज्जगद्योनिरुदाहृता |
अनुत्तरोन्मेषयोगादोकारो नाम जायते || १९-६ ||
तस्यैवानुत्तरश्लेषात् सद्योजातसमुद्भवः |
अनुत्तराद्भवन्त्येते विकासा वेद्यसंश्रयाः || १९-७ ||
तादृक्तादृक्समुन्मेषा आनन्दाद्यास्त्रयोदश |
त्रयोदशतयोन्मेषाः श्रिता वेदनशेषिताम् || १९-८ ||
अनुत्तरीं सूक्ष्मदशां स तु पञ्चदशः स्वरः |
एताः पञ्चदशावस्था विसृष्टेः स्फुरणोद्यमाः || १९-९ ||
दशभिः पञ्चभिश्चैवमङ्गैः पूर्णा सिसृक्षया |
दैवी सृष्टिमयी शक्तिः कृत्ये कृत्ये कृतोद्यमा || १९-१० ||
विसृजत्यास्तु तस्या मे तत्त्वानां पञ्चविंशतिम् |
पुरुषाद्याः पृथिव्यन्ताः कादिमान्ताः समुद्गताः || १९-११ ||
तत्तदक्षरसंस्फूर्तेस्तत्तत्तत्त्वं समुद्गतम् |
चतुष्कं धारणारूपं यादिवान्तमुदीर्यते || १९-१२ ||
धारयन्ति यतो मध्ये पुरुषं धारणाः स्मृताः |
कला किंचित्क्रियारूपा यकारो वातसंज्ञितः || १९-१३ ||
किंचिज्ज्ञानात्मिका विद्या रेफः पावकसंज्ञितः |
स्तम्भमोहात्मिका माया लकारः पृथिवी मतः || १९-१४ ||
रञ्जनात्मा रागशक्तिर्वकारो वरुणात्मकः |
परापरदशाम्ध्ये धारयन्त्यो नरं सदा || १९-१५ ||
चतस्रो धारणा ज्ञेयास्ता एतास्तत्त्वकोविदैः |
शादिक्षान्तं तु विज्ञेयं विशुद्धं ब्रह्मपञ्चकम् || १९-१६ ||
शषसहोऽनिरुद्धाद्या विज्ञेयास्त्रिदशेश्वर |
सृजन्त्याः क्षुभितं रूपं सृष्ट्यादौ यन्ममाद्भुतम् || १९-१७ ||
क्षोभिका सा महाशक्तिः क्षात्मा सत्यापराह्वया |
पृथिव्याद्या वियत्प्रान्ता या दिव्याः पञ्चशक्तयः || १९-१८ ||
बलादिपञ्चकात्मानो दिव्या मत्सत्त्वनामिकाः |
ज्ञानात्मानो ममोद्यत्यस्ता एताः शादिशक्तयः || १९-१९ ||
विसर्गो नाम यः प्रोक्तः पुरा पञ्चदशाङ्गवान् |
साहं सोममयी शक्तिः किरणायुतसंकुला || १९-२० ||
संकोचश्च विकासश्च तावेव परिकीर्तितौ |
अङ्गानामन्तिमो यस्तु प्रोक्तः पञ्चदशो मया || १९-२१ ||
आदानशीलं तं विद्धि सूर्यं भोक्तारमञ्जसा |
सूर्याचन्द्रमसावेतौ बिन्दुसर्गौ पुरंदर || १९-२२ ||
किरणाः सप्त सप्त स्युर्देवयोरनयोर्द्वयोः |
चतुर्दश स्वराः शिष्टाः सप्त युग्मानि कल्पयेत् || १९-२३ ||
तेषु सप्तसु युग्मेषु पूर्वे सप्त पुरंदर |
शोषकाः सूर्यरूपाया भोक्त्राख्याया ममांशवः || १९-२४ ||
उत्तरे सप्त युग्मेषु शीतलाह्लादकारिणः |
पोषकाः सोमरूपाया भोग्याख्याया ममांशवः || १९-२५ ||
आलोकस्तीक्ष्णता व्याप्तिर्ग्रहणं क्षेपणेरणे |
पाक इत्युदिताः पूर्वे किरणाः सूर्यसंभवाः || १९-२६ ||
द्रवता शीतभावश्च शान्तिः कान्तिः प्रसन्नता |
रसतानन्द इत्येते सप्त चान्द्रमसाः कराः || १९-२७ ||
अग्निषोमात्मकैरेभिः किरणैः कान्तिशालिनी |
पुमांसं बिन्दुरूपं तमङ्गीकृत्य विशेषणी || १९-२८ ||
सोमरूपोत्तरा शक्तिकोटिमण्डलमण्डिता |
महासृष्टिर्महानन्दा प्रवर्तेऽन्त्यस्वरात्मना || १९-२९ ||
तस्याः प्रवर्तमानाया उद्गतं ब्रह्मपञ्चकम् |
क्षादि शान्तं सुरेशान शक्त्युन्मेषविशेषितम् || १९-३० ||
क्ष इत्येव महाक्षोभ उदितः सत्यसंज्ञया |
वासुदेवाख्यया होऽभूत् साख्यः संकर्षणोदयः || १९-३१ ||
प्रद्युम्नः षाख्यया ज्ञेयो ह्यनिरुद्धस्तु शाख्यया |
ता एताः शक्तयः पञ्च पञ्चब्रह्मात्मिकाः पराः || १९-३२ ||
स्फूर्तयो मदभिन्नास्ता जगदुत्पत्तिहेतवः |
ज्वाला इव महावह्नेर्ब्रह्मणो मम शक्तयः || १९-३३ ||
चतस्रो धारणा जाता वाद्या यान्ताः पुरंदर |
तुर्याद्या जाग्रदन्तास्ता अवस्थाः परिकीर्तिताः || १९-३४ ||
पुमांसं धारयन्त्येता मध्यतो दशयोर्द्वयोः |
यैषा ब्रह्मदशा प्रोक्ता प्राकृती भादिका च या || १९-३५ ||
मध्य तयोर्मकाराख्यो धारणानां चतुष्कतः |
ध्रियते स पुमान् प्रोक्तो जाग्रदादिविभेदवान् || १९-३६ ||
यदि न ध्रियते ताभिर्दशामन्यतरां व्रजेत् |
ब्राह्मीं वा प्राकृतीं वापि नैव स्यात् संसृतिस्ततः || १९-३७ ||
इत्यर्थं धारणा मत्तः प्रादुर्भूता ममाज्ञया |
ततो दशाचतुष्कस्थः पुरुषो भोक्तृसंज्ञकः || १९-३८ ||
मत्तो जज्ञे म इत्येवं योग्यो भोगापवर्गयोः |
भोगानां प्रसवार्थाय पुरुषस्यास्य वासव || १९-३९ ||
अचैतन्यं परं सूक्ष्मं गुणसाम्यमनुल्बणम् |
योनिस्वभावसंज्ञातं मत्तोऽभूद्भ इति स्वयम् || १९-४० ||
भोग्यभोगादिसिद्ध्यर्थं भुञ्जानस्य विपश्चितः |
बाद्यात् ककारपर्यन्ताद्वर्णग्रामात् पुरंदर || १९-४१ ||
व्यक्तानि जज्ञिरे मत्तो विंशतिस्त्रीणि च क्रमात् |
बुद्ध्यहंकारमनसां सृष्टिर्बादित्रयात्तथा || १९-४२ ||
श्रोत्रादेर्नादितान्तेषु पञ्चकस्य समुद्भवः |
वागादेर्णादिटान्तेषु पञ्चकस्य समुद्भवः || १९-४३ ||
शब्दाद्याः पञ्चतन्मात्राञादिचान्तेषु जज्ञिरे |
वियदादीनि भूतानि ङादिकान्तेषु जज्ञिरे || १९-४४ ||
बोधः शब्दात्मनोदेति शब्दस्त्त्वर्थात्मना ततः |
विद्धि बोधं तु मद्रूपं सर्वेयं मत्ततिस्ततः || १९-४५ ||
वर्णाध्वनस्त्वियं रीतिर्मध्यमा कथिता तव |
आद्यामन्तां च देवेश गदन्त्या मे निशामय || १९-४६ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे वर्णोत्पत्तिनिरूपणं नाम एकोनविंशोऽध्यायः ||
Kapitel 20
Deutsche Übersetzung: Kapitel 20 · Sanskrit IAST: Kapitel 20
शक्रः -
नमोनिखिलनिर्माणत्राणसंहरशक्तये |
हरेः स्वरूपभूतायै नमस्ते ज्ञानरूपिणि || २०-१ ||
त्वत्प्रसादान्मया पद्मे रहस्यं परमं श्रुतम् |
वर्णाध्वानं यथावन्मे भूयस्त्वं वक्तुमर्हसि || २०-२ ||
श्रीः -
शृणु वर्णाध्वनो रीतिमाद्यां त्रिदशपुंगव |
प्राप्नोति यत्परिज्ञानात्साधको मत्सरूपताम् || २०-३ ||
वेद्यवेदकनिर्मुक्तमच्युतं ब्रह्म यत् परम् |
अनस्तमितभारूपं सर्वाभिन्नमहंपदम् || २०-४ ||
अहंता नाम सा शक्तिस्तदभिन्ना सदोदिता |
अनस्तमितभारूपा वेद्यवेदकवर्जिता || २०-५ ||
प्रकाशानन्दसाराहं सर्वतः समतां गता |
कोटिकोट्ययुतैकांशकोट्यंशे क्षुभिता सती || २०-६ ||
शब्दब्रह्मस्वरूपेण स्वशक्त्या स्वयमेव हि |
मुक्तयेऽखिलजीवानामुदेमि परमेश्वरात् || २०-७ ||
तदव्यक्ताक्षरं विद्धि तन्त्रीशब्दो यथा कलः |
पृथग्वर्णात्मना याति स्थितये नैकधा स तु || २०-८ ||
सूक्ष्मवर्णस्वरूपोऽसौ धारासंतानरूपधृत् |
पञ्चाध्वकोशमुक्तस्य मन्निष्ठस्य विवेकिनः || २०-९ ||
अनुभूतिपदं याति प्रसादात् परमात्मनः |
मच्चातुरात्म्यनिचयो विज्ञेयो हि तदात्मना || २०-१० ||
प्रभवाप्यययोगेन भारूपध्वनिलक्षणः |
सकारान्तस्त्वकाराच्च हकारादान्त एव च || २०-११ ||
प्रभवे द्वादशान्तस्तु हकारश्चतुरात्मनाम् |
अकारस्त्वप्यये चैतौ द्वादशान्ताबुभौ समौ || २०-१२ ||
वार्णे व्यूहसमूहेऽस्मिन् ज्ञेयं ज्ञानसमाधिना |
विश्राम उदयो व्याप्तिर्व्यक्तिरा वासुदेवतः || २०-१३ ||
अत्रैकैकोपरि ज्ञेया मूर्तिर्वै त्वेवमेव हि |
युक्ता विश्रामपूर्वेण चतुष्केण समासतः || २०-१४ ||
विश्रामं चिन्तयेद्देवं वासुदेवं सनातनम् |
अकारं पुण्डरीकाक्षं पूर्वदेवं सनातनम् || २०-१५ ||
संकर्षणादितत्त्वानि विश्राम्यन्ति लयेऽत्र हि |
ततः संकर्षणं देवमाकारमुदयं स्मरेत् || २०-१६ ||
उदितो हि स सर्वात्मा प्रथमं सर्वकृत् स्वयम् |
व्याप्तं प्रद्युम्नदेवं तमिकारं परिचिन्तयेत् || २०-१७ ||
विविधं प्राप्यते तेन त्रयीकर्मात्मना जगत् |
अनिरुद्धं व्यक्तिरूपमीकारं तमनुस्मरेत् || २०-१८ ||
व्यज्यन्ते शक्तयो ह्यत्र जगत्सृष्ट्यादयोऽखिलाः |
दण्डवत्संनिवेशेन संस्थिता ह्येवमेव हि || २०-१९ ||
आ सकाराच्चतूरूपयुक्ता मे चतुरात्मता |
स्मरेत् प्रभवचिन्तायां हकारं द्वादशान्तकम् || २०-२० ||
हकारं वासुदेवं तु विश्रामं परिचिन्तयेत् |
संकर्षणं सकारं तमुदयं त्वप्यये स्मरेत् || २०-२१ ||
एवमाकारतो दिव्यां चिन्तयेच्चतुरात्मताम् |
द्विषट्कं धारणानां च द्वादशाध्यात्मलक्षणम् || २०-२२ ||
सोपानभूतं यत्क्रान्त्वा द्वादशान्ताद्विशेत् परम् |
एषा सा प्रथमा रीतिर्वर्णमार्गस्य दर्शिता || २०-२३ ||
सूक्ष्मा तच्चातुरात्मीया भारूपा मन्मयी परा |
मध्यमा पूर्वमेवोक्ता विशेषं तत्र मे शृणु || २०-२४ ||
धारणाः पूर्वमुक्ता याश्चतस्रो मत्स्वरूपिकाः |
वकाराख्यानिरुद्धस्य शक्तिः सा रागसंज्ञिता || २०-२५ ||
माया नाम महालक्ष्मीर्लकारापरनामिका |
विद्या या रेफसंज्ञाता महावाणी तु सा स्मृता || २०-२६ ||
वातसंज्ञा महाकाली क्रियाशक्तिर्यकारिणी |
ब्रह्माद्या मूर्तयस्तिस्रः पत्न्यस्त्रययादयश्च याः || २०-२७ ||
तज्ज्ञेयं सकलं सूक्ष्ममकारस्यादिमेंऽशके |
मध्यमे भोक्तृकूटस्थः पुरुषोंऽशे प्रतिष्ठितः || २०-२८ ||
संसारी पुरुषः सर्वश्चरमांशेऽवतिष्ठते |
एषा ते मध्यमा रीतिर्वर्णमार्गस्य दर्शिता || २०-२९ ||
चरमामथ वक्ष्यामि रीति बलनिषूदन |
वैखरी चरमा रीतिः प्रयत्नस्थानभेदिनी || २०-३० ||
व्यक्तवाचां समुच्चारे सा स्फुटीभवति ध्रुवम् |
जीवानां देहबद्धानां तत्तत्सन्मार्गदर्शिका || २०-३१ ||
मातृका जायते सेयं विष्णुशक्त्युपबृंहिता |
विष्णुवत्तत्र पञ्चाशच्छक्तयः परिकीर्तिताः || २०-३२ ||
अधितिष्ठन्ति ये यां च मातृकां वर्णमालिनीम् |
वासुदेवादयो व्यूहा दश द्वौ केशवादयः || २०-३३ ||
स्वराधिष्ठायिनो देवाः शक्तीस्तेषामिमाः शृणु |
लक्ष्मीः कीर्तिर्जया माया व्यूहशक्तय ईरिताः || २०-३४ ||
श्रीश्च वागीश्वरी कान्तिक्रियाशान्तिविभूतयः |
इच्छा प्रीति रतिश्चैव माया धीर्महिमेति च || २०-३५ ||
शक्तयः केशवादीनां ता एताः स्वरशक्तयः |
काद्यधिष्ठायिनो देवान् गदन्त्या मे निशामय || २०-३६ ||
पद्मनाभादिनामानो विष्णवः कादिदेवताः |
पद्मनाभो ध्रुवोऽनन्तः शक्तीशो मधुसूदनः || २०-३७ ||
विद्याधिदेवः कपिलो विश्वरूपो विहंगमः |
क्रोडात्मा वडबावक्त्रो धर्मो वागीश्वरस्तथा || २०-३८ ||
एकार्णवशयो देवः कूर्मः पातालधारकः |
वराहो नारसिंहश्चाप्यमृताहरणस्तथा || २०-३९ ||
श्रीपतिर्दिव्यदेहोऽथ कान्तात्मामृतधारकः |
राहुजित् कालनेमिघ्नः पारिजातहरो महान् || २०-४० ||
लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः |
न्यग्रोधशायी भगवानेकशृङ्गतनुस्ततः || २०-४१ ||
देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः |
नरो नारायणश्चैव हरिः कृष्णस्तथैव च || २०-४२ ||
ज्वलत्परशुधृद्रामो रामश्चान्यो धनुर्धरः |
वेदविद्भगवान् कल्की पातालशयनः प्रभुः || २०-४३ ||
एतेष्वन्त्येषु चत्वारो देवा रामादयो हि ये |
ते रङ्गयमयोर्जिह्वामूलोपध्मानयोरपि || २०-४४ ||
धीस्तारा वारुणी शक्तिः पद्मा विद्या तथैव च |
संख्या विश्वा खगा भूर्गौर्लक्ष्मीर्वागीश्वरी तथा || २०-४५ ||
अमृता धरणी छाया नारसिंही सुधा तथा |
श्रीः कीर्तिर्विश्वकामा मा सत्या कान्तिः सरोरुहा || २०-४६ ||
माया पद्मासना खर्वा विक्रान्तिर्नरसंभवा |
नारायणी हरिप्रीतिर्गान्धारी काश्यपी तथा || २०-४७ ||
वैदेही वेदविद्या च पद्मिनी नागशायिनी |
मदंशका इमा देव्यो विज्ञेयाः कादिशक्तयः || २०-४८ ||
भवोपकरणैश्चेयं मातृकाधिष्ठिता सुरैः |
श्रीकण्ठानन्दसूक्ष्माद्यैर्लम्बोदर्यादिशक्तिभिः || २०-४९ ||
विनायकैश्च दुर्गाभिः क्षेत्रेशैर्मातृभिस्तथा |
समयस्थैस्तथा बौद्धैरार्हतैरपि चापरैः || २०-५० ||
यथा हि क्षुधिता बाला मातरं पर्युपासते |
एवं सर्वे सुरा देवीं मातृकां पर्युपासते || २०-५१ ||
इयं योनिर्हि मन्त्राणां विद्यानां जन्मभूरियम् |
तत्त्वानां तात्त्विकानां च ज्ञानानां प्रसवस्थली || २०-५२ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे मातृकाप्रकाशो नाम विंशोऽध्यायः ||
Kapitel 21
Deutsche Übersetzung: Kapitel 21 · Sanskrit IAST: Kapitel 21
शक्रः -
शब्दार्थव्यक्तिरूपायै षडध्वपरिवर्तिनि |
अध्वातीतावबोधाख्ये नमस्ते हरिवल्लभे || २१-१ ||
वर्णाः प्रकाशिता देवि यथावत् सर्वहेतवः |
मन्त्रमार्गमिदानीं मे यथावद्वक्तुमर्हसि || २१-२ ||
श्रीः -
एक एव परो देवः श्रीमान् पुरुषसत्तमः |
षाड्गुण्याम्भोनिधिर्दिव्यः सर्वात्मा सर्वतोमुखः || २१-३ ||
तस्याहं परमा शक्तिरहंता श्रीरभेदिनी |
सर्वाधारा सर्वशक्तिः सर्वज्ञा सर्वतोमुखी || २१-४ ||
मयि प्रकाशते विश्वं दर्पणोदरशैलवत् |
बोध एव स्वरूपं मे निर्मलानन्दलक्षणः || २१-५ ||
इच्छापरवती साहं बोधकांशविवर्तिनी |
शब्दब्रह्ममयी भूत्वा विवर्तेऽहं कलाध्वना || २१-६ ||
कला ज्ञानादयः प्रोक्ताः षड्गुणाः पारमेश्वराः |
तासां त्रिकद्वियोगेन विवर्ते तत्त्ववर्त्मना || २१-७ ||
संकर्षणादयो देवास्तत्त्वानि सुरसत्तम |
वर्णव्यतिकरैर्भूयो विवर्ते मन्त्रवर्त्मना || २१-८ ||
तस्य मन्त्राध्वनो व्यक्तिं गदन्त्या मे निशामय |
शब्दब्रह्मविवर्तोऽयं किरणायुतसंकुलः || २१-९ ||
चिल्लक्षणः षड्गुणात्मा तस्य भेदश्चतुर्विधः |
क्वचिद्बीजं क्वचित्पिण्डं क्वचित्संज्ञा क्वचित्पदम् || २१-१० ||
तुर्यं सुषुप्तिः स्वप्नश्च जाग्रद्बीजादयः क्रमात् |
एकस्वरं द्विस्वरं वा स्वरव्यञ्जनयोर्द्वयम् || २१-११ ||
बीजं बहुस्वरं वापि विज्ञेयं विबुधेश्वर |
अन्तरा हरयः पिण्डं क्वचित्स्वरसमायुतम् || २१-१२ ||
तत्तद्वाच्याभिधा संज्ञा नमःप्रणवसंयुता |
क्रियाकारकसंयोगस्तुति संबोधलक्षणः || २१-१३ ||
नानाभिज्ञासमायुक्तः पदात्मा मन्त्र उच्यते |
एतच्चतुष्टयं मन्त्रं संपूर्णं देवतात्मनि || २१-१४ ||
सा चतुष्टयसंबद्धा सिद्धिमिष्टां प्रयच्छति |
क्षेत्रक्षेत्रज्ञभावं च मन्त्राणां त्रिदशेश्वर || २१-१५ ||
विज्ञाय तत्त्वतो मन्त्रान् प्रयुञ्जीत विचक्षणः |
शक्रः -
क्षेत्रक्षेत्रज्ञसद्भावं मन्त्राणां वदमेऽम्बुजे || २१-१६ ||
यद्विज्ञाय न मुह्यन्ति सिद्धिमेष्यन्ति चाचिरात् |
श्रीः -
बीजं बीजवताम् जीवः शिष्टं क्षेत्रं प्रकीर्तितम् || २१-१७ ||
निर्बीजानामादि जीवः क्षेत्रं तु परिशेषितम् |
बीजानां चैव पिण्डानामस्तु क्षेत्रज्ञ उच्यते || २१-१८ ||
शिष्टं तु क्षेत्रमुद्दिष्टमकाररहिते पुनः |
क्षेत्रज्ञः स्वर उद्दिष्टः केवले च स्वरे पुनः || २१-१९ ||
जीवः स्यात् प्रथमा मात्रा द्वितीयादि तनुर्भवेत् |
एकमात्रे तु जीवः स्यात् संस्कारोऽद्भुतलक्षणः || २१-२० ||
उच्चार्यमाणं क्षेत्रं स्यान्निःस्वरे पिण्डके पुनः |
प्रथमो जीव उद्दिष्टः शिष्टं क्षेत्रं प्रचक्षते || २१-२१ ||
क्षेत्रक्षेत्रज्ञसद्भाव एष ते संप्रदर्शितः |
आदौ मध्ये तथान्ते च त्रिषु वान्यतरत्र वा || २१-२२ ||
एषां पिण्डोऽथवा बीजं ते मन्त्राः सार्वकालिकाः |
बीजाभावे तु मन्त्राणां बीजं कृत्वादिमाक्षरम् || २१-२३ ||
अनुस्वारयुतं पश्चात् सकलं मन्त्र उच्यते |
प्रक्रीडयन्ति पुरुषं मन्त्रा रागेण रञ्जितम् || २१-२४ ||
चतुर्दशविभागस्थे प्राकृते भुवनाध्वनि |
तुर्यवर्जं सुषुप्त्याद्ये प्राकृते च पदाध्वनि || २१-२५ ||
आचार्यदृष्टिपातस्थं पुरुषं संयतेन्द्रियम् |
प्रसादसुमुखा मन्त्रा उत्तार्य भुवनाध्वनः || २१-२६ ||
पदाध्वनश्च वैराग्यं जनयन्तः पदे पदे |
क्रमात्तत्त्वकलावर्णपदवीषु नयन्ति तम् || २१-२७ ||
मान्त्रं प्रासादमासाद्य निर्धूतासेषबन्धनः |
लक्ष्मीनारायणाख्यं तद्विशति ब्रह्म शाश्वतम् || २१-२८ ||
शक्रः -
आचार्यः कीदृशो देवि शिष्यस्तस्य च कीदृशः |
मन्त्रेषु कतमो मन्त्रः प्रभवेत् परमाप्तये || २१-२९ ||
कथं स चोपदेष्टव्य एतद् ब्रूहि नमोऽस्तु ते |
श्रीः -
सर्वलक्षणसंयुक्तो ब्राह्मणो वेदपारगः || २१-३० ||
षट्कर्मनिरतः शान्तः पञ्चकालरतः शुचिः |
पञ्चरात्रार्थविन्मौनी मन्त्राक्षरकृतश्रमः || २१-३१ ||
न स्थूलो न कृशो ह्रस्वो न काणो नैव रोगवान् |
नान्धो न बधिरो मूढो न खल्वाटो न पङ्गुकः || २१-३२ ||
न हीनाङ्गोऽतिरिक्ताङ्गो न श्वित्री न च डाम्भिकः |
न क्रोधनो न दुश्चर्मा न लोभहतचेतनः || २१-३३ ||
अकुलीनं दुराचारं शठं जिह्मं च वर्जयेत् |
दयादान्तिशमोपेतं दृढभक्तिं क्रियापरम् || २१-३४ ||
सत्यवाक्छीलसंपन्नं रेखाकर्मसु कौशलम् |
जितेन्द्रियं सुसंतुष्टं करुणापूर्णमानसम् || २१-३५ ||
आर्यलक्षणसंपन्नमार्जवं चारुहासिनम् |
एवं गुणगणाकीर्णं गुरुं विद्यात्तु वैष्णवम् || २१-३६ ||
शिष्यश्च तादृशो ज्ञेयः सर्वलक्षणलक्षितः |
क्षान्तिशीलं सुधीमन्तं क्रोधलोभविवर्जितम् || २१-३७ ||
स्नानार्चनरतं नित्यं गुरुशुश्रूषणोद्यतम् |
विप्राग्निदेवपितृषु भक्तं तर्पणशीलिनम् || २१-३८ ||
कुलीनं च तथा प्राज्ञं शास्त्रार्थनिरतं सदा |
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं वा भगवत्परम् || २१-३९ ||
ईदृग्लक्षणसंयुक्तं शिष्यमार्जवसंयुतम् |
वर्णधर्मक्रियोपेतां नारीं वा सद्विवेकिनीम् || २१-४० ||
विद्यादनुमते पत्युरनन्यां पतिमानिनीम् |
एवं लक्षणकं शिष्यमाचार्यो भगवन्मयः |
ज्ञापयेद्विधिवन्मन्त्रान् गुरुदृष्ट्या समीक्ष्य तु || २१-४१ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे गुरुशिष्यलक्षणं नाम एकविंशोऽध्यायः ||
Kapitel 22
Deutsche Übersetzung: Kapitel 22 · Sanskrit IAST: Kapitel 22
शक्रः -
अनादिनिधने देवि सर्वज्ञे हरिवल्लभे |
कथं वै ज्ञापयेन्मन्त्रांस्तेषां रूपं च कीदृशम् || २२-१ ||
समप्रधानता वैषामुत ज्येष्ठकनिष्ठता |
एतत् पृष्टा मया ब्रूहि नमस्ते सरसीरुहे || २२-२ ||
श्रीः -
शृणु सर्वमशेषेण मत्तस्त्वं पाकशासन |
यथास्मि मन्त्ररूपाहं यथा च ज्ञापयामि तान् || २२-३ ||
परं ब्रह्म परं धाम षाड्गुण्यममलोज्ज्वलम् |
देशकालानवच्छिन्नमनाकारमनूपमम् || २२-४ ||
अहमित्येव तद्ब्रह्म स्वात्मसंबोधि निर्गुणम् |
अनादिनिधनं दिव्यं लक्ष्मीनारायणं महत् || २२-५ ||
चिदानन्दरसं दिव्यमखण्डमजरामरम् |
अनुन्मिषद्भवद्भावं ग्राह्यग्राहकवर्जितम् || २२-६ ||
स्तिमितं तत् परं ब्रह्म तस्य स्तिमिततास्म्यहम् |
तत् कदाचित्परं ब्रह्म भवद्भावव्यवस्थया || २२-७ ||
उन्मिषत्यजहद्रूपं स्वेच्छयैव कदाचन |
साहं भावात्मिकाहंता संपूज्या परमात्मनः || २२-८ ||
उदेमि भवतो देवादिच्छयैव विवस्वतः |
संभृत्याखिलसंभारमिच्छयैव स्वनिर्मितम् || २२-९ ||
स्वभित्तौ लिखितं नीत्वा प्रभवामि षडध्वना |
वार्णः कलामयश्चैव तात्त्विको मान्त्रिकस्तथा || २२-१० ||
पादिको भौवनश्चैव षडध्वानः प्रकीर्तिताः |
परमं यदहंताख्यं संविद्रूपमनामयम् || २२-११ ||
उन्मेषः प्रथमस्तस्य वर्णाध्वा परिकीर्तितः |
व्याकृतिर्दशिता तस्य पूर्वं ते पाकशासन || २२-१२ ||
तदेव परमं रूपं मम संविन्मयं महत् |
विवर्ततेऽध्वभावेन ज्ञानाद्येन कलात्मना || २२-१३ ||
ज्ञानादीनां कलानां तु गुणानां परमात्मनः |
पूर्वं ते कथिता सूक्तिर्यावन्तो यादृशाश्च ते || २२-१४ ||
अध्वद्वयमुपादाय तद्रूपं मम चिन्मयम् |
वासुदेवादिरूपेण वर्तते तत्त्ववर्त्मना || २२-१५ ||
व्यूहाश्च विभवाश्चैव यच्चान्यद्भगवन्मयम् |
तत्त्वाध्वनो विवृत्तिः सा कीर्तिता परमात्मनः || २२-१६ ||
पूर्वाध्वद्वयमादाय तदेव मम चिन्मयम् |
रूपं विवर्तते शश्वन्मान्त्रेण परमाध्वना || २२-१७ ||
उत्तारणाय जीवानां मग्नानां भवसागरे |
भोगाय भवसंस्थानां वैराग्यजननाय च || २२-१८ ||
आराधनस्य सिद्ध्यर्थं मानसालम्बनाय च |
मन्त्राध्वा परमोदारो मम चिद्रूपलक्षणः || २२-१९ ||
वासुदेवादिदेवानां मूर्तिभावं व्रजत्यसौ |
मन्त्राः सर्वे चिदात्मानः सर्वगाः सर्वसाधकाः || २२-२० ||
त्रायमाणाश्च मन्तारं गुप्तरूपाश्च शास्त्रतः |
भोगापवर्गदा ह्येते देवदेवस्य शार्ङ्गिणः || २२-२१ ||
रूपं मे भगवन्मन्त्रा विज्ञेया मूर्तयोऽमलाः |
जाग्रत्स्वप्नौ सुषुप्तिश्च तुर्यं चेति चतुष्टयम् || २२-२२ ||
ज्ञेयं पदाध्वनो रूपं जाग्रद्बाह्येन्द्रियक्रमः |
बाह्येन्द्रियाणां तमसाभिभूते विभवे सति || २२-२३ ||
अन्तःकरणवृत्तिर्या संस्कारपरिशेषिणी |
सा स्वप्न इति विज्ञेया तदभावे सुषुप्तिका || २२-२४ ||
तमसानभिभूतस्य सत्त्वस्थस्य विपश्चितः |
बाह्यान्तःकरणस्थाया वृत्तेरुपरमे सति || २२-२५ ||
शुद्धसत्त्वप्रसादस्य संततिस्तुर्यसंज्ञिता |
एवं चतुर्विधे मार्गे निर्दिष्टेऽस्मिन् पदाभिधे || २२-२६ ||
तुर्यवर्जं सुषुप्त्यादिरशुद्धां भजते गतिम् |
मायादिक्षितिपर्यन्ता योक्ता भुवनपद्धतिः || २२-२७ ||
भुवनाध्वा स विज्ञेयो ह्यशुद्धो मलपङ्किलः |
प्रक्रीडयन्ति मन्त्रास्ते शश्वद्रागपरं नरम् || २२-२८ ||
तत्तद्भोगेन्द्रजालानि दर्शयन्तो विमोहितम् |
गुरुणा सदयं सम्यग्वीक्षितं करुणादृशा || २२-२९ ||
उत्तारयन्ति वैराग्यं जनयन्तः पदे पदे |
ततः शुद्धमयान् मार्गान् प्रापयन्तः शनैः शनैः || २२-३० ||
शब्दब्रह्मणि निष्णातं प्रापयेयुः परां श्रियम् |
एवंविधा महात्मानो मन्त्राः परमपावनाः || २२-३१ ||
त्रिविधास्ते तु विज्ञेया अधमा मध्यमाः परे |
भवोपकरणानां ये देवानां मूर्तितां गताः || २२-३२ ||
अन्तवत्फलदा मन्त्रास्ते ज्ञेया अधमा बुधैः |
मन्त्रा विभवदेवानां सशक्तीनां तु मूर्तयः || २२-३३ ||
ते ज्ञेया मध्यमा मन्त्रा उत्तमा व्यूहमूर्तयः |
ये तु ब्रह्मावगाहन्ते लक्ष्मीनारायणात्मकम् || २२-३४ ||
भवद्भावव्यवस्थानास्ते मन्त्रा उत्तमोत्तमाः |
एवं च ज्यैष्ठ्यकानिष्ठयं विज्ञेयं मन्त्रकोविदैः || २२-३५ ||
उत्तमाः पञ्चरात्रस्था मध्यमास्तु त्रयीमयाः |
तन्त्रान्तरस्था विज्ञेया अधमाः शास्त्रचक्षुषा || २२-३६ ||
कलाङ्गा उत्तमा ज्ञेया अन्याङ्गा मध्यमाः स्मृताः |
अनङ्गा अधमा मन्त्रा भूयः शृणु सुरेश्वर || २२-३७ ||
बीजपिण्डादिसंयुक्ता उत्तमाः परिकीर्तिताः |
बीजाद्यन्यतमान्तःस्था मन्त्रा मध्यमसंज्ञिताः || २२-३८ ||
अबीजादियुता ज्ञेया मन्त्रा अधमसंज्ञिताः |
एवं मन्त्रविधा ज्ञात्वा ह्याचार्यः शास्त्रलोचनः |
यथास्वरूपतः शिष्यान् ज्ञापयेदर्थितो मनून् || २२-३९ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे षडध्वमन्त्रस्वरूपकथनं नाम द्वाविंशोऽध्यायः ||
Kapitel 23
Deutsche Übersetzung: Kapitel 23 · Sanskrit IAST: Kapitel 23
श्रीः -
व्यापकं यत् परं ब्रह्म लक्ष्मीनारायणं महत् |
अहंता परमा तस्य शक्तिर्नारायणी ह्यहम् || २३-१ ||
अनुग्रहाय लोकानामहमाचार्यतां गता |
संकर्षणस्वरूपेण शास्त्रं प्रद्योतयाम्यहम् || २३-२ ||
पुनश्च गुरुमूर्तिस्था सम्यग्विज्ञानशालिनी |
शक्तिमयया स्वया दृष्ट्या करुणामन्त्रपूर्णया || २३-३ ||
पालयामि गुरुर्भूत्वा शिष्यानात्मोपसर्पिणः |
तस्माज्ज्ञेयः सदा शिष्यैराचार्योऽसौ मदात्मकः || २३-४ ||
शिष्यं संज्ञापयेन्मन्त्रान् यथा तदवधारय |
आदौ शुद्धे समे स्निग्धे देशे भूदोषवर्जिते || २३-५ ||
वर्णानुरूपवर्णाढ्ये गोमयेनोपलेपिते |
धूपिते शल्यनिर्मुक्ते गन्धपुष्पाद्यलंकृते || २३-६ ||
पञ्चगव्येन संसिक्ते चन्दनाद्यनुलेपिते |
सुमृन्मयीं च घटिकां केवलैः कुसुमैः शुभैः || २३-७ ||
प्रणवादिनमोऽन्तेन स्वेन मन्त्रेण पूजयेत् |
व्याहृत्या परिजप्याथ पूर्वया प्रणवाद्यया || २३-८ ||
मृदं भूमौ प्रसार्याथ गन्धधूपाधिवासितम् |
चतुरश्रं सुवृत्तं वा द्विहस्तं हस्तमेव वा || २३-९ ||
सुसमं मातृकापीठं कृत्वा प्रस्तारयेत्तु ताम् |
एकैव भिन्नवर्गा या देवी पञ्चदशाक्षरा || २३-१० ||
मन्त्राणां जननी साक्षान्मम शब्दमयी तनुः |
पद्माकारेण वा मन्त्री चक्राकारेण वा स्तरेत् || २३-११ ||
पौरुषे चक्ररूपं तु पाद्मीं लक्ष्मीमनुक्रमेत् |
अग्नीषोममयी शक्तिर्विसृष्टाख्या द्विरष्टधा || २३-१२ ||
स्वराख्यां तां लिखेत्पत्रमरं वा पूर्वदिग्गतम् |
पृथिव्यादिपुमन्ता ये पञ्च वर्गास्तु कादयः || २३-१३ ||
अग्न्यादिवायुपर्यन्ते तां लिखेदरपत्रवत् |
अन्तःस्थधारणारूपं यादिवान्तचतुष्टयम् || २३-१४ ||
उदग्गतं लिखेत् पत्रमरं वा पूर्ववद्बुधः |
शाद्यं क्षान्तं तुरीयान्तं यदुक्तं ब्रह्मपञ्चकम् || २३-१५ ||
तल्लिखेदैशदिक्संस्थमरं पत्रमथापि वा |
शब्दाख्यं यत्परं ब्रह्म ज्योतिर्मयमनामयम् || २३-१६ ||
ध्यायेदालोकरूपेण पर्यन्ते चक्रपद्मयोः |
प्रणवाद्यैर्नमोऽन्तैस्तैरक्षरैस्तत्त्वसंज्ञकैः || २३-१७ ||
प्रकृतिं त्वर्चयेत्तत्र तत्त्वरूपां तु मां बुधः |
ततस्तत्कर्णिकामध्ये चिन्तयेन्मन्त्रमातृकाम् || २३-१८ ||
अनादिनिधनां देवीमहंतां पुरुषोत्तमीम् |
पाशाङ्कुशधरां देवीं पद्मिनीं पद्ममालिनीम् || २३-१९ ||
प्रसन्नां पद्मगर्भाभां सर्वलोकमहेश्वरीम् |
वर्णप्रकॢप्तावयवां वर्णालंकारभूषिताम् || २३-२० ||
शब्दब्रह्म तनुं विद्यात् प्रणवं तु शिरः स्मरेत् |
अ आ इति भ्रुवौ विद्यादि ई विद्यात्तु चक्षुषी || २३-२१ ||
उ ऊ कर्णौ ऋ ॠ नासापुटावन्यौ कपोलकौ |
ए ऐ ओष्ठौ च विज्ञेयौ ओ औ दशनपङ्क्तिके || २३-२२ ||
अं जिह्वामः समुच्चारं कचवर्गौ करौ स्मरेत् |
टतवर्गौ पदौ विद्यात् पफौ पार्श्वे स्मरेद्बुधः || २३-२३ ||
बभौ पश्चात्पुरोभागौ मं नाभिं परिचिन्तयेत् |
प्राणोष्माणौ यरौ विद्याल्लं हारं परिचिन्तयेत् || २३-२४ ||
वकारं कटिसूत्रं तु कुण्डले तु शषौ स्मरेत् |
सकारं हृदयं विद्याद्धृदयस्थं तु हं स्मरेत् || २३-२५ ||
प्रसरन्तीं प्रभां विद्यात् क्षकारं विद्युदुज्ज्वलाम् |
रङ्गं नासाग्रगं विद्याद्यमाख्यं हृदये स्मरेत् || २३-२६ ||
जिह्वामूलीयकं जिह्वामूले विद्यादनन्तरम् |
उपध्मानीयकं विद्यादोष्ठयोः क्रमशस्तथा || २३-२७ ||
शुभैर्वर्णमयैः पद्मैरग्नीषोममयैः कृताम् |
बिभ्रतीं वनमालां च कण्ठात्पादावलम्बिनीम् || २३-२८ ||
अग्निषोमार्ककोट्याभं स्फुरद्रत्नविभूषितम् |
मकुटं चिन्तयेद्विद्वान् हकारं पारमेश्वरम् || २३-२९ ||
एवं संस्मृत्य तां देवीं मातृकां मन्त्रमातरम् |
पूजयेदर्घ्यपुष्पाद्यैरों नमो मन्त्रमातृके || २३-३० ||
इदमर्घ्यं गृहाणेति भोगैरेवमनुक्रमात् |
ततः कृताञ्जलिः प्रह्वः प्रणम्याष्टाङ्गवद्भुवि || २३-३१ ||
पद्मस्थे पद्मनिलये पद्मे पद्माक्षवल्लभे |
सर्वतत्त्वकृताधारे मन्त्राणां जननीश्वरि || २३-३२ ||
व्याकुरु त्वं परं दिव्यं रूपं लक्ष्मीमयं मम |
प्रार्थ्यैवं प्रयतो मन्त्री स्वयं लक्ष्मीमयो भवेत् || २३-३३ ||
मातृकाकृतविन्यासः स्वयं सन्मातृकामयः |
उद्धरेदीप्सितं मन्त्रं शिष्यस्योपदिशेत्ततः || २३-३४ ||
बीजपिण्डात्मका मन्त्रा मन्त्रेषु श्रेष्ठतां गताः |
तत्र श्रेष्ठानि बीजानि पिण्डेभ्योऽपि सुरेश्वर || २३-३५ ||
बीजेषु रत्नभूतानि सप्त बीजानि वासव |
तारकः प्रथमं बीजं द्वितीयं तारिका स्मृता || २३-३६ ||
तयोस्तु तेजसा तुल्यं तृतीयमनुतारिका |
चतुर्थं तु जगद्योनिः परमं बीजमुच्यते || २३-३७ ||
प्राद्युम्नं पञ्चमं बीजं षष्ठं सारस्वतं मतम् |
महालक्ष्मीमयं बीजं सप्तमं परिकीर्तितम् || २३-३८ ||
स्थूलसूक्ष्मपरत्वं तु प्रतिस्वं परिकीर्तितम् |
त्वं शक्रावहितो भूत्वा शृणु बीजान्यनुक्रमात् || २३-३९ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे मातृकाप्रकाशो नाम त्रयोविंशोऽध्यायः ||
Kapitel 24
Deutsche Übersetzung: Kapitel 24 · Sanskrit IAST: Kapitel 24
श्रीः
परं ब्रह्म परं धाम परं ज्योतिरनूपमम् |
लक्ष्मीनारायणं ब्रह्म दोषशून्यं निरञ्जनम् || २४-१ ||
एकं सर्वमिदं व्याप्य स्थितं सर्वोत्तरं महः |
अहंताहं परा तस्य ब्रह्मणः परमात्मनः || २४-२ ||
हिताय सर्वजीवानामुन्मिषन्ती स्ववाञ्छया |
शब्दब्रह्ममयी भूत्वा मातृकामन्त्रविग्रहा || २४-३ ||
भवामि मन्त्ररूपाहं तत्तद्वाच्यानुकारिणी |
प्रथमं ताररूपेण यथास्म्येवं समुद्धरेत् || २४-४ ||
प्रथमं ध्रुवमादाय ततः कर्णं समुद्धरेत् |
नाभिं समुद्धरेत्पश्चात् त्रयमेकत्र योजयेत् || २४-५ ||
ओमित्येतत् समुत्पन्नं प्रथमं ब्रह्मतारकम् |
बिन्दुना भूषयेत् पश्चान्नादेन तदनन्तरम् || २४-६ ||
ध्यायेत् संततनादेन तैलधारामिवातताम् |
एतत्तद्वैष्णवं रूपं त्रयक्षरं ब्रह्म शाश्वतम् || २४-७ ||
अनिरुद्धस्त्वकारोऽत्र प्रद्युम्नः पञ्चमः स्वरः |
संकर्षणो मकारस्तु वासुदेवस्तु बिन्दुकः || २४-८ ||
चतुर्णामविभागस्तु नादस्तत्र सुरेश्वर |
नादस्य या परा काष्ठा साहंता परमेश्वरी || २४-९ ||
शक्तिः सा परमा सूक्ष्मा नादान्तगगनाह्वया |
शब्दब्रह्ममयी सूक्ष्मा साहं सर्वावगाहिनी || २४-१० ||
विरामे सति नादस्य यः स्फुटीभवति स्वयम् |
ज्योतिस्तत्परमं ब्रह्म लक्ष्मीनारायणाह्वयम् || २४-११ ||
एतत्ते वैष्णवं धाम कथितं पौरुषं परम् |
शान्तमस्यैव यद्रूपं तस्य तत्त्वं निशामय || २४-१२ ||
विसृष्टिं पूर्वमादाय सूर्यमन्ते नियोजयेत् |
संनिकर्षे परे जाते तदोमित्युदितं महः || २४-१३ ||
एतत् तत् परमं धाम शक्तिसंहारलक्षणम् |
स्मर्यमाणं परं तत्त्वं प्रकाशयति यद् ध्रुवम् || २४-१४ ||
संहृत्य सर्वसंभारं शुद्धाशुद्धाध्वसंभवम् |
सृष्टौ समुद्यता शक्तिः सूर्ये पुंसि सनातने || २४-१५ ||
परमे भोक्तृरूपे सा विधाय प्रतिसंचरम् |
अग्नीषोममयाद्भावात् स्थूलात्सा प्रतिनिर्गता || २४-१६ ||
दांपत्यं मध्यमं शश्वद्बिन्दुनादमयं श्रिता |
शक्तिः शान्तात्मकं दिव्यं सूक्ष्मदांपत्यमाश्रिता || २४-१७ ||
प्रतितिष्ठति सा दिव्ये व्यापके परमात्मनि |
अस्य मात्रा विधानज्ञैः सार्धास्तिस्र उदाहृताः || २४-१८ ||
त्रयोऽग्नयस्त्रयो लोकास्त्रयो वेदास्त्रयो गुणाः |
त्रयो देवास्त्रयो व्यूहास्त्रयो वर्णास्त्रयः स्वराः || २४-१९ ||
त्रितयं त्रितयं शक्र यत् किंचिज्जगतीगतम् |
तदादि त्रितयं ज्ञेयमर्धमात्रा निरञ्जना || २४-२० ||
सर्वे शब्दा अकारोत्था उकारात्तेजसां त्रयम् |
पृथिव्यादि प्रकृत्यन्तं मकारोत्थं पुरंदर || २४-२१ ||
ज्योतिर्मययर्धमात्रा सा चिन्मयी परमा कला |
युग्भिः स्वरैः सबिन्द्वन्तैराद्यन्तस्वरषट्कयोः || २४-२२ ||
ज्ञानादिगुणषट्कान्तैरङ्गकॢप्तिरमुष्य तु |
नाभौ पृष्ठे तथा वाह्वोरूरुजानुपदेषु च || २४-२३ ||
तारपूर्वान् गुणान् भूयो विन्यसेत् पाकशासन |
एवं विन्यस्य तन्मन्त्रमङ्गोपाङ्गसमन्वितम् || २४-२४ ||
स्वदेहे गुरुरात्मस्थं चिन्तयेत् पुरुषोत्तमम् |
विश्वादिलयपूर्वं तु यथावत् तन्निबोध मे || २४-२५ ||
विश्वं जाग्रत्पदेशानं सर्वेन्द्रियसमीरकम् |
भोक्तारं शब्दपूर्वाणां पञ्चानां विषयात्मनाम् || २४-२६ ||
अनिरुद्धात्मकं तं च चिन्तयेत् प्रथमाक्षरम् |
तं सोपकरणं देवमकारे प्रविलाप्य तु || २४-२७ ||
अकारं तैजसे देवे प्रद्युम्ने स्वप्नवर्त्मगे |
अन्तःकरणवृत्तीनां प्रेरके प्रविलापयेत् || २४-२८ ||
तं सोपकरणं देवमुकारे प्रविलापयेत् |
उकारं चेश्वरे प्राज्ञे संकर्षणतनुस्थिते || २४-२९ ||
सुषुप्तिपदगे शश्वत् प्राणादिप्रेरके विभौ |
विलाप्य तं च देवेशं तुर्यसंस्थेऽर्धमात्रके || २४-३० ||
ज्ञानानन्दमये देवे वासुदेवे विलापयेत् |
तुर्यातीते च तत्तुर्यं लक्ष्मीनारायणात्मनि || २४-३१ ||
प्रविलाप्य स्वयं दिव्यामहंतां वैष्णवीं श्रयेत् |
तन्मयस्तादृशं प्राप्य लयस्थानं ततः क्रमात् || २४-३२ ||
जागरामवतीर्याथ दीक्षितं शिष्यमग्रतः |
सद्गुरुर्मन्मयो भूत्वा तारमध्यापयेत्स्वयम् || २४-३३ ||
साङ्गोपाङ्गक्रमं शश्वत् ससमाधिं सविस्तरम् |
स च दद्यात् स्वमात्मानं दक्षिणां गुरवे धनैः || २४-३४ ||
लब्धानुज्ञस्ततः कुर्वन् पौरश्चरणिकं विधिम् |
महानदीतटं गत्वा सिद्धाद्यायतनं तु वा || २४-३५ ||
पालाशं वा वनं सम्यक्पर्यन्तादृष्टभूतलम् |
स्नानं त्रिषवणं कुर्वन् ब्रह्मचारी जितेन्द्रियः || २४-३६ ||
पयोयावकभैक्षाणामश्नन्नन्यतमं सकृत् |
कुशोच्चये निषण्णः सन् काशचीरकुशेशयः || २४-३७ ||
पालाशं धारयेद्दण्डं संवीतः कृष्णचर्मणा |
मच्चित्तो मन्मयो भूत्वा गुर्वादिष्टेन वर्त्मना || २४-३८ ||
नित्यं योगपरो भूत्वा सम्यग्ज्ञानसमाधिमान् |
दशलक्षं जपेन्मौनी तारं संसारतारकम् || २४-३९ ||
दशांशं जुहुयात् पर्णैः समिद्भिः सर्पिषापि वा |
प्रीता तस्य प्रकाशेऽहमहंता वैष्णवी परा || २४-४० ||
साधकस्य ततः सम्यक् सद्विवेकिनि चेतसि |
लक्ष्मीनारायणाख्यं तत् सामरस्यं प्रकाशते || २४-४१ ||
जीवन्नेव भवेन्मुक्तः पुनीते चक्षुषा जगत् |
सिद्धाः स्युस्तस्य मन्त्रास्ते लौकिका वैदिकाश्च ये || २४-४२ ||
स्नातः सर्वेषु वेदेषु विद्यासु सकलासु च |
सिद्धान्तेषु च सर्वेषु तीर्थेषु च भवेदसौ || २४-४३ ||
प्रयोगाः सर्वमन्त्राणां यावन्तो यादृशाश्च ये |
तावन्तस्तादृशास्तेऽस्य प्रयोगा इति निर्णयः || २४-४४ ||
अस्य व्याहृतयस्तिस्रो वर्णत्रयसमुद्गताः |
पद्भ्यः समुद्गता ह्यस्याः सावित्री सर्वपावनी || २४-४५ ||
अस्याः पद्भ्यस्त्रयो वेदा ऋग्यजुःसामलक्षणाः |
इत्येतन्मयमेवेदं लौकिकं वैदिकं वचः || २४-४६ ||
यथा न्यग्रोधधानायामन्तर्भूतो महाद्रुमः |
तथेदं वाङ्मयं विश्वमस्मिन्नन्तः स्थितं सदा || २४-४७ ||
एतदाद्यं महाबीजं शब्दानां प्रकृतिः परा |
शब्दब्रह्म परं धाम पवित्रं परमं महत् || २४-४८ ||
ओंकारः प्रणवस्तारो हंसो नारायणो ध्रुवः |
वेदात्मा सर्ववेदादिरादित्यः सर्वपावनः || २४-४९ ||
मोक्षदो मुक्तिमार्गश्च सर्वसंधारणक्षमः |
एवमादीनि नामानि शास्त्रे शास्त्रे विचक्षणैः || २४-५० ||
अधीतानि महापुण्यान्योंकारस्य महात्मनः |
इदं शरणमज्ञानामिदमेव विजानताम् || २४-५१ ||
अयमन्विच्छतां स्वर्गः पोतः पारं तितीर्षताम् |
हकारौकारसंयोगादयं प्रासादसंज्ञकः || २४-५२ ||
पिण्डोऽयं सर्वतत्त्वानां पिण्डभूतः सनातनः |
साधनं प्रतिपत्तिश्च विनियोगोऽथ धारणा || २४-५३ ||
बीजस्येव सुरेशान प्रासादस्यास्य विद्धि तत् |
अस्यैव संज्ञामन्त्रोऽयं हंसो नाम महामनुः || २४-५४ ||
भोक्तारं प्रथमं वर्णं विद्धि भोग्यं द्वितीयकम् |
नारायणमयं पूर्वमक्षरं श्रीमयं परम् || २४-५५ ||
अग्नीषोमात्मकावेतौ वर्णौ विद्धि सनातनौ |
अनयोरन्तरा शक्र बिन्दुधर्मौ व्यवस्थितौ || २४-५६ ||
आधारान्मूर्धपर्यन्तं भोक्तारं वर्णमुन्नयेत् |
विसृजेन्मुखतो वर्णं द्वितीयं भोग्यसंज्ञकम् || २४-५७ ||
सर्वा सृष्टिः कृता तेन हंसोच्चारप्रयोगतः |
अजपेयं समाख्याता विद्या सर्वाङ्गशोभना || २४-५८ ||
चतुषष्ट्यधिकाशीतिकोटिसंख्यासु योनिषु |
तद्भेदेषु च मन्त्रोऽयं स्वयमुच्चरते सदा || २४-५९ ||
निश्वासेन समं विद्या समुदेत्यन्तरुज्ज्वला |
उदयास्तमयावस्याः श्वासनिश्वासतुल्यकौ || २४-६० ||
षष्टिः श्वासा भवेत्प्राणाः षट् प्राणा नाडिका मता |
नाड्यः षष्टिरहोरात्रमेवं कालक्रियागतिः || २४-६१ ||
एवं हंसोदयाद्विद्धि सहस्राण्येकविंशतिम् |
शतानि षट् च देवेश तावन्तः स्युर्जपाः कृताः || २४-६२ ||
किंतु संकल्पनं कुर्यादहरादौ मनीषया |
एवंसंख्यान् जपानस्य करिष्यामीति बुद्धिमान् || २४-६३ ||
विन्यसेत् पञ्च चाङ्गानि तेषां रूपं निबोध मे |
सूर्यसोमौ चतुर्थ्यन्तौ नमःस्वाहासमन्वितौ || २४-६४ ||
निरञ्जनौ निराभासौ वौषढुंफडन्तकौ |
फडन्तं मूलमेवास्त्रमित्यङ्गान्यस्य पञ्च तु || २४-६५ ||
अयमेव विपर्यस्तः परमात्ममनुः स्मृतः |
स्मृत्वा शक्तिं ससंभारां सूर्ये भोक्तरि संनयेत् || २४-६६ ||
शिष्टं प्रणववच्चिन्त्यमिति संज्ञामनोर्विधिः |
पदमन्त्रास्त्रयोऽस्य स्युर्विधाने पाञ्चरात्रिके || २४-६७ ||
विष्णवे नम इत्येवं नमो नारायणाय च |
नमो भगवते पूर्वं वासुदेवाय चेत्यपि || २४-६८ ||
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन |
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज || २४-६९ ||
पदमन्त्रश्चतुर्थोऽयं प्रणवस्य पुरंदर |
ओंकारसहितानेतान् मन्त्रान् पूर्वविदो विदुः || २४-७० ||
ज्ञानादिगुणसंयुक्तैरक्षरैः प्रणवादिभिः |
नमोऽन्तैरऽऽगकॢप्तिः स्यात्तथैवोपाङ्गकल्पना || २४-७१ ||
न्यूनाक्षरस्य मन्त्रस्य वर्णेन चरमेण तु |
उपाङ्गकल्पना कार्या तत्तद्गुणपदैर्युता || २४-७२ ||
तथैव स्फीतवर्णस्य शिष्टैस्तु द्वादशाधिकैः |
समस्तैश्चरमोपाङ्गं कल्पयेत्तेजसा सह || २४-७३ ||
केवलस्तारकश्चैव चत्वारश्च तदादिकाः |
पञ्चैते व्यापका मन्त्राः पाञ्चरात्रे प्रकीर्तिताः || २४-७४ ||
नासाध्यं किंचिदस्तीह मन्त्रैरेभिर्महात्मभिः |
निश्रेणी पञ्चपर्वैषा परब्रह्माधिरोगणे || २४-७५ ||
एषा दिव्या महासत्ता पञ्चमन्त्री तु मन्मयी |
अर्चनाज्जपतो ध्यानादिमां सम्यक् समाश्रितः |
स्वां सत्तां वैष्णवीं प्राप्य परं ब्रह्माधिगच्छति || २४-७६ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे तारप्रकाशो नाम चतुर्विंशोऽध्यायः ||
Kapitel 25
Deutsche Übersetzung: Kapitel 25 · Sanskrit IAST: Kapitel 25
श्रीः
इत्थं ते कथितः शक्र तारकस्यैष विस्तरः |
संसारतारिकाया मे तारिकायाः शृणु क्रमम् || २५-१ ||
वर्णानां विधिसिद्ध्यर्थं संज्ञाः पूर्वं निशामय |
श्रुतासु विधिवद्यासु विधिर्मान्त्रः प्रवर्तते || २५-२ ||
अकारश्चाप्रमेयश्च प्रथमो व्यापकः स्मृतः |
आदिदेवस्तथाकार आनन्दो गोपनः स्मृतः || २५-३ ||
रामसंज्ञ इकारश्च इद्ध इष्टः प्रकीर्तितः |
ईकारः पञ्चबिन्दुर्वै विष्णुर्माया पुरंदर || २५-४ ||
उकारो भुवनाख्यश्च उद्दाम उदयस्तथा |
ऊकार ऊर्जो लोकेशः प्रज्ञाधाराख्य एव च || २५-५ ||
सत्यश्च ऋतधामा च ऋकारः स तु चाङ्कुशः |
ऋकारो विष्टराख्यश्च ज्वाला चैव प्रसारणम् || २५-६ ||
लिङ्गात्मा भगवान् प्रोक्तो ऌकारस्तारकः स्मृतः |
ॡकारो दीर्घघोणश्च देवदत्तस्तथा विराट् || २५-७ ||
त्र्यश्र एकारसंज्ञश्च जगद्योनिरविग्रहः |
ऐश्वर्यं योगधाता च ऐ स ऐरावणः स्मृतः || २५-८ ||
ओकार ओतदेहश्च ओदनश्चैव विक्रमी |
और्वोऽथ भूधराख्यश्च औ स्मृतो ह्यौषधात्मकः || २५-९ ||
त्रैलोक्यैश्वर्यदौ व्यापी व्योमेशोंऽकार एव च |
विसर्गः सृष्टिकृत्ख्यातो ह्यःकारः परमेश्वरः || २५-१० ||
कमलश्च करालश्च ककारः प्रकृतिः परा |
खकारः खर्वदेहश्च वेदात्मा विश्वभावनः || २५-११ ||
गदध्वंसी गकारस्तु गोविन्दश्च गदाधरः |
घकारस्त्वथ धर्मांशुस्तेजस्वी दीप्तिमांस्तथा || २५-१२ ||
ङकार एकदंष्ट्राख्यो भूतात्मा भूतभावनः |
चकारश्चञ्चलश्चक्री चन्द्रांशुः स तु कथ्यते || २५-१३ ||
छन्दःपतिश्छलध्वंसी छकारश्छन्द एव च |
जन्महन्ताजितश्चैव जकारश्चैव शाश्वतः || २५-१४ ||
झकारो झषसंज्ञश्च सामगः सामपाठकः |
ईश्वरश्चोत्तमाख्यश्च ञकारस्तत्त्वधारकः || २५-१५ ||
चन्द्री टकार आह्लादो विश्वाप्यायकरस्तथा |
धाराधरष्ठकारश्च नेमिः कौस्तुभ उच्यते || २५-१६ ||
दण्डधारो डकारश्च मौसलोऽखण्डविक्रमः |
ढकारो विश्वरूपश्च वृषकर्मा प्रतर्दनः || २५-१७ ||
णकारोऽभयदः शास्ता वैकुण्ठ इति कीर्तितः |
तकारस्ताललक्ष्मा च वैराजः स्रग्धरः स्मृतः || २५-१८ ||
धन्वी भुवनपालश्च थकारः सर्वरोधकः |
दत्तावकाशो दमनो दकारः शान्तिदः स्मृतः || २५-१९ ||
धकारः शार्ङ्गधृद्धर्ता माधवश्च प्रकीर्तितः |
नरो नारायणः पन्था नकारः समुदाहृतः || २५-२० ||
पकारः पद्मनाभश्च पवित्रः पश्चिमाननः |
फकारः फुल्लनयनो लाङ्गली श्वेतसंज्ञितः || २५-२१ ||
बकारो वामनो ह्रस्वः पूर्णाङ्गः स च कथ्यते |
भल्लातको भकारश्च ज्ञेयः सिद्धिप्रदो ध्रुवः || २५-२२ ||
मकारो मर्दनः कालः प्रधानः परिपठ्यते |
चतुर्गतिर्यकारश्च सुसूक्ष्मः शङ्ख उच्यते || २५-२३ ||
अशेषभुवनाधारो रोऽनलः कालपावकः |
लकारो विबुधाख्यश्च धरेशः पुरुषेश्वरः || २५-२४ ||
वराहश्चामृताधारो वकारो वरुणः स्मृतः |
शकारः शंकरः शान्तः पुण्डरिकः प्रकीर्तितः || २५-२५ ||
नृसिंहश्चाग्निरूपश्च षकारो भास्करस्तथा |
सकारस्त्वमृतस्तृप्तिः सोमश्च परिकीर्तितः || २५-२६ ||
सूर्यो हकारः प्राणस्तु परमात्मा प्रकीर्तितः |
अनन्तेशः क्षकारस्तु वर्गान्तो गरुडस्तथा || २५-२७ ||
अशेषसंज्ञा वर्णानामित्येताः कीर्तिता मया |
अनुलोमविलोमेन वर्ण्या वर्णस्य वै पुनः || २५-२८ ||
संज्ञा संख्या च या शक्र सामान्या सा महामते |
चिदंशाः सर्व एवैते वर्णा भास्वरविग्रहाः || २५-२९ ||
कारणं सर्वमन्त्राणां लक्ष्मीशक्त्युपबृंहिताः |
स्तुताः संपूजिता ध्याता वर्णाः संज्ञाभिरादरात् || २५-३० ||
प्रयच्छन्ति परामृद्धिं विज्ञानं भावयन्त्यपि |
परस्पराङ्गभावं च मन्त्रोत्पत्तौ व्रजन्त्यमी || २५-३१ ||
चराचरेऽस्मिंस्तन्नास्ति यदमीभिर्न भावितम् |
नित्या यद्यपि ता दिव्या मन्त्राणां मूर्तयः पराः || २५-३२ ||
तथाप्येवंविधैर्वर्णैर्भाविता इति चिन्तना |
भवन्ति पूर्णसामर्थ्या मन्त्राः शास्त्रनिदर्शनात् || २५-३३ ||
आलम्बनं धियां चैव भवन्त्येवं महामते |
अभागेऽपि यथा व्योम्नि धिया भागः प्रकल्प्यते || २५-३४ ||
सौकर्याय तथा मन्त्रे वर्णभागोऽनुचिन्त्यते |
कृत्वैव भावगां व्याप्तिं वर्णानां पूजनं त्रिधा || २५-३५ ||
भूमौ पद्मे तथा देव्यास्तनौ मन्त्रान् समुद्धरेत् |
परमात्मानमादाय योजयेत् कालवह्निना || २५-३६ ||
त्रैलोक्यैश्वर्यदोपेतमायामस्मिन्नियोजयेत् |
इयं सा परमा शक्तिर्वैष्णवी सर्वकामदा || २५-३७ ||
सत्ता पूर्णा चिदानन्दा मम मूर्तिर्निरन्तरा |
इयं सा परमा निष्ठा या सा ब्रह्मविदां ध्रुवा || २५-३८ ||
अस्यां निष्ठाय तत्त्वज्ञा विशन्ति ब्रह्म मन्मयम् |
सैषा तत्त्वविदां मुख्यैः शास्त्रे शास्त्रे विचिन्त्यते || २५-३९ ||
ओत्रं प्रोतममुष्यां वै जगच्छब्दार्थतामयम् |
अनयैव सदा सांख्यैः संख्यायेऽहं सनातनी || २५-४० ||
अनयैव समाधिस्थैः समाधीये समाधिना |
अभिधीयेऽनयैवाहं शैवैः षट्त्रिंशदन्तिमा || २५-४१ ||
महाराज्ञी तथैवाहमनयैव त्रयी परा |
ऋग्यजुःसामसंघाते चिन्त्ये सौरे च मण्डले || २५-४२ ||
तरुणीं रूपसंपन्नां सर्वावयवसुन्दरीम् |
अनयैव व्यवस्यन्ति लोकायतविचक्षणाः || २५-४३ ||
क्षणभङ्गविधानज्ञैश्चिन्त्ये निर्विषया च धीः |
आर्हतैश्चानयैवाहं यक्षीनाम्ना सदोदिता || २५-४४ ||
परमा तारिका शक्तिस्तारिणी तारिकाकृतिः |
लक्ष्मीः पद्मा महालक्ष्मीस्तारा गौरी निरञ्जना || २५-४५ ||
हृल्लेखा परमात्मस्था या शक्तिर्भुवनेश्वरी |
चिच्छक्तिः शान्तिरूपा च घोषणी घोषसंभवा || २५-४६ ||
कामधेनुर्महाधेनुर्जगद्योनिर्विभावरी |
एवमादीनि नामानि शास्त्रे शास्त्रे विचक्षक्षणैः || २५-४७ ||
तारिकाया निरुक्तानि वेदे वेदे च पण्डितैः |
अस्या एवापरा मूर्तिर्विज्ञेया त्वनुतारिका || २५-४८ ||
शान्तं नियोजयेत् स्थाने पूर्वस्य परमात्मनः |
शेषमन्यत्समं ह्येषा तनुर्मेऽन्यानुतारिका || २५-४९ ||
तारिकायामिवास्यां च विज्ञेयं वैभवं महत् |
इमे शक्ती परे दिव्ये मम तन्वौ पुरंदर || २५-५० ||
यत्किंचिदेतया साध्यं साधनीयं तदन्यथा |
इमे पूर्वापरीभावं व्रजतोऽन्योन्यवाञ्छया || सम्यक्साधयतश्चैव साधकानामभीप्सितम् || २५-५१ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे तारानुताराप्रकाशो नाम पञ्चविंशोऽध्यायः ||
Kapitel 26
Deutsche Übersetzung: Kapitel 26 · Sanskrit IAST: Kapitel 26
शक्रः -
परं ब्रह्म परं धाम पद्मस्थे पद्ममालिनि |
नमस्ते पद्मजे पद्मे गोविन्दगृहमेधिनि || २६-१ ||
द्वे एते कथिते देवि तव तन्वौ सनातने |
विशेषस्त्वस्ति वा कश्चिदनयोः सूक्ष्मरूपतः || २६-२ ||
श्रीः -
एकमादौ परं तत्त्वं लक्ष्मीनारायणात्मकम् |
पूर्णस्तिमितषाड्गुण्यं स्वच्छस्वच्छन्दचिद्घनम् || २६-३ ||
तस्याहं परमा शक्तिः सर्वावस्थानुसारिणी |
देवी सा परमा दिव्या स्थूलसूक्ष्मपराह्वया || २६-४ ||
मम तन्वाविमे शक्ती तारिका चानुतरिका |
दुहाते सकलान् कामानुभे एते पुरंदर || २६-५ ||
उभे एते मते दिव्ये उभे निष्ठे परे स्मृते |
उभे संस्था मते सर्वा उभे ते विष्णुवल्लभे || २६-६ ||
उभे एते विचिन्त्याथ गच्छन्ति परमां गतिम् |
तत्त्वं तु परमं सूक्ष्मं गदन्त्या मे निशामय || २६-७ ||
परं ब्रह्म ततः शान्तं ततो नाद इति क्रमः |
सर्वत्रावस्थिता साहं निमेषोन्मेषरूपिणी || २६-८ ||
आद्यं यत् परमं ब्रह्म सूक्ष्मं स्तिमितशक्तिकम् |
तारस्तत्र प्रतिष्ठाय तनोति विततां गतिम् || २६-९ ||
भवतो ब्रह्मणो योऽयमुन्मेषः परमात्मनः |
भवद्भावात्मके तस्मिंस्तारिका प्रतितिष्ठति || २६-१० ||
ब्रह्मणस्त्ववरोहो यः शान्तरूपः सिसृक्षया |
शान्ताख्ये भावभूयिष्ठे तस्मिन्नास्तेऽनुतारिका || २६-११ ||
द्वितीयस्त्ववरोहो यः शक्त्याख्यो भाव ऊर्जितः |
वाग्भवादीनि बीजानि तत्र तिष्ठन्ति वासव || २६-१२ ||
एतावाननयोर्भेदः प्रोक्तस्ते सूक्ष्मधीमयः |
वाग्भवादीनि बीजानि गदन्त्या मे निशामय || २६-१३ ||
त्रैलोक्यैश्वर्यदोपेतमैश्वर्यं वर्णमुद्धरेत् |
जगद्योनिरिदं बीजं वाग्भवाख्यमुदाहृतम् || २६-१४ ||
सैषा कुण्डलिनी शक्तिर्यस्यां कुण्डलितं जगत् |
शब्दशक्तिस्वरूपेण यथा तदवधारय || २६-१५ ||
ई माया परमा शक्तिर्जगद्योनिर्निरञ्जना |
अप्रमेयस्य सा हि श्रीर्गृहिणी गृहमेधिनः || २६-१६ ||
अस्याः पूर्वमिकारं तु योजयेत् सूक्ष्मचक्षुषा |
इत्थं यदिष्टं यद् द्रव्यं यत्तत्तत्र प्रतिष्ठितम् || २६-१७ ||
आनन्दमस्य पूर्वं तु चिन्तयेत् सूक्ष्मचक्षुषा |
अप्रमेयं ततः पूर्वं योजयेत् सूक्ष्मचक्षुषा || २६-१८ ||
शक्तिरेषा जगद्योनिस्त्रैलोक्यैश्वर्यदोज्ज्वला |
अप्रमेयादनाद्यन्ताद्व्यापकात् परमात्मनः || २६-१९ ||
गोपनी सर्वभूतानां शक्तिरानन्दनिर्भरा |
इच्छाज्ञानक्रियारूपैरिकारोत्थैः समन्विता || २६-२० ||
त्रैलोक्यैश्वर्यदा देवी विष्णुपत्नी जगत्प्रसूः |
इति वाच्यां जगद्योनिबीजस्याब्जां विचिन्तयेत् || २६-२१ ||
रतिः क्रीडाभिधा लोके क्रीडा च स्यात् क्रिया मम |
इन्धनं दीपनं ज्ञानमिच्छा चेकारदर्शिताः || २६-२२ ||
त्रैलोक्यं तु त्रयो लोकास्ते च जीवास्त्रिधा स्थिताः |
तेषामैश्वर्यदानेन त्रैलोक्यैश्वर्यदाह्विका || २६-२३ ||
अप्रमेयादिना लोकान् वितत्य भुवनाध्वना |
तस्मिन्नेव परे भूयो व्योमेशे परमात्मनि || २६-२४ ||
संतिष्ठते परेत्येवमुदयास्तमयौ मम |
ईदृशीयं महाविद्या जगद्योनिर्गिरां प्रसूः || २६-२५ ||
पञ्चमी कामसूर्विद्या कामबीजापराह्वया |
प्राद्युम्नी परमा शक्तिस्तस्या रूपं निबोध मे || २६-२६ ||
मध्यमं गुणतत्त्वानां यत् प्रोक्तं पश्चिमाननम् |
रञ्जनं सत्त्वतमसोर्भोगेनाल्पेन रञ्जितम् || २६-२७ ||
सा परा प्रकृतिः काख्या कल्पयन्ती जगद्विधिम् |
पुरुषेश्वरयोगेन सा सृष्ट्यै संप्रकल्पते || २६-२८ ||
अव्यक्तपुरुषेशाख्यरूपत्रयविभाविनी |
माया श्रीः सा पुनर्देवी व्योमेशे प्रतितिष्ठति || २६-२९ ||
इति रूपप्रभावौ तौ कामबीजस्य दर्शितौ |
षष्ठीं सारस्वतीं विद्यां गदन्त्या मे निशामय || २६-३० ||
प्रज्ञाधारो ह्यहं शक्र प्रकृष्टज्ञानजन्मभूः |
साहं प्रज्ञाप्रसूर्विष्णोरुदयेन समन्विता || २६-३१ ||
आनन्दं योजयेत् तस्याः पुरस्तात् सूक्ष्मया दृशा |
अप्रमेयमतः पूर्वं भावयेत् सूक्ष्मया दृशा || २६-३२ ||
अप्रमेयोदिता साहं महानन्दमयी शुभा |
आधारभूता प्रज्ञाया व्योमेशे संस्थिता पुनः || २६-३३ ||
पुनर्विसृष्टियोगाय परमेश्वरमागता |
षष्ठी समुद्धृता विद्या शब्दतश्चार्थतश्च ते || २६-३४ ||
इयं बीजत्रयी विद्या कथिता त्रिपुराह्वया |
व्युत्क्रमानुक्रमाभ्यां सा ह्यात्मसाम्यप्रदापि च || २६-३५ ||
विद्येयं कामधुक् प्रोक्ता जपहोमादिसाधिता |
व्यञ्जनस्वरसंयोगात् तस्या भेदान् बहून्विदुः || २६-३६ ||
चतुर्णां पुरुषार्थानां हेतून् व्यस्य समस्य च |
सप्तमी तु महालक्ष्मीर्विद्या सा सर्वसाधनी || २६-३७ ||
परां प्रकृतिमादाय भास्करं तत्र योजयेत् |
मर्दनेन समायोज्य योजयेत् कालवह्निना || २६-३८ ||
भूषयेन्मायया पिण्डमन्ते व्यापिनमानयेत् |
कथितं ते महालक्ष्मीबीजमेतत् पुरंदर || २६-३९ ||
कर्षन्ती व्याकृतावस्थामहं हि स्वेन तेजसा |
प्रधानभूमिकां गत्वा मूर्तित्रयविभाविनी || २६-४० ||
निर्माय सकलं भावं व्योमेशे संप्रतिष्ठिता |
इति भाव्यमिदं बीजं जपता साधकेन तु || २६-४१ ||
इत्येते रश्मयो ज्ञेया विद्यायास्तारिकाकृतेः |
अनुतारादयो विद्या इतीदं तारिकामयम् || २६-४२ ||
तामिमां तारिकां विद्यां भजमानो यथाविधि |
ऐहिकामुष्मिकान् भोगानक्षयान् प्रतिपद्यते || २६-४३ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे सप्तविद्याप्रकाशो नाम षड्विंशोऽध्यायः ||
Kapitel 27
Deutsche Übersetzung: Kapitel 27 · Sanskrit IAST: Kapitel 27
शक्रः -
नमस्तुभ्यं जगन्नाथे पुण्डरीकाक्षवल्लभे |
अशेषजगदीशाने सर्वज्ञे सर्वभाविनि || २७-१ ||
श्रुतमेतन्मया सम्यग्विद्यानां तत्त्वमुत्तमम् |
भूयश्च तारिकाया मे विधिं व्याख्यातुमर्हसि || २७-२ ||
श्रीः -
आद्यमेकं परं ब्रह्म सर्वज्ञं सच्चिदात्मकम् |
स्वशक्तिचरितं दिव्यं लक्ष्मीनारायणं महः || २७-३ ||
अहं सा परमा शक्तिरहंताख्या सनातनी |
तद्धर्मधर्मिणी नित्या प्रभा भानोरिवामला || २७-४ ||
तदीयानि विधीयन्ते पञ्च कृत्यानि सर्वदा |
तदुन्मेषस्वरूपिण्या मयैवादितिनन्दन || २७-५ ||
मम दिव्या परा शक्तिर्नित्यं मद्धर्मधर्मिणी |
हृल्लेखा परमा विद्या मत्स्वरूपा पुरंदर || २७-६ ||
अस्या व्याख्यामिमां शश्वत् सावधानेन चेतसा |
श्रद्दधानः प्रपन्नस्त्वमुपसन्नो गृहाण मे || २७-७ ||
आमनन्ति यमात्मानं जगतस्तस्थुषः परम् |
प्रसवस्थितिसंहारकारणं सूर्यसंज्ञितम् || २७-८ ||
नित्यं प्रेरयितारं च प्राणसंज्ञं सनातनम् |
तं विद्धि प्रथमं वर्णं हकारं पुरुषोत्तमम् || २७-९ ||
यस्तस्य प्रथमोन्मेषः क्रोडीकृतजगत्त्रयः |
अशेषभुवनाधारो ज्वलद्रूपोऽमितोऽन्यतः || २७-१० ||
रेफं तत्परमं विद्धि तेजोरूपं सनातनम् |
उन्मेष एव सम्यक् स व्याप्नुवन् सकलां गतिम् || २७-११ ||
व्यापारान् पञ्च बिभ्रच्च बिन्दुन् सृष्ट्यादिलक्षणान् |
आश्चर्यज्ञानरूपश्च निमेषोन्मेषसंततेः || २७-१२ ||
इच्छाज्ञानक्रियारूपं बिभ्रच्च विततिक्रमम् |
इ-ई-रूपस्य युग्मस्य स्थितिरेषा सनातनी || २७-१३ ||
तदेवं परमोन्मेषरूपाहं विततोदया |
इच्छाज्ञानक्रियारूपा पञ्चकृत्यकरी विभोः || २७-१४ ||
नानाविधाश्चर्यमयी चिद्घना सुखरूपिणी |
विज्ञेया परमात्मस्था व्यापिनी विष्णुवल्लभा || २७-१५ ||
विधाय कृत्यमखिलं त्रैलोक्यैश्वर्यदायिनी |
तस्मिन्नेव पुनर्देवे व्योमेशे परमात्मनि || २७-१६ ||
आदाय सर्वसंभारं प्रतितिष्ठामि निष्कला |
अस्या रूपाणि पञ्चेह तत्त्वज्ञाः संप्रचक्षते || २७-१७ ||
तानि रूपाणि देवेश गदन्त्या मे निशामय |
व्योमेशान्तमिदं रूपमेकं यत्तत्प्रकीर्तितम् || २७-१८ ||
व्योमेशात् परतः केचिद्वाञ्छन्ति परमेश्वरम् |
व्योमेशमपहायान्ये प्रधानं विनियोज्य तु || २७-१९ ||
बिन्दुनादौ च वाञ्छन्ति तदन्ते प्रणवोपमम् |
अन्ते प्रधानमेवैकं केचिद्धीराः प्रचक्षते || २७-२० ||
सृष्टिकर्तारमन्तेऽन्ये वैदिकाः समधीयते |
एवं पञ्च स्वरूपाणि तारिकाया विदुर्बुधाः || २७-२१ ||
शान्तस्थायाः सुरेशान रूपाण्येवंविधान्यपि |
प्रधानान्ते विसृष्ट्यन्ते व्योमेशान्ते तथैव च || २७-२२ ||
व्योमेशोर्ध्वविसृष्ट्यन्त इति रूपचतुष्टये |
ऐहिकी परमा सिद्धिस्तत्तच्चामुत्रिकी परा || २७-२३ ||
प्रधानबिन्दुनादान्ते मोक्षश्रीरेव केवला |
इत्येवमनुसंधाय तारिकायाः परां स्थितिम् || २७-२४ ||
शिष्याय साधुशीलाय गुरुब्रह्महितैषिणे |
आचार्य आदिशेद्विद्यां परब्रह्मस्वरूपिणीम् || २७-२५ ||
हस्तदेहाङ्गविन्यासं विधायात्मनि वै पुरा |
विन्यस्य शिष्यदेहे च ततश्चोपदिशेन्मनुम् || २७-२६ ||
स्थापयेद्धृदि शिष्यस्य भावपूर्वं मनुं परम् |
पुनश्च स्थापयेत् स्वस्य हृदये मन्त्रमुत्तमम् || २७-२७ ||
दीक्षाभिषेकपूर्वं च सर्वमेतत् समाचरेत् |
आचार्यादथ संप्राप्य विद्यां शिष्यो विचक्षणः || २७-२८ ||
आत्मानमात्मनश्चैव वित्तं दत्त्वा तु दक्षिणम् |
सकलं त्वर्धमंश वा येन वा तोष्यते गुरुः || २७-२९ ||
वैदिके च समाचारे लौकिके च व्यवस्थिते |
अप्रमाद्यन् सदाचार्ये गुरुषु ब्राह्मणेषु च || २७-३० ||
अद्रोहं शीलयन् शश्वद्भूतग्रामे चतुर्विधे |
नित्यमात्मगुणोपेतो धर्मलक्षणसेवकः || २७-३१ ||
संस्कारैः संस्कृतः शुभ्रैर्देवपित्रतिथिक्रियः |
दिव्यशास्त्राण्यधीयानो निगमांश्चैव वैदिकान् || २७-३२ ||
अलोलुपेन चित्तेन सिद्धान्ताननुसंचरन् |
यावदर्थं तु विज्ञानमाददानस्ततस्ततः || २७-३३ ||
अदूषयंश्च शास्त्राणि प्रमाणैरनुसंचरन् |
आह्निकं विधिवत् कुर्वन् शास्त्रार्थं कर्मणां क्रमैः || २७-३४ ||
अहरादि त्वहोरात्रं पुना रात्र्यवसानकम् |
अवन्ध्यं सततं कुर्वंश्चोदितैः कर्मणां क्रमैः || २७-३५ ||
पञ्चकालरतो नित्यं पञ्चयज्ञपरायणः |
भूषितो दमदानाभ्यां सत्येनाहिंसनेन च || २७-३६ ||
चोदितेन क्रमेणेमां विद्यां संसाध्य यत्नतः |
प्रसन्नया धिया युक्तो नित्यं स्वार्थपरार्थयोः || २७-३७ ||
भूतिमेव परामिच्छन् विभूतिं परिवर्जयेत् |
पावनः सर्वभूतानां मनसा चक्षुषा गिरा || २७-३८ ||
चित्तप्रसादनीर्देवीश्चतस्रः परिशीलयन् |
मैत्र्याद्याः शान्तिमन्विच्छन् जपयज्ञपरायणः || २७-३९ ||
अप्रमाद्यन् स्वकर्मस्थः प्रमादे सति दैवतः |
प्रायश्चितं चरन् सम्यग्यस्मिन्यस्मिंस्तु यादृशम् || २७-४० ||
कर्मणा मनसा वाचा देवदेवं जनार्दनम् |
प्रपन्नः शरणं शश्वन्मां च तद्धर्मधर्मिणीम् || २७-४१ ||
उत्तमं पुरुषं स्त्रीं च संदृष्ट्वा मामनुस्मरन् |
दंपती पूजयन्नित्यं दांपत्यं चाप्यलोपयन् || २७-४२ ||
शब्दस्थमर्थगं वापि पुंभावं विविधात्मकम् |
स्त्रीभावं विद्धि तद्रूपं लक्ष्मीनारायणं स्मरन् || २७-४३ ||
उत्तमां गुणसंपन्नां रूपयौवनशालिनीम् |
अलोलुपेन चित्तेन दृष्ट्वा मामेव चिन्तयन् || २७-४४ ||
स्त्रीषु क्षान्तमना नित्यमवदन्नप्रियं सदा |
अतिक्रमं परिहरन् संजातं चाप्यतर्कयन् || २७-४५ ||
क्षालयन् पावनैः स्त्रीणां जायमानं व्यतिक्रमम् |
कुब्जां वा विकलां वापि सर्वावस्थां गतां स्त्रियम् || २७-४६ ||
अविनिन्दंश्चरंस्त्रीणां प्रियं शास्त्रानुकूलतः |
एवंवृत्तः सदाचारो नरो विगतकल्मषः || २७-४७ ||
मद्भक्तो मत्प्रियकरो मद्याजी मत्परायणः |
प्राप्नोति परमं धाम तद्विष्णोः परमं पदम् || २७-४८ ||
इति ते कथिता शक्र तारिकायाः परा स्थितिः |
विद्यानामपि चान्यासां किं भूयः श्रोतुमिच्छसि || २७-४९ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे सदाचारप्रकाशो नाम सप्तविंशोध्यायः ||
Kapitel 28
Deutsche Übersetzung: Kapitel 28 · Sanskrit IAST: Kapitel 28
शक्रः -
नमस्ते कमलावासे नमस्त्रययन्तवासिनि |
त्वत्प्रसादेन विधिवच्छ्रुतो मन्त्रः समाधिना || २८-१ ||
प्रतिपतीश्च सकला स्वरूपं च यथास्थितम् |
आहोरात्रिकमाचारमिदानीं वक्तुमर्हसि || २८-२ ||
श्रीः -
एको नारायणः श्रीमाननादिः पुष्करेक्षणः |
ज्ञानैश्वर्यमहाशक्तिवीर्यतेजोमहोधधिः || २८-३ ||
आत्मा स सर्वभूतानां हंसो नारायणो वशी |
तस्य सामर्थ्यरूपाहमेका तद्धर्मधर्मिणी || २८-४ ||
साहं सृष्ट्यादिकान् भावान् विदधानाः पुनः पुनः |
आराधिता सती सर्वांस्तारयामि भवार्णवात् || २८-५ ||
ददामि विविधान् भोगान् धर्मेण परितोषिता |
सद्धर्मपरसंस्थाना मम सत्त्वादिका तनुः || २८-६ ||
आचाररूपो धर्मोऽसावाचारस्तस्य लक्षणम् |
तमाचारं प्रवक्ष्यामि यः सद्भिरनुपाल्यते || २८-७ ||
हित्वा योगमयीं निद्रामुत्थायापररात्रतः |
प्रपद्येत हृषीकेशं शरण्यं श्रीपतिं हरिम् || २८-८ ||
प्रपत्तेश्च स्वरूपं ते पूर्वमुक्तं सुरेश्वर |
भूयश्च शृणु वक्ष्यामि सा यथा स्यात् स्थिरा त्वयि || २८-९ ||
आचम्य प्रयतो भूत्वा स्मृत्वास्त्रं ज्वलनाकृति |
तत् प्रविश्य विनिष्क्रान्तः पूतो भूत्वास्त्रतेजसा || २८-१० ||
प्रपत्तिं तां प्रयुञ्जीत स्वाङ्गैः पञ्चभिरन्विताम् |
प्रातिकूल्यं परित्यक्तमानुकूल्यं च संश्रितम् || २८-११ ||
मया सर्वेषु भूतेषु यथाशक्ति यथामति |
अलसस्याल्पशक्तेश्च यथावच्चाविजानतः || २८-१२ ||
उपायाः क्रियमाणास्ते नैव स्युस्तारका मम |
अतोऽहं कृपणो दीनो निर्लेपश्चाप्यकिंचनः || २८-१३ ||
लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया |
रक्षकः सर्वसिद्धान्ते वेदान्तेऽपि च गीयते || २८-१४ ||
यन्मेऽस्ति दुस्त्यजं किंचित् पुत्रदारक्रियादिकम् |
समस्तमात्मना न्यस्तं श्रीपते तव पादयोः || २८-१५ ||
शरणं भव देवेश नाथ लक्ष्मीपते मम |
सकृदेवं प्रपन्नस्य कृत्यं नैवान्यदिष्यते || २८-१६ ||
उपायापायमुक्तस्य वर्तमानस्य मध्यतः |
नरस्य बुद्धिदौर्बल्यादुपायान्तरमिष्यते || २८-१७ ||
अतः परं सदाचारं प्रोच्यमानं निबोध मे |
आशंसानः समुत्तिष्ठेत् सर्वभूतसुखोदयम् || २८-१८ ||
भवन्तु सर्वभूतानि सात्त्विके विमले पथि |
भजन्तां श्रीपतिं शश्वद्विशन्तु परमं पदम् || २८-१९ ||
इत्याशास्य प्रियं सम्यग्भूतेभ्यो मनसा गिरा |
शरीरशोधनं कृत्वा धर्मशास्त्रविधानतः || २८-२० ||
शौचं च विधिवत् कृत्वा भक्षयेद्दन्तधावनम् |
अथाचम्य विधानेन पवित्रैः शास्त्रचोदितैः || २८-२१ ||
प्लावयित्वाभ्युपासीत संध्यां त्रैलोक्यपावनीम् |
मन्मयी त्रिविधा शक्तिः सूर्यसोमाग्निरूपिणी || २८-२२ ||
शुद्धये सर्वभूतानां संध्या देवी प्रवर्तते |
उपस्थाय विवस्वन्तमन्तःस्थं पुरुषोत्तमम् || २८-२३ ||
कुर्यादग्निविधिं सम्यगुपादानमथाचरेत् |
सति वित्ते न कुर्वीतोपादानं तु विचक्षणः || २८-२४ ||
सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः |
प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च || २८-२५ ||
स्नानं कृत्वा विधानेन त्रिविधं शास्त्रचोदितम् |
भूतशुद्धिं विधायाथ यागमान्तरमाचरेत् || २८-२६ ||
स्वयमुत्पादितैः स्फीतैर्लब्धैः शिष्यादितस्तथा |
भोगैर्यजेत मां विष्णुमुभौ वा शास्त्रपूर्वकम् || २८-२७ ||
अष्टाङ्गेन विधानेन ह्यनुयागावसानकैः |
स्वाध्यायमाचरेत् सम्यगपराह्णे विचक्षणः || २८-२८ ||
दिव्यशास्त्राण्यधीयीत निगमांश्चैव वैदिकान् |
सर्वाननुचरेत् सम्यक् सिद्धान्तानात्मसिद्धये || २८-२९ ||
अलोलुपेन चित्तेन रागद्वेषविवर्जितः |
न निन्देन्मनसा वाचा शास्त्राण्युच्चावचान्यपि || २८-३० ||
तावन्मात्रार्थमादद्याद् यावता ह्यर्थ आत्मनः |
भूतानां श्रेयसे सर्वे सर्वशास्त्राणि तन्वते || २८-३१ ||
तां तामवस्थां संप्राप्य तानि श्रेयो वितन्वते |
आदौ मध्ये च सर्वेषां शास्त्राणामन्तिमे तथा || २८-३२ ||
श्रीमान्नारायणः प्रोक्तो विधयैव तया तया |
अहं नारायणस्थापि सर्वज्ञा सर्वदर्शिनी || २८-३३ ||
निदानज्ञा भिषक्कल्पा तत्तद्गुर्वादिरूपिणी |
प्रवर्तयामि शास्त्राणि तानि तानि तथा तथा || २८-३४ ||
अधिकारानुरूपेण प्रमाणानि तथा तथा |
अत्यन्तहेयं न क्वापि शास्त्रं किंचन विद्यते || २८-३५ ||
सर्वत्र सुलभं श्रेयः स्वल्पं वा यदि वा बहु |
ततः कार्यो न विद्वेषो यावदर्थमुपाश्रयेत् || २८-३६ ||
समयं न विशेत्तत्र नैव दीक्षां कदाचन |
ततः संध्यामुपासीत पश्चिमां सार्धभास्कराम् || २८-३७ ||
विधायाग्न्यर्थकार्यं तु योगं युञ्जीत वै ततः |
सुविविक्ते शुचौ देशे निःशलाके मनोरमे || २८-३८ ||
मृद्वास्तरणसंकीर्णे चेलाजिनकुशोत्तरे |
अन्तर्बहिश्च संशुद्धे यमादिपरिशोधितः || २८-३९ ||
आसनं चक्रमास्थाय पद्मं स्वस्तिकमेव वा |
यत्र वा रमते बुद्धिर्नाडीमार्गान् निपीडयन् || २८-४० ||
विजित्य पवनग्रामं प्रत्याहारजितेन्द्रियः |
धारणासु श्रमं कृत्वा मां ध्यायेत् सुसमाहितः || २८-४१ ||
अनौपम्यामनिर्देश्यामविकल्पां निरञ्जनाम् |
सर्वत्र सुलभां लक्ष्मीं सर्वप्रत्ययतां गताम् || २८-४२ ||
साकारामथवा योगी वराभयकरां पराम् |
पद्मगर्भोपमां पद्मां पद्महस्तां सुलक्षणाम् || २८-४३ ||
यद्वा नारायणाङ्कस्थां सामरस्यमुपागताम् |
चिदानन्दमयीं देवीं तादृशं च श्रियः पतिम् || २८-४४ ||
बहुधा योगमार्गास्ते वेदितव्याः सुरेश्वर |
तेष्वेकं धर्ममास्थाय भक्तिः श्रद्धा च यत्र ते || २८-४५ ||
सम्यङ् निध्यानमुत्पाद्य समाधिं समुपाश्रयेत् |
ध्याता ध्यानं तथा ध्येयं त्रयं यत्र विलीयते || २८-४६ ||
एकैवाहं तदा भासे पूर्णाहंता सनातनी |
ऐकध्यमनुसंप्राप्ते मयि संविन्महोदधौ || २८-४७ ||
नान्यत् प्रकाशते किंचिदहमेव तदा परा |
योगाच्छ्रान्तो जपं कुर्यात्तच्छ्रान्तो योगमाचरेत् || २८-४८ ||
तस्य क्षिप्रं प्रसीदामि जपयोगाभियोगिनः |
नीत्वैवं प्रथमं यामं जपयोगादिना सुधीः || २८-४९ ||
योगस्थ एव तद्धिरस्ततो यामद्वयं स्वपेत् |
उत्थायापररात्रे तु पूर्वोक्तमनुसंचरेत् || २८-५० ||
इति व्यामिश्रकृत्यं तत् प्रोक्तं ते बलसूदन |
अच्छिद्रान् पञ्चकालांस्तु भगवत्कर्मणा नयेत् || २८-५१ ||
दीक्षितः पञ्चकालज्ञो लक्ष्मीमन्त्रपरायणः |
अन्तरं नानयोः किंचिन्निष्ठायां बलसूदन || २८-५२ ||
उभावेतौ मतौ भक्तौ विशतो मां तनुक्षये |
चक्रपद्मधरो नित्यं भवेल्लक्ष्मीपरायणः || २८-५३ ||
स्वदारनिरतश्च स्याद् ब्रह्मचारी सदा भवेत् |
मन्मन्त्रमभ्यसेन्नित्यं मच्चित्तो मत्परायणः || २८-५४ ||
सर्वानुच्चावचाञ्छब्दांस्तद्भावेन विभावयेत् |
अग्निषोमविभागज्ञः क्रियाभूतिविभागवित् || २८-५५ ||
स्थूलसूक्ष्मपरत्वानां वेदिता च यथार्थतः |
अङ्गोपाङ्गादितन्त्रज्ञो मुद्राभेदविधानवित् || २८-५६ ||
अन्तर्यागबहिर्यागजपहोमविचक्षणः |
पुरश्चरणभेदज्ञः सिद्धिसाधनतत्त्ववित् || २८-५७ ||
संज्ञामूर्तिविधानज्ञस्तत्साधनविधानवित् |
शरीराधारतत्त्वज्ञो योगतत्त्वविचक्षणः || २८-५८ ||
एवं प्रकारः शास्त्रार्थवेदी धीरो विचक्षणः |
अहिंस्रो दमदानस्थो मां भजेत श्रियं नरः || २८-५९ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे सदाचारप्रकाशो नामाष्टाविंशोऽध्यायः ||
इत्यष्टाविंशोऽध्यायः
Kapitel 29
Deutsche Übersetzung: Kapitel 29 · Sanskrit IAST: Kapitel 29
शक्रः -
शुद्धाशुद्धषडध्वाख्यचित्रनिर्माणभित्तये |
नमः श्रीवत्सभामिन्यै भवसंतापशान्तये || २९-१ ||
अग्नीषोमविभागं मे क्रियाभूतिविधामपि |
ब्रूहि मे तत्त्वतः पद्मे विद्यायास्तारिकाकृतेः || २९-२ ||
श्रीः -
व्यापकं यत् परं ब्रह्म शक्तिर्नारायणी हि या |
सा ह्यहं परिणामेन भवामि प्रणवाकृतिः || २९-३ ||
अग्नीषोमविभागं मे तारिकाया निशामय |
क्रियाभूतिविधानं च यथावत् सुरनन्दन || २९-४ ||
उन्मेषः परमो विष्णोराद्यः षाड्गुण्यचिन्मयः |
साहं संभृतसंभारा शक्तिस्ते कथिता पुरा || २९-५ ||
सृष्टवत्या जगत् कृत्स्नं तस्या मे रक्षणोद्यमे |
द्विधा प्रवर्तते रूपं मुखेनैश्वर्यतेजसोः || २९-६ ||
षाड्गुण्यमेव मे रूपं किंचित्तेजोमुखं मतम् |
षाड्गुण्यमेव मे रूपं परमैश्वर्यसंमुखम् || २९-७ ||
तेजोमुखं तु यद्रूपं सा क्रियाशक्तिरुच्यते |
सैवाग्निरुच्यते शक्तिः सर्वोपप्लवदाहनात् || २९-८ ||
ऐश्वर्यसंमुखं रूपं भूतिर्लक्ष्मीरितीरिता |
शक्तिरैश्वर्यभूयिष्ठा सा मे सोममयी तनुः || २९-९ ||
शोषणात् सर्वदोषाणामग्निशक्तिः क्रियामयी |
जगदाप्याययन्त्यन्या भूतिः सोम इहोच्यते || २९-१० ||
इच्छाज्ञानक्रियामययास्ते इमे व्यूहजे मम |
षाड्गुण्यविग्रहा साहं व्यूहिनी परमेश्वरी || २९-११ ||
या सा शक्तिः क्रियाख्या मे षाड्गुण्यं तेजसोज्ज्वलम् |
तस्या आसंस्त्रयो व्यूहाः सूर्यसोमाग्निशक्तयः || २९-१२ ||
तासामाद्या परा दिव्या सूर्याख्या शक्तिरुज्ज्वला |
निर्वहन्ती जगत्कृत्यमनिशं परिवर्तते || २९-१३ ||
अध्यात्ममधिदैवं च तथा चैवाधिभौतिकम् |
तस्या रूपत्रयं विद्धि सूर्याख्यायाः सुरेश्वर || २९-१४ ||
अध्यात्मस्था तु सूर्याख्या पिङ्गलामार्गगामिनी |
आलोकेनाधिभूतस्था सूर्यशक्तिः प्रवर्तते || २९-१५ ||
सूर्यमण्डलसंस्थाना शक्तिः सान्याधिदैविकी |
सूर्यमण्डलसंस्थाना अर्चिषो याः प्रकीर्तिताः || २९-१६ ||
ऋचस्ता विद्धि देवेश तपन्तीस्तपनात्मिकाः |
दीप्तयो यास्तदन्तःस्थास्तानि सामानि विद्धि मे || २९-१७ ||
अन्तःस्था या परा शक्तिः पौरुषीं तनुमास्थिता |
तां विद्धि पुरुषं दिव्यं रमणीयं यजुर्मयम् || २९-१८ ||
शङ्खचक्रधरं श्रीशं पीनोदारचतुर्भुजम् |
प्रसन्नवदनं पद्मविष्टरं पुष्करेक्षणम् || २९-१९ ||
मूर्धान्तःपुरुषस्यास्य दशहोता निगद्यते |
पादपाणि चतुर्होता देवस्यास्य सुरेश्वर || २९-२० ||
लोममांसास्थिमज्जासृक् पञ्चहोता सुरेश्वर |
स्तनावण्डौ च पुंस्त्वं च षड्ढोतापान एव च || २९-२१ ||
शीर्षण्याः सप्त ये प्राणाः सप्तहोता निगद्यते |
शोभास्तु दक्षिणास्तस्य संभाराः संधयः स्मृताः || २९-२२ ||
नाडयो देवपत्न्योऽस्य होतॄणां हृदयं मनः |
चेतनः पौरुषं सूक्तं शक्तिः श्रीसूक्तमुच्यते || २९-२३ ||
ओंकारः प्रणवस्तारो गुह्यं नाम सनातनम् |
यजूंषि रुद्रशुक्राणि स्थूलनामानि तस्य तु || २९-२४ ||
यजुर्मयमनुं दिव्यमभ्यस्यन् पुरुषं नरः |
अनुव्याहृत्यभीचारपापेभ्योऽपि प्रमुच्यते || २९-२५ ||
तपत्येवं परा शक्तिस्त्रयी सूर्याख्ययाम्बरे |
त्रिविधैषा परा शक्तिः प्रख्याता सूर्यसंज्ञया || २९-२६ ||
सावित्री नाम वेदानां जननी परिवर्तते |
त्रिवर्णप्रणवाधारा भुर्भुवःस्वस्त्रिनाडिका || २९-२७ ||
तदादिवर्णपवना शिरःकल्पितशेखरा |
क्षित्यादिपुरुषान्तार्णा प्रकाशानन्दविग्रहा || २९-२८ ||
उदिता ब्रह्मणो भूयो ब्रह्मणि प्रतितिष्ठति |
वेदानां जननी सैषा वर्णानां जननी परा || २९-२९ ||
अनुलोमविलोमाभ्यां सौम्याग्नेयी निगद्यते |
सैषा सूर्यवपुर्दिव्या सावित्री मन्मयी कला || २९-३० ||
गायत्री नाम गायन्तं त्रायते महतो भयात् |
आदाय जीवनं गोभिर्भूसरित्प्राणिसंभवम् || २९-३१ ||
पुनर्मुञ्चति मेघेषु नवमासधृतं करैः |
उक्ता सूर्यमयी शक्तिः शृणु वह्निमयीं पराम् || २९-३२ ||
एषापि त्रिविधा शक्र शक्तिर्वह्निमयी मम |
दिव्येकाबिन्धना ह्यन्या क्षितौ क्षितिमयेन्धना || २९-३३ ||
तथा भुक्तेन्धना कोष्ठे शक्तिर्वह्निमयी त्रिधा |
सर्वदेवमयी सैषा देवानां मुखमुच्यते || २९-३४ ||
त्रिवर्गस्थैः स्तुता सैषा त्रिष्टुबित्युच्यते बुधैः |
दुर्गाणि तारयन्त्यात्मपारायणपरं नरम् || २९-३५ ||
शक्तिः सोममयी त्वन्या सापि त्रेधा निगद्यते |
दिवि बिम्बात्मना त्वेका तथान्यौषधिरुपिणी || २९-३६ ||
चरति प्राणिनामन्तरिडयैकामृतात्मिका |
अनुष्टुब्भिः स्तूयमाना सैषानुष्टुबुदीरिता || २९-३७ ||
मृत्युंजय इति प्रोक्ता सा विद्या मृत्युनाशिनी |
सूर्यसोमाग्निरूपाणां तासामासां पुरंदर || २९-३८ ||
हविष्कृदुदिता सूर्यात् सोमरूपा हविर्मयी |
हविरत्ति तथाग्न्याख्या वह्निविप्रमुखात्मना || २९-३९ ||
तिसृभिर्वर्तते कृत्स्नं लोकतन्त्रमहर्निशम् |
इति व्यूहत्रयोपेता व्यूहिनी सा क्रियात्मिका || २९-४० ||
शक्तिः परमगम्भीरा मम तेजोमुखोद्गता |
सूर्येन्दुवह्निकोट्योघनियुतार्बुदभस्वरा || २९-४१ ||
चक्रं सुदर्शनं नाम सा भवत्यरिदारणम् |
अस्त्रं परमतेजिष्ठमाग्नेयं नाम वैष्णवम् || २९-४२ ||
परोद्यमस्वरूपं तत् प्राणादिप्राणनं परम् |
उद्यन्ति सर्वाण्यस्त्राणि तस्मात् सर्वाश्च शक्तयः || २९-४३ ||
करणं साधकतमं पञ्चकृत्यविधौ हरेः |
न तत् कृत्यं विना तेन यत् स्याद् विष्णोर्महात्मनः || २९-४४ ||
संकल्पादिस्वरूपेयं सृष्टौ विष्णोः प्रवर्तते |
रक्षणे संहृतौ चैव धत्ते चक्रमयीं तनुम् || २९-४५ ||
ममांशजा पराग्नेयी क्रियाशक्तिर्हि वैष्णवी |
आब्रह्मस्तम्बपर्यनं षोढा विष्टभ्य तिष्ठति || २९-४६ ||
तत्र वर्णमयं चक्रं प्रथमं शृणु वासव |
तारिकातारकद्वन्द्वमक्षगं पारमेश्वरम् || २९-४७ ||
नाभौ सूर्येन्दुभारूपं श्रितं स्वारं द्विरष्टकम् |
कादिभान्तं त्रिरष्टारं मादिहान्तं तु नेमिगम् || २९-४८ ||
प्रधिः पर्यन्तवह्न्यात्मा वर्गान्तः पिण्डसंनिभः |
वर्णचक्रमिदं दिव्यं वर्तते वर्णवर्त्मना || २९-४९ ||
कलाचक्रमिदं शक्र ज्ञानाक्षं शक्तिनाभिकम् |
ऐश्वर्यारं बलाद्येन नेम्याद्यं त्रिगुणेन तु || २९-५० ||
तत्त्वं तु वासुदेवाक्षं नाभिः संकर्षणोज्ज्वलः |
प्रद्युम्नारं तथा शक्र प्रधिरूपानिरुद्धकम् || २९-५१ ||
अक्षनाभ्यरनेमिस्थैस्तुर्याद्यैः पदचक्रकम् |
मन्त्रमक्षादिकैर्बीजपिण्डसंज्ञापदात्मभिः || २९-५२ ||
कालाक्षं नाभिगाव्यक्तं महदाद्यरपञ्जरम् |
मनःश्रोत्रतदर्थादिविकारपरिमण्डलम् || २९-५३ ||
लोकलौकिकपर्यन्तं भुवनं चक्रमन्तिमम् |
षट्चक्रं दधती हस्तैः पौरुषीं तनुमास्थिता || २९-५४ ||
सुदर्शनः क्रियाशक्तिर्वैष्णवी चक्रमध्यगा |
बीजं पिण्डं पदं संज्ञा अस्याः शृणु चतुष्टयम् || २९-५५ ||
सोमं प्रथममादाय प्राणमन्ते नियोजयेत् |
ततोऽमृतमुपादाय योजयेत् कालपावकम् || २९-५६ ||
तत्संस्थमनलं कुर्यान्मायां व्यापिनमन्ततः |
एतत् सौदर्शनं बीजं मत्क्रियाशक्तिजृम्भितम् || २९-५७ ||
सप्तवर्णात्मकं दिव्यमिदं बीजं महर्द्धिदम् |
एतदेव महत् पिण्डं मायाव्यापिसमुज्झितम् || २९-५८ ||
कालाग्न्यर्कायुताकारमेतद्वज्राम्बुदध्वनि |
पञ्चवर्णं महापिण्डं दुर्धरं देवदानवैः || २९-५९ ||
शुचिना तु सकृत् स्मर्यमजितेन्द्रियदुःस्मरम् |
स्मृत्वा तु शान्तये स्मर्ये बीजे मे तारिकादिके || २९-६० ||
योऽसौ पिण्डोर्ध्वभागस्थो वर्णः कालानलाभिधः |
दह्यन्ते तेन दैत्येन्द्रा लोकाश्चैव युगक्षये || २९-६१ ||
द्वितीयशक्तिसंस्थेन त्वग्निनाग्निः समिध्यते |
शक्तिं प्राणयति प्राणः पूरितोऽमृततेजसा || २९-६२ ||
इति पिण्डस्वरूपं ते कथितं सुरपुंगव |
व्यापकैः पञ्चभिः पिण्डं कल्पितं त्वन्तरान्तरा || २९-६३ ||
वर्मास्त्रान्तं ध्रुवाद्यं च संज्ञामन्त्रत्वमृच्छति |
व्यापकौ योजयेदन्ते पिण्डाद्योः सोमसूर्ययोः || २९-६४ ||
अन्ते सोमाग्निकूटस्य ह्येकं व्यापकमानयेत् |
आद्यन्तयोस्तथान्त्यस्य वर्णस्य व्यापकौ स्मृतौ || २९-६५ ||
वर्म प्राणोर्जयोर्व्योम दुष्टोपद्रवमर्दनम् |
यः संकर्षणस्तु संहारः कल्पान्तेऽखिलगोचरः || २९-६६ ||
स फट्कारस्तदन्ते चाप्याह्लादः शान्तिकारकः |
इति पिण्डविकर्षात्मा सौम्याग्नेयो मनुः स्मृतः || २९-६७ ||
स्ववर्णैरङ्गवानेष बली सौदर्शनो मनुः |
दिव्यान्तरिक्षभौमानां भोगानामाप्तिसाधनम् || २९-६८ ||
कल्पद्रुमो मनुः सोऽयमाश्रितानां पुरंदर |
नारायणात् समुद्यत्या मम नित्यं जगद्धिते || २९-६९ ||
अग्नीषोमविभागस्ते कथितो वृत्रसूदन |
क्रियाभूतिविभेदश्च क्रियाशक्तिभिदापि च || २९-७० ||
क्रियाशक्तिप्रभावश्च बीजपिण्डादिभेदतः |
भूयः शक्र क्रियाशक्ते ऋद्धिमेतावतीं शृणु || २९-७१ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे अग्नीषोमविभागप्रकाशो नामैकोनत्रिंशोऽध्यायः ||
Kapitel 30
Deutsche Übersetzung: Kapitel 30 · Sanskrit IAST: Kapitel 30
श्रीः -
एषा ते कथिता शक्र मया शक्तिः क्रियात्मिका |
तस्या व्याप्तिमवोचं ते सूर्यसोमाग्निभेदिताम् || ३०-१ ||
व्यूहिनीमप्यवोचं ते बीजपिण्डाभिधानतः |
पदमन्त्रस्वरूपं च तस्याः शक्र निबोध मे || ३०-२ ||
अजितानलसर्गाणां संयोगः पिण्ड आदिमः |
कमलानलसर्गाणां योगः पिण्डो द्वितीयकः || ३०-३ ||
श्वेताद्याह्लादिसंयोगस्तृतीयः पिण्ड उच्यते |
सूर्योर्जव्यापिनां पिण्डश्चतुर्थस्तेन मध्यतः || ३०-४ ||
त्रीण्यस्त्राणि ततः कालचक्राय हुतभुक्प्रिया |
तारकेणान्वितश्चादौ चक्रोऽयं पदमन्त्रराट् || ३०-५ ||
नैव किंचिदसाध्यं हि मन्त्रेणानेन वासव |
अभियुक्तमना अस्मिन्न गच्छति पराभवम् || ३०-६ || ३०-६ ||
यस्तु ते कथितः पूर्वं त्रियुगार्णो मनूत्तमः |
प्रभावमखिलं तस्य भूयो व्याख्यामि वासव || ३०-७ ||
अनामरूपवच्चक्रं षाड्गुण्यमहिमोज्ज्वलम् |
ध्यायन् सबीजमावर्त्य मन्त्रं बन्धात् प्रमुच्यते || ३०-८ ||
क्रियाशक्तेर्मदीयायास्तनुः साक्षान्महामनुः |
षडर्णोऽथर्ववेदान्तसंस्थितश्चक्रबृंहितः || ३०-९ ||
षडध्वमयमोजस्वि चक्रं सौदर्शनं परम् |
भावयेदक्षनाभ्यादिविभक्तावयवोज्ज्वलम् || ३०-१० ||
अमृतादीन् मनोरर्णानक्षाद्यङ्गेषु चिन्तयेत् |
अक्षे नाभौ तथारेषु नेमौ प्रधितदन्तयोः || ३०-११ ||
प्रकृत्यादिविशेषान्तैस्तत्त्वैः संग्रथितः प्रधिः |
माया प्रसूतिस्त्रैगुण्यमपि नेमिः सुदर्शने || ३०-१२ ||
पदाध्वरचितारान्ता मन्त्रा अरसहस्रकम् |
अरान्तो व्यूहमार्गस्थो नाभिस्तत्र कलामयी || ३०-१३ ||
वर्णाध्वा ह्यक्षपर्यन्तो मध्ये शक्तिरहं परा |
मदन्तः परमं ब्रह्म ग्राह्यग्राहकतोज्झितम् || ३०-१४ ||
मध्ये तु चिन्तयेत् तारं तारिकां तद्बहिः स्मरेत् |
तद्बहिश्च क्रियाबीजं तद्बहिश्चादिमाक्षरम् || ३०-१५ ||
इत्यक्षकुहरे ज्ञेयं क्रमाद्बीजचतुष्टयम् |
नाभ्यरादौ तु सूर्यादीनिति पूर्वोक्तया दिशा || ३०-१६ ||
ह्रस्राकारस्वरूपो यः स सहस्रविधान्वयी |
सूर्यकालानलद्वन्द्वैरप्रमेयादिभेदितैः || ३०-१७ ||
अमृतानलयुग्मैश्च तावद्भिस्तादृशैरपि |
संहत्य भेदयेत् कादीनग्नीषोममयैः स्वरैः || ३०-१८ ||
सूर्यसोमानिलान् हित्वा त्रिंशतं चैकमेव च |
अष्टन्यूनसहस्रं तदक्षराणि स्युरञ्जसा || ३०-१९ ||
बीजाष्टकं तु तारादि ह्रस्रयुक्तं भवेदथ |
ईशाद्यनुप्रदेशस्थं वह्नेर्वायुपदावधि || ३०-२० ||
दत्त्वा सूत्रयुगं चारीं चतुर्धा विभजेद्भुवम् |
पञ्च पञ्चाशतं कुर्यादराणां प्रतिभूमिकम् || ३०-२१ ||
सहस्रं तान्यराणि स्युस्तेषु वर्णसहस्रकम् |
न्यसेत् प्रागादि सोमान्तं कोणसूत्रेषु वै ततः || ३०-२२ ||
न्यसेन्मन्त्राध्ववर्तिन्यश्चतस्रोऽग्निगुणाः क्रमात् |
जया च विजया चैव अजिता चापराजिता || ३०-२३ ||
अग्न्यादीशानपर्यन्तसूत्रस्था मन्त्रदेवताः |
अराणि पूरयन्ती सा नेमिः सौदर्शनी स्थिता || ३०-२४ ||
अरनेम्यन्तरस्थानि सर्वास्त्राणि च वासव |
प्रवर्तकानि पुरतः सर्वास्त्राणि पुरंदर || ३०-२५ ||
निवर्तकानि पुरतः शिरोभिः शस्त्रचिह्नितैः |
कृताञ्जलीनि दृप्तानि ध्यायेदुभयतः समम् || ३०-२६ ||
नेमिक्षेत्रे महालक्ष्मीः पूर्वस्यां दिशि संस्थिता |
दक्षिणस्यां महामाया पश्चिमायां सरस्वती || ३०-२७ ||
सौम्यायां दिशि विज्ञेया महिषासुरनाशनी |
तद्बहिः परितो देवा ब्रह्माद्यास्तु त्रिमूर्तयः || ३०-२८ ||
तुर्यादिशक्तिसंयुक्ता अवतारास्ततः परम् |
प्रकृत्यादिविशेषान्तं चतुर्विंशतिसंमितम् || ३०-२९ ||
प्रधिपूर्वे स्थितं भागे तत्त्वजातमनुक्रमात् |
भवोपकरणा देवा मध्यमे परिनिष्ठिताः || ३०-३० ||
पृथक् चरमभागस्था भौवना भुवनैः सह |
ब्रह्माण्डोदरसंरूढा भूर्भुवःसुवरादिकाः || ३०-३१ ||
मेर्वादयोऽखिलाः शैला गङ्गाद्याः सरितस्तथा |
क्षीराब्ध्याद्याः समुद्राश्च द्वीपा जम्ब्वादिसंज्ञिताः || ३०-३२ ||
वैमानिकगणाः सर्वे ग्रहाः सूर्यादयस्तथा |
नक्षत्रतारकाताराभूतप्रेतादयस्तथा || ३०-३३ ||
तिस्रस्त्रिंशच्च याः कोट्यस्त्रिदशानां पुरंदर |
समाश्रिताः प्रधिं तास्तु सरघा इव सारघम् || ३०-३४ ||
अयुते द्वे सुरेशान ह्युभयोः प्रधिपार्श्वयोः |
अग्नयः परिवर्तन्ते प्रवर्तकनिवर्तकाः || ३०-३५ ||
कालानलसहस्राभाः स्फूर्जज्ज्वालाकुलाकुलाः |
प्रवर्तकानलास्तत्र दैत्यदानवदाहिनः || ३०-३६ ||
धीराः प्रशान्तगम्भीराः प्रसन्नास्तिग्मतेजसः |
निवर्तका ममेच्छातः शमयन्ति प्रवर्तकान् || ३०-३७ ||
सुदर्शनमनोरन्ते यत्तत् संकर्षणोद्भवम् |
लाङ्गलास्त्रं महाघोरं सर्वसंहारकारकम् || ३०-३८ ||
तिर्यक् स्थितस्य नेम्यन्ते तस्य पूर्वार्धसंभवाः |
प्रवर्तकास्तदूर्ध्वांशसंभवास्तु निवर्तकाः || ३०-३९ ||
अग्नीषोममया एते प्रवर्तकनिवर्तकाः |
अग्नीषोममयास्त्रोत्था तदुत्था चास्त्रसंततिः || ३०-४० ||
द्वेऽयुते शृणु मूर्तीस्त्वं वह्नीनां विविधात्मनाम् |
याः स्मृत्वा पुरुषो घोरमापदर्णवमुत्तरेत् || ३०-४१ ||
अशेषभुवनाधारश्चतुर्गत्यूर्जबिन्दुमान् |
पिण्डोऽयं तारकः पूर्वंवह्नीनां वपुरुच्यते || ३०-४२ ||
अमृताधारवह्न्यूर्जबिन्दुमांस्तारपूर्वकः |
पिण्डो निवर्तकादीनां दिव्या तनुरुदीर्यते || ३०-४३ ||
प्रधिं कालपुमव्यक्तव्यक्तसप्तकरूपतः |
विभज्य दशधा तत्तद्रूपवर्णपुरोगमैः || ३०-४४ ||
प्राग्भागादिक्रमेणैव स्वरपूर्वैः स्वरान्तिमैः |
सूर्यानलयुगैः काद्यैरष्टाभिर्बीजनायकैः || ३०-४५ ||
युक्तास्तारनमोऽन्तास्ताः प्रवर्तकतनूर्लिखेत् |
अमृताग्नियुगैरेव निवर्तकतनूस्तथा || ३०-४६ ||
एकैकाग्नेः शिखाः सप्तघोराः शान्ताश्च संस्मरेत् |
आदितः सप्त युग्माद्याः स्वरसंभेदिताः क्रमात् || ३०-४७ ||
सूर्याग्नियुगसंभूता अमृताग्नियुगोत्थिताः |
वर्गान्तश्च प्रधानश्च सिद्धिदो वामनस्तथा || ३०-४८ ||
श्वेतश्च तत्त्वधारश्च झषः शाश्वत एव च |
छान्दःपतिस्तथा चक्री कालाद्यर्णाः सबिन्दुकाः || ३०-४९ ||
नाभ्यरान्तस्थसूत्रस्थरूपाश्चत्वार ऐश्वराः |
अरेषु परितो देवाः केशवाद्या व्यवस्थिताः || ३०-५० ||
स्वैः स्वैश्चिह्नैः सरोजाद्यैर्ध्येया दामोदरान्तिमाः |
अरनेम्यन्तसूत्रस्थाः पद्मनाभादयोऽखिलाः || ३०-५१ ||
सर्वे समन्विता देवाः स्वाभिः स्वाभिश्च शक्तिभिः |
प्राग्भागे कमला देवी दक्षिणे कीर्तिरुज्ज्वला || ३०-५२ ||
जया तु पश्चिमे भागे माया भागे तथोत्तरे |
प्रत्येकं कोटिसंख्याभिः शक्तिभिः परिवारिताः || ३०-५३ ||
अधितिष्ठन्ति तेऽभीक्ष्णं सहस्रारं सुदर्शनम् |
कालचक्रमनाद्यन्तमस्य तेजः प्रकीर्तितम् || ३०-५४ ||
संवत्सरर्तुमासार्धमासाहोरात्रसंज्ञितैः |
अक्षनाभ्यरनेम्यन्तैः कॢप्तपञ्चविभक्तिकम् || ३०-५५ ||
ध्रियन्ते कालचक्रेण पुमाद्याः पञ्च पञ्च च |
सहस्रारेण चक्रेण नेम्यरप्रधिशोभिना || ३०-५६ ||
ध्रियन्ते च षडध्वानो वर्णतत्त्वकलादयः |
सर्वतत्त्वमयं देहं वैष्णवं पुरुषोत्तमम् || ३०-५७ ||
धार्यते भ्राम्यते चैव यन्त्रारूढमिदं परम् |
नाभिकन्दस्थितेनैव सहस्रारेण नेमिना || ३०-५८ ||
चक्रेणानेन हन्यन्ते रक्षोदैतेयदानवाः |
नानामन्त्रात्मना तेन तदन्तः सुस्थितेन च || ३०-५९ ||
विध्वंसयति शत्रूंश्च स्मृतमात्रमनन्तरम् |
अभ्यस्यमानमनिशं सहस्रारमिदं नरैः || ३०-६० ||
क्लेशकर्माशयान् दोषानशेषान् क्षपयेत् क्षणात् |
बीजं पिण्डं च संज्ञां च मूर्तिं चेति चतुष्टयम् || ३०-६१ ||
पुष्यत्येतत् सहस्रारं चक्रमाद्यन्तवर्जितम् |
सूर्येन्दुवह्निभिर्व्याप्य विश्वमेतच्चराचरम् || ३०-६२ ||
आग्नेयी प्रथमा मूर्तिः शक्तिर्दिव्या क्रियाह्वया |
सहस्रारस्वरूपेण सृजत्यवति हन्ति च || ३०-६३ ||
सूर्येन्दुवह्निभिर्व्यूहैर्व्यूह्येयं हि क्रियाभिधा |
उदिता ते सुरेशान भूयश्चैनां निबोध मे || ३०-६४ ||
इत्येवं कथितो व्यूहः सूर्यसोमाग्निरूपकः |
व्यूहिनीं तामिमामद्य क्रियाशक्तिं निबोध मे || ३०-६५ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे क्रियाशक्तिप्रकाशो नाम त्रिंशोऽध्यायः ||
Kapitel 31
Deutsche Übersetzung: Kapitel 31 · Sanskrit IAST: Kapitel 31
श्रीः -
या सा षाड्गुण्यतेजःस्था क्रियाशक्तिः प्रकाशिता |
आग्नेयं रूपमाश्रित्य सा धत्ते पौरुषं वपुः || ३१-१ ||
सर्वास्त्रशस्त्रसंस्यूतं सूर्यसोमाग्निमूलकम् |
महत् सुदर्शनं नाम नानारूपोपशोभितम् || ३१-२ ||
तस्य मध्ये स्थिता शक्तिः पौरुषीं तनुमास्थिता |
सौम्याग्नेयस्वरूपेण तत्तत्कालव्यवस्थया || ३१-३ ||
पुरस्ताद्दर्शितस्तस्या वाचकस्ते चतुर्विधः |
तत्र संज्ञामयो मन्त्रो भूयसा बलवत्तरः || ३१-४ ||
तस्य व्याख्यामिमां शक्र गदन्त्या मे निशामय |
या सा सोमात्मिका शक्तिरुन्मेषः प्रथमो हरेः || ३१-५ ||
मूलशक्तिरहं श्रीः सा प्रथमाक्षरसंस्थिता |
अमृता तृप्तिरूपा च सोमात्मा चाखिलेश्वरी || ३१-६ ||
अमृतीकरणं कुर्यात् सर्गस्येन्दुकलास्थिता |
शिरःपद्मादयो मन्त्राः परमेश्वरयुक्तया || ३१-७ ||
अनया सृतया कुर्यात्तृप्तिं संसिद्धिमेव च |
सृष्टिकृत्संयुता सेयं जीवशक्तिः सनातनी || ३१-८ ||
त्रैलोक्यैश्वर्यदोपेता वायुवेश्माक्षरस्थिता |
ताराकारा रिपोर्मूर्ध्नि चिन्त्योच्छेदनसिद्धये || ३१-९ ||
अप्रमेयोपगूढाया अग्नीषोममयीजुषः |
अस्याः शक्तेः समुद्भूतं सूक्तं पौरुषमुज्ज्वलम् || ३१-१० ||
एतदादीनि सूक्तानि सहस्रमृषयो विदुः |
नित्यमाप्यायते मन्त्रः सोऽयमग्निजुषा मया || ३१-११ ||
तत्तत्कार्यजुषा तत्तद्वर्णशक्तित्रयीजुषा |
अनया यन्न साध्येत न तदस्ति जगत्त्रये || ३१-१२ ||
सूते सा सकलाः शक्तीरनुजानाति ताः पुनः |
संहरन्ती पुनश्चैत इति च स्मर्यते ततः || ३१-१३ ||
स्वमुन्मेषमधिष्ठाय परमात्मा स शक्तिराट् |
उदितो जगतोऽर्थाय हेतिदेवः सनातनः || ३१-१४ ||
सूर्यश्च भोक्तृतां प्राप्य प्राणयन् प्राण इष्यते |
आत्मानं दर्शयत्येष त्रैलोक्यैश्वर्यदान्वितः || ३१-१५ ||
हृत्पुण्डरीकमध्यस्थं यं विचिन्वन्ति योगिनः |
यथावद् ध्यायतो वेध्यं मुक्तेषोर्वेगवत्तया || ३१-१६ ||
प्रकर्षेणोन्नयन् प्राणान् प्राण इत्येष शब्द्यते |
इन्दुमण्डलसंवीतो व्यापिमानप्रमेयवान् || ३१-१७ ||
जिह्वामूलस्थितो ध्यातो वाक्प्रवृत्तिं नियच्छति |
अंमण्डले स्थितो ध्यातः स एव हि सुधां स्रवन् || ३१-१८ ||
निर्विषीकरणं ध्यातः करोति जगतामपि |
रामोपगूढादस्माद्धि श्रियः सूक्तं समुद्गतम् || ३१-१९ ||
एतदादीनि सुक्तानि सहस्रमृषयो विदुः |
तत्तत्कालजुषा तत्तद्वर्णशक्तित्रयीजुषा || ३१-२० ||
अनेन यन्न साध्येत न तदस्ति जगत्त्रये |
हन्यते सकलं लोकं गमयत्यमलं पदम् || ३१-२१ ||
त्याजयत्यखिलं क्लेशं गम्यते योगचिन्तकैः |
हेत्येवं कथ्यते सद्भिरेवं निर्वचनस्थितैः || ३१-२२ ||
अशेषभुवनाधारा संकल्पप्रबलीकृता |
प्रत्यभिज्ञायते सैव शक्तिर्या परमात्मनः || ३१-२३ ||
सरत्यस्याश्चलं सर्वं स्रियते सकलैः सदा |
पृथिवी संस्थिता सेयं स्तम्भे सृत्या नियुज्यते || ३१-२४ ||
सहो नाम बलं तत्र रमते तत् सहस्रधा |
सहस्रति सहस्रा स्यादग्नीषोमात्मनो मम || ३१-२५ ||
अग्नीषोममयी सा मे शक्तिः सर्वक्रियाकरी |
सुसंकल्पसमिद्धा सा तेजसां राशिरूर्जिता || ३१-२६ ||
संप्राप्यैवानलं भावं कालपावकतां गता |
रेत्येवं केवली भूत्वा ज्वलत्यविरतोदया || ३१-२७ ||
परमेश्वरभूता सा परमाश्चर्यकारिणी |
र इत्येव महाशक्तिर्मदीयाद्या क्रियाह्वया || ३१-२८ ||
संख्यानन्त्यं सहस्रं स्यादरानन्त्यं तदुच्यते |
वर्मास्त्रयोः स्वरूपं च दर्शितं ते पुरंदर || ३१-२९ ||
ध्रुवश्च प्रणवोऽस्यादिः पूर्वमेव निरूपितः |
एवमेव महामन्त्रः शब्दब्रह्मोद्गतो रसः || ३१-३० ||
आथर्वणी महाशक्तिः क्रियाशक्तेः प्रिया तनुः |
त्रयीसारो ह्यथर्वाख्या पञ्चपर्वा महाश्रुतिः || ३१-३१ ||
मन्त्रेण सूयतेऽनेन सारेणेव वनस्पतिः |
अस्य त्वङ्गविधानज्ञाः षडङ्गानि प्रचक्षते || ३१-३२ ||
गायत्रीमपि चक्राख्यां प्राकारं चाग्निसंज्ञितम् |
गोपनाद्वरुणोत्सेधात् सोदयादमृतात्तथा || ३१-३३ ||
ऊर्ध्वं चक्राय च स्वाहा हृदादिस्तु शिखावधि |
सूर्यज्वालापदाच्चोर्ध्वं महायुक्तात् सुदर्शनात् || ३१-३४ ||
ऊर्ध्वं चक्राय च स्वाहा वर्माद्योऽस्त्रान्तको विधिः |
नमश्चक्राय तस्यान्ते विद्महेऽसौ चतुर्युगः || ३१-३५ ||
ज्वालाय च सहस्रान्ते धीमहीति नवार्णकः |
तन्नः प्रचोदयान्मध्ये चक्र इत्यष्टवर्णकः || ३१-३६ ||
मुष्टिं वितर्जनीं कृत्वा तर्जनीं तर्जसंस्थिताम् |
परितो भ्रामयेद्वह्निं ध्यायन् प्राकारसंस्थितम् || ३१-३७ ||
अन्योन्यसंमुखे पाणितले वै दक्षिणोत्तरे |
कनिष्ठाङ्गुष्ठयोरग्रे श्लिष्टे दीर्घास्तथापराः || ३१-३८ ||
परितो भ्रामयेदेवं चक्रमुद्रेयमीरिता |
अङ्गमुद्रास्तु वक्ष्यन्ते शक्तिग्रासमनुं शृणु || ३१-३९ ||
पवित्रमनलारूढं सव्यापि प्रणवात् परम् |
महासुदर्शनेत्येवं चक्रराजं महाध्वगम् || ३१-४० ||
ततोऽस्तगततेत्यस्मात् सर्वदुष्टभयंकर |
छिन्धि छिन्धीत्यतः पश्चाद्भिन्धि भिन्धि प्रकीर्तयेत् || ३१-४१ ||
विदारयद्वयं पश्चात् परमन्त्रान् ग्रस ग्रस |
द्विर्भक्षयेति भूतानि त्रासयेति द्विरुच्चरेत् || ३१-४२ ||
वर्मास्त्रवह्निजायाः स्युः शक्तिग्रसनकृन्मनुः |
स्वयं सुदर्शनो भूत्वा मन्त्रमुच्चारयन्निमम् || ३१-४३ ||
शक्तिं मुखहृदादिभ्यः परस्याचूषयेद्धिया |
षडक्षरस्य मन्त्रस्य शृणु ध्यानं पुरंदर || ३१-४४ ||
न्यस्ताङ्गश्चक्रमुद्राभिर्वह्निप्राकारमध्यगः |
सहस्रारमहाचक्रमयुताग्निचयोत्कटम् || ३१-४५ ||
षडध्वमयमुद्भ्रान्तं ध्यायेन्मच्छक्तिजृम्भितम् |
अक्षस्थं परमात्मानं नारायणमनामयम् || ३१-४६ ||
चक्ररूपिणमीशानं ध्यायेत् कुङ्कुमसंनिभम् |
पीताम्बरधरं दिव्यं मुक्तालंकारमण्डितम् || ३१-४७ ||
एनमष्टभुजं ध्यायेन्महाव्यसनसंप्लवे |
उद्यज्जानुमनेकास्त्रं स्थितं परमशोभनम् || ३१-४८ ||
चक्रं मुसलमुद्दाममङ्कुशं सरसीरुहम् |
याम्ये करचतुष्केऽथ वामे भुजचतुष्टये || ३१-४९ ||
शङ्खं बाणयुतं चापं पाशं गुर्वीं गदामपि |
दधानं दक्षिणं दिव्यं दंष्ट्राभास्वरिताननम् || ३१-५० ||
पिङ्गाक्षं पिङ्गकेशाढ्यं ज्वालामालापरिष्कृतम् |
अथ षोडशहस्तं च ध्यायेद्देवं सुदर्शनम् || ३१-५१ ||
परैः परिभवे प्राप्ते प्रतीकारविवर्जिते |
स्थितावनवकॢप्तायामपि निर्जित्य वैरिणः || ३१-५२ ||
भये महति संजाते चोरव्याघ्रद्विपादिभिः |
प्रत्यालीढस्थितं देवं वैरिवर्गदिगुन्मुखम् || ३१-५३ ||
प्रहारोद्योगिभिः पीनैर्भुजैरूर्ध्वैरलंकृतम् |
शक्त्या दीप्तेन खड्गेन वह्निना च शतार्चिषा || ३१-५४ ||
अङ्कुशेनाथ दण्डेन कुन्तेनाथ ज्वलत्त्विषा |
परश्वधेन चक्रेण दक्षिणाधःकरैः क्रमात् || ३१-५५ ||
शङ्खेन चापमुख्येन पाशेनाथ हलेन च |
कुलिशेन गदास्त्रेण मुसलेनाथ शूलतः || ३१-५६ ||
ऊर्ध्वादधः स्थितैर्वाभैः प्रदीप्तैरायुधैर्युतम् |
दंष्ट्रानिष्ठ्युतघोराग्निज्वालाकोलाहलाकुलम् || ३१-५७ ||
संस्यूततत्त्वयाकीर्णं दिव्यया वनमालया |
घोराट्टहाससंत्रासद्रवद्दैत्येन्द्रदानवम् || ३१-५८ ||
ज्वालाकुलज्वलद्दैत्यमेदोमेदुरपावके |
अयुतायुतवह्नीनामास्पदे दीप्ततेजसाम् || ३१-५९ ||
अध्वषट्कमये चक्रे चक्रिणं चक्रमुत्तमम् |
ध्यायेदेवंविधं देवं भये महति मानवः || ३१-६० ||
एवं ध्यात्वा पुनर्ध्यायेच्चतुर्बाहुं सुदर्शनम् |
अन्यथा नैव शान्तिः स्यादसि तेजस्तथा हरेः || ३१-६१ ||
घोरशान्तविभेदेन पौरुषं ध्यानमीरितम् |
इति ते सुरशार्दूल ध्यानमन्यच्च मे शृणु || ३१-६२ ||
प्रकाराः पौरुषा ये ये ध्यानेऽस्मिन् परिवर्णिताः |
तान् सर्वान् मन्मयानेव संस्मरेच्छीघ्रसिद्धये || ३१-६३ ||
अत्यद्भूतमिदं शक्र रहस्यं ते प्रकीर्तितम् |
भूयो रहस्यमन्यच्च शृणु मे सुरपुंगव || ३१-६४ ||
आग्नेयी या मदीया ते पुरा शक्तिः प्रकीर्तिता |
सूर्यकोट्यर्बुदाभासा वह्निकोट्यर्बुदोपमा || ३१-६५ ||
इन्दुकोट्यर्बुदाभासा मम स्पन्दमयी तनुः |
अमृतं परमात्मानमशेषभुवनाधृतिम् || ३१-६६ ||
आस्थाय पञ्चबिन्द्वात्मा स्पृशन्ती व्यापिनं परम् |
हिताय सर्वभूतानामुदेति परमेश्वरात् || ३१-६७ ||
तामक्षं कल्पयेच्छक्तिं तत्प्रभां नाभिमण्डलम् |
अराणि षण्मनोरर्णान् सूर्योद्दामौ सबिन्दुकौ || ३१-६८ ||
सुस्थितौ नेमिगौ ध्यायेच्छेषं तु प्रधिमण्डलम् |
आत्मानं मध्यतो ध्यायेत् स्वं मायापरमात्मनोः || ३१-६९ ||
सूर्यानलान्तरस्थं च निरस्यन् संस्मरेज्जनम् |
ध्यायन्ननिशमेवं हि योगी ध्यानपरायणः || ३१-७० ||
विधूय निखिलं दोषं सांसारिकमशेषतः |
मयि भक्तिं परां प्राप्य मामेवान्ते समश्नुते || ३१-७१ ||
अन्तरा परमात्मानममृतं च स्थितो जपन् |
मनीषी मनसा नित्यं पीयूषाप्यायनं स्मरेत् || ३१-७२ ||
सुधयाप्लाव्यमानो हि स्रुतया शक्तिकोटरात् |
प्राणेन प्राण्यमानश्च दग्धदोषोऽनलत्विषा || ३१-७३ ||
पञ्चबिन्दुक्रियालाभादैश्वर्यं परमास्थितः |
संतताभ्यासयोगेन वशी युक्तो जितेन्द्रियः || ३१-७४ ||
विहाय सकलं क्लेशं वेषमास्थाय मामकम् |
दृप्तो जातब्लओ योगी क्रियया सर्वतो वशी || ३१-७५ ||
ईश्वरः परमो भूत्वा सर्वव्याप्तिमयः स्थितः |
मामेव मामकं धाम मत्प्रसादादुपाश्नुते || ३१-७६ ||
या क्रिया सा चिदाख्याता या चित्तिः सा परा क्रिया |
एते सपरमानन्दास्त्रयस्ते परिकीर्तिताः || ३१-७७ ||
अखण्डैका परा शक्तिश्चित्क्रियानन्दरूपिणी |
वैष्णवी सा पराहंता साहं सर्वार्थपूरणी || ३१-७८ ||
स्वाच्छन्द्यान्मम संकल्पो द्विधैवं प्रविजृम्भते |
एका शक्तिः क्रियाह्वाना महाभूतिरथापरा || ३१-७९ ||
सामान्यतोऽनयोः शक्र स्थिताहं परमेश्वरी |
एषा ते सकला शक्तिः क्रियारूपा प्रदर्शिता || ३१-८० ||
स्थूलसूक्ष्मपरत्वेन तारिकाया निशामय |
निमीलितक्रियाकारा स्पष्टैश्वर्यस्वरूपिणी || ३१-८१ ||
तनुः षाड्गुण्यरूपा मे भूतिः सा तारिकाह्वया |
तस्याः स्थूलादिरूपाणि यथावन्मे निशामय || उच्यमानानि देवेश सावधानेन चेतसा || ३१-८२ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे सुदर्शनप्रकाशो नामैकत्रिंशोऽध्यायः ||
Kapitel 32
Deutsche Übersetzung: Kapitel 32 · Sanskrit IAST: Kapitel 32
श्रीः -
या ह्येषा परमा विद्या तारिका भवतारिणी |
स्थूलं सूक्ष्मं परं चेति तस्या रूपत्रयं शृणु || ३२-१ ||
पञ्चवर्णं चतुर्वर्णमिति स्थूलात्मकं वपुः |
त्रिवर्णा सूक्ष्मसंज्ञा मे परा विष्णुमयी स्थिता || ३२-२ ||
इमास्तिस्रो ह्यवस्था मे प्रत्येकं तु त्रिधा त्रिधा |
स्थूले तु या परावस्था परमात्माश्रया तु सा || ३२-३ ||
अशेषभुवनाधारविष्णुव्यापिसमाश्रया |
भोक्तृभोग्यात्मिका चेयं तस्या रूपं निबोध मे || ३२-४ ||
अशेषभुवनाधारनिलयव्यापिजन्मना |
परमात्मादिकेनैव ललाटतटमेयुषा || ३२-५ ||
आक्रम्य वैष्णवं रूपं स्वे पुनः प्रतितिष्ठति |
तारकारणनादेन शोभमाना हरिप्रिया || ३२-६ ||
भोक्तृभोग्यादिकं सर्वं भुवनं बिभ्रती धिया |
व्यापिनं सर्वतो देवी परमात्मानमाश्रिता || ३२-७ ||
तावत्तया स्थिता विष्णुरूपा स्थूला गतिः परा |
पञ्चकृत्यकरी शक्तिस्त्रिविधैश्वर्यबृंहिता || ३२-८ ||
प्राणयन्ती श्रिया देवं जृम्भमाणोदधिप्रभम् |
आश्रित्य ह्यानलं भावमियं सूक्ष्मा गतिर्मता || ३२-९ ||
सृष्ट्यादिकं विधायाथ व्योमस्थं परमास्थिता |
सर्वाश्चर्यकरी देवी सृष्टिस्थित्यन्तकारणम् || ३२-१० ||
सूर्यं समाश्रिता विष्णुं कलयन्ती जगत्स्थितिम् |
कालपावकतेजोभिः स्थूला स्थूलमयाद्भुता || ३२-११ ||
कथिता गतयस्तिस्रः स्थूलाया मम वासव |
सूक्ष्मायास्तु गतीस्तिस्रः शृणु वृत्रनिषूदन || ३२-१२ ||
अकालकलना सेयं सूक्ष्मा तु परमेश्वरी |
व्यापिनं परमात्मानं श्रयन्ती वर्तते ध्रुवा || ३२-१३ ||
शुद्धो वर्गस्तथाशुद्धो द्विविधं सृज्यमुच्यते |
शुद्धेतरे स्थिता स्थूला शुद्धे सूक्ष्मा प्रतिष्ठिता || ३२-१४ ||
तिस्रोऽप्यासां गतीः सम्यक् स्थूलाया इव लक्षयेत् |
परा या मे तनुः शक्र तस्या रूपं निशामय || ३२-१५ ||
सर्वव्याप्तिमती दिव्या निष्कला सा निरञ्जना |
सा परा मन्मयीं शक्तिः कथिता विष्णुसंज्ञया || ३२-१६ ||
एषा सा वैष्णवी सत्ता सैषाहंता हरेर्मता |
एषा सा योगिनां निष्ठा सैषा सांख्यात्मनां गतिः || ३२-१७ ||
इत्यं सा परमा मूर्तिरियं सा परमा गतिः |
शक्तिः कुण्डलिनी चाद्या भ्रमरी योगदायिका || ३२-१८ ||
अनाहता ह्यघोषा च निर्मर्यादा नदोद्गता |
शब्दब्रह्म तथा शक्तिर्मातृकायोनिरुत्तमा || ३२-१९ ||
गायत्री च कला गौरी शची देवी सरस्वती |
वृषाकपायी सत्या च प्राणपत्नी यशस्विनी || ३२-२० ||
इन्द्रपत्नी महाधेनुरदितिर्देवनन्दिनी |
रुद्राणां जननी देवी वसूनां तु हिता तथा || ३२-२१ ||
आदित्यानां स्वसा नाभिरमृतस्य धृतिः परा |
इडा रतिः प्रियाकारा गुरुधात्री महीयसी || ३२-२२ ||
मही च विश्रुतिश्चैव त्रयी गौः प्राणवत्सला |
शक्तिश्च प्रकृतिश्चैव महाराज्ञी पयस्विनी || ३२-२३ ||
तारा सीता तथा श्रीश्च कामवत्सा प्रियव्रता |
तरुणी च वरारोहा नीरूपा रूपशालिनी || ३२-२४ ||
अम्बिका सुन्दरी ज्येष्ठा वामा घोरा मनोमयी |
सिद्धा सिद्धान्तिका योगा योगिनी योगभाविनी || ३२-२५ ||
एवमादीनि नामानि शास्त्रे शास्त्रे मनीषिभिः |
कथितानि रहस्यानि शक्तेः सिद्धान्तपारगैः || ३२-२६ ||
सैषा शक्तिः परा दिव्या त्रिधा रूपैरवस्थिता |
स्थूलसूक्ष्मपरत्वेन त्रैधमेतत् प्रदर्श्यते || ३२-२७ ||
अस्याः स्वरूपमी प्रोक्ता सा च त्रेधावतिष्ठते |
अप्रमेयादिरूपेण तस्या व्याख्यामिमां शृणु || ३२-२८ ||
षाड्गुण्यं यत् परं ब्रह्म वासुदेवाख्यमव्ययम् |
संहृताखिलभेदं तदेकमेव यदा तदा || ३२-२९ ||
अप्रमेयाख्यया देवस्तदा योगिभिरीर्यते |
व्याप्यव्यापकभेदो वा सृज्यसृष्टिविधापि वा || ३२-३० ||
न तदान्यप्रमेयत्वं न किंचित्तस्य विद्यते |
तदा शून्यमिवाकारैः प्रसुप्तमिव सर्वतः || ३२-३१ ||
षाड्गुण्यं ब्रह्म तत्रेयं संस्थिता विष्णुसंज्ञया |
अतरङ्गार्णवाकारा शक्तिशक्तिमतोर्गतिः || ३२-३२ ||
तदा यदा पुनर्ब्रह्म वासुदेवाख्यमव्रणम् |
उन्मिषत्यात्मसंकल्पात्तदा प्रथम उच्यते || ३२-३३ ||
प्रथते हि यदा ब्रह्म शुद्धाशुद्धाख्यवर्त्मना |
माया नाम तदा त्वेषा ब्रह्मसंकल्परूपिणी || ३२-३४ ||
संकर्षणादिक्षित्यन्तस्तस्या गर्भमवस्थितः |
यदा पुनः परं ब्रह्म स्वेच्छासंपादितं पृथक् || ३२-३५ ||
व्याप्यव्यापकभेदेन सद्वितीयमवस्थितम् |
पञ्चबिन्दुस्तदा देवी पञ्चकृत्यविधायिनी || ३२-३६ ||
पराया इति ते प्रोक्ता मम तन्वा गतिस्त्रयी |
रूपं रूपं विभज्यैषा तत्तत्तत्त्वार्णभेदिनी || ३२-३७ ||
तत्तद्वाचकतां नीता स्वकामाज्जगतीतनुः |
तेषु तेषु हि तत्त्वेषु स्वात्मभूतावतिष्ठते || ३२-३८ ||
मदंशः सूक्ष्मरूपो यो गढोऽग्निरिव दारुषु |
तत्तद्रूपमनुप्राप्ता सेवनी नाम शाश्वती || ३२-३९ ||
तत्तद्वर्णोपरागेण तत्तद्व्यक्तिवपुः स्वयम् |
अधिदैवतभावेन तत्र योऽंशः परात्मकः || ३२-४० ||
वैष्णवः शक्तिरूपो मे नियच्छन्नवतिष्ठते |
तत्तद्वाचकतां याति देवी सेयमनश्वरी || ३२-४१ ||
अशेषभुवनाधारा योगिनी परमेश्वरी |
केवलस्तत्त्ववर्णस्तु त्रैलोक्यैश्वर्यदां गतः || ३२-४२ ||
तत्तत् स्थूलमयं तत्त्वं मदीयं वक्ति शाश्वतम् |
तत्तद्भावाभिधानेन तन्नियन्तृत्वदर्शने || ३२-४३ ||
इयमेवेश्वरा देवी द्विधा सक्तावतिष्ठते |
क्षादि शान्तं पुरा यत्ते दर्शितं ब्रह्मपञ्चकम् || ३२-४४ ||
क्ष इत्यादिस्वरूपेण त्रैलोक्यैश्वर्यदां गता |
स्वरूपे नियमे चैव द्वेधा सेयमवस्थिता || ३२-४५ ||
धारणानां चतुष्कं यद्वादि यान्तमुदीरितम् |
तत्र सूक्ष्मपरे भावे स्थितेयं पूर्ववद् द्विधा || ३२-४६ ||
त्रैयवस्थो मकारोऽयं प्रोक्तश्चैतन्यवाचकः |
तत्रापि सूक्ष्मपरयोर्द्वेधेयं दशयोर्द्वयोः || ३२-४७ ||
मायाप्रसूतित्रैगुण्यरूपो यो भार्ण उच्यते |
ई नाम पूर्ववद्देवी तत्रापि दशयोर्द्वयोः || ३२-४८ ||
बुद्ध्यहंकारमनसां यद्रूपं बादिकं त्रयम् |
तत्रापि पूर्ववद् द्वेधा देवीयं दशयोर्द्वयोः || ३२-४९ ||
नादिके णादिके चैव तथेन्द्रियगणद्वये |
दशयोः सूक्ष्मपरयोरियं द्वेधावतिष्ठते || ३२-५० ||
ञादिके ङादिके चैव स्थूलसूक्ष्मस्वरूपके |
विभूतिपञ्चके देवी दशयोः पूर्ववत् स्थिता || ३२-५१ ||
सप्तत्या वितता भेदैः शुद्धाशुद्धमयाध्वनि |
नटीव स्वयमी शक्तिर्बिभर्ति बहुधा वपुः || ३२-५२ ||
इयद्विस्तृतिमापन्नामीमिमां परमेश्वरीम् |
विचिन्त्य परमं याति पदं विष्णोः सनातनम् || ३२-५३ ||
यत्र यत्र गता सेयं शुद्धाशुद्धे तथाध्वनि |
तत्र तत्र त्वजहती विष्णोः संबन्धमी स्थिता || ३२-५४ ||
एकद्वित्र्यादियोगेन स्वरव्यञ्जनरूषिता |
शुद्धाशुद्धाध्ववर्गस्था नानाभेदोपपादिता || ३२-५५ ||
जटोपरागहीनाया अस्या एव पुनस्त्रिधा |
ज्ञेयः स्थूलादिरूपेण विभेदस्तत्त्वचिन्तकैः || ३२-५६ ||
सृष्टिकृत्संयुता स्थूला सूक्ष्मा व्योमेशसंयुता |
निरञ्जना परा सेयमी इत्येवानुरागिणी || ३२-५७ ||
निष्कम्पा दीपलेखेव पत्नी विष्णोरियं परा |
सर्वेष्वाधारपद्मेषु निश्चलैवावतिष्ठते || ३२-५८ ||
आबस्तिदेशादामूर्धब्रह्मयानमनुव्रता |
एकेयमुज्ज्वला दीप्ता पावना च यशस्विनी || ३२-५९ ||
ब्रह्मरन्ध्राद्विनिष्क्रान्ता महापद्ममुपेयुषी |
ओतप्रोतात्मिका सेयं परमानन्दवर्त्मनि || ३२-६० ||
विलाप्य मार्त्यवं रूपममृतं प्लावयेन्नरम् |
मन्त्राणां मन्मयानां हि मन्त्रैर्विष्णुमयैः सह || ३२-६१ ||
सा मे नूनमनूनश्रीरिति संख्या परा हि या |
ते च सांख्याद्वया मन्त्रा जपाद्भोगापवर्गदाः || ३२-६२ ||
अस्या एव परायास्तु विप्रुषः परिकीर्तिताः |
यथा हि किरणव्रातं तेजस्त्वं व्याप्य तिष्ठति || ३२-६३ ||
यथा हि पार्थिवान् भावान् व्याप्यस्थैर्यं व्यवस्थितम् |
नानाविभवसंस्थानं नानारचनसंस्थितम् || ३२-६४ ||
बाह्यमाभ्यन्तरं चैव भावं शब्दमयं समम् |
व्याप्यैवमी स्थिता देवी विष्णुपत्नी यशस्विनी || ३२-११७ ||
स्थूलसूक्ष्मादिभेदोऽयं यथावच्छक्र दर्शितः |
तारिकाया इदानीं त्वमङ्गादीनि शृणुष्व मे || ३२-६६ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे स्थूलादिप्रकाशो नाम द्वात्रिंशोऽधायः ||
Kapitel 33
Deutsche Übersetzung: Kapitel 33 · Sanskrit IAST: Kapitel 33
श्रीः
शृणु वत्स सुरेशान विद्यायास्तारिकाकृतेः |
अङ्गोपाङ्गानि मन्त्राणि नानामन्त्रमयानि मे || ३३-१ ||
गोपनं पञ्चबिन्दुं च ह्यूर्जमैरावणं तहा |
और्वं च पञ्चकं चैते प्रत्येकं व्यापिनान्वितम् || ३३-२ ||
प्राणानलोपरिस्थं तु कृत्वैतत् पिण्डपञ्चकम् |
हृदादिनेत्रपर्यन्तमङ्गबीजमिदं स्मरेत् || ३३-३ ||
हृद्बीजात् परतो योज्यं ज्ञानायेति पदं ततः |
हृदयाय नमश्चैव मन्त्रोऽयं धारणप्रदः || ३३-४ ||
प्रणवादिनमोऽन्तोऽयं मन्त्र एकादशाक्षरः |
परं प्रणवबीजाभ्यामैश्वर्याय पदं न्यसेत् || ३३-५ ||
शिरसे च तथा स्वाहा ह्येष एकादशाक्षरः |
परं प्रणवबीजाभ्यां शक्तये च पदं न्यसेत् || ३३-६ ||
शिखायै वौषडित्येवं शैखोऽयं तु दशाक्षरः |
परं प्रणवबीजाभ्यां बलायेति पदं न्यसेत् || ३३-७ ||
कवचाय हुमित्येवं मन्त्रोऽयं च दशाक्षरः |
परं प्रणवबीजाभ्यां तेजसे च पदं न्यसेत् || ३३-८ ||
नेत्राभ्यां वौषडित्येवं नेत्रमन्त्रो दशाक्षरः |
प्राणानलोपरिस्थं तु विन्यसेत् परमेश्वरम् || ३३-९ ||
तस्मात् प्रणवपूर्वात्तु पदं विर्याय विन्यसेत् |
अस्त्राय च फडित्येवं मन्त्रोऽयं च दशाक्षरः || ३३-१० ||
अङ्गषट्कमिदं प्रोक्तमुपाङ्गत्रियुगं शृणु |
तारिकान्ते क्रमाद्दद्यात् पूर्ववत् षड्गुणं पदम् || ३३-११ ||
ज्ञानादितेजःपर्यन्तं तदन्ते च क्रमान्न्यसेत् |
उदराय च पृष्ठाय बाहुभ्यामिति वै पदम् || ३३-१२ ||
ऊरुभ्यामथ जानुभ्यां चरणाभ्यामिति क्रमात् |
नमश्च परतो योज्यमुपाङ्गानामयं विधिः || ३३-१३ ||
इत्येवमङ्गोपाङ्गानां मन्त्रा द्वादश कीर्तिताः |
अलंकारास्त्रमन्त्रांस्तु ब्रुवत्या मे निशामय || ३३-१४ ||
कौस्तुभो व्योमसंभिन्नः परमात्मा ततः परम् |
ऊर्ध्वाधोऽनलसंभिन्न ऊर्जेनापि समन्वितः || ३३-१५ ||
सऋष्टिकृत्संयुतो मूर्ध्नि कौस्तुभो व्यापिसंयुतः |
नमस्कृतिस्ततः पश्चात्ततः पश्चात् प्रभात्मने || ३३-१६ ||
कौस्तुभाय ततः स्वाहा प्रणवाद्यस्तु कौस्तुभः |
मन्त्रः षोडशवर्णोऽयं सर्वकर्मप्रसाधकः || ३३-१७ ||
उद्धरेत् प्रथमं तारं धरेशं तत उद्धरेत् |
तदधस्तृप्तिसंज्ञं च वराहं तदधो न्यसेत् || ३३-१८ ||
मायया भूषयेत् पश्चाद्व्यापिना चाङ्कयेत्ततः |
पञ्चात्मा वर्णपिण्डोऽयं नमस्कारं ततः परम् || ३३-१९ ||
ततः स्थलजलोद्भूतभूषितेपदमुद्धरेत् |
वनमाले ततः स्वाहा मन्त्रः सर्वार्थसाधकः || ३३-२० ||
एकोनविंशत्यर्णोऽयं वनमालामयो महान् |
तारकस्यावसाने तु वामनार्णं समुद्धरेत् || ३३-२१ ||
तदधस्तृप्तिमायोज्य भूषयेदुदयेन तु |
व्यापिना चाङ्कितः पिण्डश्चतुरर्णो महाद्भुतः || ३३-२२ ||
नमस्कारस्ततः पश्चाच्छ्रीनिवासपदं ततः |
पद्माय वह्निजाया च पाद्मोऽयं त्रिदशाक्षरः || ३३-२३ ||
आदायादौ तु वैकुण्ठं रेफं तदुपरि न्यसेत् |
आनन्देनान्वितं पश्चाद्व्यापिना चाङ्कयेत्ततः || ३३-२४ ||
कस्थकस्थपदं दद्यान्नेमिद्वन्द्वमतः परम् |
वरपाशाय वै स्वाहा प्रणवाद्यस्तु पाशराट् || ३३-२५ ||
मन्त्रः पञ्चदशार्णोऽयं कामिनां क्षिप्रसिद्धिकृत् |
प्रणवान्ते विराट्संज्ञं व्यापिना मूर्ध्नि संयुतम् || ३३-२६ ||
द्वयं पिण्डतया योज्यं रेफं कमलमङ्कुशम् |
व्यापिना संयुतं मूर्ध्नि तृतीयमिदमक्षरम् || ३३-२७ ||
पदं निशितघोणाय चाङ्कुशाय शिखिप्रिया |
इति पञ्चदशार्णोऽयमङ्कुशः शीघ्रसिद्धिदः || ३३-२८ ||
अलंकारास्त्रमन्त्राणामेतत् पञ्चकमीरितम् |
आधारासनमन्त्राणां शृणु रूपं पुरंदर || ३३-२९ ||
यद्विना तारिकायास्तु पूरणं नैव जायते |
अनलद्वयमध्यस्थः प्राणो मायी स बिन्दुमान् || ३३-३० ||
तत आधारशक्त्यै च प्रणवादिर्नमोऽन्तिमः |
आधारशक्तिमन्त्रोऽयं विज्ञेयस्तु नवाक्षरः || ३३-३१ ||
अनलद्वयमध्यस्थो बिन्द्वन्तोऽप्यूर्जसंयुतः |
ततः कालाग्निकूर्माय नमोऽन्तः प्रणवादिकः || ३३-३२ ||
मन्त्रः कालाग्निकूर्मस्य विज्ञेयोऽयं दशाक्षरः |
गोपनेनाङ्कितं प्राणं मूर्ध्नि च व्यापिना युतम् || ३३-३३ ||
प्रणवान्ते समुद्धृत्य ह्यनन्ताय नमस्ततः |
अष्टाक्षरो ह्ययं मन्त्रो नागराजस्य कीर्तितः || ३३-३४ ||
कमलं चाग्निरूपं च प्रधानं पुरुषेश्वरम् |
पिण्डीकृत्य चतुष्कं तु गोपनव्यापिसंयुतम् || ३३-३५ ||
वसुधायै नमः पश्चात् प्रणवादिर्मनुस्त्वयम् |
विश्वंभराया विज्ञेय आधारः परिकल्प्यते || ३३-३६ ||
अमृतं वरुणं चार्णद्वयं पिण्डीकृतं सह |
गोपनव्यापिसंयुक्तं प्रणवान्ते समुद्धरेत् || ३३-३७ ||
क्षीरार्णवाथ च नमः सोऽयं मन्त्रो नवाक्षरः |
पवित्रं सोदयव्यापिसंयुतं प्रणवान्तगम् || ३३-३८ ||
आधारपद्माय नमः पद्मस्यायं दशाक्षरः |
इत्थमाधारषट्कस्य मन्त्रषट्कं प्रकीर्तितम् || ३३-३९ ||
आधारेशाख्यमन्त्राणां विधिं शृणु पुरंदर |
धर्ताजितोऽमृताधारो विबुधाख्यश्च वासव || ३३-४० ||
एतांश्चतुर उद्धृत्य वर्णानेषामथोपरि |
विन्यसेच्चतुरो वर्णान् सत्यादीन् साधकोत्तमः || ३३-४१ ||
त्रैलोक्यैश्वर्यदं दद्याच्चत्वार्येतानि वासव |
बीजानि प्रणवादीनि धर्मादेः षोडशात्मनः || ३३-४२ ||
धर्मादिकमधर्माद्यमृगाद्यं च कृतादिकम् |
चतुष्टयानि चत्वारि यानि सिद्धानि लोकतः || ३३-४३ ||
चतुश्चतुर्विभागेन संज्ञाः षोडश विन्यसेत् |
बीजोपरि नमश्चाते मन्त्राः षोडश ते स्मृताः || ३३-४४ ||
सोदयं सामृतं ह्रस्वं प्रणवोपरि विन्यसेत् |
अव्यक्तपद्माय नमः स मन्त्रोऽव्यक्तपद्मकः || ३३-४५ ||
सूर्येन्द्वग्निपदेभ्यस्तु प्रत्येकं मण्डलाय च |
नमोऽन्ते प्रणवश्चादौ ते मन्त्रा मण्डलत्रये || ३३-४६ ||
प्रत्यगात्मपरामर्शिशब्दः सोमोऽथ सर्गवान् |
चिद्भासनाख्यमन्त्रोऽयं त्र्यक्षरः परिकीर्तितः || ३३-४७ ||
इत्यासनाख्यमन्त्राणां कथिता त्वेकविंशतिः |
इत्ययं पीठपूजान्तो मन्त्रग्रामो मयेरितः || ३३-४८ ||
रहस्यं परमं गुह्यमिदानीं परमं शृणु |
क्षेत्रेशाद्यं मन्त्रचयं विघ्ननिर्मथनक्षमम् || ३३-४९ ||
गरुडं कालमनलं पिण्डीकृत्याङ्कयेत् ततः |
सव्यापिनादिदेवेन क्षेत्रपालाय वै नमः || ३३-५० ||
प्रणवाद्यो मनुः सोऽयं क्षेत्रेशस्य नवाक्षरः |
अनुतारा श्रियै पश्चान्नमस्त्वादौ च तारकः || ३३-५१ ||
षडक्षरः श्रियो मन्त्रश्चण्डादीनपराञ्शृणु |
सचञ्चलानलस्तारः केवलस्त्वादितो भवेत् || ३३-५२ ||
चण्डाय नम इत्येव सप्तवर्णो मनूत्तमः |
सपवित्रानलस्तारः केवलस्त्वादितो भवेत् || ३३-५३ ||
प्रचण्डाय नमो मन्त्रः प्रचण्डोऽयं चतुर्युगः |
सशाश्वतानलस्तारः केवलस्त्वादितो भवेत् || ३३-५४ ||
जयाय नम इत्येवं जयस्य मुनिवर्णकः |
वराहानलसंयुक्तस्तारः शुद्धस्तथादिगः || ३३-५५ ||
विजयाय नमः सोऽयं विजयस्य चतुर्युगः |
गोविन्दः सानलो मायी व्यापिमान् प्रणवान्तगः || ३३-५६ ||
गङ्गायै नम इत्येवं गङ्गाया मुनिवर्णकः |
समायः सानलः सूक्ष्मो व्यापिमान् प्रणवान्तगः || ३३-५७ ||
यमुनायै नमश्चायं यामुनेयश्चतुर्युगः |
शंकरः सानलः सोर्जो व्यापिमान् प्रणवान्तगः || ३३-५८ ||
ततश्च शङ्खनिधये नमः सोऽयं नवाक्षरः |
पवित्रः सानलः सोर्जो व्यापिमान् प्रणवान्तगः || ३३-५९ ||
ततश्च पद्मनिधये नमः सोऽयं नवाक्षरः |
क्षेत्रेशात् पद्मनिध्यन्तं मन्त्राणां दशकं त्विदम् || ३३-६० ||
गणेशाद्यादिसिद्धान्तमथ मन्त्रगणं शृणु |
ऊर्जव्यापिसमायुक्तो गोविन्दः प्रणवान्तगः || ३३-६१ ||
ततो गोविन्दवैकुण्ठौ पवित्रः स्रग्धरस्तथा |
जगद्योनिगतः शङ्खो नरः कालो विसर्गवान् || ३३-६२ ||
नवाक्षरो ह्ययं मन्त्रो गाणपत्यः प्रकीर्तितः |
षोढा संयोज्य गोविन्दं युग्माद्यैर्गोपनादिभिः || ३३-६३ ||
अङ्गकॢप्तिरमुष्य स्यान्नमःस्वाहादिसंयुता |
आद्यन्तानलसंयुक्तं मायाव्यापिसमन्वितम् || ३३-६४ ||
गरुडं तारकस्यान्ते तदन्ते तारिकां स्मरेत् |
रेफशङ्खादिदेवाढ्यं सोमं व्यापिसमन्वितम् || ३३-६५ ||
चतुर्थं संस्मरेद्बीजं तदिदं बलसूदन |
वैराजानलशङ्खाढ्यं गोपनं व्यापिसंयुतम् || ३३-६६ ||
सोमवर्णं स्मरेच्छक्र पञ्चमं परमाद्भुतम् |
अप्रमेयादिदेवादि यावद्गरुडवर्णकम् || ३३-६७ ||
यथापाठं समुच्चार्य वागीश्वर्यै ततो नमः |
एकषष्ट्यर्णको मन्त्रो वागीश्वर्या अयं स्मृतः || ३३-६८ ||
कुर्याच्चतुर्थबीजेन गोपनादिविभेदिना |
अन्तर्जातियुतां सम्यगङ्गकॢप्तिं विचक्षणः || ३३-६९ ||
गोपनादिविभिन्नस्य बीजस्याद्यन्तयोर्न्यसेत् |
प्रणवं च नमश्चैव ततो जातिं प्रकल्पयेत् || ३३-७० ||
प्रणवत्रितयं व्यापिसंयुतः सोदयश्च गः |
गुरवेऽथ नमः सोऽयं प्रथितो गुरुपूजने || ३३-७१ ||
प्रणवत्रितयस्यान्ते पवित्रो व्यापिसंयुतः |
परमगुरवे नमः प्रथितस्तु गुरोर्गुरुः || ३३-७२ ||
प्रणवत्रितयस्यान्ते व्याप्यानन्दयुतस्तु पः |
परमेष्ठिनेऽथ च नमो मन्त्रो गुरुगुरोर्गुरुः || ३३-७३ ||
तारपञ्चकमाह्लादं व्योम प्राणोपरि न्यसेत् |
कालानलौ तु तदधः सर्वलोकेश्वरोपरि || ३३-७४ ||
यथाक्रमोदितैर्वर्णैः पिण्डं कृत्वा ततः स्वधा |
पितृभ्योऽथ नमः सोऽयं पितृसंघस्य मन्त्रराट् || ३३-७५ ||
षट् तारा आदि देवोऽथ व्योमवान् केवलोऽथ सः |
रामवान् दमनश्चाथ सिद्धेभ्योऽथ ततो नमः || ३३-७६ ||
मन्त्रोऽयमादिसिद्धानां भगवद्भावितात्मनाम् |
क्षेत्रेशाद्यादिसिद्धान्तान् विघ्ननिर्मथनक्षमान् || ३३-७७ ||
प्रागेव पूजयेन्मन्त्री समाराधनकालतः |
अथ लोकेशमन्त्राणां लक्षणं शृणु वासव || ३३-७८ ||
प्राणं धरेशमानन्दं पिण्डीकृत्य क्रमस्थितान् |
मूर्ध्नि व्योमयुतं कृत्वा तत इन्द्राय वै नमः || ३३-७९ ||
ऐन्द्रोऽयमीरितो मन्त्रः पावकादीन्निबोध मे |
कुर्यात् प्राणानलानन्दैर्व्यापिनापि च पिण्डकम् || ३३-८० ||
प्राणकालादिदेवैश्च व्यापिनापि च पिण्डकम् |
अग्नये नम इत्येवं यमाय नम इत्यपि || ३३-८१ ||
नरः स भगवान् व्यापी पिण्डो निर्-ऋतये नमः |
यातुधानेशमन्त्रोऽयं जलेशस्यावधारय || ३३-८२ ||
प्राणं वरुणमानन्दं व्यापिनं पिण्डयेद् बुधः |
वरुणाय नमः पश्चाद्वारुणोऽयं मनूत्तमः || ३३-८३ ||
प्राणं सूक्ष्मं तथानन्दं व्यापिनं पिण्डयेद् बुधः |
वायवे नम इत्येवं वायवीयो मनूत्तमः || ३३-८४ ||
घर्मांशुवरुणानन्दान् व्यापिना सह पिण्डयेत् |
सोमाय नम इत्येवं सौम्यो मनुरुदाहृतः || ३३-८५ ||
सूर्यमूर्जं तथा व्योम चक्रिणं पिण्डयेत् क्रमात् |
ईशानाय नमः पश्चादीशानस्य मनूत्तमः || ३३-८६ ||
प्राणं वैकुण्ठमानन्दं व्यापिना पिण्डयेत् क्रमात् |
अनन्ताय नमः पश्चान्नागराजमनुस्त्वयम् || ३३-८७ ||
प्राणं खर्वं तथानन्दं व्यापिना पिण्डयेत् क्रमात् |
ब्रह्मणे नम इत्येवं ब्रह्मणो मनुरुत्तमः || ३३-८८ ||
सर्वेषां प्रणवः पूर्वमायुधानामथो शृणु |
अनलं जन्महन्तारं प्रधानमनलोर्जकौ || ३३-८९ ||
सर्गेण पिण्डयेत् संज्ञां नमः कुलिशमन्त्रराट् |
ऊर्जं विहाय तत्स्थाने मायया परिभूषितम् || ३३-९० ||
तदेव पिण्डं संज्ञा च नमः शक्तिमनुस्त्वयम् |
अखण्डविक्रमं कालं लोकेशं परमेश्वरम् || ३३-९१ ||
पिण्डीकृत्य ततः संज्ञा नमो दण्डमनुस्त्वयम् |
विश्वाप्यायकरं कालं लोकेशं परमेश्वरम् || ३३-९२ ||
पिण्डीकृत्य ततः संज्ञा नमः खड्गमनुस्त्वयम् |
चन्द्री शान्तादिदेवौ च सृष्टिकृत् पिण्डिता इमे || ३३-९३ ||
पाशाय नम इत्येवं पाशमन्त्रोऽयमद्भुतः |
अजितो वरुणानन्दौ सृष्टिकृत् पिण्डिता इमे || ३३-९४ ||
ध्वजाय नम इत्येवं ध्वजमन्त्र उदीरितः |
परमात्मानलोद्दामान् पिण्डयेत् सृष्टिकृद्युतान् || ३३-९५ ||
मुसलाय नमः पश्चान्मौसलोऽयं मनूत्तमः |
अनलं जन्महन्तारमुदयं सृष्टिकृद्युतम् || ३३-९६ ||
पिण्डिकृत्य ततः संज्ञा नमः शूलमनुस्त्वयम् |
करालमनलारूढमोदनं सृष्टिकृद्युतम् || ३३-९७ ||
पिण्डीकृत्य ततः संज्ञा नमः सीरमनुस्त्वयम् |
वरुणं च नरं चैव गोपनं सृष्टिकृद्युतम् || ३३-९८ ||
पिण्डीक्ट्य ततः संज्ञा नमः पद्ममनुस्त्वयम् |
सर्वेषां प्रणवः पूर्वो विष्वक्सेनमनुं शृणु || ३३-९९ ||
अनलप्राणलोकेशान् व्यापिना पिण्डयेत् क्रमात् |
वरुणं भूधरं चैव व्यापिना पिण्डयेत् क्रमात् || ३३-१०० ||
पिण्डोऽयं ज्ञानदः पश्चाद्विष्.वक्सेनस्य मन्त्रराट् |
प्रणवादिस्त्वयं मन्त्रः सर्वार्थकृदुदीरितः || ३३-१०१ ||
ऊर्जहीनं तुं यत् पूर्वं तेनानन्दादियोगिना |
अङ्गकॢप्तिरमुष्य स्याज्जातिमुद्रासमन्विता || ३३-१०२ ||
सोमं वरुणमीकारं व्यापिना पिण्डयेत् क्रमात् |
सुरभ्यै नम इत्येवं तारपूर्वो मनुस्त्वयम् || ३३-१०३ ||
सुरभ्याः कथितः सर्वभोगसंपूरणार्थकः |
प्रणवद्वितयस्यान्ते तारिकाद्वयमुद्धरेत् || ३३-१०४ ||
ततः परमधामा चावस्थिते मदनुग्रहा |
अभियोगोद्यते चेह तथैवावतरेति च || ३३-१०५ ||
इहाभिमतशब्दं च सिद्धिदे इति च त्रयम् |
ततो मन्त्रशरीरे च तारस्तारा नमो नमः || ३३-१०६ ||
पञ्चचत्वारिंशदर्णो मन्त्र आवाहनार्थकः |
प्रणवस्तारिका प्राणास्त्रयः सव्यापिनस्ततः || ३३-१०७ ||
तिस्रश्च तारिकाः पश्चादिदं शब्दं त्रिरुच्चरेत् |
गृहाण वह्निजाया च भोगदानमनुस्त्वयम् || ३३-१०८ ||
ओंकारमुद्धरेत् पूर्वं विष्णुं व्योमान्वितं ततः |
तारिकामुद्धरेत् पश्चाद्भूयो विष्णुं तथाविधम् || ३३-१०९ ||
ततो व्योमान्वितं प्राणं सोमनामसमन्वितम् |
परे च परमेशे च प्रसीद प्रणवं ततः || ३३-११० ||
तारिका च नमश्चान्ते प्रसादनमनुस्त्वयम् |
प्रणवस्तारिका चैव ततो भगवतीति च || ३३-१११ ||
मन्त्रमूर्तेऽथ स्वपदं समासादय तद्द्वयम् |
क्षमस्वेति द्विरुच्चार्य तारस्तारा नमो नमः || ३३-११२ ||
वैसर्जनमनुः सोऽयमित्येते मन्त्रनायकाः |
कथिताः सुरशार्दूल सर्वपापमलापहाः || ३३-११३ ||
अभक्तानां च ये नैव प्रदेयाः क्रूरकर्मणाम् |
नास्तिकानामसाधूनां धूर्तानां वञ्चनाजुषाम् || ३३-११४ ||
भक्तानामास्तिकानां च श्रद्धासंयमसेविनाम् |
मदीयक्रमसक्तानां संस्कृतानां विशेषतः || ३३-११५ ||
तत्त्वतश्चोपसन्नानां दृढश्रद्धावलम्बिनाम् |
वैष्णवानामिदं वाच्यमवाच्यमितरेषु तु || ३३-११६ ||
अन्यथा वक्ति यो मोहाल्लोभात् कामादथापि वा |
अज्ञानाद्बालभावाद्वा स याति नर्कान् बहून् || ३३-११७ ||
तस्मादालक्ष्यवै सर्वं गुणजातं यथोदितम् |
प्रब्रूयादुपसन्नाय धर्मेण न्यायतस्तथा || ३३-११८ ||
प्रब्रूयाद्यो ह्यधर्मेण यो वाधर्मेण पृच्छति |
तावुभौ नरकं घोरमृच्छतः कालमक्षयम् || ३३-११९ ||
पृथिवीं रत्नसंपूर्णां दद्याद्यद्यपि वासव |
नैव देयं ह्यभक्ताय नापरीक्षितशीलिने || ३३-१२० ||
इति ते भवतो भक्तिर्मयी शक्र महीयसी |
तत्त्वतश्चोपसन्नस्य मयेह प्रीयमाणया || ३३-१२१ ||
अङ्गोपाङ्गादिमन्त्राणां मन्त्रकोशः प्रकाशितः |
मुद्राकोशमिदानीं त्वं गदन्त्या मे निशामय || ३३-१२२ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे अङ्गोपाङ्गादिमन्त्रप्रकाशो नाम त्रयस्त्रिंशोऽध्यायः ||
Kapitel 34
Deutsche Übersetzung: Kapitel 34 · Sanskrit IAST: Kapitel 34
श्रीः -
मुद्राकोशं प्रवक्ष्यामि मन्त्रकोशस्य वासव |
येन विज्ञातमात्रेण मन्त्रसिद्धिर्महीयसी || ३४-१ ||
मुद्रां वै बन्धयेन्मन्त्री स्नानकाले जलान्तरे |
आत्मनो न्यासकाले च पूजान्ते मण्डलाविधौ || ३४-२ ||
अर्चायां मन्त्रविन्यासे ह्यर्घ्यपात्रेषु भोजने |
पूर्णाहुत्यवसाने च मन्त्रे ह्यभ्यन्तरस्थिते || ३४-३ ||
हिंसकानां विघाताय सर्वविघ्नोपशान्तये |
संमुखौ तु करौ कृत्वा सुश्लिष्टौ सुप्रसारितौ || ३४-४ ||
संमुखं मध्यमायुग्मनिक्षिप्ताङ्गुलयः पराः |
अन्योन्याभिमुखाश्चैव भुजबृन्देन कल्पिताः || ३४-५ ||
महाश्रीरिति विख्याता सर्वसौभाग्यदायिका |
मोचनी सर्वदोषाणां शीघ्रसिद्धिप्रदायिनी || ३४-६ ||
जडभूतस्य वै जन्तोर्बोधनाभ्युदयात्मिका |
प्रसार्य वाममुत्तानमङ्गुल्यो विरलाः स्थिताः || ३४-७ ||
कार्यास्त्वाकुञ्चितप्रान्ता अङ्गुष्ठं सेतुवद्भवेत् |
संमुखं तासु संलग्नं करशाखासु मध्यमाम् || ३४-८ ||
हृत्संमुखं तु बध्नीयाच्छक्तिमुद्रां सुखप्रदाम् |
इमे मुद्रे महाभागे योगिबृन्दोपवन्दिते || ३४-९ ||
परसूक्ष्मपदस्थे तु मम प्रीतिप्रदायिके |
मम स्थूलपदस्थाया योनिमुद्रां निशामय || ३४-१० ||
संमुखौ तु करौ कृत्वा सुश्लिष्टौ सुप्रसारितौ |
मध्यतो मूलतः पृष्ठे विपर्यस्ते ह्यनामिके || ३४-११ ||
तर्जनीमूलयोर्न्यस्य ताभ्यामग्रे निगूहयेत् |
मध्ययोः शेषयोरग्रे कनिष्ठायुगलं पुरः || ३४-१२ ||
अन्योन्यं पृष्ठतो लग्नं तलमध्योन्नतं भवेत् |
अङ्गुष्ठाग्रद्वयं कुर्यान्मध्ययोरग्रपर्वगम् || ३४-१३ ||
महायोनिरिति ख्याता मुद्रा सर्ववशंकरी |
त्रिविधा त्रिविधाया मे मुद्रैषा संप्रदर्शिता || ३४-१४ ||
सूक्ष्माख्या शक्तिमुद्रा या विकारस्तत्र वर्ण्यते |
प्रदेशिन्यादितोऽङ्गुष्ठमैकैकश्येन सेतुवत् || ३४-१५ ||
विन्यस्याङ्गुलिषु ज्ञेयाश्चतस्रो मुद्रिका इमाः |
शक्तीनां तु मदीयानां लक्ष्म्यादीनां पुरंदर || ३४-१६ ||
लक्ष्मीः कीर्तिर्जया माया देव्योमच्छक्तयो हि ताः |
दक्षिणेन तु हस्तेन मुष्टिबन्धं प्रकल्पयेत् || ३४-१७ ||
अन्तःस्थमुन्नतं कृत्वा वामाङ्गुष्ठं सुरोत्तम |
संमुखं हृदि हार्दैषा मुद्रा बुद्धिविवर्धनी || ३४-१८ ||
प्रसृता अङ्गुलीः सर्वा अङ्गुष्ठेन तु संस्पृशेत् |
शैरस्येषा भवेन्मुद्रा मन्त्रसंनिधिकारिणी || ३४-१९ ||
मुष्टिं वितर्जनीं कृत्वा तर्जनी ह्यूर्ध्वसंस्थिता |
शिखामुद्रेति विख्याता सर्वदुष्टभयंकरी || ३४-२० ||
दोषविघ्नविनाशाय सदा ह्येतां प्रदर्शयेत् |
आदौ तस्मात् प्रयत्नेन यागवेश्मनि दर्शयेत् || ३४-२१ ||
उत्सादं सर्वविघ्नानां कुरुते मन्त्रसंयुता |
उभयोरग्रतः शाखाः संस्थास्तु करयोर्द्वयोः || ३४-२२ ||
ताभ्यां मध्यमसंलग्नं करबन्धादितो भवेत् |
वार्मण्येषा भवेन्मुद्रा द्वावंसावनया स्पृशेत् || ३४-२३ ||
अभेद्या दुष्टसंघेन भूतवेतालयोगिभिः |
कर्मकाले निबध्यैषा मन्त्रिणा च प्रयत्नतः || ३४-२४ ||
करयोर्ग्रथिताङ्गुल्यः संवृताः पाणिपृष्ठगाः |
तर्जन्यौ प्रान्तसंलग्ने सुषिरे चोच्छ्रिते तयोः || ३४-२५ ||
अङ्गुष्ठौ मूलसंलग्नौ विपर्यस्तौ परस्परम् |
चाक्षुष्येषा भवेन्मुद्रा निबध्या चक्षुरन्तिके || ३४-२६ ||
तर्जनीं स्फोटयेद्दिक्षु दशस्वङ्गुष्ठकेन तु |
द्रतं करद्वयेनैव चक्षुर्भ्यां संनिरीक्षयेत् || ३४-२७ ||
अस्त्रमुद्रेति विख्याता त्रासनी देवविद्विषाम् |
अङ्गानामियमुद्दिष्टा षण्मुद्री सर्वसाधनी || ३४-२८ ||
उपाङ्गत्रियुगस्याथ मुद्रा एता निशामय |
अङ्गुलीः श्लेषयेत् सर्वाश्चतस्रो दक्षिणस्थिताः || ३४-२९ ||
तासां मूले तथाङ्गुष्ठं तिर्यञ्चं विनिवेशयेत् |
उपाङ्गानामियं मुद्रा तया तत्तत् स्पृशेत् पदम् || ३४-३० ||
अलंकारास्त्रमन्त्राणां मुद्रा अथ निशामय |
कनिष्ठानामिकामध्या मुष्टिवत् पाणिमध्यगाः || ३४-३१ ||
उभयोर्हस्तयोः पश्चात्तौ मुष्टी श्लेषयेन्मिथः |
प्रसार्य तर्जनीद्वन्द्वं श्लेषयेदग्रतस्ततः || ३४-३२ ||
अङ्गुष्ठाग्रे विपर्यस्य तर्जन्योर्मध्यतो न्यसेत् |
मुद्रैषा कौस्तुभी नाम मालामुद्रामिमां शृणु || ३४-३३ ||
कण्ठादापादतः स्वांसौ तर्जनीभ्यां परिभ्रमन् |
कुर्याद्युगपदेवैषा वनमालामयी शुभा || ३४-३४ ||
व्यङ्गुष्ठा अङ्गुलीरष्टौ ग्रथयेदग्रतो मिथः |
लम्बं बाहुद्वयं कुर्यादेषा वा वनमालिका || ३४-३५ ||
अङ्गुष्ठौ पार्श्वतो लग्नावङ्गुल्यो विरलाः स्थिताः |
एषा पाङ्केरुही मुद्रा पुष्टिसौभाग्यवर्धिनी || ३४-३६ ||
उत्ताने दक्षिणे पाणावग्रेऽङ्गुष्ठकनिष्ठयोः |
मेलयेत् सेतुवच्छिष्टं सुसंश्लिष्टं लतात्रयम् || ३४-३७ ||
आकुञ्चितफणाकारा मुद्रा पाशा भवेदियम् |
मुष्टिं पृष्ठस्थिताङ्गुष्ठं पाण्योर्मुष्टिद्वयं पुरा || ३४-३८ ||
कुर्यादधोमुखं वामं तत्पृष्ठे दक्षिणं तथा |
अथाधारादिशक्तेः स्यान्मुद्रोक्ता कूर्मवह्निजा || ३४-३९ ||
अधोमुखस्य वामस्य ह्यनामातर्जनीद्वयम् |
आकुञ्च्य मध्यमापृष्ठे विन्यसेत्तु सुसंस्थितम् || ३४-४० ||
ऋजूमधोमुखीं कुर्यान्मध्यमामङ्गुलीं तथा |
ततः कनिष्ठिकाङ्गुष्ठौ बलवत्तु प्रसारयेत् || ३४-४१ ||
अनन्तासनमुद्रेयमनन्तोऽयं यथोत्थितः |
इयमासनमुद्राणां प्रधाना परिकीर्तिता || ३४-४२ ||
अविभागा परा शक्तिराधाराधारसंज्ञिता |
कूर्ममुद्रा तदुन्मेषा नादात्मानन्तमुद्रिका || ३४-४३ ||
भावनीयमिदं शश्वदित्थमासनकर्मणि |
करद्वयेन बध्नीयाल्लग्नमुष्टिद्वयं पुरः || ३४-४४ ||
अङ्गुलीत्रितयेनैव अङ्गुष्ठौ तर्जनीद्वयम् |
प्रान्तलग्नं तु तत् कुर्यात्तद्युगं मेलयेत् पुनः || ३४-४५ ||
एषा सा पार्थिवी मुद्रा सर्वभूतविधारिणी |
मणिबन्धौ तु संलग्नौ नखाग्राणि करद्वये || ३४-४६ ||
कार्याणि साङ्गुलीकानि परस्परमुखानि तु |
अङ्गुष्ठाग्रे निराधारे तन्मध्ये चालयेद् द्रुतम् || ३४-४७ ||
मध्ये कुर्याच्च करयोरगाधं सुषिरोपमम् |
क्षीरार्णवस्य मुद्रैषा पाद्मी पूर्वं प्रदर्शिता || ३४-४८ ||
करद्वयमसंलग्नं कृत्वा तदनु योजयेत् |
मुखे मुखं तु तर्जन्योरेवं मध्यमयोः क्रमात् || ३४-४९ ||
अनामयोस्ततः पश्चाद्वक्त्रे वक्त्रं कनिष्ठयोः |
अङ्गुष्ठयुगलं तत्तदङ्गुलीमुखयोर्न्यसेत् || ३४-५० ||
एतन्मुद्राचतुष्कं तु धर्माद्ये तु चतुष्टये |
अधर्मादिचतुष्काणां तद्वन्मुद्राचतुष्टयम् || ३४-५१ ||
तदूर्ध्वस्थस्य पद्मस्य मुद्रा पाद्मी पुरोदिता |
दक्षिणस्य तु हस्तस्य तर्जन्यङ्गुष्ठमेलनम् || ३४-५२ ||
कृत्वा तदनु तद्बन्धं विकास्य च शनैः शनैः |
समुत्तानं पुनः कुर्याच्छाखासंघं पृथक् पृथक् || ३४-५३ ||
धामत्रयस्य मुद्रैषा चिद्भासनगतां शृणु |
स्फुटौ प्रसारितौ हस्तौ कुर्यादञ्जलिरूपकौ || ३४-५४ ||
चिद्भासनस्य मुद्रैषा शुद्धसत्त्वमयी परा |
द्वात्रिंशदिति मुद्राणां सर्वदोषविनाशिनी || ३४-५५ ||
भूषणास्त्रासनादीनां तव शक्र प्रदर्शिता |
क्षेत्रेश्वरादिमुद्राणामिदानीं दशकं शृणु || ३४-५६ ||
ग्रस्तमङ्गुलिसंघातं कृत्वा पाणिद्वयेन तु |
बलात्संपीडयेत् कुर्वन्नङ्गुष्ठद्वयमुच्छ्रितम् || ३४-५७ ||
मुद्रेयं क्षेत्रपालस्य सर्वदुष्टनिबर्हणी |
उत्तानौ तु करौ कृत्वा निकटस्थौ पुरंदर || ३४-५८ ||
अङ्गुलीनां गणं सर्वं कुञ्चितं मध्यसंस्थितम् |
अङ्गुष्ठौ पतितौ कृत्वा क्रमशः स्फुटतां नयेत् || ३४-५९ ||
श्रीबीजस्य तु मुद्रैषा प्रथमं कथिता तव |
समुत्थाप्य कराद्वामात्तर्जनीं चण्डबीजजाम् || ३४-६० ||
तामेव दक्षिणाद्धस्तात् प्रचण्डस्य निदर्शयेत् |
मध्यमां वामहस्ताद्वै समुत्थाप्य जयस्य सा || ३४-६१ ||
दक्षिणाद् विजयाख्यस्य बीजस्य परिकीर्तिता |
वामाच्चानामिकां प्राग्वत्कृत्वा गाङ्गस्य विद्धि ताम् || ३४-६२ ||
दक्षिणाद्यामुनस्योक्ता मुद्रा बीजस्य वासव |
मुद्रा शङ्खनिधेः प्रोक्ता वामहस्तात् कनिष्ठिका || ३४-६३ ||
तथा पद्मनिधेर्हस्ताद् दक्षिणात् सा कनिष्ठिका |
दक्षिणेन तु हस्तेन साङ्गुष्ठेन तु मुष्टिना || ३४-६४ ||
प्रदेशिनीमनामां च वामहस्तस्य पीडयेत् |
प्रयत्नीकृतशाखानां पृष्ठे योज्याथ मध्यमा || ३४-६५ ||
लम्बमानकराकारा यथा संदृश्यते च सा |
मुष्टेर्नातिसमीपस्थां वामहस्तात् कनिष्ठिकाम् || ३४-६६ ||
दक्षिणाङ्गुष्ठपार्श्वेन दंष्ट्रावत् परिभावयेत् |
ईषत्तिर्यग्गतिस्पष्टौ वामोऽङ्गुष्ठस्तथा परः || ३४-६७ ||
यथा तौ परिदृश्येते गजकर्णोपमौ शुभौ |
गणेश्वरस्य मुद्रैषा सर्वविघ्नक्षयंकरी || ३४-६८ ||
संश्लिष्टौ मणिबन्धौ तु कृत्वा पाणिद्वये पुरा |
संलग्नमग्रदेशात्तु प्रोन्नतं मध्यमायुगम् || ३४-६९ ||
प्रदेशिनीयुगं तद्वत्तथैवानामिकाद्वयम् |
अङ्गुष्ठं द्विगुणीकृत्य नमयेत्तदधोमुखम् || ३४-७० ||
शनैः शनैः स्पृशेद्यावत् स्वं स्वं पाणिद्वयीतलम् |
स्फुटं सुविरलं कुर्यादङ्गुष्ठद्वितयं तथा || ३४-७१ ||
कनिष्ठिकाद्वयं चैव समेन धरणेन तु |
इयं वागीश्वरी मुद्रा वाणीविभवदायिनी || ३४-७२ ||
संमुखौ संपुटीकृत्य द्वौ हस्तौ संप्रसारितौ |
विनियोज्यौ ललाटाग्रे शिरसावनतेन तु || ३४-७३ ||
गुर्वादित्रितयस्यैषा मुद्रा चेतःप्रसादिनी |
प्रोत्तानं दक्षिणं पाणिं कृत्वाङ्गुलिगणं ततः || ३४-७४ ||
संलग्नं कुञ्चयेत् किंचिदङ्गुष्ठं संप्रसार्य च |
तिर्यक् शनैः शनैः किंचित् कुर्याच्चाधोमुखं ततः || ३४-७५ ||
मुद्रा पितृगणस्यैषा नित्यतृप्तिकरी स्मृता |
इयं श्राद्धसहस्रेभ्यः पितृप्रीतिकरी सदा || ३४-७६ ||
दर्शनीया प्रयत्नेन पितॄणां पूजने सदा |
करद्वयं समुत्तानं नाभिदेशे नियोजयेत् || ३४-७७ ||
वामस्य दक्षिणं पृष्ठे मुद्रैषा सिधसंसदः |
सुस्पृष्टं दक्षिणं हस्तमात्मनस्तु पराङ्मुखम् || ३४-७८ ||
पराङ्मुखं लम्बमानं वामपाणिं प्रकल्पयेत् |
वराभयदमुद्रे द्वे लोकेशानामिमे स्मृते || ३४-७९ ||
एकैकेन तु मन्त्रेण वज्राद्येव क्रमाद्युतम् |
अस्त्राख्यां शक्तिसंयुक्तां प्रागुक्तां संप्रदर्शयेत् || ३४-८० ||
लोकपालायुधानां तु पूजितानां क्रमादिह |
वामहस्तकनिष्ठाद्यास्तिस्रः स्वतलमध्यगाः || ३४-८१ ||
तासामङ्गुष्ठतः पृष्ठे तर्जनी प्रोन्नता भवेत् |
नासावंशप्रदेशस्था ततो दक्षिणपाणिना || ३४-८२ ||
अङ्गुलीत्रितयेनैव मुष्टिं बद्ध्वा तु पूर्ववत् |
तर्जनीं द्विगुणीकृत्य त्वङ्गुष्ठाग्रे नियोजयेत् || ३४-८३ ||
प्रोद्यतो दक्षिणो बाहुश्चक्रक्षेपे यथोद्यतः |
विष्वक्सेनस्य मुद्रेयं विश्वबन्धनकृन्तनी || ३४-८४ ||
किंचिदाकुञ्चयेद्धस्तं दक्षिणं हृदयोपगम् |
अङ्गुष्ठौ विरलौ स्पष्टौ मुद्रा ह्यावाहने स्मृता || ३४-८५ ||
खड्गधारासमाकारौ विरलाङ्गुलिकावुभौ |
अङ्गुष्ठौ दण्डवत् कृत्वा मुष्टिबन्धं शनैः शनैः || ३४-८६ ||
कुर्यात् कनिष्ठिकादिभ्यो मुद्रैषा स्याद्विसर्जने |
प्रसृतौ द्वौ करौ कृत्वा सुश्लिष्टौ चाप्यधोमुखौ || ३४-८७ ||
कनीयस्यौ तथाङ्गुष्ठौ सुश्लिष्टौ च नियोज्य च |
मध्यमाङ्गुलियुग्मं चाप्यन्योन्यकरपृष्ठगम् || ३४-८८ ||
प्रक्षिप्यानामिकायुग्मं तर्जनीयुगलं तथा |
मुद्रैषा कामधेन्वाख्या सर्वेच्छापरिपूरणी || ३४-८९ ||
द्विप्रकारं तु मुद्राणां प्रयोगं विद्धि वासव |
अध्यात्मं संविदाकारं बाह्यं वाक्कर्मचित्तजम् || ३४-९० ||
अनेन विधिना मुद्रां यो बध्नाति विधानवित् |
तेनेदं मुद्रितं सर्वमपुनर्भवसिद्धये || ३४-९१ ||
इति मुद्रागणः सर्वस्तवोद्दिष्टः पुरंदर |
आराधनाधिकाराथं शृणु स्नानविधिं परम् || ३४-९२ ||
अन्तर्बहिर्मलोपेतमलक्ष्मीः प्रतिपद्यते |
तस्या निवारणार्थाय स्नानं सर्वत्र शिष्यते || ३४-९३ ||
तत् पुनस्त्रिविधं स्नानं जलमन्त्रस्मृतिक्रमात् |
त्रिविधं पुरुहूतैतत् स्मृतं शतगुणोत्तरम् || ३४-९४ ||
पुष्करादिषु तीर्थेषु यत् स्नानं जलजं स्मृतम् |
ततः शतगुणं स्नानं भगवच्छास्त्रचोदितम् || ३४-९५ ||
तस्माच्छतगुणं मान्त्रं मन्त्राङ्गन्याससंभवम् |
तस्माच्छतगुणं ध्यानं शुद्धसंविन्मयं परम् || ३४-९६ ||
आदौ सामान्यविधिना जलस्नानं समाचरेत् |
विशेषविधिना पश्चाद्विशेषस्य विधिस्त्वयम् || ३४-९७ ||
पूर्वं स्नात्वा मृदाम्भोभिः पश्चाद्गन्धादिलेपनम् |
स्नानं स्यात्तन्मलध्वंसि प्राणायामैः समाचरेत् || ३४-९८ ||
द्वादशावृत्तया कुर्यात् पूरणं तारया पुरा |
धारयेत् षोडशावृत्त्या द्विषट्केन पुनस्त्यजेत् || ३४-९९ ||
सव्यदक्षिणपर्यायै रेचनान्तमरुत्क्रमैः |
मलान् क्षपयति प्राणनाडीस्थान् पूर्वसंचितान् || ३४-१०० ||
ततस्तत्त्वमयो भूत्वा मलिनं भूतपिण्डकम् |
षाट्कोशिकमसारं च शोधयेद्धारणावशात् || ३४-१०१ ||
पृथिव्यादीनि सर्वाणि तत्त्वानि स्वस्वकारणे |
धारणाभिर्नयेदस्तमव्यक्तान्तानि वै क्रमात् || ३४-१०२ ||
क्षीरे क्षीरमिवात्मानं मयि संमिश्रयेत्ततः |
भूत्वा लक्ष्मीमयः पश्चाद्भवेन्नारायणात्मकः || ३४-१०३ ||
धारणाबन्धमासाद्य शुद्धसत्त्वेन चेतसा |
परमात्मात्मकत्त्वं यत् सा शक्तिः परमा मता || ३४-१०४ ||
तत्स्थ एव स्वकं पिण्डं संदहेद्धारणाग्निना |
चिदाशुशुक्षणेस्तेजःपुञ्जमर्चिःकणालयम् || ३४-१०५ ||
पतन्तं संस्मरेन्मूर्ध्नि पिण्डं प्रज्वलितं ततः |
शान्तमन्तःस्थसत्सत्त्वं भस्मीभूतरजस्तमम् || ३४-१०६ ||
रजस्तमोमयं भस्म त्वपोह्योद्बोधवायुना |
चिदानन्दमहाम्भोधेरतरङ्गगुणाकरात् || ३४-१०७ ||
प्रसृतं सृष्टिमार्गेण संस्मरेदमृतोदकम् |
तेनाप्यायितमन्तःस्थं तत्सत्त्वं देहतां नयेत् || ३४-१०८ ||
शुद्धं तत्सृष्टिमार्गेण संश्रयेद्भौतिकं वपुः |
अन्तःशुद्धिरियं प्रोक्ता बाह्यशुद्धिमथो शृणु || ३४-१०९ ||
वक्ष्यमाणक्रमैरङ्गैर्मन्त्रन्यासं समाचरेत् |
बहिः शुद्धिर्भवेदेवं तदा स्नानं समाचरेत् || ३४-११० ||
पवित्रपाणिरादाय मृत्कलां मन्त्रमन्त्रिताम् |
तां त्रिधा वामहस्ताग्रे मूलमध्याग्रतो न्यसेत् || ३४-१११ ||
बोधशक्त्यात्मना पूर्वं तीर्थशुद्धिं समाचरेत् |
तीर्थं तत् त्रिविधं प्रोक्तं स्थूलसूक्ष्मपरात्मना || ३४-११२ ||
तर्पयत्यखिलं स्थूलं स्थूलरूपेण तज्जगत् |
सत्त्वात्मना तु सूक्ष्मेण ससुरांस्तर्पयेत्पितॄन् || ३४-११३ ||
परेणानन्दरूपेण नयेन्मत्कर्मयोग्यताम् |
तस्माच्छुद्धिः पुरा कार्या तीर्थे शास्त्रदृशा स्वयम् || ३४-११४ ||
ज्ञानधारणयाकृष्य तीर्थसत्तां तु वैष्णवीम् |
मयि शक्तौ लयं नीत्वा चिदानन्दमहास्पदे || ३४-११५ ||
स्थूलं ज्ञानाग्निना दग्ध्वा ब्रह्मानन्देन पूरयेत् |
ज्ञानशक्त्यावरोप्याथ तीर्थे सत्त्वं तु वैष्णवम् || ३४-११६ ||
प्रथमे मध्यमेऽथान्ते मृद्भागे क्रमशः सुधीः |
अस्त्रं च मूलमन्त्रं चाप्यङ्गमन्त्रं च संस्मरेत् || ३४-११७ ||
दश दिक्षु क्षिपेदस्त्रं सर्वविघ्नोपशान्तये |
मूलमन्त्रान्वितं भागं तीर्थमध्ये विनिक्षिपेत् || ३४-११८ ||
संनिधानं भवेत्तेन मन्त्रमूर्तेर्मम क्षणात् |
मृद्भागमाङ्गमन्त्रं यत्तेनाङ्गानि विलेपयेत् || ३४-११९ ||
जलमध्यं समाविश्य निमज्ज्योन्मज्ज्य वै पुनः |
कराभ्यामस्त्रजप्ताम्भः पूर्वं मूर्ध्नि विनिक्षिपेत् || ३४-१२० ||
द्वितीयं मूलमन्त्रेण तृतीयं चाङ्गमन्त्रकैः |
ततस्तीरं समासाद्य सम्यगाचम्य वै ततः || ३४-१२१ ||
स्नानं समाचरेन्मन्त्रैर्यथावन्न्यासकर्मणा |
ध्यानस्नानं ततः कुर्यात् सावधानेन चेतसा || ३४-१२२ ||
खस्थितं पुण्डरीकाक्षं स्मृत्वा लक्ष्मीधरं परम् |
तत्पादोदकजां धारां संस्मरेच्छिरसि च्युताम् || ३४-१२३ ||
तया संप्लावयेदन्तर्बहिश्च सकलं वपुः |
एकैकशो द्विशो वापि त्रिशो वापि समाहितः || ३४-१२४ ||
यथाशक्ति यथाकालं त्रिविधं स्नानमाचरेत् |
प्रणवाद्यैर्नमोऽन्तैश्च नामभिर्मन्मयान् सुरान् || ३४-१२५ ||
ऋषींश्च तर्पयित्वाथ स्वधान्ते तर्पयेत् पितॄन् |
एवं स्नानं विधायाथ तीर्थस्थं मन्त्रनायकम् || ३४-१२६ ||
आकृष्य पूकेणाथ संस्मरेद्धृदयान्तरे |
आकृष्य मनसास्त्रं च दिग्विदिक्स्थापितं पुरा || ३४-१२७ ||
यागाङ्गानि समादाय प्रयायाद्यागमन्दिरम् |
स्वयं सिद्धमथार्षं वा सिद्धैर्वा परिकल्पितम् || ३४-१२८ ||
मनुष्यैः कल्पितं वाथ मन्मयैर्भावितान्तरैः |
सर्वलक्षणसंपूर्णं विमानं पाञ्चरात्रिकम् || ३४-१२९ ||
शुभं कमलिनीतीरं विजनं वा मनोहरम् |
यद्वा विविक्तमुद्यानं पुण्यवृक्षोपशोभितम् || ३४-१३० ||
पुलिनं रमणीयं वा सिकतोपरि विस्तृतम् |
अवातमजनस्पर्शमसमीपस्थदोषवत् || ३४-१३१ ||
यत्र वा रोचते चित्तं तत्र यायान्मनोवशात् |
हृन्मध्यस्थे परे मन्त्रे प्रबुद्धानन्दविग्रहे || ३४-१३२ ||
दिगन्तरमपश्यन् वै मौनी संरोधितानिलः |
प्राप्य स्थानं शुभं तत्र नासाग्रेण विरेचयेत् || ३४-१३३ ||
मन्मन्त्रं परमात्मानं प्रदीप्तानलविग्रहम् |
बहिरस्त्रं च विन्यस्य चरणेनाहनेत् क्षितिम् || ३४-१३४ ||
स्मरन् मन्त्रमयीं लक्ष्मीं मामेकां परमेश्वरीम् |
एकान्तदेशमासाद्य बध्नीयाद्रुचिरासनम् || ३४-१३५ ||
दर्भे चर्मणि वस्त्रे वा फलके यज्ञकाष्ठजे |
अभिवन्द्य हरिं मां च भक्त्यैव गुरुसंततिम् || ३४-१३६ ||
गृहीत्वा मानसीमाज्ञां तेभ्यस्तु शिरसा नतः |
मानसीं निर्वपेत् सर्वां क्रियां ज्ञानसमाधिना || ३४-१३७ ||
ज्ञानेन क्रियते यद्यत् कर्म ब्रह्मसमाधिना |
शुद्धसत्त्वमयं तत्तदक्षयं भवति ध्रुवम् || ३४-१३८ ||
बाह्यद्रव्याश्रिता यस्माद् दोषा राजसतामसाः |
ततस्तच्छोधनमपि कर्मणा मनसा गिरा || ३४-१३९ ||
तस्मादेकान्तनिर्दोषं भावनावासितं तथा |
तस्माज्ज्ञानं समास्थाय शुद्धं संवित्समुद्भवम् || ३४-१४० ||
ज्ञानभावनया कर्म कुर्याद्वै पारमार्थिकम् |
इति स्नानविधिः सम्यक् कीर्तितस्ते सुरेश्वर |
अङ्गन्यासादिकं स्थानं तव वक्ष्याम्यतः परम् || ३४-१४१ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे स्नानविधिप्रकाशो नाम चतुस्त्रिंशोऽध्यायः ||
Kapitel 35
Deutsche Übersetzung: Kapitel 35 · Sanskrit IAST: Kapitel 35
श्रीः -
अन्तर्यागादिसिद्ध्यर्थं भूतशुद्धिं निशामय |
कथ्यमानं मया शक्र सावधानेन चेतसा || ३५-१ ||
प्रकृत्यन्तस्य पृथ्व्यादेः कादिभान्ततयैव च |
मन्मयीकरणं बुद्ध्या भूतशुद्धिरिहोच्यते || ३५-२ ||
पृथिव्यादि प्रकृत्यन्तं यत् प्रकृत्यष्टकं स्थितम् |
स्थूलसूक्ष्मविभेदेन तत्र रूपद्वयं विदुः || ३५-३ ||
चक्षुर्गोचरसंस्थानं स्थूलरूपं तु वर्ण्यते |
कारणाकारता यत्र तत्तु तन्मात्रमुच्यते || ३५-४ ||
स्थूलसूक्ष्मविभेदेन तत्त्वमेतद् द्विरष्टकम् |
विषयेन्द्रियवृतीश्च तत्र तत्र निवेशयेत् || ३५-५ ||
घ्राणादि पायूपस्थादि गन्धादीति त्रयं त्रयम् |
तन्मात्रवर्गे पृथ्व्यादौ प्रातिलोम्याच्छमं नयेत् || ३५-६ ||
तरङ्गा जलधौ यद्वदस्तं यान्ति समीरणात् |
विषयेन्द्रियकल्लोला महाभूतमहोधौ || ३५-७ ||
सुसमीचीनया बुद्ध्या तद्वदस्तं नयेद् बुधः |
मनोऽभिमान इत्येतावहंकारे शमं नयेत् || ३५-८ ||
प्राणमध्यवसायं च बुद्धितत्त्वे निबर्हयेत् |
सत्त्वं रजस्तमश्चैव त्रैगुण्यं प्रकृतौ नयेत् || ३५-९ ||
यत्तत् त्रैगुण्यमव्यक्तं कारणं महदादिके |
त्रैगुण्यं च प्रसूतिश्च मायेत्येतत् त्रिधा तु तत् || ३५-१० ||
एवं तत्त्वविदां ज्ञेया एताः प्रकृतयो दश |
स्थूलसूक्ष्मविभेदेन ताः पुनर्विंशतिः स्मृताः || ३५-११ ||
स्थूलानां प्रकृतीनां तु दश मन्त्रा इमे स्मृताः |
तत्तत्संज्ञा हुंफडन्तास्तारिकाद्या ध्रुवादिकाः || ३५-१२ ||
मांसं मेदस्तथा स्मृत्वा रसो व्योमाक्षरत्रयम् |
परात् परद्वयं चैव बिन्दुनादविभूषितम् || ३५-१३ ||
दशानां सूक्ष्मरूपाणां शक्त्याद्यास्ता नव स्मृताः |
देहेषु जीवभूता याः शक्तयः परसंज्ञिताः || ३५-१४ ||
मायाव्योमयुतानेतान् शक्त्यादींस्तदनु स्मरेत् |
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च || ३५-१५ ||
शान्त्यतीताभिमाना च प्राणा गुणवती तथा |
गुणसूक्ष्मा निर्गुणा च एताः संज्ञाः क्रमात् स्मृताः || ३५-१६ ||
बीजानां दशके तस्मिन् वह्निविष्ण्वर्धचन्द्रकान् |
संयोज्य मन्त्रान् जानीयादधिष्ठात्रीगतानिमान् || ३५-१७ ||
गन्धश्रीश्च रसश्रीश्च रूपश्रीः स्पर्शपूर्विका |
शब्दश्रीरभिमानश्रीः प्राणश्रीर्गुणपूर्विका || ३५-१८ ||
तथैव गुणसूक्ष्म श्रीर्मायाश्रीरिति संज्ञया |
अधिष्ठात्र्योऽपि वर्तन्ते शक्तयो दशके मम || ३५-१९ ||
एवं परिकरं बुद्ध्वा भूतशुद्धिं समाचरेत् |
स्थानशुद्धिं पुरा कुर्याद्यथा तदवधारय || ३५-२० ||
कालाग्न्यर्कसहस्राभां निर्धूमाङ्गारसंनिभाम् |
मां स्मृत्वा मन्मुखोत्थेन वह्निना निर्दहेद्भुवम् || ३५-२१ ||
सोमायुताभमद्वक्त्रजेनासिञ्चेदथाम्बुना |
स्थानशुद्धिर्भवेदेवं भूतशुद्धिमथो शृणु || ३५-२२ ||
चतुरश्रां समां पीतां वज्रचिह्नां वसुंधराम् |
मन्त्रेणाकृष्यदेहान्तः स्वस्थानस्थां लयं नयेत् || ३५-२३ ||
गन्धमात्रे ततस्तच्च स्वबीजेनास्तमानयेत् |
मययधिष्ठानभूतायां मां च बाह्याम्भसि क्षिपेत् || ३५-२४ ||
मन्त्रेणार्धेन्दुसंकाशं पद्माङ्कं तच्च दैवतम् |
स्वस्थाने विलयं नीत्वा रसमात्रे स्वमन्त्रतः || ३५-२५ ||
मन्त्रेण तं प्रतिष्ठाप्य तच्च मययानयेल्लयम् |
मां च बाह्ये क्षिपेद्वह्नावामायं तत्क्रमस्त्वयम् || ३५-२६ ||
सर्वत्र नैकं बुध्येत मच्छक्तेविलयं बुधः |
यथा हि सर्पिरासिञ्चेत् क्षीरे तन्मथनोद्भवम् || ३५-२७ ||
सर्पिरन्यत्र च क्षीरे तत्सर्पिष्यपि चान्यकम् |
एवमा प्रकृतेः शक्तीरधिष्ठात्रीः स्मरेद् बुधः || ३५-२८ ||
एवं मां परमां शक्तिं नवशक्तिसमन्विताम् |
निर्गुणान्तविधां ध्यातां मायाधिष्ठानकारिणीम् || ३५-२९ ||
दशमीं तत्परं नीत्वा शक्तिमेकादशीं स्थिताम् |
महाक्षोभमयीं लक्ष्मीं व्यूहाभ्युदयरूपिणीम् || ३५-३० ||
एकादशीं च तां नीत्वा द्वादशीं परमात्मिकाम् |
अनिर्देश्यामनौपम्यां द्वादशीं तां मयि क्षिपेत् || ३५-३१ ||
एवं तां परमां शक्तिं द्वादशीमखिलात्मिकाम् |
द्वादशान्तान्तमुन्नीय वर्णमययां मयि स्मरेत् || ३५-३२ ||
अग्नीषोमार्ककोट्याभा सर्वतोऽक्षिशिरोमुखी |
धारासंतानरूपा मे सूक्ष्मा वर्णमयी तनुः || ३५-३३ ||
सर्वजीवोपकाराय सर्वसंभारसंभृता |
उदिता सा पुरा विष्णोर्मेघाद्विद्युदिवोज्ज्वला || ३५-३४ ||
शक्रः -
कानि स्थानानि देहेऽस्मिन् यत्र कार्यो लयः क्रमात् |
कीदृशानि च बिम्बानि भूम्यादीनां वदाम्बुजे || ३५-३५ ||
श्रीः -
आ जानुतो भुवः स्थानमा कट्याः पयसः स्मृतम् |
आ नाभेस्तेजसः स्थानं वायोः स्थानं तदा हृदः || ३५-३६ ||
आ कर्णान्नभसः स्थानमा विलाच्चाप्यहंकृतेः |
आ भ्रुवोर्महतः स्थानमाकाशे तु परं स्मृतम् || ३५-३७ ||
ततः प्रादेशमात्राग्रे मूर्धतश्चतुरङ्गुले |
स्थाने प्रकृत्याः शेषं तदङ्गुलीनां द्विरष्टकम् || ३५-३८ ||
एकादश्यां द्विषट्कायां स्थानं तत्त्वक्षरश्रियः |
चतुरश्रं भवेद्बिम्बं वज्राङ्कं पार्थिवं महत् || ३५-३९ ||
अर्धेन्दुसदृशं शुक्लं पद्माङ्कं पयसः स्मृतम् |
त्रिकोणं स्वस्तिकाङ्कं च रक्तं तैजसमुच्यते || ३५-४० ||
धूम्रं षड्बिन्दुसंयुक्तं वृत्तं वायव्यमुच्यते |
अञ्जनाभं तथाकाशं बिम्बमात्रं स्मृतं परम् || ३५-४१ ||
एवं तत्त्वोपसंहारे कृते हृत्कुहरोद्गतम् |
ज्ञानरज्ज्ववलम्बं च सुषुम्नामध्यमानुगम् || ३५-४२ ||
ऊर्ध्वमाजानुमुन्नीय शक्तिसोपानपङ्क्तिभिः |
द्वादशान्तान्तराजीवं मध्यस्थायां मयि क्षिपेत् || ३५-४३ ||
तदन्ते च महापद्मं सहस्रदलसंयुतम् |
सूर्यकोटिसहस्राभमिन्दुकोट्ययुतप्रभम् || ३५-४४ ||
अग्नीषोममयान्तःस्था महानन्दमयी तनुः |
अनिदेश्योपमा संविन्मयी सा मामिका परा || ३५-४५ ||
अंशतः प्रसरन्त्यस्या जीवानन्दा सरिद्वरा |
स्वानन्दमेनमानीय महानन्दमयीं नयेत् || ३५-४६ ||
ततो लवणकूटाभं पिण्डमस्मन्मुखोद्गतैः |
महाज्वालैर्महावेगैश्चिन्मयैः परितो दहेत् || ३५-४७ ||
युक्तः सरसकः षष्ठो बिन्दुमान् दाहपावकः |
तारिकानतिमध्यस्थो विज्ञेयः शास्त्रचक्षुषा || ३५-४८ ||
सोममयया ममास्योत्थैः पीयूषैः प्लावयेत्ततः |
चन्द्री सूक्ष्मस्तु सव्योमा पिण्डस्याप्यायने स्मृतः || ३५-४९ ||
सिसृक्षया मयोद्यत्या संवित्प्राणोपगूढया |
प्रेरितास्ताः स्मरेच्छक्तीर्वर्णमययां मयि स्थिताः || ३५-५० ||
ततस्ताभिः स्वशक्तीभिश्चोदनाद्वारपूर्वकम् |
मायादि क्षितिपर्यन्तं निर्मितं संस्मरेत् क्रमात् || ३५-५१ ||
ततः पिण्डसमुत्पत्तिं करणव्यञ्जनोज्ज्वलाम् |
एवं पिण्डं समुत्पाद्य शुद्धलक्ष्मीमयं महत् || ३५-५२ ||
पूर्वोक्तमार्गेण ततो हृदयं जीवमानयेत् |
पिण्डभूतास्त्रयो वर्णा अनलः सोमचन्द्रिणौ || ३५-५३ ||
तारिकानतिमध्यस्था जीवमन्त्र उदाहृतः |
विशुद्धविग्रहस्त्वेवं मन्त्रन्यासं समाचरेत् || ३५-५४ ||
अधिकाराय पूजायां पूजकानां मुदेऽपि च |
निबर्हणाय दैत्यादेविघ्नानां विजयाय च || ३५-५५ ||
क्षितावुपरि विन्यस्तं यत् पुरा फलकादिकम् |
स्वेन स्वेन तु मन्त्रेण तं मन्त्री पञ्चधा स्मरेत् || ३५-५६ ||
आधारशक्तिकूर्मोर्वीदुग्धाब्ध्यम्बुजरूपतः |
तार्क्ष्यं तत्र स्थितं ध्यायेत् खर्वबीजात्मना स्थितम् || ३५-५७ ||
तत्रोपविश्य लक्ष्मीशं रूपं स्वमनुचिन्त्य च |
दिशो निबध्य चास्त्रेण पुनरेवं मुहुर्मुहुः || ३५-५८ ||
शरजालोपमं कृत्वा प्राकारं चासनाद्बहिः |
सप्राकारं तु तत् स्थानं कवचेनावकुण्ठयेत् || ३५-५९ ||
गगनस्थैरदृश्यं स्याद्यथा न्यासं समाचरेत् |
करन्यासं पुरा कृत्वा देहन्यासं समाचरेत् || ३५-६० ||
अङ्गुष्ठे तारिकां न्यस्येत्तच्छक्तीरङ्गुलीषु तु |
तर्जन्यां तु न्यसेल्लक्ष्मीं मध्यायां कीतिमप्यथ || ३५-६१ ||
अनामायां जयां मायां कनिष्ठायां ततो न्यसेत् |
सतारतारिकासंज्ञानत्यन्तस्तन्मनुक्रमः || ३५-६२ ||
कनिष्ठिकाद्यासु ततो हृदयादीन्यनुक्रमात् |
अङ्गानि पञ्च विन्यस्य नेत्रमङ्गेषु संस्मरेत् || ३५-६३ ||
कौस्तुभं दक्षिणतले वनमालां तथापरे |
दक्षिणे मध्यतः पद्मं न्यसेद्वामतलेऽपि च || ३५-६४ ||
अङ्कुशं दक्षिणे न्यस्येत् पाशं वामतले तथा |
अनेन विधिना पूर्वं हस्तन्यासं समाचरेत् || ३५-६५ ||
ततस्तु विग्रहन्यासं यथा कुर्यात्तथा शृणु |
आ मूर्ध्नश्चरणान्तं चाचरणाच्च शिरोऽवधि || ३५-६६ ||
तारकं तारिकां चैव तौ च चन्द्रातपोपमौ |
वामस्कन्धे ततो लक्ष्मीं न्यसेत् कीर्तिं च दक्षिणे || ३५-६७ ||
जयां दक्षिणपाणिस्थां मायां वामकरस्थिताम् |
नासान्तरे च हृन्मन्त्रं शिरोमन्त्रं च मूर्धनि || ३५-६८ ||
शिखां चैव शिखास्थाने स्कन्धयोः कवचं ततः |
विन्यस्य नेत्रयोनेत्रमस्त्रं पाणितलद्वये || ३५-६९ ||
नाभौ पृष्ठे करद्वन्द्व ऊरुजानुपदेषु च |
न्यसेत् सम्यगुपाङ्गानि त्रियुगं मन्त्रवित्तमः || ३५-७० ||
वक्षःस्थं कौस्तुभं मध्ये कण्ठे च वनमालिकाम् |
पङ्कजे करयोर्न्यस्य मन्त्रमावर्तयन् द्विधा || ३५-७१ ||
वामहस्ते ततः पाशमङ्कुशं दक्षिणे करे |
पादयोस्तारिकां स्थूलां सूक्ष्मां चैवोपसंधिके || ३५-७२ ||
चरमां ब्रह्मरन्ध्रे तु मन्त्राणां नायिका हि सा |
चन्द्रिकातपसंकाशं न्यासे न्यासे मनुं स्मरेत् || ३५-७३ ||
मनसा भावयेन्मुद्रास्तत्र तत्र च साधकः |
तारिका या परा देवी तया व्याप्ताननुस्मरेत् || ३५-७४ ||
विन्यस्तान् सकलान् मन्त्रान् सर्वतः संप्लुतोदवत् |
एवं कृतेऽनुसंधाने मन्त्राणां भिन्नवर्त्मनाम् || ३५-७५ ||
अपामिवोदधिस्थानामेकीकारः प्रजायते |
एवं न्यासे कृते मन्त्री साक्षाल्लक्ष्मीमयो भवेत् || ३५-७६ ||
सर्वाधिकारभागी स्यादाश्रित्य ध्यानजं बलम् |
ध्यायिनः सर्वसिद्धीनामाविर्भावश्च जायते || ३५-७७ ||
न्यस्ताङ्गो निर्भयस्तिष्ठेद्देशे दुष्टसमाकुले |
विजयेतापमृत्यूंश्च सर्वांश्चैवौपसर्गिकान् || ३५-७८ ||
न्यस्ताङ्गो विधिवन्मन्त्री यथाशास्त्रेण चेतसा |
तनुं मन्त्रमयीं तां तु मां ध्यायेत् परमेश्वरीम् || ३५-७९ ||
अहं स भगवान् विष्णुरहं लक्ष्मीः सनातनी |
इत्येवंभाववान् योगी भूयो नैव प्रजायते || ३५-८० ||
इतीयं भूतशुद्धिस्ते यथावच्छक्र वर्णिता |
अन्तर्यागमथो वक्ष्ये तत्त्वतस्तन्निशामय || ३५-८१ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे भूतशुद्धिप्रकाशो नाम पञ्चत्रिंशोऽध्यायः ||

Kapitel 36
Deutsche Übersetzung: Kapitel 36 · Sanskrit IAST: Kapitel 36
श्रीः -
ब्रह्मानन्दमयी शक्र भोगैर्यत् पारमार्थिकैः |
इज्येयं हृदयान्तःस्था सोऽन्तर्याग इति स्मृतः || ३६-१ ||
पद्मं वा स्वस्तिकं वापि बद्ध्वा योन्यासनं तु वा |
नाभिमेढ्रान्तरे ध्यायेच्छक्तिमाधाररूपिणीम् || ३६-२ ||
देवीं केनाप्यनाधेयां नीरूपां ज्योतिरात्मिकाम् |
तदूर्ध्वे कालकूर्मं तु विमलं दीप्तविग्रहम् || ३६-३ ||
कूर्माकारं परं देवं शङ्खचक्रगदाधरम् |
तस्य चोपरि नागेन्द्रं पूर्णचन्द्रनिभाननम् || ३६-४ ||
फणासहस्रसंपूर्णं मदाघूर्णितलोचनम् |
चक्रलाङ्गलहस्तं च प्रणमेत्तं परात् परम् || ३६-५ ||
तदूर्ध्वं वसुधां देवीं कुङ्कुमक्षोदसंनिभाम् |
हेमरत्नविचित्राङ्गीं प्रसन्नवदनेक्षणाम् || ३६-६ ||
बद्धाञ्जलिं शिरोदेशे संस्मरन्तीं विभुं स्मरेत् |
चतुर्धा भाजिते क्षेत्रे नाभिमेढ्रान्तरस्थिते || ३६-७ ||
एवमाधारशक्त्यादिदेवताः संस्मरेदिमाः |
नाभौ क्षीरार्णवं ध्यायेत् कुन्देन्दुधवलाकृतिम् || ३६-८ ||
स्रोतोरश्मिभिराकीर्णं पूर्णचन्द्रनिभाननम् |
गम्भीरविग्रहं ध्यायेद्रूपवन्तमरूपिणम् || ३६-९ ||
ततः समुत्थितं पद्मं ध्यायेत् क्षीरार्णवोदरात् |
प्रशान्तपावकाकारमुदयादित्यवर्चसम् || ३६-१० ||
लम्बोदरं हसन्तं च सितदन्तं शुभाननम् |
द्विभुजं वेष्टितं शश्वच्छुभैर्विविधषट्पदैः || ३६-११ ||
सहस्रदलसंपन्नं सहस्रकिरणावृतम् |
सहस्ररश्मिसंकाशं तत्पृष्ठे चासनं न्यसेत् || ३६-१२ ||
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च क्रमादिमान् |
आसनस्य स्मरेत् पादानाग्नेयादिविदिग्गतान् || ३६-१३ ||
पुरुषाकृतयः सर्वे सिताः सिंहानना इमे |
महोत्साहा महावीर्या मद्धारणकृतोद्यमाः || ३६-१४ ||
पूर्वादिदिग्गता ज्ञेया धर्मादीनां विपर्ययाः |
अधर्मं च तथा ज्ञानमवैराग्यमनैश्वरम् || ३६-१५ ||
पुरुषाकृतयश्चेमे बन्धूककुसुमोपमाः |
प्रागीशानदिशोर्मध्ये प्रागाग्नेयदिगन्तरे || ३६-१६ ||
यातवीवारुणीमध्ये पाशिवायुदिगन्तरे |
ऋग्वेदाद्यं चतुष्कं च पीतं हयनराकृति || ३६-१७ ||
ईशानसोमदिङ्मध्ये वह्न्यन्तकदिगन्तरे |
राक्षसान्तकदिङ्मध्ये वायुसोमदिगन्तरे || ३६-१८ ||
कृताद्यं युगवृन्दं कृष्णं वृषनराकृति |
सर्वे चतुर्भुजा एते द्वाभ्यां पीठधृतस्तथा || ३६-१९ ||
द्वाभ्यामञ्जलिबद्धाभ्यां प्रणमन्त्यासनस्थिताम् |
तेषामुपरि संचिन्त्यं पीठं बुद्धिमयं परम् || ३६-२० ||
अव्यक्तमम्बुजं श्वेतं तदूर्ध्वेऽष्टदलं स्मरेत् |
तदूर्ध्वे सूर्यबिम्बं तु सूर्यकोटिसमप्रभम् || ३६-२१ ||
तदूर्ध्वे चन्द्रबिम्बं तु चन्द्रकोटिसमप्रभम् |
तदूर्ध्वे वह्निबिम्बं तु वह्निकोट्ययुतप्रभम् || ३६-२२ ||
तमो रजश्च सत्त्वं च गुणानेतान् क्रमात् स्मरेत् |
प्रणवस्य नतेश्चैव तत्तत्संज्ञास्तु मध्यगाः || ३६-२३ ||
बुद्ध्यादिसत्त्वपर्यन्ततत्त्वमन्त्रगणाः स्मृताः |
ततश्चिदासनं दद्यात् पराहंतास्वरूपकम् || ३६-२४ ||
आ नाभेर्हृदयान्तात्तु पञ्चधा भाजिते पदे |
समुद्राद्यासनान्तं तु चतुर्भिः कल्पयेत् पदैः || ३६-२५ ||
एकेन पञ्चमेनैव पद्माद्यासनकल्पनम् |
भूतान्याधारशक्तौ तु कूर्मे तन्मात्रकं गणम् || ३६-२६ ||
वागादिकं तथानन्ते भुवि श्रोत्रादिपञ्चकम् |
मनः क्षीरार्णवे ध्यायेदहंकारं ततोऽम्बुजे || ३६-२७ ||
द्विरष्टकं च धर्माद्यमासनं चापि धीः स्मृता |
अव्यक्तं च तदूर्ध्वस्थमवदातं सरोरुहम् || ३६-२८ ||
तमःप्रभृतयश्चोक्ता गुणा ह्यब्जत्रयात्मकाः |
एके कालं वदन्त्येतद् भूतादित्रितयात्मकम् || ३६-२९ ||
चिदासनमनन्ताख्यं पुमांसमपरे जगुः |
एके चिदासनादूर्ध्वं गरुडं परिचक्षते || ३६-३० ||
खर्वव्योमान्वितं पश्चात् खगानननमोयुतम् |
मन्त्रमाहुः सुरेशान तन्मन्त्रं नवमं बुधाः || ३६-३१ ||
इत्थं बहुविधैर्मन्त्रैरासने विहिते क्रमात् |
विष्णुं विश्वात्मकं देवं नारायणमनामयम् || ३६-३२ ||
भावयेत् परमात्मानं शङ्खचक्रगदाधरम् |
चतुर्भुजं पीतवस्त्रं पुण्डरीकनिभेक्षणम् || ३६-३३ ||
उदितं संस्मरेद्देवं स्वशक्तेः स्पन्दनात्मनः |
सम्यग् ध्येयं यथैतत्ते तथा भूयो निबोध मे || ३६-३४ ||
सुसम्यङ् न्यस्तमन्त्राङ्गः सुसंकॢप्तान्तरासनः |
दर्शिताशेषमुद्रश्च संस्मरेन्मन्त्रवैभवम् || ३६-३५ ||
परं ब्रह्म परं धाम यत् पारे तमसः स्थितम् |
शक्तिमच्छक्तिभावेन लक्ष्मीनारायणं महः || ३६-३६ ||
सर्वं सर्वातिगं सर्वसंस्थितं सर्वयन्तृ च |
चिदानन्दघनं पूर्णषाड्गुण्यामृतविग्रहम् || ३६-३७ ||
भावानां चिदचिद्रूपभावाभावादिभेदिनाम् |
अन्तरात्मतया तत्तदहंकारपदास्पदम् || ३६-३८ ||
अचिन्त्याननुयोज्येन हेतुना येन केनचित् |
शक्तिमच्छक्तिभावेन तद् द्विधा व्यवतिष्ठते || ३६-३९ ||
अहमित्येव यः प्रोक्तः पदप्रत्यययोर्द्वयः |
नारायणः स भविता तस्याहंता तु या परा || ३६-४० ||
तद्धर्मधर्मिणी लक्ष्मीः शक्तिः सा भावरूपिणी |
सर्वकार्यकरी सैव शक्तिर्वितनुते जगत् || ३६-४१ ||
शक्तिमन्तमधिष्ठाय ज्योत्स्नेव हिमदीधितिम् |
सा वितिस्तीर्षमाणा हि शब्दब्रह्मात्मना पुरा || ३६-४२ ||
वितत्यात्मानमथ सा वितनोत्यर्थवर्त्मना |
शब्दब्रह्ममयः पूर्वो यो नाम प्रथमोदयः || ३६-४३ ||
अकलङ्कः कलाध्वात्मा योगस्थैरनुभूयते |
धारासंतानवर्णात्मा वर्णमार्गः स शब्द्यते || ३६-४४ ||
कलाध्वानमधिष्ठाय स पुनर्मन्त्रवर्त्मना |
उदेति सकलं शक्तिचक्रमादाय वैष्णवम् || ३६-४५ ||
परात्मना परं ज्योतिर्मयमानन्दलक्षणम् |
त्रिविधेनैव रूपेण यथा ते वर्णितं पुरा || ३६-४६ ||
रूपं परं तदेवाथ वर्तते सूक्ष्मवर्त्मना |
मन्त्रप्रसररूपेण तच्च ते दर्शयिष्यते || ३६-४७ ||
सूक्ष्मं तत् त्रिविधं भूयो वर्तते स्थूलवर्त्मना |
स्थूला चादितनुर्येयमङ्गोपाङ्गविभेदिनी || ३६-४८ ||
लक्ष्मीनारायणस्यैषा मूर्तिः षाड्गुण्यबृंहिता |
चेतनाचेतनं विश्वमनुसंधेयमत्र तु || ३६-४९ ||
तत्तदैश्वर्यदत्वं तदधिष्ठातृत्वमेव च |
मन्त्रस्य वैष्णवं रूपं तद्विज्ञेयं विपश्चिता || ३६-५० ||
तत्तत्कार्यकरी तस्य या शक्तिः साहमम्बुजा |
मन्त्रस्य यद्धि चैतन्यं पुमांसं तं प्रचक्षते || ३६-५१ ||
फलप्रसवसामर्थ्यं प्राकृतं रूपमुच्यते |
यद् दृढव्यवसायित्वं महतो यो गुणस्तु सः || ३६-५२ ||
मन्त्राणां यदहंयुत्वमहंकारगुणस्तु सः |
मन्त्राणां मानसं रूपमैन्द्रियज्ञानहेतुता || ३६-५३ ||
यच्छब्दरूपता मन्त्रे सा ज्ञेया नभसि स्थिता |
कम्पो मन्त्रसमावेशे वायव्यं रूपमुच्यते || ३६-५४ ||
प्रकाशकरता ध्याने मान्त्री या तैजसात्मिका |
या तृप्तिर्मन्त्रसद्भावे परिज्ञेयाम्भसी तु सा || ३६-५५ ||
यो हि मन्त्रस्थितो भावः स भौमो गुण उच्यते |
इत्येवं सर्वगां व्याप्तिं मन्त्री मान्त्रीं सुसंस्मरेत् || ३६-५६ ||
अचिरान्मन्त्रसामर्थ्यात्तेन भावेन जायते |
इत्थं संवित्तिसामर्थ्यात्तारिकाशक्तिमातताम् || ३६-५७ ||
स्पन्दमानां पुरा पश्येद्व्योम्नि सौदामिनीमिव |
हृदम्बुजगुहामध्ये पूर्वोक्ते चित्प्रभासने || ३६-५८ ||
स्फुरन्त्यां तारिकामूर्तौ शब्दब्रह्मणि संस्मरेत् |
मिथुनं शाश्वतं दिव्यं यथावदवधारय || ३६-५९ ||
सूर्यानलांशसंस्थानं नारायणमनामयम् |
स्मरेच्चिदासनासीनं पुण्डरीकायतेक्षणम् || ३६-६० ||
पीताम्बरमुदाराङ्गं काञ्चीनूपुरशोभितम् |
हारकुण्डलकेयूरकिरीटकटकोज्ज्वलम् || ३६-६१ ||
युगानुसारिकान्तिं वा नीलाम्बरनिभं तु वा |
शङ्खचक्रधरं देवं वरदाभयदायिनम् || ३६-६२ ||
प्रभयेव मणिं पूर्णं गाम्भीर्येणेव सागरम् |
प्रभयेव विवस्वन्तं ज्योत्स्नयेव निशाकरम् || ३६-६३ ||
पुरा ध्यात्वा हृषीकेशं प्रसन्नमुखपङ्कजम् |
पुराष्टादशभिर्भोगैरर्चयेत् पुरुषोत्तमम् || ३६-६४ ||
सूक्तेन पौरुषेणाथ प्रणवेन च वासव |
द्विषट्चतुस्त्रिकार्णैश्च तथैव च जितंतया || ३६-६५ ||
अर्चयित्वाथ देवेशं लक्ष्मीं सर्वाङ्गगां स्मरेत् |
लयात्मनार्चयित्वाथ लक्ष्मीमावाहयेत्ततः || ३६-६६ ||
वामोत्सङ्गे निषण्णां तामथ देवस्य शार्ङ्गिणः |
अर्चयेद्विविधैर्भोगैर्यथावच्छास्त्रचोदितैः || ३६-६७ ||
शक्रः -
देवप्रिये देवदेवि नमस्ते पङ्कजेक्षणे |
विधिं पुरुषसूक्तस्य तारादीनां च मे वद || ३६-६८ ||
श्रीः -
एको नारायणो देवः श्रीमान् कमललोचनः |
एकाहं परमा शक्तिः सर्वकार्यकरी हरेः || ३६-६९ ||
तावावां परमे व्योम्नि क्षेमाय सकलात्मनाम् |
आसीनौ सकलेशानौ सूरिभिः सेवितौ सदा || ३६-७० ||
तयोर्नौ हृदि संकल्पः कश्चिदाविर्बभूव ह |
उत्तारणाय जीवानामुपायोऽन्विष्यतामिति || ३६-७१ ||
आवाभ्यामुत्थितं तेजः शब्दब्रह्ममहोदधिः |
मथ्यमानात्ततस्तस्मादभूत् सूक्तद्वयामृतम् || ३६-७२ ||
पुरुषस्य हरेः सूक्तं मम सूक्तं तथैव च |
अन्योन्यशक्तिसंपृक्तमन्योन्यार्णपरिष्कृतम् || ३६-७३ ||
नारायणार्षमव्यक्तं पौरुषं सूक्तमिष्यते |
अन्यन्मदार्षकं सूक्तं श्रीसूक्तं यत् प्रचक्षते || ३६-७४ ||
प्रणवाद्याः पुरा मन्त्राः पञ्च सम्यक् प्रदर्शिताः |
इदानीं शृणु संक्षेपात्तेषामाराधनक्रमम् || ३६-७५ ||
अष्टादश ऋचः प्रोक्ताः पौरुषे सूक्तसत्तमे |
ताभिस्तु प्रणवाद्याभिर्भोगानष्टादशोत्तमान् || ३६-७६ ||
कुर्यादावाहनाद्यांश्च त एतेऽष्टादश स्मृताः |
आवाहनासने सार्घ्यं पाद्यमाचमनं तथा || ३६-७७ ||
स्नानं च परिधानं च सोत्तरीयोपवीतकम् |
गन्धः सुमनसो दीपो धूपश्च मधुपर्ककः || ३६-७८ ||
प्रापणं सेन्दु ताम्बूलं पादयोः कुसुमाञ्जलिः |
आत्माराधनदानं च यथेष्टस्थानचिन्तनम् || ३६-७९ ||
सर्वलक्षणसंपन्ना सर्वाधारमयी परा |
नित्या संपूर्णषाड्गुण्या या विष्णोर्मूर्तिरुज्ज्वला || ३६-८० ||
सैवेयं कथ्यते मूर्तिर्मान्त्री मन्त्रैश्चिदात्मकैः |
स्वीकारयति तां मन्त्री देवं यत् स्वेन तेजसा || ३६-८१ ||
तदावाहनमित्युक्तं मन्त्रविज्ञानपारगैः |
स्वस्तिकृत्यै स्वभावेन चेतनाचेतनं हरिः || ३६-८२ ||
अधितिष्ठति यद्विश्वमासनं तदनु क्रिया |
ममानन्दमयी शक्तिर्देवस्त्वाप्यायते यया || ३६-८३ ||
सैवार्घ्याचमनीयादिरूपेत्यर्घ्यादिचिन्तनम् |
अस्मयाः सकला लोका जीवाश्चैव तदाश्रयाः || ३६-८४ ||
तच्छेषा उभयेऽपीति द्योत्यते पाद्यदानतः |
षोढा विभज्य रूपं स्वं तर्पयामि सनातनम् || ३६-८५ ||
शब्दाद्यैः पञ्चभिर्भावैरन्तश्चाप्यभिमानतः |
समावेशितसद्भावैर्भोगैः सांदृष्टिकादिकैः || ३६-८६ ||
आराधयेज्जगन्नाथं सावधानेन चेतसा |
दृष्ट्यैव जन्यते प्रीतिर्येषां सांदृष्टिका मताः || ३६-८७ ||
शुभा रूपोल्बणास्ते च दीपप्रवहणादयः |
भोगाः शुभकराः शश्वत्तर्पयन्ति रसैर्हि ये || ३६-८८ ||
प्रापणाचमनीयाद्यास्ते स्युराभ्यवहारिकाः |
सुखा रम्या मृदुस्पर्शाः स्पर्शैर्ये तर्पयन्त्यजम् || ३६-८९ ||
भोगाः सांस्पर्शिकास्ते स्युः पाद्यार्घ्यासनपूर्वकाः |
गन्धाः सांस्पर्शिके केचित् केचिदाभ्यवहारिके || ३६-९० ||
निविष्टा अनिलाद्याः स्युरन्त्याः पाकजगन्धिनः |
स्तुतिवादित्रगीताद्या भोगाः शब्दमया हि ये || ३६-९१ ||
दैन्याञ्जलिपुटाद्याश्च ते स्मृता आभिमानिकाः |
इत्थं चतुर्विधैर्भोगैः शास्त्रदृष्टेन वर्त्मना || ३६-९२ ||
ऋग्भिः सप्रणवाद्याभिस्तोषयेत् पुरुषोत्तमम् |
मन्त्रान्ते भोगनिर्देशः प्रीतिश्च तदनन्तरम् || ३६-९३ ||
ओंकृत्यर्चमथोच्चार्य प्रणवादीनि पञ्च च |
आवाहयामि लक्ष्मीशं परमात्मानमव्ययम् || ३६-९४ ||
आतिष्ठतामिमां मूर्तिं मदनुग्रहकाम्यया |
श्रिया सार्धं जगन्नाथो दिव्यो नारायणः पुमान् || ३६-९५ ||
इत्यञ्जलिप्रसूनस्थं स्वमूर्ताववतार्य च |
प्रणम्य स्वागतं पृष्ट्वा क्षामयेदनया धिया || ३६-९६ ||
प्रणम्य भगवन् पश्चादासनेनार्चयामि च |
उक्त्वा मन्त्रानथोच्चार्य त्रिर्निर्दिश्येदमित्यतः || ३६-९७ ||
पश्चात् सनाम निर्दिश्य प्रीतिं पश्चात् समाचरेत् |
प्रीयतां भगवान् पश्चाद्वासुदेवस्ततः परम् || ३६-९८ ||
अर्घ्यं निःस्रावयेद्वेद्यामयं भोगविधिक्रमः |
आसनार्घ्यादि भोगेषु यथालिङ्गं विनिर्दिशेत् || ३६-९९ ||
आद्ययावाहनं कुर्यादासनं च द्वितीयया |
अर्घ्यं तृतीयया देयं मूर्ध्न्यापः कुसुमोद्धृताः || ३६-१०० ||
पाद्यं देयं चतुर्थ्या तु पञ्चम्याचमनीयकम् |
षष्ठ्या स्नानविधिः कार्यः सप्तम्या परिधानकम् || ३६-१०१ ||
अष्टम्योत्तरवासश्च नवम्या गन्धलेपनम् |
दशम्या स्रगलंकारा एकादश्या तु दीपकः || ३६-१०२ ||
द्वादश्या सुरभिर्धूपः परया मधुपर्ककः |
प्रापणं तु चतुर्दश्या पञ्चदश्यानुवासनम् || ३६-१०३ ||
षोडश्या तु नमस्कारः परया कुसुमाञ्जलिः |
अष्टादश्या प्रदानं च समाराधनकर्मणः || ३६-१०४ ||
स्नानवासःप्रदीपेषु दद्यादाचमनक्रियाम् |
पुरस्तादर्हणं कार्यं मधुपर्कान्नदानतः || ३६-१०५ ||
तर्पणाचमने पश्चात् प्रणवद्वितयेन तु |
इत्थं स्नानादिभोगेषु देशकालाद्यपेक्षया || ३६-१०६ ||
कुर्याद्राजवदाचारं तत्तन्मन्त्रेण साधकः |
संकल्पश्च प्रदानं च प्रीतिश्चेति त्रयं त्रयम् || ३६-१०७ ||
कुर्यात् सर्वेषु भोगेषु देशकालाद्यपेक्षया |
समाहितोऽञ्जलिं कृत्वा तत ओं भगवन्निति || ३६-१०८ ||
आसनेनार्चयिष्यामीत्युक्त्वा दद्यादथासनम् |
मन्त्रमुच्चार्य निर्दिश्येदिदमासनमित्यतः || ३६-१०९ ||
ओमों प्रीयतां भगवान् वासुदेव इति ब्रुवन् |
अर्घ्यादिजलमादाय स्थापयेद्देवसंनिधौ || ३६-११० ||
आभिरर्घ्याभिरित्येवमाभिः पाद्याभिरित्यपि |
आभिराचमनीयाभिरर्हणीयाभिरित्यपि || ३६-१११ ||
तर्पणीयाभिरद्भिश्च स्नानीयाभिरितीदृशम् |
प्रीतिसंकल्पयोर्वाच्यमिमा अर्घ्या इतीदृशम् || ३६-११२ ||
वाच्यं प्रदानवेलायां यथालिङ्गमिति क्रमः |
अर्घ्यादिकल्पनं चाग्रे बहिर्यागे विधास्यते || ३६-११३ ||
इति स्रगादिभिः षड्भिर्देवदेवं जनार्दनम् |
पञ्चभिर्वा चतुर्भिर्वा त्रिभिर्द्वभ्यामथापि वा || ३६-११४ ||
एकेन वा समाराध्य देशकालानुकूलतः |
मयैव पूजितं ध्यात्वा देवदेवं जनार्दनम् || ३६-११५ ||
चन्द्रोदय इवाम्भोधिं सर्वाङ्गपरिबृंहितम् |
अनिर्देश्यामनौपम्यामनन्तां भाविनीं सदा || ३६-११६ ||
आमोदमिव पुष्पस्थं दीपस्थामिव च प्रभाम् |
विनिष्क्रष्टुमशक्यां मामनन्यां पुरुषोत्तमात् || ३६-११७ ||
भावयन् विधिवन्मन्त्री लययागेन मां यजेत् |
तरिकाविधिमन्विष्य तया मां तारिकां यजेत् || ३६-११८ ||
अथ मेघादिवोद्यन्तीं विद्युतं पुरुषोत्तमात् |
समुद्यन्तीं तदिच्छातो विभाव्य मनसा सुधीः || ३६-११९ ||
वामोत्सङ्गे निषण्णां मां देवदेवस्य चिन्तयेत् |
ऐकध्यमावयोर्ज्ञात्वा स्वभावं च सुशीतलम् || ३६-१२० ||
ऋग्भ्यां हिरण्यपूर्वाभ्यां प्रपद्येत जनार्दनम् |
सान्त्वयेच्च पराभ्यां तां मां तावदपृथक्कृताम् || ३६-१२१ ||
पञ्चम्या च प्रपद्येत प्रसन्नां भावयन् धिया |
ज्ञात्वा पूर्वोक्तसामर्थ्यं तारिकाया यथार्थतः || ३६-१२२ ||
मुद्रासमन्वितो मन्त्रो य आवाहनसंज्ञितः |
पूरकेण सुरेशान मनसा समुदीरयन् || ३६-१२३ ||
मामथावाहयेद्देवादुत्सङ्गे परमात्मनः |
प्रसन्नवदनां शश्वत् सर्वलक्षणलक्षिताम् || ३६-१२४ ||
पद्मगर्भनिभां कान्तामसितायतलोचनाम् |
स्फुरत्कटककेयूरहारकुण्डलमण्डिताम् || ३६-१२५ ||
गम्भीरनाभिं त्रिवलीविभूषिततनूदराम् |
सुकर्कशदृढोत्तुङ्गपीनवृत्तघनस्तनीम् || ३६-१२६ ||
चलद्विरेफपटलसमाक्रान्तालकावलिम् |
आरक्ताधरबिम्बां च वंशमुक्ताफलद्विजाम् || ३६-१२७ ||
अर्धचन्द्रललाटस्थराजमानललाटिकाम् |
सर्वलक्षणसंपन्नां कृष्णकुञ्चितमूर्धजाम् || ३६-१२८ ||
वरदां पङ्कजकरां पद्ममालाविभूषिताम् |
विष्णुवामभुजाश्लिष्टां तदंसस्थकराम्बुजाम् || ३६-१२९ ||
वामेन बाहुना दिव्यां वहन्तीं पुष्पमञ्जरीम् |
वरदाभयपाणिं वा पाशाङ्कुशकरां तु वा || ३६-१३० ||
अर्धस्वस्तिकसंलीनां स्फुरन्मौलिविराजिताम् |
ध्यात्वा मां संमुखीं कुर्यान्मन्त्रमूर्तिं सनातनीम् || ३६-१३१ ||
मूलमन्त्रादिकैर्भूयो मन्त्रैः सर्वैश्च पूर्ववत् |
करन्यासं विना देहन्यासं मयि समाचरेत् || ३६-१३२ ||
पुष्पमर्घ्यं तथा दीपं धूपं माल्यं विलेपनम् |
चेतसा सादरेणैव पाद्यमाचमनं ततः || ३६-१३३ ||
प्रणाममथवाष्टाङ्गं जयशब्दांश्च मानसान् |
प्रदर्शयेत्ततो मुद्रा यास्ते पूर्वं प्रदर्शिताः || ३६-१३४ ||
स्वागतं तव पद्माक्षि संनिधिं भज मेऽम्बुजे |
गृहाण मानसीं पूजां यथार्थपरिभाविताम् || ३६-१३५ ||
लब्ध्वानुज्ञां ततो मत्तो मानसं यागमाचरेत् |
संकल्पजनितैर्भोगैः पवित्रैः पारमार्थिकैः || ३६-१३६ ||
बाह्यप्रक्रियया शश्वत् परस्ताद्वक्ष्यमाणया |
मां यजेत सुनिष्णातो भोगैः सांस्पर्शिकादिकैः || ३६-१३७ ||
प्रापणान्तं विधायान्ते कारिणं संस्मरेद् गुरुम् |
जीवन्तमथवातीतं तस्मै दद्यात्ततोऽखिलम् || ३६-१३८ ||
वित्तं संविभजेच्चैव प्रापणांशेन मन्त्रवित् |
जीवतोऽप्यथवातीतान्यथार्थेनैव चेतसा || ३६-१३९ ||
परिवारान् स्मरेत् सर्वान् वक्ष्यमाणान् विशेषतः |
कारणे मयि संलीनान् धानास्थानिव भूरुहान् || ३६-१४० ||
तत्तन्मन्त्रप्रयोगेण लयप्रक्रियया यजेत् |
कुर्यान्महानसे होमं मोक्षलक्ष्मीप्रदं शुभम् || ३६-१४१ ||
त्रिगुणाधारमध्यस्थे त्रिकोणे त्रिगुणेऽनले |
ध्यानारणिं तु निर्मथ्य चिदग्निमवतार्य च || ३६-१४२ ||
संस्कारैः संस्कृतं कृत्वा वक्ष्यमाणधिया सुधीः |
त्रिलक्षणाधारगते वैष्णवे जातवेदसि || ३६-१४३ ||
नादावसानगगनात्तारिकायाः परिस्रुतम् |
ब्रह्म हविर्गृहीत्वाथ ब्रह्मरन्ध्रेण संविशेत् || ३६-१४४ ||
ततो वह्निगृहं गत्वा सर्पिः संस्कृत्य शास्त्रतः |
कुर्वीत सकलं कृत्यं तेनाज्येन यथाविधि || ३६-१४५ ||
ततो होमावसाने तत्संकल्पः कर्म मानसम् |
संन्यसेन्मयि भावेन वक्ष्यमाणधिया सुधीः || ३६-१४६ ||
यः क्रमोऽभिहितो बाह्ये स सर्वो मानसेऽत्र तु |
अवधानेन वा कार्यो मन्मयैर्द्रव्यसंचयैः || ३६-१४७ ||
सर्वोपसर्गशमनः सोऽयं सर्वफलप्रदः |
कथितो मानसो यागः कार्य आदेहपातनात् || ३६-१४८ ||
अथ द्रव्याणि सर्वाणि मन्मयीकृत्य यत्नतः |
बाह्योत्थवासना शान्त्यै बाह्ययागमथाचरेत् || ३६-१४९ ||
इत्येवमन्तर्यागस्ते मदियः शक्र वर्णितः |
बहिर्यागस्वरूपं तु तत्त्वतो मे निशामय || ३६-१५० ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे अन्तर्यागप्रकाशो नाम षट्त्रिंशोऽध्यायः ||
Kapitel 37
Deutsche Übersetzung: Kapitel 37 · Sanskrit IAST: Kapitel 37
श्रीः -
बहिर्वेद्यादिदेशस्थद्रव्यैर्मद्भावनेक्षितैः |
भोगभूतैर्यदिज्येऽहं बहिर्यागस्तु स स्मृतः || ३७-१ ||
वासना द्विविधा प्रोक्ता बाह्याभ्यन्तरहेतुजा |
निर्णुदत्यान्तराः सर्वा मानसो याग उत्तमः || ३७-२ ||
बाह्याशयविशुद्ध्यर्थं बाह्ययागो विधीयते |
शास्त्रीयां क्षितिमास्थाय मण्डपे तत्र मण्डिते || ३७-३ ||
ब्रह्मस्थाने विधायाथ वेदिं सर्वगुणान्विताम् |
अष्टहस्तं तदर्धं वा तदर्धं वापि साधितम् || ३७-४ ||
प्रागन्तं सुसितं सूत्रं वेदिमध्ये प्रसारयेत् |
तस्मिन्नुभयतः पार्श्वे मध्यतश्चार्धमध्ययोः || ३७-५ ||
विधाय त्रीणि चिह्नानि पञ्च श"न्कून् निखानयेत् |
अन्त्ययोस्त्रिषु मध्येषु श"न्क्वोस्तत्र ह्युपान्त्ययोः || ३७-६ ||
सूत्रमध्यं यतः प्राप्तं तत्र शङ्कुं निधापयेत् |
पाशौ द्वौ प्रतिमुच्याथ मध्यचिह्नं समानयेत् || ३७-७ ||
सव्ये चाप्यपसव्ये च तत्र चिह्ने विधाय च |
मध्यमे प्रतिमुच्य द्वे सूत्रमध्यं समानयेत् || ३७-८ ||
चिह्नस्योपरि देशे च क्रमात् सव्यापसव्ययोः |
सूत्रमध्यं यतः प्राप्तं तत्र शङ्कुं निधापयेत् || ३७-९ ||
पूर्वस्मिन् प्रतिमुच्यैकं पाशं दक्षिणतोऽपरम् |
कुर्यात् प्रदक्षिणं कोणं मध्यचिह्नेऽनयोस्ततः || ३७-१० ||
ऐशकोणं तथा कुर्यात् प्रतिमुच्योत्तरत्र तु |
प्रतीच्ययाम्ययोरेवं प्रतीच्योदीच्ययोरपि || ३७-११ ||
प्रतिमुच्य क्रमात् पाशौ कुर्यात् कोणौ तथा परौ |
तत्क्षेत्रस्फुटतायै तु सूत्रयेत्तु चतुर्दिशम् || ३७-१२ ||
भक्ते षोडशधा क्षेत्रे चतुर्भिर्मध्यमैः पदैः |
प्रागादिकैः प्रदेशैश्च विदधीत नवाम्बुजम् || ३७-१३ ||
मध्यमं कमलं कार्यमष्टपत्रं यथा शृणु |
चतुर्धा भ्रामयेत् क्षेत्रं वर्जयित्वाष्टमं बहिः || ३७-१४ ||
कर्णिका केसरं पत्रसंधिः पर्वेति च क्रमात् |
चत्वार्यंशप्रमाणानि त्यक्तोंऽशो व्योम तद्बहिः || ३७-१५ ||
तस्मिन् सूत्राष्टकं पद्मे दिग्विदिक्संस्थितं क्षिपेत् |
सूत्राणामन्तरे भूयः क्षिपेत् सूत्राष्टकं तथा || ३७-१६ ||
पद्मसंधिस्थसूत्रेण दिक्क्रमेण दलाष्टकम् |
सहजाः सुचिता रेखा व्योमरेखागणाः स्मृताः || ३७-१७ ||
पद्मान्तराणामष्टानामेवमेव विधा भवेत् |
एवं पुरवरं रम्यं नवपद्मसुलक्षणम् || ३७-१८ ||
बहिर्द्वारयुतं कार्यं कोणशोभादिसंयुतम् |
चतुर्वर्णयुतं कार्यं कर्णिकादिविभक्तये || ३७-१९ ||
पौष्पे वा प्रस्तरे वास्त्रे सुसिते वाथ धूपिते |
अहते गन्धयुक्तेऽथ स्थण्डिले वोपलेपिते || ३७-२० ||
यजन् कार्यवशान्मन्त्री नवपद्मं विचिन्तयेत् |
कुर्याच्चाध्यानमार्गस्थां प्रतिमां शास्त्रदर्शनात् || ३७-२१ ||
सौवर्णे राजताद्ये वा दृढे कालादिवर्जिते |
आराधयेद् घटे पूर्णे दध्ना क्षीरेण वारिणा || ३७-२२ ||
प्रशस्तपल्लवाक्रान्ते वस्त्रपट्टादिसंयुते |
विभाव्य नवपद्मं तु पूजयेन्मन्त्रवित्तमः || ३७-२३ ||
घटे पुरे तथार्चायां यद्वा मन्त्री क्रमाद्यजेत् |
सर्वलोकमयंसर्वगीर्वाणाश्रयमुत्तमम् || ३७-२४ ||
सर्वाधारमयं ध्यायेन्नवपद्मं पुरोत्तमम् |
तारिकाख्यानमःशब्दैरर्च्यमर्घ्यादिना ततः || ३७-२५ ||
ततः पात्रचतुष्कं तु हेमादिद्रव्यनिर्मितम् |
पूताम्बु पूर्णं गन्धस्रग्रत्नौषधिकुशोदकैः || ३७-२६ ||
वेद्यामर्चापुरःस्थायां न्यसेत् कोणचतुष्कके |
यातवीयादिवह्न्यन्ते क्रमादेवं प्रकल्पयेत् || ३७-२७ ||
अर्घ्यमाचमनीयं च पाद्यं स्नानीयमेव च |
कल्पयेत् क्रमशो मन्त्री मन्त्रानेतानुदीरयन् || ३७-२८ ||
तारं च कल्पयामीति मध्ये संज्ञाः स्युरञ्जसा |
अनेकार्थं च तत्रार्घ्यं कल्प्यं पात्रेऽथ मध्यतः || ३७-२९ ||
सिद्धार्थकास्तिला दूर्वाः सयवाः सिततण्डुलाः |
तोयक्षीरफलोपेता अर्घ्यद्रव्यमुदाहृतम् || ३७-३० ||
पात्रं तारिकयापूर्य सुधासंदोहदेहया |
तस्मिन्निष्कलसंस्थाने मन्त्रचक्रं विचिन्तयेत् || ३७-३१ ||
निष्कलं मध्यमार्घ्यं तु पूज्य पुष्पादिना पुरा |
भावनीयं च तत् सम्यगग्नीषोममयात्मना || ३७-३२ ||
एष प्रथमसंस्कारो द्वितीयमवधारय |
प्रचण्डकिरणव्रातैर्भास्करीयैर्दहेत्तु तत् || ३७-३३ ||
निर्वापयेत्ततो दग्धं शीतपूर्णेन्दुरश्मिभिः |
ब्रह्मानन्दामृताम्भोधिकल्लोलैः पूरयेत्तु तत् || ३७-३४ ||
अभिमन्त्र्य तु मुख्यैस्तन्मनुभिस्तारिकादिभिः |
ततो जलमुपादाय न्यसेत् पात्रान्तरेषु तु || ३७-३५ ||
प्रतिस्वमपि वा कुर्यादीदृशं संस्कृतिक्रमम् |
आप्यायनं च पात्राणां प्रीतिं चास्मात् समाचरेत् || ३७-३६ ||
मुद्रा कामदुघा कार्या सौरभेयी स्वमन्त्रतः |
सुरभिं हिमशैलाभां निराधारपदे स्थिताम् || ३७-३७ ||
ध्यात्वा तत्स्तनसंकाशां मुद्रां तां परिदर्शयेत् |
कराभ्यां गन्धदिग्धाभ्यां सावधानेन चेतसा || ३७-३८ ||
अर्घ्यपात्राम्भसा प्रोक्ष्य मण्डलं मण्डपं तथा |
यागद्रव्याण्यशेषाणि ताडयेदस्त्रमन्त्रतः || ३७-३९ ||
मूलेनाप्लावयेत् पश्चात्तत् सर्वं भोगतां व्रजेत् |
ततो विष्णुं नमस्कृत्य तदङ्कस्थां च पङ्कजाम् || ३७-४० ||
अर्चयेन्मूलमन्त्रेण ह्यामुक्तकुसुमादिभिः |
अर्घ्यपात्रमथादाय पुष्पं धूपं विलेपनम् || ३७-४१ ||
दीपं नैवेद्यमप्येवं द्वारयागं ततश्चरेत् |
उदुम्बरस्य मूले तु बहिर्द्वारस्य मध्यतः || ३७-४२ ||
भूमिष्ठं क्षेत्रपालं तु यजेद्ध्यानादिसंयुतम् |
नीलजीमूतसंकाशं दण्डहस्तं महातनुम् || ३७-४३ ||
मुष्टिकृद्वामहस्तेन ध्येयः क्षेत्रेश्वरः सदा |
मुद्रा च दर्शनीयात्र परेष्वेवं विधिः क्रमात् || ३७-४४ ||
द्वारोपरि स्थितां लक्ष्मीमूर्ध्वसंस्थ उदुम्बरे |
पङ्केरुहकरां लक्ष्मीं पद्मोपरिगतां यजेत् || ३७-४५ ||
दक्षिणोत्तरशाखाभ्यां मूले चण्डप्रचण्डकौ |
तद्वज्जयं च विजयं बाह्ये द्वारस्य चान्तरे || ३७-४६ ||
चण्डाद्या विजयान्ताश्च सर्वे ज्ञेयाश्चतुर्भुजाः |
गदाचक्रधराश्चैव शङ्खहस्ता महाबलाः || ३७-४७ ||
तर्जयन्तो ह्यभक्तांश्च दोषाणां ध्वंसनोद्यताः |
इत्थं ध्येयाः समभ्यर्च्य दर्शनीयाश्च मुद्रिकाः || ३७-४८ ||
शाखाद्वयस्य मध्ये तु वामदक्षिणतः क्रमात् |
गङ्गां च यमुनां चैव पूजयेत्तदनन्तरम् || ३७-४९ ||
हस्ताभ्यां दधती कुम्भं तीर्थेन परिपूरितम् |
नवयौवनलावण्या श्वेतरूपा स्मितानना || ३७-५० ||
गङ्गा ध्येया प्रसन्ना च पूर्णचन्द्रनिभानना |
तादृशी नीलजीमूतसंनिभा यमुना नदी || ३७-५१ ||
तेनैव क्रमयोगेन द्वारस्याभ्यन्तरे स्थितौ |
निधीशौ शङ्खपद्माख्यावर्घ्यपुष्पादिभिर्यजेत् || ३७-५२ ||
निधीशौ भावनीयौ तौ निधिभाण्डोपरिस्थितौ |
स्थूलोदरौ च पिङ्गाक्षौ द्विभुजौ भगवन्मयौ || ३७-५३ ||
कृत्वैवं द्वारयागं तु ततः पुष्पं च संमुखम् |
अङ्गुष्ठतर्जनीमध्यात्रितयेनास्त्रमन्त्रतः || ३७-५४ ||
आदाय चाभिमन्त्र्याथ चक्रं तदुपरि स्मरेत् |
निशितारं ज्वलद्रूपं प्रवर्षदनलाशनि || ३७-५५ ||
क्षयकृद्विघ्नजालानां न्यसेद्यागगृहान्तरे |
दक्षिणां तर्जनीं कुर्यात् सम्यगूर्ध्वमुखीं ततः || ३७-५६ ||
शिखामन्त्रेण संयुक्तां विद्युद्विलसितप्रभाम् |
स्मृत्वा भ्रामयमाणस्तां संविशेद्यागमन्दिरम् || ३७-५७ ||
अर्घ्यपात्राम्भसास्त्रेण प्रोक्षयेत् स्वकमासनम् |
तस्मिन्नाधारशक्त्यादि मान्त्रमासनमर्चयेत् || ३७-५८ ||
तां तां प्रदर्शयेन्मुद्रां यत्र यत्र च या च या |
तत्रोपविश्य देवेशमर्चयेद्धृदये स्थितम् || ३७-५९ ||
लक्ष्मीनारायणाख्यं तद्धृद्गतं परमं महः |
दांपत्यमनपायं तद्यापयेन्नेत्रयोर्द्वयोः || ३७-६० ||
सर्वं तद्भावमापाद्य पश्येन्निश्चललोचनः |
मण्डपे वेदिकायां वा यत्र वा यष्टुमिच्छति || ३७-६१ ||
अर्घ्यपुष्पादिभिः पूज्यमाधारादिकमासनम् |
धर्मादिकान् यजेत् पश्चात्तत्तद्दिग्भागगोचरान् || ३७-६२ ||
पद्मार्कमण्डलांश्चैव ततो भावासनावधि |
उपर्युपरि योगेन ध्यात्वा पुष्पादिनार्चयेत् || ३७-६३ ||
मण्डलस्थस्य देवस्य दक्षिणे मण्डलोपरि |
कृतादियुगपर्यन्ते वायोरीशावधि क्रमात् || ३७-६४ ||
विभज्य सप्तधा क्षेत्रमादौ गणपतिं यजेत् |
पद्मासनोपविष्टं तत्केसरे तु दलेऽम्बुजे || ३७-६५ ||
दधानं चोर्ध्वबाहुभ्यामक्षसूत्रपरश्वथौ |
वरदाभयमुद्रे च पूर्वहस्तद्वयेन तु || ३७-६६ ||
किंतु मुद्रा विचिन्त्यैवं वरदाभयहस्तयोः |
तर्जन्यङ्गुष्ठसंसर्गाद् व्याख्यामुद्रासमाकृतिः || ३७-६७ ||
पीनं लम्बोदरं स्थूलमेकदंष्ट्रं गजाननम् |
केसरेष्वङ्गषट्कं च षट्सु पद्मस्य विन्यसेत् || ३७-६८ ||
स्वमन्त्रेणार्चयेन्मुद्रां बद्ध्वा पुष्पादिना सुधीः |
ततो वागीश्वरीं देवीं स्वमन्त्रेणार्चयेत्सुधीः || ३७-६९ ||
सूर्येन्दुवह्निबिम्बस्थसितपङ्केरुहासनाम् |
सर्वोपाधिविनिर्मुक्तामपि साकारतां गताम् || ३७-७० ||
शक्तिं शब्दात्मिकां साक्षान्मदीयां प्रथमोद्गताम् |
द्विनेत्रां द्विभुजां श्वेतां शङ्खपङ्कजधारिणीम् || ३७-७१ ||
स्फुरत्पीयूषकल्लोलसदृशाभरणाम्बराम् |
ततो गुरुं तद्गुरुं च लोकसिद्धाकृती च तौ || ३७-७२ ||
लोकसिद्धाकृतिं पश्चात् तद्गुरुं परमेष्ठिनम् |
ततः पितृगणः पूज्यो ह्यमूर्तः पिण्डसंनिभः || ३७-७३ ||
आदिसिद्धान् यजेत् पश्चाद्भगवद्ध्यानतत्परान् |
शान्तान् निमीलिताक्षांश्च शुभाङ्गांस्तेजसाधिकान् || ३७-७४ ||
अनुज्ञां प्राप्य तेभ्यश्च लब्धानुज्ञो यथाक्रमम् |
आवाह्य मां यजेत् पश्चाद्देवदेवाङ्कसंस्थिताम् || येन येन प्रकारेण तं तं शृणु सुरेश्वर || ३७-७५ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे बाह्ययागप्रकाशो नाम सप्तत्रिंशोऽध्यायः ||
Kapitel 38
Deutsche Übersetzung: Kapitel 38 · Sanskrit IAST: Kapitel 38
श्रीः -
एको नारायणो देवः पूर्णषाड्गुण्यविग्रहः |
तस्याहं परमा शक्तिरेकाहंता सनातनी || ३८-१ ||
सधकानुग्रहार्थाय साहं साकारतां गता |
अङ्कस्था देवदेवस्य यथा पूज्ये तथा शृणु || ३८-२ ||
प्राप्यानुज्ञां गणेशादेर्हृत्स्थामावाहयेत्ततः |
भावयेत् परमात्मानमन्तर्यागाभिपूजितम् || ३८-३ ||
पूर्णस्तिमितषाड्गुण्यं मया शक्त्याभिपूरितम् |
तारकं तत् त्रिरुच्चार्य तारिकां तु त्रिरुच्चरेत् || ३८-४ ||
आवाहयेत् ततो मन्त्रं पुंलिङ्गं समुदीरयन् |
पुरुषं पुण्डरीकाक्षं पीनोदारचतुर्भुजम् || ३८-५ ||
उच्चरन् परमं मन्त्रं रेचकेन शनैः शनैः |
अग्निषोमद्वयान्तःस्थवर्त्मना नासिकोदरात् || ३८-६ ||
दिव्यशक्तिसमावासं लक्ष्मीशमवतारयेत् |
अनाहतात् पदाद्यद्वा सर्वतः समतां गतम् || ३८-७ ||
निर्गतं तु स्मरेद्देवं विद्युत्पुञ्जमिवाम्बुदात् |
सपुष्पाञ्जलिमध्यस्थं भावासनगतं न्यसेत् || ३८-८ ||
संनिधिं संनिरोधं च संस्तम्भं स्थापनं तथा |
कुर्वन् मुद्राचतुष्कं तु मनसा सम्यगाचरेत् || ३८-९ ||
उत्तानौ संहतौ पाणी कृत्वाङ्गुष्ठद्वयेन तु |
स्वां स्वां कनिष्ठिकां मृज्यात् संनिधीकरणं तु तत् || ३८-१० ||
अनामयोर्मध्यमयोः कुर्यादुन्मार्जनं तथा |
संस्तम्भसंनिरोधौ च द्वौ कृतौ भवतस्तदा || ३८-११ ||
कृत्वा चतसृभिर्मुष्टिमङ्गुलीभिः करद्वये |
तिर्यक् च संमुखीकृत्य न्यसेन्मुष्टिद्वयोपरि || ३८-१२ ||
अङ्गुष्ठद्वितयं शक्र संस्थापनमिदं भवेत् |
एवंभूतो भवत्येवं तारादिं मन्त्रमुच्चरन् || ३८-१३ ||
कालं पाद्यार्घ्यदानान्तमुत्थितं भावयेद्धरिम् |
स्नानाभरणवस्त्रस्रग्दानेऽलंकरणे तथा || ३८-१४ ||
अन्यत्र भोगयागेषु तत्तद्भोगानुकूलतः |
स्मरेच्छास्त्रीयसंस्थानं सानुकम्पं सुसंमुखम् || ३८-१५ ||
कॢप्ते तु विग्रहे पूर्वं तथारूपोऽवतिष्ठते |
भोगेषु दीयमानेषु शक्तिर्या मन्मयी परा || ३८-१६ ||
तत्रस्थां तां स्मरेत् साक्षादाददानो हरिर्यथा |
आहूतस्य ततः सार्घ्यं पुष्पाणां पूर्णमञ्जलिम् || ३८-१७ ||
विक्षिप्याधोमुखेनैव पाणियुग्मेन मूर्धनि |
तारेण तारया द्वाभ्यां नमस चार्चयेत् क्रमात् || ३८-१८ ||
पुष्पार्घ्यधूपलेपैस्तु मूलमन्त्रादिभिः क्रमात् |
संक्षेपं विस्तरं चापि यथाकालं समाचरेत् || ३८-१९ ||
शक्तिं तदङ्गसंपूर्णां निराकारामनूपमाम् |
तारया पूजयेत् पश्चात्तत्तदङ्गेषु देवताः || ३८-२० ||
अस्त्रभूषणशक्त्याद्याः स्वैः स्वैर्मन्त्रैः समर्चयेत् |
अयं यागो लयो नाम महान् सर्वार्थसिद्धिदः || ३८-२१ ||
ततो भगवतो विष्णोः शक्तिसंपूर्णविग्रहात् |
सर्वशक्तिमयीं दिव्यामेकां परमभास्वराम् || ३८-२२ ||
षाड्गुण्यविग्रहां देवीमनिर्देश्यामनूपमाम् |
सर्वत्र सर्वदा विष्णोः सर्वथैवानपायिनीम् || ३८-२३ ||
कृपया साधकार्थाय स्वयं साकारतां गताम् |
अविहायैव तं देवमाकारं पृथगेयुषीम् || ३८-२४ ||
उक्तक्रमेण मां पूर्वं मन्त्रेणावाहयेत् सुधीः |
आवाहनविधौ प्रोक्तं क्रमं सर्वं समाचरेत् || ३८-२५ ||
वामोत्सङ्गे निषण्णां च विष्णोर्मां भावयेत् प्रियाम् |
भावनीयं च मद्रूपं पूर्वमेव निदर्शितम् || ३८-२६ ||
तस्यां लयप्रकारेण मयि सर्वं यजेत् क्रमात् |
ततो विनिःसृतं मत्तः स्मरेच्छक्त्यादिकं क्रमात् || ३८-२७ ||
ज्वालायाः सुप्रदीप्तायाः स्फुलिङ्गनिचयं यथा |
भोगस्थाने यथैकैकं विन्यसेत्तत्तथा शृणु || ३८-२८ ||
मध्याब्जकर्णिकामध्ये भावासनगतौ स्मरेत् |
पुरुषं पुण्डरीकाक्षं तदङ्कस्थां च पङ्कजाम् || ३८-२९ ||
प्राच्याब्जकर्णिकामध्ये लक्ष्मीदेहाद्विनिर्गताम् |
द्विभुजां भावयेल्लक्ष्मीं द्विनेत्रां चारुकुण्डलाम् || ३८-३० ||
श्वेतमाल्याम्बरधरां हारकेयूरभूषिताम् |
सर्वलक्षणसंपन्नां पीनोन्नतपयोधराम् || ३८-३१ ||
प्रबुद्धोत्पलविस्तीर्णलोचनां सुस्मिताननाम् |
चलद्विरेफपटलरमणीयालकावलिम् || ३८-३२ ||
लसल्ललाटतिलकामारक्ताधरपल्लवाम् |
कृष्णकुञ्चितकेशां च वंशमुक्ताफलद्विजाम् || ३८-३३ ||
पद्मासनोपविष्टां च पाशाङ्कुशकरद्वयीम् |
पद्मगर्भोपमाकारां संमुखीमावयोः स्मरेत् || ३८-३४ ||
स्मरेद्दक्षिणभागाब्जकर्णिकोदरमध्यगाम् |
वेषभूषादिभिस्तुल्यां लक्ष्म्याः कुन्दनिभां तु वा || ३८-३५ ||
कीर्तिं मद्रूपनिष्क्रान्तां सर्वकीर्तिमयीं पराम् |
आवयोः पश्चिमाब्जस्थकर्णिकासनसंस्थिताम् || ३८-३६ ||
मद्रूपनिःसृतां ध्यायेत्तादृशीमरुणां जयाम् |
स्मरेदुत्तरपद्मस्थकर्णिकोदरमध्यगाम् || ३८-३७ ||
मायां मद्रूपनिष्क्रान्तां तादृशीमरुणां तु वा |
आग्नेये हृदयं पद्मे शिरो यातुसरोरुहे || ३८-३८ ||
शिखां तु वायवीयाब्जे वर्म चेशानपङ्कजे |
मध्यपद्मपुरःपत्रे नेत्रमस्त्रं तु कोणके || ३८-३९ ||
नेत्रस्य पुरतो देवं वासुदेवं विचिन्तयेत् |
मध्यदक्षिणदिक्पत्रे स्मरेत् संकर्षणं प्रभुम् || ३८-४० ||
स्मरेन्मध्यसरोजस्य प्रद्युम्नं पश्चिमे दले |
अनिरुद्धमुदक्संस्थे कोणपत्रयुगद्वये || ३८-४१ ||
अस्त्रस्य पृष्ठतो नागान् स्मरेत् पीयूषवर्ष्मणः |
गुल्गुलुं च गुरुण्यं च मदनं शललं तथा || ३८-४२ ||
सुधाकुम्भकरान् शङ्खकुन्दगौरांश्चतूरदान् |
लक्ष्मीकमलपत्रेषु सर्वतः कौस्तुभं न्यसेत् || ३८-४३ ||
हृत्पङ्कजदलेष्वेवं वनमालां निवेशयेत् |
कीर्तिपङ्कजपत्रेषु भूषापद्मं निवेशयेत् || ३८-४४ ||
जयापङ्कजपत्रेषु वर्म पद्मदलेषु च |
पद्मेषु विन्यसेदेवं पद्मपत्रचतुष्टये || ३८-४५ ||
शिरःपङ्कजपत्रेषु न्यसेदङ्कुशमुत्तमम् |
न्यसेद् द्वारचतुष्काग्रे गरुडं पततां वरम् || ३८-४६ ||
नागान् वा तत आत्मीयद्वाराग्रेषु नियोजयेत् |
पूर्वद्वारभुवि न्यस्येत् पद्महस्तां बलाकिकाम् || ३८-४७ ||
श्वेतां कमलपत्राक्षीं प्रसन्नां वामनाकृतिम् |
दक्षिणद्वारतस्तद्वन्नीलां तु वनमालिकाम् || ३८-४८ ||
पश्चिमद्वारमध्ये तु रक्तवर्णां विभीषिकाम् |
उदीच्यद्वारमध्ये तु शंकरीं मधुदीधितिम् || ३८-४९ ||
प्रागादीशानपर्यन्ते बहिर्द्वारप्रदेशतः |
इन्द्रादीन् संस्मरेदष्टौ लोकपालान् सवाहनान् || ३८-५० ||
अत ऊर्ध्वं च नागेशं ब्रह्माणं च विचिन्तयेत् |
तद्बहिश्च तदस्त्राणि वज्रादीनि विचिन्तयेत् || ३८-५१ ||
सोमशंकरदिङ्मध्ये खस्थितं संस्मरेत् प्रभुम् |
विष्वक्सेनमुदाराङ्गमायान्तं गगनान्तरात् || ३८-५२ ||
अनुक्तानामिदानीं मे ध्यानं शृणु पुरंदर |
अमृतात्मानमभ्राङ्गं पुण्डरीकायतेक्षणम् || ३८-५३ ||
शङ्खचक्रगदापद्मधरं श्रीवत्सवक्षसम् |
पीताम्बरं चतुर्बाहुं वासुदेवं विचिन्तयेत् || ३८-५४ ||
तुषारनिचयाकारं नीलवस्त्रं चतुर्भुजम् |
स्मरेत् संकर्षणं सीरसौनन्दकधरं परम् || ३८-५५ ||
वरदाभयहस्तं च निमग्नोद्धरणक्षमम् |
प्रद्युम्नं संस्मरेद्रक्तं रक्तवाससमीश्वरम् || ३८-५६ ||
शार्ङ्गं शरांश्च बिभ्राणं वरदं चाभयप्रदम् |
संस्मरेदनिरुद्धं च पीतं विशदवाससम् || ३८-५७ ||
खड्गखेटकहस्तं च वराभयकरं परम् |
आसीनाः सर्व एवैते पुरुषाः पुष्करेक्षणाः || ३८-५८ ||
पश्यन्तो दिशमीशानां मां च विष्णुं च शाश्वतम् |
सिञ्चन्तोऽमृतकुम्भैर्नौ हिमशैलनिभा गजाः || ३८-५९ ||
सितशोणितवर्णाङ्गं शुक्लवस्त्रं चतुर्भुजम् |
पद्मासनोपविष्टं च पद्मशङ्खकराङ्कितम् || ३८-६० ||
हृन्मुद्रालंकृतकरं वामेनाभयदं सदा |
सिताभरणवस्त्राढ्यं कर्पूरालिप्तविग्रहम् || ३८-६१ ||
आवयोः संमुखासीनं हृन्मन्त्रं संस्मरेद् बुधः |
बन्धुजीवोपमं रक्तं पद्मचक्रधरं परम् || ३८-६२ ||
काकालिकज्जलश्यामं पद्मकौमोदकीधरम् |
दक्षिणेनात्ममुद्राढ्यं परेणाभयदायिनम् || ३८-६३ ||
लिप्तं मृगमदेनैव पुष्पाद्यैरसितैर्युतम् |
आवयोः संमुखासीनं कवचं संस्मरेत् प्रभुम् || ३८-६४ ||
हरिद्रारुणसंकाशं गदापद्मधरं क्रमात् |
स्वमुद्राकरणव्यग्रपूर्वभागकरद्वयम् || ३८-६५ ||
सौवर्णाम्बरभूषाढ्यं प्रलयानलविक्रमम् |
आवयोः संउखासीनं स्मरेदस्त्रं महोद्यमम् || ३८-६६ ||
नारीर्वा संस्मरेदेतान् हृदादीन् साधकोत्तमः |
उक्तभूषणवेषाढ्याः स्वानुरूपानुलेपनाः || ३८-६७ ||
इत्युक्तं ध्यानमङ्गानां सर्वपापहरं शुभम् |
कौस्तुभं द्विभुजं ध्यायेत् सहस्रार्कसमप्रभम् || ३८-६८ ||
प्रदीप्तवेषभूषाढ्यं स्वमुद्रां दधतं हृदि |
पञ्चवर्णकृतां कान्तां वनमालां शुभेक्षणाम् || ३८-६९ ||
प्रौढस्त्रीसदृशीं मुद्रां दधतीं हस्तयोर्द्वयोः |
पद्मं पद्ममुखं ध्यायेत् प्रसन्नं चन्द्रसंनिभम् || ३८-७० ||
द्विभुजं चारुसर्वाङ्गं कराभ्यां मुद्रिकां दधत् |
नवदूर्वाङ्कुरश्यामं पाशेशं पन्नगाननम् || ३८-७१ ||
द्विभुजं याम्यहस्तेन स्वां मुद्रां दधतं परम् |
तथा वरदहस्तं च भीमरूपं भयावहम् || ३८-७२ ||
संस्मरेदङ्कुशं तीक्ष्णं दीर्घनासं भयानकम् |
याम्येन दधतं मुद्रां पाणिना सव्यतो वरम् || ३८-७३ ||
प्रसिद्धा लोकपालास्ते वेषाकृतिविभूषणैः |
नराकृतीनि शस्त्राणि चिह्नयुक्तानि मूर्धनि || ३८-७४ ||
शङ्खचक्रधरो ध्येयो विष्वक्सेनश्चतुर्भुजः |
साक्षाद्विष्णुसमो मुद्राव्यापृतोऽन्यकरद्वये || ३८-७५ ||
द्वाराग्रस्थं ततो ध्यायेद्गरुडं भीमलोचनम् |
रक्ततुण्डं महाघोणं तप्तचामीकरप्रभम् || ३८-७६ ||
पृथुदंष्ट्रं गृध्रवक्त्रं पक्षमण्डलमण्डितम् |
इति ते परिवाराणां ध्यानमुक्तं समासतः || ३८-७७ ||
आवयोः स्थूलयोरूर्ध्वे स्मरेत् सूक्ष्मां तु तारिकाम् |
दांपत्यं बिभ्रतीं सूक्ष्मां लक्ष्यालक्ष्यामिवानघाम् || ३८-७८ ||
तदूर्ध्वे तु परां तारां पूर्णषाड्गुण्यचिन्मयीम् |
दांपत्यमावयोर्दिव्यं तत्परं पारमेश्वरम् || ३८-७९ ||
सर्वतःपाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् |
शब्दार्थौ भासयत् स्वेन तेजसा नित्यमुद्यता || ३८-८० ||
प्रतिबिम्बमिवैतस्मिन् मन्त्रचक्रमशेषतः |
एवं क्रमोत्क्रमाकारैस्तारिकां विततां पराम् || ३८-८१ ||
भावेन तत्त्वतो बुद्ध्वा यथान्यासं समर्चयेत् |
आदितः सकलावासावर्चयेन्नौ धियानघौ || ३८-८२ ||
अर्घ्यादिप्रापणान्तेन भोगजालेन मन्त्रवित् |
शक्त्यादिविष्वक्सेनान्तं परिवारं ततोऽर्चयेत् || ३८-८३ ||
सर्वादौ गरुडं देवीश्चतस्रो द्वारपालिकाः |
भोगयागक्रमेणायं न्यसस्ते शक्र दर्शितः |
यावन्तो यादृशा ये च भोगास्तांस्त्वं निबोध मे || ३८-८४ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे बहिर्यागप्रकाशो नामाष्टत्रिंशोऽध्यायः ||
Kapitel 39
Deutsche Übersetzung: Kapitel 39 · Sanskrit IAST: Kapitel 39
श्रीः -
शृणु भोगान् सुरेशान दत्तैस्तुष्यामि यैरहम् |
येषु मे वितता शक्तिर्भोग्यभोगाय तिष्ठते || ३९-१ ||
यथाशक्त्यनुरूपेण तत्तद्भोगोपकल्पने |
दिव्यशक्तिप्रभेदैस्तैर्विचित्रैः स्त्यानतां गतैः || ३९-२ ||
संपूर्णमीश्वरार्हं तद्भावनीयमशेषतः |
मृद्वास्तरणसंस्तीर्णमादावासनमुत्तमम् || ३९-३ ||
अर्घ्यं पाद्यं मधूपर्कस्तथैवाचमनीयकम् |
प्रणामपूर्वकं पश्चादात्मात्मीयनिवेदनम् || ३९-४ ||
अनुज्ञाप्य ततः पश्चात् स्नानासनमनुत्तमम् |
पादपीठमथार्घ्यं च ततः पाद्यप्रतिग्रहः || ३९-५ ||
पाद्याम्बु पादुके स्नानशाटी मात्रा च शालिका |
दर्पणं गन्धतोयं च पाणिप्रक्षालनार्थकम् || ३९-६ ||
दन्तकाष्ठं च वदनप्रक्षालाचमनाम्बुनी |
गन्धतैलं च चूर्णं च शालिगोधूमसंभवम् || ३९-७ ||
हरिद्राचूर्णसंमिश्रमीषत्पद्मकभावितम् |
उद्वर्तनार्थं तदनु स्नानार्थं खलिसंयुतम् || ३९-८ ||
उष्णाम्बु चन्दनं चन्द्रमिश्रितं लेपनार्थकम् |
क्षीरं दधि घृतं गव्यं मध्वैक्षवरसं तथा || ३९-९ ||
सुगन्धामलकाभिश्च लोध्रतोयं ततः परम् |
रक्तचन्दनतोयं च रजनीवारि चोत्तमम् || ३९-१० ||
ग्रन्थिपर्णीपयः पश्चात् ततश्च तगरोदकम् |
प्रियङ्गुजटिलासिद्धार्थकसर्वौषधीजलम् || ३९-११ ||
पुष्पपत्रफलाम्भांसि बीजगन्धोदके तथा |
हेमरत्नसरित्तीर्थकेवलाम्बूनि च क्रमात् || ३९-१२ ||
स्नानीयाम्बुसमेतानि देयान्यम्बून्यमूनि तु |
अर्घ्यपात्रात्तथैवार्घ्यं स्नानानामन्तरान्तरा || ३९-१३ ||
दद्यात् सपुष्पतोयेन क्षालनं चान्तरान्तरा |
स्नानशिष्टाम्बुसंपूर्णं हरिद्राशालिसंभृतम् || ३९-१४ ||
स्रगादिसंयुतं कुम्भं हस्ते कृत्वापरत्र तु |
सिद्धार्थैर्धूपवत् पात्रं भ्रामयित्वा तु मूर्धनि || ३९-१५ ||
बहिः क्षिपेत्ततो दद्यात् सुधौते चाङ्गशाटिके |
केशोदकापकर्षार्थमम्बरं देहवारिहृत् || ३९-१६ ||
अन्तरीयोत्तरीये द्वे सुधौते वाससी शुभे |
भाविते गन्धधूपेन दद्याद् भद्रासनं ततः || ३९-१७ ||
शोधयेत् पूर्णकुम्भैस्तु खप्लुतं भावयेद्धरिम् |
अलंकारासनं पश्चाद्देयं मृद्वास्तरोल्बणम् || ३९-१८ ||
तत्र सर्वं प्रदातव्यमर्घ्यपाद्यादि पूर्ववत् |
विवेचनं च केशानां कङ्कतेन प्रशोधनम् || ३९-१९ ||
शीर्षण्यास्ताः सुमनसस्ततश्चूडोपकल्पनम् |
चन्दनाद्याः सुगन्धाश्च व्यजनं शोषणार्थकम् || ३९-२० ||
मकुटाद्या अलंकाराः प्रदेयाः परमाद्भुताः |
स्रजो नानाविधाकाराः सात्त्विकैः कुसुमैश्चिताः || ३९-२१ ||
पुष्पाञ्जलिः पदद्वन्द्वे प्राकारः सुमनश्चयैः |
गन्धद्रव्यसुशीतेन ह्यञ्जनेनाञ्जनं दृशोः || ३९-२२ ||
तथैवालम्भनं चापि ललाटतिलकं तथा |
आदर्शो विमलो मृष्टः परितश्च समीक्षणम् || ३९-२३ ||
प्रदीपश्च प्रधूपश्च वाहनं चेतनेतरत् |
स्तुतिमङ्गलगीतानि नृत्तवादित्रदर्शनम् || ३९-२४ ||
मात्राश्च रत्नसंपूर्णा भोगच्छिद्रप्रपूरणाः |
बुद्ध्या विरचितास्तास्ताः राजराजोचिताः क्रियाः || ३९-२५ ||
अलंकारासनस्थाय त्वेते भोगा हि मन्मयाः |
अथ भोज्यासनं देयमर्घ्यपाद्यादिकं तथा || ३९-२६ ||
यजेत मधुपर्केण यथा तदवधारय |
पयसो मधुनो दध्नः संयोगो मधुपर्ककः || ३९-२७ ||
पात्रं पुरः प्रतिष्ठाप्य मधुपर्केण पूरितम् |
अर्हणं तर्पणं चार्घ्यात् पृथक् पात्रद्वये भवेत् || ३९-२८ ||
अर्हणेनार्चनं पूर्वं ततश्च मधुपर्ककम् |
तर्पणं तर्पणीयाभिस्ततो निष्पुंसनं करे || ३९-२९ ||
देयमाचमनं पश्चान्मात्रा गौर्माधुपर्किकी |
यष्टव्यमन्नयज्ञेन साङ्गेन मधुपर्कवत् || ३९-३० ||
प्रदेया अन्नयज्ञार्था मात्राः शाल्यन्ननिर्मिताः |
सकर्पूरं च ताम्बूलं प्रदेयमनुवासनम् || ३९-३१ ||
ततश्च विश्रमार्थाय विमानं परमाद्भुतम् |
प्रदेयं तत्र दातव्यं सर्वमर्घ्यादि पूर्ववत् || ३९-३२ ||
जपं समाचरेत् पश्चादलक्ष्यमितरैर्जनैः |
मन्त्रसंस्कृतया सम्यक् शुभया ह्यक्षमालया || ३९-३३ ||
प्राकृतस्त्वङ्गुलीभिस्तु पर्वभिस्तु दशोत्तरः |
शतोत्तरादिसंख्यस्तु विज्ञेयो ह्यक्षमालया || ३९-३४ ||
वाचिकः क्षुद्रकर्मार्थमुपांशुः सिद्धिकर्मणि |
मानसो मोक्षलक्ष्मीदो ध्यानात्मा सर्वसिद्धिकृत् || ३९-३५ ||
अक्षमाला तथा कार्या न दृश्या प्राकृतैर्यथा |
अक्षास्थिमात्रा मणय उत्तमाः परिकीर्तिताः || ३९-३६ ||
धात्रीफलास्थिसदृशा मध्यमाः परिकीर्तिताः |
अधमा बदरास्थ्याभाः श्रेष्ठमष्टशतात्मकम् || ३९-३७ ||
तदर्धं मध्यमं प्रोक्तं तदर्धमधमं स्मृतम् |
सौवर्णं द्रव्यसिद्ध्यर्थे पुष्ट्यर्थे पितृकर्मणि || ३९-३८ ||
राजतं ताम्ररूपं तु मेधावीर्यजयाप्तये |
त्रापुषं यक्षिणीसिद्धौ सैसं रक्षःपिशाचयोः || ३९-३९ ||
वेतालसाधनार्थं तु रीतिजं कांस्यजं तु तत् |
अक्षसूत्रं परिज्ञेयं नागपन्नगसाधने || ३९-४० ||
आयसं क्षुद्रकर्मार्थमिति धातुमयो मणिः |
आयुरारोग्यभूत्यर्थः सर्वो मणिमयो मणिः || ३९-४१ ||
मोक्षाय शान्तये चैव स्फाटिको मणिरुच्यते |
सौभाग्ये वैद्रुमः कार्यः सौत्रः कार्यस्तु मुक्तये || ३९-४२ ||
शान्तये मुक्तये पुष्ट्यै तुलसीमूलजो मणिः |
सर्वसिद्धिप्रदः पाद्मो मणिः शाङ्खः श्रियै मतः || ३९-४३ ||
आयुःप्रजायशोदः स्यान्मौक्तिको मणिरुत्तमः |
आदद्यादेकमेतेषां शुभकाले गुणाधिके || ३९-४४ ||
अस्त्रेण गन्धतोयेन क्षालयेत्तदनन्तरम् |
शाणकार्पासजोर्णानां कृत्वा सूत्रं नवं दृढम् || ३९-४५ ||
त्रिगुणं त्रिगुणीकृत्य चतुर्धा वा यथा दृढम् |
क्षालयित्वास्त्रतोयेन तेनैव ग्रथयेन्मणीन् || ३९-४६ ||
अनूनानधिकांस्तुल्यानचलान् ग्रथितान्तरान् |
इष्टसंख्यामणिप्रोतसूत्रान्तद्वितयोपमम् || मणिं प्रकल्पयेन्मेरुमक्षमालाविधिस्त्वयम् || ३९-४७ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे बहिर्यागप्रकाशो नामैकोनचत्वारिंशोऽध्यायः ||
Kapitel 40
Deutsche Übersetzung: Kapitel 40 · Sanskrit IAST: Kapitel 40
शक्रः -
नमस्ते वारिसंभूते नमस्ते पद्मसंभवे |
प्रकारमक्षमालायाः प्रतिष्ठा वदाम्बुजे || ४०-१ ||
श्रीः -
साधितामक्षमालां तु स्थापयेद्भाजने शुभे |
पूजयित्वार्घ्यपुष्पाद्यैस्तस्याः शुद्धिं समाचरेत् || ४०-२ ||
अस्त्रेण दग्ध्वा निर्वाप्य वर्मणाप्याययेच्छ्रिया |
परमामृतरूपिण्या तां मालां भावयेत्ततः || ४०-३ ||
चतुर्भुजामनौपम्यां मन्मयीं मामिवापराम् |
वरदाभयहस्तां च बद्धाञ्जलिकरद्वयाम् || ४०-४ ||
ब्रह्मद्वाराम्बुजन्मस्थां देवीं ध्यायेच्छिखोपमाम् |
तां परां वैष्णवीं शक्तिं मन्मयीं मदभेदिनीम् || ४०-५ ||
द्वादशान्ते विचिन्त्याथ क्रमाद्ध्यायेद्धृदम्बुजे |
हृत्पद्मादुत्थितां भूयो ब्रह्मरन्ध्राद्विनिर्गताम् || ४०-६ ||
शनैः शनैरुल्लसन्तीं मालास्थां तां विचिन्तयेत् |
अङ्गोपाङ्गक्रमोपेतां स्थूलसूक्ष्मपरात्मिकाम् || ४०-७ ||
मां ध्यायेत् तारिकाकारां तत्र शक्तौ सुरेश्वर |
मणीन् सूत्रं तथा मालां मालास्थां वैष्णवीमपि || ४०-८ ||
एकार्णवीकृतं सर्वं मायां ध्यायेत् सुरेश्वर |
मया दत्तां विभाव्यैनां संस्कृतामक्षमालिकाम् || ४०-९ ||
जपं समाचरेत् पश्चात् पूर्वोक्तेन विधानतः |
अनुन्मिषत् परं सूक्ष्मं स्थूलमत्मानमेव च || ४०-१० ||
लक्ष्मीनारायणाकारं पञ्चकं भावयेदिदम् |
तुर्यातीतं तथा तुर्यं सुषुप्तिस्वप्नजागराः || ४०-११ ||
अवस्थापञ्चकं तद्वत् तत्कर्तृकरणादिकम् |
कर्त्रुन्मेषं तथा तत्स्थं करणं बाह्यकं तथा || ४०-१२ ||
मन्त्राक्षरं तथा स्थूलं सर्वं तत्तन्मयं स्मरेत् |
हृत्पुण्डरीकमध्यस्थां मन्मुखाम्भोजनिःसृताम् || ४०-१३ ||
स्मरेच्छब्दमयीं शक्तिं वैष्णवीं मदभेदिनीम् |
तस्या विनिर्गतां ध्यायेन्मातृकां मन्त्रमातरम् || ४०-१४ ||
मन्मयीं संस्मरेन्मालां जप्यमन्त्रमयीं ततः |
लतायामिव पुष्पाणि मन्त्रान् वै तत्र संस्मरेत् || ४०-१५ ||
स्फुरणं मणिसंस्पर्शे हृल्लयं च तदत्यये |
भावयन् मन्त्रनाथस्य जपं कुर्याद्विचक्षणः || ४०-१६ ||
हृद्भास्वरूपसंसूतिबहिरन्तःक्रमोत्क्रमात् |
इति स्मरन् जपेदेकवारं तत्कोटिसंमितम् || ४०-१७ ||
जपं समाप्य विधिवन्न्यस्येन्मयि जपं कृतम् |
शक्तिं तां मन्मुखान्तःस्थां जपरूपां विचिन्तयेत् || ४०-१८ ||
दीपे धूपे तथार्घ्ये च घण्टानादं समाचरेत् |
आवाहने तथार्घ्ये च नैवेद्ये मधुपर्कके || ४०-१९ ||
प्रीणने च प्रयुञ्जीत घण्टानादं विचक्षणः |
न विना पूजया चाल्या तां विना पूजयेन्न च || ४०-२० ||
कार्यसिद्धिमभीप्सद्भिरिह चामुत्र चोभयोः |
सा हि घण्टाभिधा शक्तिर्वागीशा च सरस्वती || ४०-२१ ||
वाचि मन्त्राः स्थिताः सर्वे वाच्यं मन्त्रेषु चाखिलम् |
एतस्यां चाल्यमानायां मन्त्रा वत्सा इव द्रुतम् || ४०-२२ ||
काङ्क्षमाणाः समायान्ति तां घण्टां मन्त्रमातरम् |
अधोमुखं तु ब्रह्माण्डं ध्यायेल्लोककुलाकुलम् || ४०-२३ ||
नालं तस्यास्तदूर्ध्वे तु वृत्तं पद्मं स्मरेद्बुधः |
अष्टपत्रं शुभं श्वेतं कर्णिकाकेसरान्वितम् || ४०-२४ ||
तन्मध्ये चिन्तयेद्देवीं घण्टामष्टभुजान्विताम् |
मुख्यहस्तचतुष्केण पाशशङ्खाम्बुजाङ्कुशान् || ४०-२५ ||
परबाहुचतुष्केण दधतीमक्षसूत्रकम् |
विज्ञानपुस्तकं सम्यगभयं च वरं तथा || ४०-२६ ||
पद्मासनाम्बुजाक्षीं पद्मगर्भसमत्विषम् |
पद्ममालाधरां पीतसितवस्त्रानुलेपनाम् || ४०-२७ ||
मन्त्रौघमुद्गिरन्तीं च ब्रह्मादिपरिसंस्तुताम् |
तारिकामुच्चरन् दीर्घं युग्मां संचालयेदिमाम् || ४०-२८ ||
अनया पूजयन् मन्त्री मन्त्रसिद्धिं निगच्छति |
ततो गुरून् समानीय मन्मयान् वापि वैष्णवान् || ४०-२९ ||
प्रदद्यात् प्रापणार्धं तु तेभ्यो मन्मन्त्रमुच्चरन् |
अथ वह्निगतां सम्यगग्नीषोममयीं पराम् || ४०-३० ||
तर्पयेन्मां सुरेशान यथावदवधारय |
तत उत्तरदिग्भागे देवागाराद्बहिस्तु वा || ४०-३१ ||
भूभागे लक्षणोपेते कुण्डं कुर्यात् समलक्षणम् |
चतुरश्रं समं यद्वा पद्माकारं मनोहरम् || ४०-३२ ||
शतार्धहोमसंख्यायां कुण्डं स्याद् द्वादशाङ्गुलम् |
अष्टोत्तरशतेऽरत्निसमं हस्तं सहस्रके || ४०-३३ ||
अयुताख्ये द्विहस्तं च लक्षहोमे चतुष्करम् |
कोटिहोमेऽष्टहस्तं स्याच्छास्त्रतः कारयेच्च तत् || ४०-३४ ||
त्रिकोणमपि वा कुर्याद्धोमकुण्डं त्रिमेखलम् |
उद्धृत्य तारया पूर्वं त्रिस्तया प्रोक्षयेद्भुवम् || ४०-३५ ||
शोषणं दाहनं प्लावं तारया सम्यगाचरेत् |
आधारशक्त्याद्यारभ्य पूज्यं भावासनावधि || ४०-३६ ||
तत्र नारायणाख्यां वै शक्तिं तेजोमयीं पराम् |
मन्मयीममृताकारां सर्वातिशयरूपिणीम् || ४०-३७ ||
सर्वशक्तिसमूहस्थां सर्ववस्त्वन्तरस्थिताम् |
अवतार्य हृदम्भोजात् सृष्टिमार्गेण शाश्वतीम् || ४०-३८ ||
तारिकास्फुरणाकारामवतीर्य हृदम्बुजात् |
रेचकेन विनिक्षिप्य कुण्डमध्याम्बुजान्तरे || ४०-३९ ||
संपूज्य गन्धपुष्पाद्यैः पद्ममुद्रां प्रदर्श्य च |
ध्यायेदृतुमतीं शक्तिं सुस्नातामहताम्बराम् || ४०-४० ||
ध्यायेत् सर्वात्मिकां शक्तिं तामेव त्वधरारणिम् |
उत्तरं चारणिं ध्यायेत् सर्वतेजोमयं हरिम् || ४०-४१ ||
मथ्नीयात् तारया सम्यक् तथा चैवानुतारया |
उत्पन्नं तारयादाय कृशानुं शक्तिसंभवम् || ४०-४२ ||
अभिगूह्याङ्गुलीभिस्तु संस्कुर्याद्वैष्णवाख्यया |
चूडां च तारया कुर्यादन्नप्राशनपूर्वकम् || ४०-४३ ||
उपनीय ततो वह्निं तारया चानुतारया |
ततः स्वाहास्वधाभ्यां तु देवीभ्यां जातवेदसः || ४०-४४ ||
पाणिग्रहणकं कुर्यात् तारया त्वनुतारया |
सर्वं ध्यानमयं कार्यं जातनामादिकर्म तत् || ४०-४५ ||
लोहपाषाणमण्युत्थवह्नौ कार्यवशात् कृते |
लौकिके वापि संस्कारं निषेकादि समाचरेत् || ४०-४६ ||
आधाय तैजसे पात्रे मृन्मयेऽभिनवे तु वा |
देवीसहायं स्वाहेशं तारयैवार्चयेत् सुधीः || ४०-४७ ||
पूरणेनोपसंहृत्य स्वात्मन्युपशमं नयेत् |
क्रमादानन्दशक्त्या तं संहारेण तु योजयेत् || ४०-४८ ||
सृष्टिमार्गेण तं भूयोऽप्यवतार्य पदात् पदम् |
कुण्डमध्याम्बुजान्तःस्थां तारया भुवमानयेत् || ४०-४९ ||
वह्निं स्वाहास्वधेशानमग्नीषोममयं यजेत् |
समिद्भिस्तिसृभिस्तारामुच्चरन्नेकयैकया || ४०-५० ||
शालीतिलाक्षतैः पश्चात् तत आज्याहुतित्रयम् |
उच्चार्य तारिकां पूर्वं बोधयेति द्विरुच्चरेत् || ४०-५१ ||
तत्रस्थो बुध्यते वह्निर्यथावच्च हुतः स्वयम् |
पर्यग्निकरणं कार्यं तारयैवार्द्रपाणिना || ४०-५२ ||
स्तृणीयात् तारया दर्भैस्त्रेधा त्रेधा चतुर्दिशम् |
उदग्भागेऽग्निकुण्डस्य स्तृणीयाद्दर्भसंचयम् || ४०-५३ ||
प्रणीताप्रोक्षणीपात्रे दर्वीध्मौ स्रुक्स्रुवौ तथा |
आज्यस्थालीं पवित्रे च सर्वं तत्र निधापयेत् || ४०-५४ ||
प्रणीतां तारयापूर्य गन्धयुक्तेन वारिणा |
पवित्राभ्यां त्रिरुत्पूय मां ध्यायेत् तारया श्रियम् || ४०-५५ ||
वह्नेरुदक् प्रतिष्ठाप्य प्रोक्षणीं पूरयेच्छ्रिया |
तामुत्पूय ततः प्रोक्ष्य यागोपकरणं समम् || ४०-५६ ||
आज्यपात्रं समादाय तस्मिन्नाज्यं निधाय च |
ब्रह्म सर्पिःसमुद्रोत्थं तद्ध्यात्वाग्नेरुदग्गतम् || ४०-५७ ||
तारया समभिज्वाल्य दर्भाग्रे विनिधाय च |
तया पुनरभिज्वाल्य पर्यग्निकृतिमाचरेत् || ४०-५८ ||
वह्नेः पश्चात् प्रतिष्ठाप्य पवित्रद्वितयेन तत् |
उत्पूय तारयाग्नौ तत् पवित्रद्वितयं क्षिपेत् || ४०-५९ ||
परिदध्यात् परिधिभिर्यज्ञयोग्यैश्चतुर्दिशम् |
अग्निशर्वदिशोः स्थाप्य कुण्डमध्ये समिद्द्वयम् || ४०-६० ||
तत इध्मं समाधाय शुष्कं पञ्चदशात्मकम् |
तारया परिषिच्याग्निं स्रुक्स्रुवौ परितापयेत् || ४०-६१ ||
निमृज्य तारया पश्चात्तौ प्रोक्ष्याथ स्रुचा तया |
वायोरग्निदिशं यावद्यातोः शर्वदिशावधि || ४०-६२ ||
धारया स्रावयेद्वह्नौ मध्ये दद्यात् स्रुवाहुतिम् |
अष्टोत्तरशतं वापि तदर्धं वा तदर्धकम् || ४०-६३ ||
स्रुवेणाज्याहुतीर्दद्यात् स्वाहान्तां तारिकां गृणन् |
अयं योग्यो भवेद्वह्निर्भगवद्धव्यवाहने || ४०-६४ ||
आदध्यात् समिधः सप्त ततस्तारिकया सुधीः |
यज्ञकाष्ठमयीरादौ ब्रह्मक्षत्रतरूद्भवाः || ४०-६५ ||
तारया समिधो दद्यात् काष्ठरूपा दशापराः |
मामेव भावयेन्मध्ये विष्णोरङ्कस्थितां पराम् || ४०-६६ ||
ब्रह्मानन्दमयाम्भोजकर्णिकास्थस्य वै विभोः |
अङ्कस्थां भावयंल्लक्ष्मीं ता दद्यात्समिधोऽखिलाः || ४०-६७ ||
ततः पुष्पमयीं दद्याद् धूपद्रव्यमयीं तथा |
एतास्तु त्रिविधा देया हस्तेनैव मनीषिणा || ४०-६८ ||
मधुपर्कमयीं पश्चात् स्रुवेण जुहुयात् सुधीः |
स्रुच्यन्नं चतुरादाय सर्पिषापूर्य पूर्ववत् || ४०-६९ ||
तयैवान्नाहुतिं दद्यात् स्वाहान्तां तारिकां गृणन् |
स्रुवेणाज्याहुतीः पूर्वसमित्संख्याः समाचरेत् || ४०-७० ||
पुष्पाञ्जलिमुपादाय वह्निस्थामर्चयेद्धिया |
नित्ययागो ममैतावानूर्ध्वं काम्याहुतिं क्षिपेत् || ४०-७१ ||
यदि कामयमानः स्यात् तत्तद्विध्यनुरूपिणीम् |
तारया परिषिच्याग्निं प्रायश्चित्ताहुतिं क्षिपेत् || ४०-७२ ||
दशवारं तारयैव क्षमस्वेति वदन् धिया |
प्रणीतामुपसंहृत्य शुचिस्थाने निनीय च || ४०-७३ ||
प्रहृत्य परिधीन् सर्वान् सःस्रावं समाचरेत् |
स्तरं प्रहृत्य वह्नौ च घृतेनापूर्य च स्रुवम् || ४०-७४ ||
दद्यात् पूर्णाहुतिं दीर्घां स्वाहान्तां तारिकां गृणन् |
शक्त्या समेतां तां तारां वह्निस्थां मन्मयीं पराम् || ४०-७५ ||
मां चाप्यङ्कस्थितां विष्णोर्नासिकासंधिमार्गतः |
मरुच्छक्त्या समाकृष्य हृत्पद्मे विनिवेश्य च || ४०-७६ ||
यागभूमिं समेत्याथ नवपद्मस्थया मया |
एकीकृत्य मयि न्यस्येदर्चास्थायां कृतिं तु ताम् || ४०-७७ ||
प्रागेव विभजेदन्नं प्रापणात् संप्रदानतः |
तेनान्नेन यजेत् सम्यग्विष्वक्सेनं चतुर्भुजम् || ४०-७८ ||
मण्डलान्तमुपानीय समाहूयाम्बरान्तरात् |
नवाम्रपत्रसदृशं पिङ्गभ्रूश्मश्रुलोचनम् || ४०-७९ ||
पीतवस्त्रं चतुर्दंष्ट्रं स्वमुद्राद्वितयान्वितम् |
गदाखड्गधरं देवमभ्यर्च्य क्रमशः सुधीः || ४०-८० ||
साङ्गमुद्रामथादर्श्य गत्वा कुण्डसमीपतः |
विष्वक्सेनस्ततो भक्त्या तर्पणीयस्तिलाक्षतैः || ४०-८१ ||
वौषडन्तेन मन्त्रेण दद्यात् पूर्णाहुतिं ततः |
मण्डले पूजयित्वाथ कुर्यात्तस्य विसर्जनम् || ४०-८२ ||
स्वमन्त्रेण सुरश्रेष्ठ क्षमस्वेति पदं वदन् |
मुद्रां च दर्शयेत्तं च नभस्युत्पतितं स्मरेत् || ४०-८३ ||
विष्वक्सेनार्चनं सर्वमगाधेऽम्बुनि निक्षिपेत् |
तोयेनास्त्रप्रजप्तेन प्लावयेन्मण्डलं च तत् || ४०-८४ ||
ततः संपूजयेत् सर्वान् लोकपालानशेषतः |
पुष्पार्घ्यैरन्नदानान्तैरेकाहुत्या च वह्नितः || ४०-८५ ||
वह्निभिर्वा यथाशक्ति स्वैः स्वैर्मन्त्रैर्यथाविधि |
पूजयित्वा विसृज्यैतांस्तदस्त्राण्यपि पूजयेत् || ४०-८६ ||
सर्वांश्च परिवारांस्तान् स्वस्वस्थानक्रमेण तु |
अर्चयेत् क्षेत्रपालादीन् वह्निमध्ये च तर्पयेत् || ४०-८७ ||
आधारशक्तेरारभ्य पीठशक्तीश्च सर्वशः |
गणेशाद्याश्च संपूज्याः संतर्प्याश्च घृतादिकैः || ४०-८८ ||
सकृत्कृत्या त्रिवृत्या वा पूर्णाः सर्वेष्वथ क्षिपेत् |
लक्ष्म्यादीन्पूजयेत्सर्वान् विष्वक्सेनार्चनात्पुरा || ४०-८९ ||
विष्वक्सेनार्चनात् पश्चाल्लोकपालार्चनं क्रमात् |
ततो वेदिं विशोध्याथ दर्भान् संस्तीर्य दक्षिणान् || ४०-९० ||
पितॄन् यजेत् क्रमेणैव प्रापणार्थावशेषतः |
कृत्वा पिण्डत्रयं तेन पितृभ्यो निर्वपेत् स्तरे || ४०-९१ ||
अर्घ्याज्जलं तथा दद्यादेकैकस्यैकमञ्जलिम् |
वैष्णवायाथवा दद्याद्ब्राह्मणाय विशेषिणे || ४०-९२ ||
पितॄनुद्दिश्य वै भक्तं तत्तन्नामानुदेशवत् |
संन्यस्य मयि तत् सर्वमन्तर्धानमवेक्ष्य च || ४०-९३ ||
अर्घ्याद्यमुपसंहृत्य वर्मास्त्रे प्रतिहृत्य च |
उपसंहृत्य च न्यासमनुयागं समाचरेत् || ४०-९४ ||
अस्त्रेण तारया प्रोक्ष्य तारया परिषिच्य च |
उपस्तीर्य तया चापो दद्यात् प्राणाहुतीस्तया || ४०-९५ ||
अदीक्षितस्त्वनुयजंस्तत्तन्मन्त्रानुसंहिताम् |
तारिकामुच्चरन् कुर्यान्मां चान्तःस्थां विभावयेत् || ४०-९६ ||
सोमानन्दमयीं दिव्यां क्रमादन्नात्मतां गताम् |
वीर्यरूपरसाकारां तेजोवीर्यबलात्मिकाम् || ४०-९७ ||
ऐश्वर्यशक्तिविज्ञानरूपं भोक्तारमव्ययम् |
आत्मानं पुण्डरीकाक्षं भावयेत् पुरुषोत्तमम् || ४०-९८ ||
तारिकामुच्चरन् पश्चादपिधायान्नमम्भसा |
आचम्य द्विस्ततो न्यस्येदनुयागं ततो मयि || ४०-९९ ||
अथ स्वाध्यायमभ्यस्येद् दिनशेषं विचक्षणः |
चतुर्विधानि शास्त्राणि तदुत्थं तारिकादिकम् || ४०-१०० ||
सिद्धान्तानपि चाशेषानसंलग्नेन चेतसा |
स्वाशयप्रविशुद्ध्यर्थं समीक्षेत धिया स्वया || ४०-१०१ ||
संध्यामुपास्य विधिवदभिगम्य च मां धिया |
योगं युञ्जीत विधिवच्छास्त्रशुद्धेन चेतसा || ४०-१०२ ||
पूर्वपश्चिमयोर्नक्तं यामयोर्धातुसाम्यवान् |
इति यागविधिः शक्र विस्तरेण प्रदर्शितः || ४०-१०३ ||
विधानस्य तु संक्षेपं पुनरस्य निबोध मे |
संक्षेपविस्तरे कुर्याद् देशकालानुकूलतः || ४०-१०४ ||
नैव कुर्यादपच्छेदं यजेदञ्जलिनापि माम् |
यजेतोभौ सहैवावां सूक्तेन पुरुषेण तु || ४०-१०५ ||
तथा मदीयसूक्तेन ताभ्यां वा नौ यजेत् पृथक् |
स्थाने वा सर्वमन्त्राणां तारिकामेव योजयेत् || ४०-१०६ ||
कुर्यात् संकल्पसंन्यासौ द्वावेवाद्यन्तयोः पृथक् |
अकुर्वन् भोगनिर्देशं केवलैर्वा यजेत्तु तैः || ४०-१०७ ||
तथा तथैव कुर्वीत शक्नुयात्तु यथा यथा |
न त्वेव हापयेद्यागमपि दद्याज्जलाञ्जलिम् || ४०-१०८ ||
तारिकां वाप्यधीयीत द्रव्याभावे विचक्षणः |
मनसा भावेयेद्रूपं यत्तस्या यादृशं च यत् || ४०-१०९ ||
निरामिषस्य शुद्धस्य लब्धलक्ष्यस्य वै पदे |
विक्षोभाय क्रियाः सर्वाः या याः शास्त्रेण दर्शिताः || ४०-११० ||
आततस्य च सर्वत्र समतामभ्युपेयुषः |
कः किं कस्मै किमर्थं वा कथं वा शक्नुयात्क्रियाम् || ४०-१११ ||
अग्निषोममयौ हित्वा पन्थानौ सार्वलौकिकौ |
तयोरन्तरमाविश्य मार्गमूर्ध्वं समाचरेत् || ४०-११२ ||
लयाग्निदग्धदुर्मार्गः शितीभूतो निरामयः |
स्थूलसूक्ष्मपरातीतपदाक्रान्तिविचक्षणः || ४०-११३ ||
पश्यञ्छृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् |
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि || ४०-११४ ||
अकुर्वन्नेव तत् सर्वं मद्भूतो ह्यनिदंमयः |
अवस्थादेशकालाद्यैरनवस्यूतयाखिलैः || ४०-११५ ||
अहंतया समाक्रान्तो धूमपीताग्निपीतवत् |
अन्तरा वर्तमानो हि सूर्याचन्द्रमसोर्द्वयोः || ४०-११६ ||
व्यक्तमुद्दाल्य वै तालु ध्रुवस्थाने निवेशयन् |
मनः शून्यमयं भावमातिष्ठन् लयसंमितम् || ४०-११७ ||
एवं यो वर्तते योगी तारिकामननोद्यतः |
स कर्मठः स वै सांख्यः स योगी स च सात्त्वतः || ४०-११८ ||
स च पाशुपतो ज्ञेयः सर्वसिद्धान्तगश्च सः |
इत्येवं ते मयोद्दिष्टो मद्भावः पारमार्थिकः |
शृणु शेषमशेषं मे यत्ते किंचिद् विवक्षितम् || ४०-११९ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे नित्यविधिप्रकाशो नाम चत्वारिंशोऽध्यायः
Kapitel 41
Deutsche Übersetzung: Kapitel 41 · Sanskrit IAST: Kapitel 41
शक्रः -
नमो नित्यानवद्यायै जनन्यै सर्वदेहिनाम् |
आधारेशात्मरूपायै शुद्धाशुद्धाखिलाध्वनाम् || ४१-१ ||
बाह्यान्तरविभागेन श्रुतो यागः सविस्तरः |
संप्रति श्रोतुमिच्छामि त्वत्तो दीक्षाविनिर्णयम् || ४१-२ ||
श्रीः -
एको नारायणः श्रीमान् षाड्गुण्यमहिमोज्ज्वलः |
तस्य षाड्गुण्यरूपाहं शक्तिरेका सनातनी || ४१-३ ||
आत्मानं विभजाम्येका पञ्चधा देवसंविदा |
शब्दरूपार्थरूपाभ्यां वृत्तिरूपेण वासव || ४१-४ ||
तथैवाचार्यरूपेण दीक्षाख्येनापरेण तु |
यद् द्यति क्लेशकर्मादीनीक्षयत्यखिलं पदम् || ४१-५ ||
क्षपयित्वा मलं सर्वं ददाति च परं पदम् |
दीक्षेति तेन तत्त्वज्ञैर्वर्ण्यते वेदपारगैः || ४१-६ ||
दीक्षा सा त्रिविधा तावत् स्थूलसूक्ष्मपरात्मना |
पुनर्दीक्ष्यविभेदेन त्रिविधा सा चतुर्विधा || ४१-७ ||
समयी पुत्रकश्चैव तृतीयः साधकस्तथा |
आचार्यश्चेति दीक्ष्यास्ते तेषामन्यत्र विस्तरः || ४१-८ ||
महामण्डलयागेन हवनाद्वाथ केवलात् |
वाचा केवलया वापि दीक्षैषा त्रिविधा पुनः || ४१-९ ||
वित्ताढ्यस्याल्पवित्तस्य द्रव्यहीनस्य च क्रमात् |
आनीय दृढसंकल्पं चिरकालपरीक्षितम् || ४१-१० ||
आचार्यः प्रणतं शिष्यं संसारानलतापितम् |
नवाम्बुजं विधायादौ तस्मिन् कुम्भं समिज्य च || ४१-११ ||
निर्णिक्तपाप्मनः शिष्यान् प्रायश्चित्तैः पृथग्विधैः |
सुस्नातान् धौतवस्त्रांश्च पवित्रीकृतविग्रहान् || ४१-१२ ||
आनीय भगवद्भक्तान् शुभाः कन्याः स्त्रियस्तथा |
पञ्चगव्येन पूतांश्च दन्तधावनपूर्वकम् || ४१-१३ ||
पुष्पाञ्जलिभृतश्चैव बद्धाक्षान्नववाससा |
आपादमूर्धपर्यन्तमेकसूत्रं प्रकल्पयेत् || ४१-१४ ||
त्रिगुणं त्रिगुणग्रन्थींस्तत्सूत्रे तत्त्वसंख्यया |
कृत्वा मूर्धादिपादान्तं भावयेत्तत्त्वपद्धतिम् || ४१-१५ ||
ईशकालादिभूम्यन्तं सप्तविंशतिसंख्यया |
तत्त्वानि ग्रन्थयो ज्ञेया ग्रन्थिस्थास्तु गुणास्त्रयः || ४१-१६ ||
मायाविद्याक्रियात्मानस्ते पाशाः परिकीर्तिताः |
स्थूलसूक्ष्मात्मको देहः शुभाशुभफलप्रदः || ४१-१७ ||
रञ्जितोऽयं गुणैश्चित्रैरशेषकलुषास्पदम् |
संपातहोमकर्मान्ते देहं सूत्रमयं स्वयम् || ४१-१८ ||
छित्वा छित्वा तु होतव्यं भोगनिर्मूलकारणम् |
ललाटे चेश्वरं ध्यायेच्चिद्रूपं सर्वतोमुखम् || ४१-१९ ||
स्वबीजेन स्थितं ध्यात्वा जुहुयात्तत्त्वसंख्यया |
सिन्दूरपुञ्जसंकाशं प्रधानं भ्रूयुगे स्मरेत् || ४१-२० ||
तालुमूर्ध्नि स्थितां बुद्धिं पूर्णेन्दुकिरणोपमाम् |
तालुमध्ये त्वहंकारं कुसुमाभं विचिन्तयेत् || ४१-२१ ||
तालुकर्णान्तरे ध्यायेन्मनो राजोपलद्युति |
कण्ठहृत्पद्मयोर्मध्ये विभक्ते पञ्चधा समे || ४१-२२ ||
प्रस्फुरत्तारकाकाराञ्छ्रोत्रादीन् पञ्च चिन्तयेत् |
हृन्नाभ्योः पञ्चधा मध्ये वागादीनि स्मरेत्तथा || ४१-२३ ||
स्मरेच्छब्दादितन्मात्रा नाभिबस्त्यग्रमध्यमे |
ऊर्वोराचरणद्वन्द्वात् स्थूलभूतानि संस्मरेत् || ४१-२४ ||
स्वैः स्वैर्बिम्बैः समेतानि ताराकाराणि तान्यपि |
उच्चार्य प्रणवं तत्र तत्तद्बीजं समुच्चरेत् || ४१-२५ ||
तत्त्वसंज्ञां ततः स्वाहा संपाताहुतिरीदृशी |
गुरुः संपातहोमान्ते स्वयं लक्ष्मीमयो भवन् || ४१-२६ ||
पूर्णाहुतिं ततो दद्यात्तारया वौषडन्तया |
एवं संपातहोमान्ते सूत्रं तद्ग्रन्थिमद् दृढम् || ४१-२७ ||
शरावसंपुटान्तःस्थं विनिवेद्य मदन्ततः |
आनीतस्याथ शिष्यस्य नेत्रबन्धं विघट्टयेत् || ४१-२८ ||
प्रदत्तपुस्तकं सम्यग्गुरुं स्वमभिवादयेत् |
स शिष्योऽग्निसमीपस्थो जुहुयात्तारया धिया || ४१-२९ ||
अङ्गैरुपाङ्गैर्लक्ष्म्यादिपरिवारैश्च सर्वशः |
अधिकारी भवत्येवं जपेऽग्नौ श्रवणेऽर्चने || ४१-३० ||
दीक्षायामध्वशुद्ध्यर्थं मूलाद्यैर्जुहुयात्ततः |
तिलेन चापि जुहुयाच्छताद्यं तु दशावरम् || ४१-३१ ||
पूर्णाहुतिं घृतेनैव तारयैव तु पातयेत् |
एषा दीक्षा भवेन्मान्त्री सर्वमन्त्रनियोजनी || ४१-३२ ||
एतावत्यधिकारे तु शिष्यान् भोगैकलम्पटान् |
ग्राहयेदीप्सितान् मन्त्रान् प्रकृतिप्राकृतांस्तु वा || ४१-३३ ||
सिध्यन्ति संमुखा मन्त्राः सर्वे प्रकृतिसंभवाः |
तत्त्वानि त्वस्य शोध्यानि वक्ष्यमाणप्रकारतः || ४१-३४ ||
शुद्धतत्त्वाध्ववर्गस्य मन्त्रग्रहणमिष्यते |
एषा दीक्षा भवेन्मान्त्री तत्त्वदीक्षां निबोध मे || ४१-३५ ||
ओं बीजं तत्त्वसंज्ञां च शोधयस्वाभिधान्वयात् |
आहुतीनां दशावृत्त्या सम्यग्ध्यानसमन्वयात् || ४१-३६ ||
क्षित्यादिरीश्वरान्तः स्यत्तत्त्वग्रामो विशोधितः |
होमादौ दीक्षणीयस्य संज्ञा योज्या यथार्थतः || ४१-३७ ||
बद्धपद्मासने शिष्ये सद्गुरुः स्वसमीपगे |
ध्यायेद्भूम्यन्तमीशाद्यं समग्रां तत्त्वपद्धतिम् || ४१-३८ ||
निरीक्ष्य लक्ष्मीनेत्राभ्यां लक्ष्मीहस्तेन संस्पृशेत् |
उपसंहृत्य भूम्याद्यामीशाद्यां तु पुनः सृजेत् || ४१-३९ ||
इत्थं शिष्यतनुस्थानां तत्त्वानां जडरूपिणाम् |
आवहत्याशु संबोधं दीक्षा ध्यानमयी त्वियम् || ४१-४० ||
पाशसूत्रमथाधाय शरावद्वयमध्यगम् |
गत्वा कुण्डसमीपं तु तदुत्सार्य निधाय च || ४१-४१ ||
तारया साङ्गया हुत्वा सहस्राद्यं शतावरम् |
पुष्पमेकमथादाय बहुशोऽप्यभिमन्त्र्य च || ४१-४२ ||
हृदये ताडयेच्छिष्यं तारया हुंफडन्तया |
शिष्यं भूतत्त्वगं स्मृत्वा तद्भोगान् भोजयेद्धिया || ४१-४३ ||
समाप्ताखिलभूभोगं तत उद्धृत्य योजयेत् |
अप्तत्त्वे तत्र चाप्येवं मत्वेशाद्विधिरीदृशः || ४१-४४ ||
तारया साङ्गया हुत्वा छित्वा ग्रन्थिं तु पार्थिवम् |
निधाय स्रुचि संपूर्य सर्पिषा जुहुयात्तया || ४१-४५ ||
तारिकायाः परे भावे कुण्डस्थे ज्वलनत्विषि |
अप्तत्त्वं क्रामयेत्सूक्ष्मं तदप्येवं तु होमयेत् || ४१-४६ ||
तत्सूक्ष्मं क्रामयेद्वह्निं जुहुयात् पूर्णया च तत् |
एवं क्रमेण हुत्वा तु पूर्णाहुतिपरंपराम् || ४१-४७ ||
प्रकृतिं पुरुषं नीत्वा पुरुषं चेश्वरं नयेत् |
ईश्वरात् परमं तत्त्वं तत्त्वग्रामे न विद्यते || ४१-४८ ||
स्थूलसूक्ष्मपराकारा शक्तिरीश्वररूपिणी |
पुरुषो हीश्वरात्तत्त्वादधो यातो यतोऽशुचिः || ४१-४९ ||
प्राप्य तत् परमं तत्त्वं शुचिरेव भवत्ययम् |
विश्वात्मा विश्वतश्चक्षुस्ततो दीक्ष्यो भवत्ययम् || ४१-५० ||
भोगमोक्षप्रसिद्ध्यर्थं स्यातां पूर्णाहुती ततः |
सकलं निष्कलं शिष्यं ध्यात्वा स्रुचि घृतं तथा || ४१-५१ ||
द्वयं तदेकीकुर्वन् वै परातीतः स्थितो गुरुः |
ध्यायन् विज्ञानशब्दात्मा पश्यन्तीरूपमुत्तमम् || ४१-५२ ||
तारिकायाः परं भावमनुच्छ्रायमनाहतम् |
तेन शिष्यं समीकुर्वंस्तारया वौषन्तया || ४१-५३ ||
पूर्णाहुत्याथ शिष्यस्य स्थितये देहपातनात् |
नमोऽन्तया ध्रुवाद्येवं तारया जुहुयाद्बहु || ४१-५४ ||
तत्र पूर्णाहुतिं दत्वा महापूर्णमथ क्षिपन् |
शिष्यं गुरुः स्वमात्मानं मां च लक्ष्मीं सनातनीम् || ४१-५५ ||
क्षीरे क्षीरमिव ध्यायेत् सर्वं मयि समीकृतम् |
एवं लक्ष्मीमयीकृत्य शिष्यं विज्ञानवायुना || ४१-५६ ||
आकृष्य क्रमतो मन्त्रमिमं संश्रावयेत् पुनः |
हृदये स्थापयित्वा मां तारामुपदिशेत्ततः || ४१-५७ ||
अ"न्गोपा"न्गादिकं सर्वं शास्त्रीयं क्रममेव च |
दिशेत् सामयिकं धर्मं मन्त्रगुप्त्यादिकं हि यत् || ४१-५८ ||
विष्णुहस्तं ततो दद्यान्मूर्ध्नि पृष्ठे हृदन्तरे |
तद"न्गं मुद्रयालभ्य शिष्येणाराधयेत्तु माम् || ४१-५९ ||
तारया कुम्भमादाय यत्रेष्टं गुरुणा पुरा |
अ"न्गोपा"न्गादिसंयुक्तां तारिकां मनसा गृणन् || ४१-६० ||
अभिषिञ्चेद्गुरुः शिष्यं प्रसन्नेनान्तरात्मना |
लब्धरूपस्ततः शिष्यः संसाराम्बुधिपारगः || ४१-६१ ||
महता विभवेनाथ गुरुयागं समाचरेत् |
कृत्वा त्वाधारशक्त्यादि गुरुं तत्र निवेश्य च || ४१-६२ ||
अर्घ्याद्यैः पूजयेत् सर्वैः स्वर्णरत्नादिभिस्तथा |
आशितं तर्पितं पश्चान्मन्त्रेणानेन पूजयेत् || ४१-६३ ||
अज्ञानगहनालोकसूर्यसोमाग्निमूर्तये |
दुःखत्रयाग्निसंतापशान्तये गुरवे नमः || ४१-६४ ||
गृहीत्वा तु ततोऽनुज्ञां मन्त्रमावर्तयेत्ततः |
साधयेच्च यथाकामं यावद्यावदभीप्सति || ४१-६५ ||
इति दीक्षाभिषेकौ ते वर्णितौ बलसूदन || सम्यक्समाधिसंपाद्यं किं भूयः श्रोतुमिच्छसि || ४१-६६ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे दीक्षाभिषेकप्रकारो नामैकचत्वारिंशोऽध्यायः ||
Kapitel 42
Deutsche Übersetzung: Kapitel 42 · Sanskrit IAST: Kapitel 42
शक्रः -
संसारसागरोत्तारपोतपादाम्बुजद्वये |
हृषीकेशमहिष्यै ते भूयो भूयो नमो नमः || ४२-१ ||
त्वत्प्रसादान्मया देवि श्रुतो दीक्षाविधिः क्रमात् |
तारिकाया वदाब्जस्थे पौरश्चरणिकीं क्रियाम् || ४२-२ ||
श्रीः -
अहं नारायणी नाम शक्तिर्नारायणाश्रिता |
तस्या मे परमा मूर्तिस्तारिका भुवनेश्वरी || ४२-३ ||
तस्या मे पिण्डभूतायाः शृणु साधनसंपदम् |
कृष्णाष्टमीं समारभ्य यावत्कृष्णचतुर्दशी || ४२-४ ||
स कालस्तारिकासिद्धौ तन्त्रज्ञैः संप्रदर्शितः |
महापापैरसंस्पृष्टः प्रख्यातैरतिपातकैः || ४२-५ ||
नास्तिक्यात्प्रच्युतो भावान्निन्दिताभ्यासवर्जितः |
भूतेषु भावयन्मैत्रीं कृतपापानुतापवान् || ४२-६ ||
उच्चावचानि पापानि प्रायश्चित्तैः शमं नयेत् |
ब्रह्मचारी हविष्याशी सत्यवादी दृढव्रतः || ४२-७ ||
संनिधौ मनसा विष्णोरोंकारं नियुतं जपेत् |
महाव्याहृतिभिर्होमानयुतं सर्पिषाचरेत् || ४२-८ ||
सावित्र्या च तिलैर्होमं तावत्संख्यं समाचरेत् |
महापापातिपाप्मानौ विहाय प्रथितौ कृतौ || ४२-९ ||
एतादृशं विधिं कृत्वा प्रणवादित्रयेण तु |
महापापातिपापाद्यैरप्रकाशैर्विमुच्यते || ४२-१० ||
उपवासादिभिस्तद्वत् प्रकाशैरपि चेतरैः |
तिस्रो वोपवसेद्रात्रीरघमर्षणतत्त्ववित् || ४२-११ ||
त्रिरह्नस्त्रिर्निशायाश्च सवासा जलमाविशेत् |
प्रतिसंध्यं निमज्जंस्त्रिस्त्रिर्जपन्नघमर्षणम् || ४२-१२ ||
प्रतिमज्जनमेवं तु क्षपयेत्तत् त्रिरात्रकम् |
चतुर्थेऽहनि वै दद्याद् ब्राह्मणाय पयस्विनीम् || ४२-१३ ||
एवं पूतो भवेत् प्राग्वदशेषेणापि चांहसा |
आत्मानमभिषिञ्चेद्वा त्रिसंध्यं पञ्चगव्यतः || ४२-१४ ||
तिस्रो नीत्वा क्षपा एवं मुच्यते सर्वकिल्विषैः |
तारादिपञ्चकं तेषामेकैकमथवा धिया || ४२-१५ ||
जपन् पिबन् समीक्षेत वैष्णवं विमलोज्ज्वलम् |
अहोरात्रकृतैरेवं मुच्यते सर्वपातकैः || ४२-१६ ||
भुवने यान्ति ये विष्णुमपापा धर्मतत्पराः |
तत्पङ्क्तिस्थोऽपि वा भुक्त्वा मुच्यते सर्वपातकैः || ४२-१७ ||
धर्मैः पापं क्षयं नीत्वा महर्षिगणसंमतैः |
तारिकामाश्रयेत् पश्चाद्भवसागरतारिकाम् || ४२-१८ ||
उपोष्य विधिवन्मन्त्री कृष्णपक्षस्य सप्तमीम् |
स्थित्वा संध्यामथाष्टम्यां तारिकाजपमाचरेत् || ४२-१९ ||
अनुज्झन् विहितं कर्म काम्यान्तरविवर्जितः |
दिव्ये सैद्धे तथैवार्षे विष्णोरायतनेऽमले || ४२-२० ||
पर्वताग्रे नदीतीरे गोष्ठे बिल्ववनेऽपि वा |
पयोयावहविष्याणामश्नन्नन्यतमं सकृत् || ४२-२१ ||
जपं द्वादशसाहस्रं कुर्याद्वै सप्त वासरान् |
दशांशं तर्पणं कुर्यादाहुतीश्चापि सर्पिषा || ४२-२२ ||
अनेन वर्तमानस्य विधिना तारिकाविधौ |
चतुर्दशीनिशीथे चेच्छुभं पश्यति दर्शनम् || ४२-२३ ||
सुराकुम्भस्य लाभो वा सुरापानमथापि वा |
स्त्रिया कामाभिषेको वा दर्शनं सुदृशोऽथवा || ४२-२४ ||
तया वालिङ्गनं भावात् सह भोगोऽथवा तया |
मन्त्रसिद्धेस्तयोक्तिर्वा फललाभोऽथवा ततः || ४२-२५ ||
सौम्यस्य दर्शनं वापि मिथुनस्य सुरूपिणः |
राज्ञो वा दर्शनं राजमहिष्या वाथ दर्शनम् || ४२-२६ ||
नारायणस्य वा साक्षात् स्वप्ने दृष्टिर्ममापि वा |
पतिव्रतादर्शनं वा वैष्णवैर्वा समागमः || ४२-२७ ||
यच्चान्यत् स्वप्नशास्त्रेषु शब्द्यते शुभदर्शनम् |
लब्धाशस्तत उत्थाय त्यक्तनिद्रो जितक्लमः || ४२-२८ ||
आचम्य प्रयतो मन्त्री स्मरेन्मां संस्तरे निशाम् |
अथ प्रातः समुत्थाय कृतसंध्याविधिक्रमः || ४२-२९ ||
तुल्यशीलवयोरूपौ सुरूपौ धर्मतत्परौ |
अदीनाकृपणाकारौ रूपवन्तौ मनस्विनौ || ४२-३० ||
दंपती यौवनावस्थौ प्रसन्नमृदुभाषिणौ |
आहूय स्नापयित्वा तौ लक्ष्मीनारायणात्मकौ || ४२-३१ ||
भूषयित्वा च वस्त्राद्यैरकुर्वन् वित्तवञ्चनाम् |
आशितौ लिप्तगन्धङ्गौ दक्षिणापरितोषितौ || ४२-३२ ||
प्रार्थयेत्तारिकासिद्धिं लक्ष्मीनारायणात्मना |
अस्त्वेवमिति वाक्यान्ते तावावां शरणं व्रजेत् || ४२-३३ ||
वाचयित्वा ततः स्वस्ति वैष्णवान् वेदवित्तमान् |
द्विजाग्र्यांस्तर्पयित्वाथ वर्तेताभीष्टसंपदे || ४२-३४ ||
चतुर्दशीनिशायां चेन्न पश्येत् स्वप्नदर्शनम् |
अमावास्यां समारभ्य यावत्कृष्णस्य सप्तमी || ४२-३५ ||
तावन्तं व्रतवानेव वर्तयेत् कालमप्यथ |
त्रिसहस्रं जपं कुर्वन्नेकभुक्तेन वर्तयन् || ४२-३६ ||
मध्ये कौमारदाराणामृतुं प्राप्तमलङ्घयन् |
अनिन्दन् कामिनीवृत्तं दंपती नन्दयन् धिया || ४२-३७ ||
ऋते पापं प्रियं कुर्वन् कामिनीनामलोलुपः |
ततः कृष्णाष्टमीं प्राप्य पूर्ववज्जपमाचरेत् || ४२-३८ ||
कुर्वन् होमादिकं सर्वं स्वप्नदृष्टौ निवर्तयेत् |
यावच्चिह्नानि संपश्येत् तावदेवं समाचरेत् || ४२-३९ ||
सिद्धायां तारिकायां तु सर्वं च लभते नरः |
सम्यक्कर्ता च शास्त्राणामध्यात्मगतिकोविदः || ४२-४० ||
सर्वतन्त्रविधानज्ञः सर्ववेदान्तपारगः |
सर्वसंदेहनिर्भेदी सर्वनिर्णयपारगः || ४२-४१ ||
यथार्थवागृजुर्वाग्मी धर्मसागरपारगः |
परस्य स्वस्य वायं हि विनियोगं चिकीर्षति || ४२-४२ ||
निग्रहेऽनुग्रहे वापि स स सिध्यति सर्वदा |
शक्रः -
नमः संपूर्णषाड्गुण्यविग्रहायै हरिप्रिये || ४२-४३ ||
अरविन्दगृहायै ते गोविन्दगृहमेधिनि |
त्वन्मुखाब्जाच्छ्रुता सिद्धिस्तारिकाया विशेषिणी || ४२-४४ ||
स्थूलसूक्ष्मपराकारा यथावच्च प्रदर्शिताः |
साधिताया विधानेन तारायास्त्रिविधात्मनः || ४२-४५ ||
विनियोगमिदानीं मे वक्तुमर्हसि पद्मजे |
श्रीः -
एकः षाड्गुण्यपूर्णात्मा हंसो नारायणो वशी || ४२-४६ ||
हंसी शक्तिरहं तस्य वशिनी सर्वकामदा |
हंसो हंसी च तावावामुदितौ तारिकात्मना || ४२-४७ ||
तस्या अस्मत्स्वरूपाया विनियोगं निबोध मे |
नानाविधेषु मन्त्रेषु बाह्यान्तरविभागतः || ४२-४८ ||
यावन्तो यादृशा ये च मन्त्राः सन्ति परावराः |
तदीया विनियोगा ये यावन्तः सन्ति यादृशाः || ४२-४९ ||
तावन्तस्तादृशास्तेऽस्या विनियोगा न संशयः |
तथापि विनियोगान्मे कांश्चिच्छक्र निशामय || ४२-५० ||
धर्मार्थकाममोक्षेषु सद्यः प्रत्ययकारकान् |
कृष्णाजिनोत्तरासङ्गां कृष्णाजिननिवासिनीम् || ४२-५१ ||
कृष्णाजिनाम्बरां त्रस्तकृष्णशाबशुभेक्षणाम् |
पूर्णचन्द्रनिभां ध्यात्वा ब्रह्ममुद्राक्षसूत्रिणीम् || ४२-५२ ||
सरोरुहे दधानां चाप्यपरस्मिन् करद्वये |
इत्थं मामम्बुजाक्षं वा देवदेवं जनार्दनम् || ४२-५३ ||
ध्यात्वा लक्षं जपेत्तारां धर्मः प्रत्यक्षतामियात् |
विभुसंख्यामितान्प्रस्थाञ्शालीनां तण्डुलात्मनाम् || ४२-५४ ||
सर्पिषस्तावतः प्रस्थान् शर्करायाः पलानि च |
गुडस्य वापि तावन्ति पाचयेदेकपात्रगान् || ४२-५५ ||
पयसा तावता तुल्यं विधिना सुशृतं हविः |
शुक्लप्रतिपदः प्रातरुदितेऽर्धेन भास्करे || ४२-५६ ||
एकाहुत्यैव जुहुयान्महापात्रस्थितं हविः |
त्रिष्टुभा जातवेदस्या तारिकाद्यन्तरुद्धया || ४२-५७ ||
महाकुण्डे महावह्नौ यन्त्रयोगेन बुद्धिमान् |
अथ प्रातः समारभ्य यावदस्तमयं रवेः || ४२-५८ ||
अविच्छिन्नं च जुहुयात् स्रुवेणैव गतक्लमः |
सर्पिषा संस्कृतेनैव तादृश्या त्रिष्टुभा सुधीः || ४२-५९ ||
प्रातरारभ्य शाल्यन्नं पयोदध्याज्यसंस्कृतम् |
एकैकं भोजयेद्विप्रं प्रातरारभ्य संततम् || ४२-६० ||
वाचयित्वा द्विजानन्ते तर्पयेद्वेदवित्तमान् |
दंपती वैष्णवौ चैवं लक्ष्मीलक्ष्मीशसंज्ञया || ४२-६१ ||
य एवमाचरेद्धीरो व्यवसायसहायवान् |
कोटिसंख्यमनौपम्यमक्षयं लभते निधिम् || ४२-६२ ||
इमं शृणु महाश्चर्यं प्रयोगं पाकशासन |
तारामादाय पूर्वं तु योजयेत् सुभगेपदम् || ४२-६३ ||
स्वाहां संयोजयेत् पश्चात्तारिकेयं षडक्षरा |
उपोष्यैव चतुर्दश्यां पौर्णमास्यामुपक्रमेत् || ४२-६४ ||
जपेद्दशसहस्रं तामारामे शोभनद्रुमे |
आसीनो मध्यतः सम्यक्पूर्णकुम्भप्रदीपयोः || ४२-६५ ||
ध्यायन्मां पद्मगर्भाभां पङ्कजद्वयधारिणीम् |
द्विभुजामसितापाङ्गीं नीलकुञ्चितमूर्धजाम् || ४२-६६ ||
स्मितपूर्णमुखीं रम्यां पीनोन्नतपयोधराम् |
सर्वाभरणसंपूर्णां दुकूलोत्तमवासिनीम् || ४२-६७ ||
सुशुभां सुभगामित्थं ध्यायञ्जपमथाचरेत् |
तर्पयेज्जुहुयाच्चैव दशांशं तारयानया || ४२-६८ ||
बलिं दद्याच्च शाल्यन्नं पयोघृतगुडान्वितम् |
स्त्रियं लक्षणसंपन्नां पूजितां भोजयेत्सुधीः || ४२-६९ ||
हविष्यं स्वयमश्नीयाद्ब्रह्मचारी सकृन्निशि |
एवमस्खलितं कुर्यात् त्रिंशद्रात्रं व्रतं त्विदम् || ४२-७० ||
जपतर्पणहोमाद्यमविच्छिन्नमतन्द्रितः |
परस्यां पौर्णमास्यां तु व्रतं कृत्वा समापयेत् || ४२-७१ ||
व्रतान्ते सा समायाति सुभगा नाम मन्मयी |
यक्षी किं करवाणीति साधकं सा वदिष्यति || ४२-७२ ||
मातरं भगिनीं भार्यां सखीं वा तां प्रकल्पयेत् |
मातृत्वेन प्रपना सा सर्वापद्भ्योऽपि रक्षति || ४२-७३ ||
भगिनीति प्रपन्ना सा सर्वानर्थान् ददाति च |
प्रियेति स्वीकृता कामान् यावज्जीवं ददाति च || ४२-७४ ||
सखीव स्वीकृता सा तु सर्वां संप्रापयेद्दिशम् |
मोक्षकामो जपेन्नित्यं स्थूलसूक्ष्मपरात्मिकाम् || ४२-७५ ||
पदं तद्वैष्णवं दिव्यं प्रसन्ना प्रापयाम्यहम् |
वक्ष्यन्ते विनियोगा ये परस्तात्परमन्त्रगाः || ४२-७६ ||
ते सर्वे तारिकाकार्या ये च मन्त्रान्तराश्रिताः |
पौरश्चरणिको मार्गः प्रोक्तस्ते विनियोगवान् |
तस्याः प्रत्ययसिद्ध्यर्थं सिद्धिमार्गं निबोध मे || ४२-७७ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे तारामन्त्रोपासनक्रमो नाम द्विचत्वारिंशोऽध्यायः ||
Kapitel 43
Deutsche Übersetzung: Kapitel 43 · Sanskrit IAST: Kapitel 43
श्रीः -
शृणु वक्ष्ये परां सिद्धिं नानायोगसमुत्थिताम् |
विद्यायाः पिण्डभूतायास्तारिकायाः सुरेश्वर || ४३-१ ||
युञ्जीत विधिवद्योगी तारिकां देहगोचरे |
नासिकाग्रे च जिह्वाग्रे जिह्वाया मध्यमूलयोः || ४३-२ ||
कण्ठोरसोरुरोऽन्ते च धारयेत्तत्त्वपद्धतिम् |
क्षित्याद्यां बुद्धिपर्यन्तां स्वस्वकार्यस्वभाववत् || ४३-३ ||
तत्त्वात्तत्त्वान्तरं यास्यन् संख्यया संख्यया जपेत् |
द्विश्चतुः षट् तथाष्टौ च दशषोडशवारकम् || ४३-४ ||
चतुर्विंशतिवारं च बुद्ध्यन्ते प्रकृतिं स्मरेत् |
अशीतिं संस्मरेत्तारां तत्र जीवं विचिन्तयेत् || ४३-५ ||
यावान् यादृक् च यश्चायं शतं तत्राचरेज्जपम् |
अव्यक्तचेतनाधारं पुष्करं तदधः स्मरेत् || ४३-६ ||
तत्त्वाद्यवयवाधारमनन्तं तत्त्ववाहकम् |
पद्माकारं विचिन्त्यैतज्जपेत्सार्धं शतं सुधीः || ४३-७ ||
ततस्तन्नालमव्यक्तकालजीवाक्षरात्मकम् |
खं यत्तु तत्र कालस्तत्तमोऽन्तःसुषिरूपकम् || ४३-८ ||
यस्त्वन्तश्चेतनः सोऽयमिति तत्त्रितयात्मकम् |
चिन्तयित्वा यथावत्तदाचरेद् द्विशतं जपम् || ४३-९ ||
नालादधोऽनिरुद्धाख्यशक्तिं मां भगवन्मयीम् |
संस्मरन् रूपकालाद्यैराचरेत्तु शतं जपम् || ४३-१० ||
प्रद्युम्रशक्तिं तदधो जपसंख्या च तादृशी |
अधः सांकर्षिणीं शक्तिं जपसंख्या च तादृशी || ४३-११ ||
सर्वाधो वासुदेवाख्यं दांपत्यं स्थूलरूपकम् |
ततः सूक्ष्मं परं तस्मात् परातीतं तु सर्वतः || ४३-१२ ||
लक्ष्मीनारायणाभासमनिर्देश्यमनौपमम् |
सर्वतः शक्तिशक्तीशस्पन्दमानमनाविलम् || ४३-१३ ||
प्राप्य योगमयीं निद्रां निद्रामेवं समाविशेत् |
उत्थायापररात्रे तु द्वादशैतास्तु धारयेत् || ४३-१४ ||
वासुदेवादिभूम्यन्तं तत्संख्यानविधिकमात् |
हृदि वा धारयेदेताः समस्ता अपि धारणाः || ४३-१५ ||
धारणा द्वादशैवैतास्तारिकायामथापि वा |
एष सर्वहितो योगो यत्तत्त्वैस्तत्र भूयते || ४३-१६ ||
प्रतिसंहृत्य वा सर्वं व्यक्ताव्यक्तमयं पदम् |
निरालम्बं मनः कृत्वा शून्यभावं समाविशेत् || ४३-१७ ||
शून्याकारसमाकारं संपूर्णमिव वारिधिम् |
आविशामि महायोगं शून्यभावनिवेशितम् || ४३-१८ ||
यदा स्तिमितनिःशब्दनीरदानन्दसंनिभम् |
योगी भवति युञ्जानः स योगी मत्प्रियः सदा || ४३-१९ ||
यत्र ध्येयमवच्छिन्नं नैव किंचन विद्यते |
अज्ञेयमनवच्छिन्नं तद्रूपं मद्वपुः स्फुटम् || ४३-२० ||
आत्मसात्कुरुते योगी ज्ञेयं सकलमक्रमम् |
वितता सा महाज्वाला निस्तरङ्गा तनुर्मम || ४३-२१ ||
हूयन्ते मनसा यत्र भूतानि भुवनानि च |
सर्वभावस्तदा शश्वद्भावो मे प्रविजृम्भते || ४३-२२ ||
स्रुचा च मनसा हुत्वा भूताक्षभुवनादिकम् |
तां च स्रुचं प्रहृत्याथ योगिना भूयते मया || ४३-२३ ||
यदवच्छिद्यते येन तत्तु तस्मान्महत्तरम् |
धियावच्छिद्यते सर्वं यद्यदस्ति च नास्ति च || ४३-२४ ||
सा नावच्छिद्यतेऽन्येन तनुः सा मे निरञ्जना |
धियो नैतौ बहिर्भूतावभावो भाव एव वा || ४३-२५ ||
अनालीढौ धिया न स्तः सा मे तनुरनञ्जना |
यदातिक्रम्य मर्यादां जलधिः प्लावयेज्जगत् || ४३-२६ ||
तदा न स्थलनिम्ने स्तस्तथा मययखिलं जगत् |
नेदमल्पात्मना शक्यमास्थातुं परमं पदम् || ४३-२७ ||
कुर्याद्विच्छिद्य विच्छिद्य योगमेतदवाप्तये |
भावे भावे शुभेऽन्यत्र भूते भवति भाविनि || ४३-२८ ||
स्मरेत् सारतरं रूपं परमं पारमेश्वरम् |
संभरन्ति प्रसूनेषु मधु सर्वेषु षट्पदाः || ४३-२९ ||
संभरन्ति तथैकां मां सर्वभावेषु योगिनः |
यत्र यत्र मनो याति लक्ष्मीं तत्रैव चिन्तयेत् || ४३-३० ||
चलित्वा तत् कुतो याति सर्वं तन्मन्मयं हि यत् |
तत्त्वानां पद्धतिं मालां मत्सूत्रग्रथितां स्मरेत् || ४३-३१ ||
मयि वा भित्तिभूतायां चित्रवत् संस्मरेज्जगत् |
स्तिमितापारगम्भीरे फेनपिण्डं यथाम्बुधौ || ४३-३२ ||
स्मरेत् क्रमोत्क्रमाभ्यां वा प्रमात्रादिचतुष्टयम् |
प्रभवन्तीं मदाकारादपि यान्तीं च तां पुनः || ४३-३३ ||
पुमानाद्यो मदुन्मेषः स मत्संकल्पकल्पितः |
अन्तःकरणसंज्ञोऽन्यो मदुन्मेषोऽधरावनौ || ४३-३४ ||
बहिष्करणरूपोऽन्यस्तृतीयस्तदधः क्षितौ |
भावरूपः प्रमेयात्मा तुर्योऽयमधराधरः || ४३-३५ ||
मत्संकल्पवशेनैव सदानन्दचिदात्मिकाम् |
भावयन्ननिशं शश्वत् क्रमव्युत्क्रमतो धिया || ४३-३६ ||
इमां चतुष्टयीं हित्वा मद्भावं प्रतिपद्यते |
विज्ञानाधारभूतेषु द्वात्रिंशत्यम्बुजेषु वा || ४३-३७ ||
ध्यायेद्दीपशिखाभां मामथवा रूपसुन्दरीम् |
आधारपद्मादारभ्य नाभिपद्मादधो भुवि || ४३-३८ ||
षट् पद्मा योगिनां चिन्त्यास्तेषां नामानि मे शृणु |
व्युच्छन्ती व्युषिता व्युष्टा व्युषुषी व्योषुषी रमा || ४३-३९ ||
नाभिपद्माद्धृदम्भोजात् पञ्च पद्मान् प्रचक्षते |
पश्यन्ती नाभिपद्माख्या पश्या पश्येतरात्मिका || ४३-४० ||
दृश्या च दृश्यमाना च हृदयं पङ्कजाह्वयाः |
हृत्कण्ठान्तरमध्याच्च पञ्चपद्माह्वयाञ्शृणु || ४३-४१ ||
बोधयन्ती च बोद्ध्री च बुध्यमाना तथेतरा |
घोषोन्मेषा च संज्ञाः स्युः कण्ठहृन्मध्यपद्मगाः || ४३-४२ ||
कण्ठताल्वन्तराम्भोजपञ्चकाख्या इमाः शृणु |
घोषयन्ती च घुष्यन्ती घुष्टा घोषा तथेतरा || ४३-४३ ||
तालुभ्रुमध्यदेशस्था पञ्चपद्माह्वया इमे |
ग्राहयन्ती च गृह्णाना जिघृक्षा च गृहीतिका || ४३-४४ ||
निर्णीतिरिति तालुभ्रूमध्याम्भोजगणाभिधाः |
भ्रूमूर्धमध्यपद्मानां षण्णामाख्या इमाः शृणु || ४३-४५ ||
प्राणयन्ती प्राणती च प्राणा प्राणावबोधिनी |
परा बोधेति ता एता भ्रूमध्यान्तःस्थपद्मगाः || ४३-४६ ||
रत्नदीपशिखाभेषु भावयेन्मां क्रमोत्क्रमात् |
गृनन्मां तारिकां दीर्घां दीर्घघण्टानदोपमाम् || ४३-४७ ||
इत्थं मां चिन्तयन् योगी सुरूपां वापि संस्मरन् |
विहाय सकलं क्लेशं मद्भावं प्रतिपद्यते || ४३-४८ ||
लक्षयेद्वापि पद्मेषु नवस्वेषु क्रमोत्क्रमात् |
आधारे त्रीणि पद्मानि हृदयाधोऽम्बुजत्रयम् || ४३-४९ ||
मूर्ध्नोऽधस्त्रीणि पद्मानि नवपद्मविधिक्रमः |
द्वादशस्वथवाब्जेषु मूर्धाद्येषु द्विके द्विके || ४३-५० ||
षट्सु वा प्रथमाब्जेषु त्रिषु वा मूलहृद्भुवि |
भ्रूमध्ये चिन्तयेद्वापि तारिकां तारनादिनीम् || ४३-५१ ||
तद्बिन्दुं चिन्तयेत् पूर्वं मुद्गमात्रं सुभास्वरम् |
ततः सर्षपमात्रं तु ततश्चित्रमनाकृतिम् || ४३-५२ ||
यो यो वा गृह्यते भावो घटकुड्यादिरूपवान् |
चिन्तयेत्तत्र तत्त्वानि यानि यावन्ति शास्त्रतः || ४३-५३ ||
मन्मयीकृत्य तत्रैतान्यहंभावनया स्मरेत् |
हेतुमद्धेतुभूतानि लोके वस्तूनि यानि वा || ४३-५४ ||
आश्रिताश्रयरूपाणि यानि स्वच्छघनानि वा |
भावतद्वत्स्वरूपाणि शुभाशुभमयानि च || ४३-५५ ||
प्रसवाप्रसवात्मानि गुणगुण्याकृतीनि वा |
आधाराधेयभूतानि शक्तितद्वन्मयानि वा || ४३-५६ ||
भोग्यभोक्तृस्वरूपाणि नारीनरमयानि वा |
क्रियाकर्तृस्वरूपाणि ह्युपायोपेयकानि वा || ४३-५७ ||
स्त्रीपुंप्रत्ययरूपाणि शब्दरूपाणि यानि वा |
द्वन्द्वभूतानि वस्तूनि लोकेऽस्मिन् यानि कानिचित् || ४३-५८ ||
तानि योगी धिया पश्येल्लक्ष्मीनारायणात्मना |
तन्त्रस्य परमं गुह्यं व्रतं शृणु पुरंदर || ४३-५९ ||
योगिना यदनुष्ठेयं लक्ष्मीयोगविधिक्रमे |
प्रवर्तमानया पूर्वमादिदेवाज्जगद्विधौ || ४३-६० ||
आत्तं सीमन्तिनीरूपं मया साभिनिवेशया |
चिकीर्षुर्मत्प्रियं योगी लक्ष्मीतन्त्रविचक्षणः || ४३-६१ ||
न स्मरेत् कामिनीनिन्दां कर्मणा मनसा गिरा |
यत्राहं तत्र तत्त्वानि यत्राहं तत्र देवताः || ४३-६२ ||
यत्राहं तत्र पुण्यानि यत्राहं तत्र केशवः |
वनितायामहं तस्मान्नारी सर्वजगन्मयी || ४३-६३ ||
योऽभिनिन्दति तां नारीं स लक्ष्मीमभिनिन्दति |
योऽभिनन्दति तां लक्ष्मीं त्रैलोक्यमभिनन्दति || ४३-६४ ||
यो द्वेष्टि वनितां कांचित् स द्वेष्टि हरिवल्लभाम् |
यो हरेर्वल्लभां द्वेष्टि स द्वेष्टि सकलं जगत् || ४३-६५ ||
ज्योत्स्नामिव स्त्रियं दृष्ट्वा यस्य चित्तं प्रसीदति |
नापध्यायति यत्किंचित् स मे प्रियतमो मतः || ४३-६६ ||
यथा नारायणे नास्ति मयि वा शक्र किल्विषम् |
यथा गवि यथा विप्रे यथा वेदान्तवेदिनि || ४३-६७ ||
वनितायां तथा शक्र दुरितं नैव विद्यते |
अकल्मषा यथा गङ्गा यथा पुण्या सरस्वती || ४३-६८ ||
अरुणा ह्यापगा यद्वत्तथा सीमन्तिनी वरा |
यदस्मि जननी नाम त्रयाणां जगतामहम् || ४३-६९ ||
तदिदं नार्यवष्टम्भात् सा हि मे परमं बलम् |
त्रैलोक्यजननी देवी सर्वकामसमृद्धिनी || ४३-७० ||
मत्तनुर्वनिता साक्षाद्योगी कस्मान्न पूजयेत् |
न कुर्याद् वृजिनं नार्याः कुवृत्तं न सम्रेत् स्त्रियाः || ४३-७१ ||
ऋते पापात् प्रियं नार्याः कार्यं योगमभीप्सता |
जननीमिव तां पश्येद्देवतामिव मामिव || ४३-७२ ||
यो द्वेष्टि वनितां मोहात्तत्साहाययं न चाचरेत् |
इदं च शृणु देवेश यद्वक्ष्यामि प्रियोऽसि मे || ४३-७३ ||
श्रुत्वा त्वयाप्यनुष्ठेयं नैव वाच्यं हि कस्यचित् |
या रूपिणी वरारोहा काचिद् दृष्टिपथं गता || ४३-७४ ||
तस्यां मां भावयेद्योगी तारिकां मनसा गृणन् |
अलोलुपेन चित्तेन तस्या रूपमनुस्मरेत् || ४३-७५ ||
प्राणं सूर्यं परात्मानं नारीहृदयपूरुपम् |
संस्मरेदनलं तत्र रूपलावण्यसंपदम् || ४३-७६ ||
अशेषसंपदोपेतां तां नारीं मामनुस्मरेत् |
अनुस्मृत्य गृणन् ब्रह्म भावयेदेव मां धिया || ४३-७७ ||
ततः समाधिसंपत्तौ तत्राविष्टा भवाम्यहम् |
स्तब्धसर्वाङ्गविस्रंसो मदावेशस्य लक्षणम् || ४३-७८ ||
अलोलुपेन चित्तेन मां समाराध्य यत्नतः |
विरमेदेव युञ्जानः पाप्मानं परिवर्जयन् || ४३-७९ ||
एतत्तु परदारेषु नैव कार्यं विजानता |
अयं समाधिर्यत्रासीत् सानुरज्यति तद् ध्रुवम् || ४३-८० ||
स्वस्त्रियामेव कुर्वीत साधारण्यामथापि वा |
विप्लवोऽपि न दोषोऽत्र यतो मद्भावभावना || ४३-८१ ||
संस्पर्शजेषु भोगेषु यः संहर्षमहोदयः |
मद्रूपं तदनुध्यायेदविक्षिप्तेन चेतसा || ४३-८२ ||
प्रशस्तविषयोत्थं यत् सुखं लेखनमन्थनात् |
स्मरतस्तत्प्रहर्षो यस्तद्भावमनुशीलयेत् || ४३-८३ ||
चक्षुषा विषये दृष्टे या प्रीतिरुपजायते |
रसिते च श्रुते घ्राते सा मे सुखमयी तनुः || ४३-८४ ||
यदृच्छोपनतेष्वेवं शब्दस्पर्शरसादिषु |
उपपत्तिरियं प्रोक्ता चेतो दमयतो यतेः || ४३-८५ ||
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते |
आदिमन्तोऽन्तवन्तश्च न तेषु रमयेन्मनः || ४३-८६ ||
निरस्तरजसा ध्वस्ततमसा सत्त्ववर्तिना |
यदन्तःकरणेनान्तर्व्यज्यते सुखमुत्तमम् || ४३-८७ ||
आद्यन्तविधुरं तन्मे सुखं ज्ञानमयं वपुः |
तत्तादृग्व्यज्यते नैव संस्पर्शैर्विषयाश्रितैः || ४३-८८ ||
अनुबध्नन्ति यद् दुःखं विषयाः सुखवाहिनः |
मध्वन्तर्विषसंसृष्टं मधुरं यदि भक्षणे || ४३-८९ ||
किं तेनानन्तरं यत्तद्व्यापादयति भक्षिणम् |
क्रुद्धस्य फणिनश्छायां यः श्रयेदातपार्दितः || ४३-९० ||
स सेवेत नरो भोगान् सुखाय स्पर्शसंभवान् |
साध्यान् दुःखव्ययायासैः सुदर्शान् दुःखमिश्रितान् || ४३-९१ ||
तनीयसः क्षयिष्णूंश्च कः श्रयेद्विषयान् सुखी |
जप्यपूतमिताहारदिव्यसत्त्वतनूकृतौ || ४३-९२ ||
रजस्तमोगुणौ क्षिण्वन्मत्प्रियाचारकर्मणा |
योगी समाधये शश्वद्यत्नेन दमयेन्मनः || ४३-९३ ||
जिते मनसि वै शश्वद्विश्वं तेन विजीयते |
जिते मनसि शुद्धा मे तनुरुन्मिषति स्वयम् || ४३-९४ ||
शक्रः -
समस्तचिदचिद्भेदतन्त्रयन्त्रविधायिनि |
विधात्रि सर्वभोगानां नमस्ते पङ्कजासने || ४३-९५ ||
विषयप्रवणं शश्वच्चपलं बलवद् दृढम् |
आशु दूरगमव्यक्तं दम्यते केन तन्मनः || ४३-९६ ||
श्रीः -
दुर्दमं दुर्धरं शश्वदणु दुर्बोधमुत्क्रमम् |
वैराग्याभ्यासनिग्राह्यं तन्मनः शक्र चञ्चलम् || ४३-९७ ||
रागस्तु विषये रक्तिः स्वभावाभ्यासयोगजा |
तदभावश्च वैराग्यं तत्त्वज्ञानेन जन्यते || ४३-९८ ||
दौरात्म्यं विषयाणां यत्तत्त्वज्ञानं तु तन्मतिः |
चतुर्धा लक्षयेत्तच्च दौरात्म्यं प्रज्ञया सुधीः || ४३-९९ ||
यो यादृशो यतो यस्मै भावोऽयमिति चिन्तयेत् |
विषया बन्धनात्मानो विषिण्वन्ति स्वसेविनः || ४३-१०० ||
अव्यक्ताद्व्यक्तिमापन्नाः सर्वे ते सुखदुःखयोः |
ते च नैव स्वसंसिद्धा विषया विषयैषिणाम् || ४३-१०१ ||
अनेकान्तव्ययायासदुःखसाधनजा हि ते |
सुखमेव न ते कुर्युर्दुःखं च सुवते हि ते || ४३-१०२ ||
सुखं च तत्क्षणध्वंसि स्वदशादुःखसंमितम् |
चित्ररूपमिदं चिन्त्यं भावे भावे विपश्चिता || ४३-१०३ ||
तत्त्वज्ञानमिदं प्रोक्तं संगृह्य च विगृह्य च |
विषयेषु च रागस्तु सुखहेतुत्वनिश्चयात् || ४३-१०४ ||
स मिथ्याज्ञानरूपत्वात्तत्त्वज्ञानैरपोह्यते |
तद्विनिश्च्यबाधे च हेतुत्वं नैव सिध्यति || ४३-१०५ ||
अहेतून् विषयान् कश्चिन्नाददीत स्वसिद्धये |
यदिदं तत्त्वविज्ञानं तस्य यच्छीलनं मुहुः || ४३-१०६ ||
सोऽभ्यास इति तत्त्वज्ञैस्तत्त्वशास्त्रेषु शब्द्यते |
सूक्ष्मे महत्यणौ स्थूले स्थिरे च चलवस्तुनि || ४३-१०७ ||
यत्र तिष्ठति यच्चित्तं धार्यतेऽभ्यास एषु वै |
वैराग्याभ्यासयोगेन यतमानेन योगिना || ४३-१०८ ||
दम्यते मन उद्दामं ततः शाम्यति तद् ध्रुवम् |
शक्रः -
तत्त्वारविन्दसंदोहविहारचतुरक्रमे || ४३-१०९ ||
मधुजिन्मानसावासे नमस्ते पङ्कजासने |
अभ्यासेन यथा चित्तं दम्यते बलवद् दृढम् || ४३-११० ||
तं प्रदर्शय पन्थानं नमस्ते पद्मसंभवे |
श्रीः -
वियत्यूर्ध्वं तनूभूते जवात् पतति पत्रिणि || ४३-१११ ||
अरुन्धत्यां तथा सूक्ष्मे शनैश्चित्तं निरोधयेत् |
शैले महति वा चित्तमनन्ते वा विभावयेत् || ४३-११२ ||
परिभ्रमति वा चक्रे यत् सूक्ष्ममणु विद्यते |
मनस्तत्रैव संयोज्य भ्रामयेद्भ्रमता समम् || ४३-११३ ||
तथाश्वत्थदलाग्रेण चलता चालयेन्मनः |
तिष्ठति स्थापयेच्चित्तं गच्छता गमयेन्मनः || ४३-११४ ||
प्रदर्शनार्थमुक्तस्ते प्रकारोऽयं पुरंदर |
अनेन दमयंश्चित्तं परं योगमवाप्स्यति || ४३-११५ ||
ईशेशितव्यसंभेदं यत्पुंरूपं परावरम् |
सूर्यस्थं संस्मरेत्तत्तु स्त्रीरूपं पञ्चबिन्दुकम् || ४३-११६ ||
इति ते तारिकारूपं सर्वतः सौम्य दर्शितम् |
इत्थं विज्ञाततत्त्वस्य ज्ञेयं नैवान्यदिष्यते || ४३-११७ ||
इतीयं पिण्डसिद्धिस्ते लेशतः शक्र दर्शिता |
संज्ञामूर्तिविधानं च साधनं चाथ मे शृणु || ४३-११८ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे नानायोगप्रकाशो नाम त्रिचत्वारिंशोऽध्यायः ||
Kapitel 44
Deutsche Übersetzung: Kapitel 44 · Sanskrit IAST: Kapitel 44
शक्रः -
नमस्ते चिदचिद्वर्गसंरक्षणविचक्षणे |
जगद्विधानशिल्पिन्यै विष्णुपत्न्यै नमोऽस्तु ते || ४४-१ ||
स्थूलसूक्ष्मपरात्मानो भेदाः पूर्वं प्रदर्शिताः |
ताराया बीजपिण्डादिभेदं दर्शय मेऽम्बुजे || ४४-२ ||
श्रीः -
एको नारायणः श्रीमान् पूर्णषाड्गुण्यविग्रहः |
एकाहं परमा तस्य शक्तिः षाड्गुण्यविग्रहा || ४४-३ ||
लोकाननुजिघृक्षन्ती शश्वज्ज्ञानक्रियात्मना |
साहं तारिकया तन्वा पोषयामि पुनामि च || ४४-४ ||
तस्याः परादिभावस्ते शक्र पूर्वं निदर्शितः |
बीजपिण्डादिकान् भेदान् गदन्त्या मे निशामय || ४४-५ ||
या परा दर्शिता पूर्वं यादृशी सा त्रिधात्मना |
साहंता तादृशी शक्र तारिकाबीजमुच्यते || ४४-६ ||
सूर्यानलस्थिता विष्णुपिण्डव्योमेशशेखरा |
पौरश्चरणिको योगस्तस्याः सिद्धिश्च दर्शिता || ४४-७ ||
संज्ञाख्या तारिकाया हि योगिभिः शक्र सेव्यते |
तामद्यावदधानस्त्वं गदन्त्या मे निशामय || ४४-८ ||
शुद्धमेकमुपादाय स्वाहया शक्र योजयेत् |
अयं संज्ञामनुर्योगिदेवब्रह्मादिपूजितः || ४४-९ ||
योगिभिर्यतमानैर्वा मया नारायणेन वा |
शक्यः प्रभाव आख्यातुं संज्ञायास्त्रिदशेश्वर || ४४-१० ||
शुभानुबन्धमात्रं तु संज्ञेष्टं परमक्षरम् |
पिण्डिताया इवास्याश्च सिद्धयः साधनानि च || ४४-११ ||
स्मरन् सततमभ्यासात्तन्मयीकृतविग्रहः |
योगी मन्मयतां प्राप्य मद्भावं प्रतिपद्यते || ४४-१२ ||
अहं वा बोधिता तेन साक्षात्कारमुपेयुषी |
विदधे सकलं कामं स योगी यं यमिच्छति || ४४-१३ ||
इति संज्ञामनुः शक्र लेशतः संप्रदर्शितः |
पदमन्त्रमिदानीं मे शृणु त्वं सर्वसाधकम् || ४४-१४ ||
विभज्य नायमुद्धार्यो न च लेख्यस्तथापि च |
अविप्लवाय रूपस्य स्वरूपमुपदिश्यते || ४४-१५ ||
ओं ३, ह्रीं ३, श्रीं ३ ओं आं ३ हौं ३ हंसः ३ ओं ह्रीं श्रीं नमो विष्णवे |
ओं ह्रीं श्रीं नमो नारायणाय |
ओं ह्रीं श्रीं नमो भगवते वासुदेवाय |
ओं ह्रीं श्रीं
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन |
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज || ४४-१६ ||
ओं ह्रीं श्रीं भगवन् विष्णो नारायण वासुदेव पुण्डरीकाक्ष लक्ष्मीपते पुरुषोत्तम जगदादे जगन्मध्य जगन्निधन श्रीनिवास भगवन्तमभिगच्छामि |
भगवन्तं प्रपद्ये |
भगवन्तं गतोऽस्मि |
भगवन्तमभ्यर्थये |
भगवदनुध्यातोऽहम् |
भगवत्परिकरभूतोऽहम् |
भगवदनुज्ञातोऽहम् |
भगवति सृष्टोऽहम् |
भगवत्प्रसादात् भगवन्मयीं भगवतीं तारिकामयीं लक्ष्मीं पदैरावर्तयिष्यामि |
तद्यथा ओं श्रीं ह्रीं गुरुभ्यो गुरुपत्नीभ्यः |
ओं श्रीं ह्रीं परमगुरुभ्यः परमगुरुपत्नीभ्यः |
ओं ह्रीं श्रीं परमेष्ठिने परमेष्ठिन्यै |
ओं ह्रीं श्रीं पूर्वसिद्धेभ्यः पूर्वसिद्धाभ्यः |
ओं ह्रीं श्रीं लक्ष्मीयोगिभ्यो लक्ष्मीयोगिनीभ्यो नमो नमः |
ओं ह्रीं श्रीं ईं नमः संसिद्धिसमृद्ध्यादिप्रदायै परमैकरस्यायै परमहंसि समस्तजनवाङ्मनसस्वात्मातिवर्तिन्यै निरारम्भस्तिमितनिरञ्जनपरमानन्दसंदोहमहार्णवस्वरूपे परपरायै विष्णुविष्णुपत्न्यै विविष्णु ईं स्वाहा |
ओं ह्रीं श्रीं ईं नमो निरन्तरप्रथमानप्रथमसामरस्यायै स्वस्वातन्त्र्यसमुन्मिषितनिमिषोन्मेषपरंपरारम्भे स्वच्छन्दस्पन्दमानविज्ञानवारिधये परसूक्ष्मायै विष्णुपत्न्यै मायायै ईं स्वाहा |
ओं श्रीं ह्रीं श्रीं ईं नमः स्वसंकल्पबलसमुन्मीलितभगवद्व्याप्तिभावस्वभावे स्वेच्छावेशविजृम्भमाणसत्ताविभूतिमूर्तिकारचतुरगुणग्रामयुग-त्रिकमहोर्मिजालायै विष्णुपत्न्यै पञ्चबिन्दवे ईं स्वाहा |
ओं ह्रीं श्रीं हिं हिं हिं नमो नित्योदितमहानन्दपरमसुन्दरभगवद्विग्रहप्रकाशे विविधसिद्धाञ्जनास्पदे षाड्गुण्यप्रसरमयपरमसत्त्वरूपपरमव्योमप्रभावे विचित्रानन्दनिर्मलसुन्दरभोगजालप्रकारपरिणामप्रवीणस्वभा-वायै परमसूक्ष्मस्थूलरूपसूक्ष्मायै विष्णुपत्न्यै पञ्चबिन्दवे हिं हिं हिं स्वाहा |
ओं ह्रीं श्रीं आं ह्रीं ह्रीं ह्रीं नमः स्वसंकल्पसमीरणसमीर्यमाणबहुविधजीवकोशदृषत्पुञ्जायै कलितकालकाल्यविकल्पभेदफेनपिण्डनिवहायै विलासनिदर्शितभोक्तृभोग्यभोगोपकरणभोगसंपदेकमहासिन्धवे परमसूक्ष्मस्थूलरूपस्थूलायै विष्णुपत्न्यै पञ्चबिन्दवे ह्रीं ह्रीं ह्रीं स्वाहा |
ओं ह्रीं श्रीं नमः समस्तजगदुपकारस्वीकृतबुद्धिमनोऽङ्गप्रत्यङ्गसुन्दरायै विधाचतुष्टयसमुन्मेषितसमस्तजनलक्ष्मीकीर्तिजयामायाप्रभा-वात्मसमस्तसंपदेकनिधये समस्तशक्तिचक्रसूत्रधारायै समस्तजनभोगसौभाग्यदायिनि विविधविषयोपप्लवप्रशमनि नारायणाङ्कस्थितायै ओं ह्रीं श्रीं नमो नारायणाय लक्ष्मीनारायणाभ्यां स्वाहा |
श्रीं ह्रीं ओं |
इति ते दर्शितः सोऽयं पदमन्त्रो महाद्भुतः |
ग्राह्यो गुरुमुखादेव कृतदीक्षं मनीषिभिः || ४४-१६ ||
अस्यामधीयमानायामादर्श इव निर्मले |
विद्यायां संप्रकाशेऽहं यावती यास्मि यादृशी || ४४-१७ ||
संबोधितस्वतत्त्वार्था सर्वसिद्धाभिनन्दिता |
अङ्गसंततिमस्यास्तु गदन्त्या मे निशामय || ४४-१८ ||
प्रकाशानन्दसाराहं तदन्ते सर्वदर्शिनि |
सत्सत्त्वव्यञ्जिके चाथ परब्रह्म तदन्तिके || ४४-१९ ||
ततो भगवतीत्येव विष्णुपत्नि तदन्तिके |
ज्ञानं जातियुतं वाच्यं हृन्मन्त्रोऽयं महाद्भुतः || ४४-२० ||
अव्याहतानन्दगते तदन्ते परमेश्वरि |
सर्वोपरि स्थिते शेषं हृन्मन्त्र इव जातियुक् || ४४-२१ ||
अहं च शक्तिसंपूर्णे जगत्प्रकृतिके तथा |
ज्ञानवैश्वानरशिखे शेषं पूर्ववदिष्यते || ४४-२२ ||
प्राणाप्राणमयोन्मेषमहास्पन्दमयीति च |
सर्वाश्रमपदातीते कवचं पूर्वशेषवत् || ४४-२३ ||
विकारविधुरे चाथ स्वस्वभावस्तथोच्यते |
महावीर्यमयीत्येवमस्त्रं पूर्वोक्तशेषवत् || ४४-२४ ||
परानपेक्षसामर्थ्ये सर्वप्रसविनीति च |
अन्ते बोधमयीत्येवं नेत्रं पूर्वोक्तशेषवत् || ४४-२५ ||
पञ्चके ब्रह्मणां कूटे शान्तानलविहारिणी |
ब्रह्मश्रीर्नाम मायेयं व्योमेशकृतशेखरा || ४४-२६ ||
चतुष्के धारणाकूटे सूक्ष्मानलविहारिणी |
धारणाश्रीरियं मायाव्योमेशकृतशेखरा || ४४-२७ ||
प्रधानानलपीठस्था व्योमेशकृतशेखरा |
पुरुषश्रीरियं ज्ञेया चेतनौघप्रसारिणी || ४४-२८ ||
ध्रुवानलस्थिता मायाव्योमेशकृतशेखरा |
प्रधानश्रीरियं ज्ञेया सर्वचेतनकारिणी || ४४-२९ ||
वामनादिपवित्रान्ते पवित्रानलगामिनी |
अन्तःकरणश्रीर्मायाव्योमेशकृतशेखरा || ४४-३० ||
नरादिताललक्ष्मान्ते स्रग्धरानलचारिणी |
ज्ञानश्रीरियमुद्दिष्टा मायाव्योमेशभूषिता || ४४-३१ ||
कूटे वैकुण्ठपूर्वे तु विश्वाप्यायानलस्थिता |
कर्मश्रीरियमुद्दिष्टा मायाव्योमेशभूषिता || ४४-३२ ||
उत्तमादिकरालान्ते कपिलानलचारिणी |
भूतश्रीरियमुद्दिष्टा मायाव्योमेशभूषिता || ४४-३३ ||
ब्रह्मश्रीपूर्विका एता अष्टौ पद्मदलाष्टगाः |
पदमूर्तेस्तारिकायाः परिवाराः प्रकीर्तिताः || ४४-३४ ||
सर्वास्ताः पद्मगर्भाभाः प्रसन्नाननपङ्कजाः |
बाहुद्वन्द्वे धारयन्त्यः प्रफुल्लं पङ्कजद्वयम् || ४४-३५ ||
ब्रह्मश्रीः पूर्वहस्ताभ्यां ब्रह्माञ्जलिकरी शुभा |
पूर्वाभ्यां धारणालक्ष्मीः शुद्धाशुद्धविभाजिनी || ४४-३६ ||
पूर्वाभ्यां पुरुषश्रीस्तु प्रसादाञ्जलिकारिणी |
पूर्वाभ्यां प्रकृतिश्रीस्तु पाशाङ्कुशविधारिणी || ४४-३७ ||
अन्तःकरणलक्ष्मीस्तु तर्कमुद्राविधारिणी |
अधोमुखे पाणितले कनिष्ठानामिकाद्वयम् || ४४-३८ ||
कुञ्चयेद्धारयेदन्यदङ्गुल्योर्द्वितयं सह |
विश्लिष्य धारयेत्तद्वदङ्गुष्ठं प्रोन्नतं बलात् || ४४-३९ ||
उन्नते दक्षिणतले बहिर्मुखमवस्थिते |
संनिवेशस्तथा कार्य एषा मुद्रा तु तार्किकी || ४४-४० ||
तथाविधे करद्वन्द्वे व्याख्यामुद्रा तु या भवेत् |
ज्ञानश्रियस्तु सा मुद्रा कर्मलक्ष्म्या निबोध मे || ४४-४१ ||
करणव्यापृतौ पाणी ससंरम्भोद्यमौ सदा |
एषा मुद्रा समुद्दिष्टा कर्मलक्ष्म्या महामते || ४४-४२ ||
भूतलक्ष्म्याः करौ पूर्वौ नानाभोगप्रदायिनौ |
महालक्ष्मीमयं कूटमेकं सर्वसुखावहम् || ४४-४३ ||
शृणु मे सावधानेन चेतसा बलसूदन |
गरुडादिकरालान्तं तं नरः प्रोद्धरेत्क्रमात् || ४४-४४ ||
करालानलगां मायां सव्योमेशामथोच्चरेत् |
महालक्ष्मीमयं कूटं महाश्रीरस्य देवता || ४४-४५ ||
एकानेकस्वभावा सा साकारा च निराकृतिः |
अनन्तवक्त्रानन्तपदा तथानन्तकरा परा || ४४-४६ ||
आधाराधेयभावेन सर्वत्रावस्थिता सदा |
नानावर्णा तथा नानाशस्त्रग्रामौघसंकुला || ४४-४७ ||
क्रूरा सौम्या समासीना नानासंपत्प्रकर्षिणी |
सर्वत्र सुलभा ध्येया कमलोदरभास्वरा || ४४-४८ ||
इयमेव विपर्यस्ता गरुडान्ता महामते |
पूर्ववद्रूपतो ध्येया पूर्वोक्तफलदयिनी || ४४-४९ ||
स्वरद्विसप्तकं देव्याः किरणत्वेन संस्थितम् |
बिन्दुराधारभावेन सृष्टिः स्वं रूपमूर्जितम् || ४४-५० ||
इति ते तारिकामूर्तिः पदाख्या संप्रदर्शिता |
अवधानवदस्यां त्वं सदा चेतो निवेशय || ४४-५१ ||
शतकोटिप्रविस्ताराल्लक्ष्मीतन्त्रमहार्णवात् |
अयं सारः समुद्धृत्य स्निग्धया दर्शितो मया || ४४-५२ ||
अङ्कस्थायां मयि पुरा देवदेवो जनार्दनः |
उज्जहारारविन्दाक्षो विद्यां मत्प्रीतये पराम् || ४४-५३ ||
यथा हि चन्द्रिकां दृष्ट्वा नृणां चेतः प्रसीदति |
विद्यामिमां तथा दृष्ट्वा योगिनां हृत्प्रसीदति || ४४-५४ ||
न यमादिपरिक्लेश आसनव्यसनं न च |
न प्राणायामतः क्लेशो नैव किंचिदिहेष्यते || ४४-५५ ||
सुखासीनः प्रसन्नात्मा यथेष्टासनविग्रहः |
अभ्यस्य मनसा विद्यामिमां सिद्धिं नियच्छति || ४४-५६ ||
यथा नद्यो नदाश्चैव संप्लवन्ते महोदधौ |
एवं सर्वाः परा विद्याः संप्लवन्ते पदात्मनि || ४४-५७ ||
असंख्येयानि रत्नानि यथा नदनदीपतौ |
असंख्येयानि तेजांसि पदमूर्तौ तथा विदुः || ४४-५८ ||
यथान्नं मधुसंसृष्टं मधु चान्नेन संयुतम् |
एवं बीजादयो भावास्तारायाः प्रीतिदायिनः || ४४-५९ ||
अहं नारायणाङ्कस्था सर्वलोकमहेश्वरी |
सर्वसंपन्मयी ध्येया पदमूर्तिर्विवक्षिता || ४४-६० ||
अहमेव पुनः शक्र परा करुणयोद्यता |
साधकानां हितार्थाय मनसो भावनाय च || ४४-६१ ||
अखण्डा परिपूर्णा हि चतुर्धात्मानमात्मना |
इमां विद्यामयीं मूर्तिं विभजामि हितैषीणी || ४४-६२ ||
विभक्तानां तु मूर्तीनां मन्मयीनां पुरंदर |
विधिं चतसृणां त्वं मे यथावच्छ्रोतुमर्हसि || ४४-६३ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे रहस्यप्रकाशो नाम चतुश्चत्वारिंशोऽध्यायः || ४४-४४ ||
Kapitel 45
Deutsche Übersetzung: Kapitel 45 · Sanskrit IAST: Kapitel 45
श्रीः-
अहं नारायणी देवी पूर्वेषामपि पूर्वजा |
साक्षाद्भगवतो विष्णोर्लक्ष्मीः श्रीरनपायिनी || १ ||
विभजामि स्वया शक्त्या चतुर्धात्मानमात्मना |
लक्ष्मीः कीर्तिर्जया माया चतस्रो मूर्तयश्च ताः ||
या सा शक्तिः परा लक्ष्मीरहंताहं विभोर्हरेः |
विभजन्ती स्वमात्मानं चतुर्धा जगतो हिते || ३ ||
अहमेव पराहंता भवामि प्रथमा तनुः |
लक्ष्मीर्नाम महाभागा सर्वैश्वर्यफलप्रदा || ४ ||
कीतिर्नाम द्वितीया मे तनुः सत्कीर्तिदायिनी |
जया नाम तृतीया मे तनुर्विजयदायिनी || ५ ||
माया नाम चतुर्थी मे सर्वाश्चर्यकरी तनुः |
लक्ष्मीः कीतिर्जया मायेत्येवं नारायणाश्रयाः || ६ ||
नारायणाश्रयाया मे मूर्तयः परमोज्ज्वलाः |
स्वशक्तिनिचयोपेता निराकारास्तु निष्कलाः || ७ ||
सूर्यस्य रश्मयो यद्वदूर्मयश्चाम्बुधेरिव |
सर्वैश्वर्यप्रभावे तु लक्ष्मीर्लक्ष्मीपतेः स्थिता || ८ ||
नानाविशेषलक्ष्मीभिः कोटिसंख्याभिरावृता |
कीर्तिस्तथाविधा नैव विभिन्ना विग्रहे विभोः || ९ ||
तन्नास्ति यन्न हि तया व्याप्तं सामान्यदेहया |
यस्य यत्र च या कीर्तिः स्वसामर्थ्यात्प्रजायते || १० ||
सा सा रूपविशेषोऽस्याः सामान्यात्मन उत्थिता |
जया जयेश्वरस्यैवं व्याप्तिभावेन संस्थिता || ११ ||
या काचिद्विद्यते माया जगत्यस्मिन् सुरादिषु |
भगवन्माययोद्भूतां तां मां विद्धि सुरेश्वर || १२ ||
तदीयं निष्कलं रूपं मदीयं च विहाय वै |
कोऽस्मिंस्तत्त्वोदधौ चास्ति चतुर्धा सुरसत्तम || १३ ||
भगवच्छक्तिभिः सम्यगाभिर्योगविभाविताः |
स्वालोकज्ञानसामर्थ्यात् साकारत्वमुपागताः || १४ ||
ध्यातव्याः साधकश्रेष्ठैरिज्याः पूज्याश्च सिद्धये |
तासां ममादिभूताया लक्ष्म्या मूर्तिं निशामय || १५ ||
सौम्यवक्त्रा सौम्यनेत्रा द्विभुजा चारुकुण्डला |
पद्मगर्भोपमा कान्त्या मेखलादाममण्डिता || १६ ||
श्वेतमाल्याम्बरधरा हारकेयूरमण्डिता |
सर्वलक्षणसंपन्ना पीनतुङ्गघनस्तनी || १७ ||
प्रबुद्धोत्पलविस्तीर्णलोचना सुस्मितानना |
चरद्विरेफपटलतुल्यैर्युक्ता तथालकैः || १८ ||
ललाटे तिलकं चित्रं वहन्ती च मनोहरम् |
आरक्ताधररत्ना च वंशमुक्ताफलद्विजा || १९ ||
अर्धचन्द्रललाटा च नीलकुञ्चितमूर्धजा |
पाशाङ्कुशधरा देवी धर्मकामार्थमोक्षदा || २० ||
बद्धपद्मासना चैव मकुटोत्तमशोभिता |
एवं ध्येयाहमीशाना लक्ष्मीव्यूहस्थिता सती || २१ ||
मन्त्रमस्याः प्रवक्ष्यामि तं मे निगदितं शृणु |
तारिका नाम यद्बीजं हृदयं तत्परं मम || २२ ||
पूर्वं प्रणवमादाय तदन्ते तां नियोजयेत् |
द्व्यक्षरं तु ततो लक्ष्म्यै नमश्चान्ते नियोजयेत् || २३ ||
ततः परमशब्दं तु तदन्ते पुरुषेश्वरम् |
आनन्दिनं च गरुडं वरुणं च समुद्धरेत् || २४ ||
स्थितायैपदमस्यान्ते भूयो मद्धृदयं पठेत् |
अनुबीजं तदन्ते च मद्बीजं पुनरुत्तमम् || २५ ||
वह्निजायां तदन्ते च मूर्तिमन्त्रो ममेदृशः |
विंशत्यर्णः स्मृतः सोऽयं साक्षाल्लक्ष्मीसमाह्वयः || २६ ||
अङ्गमन्त्रं निबोधास्या यथावद् वृत्रसूदन |
शान्तमादाय तस्यान्ते विन्यसेत् पुरुषेश्वरम् || २७ ||
अनलं तदधःस्थं च पिण्डमेतत्त्रयं स्मृतम् |
अन्ते युगादिमायोज्य ह्याद्यन्तस्वरषट्कयोः || २८ ||
चन्द्रिणं व्यापिनं चैव सर्वेषामुपरि न्यसेत् |
विद्धि षड् हृदयादीनि तान्यस्त्रान्तानि वासव || २९ ||
लक्ष्मीसखीनामधुना मन्त्रानेतान्निशामय |
सत्यं तत्स्थं वराहं च मायान्तममृतं तथा || ३० ||
वरुणं रामयुक्तं च चत्वारो बीजनायकाः |
चन्द्री व्यापी क्रमाद्योज्यौ सर्वेषां मूर्ध्नि वै ततः || ३१ ||
ऋद्धिर्वृद्धिः समृद्धिश्च विभूतिश्च सखीगणः |
तारं बीजं ततः संज्ञा स्वाहा चासां मनुः स्मृतः || ३२ ||
सख्यश्चतस्र एताः स्युर्द्विभुजाः सौम्यदर्शनाः |
पद्मकोशप्रतीकाशाः श्रीवृक्षचमराङ्किताः || ३३ ||
पद्मासनोपविष्टाश्च प्रेक्षमाणा मदाननम् |
एवं ध्येयास्तु सख्यस्ताश्चतुरोऽनुचराञ्शृणु || ३४ ||
लावण्यः सुभगश्चैव सौभाग्यश्च तृतीयकः |
चतुर्थः सौमनस्यश्च चत्वारोऽनुचरा मम || ३५ ||
चतुर्भुजाः सौम्यवक्त्रा नीलकौशेयवाससः |
दधतः पद्मकुम्भौ च नलिनीध्वजमेव च || ३६ ||
प्रफुल्लामलवृक्षं च चतुर्भिः स्वभुजैः शुभैः |
मन्त्रानेषां प्रवक्ष्यामि तत्त्वतस्तान्निबोध मे || ३७ ||
विबुधस्त्वादिदेवाढ्यः सोमोऽथ भुवनस्थितिः |
द्विधामृतं समादाय भूधराभ्यां नियोजयेत् || ३८ ||
चन्द्रिव्यापिसमेतानि स्मरेद्बीजानि तत्त्वतः |
तारं बीजं ततः संज्ञा नमश्चान्ते मनोः स्मृतः || ३९ ||
एतत् साङ्गपरीवारं लक्ष्मीरूपं निदर्शितम् |
कीर्त्याख्याया द्वितीयाया मूर्ते रूपादिकं शृणु || ४० ||
रूपेण सदृशी लक्ष्म्या वर्णतश्चम्पकप्रभा |
शेषे लक्ष्मीसमा रूपे मूर्तिमन्त्रान्निबोध मे || ४१ ||
तारं मद्धृदयं पश्चात् करालो विष्णुसंयुतः |
स्रग्धरश्चानलारूढ ऐश्वर्यपरिभूषितः || ४२ ||
नमः सदोदितानन्दविग्रहायैपदं ततः |
सद्बीजं कमलारूढमनलं विष्णुभूषितम् || ४३ ||
व्यापिना च समायुक्तमन्ते बीजमिदं स्मरेत् |
स्वाहापदं मनुः सोऽयं विंशत्यर्णस्तु कीर्तितः || ४४ ||
अङ्गमन्त्रान्निबोधाद्य गदन्त्या मे निशामय |
करालमनलारूढं कृत्वा संयोज्य पूर्ववत् || ४५ ||
आनन्दाद्यैः स्वरैश्चन्द्रिव्यापियुक्तैः श्रियो यथा |
अङ्गमन्त्रा इमे कीर्तेः सखीरूपमनूञ्छृणु || ४६ ||
द्युतिः सरस्वती मेधा श्रुतिः सख्य इमाः स्मृताः |
द्विभुजा हेमवर्णाभाः कीर्तिरूपाः स्मिताननाः || ४७ ||
सुपुस्तकं करे वामे दक्षिणे चामरं करे |
मन्त्रान् कीर्तिसखीनां तु गदन्त्या मे निशामय || ४८ ||
मदनं चामृतं चैव प्रधानं शंकरं तथा |
एतान् कृत्वानलारूढान् मायया परिभूषयेत् || ४९ ||
चन्द्रिणं व्यापिनं दद्यात् सखीमन्त्रानिमान् स्मरेत् |
कीर्तेरनुचराणां तु नामरूपादिकं शृणु || ५० ||
वागीशो जयदश्चैव प्रसादस्त्राण एव च |
ध्येयाः किंशुकवर्णाभाः कान्तरूपा मनोहराः || ५१ ||
श्वेताम्बराश्चतुर्हस्ताः सर्वाभरणभूषिताः |
वामदक्षिणहस्ताभ्यां मुख्याभ्यां तेषु चिन्तयेत् || ५२ ||
शङ्खमिन्दुशताभं च कदम्बाख्यं महाद्रुमम् |
सपुष्पं पट्पदोपेतमपराभ्यां निबोध मे || ५३ ||
पूर्णचन्द्रोपमं वामे दर्पणं दक्षिणे करे |
मयूरव्यजनं शुभ्रं दधतश्चारुलोचनाः || ५४ ||
वराहमादिदेवाढ्यमप्रमेयं च केवलम् |
पवित्रमनलारूढं स्रग्धरं च तथाविधम् || ५५ ||
आदिदेवान्वितं कृत्वा तेषामूर्ध्वं सुयोजयेत् |
चन्द्रिणं व्यापिनं चान्ते मन्त्रा अनुचराश्रिताः ||
कीर्तेर्द्वितीयमूर्तेर्वै क्रमोऽयं परिकीर्तितः |
रूपादिकं तृतीयाय जयाया मे निशामय || ५७ ||
रूपेण सदृशी लक्ष्म्या जया परमशोभना |
तारश्च तारिका चैव जन्महन्ता चतुर्गतिः || ५८ ||
आदिदेवान्वितः पश्चात् स एवैश्वर्यसंयुतः |
तारमादाय तस्यान्ते कालं सपरमेश्वरम् || ५९ ||
व्यापको जन्महन्ता सरामोऽथ स्रग्धरस्तथा |
आदिदेवान्वितो धर्ता प्रधानश्च तथाविधः || ६० ||
वरुणोऽथामृतस्थश्च धन्वी रामविभूषितः |
वैराजश्चादिदेवाढ्यः शङ्ख ऐश्वर्यभूषितः || ६१ ||
तारिका शाश्वतोऽशेषभुवनाधारविष्णुमान् |
व्योमेशभूषितश्चाथ वह्निपत्नी ततः परम् || ६२ ||
जयाया मूर्तिमन्त्रोऽयमङ्गमन्त्रान् निबोध मे |
जन्महन्तारमादाय कालपावकभूषितम् || ६३ ||
स्वरैर्विभूषयेत् प्राग्वच्चन्द्रिव्यापिसमन्वितैः |
अङ्गानि हृदयादीनि जयायास्तानि संस्मरेत् || ६४ ||
जयन्ती विजया चैव तृतीया चापराजिता |
सिद्धिश्चतुर्थी विज्ञेया जयासख्य इमाः स्मृताः || ६५ ||
अजितं विष्णुसंयुक्तं वरुणं चेद्धसंयुतम् |
केवलव्यापकं चैव सोममिष्टविभूषितम् || ६६ ||
चन्द्रिव्यापिसमायुक्तं कृत्वा संयोज्य संज्ञया |
स्वाहामन्ते समायोज्य सखीमन्त्रानिमान् स्मरेत् || ६७ ||
नीलनीरदवर्णाभाः प्रसन्नवदनेक्षणाः |
पीताम्बरधराः सर्वाः सख्यः कनककुण्डलाः || ६८ ||
सितचामरहस्ताश्च चित्रवेत्रलताकराः |
निरीक्षमाणा वदनं जयाया अजितस्य च || ६९ ||
प्रतापी जयभद्रश्च तृतीयस्तु महाबलः |
उत्साहश्चेति वर्गोऽयं जयानुचरसंज्ञितः || ७० ||
रक्ताम्बरधराः सर्वे चतुर्हस्ता महाबलाः |
धनुर्बाणकराश्चैव गदाचक्रधरास्तथा || ७१ ||
इत्थं तेऽनुचरा ज्ञेयाः पुष्पाभरणभूषिताः |
पद्मनाभोऽनलारूढोऽजितः कालस्तथैव च || ७२ ||
उद्दामश्च सुरेशैते चन्द्रिव्यापिविभूषिताः |
प्रणवाद्या नमोऽन्ताश्च संज्ञया च समन्विताः || ७३ ||
जयानुचरमन्त्रास्ते विज्ञेया वृत्रसूदन |
अयं तृतीयमूर्तेर्मे जयाया विधिरद्भुतः || ७४ ||
चतुर्थ्याः संविधानं मे मायामूर्तेर्निशामय |
सर्वाश्चर्यकरी देवी देवदेवस्य शार्ङ्गिणः || ७५ ||
माया नाम महाशक्तिस्तुरीया मे तनुः परा |
रूपेण सदृशी लक्ष्म्या मूर्तिमन्त्रं निशामय || ७६ ||
आदाय तारकं पूर्वं तारिकां तदनु स्मरेत् |
मायायै च नमः पश्चात् काल ओदनसंस्थितः || ७७ ||
वामभ्रूसंयुतः सूर्यः स्रग्धरो विष्णुभूषितः |
केवलोऽसौ नरान्त्योऽथ मदनो गोपनान्वितः || ७८ ||
पुण्डरीकोऽनलारूढो रामवांस्तदनन्तरम् |
ताललक्ष्मादिदेवाढ्यः शङ्ख ऐश्वर्यसंयुतः || ७९ ||
ततः कालोऽनलारूढो मायाव्यापिसमन्वितः |
मायाबीजमिदं दिव्यं तारिकोर्ध्वस्थितं स्मरेत् || ८० ||
वह्निजाया तदन्ते स्याद्विंशत्यर्णो मनुः स्मृतः |
अङ्गान्यस्य प्रवक्ष्यामि तानि मे त्वं निशामय || ८१ ||
मायाबीजं समादाय गोपनाद्यैः स्वरैः क्रमात् |
विभेद्य पूर्ववत् कार्या ह्यङ्गकॢप्तिर्विपश्चिता || ८२ ||
मोहिनी भ्रामणी दुर्गा प्रेरणी च सुरेश्वर |
मायासख्यश्चतस्रस्ता विज्ञेया रत्नभासुराः || ८३ ||
लावण्येन च वीर्येण सौन्दर्येण च तेजसा |
मायातुल्या इमा देव्यः सितवस्त्रानुलेपनाः || ८४ ||
चामराङ्कुशहस्ताश्च बद्धपद्मासनस्थिताः |
मन्त्रानासां प्रवक्ष्यामि शृणु त्वं बलसूदन || ८५ ||
प्रधान ओदनारूढो ध्रुवो रेफादिदेववान् |
मदनो भुवनारूढो योऽनलैश्वर्यसंयुतः || ८६ ||
चन्द्रिव्यापियुता ह्येते सर्वे प्रणवपीठेगाः |
संज्ञास्वाहायुजो मायासखीमन्त्रा इमे स्मृताः || ८७ ||
मायामयो महामोहः शम्बरश्च कलीश्वरः |
चत्वारोऽनुचरा एते काकालीकज्जलोपमाः || ८८ ||
चतुर्भुजा महाकायाः सौम्यवक्त्राः स्मिताननाः |
केयूराभरणोपेताः पीतकौशेयवाससः || ८९ ||
हारनूपुरसंयुक्ता नानाकुसुमभूषिताः |
तुषारधूलिधवलाः खड्गपाशकरोद्यताः || ९० ||
बाणं कार्मुकमन्यस्मिन्नातपत्रं करद्वये |
प्रधानो गोपनोपेतः केवलस्तदनन्तरम् || ९१ ||
शंकरः केवलश्चैव केवलः कमलस्तथा |
चन्द्री व्यापी च सर्वेषां क्रमान्मूर्धसु विन्यसेत् || ९२ ||
तारकाद्या नमोऽन्ताश्च संज्ञया च समन्विताः |
मन्त्रा मायामयादीनां चतुर्णां बलसूदन || ९३ ||
सर्वेषामङ्गमन्त्राणां ध्यानं सामान्यमीरितम् |
मुद्राश्चाङ्गसमेतानां देवानामपि वासव || ९४ ||
याः पुरस्तान्मया प्रोक्ता दर्शयेत्ता यथायथम् |
एकैकशः समस्ता वा देवीरेता भजन्नरः || ९५ ||
यथामति यथोत्साहं युज्यते परया श्रिया |
एताश्चतस्रस्तन्व्यो मे भगवत्किरणात्मिकाः || ९६ ||
याभिः स भगवान् देवः पूर्णरूपोऽवतिष्ठते |
एकैकस्या असंख्याताः शक्तयस्तत्तदात्मिकाः || ९७ ||
अनन्तपरिवारास्ता इति शक्तिमयं जगत् |
आसां चतसृणामेकां शक्तीनां परमेश्वरीम् || ९८ ||
मूलभूतां पराहंतां विष्णोस्तद्धर्मधर्मिणीम् |
सर्वशक्तिमयीं तां मां शक्तिचक्रस्य नायिकाम् || ९९ ||
प्रकाशानन्दयोरन्तरनुस्यूतामनुस्मरेत् |
अग्नीषोमद्वयान्तःस्थां मध्यमार्गानुवतिनीम् || १०० ||
अपराच्या मनोवृत्त्या मन्वीत मतिमान्नरः |
अस्तमानायय सौषुम्ने मार्गे सूर्यनिशाकरौ || १०१ ||
अपराचीनया वृत्त्या कुर्वीत मयि संस्थितिम् |
शक्रः-
देवदेवमये देवि सरसीरुहसंस्थिते || १०२ ||
मुद्रा देवीसखीनां च किं कराणां च मे वद |
श्रीः-
देवीनां दर्शिता मुद्राः पुरैव बलसूदन || १०३ ||
तत्सखीनामिदानीं तु षोडशानां निबोध मे |
संमुखौ तु करौ कृत्वा सुस्पष्टौ सुप्रसारितौ || १०४ ||
कनिष्ठानामिकाभ्यां वै युगलं युगलं हरेत् |
मेलयेन्नखदेशाच्च यथा स्यादेकपिण्डवत् || १०५ ||
अङ्गुलीभिश्चतसृभिः पाणिमध्ये निराश्रयम् |
अङ्गुष्ठौ दण्डवत्कृत्वा प्रान्तलग्नौ प्रसारितौ || १०६ ||
अङ्गुलीनां चतसृणां विश्रान्तौ चोदरावधेः |
सर्पकुण्डलवत्कृत्वा प्रयत्नात्तर्जनीद्वयम् || १०७ ||
प्रसार्य चाग्रतो लग्ने मध्यमे द्वे सुरेश्वर |
कनीयस्यौ ऋजूभूते समारभ्य करद्वयम् || १०८ ||
कुर्याच्चैवातिसंलग्नं मणिबन्धावसानतः |
ईषदङ्गुष्ठमूले तु मणिबन्धं करद्वयात् || १०९ ||
कुर्याद्विकसितं चैव मुद्रैषा बलसूदन |
महायोन्यभिधाना च त्रिलोकजननी परा || ११० ||
वशीकुर्याज्जगत् सर्वं कामतो यदि योजिता |
अत्रानुष्ठानयत्ता स्त्री बद्ध्वा दूरात् प्रदर्शयेत् || १११ ||
मुनीनां गतसङ्गानां क्षोभं जनयते क्षणात् |
पुरुषोऽत्राभियुक्तो वा दर्शयेद्वनितासु च || ११२ ||
निवृत्तकामधर्मासु चाबलास्वथवा मुनेः |
क्षुभ्यन्त्यमदनास्ताश्च सकामायास्तु का कथा || ११३ ||
एषा साधारणी मुद्रा सर्वासामपि वासव |
वक्ष्येऽथानुचराणां तु षोडशानां समासतः || ११४ ||
पृष्ठलग्नौ करौ कृत्वा मोक्षयेत्तदनन्तरम् |
प्रदेशिनीयुगं चैव कनिष्ठायुगलं तथा || ११५ ||
अधोमुखं तु सुस्पष्टं ताभ्यां मध्यं महामते |
कनिष्ठिकाद्वयं लग्नं विरलं तर्जनीयुगम् || ११६ ||
मध्यमानामिकायां तु युग्मं युग्मं तु धारयेत् |
एकलग्नं नखोद्देशाद्यावत्पर्व तु मध्यमम् || ११७ ||
ऊर्ध्ववक्त्रं सुरश्रेष्ठ समेन धरणेन तु |
सुस्पष्टौ लम्बमानौ चाप्यङ्गुष्ठौ चाप्यधोमुखौ || ११८ ||
परस्परं तु दूरस्थौ मुद्रैषा सर्वकामदा |
स्वस्वमन्त्रयुता कार्या सर्वेषामियमेकिका || ११९ ||
साधारण्याविमे प्रोक्ते मुद्रे सख्यनुचारिणाम् |
इत्थं सपरिवाराभिस्तां मां चतसृभिर्युताम् || १२० ||
विभूतिभिरुपास्यैवं मामेवान्ते समश्नुते |
विभूतयो ह्यनन्ता मे तत्त्वतात्त्विकसंश्रयाः || १२१ ||
कोटिकोटिपरीवारा एकैकास्ताश्च वासव |
एताः प्रधानभूतास्ताश्चतस्रः परिकीर्तिताः || १२२ ||
इति मे मूर्तिमन्त्राणामङ्गमन्त्रादिभिः सह |
कथितस्ते समुद्देशः साधनादीनि मे शृणु || १२३ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे मूर्तिप्रकाशो नाम पञ्चचत्वारिंशोऽध्यायः
Kapitel 46
Deutsche Übersetzung: Kapitel 46 · Sanskrit IAST: Kapitel 46
श्रीः-
अनुक्रमेण देवेश लक्ष्म्यादीनां च साधनम् |
विविधानि च कर्माणि तन्मन्त्रेभ्योऽवधारय || १ ||
चतुरश्रं चतुर्द्वारं कृत्वा पूर्वोदितं पुरम् |
तन्मध्येऽष्टदलं पद्मं लिखेच्छुक्लारुणप्रभम् || २ ||
सितानि चतुरालिख्य कोणेषु स्वस्तिकानि च |
व्यापकत्वेन तु पुरा मणिबन्धमुखादितः || ३ ||
विन्यस्य मूलमन्त्रं च हस्ते देहे च केवलम् |
पश्चादादौ च हस्ताभ्यां लक्ष्मीमन्त्रं तथा न्यसेत् || ४ ||
तदङ्गानि च विन्यस्य हस्ते देहे यथा पुरा |
तस्यानुगचतुष्कं यद्देवीनां तदनु न्यसेत् || ५ ||
प्रदेशिन्यादितो हस्तद्वये तदनु विग्रहे |
उत्तमाङ्गे तु हृन्मध्य ऊर्वोर्जानुद्वये तथा || ६ ||
लावण्याद्यांश्च चतुरो ह्यनामादि करद्वये |
अङ्गुष्ठान्तं च विन्यस्य हस्ते देहे च वासव || ७ ||
दक्षिणे च तथा वामे स्कन्धे पक्षद्वये ततः |
न्यासं कृत्वा यथान्यायं श्रीकामोऽथ यजेद्धृदि || ८ ||
लययागप्रयोगेण लक्ष्मीमन्त्रं तु केवलम् |
कृत्वावलोकनाद्यं तु ततो बाह्ये तु विन्यसेत् || ९ ||
मूर्तिमन्त्रयुतं मूलं कर्णिकोपरि वासव |
सकलाकलदेहं च सर्वमन्त्रान्वितं विभुम् || १० ||
तदुत्सङ्गगतां लक्ष्मीं स्वमन्त्रेणावतार्य च |
पूर्वोक्तध्यानसंयुक्तो भोगमोक्षप्रसिद्धये || ११ ||
तदाग्नेये तदीशाने यातवीयेऽथ वायवे |
चत्वारि हृदयादीनि नेत्रं केसरसंततौ || १२ ||
तदग्रे दक्षिणे पृष्ठे वामपार्श्वे क्रमान्न्यसेत् |
चतुष्टयं तु ऋद्ध्याद्यं द्विभुजं तु तथाकृति || १३ ||
पद्मगौरप्रतीकाशं श्रीवृक्षचमराङ्कितम् |
पद्मासनेनोपविष्टं प्रेक्षमाणं तदाननम् || १४ ||
स्वस्तिकानां तदीशादिकोणस्थाने निवेश्य तु |
लावण्याद्यचतुष्कं तु सौम्यवक्त्रं चतुर्भुजम् || १५ ||
नीलकौशेयवसनं पद्मकुम्भकरान्वितम् |
नलिनीध्वजहस्तं च सफलामलवृक्षधृत् || १६ ||
द्वारेष्वस्त्रं चतुर्दिक्षु न्यस्य पूज्य यथा पुरा |
मूलमन्त्रयुतां देवीं लक्ष्मीं त्रिदशनन्दन || १७ ||
मुद्राश्च दर्शयेत् सर्वा यत्र यत्र हि याः स्मृताः |
जप्त्वा कृत्वा ततो होमं सघृतैस्तु तिलाक्षतैः || १८ ||
सामलैः श्रीफलैश्चैव सति लाभे तु पङ्कजैः |
यथाशक्ति ह्यसंख्यैस्तु होमान्ते वृत्रसूदन || १९ ||
लक्ष्मीरूपस्ततो भूत्वा साधकः कृतनिश्चयः |
जपेल्लक्षाणि वै पञ्च शुद्धाहारो जितेन्द्रियः || २० ||
होमं कुर्याज्जपान्ते तु क्रमाद्बिल्वामलाम्बुजैः |
यथाशक्ति ह्यसंख्यैस्तु अयुतायुतसंख्यया || २१ ||
ददाति दर्शनं शक्र होमान्ते परमेश्वरी |
पुत्र सिद्धास्मि ते ब्रूहि यत्ते मनसि चेप्सितम् || २२ ||
कुरु कार्याण्यभीष्टानि मन्मन्त्रेणाखिलानि च |
अद्य प्रभृति निःशङ्को द्वन्द्वोपद्रववर्जितः || २३ ||
एवमुक्त्वा तु सा देवी याति यत्रागताशु वै |
ततः कर्माणि वै कुर्याल्लक्ष्म्या अनुमते मम || २४ ||
स एष तुष्टोऽभीष्टं तु श्रियं दद्याद्यथार्थिनाम् |
संक्रुद्धो निर्धनं कुर्याद्वाङ्मात्रेण धनेश्वरम् || २५ ||
शुल्बं कुर्यात् सकृद्ध्यायन् मन्त्रजापाच्च हाटकम् |
पूरयित्वाम्भसा कुम्भं क्षीरेण मधुनाथवा || २६ ||
निधाय दक्षिणे हस्ते वामं तदुपरि न्यसेत् |
शतमष्टाधिकं मन्त्रं जपेद्ध्यानसमन्वितम् || २७ ||
रसेन्द्राभिनिवेशस्थो ह्येकचित्तः समाहितः |
रसेन्द्रत्वं समायाति तत्कुम्भे त्वाहृतं जलम् || २८ ||
सरसो लक्षवेधी स्याच्छस्त्रादीनां पुरंदर |
करोति कायममरं जरारोगविवर्जितम् || २९ ||
अङ्गुष्ठाकारमात्रं तु पुरा पाषाणमाहरेत् |
दक्षिणोदरहस्तेन वामेन बदरीसमम् || ३० ||
अभिमन्त्र्य तु तौ मुष्टी द्वे शते षोडशाधिके |
दक्षिणस्थं तु पाषाणं रत्नत्वमुपयाति च || ३१ ||
वामे मुक्ताफलत्वं च महामूल्ये तु ते उभे |
यद्यदिच्छति जात्या वै तत्तद्रत्नं भवेत्तदा || ३२ ||
तथा मुक्ताफलं तत्तत् प्रतिभाति करोति च |
गोगजाश्वसमुद्भूतमस्थि चादाय पाणिना || ३३ ||
शतार्धं मन्त्रितं कृत्वा प्रवालत्वं प्रयाति तत् |
शताभिमन्त्रितं कृत्वा त्रपु सीसं तथायसम् || ३४ ||
जायते कलधौतं तु रजतं वातिनिर्मलम् |
यद्यद् गृहीत्वा देवेन्द्र यं यं धातुं समीहते || ३५ ||
क्रुद्धो वा परितुष्टश्च तत्तत् कुर्यात्तु सोऽन्यथा |
एवमश्ममयानां तु अन्यत्वमुपपद्यते || ३६ ||
या या मनसि वै यस्य विभूतिः प्रतिभाति च |
तां तां ददाति तस्याशु धनधान्यगवादिकाम् || ३७ ||
लिखित्वा भूर्जपत्रे तु यागन्यासक्रमेण तु |
रोचनाकुङ्कुमाभ्यां तु संधारयति यः सदा || ३८ ||
सुवर्णवेष्टितं चाङ्गे लक्ष्मीमन्त्रं शतक्रतो |
तस्यायुषो भवेद् वृद्धिः सर्वत्र विजयी महान् || ३९ ||
प्राप्नुयान्महतीं पूजां यत्र यत्र च संविशेत् |
इदमाराधनं प्रोक्तं श्रीकामानां विशेषतः |
लक्ष्म्यास्त्रिदशशार्दूल मम या प्रथमा तनुः || ४० ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे लक्ष्मीमन्त्रसिद्धिप्रकाशो नाम षट्चत्वारिंशोऽध्यायः ||
Kapitel 47
Deutsche Übersetzung: Kapitel 47 · Sanskrit IAST: Kapitel 47
श्रीः-
व्यूहानां प्रथमा लक्ष्मीर्मत्संज्ञैवोदिता हि या |
तस्याः सिद्धिरियं प्रोक्ता द्वितीयाया निशामय || १ ||
न्यासोपायं पद्मयागं सर्वं विद्धि पुरोदितम् |
पूर्वोक्तं मण्डलं कृत्वा सितपीतं तदन्तरे || २ ||
किंतु वै पङ्कजं कुर्याद्विन्यसेत्तदनन्तरम् |
विभोरुत्सङ्गगां कीर्तिं हृदादीनि यथा पुरा || ३ ||
क्रमाद्ध्यानं सखीनां च यथा तदवधारय |
द्विभुजा हेमवर्णा च कीर्तिरूपा स्मितानना || ४ ||
सुपुस्तकं करे वामे दक्षिणे चामरं करे |
ध्यायेत् किंशुकवर्णाभं कान्तरूपं मनोरमम् || ५ ||
तत्रानुगचतुष्कं तु चतुर्हस्तं सिताम्बरम् |
वामदक्षिणहस्ताभ्यां मुख्याभ्यां तेषु चिन्तयेत् || ६ ||
शङ्खमिन्दुशताभं च कदम्बाख्यं महाद्रुमम् |
सपुष्पं षट्पदोपेतमपराभ्यां निबोध मे || ७ ||
पूर्णचन्द्रोपमं वामे दर्पणं दक्षिणे करे |
मयूरव्यजनं शुभ्रं ध्यात्वैवं दर्शयेत्ततः || ८ ||
मुद्राः सर्वाः प्रतिस्वं याः साधकः पूजयेत्ततः |
अर्घ्यपुष्पादिना सम्यग्जप्त्वा शक्त्याथ होमयेत् || ९ ||
तिलानि चाज्यसिक्तानि गन्धशाल्यन्वितानि च |
देवीरूपं तु होमान्ते कृत्वा पुष्पाञ्जनाम्बरैः || १० ||
एकान्ते विजने स्थित्वा मौनी मूलफलाशनः |
जपेल्लक्षत्रयं मन्त्रं जपान्ते होममाचरेत् || ११ ||
लक्षैकसंख्यं देवेन्द्र तण्डुलैस्तिलमिश्रितैः |
कापिलेन घृतेनैव तादृक्क्षीरयुतेन च || १२ ||
एकैकं च हृदादीनां सहस्रं चाथ होमयेत् |
दद्यात्पूर्णाहुतिं पश्चात् क्षीरेणाज्यान्वितेन च || १३ ||
पतितायां तु पूर्णायामायाति परमेश्वरी |
साधु साध्विति वै ब्रूते स्थित्वाग्रे साधकस्य तु || १४ ||
एह्येहि परमं धाम त्यजेदं भौतिकं पुरम् |
उपभुङ्क्ष्वामरान् भोगान् मर्त्यमध्यगतोऽपि च || १५ ||
मदीयेनाखिलं कर्म मन्त्रेण कुरु साधक |
एवमुक्त्वा तु सा देवी गगनं च व्रजेत्ततः || १६ ||
साधकः कीर्तिमन्त्रेण कुर्यात् कर्म यथेप्सितम् |
ददाति यस्य यत्किंचित्तत्तस्याप्यक्षयं भवेत् || १७ ||
तेनासौ लभते कीर्तिं यावच्चन्द्रार्कतारकम् |
प्रचण्डानां मनुष्याणां मध्यस्थो यदि बुध्यते || १८ ||
वक्ति संसदि वा किंचित् प्राप्नुयाद्विपुलं यशः |
अभिभूय जनान् सर्वानुत्कृष्टत्वं प्रपद्यते || १९ ||
जप्त्वा सिद्धान्नभाण्डं तु स्वल्पकालेऽन्नसंकटे |
यदेच्छति जनानां तु यथेच्छमशनं भवेत् || २० ||
ददाति चाक्षयं तस्य सप्ताहमनिशं यदि |
प्राप्नुयान्महतीं कीर्तिं यावदाभूतसंप्लवम् || २१ ||
सुभिक्षे लवमात्रं तु आदाय कनकस्य च |
परिजप्य सहस्रं तु विधिना परितः स्थितम् || २२ ||
प्रयाति तत् प्रभूतत्वं दीयतेऽर्थिजनस्य च |
अव्युच्छिन्नं द्विसप्ताहं संशयं नाधिगच्छति || २३ ||
तेनासौ महतीं कीर्तिं प्राप्नुयाल्लोकसत्कृताम् |
आदाय तोयकलशं नागेन्द्रभवनह्रदात् || २४ ||
प्रयायान्मरुभूमिं वै तत्र निम्ने तु भूतले |
निक्षिपेत् पर्वताग्रे वा सहस्रपरिमन्त्रितम् || २५ ||
स पन्नगेश्वरस्तत्र परिवारसमन्वितः |
रक्षन्नुदकमातिष्ठेद्यावत्तिष्ठति मेदिनी || २६ ||
तेनासौ महतीं लोके कीर्तिमाप्नोति वासव |
काले तु बीजरोही च यदि देवो न वर्षति || २७ ||
आदाय मृत्कणं हस्ते तटाकजलमर्दितम् |
तन्मध्यस्थं च वा क्लिन्नं परिजप्य शतत्रयम् || २८ ||
मुखवातैस्तु संतप्तं कृत्वा कीर्तिमनुं स्मरेत् |
प्रक्षिपेद्गगने तद्वै मेघत्वं प्रतिपद्यते || २९ ||
पूरयेन्मेदिनीं सर्वां जलेन जलदस्तु सः |
तदाज्ञया वसेत्तावत्तस्मिन् देशे स मेघराट् || ३० ||
वर्षंस्तदुपयोग्यं च यावत् संपद्यते जलम् |
तेनासौ महतीं कीर्तिं प्राप्नुयाच्च त्रिलोकगाम् || ३१ ||
संपादयति तत्तस्य यस्य यन्मनसेप्सितम् |
प्रभावं मन्त्रराजस्य कीर्त्याख्यस्य सुरोत्तम || ३२ ||
लिखितं पूर्ववद्बद्ध्वा हस्ते वा दक्षिणे करे |
प्राप्नुयान्महतीं कीर्तिं पूजामृद्धिं सरस्वतीम् || ३३ ||
एतत् संक्षेपतः प्रोक्तं कीर्तेर्मन्त्रस्य वासव |
द्वितीयाया विधानं मे तन्वास्तनुभृतां वर || ३४ ||
एतद्विधानमातिष्ठन् कीर्तिमन्त्रस्य शोभनम् |
प्राप्नुयाद्विमलां कीर्तिं संततेरपि भूतिदाम् || ३५ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे कीर्तिमन्त्रसिद्धिप्रकाशो नाम सप्तचत्वारिंशोऽध्यायः
Kapitel 48
Deutsche Übersetzung: Kapitel 48 · Sanskrit IAST: Kapitel 48
श्रीः-
विधिं तृतीयतन्वा मे जयाया वृत्रसूदन |
शृणु सिद्धिप्रकारं च सिद्धसंघैरभिष्टुतम् || १ ||
कृत्वा तु पूर्ववन्न्यासमिष्ट्वा च हृदये जयाम् |
मण्डलं पूर्ववत् कृत्वा तन्मध्ये पङ्कजं लिखेत् || २ ||
नीलोत्पलाभतुल्येन रजसा च सुपत्रकम् |
तत्रोत्सङ्गगतां विष्णोर्हृदयाद्योजयेज्जयाम् || ३ ||
कर्णिकोपरि मन्त्रांश्च न्यसेत् पूर्वक्रमेण तु |
किंतु ध्यानानि सर्वेषां यथावदवधारय || ४ ||
नीलनीरदवर्णाश्च प्रसन्नवदनेक्षणाः |
पीताम्बरधराः सर्वाः सख्यः कनककुण्डलाः || ५ ||
सितचामरहस्ताश्च चित्रवेत्रलतोद्यताः |
निरीक्षमाणा वदनं जयाया अजितस्य च || ६ ||
कुन्दकुड्मलवर्णाभाः प्रसन्नमुखपङ्कजाः |
रक्ताम्बरधराश्चैव चतुर्हस्ता महाबलाः || ७ ||
धनुर्बाणकराश्चैव गदाचक्रकरान्विताः |
चत्वारोऽनुचरा ध्येयाः पुष्पाभरणभूषिताः || ८ ||
सर्वाश्च दर्शयेन्मुद्राः प्रतिस्वं याः प्रकीर्तिताः |
पूजयेच्च ततो भक्त्या होमं कुर्यादनन्तरम् || ९ ||
तिलैः सिद्धार्थकोपेतैर्हविषा गुल्गुलेन च |
होमावसाने मन्त्री स्वं कृत्वा रूपं जयात्मकम् || १० ||
जयाहमिति वै बुद्ध्वा चेतसोपस्थितं महत् |
तीरस्थानं समासाद्य निःशङ्कं जनवर्जितम् || ११ ||
वर्मणास्त्रेण दिग्बन्धं कृत्वा दुष्टनिबर्हणम् |
प्रारभेत जपं पश्चात् पयोऽन्नफलभुक् सदा || १२ ||
प्रणिपत्य हरिं भक्त्या प्राक् स्वमन्त्रेण वासव |
एकान्तशीलो लघ्वाशी मौनी ध्यानपरायणः || १३ ||
जपेल्लक्षचतुष्कं तु जपान्ते होममाचरेत् |
समित् प्रादेशमात्रा तु रक्तचन्दनसंभवा || १४ ||
तासामयुतमव्यग्रो घृताक्तानां तु होमयेत् |
सिद्धार्थैर्नियुते द्वे च मधुमिश्रैर्महामते || १५ ||
अयुतं नियुतं चाथ जुहुयादसितैस्तिलैः |
मधुत्रितयसंयुक्तैरन्ते पूर्णाहुतित्रयम् || १६ ||
मधुक्षीरघृतैः शक्र क्रमेण परिहोमयेत् |
ततो भगवती देवी समायाति जया स्वयम् || १७ ||
सिद्धास्मीति च ते पुत्र मन्मन्त्रेण समाचर |
यदभीष्टं तु वै कार्यं निःशङ्को विगतज्वरः || १८ ||
इत्युक्त्वादर्शनं याति शक्तिर्नारायणात्मिका |
ततः कर्माणि कुर्वीत विविधानि त्वनेकशः || १९ ||
लोकेऽस्मिन् यान्यभीष्टानि स्वात्मनश्च परस्य वा |
तत्राप्युद्देशतो वक्ष्ये शृणु तत्त्वेन वज्रधृत् || २० ||
ज्वालावद्रसनां ध्यायेद्देवीमन्त्रेण साधकः |
उद्ग्राहयति वै यस्य यस्मिन् यस्मिन् हि वस्तुनि || २१ ||
विजित्य न्यायतस्तं वै जयमाप्नोत्ययत्नतः |
गजाश्वशस्त्रभृत्पूर्णमपि सैन्यं बलान्वितम् || २२ ||
दृष्ट्वान्यस्य समायुक्तं हन्तुमभ्युद्यतं रणे |
परिजप्य धनुः खड्गं खेटकं बाणपञ्चकम् || २३ ||
प्रेरयेद्यस्य वै दत्त्वा स गत्वा तु चमूमुखम् |
विदारयति चैकाकी जयमाप्नोति शाश्वतम् || २४ ||
ध्यात्वा दक्षिणपाणिस्थं त्रिकोणं चाग्निमण्डलम् |
तन्मध्ये चिन्तयेद्देवीं परिवारसमन्विताम् || २५ ||
मत्तेभसिंहसर्पाणामशनीनां च दर्शने |
क्षिप्रं पराङ्मुखा यान्ति दृष्ट्वा हस्ततलं तु तत् || २६ ||
खादिरं मुसलं स्पृष्ट्वा चादाय शतमन्त्रितम् |
कृत्वा गत्वा बिलद्वारं चतुर्वर्णं जयान्वितम् || २७ ||
मुसलाहननान्यष्टौ दद्यात् तत्र शनैः शनैः |
देवीमन्त्रेण देवेश स्वास्त्रसंपुटितेन तु || २८ ||
फट्कारान्तेन तु ततो बिलयन्त्रं यजेदथ |
समस्तजनसंयुक्तो विशेत् साधकसत्तमः || २९ ||
भित्त्वा यन्त्राण्यनेकानि जित्वा दानवपुंगवान् |
जनानां योजनं तत्र कृत्वा कान्तागणैः सह || ३० ||
पीत्वा तु सात्त्विकं पानं स्वहस्तेन महाबलः |
स निर्याति स्वमार्गेण तेनैव स्वनिवेशनम् || ३१ ||
करोति यदि देवेश मतिं मन्त्री जगत्त्रये |
जयं प्रत्यविचारेण गदाचक्रकरोद्यतः || ३२ ||
पाशाङ्कुशधरो वाथ जयं प्राप्नोति नान्यथा |
लिखेद्रोचनया भूर्जे कुङ्कुमेन घनेन च || ३३ ||
संपुटीकृत्य वै नाम निधाय जनमध्यगम् |
तदा सुजयमाप्नोति दिव्यैः सर्वैस्तु लीलया || ३४ ||
विलिख्य चन्दनेनैव पयसा कुङ्कुमेन च |
धारयेद्यो गले वक्त्रे करे वामेऽथ दक्षिणे || ३५ ||
सर्वदा तु जयं शक्र संप्राप्नोत्यविचारतः |
जयार्थं त्रिदशेशान् मन्त्रं वै यत्र कुत्रचित् || ३६ ||
मन्त्री प्रयोजयेच्छश्वत् तत्र तत्राप्नुयाज्जयम् |
जया नाम तृतीया मे या तनुः परिकीर्तिता |
तस्या विधानमित्येतत् तव शक्र प्रदर्शितम् || ३७ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे जयामन्त्रसिद्धिप्रकाशो नामाष्टचत्वारिंशोऽध्यायः
Kapitel 49
Deutsche Übersetzung: Kapitel 49 · Sanskrit IAST: Kapitel 49
श्रीः-
चतुर्थी या तनुर्मान्त्री मायाख्या मम वासव |
तस्या विधानमधुना शृणु मन्त्रक्रियान्वितम् || १ ||
मूर्त्यङ्गसखिदासाख्यां मायीयां मन्त्रसंततिम् |
स्वहस्ते पूर्ववन्न्यस्य विग्रहे तदनन्तरम् || २ ||
हृदयान्तर्गतां चेष्ट्वा भोगैः सर्वैश्च पूर्ववत् |
बाह्ये तु मण्डलं कृत्वा मध्ये च कमलं शुभम् || ३ ||
तत्रोत्सङ्गगतां विष्णोर्हृदयादवतार्य च |
आराधयेत्ततो मायामङ्गसख्यादिसंयुताम् || ४ ||
भ्रामण्याद्यास्ततो ध्येयाः सख्यः कमललोचनाः |
सिताम्बरधरा दिव्याश्चतस्रो रत्नभासुराः || ५ ||
चामराङ्कुशहस्ताश्च बद्धपद्मासनस्थिताः |
मायामयादयो ध्येयाश्चत्वारोऽनुचरास्तथा || ६ ||
संपूर्णसर्वावयवाः स्निग्धालिकुलसंनिभाः |
चतुर्भुजा महाकायाः सौम्यवक्त्राः स्मिताननाः || ७ ||
केयूराभरणोपेताः पीताम्बरधरास्तथा |
हारनूपुरसंयुक्ता नानाकुसुममण्डिताः || ८ ||
तुषारधूलिधवलाः खड्गपाशकरोद्यताः |
बाणं कार्मुकमन्यस्मिन्नातपत्रं करद्वये || ९ ||
दर्शयित्वा तथा मुद्रा यस्य यस्य हि याः स्मृताः |
होमं तदनु कुर्वीत तिलैः सिद्धार्थकान्वितैः || १० ||
ततो नियममाश्रित्य कृत्वा तदनु वासव |
देवीरूपं स्वमात्मानं भावेनाव्यभिचारिणा || ११ ||
प्रयायाद्विजनस्थानं प्रौढोत्तरसहायवान् |
जपेल्लक्षाणि वै सप्त पूर्वोक्तविधिना व्रती || १२ ||
क्षीरमूलफलाहारो देशकालवशात्तु वै |
अयाचितैकभिक्षाशी यावकेनापि वर्तयन् || १३ ||
स्वशिष्यसाधितं वान्नं मन्त्रपूतमसैन्धवम् |
तैलमांसविनिर्मुक्तं संध्याकाले ह्युपस्थिते || १४ ||
आतृप्तेरभिभुञ्जीत भावितं मधुसपिषा |
जपान्ते विधिवन्मन्त्री होमं कुर्यात् प्रयत्नतः || १५ ||
बलां मोटां तथा मांसीं चक्राङ्गीं नागकेसरम् |
चन्दनं कुङ्कुमक्षोदं रजनीचूर्णमेव च || १६ ||
मेलयेत् सुघृतानां च तिलानां मधुना ततः |
भावयेत् सघृतेनैव त्रिलक्षं जुहुयात् ततः || १७ ||
मध्यमानामिकाभ्यां च साङ्गुष्ठाभ्यां पुरंदर |
अन्तेऽयुतत्रयं चैव समिधां परिहोमयेत् || १८ ||
प्राग्राजार्कतरूत्थानां खादिराणां ततः परम् |
सुरदारुमयीनां च तृतीयमयुतं ततः || १९ ||
दद्यात् पूर्णाहुतिं सम्यक् सुशुद्धेनान्तरात्मना |
पतितायां तु पूर्णायामायाति गगनान्तरात् || २० ||
परिवारान्विता माया भाषते साधु साध्विति |
कुरु कार्यमभीष्टं च मन्मन्त्रेणाधुना व्रज || २१ ||
इदमुक्त्वा व्रजेत् तूर्णं देवी विष्णुनिकेतनम् |
ततस्तु साधकवरः कर्माणि विविधानि च || २२ ||
प्रारभेताञ्जसा शक्र यान्यभीष्टानि चेतसा |
आत्मार्थे वा परार्थे वा लेशतस्तानि मे शृणु || २३ ||
प्रजप्यामलकं बिल्वं सकृन्नृपगृहं विशेत् |
कोशस्याग्रे विनिक्षिप्य यत्र यत्र स्थितः स तु || २४ ||
गगनात् प्रपतेत् तूर्णं यद्यद्वित्तं समीहते |
यद्यच्चाभरणं श्लाघ्यं यद्यद्वा वसनं शुभम् || २५ ||
एवं वै व्रीहिगुलिकां तथैव तिलतण्डुलम् |
क्षिपेद्धान्यकुले पूर्णे गोष्ठागारेऽथ खातके || २६ ||
राजकीये तथात्मीये यत्र यत्र स्थितस्ततः |
यद्यत् समीहते धान्यं सस्यं वा तण्डुलान्वितम् || २७ ||
तत्तदग्रेऽथ गगनात् पतत्येव यथेप्सितम् |
एवमेव तु सिद्धान्नगुलिकां परिजप्य च || २८ ||
क्षिप्त्वा महानसोद्देशे सिद्धान्नं कर्षयेत् क्षणात् |
गुलिकां गोमयेनैव कृत्वा तु बदरीसमाम् || २९ ||
निक्षिप्य गोव्रजस्यान्तः सप्तवाराभिमन्त्रिताम् |
ध्यानमात्रात् क्षणस्यान्ते दधिक्षीराज्यपूरितान् || ३० ||
भाण्डांश्च पृष्ठतः पश्येद्यत्र यत्र स्थितो व्रती |
प्रजप्य बदरं सम्यक् फलमन्यत्तु वा क्वचित् || ३१ ||
क्षिपेन्मधुवने राज्ञः फलाकृष्टिं करोति च |
सुपुष्पवाटिकायां तु पुष्पमेकं विनिर्दिशेत् || ३२ ||
जप्त्वा वारत्रयं मन्त्री पुष्पाण्याकर्षयेत् क्षणात् |
यत्र यत्र तदङ्गोत्थं सप्तजप्तं विनिक्षिपेत् || ३३ ||
तत्र तत्र तु तत् तिष्ठेत् संकल्पे तु कृते सति |
यथेच्छं तु समाकृष्टं तत्र तत्र तु तद् व्रजेत् || ३४ ||
न चापि साधकवरः सऋणो जायते क्वचित् |
कृत्वाङ्गारकणं चैव शतं जप्तं समाहितः || ३५ ||
क्षिपेत् सलिलमध्ये तु ज्वलत् तद् दृश्यते जलम् |
कुशाग्रस्थं जलकणं शतवाराभिमन्त्रितम् || ३६ ||
कृत्वा हुताशराशौ तु ज्वलमाने विनिक्षिपेत् |
भवेत् पानीयमिव च स वह्निर्दृश्यते क्षणात् || ३७ ||
वालुकापरिपूर्णं चाप्यरण्यं तु तृणोज्झितम् |
दृष्ट्वा तत्र विनिक्षिप्य तृणं द्विशतमन्त्रितम् || ३८ ||
पुष्पपत्रसमाकीर्णं पत्रपल्लवसंकुलम् |
कुर्यान्नन्दनतुल्यं तत् तोयराशिसमावृतम् || ३९ ||
नानाविहगसंपूर्णं पत्तनोपवनान्वितम् |
पुरप्राकारसंपूर्णं देवतायतनान्वितम् || ४० ||
गेयवेदध्वनियुतं ललनाभिश्च शोभितम् |
नृपाणामेतदाश्चर्यं दर्शनीयं सदैव हि || ४१ ||
तनूदकेष्वरण्येषु निरन्नेषु सदैव हि |
इच्छयापस्तथान्नानि भोगांश्च विविधानपि || ४२ ||
करोति मन्त्रितैर्लोष्टैर्गोमयेनाष्टसंख्यया |
अरिवर्गे गृहीतास्त्रे संमुखे सति तिष्ठति || ४३ ||
क्रोधाच्चैव तथोद्युक्त एकाकी यदि तिष्ठति |
जपमानस्तु वै मन्त्रं संकल्प्य मनसा महत् || ४४ ||
आत्मीयं च बलं पत्तिस्यन्दनाश्वगजाकुलम् |
तस्य संपद्यते क्षिप्रं चमूर्घोरपराक्रमा || ४५ ||
दृष्ट्वा तां विमुखं याति हतौजस्कं रिपोर्बलम् |
करोति शक्र यत्किंचिन्मनसा मन्त्रमुच्चरन् || ४६ ||
व्यलीकं सत्यभूतं च तत्तथा परिदृश्यते |
दृष्ट्वा तु पादपं शुष्कं ताडयेच्चरणेन तु || ४७ ||
जपमानो महामन्त्रं स स्यात् पुष्पफलाकुलः |
पत्रपुष्पफलोपेतं पाणिभ्यां मन्त्रमुच्चरन् || ४८ ||
पीडयेत् पादपं मन्त्री स शोषमधिगच्छति |
पर्वताग्रस्थितो मन्त्रं तन्नाशार्थं जपेद्यदि || ४९ ||
पतेदधस्ताच्छैलस्तु यावदिच्छति साधकः |
तुष्टः प्रोत्थापयेत् पश्चात् पातालात् पर्वतोत्तमम् || ५० ||
चान्दनेन रसेनैव मन्त्रं पद्मोदरे न्यसेत् |
पत्रेष्वङ्गानि चालिख्य सुशुभे दिवसे ततः || ५१ ||
पूजयित्वाथ पुष्पाद्यैर्वेष्टनैर्वेष्टयेत्तथा |
पूर्ववद् धारयेद्यन्त्रं तस्य सर्वा विभूतयः || ५२ ||
सम्यगाविर्भवन्त्यत्र लोके निष्कण्टकः स च |
सुभगश्चैव दीर्घायुः परत्र सुखमाप्नुयात् || ५३ ||
मूर्तेश्चतुर्थ्या वृत्रारे प्रभावोऽयं महाद्भुतः |
लेशतो दर्शितस्तस्याः साकल्य मम दुर्वचम् || ५४ ||
देवीचतुष्टयस्यैष सिद्धिसंघः समासतः |
किंचित्तु लेशतः प्रोक्तः साधकानां हिताप्तये || ५५ ||
तेभ्यो दिव्यानि भौतानि प्रयच्छति शुभानि च विमलां च मनःशुद्धिमन्ते च परमं पदम् || ५६ ||
प्रकाशयति भक्तानां वैष्णवं चाविनाशितम् |
विस्तीर्णामिति मां लक्ष्मीमियतीभिर्विभूतिभिः || ५७ ||
भजेत विविधैर्भावैः क्षेमं कृत्वा मनःस्थितम् |
शक्रः-
नमो देवादिदेव्यै ते नमो वैकुण्ठवल्लभे || ५८ ||
कस्मिन् लक्षे मनः कृत्वा भजेयं त्वां सरोरुहे |
श्रीः-
एको नारायणो हंसः षाड्गुण्यामृतवारिधिः || ५९ ||
तस्याहं परमा शक्तिर्विष्णोरनपगामिनी |
साहमङ्कस्थिता तस्य यथा ते पूर्वमीरिता || ६० ||
लक्षं तदेव ते शक्र मनसः स्थैर्यकारणम् |
सर्वलक्षणसंपन्नां सुवर्णरजतादिभिः || ६१ ||
निर्माय मां विभोरङ्कस्थायिनीं शास्त्रदर्शनात् |
प्रतिष्ठाप्य विधानेन तैस्तैर्भावैर्भजस्व माम् || ६२ ||
शक्रः-
नमस्ते जगदावासे मनोनयननन्दिनि |
युवयोः स्थापनं कीदृग्बिम्बे षाड्गुण्यनिर्मिते || ६३ ||
श्रीः-
सर्वभूतो यथा विष्णुर्देवः षाड्गुण्यविग्रहः |
सर्वभूतात्मभूतस्था तादृश्येवाहमद्भुता ||६४ ||
प्रतिष्ठितायाः सर्वत्र मम नारायणस्य च |
वस्तुतः का प्रतिष्ठा स्यात् सर्वं यद्वैष्णवं यशः || ६५ ||
तमिमं वास्तवं भावमारूढं मानसं यतेः |
अर्चा प्रतिष्ठा चेत्येते विकल्पाः प्रविजृम्भिताः || ६६ ||
शृणु तत्र प्रतिष्ठां मे यथावद्बलसूदन |
यया विहितया देही कृतार्थत्वं प्रपद्यते || ६७ ||
निर्माप्य शास्त्रतः सम्यग्योगोक्तं रूपमावयोः |
सूक्ताभ्यां सपवित्राभ्यां स्नापयेत् तीर्थवारिणा || ६८ ||
आच्छाद्य नववस्त्रेण विप्रैरध्यापयेत् सह |
विमलैर्धर्मतत्त्वज्ञैस्त्रयीसात्त्वतशास्त्रयोः || ६९ ||
तारकं तारिकां चैव तथैवाप्यनुतारिकाम् |
सूक्तं च शाकुनं चैवाप्यधीयीरन् पवित्रवत् || ७० ||
सूर्यस्यास्तमयं प्राप्य तद्बिम्बं वस्त्रवेष्टितम् |
ऋतं चेत्यादिसूक्तेन तथा सारस्वतेन च || ७१ ||
ऋग्भिर्हिरण्यवर्णाभिः कुर्याद्वार्यधिवासनम् |
उद्गते विमले सूर्ये कुर्याद्दिक्स्थापनं ततः || ७२ ||
उत्तिष्ठ ब्रह्मण इति प्रापयेयुश्च वेदिकाम् |
अपनीय ततो वस्त्रं स्नापयेच्छुद्धवारिणा || ७३ ||
याम्ये च वेदिभागे तु मृद्वास्तरणशोभिते |
बिम्बं पूर्वशिरस्कं तु शाययेज्जपपूर्वकम् || ७४ ||
ततः शलाकां सौवर्णीं गृहीत्वास्त्राभिमन्त्रिताम् |
उल्लिखेन्नयने नेत्रमन्त्रजापी शलाकया || ७५ ||
स्नातः शुद्धाम्बरः शिल्पी दिव्यदृष्ट्यावलोकितः |
अस्त्रमन्त्रितशस्त्रेण नेत्रे प्रकटतां नयेत् || ७६ ||
पूरयेन्मधुसर्पिर्भ्यां तत्पात्रे च प्रदर्शयेत् |
सालंकारं धेनुयुग्मं तस्मिन् काले निवेदयेत् || ७७ ||
नयनोन्मीलनीयं तत् सर्वं दद्यात्तु शिल्पिने |
ततः सितेन सूत्रेण बद्ध्वा राजीः सुवाससि || ७८ ||
बध्नीयात्तारया तस्य कौतुकं दक्षिणे करे |
भद्रपीठे समारोप्य तथा बिम्बं तु सुस्थिरे || ७९ ||
आधारादिक्रमोपेते सम्यग्भावेन पूजिते |
ततो बिम्बं निरीक्षेत धिया षाड्गुण्यपूरितम् || ८० ||
ताडयित्वास्त्रमन्त्रेण कवचेनावकुण्ठ्य च |
सर्वौषध्युदकेनैव स्नापयेत् केवलेन च || ८१ ||
संमृज्याहतवस्त्रेण कौतुकं मोचयेत्ततः |
मन्त्रविच्चक्रमन्त्रेण दद्यादर्घ्यं तु मूर्धनि || ८२ ||
भावयित्वा ततो बिम्बं बिम्बं चारुरुचेरिव |
पूजितैर्मन्त्रितैः शुद्धैः कलशैर्द्रव्यपूरितैः || ८३ ||
षोडशच्छदपद्मोत्थपत्रषोडशकस्थितैः |
प्रथमं पञ्चगव्येन गोमूत्रेण द्वितीयकम् || ८४ ||
तृतीयं गोमयाम्भोभिस्तुर्यं त्रेताग्निभस्मना |
गजगोवृषशृङ्गाग्रवल्मीकोर्व्यम्बुना परम् || ८५ ||
शालिक्षेत्रनदीपद्मवनाद्युर्व्यम्बुना परम् |
सप्तमं सर्षपाम्भोभिः सर्वौषधिभिरष्टमम् || ८६ ||
क्षीरेण नवमं दध्ना दशमं सर्पिषा परम् |
द्वादशं मधुना सर्वबीजाम्भोभिस्त्रयोदशम् || ८७ ||
फलैः परं परं धान्यैः सुगन्धाद्भिस्तु षोडशम् |
अभिमन्त्र्य हृदा पूर्णमेकैकं कलशं पुरा || ८८ ||
स्नापयेन्मूलमन्त्रेण तैः षोडशभिरादरात् |
उदकान्तरितैः सार्घ्यपुष्पधूपप्रदीपकैः || ८९ ||
मसूरमाषगोधूमचूर्णैरथ विघृष्य च |
प्रक्षाल्य पयसा मूर्ध्नि तारिकां विन्यसेत् पराम् || ९० ||
ततः सूक्ष्मां ततः स्थूलां स्थानेष्वेषु क्रमात् सुधीः |
मूर्ध्नि वक्त्रेंऽसयोः कर्णे हृदि नाभौ तु पृष्ठतः || ९१ ||
कटिमूले तथोर्वोश्च जानुगुल्फेऽथ पादयोः |
तारकं बिन्यसेदेवं तथैवाप्यनुतारिकाम् || ९२ ||
न्यस्यैवं पौरुषं सूक्तं न्यसेच्छ्रीसूक्तमप्यथ |
शिरो मे श्रीर्यजुर्भिश्च न्यसेल्लिङ्गानुरूपकम् || ९३ ||
कुर्याच्च होतृविन्यासं यथा प्रोक्तं यजुर्मये |
एवं विन्यस्य पुरुषे मयि पश्चात् समाचरेत् || ९४ ||
विन्यस्य पूर्वं श्रीसूक्तं शिरो मे श्रीर्यजूंषि च |
ततश्च होतृविन्यासं विधायैवं तनुद्वये || ९५ ||
कुण्डे पूर्वविधानान्ते जुहुयात् सर्वशान्तये |
उक्ताश्च वर्तमानाश्च यावन्त्यो मन्त्रजातयः || ९६ ||
जुहुयात् तावतीभिस्तु सर्वदोषप्रशान्तये |
ऋचः पूर्वदिशाभागे दक्षिणस्यां यजूंषि च || ९७ ||
प्रतीच्यां चैव सामानि सौम्य आथर्वणानि च |
समीपे सात्त्वतान्मन्त्रानेवमध्यापयेद् द्विजान् || ९८ ||
पूर्वं षोडशपत्राब्जकर्णिकास्थैश्चतुर्दिशम् |
कलशैः स्नापयेन्मन्त्रैस्तारतारानुतारवत् || ९९ ||
वसवस्त्वेति मन्त्रेण पुष्पाम्भःकलशेन तु |
रुद्रास्त्वा गन्धतोयेन स्वर्णाम्भःकलशेन तु || १०० ||
आदित्यास्त्वेति विश्वेति रत्नोदकलशेन तु |
तारतारानुताराभिरभिषिञ्चेच्च मन्त्रवित् || १०१ ||
ततः शुद्धोदमादाय परादित्रिविधात्मना |
तारया त्वभिषिच्याथ तथार्घ्यं मूर्ध्नि निक्षिपेत् || १०२ ||
समालभ्य ततो बिम्बं चन्दनाद्यनुलेपनैः |
वासःप्रभृतिभिर्भोगैः प्रापणान्तैः समर्चयेत् || १०३ ||
मुद्रां वद्ध्वार्चयेत् पश्चात् पीठं ब्रह्मशिलान्वितम् |
समस्ताध्वमयं पीठं ध्यायेद्वैष्णवमुज्ज्वलम् || १०४ ||
आधारशक्तिभूतां च दिव्यां ब्रह्मशिलां स्मरेत् पीठब्रह्मशिले त्वेवं सहभावेन निर्मिते || १०५ ||
पृथग्विनिर्मिते ते च कुर्यात्तु शयनोत्तरे |
शयनं स्थिरबिम्बस्य वक्ष्यमाणं विधीयते || १०६ ||
प्रासादगमनं चैव पीठब्रह्मशिलास्थितिः |
तत्प्रतिष्ठापनं चैव बिम्बस्यावाहनं ततः || १०७ ||
द्वादशाङ्गकलान्यासस्त्र्यहाद्युत्सवसाधनम् |
तथावभृथकर्मादि सर्वमेतद्विधीयते || १०८ ||
चलबिम्बप्रतिष्ठां च चतुष्कलशसेचने आराध्यावाहनं कुर्याद्यथा तदवधारय || १०९ ||
कार्यमावाहनात् पूर्वं भोगानां त्रितयं क्रमात् |
स्वरूपेऽविकृते शुद्धे निस्तरङ्गे निरामये || ११० ||
परातीते गुरुः स्थित्वा पुनः स्वहृदयाम्बुजे |
शक्तिं सत्तामयीं विष्णोरनुरूपामनुस्मरेत् || १११ ||
यद्बिम्बं संस्कृतं पूर्वं तन्मयं तदनुस्मरेत् |
अग्नीषोममयौ भावौ स्वदेहस्थावनुस्मरेत् || ११२ ||
ऊर्ध्वाधोव्यापकत्वेन स्थितौ परमभास्वरौ |
यथात्मनि तथा बिम्बे यथा बिम्बे तथात्मनि || ११३ ||
दक्षिणेन ततो यायादग्निमार्गेण देहतः |
प्रविशेद्वाममार्गेण बिम्बस्य हृदयं धिया || ११४ ||
यथात्मनात्मा हृदये स्वानुभूतो ह्यनूपमः |
तथा तद्धृदयान्तःस्थमात्मानमनुसंस्मरेत् || ११५ ||
दृष्ट्वा स्वरश्मिखचितमानन्दापूरितं महः |
तस्मिंस्तस्मिन् परब्रह्मण्यैकध्यं तस्य चिन्तयेत् || ११६ ||
एवमेकार्णवीकृत्य वैष्णवं तत् परं महः |
तिष्ठेत् समादधानस्तदस्पन्दं स्वमनो दधत् || ११७ ||
मनसि स्पन्दमानेऽथ स्मृत्वा तं स्वं धिया पुनः |
बिम्बाद् दक्षिणमार्गेण बहिर्निष्क्रम्य मेधया || ११८ ||
संविशेद्वामभागेन स्वमेव हृदयाम्बुजम् |
योगोऽयं द्रव्यबिम्बस्य नाडीबृन्दप्रवर्तकः || ११९ ||
योगान्तरमथातिष्ठेत् तस्य सर्वेशिताप्तये |
ध्यायीतातो हृदम्भोजात् तारिकां तारिणीं गृणन् || १२० ||
यायादूर्ध्वप्रवाहेण परं पदमनामयम् |
ततः स्मरेत् परं तच्च भोगं प्राप्तं स्वयेच्छया || १२१ ||
ततस्तत्स्पन्दमादाय विज्ञानैश्वर्यशक्तिमत् |
अनाकुलं पुनर्यायात् पथा तेन हृदम्बुजम् || १२२ ||
दक्षिणेन विनिष्क्रम्य परस्परसहायवान् |
तद्बिम्बहृदयाम्भोजं वामेनैव तु संविशेत् || १२३ ||
ध्यात्वा पूर्ववदेकत्वं विनिष्क्रम्योर्ध्वमार्गतः |
द्वादशान्तं समाविश्य पूर्ववत् स्पन्दमेत्य च || १२४ ||
यथाबिम्बं हृदम्भोजं तेनैव प्रविशेत् सुधीः |
ततोऽग्निना विनिष्क्रम्य सव्येन हृदयं विशेत् || १२५ ||
स्मरेत् स्पन्दमथैश्वर्यं स्वचक्षुर्द्वयगोलकम् |
परस्परं निरीक्ष्याथ तन्वानावेकतामिव || १२६ ||
अन्योन्यालोकनाभ्यां तावनुविद्धावनुस्मरेत् |
एतदीश्वरसंधानं नाम योगोऽनुवर्णितः || १२७ ||
येन सर्वेषु बिम्बेषु सर्वेशित्वं सदा भवेत् |
अथ शब्दानुसंधानं मन्त्रबिम्बैकता हि या || १२८ ||
सा स्मृता वैष्णवी सूक्ष्मा शक्तिर्विष्णोर्निरञ्जना |
तत्सामान्यमयो भूत्वा तस्मिन् स्वं लोपयेद् ध्वनिम् || १२९ ||
सर्वसंकल्पहीनं तच्छब्दमात्रविवर्जितम् |
शान्तं विद्धि परं सूक्ष्मं तत्परं बोधनिर्मितम् || १३० ||
ततः शब्दार्थसंस्कारसार्धस्पन्दोद्यमो हि यः |
तत् स्मरेत् परमं सूक्ष्मं पश्यन्तीपदमुन्मिषत् || १३१ ||
संकल्पपदवीरूढस्तत्तत्संस्काररञ्जितः |
स्वकं वाच्यं पृथक्कृत्य तदुद्दिश्योदयो हि यः || १३२ ||
शाब्दं तन्मध्यमं रूपं स्मरेद्धृत्पद्ममध्यगम् |
नानास्थानप्रयत्नोत्थैः करणश्वसनेरितैः || १३३ ||
तरङ्गैर्व्यक्तिमायाति स्फुटो वर्णपदादिकैः |
यो वाचकस्वरूपेण तत्पदं वैखरीं विदुः || १३४ ||
बोधशब्दात्मकं तस्मात् परसूक्ष्मादिभेदवत् |
वपुरित्यनुसंधाय तद्बिम्बं भावयेत् ततः || १३५ ||
शब्दसंहारयोगेन स्वं वपुस्तच्च बिम्बकम् |
निष्कम्पबोधशब्दात्म स्मृत्वा तद्द्वितयं तथा || १३६ ||
पूर्वोक्तक्रमयोगेन शब्दब्रह्म ह्यनाहतम् |
पश्यन्त्यादिक्रमेणैव शब्दबिम्बमयं स्मरेत् || १३७ ||
एवं शब्दानुसंधानं कृत्वा मन्त्रानुसंहितम् |
आरभेत सुधीः कर्म तस्य योगोऽयमुच्यते || १३८ ||
अनाहतं परं नाभौ पश्यन्तीपदमागतम् |
नालसूत्रमिवान्तःस्थं मध्यमे हृदयाम्बुजे || १३९ ||
स्थित्वा तद्वैखरीद्वारा बिम्बान्तः संविशत् स्मरेत् |
स्फुरन्नादस्वरूपं च मन्त्रैर्व्याप्तं तथाखिलैः || १४० ||
मन्त्रात्मानं जगन्नाथं बिम्बहृन्मध्यगं स्मरेत् |
एवं संस्थापितं बिम्बं भुक्तिमुक्तिफलप्रदम् || १४१ ||
आवाहनं ततः कुर्याद् बिम्बेऽस्मिन् हरिमेधसः |
पूर्वमावाहयामीति तथा सर्वाङ्गमन्त्रतः || १४२ ||
प्रवेशनिर्गमौ लक्ष्म्याः स्मरेद्देवस्य देहतः |
ऋग्भिः पञ्चभिराद्याभिस्तस्या आवाहनं स्मृतम् || १४३ ||
द्वादशाङ्गकलान्यासं देवन्यासवदाचरेत् |
भवतं नः सुमनसाविति द्वावनुसान्त्वयेत् || १४४ ||
एतावती चले बिम्बे प्रतिष्ठान्यत्र तु स्थिरे |
कुर्यात् पूर्वोक्तमार्गेण सात्त्वतादिविधानवित् |
१४५ ||
यदेतदनुसंधानत्रितयं पूर्वमीरितम् |
एतदेव प्रतिष्ठानमुभयत्रेति मे मतिः || १४६ ||
इत्थं संस्कारसंपन्ने तद्बिम्बद्वितये सुधीः |
लक्ष्मीं लक्ष्मीपतिं चैव धिया पश्यन्नुपस्थितौ || १४७ ||
तन्मनाश्चैव तद्भक्तस्तद्याजी तज्जपोद्यतः |
तद्योगी सततं भूत्वा तावेवान्ते प्रपद्यते || १४८ ||
प्रतिष्ठेयमिति प्रोक्ता साक्षाज्ज्ञानमयी परा |
ज्ञानं विना न चैवान्यन्नराणां तारकं स्मृतम् ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे प्रतिष्ठाविधानं नामैकोनपञ्चाशोऽध्यायः
Kapitel 50
Deutsche Übersetzung: Kapitel 50 · Sanskrit IAST: Kapitel 50
शक्रः-
विश्वारणे नमस्तुभ्यं नमो विश्वविभूतये सर्वासामपि सिद्धीनां नमस्ते मूलहेतवे || १ ||
आदिदेवात्मभूतायै नारायणकुटुम्बिनि |
समस्तजगदाराध्ये नमस्ते पद्मयोनये || २ ||
त्वत्प्रसादाच्छ्रुता मन्त्रास्त्वदीयाः सिद्धयो मया |
आराधनं च सर्वेषां यथावदवधारितम् || ३ ||
इदानीं श्रोतुमिच्छामि त्वद्वक्त्राम्बुजनिःसृतम् |
त्वत्सूक्तस्य विधिं कृत्स्नमुपसन्नोऽस्म्यधीहि भो || ४ ||
श्रीः
देवो नारायणो नाम जगतस्तस्थुषस्पतिः |
आत्मा च सर्वलोकानां षाड्गुण्यानन्दविग्रहः || ५ ||
सर्वप्रकृतिरीशानः सर्वज्ञः सर्वकार्यकृत् |
निरनिष्टोऽनवद्यश्च सर्वकल्याणसंश्रयः || ६ ||
तमसां तेजसां चैव भासकः स्वप्रकाशतः |
अन्तर्यामी नियन्ता च भावाभावविभावितः || ७ ||
शक्तिमान् सकलाधारः सर्वशक्तिर्मदीश्वरः |
तस्याहं परमा शक्तिरेका श्रीर्नाम शाश्वती || ८ ||
निरस्तनिखिलावद्या सर्वकामदुघा विभोः |
आत्मभित्तिसमुन्मीलच्छुद्धाशुद्धाध्ववर्गिणी || ९ ||
अनुव्रता हृषीकेशं सर्वतः समतां गता |
तावावां परमे व्योम्नि पितरौ जगतः परौ || १० ||
अनुग्रहाय लोकानां स्थितौ स्वः परया श्रिया |
कदाचित्कृपयाविष्टौ जीवानां हितकाम्यया || ११ ||
सुखिनः स्युरिमे जीवाः प्राप्नुयुर्नौ कथं न्विति |
उपायान्वेषणायत्तौ परमेण समाधिना || १२ ||
मथ्नीवः स्मातिगम्भीरं शब्दब्रह्ममहोदधिम् |
मथ्यमानात्ततस्तस्मात् सामर्ग्यजुषसंकुलात् || १३ ||
तत् सूक्तिमिथुनं दिव्यं दध्नो घृतमिवोत्थितम् |
अनाहतमसंदिग्धमनस्पष्टमनश्वरम् || १४ ||
सर्वैश्वर्यगुणोपेतमनाकुलपदाक्षरम् |
आद्योस्तथान्तयोः शश्वदन्योन्याक्षरमिश्रितम् || १५ ||
शक्तिशक्तिमदाविद्धं तत्तदक्षरमिश्रितम् |
तत्र पुंलक्षणं सूक्तं सद्ब्रह्मगुणभूषितम् || १६ ||
स्वीचकारारविन्दाक्षः स्वमहिम्नि प्रतिष्ठितम् |
तत्र स्त्रीलक्षणं सूक्तं सद्ब्रह्मगुणभूषितम् || १७ ||
स्वीचकाराहमव्यग्रा स्वमहिम्नि प्रतिष्ठितम् |
ते एते परमे सूक्ते महर्षिगणसेविते || १८ ||
अधीते च विमृष्टे च नयेतां परमां गतिम् |
विहितानि विधानानि कल्पकृद्भिः पुरातनैः || १९ ||
अघोराण्यमराध्यक्ष तानि तानि सहस्रशः |
तत्र संप्रति मत्सूक्तविधानं विहितं शृणु || २० ||
मामेवास्य मुनिं विद्याच्छन्दः श्रीर्नाम कथ्यते |
देवता सकलाधारा विष्णुपत्न्यहमीश्वरी || २१ ||
विनियोगोऽस्य सूक्तस्य लक्ष्मीनारायणार्चने |
अङ्कस्थां भावयेल्लक्ष्मीं विष्णोर्मां परमेश्वरीम् || २२ ||
वामेनालिङ्गितां शश्वद्बाहुना परमात्मना |
तदंसलग्नबाहुं च दिव्यपङ्कजधारिणीम् || २३ ||
अथ मामर्चयेदृग्भिः प्रयतः परमेश्वरीम् |
वामोत्सङ्गनिषण्णां मां देवदेवस्य शार्ङ्गिणः || २४ ||
कुर्यात् प्रथमय चर्चा त्वावाहनमतन्द्रितः |
द्वितीययासनं दद्याद् देवदेवस्य शार्ङ्गिणः || २५ ||
तृतीययार्घ्यमीशाने पाद्यं चापि प्रकल्पयेत् |
चतुर्थ्याचमनं चैव पञ्चम्या चोपहारकम् || २६ ||
षष्ठ्या स्नानं प्रकुर्वीत सह नौ साधकोत्तमः |
सप्तम्या वाससी दद्यादष्टम्या भूषणानि च || २७ ||
गन्धं दद्यान्नवम्या तु दशम्या सुमनश्चयम् |
पराभ्यां धूपदीपौ तु परया मधुपर्ककम् || २८ ||
प्रापणं च चतुर्दश्या पञ्चदश्या नमस्क्रियाः |
तारिकामनुतारं च प्रयुञ्जीयादथान्ततः || २९ ||
प्रत्यृचं नियतो मन्त्री जपेच्छक्त्या यथाविधि |
सूक्तस्य विलयं पश्चात्तारिकायामनुस्मरेत् || ३० ||
तारिकास्थौ च नौ ध्यात्वा स्मरेत् सर्वगतिं च नौ |
ऋग्भिश्चतसृभिर्यद्वा पूर्वमावाहनक्रिया || ३१ ||
पञ्चम्या तु प्रपद्येत श्रियं मां शुद्धचेतसा |
आप इत्यनया कुर्यादर्घ्यपाद्याचमक्रियाः || ३२ ||
आर्द्रामिति च मत्स्नानं कर्दमेनेति चाम्बरम् |
गन्धद्वारेति गन्धाः स्युरूपैतु स्यादलंकृतिः || ३३ ||
कां सोस्मि धूपदीपौ च षष्ठ्या चैवोपहारकम् |
मनसः काममित्येवं मधुपर्कं प्रकल्पयेत् || ३४ ||
क्षुत्पिपासामिति ह्येषा प्रापणप्रतिपादिका |
अन्त्यया तु नमस्कारः शिष्टं पूर्ववदाचरेत् || ३५ ||
सूक्तेऽस्मिन् मम नामानि पञ्चाशत् त्रीणि चाप्युत |
तेषां निरुक्तिं मत्तस्त्वं शृणु जम्भनिषूदन || ३६ ||
निहिता सर्वभूतेषु रणे भृङ्गवधूरिव |
जनयन्ती परं नादं तैलधारावदच्युतम् || ३७ ||
निमेषोन्मेषयोर्मध्ये सूर्याचन्द्रमसोः स्थिता |
मूलमाधारमारभ्य द्विषट्कान्तमुपेयुषी || ३८ ||
उदितानेकसाहस्रसूर्यवह्नीन्दुसंनिभा |
चक्रकात् पवनाधाराच्छान्ता पश्याथ मध्यमा || ३९ ||
वैखरीस्थानमासाद्य तत्राष्टस्थानवर्तिनी |
वर्णानां जननी भूत्वा भोगान् प्रस्नौमि गौरिव || ४० ||
हिरण्यवर्णेत्येवं मां प्रजापतिरुदारधीः |
स्तुत्वा तु मत्प्रसादात् स योगानां धर्ममूचिवान् || ४१ ||
प्रणवादिर्नमोऽन्तोऽयं मन्त्रो मम नवाक्षरः |
शब्दब्रह्ममयः साक्षाद्योगिनां योगसाधकः || ४२ ||
दूराद् दूरतरं यामि हरिणी योगिमानसात् |
भक्त्या बध्नन्ति निजया योगिनो मां यतव्रताः || ४३ ||
षष्टिरष्टौ सहस्राणि योगिनो मत्परायणाः |
हरिणीं मामनुध्याय प्रत्याहारं परं गताः || ४४ ||
हरिणाजिनसंवीतां हरिणाजिनसंस्तराम् |
हरिणाश्लिष्टमध्यां तां हरिणायतलोचनाम् || ४५ ||
हरिणीं मामनुस्मृत्य परां शान्तिमवाप्नुयात् |
हरिं नयामि कार्येषु नीये च हरिणा स्वयम् || ४६ ||
सदा हरिणभासाहं हारिणी दुरितं सताम् |
प्रणवादिर्नमोऽन्तश्च मन्त्रोऽयं मे षडक्षरः || ४७ ||
सवार्थसाधकः साक्षाद्योगसाधनमुत्तमम् |
सौवर्णैः कल्पिता नित्यं मम माला सरोरुहैः || ४८ ||
सृजामि शोभनान् वर्णान् सुष्ठु विश्वं वृणामि वा |
सृताश्चापि मयाजस्र बद्धमुक्तादयो ह्यजाः || ४९ ||
सुवर्णस्रजमित्येवं गुह्यकानामधीश्वरः |
मेरौ चिरमुपस्थाय धनेशत्वमवाप्तवान् || ५० ||
राजतैर्मे स्रजः पद्मै राजन्ते च स्रजोऽमलाः |
राजिताश्च स्रजः सर्वे स्रष्टारो जगतां मया || ५१ ||
रजतस्रजमित्येव रुद्राणां प्रवरः पुरा |
कैलासे समुपस्थाय रजताधिपतां ययौ || ५२ ||
अष्टाक्षराविमौ मन्त्रौ सतारौ नमसा युतौ |
जपार्चनहुतध्यानादभीष्टं साधयिष्यतः || ५३ ||
चंक्रम्यमाणा भक्तानां द्रावयामि च दुष्कृतम् |
चन्द्रवत् सततं चित्तं भक्तानां द्रावयामि च || ५४ ||
उदेमि योगिनामन्तरानन्दस्पन्दलक्षणा |
चतुर्थीं तु दशां तेषां चन्द्रवद्भासयामि च || ५५ ||
योगान्तरायनिहतो वसिष्ठः परमो मुनिः |
अन्तश्चन्द्रमयीं शुद्धां चिदानन्दमहोदधिम् || ५६ ||
नाडीस्थां मामनुस्मृत्य पुनः स्वं योगमाप्तवान् |
आनन्दजनकः सद्यो मन्त्रोऽयं मे षडक्षरः || ५७ ||
भवदावाग्निदग्धानां निर्वृतिं प्रकरोत्ययम् |
आधाराब्जाद् द्विषट्कान्तं सूर्यभासा हिरण्मयी || ५८ ||
उदेमि सततं प्रोक्ता शब्दसंकल्पकोरकैः |
प्रकृतेश्च परे व्योम्नि मण्डले च त्रयीमये || ५९ ||
हिरण्मयेऽवतिष्ठेऽहं हिताय जगतां सदा |
तां मां हिरण्मयीत्येवं मुनयो वेदपारगाः || ६० ||
स्तुत्वा समाप्नुवन् कामं योगिनो योगमुत्तमम् |
सप्ताक्षरो ह्ययं मन्त्रः सर्वकामार्थसाधकः || ६१ ||
साक्षिणी सर्वभूतानां लक्षयामि शुभाशुभम् |
लक्ष्मीश्चास्मि हरेर्नित्यं लक्ष्यं सर्वमितेरहम् || ६२ ||
ददती क्षेपणी चास्मि नित्या त्रिप्रेरणी तथा |
तथा ज्ञानस्वरूपाहं लक्षणीया मितौ मितौ || ६३ ||
लये निवासे निर्माणे प्रेरणी प्रकृतेरहम् |
लक्षणाख्यस्य भावस्य कलाकाष्ठादिरूपिणी || ६४ ||
अव्यक्तव्यक्तसत्त्वस्था प्रेरयित्री सदास्म्यहम् |
लक्षं नयामि चात्मानं लामि चान्ते क्षिपामि च || ६५ ||
क्षिपामि क्षपयाम्येका क्षिणोमि दुरितं सताम् |
क्षमे क्षमा हि भूतानां मिमे मन्ये च मामि च || ६६ ||
इत्येतान् मयि दृष्ट्वार्थान् परमर्षिरुदारधीः |
लक्ष्मीर्लक्षय मेत्येव कपिलो मुनिरुक्तवान् || ६७ ||
पञ्चाक्षरो ह्ययं मन्त्रः पातालगतिसाधनः |
दिव्यान्तरिक्षभौमानां भोगानामुपपादनः || ६८ ||
तनुर्ज्ञानमयी सा मे विष्णोर्हृदि च वर्तते |
आत्मज्ञानमिदं पुण्यं योगज्ञानमिदं परम् || ६९ ||
भानामिव गता कान्तिः शीतरश्मौ सदा तथा |
शक्तिः शक्तिमतो विष्णोः स्थिताहमनपायिनी || ७० ||
अपश्चाहमयाम्येका द्रवो भूत्वा गुणो महान् |
अपावाहयमादौ च मुनिं भूत्वा सरस्वती || ७१ ||
सारस्वते जले पूर्वं विश्वामित्रोदिता सती |
अपोवाह वसिष्ठं तं सत्यसन्धा सरस्वती || ७२ ||
ऋषयः प्राहुरेवं मां वसिष्ठे स्रोतसा हृते |
सत्ये सत्यप्रियं पाहि वसिष्ठं शात्रवादिति || ७३ ||
साहं सरस्वती भूत्वा तमपोवाह शात्रवात् |
ऋषयो नाम चक्रुर्मे तदा ह्यनपगामिनीम् || ७४ ||
नवाक्षरो ह्ययं मन्त्रः सर्वापद्विनिवारणः |
अश्वा पूर्वाहनी चास्मि वसामि च पुरे सदा || ७५ ||
बुद्धिप्राणशरीराख्ये त्रिविधे त्रिविधात्मना |
अश्वानां हेषवन्नादं योगारम्भे करोमि च || ७६ ||
नाडीमध्यं समायाता करोमि रथवद् ध्वनिम् |
व्योमरन्ध्रमनुप्राप्ता हस्तिनादविनादिनी || ७७ ||
योगिनो यतमाना मां त्रिधैवं प्रतिपेदिरे |
आद्यावष्टाक्षरौ मन्त्रावन्त्य एकादशाक्षरः || ७८ ||
अभीप्सितप्रदा ह्येते त्रयो मन्त्रा हि मन्मयाः |
शृणोमि करुणां वाचं शृणामि दुरितं सताम् || ७९ ||
शृणामि च गुणैर्विश्वं शरणं चास्मि शाश्वतम् |
शरीरं च हरेरस्मि श्रद्धया चेप्सिता सुरैः || ८० ||
शान्ताधारपदस्थास्मि पश्या रन्ती च नाभिजा |
प्रेरणी च धियां मध्या सृष्टिर्वक्त्रे तथार्णसाम् || ८१ ||
चतुःस्थानस्थिता चैवं शान्तापश्यादिभेदिनी |
श्रयामि श्रयणीयास्मि शक्तिभी रेमि रामि च || ८२ ||
शक्तेरुज्ज्वलिनी चास्मि शंतमा रतिरीप्सिता |
इति त्रययन्ततत्त्वज्ञाः श्रियं मां विदुरञ्जसा || ८३ ||
अपि नाथो विभूतिर्मे त्रैलोक्यं सेश्वरामरम् |
परां मदीयवर्णस्य कलां नार्हति षोडशीम् || ८४ ||
आद्ये पदत्रये वर्णाः श्रींह्रीमोमिति मन्मयाः |
एष वैभिश्चतुर्भिस्तैर्मदीयं धार्यते वपुः || ८५ ||
एकैकशो द्विशो वापि त्रिशो वा सर्व एव वा |
जप्तार्चितहुतध्याताः साधयेयुरभीप्सितम् || ८६ ||
प्रयत्नेनैव गोप्यं तदेतद्रत्नचतुष्टयम् |
अन्योन्यफलितं सर्वैरशेषैरधिकं गुणैः || ८७ ||
मिमे मीयेऽखिलैर्मानैर्मयि माति जगत् क्षये |
आत्मेश्वरवती चाहं व्याप्तायां मयि मेति धीः || ८८ ||
आत्मवच्चेप्सितात्यर्थमतो मां मद्विदो विदुः |
पञ्चाक्षरो ह्ययं मन्त्रः सर्वकामफलप्रदः || ८९ ||
प्रदात्री सर्वकामानामवित्री सर्वकर्मणाम् |
देवस्य दयिता चास्मि देवीं मां मुनयो विदुः || ९० ||
पञ्चाक्षरो ह्ययं मन्त्रो भुक्तिमुक्तिफलप्रदः |
शब्दाये सर्वभूतानामन्तःस्था चिन्मयी सदा || ९१ ||
काये च निखिलैर्वेदैरन्विष्ये केति चाखिलैः |
ब्रह्मरूपधरा चाहं जटामण्डलधारिणी || ९२ ||
सृजामि विविधान् भावान्स्वाध्यायाध्यायतत्परान् |
अतः कामिति मां प्राहुर्मुनयो वेदपारगाः || ९३ ||
पञ्चाक्षरो ह्ययं मन्त्रः स्वाध्यायफलदायकः |
उदिति ब्रह्मणो नाम विकस्तिस्तस्य तु स्मितम् || ९४ ||
मययायत्ता विकस्तिः सा सोस्मितां मां ततो विदुः |
सप्ताक्षरो ह्ययं मन्त्रो विकस्तिं भूयसीं वहेत् || ९५ ||
हिता च रमणीया च मदीया प्रकृतिः परा |
तां सत्त्वरूपामालम्ब्य तरन्ति मुनयस्तमः || ९६ ||
अतो हिरण्यप्राकारामृषयो मामुपासते |
दशाक्षरो ह्ययं मन्त्रः सर्वकामसमृद्धिदः || ९७ ||
आरादशेषदोषाणां द्राविणी मामुपेयुषाम् |
अधोमुखाच्छिरःपद्मात् स्रुतयामृतधारया || ९८ ||
अभिषिक्ता सदार्द्रास्मि दययार्द्रान्तरास्मि च |
ज्वलामि सर्वभूतान्तर्गगने परमे सदा || ९९ ||
शुद्धा निरञ्जना सत्या भासयन्ती जगत् त्विषा |
अशिखा त्रिशिखा चाहं पञ्चपञ्चशिखावती || १०० ||
सप्तधा च पुनस्त्रेधा ज्वलामि वपुषि स्थिता |
षडक्षराविमौ मन्त्रौ निर्वृत्यौज्ज्वल्यदायकौ || १०१ ||
हरौ प्रीतिमती नित्यं तृप्ता भक्तेषु नित्यदा |
प्राकृतैश्च विना भोगैर्नित्यतृप्तास्म्यहं स्वतः || १०२ ||
तां मां तृप्तामनुध्याय मुनयो वेदपारगाः |
ज्ञानमूलां परां तृप्तिं नित्यां प्राप्ताः सुधामयीम् || १०३ ||
षडक्षरो ह्ययं मन्त्रस्तर्पयत्यखिलं जगत् |
तर्पयामि गुणैर्विष्णुमात्मानं तद्गुणैरपि || १०४ ||
द्विसप्तत्या सहस्रेण नाडीनां देहसागरम् |
तर्पयामि रसैर्नित्यं प्राणानां प्रेरणावशात् || १०५ ||
सौषुम्नेनाध्वना नित्यं परं भावमुपेयुषाम् |
बिम्बभावमुपेताहं विमले योगदर्पणे || १०६ ||
आत्मबिम्बसमुद्भूतैः परमार्थः सुधारसैः |
चिन्मयैस्तर्पयाम्यन्तर्योगिनां सत्त्वमुत्तमम् || १०७ ||
प्रकृत्यादि विशेषान्तं परिणामोन्मुखं सदा |
कार्यभावं समापन्नमक्षिण्वन्ती निजैर्बलैः || १०८ ||
आपगाभिरिवाम्भोधिं प्राणाधानेन तर्पये |
स्नेहेनेव सदा दीपं प्राणिनां करणानि च || १०९ ||
निजसंविद्रसेनैव तर्पयाम्यक्षयात्मना |
तर्पयन्तीति मां प्राहुर्योगिनो योगपारगाः || ११० ||
सप्ताक्षरो ह्ययं मन्त्रस्तर्पयत्यखिलं जगत् |
पद्यमानं मिनोतीति कालं पद्मं प्रचक्षते || १११ ||
कालमप्यखिलं शश्वत् कलयन्ती स्थिता सदा |
स्तुत्वा त्वनेन नाम्ना मां कालातीतः कृती भवेत् || ११२ ||
पुंप्रधानेश्वरान्नित्यं वर्णयाम्यात्मतेजसा |
पद्माकारैश्च वर्णैर्मे भूषिता तनुरुत्तमैः || ११३ ||
पद्मवर्णेति मां स्तुत्वा शास्त्रवैशद्यमाप्नुयात् |
उद्गतः प्रथमो योंऽशुः क्षीरसागरमन्थने || ११४ ||
चन्द्राख्यः स मदीयोंऽशुरुद्गच्छन्त्याः पुरःसरः |
ऋषयो मत्प्रभावज्ञा मां तु चन्द्रां प्रचक्षते || ११५ ||
यः स चन्द्रो मदंशूनां कोटिकोट्यंशकोटिजः |
षडक्षरो ह्ययं मन्त्रो मनोवैमल्यदायकः || ११६ ||
प्रकृष्यमाणा भासो मे सर्वावस्थासु सर्वदा |
येनेच्छति तिरोधातुं तन्मे भासा तिरोहितम् || ११७ ||
यथा हि स्वशिरश्छाया स्वपदा नैव लङ्घ्यते |
सा पदादग्रतो याति येन लङ्घनमिच्छति || ११८ ||
नित्योदितचिदानन्दा मत्प्रभाः सततोज्ज्वलाः |
श्रद्धां सोममपोऽन्नं च वीर्यं हविरिति क्रमात् || ११९ ||
भोग्यशक्तिप्रभा एता अस्यन्ती षट्सु वह्निषु |
प्रभासा मुनिभिः प्रोच्ये तन्त्रवेदान्तपारगैः || १२० ||
सप्ताक्षरो ह्ययं मन्त्रस्तेजःसंततिसाधकः |
यशो यदुज्ज्वलं लोके विद्यादानादिसंभवम् || १२१ ||
मदीयं तद्यशस्तच्च नानारूपं विभज्यते |
मामेव भाजनं विद्धि यशसस्तेजसः श्रियः || १२२ ||
अतो यशस्विनीं तां मां यशसेति विदुर्बुधाः |
सप्ताक्षरो ह्ययं मन्त्रो यशोदो जपतो भवेत् || १२३ ||
स्वर्गपर्जन्यभू पुंस्त्रीवैश्वानरविभागतः |
आददाना हविः प्राप्तं श्रद्धासोमादिसंज्ञितम् || १२४ ||
षोढात्मानं विभज्याहमग्निभावमुपागता |
ज्वलन्ती मुनिभिर्गीता भोक्तृशक्तिप्रभोज्ज्वला || १२५ ||
अग्नीषोमविभागेन विश्वमेवं भजाम्यहम् |
मन्त्रेणानेन मां स्तुत्वा साधयेद्यदभीप्सितम् || १२६ ||
देवेन हरिणा जुष्टा सदा देवैश्च सेविता |
देवाश्च मामुपाश्रित्य विषयान् प्रत्यवस्थिताः || १२७ ||
परिणामविशेषत्वात् प्रकृतेस्ते ह्यचेतनाः |
अतो मच्छक्तिमादाय शुद्धसंवित्क्रियामयीम् || १२८ ||
विषयेषु प्रवर्तन्ते श्रोत्रवाङ्मन-आदयः |
वृत्त्यर्थ सेवितामक्षैर्देवजुष्टां तु मां विदुः || १२९ ||
सर्वशक्तिप्रदामन्तर्देवजुष्टामवस्थिताम् |
शश्वन्मामनुसंचिन्त्य देवान् विजयतेऽखिलान् || १३० ||
मत्त एवोद्गतानीह विज्ञानानि महर्षिणाम् |
शक्तयश्च क्रियाश्चैव यास्ता उच्चावचा नृणाम् || १३१ ||
विशृङ्खलेष्टदां चापि मामुदारां विदुर्बुधाः |
सप्ताक्षरो ह्ययं मन्त्रः सर्वमिष्टं प्रयच्छति || १३२ ||
तनोमि पञ्च कृत्यानि ताये च जगदात्मना |
तां मां तामिति तत्त्वज्ञाः प्राहुर्वेदान्तपारगाः || १३३ ||
प~चाक्षरो ह्ययं मन्त्रस्तनोति शुभविस्तृतिम् |
प्रकृतिं पुरुषं चैव नयामि स्वेन तेजसा || १३४ ||
कालाच्चापि बहिर्भूत्वा पद्मनेमीं ततो विदुः |
सप्ताक्षरो ह्ययं मन्त्रः सर्वसंपत्समृद्धिदः || १३५ ||
आदित्यं वर्णयाम्येका तेजसा यशसा श्रिया |
आदित्यस्था च वर्णात्मा भूत्वा दिव्या त्रयीमयी || १३६ ||
प्रकाशयन्ती सर्वार्थानतीतानागतानपि |
पितृदेवमनुष्याणां चक्षुरस्मि सनातनम् || १३७ ||
आदिभूतश्च वर्णो मे तारः प्रथमवाचकः |
तत्र शान्तोदितानन्दा नन्दाम्यात्मानमात्मना || १३८ ||
तैलधारावदच्छिन्ना दीर्घघण्टानिनादिनी |
प्रणवस्य शिखा सूक्ष्मा सा मे शब्दमयी तनुः || १३९ ||
तत्र ब्रह्मणि निष्णातो मां द्रागधिगमिष्यति |
आदित्यवर्णजातं मे शब्दमयया उपस्थितम् || १४० ||
शान्तापश्यादिरूपेण वैखरी वर्णनादिनी |
दुहाना सकलानर्थान् धेनुः कामदुघा स्थिता || १४१ ||
एतानादित्यवर्णेति मययर्थानृषयो विदुः |
नवाक्षरो ह्ययं मन्त्रः सर्वकामप्रपूरकः || १४२ ||
किरन्ती किरणान् लोके किरन्ती चोत्तरोत्तरम् |
वायुना देवमित्रेण मणिनाधारवह्निना || १४३ ||
शनैर्विश्रम्य विश्रम्य पत्रेषु जलजन्मनाम् |
द्वादशानां ततश्चोर्ध्वं भजामि द्वादशान्तिमम् || १४४ ||
कीर्तयन्ति ततः कीर्तिं मुनयो मां मनीषिणः |
पञ्चाक्षरो ह्ययं मन्त्रो योगवैमल्यदायकः || १४५ ||
ऋद्धास्म्यहं गुणैविष्णोरर्धयामि च योगिनः |
पत्रेषु योगपद्मानामाधारान्तरचारिणाम् || १४६ ||
उत्तरोत्तरमृध्यामि भजन्ती विस्तृतिं पराम् |
ऋद्धिं वृद्धास्ततः प्राहुर्योगिनो योगदीपिनीम् || १४७ ||
गन्धादयः पृथिव्याद्या द्वाराणि मम वेदने |
सर्वेषां पुण्यगन्धानां द्वारभूतास्मि शाश्वती || १४८ ||
गन्धद्वारेति मां प्राहुर्विप्रा वेदान्तपारगाः |
दुराधर्षास्मि सर्वेषां दैत्यदानवरक्षसाम् || १४९ ||
शुद्धा संवित् क्रिया चाहं नार्हा कैरपि बाधितुम् |
सर्वेषामात्मभूताया मम संवित्क्रियात्मनः || १५० ||
ज्ञातृत्वमपि कर्तृत्वं यो नामापनिनीषति |
ज्ञात्वा कर्ता निषेधस्य स निर्वक्ष्यति तत् कथम् || १५१ ||
शक्तो धर्षयितुं कश्चिन्नैव संविद्गतिं मम |
तदभावा विचिन्त्यैवं ह्यभावे संविदेव सा || १५२ ||
दुराधर्षेति मां प्राहुः सांख्यज्ञानविचक्षणाः |
अष्टाक्षरो ह्ययं मन्त्रस्तमोगतिविमोचनः || १५३ ||
नित्येन विष्णुना पुष्टा नित्यं पुष्टा च सद्गुणैः |
विषयैर्मे विना पुष्टा नित्यं संवित् परा तनुः || १५४ ||
सैव पुष्णाति विषयानजडाभिर्जडात्मनः |
नित्यपुष्टां तु मां प्राहुः सिद्धाः संविद्विचक्षणाः || १५५ ||
अष्टाक्षरो ह्ययं मन्त्रो नित्यं पुष्णाति संविदम् |
करिणो नाम कर्तारस्त्रिशुद्धास्त्रिक्रियापराः || १५६ ||
तानिच्छामि सदा द्रष्टुं मनसा यामि तान् सदा |
हिमशैलेन्द्रसंकाशा गजेन्द्रा मम वाहनाः || १५७ ||
तैरीश्वरा सदा यामि कर्त्री चान्तवती सदा |
करीषिणीति मां तेन तत्त्वज्ञाः संप्रचक्षते || १५८ ||
सप्ताक्षरो ह्ययं मन्त्रः सर्वकामसमृद्धिदः |
भूतानामीश्वरा चास्मि प्रियेणेशेन सर्वदा || १५९ ||
वरदा भुवनेशाना वनिता च सदाखिलैः |
वृद्धिदा वर्धमाना च क्षपणी च सदांहसाम् || १६० ||
ईश्वरीत्येव मे नाम तेन वेदे निरूपितम् |
षडक्षरो ह्ययं मन्त्रः सर्वैश्वर्यसमृद्धिदः || १६१ ||
भौमान्तरिक्षदिव्याख्या ये चाप्यप्राकृताः परे |
सदानन्दमयास्त्वेते सर्वे कामा मयि श्रिताः || १६२ ||
मनोरथानां सर्वेषां पराहं विभ्रमस्थली |
विष्णोश्च मनसः कामः साहं सर्वातिशायिनी || १६३ ||
मनसः काम इत्येव तेन मां तुष्टुवुः सुराः |
नवाक्षरो ह्ययं मन्त्रः सर्वकामसमृद्धिदः || १६४ ||
लौकिक्योऽप्यथ वैदिक्यस्तथा वाह्यागमोद्भवाः |
निर्घोषा घोषवत्यश्च या वाचः परिकीर्तिताः || १६५ ||
मामभिप्रेत्य सर्वासां तासामुच्चारणक्रिया |
मामभिप्रयते सर्वो जनः सर्वात्मना स्थिताम् || १६६ ||
तेन तेन प्रकारेण वाचामुच्चारणक्रमे |
आकूतिर्वचसां तेन वेदज्ञैरस्मि भाविता || १६७ ||
अष्टाक्षरो ह्ययं मन्त्रः सर्वशब्दार्थसिद्धिदः |
सच्च त्यच्च जगद् द्वेधा यत् प्रमाणेन दृश्यते || १६८ ||
तत् सर्वमहमस्मीति सत्यं मामृषयोऽब्रुवन् |
षडऽऽक्षरो ह्ययं मन्त्रः सर्वसत्यफलप्रदः || १६९ ||
पश्यन्ति पशवो जीवा विधाभिस्तिसृभिः स्थिताः |
तेषां रूपं तु यच्छक्र चैतन्यं हयवर्जितम् || १७० ||
तद्रूपमहमेवास्मि चिद्घनानन्दरूपिणी |
मच्छक्तिलेशास्ते सर्वे जीवाश्चिच्छक्तिसंज्ञकाः || १७१ ||
आग्नेयी या हि मच्छक्तिः सा हि जाता तथा तथा |
पशूनां रूपमित्येवं सांख्या मां संप्रचक्षते || १७२ ||
नवाक्षरो ह्ययं मन्त्रः सम्यग्ज्ञानफलप्रदः |
त्रैगुण्यं षड्गुणोत्थं च द्विधान्नं परिकीर्तितम् || १७३ ||
त्रैगुण्यमनुबद्धानामितरेषामथेतरत् |
द्विविधस्यापि चान्नस्य यद्यशो रूपमुत्तमम् || १७४ ||
तदहं सर्वभूतात्मा तत्त्वज्ञैः परिकीर्तिता |
प्राकृताप्राकृता भोगा मच्छक्तिप्रविजृम्भिताः || १७५ ||
सोमशक्तिर्मदीया या सा हि जाता तथा तथा |
अन्नस्य यश इत्येव मां विदुस्तत्त्वचिन्तकाः || १७६ ||
नवाक्षरो ह्ययं मन्त्रो भोगसर्वस्वदायकः |
मिमे षडध्वनो व्यग्रा मीये मानैस्तथाखिलैः || १७७ ||
मितिश्च सर्वमानानां माति चान्तर्ममाखिलम् |
तारयामि जगत् सर्वमपारं भवसागरम् || १७८ ||
उत्तीर्णा सर्वदोषाब्धेः प्लवे भूतेषु चेतसा |
प्लावयामि जगद्विश्वं पयसा मेघतां गता || १७९ ||
प्रियं हितं च सर्वेषां चिन्तयामि करोमि च |
तेन मां सर्वभूतानां मातरं योगिनो विदुः || १८० ||
पञ्चाक्षरो ह्ययं मन्त्रः सर्वभोगसमृद्धिदः |
सुषुम्ना नाम या नाडी नाडीचक्रस्य नायिका || १८१ ||
मुक्तियानं महायानं योगियानमिति श्रुता |
शक्तिर्या वैष्णवी सूक्ष्मा मन्मयी परिकीर्तिता || १८२ ||
संकल्पविषयः सर्वो यामालम्ब्यावतिष्ठते |
ऊर्ध्वं चाधश्च या भित्त्वा प्रतिजीवं वपुर्गतिम् || ८३ ||
व्याप्ता परममाकाशं सा सुषुम्नेति गीयते |
मुक्तयेऽखिलजीवानां संसाराखिलखेदिनाम् || १८४ ||
साहं सुषुम्नारूपेण वर्ते देहेषु देहिनाम् |
आ वस्तिशीर्षादा मूर्ध्नस्तस्यां शक्तौ पुरंदर || १८५ ||
आधाराख्यानि पद्मानि द्वात्रिंशत् संस्थितानि वै |
पद्मानां मालया व्याप्ता ततोऽहं पद्ममालिनी || १८६ ||
प्रकृतिं पुरुषं चैव कालं चैव सनातनम् |
धारयामि स्वरूपेण ततोऽहं पद्ममालिनी || १८७ ||
अष्टाक्षरो ह्ययं मन्त्रः सर्वकर्मफलप्रदः |
पोषं करोमि सर्वेषां रूपेण यशसा श्रिया || १८८ ||
पुष्करं च नयाम्येका कालाख्यं पद्मरूपकम् |
तेन पुष्करिणीत्येवमृषयो मां प्रचक्षते || १८९ ||
सप्ताक्षरो ह्ययं मन्त्रः सर्वपोषफलप्रदः |
इष्टास्मि सर्वदेवानां संगता हरिणा सदा || १९० ||
दात्री च सर्वकामानामखिलस्यावलम्बनम् |
मामालम्ब्यावतिष्ठन्ते प्रधानपुरुषादयः || १९१ ||
यष्टिरित्येवमृषयो मां ततः संप्रचक्षते |
षडक्षरो ह्ययं मन्त्रः सर्वयोगफलप्रदः || १९२ ||
पिङ्गलास्मि स्वया भासा प्रतप्तकनकाभया |
पिङ्गाय चाप्यदां पूर्वं यक्षेशाय महाश्रियम् || १९३ ||
यक्षेशो मां पुरा शक्र पिङ्गलेत्येवमूचिवान् |
सप्ताक्षरो ह्ययं मन्त्रो योगतेजःसमृद्धिदः || १९४ ||
तोषयामि गुणैर्विष्णुं तुष्यामि च हरेर्गुणैः |
मयि तुष्टिः समस्तानामीडितायां स्वकर्मभिः || १९५ ||
तुष्टिर्निरूपिता तेन साहं योगाब्धिपारगैः |
षडक्षरो ह्ययं मन्त्रो मनःसंतोषदायकः || १९६ ||
सुवर्णयामि संसिद्धानपरं परमेव वा |
अनिदंप्रथमा वर्णाः शोभना मम वाचकाः || १९७ ||
नित्या सरस्वती भूत्वा शोभनं वर्णयाम्यहम् |
सुवर्णेति ततो विप्रैस्तत्त्वज्ञैः परिकीर्तिता || १९८ ||
सप्ताक्षरो ह्ययं मन्त्रः सर्वसंपत्समृद्धिदः |
हैमं च पर्वतं दिव्यं चन्द्रार्कग्रहपूरितम् || १९९ ||
धारयामि धरा भूत्वा वेधसः स्थितिसिद्धये |
तुष्टाव मां पुरा तेन विरिञ्चो हेममालिनीम् || २०० ||
अष्टाक्षरो ह्ययं मन्त्रो मानवानां धृतिप्रदः |
हिताय सर्वजीवानां प्रसूये तत्त्वपद्धतिम् || २०१ ||
रमयामि पुनस्तत्र भुक्त्या मुक्त्या यथार्हतः |
नियच्छामि तथा कालैः सजीवां तत्त्वपद्धतिम् || २०२ ||
सूरिभ्यश्च हिता नित्यं सूर्यरूपार्कमण्डले |
सूर्येति सूरिभिः प्रोक्ता ततोऽहं तत्त्वचिन्तकैः || २०३ ||
षडक्षरो ह्ययं मन्त्रो भोगमोक्षफलप्रदः |
इति नाम्नां त्रिपञ्चाशत् सूक्तस्थानां प्रकीर्तिता || २०४ ||
कृतार्थयन्ति मां प्राप्य धीराः स्वैः स्वैरभीप्सितैः |
यद्यप्येषां मया प्रोक्ता व्यवस्था फलगोचरा || २०५ ||
न तावदेव माहात्म्यमेषां चिन्त्यं विपश्चिता |
आ मोक्षान्निर्विचारेण सर्वा सर्वफलप्रदा || २०६ ||
नामावली यतो ह्यस्याः श्रीरहं देवता परा |
नक्षत्राणि यथा व्योम्नि यथा रत्नानि वारिधौ || २०७ ||
वसुधायां यथा भोगा यथा कामाः सुरद्रुमे |
महिमानो यथा गोषु तेजांसि ब्राह्मणे यथा || २०८ ||
यथानन्ता गुणा दिव्या देवदेवे जनार्दने |
महिमानो ह्यसीमानस्तथास्मिन् सूक्तके मम || २०९ ||
यावान् हि भगवान् कालः कलाकाष्ठादिलक्षणः |
तावता नैव शक्नोमि वक्तुं सूक्तगुणानहम् || २१० ||
सैषा वेदविदां निष्ठा सैषा तन्त्रविदां गतिः मां प्रपद्येत सततं सूक्तेनानेन मानवः || २११ ||
सूक्तार्थमनुसंस्मृत्य चिरं सूक्तमधीत्य च |
लब्धे चित्तप्रसादे तु मां प्रपद्येत वै गतिम् || २१२ ||
प्रपद्यमानो मां नित्यं देवं वा पुरुषोत्तमम् |
इत्येवमनुसंदध्याच्छ्रद्दधानो जितेन्द्रियः || २१३ ||
प्रातिकूल्यं परित्यक्तमानुकूल्यं च संश्रितम् |
मया सर्वेषु भूतेषु यथाशक्ति यथामति || २१४ ||
अपायेभ्यो निवृत्तोऽस्मि पातकेभ्यो भवोदधौ |
तथाप्यत्र प्रवृत्तिर्या त्वत्स्मृतेः सापि नश्यतु || २१५ ||
अलसस्याल्पशक्तेश्च यथावच्चाविजानतः |
उपायाश्चोदिताः शास्त्रैर्न मे स्युस्तारकास्त्रयः || २१६ ||
तथाप्यत्र प्रवृत्तिर्या त्वदाज्ञापालनं तु तत् |
ततोऽहमनुपायत्वात् कृपणोऽकिंचनोऽगतिः || २१७ ||
छायामाश्रित्य वर्तेऽहं त्वदीयां तापहारिणीम् |
निरुपाधिः स्वतन्त्रा च स्वामिनी नः कृपानिधिः || २१८ ||
त्वमेव सर्वशास्त्रेषु शरणत्वेन गीयसे |
आत्मात्मीयं च यत्किंचिद् दुस्त्यजं दुर्भरं मतम् || २१९ ||
तत् सर्वं तव विन्यस्तं शुभयोः पादपद्मयोः |
उपेयायास्तव प्राप्त्यै त्वामुपायं तथा वृणे || २२० ||
उपायो भव मे देवि शरणं भव मेऽम्बुजे |
प्लुष्य मे दुरितं सर्वं पुष्य मे त्वद्गतांधियम् || २२१ ||
इत्येवमनुसंधाय मां प्रपद्येत वै गतिम् |
आदिदेवं जगन्नाथमीशं वा पुरुषोत्तमम् || २२२ ||
परं स्वस्त्ययनं शक्र सर्वालक्ष्मीनिबर्हणम् |
श्रावयेत् कर्मकालेषु मत्सूक्तस्य विधिं नरः || २२३ ||
समर्थयति कर्माणि श्रोतारं पोषयत्युत |
निर्णुदत्यखिलां मायामलक्ष्मीं च मलैः सह || २२४ ||
एतदभ्यस्यमानं हि कर्मणा मनसा गिरा |
त्रायते महतः पापाच्छ्रियं चावहति ध्रुवम् || २२५ ||
इति ते कथितं शक्र तन्त्रमेतदनुत्तमम् |
यत्र सर्वाणि वर्तन्ते विज्ञानानि विपश्चिताम् || २२६ ||
मोक्षशास्त्रं यथा श्रेष्ठं शास्त्राणां विविधात्मनाम् |
द्विपदां ब्राह्मणः श्रेष्ठो यथा गौश्च चतुष्पदाम् || २२७ ||
लोहानां कनकं श्रेष्ठं रत्नानां कौस्तुभो यथा |
माता श्रेष्ठा गुरूणां च पुत्रः प्रवदतां यथा || २२८ ||
इन्द्रियाणां मनः श्रेष्ठं चलतां च मरुद्यथा |
मेरुः श्रेष्ठो गिरीणां च त्रिस्रोताः सरितां यथा || २२९ ||
आश्रमाणां गृहस्थश्च वसिष्ठो जपतां यथा |
तत्त्वानां सर्वसंन्यासो धीर्लाभानां यथोत्तमा || २३० ||
तथोत्तममिदं तन्त्रं तन्त्राणां तत्त्ववादिनाम् |
भगवान् वासुदेवोऽस्मिन् विष्णुर्नारायणो गुरुः || २३१ ||
अहं च कीर्तितौ सम्यक् स्वरूपगुणवैभवैः |
अस्यां हि मन्मतौ सक्ता विशुद्धज्ञाननिश्चयाः || २३२ ||
एतां निश्रेणिकां गृह्य ह्यारोहन्ति परं पदम् |
तन्त्राणां परमं तन्त्रं मुद्रितं मत्समाख्यया || २३३ ||
नात्रतस्नायिने देयं न कृतघ्नाय वै तथा |
न चातन्त्रविदे नित्यं नासूयादूषिताय च || २३४ ||
नावासुदेवभक्ताय न चाभक्तिमते मयि |
देयमेतत् सुशीलाय सुस्नाताय तपस्विने || २३५ ||
निर्णीतवेदतन्त्राय मद्भक्ताय विशेषतः |
भूयसीं वहते भक्तिं वासुदेवे जनार्दने || २३६ ||
शुचिव्रताय दक्षाय सदनुष्ठानशीलिने |
एतत्ते कथितं सर्वं यत्पृष्टाहमिह त्वया || प्रीताहं त्वयि देवेश किं भूयः श्रोतुमिच्छसि || २३७ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे श्रीसूक्तप्रभावप्रकाशो नाम पञ्चाशोऽध्यायः
Zusatzteil – Lakshmitantroddhara / Tantrarthasamgraha
Die Edition führt diese zusätzlichen Kapitel aus einer weiteren Handschrift an.
Kapitel 51
Deutsche Übersetzung: Kapitel 51 · Sanskrit IAST: Kapitel 51
[Textlücke: Nach Editionsvermerk fehlen am Anfang vermutlich ein oder zwei Verse.]
शक्रः-
उत्पत्तिप्रलयौ चैषां फलं चैवावधारितम् |
प्रतिपत्तिविशेषाश्च येषु तेषु यथा तथा || १ ||
नित्यानि पञ्च कृत्यानि कादाचित्कानि चैव ते |
चर्यापादक्रियापादौ पादौ च ज्ञानयोगयोः || २ ||
इति नानाविधं तन्त्रं चतुष्पादोपबृंहितम् |
पुराकृत्या पुराकल्पैरितिहासैश्च संमितम् || ३ ||
रहस्यानेकसंभेदं नानावाक्योपशोभितम् |
लक्ष्मीतन्त्राह्वयं सम्यक् सद्यः प्रत्यायकं नृणाम् || ४ ||
मया समाहितेनैव यथावदवधारितम् |
अस्य विस्तृतरूपत्वात् सम्यक्कालविपर्ययात् || ५ ||
चेतसोऽल्पवलत्वाच्च यथावन्नैव भासते |
अस्मान्महार्णवाद्देवि त्वज्ज्ञानपरिपूरितात् || ६ ||
सर्वतः सारमुद्धृत्य लोकानां हितकाम्यया |
तन्त्रसंक्षेपमाख्याहि नमस्ते पद्मसंभवे || ७ ||
नारदः-
इति संचोदिता देवी वत्सेनेव पयस्विनी |
स्निह्यता मनसा पद्मा पाकशासनमब्रवीत् || ८ ||
श्रीः-
साधु संबोधिता सम्यग् वत्स वृत्रनिषूदन् |
शृणु संक्षेपमाख्यामि तन्त्रादस्मात् समुद्धृतम् || ९ ||
अहंता सर्वभूतानामहमस्मि सनातनी |
आरोहेणावरोहेण विश्वसिद्धिकरी स्मृता || १० ||
परमं यदहंताख्यं तुर्यातीतं तदुच्यते |
परं ब्रह्म परं धाम लक्ष्मीनारायणं तु तत् || ११ ||
न तत्र प्रविभागो नौ भवद्भावव्यवस्थितौ |
उन्मेषस्तत्र यो नाम यथा चन्द्रोदयेऽम्बुधौ || १२ ||
अहं नारायणी शक्तिः सिसृक्षालक्षणा तथा |
तुर्यावस्था च सा मे स्यात् परिणामोद्भवात्मिका || १३ ||
शुद्धाशुद्धमयो भावः सर्वोऽप्यन्तर्गतस्तदा |
व्यूहाश्च विभवाश्चैव तथा व्यूहान्तरादिकाः || १४ ||
अयं शुद्धमयो भावो यच्चान्यद्भगवन्मयम् |
व्यूहे च विभवे चैव तथा व्यूहान्तरादिके || १५ ||
सुषुप्ताद्या अवस्था मे प्रत्येकं चैवमुन्नयेत् |
अव्यक्तमहदाद्याश्च तथा वैकारिकं जगत् || १६ ||
शुद्धेतरस्त्वयं भावस्तिस्रोऽवस्थाश्च तत्र वै |
प्रत्येकमुन्नयेच्चैवं तत्र तत्र दिवस्पते || १७ ||
भूते स्थिते च विज्ञेया दशा एताश्चतुर्विधाः |
अपरोऽस्ति क्रमस्त्वेवं शुद्धाशुद्धमयेऽध्वनि || १८ ||
प्रमातृकरणज्ञेयेष्वारोहेषु मदात्मके |
शून्यप्राणादिभेदेन क्रमान्मातृगणा दश || १९ ||
करणं द्विविधं विद्धि बाह्यमाभ्यन्तरं तथा |
उभयोरपि तावद्धि तूष्णींभावादिके क्रमे || २० ||
ज्ञेयं बहुविधं प्रोक्तं तत्राप्येवं समुन्नयेत् |
तुर्यातीतत्वमेतेषां भगवद्भाववेदनम् || २१ ||
अवरोहोऽयमुद्दिष्ट आरोहमपि मे शृणु |
चरमां कोटिमारभ्य मदन्तोऽभूद्व्यवस्थितः || २२ ||
आरोहः स तु विज्ञेयः शुद्धाशुद्धमयेऽध्वनि |
आरोहमवरोहं च संततं भावयन्नरः || २३ ||
मच्चित्तो मद्गतप्राणो मद्भावं समुपाश्नुते |
आकारकालदेशान्मे परिच्छेदोऽस्ति नैव च || २४ ||
मयैव ज्ञानरूपिण्या व्याप्तास्ते पाकशासन |
आत्मभित्तौ जगत् सर्वमिच्छयोन्मीलयाम्यहम् || २५ ||
तद्रूपतारतम्येन ग्राह्यग्राहकसंस्थितिः |
वाच्यात्मपरिणामोऽयं लेशतस्ते प्रदर्शितः || २६ ||
वाचकात्मानमस्य त्वं समाहितमनाः शृणु |
शुद्धसंविन्मयी पूर्वं विवर्ते प्राणरूपतः || २७ ||
तत्तत्स्थानप्रसङ्गेन विवर्ते शब्दतस्तथा |
शान्ता सूक्ष्मा तथा मध्या वैखरीति विवेकिनी || २८ ||
चतूरूपं चतूरूपवाचि वाच्यं स्वनिर्मितम् |
शान्ता विवर्तमानाहं प्रपद्ये सूक्ष्मसंस्थितिम् || २९ ||
शक्तिर्नाद इति द्वेधा सूक्ष्मरूपव्यवस्थितिः |
सूक्ष्मा विवर्तमानाहं प्रपद्ये मध्यमां स्थितिम् || ३० ||
बिन्दुसंस्कारसंपत्तिः सावस्थाक्षरसंततेः |
मध्या विवर्तमानाहं प्रपद्ये वैखरीस्थितिम् || ३१ ||
पञ्चाशदादिभेदेन सावस्थाक्षरसंततेः |
आरोहमवरोहं च संततं भावयन्निमौ |
शब्दब्रह्मणि निष्णातः शब्दातीतं प्रपद्यते || ३२ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रोद्धारे तन्त्रार्थसंग्रहे एकपञ्चाशोऽध्यायः
Kapitel 52
Deutsche Übersetzung: Kapitel 52 · Sanskrit IAST: Kapitel 52
श्रीः-
अथ मन्त्रमयं मार्गं शृणु वत्स पुरंदर |
प्रकाशानन्दरूपाहं पूर्णाहंता हरेरहम् || १ ||
मन्त्रमातेति मां विद्धि प्राणाख्यां शुद्धचिन्मयीम् |
उद्यन्ति मत्त एवैते यान्ति चास्तं मयि ध्रुवम् || २ ||
अहं च वलमेतेषां मद्रूपत्वं विदन्ति ते |
एकधा च द्विधा चैव त्रिधा चैवाहमूर्जिता || ३ ||
चतुर्धा पञ्चधा षोढा सप्तधा चाष्टधा तथा |
तथा षोडशधा चैव पञ्चविंशतिधा तथा || ४ ||
पञ्चाशद्धा पुनश्चैव पुनश्चाहं त्रिषष्टिधा |
उदेमि बहुधा चैव चिन्तामणिरिवेश्वरी || ५ ||
स्वराश्च व्यञ्जनाश्चैव स्वरव्यञ्जनसंहतिः |
अक्षराणि पदान्येवं वाक्यप्रकरणैः सह || ६ ||
आह्निकाध्याययोश्चैव शास्त्रतन्त्रव्यवस्थितिः |
आगमा बहुधा चैव बाह्याबाह्यव्यवस्थितिः || ७ ||
लौकिका वैदिकाश्चैवं भाषाश्च विविधास्तथा |
मन्त्ररूपमिदं विद्धि सर्वं मद्रूपवेदिनाम् || ८ ||
भावनातारतम्येन ग्राह्यग्राहकसंस्थितिः |
आसत्तिविप्रकर्षौ च भावनातारतम्यतः || ९ ||
बीजं पिण्डं पदं संज्ञेत्येवं मन्त्राश्चतुर्विधाः |
तेषां प्रधानतो विद्धि पञ्च रत्नानि वासव || १० ||
मत्सूक्ते तानि बीजानि दध्नि सर्पिरिवाहितम् |
सूर्यसोमाग्निखण्डोत्थं नादवत् पाकशासन || ११ ||
यदत्र सूर्यरूपं तज्जाग्रत्पदमुदाहृतम् |
वह्निः स्वाप्नं सुषुप्तिश्च सोमो माया पराह्वया || १२ ||
खण्डं यदिन्दुखण्डाख्यं तुर्यं नादस्ततः परम् |
शक्तिः शान्तात्मिकावस्था नादस्यैव तु संस्थितिः || १३ ||
ततः परं तु यद् ब्रह्म लक्ष्मीनारायणं तु तत् |
स्वराणां षट्चतुःषट्कं सूर्याग्नीन्दुसमुद्गतम् || १४ ||
शेषाः वर्णाः स्वरोत्पन्ना इतीयं वर्णसंस्थितिः |
इतीदं परमं बीजं सर्वकामफलप्रदम् || १५ ||
पुत्रदं पुत्रकामानां राज्यकामस्य राज्यदम् |
भूतिदं भूतिकामानां मोक्षकामस्य मोक्षदम् || १६ ||
विध्वंसयति शत्रूंश्चाप्याकर्षयति वाञ्छितम् |
चिन्तामणिरिदं नाम नैव चिन्तामणिर्मणिः || १७ ||
तस्यैव चानुगं बीजं शकाद्यं सर्वकामदम् |
युग्मैर्मायाक्षरादेशैराद्यन्तस्वरषट्कयोः || १८ ||
अङ्गकॢप्तिरियं कार्या जातिमुद्रासमन्विता |
शिष्टबीजचतुष्कस्याप्येवमेव व्यवस्थितिः || १९ ||
पूर्णाहंतासमावेशादादिबीजसमन्वयात् |
नानाविधो मन्त्रगणो मदीयत्वं प्रपद्यते |
२० ||
मन्त्राणां देवता या सा सा मच्छक्त्यधिनिष्ठिता |
मद्भावभाविनी चैव तस्माद्ध्येयास्मि तत्र वै || २१ ||
तां तां वै देवतां तत्र नारीरूपामनुस्मरेत् |
तत्तद्वर्णायुधाकारभूषणादिसमन्विताः || २२ ||
मदीयत्वं समासाद्य ताः शीघ्रफलदास्तथा |
इति ते मन्त्रमार्गोऽयं लेशतः शक्र वर्णितः || २३ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रोद्धारे तन्त्रार्थसंग्रहे द्विपञ्चाशोऽध्यायः
Kapitel 53
Deutsche Übersetzung: Kapitel 53 · Sanskrit IAST: Kapitel 53
श्रीः-
क्रियापादं प्रवक्ष्यामि संक्षेपेण पुरंदर |
परिच्युतमलः स्नातो यथावच्छास्त्रदर्शनात् || १ ||
एकान्तं स्थानमासाद्य स्थानशुद्धिपुरःसरम् |
ज्ञानभावनया शक्र भूतशुद्धिं समाचरेत् || २ ||
पृथिव्यादि प्रकृत्यन्तं यत् प्रकृत्यष्टकं विदुः |
स्थूलसूक्ष्मविभेदेन तत्र रूपद्वयं स्मृतम् || ३ ||
चक्षुर्गोचरसंस्थानं स्थूलरूपं तु वर्ण्यते |
कारणाकारता तत्र सूक्ष्मं तन्मात्रमुच्यते || ४ ||
स्थूलसूक्ष्मविभेदेन तत्त्वमेतद् द्विरष्टकम् |
विषयेन्द्रियवृत्तीस्तु तत्र तत्र निवेशयेत् || ५ ||
उपस्थघ्राणगन्धादिपञ्चकेषु त्रयं त्रयम् |
पृथिव्यादिमहाभूतपञ्चकैस्तत्क्रमान्नयेत् || ६ ||
मनोऽभिमान इत्येतदहंकारे शमं नयेत् |
प्राणमध्यवसायं च बुद्धितत्त्वे निगूहयेत् || ७ ||
सत्त्वं रजस्तमश्चापि मूलाव्यक्ते शमं नयेत् |
द्विरष्टके तु वर्गेऽस्मिन् मूलाष्टकमनुस्मरेत् || ८ ||
तत्तत्संज्ञा ध्रुवाद्या हुंफडन्ताः पाकशासन |
मांसं मेदस्तथासृक् च रेतो व्योमाक्षरत्रयम् || ९ ||
परं परं बिन्दुयुतं सूक्ष्माष्टकमनुस्मरेत् |
अस्मिन् बीजाष्टके मायामिन्दुखण्डेन संयुताम् || १० ||
मन्त्रानिमान् विजानीयाच्छक्त्यष्टकगतान् बुधः |
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च || ११ ||
शान्त्यतीताभिमाना च प्राणा गुणवती तथा |
पृथिव्यादिप्रकृत्यन्ताः शक्तीरेताः स्मरेद् बुधः || १२ ||
बीजाष्टके तु तत्रैव वह्निमायार्धचन्द्रकान् |
संयोज्य मन्त्रान् जानीयादधिष्ठातृगतानिमान् || १३ ||
कालाग्न्यर्कसहस्राभां निर्धूमाङ्गारसंनिभाम् |
मां स्मृत्वा मन्मुखोत्थेन वह्निना निर्दहेद् भुवम् || १४ ||
सोमायुताभमद्वक्त्रजेन सिञ्चेत्तथाम्बुना |
स्थानशुद्धिर्भवेदेवं भूतशुद्धिमतः शृणु || १५ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रोद्धारे तन्त्रार्थसंग्रहे त्रिपञ्चाशोऽध्यायः
Kapitel 54
Deutsche Übersetzung: Kapitel 54 · Sanskrit IAST: Kapitel 54
श्रीः-
चतुरश्रां समां पीतां वज्रचिह्नां वसुंधराम् |
मन्त्रेणाकृष्य देहान्तः स्वस्थाने च लयं नयेत् || १ ||
गन्धमात्रे ततस्तच्च स्वबीजेनास्तमानयेत् |
स्वबीजेन निवृत्तौ तां स्वमन्त्रेणास्तमानयेत् || २ ||
मययधिष्ठानभूतायां मां च बाह्येऽम्भसि क्षिपेत् |
मन्त्रेणार्धेन्दुसंकाशं पद्माङ्कं तच्च देहतः || ३ ||
स्वस्थानस्थं लयं नीत्वा रसमात्रे स्वमन्त्रतः |
मन्त्रेण तत्प्रतिष्ठायां तच्च मययानयेल्लयम् || ४ ||
मां च वह्निमनावृत्त्या प्रकृत्या च ततः क्रमात् |
सर्वत्र नैकं बुध्येत मच्छक्तेर्विलयं बुधः || ५ ||
यथा हि सर्पिरासिञ्चेत् क्षीरे तन्मथनोद्भवम् |
सर्पिरन्यत्र च क्षीरे तत्सर्पिरपि चान्यकम् || ६ ||
एवमा प्रकृतेः शक्तिमधिष्ठात्रीं स्मरेद् बुधः |
एवं मां परमां शक्तिं शक्तिसप्तकसंयुताम् || ७ ||
द्वादशान्तान्तमुन्नीय मन्त्रमययां मयि क्षिपेत् |
अग्नीषोमार्ककोट्याभा सर्वतोऽक्षिशिरोमुखी || ८ ||
सर्वजीवोपकाराय सा मे मन्त्रमयी तनुः |
शक्रः-
कानि स्थानानि देहेऽस्मिन् यत्र कार्यो लयःक्रमात् || ९ ||
कीदृशानि च बिम्बानि भूरादीनां वदाम्बुजे |
श्रीः-
आ जानुतो भुवः स्थानमा कट्याः पयसः स्मृतम् || १० ||
आ नाभेस्तेजसः स्थानं वायोः स्थानं तदा हृदः |
आ कण्ठान्नभसः स्थानमा बिलाच्चाप्यहंकृतेः || ११ ||
आ भ्रुवोर्महतः स्थानमाकाशे तु परं स्मृतम् |
चतुरश्रं भवेद्बिम्बं वज्राङ्कं पार्थिवं महत् || १२ ||
अर्धेन्दुसदृशं शुक्लं पद्माङ्कं पयसः स्मृतम् |
त्रिकोणं स्वस्तिकाङ्कं च रक्तं तेजस उच्यते || १३ ||
धूम्रं षड्बिन्दुसंयुक्तं वृत्तं वायव्यमुच्यते |
अञ्जनाभं तथाकाशं बिम्बमात्रं स्मृतं पदम् || १४ ||
एवं तत्त्वोपसंहारे कृते हृत्कोटरोद्गतम् |
ज्ञानरज्ज्ववलम्बं च सुषुम्नामध्यमार्गगम् || १५ ||
ऊर्ध्वमात्मन उन्नीय शक्तिसोपानपङ्क्तिभिः |
द्वादशान्तं महापद्ममध्यस्थायां मयि क्षिपेत् || १६ ||
द्वादशान्तं महापद्मं सहस्रदलसंयुतम् |
सूर्यकोटिसहस्राभमिन्दुकोट्ययुतप्रभम् ||१७ ||
अग्नीषोमद्वयान्तःस्था महानन्दमयी तनुः |
अनिर्देश्योपमा संविन्माया सा मामिका तनुः || १८ ||
अंशतः प्रसरन्त्यस्या जीवानन्दा सरिद्वरा |
स्वानन्दमेनमानीय महानन्दमयीं नयेत् || १९ ||
ततो लवणकूटाभं पिण्डमस्मन्मुखोद्गतैः |
महाज्वालावलीजालैश्चिन्मयैः परितो दहेत् || २० ||
रक्ततामरसः षष्ठो बिन्दुमान् देहपावकः |
सोममयया ममास्योत्थैः पीयूषैः प्लावयेत्ततः || २१ ||
सिसृक्षाया ममोद्यन्त्या संवित्प्राणोपगूढया |
प्रेरितास्ताः स्मरेच्छक्तीर्मन्त्रमययां तनौ स्थिताः || २२ ||
ततस्ताभिः स्वशक्तीभिश्चोदनद्वारपूर्वकम् |
प्रकृत्यादि विशेषान्तं निर्मितं संस्मरेत् क्रमात् || २३ ||
ततः पिण्डसमुत्पत्तिं कारणव्यञ्जनोज्ज्वलम् |
एवं पिण्डं समुत्पाद्य शुद्धलक्ष्मीमयं महत् || २४ ||
पूर्वोक्तगतिमार्गेण व्युत्क्रमेणानयेद्धृदि |
महानन्दात् स्वमात्मानं संविदानन्दलक्षणम् || २५ ||
ततः करशरीरेषु मन्त्रन्यासं समाचरेत् |
अङ्गुष्ठादिकनिष्ठान्तमङ्गुलीस्थेषु पर्वसु || २६ ||
तलयोः पृष्ठयोश्चैव करयोरुभयोरपि |
नाभितश्चाङ्घ्रिपर्यन्तं नाभेरा मूर्धतस्तथा || २७ ||
न्यस्य संधिषु मद्बीजं हृदाद्यङ्गानि च न्यसेत् |
पुनर्हृदादिषट्केन नाभिपृष्ठकरोरुषु || २८ ||
जङ्घापदोश्च ज्ञानादि षाड्गुण्यं विन्यसेद् बुधः |
एवमुत्पादिते देहे शुद्धे लक्ष्मीमये शुभे |
आधारषट्कविन्यासं ज्ञानदृष्ट्या समाचरेत् || २९ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रोद्धारे तन्त्रार्थसंग्रहे चतुष्पञ्चाशोऽध्यायः
Kapitel 55
Deutsche Übersetzung: Kapitel 55 · Sanskrit IAST: Kapitel 55
श्रीः-
आधारान् संप्रवक्ष्यामि शृणु त्वं पाकशासन |
अथ मेढ्रान्तरे मेढ्रे नाभिमध्ये धनाधिप || १ ||
हृदि कूपे भ्रुवोर्मध्ये षट् पद्मानि स्मरेद् बुधः |
वेदै रसैः प्रजानाथैरर्कैश्चैव विकारकैः || २ ||
अश्विभ्यां च दलैर्युक्तान् सूर्यकोटिसमप्रभान् |
कादितान्तैः स्वरैः सूर्यवर्णान्ताभ्यां च संयुतान् || ३ ||
पङ्कजेष्वेषु मां देवीं रत्नदीपाकृतिं स्मरेत् |
यत्र यत्र भवेद्वाञ्छा तत्रस्थो योगमभ्यसेत् || ४ ||
प्रथमाधारमारभ्य द्वादशान्ताम्बुजातताम् |
एकां दीपाकृतिं ध्यायेद्देहस्थामादिकां पराम् || ५ ||
क्रमोत्क्रमाभ्यां स्मरतस्तामिमां चिन्मयीं पराम् |
यदा लयं मनो याति सा सत्ता वैष्णवी परा || ६ ||
देहबन्घे च वाञ्छा चेद्देहं त्वं मामकं शृणु |
एकस्मिन् हृदये तोयं माहेन्द्रं मण्डपं स्मरेत् || ७ ||
चतुर्द्वारयुतं तत्र संस्मरेद् द्वारपालिकाः |
बलाकिनीं पुरः श्यामां वनमालां तथापरे || ८ ||
श्वेतां विभीषिकां पश्चादुक्तवर्णामनुस्मरेत् |
उत्तरे शांकरीं शक्र धूम्रवर्णामनुस्मरेत् || ९ ||
तत्र मण्डपमध्ये तु सहस्रादित्यसंनिभम् |
अष्टपत्रं स्मरेत् पद्मं कर्णिकाकेसरोज्ज्वलम् || १० ||
पूर्वे दले वासुदेवं संकर्षं चैव दक्षिणे |
प्रद्युम्नं पश्चिमे पत्रे त्वनिरुद्धमथोत्तरे || ११ ||
शङ्खचक्रधरान् सर्वान् वनमालाविभूषितान् |
युगानुसारिकान्तींश्च स्मरेदभिमुखान् मम || १२ ||
गुल्गुलुं च गुरुण्यं च मदनं शललं तथा |
गजेन्द्रान् संस्मरेत् कोणे सुधां मामभिषिञ्चतः || १३ ||
कर्णिकाबीजमध्यस्थां सर्वलोकमहेश्वरीम् |
मां स्मरेत्तप्तहेमाभां पङ्कजद्वयधारिणीम् || १४ ||
वरदाभयहस्तां च सर्वाभरणभूषिताम् |
अनिर्देश्यामनौपम्यां विष्णुपत्नीमनिन्दिताम् || १५ ||
स्मितज्योत्स्नानुगैर्दिव्यैरसितापाङ्गसंभवैः |
सिञ्चन्तीं किरणैः शीतैस्तप्ततप्तं जगत्त्रयम् || १६ ||
उत्पाद्य ज्ञानतो भोगांस्तैर्यजेत् परमेश्वरीम् |
ब्रह्मानन्दमयैः सम्यङ् मन्मयैर्दोषवर्जितैः || १७ ||
यद्वा नारायणाङ्कस्थां तत्सङ्गाह्लादभूषिताम् |
करेण दक्षिणेनेशमाश्लिष्यन्तीं निरन्तरम् || १८ ||
प्रतिपत्तिस्तु कर्तव्या तदा वैमानिकी तनौ |
दांपत्यं दतमीमांस्यमावयोः श्रुतिगह्वरम् || १९ ||
बीजस्य स्थान
[Textlücke: Nach dem Fragment „bījasya sthāna“ fehlen nach Editionsvermerk etwa zwölf Handschriftenseiten: Ende von Kapitel 55, ganz Kapitel 56 und Anfang von Kapitel 57.]
Kapitel 56
Deutsche Übersetzung: Kapitel 56 · Sanskrit IAST: Kapitel 56
[Textlücke: Das gesamte Kapitel fehlt in der Vorlage.]
Kapitel 57
Deutsche Übersetzung: Kapitel 57 · Sanskrit IAST: Kapitel 57
[Textlücke: Der Anfang dieses Kapitels fehlt. Die erhaltene Fassung setzt innerhalb eines Verses ein.]
श्रीः-
- * * * * को देवः स्थितिकर्ता च भावगा |
त्रिमूर्तिस्त्वधिका शक्तिरित्ययं परमो जपः || १ ||
शब्दार्थप्रविभागेन द्विधा लक्ष्मीः प्रवर्तते |
शान्ता पश्याथ मध्या च वैखरी चेति संज्ञया || २ ||
शब्दोन्मेषश्चतुर्धायमर्थोन्मेषस्तथाविधः |
प्रत्यस्तमितसंस्कारा स्वरवर्णादिवर्जिता || ३ ||
शाब्दी या संस्थितिः प्राच्या सा शान्ता शान्तसाधना |
अर्थबोधकरूपं यच्छब्दशक्तेरसंस्कृतम् || ४ ||
केवलो यः समुन्मेषः पश्यन्ती सा प्रकीर्तिता |
अर्थबोधकरूपं यत् स शब्दः परिकीर्तितः || ५ ||
न हिंसयन्ति संस्कारा यदा मध्याथ सा तदा |
एवं संस्कारसंपन्ना विकल्पशतशालिनी || ६ ||
विविधं रमते वैषु यतो न प्राकृतीष्वथ |
रूपं शकलशः कृत्वा स्थानेष्वष्टसु सा तदा || ७ ||
वैखरी नाम सा वाच्या विविधं वक्ति वर्णिनी |
शान्ता नाम परा या सा सर्वत्र समतां गता || ८ ||
कोटिकोटिसहस्रांशस्तस्या वागथ मध्यमा |
कोटिकोटिसहस्रांशस्तस्या वागथ वैखरी || ९ ||
वर्णाः पदानि वाक्यानि त्रिविधा वैखरीगतिः |
संकोचं क्रमशो याति सेयं वर्णादिवर्त्मना || १० ||
इयं चतुर्विधा शक्तिः प्रतिलोमानुलोमजा |
चतुर्धा सोदयं याति शान्तापश्यादिभिः क्रमात् || ११ ||
चतुर्धास्तमयं याति वैखरीमध्यमादिभिः |
व्यक्ता व्यक्तसमाव्यक्ता सा विज्ञेया त्रिधा पुनः || १२ ||
व्यक्ता प्राणिशरीरस्था योदेत्यस्तमुपैति च |
वीणावेणुमृदङ्गाद्यैर्व्यक्ता तद्व्यज्यते हि या || १३ ||
विवक्षाकरणोद्योगैः प्राणिभिः साथ तत्समा |
मरुदाघट्टनात् सिन्धुसरिद्गिरिदरीमुखैः || १४ ||
व्यज्यते शब्दशक्तिर्या सा त्वव्यक्ता समीरिता |
उदयेऽस्तमये चासां पूर्वोक्तौ व्युत्क्रमोत्क्रमौ || १५ ||
वाच्यं चतुर्विधं ज्ञेयं शान्तादिप्रविभागवत् |
एवं व्यवस्थिता शक्तिस्तारिकेति निरूपणम् || १६ ||
जपोऽसौ मध्यमो नाम परितो वर्णवर्णनम् |
वर्णरूपा च शक्तिर्या या च संयोगसंभवा || १७ ||
शक्तिनद्धानुविद्धा या विवक्षासंभवा च या |
एतच्छक्तिचतुष्कं तद्विनिर्णयपुरःसरम् || १८ ||
अर्थाध्यासस्तु शब्दे यश्चरमोऽसौ प्रकीर्तितः |
वाच्यं बुद्ध्वा पृथग् बुद्ध्वा तां त्रिधाकारसंस्थिताम् || १९ ||
तत्संबोधो हि यो मन्त्रैः स जपस्तु परावरः |
लक्ष्मीतन्त्रे समुद्दिष्टा त्वग्नीषोममयी हि या || २० ||
तत्तद्रूपमतिक्रम्य वाच्यवाचकसंज्ञितम् |
लक्ष्मीमयीं निशां तीर्त्वा तारिकारूपरूपिणीम् || २१ ||
निस्तरङ्गमहानन्दसंवित्तारामहोदधौ |
विशोध्य सकलान् मन्त्रांस्तद्भावन्याससंयुतः || २२ ||
तानुपास्य ततस्तस्यां तत्तदाप्यायनोज्ज्वलान् |
तत्सामान्यविशेषाभ्यां भावयेन्मन्त्रदेवताम् || २३ ||
तथा युक्तो जपेन्मन्त्रान् नित्योऽयं पूजितो जपः |
तत्तच्छास्त्रोक्तसंस्थानसंस्कारक्रमशालिनीः || २४ ||
तैस्तैर्भावैः समेताश्च भावयन्मन्त्रदेवताः |
जपेत सर्वदर्शी यज्जपोऽयं परमः स्मृतः || २५ ||
नारदः-
इदं रहस्यं परमं नापात्रे देयमित्युत |
उक्त्वा विद्युदिवाकाशे सादर्शनमुपेयुषी || २६ ||
वित्तं प्राप्य परं शक्रो मुमुदे विगतज्वरः |
अत्रिः-
इत्युक्त्वा भगवान् भद्रे नारदो विरराम ह || २७ ||
पूजिता पुरुहूतेन सुभगा श्रीर्वरानने |
इन्द्रोऽपि विस्मितः शश्वद्ब्रह्मणः सदनं ययौ || २८ ||
पृष्टश्च ब्रह्मणा तस्मै प्रोवाच विधिवत्तदा |
ब्रह्मा प्रजापतिभ्यश्च पृष्टः प्रोवाच तत्त्ववित् || २९ ||
मुनयो नारदेनाथ श्राविता मलयाचले |
अङ्गिराः श्रावयामास पावकं तन्त्रमुत्तमम् || ३० ||
कात्यायनं पावकश्च स च गौतममाश्रमे |
गौतमोऽथ भरद्वाजं स च गर्गं महामुनिम् || ३१ ||
असितं देवलं गर्गो जैगीषव्यं मुनिं स च |
स मुनिः श्रावयामास पितॄन् भेजेऽथ लोभजित् || ३२ ||
एकाञ्जनानान्नपिको (?) मानसी दुहिता च या |
सा सुतं श्रावयामास पाराशर्यं महामुनिम् || ३३ ||
पाराशर्यः सुतं चापि शुकं योगिनमुत्तमम् |
श्रावयामास च शुकः स्वर्भान्वाख्यं प्रजापतिम् || ३४ ||
वसिष्ठोऽरुन्धतीं प्राज्ञां नारदस्य शशास सा |
तन्त्रं लक्ष्म्यास्ततः प्रापुर्योगिनः कपिलादयः || ३५ ||
पार्वतीं श्रावयामास शंकरश्चन्द्रशेखरः |
हिरण्यगर्भो योगानां वक्ता चापि सरस्वतीम् || ३६ ||
पतिव्रता हि या देव्यो देवब्रह्मर्षियोगिनाम् |
तासां पारायणं शश्वल्लक्ष्मीतन्त्रमिति स्मृतम् || ३७ ||
सकाशाद्ब्रह्मणः श्रुत्वा मया ते कथितं बुधे |
इष्टासि मे प्रिया चेति न किंचिदवशेषितम् || ३८ ||
भूयस्त्वं शृणु संक्षेपमनसूयेऽनसूयया |
श्रुत्वा च कुरु यत्नेन रक्ष चाप्यप्रमादिनी || ३९ ||
लक्ष्मीनारायणाकारा भवित्री ते मनःस्थितिः |
अपायान् संपरित्यज्य पातकान् भवसागरे || ४० ||
दैवाद्वा यदि वा मोहादपायस्य परिप्लवे |
भजमाना तथा चैव लक्ष्मीनारायणावुभौ || ४१ ||
शश्वच्चाशु कृतान् सर्वानपायान् जहती स्वयम् |
अलुब्धा करणे तेषां लोकसंग्रहणे रता || ४२ ||
आकिंचन्यं समारोप्य बुद्ध्यैव दृढया स्वयम् |
सर्वदा सर्वदेशेषु सर्वावस्थासु सर्वथा || ४३ ||
रक्षिष्यति हरिः श्रीमानाश्रितानिति निश्चयात् |
आत्मात्मीयं परं सर्वं निक्षिप्य श्रीपतेः पदे || ४४ ||
उपायं वृणु लक्ष्मीशं तमुपेयं विचिन्तय |
इति ते सकलं भद्रे शास्त्रशास्त्रार्थतत्फलम् || ४५ ||
दर्शितं परमं तत्त्वं सावधानेन चेतसा |
सरहस्यं ससंक्षेपं लक्ष्मीतन्त्रमिदं परम् || ४६ ||
नावासुदेवभक्ताय त्वया देयं कथंचन |
लक्ष्मीर्लक्ष्मीपतिश्चैव चेतसोऽनपगामिनौ || ४७ ||
यस्य तस्मै त्वया वाच्यं यत्तदेतदनुत्तमम् |
नास्तिकानां समीपे तु नैवाध्येयमिदं भवेत् || ४८ ||
नाव्रतस्नायिनां तद्वन्न मातापितृविद्विषाम् |
नानाशास्त्रद्विषां चैव न गुरुद्वेषिणां तथा || ४९ ||
दांपत्यविद्विषां चैव वनिताविद्विषां तथा |
यो हि वेदव्रतस्नातो मातापितृगुरुप्रियः || ५० ||
अनिन्दकश्च शास्त्राणां परापरविधानवित् |
आस्तिकः श्रद्दधानश्च लक्ष्मीलक्ष्मीपतिप्रियः || ५१ ||
क्रियायज्ञविभागज्ञस्तन्त्रान्तरविधानवित् |
साङ्गयोगविधानज्ञः सर्वशास्त्रार्थतत्त्ववित् || ५२ ||
वेदवेदाङ्गतत्त्वज्ञो वेत्ता पशुपतेर्मतम् |
ऊहापोहविधानज्ञो मानतर्कपदार्थवित् || ५३ ||
सर्वाध्यात्मिकशास्त्रार्थतत्त्ववित् प्राप्तुमर्हति |
ओं नमो वासुदेवाय तस्मै श्रीर्यस्य सा प्रिया || ५४ ||
ओं नमो विष्णुपत्न्यै च यस्या नारायणः प्रियः |
नमो नित्यानवद्याय जगतः सर्वहेतवे |
ज्ञानाय निस्तरङ्गाय लक्ष्मीनारायणात्मने || ५५ ||
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रोद्धारे (तन्त्रार्थसंग्रहे) रहस्यशास्त्रार्थसारो नाम सप्तपञ्चाशोऽध्यायः
लक्ष्मीतन्त्रं समाप्तम्
Zum weiteren Studium
Die deutsche Übersetzung und spirituelle Einführung findest du im Hauptartikel. Für die persönliche Vertiefung führen die 108 ausgewählten Verse und die Praxisanregungen vom Text zur Betrachtung. Der Werkvergleich verbindet diese Lehre mit Paushara Samhita, Jayakhya Samhita, Yogini Hridaya, Tantraloka und weiteren Schriften. Beim Studium der Mantralehre ist zwischen vollständig ausgeschriebenen Formeln und verschlüsselten Lautanweisungen zu unterscheiden.
Hauptartikel · Sanskrit IAST · Sanskrit Devanagari
Siehe auch
- Tantra Schriften
- Lakshmi
- Narayana
- Vishnu
- Vasudeva
- Pancharatra
- Shakti
- Sri Suktam
- Paushara Samhita
- Jayakhya Samhita
- Kularnava Tantra
- Tantraloka
- Vijnana Bhairava Tantra
- Yogini Hridaya
- Vamakeshvara Tantra
- Nitya Shodashikarnava
- Tripura Rahasya
- Dakshinamurti Samhita
- Kama Kala Vilasa
Seminare
Bhakti Yoga
- 23.10.2026 - 25.10.2026 Die Magie einer erfüllten Beziehung
Wie man einen Frosch zum Prinzen macht und umgekehrt. Basierend auf über 500 Jahren Weisheit werden dir sehr tiefe Missverständnisse zwischen Mann und…- Sadbhuja Dasa
- 23.10.2026 - 25.10.2026 Ein Wochenende mit den Göttern 2.0
Du wirst mitgenommen auf eine spannende Reise zu den Göttern. Die Götter werden lebendig durch die Geschichten, die erzählt werden. Du wirst erfahren…- Divya Jyoti van Neerbos
Mantras und Musik
- 18.10.2026 - 23.10.2026 Mantra Ferienwoche mit Gruppe Mudita
Eine Mantra Yoga Ferienwoche im schönen Allgäu zum Aufladen, Regenerieren und Verwöhnen mit der Gruppe Mudita. Das sind Menschen, die es ganz besonde…- Gruppe Mudita
- 23.10.2026 - 25.10.2026 Mantras & spirituelle Lieder auf Gitarre
Dieses Seminar ist für alle, die erste Erfahrung auf der Gitarre gemacht haben, und Spaß daran haben, zu Singen, zu musizieren, Neues zu lernen und zu…- Nancy Haywood
Meditation
- 18.10.2026 - 23.10.2026 Yoga und Meditation Intensiv-Praxis
Die Kernpraktiken des Yoga werden intensiv geübt: längere Meditation, ausgedehntes Mantra-Singen, Pranayama intensiv und meditative Yoga Asanas beflü…- Dana Oerding, Chamundi Wollweber
- 18.10.2026 - 23.10.2026 Shivalaya Meditationsretreat
Stille – Schweigen – Sein. In der Abgeschiedenheit des Shivalaya Retreatzentrums fühlst du dich dem Himmel ganz nah. Mit intensiver Meditations- un…- Swami Nirgunananda, Rukmini Keilbar
Sanskrit und Devanagari
- 06.01.2027 - 15.12.2027 Jahresgruppe Sanskrit - Lektüre der AMRITA SIDDHI 2 - online
Termine: 16x mittwochs: 06.01., 27.01., 17.02., 10.03., 31.03., 21.04., 12.05., 02.06., 23.06., 14.07., 08.09., 29.09., 20.10., 10.11., 01.12., 15.12.20…- Dr phil Oliver Hahn
- 09.04.2027 - 11.04.2027 Sanskrit Intensivwochenende
Du bist fasziniert vom Klang des Sanskrit und der tiefgehenden Wirkung der Wörter dieser uralten Sprache? Hast bereits Übersetzungen von Mantras oder …- Dr phil Oliver Hahn
Literatur
- Pandit V. Krishnamacharya (Hrsg.): Lakṣmītantra, mit Sanskrit-Glosse. Adyar Library and Research Center, Adyar 1959. Dies ist die in den verwendeten E-Texten bezeichnete Edition.
Textgrundlage und Hinweise zur Übersetzung
- Lakṣmītantra, herausgegeben mit Sanskrit-Glosse von Pandit V. Krishnamacharya, Adyar Library and Research Center, Adyar 1959; Angaben nach dem Dateikopf von Muktabodha M00206.
- Verwendeter Grundbestand: Muktabodha, lakSmItantra-M00206-IAST.txt und lakSmItantra-M00206-DEV.txt. Die E-Texte wurden von Mitarbeitenden des Muktabodha Indological Research Institute unter Leitung von Mark S. G. Dyczkowski erfasst. Die Datei nennt die Revisionen vom 5. April und 18. September 2010.
- Zusätzlich vorliegend: lakSmItantra-M00332-IAST.txt und lakSmItantra-M00332-DEV.txt, Revision vom 15. Dezember 2015. Die Hinweise auf die großen Lücken des Zusatzteils wurden zwischen den beiden IAST-Erfassungen verglichen; eine vollständige Kollation wurde nicht durchgeführt.
- Die Dateiköpfe weisen die elektronischen Texte als Creative Commons BY-NC 4.0 aus. Herkunft und Lizenzangabe sind bei Weiterverwendung zu erhalten. Die ursprünglichen Dateien enthalten auch Varianten und Sanskrit-Kommentare; die vorliegende Lesefassung trennt diese vom Grundtext und stellt keine neue kritische Edition dar.
- Seitenmarker und technische Dateiköpfe wurden entfernt; Verszählung, Sprecher und Kolophone bleiben erhalten. Eingeklammerte Varianten und erklärende Glossen wurden nicht in den laufenden Sanskritgrundtext übernommen. Die ungeänderten Quelldateien bleiben die Grundlage für deren Einsicht.
- Die Nummerierung der Quelle ist stellenweise fehlerhaft oder unvollständig, etwa 13.44 an der Position von 13.14, 32.117 an der Position von 32.65 und 50.83 an der Position von 50.183. 44.16 kommt zweimal vor; zwischen beiden Stellen steht der große Wortmantra mit längerer Prosa. Der letzte Vers von Kapitel 49 wurde in der Übersetzung als 49.149 zugeordnet. Kapitel 17 besitzt keinen eigenen erhaltenen Grundtextkolophon. Unnummerierte Verse sind erhalten. Die Sanskritartikel bewahren die Vorlagenzählung; nachvollziehbare redaktionelle Zuordnungen der Übersetzung werden ausdrücklich markiert.
- Die deutsche Übersetzung ist eine eigenständige textnahe Lesefassung. Unsichere Lesungen und Satzanschlüsse werden lokal bezeichnet, besonders bei verschlüsselten Lautanweisungen und im beschädigten Zusatzteil. Es erfolgte keine vollständige Kollation der beiden E-Text-Erfassungen und keine Herstellung eines kritischen Textes. Übernatürliche Wirkungszusagen, soziale Rangordnungen und Weitergabebeschränkungen werden als Aussagen der historischen Schrift wiedergegeben.
- Hauptteil: Kapitel 1–50. Zusatzteil: Kapitel 51–57 mit Lücken zu Beginn von 51, nach 55.19 und zu Beginn von 57; Kapitel 56 fehlt vollständig.