Dakshinamurti Samhita Sanskrit Devanagari

Aus Yogawiki

Dakshinamurti Samhita Sanskrit Devanagari enthält den Sanskrittext der tantrischen Sammlung in der Devanagari-Schrift. In ihrem Mittelpunkt steht Tripura Sundari, die göttliche Mutter der Sri Vidya. Ihre Verehrung verbindet Klang und Gestalt, Atem und Bewusstsein: Der Körper wird durch Nyasa in die Puja einbezogen, das Shri Chakra als göttliche Ordnung betrachtet und das Atemmantra zum Gegenstand innerer Erkenntnis.

Wer sich dem Sanskrit aufmerksam zuwendet, begegnet der Sprache, in der diese Zusammenhänge entfaltet werden. Wiederkehrende Namen und Lautgestalten können die Lektüre zu einer vertieften Betrachtung führen. Besonders die Ajapa-Lehre in Patala 7 und die Bewusstseinslehre in Patala 25 laden dazu ein, den Wortlaut mit der deutschen Übersetzung zu erschließen und anschließend in stiller Besinnung nachklingen zu lassen.

Zur Ausgabe: Einführung und deutsche Übersetzung · Sanskrit IAST · Sanskrit Devanagari · Verse und Mantras

Die Sammlung führt von der Verehrung verschiedener Göttinnen zur Shri-Vidya-Praxis und reicht bis Patala 33. Hinweise zur überlieferten Kapitelzählung und zu schwierigen Lesungen stehen am Ende unter „Textgrundlage und Hinweise zur Übersetzung“.

Dakshinamurti als lehrender Shiva.

Patala 1 – Tripura und Lakshmi

ओंश्रीगणेशायनमः

श्रीमच्छीकोशहृदयंपंचसिंहासनात्मकम् |
फलंकल्पलतानांचपंचरत्नस्फुरत्कलं || १ ||

चतुरायतनानंदिचतुरन्वयकोशगम् |
नित्यानंदिपरब्रह्मधामनौमिसुखाप्तये || २ ||

श्रीदेव्युवाच

कृपांकुरुमहादेवकथयानन्दसुन्दर किंतद्ब्रह्ममयंधामश्रीतुमिच्छामितत्वतः कथंश्रीसहितंदेवश्रीकोशहृदयकथम् पंचसिंहासनेसेव्यंकथंकल्पलतात्मकम् || ४ ||

कथंरत्नात्मकंदेवकथमायतनात्मकं |
कथमान्प्रापसंसेव्यंकथंनित्यात्मकंप्रभो || ५ ||

श्रीईश्वरुवाच

एतत्सर्वात्मकंवस्तुत्रिपुरापरमेश्वरी |
चतुर्लक्ष्मीसेव्यमानातदाकामदुघावरा || ६ ||

श्रीविद्याचतथालक्ष्मीर्महालक्ष्मीस्तथैवच |
त्रिशक्तिःसर्वसाम्राज्यलक्ष्मीःपंचप्रकीर्तिताः || ७ ||

वारुणातंवह्निसंस्थंदीर्घनेत्रसमन्वितम् |
विंदुनादात्मकंवीजंलक्ष्मीमंत्रुदाहृतः || ८ ||

ऋषिर्भृगुर्निवृच्छंदस्तथाश्रीदेवताप्रिये |
शतुर्यौवीजशक्तीचकीलकंरेफुच्यते || ९ ||

द्वितीयेनचतुर्थेनषष्टेनार्केणसुंदरि |
इन्द्रेणचन्द्रकलयाविद्यांसंसेव्यसुंदरि || १० ||

षडंगा नित्यसेन्मंत्रीहृछिरश्चशिखाततः कवचंनेत्रमस्त्रंचनमःस्वाहाक्रमेणच || ११ ||

वषठुंवौषडस्त्रंचफडेभिःसहविन्यसेत् |
अष्टपत्रंलिखेयंत्रंवहिर्भूविंवमालिखेत् || १२ ||

मध्येपुष्पंविनिःक्षिप्यपीठशक्तिःसमर्चयेत् |
विभूतिरुत्ततिःकांतिःसृष्टिःकीर्तिश्चसन्ततिः || १३ ||

व्युष्टिरुत्कृष्टिऋद्धिश्चवसुदिक्षुप्रपूजयेत् |
मध्येसिंहासनंपूज्यंसर्वशक्तिमयंप्रिये || १४ ||

ध्यायेत्ततःश्रियंरम्यांसर्वदेवनमस्कृतां |
तमकार्तस्वराभासांदिव्यरत्नविभूषिताम् || १५ ||

असिंच्यमानाममृतैर्मुक्तारत्नद्रवैरपि |
शुभ्राभाभेभयुग्मेनमुहुर्मुहुरपिप्रिये || १६ ||

रत्नौघवद्धमुकुटांशुद्धक्षौमांगरागिणीं |
पद्माक्ष्मींपद्मनाभेनहृदिचिन्त्यांस्मरेद्वुधः || १७ ||

एवंध्यात्वायजेद्देवींपद्मयुग्मधरांसदा |
वरदाभयशोभाढ्यांचतुर्बाहुंत्रिलोचनाम् || १८ ||

आवाहनादिमुद्राश्चक्रमेणैवप्रदर्शयेत् |
उच्चांजलिमधःकुर्यादिहमावाहनीभवेत् || १९ ||

इयंतुविपरीतास्यात्तदावैस्थापनीभवेत् |
उर्द्धांगुष्टौमुष्टियुगंतदेयंसन्निधापनी || २० ||

अं तरंगुष्टमुष्टिभ्यांतदेयंसन्निरोधिनी तर्जनीभ्यांपरिभ्राम्यसकलीकरणंभवेत् || २१ ||

अंजलींचार्घ्यवत्कृत्वापरमीकरणंभवेत् |
परिवर्त्यकरौमंत्रीतर्जनीचकनिष्टिके || २२ ||

मध्यमानामयुगलेस्थापयेतुपरस्परं |
अमृतीकरणंदेविमुद्रेयंधेनुरूपिणी || २३ ||

एतासामान्यमुद्रास्तुदर्शयित्वायजेत्प्रिये |
गंधपुष्पादिभिःसम्यक्सर्वकामार्थसिद्धये || २४ ||

अग्नेशासुरवायव्यमध्येदिक्ष्वंगपूजनं |
चलाकाविमलाचैवकमलाचनमालिका || २५ ||

विभीषिकामालिकाचशांकरीचसुमालिका |
पुरस्तादिक्रमेणैवप्रादक्षिण्येनपूजयेत् || २६ ||

इंद्राग्नियमनैरृत्यवरुणानिलसंज्ञकान् कुवेरेशानलोकेशान्भूर्विवेचक्रमाद्यजेत् ब्रह्माविष्णुश्चलोकेशश्चोर्द्धाधःक्रमतोयजेत् अर्कलक्षंजपेन्मंत्रंतद्वशांशेनहोमयेत् || २८ ||

पद्मैस्त्रिमधुमिश्रैस्तुपुरश्चारीततोभवेत् |
एवंसंसिद्धमंत्रस्तुसर्वसाम्राज्यदोभवेत् || २९ ||

इतिश्रीदक्षिणामूर्तिसंहितायांएकाक्षरलक्ष्मीपूजनविधिःप्रथमः पटलः १

Patala 2 – Mahalakshmi

ईश्वरुवाच

अ वक्ष्येमहेशानिलक्ष्मीहृदयमुत्तमं यस्यविज्ञानमात्रेणपलायंतेमहापदः || १ ||

प्रणटंपूर्वमुच्चार्यहरीमात्मकमक्षरं |
श्रीपुटंवाथकमलेव्रह्माभानुस्तथैवच || २ ||

लापेमध्यगतांभूमिंरुद्रस्थानेतुयोजयेत् |
प्रसीदयुगलंपूर्ववीजानिसंपुटेनच || ३ ||

महालक्ष्मीहृदंतोयमष्टाविंशतिवर्णवान् |
दक्षप्रजापतिश्चास्यृषिःछंदस्तथैवच || ४ ||

गायत्रीदेवतालक्ष्मीहृदयंपरिकीर्तितं |
द्वितीयंचतृतीयंचवीजशक्तेक्रमेणच || ५ ||

प्रणवःकीलकंदेविततोंगानिप्रविन्यसेत् |
अंगानिपूर्ववद्देविन्यसेन्मंत्रीसमाहितः || ६ ||

रलोघद्दसुपत्रांतपद्मयुग्मंचहेमजं |
अग्नरवलीराजदादर्शंदधतींपरां || ७ ||

चतुर्भुजांस्फुरद्रत्ननूपुरांमुकुटोज्ज्वलां |
ग्रैवेयांगदहाराढ्यांकिंकिणीरत्नकुंडलां || ८ ||

पद्मासनसमासीनांदूतीभिर्मंडितांसदा |
शुक्लांगरागवसनांमहादिव्यांगनाननां || ९ ||

एवंध्यात्वाच्चयेद्देवींपूर्वयंत्रेचपूर्ववत् |
आदावंगानिसंपूज्यपूर्ववत्परमेश्वरी || १० ||

भारतींपार्वतींचंडींशचींदिक्षुप्रपूजयेत् |
श्रीधरश्चहृषीकेशोवैकुंठोविश्वरूपधृक् || ११ ||

विदिक्षुपूजयेदेताःसर्वसिद्ध्यर्थहेतवे |
अनुरागोविसंवादोविजयोवल्लभोमदः || १२ ||

हर्षोबलंचतेजस्वीपुरारभ्यपूजयेत् |
इंद्रादींश्चैवसंपूज्यपुनर्द्देवीयजेत्सुधीः || १३ ||

लक्षत्रयंजपेन्मंत्रंनियमेनतुसाधकः |
तद्दशांशेनपद्मैस्तुहुनेत्संपतिमिच्छता || १४ ||

महागजतुरंगाश्चजायंतेतस्यमंदिरे |
सुवर्णरत्नभूषादिमंडितःसाधकोभवेत् || १५ ||

इतिश्रीदक्षिणामूर्तिसंहितायांमहालक्ष्मीपूजनविधिःद्वितीयः पटलः २

Patala 3 – Trishakti-Lakshmi

ईश्वरुवाच

त्रिशक्तियजनंवक्ष्येसर्वसिद्धिप्रदंनृणां |
श्रीवीजंचपरावीजंकामवीजंसमालिखेत् || १ ||

इयंत्रिशक्तिर्देवेशित्रिषुलोकेषुदुर्लभा |
ऋषिर्व्रह्मास्यगायत्रीछंदोपिकथितंप्रिये || २ ||

त्रिशक्तिर्देवतांगानिद्विरावृत्याजपेत्प्रिये |
अथयंत्रंप्रवक्ष्यामिसाधकानांहितायच || ३ ||

षट्कोणंपूर्वमालिख्यमध्येतुविलिखेत्सुधीः |
वीप्सयातांतुषट्कोणेकोणेषुक्रमतोयजेत् || ४ ||

वाह्येवसुदलंकुर्याद्दीर्घस्वरविभूषितं चतुरस्रंचतुर्द्वारंभूषितंमंडलंलि त् || ५ ||

मध्येसमावाह्यदेवींध्यायेत्सर्वसमृद्धिदां |
नवहेमस्फुरद्भूमिरत्नकुद्धिममंडपे || ६ ||

महाकल्पवनांतस्थेरत्नसिंहासनेवरे |
कमलासनशोभाढ्यांरत्नमंजीररंजितां || ७ ||

स्फुरद्रत्नलसन्मौलिंरत्नकुंडलमंडितां |
अनंतरत्नघटितनानाभूषणभूषितां || ८ ||

दधतींपद्मयुगलंपाशोंकुशंधनुःशरान् |
षड्भुजामिंदुवदनांदूतीभिःपरिवारितां || ९ ||

चारुचामरहस्ताभारत्नादर्शसुपाणिभिः |
तांवूलस्वर्णपात्रीभिर्भूषापेटीसुपाणिभिः || १० ||

तप्तकार्तस्वराभासांपूर्वोक्तेमंडलेयजेत् |
उपचारैःसमाराध्यततोंगावरणंयजेत् || ११ ||

पूर्ववत्परमेशानिपरिवारांस्ततोर्चयेत् |
लक्ष्मींहरिंचगिरिजांशिवंरत्यंगजौक्रमात् || १२ ||

अग्रकोणादिसंपूज्यततःषट्कोणपार्श्वयोः |
शंखपद्मनिधीपूज्यौवसुपत्रेषुमातरः || १३ ||

व्राह्मीमाहेश्वरीचैवकौमारीवैष्णवीतथा |
वाराहीचैवमाहेंद्रीचामुंडासप्तमीभवेत् || १४ ||

महालक्ष्मीर्महादेवीपुरस्तादिप्रपूजयेत् |
इंद्रादयस्तुसंपूज्याकामिनीरूपधारिणः || १५ ||

उत्तंगयौवनोत्मत्तादेव्याराधनतत्पराः |
लक्षत्रयंजपेन्मंत्रीनियमेनजितेंद्रियः || १६ ||

तद्दशांशेनदेवेशिकिंशुकैर्होमयेत्सुधीः |
अनेनविधिनामंत्रीपुरश्चारीभवेत्प्रिये || १७ ||

इतिश्रीदक्षिणामूर्तिसंहितायांत्रिशक्तिलक्ष्मीयजनविधिस्तृतीयः पटलः ३

Patala 4 – Samrajya-Vidya

ईश्वरुवाच

अथवक्ष्येमहादेविसर्वसाम्राज्यदेवतां |
यस्याआराधनाद्विष्णुरभूल्लक्ष्मीपतिःस्वयं || १ ||

चंद्रशमादनंक्ष्मेशवह्निर्दीर्घाक्षिमंडितं |
विदुकूटेश्वरीयुक्तंविद्येयंवैष्णवीप्रिये || २ ||

श्रीवीजसंपुटंकुर्यात्सार्वसाम्राज्यदायिनी |
ऋषिर्हरिस्तथाछंदोगायत्रीचास्यसंमता || ३ ||

देवतामोहिनीलक्ष्मीमहासाम्राज्यादायिनी |
वीजंकूटंसमाख्यातंशक्तिश्रीवीजमुच्यते || ४ ||

षड्भिरायैःस्वरैर्भित्वाषडंगानिप्रविन्यसेत् |
अतसीपुष्पसंकाशांसर्वरत्नविभूषितां || ५ ||

शंखचक्रगदापद्मशार्ङ्गवाणधरांकरैः |
खड्गिःकराभ्यांदेवेशिवरदाभयशोभितां || ६ ||

एवमष्टभुजांध्यात्वारविलक्षंजपेद्बुधः |
तद्दशांशेनपद्मैस्तुहुनेत्साम्राज्यसिद्धये || ७ ||

जितेंद्रियःसविधिवद्यंत्रोद्धारंशृणुप्रिये |
त्रिकोणंचाष्टयंत्रंचभूविंबंचततोलिखेत् || ८ ||

चतुर्द्वारंसुशोभाढ्यंयंत्रमेतत्समालिखेत् |
अस्मिन्समावाह्यदेवींपूजयेदुपचारकैः || ९ ||

पूर्ववत्परमेशानिषडंगाचरणंयजेत् |
गायत्रीचैवसावित्रीसरस्वत्यग्रभागतः || १० ||

क्रमेणपूजयेद्देविब्राह्म्यायाश्चस्वरैःपृथक् |
अष्टपत्रेषुभूविंवेत्वेकोच्चारेणपूजयेत् || ११ ||

अष्टादशमहाकोटियोगिनीभ्योनमोलिखेत् |
अनेनमनुनापश्चादिंद्रादीन्पूजयेत्ततः || १२ ||

पुनर्देवींसमभ्यर्च्यगंधपुष्पाक्षतादिभिः |
वटुकक्षेत्रपालेभ्योयोगिनीभ्योवलिंहरेत् || १३ ||

इतिश्रीदक्षिणामूर्तिसंहितायांसाम्राज्यविद्यायजनंनामचतुर्थः पटलः ४

Patala 5 – Das höchste Licht

ईश्वरुवाच

अथश्रीकोशविद्यानांचतुष्कंशृणुपार्वति |
यस्यविज्ञानमात्रेणपुनर्जन्मनविद्यते || १ ||

श्रीविद्याचपरंज्योतिःपरंनिष्कलदेवताः |
अजपामातृकाचैवपंचकोशाःप्रकीर्तिताः || २ ||

प्रणवंपूर्वमुच्चार्यमायाहंसःपदंलिखेत् |
ततःसोहंशिरोदेविवसुवर्णेयमीरिताः || ३ ||

प्रणवश्चित्कलाज्ञेयामाययाव्यामरूपिणी |
हंसःपदेतदेवेशिसाक्षादात्मस्वरूपिणी || ४ ||

तत्रत्यविंदुत्रितयासृष्टिस्थितिलयात्मिका |
प्रसूतेविंदुनादेनवामेयंब्रह्मरूपिणी || ५ ||

विंदुनाथद्वितीयेनपालयंतीजगत्त्रयम् |
ज्येष्टेयंवैष्णवीमायाआद्यासत्वगुणाप्रिये || ६ ||

त्र्यंशेनविंदुनासर्वंग्रसंतीतमसावृता |
रौद्रीविंदुत्रयेदेविप्रसूतेचांविकातदा || ७ ||

आत्मानंदर्शयत्येषाहंसाख्यासंहृतिर्यदा तदेर्यदर्पणाकाराततोज्योतिर्मयीभवेत् वर्णाभ्यांवह्निजायायाःपरंज्योतिरियंप्रिये एवंविचारयन्मंत्रीसाक्षाद्व्रह्मभवेतुसः || ९ ||

ऋषिर्ब्रह्मास्यमंत्रस्यगायत्रीछंदुच्यते |
परंज्योतिर्मयीसाक्षाद्देवतापरिकीर्तिता || १० ||

प्रणवांत्यद्वयंवीजंशक्तीशेषंचकीलकं |
स्वाहातुहृदयंसोहंशिरोहंसःशिखाभवेत् || ११ ||

माययाकवचंतारवीजेननयनत्रयम् |
स्पृष्ट्वामंत्रेणदेवेशिसमग्रेणासुकंभवेत् || १२ ||

ज्ञानाग्नौमातृकावर्णहविषाचाक्षराहुतीः |
अनेनमनुनाहुत्वाक्षणंनिर्वाणगोभवेत् || १३ ||

इतिश्रीदक्षिणामूर्तिसंहितायांमात्माष्टाक्षरपरंज्योतिर्विधानंनामपंचमः पटलः ५

Patala 6 – Pranava und die ungeteilte Gottheit

ईश्वरवाच

अथवक्ष्येमहादेविपरनिष्कलदेवतां |
यस्याःस्मरणमात्रेणविदानंदायतेतनुः || १ ||

अनुग्रहादिदेवेशिविंदुनादकलात्मकं |
परनिष्कलदेवीयंपरब्रह्मस्वरूपिणी || २ ||

शुक्लांवरपरीधानाशुक्लमाल्यानुलेपना |
ज्ञानमुद्रांकितायोगीपतिवृंदेनसेविता || ३ ||

ऋषिर्ब्रह्मास्यगायत्रीमनोःछंदःक्रमाद्भवेत् |
ब्रह्मैवदेवतावीजंशक्तिस्तत्रक्रमेणतु || ४ ||

मकारकीलकंमोक्षफलज्ञानप्रदायिनी |
स्वरद्वंद्वस्यमध्येतुक्षिप्त्वात्यक्ताचतुष्टयम् || ५ ||

ऋऋऌॡचदेवेशिषडंगानिप्रविन्यसेत् |
ततोयंत्रंलिखेन्मंत्रीत्रिकोणंचाष्टपत्रकम् || ६ ||

चतुरस्रंचतुर्द्वारमंडितंज्ञानदंभवेत् |
ब्रह्मरंध्रेविचिंत्याथतत्रावाह्यपरमेश्वरीम् || ७ ||

गंधपुष्पादिभिःसम्यङ्मनोज्ञैरुपचारकैः |
अग्नीशासुरवायव्यमध्यदिक्ष्वगपूजनम् || ८ ||

अकारेणचृग्रूपंब्रह्माणंपुरतोयजेत् |
सामवेदेनसहितमुकारेणहरिंयजेत् || ९ ||

देवीदक्षिणतःपश्चादंत्यकोणेशिवंयजेत् |
यजुःस्वरूपंकालेनत्रिकोणेकथितंप्रिये || १० ||

अष्टपत्रेचतुर्दिक्षुपुरादिक्रमेणतु |
आत्मांतरात्मापरमज्ञानात्मानोयजेत्प्रिये || ११ ||

निवृत्तिश्चप्रवृत्तिश्चविद्याशांतिचतुष्टयम् |
विदिक्षुपूजयेन्मंत्रीततोब्रह्मादिकान्यजेत् || १२ ||

तेष्वेववसुपत्रेषुचतुरस्रेततःपरम् इंद्रादींल्लोकपालांश्चपूर्वादिक्रमतोयजेत् गंधपुष्पादिनैवेद्यतर्पणैःपरितोषयेत् ज्ञानरूपोभवेन्मंत्रीमोक्षस्तस्यकरेस्थितः || १५ ||

इतिश्रीदक्षिणामूर्तिसंहितायांप्रणवविचारनिष्कलदेवतापूजाविधिर्नामषष्टः पटलः ६

Patala 7 – Ajapa und Hamsa

ईश्वरुवाच

अजपाराधनंदेविकथयामितवानघे |
यस्यविज्ञानमात्रेणपरब्रह्मैवदेशिकः || १ ||

हंसःपरंपरेशानिप्रत्यहंजपतेनरः |
मोहवद्धोनजानातिमोक्षस्तस्यनजायते || २ ||

श्रीगुरोःकृपयादेविज्ञायतेजप्यतेतदा |
उच्छासनिश्वासतयातदाबंधःक्षयोभवेत् || ३ ||

उच्छासेचैवनिश्वासेहंसित्यक्षरद्वयं |
तस्मात्प्राणस्तुहंसाख्यःआत्माकारेणसंस्थिताः || ४ ||

षष्टिश्वासैर्भवेत्प्राणःषट्प्राणानाडिकामताः |
षष्टिनाड्यास्तुहोरात्रंजपसंख्याजपामनोः || ५ ||

एकविंशतिसाहस्रंषट्शताधिकमीश्वरि |
जपतेप्रत्यहंप्राणेसदानंदमयींपराम् || ६ ||

उत्पत्तिर्जपारंभोमृतिरस्यनिवेदनम् विनाजपेनदेवेशिजपोभवतिमंत्रिणः अजपेयंततःप्रोक्ताभवपाशनिकृंतनि श्रीगुरोःकृपयादेविलभ्यतेनान्यथाप्रिये एनंजपंमहेशानिप्रत्यहंविनिवेदयेत् गणेशब्रह्मविष्णुभ्योहरायचमहेश्वरि जीवात्मनेक्रमेणैवतथैवपरमात्मनि षट्शतानिसहस्राणिषडैवंचतथापुनः षट्सहस्राणिविमलेसहस्रंचैकमेवहि || ११ ||

पुनःसहस्रंगुरवेक्रमेणैवनिवेदयेत् |
आधारेस्वर्णवर्णेस्मिन्वादिशांतानिसंस्मरेत् || १२ ||

द्रुतसौवर्णवर्णानिवर्णानिपरमेश्वरि |
स्वाधिष्टानेविद्रुमाभेवादिलांतानिसंस्मरेत् || १३ ||

विद्युत्पुंजप्रभाभानिसलिलेमणिपूरके |
उफांतानिमहानीलप्रभानिचविचिंतयेत् || १४ ||

पिंवर्णेमहावह्निकर्णिकाभानिचिंतयेत् |
कादिगंतानिवर्णानिचतुर्थेनाहतेप्रिये || १५ ||

विशुद्धेधूम्रवर्णेतुरक्तवर्णान्स्वरान्न्यसेत् |
आज्ञयांविद्युदाभायांशुभ्रौहंक्षौविचिंतयेत् || १६ ||

कर्पूरद्युतिसंराजत्सहस्रदलनीरजे |
नादात्मकंब्रह्मरंध्रेजानीहिपरमेश्वरि || १७ ||

एतेषुसप्तचक्रेषुस्थितेभ्यःपरमेश्वरि |
जपन्निवेदयित्वातुमहोरात्रभवंप्रिये || १८ ||

सहजंपरमेशानिन्यासंकुरुविचक्षणे |
ऋषिर्हंसोव्यक्तपूर्वगायत्रीछंदुच्यते || १९ ||

देवतापरमात्मातुहंसोहंवीजमुच्यते |
सःशक्तिःकीलकंसोहंप्रणवस्तत्वमेवहि || २० ||

नादस्थानंतथाश्वेतोवर्णस्तुपरमेश्वरि उदातःस्वरित्येवंमनोरस्यप्रकीर्तितः मोक्षार्थीविनियोगःस्यादेवंजानीहिपार्वती ततःषडंगविन्यासंकुर्यादेहस्यशुद्धये सूर्यंसोमंतथादेविनिरंजनमतःपरम् निराभासंचतुर्थ्यंतस्वाहांतान्क्रमतोन्यसेत् || २३ ||

कवचांतानिविन्यस्यततोनंतपदंस्मरेत् |
तनुसूक्ष्मचतुर्वर्णानुक्तादेवीप्रचोदयात् || २४ ||

स्वाहांतेनैचनयनमव्यक्तपदपूर्वकः |
प्रवोधात्माचतुर्थ्यग्निजपांतोस्त्रेनिगद्यते || २५ ||

प्राणानायम्यविधिवन्मंत्रीसम्यक्समाहितः |
मूलमंत्रेणदेविशिवामेनापूर्यचोदरम् || २६ ||

कुंभकेतन्निरावृत्यदक्षिणेनचरेचयेत् |
कनिष्टानामिकांगुष्टैर्यन्नासापुटधारणं || २७ ||

प्राणायामःसविज्ञेयःस्तर्जनीमध्यमेविना |
अस्यहंसस्यदेविशिनिगमागमपक्ष्मकौ || २८ ||

अग्नीषोमावथोवापिपक्ष्मौतारःशिरोभवेत् |
विंदुत्रयंशिखानेत्रेमुखेनादःप्रकीर्तितः || २९ ||

शिवशक्तिपदंद्वंद्वंकालाग्निपार्श्वयुग्मकं |
अयंपरमहंसस्तुसर्वव्यापीप्रकाशवान् || ३० ||

सूर्यकोटिप्रतीकाशःस्वप्रकाशोनभासते |
संसाररूपीहंसोयंविवेकंदर्शयत्यपि || ३१ ||

अजपानामगायत्रीत्रिषुलोकेषुदुर्लभा |
अजयांजपतोनित्यंपुनर्जन्मनविद्यते || ३२ ||

षट्शतान्यधिकान्यत्रसहस्राण्येकविंशति |
अहोरात्रंचरेद्वायुःसजयोमोक्षदायकः || ३३ ||

इतिश्रीदक्षिणामूर्तिसंहितायांमजपाविधानंनामसप्तमः पटलः ७

Patala 8 – Matrika

ईश्वरुवाच

अथवक्ष्येमहेशानिमातृकांलोकमातरम् |
अकारादिक्षकारांतांवर्णावयवदेवतां || १ ||

ऋषिर्व्रह्मास्यमंत्रस्यगायत्रीछंदुच्यते |
मातृकादेवतादेविहलोवीजास्तुशक्तयः || २ ||

स्वरास्तुपरमेशानिजाताव्यक्तस्तुकीलकं |
अनिर्वाच्याहलोवर्णाशक्त्याव्यक्ताभवंतिहि || ३ ||

शक्त्याविनाशिवेसूक्ष्मेनामधामनविद्यते |
असद्रूपाहलोवर्णाःशक्त्यासत्तापराङ्मुखाः || ४ ||

स्फुरन्मात्रासदोच्चार्यासंमुखाव्यक्तिवर्णकाः |
ॠऌॡपरित्यज्यषण्मुखस्वरमध्यगाः || ५ ||

वर्गाषट्कक्रमेणैवसप्तमःक्रोधसंयुतः |
अंतेनिक्षिप्यदेवेशिषडंगानिप्रविन्यसेत् || ६ ||

कलापत्राम्वुजेकंठेस्वराःसम्यक्प्रविन्यसेत् |
सूर्यपत्रांम्वुजेनित्येनाहतेद्वादशन्यसेत् || ७ ||

मणिपूरेमहादेविदशपत्रेप्रविन्यसेत् |
दशवर्णांलिंगमध्येषट्दलेषट्तथेश्वरि || ८ ||

चतुर्दलेतथाधारेचतुर्वर्णांस्तथान्यसेत् |
भ्रूमध्येद्विदलेहंक्षौविचिंत्यमातृकांन्यसेत् || ९ ||

व्रह्मरंध्रेतथाचक्रवेष्टनेनयनद्वये |
श्रुतिनासापुटद्वंद्वेगंडोष्टद्वयकेषुच || १० ||

दंतयुग्मेचमूर्द्धास्यद्वयेषोडशविन्यसेत् दीःपत्संधिषुसाग्नेषुपार्श्वयुग्मेन्यसेत्क्रमात् पृष्टनाभिद्वयेचैवजठरेविन्यसेदथ त्वगसृङ्नासमेदोस्थिमज्जाशुक्राणिधातवः || १२ ||

प्राणजीवौचपरमौपकारादिषुसंस्थितः |
क्रमेणदेवेदेवेशिन्यस्तव्याएतदात्मकाः || १३ ||

हृदोमूलेषुसंन्यस्यतथापरगलेन्यसेत् कक्षाद्वयेहृदारभ्यपाणिपादद्वयेतथा जठराननयोर्व्यामिन्यसेदित्यर्णरूपिणीम् अनेनन्यासरूपेणमंत्रीवर्णस्वरूपवान् || १५ ||

ध्यायेद्वर्णास्वरूपाढ्यांस्वरवक्रांक्रमेणहि |
कचवर्गकरारम्यांतदवर्गपदांवुजं || १६ ||

पवर्गचारुपार्श्वांगलसच्छातोदरींपराम् य * वर्गांगशुभर्गापीनोजतघनस्तनीम् || १७ ||

नितंवविंवगहनांशुक्लाक्षींक्षाममध्यमाम् |
शुक्लमाल्यानुरागांगीमक्षसृक्कटिशोभितां || १८ ||

चिंतालिखितसत्पाणिंसमग्रवरदायिनीम् |
एवंध्यात्वाततोदेवींयजनंचसुधीश्वरेत् || १९ ||

आदौवृत्तंकर्णिकाख्यंहंसानुग्रहसर्गवान् |
वाह्येष्टदलमालिख्यकेसरेषुस्वरान्न्यसेत् || २० ||

युग्मयुग्मप्रभेदेनततोवसुदलेषुच कादि वर्गाष्टकंपीत्यलक्षांतंपरमेश्वरि || २१ ||

चतुरस्रंततःकुर्यात्सिद्धिदंदिक्षुसंलिखेत् |
ठकाराणांचतुष्कंचरेखांतंवाह्यतस्तथा || २२ ||

वारुणंचसमालिख्यदेवीमावाहयेत्सुधीः |
आदौपीठेर्चनंकृत्वानवशक्तिपुरस्कृतं || २३ ||

मेधाप्रज्ञाप्रभाविद्याधीर्धृतिस्मृतिवुद्धयः |
विद्येश्वरींचपूर्वादिदिक्षुमध्येप्रपूजयेत् || २४ ||

पश्चादावाह्यगंधादीनुपचारान्प्रकल्पयेत् |
अग्नीशास्त्ररवायव्यमध्यदिक्ष्वंगपूजनं || २५ ||

नियोज्यस्वरयुग्मांतेनमस्कारंपृथक्पृथक् |
अष्टधापूजयेद्देविकेसरेषुपृथक्पृथक् || २६ ||

तथैवकादिवर्गेषुनमस्कारंक्षिपेत्पृथक् |
अष्टधावर्गपूजेयंततोव्राह्म्यादिभिर्यजेत् || २७ ||

लोकपालैस्ततोदेवींसमासद्ययजेत्सुधीः लक्षमात्रंदशांसेनहुनेत्पालाशपुष्पकैः त्रिमध्वक्तैर्मिताहारःपुरश्चारीततोभवेत् || २९ ||

इतिश्रीदक्षिणामूर्तिसंहितायांमातृकाविधिर्नामाष्टमः पटलः ८

Tripura Sundari steht im Mittelpunkt der Verehrung.

Patala 9 – Tripura und östliche Thron-Vidya

ईश्वरुवाच

पंचसिंहासनगताविद्याजप्यामहेश्वरि |
मयातत्पुरुषास्येनजप्यतेतछृणुप्रिये || १ ||

अनयासदृशीविद्यात्रिषुलोकेषुदुर्लभा |
एवार्यविंद्वनादसहितंकुरुसुव्रते || २ ||

एतद्वाग्भवमुच्चार्यसकलंकामवीजकम् |
वामनेनेत्रेनुविन्दन्तसर्गवान्भृगुरव्ययः || ३ ||

अनुग्रहेणसंयुक्तोविद्येयंत्र्यक्षरीभवेत् |
ऋषिस्तुदक्षिणामूर्तिःशिरसिविन्यसेत्ततः || ४ ||

छंदःपंक्तिस्तुविज्ञेयंमुखेविन्यस्यदेवताम् |
हृदयेपरमेशानिवाग्भवंवीजमुच्यते || ५ ||

शक्तिवीजंशक्तिरेवकामवीजंचकालकं |
एषाविद्यामहेशानिपुरुषार्थप्रदायिनी || ६ ||

पादादिनाभिपर्यंतमायंनाभेस्तथागलम् |
मध्यमंशक्तिवीजंचगलादामस्तकंन्यसेत् || ७ ||

वामपादतलेतद्वदक्षपाणौद्वयंन्यसेत् |
करयोःसंपुटेचैवमेवंन्यासद्वयंभवेत् || ८ ||

एतत्संपुटितांपश्चात्मातृकांविन्यसेत्सुधीः |
नवयोन्यंकितंन्यासेकुर्यात्कमललोचने || ९ ||

कर्णयोश्चिबुकेदेविशंखास्येषुदृशोर्नसि |
अंसयोर्हृदयेद्देविन्यसेत्कूर्परकुक्षिषु || १० ||

जानुद्वयांधुपद्वंद्वगुह्येषुक्रमतोन्यसेत् पार्श्वहृत्स्वस्तनद्वंद्वकंठेष्वपिचविन्यसेत् वीजत्रकंक्र मेणैवनवधाविन्यसेत्प्रिये वीप्सयांगानिविन्यस्यपंचवाणान्न्यसेत्सुधीः || १२ ||

दकारंतुसमालिख्यद्विधावह्निसमन्वितम् |
अनंतवामनेत्राभ्यांद्विविंदुपरिभूषितम् || १३ ||

कामवीजंचकालादितवादिपृथिवीयुतं दीर्घकर्णेतुविंद्वाढ्यमजपातंक्रमात्लिखेत् ललाटगलहृन्नाभिमूलाधारेषुविन्यसेत् पुनरेतेषुवीजानिपंचसंख्यानिविन्यसेत् || १५ ||

ह्रींक्लींमात्मकवावीजंचतुर्थंवाणमालिखेत् |
ततस्त्रीमात्मकंपंचकामाएतेप्रकीर्तिताः || १६ ||

एवंविन्यस्तदेहःसन्प्राणानायम्यपार्वति |
ध्यायेद्देवींमहेशानिकदंबवनमध्यगाम् || १७ ||

रत्नमंडपमध्येतुमहाकल्पवनांतरे |
मुक्तातपत्रच्छायायांरत्नसिंहासनेस्थिताम् || १८ ||

अनर्घ्यरत्नघटितांमुकुटांकुंडलोज्वलाम् |
हारग्रैवेयसद्रत्नचित्रितांकंकणोज्वलाम् || १९ ||

हारमुक्तालसद्भूषांशुद्धक्षौमविराजिताम् |
हारमंजीरसुभगांरक्तोत्पलपदांबुजां || २० ||

शुद्धांगरागसुभर्गाकर्पूरसकलोज्वला |
पुस्तकंचाभयंवामेदक्षिणेचाक्षमालिकां || २१ ||

वरदानरतांदेवींसम्यक्सारस्वतप्रदाम् |
एवंध्यात्वाजपेन्मंत्रंवर्णलक्ष्यंसमाहितः || २२ ||

अथवादेवदेवेशनन्दवेयंयदाभवेत् |
तदासर्वार्थदाविद्याभुक्तिमुक्तिफलप्रदाः || २१ ||

श्रीगुरोःक्रपयालव्धासर्वकामार्थसिद्धये |
अथवादेवेदेवेशिपद्मरागप्रभांस्मरेत् || २३ ||

रक्तवस्त्रंपरीधानांरक्ताभरणमंडितां |
हकारार्द्धस्वरूपांचविंदुत्रययुतांशिवे || २४ ||

एवंकामकलाध्यानंसदांवापाःसमुद्यतम् तदशांशेनजुहुयात्किंशुकैस्त्रिमधूत्कटैः तर्पणंचदशांसेनलक्षंचायुतसंख्यया वर्णानुक्रमयोगेनगंगातोयेनवाप्रिये तर्पणंचतथाभूयःकर्पूरवासितैर्जलैः अथवक्ष्येन्महेशानियंत्रंसर्वार्थसिद्धिदं || २७ ||

आदौशक्तिंसमालिख्यतस्यानुपरिसंलिखेत् तामेवविस्तृतांकिंचित्संपुटीकृत्यवह्निना संधिभेदक्रमेणैवनवयोनिर्यथाभवेत् हसौंकारंलिखेन्मध्येकामाख्यंचाष्टयोनिषु || २९ ||

वह्निर्वृतंसमालिख्यदलैराजितमष्टभिः केशरेषुस्वरान्योज्यद्वन्द्वशःपरमेश्वरि क चटास्तपयावर्णःसलक्षापरमेश्वरी अष्टपत्रेषुसंलिख्यततःशूलाष्टकंलिखेत् || ३१ ||

पत्राग्रेषुततोमंत्रीलिखेद्वर्णान्क्रमेणतु |
तेषुशूलेषुखगद्यान्पूर्वतःक्रमतोलिखेत् || ३२ ||

ङछजानग्निदिग्भागेझञठान्दक्षिणेलिखेत् डढणान्नैऋतेभागेथदधान्पश्चिमेलिखेत् नफवान्वायुदिग्भागेभमरानुत्तरेलिखेत् लवशानीशदेशेतुतत्तोवृत्तंसमालिखेत् || ३४ ||

वृत्तंमातृकयावीजंततोभूविंवमालिखेत् |
चतुर्द्वारविशोभाढ्यंमध्येपुष्पंविनिक्षिपेत् || ३५ ||

पीठार्चनंततःकुर्यान्मंत्रीदेविमनोहरम् |
वामाज्येष्टाचरौद्रीचअंविकेच्छाततःपरम् || ३६ ||

ज्ञानाक्रियाकुञ्चिकाचविश्वादेवीविषघ्निका |
दूतरीवतथानंदासंपूज्याःअभितःप्रिये || ३७ ||

सिंहासनंचसंपूज्यमध्यवीजेनमंत्रिकः |
सदाशिवमहाप्रेतपद्मासनपदंलिखेत् || ३८ ||

ङेंतंनमोंतकंदेवियजेत्सिंहासनंप्रिये |
मुक्ताछत्रंशरच्चंद्रचंद्रिकाकारचामरे || ३९ ||

उशीरक्षिप्तसच्चन्द्रकलाव्यजनयुग्मकम् |
प्रांतमुक्तावलीराजन्स्वर्णादर्शंचपीठिकां || ४० ||

अलंकारमयींपेटींकरंडंशशिपूरकं |
कर्पूरक्षोदभरितंचषकंस्वर्णकंकती || ४१ ||

सत्पुष्पापूर्णकाश्मीरपात्रंचदधतीक्रमात् |
ध्यात्वावामादिकापश्चाद्देवीमावाहयेत्प्रिये || ४२ ||

उपचारैःसमाभ्यर्च्यतर्पणानिसमाचरेत् |
लयांगंविन्यसेद्देविदेहेमुद्राश्चदर्शयेत् || ४३ ||

अग्नीशास्त्ररवायव्यमध्यदिक्ष्वंगपूजनं क्रमेणपुरारभ्यरतिप्रीतिमनोभवाः त्रिकोणाग्रेषुदेवेशितद्वाह्येबाणदेवताः देवतायादक्षिणेद्वेद्वेवामेएकमग्रतः अनंगानंगकुसुमातथाचानंगमेखला अनंगमदनादेवीसुभगाचभगातथा भगसर्पिण्यथोदेवितथाचभगमालिनी पुरारभ्यदेविशिप्रादक्षिण्येनपूजयेत् अष्टकोणेषुतद्वाह्येवसुपत्रेषुचार्चयेत् असितांगंतथाव्राह्मींरुंरुंमाहेश्वरींतथा || ४४ ||

चंडंकौमारिकांचैवक्रोधचैचतुवैष्णवीम् |
उन्मत्तंचैववाराहींतथाचैवकपालिनीं || ४५ ||

माहेंद्रीभीषणंदेविचामुंडांचततःपरम् |
संहारभैरवंदेविमहालक्ष्मींक्रमाद्यजेत् || ४६ ||

युग्मायुग्मप्रभेदेनस्वरैर्दैवीस्तुभैरवान् |
कामरूपंतथादेविमलयंचद्वितीयकम् || ४७ ||

पीठंकोलगिरिंपीठंकुलांतकमतःपरम् |
चौहारंचैवदेवेशिजालंधरमतःपरम् || ५० ||

कपालिनंचैकपादंभीमरूपमतःपरम् |
अचलंहाटकंचैवपुरारभ्यपूजयेत् || ५१ ||

अधूर्द्धस्ततोदेविचतुरस्रेक्रमेणतु |
इंद्रादयस्तुसंपूज्यास्ततस्तुवटुकादयः || ५२ ||

वटुकंयोगिनींक्षेत्रेपालंगणपतिंयजेत् |
पूर्वादिदिक्षुकोणेषुवसूनर्क्काक्रमात्प्रिये || ५३ ||

रुद्राश्चसर्वभूतांश्चपुनर्देवीसमर्चयेत् |
वनस्पतिरसोत्पन्नोगंधाढ्योगंधुत्तमः || ५४ ||

आघ्नेयःसर्वभूतानांधूपोयंप्रतिगृह्यताम् एवंमनुंत्रिवीजांतेधूपमंत्रुदाहृतः सुप्रकाशोमहादीपःसर्वतस्तिमिरापहः सवाह्याभ्यंतरंज्योतिर्दीपोयंप्रतिगृह्यताम् || ५६ ||

तथैवदीपमंत्रोयंशृणुचारार्तिकंप्रिये |
समस्तचक्रसुद्रस्मिन्मंडलेब्रह्मरूपिणी || ५७ ||

आरार्तिकंगृहाणेदंत्रिपुरेममसिद्धये |
आरार्तिकेमिदंदेविविद्यांतेमनुरीरितः || ५८ ||

हेमपात्रगतंदिव्यंपरमान्नंसुसंस्कृतम् |
पंचधाषड्रसोपेतंगृहाणपरमेश्वरि || ५९ ||

उपहारमनुर्देविविद्यंतेस्वयमीरितः |
यथाशक्तिजपंकृत्वानित्यहोमंसमाचरेत् || ६० ||

पंचाहुतिस्तुमूलेनषडंगानिचहोमयेत् |
नित्यहोमप्रकारोयंसर्वविघ्नतपोहयेत् || ६१ ||

यथान्यासंप्रवक्ष्यामिसर्वविघ्ननिवृत्तये |
अग्निराक्षसवायव्यशिवकोणेषुमंत्रवित् || ६२ ||

त्रिकोणवृतभूविंवमंडलातिसमालिखेत् |
मंडलानिचचत्वारितत्रपात्राणिसंक्षिपेत् || ६३ ||

षट्कायनमोह्यंतेगांतेगणपतिंतथा |
आद्यौसविंदूपंचैवयोगिनीभ्योनमःस्मरेत् || ६४ ||

(मेवशंचानयःप्रांतेततःसर्वोपचारतः स)(हितंचवलिंगृह्णगृह्णस्वाहामनुःप्रिये) क्षमंतेक्षेत्रपालायनमोमंत्रचतुष्टयम् एवंमंत्रैर्वेदसंख्यैर्मंडलानिप्रपूजयेत् एह्येहिदेवीपुत्रांतेवटुकांतेचनाथच कपिलांतेजटाभासुरांतेत्रिनेत्रच || ६६ ||

ज्वालामुखततःसर्वविघ्नान्नाशयंनाशय |
सर्वोपचारसहितंवलिंगृह्णपदद्वयम् || ६७ ||

वह्निजायान्वितोमंत्रोवटुकस्युदाहृतः |
ऊर्द्धंब्रह्मांडतोवांतेदिव्यंतेगगनेतिच || ६८ ||

तलेभूपदमालिख्यतलेचैवतुनिष्कले वापातालेतलेवांतेसलिलांतेचवालिखेत् पवनांतेचयोर्यत्रकुत्रांतेचस्थिताइति वाक्षेत्रेचैवपीठोयपीठादिषुचसंलिखेत् || ७० ||

ततःकृतपदाधूपदीपादिचपदंलिखेत् |
केनप्रीताश्चदेव्यश्चसदानःशुभसंलिखेत् || ७१ ||

वल्यंतेविधिनाचैवपातुदेवेंद्रसंलिखेत् |
वंद्याश्वयांसमुच्चार्ययोगिनीभ्योग्निवल्लभा || ७२ ||

सर्वांतेयोगिनीतांचकवचास्त्राग्निवल्लभा |
योगिनीनामयंमंत्रःक्षेत्रपालमनुंशृणु || ७३ ||

षड्दीर्घस्वरभेदेनक्षकारंभेदयेत्प्रिये कवचंस्थानशब्दांतेक्षेत्रपालसमालिखेत् धूपदीपादिविहितंवलिंगृह्णद्विधालिखेत् सर्वान्कामान्पूरयाग्निवल्लभाक्षेत्रयोमनुः || ७५ ||

गांगींगूंसमालिख्यगणपांतेततोलिखेत् |
वरशव्दंद्विधादांतेततःसर्वजनंपदम् || ७६ ||

मेवशंचानयःप्रांतेततःसर्वोपचारतः |
सहितंचवलिंगृह्णगृह्णस्वाहामनुःप्रिये || ७७ ||

गणेशस्यवरारोहेमंत्रैरेभिर्बलिंहरेत् |
वटुकस्यतुतर्जन्यासहांगुष्टेनवाप्रिये || ७८ ||

वामांगुष्टानामिकाभ्यांक्षेत्रपालस्यकथ्यते तर्जनीकेवलाचाथगणेशस्यतुमध्यमा जगवक्त्राकृतिर्देवियोगिनीनांतुकथ्यते तर्जनीमध्यमानामयोन्याकारेणयोजयेत् बलिदानविधौमंत्रीमुद्रांसुंदर्शयेत्क्रमात् स्तुत्वानत्वापुनर्देवीदेवीमात्मनियोजयेत् || ८० ||

आत्मविद्याशिवैस्तत्वैर्गुरुंसंतोष्यदेवताम् |
आनंदसहितोमंत्रीसर्वकर्माणिसाधयेत् || ८१ ||

इतिश्रीत्रिपुरासमाराधनविधिः

ईश्वरुवाच

महासिंहासनगताविद्येयंत्रिपुरेश्वरी |
पूर्वाम्नायेश्वरीवंद्याविद्येयंपरमेश्वरी || १ ||

शिवचंद्राग्निवामाक्षिविंदुनादमयंप्रिये |
शक्तिःकलाभ्यांमंतेचतुर्यवीजमुदाहृतम् || २ ||

श्रीवीजंकुरुतार्तीयंविद्यावेदाक्षरीभवेत् |
उन्मनीनामविद्येयंपूर्वाम्नायाधिदेवता || ३ ||

अनयाविययादेविदेवीसंमानिताप्रिये पूर्वसिंहासनगताभोगमोक्षफलप्रदा मधैषापूर्ववक्त्रेणजप्यतेद्यापिसुंदरी इ तिश्रीदक्षिणामूर्तिसंहितायांपूर्वाव्रायसिंहासनविद्यावर्णनंनामनवमः पटलः ९

Patala 10 – Lalita und Kameshvari

ईश्वरुवाच

दक्षिणास्येनदेवेशिललितात्रिपुरापुराकामेश्वरीरक्तनेत्रामद्याद्यापिप्रजप्यते || १ ||

शक्तिवीजंवाग्भवेतुकामराजंतुपूर्ववत् अंत्यंशिवसमायुक्तंत्रिपुरापरमेश्वरी इयंतुललितादेवीमहासौभाग्यवर्धिनी न्यासपूजादिकंसर्वंत्रिपुरेशीवनान्यथा || ३ ||

ध्यानमस्याःप्रवक्ष्यामिसाधकानांतुसिद्धये |
उद्यत्सूर्यसहस्राभांमाणिक्यमुकुटोज्वलां || ४ ||

रत्नकुंडलमुक्तालीपदकांगदभूषिताम् |
रत्नमंजीरसुभगांरक्तवस्त्रानुलेपनां || ५ ||

पाशांकुशौपुस्तकंचदधतीमक्षमालिकाम् |
सर्वांगसुंदरीध्यायेत्सर्वसंपत्तिहेतवे || ६ ||

इतिललितापूजाविधिः || १० ||

ईश्वरुवाच

केवलंकामवीजंतुकामेशीवीजमुच्यते |
ऋषिःकामोस्यमंत्रस्यगायत्रंछंदुच्यते || १ ||

कामेश्वरीदेवतास्यात्कर्तुर्येवींजशक्तिके |
पृथ्वीवीजंकीलकीक्तंमहावश्यकरीपरा || २ ||

षट्दीर्घस्वरभेदेनषडंगानिप्रविन्यसेत् |
पूर्वोक्तपंचवाणांश्चपूर्ववद्विन्यसेत्प्रिये || ३ ||

जपाकुसुमसंकाशांधनुर्बाणधरांस्मरेत् |
नानालंकारसुभगांमोहयंतीजगत्त्रयम् || ४ ||

अर्कलक्षंजपेन्मंत्रंवंधूककुसुमैर्हुनेत् तद्दशांशेनदेवेशिपुरश्वारीततोभवेत् अथयंत्रंप्रवक्ष्यामित्रैलोक्याकर्षणक्षमं त्रिकोणंचाष्टपत्रंचततोभूविंवमालिखेत् || ६ ||

मध्येविदर्भितंवीजंसाध्यसाधकलक्षितं |
कोणत्रयाग्रेविद्यांचपृथगष्टदलेषुच || ७ ||

दलाग्रेषुचसंलिख्यचतुरस्रेष्टधालिखेत् |
त्रैलोक्यमोहनंयंत्रंत्रिषुलोकेषुदुर्लभं || ८ ||

मध्येपुष्पंविनिक्षिप्यततःपीठार्चनंचरेत् मोहितीक्षोभिणीचैववशिनीस्तंभिनीतथा आकर्षिणीद्राविणीचतथैवाह्लादिनीपरा क्लिन्नाचक्लेदिनीचैवदिक्षुमध्येतुपूजयेत् || १० ||

ततःसिंहासनेपश्चाद्देवीमावाहयेत्प्रिये |
उपचारैःसमाराधागुह्यमुद्रांप्रदर्शयेत् || ११ ||

अग्नीशासुरवायव्यमध्यदिक्ष्वंगपूजनं |
त्रिपुरेशीचवर्णानामर्चनंपरमेश्वरि || १२ ||

आदावनंगरूपांचअनंगमदनांतथा अ नंगमन्मथांचैवअनंगकुसुमांप्रिये || १३ ||

पंचमींचयजेत्तद्वदनंगकुसुमातुरां |
अनंगशिशिरांचैवतथाचानंगमेखलां || १४ ||

अनंगदीपिकामष्टदलेषुक्रमतोयजेत् |
इंद्रादयश्चसंपूज्यापुनराराधयेच्छिवां || १५ ||

इतिश्रीदक्षिणामूर्तिसंहितायांकामेश्वरीपूजाविधिर्नामदशमः पटलः १०

Patala 11 – Raktanetra und südlicher Thron

ईश्वरुवाच

रक्तनेत्रांप्रवक्ष्यामिसर्वकामफलप्रदाम् |
त्रिपुरेशींसमालिख्यवाग्भवेशशिमंडितां || १ ||

जीवाग्निमंडितांकामवीजेचाथक्रमोंतके रक्तनेत्रामहाविद्याविद्याचत्रिपुरेश्वरी ललितावदिमांध्यायेल्ललितातुकुमारिका इयंतुयौवनप्रौढापीनोन्नतघनस्तनी नितंविनीक्षाममध्याप्रांतरक्तसुलोचना पूजान्यासादिकंसर्वंत्रिपुरेशीवसुंदरि || ४ ||

इतिरक्तनेत्रापूजाविधिः इतिश्रीदक्षिणामूर्तिसंहितायांदक्षिणसिंहासनविधिरेकादशमः पटलः ११

Patala 12 – Bhogini, Sanjivini und westliche Thron-Vidyas

ईश्वराउवाच अथवक्ष्येमहादेविदक्षिणाम्नायदेवतान् ऐमुक्ताचततःक्लिन्नेकामवीजंततोलिखेत् || १ ||

मदद्ववेकुलेचो ल्कात्रिपुरेश्यासनंप्रिये वह्निमद्वद्रवर्णेयंदक्षिणाम्नायदेवताम् || २ ||

भोगिनीनामविद्येयंत्रिषुलोकेषुविश्रुता |
अनयाविद्ययादेविदेवाःसम्मानितास्त्रयः || ३ ||

ध्यानपूजादिकंसर्वंवालावत्समुदाहृतम् इतिश्रीभोगिनीविद्याविधिः

ईश्वरुवाच

देविपश्चिमवक्त्रेणमयाद्यापिप्रजप्यते विद्याचतुष्टयंसाक्षादमृतानंदविग्रहम् महासिंहासनगतांतत्रसंजीवनींशृणु शक्तिवीजंसमालिख्यशिवचंद्रौसमालिखेत् || २ ||

अनुसारविसर्गाभ्यांमंत्रितौक्रमतःप्रिये |
संजीवनिचजूंजीवंप्राणग्रंथिस्यमालिखेत् || ३ ||

कुरुशब्दंभृगुःसर्गीवक्तिजायान्वितोमनुः विंशत्यर्णृषिःशुक्रोगायत्रंछंदुच्यते संजीवनीदेवतास्याच्छक्तिरंत्यादिवीजकम् तृतीयंचचतुष्कंचद्वितीयंपंचकंतथा चतुर्द्धिकंचक्रमतःषडंगानिप्रविन्यसेत् भूर्जेक्षीरेणविलिखेत्षट्कोणेमंडलंसुधीः कर्पूराभांहारमुक्ताभूषणैर्भूषितांपरां ज्ञानमुद्राक्षमालांचदधतींचिंतयेत्परां एवंध्यात्वावाह्यम ध्येपूजयेदुपचारकैः आदावंगानिसंपूज्यषट्कोणेषुचपूजयेत् संजीवनीतथाबुद्धिंपूर्वसंजीवनींततः अहंकारमयींतद्वत्सतुसंजीविनींप्रिये सर्वसंजीविनींचैवराजसंजीनींक्रमात् शक्तिवीर्जनदेवेशिङेनमोन्ताःप्रपूजयेत् वर्णलक्षंजपेन्मंत्रंपुरश्चरणहेतवे तद्दशांशेनजुयादूर्वात्रिमधुरान्विताः इतिसाधारणीपूजाविशेषंशृणुपार्वति इतिपूजांपुराकृत्वात्वन्यदावरणंशृणु प्राणापानतथाव्यानमुदानंचसमानकं अग्निकोणेततश्चैवविततंचतथाद्यनं || ८ ||

सुखिरंवैखरीशद्वंद्वितीयेकोणकेयजेत् पृथिव्यप्तेजाख्यातंवायवाकाशौतृतीयके शव्दस्पर्शश्वरूपंचरसगंधौचतुर्थके इच्छाज्ञानाक्रियाचैवपरामायाचपंचमे भूर्भुवःस्वस्तपःसत्यंषष्टकोणेक्रमाद्यजेत् सर्वस्यांतेवदेदेविद्विठःसंजीविनीपदम् त्रिशःसंजीवनीपूजामृत्युसंजीविनीतथा इतिसंजीविनीपूजाविधिः

ईश्वरुवाच

अथवक्ष्येमहेशानिमृत्युंजयपरांपरां वद द्वंद्वंवादिनीतिवाङ्मुध्येनिक्षिपेत्प्रिये || १ ||

सहस्रंवान्भवेदेविक्लिन्नेक्लेदिनिचालिखेत् महाक्षोभंकुरुद्वंद्वंशिवचंद्रकलानलात् वामाक्षिविंदुनादांकांस्तारवीजंततोवदेत् मोक्षंकुरुयुगंहंसःशक्रस्वरविसर्गमत् || ३ ||

इयंसंजीविनीदेविऋषिरस्यासितप्रिये |
गायत्रंछंदाख्यातंदेवतेयंतुभैरवी || ४ ||

आदिकूटंभवेद्वीजंमध्यकूटंतुकीलकं |
अन्यकुटंभवेच्छक्तिःसाक्षान्मृत्युविनाशिनी || ५ ||

नवशक्राष्टवर्णैस्तुन्यसेद्धृदिशिरःशिखां |
क्रमेणानेनचोच्चार्ययपुनरंत्यत्रयंन्यसेत् || ६ ||

अथत्रिकोणमालिख्यततःषट्कोणमालिखेत् |
वहिरष्टदलंपद्मंचतुरस्रंचसंलिखेत् || ७ ||

वसुपत्रेकामपीठंषट्कोणेजालपीठकम् |
ओड्डियानंत्रिकोणेतुविद्याभागत्रयेणतु || ८ ||

ध्यात्वाचावाहयेद्देवींकदंबवनमध्यगां |
पुस्तकंवामहस्तेचदक्षिणेचाक्षिमालिकां || ९ ||

विभ्रतींकुंदधवलांकुमारींचितयेत्परात् |
सर्वोपचारैःसंतर्प्यषडंगाचरणंयजेत् || १० ||

वसंतंमदनंचंद्रंविद्याभागत्रयेणतु त्रिको णेपूजयेन्मंत्रीप्रादक्षिण्येनचाग्रतः ब्रह्मविश्वीशशव्दांतेयजेत्संजीविनीत्रयम् इतिसंजीविनीषट्कंत्रिकोणेपूजयेत्सुधीः || १२ ||

धर्मार्थकाममोक्षांतेजपांतेविज्जपांतिके |
संजीविनीपदंचोक्ताषट्कोणेषुप्रपूजयेत् || १३ ||

अष्टकांतेतुमातृणांकुर्यात्संजीविनीपदम् |
अनेनविधिनाविद्वान्पूजयेद्वसुपत्रके || १४ ||

नियोज्यलोकपालांतेपदंसंजीविनीतिच |
क्रमेणानेनदेवेशिपूजयेच्चतुरस्रके || १५ ||

तारवीजंशक्तिवीजंश्रीवीजंचादिमंकुरु |
इतिजप्त्वामहेशानिपुरषार्थप्रदाभवेत् || १६ ||

पुनश्चाराधयेद्देवींगंधपुष्पादिभिःप्रिये |
पुरश्चरणरीतिस्तुपूर्वसंजीविनीवहिः || १७ ||

इतिश्रीभैरवीसंजीविनीविधिः

ईश्वरुवाच

परांक्लिन्नेवाग्भवंचकरोमात्मकमक्षरम् |
ततोनित्यमदप्रांतेद्रवेमायांचसंलिखेत् || १ ||

वज्रेशीरविवर्णेयंऋषिर्ब्रह्मास्यसन्मनोः |
छन्दोविराट्चवज्रेशीदेवतापरिकीर्तिता || २ ||

पंचपंचचतुर्थंचवीजशक्तीक्रमेणतु |
तार्त्तीयंकीलकंदेव्यास्तुतोंगानिप्रविन्यसेत् || ३ ||

आद्यंतवीजंसंत्यज्यद्विकंचैकंचरूपकम् |
द्विकंद्विकंद्विकंदेविषडंगानिप्रविन्यसेत् || ४ ||

वृतंकृत्वामनोरम्यंकर्णिकाष्टकशोभितम् |
कामवीजेनतन्मध्येमहासिंहासनंयजेत् || ५ ||

रविपत्रविशोभाढ्यंतत्रविद्यांसमालिखेत् |
चतुरस्रंततःकृत्वामध्येपुष्पंविनिःक्षिपेत् || ६ ||

ध्यात्वाचावाहयेद्देवींकदंववनमध्यगां |
रक्तांचंद्रकलाचाहमुकुदांवरभूषणाम् || ७ ||

महातारुण्यगर्वाढ्यांलोचनत्रयभूषिताम् शोणिताव्धितरत्योतमहायंत्रोपरिस्थितां दाडिमीसापकंचैवपाशंचैवसृणिंतथा चापंकलापंदधतीशोणमालानुलेपनाम् || ९ ||

स्मरेद्रत्नभरांदेवींमुपचारैःसमर्चयेत् |
आदावंगानिसंपूज्यरविपत्रेप्रपूजयेत् || १० ||

हृल्लेखांक्लेदिनींनन्दांक्षोभिणींमदनातुराम् |
निरंजनांरागवतींक्लिन्नांचमदनावतीम् || ११ ||

खेचरींद्राविणींचैवक्रमाद्वेगवतींयजेत् कामवीजेनसंपूज्यसंप्रदायांतरंशृणु विरव्यभूमिविंबंहिअष्टपत्रंसमालिखेत् मातरस्तत्रसंपूज्याभूविंवेलोकपालकान् || १३ ||

पुनर्देवींसमभ्यर्च्यवर्णलक्षंजपेछुचिः |
तदशांयोनजुद्रपादंबुजैरक्तसुन्निभैः || १४ ||

इतिवज्रेशीपूजाविधिः

ईश्वरुवाच

अथवक्ष्येमहेशानिभैरवींत्रिपुरांपराम् |
पंचमुद्रासमासीनांमुंडमालाविभूषिताम् || १ ||

आताम्नार्कायुताभासांरत्नभूषणभूषिताम् |
पाशांकुशभयवरांसाक्षाद्भुवनमातृकाम् || २ ||

हंसाद्यंवाग्भवंवह्निवचंद्रकलापराम् |
त्रिपुरेशीशक्तिवीजंशिवाद्यैभैरवीमनुः || ३ ||

सर्वमस्याविधानंतुत्रिपुरेशीवविद्धिहिः |
अनयासदृशीविद्यात्रिषुलोकेषुदुर्लभा || ४ ||

इतित्रिपुराभैरवीपूजाविधिः

ईश्वरुवाच

एतच्चतुष्टयंदेविपश्चिमाम्नायसागरे |
वाग्भवंशक्तिवीजंचश्रीवीजंहसफानलम् || १ ||

रुद्रस्वरेणसंमेद्यंविंदुनादांकितेहसौः |
एतत्संपुटितांविद्यांद्वात्रिंशार्णालिखेद्वुधः || २ ||

नमोभगवतिप्रातेचतुर्थंप्रणवंलिखेत् ईश्वराख्यंक्रमेणैवकुब्जिकायैपदंततः ह्रीमात्मकंपदंपश्चाद्रुमात्मकमतःपरम् अघोरेयघोरेपश्चादघोरमुखिसंलिखेत् || ४ ||

छींछींकिणियुगंविच्चेकुव्जिकासांभवीपरा |
पश्चिमान्नायदेवेशिभोगमोक्षप्रदायिनी || ५ ||

महासिंहासनाख्यंतुकथितंयच्चतुष्टयम् |
अनयाविद्ययागौरीसम्यक्संमानितासदा || ६ ||

इतिश्रीदक्षिणामूर्तिसंहितायांपश्चिमाम्नायसिंहासनविद्याविवरणंनामद्वादशः पटलः १२

Patala 13 – Nördliche Thron-Vidya

ईश्वरुवाच

उत्तरास्येनदेवेशिमयाद्यापिप्रजप्यते |
महासिंहासनगतौभैरवीडामरीश्वरी || १ ||

पूर्वोक्तभैरवीदेव्याःकामकूटेपरांशिवं |
हित्वोच्चरेतदाविद्यामहासिंहासनेश्वरी || २ ||

उत्तराम्नायविद्येशीभोगमोक्षफलप्रदा |
वंधूककुसुमप्रीतांवंधूककुसुमार्चिताम् || ३ ||

वंधूककुस्वमाभासांपंचमुंडाधिवासिनीम् |
स्फुरच्चंद्रकलारत्नमुकुटांमुंडमालिनीम् || ४ ||

त्रिनेत्रांरक्तवसनांपीनोन्नतघनस्तनीम् |
पुस्तकंचाक्षमालांचवरदंचाभयंक्रमात् || ५ ||

दधतींसंस्मरेन्नित्यमुत्तराम्नायमानिताम् |
मदनांतफरेमात्ममहाचंडंसमालिखेत् || ६ ||

योगेश्वराग्न्यक्षियुतावियेयंकालिकामता नवाक्षरींमहेशानिस्मरेदुत्तरनायिकां अनयावि द्ययादेविसम्यक्रसंमानिताभवेत् न्यासपूजादिकंसर्वंत्रिपुरेशीवसुंदरि महासंपत्प्रदादेविमहाभयविनाशिनी || ९ ||

इतिश्रीदक्षिणामूर्तिसंहितायांमुत्तराम्नायसिंहासनेश्वरीडामरश्वरीभैरवीविधानंनामत्रयोदशः पटलः १३

Patala 14 – Bhairavi-Gestalten

ईश्वरुवाच

चतुःसिंहासनेष्टायाभैरव्याःपरमेश्वरि |
वाग्भवंसर्वसाम्राज्यदापिन्यामध्यमंलिखेत् || १ ||

दक्षिणाम्नायरुद्रार्णासर्वात्पंचसमालिखेत् |
चैतन्यंभैरवींध्यायेत्पाशांकुशकपालिकाम् || २ ||

रक्तमुंडस्रजांचैवपंचप्रेतासनस्थिताम् |
कामेश्वरींचसंपूज्यपूर्वसिंहासनाश्रयाम् || ३ ||

इतिचैतन्यभैरवीविधिः

ईश्वरुवाच

उरक्ष्मामादनंजीवःशिवेवत्रिधालिखेत् अर्कतूर्येन्द्रकलयाक्रमात्तत्पिंडितंकुरु विंदुनादात्मकंचाद्यंयुग्मसत्यंविसर्गवत् ध्यानंत्रिभुवनेश्वर्याभैरव्याइवसुंदरि || ५ ||

षट्कूटाभैरवीदेवीदक्षिणाम्नायसेविता |
त्रिकोणंचैवषट्कोणंवस्रपत्रंक्षमात्मकम् || ६ ||

ऋष्यादित्रिपुरेशीवपूजाचैवनिगद्यते || त्रिकोणेक्रमतोदेविरतिप्रीतिमनोभवाः || ७ ||

डाकिनीशाकिनीचैवलाकिनीकाकिनीतथा |
राकिनीहाकिनीचैवषट्कोणेषुयजेत्क्रमात् || ८ ||

अष्टपत्रेषुदेवेशितथानंगादिपूजनम् मातरोभैरवःसार्धंतथापीठादिभैरवाः इंद्रादयश्चसंपूज्यादक्षिणाम्नायमानिता इतिषट् कूटभैरवीविधिः

ईश्वरुवाच

षट्कूटभैरवीवर्णात्संहारक्रमतोलिखेत् |
तथासंयोज्यनित्येयंभैरवीभयहारिणी || ११ ||

षट्कूटभैरवीयच्चविधानपूजनादिकम् |
पश्चिमाम्नायसामर्थ्याद्कु?र्वितेपीसुरीश्वरी || १३ ||

अनयासदृशीविद्यात्रिषुलोकेषुदुर्लभा इतिनित्याभैरवीविधिः

ईश्वरुवाच

डामरैश्वरभैरव्याकादिहित्वासुरेश्वरि विंदुनादकलाक्रांतंशक्तिवीजंसमुच्चरेत् भयविध्वंसिनीनामभैरवीपरिकीर्तिता उत्तराम्नायगंभीराडामरेशीचपूजयेत् || १५ ||

इतिभयविध्वंसिनीविधिः

ईश्वरुवाच

हसास्वांतेफरेमात्मवीजंसंलिख्यमंत्रवित् |
भयविध्वंसिनीनामभैरव्याद्रूपमालिखेत् || १६ ||

मध्यमंचातिमंचैवविद्येयं भोगमोक्षदा अघोरभैरवीदेवीश्यामामुंडह्मगाकुला || १७ ||

दक्षिणोत्तरयोःप्रौढापंचमुंडाधिवासिनी |
पुस्तकंचाक्षमालांचपाशंचैवांकुशंतथा || १८ ||

खट्वांगंडमरुंचैवकपालंशूलमेवच |
दधतींपरमेशानींषट्कूटामिवपूजयेत् || १९ ||

इतिघोरभैरवीत्रिधिः

ईश्वरुवाच

चतुःसिंहासनसमांश्रीसंपद्भैरवींय यजेत् भयविध्वंसिनीनामभैरवीपूर्वमालिखेत् || २० ||

आद्येत्रितीयेदेवेशिवह्निवीसमासनम् |
इयंसंपत्प्रदानामत्रिषुलोकेषुदुर्लभा || २१ ||

चतुःषष्टिमहाकोटिद्योगिनीशासनंक्षमा |
अताम्रार्कसहस्राभांचंद्रमंडलसन्मुखीं || २२ ||

चंद्रखंडस्फुरद्रत्नमुकुटांक्षाममध्यमां |
नितंविनींस्फुरद्रक्तवसनांरक्तभूषणाम् || २३ ||

उन्मत्तयौवनप्रौढांपीनौन्नतघनस्तनीम् |
असृक्यंकाढामुंडस्रक्मंडितांगींसुभूषणां || २४ ||

पुस्तकंचाभयंवामेदक्षिणेचाक्षमालिकां |
वरंचदधतींपूज्यात्रिपुरेशीचनान्यथा || २५ ||

इतिदक्षिणामूर्तिसंहितायांभैरवीवर्णनंनामचतुर्दशः पटलः १४

Patala 15 – Fünf Sundari-Vidyas

ईश्वरुवाच

अथेशानेनवक्त्रेणमपायापिप्रजप्यते |
विद्यानांपंचकंदेवित्रिषुलोकेषुदुर्लभां || १ ||

वाग्भवंशिवसंयुक्तंवाग्भवंमध्यमंशृणु || हकलांतेमहेशानिशिववीजत्रयंलिखेत् || २ ||

रेफवामाक्षिविद्धिंदुघटितंतुतृतीयकं |
हसानुग्रहसर्गाद्यंविद्यैकासुंदरीप्रिये || ३ ||

अहसान्योजपेन्मंत्रीरवितुर्यमनुस्वरैः |
अंत्यंससर्गमायेद्धेविंदुनादकलात्मके || ४ ||

इयंद्वितीयादेवेशिसुंदरीपरिकीर्तिता |
केवलंवाग्भवंदेविवाग्भवेमध्यमेशृणु || ५ ||

हसराहसहस्रांशुवाग्भवेनचयोजयेत् |
हत्रयंकलहृल्लेखाशक्तिकूटंशृणुप्रिये || ६ ||

चतुष्कंशिववीजानांरेफानुग्रहसर्गमत् |
इयंतृतीयादेवेशिसुंदरीचतुरक्षरा || ७ ||

कलंतिशिवयुग्मंव्रुतथावीजत्रयेशिवम् |
परयापिंडितंकुर्यात्क्रूटमेतत्त्रिधाप्रिये || ८ ||

वाग्भवेकामवीजेचशक्तिवीजेचसंलिखेत् |
चतुर्थीसुंदरीख्याताभोगमोक्षप्रदायिनी || ९ ||

जीवःशिवयुगंजीवःक्ष्माक्षकारशिवेनुमत् |
एतदाद्यंचमध्यंचहसयुक्ष्माक्षमेंदुमत् || १० ||

अन्यंतुहसलक्षेन्दुहेन्द्वाकाशविभूषितं |
त्रिपुरेशीमनोरेखापंचमीसुंदरीस्मृता || ११ ||

संपत्प्रदांभैरवींचध्यायेत्पंचकमुत्तम् ऋ ष्यादिपूजाविज्ञेयात्रिपुरेशीचनान्यथा || १२ ||

इतिश्रीदक्षिणामूर्तिसंहितायांसुंदरीपूजनंनामपंचदशः पटलः १५

Patala 16 – Wunschranken-Vidyas

ईश्वरुवाच

अथवक्ष्येमहेशानिविद्याकल्पलताप्रिये |
यासाविज्ञानमात्रेणपलायंतेमहापदः || १ ||

श्रीविद्यापारिजातेशीपंचकामेश्वरीतथा |
पंचवाणेश्वरीदेवीकुमारीपंचकीर्तिताः || २ ||

संपत्प्रदायाभैरव्यावाग्भवंवीजमालिखेत |
तारेणपरयादेविसंपुटीक्रतुमंत्रवित् || ३ ||

सरस्वतीहृदंतोयंरुद्रार्णैर्मनुरीरितः |
ऋषिऽस्याद्दक्षिणामूर्तिर्गायत्रीछंदुच्यते || ४ ||

पारिजातेश्वरीवाणीदेवतापरिकीर्तिता |
द्वितीयेचतृतीयंचवीजशक्तीचतारकं || ५ ||

कीलकंचमहेशानिमहासारस्वतप्रदम् |
षड्दीर्घस्वरसंभिन्नवीजेनांगानिसंन्यसेत् || ६ ||

ब्रह्मरंध्रेभ्रुवोर्मध्येनेत्रश्रोत्रपुटेक्रमात् |
नासारंध्रयुगेजिह्वांलिंगयापुषुविन्यसेत् || ७ ||

वर्णान्वितास्यदेवेशींध्यायेत्सारस्वतप्रदां |
हंसारूढांलसन्मुक्तांधवलांशुभ्रवाससं || ८ ||

शुचिस्मितांचंद्रमौलिंवज्रमुक्ताविभूषणां |
विद्यांवीणास्वधाकुंभमक्षमालांचविभ्रतीं || ९ ||

एवंध्यात्वाजपेन्मंत्रंरविलक्षंसमाहितः |
हुनेत्सहस्रदशकंसितपद्मैःप्रसन्नधीः || १० ||

अथवादेवदेवेशिजुहुयान्नागपंचकैः मातृकावल्लिखेयंत्रंपीठेतद्वत्प्रपूजयते् तत्रावाणींसमावाह्यपूजयेदुपचारकैः आदावंगानिसंपूज्यपरिवारान्समर्चयेत् || १२ ||

पार्श्वर्योर्देवतायास्तुसंस्कृतांयजेत् प्रजामेधास्तुतिःशक्तिःस्मृतिर्वागीश्वरीतिच सुमतिस्वस्त्रिरित्येतावसुपत्रेषुपूजयेत् श्वातरस्तुदलाग्रेषुसंपूज्यापरमेश्वरि इंद्रादयश्चभूविंवेपुनर्देवीसमर्चयेत् पारिजातेश्वरीविद्यादुर्लभाभुवनत्रये || १५ ||

इतिपारिजातेश्वरीवाणीयजनविधिः ईश्वरुवाअथवक्ष्येमहेशानिपंचवाणीश्वरीशिवां तैरेवपंचभिर्वाणैर्विद्यापंचाक्षरीभवेत् || १६ ||

ऋषिरस्यास्तुमदनोगायत्रीछंदुच्यते |
कामेश्वरीववीजानिदेवताचेयमीश्वरि || १७ ||

व्यस्तैःसमस्तैरंगानिवाणैःपंचभिरर्चयेत् |
पूर्ववत्पंचवर्णानांन्यासंकुर्वादिचक्षणः || १८ ||

पंचकामांश्चविन्यस्यपूर्ववत्परमेश्वरि उ द्यदिवाकराभासांनानालंकारभूषिताम् || १९ ||

वंधूककुसुमाकाररक्तवस्त्रांगरागिणीम् इक्षुकोदंडपुष्पेषुविराजितभुजद्वयाम् एवंध्यात्वाजपेन्मंत्रंवर्णलक्षंसमाहितः तद्दशांशेनजुहुयाद्वंधूककुसुमैःप्रिये कामेश्वरीवसंपूज्याविशेषोवाणपूजनम् (त्रिपुरेशीवसंपूजनम्) त्रिपुरेशीवसंपूज्यमोहयेजगतीमिमाम् || २२ ||

इतिपंचवाणेश्वरीयजनविधिः

ईश्वरुवाच

अथवक्ष्येपंचकामनापिकांविश्वमातरां |
पूर्वोक्तपंचकामैस्तुपंचकामीश्वरीभवेत् || २३ ||

ऋषिःसंमोहनोनामगायत्रंछंदुच्यते |
देवतेयंकाममाद्यंवीजंशक्तेतुकीलकं || २४ ||

अंत्यमेतैर्न्यसेन्मंत्रीव्यस्तैश्चैवसमस्तकैः |
अंगानिपूर्ववत्कामवाणन्यासद्वयंयजेत् || २५ ||

रक्तांरक्तदुकुलांगंलेपनांरक्तभूषणां |
पाशांकुशौधनुर्वाणान्पुस्तकंचाक्षिमालिकान् || २६ ||

वराभीतिंचदधतींत्रैलोक्यवशकारिणीम् |
अन्यत्सर्वंपूजनादिपंचवाणेश्वरीचतु || २७ ||

पंचकामैःपरिवृताविशेषोयंनिगद्यते इतिपंचकामेश्वरीयजनविधिः ईश्वरु || ० ||

अथवक्ष्येमहेशानिकुमारींविश्वमातरम् |
कामेश्वरींभगवतींत्रैलोक्याकर्षणक्षमाम् || २९ ||

वाग्भवंत्रिपुरेशान्यांहित्वातत्संक्षिपेत्सुधीः |
कामशक्तिद्वयांतस्थंविद्येयंद्व्यक्षरीभवेत् || ३० ||

त्रिपुरेशीचृष्यादिवीजशक्तीक्रमेणतु |
आद्यंतेकीलकंसध्यंमहावश्यकरीप्रिये || ३१ ||

द्विरावृत्याषडंगानिपंचवाणान्प्रविन्यसेत् पंचकामांश्चविन्यस्यमूलेनव्यापकंन्यसेत् कामेश्वरीमहायंत्रमध्येदेवींप्रपूजयेत् विशेषंशृणुतत्रैववाणस्थानेषुपार्वति || ३३ ||

पंचकामान्प्रपूज्याथरत्यादित्रितयंयजेत् |
ततोनंगायगाद्यष्टकंस्याद्भैरवैःसहमातरः || ३४ ||

अष्टपत्रेषुचाग्रेषुयजेत्पीठाष्टकंप्रिये |
इंद्रादयश्चसंपूज्यामध्येदेवींसमर्चयेत् || ३५ ||

पुरश्चरणकृत्यंतुत्रिपुरेशीवसुंदरि |
एतांस्मरन्महेशानिमोहयेजगतीमिमाम् || ३६ ||

उद्यत्सूर्यसहस्राभांमाणिक्यवरभूषणान् |
स्फुरद्रत्नदुकूलाढ्यांनानालंकारभूषणां || ३७ ||

इक्षुकोदंडवाणांश्चपुस्तकंचाक्षिमालिकां |
दधतींचिंतयेन्नित्यंसर्वराजवशंकरीम् || ३८ ||

इतिकुमारीयजनविधिः इतिश्रीदक्षिणामूर्तिसंहितायांकल्पलताकथनंनामषोडशः पटलः १६

Shri Yantra: Gestalt der Verehrung und Betrachtung.

Patala 17 – Annapurna

देव्युवाच

पंचरत्नमहाविद्यासूचितानप्रकाशिता |
श्रोतुमिछामिदेवेशकृपांकुरुमहेश्वर || १ ||

ईश्वरुवाच

सिद्धविद्यांप्रवक्ष्यामिस्मरणेनापिसिद्धिदाम् |
कामदामत्तदानित्यंसर्वैश्वर्यप्रदाप्रिये || २ ||

श्रीविद्यासिद्धविद्याचमातंगीभुवनेश्वरी |
वाराहीतिचसंप्रोक्तापंचरत्नंप्रकीर्तितम् || ३ ||

शिवाग्निवामनयनविंदुनादकलात्मकं |
श्रीकामयुगलंचोक्ताहृदंतेभगवत्यपि || ४ ||

माहेश्वरीचतुर्वर्णमत्रपूर्णंततोलिखेत् |
चतुवर्णंवह्निजायाताराद्योमनुरीरितः || ५ ||

द्विदशार्णंमहेशानिप्रातरेवसमर्चयेत् |
अस्याःस्मरणमात्रेणपलायंतेमहापदः || ६ ||

ऋषिर्ब्रह्मास्यमंत्रस्युष्णिक्छंदोभिधीयते |
अन्नपूर्णेश्वरीसिद्धविद्येयंदेवताप्रिये || ७ ||

वीजशक्तीःकीलकंचहृल्लेखादिकमुच्यते |
षड्दीर्घस्वरसंभिन्नंहृल्लेखांकुरुपार्वती || ८ ||

एभिरंगानिविन्यस्यवर्णन्यासंसमाचरेत् |
ब्रह्मरेध्रेचसीमंतेभालेभ्रूमध्ययोर्नसि || ९ ||

वक्त्रेकंठेचहृदयेकुक्षिनाभिषुलिंगके |
आधारेस्फिक्द्वयेचोरुद्वयेजानुद्वयेतथा || १० ||

पादयोर्देवदेवेशिपदन्यासंततोन्यसेत् नवद्वारेषु(हृदयेकुक्षिनाभिषुलिंगके आ)(धारेस्फिक्द्वयेचोरुद्वयेजानु) देवेशिपदन्यासमुदाहृताः || ११ ||

मूलेनव्यापकंन्यासंकुर्याद्देहस्यशुद्धये |
अथयंत्रंप्रवक्ष्यामिभोगमोक्षफलप्रदम् || १२ ||

त्रिकोणंषोडशारंचततोष्टदलनीरजं |
भूविंवंपरमेशानितारंमध्येविनिक्षिपेत् || १३ ||

कोणत्रयेत्रिवीजानिप्रादक्षिण्येनयोजयेत् |
अग्रमारभ्यपूर्वादिकलापत्रेशृणुप्रिये || १४ ||

अवशिष्टात्कलावर्णान्पूर्वादिक्रमतोलिखेत् |
अष्टपत्रस्यपत्रेषुलिखेदीर्घस्वरात्प्रिये || १५ ||

एतत्पीठंसमभ्यर्च्यप्रणवेनत्रिधावुधः |
तत्रावाह्यान्नदांदेवींमुद्रासाधारणंयजेत् || १६ ||

गंधपुष्पादिभिःसम्यगभ्यर्च्यपरितोयजेत् |
अग्नीशासुरवायव्यमध्यदिक्ष्वंगपूजनम् || १७ ||

ध्यात्वादेवींसिद्धविद्यांमहाक्षीरार्णवेवुधः |
रत्नद्वीपेलसद्वर्णप्राकारभवनोज्वले || १८ ||

कल्पद्रुमविशोभाढ्यसिंहासनसमन्विते |
उद्यत्सूर्यसमाभासांविचित्रंवसनोज्वलां || १९ ||

चंद्रचूडामन्नदाननिरतांरत्नभूषिताम् |
सुवर्णकलशाकारस्तनभारभरोलताम् || २० ||

रुद्रतांडवसानंदंद्विभुजांपरमेश्वरीम् |
वरदाभयशोभाढ्यामन्नदानरतांसदा || २१ ||

अथवादक्षिणेहस्तेदर्वीध्यायेत्सुवर्णजाम् |
दुग्धान्नभरितांपात्रंदिव्यरत्नादिभूषिताम् || २२ ||

वामहस्तेमहेशानिध्यात्वेमांपरमेश्वरीम् |
पुरतस्तांडवप्रौढंरुद्रंसंपूजयेत्प्रिये || २३ ||

द्वितीयेनतुवीजेनतृतीयेनहरिंयजेत् |
ब्रह्माणंतुर्यवीजेनकलापत्रंततोयजेत् || २४ ||

आदौनतसुरामोक्षदायिनीभयहारिणी |
गतिहंसीवराक्षीचतीर्थरूपाततःपरम् || २५ ||

मानदाहेमदास्वर्णदात्रीरिपुनिकृतनी |
अनर्थध्वंसिनीदेवीमननानंददायिनी || २६ ||

पूतमूर्तिऋणघ्रीचस्वामिनीहरसुंदरी |
शोडशांतेंन्नपूर्णायैनमस्कारक्रमेणतु || २७ ||

वर्णदेवींसमभ्यर्च्यवसुपत्रंततोयजेत् |
ब्राह्म्यष्टकेनदेवेशिचतुरस्रेततोयजेत् || २८ ||

लोकपालैःपुनर्देवींगंधपुष्पादिभिर्यजेत् |
लक्ष्यंजपेत्सुनियमंस्तद्दशांशेनहोमयेत् || २९ ||

रम्यपापससर्पिभ्यांसिद्धिदंभवतिध्रुवम् |
इतितेकथितासिद्धविद्यात्रफलदायिनी || ३० ||

इतिश्रीदक्षिणामूर्तिसंहितायांमन्नपूर्णायजनंनामसप्तदशः पटलः १७

Patala 18 – Matangi

ईश्वरुवाच

अथातःसंप्रवक्ष्यामिमातंगींरत्नदेवताम् |
वाग्भवंकामवीजंचसर्गवान्भृगुरुत्तमे || १ ||

अनुग्रहेणसंयुक्तःपुनराद्यंपरांलिखेत् |
श्रीवीजंतारकंचैवनमोभगवतीतिच || २ ||

मातंगीश्वरिसर्वांतेमनोहरिजनादिके |
सर्वराजवशंचांतेकरिसर्वनुखांतकं || ३ ||

रंजनीतिततःसर्वस्त्रीशव्दंचततोवदेत् |
पुरुषांतेवशंचोक्ताकर्यंतेसर्वदुष्टच || ४ ||

मृगंनेवशमालिख्यसर्वलोकपदंवदेत् |
ततश्चवशमालिख्यकरिशव्दंततोलिखेत् || ५ ||

परांश्रियंकामवीजंवाग्भवंचततोलिखेत् |
सप्ततिश्चत्रयोवर्णामातंगीविग्रहाप्रिये || ६ ||

इयंसमस्तविद्यानांराज्ञीमोक्षार्थसिद्धिदा |
ऋषिर्मतंगोभगवान्गायत्रंछंदुच्यते || ७ ||

देवतानादमूर्तिस्तुमातंगीपरमेश्वरी कामवीजंवाग्भवंच वीजशक्तीचकीलकम् || ८ ||

तार्तीयंदेवदेवेशिषडंगान्यथविन्यसेत् आद्यवीजत्रयेणैवद्विरावृत्याषडंगकम् अंभोजार्पितदक्षाघ्रिंक्षामांध्यायेन्मतंगिनीं कणद्वीणालसन्नादश्लाघ्यांदोलितकुंडलाम् दंतपंक्तिप्रभारम्यांशिवांसर्वांगसुंदरीम् कदंवपुष्पदामाघ्यांवीणावादनतत्पराम् || ११ ||

श्यामांगींशंखवलयांध्यायेत्सर्वार्थसिद्धये |
अथयंत्रंप्रवक्ष्यामित्रिकोणंपंचकोणकम् || १२ ||

वसुपत्रंकलापत्रवसुपत्रंचतुर्दलम् |
चतुरस्रंचतुर्द्वारमेवंमंडलमालिखेत् || १३ ||

आवाह्यदेवतांसम्यगुपचारैःसमर्चयेत् |
अग्नेशासुरवायव्यमध्यदिक्ष्वंगपूजनं || १४ ||

अथवक्ष्येमहेशानिचरप्रत्यपूजनम् अग्रद्वाराचतुर्दिक्षुप्रादक्षिण्येनपूजयेत् सरस्वतींचलक्ष्मींश्चशंखपद्मनिधीप्रिये विदिक्षुवामभागादिप्रादक्षिण्येनपूर्ववत् || १६ ||

वटुकंगणराजंचक्षेत्रपालंचयोगिनीः |
ततश्चतुर्दलाग्रेषुसिद्धमातंगिनींक्रमात् || १७ ||

महालक्ष्मीमयींसिद्धलक्ष्मीमातंगिनींयजेत् |
महामातंगिनींदेवींप्रादक्षिण्येनपूजयेत् || १८ ||

अष्टपत्रेमहेशानित्वसितांगादिभैरवान् |
असितांगोरुरुश्चंडःक्रोधुन्मत्तभैरवः || १९ ||

कपालीभीषणश्चैवसंहारश्चाष्टभैरवाः |
प्रादक्षिण्येनदेवेशिपुरारभ्यपूजयेत् || २० ||

वामाज्येष्टाचरौद्रीचशांतिःश्रद्धाचपंचमी |
वागीश्वरीक्रियाशक्तिर्लक्ष्मीःपुष्टिस्तथैवच || २१ ||

मोहिनीप्रमथास्वासाचीचीवैविंदुमालिनी |
स्वरानंदानागवुद्धिरेताःषोडशकीर्तिताः || २२ ||

पुरारभ्यदेवेशिप्रादक्षिण्येनपूजयेत् षोडशारेततोदेविलक्ष्मीचैवसरस्वति रतिःप्रीतिःकीर्तिशांतिःतुष्टिपुष्टिश्चपूर्ववत् पत्राष्टकेषुदेवेशिमातृणांचाष्टकंयजेत् पूर्ववत्पंचपत्रेषुद्राविणोशोषिणीतथा स्तंभिनीमोहिनीचैवतथाचाकर्षकारिणी || २६ ||

त्रिकोणेपिहिदेवेशियजेदग्रेपिपूर्ववत् |
प्रादक्षिण्येनमनुनारतिप्रीतिमनोभवाः || २७ ||

पुनःसंपूज्यदेवेशींसर्वोपस्करकैःप्रिये |
पुनश्चरणकार्येषुलक्षत्रयमुदाहृतम् || २८ ||

प्रवालमालयादेविदशांशेनतुहोमयेत् |
वंधूककुसुमैर्मंत्रीत्रिकोणेकुंडकेशुचिः || २९ ||

एवंसंशुद्धमंत्रस्तुसर्वकर्माणिसाधयेत् |
राज्यार्थीमल्लिकाजातीपुन्नागैःश्रीफलछदैः || ३० ||

श्रीकामुकःशुभ्रपद्मैःपंकजैर्वापिशुप्रभे |
उत्पलैर्भोगकामस्तुलक्ष्मीपुष्पश्चसुब्रते || ३१ ||

जपावंधूकवकुलकिंजल्कैर्वशकारिणी |
वश्यार्थीमधुसंयुक्तैर्मधूककुसुमैर्हुनेत् || ३२ ||

आकर्षणेतुलवणतिलैस्त्रिमधुसंयुतैः |
वंजुलैर्वृष्टिकामस्तुधनार्थीहेमपुष्पकैः || ३३ ||

वश्येकदंवकुसुमैराज्यार्थीधान्यतंडुलैः साज्यान्नैरलकामस्तुवश्येकुंकुमरोचनैः गंधद्रव्यैस्तुसौभाग्येनन्द्यावर्त्तैस्तुवाङ्मुये करिपुष्पैःसंपदर्थीपालाशैस्तेजसेहुनेत् कापिलेनघृतेनाथतेजस्वीहवनाद्भवेत् उन्मादनकरोहोमुन्मत्तकुसुमैर्भवेत् विषवृक्षैश्चनिवैश्चश्लेष्मांतकविभीतकैः उलूकगृद्ध्रकाकैस्तुनिंवतैलपरिस्तुतैः होमयेद्रिपुनाशायनराश्रेवह्निकुंडके यमाशाभिमुखोनग्नोभूत्वादृष्टिमलीमसः || ३८ ||

उच्चाटनंवायुभागेविद्धेशोरक्षसोभवेत् इंद्राग्नेयविभागेपिशांतिकेप्राङ्मुखोभवेत् पश्चिमेस्तंभनंचोक्तमुत्तरस्यांतुदेशिकः साधयेत्सर्वकर्माणिपौष्टिकादीनिसाधकः || ४० ||

पायसैर्गुडखंडैश्चकुर्यादिक्षुरसैरपि |
पित्तशांतिकरोहोमस्तन्यंकेवलमेवच || ४१ ||

उन्मादनाशनंतूर्णंपायसंघृतसंयुतं |
मरीचतिलतैलाक्तंकासश्वासहरंभवेत् || ४२ ||

निर्गुंडीमूलहोमेनवातदोषविनाशनं |
शृण्वथाकर्षणंशीघ्रमाकृतित्रितयंकुरु || ४३ ||

जीवन्यासंततःकृत्वामृदाचक्रीगृहोत्थया |
मधूच्छिष्टेनचान्यापिलुवणेनापिपुत्रिका || ४४ ||

कृत्वातन्नामसंकल्पमृद्रूपांकुंकुमेन्यसेत् सप्तांगुलमधःपश्चाल्लावणीमेखलागतां लंवयेदूर्द्धतःपश्चाद्वृक्षेमाक्षिकसंभवाम् लवणंपेष्यमधुनालावन्याहोमयेत्सुधीः आरभ्यदक्षिणंपादंवामपादावधिप्रिये मनुजानामयंहोमःस्त्रीणांदेविविपर्ययः || ४७ ||

सप्तरात्रान्महादेविक्षुभ्यंतिविरहातुराः |
पतंतिसाधकस्यांकेभयलज्जाविवर्जिताः || ४८ ||

लवणंनिंवतैलेनहोमयेछत्रुनाशने |
हरिद्राचूर्णसंयुक्तंलवणंस्तभनेहुनेत् || ४९ ||

पूर्वाह्नेपूर्वरात्रौचशुभार्थंचयजेद्वुधः मध्याह्नेमध्यरात्रेतुकुर्यादुच्चाटनादिकं मातंगीविग्रहोभूत्वासर्वकर्माणिसाधयेत् आवेशनंततःकुर्यात्कंन्यानांसन्निधःसुधी || ५१ ||

कन्यापूजाचकर्तव्यायोगिनीनांविशेषतः अष्टाष्टाकंसमभ्यर्च्यमार्तगीतृप्तिकृत्सुधीः वलिंनिवेदयेत्पश्चात्मातंग्यास्तुवरानने देविशक्तिनमश्चांतेभगवत्यपिसंलिखेत् || ५३ ||

मातंगीचततोब्रूयाच्चंडालीचसमालिखेत् ततःसर्वजनंचोक्तमेवशंवसमालिखेत् आनयेतिचसंलिख्यद्विठांतोमनुरुच्यते अनेनबलिदानंस्यान्मातंग्यासिद्धिहेतवे || ५५ ||

वटुकादिवलिंतद्वत्सम्यगुक्षिप्यमांत्रिकः |
साधयेत्सर्वकर्माणिमातंग्यास्तुप्रसादतः || ५६ ||

इतिश्रीदक्षिणामूर्तिसंहितायांमातंगीश्वरीरत्नयजनंनामाष्टादशः पटलः १८

Patala 19a – Bhuvaneshvari-Yantras

ईश्वरुवाच

शृणुदेविप्रवक्ष्यामिभुवनानंदमंदिरं |
यस्यविज्ञानमात्रेणपलायंतेमहापदः || १ ||

शिवंवह्निसमारुढंवामाक्षिपरिभूषितम् |
ऋषिःशक्तिर्वसिष्टस्यसुतछंदोत्रकथ्यते || २ ||

गायत्रीदेवतावोधवाचिसंवित्कलापरा |
शिवतूर्येवीजशक्तीकीलकंरेफुच्यते || ३ ||

ददातिभुवनेशानीपुरुषार्थचतुष्टयं |
अनंतवामनेत्राभ्यांवामश्रुत्याधरेणच || ४ ||

अनुग्रहविसर्गाभ्यांविद्यांसंभेद्यमंत्रवित् |
षडंगानिचविन्यस्यहृल्लेखादिमनुन्न्यसेत् || ५ ||

अकारायर्णपर्यंतंविपरीतक्रमेणच |
मातृकांसंहरेन्नद्वन्नद्वद्वर्गैविलोमतः || ६ ||

गुरूपदेशविधिनाविलोमस्वरमार्गतः |
संहारमातृकान्यासोव्रह्मानंदरसोज्वलः || ७ ||

एवंभूत्वाततोमंत्रीषडंगैरंगुलीर्न्यसेत् |
पुनरंगानिविन्यस्यचिदानंदेनतेजसा || ८ ||

कास्यहृद्गुह्यपादेषुन्यसेत्पंचपरेश्वरी |
हृल्लेखांगगनांरक्तांचतुर्थींचकरालिकां || ९ ||

महोक्षुष्मांप्रविन्यस्यतिस्रःशक्तिश्चविन्यसेत् |
गायत्रींचैवसावित्रींतृतीयांचसरस्वतीम् || १० ||

कंठेवामस्तनेदक्षस्तनेदेवत्रयंत्ततः |
ब्रह्माविष्णुशिवाख्यंचवामांशेहृदयेतथा || ११ ||

दक्षांशेचततोन्यासंमातृणांविन्यसेत्प्रिये |
ललाटेत्येवामभागेपार्श्वेकुक्षौचदक्षिणे || १२ ||

कुक्षौपार्श्वेचकेशांतेमूलेनव्यापकंन्यसेत् |
पाशांकुशवराभीतिमुद्रासन्नद्धविग्रहः || १३ ||

कुंकुमादिभिरन्यच्चसुद्रव्यैर्विलिखेत्पटे |
सुवर्णरौप्यताम्रादिरचितेदेशिकोत्तमः || १४ ||

इंद्रराक्षसवायव्यरेखाभिर्वह्निमंडलं |
तन्मध्येसाध्यनामांकंशक्तिंसंलिख्यमांत्रिकः || १५ ||

ठकारवेष्टितंकृत्वाकोणाग्रेषुपरालिखेत् |
स्थानत्रयेपिवंधस्तुकथ्यतेसिद्धिदायकः || १६ ||

तद्वीजत्रयरेखाग्रंप्रादक्षिण्येनवेष्टयेत् |
इतरत्रितयेचास्यमायाग्रेणैववेष्टयेत् || १७ ||

अन्योन्यकलयारम्याशक्तिवंधुदाहृतः |
त्रिकोणस्यांतरालेषुवामनेत्रंसविंदुकं || १८ ||

प्रत्येककोणपार्श्वेषुहर्पर्णंचहराक्षरं |
पुनरेतद्भयंमध्येतुर्यंचसविसर्गकम् || १९ ||

इत्यर्णैवेष्टयेद्वाह्येवृत्तंकृत्वावहिस्ततः |
पद्मंविरव्यवस्वस्रंकेसरस्थानकेपुनः || २० ||

हर्पणंचहरार्णंचलिखेत्प्रतिदलंसुधीः |
तुर्यस्वरंहरंतुर्यंहरिरित्यपिसंलिखेत् || २१ ||

दलेषुचदलाग्रेषुवानेत्रंचसंलिखेत् |
एतत्रिगुणितंयंत्रंवहिरास्वर्णवेष्टितं || २२ ||

कामदंमोक्षदंरम्यंसर्वैश्वर्यप्रवर्तकम् |
अस्मिन्संपूजयेत्पीठेशक्तीःसर्वार्थसिद्धये || २४ ||

जयांचविजयांचैवअजितांचापराजिताम् |
नित्यांविलासिनींदोग्ध्रींमघोरांसर्वमंगलां || २५ ||

अभ्यर्च्यपरितःपीठंनंदिनंपीठमूलगम् |
ध्यात्वाकुंडलिनींरूपांमुद्यत्भास्वत्समद्युतिः || २६ ||

पाशांकुशावराभीतिचतुर्वाहुत्रिलोचनं || २७ ||

अभ्यर्च्यपरिवाह्ययजेद्देवीमुपचारैर्मनोहरैः आवाहनादिमुद्रांश्चदर्शयेदेशिकोत्तमः अग्नीशासुरवायव्यमध्यदिक्ष्वंगपूजनम् || २८ ||

पूजयेद्देशिकवरोभोगांगंभोगसिद्धये |
उऊओगजडावर्णादवललास्तुपार्थिवाः || २९ ||

ॠऔघफढावर्णाधभवाःशश्चनीरजाः |
इईऐखछवाथश्चफरक्षावह्निसंभवाः || ३० ||

आएकचटा || १ ||

तश्चपयषावायुसंभवाः |
ऌॡअंङञणनमसहानाभसामताः || ३१ ||

उर्द्धेन्द्रयाम्यसौम्यादिप्रत्यक्दिक्षुप्रपूजयेत् |
वर्णान्समाहितोमंत्रीहृल्लेखाद्यंततःपरं || ३२ ||

पंचकंपूजयेतेषुस्थानेषुनिजसिद्धये |
ऐन्द्रनैऋत्यवायव्यकोणेषुक्रमतोयजेत् || ३३ ||

गायत्र्यादित्रयंपश्चाद्व्राह्म्यादित्रयमर्चयेत् आग्नेयवारुणेशानंदिक्षुपूज्यास्ततःपरं दलेषुमातरःपूज्यालोकपालार्चनंततः इतिभुवनीश्वरीत्रिगुणितयंत्रोद्धारः ईश्वरउवाच अथातःसंप्रवक्ष्यामियंत्रंषट्गुणितंप्रिये यस्यविज्ञानमात्रेणसर्वसिद्धिश्वरोभवेत् || ३६ ||

पुटितंवह्निमालिख्यमध्येशक्तिंनियोजयेत् |
तछक्तिरेफभागेतुसाध्यनामाक्षरंलिखेत् || ३७ ||

तुरीयस्वरभागेतुसाधकस्यवशंकुरु |
साध्यस्योपरिसंस्पृष्टंविलिखेत्सर्वसिद्धये || ३८ ||

टकारवेष्टितंकृत्वावहिःशक्तिंतुपंचधा |
विलिख्यतद्वहिस्तद्वच्छ्रीवीजंकामवीजकं || ३९ ||

पंक्तिशःपंचधालिख्यततःषट्कोणसाधनं |
षट्कोणकोणषट्केपिवामनेत्रंसविंदुकं || ४० ||

षट्कोणसंधिषुपुनःशक्तिवीजंसमालिखेत् |
पूर्ववच्छक्तिवीजस्तुकार्यःसंस्पर्शवर्जितः || ४१ ||

ऊर्द्धकोणत्रयस्यांतेरालेषुविलिखेद्वुधः |
साधकस्यसविदूतिनामोर्णानिततःपरम् || ४२ ||

शक्तिश्रीकामवीजानिलिखेतत्रैवदेशिकः |
अधःकोणेत्रयस्याथत्वंतरालेषुमंत्रवित् || ४३ ||

साध्यक्षराशिशक्तिश्रीकामवीजानिचक्रमात् |
सविसर्गानिसंलिख्यविदर्भ्यगुरुसेविकः || ४४ ||

कोणपार्श्वेषुसर्वत्रहरिवर्णहराक्षरैः |
विलिख्यचततोवाह्येवृत्तंपूर्णेन्दुवत्कुरु || ४५ ||

अनुलोमेनतद्वृत्यमध्येपंचाशदक्षराः |
तद्वृत्तवाह्यतस्तद्वद्विलोमेनचमातृका || ४६ ||

विक्षेपावेष्टनेदेविततोभूयुगलंलिखेत् |
संपुटत्वेनदेवेशिवसुकोणंतदाभवेत् || ४७ ||

मध्येदिक्षुनृसिंहस्यवीजमंत्रंसमालिखेत् |
क्षौमात्मकंनृसिंहस्यवीजंजानीहिपावति || ४८ ||

रक्षत्रपवनार्षीशमनुस्वरविभूषितः |
विंदुनादकलाक्रांतअयंचिंतामणिःप्रिये || ४९ ||

कोणेषुविलिखेन्मंत्रीततस्तुकोणसंधिषु |
विलिख्यशूलान्प्रणवैस्ततःपद्मंसमालिखेत् || ५० ||

हलैर्द्वादशभिरम्यंराश्यर्णपरिजृंभितं |
एतत्वद्भुणितंयंत्रंसर्वैश्वर्यप्रवर्तकं || ५१ ||

तत्रपीठंसमभ्यर्च्यसमावाह्यचपूर्ववत् |
उपचारैर्गंधपुष्पैर्धूपैर्दीपैर्मनोहरैः || ५२ ||

आवाहनादिमुद्राश्चदर्शयित्वार्चनंभवेत् |
षट्कोणाग्नीशनैरृत्यवायुमध्येचदिक्षुच || ५३ ||

षडंगावरणंकुर्याद्वितीयाचरणंततः |
व्रह्मणासहगायत्रीसावित्रीविष्णुनासह || ५४ ||

सरस्वतीशिवेनैवश्रीस्तुथाधनदेनच |
मदनेनरतिःपुष्टिर्गणपेनसमर्चयेत् || ५५ ||

षट्कोणपूर्वकोणादिप्रादक्षिणोनपूजयेत् |
रक्तानंगादिकुसुमातृतीयाकुसुमेतरा || ५६ ||

नित्यानंगादिमदनाषष्टीतुमदनातुरा |
गौरीचगगनाचैवतथागगनवेगिनी || ५७ ||

पद्माभयप्रमथिनीतथाचशशिशेखरा |
एताद्वादशपात्रेषुपूर्वादिक्रमतोयजेत् || ५८ ||

चतुर्दलानिसंपूज्यदिक्षुब्राह्म्यादिकायजेत् |
भूगृहेलोकपालाश्चेतत्षड्गुणितंप्रिये || ५९ ||

वागादिसिद्धयःसर्वाजायंतेसाधकस्यतु |
पुनराराध्यनैवेद्यमुखैराराधयेत्पराम् || ५९ ||

इतिश्रीदक्षिणामूर्तिसंहितायांभुवनेश्वरीषट्गुणितयंत्रोद्धारः

ईश्वरुवाच

अथार्कगुणितंवक्ष्येयंत्रंसर्वोत्तमोत्तमम् |
यस्यविज्ञानमात्रेणभुवनाधीश्वरोभवेत् || ५८ ||

षट्कोणंपूर्वमुद्धृत्यपश्चातत्संधिदेवता |
षट्कोणांतरमुत्पाद्यभवेद्वादशकोणकं || ५९ ||

तन्मध्येशक्तिमालिख्यपूर्वौक्तेनविधानतः ठकारमध्येतद्वाह्यवेष्टयेत्प्रतिलोमतः सम्यग्व्याहृन्निभिर्मंत्रास्ततःषट्कोणसंधिषु विलिख्यभुवनेशानींद्वादशस्थानजृंभितं पूर्ववच्छक्तिवंधस्तुकुर्याद्वादशधाप्रिये एकैकांतरितंकुर्वन्मनोज्ञमंडितंकुरु || ६२ ||

द्रुमात्मकंद्वादशारेसविंदुंतूर्यमालिखेत् |
तदूर्द्धंरविकोणेषुसर्वकामार्थसिद्धये || ६३ ||

अथद्वादशकोणस्यसंधिवीजांतरालकः |
शूलानिविलिखेन्मंत्रीततःकोणकपोलयोः || ६४ ||

एकैकस्यचकोणस्यगायत्रींचसमालिखेत् |
तत्पदंसवितुर्वीतेणियंरेव्युत्क्रमालिखेत् || ६५ ||

भर्गोदेवस्यधीमहिधियोयोनःप्रचोदयात् |
एतदष्टाक्षरंदेविमह्यादिपरिकीर्तितम् || ६६ ||

चतुर्विंशाक्षरेचेयंगायत्रीदेवमातृकां |
द्वंद्वंशोविलिखेद्वर्णान्गायत्र्यास्तुविलोमतः || ६७ ||

तद्वहिःकोणपार्श्वेषुविलोमाग्नेयसन्मुखम् |
प्रणवंभूर्भुवःस्वोग्नेर्लिखेदेतत्षडक्षरं || ६८ ||

जातवेदिहालिख्यवहसर्वचतुष्टयम् |
कर्माणिसाधयस्वाहाविद्याग्नेयस्यदुर्लभा || ६९ ||

लिखेत्ततः परंदेविसर्वकार्यार्थसिद्धये अनुलोमंविलोमंचमातृकांवेष्टयेत्ततः || ७० ||

भूपुटंपूर्ववद्वीजमंडितंमंडलंलिखेत् |
तद्वहिस्तुकलापत्रंद्वात्रिंशत्केसरान्वितम् || ७१ ||

महार्कगुणितंदेविनिगमागममंदिरम् |
पूर्ववत्पीठमभ्यर्च्यदेवीमावाह्यपूर्ववत् || ७२ ||

परिवारार्चनंकुर्यादादावंतेर्चनंप्रिये |
हृल्लेखापंचकंवर्णसहितंपूर्ववद्यजेत् || ७३ ||

ब्रह्मादियुगषट्कंतुपृथग्द्वादशधायजेत् कोणेषुपूर्वकोणादिकलास्त्राणिततोयजेत् करालीविकरालीचतथोमाचसरस्वती दुर्गाशचीतृषालक्ष्मीश्रुतिस्मृतिधृतित्रयम् || ७५ ||

श्रद्धामेधाधृतिःकांतिरार्याषोडशकीर्तिताः |
पूर्वादिक्रमतःपूज्यादलाग्रेषुचसंधिषु || ७६ ||

श्रीह्रीःपुष्टीःप्रजाश्चैवशिनीवालीकुहूस्तथा |
रुद्रवीर्यप्रभानंदाषोषणीशुद्धिदातथा || ७७ ||

कालरात्रीमहारात्रीर्भद्रकालीकपालिनी |
विकृतिर्नंदिनीचैवमुडिंनीचततःपरम् || ७८ ||

इंद्रखंडाशिखंडिन्योनिशुंभमथिनीतथा |
मर्दिनीमहिषस्यापितथैन्द्राणीततःपरं || ७९ ||

रुद्राणीशंकरर्द्धादिशरीरिण्यपिकीर्तिता |
नारीनारायणीचेयंत्रिशूलिन्यपिपालिनीं || ८० ||

अम्विकाह्लादिनीज्ञेयंद्वात्रिंशच्छक्तिमंडलं |
तद्वहिःपिंगलाक्षीचविशालाक्षीततःप्रिये || ८१ ||

सबुद्धिवृद्धीचस्वधास्वाहाश्रद्धातथैवच |
नित्यावसुंधराचैवधात्रीत्रैलोक्यपूर्विका || ८२ ||

गायत्रीचैवसावित्रीतथाचत्रिदिवेश्वरी |
सुरूपावररूपाचतथाचबहुरूपिका || ८३ ||

स्कंदमाताच्युतप्रीतिविमलाचामलातथा |
अरुणीवारुणीचैवप्रकृतिर्विकृतिस्तथा || ८४ ||

सृष्टिस्थितिःसंहृतिश्चसंध्यामातासतीतथा * * * वर्दिकाचज्रीपरदेवादिमातृका || ८५ ||

तथाभगवतीचैवदेवकीकमलासना |
त्रिमुखीचतथासप्तमुखीदेशिकवंदिते || ८६ ||

सुरास्वरादिसहितामर्दिनीचततःपरम् |
लंवोष्टीचोर्द्धकेशीचवहुशीर्षावृकोदरी || ८७ ||

वृकोदरीतथारेखारथादिशशिरेखिका |
अपरागमनादिश्चवेगापवनवेगिका || ८८ ||

तथाभुवनपालाचतथाचमदनातुरा |
अनंगानंगमदनातथानंगादिमेखला || ८९ ||

अनंगकुसुमाचैवविश्वरूपाभयंकरी असुराणातथाक्षोभ्यातथावैसत्यवादिनी वसुरूपतराचैवसुवृत्तापरमेश्वरी वरदाचैववागीशीचैताःशक्तीस्तुपूजयेत् प्रादक्षिण्यक्रमेणैवसर्वकामार्थसिद्धिदा चतुःषष्टिमहाशक्तिपूजनंकथितंतव || ९२ ||

तद्वहिर्लोकपालांश्चभूविंवेपूजयेत्सुधीः पुनर्देवींसमभ्यर्च्यनैवेद्यादिसमर्पयेत् इतितेकथितंसम्यग्देवानामपिदुर्लभम् || ९४ ||

इतिश्रीदक्षिणामूर्तिसंहितायांभुवनेश्वरीद्वादशगुणितयंत्रोद्धारकथनपूजाविधिर्नामेकोनविंशः पटलः १९

Patala 19b – Jutargala-Yantra

ईश्वरुवाच

मुखवृत्तंविंदुनादकलाढ्यंपाशुच्यते |
सामाग्नितारसहितमंकुशंविद्धिपार्वति || १ ||

एतन्मध्यगताविद्यायदापूज्यासुरेश्वरीः |
प्रक्षरावापंचवर्णाताभ्यांसंपुटितंप्रिये || २ ||

तदाद्यगर्गलोद्धारःकथितोभुविदुर्लभः |
येनानुष्टितमात्रेणत्रैलोक्याकर्षणंभवेत् || ३ ||

संप्रदायेनदेविशिश्रीगुरोऽकृपयान्वितः |
सम्यक्सूत्रेणरचयेत्सुवृत्तंवृत्तमुत्तमम् || ४ ||

ततोभूविंवयुगलंसंपुटीकृत्ययोजयेत् |
अष्टकोणंतथादेवीजायतेदिङ्मनोहरम् || ५ ||

अष्टदिक्षुतदंशाभ्यारेखेआकृक्ष्यमांत्रिकः |
रेखाभ्यामर्गलंदेविजायतेतीवसुंदरः || ६ ||

एकैनैवतुमानेनरचयेदर्गलाष्टकम् वृत्तंतदग्रेचंद्रस्यविंचवद्रचयेद्वुधः पुनरेखासमाकृष्यपूर्ववृत्तमुत्तमम् विरच्यसाधकेन्द्रस्तुवसुकोष्टयुगंक्रमात् || ८ ||

व्यक्तंयथाभवेद्देविकेसराणांवसुद्वयम् |
अर्गलानिचरम्यानिवथीसम्यग्भवंतिहि || ९ ||

तथाकार्यंमहेशानित्रैलोक्याकर्षणंभवेत् |
शक्तिवीजंसाध्यन्ममसाधकेनसमन्वितम् || १० ||

पाशांकुशमहावीजयुगसंपुटितंचयत् |
कर्णिकायांमध्यवृत्तेसंलिखेत्साधकोत्तमः || ११ ||

अष्टकोणेषुविलिखेत्षडंगानियथाक्रमं |
अग्नीशासुरवायव्यकोणेषुमनुवित्तमः || १२ ||

कवचांतानिसंलिख्यमध्येनेत्रंयजेद्वुधः |
चतुर्दिगंतकोणेषुचतुर्द्धास्त्रंलिखेत्प्रिये || १३ ||

वृत्तादिवसुकोणांतंलिखेद्वस्वर्गलेषुच वीजर्वृदंमहेशानिसंप्रदायक्रमेणहि वन्हि शक्तिपरित्यज्यतत्रभूभूषितंकुरु तद्वीजंस्वरसंभिन्नंॠऌॡविवर्जितं || १५ ||

एवंद्वादशधातत्रचतुर्धाकुरुसुंदरी |
आद्यत्रिकंपूर्वमुखंलिखेदुत्तरतःप्रिये || १६ ||

द्वितीयंपूर्वमुखांतुलिखेदक्षिणतःसुधीः |
तृतीयंपश्चिमेभागेतथादक्षिणतोलिखेत् || १७ ||

चतुर्थमर्गलंतद्वत्पश्चिमेतूत्तरांतकः |
भूवंहित्वार्कवीजानांतत्रवायुंनियोजयेत् || १८ ||

अग्न्यार्गलायांत्रितयमाद्यंपूर्वतालिखेत् |
तथापश्चिमतोप्यन्यतत्रिकंलिष्यमांत्रिकः || १९ ||

मारुतार्गलकेतद्वल्लिखेत्पश्चिमतत्प्रिये |
पूर्वतोपिचदेवेशिसर्वकार्यार्थसाधकः || २० ||

यमार्गलायांदेवंशिकथयामिवरानने |
वायुंहित्वार्कवीजानांवरुणंतत्रःनिःक्षिपेत् || २१ ||

पूर्वतस्त्रितर्ययाम्येद्वितीयंपश्चिमांतगं |
ततोत्ररर्गलायांचलिखेत्पश्चिमतःसुधीः || २२ ||

चतुर्थंपूर्वतोदेविगुरुमार्गेणसुंदरि |
नीरंहित्वार्कवीजानांरेफंतत्रविनिक्षिपेत् || २३ ||

लिखेद्रक्षोर्गलायांतुत्रिकमाद्यंत्रिकंपरं |
दक्षिणोत्तरतोमंत्रीक्रमाच्छैवार्गलंपुनः || २४ ||

आदावुत्तरतोदेविपश्चाद्दक्षिणमार्गतः |
अंतराष्टसुकोष्टेषुकेसुराख्येषुसंलिखेत् || २५ ||

पाशश्रीभुवनेशानीकामवीजचतुष्टयं |
विपरीतंचमंत्रज्ञोवस्वर्णमिदमालिखेत् || २६ ||

अंत्यपाशंपरित्यज्यशृणिंसयोज्यसाधकः |
तद्वहिर्वसुकोणेषुविलिखेतुक्रमेणहि || २७ ||

कामिन्यंतेरंजिनीस्थात्ततोग्रेप्यत्रिवल्लभा |
अष्टवर्णानुक्तरूपापराकेसरेषुच || २८ ||

अंतकोष्टस्वरूपेषुचंद्रकात्यानीमनुं |
शक्तिगौरित्रिकेरुद्रदयितेपंचवर्णकम् || २९ ||

योगीश्वरींसमालिख्यकवचास्त्राग्निवल्लभा चंडीकात्यायनीदेवीत्रिषुलोकेषुदुर्लभा अथातःसंप्रवक्ष्यामिवहिरस्येववेष्टतत् || ३० ||

हंसःपदंवामनेत्रंविद्विंदुपरिभूषितम् |
पुनर्हंसपदंचैतत्पंचार्णमनुमालिखेत् || ३१ ||

स्वरद्वंद्वोदरगतंसप्तार्णंचाष्टधाभवेत् |
वहिःपद्मंचाष्टपत्रमतिसुंदरमालिखेत् || ३२ ||

दलेषुकर्णिकामंत्रीस्त्रियंत्मांचाष्टसुक्रमात् |
पाशांकुशाभ्यांतद्वाह्येवृत्ताकारेणवेष्टयेत् || ३३ ||

अनुलोमप्रकारेणमात्रिकावेष्टनंलिखेत् |
तथैवप्रतिलोमंचमातृकावेष्टनंप्रिये || ३४ ||

एतत्सर्वंठकारेणवेष्टयेन्महताप्रिये घटार्गलंमहायंत्रंपुरुषार्थफलप्रदं अस्मिन्समावाह्यदेवीमुपचारैःसमर्चयेत् आदार्वगानिदेवेशिकरांगेषुचविन्यसेत् || ३६ ||

आनंदरूपिणींध्यात्वामुद्रासमद्धविग्रहः |
परिवारार्चनंकुर्यात्प्रथमाचरणंशृणु || ३७ ||

हृल्लेखापंचकंचायंद्वितीयांगादतिप्रिये कोणाष्टकेयथापूर्वंततःपद्मदलेषुच मातरोदेवदेवेशिपूर्वादिपरिपूजयेत् लोकपालांश्चतद्वाह्येपुनरंवाममर्चयेत् उपचारैर्मनोरम्यंस्तांवूलांतैःपृथक्पृथक् यथाशक्तिजपंकृत्वानियमेनतुसुंदरि || ४० ||

अयंनित्यप्रकारस्तुपुरश्चरणकंशृणु रविलक्षंजपेद्विद्यांतद्दशांशेनहोमयेत् त्रिमध्वक्तैःक्षीरवृक्षैःसुमिद्भिश्चतथातिलैः समासेनहुनेत्सम्यक् पुरश्चारीततोभवेत् || ४२ ||

जातीपुष्पैर्वश्यकामोसंपत्यैकमलैःप्रिये समिद्भिःपुष्टिकामस्तुखादिरैर्जुहुयात्प्रिये एकाक्षरेपिदेवेशिसंत्यत्रभुवनानितु व्योमवीजेमहेशानिकैलासादिप्रतिष्टितं ब्रह्मबीजान्न्यवर्णादिनिष्पन्नंबहुधाप्रिये तेनायंवर्ततेलोकेभूमंडलसमस्थितिः || ४५ ||

तुर्यस्वरेणपातालेशेषरूपेणधार्यते |
महाभूमंडलंतस्मात्पातालस्यापिनायिका || ४६ ||

अतेवमहेशानिभुवनाधीश्वरीभवेत् |
हकारेव्योमतुर्येणस्वरेणानिलसंभवाः || ४७ ||

विकारेसतिरेफेणसाक्षाद्वह्निस्वरूपिणी |
वह्निवीजंवसुज्ञेयंतस्माद्रेफंवस्वंधरा || ४८ ||

अतेवमहेशानिरन्तयोःसमताभवेत् |
विंदुश्चंद्रामृताद्देवीप्लावयंतीजगत्त्रयम् || ४९ ||

द्रवरूपाभवेतस्मात्सृजंतीचार्द्धमात्रया |
अतेवमहेशानिभुवनेशीतिकथ्यते || ५० ||

इतिश्रीदक्षिणामूर्तिसंहितायांजूटार्गलयंत्रोद्धारसाधनंनामेकोनविंशतितमः पटलः १९

Patala 20 – Panchami-Verehrung

ईश्वरुवाच

पंचमींरत्नविद्येशींकथयामिशृणुप्रिये |
यस्याःस्मरणमात्रेणपवनोपिस्थिरोभवेत् || १ ||

वाग्भवंवीजमुच्चार्यगलानुग्रहविंदुभिः |
नादेनभूषितंवीजंपार्थिवंचोच्चरेत्ततः || २ ||

पुनराद्यंनमोंतेभगवतीतिसमालिखेत् वार्तालियुग्मंवाराहिपुनरेतत्त्रयंलिखेत् वाराहमुखिचद्वंद्वंसंधिहीनंततःपरम् || ३ ||

अंधेचांधिनिसप्तार्णंहृदंतेनभवेत्प्रिये |
रुंधेरुंधिन्यतोहृच्चजंभेजंभिनिहृतथा || ४ ||

मोहेमोहिनिहृच्चापिस्तंभेस्तंभिनिहृततः |
एतदुक्त्वामहेशानिसर्वदुष्टान्प्रदुष्टच || ५ ||

सहानन्तेनाकारेणवर्ततेइतिसानन्तम् सानंतंनांचसर्वेषांसर्ववागितिचित्तच चक्षुर्मुखगतिंप्रोक्ताजिह्वास्तंभंकुरुद्वयं शीघ्रंवश्यंकुरुद्वंद्वंवाग्भवंपार्थिवंपुनः टकारस्यचतुष्कांतेकवचास्त्राग्निवल्लभा चतुर्दशोत्तरशतंमन्वर्णाचभवंतिहि || ८ ||

चतुश्चत्वारिंशतिभिःपदैर्न्यासस्तुकीर्त्यते |
मातृकांविन्यसेद्वक्रीपदानिदशमंत्रवित् || ९ ||

दोःपत्संधिषुसाग्रेषुन्यसेद्विंशतिसंख्यकान् |
यदार्णान्यपिविन्यस्यपार्श्वयोरेकमुत्तमं || १० ||

अनेनैवप्रकारेणमातृकांविन्यसेत्सुधीः |
ततःषडंगविन्यासंकुर्याद्देहस्यशुद्धये || ११ ||

वार्ताल्यास्तुपदद्वंद्वंहृदयेचततःपरम् |
वाराहियुगलंदेविशिरोमंत्रुदाहृतः || १२ ||

वाराहमुखियुग्मंतुशिक्षासप्ताक्षरंततः |
कवचंततःसप्तवर्णैर्नेत्रंन्यसेत्क्रमात् || १३ ||

ततःसप्ताक्षरंचासुंषडंगानिन्यसेत्प्रिये |
सर्वेणव्यापकंन्यासंआचरेत्सर्वसिद्धये || १४ ||

यंत्रोद्धारंप्रवक्ष्यामियेनत्रैलोक्यमोहनं |
ताम्रेवाराजतेस्वर्णमयेवैभूर्जपत्रके || १५ ||

लिखेद्रोचनपावापिकुंकुमागुरुचंदनैः |
हरिद्रयावरुणयालिखेच्चक्रंमनोहरं || १६ ||

त्रिकोणंपंचकोणंचषट्कोणंवसुपत्रकं |
शतपंत्रंसहस्रारंगतोभूविंवमालिखेत् || १७ ||

चतुर्द्धारंविशोभाढ्यंमध्येसिंहासनंयजेत् |
वाणीभूवीजयुग्मेनसंपूज्यासर्वमातरः || १८ ||

स्फटिकाचलमध्यस्यंपीठमेतद्विचिंतयेत् |
देवीमावाहयेत्तत्रध्यानंकुर्ययाद्विचक्षणः || १९ ||

प्रत्यग्रारुणसंकाशपद्मांतर्गर्भसंस्थितां |
इंद्रनीलमहातेजःप्रकाशांविश्वमातरम् || २० ||

कदंवमुंडमालाढ्यांनवरत्नविभूषितां |
अनर्घ्यरत्नघटितंमुकुटश्रीविराजितां || २१ ||

कौशेयद्वारुकांचारुप्रवालमणिभूषणां |
हलेनमुशलेनापिवरदेनाभयेनच || २२ ||

विराजितचतुर्वाहुंकपिलाक्षींसुमध्यमां |
नितंविनीमुत्पलाभांकठोरघनसत्कुचां || २३ ||

कोलाननांयजेद्देवींउपचारैःसहेतुभिः |
गंधपुष्पादिभिःसम्यक्सर्वकामार्थसिद्धिदां || २४ ||

सप्ततिश्चसहस्राणिपुरश्चरणसिद्धये |
तद्दशांशेनहोमस्तुतिलैर्वंधूकपुष्पकैः || २५ ||

त्रिमधुक्तैर्हेतुभिश्चहरिद्राखंडकैर्हुनेत् लाक्षागरुपुरद्रव्यैःपिसितैर्विविधैरपि सिद्धिर्भवतिदेवेशिमंत्रिणोनात्रसंशयः शृणुपूजाविधानंतुदेवीमावाह्यसिद्धये || २७ ||

आदावंगावृतिंयष्ट्वात्वग्नीशासुरवायुषु |
मध्येदिक्षुत्रिकोणांतस्त्रिषुकोणेषुसंशृणु || २८ ||

वामवामेत्तराग्नेषुक्रमेणत्रितयंयजेत् |
जंभिनीस्तंभिनीचैवमोहिनीसर्वसिद्धये || २९ ||

रुंधिन्याद्यास्तुदेवेशिस्तंभिन्यास्तान्प्रपूजयेत् |
पंचकोणेमहादेविपुरादिक्रमेणतु || ३० ||

मत्युस्थानेतुतद्वाह्येततोमात्रार्चनंभवेत् |
षडारेपुरारभ्यप्रादक्षिण्येनपूजयेत् || ३१ ||

डाकिनीराकिनीदेवीलाकिनीकाकिनीतथा |
साकिनीहाकिनीचैवततःषटकोणकेयजेत् || ३२ ||

षट्कोणपार्श्वयोःपूज्येदेव्यौसर्वार्थसिद्धये |
हलंकपालंदधतींक्रोधिनींवामतोयजेत् || ३३ ||

मुशलेष्टकरांदेवींस्तंभिनीदक्षिणेयजेत् |
चंडोच्चंडमहेशानिषट्कोणपुरतोयजेत् || ३४ ||

नागंकपालंडमरुंत्रिशूलंदधतंप्रिये |
नग्नंनीलजटाराजन्मस्तकंपंचमीसुतं || ३६ ||

ततोष्टदलपत्रेषुवार्ताल्याषष्टकंयजेत् शृणुत्वमेवतस्यार्येपूजयेन्महिचाष्टकं श्रृंगायांतांत्ररिक्तानिकुक्षिचक्रनिकृंतनं नीलजीमूतसंकाशंरिपुंभूयतक्षमं || ३८ ||

शतंपत्रंक्रमात्पूज्यंरुद्रार्कवसुदसुकैः |
त्रयस्त्रिंशद्दलगतैःत्रिवारोच्चारितैःपृथक् || ३९ ||

अवशिष्टदलेयोज्यास्तंभिनीजंभिनीयुता |
शतादग्रेमहेशानिमहासिंहंसमर्चयेत् || ४० ||

सहस्रपत्रेसंपूज्यावाराहीनांसहस्रकं |
अंकुशातेमहादेविवाराह्यैनमालिखेत् || ४१ ||

अनेनमनुनादेविपूजयेतुसहस्रधा |
भूविंबवटुकंक्षेत्रंयोगिनींगणपान्यजेत् || ४२ ||

पुनर्देवींसमाध्यगंधपुष्पादितर्पणैः |
अक्षमालाहरिद्रायामुख्यास्तंभनकारिणी || ४३ ||

स्फाटिकीवाथपद्माक्षरुद्राक्षारिसमुद्रवा |
पुरश्चरणकार्यार्थंजपेद्विद्यांतदात्मिकां || ४४ ||

इतिश्रीदक्षिणामूर्तिसंहितायांपंचमीक्रमार्चनविधिर्नामविंशतिमः पटलः २०

Patala 21 – Panchami-Shakata-Yantra

ईश्वरुवाच

अथातःसंप्रवक्ष्यामितर्पणंभुविदुर्लभं |
तिलमैरेयवंधूककुसुमैस्तर्पयेच्छिवां || १ ||

मनोहरेसुवर्णादिपात्रेसंपूज्यपूर्ववत् |
अनेनविधिनाविप्रोप्रियोभवतिनिश्चयात् || २ ||

एतस्याएवविद्यायाकुंडोस्तिपरमेश्वरि |
विशेषःकथ्यतेसोत्रसर्ववैरिनिकृंतनः || ३ ||

एकहस्तमितंकुंडमधोहस्तेनविस्तरम् |
हस्तखातंमनोरम्यंहोमश्चात्रनिगद्यते || ४ ||

स्तंभनेशिवदिग्भागेनिग्रहेयमदिग्भवेत् |
अस्मिन्कुंडेमहेशानिभैरवाग्निंप्रपूजयेत् || ५ ||

लौकिकामिंयजेत्मंत्रैर्वक्ष्यमाणैःपरेश्वरि |
हृदयंभुवनेशान्याभुवनेशींचसंलिखेत् || ६ ||

तस्याएवशिखांदेविवीजत्रयमिदंप्रिये |
उक्ताभैरवमुच्चार्ययचतुर्थ्यंतेनमोलिखेत् || ७ ||

इत्यग्निपूजनंकृत्वाततोग्नेराहुतिंयजेत् |
पूर्ववीजत्रयंभैरवाग्नयेद्विठमालिखेत् || ८ ||

अनेनैकाहुतिंदत्वानीलोत्पलशुभानने |
नीलोत्पलैर्भैरवाग्निंतापिछैरपिवायजेत् || ९ ||

तापिछैःस्तंभनेहोमेविज्ञेयस्तुचतुःशतं |
देवदारुतिलैर्लाक्षाहरिद्राभिस्तथाभवेत् || १० ||

त्रिसप्तमध्यरात्रेषुप्रत्येकंसाष्टयुक्शतं |
हरिणीमुद्रयाहोमकथितस्तत्रसुंदरि || ११ ||

दक्षिणेहोमकुंडस्यहस्तिमात्रतिलात्प्रिये |
प्रसार्पभांडेस्वर्णादिमृज्जीवालोहसंभवैः || १२ ||

कृष्णशाटीपरिछिप्तोत्पलतापिछपुष्पिणीं |
तिलमिश्रैरंवुभिस्तंपूजयेन्मनुवित्तमः || १३ ||

वाग्भवंधरणीमुक्त्वाकर्षणादिहलायच |
नवाक्षरमिदंचोक्तंहृदंतंमंत्रमालिखेत् || १४ ||

अंकुशंक्रोधितंदेविमुशलायनमोलिखेत् |
सप्तविंशतिकृत्वातुदेवीमंत्रसमुच्चरेत् || १५ ||

घटंस्पृष्ट्वाहृदिध्यात्वापंचमींपरमेश्वरीं |
तद्घटस्थोदकैःशत्रुमभिषिंचेद्विचक्षणः || १६ ||

कफान्वितःछयीवैरिवश्योभवतिनिश्चयात् अथतिग्रहहोमस्यविधिंवक्ष्येशृणुप्रिये खरमेषांगरक्तेनलाजाश्चूर्णतिलैःसह मिश्रंपिंडंतुपिंडेनमेलयेद्धेतुनाप्रिये || १८ ||

पिशितैःगंधपुष्पायैःधूपदीपैश्चसाधकः |
तर्पयेद्योगिनीपिंडंपरमानंदसुंदरं || १९ ||

स पलवेश्मसंकल्पमृदावालोहकेनवा निवेद्यंकुंडवक्त्रेचाहुतेल्लाजरजःकणैः || २० ||

अयुतंसंजपेद्देवित्रिपक्षक्षणदांहुतेत् |
त्वगसृग्मांसमेदोस्थिमज्जाशुक्राणिवैरिणः || २१ ||

योगिनीनांमुखेदेविपतंत्यत्रनसंशयः |
अथातःसंप्रवक्ष्यामिसाधकानंदकारकं || २२ ||

प्रणवंप्रणवेनैवसंपुटीकृत्ययोजयेत् |
औभ्यांग्लौभ्यांचसाध्याख्यंठकारेणचवैष्टयेत् || २३ ||

अष्टभिःकुलिशैहुत्वाग्लौंक्रौंइतितदंतरे |
कुलिशाग्नेतारवीजंपार्थिर्वमंडलंततः || २४ ||

कुलिशांतेलिखेत्साध्यंवाह्यंविद्यांसमालिखेत् |
चतुरंकुशसंरुद्धंसर्वमेववरानने || २५ ||

रुद्रस्वरेसमारोप्यपीतपुष्पैःसमर्चयेत् |
पंचमीशकटंयंत्रंत्रिषुलोकेषुदुर्लभं || २६ ||

सहस्रसंख्ययाजप्तंनिशाभांडेक्षिपेद्वुधः खनेद्रात्रौभुर्जपत्रेलिखित्वास्थापयेत्स्वधीः श्यामलोहितमंत्रज्ञोरक्तपुष्पैःसमर्चयेत् प्रेतधूमानलेक्षिप्त्वायजेद्गुरुविधानतः || २८ ||

सौवर्णेराजतेताम्रेक्रमेणैतत्समर्चयेत् कटकार्थीहरिद्राभैःपुष्पैराराधयेच्छिवां धान्यराशौचसायाह्नेविनिक्षिप्यचतद्भवेत् नूततेकुंभकारस्यखर्प्परेयंनुमालिखेत् अंजनाभैःसमभ्यर्च्यकुसुमैःपथिदेशिकः उच्चाटयेत्तदाशीघ्रंकोटस्थंसुस्थिरंरिपुं तद्भांडेतुमशीद्रव्यैर्भिन्नंभिन्नांजनप्रभैः समुद्धृत्यसमभ्यर्च्यलोहकारगृहेक्षिपेत् वाध्यमानोरोगजास्वैर्मरणंप्राप्नुयाद्रिपुः || ३२ ||

निशाचेपटहेवाद्येविलिखेन्मनुवित्तमः |
युद्धेतध्वनिमाकर्ण्यपलायंतेमहाबलाः || ३३ ||

धूम्रभित्तौसमालिख्यधूम्राभैरर्चयेत्प्रिये |
नश्यंतिदृष्टयस्तेषांशत्रूणांनान्यथाभवेत् || ३४ ||

हरिद्रायाशिलामध्येसमालिख्यार्चयेत्प्रिये |
पीतपुष्पैश्चतद्यंत्रंअधोचक्रंविनिक्षिपेत् || ३५ ||

वाक्स्तंभोजायतेशीघ्रंवादीनांपरमेश्वरी |
अथसीसेसमालिख्यशमीपुष्पैर्यजेत्प्रिये || ३६ ||

शिलाधस्तादिनिक्षिप्यव्यवहारीजयीभवेत् |
सर्वलोहमयेपात्रेसितपुष्पैःसमर्चयेत् || ३७ ||

वाक्यनिर्जायतीमंत्रीपंचसारेथसंलिखेत् |
पंचवर्णैःप्रसूनैश्चपूजयेत्सर्वकर्मकृत || ३८ ||

अथातस्तिमिरामिश्रेसीसयुग्मेलिखेद्वुधः |
अभ्यर्च्यकुसुमैरम्यैःप्रेतभूमौप्रजापयेत् || ३९ ||

तेनाकृष्टिर्भवेदाशुयूनांवायोषितामपि |
वृक्षगर्भेन्यसेच्चक्रंसीसपात्रेषुरंजितं || २० ||

वहिष्टाग्रामभागेभ्यसंप्रविष्टाभवंतिहि |
साध्यनक्षत्रवृक्षस्यगर्भेचक्रंप्रविन्यसेत् || ४१ ||

वृषस्ययत्कृतंदेविसाध्यस्यभवतिस्फुटं |
जलेक्षिप्तंदोषदायिवह्नौक्षिप्तंतुतापकृत् || ४२ ||

रोगदंभस्मनिक्षिप्तंहितदंभूमिगंप्रिये |
अन्नगंकामिनींदध्यात्कुंभेक्षिप्तंसुतप्रदं || ४३ ||

पूर्वस्यांदिशिनिक्षिप्तंरिपूणांभयदंभवेत् |
आग्नेयेयमदिग्भागेवैरिणीमृत्युदंभवेत् || ४४ ||

तथानैरृतिदिग्भागेशत्रून्मादनकारणं |
पश्चिमेरोगदंतेषांगदितंवायुदिग्गतं || ४५ ||

धनदंचोत्तरेभागेभागेसाधकस्यनसंशयः |
ईशानगंभ्रांतिकरंवैरिणांपरमेश्वरि || ४६ ||

मध्यगंसर्वकार्याणिशत्रूणांनाशयेध्रुवं |
एतस्याएवविद्यायामध्यरात्रेर्चनंभवेत् || ४७ ||

अन्यथादेवताशापोजायतेतीवदुस्तरः |
तस्मादेनांमध्यरात्रेजपेत्संपूजयेदपि || ४८ ||

इतिश्रीदक्षिणामूर्तिसंहितायांपंचमीशकटयंत्रोद्धारोनामैकविंशः पटलः २१

Patala 22a – Vier Überlieferungen

ईश्वरुवाच

पंचरात्रेमहातंत्रेकथितावैष्णवागमः |
एनामाराध्यदेवीशींपालकोभूजगत्त्र?ये || १ ||

विद्याकदेवचक्रस्थाःशिवविद्यामयेरिताः |
ताःसंतिवैंदवेचक्रेतस्माच्छिवमयीशिवा || २ ||

सिद्धरत्नेमहातंत्रेकथितागणपागमः |
सप्तकोटिमहातंत्रैर्मंडितस्तन्मयीशिवा || ३ ||

वामदेवमहातंत्रैसौरज्ञानप्रकाशकाः |
मनवस्तुन्मयीदेवीज्ञानशक्तिरितीरिता || ४ ||

अतःसंसेव्यतेदेवीचतुरायतनैःसदा |
सिंहासनप्रसंगेनचतुरान्वयदेवताः || ५ ||

कथिताःपरमेशानिसंपदेषांनसंशयः |
यस्याःस्मरणमात्रेणपलायंतेमहापदः || ६ ||

इतिश्रीदक्षिणामूर्तिसंहितायांचतुराम्नायविवरणंद्वाविंशः पटलः २२

Patala 22b – Nitya-Göttinnen

ईश्वरुवाच

अथवक्ष्येमहादेविनित्याविवरणंक्रमात् |
कामेश्वरीमंत्रभेदाःवहवःसंतिपार्वति || १ ||

तत्रकामेश्वरीविद्याकथ्यतेभुविदुर्लभा |
त्रिपुरेशींसमुच्चार्यतारांतेहृत्पदंततः || २ ||

कामेश्वरिपदंचोक्ताइच्छाज्ञानफलप्रदे |
सर्वसत्ववशंचोक्ताकरिसर्वजगत्पदं || ३ ||

क्षो भणांतेकरिहुंहुंचाणश्चत्रिपुरेश्वरीं विपरीतंसमालिख्यविद्याषट्त्रिंशदक्षरीं || ४ ||

आद्यभागत्रयेणैवद्विरावृत्याषडंगकं |
कामेश्वरीचृष्यादिध्यानयंत्रार्चनादिकं || ५ ||

इतिश्रीकामेश्वरीनित्याविधिः

ईश्वरुवाच

अथवक्ष्येमहेशानिविद्यांश्रीभगमालिनीं |
वाग्भवंभगशब्दांतेभगेवान्भवमेवच || १ ||

भगिन्यंतेवान्भवंचभगोदरिचवाग्भवं |
भगमालेवाग्भवंचवाग्भवादौभगावहै || २ ||

भगंगुह्येवाग्भवंचभगयोनिचवाग्भवं |
भगन्यंतेपातिनीतिवाग्भवंभगसर्वच || ३ ||

पदंवाग्भवमालिख्यततोभगवशंकरि |
वाग्भवंभगरूपेतद्भगिन्येचैववाग्भवं || ४ ||

भगक्लिन्नेवाग्भवंचभगश्चांतेसमालिखेत् |
रूपेसर्वभगानीतिमेह्यानयचवाग्भवं || ५ ||

वाग्भवादौभगवतिभगवांतेवदेच्चतत् |
भगरेतेवाग्भवंचभगेषुचसमालिखेत् || ६ ||

रेतेवाग्भवमालिख्यभगक्लिन्नेथवाग्भवं भगक्लिन्निवेचांतेभगवांतेवदेच्चतत् भगंद्रावयचालिख्यभगमोंधेभगेतिच || विच्चेभगंक्षोभयेतिसर्वसत्वान्भगेश्वरि || ८ ||

वाग्भवंचभगक्लंचवाग्भवंगजेंलिखेत् |
वाग्भवंचभगब्लूंचवाग्भवंभगभेंलिखेत् || ९ ||

वाग्भवंभगब्लूंचवाग्भवंभगमालिखेत् वाग्भवंभगंचैववाग्भवंभगमोंलिखेत् वाग्भवंचभगब्लूंचवाग्भवंभगहेलिखेत् भगक्लिन्नेचसर्वाणिभगन्यथचमेलिखेत् वशमानयचालिख्यभगपंचकमन्मथा भूविंवेलोकपालास्युःपुनर्देवींप्रपूजयेत् इतिनित्यातृतीयेयंभोगमोक्षप्रदायिनी कथितादेवदेवेशित्रैलोक्यवशकारिणी भगांतरेभगांतेचहरन्लेमात्मकंलिखेत् भगांतेपंचमंकामंततोवैभगमालिनीं || ११ ||

ङेतामुच्चार्यविद्येयंत्रैलोक्यवशकारिणी |
चतुराधिकविंशत्याद्विशतेनचमंडिता || १२ ||

वर्णानांभगमालेयंनित्यासकलसिद्धिदा ऋषिरस्यास्तुसुभगोगायत्रीछंदुच्यते देवतेयंचवीजंतुहरन्लेमात्मकंप्रिये शक्तिस्त्रीवीजकंन्लूंतुकीलकंपरमेश्वरि षड् दीर्घस्वरभेदेनन्यसेदंगानिदेशिकः काम न्यासंतथावाणन्यासंकुर्यातुपूर्ववत् || १५ ||

कदंववनमध्यस्थामुद्यत्सूर्यसमयुतिं |
नानाभूषणसंपन्नांत्रैलोक्यकर्षणक्षमा || १६ ||

पाशांकुशौपुस्तकंचतौलिकीनखलेखिनीं वरदंचाभयंचापिदधतींविश्वमातरम् एवंध्यात्वाततोलक्षंजिताहारोजपेन्नरः तदशांशेनवंधूकैस्त्रिमध्वक्त्रैर्हुनेद्वुधः त्रिकोणंचैवषट्कोणंततःषोडशपत्रकं ततोष्टपत्रंभूविंवमेवंमंडलमालिखेत् || १९ ||

मध्यदेवींसमभ्यर्च्यततोंगावरणंयजेत् |
विद्यादिशक्तित्रितयंत्रिकोणेषुप्रपूजयेत् || २० ||

चाग्रमारभ्यकोणस्यपुनस्तेषुसमर्चयेत् |
शुभगांचभगांचैवतथाचभगसर्पिणीं || २१ ||

वाणांश्चदेवितत्रैवपूर्ववत्पूजयेत्सुधीः भगमालादिषट्कंचकोणषट्केप्रपूजयेत् वशंकरीचरूपांचनित्याक्लिन्नास्वरूपिणीं तथाभगवतींचैववरदांपरमेश्वरीं || २३ ||

रेतांस्वरेतांक्लिन्नांचतथाक्लिन्नद्रवामपि |
अमोघांचैवविद्यांचतथैवक्लिन्नदेवतां || २४ ||

एताषोडशदेवेशिभगशव्देनयोजयेत् अष्टपत्रेषुदेवेशिमातरःपरिपूजयेत् इंद्रादयस्तुभूविंवेपुनर्देवींसमर्चयेत् || २५ ||

इतिभगमालिन्याविधिः

ईश्वरुवाच

भुवनेशींसमुच्चार्यनित्यक्लिन्नेमदद्रवे |
वह्निजायांश्चविद्येयंरुद्रवर्णामहोत्कदा || १ ||

ब्रह्माऋषिःसमुदिष्टोविराट्छंदितीरितं नित्यक्लिन्नादेवतोक्तावनिताद्राविणीपरा वीजमाद्यंवह्निजायाशक्तिर्न्तेकीलकंमतम् एकेनचतथाद्वाभ्यांद्वाभ्यांद्वाभ्यांक्रमात्प्रिये द्वाभ्यांद्वाभ्यांषडंगानिविन्यसेदेशिकोत्तमः || २ ||

रक्तांगींरक्तवसनांचंद्रचूडांत्रिलोचनां |
स्वियद्वक्त्रांमदाचूर्णलोचनांरक्तभूषणां || ३ ||

पाशांकुशौकपालंचमहाभीतिहरंतथा |
दधतींसंस्मरेन्नित्यांपद्मासनविराजितां || ४ ||

वर्णलक्षंजपेन्मंत्रंतद्दशांशेनहोमयेत् |
तिलैस्त्रिमधुसंमिश्रैपुरश्चारीभवेद्वुधः || ५ ||

मधूकपुष्पैर्वाहोमोहविषावाथनीरजैः |
त्रिकोणंचाष्टपत्रंचततोभूविंवमालिखेत् || ६ ||

आदौदेवींसमभ्यर्च्यततोंगाचरणंयजेत् त्रिकोणेपूजयेदेवीनित्यांक्लिन्नांमदद्रवां मातरोदलमूलेषुदलमध्येषुपूजयेत् नित्यानिरंजनांक्लिन्नांक्लेदिनींमदनातुरां मदद्रवांद्राविणींचक्षोभिणींचप्रपूजयेत् || ९ ||

इतिनित्याक्लिन्नानित्याविधिः

ईश्वरुवाच

अथवक्ष्येमहेशानिभेरुंडांपरमेश्वरीं भरौकारंसमुच्चार्यत्वंकुशाभ्यांसुवेष्टितं अंत्यहीनंचवर्णंचचतुर्द्धारेफमंडितं अनुग्रहेंदुविंद्वाढ्यंतारस्वाहोदरस्थितः || २ ||

मनुर्दशार्णोदेवेशिमहाविषहरोभवेत् |
ऋषिरस्यामहाविष्णुर्गायत्रीछंदुच्यते || ३ ||

देवतेयंपराशक्तिस्तृतीयंवीजमुच्यते |
वह्निजायातुशक्तिःस्यात्कीलकंशृणिरेवच || ४ ||

षड्दीर्घस्वरभेदेनवीजेनैवषडंगकं |
चंद्रकोटिप्रतीकाशांस्रवंतीममृतद्रवैः || ५ ||

नीलकंठीत्रिनेत्रांचनानाभरणभूषिताम् |
इंद्रनीलस्फुरत्कांतिशिखिवाहनशोभितां || ६ ||

पाशांकुशौकपालंचछुरिकांचवराभयौ |
विभ्रतींहेमसंवह्यगरुडोद्गारभूषिताम् || ७ ||

एवंध्यात्वाजपेद्वर्णलक्षंतुविजितेंद्रियः |
तद्दशांशेनजुहुयात्स्वेतपद्मैःसुरेश्वरि || ८ ||

त्रिकोणंचाष्टपत्रंचततोभूविंवमालिखेत् |
मध्येप्रणववीजेनत्रिकोणस्यचपार्श्वयोः || ९ ||

शृणिद्वयंत्रिकोणेषुपंचमादित्रयंन्यसेत् |
अवशिष्टंत्रिकोणाग्रकोट्यग्रेषुचसंलिखेत् || १० ||

मालामंत्रंक्रमेणैववसुपत्रेषुविन्यसेत् |
वस्वक्षरविभागेनचतुःषष्ट्यर्णविग्रहां || ११ ||

भेरुंडांसंलिखेन्मंत्रीमहाविषहरांप्रिये |
भुवनेशींसमुच्चार्ययततास्त्रिभुवनेतिच || १२ ||

विद्येनमस्ततःसिद्धेत्वजितेलोकपूजिते |
भ्रमभ्रममहामोहेद्विधाहूमात्मकंलिखेत् || १३ ||

विच्चेयुगंकुलेकौलेकुरुमालेततःपरं |
भेरुंडेशिखिचालिख्यवाहिनीतिततःपरम् || १४ ||

नीलकंठेचरौद्रेचततोवेतालसोमच |
मातकेभुवनेशीचचतुःषष्टार्णविग्रहः || १५ ||

छंदोनुष्टुपृषिर्ब्रह्मावीजंतुभुवनेश्वरी |
भेरुंडादेवताज्ञेयापुरुषार्थप्रदायिनी || १६ ||

षड्दीर्घस्वरभेदेनवीजेनैवषडंगकं ध्यानंतुपूर्वदेविपूजाद्वंद्वेसमालिखेत् महीविंचेमातृकायावर्णालेख्याक्रमेणतु तत्रावाह्यमहेशानीमुपचारैःसमर्चयेत् || १७ ||

अंगानांपूर्ववत्पूजात्रिकोणेषुततःशृणु त्रि शिखांनीलकंठींचैंद्रीचैवक्रमाद्यजेत् || १८ ||

त्रिकोणपार्श्वयोःपूज्येवैतालींसोममातृकां ततस्त्रिभुवनेशानींसिद्धांचैवाजितामपि लोकपूज्यांमहामोहांकुलांकौलांतथैवच कुस्वमालामष्टपत्रेपुरादिप्रपूजयेत् || २० ||

ततश्चमातरःपूज्यावसुपत्रेषुसुंदरि |
इंद्रादयस्तुभूविंवेपुनर्देवींसमर्चयेत् || २१ ||

इतिभेरुंडानित्याविधिः

ईश्वरुवाच

शृणुदेविप्रवक्ष्यामिनित्यांचवह्निवासिनीम् परांविलिख्यवह्न्यंतेवासिन्यैनमित्यपि अष्टार्णोयंमहेशानिपुरुषार्थप्रदोमनुः ऋषिरस्यवसिष्टःस्यात्गायत्रीछंदउच्यते || २ ||

विद्वद्भिःकथितादेविदेवतावह्निवासिनी |
आद्यंतेवीजशक्तिःस्यात्कीलकंमध्येवच || ३ ||

देवीपदत्रयेनैवद्विरावृत्यांगकंन्यसेत् |
पदत्रयंदेहभागेत्रयेविन्यस्यदेशिकः || ४ ||

ध्यायेत्तप्तसुवर्णाभांनानालंकारभूषिताम् |
पाशांकुशौस्वस्तिकंचशक्तिंचवरदाभयौ || ५ ||

दधतींरत्नमुकुटांत्रैलोक्यतिमिरापहाम् |
वर्णलक्षंजपेन्मंत्रंतद्दशांशेनहोमयेत् || ६ ||

घृतात्केनवरारोहेततःसिद्धोभवेन्मनुः |
अष्टपत्रंलिखेत्पद्मंविद्यांप्रतिदलेलिखेत् || ७ ||

एकैकाक्षरभेदेनततोभूविंवमालिखेत् |
मध्येपीठंसमभ्यर्च्यदिक्षुमध्येचपार्वति || ८ ||

पीतास्वेतारुणाकृष्णाधूम्रातीव्रास्फुलिंगिनी |
रुचिराज्वालिनीचैवततःसिंहासनंयजेत् || ९ ||

देवीमावाहयेमत्रुपचारैःसमर्चयेत् |
आदावंगानिसंपूज्यवसुपत्रेषुपूजयेत् || १० ||

जातवेदाःसप्तजिह्वोहव्यवाहनेवच |
अश्वोदरभवश्चैवतथावैश्वान्नरःप्रिये || ११ ||

कौमारतेजादेवेशितथाविश्वमुखःक्रमात् |
ततोमुखोदेविवसुपत्रेषुपूजयेत् || १२ ||

व्राह्म्यादयस्तुसंपूज्यावसुपत्रेषुदैशिकः |
इंद्रादयस्तुभूविंवेपुनर्देवींसमर्चयेत् || १३ ||

साक्षाद्वह्निमहापीठकलादशकमंडितां इतिवह्निवासिनीनित्याविधिः

ईश्वरवाच

अथवक्ष्येमहादेविमहाविद्येश्वरींपरां |
नित्यक्लिन्नांसमालिख्यमुखेतारंसमालिखेत् || १ ||

हृल्लेखांतेफरेमात्माचंद्रवीजंविसर्गवान् |
चतुर्दशाक्षरीविद्याऋषिर्ब्रह्मानिगद्यते || २ ||

गायत्रीछंदाख्यातंदेवतापरमेश्वरी |
आद्यंतेवीजशक्तेचहृल्लेखाकीलकंभवेत् || ३ ||

चतुष्केनचयुग्मेनयुग्मेनयुगलेनच |
युगलेनचयुग्मेनन्यसेदंगानिदेशिकः || ४ ||

जवाकुसुमसंकाशांरक्तांशुकविराजितां |
माणिक्यभूषणांनित्यांनानाभूषाविभूषिताम् || ५ ||

पाशांकुशौकपालंचसुरपापरिपूरितं अभयंदधतींध्यात्वाच्चतुर्लक्षंजपेत्सुधीः दशांशेनैवजुहुयाद्वविषातिलतंडुलैः त्रिकोणंवेदपत्रंचवसुपत्रंचभूगृहं || ७ ||

एवंमंडलमालिख्यमध्येदेवींसमर्चयेत् |
आदावंगानिसंपूज्यत्रिकोणेषुप्रपूजयेत् || ८ ||

ब्रह्माणीवैष्णवीरौद्रीततोवेदास्त्रपूजनं |
वेदमाताचहृल्लेखायोगिनीचंद्रशेखरा || ९ ||

पुरआदिक्रमेणैववेदास्रेषुप्रपूजयेत् |
नित्यानिरंजनाक्लिन्नाक्लेदिनीमदनातुरा || १० ||

मदद्रवाद्राविणीचक्षोभिणीवस्वरेर्चयेत् |
मातरश्चैवसंपूज्याभूविंवेलोकपालकाः || ११ ||

इतिमहाविद्येश्वरिविधिः

ईश्वरुवाच

अथदूतींप्रवक्ष्यामित्रैलोक्याकर्षणक्षमां |
भुवनेशींसमुच्चार्यशिवदूत्यैनमोलिखेत् || १ ||

सप्तार्णाशिवदूतीयंत्रैलोक्यस्वामिनीप्रिये |
ऋषीरुद्रस्तुगायत्रीछंदःस्याद्देवताशिवा || २ ||

आद्यंतेवीजशक्तीचमध्यंकीलकमुच्यते |
विद्याभागत्रयेणैवद्विरावृत्यांगकंन्यसेत् || ३ ||

दुर्वानिभांत्रिनेत्रांचमहासिंहासनासनां |
शंखारिचापवाणांश्चशृणिपाशौवराभये || ४ ||

दधतींचिंतयेन्नित्यंसप्तलक्षंजपेत्ततः |
तद्दशांशेनजुहुयातिलैर्मधुघृताप्लुतैः || ५ ||

अष्टपत्रंलिखेत्पद्मंबहिर्भूविंवमालिखेत् |
तत्रदेवींसमभ्यर्च्यसोपचारैःसमर्चयेत् || ६ ||

आदावंगानिसंपूज्यवसुपत्रेषुपूजयेत् जयाचविजयाचैवकीर्तिःप्रीतिःप्रभातथा श्रद्धामेधाधृतिश्चाष्टौभूविंबेतुदिगीश्वराः पुनर्देवींसमभ्यर्च्यसुखीभूयान्नरेश्वरः || ८ ||

इतिशिवदूतीनित्याविधिः

ईश्वरुवाच

अथवक्ष्येमहादेवींत्वरितांसिद्धिदायिनीम् |
तारंपरांचकवचंखेचछेक्षःसमालिखेत् || १ ||

स्त्रींहूमात्मकमुच्चार्ययक्षेपरामस्त्रकंलिखेत् |
त्वरितारुद्रवर्णेयंभोगमोक्षफलप्रदा || २ ||

ऋषिरीशोविराट्छंदोदेवतीयंचपार्वती |
कवचंस्त्रीशक्तिवीजेकीलकंचप्रकीर्तितं || ३ ||

चच्छेयुगंहृच्छिरस्तुछेक्षयुग्मंशिखाततः |
क्षस्त्रीयुगंचकवचंस्त्रीहूमात्मयुगंतथा || ४ ||

ह्वंक्षेनेत्राणिविन्यस्यक्षेफुस्त्रंप्रकीर्तितं |
श्यामांगीरक्तसत्पाणिचरणांवुजशोभितां || ५ ||

वृषलाहिसुमंजीरांस्फणारत्नविभूषितां |
स्वर्णांशुकांस्वर्णभूषांवैश्यादिद्वंद्वमेखलां || ६ ||

तनुयुग्मांपीनवृत्तकुचयुग्मांचराभये |
दधतींशिखिपिच्छानांवलयांगदशोभितां || ७ ||

गुंजारुणांतृपाहीशकेयूरांरवभूषणां |
द्विजनागस्फुरत्कर्णभूषांमत्तारुणेक्षणाम् || ८ ||

नीलकुंचितधस्मिल्लवनपुष्पांकपालिनीं |
कैरातींशिक्षिपत्राक्षनिकेतनविराजितां || ९ ||

स्फुरत्सिंहासनप्रौढांस्मरेद्भयविनाशिनीम् |
रविलक्षंजपेन्मंत्रंतद्दशांशेनहोमयेत् || १० ||

मधूकपुष्पैर्देवेशींपुरश्चारीततोभवेत् |
अष्टपत्रंलिखेत्पद्मंवहिर्भूविम्वमालिखेत् || ११ ||

प्रत्येकंवसुकोणेषुकवचंचाष्टधालिखेत् |
मध्येतुभुवनेशानींवेष्टयेन्मातृकांवहिः || १२ ||

सर्वरक्षाकरंनामचक्रमेतदुदाहृतं |
तत्रावाह्यमहेशानीमुपचारैःसमर्चयेत् || १३ ||

आदावंगानिसंपूज्यवसुपत्रेषुपूजयेत् |
हुंकारीखेचरींचंडांछेदनींक्षेपणींतथा || १४ ||

स्त्रियंहुंकारिणींक्षेमकारिणींक्रमतोयजेत् |
श्रीवीजेनैवदेवेशिलोकपालस्ततःपरं || १५ ||

अग्नेफट्कारिणीपूज्यासरासनधराप्रिये |
स्वर्णरत्नमयीवेत्रयष्टिहस्तेसुभूषिते || १६ ||

द्वारपार्श्वेयुगेपूज्येविजयाचजयातथा |
कृष्णोवर्वरकेशश्चलकुटेनविराजितः || १७ ||

किंकरःपुरतःपूज्यस्तद्वहिःपूजयेत्क्रमात् |
धातारंचविधारंचपुनर्देवींसमर्चयेत् || १८ ||

गंधपुष्पादिनैवेद्यैर्महारक्षाकरीयजेत् || १९ ||

इतिनित्यात्वरिताविधिः

ईश्वरुवाच

अथवक्ष्येमहेशानिविद्यांश्रीकुलसुंदरीम् |
अथवक्ष्येपरांनित्यांपुरुषार्थप्रदायिंनी || २ ||

त्रिपुरेशींसमुच्चार्यनित्याख्यांभैरवींतथा |
हुंकारत्रितयंवाणविद्येयंवासवाक्षरी || ३ ||

त्रिपुरेशीवयंत्रंतुऋष्यादियजनंप्रिये |
पंचाक्षरीवाणवीजोनित्येयंपरमाभवेत् || ४ ||

इतिनित्याद्वयविधिः

ईश्वरुवाच

अथवक्ष्येमहेशानीं विद्यांनीलपताकिनीं तारंहृत्पदमाभाष्यकामेश्वरिपदंततः || १ ||

कामांकुशेपदंचोक्ताततःकामपताकिके |
भगवत्पथनीलांतेपताकेतिभगांतिके || २ ||

वतिहृन्मंत्रमालिख्यततोस्त्रीतिचतेलिखेत् |
परमांतेतथागुह्येहुंकारत्रितयंलिखेत् || ३ ||

मदनेमदनांतंथदेहेत्रैलोक्यमालिखेत् |
द्रावयेतितथालेख्यंकवचास्त्राप्रिवल्लभा || ४ ||

षष्टार्णापरमेशानीदेवीनीलपताकिनी |
कामेश्वरीवयंत्रंतुध्यानमस्यानिगद्यते || ५ ||

रक्तांरक्तांशुकप्रौढांनानारत्नविभूषितां |
इंद्रनीलस्फुरन्नीलपताकांकमलेस्थितां || ६ ||

कामग्रैवेयसंलग्नश्रृणिंचवरदाभये |
दधतींपरमेशानींत्रैलोक्याकर्षणक्षता || ७ ||

ध्यात्वाजपेच्चतुर्लक्षंदशांशेनतिलैर्हुनेत् |
एषाविद्यावरारोहेकामेशीचप्रपूजयेत् || ८ ||

इतिनीलपताकानित्याविधिः

ईश्वरुवाच

अथवक्ष्येपरांविद्यांजयदांविजयांसदा |
शिवचंद्रस्वर्याताग्निरुद्रस्वरविभूषितं || १ ||

विंदुनादकलाक्रांतंविजयायैनमोलिखेत् |
ऋषिरस्याहंछंदोगायत्रीदेवतास्वयं || २ ||

वीजहृन्मध्यवर्णास्ववीजशक्तीतुकीलकं |
षड्दीर्घस्वरसंभिन्नंवीजेनैवषडंगकं || ३ ||

एकवक्त्रांदशभुजांसर्पयज्ञांपवीतिनीम् |
दंष्ट्राकरालवदनांनरमालाविभूषितां || ४ ||

अस्थिचर्मावशेषांतांवहिकूटसमप्रभाम् |
व्याघ्रचर्मांमहाप्रौढांशवासनविराजितां || ५ ||

रणेस्मरणमात्रेणभक्तेभ्योविजयप्रदाम् |
शूलंचर्मघटंकासिशृणीघंटाशनिद्वयं || ६ ||

पाशमग्निमभीतिंचदधतींजयदांसदां |
लक्षत्रयंजपेन्मंत्रंतद्दशांशेनहोमयेत् || ७ ||

महापद्मैस्त्रिमध्वक्तैस्ततःसिद्धाभवेदियम् त्रिकोणंचैवषट्कोणंवसुपत्रंमहीगृहम् मध्येवीजंसमालिख्यत्रिकोणेषुचवीजकं षडक्षराणिषट्कोणेवस्वपत्रेषुवैस्वरान् || ९ ||

युग्मयुग्मप्रभेदेनपत्राग्रेषुचवैलिखेत् |
नारसिंहंमहावीजंमातृकांवेष्टयेत्ततः || १० ||

अत्रावाह्यमहादेवीमुपचारैःसमर्चयेत् |
आदाषडंगावरणंत्रिकोणेपूजयेत्ततः || ११ ||

ब्रह्मविष्णुमहेशांश्चषट्कोणेषुततोयजेत् |
षडयोगिनीरष्टपत्रेमातरःपूजयेत्क्रमात् || १२ ||

चतुरस्रेलोकपालान्पुनर्देवींसमर्चयेत् इतिविजयानित्याविधिः

ईश्वरुवाच

अथवक्ष्येमहानिनित्यांवैसर्वमंगलां |
जीववारुणताराढ्यंसर्वांतेमंगलापदं || १ ||

ङेतंहृदयमालिख्यनवार्णासर्वमंगला |
ऋषिश्चंद्रोमहेशानिगायत्रीछंदुच्यते || २ ||

देवीयंवीजशक्तीतुवीजंहृदयमेवच |
विद्याभागत्रयेणैवद्विरावृत्याषडंगकं || ३ ||

शुभ्रपद्मासनांरम्यांचंद्रकुंदसमद्युतिं |
सुप्रसन्नांचवरदांनानारत्नविभूषितां || ४ ||

अनंतमुक्ताभरणंश्रवंतीममृतद्रवं |
वरदाभयशोभाढ्यांस्मरेत्सौभाग्यवर्दिनीं || ५ ||

एवंध्यात्वाजपेद्वर्णलक्षंविजितमन्मर्थः |
तद्दशांशेनजुहुयाच्छुभ्रपद्मैर्घृतस्वतैः || ६ ||

अष्टपत्रंचभूविंबंतत्रावाह्यसुरेश्वरीम् |
उपचारैःसमभ्यर्च्यषडंगाचरणंयजेत् || ७ ||

अष्टपत्रेषुसंपूज्यापुरादिक्रमेणतु |
राकाक्रमुद्वतीनंदाशुद्धासंजीविनीक्षमा || ८ ||

अध्यापिनीचंद्रिकाचह्लादिनीपुरतोयजेत् |
ततोव्राह्म्यादयःपूज्याभूविंवेककुचीश्वराः || ९ ||

पुनःसंपूज्यवहुदाचंद्रमंडलवासिनी || १० ||

इतिसर्वमंगलानित्याविधिः

ईश्वरुवाच

ज्वालामालांप्रवक्ष्यामिपुरुषार्थप्रदांपरां |
ओंकारवीजमुच्चार्यनमोभगवतीतिच || १ ||

ज्वालामालिनीदंवीतिसर्वभूतंतुसंलिखेत् |
हारिकारिचकेजातवेदसीतिज्वलंतिच || २ ||

ज्वलयुग्मंप्रज्वलेतियुगंहुनात्मकंद्विधा |
वह्निंद्विदाचकवचमस्त्रंचापिसमालिखेत् || ३ ||

चत्वारिंशद्वर्णरूपास्ववर्णाचक्रमाद्भवेत् |
ऋषिस्तुकश्यपछंदीगायत्रीदेवतात्वियं || ४ ||

रेफास्त्रेवीजशक्तीचकीलकंकवचंप्रिये |
रविसूर्ययशरर्ययष्टवेदैरंगानिविन्यसेत् || ५ ||

चत्वारिंशद्दलंपद्मंचतुराधिकमीश्वरि |
वहिरष्टदलंपद्मंवाह्येभूविंवमालिखेत् || ६ ||

कर्णिकायांमहाविद्यांदलेषुक्रमतोलिखेत् |
दुर्गावर्णास्तुतोदेवीवसुपत्रेस्वरान्लिखेत् || ७ ||

द्वंद्वशःपरमेशानिवह्निवर्णेनवेष्टयेत् जातवेदसालिख्यपुनवामचमोमम रा तीयतोनिदहातिवेदःसनश्चालिखेत् || ९ ||

वर्षांतेदतिसंलिख्यदुर्गाणीतिसमालिखेत् |
विश्वानावेचसिंधुंचद्वरितात्यग्निरालिखेत् || १० ||

एषादुर्गावरारोहेजातवेदस्वरूपिणी अस्मिन्यंत्रेसमासीनांज्वालामालांप्रपूजयेत् आदौपीठंसमभ्यर्च्यदिक्षुमध्येचशक्तिभिः जयाचविजयाभद्राभद्रकालीसमुख्यपि || १२ ||

दुर्मुखीचतथाव्याघ्रमुखीसिंहमुखीतथा |
दुर्गाचैतासुसंपूज्यदेवीमावाह्यपूजयेत् || १३ ||

आदावंगानिसंपूज्यततोदेवींसमर्चयेत् |
जागतीतापिनीवेदगर्भादहनरूपिणी || १४ ||

सेतुखंडायातुहंत्रीनरमुखीतथाचवै |
वागीश्वरीमदवहासोमरूपामनोजया || १५ ||

मरुद्वेगाचरात्रिश्चतीब्रकोपायशोवती |
तोयात्मिकाचनित्याचदयावत्यथहारिणी || १६ ||

निरस्कृयावेदमातातथाचमदनप्रिया समाराध्यानंदिनीचपराचरिपुमर्दिनी वरामुखीदंडिनीतिदुर्गागायत्रिकातथा निरवद्याविशालाक्षीश्वासोद्वाहाचनंदिनी || १८ ||

वेदनावह्निगर्भाचसिंहवाहातथैवच |
धुर्याचदुर्वहाचैवरिरंसातापहारिणी || १९ ||

त्यक्तदोवानिसंपलापुरादिप्रपूजयेत् |
अष्टारेमातरःपूज्याभूविंवेककुचीश्वराः || २० ||

पुनर्देवींसमभ्यर्च्यस्वर्णाभरणभूषितां |
उद्यद्विद्युल्लताकांतिंस्वर्णांषुकविराजितां || २१ ||

महासिंहासनेप्रौढांज्वालामालाकरालिनीं |
अरिशंखंखड्गखेटेत्रिशूलंडमरुंतथा || २२ ||

पानपात्रंचवरदंदधतींसंस्मरेद्यजेत् |
ज्वालामालामहाविद्यारिपुहंत्रीनसंशयः || २३ ||

इतिज्वालामालिनीनित्याविधिः

ईश्वरुवाच

अथवक्ष्येमहेशानिविचित्रांविश्वमातरं यस्याःस्मरणमात्रेणपलायंतेमहापदः चकानुग्रहविद्विंदुभूषितंमनुमालिखेत् ऋषिर्ब्रह्मास्यमंत्रस्यगायत्रीछंदुच्यते || २ ||

चित्राचदेवतावीजंककारःकीलकंचत |
तारानुजस्तुशक्तिःस्यात्पुरुषार्थप्रदायिनी || ३ ||

षड्दीर्घस्वरभेदेनन्यसेदंगानिदेशिकः यंत्रेतुमातृकायास्तुपूजादेव्यास्तथाभवेत् मातरीलोकपालांश्चपूज्यदेवींजपेद्वुधः रविलक्षंदशांशेनहुनेद्वृततिलैर्यवैः || ५ ||

स्तंभनेपीतवर्णेयंवश्येवंधूकसन्निभा |
मारणेश्यामलांगीयमुच्चाटेधूम्रसन्निभा || ६ ||

शुभ्रांगीज्ञानदानित्यंविचित्रवसनासदा |
विचित्रभूषणानित्यंविचित्रकुंकुमोज्वलां || ७ ||

वरदाभयशोभाढ्यानानावस्त्रधराक्वचित् |
क्रमेणकथितानित्यासर्वसौभाग्यदाप्रिये || ८ ||

इतिश्रीदक्षिणामूर्तिसंहितायांनित्याविवरणंनामद्वाविंशः पटलः २२

Shiva und Shakti.

Patala 25 – Bewusstseinslehre und Vorbereitung der Verehrung

ईश्वरुवाच

एतत्सर्वात्मकंवस्तुत्रिपुरेत्यभिधीयते एषासत्वान्वितादेवीजाग्रदित्यभिधीयते तदेयंशक्तिरूपात्मासृजंतीभुवनत्रयं उत्पत्तिर्जागरोवोधोव्यावृत्तिर्मनसःसदा || २ ||

कलाचतुष्टयंजाग्रदवस्थायांव्यवस्थितां |
एषैवतुसमायुक्ताशिवरूपांनिगद्यते || ३ ||

मरणांविस्मृतिर्मूर्छानिद्राचतमसावृत्ता सुषुप्तेषुकलाज्ञेयासुषुप्तिःशिवरूपिणी पदाद्वंद्वात्मिकादेवीरजोरूपाभयात्मिका संयोगःसत्वतमसोरजित्यभिधीयते || ५ ||

सुषुप्त्यंतेजागरादौस्वप्नावस्थारजोमयी |
अभिलाषंभ्रमच्चिंताविषयेषुमनःस्मृतिः || ६ ||

कलाचतुष्टयंस्वप्नावस्थायांतुविधायते |
गुणातीतापदादेवीसातुर्येत्यभिधीयते || ७ ||

सुषुप्त्यादौजागरांतेस्फुरतामात्रलक्षणा |
अवस्थाशेषतांप्राप्तातुर्यातुकमलाकला || ८ ||

भावाभावविनिर्मुक्तागुणातीतानिगद्यते |
वैराग्यंचमुमुक्षुत्वंशमादिविमलंमनः || ९ ||

सुदसद्वस्तुनिर्द्वारस्तुर्यायास्तुकलाइमाः |
तुर्ययैवपरिपाकेनकलासप्तदशीभवेत् || १० ||

कतुरंभाफलादीनांपाकेनमधूरोरसः |
अतेवमहेशानीकलासप्तदशीभवेत् || ११ ||

उच्चार्ययमाणायेमंत्रास्तेमंत्रावाचकांप्रिये |
उच्चाररहितंवस्तुचेतसैवविचिंतयेत् || १२ ||

चिंतनात्सामरस्येनसाच्छाद्व्रह्मैचकेवलं |
अतेवमहाविद्यातूर्यरूपावरानने || १३ ||

कलाषोडशकंचैतछीविद्यार्णेषुसंस्थितं |
निःसरंतिमहामंत्रामहाग्नेर्विस्फुलिंगवत् || १४ ||

तथैवमातृकावर्णानिःसृतावाग्भवात्प्रिये |
अतेवतदेवास्यावीजंवाग्भवमुच्यते || १५ ||

तेनैववाड्मयेनासौत्रैलोक्यंसचराचरम् |
मोहयंतीतदादेवीकामेशीवीजरूपिणी || १६ ||

पुरुषस्त्रीमयेनासौस्फुरंतीविंदुमातृकां |
महामोहेनदेवेशिकीलयंतिजगत्त्रयं || १७ ||

अतस्तत्कीलकंदेवितेनसौभाग्यगर्विता |
पालयंतिजगत्सर्वंतेनेयंशक्तिरुच्यते || १८ ||

एवंकूटत्रयकलामहासाम्राज्यदायिनी |
तदालक्ष्मीमयीदेवीजागर्तिभुवनत्रये || १९ ||

महाकोशेश्वरीवृंदमंडिताभुवनेश्वरी |
एषैवकोषसंपन्नाकामान्पूरयतेपरा || २० ||

कामेश्वरीतदादेवीकामान्पूरयतेसदा महासिंहासनप्रौढाविश्वगाविश्वरूपिणी अकथादिमहापीठेहलक्षवर्णरूपिणी तदाकल्पलतादेवीवाक्पुष्पाज्ञानमत्कला सौभाग्यदायिनीनित्यंरत्नतेजोविभूषिता || २१ ||

जीवानुग्रहसर्गेणस्फुरंतीविश्वमातृका चतुरायतनेनैवचतुर्वेदनमस्कृतां साम्राज्यभूत्तदादेवीभुवनानंदमंदिरा अतस्त्रैलोक्यसाम्राज्यप्रदानित्यात्मिकाप्रिये || २३ ||

एतत्सर्वंपुरस्कृत्यवर्ततेत्रिपुराशिवा प्रपंचमध्येदेवेशिकेवलाब्रह्मरूपिणी अतेवमहादेवीकलासप्तदशीभवेत् षोडशार्णस्वरूपापिनित्याषोडशत्कात्मिका || २५ ||

इतिनित्याविवरणम्

पार्वत्युवाच

त्रिपुरापरमेशानीसर्वमंत्रमयीशिवा |
संविद्रूपात्ककथिताकथंपूज्यांसदाशिव || १ ||

ईश्वरुवाच

प्रातरुत्थायशिरसिसंस्मरेत्पद्ममुज्वलं |
कर्पूराभंस्मरेतत्रश्रीगुरुंनिजरूपिणं || २ ||

स्वप्रसन्नंलसद्रूपंमंडितंशांतिभूषितं |
वराभयकरंनित्यंनमस्कृत्यामुनायजेत् || ३ ||

हस्रौमात्मकमालिख्यहसक्षमलवातिलान् |
वह्नियुक्तांस्त्रिधालिख्यस्विधासंभूष्यचस्वरैः || ४ ||

मुखवेष्टनवामांगश्रुतिनेत्रैश्चमंडितैः |
वीजत्रयमिदंभद्रेविंदुनादकलात्मकं || ५ ||

श्रीपरांतेपावकेतिसर्वाराधापदंलिखेत् |
सर्वमूर्द्धपुरीतेचनाथसर्वगुरुस्वयं || ६ ||

गुरुश्रीगुरुनाथांतेहसक्षमलवपान् रेफदीर्घश्रुतिगुतान्विंदुनादकलात्मकान् पिंडीकृत्यलिखेदाद्यंचतुर्थंचततोलिखेत् || ९ ||

तृतीयंपूर्ववल्लेख्यंद्वितीयमपिपार्वति ततःश्रीशंभुगुर्वंतेपुनराद्यंसमालिखेत् आद्यकूटचतुष्कांतेचाद्यतार्तीयमालिखेत् व सुसंख्यैश्चदेवेशिचत्वारिंशद्भिरक्षरैः मंडितोयमनुर्देविस्मरेन्निजगुरुंप्रिये || १० ||

मूलादिब्रह्मरंध्रांतंविषतंतुनीयसीं |
उद्यदादित्यरुचिरांस्मरेदशुभशांतये || ११ ||

क्लीमात्मकंकामदेवसर्वांतेजनमालिखेत् |
प्रियादिहृदयांतोयंमनुर्दंतविशुद्धये || १२ ||

चतुर्लक्ष्याणुनावक्त्रंक्षालयेत्सिद्धिहेतवे |
स्नानकर्मततःकुर्यान्मूर्द्धानंप्रोक्षयेत्तनुं || १३ ||

संप्रोक्ष्यगुह्यमुद्राढ्योमंत्रीपापनिकृंतनः |
आत्मविद्याशिवैस्तत्वैराचमेद्विद्ययात्रिधा || १४ ||

त्रिविधंतर्पणंकुर्याद्देवर्षिपितृपूर्वकं |
विद्यपाथततोमंत्रीसर्वालंकारभूषणः || १५ ||

रक्तवस्त्रांगरागंतुरक्तासनगृहेस्थितः |
विद्यायातत्वरूपिण्यात्रिधाचम्पाभिषेचनं || १६ ||

विद्ययैवत्रिधादेविचुलकीनोदकंसुधीः |
गृहीत्वाचिंतयेत्तत्रवहन्नाडीगतंप्रिये || १७ ||

वामकुक्षिगतंपापंपुरुषंकज्जलप्रभम् |
ब्रह्महत्याशिरोयस्यस्वर्णस्तेयकटिद्वयं || १८ ||

सुरापानहृदंगानिपातकानिबहून्यपि |
उपपातकसंघ्रास्तुरोमापिपरमेश्वरि || १९ ||

नानापातकसंघास्तुसर्वांगानिविचिंतयेत् |
खड्गचर्मधरंदेविमनसाचिंतयेद्वुधः || २० ||

भूमौवज्रशिलांध्यात्वाघातयेतत्रसुंदरि |
अथार्घ्यंरवयेदद्यात्रिधासौरमनुंस्मरन् || २१ ||

हृल्लेखाहृदयंदेविशिरोहंसस्ततोवदेत् |
वेदाक्षरीमहाविद्यासर्वसौराधिदेवता || २२ ||

भास्वद्रत्नौघमुकुटांस्फुरच्चंद्रकलाधरां |
सद्यःसंतप्तहेमाभांसूर्यमंडलरूपिणीं || २३ ||

पाशांकुशाभयवरास्मरन्नथजपेत्ततः |
गायत्रीशुभगायास्तुत्रिधावीजस्वरूपिणी || २४ ||

वाग्भवांतेलिखेद्देविवाग्भवेश्वरिविद्महे |
द्वितीयकूटमुच्चार्यकामिनीश्वरिधीमहि || २५ ||

तृतीयंकूटमुच्चार्यततःशक्तिप्रचोदयात् |
यथाशक्तिजपंकुर्याच्छ्रीविद्यांचततोजपेत् || २६ ||

अथयागगृहंयायादलक्तकविभूषितं |
अनेकचित्रशुभगंभूमौगोमयचर्चितम् || २७ ||

उपरिष्टालसत्पुष्पशुभगंधूपधूपितं |
दीपमालावलीरम्यंविकीर्णकुसुमोज्वलं || २८ ||

तत्रागत्ययजेद्विद्वान्मौनीज्ञानीसदाशुचिः |
सर्वाभरणसंपन्नंत्रिपुरार्चनमंडपं || २९ ||

ङेनमोंतेनपूजास्यात्मंडपस्यसुलोचने |
गणपंक्षेत्रपालंचधातारंचविपूर्वकं || ३० ||

गंगांचयमुनांचैवतथाशंखनिधिंक्रमात् |
ततःपद्मनिधिंचेष्ट्वावास्तंतेपुरुषंयजेत् || ३१ ||

द्वारश्रियंगणेशंचपूजयेच्चसरस्वतीम् |
देहलीमपिसंपूज्यपूजयेद्वारमंडले || ३२ ||

हृल्लेखांचश्रियोवीजमादौसंयोजयेत्ततः |
नामांतेश्रीपदंवाच्यंपादुकांपूजयामिच || ३३ ||

अनेनक्रमयोगेनसंपूज्यासर्वमातरः |
रक्तासनोपविष्टस्तुचक्रोद्धारंसमाचरेत् || ३४ ||

शक्त्योपरिष्टाछक्तिंतुविलिखेद्विस्तृतांसकृत् |
वह्निनातेपुटीकुर्यात्संधिभेधक्रमेणतु || ३५ ||

अग्नीशासुरवायव्यरेखांविस्तार्ययोजपेत् |
दशकोणंयथादेविजायतेतद्वदेवहि || ३६ ||

मध्यकोणचतुष्कस्यरेखेआकृष्यवुद्धिमान् |
तत्तत्संधिविभेदेनमन्वस्रंजायतेतथा || ३७ ||

समत्रिकोणशक्त्यैकंसुखदंनेत्रयोर्यथा सुश्रीकंसंधिभेदेनृजुरेखाविजृंभितं वहिरष्टदलंपद्मंसुवृत्तेनसमालिखेत् || ३९ ||

तद्वत्षोडशपत्रंहिविलिखेत्पद्ममुत्तमं त्रि वृत्तंपरमेशानिततोभूविंवमालिखेत् || ४० ||

चतुर्द्वारंविशोभाढ्यंपुष्पंतत्रविनिक्षिपेत् गंडकीभवपाषाणेस्वर्णेरजतताम्रजे काश्मीरदर्पणेभूर्जेअघीपीठंलिखेद्वुधः || ४१ ||

शलाकयासुवर्णस्यमिश्रयाचुसृणेंदुभिः |
सिंधूररजसामिश्रैःपट्टेधातुमयेलिखेत् || ४२ ||

अथवाभूतलेदेविसुरेखंकुंकुमेनवा |
सिंधूररजसाचापिलिखेत्सर्वार्थसिद्धये || ४३ ||

एतच्चक्रंमहेशानिमध्येविंदुविराजितं |
ततस्त्रिकोणंचाष्टारंदशारंचदशारकं || ४४ ||

मनुकोणंमहेशानिमध्यचक्रमिदंप्रिये |
वैंदवादष्टकोणांतंसर्वंमध्यंसुरेश्वरि || ४५ ||

चत्वारिंशद्भगैर्युक्तंत्रिभगैरपिपार्वति |
वसुपत्रंकलापत्रंचतुरस्रंक्रमात्प्रिये || ४६ ||

भगात्मकमिदंभद्रेनवयोन्यंकितंभवेत् |
यथोष्टाशामुखोमंत्रीतत्तत्कर्मविधौसुधीः || ४७ ||

प्राङ्मुखःसम्यगासीनोगुरुंनत्वानिजंततः |
पूर्वोक्तमनुनासम्यक्गुरुनामचसंस्मरेत् || ४८ ||

पार्ष्णिघातकरास्फोटैरुर्धाचक्रस्तुमांत्रिकः |
स्वर्वर्भूतानिसंत्रास्यकरशुद्ध्यादिकंचरेत् || ४९ ||

आद्यद्वितीयवर्णाभ्यांत्रिपुरेस्यंतिसंलिखेत् |
आद्यद्वयंविंदुनादकलास्त्रंत्रिपुराभवेत् || ५० ||

मंत्रमस्यामहेशानित्रिपुरेशीवनान्यथा |
मध्यमादितलांतंतुकरशुद्धिविधौयजेत् || ५१ ||

ततात्मासनंदद्यात्सुंदर्यापरमेश्वरि |
वाग्भवंत्रिपुरेश्वर्याहित्वातत्रविनिक्षिपेत् || ५२ ||

हृल्लेखांसुंदरींनामत्रिपुरेशीचपूजनं |
चक्रासनंततोदद्यात्पुरवासिन्यधिष्टितं || ५३ ||

शिववीजादिमंवीजंत्रयमेतदुदाहृतम् |
त्रिपुरेस्यास्तुविद्येयंत्रिपुरेशीवपूजनं || ५४ ||

त्रिपुरेशीहमाद्यास्याद्वीजयुग्मेतथांतिमे |
शिवाद्याश्रीरियंसर्वमंत्रासनविधौयजेत् || ५५ ||

सुंदर्याश्रंतिमंहित्वावलेमात्मकमक्षरं |
संयोज्यमालिनीदेवीसाध्यसिद्धासनस्थिता || ५६ ||

मंत्रमस्यामहेशानित्रिपुरेशीवसंभवेत् |
आत्मरक्षांप्रकुर्वीतत्रिपुरेश्यामहेश्वरि || ५७ ||

संपत्प्रदाभैरवीयमंतेसर्गसमन्विता |
मूर्त्यावाहनविद्यातुसिद्धांवापरमेश्वरी || ५८ ||

संपत्प्रदाभैरवीवयजनंपरमेश्वरि || ५९ ||

इतिश्रीदक्षिणामूर्तिसंहितायांकरशुद्ध्यादि विधिःपंचविंशतितमः पटलः २५

Patala 26 – Shri-Vidya-Mantras

ईश्वरुवाच

शिवचंद्रौमन्मथोरःशक्तिर्वैविंदुमालिनी |
क्षमाविंद्वर्द्धमात्राश्वनववर्णाभवंतिहि || १ ||

शिवाच्छून्यमयीदेवीव्योमाकारेणसंस्थिता |
विश्वंस्वात्मनिचिद्रूपेवहंतिसकलालया || २ ||

चंद्रेणद्रावयंतीयंमूलादिब्रह्ममंदिरात् |
आप्लावयंतीसकलंसृजंतीविश्वमातृकां || ३ ||

मन्मथेनमनोरूपातस्मात्तेजोमयीततः |
विस्तारयंतीसकलंविस्वयोनिरितीरिता || ४ ||

अंतःकरणवृत्यातुविश्वांतर्मातृकाभवेत् |
अंतर्मायेतिविख्याताययेदंधार्यतेजगत् || ५ ||

अतेवक्षमारूपाजगद्धात्रीपराभवेत् |
विंदुरूपापराशक्तिर्नादरूपामहेश्वरी || ६ ||

नादातीताविचारेतुविचारागोचराततः |
एवंब्रह्ममयैर्वर्णैर्जायतेत्रिपुरामनुः || ७ ||

नान्यैःवर्णैर्महामंत्राःसुभगायाभवंतिहि |
शुद्धाश्चसकलामंत्रास्तथाचोभयसंज्ञकाः || ८ ||

शुद्धविद्याशृणुप्रौढेसर्वाम्नायैर्नमस्कृताः |
कामाकासौशक्तितुर्यभूमायावाग्भवंयजेत् || ९ ||

अनेनचविलिख्यंतेविद्यासर्वागमेश्वरि म दनानुजतःकामोमदनाग्रजुच्यते || १० ||

हित्वानुजंशिवंसाग्रंविद्येयंमनुहृद्गता |
कामःसहाग्रजोवापिशिवंकामानुजंविना || ११ ||

सहाद्यंमदनेशक्तौहसाद्यंकानुजंविना |
चंद्राराधितविद्येयंभुक्तिमुक्तिफलप्रदा || १२ ||

अनुजेनविनाकामोहसादिवाग्भवंस्मरेत् |
हसादिसहकःशक्तावहस्यितिगीयते || १३ ||

कुवेराधिष्टिताविद्याभुक्तिमुक्तिफलप्रदा |
हित्वाहंवाग्भवेकामेहसादिकोमहामनुः || १४ ||

तुर्यैकादशमेहित्वाशक्तिकुटेप्पयंलिखेत् |
कामानुजंत्रयंहित्वासहसाद्योअजस्तथा || १५ ||

लोपामुद्रोपाशितेयंभुक्तिमुक्तिफलप्रदा |
इयंविद्याशक्तिकुटेसहकेनार्थसिद्धिदा || १६ ||

कामराजाराधितेयंभुक्तिमुक्तिफलप्रदा |
एतस्याएवविद्यायाःशक्तिविंदुमताद्वयं || १७ ||

हित्वाहसादिर्गदिताऽगस्त्याराधितदेवता |
धर्मार्थकाममोक्षाणांमालयंसंप्रदायतः || १८ ||

हित्वाद्ययुगलंवाचिसाद्यंकामेशिवादिकं |
शक्तिविंदुस्रजंत्यक्ताकामंतत्रविनिक्षिपेत् || १९ ||

शक्त्यावगस्त्यविद्येयंनंद्याराधितदेवता |
कानुजानांत्रयंत्यक्ताहसाद्यंवाचिमन्मथे || २० ||

सहाद्यमंतेसहयोर्मध्येकःसूर्यपूजिता |
अगस्त्यकुटत्रितयंसूर्यकामंसमालिखेत् || २१ ||

पुनस्तत्कलमध्येशंत्तार्त्तीयंचसमालिखेत् |
सहाद्यंविष्णुपूज्येयंषट्कूटापरमेश्वरि || २२ ||

अगस्त्याद्यंवाग्भवंस्यादेतदेवसकादिकं |
विष्णुविद्यापंचगंचस्कंदाराधितदेवता || २३ ||

अगस्त्यस्यद्विधाविद्यांविलिख्यमनुवित्तमः |
चतुर्थीपंचमीमायांत्यजेच्छिवहृदिस्थितां || २४ ||

वाग्भवंश्चचतुष्कंचकामराजस्यपंचकं |
शक्तिकूटत्रिकार्णंचकामराजस्यसंलिखेत् || २५ ||

मायास्थानेहरीवर्णयुगलंचक्रमालिखेत् |
दुर्वाससापूजितेयंपुरुषार्थप्रदायिनी || २६ ||

एतेद्वादशमंत्राःस्पुःशुद्धाःसर्वार्थसिद्धिदाः |
अन्येपिशुद्धभेदास्युःकथ्यंतेकृपयातव || २७ ||

भेदस्तुमनुविद्यायाःनास्तिसर्वागमेष्वपि |
शिवचंद्रकशक्तिस्तुहृल्लंखावाग्भवोभवेत् || २८ ||

जीवेशमादनेकारविंदुसृक्पृथिवीपरा एतत्कामेचतार्तीयेद्वितीयाचंद्रपूजिता कुवेरशक्तिकुटंचकामकूटंसमालिखेत् वाग्भवेकामराजंचशक्तिवीजमथोलिखेत् || ३० ||

शिवकामेशशक्तिलपराधनदपूजिता विष्णंतिमवाविकामेसादिकामस्यमन्मथं सहकामांत्ययुग्मादिशक्तौनंदीशपूजिता भेदस्तुसूर्यविद्यायानास्त्येवपरमेश्वरि विष्णुविद्यांतरंवक्ष्येकूटत्रयविराजितं || ३४ ||

जीवेशक्ष्मापरावाचिकामेस्याद्विष्णुपंचमं |
शक्तौकामांतिमंविद्याद्वितीयाविष्णुपूजिता || ३५ ||

हसशक्तिकभूमायाकूटमेतत्रिकंलिखेत् |
वाचिकामेतथाशक्तौस्कंदपूज्यापराभवेत् || ३६ ||

अगस्त्यस्यमनौज्ञेयापरावाचिहलांतगा |
कामत्रयांतेभूजीवौत्रिकुटाशिवपूजिता || ३७ ||

एतेभेदावरारोहेशुद्धाःसिद्धिप्रदायकाः |
शुद्धभेदद्वयंवक्ष्येभोगमोक्षफलप्रदं || ३८ ||

जीवेशकामभूमायावाचिकामेपिसंलिखेत् |
इदमेवपुनःशक्तौविद्येयंशक्तपूजिता || ३९ ||

कशक्तिर्विंदुमाललीशक्तीकूटंषडक्षरं |
वाचिकामेहकाकाशक्ष्माकासाग्निसमन्वितं || ४० ||

शक्तौकासकलाकाशवह्निमत्परमेश्वरि |
उन्मनीनामविद्येयंकेवलंमोक्षदायिनी || ४१ ||

एतेशुद्धाःसदाजप्याःसिद्धिदानात्रसंशयः |
अथवक्ष्येमहेशानिमंत्रान्सकलसंज्ञकान् || ४२ ||

कामराजस्यविद्यायामध्यंजीवंविनोच्चरेत् |
अंतेजीवऽशिवस्यातुविद्यावरुणपूजिता || ४३ ||

एतस्याएवविद्यायाहित्वाविंदुत्रयंक्षिपेत् |
तत्रैवकामविद्येयंधर्मराजप्रपूजिता || ४४ ||

कसकक्ष्मादिहृल्लेखाहसलस्मरतक्षमाः |
हृल्लेखामन्मथेशक्तौसकलाग्नीमहीपरा || ४५ ||

वह्निनापूजिताविद्यामहाविघ्नौघघातिनी |
अगस्तिकूटयुगलंवह्निपूज्यांतिमंलिखेत् || ४६ ||

विद्यापन्नगराजेनपूजिताभुक्तिमुक्तिदा |
कशक्तिवह्नियुगलंभूवह्निभुवनेश्वरी || ४७ ||

हकलाग्निहलामायासरकक्ष्माग्निमंडिता |
मायावायुप्रपूज्येयंमहापापौघभंजिनी || ४८ ||

कशक्तिवैंदवीवह्निक्ष्मामायाकहालरा |
मायासहकशक्राग्निमायेयंसौम्यपूजिता || ४८ ||

कामाकासक्षमामायाशिवकामहभूलरा |
मायाकामेशक्तिकूटेसकलाभुवनेश्वरी || ४९ ||

ईशानाधिष्टिताविद्यासर्वकामप्रपूरिणी |
कामराजस्ययुग्मांतेजीवक्ष्मामदनापरा || ५० ||

रत्याराधितविद्येयंसर्वकामार्थसाधिका |
कामाधिष्टितविद्यांतेविलोमांतासमालिखेत् || ५१ ||

नारायणाधिष्टितेयंषट्कूटापरमेश्वरी |
कामाद्यंवाग्भवेकामेहकहक्ष्मापराभवेत् || ५२ ||

शक्त्यावागस्त्यकूटंवाविद्येयंव्रह्मपूजिता |
अगस्त्यंवाग्भवंवाचिव्रह्मविद्यांतिमद्वयं || ५३ ||

जीवार्चितामहाविद्यासर्वकामप्रपूरिणी |
एतैर्द्वादशभिर्भेदैःसवलापरमेश्वरी || ५४ ||

शुद्धाशुद्धामहाभेदाज्ञातव्यापरमेश्वरि |
विद्यासंलिख्यशुद्धास्तुविपरीतास्ततोलिखेत् || ५५ ||

ताएवहितथाशुद्धाशुद्धाभेदाभवंतिहि |
यावंतशुद्धभेदास्युःतावंतस्तुक्रमात्प्रिये || ५६ ||

तथैवसवलद्वंद्वंभेदादेविभवंतिहि |
भेदाःसर्वेत्वयापीड्यमाययातुर्यसंज्ञकाः || ५७ ||

सर्वातिज्ञानगहनाव्रह्मरूपासुरेश्वरी |
ज्ञातव्यागुरुवक्त्रेणत्वन्यथापाशमाप्नुयात् || ५८ ||

अथवक्ष्येमहेशानिचतुर्द्धाज्ञानमुत्तमं |
एकधाकथितंचैतत्प्रकारांतरमुच्यते || ५९ ||

यस्याःस्मरणमात्रेणवाजपेयशतंभवेत् |
वक्ष्यमाणंवीजयुग्ममादौसंयोज्यसंस्मरेत् || ६० ||

परासरेस्वरेंद्वादिद्वितीयेभेदुच्यते एतद्वेदादिसंसेव्यंतृतीयोभेदुच्यते स्वयंव्रह्मामहेशानिसकृदुच्चारणाद्बुधः || ६१ ||

अथतुर्यप्रकारश्चकथ्यतेभुविदुर्लभः |
यस्यस्मरणमात्रेणपलायंतेमहापदः || ६२ ||

स्वयंव्रह्मास्वयंविष्णुःस्वयंरुद्रोनसंशयः |
किंपुनर्देवदेवेशिस्वयंकामेश्वरोविभुः || ६३ ||

अश्वमेधसहस्राणिवाजपेयस्यकोटयः |
नरमेधसहस्राणिसकृदुच्चारणात्प्रिये || ६४ ||

काश्यादितीर्थयात्रास्तुप्रादक्षिण्यंभुवस्तथा |
गंगास्नानसहस्राणिनामोच्चारणमात्रतः || ६५ ||

किंपुनर्देविसाछातुमंत्रीव्रह्मनसंशयः |
द्वितीयस्यादियुग्मंतुविपरीतंलिखेत्सुधीः || ६६ ||

वालांचांतर्मुखंकृत्वाविलिखेत्तदनंतरं |
एतत्संपुटितांकुर्यातृतीयांपरमेश्वरि || ६७ ||

श्रीविद्येयंमयाख्यातावर्णितुंनैवशक्यते |
जिह्वाकोटिशतैर्देविवक्त्रकोटिशतैरपि || ६८ ||

पंचाश्येनकथंदेविवर्णितुंशक्यतेमया |
श्रीविद्यासर्वविद्यानांराज्ञीस्तोतुंनशक्यते || ६९ ||

षोडशाक्षरसंपन्नास्वयंपंचदशीकला || ७० ||

श्रीगुरोःकृपयालव्धाऋद्धिसिद्धिप्रदायिने |
अंतेनिरामयंव्रह्ममंत्रीभवतिनान्यथा || ७१ ||

व्रह्महत्यासुरापानस्वर्णस्तेयादिपातकान् |
उपपातकलक्ष्याणिहंतिश्रीस्मरणंक्षणात् || ७२ ||

सर्वेकल्याणमंत्रास्तुभवंतिपरमेश्वरी |
एकोनविंशद्वर्णस्त्वनारायणहरिद्वयोः || ७३ ||

शिवविद्यामहेशानिसिद्धिःसप्तदशाक्षरी |
द्वंद्वविद्यास्तुसकलाएकोनविंशदक्षरा || ७४ ||

नारायणीवैष्णवीचपंचविंशतिवर्णका |
ज्ञातव्यागुरुवक्त्रेणचान्यथाशापमाप्नुयात् || ७५ ||

चतुःषष्टियतःकोट्योयोगिन्योमातृमंडलैः |
विनागुरूपदेशेनसाधकंनाशयंतिहि || ७६ ||

इतिश्रीदक्षिणामूर्तिसंहितायांश्रीविद्यामंत्रविवरणंनामषट्विंशः पटलः २६

Patala 27 – Nyasa und Mudra

ईश्वरुवाच

श्रीविद्यामानसोभूत्वावामभागेमहेश्वरि चतुरस्रंजलेनैवमंडलंपूरयेत् प्रिये || १ ||

गंधपुष्पाक्षतैःस्वत्रयंत्रिकांपूजयेत्तथा |
शंखंतत्रतुसंस्थाप्यजलपूर्णंसहेतुकं || २ ||

सम्यगभ्यर्च्यतेनैवपुरतोमंडलंयजेत् |
चतुरस्रंयजेत्तत्रयंत्रिकास्थापयेत्सुधीः || ३ ||

त्रिकोणवृत्तषट्कोणमंडलंपूजयेत्क्रमात् |
समस्तांव्यस्तरूपांचत्रिकोणेपूजयेच्छुचिः || ४ ||

द्विरावृत्याषडंगैस्तुषट्कोणेषुप्रपूजयेत् |
आद्यवीजेनवह्निंतुयंत्राकारेणपूजयेत् || ५ ||

हेमादिनिर्मितंपात्रंनारिकेलोद्भवंप्रिये |
महाशंखंविशेषेणभुक्तिमुक्तिफलप्रदम् || ६ ||

नारिकेलोद्भवंपात्रंसर्वैश्वर्यसुखप्रदम् |
मुक्तिदंतुविशेषेणसर्वसंपत्करंसदा || ७ ||

गंधादिचर्चितंधूपधूपितंपात्रमुत्तमम् |
यंत्रिकायांप्रतिष्टाप्यपूर्वोक्तंयंत्रमालिखेत् || ८ ||

तथैवपूजयेत्कामकूटमुश्चार्यसुंदरि |
स्तर्प्यंपात्रमयंतत्रविशेषेणचपूजयेत् || ९ ||

भागत्रयंविशेषस्यभागमात्रंजलंक्षिपेत् |
तत्रापिसंलिखेत्पूर्वयंत्रंपूजांचकारयेत् || १० ||

त्रिकोणेपूजयेद्विद्यांमयाकोणत्रयेततः |
कूटत्रयंक्रमेणैवयथाविद्यातथाविधां || ११ ||

श्रीविद्याविषयेदेविसंपुटत्वेनपूजयेत् |
सर्वत्रायंक्रमोदेव्यानात्रालस्यंचरेत्प्रिये || १२ ||

देवीमूलषडंगानिक्रमेणपरिपूजयेत् |
शक्तिकूटंसमुच्चार्यतज्जलंचंद्ररूपकम् || १३ ||

संपूज्यमध्येक्रमतःमातृकात्मकमाचरेत् |
पंचकोशमहाविद्यांसंस्मरेत्तत्रसुंदरि || १४ ||

तार्तीयंश्रीगुरोर्वीजंहंसविद्यामनुंजपेत् |
वारत्रयंचदेवेशिश्रीविद्यांसप्तधायजेत् || १५ ||

स्पृष्ट्वार्घ्यकंततोगंधपुष्पाद्यैरर्चयेत्ततः |
चिदानंदमयंधामनेत्रद्वारगतंस्मरेत् || १६ ||

प्रोक्षयेत्तेनसकलंपूजाद्रव्यांतरंततः |
आत्मानमपिसर्वंतद्विधारूपंभवेत्प्रिये || १७ ||

अंगुष्टानामिकाभ्यांतुवाममार्गेणसुंदरी |
तत्वमुद्रेयमाख्यातामहापापनिकृंतनी || १८ ||

अंगुष्टातर्जनीभ्यांतुज्ञानमुद्रेयमीरिता |
अनयापुष्पपूजास्यात्तथातर्पणपूजने || १९ ||

भूतशुद्धिविधिंकुर्यात्मंत्रीदेहस्यशुद्धये |
वायुवीजेनदेहस्यधातवःपापसंयुताः || २० ||

संशोष्यवह्निवीजेनपापेनसहितंदहेत् |
पापंविनापुनर्देहममृतीकृत्यजीवयेत् || २१ ||

जलवीजेनदेवेशिपार्थिवेनस्थिरीकुरु |
ततोदेहस्यसन्नाहंसम्यग्नासंसमाचरेत् || २२ ||

करशुद्धिविधिंकृत्वाचतुरासनदेवताः |
पादयोर्जंघयोर्जान्वोर्मूलाधारेचविन्यसेत् || २३ ||

कनिष्टांगुष्टरहितैस्त्रिभिस्तुहृदिविन्यसेत् |
मध्यमानामिकाभ्यांतुन्यसेच्छिरसिमंत्रवित् || २४ ||

शिखांगुष्टेनविन्यस्यदशभिःकवचंन्यसेत् |
हृद्गतैर्नेत्रविन्यासंविन्यसेत्परमेश्वरि || २५ ||

तर्जनीमध्यमाभ्यांतुततोस्त्रंविन्यसेत्प्रिये |
आत्मरक्षाकरींविद्यांद्विरुश्चार्यन्यसेद्वुधः || २६ ||

व्यापकत्वेनमूर्तिंत्वविन्यसेत्सिद्धिहेतवे अथवक्ष्येमहेशानिश्रीविद्यान्यासमुत्तमं संपूर्णांचिंतयेद्विद्यांव्रह्मरंध्रेणसुप्रभां || २८ ||

स्रवत्सुधांषोडशार्णांमहासौभाग्यदांस्मरेत् |
वामांशदेशेसौभाग्यदंडिनीभ्रामयेत्ततः || २९ ||

रिपुजिह्वाग्रहांमुद्रांपादमूलेविनिक्षिपेत् |
त्रैलोक्यस्यत्वहंकर्ताध्यात्वैवंतिलकेन्यसेत् || ३० ||

संपूर्णामेववदनेवेष्टनत्वेनविन्यसेत् |
पुनःसंपूर्णवदनेगलोर्धेविन्यसेत्तथा || ३१ ||

संपूर्णयाचदेहेत्वव्यापकत्वेनविन्यसेत् |
व्यापकांतेयोनिमुद्रांमुखेक्षिप्त्वाभिर्वद्यच || ३२ ||

त्रैलोक्यंक्षोभयत्याशुन्याससन्नद्धविग्रहः |
मुष्टिंवध्वोच्चरेन्मंत्रीतर्जनीदंडवत्तथा || ३३ ||

सौभाग्यदंडिनीनामरिपून्दंडयतेक्षणात् अं गुष्टंमुष्टिगंकुर्याद्रिपुजिह्वाग्रहाभवेत् || ३४ ||

संयोज्यहस्तौदेविशितर्जन्यानामिकांयजेत् |
तद्वद्वामेचसंघृष्ट्ययोन्याकारेणयोजयेत् || ३५ ||

उपर्ययंगुष्टयोगेनयोनिमुद्रेयमीरिता |
अनयामुद्रयादेवित्रैलोक्यंवशमानयेत् || ३६ ||

परिभ्राम्यानामिकांतुमूर्द्धानंपरितःप्रिये |
व्रह्मरंध्रेक्षिपेद्देविमणिवंधेन्यसेत्ततः || ३७ ||

ललाटेनामिकांकुर्यात्षोडशार्णांस्मरेत्प्रिये त्रैलोक्यमरुणंध्यायेन्न्याससंमोहनाभिधः पादयोर्जंघयोर्जान्वोकट्योरंधुनिपृष्टके नाभौपार्श्वद्वयेचैवस्तनयोरंशयोस्तथा || ३९ ||

कर्णयोर्व्रह्मरंध्रेचवदनेंधुनिपार्वति |
ततःकर्णप्रदेशेतुकरवेष्टनयोःक्रमात् || ४० ||

संहारोयंमहान्यासोवीजैःषोडशभिःस्मृतः |
गोलकंचततःकुर्यात्रैलोक्यक्षोभकारकं || ४१ ||

मातृकांविन्यसेत्पश्चाद्गणेशग्रहरूपिणीम् |
नक्षत्रयोगिनीराशिपीठवर्णस्वरूपिणीं || ४२ ||

सकलाम्नायविद्याभीरंकितांविश्वमातरं |
शिरोललाटभ्रूमध्यकंठहृन्नाभिगोचरे || ४३ ||

आधारेव्यूहकंयावद्रहस्यायोगिनीर्न्यसेत् सृ ष्टिन्यासंततःकुर्यात्सर्वसिद्धिःप्रदायकं || ४४ ||

ब्रह्मरंध्रेलिकेनेत्रेश्रुतिघ्राणोष्टकेषुच |
ओष्टयोर्दंतयोर्देविजिह्वायांचोरकूपके || ४५ ||

पृष्टेसर्वांगहृदयस्तनकुक्षिषुलिंगके |
श्रीविद्यार्णैन्यसेद्देविमंत्रीसर्वसमृद्धये || ४६ ||

काननाक्षिश्रुतिघ्राणगंडोष्टेषुमुखांतरे |
नेत्रयोर्वदनेवर्णान्न्यसेत्सौभाग्यहेतवे || ४७ ||

कसीमंतललाटेषुभ्रूयुगेघ्राणवक्त्रयोः |
करसंधिषुसाग्रेषुशोडषार्णान्क्रमान्यसेत् || ४८ ||

शिरोललाटहृद्वक्त्रेजिह्वाषत्संधिकोटिषु |
षोडशार्णान्न्यसेद्वक्त्रेस्वरस्थानेषुचक्रमात् || ४९ ||

ललाटगलहृन्नाभिमूलाधारेषुपंचकं || ४९ ||

व्रह्मरंध्रेमुखेवस्तिवीजत्रयमथोन्यसेत् |
आधारेहृदयेव्रह्मरंध्रेवीजत्रयंततः || ५० ||

करपादेषुहृदयेपंचवीजानिविन्यसेत् |
व्यापकंगोलकंकुर्यात्महासौभाग्यहेतवे || ५१ ||

श्रीविद्यांहृदयेदेविसंपूर्णांविन्यसेत्सुधीः |
पुष्पैरनामयावापिमनसावान्यसेदणुः || ५२ ||

एवंविन्यस्तदेहःसन्मुद्राःसंचारयेत्क्रमात् |
पूर्वोक्तयोनिमुद्रायाःपृथक्खंडत्रयंकुरु || ५३ ||

गुंष्टाभ्यांकनिष्टाभ्यांमध्यमाभ्यांक्रमेणतु |
त्रिखंडानाममुद्रेयंत्रिपुराह्वानकर्मणि || ५४ ||

अनामाभ्यांकनिष्टाभ्यांमध्यमेरोधयेत्ततः |
अंगुष्टावनिजालग्नौदंडवतर्जनीद्वयं || ५५ ||

क्षोभिणीयंमहामुद्रा(तृतीयापरिकीर्तितो)द्राविणीयंनिगद्यते |
एतस्याएवमुद्रायाःतर्जनीमध्यमायुतं || ५६ ||

अंकुशाकाररूपेणयोजयेत्परमेश्वरि |
त्रैलोक्याकर्षिणीमुद्रातृतीयापरिकीर्तिता || ५७ ||

पुटाकारौकरौकुर्यात्तर्जन्यावंकुशाकृति |
परिस्पष्टक्रमेणान्यमध्यमेतदधोगते || ५८ ||

क्रमेनतेनमनुवित्कनिष्टानामिकाद्वयं |
संयोज्याद्यर्षयेत्सर्वांगुष्टौचाग्रदेशगौ || ६० ||

सर्ववश्यकरीमुद्राचतुर्थीपरमेश्वरि |
संमुखौतुकरौयोज्यौमध्यमागर्भगेनुजे || ६१ ||

तर्जनीभ्यांवहिर्युक्तअनामेसरलेकुरु |
मध्यमानखदेशेतुततोंगुष्टौचदंडवत् || ६२ ||

उन्मादिनीनाममुद्रापंचमीपरिकीर्तिताः || ६३ ||

एतस्याएवमुद्रायाःतर्जन्यौमध्यमानुजे |
कुर्वन्महांकुशाकारौमुद्रेयंतुमहांकुशा || ६४ ||

अंकुशाख्यं महावीजंमनुरस्याःप्रकीर्तितं वामोदक्षिणवाहौतुदक्षिणंसव्यहस्तगं || ६५ ||

वाहुंकुर्यात्ततोदेविहस्तौसंवर्त्तयेत्क्रमात् |
कनिष्टानामिकाद्वंद्वंमध्यमापृष्टगंततः || ६६ ||

तर्जनीमध्यगंकुर्यादुभयत्रमहेश्वरि |
अंगुष्टौसरलौकृत्वापार्थिवेयोजपेदिमां || ६७ ||

खेचरीयंमहामुद्रात्रैलोक्यक्षोभकारिणी |
विजयायंमहावीजंमनुरस्याःप्रकीर्तितः || ६८ ||

एषासमयमुद्रेयंसर्वासांपरिकीर्तितां परिस्पष्टकरौदेवित्वर्धचंद्राकुतौततः तर्जन्यांगुष्टयुगलंयुगपत्कारयेदथ || ६९ ||

अधःकनिष्टावेष्टत्वेमध्यमेचतुयोजयेत् |
अनामिकेचकुटिलेसर्वाधस्तुनियोजयेत् || ७० ||

वीजमुद्रेमयाख्यातामनुरस्याहसौमिति |
पूर्वोक्तयोनिमुद्रातुनवमीपरिकीर्तिता || ७१ ||

शक्तिवृंदेस्फुरंतीयंतस्यात्साधारणीभवेत् |
वाग्भवंमनुरेतस्यातोविश्वस्यमातृका || ७२ ||

इतिश्रीदक्षिणामूर्तिसंहितायांयजनन्यासमुद्राविवरणंनामसप्तविंशतितमः पटलः २७

Patala 28 – Meditation und Guru-Reihen

ईश्वरुवाच

श्रीखं डरक्तश्रीखंडश्रीपर्णींसभवेपदे चक्रंसंस्थापयेद्देविनान्यत्रपरमेश्वरी || १ ||

एवंसन्यस्तदेहःसन्ध्यायेद्व्रह्मांडमंडलम् |
क्षित्यंब्बग्न्यनिलाकाशचित्स्वरूपप्रकाशकं || २ ||

चतुरस्रंचकोदंडंत्रिकोणंतत्पुटंमुखं |
निरालंवमितिख्यातःमेतद्वैमेरुमंडलं || ३ ||

अस्योर्द्धेव्यापकंचक्रंवाक् षट्कपदजृंभृतं लीनावाग्वस्तुनिर्देशादपरायोगिषुस्मृता || ४ ||

पराश्रीसांभवेज्ञानेवानस्पत्यषुमध्यमा |
सर्वजंतुषुपश्यंतीवैखरीज्ञानयोनिषु || ५ ||

एवंवाक्पदसंपन्नंसहस्रदलनीरजम् |
एतस्योर्ध्वेपरंचक्रंपरपीयूषमंदिरम् || ६ ||

चतुरस्रंद्यष्टपत्रंचतुःषष्टिदलंशुभम् |
शतपत्रंसहस्रारायुतारंलक्षपत्रकम् || ७ ||

कोटिपत्रंसुशोभाढ्यंदीप्यमानंनभस्तले |
तत्कर्णिकापीठमध्येसंस्मरेचक्रनायकं || ८ ||

महाषडध्वजननंस्फुरंतंसर्वतोमुखम् |
षडध्वरूपमधुनाशृणुयोगेषुसांप्रतम् || ९ ||

पदावाचक्रपत्रेषुभुवनाच्चात्रिसंधिषु वर्णाध्वामातृकापीठेसर्वमंत्रविजृंभिते षड्विं शतत्वभरितंचक्रमूलानुरूपतः || १० ||

पंचसिंहासनोन्नद्धःकलाध्वाचक्रशासनः |
नवधाचक्रभरितातथान्यापरयायुता || ११ ||

षोडशार्णास्वरूपाचचक्रंव्याप्यविजृंभते || १२ ||

मंत्राध्वेतितथाख्यातानीरजायतलोचने |
एवंषडध्वसंचारीश्रीचक्रंपरिचिंतयेत् || १३ ||

कर्णिकायांपरंवास्तुततश्चैतन्यमक्षरम् |
ततश्चात्मपरंतत्रस्फुरणंवैंदवंततः || १४ ||

ततःस्वरूपममलंततःसत्वादिसंभवम् |
चैतन्याकोशपीठंचस्वात्मकात्पंचशासनम् || १५ ||

स्फुरणावल्लभापीठंस्वधापीठंतुवैंदवात् |
स्वरूपाद्रत्नपीठंतुतत्वाद्विश्वंप्रकीर्तितं || १६ ||

श्रीविद्यापरमस्थानेचक्रपूर्वादितःप्रिये |
महाकोशेश्वरींवृंदमंडितासनसंस्थिता || १७ ||

सर्वसौभाग्यजननीपादुकांपूजयामिच |
इत्युच्चार्यपरंज्योतिःपादुकांपूजयेत्सुधीः || १८ ||

अनेनैवप्रकारेणपूजयेत्पंचपंचिकाम् |
एतत्सर्वात्मकंवस्तुसंलीनंपरवस्तुनि || १९ ||

एतत्सर्वात्मकंवस्तुसर्वसौभाग्यसुंदरी |
विंदुत्रयसमायोगात्रिविधात्रिपुरास्थिता || २० ||

विंदुंसंकल्पयेद्वक्त्रंतस्याधस्तात्कुचद्वयं |
दधतःसपरार्धंचचिंतयेतदधोमुखम् || २१ ||

एवंकामकलारूपासाक्षदक्षररूपिणी |
विंदुत्रयार्धमात्राभिःकेवलंविश्वमातृका || २२ ||

तत्तस्मात्कारणाद्देवित्रिपुराशक्तिरुच्यते |
अन्यासांत्रैपुरंविंदुत्रयंनास्त्येवशाश्वते || २३ ||

तदिच्छयाभवेत्सृष्टिर्लयंतत्रैवगच्छति सैवदेवीमहेशानीस्वात्मानमितिचिंतयेत् ओजापूकामरूपाख्याभापीठोपरिसंस्थिते तिथिसंख्यफणाहीरमध्यमौलिसरोरुहे तत्रास्तेवैंदवीपीठेतत्तन्नित्याकलांवुजे ततुकामेश्वरीपीठेनिषण्णांतत्सधर्मिणीं || २६ ||

आज्ञालोकत्रयेशानींव्रह्मविल्वीशशासिनीं |
अकारादिक्षकारीतवर्णावयवसुंदरीं || २७ ||

मूलादिव्रह्मरंध्रांतंविसतंतुस्वरूपिणीं |
उद्यद्भास्वत्समाभासांजपाकुसुमसन्निभां || २८ ||

सद्यःसंतप्तहेमाभांदाडिमीकुसुमोज्वलां सुंगधोद्दामकुसुमपूर्णधम्मिलराजितां तनुंकैशकसंराजन्नीत्वभ्रमरकुंतलां भंगरेखास्फुरन्मुक्तामाणिक्यतिलकोज्वलां || ३० ||

स्फुरद्रत्नावलीरम्यांमुकुटोज्वलकिंकिणीं |
अलक्तकस्फुरच्चंद्रवदनांविंदुमादरां || ३१ ||

राजश्चंद्रकलास्फुर्तितिलकांचापसंभुवं |
कर्णचुंविस्फुरन्नेत्रलोलभ्रूक्षेपसुंदरीं || ३२ ||

हीरमुक्तावलीराजत्स्वर्णटंकविराजितां |
कर्णभूषणतेजोभिःकपोलस्थलमंजरीं || ३३ ||

मुखचंद्रोज्वलच्छक्राकारमौक्तिकनासिकां |
स्मितमाधुर्यविजितव्रह्मविद्यारसप्रभां || ३४ ||

रक्तोत्पलदलाकारसुकुमारकरांवुजां |
करांवुजनखज्योत्स्नावितानितनभस्थलीं || ३५ ||

सुवृत्तनिविडोतुंगकुचभारालसांशिवां |
नवमुक्तामहाहारपदकोन्नतवक्षसां || ३६ ||

शातोदरींनिम्ननाभींक्षाममध्यमसुंदरीं |
अनर्घ्यारत्नघटितमेखलारत्नकिंकिंणी || ३७ ||

नितंवविंवसुभगांरोमराजीविराजितां |
रक्तांशुकस्फुरत्तेजोव्याप्तत्रैलोक्यमंडलां || ३८ ||

दिव्यकंचुकसंराजद्रत्नचित्रविराजितां |
कदलीललितस्थंभसूक्ष्मोदरविराजितां || ३९ ||

नवरत्नस्फुरतेजोमंजीरव्याप्तदेवतां |
व्रह्मविष्णुमहेशानस्फुरन्मौलिपदांवुजां || ४० ||

कर्पूरसकलोन्मिश्रतांवूलपूरिताननां |
प्रवालवल्लीघटितपाशक्षौमारुणान्वितां || ४१ ||

द्वितीयचंद्रलेखांकसृणिमाकर्षणक्षमां |
सद्विद्याभ्रमरीभूतगुणमिछुसरासनां || ४२ ||

कमलाकरसंराजत्पंचवाणांश्चविभ्रतीं |
महामृगमहोदारकुंकुमारुणविग्रहां || ४३ ||

सर्वाभरणशोभाढ्यांसर्वालंकारभूषितां |
सर्वदेवमयींदेवींसर्वमंत्रमयींपरां || ४४ ||

सर्वतीर्थमयींदेवींसर्वशास्त्रमयींपरां |
सर्वतीर्थमयींदेवीसवाधारस्वरूपिणीं || ४५ ||

सर्वसौभाग्यजननींसर्वसौभाग्यसुंदरीं |
एवंध्यायेन्महादेवींकदंववनमध्यगां || ४६ ||

वहन्नाडिपुटद्वारेनिर्गताचिंतयेत्ततः |
कामेश्वरशिवस्यांकेस्थापयेत्कुलसुंदरीं || ४७ ||

विद्ययाह्वानरूपिण्यामुद्रयाचतयाप्रिये |
मुद्रासंदर्शयेद्विद्वांस्तर्पणंचत्रिधाचरेत् || ४८ ||

सर्वोपचारैःराराध्यमानसैःप्रकटैःशुभैः धुपैर्दीपैर्निवेद्यांतैःपुनर्मुद्रास्तुदर्शयेत् पुनःसंतर्प्यदेवेशितिथिनित्यांप्रपूजयेत् एतस्मिन्समयेदेवितत्तत्तिथिमयींयजेत् || ५० ||

प्रतिपत्पौर्णमास्यंतेमेकैकांपूजयेत्तुयः |
सौभाग्यंलभतेमंत्रीमहदैश्वर्यमाप्नुयात् || ५१ ||

एकादिवृध्याहान्याचदर्शांतंक्रमतोयजेत् |
विभाव्यचमहान्मस्रंस्वरैःपंचदशात्मकैः || ५२ ||

पंचपंचविभेदेनसर्वांत्यंमध्यमेयजेत् |
मध्येदेवींमयींदेविमहानित्यांप्रपूजयेत् || ५३ ||

कामेश्वर्यादिकानित्याविचित्रांताःक्रमाद्यजेत् |
विमलाजयिनीमध्येपूजयेद्गुरुमंडलं || ५४ ||

परादिव्यादिगुरवःसिद्धादेविपरावराः |
अपरामानवाज्ञेयामुनिवेदाष्टसंख्यया || ५५ ||

आनंदनाथशब्दांतापुरुषाःपरिकीर्तिताः |
आवांतागुरवोज्ञेयास्त्रीलिंगापरमेश्वरि || ५६ ||

कामराजस्यगुरवःकथ्यंतेशृणुसुंदरी |
परप्रकाशसंज्ञश्चततःपरशिवोगुरुः || ५७ ||

पराशक्तिश्चकौलेशःशुक्लादेव्यंविकातथा |
कुलेश्वरस्तथादेविकामेश्वर्यांविकागुरुः || ५८ ||

अथभोगस्तथाक्लिन्नःसमयसहजस्तथा |
गगनोविश्वविमलोमदनोभुवनोगुरुः || ५९ ||

लीलास्वात्मप्रियादेविक्रमेणपरिकीर्तिताः |
लोपामुद्रागस्त्ययोश्चपरंपर्यसमोभवेत् || ६० ||

परमाद्यशिवःपश्चाकामेश्वर्यांविकाततः |
दिव्यौघाश्चमहौघाश्चसर्वश्चगुरवःक्रमात् || ६१ ||

प्रज्ञादेवीप्रकाशस्तुचतुष्कंकथ्यतेशृणु |
दिव्यश्चित्रश्चकैवल्यदेव्यंवाचमहोदयः || ६२ ||

चिद्विश्वशक्तिश्चरकःकमलश्चमनोहरः |
परस्वात्मागुरुद्वंद्वंप्रतिभौष्टौतुमानवे || ६३ ||

अन्यासांसर्वविद्यानांसमानागुरवःक्रमात् |
अथोपरमकाशश्चपरादिर्विमृशस्तथा || ६४ ||

तृतीयःपरमेशानिकामेश्वर्यादिकांततः |
मोक्षंचामृतसंज्ञश्चपुरुषोघोरेवच || ६५ ||

अथवासद्गुरुश्चापिसिद्धौश्चश्चोत्तरक्रमात् उद्भवःपर * श्चैवसर्वज्ञःस्वस्थेवच || ६६ ||

सिद्धस्तथाचगोविंदशंकरोमानवौधकः |
ओद्यत्रयावसानेतुस्वगुरुत्रितयंभवेत् || ६७ ||

यदाद्वादशसंख्यातागुरवस्तुभवंतिहि |
मानवौघाष्टकांतेतुयुग्मंसंकोचयेत्तदा || ६८ ||

गुरुत्रयंतदायोज्यमन्यथानष्टसंततिः |
जातोमंत्रीतदादेविपंक्त्यर्होनभवत्यसौ || ६९ ||

अन्यथागुरुसंकोचोनकर्तव्यःकदाचन परंपर्यविहीनायेज्ञानमात्रेणगर्वितः तेषांसमयलोपेनकिंकुर्वंतिमरीचयः गुरुंविनाक्रमंयस्तुकुरुतेपरमेश्वरि || ७१ ||

महाहानिस्तस्यदेविजायतेनात्रसंशयः आलित्रयेणगुरवःसंपूज्यासिद्धिहेतवे गुरुमंत्रेणदेविशिनिजसंपूजयेद्गुरुम् || ७२ ||

इतिश्रीदक्षिणामूर्तिसंहितायांध्यानविधिर्नामाष्टाविंशतितमः पटलः २८

Puja in heutiger Yoga-Praxis; kein Abbild der hier beschriebenen Ritualordnung.

Patala 29 – Shri-Vidya-Verehrung

ईश्वरुवाच

अथवक्ष्येमहेशानिश्रीविद्याक्रममुत्तमम् |
अग्नीशासुरवायव्यमध्यदिक्ष्वंगपूजनं || १ ||

स्वस्वमुद्राक्रमेणैवपूजयेन्मनुवित्तमः |
भूविंवंशोडशारंचवसुपत्रंक्रमेणतु || २ ||

सृष्टिचक्रंभवेदत्रपूजनंकथ्यतेप्रिये |
मन्वस्रंदशकोणंचद्वितीयंदशकोणकं || ३ ||

स्थितिचक्रंपूजनंचविभेदेनयजेत्तथा || ४ ||

अष्टकोणंत्रिकोणंचवैदवंसंहृतिर्भवेत् |
तृतीयःसकलापूज्यानाख्यंसकलंभवेत् || ५ ||

तुर्याविद्यास्तुसकलाःपूजयेत्क्रमतःसुधीः |
अनेनैवप्रकारेणविद्यावृंदंप्रपूजयेत् || ६ ||

श्रीकोशंसिंहासनगतंतथाकल्पलतात्मकं |
तथारत्नात्मकंदेविचतुरायतनात्मकं || ७ ||

चतुरन्वयगंभीरंसर्वंचपूजयेत्सुधीः |
त्रैलोक्यमोहनेचक्रेपंचाशद्वर्णविग्रहे || ८ ||

प्र|कटास्तत्रसंयोज्यासिद्धयोदशसुंदरि |
सद्यःसंतप्तहेमाभाःपाशांकुशधराप्रिये || ९ ||

महाभांडाररत्नानिससुवर्णानिवैनिधीन् प्रयछंत्यःसाधकभ्योपद्महस्तास्तुपूजयेत् अणिमालघिमासिद्धिर्महिमेशित्वरूपिणी वशित्वसिद्धिप्राकाम्याभुक्तिरिछाष्टमीभवेत् प्राप्तिसिद्धिसर्वकामासिद्धयःप्रकटायजेत् द्वारदक्षिणभागेषुतथाकोणेषुचक्रमात् || १२ ||

अधूर्ध्वक्रमात्पूज्यापश्चिमाशादिदेशिकैः |
व्राह्मीमाहीश्वरीचैवतथेंद्राणीतृतीयके || १३ ||

कौमारीवैष्णवीचैवषष्टीवाराहिकाभवेत् |
चामुंडाचतथालक्ष्मीःअपरेणचभागतः || १४ ||

पाशांकुशधरासर्वाक्रमेणदधतीस्मरेत् |
विद्यांशूलंचवज्रंचशक्तिंचक्रंगदांतथा || १५ ||

धैर्यांत्रमालिकंपद्मंक्रमेणपरमेश्वरि |
सर्वाभरणसंपन्नासंस्मरेत्सिद्धिहेतवे || १६ ||

सर्वाद्याक्षोभिणीचैवद्राविण्याकर्षणीतथा |
धैर्यांत्रमालिकंपद्मंक्रमेणपरमेश्वरि || १७ ||

स र्वाभरणसंपन्नासंस्मरेत्सिद्धिहेतवे सर्वाद्याक्षोभिणीचैवद्राविण्याकर्षणीतथा || १८ ||

वश्योन्मादांकुशाख्याचतथामुद्राचखेचरीं |
वीजयोनीत्रिखंडाचपूर्वपश्चिमभागतः || १९ ||

पद्मरागप्रतीकाशासिंदूरतिलकान्विताः |
रक्तवस्त्रपरीधानारक्तमालाविभूषिताः || २० ||

स्वस्वमुद्रांकिताःसर्वाःपाशांकुशलसत्कराः |
पूज्यामुद्राप्रयत्नेनस्वेष्टसंसिद्धिहेतवे || २१ ||

पश्चिमादिक्रमेणैवप्रकटाचतुरस्रके |
सर्वाशापूरकेचक्रेकलास्वरविजृंभृते || २२ ||

पश्चिमादिविलोमेनगुप्ताःसंपूजयेत्क्रमात् कामादिकर्षिणींनित्यांवुध्याकर्षणिकांतथा अहंकाराकर्षिणीचशव्दाकर्षणिकातथा स्पर्शाकर्षणिकातद्वद्रूपाकर्षणिकांतथा || २४ ||

रसाकर्षणिकांदेविगंधाकर्षणिकांतथा |
चित्ताकर्षणिकांतद्वद्वैर्याकर्षणिकांप्रिये || २५ ||

नामाकर्षणिकांचैववीजाकर्षणिकांतथा |
अमृताकर्षणींचैवस्मृत्याकर्षणिकांप्रिये || २६ ||

शरीराकर्षणींनित्यामात्माकर्षणिकांततः |
एतानित्याकलादेविचंद्रमंडलमध्यगा || २७ ||

स्वरलग्नाःस्मरेन्नित्यंश्रवत्पीयूषवर्षिणीः |
पाशांकुशसुधापूर्णकाश्मीरघटदानदा || २८ ||

सर्वसंक्षोभणेचक्रेकादिलक्षांतवर्गिणीः |
देवीगुप्ततरापूज्यावंधूककुसुमप्रियाः || २९ ||

पाशांकुशास्फुरल्लीलनीलोत्पलकरास्मरेत् पूर्वादिषुचतुर्दिक्षुकोणेष्वग्न्यादिषुक्रमात् अनंगकुसुमाचैवतथाचानंगमेखला तथानंगादिमदनानंगमदनातुरा || ३१ ||

अनंगरेखाचानंगवेगाचानंगपूर्विका |
अंकुशाचतथानंगमालिनीपरमेश्वरी || ३२ ||

महासौभाग्यदाचक्रेकटवर्णविराजिते |
संप्रदायाख्ययोगिन्यःसर्वाभरणभूषिता || ३३ ||

इंद्रगोपनिभाःसर्वाःसगर्वोन्मत्तयौवनाः |
पाशांकुशौदर्पणंचपानपात्रंसुधामयं || ३४ ||

विभृत्यःसर्वसुभगाःपश्चिमादिविलोमतः |
शक्तीःप्रपूजयेद्देविसंप्रदायेनसिद्धये || ३० ||

सर्वसंक्षोभिणीशक्तिःसर्वविद्राविणीतथा सर्वाकर्षणिकाशक्तिःसर्वाह्लादकरीप्रिये सर्वसंमोहिनीशक्तिःसर्वस्तंभनकारिणी सर्वजंभनिकानामशक्तिःसर्ववशंकरी सर्वार्थरंजिनीशक्तिःसर्वोन्मादनकारिणी सर्वार्थसाधकोशक्तिःसर्वसंपत्तिरूपिणी || ३३ ||

सर्वमंत्रमयीशक्तिःसर्वद्वंद्वक्षयंकरी |
सर्वार्थसाधकेचक्रेणभवर्णविशोभिते || ३४ ||

जपाकुसुमसंकाशास्फुरन्मणिविभूषिता |
महासौभाग्यगंभीरापीनवृतघनस्तनी || ३५ ||

रत्नपेदीविनिक्षिप्तसाधकेप्सितभूषणान् |
नानारत्नमयान्दिव्यान्ददतीतिस्मिताननाः || ३६ ||

पाशांकुशौचदधतीसंस्मरेत्कुलयोगिनीः |
पश्चिमादिविलोमेनपूजयेत्सर्वसिद्धिदाः || ३७ ||

सर्वसिद्धिप्रदादेवीसर्वसंपत्प्रदाततः |
सर्वप्रियंकरीचैवसर्वमंगलकारिणी || ३८ ||

सर्वकामप्रदादेवीसर्वदुःखविमोचिनी |
सर्वमृत्युप्रशमनीसर्वविघ्ननिवारिणी || ३९ ||

सर्वांगसुंदरीदेवीसर्वसौभाग्यदायिनी |
सर्वरक्षाकरेचक्रेमक्षवर्णविभूषिते || ४० ||

पश्चिमादिविलोमेननिगर्भायोगिनीर्जपेत् |
उद्यद्भास्वत्सहस्राभामुक्तालंकारभूषिता || ४१ ||

पाशंटंकायुधज्ञानमुक्तावरलसत्कराः |
देवीप्रपूजयेदेताःयथेप्सितफलप्रदाः || ४२ ||

सर्वज्ञासर्वशक्तिश्चसर्वैश्वर्यफलप्रदा |
सर्वज्ञानमयीदेवीसर्वव्याधिविनाशिनी || ४३ ||

सर्वाधारस्वरूपाचसर्वपापहरातथा |
सर्वानंदमयीदेवीसर्वरक्षास्वरूपिणी || ४४ ||

सर्वेप्सिताफलप्रदादशमीपरमेश्वरि |
सर्वरोगहरेचक्रेवर्गाष्टकविजृंभृते || ४५ ||

पश्चिमादिविलोमेनरहस्यायोगिनीर्यजेत् |
श्रीपीठपरितोधस्ताद्दाडिमीकुसुमप्रभाः || ४६ ||

रक्तवस्त्रपरीधानारक्तगंधानुलेपनाः |
रक्तपुष्पाक्षतैःसम्यक्पूजयेत्सर्वसिद्धिदाः || ४७ ||

नानाभरणगंभीरापंचवाणधनुर्धराः |
पुस्तकंवरदानंचदधतीर्वर्गसंस्थिताः || ४८ ||

वर्गाष्टकमहावर्णेविंदुनादांकितालिखेत् |
अवर्गांतेरेफवक्ष्मावामकर्णेन्दुविंदुमत् || ४९ ||

देवीवाग्देवतापूज्यावशिनीनामसुंदरि |
कवर्गांतेकुलयुतांपरांकामेश्वरींलिखेत् || ५० ||

चवर्गांतेनवक्ष्माढ्यंवामनेत्रंशशीसमं |
अनेनमोहिनीपूज्याटवर्गांतेततःपरम् || ५१ ||

वायुक्ष्मावामकर्णेन्दुनादमद्विमलांयजेत् |
तवर्गांतेजकालाग्निवामाक्षीदुकलात्मिकां || ५२ ||

अरुणांपूजयेद्देविपवर्गांतेथकथ्यते |
व्योमजीवमहीनीरवायुमर्घाशभूषितम् || ५३ ||

अनेनजपिनीपूज्यापवर्गांतेथकथ्यते |
फरेफकालपवनश्रवणांतेनपूजयेत् || ५४ ||

सर्वेश्वरींसवर्गातेंक्षमावह्निसविंदुमत् |
अनेनकौलिनींदेवींपूजयेदष्टमींवुधः || ५५ ||

अष्टकांतेमहेशानिएतावाग्देवतायजेत् |
सर्वसिद्धिप्रदेचक्रेत्वकथैश्चमहाक्षरैः || ५९ ||

त्रिरेखासर्वशोभाढ्येसमस्तार्णविजृंभृते |
परापररहस्याख्यायोगिनीपूजयेत्क्रमात् || ५७ ||

पश्चिमादिक्रमेणैवयुग्मयुग्मविभेदतः |
कामेशस्यचकामेशावाणाःसाधारणाप्रिये || ५८ ||

ततुर्यंतद्वितीयंचविंदुनादांकितंक्रमात् |
कामेश्वरस्यकामेस्याःचापयुग्मंयजेत्प्रिये || ५९ ||

अनंतोविंदुनामाढ्योहृल्लेखापाशवीजकं |
कामेश्वरस्यकामेश्याःक्रमेणपरमेश्वरी || ६० ||

अंकुशस्तुसमानंस्यादुभयोपूजयेत्सुधी |
चतुर्दिक्षुविशोभाढ्यायौवनोन्नतविग्रहाः || ६१ ||

रक्तविद्युल्लताकाराउदामकुसुमान्विताः |
नवरत्नविशोभाढ्यास्वस्वायुधकराःक्रमात् || ६२ ||

जंभमोहवशस्तंभपदमंत्रान्विताःशुभाः |
अंगाचरणवाह्येतुआयुधाष्टकमर्चयेत् || ६३ ||

कोणत्रयेषुसंपूज्यास्तिस्रःकूटत्रयान्विताः |
कामेश्वरीचवज्रेशीतृतीयाभगमालिनी || ६४ ||

कामेश्वरीशुक्लवर्णाशुक्लमानुलेपना |
मुक्ताफलस्फुरद्भूषानानाभरणभूषिता || ६५ ||

पुस्तकंचाक्षसूत्रंचवरदंचाभयंक्रमात् ददधतींचाग्रतःपूज्यारुद्रशक्तिःप्रकीर्तिताः वज्रेश्वरीकुंकुमाभ्यास्फुरद्रत्नविभूषिताः वालार्कवसनानीलकर्णकुंचितलोचना इक्षुकोदंडपुष्पेषुवरदाभयशोभिता वज्रेश्वरीदक्षभारीविष्णुशक्तिर्महेश्वरि || ६८ ||

उत्तरेभगमालांवासद्यःसंतप्तहेमभा |
अनर्घ्यरत्नरचितभूषणाभुवनेश्वरी || ६९ ||

पाशांकुशज्ञानमुद्रावरवाणकरांवुजा |
व्रह्मशक्तिर्महेशानीतापत्रयनिकृंतिनी || ७० ||

सर्वानंदमयीनादरूपेशव्दातिगोचरे |
परापररहस्याख्यायोगिनीरतिपूर्विका || ७१ ||

त्रिकूटायातुसंपूज्यामहात्रिपुरसुंदरी श्रीविद्यापूजयेद्देविचिन्मयींव्रह्मरूपिणीं तर्पणानिपुनर्दद्याद्गंधपुष्पाक्षतैर्यजेत् || ७२ ||

मानसैःप्रकटैर्देवींपूजयेद्वहुभिःप्रिये |
मुद्रासंदर्शयेन्मंत्रीवंधूककुसुमप्रभा || ७३ ||

नानालंकारसुभगास्त्रैलोक्यवशकारिणी |
स्वस्वमुद्राःकराःसर्वाःश्रीविद्यासंमुखाःस्मरेत् || ७४ ||

प्रतिचक्रतुमुद्रास्तुक्रमाच्चक्रेश्वरींयजेत् |
ततश्चक्रस्यमध्येतुत्वाद्यपूजागताप्रिये || ७५ ||

त्रिपुरास्फटिकाभासामुक्तारत्नविभूषिता |
पुस्तकंचाक्षमालांचकलशंपद्ममुत्तमं || ७६ ||

दधतींचिंतयेन्नित्यांमहापापविनाशिनीं त्रिपुरेशीपूर्वरूपासुंदरीकुंकुमप्रभा सर्वालंकारसंपन्नापुस्तकंचाक्षमालिकां वराभयौचदधतींसामर्थ्यसुसिताननां || ७८ ||

अनयासदृशीदेवीध्येयात्रिपुरवासिनी |
आरक्तलोचनाप्रांतेमहामदविघूर्णिता || ७६ ||

त्रिपुराश्रीर्महेशानिपीनवृत्तघनस्तनी |
उद्यद्भासुत्सहस्राभादिव्यालंकारमंडिता || ८० ||

पुस्तकंजपमालांचवरदंचाभयंकरैः |
दधतीसकलानंदामलिनीकथ्यतेपुनः || ८१ ||

इंद्रगोपप्रभादेवीपाशांकुशकपालिनी म हाभीतिहरासम्यक्साधकानंददायिनी || ८२ ||

सिद्धांवापरमेशानिध्यायेद्विषविनाशिनीं |
संपत्प्रदाभैरवीचमहासिद्धिप्रदायिनी || ८३ ||

क्रमेणसिद्धिसहिताप्रतिचक्राधिदेवता |
अत्युपह्वरमेवेदंज्ञात्वाचक्रंसमर्चयेत् || ८४ ||

पादुकांपूजयामीतिनमस्कारस्ततोभवेत् |
स्वाहाहोमेतर्पणेतुतर्पयामीतिसंस्मरेत् || ८५ ||

अथवारस्मयःसर्वादेवीरूपेणचिंतयेत् || ८६ ||

श्रीचक्रेपरमेशानिस्वमंत्रेस्वस्वसन्निभाः |
गोपितव्यंत्वयाभद्रेस्वयोनिरिवपार्वति || ८७ ||

इतिश्रीदक्षिणामूर्तिसंहितायांश्रीविद्यायजनविवरणंनामैकोनत्रिंशः पटलः २९

Patala 30a – Bali-Opfergaben

श्रीईश्वरुवाच

नैवेद्यंषड्सोपेतंकामधेनुपवित्रितम् |
दत्वाकर्पूरसहितंतांवूलंपरशक्तये || १ ||

नित्यहोमंप्रकुर्वीतपूर्वोक्तविधिनाप्रिये |
यथाशक्तिजपंकुर्यात्स्तुतिंचपरमेश्वरि || २ ||

आदिश्लोकद्वयेनापितथासौभाग्यदेवताम् |
सुवर्णरौप्यकांस्यादिपात्रेवसुदलंलिखेत् || ३ ||

गंधेनचरुकंमध्येमुद्रांवातत्रवैन्यसेत् |
वसुपत्रेषुचाज्येनपूरितातवदीपिकान् || ४ ||

भ्रामयेद्रत्नविद्याभिस्त्रिधाध्यात्वातुमस्तके |
मूलेनवास्मरेदंतेसर्वविघ्नोपशांतये || ५ ||

समस्तचक्रचक्रेशीयुतेदेविनवात्मके |
आरार्तिकमिदंदेविगृहाणममसिद्धये || ६ ||

मंडलंवामतःकुर्यात्साधकोभूमिजानुमान् वहत्पुटेनहस्ताभ्यांमंडलोद्वारलक्षणं चतुरस्रेव्योमचक्रंमंत्रेणानेनपूजयेत् तारंचभुवनेशानीव्यापकादिचमंडलं || ८ ||

ङेतंवर्णचहृन्मंत्रोमनुःसूर्याक्षरोभवेत् |
अत्रोदमिश्रंभागेनसाधारंपुष्पपूजितं || ९ ||

संस्थाप्यपात्रंतत्रैवकलार्णेनवलिंहरेत् |
तारंपरासर्वविघ्नकृद्भयःसर्वंचभूलिखेत् || १० ||

तेभ्योहुंवह्निजायाच्चत्रिवारोच्चारणाद्वलिः |
पूर्वोक्तवलिदानंतुकुर्याद्विघ्नोपशांतये || ११ ||

चतुर्द्धावलिदानंतुत्रिषुलोकेषुदुर्लभम् |
ततःकुमारींसंतर्प्यत्रिपुरेस्यानपाथवा || १२ ||

मयूषान्परमेशान्यासंभाविमनुवित्तमः |
खेचर्ययाशक्तिचक्रस्यस्वामिनीसंविदंपरां || १३ ||

योजयेदात्मनिज्ञानगहनेकृपयागुरोः शिवकोणेशेषिकाभ्योनिर्माल्यंसिद्धयेक्षिपेत् अर्घपात्रंततोदेविगुरवेगुरुमंत्रवित् नाममंत्रेणचस्वस्यस्तर्पयेदुपदेशतः || १५ ||

वाममार्गेणदेवेशितत्वमुद्राधरोशुचिः |
पुनराधारगंकुर्यादाधारंदीपलक्षणम् || १६ ||

आरार्त्रिकस्यमध्यस्थंमूलेनैवतुभक्षयेत् |
कपालिन्यावापिपात्रंत्वयावापिसमुद्धरेत् || १७ ||

द्वितीयंतत्वयादक्षेसंयोगेनैवपार्वति |
तत्वत्रयेणसंयोगातर्पयेत्स्वांतवासिनीं || १८ ||

प्रथमंव्रह्मरूपत्वंद्वितीयंसर्वमंत्रवित् |
तृतीयमीशरूपंचविज्ञेयंमनुवित्तमैः || १९ ||

किंचिदुल्लास्यमुद्राभिःपंचभिःपरमेश्वरि आकृष्यमंत्रान्तत्रस्थांशेषिकाभ्योक्षितादिकं हत्वातुपरमेशानिसुखीभूयान्नसंशयः अनिर्वाच्यमविज्ञेयमक्षरैकथितंमया || २२ ||

जालाक्षरेणन्यायेनचंद्रदीपंनचप्रिये |
गोपितव्यंत्वयाभद्रेजननीजारगर्भवत् || २३ ||

इतिश्रीदक्षिणामूर्तिसंहितायांवलियजनविधिर्नामत्रिंशतितमः पटलः ३०

Patala 30b – Japa und Homa

पार्वत्युवाच

होमादिसूचिंतदेवसम्यग्वि स्तारितंनहि साधकानांहितार्थायक्रिययाकथयप्रभोः || १ ||

श्रीईश्वरुवाच

शृणुदेविप्रव|क्ष्यामिश्रीविद्यामंत्रसाधनं |
शमीदूर्वांकुरा|श्वत्थपल्लवैरर्कसंभवैः || २ ||

श्रीचक्रंपूजयेद्देवीमासमात्रंसमाहितः |
सहस्रजन्मजंपा|पंहंतिमासेनदेशिकः || ३ ||

पूजयेद्रत्नखचितंचंपकैःस्वर्णजैःप्रिये |
अवश्यंसर्वकालेषुपरमाज्ञाधरोभवेत् || ४ ||

नाशयेत्सर्वपापानिकोटिजन्मभवान्यपि |
समुद्रवलयांपृथ्वींसंप्राप्यसुखमेधते || ५ ||

नित्यंयःपूजयेद्देविचंपकैःरजतोद्भवैः |
सवुद्धिमान्भवेदेवीसर्वत्रविजयीभवेत् || ६ ||

पश्चिमाभिमुखंलिंगंदृवशून्यमथापिवा |
स्वयंभूवाणदेशेवाशैवस्थानेमहेश्वरि || ७ ||

तत्रस्थित्वाजपेन्मंत्रंप्रवालाक्षस्रजातथा |
मुक्तारुद्राक्षपद्माक्षस्फुटिकोद्भवयाथवा || ८ ||

माणिक्यपद्मरागादिमनोहर्ययाजपेद्वुधः |
जप्तेलक्षैकमात्रेतुभूचर्योविघ्नकारकाः || ९ ||

तासामपियदानासौक्षोभयातिमनागपि |
तदालक्षत्रयंकुर्यान्नियमेनशुचिर्वुधः || १० ||

भानसेनाथवा वाचोपांशुनावाजपेद्वुधः मानसोच्चारणंदेविजपकोटिफलप्रदं || ११ ||

उपांशूच्चारणादेविवाचिकंशतधाभवेत् |
वाचिकंतुसुमंत्रंस्यात्श्रीगुरोराज्ञयाप्रिये || १२ ||

तद्दशांशेनहोमंस्यात्कुसुमैर्व्रह्मवृक्षजैः |
कुसुंभपुष्पैर्जुहुयान्मधुत्रितयसंप्लुतैः || १३ ||

सिद्धाभवतिविद्येयमविद्यानाशिनीसतां |
योनि|कुंडेभगाकारेवर्तुलेत्वर्धजेप्रिये || १४ ||

नवत्रिकोणचक्रेवाचतुरस्रेथवाप्रिये |
वाक्पतिर्योनिकुंडेतुभगेचाकर्षणंभवेत् || १५ ||

वर्तुलंश्रीप्रदंदेविराश्यर्घेतुभयंभवेत् |
नवत्रि|कोणेमहतिखेचरीसिद्धवान्भवेत् || १६ ||

चतुरस्रेतुसकलंशुभजातंभवेत्सदा |
शांतिकंपौष्टिकंलक्ष्मीरारोग्यंचसुखादिकं || १७ ||

पद्मांकेदशसिद्धिस्तुसाधयेन्नात्रसंशयः |
मल्लिकामालतीभिश्चत्रिमध्वाक्तैर्वचःपतिः || १८ ||

करवीरैर्जपापुष्पैसघृतैर्भुवनत्रये |
योषिद्वश्यंततोदेविकर्पूरंकुंकुमंनदं || १९ ||

मृगस्यमिश्रितंकृत्वाकामसौभाग्यवान्भवेत् |
चंपेयैःपाटलैरम्यैस्ताम्रैरन्यैफलैर्हुनेत् || २० ||

स प्ताहमात्रंयोनित्यंलक्ष्मीप्राप्नोतिमंत्रिणं |श्रीखंडमंगुरुंदेविकर्पूरंगुगुलंहुनेत् || २१ ||

समग्रपुरसुंदर्योवश्यास्तनभवंतिहि |
हुत्वापलंत्रिमध्वक्तंखेचरत्वंचतुष्पथ || २२ ||

दधिक्षीरमधुसर्पिःलाजाहुत्वानकालभाक् |
अथवानवलक्षंतुजपेद्विद्यांसमाहितः || २३ ||

तद्दशांशेनहोमस्तुपूर्वोक्तविधिनायजेत् |
साधयेत्सर्वभूर्लोकपातालतलवासिनः || २४ ||

राजिकालवणाभ्यांतुक्षोभयेज्जगतीमिमां |
दध्नाशताष्टकंहुत्वाकालमृत्युंविनाशयेत् || २५ ||

घृतक्षीरद्वयादायुततोष्टशतकंभवेत् |
मध्वाज्यगुग्गुलेनैवराजेंद्रंवशमानयेत् || २६ ||

आरोग्यंघृतदूर्वाभ्यांहवनेनशताष्टकं |
मध्वाज्याक्तैरक्तवर्णैःकरवीरैःसगुग्गुलैः || २७ ||

हुनेल्लक्षंवशीकुर्यात्विंशतिंधरणींभुजां |
मध्वाक्तकरवीरेस्तुसांगंधूपंवशंनयेत् || २८ ||

सप्तरात्रेणचाज्येनशशिनापूर्ववयजेत् |
पाटलैर्यूथिकाकुंदैःशतपत्रैश्चजातिभिः || २९ ||

मालतीनवमल्लीमिमल्लिकापद्मकिंसुकैः |
पूजनाद्धनवान्वापिमिश्रैर्वामिश्रितैरपि || ३० ||

सर्वसौभाग्यमाप्नोतिवुध्यावाक्पतिरुच्यते |
मुचुकुंदैःर्विल्वपत्रैःफलैरमितनीरजैः || ३१ ||

जगरैराजपैश्चापिसिद्धयोष्टौभवंतिहि |
नारिकेलैश्चखर्जूरैर्द्राक्षाभिश्चूतसत्फलैः || ३२ ||

मनसाचिंतितंकार्यंसाधकस्यतुहोमतः |
पूजनेनचहोमेनश्रीविद्यांपरितोषयेत् || ३३ ||

चरुंविकीर्यसर्वत्रकुमारीपूजनादिभिः |
पूर्वोक्तवलिदानेनगुरुंसंतोष्यचक्रमात् || ३४ ||

सुवासिनीश्चसंपूज्यादद्याद्भूरिधनंसतां |
समग्रंकुसुमंहोमेकुसुमावहुधाहुनेत् || ३५ ||

नारिकेरांतरपलैःसकलैस्तुमनःप्रिये |
समग्रेणैवभूतस्यफलेनवरदंतथा || ३६ ||

पनसैर्फलगर्भस्यैर्गरैवीजोझितैर्हुनेत् |
जांवूफलंसमग्रंस्यात्द्राक्षांचैवतथाहुनेत् || ३७ ||

रंभाफलंमनोभागंलघुचेत्खंडितंनहि |
फलंलघुसमग्रंस्यात्कस्तूरीकुंकुमंशशी || ३८ ||

गुंजामात्रंहुनेदेवितिलराशतंहुनेत् |
तथैवलवनंलाजामुष्टिमात्रंहुनेद्वुधः || ३९ ||

अन्नंतुग्रासमात्रंतुपक्वान्नंचतथाभवेत् |
पुरंतुक्रमुकार्धेनश्रीखंडंक्रमुकाकृतिः || ४० ||

तथागुरुंहुनेदाज्यंमनःसंतोषकारिभिः |
तच्चतुर्गुणभेदेनदधिदुग्धेहुनेत्सदा || ४१ ||

सर्वासामहुतीनांतुमातंदेविमनःप्रियं |
कुंडस्यपूजनंवक्ष्येमहाविघ्नविनाशनं || ४२ ||

चतुर्विंशतिसंख्याभिरंगुलीभिसुविस्तृतं |
खातंचरचयेकुंडंसर्वत्रसुमनोहरं || ४३ ||

चतुरस्रंसर्वनेत्रसुभगंमेखलाततः |
सर्वत्रैकांगुलंत्यक्तातिस्रःकार्यासुशोभना || ४४ ||

आदित्यवसुवेदानांसंख्यागुलिभिरुत्ततः |
चतुरंगुलविस्तारास्तिस्रोपिपरमेश्वरि || ४५ ||

कुंडस्यपश्चिमेभागेयोनिंकुर्यात्सलक्षणां |
रव्यंगुलस्तुविस्तारंवस्वंगुलस्वविस्तृतां || ४६ ||

मध्येषडंगुलंदेविद्व्यंगुल्युच्चांमनोरमां |
लक्षणंचतुरस्रस्यकथितंतवसुंदरि || ४७ ||

एतस्मिन्न्यातियद्वान्यंतदन्येषुतथाभवेत् |
तेनमानेनसर्वाणिकुंडानिरचयेद्वुधः || ४८ ||

गोमयोदकसंलिप्तेपूर्वात्पश्चिमदिग्गता |
दक्षिणायुत्तरांतातुतिस्रस्तिस्रश्चकारयेत् || ४९ ||

प्रणवेनाभ्युक्ष्यमध्येकल्पयेद्यागविष्टरं |
शर्करांविकरेत्तत्रत्रिकोणंतत्पुटंलिखेत् || ५० ||

तद्वहिर्वसुपत्रंचततोभूमंडलंलिखेत् |
उपर्युपरिभेदेनततपीठंसमर्चयेत् || ५१ ||

मंडूकंचतथारुद्रंकालाग्न्याद्यंततःपरं |
आधारशक्तिंकूर्मंचततोनंतंवराहकं || ५२ ||

पृथिवींचतथाकंदंनालपद्मंचकर्णिकं |
पत्रा|णिकेशराण्येवंततस्थानेषुपूजयेत् || ५३ ||

धर्मंज्ञानंचवैराग्यंऐश्वर्यंपीठदिक्ष्वच |
नञर्थास्तेचकोणेषुपीठस्योपरिपूजयेत् || ५४ ||

पुनस्तारेणसंपूज्ययागविष्टरकंयजेत् |
मध्येऋतुमतिंविश्वमातरंवेदमस्तकं || ५५ ||

पुरुषाधिष्टितांध्यात्वातद्यौनौसंपुटस्थितां |
वह्निकुंडेपरिभ्राम्यकिंचिदंगारकंत्यजेत् || ५६ ||

अस्त्रमंत्रेणसकलान्भूतान्संत्राशयेत्सुधीः |
पश्चात्प्रज्वालयेद्वह्निंज्ञानाग्निंसंक्रमययतु || ५७ ||

दीपाद्दीपांतरन्यायास्फुरंतंसर्वतोमुखं |
स्वासमार्गेणमनुवियोनिमार्गेणसंक्षिपेत् || ५८ ||

कुंडंत्रिकोणमध्येतुतत्रप्रज्वालयेच्छुचिं आदौव्याहृतिभिःपश्चावह्निमंत्रेणचक्रमात् चित्पिंगलहनद्वंद्वंदहद्वंद्वंयचद्विधा सर्वज्ञाज्ञापयस्वाहामनुनाप्रार्थयेन्नतः || ६० ||

अग्निंप्रज्वलितंवन्देजातवेदंहुतासनं |
सुवर्णवर्णममलंसमिद्धंविश्वतोमुखं || ६१ ||

उपस्थानंविधायेत्थंजिह्वांगानिप्रविन्यसेत् |
शषष्णवलरायश्चषष्टस्वरसमन्विताः || ६२ ||

विंदुनादांकिताःसप्तजिह्वार्णाःपरिकीर्तिताः |
पद्मरागासुवर्णाचतृतीयाभद्रलोहिता || ६३ ||

लोहिताचतथास्वेताधूमिनीचकरालिका |
क्रमेणयोजयेद्वीजैर्विन्यसेत्परमेश्वरि || ६४ ||

पल्लिंगगुदमूर्धास्यनासानेत्रेषुवैक्रमात् |
सुराश्चपितरश्चैवगंधर्वायक्षपन्नगाः || ६५ ||

पिशाचाराक्षसाश्चैवस्मर्तव्यास्तास्तुसप्तसु |
सहस्रार्चिस्वस्तिपूर्णुत्तिष्टपुरुषस्तथा || ६६ ||

धूमव्यापीसप्तजिह्वोधनुर्धरितीरिताः |
ङेहृदंतैःषडंगानिततोमूर्त्यष्टकंन्यसेत् || ६७ ||

जातवेदःसप्तजिह्वोहव्यवाहनेवच |
विस्वोदरश्चतुर्थःस्यात्वैश्वानरुभेततः || ६८ ||

षष्टःकौमारतेजाश्चविश्वदेवमुखान्यसेत् |
मूर्धांसपार्श्वकट्युंचुकटिपार्श्वांशकेषुच || ६९ ||

ङेतास्तुसकलाज्ञेयाग्निमूर्त्यंगकाक्रमात् |
एवंविन्यस्तदेहःसन्पर्ययाभ्युक्ष्यजलेनच || ७० ||

दिक्षुदर्भैःपरिस्तीर्ययततस्तुपरिशेषयेत् |
वैश्वानरंततोजातवेदपश्चादिहावह || ७१ ||

लोहिताक्षचसर्वांतेकर्माण्यपिचसाधय |
स्वाहांतोणुरयंतारवक्त्रश्चित्पिंगलेनच || ७२ ||

अनेनवह्निमभ्यर्च्यततोजिह्वासमर्चयेत् |
मध्येचकोणषट्केचततोंगानिप्रपूजयेत् || ७३ ||

मूर्तयोवसुपत्रेषुभूविंवेदिगधीश्वराः |
पुनर्वैश्वानरंयष्ट्वात्रिकोणमरुणप्रभं || ७४ ||

शुक्लांवरंरक्तरत्नभूषणंपद्मसंस्थितं |
वरंपद्मंस्वस्तिकंचाभीतिंहस्तैश्चविभ्रतं || ७५ ||

अनेकहेममालाभिरंकितंसंस्मरेद्वुधः |
अर्घ्योदकेनपात्राणिप्रोक्षयेच्छुद्धयेततः || ७६ ||

उन्मुखीकृत्यसर्वाणितत्रविनिक्षिपेत् |
प्रणीताप्रोक्षणीयुग्मेजलंस्थाल्यांधृतंतथा || ७७ ||

अन्यत्सर्वेषुपात्रेषुहोमद्रव्याणिसंक्षिपेत् |
श्रुक्पात्रेचश्रुवेपात्रेघृतेपुष्पंविनिक्षिपेत् || ७८ ||

स्थालींपूर्वान्वितांकुर्यात्सर्वतोधूपयेत्प्रिये |
मेखलासुचसर्वासुवेष्टयेद्दीपमालिकाः || ७९ ||

त्रिपंक्त्याचाभितःकुंडंततोव्याहृतिभिर्हुनेत् |
व्रह्माणंदक्षिणेभ्यर्च्यहुनेद्वैश्वानराणुना || ८० ||

गर्भाधानादिसंस्कारंचिंतयेत्सिद्धिहेतवे |
अनेनविधिनाभ्यर्च्यश्रीचक्रंतत्रचिंतयेत् || ८१ ||

तदंतरेसमावाह्यमहात्रिपुरसुंदरीं |
समस्तचक्रचक्रेशींसहितांहोमयेत्ततः || ८२ ||

दशाज्याहुतिभिःपश्चात्यजनादिक्रमेणतु |
समस्तचक्रचक्रेशीप्रकटाद्याश्चयोगिनीः || ८३ ||

होमयेश्चघृतेनैवचैकैकामाहुतिंक्रमात् |
ततःपूर्वोक्ततद्द्रव्यैःहोमयेत्स्वभगांपरां || ८४ ||

हवनंपद्मरागायांसर्वसिद्धिप्रदंभवेत् |
रुद्रारक्तासुवर्णाचसर्वकामफलाप्तये || ८५ ||

लोहितायांभवेच्छांतिस्तंभनंचक्रमाद्भवेत् |
उच्चाटनंतुधूमिन्यांद्वेषणंचैवमारणं || ८६ ||

इतितेकथितंदेविहोमलक्षणमुत्तमं |
भूतविघ्नौघशमनीनान्यथावरवर्णिनी || ८७ ||

दीपस्थानंसमाश्रित्यजपहोमसमाचरेत् |
वसुकोष्टंलिखेत्कूर्मंमध्येस्थानंप्रकल्पयेत् || ८८ ||

स्वरान्द्वंद्वविभागेनपूर्वादिक्रमतोलिखेत् |
कायावर्गास्तुसप्तैतेपूर्वादिक्रमतोलिखेत् || ८९ ||

लक्षवर्णौष्टमेयोज्यःकूर्मचक्रमिदंभवेत् |
स्थानाक्षरंयत्रदेवीसिद्धिस्तत्रनसंशयः || ९० ||

स्थानाक्षरंमुखेज्ञेयापार्श्वयोस्तस्यवैकरौ |
तत्रशून्यंफलंमध्येकोष्टयुग्मंतुमृत्युदं || ९१ ||

उदरंकच्छपश्यैतत्पादौतुपश्चिमौक्रमात् |
रोगहानिकरौपुछंतयोर्मध्यगतंभवेत् || ९२ ||

दारिद्र्यदंदुःखदंचतस्माद्वक्त्रंसमाश्रयेत् |
तत्रैवसिद्धिर्नान्यत्रश्रीगुरोराज्ञयाप्रिये || ९३ ||

देशंवाकल्पयेत्स्थानंनगरंग्राममेवच |
दीपेवासोपिकर्तव्यःकिंपुनर्हवनंयजेत् || ९४ ||

इतिश्रीदक्षिणामूर्तिसंहितायांजपहोमलक्षणंनामत्रिंशतितमः पटलः ३०

Patala 31 – Anwendungen der Vidya

श्रीईश्वरुवाच

अथातःसंप्रवक्ष्यामिचक्रराजस्यसाधनं |
एवंसंसिद्धविद्यायाविनियोगक्रमंशृणु || १ ||

कृत्वासिंदूररजसाचक्रंतत्रविचिंतयेत् |
साध्यप्रतिकृतिर्नामलेखिनीकांशुभांततः || २ ||

ज्वलंतीतत्क्षणादेवमोहिताभयवर्जिता |
त्यक्तालज्जासमायातिअथान्यत्कथ्यतेप्रिये || ३ ||

तत्मध्यसंस्थितोमंत्रीचिंतयेदरुणप्रभं |
आत्मानंचतथासाध्यंतदासौभाग्यसुंदरः || ४ ||

अरुणैरूपचारैस्तुपूजये|न्मुद्रयावृतः यस्यनाम्नायुतःसम्यक्सभवे द्दासेवहि || ५ ||

अदृष्टस्त्रीनामवर्णीश्चक्रमध्येविलिख्यतु |
योनिमुद्राधरोभूत्वावेगादाकर्षणंभवेत् || ६ ||

देवकन्यांराजकन्यांवैश्यकन्यामथापिवा |
गोरोचनाकुंकुमाभ्यांसमभागंचचंदनं || ७ ||

अष्टोत्तरशतावृत्यातिलकंसर्वमोहनं |
पुष्पंफलंजलंचान्नंगंधवस्त्रंचभूषणं || ८ ||

तांवूलंपूर्वजप्तंचयस्मैसंप्रोष्यतेसतु |
अंगनावीक्षणंदेविदासीवत्सापिजायते || ९ ||

करवीरैरक्तवर्णैःत्रिमध्वक्तैःप्रपूजयेत् |
चिंतयन्मासमात्रंहिसाध्याख्यांललनांततः || ८ ||

इतिकुर्वन्महेशानिपूजयेदरुणप्रभां |
सिंदूररचितेचक्रेराजानंमोहयेत्क्षणात् || ९ ||

त्रैलोक्यदुर्लभांचापिरंभांचाकर्षयेद्रुतं |
चिंतागारेणचक्रंतुलिखेद्रक्तद्रवेणहि || १० ||

वध्वावाहौथवाक्वावाज्वरंनाशयतिक्षणात् |
अर्कनिंवद्रवाभ्यांतुलेखिन्यार्कस्यसंलिखेत् || ११ ||

द्वयोर्नामसाध्यवाह्यंदेशेचक्रस्यसंलिखेत् |
गोमूत्रेस्थापयेत्तच्चभवेद्विद्वेषणंक्षमात् || १२ ||

धूपयेच्चंदनंरात्रौवस्त्रंवाधारयेत्ततः |
अष्टोत्तरशतावृत्यामोहयेद्भुवनत्रयम् || १३ ||

लिप्तं गोमयभूमौतुलिखेद्रोचनयाततः सरूपांप्रतिमांरम्यांभूषाढ्यांपरिचिंतयेत् || १४ ||

तद्भालगलहृन्नाभिजन्ममंडलयोजितां जन्मनाममहाविद्यांसंकुसांतविदर्भितां सर्वांगसंधिसंलीनांकामकूटंसमालिखेत् साध्यासाभिमुखीभूत्वाश्रीविद्यान्यासविग्रहः क्षोभिणीवीजमुद्रायांविद्यामष्टशतंजपेत् योजयेतांकामगेहेचंद्रसूर्यकलात्मके || १७ ||

सानुरागातिविकलाकामसायकपीडिता त्रैलोक्यसुंदरीनामक्षणादायातिमोहिता अथवामात्रिकांचक्रवाह्येसंवेष्ट्यमंत्रवित् चक्रंप्रपूजयेत्सम्यक्विद्यांपूर्णांचधारयेत् || २० ||

अवध्यःसर्वदुष्टानांव्याघ्रादीनांनसंशयः |
श्रीखंडागरुकस्तूरीकर्पूरैश्चसकुंकुमैः || २१ ||

स्वनामक्रमतोलेख्यंपूर्ववन्मातृकांलिखेत् |
तेनाजरामरत्वंतुसाधकस्यनसंशयः || २२ ||

कामकूटेनदेवेशिसंदर्भ्यपृथगक्षरम् |
साध्यनामत्रिकोणांतंमातृकांवेष्टयेद्वहिः || २३ ||

स्वर्णमध्यगतंधार्यंशिखायांयत्रकुत्रचित् लोकपालाश्चराजानोदुष्टास्त्रैलोक्यपूजिता तेसर्वेवशमायांतिसन्निपातादयोज्वराः अनेनविधिनासाधुपुरीसंदर्भ्यसंक्षिपेत् || २३ ||

चतुष्पथेमध्यदेशेदिक्षुपूर्वादिषुक्रमात् |
तस्यसौभाग्यमायातिराजानःकिंकराःसदा || २४ ||

स्फुरत्तेजोमयींपृथ्वींप्रज्वलंतिचराचरं |
चक्रांतश्चिंतयेन्नित्यंमासषट्कंततोनरः || २५ ||

तेनकंदर्प्यसुभगोलोकेभवतिनिश्चयात् |
दृष्ट्वाकर्षयतेलोकान्विषंनाशयतिज्वरान् || २६ ||

तथाविषैंचहरतिदृष्ट्यावेशंकरोतिच |
रात्रौसिंदूरलिखितंपूजयेदेकचित्ततः || २७ ||

करोत्याकर्षणंदूरायोजनानांशतादपि |
अखंडदिक्षुकोणेषुक्रमेणपरिपूजयेत् || २८ ||

यदातदैवलोकोयंवश्यो * * * नान्यथा भूर्जपत्रेलिखेच्चक्रंरोचनागुरुकुंकुमैः || २१ ||

स्वनामदर्भितंकुर्याद्देशंवापुटभेदनम् |
मंडलंविषमस्थानंभूमौचक्रंनिधापयेत् || ३० ||

धारयेद्वाततोमंत्रीपुरंक्षोभयतिक्षणात् |
उन्मत्तरसलाक्षार्कक्षीरकुंकुमरोचना || ३१ ||

कस्तूर्यंलक्तसहिताएकीकृत्यतुसंलिखेत् |
यन्नाम्नातस्यदेविशिचौरजंव्याधिजंभयं || ३२ ||

ग्रहजंव्याधिजंचैवरिपुजंसिंहजंभयम् अहिजंवाजिजंवापिसर्वान्मोहयतिक्षणात् रोचनाकुंकुमाभ्यांतुमध्यगासंलिखेद्वुधः त्रिकोणोभयगांचैवसाध्यनामांकितामधः तच्चक्रंधारयेत्तस्मात्सप्ताहात्किंकरोभवेत् पीतद्रव्येणचक्रांतेलिखेद्विद्यामधस्ततः || ३५ ||

साध्यनामविलिख्यैतत्पूर्वस्यांदिशिसंक्षिपेत् तस्माद्व्रह्मापिजीवोपिसर्वज्ञोमूकतांव्रजेत् अनेनविधिनानीलीरसेनविलिखेच्चतत् दक्षिणाभिमुखोमंत्रीवह्नौदग्धारिपून्दहेत् || ३७ ||

महिषाश्वपुरीषेणगोमूत्रेणचसंलिखेत् आरनालास्थितंकुर्यात्भवेद्विद्वेषणंक्षणात् साध्यनामलिखेन्मध्येकाममध्येनसंचयेत् संलिख्यरोचनाद्रव्यैराकाशेदृष्टिगंतथा || ३८ ||

शत्रूवच्चाटयेदाशुहठोच्चाटोयमीरितः |
महानीलीरसोद्भिन्नारोचनादुग्धमिश्रितैः || ३९ ||

लाक्षारसैर्लिखेच्चक्रंचतुर्वर्णान्वशंनयेत् |
अनेनविधिनानीरेस्थापयेत्तज्जलेनतु || ४० ||

सौभाग्यंमहदाप्नोतिस्नानपानान्नसंशयः |
पीतंचक्रंयजेत्पूर्वेस्तंभयेत्सर्ववादिनः || ४१ ||

सिंदूर * लितंचक्रमुत्तरेलोकवश्यकृत् पश्चिमेपूजितंचक्रंगैरिकालिखितंततः || ४३ ||

मंत्रिणोदेवतावश्याकिंपुनर्योषितःप्रिये |
स्तंभंविद्वेषणंव्याधिमुच्चाटंकुरुतेनरः || ४५ ||

दुग्धेवश्यकरंक्षिप्तंरोचनालिखितंहठात् |
दग्धातद्वह्निमध्यस्थंसर्वशत्रून्विनाशयेत् || ४९ ||

गोमूत्रमध्यगंचेतद्भवेदुच्चाटनंरिपोः |
विद्वेषणंभवेच्चक्रेतेनैवपरमेश्वरि || ४७ ||

सिंदूरेणलिखेच्चक्रंनिर्जनेचचतुष्पथे |
सर्ववाह्यतारभ्यमध्यांतंमातृकांलिखेत् || ४८ ||

कुलाचारक्रमेणैवरात्रौसंपूजयेत्क्रमं |
साधकःखेचरोदेविजायतेनात्रसंशयः || ४९ ||

चतुर्दश्यांनिशिस्वस्थोरुद्रभूमौप्रपूजयेत् |
षण्माससंख्ययातेनसाक्षाद्रुद्रिवापरः || ५० ||

अंजनंविवरंसिद्धिंगुलिकांपादुकांजपं |
खड्गसौभाग्यवेतालयक्षिणींचेटकादिकं || ५१ ||

सकलंसिद्धिजननंमंत्रीमाप्नोतिनान्यथा |
चतुर्दश्यांचतुर्दश्यांप्रत्यष्टम्यांसमाहितः || ५२ ||

एकविंशतिरात्रंतुनिशिप्रेतशिलातले |
श्रीचक्रंपूजयेत्तद्वत्सुरपूज्यस्तुसाधकः || ५३ ||

पाशांकुशधनुर्वाणैःपौरुषेयैर्महेश्वरि |
कामोभूत्वास्वर्गभूस्तुपातालतलयोषितां || ५४ ||

हर्ताकर्तास्वयंचैवमहदाकर्षणंभवेत् तद्वत्कामेश्वरीशस्त्रैर्देव्यात्माभुवनत्रये पुरुषाकर्षणंचैतद्राजानःकिंकराप्रिये एतत्कामकलाध्यानंकथितंवीजभेदतः वाग्भवाराधनेदेविज्ञानंसारस्वतंभवेत् श्वेताभरणवस्त्राढ्यांस्वेतपुष्पैःसमर्चयेत् || ५७ ||

अनेनविधिनादेविवाग्भवाराधनंभवेत् |
अथकामकलानामसामर्थ्यंशृणुपार्वति || ५८ ||

काममन्मथकंदर्प्यमकरध्वजेवच |
महाकामश्चपूर्वोक्तपंचकामाःक्रमेणतु || ५६ ||

कामंमन्मथमध्यस्थदेविकंदर्प्यवेश्मगं |
तत्पुटस्थंमीनकेतुंमहाकामेशसप्तकं || ६० ||

अनेनकामतत्वेनमोहयेज्जगतीमिमाम् |
मूलादिसृष्टिसंहारविसतंतुतनीयसीम् || ६१ ||

तस्मात्कुंडलिनीशक्तिःशक्तिकूटेमहेश्वरि |
त्रिकुटात्रिपुरादेविसर्वसिद्धिप्रदाभवेत् || ६२ ||

चतुःषष्टिर्यतःकोट्योयोगिनीनांमहौजसां |
चक्रमेतत्समाश्रित्यसतांसिद्धिप्रदासदा || ६३ ||

इतिश्रीदक्षिणामूर्तिसंहितायांविद्याप्रयोगवीजसाधनंनामेकत्रिंशतितमः पटलः ३१

Patala 32 – Diksha und Duti-Verehrung

श्रीईश्वरुवाच

अथदीक्षाविधिंवक्ष्येदुर्लभांभुवनत्रये |
पूर्वोक्तेनप्रकारेणनवयोन्यंकितांतरं || १ ||

वुध्यासंयोजयेन्मंत्रीयथात्र्यस्त्रंप्रजायते |
वसुकोणंद्वादशारंषोडशारंततःप्रिये || २ ||

द्विदशारंवृत्तयुग्मंततोष्टदलमालिखेत् |
भूविंवंचततोमध्येपूजयेत्त्रिपुरांपराम् || ३ ||

आदावंगानिसंपूज्यत्रिकोणेपुरतित्रयम् |
मातरोष्टारपत्रेषुवामाद्यानवयोनिषु || ४ ||

नित्यानिरंजनाक्लिन्नाक्लेदिनीमदनातुरा |
मदद्रवाद्राविणीचरुचिराभगवत्पथ || ५ ||

कामेश्वरीतथाकामदीपिनीकामुकेश्वरी |
ललिताक्षोभिणीमुद्रास्वछंदललिताक्रमात् || ६ ||

शंकरीभीमभावाचकमलाकमलेश्वरी |
नीलग्रीवाविशालाक्षीभेरुंडापरमेश्वरी || ७ ||

कलायोनिषुसंपूज्याततोविंशतियोनिषु |
मायावतीमहाक्षीचततःसर्ववशंकरी || ८ ||

समयासमयीशानीनित्यानंदामहोदया सर्वसौ| भाग्यदानंदाचंद्रिकाचंद्रशेखरा || ९ ||

सर्वेश्वरीचंसंपूज्यापीठानिवसुपत्रके |
भूगृहेत्रिपुरेशींचदीक्षायोन्यांकितांयजेत् || १० ||

एतदग्रेषुधान्यैस्तुसाधारंकलशंयजेत् |
विशेषगंधपुष्पैश्चस्वर्णरत्नैश्चपूरयेत् || ११ ||

समीपेचक्रराजंचसम्यगभ्यर्च्यदेशिका |
आद्याक्षरेणसंलग्नंसुंदरंनामकल्पयेत् || १२ ||

आत्मानंयोजयित्वातुगुरुभिस्तैश्चवैततः |
स्मर्तव्यागुरवःसर्वेसम्यक्प्रणतिपूर्वकं || १३ ||

भूमौलिखित्वाविद्यांचसम्यक्पुष्पादिभिर्यजेत् शिष्यायदर्शयेद्विद्यांप्रजप्तांशतधाप्रिये यदिस्यान्महतीप्रीतिःशिष्यस्यप्राणदस्यतु तदैकोच्चारमात्रेणदक्षकर्णेजपेत्परां || १५ ||

षोडशार्णांपरांविद्यांनदद्यात्कस्यचित्प्रिये |
राज्ञेराज्यप्रदायापिपुत्रायप्राणदायच || १६ ||

शांभवज्ञांप्रकुर्वीततादृक्खेचरसंज्ञकां अनिर्वाच्योपदेशस्तुह्यर्शनाद्व्रह्मणोभवेत् कलशस्थैःपल्लवैस्तुत्रिवारंप्रोक्षयेत्स्वतं भवेत्तदाभिषिक्तस्तुतदासौदेशिकाग्रणी || १८ ||

गंडूषतत्वसंयुक्तस्तदार्होयंशिवार्च्चने |
अन्यथानैवसिद्धिस्तुसविकल्पस्यपार्वति || १९ ||

नसिद्धिस्तस्यकुत्रापिश्रीविद्याचपराङ्मुखी |
गुरवेदीयतेसर्वमज्ञानक्षालयेदपि || २० ||

तस्माद्दीक्षेयमाख्यातामंत्रसिद्धिकरीप्रिये |
दीक्षितःसन्महेशानिविनियोगंसमाचरेत् || २१ ||

विशेषार्घविधिंकुर्यात्पश्चादूतींसमानयेत् |
समयाचारविधिनामंडितांसुंदरानना || २२ ||

अष्टक्षेत्रकुलोद्भूतांतरुणींचारुलोचनाम् |
आनंदमुदितांग्राह्यांविरूपांविकृताननां || २३ ||

व्यंगांवृद्धांविविक्तांचक्रुद्धांचैवविवर्जयेत् |
भगमालांसमुच्चार्यतस्यायोनिंप्रपूजयेत् || २४ ||

श्रीविद्यांपूजयेत्तत्रनवचक्रक्रमोदितां |
स्कलिंगेपूजयेद्देविश्रीविद्यांषोडशाक्षरीं || २५ ||

कामेश्वरीस्वरूपांचकामशस्त्रविराजितां |
कामेश्वरंप्रवक्ष्यामितत्रभेदेनसुंदरी || २६ ||

वेदादिपीठसंराजत्परापीठनिवासिनीम् |
त्रिकूटाहृत्कलादेवीशिवायचजपन्मनुं || २७ ||

स्वाधिष्टानंचस्वार्णेननवचक्रेश्वरेणहि |
पूजयेत्कामरूपःसन्कामशास्त्रीर्च्चितःप्रिये || २८ ||

सीत्कारःप्रणवोदेविभाषणंजपुच्यते नि त्यानंदश्चुंवनंस्यात्कुचमर्दःशिवार्चनम् || २९ ||

नखदंतक्षतादीनिपुष्पमालादिपूजनम् |
ताडनंहवनंविद्धिवीर्जपुष्पेविसर्जनम् || ३० ||

वीर्जरेतःसमादायविशेष्यार्घेनिधापयेत् |
तेनामृतेनश्रीदेवीतर्पयेत्कुलमार्गतः || ३१ ||

अतिःप्रगटनाद्देवीविण्मूत्रेस्त्रीरजस्तथा |
नखादिरेतोमुख्यानिकुलद्रव्याणिभाग्यतः || ३२ ||

भैरवोयदिसंजातःसिद्धिस्तस्यनसंशयः |
निर्विकल्पस्तुमंत्रज्ञोव्रह्मसाक्षान्नसंशयः || ३३ ||

काम्यंनैमित्तकंज्ञात्वाश्रीविद्यांपरितोषयेत् |
दीक्षितस्याधिकारोत्रनान्यस्यपरमेश्वरि || ३४ ||

पुस्तकेलिखितंदृष्ट्वास्वयंज्ञात्वाकरोतियः व्रह्महत्यासुरापानस्वर्णस्तेयादिपातकैः लिप्यतेनात्रसंदेहोनरकेनिवसत्यसौ || ३५ ||

इतिश्रीदक्षिणामूर्तिसंहितायांदीक्षादूतीयजनविवरणंनामद्वात्रिंशः पटलः ३२

Patala 33 – Anlassgebundene Verehrung und Damanaka

श्रीईश्वरुवाच

अथवक्ष्येमहेशानिपवित्रारोपणंमहत् |
यस्मिन्कृतेकृतंसर्वंमन्यथाशून्यमुच्यते || १ ||

गतेसंवत्सरेयस्तुनकरोतिपवित्रकं |
एकीकृत्यफलंतस्यनीयतेदुर्मनैर्बलात् || २ ||

आषाढुत्तमोमासःश्रावणोमध्यमप्रिये |
हीनोभाद्रपदोमासःपक्षेसितसितेतरे || ३ ||

प्रशस्तःशुक्लपक्षस्तुतदालाभेसितेतरः |
चतुर्दश्यष्टमीपूर्णःमसीतिथिषुपूजयेत् || ४ ||

पट्टसूत्रंविशिष्टंतुकार्पासजनितंतथा |
त्रिगुणंत्रिगुणीकृत्यप्रक्षाल्यामलवारिणा || ५ ||

पश्चिमास्यैक्तमनुभिःदक्षिणैःशोषयेत्ततः |
मंत्रैरथपवित्राणिमनोरम्यानिकारयेत् || ६ ||

अष्टोत्तरशतंश्रेष्टंतदर्धंमध्यमंप्रिये |
तदर्धंचकनिष्टंस्यायथाशक्त्याथवाप्रिये || ७ ||

उत्तरास्योदितैर्मंत्रैर्दशग्रंथीस्तुकारयेत् |
विचित्रयाचित्रयाचकुंकुमादिभिरद्रिजे || ८ ||

पवित्रदानदिवसात्पूर्वेद्युरधिवासिनी |
सद्योधिवासनंवापिकुर्याच्चपरमेश्वरि || ९ ||

रात्रौसमयिभिःसार्धंनित्यपूजादनंतरं |
ऊर्द्धसिंहासनैर्मंत्रैसूत्रपात्रंतुवामतः || १० ||

प्रार्थयित्वासुवर्माभ्यांकृत्वारक्षावगुंठनं |
दंतकाष्टंतथागंधभस्मचंदनमृत्तिकाः || ११ ||

सिद्धार्थश्चतथाधात्रीफलंचकुलमष्टसु |
पूर्वादिक्षुक्रमतःपवित्रंसूत्रभाजनम् || १२ ||

अश्वत्थपत्रपत्रीषुप्रछिपेत्सिद्धिहेतवे |
कुमारःसोमस्वाहेशव्रह्मनागशिखीध्वजा || १४ ||

सूर्ययःसदाशिवःसर्वःदेवतास्युर्नवासराः |
सूत्रेषुपूजयेद्व्रह्मविष्ण्वींशाश्चत्रिसूत्रके || १५ ||

क्रियाचपौरुषीवीरगायत्रीचापराजिता जयाचविजयादेवीमुक्तिदाचसदाशिवाः मनोन्मनीचनवमीदशमीसर्वतोमुखी ग्रंथिस्थादेवताःसर्वाउपचारैःसमर्चयेत् मूलमंत्रेणचामंत्र्यपवित्रेषुकलायजेत् नित्याषोडशदेवेशिश्रीविद्यांचस्मरेत्प्रिये अधिवासविधिःप्रोक्तःपश्चादाराधनंभवेत् || १८ ||

नित्यार्चनानंतरंतुनैमित्तिकमिदंभवेत् |
समस्तेभ्यःपवित्राणिकन्यकाभ्यःसभोजनं || १९ ||

स्वगुरुंपूजयेत्पश्चाद्वस्त्रालंकारगोधनैः |
यथाशक्तिनमस्कृत्यदेवीरूपेणचिंतयेत् || २० ||

आरोपयेत्पवित्रंतुवित्तशाठ्यविवर्जितः |
गुरुःसंपूज्यतेयत्रतत्कर्मसफलंभवेत् || २१ ||

सर्वाभावेर्चयेदन्यंगुरुगोत्रंसमुद्भवम् पूजयेत्स्वगुरुंयत्रतत्रयत्रैताःसफलाक्रियाः नपूज्यतेनिष्फलास्तुभवंतिपरमेश्वरि हुत्वापूर्णाहुतिंपश्चादग्नौदद्यात्पवित्रकं श्रीचक्रसाध्यसिद्धायैपूजयेत्तांनिवेदयेत् पर्वैतन्नकरोत्येवतस्यपूजातुनिष्फला || २५ ||

इतिपवित्रार्पणविधिः

श्रीईश्वरुवाच

अथवक्ष्येमहेशानिदमनारोपणंप्रिये |
प|वित्रपर्ववत्सापिकर्तव्यासाधकैःप्रिये || १ ||

चैत्रादयस्त्रयोमासाःपक्षौसितसितेतरौ |
एतेषांपूर्वपूर्वस्तुकालःसर्वोत्तमोभवेत् || २ ||

अष्टम्यांचचतुर्दश्यांपौर्णमास्यामथापिवा |
पूर्वरात्रौप्रकुर्वीतसद्योवावाधिवासनम् || ३ ||

आमंत्र्यदमनंचाद्यंचतुःकल्पलतादिभिः |
कामनेत्रसमुद्भूतरतिनेत्रजलाप्लुतः || ४ ||

ऋषिगंधर्वसिद्धानांविमोहकनमोस्तुते |
शिवकार्यंसमुद्दिश्यतेनव्योसिशिवाज्ञया || ५ ||

इत्यामंत्र्यरतिंकामंतत्रसंपूजयेत्सुधीः |
स्वयमुत्पाट्यदमनंसमूलंपल्लवैर्युतं || ६ ||

आनीतमथवान्येनमौल्यादानीतमीश्वरी |
वामतस्थापयेद्देविसर्वतोभद्रमंडले || ७ ||

वस्वारेदमनंपात्रंस्थापयेत्पूजयेत्ततः |
प्रणवंभुवनेशानीरतयेनमित्यपि || ८ ||

इ तिमंत्रोमहेशानिकाममंत्रस्तुकथ्यते प्रणवःकामवीजंचकामायनमित्यपि || ९ ||

मंत्राभ्यांपूजयेत्तत्रमदनंकलिकागतं |
तत|स्तत्पद्मपूर्वादिदलेषुपुटिकान्यसेत् || १० ||

अष्टस्पष्टाष्टभिर्मंत्रैरष्टद्रव्ययुताक्रमात् |
कामोभस्मशरीरश्चतथानंगश्चमन्मथः || ११ ||

वसंतःसखसंज्ञश्चस्मरिक्षुधनुर्धरः |
पुष्पवाणःसताराद्याःङेहृदंताःप्रकीर्तिताः || १२ ||

कर्पूररोचनायुग्मंकस्तूरीचततःप्रिये |
अगरुंकुकुमंधात्रीफलंचंदनमेवच || १३ ||

सुगंधंपुष्पनिकरमष्टद्रव्याणिपार्वति |
संपूज्यदमनंसम्यक्गंधपुष्पाक्षतादिभिः || १४ ||

जपेदनंगगायत्रींयथाशक्त्याप्रसन्नधीः |
कामदेवायित्युक्ताविद्महेतिवदेत्ततः || १५ ||

पुष्पवाणायधीमहितन्नोनंगःप्रचोदयात् |
नमोस्तुपुष्पवाणायजगदानंदकारिणे || १६ ||

मन्मथायजगन्नेत्रेरतिप्रीतिप्रियायच |
अनेनमनुनादेविनमस्कुर्याततःपरं || १७ ||

अथविज्ञापनंकुर्याद्देव्यैमदनपाणियुक् |
आमंत्रितासिदेविशिसद्यःकालेमयाशिवे || १८ ||

कर्तव्यंतुयथालाभंपूर्णपर्वतचाज्ञया |
विज्ञापनाख्यामंत्रेणत्रिपुरांपरितोषयेत् || १९ ||

ततःसंपूज्यदेवेशिगंधपुष्पाक्षतादिभिः |
षोडशार्णेजगन्मातुर्वांछितार्थफलप्रदे || २० ||

हृत्स्थान्पूरयमेदेविकामान्कामेश्वरीश्वरी |
अनेनप्रार्थयेद्देविपश्चाद्दमनमीश्वरी || २१ ||

वर्मावगुंठितंकुर्यादस्त्रेणापिचरक्षितम् |
ततोजागरणंकुर्यात्सद्यश्चेज्जागरोनहि || २२ ||

अथप्रातसमुत्थायकुर्याद्वैनित्यपूजनम् |
ततोनैमित्तिकंकुर्याद्दमनेनसुपूजयेत् || २३ ||

तेनैवसहितांपूजांमध्यमंपुष्पमिश्रितम् |
मनोहरंचविधिवत्कृत्वानैवेद्यमुत्तमम् || २४ ||

सकर्पूरंचतांवूलंदद्यात्संप्रार्थयेत्ततः |
समस्तचक्रचक्रेशिसर्वविद्याशरीरिणि || २५ ||

वेदमातर्ममैतंतुभवत्विष्टंतवाज्ञया |
ततःस्वगुरुमभ्यर्च्यपुष्पभूषांबरादिभिः || २६ ||

दत्वादमनकंतस्मैनमस्कृत्यप्रसाध्यच |
जलकेलिंततःकुर्यात्शाकंसमयिभिःसुखम् || २७ ||

अन्नदानंप्रकुर्वीतरसैःषड्भिःसमन्वितम् एवंयःकुरुतेविद्वान्दमनारोपणक्रमं तस्यसांवत्सरीपूजाश्रीविद्याधिष्टिताभवेत् || २८ ||

इतिश्रीदक्षिणामूर्तिसंहितायांदमनकारोपणंनैमित्तिकपूजाविधानंनामत्रयस्त्रिंशतितमः पटलः ३३

||संपूर्णैषांदक्षिणामूर्तिसंहिता शुभम् जम्वूमध्येलिप्ता१९५०चैत्रे

Zur Ausgabe: Einführung und deutsche Übersetzung · Sanskrit IAST · Sanskrit Devanagari · Verse und Mantras

Klang, Betrachtung und Stille

Die Sanskritlektüre kann dazu anregen, bei einem vertrauten Namen oder einer verstandenen Aussage zu verweilen. Ihre Bedeutung erschließt sich im Zusammenhang des jeweiligen Abschnitts. Die deutsche Übersetzung und spirituelle Einordnung begleitet dieses Studium; die Versauswahl eröffnet einen Zugang über Atem, Hingabe und Erkenntnis.

Für die persönliche Besinnung kann auf das Lesen eine kurze Stille folgen: den natürlichen Atem wahrnehmen, der empfangenen Unterweisung dankbar gedenken und einen Gedanken im Herzen bewegen. So können Schriftstudium und Meditation einander vertiefen. Die besonderen Mantra- und Ritualverfahren behandelt die Samhita innerhalb der Beziehung zu Guru und Diksha.

Textgrundlage und Hinweise zur Übersetzung

Textgrundlage ist die diplomatische Transkription des Muktabodha Indological Research Institute, Katalog M00625, nach Manuskript 1633K des Dharmartha Trust am Raghunath-Tempel in Jammu. Verwendet werden die entsprechenden IAST- und Devanagari-Fassungen, Revisionsstand 29. November 2023. Die Transkription nennt Anirban Dash als Leiter der Texterfassung und 83 Manuskriptblätter. Die Angabe „saṃ 1950“ gehört zur Handschrift; sie wird hier weder ungeprüft in ein christliches Jahr umgerechnet noch als Entstehungsdatum des Werkes ausgegeben.

Die Vorlage reicht bis zum Schlussvermerk des 33. Patala, enthält jedoch 34 ausdrücklich mit Patala bezeichnete Abschlüsse. Die Nummern 19, 22 und 30 stehen jeweils zweimal; 23 und 24 fehlen als solche in den Kapitelkolophonen. Die Buchstaben a und b dienen ausschließlich der eindeutigen Orientierung in diesen Doppelzählungen. Die Bewusstseinslehre folgt auf den Nitya-Abschnitt und geht der erneut mit Vers 1 beginnenden Puja-Vorbereitung voran; beide stehen vor dem Schlussvermerk von Patala 25. Eine Gleichsetzung dieser Abschnitte mit rekonstruierten Patalas 23 und 24 wird nicht vorausgesetzt.

Verszählungen beginnen mehrfach innerhalb eines Patala neu, springen oder wiederholen sich. Überlieferte Zahlen, eingeklammerte Stellen und Unsicherheitszeichen bleiben erhalten. Blattmarkierungen und technische Dateiköpfe werden in der Lesefassung weggelassen; manuskriptbedingte Zeilenumbrüche innerhalb von Wörtern werden verbunden. An klar zweigliedrigen Texteinheiten dienen ergänzte Versstriche und Zeilenwechsel der Lesbarkeit. Unsicher segmentierbare längere Passagen bleiben ohne erfundene metrische Gliederung. Auffällige Lesungen werden nicht zu vermeintlich fehlerfreiem Sanskrit umgeschrieben. Es handelt sich nicht um eine neue kritische Edition.

Rechtehinweis: Muktabodha weist die E-Texte als Creative Commons BY-NC 4.0 aus. Herkunft und nichtkommerzielle Lizenzbedingungen sind bei einer Weiterverwendung zu berücksichtigen; diese Ausgabe erklärt die Vorlage nicht für gemeinfrei.

Quellen und weiterführende Lektüre

  • Muktabodha Indological Research Institute: Dakṣiṇāmūrtisaṃhitā, M00625, diplomatische Transkription, Revision vom 29. November 2023.
  • Handschrift 1633K. Nachweis der Handschrift; keine vollständige Neukollation dieser Ausgabe.
  • Kama Kala Vilasa, Varivasyarahasya und Yogini Hridaya zur vergleichenden Beschäftigung mit Shri Vidya; diese Werke ersetzen nicht die eigene Textgrundlage der Dakshinamurti Samhita.

Siehe auch

Seminare

Kundalini Yoga

25.10.2026 - 30.10.2026 Kundalini Yoga Meditation Kursleiter Ausbildung

Kundalini Yoga Meditationen sind ein faszinierendes weites Gebiet, dessen Potential noch bei weitem nicht ausgeschöpft ist. Kundalini Meditationen kön…
Adishakti Stein, Viveka Wilde
30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Arjuna Wingen

Meditation

18.10.2026 - 23.10.2026 Yoga und Meditation Intensiv-Praxis

Die Kernpraktiken des Yoga werden intensiv geübt: längere Meditation, ausgedehntes Mantra-Singen, Pranayama intensiv und meditative Yoga Asanas beflü…
Dana Oerding, Chamundi Wollweber
18.10.2026 - 23.10.2026 Shivalaya Meditationsretreat

Stille – Schweigen – Sein. In der Abgeschiedenheit des Shivalaya Retreatzentrums fühlst du dich dem Himmel ganz nah. Mit intensiver Meditations- un…
Swami Nirgunananda, Rukmini Keilbar

Indische Schriften

26.12.2026 - 02.01.2027 Indische Rituale Ausbildung

Du interessierst dich für indische Rituale? Du hast die einzigartige Gelegenheit, in dieser Rituale Ausbildung bei Yoga Vidya die kleine Puja, große P…
Sukadev Bretz, Shankari Winkelbauer
01.01.2027 - 10.01.2027 Yogalehrer Weiterbildung Intensiv A1 - Jnana Yoga und Vedanta

Kompakte, vielseitige Weiterbildung für Yogalehrer rund um Jnana Yoga und Vedanta.
Tauche tief ein ins Jnana Yoga und Vedanta, studiere die indischen S…
Vedamurti Dr Olaf Schönert

Mantras und Musik

18.10.2026 - 23.10.2026 Mantra Ferienwoche mit Gruppe Mudita

Eine Mantra Yoga Ferienwoche im schönen Allgäu zum Aufladen, Regenerieren und Verwöhnen mit der Gruppe Mudita. Das sind Menschen, die es ganz besonde…
Gruppe Mudita
23.10.2026 - 25.10.2026 Mantras & spirituelle Lieder auf Gitarre

Dieses Seminar ist für alle, die erste Erfahrung auf der Gitarre gemacht haben, und Spaß daran haben, zu Singen, zu musizieren, Neues zu lernen und zu…
Nancy Haywood