Brihat Tantrasara Devanagari 3

Aus Yogawiki

Brihat Tantrasara Devanagari 3 – vollständiger Sanskrittext in Devanagari. Diese Seite enthält den Brihat Tantrasara von P3-0001 bis P6-0256 in Devanagari. Die Schriftfassung ist aus derselben Sanskrit-Umschrift abgeleitet wie die vollständige deutsche Übersetzung. Die Wörter wurden durch Rücktransliteration geprüft. Dies ist eine Kontrolle der Schriftübertragung, keine philologische Berichtigung der Grundlage. Beschädigte oder ungewöhnliche Wörter werden nicht still ersetzt.

Navigation
Hauptartikel · Vorheriger Teil · Lehrstellen und Mantras


Gaṇeśa wird im Brihat Tantrasara mit eigenen Mantra- und Verehrungsformen behandelt.

Zur Umschrift: Brihat Tantrasara Sanskrit 2

Pariccheda 3: Weitere Vidyās, Anwendungen und Yantra-Weihe

Karṇapiśācī und Mañjughoṣa

P3-0001 · 1
तृतीयः परिच्छेदः
अथ कर्णपिशाची मन्त्रः
तदुक्तं तन्त्रान्तरे :
कर्णास्येक्षणलोहितोरकगतोऽनंतश्चिकारोवदातीतानागतशब्दयु
क्तभुवनेशीवह्निजायान्विता ।
ताराद्यो मनुरेष लक्षजपतो व्यासेन संसेवितः, सार्वज्ञं
लभतेऽचिरेण नियतं पैशाचिकी भक्तितः
॥ १ ॥

P3-0002 · 2
मन्त्रान्तरम् :
कहयुग्मं कालिके च गृह्णयुग्मं तथैव च ।
पिण्डं पिशाचि स्वाहेति नृपार्णः कथितः प्रिये
॥ २ ॥

P3-0003 · 3
ध्यानं यथा :
कृष्णां रक्तविलोचनां त्रिनयनां खर्वाञ्च लम्बोदरीं,
बन्धूकारुणजिह्विकां वरकराभीयुक्करामुन्मुखीम् ।
धूमार्चिर्जटिलां कपालविलसत्पाणिद्वयां चञ्चलां,
सर्वज्ञां शवहृत्कृताधिवसतीं पैशाचिकीं तां नुमः
॥ ३ ॥

P3-0004 · 4
अथ पूजा :
निशायामर्द्धरात्रौ च हृदि न्यस्य पिशाचिकीम् ।
दग्धमीनं बलिं दत्त्वा रात्रौ सम्पूज्य संजपेत्
॥ ४ ॥

P3-0005 · 5
ॐ कर्णपिशाचि दग्धमीनबलिं गृह्ण गृह्ण मम सिद्धिं कुरु कुरु
स्वाहेति दग्धमीनबलिं दद्यात्
॥ ५ ॥

P3-0006 · 6
रक्तचंदनबन्धूकजवापुष्पादिकञ्च यत् ।
अमृतं कुरु देवेशि स्वाहेति प्रोक्षयेज्जलैः
॥ ६ ॥

P3-0007 · 7
पूर्वाह्णे किञ्चिञ्जप्त्वा मध्याह्ने एकभक्तं निरामिषं
भुक्त्वा रात्रावपि तत्संख्यं जपेत् ।
अन्यत्किञ्चिन्न भोक्तव्यं ताम्बूलकादिकं विना ।
जपस्य दशांशं तर्पणम् ।
ॐ कर्णपिशाचीं तर्पयामि ह्रीं स्वाहा ।
एवं क्रमेण लक्षमेकं पुरश्चरणं कृत्वा दशांशं
होमयेत् ।
तदभावं दशांशं तर्पणं कृत्वा वरं प्रार्थयेत् ।
मूलं रक्तचन्दनेन लिखित्वा यन्त्रोपरि इष्टदेवतां पूजयेत्
॥ ७ ॥

P3-0008 · 8
अथ सिद्धिलक्षणमुच्यते :
गगने हूंकारादिश्रवणदीर्घाग्निशिखारूपसन्दर्शनात्-
सिद्धिर्भविष्यतीति ज्ञात्वा तथा विधमाचरेत्
॥ ८ ॥

P3-0009 · 9
मन्त्रान्तरम् :
प्रणवं माया कर्णपिशाचि मे कर्णे कथय हूं फट् स्वाहेति ।
प्रदीपतैलं पादयोर्दत्त्वा रात्रौ लक्षं जपेत् ।
ततः सर्वज्ञो भवति नास्य पूजाध्यानम्
॥ ९ ॥

P3-0010 · 10
तथा :
तारं कामबीजं जयादेवि स्वाहा ।
अस्यापि ऋष्यादिन्यासादेरभावः पूर्वं लक्षं जप्त्वा
गृहगोधिकां निपात्य तदुपरि जयादेवीं यथाशक्ति सम्पूज्य
तावज्जपेद् यावत् सा जीवति, ततः सिध्यति ।
सिद्धिस्तु मानसादिप्रश्ने कृते सा आयाति, ततस्तस्याः पृष्ठे सर्वं
भूतभविष्यादिकं पश्यति
॥ १० ॥

P3-0011 · 11
अथ मञ्जुघोषमन्त्राः :
जाड्यौघतिमिरध्वंसी संसारार्णवतारकः ।
श्रीमञ्जुघोषो जयतां साधकानां सुखावहः
॥ ११ ॥

P3-0012 · 12
तत्र आगमोत्तरे :
मातृकादिं समुद्धृत्य वह्निबीजं समुद्धरेत् ।
वामांशं कूर्मसंज्ञञ्च ततो मेघेसमुद्धरेत् ।
मीनेशञ्च ततः कुर्याद् वामनेत्रेन्दुसंयुतम् ।
षडक्षरो मनुः प्रोक्तो मञ्जुघोषस्य शम्भुना ।
मातृकादिरकारः वामांशोऽन्तस्थचतुर्थः कूर्मश्चकारः
मेषेशो लकारः मीनेशो धकारः ।
ईयन्तु दीपनी प्रोक्ता मूलमन्त्रस्तु कथ्यते
॥ १२ ॥

P3-0013 · 13
अंकुशं शक्ति बीजञ्च रमाबीजं ततः प्रिये ।
बीजत्रयात्मको मन्त्रो जाड्यौघध्वान्तनाशनः ।
शक्तिबीजं रमाबीजं कामबीजं ततः प्रिये ।
विद्या श्रुतिधरी प्रोक्ता एषा वर्णत्रयात्मिका
॥ १३ ॥

P3-0014 · 14
हकारो वह्निमारूढो वामनेत्रेन्दुभूषितः प्रोक्ता
सर्वज्ञविद्येयमेकर्णात्मिका प्रिये
॥ १४ ॥

P3-0015 · 15
सिद्धः साध्यः सुसिद्धो वा साधकस्य रिपूश्च वा ।
तदा मन्त्रो भवेद्भक्त्या शुभदो बुद्धिदो भवेत्
॥ १५ ॥

P3-0016 · 16
मध्याह्ने
सलिले चैव भोजने-भाजने तथा ।
गोमये तु बहिर्देशे मैथुने रमणीकूचे ।
गोष्ठे च निशि गोमुण्डे यन्त्रं डमरुसन्निभम् ।
विलिख्य मन्त्रवर्णांश्च त्रिश ऊर्ध्वे अथस्तथा ।
लिखेच्चन्दनलेखन्या प्रयत्नात् साधकोत्तमः
॥ १६ ॥

P3-0017 · 17
उच्चाटने लिखेद्यन्त्रं (मन्त्रं) गोचर्मणि विशेषतः ।
सलिले विजयी नित्यं भोजने च महेश्वरः गोमये वावदूकः
स्याद्गोष्ठे सर्वज्ञतां व्रजेत् ।
कुचे श्रुतिधरो नित्यं गोमुण्डे च महाकविः
॥ १७ ॥

P3-0018 · 18
गोमूत्रं बदरीमूलं चन्दनं पांशुमेव च ।
एकीकृत्याष्टधा जप्त्वा तिलकं धारयेत् सदा ।
नमस्कृत्य वरं श्रेष्ठं प्रार्थयेद्भक्तितत्परः ।
वरं प्राप्य च तस्माद्वै विहरेत् यथासुखम्
॥ १८ ॥

P3-0019 · 19
नान्यदेवार्च्चनं स्नानं प्रणवोच्चारणं न तु ।
वस्त्राञ्चलेन दन्तानां शोधनं लवणेन वा रात्रिवासो न
मुञ्चेत न शुचिः स्यात्कदाचन ।
एवं कृत्वा प्रयत्नेन ज्ञात्वा गुरुमुखात् सुधीः ।
मासैकेन कवीन्द्रः स्याद् द्विमासेनैव ईश्वरः ।
त्रिभिर्मासैर्भवेन्मर्त्त्यः सर्वशास्त्रविशारदः
॥ १९ ॥

P3-0020 · 20
पुत्रार्थी लभते पुत्रं धनार्थी विपुलं धनम्
आयुरारोग्यकामस्तु सर्वान् कामानवाप्नुयात्
॥ २० ॥

P3-0021 · 1
(चित्र ४४)
ततः कराङ्गन्यासौ :
क्षां शां अंगुष्ठाभ्यां नमः ।
एवं हृदयादिषु ।
तथा च तन्त्रे :
संवर्त्तको वकेशश्च द्वौ वर्णौ कथितौ प्रिये ।
षड्दीर्घभाग्भ्यामेताभ्यां षडङ्गानि समाचरेत्
संवर्त्तकः क्षकारः ।
वकेशः शकारः
॥ १ ॥

P3-0022 · 2
ध्यानम् :
शशधरमिव शुभ्रं खड्गपुस्तांगपाणिं,
सुरुचिरमतिशान्तं पञ्चचूडं कुमारम् ।
पृथुतरवरमुख्यं पद्मपत्रायताक्षं, कुमतिदहनदक्षं
मञ्जुघोषं नमामि
॥ २ ॥

P3-0023 · 3
पीठपूजां ततः कुर्याद् आधाराद्यादिशक्तित ।
भूतप्रेतादिभिः कुर्यात् पीठासनमनन्तरम् ।
ज्ञानदात्रे नमः पाद्यं बुद्धिकर्त्रे तथा च मम् ।
जाड्यानाशाय गन्धः स्याद् अर्घ्यं यक्षाधिपाय वै ।
सर्वसिद्धि प्रदायेति पुष्पं दद्याद् विचक्षणः
॥ ३ ॥

P3-0024 · 4
कुन्दपुष्पं समादाय भैरवान् पूजयेत् ततः ।
असिताङ्गो रुरुश्चण्डः क्रोध-उन्मत्तसंज्ञकः ।
कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः
॥ ४ ॥

P3-0025 · 5
ततो धूपादिकं दत्त्वा प्रसूनानि विसर्जयेत् ।
तैः पुष्पैः पूजयेद् अष्टौ यक्षिणीश्च विशेषतः ।
सुरादिसुन्दरी चैव मनोहारिण्यनन्तरम् ।
कनकावती तथा कामेश्वरी च रतिवर्यथ ।
पद्मिनी च नटी चैव अनुरागिण्यनन्तरम् ।
पूजा एतास्तु योगिन्यो हृल्लेखाबीजपूर्विकाः
॥ ५ ॥

P3-0026 · 6
एवं सम्पूज्य देवेशं लक्षषट्कं जपेन्मनुम् ।
धृताक्तकुन्दपुष्पैश्च एकादशशतानि च ।
जुहुयादेधिते वह्नौ कान्तारे पितृवेश्मनि ।
एवं सिद्धमनुर्मन्त्री महायोगीश्वरो भवेत्
॥ ६ ॥

P3-0027 · 7
कुक्कुटेश्वरतन्त्रे :
मेरुपृष्ठे सुखासीनं देवदेव जगद्गुरुम् ।
शंकरं परिपप्रच्छ पार्वती परमेश्वरम्
॥ ७ ॥

P3-0028 · 8
श्रीपार्वत्युवाच :
भगवान् सर्वधर्मज्ञ सर्वशास्त्रागमादिषु ।
वाञ्छितार्थप्रदंलोके मञ्जुघोषं ब्रवीहि मे
॥ ८ ॥

P3-0029 · 9
विशेषतोऽपि जप्त्वा किं कवित्वपदं नृणाम् ।
सर्वकामप्रदं चैव मनःसिद्धिप्रदन्तथा ।
भक्तानां कामदं मन्त्रं कल्पवृक्षमिवापरम्
॥ ९ ॥

P3-0030 · 10
श्रीशंकर उवाच :
शृणु देवी महामन्त्रं साधकानां सुखावहम् ।
यज्ज्ञात्वा जडधीः प्रायो वाचस्पति समोभवेत्
॥ १० ॥

P3-0031 · 11
अङ्गन्यासकरन्यासवहिर्न्याससमन्वितम् ।
जपात् सिद्धिप्रदं मन्त्रं विना होमार्चनादिभिः
॥ ११ ॥

P3-0032 · 12
जपेद् वा जापयेद् वापि साधको विधिपूर्वकम् ।
सर्वज्ञत्वमवाप्नोति सत्यं सत्यं हि पार्वती
॥ १२ ॥

P3-0033 · 13
कार्त्तिकेयमुखं यावत् तावल्लक्षं जपेन्मनुम् ।
सर्वशास्त्रेषु सोऽप्युच्चैर्बृहस्पतिसमो भवेत्
॥ १३ ॥

P3-0034 · 14
श्रीपार्वत्युवाच :
कोऽप्यत्रापि ऋषिश्छन्दः पूज्यते कात्र देवता ।
ध्येयः को वात्र तत्सर्वं ब्रूहि मे भक्तवत्सल
॥ १४ ॥

P3-0035 · 15
ईश्वर उवाच :
वृहदारण्यको नामर्षिर्विराट्छन्दः एव च ।
स एव मंजुघोषाख्यो भक्तिदानेन मुक्तिदः
॥ १५ ॥

P3-0036 · 16
ध्यात्वा भैरवरूपेण जपेन्मन्त्रमनन्यधीः ।
तदा मुक्तिप्रदो मन्त्रो नात्र कार्या विचारणा
॥ १६ ॥

P3-0037 · 17
ध्यानं तत्र प्रवक्ष्यामि भैरवस्य महात्मनः ।
यथा ध्यात्वा जपेन्मन्त्रं तन्मे निगदतः शृणु
॥ १७ ॥

P3-0038 · 18
सात्विकं राजसञ्चैव तामसं तदनन्तरम् ।
ध्यानं वक्ष्ये महेशानि क्रमेण हितकाम्यया
॥ १८ ॥

P3-0039 · 19
सद्यः सिद्धिकरं रूपं ध्यात्वा जपेच्च सात्विकम् ।
सिद्धिप्रदं साधकानां भक्तानां चिन्तितप्रदम्
॥ १९ ॥

P3-0040 · 20
मन्त्रोद्धारमिमं देवि त्रैलोक्यस्यापि दुर्लभम् ।
अप्रकाश्यं परं गुह्यं न देयं यस्य कस्यचित्
॥ २० ॥

P3-0041 · 21
मन्त्रोद्धारं प्रवक्ष्यामि गुह्याद्गुह्यतरं प्रिये ।
विष्ण्वग्निपाशिशशियुक्-चलधीस्वरूपषड्वर्णमन्त्र उदितो जगतां
सुखाय ।
सर्वज्ञतां सदसि वाक्पटुतां प्रसूते वेदान्तवेदनिरतस्य
वसुप्रदः स्यात्
॥ २१ ॥

P3-0042 · 22
आद्यमन्त्रं जपेन्मन्त्री अयुतं यदि साधकः ।
बलिनैवेद्यभुक् साक्षाद्बृहस्पतिरिवापरः
॥ २२ ॥

P3-0043 · 23
मासमात्रेण यः कुर्यात्पुरश्चरणवान्नरः ।
तस्यापि वदनाद्बाणी निःसरेद्रसवर्तिनी ।
मासत्रयेण सततं कविरेव न संशयः
॥ २३ ॥

P3-0044 · 24
गोमुण्डे गवि पृष्ठे च चक्रे वापि च गोमये ।
यन्त्रे मन्त्रं लिखेदादौ पश्चान्मन्त्रं जपेत् पुनः
॥ २४ ॥

P3-0045 · 25
ध्यानमात्रं विधायादौ भावयित्वा चिरं सुधीः ।
निर्जनं स्थानमागत्य जपेन्नन्मत्रमधोमुखः
॥ २५ ॥

P3-0046 · 26
पौर्णमासीं समारभ्य कुन्दस्य कुसुमैः शतैः ।
अष्टाधिकैश्च संपूज्य जपेन्मन्त्रं चतुष्पथे
॥ २६ ॥

P3-0047 · 27
त्रिमुण्डारोहणं कृत्वा निशीथे मुक्तकुन्तलः ।
षण्मासमात्रं हि जपेद्यति कृत्वा विधानवित् ।
बृहस्पतिसमो वक्ता नात्र कार्या विचारणा
॥ २७ ॥

P3-0048 · 28
कुक्कुरस्य च मुण्डैकं मुण्डं क्रोष्टुर्वृषस्य च ।
त्रिमुण्डमेतद्विख्यातं साधकानां सुखावहम्
॥ २८ ॥

P3-0049 · 29
आसनञ्चैव गोमुण्डे वामे कुक्कुरमुण्डकम् ।
दक्षिणे च शिवामुण्डं कृत्वा पूजां समाचरेत्
॥ २९ ॥

P3-0050 · 30
अर्द्धचन्द्राकृतिं साक्षाद्वालचन्द्रोपमं स्फुटम् ।
यन्त्रं लिखेत् तत्र पूजा कुन्दस्य कुसुमेन च
॥ ३० ॥

P3-0051 · 31
(चित्र ४५)
सव्येन पाणिकमलेन जपादिपूजां शृङ्गारशीलनविधौ खलु
दक्षिणेन ।
राकासुधाकरतुषारमरीचिगौरं, ध्यात्वा चतुष्पथतटे
वृषमस्तकस्थः
॥ ३१ ॥

P3-0052 · 32
सञ्चिन्त्य कुक्कुरशिवाशिरसाधिरूढः, कुन्देन साधकतभो
जपतिप्रकामम् ।
गोचर्मणा विरचितं रसकोणमात्रं, चक्रं ततोऽपि
नवकुंकुमरोचनाभिः
॥ ३२ ॥

P3-0053 · 33
निर्माय सव्यविधिना विजने श्मशाने, सम्पूजयेद् वनभवैश्च
नवैः पलाशैः ।
सम्पूर्णमण्डलतुषारमरीचिमध्ये, बालं विचिन्त्य धवलं
वरखड्गहस्तम्
॥ ३३ ॥

P3-0054 · 34
उद्दामकेशनिवहं वरपुस्तकाढ्यं नग्नं जपेत्
क्षतजपद्मदलायताक्षम् ।
अरिष्टगेहे निशि तैलमेवमादाय यत्नात्करपल्लवेन
॥ ३४ ॥

P3-0055 · 35
तेनाञ्चितं काञ्चनपुष्पमेव, निवेद्य तस्यै जपति प्रकामम् ।
आकिंशुकाक्षोडतरोश्चमूले, विलिप्य पादौ वदनामृतेन
॥ ३५ ॥

P3-0056 · 36
त्रिमुण्डमात्राश्रित एव रात्रौ, जपेद्यथाशक्ति तु पौर्णमास्याम् ।
लकुचतरुतलस्थो मुण्डमात्रैकरूढो, हिमकरकरगौरं
चिन्तयित्वा निशीथे ।
यदि जपति जडो वा मन्त्रमेनं त्रिलक्षं, भवति जगति
साक्षाद्गीष्पतिर्नात्र चित्रम्
॥ ३६ ॥

P3-0057 · 37
भुक्तान्नशेषकदलीतरुमूलसंस्थ
आस्तीर्णपुष्परचितासनसन्निविष्टः ।
एकाविधूद्गममुपेत्य करोति पूजां, यः सोऽप्यजेय इह
वाक्पतिरीश्वरः स्यात्
॥ ३७ ॥

P3-0058 · 38
जिह्वां विमृज्य निजपाणिसरोरुहाभ्यां रास्नाप्रसूनशतकैः
परिपूज्यगोष्ठे ।
यो वै जपेदनुदिनं रसलक्षमात्रम् ईशं जयेत् किमुत वाक्पतिमेव
चित्रम्
॥ ३८ ॥

P3-0059 · 39
स्थित्वा निशीथसमये रजकस्य काष्ठे, खड्गान्वितो जपति यद्यपि
पौर्णमास्याम् ।
सम्पूर्णमासमथवा तरसापि तस्य, वक्त्राद्विनिःसरति
गीरमृतायमाना
॥ ३९ ॥

P3-0060 · 40
यो दन्तधावनकरश्च करञ्जकाष्ठैस्तस्यापि गीष्पतिवचो नियतं
सुलभ्यम्
॥ ४० ॥

P3-0061 · 41
तिलतैलेन मतिमान् कुन्दकैरवपुष्पकैः ।
जुहुयाद्यत्नतो मन्त्री सर्वसिद्धिमवाप्नुयात्
॥ ४१ ॥

P3-0062 · 42
मञ्जिष्ठतोयदवचासितभानुमूलैः स्वीयाङ्गशोणितयुतैः
समकुष्ठकैश्च ।
कृत्वा ललाटफलके तिलकं जपस्थो, विद्याप्रबोधविषये
नवगीष्पतिः स्यात्
॥ ४२ ॥

P3-0063 · 43
भैरवतन्त्रेऽपि :
मंजुघोषाख्यममलं मन्त्रमाकर्णय प्रिये ।
धनवंशप्रदं रम्यं सार्वज्ञवाग्मिताप्रदम्
॥ ४३ ॥

P3-0064 · 44
अदोषकवितामूलं सर्वत्र प्रतिभाप्रदम्
॥ ४४ ॥

P3-0065 · 45
देव्युवाच :
भगवान् गिरिजानाथ कथयस्व यथोचितम् ।
मंजुघोषः स कः कीदृक्तस्यानुष्ठानमेव हि
॥ ४५ ॥

P3-0066 · 46
ईश्वर उवाच :
श्रूयतां देवि मे वाक्यं नात्र कार्या विचारणा ।
मंजुघोषस्तु यो देवः सोऽहं देवि न संशयः
॥ ४६ ॥

P3-0067 · 47
एकोऽहंशङ्करो देवि नानामूर्तिधरः स्वयम् ।
तस्यानुष्ठानमधुना श्रूयतां मम तत्त्वतः
॥ ४७ ॥

P3-0068 · 48
मन्त्रः षडक्षरः सारः सद्यः कुमतिनाशनः ।
रसलक्षावधिस्तस्य जाप्य एव सुरेप्सितः
॥ ४८ ॥

P3-0069 · 49
त्रिपक्षजपनाद्देवि वाग्मी भवति मानवः ।
सुकवित्वं भवेत् तस्य प्रतिभा विश्वजित्वरी
॥ ४९ ॥

P3-0070 · 50
मासत्रयं जपेद्यस्तु पण्डितोऽपण्डितो यदि ।
षण्मासं यस्तुजपति स सर्वज्ञः कुशाग्रधीः
॥ ५० ॥

P3-0071 · 51
अब्देन सिद्धयः सर्वा भवन्ति सत्यमीश्वरि ।
आहारोऽस्य नृणांवर्चो नैवेद्यं चक्षुषोर्मलम् ।
मूत्रैः पाद्यं ददेत् तस्य गन्धो विट्खदिरोद्भवः ।
आरण्यकस्य पत्राणि पुष्पाण्यैव सुनिश्चितम् ।
एरण्डमूलैः कार्पासबीजमर्घ्यं प्रचक्षते ।
तुण्डकीनालदानेन भवेदाचमनीयकम्
॥ ५१ ॥

P3-0072 · 52
ध्यानं वक्ष्ये महादेवि सर्वसिद्धिप्रदायकम् ।
शशधरमिव शुभ्रं खड्गपुस्ताङ्गपाणिं सुरुचिरमतिशान्तं
पञ्चचूडं कुमारम् ।
पृथुतरवरमुख्यं पद्मपत्रायताक्षं, कुमति दहनदक्षं
मंजुघोषं नमामि
॥ ५२ ॥

P3-0073 · 53
मन्त्रोद्धारं प्रवक्ष्यामि नमस्कारोपदेशतः ।
शृणु देवि महाभागे कलौ सद्यः फलप्रदम्
॥ ५३ ॥

P3-0074 · 54
मन्त्रं सर्वार्थदं सारं वशीकरणरूपकम् ।
अमलं निर्गुणं सारं गुणिनं सर्वकामदम् ।
तं नमामि हितं नाथं मंजुघोषं नमाम्यहम्
॥ ५४ ॥

P3-0075 · 55
रवीशं परमं सारं स्तुतं ब्रह्मादिभिः सुरैः ।
रक्तं रजोगुणैर्युक्तं मंजुघोषं नमाम्यहम्
॥ ५५ ॥

P3-0076 · 56
वचनेन न जानन्ति न कायेन च कोविदाः ।
तं शान्तं तमसायुक्तं पीतवस्त्रं नमाम्यहम्
॥ ५६ ॥

P3-0077 · 57
चरणे पतिता देवा दैत्यानां जयहेतवे ।
चरणे पतितो जीवो बुद्धये तं नमाम्यहम्
॥ ५७ ॥

P3-0078 · 58
न जानन्ति सुरा यस्य तत्त्वं सत्त्वगुणेन वै ।
हृष्टं समस्तसारञ्च मंजुघोषं नमाम्यहम्
॥ ५८ ॥

P3-0079 · 59
धीशं विश्वेश्वरञ्चैव प्रतिपत्त्यादिहेतुकम् ।
सकलं निष्फलञ्चैव तं नमामि हितप्रदम्
॥ ५९ ॥

P3-0080 · 60
ऋषिः कण्.वो भवेत् पंक्तिश्छन्दोऽङ्गानि षडक्षरैः ।
दक्षिणां शक्तितो दद्याद्गुरुतुष्टिर्यथा भवेत्
॥ ६० ॥

P3-0081 · 61
गुरुसन्तोषमात्रेण सिद्धिर्भवति निश्चितम् ।
पिता गुरुर्न कार्यो वै दीक्षाकर्मणि पार्वति ।
यावत् कार्ल सुतो दुःखी पिता तु नरकं व्रजेत्
॥ ६१ ॥


Tāriṇī und Sarasvatī

P3-0082 · 62
अथ तारिणी कल्पः
तारिणीतन्त्रे :
ईश्वर उवाच श्रूयतां शैलतनये जाड्यनाशकरी परा ।
चतुर्वर्गफला विद्या सर्वसिद्धिप्रदायिका
॥ ६२ ॥

P3-0083 · 63
वर्गाद्यं वह्निसंयुक्तं वामाक्षिपरिभूषितम् ।
नादबिन्दुसमायुक्तं वसुसिद्धिप्रदायकम् ।
पूनश्चतुर्मुखं देवि लकारेण विभूषितम् ।
स्वरेणैव चतुर्थेन चन्द्रखण्डेन च प्रिये ।
लाञ्छितं वै महाबीजं चतुर्वर्गफलप्रदम् ।
ततः कृष्णपदं चोत्क्वा ततो देविपदं स्मृतम् ।
ह्रींकारञ्च ततो दद्यात् खपूर्वमुद्धरेत् ततः ।
ईकारेण च रेफेण मकारेण विभूषितम् ।
ततो वाग्भवमुच्चार्य मन्त्रमेनं समुद्धरेत् ।
नवाक्षरो मनुर्दवि तारिण्याः समुदीरितः
॥ ६३ ॥

P3-0084 · 64
ईयमेव महाविद्या स्वर्गे मर्त्त्ये च दुर्लभा ॥
अष्टसिद्धिप्रदा देवी चतुर्वर्गफलप्रदा
॥ ६४ ॥

P3-0085 · 65
अनया सदृशी विद्या अनेन सदृशो मनुः ।
अनया सदृशी सिद्धिर्न भूता न भविष्यति
॥ ६५ ॥

P3-0086 · 66
यो विद्यां लभते देवि किं नु तस्य न जायते ।
अचिराल्लभते वाणीं गद्यपद्यप्रमोदिनीम् ।
ज्ञानमात्रेण विद्यायाः क्षिप्रं द्रुतकविर्भवेत् ।
बिना छन्दो बिना शिक्षां बिनाभ्यासेन पार्वति
॥ ६६ ॥

P3-0087 · 67
बिना ज्ञानं बिना यत्नं बिनालापं कवेरपि ।
जिह्वायां जायते तस्य कवित्वं रसनिर्मितम्
॥ ६७ ॥

P3-0088 · 68
तत्र पूजाप्रयोगः :
प्रथमं जलमादाय पादप्रक्षालनं स्मृतम् ।
द्विराचम्य शिखां बद्धा ततो भूमिविशोधनम्
॥ ६८ ॥

P3-0089 · 69
विघ्नानुत्सारणं कृत्वा ततः पुष्पविशोधनम् ।
करौ संशोध्य देवेशि चास्त्रमन्त्रेण तत्परम्
॥ ६९ ॥

P3-0090 · 70
गुरून् गणपतिं नत्वा भूतशुद्धिं समाचरेत् ।
स्वाधिष्ठाने स्थितं बीजं वाग्भवं सर्वसिद्धिदम् ।
तदुद्भुताग्निबलिभिः शरीरं दह्यते बुधैः
॥ ७० ॥

P3-0091 · 71
तद्भस्म पुञ्जमुत्सार्य ह्रीं समुद्भूतवायुना ।
ललाटे कामबीजन्तु तदुद्भूतामृतेन च ।
तदस्थि प्लावितं कृत्वा दृढीभूतं चरेत्ततः ।
निर्लेपं निर्गुणं शुद्धमात्मानं देवतामयम् ।
सर्वपापविनिर्मुक्तं देहं सञ्चिन्त्य साधकः ।
शरीरस्य विशोधेन प्राणायामं चरेत् ततः
॥ ७१ ॥

P3-0092 · 72
आद्येन मूलबीजेन प्राणायामत्रयञ्चरेत् ।
मन्त्रन्यासस्ततो देवि श्रूयतां मन्त्रसिद्धिदः
॥ ७२ ॥

P3-0093 · 73
शंकरोऽस्य ऋषिः प्रोक्तो बृहतीच्छन्द ईरितम् ।
तारिणी देवता प्रोक्ता ह्रींकारं बीजमुच्यते ।
वाग्भवं शक्तिरित्युक्तमिति ऋष्यादिकं न्यसेत् ।
प्रयोगः :
शिरसि शंकर-ऋषये नमः ।
मुखे बृहतीच्छन्दसे नमः ।
हृदि तारिण्यै देवतायै नमः ।
गुह्ये ह्रीं बीजायः नमः ।
पादयोः वाग्भवशक्तये नमः
॥ ७३ ॥

P3-0094 · 74
ततः कराङ्गन्यासौ :
क्रीं अंगुष्ठाभ्यां नमः, क्लीं तर्जनीभ्यां स्वाहा,
कृष्णदेवि मध्यमाभ्यां वषट्, ह्रीं अनामिकाभ्यां हुं,
क्रीं कनिष्ठाभ्यां वौषट्, ऐं करतलपृष्ठाभ्यां फट्,
एवं हृदयादिषु ।
तथा बीजेन तु षडङ्गानि प्रकल्पयेत्
॥ ७४ ॥

P3-0095 · 75
धर्मादि विन्यसेद्देवि ततोऽधर्मादि विन्यसेत् ।
उपर्युपरि मध्ये च क्रमेणैतान्न्यसेत् ततः ।
कल्पवृक्षं समुच्चार्य मणिपीठं ततः स्मरेत् ।
शवमुच्चारयित्वा तु तत्रोपरि कपालकम् ।
चतुर्दिक्षु न्यसेद्देवि चितामग्निसमन्विताम् ।
हृत्पद्माष्टदले तत्र चाष्टशक्तीर्न्यसेत् ततः ।
दुर्गा जया ततो मेधा विजया सुप्रभा मता ।
काली गौरी शिवा चैव इत्यष्टौ शक्तयः स्मृताः
॥ ७५ ॥

P3-0096 · 76
तत एव स्वदेहेषु पञ्चयोनिं न्यसेद्बुधः ।
केशान्ते दक्षिणे भागे यो न वीरां न्यसेत् ततः ।
केशान्ते वामभागे च योनिविश्वां ततो न्यसेत् ।
नासामूले च देविशि योनिरूपां विभागतः ।
योनिकामां योनिहारां नेत्रयोः सव्यवामयोः ।
योनिरूपां न्यसेदोष्ठे सर्वकामार्थसिद्धये ।
मुखकोणे च देविशि दक्षवामादिभेदतः ।
चिबुके च महादेवी विन्यसेत् साधकोत्तमः ।
योनिच्छायां योनिकामां योनिरूपां तत परम् ।
बाहुमूले तथा वामे हृदि चैव वरानने ।
योनिचिन्तां योनिनित्यां योनिरूपां स्मरेद्बुधः ।
स्तनयोर्नाभिदेशे च योनिस्थानं सदा स्मरेत् ।
योनिसिद्धां योनिविद्धां योनिरूपां न्यसेद्बुधः ।
एताः स्मृताश्चतुर्थ्यन्ता नमोऽन्ताश्च विचक्षणैः ।
देहपीठे ततो देवीं ध्यायेत्सुस्थिरमानसः
॥ ७६ ॥

P3-0097 · 77
ध्यानमाह :
कृष्णां लम्बोदरीं भीमां नागकुण्डलशोभिताम् ।
रक्तमुखीं ललज्जिह्वां रक्ताम्बरधरां कटौ ।
पीनोन्नतस्तनीमुग्रां महानागेन वेष्टिताम् ।
शवस्योपरि देवेशि तस्योपरि कपालके ।
नासाग्रध्याननिरतां महाघोरां वरप्रदाम् ।
चतुर्भुजां दीर्घकेशीं दक्षिणस्योर्ध्वबाहुना ।
विभ्रतीं नलिनीमेकां वामोर्ध्वे पानपात्रकम् ।
वराभयधरां देवीमधस्ताद्दक्षवामयोः ।
पिबन्तीं रौधिरीं धारां पानपात्रे सदाशिवे ।
सर्वसिद्धिप्रदां देवीं नित्यां गिरिनिवासिनीम् ।
लोचनत्रयसंयुक्तां नागयज्ञोपवीतिनीम् ।
दीर्घनासां दीर्घजङ्घां दीर्घाङ्गी दीर्घजिह्विकाम् ।
चन्द्रसूर्याग्निभेदेन त्रिलोचन-समन्विताम्
॥ ७७ ॥

P3-0098 · 77ka
शत्रुनाशकरीं देवीं महाभीमां वरप्रदाम्
व्याघ्रचर्मशिरोवद्धां जगत्त्रयविभाविनीम् ।
साधकानां सुखं कर्त्रीं सर्वलोकभयङ्करीम् ।
एवं भूतां महादेवीं तारिणीं प्रणमाम्यहम् ।
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं
तारावत्कुर्यात्
॥ ७७क ॥

P3-0099 · 78
अस्याः पूजायन्त्रम् :
यन्त्रं निर्माय देवेशि स्थापयेन्मन्त्रमध्यतः ।
रक्तमलयजेनापि वसुपत्रं लिखेत् ततः ।
तद्बाह्ये वसुपत्राणि लिखेत् साधकसत्तमः ।
वह्निमण्डलयुग्मञ्च यन्त्रमध्ये लिखेत् ततः ।
पूर्वदले च देवेशि आद्यं बीजं लिखेत् ततः ।
द्वितीयं दक्षिणे तृतीयं पश्चिमे दले ।
उत्तरे च दले देवि फट् वाणीञ्च ततो लिखेत् ।
चतुर्द्वारसमायुक्तं अष्टवज्रसमन्वितम्
॥ ७८ ॥

P3-0100 · 79
तत्र पूर्वोक्तमन्त्रेण पीठं सम्पूज्य, पूर्ववद्ध्यात्वा
तत्रावाह्य महेशानीं यजेद्वै मन्त्रमुच्चरन् । (चित्र ४६)
षडङ्गेनैव देवेशि पूजयित्वा तु पार्वतीम् ।
क्षेत्रपालं भैरवञ्च गणनाथं महान्तकम् ।
एतच्चतुष्टयं देविं यजेद् द्वारचतुष्टये ।
पूर्वाद्यष्टदले देवि एताः सम्पूज्य साधकः ।
अणिमानङ्गमदना लघिमा मदनातुरा ।
अनङ्गकुसुमा देवि ततोऽष्टकर्णिका तथा ।
कपालिका च देवेशि ततोऽष्टयोगिनीस्तथा ।
तथा षोडशपत्रेषु पूजपेत् परिचारिकाः ।
सुखदां मोक्षदां तत्र भुक्तिदां भोगदां तदा ।
मुक्तिदां सिद्धिदां चैव कामदां धनदां तथा ।
क्षेमदां शिवदां वापि वरदामात्मदां तथा ।
योगदां भोगदां देवि भक्तिदां सर्वसिद्धिदाम् ।
अणिमाद्यष्टसिद्धीश्च पूर्वद्वारे यजेत् ततः ।
वह्नेर्दशकला देवि द्वारे च दक्षिणे तथा ।
पाश्चात्यद्वारे देवेशि कलाश्चन्द्रस्य पूजयेत् ।
उत्तरे च तथा देवि रवेरपि कलास्ततः ।
षडङ्गेन यजेद् देवि ततश्चास्त्राणि पूजयेत् ।
एतास्तु देवदेवेशि चतुर्थ्यन्ताः समीरिताः ।
नमोऽन्ताश्च महादेवि प्रोक्ताः सकलसिद्धिदाः ।
पुष्पैर्बहुविधैश्चैव रक्तचन्दनचर्चितैः ।
रक्तपुष्पैर्महादेवि नानागन्धसमन्वितैः
॥ ७९ ॥

P3-0101 · 80
बिल्वपत्रैस्तथा गन्धैर्जवापुष्पैर्विशेषतः ।
श्वेतरक्तपलाशैश्च करवीरैर्मरूवकैः ।
बिल्वपुष्पैः कुन्दपुष्पैर्लवङ्गकुसुमैः शुभैः ।
अपराजितापुष्पैश्च चम्पकैः केशरैस्तथा ।
एभिः पुष्पैर्महादेवि पूजयेन्नित्यतारिणीम् ।
मालतीवकपुष्पैश्च सदूर्वैर्वनार्चयेत् तथा ।
कदम्बैः श्वेतकुसुमैः कुंकुमैः काञ्चनैस्तथा ।
एवं सम्पूजयित्वा तु एभिर्द्रव्यैर्महेश्वरि ।
लक्षमात्रं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ॥ ७९-क ॥
अथ सारस्वतकल्पः :
नारद उवाच :
केनोपायेन देवेश विद्योत्पत्तिर्भवेन्नृणाम् ।
वेदविद्याप्रकाशस्तु तन्मे ब्रूहि जगत्पते
॥ ८० ॥

P3-0102 · 81
ब्रह्मोवाच :
साधु साधु त्वया पृष्ठं लोकानां हितकारकम् ।
एतदेव पुरा पृष्ठं कल्पादौ विष्णवे मया
॥ ८१ ॥

P3-0103 · 82
ब्रह्मशब्दस्वरूपेण प्रसन्नेनान्तरात्मना ।
यत्प्रोक्तं तेन मे ब्रह्मन् तत्ते वक्ष्यामि यत्नतः
॥ ८२ ॥

P3-0104 · 83
भगवानुवाच :
शृणु ब्रह्मन् परं गुह्यं कल्पं सारस्वतं मम ।
यस्या विज्ञानमात्रेण जाड्यापहरणं भवेत्
॥ ८३ ॥

P3-0105 · 84
सर्वशास्त्र प्रकाशश्च सर्वज्ञो जायतेऽचिरात् ।
अभ्यासाच्च भवेद्यस्य वाचश्चित्रा भवन्ति हि
॥ ८४ ॥

P3-0106 · 85
अवापुस्त्रिदशा व्याप्तिं वागीशत्वं वृहस्पतिः ।
द्वैपायनोऽपि यं ज्ञात्वा वेदव्यासोऽभवन्मुनिः
॥ ८५ ॥

P3-0107 · 86
मन्त्रोद्धारं प्रवक्ष्यामि साङ्गावरणपूजनैः ।
अनन्त बिन्दुना युक्तं वामगण्डान्तभूषितम् ।
जपेद् द्वादशलक्षन्तु मूकोऽपि वाक्पतिर्भवेत्
॥ ८६ ॥

P3-0108 · 87
नाभौ शुद्धरविन्दञ्च ध्यायेद् दशदलं सुधीः ।
तन्मध्ये भावयेन्मन्त्री मण्डलानान्त्रयं चिरम् ।
रत्नसिंहासनं ध्यायेद्वर्णं ज्योत्स्नामयं पुनः ।
तस्योपरि पुनर्ध्यायेद् देवीं वागीश्वरीं ततः
॥ ८७ ॥

P3-0109 · 88
मुक्ताकान्तिनिभां देवीं ज्योत्स्नाजालविकाशिनीम् ।
मुक्ताहरयुतां शुभ्रां शशिखण्ड विमण्डिताम् ।
विभ्रतीं दक्षहस्ताभ्यां व्याख्यां वर्णस्य मालिकाम् ।
अमृतेन तथा पूर्णं घटं दिव्यञ्च पुस्तकम् ।
दधतीं वामहस्ताभ्यां पीनस्तनभरान्विताम् ।
मध्ये क्षीणां तथा स्वच्छां नानारत्नविभूषिताम् ।
आत्माभेदेन ध्यात्वैवं ततः सम्पूजयेत् क्रमात्
॥ ८८ ॥

P3-0110 · 89
आद्येन दीर्घयुक्तेन कुर्यादङ्गानि हस्तयोः ।
हृदयादौ तथा कुर्याद् बीजेनाङ्गक्रिया पुनः ।
भ्रुवोर्मध्ये तथा नाभौ गुह्ये च देशिकस्तथा ।
न्यसेद्बीजं पुनर्वस्तौ व्यापकं विन्यसेत् ततः ।
पीठन्यासं तनौ कुर्याद् देवताभावसिद्धये ।
मातृकायास्तु यत्प्रोक्तं पीठमभ्यर्च्य यत्नतः ।
वर्णाब्जेनासनं कुर्यान्मूर्ति मूलेन कल्पयेत् ।
आवाह्य पूजयेत् तस्यां देवीं वागीश्वरीं ततः
॥ ८९ ॥

P3-0111 · 90
अङ्गैः प्रथमा वृत्तिः स्याद् द्वितीया शक्तिभिस्ततः ।
दलाग्रेषु समभ्यर्च्य ब्रह्माण्याद्या यथाविधि ।
लोकपाला बहिः पूज्यास्तेषामस्त्राणि तद्बहिः ।
एवं सम्पूजयेन्मन्त्री जपपूजारतः सदा
॥ ९० ॥

P3-0112 · 91
कवित्वं लभते वाग्मी लक्षैर्द्वादशभिर्ध्रुवम् ।
प्रातर्जप्त्वा सहस्रन्तु पिवेद् ब्राह्मीं वचान्विताम् ।
न विस्मरति मेधावी श्रुतान् वेदागमानपि
॥ ९१ ॥

P3-0113 · 92
कण्ठमात्रोदके स्थित्वा ध्यायेन्मार्त्तण्डमण्डले ।
ज्योतिः पुञ्जनिभां देवीं परिवारसमन्विताम् ।
वराभययुतां हस्ते मूद्रापुस्तकधारिणीम् ।
जपन् सहस्रमानेन षण्मासं विजितेन्द्रियः ।
भीमां संप्राप्य वाक्सिद्धिं कवीनामग्रणीर्भवेत्
॥ ९२ ॥

P3-0114 · 93
अथ प्रयोगं वक्ष्यामि जाड्यनाशकरं परम् ।
रात्रिशेषे समुत्थाय शुचिर्भूत्वा समाहितः ।
शुद्धभावेन चात्मानं गुरुञ्च परिकल्पयेत् ।
तत्प्रभापटलं व्याप्तं जगत्सर्वं विचिन्तयेत्
॥ ९३ ॥

P3-0115 · 94
मूलाधारे स्थितां देवीं कुण्डलीं परदेवताम् ।
सुप्तां प्रोत्थाप्य तां शक्त्या क्रमाच्चक्राणि भेदयेत् ।
ततः परशिवे नीत्वा सौधीञ्च प्रापयेत् ततः ।
ऊर्ध्वग्रन्थिं विनिर्भिद्यजित्वा दीपस्वरूपिणीम् ।
बीजरूपस्वशक्त्या तु प्रोल्लसन्तीं परात्मिकाम् ।
शब्दब्रह्मस्वरूपाञ्च निश्चलां चिन्तयेत् ततः ।
तत्प्रभापटलव्याप्तं शरीरं चिन्तयेत् ततः ।
नित्यं सहस्रमानेन जपेत् संवत्सरं यदि ।
ततः संजायते मन्त्री वाचस्पतिरिवापरः ।
छन्दोऽलंकार-तर्कादि-नानाशास्त्रार्थविद्भवेत् ।
कवित्वं ज्ञानशक्त्या तु पाण्डित्यमधिकं भवेत्
॥ ९४ ॥

P3-0116 · 96
अथापरं प्रवक्ष्यामि योगं भुवि सुदुर्लभम् ।
नाभिचक्रे स्थितां सौम्यां रक्ताकारां विचिन्तयेत् ।
क्षौमावद्धनितम्बाञ्च रक्ताभरणभूषिताम् ।
पाशांकुशधरां दिव्यां वराभययुतां पुनः ।
दृष्ट्या चामृतवर्धिण्या पूरयन्तीं मनोरथान् ।
एवं ध्यात्वा जपेल्लक्षं मनुजो विहितं ततः ।
होमं कुर्यात् त्रिमध्वक्तं रक्तोत्पलयुतैर्द्विजः ।
ततः संतर्पयेद् देवीं दुग्धयुक्तेन सर्पिषा ।
पायसेन बलिं दद्याद् दधिपिष्टैर्मधुप्लुतैः ।
एवं कृत्वा विधानन्तु साक्षाद्वैश्रवणो भवेत्
॥ ९६ ॥

P3-0117 · 96
सिद्धार्थैस्त्रिमधुपेतैर्हुत्वा जगद्वशं नयेत् ।
पद्महोमेन महतीं प्राप्नुयात्श्रियमुर्ज्जिताम्
॥ ९६ ॥

P3-0118 · 97
देवी हृदयविद्याया नास्ति किञ्चित् सुदुर्लभम् ।
स्नेह भावेन सम्प्रोक्तं न देयं यस्य कस्यचित्
॥ ९७ ॥

P3-0119 · 98
एतत् ते कथितं गुह्यं विद्योत्पत्तेश्च कारणम् ।
विष्णुना दत्तमस्मभ्यं मया तुभ्यं द्विजोत्तम
॥ ९८ ॥

P3-0120 · 99
सिद्धमन्त्री यदा मन्त्री बालीशस्यापि मूर्ध्नि ।
हस्तं दत्त्वा स्पृशेत् सोऽपि सौधीं वाचमनर्गलम् ।
गद्यपद्यमयीं ब्राह्मीं सिद्धविद्याप्रसादः
॥ ९९ ॥

P3-0121 · 100
इति स्वायम्भुवमातृकातन्त्र सारस्वतः पटलः ।
कात्यायनीकल्पः :
भगवानुवाच :
अतिगुह्यतरं मन्त्रं पृष्ठवत्यसि पार्वति ।
भक्तिभावेन ते देवि कथयामि शुचिस्मिते
॥ १०० ॥

P3-0122 · 1
प्रसन्नतां यदा याति देवि कात्यायनी तदा ।
कवितामतुलैश्वर्यं ददाति पदमुत्तमम्
॥ १ ॥

P3-0123 · 2
स्त्रीणामाकर्षणञ्चैव मारणोच्चाटने रिपोः ।
नृपाणां वश्यता चैव जायते च तथा प्रिये
॥ २ ॥

P3-0124 · 3
कथयामि तथा सर्वं भक्त्यां कलय मद्वचः ।
आदौ शृणु महामन्त्रं वाग्भवादि-नमोऽन्तकम् ।
वह्न्यासनं शिवं वान्तं बिन्दुशान्तिविभूषितम् ।
चकारं बिन्दुना युक्तं चतुर्द्दशस्वरान्वितम् ।
ङेयुता चण्डिका चैव मन्त्रः प्रोक्तो दशाक्षरः
॥ ३ ॥

P3-0125 · 4
चिन्तामणिरिति ख्यातो मायाद्यापि विचिन्त्यिते ।
देवता चण्डिका छन्दो गायत्री कपिलो मुनिः ।
लक्षमेकं जपेन्मन्त्रं दशांशं जुहुयात् ततः ।
मातृकोक्ते यजेत् पीठे बीजेनाङ्गक्रिया मता ।
आदावङ्गानि सम्पूज्य शस्त्रपूजा ततः परम्
॥ ४ ॥

P3-0126 · 5
लोकपालास्ततः पूज्यास्तेषामस्त्राणि तद्बहिः ।
डाकिन्Ä«-योगिनी चैव खेचरी शाकिनी तथा ।
दिक्षु पूज्या इमा देव्यः सुसिद्धाः फलदायिकाः
॥ ५ ॥

P3-0127 · 6
ततो ध्यानम् :
सव्यपादसरोजेनालंकृतोरुभृगाधिपाम् ।
वामपादाग्रदलितमहिषासुरनिर्भराम् ।
सुप्रसन्नां सुवदनां चारुनेत्रत्रयान्विताम् ।
हारनूपुरकेयूरजटामुकुटमण्डिताम् ।
विचित्रपट्टवसनामर्द्धचन्द्रविभूषिताम् ।
खड्गखेटकवज्राणि त्रिशूलं विशिखं तथा ।
धारयन्तीं धनुः पाशं शंखं घण्टां सरोरुहम् ।
बाहुभिर्ललितैर्देवीं कोटिचन्द्र-समप्रभाम् ।
समावृतैर्दिविषदैर्देवैराकाशसंस्थितैः ।
स्तूयमानां मोदमानैर्लोकपालादिभिः सदा ।
एवं सञ्चिन्तयेद् देवीं जायते नरपुङ्गवः
॥ ६ ॥

P3-0128 · 7
क्षत्रियेषु यथा रामो देवेषु च पुरन्दरः ।
भुजङ्गेषु यथा तार्क्ष्यः क्रूरकार्यो यथा शनिः
॥ ७ ॥

P3-0129 · 8
शकुन्तेषु यथा श्येनो मन्त्रज्ञो बलवांस्तथा ।
इदन्त परमं गुह्यं संक्षेपात्कथितं मया
॥ ८ ॥

P3-0130 · 9
इदानीं जपहोमानां विधानञ्च शृणु प्रिये ।
मन्त्रोऽयं चिन्त्यते देवि सभायां पुरतो यदि ।
कोटिसूर्यप्रतीकाशो दृश्यते वादिभिस्तथा ।
पलायन्ते महादेवि साध्वसेन क्षणात्ततः
॥ ९ ॥

P3-0131 · 10
इषेमास्यसिते पक्षे नवम्यामारभेज्जपम् ।
सहस्रं प्रत्यहं प्रत्यहं कृत्वा सम्प्राप्य नवमीं सिताम् ।
विजयं खड्गमादाय पूजयित्वा यथाविधि ।
अर्द्धरात्रे बलिं दत्त्वा प्रातर्यात्रां समाचरेत् ।
रणभूमिं समासाद्य सहस्रं प्रजपेन्मनुम् ।
तं दृष्ट्वा पुरुषं देवि हृत्क्षोभो जायते रिपोः
॥ १० ॥

P3-0132 · 11
सदूतं यममायातं मन्यमाना नराधिपाः ।
पलायन्ते महादेवि नात्र कार्या विचारणा
॥ ११ ॥

P3-0133 · 12
शुक्लाम्बरधरो मौनी ब्रह्मचारिव्रते स्थितः ।
शुक्लवर्णां महादेवीं ध्यात्वा शुक्लविभूषणाम् ।
सहस्रं मासमेकन्तु जपेन्नित्यं यथाविधि ।
मालतीबकुलैः कुन्दैर्मन्त्री मधुरसंयुतैः ।
सहस्रत्रितयं हुत्वा वागीशो जायतेऽचिरात्
॥ १२ ॥

P3-0134 · 13
हेलया कवितां देवि विशदां कुरुते द्रुतम् ।
जपं वा कुरुते नित्यं शतशो वत्सरावधि ।
बन्ध्यापि लभते पुत्रः कार्त्तिकेयपराक्रमम् ।
दुर्भगा च भवेत्पत्युः सुभगातिमनोरमा
॥ १३ ॥

P3-0135 · 14
रूपं विचिन्त्य पूर्वोक्तं लक्षं जप्त्वायुतं ततः ।
नीलोत्पलैः सरोजैर्वा हुत्वा वै श्रवणायते
॥ १४ ॥

P3-0136 · 15
व्याघ्रचर्मपरीधानां मुण्डमालाविभूषिताम् ।
रक्तवर्तुलभीमाक्षी जिह्वया लीलयासुरान् ।
चर्वयन्तीं महाकालीं कालरात्रिमिवापराम् ।
क्षोभयन्तीं जगत्सर्वं ससुरासुरपर्वतम् ।
एवं ध्यात्वा जपेद् देवीं श्मशाने वा चतुष्पथे ।
सप्ताहं त्रिशतं कृत्वा व्रतस्थः स्थिरमानसः जपेत् यो नियतं
देवि स रिपून्नाशयेद्ध्रुवम्
॥ १५ ॥

P3-0137 · 16
अनेनैव विधानेन बलिं दद्याच्चतुष्पथे ।
दग्धमत्स्यं सरक्तान्नं पुण्डी कृत्य समाहितः ।
आममांसं हरिद्राक्तं यं विचिन्त्य प्रदापयेत् ।
सप्ताहाल्लभते शत्रुर्यमसद्म न संशयः ।
हरिर्वा शंकरो वापि न शक्तो रक्षितुं क्वचित्
॥ १६ ॥

P3-0138 · 17
बलिमन्त्रस्तु :
उमाबीजयुगञ्चादौ चामुण्डाबीजयुग्मकम् ।
कालिकालि पदञ्चोक्त्वा खादय द्वितयं ततः ।
वशीकुरु महासत्त्वानादिद्वन्द्वं पुनर्वदेत् ।
वह्निजायां ततः प्रोक्त्वा बलिमन्त्रः शुभावहः ।
उमाबीजं हृल्लेखाबीजं चामुण्डाबीजं श्यामाबीजम्
॥ १७ ॥

P3-0139 · 18
एणाजिनं परिधाय उपविश्य निजाङ्गने ।
आत्मानं घोररूपञ्च चिन्तयित्वा समाहितः ।
अङ्गारकदिने चैव निन्दितासु तिथिष्वपि ।
पूजितं खड्गमादाय निशीथे बलिमाहरेत् ।
प्रहारशोणितञ्चास्य दद्याद्देव्यै यथाविधि ।
अच्छेद्याभेद्यकायः स्यात् रिपूणां नात्र संशयः
॥ १८ ॥

P3-0140 · 19
मायाबीजं समुद्धृत्य रमाबीजं ततः परम् ।
कत्यायनीपदं ङेऽन्तं वह्नेर्भार्या ततः परम् ।
अष्टाक्षरी महाविद्या सर्वकामफलप्रदा ।
ध्यानपूजादिकं सर्वं पूर्ववच्च समाचरेत् ।
इति कात्यायनीकल्पः
॥ १९ ॥


Durgā, Viśālākṣī und Gaurī

P3-0141 · 20
अथ दुर्गामन्त्राः :
विश्वसारे :
अथ दुर्गामनुं वक्ष्ये शृणुष्व कमलानने ।
यस्याः प्रसादमात्रेण भवेद् गङ्गाधरः स्वयम्
॥ २० ॥

P3-0142 · 21
थान्तबीजं समुद्धृत्य वामकर्णाभिभूषितम् ।
इन्दुबिन्दुसमायुक्तं बीजं परमदुर्लभम् ।
चतुर्वर्गप्रदं साक्षान्महापातकनाशनम् ।
एकाक्षरीसमा नास्ति विद्या त्रिभुवने प्रिये
॥ २१ ॥

P3-0143 · 22
विना गन्धैर्बिना पुष्पैर्बिना होमपुरःसरैः ।
विनायासैर्महादेवि जपमात्रेण सिद्धिदा
॥ २२ ॥

P3-0144 · 23
मन्त्रस्यास्य ऋषिर्देवि नारदः परिकीर्त्तितः ।
गायत्रीच्छन्दः आख्यातं जगद्धात्री च देवता ।
चतुर्वर्गप्रदा दुर्गा सर्वसत्त्वेषु संस्थिता
॥ २३ ॥

P3-0145 · 24
विविधा सा महाविद्या तत्शृणुष्व गणेश्वरि ।
कूर्चाद्यां वा जपेद्विद्यां तदन्ते वह्निसुन्दरी ।
लज्जाद्यां वा जपेद्विद्यां फडन्तां वा जपेत् सुधीः ।
वधूबीजयुतां वापि स्वाहान्तां वा जपेत् पुनः ।
लक्षम्याद्यां वा जपेद्विद्यां चतुर्वर्गफलाप्तये ।
वाग्भवाद्यां जपेद्वापि प्रणवाद्यां जपेत् पुनः ।
कामबीजादिकं वापि फडन्तां वा जपेत् सुधीः ।
त्र्यक्षरी विविधा विद्या कथिता ब्रह्मणा पुरा
॥ २४ ॥

P3-0146 · 25
दीर्घस्वरसमायुक्तनिजबीजानि पार्वति ।
विन्यसेदात्मनो देहे हृदयादिषु पूर्ववत् ।
पूर्ववन्न्यासवर्गन्तु पूर्ववत्कर्म चाचरेत् ।
कालीवदाचरेद्विद्यां जपेद्विद्यामहर्निशम्
॥ २५ ॥

P3-0147 · 26
लक्षैर्द्वादशकैर्देवि पुरश्चरणमीरितम् ।
यथास्थाने यथाकाले यथाचारविधानतः ।
प्रजपेत्परया भक्त्या दुर्गां दुर्गतिनाशिनीम्
॥ २६ ॥

P3-0148 · 27
मत्स्यमांसैः सूपपूपैर्मृगैः शशकशल्लकैः ।
पूजयेत्परया भक्त्या दुर्गा दुर्गतिहारिणीम्
॥ २७ ॥

P3-0149 · 28
स्वयम्भूकुसुमैः शुक्रैः सुगन्धिकुसुमान्वितैः ।
जवायावकसिन्दूरैः रक्तचन्दनसंयुतैः ।
नानामांसैर्नानाद्रव्यैः पूजयेत् परमेश्वरीम्
॥ २८ ॥

P3-0150 · 29
काकैः शुकैश्च महिषैश्छागैर्मोषैर्नरैस्तथा ।
गजैरुष्ट्रैः खरैर्गृध्रैः पूजयेद् विधिनामुना ।
तदा भवेन्महासिद्धिर्नात्र कार्या विचारणा
॥ २९ ॥

P3-0151 · 30
ध्यानन्तु :
सिंहस्कन्धाधिरूढां नानालंकारभूषिताम् ।
चतुर्भुजां महादेवीं नागयज्ञोपवीतिनीम् ।
संखशार्ङ्गसमायुक्तवामपाणिद्वयान्विताम् ।
चक्रञ्च पञ्चवाणांश्च धारयन्तीञ्च दक्षिणे ।
रक्त वस्त्रपरीधानां बालार्कसदृशीतनुम् ।
नारदाद्यैर्मुनिगणैः सेवितां भवसुन्दरीम् ।
त्रिवलीवलयोपेत-नाभिनाल-मृणालिनीम् ।
रत्नद्वीप-मयद्वीपे सिंहासनसमन्विते ।
प्रफुल्लकमलारूढां ध्यायेत् तां भवगेहिनीम्
॥ ३० ॥

P3-0152 · 31
दुर्गायन्त्रं प्रवक्ष्यामि शृणुस्व हरवल्लभे ।
त्रिकोणं विन्यसेत्पूर्वं नवकोणसमन्वितम् ।
त्रिविम्ब सहितं कार्यं अष्टपत्रसमन्वितम् ।
त्रिरेखासहितं कार्यं रुद्रभूपुरसंयुतम् ।
समीकृत्य यथोक्तेन विलिखेद्विधिनामुना ।
नानास्त्रसंयुतं लेख्यं चक्रं मन्त्रसमन्वितम् ।
तत्र तां पूजयेद् देवीं मूलप्रकृतिरूपिणीम् ।
पद्मस्थां पूजयेद् दुर्गां सिंहपृष्ठनिषेदुषीम् ।
प्रभाद्याः शक्तयः पूज्या गन्धाद्यैर्नवकोणके
॥ ३१ ॥

P3-0153 · 32
प्रभा माया जया सूक्ष्मा विशुद्धा नन्दिनी पुनः ।
सुप्रभा विजया सर्वसिद्धिदा नव शक्तयः
॥ ३२ ॥

P3-0154 · 33
ह्रीमाद्याः पूजयेत्तास्तु गन्धचन्दनवारिणा ।
ओंकारं पूर्वमुच्चार्य ह्रींकारं तदनन्तरम् ।
यथा पदं चतुर्थ्यन्तं पूजयेत् क्रमतः प्रिये ।
शंखपद्मनिधी देव्या वामदक्षिणयोगतः ।
पूजयेत् परया भक्त्या रक्तचन्दनपूर्वकैः ।
अर्घ्यदानं सदा कुर्यात् पूजान्ते पर्वतात्मजे ।
अङ्गावृत्तिः पुनः पूज्याः पत्रकोणेषु-मातरः ।
वज्राद्यायुधसंयुक्ता भूपुरे लोकपालकाः
॥ ३३ ॥

P3-0155 · 34
(चित्र ४७)
इति दुर्गामन्त्राः
अथ विशालाक्षीमन्त्राः
आदियामले :
ईश्वर उवाचः ध्रुवमाद्यं समुद्धृत्य मायाबीजं समुद्धरेत्
।
विशालाक्षीपदं ङेऽन्तं हृदन्तं मन्त्रमुद्धरेत् ।
अष्टाक्षरी महाविद्या अष्टसिद्धिप्रदा शिवे ।
प्रसङ्गात् कथिता विद्या त्रैलोक्यदुर्लभा प्रिये
॥ ३४ ॥

P3-0156 · 35
ऋषिरस्य महेशानि सदाशिवो महाप्रभुः पंक्तिच्छन्दश्च
कथितं विशालाक्षी च देवता ।
शक्तिः प्रणवमित्युक्तं लज्जाबीजञ्च बीजकम् ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः
॥ ३५ ॥

P3-0157 · 36
अङ्गन्यासकरन्यासौ यथावदभिधीयते ।
षड्दीर्घभाजा बीजेन प्रणवाद्येन कल्पयेत् ।
वाक्यन्तु ॐ ह्रां हृदयाय नमः इत्यादि
॥ ३६ ॥

P3-0158 · 37
मूलेन व्यापकं न्यस्य ध्यायेद् देवीं परां शिवाम् ।
ध्यायेद् देवीं विशालाक्षीं तप्तजाम्बुनदप्रभाम् ।
द्विभुजान्विकां चण्डीं खड्गखेटकधारिणीम् ।
नानालंकारसुभगां रक्ताम्बरधरां शुभाम् ।
सदा षोडशवर्षीयां प्रसन्नास्यां त्रिलोचनाम् ।
मुण्डमालावलीरम्यां पीनोन्नतपयोधराम् ।
शवोपरि महादेवीं जटामुकुटमण्डिताम् ।
शत्रुक्षयकरीं देवीं साधकाभीष्टदायिकम् ।
सर्वसौभाग्यजननीं महासम्पत्प्रदां स्मरेत् ।
एवं ध्यात्वा महादेवीमुपचारैः प्रपूजयेत्
॥ ३७ ॥

P3-0159 · 38
पुरश्चरणकाले तु वर्णलक्षं जपेत् सुधीः ।
यन्त्रमध्ये समावाह्य प्रतिष्ठां कारयेत् ततः ।
त्रिकोणं चाष्टपत्रञ्च ततो वृत्तं समालिखेत् ।
चतुरस्रं चतुर्द्वारमेवं मण्डलमालिखेत् ।
तत्रावाह्य यजेद् देवीं सर्वसौभाग्यसुन्दरीम् ।
विशालाक्षीं विशालास्यां यथाविधि प्रपूजयेत् ।
त्रिकोणान्तर्महादेवीं सम्पूज्य मातरः क्रमात् ।
पङ्कजाक्षी विरूपाक्षी रक्ताक्षो च सुलोचना ।
एकनेत्रा द्विनेत्रा च कोटराक्षी त्रिलोचना ।
एताः पूज्या महेशानी पत्राग्रेष्वष्टयोगिनीः ।
पश्चिमादिक्रमेणैव अष्टसिद्धिस्वरूपिणीः ।
चतुरस्रे महादेवी लोकपालान् समर्चयेत् ।
तद्बहिश्चैव वज्राद्यान् पूजयेद्भाग्य हेतवे ।
ततो यथाशक्ति जप्त्वा पूर्ववच्च समाचरेदिति
॥ ३८ ॥

P3-0160 · 39
(विशालाक्षीयन्त्रम् चित्र ४८) ।
अथ गौरीमन्त्राः
तन्त्रे :
ह्रीं गौरी रुद्रदयिते योगेश्वरि सवर्म फट् ।
द्विठान्तः षोडशार्णोऽयं मन्त्रः सद्भिरुदाहृत
॥ ३९ ॥

P3-0161 · 40
अस्या पूजा :
प्रातःकृत्यादि प्राणायामान्तं कर्म समाप्य ऋष्यादिन्यासं
कुर्यात् ।
यथा :
शिरसि पर्वत-ऋषये नमः ।
मुखेगायत्रीच्छन्दसे नमः ।
हृदि श्रीगौर्यै देवतायै नमः ।
ततः कराङ्गन्यासः :
ह्रां अंगुष्ठाभ्यां नमः इत्यादि ।
ह्रां हृदयाय नमः इत्यादि
॥ ४० ॥

P3-0162 · 41
ततो ध्यानम :
हेमाभां विभ्रतीं दोभिर्दर्पणाञ्जनसाधने ।
पाशांकुशौ सर्व भूषां तां गौरीं सर्वदा भजे ।
एवं ध्यात्वा मानसैः सम्पूज्य, शंखस्थापनादि
पीठमन्वन्तं सम्पूज्य, पुनर्ध्यात्वावाह्य, देवीं पूजयेत्
॥ ४१ ॥

P3-0163 · 42
ततोऽग्न्यादिकोणेषु ह्रां हृदयाय नमः इत्यादिना षडङ्गानि
पूजयेत् ।
पत्रेषु पूर्वादि ॐ सुभगायै नमः एवं रति-कामिनी-कामदायिनी-
पाशांकुशदर्पणाञ्जनशलाकाः पूजयेत् ।
तद्बहिरिन्द्रादीन् वज्रादींश्च पूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत्
॥ ४२ ॥

P3-0164 · 43
अस्य पुरश्चरणं लक्षजपः ।
आज्येन दशांशहोमः ।
तथा च :
लक्षमेकं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ।
दशांशं होमयेदाज्यैः पुरश्चरणसिद्धये
॥ ४३ ॥

P3-0165 · 44
फलन्तु :
गन्धपुष्पाञ्जनभक्ष्यचन्दनादिकं मूलमन्त्राभिमन्त्रितं
यस्मै कस्मै दीयते स वश्यो भवति निश्चितम्
॥ ४४ ॥

P3-0166 · 45
यथा रात्रौ हरिद्रया वामोरुमध्ये प्रियस्त्रीनामाभिलिख्य,
वामकरेण पिधाय, शतं सहस्रं वा जपन्निष्ठां
स्त्रियमाकर्षयति ।
एतत् पूजादिकं सौभाग्यवश्यसर्वसम्पत्करम्
॥ ४५ ॥


Weitere Gottheitsmantras

P3-0167 · 46
अथ ब्रह्मश्रीमन्त्रः :
स च मन्त्रदेवप्रकाशिन्याम् :
हृल्लेखा नमस्कारादि ब्रह्मश्रीः राजिते राजपूजिते जये-विजये गौरि
गान्धारि त्रिभुवनवशङ्करि सर्वलोकवशङ्करि
सर्वस्त्रीपुरुषवशङ्करि सुयुद्धदुर्घोरां ह्रीं स्वाहा
॥ ४६ ॥

P3-0168 · 47
अङ्गन्यासश्च :
राजिते राजपूजिते अंगुष्ठाभ्यां नमः ।
जये विजये गौरि गान्धारि तर्ज्जनीभ्यां स्वाहा ।
त्रिभुवनवशंकरि मध्यमाभ्यां वषट् ।
सर्वलोकवशङ्करि अनामिकाभ्यां हूं ।
सर्वस्त्रीपुरुषवशंकरि कनिष्ठाभ्यां वौषट् ।
सुयुद्धदुर्घोररावे ह्रीं स्वाहा अस्त्राय फट् ।
राजिते राजपूजिते हृदयाय नमः ।
जये विजये गौरि गान्धारि शिरसे स्वाहा ।
त्रिभुवनवशंकरि शिखायै वषट् ।
सर्वलोकवशंकरि कवचाय हुं ।
सर्वस्त्रीप्रुषवशंकरि नेत्रत्रयाय वौषट् ।
सुयुद्धदुर्घोररावे ह्रीं स्वाहा अस्त्राय फट्
॥ ४७ ॥

P3-0169 · 48
ततो ध्यानम् :
अविकलशशिराजन्मौलिरावद्धपाशांकुशरूचिरकराब्जा
बन्धुजीवारुणाङ्गी ।
अमरनिकरवन्द्या त्रीक्षणा शोणलेपांशुकुसुमयुता स्यात् सम्पदे
पार्वती वः ।
अस्याङ्गैर्लोकपालैर्मातृकाभिस्त्रीण्यावरणानि
॥ ४८ ॥

P3-0170 · 49
तस्या पुरश्चरणमयुतजपः ।
पायसेन दशांशहोमः ।
मधुत्रययुतैस्तिलतण्डुलैर्लवर्णैर्वा दिनत्रयं ।
सहस्रहोमः शीघ्रवशंकरः ।
प्रातःकाले सूर्यमण्डलस्थां देवीं सम्पूज्य अष्टोत्तरशतं
जपन्त्रिभुवनवश्यकरः
॥ ४९ ॥

P3-0171 · 50
अथ राजमुखीमन्त्रः :
स च द्विचत्वारिंशदक्षरः अङ्गन्यासे विविच्यते ।
यथा :
ॐ राजमुखि हृदयाय नमः ।
वश्यमुखि ह्रीं ह्रीं क्लीं शिरसे स्वाहा ।
देवि देवि शिखायै वषट् ।
महादेवि कवचाय हुं ।
देवाधिदेवि नेत्रत्रयाय वषट् ।
सर्वजनस्य मुखं मम वशं कुरु कुरु स्वाहा अस्त्राय फट् ।
सर्व श्रीमनोरिव ।
जपादौ सर्वजनस्थाने साध्यनाम देयमिति
॥ ५० ॥

P3-0172 · 51
अथ इन्द्रमन्त्रः :
मन्त्रदेवप्रकाशिकायाम् :
इं इन्द्राय हृत् ।
अस्य ब्रह्मा-ऋषि पंक्तिश्छन्द इन्द्रो देवता इं बीजं आयेति शक्तिः ।
बीजेनाङ्गन्यासः ।
यथा :
इं अंगुष्ठाभ्यां नमः इत्यादि ।
इं हृदयाय नमः इत्यादि
॥ ५१ ॥

P3-0173 · 52
ततो ध्यानम् ।
पीतवर्णं सहस्राक्षं वज्रपद्मकरं विभुम् ।
सर्वालंकारसंयुक्तं नौमीन्द्रं दिक्पतीश्वरम् ।
एवं ध्यात्वावाह्य पूजयेत्
॥ ५२ ॥

P3-0174 · 53
ततोऽग्न्यादिकोणे मध्ये दिक्षु च इं हृदयाय नमः इत्यादिना
षडङ्गानि पूजयेत् ।
ततः पत्रेषु पूर्वादि कं कार्त्तिकेयाय नमः एवं रं अग्नये,
यं यमाय, क्षं निर्-ऋतये, वं वरुणाय, यं वायवे, सं
सोमाय, ईं ईशानाय ।
ततो वज्रादीन्पूजयेत्
॥ ५३ ॥

P3-0175 · 54
अस्य पुरश्चरणं लक्षजपः ।
आज्येन तिलैरयुत होमः
॥ ५४ ॥

P3-0176 · 55
अथ प्रयोगः :
चतुष्कोणस्थपद्मे नववस्त्रवेष्टितं जलकुम्भं स्थापयित्वा,
गन्धोदकेन सम्पूर्य, तत्र सपरिवारमिन्द्रमाराध्य, सहस्रं
जप्त्वा तज्जलाभिषेकेण भ्रष्टराज्यस्य राज्यप्राप्तिरन्येषां
परमा श्रीर्भवति
॥ ५५ ॥

P3-0177 · 56
अथ गरुडमन्त्रः :
निबन्धे :
संवर्त्तको नेत्रयुतः पार्श्वस्तारोऽग्निसुन्दरी ।
गारुडो मनुराख्यातो विषद्वयविनाशकः ।
स्मरन्गरुडमात्मानं मन्त्रमेनं जपेन्नरः ।
विषमालोकनेनैव हन्यान्नागकुलोद्भवम्
॥ ५६ ॥

P3-0178 · 57
अस्य पूजा :
प्रातःकृत्यादि वैष्णवोक्तपीठमन्वन्तं विन्यस्य ऋष्यादिन्यासं
कुर्यात् ।
यथा :
शिरसि रुद्र-ऋषये नमः, मुखे पंक्तिच्छन्दसे नम, हृदि
पक्षीन्द्राय देवतायै नमः ।
प्रणवो बीजं, स्वाहा शक्तिः
॥ ५७ ॥

P3-0179 · 58
ततः कराङ्गन्यासौ :
ज्वल ज्वल महामते स्वाहा अंगुष्ठाभ्यां नमः,
गरुडचूडामणे स्वाहा तर्जनीभ्यां स्वाहा, गरुडशिखिशिखे
स्वाहा मध्यमाभ्यां वषट्, गरुड प्रभञ्जन प्रभञ्जन
प्रभेदन प्रभेदन विद्रावय विद्रावय विमर्द्दय स्वाहा
अनामिकाभ्यां हूं, ॐ उग्ररूपधर सर्वविषहर भीषय
भीषय स्वाहा कनिष्ठाभ्यां वौषट्, सर्वं दह दह भस्मीकुरु
स्वाहा करतलपृष्ठाभ्यां फट् ।
हृदयादिष्वेवम्
॥ ५८ ॥

P3-0180 · 59
ततः करद्वयांगुष्ठादिकनिष्ठांगुलिषु मन्त्रवर्णान्विन्यस्य
पादकटिहृदयवक्त्रमूर्द्धसु पञ्चवर्णान्न्यसेत्
॥ ५९ ॥

P3-0181 · 60
ततो ध्यानम् :
वर्मान्तर्वह्नियुग्माक्षरकमलगतं पञ्चभूताद्यवर्णं,
कॢप्ताकल्पं फणीन्द्रैरभयवरकरं पद्मनेत्रं सुवक्त्रम् ।
दुष्टाहिच्छेदितुण्डं स्मरदखिलविषप्रोषणं प्राणभूतं,
प्राणाग्रण्यं त्रिवेदोतनुममृतमयं पक्षिराजं भजेऽहम् ।
एवं ध्यात्वा मानसैः सम्पूज्य, शङ्खस्थापनं कृत्वा
वैष्णवोक्तं पीठमन्वन्तं पीठं सम्पूज्य
पुनर्ध्यात्वावाह्य, रेफद्वयं हुङ्कारमध्यस्थं
क्षकारेकार-बिन्द्वात्मकबीजयुक्त-कर्णिकं स्वरद्वन्द्वाष्टकेशरे
कचटतपय-शलाष्टवर्गयुक्ताष्टदले मातृकापद्मे पक्षिराजं
पूजयेत्
॥ ६० ॥

P3-0182 · 61
अङ्गैः प्रथमावरणं अनन्तवासुकि-तक्षक-कर्कोटक-पद्म-
महापद्म-शङ्ख-कुलिकाष्ट-नागैर्द्वितीयम्, इन्द्रादिभिस्तृतीयम् ।
अस्या पुरश्चरणं पञ्चलक्ष-जपः ।
अथवा पुरश्चरणार्थं मूलमयुतं
प्रत्येकमक्षरसंख्यसहस्रं मालामन्त्रं जपेत् ।
घृताक्तैः कृष्णपुष्पैर्दशांशहोमः
॥ ६१ ॥

P3-0183 · 62
मालामन्त्र उच्यते :
ॐ नमो भगवते गरुडाय कालाग्निवर्णाय एह्येहि कालानललोल-
जिह्वाय पातय पातय मोहय मोहय विद्रावय विद्रावय भ्रम
भ्रम भ्रामय भ्रामय हन हन दह दह पच पच हूं फट्
स्वाहा
॥ ६२ ॥

P3-0184 · 63
क्षिराब्धिमध्ये तत्रोत्पन्न-पूर्वोक्त-
मातृकाक्षरमयममृतात्मकं श्वेतवर्णं विचिन्त्य, तत्पद्मे
दष्टं विचिन्त्य, दष्टस्य मूर्द्ध-वक्त्र-हृदय-नाभिषु रं हं
ठं वमिति बीजचतुष्टयं अमृतस्रावित्वेन संचिन्त्य, दष्टशिरस
उपरिचन्द्रकान्तवर्णं सुधामयं गरुडं ध्यात्वा,
तद्धस्तस्थितामृतपूरितशंखनिर्गलदमृतधारया दष्टं
प्लावयन्तं गरुडं ध्यायन् मन्त्रं जपेत् । (चित्र ४९)
एवं ध्यानमात्रेण दष्टो निर्विष्यः समुत्थाय चिरं जीवेत्
॥ ६३ ॥

P3-0185 · 64
ॐ नमो भगवते गरुडाय महेन्द्ररूपाय
पर्वतशिखराकाररूपाय संहर संहर मोचय मोचय चालय
चालय पातय पातय निर्विष निर्विष विषमप्यमृतं
चाहारसदृशं रूपमिदं प्रज्ञापयामि स्वाहा नमः नल नल
वर वर दुन दुन क्षिप क्षिप हर हर स्वाहा ।
अनेन गरुडमन्त्रेण मन्त्री गरुडो भूत्वा अभिमन्त्रितं
स्थावरविषं भक्षितमप्यमृतं भवति किमुतान्नपानादिकमिति
॥ ६४ ॥

P3-0186 · 65
इति गरुडमन्त्रः ।
अथ गरुडस्तवः :
सुपर्णं वैनतेयञ्च नागारिं नागभीषणम् ।
जितान्तकं विषारिञ्च अजितं विश्वरूपिणम् ।
गरुत्मन्तं खगश्रेष्ठं तार्क्ष्यं कश्यपनन्दनम् ।
द्वादशैतानि नामामि गरुडस्य महात्मनः ।
यः पठेत् प्रातरुत्थाय स्नाने वा शयनेऽप् वा ।
विषं नाक्रामते तस्य न च हिंसन्ति हिंसकाः ।
संग्रामे व्यवहारे च विजयस्तस्य जायते ।
बन्धनान्मुक्तिमाप्नोति यात्रायां सिद्धिरेव च ।
इति गरुडस्तोत्रम्
॥ ६५ ॥


Hanūmān und weitere Anwendungen

P3-0187 · 66
अथ हनूमत्कल्पः :
देव्युवाच :
शैवानि गाणपत्यानि शाक्तानि वैष्णवानि च ।
साधनानि च सौराणि चान्यानि यानि तानि च ।
श्रुतानि तानि देवेश त्वद्वक्त्रान्निःसृतानि च ।
किञ्चिदन्यत् तु देवानां साधनं यदि कथ्यताम्
॥ ६६ ॥

P3-0188 · 67
शङ्कर उवाच :
शृणु देवि प्रवक्ष्यामि सावधानावधारय ।
हनूमत्साधनं पुण्यं महापातकनाशनम् ।
एतद्गुह्यतमं लोके शीघ्रसिद्धिकरं परम् ।
जयो यस्य प्रसादेन लोकत्रयजितोऽभवत् ।
तत्साधनविधिं वक्ष्ये नृणां सिद्धिकरं द्रुतम्
॥ ६७ ॥

P3-0189 · 68
वियत्सनरकं हनूमते तदनन्तरम् ।
रुद्रात्मकाय कवचं फडिति द्वादशाक्षरः ।
एतन्मन्त्रं मयाख्यातं गोपनीयं प्रयत्नतः ।
तव स्नेहेन भक्त्या च दासोऽस्मि तव सुन्दरि ।
एतन्मन्त्रमर्जुनाय प्रदत्तं हरिणा पुरा ।
जयेन साधनं कृत्वा जितं सर्वं चराचरम्
॥ ६८ ॥

P3-0190 · 69
नदीकूले विष्णुगृहे निर्जने पर्वते वने ।
एकाग्रचित्तमाधाय साधयेत् साधनं महत्
॥ ६९ ॥

P3-0191 · 70
ध्यानमाह :
महाशैलं समुत्पाट्य धावन्तं रावणं प्रति ।
तिष्ठ तिष्ठ रणे दुष्ट घोररावत् समुत्सृजन् ।
लाक्षारसारुणं रोद्रं कालान्तकयमोपमम् ।
ज्वलदग्निलसन्नेत्रं सूर्यकोटिसमप्रभम् ।
अङ्गदाद्यैर्महादेवीरैर्वेष्टितं रुद्ररूपिणम् ।
एवं रूपं हनूमन्तं ध्यात्वा यः प्रजपेत् मनुम् ।
लक्षजपात् प्रसन्नः स्यात् सत्यं ते कथितं मया
॥ ७० ॥

P3-0192 · 71
ध्यानैकमात्रतः पुंसां सिद्धिरेव न संशयः ।
प्रातः स्नात्वा नदीतीरे उपविश्य कुशासने ।
प्राणायामं षडङ्गञ्च मूलेन सकलञ्चरेत् ।
पुष्पाञ्जल्यष्टकं दत्त्वा ध्यात्वा रामं ससीतकम् ।
ताम्रपात्रे ततः पद्ममष्टपत्रं सकेशरम् ।
रक्तचन्दनघृष्टेन लिखेत् तस्य शलाकया ।
कर्णिकायां लिखेन्मत्रं तत्रावाह्य कपिप्रभुम् ।
कर्णिकायाः हनुमन्तं ध्यात्वा पादादिकं ततः । (चित्र ५०)
गन्धपुष्पादिकञ्चैव निवेद्य मूलमन्त्रतः ।
सुग्रीव लक्ष्मणञ्चैव अङ्गदं नलनीलकम् ।
जाम्बवन्तञ्च कुमुदं केशरिणं दले दले ।
पूर्वादिक्रमतो देवि पूजयेद् गन्धचन्दनैः ।
पवनञ्चाञ्जनाञ्चैव पूजयेद् दक्षवामतः ।
दलाग्रेषु कपिभ्योऽपि पुष्पाञ्जल्यष्टकं ततः ।
ध्यात्वा तु मन्त्रराजं वै लक्षं यावत् तु साधकः ।
लक्षान्तदिवसं प्राप्य कुर्याच्च पूजनं महत् ।
एकाग्रचित्तमनसा तस्मिन्पवननन्दने ।
दिवारात्रो जपं कुर्याद् यावत् सन्दर्शनं भवेत्
॥ ७१ ॥

P3-0193 · 72
सुदृढं साधकं मत्वा निशीथे पवनात्मजः ।
सुप्रसन्नस्ततो भूत्वा प्रयाति साधकाग्रतः
॥ ७२ ॥

P3-0194 · 73
यथेप्सितं वरं दत्त्वा साधकाय कपिप्रभुः ।
वरं लब्ध्वा साधकेन्द्रो विहरेदात्मनः सुखम्
॥ ७३ ॥

P3-0195 · 74
एतद्धि साधनं पुण्यं देवानामपि दुर्लभम् ।
तव स्नेहान्मयाख्यातं भक्तासि मयि पार्वति ।
इति गरुडतन्त्रे देवीश्वरसंवादे हनूमत्साधनम्
॥ ७४ ॥

P3-0196 · 75
अथ वीरसाधनम् :
हनूमतोऽतिगुह्यन्तु लिख्यते वीरसाधनम् ।
ब्राह्म्ये मुहूर्ते उत्थाय कृतनित्यक्रियो द्विजः ।
गत्वा नदीं ततः स्नात्वा तीर्थमावाह्य चाष्टधा ।
मूलमन्त्रं ततो जप्त्वा सिञ्चेदादित्यसंख्यया
॥ ७५ ॥

P3-0197 · 76
ततो वाससी परिधाय गङ्गा तीरे पर्वते वा उपविश्य, हां
अंगुष्ठाभ्यां नमः, हां हृदयाय नमः इत्यादिना च
कराङ्गन्यासौ कुर्यात्
॥ ७६ ॥

P3-0198 · 77
ततः प्राणायामः :
अकारादिवर्णान् उच्चार्य वामनासापुटेन वायुं पूरयेत् ।
पञ्चवर्गानुच्चार्य वायुं कुम्भयेत् यकारादिवर्णान् उच्चार्य
दक्षिणनासापुटेन वायुं रेचयेत् ।
एवं वारत्रयं कृत्वा मन्त्रवर्णैरङ्गन्यासं कृत्वा ध्यायेत्
॥ ७७ ॥

P3-0199 · 78
ध्यायेद्रणे हनूमन्तं कोटिकपिसमन्वितम् ।
धावन्तं रावणं जेतुं दृष्ट्वा सत्वरमुत्थितम् ।
लक्ष्मणञ्च महावीरं पतितं रणभूतले ।
गुरुञ्च क्रोधमुत्पाद्य गृहीत्वा गुरुपर्वतम् ।
हाहाकारैः सदर्पैश्च कम्पयन्तं जगत्त्रयम् ।
आब्रह्माण्डं समाव्याप्य कृत्वा भीमं कलेवरम् ।
इति ध्यात्वा षट्सहस्रं जपेत्
॥ ७८ ॥

P3-0200 · 79
अस्य मन्त्रः :
स्वबीजं पूर्वमुच्चार्य पवनञ्च ततो वदेत् ।
नन्दनञ्च ततो देयं ङेऽवसानेऽनलप्रिया ।
दशार्णोऽयं मनुः प्रोक्तो नराणां सुरपादपः
॥ ७९ ॥

P3-0201 · 80
सप्तमदिवसे दिवारात्रिं व्याप्य जपेत्, ततो महाभयं दत्त्वा
त्रिभागशेषासु निशासु नियतमागच्छति ।
साधको यदि मायां तरति तदेप्सितं वरं प्राप्नोति
॥ ८० ॥

P3-0202 · 81
विद्यां
वापि धनं वापि राज्यं वा शत्रुनिग्रहम् ।
तत्क्षणादेव चाप्नोति सत्यं सत्यं सुनिश्चितम्
॥ ८१ ॥

P3-0203 · 82
इति हनूमत्कल्पः ।
अथ विषराग्निमन्त्रः
स च विसर्गबिन्दुयुक्तः खकारद्वयस्वरूपः
॥ ८२ ॥

P3-0204 · 83
अथ पूजाप्रयोगः :
प्रातःकृत्यादिकं कृत्वा ऋष्यादिन्यासं कुर्यात् ।
यथा :
शिरसि अग्नये ऋषये नमः ।
मुखे पङ्क्तिच्छन्दसे नमः ।
हृदि अग्नये देवतायै नमः ।
गुह्ये खं बीजाय नमः ।
पादयोः बिन्दुशक्तये नमः
॥ ८३ ॥

P3-0205 · 84
षड्दीर्घयुक्तखकारेण कराङ्गन्यासकल्पना ।
ध्यानार्चने शारदोक्तवैश्वानरमन्त्रवत्
॥ ८४ ॥

P3-0206 · 85
अस्य पुरश्चरणं द्वादशलक्षजपः आज्येन दशांशहोमः
॥ ८५ ॥

P3-0207 · 86
स्ववामहस्ततले पञ्चदलं श्वेतपद्मं ध्यात्वा,
तत्कर्णिकायां सविसर्गं खकारं तत्पञ्चदलेषु सानुस्वारं
खकारञ्च ध्यात्वा, रक्तवर्णामृतमयं विचिन्त्य, तत्स्पर्शनात्
सर्वं विषं नाशयेत् ।
इत्थम्भूतकरेण विषरोगग्रस्तं स्पृष्ट्वा अष्टोत्तरशतं जपेत् ।
सर्ववृश्चिकादिविषज्वराजीर्ण-विसर्पदन्तादिशूलनेत्ररोग-
सर्ववेदनाञ्च नाशयेत्
॥ ८६ ॥

P3-0208 · 87
अथ वृश्चिकादिविषहरमन्त्रः
स च ॐ स व ह स्फुः ॐ हिलि मिलि चिलि हस्फुः, ॐ हिलि हिलि चिलि चिलि हस्फुः ।
ब्रह्मणे फुः विष्णवे फुः इन्द्राय फुः सर्वेभ्यो देवेभ्यो स्फुः ।
एते वृश्चिकविषहराः ।
ॐ गेरि ठः ।
इति मूषिकविषहरमन्त्रः
॥ ८७ ॥

P3-0209 · 88
ॐ सरणे स्फुः ॐ असरणे स्फुः ॐ विषहरणे स्फुः ।
एतन्मन्त्रं जप्त्वा श्वेतसर्षपविक्षेपेण मूषिकविनाशनम् ।
इति मूषिकविनाशनमन्त्रः
॥ ८८ ॥

P3-0210 · 89
ॐ ह्रां ह्रीं हूं हूं ॐ स्वाहा गरुड हूं फट् ।
इति दुर्गामन्त्रो लूताविषहरः
॥ ८९ ॥

P3-0211 · 90
ॐ नमो भगवते विष्णवे सर सर हन हन हूं फट् स्वाहा ।
इति विष्णुमन्त्रः सर्वकीटजातिविषहरः
॥ ९० ॥

P3-0212 · 91
अथार्द्रपटी :
प्रणवो हृदयं भगवति चामुण्डे रक्तवाससे
अप्रतिहतरूपपराक्रमे अमुकवधाय विचेतसे वह्निवल्लभा ।
आर्द्ररक्तपटेनावृतः समुद्रगामि-नदीतीरे ऊषरभूमौ वा
दक्षिणामुख ऊर्ध्वबाहुजपेत् ।
यावत्पटः शुष्यति, तावत्प्राणा शुष्यन्ति शत्रोः ।
इत्यार्द्रपटी
॥ ९१ ॥


Bhairavī, Mahākālī und Jvālāmālinī

P3-0213 · 92
अथ श्मशानभैरवीमन्त्रः
श्मशानभैरवि नररूधिरास्थिरसभक्षिणि सिद्धिं मे देही मम
मनोरथान् पूरय हूं फट् स्वाहा
॥ ९२ ॥

P3-0214 · 93
अथ महाकालीमन्त्रः
ॐ फ्रें फ्रें क्रों क्रों पशून् गृहाण हुं फट् स्वाहा ।
श्मशानभैरवीमन्त्रेण यावत् क्रूरकर्मणि प्रयोगः कर्त्तव्यः
॥ ९३ ॥

P3-0215 · 94
अथ महाकालीमन्त्रप्रयोगः
तत्र न न्यासादिकं कर्त्तव्यम् ।
तथा च :
न्यासशुद्ध्यादिकं किञ्चिन्नात्र कार्या विचारणा
॥ ९४ ॥

P3-0216 · 95
कृष्णतोयैश्च सम्पूर्णे कृष्णकुम्भेऽथ कालिकाम् ।
पूजयेत् कृष्णपुष्पेण श्मशाने दक्षिणामुखः ।
पञ्चवक्त्रां महारौद्रीं प्रतिवक्त्रत्रिलोचनाम् ।
शक्तिशूलधनुर्वाण-खड्गखेटवराभयान् ।
दक्षादक्षभुजैर्देवीं विभ्राणां भूरिभूषणाम् ।
ध्यात्वैवं साधकः साध्यं साधयेन्मनसि स्थितम्
॥ ९५ ॥

P3-0217 · 96
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही च तथा चैन्द्री चामुण्डा चण्डिकाष्टमी ।
पूर्वादीशान पर्यन्तं कुम्भस्थाने स्थिता इमाः
॥ ९६ ॥

P3-0218 · 97
तत्र क्रमः :
देवीं ध्यात्वा यथा विध्युपचारेण सम्पूज्य
ब्राह्म्याद्यष्टशक्तीः पूर्वादिक्रमेण पूजयेत्
॥ ९७ ॥

P3-0219 · 98
तथा :
नामोच्चारणसंरब्धं वह्नौ प्रज्वलितेऽम्बरे ।
जुहुयाद्वैरिणां शुद्धौ देवीमन्त्रं जपस्तथा ।
समिधः पिचुमर्द्दस्य तथा विभीतकाष्ठिका ।
गृहधूमं श्मशानान्त विभीताङ्गारहोमतः ।
सप्ताहाद्वैरिणं हन्ति कालीमन्त्रप्रयोगतः
॥ ९८ ॥

P3-0220 · 99
ऊच्चाटनं चापराह्णे सन्धायां मारणं तथा ।
दक्षिणस्यां दिशि स्थित्वा ग्रामादेर्दक्षिणामुखः
॥ ९९ ॥

P3-0221 · 100
अथ ज्वालामालिनी-मन्त्रः
ॐ नमो भगवति ज्वालामालिनि गृध्रगणपरिवृते हूं फट् स्वाहा ।
तत्र प्रयोगः ।
तत्राङ्गन्यासः :
ॐ नमो हृदयं प्रोक्तं भगवतीति शिरः स्मृतम् ।
ज्वालामालिनी च शिखा गृध्रगणपरिवृते ततः ।
वर्म स्वाहास्त्रमित्युक्तं जातियुक्तं न्यसेत् तनौ ।
प्रयोगस्तु :
ॐ नमो हृदयाय नमः इत्यादि
॥ १०० ॥

P3-0222 · 1
अभुक्त्वा नियतं चैव जपेन्मन्त्रं जपाज्जयी ।
जपेदष्टसहस्रन्तु त्रयोविंशतिवासरान् ।
प्रत्यहं साधनं सिद्धिं ददाति च न संशयः ।
स्मृतिमात्रेण वै मन्त्री रिपून सर्वान् विनाशयेत्
॥ १ ॥

P3-0223 · 2
प्रयोगान्तरम् :
फेत्कारीयेः ॐ ठं ठां ठिं ठीं ठुं ठूं ठें ठैं
ठों ठौं ठं ठः ।
अमुकं गृह्ण गृह्ण हूं हूं ठः ठः ।
अनेन मन्त्रेण शृगालास्थिमयं कीलकं पञ्चांगुलं
सहस्रेणाभिमन्त्रितं यस्य गेहे निखनेत्, यस्य नाम्ना श्मशाने
वा निखनेत्, स उन्मत्तो भवति
॥ २ ॥

P3-0224 · 3
ॐ डं डां डिं डीं डुं डूं डें डैं डों डौं डं
डः अमुकं गृह्ण गृह्ण हूं हूं ठः ठः ।
अनेन मन्त्रेण मनुष्यास्थिमयं कीलकं वितस्तिप्रमाणं
सहस्रेणाभिमन्त्रितं यस्य गृहे निखनेत्, यस्य नाम्ना श्मशाने
वा निखनेत् तस्य समस्तपरिवारा नश्यन्ति
॥ ३ ॥

P3-0225 · 4
उद्धृते खलु शान्तिः ।
शान्तिमन्त्रो यथा :
ॐ सः सं सं हः अमुकस्य शान्तिर्भवतु स्वाहा ।
अनेन मन्त्रेण धृतमधुसिक्तं क्षीर हुनेत् ।
तेन शान्तिर्भवति
॥ ४ ॥

P3-0226 · 5
ॐ ढं ढां ढिं ढीं ढुं ढूं ढें ढैं ढों
ढौं ढं ढः अमुकं मारय मारय ठः ठः ।
अनेन मन्त्रेण गर्द्दभास्थिमयं कीलकं त्रयोदशांगुलं
सहस्रेणाभिमन्त्रितं यस्य गेहे निखनेत्, स ज्वरेण विनश्यति
॥ ५ ॥

P3-0227 · 6
ॐ णं णां णिं णीं णुं णूं णें णैं णों णौं णं
णः अनेन खदिरकाष्ठमयं कीलकं षडंगुलं
सहस्रेणाभिमन्त्रितं यस्य गृहे निखनेत्, यस्य नाम्ना श्मशाने
वा निखनेत्, तस्य सर्वान्नाशयति
॥ ६ ॥

P3-0228 · 7
अथ निगडबन्धनमोक्षणम्
ॐ नमः निर्-ऋते निर्-ऋते तिग्मतेजो यन्मयं विव्रेता बन्धमेत यमेन
दत्तं तस्य सम्विदा नोत्तमे नाके अघोरोह वैरम्
॥ ७ ॥

P3-0229 · 8
अस्य निगडभञ्जनमन्त्रस्य प्रजापतिर्-ऋषिर्निर्-ऋतिर्देवता
तुष्टुप्छन्दो बन्धनादिव्यसनपरिहारे विनियोगः
॥ ८ ॥

P3-0230 · 9
एवं ऋष्यादिकं नयस्य अयुतं प्रजपेत् सुधीः ।
ततो बन्धनाद्व्यसनाच्च मुक्तो भवति नान्यथा
॥ ९ ॥

P3-0231 · 10
अथ चिटिमन्त्रः
तारं चिटिद्वयं ब्रूयाचाण्डालि च ततः परम् ।
महदाद्यां ततो ब्रूयादमुकं मे ततः परम् ।
वशमानय ठद्वन्द्वं चिटिमन्त्रः उदाहृतः ।
सप्तभिर्दिवसैर्भूपान् वशयेद्विधिनामुना
॥ १० ॥

P3-0232 · 11
विधिमाह :
विलिख्य तालपत्रे तं साध्यनाम्ना विदर्भितम् ।
निक्षिप्य क्षीरसंमिश्रे जले तत् क्वाथयेन्निशि ।
वश्यो भवति साध्यश्च नात्र कार्या विचारणा
॥ ११ ॥

P3-0233 · 12
तालपत्रे लिखित्वैनं भद्रकाली गृहे खनेत् ।
वश्याय सर्वजन्तुनां प्रयोगोऽयमुदाहृतः
॥ १२ ॥


Tryambaka und Sañjīvanī

P3-0234 · 13
अथ त्र्यम्बकमन्त्रः
त्र्यम्बकं यजामहे सुगन्धिं पुष्टि वर्द्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात्
॥ १३ ॥

P3-0235 · 14
वसिष्ठोऽस्य मुनिः प्रोक्तश्छन्दोऽनुष्टुवुदाहतम् ।
देवतास्य समुद्दिष्टा त्र्यम्बकः पार्वतीपतिः ।
विभक्तैर्मन्त्रवर्णैश्च षडङ्गानाञ्च कल्पनम्
॥ १४ ॥

P3-0236 · 15
तत्र प्रयोगः :
भूतशुद्ध्यादिपीठन्यासान्तं कर्म समाप्य ऋष्यादिन्यासं
कुर्यात् ।
यथा :
शिरसि वसिष्ठ-ऋषये नमः, मुखे अनुष्टुप्छन्दसे नमः, हृदि
त्र्य्म्बकाय देवतायै नमः ।
अमुकस्यामुकशान्तये विनियोगः
॥ १५ ॥

P3-0237 · 16
ततः कराङ्गन्यासौ ।
यथा :
त्र्यम्बकं अंगुष्ठाभ्यां नमः, यजामहे तर्जनीभ्यां
स्वाहा, सुगन्धिं पुष्टिवर्द्धनं मध्यमाभ्यां वषट्,
उर्वारुकमिव बन्धनात् अनामिकाभ्यां हुं, मृत्योर्मुक्षीय
कनिष्ठाभ्यां वौषट्, मामृतात् करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु ।
यथा :
त्रिभिस्तु वर्णैर्हृदयं शिरश्चतुर्भिरीरितम् ।
अष्टाभिश्च शिखा प्रोक्ता नवार्णैः कवचं तथा ।
तथाक्षि पञ्चाक्षरैस्त्र्यक्षरं करतले स्मृतम् ।
ततः पूर्वपाश्चात्ययाम्योत्तरवक्त्रेषु तदनन्तरम् ।
उरोगलास्येषु पुनर्नाभिहृत्पृष्ठकुक्षिषु ।
लिङ्गपायूरुमूलान्तर्जानुजङ्घायुगेषु तत्परम् ।
तद्वृत्तयुग्मे स्तनयोः पार्श्वयोः पादयोः पुनः ।
पाण्योर्नासिकयोः शीर्षे मन्त्रवर्णान्न्यसेत्क्रमात्
॥ १६ ॥

P3-0238 · 17
ततः पदान्येकादश न्यसेत् ।
शिरोभ्रूयुगलाक्षिषु वक्त्रे गण्डद्वये भूयो हृदये जठरे पुनः ।
गुह्योरुजानुपदेषु न्यासमेवं समाचरेत्
॥ १७ ॥

P3-0239 · 18
ततो ध्यानम् :
हस्ताभ्यां कलसद्वयामृतरसैराप्लावयन्तं शिरो द्वाभ्यां
तौ दधतं मृगाक्षवलये द्वाभ्यां वहन्तं परम् ।
अङ्गन्यस्तकरद्वयामृतघटं कैलासकान्तं शिवं,
स्वच्छाम्भोजगतं नवेन्दुमुकुट देवं त्रिनेत्रं भजे ।
एवं ध्यात्वा मानसैः सम्पूज्य अर्घ्यस्थापनं कुर्यात्
॥ १८ ॥

P3-0240 · 19
ततः शैवोक्तपीठपूजां विधाय, पुनर्ध्यात्वा, आवाहनादि
पञ्चपुष्पाञ्जलिदान पर्यन्तं विधाय, आवरणपूजामारभेत् ।
अग्न्यादिकोणे केशरेषु मध्ये दिक्षु च त्र्यम्बकं हृदयाय नमः
इत्यादिना षडङ्गैः पूजयेत् ।
ततोऽष्टपत्रेषु ॐ अर्काय नमः, एवं इन्दवे वसुधायैः जलाय
वह्नये वायवे वियते यजमानाय
॥ १९ ॥

P3-0241 · 20
तद्बाह्ये पूर्वादि :
रमा राका प्रभा ज्योत्स्ना पूर्णा पूषा पूरणी सुधा ।
वाक्यन्तु :
रमायै नमः इत्यादि ।
तद्बाह्ये :
विश्वा विद्या सिता प्रज्ञा सारा सन्ध्या शिवा निशा ।
तद्बाह्ये :
आर्द्रा प्रज्ञा प्रभा मेधा कान्तिः शान्तिर्धृतिर्मतिः ।
तद्बाह्ये :
परा उमा पावनी पद्मा शान्ता अमोघा जया अमला एताः पूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ १९-क ॥
अस्य पुरश्चरणं लक्षजपः ॥
तथा च शारदायाम् :
जपेन्मन्त्रमिमं लक्षमेवं ध्यायञ्जितेन्द्रियः ।
जुहुयाद्दशभिर्द्रव्यैरयुतं घृतसंप्लुतैः ।
बिल्वं पलाशं खदिरं वटञ्च तिलसर्षपौ ।
दौग्धं दुग्धं दधि पुनर्दूर्वास्तानि विदुर्बुधाः
॥ २० ॥

P3-0242 · 21
प्रयोगस्तु :
शनैश्चरदिने अन्यदिवसे वा अश्वत्थमूलं स्पृष्ट्वा सहस्रं जपेत्
।
तथा च :
शनिवारे दिनेऽश्वत्मूलं संस्पृश्य यो जपेत् ।
साक्षान्मृत्योर्विमुच्येत किमन्याः क्षुद्रिकाः क्रियाः
॥ २१ ॥

P3-0243 · 22
तथा :
स्नात्वा सहस्रं प्रजपेदादित्याभिमुखो मनुम् ।
आधिव्याधिविनिर्मुक्तो दीर्घमायुरवाप्नुयात्
॥ २२ ॥

P3-0244 · 23
प्रत्यहं जुहुयान्मन्त्री दूर्वयाष्टोत्तरं शतम् ।
आमयानखिलाञ्जित्वा दीर्घमायुरवाप्नुयात्
॥ २३ ॥

P3-0245 · 24
वटवृक्षस्य समिधो जुहुयादयुतावधि ।
धनधान्यसमृद्धिः स्यादचिरेणैव सिध्यति
॥ २४ ॥

P3-0246 · 25
अथ अमृतसञ्जीवनी :
आदौ प्रासादबीजं तदनु मृतिहरं तारकं व्याहृतिश्च,
प्रोच्चार्य त्र्यम्बकं यो जपति च सततं सम्पुटं चानुलोमात् ।
मृतिहरं त्र्यक्षरमृत्युञ्जयमन्त्रम् ।
ॐ जूं सः ।
अस्य जपात्सर्वसिद्धिर्भवति
॥ २५ ॥

P3-0247 · 26
अथ शुक्रोपासिता मृतसञ्जीवनी विद्या गायत्र्याः प्रथमः
पादस्त्र्यम्बकपादैकं तथा ।
गायत्र्याः द्वितीयः पादः त्र्यम्बकस्य द्वितीयः पादः ।
गायत्र्याः तृतीयः पादः त्र्यम्बकशेषपादः ।
मन्त्रो यथा :
ॐ तत्सवितुर्वरेण्यं त्र्यम्बकं यजामहे सुगन्धिं
पुष्टिवर्द्धणं भर्गो देवस्य धीमहि उर्वारुकमिवबन्धनात्
धियो यो नः प्रचोदयात् मृत्योर्मुक्षीयमामृतात्
॥ २६ ॥

P3-0248 · 27
ध्यानम् :
स्वच्छं स्वच्छारविन्दस्थितमुभयकरे संस्थितौ पूर्णकुम्भौ
द्वाभ्यामेणाक्षमाले निजकरकमले द्वौ घटौ नित्यपूर्णौ ।
द्वाभ्यां तौ च स्रवन्तौ शिरसि शशिकलां चामृतैः प्लावयन्तं,
देहं देवो दधानः प्रदिशतु विशदाकल्पजालः श्रियं वः ।
एवं ध्यात्वावाह्य त्र्यम्बकाय महारुद्राय नमः इत्यनेन
पूजयेत् ।
अस्य जपात् सवसिद्धिभवति
॥ २७ ॥

P3-0249 · 28
आथाकर्षणम् :
आकर्षणविधानानि कथयामि समासतः ।
यद्दृष्टं त्रिपुरातन्त्रे यद्दृष्टं भूतडामरे
॥ २८ ॥

P3-0250 · 29
श्रीबीजं मान्मथं बीजं लज्जाबीजं समुद्धरेत् ।
प्रथमं प्रणवं दत्त्वा त्रिपुरादेविपदं ततः ।
अमुकीमिति पदद्वन्द्वं आकर्षय द्विधा पदम् ।
स्वाहान्तं मन्त्र मुद्धृत्य जपेद् दशसहस्रकम्
॥ २९ ॥

P3-0251 · 30
षट्कोणञ्च समालिख्य रक्तचन्दनकुंकुमैः ।
षडङ्गं कारयेन्मन्त्री लज्जाबीजसमन्वितम् ।
षड्दीर्घभावस्वरेणैव नादविन्दुविभूषितम् ।
रक्तपुष्पाक्षतधूपादिनैवेद्यैः परिपूज्यताम् ।
भावयञ्चेतसा देवीं त्रिनेत्रां चन्द्रशेखराम् ।
बालार्ककिरणप्रख्यां सिन्दूरारुणविग्रहाम् ।
पद्मञ्च दक्षिणे पाणौ जपमालाञ्च वामके ।
मन्त्रस्यास्य प्रसादेन रम्भामपि तथोर्वशीम् ।
आकर्षयेन्न सन्देहः किं पुनर्मानुषीमिह
॥ ३० ॥

P3-0252 · 31
भूर्ज्जपत्रे समालिख्य कुंकुमालक्तवारिणा ।
काश्मीरागुरुकस्तूरीरोचनामिलितेन तु ।
अनामारक्तमिश्रेण कमलाक्षीमनुं जपेत् ।
ॐ श्रीं कमलाक्षि अमुकीमाकर्षयाकर्षय ॐ फट् ।
इमं मन्त्रं जपेदादौ सहस्रैकं ततः पुनः ।
भूर्जपत्रे समादाय गुलिकां कारयेत् सुधीः ।
तेनैव साध्यपादोत्थं मृत्तिकापङ्कवेष्टाम् ।
शोषितां तेजसा भानोर्वेष्टयेत् त्रिकटुकैः पुनः ।
प्रतिमां स्त्रीनिभां कृत्वा तस्याः क्षिपेत् तयोदरे ।
गुलिकां पातयेत्पात्रे प्रतिमां साध्यरूपिणीम् ।
तादृशाभिमुखो भूत्वा निर्जने निशि साधकः ।
यावद्गच्छति चित्तञ्च तावद्रूपं जपेन्मनुम् ।
यावदायाति सन्त्रस्ता मदनालसविग्रहा
॥ ३१ ॥


Besondere historische Anwendungen

P3-0253 · 32
अथ वशीकरणम्
तत्र चामुण्डामन्त्रः :
तारं चामुण्डे जय चामुण्डे मोहय वशमानयामुकं स्वाहा
॥ ३२ ॥

P3-0254 · 33
ध्यानम् :
दंष्ट्राकोटिविशङ्कटा सुवदना सान्द्रान्धकारे स्थिता,
खट्टाङ्गाशनिगूढदक्षिणकरा वामेन पाशं शिरः ।
श्यामा पिङ्गलमूर्द्धजा भयकरी शार्दूलचर्मावृता,
चामुण्डा शववाहिनी जपविधौ ध्येया सदा साधकैः
॥ ३३ ॥

P3-0255 · 34
लक्षं जप्त्वा दशांशं किंशुककुसुमैर्वह्निमध्ये च देवी ।
चामुण्डा साधकानां भवति च फलदा नाममात्रेण शीघ्रम्
॥ ३४ ॥

P3-0256 · 35
अथ विद्वेषणम्
अन्योन्यसमसंरम्भात्-रोषितो समरे युतौ ।
तदीयनखरोड्डीन धूलिमादाय साधकः ।
धूलिना तेन विद्वेषस्ताडनादभिजायते ।
परस्परं रिपोर्वैरं मिश्रेण सह निश्चितम् ।
महिषाश्वपुरीषाभ्यां गोमूत्रेण समालिखेत् ।
ययोर्नाम तयोः शीघ्रं विद्वेषञ्च परस्परम्
॥ ३५ ॥

P3-0257 · 36
रक्तेन महिषाश्वेन श्मशानवस्त्रके लिखेत् ।
यस्य नाम भवेत् तस्य विद्वेषञ्च परस्परम्
॥ ३६ ॥

P3-0258 · 37
षट्कोणचक्रमध्ये तु रिपोर्नामसमन्वितम् ।
मन्त्रन्तु संप्रवक्ष्यामि महाभैरवसंज्ञकम्
॥ ३७ ॥

P3-0259 · 38
ॐ नमो महाभैरवाय श्मशानवासिने अमुकामुकयोर्विद्वेषं
कुरु कुरु हूं फट् ।
एतन्मन्त्रं लिखेत्तत्र विद्वेषो जायते ध्रुवम्
॥ ३८ ॥

P3-0260 · 39
अन्ययोगमहं वक्ष्ये दुर्लभं वसुधातले ।
ज्ञानमात्रेण शत्रूणां विद्वेषो जायते ध्रुवम्
॥ ३९ ॥

P3-0261 · 40
ॐ नमो भगवति श्मशानकालिके अमुकं विद्वेषय विद्वेषय हन
हन पच पच मथ मथ हूं फट् स्वाहा ।
अमुना मन्त्रराजेन होमयेत् प्रयतः सुधीः ।
वह्निकुण्डे निम्बपत्रेण कटुतैलान्वितेन च ।
प्रज्वाल्य खादिरं वह्निं श्मशानजं ततः पुनः ।
दशसाहस्रसंयुक्तं तिलयवाक्षतान्वितम् ।
भावयन् कालिकां देवीं इन्द्रनीलसमप्रभाम् ।
व्योमनीलां महाचण्डां सुरासुरविमर्द्दिनीम् ।
त्रिलोचनां महारावां सर्वाभरणभूषिताम् ।
कपालकर्त्तृकाहस्ता चन्द्रसूर्योपरि स्थिताम् ।
शरजालगतां चैव प्रेतभैरववेष्टितम् ।
वसन्तीं पितृकान्तारे सर्वसिद्धिप्रदायिनीम् ।
होमयेद्विविधैः पुष्पैर्वलिच्छागोपहारकैः ।
पूजयित्वा महेशानीं भक्तियुक्तेन चेतसा ।
तद्भस्म च समादाय धारयेदभिमन्त्रितम् ।
भस्मना तेन यं हन्याद्विद्वेषस्तद्भवेन्नृणाम्
॥ ४० ॥

P3-0262 · 41
वह्निः शीतलतां याति पतेद्भूमौ यदा रविः ।
यदा शुष्यति पाथोधिश्चन्द्रमाः पतते यदि ।
यदा मिथ्या भवेद्देवि योगराजः सुदुर्लभः
॥ ४१ ॥

P3-0263 · 42
षट्कोणं चक्रराजन्तु शत्रूणां नामटङ्किटतम् ।
पूर्वद्रव्येण विद्वेषं कारयेदथ साधकः
॥ ४२ ॥

P3-0264 · 43
ॐ द्रां विद्वेषिणि अमुकामुकयोः परस्परं विद्वेषं कुरु कुरु
स्वाहा ।
यन्त्रवाह्ये लिखेन्मन्त्रमिमं पूर्वोक्तवस्तुभिः ।
परस्परं भवेद्द्वेषी योगोऽयं कुब्जिकामते
॥ ४३ ॥

P3-0265 · 44
अथा उच्चाटनम् :
उच्चाटनविधिं वक्ष्ये यथोक्तं श्रीमतोत्तरे ।
निम्बपत्रे लिखेन्नाम महिषाश्वरपुरीषकैः ।
ॐ नमः काकतुण्डि धवलामुखि अमुकमुच्चाटय हूं फट् ।
एतन्मन्त्रं समभ्यर्च्य लिखित्वा पूर्ववस्तुभिः ।
निम्बवृक्षस्थितं सर्वं काकालयं हुनेदथ ।
श्मशानवह्निमानीय धुस्तुरकाष्ठदीपितम् ।
वह्निं हुत्वा महातैलैरथवा कटुवस्तुभिः ।
पूर्वोक्तमनुना तस्य पत्रं राजिकटुप्लुतम् ।
सम्पूज्य धवलामुखीं पञ्चोपचारपूजया ।
तद्भस्म प्रक्षिपेच्छत्रोर्मन्दिरोपरि मन्त्रवित् ।
ध्यानयुक्तेन मनसा शत्रोरुच्चाटनं भवेत्
॥ ४४ ॥

P3-0266 · 45
धूम्रवर्णां महादेवीं त्रिनेत्रां शशिशेखराम् ।
जटाजूटसमायुक्तां व्याघ्रचर्मपरिच्छदाम् ।
कृशाङ्गीमस्थिमालाढ्यकर्त्तृकाढ्यकराम्बुजाम् ।
कोटराक्षीं सुदंष्ट्राञ्च पातालसन्निभोदराम् ।
एवं विधं धिया भाव्यं कार्यमुच्चाटनं रिपोः
॥ ४५ ॥

P3-0267 · 46
एष योगविधिं प्रोक्तो वीरतन्त्रे महेश्वरि ।
गोपनीयं प्रयत्नेन न प्रकाश्यं कदाचन
॥ ४६ ॥

P3-0268 · 47
तथा :
सौरारयोर्दिने ग्राह्यं नरास्थिचतुरंगुलम् ।
निशारमेन संलिख्य प्रधानभवने क्षिपेत् ।
सप्ताहाभ्यन्तरे शत्रोरुच्चाटनकरं भवेत् ।
मन्त्रस्तु :
हूं अमुकस्य उच्चाटनं कुरु कुरु स्वाहा ।
हूं अमुकं हन हन स्वाहा
॥ ४७ ॥

P3-0269 · 48
रिपुमल-रोधनम् :
रिपोर्मलं वृश्चिकञ्च खनित्वा भुवि निक्षिपेत् ।
म्रियते मलरोधेन उद्धृते च सुखावहम् ।
मन्त्रस्तु-ॐ स्तम्भिनि अमुकस्य मलं स्तम्भय स्तम्भय हूं फट्
॥ ४८ ॥

P3-0270 · 49
अथ अभिचारः :
ॐ विरुद्धे रूपिणि चण्डिके वैरिणममुकं देहि देहि स्वाहा ।
इति खड्गमभिमन्त्र्य खड्गमन्त्रांश्च पठित्वा खड्गं
सम्पूज्य छागादिकममुकोऽसि इति वैरिनाम्नाभिमन्त्र्य,
रक्तसूत्रेण त्रिधा मुखं वद्धा, वैरिनाम्ना प्राणप्रतिष्ठां
कृत्वा, ॐ अयं स वैरी यो द्वेष्टि तमिमं पशुरूपिणम् ।
विनाशय महादेवि स्फें स्फें खादय खादय इति पठित्वा,
वलिशिरसि पुष्पं दत्त्वा, बलिमन्त्रं पठित्वा बलिं सम्पूज्य,
अद्याश्विने मासि महानवम्यां अमुकगोत्रः श्री-अमुकदेवशर्मा
अमुकशत्रुं नाशय इमं छागं महिषं वा अमुकदैवतं
भगवत्यै दुर्गायै तुभ्यमहं सम्प्रददे ।
इत्युत्सृज्य आं हूं फट् इति छित्वा, भूलं पठित्वा, एतद्रुधिरं
दुर्गायै नमः इति रक्तं शिरश्च दत्त्वा, अष्टाङ्गमांसैर्होमं
मूलमन्त्रेण कुर्यादिति
॥ ४९ ॥

P3-0271 · 50
अथ सुखप्रसवमन्त्रः :
ॐ मन्मथ मन्मथ वाहि वाहि लम्बोदर मुञ्च मुञ्च स्वाहा ।
ॐ मुक्ताः पाशा विपाशाश्च मुक्ता सूर्येण रश्मयः ।
मुक्तः सर्वभयाद्गर्भ एह्येहि मारीच स्वाहा ।
एतदन्यतरेणाष्टवारं जलमभिमन्त्र्य पेयम् ।
ततः सुखप्रसवोभवति
॥ ५० ॥

P3-0272 · 51
अथ अदर्शन-प्रकारः :
अर्कशाल्मलिकार्पासपट्टपङ्कज-तन्तुभिः ।
पञ्चभिर्वर्त्तिकाभिश्च नृकपालेषु पञ्चसु ।
नरतैलेन दीपाः स्युः कज्जलं नृकपालकैः ।
ग्राहयेत् पञ्चभिर्यत्नात् पूर्ववच्च शिवालये ।
पञ्चस्थानीय-जायन्तु एकीकुर्याच्च तं पुनः ।
मन्त्रयित्वाञ्जयेन्नेत्रे देवैरपि न दृश्यते
॥ ५१ ॥

P3-0273 · 52
मन्त्रस्तु :
ॐ हूं फट् कालि कालि महाकालि मांसशोणितं खादय खादय
देवि मा पश्यतु मानुषेति हूं फट् स्वाहेति
मन्त्रेणाष्टोत्तरसहस्रजप्तेन मन्त्रयेत् ।
अथ मूलमन्त्रेणाष्टोत्तरसहस्राभिमन्त्रितम् कृत्वा, तत्कज्जलं नेत्रे
दत्त्वा, त्रैलोक्यादृश्यो भवति
॥ ५२ ॥


Yoginī-Sādhana

P3-0274 · 53
अथ योगिनीसाधनम् :
भूतडामरे :
अथातः सम्प्रवक्ष्यामि योगिनीसाधनोत्तमम् ।
सर्वार्थसाधनं नाम देहिनां सर्वसिद्धिदम् ।
अतिगुह्या महाविद्या देवानामपि दुर्लभा
॥ ५३ ॥

P3-0275 · 54
यासामभ्यर्च्चनं कृत्वा यक्षेशोऽभूद्धनाधिपः ।
तासामाद्यां प्रवक्ष्यामि सुराणां सुन्दरीं प्रिये ।
अस्या अभ्यर्चनेनैव राजत्वं लभते नरः
॥ ५४ ॥

P3-0276 · 55
अथ प्रातः समुत्थाय कृत्वा स्नानादिकं शुभम् ।
प्रासादञ्च समासाद्य कुर्यादाचमनं ततः ।
प्रणवान्ते सहस्रार हूं फट् दिग्बन्धनञ्चरेत् ।
प्राणायामं ततः कुर्यान्मूलमन्त्रेण मन्त्रवित् ।
षडङ्गं मायया कुर्यात् पद्ममष्टदलं लिखेत् ।
तस्मिन् पद्मे महामन्त्रं जीवन्यासं समाचयेत् ।
पीठदेवीः समावाह्य ध्यायेद् देवीं जगत् प्रियाम् ।
पूर्णचन्द्रनिभां गौरीं विचित्राम्बरधारिणीम् ।
पीनोत्तुङ्गकुचां वामां सर्वेषामभयप्रदाम् ।
इति ध्यात्वा च मूलेन दद्यात् पाद्यादिकं शुभम् ।
पुनर्धूपं निवेद्यैव नैवेद्यं मूलमन्त्रतः ।
गन्धचन्दनताम्बूलं सकर्पूरं सुशोभनम् ।
प्रणवान्ते भुवनेशीमागच्छ सुरसुन्दरि ।
वह्नेर्भार्या जपेन्मन्त्रं त्रिसन्ध्यञ्च दिने दिने ।
सहस्रैकप्रमाणेन ध्यात्वा देवीं सदा बुधः ।
मासान्ते दिवसं व्याप्य बलिपूजां सुशोभनाम् ।
कृत्वा च प्रजपेन्मन्त्रं निशीथे याति सुन्दरी
॥ ५५ ॥

P3-0277 · 56
सुदृढं साधकं मत्वा याति सा साधकालये ।
सुप्रसन्ना साधकाग्रे सदा स्मेरमुखी ततः ।
दृष्ट्वा देवीं साधकेन्द्रो दद्यात् पाद्यादिकं शुभम् ।
सुचन्दनं सुमनसो दत्त्वाभिलषितं वदेत्
॥ ५६ ॥

P3-0278 · 57
मातरं भगिनीं वापि भार्यां वा भक्तिभावतः ।
यदि माता तदा वित्तं द्रव्यञ्च सुमनोहरम् ।
भूपतित्वं प्रार्थितं यत् तद् ददाति दिने दिने
॥ ५७ ॥

P3-0279 · 58
पुत्रवत् पालितं लोके सत्यं सत्यं सुनिश्चितम् ।
स्वसा ददाति द्रव्यञ्च दिव्यवस्त्रं तथैव च ।
दिव्यकन्यां समानीय नागकन्यां दिने दिने ।
यद्यत्प्रार्थयते सर्वं सा ददाति दिने दिने ।
भातृवत् पालितं लोके कामनाभिर्मनोगतैः
॥ ५८ ॥

P3-0280 · 59
भार्या स्याद्यदि सा देवी साधकस्य मनोहरा ।
राजेन्द्रः सर्वराजानां संसारे साधकोत्तमः ।
यद्यद्भवति भूतञ्च भविष्यतीति यत्पुनः ।
तत्सर्वं साधकेन्द्राय निवेदयति निश्चितम्
॥ ५९ ॥

P3-0281 · 60
स्वर्गे मर्त्त्ये च पाताले गतिः सर्वत्र निश्चितम् ।
यद्यद् ददाति सा देवी कथितुं नैव शक्यते ।
तथा सार्द्धञ्च सम्भोगं करोति साधकोत्तमः ।
अन्यस्त्रीगमनं त्यक्त्वा अन्यथा नश्यति ध्रुवम्
॥ ६० ॥

P3-0282 · 61
ततोऽन्यत् साधनं वक्ष्ये निर्मितं ब्रह्मणा पुरा ।
नदीतीरं समासाद्य कुर्यात् स्नानादिकं ततः ।
पूर्ववत् सकलकार्यं चन्दनैर्मण्डलं लिखेत्
॥ ६१ ॥

P3-0283 · 62
स्वमन्त्रं तत्र संलिख्यावाह्य ध्यायेन्मनोहराम् ।
कुरङ्गनेत्रां शरविन्दुवक्त्रां विम्बाधरां
चन्दनगन्धलिप्ताम् ।
चीनांशुकां पीनकुचां मनोज्ञां श्यामां सदा
कामदुघां विचित्राम् ।
एवं ध्यात्वा जपेद् देवीमगुरुधूपदीपकैः ।
गन्धं पुष्परसञ्चैव ताम्बूलादींश्च मूलतः
॥ ६२ ॥

P3-0284 · 63
तारं माया गच्छ मनोहरे पावकवल्लभा ।
कृत्वायुतं प्रतिदिनं जपेन्मन्त्रं प्रसन्नधीः ।
मासान्ते व्याप्य दिवसं कुर्याच्च जपमुत्तमम् ।
आनिशीथं जपेन्मन्त्रं ज्ञात्वा च साधकं दृधम् ।
गत्वा च साधकाभ्यासे सुप्रसन्ना मनोहरा ।
वरं वरय शीघ्रं र्त्व यत्ते मनसि वर्त्तते
॥ ६३ ॥

P3-0285 · 64
साधकेन्द्रोऽपि तां ध्यात्वा पाद्याद्यैर्रर्चयेन्मुदा ।
प्राणायामं षडङ्गञ्च मायया च समाचरेत्
॥ ६४ ॥

P3-0286 · 65
सद्योमांसं बलिं दत्त्वा पूजयेच्च समाहितः ।
चन्दनोदकपुष्पेण फलेन च मनोहराम् ।
ततोऽर्चिता प्रसन्ना स पुष्णाति प्रार्थितञ्च यत्
॥ ६५ ॥

P3-0287 · 66
स्वर्णशतं साधकाय ददाति सा दिने दिने ।
स चाशेषं व्ययं कुर्यात् स्थिते तत्तुन दास्यति
॥ ६६ ॥

P3-0288 · 67
अन्यस्त्रीगमनन्तस्य न भवेत् सत्यमीरितम् ।
अव्याहतगतिस्तस्य भवतीति न संशयः
॥ ६७ ॥

P3-0289 · 68
इयं ते कथिता विद्या सुगोप्या या सुरासुरैः ।
तव स्नेहेन भक्त्या च वद्धोऽहं परमेश्वरि
॥ ६८ ॥

P3-0290 · 69
ततोऽन्यात् साधनं वक्ष्ये शृणुष्वैकमनाः प्रिये ।
गत्वा वटतलं देवीं पूजयेत् साधकोत्तमः ।
प्राणायामं षडङ्गञ्च माययाथ समाचरेत्
॥ ६९ ॥

P3-0291 · 70
सद्योमांसं बलिं दत्त्वा पूजयेत् तां समाहितः ।
अर्घ्यमुच्छिष्टरक्तेन दद्यात् तस्यै दिने दिने
॥ ७० ॥

P3-0292 · 71
प्रचण्डवदनां देवीं पक्वविम्बाधरं प्रिये ।
रक्ताम्बरधरां वालां सर्वकामप्रदां शुभाम् ।
एवं ध्यात्वा जपेन्मन्त्रमयुतं साधकोत्तमः ।
सप्तदिनं समभ्यर्च्य चाष्टमे विधिवच्चरेत् ।
कायेन ममसा वाचा पूजयेच्च दिने दिने
॥ ७१ ॥

P3-0293 · 72
तारं माया तथा कूर्च्चं रक्ष कर्मणि तद्बहिः ।
आगच्छ कनकान्ते तु वति स्वाहा महामनुः ।
आनिशीथं जपेन्मन्त्रं बलिं दत्त्वा मनोहरम्
॥ ७२ ॥

P3-0294 · 73
साधकेन्द्रं दृधं मत्वा आयाति साधकालये ।
साधकेन्द्रोऽपि तां दृष्ट्वा दद्यादर्घ्यादिकं ततः
॥ ७३ ॥

P3-0295 · 74
ततः सपरिवारेण भार्या स्यात् कामभोजनेः ।
वस्त्रभूषादिकं त्यक्त्वा याति सा निजमन्दिरम्
॥ ७४ ॥

P3-0296 · 75
एवं भार्या भवेन्नित्यं साधकाज्ञानुरूपतः ।
आत्मभार्यां परित्यज्य भजेत् ताञ्च विचक्षणः
॥ ७५ ॥

P3-0297 · 76
कामेश्वरी :
ततः कामेश्वरीं वक्ष्ये सर्वकामफलप्रदाम् ।
प्रणवं भूवनेशानीं चागच्छ कामेश्वरि ततः ।
वह्नेर्भार्या महामन्त्रः साधकानां सुखावहः
॥ ७६ ॥

P3-0298 · 77
पूर्ववत् सकलं कृत्वा भूर्जपत्रे सुशोभने गोरोचनाभिः
प्रतिमां विनिर्माय स्वलंकृताम् ।
शय्यामारुह्य प्रजपेन्मन्त्रमेकमनास्ततः ।
सहस्रैकप्रमाणेन मासमेकं जपेद्बुधः ।
घृतेनमधुना दीपं दद्याच्च सुसमाहितः ।
कामेश्वरीं शशाङ्कास्यां खेलत्खञ्जनलोचनाम् ।
सदा लोलगतिं कान्तां कुसुमास्त्रशिलीमुखीम् ।
एवं ध्यात्वा जपेन्मन्त्रं निशीथे याति सा तदा
॥ ७७ ॥

P3-0299 · 78
दृष्ट्वा तु साधकश्रेष्ठमाज्ञां देहीति तं वदेत् ।
स्त्रीभावेन तदा तस्यै दद्यात् पाद्यादिकं ततः
॥ ७८ ॥

P3-0300 · 79
सुप्रसन्ना मुदा देवी साधकं तोषयेत् सदा ।
अन्नाद्यै रतिभोगेन पतिवत् पालयेत सदा
॥ ७९ ॥

P3-0301 · 80
नीत्वा रात्रौ सुखैश्वर्यं दत्त्वा च विपुलं धनम् ।
वस्त्रालङ्कारद्रव्यादीन्प्रभाते याति निश्चितम् ।
एवं प्रतिदिनम् तस्य सिद्धिः स्यात् कामरूपतः
॥ ८० ॥

P3-0302 · 81
रतिसुन्दरी :
ततः पटे विनिर्माय पुत्तलीं ध्यानरूपः सुवर्णवर्णां
गौराङ्गीं सर्वालङ्कारभूषिताम् ।
नूपुराङ्गदहाराढ्यां रम्याञ्च पुष्करेक्षणाम् ।
एवं ध्यात्वा जपेन्मन्त्रं दत्त्वा च पाद्यमुत्तमम् ।
सचन्दनेन पुष्पेण जातीपुष्पेण साधकः ।
गुग्गुलु-धूपदीपौ च दद्यान्मूलेन साधकः ।
मन्त्रन्तु :
तारं माया तथा गच्छ रतिसुन्दरी पदं ततः ।
वह्निजायाष्टसहस्त्र्यं जपेन्मन्त्रं दिने-दिने
॥ ८१ ॥

P3-0303 · 82
मासान्ते दिवसं व्याप्य कुर्यात् पूजादिक शुभम् ।
घृतदीपं तथा गन्धं पुष्पताम्बूलमेव च ।
तावन्मन्त्रं जपेद्विद्वान् यावदायाति सुन्दरी ।
ज्ञात्वा दृढं साधकेन्द्रं निशीथे याति निश्चितम्
॥ ८२ ॥

P3-0304 · 83
ततस्तामर्चयेद् भक्त्या जातीकुसुममालया ।
सुसन्तुष्टा साधकेन्द्रं तोषयेद् रतिभोजनैः
॥ ८३ ॥

P3-0305 · 84
भूत्वा भार्या च सा तस्मै ददाति वाञ्छितं वरम् ।
भूषादिकम् परित्यज्य प्रभाते याति सा ध्रुवम् ।
साधकाज्ञानुरूपेण प्रयाति सा दिने दिने ।
निर्जने प्रान्तरे देवि सिद्धिः स्यान्नात्र संशयः ।
त्यक्त्वा भार्यां भजेताञ्च अन्यथा नश्यति ध्रुवम्
॥ ८४ ॥

P3-0306 · 85
पद्मिनी :
ततोऽन्यत् साधनं वक्ष्ये स्वगृहे शिवसन्निधौ ।
वेदाद्यं भुवनेशीञ्चागच्छ पद्मिनी वल्लभा ।
पावकस्य महामन्त्रं पूर्ववत्सकलं ततः ।
मण्डलं चन्दनैः कृत्वा मूलमन्त्रं लिखेत् ततः ।
पद्मासनां श्यामवर्णां पीनोत्तुङ्गपयोधराम् ।
कोमलाङ्गीं स्मेरमुखीं रक्तोत्पलदलेक्षणाम् ।
एवं ध्यात्वा जपेन्मन्त्रं सहस्रञ्च दिने दिने ।
मासान्ते पूर्णिमां प्राप्य विधिवत् पूजयेत् सदा ।
आनिशीथं जपेन्मन्त्रं दृढाभ्यासेन साधकः ।
सर्वत्र कुशलं ज्ञात्वा याति सा साधकालयम्
॥ ८५ ॥

P3-0307 · 86
भूत्वा भार्या साधकं हि साधयेद् विविधैरपि ।
भोज्यैर्दिव्यैर्भूषणाद्यैः पद्मिनी सा दिने दिने ।
पतिवत् पालितं लोके नित्यं स्वर्गे च सर्वदा ।
त्यक्त्वा भार्यां भजेत् ताञ्च साधकेन्द्रः सदा प्रिये
॥ ८६ ॥

P3-0308 · 87
नटिनी :
ततो वक्ष्ये महाविद्यां विश्वामित्रेण धीमता ।
ज्ञात्वा यां साधिता विद्या बला चातिबला प्रिये
॥ ८७ ॥

P3-0309 · 88
मन्त्रस्तु :
प्रणवान्ते महामाया नटिनि पावकप्रिया ।
महाविद्येति कथितां गोपनीया प्रयत्नतः
॥ ८८ ॥

P3-0310 · 89
अशोकस्य तटं गत्वा स्नानं पूर्ववदाचरेत् ।
मूलमन्त्रेण सकलं कुर्याच्च सुसमाहितः
॥ ८९ ॥

P3-0311 · 90
त्रैलोक्यमोहिनीं गौरीं विचित्राम्बरधारिणीम् ।
विचित्रालंकृतां रम्यां नर्त्तकीवेशधारिणीम् ।
एवं ध्यात्वा जपेन्मन्त्रं सहस्रञ्च दिने दिने
॥ ९० ॥

P3-0312 · 91
मांसोपहारैः सम्पूज्य धूपदीपौ निवेदयेत् ।
गन्धचन्दनताम्बूलं दद्यात् तस्यै सदा बुधः
॥ ९१ ॥

P3-0313 · 92
मासमेकन्तु तां भक्त्या पूजयेत् साधकोत्तमः ।
मासान्ते दिवसं प्राप्य कुर्याच्च पूजनं महत् ।
अर्द्धरात्रौ भयं दत्त्वा किञ्चित् साधकसत्तमे ।
सुदृढं साधकं मत्वा याति सा साधकालयम्
॥ ९२ ॥

P3-0314 · 93
विद्याभिः सकलाभिश्च किञ्चित् स्मेरमुखी ततः ।
वरं वरय शीघ्रं त्वं यत्ते मनसि वर्त्तते ।
तत्श्रुत्वा साधकश्रेष्ठो भावयेन्मनसा धिया ।
मातरं भगिनीं वापि भार्यां वा प्रीतिभावतः ।
कृत्वा सन्तोषयेद् भक्त्या नटिनी ततत्करोत्यलम्
॥ ९३ ॥

P3-0315 · 94
माता स्याद्यदि सा देवी पुत्रवत् पालितं मुदा ।
स्वर्णशतं सिद्धिद्रव्यं ददाति सा दिने दिने
॥ ९४ ॥

P3-0316 · 95
भगिनी यदि सा कन्यां देवस्य नागकन्यकाम् ।
राजकन्यां समानीय ददाति सा दिने दिने ।
अतीतानागतां वार्त्तां सर्वां जानाति साधकः
॥ ९५ ॥

P3-0317 · 96
अन्नाद्यैरुपचारैस्तु ददाति कामभोजनम् ।
स्वर्णशतं सदा तस्मै ददाति सा ध्रुवं प्रिये ।
यद्यद्वाञ्छति तत्सर्वं ददाति नात्र संशयः
॥ ९६ ॥

P3-0318 · 97
अथ मधुमती :
महाविद्यां प्रवक्ष्यामि सावधानावधारय ।
कुंकुमेन समालिख्य भूर्जपत्रे स्त्रियं मुदा ।
ततोऽष्टदलमालिख्य कुर्यान्न्यासादिकं प्रिये ।
जीवन्यासादिकं कृत्वा ध्यायेत् तत्र प्रसन्नधीः
॥ ९७ ॥

P3-0319 · 98
शुद्धस्फटिकसङ्काशां नानालङ्कारभूषिताम् ।
मञ्जीरहारकेयूररत्नकुण्डलमण्डिताम् ।
एवं ध्यात्वा जपेन्मन्त्रं सहस्रन्तु दिने दिने
॥ ९८ ॥

P3-0320 · 99
प्रतिपद्दिनमारभ्य पूजयेत् कुसुमादिभिः ।
धूपदीपविधानैश्च त्रिसन्ध्यं पूजयेन्मुदा
॥ ९९ ॥

P3-0321 · 100
पूर्णिमां प्राप्य गन्धाद्यैः पूजयेत् साधकोत्तमः ।
घृतदीपं तथा धूपं नैवेद्यञ्च मनोरमम् ।
रात्रौ च दिवसे जाप्यं कुर्याच्च सुसमाहितः ।
प्रभातसमये याति साधकस्यान्तिकं ध्रुवम्
॥ १०० ॥

P3-0322 · 1
प्रसन्नवदना भूत्वा तोषयेद्रति भोजनैः ।
देवदानवगन्धर्वविद्याधृग्यक्षरक्षसाम् ।
कन्याभीरत्नभूषाभिः साधकेन्द्रं मुहुर्मुहुः ।
चर्व्यं चोष्यादिकं द्रव्यं दिव्यं ददाति सा ध्रुवम्
॥ १ ॥

P3-0323 · 2
स्वर्गे मर्त्त्ये च पाताले यद्वस्तु विद्यते प्रिये ।
आनीय दीयते सत्यं साधकाशानुरूपतः
॥ २ ॥

P3-0324 · 3
स्वर्णशतं सदा तस्मै ददाति सा दिने दिने ।
साधकाय वरं दत्वा याति सा निजमन्दिरम्
॥ ३ ॥

P3-0325 · 4
तस्या वरप्रसादेन चिरजीवी निरामयः ।
सर्वज्ञः सुन्दरः श्रीमान् सर्वगो भवति ध्रुवम् ।
रेमे सार्द्धं तया देवी साधकेन्द्रो दिने दिने
॥ ४ ॥

P3-0326 · 5
मन्त्रस्तु :
तारं माया तथा गच्छानुरागिणि मैथुन प्रिये ।
वह्निभार्या मनुः प्रोक्तः सर्वसिद्धिप्रदायकः
॥ ५ ॥

P3-0327 · 6
एषा मधुमती तु स्यात् सर्वसिद्धिप्रदा प्रिये ।
गुह्याद्गुह्य ह्येषा तव स्नेहात्प्रकीर्तिता
॥ ६ ॥

P3-0328 · 7
योगिनी साधनस्य कालपात्रस्थानादिनिर्णयः ।
देव्युवाच :
श्रुतञ्च साधनं पुण्यं यक्षिणीनां सुखप्रदम् ।
कस्मिन् काले प्रकर्त्तव्यं विधिना केन वा प्रभो ।
अथाधिकारिणः के वा समासेन वद प्रभो
॥ ७ ॥

P3-0329 · 8
ईश्वर उवाच :
वसन्ते साधयेद्धीमान् हविष्याशी जितेन्द्रियः ।
सदा ध्यानपरो भ्हूत्वा तद्दर्शनमहोत्सुकः
॥ ८ ॥

P3-0330 · 9
उज्जटे प्रान्तरे वापि कामरूपे विशेषतः ।
स्थानेष्वेकतमं प्राप्य साधयेत्सुसमाहितः ।
अनेन विधिना साक्षाद्भविष्यति न संशयः
॥ ९ ॥

P3-0331 · 10
देव्याश्च सेवकाः सर्वे परं चात्राधिकारिणः ।
तारकब्रह्मणो भृत्यं विनाप्यत्राधिकारिणः ।
इति योगिनी साधन प्रकरणम्
॥ १० ॥


Verehrungsgrundlagen und Yantra-Weihe

P3-0332 · 11
अथ पूजाधारनिरूपणम् :
तत्र नारदीये :
आपोग्निर्हृदयं चक्रं विष्णोः क्षेत्रसमुद्भवम् ।
यन्त्रञ्च प्रतिमास्थानमर्चने सर्वदा हरेः
॥ ११ ॥

P3-0333 · 12
गौतमीये :
शालग्रामे मणौ यन्त्रे प्रतिमामण्डलेषु वा नित्यं पूजा हरेः
कार्या न तु केवलभूतले
॥ १२ ॥

P3-0334 · 13
शालग्रामशिलास्पर्शात्कोटिजन्माघनाशनम् ।
किं पुनश्चार्चनं तत्र हरिसान्निध्यकराणम्
॥ १३ ॥

P3-0335 · 14
बहुभिर्जन्मभिः पुण्यैर्यदि कृष्णां शिलां लभेत् ।
गोष्पदेनैव चिह्नेन तेन जन्म समाप्यते ।
एतेन विष्णुपूजायां शिलाया अपि प्राधान्यम् ।
मण्डलादीनान्तु सर्वसाधारणत्वात्
॥ १४ ॥

P3-0336 · 15
योगिनीतन्त्रे :
लिङ्गस्यथां पूजयेद् देवीं पुस्तकस्थां तथैव च ।
मण्डलस्थां महामायां यन्त्रस्थां प्रतिमासु च । जलस्थां
वा शिलास्थां वा पूजयेत् परमेश्वरीम्
॥ १५ ॥

P3-0337 · 16
कौलावलीये :
यत्रापराजितापुष्पं जवापुष्पञ्च विद्यते ।
करवीरे शुक्लरक्ते द्रोणं वा यत्र तिष्ठति ।
तत्र देवी वसेन्नित्यं तद्यन्त्रे चण्डिकार्चनं ।
एतत् सर्वं यन्त्राभावे
॥ १६ ॥

P3-0338 · 17
तथा च :
यन्त्रं मन्त्रमयं प्रोक्तं मन्त्रं वा देवतेति च ।
देहात्मनो यथा भेदो यन्त्र देवतयोस्तथा ।
तथादौ विलिखेद् यन्त्रं देवतायाश्च विग्रहम्
॥ १७ ॥

P3-0339 · 18
कामक्रोधादि दोषोत्थं सर्वदुःखनियन्त्रणात् ।
यन्त्रमित्याहुरेतस्मिन् देवः प्रीणाति पूजितः
॥ १८ ॥

P3-0340 · 19
विना यन्त्रेण देवता न प्रसीदति ।
दुःखनियन्त्रणाद्ययन्त्रमित्याहुस्तन्त्रवेदिनः ।
इति यन्त्रस्य पूजयां प्राधान्यमिति
॥ १९ ॥

P3-0341 · 20
अथ यन्त्रसंस्कारः :
वामकेश्वरतन्त्रे :
भैरव्युवाच ।
चक्रभेदं महादेव त्वत्प्रसादान्मयाश्रुतम् ।
इदानीं श्रोतुमिच्छामि प्रतिष्ठाकर्मनिर्णयम्
॥ २० ॥

P3-0342 · 21
श्रीशङ्कर उवाच ।
शृणु देवि महाभागे जगत्कारिणी कौलिनि ।
तस्योद्यापनकर्माङ्गं सर्ववर्णविनिर्णयम्
॥ २१ ॥

P3-0343 · 22
स्नात्वा संकल्पयेन्मन्त्री गुरोरर्चनमाचरेत् ।
पञ्चगव्यं ततः कृत्वा शिवमन्त्रेण मन्त्रितं ।
तत्र चक्रं क्षिपेन्मन्त्री प्रणवेन समाकुलम् ।
तदुद्धृत्य ततश्चक्रं स्थापयेत् स्वर्णपात्रके ।
पञ्चामृतेन दुग्धेन शीतलेन जलेन च ।
चन्दनेन सुगन्धेन कस्तूरीकुंकुमेन च ।
पयोदधिघृतक्षौद्रशर्कराद्यैरनुक्रमात् ।
तोयधूपान्तरैः कुर्यात् पञ्चामृत विधिं बुधः
॥ २२ ॥

P3-0344 · 23
हाटकैः कलसैर्देवीमष्टाभिर्वारिपूरितैः ।
कषायजलसम्पूऋनैः कारयेत् स्नानमुत्तमम्
॥ २३ ॥

P3-0345 · 24
स्नानं समाप्य तां देवीं स्थापयेत् स्वर्णपीठके ।
यन्त्रराजाय विद्महे महायन्त्राय धीमहि तन्नो यन्त्रः प्रचोदयात्
।
स्पृष्ट्वा यन्त्रं कुशाग्रेण गायत्र्या चाभिमन्त्रयेत् ।
अष्टोत्तरशतं देवि देवताभावसिद्धये
॥ २४ ॥

P3-0346 · 25
आत्मशुद्धिं ततः कृत्वा षडङ्गैर्देवतां यजेत् ।
तत्रावाह्य यजेद् देवीं जीवन्यासं समाचरेत् ।
उपचारैः षोडशभिर्महामुद्रादिभिः सदा ।
फलताम्बूलनैवेद्यैर्देवीं तत्र समर्चयेत्
॥ २५ ॥

P3-0347 · 26
पट्टसूत्रादिकं दद्याद्वस्त्रालङ्कारमेव च ।
मुद्गरं चामरं घण्टां यथा योग्यं महेश्वरि ।
सर्वमेतत् प्रयत्नेन दद्यादात्महिते रतः
॥ २६ ॥

P3-0348 · 27
ततो जपेत् सहस्रन्तु सकलेप्सितसिद्धये ।
बलिदानं ततः कृत्वा प्रणमेद्यन्त्रराजकम्
॥ २७ ॥

P3-0349 · 28
अष्टोत्तरशतं हुत्वा सम्पाताज्यं विनिक्षिपेत् ।
होमकर्मण्य शक्तश्चेद् द्विगुणं जपमाचरेत्
॥ २८ ॥

P3-0350 · 29
धेनुमेकां समानीय स्वर्णशृङ्गाद्यलंकृताम् ।
गुरवे दक्षिणां दद्यात् ततो देव्या विसर्जनम्
॥ २९ ॥

P3-0351 · 30
तन्त्रप्रदीपे :
फले भित्तौ तथा पट्टे स्थापयेद् यन्त्रमीश्वरि ।
धनधान्य-पुत्र-पौत्र-यश-आयूंषि मुञ्चति
॥ ३० ॥

P3-0352 · 31
अन्यत्रापि :
न भित्तौ स्थापेयेद् यन्त्रं न पटे फलके तथा ।
यस्य वै ममता देवि पुत्र-पौत्रगृहादिषु
॥ ३१ ॥

P3-0353 · 32
अथ यन्त्रसंस्कार प्रयोगः :
कृतनित्यक्रियः स्वास्तिवाचनपूर्वकं सङ्कल्पं कुर्यात् :
अद्येत्यादि अमुकगोत्रः श्री-अमुकदेवशर्मा अमुकदेवतायाः
प्रीत्यर्थं यन्त्रसंस्कारमहं करिष्ये इति संकल्प्य
पञ्चगव्यमानीय हौमिति मन्त्रेणाष्टोत्तरशतमभिमन्त्र्य
प्रणवेन तत्र यन्त्रं निक्षिपेत् ।
तत उत्तोल्य स्वर्णादिपात्रे स्थापयेत् ।
ततः शीतलजल-चन्दन-गन्धकस्तूरीकुंकुमैः ।
स्नापयित्वा पञ्चामृतमानीय हौमिति
मन्त्रेणाष्टोत्तरशतमभिमन्त्र्य पूर्ववत् शोधयित्वा स्नापयेत्
॥ ३२ ॥

P3-0354 · 33
तत्र क्रमः :
प्रथमं क्षीरेण स्नापयित्वा पुनर्जलेन स्नापयित्वा धूपं
दद्यात् ।
एवं दध्ना धृतेन मधुना शर्करया च ।
ततो दुग्धेन शीतलजलेन (सुगन्धेन चन्दनेन कस्तूरीकुंकुमेन च)
स्नापयेत् ।
ततो हाटकैरष्टभिः कलसैः कुंकुम-रोचना-मिश्रितैस्तोयैः
स्नापयेत् ।
सर्वत्र स्नानं मूलमत्रेण
॥ ३३ ॥

P3-0355 · 34
ततो यन्त्रमुत्तोल्य पात्रान्तरे स्थापयित्वा कुशाग्रेण यन्त्रं
स्पृष्ट्वा यन्त्रराजाय विद्महे महायन्त्राय धीमहि तन्नो यन्त्रः
प्रचोदयात् ।
इति गायत्र्या चाष्टोत्तरशतमभिमन्त्र्य प्राणप्रतिष्ठां कुर्यात्
॥ ३४ ॥

P3-0356 · 35
विश्वसारतन्त्रे :
प्राणप्रतिष्ठामन्त्रस्य देवता ब्राह्मणादयः ।
ब्रह्माविष्णुश्च रुद्रश्च ऋषयः परिकीर्त्तिताः ।
ततः ऋग्-यजुः सामानि छन्दांसि च तदा चरेत् ।
अस्य प्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वरा-ऋषयः ।
ऋग्-यजुः सामानि छन्दांसि चैतन्यं देवता प्राणप्रतिष्ठायां
विनियोगः
॥ ३५ ॥

P3-0357 · 36
तद्यथा :
आं ह्रीं क्रों यं रं लं वं शं षं सं हौं हंसः
अमुकदेवताया प्राणा इह प्राणाः, एवं आमित्यादि अमुकदेवताया
जीव इह स्थितः, एवं आमित्यादि अमुकदेवतायाः सर्वेन्द्रियाणि, एवं
आमित्यादि अमुकदेवताया वाङ्मनश्चक्षुःश्रोत्र-घ्राणप्राणा
इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा ।
इति प्राणान् प्रतिष्ठाप्य तत्र देवतामावाह्यषोडशोपचारैः
पञ्चोपचारैर्वा पूजयेत् ॥ ३५-क ॥
तथा च भैरवतन्त्रे :
मूर्त्ति मूलेन संकल्प्य जीवन्यासं समाचरेत् ।
मायां पाशाङ्कशाद्यन्तां यादीन्सप्त सबिन्दुकान् ।
वियत्सत्येन्दुसंयुक्तं तदन्ते हंस उच्चरेत् ।
अस्याः प्राणा इह प्राणाः पुनर्जीव इह स्थितः ।
पुनरुच्चार्य तस्या वै सर्वेन्द्रियाणि पूनर्वदेत् ।
तस्याश्च वाङ्गमनश्चक्षुः-श्रोत्रघ्राणपदान्यपि ।
प्राणा इहागत्य सुखं चिरं तिष्ठन्तु ठद्वयम् ।
इति प्राणान् प्रतिष्ठाप्य देवीमावाह्येत् ततः
॥ ३६ ॥

P3-0358 · 37
ततः षडङ्गानि पूजयेत् ।
ततः पट्टसूत्रादिकं दत्त्वा अष्टोत्तरसहस्रं जप्त्वा
शक्तश्चेद्बलिं दद्यात् ।
ततोऽष्टोत्तरशतं हुत्वा प्रत्याहुतिसम्पातं दद्यात् ।
होमाभावे द्विगुणजपः कार्यः ।
ततो दक्षिणां दत्त्वा अच्छिद्रावधारणं कुर्यात्
॥ ३७ ॥

P3-0359 · 3
इति यन्त्रसंस्कारविधिः :
इति महामहोपाध्याय श्रीकृष्णानन्द भट्टाचार्यविरचिते
तन्त्रसारे तृतीयः परिच्छेदः
॥ ३ ॥


Pariccheda 4: Ritualregeln, Homa, Stotras und Kavacas

Regeln der Verehrung und des Japa

P4-0001 · 1
चतुर्थः परिच्छेदः
अथ प्रकीर्णकम् ।
तत्र पूजायां दिग्विधानम् ।
विष्णुविषये नारदीये :
स्नातः शुक्लाम्बरधरश्चाचान्तः पूर्वदिङ्मुखः ।
शुद्धासनं समासाद्य भूतोत्सारणमाचरेत्
॥ १ ॥

P4-0002 · 2
अन्यत्र तु निबन्धे :
उपविश्यासने मन्त्री प्राङ्मुखो वाप्युदङ्मुखः ।
बद्धपद्मासनो मन्त्री समाहितजितेन्द्रियः
॥ २ ॥

P4-0003 · 3
सारसमुच्चयेऽपि :
प्रागाननो धनददिग्बदनोऽथ वापीति ।
रात्रो पूजने नायं निमयः
॥ ३ ॥

P4-0004 · 4
तथा च स्मृतिः :
रात्रावुदङ्मुखः कुर्यात् देवकार्यं सदैव हि ।
शिवार्चनं सदाप्येवं शुचिः कुर्यादुदङ्मुखः
॥ ४ ॥

P4-0005 · 5
अथ पूजायां विहितनिषिद्धानि :
यन्त्रतन्त्रप्रकाशे :
लिङ्गद्वयं तथा नार्च्यं गणेशद्वयमेव च ।
शक्तिद्वयं तथा सूर्यद्वयमेकत्र नार्चयेत्
॥ ५ ॥

P4-0006 · 6
द्वे चक्रे द्वारकायान्तु शालग्रामशिलाद्वयम् ।
एतेषामर्चनान्नित्यमुद्वेगं प्राप्नुयाद्गृही
॥ ६ ॥

P4-0007 · 7
लैङ्गे :
एकीकृत्य च लिङ्गानि दशपञ्चशतानि च ।
प्रत्येकेनाथवा देवि बिल्वपत्रैः प्रपूजयेत्
॥ ७ ॥

P4-0008 · 8
एकं पाशुपतं लिङ्गं मृच्छिलादिविनिर्मितम् ।
शालग्रामशिलामेकां गृहस्थोऽपि प्रपूजयेत्
॥ ८ ॥

P4-0009 · 9
यामले :
नाक्षतैरर्चयेद्विष्णुं न तुलस्या विनायकम् ।
न दूर्वया यजेद् दुर्गां बिल्वपत्रैर्दिवाकरम्
॥ ९ ॥

P4-0010 · 10
उन्मत्तमर्कपुष्पञ्च विष्णोर्वर्ज्य सदा बुधैः
॥ १० ॥

P4-0011 · 11
गौतमीये :
न रक्तचन्दनं जातु गृह्णीयाद्रक्तपुष्पकम् ।
विल्वपत्रैस्तत्प्रसूनैर्नार्चयेद्देवकीसुतम्
॥ ११ ॥

P4-0012 · 12
यत्तु तत्रैव :
कमले करवीरे द्वे तुलस्यौ जातिकेतके ।
नागकेशर पावन्ती कह्लारं चम्पकोत्पले ।
नान्द्यावर्त्तञ्च यूथी च मल्लिका नवमल्लिका ।
कुन्दं मन्दारकञ्चैव सौगन्धिकञ्च केशरम् ।
कुरुण्टाशोकसर्जानि बिल्वञ्च मुनिपुष्पकम् ।
पत्रमामलकं शुद्धं कर्णिकारं पलाशजम् ।
एतान्यन्यानि पुष्पाणि यथालाभं समर्चयेत् ।
इति यद्बिल्वविधानं तद्विहितपुष्पाभावे
॥ १२ ॥

P4-0013 · 13
तन्त्रान्तरे :
देवीनामर्क-मन्दारावादित्ये तगरं तथा ।
गणेशाय च सूर्याय रक्तपुष्पमतिप्रियम् ।
शिवे कुन्दं मदन्तीञ्च यूथीं बन्धूककेतके ।
रक्तां जवां त्रिसन्ध्यो द्वे मालतीं केतकीन्तथा ।
घुसृणं कुमुदं रक्तं हयारिञ्च विसर्जयेत्
॥ १३ ॥

P4-0014 · 14
तथा :
उग्रगन्धमगन्धञ्च कृमिकेशादिदूषितम् ।
वासोभिः संभृतं नीतं मतिमान्नार्चयेच्छिवे
॥ १४ ॥

P4-0015 · 15
कलिकाभिस्तथा नार्च्यं विना चम्पकपद्मकैः ।
शुष्कैश्च नार्चयेद्विष्णुं पत्रैः पुष्पैः फलैरपि ।
स्नात्वानीतैः पर्युषितैर्याचितैः कुष्णवर्णकैः ।
स्वयं विकसितैः पुष्पैः स्वयञ्च पतितैर्भुवि ।
वर्जयेद् वृहतीपुष्पमगन्धञ्च विशेषतः ।
स्वयं विकसितैरिति पुरुषेण स्वयं विकासितैरित्यर्थः
॥ १५ ॥

P4-0016 · 16
त्रिपत्रन्यूनकुसुमैर्नार्चयेत् तु कदाचन ।
भूगतञ्चाङ्गसंस्पृष्टं केशकीटादिदूषितम् ।
कुमुदं पाटलञ्चैव शिरीषं परिवर्जयेत् ।
भूगतं वर्जयेत् पुष्पं शेफालीं वकुलं विना
॥ १६ ॥

P4-0017 · 17
तथा :
बिल्वस्य खादिरस्यैव तथा धात्रीदलस्य च ।
तमालस्य च पद्मस्य छिन्नभिन्ने न दूष्यति
॥ १७ ॥

P4-0018 · 18
गौतमीये :
मलिनं भूमिसंस्पृष्टं कृमिकेशादिदूषितम् ।
पर्युषितानि पुष्पानि वर्जयेद् देवतार्चने ।
तिष्ठेद् दिनद्वयं शुद्धं पद्ममामलकं तथा ।
तुलसी सर्वदा शुद्धा तथा बिल्वदलानि च ।
दिनैकं करवीराणि योग्यानि च तपोधन
॥ १८ ॥

P4-0019 · 19
ज्ञानार्णवे :
पुष्पैः पर्य्युषितैर्देवि, नार्चयेत् स्वर्णजैरपि ।
निर्माल्यभूतैः कुसुमैरुच्छिष्टैः परमेश्वरि
॥ १९ ॥

P4-0020 · 20
त्रिपुरामधिकृत्य वाराहीये :
पलाशकाशकुसुमैर्नार्चयेद् दूरतस्त्यजेत् ।
धात्रीतमालजैः पत्रैस्तुलसीद्वितयैस्तथा ।
पूजनात् पातको तु स्याल्लग्नैश्चापि श्रियं हरेत् ।
त्रिपुरापूजने वर्ज्या तुलसी सर्वदा बुधैः ।
तुलसीघ्राणमात्रेण क्रुद्धा भवति सुन्दरी
॥ २० ॥

P4-0021 · 21
कौलावलीये :
रक्तमार्घ्यं श्वेतदूर्वां नीलकण्ठंकुरुण्टकम् न दद्यात् तु
महादेव्यै यदीच्छेच्छुभमात्मनः
॥ २१ ॥

P4-0022 · 22
योगिनीतन्त्रेऽपि :
देवीमधिकृत्य :
झिण्टीपुष्पेण पीतेन-श्वेतेन तगरेण च ।
श्वेतोड्रेण च पुष्पेण वर्जयेत् पूजनं सदा ।
तुलस्यौ द्वे च मन्दारकह्लारज-तमालजैः ।
नार्चयेत् तु महादेवीं कुशकाशोद्भवेन च
॥ २२ ॥

P4-0023 · 23
तथा सर्वमधिकृत्य :
बकुलस्य त्वशोकस्य अर्जुनस्य महेश्वरी ।
पूजयेद् वृन्तवर्ज्येन सवृन्तेन च वर्जयेत् ।
विष्णुक्रान्ता जवा नागकेशरं नागवल्लभम् ।
वन्धूकञ्चैव मन्दारं सवृन्तेन समर्चयेत् ।
न स्पृशेदहस्तवर्जञ्च भूगतञ्च न संस्पृशेत् ।
शेफालिबकुले भद्रे भूगतेऽपि समर्चयेत् ।
मालूरं भूगतं देयं तस्य काष्ठस्य चन्दनम् ।
बिल्वस्य मूलकं वर्ज्यं कदल्या पत्रकं तथा ।
तथा :
बिल्वपत्रञ्च माध्यञ्च तमालामलकीदलम् ।
कह्लारं तुलसीञ्चैव पद्मञ्च मुनिपुष्पकम् ।
एतत् पर्युषितं स्याद्यच्चान्यत् कलिकात्मकम् ।
नीरजस्य च बिल्वस्य तुलस्या दलमेव च ।
न दूष्येच्छिन्न-भिन्नञ्च जातीपुष्पञ्च शङ्करि
॥ २३ ॥

P4-0024 · 24
तथा नक्षत्रविद्यादौमत्स्यसूक्ते :
पुष्पं श्रेष्ठं रक्तकोकं बन्धूकं शतपत्रकम् ।
वर्वराद्वितरञ्चैव कर्णिकाद्वयन्तथा ।
वकमन्दारचूतानि करवीराणि शस्यते ।
मल्लिकाद्वितयं जाती क्षौमपुष्पं जयन्तिका ।
बिल्वपत्रं कुरुवकं मुनिपुष्पञ्च केशरम् ।
वासन्तीद्वितञ्चैव काशपुष्पं मरूवकम् ।
मदनञ्च लवङ्गञ्च यूथीं शेफालिकान्तथा ।
सुगन्धिश्वेतलौहित्यकुसुमैरर्चयेद्दलैः ।
बिल्वैर्मरूवकाद्यैश्च तुलसीदलवर्जितैः
॥ २४ ॥

P4-0025 · 25
यद्यपि :
तुलसीवर्जिता पूजा न जातु भवेत् ।
इति तथापि तान्नियमस्तु न त्रिपुरादौ
॥ २५ ॥

P4-0026 · 26
तथा च :
सुन्दरी भैरवी-काली-ब्रह्मविघ्न-विवस्वताम् ।
तुलसीवर्जिता पूजा सा पूजा विफला भवेत् ।
इति अविफला सफला इत्यर्थः ।
तेन भैरव्यादिपूजायां तुलसी सदैव त्याज्या पूर्ववचनात् ।
इतरासान्तुं पूजायां तदसत्त्वे सत्त्वे वा न दोषः
॥ २६ ॥

P4-0027 · 27
नाक्षतैरर्चयेद्विष्णुं इति पुष्पाभावेऽतिदेशप्राप्तस्य तण्डुलस्य
निषेधपरम्
॥ २७ ॥

P4-0028 · 28
तथा हि :
पुष्पाभावे जलेनापि दूर्वया तण्डुलेन वा ।
नित्यं पूजा प्रकर्त्तव्या पुष्पाभावेन सुन्दरि ।
न त्वर्घ्यादिनिषेधपरम्
॥ २८ ॥

P4-0029 · 29
तथा च :
गन्ध-पुष्पाक्षत-यव-कुशाग्र-तिलसर्षपैः ।
सदूर्वैः सर्वदेवानामेतदर्घ्यमुदाहृतम् ।
एवं न दूर्वया यजेद् दुर्गामित्यादि
॥ २९ ॥

P4-0030 · 30
विना वै दूर्वया देवि पूजा नास्तीह कर्हिचित् ।
तस्माद्दूर्वा ग्रहीतव्या सर्वपुष्पमयी शिवे ।
इति श्रीक्रमीयवाक्यात्
॥ ३० ॥

P4-0031 · 31
तथा च राघवभट्टः :
सर्वैः पुष्पैः सदा पूज्या विहिताविहितैरपि ।
कर्तव्या सर्वदेवानां भक्तियोगोऽत्र कारणम्
॥ ३१ ॥

P4-0032 · 32
तथा तन्त्रान्तरे :
देवीपूजा सदा कार्या जलजैः स्थलजैरपि ।
विहितैरविहितैर्वापि भक्तियुक्तेन चेतसा ।
इदन्तु विहितपुष्पाभावे अत्यन्त भक्तिविषयम्
॥ ३२ ॥

P4-0033 · 33
तथा कालीतन्त्रे :
अपामार्गैश्च भृङ्गैश्च तुलसीवर्जितैः शुभैः
॥ ३३ ॥

P4-0034 · 34
मुण्डमालातन्त्रे :
धुस्तूराशोकबकुलश्वेतकृष्णापराजिता ।
इत्यादि पुष्पनियमो बोद्धव्यः
॥ ३४ ॥

P4-0035 · 35
अथ जपविशेषः :
तत्र सेतुं विना जपस्य व्यर्थत्वात्तन्निरूप्यते
॥ ३५ ॥

P4-0036 · 36
तत्र कालिकापुराणे :
शास्त्राणां प्रणवः सेतुर्मन्त्राणां प्रणवः स्मृतः ।
स्रवत्यनोंकृतः पूर्वं परस्ताच्च विशीर्यति ।
निःसेतुसलिलं यद्वत्क्षणान्निम्नं प्रगच्छति ।
मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति यज्वनाम्
॥ ३६ ॥

P4-0037 · 37
चतुर्दशः स्वरो योऽसौ सेतुरौकारसंज्ञकः ।
स चानुस्वारनादाभ्यां शूद्राणां सेतुरुच्यते
॥ ३७ ॥


Fünf Arten der Reinigung und Vollendung

P4-0038 · 38
अथ पञ्चाङ्गशुद्धिः :
पञ्चाङ्गशुद्धिं विना पूजाया निष्फलत्वात्तन्निरूप्यते ।
तत्र कुलार्णवे :
आत्म-स्थान-मन्त्र-द्रव्य-देवशुद्धिस्तु पञ्चमी ।
यावन्न कुरुते देवि तस्य देवार्चनं कुतः ।
पञ्चशुद्धिं विना पूजा अभिचाराय कल्पते
॥ ३८ ॥

P4-0039 · 39
सुस्नातैर्भूतशुद्ध्या च प्राणायामादिभिस्तथा ।
षडङ्गाद्यखिलन्यासैरात्मशुद्धिरुदीरिता
॥ ३९ ॥

P4-0040 · 40
सम्मार्जनानुलेपाद्यैर्दर्पणोदरवत् शुभम् ।
वितान-धूप-दीपादि-पुष्पमाल्यादिशोभितम् ।
पञ्चवर्णरजोभिश्च स्थानशुद्धिरितीरिता
॥ ४० ॥

P4-0041 · 41
ग्रथित्वा मातृकावर्णैर्मूलमन्त्राक्षराणि च ।
क्रमोत्क्रमाद् द्विरावृत्त्या मन्त्रशुद्धिरितीरिता
॥ ४१ ॥

P4-0042 · 42
पूजाद्रव्याणि सम्प्रोक्ष्य मूलास्त्रैश्च विधानतः ।
दर्शयेद्धेनुमुद्रादीन् द्रव्यशुद्धिः प्रकीर्तिता
॥ ४२ ॥

P4-0043 · 43
पीठे देवीं प्रतिष्ठाप्य सकलीकृत्य मन्त्रवित् ।
मूलमन्त्रेण माल्यादीन् धूपादीनुदकेन च ।
त्रिवारं प्रोक्षयेद्विद्वान् देवशुद्धिरितीरिता ।
पञ्चशुद्धिं विधायेत्थं पश्चात्पूजां समाचरेत्
॥ ४३ ॥

P4-0044 · 44
अथमन्त्रसिद्धेरूपायः :
तदुक्तं गौतमीये :
सम्यगनुष्ठितो मन्त्रो यदि सिद्धिर्न जायते ।
पुनस्तेनैव कर्त्तव्यं ततः सिद्धो भवेद्ध्रुवम्
॥ ४४ ॥

P4-0045 · 45
पुनरनुष्ठितो मन्त्रो यदि सिद्धो न जायते ।
पुनस्तेनैव कर्त्तव्यं ततः सिद्धो न संशयः
॥ ४५ ॥

P4-0046 · 46
पुनः सोऽनुष्ठितो मन्त्रो यदि सिद्धो न जायते ।
उपायास्तत्र कर्त्तव्यः सप्त शंकरभाषिताः
॥ ४६ ॥

P4-0047 · 47
भ्रामणं रोधन वश्यं पीडनं पोषशोषणे ।
दहनान्तं क्रमात् कुर्यात् ततः सिद्धो भवेन्मनुः
॥ ४७ ॥

P4-0048 · 48
भ्रामणं वायुबीजेन ग्रथनं क्रमयोगतः ।
तन्मन्त्रं यन्त्रे त्वालिख्य शिह्लकर्पूरकुंकुमैः ।
उशीरचन्दनाभ्यान्तु मन्त्रं संग्रथितं लिखेत्
॥ ४८ ॥

P4-0049 · 49
क्षीराज्यमधुतोयानां मध्ये तल्लिखितं भवेत् ।
पूजनाज्जपनाद्धोमात्भ्रामितः सिद्धिदो भवेत्
॥ ४९ ॥

P4-0050 · 50
भ्रामितो यदि न सिद्धयेद्रोधनं तस्य कारयेत् ।
सारस्वतेन बीजेन संपुटीकृत्य संजपेत् ।
एवं रुद्धो भवेत् सिद्धो न चेदेतद्वशीकुरु
॥ ५० ॥

P4-0051 · 51
अलक्तं चन्दनं कुष्ठं हरिद्रा मादनं शिला ।
एतैस्तु मन्त्रमालिख्य भूर्जपत्रे सुशोभने ।
धार्यं कण्ठे भवेत् सिद्धिः पीडनं वास्य कारयेत्
॥ ५१ ॥

P4-0052 · 52
अधोरोत्तरयोगेन पदानि परिजप्य वै ।
ध्यायेच्च देवता तद्वद्धरोत्तर रूपिणीम् ।
विद्यामादित्यदुग्धेन लिखित्वाक्रम्य चांघ्रिणा ।
तथा भूतेन मन्त्रेण होमः कार्यो दिने-दिने ।
पीडितो लज्जयाविष्टः सिद्धः स्यादथ पोषयेत्
॥ ५२ ॥

P4-0053 · 53
बालायाः त्रितयं बीजमाद्यन्ते तस्य योजयेत् ।
गोक्षीरमधुनालिख्य विद्यांपाणौ विभावयेत् ।
पोषितोऽयं भवेत् सिद्धो न चेत्कुर्वीत शोषणम्
॥ ५३ ॥

P4-0054 · 54
द्वाभ्यान्तु वायुबीजाभ्यां मन्त्रः कुर्याद् विदर्भितम् ।
एषा विद्या गले धार्या लिखित्वा वरभस्मना ।
शोषितश्चाप्यसिद्धश्चेद्दहनीयोऽग्निबीजतः
॥ ५४ ॥

P4-0055 · 55
आग्नेयेन तु बीजेन मन्त्रेष्वेकैकमक्षरम् ।
आद्यन्तमध-ऊर्ध्वञ्च योजयेद् दाहकर्मणि ।
ब्रह्मवृक्षस्य तैलेन मन्त्रमालिख्य धारयेत् ।
कण्ठदेशे ततो मन्त्रः सिद्धः स्याच्छङ्करोदितम्
॥ ५५ ॥

P4-0056 · 56
शिव उवाचः इत्येवं कथितं सम्यक् केवलं तव भक्तितः ।
एकेनैव कृतार्थः स्याद्बहुभिः किमु सुव्रते
॥ ५६ ॥

P4-0057 · 57
अथान्यत् संप्रवक्ष्यामि मन्त्रसिद्धेस्तु कारणम् ।
मातृकापुटितं कृत्वा मन्त्रञ्च प्रजपेत् सुधीः ।
क्रमोत्क्रमाच्छतावृत्या तदन्ते केवलं मनुम् ।
एवन्तु प्रत्यहं कुर्यात् यावल्लक्षं समाप्यते ।
निश्चितं मन्त्रसिद्धिः स्यादित्युक्तं तन्त्रवेदिभिः
॥ ५७ ॥

P4-0058 · 58
अथ सिद्धिलक्षणम् :
मनोरथानामक्लेशः :
सिद्धिरुत्तम-लक्षणम् ।
मृत्युनां हरणं तद्वद्देवतादर्शनन्तथा ।
प्रयोगोऽस्याक्लेशसिद्धिः सिद्धेस्तु लक्षणं परम्
॥ ५८ ॥

P4-0059 · 59
परकायप्रवेशश्च पुरप्रवेशनं तथा ।
ऊर्ध्वोत्क्रमणमेवं हि चराचरपुरे गतिः ।
खेचरीमेलनञ्चैव तत्कथाश्रवणादिकम् ।
भूच्छिद्राणि प्रपश्येत् तु तदुत्तमस्य लक्षणम् ।
ख्यातिर्वाहनभूषादिलाभः सुचिरजीवनम् ।
नृपाणां तद्गणानाञ्च वशीकरणमुत्तमम् ।
सर्वत्र सर्वलोकेषु चमत्कारकरः सुखी ।
रोगापहरणं दृष्ट्या विषापहरणन्तथा ।
पाण्डित्यं लभते मन्त्री चतुर्विधमयत्नतः ।
वैराग्यञ्च मुमुक्षुत्वं त्यागिता सर्ववश्यता ।
अष्टाङ्ग योगाभ्यासनं भोगेच्छापरिवर्जनम् ।
सर्वभूतेष्वनुकम्पा सार्वज्ञादिगुणोदयः ।
इत्यादिगुणसम्पत्तिर्मध्यसिद्धेस्तु लक्षणम्
॥ ५९ ॥

P4-0060 · 60
ख्यातिर्वाहनभूषादिलाभः सुचिरजीवनम् ।
नृपाणां तद्गणानाञ्च वात्सल्यं लोकवश्यता ।
महैश्वर्यं धनित्वञ्च पुत्रदारादिसम्पदः ।
अधमाः सिद्धयः प्रोक्ता मन्त्रिणां प्रथमभूमिका ।
सिद्धमन्त्रस्तु यः साक्षात् स शिवो नात्र संशयः
॥ ६० ॥

P4-0061 · 61
मन्त्राणां दोषाः :
मुण्डमालातन्त्रे शङ्कर उवाच :
भुवनेशी महाविद्या देवराजेन वै पुरा ।
आराधिता महाविद्या वीर्यहीनाभवत् तदा
॥ ६१ ॥

P4-0062 · 62
एकाक्षरी वीर्यहीना वाग्भवेनोज्वलीकृता ।
कामराजाख्यविद्या या विद्या सा पुष्पधन्वना ।
शरेण पीडिता पूर्वं भुवनेश्याः प्रतिष्ठिता
॥ ६२ ॥

P4-0063 · 63
कुमारी या च विद्येयं त्वया शप्ता पतिव्रते ।
केवलं शिवरूपेण शक्तिरूपेण केवलम् ।
मया प्रतिष्ठिता विद्या तारा चन्द्रस्वरूपिणी
॥ ६३ ॥

P4-0064 · 64
भैरव्यादिविद्यामधिकृत्य :
सुप्ता दग्धा कीलिता च सैव संहाररूपिणी ।
मदोन्मत्ता मूर्च्छिता च हीनवीर्या च स्तम्भिता ।
छिन्ना रुद्धा च वृद्धा च निर्वीजा शक्तिहीनका
॥ ६४ ॥

P4-0065 · 65
तथा विश्वसारे :
छिन्नो रुद्धः शक्तिहीनः पराङ्मुखः उदीरितः ।
वधिरो नेत्रहीनश्च कीलितः स्तम्भितस्तथा ।
दग्धः स्रस्तश्च भीतश्च मलिनश्च तिरस्कृतः ।
भेदितश्च सुषुप्तश्च मदोन्मत्तश्च मूर्च्छितः ।
हृतवीर्यश्च हीनश्च प्रध्वस्तो बालकः पुनः ।
कुमारस्तु युवा प्रौढो वृद्धो निस्त्रिंशकस्तथा ।
निर्वीजः सिद्धिहीनश्च मन्दः कूटस्तह्ता पुनः ।
निरंशकः सत्त्वहीनः केकरो जीवहीनकः ।
धूमितालिङ्गितौ स्यातां मोहितश्च क्षुधार्त्तकः ।
अतिदृप्तोऽङ्गहीनः स्यादतिक्रुद्धः समीरितः ।
अतिकूरश्च सव्रीडः शान्तमानस एव च ।
स्थानभ्रष्टश्च विकलो निःस्नेहः परिकीर्त्तितः ।
अतिवृद्धः पीडितश्च वक्ष्याम्येषाञ्च लक्षणम्
॥ ६५ ॥

P4-0066 · 66
मनोर्यस्यादिमध्यान्तेष्वानिलं बीजमुच्यते ।
संयुक्तं वा वियुक्तं वा स्वराक्रान्तं त्रिधा पुनः ।
चतुर्द्धा पञ्चधा वापि स मन्त्रश्छिन्नसंज्ञकः
॥ ६६ ॥

P4-0067 · 67
आदिमध्यावसाने तु भूबीजद्वयलाञ्छितः ।
रुद्धमन्त्रः स विज्ञेयो भूक्तिमुक्तिविवर्जितः
॥ ६७ ॥

P4-0068 · 68
मायात्रितत्त्वश्रीबीजरावहीनश्च यो मनुः ।
शक्तिहीनः स कथितो यस्य मध्ये न वर्त्तते
॥ ६८ ॥

P4-0069 · 69
कामबीजं मुखे माया शिरस्यंकुशमेव च ।
असौ पराङ्मुखः प्रोक्तो हकारो बिन्दुसंयुतः
॥ ६९ ॥

P4-0070 · 70
आद्यन्तमध्येष्विन्दुर्वा स भवेद्बधिरः स्मृतः ।
पञ्चवर्णो मनुर्यः स्याद्रेफार्केन्दुविवर्जितः ।
नेत्रहीनः स विज्ञेयो दुःख शोकामयप्रदः
॥ ७० ॥

P4-0071 · 71
आदिमध्यावसानेषु हंसः प्रासादवाग्भवौ ।
हकारो बिन्दुमाञ्जीवो रावश्चापि चतुष्फलः ।
माया नमामि च पदं नास्ति यस्मिन् स कीलितः
॥ ७१ ॥

P4-0072 · 72
एकं मध्ये द्वयं मूर्ध्नि यस्मिन्नस्त्रपुरन्दरौ ।
न विद्येते स मन्त्रस्तु स्तम्भितः सिद्धिवर्जितः
॥ ७२ ॥

P4-0073 · 73
वह्निवायुसमायुक्तो यस्य मन्त्रस्य मूर्ध्नि ।
सप्तधा दृश्यते तन्तु दग्धमन्त्रं प्रचक्षते
॥ ७३ ॥

P4-0074 · 74
अस्त्रं द्वाभ्यां त्रिभिःषड्भिरष्टभिर्दृश्यतोऽक्षरैः ।
स्रस्तः स कथितो मन्त्रः सर्वसिद्धिविवर्जितः
॥ ७४ ॥

P4-0075 · 75
यस्य मुखे नास्ति माया प्रणवो वा विधानतः ।
शिवो वा शक्तिरथवा भीताख्यः स प्रकीर्त्तितः
॥ ७५ ॥

P4-0076 · 76
आदौ मध्ये तथा चान्ते यस्य मार्णचतुष्टयम् ।
स एव मलिनो मन्त्रः सर्वविघ्न समन्वितः
॥ ७६ ॥

P4-0077 · 77
यस्य मध्ये दकारो वा कवचं मूर्ध्नि द्विधा ।
अस्त्रं तिष्ठति मन्त्रः स तिरस्कृत उदाहृतः
॥ ७७ ॥

P4-0078 · 78
द्योद्वयं हृदये शीर्षे वषट् वौषट् च मध्यतः ।
स एव भेदितो मन्त्रः सर्वशास्त्रविवर्जितः
॥ ७८ ॥

P4-0079 · 79
त्रिवर्णो हंसहीनो यः सुषुप्त उदाहृतः
॥ ७९ ॥

P4-0080 · 80
मन्त्रो वाप्यथवा विद्या सप्ताधिकदशाक्षरः ।
फट्कारपञ्चकादिर्यो मदोन्मत्त उदाहृतः ।
तद्वदस्त्रं स्थितं मध्ये यस्य मन्त्रः स मूर्च्छितः
॥ ८० ॥

P4-0081 · 81
विरामेऽङ्गस्य ये मन्त्रो हृतवीर्य स उच्यते
॥ ८१ ॥

P4-0082 · 82
आदौ मध्ये तथा चान्ते चतुरस्त्रयुतो मनुः ।
ज्ञातव्यो भीम इत्येव यः स्यादष्टादशाक्षरः
॥ ८२ ॥

P4-0083 · 83
एकोनविंशत्यर्णो वा यो मन्त्रस्तारसंयुतः ।
हृल्लेखांकुशबीजाढ्यः प्रध्वस्तस्तं प्रचक्षते
॥ ८३ ॥

P4-0084 · 84
सप्तवर्णः स्मृता बालः कुमारोऽष्टाक्षरः स्मृतः ।
षोडशार्णो युवा प्रौढश्चत्वारिंशल्लिपिमनुः
॥ ८४ ॥

P4-0085 · 85
त्रिंशदर्णश्चतुःषष्टिवर्णो मन्त्रः शताक्षरः ।
चतुःशताक्षरश्चपि वृद्धः स परिकीर्त्तितः
॥ ८५ ॥

P4-0086 · 86
नवाक्षरो ध्रुवयुतो मनुनिस्त्रिंश ईरितः ।
यस्यावसाने हृदयं शिरोमन्त्री च मध्यतः ।
शिखा वर्म च न स्यातां वौषट् फट्कार एव वा ।
शिवशक्त्यर्णहीनो वा स निर्बीज उदाहृतः
॥ ८६ ॥

P4-0087 · 87
एषु स्थानेषु फट्कारः प्रौढा यस्मिन्प्रदृश्यते ।
स मन्त्रः सिद्धिहीनः स्यात्मन्दः पंक्त्यक्षरो मनुः
॥ ८७ ॥

P4-0088 · 88
कूट एकाक्षरो मन्त्रः स एवोक्तो निरंशकः ।
द्विवर्णः सत्त्वहीनः स्याच्चतुर्ववर्णस्तु केकरः
॥ ८८ ॥

P4-0089 · 89
षडक्षरो जीवहीनः सार्द्धसप्ताक्षरो मनुः ।
सार्द्धद्वादशवर्णोऽपि धूमितः सतु निन्दितः
॥ ८९ ॥

P4-0090 · 90
सार्द्धबीजद्वयं तद्वत् एकविंशतिवर्णकः ।
विंशत्यर्णस्त्रिंशदर्णो यः स्यादालिङ्गितः स्मृतः
॥ ९० ॥

P4-0091 · 91
द्वाविंशत्यक्षरो मन्त्रो मोहितः परिकीर्त्तितः ।
द्वात्रिंशद्वर्णो मन्त्रो यः सप्तविंशतिवर्णकः ।
क्षुधात्तः स तु विज्ञेयो चतुर्विंशतिवर्णकः
॥ ९१ ॥

P4-0092 · 92
एकादशाक्षरो वापि पञ्चविंशतिवर्णकः ।
त्रयोविंशतिवर्णो वा मन्त्रो दृप्त उदाहृतः
॥ ९२ ॥

P4-0093 · 93
षड्विंशत्यक्षरो मन्त्रोः षट्त्रिंशदर्णकस्तथा ।
त्रिंशदेकोनवर्णो वा त्वङ्गहीनः स एव हि
॥ ९३ ॥

P4-0094 · 94
अष्टाविंशदक्षरो वा एकत्रिंशदथापि वा ।
अतिक्रुद्धः स विज्ञेयो निन्दितः सर्वकर्मसु
॥ ९४ ॥

P4-0095 · 95
त्रिंशदक्षरको मन्त्रस्त्रयस्त्रिंशदथापि वा ।
अतिक्रूरः स विज्ञेयो निन्दितः सर्वकर्मसु
॥ ९५ ॥

P4-0096 · 96
चत्वारिंशतमारभ्य त्रिषष्टिर्यावता भवेत् ।
तावत्संख्या निगदिता मन्त्राः सव्रीडसंज्ञकाः
॥ ९६ ॥

P4-0097 · 97
पञ्चषष्ट्यक्षरा ये र्स्युमन्त्रास्ते शान्तमानसाः ।
एकोनशतपर्यन्तं पञ्चषष्ट्यक्षरादितः ।
ते सर्वे कथिता मन्त्राः स्थानभ्रष्टा न शोभनाः
॥ ९७ ॥

P4-0098 · 98
त्रयोदशाक्षरा ये र्स्युमन्त्राः पञ्चदशाक्षराः ।
ते सर्वे विकला ज्ञेयाः शतं सार्द्धं शतन्तथा
॥ ९८ ॥

P4-0099 · 99
शतद्वयं द्विनवतिरेकहीना तथापि वा ।
यावत् शतत्रयं संख्या निःस्नेहास्ते प्रकीर्त्तिताः
॥ ९९ ॥

P4-0100 · 100
चतुःशतमथारभ्य यावद्वर्ण-सहस्रकम् ।
अतिवृद्धः स मन्त्रस्तु सर्वशास्त्रविवर्जितः
॥ १०० ॥

P4-0101 · 1
सहस्रार्णाधिका मन्त्रा दण्डकाः पीडिताह्वयाः ।
द्विसहस्राक्षरा मन्त्राः खण्डशः सप्तधा कृताः ।
ज्ञातव्याः स्तोत्ररूपास्ते मन्त्रा एते यथा स्थिताः ।
तथा विद्याश्च बोद्धव्या मन्त्रिभिः सर्वकर्मसु ।
दोषानिमानविज्ञाय यो मन्त्रं भजते बुधः ।
सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि
॥ १ ॥


Mantrafehler und Feuerstätten

P4-0102 · 2
अथ मन्त्राणां दोषशान्तिः :
तत्रैव :
छिन्नादिदुष्टा ये मन्त्रास्तन्त्रे तन्त्रे निरूपिताः ।
ते सर्वे सिद्धिमायान्ति मातृकार्णप्रभावतः
॥ २ ॥

P4-0103 · 3
मातृकार्णैः पुटिकृत्य मन्त्रं विद्यां विशेषतः ।
शतमष्टोत्तरं पूर्वं प्रजपेत् फलसिद्धये ।
तदा मन्त्रो महाविद्या यथोक्तफलदा भवेत्
॥ ३ ॥

P4-0104 · 4
मातृकापुटितं कृत्वा मध्ये वर्णं निधाय च ।
मन्त्रवर्णांस्ततः कुर्यात् शोधनः तन्त्रसम्मतम्
॥ ४ ॥

P4-0105 · 5
बद्धा च योनिमुद्रां तां सङ्कोच्याधारपङ्कजम् ।
तदुत्पन्नान्मन्त्रवर्णान् कुर्वतश्च गतागतान् ।
ब्रह्मरन्ध्रावधि ध्यात्वा वायुमापूर्य कुम्भयेत् ।
सहस्रं प्रजपेन्मन्त्री मन्त्रदोषप्रशान्तये
॥ ५ ॥

P4-0106 · 6
तथा :
एषु दोषेषु पत्रेषु मायां काममथापि वा ।
क्षिप्त्वा चादौ श्रियञ्चैव तद्दूषणविमुक्तये
॥ ६ ॥

P4-0107 · 7
तथा :
तारसम्पुटितो वापि दुष्टमन्त्रोऽप् सिध्यति ।
यस्य यत्र भवेद्भक्तः सोऽपि मन्त्रोऽस्य सिध्यति
॥ ७ ॥

P4-0108 · 8
तथा :
प्रणवो मातृका देवी हृल्लेखेत्यमृतत्रयम् ।
अमृतत्रयसंयोगाद्दुष्टमन्त्रोऽपि सिध्यति
॥ ८ ॥

P4-0109 · 1
अथ होमार्थं कुण्डनियमः :
तत्र कुण्डपदव्युत्पत्तिमाह सारावलीधृतविश्वसारे :
कौ पृथिव्यां विलं देवि दृश्यते सुमनोहरम् ।
तस्मात्कुण्डं समाख्यातं साधकानां हिताय वै ।
बिलं गर्त्तम् ।
सुमनोहर-मेखलायोन्यादिविशिष्टमित्यर्थः
॥ १ ॥

P4-0110 · 2
तत्र तावत् गृहनिर्णयः ।
तत्रापि प्रथमं भूमिनिर्णयः :
गौतमीये :
भूमेः परिग्रहं कुर्याद्यावदायतनं भवेत्
॥ २ ॥

P4-0111 · 3
शुक्लमृत्स्ना तु या भूमिर्ब्राह्मी सा परिकीर्त्तिता ।
क्षत्रियां रक्तमद्भूमिर्हरिद्वैश्या प्रकीर्त्तिता ।
कृष्णाभूमिर्भवेत्शूद्रा चतुर्द्धा भूःप्रकीर्त्तिता ।
ब्राह्मी सर्वार्थ सिद्धिः स्यात् क्षत्रिया राज्यदा मता ।
धन्यधान्यकरीं वैश्या शूद्रा तु निन्दिता भवेत्
॥ ३ ॥

P4-0112 · 4
गणेशविमर्षिण्याम् :
आदौ भूमिं परीक्षेत वास्तुशास्त्रविशारदः ।
शल्यादिशोधनं कुर्यात् पौरुषं वा खनेत् ततः
॥ ४ ॥

P4-0113 · 5
वास्तोः संयोज्य पूर्वस्याम् ऐशान्यामुत्तरेऽपि वा ।
दिशि सङ्कल्पयेन्मन्त्री मण्डपञ्च विभागतः
॥ ५ ॥

P4-0114 · 6
नवहस्तप्रमाणं वा सप्तहस्तमथापि वा ।
पञ्चहस्तप्रमाणं वा चतुरस्रं समन्ततः ।
पञ्चहस्तन्तु एककुण्डपक्षे
॥ ६ ॥

P4-0115 · 7
तदुक्तं तत्रैव :
एककुण्डमतेनान्यत् पञ्चहस्तगृहं भवेत् ।
तदेककुण्डं गृहस्योत्तरभागे प्रशस्तम्
॥ ७ ॥

P4-0116 · 8
यथा :
अथोत्तरे तथा कुण्डमेकं वेदास्रमुद्धरेत् ।
लक्षहोमे तु तत्कुर्यात् गृहमध्ये न दूषणम्
॥ ८ ॥

P4-0117 · 9
तथा वसिष्ठसंहितायाम् :
वास्तोरीशानभागे तु मण्डलं रचयेत् सुधीः ।
षड्द्वादशाष्टभिर्हस्तैः षोडशैर्वा समन्ततः
चतुर्द्वारसमायुक्तं तोरणाद्यैरलंकृतम्
॥ ९ ॥

P4-0118 · 10
निबन्धे :
तत्त्रिभागमिते क्षेत्रेऽरत्निमात्रसममुन्नतम् ।
चतुरस्रां ततो वेदीं मण्डलाय प्रकल्पयेत्
॥ १० ॥

P4-0119 · 1
अथ प्रसङ्गान्नवकुण्डानि :
तत्र शारदायाम् :
प्राक्प्रोक्ते मण्डपे विद्वान्वेदिकाया बहिस्त्रिधा ।
क्षेत्रं विभज्य मध्येऽंशे पूर्वादि परिकल्पयेत्
॥ १ ॥

P4-0120 · 2
अष्टाशास्वष्टकुण्डानि रम्याकाराण्यनुक्रमात्
॥ २ ॥

P4-0121 · 3
तथा च वसिष्ठसंहितायाम् :
अष्टकुण्डप्रकारमाह ।
चतुरस्रं योनिमर्द्धचन्द्रं त्र्यस्रं सुवर्त्तुलम् ।
षडस्रं पङ्कजाकारमष्टास्रं तानि नामतः
॥ ३ ॥

P4-0122 · 4
(कुण्डप्रकाराणिः चित्र ५१)
आचार्यकुण्ड मध्ये स्याद्गौरीपतिमहेन्द्रयोः ।
हस्तमात्रमितां भूमिं पूर्ववत्परिसूत्रयेत् ।
समन्तात्कुण्डमेतत् तु चतुरस्रं शुभावहम्
॥ ४ ॥

P4-0123 · 5
चतुरस्रीकृतं क्षेत्रं पञ्चधा विभजेत् सुधीः ।
न्यसेत् पुरस्तादेकांशं कोणार्द्धार्द्ध प्रमाणतः
॥ ५ ॥

P4-0124 · 6
भ्रामयेत् तेन मानेन तथान्यदपि मन्त्रवित् ।
सूत्रयुग्मं ततो दद्यात् कुण्डं योनिनिभं भवेत्
॥ ६ ॥

P4-0125 · 7
चतुरस्रीकृतं क्षेत्रं दशधा विभजेत् सुधीः ।
एकमेकं त्यजेदंशं अध ऊर्द्ध्वञ्च तन्त्रवित् ।
ज्यासूत्रं पातयेदग्रे तन्मानाद्भ्रामयेत् ततः ।
अर्द्धचन्द्रनिभं कुण्डं रमणीयमिदं भवेत्
॥ ७ ॥

P4-0126 · 8
अग्रे सम्मुखे प्रक्षिप्त-शरधनुर्वदिति भट्टव्याख्यानात् ।
तथा च :
ज्यासूत्रं पातयेदग्रे शरावार्द्धतया यतः
॥ ८ ॥

P4-0127 · 9
चतुर्द्धा भेदिते क्षेत्रे न्यसेदुभयपार्श्वयोः ।
एकैकमंशं तन्मानादग्रतो लाञ्छयेत् ततः ।
सूत्रत्रयं बुधः कुर्यात् त्र्यस्रं कुण्डमुदाहृतम्
॥ ९ ॥

P4-0128 · 10
अष्टादशांशो क्षेत्रेऽंशं न्यसेदेकं बहिर्बुधः ।
भ्रामयेत् तेन मानेन वृत्तं कुण्डमुदाहृतम्
॥ १० ॥

P4-0129 · 11
अष्टधा विभजेत् क्षेत्रं मध्ये सूत्रस्य पार्श्वयोः ।
भागं न्यसेदेकमेकं मानेनानेन मध्यतः
॥ ११ ॥

P4-0130 · 12
कुर्यात् पार्श्वद्वये मत्स्यचतुष्कं मन्त्रवित्तमः ।
सूत्रषट्कं ततो दद्यात् षडस्रं कुण्डमीरितम्
॥ १२ ॥

P4-0131 · 13
चतुरस्रीकृतं क्षेत्रं विभज्याष्टादशांशतः ।
एकं भागं बहिर्न्यस्य भ्रामयेत् तेन वर्त्तुलम्
॥ १३ ॥

P4-0132 · 14
वृत्तानि कर्णिकादीनां बहिस्त्रीणि प्रकल्पयेत् ।
पद्मकुण्डमिति प्रोक्तं विलोचनमनोहरम् ।
बहिरिति मध्ये, वहिःशब्दो मध्यवाचकः अव्ययानामनेकार्थ-
त्वादिति गुरवः ।
कर्णिकादीनां वृत्तानि बहिर्बहिः कुर्यादिति भट्टः ।
अन्यथा मानाधिक्यापद्येः
॥ १४ ॥

P4-0133 · 15
चतुरस्रेऽष्टवा भक्ते कुर्याद् वृत्तचतुष्टयम् ।
कर्णिकाकेशरौ मध्ये तृतीये पत्रकाण्यथ ।
तदग्राणि चतुर्थे स्युर्वृत्तान्येवं प्रकल्पयेदिति भट्टः
॥ १५ ॥

P4-0134 · 16
पूर्वोक्तं विभजेत् क्षेत्रं चतुर्विंशतिभागतः ।
एकं भाग बहिर्न्यस्य चतुरस्रं प्रकल्पयेत् ।
अन्तःस्थचतुरस्रस्य कोणार्द्धार्द्धप्रमाणतः ।
वाह्यस्य चतुरस्रस्य कोणाभ्यां परिकल्पयेत् ।
दिशं प्रति यथान्यायमष्टौ सूत्राणि पातयेत् ।
अष्टास्रं कुण्डमेतद्धि तन्त्रविद्भिरुदीरितम्
॥ १६ ॥

P4-0135 · 17
यावान्कुण्डस्य विस्तारः खननं तावदेव हि ।
कुण्डानां यादृशं रूपं मेखलानाञ्च ताऋशम् ।
कुण्डानां मेखलास्तिस्रो मुष्टिमात्रेण ताः क्रमात् ।
एवं प्रोक्तानि कुण्डानि कथ्येते स्रुक्स्रुवौ ततः
॥ १७ ॥

P4-0136 · 18
प्रकल्पयेत् स्रुवं यागे वक्ष्यमाणेन वर्त्मना ।
श्रीपर्णी-शिंशपा-क्षीर-शाखिष्वेकतमं गुरुः
॥ १८ ॥

P4-0137 · 19
गृहीत्वा विभजेद्धस्तमात्रं षट्त्रिंशता पुनः ।
हस्तमात्रं बाहुमात्रम्
॥ १९ ॥

P4-0138 · 20
तथागस्त्यो :
स्रुचं बाहुप्रमाणेन होमार्थं विदधीत वै ।
विंशत्यंशैर्भवेद् दण्डो वेदी तैरष्टाभिर्भवेत्
॥ २० ॥

P4-0139 · 21
एकांशेन मितः कण्ठः सप्तांशेन मितं मुखम् ।
वेदीत्र्यंशेन विस्तारः कण्ठस्य परिकीर्त्तितः
॥ २१ ॥

P4-0140 · 22
मुखं कण्ठप्रमाणं स्यात् मुखे मार्गं प्रकल्पयेत् ।
कनिष्ठांगुलिमानेन सर्पिषो निर्गमाय च
॥ २२ ॥

P4-0141 · 23
वेदीमध्ये विधातव्या भागेनैकेन कर्णिका ।
विदधीत बहिस्तस्या एकांशेनाभितोऽवटम्
॥ २३ ॥

P4-0142 · 24
तस्य खातं त्रिभिर्भागैर्वृत्तमर्द्धांशतो बहिः ।
अंशेनैकेन परितो दलानि परिकल्पयेत्
॥ २४ ॥

P4-0143 · 25
मेखला मुखवेद्योः स्यात् परितोऽर्द्धांशमानतः ।
दण्डमूलाग्रयोः कुम्भौ गुणवेदांगुलैः क्रमात्
॥ २५ ॥

P4-0144 · 26
गण्डीयुग्मं समांशं स्याद् दण्डस्यानाह ईरितः ।
षड्भिरंशैः पृष्ठभागो वेद्याः कूर्माकृतिर्भवेत्
॥ २६ ॥

P4-0145 · 27
हंसस्य वा हस्तिनो वा पौत्रिणो वा मुखं लिखेत् ।
मुखस्य पृष्ठभागेऽस्याः सम्प्रोक्तं लक्षणं स्रुचः
॥ २७ ॥

P4-0146 · 28
स्रुचश्चतुर्विंशतिभिर्भागैरारचयेत् स्रुवम् ।
द्वाविंशत्या दण्डमानम् अंशैरेतस्य कीर्त्तितम्
॥ २८ ॥

P4-0147 · 29
चतुर्भिरंशैरानाहः कर्षाज्यग्राहि-तच्छिरः ।
अंशद्वयेन विलिखेत् पङ्के मृगपदाकृतिम्
॥ २९ ॥

P4-0148 · 30
दण्डमूलाग्रयोर्गण्डी भवेत् कङ्कणभूषिता ।
स्रुवस्य विधिराख्यातः सर्वतन्त्रसमन्वितः ।
गण्डी कुम्भः कङ्कणञ्च ।
गण्डी कङ्कणकुम्भयोरिति भागुरिः
॥ ३० ॥

P4-0149 · 31
तयोरभावे तु वसिष्ठे :
पलाशपत्रे निश्छिद्रेरुचिरे स्रुक्स्रुवौ ततः ।
विदध्यात्वाश्वत्थपत्रे संक्षिप्ते होमकर्मणित
॥ ३१ ॥

P4-0150 · 32
अथ कुण्डानां विशेषफलानि :
निबन्धे :
सर्वसिद्धिकरं पुंसां चतुरस्रमुदाहृतम् ।
पुत्रप्रदं योनिकुण्डमर्द्धेन्द्वाभं शुभप्रदम्
॥ ३२ ॥

P4-0151 · 33
शत्रुक्षयकरं त्र्यस्रं वर्त्तुलं शान्तिकर्मणि ।
छेदमारणयोः कुण्डं षडस्रं पद्मसन्निभम् ।
दृष्टिदं रोगशमनं कुण्डमष्टास्रमीरितम्
॥ ३३ ॥

P4-0152 · 34
अथ काम्य-होमार्थं कुण्डनिर्णयः :
तदुक्तं सिद्धसारस्वते :
सान्तौ पुष्टौ तथारोग्ये कुण्डञ्च चतुरस्रकम् ।
आकर्षणे त्रिकोणं स्यादुच्चाटे वर्त्तुलं तथा ।
मारणे च तथा योज्यं वर्त्तुलं मन्त्रिभिः सदा
॥ ३४ ॥

P4-0153 · 35
तन्त्रान्तरे :
उदीच्यां पौष्टिके कुण्डं वारुणे शान्तिकादिषु ।
उच्चाटे चानिले कुण्डं याम्ये च मारणं भवेत्
॥ ३५ ॥

P4-0154 · 36
तथा च :
विप्राणां चतुरस्रं स्याद्राज्ञां वर्त्तुलमिष्यते ।
वैण्यानामर्द्धचन्द्राभं शूद्राणां त्र्यस्रमीरितम्
॥ ३६ ॥

P4-0155 · 37
चतुरस्रन्तु सर्वेषां केचिदिच्छन्ति तान्त्रिकाः ।
चतुरस्रे महेशानि सर्वकर्माणि साधयेत् ।
तथा :
सर्वाधिकारिकं कुण्दं सर्वदं चतुरस्रकम्
॥ ३७ ॥

P4-0156 · 38
गृहादिकरणे हस्तनियमः :
गौतमीये :
रथादिदोलिका चैव पोतं शकटमेव च ।
मानांगुलेन कर्त्तव्यं नान्येनापि कदाचन
॥ ३८ ॥

P4-0157 · 39
मुष्ट्यरत्निप्रमाणानि यत्किञ्चित् कथितानि च ।
यजमानस्य कर्त्तव्यं नान्यस्यापि कदाचन
॥ ३९ ॥

P4-0158 · 40
तथा :
मानक्रियायामुक्तायामनुक्ते मानकर्त्तरि ।
मानकृद्यजमानः स्याद्विदुषामेव निर्णयः
॥ ४० ॥

P4-0159 · 41
चतुर्विंशत्यंगुलाढ्यं हस्तं तन्त्रविदो विदुः ।
कर्त्तुर्दक्षिणहस्तस्य मध्यमांगुलिपर्वणः ।
मध्यस्व दैर्घ्यमानेन मानांगुलमुदाहृतम्
॥ ४१ ॥

P4-0160 · 42
तन्त्रान्तरे :
कर्मकर्त्तुनिजांगुष्ठतिर्यङ्मानेन मध्यमम् ।
प्रमाणांगुष्ठमेतत् तु सर्वकर्मणि चापरे
॥ ४२ ॥

P4-0161 · 43
यजमानासन्निधाने पुनः ।
यवानां तण्डुलैरेकमंगुलं चाष्टभिर्भवेत् ।
अदीर्घयोजितैर्हस्तश्चतुर्विंशतिभिर्भवेत्
॥ ४३ ॥

P4-0162 · 44
वययोऽनुक्रमे पुनः :
अष्टभिस्तैर्भवेज्ज्येष्ठं मध्यमं सप्तभिर्यवैः ।
कन्यसं षड्भिरुद्दिष्टमंगुलं मुनिसत्तमैः
॥ ४४ ॥

P4-0163 · 45
सहस्रे खलु होतव्ये कुर्यात् कुण्डं करात्मकम् ।
द्विहस्तमयुते तच्च लक्षहोमे चतुष्करम्
॥ ४५ ॥

P4-0164 · 46
षट्करे वेदलक्षञ्चाष्टकरे दशलक्षकम् ।
दशहस्तन्तु कोट्यां वै हस्तसंख्या व्यवस्थिता ।
दशहस्तात् परं कुण्डं नास्ति होमे महीतले
॥ ४६ ॥

P4-0165 · 47
शारदायाम् :
कोट्यामष्टकरं स्मृतमिति द्रव्यस्य गुरुत्वाऽगुरुत्वेन बोद्धव्यम् ।
तथा च :
एकहस्तमितं कुण्डं लक्षहोमे विधीयते ।
अत्राप्याज्यहोमे मधु-घृत-दूर्वा-करवीरादिहोमे च बोद्धव्यम्
॥ ४७ ॥

P4-0166 · 48
तथा :
मुष्टिमात्रमितं कुण्डं शतार्द्धे च प्रचक्षते ।
शतहोमेऽरत्निमात्रं हस्तमात्रं सहस्रके ।
द्विहस्तमयुते लक्षे चतुर्हस्तमुदाहृतम् ।
दशलक्षे तु षडहस्तं कोट्यामष्टकरं स्मृतम् ।
एकहस्तमिते कुण्डे लक्षमेकं विधीयते ।
लक्षाणां दशकं यावत् तावद्धस्तेन वर्द्धयेत्
॥ ४८ ॥

P4-0167 · 49
द्विहस्तादिकुण्डमानं तु गौतमीये :
पूर्वपूर्वस्य कुण्डस्य कोणसूत्रन्तु यद्भवेत् ।
उत्तरोत्तरकुण्डानां मानं तत् परिकीर्त्तितम् ।
कर्णसूत्रप्रमाणेन द्विहस्तं कुण्डमाहरेत् ।
सर्वकुण्डेषु सर्वत्र वर्द्धयेद् विधिनामुना
॥ ४९ ॥

P4-0168 · 51
कुण्डप्रकरणे विशेषमाह गौतमीये :
ततः कुण्डं खनेन्मन्त्री यथा शास्त्रविधानतः ।
त्यक्त्वा सर्पस्य गात्रञ्च शिरोदेशं प्रयत्नतः ।
शिरोघाते भवेन्मृत्युः पिण्डेषु पिण्डघातनम् ।
पूच्छे तु दुखसम्भूतिः क्रोडे सर्वार्थसाधनम्
॥ ५१ ॥

P4-0169 · 52
नागशिर-आदि-निर्णयो यथा :
वास्तुप्रमाणेन तु गात्रकेण, वमेन शेते खलु नित्यकालम् ।
त्रिभिस्तु मासैः परिवृत्य भूमौ, तं वास्तुनागं प्रवदन्ति
सिद्धाः
॥ ५२ ॥

P4-0170 · 53
भाद्रादिके वासवदिक्शिराः स्यात्, मार्गादिकेषु त्रिषु
याम्यमूर्द्धा ।
प्रत्यक्शिराः स्यात्खलु फाल्गुननादौ, ज्येष्ठादिकौवेरशिराः स
नागः
॥ ५३ ॥

P4-0171 · 54
यावान्कुण्डस्य विस्तारः खननं तावदिष्यते ।
खाताधिके भवेद्रोगी खातहीने धनक्षयः
॥ ५४ ॥

P4-0172 · 55
वक्रकुण्डे तु सन्तापो मरणं छिन्नमेखले ।
मेखलारहिते शोको ह्यधिके वित्तसंक्षयः
॥ ५५ ॥

P4-0173 · 56
भार्याविनाशकं प्रोक्तं कुण्डं योन्या विना कृतम् ।
अपत्यध्वंसनं प्रोक्तं कुण्डं कण्ठविवर्जितम्
॥ ५६ ॥

P4-0174 · 57
सात्विकी मेखला पूर्वा द्वितीया राजसी स्मृता ।
तृतीया तामसी प्रोक्ता मेखलानां विनिर्णयः
॥ ५७ ॥

P4-0175 · 58
कुण्डानां मेखलास्त्रिस्रो मुष्टिमात्रे तु ताः क्रयात् ।
उत्सेधायामतो ज्ञेयात्वेकार्द्धांगुलि सम्मिता
॥ ५८ ॥

P4-0176 · 59
अरत्निमात्रकुण्डे तु तास्त्रिद्व्येकांगुलात्मिकाः ।
हस्तमात्रमिते कुण्डे वेदाग्निनयनांगुलाः
॥ ५९ ॥

P4-0177 · 60
कुण्डे द्विहस्ते ता ज्ञेया रसवेदगुणांगुलाः ।
चतुर्हस्ते तु ता ज्ञेया वसुतर्कयुगांगुलाः
॥ ६० ॥

P4-0178 · 62
कुण्डे रसकरे तास्तु पंक्त्यष्टर्त्वंगुलाः क्रमात् ।
वसुहस्तमिते कुण्डे भानुपंक्त्यष्टकांगुलाः ।
दश हस्तमिते कुण्डे मनुभानुदशांगुलाः ।
विस्तारोत्सेधतो ज्ञेया मेखलाः सर्वतो बुधैः
॥ ६२ ॥

P4-0179 · 63
होतुरग्रे योनिरासामुपर्यश्वत्थपत्रवत् ।
मेखलानां भवेदन्तः परितो नेमिरंगुला
॥ ६३ ॥

P4-0180 · 64
एकहस्तस्य कुण्डस्य वर्द्धयेत् ताः क्रमात् सुधीः ।
दशहस्तान्तमन्येषामर्द्धांगुलवशात्पृथक् ।
एकहस्तस्य एकहस्तान्तस्य ।
नाभियोन्योरेकमानस्य दृष्टत्वात्
॥ ६४ ॥

P4-0181 · 65
गौतमीये :
प्रथमे मेखले योनिं कुण्डोष्ठीं होतुरग्रतः ।
कुर्यात् गजोष्ठवत्तान्तु कुण्डवित्सर्वलक्षणम्
॥ ६५ ॥

P4-0182 · 66
मुष्ट्यरत्न्येकहस्तानां कुण्डानां योनिरीरिता ।
षट्-चतुर्द्व्यंगुलायामविस्तारोन्नतिशालिनी
॥ ६६ ॥

P4-0183 · 67
एकांगुलन्तु योन्यग्रं कुर्यादीषदधोमुखम् ।
एकैकांगुलतो योनिं कुण्डेष्वन्येषु वर्द्धयेत् ।
यवद्वयप्रमाणेन योन्यग्रमपि वर्द्धयेत्
॥ ६७ ॥

P4-0184 · 68
गणेशविमर्षिण्याम् :
मेखलानां बहिःस्थानं स्थलमित्यभिधीयते ।
चतुरस्रस्थलारब्धं नालं मध्ये सरन्ध्रकम् ।
स्थूलमूलन्तु सूक्ष्माग्रं तन्नालं स्यान्मनोहरम् ।
बाह्यस्थमेखलावाह्यस्थलादारभ्य कारयेत्
॥ ६८ ॥

P4-0185 · 69
तथा :
स्थलादारभ्य नालं स्यात् योन्या मध्ये सरन्ध्रकम् ।
सरन्ध्रकमित्युभयत्र संवध्यते
॥ ६९ ॥

P4-0186 · 70
तदुक्तं गौतमीये :
स्थलादारभ्य नालं स्यात् सरन्ध्रं योनिमध्यतः ।
सूक्ष्माग्रं स्थलमूलञ्च सरन्ध्रं नालमिष्यते ।
योन्या मध्ये विलं कुर्यात् तदाज्यग्राहिसंज्ञकम् ।
मध्यतो मध्यपर्यन्तमित्यर्थः
॥ ७० ॥

P4-0187 · 71
तथा वसिष्ठे :
पृष्ठोन्नता गजोष्ठीव सच्छिद्रा मध्यमोन्नता ।
सरन्ध्रमिति मध्यमेखलायामित्यर्थः ।
तथा च :
नालमेखलयोर्मध्ये परिधेः स्थापनाय च ।
रन्ध्रं कुर्यात् तथा विद्वान् द्वितीयमेखलोपरि
॥ ७१ ॥

P4-0188 · 72
परिधिस्तु :
बाहुमात्राः परिधय ऋजवः सत्वचोऽब्रणाः ।
त्रयो भवन्त्यशीर्णाग्रा एकेषान्तु चतुर्द्दिशम् ।
मुष्ट्यरत्न्येकहस्तानां नाभिरुत्सेक भावतः ।
नेत्रवेदांगुलोपेता कुण्डेष्वन्येषु वर्द्धयेत् ।
यवद्वयक्रमेणैव नाभिं पृथगुदारधीः ।
योनिकुण्डे योनिमब्जकुण्डे नाभिञ्च वर्जयेत् ।
नाभिक्षेत्रं त्रिधा भित्वा मध्ये कुर्वीत कर्णिकाम् ।
बहिरंशद्वयेनाष्टौ पत्राणि परिकल्पयेत्
॥ ७२ ॥

P4-0189 · 73
नवकुण्डपक्षे योनिनियममाह सिद्धान्तशेखरे :
इन्द्राग्नियमदिक्कुण्डे योनिः सौम्यमुखी स्थिता ।
योनिः पूर्वमुखान्येषु पूर्वेशामुत्तरामता ।
हस्तमात्रं स्थण्डिलं वा संक्षिप्ते होमकर्मणि ।
अंगुलोत्सेधसंयुक्तं चतुरस्रं समन्ततः ।
आदाय दक्षिणे पाणौ स्रुवं त्रिमधुरः हविः ।
प्राङ्मुखो वह्निजायान्ते जुहुयान्न्युब्जपाणिना ।
नमोऽन्तेन नमो दद्यात् स्वाहान्ते द्विठमेव च ।
पूजायामाहुतौ चैव सर्वत्रायं विधिः स्मृतः ।
नमोऽन्त इति पौराणिकमन्त्रपरम्
॥ ७३ ॥

P4-0190 · 74
तथा च ब्रह्मपुराणम् :
ओङ्कारादिसमायुक्तं नमस्कारान्त-कीर्त्तितम् ।
स्वनाम सर्वसत्वानां मन्त्र इत्यभिधीयते ।
यथा :
इदं पाद्यं ॐ आदित्याय नमः ।
इदमर्घ्यं ॐ आदित्याय नमः इत्यादि ।
द्रव्यादीनि समुल्लिख्य पश्चादुल्लेखयेत् सुरानित्यादिवचनात् ।
न तु ॐ आदित्याय नमः, एतत् पाद्यं सूर्याय नमः इत्यादि
॥ ७४ ॥

P4-0191 · 75
तान्त्रिके नायं नियमः, अर्घ्यादौ वैषम्यं स्यात् ।
मन्त्रेणोङ्कारपूतेन स्वाहान्तेन विचक्षणः ।
स्वाहावसाने जुहुयात् ध्यायन् वै मन्त्रदेवताम् ।
ओङ्कारपूतेनेत्यादि इदमपि वेदिकमन्त्रपरम् ।
अन्यथा मन्त्रान्तरप्रसङ्गः ।
तेनस्वाहान्तमन्त्रे स्वाहान्तरं न वक्तव्यम्
॥ ७५ ॥

P4-0192 · 76
स्रुवस्य पञ्चांगुलं त्यक्त्वा शंखमुद्रया धारणम् ।
तदाह :
पञ्चांगुलं बहिस्त्यक्त्वा धारयेत् शङ्खमुद्रयेति
॥ ७६ ॥

P4-0193 · 77
यत्र होमसंख्या नोक्ता तत्र च :
संख्याऽनुक्तौ शतं साष्टं सहस्रं वा जपादिषु ।
अनुक्ते तु हविर्द्रव्ये तिलाज्यं हविरुच्यते
॥ ७७ ॥


Homa-Verfahren und Opfergaben

P4-0194 · 78
अथ नित्यहोमः :
तदुक्तं सोमभुजगावल्याम् :
नाजप्तः सिध्यते मन्त्रो नाहुतश्च फलप्रदः ।
नानिष्टो यच्छते कामान् तस्मात् त्रितयमर्चयेत् ।
पूजया लभते पूजां जपात्सिद्धिर्न संशय ।
विभूतिञ्चाग्निकार्येण सर्वसिद्धिञ्च विन्दति
॥ ७८ ॥

P4-0195 · 79
नीलतन्त्रेऽपि :
नित्यहोमं प्रवक्ष्यामि सर्वार्थं येन विन्दति ।
सपर्यां सम्यगापाद्य बलिपूर्वं चरेद्विधिम् ।
ततो होमं तर्पणञ्च चरेत् साधकसत्तमः ।
बलिवैश्यादिकञ्चैव ब्राह्मणः समुपाचरेत्
॥ ७९ ॥

P4-0196 · 80
अर्घ्योदकेन सम्प्रोक्ष्य तिस्रो रेखाः समालिखेत् ।
विधिवदग्निमानीय क्रव्यादेभ्यो नमस्तथा ।
मूलमन्त्रं समुच्चार्य कुण्डे वा स्थण्डिलेऽपि वा ।
भूमौ वा संस्तरेद्वह्निं व्याहृतित्रितयेन च ।
स्वाहान्तेन त्रिधा हुत्वा षडङ्गहवनं चरेत् ।
ततो देवीं समावाह्य मूलेन षोडशाहुतिम् ।
हुत्वा स्तुत्वा नमस्कृत्य विसृजेदिन्दुमण्डले
॥ ८० ॥

P4-0197 · 81
श्यामादौ विशेषः :
भैरवांश्च हुनेदष्टौ आज्यान्विततिलैः शुभैः ।
पूर्वादिदिक्क्रमेणैव ततो होमं समाचरेत्
॥ ८१ ॥

P4-0198 · 1
अथ संक्षेपहोमप्रयोगः :
कुण्डे वा स्थण्डिले वापि वीक्षणादिभिः संस्कृते
॥ १ ॥

P4-0199 · 2
तथा च :
वीक्षणं मूलमन्त्रेण शरेण ताडनं मतम् ।
तेनैव प्रोक्षणं प्रोक्तं वर्मणाभ्युक्षणं मतम्
॥ २ ॥

P4-0200 · 3
प्रागग्रा उदगग्राश्च तिस्रो रेखाः समालिखेत् ।
ततो मूलमुच्चार्य ॐ कुण्डाय नमः इति सम्पूज्य प्रागग्रा
उदगग्रास्तिस्रस्तिस्रो रेखाः कर्त्तव्याः ।
प्रागग्रेषु मुकुन्देशपुरन्दरान् प्रादक्षिण्येन सम्पूज्य
उदगग्रेषु ब्रह्मवैवस्वतेन्दून्पूजयेत्
॥ ३ ॥

P4-0201 · 4
सुन्दरी पक्षे तु सर्वत्र षट्तारीप्रयोगः ।
षट्तारी च :
ऐं ह्रीं श्रीं ऐं क्लीं सौः ब्रह्मणे नमः ।
एवं क्रमेण पूजयेत्
॥ ४ ॥

P4-0202 · 5
तथा ब्रह्मसंहितायां होमकाण्डे :
ऐशान्यां वेदिकां हस्तविस्तारोन्नतिशालिनीम् ।
कृत्वास्मिन् स्थापयेत् कुम्भं यथोक्तक्रमयोगतः ।
ततः सम्पूज्येद् देवं यथा विध्युपचारकैः ।
ततो होमं प्रकूर्वीत देवतासन्निधानतः
॥ ५ ॥

P4-0203 · 6
ततः कुण्डमध्ये षट्कोणवृत्त-त्रिकोणं तद्बहिरष्टदलपद्मं
तद्बहिश्चतुरस्रं चतुर्द्वारसमेतं लिखित्वा तदुपरि मूलेन
पुष्पाञ्जलीन् दद्यात्, सुन्दरी पक्षे तु बालया
॥ ६ ॥

P4-0204 · 7
ततः सर्वाणि प्रणवेनाभ्युक्ष्य वह्नेर्योगपीठमार्चयेत् ।
तद्यथा :
कर्णिकोपर्याधारशक्त्यादीन् सम्पूज्याग्न्यादिकोणचतुष्केषु ॐ
धर्माय नमः एवं ज्ञानाय वैराग्याय ऐश्वर्याय ।
पूर्वादिदिक्षु अधर्माय अज्ञानाय अवैराग्याय अनैश्वर्याय ।
मध्ये ॐ अनन्ताय एवं पद्माय अं अकर्मण्डलाय
द्वादशकलात्मने नमः, ॐ सोममण्डलाय षोडशकलात्मने
नमः, रं वह्निमण्डलाय द्वादशकलात्मने नमः ।
ततः केशरेषु पूर्वादिमध्ये च ॐ पीतायै नमः एवं श्वेतायै
नमः अरुणायै नमः कृष्णायै धूम्रायै तीव्रायै स्फुलिङ्गिन्यै
रुचिरायै ज्वालिन्यै ।
ततो रं वह्न्यासनाय नमः
॥ ७ ॥

P4-0205 · 8
ततो वागीश्वरीमृतुस्नातां नीलेन्दीवरलोचनाम् ।
वागीश्वरेण संयुक्ताम् इति ध्यात्वा ॐ ह्रीं वागीश्वराय नमः
ॐ ह्रीं वागीश्वर्ये नमः ।
इति पञ्चोपचारैः सम्पूज्य सूर्यकान्तादिसंभूतं
श्रोत्रियगेहजं वा वह्निमानयेत् ।
सुन्दरी पक्षे तु कामेश्वरं कामेश्वरीं पूजयेत्
॥ ८ ॥

P4-0206 · 9
गौतमीये :
पाषाणभवमग्निञ्च यदि वाऽरुणिसम्भवम् ।
श्रोत्रियाणां गेहजञ्च वनस्थं वाथवा हरेत्
॥ ९ ॥

P4-0207 · 10
निरग्निब्राह्मणाल्लब्धो ह्यर्द्धलाभकरो भवेत् ।
क्षत्रबन्धोश्चतुर्थांशं फलं दद्याद्धुताशनः ।
वैश्याच्छूद्राच्च विफलं जायते होमकर्मणि ।
तस्मात् सर्वप्रयत्नेन वह्निमुक्तं समाहरेत्
॥ १० ॥

P4-0208 · 11
तन्त्रान्तरे :
द्विजातिभवनाद्वापि वह्निमानीय साधकः ।
वौषडन्तेन मूलेन मन्त्रितं तं विलोकयेत् ।
अग्निमावाहयेदस्त्रमन्त्रेण तदनन्तरम् ।
हुं-फडन्तेन मूलेन क्रव्यादांशं परित्यजेत्
॥ ११ ॥

P4-0209 · 12
ततः ॐ वह्नेर्योगपीठाय नमः ।
चतुर्दिक्षु ॐ वामायै नमः ।
एवं ज्येष्थायै रौद्र्यै अम्बिकायै ।
ततो मूलमूचार्य अमुकदेवताकुण्डाय नमः इति कुण्डं
सम्पूज्य तदधो वागीश्वरीं तत्तदेवतारूपाम् ऋतुमतीं
ध्यात्वा यथोक्तं वह्निमानीय वीक्षणादिभिः संस्कृत्य रमिति
तस्माद् वह्निमुद्धृत्य मूलमुच्चार्यं हुं फट् क्रव्यादेभ्यः
स्वाहा इत्यनेन क्रव्यादांशं परित्यज्य वह्निमन्त्रेण संरक्ष्य
हुमित्यवगुण्ठ्य धेनुमुद्रयामृतीकृत्य बाहुभ्यां समुद्धृत्य
कुण्डोपरि त्रिः परिभ्राम्य जानुस्पृष्टमहीतलः शिवबीजबुद्ध्या
आत्मनोऽभिमुखं देव्या योनावेनं क्षिपेत्
॥ १२ ॥

P4-0210 · 13
ततो ह्रीं वह्निमूर्तये नमः इत्यभ्यर्च्य रं वह्निचैतन्याय नमः
इति चैतन्यं संयोज्य ॐ चित्पिङ्गल हन हन दह दह पच पच
सर्वज्ञाज्ञापय स्वाहा ज्वालयेत् ।
ततः :
अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् इत्युपतिष्ठेत्
॥ १३ ॥

P4-0211 · 14
ततोऽग्ने त्वममुकदेवतानामासि इति नाम कृत्वा ॐ वैश्वानर
जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा ।
अनेनार्घ्यादिभिः सम्पूज्य ॐ अग्नेर्हिरण्यादिसप्तजिह्वाभ्यो नमः ।
ॐ सहस्रार्चिषे हृदयाय नमः इत्यादि अग्निषडङ्गेभ्यो नमः ।
ॐ अग्नये जातवेदसे इत्याद्यष्टमूर्तिभ्यो नमः, तद्बाह्ये ॐ
ब्राह्म्याद्यष्टशक्तिभ्यो नमः तद्बहिः ॐ पद्माद्यष्टनिधिभ्यो
नमः, तद्बाह्ये ॐ इन्द्रादिलोकपालेभ्यो नमः, तद्बाह्ये ॐ
वज्राद्यस्त्रेभ्यो नमः
॥ १४ ॥

P4-0212 · 15
ततः प्रादेशमात्रं कुशपत्रद्वयं घृतमध्ये निक्षिप्य
सव्यापसव्यमध्यभागेषु इडां पिङ्गलां सुषुम्नां ध्यात्वा
होमं कुर्यात् ।
स्रुवेण दक्षिण भागादाज्यं गृहीत्वा ॐ अग्नये स्वाहेति
अग्नेर्दक्षिणनेत्रे जुहुयात् ।
तथा वामभागादाज्यं गृहीत्वा ॐ सोमाय स्वाहा इति वामनेत्रे
जुहुयात् ।
ततो मध्यभागादाज्यं गृहीत्वा ॐ अग्नीषोमाभ्यां
स्वाहेत्यग्नेर्ललाटनेत्रे जुहुयात् ।
पुनर्दक्षिणतः ॐ नमः इति घृतं गृहीत्वा ॐ अग्नये स्विष्टिकृते
स्वाहेति अग्निमुखे
॥ १५ ॥

P4-0213 · 16
ततो महाव्याहृतिहोमः :
ॐ भूः स्वाहा ॐ भुवः स्वाहा ॐ स्वः स्वाहा ।
ॐ वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय
स्वाहेत्यनेन त्रिवारं जुहुयात् ।
ततोऽग्नौ मूलेन पीठपूर्वकं देवतां सम्पूज्य तन्मुखे
घृतेन मूलमन्त्रेण पञ्चविंशतिवारं जुहुयात् ।
आत्मना सह वह्निदेवतयोरैक्यं विभाव्य
मूलमन्त्रेनैकादशाहुतीर्जुहुयात् ।
ततो मूलमन्त्रस्याङ्गदेवताभ्यः स्वाहा एवं
आवरणदेवताभ्यः स्वाहा ।
शक्तश्चेत् प्रत्येकमेकैकाहुतिं जुहुयात् ।
ततः संकल्पं विधाय तत्तत्कल्पोक्तद्रव्येण होमं कुर्यात्
॥ १६ ॥

P4-0214 · 17
ततो मूलमन्त्रेण पूर्णाहुतिं दत्त्वा संहारमुद्रया
स्वेष्टदेवतां हृदये समानीय क्षमस्वेति विसृज्य दक्षिणां
दत्त्वा अच्छिद्रावधारणं कुर्यात् ।
इति संक्षेपहोमविधिः
॥ १७ ॥

P4-0215 · 1
अथ बृहद्धोमपद्धतिः :
आचार्योऽलंकृतो यागमण्डपद्वारमागत्य सामान्यार्घ्यं
विधाय द्वारपूजां कृत्वा गृहं प्रविश्य तत्तत्कल्पोक्तदेवताम्
सम्पूज्य ऐशान्यं दिशि हस्तप्रमाणां वेदिकां विधाय तदुपरि
घटं संस्थाप्य यथाशक्ति सम्पूज्य वीक्षणादिभिः कुण्डं
संस्कुर्यात् ।
एतदुक्तं ब्रह्मसंहितायां होमकाण्डे :
ऐशान्यां वेदिकां हस्तविस्तारोन्नतिशालिनीम् ।
कृत्वास्मिन् स्थापयेत् कुम्भं यथोक्त क्रमयोगतः ।
तत्र सम्पूजयेद् देवं यथाविध्युपचारकैः ।
ततो होमं प्रकुर्वीत देवतासन्निधानतः
॥ १ ॥

P4-0216 · 2
वीक्षणं मूलमन्त्रेण शरेण ताडनं मतम् ।
तेनैव प्रोक्षणं दर्भैर्वर्मणाभ्युक्षणं मतम् ।
अस्त्रेण रक्षणं कृत्वा ततः संस्कारमारभेत् ।
ततो मूलमुच्चार्य ॐ कुण्डाय नमः इति कुण्डं सम्पूजयेत्
॥ २ ॥

P4-0217 · 3
तारादौ तु तत्तद्देवतानामोच्चार्य कुण्डाय नमः इति वदेत् ।
ततः कुण्डमध्ये प्रागग्रा उदगग्रास्तिस्रस्तिस्रो रेखा विलिखेत् ।
ततः संक्षेपहोमपद्धत्युक्तक्रमेण सर्वं करणीयम् ।
तन्त्रे :
द्विजातिभवनाद्वापि वह्निमानीय साधकः ।
वौषडन्तेन मूलेन मन्त्रितं तं विलोकयेत् ।
अग्निमावाहयेदस्त्रमन्त्रेण तदनन्तरम् ।
हुंफडन्तेन मूलेन क्रव्यादांशं परित्यजेत्
॥ ३ ॥

P4-0218 · 4
ततोऽग्निं वीक्षणादिभिः संस्कृत्य औदर्यवैन्दवाग्निभ्यां
भौमस्य वह्नेरैक्यं विभाव्य रं वह्निचैतन्यं कल्पयामीति
पावके चैतन्यं विधाय ओंकारेणाष्टोत्तरशतमभिमन्त्र्य
धेनुमुद्रया अमृतीकृत्य फडिति संप्रोक्ष्य हुमित्यवगुण्ठ्य रं
वह्निमूर्त्तये नमः इति गन्धपुष्पादिभिः सम्पूज्य कुण्डस्योपरि
त्रिः परिभ्राम्य प्रणवोच्चारण पूर्वकं जानुस्पृष्टमहीतलः
शिवबीज-बुद्ध्या आत्मनोऽभिमुखं देव्या योनावेनं क्षिपेत् ।
ततो वागीश्वरवागीश्वरीभ्यां आचमनीयादिकं दत्त्वा :
तथा गर्भे धृतां ध्यायेत्वह्निरूपान्त वेवताम् ।
पश्चाद्गर्भस्य रक्षार्थं प्रदद्याद्दर्भकंकणम् ।
चित्पिङ्गल हन हन पच पच दह दह सर्वज्ञाज्ञापय स्वाहा इति
मन्त्रेण वह्निं ज्वालयेत्
॥ ४ ॥

P4-0219 · 5
ततो बद्धाञ्जलिः सन् :
ॐ अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् ।
इत्यनेन वह्निमुपतिष्ठेत्
॥ ५ ॥

P4-0220 · 6
ततो स्वदेहे वह्नेर्जिह्वान्यासं कुर्यात् ।
तद्यथा :
लिङ्गे सरयूं हिरण्यायै नमः ।
पायौ षरयूं कनकायै नमः ।
मूर्ध्निं शरयूं रक्तायै नमः ।
वक्त्रे वरयूं कृष्णायै नमः ।
घ्राणे लरयूं सुप्रभायै नमः ।
नेत्रे ररयूं बहुरूपायै नमः ।
सर्वगात्रे यरयूं अतिरक्तायै नमः ।
एताः सात्त्विकयागकर्मणि
॥ ६ ॥

P4-0221 · 7
काम्यकर्मणि तु उक्तबीजेन सह पद्मरागा सुवर्णा भद्रलोहिता
रोहिता श्वेता धूमिनी करालिका एता राजस्यः ।
क्रूरकर्मणि तु पूर्वबीजेन सह विश्वमूर्त्तिः स्फुलिङ्गिनी
धूम्रवर्णा मनोजवा लोहिता कराला कालो एतस्तामस्यः ।
न्यासन्तु बीजयोगेन पूर्ववत् कर्मभेदेन सर्वत्र बोद्धव्यः
॥ ७ ॥

P4-0222 · 8
तथा च शारदायाम् :
लिङ्गपायुशिरोवक्त्रघ्राणनेत्रेषु सर्वतः ।
वह्नियार्घीशसंयुक्ताः सादियान्ताः सविन्दवः ।
वह्निमन्त्राः समुद्दिष्टा जिह्वानां सप्तदेशिकैः
॥ ८ ॥

P4-0223 · 9
ततः कराङ्गन्यासौ यथा :
सहस्रार्चिषे अंगुष्ठाभ्यां नमः स्वस्तिपूर्णाय तर्जनीभ्यां
स्वाहा उत्तिष्ठपुरुषाय मध्यमाभ्यां वषट् धूमव्यापिने
अनामिकभ्यां हुं सप्तजिह्वाय कनिष्ठाभ्यां वौषट्
धनुर्द्धराय करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु सहस्रार्चिषे हृदयाय नमः इत्यादि
॥ ९ ॥

P4-0224 · 10
ततो मूर्तिन्यासः यथाः :
मूर्ध्नि ॐ अग्नये जातवेदसे नमः, दक्षांसे ॐ अग्नये सप्तजिह्वाय
नमः, दक्षपार्श्वे ॐ अग्नये हव्यवाहनाय नमः, दक्षकट्यां
ॐ अग्नये अश्वोदरजाय नमः, लिङ्गे ॐ अग्नये वैश्वानराय नमः,
वामकट्यां ॐ अग्नये कौमारतेजसे नमः, वामपार्श्वे ॐ अग्नये
विश्वमुखाय नमः, वामांसे ॐ अग्नये देवमुखाय नमः ।
सर्वत्र आदौ प्रणवः
॥ १० ॥

P4-0225 · 11
तथा च :
मूर्त्तीरष्टौ ततो न्यस्येद्देशिको जातवेदसः ।
मूर्द्धांशपार्श्वकट्यन्धुकटिपार्श्वांसकेषु च ।
जातवेदाः सप्तजिह्वो हव्यवाहनसंज्ञकः ।
अश्वोदरजसंज्ञोऽन्यः पुनर्वैश्वानराह्वयः ।
कौमारतेजाः स्याद्विश्वमुखी देवमुखः स्मृतः ।
ताराद्यग्निपदाद्याः स्युर्नत्यन्ता वह्निमूर्त्तयः
॥ ११ ॥

P4-0226 · 12
ततो रं वह्न्यासनाय नमः इति वह्नेरासनं कल्पयित्वा मूर्त्तिं
तत्र विचिन्तयेत् ।
इष्टं शक्तिं स्वस्तिकाभीतिमुञ्चैर्दीर्घैर्दोभिधारयन्तं
जवाभम् ।
होमाकल्पं पद्मसंस्थं त्रिनेत्रं ध्यायेद्वह्नि बद्धमौलिं
जटाभिः
॥ १२ ॥

P4-0227 · 13
ततो मेखलानामुपरि बालया विशुद्धैस्तोयैः परिषिच्य
मेखलायां गर्भशून्यैर्दर्भैरग्रेण मूलमाच्छादयन्
त्रिस्त्रिः परिवेष्टयेत् ।
तत प्राचीवर्ज्यं दिक्षु परिधीन् विनिक्षिप्य तत्र प्रादक्षिण्येन
ब्रह्मादिदेवताः पूज्याः
॥ १३ ॥

P4-0228 · 14
पुनर्वह्निं ध्यात्वा तत्र पीठे आवाह्यानेन मन्त्रेण
गन्धादिभिः पूजयेत् ।
ॐ वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्मणि साधय
स्वाहा इदं पाद्यं अग्नेय नमः इत्यादिक्रमेण ।
मेखलायां वामां ज्येष्ठां रौद्रीं अम्बिकाञ्च पूजयेत् ।
मध्ये षट्कोणे सरयूं हिरण्यायै नमः षरयूं कनकायै
नमः शरयूं रक्तायै नमः वरयूं कृष्णायै नमः
लरयूं सुप्रभायै नमः ररयूं बहुरूपायै नमः यरयूं
अतिरक्तायै नमः ।
एतासामधिष्ठातृदेवतास्तन्त्रान्तरे-
अमर्त्त्यपितृगन्धर्वयक्षनागपिशचकाः ।
राक्षसः सप्तजिह्वानामीरिता अधिदेवताः ।
एवं काम्ये सरयूं पद्मरागायै नमः इत्यादि ।
क्रूरे सरयूं विश्वमूर्तये नमः इत्यादि
॥ १४ ॥

P4-0229 · 15
यदा गणेशविमर्षिण्याम् :
हिरण्या सप्तहेमाभा शूलपाणेर्दिशि स्थिता ।
वैदूर्यवर्णा कनका प्राच्यां दिशि समाश्रिता ।
तरुणादित्यसंकाशा रक्ता जिह्वाग्निसंस्थिता ।
कृष्णानीलाभ्रसंकाशा नैर्-ऋत्यां दिशि संस्थिता ।
सुप्रभा पद्मरागाभा वारुण्यां दिशि संस्थिता ।
अतिरक्ता जवाभा सा वायव्यां दिशि संस्थिता ।
बहुरूपा यथाख्याता दक्षिणोत्तर संस्थिता
॥ १५ ॥

P4-0230 · 16
ततः केशरेषु अग्नयादिकोणे मध्ये दिक्षु च ॐ सहस्रार्चिषे
हृदयायः नमः ॐ स्वस्तिपूर्णाय शिरसे स्वाहा, ॐ उत्तिष्ठ
पुरुषाय शिखायै वषट्, ॐ धूमव्यापिने कवचाय हुं, ॐ
सप्तजिह्वाय नेत्रत्रयाय वौषट्, ॐ धनुर्द्धराय अस्त्राय फट् ।
ततः पूर्वादिदलेषु ॐ अग्नये जातवेदसे नमः, ॐ अग्नये सप्तजिह्वाय
नमः, ॐ अग्नये हव्यवाहनाय नमः, ॐ अग्नये अश्वोदरजाय
नमः, ॐ अग्नये वैश्वानराय नमः, ॐ अग्नये कौमारतेजसे नमः,
ॐ अग्नये विश्वमुखाय नमः, ॐ अग्नये देवमुखाय नमः ।
इति वह्निमूर्त्तीः शक्तिस्वस्तिकधारिणी सम्पूज्य लोकपालान्
स्वस्वदिक्षु पूजयेत्
॥ १६ ॥

P4-0231 · 17
ततो हस्ताभ्यां स्रुक्स्रुवौ गृहीत्वा अधोमुखौ कृत्वा वह्नौ
त्रिवारं प्रतप्य दर्भानादाय यथा क्रमं
तदग्रमूलमध्यानि शोधयित्वा दक्षिणहस्तेन सम्प्रोक्षः पुनः
प्रतप्य दर्भानग्नौ प्रक्षिप्य आत्मनो दक्षिणभागे कुशान्तरे
स्थापयेत्
॥ १७ ॥

P4-0232 · 18
ततः आज्यस्थालीमात्मसम्मुखमानीय अस्त्रजप्तेन वारिणा तां
संशोध्य तस्यामाज्यं निक्षिप्य वीक्षणादिभिस्तत्तत् संस्कुर्यात्
॥ १८ ॥

P4-0233 · 19
ततो वायव्यऽङ्गारमुद्धृत्य तेषु नमः इति मन्त्रेणाज्यस्थालीं
निवेशयेत् ।
ततो दर्भयुग्मं संदीप्याज्ये क्षिप्त्वा अनेन निक्षिपेत् ।
नमः इति मन्त्रेण दीप्तदर्भयुग्मेनाज्यं नीराज्य
तद्दर्भयुग्मं अग्नौ विसर्जयेत्
॥ १९ ॥

P4-0234 · 20
ततः फडिति मन्त्रेण घृते प्रज्वलितान्दर्भान् प्रदर्श्य तानग्नौ
क्षिपेत् ।
ततो घृतं गृहीत्वा पुनरङ्गारं वह्नौ संयोज्य जलं स्पृष्ट्वा
दक्षिणहस्तोपरिभावेनाधोमुखेनांगुष्ठोपकनिष्ठाभ्यां
प्रादेशसम्मितौ दर्भौ धृत्वा अस्त्रेण घृतं पवित्रीकृत्य नमः इति
मन्त्रेण तत्कुशाभ्यां आत्मसम्मुखे धृतसम्प्लवं कुर्यात्
॥ २० ॥

P4-0235 · 21
ततः प्रादेशमात्रं सग्रन्थिदर्भयुग्मं धृतान्तरे क्षिप्त्वा
द्वौ भागौ कृत्वा शुक्लकृष्णपक्षौ स्मरेत् ।
ततो वामे इडानाडी दक्षिणे पिङ्गलां मध्ये सुषुम्नां ध्यात्वा
होमं कुर्यात्
॥ २१ ॥

P4-0236 · 22
तद्यथा :
नमः इति मन्त्रेण स्रुवेणदक्षिणभागादाज्यमादाय
अग्नेर्दक्षिणलोचने ॐ अग्नये स्वाहा इति जुहुयात् ।
तद्वद्वामतः आज्यमादाय ॐ सोमाय स्वाहा इति अग्नेर्वमलोचने
जुहुयात् ।
तन्मध्यभागादाज्यमादाय अग्नेर्भाललोचने ॐ अग्नीषोमाभ्यां
स्वाहा इति जुहुयात् ।
ततो नमः इति मन्त्रेण स्रुवेणाज्यं दक्षिणभागादादाय
वह्निमुखे ॐ अग्नये स्विष्टिकृते स्वाहा इति जुहुयात् ।
सर्वत्राहुतिसम्पातः पात्रान्तरे
॥ २२ ॥

P4-0237 · 23
ततो महाव्याहृतिहोमः :
ॐ भूं स्वाहा ॐ भुवः स्वाहा ॐ स्वः स्वाहा ।
ततो वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय
स्वाहा, इत्यनेन त्रिवारं हुत्वा अग्नेर्गर्भाधानादिक्रियाः
सम्पादयेत्
॥ २३ ॥

P4-0238 · 24
तद्यथा :
गर्भाधानं पुंसवनं सीमन्तोन्नयनं जातकर्म
नामकरणं निष्क्रमणं अन्नप्राशनं चूडाकरणम्
उपनयनं महाव्रतम् उपनिषत्स्नानं गोदानं उद्वाहाख्यम् ।
क्रूरकर्मणि माराणन्तम् ।
तथा च :
शुभेषु स्युर्ध्विवाहान्ता मृत्व्यन्तोः क्रूरकर्मसु
॥ २४ ॥

P4-0239 · 25
तत्र क्रमः :
ॐ अग्नेर्गर्भाधानं सम्पादयामि स्वाहा ।
इति प्रतिकर्माणि क्रमेणाज्याहुतीर्जुहुयात्
॥ २५ ॥

P4-0240 · 26
सुन्दरीपक्षे तु ॐ अग्नेर्?गर्भाधानं कल्पयामि ऐं नमः ।
३६०) इत्येकैकाहुतिं दद्यात्, इति कल्पसूत्रप्रतिपादितम्
॥ २६ ॥

P4-0241 · 27
नामकरणे तु मूलदेवीं समभ्यर्च्य तन्नामकरणाय च ।
हुनेत् पञ्चमबाणेन आहुतीनां त्रयं तथा ।
कामाग्निस्तवं हुताशनेति नाम कुर्यादनन्तरम् ।
ततो वह्नेः पितरौ (वागीश्वरवागीश्वर्यौ) सम्पूज्यात्मनि योजयित्वा
मूलाग्रमध्येषु धृतप्लुताः समिधः पञ्च मनसा ध्यात्वा
जुहुयात्
॥ २७ ॥

P4-0242 · 28
ततो वह्नेः पूर्वोक्तजिह्वाङ्गमूर्त्तीनाम् एकैकाहुतिं दत्त्वा
स्रुवेण चतुर्वारमाज्यमादाय स्रुचि निधाय स्रुवेण तां पिधाय
उत्तिष्ठन् ॐ वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि
साधय स्वाहा ।
वौषडित्यनेन जुहुयात्
॥ २८ ॥

P4-0243 · 29
ततो विघ्नेश्वरमन्त्रेण दशाहुतीर्जुहुयात् ।
तद्यथा :
ॐ स्वाहा, ॐ शीं स्वाहा, ॐ शीं ह्रीं स्वाहा, ॐ श्रीं ह्रीं क्लीं
स्वाहा, ॐ श्रीं ह्रीं क्लीं ग्लौं स्वाहा, ॐ श्रीं ह्रीं क्लीं
ग्लौं गं स्वाहा, ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये
स्वाहा, ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर-वरद स्वाहा
।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर-वरद सर्वजनं
स्वहा ।
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे
वशमानय स्वाहा ।
तथा च प्रपञ्चसारे :
ताराद्यैर्दशभिर्देवि पूर्वपूर्वसमन्वितैः ।
मनुना गाणपत्येन हुनेत्पूर्वं दशाहुतीः
॥ २९ ॥

P4-0244 · 30
ततो देवतायाः पीठं वह्नौ समभ्यर्च्य वह्निरूपां तां
विचिन्त्य पञ्चोपचारादिभिः पूजयेत्
॥ ३० ॥

P4-0245 · 31
सुन्दरीपक्षे तु षडाननमन्त्रेण अङ्गमन्त्रेण च सम्पूज्य ॐ
ह्रीं श्रीं समस्तप्रटकगुप्ततरसम्प्रदायकुलकौलिनि - गर्भ -
रहस्यातिरहस्यपरमातिरहस्ययोगिनीचक्र-श्रीपादुकां
पूजयामीति विशेषः
॥ ३१ ॥

P4-0246 · 32
तारादौ तु ब्राह्म्यादि-लक्ष्म्यादि-इन्द्रादि-वज्रादींश्च पूजयेत् इति
विशेषः
॥ ३२ ॥

P4-0247 · 33
ततो वह्निमुखे मूलमन्त्रेण घृतेन पञ्चविंशाहुतीर्जुहुयात् ।
ततो वह्निदेवतयोरात्मना सह ऐक्यं विभाव्य मूलेनाज्येन
एकादशाहुतीर्जुहुयात् ।
ततस्तत्तद्देवताया आवरणदेवतानां प्रत्येकैकाहुतीर्जुहुयात्
॥ ३३ ॥

P4-0248 · 34
ततः सङ्कल्पिततत्तत्कल्पोक्तविहितद्रव्यैर्होमं कुर्यात् ।
तद्यथा :
बहुरूपाख्यजिह्वायां जुहुयात् सर्वकर्मणि ।
यतः समस्तसिद्धीनां सावित्री बहुरूपिकेति
॥ ३४ ॥

P4-0249 · 35
यामले :
कुण्डमध्ये हिरण्याख्या वश्याकर्षण कर्मणि ।
कनकाख्या स्तम्भनादौ रक्ताख्या द्वेषणे तथा ।
कृष्णाख्या मारणे शस्ता सुप्रभा शान्तिकर्मनि ।
उच्चाटनेऽतिरक्ताख्या बहुरूपा सुसिद्धिदा
॥ ३५ ॥

P4-0250 · 36
ॐ भूरग्नये पृथिव्यै महते च स्वाहा ।
ॐ भूवो वायवे अन्तरीक्षाय च दिवे महते च स्वाहा ।
ॐ स्वश्चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यो महते च स्वाहा ।
ॐ भूर्भुवः स्वश्चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यो महते च स्वाहा
॥ ३६ ॥

P4-0251 · 37
काम्यहोमे अंगुलिनियमस्तु :
तर्जन्यंगुष्ठयोगात् तु शान्त्यर्थं जुहुयान्नरः ।
दाहज्वराभिचाराणामनामांगुष्ठमुद्रया ।
विद्वेषोच्चाटने चैव मारणे च प्रशस्यते ।
प्रादेशिनीमध्यमाभ्यां वधोपशमनं भवेत् ।
वपुर्मेधा तथा कान्तिर्नींतिपुष्ट्यादिके तथा ।
आकर्षणानि सर्वाणि दूरादर्थगातानि च ।
तर्जन्यनामिकायोगात्सद्य एव भवन्ति हि ।
मोहनं वश्यकामञ्च प्रीतिसंवर्द्धनन्तथा ।
प्रदेशिनी कनिष्ठाभ्यां सर्वमेतत् प्रसिद्ध्यति ।
मोहनाकर्षणञ्चैव क्षोभणोच्चाटनं तथा ।
कनिष्ठामध्यमांगुष्ठसंयोगेन तु लीलया ।
विधियुक्तेन होमेन तथा द्रव्यानुयोगतः ।
सर्वे मन्त्राः प्रसिद्ध्यन्ति मुद्रामन्त्रप्रयोगतः
॥ ३७ ॥

P4-0252 · 38
ततो होमद्रव्याणि स्रुवेण स्रुचि निधाय, तेनाच्छाद्य, तौ नाभौ
(नाभिसमीपे) संस्थाप्य, इतः पूर्वमित्यादिमन्त्रेण
मूलमन्त्रेण च पूर्णाहुतिं दत्त्वा संहारमुद्रया
आत्मन्युद्वास्य पुनर्व्याहृतिभिर्हुत्वा,
अग्नेर्जिह्वाङ्गमूर्त्तीनामेकैकाहुतिं दद्यात्
॥ ३८ ॥

P4-0253 · 39
ततः पूर्ववन्मेखलोपरि अद्भिः परिषिच्यात्मनि संहारमुद्रया
पावकं योजयित्वा परिधीन्सपरिस्तरान् अग्नौ क्षिपेत् ।
विशेषस्तु नैमित्तिके कर्मणि एतान्दहेत् ।
नित्ये कर्मणि न दहेत् ।
तथा च शारदायाम् :
नैमित्तिके दहेन्मन्त्री नित्ये न तु दहेदिमान्
॥ ३९ ॥

P4-0254 · 40
ततो दक्षिणां दद्यात् ।
तथा च ज्ञानमालायाम् :
सुवर्णमयुते दद्यात् लक्ष्ये दशसुवर्णकम् ।
दक्षिणा तु प्रदातव्या यथा होमे तथा जपे ।
अलाभे दक्षिणा ज्ञेया गुरुसन्तोषकारिणीति
॥ ४० ॥

P4-0255 · 41
यदि दीक्षाङ्गहोमस्तदा देवताया आवरणदेवतायाश्च
होमानन्तरम् ।
आज्यान्वितैस्तिलैः कल्पविहितैर्द्रव्यैर्वा देवताया अष्टोत्तर सहस्रं
शतं वा जुहुयात्
॥ ४१ ॥

P4-0256 · 42
ततः सुधौतदन्ताढ्यं शिष्यं स्नातं कुण्डान्तिकमानीय
दिव्यदृष्ट्या तं विलोक्य-तच्चैतन्यं गुरुरात्मनि संयोज्य,
अध्वविशोधनं कुर्यात् ।
तद्यथा :
कुशगुच्छेन शिष्यस्य पादं स्पृशन् ॐ शोधयामि कलाध्वनिं
स्वाहेति आज्यान्वितैस्तिलैरष्टाहुतीर्जुहुयात् ।
एवमन्धुं (पायुं) स्पृष्ट्वा ॐ शोधयामि तत्त्वाध्वानं स्वाहा
।
नाभिं स्पृष्ट्वा ॐ शोधयामि भुवनाध्वानं स्वाहा ।
हृदयं स्पृष्ट्वा शोधयामि वर्णाध्वनं स्वाहा ।
भालं स्पृष्ट्वा ॐ शोधयामि पदाध्वानं स्वाहा ।
मूर्द्धानं स्पृष्ट्वा ॐ शोधयामि मन्त्राध्वानं स्वाहा ।
सर्वत्राष्टाहुतीर्जुहुयात् ।
एवं क्रमेण तत् परशिवे संहृत्य पुनः सृष्टिवर्त्मना
तत्तदाहुतिभिः क्रमेण जनयेत् ।
तद्यथा :
मन्त्राध्वनं पदाध्वा पदाध्वनो वर्णाध्वा वर्णाध्वनो
भुवनाध्वा भुवनाध्वनस्तत्त्वाध्वा तत्त्वाध्वनः कलाध्वा ।
एवं क्रमेण जुहुयात् ।
ततो दिव्यदृष्ट्या तं शिष्यं विलोकयन् आत्मस्थितं तच्चैतन्यं
शिष्ये नियोजयेत् ।
ततः स्रुचा पूर्णाहुतिदनादि कर्म समाप्य, पूर्वोक्त, क्रमेण
दीक्षां कारयेत् ।
इति वृहद्धोमपद्धतिः
॥ ४२ ॥

P4-0257 · 43
अथ होमद्रव्याणां परिमाणम् :
कर्षमात्रं घृतं होमे शुक्तिमात्रं पयःस्मृतम् ।
उक्तानि पञ्चगव्यानि तत्समानि मनीषिभिः ।
तत्समं मधुदुग्धान्नमक्षमात्रमुदाहृतम् ।
दधि प्रसृतिमात्रं स्याल्लाजाः स्युर्मुष्टिसम्मिताः ।
पृथुकास्तत्प्रमाणाः स्युः शक्तयोऽपि तथोदिताः ।
गुडपलार्द्धमानं स्यात् शर्करापि तथा स्मृता ।
ग्रासार्द्धं चरुमानं स्यादिक्षुः पर्वावधिः स्मृतः ।
एकैकं पत्रपुष्पाणि तथा पूपानि कल्पयेत् ।
कदलीफलनारङ्गं फलान्येकैकशो विदुः ।
मातुलुङ्गं चतुःखण्डं पनसं दशधा कृतम्
॥ ४३ ॥

P4-0258 · 44
अष्टधा नारिकेलानि खण्डितानि विदुर्बुधाः ।
त्रिधाकृतं फलं बिल्वं कपित्थं ख्ण्डितं द्विधा ।
उर्वारुकफलं होमे कथितं खण्डितं त्रिधा ।
फलान्यन्यान्यख्ण्डानि समिधः स्युर्दशांगुलाः ।
दूर्वात्रयं समुद्दिष्टं गुडूची चतुरंगुला व्रीहयो
मुष्टिमात्राः स्युर्मुद्गा माषा यवा अपि ।
तण्डुलाः स्युस्तदर्द्धांशाः कोद्रवा मुष्टिसम्मिताः ।
गोधूमा रक्तकमला विहिता मुष्टिमानतः ।
तिलाश्चुल्लुकमात्राः स्युः सर्षपास्तत्प्रमाणतः ।
शुक्तिप्रमाणं लवणं मरिचान्यपि विंशतिः ।
पुरं (गुग्गुलु) वदरमानं स्याद्रामठं (हिंगु) तत्समं
स्मृतम् ।
चन्दनागुरुकर्पूरकस्तूरीकुंकुमानि च ।
तिन्तिडीबीजमानानि समुद्दिष्टानि देशिकैः ॥ ४३-क ॥
वैश्वानरं स्थितं ध्यायेत् समिद्धोमेषु देशिकः ।
शयानमाज्यहोमेषु निषण्णं शेषवस्तुषु
॥ ४४ ॥

P4-0259 · 45
अस्यान्तर्जुहुयाद्वह्नेर्विपश्चित्सर्वकर्मसु ।
कर्णहोमे भवेद्व्याधिर्नेत्रेऽन्धत्वं समीरितम् ।
नासिकायां मनःपीडामस्तके धनसंशयः
॥ ४५ ॥

P4-0260 · 46
यतः काष्ठं ततः श्रोत्रं यतो धूमोऽत्र नासिका ।
यत्राल्पज्वलनं नेत्रं यतोऽङ्गारस्ततः शिरः ।
यत्र प्रज्वलिता ज्वाला सा जिह्वा जातवेदसः
॥ ४६ ॥

P4-0261 · 47
स्वर्णसिन्दूरबालार्ककुंकुमक्षौद्रसन्निभः ।
सुवर्णरेतसो वर्णः शोभनः परिकीर्त्तितः
॥ ४७ ॥

P4-0262 · 48
भेरीवारिदहस्तीन्द्रनिनादोऽग्निः शुभावहः ।
नाशचम्पकपुन्नागपाटलायूथिकानिभः ।
पद्मेन्दीवरकह्लारसर्पिर्गुग्गुलुसन्निभः ।
पावकस्य शुभो गन्ध इत्युक्तस्तन्त्रवेदिभिः
॥ ४८ ॥

P4-0263 · 49
प्रदक्षिणास्त्यक्तकम्पाश्छत्राभाः शिखिनः शिखाः ।
सुखदा यजमानस्य राज्यस्यापि विशेषतः
॥ ४९ ॥

P4-0264 · 50
कुन्देन्दु धवलो धूमो वह्नेः प्रोक्तः शुभावहः ।
कृष्णः कृष्णगतेर्वर्णो यजमानं विनाशयेत् ।
श्वेतो राज्यं निहन्त्याशु वायसस्वरसन्निभः ।
स्वरस्वरसमो वह्नेर्ध्वनिः सर्वविनाशकृत् ।
पूतिगन्धो हुतभुज्यो होतुर्दुःखप्रदो भवेत्
॥ ५० ॥


Sechs historische Ritualanwendungen

P4-0265 · 1
छिन्ना वृत्ता शिखा कुर्यात्मृत्युं धनपरिक्षयम् ।
शुकपक्षनिभो धूमः पारावतसमप्रभः ।
हानिं तुरगजातीनां गवाञ्च कुरुतेऽचिरात् ।
एवंविधेषु दोषेषु प्रायश्चित्ताय देशिकः ।
मूलेनाज्येन जुहुयात् पञ्चविंशतिमाहुतीः ।
इति होमप्रकरणं समाप्तम् ॥
अथ षट्कर्मलक्षणम् :
शारदायाम् :
अथाभिधास्ये तन्त्रेऽस्मिन्सम्यक् षट्कर्मलक्षणम् ।
सर्वतन्त्रानुसारेण प्रयोगफलसिद्धिदम्
॥ १ ॥

P4-0266 · 2
शान्तिवश्यस्तम्भनानि विद्वेषोच्चाटने ततः ।
मारणान्तानि शंसन्ति षट्कर्माणि मनीषिणः
॥ २ ॥

P4-0267 · 3
रोगकृत्याग्रहादीनां निरासः शान्तिरीरिता ।
वश्यं जनानां सर्वेषां विधेयत्वमुदीरितम्
॥ ३ ॥

P4-0268 · 4
प्रवृत्तिरोधः सर्वेषां स्तम्भनं तदुदीरितम् ।
स्निग्धानां द्वेषजननं मिथो विद्वेषणं मतम्
॥ ४ ॥

P4-0269 · 5
उच्चाटनं स्वदेशादेर्भ्रंशनं परिकीर्त्तितम् ।
प्राणिनां प्राणहरणं मारणं तदुदाहृतम् ।
स्वदेवतादिक्कालादीन् ज्ञात्वा कर्माणि साधयेत्
॥ ५ ॥

P4-0270 · 6
रतिर्वाणी रमां ज्येष्ठा दुर्गा काली यथाक्रमम् ।
षट्कर्मदेवताः प्रोक्ताः कर्मादौ ताः प्रपूजयेत्
॥ ६ ॥

P4-0271 · 7
कालीभद्रकाली ।
ईशचन्द्रेन्द्रनिर्-ऋतिवायव्यग्नानां दिशो मताः ।
सूर्योदयं समारभ्य घटिकादशकं क्रमात् ।
ऋतवः स्युर्वसन्ताद्या अहोरात्रं दिने दिने ।
बसन्तग्रीष्मवर्षाख्य-शरद्धेमन्तशैशिराः
॥ ७ ॥

P4-0272 · 8
अत्र घटिका दण्डाः ।
यद्वा अर्द्धरात्रं शरत्कालो हेमन्तश्च प्रभातकः ।
पूर्वाह्नो वै बसन्तः स्यान्मध्याह्नो ग्रीष्म एव च ।
प्रावृट्कालोऽपराह्नः स्यात् प्रदोषः शिशिर स्मृतः
॥ ८ ॥

P4-0273 · 9
अथवा :
ऊषायोगे च हेमन्तः प्रभाते शिशिरागमः ।
प्रहरार्द्धे बसन्तः स्यात्ग्रीष्मो मध्यन्दिनागमे ।
तुर्ययामे च वर्षाख्यः शरदस्तं गते रवौ
॥ ९ ॥

P4-0274 · 10
हेमन्तः शान्तिके प्रोक्तो बसन्तो वश्यकर्मणि ।
शिशिरः स्तम्भने ज्ञेयो विद्वेषे ग्रीष्म ईरितः प्रावृडुच्चाटने
ज्ञेय शरन्मारणकर्मणि
॥ १० ॥

P4-0275 · 11
अथ तिथिनियमः :
पञ्चमी च द्वितीया च तृतीया सप्तमी तथा ।
बुध्येज्यवारसंयुक्ता विज्ञेया शान्ति कर्मणि ।
गुरुचन्द्रयुता षष्ठी चतुर्थी च त्रयोदशी ।
नवमी पौष्टिके शस्ता चाष्टमी नवमी तथा ।
दशम्येकादशी चैव भानुशुक्रदिनान्विता ।
आकर्षणे त्वमावस्या नवमी प्रतिपत्तथा ।
पौर्णमासी मन्दभानौ विज्ञेया द्वेषकर्मणि
॥ ११ ॥

P4-0276 · 12
कृष्णा चतुर्दशी तद्वदष्टमी मन्दवारकाः ।
उच्चाटने तिथिः शस्ता प्रदोषे च विशेषतः
॥ १२ ॥

P4-0277 · 13
चतुर्दश्यष्टमी कृष्णा अमावस्या तथैव च ।
मन्द भौमदिनोपेता शस्ता मारणकर्मणि
॥ १३ ॥

P4-0278 · 14
बुधचन्द्रदिनोपेता पञ्चमी दशमी सिता ।
पौर्णमासी तु विज्ञेया तिथिः स्तम्भनकर्मणि
॥ १४ ॥

P4-0279 · 15
शुभग्रहोदये कुर्यात् शुभानि च शुभोदये ।
रोद्रकर्मणि रिक्तार्के मृत्युयोगे च मारणम्
॥ १५ ॥

P4-0280 · 16
चामुण्डा तन्त्रे :
जपेत् पूर्वमुखो वश्ये दक्षिणञ्चाभिचारके ।
पश्चिमे स्तम्भनं विद्यादुत्तरे शान्तिकं भवेत्
॥ १६ ॥

P4-0281 · 17
आकर्षणमथाग्नेये नैर्-ऋते मारणं तथा ।
उच्चाटनन्तु वायव्ये ऐशान्यां मोक्षदायकम् ।
तथाभिचारे कार्या च दक्षिणप्लवना मही
॥ १७ ॥

P4-0282 · 18
बसनं लोहितं प्रोक्तं ऊष्णीषं लोहितं स्मृतम् ।
भूषणं लौहद्रव्येण वामेन पूजनादिकम्
॥ १८ ॥

P4-0283 · 19
नरस्नायुविशेषेण मारणे रज्जुरीरिता ।
मृतस्य युद्धशून्यस्य दन्तेन गर्दभस्य वा ।
कृत्वाक्षमालां जप्तव्यं शत्रूणां वधमिच्छता ।
भग्नेभदन्तमणिभिर्जपेदाकर्षकर्मणि ।
साध्यकेशसूत्रप्रोतैस्तुरङ्गदशनोद्भवः ।
अक्षमालां समालोक्य विद्वेषोच्चाटने जपेत्
॥ १९ ॥

P4-0284 · 20
अथ आसनादिकथनम् :
पद्माख्यं स्वस्तिकं भूयो विकटं कुक्कुटं पुनः ।
वज्रं भद्रकमित्याहुरासनानि मनीषिणः
॥ २० ॥

P4-0285 · 21
पद्मासनन्तु संयोज्य जानूर्वोरन्तरे करौ ।
निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ।
अन्यानि वक्तव्यानि
॥ २१ ॥

P4-0286 · 22
षण्मुद्राः क्रमतो ज्ञेयाः पद्मपाश गदाह्वयाः ।
मूषलाशनिखड्गाख्याः शान्तिकादिषु कर्मसु
॥ २२ ॥

P4-0287 · 23
जलं शान्तिर्विधौ शस्तं वश्ये वह्निरुदीरितः ।
स्तम्भने पृथिवीशस्ता विद्वेषे व्योम कीर्त्तितम् ।
उच्चाटने स्मृतो वायुर्भूयोऽग्निर्मारणे स्मृतः
॥ २३ ॥

P4-0288 · 24
तत्तद्भूतोदये सम्यक्तत्तन्मण्डलसंयुतम् ।
तत्तत्कर्म विधातव्यं मन्त्रिणा निश्चितात्मना
॥ २४ ॥

P4-0289 · 25
शितांशुसलिल - क्षौणी-व्योम-वायु-हविर्भुजाम् ।
वर्णाः स्युर्मन्त्र बीजानि षट्कर्मसु यथाक्रमम्
॥ २५ ॥

P4-0290 · 26
ग्रथनञ्च विदर्भञ्च संपुटो रोधनन्तथा ।
योगः पल्लव इत्येते विन्यासाः षट्सु कर्मसु
॥ २६ ॥

P4-0291 · 27
मन्त्रेणान्तरितान् कुर्यान्नामवर्णान् यथाविधि ।
ग्रथनं तद्विजानीयात् प्रशस्तं शान्तिकर्मणि
॥ २७ ॥

P4-0292 · 28
मन्त्रार्णद्वयमध्यस्थं साध्यनामाक्षरं लिखेत् ।
विदर्भ एष विज्ञेयो मन्त्रिभिर्वश्यकर्मणि
॥ २८ ॥

P4-0293 · 29
आदावन्ते च मन्त्रः स्यान्नाम्नोऽसौ संपुटः स्मृतः ।
एष स्यात् स्तम्भने शस्त इत्युक्तो मन्त्रवेदिभिः
॥ २९ ॥

P4-0294 · 30
नाम्न आद्यन्तमध्येषु मन्त्रः स्याद्रोधनं मतम् ।
विद्वेषणविधानेषु प्रशस्तमिदमुत्तमम्
॥ ३० ॥

P4-0295 · 31
मन्त्रस्यान्ते भवेन्नाम योगः प्रोच्चाटने मतः ।
अन्ते नाम्नो भवेन्मन्त्रः पल्लवो मारणे मतः
॥ ३१ ॥

P4-0296 · 32
सितरक्तपीतमिश्रकृष्णधूम्राः प्रकीर्त्तिताः ।
वर्णतो मन्त्रसंप्रोक्ता देवताः षट्सु कर्मसु
॥ ३२ ॥

P4-0297 · 33
मन्त्राणां लेखनद्रव्यं चन्दनं रोचनं निशा ।
गृहधूमश्चिताङ्गारो मारणेऽष्टविषाणि च ।
श्येनाग्नि लोणपित्तानि धुस्तूरकरसः शुभः ।
गृह धूमस्त्रिकटुकं विषाष्टकमुदीरितम्
॥ ३३ ॥

P4-0298 · 34
देवता कालमुद्रादीन् सम्यक् ज्ञात्वा विचक्षणः ।
षट्कर्माणि प्रयुञ्जयोत यथोक्तफलसिद्धये
॥ ३४ ॥

P4-0299 · 35
कुलार्णवे :
उच्चाटने वषट्प्रोक्तं हूं फडन्तश्च मारणे ।
स्तम्भने च नमः प्रोक्तं स्वाहा शान्तिकपौष्टिके
॥ ३५ ॥

P4-0300 · 36
होमतर्पणयोः स्वाहा न्यासपूजनयोर्नमः ।
मन्त्रान्ते योजयेन्मत्री जपकाले यथा स्थिति ।
अस्यार्थः :
एतानि तत्तत्कर्माणि जपकाले मन्त्रान्ते योजयित्वा मन्त्रं जपेत् ।
होमादिषु नायं नियमः ।
इत्याह होमे नेति इति केचित् ।
तन्न ।
अग्निकार्ये जपेत् स्वाहा नमः ।
सर्वत्र चार्च्चने ।
शान्ति-पुष्टि वशद्वेषाकर्षोच्चाटनमारणे ।
स्वाहा स्वधा वषट् हुञ्च वौषट् फट् योजयेत् क्रमात् ।
वश्याकर्षणसन्तापज्वरे स्वाहा प्रकीर्त्तिता ।
क्रोधोपशमने शान्तौ प्रीतौ योज्यं नमो बुधैः ।
वौषट् सम्मोहनोद्दीप-पुष्टि-मृत्युञ्जयेषु च ।
हुङ्कारं प्रीतिनाशे च मारणेच्छेदने तथा ।
उच्चाटने च विद्वेषे वौषट्पंगुकृतौ वषट् ।
मन्त्रोद्दीपन कार्येषु लाभालाभे वषट् स्मृतः ।
इति विशेषवचनाद्धोमेऽप्ययं विधिः
॥ ३६ ॥

P4-0301 · 37
शान्तिकादौ मन्त्रलिखने पात्रादिनियमस्तु तत्रैव :
शान्तिके राजतं ताम्रं भूर्जपत्रन्तु वश्यके ।
सर्वकार्येषु सौवर्णं क्रूरे स्यात् प्रेतकर्पटम्
॥ ३७ ॥

P4-0302 · 38
त्रिगन्धं शान्तिके प्रोक्तं पञ्चगव्यन्तु वश्यके ।
सर्वकार्येऽष्टगन्धः स्यात् क्रूरे चाष्टविषाणि च
॥ ३८ ॥

P4-0303 · 39
शान्तिके लेखनीदूर्वा वश्यादौ शिखिपुच्छिका ।
हेम्ना सर्वाणि कार्याणि क्रूरे स्यात् काकपुच्छिका
॥ ३९ ॥

P4-0304 · 40
गृहेषु शान्किर्म स्यात्वश्यञ्च चण्कागृहे ।
देवालये च सर्वाणि श्मशाने क्रूरकर्म च
॥ ४० ॥

P4-0305 · 41
अथ भूतानामुदयः :
दण्डकारा गतिर्भूमेः पुटयोरुभयोरपि ।
तोयस्यपावकस्योर्ध्वे गातस्तिर्यक् नभस्वतः ।
गतिर्व्योम्नो भवेन्मध्ये भूतानामुदयः स्मृतः ।
धरणेरुदये कुर्यात् स्तम्भनं वशमात्मवित् ।
शान्तिकं पौष्टिकं कर्म तोयस्य समये वसोः ।
मारणादीनि मरुतो विपक्षोच्चाटनादिकम् ।
क्ष्वेडादिनाशने शस्तमुदये च विहायसः
॥ ४१ ॥

P4-0306 · 43
अथ भूतानां मण्डलानि :
वृत्तं दिवस्तत्षड्विन्दुलाञ्छितं मातरिश्वनः ।
त्रिकोणं स्वस्तिकोपेतं वह्नेरर्द्धेन्दुसंयुतम् ।
अम्भोजमम्भसो भूमेश्चतुरस्रं सवज्रकम् ।
तत्तद्भूतसमाभानि मण्डलानि विदुर्बुधाः ।
वर्णैः स्वै रञ्जितान्याहुः स्वस्वनामावृतान्यापि ।
स्वच्छं वियत्मरुत्कृष्णो रक्तोऽग्निर्विशदं पयः ।
पीता भूमिरित्यादि
॥ ४३ ॥

P4-0307 · 43
प्रयोगान्तरं कुलार्णवे :
एकलक्षं जपेन्मन्त्रं ध्यानन्याससमन्वितः ।
प्रयोगदोष शान्त्यर्थमात्मरक्षार्थकारणम् ।
नचेत्फलञ्च नाप्नोति देवताशापमाप्नुयात्
॥ ४३ ॥


Lobgesänge und Schutztexte: Bhuvaneśvarī

P4-0308 · 45
यत्तुः :
न कुर्यात् मारणं कर्म कुर्याच्चेदयुतं जपेत् ।
तत्तु प्रायश्चित्तपरमिति ।
अथ स्तवकवचानि
वाराहीतन्त्रे :
प्रणवञ्चादिमे जप्त्वा स्तोत्रं वा संहितां पठेत् ।
अन्ते च प्रणवं दद्यादित्युवाचादिपुरुषः ।
एवं सर्वत्र विज्ञेयमन्यथा विफलं भवेत्
॥ ४५ ॥

P4-0309 · 1
अथादौ भुवनेश्वरीस्तोत्रम्
ईश्वर उवाच :
अथानन्दमयीं साक्षाच्छब्दब्रह्मस्वरूपिणीम् ।
ईडे सकलसम्पत्त्यै जगत्कारणमम्बिकाम्
॥ १ ॥

P4-0310 · 2
आद्यामशेषजननीमरविन्दयोनेर्विष्णोः शिवस्य च वपुः
प्रतिपादयित्रीम् ।
सृष्टिस्थितिक्षयकरीं जगतां त्रयाणां, स्तुत्वा गिरं
विमलयाम्यहमम्बिके त्वाम्
॥ २ ॥

P4-0311 · 3
पृथ्व्या जलेन शिखिना मरुतां वरेण होत्रेन्दुना दिनकरेण च
मूर्त्तिभाजः ।
देवस्य मन्मथरिपोरपि शक्तिमत्ताहेतुस्त्वमेव खलु पर्वतराजपुत्रि
॥ ३ ॥

P4-0312 · 4
तिस्रोतसः सकलदेवसमर्च्चिताया वैशिष्ट्यकारणमवैमि तदेव
मातः ।
त्वत्पादपङ्कजपरागपवित्रितासु शम्भोर्जटासु नियतं
परिवर्तनं यत्
॥ ४ ॥

P4-0313 · 5
आनन्दयेत् कुमुदिनीमधिपः कलानां नान्यामिनः कमलिनीमथ
नेतरां वा ।
एकस्य मोदनविधौ परमेक ईष्टे त्वं तु प्रपञ्चमभिनन्दयसि
स्वदृष्ट्या
॥ ५ ॥

P4-0314 · 6
आद्याप्यशेषजगतां नव यौवनासि
शैलाधिराजतनयाप्यतिकोमलासि ।
त्रयाः प्रसूरपि यथा न समीक्षितासि ध्येयासिगौरि मनसो न पथि
स्थितासि
॥ ६ ॥

P4-0315 · 7
आसाद्य जन्म मनुजेषु चिराद्दुरापं तत्रापि पाटवमवाप्य
निजेन्द्रियाणाम् ।
नाभ्यर्चयन्ति जगतां जनयित्रि ये त्वां निःश्रेणिकाग्रमधिरुह्य
पुनः पतन्ति
॥ ७ ॥

P4-0316 · 8
कर्पूरचूर्णहिमवारिविलोडितेन ये चन्दनेन कुसुमैश्च
सुजातगन्धैः ।
आराधयन्ति हि भवानि समुत्सुकास्त्वां ते
खल्वशेषभुवनादिभुवः प्रथन्ते
॥ ८ ॥

P4-0317 · 9
आविश्यमध्यपदवीं प्रथमे सरोजे सुप्ताहिराजसदृशी विरचय्य
विश्वम् ।
विद्युल्लतावलयविभ्रममुद्वहन्ती पद्मानि पञ्च विदलय्य
खमश्नुवाना
॥ ९ ॥

P4-0318 · 10
तन्निगतामृतरसैः परिषिक्तगात्रमार्गेण तेन निलयं
पुनरप्यवाप्ता ।
येषां हृदि स्फुरसिजातु न ते भवेयुर्मातर्महेश्वरकुटुम्बिनि
गर्भभाजः
॥ १० ॥

P4-0319 · 11
आलम्बिकुण्डलभरामभिरामवक्त्रामापीवरस्तनतटीं
तनुवृत्तमध्याम् ।
चन्ताक्षसूत्रकलसां लिखिताढ्यहस्तामावर्तयामि मनसा तव
गौरि मूर्त्तिम्
॥ ११ ॥

P4-0320 · 12
आस्थाय योगमवजित्य च वैरिषट्कमाबध्य चेन्द्रियगणं मनसि
प्रसन्ने ।
पाशांकुशाभयवराढ्यकरां सुवक्त्रामालोकयन्ति
भुवनेश्वरि योगिनस्त्वाम्
॥ १२ ॥

P4-0321 · 13
उत्तप्तहाटकनिभा
करिभिश्चतुर्भिरावर्जितामृतघटैरभिषिच्यमाना ।
हस्तद्वयेन नलिने रुचिरे वहन्ती पद्मापि साभयवरा भवसि त्वमेव
॥ १३ ॥

P4-0322 · 14
अष्टाभिरुग्रविविधायुधवाहिनीभिर्दोर्वल्लरीभिरधिरुह्य
मृगाधिराजम् ।
दूर्वादलद्युतिरमर्त्यविपक्षपक्षान्न्यक्कुर्वती त्वमसि देवि
भवानि दुर्गा
॥ १४ ॥

P4-0323 · 15
आविर्निदाघजलशीकरशोभिवक्त्रां गुञ्जाफलेन
परिकल्पितहारयष्टिम् ।
पीतांशुकामसितकान्तिमनङ्गतन्द्रामाद्यां
पुलिन्दतरुणीमसकृत्स्मरामि
॥ १५ ॥

P4-0324 · 16
हंसैर्गतिक्वणितनूपुरदूरकृष्टै
मूर्तैरिवाप्तवचनैरनुगम्यमानौ ।
पद्माविवोर्ध्व मुखरूढसुजातनालौ श्रीकण्ठपत्निश्रिरसा
विदधे तवांघ्री
॥ १६ ॥

P4-0325 · 17
द्वाभ्यां समीक्षितुमतृप्तिमतेव दृग्भ्यामुत्पाट्य भालनयनं
वृषकेतनेन ।
सान्द्रानुरागतरलेन निरीक्ष्यमाणे जङ्घै शुभे अपि भवानि
तवानतोस्मि
॥ १७ ॥

P4-0326 · 18
ऊरू स्मरामि जितहस्तिकरावलेपौ स्थौल्येन मार्द्दवतया
परिभूतरम्भौ ।
श्रोणीभरस्य सहनौ परिकल्प्य दत्तौ स्तम्भाविवाम्बरवसा तव
मध्यमेन
॥ १८ ॥

P4-0327 · 19
श्रोण्यौस्तनौ च युगपत्प्रथरिष्यतोच्चैर्बाल्यात्परेण वयसा
परिहृष्टसारः ।
रोमावलीविलसितेन विभाव्य मूर्ति मध्यं तव स्फुरतु मे हृदयस्य
मध्ये
॥ १९ ॥

P4-0328 · 20
सख्यः स्मरस्य हरनेत्रहुताशभीरोलर्वाण्यवारिभरितं
नवयौवनेन ।
आपाद्य दत्तमिव पल्लवमप्रविष्.यं नाभि कदापि तव देवि न
विस्मरेयम्
॥ २० ॥

P4-0329 · 21
ईशोपि गेहपिशुनं भसितं दधाने काश्मरी
कर्द्दममनुस्तनपङ्कजे ते ।
स्नातोत्थितस्य करिणः क्षणलक्ष्यफेनौ सिन्दूरितौ स्मरयतः
समदस्य कुम्भौ
॥ २१ ॥

P4-0330 · 22
कण्ठातिरिक्तगलदुज्वलकान्तिधाराशोभौ भुजौ
निजरिपोर्मकरध्वजेन ।
कण्ठग्रहाय रुचितौ किल दीर्घपाशौ मातर्मम स्मृतिपथं न
विलङ्घयेताम्
॥ २२ ॥

P4-0331 · 23
नात्यायतं रचितकम्बुविलासचौर्यं भूषाभरेण विविधेन
विराजमानम् ।
कण्ठं मनोहरगुणं गिरिराजकन्ये सञ्चिन्त्य तृप्तिमुपयामि
कदापि नाहम्
॥ २३ ॥

P4-0332 · 24
अत्यायताक्षमभिजातललाटपट्टं मन्दस्मितेन दरफुल्लकपोल
रेखम् ।
बिम्बाधरं बदनमुन्नतदीर्घनासं यस्ते स्मरत्यसकृदम्ब स
एव जातः
॥ २४ ॥

P4-0333 · 25
आविस्तुषारकरलेखमनल्पगन्धपुष्पोपरिभ्रमदलिव्रजनिर्विशेषम् ।
यश्चेतसा कलयते तव केशपाशं तस्य स्वयं गलति देवि
पुराणपाशः
॥ २५ ॥

P4-0334 · 26
श्रुतिसुरचितपाकं धीमतां स्तोत्रमेतत् पठति य इह मर्त्यो
नित्यमार्द्रान्तरात्मा ।
स भवति पदमुच्चैः सम्पदं
पादनम्रक्षितिपमुकुटलक्ष्मीलक्षणानां चिराय
॥ २६ ॥

P4-0335 · 1
इति भुवनेश्वरीस्तोत्रं समाप्तम् ।
अथ भुवनेश्वरीकवचम् ।
श्रीदेव्युवाच :
भुवनेश्वर्याश्च देवेश या या विद्याः प्रकाशिताः ।
श्रुताश्चाधिगताः सर्वाः श्रोतुमिच्छामि सांप्रतम्
॥ १ ॥

P4-0336 · 3
त्रैलोक्यमङ्गलं नाम कवचं यत्पुरोदितम् ।
कथयस्व महादेव प्रीतिकरं परम् ।
ईश्वर उवाच :
शृणु पार्वति वक्ष्यामि सावधानावधारय ।
त्रैलोक्य मङ्गलं नाम कवचं मन्त्रविग्रहम्
॥ ३ ॥

P4-0337 · 4
सिद्धविद्यामयं देवि सर्वैश्वर्य समन्वितम् ।
पठनाद्धारणान्मर्त्यस्त्रैलोक्यैश्वर्यभाग्भवेत्
॥ ४ ॥

P4-0338 · 5
त्रैलोक्यमङ्गलस्यास्य कवचस्य ऋषिः शिवः ।
छन्दो विराट् जगद्धात्री देवता भुवनेश्वरी ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः
॥ ५ ॥

P4-0339 · 1
ह्रीं बीजं मे शिरः पातु भुवनेशी ललाटकम् ।
ऐं पातु दक्षनेत्रं मे ह्रीं पातु वामलोचनम्
॥ १ ॥

P4-0340 · 2
श्रीं पातु दक्षकर्णं मे त्रिवर्णाम्ता महेश्वरी ।
वामकर्णं सदा पातु ऐं घ्राणं पातु मे सर्वदा
॥ २ ॥

P4-0341 · 3
ह्रीं पातु वदनं देवि ऐं पातु रसनां मम ।
वाक्पुटा च त्रिवर्णात्मा कण्ठं पातु परात्मिका
॥ ३ ॥

P4-0342 · 4
श्रीं स्कन्धौ पातु नित्यं ह्रीं भुजौ पातु सर्वदा ।
क्लीं करौ त्रिपुटेशानी त्रिपुरैश्वर्यदायिनी
॥ ४ ॥

P4-0343 · 5
आं पातु हृदयं ह्रीं मे मध्यदेशं सदावतु ।
क्रौं पातु नाभिदेशं मे त्र्यक्षरी भुवनेश्वरी
॥ ५ ॥

P4-0344 · 6
सर्वबीजं सदा पृष्ठं पातु सर्ववशंकरी ।
ह्रीं पातु गुह्यदेश मे नमोभगवति कटिम्
॥ ६ ॥

P4-0345 · 7
माहेश्वरी सदा पातु सक्थिनी जानुयुग्मकम् ।
अन्नपूर्णा सदा पातु स्वाहा पातु पदद्वयम्
॥ ७ ॥

P4-0346 · 8
सप्तदशाक्षरी पायादन्नपूर्णाखिलं वपुः ।
तारं माया रमा कामः षोडशार्णास्ततः परम्
॥ ८ ॥

P4-0347 · 9
शिरःस्था सर्वदा पातु विंशत्यर्णात्मिका परा ।
तारंदुर्गेयुगंरक्षणीस्वाहेति च दशाक्षरी
॥ ९ ॥

P4-0348 · 10
जयदुर्गा घनश्यामा पातु मां सर्वतो मुदा ।
मायाबीजादिका चैषा दशर्णा च ततः परा
॥ १० ॥

P4-0349 · 11
उत्तप्तकाञ्चनाभासा जयदुर्गाऽनलेऽवतु ।
तारं ह्रीं दुं च दुर्गायै नमोऽष्टार्णात्मिका परा
॥ ११ ॥

P4-0350 · 12
शङ्खचक्रधनुर्बाणधरा मां दक्षिणेऽवतु ।
महिषमर्दिनि स्वाहा वसुवर्णात्मिका परा
॥ १२ ॥

P4-0351 · 13
नैर्-ऋत्यां सर्वदा पातु महिषासुरनाशिनी ।
माया पद्मावती स्वाहा सप्तार्णा परिकीर्त्तिता
॥ १३ ॥

P4-0352 · 14
पद्मावती पद्मसंस्था पश्चिमे मां सदाऽवतु ।
पाशांकुश पुटा मायेहि परमेश्वरि स्वाहा
॥ १४ ॥

P4-0353 · 15
त्रयोदशार्णा ताराद्या साश्वारूढाऽनलेऽवतु ।
सरस्वति पंचस्वरे नित्यक्लिन्ने मदद्रवे
॥ १५ ॥

P4-0354 · 16
स्वाहा वस्वक्षरी विद्या मामुत्तरे सदाऽवतु ।
तारं माया तु कवचं खे रक्षेत्सततं वधूः
॥ १६ ॥

P4-0355 · 17
हूं क्षें ह्रीं फट् महाविद्या द्वादशार्णाखिलप्रदा ।
त्वरिताष्टाहिभिः पायाच्छिवकोणे सदा च माम
॥ १७ ॥

P4-0356 · 18
ऐं क्लीं सौः सततं बालामूर्द्धदेशे ततोऽवतु ।
बिंद्वन्ता भैरवी बाला भूमौ मां सर्वदाऽवतु
॥ १८ ॥

P4-0357 · 19
इति ते कथितं पुण्यं त्रैलोक्यमङ्गलं परम् ।
सारात्सारतरं पुण्यं महाविद्यौघविग्रहम्
॥ १९ ॥

P4-0358 · 20
अस्यापि पठनात् सद्यः कुबेरोपि धनेश्वरः ।
इन्द्राद्याः सकला देवा धारणात्पठनाद्यतः ।
सर्वसिद्धीश्वराः सन्तः सर्वैश्वर्यमवाप्नुयुः ।
पुष्पाञ्जल्यष्टकं दत्त्वामूलेनैव सकृत्पठेत्
॥ २० ॥

P4-0359 · 21
संवत्सरकृतायास्तु पूजायाः फलमाप्नुयात् ।
प्रीतिमन्योन्यतः कृत्वा कमला निश्चला गृहे
॥ २१ ॥

P4-0360 · 22
बाणी च निवसेद्वक्त्रे सत्यं सत्यं न संशयः ।
यो धारयति पुण्यात्मा त्रैलोक्यमङ्गलाभिधम्
॥ २२ ॥

P4-0361 · 23
कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः ।
सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत्
॥ २३ ॥

P4-0362 · 24
पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा ।
बहुपुत्रवती भूयाद्वन्ध्यापि लभते सुतम्
॥ २४ ॥

P4-0363 · 25
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तं जनम् ।
एतत् कवचमज्ञात्वा यो भजेद्भुवनेश्वरीम्
॥ २५ ॥

P4-0364 · 27
दारिद्र्यं परमं प्राप्य सोऽचिरान्मृत्युमापुन्यात्
॥ २७ ॥


Annapūrṇā

P4-0365 · 1
इति श्रीरुद्रयामले देवीश्वरसंवादे त्रैलोक्यमङ्गलं नाम
भुवनेश्वरीकवचं समाप्तम् ।
अथ अन्नपूर्णास्तोत्रम् ।
ॐ नमः कल्याणदे देवि नमः शङ्करवल्लभे ।
नमो भक्तिप्रिये देवि ह्यन्नपूर्णे नमोऽस्तु ते
॥ १ ॥

P4-0366 · 2
नमो मायागृहीताङ्गी नमः शङ्करवल्लभे ।
माहेश्वरि नमस्तुभ्यमन्नपूर्णे नमोऽस्तु ते
॥ २ ॥

P4-0367 · 3
अन्नपूर्णे हव्यवाहपत्नीरूपे हर प्रिये ।
कलाकाष्ठास्वरूपे च ह्यन्नपूर्णे नमोऽस्तु ते
॥ ३ ॥

P4-0368 · 4
उद्यद्भानुसहस्राभे नयनत्रयभूषिते ।
चन्द्रदूडे महादेवि ह्यन्नपूर्णे नमोऽस्तु ते
॥ ४ ॥

P4-0369 · 5
विचित्रवसने देवि त्वन्नदानरतेऽनघे ।
शिवनृत्यकृतामोदे ह्यन्नपूर्णे नमोऽस्तु ते
॥ ५ ॥

P4-0370 · 6
षट्कोणपद्ममध्यस्थे षडङ्गयुवतीमये ।
ब्रह्माण्यादिस्वरूपे च ह्यन्नपूर्णे नमोऽस्तु ते
॥ ६ ॥

P4-0371 · 7
देवि चन्द्रकलापीठे सर्वसाम्राज्यदायिनी ।
सर्वानन्दकरे देवि ह्यन्नपूर्णे नमोऽस्तु ते
॥ ७ ॥

P4-0372 · 8
साधकाभीष्टदे देवि भवदुःख विनाशिनि ।
कुचभारनते देवि ह्यन्नपूर्णे नमोऽस्तु ते
॥ ८ ॥

P4-0373 · 9
इन्द्राद्यर्चित पादाब्जे रुद्रादिरूपधारिणि ।
सर्वसम्पत्प्रदे देवि ह्यन्नपूर्णे नमोऽस्तु ते
॥ ९ ॥

P4-0374 · 10
पूजाकाले पठेद्यस्तु स्तोत्रमेतत् समाहितः ।
तस्य गेहे स्थिरा लक्ष्मीर्जायते नात्र संशयः
॥ १० ॥

P4-0375 · 11
प्रातःकाले पठेद्यस्तु मन्त्रजापपुरःसरम् ।
तस्यैवान्नसमृद्धिः स्याद्बर्द्धमाना दिने दिने
॥ ११ ॥

P4-0376 · 12
यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ।
प्रकाशात् सिद्धिहानिस्तद्गोपायेद्यत्नतः सुधीः
॥ १२ ॥

P4-0377 · 1
इत्यन्नपूर्णास्तोत्रं समाप्तम् ।
अथ अन्नपूर्णाकवचम् ।
श्रीदेव्युवाच :
कथिताश्चान्नपूर्णाया या या विद्याः सुदुर्लभाः ।
कृपया कथिताः सर्वाः श्रुताश्चाधिगता मया
॥ १ ॥

P4-0378 · 2
साम्प्रतं श्रोतुमिच्छामि कवचं यत्पुरोदितम् ।
त्रैलोक्यमङ्गलं नाम कवचं मन्त्रविग्रहम्
॥ २ ॥

P4-0379 · 3
ईश्वर उवाच :
शृणु पार्वति वक्ष्यामि सावधानवधारय (त्रैलोक्यमङ्गलं
नामकवचं ब्रह्मनामकम्) ।
ब्रह्मविद्यास्वरूपञ्च महदैश्वर्यदायकम् ।
पठनाद्धारणान्मर्त्त्यस्त्रैलोक्यैश्वर्यभाग्भवेत्
॥ ३ ॥

P4-0380 · 4
त्रैलोक्य-रक्षणस्यास्य कवचस्य ऋषिः शिवः ।
छन्दो विराडन्नपूर्णा देवता सर्वसिद्धिदा
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः
॥ ४ ॥

P4-0381 · 5
ह्रीं नमो भगवत्यन्ते माहेश्वरि पदं ततः
॥ ५ ॥

P4-0382 · 6
अन्नपूर्णे ततः स्वाहा चैषा सप्तदशाक्षरी ।
पातु मामन्नपूर्णा सा या ख्याता भुवनत्रये
॥ ६ ॥

P4-0383 · 7
विमाया प्रणवाद्यैषा तथा सप्तदशाक्षरी ।
पात्वन्नपूर्णा सर्वाङ्गे रत्नकुम्भान्नपात्रदा
॥ ७ ॥

P4-0384 · 8
श्रीबीजाद्या तथैवैषा द्विरन्ध्रार्णा तथा मुखम् ।
प्रणवाद्या भ्रुवौ पातु कण्ठं वाग्बीजपूर्विका
॥ ८ ॥

P4-0385 · 9
कामबीजादिका चैषा हृदयं तु महेश्वरी ।
तारं श्रीं ह्रीं च नमोन्ते च भगवतीपदं ततः
॥ ९ ॥

P4-0386 · 10
माहेश्वरी पदं चान्नपूर्णे स्वाहेति पातु मे ।
नाभिमेकार्णविंशर्णा पायान्माहेश्वरी सदा
॥ १० ॥

P4-0387 · 11
तारं माया रमा कामः षोडशार्णास्ततः परम् ।
शिरःस्था सर्वदा पातु विंशत्यर्णात्मिका परा
॥ ११ ॥

P4-0388 · 12
करौ पादौ सदा पातु रमा कामो ध्रुवस्तथा ।
ध्वजञ्च सर्वदा पातु विंशत्यर्णात्मिका च या
॥ १२ ॥

P4-0389 · 13
अन्नपूर्णा महाविद्या ह्रीं पातुभुवनेश्वरी ।
शिरः श्रीं ह्रीं तथा क्लीं च त्रिपुटा पातु मे गुदम्
॥ १३ ॥

P4-0390 · 14
षट्दीर्घभाजा बीजेन षडङ्गानि पुनन्तु माम् ।
इन्द्रो मां पातु पूर्वे च वह्निकोणेऽनलोऽवतु
॥ १४ ॥

P4-0391 · 15
यमो मां दक्षिणे पातु नैर्-ऋत्यां निर्-ऋतिस्तथा ।
पश्चिमे वरुणः पातुवायव्यां पवनोऽवतुस्तथा
॥ १५ ॥

P4-0392 · 16
कुबेरश्चोत्तरे पातु मामैशान्यं शङ्करोऽवतु ।
ऊर्ध्वाधः पातु सततं ब्रह्मानन्तो यथा क्रमात्
॥ १६ ॥

P4-0393 · 17
पान्तु वज्राद्ययुधानि दशदिक्षु यथा क्रमात् ।
इति ते कथितं पुण्यं त्रैलोक्यरक्षणं परम्
॥ १७ ॥

P4-0394 · 18
यद्धृत्वा पठनाद्देवाः सर्वैश्वर्यमवाप्नुयुः ।
ब्रह्मा विष्णुश्च रुद्रश्च धारणात्पठनाद्यतः
॥ १८ ॥

P4-0395 · 19
सृजत्यवति कल्पे-कल्पे पृथक् पृथक् ।
पुष्पाञ्जल्यष्टकं देव्यै मूलेनैव समर्पयेत्
॥ १९ ॥

P4-0396 · 20
कवचस्यास्य पठनात् पूजायाः फलमाप्नुयात् ।
वाणी वक्त्रे वसेत् तस्य सत्यं सत्यं न संशयः
॥ २० ॥

P4-0397 · 21
अष्टोत्तरशतं चास्य पुरश्चर्याविधिः स्मृतः ।
भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेद्यदि
॥ २१ ॥

P4-0398 · 22
कण्ठे वा दक्षिणे बाहौ सोपि पुण्यवतां वरः ।
ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रं प्राप्य पार्वति ।
माल्यानि कुसुमान्येव सुखदानि भवन्ति हि
॥ २२ ॥


Tripuṭā und Durgā

P4-0399 · 1
इति भैरवतन्त्रे भैरवभैरवीसंवादे अन्नपूर्णा कवचं
समाप्तम् ।
अथ त्रिपुटास्तोत्रम् :
वाराभीतिहस्तं द्विबाहुं प्रसन्नं, शिवं सुप्रसन्नं
स्वशक्त्योपविष्टम् ।
प्रसन्नास्यविम्बं प्रकाशस्वरूपं शिरः पद्ममध्ये गुरुं
भावयामि
॥ १ ॥

P4-0400 · 2
बकं वह्निसंस्थं त्रिमूर्त्त्या प्रजुष्टं, शशाङ्केन युक्तं
तवाद्यं स्वबीजम् ।
सुवर्णप्रभं ये जपन्ति त्रिशक्ते, श्रियं सौभगत्वं लभन्ते
नरास्ते
॥ २ ॥

P4-0401 · 3
नभोवायुमित्रं ततो वामनेत्रं, सुधाधामविम्बं
नियोज्यैकवक्त्रम् ।
द्वितीयं स्वबीजं सुरश्रेणिवन्द्यं त्वदीयं विभाव्य श्रियं
प्राप्नुवन्ति
॥ ३ ॥

P4-0402 · 4
विरिञ्चिं क्षितिस्थं ततो वामनेत्रं विधुं नादयुक्तं
दिनेशाभबीजम् ।
विभाव्यैव सम्मोहयन्ति त्रिलोकीं जपादीश्वरत्वं लभन्ते
नरेन्द्राः
॥ ४ ॥

P4-0403 · 5
त्रयं सन्नियोज्य स्मरारिप्रिये ये, त्रिसन्ध्यं जपन्ति त्वदङ्गं
विभाव्य ।
न तेषां रिपुर्वाक्प्रयोग करोति, स्मरास्तेऽङ्गनानां गृहे श्रीस्तु
तेषाम्
॥ ५ ॥

P4-0404 · 6
मुखे भारती गद्यपद्यप्रबन्धा, न हिंसन्ति हिंस्राः
सुरास्तान्नमन्ति ।
तदंघ्रिद्वयं भूषणं मूर्ध्नि राज्ञां करे सिद्धयो
दुर्ग्रहास्तांस्त्यजन्ति
॥ ६ ॥

P4-0405 · 7
वने पारिजातद्रुमाणां वृथिव्यां सुवर्णप्रभायां
मणिव्यूहगेहे ।
स्मरेद्वेदिकायां लसद्रत्नसिंहासने पद्ममष्टारकं
संविचिन्त्य
॥ ७ ॥

P4-0406 · 8
स्फुरत्कर्णिकायां परं योनियुग्मं
तदन्तर्गतामुञ्चहेमप्रभां याम् ।
लसत्कुण्डलामिन्दुवक्त्रां त्रिनेत्रां स्फुरत्कम्बुकण्ठां
सुवक्षोजनभ्राम्
॥ ८ ॥

P4-0407 · 9
महारत्नवज्रोल्लसद्बाहुवृन्दैः सुपद्मद्वयं पाशकं
कार्मुकञ्च ।
सुवर्णांकुशं पुष्पबाणान् ।
दधानां बृहद्रत्न भूषां सुमध्यां सुकाञ्चीम्
॥ ९ ॥

P4-0408 · 10
तुलाकोटिरस्यस्फुरत्पादपद्मां किरीटद्यलंकारयुक्तां
प्रसन्नाम् ।
सिते चामरे दर्पणं तत्करण्डं समुद्गं सुकर्पूरपूर्णं
धृताभिः
॥ १० ॥

P4-0409 · 11
त्रिलोकीविधात्रीं जगत्तापहर्त्रीं, जगत्क्षोभकर्त्रीम्
जगल्लोकधात्रीम् ।
सदानन्दपूर्णां हकारार्द्धवर्णां त्रिबिन्दुस्वरूपां
त्रिशक्तिं भजामि
॥ ११ ॥

P4-0410 · 12
चिरं चिन्तयित्वा तदेतत् स्वरूपां, पूरो यन्त्रमध्ये समावाह्य
भक्त्या ।
स्वयम्भूप्रसूनादिभिः पूजयित्वा, चतुवर्गसिद्धिं लभेत्
पामरोऽपि
॥ १२ ॥

P4-0411 · 13
श्रियं श्रीपतिं पार्वतीमीश्वरञ्च, रतिं कामदेवं षडङ्गेन
सार्द्धम् ।
स्वयोनौ तथा मन्त्रमुक्त्वा भवानीं क्रमात् पूजयित्वा नरेन्द्रो
भवेत् सः
॥ १३ ॥

P4-0412 · 14
निधी द्वौ च पार्श्वद्वये संविभाव्य, प्रपूज्या महिष्यस्ततो
लोकपालाः ।
तदस्त्राणि तत्तद्दलाग्रे प्रपूज्य, भवस्याष्टसिद्धिं
लभेन्मानवोऽपि
॥ १४ ॥

P4-0413 · 15
क्षितिस्तवं विधात्री जगत्सृष्टिकर्त्री, त्वमापोऽपि विष्णुर्जगत्पालिका
च ।
त्वमग्निस्तु रुद्रौ जगत्क्षोभकर्त्री, त्वमैश्वर्ययुक्ता
जगद्वायुरूपा
॥ १५ ॥

P4-0414 · 16
त्वमाद्या शिवे शम्भुकान्ते शरण्ये, जगद्ब्रह्मरन्ध्रे सदारं
भ्रमीषि ।
निराधारगम्या भवस्यैकपूण्या, त्वमाकाशकल्पा भवानि
प्रसीद
॥ १६ ॥

P4-0415 · 17
भवाम्भोधिमध्ये निपात्यैव सर्वं, मुनीनाञ्च गर्वं
सुखर्वं करोषि ।
अतस्तां न जाने चिदानन्दरूपे, प्रकाशस्वरूपे भवानि प्रसीद
॥ १७ ॥

P4-0416 · 18
जपित्वा भक्त्या जनो मन्दचेता, जपन्नेकलक्षं कवित्वं करोति ।
विचिन्त्य स्वरूपं त्वदीयं त्रैलोक्यां, लभेद्दुर्लभत्वं भवानि
प्रसीद
॥ १८ ॥

P4-0417 · 19
त्वमाधारशक्तिस्त्वमाधेयरूपा, जगद्व्यापिका त्वं
जगद्व्याप्यरूपा ।
अभावस्त्वमेका गुणातीतरूपा त्वमेवासि भावो भवानि प्रसीद
॥ १९ ॥

P4-0418 · 20
अणुस्त्वं विभुस्त्वं त्वमेवासि विश्वं, स्तुतिः का भवत्या
जगत्यां विभाति ।
तथापि त्वदीया गुणा मां दिशन्ति, स्तुतिं कर्त्तुमेवं भवानि
प्रसीद
॥ २० ॥

P4-0419 · 21
इदं स्तोत्रमत्यन्तगुह्यं नरा ये, पठन्ति त्रिसन्ध्यं कुलान्ते
जपित्वा ।
न तेषामसाध्यं त्रिलोकीजनानां, लभन्ते स्वरूपं भवानि
प्रसीद
॥ २१ ॥

P4-0420 · 1
इति त्रिपुटास्तोत्रं समाप्तम् ।
अथ त्रिपुटाकवचम् :
श्रीदेव्युवाच :
भगवन्-सर्वधर्मज्ञ सर्वशास्त्रार्थपारग ।
त्रिशक्तिरूप लक्ष्म्याश्च कवचं यत्प्रकाशितम् ।
सर्वार्थसाधनं नाम कथयस्व मयि प्रभो
॥ १ ॥

P4-0421 · 2
ईश्वर उवाच :
शृणु देवि प्रवक्ष्यामि कवचं परमाद्भुतम् ।
सर्वार्थसाधनं नाम त्रैलोक्ये चातिदुर्लभम्
॥ २ ॥

P4-0422 · 3
सर्वसिद्धिमयं देवि सर्वैश्वर्यप्रदायकम् ।
पठनाद्धारणान्मर्त्त्यस्त्रैस्लोकैश्वर्यभाग्भवेत्
॥ ३ ॥

P4-0423 · 4
सर्वाथसाधनस्यास्य कवचस्य ऋषिः शिवः ।
छन्दो विराट् त्रिशक्तिः श्रीर्जगद्धात्री च देवता ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तित
॥ ४ ॥

P4-0424 · 5
श्री बीजं मे शिरः पातु लक्ष्मीरूपा ललाटकम् ।
ह्रीं पातु दक्षनेत्रं मे वामनेत्रं सुरेश्वरी
॥ ५ ॥

P4-0425 · 6
क्लीं पातुदक्षपार्श्वे मे वामं कामेश्वरी तथा ।
लक्ष्मीर्घ्राणं सदा पातु वदनं केशवः
॥ ६ ॥

P4-0426 · 7
गौरी तु रसनां पातु कण्ठं पातु महेश्वरः ।
स्कन्धदेश रतिः पातु भुजौ तु मकरध्वजः
॥ ७ ॥

P4-0427 · 8
शंखनिधिः करौ पातु वक्षः पद्मनिधिस्तथा ।
ब्राह्मी कुक्षिं सदा पातु नाभि पातु महेश्वरी
॥ ८ ॥

P4-0428 · 9
कौमारी पृष्ठदेशं मे गुह्यं रक्ष तु वैष्णवी ।
वाराही सक्थिनी पातु ऐन्द्री पातु पदद्वयम्
॥ ९ ॥

P4-0429 · 10
भार्यां रक्षतु चामुण्डा लक्ष्मी रक्षतु पुत्रकान् ।
इन्द्रः पूर्वे सदा पातु आग्नेयामग्निदेवता
॥ १० ॥

P4-0430 · 11
याम्ये यमः सदा पातु नैर्-ऋत्यां निर्-ऋतिस्तथा ।
पश्चिमे वरुणः पातु वायव्यां वायुदेवता
॥ ११ ॥

P4-0431 · 12
सौम्ये सोमः सदा पातु ऐशान्यामीश्वरोऽवतु ।
ऊर्ध्वं प्रजापतिः पातु अधश्चानन्तदेवता
॥ १२ ॥

P4-0432 · 14
राजद्वारे श्मशाने च अरण्ये प्रान्तरे तथा ।
जले स्थले चान्तरीक्षे शत्रूणां निचये तथा ॥ १३ ।
एताभिः सहिता देवी त्रिबीजात्मा महेश्वरी ।
त्रिशक्तिश्च महालक्ष्मीः सर्वत्र मां सदावतु
॥ १४ ॥

P4-0433 · 15
इति ते कथितं देवि सारात्सारतर परम् ।
सर्वार्थसाधनं नाम कवचं परमाद्भुतम्
॥ १५ ॥

P4-0434 · 16
अस्यापि पठनात्सद्यः कुबेरोऽपि धनेश्वरः ।
इन्द्राद्याः सकला देवा धारणात् पठनाद्यतः ।
सर्वसिद्धिश्वराः सन्तः सर्वैश्वर्यमवाप्नुयुः
॥ १६ ॥

P4-0435 · 17
पुष्पाञ्जल्यष्टकं दद्यान्मूलेनैव पठेत्सकृत् ।
संवत्सरकृतायास्तु पूजायाः फलमाप्नुयात्
॥ १७ ॥

P4-0436 · 18
प्रीतिमन्योन्यतः कृत्वा कमला निश्चला गृहे ।
वाणी च निवसद्वक्त्रे सत्यं सत्यं न संशयः
॥ १८ ॥

P4-0437 · 19
यो धारयति पुण्यात्मा सर्वार्थसाधनाभिधम् ।
कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः ।
सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत्
॥ १९ ॥

P4-0438 · 20
पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा ।
बहुपुत्रवती भूत्वा बन्ध्यापि लभते सुतम्
॥ २० ॥

P4-0439 · 2
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तत्तनुम् ।
एतत् कवचमज्ञात्वा यो जपेत् परमेश्वरी ।
दारिद्र्यं परमं प्राप्य सोऽचिरान्मृत्युमाप्नुयात्
॥ २ ॥

P4-0440 · 1
इति रुद्रयामले त्रिशक्त्याः सर्वार्थ साधनं नाम कवचं
समाप्तम् ।
अथ दुर्गायाः शतनामस्तोत्रम् ।
ईश्वर उवाच :
शतनाम प्रवक्ष्यामि शृणुष्व कमलानने ।
अस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती
॥ १ ॥

P4-0441 · 2
ॐ सती साध्वी भव प्रीता भवानि भवमोचिनी ।
आर्या दुर्गा जया आद्या त्रिनेत्रा शूलधारिणी
॥ २ ॥

P4-0442 · 4
पिनाकधारिणी चित्रा चन्द्रघण्टा महातपाः ।
मनोबुद्धिरहङ्कारा चित्तरूपा चिता चितिः ॥ ३ ।
सर्वमन्त्रमयी सत्या सत्यानन्दस्वरूपिणी ।
अनन्ता भाविनी भाव्या भव्याऽभव्या सदागतिः
॥ ४ ॥

P4-0443 · 5
शम्भुपत्नी देवमाता च चिन्ता रत्नप्रिया सदा ।
सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी
॥ ५ ॥

P4-0444 · 6
अपर्णा चैकवर्णा च पाटला पाटलावती ।
पट्टाम्बरपरीधाना कलमञ्जीररञ्जिनी
॥ ६ ॥

P4-0445 · 7
अमेयविक्रमा त्रूरा सुन्दरी कुलसुन्दरी ।
वनदुर्गा च मतङ्गी मतङ्गमुनिपूजिता
॥ ७ ॥

P4-0446 · 8
ब्राह्मी माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा ।
चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः
॥ ८ ॥

P4-0447 · 9
विमलोत्कर्षिणी ज्ञाना क्रिया सत्या च वाक्प्रदा ।
बहुला बहुलप्रेमा सर्ववाहनवाहना
॥ ९ ॥

P4-0448 · 10
निशुम्भशुम्भहनिनी महिषासुरमर्दिनी ।
मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी
॥ १० ॥

P4-0449 · 11
सर्वासुरविनाशा च सर्वदानवघातिनी ।
सर्वशास्त्रमयी विद्या सर्वास्त्रधारिणी तथा
॥ ११ ॥

P4-0450 · 12
अनेकशस्त्रहस्ता च अनेकास्त्रस्य धारिणी ।
कुमारी चैक कन्या च कैशोरी युवती यतिः
॥ १२ ॥

P4-0451 · 13
अप्रौढा चैव प्रौढा च वृद्धमाता बलप्रदा ।
महादेवी मुक्तकेशी घोररूपा महाफला
॥ १३ ॥

P4-0452 · 14
अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी
॥ १४ ॥

P4-0453 · 15
नारायणी भद्रकाली विष्णुमाया जलोदरी
॥ १५ ॥

P4-0454 · 16
शिवदूती कराली च अनन्ता परमेश्वरी ।
कात्यायनी च सावित्री प्रत्यक्षा ब्रह्मवादिनी
॥ १६ ॥

P4-0455 · 17
य इदं प्रपठेन्नित्यं दुर्गानामशताष्टकम् ।
नासाध्यं विधते देवि त्रिषु लोकेषु पार्वति
॥ १७ ॥

P4-0456 · 18
धनं धान्यं सुतं जायां द्वयं हस्तिमेव च ।
चतुरङ्गं तथा चान्ते लाभेन्मुक्तिञ्च शाश्वतीम्
॥ १८ ॥

P4-0457 · 19
कुमारीं पूजयित्वा तु ध्यात्वा देवीं सुरेश्वरीम् ।
पूजयेत् परया भक्त्या पठन्नामशताष्टकम्
॥ १९ ॥

P4-0458 · 20
तस्या सिद्धिर्भवेद्देवि सर्वैः सुरवरैरपि ।
राजानो दासतां यान्ति राज्यश्रियमवाप्नुयात्
॥ २० ॥

P4-0459 · 21
गोरोचनालक्तककुंकुमेन, सिन्दूरकर्पूरमधुत्रयेण ।
विलिख्य यन्त्रं विधिना विधिज्ञो, भवेत्सदा धारयते पुरारिः
॥ २१ ॥

P4-0460 · 22
भौमावास्यानिशाभागे चन्द्रे शतभिषां गते ।
विलिख्य प्रपठेत् स्तोत्रं स भवेत् सम्पदा प्रदम्
॥ २२ ॥

P4-0461 · 1
इति विश्वसारतन्त्रे दुर्गानामस्तोत्रं समाप्तम् ।
अथ श्रीदुर्गाकवचम् ।
ईश्वर उवाच ।
शृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
पठित्वा धारयित्वा च नरो मुच्येत सङ्कटात्
॥ १ ॥

P4-0462 · 2
अज्ञात्वा कवचं देवि दुर्गामन्त्रञ्च यो जपेत् ।
स नाप्नोति फलं तस्य परे च नरकं व्रजेत्
॥ २ ॥

P4-0463 · 3
इदं गुह्यतमं देवि कवचं तव कथ्यते ।
गोपनीयं प्रयत्नेन सावधानावधारय
॥ ३ ॥

P4-0464 · 4
उमा देवी शिरः पातु ललाटं शूलधारिणीं ।
चक्षुषो खेचरी पातु कर्णौ चत्वरवासिनी
॥ ४ ॥

P4-0465 · 5
सुगन्धा नासिके पातु वदनं सर्वसाधिनी ।
जिह्वां च चण्डिका पातु ग्रीवां सौभद्रिका तथा
॥ ५ ॥

P4-0466 · 6
अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी ।
कण्ठ पातु महावाणी जगन्माता स्तनद्वयम्
॥ ६ ॥

P4-0467 · 7
हृदयं ललिता देवी उदरं सिंहवाहिनी ।
कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी
॥ ७ ॥

P4-0468 · 8
महाबला च जंघे द्वे पादौ भूतलवासिनी ।
एवं स्थितासि देवि त्वं त्रैलोक्य रक्षणात्मिके ।
रक्ष मां सर्वगात्रेषु दुर्गे देवि नमोऽस्तु ते
॥ ८ ॥

P4-0469 · 9
इत्येत्कवचं देवि महाविद्याफलप्रदम् ।
यः पठेत् प्रातरुत्थाय सर्वतीर्थफलं लभेत्
॥ ९ ॥

P4-0470 · 10
यो न्यसेत् कवचं देहे तस्य विघ्नं न कुत्रचित् ।
भूतप्रेतपिशाचेभ्यो भयन्तस्य न विद्यते
॥ १० ॥

P4-0471 · 11
रणे राजकुले वापि सर्वत्र विजयी भवेत् ।
सर्वत्र पूजामाप्नोति देवीपुत्र इव क्षितौ
॥ ११ ॥


Mahiṣamardinī

P4-0472 · 1
इति कुब्जिका तन्त्रे दुर्गाकवचं समाप्तम् ॥
अथ महिषमर्दिनीस्तोत्रम् ।
भैरव उवाच :
मच्चित्ते चर चण्डि चूर्णितदुराचारप्रचण्डासुरे, स्वैरं दारय
भूरिदुर्द्दरदरद्रोहोर्मिमर्मापदः ।
तोनायं निरुपद्रुतो निरुपम श्रीपादपद्माटवी
प्राप्तानन्तरसार्णवे मम मनोहंसश्चिरं नन्दतु
॥ १ ॥

P4-0473 · 2
हित्वा चण्डि हिरण्यदारण
पटुप्रोद्दामहस्तांगुलिस्फायत्कम्रसुमेरुसोदरशटाटोपं
नृसिंहं सुराः ।
मातस्त्वत्पशुपाशपेषणपटु-श्रीपादसंसेविनं, सेवन्ते
करिवैरिण किमरिभिर्भीतिर्भवत्सेविनाम्
॥ २ ॥

P4-0474 · 3
चण्डि त्वद्विषयान्तराक्षरपदं श्रोत्रान्तरञ्चेद्गतं, तत्तत्त्वं
पुरुषप्रकृत्यनुगतं ब्रह्मादिभिर्गीयते ।
तस्माद्देवि समस्तदैवतसुधासारैकधामस्फुरत्-श्रीमत्पादप-
योजचुम्बनपरं मामद्य सम्भावय
॥ ३ ॥

P4-0475 · 4
मन्निन्दा यदि वास्तु ते कुलपथाचाराद्वरं मास्तु वा, किर्त्तिः
केशवकौशिकार्च्चनचरी नैवास्तु मत्सन्निधिः ।
मातर्ब्रह्महरिस्मरारि हुतभुग्दैत्यारिसेवास्पदं,
श्रीमत्पादपयोजचिन्तनविधौ चित्तं सदैवास्तु नः
॥ ४ ॥

P4-0476 · 5
निर्दिष्टोऽस्मि यदि तदीयपदयुक्पूर्वापरीभावने, निर्द्दिष्टस्य तदा
ममापि विरलं किं वास्तु सिद्धास्पदम् ।
तस्माद्देवि कृपाभराञ्चिततरं श्रीपादपद्मद्वयं,
मच्चित्तेऽक्षतसम्पदं प्रसरतु क्षेमङ्करि क्षम्यताम्
॥ ५ ॥

P4-0477 · 6
स्वात्मानं परिरभ्य भूतपतिरप्युन्मादमासादितः, स्फारं
जीवनरक्षणे स च कृती नैवाभविष्यत् प्रभुः ।
दैवाद्विच्युतचन्द्रचन्दनरस
प्रागल्भ्यगर्भस्रवन्माध्वीपूर्णभवत्पदैककमलामोदेन
नास्वादितः
॥ ६ ॥

P4-0478 · 7
हाहा मातरनादि-
मोहजलधिव्याहारसिद्धाखिलब्रह्मानन्दरसाभिषेक
विलसत्स्वान्तोदरे मादृशि ।
युष्माकं सुरवृन्दनिर्भरमनस्तापाभिभूतिक्षमः
श्रीमद्भक्तिरसातिदुर्द्दिनपरीवाहः सदा सर्पतु
॥ ७ ॥

P4-0479 · 8
तत्पादस्फुरदंशुजालजठराच्चण्डांशुकोटिस्खलद्ध्वान्तस्वा-
न्तविसारिनिर्मलचिदानन्दत्रयं दैवतम् ।
सर्गं संसृजति स्थितिं वितनुते सृष्टिं पुनर्लुम्पति,
प्रोद्भिन्नाञ्जन नीलनीरदमहश्चित्ते सदैवास्तु नः
॥ ८ ॥

P4-0480 · 9
या शस्वन्महिषच्छलस्फुटमिलद्गर्जद्विधावत्स्खलद्वक्त्रान्तः
प्रसरत्तमस्तमशिरोदैत्यं समालम्बते ।
सा दुर्गा भयदुर्ग दुर्गतिहरा लक्षान्तरत्रासिनी,
दृष्यद्दैवतवैरिदारणपटुर्जीयाज्जयाह्लादिनी
॥ ९ ॥

P4-0481 · 10
नृत्यत्खेटकचामराञ्चलचलच्छक्राद्यखर्वावरस्फायत्सैन्य-
शिलीमुखोच्छलदनल्पाजिह्मताम्राम्बुधौ ।
झञ्झावातविसर्पिनर्त्तितशिरः-साटोपदुष्टासुरक्रट्यत्-
खण्डविखण्डताखिलशकुन्तक्षुत्पिपासोज्ज्वले
॥ १० ॥

P4-0482 · 11
चञ्चत्कम्रविरामकालकालतीव्रास्फालसम्पादकोन्माद्यन्माहिष
-तिर्यगानतशिरः-शृङ्गान्तराले स्थले ।
वस्वर्णैर्वसुपत्रमध्यकलितैर्वद्धा श्रुतीर्मातृभिः सेव्ये
चारुणाङ्गने रणमुदा घूर्णायमानां स्मरेत्
॥ ११ ॥

P4-0483 · 12
ऊर्ध्वाधः क्रमसव्यवामकरयोश्चक्रं दरं कर्तृकां,
खेटं बाणधनुस्त्रिशूलभयहृन्मुद्रां दधानां शिवाम् ।
श्यामां नीलघनोच्चकुन्तलचयप्रोन्नद्धजूटां
स्खलद्वीरास्फाललसत्करालवदनां घोराट्टहासोद्भटाम्
॥ १२ ॥

P4-0484 · 13
एवं ये तव देवि मूर्त्तिमनघां ध्यायन्ति दुर्गादिभिः,
शक्राद्यैरभिपूजितां परपुरक्षोभादिकं कुर्वते ।
राज्यं शत्रुजयः सदर्थधीषणा
काव्यामृतादर्शनस्तम्भोच्चटनमारणादिकृतिनां तेषां
स्वयं जायते
॥ १३ ॥

P4-0485 · 14
स्तोत्रं ते चरणारविन्दयुगलध्यानावधानाग्मया
मन्त्रोद्धारकुलोपचारचरितं गूढोपदिष्टं यदि ।
ये शृण्वन्ति पठन्ति देवि तरसा श्रीमोक्षकामादयस्तेषां
हस्तगता भवन्ति जगतां मातर्नमस्ते जयः
॥ १४ ॥

P4-0486 · 1
इति महिषमर्द्दिनीस्तोत्रं समाप्तम् ।
अथ महिषमर्द्दिनीकवचम् ।
ईश्वर उवाच :
अथवक्ष्ये महेशानि कवचं सर्वकामदम् ।
यस्य प्रसादमासाद्य भवेत्साक्षात्सदाशिवः
॥ १ ॥

P4-0487 · 2
ओंकारं पूर्वमुच्चार्य मन्त्री मन्त्रस्य सिद्धये ।
प्रपठेत्कवचं नित्यं मन्त्रवर्णस्य सिद्धये
॥ २ ॥

P4-0488 · 3
महिषमर्द्दिन्याः कवचस्य भगवान्महाकाल-
ऋषिरनुष्टुप्छन्दः ।
आद्याशक्तिर्देवता चतुर्वर्गफलप्राप्तये विनियोगः
॥ ३ ॥

P4-0489 · 4
क्लीं पातु मस्तके देवी कामिनी कामदायिनी ।
मकारः पातु मां देवी चक्षुर्युग्मे महेश्वरी
॥ ४ ॥

P4-0490 · 5
हिकारः पातु वदनं हिंगुलासुरनायिका ।
षकारः पातु मां श्वेता जिह्वायाञ्चापराजिता
॥ ५ ॥

P4-0491 · 6
मकारः पातु मां देवी मर्द्दिनि सुरनायिका ।
र्द्दिकारः पातु मां देवी सावित्री कालनाशिनी
॥ ६ ॥

P4-0492 · 7
निकारः पातु मां नित्या हृदये बाहुपार्श्वयोः ।
नाभौ लिङ्गे गुदे कण्ठे कर्णयोः पृष्ठस्तथा ।
शिखायां कवचे पादे मुखे जङ्घायुगे तथा
॥ ७ ॥

P4-0493 · 8
सर्वाङ्गे पातु मां स्वाहा सर्वशक्ति समन्विता ।
कामाद्या पातु मां स्वाहा सर्वाङ्गे मर्द्दिनी शिरः
॥ ८ ॥

P4-0494 · 9
दशाक्षरी महाविद्या सर्वाङ्गे पातु मर्द्दिनी ।
मर्द्दिनी पातु सततं मर्द्दिनी रक्षयेत् सदा
॥ ९ ॥

P4-0495 · 10
राजस्थाने तथा दुर्गे सिंहव्याघ्रभयादिषु ।
श्मशाने प्रान्तरे दुर्गे नौकायां वह्निमध्यतः ।
मर्द्दिनी पातु सततं मर्द्दिनी रक्षयेत् सदा
॥ १० ॥

P4-0496 · 11
दुर्गा पातु सदा देवी आर्या पातु सदा मम ।
प्रभा पातु महेशानि कनका सर्वदावतु
॥ ११ ॥

P4-0497 · 12
कृत्तिका पातु सततं अभया सर्वदावतु ।
प्रभा पातु महामाया माया पातु सदा मम्
॥ १२ ॥

P4-0498 · 13
प्रभा पातु महेशानि विमला पातु सर्वदा ।
नन्दिनी पातु सततं सुप्रभा सर्वदावतु
॥ १३ ॥

P4-0499 · 14
विजया पातु सर्वत्र देव्यङ्गे नवशक्तयः ।
शक्तयः पान्तु सततं मुद्रां पान्तु सदा मम्
॥ १४ ॥

P4-0500 · 15
जया पातु सदा सूक्ष्मा विशुद्धा पातु सर्वदा ।
योगिन्यः पान्तु सततं खेचर्यः पान्तु सर्वदा
॥ १५ ॥

P4-0501 · 16
डाकिन्यः पान्तु सततं सिद्धाः पान्तु सदा मम् ।
सर्वत्र सर्वदा पातु देवी महिषमर्द्दिनी
॥ १६ ॥

P4-0502 · 17
इति ते कथितं दिव्यं कवचं सर्वकामदम् ।
यत्र तत्र न वक्तव्यं गोपितव्यं प्रयत्नतः
॥ १७ ॥

P4-0503 · 18
गोपितं सर्वतन्त्रेषु विश्वसारे प्रकीर्त्तितम् ।
सर्वत्र सुलभा विद्या कवचं दुर्लभं महत्
॥ १८ ॥

P4-0504 · 19
शठाय भक्तिहीनाय निन्दकाय महेश्वरि ।
न्यूनाङ्गे अतिरिक्तांगे क्रूरेमिथ्याभिभाषणे ।
न स्तवं दर्शयेद्दिव्यं कवचं सुरदुर्लभम्
॥ १९ ॥

P4-0505 · 20
यत्र तत्र न वक्तव्यं शङ्करेण च भाषितम् ।
दत्त्वा तेभ्यो महेशानि नश्यन्ति सिद्धयः क्रमात्
॥ २० ॥

P4-0506 · 21
मन्त्राः पराङ्मुखा यान्ति शापं दत्त्वा सुदारुणम् ।
अशुभञ्च भवेत् तस्य तस्माद्यत्नेन गोपयेत्
॥ २१ ॥

P4-0507 · 22
गोरोचना कुंकुमेन भूर्जपत्रे महेश्वरि ।
लिखित्वा शुभयोगे च ब्रह्मेन्द्रे वैधृतौ तथा
॥ २२ ॥

P4-0508 · 23
आयुष्मत् सिद्धियोगे वा ववे वा कौलवे तथा ।
वणिजे श्रवणायाञ्च रेवत्यां वा पुनर्वसौ
॥ २३ ॥

P4-0509 · 24
उत्तरात्रययोगे हि तथा पूर्वात्रयेषु च ।
अश्विन्यां वा रोहिण्यां वा तृतीयानवमीतिथौ
॥ २४ ॥

P4-0510 · 25
अष्टम्यां वा चतुर्द्दश्यां षष्ठ्यां वा पञ्चमीतिथौ ।
कुह्वां वा पूर्णिमायां वा निशायां प्रान्तरे तथा
॥ २५ ॥

P4-0511 · 26
एकलिंगे श्मशाने च शून्यागारे शिवालये ।
गुरुणा वैष्णवौर्वपि स्वयम्भूकुसुमैस्तथा
॥ २६ ॥

P4-0512 · 28
शुक्लैर्वा रक्तकुसुमैश्चन्दनैः रक्तसंयुतैः ।
शवाङ्गारैश्चितावस्त्रे लिखित्वा धारयेत् पुनः ।
तस्य सर्वार्थसिद्धिः स्यात्शङ्करेण च भाषितम् ।
कुमारीं पूजयित्वा तु देवी सूक्तं निवेद्य च ।
पठित्वा भोजयेद्विप्रान् प्रवरान्वेदपारगान् ।
आखेटकमुपाख्यानं कुर्याच्चैव दिनत्रयम् ।
तदा धरेन्महारक्षां कवचं सर्वकामदम्
॥ २८ ॥

P4-0513 · 19
नाधयो व्याधयस्तस्य दुःखशोकभयं क्वचित् ।
वादी मूको भवेद्दृष्ट्वा राजा च सेवकायते
॥ १९ ॥

P4-0514 · 30
मासमेकं पठेद्यस्तु प्रत्यहं नियतः शुचिः ।
दिवा भवेद्धविष्याशी रात्रौ शक्तिपरायणः ।
षट्सहस्रप्रमाणेन प्रत्यहं प्रजपेत् सदा ।
षण्मासैर्वा त्रिभिर्मासैः खेचरो भवति ध्रुवम्
॥ ३० ॥

P4-0515 · 31
अपुत्रो लभते पुत्रधनो धनवान्भवेत् ।
अरोगी बलवांश्चैव राजा च दासतामियात्
॥ ३१ ॥

P4-0516 · 32
रजस्वलाभगे नित्यं जपेद्विद्यां विशेषतः ।
य एवं कुरुते धीमान् स एव श्रीसदाशिवः
॥ ३२ ॥


Lakṣmī und Sarasvatī

P4-0517 · 1
इति विश्वसारतन्त्रे महिषमर्द्दिनीकवचं समाप्तम् ।
अथ लक्ष्मीस्तोत्रम् ।
ईश्वर उवाच :
त्रैलोक्यपूजिते देवि कमले विष्णुवल्लभे ।
यथा त्वमचला कृष्णे तथा भव मयि स्थिरा
॥ १ ॥

P4-0518 · 2
ईश्वरी कमला चञ्चला लक्ष्मीश्चला भूतिर्हरिप्रिया ।
पद्मा पद्मालया सम्पदुच्चैः श्रीपद्मधारिणी
॥ २ ॥

P4-0519 · 3
द्वादशैतानि नामानि लक्ष्मीं सम्पूज्य यः पठेत् ।
स्थिरा लक्ष्मीर्भवेत् तस्य पुत्रदारादिभिः सह
॥ ३ ॥

P4-0520 · 1
इति विश्वसारतन्त्रे लक्ष्मीस्तोत्रं समाप्तम् ।
अथ अक्ष्मीकवचम् ।
ईश्वर उवाच :
अथ वक्ष्ये महेशानि कवचं सर्वकामदम् ।
यस्य विज्ञानमात्रेण भवेत् साक्षात्सदाशिवः
॥ १ ॥

P4-0521 · 2
नार्चनं तस्य देवेशि मन्त्र मात्रं जपेन्नरः ।
स भवेत् पार्वतीपुत्रः सर्वशास्त्रपुरस्कृतः
॥ २ ॥

P4-0522 · 3
विद्यार्थिनां सदा सेव्या धनदात्री विशेषतः ।
विद्यार्थिभिस्सदा सेव्या कमला विष्णुवल्लभा
॥ ३ ॥

P4-0523 · 4
अस्याश्चतुरक्षरीविष्णुवनितायाः कवचस्य श्रीभगवान् शिव
ऋषिरनुष्टुप्छन्दो वाग्भवी देवता वाग्भवं बीजं लज्जा शक्तिः
रमा कीलकं कामबीजात्मकं कवचं मम
सुकवित्वसुपाण्डित्यसर्वसिद्धिसमृद्धये विनियोगः ।
ऐंकारो मस्तके पातु वाग्भवी सर्वसिद्धिदा ।
ह्रीं पातु चक्षुषोर्मध्ये चक्षुर्युग्मे च शाङ्करी
॥ ४ ॥

P4-0524 · 5
जिह्वायां मुखवृत्ते च कर्णयोर्गण्डयोर्नसि ।
ओष्ठाधारे दन्तपंक्तौ तालुमूले हनौ पुनः
॥ ५ ॥

P4-0525 · 6
पातु मां विष्णुवनिता लक्ष्मीः श्रीवर्णरूपिणी ।
कर्णयुग्मे भुजद्वन्द्वे स्तनद्वन्द्वे च पार्वती
॥ ६ ॥

P4-0526 · 7
हृदये मणिबन्धे च ग्रीवायां पार्श्वयोर्द्वयोः पुनः ।
पृष्ठदेशे तथा गुह्ये वामे च दक्षिणे तथा
॥ ७ ॥

P4-0527 · 8
उपस्थे च नितम्बे च नाभौ जङ्घाद्वये पुनः ।
जानुचक्रे पदद्वन्द्वे घुटिकगुलिमूलके
॥ ८ ॥

P4-0528 · 9
स्वधा तु प्राणशक्त्यां वा सीमन्यां मस्तके तथा ।
सर्वांगे पातु कामेशी महादेवी समुन्नतिः
॥ ९ ॥

P4-0529 · 10
पुष्टिः पातु महामाया उत्कृष्टः सर्वदाऽवतु ।
ऋषिः पातु सदा देवि सर्वत्र शम्भुवल्लभा
॥ १० ॥

P4-0530 · 11
वाग्भवी सर्वदा पातु पातु मां हरगेहिनी ।
रमा पातु महादेवी पातु माया स्वराट् स्वयम्
॥ ११ ॥

P4-0531 · 12
सर्वांगे पातु मां लक्ष्मीर्विष्णुमाया सुरेश्वरी ।
विजया पातु भवने जया पातु सदा मम
॥ १२ ॥

P4-0532 · 13
शिवदूती सदा पातु सुन्दरी पातु सर्वदा ।
भैरवी पातु सर्वत्र भेरुण्डा सर्वदाऽवतु
॥ १३ ॥

P4-0533 · 14
त्वरिता पातु मां नित्यमुग्रतारा सदाऽवतु ।
पातु मां कालिका नित्यं कालरात्रिः सदाऽवतु
॥ १४ ॥

P4-0534 · 15
नवदुर्गा सदा पातु कामाख्या सर्वदाऽवतु ।
योगिन्यः सर्वदा पान्तु मुद्राः पान्तु सदा मम
॥ १५ ॥

P4-0535 · 16
मात्राः पान्तु सदा देव्यश्चक्रस्था योगिनीगणाः ।
सर्वत्र सर्वकार्येषु सर्वकर्मसु सर्वदा
॥ १६ ॥

P4-0536 · 17
पातु मां देवदेवी च लक्ष्मीः सर्वसमृद्धिदा ।
इति ते कथितं दिव्यं कवचं सर्वसिद्धये
॥ १७ ॥

P4-0537 · 18
यत्र तत्र न वक्तव्यं यदीच्छेदात्मनो हितम् ।
शठाय भक्तिहीनाय निन्दकाय महेश्वरि
॥ १८ ॥

P4-0538 · 19
न्यूनांगेह्यतिरिक्तागे दर्शयेन्न कदाचन ।
न स्तवं दर्शयेद्दिव्यं दर्शनाच्छिवहा भवेत्
॥ १९ ॥

P4-0539 · 20
कुलीनाय महेच्छाय दुर्गाभक्तिपराय च ।
वैष्णवाय विशुद्धाय दद्यात्कवचमुत्तमम्
॥ २० ॥

P4-0540 · 21
निजशिष्याय शान्ताय धनिने ज्ञानिने तथा ।
दद्यात्कवचमित्युक्तं सर्वतन्त्रसमन्वितम्
॥ २१ ॥

P4-0541 · 22
शनौ मङ्गलवारे च रक्तचन्दनकैस्तथा ।
यावकेन लिखेन्मन्त्रं सर्वचक्रसमन्वितम्
॥ २२ ॥

P4-0542 · 23
विलिखेत्कवचं दिव्यं स्वयम्भुकुसुमैः शुभैः ।
स्वशुक्रैः पुरशुक्रैश्च नानागन्धसमन्वितैः
॥ २३ ॥

P4-0543 · 24
गोरोचना कुंकुमेन रक्तचन्दनकेन वा ।
सुतिथौ शुभयोगे वा श्रवणायां रवेर्दिने
॥ २४ ॥

P4-0544 · 25
अश्विन्यां कृत्तिकायां वा फल्गुन्यां वा मघासु च ।
पूर्वभाद्रपदायोगे स्वात्यां मङ्गलवासरे
॥ २५ ॥

P4-0545 · 26
विलिखेत्प्रपठेत्स्तोत्रं शुभयोगे सुरालये ।
आयुष्मत्प्रीतियोगे च ब्रह्मयोगे विशेषतः
॥ २६ ॥

P4-0546 · 27
इन्द्रयोगे शुभे योगे शुक्रयोगे तथैव च ।
कौलवे बालवे चैव वणिजे चैव सत्तमः
॥ २७ ॥

P4-0547 · 28
शून्यागारे श्मशाने वा विजने च विशेषतः ।
कुमारीं पूजयित्वा च यजेद्देवीं सनातनीम्
॥ २८ ॥

P4-0548 · 29
मत्स्यैर्मांसैः शाकपूपैः पूजयेत् परदेवताम् ।
घृताद्यैः सोपकरणैः पुष्पधूपैर्विशेषतः
॥ २९ ॥

P4-0549 · 30
ब्राह्मणान्भोजयित्वा च पूजयेत् परमेश्वरीम् ।
आखेटकमुपाख्यानं तत्र कुर्याद्दिनत्रयम्
॥ ३० ॥

P4-0550 · 31
तदा कुर्यान्महारक्षां शङ्करेण प्रभाषितम् ।
मारणद्वेषणादीनि लभते नात्र संशयः ।
स भवेत् पार्वतीपुत्रः सर्वशास्त्र पुरस्कृतः
॥ ३१ ॥

P4-0551 · 32
गुरुर्देवो हरः साक्षात्पत्नी तस्य हरप्रिया ।
अभेदेन यजेद्यस्तु तस्य सिद्धिरदूरतः
॥ ३२ ॥

P4-0552 · 33
पठति य इह मर्त्यो नित्यमार्द्रान्तरात्मा जपफलमनुमेवं
लक्ष्यते यद्विशेषम् ।
स भवति पदमुच्चैः सम्पदा
पादनम्रक्षितिपमुकुटलक्ष्मीलक्षणानां चिराय
॥ ३३ ॥

P4-0553 · 2
इति विश्वसारतन्त्रे लक्ष्मीकवचं समाप्तम् ।
अथ सरस्वतीस्तोत्रम् ।
ब्रह्मोवाच :
ह्रीं ह्री हृद्यैकबीजे शशिरुचिकमलाकल्पविस्पष्टशोभे भव्ये
भव्यानुकूले कुमतिवनदवे विश्ववन्द्यांघ्रिपद्मे ।
पद्मे पद्मोपविष्टे प्रणतजनमनोमोदसम्पादयित्रि
प्रोत्प्लुष्टाज्ञानकूटे हरिनिजदयिते देवि संसारसारे
॥ २ ॥

P4-0554 · 3
ऐं ऐं ऐं इष्टमन्त्रे कवलभवमुखाम्भोजभूतिस्वरूपे
रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे ।
न स्थूले नैव सूक्ष्मेऽप्य विदितविषये नापि विज्ञाततत्त्वे विश्वं
विश्वान्तराले सुरवरनमिते निष्कले नित्यशुद्धे
॥ ३ ॥

P4-0555 · 4
ह्रीं ह्रीं ह्रीं जापतुष्टे हिमरुचिमुकुटे वल्वकीव्यग्रहस्ते
मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्ताम् ।
विद्ये वेदान्तगीते श्रुतिपरिपठिते मोक्षदे मुक्तिमार्गे
मार्गातीतप्रभावे भव मम वरदा शारदे शुभ्रहारे
॥ ४ ॥

P4-0556 · 5
ध्रीं ध्रीं ध्रीं धारणाख्ये धृतिमतिनुतिभिर्नामभिः
कीर्तनीये नित्येऽनित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे ।
पुण्ये पुण्यप्रभावे हरिहरनमिते वर्णशुद्धे सुवर्णे मात्रे
मात्रार्द्धतत्त्वे मतिमति मतिदे माधवप्रीतिनादे
॥ ५ ॥

P4-0557 · 6
ह्रीं क्षीं धीं ह्रीं स्वरूपे दह दह दुरितं पुस्तकव्यग्रहस्ते
सन्तुष्टाकारचित्ते स्मितमुखि सुभगे जम्भनिस्तम्भविद्ये ।
मोहे मुग्धप्रवाहे मम कुरु सुमतिं ध्वान्तविध्वंसनित्ये
गीर्गौर्वाग्भारती त्वं कविवृषरसना सिद्धिदा सिद्धविद्या
॥ ६ ॥

P4-0558 · 7
सौं सौं सौं शक्तिबीजे कमलभवमुखाम्भोजभूतस्वरूपे
रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे ।
न स्थूले नैव सूक्ष्मेप्यविदितविभवे जाप्यविज्ञानतत्त्वे विश्वे
विश्वान्तराले सुरगणनमिते निष्कले नित्यशुद्धे
॥ ७ ॥

P4-0559 · 8
स्तौमि त्वां त्वां च वन्दे भज मम रसनां मा कदाचित्
त्यजेथाः मा मे बुद्धिर्विरुद्धा भवतु न च मनो देवि मे या तु
पापम् ।
मा मे दुःखं कदाचिद्विपदि च समयेऽप्वस्तु मे नाकुलत्वं
शास्त्रे वादे कवित्त्वे प्रसरतु मम धीर्मास्तु कुण्ठा कदाचित्
॥ ८ ॥

P4-0560 · 9
इत्येतैः श्लोकमुख्यैः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो वाणीं
वाचस्पतेरप्यभिमतविभवो वाक्पटुर्नष्टपङ्कः ।
स स्यादिष्टार्थलाभी सुतमिवसततं पाति तं सा च देवी
सौभाग्यं तस्य लोके प्रसरति कविता विघ्नमस्तं प्रयाति
॥ ९ ॥

P4-0561 · 10
ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिषः ।
सारस्वतो नरः पाठात्स स्यादिष्टार्थलाभवान्
॥ १० ॥

P4-0562 · 11
पक्षद्वयेपि यो भक्त्या त्रयोदश्येकविंशतिम् ।
अविच्छेदं पठेद्धीमान्ध्यात्वा देवीं सरस्वतीम्
॥ ११ ॥

P4-0563 · 12
शुक्लाम्बरधरां देवीं शुक्लाभरणभूषिताम् ।
वाञ्छितं फलमाप्नोति स लोके नात्र संशयः
॥ १२ ॥

P4-0564 · 13
इति ब्रह्मा स्वयं प्राह सरस्वत्याः स्तवं शुभम् ।
प्रयत्नेन पठेन्नित्यं सोऽमृतत्वं प्रयच्छति
॥ १३ ॥


Gaṇeśa und Sūrya

P4-0565 · 1
इति ब्रह्मपुराणे ब्रह्मणा कृतं सरस्वत्याः स्तोत्रं सम्पूर्णम् ।
अथ गणेशस्तोत्रम् ।
ॐ कारमाद्यं प्रवदन्ति सन्तो वाचः श्रुतीनामपि यं गृणन्ति ।
गजाननं देवगणानतांघ्रिं भजेऽहमर्द्धेन्दुकृतावतंसम्
॥ १ ॥

P4-0566 · 2
पादारविन्दार्चन तत्पराणां संसारदावानलभङ्गदक्षम् ।
निरन्तरं निर्गतदानतोयैस्तं नौमि विघ्नेश्वरमम्बुजाभम्
॥ २ ॥

P4-0567 · 3
कृताङ्गरागं नवकुंकुमेन मत्तालिमालं मदपङ्कलग्नाम् ।
निवारयन्तं निजकर्णतालैः को विस्मरेत्पुत्रमनङ्ग शत्रोः
॥ ३ ॥

P4-0568 · 4
शम्भोर्जटाजूटनिवासिगङ्गाजलं समानीय कराम्बुजेन ।
लीलाभिराराच्छिवमर्चयन्तं गजाननं भक्तियुता भजन्ति
॥ ४ ॥

P4-0569 · 5
कुमारभुक्तौ पुनरात्महेतोः पयोधरौ पर्वतराजपुत्र्याः ।
प्रक्षालयन्तं करशीकरेण मौग्ध्येन तं नागमुखं भजामि
॥ ५ ॥

P4-0570 · 6
त्वया समुद्भतगजास्यहस्ताद्येशीकराः पुष्कररन्ध्रमुक्ताः ।
व्योमाङ्गने ते विचरन्ति ताराः कालात्मना मौक्तिकतुल्यभासः
॥ ६ ॥

P4-0571 · 7
क्रीडारते वारिनिधौ गजास्ये वेलामतिक्रामति वारिपूरे ।
कल्पावसानं परिचिन्त्य देवाः कैलाशनाथं श्रुतिभिः स्तुवन्ति
॥ ७ ॥

P4-0572 · 8
नागानने नागकृतोत्तरीये क्रीडारते देवकुमारसंघैः ।
त्वयि क्षणं कालगतिं विहाय तौ प्रापतुः कन्दुकतामितेन्दु
॥ ८ ॥

P4-0573 · 9
मदोल्लसत्पञ्चमुखैरजस्रमध्यापर्यन्तं सकलागमार्थान् ।
देवानृषोन्भक्तजनैकमित्रं हेरम्बमर्क्कारुणमाश्रयामि
॥ ९ ॥

P4-0574 · 10
पादाम्बुजाभ्यामतिकोमलाभ्यां कृतार्थयन्तं कृपया
धरित्रीम् ।
अकारणं कारणमाप्तवाचां तन्नागवक्त्रं न जहाति चेतः
॥ १० ॥

P4-0575 · 11
येनार्पितं सत्यवतीसुताय पुराणमालिख्य विषाणकोट्या ।
तं चन्द्रमौलेस्तनयं तपोभिराराध्यमानन्दघनं भजामि
॥ ११ ॥

P4-0576 · 12
पदं श्रुती नामपदं स्तुतीनां लीलावतारं परमात्ममूर्त्तेः
।
नागात्मको वा पुरुषात्मको वेत्यभेद्यमाद्यं भज विघ्नराजम्
॥ १२ ॥

P4-0577 · 13
पाशांकुशौ भग्नरदं त्वभीष्टं करैर्दधानं
कररन्ध्रमुक्तैः ।
मुक्ताफलाभैः पृथुशीकरौघैः सिञ्चन्तमङ्गं
शिवयोर्भजामि
॥ १३ ॥

P4-0578 · 14
अनेकमेकं गजमेकदन्तं चैतन्यरूपं जगदादि बीजम् ।
ब्रह्मेति यं वेदविदो वदन्ति तं शम्भुसूनुं सततं भजामि
॥ १४ ॥

P4-0579 · 15
स्वाङ्केस्थिताया निजवल्लभाया मुखाम्बुजालोकनलोलनेत्रम् ।
स्मेराननाब्जं मदवैभवेन रुद्धं भजे विश्वविमोहनं तम्
॥ १५ ॥

P4-0580 · 16
ये पूर्वमाराध्य गजानन त्वां सर्वाणि शास्त्राणि पठन्ति
तेषाम् ।
त्वत्तो न चान्यत्प्रतिपाद्यमेतैस्तदास्ति चेत्सर्वमसत्यकल्पम्
॥ १६ ॥

P4-0581 · 17
हिरण्यवर्णं जगदीशितारं कविं पुराणं रविमण्डलस्थम् ।
गजाननं यं प्रविशन्ति सन्तस्तत्कालयोगैस्तमहं प्रपद्ये
॥ १७ ॥

P4-0582 · 18
वेदान्तगीतं पुरुषं भजेऽहमात्मानमानन्दघनं हृदिस्थम्
।
गजाननं यन्महसा जनानां विघ्नान्धकारो विलयं प्रयाति
॥ १८ ॥

P4-0583 · 19
शम्भोः समालोक्य जटाकलापं शशाङ्कखण्डं निजपुष्करेण
।
स्वभग्नदन्तं प्रविचिन्त्य मौग्ध्यादाक्रष्टुकामः श्रियमातनोतु
॥ १९ ॥

P4-0584 · 20
विघ्नार्गलानां विनिपातनार्थं यं नारिकेलैः कदलीफलाद्यैः
।
प्रभावयन्तो मदवारणास्यं प्रभुं सदाभीष्टमहं
भजेयम्
॥ २० ॥

P4-0585 · 21
यज्ञैरनेकैर्बहुभिस्तपोभिराराध्यमाद्यं गजराजवक्त्रम्
स्तुत्यानया ये विधिवत् स्तुवन्ति ते सर्वलक्ष्मीनिधयो भवन्ति
॥ २१ ॥

P4-0586 · 1
इति गणेशस्तवराजः समाप्तः ।
अथ हरिद्रागणेशकवचम् ।
ईश्वर उवाच :
शृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये ।
पठित्वा पाठयित्वा च नरो मुच्यते सर्वसङ्कटात्
॥ १ ॥

P4-0587 · 2
अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत् ।
सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि
॥ २ ॥

P4-0588 · 3
ॐ आमोदश्च शिरः पातु प्रमोदश्च शिखोपरि ।
सम्मोदो भ्रूयुगे पातु भ्रूमध्ये च गणाधिपः
॥ ३ ॥

P4-0589 · 4
गणाक्रीडो नेत्रयुग्मं नासायां गणनायकः ।
गणक्रीडान्वितः पातु वदने सर्वसिद्धये
॥ ४ ॥

P4-0590 · 5
जिह्वायां सुमुखः पातु ग्रीवायां दुर्मुखः सदा ।
विघ्नेशो हृदये पातु विघ्ननाशश्च वक्षसि
॥ ५ ॥

P4-0591 · 6
गणानां नायकः पातु बाहुयुग्मं मम ।
विघ्नकर्ता च उदरे विघ्नकर्ता च लिङ्गके
॥ ६ ॥

P4-0592 · 7
गजवक्त्रः कटीदेशे एकदन्तो नितम्बके ।
लम्बोदरः सदा पातु गुह्यदेशे ममारुनः
॥ ७ ॥

P4-0593 · 8
व्यालयज्ञोपवीतो मां पातु पादयुगे तथा ।
जापकः सर्वदा पातु जानुजङ्घेगणाधिपः
॥ ८ ॥

P4-0594 · 9
हारिद्रः सर्वदा पातु सर्वाङ्गे गणनायकः ।
य इदं प्रपठेन्नित्यं गणेशस्य महेश्वरि
॥ ९ ॥

P4-0595 · 10
कवचं सर्वसिद्धाख्यं सर्वविघ्नविनाशनम् ।
सर्वसिद्धिकरं साक्षात्सर्वपापविमोचनम्
॥ १० ॥

P4-0596 · 11
सर्वसम्पत्प्रदं साक्षात्सर्वपापविमोक्षणम् ।
सर्वसम्पत्प्रदंसाक्षात्सर्वशत्रुक्षयं करम्
॥ ११ ॥

P4-0597 · 12
ग्रहपीडा ज्वरो रोगो ये चान्ये गुह्यकादयः ।
पठनाद्धारणादेव नाशमायान्ति तत्क्षणात्
॥ १२ ॥

P4-0598 · 13
धनधान्यकरं देवि कवचं सुरपूजितम् ।
समं नास्ति मेहेशानि त्रैलोक्ये गणपस्य च
॥ १३ ॥

P4-0599 · 14
हारिद्रस्य महेशानि कवचस्य च भूतले ।
किमन्यैरसदालपैर्यत्रायुर्व्ययतामियात्
॥ १४ ॥

P4-0600 · 1
इति विश्वसारतन्त्रे हरिद्रागणेशकवचं समाप्तम् ।
अथ श्रीसूर्यकवचम् ।
श्री सूर्य उवाच :
साम्ब साम्ब महाबाहो शृणु मे कवचं शुभम् ।
त्रैलोक्यमङ्गलं नाम कवचं परमाद्भुतम्
॥ १ ॥

P4-0601 · 2
यज्ज्ञात्वा मन्त्रवित्सम्यक् फलमाप्नोति निश्चितम् ।
यद्धृत्वा च महादेवो गणनामधिपोऽभवत्
॥ २ ॥

P4-0602 · 3
पठनाद्धारणाद्विष्णुः सर्वेषां पालकः सदा ।
एवमिन्द्रादयः सर्वे सर्वैश्वर्यमवाप्नुयुः
॥ ३ ॥

P4-0603 · 4
कवचस्य ऋषिर्ब्रह्मा छन्दोऽनुष्टुबुदाहृतम् ।
श्रीसूर्योदेवता चात्र सर्वदेवनमस्कृतः
॥ ४ ॥

P4-0604 · 5
आरोग्ययशोमोक्षेषु विनयोगः प्रकीर्त्तितः ।
प्रणवो मे शिरः पातु घृणिर्मे पातु भालकम्
॥ ५ ॥

P4-0605 · 6
सूर्योऽव्यान्नयनद्वन्द्वमादित्यः कर्णयुग्मकम् ।
अष्टाक्षरो महामन्त्रः सर्वाभीष्टफलप्रदः
॥ ६ ॥

P4-0606 · 7
ह्रीं बीजं मे मुखं पातु हृदयं भुवनेश्वरी ।
चन्द्रबीजं विसर्गाढ्यं पातु मे गुह्यदेशकम्
॥ ७ ॥

P4-0607 · 8
त्र्यक्षरोऽसौ महामन्त्रः सर्वतन्त्रेषु गोपितः ।
शिवो वह्निसमायुक्तो वामाक्षिविन्दुभूषितः
॥ ८ ॥

P4-0608 · 9
एकाक्षरो महामन्त्रः श्रीसूर्यस्य प्रकीर्त्तितः ।
गुह्याद्गुह्यतरो मन्त्रो वांछाचिन्तामणिः स्मृतः
॥ ९ ॥

P4-0609 · 10
शीर्षादिपादपर्यन्तं सदा पातु मनूत्तमः ।
इति ते कथितं दिव्यं त्रिषु लोकेषु दुर्लभम्
॥ १० ॥

P4-0610 · 11
श्रीप्रदं कान्तिदं नित्यं धनारोग्यविवर्धनम् ।
कुष्ठादिरोगशमनं महाव्याधिविनाशनम्
॥ ११ ॥

P4-0611 · 12
त्रिसन्ध्यं यः पठेन्नित्यमरोगी बलवान्भवेत् ।
बहुना किमिहोक्तेन यद्यन्मनसि वर्त्तते
॥ १२ ॥

P4-0612 · 13
तत्तत्सर्वं भवत्येव कवचस्य च धारणात् ।
भूतप्रेतपिशाचाश्च यक्षगन्धर्वराक्षसाः
॥ १३ ॥

P4-0613 · 14
ब्रह्मराक्षसवेताला नैवद्रष्टुमपि क्षमाः ।
दूरादेव पलायन्ते तस्य संकीर्तनादपि
॥ १४ ॥

P4-0614 · 15
भूर्जपत्रे समालिख्य रोचनागुरुकुंकुमैः ।
रविवारे च संक्रान्त्यां सप्तम्याञ्च विशेषतः
॥ १५ ॥

P4-0615 · 16
धारयेत् साधकश्रेष्ठस्त्रैलोक्यविजयी भवेत् ।
त्रिलोहमध्यगं कृत्वा धारयेद् दक्षिणे भुजे
॥ १६ ॥

P4-0616 · 17
शिखायामथवा कण्ठे सोऽपि सूर्यो न संशयः ।
इति ते कथितं साम्ब त्रैलोक्यमङ्गलाभिधम्
॥ १७ ॥

P4-0617 · 18
कवचं दुर्लभं लोके तव स्नेहात्प्रकाशितम् ।
अज्ञात्वा कवचं दिव्यं यो जपेत् सूर्यमनूत्तमम् ।
सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि
॥ १८ ॥


Viṣṇu und Rāma

P4-0618 · 1
इति ब्रह्मयामले त्रैलोक्यमङ्गलं नाम सूर्यकवचं समाप्तम् ।
अथ श्रीविष्णुस्तवः ।
ॐ आदाय वेदान्सकलान्समुद्रान्निहत्य शङ्खं रिपुमत्युदग्रम् ।
दत्ताः पुरा येन पितामहाय विष्णुं तमाद्यं भज मत्स्यरूपम्
॥ १ ॥

P4-0619 · 2
दिव्यामृतार्थं मथिते महाब्धौ देवासुरैर्वासुकिमन्दराद्यैः ।
भूमेर्महावेगविघूर्णितायास्तं कूर्ममाधारगतं स्मरामि
॥ २ ॥

P4-0620 · 3
समुद्रकाञ्ची सरिदुत्तरीया वसुन्धरा मेरुकिरीटभारा ।
द्रंष्ट्राग्रतो येन समुद्धृता भूस्तमादिकोलं शरणं प्रपद्ये
॥ ३ ॥

P4-0621 · 4
भक्तार्तिभङ्गक्षमया धिया यः स्तम्भान्तरालादुदितो नृसिंहः
।
रिपुं सुराणां निशितैर्नखार्ग्रैर्विदारयन्तं न च विस्मरामि
॥ ४ ॥

P4-0622 · 5
चतुस्समुद्राभरणा धरित्री न्यासाय नालं चरणस्य यस्य ।
एकस्य नान्यस्य पदं सुराणां त्रिविक्रमं सर्वगतं नमामि
॥ ५ ॥

P4-0623 · 6
त्रिःसप्तकृत्वो नृपतीन्निहत्य यस्तर्पणं रक्तमयं ।
चकार दोर्द्दण्डबलेन सम्यक् तमादिशूरं प्रणमामि रामम्
॥ ६ ॥

P4-0624 · 7
कुले रघूणां समवाप्य जन्म विधाय सेतुं जलधेर्जलान्तः ।
लङ्केश्वरं यः समयाञ्चकार सीतापति तं प्रणमामि भक्त्या
॥ ७ ॥

P4-0625 · 8
हलेन सर्वांनसुरान्निकृष्य चकार चूर्णं मुसलप्रहारैः ।
यः कृष्णमासाद्य बलं बलीयान्, भक्त्या भजे तं
बलभद्ररामम्
॥ ८ ॥

P4-0626 · 9
पुरा सुराणामसुरान्विजेतुं सम्भावयञ्छ्रीवरचिह्नवेशम् ।
चकार यः शास्त्रममोघकल्पं तं मूलभूतं प्रणतोस्मि
बुद्धम्
॥ ९ ॥

P4-0627 · 10
कल्पावसाने निखिलः सुरैः स्वैः सङ्घट्टयामास निमेषमात्रात् ।
यस्तेजसा स्वेन ददाह भीमो विष्ण्वात्मकं तं तुरगं भजामः
॥ १० ॥

P4-0628 · 11
शङ्खं सुचक्रं सुगदां सरोजं दिर्भिर्दधानं
गरुडाधिरुढम् ।
श्रीवत्सचिह्नं जगदादिमूलं तमालनीलं हृदि विष्णुमीडे
॥ ११ ॥

P4-0629 · 12
क्षीराम्बुधौ शेषविशेषकल्पे शयानमन्तः स्मितशोभिवक्त्रम् ।
उत्फुल्लनेत्राम्बुजमम्बुदाभमाद्यं श्रुतीनामसकृत्स्मरामि
॥ १२ ॥

P4-0630 · 13
प्रीणयेदनया स्तुत्या जगन्नाथं जगन्मयम् ।
धर्मार्थकाममोक्षाणामाप्तये पुरुषोत्तमम्
॥ १३ ॥

P4-0631 · 1
इति श्रीविष्णुस्तवः समाप्तः ।
अथ श्रीरामस्तोत्रम् ।
श्रीहनूमनुवाच :
तिरश्चामपि राजेति समवायं समीयुषाम् ।
यथा सुग्रीवमुख्यानां यस्तमुग्रं नमाम्यहम्
॥ १ ॥

P4-0632 · 2
सकृदेव प्रपन्नाय विशिष्टामैरयाच्छ्रयम् ।
विभीषणायाब्धितटे यस्तं वीरं नमाम्यहम्
॥ २ ॥

P4-0633 · 3
यो महान पूजितो व्यापी महाब्धेः करुणामृतम् ।
स्तुतं जटायुना येन महाविष्णुं नमाम्यहम्
॥ ३ ॥

P4-0634 · 4
तेजसाप्यायिता यस्य ज्वलन्ति ज्वलनादयः ।
प्रकाशते स्वतन्त्रो यस्तं ज्वलन्तं नमाम्यहम्
॥ ४ ॥

P4-0635 · 5
सर्वतो मुखतो येन लीलया दर्शिता रणे ।
राक्षसेश्वरयोधानां तं वन्दे सर्वतोमुखम्
॥ ५ ॥

P4-0636 · 6
नृभावं यः प्रपन्नानां हिनस्ति च तथा नृषु ।
सिंहः सत्त्वेष्विवोत्कृष्टस्तं नृसिंहं नमाम्यहम्
॥ ६ ॥

P4-0637 · 7
यस्याद्विभ्यति वातार्कज्वलनेन्द्राः समृत्यवः ।
भियं तिनोति पापानां भीषणं तत् नमाम्यहम्
॥ ७ ॥

P4-0638 · 8
परस्य योग्यतापेक्षारहितो नित्यमङ्गलम् ।
ददात्येव निजौदार्याद्यस्तं भद्रं नमाम्यहम्
॥ ८ ॥

P4-0639 · 9
यो मृत्युं निजदासानां मारयत्यखिलेष्टदः ।
तत्रोदाहृतयो बह्वयो मृत्युमृत्युं नमाम्यहम्
॥ ९ ॥

P4-0640 · 10
यत्पादपद्मप्रणतो भवेदुत्तमपुरुषः ।
तमीशं सर्वदेवानां नमनीयं नमाम्यहम्
॥ १० ॥

P4-0641 · 11
आत्मभागं समुत्क्षिप्य दास्येनैव रघूद्वहम् ।
भजेऽहं प्रत्यहं रामं ससीतं सहलक्ष्मणम्
॥ ११ ॥

P4-0642 · 12
नित्यं श्रीरामभद्रस्य किङ्करा यमकिङ्कराः ।
शिवमयो दिशस्तस्य सिद्धयस्तस्य दासिकाः
॥ १२ ॥

P4-0643 · 13
इमं हनूमता प्रोक्तं मन्त्रराजात्मकं स्तवम् ।
पठेदनुदिनं यस्तु स रामे भक्तिमान् भवेत्
॥ १३ ॥

P4-0644 · 1
इति श्रीहनूमत्कल्पे मन्त्रराजात्मकं श्रीरामस्तोत्रं समाप्तम् ।
अथ रामाष्टशतकं नाम स्तोत्रम् ।
वेदव्यास उवाच :
शृणु गाङ्गेय वक्ष्यामि रामस्याद्भुतकर्मणः ।
नामाष्टशतकं पुण्यं महापातकनाशनम् ।
नातः परतरं गुह्यं त्रिषु लोकेषु विद्यते
॥ १ ॥

P4-0645 · 2
कैलासशिखरे रम्ये नानारत्नविभूषिते ।
एकाग्रप्रयतो भूत्वा विष्णुमाराध्य भक्तितः ।
उपविष्टस्ततो भोक्तुं पार्वतीं शङ्करोऽब्रवीत्
॥ २ ॥

P4-0646 · 3
पार्वत्येहि मया सार्द्धं भोक्तुं भुवनवन्दिते ।
तमाह पार्वती देवी जप्त्वा नामसहस्रकम् ।
ततो भोक्ष्याम्यहं देव भुज्यतां भवता प्रभो
॥ ३ ॥

P4-0647 · 4
ततस्तां पार्वती प्राह प्रहसन् परमेश्वरः ।
धन्यानि कृतपुण्यासि विष्णुभक्तासि पार्वति
॥ ४ ॥

P4-0648 · 5
दुर्लभा वैष्णवी भक्तिर्भागधेयं विनेश्वरि ।
रकारादीनि नामामि शृण्वतो मम पार्वति
॥ ५ ॥

P4-0649 · 6
मनः प्रसन्नतामेति रामनामाभिशङ्कया ।
रमन्ते योगिनोऽनन्ते सत्यानन्दे चिदात्मनि ।
इति रामपदेनासौ परं ब्रह्माभिधीयते
॥ ६ ॥

P4-0650 · 7
राम रामेति रमे रामे मनोरमे ।
सहस्रनाममध्ये तु रामनाम वरानने ।
रामेत्युक्त्वा महादेवि भुंक्ष्ण सार्द्धं मयाधुना
॥ ७ ॥

P4-0651 · 8
ततो रामेति नामोक्त्वा सहभुक्त्वा च पार्वती ।
ततो भुक्त्वा महादेवी पतिना सह संस्थिता
॥ ८ ॥

P4-0652 · 9
पप्रच्छ श्रीमहादेवं प्रीतिप्रवणमनसा ।
सहस्रनामभिस्तुल्यं राम नाम त्वयोदितम् ।
तस्यान्यान्यपि नामानि सन्ति चेद्रावणद्विषः ।
कथ्यतां मम देवेश तत्र मे प्रीतिरुत्तमा
॥ ९ ॥

P4-0653 · 10
श्रीशङ्कर उवाच :
शृणु नामानि वक्ष्यामि रामचन्द्रस्य पार्वति ।
लौकिका वैदिकाः शब्दा ये केचित् सन्ति पार्वति ।
नामानि रामभद्रस्य सहस्रन्तेषु चाधिकम्
॥ १० ॥

P4-0654 · 11
तेषु चात्यन्तमुख्यं हि नाम्नामष्टोत्तरं शतम् ।
विष्णोरेकैकनामानि सर्ववेदाधिकं फलम्
॥ ११ ॥

P4-0655 · 12
तादृङ्नामसहस्रेषु राम नाम परम् मतम् ।
जपतः सर्ववेदांश्च सर्वमन्त्रांश्च पार्वति ।
तस्मात्कोटिगुणं पुण्यं रामनाम्नैव लभ्यते
॥ १२ ॥

P4-0656 · 13
अथ श्रीरामाष्टोत्तरशतनामस्तोत्रस्य ईश्वर-ऋषिरनुष्टुप्छन्दः
श्रीरामचन्द्रो देवता श्रीरामचन्द्र प्रीत्यर्थं जपे विनियोगः
॥ १३ ॥

P4-0657 · 14
ॐ श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः ।
राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः
॥ १४ ॥

P4-0658 · 15
जानकीवल्लभो जैत्रो चितामित्रो जनार्दनः ।
विश्वामित्रप्रियो दान्तः शरणत्राणतत्परः
॥ १५ ॥

P4-0659 · 16
बालिप्रमथनो वाग्मी सत्यवाक्सत्यविक्रमः ।
सत्यव्रतो व्रतफलः सदा हनूमदाश्रयः
॥ १६ ॥

P4-0660 · 17
कौशलेयः खरध्वंसी विराधवधपंडितः ।
विभीषणपरित्राता दशग्रीवाशिरोहरः
॥ १७ ॥

P4-0661 · 18
सप्तताल प्रभेत्ता च हरकोदण्डखण्डनः ।
जामदग्न्यमहादर्पज्वलनस्ताडकान्तकः
॥ १८ ॥

P4-0662 · 19
वेदान्तसारोऽमेयात्मा भववैद्यश्च भेषजः ।
दूषणत्रिशिरोहन्ता त्रिमूर्त्तिस्त्रिगुणस्त्रयी
॥ १९ ॥

P4-0663 · 10
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारीति कीर्त्तनः ।
त्रिलोकीरक्षको धन्वी दण्डाकारण्यपुण्यकृत्
॥ १० ॥

P4-0664 · 21
अहल्यापावनश्चैव पितृभक्तो वरप्रदः ।
जितेन्द्रियो जितक्रोधो जितलोभो जगद्गुरुः
॥ २१ ॥

P4-0665 · 22
ऋक्षवानरसङ्घाती चित्रकुटसमाश्रयः ।
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः
॥ २२ ॥

P4-0666 · 23
सर्वदेवाधिदेवेश्च मृतबालकजीवनः ।
मायामारीचहन्ता च महाभोगो महाभुजः
॥ २३ ॥

P4-0667 · 24
सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः ।
महायोगी महोदारः सुग्रीवेप्सितराज्यदः
॥ २४ ॥

P4-0668 · 25
सर्वपुण्याधिकफलस्तीर्थः सर्वाघनाशनः ।
आदिपुरुषो महापुरुषः परमः पुरुषस्तथा
॥ २५ ॥

P4-0669 · 26
पुण्योदयो दयासारः पुराणः पुरुषोत्तमः ।
स्मितवक्त्रो मितभाषी पूर्णभाषी च राघवः
॥ २६ ॥

P4-0670 · 27
अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तरः ।
मायामानुषचारित्रो महादेवाभिपूजितः
॥ २७ ॥

P4-0671 · 28
सेतुकृज्जितवारीशः सर्वतोर्थमया हरिः ।
श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्द्धरः
॥ २८ ॥

P4-0672 · 29
सर्वयज्ञाधिपो यज्ञो जरामरणवर्जितः ।
शिवलिङ्गप्रतिष्ठाता सर्वाघगणवर्जितः
॥ २९ ॥

P4-0673 · 30
परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ।
परं ज्योतिः परं धाम पराकाष्ठा परात्परः
॥ ३० ॥

P4-0674 · 31
परेशः परागः पारः सर्वदेवात्मकः शिवः ।
इत्येतत्रामभद्रस्य नाम्नामष्टोत्तरं शतम्
॥ ३१ ॥

P4-0675 · 32
गुह्याद्गुह्यतरं देवि तव प्रीत्या प्रकीर्त्तितम् ।
यः पठेत्शृणुयाद्वापि भक्तियुक्तेन चेतसा ।
स सर्वैर्मुच्यते पापैः कल्पकोटिशतोद्भवैः
॥ ३२ ॥

P4-0676 · 33
जलानि स्थलतां यान्ति शत्रवो यान्ति मित्रताम् ।
राजानो दासतां यान्ति वह्न्यो यान्ति सौम्यताम्
॥ ३३ ॥

P4-0677 · 34
आनुकूल्यञ्च भूतानि स्थैर्यं यान्ति चला श्रियः ।
अणुग्रह ग्रहा यान्ति नाशमायान्त्यपद्रवाः
॥ ३४ ॥

P4-0678 · 36
पठतो भक्तिभावेन जनस्य गिरिसम्भवे ।
यः पठेत् परया भक्त्या तस्य वश्यं जगत्त्रयम् ।
यद्यत्कामयते चित्ते तत्तदाप्नोति कीर्त्तनात् ।
यः पठेद्रामचन्द्रस्य नाम्नामष्टोत्तरं शतम् ।
ज्ञानेनापि च कुवर्णो न स पापेन लिप्यते
॥ ३६ ॥

P4-0679 · 37
सर्ववेदेषु तीर्थेषु दानेषु च तपःसु च ।
तत्फलं कोटिगुणितं स्तवेनानेन लभ्यते
॥ ३७ ॥

P4-0680 · 38
पुण्येकालेषु सर्वेषु पठन्नानन्त्यमश्नुते ।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
वैकुण्ठे वासमाप्नोति दशपूर्वैर्दशापरैः
॥ ३८ ॥

P4-0681 · 39
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणी नराः
॥ ३९ ॥

P4-0682 · 40
रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः
॥ ४० ॥

P4-0683 · 41
इमं मंत्रं महेशानि जपेन्नेव दिवानिशम् ।
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात्
॥ ४१ ॥

P4-0684 · 42
इत्येतद्रामचन्द्रस्य माहात्म्यं वेदसम्मतम् ।
कथितं तव गाङ्गेय यतस्त्वं वैष्णवोत्तमः
॥ ४२ ॥

P4-0685 · 43
वन्दामहे महेशानं हरकोदण्डखण्डनम् ।
जानकीहृदयानन्दचन्दनं रघुनन्दनम्
॥ ४३ ॥

P4-0686 · 1
इति पद्यपुराणे पार्वतीश्वरसंवादे श्रीरामचन्द्रस्तवराजः
समाप्तः ।
अथ श्रीरामकवचम् ।
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ।
सासितूणधनुर्बाणपाणिं नक्तञ्चरान्तकम् ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्
॥ १ ॥

P4-0687 · 2
रामरक्षां पठेत् प्राज्ञः पापघ्नी सर्वकामदाम्
॥ २ ॥

P4-0688 · 3
अस्य श्रीरामकवचस्य बुधकौशिक ऋषिर्गयत्रीच्छन्दः
श्रीरामचन्द्रो देवता श्रीरामचन्द्र प्रीत्यर्थं जपे विनियोगः
॥ ३ ॥

P4-0689 · 4
ॐ शिरो मे राघवः पातु भालं दशरथात्मजः ।
कौशलेयो दृशौ पातु विश्वामित्रप्रियः श्रुती
॥ ४ ॥

P4-0690 · 5
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ।
जिह्वां विद्यानिधिं पातु कण्ठं भरतवन्दितः
॥ ५ ॥

P4-0691 · 6
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ।
करौ सीतापतिः पातु हृदयं जामदग्न्यजित्
॥ ६ ॥

P4-0692 · 7
वक्षः पातु कबन्धारिः स्तनौ गीर्वाणवन्दितः ।
पार्श्वो कुलपतिः पातु कुक्षिमिक्ष्वाकुनन्दनः
॥ ७ ॥

P4-0693 · 8
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ।
गुह्यं जितेन्द्रियः पातु पृष्ठ पातु रघूत्तमः
॥ ८ ॥

P4-0694 · 9
सुग्रीवेशः कटीं पातु सक्थिनी हनूमत्प्रभुः ।
उरु रघूत्तमः पातु रक्षः कुलविनाशकृत्
॥ ९ ॥

P4-0695 · 10
जानुनी सतुकृत्पातु जङ्घ दशमुखान्तकः ।
पादौ विभीषणश्रीदः पातु रामाऽखिलं वपुः
॥ १० ॥

P4-0696 · 11
एतां रामबलोपेतां रक्षां यः सुकृती पठेत् ।
स चिरायुः सुखो पुत्री विजयी विनयी भवेत्
॥ ११ ॥

P4-0697 · 12
पातालभूतलव्योमचारिणश्छद्मचारिणः ।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः
॥ १२ ॥

P4-0698 · 13
रामेति रामभद्रति रामचन्द्रति वा स्मरण ।
नरो न लिप्यते पापैर्भुक्ति मुक्तिञ्चविन्दति
॥ १३ ॥

P4-0699 · 14
जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।
यः करे धारयेत् तस्य करस्थाः सर्वसिद्धयः
॥ १४ ॥

P4-0700 · 15
भूर्जपत्रे त्विमां विद्यां गन्धचन्दनचर्चिताम् ।
कृत्वा वै धारयेद्यस्तु सोऽभीष्टं फलमाप्नुयात्
॥ १५ ॥

P4-0701 · 16
काकबन्ध्या च या नारी मृतवत्सा च या भवेत् ।
बह्वपत्या जीववत्सा सा भवेन्नात्र संशयः
॥ १६ ॥

P4-0702 · 17
वज्रपञ्जरनामेदं यो रामकवचं पठेत् ।
अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम्
॥ १७ ॥

P4-0703 · 18
आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हैर्ः ।
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः
॥ १८ ॥

P4-0704 · 19
धन्विनौ बद्धनिस्त्रिंशौ काकपक्षधरौ शुभौ ।
वीरौ मां पथि रक्षेतां वावुभौ रामलक्ष्मणौ
॥ १९ ॥

P4-0705 · 20
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ
॥ २० ॥

P4-0706 · 21
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामक्ष्मणौ
॥ २१ ॥

P4-0707 · 22
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् ।
रक्षःकुलनिहन्तारौ त्रायेतां वो रघूत्तमौ
॥ २२ ॥

P4-0708 · 23
आत्तसज्यधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम्
॥ २३ ॥

P4-0709 · 24
सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
यच्छन्मनोरथञ्चास्मान् रामः पातु सलक्ष्मणः
॥ २४ ॥

P4-0710 · 25
अग्रतस्तु नृसिंहो मे पृष्ठतो गरुडध्वजः पार्श्वयोस्तु ।
धनुष्मन्तौ सशरौ रामलक्ष्मणौ
॥ २५ ॥

P4-0711 · 26
रामो दाशरथिः शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थः पुरुषः पूर्णः कौशलेयो रघूत्तमः
॥ २६ ॥

P4-0712 · 27
वेदान्तवेद्यो यज्ञेशः पुराणः पुरुषोत्तमः ।
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः
॥ २७ ॥

P4-0713 · 28
दक्षिणे लक्ष्मणो धन्वी वामे च जानकी शुभा ।
पुरतो मारुतिर्यस्य तं नमामि रघूत्तमम्
॥ २८ ॥

P4-0714 · 29
आपदामपहन्तारं दातारं सर्वसम्पदाम् ।
गुणाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्
॥ २९ ॥

P4-0715 · 30
एतानि मम नामानि मद्भक्तो यः सदा पठेत् ।
अश्वमेधायुतं पुण्य स प्राप्नोनि न संशयः
॥ ३० ॥


Kṛṣṇa und Gopāla

P4-0716 · 1
इति पद्मपुराणे वेदव्यासकृतौ भगवद्वसिष्ठ
श्रीबुधकौशिकप्रणीतं वज्रपञ्जरं नाम श्रीरामकवचं
समाप्तम् ।
अथ श्रीकृष्णस्तोत्रम् ।
प्रसीद भगवन् मह्यमज्ञानात्कुण्ठितात्मने ।
तवांघ्रिपङ्कजरजोरागिणीं भक्तिमुत्तमाम्
॥ १ ॥

P4-0717 · 2
अज प्रसीद भगवन्नमितद्युतिपञ्जर ।
अप्रमेय प्रसीदास्मद्दुःखहन् पुरुषोत्तम
॥ २ ॥

P4-0718 · 3
स्वसंवेद्य प्रसीदास्मदानन्दात्मन्ननामय ।
अचिन्त्यसार विश्वात्मन् प्रसीद परमेश्वर
॥ ३ ॥

P4-0719 · 4
पसीद तुङ्ग तुङ्गानां प्रसीद शिवशिभन ।
प्रसीद गुणगम्भीर गम्भीराणां महाद्युते
॥ ४ ॥

P4-0720 · 5
प्रसीदाव्यक्तविस्तीर्ण विस्तीर्णानामगोचर ।
प्रसीदार्द्रार्द्रजातीनां प्रसीदान्तान्तयायिनाम्
॥ ५ ॥

P4-0721 · 6
गुरोर्गरीयान् सर्वेश प्रसीदानन्त देहिनाम् ।
जय माधव मायात्मन् जय शाश्वत शङ्खभृत्
॥ ६ ॥

P4-0722 · 7
जय शङ्खधर श्रीमन् जय नन्दकनन्दन् ।
जय चक्रगदापाणे जय देव जनार्दन
॥ ७ ॥

P4-0723 · 8
जय रत्नवरावद्धकिरीटाक्रान्तमस्तक ।
जय पक्षिपतिच्छायानिरुद्धार्ककरारुण
॥ ८ ॥

P4-0724 · 9
नमस्ते नरकाराते नमस्ते मधुसूदन ।
नमस्ते ललितापाङ्ग नमस्ते नरकान्तक
॥ ९ ॥

P4-0725 · 10
नमः पापहरेशान नमः सर्वभयापह ।
नमः सम्भृतसर्वात्मन् नमः सम्भृतकौस्तुभ
॥ १० ॥

P4-0726 · 11
नमस्ते नयनातीत नमस्ते भयहारक ।
नमो विभिन्नवेशाय नमः श्रुतिपथातिग
॥ ११ ॥

P4-0727 · 12
नमस्त्रिमूर्तिभेदेन स्वर्गस्थित्यन्तहेतवे ।
विष्णवे त्रिदशारातिजिष्णवे परमात्मने
॥ १२ ॥

P4-0728 · 13
चक्रभिन्नारिचक्राय चक्रिणे चक्रबन्धवे ।
विश्वाय विश्ववन्द्याय विश्वभूतानुवर्तिने
॥ १३ ॥

P4-0729 · 14
नमोऽस्तु योगिध्येयाय नमोऽस्त्वध्यात्मरूपिणे ।
भक्तिप्रियाय भक्तानां नमस्ते मुक्तिदायिने
॥ १४ ॥

P4-0730 · 15
पूजनं हवनं चेष्टा ध्यानं पश्चान्नमस्क्रिया ।
देवेश कर्म सर्वं मे भवेदाराधनं तव
॥ १५ ॥

P4-0731 · 16
इति हवनजपार्चाभेदतो विष्णुपूजानिरतो हृदयकर्मा यस्तु मन्त्री
चिराय ।
स खलु सकलकामान् प्राप्य कृष्णान्तरात्मा
जननमृतिविमुक्तामुत्तमां मुक्तिमेति
॥ १६ ॥

P4-0732 · 17
गागोपगोपिकावीतं गोपालं गोषु गोप्रदम् ।
गोपैरीड्यं गोसहस्रैर्नौमि गोकुलनायकम्
॥ १७ ॥

P4-0733 · 18
प्रीणयेदनया स्तुत्या जगन्नाथं जगन्मयम् ।
धर्मार्थकाममोक्षाणामप्तये पुरुषोत्तमम्
॥ १८ ॥

P4-0734 · 1
इति कृष्णस्त्रोत्रं समाप्तम् ।
अथ गोपालस्त्रोत्रम् ।
नारद उवाच :
नवीननीरदश्यामं नीलेन्दीवरलोचनम् ।
वल्लवीनन्दनं वन्दे कृष्णं गोपालरूपिणम्
॥ १ ॥

P4-0735 · 2
स्फुरद्वर्हदलाद्वद्धनीलकुञ्चितमूर्द्धजम् ।
कदम्बकुसुमोद्वद्धवनमालाविभूषितम्
॥ २ ॥

P4-0736 · 3
गण्डमण्डलसंसर्गिचलत्काञ्चनकुण्डलम् ।
स्थूलमुक्ताफलोदारहारद्योतितवक्षसम्
॥ ३ ॥

P4-0737 · 4
हेमाङ्गदतुलाकोटिकिरीटोज्वलविग्रहम् ।
मन्दमारुतसंक्षोभवल्गिताम्बरसञ्चयम्
॥ ४ ॥

P4-0738 · 5
रुचिरौष्ठपुटन्यस्त-वंशोमधुरनिःस्वनैः ।
लसद्गोपालिकाचेतो मोहयन्तं मुहुर्मुहुः
॥ ५ ॥

P4-0739 · 6
वल्लवी?वदनाम्भोजमधुपानमधुव्रतम् ।
क्षोभयन्तं मनस्तासां सस्मेरापाङ्गवीक्षणैः
॥ ६ ॥

P4-0740 · 7
यौवनोद्भिन्नदेहाभिः संसक्ताभिः परस्परम् ।
विचित्राम्बरभूषाभिर्गोपनारीभिरावृतम्
॥ ७ ॥

P4-0741 · 9
प्रभिनाञ्जनकालिन्दीजलकेलिकलोत्सुकम् ।
योधयन्तं क्वचिद्गोपान् व्याहरन्तं गवां गणम् ।
कालिन्दीजलसंसर्गिशीतलानिलसेविते ।
कदम्बपादपच्छाये स्थितं वृन्दावने क्वचित्
॥ ९ ॥

P4-0742 · 10
रत्नभूधरसंलग्नरत्नासनपरिग्रहम् ।
कल्पपादमध्यस्थ हेममण्डपिकागतम्
॥ १० ॥

P4-0743 · 11
वसन्तकुसुमामोदसुरभीकृतदिङ्मुखे ।
गोवर्द्धनगिरौ रम्ये स्थितं रासरसोत्सुकम्
॥ ११ ॥

P4-0744 · 12
सव्यहस्ततलन्यस्त-गिरिवर्यातपत्रकम् ।
खण्डिताखण्डतोन्मुक्तमुक्तासारघनाघनम्
॥ १२ ॥

P4-0745 · 13
वेणुवाद्यमहोलास-कृतहुङ्कारनिःस्वनैः ।
सवत्सैरुन्मुखैः शश्वद्गोकुलैरभिवीक्षितम्
॥ १३ ॥

P4-0746 · 14
कृष्णमेवानुगायद्भिस्तच्चेष्टावशवर्त्तिभिः ।
दण्डपाशोद्यतकरैर्गोपालैरुपशोभितम्
॥ १४ ॥

P4-0747 · 15
नारदाद्यैर्मुनिश्रेष्ठैर्वेदवेदाङ्गपारगैः ।
प्रीतिसुस्निग्धया वाचा स्तूयमानं परात्परम्
॥ १५ ॥

P4-0748 · 16
य एवं चिन्तयेद्देवं भक्त्या संस्तौति मानवः ।
त्रिसन्ध्यं तस्य तुष्टोऽसौ ददाति वरमीप्सितम्
॥ १६ ॥

P4-0749 · 17
राजवल्लभतामेति भवेत् सर्वजनप्रियः ।
अचलां श्रियमाप्नोति स वाग्मी जायते ध्रुवम्
॥ १७ ॥

P4-0750 · 1
इति गौतमीय तन्त्रे श्रीगोपालस्तोत्रं समाप्तम् ।
अथ श्रीकृष्णकवचम् ।
पुलस्त्य उवाच :
भगवन्सर्वधर्मज्ञ कवचं यत्प्रकाशितम् ।
त्रैलोक्यमङ्गलं नाम कृपया कथय प्रभो
॥ १ ॥

P4-0751 · 2
सनत्कुमार उवाच ।
शृणु विप्रेन्द्र वक्ष्यामि कवचं परमाद्भुतम् ।
नारायणेन कथितं कृपया ब्रह्मणे पुरा
॥ २ ॥

P4-0752 · 3
ब्रह्मणा कथितं मह्यं परं स्नेहाद्वदामि ते ।
अतिगुह्यतरं तत्त्वं ब्रह्ममन्त्रौघविग्रहम्
॥ ३ ॥

P4-0753 · 4
यद्धृत्वा पठनाद्ब्रह्मा सृष्टिं वितनुते ध्रुवम् ।
यद्धृत्वा पठनात् पाति महालक्ष्मीर्जगत्त्रयम्
॥ ४ ॥

P4-0754 · 5
पठनाद्द्धारणाच्छंभुः संहर्ता सर्वतत्त्ववित् ।
त्रैलोक्यजननी दुर्गा महिषादिमहासुरान्
॥ ५ ॥

P4-0755 · 6
वरदृप्तान् जघानैव पठनाद्धारणाद्यतः ।
एवमिन्द्रादयः सर्वे सर्वेश्वर्यमवाप्नुयुः
॥ ६ ॥

P4-0756 · 7
इदं कवचमत्यन्तं गुप्तं कुत्रापि नो वदेत् ।
शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत्
॥ ७ ॥

P4-0757 · 8
शठाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ।
त्रैलोक्यमङ्गलस्यास्य कवचस्य प्रजापतिः
॥ ८ ॥

P4-0758 · 9
ऋषिश्छन्दश्च गायत्री देवी नारायणः स्वयम् ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः
॥ ९ ॥

P4-0759 · 10
प्रणवो मे शिरः पातु नमो नारायणाय च ।
भालं मे नेत्रयुगलमष्टार्णो भुक्तिमुक्तिदः
॥ १० ॥

P4-0760 · 11
क्लीं पायाच्छ्रोत्रयुग्मं चैकाक्षरसर्वमोहनः ।
क्लीं कृष्णाय सदा घ्राणं गोविन्दायेति जिह्विकाम्
॥ ११ ॥

P4-0761 · 12
गोपीजनपदं वल्लभाय स्वाहाऽननं मम ।
अष्टादशाक्षरो महामत्रः कण्ठं पातु दशाक्षरः
॥ १२ ॥

P4-0762 · 13
गोपीजनपदं वल्लभाय स्वाहा भुजद्वयम् ।
क्लीं ग्लौं क्लीं श्यामलाङ्गाय नमः स्कन्धौ दशाक्षरः
॥ १३ ॥

P4-0763 · 14
क्लीं कृष्ण क्लीं करौ पायात् क्लीं कृष्णायाङ्गजोऽवतु ।
हृदयं भुवनेशानि क्लीं कृष्णाय करौ स्तनौ मम
॥ १४ ॥

P4-0764 · 15
गोपालायाग्निजायान्तं कुक्षियुग्मं सदाऽवतु ।
क्लीं कृष्णाय सदा पातु पार्श्वयुग्मं मनूत्तमः
॥ १५ ॥

P4-0765 · 16
कृष्णगोविन्दकौ पातु स्मराद्यो ङेयुतो मनुः ।
अष्टाक्षरः पातु नाभिं कृष्णेति द्व्यक्षरोऽवतु
॥ १६ ॥

P4-0766 · 17
पृष्ठं क्लीं कृष्णकङ्कालं क्लीं कृष्णाय द्विठान्तकः ।
सक्थिनीं सततं पातु श्रीं ह्रीं क्लीं कृष्णठद्वयम्
॥ १७ ॥

P4-0767 · 18
ऊरू सप्ताक्षरः पायात्त्रयोदशाक्षरोऽवतु ।
श्रीं ह्रीं क्लीं पदतो गोपीजनवल्लभपदं ततः
॥ १८ ॥

P4-0768 · 19
भाय स्वाहेति पायुं वै क्लीं ह्रीं श्रीं स दशार्णकः ।
जानुनी च साद पातु ह्रीं श्रीं क्लीं च दशाक्षरः
॥ १९ ॥

P4-0769 · 20
त्रयोदशाक्षरः पातु जङ्घे चक्राद्युदायुधः ।
अष्टादशाक्षरो ह्रीं-श्रीं-पूर्वको विंशदर्णकः
॥ २० ॥

P4-0770 · 21
सर्वाङ्गं मे सदा पातु द्वारकानायको बली ।
नमो भगवते पश्चाद्वासुदेवाय तत्परम्
॥ २१ ॥

P4-0771 · 22
ताराद्यो द्वादशार्णोऽयं प्राच्यां मां सर्वदाऽवतु ।
श्रीं ह्रीं क्लीं च दशार्णस्तु क्लीं ह्रीं श्रीं षोडशार्णकः
॥ २२ ॥

P4-0772 · 23
गदाद्युदायुधो विष्णुर्मामग्नेर्दिशि रक्षतु ।
ह्रीं श्रीं दशाक्षरो मन्त्रो दक्षिणे मां सदाऽवतु
॥ २३ ॥

P4-0773 · 24
तारो नमो भगवते रुक्मिणीवल्लभाय च ।
स्वाहेति षोडशार्णोऽयं नैर्-ऋत्यां दिशि रक्षतु
॥ २४ ॥

P4-0774 · 25
क्लीं हृषीकपदेशाय नमो मां वरुणोऽवतु ।
अष्टादशार्णः कामान्तो वायव्ये मां सदाऽवतु
॥ २५ ॥

P4-0775 · 26
श्रीं मायाकामकृष्णाय गोविन्दाय द्विठो मनुः ।
द्वादशार्णात्मको विष्णुरुत्तरे मां सदाऽवतु
॥ २६ ॥

P4-0776 · 27
वाग्भवं कामकृष्णाय ह्रीं गोविन्दाय ततः परम् ।
श्रीं गोपीजनवल्लभान्ते भाय स्वाहा करौ ततः
॥ २७ ॥

P4-0777 · 28
द्वाविंशत्यक्सरो मन्त्रो मामैशान्ये सदाऽवतु ।
कालियस्य फणामध्ये दिव्यं नृत्यं करोति तम्
॥ २८ ॥

P4-0778 · 29
नमामि देवकीपुत्रं नृत्यराजानमच्युतम् ।
द्वात्रिंशदक्षरो मन्त्रोऽप्यधो मां सर्वदाऽवतु
॥ २९ ॥

P4-0779 · 30
कामदेवाय विद्महे पुष्पबाणाय धीमहि ।
तन्नोऽनङ्गः प्रचोदयादेषा मां पातु चोर्ध्वतः
॥ ३० ॥

P4-0780 · 31
इति ते कथितं विप्र ब्रह्ममन्त्रौघविग्रहम् ।
त्रैलोक्यमङ्गलं नाम कवच ब्रह्मरूपकम्
॥ ३१ ॥

P4-0781 · 32
ब्रह्मणा कथितं पूर्वं नारायणमुखाच्छ्रुतम् ।
तव स्नेहान्मयाऽख्यातं प्रवक्तव्यं न कस्यचित्
॥ ३२ ॥

P4-0782 · 33
गुरुं प्रणम्य विधिवत्कवचं प्रपठेत् ततः ।
सकृद्द्विस्त्रिर्यथाज्ञानं स हि सर्वतपोमयः
॥ ३३ ॥

P4-0783 · 34
मन्त्रेषु सकलेष्वेव देशिको नात्र संशयः ।
शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः
॥ ३४ ॥

P4-0784 · 35
हवनादिदशांशेन कृत्वा तत्साधयेद्ध्रुवम् ।
यदि स्यात्सिद्धकवचो विष्णुरेव भवेत् स्वयम्
॥ ३५ ॥

P4-0785 · 36
मन्त्रसिद्धिर्भवेत् तस्य पुरश्चर्याविधानतः ।
स्पर्धामुद्धूय सततं लक्ष्मीर्वाणी वसेत् ततः
॥ ३६ ॥

P4-0786 · 37
पुष्पाञ्जल्यष्टकं दत्त्वा मूलेनैव पठेत् सकृत् ।
दशवर्षसहस्राणां पूजायाः फलमाप्नुयात्
॥ ३७ ॥

P4-0787 · 38
भूर्जे विलिख्य गुलिकां स्वर्णस्थां धारयेद् यदि ।
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः
॥ ३८ ॥

P4-0788 · 39
अश्वमेधसहस्राणि वाजपेयशतानि च ।
महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा
॥ ३९ ॥

P4-0789 · 40
कलां नार्हन्ति तान्येव सकृदुच्चारणात्ततः ।
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः
॥ ४० ॥

P4-0790 · 41
त्रैलोक्यं क्षोभयेत्येव त्रैलोक्यविजयी भवेत् ।
इदं कवचमज्ञात्वा यजेद्यः पुरुषोत्तमम्
॥ ४१ ॥

P4-0791 · 42
शतलक्षं प्रजप्तोऽपि न मन्त्रस्तस्य सिद्ध्यति
॥ ४२ ॥


Nṛsiṃha und Śiva

P4-0792 · 1
इति सनत्कुमारतन्त्रे त्रैलोक्यमङ्गलं नाम श्रीकृष्णकवचं
समाप्तम् ।
अथ नृसिंहकवचम् ।
नारद उवाच :
इन्द्रादिदेववृन्देश इड्येश्वरं जगत्पते ।
महाविष्णोर्नृसिंहस्य कवचं ब्रूहि मे प्रभो
॥ १ ॥

P4-0793 · 2
यस्य प्रपठनाद्विद्वांस्त्रैलोक्यविजयी भवेत् ।
ब्रह्मोवाच :
शृणु नारद वक्ष्यामि पुत्रश्रेष्ठ तपोधन ।
कवचं नरसिंहस्य त्रैलोक्यविजयाभिधम्
॥ २ ॥

P4-0794 · 3
यस्य पठनाद्वाग्मी त्रैलोक्यविजयी भवेत् ।
स्रष्टाहं जगतां वत्स पठनाद्धारणाद्यतः
॥ ३ ॥

P4-0795 · 4
लक्ष्मीर्ज्जगत्त्रयं पाति संहर्ता च महेश्वरः ।
पठनाद्धारणाद्देवा बभूवुश्च दिगीश्वराः
॥ ४ ॥

P4-0796 · 5
ब्रह्ममन्त्रमयं वक्ष्ये भ्रान्तादिविनिवारकम् ।
यस्य प्रसादाद्दुर्वासास्त्रैलोक्यविजयी भवेत्
॥ ५ ॥

P4-0797 · 6
पठनाद्धारणाद्यस्य शास्ता च क्रोधभैरवः ।
त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च गायत्री नृसिंहो देवता विभुः
॥ ६ ॥

P4-0798 · 7
क्ष्रौं बीजं मे शिरः पातु चन्द्रवर्णो महामनुः
॥ ७ ॥

P4-0799 · 8
ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम्
॥ ८ ॥

P4-0800 · 9
द्वात्रिंशदक्षरो मन्त्रो मन्त्रराजः सुरद्रुमः ।
कण्ठं पातु ध्रुवं क्ष्रौं हृद्भगवते चक्षुषी मम
॥ ९ ॥

P4-0801 · 10
नरसिंहाय च ज्वालामालिने पातु कर्णकम् ।
दीप्तदंष्ट्राय च तथाग्निनेत्राय च नासिकाम्
॥ १० ॥

P4-0802 · 11
सर्वरक्षोघ्नाय च तथा सर्वभूतहिताय च ।
सर्वज्वरविनाशाय दह दह पदद्वयम्
॥ ११ ॥

P4-0803 · 12
रक्षरक्ष वर्ममन्त्रः स्वाहा पातु मुखं मम ।
तारादिरामचन्द्राय नमः पातु हृदं मम
॥ १२ ॥

P4-0804 · 13
क्लीं पायात्पार्श्वयुग्मं च तारो नमः पदं ततः ।
नारायणाय नाभिं च आं ह्रीं क्रौं क्ष्रौं च हुं फट्
॥ १३ ॥

P4-0805 · 14
षडक्षरः कटिं पातु ॐ नमो भगवते पदम् ।
वासुदेवाय च पृष्ठं क्लीं कृष्णाय ऊरुद्वयम्
॥ १४ ॥

P4-0806 · 15
क्लीं कृष्णाय सदा पातु जानुनी च मनूत्तमः ।
क्ली ग्लौं क्लीं श्यामलाङ्गाय नमः पायात्पदद्वयम्
॥ १५ ॥

P4-0807 · 16
क्ष्रौं नृसिंहाय क्ष्रौं च सर्वाङ्गे मे सदाऽवतु ।
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम्
॥ १६ ॥

P4-0808 · 17
तव स्नेहान्मया ख्यातं प्रवक्तव्यं न कस्यचित् ।
गुरुपूजां विधायाथ गृह्णीयात्कवचं ततः
॥ १७ ॥

P4-0809 · 18
सर्वपुण्ययुतो भूत्वा सर्वसिद्धियुतो भवेत् ।
शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः
॥ १८ ॥

P4-0810 · 19
हवनादीन्दशांशेन कृत्वा साधकसत्तमः ।
ततस्तु सिद्धकवचः पुण्यात्मा मदनोपमः
॥ १९ ॥

P4-0811 · 20
स्पर्द्धामुद्धूय भवने लक्ष्मीर्वाणी वसेत् ततः ।
पुष्पाञ्जल्यष्टकं दत्त्वा मूलेनैव पठेत्सकृत्
॥ २० ॥

P4-0812 · 31
अपि वर्षसहस्राणां पूजायां फलमाप्नुयात् ।
भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेद्यदि
॥ ३१ ॥

P4-0813 · 22
कण्ठे वा दक्षिणे बाहौ नरसिंहो भवेत् स्वयम् ।
योषिद्वामभुजे चैव पुरुषो दक्षिणे करे
॥ २२ ॥

P4-0814 · 23
बिभृयात् कवचं पुण्यं सर्वसिद्धियुतो भवेत् ।
काकवन्ध्या च या नारी मृतवत्सा च या भवेत्
॥ २३ ॥

P4-0815 · 24
जन्मवन्ध्या नष्टपुत्रा बहुपुत्रवती भवेत् ।
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः
॥ २४ ॥

P4-0816 · 25
त्रैलोक्यं क्षोभयत्येवं त्रैलोक्यविजयी भवेत् ।
भूतप्रेतपिशाचाश्च राक्षसा दानवाश्च ये
॥ २५ ॥

P4-0817 · 26
तं दृष्ट्वा प्रपलायन्ते देशाद्देशान्तरं ध्रुवम् ।
यस्मिन्गृहे च कवचं ग्रामे वा यदि तिष्ठति ।
तद्देशं तु परित्यज्य प्रयान्ति ह्यतिदूरतः
॥ २६ ॥

P4-0818 · 1
इति ब्रह्मसंहितायां त्रैलोक्यमंगलं नाम नृसिंहकवचं
समाप्तम् ।
अथ शिवस्तोत्रम् ।
धरापोग्निमरुद्व्योममखेशेन्द्वर्कमूर्तये ।
सर्वभूतान्तरस्थाय शङ्कराय नमो नमः
॥ १ ॥

P4-0819 · 2
श्रुत्यन्तः कृतवासाय श्रुतये श्रुतिजन्मने ।
अतीन्द्रियाय महसे शाश्वताय नमोनमः
॥ २ ॥

P4-0820 · 3
स्थूलसूक्ष्मविभागाभ्यामनिर्देश्याय शम्भवे ।
भवाय भवसम्भूतदुःखहन्त्रे नमोऽस्तु ते
॥ ३ ॥

P4-0821 · 4
तर्कमार्गातिभूताय तपसां फलदायिने ।
चतुर्वर्गवदान्याय सर्वज्ञाय नमोनमः
॥ ४ ॥

P4-0822 · 5
आदिमध्यान्तशून्याय निरस्ताशेषभीतये ।
योगिध्येयाय महते निर्गुणाय नमोनमः
॥ ५ ॥

P4-0823 · 6
विश्वात्मनेऽविचिन्त्याय विलसच्चन्द्रमौलये ।
कन्दर्पदर्पनाशाय कालहन्त्रे नमोऽस्तु
॥ ६ ॥

P4-0824 · 7
विषाशनाय विहरद्वृषस्कन्धमुपेयुषे ।
सरिद्वामसमाबद्धकपर्दाय नमोनमः
॥ ७ ॥

P4-0825 · 8
शुद्धाय शुद्धभावाय शुद्धानामन्तरात्मने ।
पुरान्तकाय पूर्णाय पुण्यनाम्ने नमोनमः
॥ ८ ॥

P4-0826 · 9
भक्ताय निजभक्तानां भूक्तिमुक्तिप्रदायिने ।
विवाससेऽविवासाय विश्वेन शास्त्रे नमोनमः
॥ ९ ॥

P4-0827 · 10
त्रिमूर्त्तिमूलभूताय त्रिनेत्राय नमोनमः ।
त्रिधाम्नाधामरूपाय जन्मघ्नाय नमोनमः
॥ १० ॥

P4-0828 · 11
देवासुरशिरोरत्नकिरणारुणितांघ्रये ।
कान्ताय निजकान्तायै दत्तार्द्धाय नमोनमः
॥ ११ ॥

P4-0829 · 12
स्तोत्रेणानेन पूजायां प्रीणयेज्जगतः पतिम् ।
भक्तिमुक्तिप्रदं भक्त्या सर्वज्ञं परमेश्वरम्
॥ १२ ॥

P4-0830 · 13
तस्यासाध्यं त्रिभुवने न किञ्चिदपि वर्त्तते ।
ऐहिकं किं फलं तत्र मुक्तिरेव करे स्थिता
॥ १३ ॥

P4-0831 · 1
इति शिवस्तोत्रं समाप्तम् ।
अथ शिवस्यकवचम् ।
श्रीदेव्युवाच :
भगवन् देवदेवेश सर्वाम्नाय प्रपूजित ।
सर्वं मे कथितं देव कवचं न प्रकाशितम्
॥ १ ॥

P4-0832 · 2
प्रासादाख्यस्य मन्त्रस्य कवचं मे प्रकाशय ।
सर्वरक्षाकरं देव यदि स्नेहेऽस्ति मां प्रति
॥ २ ॥

P4-0833 · 3
श्री भगवानुवाच :
प्रासादमन्त्रकवचस्य वामदेव-ऋषिः स्मृतः ।
पंक्तिश्छन्दश्च देवेशि सदाशिवोऽत्र देवता ।
साधकाभीष्टसिद्धौ च विनियोगः प्रकीर्त्तितः
॥ ३ ॥

P4-0834 · 4
ॐ शिरो मे सर्वदा पातु प्रासादाख्य सदाशिवः
॥ ४ ॥

P4-0835 · 5
सडक्षरस्वरूपो मे वदनन्तु महेश्वरः ।
अष्टाक्षरः शक्तिरुद्धश्चक्षुषी मे सदावतु
॥ ५ ॥

P4-0836 · 6
पञ्चाक्षरात्मा भगवान्भुजौ मे परिरक्षतु ।
मृत्युञ्जयस्त्रिवीजात्मा आयु रक्षतु मे सदा
॥ ६ ॥

P4-0837 · 7
वटमूलसमासीनो दक्षिणामूर्तिरव्ययः ।
सदा मां सर्वतः पातु षट्त्रिंशार्णस्वरूपधृक्
॥ ७ ॥

P4-0838 · 8
द्वाविंशार्णात्मको रुद्रः कुक्षिं मे परिरक्षतु ।
त्रिवर्णात्मा नीलकण्ठः कण्ठं रक्षतु सर्वदा
॥ ८ ॥

P4-0839 · 9
चिन्तामणिर्बीजरूपो अर्द्धनारीश्वरो हरः ।
सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः
॥ ९ ॥

P4-0840 · 10
एकाक्षरस्वरूपात्मा कूटरूपी महेश्वरः ।
मार्तण्डभैरवी नित्यं पादौ मे परिरक्षतु
॥ १० ॥

P4-0841 · 11
तुम्बुराख्यो महाबीजस्वरूपस्त्रिपुरान्तकः ।
सदा मां रणभूमौ च रक्षतु त्रिदशाधिपः
॥ ११ ॥

P4-0842 · 12
ऊर्द्धमूर्द्धानमीशानो मम रक्षतु सर्वदा ।
दक्षिणस्यां तत्पुरुषोऽव्यान्मे गिरिविनायकः
॥ १२ ॥

P4-0843 · 13
अघोराख्यो महादेवः पूर्वस्यां परिरक्षतु ।
महादेवः पश्चिमस्यां सदा मे परिरक्षतु ।
उत्तरस्यां सदा पातु सद्योजातस्वरूपधृक्
॥ १३ ॥

P4-0844 · 14
इत्थं रक्षाकरं देवि कवचं देवदुर्लभम् ।
प्रातःकाले पठेद्यस्तु सोऽभीष्टं फलमाप्नुयात्
॥ १४ ॥

P4-0845 · 15
पूजाकाले पठेद्यस्तु कवचं साधकोत्तमः ।
कीर्त्तिश्रीकान्तिमेधायुर्वृत् हितो भवति ध्रुवम्
॥ १५ ॥

P4-0846 · 16
कण्ठे यो धारयेदेतत्कवचं मतस्वरूपम् ।
युद्धे विजयमाप्नोति द्यूते वादे च साधकः
॥ १६ ॥

P4-0847 · 17
कवचं धारयेद्यस्तु साधको दक्षिणे भुजे ।
देवा मनुष्या गन्धर्वा वश्यास्तस्य न संशयः
॥ १७ ॥

P4-0848 · 18
कवचं शिरसा यस्तु धारयेद्यतमानसः ।
करस्तास्तस्य देवेशि अणिमाद्यष्टसिद्धयः
॥ १८ ॥

P4-0849 · 20
भूर्जपत्रे त्विमां विद्यां शुक्लपट्टेन वेष्टिताम् ॥
रजतोदरसंविष्टां कृत्वा च धारयेत् सुधीः ॥ १९ ।
सम्प्राप्य महतीं लक्ष्मीमन्ते मद्देहपरूधृक् ।
यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन
॥ २० ॥

P4-0850 · 21
शिष्यय भक्तियुक्ताय साधकाय प्रकाशयेत् ।
अन्यथा सिद्धिहानिः स्यात् सत्यमेतन्मनोरमे
॥ २१ ॥

P4-0851 · 22
तव स्नेहान्महादेवि कथितं कवचं शुभम् ।
न देयं कस्यचित् भद्रे यदीच्छेदात्मनो हितम्
॥ २२ ॥

P4-0852 · 23
योऽर्चयेत् गन्धपुष्पाद्यैः कवचं मन्मुखोदितम् ।
तेनार्चिता महादेवि सर्वे देवा न संशयः
॥ २३ ॥


Bhairava und Bhairavī

P4-0853 · 1
इति भैरवतन्त्रे श्रीसदाशिव-कवचं समाप्तम् ।
अथ वटुकभैरवस्तोत्रम् ।
कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।
शङ्करं परिपप्रच्छ पार्वती परमेश्वरम्
॥ १ ॥

P4-0854 · 2
श्रीपार्वत्युवाच :
भगवन् सर्वधर्मज्ञ सर्वशास्त्रागमादिषु ।
आपदुद्धारणं मन्त्रं सर्वसिद्धिप्रदं नृणाम्
॥ २ ॥

P4-0855 · 3
सर्वेषाञ्चैव भूतानां हितार्थं वाञ्छितं मया ।
विशेषतस्तु राज्ञां वै शान्तिपुष्टिप्रसाधनम्
॥ ३ ॥

P4-0856 · 4
अङ्गन्यास-करन्यास-बीजन्याससमन्वितम् ।
वक्तुमर्हसि देवेश मम हर्षविवर्द्धनम्
॥ ४ ॥

P4-0857 · 5
श्री भगवानुवाच :
शृणु देवि महामन्त्रमापदुद्धारहेतुकम् ।
सर्वदुःखप्रशमनं सर्वशत्रुनिवर्द्धनम्
॥ ५ ॥

P4-0858 · 6
अपस्मारादिरोगाणां ज्वरादीनां विशेषतः ।
नाशनं स्मृतिमात्रेण मन्त्रराजमिमं प्रिये
॥ ६ ॥

P4-0859 · 7
ग्रहराजभयानाञ्च नाशनं सुखवर्द्धनम् ।
स्नेहाद्वक्ष्यामि ते मन्त्रं सर्वसारमिदं प्रिये
॥ ७ ॥

P4-0860 · 8
सर्वकामार्थदं मन्त्रं राज्यभोगप्रदं नृणाम् ।
आपददुद्धारणं मन्त्रं वक्ष्यामीति विशेषतः
॥ ८ ॥

P4-0861 · 9
प्रणवं पूर्वमूच्चार्य देवीप्रणवमुद्धरेत् ।
वटुकायेति वै पश्चादापदुद्धरणाय च
॥ ९ ॥

P4-0862 · 10
कुरुद्वयं ततः पश्चाद्वटुकाय पुनः क्षिपेत् ।
देवीप्रणवमुद्धृत्य मन्त्रोद्धारमिमं प्रिये
॥ १० ॥

P4-0863 · 11
मन्त्रोधारमिमं देवि त्रैलोक्यस्यापि दुर्लभम् ।
अप्रकाश्यमिमं मन्त्रं सर्वशक्ति समन्वितम्
॥ ११ ॥

P4-0864 · 12
स्मरणादेव मन्त्रस्य भूतप्रेतपिशाचकाः ।
विद्रवन्ति भयार्ता वै कलेरुद्रादिव प्रजाः
॥ १२ ॥

P4-0865 · 12
पठेद् वा पाठयेद्वापि पूजयेद्वापि पुस्तकम् ।
नाग्निचौरभयं वापि ग्रहराजभयं तथा
॥ १२ ॥

P4-0866 · 14
न च मारीभयस्तस्य सर्वत्र सुखवान्भवेत् ।
आयुरारोग्यमैश्वर्यं पुत्रपौत्रादिसम्पदः ।
भवन्ति सततं तस्य पुस्तकस्यापि पूजनात्
॥ १४ ॥

P4-0867 · 16
श्रीपार्वत्युवाच :
य एष भैरवो नाम आपदुद्धारको मतः ।
त्वया च कथितो देव भैरवः कल्प उत्तमः ।
तस्य नाम सहस्राणि अयुतान्यर्बुदानि च ।
सारमुद्धृत्य तेषां वै नामाष्टशतकं वद
॥ १६ ॥

P4-0868 · 17
श्री भगवानुवाच :
यस्तु संकीर्तयेदेतत् सर्वदुष्टनिवर्हणम् ।
सर्वान् कामनवाप्नोति साधकः सिद्धिमेव च
॥ १७ ॥

P4-0869 · 18
शृणु देवि प्रवक्ष्यामि भैरवस्य महात्मनः ॥
आपदुद्धारकस्येह नामाष्टशतमुत्तमम्
॥ १८ ॥

P4-0870 · 19
सर्वपापहरं पुण्यं सर्वापद्विनिवारकम् ।
सर्वकामार्थदं देवि साधकानां सुखावहम्
॥ १९ ॥

P4-0871 · 20
देहाङ्गन्यासनञ्चैव पूर्वं कुर्यात् समाहितः ।
भैरवं मूर्ध्नि विन्यस्य ललाटे भीमदर्शनम् ।
अक्ष्णोर्भूताश्रयं न्यस्य वदने तीक्ष्णदर्शनम् ।
क्षेत्रपं कर्णयोर्मध्ये क्षेत्रपालं हृदि न्यसेत् ।
क्षेत्राख्यं नाभिदेशे तु कट्यां सर्वाघनाशनम् ।
त्रिनेत्रमूर्वोर्विन्यस्य जङ्घ्यो रक्तपाणिकम् ।
पादयोर्देवदेवेशं सर्वाङ्गे वटुकं न्यसेत्
॥ २० ॥

P4-0872 · 21
एवं न्यासविधिं कृत्वा तदनन्तरमुत्तमम् ।
पठेदेकमनाः स्तोत्रं नामाष्टशतसंज्ञकम् ।
नामाष्टशतकस्यापि छन्दोऽनुष्टुबुदाहृतम् ।
वृहदारण्यको नाम ऋषिश्च परिकीर्त्तितः ।
देवता कथिता चेत्सद्भिर्वटुकभैरवः ।
सर्वकामार्थसिद्धार्थे विनियोगः प्रकीर्त्तितः
॥ २१ ॥

P4-0873 · 1
भैरवो भूतनाथश्च भूतात्मना भूतभावनः ।
क्षेत्रदः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्रियो विराट्
॥ १ ॥

P4-0874 · 2
श्मशानवासी मांसाशी खर्पराशी मखान्तकृत् ।
रक्तपः प्राणपः सिद्धः सिद्धिदः सिद्धसेवितः
॥ २ ॥

P4-0875 · 3
करालः कालशमनः कलाकाष्ठातनुः कविः ।
त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः
॥ ३ ॥

P4-0876 · 4
शूलपाणिः खड्गपाणिः कङ्काली धूम्रलोचनः ।
अभीरुर्भैरवो भीमो भूतपो योगिनीपतिः
॥ ४ ॥

P4-0877 · 5
धनदो धनहारी च धनदः प्रतिभाववान् ।
नागहारो नागकेशो व्योमकेशः कपालभृत्
॥ ५ ॥

P4-0878 · 6
कालः कपालमाली च कामनीयः कलानिधिः ।
त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकपात्
॥ ६ ॥

P4-0879 · 7
त्रिवृत्तनयनो डिम्भः शान्तः शान्तजनप्रियः ।
वटुको वटुकेशश्च खट्वाङ्गवरधारकः
॥ ७ ॥

P4-0880 · 8
भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः ।
धूर्तो दिगम्बरः शौरिर्हरिणः पाण्डुलोचनः
॥ ८ ॥

P4-0881 · 9
प्रशान्तः शान्तिदः शुद्धः शङ्करः प्रियबान्धवः ।
अष्टमूर्त्तिनिधीशश्च ज्ञानचक्षुस्तमोमयः
॥ ९ ॥

P4-0882 · 10
अष्टाधारः सर्पयुक्तः शशी विषधरः शिवः ।
भूधरो भूधराधीशो भूपतिर्भूधरात्मकः
॥ १० ॥

P4-0883 · 11
कङ्कालधारी मुण्डो च नागयज्ञोपवीतवान् ।
जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा
॥ ११ ॥

P4-0884 · 12
शुद्धनीलाञ्जनप्रख्यदेहो मुण्डविभूषितः ।
बालभुक्बलिभूतात्मा कामी कामपराक्रमः
॥ १२ ॥

P4-0885 · 13
सर्वापत्तारको दुर्गो दुष्टभूतनिषेवितः ।
काली कलानिधिः कान्तः कामिनीवशकृद्वशी ।
सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुः प्रभाववान्
॥ १३ ॥

P4-0886 · 14
अष्टोत्तरशतं नाम भैरवस्य महात्मनः ।
मया ते कथितं देवि रहस्यं सर्वकामदम्
॥ १४ ॥

P4-0887 · 15
य इदं पठति स्तोत्रं नामाष्टशतमुत्तमम् ।
न तस्य दुरितं किञ्चिन्न रोगेभ्यो भयं तथा
॥ १५ ॥

P4-0888 · 16
न शत्रुभ्यो भयं किञ्चित् प्राप्नोति मानव क्वचित्
॥ १६ ॥

P4-0889 · 17
पातकानां भयं नैव पठेत् स्तोत्रमनन्यधीः ।
मारीभये राजभये तथा चौराग्निजे भये
॥ १७ ॥

P4-0890 · 18
औत्पातिके महाघोरे तथा दुःखस्वप्नजे भये ।
बन्धने च महाघोरे पठेत् स्तोत्रं समाहितः
॥ १८ ॥

P4-0891 · 19
सर्वे प्रशमनं यान्ति भयाद्भैरवकीर्तनात् ।
एकादश सहस्रन्तु पुरश्चरणमिष्यते
॥ १९ ॥

P4-0892 · 20
त्रिसन्ध्यं य पठेद्देवि संवत्सरमतन्द्रितः ।
स सिद्धिं प्राप्नुयादिष्टां दुर्लभामपि मानुषः
॥ २० ॥

P4-0893 · 21
षण्मासान्भूमिकामस्तु स जप्त्वा लभते महीम ।
राजा शत्रुविनाशाय जपेन्मासाष्टकं पुनः
॥ २१ ॥

P4-0894 · 22
रात्रौ वारत्रयञ्चैव नाशयत्येव शात्रवान् ।
जपेन्मासत्रयं रात्रौ राजानं वशमानयेत्
॥ २२ ॥

P4-0895 · 23
धनार्थी च सुतार्थी च दारार्थी यस्तु मानवः ।
पठेद्वारत्रयं यद्वा वारमेकं तथा निशि
॥ २३ ॥

P4-0896 · 24
धनं पुत्रांस्तथा दारान् प्राप्नूयान्नात्र संशयः
॥ २४ ॥

P4-0897 · 25
भीतो भयात्प्रमुच्येत देवि सत्यं न संशयः ।
यान्यान्समीहते कामांस्तांस्तान् प्राप्नोति नित्यशः
॥ २५ ॥

P4-0898 · 26
अप्रकाश्यमिदं गुह्यं न देयं यस्य कस्यचित् ।
सुकुलीनाय शान्ताय ऋजवे दम्भवर्जिते ।
दद्यात् स्तोत्रमिदं पुण्यं सर्वकामफलप्रदम्
॥ २६ ॥

P4-0899 · 27
ध्यानं वक्ष्यामि देवस्य यथा ध्यात्वा पठेन्नरः ।
शुद्धस्फटिकसङ्काशं सहस्रादित्यवर्चसम् ।
अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ।
भुजङ्गमेखलं देवमग्निवर्णशिरोरुहम्
॥ २७ ॥

P4-0900 · 28
दिगम्बरं कुमारीशं वटुकाख्यं महाबलम् ।
खट्वाङ्गमसिपाशञ्च शूलञ्चैव तथा पुनः
॥ २८ ॥

P4-0901 · 29
डमरुञ्च कपालञ्च वरदं भूजगन्तथा ।
नीलजीमुतसङ्काशं नीलाञ्जनचयप्रभम्
॥ २९ ॥

P4-0902 · 30
दंष्ट्राकरालवदनं नूपुराङ्गदसंकुलम् ।
आत्मवर्णसमोपेतं सारमेयसमन्वितम्
॥ ३० ॥

P4-0903 · 31
ध्यात्वा जपेत् सुसंहृष्टः सर्वान् कामानवाप्नुयात्
॥ ३१ ॥

P4-0904 · 32
ॐ करकलितकपालः कुण्डली दण्डपाणिस्तरुणतिमिरनीलो
व्यालयज्ञोपवीती ।
क्रतुसमयसपर्याविघ्नविच्छेदहर्ता जयति वटुकनाथः सिद्धिदः
साधकानाम्
॥ ३२ ॥

P4-0905 · 33
एतत्श्रुत्वा ततो देवी नामाष्टशतमुत्तमम् ।
भैरवाय प्रहृष्टाभूत् स्वयञ्चैव महेश्वरी
॥ ३३ ॥

P4-0906 · 1
इति विश्वसारे आपदुद्धारकल्पे वचुकभैरवस्तराज समाप्तः ।
अथ भैरवीस्त्रोम् ।
स्तुत्यानया त्वां त्रिपुरे स्तोष्येऽभीष्टफलाप्तये ।
यया व्रजस्ति तां लक्ष्मीं मनुजाः सुरपूजिताम्
॥ १ ॥

P4-0907 · 1
ब्रह्मादयः श्रुतिशतैरपि सूक्ष्मरूपां, जानन्ति नैव
जगदादिमनादिमूर्तिम् ।
तस्माद्वयं कुचलतां नव कुंकुमाभां स्थूलां स्तुमः
सकलवाङ्मय मातृभूताम्
॥ १ ॥

P4-0908 · 2
सद्यः समुद्यतसहस्रदिवाकराभां विद्याक्षसूत्रवरदाभय
चिह्नहस्ताम् ।
नेत्रोत्पलैस्त्रिभिरलंकृतवक्त्रपद्मां त्वां तारहाररुचिरां
त्रिपुरे भजामः
॥ २ ॥

P4-0909 · 3
सिन्दूरपूररुचिरं कुचभारनम्रं जन्मान्तरेषु
कृतपुण्यफलैकगम्यम् ।
अन्योन्यभेदकलहाकुलमानसास्ते जानन्ति किं
जडधियस्तवरूपमम्ब
॥ ३ ॥

P4-0910 · 4
स्थूलां वदन्ति मुनयः श्रूतयो गृणन्ति सूक्ष्मां वदन्ति
वचसामधिवासमन्ये ।
त्वां मूलमाहुरपरे जगतां भवानि
मन्यामहेवयमपारकृपाम्बुराशिम्
॥ ४ ॥

P4-0911 · 5
चन्द्रावतंसकलितां शरदिन्दुशुभ्रां पञ्चाशदक्षरमयीं
हृदि भावयन्ति ।
त्वां पुस्तकं जपवटीममृताम्बुकुम्भं व्याख्यां च
हस्तकमलैर्दधतीं त्रिनेत्राम्
॥ ५ ॥

P4-0912 · 6
शम्भुस्तवमद्रितनया कलितार्द्धभागो विष्णुस्त्वम्ब
कमलापरिरब्धदेहः ।
पद्मोद्भवस्त्वमपि वागधिवासभूमिस्तेषां क्रियाञ्च जगति
त्रिपुरे त्वमेव
॥ ६ ॥

P4-0913 · 7
आश्रित्य वाग्भवांश्चतुरः परादीन भावान्पदेषु
विहितान्समुदीरयन्तीम् ।
कण्ठादिभिश्च करणैः परदेवतां त्वां सञ्चिन्मयीं हृदि
कदापि न विस्मरामि
॥ ७ ॥

P4-0914 · 8
आकुञ्च्य वायुमवजित्य च वैरिषट्कमालोक्य निश्चलधिया
निजनासिकाग्रम् ।
ध्यायन्ति मूर्ध्नि कलितेन्दुकला वतंसं त्वद्रूपम्ब
कृतिनस्तरुणार्कमित्रम्
॥ ८ ॥

P4-0915 · 9
त्वं प्राप्य मन्थरिपोर्वपुरर्द्धभागं सृष्टिं करोषि जगतामिति
वेदवादः ।
सत्यं तदद्रितनये जगदेकमातर्नो चेदशेषजगतः स्थितिरेव न स्यात्
॥ ९ ॥

P4-0916 · 10
पूजां विधाय कुसुमैः सुरपादपानां पीठे तवाम्ब
कनकाचलगह्वरेषु ।
गायन्ति सिद्धवनिताः सह
किन्नरीभिरास्वादितासवरसारुणनेत्रपद्माः
॥ १० ॥

P4-0917 · 11
विद्युद्बिलासवपुशः श्रियमुद्बहन्तीं यान्तीं
स्ववासभवनाच्छिवराजधानीम् ।
सौषुम्नवर्त्मकमलानि विकासयन्तीं देवीं भजे हृदि
परामृतसिक्तगात्रीम्
॥ ११ ॥

P4-0918 · 12
आनन्दजन्मभवनं भवनं श्रुतीनां चैतन्यमात्रतनुमम्ब
तवाश्रयामि ।
ब्रह्मेशविष्णुभिरुपासित पादपद्मां सौभाग्यजन्मवसतीं
त्रिपुरे यथावत्
॥ १२ ॥

P4-0919 · 13
शब्दार्थभाविभुवनं सृजतीन्दुरूपा या तद्विभर्ति
पुनरर्कतनुं स्वशक्त्या ।
वह्न्यात्मिका हरति तत्सकलं युगान्ते तां शारदां मनसि जातु न
विस्मरामि
॥ १३ ॥

P4-0920 · 14
नारायणीति नरकार्णवतारिणीति गौरीति खेदशमनीति सरस्वतीति ।
ज्ञानप्रदेति नयनत्रयभूषितेति स्वामद्रिराजतनये बहुधा
भजन्ति
॥ १४ ॥

P4-0921 · 15
ये स्तुवन्ति जगन्मातः श्लोकैर्द्वादशभिः क्रमात् ।
स्वामनुप्राप्य वाक्सिद्धिं प्राप्नुयुस्ते नराः श्रियम्
॥ १५ ॥

P4-0922 · 1
इति भैरवीतन्त्रे भैरवीस्तवराजः समाप्तम् ।
अथ भैरवीकवचम् ।
श्रीदेव्युवाच :
भरव्याः सकला विद्याः श्रुताश्चाधिगता मया ।
साम्प्रतं श्रोतुमिच्छामि कवचं यत्पुरोदितम्
॥ १ ॥

P4-0923 · 2
त्रैलोक्यविजयं नाम शस्त्रास्त्रविनिवारकम् ।
त्वत्तः परतरो नाथ कः कृपां कर्तुमर्हति
॥ २ ॥

P4-0924 · 3
ईश्वर उवाच :
शृणु पार्वति वक्ष्यामि सुन्दरि प्राणवल्लभे ।
त्रैलोक्य विजयं नाम शस्त्रास्त्र कवचं मन्त्रविग्रहम्
॥ ३ ॥

P4-0925 · 4
पठित्वा धारयित्वेदं त्रैलोक्यविजयी भवेत् ।
जघान सकलान्दैत्यान् यद्धृत्वा मधुसूदनः
॥ ४ ॥

P4-0926 · 5
ब्रह्मा सृष्टिं वितनुते यद्धृत्वाभीष्टदायकः ।
धनाधिपः कुबेरोऽपि वासवस्त्रिदशेश्वरः
॥ ५ ॥

P4-0927 · 6
यस्य प्रसादादीशोऽहं त्रैलोक्यविजयी विभुः ।
न देयं परशिष्येभ्योऽसाधकेभ्यः कदाचन
॥ ६ ॥

P4-0928 · 7
पुत्रेभ्यः किमुतान्येभ्यो दत्त्वा मृत्युमवाप्नुयात् ।
भैरव्याः कवचस्यास्य ऋषिर्दक्षिणामूर्तिरेव च
॥ ७ ॥

P4-0929 · 8
विराट् छन्दो जगद्धात्री देवता बालभैरवी ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः
॥ ८ ॥

P4-0930 · 9
अधरो बिन्दुमानाद्यः कामः शक्तीशशीयुतः
भृगुर्मनुस्वरयुतः सर्गो बीजत्रयात्मकः
॥ ९ ॥

P4-0931 · 10
बालैषा मे शिरः पातु बिन्दुनादयुतापि सा ।
भालं पातु कुमारी च सर्गहीना कुमारिका
॥ १० ॥

P4-0932 · 11
दृशौ पातु च वाग्बीजं कर्णयुग्मं सदावतु ।
कामबीजं सदा पातु घ्राणयुग्मं सदावतु
॥ ११ ॥

P4-0933 · 12
सरस्वतीप्रदा बाला जिह्वां पातु शुचिप्रभा ।
हसैं कण्ठं हसकलरीं स्कन्धौ पातु हसौर्भुजौ
॥ १२ ॥

P4-0934 · 13
पञ्चमी भैरवी पातु करौ हसरैं सदावतु ।
हृदयं हसकलरीं वक्षः पातु हसरोः स्तनौ
॥ १३ ॥

P4-0935 · 14
पातु मां भैरवी देवी चैतन्यरूपिणी मम ।
हस्रैं पातु सदा पार्श्वयुग्मं हसकलरीं सदा
॥ १४ ॥

P4-0936 · 15
कुक्षिं पातु हसौर्मध्यं भैरवी भुवि दुर्लभा ।
ऐं ईं ॐ मे मध्यदेशं बीजविद्या सदावतु
॥ १५ ॥

P4-0937 · 16
हसैं पृष्ठं सदा पातु नाभिं हसकलरीं तथा ।
पातु हसौः कटीदेशं षट्कुटा भैरवी मम
॥ १६ ॥

P4-0938 · 17
हसरैं सक्थिनी पातु हसकलरीं सदावतु ।
गुह्यदेशं हसौः पातु जानुनी भैरवी मम
॥ १७ ॥

P4-0939 · 18
सम्पत्प्रदा सदा पातु हसैं जंघे हसरीं पदम् ।
पातु हसौः सर्वदेहं भैरवी सर्वदावतु
॥ १८ ॥

P4-0940 · 19
हसैं मामवतु प्राच्यां हसकलरीं पावकेऽवतु ।
हसौः मे दक्षिणे पातु भैरवी चक्रमास्थिता
॥ १९ ॥

P4-0941 · 20
ह्रीं क्लीं ब्लूं मां सदा पातु नैर्-ऋत्यां चक्रभैरवी ।
हसैं हसकलह्रीं हसरौः पश्चिमे पातु भैरवी
॥ २० ॥

P4-0942 · 21
क्रीं क्रीं क्रीं पातु वायव्यां हूं हूं पातु सदोत्तरे ।
ह्रीं ह्रीं पातु सदैशान्ये दक्षिणे कालिकेऽवतु
॥ २१ ॥

P4-0943 · 22
ऊर्ध्वं प्रागुक्तबीजानि रक्षन्तु ममधःस्थले ।
दिग्विदिक्षु स्वाहा कालिका खड्गधारिणी
॥ २२ ॥

P4-0944 · 23
ॐ ह्रीं स्त्रीं फट् सा तारा सर्वत्र मां सदावतु ।
संग्रामे कानने दुर्गे तोये तरङ्गदुस्तरे
॥ २३ ॥

P4-0945 · 24
खड्गकर्तृधरा सोग्रा सदा मां परिरक्षतु ।
इति ते कथितं देवि सारात्सारतरं महत् ।
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम्
॥ २४ ॥

P4-0946 · 25
यः पठेत् प्रयतो भूत्वा पूजायाः फलमाप्नुयात् ।
स्पर्द्धामूद्धूय भवने लक्ष्मीर्वाणी वसेत् ततः
॥ २५ ॥

P4-0947 · 26
यः शत्रुभीतो रणकातरो वा, भीतो वने वा सलिलालये वा ।
वादे सभायां प्रतिवादिनो वा राज्ञः प्रकोपाद्ग्रहसंकुलाद्वा
।
प्रचण्डवाताच्छमनाच्च भीतो गुरोः प्रकोपादपि कृच्छ्रसाध्यात् ।
अभ्यर्च्य देवीं प्रपठेत् त्रिसन्ध्यं स स्यान्महेशप्रतिमो जयी च
॥ २६ ॥

P4-0948 · 27
त्रैलोक्यविजयं नाम कवचं मन्मुखोदितम् ।
विलिख्य भूर्जे गुलिकां स्वर्णस्थां धारयेद्यदि
॥ २७ ॥

P4-0949 · 28
कण्ठे वा दक्षिणे बाहौ त्रैलोक्यविजयी भवेत् ।
तद्गात्रं प्राप्य शस्त्राणि भवन्ति कुसुमानि च
॥ २८ ॥

P4-0950 · 29
लक्ष्मीः सरस्वती तस्य निवसेद्भवने सुखे ।
एतत् कवचमज्ञात्वा यो जपेद्भैरवीं पराम्
॥ २९ ॥

P4-0951 · 30
बालां वा प्रजपेद्विद्यां दरिद्रो मृत्युमाप्नुयात्
॥ ३० ॥


Śrīvidyā und Tripurasundarī

P4-0952 · 1
इति श्रीरुद्रयामले देवीश्वरसम्वादे त्रैलोक्यविजयं नाम
भैरवीकवचं समाप्तम् ।
अथ श्रीविद्यास्तोत्रम् ।
कल्याणवृष्टिभिरिवामृतपूरिताभिर्लक्ष्मी स्वयं
वरणमङ्गलदीपिकाभिः सेवाभिरम्ब तव पादसरोजमूले, नाकारि
किं मनसि भक्तिमतां जानानाम्
॥ १ ॥

P4-0953 · 2
एतावदेव जननि स्पृहणीयमास्ते, त्वद्वन्दनेषु सलिलस्थसरोजनेत्रे ।
सान्निध्यमुद्यदरुणाम्बुजसोदरस्य, त्वद्विग्रहस्य सुधया
परयाप्लुतस्य
॥ २ ॥

P4-0954 · 3
ईषत्प्रभावकलुषाः कति नाम सन्ति, ब्रह्मादयः प्रतिदिनं
प्रलयाभिभूताः ।
एकः स एव जननि स्थिरसिद्धिरास्ते, यः पादयोस्तव सकृत्प्रणतिं
करोति
॥ ३ ॥

P4-0955 · 4
लब्ध्वा सकृत्त्रिपुरसुन्दरि तावकीनं कारुण्यकन्दलितकान्तिभवं
कटाक्षम् ।
कन्दर्पभावसुभगास्त्वयि भक्तिभाजः संमोहयन्ति
तरुणीर्भुवनत्रयेऽपि
॥ ४ ॥

P4-0956 · 5
ह्रींकारमेव तव नाम गृणन्ति देवा, मातस्त्रिकोणनिलये त्रिपुरे
त्रिनेत्रे ।
त्वत्संस्मृतौ वमभटा भिभवं विहाय, दीव्यन्ति नन्दनवने सह
लोकपालैः
॥ ५ ॥

P4-0957 · 6
हन्तु पुरामधिगलं परिपूर्णमानः, क्रूरः कथं न भविता
गरलस्य वेगः ।
नाश्वासनाय यदि मातरिदं तवार्द्धं, देहस्य
शश्वदमृताप्लुतशीतलस्य
॥ ६ ॥

P4-0958 · 7
सर्वज्ञतां सदसि वाक्पटुतां प्रसूते, देवि
त्वदङ्घ्रिसरसौरुहयोः प्रणामः ।
किञ्च स्फुरन्मुकुटमुज्वलमातपत्रं द्वे चामरे च महतीं
वसुधां ददाति
॥ ७ ॥

P4-0959 · 8
कल्पद्रुमैरभिमतप्रतिपादनेषु कारुण्य-वारिधिभिरम्ब
भवत्कटाक्षैः ।
आलोकय त्रिपुरसुन्दरि मामनाथं, त्वयेव भक्तिभरितं त्वथि
वद्धदृष्टिम्
॥ ८ ॥

P4-0960 · 9
हन्तेतरेष्वपि निधाय मनांसि चान्ये भक्तिं वहन्ति किल पामर
दैवतेषु ।
त्वामेव देवि मनसाहमनुस्मरामि, त्वामेव नौमि शरणं जननि
त्वमेव
॥ ९ ॥

P4-0961 · 10
लक्षेषु सत्स्वपि तवाक्षिविलोकनानामलोकय त्रिपुरसुन्दरि मां
कथञ्चित् ।
नूनं मया च सदृशं करुणैकपात्रं, जातो जनिष्यति जनो न च
जायते वा
॥ १० ॥

P4-0962 · 11
ह्रीं ह्रीमिति प्रतिदिनं जपतां तवाख्यां, किं नाम दुर्लभमिह
त्रिपुरधिवासे ।
मालाकिरीटमदवारणमाननीयांस्तान्सेवते मधुमती स्वयमेव
लक्ष्मीः
॥ ११ ॥

P4-0963 · 12
सम्पत्कराणि सकलेन्द्रियनन्दनानि , साम्राज्यदानकुशलानि
सरोरुहाक्षि ।
त्वद्वन्दनानि दुरिताहरणोद्यतानि, मामेव मातरनिशं कलयन्तु
नान्यम्
॥ १२ ॥

P4-0964 · 13
कल्पोपसंहरणकल्पितताण्डवस्य, देवस्य खण्डपरशोः
परभैरवस्य ।
पाशांकुशैक्षवशरासनपुष्पबाणा, स साक्षिणी विजयते तव
मूर्तिरेका
॥ १३ ॥

P4-0965 · 14
लग्नं सदा भवतु मातरिदं त्वदीय, तेजः परं
बहुलकुंकुमपङ्कशोणम् ।
भास्वत्किरीटममृतांशुकलावतंसं रूपं त्रिकोणमुदितं
परमामृताक्तम्
॥ १४ ॥

P4-0966 · 15
ह्रींकारत्रयसम्पुटेन महता मन्त्रेण सन्दीपितं, स्तोत्रं यः
प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् ।
तस्य क्षौणिभुजो भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी, वाणी
निर्मलसूक्तिभारभरिता जागर्ति दीर्घं यशः
॥ १५ ॥

P4-0967 · 1
इति श्रीविद्यास्तोत्रं समाप्तम् ॥
अथ किङ्किणीस्तोत्रम् ।
किं किं दुःखं सकलजननि क्षीयते न स्मृतायां का का कीर्तिः
कुलकमलिनि प्राप्यते नार्चितायाम् ।
किं किं सौख्यं सुरवरनुते प्राप्यते न स्तुतायां, कं कं
योगं त्वयि न तनुते चित्तमालम्बितायाम्
॥ १ ॥

P4-0968 · 2
स्मृता भव-भयं हंसि पूजितासि शुभङ्करि ।
स्तुता त्वं वाञ्छितं देवि ददासि करुणाकरे
॥ २ ॥

P4-0969 · 3
परमानन्दबोधाब्धिरूपे तेजःस्वरूपिणि ।
देववृन्द-शिरोरत्न-निघृष्ट-चरणाम्बुजे ।
चिद्विश्रान्तिमहासत्तामात्रे मात्रे नमोऽस्तु ते
॥ ३ ॥

P4-0970 · 4
सृष्टिस्थित्युपसंहार-हेतुभूते सनातनि ।
गुणत्रयात्मिकासि त्वं जगतः करणेच्छया
॥ ४ ॥

P4-0971 · 5
अनुग्रहाय भूतानां गृहीतदिव्यविग्रहे ।
भक्तस्य मे नित्यपूजायुक्तस्य परमेश्वरि
॥ ५ ॥

P4-0972 · 6
ऐहिकामुष्मिकीं सिद्धिं देहि त्रिदशवन्दिते ।
तापत्रयपरिम्लानभाजनं त्राहि मां शिवे
॥ ६ ॥

P4-0973 · 7
नान्यं वदामि न शृणोमि न चिन्तयामि, नान्यं स्मरामि न
भजामि न चाश्रयामि ।
त्यक्त्वा त्वदीय चरणाम्बुजमादरेण, मां त्राहि देवि कृपयामयि
देहि सिद्धिम्
॥ ७ ॥

P4-0974 · 8
अज्ञानाद्वा प्रमादाद्वा वैकल्यात् साधनस्य च ।
यन्न्यूनमतिरिक्तं वा तत्सर्वं क्षन्तुमर्हसि
॥ ८ ॥

P4-0975 · 9
द्रव्यहीनं क्रियाहीनं श्रद्धामन्त्रविवर्जितम् ।
तत्सर्वं कृपया देवि क्षमस्व त्वं दयान्दिहे
॥ ९ ॥

P4-0976 · 10
यन्मया क्रियते कर्म तन्महत्स्वल्पमेव वा ।
तत्सर्वञ्च जगद्धात्रि क्षन्तव्यमयमञ्जलिः
॥ १० ॥

P4-0977 · 1
इति किङ्किणीस्तोत्रं समाप्तम् ॥
अथ श्रीविद्याकवचम् ।
देव्युवाच :
देवदेव महादेव भक्तानां प्रीतिवर्द्धन ।
सूचितं यन्महादेव्याः कवचं कथयस्व मे
॥ १ ॥

P4-0978 · 2
श्रीमहादेव उवाच :
शृणु देवि प्रवक्ष्यामि कवचं मन्त्रविग्रहम् ।
अप्रकाश्यं परं गुह्यं सकलाभीष्टसिद्धिदम्
॥ २ ॥

P4-0979 · 3
कवचस्य ऋषिर्देवि दक्षिणामूर्तिरव्यः ।
छन्दः पंक्तिः समुद्दिष्टं देवी त्रिपुरसुन्दरी ।
धर्मार्थ काममोक्षाणां विनियोगश्च साधने
॥ ३ ॥

P4-0980 · 4
वाग्भवं कामराजश्च शक्तिबीजं सुरेश्वरि ।
वाग्भवः पातु शीर्षे मां कामराजस्तथा हृदि
॥ ४ ॥

P4-0981 · 5
शक्तिबीजं सदा पातु नाभौ गुह्ये च पादयोः ।
ऐं क्लीं सौर्वदने पातु बाला मां सर्वसिद्धये
॥ ५ ॥

P4-0982 · 6
हसैं हसकलरीं हसौः पातु भैरवी कण्ठदेशतः ।
सुन्दरी नाभिदेशेऽव्याच्छीर्षे कामकला सदा
॥ ६ ॥

P4-0983 · 7
भ्रूनासयोरन्तराले महात्रिपुरसुन्दरी ।
ललाटे सुभगा पातु भगा मां कण्ठदेशतः
॥ ७ ॥

P4-0984 · 8
भगोदया तु हृदये उदरे भगसर्पिणी ।
भगमाला नाभिदेशे लिङ्गे पातु मनोभवा
॥ ८ ॥

P4-0985 · 9
गुह्ये पातु महादेवी राजराजेश्वरी शिवा ।
चैतन्यरूपिणी पातु पादयोर्जगदम्बिका
॥ ९ ॥

P4-0986 · 10
नारायणी सर्वगात्रे सर्वकार्ये शुभङ्करी ।
ब्रह्माणी पातु मां पूर्वे दक्षिणे वैष्णवी तथा
॥ १० ॥

P4-0987 · 11
पश्चिमे पातु वाराही उत्तरे तु महेश्वरी ।
आग्नेय्यां पातु कौमारी महालक्ष्मीश्च नैर्-ऋते
॥ ११ ॥

P4-0988 · 12
वायव्यां पातु चामुण्डा इन्द्राणी पातु ईशके ।
जले पातु महामाया पृथिव्यां सर्वमङ्गला ।
आकाशे पातु वरदा सर्वत्र भुवनेश्वरी
॥ १२ ॥

P4-0989 · 13
इदन्तु कवचं देव्या देवानामपि दुर्लभम् ।
पठेत्प्रातः समुत्थाय शुचिः प्रयतमानसः
॥ १३ ॥

P4-0990 · 14
नाधयो व्याधयस्तस्य न भयञ्च क्वचिद्भवेत् ।
न च मारीभयं तस्य पातकानां भयं तथा
॥ १४ ॥

P4-0991 · 15
न दारिद्र्यवशं गच्छेत् तिष्ठेन्मृत्युवशे न च ।
गच्छेच्छिवपुरं देवि सत्यं सत्यं वदामि ते
॥ १५ ॥

P4-0992 · 16
इदं कवचमज्ञात्वा श्रीविद्यां यो जपेत् प्रिये ।
स नाप्नोति फलं तस्य प्राप्नुयाच्छस्त्रघातनम्
॥ १६ ॥

P4-0993 · 1
इति सिद्धयामले श्रीविद्याकवचं समाप्तम् ।
अथ महात्रिपुरसुन्दरीकवचम् ।
देव्युवाच :
भगवन् देवदेवेश लोकानुग्रहकारक ।
त्वत्प्रसादान्महादेव श्रुता मन्त्रान्त्वनेकधा
॥ १ ॥

P4-0994 · 2
साधनं विविधं देव कीलकोद्धारणं तथा ।
शापादिदूषणोद्धारः श्रुतस्त्वत्तो मया प्रभो
॥ २ ॥

P4-0995 · 3
राजराजेश्वरी देव्याः कवचं सूचितं मयि ।
श्रोतुमिच्छामि त्वत्तस्तत्कथयस्व मयि प्रभो
॥ ३ ॥

P4-0996 · 4
ईश्वर उवाच :
लक्षवार सहस्राणि वारितासि पुनः पुनः ।
स्त्रीस्वभावात्पुनर्देवि पृच्छसि त्वं मयि प्रिये
॥ ४ ॥

P4-0997 · 5
अत्यन्तगुह्यं कवचं सर्वकामफलप्रदम् ।
प्रीतये तव देवेशि कथयामि शृणुष्व तत्
॥ ५ ॥

P4-0998 · 6
अस्य राजराजेश्वरी-श्रीमहात्रिपुरसुन्दरीषोडशीविद्याकवचस्य
महादेव-ऋषिः प्रस्तारपक्तिच्छन्दो राजराजेश्वरी-
महात्रिपुरसुन्दरी देवता पुरुषार्थसाधने विनियोगः
॥ ६ ॥

P4-0999 · 7
पूर्वे मां भैरवी पातु बाला मां पातु दक्षिणे ।
मालिनी पश्चिमे पातु त्रासिनी तूत्तरेऽवतु
॥ ७ ॥

P4-1000 · 8
ऊर्ध्वं पातु महादेवी महात्रिपुरसुन्दरी ।
अधस्तात्पातु देवेशी पातालतलवासिनी
॥ ८ ॥

P4-1001 · 9
आधारे वाग्भवः पातु कामराजन्तथा हृदि ।
डामरः पातु मां नित्यं मस्तके सर्वकामदः
॥ ९ ॥

P4-1002 · 10
ब्रह्मरन्ध्रे सर्वगात्रे छिद्रस्थाने च सर्वदा ।
महाविद्या भगवती पातु मां परमेश्वरी
॥ १० ॥

P4-1003 · 11
ऐं क्लीं ललाटे मां पायात् ह्रीं ब्लूं सः पातु नेत्रयोः ।
नासायां कर्णयोश्चैव द्रां द्रैं द्रां द्रीं चिबुके तथा ।
सौः पातु च गले सह्रीं हृदये नाभिदेशके
॥ ११ ॥

P4-1004 · 12
कलह्रीं क्लीं स्त्रीं गुह्यदेशे सह्रीञ्च पातुपादयोः ।
सहह्रीं मां सर्वतः पातु सक्लीं पातु च सन्धिषु
॥ १२ ॥

P4-1005 · 13
जले स्थलेतथाकाशे दिक्षु राजगृहे तथा ।
हूं क्षे मां त्वरिता पातु सह्रीं सक्लीं मनोभवा
॥ १३ ॥

P4-1006 · 14
हंसः पायान्महादेवी परं निष्कलदेवता ।
विजया मङ्गला दूती कल्याणी भगमालिनी ।
ज्वाला च मालिनी नित्या सर्वदा पातु मां शिवा
॥ १४ ॥

P4-1007 · 15
इत्येवं कवचं देवि देवानामपि दुर्लभम् ।
तव प्रीत्या मया ख्यातं गोपनीयं प्रयत्नतः
॥ १५ ॥

P4-1008 · 16
इदं रहस्यं परमं गुह्याद्गुह्यतरं प्रिये ।
धन्यं यशस्यमायुष्यं भोगमोक्षप्रदं शिवम्
॥ १६ ॥

P4-1009 · 17
दुःस्वप्ननाशनं पुंसां नरनारीवशङ्करम् ।
आकर्षणकरं देवि स्तम्भोच्चाटकरं शिवे
॥ १७ ॥

P4-1010 · 18
इदं कवचमज्ञात्वा राजराजेश्वरी शिवाम् ।
योऽर्चयेद्योगिनीवृन्दैः स भक्ष्यो नात्र संशयः
॥ १८ ॥

P4-1011 · 19
न तस्य मन्त्रसिद्धिः स्यात् कदाचिदिपि शङ्करि ।
इहलोके च द्रारिद्र्यं रोगदुःखभयानि च ।
परत्र नरकं गत्वा पशुयोनिमवाप्नुयात् ।
तस्मादेतत् सदाभ्यस्येदधिकारी भवेत् ततः
॥ १९ ॥

P4-1012 · 20
मद्वक्त्रनिर्गतमिदं कवचं सुपुण्यं, पूजाविधेश्च पुरतो
विधिना पठेद्यः ।
सौभाग्यभोगललितानि शुभानि भुक्त्वा, देव्याः पदं भजति
तत्पुनरन्तकाले
॥ २० ॥


Pracaṇḍacaṇḍikā

P4-1013 · 1
इति कुलानन्द संहितायां त्रिपुरसुन्दरीषोडशीविद्या कवचं
समाप्तम् ।
अथ प्राचण्डचण्डिका-स्तोत्रम् ।
नाभौ शुद्धसरोजरक्तविलसद्बन्धूकपुष्पारुणं,
भास्वद्भास्करमण्डलं तदुदरे तद्योनिचक्रं महत् ।
तन्मध्ये विपरीतमैथुनरतप्रद्युन्म तत्कामिनी पृष्ठस्थां
तरुणार्क कोटिविलसत्तेजः स्वरूपां शिवाम्
॥ १ ॥

P4-1014 · 2
वामे छिन्नशिरोधरां तदितरे पाणौ महत्कर्तृकां
प्रत्यालीढपदां दिगन्तवसनामुन्मुक्तकेशव्रजाम् ।
छिन्नात्मीयशिरः समुल्लसदसृग्धारां पिबन्तीं परां,
बालादित्यसमप्रकाशविलसन्नेत्रत्रयोद्भासिनीम्
॥ २ ॥

P4-1015 · 3
वामादन्यत्र नालं बहुबहुलगलद्रक्तधाराभिरुच्चैः ।
पायन्तीमस्थिभूषां करकमललसत्कर्तृकामुग्ररूपाम् ।
रक्तामारक्तकेशीमपगतवसनां वर्णिनीमात्मशक्तिं,
प्रत्यालीढोरुपादामरुणितनयनां योगिनीं योगनिद्राम्
॥ ३ ॥

P4-1016 · 4
दिग्वस्त्रां मुक्तकेशीं प्रलयघनघटाघोररूपां
प्रचंडां
दंष्ट्रादुष्प्रेक्ष्यवक्त्रोदरविवरलसल्लोलजिह्वाग्रभासाम् ।
विद्युल्लोलाक्षियुग्मां हृदयतटलसद्भोगिभीमां सुमूर्त्तिं
सद्यश्छिन्नात्मकण्ठ-प्रगलितरुधिरैर्डाकिनीं वर्द्धयन्तीम्
॥ ४ ॥

P4-1017 · 5
ब्रह्मेशानाच्युताद्यैः शिरसि
विनिहितामन्दपादारविन्दैरात्मज्ञैर्योगिमुख्यैः प्रतिदिनमनिशं
चिन्तिताचिन्त्यरूपां ।
संसारे सारभूतां त्रिभुवनजननीं छिन्नमस्तां
प्रशस्तामिष्टां तामिष्टदात्रीं कलिकलुषहरां चेतसा चिन्तयामि
॥ ५ ॥

P4-1018 · 6
उत्पत्तिस्थितिसंहृतीर्घटयितुं धत्ते त्रिरूपां तनुं
त्रैगुण्यार्जगतो यदीयविकृतिर्ब्रह्माच्युतः शूलभृत् ।
तामाद्यां प्रकृतिं स्मरामि मनसा सर्वार्थसंसिद्धये,
यस्याः स्मेरपदारविन्दुयुगले लाभं भजन्तेऽमराः
॥ ६ ॥

P4-1019 · 7
अलिपिशितपरस्त्री-योगपूजापरोऽहं,
बहुविधजनभावारम्भसम्भावितोऽहम् ।
पशुजनविरतोऽहं भैरवीसंस्थितोऽहं गुरुचरणपरोऽहं
भैरवोऽहं शिवोऽहम्
॥ ७ ॥

P4-1020 · 8
इदं स्तोत्रं महापुण्यं ब्रह्मणा भाषितं पुरा ।
सर्वसिद्धिप्रदं साक्षान्महापातकनाशनम्
॥ ८ ॥

P4-1021 · 9
यः पठेत् प्रातरुत्थाय देव्याः सन्निहितोऽपि वा ।
तस्य सिद्धिर्भवेद्देवि वाञ्छितार्थप्रदायिनी
॥ ९ ॥

P4-1022 · 10
धनं धान्यं सुतं जायां हयं हस्तिनमेव च ।
वसुन्धरां महाविद्यामष्टौ सिद्धीर्भवेद्ध्रुवम्
॥ १० ॥

P4-1023 · 11
वैयाघ्राजिनरञ्जितस्वजघने रम्ये प्रलम्बोदरे
खर्वेऽनिर्वचनीयपर्वसुभगे मुण्डावली मण्डिते ।
कर्त्रीं कुन्दरुचिं विचित्रललितां ज्ञानं दधाने पदे,
मातर्भक्तजनानुकम्पिनि महामायेऽस्तु तुभ्यं नमः
॥ ११ ॥

P4-1024 · 1
इति प्रचण्डचण्डिकास्तोत्रं समाप्तम् ।
अथ प्रचण्डचण्डिकाकवचम् ।
देव्युवाच :
कथिताच्छिन्नमस्ताया या या विद्याः सुगोपिताः ।
त्वया नाथेन जीवेश श्रुताश्चाधिगता मया
॥ १ ॥

P4-1025 · 2
इदानीं श्रोतुमिच्छामि कवचं पूर्वसूचितम् ।
त्रैलोक्यविजयं नाम कवचं कथ्यतां प्रभो
॥ २ ॥

P4-1026 · 3
भैरव उवाच :
शृणु वक्ष्यामि देवेशि सर्वदेवनमस्कृते ।
त्रैलोक्य विजयं नाम कवचं सर्वमोहनम्
॥ ३ ॥

P4-1027 · 4
सर्वविद्यामयं साक्षात्सुरासुरजयप्रदम् ।
धारणात् पठनादीशस्त्रैलोक्यविजयी विभुः
॥ ४ ॥

P4-1028 · 5
ब्रह्मा नारायणो रुद्रो धाराणात्पठनाद्यतः ।
कर्ता पाता च संहर्ता भुवनानां सुरेश्वरि
॥ ५ ॥

P4-1029 · 6
न देयं परशिष्येभ्योह्य भक्तेभ्योपि विशेषतः ।
देयं शिष्याय भक्ताय प्राणेभ्योप्यधिकाय च
॥ ६ ॥

P4-1030 · 7
देव्याश्चच्छिन्नमस्तायाः कवचस्य च भैरवः ।
ऋषिर्विराट् छन्दस्तु देवता च्छिन्नमस्तका
॥ ७ ॥

P4-1031 · 8
त्रैलोक्यविजये मुक्तौ विनियोगः प्रकीर्त्तितः ।
हूंकारो मे शिरः पातु छिन्नमस्ता बलप्रभा
॥ ८ ॥

P4-1032 · 9
ह्रां ह्रूं ऐं त्र्यक्षरी पातु भालं वक्त्रं दिगम्बरी ।
श्रीं ह्रीं हूं ऐं दृशौ पातु मुण्डकत्रीधरापि सा
॥ ९ ॥

P4-1033 · 10
सा विद्या प्रणवाद्यन्ता श्रुतियुग्मं सदाऽवतु ।
वज्रवैरोचनीये हुं फट् स्वाहा च ध्रुवादिका
॥ १० ॥

P4-1034 · 11
घ्राणं पातु छिन्नमस्तामुण्डकर्तृविधारिणी ।
श्रीमायाकूर्चवाग्बीजैर्वज्रवैरोचनीये हूं
॥ ११ ॥

P4-1035 · 12
हूं फट् स्वाहा महाविद्या षोडशी ब्रह्मरूपिणी ।
स्वपार्श्वेवर्णी चासृग्धारां पाययन्ती मुदा
॥ १२ ॥

P4-1036 · 13
वदनं सर्वदा पातु छिन्नमस्ता स्वशक्तिका ।
मुण्डकर्तृधरा रक्ता साधकाभीष्टदायिनी
॥ १३ ॥

P4-1037 · 14
वर्निनी डाकिनीयुक्ता सापि मामभितोऽवतु ।
रमाद्या पातु जिह्वां च लज्जाद्या पातु कण्ठकम्
॥ १४ ॥

P4-1038 · 15
कूर्चाद्या हृदयं पातु वागाद्या स्तनयुग्मकम् ।
रमया पुटिता विद्या पाश्वौं पातु सुरेश्वरी
॥ १५ ॥

P4-1039 · 16
मायया पुटिता पातु नाभिदेशे दिगम्बरी ।
कूर्चेन पुटिता देवी पृष्ठदेशे सदावतु
॥ १६ ॥

P4-1040 · 17
वाग्बीजपुटिता चैषा मध्यं पातु सशक्तिका ।
ईश्वरी कूर्चवाग्बीजैर्वज्रवैरोचनीये हूं
॥ १७ ॥

P4-1041 · 18
हूं फट् स्वाहा महाविद्या कोटिसूर्यसमप्रभा ।
छिन्नमस्ता सदा पायादूरुयुग्मं सशक्तिका
॥ १८ ॥

P4-1042 · 19
ह्रीं ह्रूं वर्णिनी जानुं श्रीं ह्रीं हूं च डाकिनी पदम् ।
सर्वविद्यास्थिता नित्या सर्वाङ्गं मे सदावतु
॥ १९ ॥

P4-1043 · 20
प्राच्यां पायादेकलिङ्गा योगिनी पावकेऽवतु ।
डाकिनी दक्षिणे पातु श्रीमहाभैरवी च माम्
॥ २० ॥

P4-1044 · 21
नै-ऋत्यां सततं पातु भैरवी पश्चिमेऽवतु ।
इन्द्राक्षी पातु वायव्येऽसितांगी चोत्तरे
॥ २१ ॥

P4-1045 · 22
संहारिणी सदा पातु शिवकोणे सकर्तृका ।
इत्यष्ट शक्तयः पान्तु दिग्विदिक्षु सकर्तृकाः
॥ २२ ॥

P4-1046 · 23
क्रीं क्रीं क्रीं पातु मां पूर्वे हूं हूं मां पातु पावके ।
ह्रीं ह्रीं मां दक्षिणे पातु दक्षिणे कालिकेऽवतु
॥ २३ ॥

P4-1047 · 24
क्रीं क्रीं क्रीं चैव नैर्-ऋत्यां ह्रूं ह्रूं च मां
पश्चिमेऽवतु ।
हूं हूं पातु मरुत्कोणे स्वाहा पातु सदोत्तरे
॥ २४ ॥

P4-1048 · 25
महाकाली खड्गहस्ता शिवकोणे सदावतु ।
तारो माया वधूः कूर्चं फट्कारोऽयं महामनुः
॥ २५ ॥

P4-1049 · 26
खड्गकर्तृधरा तारा चोर्ध्वदेशं सदावतु ।
ह्रीं स्त्रीं हूं फट् च पाताले मां पातु चैकजटा सती ।
तारा तु सहिता खेऽव्थान्महानीलसरस्वती
॥ २६ ॥

P4-1050 · 27
इति ते कथितं देव्याः कवचं मन्त्रविग्रहम् ।
यद्धृत्वा पठनाद्भीमः क्रोधाख्यो भैरवः स्मृतः
॥ २७ ॥

P4-1051 · 28
सुरासुरमुनीन्द्राणां कर्ता हर्ता भवेत्स्वयम् ।
यस्याज्ञया मधुमती याति सा साधकान्तिकम्
॥ २८ ॥

P4-1052 · 29
भूतिन्याद्याश्च डाकिन्यो यक्षिण्याद्याश्च खेचराः ।
आज्ञां गृह्णन्ति तास्तस्य कवचस्य प्रसादतः
॥ २९ ॥

P4-1053 · 30
एतदेव परं ब्रह्मकवचं मन्मुखोदितम् ।
देवीमभ्यर्च्य गन्धाद्यैर्मूलेनैव पठेत् सकृत्
॥ ३० ॥

P4-1054 · 31
सम्वत्सरकृतायास्तु पूजायाः फलमाप्नुयात् ।
भूर्जे विलिखिञ्चैतत्गुटिकां काञ्चनस्थिताम्
॥ ३१ ॥

P4-1055 · 32
धारयेद्दक्षिणे बाहौ कण्ठे वा यदि वाग्यतः ।
सर्वैश्वर्युतौ भूत्वा त्रैलोक्यं वशमानयेत्
॥ ३२ ॥

P4-1056 · 33
तस्य गेहे वसेल्लक्ष्मीर्वाणी च वदनाम्बुजे ।
ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रे यान्ति सौम्यताम्
॥ ३३ ॥

P4-1057 · 34
इदं कधचमज्ञात्वा यो भजेच्छिन्नमस्तकाम् ।
सोपि शस्त्रप्रहारेण मृत्युमाप्नोति सत्वरम्
॥ ३४ ॥


Śyāmā und Tārā

P4-1058 · 1
इति भैरवतन्त्रे छिन्नमस्ताकवचं समाप्तम् ।
अथ श्यामास्तोत्रम् ।
कर्पूरं मध्यमात्यस्वरपरिरहितं सेन्दुवामाक्षियुक्तं बीजं
ते मातरेतत्त्रिपुरहरवधूः त्रिःकृतं ये जपन्ति ।
तेषां गद्यानि पद्यानि च मुखकुहरादुल्लसंत्येव वाचः
स्वच्छन्दं ध्वान्तधाराधररुचिरुचिरे सर्वसिद्धिं गतानाम्
॥ १ ॥

P4-1059 · 2
ईशानः सेन्दुवामश्रवणपरिगतो बीजमन्यन्महेशि द्वन्द्वचेता
मन्दचेता यदि जपति जनो वारमेकं कदाचित् ।
जित्वा वाचामधीशं धनदमपि चिरं
मोहयन्त्यन्नम्बुजाक्षीवृन्दं चन्द्रार्द्धचूडे प्रभवति स
महाघोररावावतंसे
॥ २ ॥

P4-1060 · 3
ईशो वैश्वानरस्थः शशिधरविलसद्वामनेत्रेण युक्तो बीजं ते
द्वन्द्वमन्यद्विगलितचिकुरे कालिके ये जपन्ति ।
द्वेष्टारं घ्नन्ति ते च त्रिभुवनमपि ते वश्यभावं नयन्ति
सृक्कद्वन्द्वास्रधाराद्वयधरवदने दक्षिणे कालिकेति
॥ ३ ॥

P4-1061 · 4
ऊर्ध्वे वामे कृपाणं करकमलतले छिन्नमुण्डं तथाधः
सव्येऽभीतिं वरं च विजगदघहरे दक्षिणे कालिके च ।
जप्त्वैतन्नाम ये वा तव मनुविभवं धारयन्त्येतदम्ब
तेषामष्टौ करस्थाः प्रकटितवदने सिद्धयस्त्र्यम्बकस्य
॥ ४ ॥

P4-1062 · 5
वर्गाद्यं वह्निसंस्थं विधुरतिवलितं तत्त्रयं कूर्चयुग्मं
लज्जाद्वन्द्वं च पश्चात् स्मितमुखि त्वदधष्टद्वयं योजयित्वा ।
मातर्ये ये जपन्ति स्मरहरमहिले भावयन्तः स्वरूपं ते
लक्ष्मीलास्यलीलाकमलदलदृशः कामरूपा भवन्ति
॥ ५ ॥

P4-1063 · 6
प्रत्येकं वा द्वयं वा त्रयमापि च परं बीजमत्यन्तगुह्यं
त्वन्नाम्ना योजयित्वा सकलमपि सदा भावयन्तो जपन्ति ।
तेषां नेत्रारविन्दे विहरति कमलावक्त्र शुभ्रांशुबिम्बे वाग्देवी
दिव्यमुण्डस्रगतिशयलसत्कण्ठपीनस्तनाढ्ये
॥ ६ ॥

P4-1064 · 7
गतासूनां बाहुप्रकरकृतकाञ्ची परिलसन्नितम्बां दिग्वस्त्रां
त्रिभुवनविधात्रीं त्रिनयनाम् ।
श्मशानस्थे तल्पे शवहृदि महाकालसुरतप्रयुक्तां त्वां
ध्यायञ्जननि जडचेता अपि कविः
॥ ७ ॥

P4-1065 · 8
शिवाभिर्घोराभिः शवनिवहमुण्डास्थिनिकरैः परं
संकीर्णायां प्रकटितचितायां हरवधूम् ।
प्रविष्टां सन्तुष्टामुपरि सुरतेनातियुवतीं सदा त्वां ध्यायन्ति
क्वचिदपि न तेषां परिभवः
॥ ८ ॥

P4-1066 · 9
वदामस्ते किं वा जननि वयमुच्चैर्ज्जडधियो न धाता नापीशो
हरिरपि न ते वेत्ति परम् ।
तथापि त्वद्भक्तिर्मुखरयति चास्माकमसिते तदेतत्क्षन्तव्यं न
खलु पशुरोषः समुचितः
॥ ९ ॥

P4-1067 · 10
समन्तादापीनस्तन-जघनधृग्यौवनवतीरता-सक्तो नक्तं यदि
जपति भक्तस्तव मनुम् ।
विवासास्त्वां ध्यायन्गलित चिकुरस्तस्य वशगाः समस्ताः
सिद्धुघा भुवि चिरतरं जीवति कविः
॥ १० ॥

P4-1068 · 11
समाः सुस्थीभूतां जपति विपरीतां यदि सदा विचिन्त्य त्वां
ध्यायन्नतिशयमहाकालसुरताम् ।
तदा तस्य क्षोणीतलविहरमाणस्य विदुषः कराम्भोजे वश्या
हरवधुसिद्धिनिवहाः
॥ ११ ॥

P4-1069 · 12
प्रसूते संसारं जननि भगवति पालयति च समस्तं क्षित्यादि
प्रलयसमये संहरति च ।
अतस्त्वं धातापि त्रिभुवनपतिः श्रीपतिरहो महेशोऽपि प्रायः
सकलमपि किं स्तौमि भवतीम्
॥ १२ ॥

P4-1070 · 13
अनेके सेवन्ते हरगृहिणी गीर्वाणनिवहा विमूढान्ते मातः किमपि
नहि जानन्ति परमम् ।
समाराध्यामाद्यां हरिहरविरञ्च्यादिविबुधैः प्रपन्नोऽस्मि
स्वैरं रतिरसमहानन्दनिरताम्
॥ १३ ॥

P4-1071 · 14
धरित्री कीलालं शुचिरपि समीरोऽपि गगनं त्वमेका कल्याणी
गिरिशरमणी कालि सकलम् ।
स्तुतिः का ते मातस्तव करुणया मामगतिकं प्रसन्ना त्वं भूया
भवमनु न भूयान्मम मनुः
॥ १४ ॥

P4-1072 · 15
श्मशानस्थः स्वस्थो गलितचिकुरो दिक्पटधरः सहस्रं
त्वर्काणां निजगलितवीर्येण कुसुमम् ।
जपनन्स्त्वत्प्रत्येकं मनुमपि तव ध्याननिरतो महाकालि स्वैरं स
भवति धरित्रीपरिवृढः
॥ १५ ॥

P4-1073 · 16
गृहे सम्मार्ज्जन्या परिगलित वीर्यं हि कुसुमं समूलं
मध्याह्ने वितरति चितायां कुजदिने ।
समुच्चार्य प्रेम्णा मनुमपि सकृत्कालि सततं गजारूढो याति
क्षितिपरिवृढः सत्कविवरः
॥ १६ ॥

P4-1074 · 17
स्वपुष्पैराकीऋणं कुसुमधनुषो मन्दिरमहो पुरो ध्यायं यदि
ध्यायं जपति भक्तस्तव मनुम् ।
स गन्धर्वश्रेणीपतिरिव कवित्वामृतनदीनदेनः पर्यन्ते
परमपदलीनः प्रभवति
॥ १७ ॥

P4-1075 · 18
त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदनां
महाकालेनोच्चैर्मदनरसलावण्यनियताम् ।
समासक्तो नक्तं स्वयमपि रतानन्दनिरतो जनो यस्त्वा ध्यायेदपि
जननि स स्यात् स्मरहरः
॥ १८ ॥

P4-1076 · 19
सलोमास्थि स्वैरं फललमपि मार्ज्जारमपि ते परं चौष्ट्रं
मैषं नरमहिषयोच्छागमपि वा ।
बलिं ते पूजायामपि वितरतां मर्त्यवसतां सतां सिद्धिः सर्वा
प्रतिपदमपूर्वा प्रभवति
॥ १९ ॥

P4-1077 · 20
वशी लक्षं मन्त्रं प्रजपति हविष्याशनरतो दिवा
मातर्युष्मच्चरणयुगलध्याननिपुणः ।
परं नक्तं नग्नो निधुवनविनोदेन च मनुं जपेल्लक्षं
सम्यक्स्मरहरसमानः क्षितितले
॥ २० ॥

P4-1078 · 21
इदं स्तोत्रं मातस्तव मनुसमुद्धारणजनुः स्वरूपाख्यं
पादाम्बुजयुगल पूजाविधियुतम् ।
निशार्द्धे वा पूजासमय अथवा यस्तु पठति प्रलापस्तस्यापि
प्रसरति कवित्वामृतरसः
॥ २१ ॥

P4-1079 · 22
कुरङ्गाक्षीवृन्दस्तमनुसरति प्रेमतरलं वशस्तस्य क्षौणीपतिरपि
कुबेरप्रतिनिधिः ।
रिपुः कारागारं कलयति च तत्केलिकलया चिरं जीवनन्मुक्तः स
भवति सुभक्तः प्रतिजनुः
॥ २२ ॥

P4-1080 · 1
इति महाकालविरचितं श्यामास्तोत्रं समाप्तम् ।
अथास्याः कवचम् ।
भैरव्युवाच :
कालीपूजा श्रुता नाथ भावाश्च विविधाः प्रभो ।
इदानीं श्रोतुमिच्छामि कवचं पूर्वसूचितम्
॥ १ ॥

P4-1081 · 2
त्वमेव स्रष्टा पाता च संहर्ता च त्वमेव हि ।
त्वमेव शरणं नाथ पाहि मा दुःखसङ्कटात्
॥ २ ॥

P4-1082 · 3
भैरव उवाच :
रहस्यं शृणु वक्ष्यामि भैरवी प्राणवल्लभे ।
श्रीजगन्मङ्गलं नाम कवचं मन्त्रविग्रहम्
॥ ३ ॥

P4-1083 · 4
पठित्वा धारयित्वा च त्रैलोक्यं मोहयेत्क्षणात् ।
नारायणोऽपि यद्धृत्वा नारी भूत्वा महेश्वरम्
॥ ४ ॥

P4-1084 · 5
योगेशं क्षोभमनयद्यद्धृत्वा च रघूत्तमः ।
वरदृप्तान् जघानैव रावणादिनिशाचरान्
॥ ५ ॥

P4-1085 · 6
यस्य प्रसादादीशोऽपि त्रैलोक्यविजयी विभुः ।
धनाधिपः कुबेरोऽपि सुरेशोऽभूच्छचीपतिः
॥ ६ ॥

P4-1086 · 7
एवं हि सकला देवाः सर्वसिद्धीश्वराः प्रिये ।
श्रीजगन्मङ्गलस्यापि कवचस्य ऋषिः शिवः
॥ ७ ॥

P4-1087 · 8
छन्दोऽनुष्टुप्देवता कालिका दक्षिणेरिता
॥ ८ ॥

P4-1088 · 9
जगतां मोहने दुष्टविजये भुक्तिमुक्तिषु ।
योषिदाकर्षणे चैव विनियोगः प्रकीर्त्तितः
॥ ९ ॥

P4-1089 · 10
ॐ शिरो मे कालिका पातु क्रीङ्कारैकाक्षरी परा क्रीं क्रीं क्रीं मे
ललाटं च कालिका खड्गधारिणी
॥ १० ॥

P4-1090 · 11
हूं हूं पातु नेत्रयुग्मं ह्रीं ह्रीं पातु श्रुती मम ।
दक्षिणे कालिका पातु घ्राणयुग्मं महेश्वरि
॥ ११ ॥

P4-1091 · 12
क्रीं क्रीं क्रीं रसनां पातु ह्रूं ह्रूं पातु कपोलकम् ।
वदनं सकलं पातु ह्रीं ह्रीं स्वाहा स्वरूपिणी
॥ १२ ॥

P4-1092 · 13
द्वाविंशत्यक्षरी स्कन्धौ महाविद्या सुखप्रदा ।
खड्गमुण्डधरा काली सर्वाङ्गमभितोऽवतु
॥ १३ ॥

P4-1093 · 14
क्रीं हूं क्रीं त्र्यक्षरी पातु चामुण्डा हृदयं मम ।
ऐं हूं ॐ ऐं स्तनद्वन्द्वं ह्रीं फट् स्वाहा ककुत्स्थलम्
॥ १४ ॥

P4-1094 · 15
अष्टाक्षरी महाविद्या भुजौ पातु सकर्तृका ।
क्रीं क्रीं हूं हूं ह्रीं ह्रीं करौ पातु षडक्षरी मम
॥ १५ ॥

P4-1095 · 16
क्रीं नाभिं मध्यदेशं च दक्षिणे कालिकावऽतु ।
क्रीं स्वाहा पातु पृष्ठं च कालिका सा दशाक्षरी
॥ १६ ॥

P4-1096 · 17
क्रीं मे गुह्यं सदा पातु कालिकायै नमस्ततः ।
सप्ताक्षरी महाविद्या सर्वतन्त्रेषु गोपिता
॥ १७ ॥

P4-1097 · 18
ह्रीं ह्रीं दक्षिणे कालिका हूं हूं पातु कटिद्वयम् ।
काली दशाक्षरी विद्या स्वाहा ममोरुयुग्मकम्
॥ १८ ॥

P4-1098 · 19
ॐ ह्रीं क्रीं मे स्वाहा पातु कालिका जानुनि सदा ।
काली हृदयविद्येयं चतुर्वर्गफलप्रदा
॥ १९ ॥

P4-1099 · 20
क्रीं ह्रीं ह्रीं पातु सा गुल्फं दक्षिणे कालिकावतु ।
क्रीं हूं ह्रीं स्वाहा पदं पातु चतुर्दशाक्षरी मम
॥ २० ॥

P4-1100 · 21
खड्गमुण्डधरा काली वरदा भयहारिणी ।
विद्याभिः सकलाभिः सा सर्वाङ्गमभितोऽवतु
॥ २१ ॥

P4-1101 · 22
काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ।
विप्रचित्ता तथोग्रोग्रप्रभा दीप्ताघनत्विषा
॥ २२ ॥

P4-1102 · 23
नीला घना बालाका च मात्रा मुद्रामिता च माम् ।
एताः सर्वाः खड्गधरा मुण्डमाला विभूषणाः
॥ २३ ॥

P4-1103 · 24
रक्षन्तु दिग्विदिक्षु मां ब्राह्मी नारायणी तथा ।
माहेश्वरी च चामुण्डा कौमारी चापराजिता
॥ २४ ॥

P4-1104 · 25
वाराही नारसिंही च सर्वाश्चामितभूषणाः ।
रक्षन्तु स्वायुधैर्दिक्षु मां यथा तथा
॥ २५ ॥

P4-1105 · 26
इति ते कथितं दिव्यं कवचं परमाद्भुतम् ।
श्रीजगन्मङ्गलं नाम महाविद्यौघविग्रहम्
॥ २६ ॥

P4-1106 · 27
त्रैलोक्याकर्षकं ब्रह्मन् कवचं मन्मुखोदितम् ।
गुरुपूजां विधायाथ विधिवत् प्रपठेत् ततः
॥ २७ ॥

P4-1107 · 28
कवचं त्रिः सकृद्वापि यावज्जीवं च वा पुनः ।
एतच्छतार्द्धमावर्त्य त्रैलोक्यविजयी भवेत्
॥ २८ ॥

P4-1108 · 29
त्रैलोक्यं क्षोभयत्येव कवचस्य प्रसादतः ।
महाकविर्भवेन्मासात् सर्वसिद्धीश्वरो भवेत्
॥ २९ ॥

P4-1109 · 30
पुष्पाञ्जलिं कालिकायै मूलेनैवार्पयेत् सकृत् ।
शतवर्षसहस्राणां पूजायाः फलमाप्नुयात्
॥ ३० ॥

P4-1110 · 31
भूर्जे विलिखितं चैतत्स्वर्णस्थं धारयेद्यदि ।
शिखायां दक्षिणे बाहौ कण्ठे वा धारयेद्यदि
॥ ३१ ॥

P4-1111 · 32
त्रैलोक्यं मोहयेत्क्रोधात्त्रैलोक्यं चूर्णयेत्क्षणात् ।
पुत्रबान्धवान्श्रीमान्नानाविद्यानिधिभवेत्
॥ ३२ ॥

P4-1112 · 33
ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रस्पर्शनात् ततः ।
नाशमायान्ति या नारी वन्ध्या च मृतपुत्रिणी
॥ ३३ ॥

P4-1113 · 34
कण्ठे वा वामबाहौ वा कवचस्य धारणात् ।
बह्वपत्या जीववत्सा भवत्येव न संशयः
॥ ३४ ॥

P4-1114 · 35
न देयं परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः ।
शिष्येभ्यो भक्तियुक्तेभ्यश्चान्यथा मृत्युमाप्नुयात्
॥ ३५ ॥

P4-1115 · 36
स्पर्द्धामुद्धूय कमलावाग्देवीमन्दिरे मुखे ।
पौत्रान्तं स्थैर्यमास्थाय निवसत्येव निश्चितम्
॥ ३६ ॥

P4-1116 · 37
इदं कवचमज्ञात्वा यो जपेत्कालिदक्षिणाम् ।
शितलक्षं प्रजप्त्वापि तस्य मन्त्रो न सिद्ध्ययि ।
सशस्त्रघातमाप्नोति सोचिरान्मृत्युमाप्नुयात्
॥ ३७ ॥

P4-1117 · 1
इति भैरवतन्त्रे भैरवभैरवीसंवादे कालीकल्पे श्यामाकवचं
समाप्तम् ।
अथ तारास्तोत्रम् ।
मातर्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदे
प्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे ।
फुल्लेन्दीवर लोचने त्रिनयने कर्त्रीकपालोत्पले खड्गञ्चादधती
त्वमेव शरणं त्वामीश्वरीमाश्रये
॥ १ ॥

P4-1118 · 2
वाचामीश्वरि भक्तिकल्पलतिके सर्वार्थसिद्धीश्वरि
गद्यप्राकृतपद्यजातरचनासर्वार्थसिद्धिप्रदे ।
नीलेन्दीवरलोचनत्रययुते कारुण्यवारान्निधे
सौभाग्यामृतवर्द्धनेन कृपया सिञ्च त्वमस्मादृशम्
॥ २ ॥

P4-1119 · 3
खर्वेगर्वसमूहपूरिततनो सर्पादिवेषोज्वले
व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते ।
सद्यः कृत्तगलद्रजः
परिमिलन्मुण्डद्वयीमूर्द्धजग्रन्थिश्रेणिनृमुण्डदामललिते
भीमे भयन्नाशय
॥ ३ ॥

P4-1120 · 4
मायानङ्गविकाररूपललनाविन्द्वर्धचन्द्राङ्कितं
हुंफट्कारमयी त्वमेव शरणं मन्त्रात्मिके मादृशः ।
मूर्तिस्ते जननि त्रिधामघटिता स्थूलाति सूक्ष्मा परा वेदनां न
हि गोचरा कथमपि प्राप्तां नु तामाश्रये
॥ ४ ॥

P4-1121 · 5
त्वत्पादाम्बुजसेवया सुकृतिनो गच्छन्ति सायुज्यतां तस्याः
श्रीपरमेश्वरत्रिनयनब्रह्मादिसाम्यात्मनः ।
संसाराम्बुधिमज्जने पटुतनुर्देवेन्द्रमुख्यान्सुरान् मातस्ते
पदसेवने हि विमुहान् किं मन्दधीस्सेवते
॥ ५ ॥

P4-1122 · 6
मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिणस्ते देवा जयसङ्गरे
विजयिनो निःशङ्कमङ्के गताः ।
देवोऽहं भुवने न मे सम इति स्पर्द्धां वहन्तः परे
तत्तुल्यान्नियतं यथा शशिरवी नाशं व्रजन्ति स्वयम्
॥ ६ ॥

P4-1123 · 7
त्वन्नामस्मरणात्पलायनपराद्रष्टुं च शक्ता न ते
भूतप्रेतपिशाचराक्षसगणा यक्षाश्च नागाधिपाः ।
दैत्या दानवपुङ्गवाश्च खेचरा व्याघ्रादिका जन्तवो डाकिन्यः
कुपितान्तकाश्च मनुजान्मातः क्षणं भूतले
॥ ७ ॥

P4-1124 · 8
लक्ष्मीः सिद्धगणाश्च पादुकमुखाः सिद्धास्तथा वैरिणां
स्तम्भश्चापि वराङ्गने गजघटास्तम्भस्तथा मोहनम् ।
मातस्त्वत्पदसेवया खलु नृणां सिध्यन्ति ते ते गुणाः क्लान्तिः
कान्त मनोभवोत्र भवति क्षुद्रोऽपि वाचस्पतिः
॥ ८ ॥

P4-1125 · 9
ताराष्टकमिदं पुण्यं भक्तिमान्यः पठेन्नरः ।
प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः
॥ ९ ॥

P4-1126 · 10
लभते कवितां विद्यां सर्वशास्त्रार्थविद्भवेत् ।
लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान्यथेप्सितान् ।
कीर्त्तिं कान्तिं च नेरुज्यं सर्वेषां प्रियतां व्रजेत् ।
विख्यातिञ्चापि लोकेषु प्राप्यान्ते मोक्षमाप्नुयात्
॥ १० ॥

P4-1127 · 1
इति नीलतन्त्रे ताराष्टकं समाप्तम् ।
अथ ताराकवचम् ।
ईश्वर उवाच :
कोटितन्त्रेषु गोप्या हि विद्यातिभयमोचिनी ।
दिव्यं हि कवचं तस्याः शृणुष्व सर्वकामदम्
॥ १ ॥

P4-1128 · 2
ताराकवचस्याऽक्षोभ्य-ऋषिस्त्रिष्टुप्छन्दो भगवती तारा देवता
सर्वमन्त्रसिद्धिसमृद्धये जपे विनियोगः ।
प्रणवो मे शिरः पातु ब्रह्मरूपा महेश्वरी ।
ह्रींकार पातु ललाटे बीजरूपा महेश्वरी
॥ २ ॥

P4-1129 · 3
स्त्रींकारः सदा वदने लज्जारूपा महेश्वरी ।
हूंकारः पातु हृदये भवानीशक्तिरूपधृक्
॥ ३ ॥

P4-1130 · 4
फट्कारः पातु सर्वाङ्गे सर्वसिद्धि फलप्रदा ।
खर्वा मां पातु देवेशीगण्डयुग्मे भयापहा
॥ ४ ॥

P4-1131 · 5
लम्बोदरी सदा स्कन्धयुग्मे पातु महेश्वरी ।
व्याघ्रचर्मावृता कट्यां पातु देवी शिवप्रिया
॥ ५ ॥

P4-1132 · 6
पीनोन्नतस्तनी पातु पार्श्वयुग्मे महेश्वरी ।
रक्तवर्तुलनेत्रा च कटिदशे सदावतु
॥ ६ ॥

P4-1133 · 7
ललज्जिह्वा सदा पातु नाभौ मां भुवनेश्वरी ।
करालास्या सदा पातु लिङ्गे देवी हरप्रिया
॥ ७ ॥

P4-1134 · 8
पिङ्गोग्रैकजटा पातु जङ्घायां विघ्ननाशिनी ।
प्रेतखर्परधरा देवी जानुचक्रे महेश्वरी
॥ ८ ॥

P4-1135 · 9
नीलवर्णा सदा पातु जानुनी सर्वदा मम ।
नागकुण्डलधरा देवी पातु पादयुगे ततः
॥ ९ ॥

P4-1136 · 10
नागहारधरा देवी सर्वाङ्गं पातु सर्वदा ।
नागकङ्कधरा देवी पातु प्रान्तरदेशतः
॥ १० ॥

P4-1137 · 11
चतुर्भुजा सदा पातु गमने शत्रुनाशिनी ।
खड्गहस्ता महादेवी श्रवणे पातु सर्वदा
॥ ११ ॥

P4-1138 · 12
नीलाम्बरधरा देवी पातु मां विघ्ननाशिनी ।
कर्तृहस्ता सदा पातु विवादे शत्रुमध्यतः
॥ १२ ॥

P4-1139 · 13
ब्रह्मरूपधरा देवी संग्रामे पातु सर्वदा ।
नागकङ्कणधरा देवी भोजने पातु सर्वदा
॥ १३ ॥

P4-1140 · 14
शवकर्णा महादेवी शयने पातु सर्वदा ।
वीरासनधरा देवी निद्रायां पातु सर्वदा
॥ १४ ॥

P4-1141 · 15
धनुर्बाणधरा देवी पातु मां विघ्नसंकुले ।
नागाञ्चितकटी पातु देवी मां सर्वकर्मसु
॥ १५ ॥

P4-1142 · 16
छिन्नमुण्डधरा देवी कानने पातु सर्वदा ।
चितामध्यस्थिता देवी मारणे पातु सर्वदा
॥ १६ ॥

P4-1143 · 17
द्वीपिचर्मधरा देवी पुत्रदारधनादिषु ।
अलङ्कारान्विता देवी पातु मां हरवल्लभा
॥ १७ ॥

P4-1144 · 18
रक्षरक्ष नदीकुञ्जे हूं हूं फट् समन्विते ।
बीजरूपा महादेवी पर्वते पातु सर्वदा
॥ १८ ॥

P4-1145 · 19
मणिधरा वज्रिणि देवी महाप्रतिसरे तथा ।
रक्षरक्ष हूं हूं ॐ ह्रीं स्वाहा महेश्वरी
॥ १९ ॥

P4-1146 · 20
पुष्पकेतुराजार्हेति कानने पातु मां सर्वदा ।
ॐ ह्रीं वज्रपुष्पे हूं फट् प्रान्तरे सर्वकामदा
॥ २० ॥

P4-1147 · 21
ॐ पुष्पे पुष्पे महापुष्पे पातु पुत्रान्महेश्वरी ।
हूं स्वाहा शक्तिसंयुक्ता दारान् रक्षतु सर्वदा
॥ २१ ॥

P4-1148 · 22
ॐ आं हूं फट् स्वाहा महेशानी पातु द्यूते हरप्रिया ।
ॐ ह्रीं सर्वविघ्नोत्सारिणी देवी विघ्नान्मां सदावतु
॥ २२ ॥

P4-1149 · 23
ॐ पवित्रवज्रभूमे हूं फट् स्वाहासमन्विता ।
पृथिव्यां पातु मां देवी सर्वविघ्नविनाशिनी
॥ २३ ॥

P4-1150 · 24
ॐ आः सुरेखे वज्ररेखे हूं फट् स्वाहासमन्विता ।
पाताले पातु मां देवी लाकिनीं नामसंज्ञिका
॥ २४ ॥

P4-1151 · 25
ह्रींकारी पातु मां पूर्वे शक्तिरूपा महेश्वरी ।
स्त्रींकारो पातु देवेशी वधूरूपा महेश्वरी
॥ २५ ॥

P4-1152 · 26
हूं स्वरूपा महादेवी पातु मां क्रोधरूपिणी ।
फट् स्वरूपा महामाया उत्तरे पातु सर्वदा
॥ २६ ॥

P4-1153 · 27
पश्चिमे पातु मां देवी फट् स्वरूपा हरपिर्या ।
मध्ये मां पातु देवेशी हूं स्वरूपा नगात्मजा
॥ २७ ॥

P4-1154 · 28
नीलवर्णा सदा पातु सर्वत्र वाग्भवा सदा ।
भवानी पातु भवने सर्वैश्वर्यप्रदायिनी
॥ २८ ॥

P4-1155 · 29
विद्यादानरता देवी पातु वक्त्रे सरस्वतौ ।
शास्त्रे वादे च संग्रामे जले च विषमे गिरौ
॥ २९ ॥

P4-1156 · 30
भीमरूपा सदा पातु श्मशाने भयनाविनी ।
भूतप्रेतालये घोरे दुर्गा मां भीषणावतु
॥ ३० ॥

P4-1157 · 31
पातु नित्यं महेशानि सर्वत्र शिवदूतिका ।
कवचस्य च माहात्म्यं नाहं वर्षशतैरपि
॥ ३१ ॥

P4-1158 · 32
शक्नोमि कथितुं देवि भवेत् तस्य फलं च यत् ।
पुत्रदारेषु बन्धूनां सर्वदेशे च सर्वदा
॥ ३२ ॥

P4-1159 · 33
न विद्यते भयं यस्य नृपपूज्यो भवेच्च सः ।
शुचिर्भूत्वाऽशुचिर्वापि कवच सर्वकामदम्
॥ ३३ ॥

P4-1160 · 34
प्रपठन् वा स्मरन्मर्त्यो दुःखशोकविवर्जितः ।
सर्वशास्त्रे महेशानि कविराट् भवति ध्रुवम्
॥ ३४ ॥

P4-1161 · 35
सर्ववागीश्वरो मर्त्यो लोकवश्यो धनेश्वरः ।
रणे द्यूते विवादे च जयस्तत्र भवेद्ध्रुवम्
॥ ३५ ॥

P4-1162 · 36
पुत्रपौत्रान्वितो मर्त्यो विलासी सर्वयोषिताम् ।
शत्रवो दासतां यान्ति सर्वेषां वल्लभः सदा
॥ ३६ ॥

P4-1163 · 37
गर्वी खर्वी भवत्येव वादी स्खलति दर्शनात् ।
मृत्युश्च वश्यतां याति दासास्तस्यावनोभुजः
॥ ३७ ॥

P4-1164 · 38
प्रसङ्गात्कथितं सर्वं कवचं सर्वकामदं ।
प्रपठन्वा स्मरन्मर्त्यः शापानुग्रहण क्षमः
॥ ३८ ॥

P4-1165 · 39
आनन्दवृन्दसिन्धूनामधिपः कविराड्भवेत् ।
सर्ववागीश्वरी मर्त्यो लोक वश्यः सदा सुखी
॥ ३९ ॥

P4-1166 · 40
गुरोः प्रसादमासाद्य विद्यां प्राप्य सुगोपिताम् ।
तत्रापि कवचं देवि दुर्लभं भवनत्रये
॥ ४० ॥

P4-1167 · 41
गुरुर्देवो हरः साक्षात्पत्नी तस्य हरप्रिया ।
अभेदेन भजेद्यस्तु तस्य सिद्धिरदूरतः
॥ ४१ ॥

P4-1168 · 42
मन्त्राचारा महेशानि कथिताः पूर्ववत्प्रिये ।
नाभौ ज्योतिस्तथा वक्त्रं हृदयोपरि चिन्तयेत्
॥ ४२ ॥

P4-1169 · 43
ऐश्वर्यं सुकवित्वं च महावागीश्वरोनृपः ।
नित्यं तस्य महेशानि महिलासङ्गञ्चरेत्
॥ ४३ ॥

P4-1170 · 44
पञ्चाचाररतो मर्त्यः सिद्धो भवति नान्यथा ।
शक्तियुक्तो भवेन्मर्त्यः सिद्धो भवति नान्यथा
॥ ४४ ॥

P4-1171 · 45
ब्रह्माविष्णुश्च रुद्रश्च ये देवासुरमानुषाः ।
तं दृष्ट्वा साधकं देवि लज्जायुक्ता भवन्ति ते
॥ ४५ ॥

P4-1172 · 46
स्वर्गे मर्त्ये च पाताले ये देवाः सिद्धिदायकाः ।
प्रशंसन्ति सदा देवि तं दृष्ट्वा साधकोत्तमम्
॥ ४६ ॥

P4-1173 · 47
विघ्नात्मकाश्च ये देवाः स्वर्गे मर्त्ये रसातले ।
प्रशंसन्ति सदा सर्वे तं दृष्ट्वा साधकोत्तमम्
॥ ४७ ॥

P4-1174 · 48
इति ते कथितं देवि मया सम्यक्प्रकीर्त्तितम् ।
भुक्तिमुक्तिकरं साक्षात्कल्पवृक्षस्वरूपकम्
॥ ४८ ॥

P4-1175 · 49
आसाद्याद्यगुरुं प्रसाद्य य इदं कल्पद्रुमालम्बनं मोहेनापि
मदेन वापि रहितो जाड्येन वा युज्यते ।
सिद्धोऽसौ भुवि सर्वदुःखविपदां पारं प्रयात्यन्तको मित्रं
तस्य नृपाश्च देवि विपदो नश्यन्ति तस्याशु च
॥ ४९ ॥

P4-1176 · 50
तद्गात्रं प्राप्य शस्त्राणि ब्रह्मास्त्रादीनि वै भुवि ।
माल्यानि कुसुमान्येव भवन्ति सुखदानि च ।
तस्य गेहे स्थिरा लक्ष्मीर्वाणी वक्त्रे वसेद्ध्रुवम्
॥ ५० ॥

P4-1177 · 51
इदं कवचमज्ञात्वा तारां यो भजते नरः ।
अल्पायुर्निर्धनो मूर्खो भवत्येव न संशयः
॥ ५१ ॥

P4-1178 · 52
लिखित्वा धारयेद्यस्तु कण्ठे वा मस्तके भुजे ।
तस्य सर्वार्थसिद्धिः स्याद्यद्यन्मनसि वर्तते
॥ ५२ ॥

P4-1179 · 53
गोरोचनाकुंकुमेन रक्तचन्दनकेन वा ।
यावकैर्वा महेशानि लिखेन्मन्त्रं समाहितः
॥ ५३ ॥

P4-1180 · 54
अष्टम्यां मङ्गलदिने चतुर्दश्यामथापि वा ।
सन्ध्यायां देवदेवेशि लिखेद्यन्त्रं समाहितः
॥ ५४ ॥

P4-1181 · 55
मघायां श्रवणायां वा रेवत्यां वा विशेषतः ।
सिंहराशौ गते चन्द्रे कर्कटस्थे दिवाकरे
॥ ५५ ॥

P4-1182 · 56
मीनराशौ गुरौ याते वृश्चिकस्थे शनैश्चरे ।
लिखित्वा धारयेद्यस्तु उत्तराभिमुखो भवन्
॥ ५६ ॥

P4-1183 · 57
श्मशाने प्रान्तरे वापि शून्यगारे विशेषतः ।
निशायां यो लिखेद्यन्त्रं तस्य सिद्धिरचञ्चला
॥ ५७ ॥

P4-1184 · 58
भूर्जे पत्रे लिखेन्मन्त्रं गुरुणा च महेश्वरि ।
ध्यानधारणयोगेन धारयेद्यस्तु भक्तितः
॥ ५८ ॥

P4-1185 · 59
अचिरात्तस्य सिद्धिः स्यान्नात्र कार्या विचारणा
॥ ५९ ॥

P4-1186 · 1
इति श्रीरुद्रयामले तन्त्रे उग्रताराकवचं समाप्तम् ।
अथ त्रैलोक्यमोहनं नाम ताराकवचम् ।
देव्युवाच :
तारापूजा श्रुता नाथ विद्याश्च सकलास्ततः ।
साम्प्रतं श्रोतुमिच्छामि कवचं मन्त्रविग्रहम्
॥ १ ॥

P4-1187 · 2
त्रैलोक्यमोहनं नाम सर्वापद्विनिवारकम् ।
पुरैव सूचितं नाथ कृपया मे प्रकाशय
॥ २ ॥

P4-1188 · 3
भैरव उवाच :
देवदानव-विद्याधृक्पूजिते प्राणवल्लभे ।
त्रैलोक्यमोहनं नाम श्रूयतां कवचं परम्
॥ ३ ॥

P4-1189 · 4
सर्वविद्यामयं देवि सर्वमन्त्रमयं ध्रुवम् ।
सर्वरक्षाकरं देवि सर्वविद्याप्रदायकम्
॥ ४ ॥

P4-1190 · 5
वेदव्यासोऽपि यद्धृत्वा सर्वज्ञः पठनाद्यतः ।
यद्धृत्वा पठनादीशस्त्रैलोक्यविजयी प्रभुः ।
धनाधिपः कुबेरोऽपि देवाधिपः शचीपतिः ।
पठनाद्धारणात् नित्यं यतः सर्वे दिगीश्वराः ।
सर्वसिद्धियुताः सन्तः सर्वैश्वर्यमवाप्नुयुः
॥ ५ ॥

P4-1191 · 6
अस्य प्रसादादीशोऽहं भैरवाणां सुरेश्वरि ।
क्रोधाधिपो महाभीमो देवेषु कथितः प्रभुः
॥ ६ ॥

P4-1192 · 7
न दद्यात् परशिष्येभ्यो दद्याच्छिष्येभ्य एव च ।
अभक्तेभ्योऽपि पुत्रेभ्यो दत्त्वा मृत्युमवाप्नुयात्
॥ ७ ॥

P4-1193 · 8
त्रैलोक्यमोहनस्यास्य कवचस्य ऋषिः शिवः ।
छन्दो विराट् देवता च सोग्रतारा प्रकीर्त्तिता ।
चतुर्वर्गेषु विद्यायां विनियोगः प्रकीर्त्तितः
॥ ८ ॥

P4-1194 · 9
ॐ ह्रीं स्त्रीं मे शिरः पातु हूं फट् पातु ललाटकम् ।
सार्द्धपञ्चाक्षरी तारा पायान्नेत्रयुगं मम
॥ ९ ॥

P4-1195 · 10
ॐ ह्रीं स्त्रीं हूं श्रूती पायान्नमः पातु च नासिकाम् ।
तारा षडक्षरी पायाद्वदनं मुण्डभूषणा
॥ १० ॥

P4-1196 · 11
ह्रीं स्त्रीं हूं फट् वदनं पातु जिह्वां पातु महेश्वरी ।
ह्रीं स्त्रीं हूं मे गलं पायात्सापि नीलसरस्वती
॥ ११ ॥

P4-1197 · 12
स्त्रीं स्कन्धौ पातु नियतं तारैकाक्षररूपिणी ।
हूं घाटां मे सदा पातु बीजैकाक्षररूपिणी
॥ १२ ॥

P4-1198 · 13
ऐं ह्रीं स्त्रीं हूञ्च फट् पायाद्वाक्तारा मे भूजद्वयम् ।
श्रीं ह्रीं स्त्रीं हूं च फट् पायात्श्रीतारा मे स्तनद्वयम्
॥ १३ ॥

P4-1199 · 14
ह्रीं ह्रीं स्त्रीं हूञ्च फट् पायात्तारा च हृदयं मम ।
हूं ह्रीं स्त्रीं हूञ्च फट् बीजं तारा पृष्ठं सदावतु
॥ १४ ॥

P4-1200 · 15
क्लीं ह्रीं स्त्रीं हूञ्च फट् पायात्पार्श्वौ कामस्वरूपिणी ।
ॐ ह्रीं स्त्रीं हूं नमः पायात्महाषडक्षरी
॥ १५ ॥

P4-1201 · 16
ऐं सौः ॐ ऐं ह्रीं फट् स्वाहा कटिदेशं सदाऽवतु ।
अष्टाक्षरी महाविद्या साक्षाद्ब्रह्मस्वरूपिणी ।
खं हूं हौं ॐ ऐं श्रीं ह्रीं सा गुह्यदेशं सदाऽवतु ।
सप्ताक्षरी चोग्रतारा मूलविद्यास्वरूपिणी
॥ १६ ॥

P4-1202 · 17
ॐ ह्रीं हां हूं नमस्तारायै सकलपदन्ततः ।
दुस्तरः तारयपदं तारय प्रणवद्वयम् ।
स्वाहेति च महाविद्या जानुनी सर्वदाऽवतु
॥ १७ ॥

P4-1203 · 18
ऐं सौः ॐ ऐं क्लीं फट् स्वाहा जङ्घे पातु परात्मिका ।
ॐ ह्रीं स्त्रीं हूञ्च फट् तारा हंसाद्यन्ता नवाक्षरी ।
महोग्रतारा पादौ मे पातु मे नित्यं महेश्वरी
॥ १८ ॥

P4-1204 · 19
ऐं ह्रीं श्रीं ह्सौः स्हौः वद वद वाग्वादिनी च ।
कामबीजत्रयं नीलसरस्वतीस्वरूपकम् । ऐं ऐं ऐं काहि काहि
कलरीं स्वाहेति सर्वदा ।
चतुस्त्रींशल्लिपिमयी पातु ताराखिलं वपुः
॥ १९ ॥

P4-1205 · 20
इन्द्रो वामाक्षियुक्पृथ्वी सरस्वत्यनलप्रिया ।
कूर्चाद्यन्ता पातु चोर्ध्वं मूलविद्यादशाक्षरी
॥ २० ॥

P4-1206 · 21
तारां माया वधूः कूर्चं काली कामकला ततः ।
उग्रतारे भगं कामः परा लक्ष्मीः शिवांकुशौ ।
सा महाषोडशी प्रोक्ता तारादेव्या मयाधुना ।
विधिवद्ग्रहणादस्या मृत्युं मृत्युपथं नयेत्
॥ २१ ॥

P4-1207 · 22
एषा विद्या मया गुप्ता तन्त्रादियामलेषु ।
साम्प्रतं कथिता तुभ्यं कवचाङ्गतया प्रिये
॥ २२ ॥

P4-1208 · 23
इति ते कथितं देवि गुह्याद्गुह्यतरं परम् ।
त्रैलोक्यमोहनं नाम कवचं मन्त्रविग्रहम्
॥ २३ ॥

P4-1209 · 24
ब्रह्मविद्यामयं भद्रे केवलं ब्रह्मरूपिणम् ।
मन्त्रविद्यामयञ्चैत्कवचं मन्मुखोदितम् ।
गुरुमभ्यर्च विधिवत्कवचं प्रपठेद्यदि ।
त्रिः सकृद्वा यथा ज्ञानं भैरवस्तत्क्षणाद्भवेत्
॥ २४ ॥

P4-1210 · 25
सर्वपापविनिर्मुक्तः कुलकोटीः समुद्धरेत् ।
गुरुः स्यात् सर्वविद्यास्वप्यधिकारी जपादिषु
॥ २५ ॥

P4-1211 · 26
शतमष्टोत्तरञ्चास्य पुरश्चर्याविधिः स्मृताः ।
शतमष्टोत्तरं जप्त्वा भवेद् भूमिपुरन्दरः ।
त्रैलोक्यं विचरेद्वीरो गणनाथो यथा गुहः
॥ २६ ॥

P4-1212 · 27
गद्यपद्यमयी वाणी भवेद्गङ्गाप्रवाहवत् ।
पुष्पाञ्जल्यष्टकं दत्त्वा मूलेनैव पठेत् ततः ।
पञ्चवर्षसहस्राणां पूजायाः फलमाप्नुयात्
॥ २७ ॥

P4-1213 · 28
भूर्जे विलिख्य गुलिकां स्वर्णस्थां धारयेद्यदि ।
पुरुषो दक्षिणे बाहौ योषिद्वाम भुजे तथा ।
बहुपुत्रवती नारी पुरुषो धनपुत्रवान् ।
सर्वसिद्धीश्वरो भूत्वा विचरेद्भैरवो यथा
॥ २८ ॥

P4-1214 · 29
तद्गात्रं प्राप्य शस्त्राणि ब्रह्मास्त्रादीनि भैरवि ।
माल्यानि कुसुमान्येव भवन्ति सुखदानि च ।
तस्य गेहे चिरं लक्ष्मीर्वाणी वसेद्ध्रुवम्
॥ २९ ॥

P4-1215 · 30
इदं कवचमज्ञात्वा तारां यो भजतेऽधमः ।
अल्पायुनिर्धनो मूर्खो भवत्येव न संशयः
॥ ३० ॥


Bagalāmukhī und Mātaṅgī

P4-1216 · 1
इति भैरवीभैरवसंवादे ताराकल्पे त्रैलोक्यमोहनं नाम
ताराकवचं समाप्तम् ।
अथ बगलामुखीस्तोत्रम् ।
चलत्कनककुण्डलोल्लसितचारुगण्डस्थलीं
लसत्कनकचम्पमकद्युतिमदिन्दुबिम्बाननाम् ।
गदाहतविपक्षकां कलितलोलजिह्वञ्चलां स्मरामि बगलामुखीं
विमुखवाङ्मनस्स्तम्भिनीम्
॥ १ ॥

P4-1217 · 2
पीयूषोदधिमध्यचारुविलसद्रक्तोत्पले मण्डले यः
सिंहासनमौलिपातितरिपुं प्रेतासनाध्यासिनीम् ।
स्वर्णाभां करपीडितारिरसनां भ्राम्यद्गदां
बिभ्रतींमित्थं ध्यायति यान्ति तस्य सहसा सद्योथ सर्वापदः
॥ २ ॥

P4-1218 · 3
देवि त्वच्चरणाम्बुजार्चनकृते यः पीतपुष्पाञ्जलीन् भक्त्या
वामकरे निधाय च मनुं मन्त्री मनोज्ञाक्षरम् ।
पीठध्यानपरोऽथ कुम्भकवशाद्बीजं स्मरेत्पार्थिवं
तस्यामित्रमुखस्य वाचि हृदये जाड्यं भवेत्तत्क्षणात्
॥ ३ ॥

P4-1219 · 4
वादी मूकति रंकति क्षितिपतिर्वैश्वानरः शीतति क्रोधी शाम्यति
दुर्जनः सुजनति क्षिप्रानुगः खञ्जति ।
गर्वी खर्वति सर्वविच्च जडति त्वन्मन्त्रिणा यन्त्रितः श्रीनित्ये
बगलामुखि प्रतिदिनं कल्यामि तुभ्यं नमः
॥ ४ ॥

P4-1220 · 5
मन्त्रस्तावदलं विपक्षदलने स्तोत्रं पवित्रं च ते यन्त्रं
वादिनियन्त्रणं त्रिजगतां जैत्रं च चित्रं च ते ।
मातः श्रीबगलेति नाम ललितं यस्यास्ति जन्तोर्मुखे
त्वन्नामग्रहणेन संसदि मुख स्तम्भो भवेद्वादिनाम्
॥ ५ ॥

P4-1221 · 6
दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्र्यविद्रावणं
भूभृद्भीशमनं चलन्मृगदृशां चेतःसमाकर्षणम् ।
सौभाग्यैकनिकेतनं ममदृशोः कारुण्यपूर्णेक्षणं
मृत्योर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः
॥ ६ ॥

P4-1222 · 7
मातर्भञ्जय मद्विपक्षवदनं जिह्वां चलाः कीलय ब्राह्मीं
मुद्रय दैत्यदेवधिषणामुग्रां गतिं स्तम्भय ।
शत्रूञ्चूर्णय देवि तीक्ष्णगदया गौराङ्गि पीताम्बरे
विघ्नौघं बगले हर प्रणमतां कारुण्यपूर्णे क्षणे
॥ ७ ॥

P4-1223 · 8
मातर्भैरवि भद्रकालि विजये वाराहि विश्वाश्रये श्रीविद्ये समये
महेशि बगले कामेशि रामे रमे ।
मातङ्गि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदे दासोऽहं
शरणागतः करुणया विश्वेश्वरि त्राहि माम्
॥ ८ ॥

P4-1224 · 9
संरम्भे चौरसंघे प्रहरणसमये बन्धने व्याधिमध्ये
विद्यावादे वावादे प्रकुपितनृपतौ दिव्यकाले निशायाम् ।
वश्ये वा स्तम्भने वा रिपुवधसमये निर्जने वा जने वा
गच्छंस्तिष्ठन् त्रिकालं यदि पठति शिवं प्राप्नुयादाशुधीरः
॥ ९ ॥

P4-1225 · 10
नित्यं स्तोत्रमिदं पवित्रमिह यो देव्याः पठत्यादराद्धृत्वा
यन्त्रमिदं तथैव समरे बाहौ करे वा गले ।
राजानोऽप्यरयो मदान्धकरिणस्सर्पा मृगेन्द्रादिकास्ते वै यास्ति
विमोहिता रिपुगणा लक्ष्मीः स्थिरा सिद्धयः
॥ १० ॥

P4-1226 · 11
त्वं विद्या परमा त्रिलोकजननी विघ्नौघसंछेदिनी
योषित्कर्षणकारिणी जनमनःसम्मोहसन्दायिनी ।
स्तम्भोत्सारणकारिणी पशुमनःसम्मोहसन्दायिनी
जिह्वाकोलनभैरवी विजयते ब्रह्मादिमन्त्रो यथा
॥ ११ ॥

P4-1227 · 12
विद्या लक्ष्मीर्नित्यसौभाग्यमायुः पुत्रैः पौत्रैः
सर्वसाम्राज्यसिद्धिम् ।
मानो भोगो वश्यमारोग्यसौख्यं प्राप्तं
तत्तद्भूतलेऽस्मिन्नरेण
॥ १२ ॥

P4-1228 · 13
यत्कृतं जपसन्नाहं गदितं परमेश्वरि ।
दुष्टानां निग्रहार्थाय तद्गृहाण नमोस्तु ते
॥ १३ ॥

P4-1229 · 14
ब्रह्मास्त्रमिति विख्यातं त्रिषु लोकेषु दुर्लभम् ।
गुरुभक्ताय दातव्यं न देयं यस्य कस्यचित्
॥ १४ ॥

P4-1230 · 15
पीताम्बरां द्विभुजां च त्रिनेत्रां गात्रकोमलाम् ।
शिलामुद्गरहस्तां च स्मरेत्तां बगलामुखीम् ।
प्रातर्मध्याह्नकालेस्तव पठनमिदं कार्यसिद्धिप्रदं स्यात्
॥ १५ ॥

P4-1231 · 1
इति रुद्रयामले तन्त्रे श्रीबगलामुखीस्तोत्रं समाप्तम् ।
अथ मातङ्गीकवचम् ।
श्रीदेव्युवाच :
साधु साधु महादेव कथयस्व सुरेश्वर ।
मातङ्गीकवचं दिव्यं सर्वसिद्धिकरं नृणाम्
॥ १ ॥

P4-1232 · 2
ईश्वर उवाच :
शृणु देवि प्रवक्ष्यामि मातङ्गीकवचं शुभम् ।
गोपनीयं महादेवि मौनी जापं समाचरेत्
॥ २ ॥

P4-1233 · 3
अस्य श्रीमातङ्गीकवचस्य दक्षिणामूर्तिर्-ऋषिर्विराट् छन्दो
मातङ्गी देवता चतुर्वर्गसिद्धये विनियोगः ।
ॐ शिरो मातङ्गिनी पातु भुवनेशी तु चक्षुषी ।
तोडला कर्णयुगलं त्रिपुरा वदर्न मम
॥ ३ ॥

P4-1234 · 4
पातु कण्ठे महामाया हृदि माहेश्वरि तथा ।
त्रिपुरा पार्श्वयोः पातु गुदे कामेश्वरी मम
॥ ४ ॥

P4-1235 · 5
ऊरुद्वये तथा चण्डी जङ्घयोश्च रतिप्रिया ।
महामाया पादयुग्मे सर्वाङ्गेषु कुलेश्वरी
॥ ५ ॥

P4-1236 · 6
अङ्गं प्रत्यङ्गकं चैव सदा रक्षतु वैष्णवी ।
ब्रह्मरन्ध्रे सदा रक्षेन्मातङ्गीनाम संस्थिता
॥ ६ ॥

P4-1237 · 7
रक्षयेन्नित्यं ललाटे सा महापिशाचिनीति च ।
नेत्रयोः सुमुखी रक्षेद्देवी रक्षत्तु नासिकाम्
॥ ७ ॥

P4-1238 · 8
महापिशाचिनी पश्चात्मुखे रक्षतु सर्वदा ।
लज्जा रक्षतु मां दन्ताञ्चोष्ठौ सम्मार्जनीकरा
॥ ८ ॥

P4-1239 · 9
चिबुके कण्ठदेशे च ठकारत्रितयं पुनः ।
सविसर्गं महादेवि हृदयं पातु सर्वदा
॥ ९ ॥

P4-1240 · 10
नाभिं रक्षतु मां लोला कालिकाऽवतु लोचने ।
उदरे पातु चामुण्डा लिङ्गे कात्यायनी तथा
॥ १० ॥

P4-1241 · 11
उग्रतारा गुदे पातु पादौ रक्षतु चाम्बिका ।
भुजौ रक्षतु शर्वाणी हृदयं चण्डभूषणा
॥ ११ ॥

P4-1242 · 12
जिह्वायां मातृका रक्षेत्पूर्वे रक्षतु पुष्टिका ।
विजया दक्षिणे पातु मेधा रक्षतु वारुणे
॥ १२ ॥

P4-1243 · 13
नैर्-ऋत्यां श्रद्धया रक्षेद्वायव्यां पातु लक्ष्मणा ।
ऐशान्यां रक्षयेद्देवी मातङ्गी शुभकारिणी
॥ १३ ॥

P4-1244 · 14
रक्षेत्सुरेशी चाग्नेये बगला पातु चोत्तरे ।
ऊर्ध्वं पातु महादेवि देवानां हितकारिणी
॥ १४ ॥

P4-1245 · 15
पाताले पातु मां नित्यं वशिनी विश्वरूपिणी ।
प्रणवं च ततो माया कामबीजं च कूर्चकम्
॥ १५ ॥

P4-1246 · 16
मातङ्गिनी ङेयुतास्त्रं वह्निजायावधिर्मनुः ।
सार्द्धैकादशवर्णा सा सर्वत्र पातु मां सदा
॥ १६ ॥

P4-1247 · 17
इति ते कथितं देवि गुह्याद्गुह्यतरं परम् ।
त्रैलोक्यमङ्गलं नाम कवचं देवदुर्लभम्
॥ १७ ॥

P4-1248 · 18
य इदं प्रपठेन्नित्यं जायते सम्पदालयम् ।
परमैश्वर्यमतुलं प्राप्नुयान्नात्र संशयः
॥ १८ ॥

P4-1249 · 19
गुरुमभ्यर्च्य विधिवत्कवचं प्रपठेद्यदि ।
ऐश्वर्यं सुकवित्वं च वाक्सिद्धिं लभते ध्रुवम्
॥ १९ ॥

P4-1250 · 20
नित्यं तस्य तु मातङ्गी महिला मङ्गलं चरेत् ।
ब्रह्मा विष्णुश्च रुद्रश्च ये देवाः सुरसत्तमाः
॥ २० ॥

P4-1251 · 21
ब्रह्मराक्षसवेताला ग्रहाद्या भूतजातयः ।
तं दृष्ट्वा साधकं देवि लज्जायुक्ता भवन्ति ते
॥ २१ ॥

P4-1252 · 22
कवचं धारयेद्यस्तु सर्वसिद्धिं लभेद्ध्रुवम् ।
राजानोऽपि च दासत्वं षट्कर्माणि च साधयेत्
॥ २२ ॥

P4-1253 · 23
सिद्धो भवति सर्वत्र किमन्यैर्बहुभाषितैः ।
इदं कवचमज्ञात्वा मातङ्गी यो भजेन्नरः
॥ २३ ॥

P4-1254 · 24
अल्पायुर्निर्द्धनो मूर्खो भवत्येव न संशयः ।
गुरौ भक्तिः सदा कार्या कवचे च दृढा मतिः
॥ २४ ॥

P4-1255 · 25
तस्मै मातङ्गिनी देवी सर्वसिद्धिं प्रयच्छति
॥ २५ ॥

P4-1256 · ohne Nummer
इति नन्द्यावर्ते उत्तरखण्डे त्वरिफलदायिनी मातङ्गिनीकवचं
समाप्तम् ।
इति चतुर्थ प्ररिच्छेदः ।
इति महामहोपाध्याय-श्रीकृष्णानन्द-भट्टाचार्य विरचिते
तन्त्रसारे चतुर्थः परिच्छेदः ।


Pariccheda 5: Darbringungen, Mudrās, Kula-Lehren und Yoga

Darbringungen und ihre Formeln

P5-0001 · 1
पञ्चमः परिच्छेदः
अथ प्रसङ्गादुपचारादयो निरूप्यन्ते
अथ चतुःषष्ट्युपचाराः ।
सर्वोपचारमन्त्रास्त्रितारो पूर्वाः कल्पयामि नम इत्यन्ताः कार्याः
।
यथा : १ ।
ऐं ह्रीं श्रीं पाद्यं कल्पयामि नमः २ ।
एवं अर्घ्य कल्पयामि नमः ३ ।
इत्यादिक्रमेण ।
तथा सिद्धयामले :
त्रितारीञ्च मुखे कृत्वा देयस्य भुवनेश्वरी ।
कल्पयामि नमः पश्चादुपचारेष्मयं विधिरिति
॥ १ ॥

P5-0002 · 2
४ । आसानरोपणम् ५ ।
सुगन्धितैलभ्यङ्गम् ६ ।
मज्जनशालाप्रवेशनम् ७ ।
मज्जनमण्डपे मणिपीठोपवेशनम् ८ ।
दिव्यस्नानीयम् उद्वर्तनम् ९ ।
उष्णोदकस्नानम् १० ।
कनक कलसस्थितसर्वतीर्थाभिषेकम् ११ ।
धौतवस्त्रपरिमार्जनम् १२ ।
अरुणदुकूलपरिधानम् १३ ।
अरुणदुकुलोत्तरीयम्, १४ ।
आलेपमंडपप्रवेशनम् १५ ।
आलेपमणिपीठोपवेशनम् १६ ।
चन्दनागुरुकुंकुममृगमदकर्पूरकस्तूरीरोचनादिव्यगन्ध-
सर्वाङ्गानुलेपनम् १७ ।
केशभारस्य कालागुरुधूपमल्लिकामालतीजातीचम्पकाशोकशत
पत्रपूगकुहरोपुन्नागकह्लारयुथीसर्व
वर्तुकुसुममालाभूषणम् १८ ।
भूषणमण्डपप्रवेशनम्, १९ ।
ब्भूषणमणिपीठोपवेशनम् २० ।
नवरत्नमुकुटम् २१ ।
चन्द्रशकलम्, २२ ।
सीमन्तसिन्दूरम् २३ ।
तिलकरत्नम् २४ ।
कालाञ्जनम् २५ ।
कर्णपालीयुगलम् २६ ।
नासाभरणम् २७ ।
अधरयावकम् २८ ।
ग्रथनभूषणम् २९ ।
कनकचित्रपदकम् ३० ।
महापदकम् ३१ ।
मुक्तावलीम्, ३२ ।
एकावलीम् ३३ ।
देवच्छन्दकम् ३४ ।
केयूरयुगलचतुष्कम् ३५ ।
वलयावलीम् ३६ ।
ऊर्मिकावलीम् ३७ ।
काञ्चीदामकटीसूत्रम् ३८ ।
शोभाख्याभरणम् ३९ ।
पादकटकम्
॥ २ ॥

P5-0003 · 2-ka
४० । रत्ननूपुरम् ४१ ।
पादांगुरीयकम् ४२ ।
एककरे पाशम् ४३ ।
अन्यकरे अंकुशम् ४४ ।
इतरकरेषु पुण्ड्रेक्षुचापम् ४५ ।
अपरकरे पुष्पबाणान् ४६ ।
श्रीमन्माणिक्यपादुकाम् ४७ ।
स्वसमानवेशास्त्रावरणदेवताभिः सह सिंहासनारोहणम् ४८ ।
कामेश्वरपर्यङ्कोपवेशनम् ४९ ।
अमृताशनचषकम् ५० ।
आचमनीयम्, ५१ ।
कर्पूरवटिकाम् ५२ ।
आनन्दोल्लासविलासहासम् ५३ ।
मङ्गलारात्रिकम् ५४ ।
श्वेतच्छत्रम् ५५ ।
चामरयुगलम् ५६ ।
दर्पणम् ५७ ।
तालवृन्तम् ५८ ।
गन्धम् ५९ ।
पुष्पम् ६० ।
धूपम् ६१ ।
दीपम् ६२ ।
नैवेद्यम् ६३ ।
पानार्थम् ६४ ।
पुनराचमनीयम्, ताम्बूलम्, नमस्कारम्, कल्पयेत् ।
एतेषामुपचाराणामभावे एते मन्त्रा जप्याः ।
तदुक्तं नवरत्नेश्वरे :
चतुःषष्ट्युपचाराणामभावे तन्मनुं जपेत् ।
तत्तदेव फलं विन्द्यात्साधकः स्थिरमानसः
॥ २-क ॥

P5-0004 · 3
अथाष्टादशोपचाराः
आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ।
स्नानं वस्त्रोपवीतञ्च भूषणानि च सर्वशः ।
गन्धं पुष्पं तथा धूपं दीपमन्नञ्च तर्पणम् ।
माल्यानुलेपनञ्चैव नमस्कारविसर्जने ।
अष्टादशोपचारैस्तु मन्त्रीं पूजां समाचरेत्
॥ ३ ॥

P5-0005 · 4
अथ षोडशोपचाराः
पाद्यमर्घ्यं तथाचामं स्नानं वसनभूषणे ।
गन्धपुष्पधूपदीपनैवेद्याचमनं ततः ।
ताम्बूलमर्चना स्तोत्रं तर्पणञ्च नमस्क्रिया ।
प्रयोजयेच्च पूजायामुपचारांस्तु षोडश
॥ ४ ॥

P5-0006 · 5
अथ दशोपचाराः
पाद्यमर्घ्यं तथाचामं मधुपर्काचमनं तथा ।
गन्धादयो नैवेद्यान्ता उपचारा दशक्रमात्
॥ ५ ॥

P5-0007 · 6
अथ पञ्चोपचाराः :
गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च ।
अखण्डं फलमासाद्य कैवल्यं लभए ध्रुवम्
॥ ६ ॥

P5-0008 · 7
अथ मणिमुक्ताद्रव्याणां निर्माल्यकालकथनम् :
योगिनीतन्त्रे :
मणिमुक्तासुवर्णानि देवेदत्तानि यानि वै ।
न निर्माल्यं द्वादशाब्दं ताम्रपात्रं तथैव च
॥ ७ ॥

P5-0009 · 8
पटी शाटी च षण्मासं नैवेद्यं दत्तमात्रतः ।
मोदकं कृषरञ्चैव यामार्द्धेन महेश्वरि
॥ ८ ॥

P5-0010 · 9
पट्टवस्त्रं त्रिमासाच्च यज्ञसूत्रमहं स्मृतम् ।
यावदुष्णं भवेदन्नं परमान्नं तथैव च
॥ ९ ॥

P5-0011 · 10
मस्तकं रुधिरञ्चैव अहोरात्रेण पार्वति ।
मुहूर्तं दधि दुग्धञ्च आज्यं यामेन शङ्करि
॥ १० ॥

P5-0012 · 11
करवीरमहोरात्रं बिल्वपत्रं तथैव च ।
जवारक्तञ्च माध्यञ्च निर्माल्यं सार्द्धयामके
॥ ११ ॥

P5-0013 · 12
माल्यं वै करवीरस्य पद्मस्य बिल्वकस्य च ।
यामार्द्धेन महेशानि ताम्बूलं दत्तमात्रतः
॥ १२ ॥

P5-0014 · 13
न निर्माल्यञ्च दाडिम्वं तथा बिल्वफलं प्रिये ।
सौगन्धिकञ्च कदलीं प्रयत्नेन नियोजयेत्
॥ १३ ॥

P5-0015 · 1
अथ त्रिपुरसुन्दर्याः षोडशोपचारमन्त्राः
उद्यच्चन्दनकुंकुमारुणपयोधाराभिराप्ल्वावितां,
नानानर्घ्यमणिप्रवालघटितां दत्तां गृहाणाम्बिके ।
आमृष्टां सुरसुन्दरीभिरभितो हस्ताम्बुजैर्भक्तितो, मातः सुन्दरि
भक्तकल्पलतिके श्रीपादुकामादरात्
॥ १ ॥

P5-0016 · 2
देवेन्द्रादिभिरर्चितं सुरगणैरादाय सिंहासनं
चञ्चत्काञ्चनसञ्चयाभिरचितं चारुप्रभाभास्वरम् ।
एतच्चम्पककेतकीपरिमलं तैलं महानिर्मलं,
गन्धोद्वर्तनमादरेण तरुणी दत्तं गृहाणाम्बिके
॥ २ ॥

P5-0017 · 3
पश्चाद्देवि गृहाण शम्भुगृहिणि श्रीसुन्दरि प्रायशो,
गन्धद्रव्यसमूहनिर्भरतरं धात्रीफलं निर्मलम् ।
तत्केशान परिशोध्य कङ्कतिकया मन्दाकिनीस्रोतसि, स्नात्वा
प्रोज्वलगन्धकं भवतु ते श्रीसुन्दरि त्वन्मुदे
॥ ३ ॥

P5-0018 · 4
सुराधिपतिकामिनीकरसरोजनालीधृतां,
सचन्दनकुंकुमागुरुभरेण विभ्राजिताम् ।
महापरिमलोज्वलां सरसशुद्धकन्तूरिकां, गृहाण वरदायिनि
त्रिपुरसुन्दरि श्रीपदे
॥ ४ ॥

P5-0019 · 5
गन्धर्वामरकिन्नरप्रियतमासन्तानहस्ताम्बुजप्रस्तारैर्ध्रियमा-
नमुत्तमतरं काश्मीरजापिञ्जरम् ।
मातर्भास्वरभानुमण्डललसत्कान्तिप्रदानोज्वलं, चैनं
निर्मलमातनोतु वसनं श्रीसुन्दरि त्वन्मुदे
॥ ५ ॥

P5-0020 · 6
स्वर्णाकल्पितकुण्डले श्रुतियुगे हस्ताम्बुजे मुद्रिका, मध्ये
सरासना नितम्बफलके मञ्जीरमघ्रिद्वये ।
हारो वक्षसि कङ्कणौ क्वणरणत्कारौ करद्वन्द्वके, विन्यस्तं,
मुकुटं शिरस्यनुदिनं दत्तोन्मुदं स्तूयताम्
॥ ६ ॥

P5-0021 · 7
ग्रीवायां धृतकान्तिकान्तपटलं ग्रैवेयकं सुन्दरं, सिन्दूरं
विलसल्ललाटफलके सौन्दर्यमुद्राधरम् ।
राजत्कज्जवलमुज्ज्वलोत्पलदलश्रीमोचने लोचने, तद्दिव्यौषधिनिर्मितं
रचयतु श्रीशाम्भवि श्रीपदे
॥ ७ ॥

P5-0022 · 9
अमन्दतरमन्दरोन्मथितदुग्धसिन्धुद्भुवं निशाकरकरोपमं
त्रिपुरसुन्दरि श्रीपदे ।
गृहाण मुखमीक्षितुं मुकुरविम्बाविद्रुमैर्विनिर्मितमघच्छिदे
रतिकराम्बुजस्थायिनम् ।
कस्तूरीद्रवचन्दनागुरुसुधाधाराभिराप्लावितं,
चञ्चच्चम्पकपाटलादिसुरभिद्रव्यैः सुगन्धीकृतम् ।
देवस्त्रीगणमस्तकस्थितमहारत्नादिकुम्भव्रजैरम्भः शाम्भवि
विमलं संभ्रमेण दत्तं गृहाणाम्बिके
॥ ९ ॥

P5-0023 · 10
कह्लारोत्पलनागकेशरसरोजाख्यावलीमालतीमल्लीकैरवकेतकादि-
कुसुमैः रक्ताश्वमारादिभिः ।
पुष्पैर्माल्य भरेण वै सुरभिणा नानारसस्रोतसा,
ताम्राम्भोजनिवासिनीं भगवतीं श्रीसुन्दरीं पूजये
॥ १० ॥

P5-0024 · 11
मांसीगुग्गुलचन्दनागुरुरजःकर्पूरशैलेयजैर्माध्वीकैः सह
कुंकुमैः सुरभितैः सर्पिर्भिरामिश्रितः ।
सौरभ्यास्थितिमन्दिरे मणिमये पात्रेऽभवत्प्रीतये धूपोऽयं
सुरकामिनीविरचितः श्रीसुन्दरि त्वन्मुदे
॥ ११ ॥

P5-0025 · 12
घृतद्रवपरिस्फुरद्रुचिररत्नयष्ट्यान्वितो महातिमिरनाशनः
सुरनितम्बिनीनिर्मितः ।
सुवर्णचषकस्थितः सघनसारवर्त्यान्वितस्तवत्रिपुरसुन्दरि स्फुरतु
देवि दीपो मुदे
॥ १२ ॥

P5-0026 · 13
जातीसौरभनिर्भरं रुचिकरं शाल्योदनं निर्मलं, युक्तं
हिंगुमरीचजीरसुरभिद्रव्यान्वितैर्व्यञ्जनैः ।
पक्वान्नेन सपायसेनमधुना दध्याज्यसंमिश्रितं, नैवेद्यं
सुरकामिनीविरचितं श्रीसुन्दरि त्वन्मुदे
॥ १३ ॥

P5-0027 · 14
लवङ्गकलिकोज्ज्वलं बहुलनागवल्लीदलं सजातिफलकोमलं
सघनसारपूगीफलम् ।
सुधामधुरिमाकुलं रुचिरत्नपात्रस्थितं, गृहाण मुखपङ्कजे
स्फुरितमन्ब ताम्बूलकम्
॥ १४ ॥

P5-0028 · 15
शरत्प्रभवचन्द्रमःस्फुरितचन्द्रिकासुन्दरं,
दलत्सुरतरङ्गिणीललितमौक्तिकाडम्बरम् ।
गृहाण नवकाञ्चनप्रभवदण्डखण्डोज्ज्वलं,
महात्रिपुरसुन्दरि प्रकटमातपत्रं महत्
॥ १५ ॥

P5-0029 · 16
मातस्त्वन्मुदमातनोतु सुभगस्त्रीभिः सदान्दोलितं, शुभ्रं
चामरमिन्दुकुन्दसदृशं प्रस्वेददुःखापहम् ।
सद्योऽगस्त्य-वसिष्ठनारदशुकव्यासादिवाल्मीकिभिः स्वे चित्ते
क्रियमाण एव कुरुतां शर्माणि वेदध्वनिः
॥ १६ ॥

P5-0030 · 17
स्वाङ्गने वेणुमृदङ्ग शङ्खभेरीनिनादैरुपगीयमाना ।
कोलाहलैराकुलिता तवास्तुविद्याधरीनृत्यकलासुखाय
॥ १७ ॥

P5-0031 · 18
देविभक्तिरसभावितवृत्ते प्रीयतां यदि कुतोऽपि लभ्यते ।
तत्रनौन्यमपि सत्फलमेकं जन्मकोटिभिरपीह न लभ्यम्
॥ १८ ॥

P5-0032 · 19
एतैः षोडशभिः पद्यैरुपचारोपकल्पितैः ।
यः परां देवतां स्तौति स तेषां फलमाप्नुयात्
॥ १९ ॥


Rudrākṣa und Weihe

P5-0033 · 1
अथ रुद्राक्षमाहात्म्यम्
पद्मपुराणे :
शिखायां हस्तयोः कण्ठे कर्णयोश्चापि यो नरः ।
रुद्राक्षं धारयेद्भक्त्या स शैवं लोकमाप्नुयात्
॥ १ ॥

P5-0034 · 2
नववक्त्रन्तु रुद्राक्षं धारयेद्वामबाहुना ।
चतुर्दशमुखञ्चैव शिखायां धारयेद्बुधः
॥ २ ॥

P5-0035 · 3
एकवक्त्रः शिवः साक्षाद्ब्रह्महत्यां व्यपोहति ।
अवध्यत्वं प्रतिस्रोता वह्निस्तम्भं करोति च
॥ ३ ॥

P5-0036 · 4
द्विवक्त्रो हरगौरी स्याद्गोवधाद्यघनाशकृत् ।
त्रिवक्त्रोऽग्निस्त्रिजन्मोत्थपापराशिं विनाशयेत्
॥ ४ ॥

P5-0037 · 5
चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति ।
पञ्चवक्त्रस्तु कालाग्निरगम्याक्ष्यपापनुत्
॥ ५ ॥

P5-0038 · 6
षडवक्त्रस्तु गुहः साक्षाद्गर्भहत्यां व्यपोहति ।
सप्तवक्त्रस्त्वनन्तः स्यात् स्वर्णस्तेयाघनुत्सदा
॥ ६ ॥

P5-0039 · 7
विनायकोऽष्टवक्त्रः स्यात् सर्वानृतविनाशकृत् ।
भैरवो नववक्त्रस्तु शिवसायुज्यकारकः
॥ ७ ॥

P5-0040 · 8
दशवक्त्रः स्मृतो विष्णुर्भूतप्रेतपिशाचहा ।
एकादशमुखो रुद्रो नानायज्ञफलप्रदः
॥ ८ ॥

P5-0041 · 9
द्वादशास्यो भवेदर्कः सर्वक्रतुफलप्रदं ।
त्रयोदशमुखः कामःसर्वकामफलप्रदः
॥ ९ ॥

P5-0042 · 10
चतुर्दशास्यः श्रीकण्ठो वंशोद्धारकरः परः ।
निश्छिद्राश्च सुपक्वाश्च रुद्राक्षा धारणे स्मृताः
॥ १० ॥

P5-0043 · 11
अथ रुद्राक्षसंस्कारः
पञ्चामृतं पञ्चगव्यं स्नानकाले प्रयोजयेत् ।
रुद्राक्षस्य प्रतिष्ठयां मन्त्रं पञ्चाक्षरं तथा
॥ ११ ॥

P5-0044 · 12
त्र्यम्बकादिमन्त्रञ्च तथा तत्र प्रयोजयेत् ।
ॐ त्र्यम्बकं यजामहे सुगन्धिंपुष्टिवर्द्धनम् ।
उर्वारुकमिव वन्धनान्मृत्योर्मुंक्षीयमामृतात् ।
तथा :
ॐ हौं अघोरे हौं घोरे हूं घोरतरे ॐ ह्रैं ह्रीं श्रीं ऐं
सर्वतः सर्वसर्वेभ्यो नमस्ते रुद्ररुपिणे हूं हूं ।
अनेनापि च मन्त्रेण रुद्राक्षस्यद्विजोत्तमः ।
प्रतिष्ठां विधिवत्कुर्यात् ततोऽधिकफलं लभेत् ।
ततो यथा स्वमन्त्रेण धारयेद्भक्तिसंयुतः
॥ १२ ॥

P5-0045 · 13
ततो क्रमेण मन्त्राः :
ॐ ॐ भृशं नमः । १ ।
ॐ ॐ नमः । २ ।
ओंओं नमः । ३ ।
ॐ ह्रीं नमः । ४ ।
ॐ हूं नमः । ५ ।
ॐ हूं नमः । ६ ।
ॐ ॐ हूं हूं नमः । ७ ।
ॐ सं हूं नमः । ८ ।
ॐ हूं नमः । ९ ।
ॐ हं नमः । १० ।
ॐ ह्रीं नमः । ११ ।
ॐ ह्रीं नमः । १२ ।
ॐ क्षां क्षौं नमः । १३ ।
ॐ नमो नमः । १४ ।
॥ १३ ॥

P5-0046 · 14
रुद्राक्षे देहसंस्थे तु कुक्कुरो म्रियते यदि ।
सोऽपि रुद्रपदं याति किं पुनर्मानवा गुह
॥ १४ ॥

P5-0047 · 15
सप्तविंशतिरुद्राक्षमालया देह-संस्थया ।
यः करोति नरः पुण्यं सर्वं कोटिगुणं भवेत्
॥ १५ ॥

P5-0048 · 16
यो ददाति द्विजातिभ्यो रुद्राक्षद्भुवि षण्मुखम् ।
तस्य प्रीतो भवेद्रुद्रः स्वपदञ्च प्रयच्छति
॥ १६ ॥

P5-0049 · 17
विना मन्त्रेण यो धत्ते रुद्राक्षं भुवि मानवः ।
स याति नरकान् घोरान्यावदिन्द्राश्चतुर्दशः
॥ १७ ॥

P5-0050 · 18
इति रुद्राक्ष-माहात्म्यम् ।
अथ प्रकारान्तर-रुद्राक्ष-संस्कारे देवतामन्त्रादिकथनम् :
स्कन्दपुराणे-कार्तिकेय उवाच :
एकद्वित्रिचतुःपञ्चषटसप्तवसवो नव ।
दशैकादशद्वादशत्रयोदशचतुर्दश
॥ १८ ॥

P5-0051 · 19
एतेषाञ्च मुखानान्तु देवता कात्र शङ्कर ।
गुणञ्च कीदृशं तेषां कथयस्व यथार्थतः
॥ १९ ॥

P5-0052 · 20
श्रीशङ्कर उवाच :
शृणु षण्मुख तत्त्वेन वक्त्रे वक्त्रे यथा क्रमम्
॥ २० ॥

P5-0053 · 21
एकवक्त्रः शिवः साक्षात्ब्रह्महत्यां व्यपोहति
॥ २१ ॥

P5-0054 · 22
द्विवक्त्रो देवदेव्यौ च गोवधं नाशयेद्ध्रुवम् ।
त्रिवक्त्रो दहनः साक्षाद्ब्रह्महत्यां व्यपोहति
॥ २२ ॥

P5-0055 · 13
चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति ।
पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः ।
अगम्यगमनाच्चैव अभक्ष्यस्य च भक्षणात् ।
मुच्यते सर्वपापेभ्यः पञ्चवक्त्रस्य धारणात्
॥ १३ ॥

P5-0056 · 24
षड्वक्त्रः कार्तिकेयस्तु धारणाद्दक्षिणे भुजे ।
ब्रह्माहत्यादिभिः पापैर्मुच्यते नात्र संशयः
॥ २४ ॥

P5-0057 · 25
सप्तवक्त्रो महासेन वानन्तो नाम नागराट् ।
गुरुतल्पादिभिः पापैर्मुच्यते नात्र संशयः
॥ २५ ॥

P5-0058 · 26
अष्टवक्त्रो महासेन साक्षाद्देवो विनायकः ।
पृष्ठोदरकरेणापि संस्पृशेद्वा गुरोः स्त्रियम्
॥ २६ ॥

P5-0059 · 27
एवमादीनि पापानि अतिपापानि सर्वशः ।
विघ्नास्तु तस्य नश्यन्ति मुक्तो याति परां गतिम्
॥ २७ ॥

P5-0060 · 28
गुणा ह्येतेषु सर्वेषु अष्टवक्त्रस्य धारणात् ।
नववक्त्रो भैरवः स्याद्धारयेद्वामके भुजे
॥ २८ ॥

P5-0061 · 29
कापिलं मुक्तिदं प्रोक्तं मम तुल्यबलो भवेत् ।
लक्षकोटिसहस्राणि ब्रह्महत्यां करोति यः ।
तत्सर्वं दहते शीघ्रं नववक्त्रस्य धारणात्
॥ २९ ॥

P5-0062 · 30
दशवक्त्रो महासेन साक्षाद्देवो जनार्दनः ।
ग्रहाश्चैव पिशाचाद्या वेताला ब्रह्मराक्षसाः ।
पन्नगाश्च विनश्यन्ति दशवक्त्रस्य धारणात्
॥ ३० ॥

P5-0063 · 31
वक्त्रैकादशरुद्राक्षो रुद्रा एकादश स्मृताः ।
शिखायां धारयेन्नित्यं पुण्यफलं शृणु ।
अश्वमेधसहस्रस्य वाजपेयशतस्य च ।
हेमशृंग्याश्च लक्षस्य सम्यग्दत्तस्य यत्फलम् ।
तत्फलं समवाप्नोति वक्त्रैकादशधारणात्
॥ ३१ ॥

P5-0064 · 32
रुद्राक्षं द्वादशैर्वक्त्रैः कण्ठदेशे च धारयेत् ।
आदित्यस्तुष्यते नित्यं द्वादशर्का व्यवस्थिताः
॥ ३२ ॥

P5-0065 · 33
त्रयोदशमुखः कामः सर्वकामफलप्रदः ।
चतुर्दशास्यः वंशोद्धारकरः परः
॥ ३३ ॥

P5-0066 · 34
रुद्राक्षान् कण्ठदेशे दशनपरिमितानमस्तके विंशतिर्द्वे,
षट्षट्कर्णप्रदेशे करयुगलके द्वादश द्वादशैव ।
बाह्वोरिन्दोः कलाभिः पृथग्नियमितं चैकमेकं शिखायां
वक्षस्यष्टाधिकं यः कलयति कलुषं सः स्वयं नीलकण्ठः
॥ ३४ ॥

P5-0067 · 35
तत्र क्रमेणधारणमन्त्राः :
ॐ ऐं । १ ।
ॐ श्रीं । २ ।
ॐ ध्रुं ध्रुं । ३ ।
ॐ ह्रीं ह्रः । ४ ।
ॐ ह्रीं । ५ ।
ॐ ऐं ह्रीं । ६ ।
ॐ ह्रां । ७ ।
ॐ क्रं रं । ८ ।
ॐ ह्रां । ९ ।
ॐ ह्रीं । १० ।
ॐ श्रीं । ११ ॥
ॐ हां ह्रां । १२ ।
ॐ क्षौं स्तौं । १३ ।
ॐ डं मां । १४ ।
॥ ३५ ॥


Sühne, Begriffe und Viṣṇu-Verehrung

P5-0068 · 36
अथ नित्यं नैमित्तिकादिकर्मभङ्गे प्रायश्चित्तम् :
गौतमीये :
यद्यत्कर्मणि वैगुण्यं नित्ये नैमित्तिके तथा ।
सहस्रं प्रजपेन्मन्त्रं मूलञ्चायुतमेव च ।
नित्ये सहस्रं प्रजपेत् नैमित्तिके तथा युतम् ।
इति विष्णुविषयम् ।
अन्यत्र तु तन्त्रराजे :
नित्यातिक्रमदोषाणां शान्त्यै विद्यां शतं जपेत् ।
नैमित्तिकातिक्रमेण सहस्रं प्रजपेन्मनुम् ।
पापसङ्करे तु :
सर्वेषामेव पापानां सङ्करे समुपस्थिते ।
प्रायश्चित्तन्तु तन्त्रोक्तमयुतं मन्त्रजापतः
॥ ३६ ॥

P5-0069 · 37
अथ परिभाषाः :
गौतमीये :
परिभाषामथो वक्षे उपचारविधौ हरेः ।
द्रव्याणां यावती संख्या पात्राणां द्रव्यसंहतिः ।
हाटकं राजतं ताम्रमारकूटमृदादिना ।
उपचारविधावेतत्द्रव्यमाहुर्मनीषिणः
॥ ३७ ॥

P5-0070 · 38
आसने पञ्चपुष्पाणि स्वागते षट्चतुःपलम् ।
श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरीतम् ।
पाद्ये चार्घ्ये जलं तावद्गन्धपुष्पाक्षतं यवाः ।
दूर्वास्तिलाश्च चत्वारः कुशाग्रश्वेत सर्षपाः ।
जातीलवङ्गकक्कोलक्वाथतोयञ्च षट्पलम् ।
प्रोक्तमाचमनं कांस्ये मधुपर्के घृतं मधु ।
दघ्ना सह पलैकन्तु शुद्धं वारि तथा चमे
॥ ३८ ॥

P5-0071 · 39
परिमाणन्तु पञ्चाशत्पलं स्नानार्थमम्भसः ।
निर्मलेनोदकेनाथ सर्वत्र परिपूर्णता
॥ ३९ ॥

P5-0072 · 40
मलिनं गर्हितं सर्वं त्यजेत्पूजाविधौ हरेः ।
वितस्तिमात्रादधिकं वासोयुग्मञ्च नूतनम्
॥ ४० ॥

P5-0073 · 41
स्वर्णाद्याभरणान्येव मुक्तारत्नयुतानि च ।
चन्दनागुरुकर्पूरपङ्कगन्धः पलावधिः
॥ ४१ ॥

P5-0074 · 42
नानाविधानि पुष्पाणि पञ्चाशदधिकानि च ।
कांस्यादिनिर्मिते पात्रे धूपो गुग्गुलुकर्षभाक्
॥ ४२ ॥

P5-0075 · 43
यावद्भक्ष्यं भवेत्पुंसस्तावद्दद्याज्जनार्दने ।
नैवेद्यं विविधं वस्तु भक्ष्यादिकचतुर्विधम्
॥ ४३ ॥

P5-0076 · 44
कर्पूरादियुता वर्तिः सा च कार्पासनिर्मिता ।
सप्तावृत्त्या सुसंयुक्तो दीपः स्याच्चतुरंगुलः ।
शिलापिष्ठं वन्दनायां सप्तधा वर्तयेन्नरः ।
कार्यं ताम्रादिपात्रे तत्प्रीतये वनमालिनः
॥ ४४ ॥

P5-0077 · 45
दूर्वाक्षतप्रमाणन्तु विज्ञेयस्तु शताधिकम् ।
उत्तमोऽयं विधिः प्रोक्तो विभवे सति सर्वदा
॥ ४५ ॥

P5-0078 · 46
एषामभावे सर्वेषां यथा शक्त्या तु पूजयेत् ।
अनुकल्पं वर्जयेच्च द्रव्याणां विभवे सति
॥ ४६ ॥

P5-0079 · 47
अनेन विधिना यस्तु पूजयेदुपचारतः ।
सर्वभोगान्वितो भूत्वा व्रजेदन्ते हरेः पुरम्
॥ ४७ ॥

P5-0080 · 1
अथ विष्ण्वाराधनमन्त्राः :
तत्र गौतमीये :
सर्वान्तर्यामिने देव सर्वबीजमयं ततः ।
आत्मस्थाय परं शुद्धमानसं कल्पयाम्यहम् ।
इति आसनम्
॥ १ ॥

P5-0081 · 2
यस्य दर्शनमिच्छन्ति देवा ब्रह्महरादयः ।
कृपया देवदेवेश मदग्रे सन्निधीभव ।
यस्य ते परमेशान स्वागतं स्वागतं प्रभो ।
इति स्वागतम्
॥ २ ॥

P5-0082 · 3
कृतार्थोऽनुगृहीतोऽस्मि सफलं जीवितन्तु मे ।
यदागतोऽसि देवेश चिदानन्दमयाव्यय ।
अज्ञानाद्वा प्रमादाद्वा वैकल्यात् साधनस्य च ।
यदपूर्णं भवेत् कृत्यं तथाप्यभिमुखो भव ।
इत्यावाहनम्
॥ ३ ॥

P5-0083 · 4
यद्भक्तिलेश सम्पर्कात्परमानन्दसम्भवः ।
तस्यै ते परमेशान पाद्यं शुद्धाय कल्पये ।
इति पाद्यम्
॥ ४ ॥

P5-0084 · 5
देवानामपि देवाय देवानां देवतात्मने ।
आचामं कल्पयामीश सुधायाः श्रुतिहेतवे ।
इत्याचमनीयम्
॥ ५ ॥

P5-0085 · 6
तापत्रयहरं दिव्यं परमानन्दलक्षणम् ।
तापत्रयविमोक्षाय तवार्घ्यं कल्पयाम्यहम् ।
इत्यर्घ्यम्
॥ ६ ॥

P5-0086 · 7
सर्वकल्मषहीनाय परिपूर्णसुधात्मकम् ।
मधुपर्कमिमं देव कल्पयामि प्रसीद मे ।
इति मधुपर्कः
॥ ७ ॥

P5-0087 · 8
उच्छिष्टोऽप्यशुचिर्वापि यस्य स्मरणमात्रतः ।
शुद्धिमाप्नोति तस्मै ते पुनराचमनीयकम् ।
इति पुनराचमनीयम्
॥ ८ ॥

P5-0088 · 9
परमानन्दबोधाब्धि-निमग्न-निजमूर्तये ।
साङ्गोपाङ्गमिदं स्नानं कल्पयाम्यहमीश ते ।
इति स्नानीयम्
॥ ९ ॥

P5-0089 · 10
मायाचित्रपटाच्छन्न-निजगुह्योरुतेजसे ।
निरावरणविज्ञाय वासस्ते कल्पयाम्यहम् ।
इति वस्त्रम्
॥ १० ॥

P5-0090 · 11
यमाश्रित्य महामाया जगत्सम्मोहिनी सदा ।
तस्मै ते परमेशाय कल्पयाम्युत्तरीयकम् ।
इत्युत्तरीयम्
॥ ११ ॥

P5-0091 · 12
यस्य शक्तित्रयेणेदं सम्प्रोतमखिलं जगत् ।
यज्ञसूत्राय तस्मै ते यज्ञसूत्रं प्रकल्पये ।
इति यज्ञोपवीतम्
॥ १२ ॥

P5-0092 · 13
स्वभावसुन्दराङ्गाय नानाशक्त्याश्रयाय ते ।
भूषणानि विचित्राणि कल्पयामि सुरार्चित ।
इति भूषणानि
॥ १३ ॥

P5-0093 · 14
समस्तदेवदेवेश सर्वतृप्तिकरं परम् ।
अखण्डानन्दसम्पूर्णं गृहाण जलमुत्तमम् ।
इति जलम्
॥ १४ ॥

P5-0094 · 15
परमानन्दसौरभ्यपरिपूर्णदिगन्तरम् ।
गृहाण परमं गन्धं कृपया परमेश्वर ।
इति गन्धः
॥ १५ ॥

P5-0095 · 16
तुरीयगुणसम्पन्नं नानागुणमनोहरम् ।
आनन्दसौरभं पुष्पं गृह्यतामिदमुत्तमम् ।
इति पुष्पम्
॥ १६ ॥

P5-0096 · 17
वनस्पतिरसोदिव्यो गन्धाढ्यः सुमनोहरः ।
आघ्रेयः सर्वदेवानां प्रतिगृह्यताम् ।
इति धूपः
॥ १७ ॥

P5-0097 · 18
सुप्रकाशो महादीपः सर्वतस्मिरापहः ।
सवाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ।
इति दीपः
॥ १८ ॥

P5-0098 · 19
सत्पात्रसिद्धं सुहविर्विविधानेकभक्षणम् ।
निवेदयामि देवेश सानुगाय गृहाण तत् ।
इति नैवेद्यं
॥ १९ ॥

P5-0099 · 20
ततो जलं समस्तदेवदेवेश इत्यादिना
॥ २० ॥

P5-0100 · 21
तथा गौतमीये :
पूजा च पञ्चधा प्रोक्ता तासां भेदान्शृणुष्व मे
अभिगमनमुपादानं योगः स्वाध्याय एव च ।
इज्या पञ्चप्रकारार्चाः क्रमेण कथयामि ते ।
तत्राभिगमनं नाम देवतास्थानमार्जनम् ।
उपलेपननिर्माल्यदूरीकरणमेव च
॥ २१ ॥

P5-0101 · 22
उपादानं नाम गन्ध-पुष्पादि-चयनं तथा ।
योगो नाम स्वदेवस्य स्वात्मत्वेनैव भावना
॥ २२ ॥

P5-0102 · 23
स्वाध्यायो नामं मन्त्रार्थसन्धानपूर्वको जपः ।
सूक्तस्तोत्रादिपाठस्तु हरेः संकीर्त्तनं तथा ।
तत्त्वादिशास्त्राभ्याश्च स्वाध्यायः परिकीर्त्तितः
॥ २३ ॥

P5-0103 · 24
इज्यानाम स्वदेवस्य पूजनन्तु यथार्थतः ।
इति पञ्चप्रकारार्चाः कथितास्तव सुव्रते ।
सार्ष्टि-सामीप्य-सालोक्य-सायुज्य-सारुप्यदाः क्रमात्
॥ २४ ॥

P5-0104 · 1
अथ द्वादशशुद्धिः :
अथ द्वादशशुद्धिश्च विष्णवानामिहोच्यते ।
गृहोपसर्पणञ्चैव तथानुगमनं हरेः ।
भक्त्या प्रदक्षिणञ्चैव पादयोः शोधनं पुनः
॥ १ ॥

P5-0105 · 2
पूजार्थं पत्रपुष्पाणां भक्त्यैवोत्तोलननं हरेः ।
करयोः सर्वशुद्धीनामियं शुद्धिर्विशिष्यते
॥ २ ॥

P5-0106 · 3
तन्नामकीर्तनञ्चैव गुणानामपि कीर्तनम् ।
भक्त्या च कृष्णदेवस्य वचसः शुद्धिरिष्यते
॥ ३ ॥

P5-0107 · 4
तत्कथाश्रवणञ्चैव तस्योत्सवनिरीक्षणम् ।
श्रोत्रयोर्नेत्रयोश्चैव शुद्धिः सम्यगिहोच्यते
॥ ४ ॥

P5-0108 · 5
पादोदकस्य निर्माल्यमालानामपि धारणम् ।
उच्यते शिरसः शुद्धिः प्रणतस्य हरेः पुनः
॥ ५ ॥

P5-0109 · 6
आघ्राणं गन्धपुष्पादेर्निर्माल्यस्य तपोधन ।
विशुद्धिः स्यादन्तरस्य घ्राणस्यापि विधीयते
॥ ६ ॥

P5-0110 · 7
पत्रपुष्पादिकं यच्च कृष्णपादयुगार्पितम् ।
तदेकं पावनं लोके तद्धि सर्वं विशोधयेत्
॥ ७ ॥

P5-0111 · 8
ललाटे च गदा कार्या मूर्ध्निचापं शरांस्तथा ।
नन्दकञ्चैव हृन्मध्ये शङ्खं चक्रं भुजद्वये
॥ ८ ॥

P5-0112 · 9
शङ्खचक्रान्वितो विप्रः श्मशाने म्रियते यदि ।
प्रयागे या गति प्रोक्ता सा गतिस्तस्य गौतम
॥ ९ ॥

P5-0113 · 10
अथ विष्णोर्द्वात्रिंशदपराधाः :
तन्त्रान्तरे :
यानैर्वा पादुकाभिर्वा यानं भगवतो गृहे ।
देवोत्सवेष्व सेवा च अप्रणामस्तदग्रतः
॥ १० ॥

P5-0114 · 11
उच्छिष्टे चैव चाशौचे भगवद्वन्दनादिकम् ।
एकहस्तप्रणामश्च तत्पुरस्तात्प्रदक्षिणम्
॥ ११ ॥

P5-0115 · 12
पाद प्रसारणञ्चाग्रे तथा पर्यङ्कबन्धनम् ।
शयनं भक्षणञ्चैव मिथ्याभाषणमेव च
॥ १२ ॥

P5-0116 · 13
उच्चैर्भाषो मिथो जल्पो रोदनानि च विग्रहः ।
निग्रहानुग्रहौ चैव स्त्रीषु च क्रूरभाषणम्
॥ १३ ॥

P5-0117 · 14
कम्बलावरणञ्चैव परनिन्दा परस्तुतिः ।
अश्लीलभाषणञ्चैव अधोवायुविमोक्षणम्
॥ १४ ॥

P5-0118 · 15
शक्तौ गौणापचारश्च अनिवेदितभक्षणम् ।
तत्तत्कालोद्भवानाञ्च कलादीनामनर्पणम्
॥ १५ ॥

P5-0119 · 16
विनियुक्तावशिष्टस्य प्रदानं व्यञ्जनस्य च ।
स्पष्टीकृत्यासनञ्चैव परनिन्दा परस्तुतिः
॥ १६ ॥

P5-0120 · 17
गुरौ मौनं निजस्तोत्रं देवतानिन्दनं तथा ।
अपराधास्तथा विष्णोर्द्वात्रिंशत्परिकीर्तितः
॥ १७ ॥

P5-0121 · 18
इदमुपलक्षणम् ।
वासिष्ठे :
केशवाग्रे नृत्यगीतं न करोति हरेर्दिने वह्निना किं न दग्धाऽसौ
गतः किं न रसातलम्
॥ १८ ॥

P5-0122 · 19
नारदीये :
स्मरणं कीर्तनं विष्णोः कलौ मन्त्रजपादिकम् ।
दानन्तु प्रीतये तस्य नान्यथा गतिरिष्यते
॥ १९ ॥

P5-0123 · 20
गौतमीये :
शालग्रामशिलातोयमपीत्वा यस्तु मस्तके ।
प्रक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते
॥ २० ॥

P5-0124 · 21
विष्णोः पादोदकं पीतं कोटि जन्माघनाशनम् ।
तदेवाष्टगुणं पापं भूमौ बिन्दुनिपातनात्
॥ २१ ॥

P5-0125 · 22
धारणमन्त्रस्तु :
अकालमृत्युहरणं सर्वव्याधिविनाशनम् ।
विष्णुपादोदकं पीत्वा शिरसा धारयाम्यहम्
॥ २२ ॥

P5-0126 · 24
अगस्त्ये :
हत्यां हन्ति यदंघ्रिजापि तुलसी स्तेयञ्च तोयं पदे नैवेद्यं
बहुमद्यपानजनितं गुर्वङ्गनासजम् ।
श्रीशाधीननतिः स्थितिर्हरिजनैस्तत्सङ्गजं किल्विषं,
शालग्रामशिलानृसिंहमहिमा कोऽप्येष लोकोत्तरः
सनत्कुमारे :
केशवाग्रे नृत्यगीतं यः करोति कलौ नरः ।
पदे पदेऽश्वमेधस्य फलमाप्नोति नित्यशः
॥ २४ ॥

P5-0127 · 25
वासिष्ठे :
सुप्तः प्रबोधकालश्च मन्त्राणामभिधीयते ।
मन्त्रविद्याविभागेन द्विविधा मन्त्रजातयः
॥ २५ ॥

P5-0128 · 26
मन्त्राः पुंदेवताः प्रोक्ता विद्याः स्त्रीदेवता स्मृताः ।
स्त्रीपुंनपुंसकात्मानो मन्त्राः सर्वे समीरिताः
॥ २६ ॥

P5-0129 · 27
पुंमन्त्रा हुंफडन्ताः स्युर्द्विठान्ताः स्युः स्त्रियो मताः ।
नपुंसका नमोऽन्ताः स्युरित्युक्ता मनवस्त्रिधा ।
एतच्छून्या भवेद्विद्या महाशब्देति गीयते
॥ २७ ॥

P5-0130 · 28
एवं तन्त्रेऽपि :
अग्नीषोमात्मका मन्त्रा विज्ञेयाः क्रूरसौम्ययोः ।
कर्मणोर्वह्नितारान्त्यवियत्प्रायाः समीरिताः
॥ २८ ॥

P5-0131 · 29
आग्नेया मनवः सौम्या भूयिष्ठेन्द्वमृताक्षराः ।
आग्नेया संप्रबुध्यन्ते प्राणे चरति दक्षिणे
॥ २९ ॥

P5-0132 · 30
भागेऽन्यस्मिन् स्थिते प्राणे सौम्या बोधं प्रयान्ति हि ।
नाडीद्वयगते प्राणे सर्वे बोधं प्रयान्ति ते ।
प्रयच्छन्ति फलं सर्वे प्रभुद्धा मन्त्रिणां सदा
॥ ३० ॥

P5-0133 · 31
यद्वा :
प्राणापानसमायोगात् शिवशक्त्योश्च मेलनम् ।
प्रबोधकालो विज्ञेयः स्वापकालस्ततः परः
॥ ३१ ॥

P5-0134 · 32
तथा :
वामावहो यदा वायुर्ह्रस्वानां योजनं तदा ।
दक्षिणस्यां यदा वायुस्तदा दीर्घास्तु योजिताः ।
उभयस्थो यदा वायूस्तदा स्यादुभयात्मकः
॥ ३२ ॥

P5-0135 · 33
संपुटीकृत्य मन्त्रेण आदिलान्तान्सबिन्दुकान् ।
पुनश्चसविसर्गान्तान् क्ष-कारं केवलं पठेत् ।
एवं जप्तो यदीष्टश्चेत्प्रबुधः शीघ्रसिद्धिदः
॥ ३३ ॥


Sitzhaltungen und Mudrās

P5-0136 · 1
इति सुप्तप्रबोधकालः ।
अथ योगाङ्गासनानि :
पद्मासनं स्वस्तिकाख्यं भद्रं वज्रासनन्तथा ।
वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम्
॥ १ ॥

P5-0137 · 2
ऊर्वोरुपरि विन्यस्य सम्यक्पादतले उभे ।
अंगुष्ठौ च विबध्नीयाद्धस्ताभ्यां व्युत्क्रमात् ततः ।
पद्मासनमिदं प्रोक्तं योगिनां हृदयङ्गमम्
॥ २ ॥

P5-0138 · 3
जानूर्वोरन्तरे सम्यक् कृत्वा पादतले उभे ।
ऋजुकायो विशेद्योगी स्वस्तिकं तत्प्रचक्षते
॥ ३ ॥

P5-0139 · 4
सीवन्याः पार्श्वयोर्न्यस्य गुल्फयुग्मं सुनिश्चलम् ।
वृषणाधः पार्श्वपादौ पाणिभ्यां परिबन्धयेत् ।
भद्रासनं समुद्दिष्टं योगिभिः परिकल्पितम्
॥ ४ ॥

P5-0140 · 5
ऊर्वोः पादौ क्रमान्न्यस्य जानुनोः प्राङ्मुखांगुलि ।
करौ निदध्यादाख्यातं वज्रासनमनुत्तमम्
॥ ५ ॥

P5-0141 · 6
एकं पादमधः कृत्वा विन्यस्योरौ तथेतरम् ।
ऋजुकायो विशेन्मन्त्री वीरासनमितीरितम्
॥ ६ ॥

P5-0142 · 1
अथ मुद्राप्रकरणम् :
मुद्रापदव्युत्पत्तिमाह तन्त्रे :
मोदनात्सर्वदेवानां द्रावणात्पापसन्ततेः ।
तस्मान्मुद्रेति विख्याता मुनिभिस्तन्त्रवेदिभिः
॥ १ ॥

P5-0143 · 2
अथ मुद्राः प्रवक्ष्यामि सर्वतन्त्रेषु कल्पिताः ।
याभिर्विरचिताभिश्च मोदन्ते मन्त्रदेवताः
॥ २ ॥

P5-0144 · 3
अर्चने जपकाले च ध्याने काम्ये च कर्मणि ।
स्नाने चावाहने शङ्खे प्रतिष्ठायाञ्च रक्षणे ।
नैवेद्ये च तथान्यत्र तत्तत्कल्पप्रकाशिते ।
स्थाने मुद्राः प्रद्रष्टव्याः स्वस्वलक्षणलक्षिताः
॥ ३ ॥

P5-0145 · 4
आवाहन्यादिका मुद्रा न साधारणी मता ।
तथा षडङ्ग-मुद्राश्च सर्वमन्त्रेषु योजयेत्
॥ ४ ॥

P5-0146 · 5
एकोनविंशतिर्मुद्रा विष्णोरुक्ता मनीषिभिः ।
शङ्ख-चक्र-गदा-पद्म-वेणु-श्रीवत्सकौस्तुभाः ।
वनमाला तथा ज्ञानमुद्रा विल्वाह्वया तथा ।
गरुडाख्या परा मुद्रा विण्णोः सन्तोषवर्द्धिनी ।
नारसिंही च वाराही हायग्रीवी धनुस्तथा ।
वाणमुद्रा ततः पर्शुर्जगन्मोहनिका परा
॥ ५ ॥

P5-0147 · 6
काममुद्रा परा ख्याता शिवस्य दश मुद्रिकाः ।
लिङ्गयोनित्रिशूलाक्षमालेष्टाभीमृगाह्वयाः ।
खट्वाङ्गा च कपालाख्या डमरुः शिवतोषदाः
॥ ६ ॥

P5-0148 · 7
सूर्यस्यैकैव पद्माख्या सप्तमुद्रा गणेशितुः ।
दन्तपाशांकुशा विघ्नपर्शुलड्डूकसंज्ञिताः ।
बीजपूराह्वया मुद्रा विज्ञेया विघ्नपूजने
॥ ७ ॥

P5-0149 · 8
पाशांकुश-वराभीतिखड्गचर्म-धनुः-शराः ।
मौषली मुद्रिका दौर्गी मुद्राः शक्तेः प्रियङ्कराः
॥ ८ ॥

P5-0150 · 9
लक्ष्मीमुद्रार्चने लक्ष्म्या वाग्वादिन्याश्च पूजने ।
अक्षमाला तथा वीणा व्याख्या पुस्तकमुद्रिका ।
सप्तजिह्वाह्वया मुद्रा विज्ञेया वह्निपूजने
॥ ९ ॥

P5-0151 · 10
मत्स्यमुद्रा च कूर्माख्या लेलिहा मुण्डसंज्ञिका ।
महायोनिरिति ख्याता सर्वसिद्धिसमृद्धिदा
॥ १० ॥

P5-0152 · 11
शक्त्यर्चने महायोनिः श्यामादौ मुण्डमुद्रिका ।
मत्स्यकूर्मलेलिहाख्या मुद्राः साधारणी मताः
॥ ११ ॥

P5-0153 · 12
तारार्चने विशेषास्तु कथ्यन्ते पञ्च मुद्रिकाः ।
योनिश्च भूतिनी चैव बीजाख्या दैत्यधूमिनी ।
लेलिहानेति संप्रोक्ताः पञ्चमुद्रा विलोकिताः
॥ १२ ॥

P5-0154 · 13
दशमा मुद्रिका ज्ञेयास्त्रिपुरायाश्च पूजने ।
संक्षोभद्रावणाकर्षवश्योन्माद-महांकुशाः
॥ १३ ॥

P5-0155 · 14
खेचरी-बीजयोन्याख्या त्रिखण्डा परिकीर्त्तिता ।
कुम्भमुद्राभिषेके स्यात् पद्ममुद्रासने तथा ।
कालकर्णी प्रयोक्तव्या विघ्नप्रशमकर्मणि ।
गालिनी च प्रयोक्तव्या जलशोधनकर्मणि
॥ १४ ॥

P5-0156 · 15
श्रीगोपालार्चने वेणुर्नृहरेर्नारसिंहिका ।
वराहस्य स पूजायां वाराहाख्यां प्रयोजयेत्
॥ १५ ॥

P5-0157 · 16
हयग्रीवार्चने चैव हायग्रीवीं प्रदर्शयेत् ।
रामार्चने धनुर्बाणमुद्रे पर्शुस्तथार्चने ।
परशुरामस्य विज्ञेया जगन्मोहनसंज्ञिका ।
वासुदेवाह्व्या ध्याने कुम्भमुद्रा तु रक्षणे ।
सर्वत्र प्रार्थने चैव प्रार्थनाख्यां प्रयोजयेत् ।
उद्देशानुक्रमादासामुच्यन्ते लक्षणानि च
॥ १६ ॥

P5-0158 · 17
हस्ताभ्यामञ्जलिं बद्ध्वानामिकामूलपर्वणि ।
अंगुष्ठौ निक्षिपेत्सेयं मुद्रा त्वावाहनी स्मृता
॥ १७ ॥

P5-0159 · 18
अधोमुखी त्वियञ्चेत् स्यात् स्थापनी मुद्रिका स्मृता ।
उच्छ्रितांगुष्ठमुष्ट्योश्च संयोगात् सन्निधापनी
॥ १८ ॥

P5-0160 · 19
अन्तःप्रवेशितांगुष्ठा सैव संरोधिनी मता ।
उत्तानमुष्टियुगला सम्मुखीकरणी मता
॥ १९ ॥

P5-0161 · 20
देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिः ।
सव्यहस्तकृता मुष्टिर्दीर्घाधोमुखतर्जनी ।
अवगुण्ठनमुद्रेयमभितो भ्रामिता मता
॥ २० ॥

P5-0162 · 21
अन्योन्याभिमुखाश्लिष्टा कनिष्ठानामिका पुनः ।
तथैव तर्जनीमध्या धेनुमुद्रा प्रकीर्त्तिता ।
अमृतीकरणं कुर्यात् तया साधकसत्तमः
॥ २१ ॥

P5-0163 · 22
अन्योन्यग्रथितांगुष्ठा प्रसारितपरांगुली ।
महामुद्रेयमुदिता परमीकरणे बुधैः ।
प्रयोजयेदिमा मुद्रा देवताह्वानकर्मणि
॥ २२ ॥

P5-0164 · 23
अङ्गन्यासस्य मुद्राणां लक्षणं प्राक्समीरितम् ।
वैष्णवीनान्तु मुद्राणां कथ्यन्ते लक्षणान्यथ
॥ २३ ॥

P5-0165 · 1
वामांगुष्ठन्तु संगृह्य दक्षिणेन तु मुष्टिना ।
कृत्वोत्तानं ततो मुष्ठिमंगुष्ठन्तु प्रसारयेत् ।
वामांगुल्यस्तथा श्लिष्टाः संयुक्ताः स्युः प्रसारिताः ।
दक्षिणांगुष्ठसंस्पृष्टा ज्ञेयैषा शङ्खमुद्रिका
॥ १ ॥

P5-0166 · 2
हस्तौ तु सम्मुखौ कृत्वा सुभुग्नौ सुप्रसारितौ ।
कनिष्ठांगुष्ठकौ लग्नौ मुद्रैषा चक्रसंज्ञिका
॥ २ ॥

P5-0167 · 3
अन्योऽन्याभिमुखौ हस्तौ कृत्वा तु ग्रथितांगुली ।
अंगुष्ठौ मध्यमे भूयः सुलग्ने सुप्रसारिते ।
गदामुद्रेयमुदिता विष्णोः सन्तोषवर्द्धिनी
॥ ३ ॥

P5-0168 · 4
हस्तौ तु सम्मुखौ कृत्वा सन्नतप्रोत्थितांगुली ।
तलान्तमिलितांगुष्ठौ कृत्वैषा पद्ममुद्रिका
॥ ४ ॥

P5-0169 · 5
ओष्ठे वामकरांगुष्ठौ लग्नास्तस्य कनिष्ठिका ।
दक्षिणांगुष्ठसंयुक्ता तत्कनिष्ठा प्रसारिता ।
तर्जनीमध्यमानामाः किञ्चित्सङ्कोच्य चालिताः ।
वेणुमुद्रा भवत्येषा सुगुप्ता प्रेयसी हरेः
॥ ५ ॥

P5-0170 · 6
अन्योन्यपृष्ठकरयोर्मध्यमानामिकांगुली ।
अंगुष्ठेन तु बध्नीयात्कनिष्ठामूलसंस्हिते ।
तर्जन्यौ कारयेदेषा मुद्रा श्रीवत्संज्ञिता
॥ ६ ॥

P5-0171 · 7
अनामापृष्ठसंलग्ना दक्षिणस्य कनिष्ठिका ।
कनिष्ठयान्यया बद्धा तर्जन्या दक्षया तथा ।
वामानामाञ्च बध्नीयाद्दक्षिणांगुष्ठमूलके ।
अंगुष्ठमध्यमे वामे संयोज्य सरलाः पराः ।
चतस्रोऽप्यग्रसंलग्ना मुद्रा कौस्तुभसंज्ञिका
॥ ७ ॥

P5-0172 · 8
स्पृशेत्कण्ठादिपादान्तं तर्जन्यंगुष्ठया तथा ।
करद्वयेन मालावन्मुद्रेयं वनमालिका
॥ ८ ॥

P5-0173 · 9
तर्जन्यंगुष्ठकौ सक्तावग्रतो विन्यसेत्सुधीः ।
वामहस्ताम्बुजं वामजानुमूर्ध्नि विन्यसेत् ।
ज्ञानमुद्रा भवेदेषा रामचन्द्रस्य प्रेयसी
॥ ९ ॥

P5-0174 · 10
अंगुष्ठं वाममुद्दण्डितमितरकरांगुष्ठकेनाथ बद्ध्वा
तस्याग्रं पीडयित्वांगुलीभिरपि च ता वामहस्तांगुलीभिः ।
बद्ध्वा गाढं हृदि स्थापयतु विमलधीर्व्याहरन्मारबीजं
बिल्वाख्या मुद्रिकैषा स्फुटमिह गदिता गोपनीया विधिज्ञैः
॥ १० ॥

P5-0175 · 11
हस्तौ तु विमुखौ कृत्वा ग्रथयित्वा कनिष्ठिके ।
मिथस्तर्जनिके श्लिष्टे श्लिष्टावंगुष्ठकौ तथा ।
मध्यमानामिके द्वे तु द्वौ पक्षाविव चालयेत् ।
एषा गरुडमुद्रा स्यात् विष्णोः सन्तोषवर्द्धिनी
॥ ११ ॥

P5-0176 · 12
जानुमध्ये करौ कृत्वा चिबुकाष्ठौ समावुभौ ।
हस्तौ तु भूमिसंलग्नौ कम्पमानः पुनः पुनः ।
मुखं विवृतकं कुर्यात् लेलिहानाञ्च जिह्विकाम् ।
नारसिंही भवेदेषा मुद्रा तत्प्रीतिवर्द्धिनी ।
प्रकारान्तरम् :
अंगुष्ठाभ्यान्तु करयोस्तथाक्रम्य कनिष्ठिके ।
अधोमुखीभिः सर्वाभिर्मुद्रेयं नृहरेर्मता
॥ १२ ॥

P5-0177 · 13
देवोपरि करं वामं कृत्वोत्तानमधः सुधीः ।
नमयेदिति सम्प्रोक्ता मुद्रा वाराहसंज्ञिका ।
प्रकारान्तरम् :
दक्षहस्तञ्चोर्ध्वमुखं वामहस्तमधोमुखम् ।
अंगुल्यग्रन्तु संयुक्तं मुद्रा वाराहसंज्ञिका
॥ १३ ॥

P5-0178 · 14
वामहस्ततले दक्षा अंगुलीस्तास्त्वधोमुखीः ।
संरोप्य मध्यमां तासामुन्नम्याधो विकुञ्चयेत् ।
हयग्रीवप्रिया मुद्रा तन्मूर्तेरनुकारिणी
॥ १४ ॥

P5-0179 · 15
वामस्य मध्यमाग्रन्तु तर्जन्यग्रेण योजयेत् ।
अनामिकां कनिष्ठाञ्च तस्यांगुष्ठेन पीडयेत् ।
दर्शयेद्वामके स्कन्धे धनुर्मुद्रेयमीरिता ।
दक्षमुष्टेस्तु तर्जन्या दीर्घया बाणमुद्रिका
॥ १५ ॥

P5-0180 · 16
यद्वा ज्ञानार्णवे :
यथा हस्तगतं चापं तथा हस्तं कुरु प्रिये ।
चापमुद्रेयमाख्याता वामहस्ते व्यवस्थिता ।
यथा हस्तगता बाणास्तथा हस्तं कुरु प्रिये ।
बाणमुद्रेयमाख्याता रिपुवर्गनिकृन्तनी
॥ १६ ॥

P5-0181 · 17
तले तलन्तु करयोस्तिर्यक्संयोज्य चांगुलीः ।
संहताः प्रसूताः कुर्यान्मुद्रा परशुसंज्ञिका
॥ १७ ॥

P5-0182 · 18
उच्छ्रितांगुष्ठमुष्टि द्वे मुद्रा त्रैलोक्यमोहिनी
॥ १८ ॥

P5-0183 · 19
हस्तौ तु सम्पुटौ कृत्वा प्रसृतांगुलिके तथा ।
तर्जन्यौ मध्यमापृष्ठे अंगुष्ठौ मध्यामश्रितौ ।
काममुद्रेयमुदिता सर्वदेवप्रियङ्करी
॥ १९ ॥

P5-0184 · 1
महादेवप्रियाणान्तु कथ्यन्ते लक्षणान्यथ ।
उच्छ्रितं दक्षिणांगुष्ठं वामांगुष्ठेन बन्धयेत् ।
वामांगुलीर्दक्षिणाभिरंगुलीभिश्च बन्धयेत् ।
लिंगुमुद्रेयमाख्याता शिवसान्निध्यकारिणी
॥ १ ॥

P5-0185 · 2
मिथः कनिष्ठिके बद्ध्वा तर्जनीभ्यामनामिके ।
अनामिकोर्ध्व संश्लिष्टदीर्घमध्यमयोरधः ।
अंगुष्ठाग्रद्वयं न्यसेद्योनिमुद्रेयमीरिता
॥ २ ॥

P5-0186 · 3
अंगुष्ठेन कनिष्ठान्तु बद्ध्वा श्लिष्टांगुलित्रयम् ।
प्रसारयेत् त्रिशुलाख्या मुद्रैषा परिकीर्तिता
॥ ३ ॥

P5-0187 · 4
अंगुष्ठ तर्जन्यग्रेषु ग्रथयित्वांगुलित्रयम् ।
प्रसारयेदक्षमाला मुद्रेयं परिकीर्तिता
॥ ४ ॥

P5-0188 · 5
अधःस्थितो दक्षहस्तः प्रसृतोवरमुद्रिका
॥ ५ ॥

P5-0189 · 6
ऊर्ध्वीकृतो वामहस्तः प्रसृतोऽभयमुद्रिका
॥ ६ ॥

P5-0190 · 7
मिलितानामिकांगुष्ठं मध्यमाग्रे नियोजयेत् ।
श्लिष्टांगुल्युच्छ्रिते कुर्यान्मृगमुद्रयमीरिता
॥ ७ ॥

P5-0191 · 8
पञ्चांगुल्यो दक्षिणास्तु मिलिता ह्यूर्ध्वमुन्नताः ।
खट्वाङ्गमुद्रा विख्याता देवस्यातिप्रिया मता
॥ ८ ॥

P5-0192 · 9
पात्रवद्वामहस्तञ्च कृत्वाङ्ग वामके तथा ।
निधायोच्छ्रितवत्कुर्यान्मुद्रा कापालिकी मता
॥ ९ ॥

P5-0193 · 10
मुष्टिञ्च शिथिलां बद्ध्वा ईषदुच्छ्रितमध्यमाम् ।
दक्षिणां तूर्ध्वमुन्नम्य कर्णदेशे प्रचालयेत् ।
एषा मुद्रा डमरुका सर्वविघ्नविनाशिनी
॥ १० ॥

P5-0194 · 1
तथा गणेशमुद्राणामुच्यते लक्षणान्यथ ।
उत्तानोर्ध्वमुखी मध्या सरला बद्धमुष्टिका ।
दन्तमुद्रा समाख्याता सर्वागमविशारदैः
॥ १ ॥

P5-0195 · 2
वाममुष्टेस्तु तर्जन्या दक्षमुष्टेस्तु तर्जनीम् ।
संयोज्यांगुष्ठकाग्राभ्यां तर्जन्यग्रे स्वके क्षिपेत् ।
एषा पाशाह्वया मुद्रा विद्वद्भिः परिकीर्तिता
॥ २ ॥

P5-0196 · 3
ऋज्वीञ्च मध्यमां कृत्वा तर्जनीं मध्यपर्वणि ।
संयोज्याकुञ्चयेत् किञ्चित्मुद्रैषांकुशसंज्ञिका
॥ ३ ॥

P5-0197 · 4
तर्जनीमध्यमानामा कनिष्ठांगुष्ठमुष्टिका ।
अधोमुखी दीर्घरूपा मध्यमा विघ्नमुद्रिका
॥ ४ ॥

P5-0198 · 5
पर्शुमुद्रा निगदिता प्रसिद्धा लड्डुमुद्रिका ।
बीजपूराह्वया मुद्राप्रसिद्धत्वादुपेक्षिता
॥ ५ ॥

P5-0199 · 6
शाक्तेयीनाञ्च मुद्राणां कथ्यन्ते लक्षणान्यथ ।
पाशांकुशवराभीतिधनुर्बाणाः समीरिताः
॥ ६ ॥

P5-0200 · 7
कनिष्ठाऽनामिके बद्ध्वा स्वांगुष्ठेनैव दक्षतः ।
शिष्टांगुली तु प्रसृते संसृष्टे खड्गमुद्रिका
॥ ७ ॥

P5-0201 · 8
वामहस्तं तथा तिर्यकृत्वा चैव प्रसार्य च ।
आकुञ्चितांगुलीं कुर्याच्चर्ममुद्रेयमीरिता
॥ ८ ॥

P5-0202 · 9
मुष्टिं कृवा तु हस्ताभ्यां वामस्योपरि दक्षिणम् ।
कुर्यान्मुषलमुद्रेयं सर्वविघ्नविनाशिनी
॥ ९ ॥

P5-0203 · 10
मुष्टिं कृत्वा कराभ्याञ्च वामस्योपरि दक्षिणम् ।
कृत्वा शिरसि संयोज्य दुर्गामुद्रेयमीरिता
॥ १० ॥

P5-0204 · 11
चक्रमुद्रां तथा बद्ध्वा मध्यमे द्वे प्रसार्य च ।
कनिष्ठिके तथानीय तदग्रेऽंगुष्ठकौ क्षिपेत् ।
लक्ष्मीमुद्रा परा ह्येषा सर्वसम्पत्प्रदायिनी
॥ ११ ॥

P5-0205 · 1
वीणावादनबद्धस्तौ कृत्वा सञ्चालयेच्छिरः ।
वीणामुद्रेयमाख्याता सरस्वत्याः प्रियङ्करी
॥ १ ॥

P5-0206 · 2
वाममुष्टिं स्वाभिमुखीं कृत्वा पुस्तकमुद्रिका ।
दक्षिणांगुष्ठतर्जन्यावग्रलग्ने परांगुलीः
॥ २ ॥

P5-0207 · 3
प्रसार्य संहतोत्ताना एषा व्याख्यानमुद्रिका ।
श्रीरामस्य सरस्वत्या अत्यन्तप्रेयसी मता
॥ ३ ॥

P5-0208 · 1
मणिबन्धस्थितौ कृत्वा प्रसृतांगुलिकौ करौ ।
कनिष्ठांगुष्ठयुगले मिलित्वान्तः प्रसारयेत् ।
सप्तजिह्वाख्यमुद्रेयं वैश्वानरप्रियङ्करी
॥ १ ॥

P5-0209 · 1
कनिष्ठांगुष्ठकौ सक्तौ करयोरितरेतरम् ।
तर्जनीमध्यमानामाः संहता-भुग्नवर्जिताः ।
मुद्रैषा गालिनी प्रोक्ता शङ्खस्यो परिचालिता
॥ १ ॥

P5-0210 · 2
दक्षांगुष्ठं परांगुष्ठे क्षिप्त्वा हस्तद्वयेन तु ।
सावकाशामेकमुष्टिं कुर्यात् सा कुम्भमुद्रिका
॥ २ ॥

P5-0211 · 3
मुष्ट्योरूर्ध्वीकृतांगुष्ठौ तर्जन्यग्रे तु विन्यसेत् ।
सर्वरक्षाकरी ह्येषा कुम्भमुद्रा प्रकीर्तिता
॥ ३ ॥

P5-0212 · 4
प्रसृतांगुलिकौ हस्तौ मिथः श्लिष्टौ च सम्मुखौ ।
कुर्यात्स्वहृदये सेयं मुद्रा प्रार्थनसंज्ञिका
॥ ४ ॥

P5-0213 · 5
अञ्जल्यञ्जलिमुद्रा स्याद्वासुदेवाह्वया च सा
॥ ५ ॥

P5-0214 · 6
अंगुष्ठावुन्नतौ कृत्वा मुष्ट्योः संलग्नयोर्द्वयोः
तावेवाभिमुखौ कुर्यान्मुद्रेषा कालकर्णिका
॥ ६ ॥

P5-0215 · 7
दक्षिणा निविडा मुष्टिर्नासिकार्पिततर्जनी
॥ ७ ॥

P5-0216 · 8
मुद्रा विस्मयसंज्ञा स्याद्विस्मयवेशकारिणी
॥ ८ ॥

P5-0217 · 9
मुष्टिरूर्ध्वी कृतांगुष्ठा दक्षिणा नादमुद्रिका ।
तर्जन्यंगुष्ठसंयोगाग्रतो बिन्दुमुद्रिका
॥ ९ ॥

P5-0218 · 10
अधोमुखे वामहस्ते ऊर्ध्वास्यं दक्षहस्तकम् ।
क्षिप्त्वांगुलीरंगुलीभिः संग्रथ्य परिवर्तयेत् ।
एषा संहारमुद्रा स्याद्विसर्जनविधौ स्मृता
॥ १० ॥

P5-0219 · 11
दक्षपाणिपृष्ठदेशे वामपाणितलं न्यसेत् ।
अंगुष्ठौ चालयेत्सम्यक्मुद्रेयं मत्स्यरूपिणी
॥ ११ ॥

P5-0220 · 10
वामहस्तस्य तर्जन्यां दक्षिणस्य कनिष्ठिकाम् ।
तथा दक्षिणतर्जन्यां वामांगुष्ठं नियोजयेत् ।
उन्नतं दक्षिणांगुष्ठं वामस्य मध्यमादिकाः ।
अंगुलीर्योजयेत्पृष्ठे दक्षिणस्य करस्य च ।
वामस्य पितृतीर्थेन मध्यमानामिके तथा ।
अधोमुखे च ते कुर्याद्दक्षिणस्य करस्य च ।
कूर्मपृष्ठसमं कुर्याद्दक्षपाणिञ्च सर्वतः ।
कूर्ममुद्रेयमाख्याता देवताध्यानकर्मणि (पृष्ठे क्रोडे)
॥ १० ॥

P5-0221 · 13
अन्तरांगुष्ठमुष्टिन्तु कृत्वा वामकरस्य च ।
मध्यमाग्रं दक्षिणस्य तथालम्ब्य प्रयत्नतः ।
मध्यमेनाथ तर्जन्यामंगुष्ठाग्रेण योजयेत् ।
दक्षिणं योजयेत्पाणिं वाममुष्टौ तु साधकः ।
दर्शयेद्दक्षिणे भागे मुण्डमुद्रेयमुच्यते
॥ १३ ॥

P5-0222 · 1
ताराया योन्यादिमुद्रा यथा :
योनिमुद्रा च वक्तव्या दर्शयेत् तामधोमुखीम् ।
भूतिनी वक्तव्या बीजाख्यापि ।
परिवर्त्य करौ स्पष्टौ कनिष्ठाकृष्टमध्यमे ।
अनामायुगलञ्चाधस्तर्जनीयुगलं पृथक् ।
अन्योऽन्यं निविडं बद्ध्वांगुष्ठाग्रेऽनामिके ततः ।
दानवधूमकेत्वाख्या मुद्रैषा कथिता प्रिये ।
अस्यास्तु बन्धनान्मन्त्री बन्धनान्मुच्यते ध्रुवम्
॥ १ ॥

P5-0223 · 2
वक्त्रं विस्तारितं कृत्वाप्यधोजिह्वाञ्च चालयेत् ।
पार्श्वस्थं मुष्टियुगलं लेलिहनेति कीर्त्तिता
॥ २ ॥

P5-0224 · 3
एषा ताराराधने, अन्या लेलिहाना वक्तव्या ।
योनिर्मायाधरः सेन्दूर्वधुः कूर्चं क्रमाद्विदुः ।
बीजानि चोच्चरन्मन्त्री मुद्राबन्धनमाचरेत्
॥ ३ ॥

P5-0225 · 4
तर्जनीमध्यमानामाः समः कुर्यादधोमुखीः ।
अनामायां क्षिपेद्वृद्धाम् ऋज्वीं कृत्वा कनिष्ठिकाम् ।
लेलिहानाम मुद्रेयं जीवन्यासे प्रकीर्तिता
॥ ४ ॥

P5-0226 · 5
तर्जन्यानामिका-मध्या-कनिष्ठा क्रमयोगतः ।
करयोर्योजयत्येव कनिष्ठामूलदेशतः ।
अंगुष्ठाग्रे तु निक्षिप्य महायोनिः प्रकीर्तिता
॥ ५ ॥

P5-0227 · 1
वामकेश्वरतन्त्रोक्ताः प्रकाश्यन्तेऽत्र मुद्रिकाः ।
शृणु देवि प्रवक्ष्यामि मुद्राः सर्वार्थसिद्धिदाः
याभिर्विरचिताभिश्च सान्निध्यं त्रैपुरं भवेत्
॥ १ ॥

P5-0228 · 2
परिवर्त्य करौ स्पृष्टावंगुष्ठौ कारयेत्समौ ।
अनामान्तर्गते कृत्वा तर्जन्यौ कुटिलाकृती ।
कनिष्ठिके नियुञ्जीत निजस्थाने महेश्वरि ।
त्रिखण्डेयं समाख्याता त्रिपुराध्यानकर्मणि
॥ २ ॥

P5-0229 · 3
मध्यमामध्यगे कृत्वा कनिष्ठेऽंगुष्ठरोधिते ।
तर्जन्यौ दण्डवत्कृत्वा मध्यमोपर्यनामिके ।
एषा च परमा मुद्रा सर्वसक्षोभकारिणी
॥ ३ ॥

P5-0230 · 4
एतस्या एव मुद्राया मध्यमे सरले यदा ।
क्रियते परमेशानि सर्वविद्राविणी तदा
॥ ४ ॥

P5-0231 · 5
मध्यमातर्जनीभ्याञ्च कनिष्ठानामिके समे ।
अंकुशाकाररूपाभ्यां मध्यमे परमेश्वरि ।
अंगुष्ठन्तु नियुञ्जीत कनिष्ठानामिकोपरि ।
इयमाकर्षिणी मुद्रा त्रैलोक्याकर्षिणी परा
॥ ५ ॥

P5-0232 · 6
पुटाकारौ करौ कृत्वा तर्जन्यावंकुशाकृती ।
परिवर्तक्रमेणैव मध्यमे तदधोगते ।
क्रमेण देवि तेनैव कनिष्ठानामिके तथा ।
संयोज्य निविडाः सर्वा अंगुष्ठावग्रदेशतः ।
मुद्रेयं परमेशानि सर्ववश्यकरी मता
॥ ६ ॥

P5-0233 · 7
सम्मुखौ तु करौ कृत्वा मध्यमामध्यगेऽन्त्यजे ।
अनामिके तु सरले तद्बहिस्तर्जनीद्वयम् ।
दण्डाकारौ ततोंगुष्ठौ मध्यमानखदेशगौ ।
मुद्रैषोन्मादिनी नाम्नाकर्षिण सर्वयोषिताम्
॥ ७ ॥

P5-0234 · 8
अस्यास्त्वनामिकायुग्ममधः-कृत्वांकुशाकृती ।
तर्जन्यावपि तेनैव क्रमेण विनियोजयेत् ।
इयं महांकुशा मुद्रा सर्वकामार्थसाधनी
॥ ८ ॥

P5-0235 · 9
सव्यं दक्षिणदेशे तु सव्यदेशे तु दक्षिणम् ।
बाहुं कृत्वा महादेवि हस्तौ संपरिवर्त्य च ।
कनिष्ठानामिके देवि युक्त्वा तेन क्रमेण तु ।
तर्जनीभ्यां समाक्रान्ते सर्वोर्ध्वमपि मध्यमे ।
अंगुष्ठौ तु महेशानि सरलावपि कारयेत् ।
इयं सा खेचरी नाम्ना पार्थिवस्थानयोजिता
॥ ९ ॥

P5-0236 · 10
परिवर्त्य करौ स्पृष्टावर्द्धचन्द्राकृती प्रिये
तर्जन्यंगुष्ठयुगलं युगपत्कारयेत् ततः ।
अधःकनिष्ठावष्टब्धे मध्यमे विनियोजयेत् ।
तथैव कुटिले योज्ये सर्वाधस्तादनामिके ।
बीजमुद्रेयमचिरात्सर्वसिद्धिविवर्द्धिनी
॥ १० ॥

P5-0237 · 11
मध्यमे कुटिले कृत्वा तर्जन्युपरि संस्थिते ।
अनामिके मध्यगते तथैव हि कनिष्ठिके ।
सर्वा एकत्र संयोज्य अंगुष्ठपरिपीडिताः ।
एषा तु परमा मुद्रा योनिमुद्रेयमीर्तिता
॥ ११ ॥

P5-0238 · 12
एता मुद्रा महेशानि त्रिपुराया मयोदिताः ।
पूजाकाले प्रयोक्तव्या यथानुक्रमयोगतः
॥ १२ ॥

P5-0239 · 13
वामहस्तेन मुष्टिन्तु बद्ध्वा कर्णप्रदेशके ।
तर्जनीं सरलां कृत्वा भ्रामयेन्मनुवित्तमः ।
सौभग्यदण्डिनी मुद्रा न्यासकालेऽपि सूचिता
॥ १३ ॥

P5-0240 · 14
अन्तरांगुष्ठमुष्ट्या तु निरुध्य तर्जनीमिमाम् ।
रिपुजिह्वा ग्रहा मुद्रा न्यासकालेऽपि सूचिता
॥ १४ ॥

P5-0241 · 15
बद्ध्वा तु योनिमुद्रां वै मध्यमे कुटिले कुरु ।
अंगुष्ठौ च तदग्रे मुद्रेयं भूतिनी मता
॥ १५ ॥

P5-0242 · 16
वाममुष्टिं विद्यायाथ तर्जनीमध्यमे ततः ।
प्रसार्य तर्जनीमुद्रा निर्दिष्टा वज्रपाणिना
॥ १६ ॥


Yantras und ergänzende Ritualregeln

P5-0243 · 1
इति मुद्राप्रकरणम् ।
अथ धारणयन्त्रादि :
तत्रादौ भुननेश्वरीयन्त्रम् :
शारदायाम् :
आलिख्याष्टदिगर्गलान्युदरगं पाशादिकं त्र्यक्षरं,
कोष्ठेष्वङ्गमनून्परेषु विलिखेदष्टार्णमन्त्रद्वयम् ।
अच्पूर्वापरयट्क्-युग्लषवरान्
व्योमासनानर्गलेष्वालिख्येन्द्रजलादिपाधिगुणशः पंक्तिद्वयं
तत्परम्
॥ १ ॥

P5-0244 · 1-ka
कोष्ठेष्वष्टयुगार्णमात्मसहितां युग्मस्वरान्तर्गतां,
मायां केशरगां दलेषु विलिखेत्मूलं त्रिपक्तिक्रमात् ।
त्रिः पाशांकुशवेष्टितञ्च लिपिभिर्वीतं क्रमादुत्क्रमात्,
पद्मस्थेन घटेन पङ्कजमुखेनावेष्टिं तद्बहिः ।
घटार्गलमिदं यन्त्रं मन्त्रिणां श्रीपदं मतम् ।
पाशश्रीशक्तिकन्दर्पकामशक्तिरमांकुशाः ।
प्रथमोऽष्टाक्षरो मन्त्रस्ततः कामिनिरञ्जिनि ।
स्वाहान्तोऽष्टाक्षरः सद्भिपरः परिकीर्तितः ।
ह्रीं गौरि रुद्रदयिते योगेश्वरि सवर्म फट् ।
द्विठान्तः षोडशार्णोऽयं मन्त्रः सद्भिरुदीरितः
॥ १-क ॥

P5-0245 · 2
इति घटार्गलयन्त्रम् ।
अथ त्वरितायन्त्रम् :
तारे हूं विलिखेत्सरोजकुहरे साध्याभिधानान्वितं, मन्त्रर्णान्
वसुसंख्यकान् वसुदलेष्वालिख्य तद्बाह्यतः ।
शक्त्या त्रिः परिवेष्टितं घटगतं पद्मस्थमब्जाननं, यन्त्रं
वश्यकरं ग्रहादिभयहृल्लक्ष्मीप्रदं कान्तिदम्
॥ २ ॥

P5-0246 · 3
इति त्वरितायन्त्रम् ।
अथ नवदुर्गायन्त्रम् :
पद्मं भानुदलान्वितं प्रविलिखेत् तत्कर्णिकायां पुनस्तारं
शक्तिगबीजसाध्यसहितं तत्केशरेषु क्रमात् ।
मर्दिन्या मनुसम्भवान् युगलशो वर्णान् पुनः पत्रगान्,
मन्त्रार्णान् गुणशो विधाय विलिखेदन्त्यं तदन्त्ये दले ।
मन्त्रस्तु :
ॐ उत्तिष्ठ पुरुष कि स्वपिषि भयं मे समुपस्थितम् ।
यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ।
मातृकावर्ण-संवीतं भुपूरद्वयमध्यगम् ।
यन्त्रञ्च विन्ध्यवासिन्याः प्रोक्तं सर्वसमृद्धिदम् ।
रक्षाकरं विशेषेण क्षुद्रभूतादिनाशनम् ।
राज्यदं भ्रष्टराज्यानां वश्यदं वश्यमिच्छताम् ।
सुतार्थिनां च सुतदं रोगिणां रोगशान्तिदम् ।
बहुना किमिहोक्तेन यन्त्रं तत्कामदो मणिः
॥ ३ ॥

P5-0247 · 4
इति नवदुर्गायन्त्रम् । (नवदुर्गाधारणयन्त्रम् चित्र ५२)
अथ लक्ष्मीयन्त्रम् :
वेदादिस्थितसाध्यनाम युगशः श्रीशक्तिमारान्वितं, किञ्जल्केषु
दिनेशपत्रविलसन्मन्त्राक्षारं तद्बहिः ।
पद्मं व्यञ्जनकेशरं स्वरलसत्पत्राष्टयुग्मं
धराविम्बाभ्यां वषडन्तरा त्वरितया यन्त्रं लिखेद्वेष्टितम् ।
भूपुरद्वयकोणेषु हक्षौ लेख्यौ पुनः पुनः ।
महालक्ष्मीयन्त्रमिदं सर्वैश्वर्यफलप्रदम् ।
सर्वदुःखप्रशमनं सर्वापद्विनिवारकम् ।
बहुना किमिहोक्तेन परमस्मान्न विद्यते
॥ ४ ॥

P5-0248 · 5
इति लक्ष्मीयन्त्रम् ।
अथ त्रिपुरभैरवीयन्त्रम् :
मध्याद्यं नवयोनिषु प्रविलिखेद्वीजानि वर्णांस्त्रिशो, गायत्र्याः
पुनरष्टपत्रविवरेष्वालिख्य लिप्यावृतम् ।
भूविम्बद्वितयेन मन्मथयुजा कोणेषु संवेष्टितं, यन्त्रं
त्रैपुरमीरितं त्रिभुवन प्रक्षोभणं श्रीपदम् ।
(त्रिपुरभैरवीयन्त्रम् चित्र ५३) ।
गायत्री तु :
मन्मथं त्रिपुरादेवि विद्महे पदमुद्धरेत् ।
उक्त्वा कामेश्वरिपदं प्रवदेदथ धीमहि ।
अन्ते च प्रवदेद्भूयस्तन्नः किलन्ने प्रचोदयात् गायत्र्येषा
समाख्याता त्रैपुरी सर्वसिद्धिदा
॥ ५ ॥

P5-0249 · 6
अथ त्रिपुरायन्त्रम् :
वह्नेर्गेहयुगान्तरस्थसदने मायां लिखेद्वाग्भवं,
षट्कोणेष्वथ सन्धिषु प्रविलिखेत् ब्लूंकारमावेष्टयेत् ।
स्त्रींबीजेन समीरितं त्रिभुवनप्रक्षोभणं त्रैपुरं, यन्त्रं
पञ्चमनोभवात्मकमिदं सौन्दर्यसम्पत्करम्
॥ ६ ॥

P5-0250 · 7
इति त्रिपुरायन्त्रम् ।
अथ श्रीविद्यायन्त्रम् :
विशेषं धारणं यन्त्रं प्रसङ्गात्कथयामि ते ।
रेफहकारयोर्मध्ये देवीनामाभिमुख्यकम् ।
साध्यनामद्वितीयान्तं तस्योर्ध्वे विलिखेन्मनुम् ।
तत्रैव मातृकां सर्वां विलिखेच्चक्रवाह्यतः ।
पञ्चगव्यामृतेनैव मूलेन परिवेष्टयेत् ।
तत्र प्राणं प्रतिष्ठाप्य विद्यामष्टोत्तरं शतम् ।
तत्स्पृष्ट्वा प्रजपेन्मन्त्रं न्यासध्यानपरायणः
॥ ७ ॥

P5-0251 · 7-ka
हेम्नो मध्यगतं कृत्वा राजतस्याथवा पुनः ।
करे धृता जगद्वश्यं हृदये स्त्रीषु वल्लभः ।
कण्ठे धनं लभेद्भाले स्तम्भनं भवेत् ।
शिखायां मोक्षमाप्नोति तस्माद्यत्नेन धारयेत्
॥ ७-क ॥

P5-0252 · 8
इति श्रीविद्यायन्त्रम् ।
अथ गणेशयन्त्रम् :
बीजं षट्कोणमध्ये स्फुरदनलपुरे तारगं दिक्षु
लक्ष्मीर्मायाकन्दर्पभूमीस्तदनु रसपुटेष्वालिखेद्बीजषट्कम् ।
तत्सन्धिष्वङ्गमन्त्रान् वसुदलकमले मूलमन्त्रस्य वर्णान्,
शिष्टान् पत्रेषु विद्वान् विलिखतु गुणशश्चान्त्यमन्त्ये पलाशे ।
आवीतं लिपिभिः क्रमोत्क्रमवशात्पाशांकुशाभ्यामपि,
भूविम्ब द्वितयेन वेष्टितमिदं यन्त्रं गणाधीशितुः ।
लाक्षा-कुंकुम-रोचना-मृगमदैर्भूर्जोदरे हेम्नि वा,
संलिख्याभिवहन् लभते सकलैः संप्रार्थनीयां श्रियम् ।
उक्तं महागणपतेर्विधानं सुरपूजितम् ।
सर्वसिद्धिकरं पुंसां समस्तपुरुषार्थदम्
॥ ८ ॥

P5-0253 · 9
इति गणेशयन्त्रम् ।
अथ श्रीरामयन्त्रम् :
तारं मध्ये विलिखतु मनुं षट्सु कोणेषु सन्धिष्वङ्गं
मायां स्मरमपि च लिखेत्कोणगण्डेषु पश्चात् ।
किञ्चिल्केषु स्मरगणमथो पत्रमध्येषु मालामन्त्रस्यार्णान्
गुहमुखमितानष्टमे पञ्चवर्णान्
॥ ९ ॥

P5-0254 · 9-ka
दशाक्षरेण संवेष्ट्य कादिवर्णैश्च भूपुरे ।
दिग्विदिक्षु लिखेद्बीजेनरसिंहवराहयोः ।
नमो भगवते ब्रूयाच्चतुर्थ्या रघुनन्दनम् ।
रक्षोघ्नविशदायान्ते मधुरादि समीरयेत् प्रसन्नवदनायेति
पश्चादमिततेजसे ।
वलाय पश्चाद्रामाय विष्णवे तदनन्तरम् ।
प्रणवादिनमोऽन्तोऽयं मालामन्त्रः प्रकीर्तितः
॥ ९-क ॥

P5-0255 · 10
इति श्रीरामयन्त्रम् । (श्रीरामस्य धारणयन्त्रम् चित्र ५४)
अथ नृसिंहयन्त्रम् :
बीजं साध्यसमन्वितं प्रविलिखेन्मध्येऽष्टपत्रेष्वथो
मन्त्रार्णान् श्रुतिशो विभज्य विलिखेल्लिप्या वहिर्वेष्टयेत् ।
वाह्ये कोणगबीज-रुद्धवसुधागेह-द्वयेनावृतं, यन्त्रं
क्षुद्रविषग्रहामयरिपुप्रध्वंसनं श्रीपदम्
॥ १० ॥

P5-0256 · 11
इति नृसिंहयन्त्रम् । (नृसिंहधारणयन्त्रम् चित्र ५५)
अथ गोपालयन्त्रम् :
पिण्डं मूलेन वीतं दहनपुरयुगे कोणराजत्-षडर्णं,
कुर्यात्पद्मं दशार्णस्फुरितदशदलं कामबीजेन वीतम् ।
पद्मं किञ्जल्कसंस्थं स्मरविकृतिदलप्रोल्लसत्षोडशार्णं,
किञ्जल्कव्यञ्जनाढ्यं विकृतियुगदलेष्वर्पितानुष्टुवर्णम् ।
पाशांकुशाभ्यामावीतं क्षुणीपुरयुगाश्रिषु ।
अष्टाक्षरेण लसितं यन्त्रं गोपालदैवतम् ।
धर्मार्थकामफलदं सर्वरक्षाकरं परम् ।
पञ्चान्तको धरासंस्थो मनुरिन्दुविभूषितः ।
पिण्डबीजमिदं प्रोक्तं सर्वसिद्धिकरं परम् ।
स्मरः कृष्णाय ठद्वन्द्वं षडर्णो मनुरीरितः ।
गोपोजनान्ते प्रवदेद्वल्लभायाग्निवल्लभा ।
अयं दशाक्षरो मन्त्रोः दृष्टादृष्टफलप्रदः ।
प्रणवं हृदयं कृष्णं ङेऽन्तमुक्त्वा ततः परम् ।
तादृशं देवकीपुत्रं हुं-फट्-स्वाहा समन्वितम् ।
षोडशाक्षरमन्त्रोऽयं गोविन्दस्य समीरितः ।
पिण्डं रतिपतेर्बीजं नमो भगवते ततः ।
नन्दपुत्राय बालादिवपुषे श्यामलाय च ।
गोपीजनपदस्यान्ते वल्लभाय द्विठावधिः ।
अनुष्टुप्मन्त्र आख्यातो गोपालस्य जगत्पतेः ।
अनङ्गः कृष्णगोविन्दौ ङेऽन्तावष्टाक्षरी मनुः
॥ ११ ॥

P5-0257 · 12
इति गोपालयन्त्रम् ।
अथ श्रीकृष्णयन्त्रम् :
प्राक्प्रत्यग्दक्षिणोदग्विधिवदभिलिखेत् स्पष्टरेखाचतुष्क,
कोणोद्यच्छूलयुक्तं वलययुगयुतं मध्यपूर्वं तदन्तम् ।
श्लोकस्यार्णान्पुरस्ताद्वसुपदविवरेष्वष्टवर्णं लिखित्वा,
तद्बाह्ये द्वादशार्णैस्तदनु परिवृतं देवकीपुत्रयन्त्रम् ।
तत्सुकीदेवदेवेतं तं वेदे वरतोरतं तं रतो रूढतोऽख्यातं
तं ख्यातो देवकीसुतम् ।
लिखितं भूर्जपत्रादौ यन्त्रमेतद्यथाविधि ।
विधृतं बाहुना नित्यं सर्वकामफलप्रदम् ।
पलाशवृक्षफलके लिखितं साधुसाधितम् ।
गोस्थाने निखनेदेतत्गवां वृद्धिर्भवेत् तदा
॥ १२ ॥

P5-0258 · 13
इति श्रीकृष्णयन्त्रम् । (श्रीकृष्णयन्त्रम् चित्र ५६)
अथ शिवयन्त्रम् :
तत्रादौ षट्कोणमण्डलं कृत्वा तदन्तः साध्यनामयुक्तं
प्रासादबीजं विलिख्य षट्कोणेषु
प्रणवसहितपञ्चाक्षरवर्णान्विलिख्य कोणविवरेषु
षडङ्गमन्त्रांस्तद्बहिः पञ्चदलानि विरचय्य तद्दलेषु ॐ
ईशानाय नमः ॐ तत्पुरुषाय नमः ॐ अघोराय नमः ॐ
सद्योजाताय नमः ॐ वामदेवाय नमः ।
इति पञ्चमन्त्रान् प्रागादिक्रमेण लिखेत् ।
तद्बहिरष्टदलानि रचयित्वा दलेषु मातृकाष्टवर्णान्लिखेत्
॥ १३ ॥

P5-0259 · 13-ka
तद्बहिर्वृत्तं त्र्यम्बकेन वेष्टयेत् ।
एतद्यन्त्रं जपहोमादिना सम्पूज्य धारयेत्,
आयुरारोग्यैश्वर्यादिचतुर्वर्गादिसिद्धिर्भवति
॥ १३-क ॥

P5-0260 · 14
इति शिवयन्त्रम् । (शिवस्य धारण-यन्त्रम् चित्र ५७)
अथ मृत्युञ्जययन्त्रम् :
मध्ये साध्याक्षराढ्यं ध्रुवमभिविलिखेन्मध्यमं
दिग्दलेषु, कोणेष्वन्त्यं मनोस्तत्क्षितिभवनमथो दिक्षु चान्द्रं
विदिक्षु ।
टान्तं यन्त्रं तदुक्तं सकलभयहरं
क्ष्वेडभूतापमृत्युव्याधिव्यामोहदुःख-प्रशमन-मुदितं
श्रीपदं कीर्तिदायि
॥ १४ ॥

P5-0261 · 15
इति मृत्युञ्जययन्त्रम् । (मृत्युञ्जयधारण-यन्त्रम् चित्र ५८) ।
अथ कालीयन्त्रम् :
तत्र यामले :
आद्यं बीजं ससाध्यं प्रथमवसुगृहे तद्बहिश्चाष्टकोणे,
पूर्वाद्यञ्चाष्टबीजं तदनु वसुगृहद्वन्द्वके बीजषट्कम् ।
किञ्जल्कं तत्स्वराढ्यं वसुदलविवरे स्वाहया बीजषट्कं
कूर्चाभ्यामेव वीतं क्षितिगृहयुगयोरन्तरे यन्त्रराजम् ।
देवीबीजत्रयं तत्प्रतिदिशमपरं शक्तिबीजद्वयं तत् कोणे कोणे
लिखेद्यस्त्रिजगति स गुरुः शङ्करस्यापि विष्णोः
॥ १५ ॥

P5-0262 · 16
इति कालीयन्त्रम् । (काल्या धारण-यन्त्रम् चित्र ५९) ।
अथ शान्तिकादौ ताराधारणयन्त्रम् :
तदुक्तं फेत्कारिणीये :
योनियुग्मे लिखेन्मन्त्रं मन्त्री हेमशलाकया ।
क्लीवहीनान्दीर्घवर्णान् षट्कोणे विलिखेत् ततः ।
अष्टपत्रेष्वष्टवर्णान् तद्बहिर्भूपुरद्वयम् ।
अष्टवज्रं भूपुरे च विलिख्य साधकोत्तमः ।
सुवर्णपट्टे भूर्जे वा रौप्ये वाप्यथ सुव्रते ।
विलेखेद्धमलेखन्या गन्धाष्टकसमन्वितम् ।
दूर्वाकाण्डेन वालिख्य कुशुमूलेन वा पुनः ॥ (ताराया-
धारणयन्त्रम् चित्र ६०) ।
एकवीराकल्पे :
वेष्टितं पीतवस्त्रेण जतुना परिवेष्टयेत् ।
वध्नीयात् पट्टसूत्रेण शिशूनां कण्ठभूषणं स्त्रीणां
वामभुजे चैवमन्येषां दक्षिणे भुजे बन्ध्यापि लभते पुत्रं
निर्धनो धनवान्भवेत् ।
इयं लब्धां परा रक्षा ज्ञानार्थं गौतमादिभिः ।
प्रीत्यर्थं पार्थिवैरन्यैः संग्रामे जयकांक्षिभिः ।
अस्यार्थः :
योनियुग्मे षट्कोणे ।
तन्मध्ये हेमशलाकादिना भूर्जपत्रादौ
कुंकुमगोरोचनारक्तचन्दन जटामांसीसमांशं विधाय
पंक्तिक्रमेण मूलमन्त्रं लिखित्वा तस्य हृल्लेखारेफमध्ये
अमुकस्य रक्षां कुरु कुरु अमुकीनां शुभं पुत्रमुत्पादय इति
वा अस्य ज्ञानं कुरु कुरु इत्यादि वा साध्यसहितं विलिख्य षट्कोणे
क्लीवहीनान् आ ई ऊ ऐ औ अः इति दीर्घवर्णानेकैकं लिखेत् ।
तदुक्तम् :
स्वराणां मध्यगं यच्च तच्चतुष्कं नपुंसकमिति ।
अष्टपत्रेष्वष्टवर्णान् ऐं ह्रीं ॐ ऐं ह्रीं फट् स्वाहेति लिखेत् ।
तदुक्तम् :
वाग्भवं कुलदेवीञ्च तारकं वाग्भवं तथा ।
हृल्लेखा चास्त्र मन्त्रान्ते वह्निजायावधिर्मनुः ।
अष्टाक्षरो मनुः प्रोक्तो मन्त्राणां सार ईरितः
॥ १६ ॥

P5-0263 · 17
अथ यन्त्रलेखनद्रव्यम् :
काश्मीर-रोचना-लाक्षा-मृगेभमद-चन्दनैः ।
विलिखेद्धेमलेखन्या यन्त्राणि तानि देशिकः ।
भूमिस्पृष्टं शवस्पृष्टं दग्धं निर्माल्यसङ्गतम् ।
विदीर्णं लङ्घितं मन्त्री यन्त्रं नैव च धारयेत् ।
सौवर्णे राजते पात्रे भूर्जे वा सम्यगालिखेत् ।
अथवा ताम्रपट्टेन गुटिकीकृत्य धारयेत् ।
यावज्जिवन्तु सौवर्णे रौप्ये विंशतिवार्षिकाम् ।
भूर्जे द्वादशवर्णानि तदर्द्धं ताम्रपट्टके
॥ १७ ॥

P5-0264 · 18
इति यन्त्रलेखनद्रव्यम् ।
अथ प्रयोगानन्तरं शान्त्युदकस्नानम् :
तद्यथा :
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।
वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः ।
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ।
आखण्डलोऽग्निर्भगवान यमो वै निर्-ऋतिस्तथा ।
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ।
ब्रह्मणा सहिता ह्येते दिक्पालाः पान्तु ते सदा ।
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्षमा मतिः ।
बुद्धिर्लज्जा वपुः शान्तिर्माया निद्रा च भावना ।
एतास्त्वामभिसिञ्चन्तु देवपत्न्याः समागताः ।
आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः ।
एते त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः ।
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।
ऋषयो मुनयो गावो देवमातर एव च ।
देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसोऽङ्गनाः ।
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ।
औषधानि च रत्नानि कालस्यावयवाश्च ये ।
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ।
एते त्वामभिषिञ्चन्तु धर्मकामार्थसिद्धये
॥ १८ ॥

P5-0265 · 1
इति वसिष्ठसंहितोक्ताभिषेकमन्त्राः ।
अथात्र संक्षेपतो नित्यपूजाविधिः :
तदुक्त यामले :
आदावृष्यादिविन्यासः करशुद्धिस्ततः परम् ।
अंगुलिव्यापकन्यासौ हृदादिन्यास एव च ।
तालत्रयञ्च दिग्बन्धः प्राणायामस्ततः परम् ।
ध्यानं पूजा जपश्चेति सर्वतन्त्रेष्वयं क्रमः
॥ १ ॥

P5-0266 · 2
पूजा च मूलदेवताया एव ।
मातृकान्यासोऽप्यावश्यकस्तथा च :
जपार्थं सर्वमन्त्राणां विन्यासञ्च लिपेर्विना ।
कृतं तन्निष्फलं विद्यात्तस्मादादौ लिपिं न्यसेत्
॥ २ ॥

P5-0267 · 3
श्रीविद्यायाः संक्षेप-पूजाविधिः :
तदुक्तं स्वतन्त्रतन्त्रे :
पूजाविशेषान्देवेशि शृणु नित्यक्रमोदितान् ।
अशक्तानान्तु विस्तारे तथा चापत्सु शस्यते ।
अन्यथानर्थकारि स्यात् संकोचार्चनमीश्वरि
॥ ३ ॥

P5-0268 · 4
हेतिभिर्मध्यमाद्यं स्यात् द्वितीयं नवयोनिषु ।
चतुर्दशारावध्यन्यच्चतुर्थं प्रोक्तरूपतः ।
पञ्चमं सर्वदुःखार्तिनाशनं वाञ्छितप्रदम् ।
अस्यार्थः :
अशक्तानां हेतिभिर्मध्यमाद्यं स्यात् ।
हेतिचतुष्टयसहित देवताचतुष्टयार्चनम् ।
पाशांकुशधनुर्बाणा हेतयः ।
देवतास्तु :
कामेश्वरी-वज्रेश्वरी-भगमालिनी-श्रीमहात्रिपुरसुन्दरी-
देवताचतुष्टयार्चनरूपमेतदाद्यार्चनमित्यर्थः ।
द्वितीयमाह नवयोनिष्विति ।
वशिन्यादिमध्यमान्तमिति ।
तृतीयार्चनमाह
चतुर्दशारचक्रस्थितसर्वसंक्षोभिण्यादिमध्यमान्ता सपर्या
तृतीया ।
चतुर्थं प्रोक्तरूपत इति ।
तत्र प्रोक्तरूपेणेत्यर्थः ।
षोडशदलादि-मध्यमान्तमिति यावत् ।
पञ्चमं भूगृहादिमध्यमान्तमिति यावत् ।
इति पञ्चप्रकारार्चा प्रोक्ता सर्वार्थसिद्धिदा ।
तत्रादौ भूतशुद्धि प्राणायामपुरःसरं
करशुद्ध्यासनचतुष्टयाङ्गवशिन्यादिन्यासचतुष्टयं विधाय
बालया अर्घ्यद्वयं संशोध्य षडासनविद्यया पीठपूजां
विधाय विन्दौ हृल्लेखया परचितिमावाह्य यथा
शक्त्युपचारैरभ्यर्च्च पूर्ववत्सर्वभूतवलिं दत्त्वा जप-स्तोत्रैः
सन्तोषयेदिति
॥ ४ ॥

P5-0269 · 5
तदुक्तं नवरत्नेश्वरे :
न्यासत्रयं समासाद्य चक्रपुजासनेन वै ।
वालयार्घ्यं समासाद्य हृल्लेखामनुना शिवे ।
चक्रमध्ये समावाह्य संक्षेपार्चनमर्चयेदिति
॥ ५ ॥

P5-0270 · 6
अथवा तदुक्तं विशुद्धेश्वरतन्त्रे :
पूजासंकोचकञ्चैव कथयामि सुरेश्वरि ।
यत्पूजाबोधमात्रेण जीवन्मुक्तः प्रजायते ।
प्रथमाग्रे तु त्रिपुरा द्वितीया त्रिपुरेश्वरी ।
तृतीया चक्रराजे तु त्रिपुरादिसमन्विता ।
देवीपूजाक्रमेणैव सुन्दरी वासिनीति च ।
पञ्चमे त्रिपुराश्रीश्च षष्ठे त्रिपुरमालिनी ।
सप्तमे त्रिपुरा सिद्धा चाष्टमे त्रिपुरात्मिका ।
मध्ये शक्तौ महेशानि महात्रिपुरसुन्दरी ।
यथा वाराहीतन्त्रे :
षडङ्गं विन्यस्य देवीमावाह्य बिन्दुचक्रे अणिमां द्वितीये
कामकलां तृतीये ब्राह्मीं चतुर्थे सुन्दरीं पञ्चमे आकर्षिणीं
षष्ठे कामेश्वरीं वसुदले भेरुण्डां षोडशदले कुलेश्वरीं
सम्पूज्य देव्यै पुष्पाञ्जलीं दत्त्वा मन्त्रं जपेदिति
॥ ६ ॥

P5-0271 · 7
इति श्रीविद्यायाः संक्षेपार्चा ।
अथ नैमित्तिकविधिः :
तत्र गौतमीये -
नारद उवाच :
कर्मान्तरमथो वक्ष्ये शृणुष्वावहितो मुने ।
यत्कृत्वा मन्दभाग्योऽपि लभेन्मन्त्रफलानि वै ।
प्रणवद्वयमध्यस्थं जपेदयुतसंख्यया ।
त्रिरावजपमात्रेण वृहस्पतिसमो भवेत् ।
व्याख्याता सर्वशास्त्राणां वेदानामपि जायते ।
रविवारेऽश्वत्थमूले जपेष्टोत्तरं शतम् ।
भूयो भूयो भवेच्छान्तिर्जीवेदष्टोत्तरं शतम्
॥ ७ ॥

P5-0272 · 8
तस्य शान्तिर्भवेन्नूनं यमुद्दिश्य कृत्वा क्रिया ।
अंशुकैरर्चयेत्कृष्णं मासमान्त्रन्तु निर्मलैः ।
मुच्यते मलिनैः कृच्छ्रैः पापैर्घोरतरैरपि
॥ ८ ॥

P5-0273 · 9
पट्टवस्त्रैर्यजेद् भक्त्या सम्पत्तिमतुलां लभेत् ।
विद्रुमैः पूजयेत्कृष्णं त्रैलोक्यं वशमानयेत्
॥ ९ ॥

P5-0274 · 10
माणिक्यै पूजयेद्भक्त्या सार्वभौमसमो भवेत् ।
पद्मरागैर्यजेत् कृष्णं राजा भवति निश्चितम्
॥ १० ॥

P5-0275 · 11
क्षत्रियः सार्वभौमः स्यात्साधयेत् सकलां महीम् ।
गारुत्मतमयै रत्नैः पूजयन् ज्ञानवान् भवेत्
॥ ११ ॥

P5-0276 · 12
अपि हीरकरत्नेन पूजयन् किं न लभ्यते ।
सुवर्णपुष्पैरभ्यर्च्य मासं भक्ति परायणः ।
कुवेरसमसम्पत्तिं संप्राप्य मोदतेऽचिरात् ।
देहान्ते हरितां प्राप्य निर्वाण पदमृच्छति
॥ १२ ॥

P5-0277 · 13
रविवारे सरसिजैः कह्लारैः सोमवारके ।
मङ्गले रक्तपद्मैश्च बुधे तगरसम्भवैः
॥ १३ ॥

P5-0278 · 14
चम्पकैर्गुरुवारे च शुक्रे कुमुदसम्भवैः ।
शनिवारे शमीपुष्पैः पूजयेद्भक्तितो यतिः
॥ १४ ॥

P5-0279 · 15
रविवारे धृताक्तन्तु पयोभक्तं निवेदयेत् ।
सोमवारे पिष्टकादि सितया सह योजयेत् ।
मङ्गले गुडसंमिश्रमन्नं बहुगुणान्वितम् ।
बूधवारे यावकैस्तु गुरौ सूपसमुद्भवैः
॥ १५ ॥

P5-0280 · 16
शुद्धान्नं शुक्रवारे तु शनौ सधृतपायसम् ।
वैशाखे मासि विधिवत्तर्पयेद्धिमवज्जलैः
॥ १६ ॥

P5-0281 · 17
ज्येष्ठे मासि प्रयत्नेन फलैः सम्पूजयेद्धरिम् ।
आषाढे मासि विधिवत्पवित्रैः पूजयेद्धरिम्
॥ १७ ॥

P5-0282 · 18
एकैकं स्वर्णसूत्राणि ग्रन्थियुक्तानि कारयेत् ।
अथवा पट्टसूत्राणि पद्मसूत्राणि वा पुनः ।
पूजान्ते देवराजाय महिषीभ्यो निवेदयेत्
॥ १८ ॥

P5-0283 · 19
मिथुनेभ्यस्तदा दत्त्वा महान्तमुत्सवं चरेत् ।
तोषयेद् भक्ष्यभोज्यैश्च ब्राह्मणान् संशितव्रतान् ।
एवं संवत्सरं मन्त्री कृत्वाभीष्टमवाप्नुयात्
॥ १९ ॥

P5-0284 · 20
न चेद्वर्षकृताः पूजा वास्तोर्भक्ष्याय कल्पते ।
श्रावणे मासि कृष्णं तु पूजयेत् केतकोद्भवैः
॥ २० ॥

P5-0285 · 21
चन्द्रचन्दनकस्तूरीकुंकुमादिसुवासितैः ।
एलालवङ्गकक्कोलफलानि बहुधार्पयेत्
॥ २१ ॥

P5-0286 · 22
भाद्रे मासि यजेद्विष्णुं भक्ष्यैर्बहुगुणान्वितैः ।
ईषे मासि यजेद्भक्त्या भक्ष्यैर्भोज्यैः सुविस्तरैः
॥ २२ ॥

P5-0287 · 23
कार्पासनिर्मितैर्वस्त्रैर्नानाभरणभूषितैः ।
तुलास्थे भास्करे कृष्णं पूजयेन्मासमात्रकम्
॥ २३ ॥

P5-0288 · 24
रात्रौ प्रदीपैर्होमैश्च दुग्धपिष्टादिसंयुतैः ।
धृतदीपविच्छिन्नं दद्यान्मासं महोज्ज्वलम्
॥ २४ ॥

P5-0289 · 25
एकादश्यामुपवसेद् द्वादश्यां पारणादिने ॥
शुक्लायां विष्णुमभ्यर्च्य वस्त्रालङ्करणादिभिः ।
अस्यां तिथौ तु मतिमान् वार्षिकोत्सवमाचरेत्
॥ २५ ॥

P5-0290 · 26
भोज्यानि बहुभक्ष्याणि ब्राह्मणेभ्यो निवेदयेत् ।
एवं कृते देवतास्य तुष्ट्या चेष्टं प्रयच्छति
॥ २६ ॥

P5-0291 · 27
सन्तं लोकमवाप्नोति पुनरावृत्तिवर्जितम् ।
मार्गशीर्षे यजेद्देवं नवान्नैर्व्यञ्जनैः शुभैः ।
नारिकेलफलक्षोदं मिश्रितं गुडजीरकैः ।
सुपक्वं देवराजाय भक्त्या तस्मै निवेदयेत्
॥ २७ ॥

P5-0292 · 28
पौषे मासि च मासं वै धृतैः पुष्पैः प्रपूजयेत् ।
ग्रहदोषं विजित्वाशु भूयान्नृपतिसन्निभः
॥ २८ ॥

P5-0293 · 29
माघे मासि यजेत्कृष्णमक्षतैः सगुडैः सितैः ।
दुग्धान्नं शर्करायुक्तं मिष्ठान्नञ्च निवेदयेत्
॥ २९ ॥

P5-0294 · 30
अस्मिन् मासि शुभदिने वस्त्रेणाच्छादयेद्विभुम् ।
फाल्गुने देवकीपुत्रं पूजयेत्स्वर्णपङ्कजैः ।
सुगन्धिकुसुमैर्धूपैर्दीपैस्तत्र सुविस्तरैः
॥ ३० ॥

P5-0295 · 31
चैत्रे मासि वासुदेवं सर्वपुष्पैः समर्चयेत् ।
पौर्णमास्यां यजेद्भक्त्या दमनैश्च सगुच्छकैः ।
अस्मिन् दिने रतिं कामं पूजयेद्भक्तितत्परः ।
नचेत् सांवत्सरी पूजा विफला तस्य जायते
॥ ३१ ॥

P5-0296 · 32
भस्मीभूतं स्मरं दृष्ट्वा रुदिता सा रतिः सती ।
तां दृष्ट्वा कृपयाविष्टो वरं दातुं शिवः स्वयम्
॥ ३२ ॥

P5-0297 · 33
प्रत्युवाच रतिं तेऽयं सुभगत्वमवाप्नुयात् ।
सुन्दरः सर्वलोकेषु क्रीडार्थं व्रजसुन्दरि
॥ ३३ ॥

P5-0298 · 34
ततोऽभूत्क्रन्दनजलात्पुष्पं दमनकं शुभम् ।
तेन पूजनमात्रेण संवत्सरफलं लभेत्
॥ ३४ ॥

P5-0299 · 35
होमयेल्लक्षमात्रं यः पिष्टकैर्धृतभर्जितैः ।
तावत्संख्यं मनुं जप्त्वा कृष्णं पश्यति मन्त्रवित्
॥ ३५ ॥

P5-0300 · 36
इति ते कथितं सम्यक्पूजनं वार्षिकोद्भवम् ।
कृत्वानेन विधानेन किं न सिध्यति भूतले
॥ ३६ ॥


Śrīvidyā und Gottheitsanwendungen

P5-0301 · 1
अथ श्रीविद्यापूजनम् :
ज्ञानार्णवे :
अथ वक्ष्ये महेशानि श्रीविद्यापूजनं महत् ।
ब्रह्महत्यादि दोषाणां प्रायश्चित्तमनुत्तमम्
॥ १ ॥

P5-0302 · 2
ब्रह्मपत्रैर्महेशानि पूजयेत्क्रममुत्तमम् ।
समस्तरश्मिसहितं नित्याम्नाय पुरस्कृतम्
॥ २ ॥

P5-0303 · 3
कुलाचारक्रमाद्देवि कर्पूरक्षोदमण्डितम् ।
मासमात्रेण देवेशि महापातककोटयः ।
जन्मान्तरकृता सर्वा नाशयेन्नात्र संशयः
॥ ३ ॥

P5-0304 · 4
लक्ष्मीस्तस्य गृहे वश्या सुस्थिरा सुरवन्दिते ।
जवापुष्पैर्महेशानि पूजयेत्पूर्ववच्छिवाम्
॥ ४ ॥

P5-0305 · 5
मासमात्रं क्रमेणैव तेनैव परमेश्वरीम् ।
ब्रह्महत्यादिपापानि पूर्वजन्मकृतानि च ।
नाशयेन्मात्र सन्देहो धनवान् जायते बुधः
॥ ५ ॥

P5-0306 · 6
केतक्यास्तरुणैः पुष्पैः पूर्ववत्पूजयेत् प्रिये ।
उपपातकसङ्घाश्च मासमात्रेण नाशयेत् ।
सौभाग्यमतुलं तस्य जायते नात्र संशयः
॥ ६ ॥

P5-0307 · 7
शतपत्रैर्मनोरम्यैः पूजयेन्मासमात्रकम् ।
पूर्ववत्परमेशानि सर्वं पापं प्रणाशयेत्
॥ ७ ॥

P5-0308 · 8
चम्पकैः सुमनोरम्यैः पूर्ववत्पूजयेच्छिवाम् ।
मासमात्रेण हन्त्येव शतजन्मजम् ।
सौभाग्यवान्भवेन्मन्त्री त्रिपुरायाः प्रसादतः
॥ ८ ॥

P5-0309 · 9
श्वेतपद्मैर्महादेवि महद्भिः पूजयेत्पराम् ।
पूर्वजं नाशयेत् पापं विंशजन्मकृतं प्रिये ।
मासमात्रेण सकलं मोक्षस्तस्य करे स्थितः
॥ ९ ॥

P5-0310 · 10
बन्धूककुसुमैर्देवि मासमात्रं प्रपूजयेत् ।
त्रैलोक्यं वशगं तस्य पूर्वपापं दहेन्नरः
॥ १० ॥

P5-0311 · 11
बिल्वपत्रैश्च लाजैश्च सदैव परिपूजयेत् ।
पूर्ववत्परमेशानि मासमात्रं प्रसन्नधीः ।
समृद्धिमान्भवेत् सोऽपि सर्वपापहरः सदा
॥ ११ ॥

P5-0312 · 12
मल्लिकामालतीपुष्पैः कुन्दैश्च शतपत्रकैः ।
श्वेतोत्पलसमुत्थैश्च पूजयेन्मासमात्रकम्
॥ १२ ॥

P5-0313 · 13
कुलाचारक्रमेणैव पातकः शतजन्मजम् ।
ब्रह्महत्यादिजनितं नाशयेन्नात्र संशयः ।
मुक्तिस्तस्य करे देवि वाचा जीवसमो भवेत्
॥ १३ ॥

P5-0314 · 14
अगस्त्यबाणबन्धूकजवारक्तोत्पलैः प्रिये ।
पूर्वक्रमेण सम्पूज्य मासमेकं प्रसन्नधीः ।
पातकं नाशयेन्मन्त्री साक्षात्कामसमो भवेत्
॥ १४ ॥

P5-0315 · 15
चम्पकैः पाटलैर्देवि बकुलैर्नागकेशरैः ।
कह्लारैः सिन्धुवारैश्च पूजयेत् पूर्ववत्क्रमात्
॥ १५ ॥

P5-0316 · 16
सौभाग्यमतुलं तस्य मासमात्रेण जायते ।
पापं विनाशयेद्देवि यदि जन्मसहस्रजम्
॥ १६ ॥

P5-0317 · 17
रविवारेऽरुणाम्भोजैः कुमुदैः सोमवारके ।
भौमे रक्तोत्पलैः सौम्यवारे तगरसम्भवैः ।
गुरुवारे च कह्लारैः शुक्रवारे सिताम्बुजैः ।
उत्पलैः शनिवारे च पूजयेदब्दमादरात् ।
निवेदयेत्क्रमोक्तेषु रविवारादिसप्तषु ।
पायसं दुग्दधकदली नवनीतं सिता घृतम् ।
एवमब्दं समाराध्य देवीं गन्धादिभिः क्रमात् ।
ग्रहपीडां विजित्याशु स सुखानि समश्नुते
॥ १७ ॥

P5-0318 · 18
ताराकाल्योर्मत्स्यसूक्ते :
अष्टम्याञ्च चतुर्दश्यां पूजयेच्च प्रयत्नतः ।
यद्यत्प्रार्थयते मन्त्री तत्तदाप्नोति नित्यशः ।
लभते मंजुलां वाणीं कृष्णाष्टम्यां सदा यजेत्
॥ १८ ॥

P5-0319 · 19
अत्र नित्यार्चनानन्तरं नैमित्तिकं कार्यम् ।
यत्र कालनियमो न दृश्यते तत्र मासार्द्धं मासं तद्द्विगुणं
वा मण्डलं नैमित्तिकानुष्ठानं कर्तव्यमिति ।
तथोक्तं रुद्रयामले :
मासार्द्धमथवा मासं द्विगुणं त्रिगुणं तथा ।
यावत् फलाप्तिमान्योगी तावदेवं समाचरेत्
॥ १९ ॥

P5-0320 · 20
अन्यत्रापि :
नैमित्तिके तथा काम्ये फलाप्तिर्मण्डलावधिः ।
नचेत् ।
तद्द्विगुणं कुर्यात् यथा स्यात्फलभाक्सुधीः ।
अष्टम्यां पूजनं देव्याः सर्वकामफलप्रदम् ।
रम्भाजातीबीजपूरं सुगन्धिपरिमिश्रितम् ।
मिश्रीकृत्य बलिं दद्यादष्टम्याञ्च विशेषतः ।
स्वर्णमालां महादेव्यै दद्याद्गन्धैर्विशेषतः ।
फलं क्षीरं तथा दद्यादधिकं शर्करान्वितम् ।
तस्मात्सर्वप्रयत्नेन सम्पत्यै पूजयेच्छिवाम् ।
फलञ्चाक्षयसिद्ध्यर्थं दद्याद्देव्यै प्रयत्नतः
॥ २० ॥

P5-0321 · 21
तथा नीलतन्त्रे :
अष्टम्याञ्च चतुर्दश्यां पूजयेच्च यथा विधि ।
आज्ञासिद्धिमवाप्नोति जवापुष्पञ्च वर्वराम् ।
चन्दनञ्चार्ककुषुमं दद्यात्श्वेतापराजिताम् ।
यस्तु सम्पूजयेद्दुर्गां महाष्टम्यां विशेषतः ।
जन्मत्रयर्जितं पापं तत्क्षणादेव नाशयेत् ।
दुर्गां तारिणीमिति प्रकरणानुमूलत्वात्
॥ २१ ॥

P5-0322 · 22
अथ प्रयोगविधिः :
सर्वप्रयोगे अयुतजपः ।
तथा च शारदायाम् :
अयुतं होमसंख्या स्यात् जपस्तावान् प्रकीर्त्तितः
॥ २२ ॥

P5-0323 · 23
तत्रादौ भुवनेश्वरी प्रयोगः ।
तद्यथा :
मन्त्री त्रिमधुरोपेतैर्हुत्वाश्वत्थसमिद्वरैः ।
ब्राह्मणान् वशयेच्छीघ्रं पार्थिवान्पद्महोमतः
॥ २३ ॥

P5-0324 · 24
पलाशपुष्पैस्तत्पत्नीर्मन्त्रिणः कुमुदैरपि ।
पञ्चविंशतिसञ्जप्तैर्जलैः स्नानः दिने दिने
॥ २४ ॥

P5-0325 · 25
आत्मानमभिषिञ्चेद्यः सर्वसौभाग्यवान्भवेत् ।
पञ्चविंशतिसञ्जप्तं जलं प्रातः पिबेन्नरः ।
अवाप्य महतीं लक्ष्मीं कवीनामग्रणीर्भवेत्
॥ २५ ॥

P5-0326 · 27
तथा :
हुत्वा पलाशकुसुमैर्वाक्श्रियं लभते ध्रुवम् ।
ब्राह्मीघृतं१ पिबेद्यस्तु मूलमन्त्राभिमन्त्रितम् ।
कवित्वं लभते मन्त्री वत्सरान्नात्र संशयः ।
सिद्धार्थान् लवणोपेतान्हुत्वा मन्त्री वशं नयेत् ।
नरं नारीं नरपतिं नात्र कार्या विचारणा
॥ २७ ॥

P5-0327 · 28
अथ त्वरिता :
योनिकुण्डं प्रकल्प्याथ कुर्याद्धोमं यथेच्छया ।
मल्लिकाकुसुमैर्हुत्वा वशयेदखिलं जगत्
॥ २८ ॥

P5-0328 · 29
कृत्याद्रोहादिशमनं पलाशकुसुमैर्हुतम् ।
इक्षुदण्डैः शुभैर्हुत्वा महतीं वृद्धिमाप्नुयात्
॥ २९ ॥

P5-0329 · 30
दीर्घमायुरवाप्नोति दूर्वा होमेन साधकः ।
धान्यैः प्रक्षालितैर्हुत्वा श्रियमिष्टामवाप्नुयात्
॥ ३० ॥

P5-0330 · 31
अशोकैः पुत्रमाप्नोति मधुकैरिष्टमाप्नुयात् ।
फलैर्जम्बूद्भवैर्हुत्वा लभते धनमीप्सीतम्
॥ ३१ ॥

P5-0331 · 32
पुष्पैर्बकुलसम्भूतैः कीर्तिः स्यादनपायिनी ।
दीर्घमायुर्भवेदाम्रैश्चम्पकैः काञ्चनं लभेत्
॥ ३२ ॥

P5-0332 · 33
कुर्वीत सर्षपैर्होमं शत्रुनाशकरं सुधीः ।
पत्रैर्वकुलजैर्हुत्वा शीघ्रञ्चोत्सादयेदरीन्
॥ ३३ ॥

P5-0333 · 34
शाल्मली पत्रहोमेन सपत्नान्नाशयेद्ध्रुवम् ।
माषहोमेन मूकः स्यादुन्मत्तोऽक्षैर्भवेदरिः
॥ ३४ ॥

P5-0334 · 35
अथ दुर्गा :
वशयेत् तिलहोमेन नरान्नरपतीनपि ।
सिद्धार्थैर्जुहुयान्मन्त्री रोगान्मुच्येत तत्क्षणात्
॥ ३५ ॥

P5-0335 · 26
पद्मैर्हुत्वा जयेच्छत्रून्दूर्वाभिः शान्तिमाप्नुयात् ।
पलाशकुसुमैः पुष्टिं धान्यैर्धान्याश्रयं लभेत्
॥ २६ ॥

P5-0336 · 37
काकपक्षैः कृतो होमो द्वेषं वितनुयान्नृणाम् ।
मरीचहोमान्मरणं रिपुराप्नोति सर्वदा
॥ ३७ ॥

P5-0337 · 38
अथ सरस्वती :
पीत्वा तन्मन्त्रितं तोयं सहस्रं प्रत्यहं जपेत् ।
महाकविर्भवेन्मन्त्री वत्सरेण न संशयः
॥ ३८ ॥

P5-0338 · 39
उरोमात्रोदके स्थित्वा ध्यायेन्मार्तण्डमण्डले ।
स्थितां देवीं प्रतिदिनं त्रिसहस्रं मनुं जपेत् ।
लभते मण्डलात्सिद्धिं वाचामप्रतिमामपि
॥ ३९ ॥

P5-0339 · 40
पलाशबिल्वकुसुमैर्जुहुयान्मधुरोक्षितैः ।
समिद्भिर्वा तदुत्थाभिर्यशः प्राप्नोति वाक्प्ततेः
॥ ४० ॥

P5-0340 · 41
पलाशकुसुमैर्हुत्वा परां वाक्सिद्धिमाप्नुयात् ।
कदम्बकुसुमैस्तद्वत्फलैः श्रीफलसम्भवैः ।
अचिरात्श्रियमाप्नोति वाचां कुन्दसमुद्भवैः ।
नन्द्यावर्तप्रसूनैर्वा हुत्वा वाग्वल्लभो भवेत्
॥ ४१ ॥

P5-0341 · 42
अथ लक्ष्मीः :
यथा :
वक्षःप्रमाणे सलिले स्थित्वा मन्त्रमिमं जपेत् ।
त्रिलक्षं संजपेन्मन्त्री देवीं ध्यात्वार्कमण्डले ।
स भवेदल्पकालेन रमाया वसतिः स्थिरा
॥ ४२ ॥

P5-0342 · 43
आराध्योत्तरनक्षत्रे देवीं स्रक्चन्दनादिभिः ।
नन्द्यावर्तभवैः पुष्पैः सहस्रं जुहुयात् ततः ।
पौर्णमास्यां फलैर्बिल्वैर्जुहुयान्मधुराप्लुतैः ।
पञ्चम्यां विशदाम्भोजैः शुक्रवारे सुगन्धिभिः ।
अन्यैर्वा विशदैः पुष्पैः प्रतिमासं विशालधीः ।
स भवेदब्दमात्रेण सर्वदा सम्पदां निधिः
॥ ४३ ॥

P5-0343 · 44
शालिभिर्जुह्वतो नित्यमष्टोत्तरसहस्रकम् ।
अचिरादेव महती लक्ष्मीः संजायते ध्रुवम्
॥ ४४ ॥

P5-0344 · 45
जवापुष्पाणि जुहुयादष्टोत्तरसहस्रकम् ।
गृहीत्वा प्रजपेद्भस्म नागवल्लीरसान्वितम् ।
तिलकं धारयेत्तेन सर्ववश्यकरं भवेत् ।
नागवल्ली पर्णम्
॥ ४५ ॥

P5-0345 · 46
अथ गणेशः :
तर्पयेत्सलिलैः शुद्धैर्दिनशो गणनायकम् ।
चतुश्चत्वारिंशदाढ्यं चतुःशतमतन्द्रितः ।
प्राप्नुयान्मण्डलादर्वागभीष्टमाधिकं नरः
॥ ४६ ॥

P5-0346 · 47
नारिकेलैः कृतो होमश्चतुर्थ्यां श्रीपदो भवेत् ।
शुक्लपक्षे प्रतिपदमारभ्य दिनशः सुधीः ।
चतुर्थ्यन्तं नारिकेलशक्तुलाजतिलैः क्रमात् ।
चतुःशतं प्रजुहुयाद्वश्याः स्युः सर्वजन्तवः
॥ ४७ ॥

P5-0347 · 48
सतिलैस्तण्डुलैर्होमश्चतुर्थ्यां श्रीपदो भवेत् ।
पद्महोमेन भूपालांस्तत्पत्नीरुत्पलैः शुभैः ।
मन्त्रिणः कुमुदैः पुष्पैर्विप्रान् पिप्पलसम्भवैः ।
समिद्वरैर्नरपतीनुडुम्बरसमुद्भवैः ।
प्लक्षैर्वैश्यान् वटोद्भूतैः शूद्रान्मत्री वशं नयेत्
॥ ४८ ॥

P5-0348 · 49
मधुना स्वर्णलाभः स्याद्गोदुग्धेन लभेत गाः ।
आज्यहोमेन महतीं श्रियमाप्नोति मानवः ।
दया सर्वसमृद्धिः स्यादन्नैरन्नपतिर्भवेत्
॥ ४९ ॥

P5-0349 · 50
अथ सूर्यः :
यथा :
एवं सम्पूज्य विधिवद्भास्करं भक्तवत्सलम् ।
दद्यादर्घ्यं प्रतिदिनं वारे वा तस्य चोदिते ।
प्रभाते मण्डलं कृत्वा पूर्ववत्पीठमर्चयेत् ।
पात्रं ताम्रमयं प्रस्थतोयग्राहि मनोहरम् ।
निधाय तत्र मनुना पूरयेत् तच्छुभोदकैः ।
कुंकुमं रोचनाराजीरक्तचन्दनकैरवान् ।
करवीरजवाशालिकुशश्यामाकतण्डुलान् ।
निक्षिपेत्सलिले तस्मिन्नैक्यं सम्भाव्य भानुना ।
साङ्गमभ्यर्चयेत् तस्मिन् भास्करं प्रोक्तलक्षणम् ।
गन्धपुष्पादिनैवेद्यैर्यथाविधि विधानवित् ।
अपिधाय जपेन्मन्त्रं सम्यगष्टोत्तरः शतम्
॥ ५० ॥

P5-0350 · 50-ka
पुनः सम्पूज्य गन्धाद्यर्जानुभ्यामवनीं गतः ।
आमस्तकं समुद्धृत्य व्योम्नि सावरणे रवौ ।
दृष्टिं निधाय ऐक्येन मूलमन्त्रं जपन् ।
दयादर्घ्यं दिनेशाय प्रसन्नेनान्तरात्मना ।
दत्त्वा पुष्पाञ्जलिं भूयो जपेदष्टोत्तरं शतम् ।
यावदर्घ्यामृतं भानुः समादत्ते निजैः करैः ।
तेन तृप्तो दिनमणिर्दद्यात्तस्मै मनोरथान्
॥ ५०-क ॥

P5-0351 · 51
अर्घ्यदानमिदं पुंसामायुरारोग्यवर्द्धनम् ।
धनधान्यपशुक्षेत्रपुत्रमित्रकलत्रदम् ।
तेजोवीर्यशःकान्तिविद्याविभवभाग्यदम्
॥ ५१ ॥

P5-0352 · 52
अथ श्रीरामः :
जातीप्रसूनैर्जुहुयादिन्दिरावाप्तये नरः ।
जातीप्रसूनैर्जुहुयाच्चन्दनाम्भः समुक्षितैः ।
राजवश्याय कमलैर्धनधान्यादिसम्पदे ।
नीलोत्पलानां होमेन वशयेदखिलं जगत्
॥ ५२ ॥

P5-0353 · 53
विल्बप्रसूनैर्जुहुयादिन्दिरावाप्तये नरः ।
दूर्वाहोमेन दीर्घायुर्भवेन्मन्त्री निरामयः
॥ ५३ ॥

P5-0354 · 54
रक्तोत्पलहुतान्मन्त्री धनमाप्नोति वाञ्छितम् ।
मेधाकामेन होतव्यं पलाशकुसुमैर्नवैः
॥ ५४ ॥

P5-0355 · 55
तज्जप्तमम्भः प्रपिवेत्कविर्भवति वत्सरात् ।
तन्मन्त्रितान्नं भुञ्जीत महदारोग्यमाप्नुयात्
॥ ५५ ॥

P5-0356 · 56
अथ श्रीकृष्णः
अथ प्रयोगान्वक्ष्यामि मन्त्रयोरुभयोः समान् ।
यान्कृत्वा साधकवरो लोकत्रयप्रपूजितः
॥ ५६ ॥

P5-0357 · 57
वन्दे तं देवकीपुत्रं सद्योजाताम्बुदप्रभम् ।
शङ्खचक्रगदापद्मधारिणं वनमालिनम् ।
एवं ध्यात्वा मनुवरं लक्षं ब्राह्ममुहूर्तके ।
जप्त्वा मेधां परां प्राप्य कवीनामग्रणीर्भवेत्
॥ ५७ ॥

P5-0358 · 58
अथवा स्फटिकाभासं लेखपुस्तकधारिणीम् ।
तं विचिन्त्य जपेल्लक्षं मूलं ब्राह्ममुहूर्तके ।
जप्त्वा मन्त्री त्रिकालज्ञो वृहस्पतिसमो भवेत्
॥ ५८ ॥

P5-0359 · 59
चलद्गोचारणं बालं ध्यायन्ब्राह्ममुहूर्तके ।
जप्त्वा मनुवरं विद्वान् सर्वशास्त्रार्थविद्भवेत् ।
सर्ववेदार्थकुशलो ज्ञानवान्भवति ध्रुवम्
॥ ५९ ॥

P5-0360 · 60
नन्दाङ्गने पर्यटन्तं धूलीनिचयधूसरम् ।
दीप्तमणिगणोद्दिप्तं यशोदालोचनोत्सुकम् ।
एवं ध्यात्वा मनुवरं जपेन्नियममास्थितः ।
लक्षैकजपनादस्य किं न सिध्यति भूतले
॥ ६० ॥

P5-0361 · 61
प्रातः प्रातः पिबेत्तोयमष्टोत्तरशतं जपन् ।
अत्यन्तमूको दुष्टात्मा जडः पाषाणवत्तथा ।
अनेन जलपानेन साक्षाद्वाक्पतिसन्निभः ।
जायते नात्र सन्देहः सत्यं सत्यं न चान्यथा
॥ ६१ ॥

P5-0362 · 62
पद्म्यां निक्षिप्य शकटं रुदन्तं प्राकृतं यथा ।
लक्षं जप्यादिति ध्यात्वा आपद्भ्यो मुच्यते ध्रुवम्
॥ ६२ ॥

P5-0363 · 63
शत्रुतो न भयं तस्य राजतो दस्युतोऽपि वा ।
न तस्य विद्यते भीतिः कदाचिदपि सुव्रत
॥ ६३ ॥

P5-0364 · 64
नित्यं कर्मरतं कृष्णं वन्यैः पुष्पैः समर्चयेत् ।
वश्या भवन्ति सर्वे च ब्राह्मणा नात्र संशयः
॥ ६४ ॥

P5-0365 · 65
गोपालवेशं मनसा जातीपुष्पैः समर्चयेत् ।
वश्या भवन्ति राजानो नात्र कार्या विचारणा
॥ ६५ ॥

P5-0366 · 66
तमालोद्भवपुष्पैश्च वैश्या वश्या भवन्ति हि
॥ ६६ ॥

P5-0367 · 67
नीलोत्पलैश्च शूद्राश्च मासं कृष्णं समर्चयेत् ।
जुहुयाद्रक्तपुष्पैश्च मिश्रितैस्तिलतण्डुलैः ।
मन्त्रेणाष्टसहस्रन्तु जप्त्वा तद्भस्म धारयेत् ।
ललाटे विधृते तस्य सर्वे वश्या भवन्ति हि
॥ ६७ ॥

P5-0368 · 68
अनेन च शरीरेण राजानो वश्यतामियुः ।
स्त्रियो वश्या भवन्त्यत्र पुत्रमात्याश्च सर्वथा
॥ ६८ ॥

P5-0369 · 68
विवाहार्थी जपेन्मन्त्रं मासमष्टसहस्रकम् ।
रासमण्डलमध्यस्थं कृष्णं ध्यात्वा व्रजे स्थितम् ।
विवाहयेदुत्तमाङ्गीं कन्यां सर्वगुणोज्ज्वलाम् ।
पुत्रं मे रक्ष रक्षेति द्विजेन प्रार्थितो हरिः ।
हृतपुत्रं समाहृत्य ददौ यस्तं विचिन्तयेत्
॥ ६८ ॥

P5-0370 · 70
पुत्रकामो लभेत्पुत्रं मासेनैकेन सुन्दरम् ।
दीर्घायुरप्रतिहतबलवीर्यसमन्वितम्
॥ ७० ॥

P5-0371 · 71
कुन्दपुष्पैः समाराध्य कृष्णुं ध्यायेच्च कन्यका ।
मासद्वयं तथा मन्त्रं जपेदष्टसहस्रकम् ।
मनोरथपतिं लब्ध्वा दीर्घकालञ्च क्रीडति
॥ ७१ ॥

P5-0372 · 72
अञ्जनं कुसुमं वस्त्रं ताम्बूलं चन्दनं तथा ।
अन्यान्यप्युपभोग्यानि स्पृष्ट्वा मन्त्रं शतं जपेत् ।
दीयते यस्य यस्येति सोऽचिराद्दासवद्वशी
॥ ७२ ॥

P5-0373 · 73
स्त्रियो वश्या अनेनैव भवन्ति मुनिसत्तम ।
पुरुषं वशयेन्नारी अनेनैव विधानतः
॥ ७३ ॥

P5-0374 · 74
अन्नाद्यकामः श्रीपुष्पैः सिततण्डुलमिश्रितेः ।
अष्टोत्तरसहस्रन्तु जुहुयादन्नवान् भवेत्
॥ ७४ ॥

P5-0375 · 76
विश्वरूपधरं ध्यात्वा शतमष्टोत्तरं जपेत् ।
समाहितमना मन्त्री यशोऽर्थी कीर्तिमाप्नुयात् ।
भूतप्रेतपिशाचादि-स्कन्दादिग्रहपीडितः ।
पूतनास्तनपातारं ध्यात्वा मन्त्रं शतं जपेत्
॥ ७६ ॥

P5-0376 · 77
प्रणश्यन्ति ग्रहा दुष्टाः पलायन्ते इतस्ततः ।
सर्पमण्डलदष्टे च मूषिकाद्यैश्च दंशिते ।
कृष्णं कालियदमनं चिन्तयित्वा जपेन्नरः ।
तर्जयन्तं विषं घोरं हूंकारेण विनाशयेत्
॥ ७७ ॥

P5-0377 · 78
अत्रापान्यमनुं वक्ष्ये बीजाद्यं शृणु तत्त्वतः ।
कालियस्य फणामध्ये दिव्यं नृत्यं करोति तम् ।
नमामि देवकीपुत्रं नृत्यराजानमच्युतम्
॥ ७८ ॥

P5-0378 · 79
ज्वरार्तोऽभ्यर्चयेन्मन्त्री जपेदष्टशत तथा ।
ज्वरेण ॥
संस्तुतं कृष्णं बलप्रद्युम्नसंयुतम् ।
दहन्तं वाणनगरीं गरुडोपरिसंस्थितम् ।
नजज्वरेण संपिष्टं ध्यात्वा नाशयते क्षणात् ।
शीतलाकामलादीनि तथा चतुर्थिक ज्वरान् ।
प्लीहगुल्मषकृद्वायुनपस्मारभयं तथा ।
नाशयेन्नात्र सन्देहो दृष्टिमात्रेण मान्त्रिकः
॥ ७९ ॥

P5-0379 · 80
गोपालजुष्टपादञ्च वेणुमादाय संस्थितम् ।
ध्यात्वा कृष्णं जपेन्मन्त्रं पशुमान स तु मासतः ।
राज्ञः पुरोधा भवितुमिति यस्य मतिर्भवेत् ।
मधुसिक्तैः सितैः पुष्पैर्हुत्वा तन्मण्डलाल्लभेत् ।
महैश्वर्यमथ प्राप्य विश्वख्यातो भवेद्ध्रुवम्
॥ ८० ॥

P5-0380 · 81
गोवर्धनधरं कृष्णं ध्यात्वा मन्त्रं जपेन्नरः ।
वातवर्षादिभिर्घोरैर्भये सम्यगुपस्थिते ।
भयमाशु विनश्येत् तु नात्र कार्या विचारणा
॥ ८१ ॥

P5-0381 · 82
वृन्दावनगतं कृष्णं वृष्टिकामो विचिन्तयन् ।
जपेदष्टसहस्रन्तु वृष्टिमाप्नोत्यसंशयम् ।
एवञ्च मनसा ध्यात्वा वृष्टिं वर्षासु चाहरेत्
॥ ८२ ॥

P5-0382 · 83
एवं जलाशये ध्यात्वा जपेदष्टसहस्रकम् ।
वृष्टिर्भवत्यकालेऽपि महती नात्र संशयः
॥ ८३ ॥

P5-0383 · 84
गायन्तं वेणुना कृष्णं गानकामो विचिन्तयन् ।
आज्यमष्टशतं हुत्वा किन्नरैः सह गीयते
॥ ८४ ॥

P5-0384 · 85
जयकामो जपेद्यस्तु हरन्तं कल्पकद्रुमम् ।
संस्तुतं देवताभिश्च गरुडारूढमच्युतम् ।
ध्यात्वा रक्तकरवीरसमिद्भिर्जुहुयाद्वशी ।
अष्टोत्तरसहस्रन्तु साक्षात्पराजितो रिपुः ।
राजादिभयमापन्ने संशये दुर्गसंसदि ।
हुत्वा दशसहस्रन्तु तत्क्षणान्नाशयेद्ध्रुवम्
॥ ८५ ॥

P5-0385 · 86
नीलोत्पलादिभिर्हुत्वा अष्टोत्तरसहस्रकम् ।
शङ्खादिनिधिसंयुक्तं द्वारकामध्यगं हरिम् ।
ध्यात्वा तण्डुलदूर्वाभिर्हुत्वा शान्तिकमाहरेत्
॥ ८६ ॥

P5-0386 · 87
कदम्बमूले गायन्तं गोपालं वनमालिनम् ।
कदम्बकुसुमैर्जुष्टं चिन्तयित्वा जनार्दनम् ।
अपामार्गदलैर्हुत्वा अष्टोत्तरसहस्रकम् ।
सर्वान् लोकान् वशीकृत्य आशु विज्ञो भविष्यति
॥ ८७ ॥

P5-0387 · 88
राजद्वारे सभायाञ्च व्यवहारे च मन्त्रवित् ।
शतमष्टोत्तरं जप्त्वा प्रथमं वाक्यमुच्चरेत् ।
अनेनैव विधानेन सर्वत्र विजयी भवेत्
॥ ८८ ॥

P5-0388 · 89
मोक्षकामो जपेद्ययस्तु पुण्डरीकाक्षमव्ययम् ।
सनकादिस्तुतं कृष्णं शुक्लाम्बरधरं प्रभुम् ।
शङ्खचक्रधरं ध्यात्वा मन्त्रं लक्षं जपेन्नरः ।
तारसम्पुटितं कृत्वा विधिवत् स्थानमाश्रितः ।
चक्राब्जमण्डले कृष्णं पूजयेद्भक्तिमावहन् ।
संसारसागरात्सद्यो मुच्यते नात्र संशयः
॥ ८९ ॥

P5-0389 · 90
अथ दधिवामनः :
पायसान्नेन जुहुयात्सहस्रं श्रियमाप्नुयात् ।
धान्यहोमेन धान्याप्तिः शतपुष्पसमुद्भवैः ।
बीजैः सहस्रसंख्यातैर्होमो भयविनाशनः
॥ ९० ॥

P5-0390 · 91
दध्योदनेन शुद्धेन हुत्वा मुच्येत दुर्गतेः ।
स्मृत्वा त्रैविक्रमं रूपं जपेन्मन्त्रमनन्यधीः ।
मुक्तो बन्धाद्भवेत्सद्यो नात्र कार्या विचारणा
॥ ९१ ॥

P5-0391 · 92
अथ हयग्रीवः :
बिल्वै फलैः कृतो होमः श्रीपदः परिगीयते ।
कुन्दपुष्पाणि जुहुयादिच्छन वाक्श्रियमव्ययम् ।
मनुनानेन सञ्जप्तं घृतं ब्राह्मीरसैः शृतम् ।
कवितामाहरेत् पुंसामनर्गलविजृम्भिणीम् ।
वचामनेन सञ्जप्तां भक्षयेत् प्रातरन्वहम् ।
सर्ववेदागमादीनां व्याख्याता जायतेऽचिरात्
॥ ९२ ॥

P5-0392 · 93
अथ नृसिंहः
अथ पुष्पैर्जुहुयान्मन्त्री बिल्वकाष्ठैधितेऽनले ।
सहस्रं श्रियमाप्नोति पत्रैर्वा बिल्वसम्भवैः ।
श्रीपुष्पं लवङ्गपुष्पम्
॥ ९३ ॥

P5-0393 · 94
प्रसूनैर्वा फलैस्तद्वत् दूर्वाहोमादरोगिताम् ।
दुःस्वप्ने निशि संजाते स्नात्वा मन्त्रं शतं जपेत् ।
अनिद्रो मन्त्रवित्पश्चात्सुस्वप्नस्तस्य जायते
॥ ९४ ॥

P5-0394 · 95
व्याघ्रचौरमृगादिभ्यो महारण्ये भयाकुले ।
रक्षेन्मनुरयं जप्तो भयेष्वन्येषु मन्त्रिणम् ।
अनेन मन्त्रितं भस्म विषग्रहमहोरगान् ।
नाशयेदचिरादेव मन्त्रस्यास्य प्रभावतः
॥ ९५ ॥

P5-0395 · 96
घोराभिचारे सोन्मादे महोत्पाते महाभये ।
जपेन्मन्त्रं स्मरेदेनं दुःखान्मुक्तो भवेन्नरः
॥ ९६ ॥

P5-0396 · 97
सिंहरूपं महाभीमं नखदंष्ट्रातिभीषणम् ।
स्मृत्वात्मानं विभुं पश्चाद्ध्यायेन्मृगशिशुं रिपुम् ।
गृहीत्वा गलदेशे तं पुनर्दिक्षु क्षिपेद् द्रुतम् ।
पुत्रमित्रकलत्रादेरुच्चाटो जायते रिपोः
॥ ९७ ॥

P5-0397 · 98
पूर्वमृत्युपदे साध्यनाम कृत्वा स्वयं हरिः ।
निशितैर्नखदंष्ट्राद्यैः खाद्यमानं रिपुं स्मरन् ।
नित्यमष्टोत्तरशतं जपेन्मन्त्रमतन्द्रितः ।
जायते मण्डलादर्वाक्शत्रुसेनानिवारणम्
॥ ९८ ॥

P5-0398 · 99
विभीतकाष्ठैर्ज्वलिते पावके रिपुमर्दनम् ।
विचिन्त्य देवं नृहरिं सम्पूज्य कुसुमादिभिः ।
समूललुनैर्जुहुयाच्छरैर्दशशतं पृथक् ।
रिपुं खादन्निव जपेन्निर्भिन्दन्निव निक्षिपेत् ।
कृत्वा सप्तदिनं मन्त्री सेनामिष्टां महीपतेः ।
प्रस्थापयेच्छुभे लग्ने परराष्ट्रजयेच्छया ।
तस्याः पुरस्तान्नृहरिं निघ्नन्तं रिपुमण्डलम् ।
स्मृत्वा प्रयोगं कुर्वीत यावदायाति सा पुनः ।
विजित्य निखिलान् शत्रून् सह वीरश्रिया सुखम् ।
अगत्त विजयी राजा ग्रामक्षेत्रधनादिभिः ।
प्रीणयेन्मन्त्रिणं सम्यग्विभवैः प्रीतमानसः ।
मन्त्री यदि न सन्तुष्येदनर्थः स्यान्महीपतेः
॥ ९९ ॥

P5-0399 · 100
अथ वराहः :
रवौ सिंहगतेऽष्टम्यां शुक्लपक्षे सितां शिलाम् ।
पञ्चगव्येषु निक्षिप्य स्पृष्ट्वा तामयुतं जपेत् ।
उत्तराभिमुखो भूत्वा तां शिलां निखनेद्भुवि ।
शत्रुचौरमहाभूतैः कृत्वांवाधां विनाशयेत्
॥ १०० ॥

P5-0400 · 1
भानूदये भौमवारे साध्यक्षेत्रात्समाहरेत् ।
मृत्तिकां संजपन्मन्त्रं तं पुनर्विभजेत् त्रिधा ।
चुल्ल्यामेकां समालिख्य पाकपात्रे तथा पराम् ।
गोदुग्धे परमालोड्य शोधितांस्तण्डुलान् क्षिपेत् ।
शोधितेऽग्नौ पचेत्सम्यक् चरु मन्त्री जपन्मनुम् ।
अवतार्य चरुं पश्चादग्नौ देवं यथाविधि ।
धूपदिपादिकैरिष्ट्वा पुनराज्यप्लुतं चरुम् ।
जुहुयादेधिते वह्नौ यावदष्टोत्तरं शतम् ।
एवं सप्तारवारेषु जुहुयात् क्षेत्रसिद्धये
॥ १ ॥

P5-0401 · 2
प्रातःकाले भृगोर्वारे मृदं साध्यमहीतलात् ।
आदाय हरिरापाद्य पूर्ववज्जुहुयात्सुधीः ।
विरोधो नश्यति क्षेत्रे सह चौराद्युपप्ल्वैः
॥ २ ॥

P5-0402 · 3
राजवृक्षसमुत्थाभिः समिद्भिर्मनुनामुना ।
त्रिसहस्रं प्रजुहुयात् तस्य स्युः सर्वसम्पदः ।
शालिभिर्जुहुयान्मन्त्री नित्ममष्टोत्तरं शतम् ।
समृद्धिर्धान्यसंघातैः शोभते तस्य मन्दिरम् ।
तावदाज्येन जुहुयान्मण्डलात्स्वर्णमाप्नुयात्
॥ ३ ॥

P5-0403 · 4
अथ मृत्युञ्जयः :
दुग्धसिक्तैः सुधाखण्डैर्मन्त्री मासं सहस्रकम् ।
आराधितेऽग्नौ जुहुयाद्विधिवद्विजितेन्द्रियः ।
सुधाखण्डं गुडूचिः ।
सन्तुष्ट शरङ्कस्तेन सुधाप्लावितविग्रहः ।
आयुरारोगसम्पत्तिर्यशः पुत्रान् विवर्द्धयेत्
॥ ४ ॥

P5-0404 · 5
सुधा वटतिला दूर्वा पयः सर्पिः पयो हविः ।
इत्युक्तैः सप्तभिर्द्रव्यैर्जुहुयात्सप्तवासरम् ।
क्रमाद्दशशतं नित्यमष्टोत्तरमतन्द्रितः ।
सप्ताधिकान् द्विजान्नित्यं भोजयेन्मधुरान्वितम् ।
विकारानुगुणं मन्त्री वर्द्धयेद्धोमवासरान् ।
गुरवे दक्षिणां दद्यादरुणा गाः पयस्विनीः ।
गुरुं सम्पूज्येत् पश्चाद्धनाद्यैर्देवताधिया ।
अनेन विधिना साध्यः कृत्याद्रोहादिभिस्ततः ।
विमुक्तः सुचिरं जीवेच्छरदां शतमञ्जसा
॥ ५ ॥

P5-0405 · 6
अभिचारे ज्वरे तीव्रे घोरोन्मादे शिरोगदे ।
असाध्यरोगे क्ष्वेडार्तो मोहे दाहे महाभये ।
होमोऽयं शान्तिदः प्रोक्तः सर्वसम्पत्प्रदायकः ।
द्रव्यैरेतैः प्रजुहुयात् त्रिजन्मसु यथाविधि ।
भोजयेन्मधुरैर्भोज्यैर्ब्राह्मणान् वेदपारगान् ।
दीर्घमायुरवाप्नोति वाञ्छितां विन्दते श्रियम्
॥ ६ ॥

P5-0406 · 7
एकादशाहुतीर्नित्यं दूर्वाभिर्जुहुयाद्बुधः ।
अपमृत्युजिदेव स्यादायुरारोग्यवर्द्धनः
॥ ७ ॥

P5-0407 · 8
त्रिजन्मषु सुधावल्लीकाश्मीरवकुलोद्भवैः ।
समिद्वरैः कृतो होमः सर्वमृत्युगदापहः
॥ ८ ॥

P5-0408 · 9
सिद्धार्थैर्विहितो होमो महाज्वरविनाशनः ।
अपामार्गसमिद्धोमः सर्वामयनिसूदनः
॥ ९ ॥

P5-0409 · 10
अथ दक्षिणामूर्तिः :
भिक्षाहारो जपेन्मासं मनुमेनं जितेन्द्रियः ।
नित्यं सहस्रमष्टोर्ध्वं परां विन्दति वाक्श्रियम् ।
त्रिवारं जप्तमेतेन मनुना सलिलं पिबेत् ।
नित्यशो दक्षिणामूर्ति ध्यायेत्साधकसत्तमः ।
शास्त्रव्याख्यानसामर्थ्यं लभते वत्सरान्तरे
॥ १० ॥

P5-0410 · 11
ब्राह्मी सैन्धवसिद्धार्थवचाकुष्ठकणोत्पलैः ।
सुगन्धिसंयुतैः कल्कैः शृतं ब्राह्मीरसैर्घृतम् ।
मनुनानेन संजप्तमयुतं साधु साधितम् ।
निपीतं कविता-कान्ति-बलायुः-श्रीधृतिप्रदम्
॥ ११ ॥

P5-0411 · 12
अथ भैरवी :
जुहुयादरुणाम्भोजैरदोषैर्मधुराप्लुतैः ।
लक्षसंख्यं तदूर्ध्वं वा प्रत्यहं भोजयेद् द्विजान् ।
वनिता युवती रम्याः प्रीणयेद्देवता धिया ।
होमान्ते धनधान्याद्यैस्तोषयेद्गुरुमात्मनः ।
एवं कृते जगद्वश्यो रमाया भवनं भवेत्
॥ १२ ॥

P5-0412 · 13
रक्तोत्पलैस्त्रिमध्वक्तैररुणैर्वा हयारिजैः ।
पुष्पैः पयोऽन्नैः सघृतैर्होमाद्विश्वं वशं नयेत्
॥ १३ ॥

P5-0413 · 14
वाक्सिद्धिं लभते मन्त्री पलाश कुसुमैर्हुताम् ।
कर्पूरागुरुसंयुक्तं गुग्गुलुं जुहुयात्सुधीः ।
ज्ञानं दिव्यमाप्नोति तेनैव स भवेत्कविः ।
क्षीराक्तैरमृताखण्डैर्होमः सर्वापमृत्युजित् ।
दूर्वाभिरायुषे होमः क्षीराक्ताभिर्दिनत्रयम् ।
गिरिकर्णीभवैः पुष्पैर्ब्राह्मणान् वशयेद्ध्रुवम्
॥ १४ ॥

P5-0414 · 15
कह्लारैः पार्थिवान् पुष्पैस्तद्वधूः कर्णिकारजैः ।
मालतीकुसुमैर्हुत्वा तत्पुत्रांश्च वशं नयेत्
॥ १५ ॥

P5-0415 · 16
कोरण्टकुसुमैर्वैश्यान् वृषलान् पाटलोद्भवैः ।
अनुलोमविलोमान्तःस्थित-साध्याह्वयान्वितम् ।
मन्त्रमुच्चार्य जुहुयान्मन्त्री मधुरलोडितैः ।
सर्षपैः कटुसंमिश्रैर्वशयेत् पार्थिवान् क्षणात्
॥ १६ ॥

P5-0416 · 17
अनेनैव विधानेन तत्पत्नीं तत्सुतानपि ।
जातीविल्वफलैः पुष्पैर्मधुरत्रयसंयुतैः ।
नरनारीनरपतीन् होमतो वशयेद्ध्रुवम्
॥ १७ ॥

P5-0417 · 19
मालतीवकुलोद्भूतैः पुष्पैश्चन्दनलोडितैः ।
जुहुयात् कवितां मन्त्री लभते वत्सरान्तरे ।
मधुरत्रयसंयुक्तैः फलैर्विल्वसमुद्भवैः ।
जुहुयाद्वशयेल्लोकान् श्रियमाप्नोति वाञ्छिताम् ।
पाटलैः कुसुमैः कुन्दैश्चोत्पलैर्नागचम्पकैः ।
नन्द्यावर्तैर्विकसितैः कृतमालैर्जुहोति यः ।
जायते वत्सरादर्वाक्श्रिया विजितपार्थिवः
॥ १९ ॥

P5-0418 · 20
साज्यमन्नं प्रजुहुयाद्भवेदन्न समृद्धिमान् ।
कस्तूरीकुंकुमोपेतं कर्पूरं जुहुयाद्वशी ।
कन्दर्पादधिकं सद्यः-सौन्दर्यमधिगच्छति
॥ २० ॥

P5-0419 · 21
लाजान् प्रजुहुयान्मन्त्री दधिक्षीरधृतप्लुतान् ।
विजित्य रोगानखिलान् स जीवेच्छरदां शतम्
॥ २१ ॥

P5-0420 · 22
पादद्वयं मलयजं पादं कुंकुमकेशरम् ।
पादं गोरोचनायाश्च त्रीणि पिष्ट्वाहिमाम्भसा ।
विदध्यात्तिलकं भाले यान् पश्येद्यैर्विलोक्यते ।
यान् स्पृशेत्स्पृश्यते यैर्वा वश्याः स्युस्तस्य तेऽचिरात्
॥ २२ ॥

P5-0421 · 23
कर्पूर कपिचोराणि समभागानि कल्पयेत् ।
चतुर्भागजटामांसी तावती रोचना मता ।
कुंकुमं सप्तभागं स्याद्विभागं चन्दनं मतम् ।
अगुरुर्नवभागः स्यादिति भगक्रमेण च ।
हिमाद्भिः कन्यकापिष्टमेतत्सर्वं सुसाधितम् ।
आदाय तिलकं भाले कुर्याद् भूमिपतीन्नरान् ।
वनिता मदगर्वाढ्यां मदोन्मत्तान्मतङ्गजान् ।
सिंहव्याघ्रान् महासत्वान् भूतवेतालराक्षसान् ।
दर्शनादेव वशयेन्नात्र कार्या विचारणा
॥ २३ ॥

P5-0422 · 24
अथ सुन्दरी :
ज्ञानार्णवे :
मल्लिका-मालती-जाती-कुसुमैर्मधुमिश्रितैः ।
घृतपूर्णैर्हुनेद्देवि वागीशत्वं प्रजायते ।
मूकस्यापि हि मूढस्य शिलारूपस्य नान्यथा
॥ २४ ॥

P5-0423 · 25
जवापुष्पैराज्यसिक्तैः करवीरैस्तथाविधैः ।
हवनान्मोहयेन्मन्त्री लोकत्रयनिवासिनः
॥ २५ ॥

P5-0424 · 26
कर्पूरं कुंकुमं देवि मिश्रं मृगमदेन हि ।
हवनान्मदनो देवि मन्त्रिणा विजितो भवेत् ।
सोभाग्येन विलासेन समर्थ्येनापि सुव्रते
॥ २६ ॥

P5-0425 · 27
चम्पकैः पाटलेर्हुत्वा श्रियं प्रोल्लसिताम्बराम् ।
प्राप्नोति मन्त्री महतीं स्तम्भयेज्जगतीमिमाम्
॥ २७ ॥

P5-0426 · 28
श्रीखण्डं गुग्गुलुं चन्द्रमगुरं होमयेत्ततः ।
नागेन्द्रासुरदेवानां पुरन्ध्रीर्वशमानयेत्
॥ २८ ॥

P5-0427 · 29
सर्वलोकावशास्तस्य भवन्त्येव न संशयः ।
लक्षहोमालभेद्राज्यं दारिद्र्यभय पीडितः ।
दुर्गोपशमनं देवि पलत्रिमधुहोमतः ।
रुधिराक्तेन छागस्य मांसेन निशि होमतः ।
मधुरत्रयक्तेन गुरुणोक्तविधानतः ।
परराष्ट्रं महादुर्गं समस्तं स्ववशं नयेत्
॥ २९ ॥

P5-0428 · 30
गोक्षीरं मधुदध्याज्यं पृथग्घुत्वा वरानने ।
आयुर्वलमथारोग्यं समृद्धिर्जायते नृणाम्
॥ ३० ॥

P5-0429 · 31
क्रमेण शैलजे क्षीरमधुभ्यां मृत्युनाशनम् ।
दधिमाक्षिकहोमेन सौभाग्यं धनमाप्नुयात्
॥ ३१ ॥

P5-0430 · 32
सितया केवलं वैरिस्तम्भनकारकः ।
होमो दधिमधुक्षीरलाजैश्च वीरवन्दिते ।
कालहन्ता रोगहन्ता मृत्युहन्ता न संशय
॥ ३२ ॥

P5-0431 · 33
कमलैररुणैर्होमः सम्यक्सम्पत्तिदायकः ।
रक्तोत्पलैर्जगद्वश्यं राजानो वशगाः क्षणात्
॥ ३३ ॥

P5-0432 · 34
नीलोत्पलैर्महादुष्टा वशमायान्ति नान्यथा ।
श्वेतोत्पलैः श्रियं वाचं लभते हवनात्प्रिये
॥ ३४ ॥

P5-0433 · 36
तथा :
अक्षमालां प्रपूज्याथ चन्दनेन सुपूजिताम् ।
समाश्रित्य जपेद्विद्यां लक्षमात्रं सदा शुचिः ।
योषितो भ्रामयन्त्येव मनस्तस्य सुनिश्चितम् ।
तदा द्वितीयलक्षन्तु प्रजपेत्साधकोत्तमः ।
पातालतल नागेन्द्रकन्यकाः क्षोभयन्ति तम् ।
तासां कटाक्षमात्रेण सम्मोहयति साधकम् ।
तदा लक्षत्रयं कुर्यात्साधकः स्थिरमानसः ।
तृतीयलक्षे संजप्ते भ्रामयन्ति सुराङ्गनाः
॥ ३६ ॥

P5-0434 · 37
अभिमानेन सौन्दर्यसौभाग्यमदकारिणा ।
साधकं भ्रामयन्त्येव तत्रासौ स्थिरमानसः
॥ ३७ ॥

P5-0435 · 38
तदा लक्षत्रयं साधु सर्वपापनिकृन्तनम् ।
एवं लक्षत्रयं जप्ते साधकः सुस्थमानसः ।
सम्मोहयति स्वर्लोकभूर्लोकतलवासिनः ।
पुरुषा योषितो वश्याश्चराचरमपि प्रिये
॥ ३८ ॥

P5-0436 · 39
गोरचनादिभिर्द्रव्यैश्चक्रराजं समालिखेत् ।
अतीवसुन्दरीं रम्यां तन्मध्ये प्रतिमां वराम् ।
ज्वलन्तीं नामसहितां महाबीजविदर्भितान् ।
चिन्तयेत् तु ततो देवीं योजनानां सहस्रतः ।
अदृष्टपूर्वा देवेशि श्रुतमात्रापि दुर्लभा ।
राजकन्याथवा भार्या भयलज्जाविवर्जिता ।
आयाति साधकं सम्यक्मन्त्रमूढा सती प्रिये
॥ ३९ ॥

P5-0437 · 40
चक्रमध्यगतो भूत्वा साधकश्चिन्तयेत् सदा ।
उद्यद्भानुसहस्राभमात्मानमरुणं तथा ।
साध्मप्यरुणीभूतं चिन्तयेत्परमेश्वरि ।
अनेन क्रमयोगेन स्वयं कन्दर्परूपवान् ।
सर्वसौभाग्यसुभगः सर्वलोकवशङ्करः ।
सर्वरक्तोपचारैश्च मुद्रासहितविग्रहम् ।
चक्रं सम्पूजयेद्यस्तु यस्य नामविदर्भितम् ।
स भवेद्दासवद्देवि धनाढ्यो वापि भूपतिः ।
चक्रमध्यगतं कुर्यान्नाम यस्यास्तु योषितः ।
अदृष्टाया महेशानि योनिमुद्राधरो बुधः ।
हठादानयते शीघ्रं यक्षिणीं राजकन्यकाम् ।
नागकन्यामप्सरसं खेचरीं वा सुराङ्गनाम् ।
विद्याधरीं दिव्यरूपां ऋषीकन्यां रिपुस्त्रियम् ।
मदनोद्भूतसन्तापस्थलज्जघनमण्डलाम् ।
कामबाणविभिन्नान्तःकरणां लोलचक्षुषम्
॥ ४० ॥

P5-0438 · 41
महाकामकलाध्यानयोगात्तु सुरवन्दिते ।
क्षोभयेत् स्वर्गभूर्लोकपातालतलयोषितः
॥ ४१ ॥

P5-0439 · 42
रोचनाभागमेकन्तु भागमेकन्तु कुंकुमम् ।
अथ भागद्वयं देवि चन्दनं मर्दयेत् समम् ।
एकत्र तिलकं कुर्यात् त्रैलोक्यवशकारिणम् ।
अष्टोत्तरशतं विद्यां मन्त्रयित्वा वशं नयेत् ।
राजानं नगरं ग्रामं येन यद्वत्प्रदृश्यते ।
मन्त्रिणा परमेशानि तत्सर्वं तस्य वश्यगम्
॥ ४२ ॥

P5-0440 · 43
ताम्बूलं धूपमुदकं पत्रं पुष्पं फलं दधि ।
दुग्धं चूर्णमात्रं वस्त्रं कर्पूरमेव च ।
कस्तूरीधुसृणञ्चैव लवङ्गं जातिपत्रकम् ।
जलम्बा वस्तु सकलं यद्यत् तु परमेश्वरि ।
अष्टोत्तरशतं जप्त्वा यस्मै यस्मै प्रयच्छति ।
स वश्यो जायते देवि नात्र कार्या विचारणा
॥ ४३ ॥

P5-0441 · 44
स्त्रियस्तु सकला वश्या दासीभूता भवन्ति ताः ।
हठाकर्षणमेतत् तु कथितं नान्यथा भवेत्
॥ ४४ ॥

P5-0442 · 45
अथ वक्ष्ये महेशानि महापातकनाशनम् ।
शिवां सम्पूजयेद्देवि सुगन्धैः कुसुमैः प्रिये ।
महापातकयुक्तात्म, तत्क्षणात् पापहा भवेत्
॥ ४५ ॥

P5-0443 · 46
शमीदूर्वांकुराश्वत्थपल्लवैरथवार्कजैः ।
मासेन हन्ति कलुषं सप्तजन्मकृतं नरः
॥ ४६ ॥

P5-0444 · 47
मुद्रासन्नद्धयोगः सम्पूर्वोक्तध्यानयोगतः ।
लक्षमात्रं जपेद्यस्तु महापापैः प्रमुच्यते
॥ ४७ ॥

P5-0445 · 48
लक्षद्वयेन पापानि सप्तजन्मकृतान्यपि ।
महापातकमुख्यानि नाशयेन्नात्र संशयः
॥ ४८ ॥

P5-0446 · 49
ततो लक्षद्वयं जप्त्वा कुलेश्वरि ।
महापातककोटिस्तु नाशयेन्नात्र संशयः
॥ ४९ ॥

P5-0447 · 50
चतुर्लक्षजपाद्देवि महावागीश्वरो भवेत् ।
कुबेर इव देवेशि पञ्चलक्षान्न संशयः
॥ ५० ॥

P5-0448 · 51
षड्लक्षजपमात्रेण महाविद्याधरो भवेत् ।
सप्तलक्षजपान्मन्त्री खेचरीमेलको भवेत्
॥ ५१ ॥

P5-0449 · 52
अष्टलक्षजपान्मन्त्री देवपूज्यो भवेन्नरः ।
अणिमाद्यष्टसिद्धीनां नायको भवति प्रिये ।
वशगास्तस्य राजानो योषितश्च विशेषतः
॥ ५२ ॥

P5-0450 · 53
नवलक्षप्रमाणानि जपेत् त्रिपुरसुन्दरीम् ।
रुद्रमूर्तिः स्वयं कर्त्ता स तु साक्षात् न संशयः ।
सर्वैर्वन्द्यः सदा सुस्थः सर्वसौभाग्यवान्भवेत्
॥ ५३ ॥


Weitere Anwendungen und Darbringungen

P5-0451 · 54
अथ छिन्नमस्ता :
श्रीफलानां पलाशानां तथैवोडुम्बरस्य च ।
सर्वसिद्धिप्रदो होमः कर्तव्योऽथ प्रयत्नतः
॥ ५४ ॥

P5-0452 · 55
शतमष्टोत्तरं हुत्वा जपं कुर्यात्ततः परम् ।
मालतीकुसुमैर्होमः कर्तव्यो मधुसंयुतैः ।
घृतेन सहितो वापि वागीशत्वप्रदायकः
॥ ५५ ॥

P5-0453 · 56
आज्ययुक्तेन भक्तेन वलिर्देयः सदामिषैः ।
षण्मासं दधिसंयुक्तैर्लक्ष्मीस्तस्य स्थिरा भवेत्
॥ ५६ ॥

P5-0454 · 57
छागमांसं सरक्तञ्च घृतेन प्ल्वावितं तथा ।
यो जुहोत्ययुतं देवीं तस्य वशो भवेत्
॥ ५७ ॥

P5-0455 · 58
श्वेतेन करवीरेण होमं सम्यक्करोति यः ।
लक्षमात्रं विधानेन स जीवेच्छरदां शतम्
॥ ५८ ॥

P5-0456 · 59
जुहुयात् तिलपुष्पेण मधुना तेन साधकः ।
सक्षलसंख्यानि यो देवीं सिद्धिस्तस्य न संशयः
॥ ५९ ॥

P5-0457 · 60
कर्णिकारसहस्राणि यो जुहोति घृतैः सहः ।
स प्राप्नोति परां सिद्धिमीप्सितां सुरसुन्दरि ।
पायसेन चरेद्धोमं घृतेन सह सुन्दरि ।
त्रिसन्ध्यं मासमात्रन्तु वागीशत्वमवाप्नुयात्
॥ ६० ॥

P5-0458 · 61
अथ श्यामा :
कालीतन्त्रे :
अथ काम्यविधिं वक्ष्ये येन सर्वत्र पारगः ।
साधकः साधयेत्सिद्धिं देवानामपि दुर्लभाम्
॥ ६१ ॥

P5-0459 · 62
कुलागारं पुष्पिताया दृष्ट्वा यो जपते नरः ।
अयुतैकप्रमाणेन साधकः स्थिरमानसः ।
केवलं गुप्तभावेन स तु विद्यानिधिर्भवेत्
॥ ६२ ॥

P5-0460 · 63
संस्कृताः प्राकृताः शब्दा लौकिका वैदिकास्तहा ।
वशमायान्ति ते सर्वे साधकस्य च नान्यथा
॥ ६३ ॥

P5-0461 · 64
अथवा मुक्तकेशस्तु हविर्भुक्त्वा सुसंयतः ।
प्रजपेदयुतं प्राज्ञ एतदेव फलं लभेत्
॥ ६४ ॥

P5-0462 · 65
नग्नां परलतां पश्यन् अयुतं साधकः ।
प्रजपेत् स भवेत्शीघ्रं विद्याया वल्लभः स्वयम्
॥ ६५ ॥

P5-0463 · 66
तस्य दर्शनमात्रेणं वादिनः कुण्ठतां गताः ।
गद्यपद्यमयी वाणी सभायां तस्य जायते
॥ ६६ ॥

P5-0464 · 67
तन्नाम्ना सुधियः सर्वे प्रणमन्ति मुदान्विताः ।
तस्य वाक्य परिचयाज्जडा भवन्ति वाग्मिनः
॥ ६७ ॥

P5-0465 · 68
कुलचुडामणौ :
रजोयुक्तां समासाद्य तद्गात्रे स्वेष्टदेवताम् ।
पूजयित्वा महारात्रौ त्रिदिनं प्रजपेन्मनुम् ।
लक्षपीठफलं देवि लभते नात्र संशयः
॥ ६८ ॥

P5-0466 · 69
वेतालपादुकासिद्धिं खड्गसिद्धिञ्च भैरव ।
अञ्जनं तिलकं गुह्यं साधयेत्साधकोत्तमः ।
प्रजपेत् प्रतिदिनमष्टोत्तरसहस्रमित्यर्थः
॥ ६९ ॥

P5-0467 · 70
यत्र जापे च होमे च संख्या नोक्ता मनतोषिभिः ।
तत्रैव गणना प्रोक्ता गजान्तकसहस्रकमिति
॥ ७० ॥

P5-0468 · 71
विद्याकामेन होतव्यं पद्मैर्मधुसमन्वितैः ।
धनकामेन होतव्यं तिलाज्यमधुसंयुतम्
॥ ७१ ॥

P5-0469 · 72
वन्धूकपुष्पहोमेन दासञ्च कुरुते नृपम् ।
सर्पिर्लवणहोमेन सदाकर्षति कामिनी
॥ ७२ ॥

P5-0470 · 73
वकुलैर्होममात्रेण सौभाग्यं लभते नरः ।
मल्लिकाजातिपुन्नागकदम्बैः पुष्टिमाप्नुयात्
॥ ७३ ॥

P5-0471 · 74
क्षीराज्यतगरैर्होमान्महतीं कवितां लभेत्
॥ ७४ ॥

P5-0472 · 75
चन्दनागुरुकाश्मीरकर्पूरहोमतः पुनः ।
मन्त्री नीलसरस्वत्याः सर्वाभीष्टमवाप्नुयात् ।
नीलसरस्वतीपदमुपलक्षणम्
॥ ७५ ॥

P5-0473 · 76
कर्पूरहोमतो मन्त्री सर्वाभीष्टमवाप्नुयात् ।
सम्पूज्य मूलमन्त्रेण विल्वपत्रैर्घृतान्वितैः ।
सहस्रं प्रत्यहं हुत्वा प्राप्नोति परमां गतिम् ।
प्रतिदिनमिति मण्डलपर्यन्तम्
॥ ७६ ॥

P5-0474 · 77
घृताक्तमालतीपुष्पहोमाद् द्रुतकविर्भवेत् ।
अत्र यत्र यत्र होमे संख्या नोक्ता तत्र तत्रायुतसंख्यया होतव्यम्
।
तदुक्तं तत्रैव :
सर्वस्यैव तु होमस्य नियमोऽयुतसंख्यकः
॥ ७७ ॥

P5-0475 · 78
अथ तर्पणम् :
मत्स्यसूक्ते :
मधुना तर्पणं कुर्यात् सर्वकामप्रपूरकम् ।
मन्त्रसिद्धिकरं साक्षान्महापातकनाशनम्
॥ ७८ ॥

P5-0476 · 79
नीलतन्त्रे :
कर्पूरमिश्रितैस्तोयैर्मासमात्रं हि तर्पयेत् ।
वशीकृत्य नृपान् सर्वान् भोगी स्याद् यावदायुषम्
॥ ७९ ॥

P5-0477 · 80
घृतैः पूर्णायुषः सिद्द्यै दुग्धैरारोग्यसिद्धये ।
अगुरुमिश्रितैस्तोयैः सर्वकालः सुखी भवेत्
॥ ८० ॥

P5-0478 · 81
नारिकेलोदकैर्मिश्रैस्तोयैः सर्वार्थसिद्धये ।
मरीचमिश्रितैस्तोयैस्तथा शत्रून् विनाशयेत्
॥ ८१ ॥

P5-0479 · 82
केवलैरुष्णतीयैश्च शत्रुमुच्चाटयेत्क्षणात् ।
ज्वराविष्टौ भवेत् तेन दुग्धसेकात्समं नयेत्
॥ ८२ ॥

P5-0480 · 83
सिद्धसारस्वते :
शताभिजप्तमात्रेण रोचनातिलकं नरः ।
कृत्वा पश्यति यं मन्त्री तं कुर्याद्दासवत्सुधीः
॥ ८३ ॥

P5-0481 · 84
फेरत्कारीये :
उपचारविशेषेण राजपत्नीं वशं नयेत् ।
राजानं जपमात्रेण बलिना सकलं जगत् ।
उपचारविशेषेणेति अधिकारिभेदाद् बोद्धव्यम् ।
जपमात्रेणेति पूजावहिर्भावेनेत्यर्थः
॥ ८४ ॥

P5-0482 · 85
बलिद्रव्यन्तु मत्स्यसूक्ते :
रम्भाजातीबीजपूरं सुगन्धिपरिमिश्रितम् ।
मिश्रीकृत्य बलिन्दद्यादष्टम्याञ्च विशेषतः
॥ ८५ ॥

P5-0483 · 86
बलिमन्त्रस्तु :
प्रणवं पूर्वमुच्चार्य उग्रतारे ततः परम् ।
विकटदष्ट्रे मोहयपदद्वयं समुच्चरेत् ।
मारय खादय शत्रुन् पचद्वयं वदेत्ततः ।
ये मां हिंसितुमुद्यता योगिनी चक्रैस्तान हारय हुं फट् स्वाहा
परविद्यामाकर्षयत्रुटद्वयं कपाले गृह्ण गृह्ण बलि स्वाहेति ।
अयन्ताराविषये, कालिकादौ तु तत्पटलोक्त-बलिसम्भारो बोद्धव्यः
॥ ८६ ॥

P5-0484 · 87
अथ निग्रहाद्युपायः :
वीरतन्त्रे :
श्मशानाङ्गारमादाय मङ्गले वासरे निशि ।
कृष्णवस्त्रेण संवेष्ट्य बध्नीयाद्रक्ततन्तुना ।
शताभिमन्त्रितं कृत्वा निक्षिपेद्वैरिवेश्मनि ।
सप्ताहाभ्यन्तरे तस्य चोच्चाटनमिदं महत्
॥ ८७ ॥

P5-0485 · 88
तदुक्तं फेत्कारीये :
नरास्थिनि लिखेन्मन्त्रं क्षारयुक्तहरिद्रया ।
सहस्रं परिसंजप्य निशायां शनिवासरे ।
निक्षिप्यते यस्य गेहे मृत्युस्तस्य द्विमासतः
॥ ८८ ॥

P5-0486 · 89
क्षेत्रे तु शस्यहानिः स्याद्धयहानिस्तुरङ्गमे ।
धनहानिर्धनागारे ग्राममध्ये तु तत्क्षयः ।
क्षारस्तु श्येनविट्युक्तं विटलवणम्
॥ ८९ ॥

P5-0487 · 90
हृल्लेखाधोगतरेफमध्ये अमुकामुकयोर्महाद्वेषं कुरु इति ।
तदुक्तं :
द्वेषे तु विलिखेन्मन्त्रं प्रेतकर्पटके सुधीः ।
द्वेष्यद्वेषकयोर्नाम्नी तस्य द्वेषो महान् भवेत् ।
विलिखेन्मन्त्रमिति मन्त्रं लिखित्वा हृल्लेखारेफमध्ये अमुकं
मारय मारयेत्यादि साध्यसहितमित्यर्थः
॥ ९० ॥

P5-0488 · 91
अथवा साध्यं लिखित्वा तदन्ते लिखेत् ।
सहस्रं परिजप्येति अमुक्तं मारय मारयेति अन्ते मन्त्रजपः ।
विद्वेषे तु अमुकामुकयोर्विद्वेषं कुरु कुरु इत्यस्यान्ते सहस्रं जपेत्
॥ ९१ ॥

P5-0489 · 92
अथ वेतालादि-सिद्धिः :
तदुक्तं कुलचुडामणौ :
भैरव उवाच :
वेतालादिमहासिद्धिः कथं भवति चण्डिके ।
तन्मे कथय देवेशि यदि स्नेहोऽस्ति मां प्रति
॥ ९२ ॥

P5-0490 · 93
देव्युवाच :
निम्बवृक्षोद्भवं काष्थं श्मशाने साधकोत्तमः ।
भौमवारे मध्यरात्रौ गत्वा कुलयुगान्वितः ।
खनित्वा चाष्टलक्षं वै जपेन्महिषमर्दिनीम् ।
तत्सहस्रं हुनेत् तद्वत्तत्रैव पितृकानने काष्ठमुद्धृत्य तस्मिन् वै
दण्डं पादुकचिह्नितम् ।
कृत्वा दुर्गाष्टमीरात्रौ श्मशाने निक्षिपेत्ततः ।
तस्योपरि शवं कृत्वा पूजयित्वा यथाविधि ।
शवासनगतो वीरो जपेदष्टसहस्रकम्
॥ ९३ ॥

P5-0491 · 93-ka
ततो मातृबलिं दत्त्वा काष्ठमामन्त्रयेत् ततः ।
स्फें स्फें दण्ड महाभग योगिनीहृदयप्रिय ।
मम हस्तस्थितो नाथ ममाज्ञां परिपालय ।
एवमामन्त्र्य वेतालः यत्र यत्र प्रयुज्यते ।
तं तं चुर्णीविधायाथ पुनरायाति कौलिकः
॥ ९३-क ॥

P5-0492 · 94
गच्छ गच्छ द्रुतं गच्छ पादुके वरवर्णिनि ।
मत्पादस्पर्शमात्रेण गच्छ त्वं शतयोजनम् ।
अष्टलौहं समासाद्य पञ्चाशदंगुलाकृतिम् ।
खड्गं कृत्वा तत्र मन्त्रं लिखित्वा प्रजपेन्मनुम् ।
तत्सहस्रं ततो हुत्वा महाशवकलेवरे ।
खनित्वा जीववृक्षाग्रे बद्ध्वा शुष्कन्तु भावयेत् ।
कुलाष्टभ्यामर्द्धरात्रौ चितामध्ये संयुतम् ।
प्रीतिपूर्वं समामन्त्र्य हुनेत्पितृवने ततः ।
मधुरत्रयसंयुक्तं बिल्वपत्रेण संयुतम् ।
पादादिमूर्ध्वपर्यन्तं होमान्ते बलिमाहरेत् ।
बल्यन्ते परमा माया देवी महिषमर्दिनी ।
आयाति बलिपूर्णास्या वरहस्ता हसन्मुखी ।
गृह्ण वत्सेति शब्देन खड्गमुत्तोल्य धारयेत् ।
घोरदंष्ट्र महाकालि करवालस्व रूपिणि ।
आं घ्रां घ्रीं घ्रूं ईं ऊं कुरु कल्याणं
विपक्षच्छेदविस्तरम् ।
एवमामन्त्र्य खड्गन्तु यमुद्दिश्य क्षिपेन्नरः ।
छित्त्वा छित्त्वा पुनश्छित्त्वा गच्छत्याकृष्यते पुनः
॥ ९४ ॥

P5-0493 · 95
अथवा कृष्णमार्जारमेकघातेन घातयेत् ।
कुजे चतुष्पथे रात्रौ निखनेन्मन्त्रितं ततः ।
तत्र मोचां समारोप्य यावत्पत्रं प्रजायते तावत्भुक्त्वा
हविष्यान्नं प्रतिरात्रं जपेन्मनुम् ।
अष्टोत्तरसहस्रन्तु एकाकी दीपवर्जितः ।
उत्पन्नं पत्रमालोक्य छित्वा निश्छिद्रमानयेत् ।
तत्र भुक्त्वा हविष्यान्नं तद्दिने तटिनीतटे ।
तमानीय सुहृत्सङ्गः क्षालयेन्मन्त्रमुच्चरम् ।
ततः स्रोतोमुखं वत्स यदस्थि प्रतिगच्छति ।
तदानीय यजेत्तत्र कालिकां घोरनिस्वनाम् ।
अभिमन्त्र्य सहस्रन्तु कालीमन्त्रं प्रयत्नतः ।
सिद्धाञ्जनो भवेन्मन्त्री नात्र कार्या विचारणा
॥ ९५ ॥

P5-0494 · 96
चन्दनागुरुकस्तूरीमिश्रितञ्चास्थि घर्षितम् ।
कृत्वा तिलकमादाय सर्वं जयति साधकः ।
कुलमीनं कुलान्नञ्च कुलमद्यं कुलेश्वर ।
कुलस्थाने समानीय दत्त्वा देव्यै प्रयत्नतः ।
अष्टोत्तरसहस्रन्तु जप्त्वा भूमितले स्थितः ।
भूमौ फूत्कारमात्रेण विवरं तत्र जायते ।
शतयोजनदूरे वा यत्र साध्यस्थितिर्भवेत् ।
तत्रैव गमनं तस्य भूतलान्ताः-प्रसर्पिणः ।
एवं विवरमध्ये तु गवाक्षकुहरेऽपि वा ।
कामसङ्कोचमासाद्य गच्छत्यविकलो नरः
॥ ९६ ॥


Rituelle Lebensbegleitung und Bali

P5-0495 · 98
दुर्गामन्त्रं विना वत्स कालीमन्त्रं तथैव च ।
सिद्धयः कुलनाथेश जायन्ते न कथञ्चन ॥
अथ बालकसंस्कारः :
मधुलाजाभ्यां नाडीच्छेदात् प्राक्स्वर्णशलाकया
यज्ञदारुशिखया श्वेतदूर्वया वा बलकस्य जिह्वामौष्ठं वा
दक्षिणपाणिना त्रिवारं सम्मार्ज्य तत्र पिता पंक्त्याकारेण
मूलमन्त्रं विलिख्य देवीं पूजयेत् ।
तदुक्तं मत्स्यसूक्ते :
अथवा मधुलाजाभ्यां जिह्वायां बालकस्य च ।
नाडीच्छेदाद्यथापूर्वं लिखेत्स्वर्णशलाकया ।
मूलमन्त्रं लिखेन्मन्त्री यस्योष्ठे श्वेतदूर्वया वाक्योच्चारणतो
बालो वाग्मीद्रुतकभवेत्
॥ ९८ ॥

P5-0496 · 99
महोग्रताराकल्पे तु :
नैमित्तिकसंस्कारानन्तरमेव मन्त्रलिखनं कार्यम् ।
तदुक्तं महोग्रे जन्मसंस्कारकं नाम पुत्रे जाते प्रशस्यते ।
जिह्वायान्तु लिखेन्मन्त्रं यज्ञदारुकुशेन वा ।
वारत्रयन्तु सम्मार्ज्य दक्षिणेनैव पाणिना ।
मूलमुच्चार्य प्रत्येकं पंक्तिं कुर्यात्सुशोभनम् ।
आदौ संस्कारः कर्तव्यस्तदन्ते विलिखेन्मनुम् ।
गन्धचन्दनपुष्पैश्च पूजयेत्तारिणीं शिवाम्
॥ ९९ ॥

P5-0497 · 99-ka
उत्तराभिमुखो भूत्वा स्थापयेत्पीठमुत्तमम् ।
पूजयेत्तारिणीं देवीं नानाभक्ष्यैः सुशोभनैः ।
कविर्वाग्मी भवेत्पुत्रः सत्यवादी जितेन्द्रियः ।
अत्र तारिणीपदमुपलक्षणं देवीमात्रमेव बोद्धव्यम् ।
वृहत्श्रीक्रमादितन्त्रेषु बालकसंस्कारदर्शनात्
॥ ९९-क ॥

P5-0498 · 100
तदुक्तं तत्रैव :
बालकस्य तु जिह्वायां त्रिदिनाभ्यन्तरे लिखेत् ।
मधुना श्वेतदूर्वाभिर्लिखेत्स्वर्णशलाकया ।
अमुं वाग्भवकूटञ्च लिखेद्वै जननान्तरम् ।
एतेन तद्दिनाशक्तौ त्रिरात्राभ्यन्तर इति सूचितम् ।
अमुमिति भैरव्या वाग्भवकूटमित्यर्थः ।
अथैकादशाहे देवतां सम्पूज्य मन्त्रं लिखेदिति कश्चित् ।
अथ यदि पिता दूरस्थो भवति तदा पितृव्यो मातुलो वा मन्त्रं
लिखेदिति ।
तदुक्तं महोग्रे :
पितुर्भ्राता लिखेन्मन्त्रं मातुर्भ्राताथवा पुनः ।
पितुरेव लिखेन्मन्त्रं नान्य एव कदाचन
॥ १०० ॥

P5-0499 · 1
मातुः क्रोडे तु संस्थाप्य दर्भानास्तीर्य यत्नतः ।
शान्तिं कुर्याद्बालकस्य ब्राह्मणैः सह साधकः
॥ १ ॥

P5-0500 · 2
अथ शान्तिमन्त्रः :
इमं पुत्रं कामयतः कामजानामिहैव हि ।
देवेभ्यः पुष्णाति सर्वमिदं मज्जननं शिवशान्तिस्तारायै
केशवेभ्यस्तारायै रुद्रेभ्य उमायै शिवाय शिवयशसे ।
इत्यनेन कुशोदकेन शान्तिं कुर्यात्
॥ २ ॥

P5-0501 · 3
अथ छागादिबलिः :
मुण्डमालायाम् :
छागे दत्ते भवेद्वाग्मी मेषे दत्ते कविर्भवेत् ।
महिषे धनसमृद्धिः स्यान्मृगे मोक्षफलं भवेत्
॥ ३ ॥

P5-0502 · 4
पक्षिदाने स्मृद्धिः स्याद्गोधिकायां महाफलम् ।
नरे दत्ते महद्धिः स्यादष्टसिद्धिरनुत्तमा
॥ ४ ॥

P5-0503 · 6
एवं-राजा नरबलिं दद्यान्नान्यो हि परमेश्वरि ।
सिंहव्याघ्रनरान्दत्त्वा ब्राह्मणे नरकान्व्रजेत् ।
इति वचनात् ब्रह्मणानां नरबलिदाने नाधिकारः ।
तबा :
चण्डालबलिदानेन महासिद्धिः प्रजायते ।
तत्र सलक्षणं पशुं देव्यग्रे संस्थाप्य वक्षमाणेन विधिना
उत्सृजेत् ।
तदुक्तं यामले :
देव्या अग्रे स्थापयित्वा पशुं लक्षणसंयुतम् ।
श्वेतसर्षपविक्षेपाद्भूतानुत्सारयेत् ततः अर्घ्योदकेन सम्प्रोक्ष्य
अस्त्रमन्त्रेण रक्षणम् ।
कवचेन समागुण्ठ्य धेनुमुद्रामृतीकृतम् ।
गन्धचन्दनपुष्पाद्यैः पूजयित्वा पशुं ततः ।
वामहस्तेन तं धृत्वा सप्तधा तत्त्वमुद्रया ।
प्रोक्षयेन्मूलमन्त्रेण ततः पूजां समाचरेत् ।
ततः श्वेतसर्षपेण भूतोत्सारणं कृत्वा अर्घ्योदकेन
संप्रोक्ष्यास्त्रेण संरक्ष्य, कवचेनावगुण्ठ्य,
धेनुमुद्रयामृतीकृत्य, गन्धपुष्पाक्षतैः पशुं सम्पूज्य,
मूलेन तत्त्वमुद्रया प्रोक्षणं कृत्वा कर्णे इमं मन्त्रं पठेत् ।
पशुपाशाय विद्महे विश्वकर्मणे धीमहि तन्नो जीवः प्रचोदयात् ।
ततो ह्रीं कालि कालि वज्रेश्वरि लौहदण्डाय नमः ।
इति मन्त्रेण खड्गं पूजयेत् ।
ततः खड्गस्याग्रमध्यमूलक्रमेणैव पूजयेत् ।
यथा हूं वागीश्वरीब्रह्मभ्यां नमः ।
हूं लक्ष्मीनारायणाभ्यां नमः ।
हूं उमामहेश्वराभ्यां नमः ।
ततः ब्रह्मविष्णुशिवशक्तियुक्ताय खड्गाय नमः ।
इति सर्वत्र पूजयेत् ।
तत खड्गं प्रणमेत् ।
खड्गाय खरशाणाय शक्तिकार्यार्थतत्पर ।
पशुश्छेद्यस्तया श्रीघ्रं खड्गनाथ नमोऽस्तु ते ।
ततो महावाक्यं :
अमुकदेवता-प्रीतिकाम इमं पशुं तुभ्यमहं सम्प्रददे इति ।
तओ निवेदयेत् ।
यथोक्तेन विधानेन तुभ्यमस्तु समर्पितम् ।
ततो बलिं छिन्यात् ।
ततो रुधिरं समांसं बलिं देव्यै दद्यात्
॥ ६ ॥

P5-0504 · 7
रुधिरदाने स्थाननिर्णयः ।
कालिकापुराणे :
छागन्तु वामतो दद्यान्महिषन्तु भवेत्पुरः ।
दक्षिणे वा मतो दद्यादग्रतो देहशोणितम् ।
तथा :
सौवर्णे राजते ताम्रे कांस्याधारे तथैव च ।
निधाय देव्यै दद्यात् तु तद्रक्तं मन्त्रपूर्वकम्
॥ ७ ॥

P5-0505 · 8
ततोऽवशिष्टं वटुकादिभ्यो दद्यात् ।
यथा :
हूं वां वटुकाय नमः ।
इति गन्धादिभिः सम्पूज्य, पूर्ववन्मन्त्रेण वायव्ये बलिन्दद्यात् ।
हूं यां योगिनीभ्यो नमः सम्पूज्य ईशाने पूर्वमन्त्रेण बलिं
दद्यात् ।
हूं क्षां क्षेत्रपालाय नमः इति सम्पूज्य पूर्वमन्त्रेण नैर्-
ऋत्यां बलिं दद्यात् ।
हूं गां गणपतये नमः ।
इति सम्पूज्याग्नेयां गणेशाय बलिं दद्यात्
॥ ८ ॥

P5-0506 · 9
स्वगात्ररुधिरदाने तु :
नाभेरधःस्थाद्रुधिरं पृष्ठभागस्य च प्रिये ।
स्वगात्ररुधिरं दद्यान्न कदाचित्तु साधकः ।
नोष्ठस्य-चिबुकस्यापि नेन्द्रियाणं तथैव च ।
कण्ठाधो नाभितश्चोर्ध्वं हृद्भागस्य यतस्ततः ।
पार्श्वयोश्चापि रुधिरं दुर्गायै विनिवेदयेत् ।
न च रोगाविलादङ्गन्नान्यधाताद्धि भैरव
॥ ९ ॥

P5-0507 · 10
फलन्तु कुमारीतन्त्रे :
गृहीत्वा शोणितं पात्रे स्वकीयहृदयोद्भवम् ।
पूजयेत् त्रिपुरादेवीं सर्वसौभाग्यहेतवे
॥ १० ॥

P5-0508 · 11
तथा :
स्वगात्ररुधिरं दत्त्वा नत्वा राजत्वमाप्नुयात्
॥ ११ ॥

P5-0509 · 12
अन्यच्च :
यः स्वहृदयसञ्जातं मांसं मासप्रमाणतः ।
तिलमुद्गप्रमाणं वा दद्याद्भक्तियुतो नरः ।
षण्मासाभ्यन्तरे तस्य काममिष्टमवाप्नुयात्
॥ १२ ॥

P5-0510 · 13
अन्यच्च :
मद्यं दत्त्वा महादेव्यै ब्राह्मणो नरकं व्रजेत् ।
स्वगात्ररुधिरं दत्त्वा आत्महत्यामवाप्नुयात्
॥ १३ ॥


Kula-Überlieferung

P5-0511 · 14
इति बलिविधिः ।
अथ कुलाचारो निरूप्यते :
कालीतन्त्रे :
अथाचारं प्रवक्ष्यामि यत्कृतेऽमृतमश्नुते ।
सर्वभूतहिते युक्तः समयाचारपालकः ।
अनित्यकर्मसंत्यागी नित्यानुष्ठानतत्परः ।
मन्त्राराधनमात्रेण भक्तिभावेन तत्परः ।
परस्यां देवतायान्तु सर्वकर्मनिवेदकः ।
अन्यमन्त्रार्चने श्रद्धामन्यमन्त्रप्रपूजनम् ।
कुलस्त्रीवीरनिन्दाञ्च तद्द्रव्यस्यापहारणम्
स्त्रीषु रोषं प्रहारञ्च वर्जयेन्मतिमान् सदा
॥ १४ ॥

P5-0512 · 15
स्त्रीमयञ्च जगत्सर्वं तथात्मानञ्च भावयेत् ।
पेयं चर्व्यं तथा चुष्यं भोज्यं लेह्यं गृहं सुखम् ।
सर्वञ्च युवतीरूपं भावयेन्मतिमान् सदा
॥ १५ ॥

P5-0513 · 16
कुलजां युवतीं वीक्ष्य नमस्कुर्यात् समाहितः ।
यदि भाग्यवशाद्देवि कुलदृष्टिः प्रजायते ।
तदैव मानसीं पूजां तत्र तासां प्रकल्पयेत् ।
तासां भगादिदेवीनाम्
॥ १६ ॥

P5-0514 · 17
तथा च :
भगिनीं भगचिह्नाञ्च भगास्यां भगमालिनीम् ।
भगदन्तां भगाक्षीञ्च भगकर्णी भगत्वचाम् ।
भगनासां भगस्तनीं भगसर्पिणीम् ।
सम्पूज्य ताभ्यो गन्द्यैर्मानसैर्गुरुमेव च ।
नमस्कृत्य यथाध्यानं स्वयमक्षोभितः सुधीः ।
बालां वा यौवनोन्मत्तां वृद्धाम्बा सुन्दरीं तथा ।
कुत्सितां वा महादुटां नमस्कृत्य विभावयेत् ।
तासां प्रहारं निन्दाञ्च कौटिल्यमप्रियं तथा ।
सर्वथा च न कुर्यात् तु चान्यथा सिद्धिरोधकृत्
॥ १७ ॥

P5-0515 · 18
स्त्रियो देवाः स्त्रियः प्राणाः स्त्रियश्चैव विभूषणम् ।
स्त्री सङ्गिनी सदा भाव्यमन्यथा स्वस्त्रियामपि ।
विपरीतरता सा तु भविता हृदयोपरि ।
तद्धस्तावचितं पुष्पं तद्धस्तावचितं जलम् ।
तद्धस्तावचितं द्रव्यं देवताभ्यो निवेदयेत्
॥ १८ ॥

P5-0516 · 19
स्त्रीद्वेषो नैव कर्तव्यो विशेषात्पूजनं महत् ।
जपस्थाने महाशङ्खं निवेश्योर्ध्वे जपञ्चरेत्
॥ १९ ॥

P5-0517 · 20
स्त्रियं गच्छन् स्पृशन् पश्यन्विशेषात्कुलजां शुभाम् ।
भक्षन् ताम्बुलमत्स्यांश्च भक्ष्यद्रव्यान्यथारुचि ।
भक्ताद्यशेष भक्ष्याणि भुक्त्वा शेषं जपञ्चरेत्
॥ २० ॥

P5-0518 · 21
वीरतन्त्रे :
दिक्कालनियमो मात्र स्थित्यादिनियमो न च ।
जपे न कालनियमो नार्चादिषु बलिष्वपि ।
स्वेच्छानियम उक्तोऽत्र महामन्त्रस्य साधने
॥ २१ ॥

P5-0519 · 22
वस्त्रासनस्थानहेहदेहस्पर्शादिवारिणः ।
शुद्धिं न चाचरेत् तत्र निर्विकल्पं मनश्चरेत्
॥ २२ ॥

P5-0520 · 23
कुलार्णवे :
कुलाचारगृहं गत्वा भक्त्या पापविशुद्धये ।
याचयेदमृतं कौलं तदभावे जलं पिबेत्
॥ २३ ॥

P5-0521 · 24
कुलाचारेण यद्दत्तं कृत्वापात्रन्तु भक्तितः ।
नमस्कृत्य च गृह्णीयादन्यथा नरकं व्रजेत्
॥ २४ ॥

P5-0522 · 25
अन्यत्रापि :
न वृथा गमयेत्कालं द्यूतक्रीडादिभिः सुधीः ।
गमयेद्देवतापूजाजपयागस्तवादिना
॥ २५ ॥

P5-0523 · 26
वीराणां जपयज्ञस्तु सर्वकाले प्रशस्यते ।
सर्वदेशे सर्वपीठे कर्तव्यो नात्र संशयः
॥ २६ ॥

P5-0524 · 27
शिवागमे :
शक्तिः शिवः शिवः शक्तिः शक्तिर्ब्रह्माजनार्दनः ।
शक्तिरिन्द्रो रविः शक्तिः शक्तिश्चन्द्रो ग्रहा ध्रुवम् ।
शक्तिरूपं जगत्सर्वम् यो न जानाति नारकी
॥ २७ ॥

P5-0525 · 28
वीरतन्त्रे :
स्नानादिमानसं शौचं मानसः प्रभवो जपः ।
मानसं पूजनं दिव्यं मानसं तर्पणादिकम् ।
सर्व एव शुभः कालो नाशुभो विद्यते क्वचित् ।
न विशेषो दिवारात्रौ न सन्ध्यायां महानिशि ।
सर्वदा पूजयेद्देवीमस्नातः कृतभोजनः
॥ २८ ॥

P5-0526 · 29
महानिश्यशुचौ देशे बलिं मन्त्रेण दापयेत्
॥ २९ ॥

P5-0527 · 30
यत्तु :
रात्रावेव महापूजा कर्त्तव्या वीरवन्दिते ।
न दिने सर्वथा कार्याशासनान्मम सुव्रते ।
तत्पुनः कुलपूजाविषयम्
॥ ३० ॥

P5-0528 · 31
महानिशा तु तत्रैव :
अर्द्धरात्रात्परं यच्च मुहूर्त्तद्वयमेव च ।
सा महारात्रिरुद्दिष्टा तद्दत्तमक्षयं भवेत्
॥ ३१ ॥

P5-0529 · 32
गान्धर्वे :
पृथ्वीमृतुमतीं वीक्ष्यं सहस्रं-यदि नित्यशः ।
तदा वादी स्वसिद्धान्तहतः क्षितितलं व्रजेत् ।
नित्यशः इति षोडशदिनं यावत्
॥ ३२ ॥

P5-0530 · 33
पर्वते हस्तमारोप्य निर्भयो यतमानसः ।
कवितां लभते सोऽपि अमृततत्त्वञ्च गच्छति ।
अत्रापि सहस्रमिति सम्बन्धः ।
पृथ्वीं कुलं पर्वतं स्तनम्
॥ ३३ ॥

P5-0531 · 34
अनुच्च नीलतन्त्रे :
पद्यं दृष्ट्वा तथा विद्धं खञ्जनं शिखरं तथा ।
चामरं रविविम्बञ्च तिलपुष्पं सरोरुहम् ।
त्रिशूलं वीक्ष्य जप्त्वा च शतशः शुद्धभावतः ।
मुखं प्रसादं सुमुखं सुलोचनं सुहास्यकम् ।
सुवेशं सुगतिञ्चैव सुगन्धं सुखमेव च ।
लभते च यथासंख्यं शृणु पार्वति सादरम् ।
पद्मं मुखं विम्बमधरं खञ्जनं चक्षुः शिखरं
मस्तकं चामरं केशम् ।
रविविम्बं सिन्दूरं तिलपुष्पं नासिकां सरोरुहं नाभिं
त्रिशूलं त्रिवलीम् इति बोध्यम्
॥ ३४ ॥

P5-0532 · 35
भावचूडामणौ :
एकाकी निर्जने देशे श्मशाने विजने वने ।
शून्यागारे नदीतीरे निःशङ्को विहरेत्सदा ।
महाचीनद्रुमे देवीं ध्यात्वा तत्र प्रपूजयेत् ।
तद्द्रुमोद्भवपुष्पेण पूजयेद्भक्तिभावतः ।
स भवेत्कुलदेवश्च कुलद्रुमगतः शुचिः
॥ ३५ ॥

P5-0533 · 36
ब्रह्मतरोर्महापद्मे देवीं ध्यात्वा यथाविधि ।
तत्सुधारसधारेण तर्पयेन्मातृकानने
॥ ३६ ॥

P5-0534 · 37
महाचीनद्रुमलतावेष्टितः साधकोत्तमः ।
रात्रौ यदि जपेन्मन्त्रं सैव कल्पलता भवेत्
॥ ३७ ॥

P5-0535 · 38
तिथिक्रमेण संख्याभिर्लताभिर्वेष्टितो यदि ।
तदा मासेन सिद्धिः स्यात्सहस्रजपमानतः
॥ ३८ ॥

P5-0536 · 39
अष्टम्याञ्च चतुर्दश्यां द्विगुणं यदि दृश्यते ।
तत्रैव महती सिद्धिर्देवतानां सुदुर्लभा
॥ ३९ ॥

P5-0537 · 40
कुलचूडामणौ :
शृणु पुत्र रहस्यं मे समयाचारमम्भवम् ।
येन हीना न सिध्यन्ति जन्मकोटिसहस्रशः
॥ ४० ॥

P5-0538 · 42
मानवः कुलशास्त्राणां कुलचर्यानुचारिणाम् ।
उदारचित्तः सर्वत्र वैष्णवाचारतत्परः ।
परनिन्दासहिष्णुः स्यादुपकाररतः सदा ।
पर्वते विपिने वापि निर्जने शून्यमण्डपे ।
चतुष्पथे कलामध्ये यदि दैवाद्गतिर्भवेत् ।
क्षणं स्थित्वा मनुं जप्त्वा नत्वा गच्छेद्यथासुखम् ।
गृध्रं वीक्ष्य महाकालीं नमस्कुर्यादलक्षितः ।
क्षेमङ्करीं तथा वीक्ष्य जम्बूकीं यमदूतिकाम् ।
कुररीं श्येनकाकौ च कृष्णमार्जारमेव च ।
कृशोदरि महाचण्डे मुक्तकेशि बलिप्रिये ।
कुलाचारप्रसन्नास्ये नमस्ते शङ्करप्रिये
॥ ४२ ॥

P5-0539 · 43
श्मशानञ्च शवं दृष्ट्वा प्रदक्षिणमनुब्रजन् ।
प्रणम्यानेन मनुना मन्त्री सुखमाप्नुयात् ।
घोरदंष्ट्रे करालास्ये किटिशब्दनिनादिनि ।
घोरघोररवास्फाले नमस्ते चितिवासिनि
॥ ४३ ॥

P5-0540 · 44
रक्तवस्त्रं तथा पुष्पं विलोक्य त्रिपुराम्बिकाम् ।
प्रणमेद्दण्डवद्भूमौ इमं मन्त्रं पठेन्नरः ।
बन्धूकपुष्पसङ्काशे त्रिपुरे भयनाशिनि ।
भाग्योदयसमुत्पन्ने नमस्ते वरवर्णिनी
॥ ४४ ॥

P5-0541 · 45
कृष्णवस्त्रं तथा पुष्पं राजानं राजपुरुषम् ।
हस्त्यश्वरथशस्त्राणि फलकान्वीरपुरुषान् ।
महिषं कुलदेवञ्च दृष्ट्वा महिषमर्दिनीम् ।
प्रणम्य जयदुर्गां वा स च विघ्नैर्न लिप्यते ।
जय देवि जगद्धात्रि त्रिपुराद्ये त्रिदैवते ।
भक्तेभ्यो वरदे देवि महिषाघ्नि नमोऽस्तु ते
॥ ४५ ॥

P5-0542 · 46
मद्यभाण्डं समालोक्य मत्स्यं मांसं वरस्त्रियम् ।
दृष्ट्वा च भैरवीं देवीं प्रणम्य विमृषन्मनुम् ।
घोरविघ्नविनाशाय कुलाचारसमृद्धये ।
नमामि वरदे देवि मुण्डमालाविभूषिते ।
रक्तधारासमाकीर्णवदने त्वां नमाम्यहम् ।
सर्वविघ्नहरे देवि नमस्ते हरवल्लभे
॥ ४६ ॥

P5-0543 · 47
एतेषां दर्शने नैव यदि नैवं प्रकुर्वते ।
शक्तिमन्त्रं पुरस्कृत्य तस्य निद्धिर्न जायते
॥ ४७ ॥

P5-0544 · 48
तथा कुलचूडामणौ :
कुलवारे कुलाष्टम्यां चतुर्दश्यां विशेषतः ।
योगिनीपूजनं तत्र प्रधानं कुलपूजनम्
॥ ४८ ॥

P5-0545 · 49
यथा विष्णुतिथौ विष्णुः पूजितो वाञ्छितप्रदः ।
तथा कुलतिथौ दुर्गा पूजिता वरदायिनी
॥ ४९ ॥

P5-0546 · 50
कुलवारादिनियमन्तु यामले :
रविश्चन्द्रो गुरुः सौरिश्चत्वारश्चाकुला इमे ।
भौमशुक्रो कुलाख्यौ हि बुधवारः कुलाकुलः
॥ ५० ॥

P5-0547 · 51
द्वितीया दशमी षष्ठी कुलाकुलमुदाहृतम् ।
विषमाश्चाकुलाः सर्वाः शेषाश्च तिथयः कुलाः
॥ ५१ ॥

P5-0548 · 52
वरुणार्द्राभिजिन्मूलं कुलाकुलमुदाहृतम् ।
कुलानि समधिष्ण्यानि शेषाणि चाकुलानि च
॥ ५२ ॥

P5-0549 · 53
तिथिवारे च नक्षत्रे अकुले स्थायिनोऽजयः ।
कुलाख्ये जयिनो नित्यं सम्यञ्चैव कुलाकुले ।
एवं कुलवारादिकं ज्ञात्वा साधकः कर्म कुर्यात्
॥ ५३ ॥

P5-0550 · 54
अथ शिवाबलिः :
तदुक्तं कुलचूडामणौ :
बिल्वमूले प्रान्तरे वा श्मशाने वापि साधकः ।
मांसप्रधाननैवेद्यं सन्ध्याकाले निवेदयेत्
॥ ५४ ॥

P5-0551 · 55
कालि कालीति वक्तव्ये तत्रोमा शिवरूपिणी ।
पशुरूपधरायाति परिवारगणैः सह ।
भुक्त्वा रौति यदैशान्यां मुखमुत्तोल्य सुन्दरम् ।
तदैव मङ्गलं तस्य नान्यथा कुलभूषण
॥ ५५ ॥

P5-0552 · 56
अवश्यमन्नदानेन नियतं तोषयेच्छिवाम् ।
नित्यश्राद्धं तथा सन्ध्या-वन्दनं पितृतर्पणम् ।
तथैव कुलसेव्यानां नित्यता कुलपूजने ।
पशुरूपां शिवां देवीं यो नार्चयति निर्जने ।
शिवारावेण तस्याशु सर्वं नश्यति निश्चितम्
॥ ५६ ॥

P5-0553 · 57
जपपूजाविधानानि यत्किञ्चित् सुकृतानि च ।
गृहीत्वा शापमादाय शिवा रोदिति निर्जने
॥ ५७ ॥

P5-0554 · 58
एकया भुज्यते यत्र शिवया देव भैरव ।
तत्रैव सर्वशक्तीनां प्रीतिः परमदुर्लभा
॥ ५८ ॥

P5-0555 · 59
पशुशक्तिःपक्षिशक्तिर्नरशक्तिर्यथाक्रमात् ।
पूजनात्विगुणं कर्ममङ्गलं साधयेद्यतः ।
तेन सर्वप्रयत्नेन कर्तव्यं पूजनं महत्
॥ ५९ ॥

P5-0556 · 60
राजादिभयमापन्ने देशान्तरभयादिके ।
शुभाशुभानि कर्माणि विचिन्त्य बलिमाहरेत्
॥ ६० ॥

P5-0557 · 61
मन्त्रस्तु :
गृह्ण देवि महाभागे शिवे कालाग्निरूपिणि ।
शुभाशुभफलं व्यक्तं ब्रूहि गृह्ण बलिन्तव ।
एवमुच्चार्य दातव्यो बलिः कुलजनप्रिय ।
यदि न भुज्यते वत्स तदा नैव शुभं भवेत्
॥ ६१ ॥

P5-0558 · 62
शुभं यदि भवेत् तत्र भुज्यते तदशेषतः ।
एवं ज्ञात्वा महादेव शान्तिस्वस्त्यनं चरेत्
॥ ६२ ॥

P5-0559 · 63
इति शिवाबलिः ।
कुलवर्त्मनो गोपनीयता :
कुलवर्त्म सर्वत्र गोपनीयम् ।
तथा च नीलतन्त्रे :
निर्जने चैव कर्तव्यं न चैवं जनसन्निधौ ।
किम्वा पक्षिपतङ्गादिदर्शने नैव कारयेत्
॥ ६३ ॥

P5-0560 · 64
पातालमण्डपे वापि गह्वरे सुनियन्त्रिते ।
निश्छिद्रमण्डपे वापि कर्तव्यं न च सन्निधौ
॥ ६४ ॥

P5-0561 · 66
कुलपुष्पं कुलद्रव्यं कुलपूजां जपम् ।
कुलं कुलपतिञ्चैव कुलमालां कुलाकुलम् ।
कुलचक्रं कुलध्यानं सर्वथा न प्रकाशयेत् ।
प्रकाशात् सिद्धिहानिः स्यात्प्रकाशान्निधनादिकम् ।
प्रकाशान्मन्त्रनाशः स्यात् प्रकाशात्कुलहिंसनम् ।
प्रकाशान्मृत्युलाभः स्यान्न प्रकाश्यं कदाचन
॥ ६६ ॥

P5-0562 · 67
पूजाकाले च देवेशि यदि कोऽप्यत्र गच्छति ।
दर्शयेद्वैष्णवीं मुद्रां विष्णुन्यासं तथा स्तवम् ।
प्रकाशाद्यदि गुप्तिः स्यात् तत्प्रकाशान्न दूषणम् ।
गोपनाद्यदि व्यक्तिः स्यान्न गुप्तिः सा विधीयते
॥ ६७ ॥

P5-0563 · 68
कदाचिद्देहहानिस्तु न चाव्यक्तिः कदाचन ।
वरं पूजा न कर्तव्या न च व्यक्तिः कदाचन
॥ ६८ ॥


Morgenpflichten und besondere Verehrung

P5-0564 · 69
अथ प्रातःकृत्यम् :
साधकः प्रातरुत्थाय कुलवृक्षं प्रणम्य च ।
कुलवृक्षो यथा :
पादाघातादशोको वदनमदिरया केशरः कर्णिकारः, चूतो निम्बो
हसाभ्यां तिलकतरुनमेरु पियालश्च गीत्वा ।
संलापात् कर्णिकारः कुरुवकतरुरालिङ्गनात् ।
सिन्धुवारः, कादम्बः कामिनीनामुदयति नियतं
स्पर्शनाच्चम्पशास्त्री
॥ ६९ ॥

P5-0565 · 70
तथा च श्रुतिः ।
दशकुलवृक्षाणामनुपप्लवः ।
दशकुलवृक्षो यथा ।
श्लेष्मातककरञ्जौ च बिल्वाश्वत्थकदम्बकाः ।
निम्बो वटोडुम्बरौ च धात्री चिञ्चा दश स्मृताः ।
मूलादि-ब्रह्मरन्ध्रान्तंकुलं ध्यात्वा गुरुं स्मरेत्
॥ ७० ॥

P5-0566 · 71
प्रह्लादानन्दनाथाख्यं सनकानन्दमेव च ।
कुमारानन्दनाथाख्यं वसिष्ठानन्दनाथकम् ।
क्रोधानन्दं सुखानन्दं ज्ञानानन्दमतः परम् ।
बोधानन्दमथाभ्यर्च्य ध्यायेत्कुलमुखोपरि ।
महासवरसोल्लासहृदया घूर्णलोचनाः ।
कुलालिङ्गनसंभिन्नचूर्णिताशेषतामसाः ।
कुलशिष्योपरिकृपा-पूर्णान्तःकरणोद्यताः ।
वराभयोद्यतकराः कुलतन्त्रार्थवेदिनः ।
एवं कुलगुरु नत्वा विसृज्य कुलनायिकाम् ।
कुलस्थानं समाश्रित्य स्नानार्थं तीर्थमाश्रयेत्
॥ ७१ ॥

P5-0567 · 72
आत्मविद्याशिवैस्तत्त्वैराचाम्यान्यत्समाचरेत्
॥ ७२ ॥

P5-0568 · 73
कुलार्णवे :
कुलसूर्याय देवाय त्रिरर्घ्यन्तु प्रदापयेत् ।
देवानृषीन् पितॄंश्चैव तर्पयेत्कुलवारिणा
॥ ७३ ॥

P5-0569 · 75
कुलचूडाणौ :
आचान्तः कुलदर्भेण सदर्भः कुलपुण्ड्रकः ।
कुलपात्रं सदूर्वाञ्च सतिलं सजलं तथा गृहीत्वा
कुलदेव्याश्च प्रीतये स्नानमाचरेत् ।
एवं हि कृतसङ्कल्पः कुलचक्रं जले न्यसेत् ।
कुलस्थानात्समानीय कुलमुद्रांकुशेन च ।
कुलतीर्थानि तथैव समावाह्य शिवात्मकम् ।
तत्तोयञ्च त्रिधा पीत्वा त्रिधा च प्रोक्षणं तनोः
॥ ७५ ॥

P5-0570 · 76
स्वतन्त्रेऽपि :
मूलं पठन्मूर्ध्नि तोयं मुद्रयाकुम्भसंज्ञया ।
क्षिप्त्वावारत्रयं देवि आचामेत्साधकाग्रणीः
॥ ७६ ॥

P5-0571 · 77
इति कुलाचारः ।
अथ दूतीयागो निरूप्यते :
तत्रादौ विजयास्वीकारः ।
तथा च विजयाकल्पे :
संविदासवयोर्मध्ये संविदैव गरीयसी ।
संवित्प्रयोगस्तेनेह पूजादौ साधकोत्तमैः ।
कर्तव्यश्च महापूजा करणीया सुनिश्चितैः ।
अयं प्रयोगः पूजादौ कुलीनैः सर्वत्र कर्तव्यः
॥ ७७ ॥

P5-0572 · 78
अन्यत्रापि :
आनन्देन विना भ्रंशो न च तृप्यन्ति देवताः
॥ ७८ ॥

P5-0573 · 79
सा च चतुर्विधा :
ब्राह्मणी क्षत्रिया वैश्या शूद्राः
शुक्लरक्तपीतकृष्णपुष्पभेदैः ।
तासां शुद्धिस्तु विजयाकल्पे :
संविदे ब्रह्मसम्भूते ब्रह्मपुत्रि सदानघे ।
भैरवाणाञ्च तृप्त्यर्थं पवित्रा भव सर्वदा ।
ॐ ब्राह्मण्यै नमः स्वाहेति शोधयेत् ।
ततः सिद्धमूलिकरे देवि मूलबोध प्रबोधिनि ।
राजपुत्रि वशङ्करि शत्रुकण्ठत्रिशूलिनि ।
ऐं क्षत्रियायै नमः स्वाहा शोधयेदपरां ततः
॥ ७९ ॥

P5-0574 · 79-ka
अज्ञानेन्धनदीप्ताग्नि-ज्ञानाग्निज्वलरूपिणि ।
आनन्दाज्याहुतिं मत्वा सम्यग्ज्ञान्नं प्रयच्छ मे ।
ह्रीं वैश्यायै नमः स्वाहा वैश्याञ्च शोधयेत् ततः ।
नमस्यामि महामाये योगमार्गप्रदर्शिनि ।
त्रलोक्यविजये मातः समाधिफलदा भव ।
श्रीं शूद्रायै नमः स्वाहेति शूद्राञ्च परिशोधयेत् ।
ततः सर्वासां शोधनम् :
ॐ अमृतोद्भवे अमृतवर्षिणि पदं ततः ।
अमृतमाकर्षयद्वन्द्वं सिद्धिं देहि ततः परम् ।
अमुकं मे ततो ब्रूयाद्वशमानय तत्परम् ।
द्विठान्तोऽयं मनुः प्रोक्तः सर्वासामिह शोधने ।
ज्ञाने प्रत्येकेन तत्तन्मन्त्रेण प्रत्येकं शोधयेत् अज्ञाने त्वनेन
शोधयेत्
॥ ७९-क ॥

P5-0575 · 80
उत्तरतन्त्रे :
मूलमन्त्रं सप्तवारं तस्योपरि नियोजयेत् ।
आवाहनादिमुद्राञ्च धेनुं योनिं ततः परम् ।
दिग्बन्धनं छोटिकाभिस्तालत्रयपुरःसरम् ।
दिव्यदृष्ट्या पार्ष्णिघातैः सर्वान्विघ्नान् निरस्य च ।
सप्तधा तर्पयेद्ब्रह्मरन्ध्र मूलं जपन्मनुम् ।
गुरुं पद्मे सहस्रारे तथा सङ्केतमुद्रया ।
त्रिवारं तर्पयेद्भक्त्या साधकः सिद्धिहेतवे ।
मूलमिष्टदेवतामन्त्रमुच्चार्य अमुकदेव तां तर्पयामि एवं
गुरुञ्च तर्पयेत् ।
ततः सङ्केतमुद्रया तत्त्वमुद्रया च तत् स्वीकुर्यात् ।
यथा :
ऐं वद वद वाग्वादिनि मम जिह्वाग्रे स्थिरीभव
सर्वसत्त्ववशङ्करि स्वाहा ।
तथा च :
ऐं वद वद पदं ब्रूयाद्वाग्वादिनिपदन्ततः ।
मम जिह्वाग्रे स्थिरीति भव सर्वपदं ततः ।
सत्त्ववशङ्करि स्वाहामन्त्रेण जुहुयान्मुखे
॥ ८० ॥

P5-0576 · 81
तन्त्रचूडामणौ :
विना हेतुकमासाद्य क्षोभयुक्तो महेश्वरः ।
न पूजां हवनं कुर्यान्न ध्यानं नापि चिन्तनम् ।
तस्माद्भुक्त्वा च पीत्वा च पूजयेत् परमेश्वरीम् ।
पीत्वेति विजयामेव प्रकरणात्
॥ ८१ ॥

P5-0577 · 82
अथ यजनप्रकारः :
तत्र रात्रौ प्रहरे गते ताम्बूलपूरितमुखः सन् कुलनायिकां
पूजयेत्
॥ ८२ ॥

P5-0578 · 83
उत्तरतन्त्रे :
याममात्रे गते रात्रौ कुलगेहं ततः पुमान् ।
ताम्बूलपूरितमुखो धूपामोदसुगन्धितः ।
रक्तचन्दनदिग्धाङ्गो रक्तमाल्यानु सेवितः ।
रक्तवस्त्रपरीधानो लाक्षारसगृहङ्गतः ।
रक्तमाल्येन संवीती रक्तपुष्पविभूषितः ।
पञ्चीकरणसङ्केतैः पूजयेत् कुलनायिकाम्
॥ ८३ ॥

P5-0579 · 84
कुलनायिका यथा, तत्रैव :
नटी कापालिका वेश्या पुक्वसी नापिताङ्गना ।
रजकी रञ्जकी चैव सैरिन्ध्री च सुवासिनी ।
घटिकाघटिका चैव तथा गोपालकन्यका ।
विशेषवैदग्ध्ययुताः सर्वा एव कुलाङ्गनाः ।
गुरुभक्ता देवभक्ता घृणालज्जाविवर्जिताः ।
सङ्गोपनरताः प्रायस्तरुण्यः सर्वसिद्धिदाः ।
अक्षताचारसम्पन्नां शीलसौभाग्यशालिनीम् ।
सदनुष्ठाननिरतां सात्त्विकीं भक्तिसंयुताम् ।
कालुष्यरहितां कुर्यात्समयां भक्तवत्सलाम् ।
चातुर्यौदार्यदाक्षिण्यकरुणादिगुणान्विताम् ।
रूपयौपनसम्पन्नां शीलसौभाग्यशालिनीम् ।
सदा परिगृहीतां वा यद्वा सङ्केतमागताम् ।
अथवा तत्क्षणायातां मदनानलतापिताम् ।
विलिप्तां रक्तगन्धेन रक्ताम्बरविभूषिताम् ।
सुगन्धिरक्तकुसुमां सर्वाभरणभूषिताम् ।
सुधूपधूपितां तन्वीं दूतीकर्मसु योजयेत्
॥ ८४ ॥

P5-0580 · 85
कुमारीतन्त्रे :
नटी कापालिका वेश्या रजकी नापिताङ्गना ।
ब्राह्मणी शूद्रकन्या च तथा गोपालकन्यका ।
मालाकारस्य कन्या च नव कन्याः प्रकीर्त्तिताः ।
ब्राह्मणीति तु ब्राह्मणविषयम्
॥ ८५ ॥

P5-0581 · 86
एवम्भूतां यजेत् तान्तु प्रसूनतुलिकोपरि ।
व्यङ्गाङ्गीं विकृताङ्गी वा सविकल्पकमानसीम् ।
वर्षीयसीं पापरतां हूंकारोमर्थलोलुपाम् ।
अभक्तमानसां दीनां वर्जयेत्साधकोत्तमः
॥ ८६ ॥

P5-0582 · 87
अर्थाद्वा कामतो वापि सौख्यादपि च यो नरः ।
लिङ्गयोनिरतो मन्त्री रौरवं नरकं व्रजेत्
॥ ८७ ॥

P5-0583 · 88
उपदिष्टा यदा देवि तथा पुत्री तु कन्यका ।
पूजार्हा च यदा देवि तदा माता न संशयः
॥ ८८ ॥

P5-0584 · 89
एवंविधं कुलमानीय उद्वर्तनादिकं विधाय तुलिकोपरि नियोजयेत्
॥ ८९ ॥

P5-0585 · 90
तथोत्तरतन्त्रे :
तदानीय कुलं सम्यक उद्वर्तनमनन्तरम् ।
स्नातं शुद्धदुकूलादि-गन्धलेपनशोभितम् ।
अलंकृतं गतश्रान्तिं स्वागतं चासनं तथा ।
निवेश्य तुलिकामध्ये नानापुष्पसुगन्धिना ।
चंदनागुरुकर्पूरकस्तूरीकुंकुमादिभिः ।
समाकीर्णे निवेश्याथ पूजयेत्कुलनायिकाम्
॥ ९० ॥

P5-0586 · 91
ततो भूतशुद्ध्यादिकं विधाय तत्तत्कुलाङ्गे न्यासं कुर्यात् ।
तद्यथा :
अङ्गन्यासकरन्यासौ प्राणायामं ततः परम् ।
विधाय मातृकान्यासं कुलाङ्गेऽपि प्रविन्यसेत् ।
ततः पञ्चमकारमानीय शोधयेत् ।
पञ्चमकारो यथा :
मद्यं मांसञ्च मत्स्यञ्च मुद्रां मैथुनमेव च ।
मकारपञ्चकञ्चैव महापातकनाशनम् ।
तत्र सुरायाः शोधनं यथा-घटं धृत्वा पठेत् ।
एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् ।
कचोद्भवां ब्रह्महत्यां केन ते नाशयाम्यहम् ।
सूर्यमण्डलसम्भूते वरुणालयसम्भवे ।
अमाबीजमये देवि शुक्रशापाद्विमुच्यताम् ।
वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि ।
तेन सत्येन ते देवि ब्रह्महत्यां व्यपोहतु ।
तत ॐ वां वीं वूं वैं वौं वः ब्रह्मशापविमोचितायै
सुधादेव्यै नमः ।
इति तदुपरि दशधा जपेत् ।
ततः ॐ शां शीं शूं शैं शौं शः शुक्रशापविमोचितायै
सुधादेव्यै नमः ।
इति तदुपरि दशधा जपेत् ।
एवं ह्रीं श्रीं क्रां क्रीं क्रूं क्रैं क्रौं क्रः
कृष्णशापं विमोचयामृतं स्रावय स्वाहेति दशधा जपेत् ।
ततो मूलमन्त्रं तदुपरि अष्टधा जप्त्वा देवतामयं विभावयेत् ।
इति द्रव्यशुद्धिः
॥ ९१ ॥

P5-0587 · 92
एतद् द्रव्यदानन्तु शूद्रस्यैव ।
तथा च श्रीक्रमे :
न दद्यात्ब्राह्मणो मद्यं महादेव्यै कथञ्चन ।
वामकामो ब्राह्मणो हि मद्यं मांसं न भक्षयेत्
॥ ९२ ॥

P5-0588 · 93
कुलचूडामणौ :
यत्रासवमवश्यन्तु ब्राह्मणस्तु विशेषतः ।
गुडार्द्रकं तदा दद्यात्ताम्रे वा विसृजेन्मधु ।
देव्यास्तु दक्षिणे भागे चक्रपार्श्वे निवेदयेत् ।
एतद् द्रव्यन्तु शूद्रस्य नान्येषान्तु कदाचन ।
वैश्यस्य माक्षिकं शुद्धं क्षक्षियस्य तु साज्यकम् ।
ब्राह्मणश्च गवां क्षीरं ताम्रे वा विसृजेन्मधु ।
नारिकेलोदकं कांस्ये सर्वेषां द्रव्यशोधनम् ।
क्षत्रियवैश्ययोस्तु गौडी माध्वी च दातव्या तत्र तयोरधिकारात् ।
तदभावेऽनुकल्पविधानम् ।
तथा च :
गौक्षीरं ब्राह्मणो दद्यात्गव्यमाज्यञ्च बाहुजः ।
माक्षिकं द्रव्यं शूद्रः पौष्टादिकं पुनः ।
तेन शूद्रस्य अनुकल्पः
॥ ९३ ॥

P5-0589 · 94
कुलार्णवे :
जलं क्षीरं घृतं भद्रे मधु मैरेयमैक्षरवम् ।
पौष्पं तरुभवं धन्यसम्भवं चक्रनिर्मितम् ।
सहकारभवं देवि त्रिविधं बहुभेदकम् ।
मादकं धर्मसम्भेदाद्वर्ज्यमासीत्सुलोचने ।
ज्ञानेन संस्कृतं तत् तु महापातकनाशनम् ।
तद्दाने पातकाभावो दिव्यभावविषयां वा ।
माकन्दफलजं रम्यं द्रव्यं सेव्यं द्विजातिभिः ।
अमादकत्वाद्देवेशि ऐक्षवं सेव्यते बुधैः ।
एतेन क्षत्रियादिभिरमादकं द्रव्यं सेव्यम् ।
मादकस्य पापहेतुकत्वं उक्तम्
॥ ९४ ॥

P5-0590 · 95
भैरवतन्त्रे :
मद्यं मांसं विना वत्स यत्किंञ्चित्कुलसाधनम् ।
शक्त्यै दत्त्वा ततः शेषं गुरवे तन्निवेदयेत् ।
तदनुज्ञां मूर्ध्नि कृत्वा शोषमात्मनि योजयेत् ।
तेन क्षत्रियादीनां मुख्यस्य दानेऽधिकारः न पाने
॥ ९५ ॥

P5-0591 · 96
यत्तु :
पीत्वा पीत्वा पुनः पीत्वा पतित्वा च महीतले ।
उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते
॥ ९६ ॥

P5-0592 · 97
भैरवतन्त्रे :
पाने भ्रान्तिर्भवेद्यस्य घृणा स्यात् रक्तरेतसोः ।
शुचौ चाऽशुद्धताभ्रान्तिः पापाशङ्का च मैथुने ।
सभ्रष्टः पूजयेद्देवीं चण्डीमन्त्रं कथं जपेत्
॥ ९७ ॥

P5-0593 · 98
तथा :
मदिरायां मैथुने च जातिवृत्तिं न चाचरेत् ।
एतत् तु चतुर्थाश्रमिपरम् ।
तत्तद्द्रव्यग्रहणे जातिचिन्तां न कुर्यात् ।
एतेषां शोधनास्यावश्यकत्वात् ।
तथा च :
संशोधनमनाचर्य स्त्रीषु मद्येषु साधकः ।
आचर्य सिद्धि हानिः स्यात्क्रुद्धा भवति सुन्दरी ।
मद्येषु मुख्यानुकल्पेषु
॥ ९८ ॥

P5-0594 · 99
तथा :
कुलपूजायामस्यावश्यकत्वम्
॥ ९९ ॥

P5-0595 · 100
तथा च :
मधु मांसं विना देवि कुलपूजा समारभेत् ।
जन्मान्तरसहस्रस्य सकृतं तस्य नश्यति
॥ १०० ॥

P5-0596 · 1
अथ मांसादिशोधनम् :
मांसन्तु त्रिविधं ज्ञेयं जलखेचरभूचरम् ।
त्रिविधं मांसं संप्रोक्तं देवताप्रीतिकारकम्
॥ १ ॥

P5-0597 · 2
मत्स्यन्तु त्रिविधं देवि उत्तमाधममध्यमम् ।
उत्तममं त्रिविधं देवि शालपाठीनरोहितन् ।
प्रवीणं कण्टकैर्हीनं तैलाक्तं तल्कलैर्युतम् ।
देव्याः प्रीतिकरञ्चैव मध्यमन्तच्चतुर्विधम् ।
क्षुद्राणि तानि सर्वाणि अधमानि विदुर्बुधाः
॥ २ ॥

P5-0598 · 3
भूधरमांसञ्च :
गोनृमेषाश्वमहिषवराहाजमृगोद्भवम् ।
महामांसाष्टकं प्रोक्तं देवताप्रीतिकारकम्
॥ ३ ॥

P5-0599 · 4
मांसाभावेऽनुकल्पः ।
समयाचारे :
लवणार्द्रकपिण्याकतिलगोधूममाषकम् ।
लशुनञ्च महादेवि मांसप्रतिनिधिः स्मृतः
॥ ४ ॥

P5-0600 · 5
मुद्रा तु द्विविधा ।
कुलार्णवे :
कृषरं मण्डलाकारं चन्द्रविम्बनिभं शुभम् ।
चारुपक्वं मनोहरि शर्कराद्यैश्च पूरितम् ।
पूजाकाले देवताया मुद्रैषा परिकीर्त्तिता
॥ ५ ॥

P5-0601 · 6
यामले :
घृष्टधान्यादिकः यावच्चर्वणीयं प्रकल्पयेत् ।
तेषां संज्ञा कृता मुद्रा महामोदप्रदायिनी
॥ ६ ॥

P5-0602 · 7
एतेषां शोधनन्तु स्वतन्त्रतन्त्रे :
ॐ प्रतद्विष्णुरित्यादिना मांसम् ।
ॐ त्र्यम्बकमित्यादिना मीनम् ।
ॐ तद्विष्णोरित्यादिना मुद्राञ्च शोधयेत्
॥ ७ ॥

P5-0603 · 8
अथ शक्तिशोधनम् :
तत्र भावचूडामणौ :
अदीक्षितकुलासङ्गात्सिद्धिहानिः प्रजायते ।
तत्कथाश्रवणञ्चेत्स्यात् तत्तल्पगमनं यदि ।
स कुलीनः कथं देवि पूजयेत् ।
परमेशवरीम् ।
श्रीक्रमे :
संशोधनमनाचर्य नाचरेत्कुलपूजनम्
॥ ८ ॥

P5-0604 · 9
कौलिकतन्त्रे :
अभिषेकाद्भवेच्छुद्धिर्मन्त्रस्योच्चारविन्दुभिः ।
बलाद्वा यत्नतो वापि अभिषेकं समाचरेत्
॥ ९ ॥

P5-0605 · 10
अभिषेकमन्त्रस्तु :
आदौ बालां समुच्चार्य त्रिपुरायै समुद्धरेत् ।
नमः शब्दं समुच्चार्य इमां शक्तिं ततो वदेत् ।
पवित्रीकुरुशब्दान्ते मम सिद्धिं कुरु प्रिये ।
वह्निजायां समुच्चार्य शुद्धिमन्त्रः सुरेश्वरि ।
तस्याः कर्णेऽभेद बुद्ध्या मायाबीजं समुच्चद्धरेत् ।
इति शक्तिशोधनम्
॥ १० ॥

P5-0606 · 11
ततः शोधितद्रव्यमर्घ्ये क्षिपेत् ।
श्रीक्रमे अर्घ्यविधौ :
पूर्वशोधितद्रव्यन्तु गुप्तेनैव च संक्षिपेत्
॥ ११ ॥

P5-0607 · 12
स्वतन्त्रतन्त्रे :
आद्यद्रव्यमर्घ्यपात्रे निक्षिप्य प्रयतः सुधीः ।
कुण्डगोलोद्भवं द्रव्यं स्वयम्भुकुसुमन्तथा ।
अर्घ्यं दत्त्वा महेशानि सर्वसिद्धीश्वरो भवेत् ।
सुधया चार्घ्यदानेन योगिनीनां भवेत् प्रियः ।
महायोगी भवेद्देवि पीठप्रक्षालनैर्जलैः
॥ १२ ॥

P5-0608 · 13
भैरवतन्त्रे :
पञ्चमात्तु परं नास्ति शाक्तानां सुखमोक्षयोः ।
केवलैः पञ्चमैर्वापि सिद्धो भवति साधकः ।
तेन पञ्चमकारेण पूजा कर्त्तव्या
॥ १३ ॥

P5-0609 · 14
ततोऽर्घ्यस्थापनानन्तरं पर्यङ्कमध्ये पीठं पूजयेत् ।
मण्डुकाय नमः इत्यादिक्रमेण ।
तदुक्तम् :
पूजयेदथ पर्यङ्कमध्ये मण्डूकमग्रतः ।
कालाग्निरुद्रमाधारशक्तिं कुर्ममनन्तकम् ।
वराहं पृथिवीं कन्दं नालञ्च केशराणि च ।
पद्मञ्च कर्णिकञ्चैव मण्डलञ्च समर्चयेत् ।
धर्मं वैराग्यमैश्वर्यं ज्ञानमज्ञानमेव च ।
अनैश्वर्यमवैराग्यमधर्ममपि पूजयेत् ।
ज्ञानविद्यात्मकञ्चैव आत्मानञ्चापि पूजयेत् ।
गन्धपुष्पाक्षतादीनि दत्त्वा तत्रैव पूजयेत् ।
अथ तुलिकोपरि कुलं स्थापयित्वा प्रपूजयेत् ।
तथा च :
तस्योपरि कुलं स्थाप्य पूजानुष्ठानमेव च ।
पूजयेच्च ततस्तस्यां पञ्चकामान्समाहितः ।
ह्रीञ्चैव कामराजञ्च क्लीं कन्दर्पं ऐं च मन्मथम् ।
ब्लूं मकरध्वजं स्त्रीञ्चैव हि मनोभवम् ।
ओङ्कारादिनमोऽन्तञ्च कुसुमैर्गन्धसंयुतैः ।
अर्चयित्वा चतुर्दिक्षु पूजयेत्कुलनायिकाम् ।
वटुकं भैरवीञ्चैव दुर्गाञ्च क्षेत्रपालकम्
॥ १४ ॥

P5-0610 · 15
पूजावाक्यन्तु :
ॐ ह्रीं कामराजाय नमः इत्यादि ।
तत ऐं क्लीं स्त्रीं क्लीं ब्लूं आधारशक्तिश्रीपदुकां
पूजयामीत्यनेन तस्या ललाटे त्रिकोणं विलिखेत् ।
तथा च तन्त्रसारे :
वाग्भवं कामबीजञ्च स्त्रीबीजं कामराजकम् ।
ब्लूमात्मकं ततो दत्त्वा आधारशक्तिमुद्धरेत् ।
श्रीपादुकां ततो दत्त्वा पूजयामि वदेत् ततः ।
अनेन मनुना देवि ललाटे सुमनोहरम् ।
त्रिकोणं तत्र संलिख्य सिन्दुराद्यैर्वरानने ।
उत्तरतन्त्रे :
तस्या मूर्ध्नि त्रिकोणञ्च यन्त्रमालिख्य साधकः ।
महाप्रेतासनं मध्ये बालाञ्च पूजयेत् ततः ।
तत एवञ्च ह्सौः सदाशिवमहाप्रेतपद्मासनाय नमः इति पूजयेत्
।
ततो बालां कामेश्वरीञ्च पूजयेत्
॥ १५ ॥

P5-0611 · 16
कुलार्णवे :
गणेशञ्च कुलाध्यक्षं दुर्गां लक्ष्मीं सरस्वतीम् ।
त्रिकोणेषु च सम्पूज्य वसन्तं मदनं प्रिये ।
स्तनयोः पूजयेत्पश्चान्मुखे तस्याः सुधाकरकम् ।
उत्तरतन्त्रे :
मौलौ गणेशं केशाग्रे कुलाध्यक्षं ललाटके ।
दुर्गां भ्रुवोस्तथा लक्ष्मीं रसनायां सरस्वतीम् ।
इति यत् स्थानवैपरीत्यं तदैच्छिकम्
॥ १६ ॥

P5-0612 · 17
ज्ञानार्णवे :
दक्षपादादिमूर्द्धान्तं वाममूर्द्धादि सुन्दरि ।
पादान्तं पूजयेत् सर्वाः कला वै कामसोमयोः ।
श्रद्धा प्रीति रतिश्चैव भूतिः कान्तिर्मनोभवा ।
मनोहरा मनोरमा मदनोत्पादिनी तथा मोहिनी दीपना चैव
शोधनी च वशङ्करी ।
रञ्जनी चैव देवेशि षोडशी प्रियदर्शना ।
षोडशस्वरसंयुक्ता एताः कामकला यजेत् ।
वाक्यन्तु :
अं श्रद्धायै नमः आं प्रीत्यै नमः इत्यादि ।
ततश्चन्द्रकलाः पूज्याः शिरसश्चरणावधि ।
पूषा वशा च सुमना रतिः प्रीतिस्तथा धृतिः ।
ऋद्धिः सौम्या मरीचिश्च शैलजे चांशुमालिनी ।
अङ्गिरा वशिनी चैव छाया सम्पूर्णमण्डला ।
तथा तुष्ट्यमृते चैव कलाः सोमस्य षोडश ।
अङ्गिरास्थाने मदिरेति वा पाठः
॥ १७ ॥

P5-0613 · 18
उत्तरतन्त्रे :
स्वरैरेव प्रपूज्या हि सर्वकार्यार्थसिद्धये ।
ललितातन्त्रे :
भगे त्वदीये विज्ञेया नाड्यस्तिस्रः प्रवाहिकाः ।
एका तु वाहिका चान्द्री सौरी चान्या तु वाहिका ।
अग्नेयी चापरा ज्ञेया पूजयेत्तास्तु साधकः ।
अम्बु स्रवति चान्द्री सा पुष्पं स्रवति भानवी ।
बीजं स्रवति चाग्नेयी तास्तु नाभिरर्चयेत् ।
ललितातन्त्रे :
वाग्भवाद्यैर्नमोयुक्तैस्ताःपूजयेत् प्रसन्नधीः ।
तेन ऐं चान्द्र्यै नमः ।
ऐं सौर्यै नमः ।
ऐं आग्नेयै नमः
॥ १८ ॥

P5-0614 · 18-ka
उत्तरतन्त्रे :
पूजयेन्मदनागारे रक्तचन्दनचर्चिते ।
भगमालामनुं प्रोच्य त्रितारानन्तरं तथा ।
तथा :
ऐं ह्रीं श्रीं ऐं जं ब्लूं क्लिन्ने ततः परम् ।
सर्वाणीति भगानीति वशमानय तत्परम् ।
स्त्रीं ह्रीं क्लीं ब्लूं भगमालिन्यै नमः ।
ऐं ह्रीं श्रीं इति मन्त्रेण गन्धाद्यैस्तामर्चयेत् ।
ततस्तु तत्रैव मूलं पूजयेत् ।
तन्त्रान्तरे :
इहाप्यावाहनं नास्ति जीवन्यासो महेश्वरि ।
तथैवञ्च विधानेन तां षोडशोपचारकैः ।
इष्टदेवीं प्रपूज्याथ सर्वसिद्धीश्वरो भवेत् ।
ततः स्वलिङ्गं पूजयेत् ।
अर्चयेद्गन्धपुष्पाद्यैः स्वशिवं तदनन्तरम् ।
मूलमन्त्रं ॐ नमः शिवाय ततः परम् ।
यजेत्तत्पुरुषाघोरसद्योजातकसंज्ञकैः ।
श्रीविद्यायान्तु :
तारञ्च भुवनेशानीं तथा त्रिपुरसुन्दरीम् ।
नमः शिवाय विद्येयं दशार्णा परिकीर्तिता ।
इति विशेषः ।
सुन्दरीं सुन्दरीत्रिकूटम् ।
तत्पुरुषादिमन्त्रस्तु पूर्वोक्तः ।
निवृत्तिञ्च प्रतिष्ठाञ्च विद्याञ्च तदनन्तरम् ।
शक्तिञ्च शान्त्यतीताञ्च तदङ्गे तदनन्तरम् ।
समग्रविद्यामुच्चार्य त्रिकोणञ्चैव पूजयेत् ।
अवधूतेश्वरीं कुब्जां कामाख्यां समयामपि ।
चक्रेश्वरीं कालिकाञ्च तथा दिक्वरवासिनीम् ।
महाचण्डेश्वरीं तारां पूजयेदत्र साधकः ।
तदनुज्ञा ततो लब्ध्वा दत्त्वा ताम्बूलमेव च ।
शिवञ्च तत्र निक्षिप्य गजतुण्डाख्यमुद्रया ।
धर्माधर्महविर्दीप्त आत्माग्नौ मनसा स्रुचा ।
सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् ।
स्वाहान्तोऽयं महामन्त्र आरम्भे परिकीर्तितः ।
ततो जपेत् स्त्रियं गच्छन्विद्यां त्रिभुवनेश्वरीम् ।
जपेदिति अष्टोत्तरसहस्रं शतं वा अक्षुब्धो जपेत् ।
तथा च स्वतन्त्रतन्त्रे :
प्रजपेत्क्षोभहरतिश्चाष्टोत्तरसहस्रकम् ।
शतमष्टोत्तरं वापि प्रजपेत्शुद्धमानसः ।
प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनी स्रुचा ।
धर्माधर्मकलास्नेहपूऋणमग्नौ जुहोम्यहम् ।
स्वाहान्तोऽयं महामन्त्रः शुक्रत्यागे प्रकीर्तितः
॥ १८-क ॥

P5-0615 · 18-kha
विशेषस्तु ज्ञानार्णवे :
शिवशक्तिसमायोगो योग एव न संशयः ।
सीत्कारो मन्त्रजापश्च वचनं स्तवनं भवेत् ।
आलिङ्गनञ्च कस्तूरी कर्पूरं चुम्बनं भवेत् ।
नखदंष्ट्रक्षतादीनि पुष्पाणि विविधना च ।
मथनं तर्पणं विद्धि बीजपातो विसर्जनम्
॥ १८-ख ॥

P5-0616 · 19
कुलार्णवे :
आलिङ्गनं चुम्बनञ्च स्तनयोर्मर्दनन्तथा ।
दर्शनं स्पर्शनं योनेर्विकाशो लिङ्गघर्षणम् ।
प्रवेशः स्थापनं शक्तेर्नव पुष्पाणि पूजने
॥ १९ ॥

P5-0617 · 20
यामले :
संयोगाज्जायते सौख्यं परमानन्दलक्षणम् ।
कुलामृतं प्रयत्नेन गृह्णीयाद् दुर्लभं नरः ।
तेनामृतेन दिव्येन सर्वे तुष्टा भवन्ति हि ।
यत्कामं कुरुते मन्त्री तत्क्षणादेव सिध्यति
॥ २० ॥

P5-0618 · 21
ज्ञानार्णवे :
कुलद्रव्यञ्च संशोध्य शिवशक्तिमयं प्रिये ।
जीवामृतं परं ब्रह्मरूपं निक्षिप्य सुन्दरि ।
अर्घ्यपात्रामृतैर्यष्ट्वा निर्विकल्पः सदा नरः ।
श्रीविद्याक्रममभ्यर्च्य परब्रह्ममयो भवेत् ।
श्रीविद्येत्युपलक्षणम्
॥ २१ ॥

P5-0619 · 22
इति ते कथितं ज्ञानं सर्वं रम्यं वरानने ।
सविकल्पस्तु सततं पापभाग्जायते नरः ।
विचिकित्सापरो मन्त्री जायते गुरुतल्पगः ।
अत एव वरारोहे निर्विकल्पः सदा भवेत्
॥ २२ ॥

P5-0620 · 23
समयाचारे :
कुलामृतं समादाय तदर्घ्ये निक्षिपेत्ततः ।
तदर्घ्येण समाराध्य पूजाशेषं समाचरेत् ।
कुलामृतं शोधितम्
॥ २३ ॥

P5-0621 · 24
शोधनमन्त्रस्तु श्रीक्रमे :
अमृते अमृतोद्भवे अमृतवर्षिणि प्रिये ।
देवीपदं शुक्रशापं प्रमोचयपदद्वयम् ।
अमृतं स्रावयद्वन्द्वममृतं कुरुयुग्मकम् ।
स्वाहापदं ततो देवि शुक्रशुद्धिर्भवेत्प्रिये
॥ २४ ॥

P5-0622 · 25
शुक्रैरक्षततण्डुलैः सुगन्धिकुसुमैर्युतैः ।
अर्घ्यद्रव्यैश्च देवेशि योनौ देवीं प्रपूजयेत्
॥ २५ ॥

P5-0623 · 26
उत्तरतन्त्रे :
धूपदीपैश्च नैवेद्यैर्विविधैः कुलसाधकः ।
विधाय वन्दितां ताञ्च तदुच्छिष्टं स्वयञ्चरेत्
॥ २६ ॥

P5-0624 · 27
शिवागमे च :
अविचारं शक्त्युच्छिष्टं न पिबेत्पुरुषो यदि ।
घोरञ्च नरकं याति कुलमार्गात्पतेद्ध्रुवम् ।
तस्माद्विचार्य यत्नेन शक्त्युच्छिष्टं भजेत्सुधीः ।
आनन्दं कारयेद्वीरस्तत्त्वं निर्भ्रान्तितः पिबेत्
॥ २७ ॥

P5-0625 · 28
कुलामृते :
पूजाकालं विना नैव पश्येच्छक्तिं दिगम्बराम् ।
पूजाकालं विना नैव पेया च साधकैः ।
आयुषा हीयते स्पृष्ट्वा पीत्वा च नरकं व्रजेत् ।
इति कुलपूजा
॥ २८ ॥

P5-0626 · 29
यामले :
नैवेद्यं त्रिपुरादेव्या वाञ्छन्ति विबुधाः सदा ।
तस्मादेवं कुरु श्रेष्ठ ब्रह्मणे विष्णवेऽपि च ।
महाशुद्धाय सूर्याय गणेशाय यमाय च ।
नह्नये च वरुणाय वायवे धनदाय च ।
ईशानाया महादेवि साधकाय प्रदापयेत् ।
त्रिपुरेत्युपलक्षणम्
॥ २९ ॥


Puraścaraṇa und Kumārī-Pūjā

P5-0627 · 30
अथ वीराणां पुरश्चरणम् :
तत्रादौ परकीयां नारीं दीक्षितां पूजयेत् ।
तथा च कुलचूडामणौ :
पुरश्चरणकाले हि परयोषां प्रपूजयेत् ।
दीक्षितां वस्त्रभूषाद्यैर्भोज्यैः पायससम्भवैः ।
आरम्भकाले तु नियतं स्वयं-पक्वान्नभोजनम् ।
नानाविधं पिष्टकञ्च नानारससमन्वितम् ।
दुग्धं दधि घृतं तक्रं नवनीतं सशर्करम् ।
उपलाखण्डचूतानि नानाविधरसायनम् ।
नारिकेलं कपित्थञ्च नागरङ्गं सुदर्शनम् ।
लिम्पाकं बीजपूरञ्च दाडिमीफलमुत्तमम् ।
नानारम्यफलञ्चैव नानागन्धविलेपनम् ।
चन्दनं मृगनाभिञ्च श्रीखण्डं नवपल्लवम् ।
टङ्कणं लोध्रकञ्चैव जलजं वनजं तथा ।
नानाशैलसमुद्भूतं नानालङ्कारभूषितम् ।
शून्यगेहे समानीय चार्घ्योदकविशोधिताम् ।
अमृतीकरणं कृत्वा शक्तिञ्चाभिमुखीं नयेत्
॥ ३० ॥

P5-0628 · 31
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च कुलभूषणा ।
वैश्या नापितकन्या च रजकी नटकी तथा ।
विशेषवैदग्ध्ययुताः सर्वा एव कुलाङ्गनाः
॥ ३१ ॥

P5-0629 · 32
अथ दीक्षिता अष्टशक्तीः क्रमेण संस्थाप्यार्घ्यपात्रं
स्थापयित्वा अर्घ्योदकेन ताश्चाभ्युक्ष्य वमिति धेनुमुद्रया
अमृतीकृत्याष्टशक्तिरूपभेदं कृत्वा
ब्राह्मण्याद्यष्टशक्तीनां संज्ञाभिर्नामकरणं कृत्वा
क्रमेणासनादिकं दद्यात् ।
तदुक्तं तत्रैव :
अष्टकन्यारूपभेदं विलोक्यामर्षवेष्टितम् ।
ब्राह्मण्याद्यष्टशक्तीनां नामभिः कृतसंज्ञया ।
आसनं प्रथमं दत्त्वा स्वागतञ्च पुनः पुनः ।
अर्घ्यं पाद्यञ्च पानीयं मधुपर्कं जलन्ततः ।
स्नापयेद् गन्धपुष्पादिकेशसंस्कारमेव च ।
धूपयित्वा ततः केशान् कौषेयञ्च निवेदयेत् ।
ततः स्थानान्तरे पीठमास्तीर्य पादुकाद्वयम् ।
दत्त्वा तत्र समासीनां नानालङ्कारभूषणैः ।
भूषयित्वानुलेपञ्च गन्धं माल्यं निवेदयेत् ।
ततस्तां तां शक्तिं यथाक्रमेण ब्रह्माण्यादिरूपां
समावाह्य जीवन्यासादिकं कृत्वा
गन्धपुष्पधूपदीपान्नव्यञ्जनादिकं दत्त्वा तासां
सव्यकर्णे क्रमेण स्तोत्रं पठेत् ।
तदुक्तं तत्रैव :
तां तां शक्तिं समावाह्य मूर्ध्नि तासां समानयेत् ।
भोज्यं मण्डलमध्ये तु स्वर्णपात्रे सुशोभने ।
चर्व्यं चूष्यं लेह्यं पेयं भोज्यं भक्ष्यं निवेदयेत् ।
अदीक्षिता भवेद् या तु तदा मायां निवेदयेत् ।
तासां सव्येषु कर्णेषु ततः स्तोत्रं समाचरेत्
॥ ३२ ॥

P5-0630 · 33
ॐ मातार्देवि नमस्तेऽस्तु ब्रह्मरूपधरेऽनघे ।
कृपया हर मे विघ्नं मन्त्रसिद्धिं प्रयच्छ मे ॥
ॐ माहेशी वरदे देवि परमानन्दरूपिणी ।
कृपयेत्यादि ॥
ॐ कौमारि सर्वविद्येशे कुमारक्रीडने वरे ।
कृपयेत्यादि ॥
ॐ विष्णुरूपधरे देवि विनतासुतवाहिनि ।
कृपयेत्यादि ॥
ॐ वाराहि वरदे देवि दंष्ट्रोद्धृतवसुन्धरे ।
कृपयेत्यादि ॥
ॐ शत्रुरूपधरे देवि शक्रादिसुरपूजिते ।
कृपयेत्यादि ॥
ॐ चामुण्डे मुण्डमालासृक्चर्चिते विघ्ननाशिनि ।
कृपयेत्यादि ॥
ॐ महालक्ष्मि महोत्साहे क्षोभसन्तापहारिणि ।
कृपयेत्यादि ॥
मितिमातृमये देवि मितिमातृवहिष्कृते ।
एकेबहुविधे देवि विश्वरूपे नमोऽस्तु ते ।
एतत्स्तोत्रं पठेद्यस्तु कर्मारम्भेषु संयतः ।
विदग्धां वा समालोक्य तस्य विघ्नं न जायते ।
कुलीनस्य द्वारदेवाः कथितास्तव पुत्रक ।
दीक्षाकाले नित्यपूजासमये नार्चयेद्यदि ।
तस्य पूजाफलं वत्स नीयते यक्षराक्षसैः
॥ ३३ ॥

P5-0631 · 34
यदि व्रीडापरा सा तु भोजने तद्गृहाद्बहिः ।
स्थितस्तावत्पठेत्स्तोत्रं यावत् तृप्तिः प्रजायते ।
आचम्य मुखवासादि ताम्बूलञ्च निवेदयेत् ।
ततो दद्यात्पुनर्मालां गन्धचन्दनपंकिलम् ।
विसृज्य प्रदक्षिणीकृत्य वरं प्रार्थ्य सुखी भवेत्
॥ ३४ ॥

P5-0632 · 35
अन्या यदि न गच्छेत्तु निजकन्या निजानुजा ।
अग्रजा मातुलानी वा माता वा तत्सपत्निका ।
पूर्वाभावे परा पूज्या मदंशा योषितो मताः ।
अग्रजा मातुलानी वा माता वा तत्सपत्निका ।
एका चेत्कुलशास्त्रञ्चपूजार्हा तत्र भैरव ।
सर्व एव सुराः पूज्याः सत्यं ब्रह्मशिवादयः
॥ ३५ ॥

P5-0633 · 36
एका चेत्युवती तत्र पूजिता चावलोकिता ।
सर्वा एव परा देव्यः पूजिताः कुलभैरव ।
आदावन्ते च मध्ये च लक्षपूर्तौ विशेषतः ।
न पूजयति चेत्कान्तां तदा विघ्नैर्विलिप्यते
॥ ३६ ॥

P5-0634 · 37
पूर्वार्जितफलं नास्ति का कथा परजन्मनि ।
तस्मात्सर्व प्रयत्नेन पूजयेत्कुलसुन्दरीम्
॥ ३७ ॥

P5-0635 · 38
अथैवं क्रमेण लक्षजपादौ मध्ये अन्ते च शक्तिं पूजयेत् ।
लक्षमित्युलक्षणम् ।
ततो रात्रौ पञ्चमेन देवीं सम्पूज्य रहस्यमालया कुलयुक्तं
गुरुं शिरसि हृदि देवीञ्च ध्यात्वा शिवोऽहमिति भावयन् जपं
कुर्यात्
॥ ३८ ॥

P5-0636 · 39
मुण्डमालायाम् :
गते तु प्रथमे यामे तृतीयप्रहरावधि ।
निशायाञ्च प्रजप्तव्यं रात्रिशेषे जपेन्न तु
॥ ३९ ॥

P5-0637 · 40
स्वतन्त्रतन्त्रे :
रात्रौ मांसासवैर्देवीं पूजयित्वा विधानतः ।
ततो नग्नां स्त्रियं नग्नो रमन् क्लेदयुतोऽपि वा ।
जपेल्लक्षं ततो देवीं होमयेज्जलदिन्धने ।
योनिकुण्डे स्थिते सर्पिर्मांसमत्स्ययुतं भृशम् ।
दशांशं तर्पयेद् द्रव्यैर्मांसमिश्रैस्तु साधकः ।
तर्पणस्य दशांशेन अभिषिच्य जगन्मयीम् ।
दशांशं भोजयेत्साधु साधकं देवताप्रियम् ।
दिव्यं मांसञ्च मत्स्यञ्च चर्वणञ्च प्रदापयेत् ।
तदन्ते तोषयेद्भक्त्या गुरुं स्वर्णादिभिः प्रिये ।
एतत् कल्पान्महादेवि मन्त्रः सिध्यति निश्चितम्
॥ ४० ॥

P5-0638 · 41
इति कुलपुरश्चरणम् ।
अथ मन्त्रिणां मन्त्रस्नानम् :
तन्त्रान्तरे :
स्नायाच्च विमले तीर्थे पुष्करे हृदयाश्रिते ।
बिन्दुतीर्थेऽथवा स्नात्वा पुनर्जन्म न विद्यते
॥ ४१ ॥

P5-0639 · 42
इडासुषुम्ने शिवतीर्थकेऽस्मिन् ज्ञानाम्बुपूर्णे वहतः शरीरे ।
ब्रह्माम्बुभिः स्नाति तयोः सदा यः किन्तस्य गाङ्गैरपि पुष्करैर्वा
॥ ४२ ॥

P5-0640 · 43
इति स्नानम् ।
अथ सन्ध्या :
शिवशक्त्योः समायोगे यस्मिन् काले प्रजायते ।
सा सन्ध्या कुलनिष्ठानां समाधिस्ते प्रजायते
॥ ४३ ॥

P5-0641 · 44
तर्पणस्तु :
मूलाधारात्ज्वलन्तीञ्च सोमसूर्याग्निरूपिणीम् ।
कुण्डलिनीं समुत्थाप्य परविन्दुं निवेश्य च ।
तदुद्भवामृतेनैव तर्पयेद्देहदेवताम्
॥ ४४ ॥

P5-0642 · 45
तदुक्तं नवरत्नेश्वरे :
चन्द्रार्कानलसङ्घट्टाद् गलितं यत्परामृतम् ।
तेनामृतेन दिव्येन तर्पयेदिष्टदेवताम्
॥ ४५ ॥

P5-0643 · 46
ब्रह्मरन्ध्रादधोभागे यच्चान्द्रं पात्रमुत्तमम् ।
कलासारेण सम्पूर्य तर्पयेत्तेन खेचरीम्
॥ ४६ ॥

P5-0644 · 47
ध्यानन्तु :
किरणस्थं तदग्निस्थं चन्द्रभास्करमध्यगम् ।
महाशून्ये लयं कृत्वा पूर्णस्तिष्ठति योगिराट्
॥ ४७ ॥

P5-0645 · 48
अथवा :
निरालम्बे पदे शून्ये यत्तेज उपजायते तद्गर्भमभ्यसेन्नित्यं
ध्यानमेतद्धि योगिनाम् ।
तद्गर्भमित्यन्तःकरणस्थमभ्यसेदिति
॥ ४८ ॥

P5-0646 · 49
अथान्तरपूजा :
मूलाधारात्कुलकुण्डलिनीम् उत्थाप्य, हृदयादर्कमण्डलं
नीत्वा, सहस्रदलकमलान्तर्गतचन्द्रामृतधारया मूलमन्त्रं
स्मरन् सिञ्चेत्
॥ ४९ ॥

P5-0647 · 49-ka
अर्चयन्विषयैः पुष्पैस्तत्क्षणात्तन्मयो भवेत् ।
न्यासस्तन्मयताबुद्धिः सोऽहं भावेन पूजयेत् ।
तन्मयेति तदेकत्वज्ञानं सोऽहमिति ।
मन्त्राक्षराणि चिच्छक्तौ प्रोतानि परिभावयेत् ।
तामेव परमव्योम्नि परमानन्दवृंहिते ।
दर्शयत्यात्मसद्भावं पूजाहोमादिभिर्विनेति
॥ ४९-क ॥

P5-0648 · 50
विषयपुष्पाणि यथा :
अमायमनहङ्कारमरागममदन्तथा ।
अमोहकमदम्भञ्च अनिन्दाक्षोभकौ तथा ।
अमात्सर्यमलोभञ्च दशपुष्पं विदुर्बुधाः ।
अहिंसा परमं पुष्पं पुष्पमिन्द्रियनिग्रहः ।
दयापुष्पं क्षमापुष्पं ज्ञानपुष्पञ्च पञ्चमम्
॥ ५० ॥

P5-0649 · 51
अथ होमः :
आत्मानमपरिच्छिन्नं
विभाव्यात्मान्तरात्मपरमात्मज्ञानात्मरूपं चतुरस्रं
चित्कुण्डमानन्दमेखलायुतम् ।
अर्द्धमात्राकृतियोनिविभूषितं नाभौ ध्यात्वा,
तन्मध्यस्थज्ञानाग्नौ जुहुयात् ।
यथा मूलान्ते :
नाभिचैतन्यरूपाग्नौ हविषा मनसा स्रुचा ।
ज्ञानप्रदीपिते नित्यमक्षवृत्तिर्जुहोम्यहं स्वाहा ।
इति प्रथमाहुतिम् ।
मूलान्ते :
धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा ।
सुषुम्ना-वर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् स्वाहेति द्वितीयाहुतिम्
।
मूलान्ते :
धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा ।
सुषुम्ना-वर्त्मना नित्यमक्षवृतीर्जुहोम्यहम् स्वाहेति द्वितीयाहुतिम् ।
मूलान्ते :
प्रकाशाकाशहस्ताभ्यां अवलम्व्योन्मनी स्रुचा ।
धर्माधर्मकलास्नेहपूर्णमग्नौ जुहोम्यहम् स्वाहेति
तृतीयाहुतिं दद्यात् ।
ततो मूलान्ते :
अन्तर्निरन्तरनिरिन्धनमेधमाने मायान्धकारपरिपस्थिनि
संविदग्नौ ।
कस्मिंश्चिद्भूतमरीचिविकाशभूमौ विश्वं जुहोमि
वसुधादिशिवावसानम् ।
इति चतुर्थाहुतिं जुहुयात्
॥ ५१ ॥

P5-0650 · 51-ka
इत्यन्तर्यजनं कृत्वा साक्षाद्ब्रह्ममयो भवेत् ।
न तस्य पापपुण्यानि जीवन्मुक्तो भवेद् ध्रुवम् ।
अयम् अन्तर्यागो ज्ञानिनामेव
॥ ५१-क ॥

P5-0651 · 52
अथान्तःपञ्चमकारयजनप्रकारः ।
तदुक्तं कुलार्णवे-अन्तर्यजने :
सुरा शक्तिःशिवो मांसं तद्भोक्ता भैरवःस्वयम् ।
तयोरैक्ये समुत्पन्न आनन्दो मोक्ष उच्यते
॥ ५२ ॥

P5-0652 · 53
आनन्दं ब्रह्मणो रूपं तच्च देहे व्यवस्थितम् ।
तस्याभिव्यञ्जकं द्रव्यं योगिभिस्तेन पायते ।
लिङ्गत्रयविशेषज्ञः षट्चक्रपद्मभेदकः ।
पीठस्थानानि चागत्य महापद्मवनं व्रजेत् ।
आमूलाधारमाब्रह्मरन्ध्रं गत्वा पुनः पुनः ।
चिच्चन्द्रकुण्डलीशक्तिसामरस्यमहोदयः ।
व्योमपङ्कजनिस्यन्दसुधापानरतो नरः ।
मधुपानमिदं देवि चेतरन्मद्यपानकम्
॥ ५३ ॥

P5-0653 · 54
पुण्यापुण्यपशुं हत्वा ज्ञानखड्गेगन योगवित् ।
परे लयं नयेच्चित्तं पलाशीति निगद्यते
॥ ५४ ॥

P5-0654 · 55
मानसादीन्द्रियगणं संयम्यात्मनि योजयेत् ।
मांसाशी स भवेद्देवि इतरे प्राणिघातकाः
॥ ५५ ॥

P5-0655 · 56
परशक्त्यात्ममिथुनसंयोगानन्दनिर्भराः ।
मुक्तास्ते मैथुनं तत्स्यादितरे स्त्रीनिषेवकाः
॥ ५६ ॥

P5-0656 · 57
अथ कुमारी पूजा :
ज्ञानार्णवे :
होमादिकं हि सकलं कुमारीपूजनं विना ।
परिपूर्णफलं न स्यात्पूजया तत्भवेद् ध्रुवम् ।
कुमारीपूजया देवि फलं कोटिगुणं भवेत्
॥ ५७ ॥

P5-0657 · 58
पुष्पं कुमार्यै यद्दत्तं तन्मेरुसदृशं फलम् ।
कुमारी भोजिता येन त्रैलोक्यं तेन भोजितम्
॥ ५८ ॥

P5-0658 · 59
तत्र कुमारीनिर्णयो यामले :
एकवर्षा भवेत्सन्ध्या द्विवर्षा सा सरस्वती ।
त्रिवर्षा च त्रिधामूर्तिश्चतुवर्षा च कालिका ।
सुभगा पञ्चवर्षा तु षड्वर्षा तु उमा भवेत् ।
सप्तभिर्मालिनी साक्षादष्टवर्षा तु कुब्जिका ।
नवभिः कालसन्दर्भा दशभिश्चापराजिता ।
एकादशे च रुद्राणी द्वादशाब्दे तु भैरवी ।
त्रयोदशे महालक्ष्मीर्द्विसप्ता पीठनायिका ।
क्षेत्रज्ञा पञ्चदशभिः षोडशे चाम्बिका स्मृता ।
एवं क्रमेण सम्पूज्या यावत्पुष्पं न विद्यते
॥ ५९ ॥

P5-0659 · 60
प्रतिपदादिपूर्णान्तं वृद्धिभेदेन पूजयेत् ।
महापर्वसु सर्वेषु विशेषाच्च पवित्रके ।
महानवम्यां देवेशि कुमारीं च प्रपूजयेत्
॥ ६० ॥

P5-0660 · 61
अथ पूजाक्रमः :
तत्र कुमारीमानीय ऐंकारेण जलं तत्तन्नाम्ना देवीबुद्ध्या
दद्यात् ।
ह्रींकारेण तथा पाद्यं श्रींकारेण चार्घ्यं हूंबीजेन
चन्दनं ह्रींकारेण पुष्पाणि ह्सौः मन्त्रेण धूपदीपौ दद्यात् ।
ततः षडङ्गेन पूजयेत् ।
तद्यथा :
ऐं ह्रीं श्रीं क्लीं ह्सौः कुलकुमारीके हृदयाय नमः ।
हैं वैं ह्रैं श्रीं ह्रीं ऐं स्वाहा शिरसे स्वाहा ॥
ॐ श्रीं शिखायै वषट् ।
ऐं कुलवागीश्वरि कवचाय हुं ।
ऐं कुलेश्वरि नेत्रत्रयाय वौषट् ।
ह्रीं अस्त्राय फट् ।
ततः ऐं सिद्धजयाय पूर्ववक्त्राय नमः ।
ऐं जयाय उत्तरवक्त्राय नमः ।
ऐं ह्रीं श्री कुब्जिके पश्चिमवक्त्राय नमः ।
ऐं कालिके दक्षवक्त्राय नमः ।
वाग्भवेन पुरक्षोभं मायाबीजे गुणाष्टकम् ।
श्रीयो बीजे श्रियो लाभः हूं बीजेनारिसंक्षयः ।
भैरवेण च बीजेन खगत्वममरादिभिः ।
कुमारिका ह्यहं नाथ सदा त्वं हि कुमारिका
॥ ६१ ॥

P5-0661 · 61-ka
अष्टोत्तरशतं वापि एकां वापि प्रपूजयेत् ।
पूजितां प्रतिपूज्यन्ते निर्दहन्त्यवमानिताः ।
कुमारी योगिनी साक्षात्कुमारी परदेवता ।
असुरादुष्टनागाश्च ये ये दुष्टग्रहा अपि ।
भूतवेतालगन्धर्वा डाकिनीयक्षराक्षसाः ।
याश्चान्या देवताः सर्वा भूर्भूवःस्वश्च भैरवाः ।
पृथिव्यादीनि सर्वाणि ब्रह्माण्डं सचराचरम् ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
ते तुष्टाः सर्वतुष्टाश्च यस्तु कन्यां प्रपूजयेत्
॥ ६१-क ॥

P5-0662 · 62
विधियुक्तं कुमारीभिर्भोजयेच्चैव भैरवीम् ।
पाद्यमर्घ्यं तथा धूपं कुंकुमं चन्दनं शुभम् ।
भक्तिभावेन सम्पूज्य कुमारीभ्यो निवेदयेत्
॥ ६२ ॥

P5-0663 · 63
प्रदक्षिणत्रयं कुर्यादादौ मध्ये तथान्ततः ।
पश्चाच्च दक्षिणा देया रजतं स्वर्णमौक्तिकैः ।
दक्षिणाञ्च कुमारीभ्यो दद्यात्प्रक्रमतस्तथा
॥ ६३ ॥

P5-0664 · 64
तथा तत्रैव :
विवाहयेत्स्वयं कन्यां ब्रह्महसां व्यपोहति ।
गवां हत्या च स्त्रीहत्या सर्वं पापं विनश्यति ।
यो यश्च पुण्यकाले तु कन्यादानं प्रकल्पयेत् ।
भुक्तिमुक्तिफलं तस्य सौभाग्यं सर्वसम्पदः
॥ ६४ ॥

P5-0665 · 65
रुद्रलोके वसेन्नित्यं त्रिनेत्रो भगवान् हरः ।
तीर्थकोटिसहस्राणि अश्वमेधशतानि च ।
तत्फलं लभते मर्त्त्यो यस्तु कन्यां विवाहयेत्
॥ ६५ ॥

P5-0666 · 66
वालुकासागरे ज्ञेयं तावदब्दसहस्रकम् ।
एकैकं कुलमुद्धृत्य रुद्रलोकेमहीयते
॥ ६६ ॥

P5-0667 · 67
कन्यादानन्तु तत्त्वद्देवताप्रीतये इति सम्प्रदायविदः ।
वस्तुतस्तु तत्तद्वर्षीयायाः कन्यायास्तत्तद्देवता बुद्ध्या
शिवरूपत्वं सम्प्रदानीये विभाव्य दद्यादिति रहस्यार्थः
॥ ६७ ॥


Yoga: Ethik, acht Glieder und innere Erkenntnis

P5-0668 · 68
अथ योगप्रक्रिया :
गौतमीये :
गौतम उवाचः ।
देवर्षे योगयुक्तात्मन् योगानुभवदर्शक ।
सांख्ययोगविशेषज्ञ कर्मयोगनिषेवक ।
विना योगं न सिध्येत्त कुण्डली चंक्रमः प्रभो ।
मूलपद्मे कुण्डलिनी यावन्निद्रायिता प्रभो ।
तावत्किञ्चिन्न सिध्येतयन्त्रमन्त्रार्चनादिकम् ।
जागर्ति यदि सा देवि बहुभिः पुण्यसञ्चयैः ।
तदा प्रसादमायान्ति यन्त्र-मन्त्रार्चनादयः
॥ ६८ ॥

P5-0669 · 69
शिववद्विहरेल्लोकेष्वष्टैश्वर्यसमन्वितः ।
योगयोगाद्भवेन्मुक्तिर्मन्त्रसिद्धिरखण्डिता ।
सिद्धे मनौ परावाप्तिरिति शास्शार्थनिर्णयः ।
तस्मात्कार्यं परं योगं कथयस्व मुनीश्वर ।
मुक्तात्मा येन विहरेत्स्वर्गे मर्त्ये रसातले ।
जीवन्मुक्तश्च देहान्ते निर्वाणपदमाप्नुयात्
॥ ६९ ॥

P5-0670 · 70
नारद उवाच :
कथयामि तव स्नेहात्योगयोग्योऽसि गौतम् ।
संसारोत्तारणे युक्तिर्योगशब्देन कथ्यते ।
ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः
॥ ७० ॥

P5-0671 · 71
तव स्नेहात्समाख्याता योगविघ्नकरास्त्विमे ।
कामक्रोधलोभमोहमदमात्सर्यसंज्ञकाः ।
योगाङ्गैरेभिर्जित्वा तान् योगिनो योगमाप्नुयुः
॥ ७१ ॥

P5-0672 · 72
यमं नियममासनप्राणायामौ ततः परम् ।
प्रत्याहारं धारणाख्यं ध्यानं सार्द्धं समाधिना ।
अष्टाङ्गान्याहुरेतानि योगिनो योगसाधने
॥ ७२ ॥

P5-0673 · 73
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ।
क्षमा धृतिमिताहारः शौचं चेति यमा दश
॥ ७३ ॥

P5-0674 · 74
तपः सन्तोष आस्तिक्यं दानं देवस्य पूजनम् ।
सिद्धान्तश्रवणञ्चैव ह्रीर्मतिश्च जपो हुतम् ।
दशैते नियमाः प्रोक्ता योगशास्त्रविशारदैः
॥ ७४ ॥

P5-0675 · 75
आसनानि पूर्वोक्तानि ।
इडयाकर्षयेद्वायुः वाह्यं षोडशमात्रया ।
धारयेत् पूरितं योगी चतुःषट्या च मात्रया ।
सुषुम्नामध्यगं सम्यक्द्वात्रिंशन्मात्रया शनैः ।
नाड्या पिङ्गलया चैनं रेचयेद् योगवित्तमः ।
प्राणायाममिमं प्राहुर्योगशास्त्रविशारदाः
॥ ७५ ॥

P5-0676 · 76
भूयोभूयः क्रमात्तस्य व्यात्यासेन समाचरेत् ।
मात्रावृद्धिक्रमेणैव सम्यग्द्वादश षोडश ।
जपध्यानादिभिर्युक्तं सगर्भं तं विदुर्बुधाः ।
तदपेतं निर्गर्भञ्च प्राणायामं परं विदुः
॥ ७६ ॥

P5-0677 · 77
क्रमादभ्यासतः पुंसो देहे स्वेदोद्गमोऽधमः ।
मध्यमः कम्पसंयुक्तो भूमित्यागः परो मतः ।
उत्तमस्यगुणावाप्तिर्यावच्छीलनमिष्यते
॥ ७७ ॥

P5-0678 · 78
इन्द्रियाणां विचरतां विषयेषु निरर्गलम् ।
बलादाहरणं तेभ्यः प्रत्याहारो विधीयते
॥ ७८ ॥

P5-0679 · 79
अंगुष्ठगुल्फजानूरुसीमनीलिङ्गनाभिषु ।
हृद्ग्रीवाकण्ठदेशेषु लम्बिकायां तथा नसि ।
भ्रूमध्ये मस्तके मूर्ध्नि द्वादशान्ते यथाविधि ।
धारणं प्राणमरुतो धारणेति निगद्यते
॥ ७९ ॥

P5-0680 · 80
समाहितेन मनसा चैतन्यान्तरवर्तिना ।
आत्मन्यभीष्टदेवानां ध्यानं ध्यानमिहोच्यते
॥ ८० ॥

P5-0681 · 81
समत्वभावना नित्यं जीवात्मपरमात्मनोः ।
समाधिमाहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणम्
॥ ८१ ॥

P5-0682 · 82
इत्यादि कथितं विप्र कामादिषट्कनाशनम् ।
इदानीं कथये तेऽहं मन्त्रयोगमनुत्तमम्
॥ ८२ ॥

P5-0683 · 83
विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं मुने ।
चन्द्रसूर्याग्नितेजोभिर्जीवब्रह्मैक्यरूपकम् ।
तिस्रः कोट्यस्तदर्द्धेन शरीरे नाडयो मताः ।
तासु मुख्या दश प्रोक्तास्तासु तिस्रो व्यवस्थिताः
॥ ८३ ॥

P5-0684 · 84
प्रधाना मेरुदण्डेऽत्र चन्द्रसूर्याग्निरूपिणी ।
इडा वामे स्थिता नाडी शुक्ला तु चन्द्ररूपिणी ।
शक्तिरूपा च सा नाडी साक्षादमृतविग्रहा ।
दक्षिणे पिङ्गलाख्या तु पुंरूपा सूर्यविग्रहा ।
दाडिमीकेशर-प्रख्या विषाख्या मुनिभिः स्मृता
॥ ८४ ॥

P5-0685 · 85
मेरुमध्ये स्थिता या तु मूलादाब्रह्मविग्रहा ।
सर्व-तेजोमयी सा तु सुषुम्ना बहुरूपिणी
॥ ८५ ॥

P5-0686 · 86
तस्या मध्ये विचित्राख्या अमृतस्राविणी शुभा ।
सर्वदेवमयी सा तु योगिनां हृदयङ्गमा ।
विसर्गाद्विन्दुपर्यन्तमेतत्तिष्ठति तत्त्वतः
॥ ८६ ॥

P5-0687 · 87
मूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रियात्मके ।
मध्ये स्वयम्भुलिङ्गन्तु कोटिसूर्यसमप्रभम्
॥ ८७ ॥

P5-0688 · 88
तदूर्ध्वे कामबीजन्तु कलशान्तीन्दुनादकम् ।
तदूर्ध्वे तु शिखाकारा कुण्डली ब्रह्मविग्रहा
॥ ८८ ॥

P5-0689 · 89
तद्बाह्ये हेमवर्णाभं वसवर्णं चतुर्दलम् ।
द्रुतहेमसमप्रख्यं पद्मं तत्र विभावयेत्
॥ ८९ ॥

P5-0690 · 90
तदूर्ध्वेऽग्निसमप्रख्यं षड्दलं हीरकप्रभम् ।
बादिलान्तषड्वर्णेन युक्ताधिष्ठानसंज्ञकम्
॥ ९० ॥

P5-0691 · 91
मूलमाधारषट्कानां मूलाधारं ततो विदुः ।
स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः
॥ ९१ ॥

P5-0692 · 92
तदूर्ध्वे नाभिदेशे तु मणिपूरं महत्प्रभम् ।
मेघाभं विद्युदाभञ्च बहुतेजोमयन्ततः ।
तत्पद्मं मणिवद्भिन्नं मणिपूरं तथोच्यते
॥ ९२ ॥

P5-0693 · 93
दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ।
शिवेनाधिष्ठितं पद्मं विश्वलोकैककारणम्
॥ ९३ ॥

P5-0694 · 94
तदूर्ध्वेऽनाहतं पद्ममुद्यदादित्यसन्निभम् ।
कादिठान्ताक्षरैरर्कपत्रैश्च समधिष्ठितम्
॥ ९४ ॥

P5-0695 · 95
तन्मध्ये बाणलिङ्गस्तु सूर्यायुतसमप्रभम् ।
शब्दब्रह्ममयं शब्दोऽनाहतस्तत्र दृश्यते ।
अनाहताख्यं पद्मं तत्मुनिभिः परिकीर्त्यते
॥ ९५ ॥

P5-0696 · 96
आनन्दसदनं तत्तु पुरुषाधिष्ठितं परम् ।
तदूर्ध्वन्तु विशुद्धाख्यं दलं षोडशपङ्कजम् ।
स्वरैः षोडशकैर्युक्तं धूम्रवर्णैर्महत्प्रभम् ।
विशुद्धिं तनुते यस्माज्जीवस्या हंसलोकनात् ।
विशुद्धं पद्ममाख्यातमाकाशाख्यं महाद्भुतम्
॥ ९६ ॥

P5-0697 · 97
आज्ञाचक्रं तदूर्ध्वे तु आत्मनाधिष्ठितं परम् ।
आज्ञासंक्रमणं तत्र गुरोराज्ञेति कीर्तितम्
॥ ९७ ॥

P5-0698 · 98
कैलासाख्यं तदूर्ध्वे तु बोधनीन्तु तदूर्ध्वतः ।
एवञ्च शिवचक्राणि प्रोक्तानि तव सुव्रत
॥ ९८ ॥

P5-0699 · 99
सहस्राराम्बुजं विन्दुस्थानं तदूर्ध्वमीरितम्
॥ ९९ ॥

P5-0700 · 100
आदौ पूरकयोगेन स्वाधारे योजयेन्मनः ।
गुदमेढ्रान्तरे शक्तिं तामाकुञ्च्य प्रबोधयेत्
॥ १०० ॥

P5-0701 · 1
लिङ्गभेदक्रमेणैव बिन्दुचक्रन्तु प्रापयेत् ।
शम्भुना तां परां शक्तिमेकीभावं विचिन्तयेत्
॥ १ ॥

P5-0702 · 2
तत्रोत्थितामृतरसं द्रुतलाक्षारसोपमम् ।
पाययित्वा च तां शक्तिं कृष्णाख्यां प्रयोगसिद्धिदाम् ।
षट्चक्रदेवतास्तत्र सन्तर्प्यामृतधारया ।
आनयेत्तेन मार्गेण मूलाधारं ततः सुधीः
॥ २ ॥

P5-0703 · 3
एवमभ्यस्यमानस्य अहन्यहनि मारुतम् ।
जरामरणदुःखाद्यैर्मुच्यते भवबन्धनात्
॥ ३ ॥

P5-0704 · 4
पूर्वोक्तदूषिता मन्त्राः सर्वे सिध्यन्ति नान्यथा ।
ये गुणाः सन्ति देवस्य पञ्चकृत्यविधायिनः ।
ते गुणाः साधकवरे भवन्त्येव न चान्यथा ।
इत्येतं कथितं सर्वं योगमार्गमनुत्तमम्
॥ ४ ॥

P5-0705 · 5
इदानीं धारणाख्यान्तु शृणुष्वावहितो मया ।
दिक्कालाद्यनवच्छिन्ने कृष्णे चेतो निधाय च ।
तन्मयो भवति क्षिप्रं जीवब्रह्मैक्ययोजनात्
॥ ५ ॥

P5-0706 · 6
अथवा समलं चित्तं यदा क्षिप्रं न सिध्यति ।
तदावयवयोगेन योगी योगान्समभ्यसेत्
॥ ६ ॥

P5-0707 · 7
पादाम्भोजे मनो दद्यान्नखकिञ्जल्कचित्रिते ।
जङ्घायुग्मे तथा रामकदलीकाण्डशोभिते ।
ऊरुद्वये मत्तहस्तिकरदण्डसमप्रभे ।
गङ्गावर्त्तगभीरे तु नाभौ सिद्धविले ततः ।
उदरे वक्षसि तथा हारे श्रीवत्सकौस्तुभे ।
पूर्णचन्द्रायुतप्रख्ये ललाटे चारुकुन्तले ।
शङ्खचक्रगदाम्भोजदोर्दण्डपरिमण्डिते ।
सहस्रादित्यसङ्काशे कीरीटे कुण्डलद्वये ।
स्थाने नियोजयेन्मन्त्री विशुद्धः शुद्धचेतसा
॥ ७ ॥

P5-0708 · 8
मनो निवेश्य कृष्णे वै तन्मयो भवति ध्रुवम् ।
यावन्मनो लयं याति कृष्णे स्वत्मनि चिन्मये ।
तावदिष्टमनुर्मन्त्री जपहोमं समभ्यसेत् ।
कृष्ण इत्युपलक्षणम्
॥ ८ ॥

P5-0709 · 9
अतः परं न किञ्चित् तु कृत्यमस्ति तथा हरेः ।
विदिते परतत्त्वे तु समस्तैर्नियमैरलम् ।
तालवृन्तेन किं कार्यं लब्धे मलयमारुते
॥ ९ ॥

P5-0710 · 10
मन्त्राभ्यासेन योगेन ज्ञानं ज्ञानाय कल्पते ।
न योगेन विना मन्त्रो न मन्त्रेण विना हि सः ।
द्वयोरभ्यासयोगो हि ब्रह्मसंसिद्धिकारणम्
॥ १० ॥

P5-0711 · 11
तमः परिवृते गेहे घटो दीपेन दृश्यते ।
एवं मायावृतो ह्यात्मा मनुना गोचरीकृतः
॥ ११ ॥

P5-0712 · 12
एवं ते कथितं ब्रह्मन्मन्त्रयोगमनुत्तमम् ।
दुर्लभं विषयासक्तैः सुलभं त्वादृशामपि
॥ १२ ॥


Weitere innere Yoga-Lehren

P5-0713 · 13
अथ प्रकारान्तरम् :
शारदायाम् :
षण्णवत्त्यंगुलायामं शरीरमुभयात्मकम् ।
गुदध्वजान्तरे कन्दमुत्सेधाद्द्व्यंगुलं विदुः ।
तस्य द्विगुण विस्तारं वृत्तरूपेण शोभितम् ।
नाड्यस्तत्र समुद्भूता मुख्यास्तिस्रः प्रकीर्तिताः
॥ १३ ॥

P5-0714 · 14
इडा वामे स्थिता नाडी पिङ्गला दक्षिणे मताः ।
तयोर्मध्यगता नाडी सुषुम्ना वंशमाश्रिता
॥ १४ ॥

P5-0715 · 15
पदांगुष्ठद्वयं याता शिखाभ्यां शिरसा पुनः ।
ब्रह्म स्थानं समापन्ना सोमसूर्याग्निरूपिणी
॥ १५ ॥

P5-0716 · 16
तस्या मध्यगता नाडी चित्राख्या योगिवल्लभा ।
ब्रह्मरन्ध्रं विदुस्तस्यां पद्मसूत्रनिभं परम् ।
आधारांश्च विदुस्तत्र मतभेदादनेकधा ।
दिवामार्गमिदं प्राहुरमृतानन्द कारणम्
॥ १६ ॥

P5-0717 · 17
इडायां सञ्चरेच्चन्द्रः पिङ्गलायां दिवाकरः ।
ज्ञातौ योगनिदानज्ञैः सुषुम्नायाञ्च तावुभौ
॥ १७ ॥

P5-0718 · 18
आधारकन्दमध्यस्थं त्रिकोणमतिसुन्दरम् ।
ज्योतिषां निलयं दिव्यं प्राहुरागमवेदिनः
॥ १८ ॥

P5-0719 · 19
तत्र विद्युल्लताकारा कुण्डली परदेवता ।
परिस्फुरति सर्वात्मा सुप्ताहि सदृशाकृतिः
॥ १९ ॥

P5-0720 · 20
विभर्ति कुण्डलीशक्तिरात्मानं हंसमाश्रिताः ।
हंसः प्राणाश्रयो नित्यं प्राणा नाडीपथाश्रयाः
॥ २० ॥

P5-0721 · 21
आधारादुत्थितो वायुर्यथावत्सर्वदेहिनाम् ।
देहं वाप्य स्वनाडीभिः प्रयाणं कुरुते वहिः
॥ २१ ॥

P5-0722 · 22
द्वादशांगुलमनेन तस्मात्प्राण इतीरितः ।
रम्ये मृद्वासने शुद्धे पट्टाजिनकुशोत्तरे ।
बद्धैवमासनं योगी योगमार्गपरो भवेत्
॥ २२ ॥

P5-0723 · 23
ज्ञात्वा भूतोदयं देहे यथावत्प्राणवायुना ।
तत्तद्भूतं यजेद्देहे दृढत्वावाप्तये सुधीः ।
आसनभूतोदये प्रागुक्ते
॥ २३ ॥

P5-0724 · 24
अंगुलीभिर्दृढं बद्धा करणानि समाहितः ।
अंगुष्ठाभ्यामुभे श्रोत्रे तर्जनीभ्यां विलोचने ।
नासारन्ध्रे मध्याभ्यामन्याभिर्वदनं दृढम् ।
वद्धात्मप्रणमनसामेकत्वं समनुस्मरन् ।
धारयेन्मारुतं सम्यग्योगोऽयं योगिवल्लभः
॥ २४ ॥

P5-0725 · 25
नादः सञ्जायते तस्य क्रमादभ्यस्यतः शनैः ।
मत्तभृङ्गावलीगीतसदृशः प्रथमो ध्वनिः
॥ २५ ॥

P5-0726 · 26
वंशी कांस्यानिलापूर्णवंशध्वनिनिभोऽपरः ।
घण्टारवसमः पश्चाद्घनमेघस्वनोऽपर ।
एवमभ्यस्यतः पुंसः संसारध्वान्तनाशनम् ।
ज्ञानमुत्पद्यते पूर्वं हंसलक्षणमव्ययम्
॥ २६ ॥

P5-0727 · 27
पुंप्रकृत्यात्मकौ प्रोक्तौ विन्दुसर्गौ मनीषिभिः ।
ताभ्यां क्रमात् समुद्भूतौ विन्दुसर्गावसानकौ ।
हंसौ तौ पुं-प्रकृत्याख्यौ हं पुमान् प्रकृतिस्तु सः ।
अजपा कथिता ताभ्यां जीवो यामुपतिष्ठते
॥ २७ ॥

P5-0728 · 28
पुरुषं त्वाश्रयं मत्वा प्रकृतिनित्यमात्मनः ।
यदा तद्भावमाप्नोति तदा सोऽहमियं भवेत्
॥ २८ ॥

P5-0729 · 29
सकारार्णं हकारार्णं लोपयित्वा ततः परम् ।
सन्धि कुर्यात्पूर्वरूपं तदासौ प्रणवो भवेत्
॥ २९ ॥

P5-0730 · 30
परमानन्दमयं नित्यं चैतन्यैकगुणात्मकम् ।
आत्माभेदस्थितं योगी प्रणवं भावयेत् सदा
॥ ३० ॥

P5-0731 · 31
आम्नायवाचामतिदूरमाद्यं वेद्यं सुसम्वेद्यगुणेन सन्तः ।
आत्मानमानन्दरसैकसिन्धुं, पश्यन्ति ते तारकमात्मनिष्ठाः
॥ ३१ ॥

P5-0732 · 32
सत्यं हेतुविवर्जितं श्रुतिगिरामाद्यं जगत्कारणं, व्याप्तं
स्थावरजङ्गमं निरूपमं चैतन्यमन्तर्गतम् ।
आत्मानं रविचन्द्रवह्निवपुषं तारात्मकं सन्ततं
नित्यानन्दगुणालयं सकृतिनं पश्यन्ति रुद्धेन्द्रियाः
॥ ३२ ॥

P5-0733 · 33
तारस्य पञ्चविभवैः परिचीयमानं, मानैकगम्यमनिशं
श्रुतिमौलिमृग्यम् ।
सम्वित्समस्तममलम्बरच्युतं तत्तेजः परं भजत
सान्द्रसुधाम्बुराशिम्
॥ ३३ ॥

P5-0734 · 34
हिरण्मयं दीप्तमनेकवर्णं त्रिमूर्तिमूलं निगमादिबीजम् ।
अंगुष्ठमात्रं पुरुषं भजन्ते, चैतन्यमात्रं
रविमण्डलस्थम्
॥ ३४ ॥

P5-0735 · 35
ध्यायन्ति दुग्धाब्धिबिजङ्गभोगे शयानमाद्यं कमलासहायम्
।
प्रफुल्लनेत्रात्पलमञ्जनाभं चतुर्मुखेनाश्रितनाभिपद्मम्
॥ ३५ ॥

P5-0736 · 36
आम्नायगं त्रिचरणं घननीलमुद्यत्श्रीवत्सकौस्तु
भगदाम्बुजशङ्खचक्रम् ।
हृतपुण्डरीकनिलयं जगदेकमूलमालोकयन्ति कृतिनः पुरुषं
पुराणम्
॥ ३६ ॥

P5-0737 · 37
विन्दोर्नादसमुद्भवः समुदिते नादे जगत्कारणं, तारं
तत्वमुखाम्बुजं परिवृतं वर्णात्मबाहुव्रजैः ।
अम्नायांघ्रिचतुष्टयं पुररिपोरानन्दमूलं वपुः, पायान्नो
मुकुटेन्दुखण्डविलसद्दिव्यामृतौघप्लुतम्
॥ ३७ ॥

P5-0738 · 38
पिण्डं भवेत्कुण्डलिनी शिवात्मा पदं तु हंसः सकलान्तरात्मा
।
रूपं स्मृतं बिन्दुरमन्दकान्तिरतीवरूपं शिवसामरस्यम्
॥ ३८ ॥

P5-0739 · 39
पिण्डादियोगं शिवसामरस्यात्बीजयोगं प्रवदन्ति सन्तः ।
शिवे लयं नित्यगुणाभियुक्ते, निर्बीजयोगं फलनिर्व्यपेक्षम्
॥ ३९ ॥

P5-0740 · 40
मूलोन्निद्रभुजङ्गराजसदृशीं यान्तीं सुषुम्नान्तरं,
भित्त्वाधारसमूहमाशुविलसत्सौदामिनीसन्निभाम् ।
व्योमाम्भोजगतेन्दुमण्डलगलद्दिव्यामृतौघैः प्लुतां,
संभाव्य स्वगृहं गतां पुनरिमां सञ्चिन्तयेत्कुण्डलीम्
॥ ४० ॥

P5-0741 · 41
हंसं नित्यमनन्तमव्ययगुणं स्वाधारतो निर्गता, शक्तिः
कुण्डलिनी समस्तजननी हस्ते गृहीत्वा च तम् ।
याता शम्भुनिकेतनं परसुखं तेनानुभूय स्वयं, यान्ती
स्वाश्रयमर्ककोटिरुचिरा ध्येया जगन्मोहिनी
॥ ४१ ॥

P5-0742 · 42
अव्यक्तं परबिन्दुसञ्चितरुचिं नीत्वा शिवस्यालयं, शक्तिः
कुण्डलिनी गुणत्रयवपुर्विद्युल्लतासन्निभा ।
आनन्दामृतमध्यगं पुरभिदं चन्द्रार्ककोटिप्रभं,
संवीक्ष्य स्वपुरं गता भगवती ध्येयानवद्या गुणैः
॥ ४२ ॥

P5-0743 · 43
मध्ये वर्त्म समीरणद्वयमिथःअसङ्घट्टसंक्षोभजं,
शब्दस्तोममतीत्य तेजसि तडित्कोटि प्रभाभास्वरे ।
उद्यान्तीं समुपास्महे नवजवासिन्दुरसन्ध्यारुणां,
सान्द्रानन्दसुधामयीं परशिवं प्राप्तां परां देवताम्
॥ ४३ ॥

P5-0744 · 44
गमनागमनेषु जाङ्घिकी सा तनुयाद्योगफलानि कुण्डली ।
उदिता कुलकामधेनुरेषा भजतां कांक्षितकल्पवल्लरी
॥ ४४ ॥


Schlussgebete und Kolophon

P5-0745 · 45
अथ प्रशंसामाह :
यामले :
आगमे सर्वविद्याश्च सर्वशास्त्राणि चागमे ।
आगमे देवदेव्या हि आगमाच्य परा गतिः
॥ ४५ ॥

P5-0746 · 46
येऽभ्यस्यन्ति इदं शास्त्रं पठन्ति पाठयन्ति वा ।
सिद्धयोऽष्टौ करे तेषां धनधान्यादिसूनवः
॥ ४६ ॥

P5-0747 · 47
आदृताः सर्वलोकेषु भोगिनः क्षोभकारकः ।
आप्नुवन्ति परं ब्रह्म सर्वशास्त्रविशारदाः
॥ ४७ ॥

P5-0748 · 48
वेदार्थशास्त्रविपरीतविलोकनेन, प्रायोभवद्यजनलोपभवेक्ष्य
मातः ।
तद्गूढकूटविशदीकरणेन जातान् दोषान् क्षमस्व तव
पादयुगेषु याचे
॥ ४८ ॥

P5-0749 · 49
यद्यन्मया नाथ विमूढबुद्ध्या, स्पष्टीकृतं गुह्यतमन्तु
तन्त्रे ।
क्षन्तव्यमेतत्करुणानिधान, क्रोधो न चार्हः खलु पामरेषु
॥ ४९ ॥

P5-0750 · ohne Nummer
इति महामहोपाध्यायश्रीकृष्णानन्दवागीशभट्टाचार्य-
विरचितस्तन्त्रसारः समाप्तः ॥


Pariśiṣṭa: Pariśiṣṭa: ergänzende Mantras, Gebete und Lehren

Der Pariśiṣṭa-Anhang ergänzt die fünf Paricchedas um weitere Gottheitsmantras und Gebete. Er enthält auch eine Meditation über die weibliche Lehrerin und ein Strīguru-Kavaca. P6 bezeichnet diesen Anhang, keinen sechsten Pariccheda.


Ergänzende Gottheitsmantras

P6-0001 · 1
परिशिष्टम्
देवताविशेषाणां मन्त्रस्तोत्रादिप्रकरणम्
अथ गङ्गामन्त्रः :
अथातः सम्प्रवक्ष्यामि गङ्गां भुवनपावनीम् ।
यथोक्तचिन्तया चिन्त्यां भोगमोक्षप्रदायिनीम्
॥ १ ॥

P6-0002 · 2
ब्रह्मसंहितायाम् :
विषबीजं समुद्धृत्य मायां विष्णुप्रियां ततः ।
गङ्गापदं ङेयुतान्तं वह्निजायावधिर्मनुः ।
अष्टाक्षरी महाविद्या गङ्गाया भुवि दुर्लभा
॥ २ ॥

P6-0003 · 3
विषबीजं प्रणवः माया ह्रीं, विष्णुप्रिया श्रीं ।
ध्यानं यथा-क्रियायोगसारे :
ददर्श पुरतो गङ्गां द्विभूजां मकरासनाम् ।
कुन्देन्दुशङ्खधवलां सर्वाभरणभूषिताम्
॥ ३ ॥

P6-0004 · 4
(अन्यद ध्यानं ब्रह्मवैवर्तादौ द्रष्टव्यम्) ।
इत्यनेनैव ध्यानेन ध्यात्वा त्रिपथगां शुभाम् ।
दत्त्वा संपूजयेद्ब्रह्मन्नुपचारांश्च षोडश
॥ ४ ॥

P6-0005 · 5
आसनं पाद्यमर्घ्यञ्च स्नानीयञ्चानुलेपनम् ।
धूपदीपौ च नैवेद्यं ताम्बूलं शीतलं जलम्
॥ ५ ॥

P6-0006 · 6
वसनं भूषणं माल्यं गन्धमाचमनीयकम् ।
मनोहरं सुतल्पञ्च देयान्येतानि षोडश
॥ ६ ॥

P6-0007 · 7
दत्त्वा भक्त्या च प्रणमेत् संस्तूय सम्पुटाञ्जलिः ।
सम्पूज्यैवं पकारेण भोगमोक्षफलं लभेत् ।
अन्यत्सर्वं सामान्यपद्धत्युक्तवत्
॥ ७ ॥

P6-0008 · 1
अथ कार्तिकेयमन्त्रः :
भूतडामरे :
विषं रौद्रं क्रोधपदं धारिणे च ततः परम् ।
वह्नि जायान्ते उक्तोऽयं मन्त्रः कौमाररूपिणः ।
विषं प्रणवं, रौद्रं मायाबीजम्
॥ १ ॥

P6-0009 · 2
ध्यायेद्यथा :
कार्तिकेयं महाभागं मयूरोपरिसंस्थितम् ।
तप्तकाञ्चनवर्णाभं शक्तिहस्तं वरप्रदम् ।
द्विभुजं शत्रुहन्तारं नानालङ्कारभूषितम् ।
षण्मुखं तुङ्गनेत्रञ्च सर्वसैन्यपुरस्कृतम्
॥ २ ॥

P6-0010 · 3
एवं ध्यात्वा पूर्ववत्सर्वं कृत्वा प्रणमेत्-ॐ कार्तिकेयं
नमस्यामि गौरीपुत्रं शुभप्रदम् ।
षडाननं महाभागं दैत्यदर्पनिसूदनम् ।
ष.ष्ठी मङ्गलचण्डी च मनसा प्रकृतेः कलाः ।
देव्याश्चरितमेतत् तु, सर्वसिद्धिकरं नृणाम्
॥ ३ ॥

P6-0011 · 1
अथ षष्ठीमन्त्रः :
यथा :
वेदादि-बीजमुद्धृत्य मायाबीजं ततः परम् ।
षष्ठीदेवीपदं ङेऽन्तं वह्निजायान्वितो मनुः ।
अष्टाक्षरो महामन्त्रः षष्ठीदेव्याः प्रकीर्त्तितः
॥ १ ॥

P6-0012 · 2
ध्यानं यथा :
शष्ठांशं प्रकृतेः शुद्धां सुप्रतिष्ठाञ्च सुप्रभाम् ।
सुपुत्रदाञ्च शुभदां दयारूपां जगत्प्रसूम् ।
श्वेतचम्पकवर्णाभां रत्नभूसणभूषिताम् ।
पवित्ररूपां परमां देवसेनामहं भजे
॥ २ ॥

P6-0013 · 3
अन्यत्सर्वं पूर्ववत् ।
पुरश्चरणं लक्षजपः ।
ब्रह्मवैवर्ते :
अष्टाक्षरं महामन्त्रं लक्षधा यो जपेन्मुने ।
स पुत्रं लभते नूनमित्याह कमलोद्भवः ।
मङ्गलचण्ड्या ब्रह्मवैवर्ते ज्ञेयम्
॥ ३ ॥

P6-0014 · 1
अथ विषहरी-जगद्गौरी-मनसामन्त्रः :
हलाहलं समुद्धृत्य लज्जाबीजमतः परम् ।
नमः पदं ततः पश्चात् मनसायै ततो वदेत् ।
स्वाहान्ता परमा विद्या विषघ्नी सर्वदेहिनाम् ।
दशाक्षरीयं कथिता सर्वेषामधिदेवता ।
हलाहलं प्रणवः
॥ १ ॥

P6-0015 · 2
ध्यानं तत्रैव :
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ।
वह्निशुद्धांशुकाधानं नागयज्ञोपवीतिनीम् ।
महाज्ञानयुताञ्चैव प्रवरां ज्ञानिनां सत्यम् ।
सिद्धाधिष्ठातृदेवीञ्च सिद्धां सिद्धिप्रदां भजे ।
पूजादिकं पूर्ववत् ।
एवं जरत्कारुमुन्यास्तीकमुनिनागाद्यावरणान्पूजयेत्
॥ २ ॥

P6-0016 · 3
अथ स्वाहा-मन्त्रः :
ब्रह्मवैवर्ते :
ॐ ह्रीं वह्निजायायै देव्यै स्वाहा ततः परम् ।
द्वादशार्णा महाविद्या स्वाहादेव्याः प्रकीर्त्तिता ।
ध्यानं तत्रैव :
स्वाहां मन्त्राङ्गभूताञ्च मन्त्रसिद्धिस्वरूपिणीम् ।
सिद्धाञ्च सिद्धिदां नृणाम् कर्मणा फलदां भजे ।
पूजादिकं सर्वं पूर्ववत्
॥ ३ ॥

P6-0017 · 4
अथ कर्मणांद्दक्षिणामन्त्रः :
तत्रैव :
ॐ ह्रीं ह्रीं ह्रीं दक्षिणायै स्वाहा च द्विपञ्चाक्षरः ।
ध्यानं यथा :
लक्ष्मीदक्षांशसम्भूतां दक्षिणां कमलाकलाम् ।
सर्व-कर्मेसु दक्षाञ्च फलदां सर्वकर्मणाम् ।
विष्णोः शक्तिस्वरूपाञ्च सुशीलां शुभदां भजे ।
पूजादिकं पूर्ववत्
॥ ४ ॥


Gaṅgā und weitere Schutztexte

P6-0018 · 1
अथ क्रोधराज-मन्त्रः :
यथा भूतडामरे :
विषञ्च वज्रज्वालेन हनयुग्ममतः परम् ।
सर्वभूतान्ततः कूर्चमन्त्रान्तमन्त्रमीरितम् ।
ध्यानपूजादिकं तत्रैव द्रष्टव्यम् ।
अस्य मन्त्रस्य लक्षजपः सर्वार्थसिद्धये आत्मरक्षार्थमादौ
सर्वत्रैव कार्यम् ।
अथ गङ्गाकवचम् :
ॐ गङ्गायै नमः ।
गङ्गाकवचस्य विष्णुर्-ऋषिर्विराट्छन्दः चतुर्दश
पुरुषोद्धारणार्थपाठे विनियोगः ।
ॐ द्रव्यरूपा महाभागा स्नाने च तर्पणेऽपि च ।
अभिषेके पूजने च पातु मां शुक्लरूपिणी
॥ १ ॥

P6-0019 · 2
विष्णुपादप्रसूतासि वैष्णवी नामधारिणी ।
पाहि मां सर्वतो रक्षेत्गङ्गात्रिपथगामिनी
॥ २ ॥

P6-0020 · 3
मन्दाकिनी सदा पातु देहान्ते स्वर्गवल्लभा ।
अलकनन्दा च वामभागे पृथिव्यां या तु तिष्ठति
॥ ३ ॥

P6-0021 · 4
भोगवती च पाताले स्वर्गे मन्दाकिनी तथा ।
पञ्चाक्षरमिमं मन्त्रं यः पठेच्छृणुयादपि
॥ ४ ॥

P6-0022 · 5
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ।
गुर्विणी जनयेत् पुत्रं बन्ध्या पुत्रवती भवेत्
॥ ५ ॥

P6-0023 · 6
गङ्गास्मरणमात्रेण निष्पापो जायते नरः ।
यः पठेद्गृहमध्ये तु गङ्गास्नानफलं लभेत्
॥ ६ ॥

P6-0024 · 7
स्नानकाले पठेद्यस्तु शतकोटिफलं लभेत् ।
यः प्रठेत्प्रयतो भक्त्या मुक्तः कोटिकुलैः सह
॥ ७ ॥

P6-0025 · 1
इति विष्णुयामले शिवपार्वतीसंवादे गङ्गाकवचं समाप्तम् ॥
अथ कार्तिकेयाक्षयकवचम् :
देव्युवाच :
ये ये मम सुता जातास्ते ते कंसनिषुदिताः ।
कथं मे सन्ततिस्तिष्ठेत् ब्रूहि मे मुनिपुं"गव
॥ १ ॥

P6-0026 · 2
नारद उवाच :
येनोपायेन लोकानां सन्ततिश्चिरजीविता ।
तत्ते सर्वं प्रवक्ष्यामि सावधानावधारय
॥ २ ॥

P6-0027 · 3
अस्य स्कन्दाक्षयकवचस्य नारद ऋषिरनुष्टुप्च्छन्दः
सेनानीर्देवता वत्सरक्षणे विनियोगः ।
ॐ बाहुलेयः शिरः पायात् स्कन्धौ शङ्करनन्दनः
॥ ३ ॥

P6-0028 · 4
मुण्डं मे पार्वतीपुत्रो हृदयं शिखिवाहनः ।
कटिं पायच्छक्तिहस्तो जङ्घे मे तारकान्तकः
॥ ४ ॥

P6-0029 · 5
गुहो मे रक्षतां पादौ सेनानीर्वत्समुत्तमम् ।
स्कन्दो मे रक्षतामङ्गं दशदिगग्निभूर्मम्
॥ ५ ॥

P6-0030 · 6
षाण्मातुरो भये घोरे कुमारोऽव्याच्छ्रशानके
॥ ६ ॥

P6-0031 · 7
ॐ इति ते कथितं भद्रे कवचं परमाद्भुम् ।
धृत्वा पुत्रमवाप्नोति सुभव्यं चिरजीविनम्
॥ ७ ॥

P6-0032 · 8
नारदस्य वचः श्रुत्वा कवचं विधृतं तया ।
कवचस्य प्रसादेन जीववत्सा भवेत्सती
॥ ८ ॥

P6-0033 · 9
कवचस्य प्रसादेन तस्याः पुत्रो जनार्दनः ।
धारिकायास्तथा पुत्रो निर्जरैरपि दुर्जयः
॥ ९ ॥

P6-0034 · 1
इति उमायामले कार्तिकेयाक्षयकवचं समाप्तम् ।
अथ वंशलाभाक्य-कवचम् :
नारद उवाच :
भगवन् सर्वधर्मज्ञ पार्वतीप्राणवल्लभ ।
वंशलाभाख्यकवचं कृपया मे प्रकाशय
॥ १ ॥

P6-0035 · 2
ईश्वर उवाच :
वंशलाभाख्यकवचं दुर्लभं भुवनत्रये ।
यस्य प्रसादात् कमला लेभे तनयमुत्तमम्
॥ २ ॥

P6-0036 · 3
कामदेवमपर्णा च विनायक-षडाननौ ।
जयन्तमिन्द्रवनिता देवपत्न्यः सुतानपि
॥ ३ ॥

P6-0037 · 4
यस्य वंशलाभाख्यकवचस्य भैरव-ऋषिरनुष्टुप्च्छन्दः
श्रीपार्वती देवता जीवित्तनयप्राप्तये विनियोगः ।
ॐ पार्वतती मे शिरः पातु वक्त्रं पातु महेश्वरी ।
भवानी नयने पातु भ्रुवौ शङ्करसुन्दरी
॥ ४ ॥

P6-0038 · 5
मध्ये पातु महेशानि नितम्बं सुरवन्दिता ।
उरु गौरी सदा पातु कौषिकी जानुयुग्मकम्
॥ ५ ॥

P6-0039 · 6
बाहु द्वौ सुमुखी पातु पाणियुग्मं सुभाविनी ।
पादौ ब्रह्ममयी पातु श्रवणे भुवनेश्वरी
॥ ६ ॥

P6-0040 · 7
नासिके ललिता पातु कण्ठं त्रिपुरसुन्दरी ।
रुद्राणी हृदयं पातु स्तनद्वन्द्वं महेश्वरी
॥ ७ ॥

P6-0041 · 8
आपादमस्तकं पातु सर्वाङ्गं सर्वमङ्गला ।
ॐ इति ते कथितं विप्र कवचं देवपूजितम्
॥ ८ ॥

P6-0042 · 9
पठित्वा धारयित्वा च अक्षयं तनयं लभेत् ।
ध्यानमस्याः प्रवक्ष्यामि यथा ध्यात्वा पठेन्नरः
॥ ९ ॥

P6-0043 · 10
ॐ सहस्रादित्यसङ्काशां सर्वाभरणभूषिताम् ।
त्रिनेत्रां पाणिविन्यस्त पाशांकुशवराभयाम्
॥ १० ॥


Ṣaṣṭhī, Manasā und weitere Lobgesänge

P6-0044 · 1
इति श्रीभैरवतन्त्रे शिवनारद-संवादे वंशलाभाख्य कवचं
समाप्तम् ॥
अथ षष्ठी-स्तोत्रम् :
स्तोत्रं शृणु मुनिश्रेष्ठ सर्वकामशुभावहम् ।
वाञ्छाप्रदञ्च सर्वेषां गूढं वेदेषु नारद
॥ १ ॥

P6-0045 · 2
प्रियव्रत उवाच :
ॐ नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः ।
शुभायै देवसेनायै षष्ठीदेव्यै नमोनमः
॥ २ ॥

P6-0046 · 3
वरदायै पुत्रदायै धनदायै नमो नमः ।
सुखदायै मोक्षदायै षष्ठीदेव्यै नमो नमः
॥ ३ ॥

P6-0047 · 4
शक्तिषष्ठीस्वरूपायै सिद्धायै च नमो नमः ।
मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः
॥ ४ ॥

P6-0048 · 5
सारायै सारदायै च परायै सर्वकर्मणान् ।
बालाधिष्ठातृदेव्यै च षष्ठीदेव्यै नमो नमः
॥ ५ ॥

P6-0049 · 6
कल्याणदायै कल्याण्यै षष्ठीदेव्यै नमो नमः ।
फलदायै फलिन्यै च फलदायै च कर्मणाम् ।
प्रत्यक्षायै च भक्तानां षष्ठीदेव्यै नमो नमः
॥ ६ ॥

P6-0050 · 7
पूज्यायै स्कन्दकान्तायै सर्वेषु सर्वकर्मसु ।
देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः
॥ ७ ॥

P6-0051 · 8
शुद्धसत्त्वस्वरूपायै वन्दितायै नमो नमः ।
धनं देहि श्रियं देहि पुत्रं देहि सुरेश्वरि
॥ ८ ॥

P6-0052 · 9
धर्मं देहि यशो देहि षष्ठीदेव्यै नमो नमः ।
देहि भूमिं प्रजां देहि राज्यं देहि सुपूजिते ।
कल्याणञ्च जयं देहि षष्ठीदेव्यै नमो नमः
॥ ९ ॥

P6-0053 · 10
ॐ इति देवीञ्च संस्तूय लेभे पुत्रं प्रियव्रतः ।
यशस्विनञ्च राजेन्द्रं षष्ठीदेवीप्रसादतः
॥ १० ॥

P6-0054 · 11
षष्ठीस्तोत्रमिदं ब्रह्मण यः शृणोति दिने दिने ।
अपुत्रो लभते पुत्रं वरं सुचिरजीविनम्
॥ ११ ॥

P6-0055 · 12
वर्षमेकञ्च यो भक्त्या इदं स्तोत्रं च ।
सर्वपापाद्विनिर्मुक्तो महाबन्ध्या प्रसूयते
॥ १२ ॥

P6-0056 · 13
वीरपुत्रञ्च गुणिनं विद्यावन्तं यशस्विनम् ।
सुचिरायुष्मन्तमेव षष्ठीदेवी प्रसादतः
॥ १३ ॥

P6-0057 · 1
इति ब्रह्मवैवर्ते महापुराणे नारायणनारदसंवादे
प्रकृतिखण्डे षष्ठीस्तोत्रं समाप्तम् ।
अथ विषहरीमनसा-स्तोत्रम् :
ॐ जरत्कारुर्जगद्गौरी मनसा सिद्धयोगिनी ।
विष्णवी नागभगिनी शैवा नागेश्वरी तथा
॥ १ ॥

P6-0058 · 2
जगत्कारुप्रियास्तीकमाता विषहरीति च ।
महाज्ञानयुता चैव सा देवी विश्वपूजिता
॥ २ ॥

P6-0059 · 3
ॐ ।
द्वादशैतानि नामानि पूजाकाले च यः पठेत् ।
तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च
॥ ३ ॥

P6-0060 · 4
नागभीते च शयने नामग्रस्ते च मन्दिरे ।
नागक्षतमहादुर्गे नागवेष्टितविग्रहे
॥ ४ ॥

P6-0061 · 5
इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः ॥
नित्यं पठेद्वास्तु दृष्ट्वा नागवर्गः पलायते
॥ ५ ॥

P6-0062 · 6
दशलक्षजपेनैव स्तोत्रसिद्धिभवेन्नृणाम् ।
स्तोत्रसिद्धिर्भवेद्यस्य स विषं भोक्तुमीश्वरः ॥
नागौघभूषणं कृत्वा स भवेन्नागवाहनः ।
विषं भवेत्सुधातुल्यं सिद्धस्तोत्रो यदा भवेत्
॥ ६ ॥

P6-0063 · 1
इति ब्रह्मवैवर्ते मनसा-स्तोत्रं समाप्तम् ।
अथ स्वाहा-स्तोत्रम् :
वह्निरुवाच :
ॐ स्वाहाद्याः प्रकृतेरंशा मन्त्रान्तरशरीरिणी ।
मन्त्राणां फलदात्री च धात्री च जगतां सती
॥ १ ॥

P6-0064 · 2
सिद्धिस्वरूपा सिद्धा च सिद्धिदा सर्वदा नृणाम् ।
हुताश-दाहिकाशक्तिस्तत्प्राणाधिकरूपिणी
॥ २ ॥

P6-0065 · 3
संसारसाररूपा च घोरसंसारतारिणी ।
देवजीवनरूपा च देवपाषाणकारिणी
॥ ३ ॥

P6-0066 · 4
ॐ ।
षोडशैतानि नामानि यः पठेद्भक्तिसंयुतः ।
सर्वसिद्धिर्भवेत्तस्य सर्वकर्मसु शोभनम् ।
अपुत्रो लभते पुत्रमभार्यो लभते प्रियाम्
॥ ४ ॥

P6-0067 · 1
इति ब्रह्मवैवर्ते नारायणनारदसंवादे प्रकृतिखण्डे
स्वाहास्तोत्रं समाप्तम् ।
अथ दक्षिणा-स्तोत्रम् :
यक्ष उवाच :
ॐ गोलोकगोपी त्वं देवी गोपीनां प्रवरा परा ।
राधासमा तत्सखी च श्रीकृष्णप्रेयसी प्रिये
॥ १ ॥

P6-0068 · 2
कीर्तिकिपूर्णिमायान्तुरासे राधामहोत्सवे ।
आविर्भूता दक्षिणांसात्कृष्णस्य तेन दक्षिणा
॥ २ ॥

P6-0069 · 3
पुरा त्वञ्च सुशीलाख्या शीलेन शोभनेन च ।
कृष्णदक्षांसवासाच्च राधाशापाच्च दक्षिणा
॥ ३ ॥

P6-0070 · 4
गोलोकात्त्वं परिध्वस्ता मम भाग्यादुपस्थिता ।
कृपां कुरु महाभागे मामेव स्वामिनं कुरु
॥ ४ ॥

P6-0071 · 5
कर्मिणां कर्मणां देवि त्वमेव फलदायिका ।
त्वया विना च सर्वेषां सर्वकर्म च निष्फलम्
॥ ५ ॥

P6-0072 · 6
फलशाखाविहीनश्च यथा वृक्षो महीतले ।
त्वया विना तथा कर्म कर्मिणाञ्च न शोभते
॥ ६ ॥

P6-0073 · 7
ब्रह्मविष्णुमहेशाश्च दिक्पालादय एव च ।
कर्मणश्च फलं दातुं न शक्ताश्च त्वया विना
॥ ७ ॥

P6-0074 · 8
कर्मरूपी स्वयं ब्रह्मा फलरूपी महेश्वरः ।
यज्ञरूपी विष्णुरहं त्वमेषां साररूपिणी
॥ ८ ॥

P6-0075 · 9
फलदाता परं ब्रह्म निर्गुणः प्रकृतेः परः ।
स्वयं कृष्णश्च भगवान् स च शक्तस्त्वया सह
॥ ९ ॥

P6-0076 · 10
त्वमेव शक्तिः कान्ते मे शश्वज्जन्मनि जन्मनि ।
सर्वकर्मणि शक्तोऽहं त्वया सह वरानने
॥ १० ॥

P6-0077 · 11
इत्युक्त्वा तत्परस्तस्थौ यज्ञाधिष्ठातृदेवकः ।
तुष्टा वभूव सा देवी भजेत्तां कमलाकलाम्
॥ ११ ॥

P6-0078 · 12
ॐ ।
इदञ्च दक्षिणास्तोत्रं यज्ञकाले च यः पठेत् ।
फलञ्च सर्वयज्ञानां लभते नात्र संशयः
॥ १२ ॥

P6-0079 · 13
राजसूये बाजपेये गिमेधे नरमेधके ।
अश्वमेधे मङ्गले च विष्णुयज्ञे यशस्वरे
॥ १३ ॥

P6-0080 · 14
धनदे भूमिदे फल्लौ पूर्णेष्टौ गजमेधके ।
लौहयज्ञे स्वर्णयज्ञे पाटने ब्रह्मखण्डने
॥ १४ ॥

P6-0081 · 15
शिवयज्ञे रुद्रयज्ञे शत्रुयज्ञे च बन्धुके ।
इष्टौ वरुणयागे च कण्टके वैरिमर्दने
॥ १५ ॥

P6-0082 · 16
शुचियागे धर्मयागे रोचने पापमोचने ।
बन्धने कर्मयागे च मणियागे सुभद्रके
॥ १६ ॥

P6-0083 · 17
एतेषाञ्च समारम्भे इदं स्तोत्रञ्च यः पठेत् ।
निर्विघ्ने च तत्कर्म साङ्गं भवति निश्चितम्
॥ १७ ॥

P6-0084 · 1
इति ब्रह्मवैवर्ते नारायणनारदसंवादे प्रकृतिखण्डे
दक्षिणास्तोत्रं समाप्तम् ।
अय बलराम-स्तोत्रम् :
ॐ नमस्ते हलधृग् राम नमस्ते मुषलायुध ।
नमस्ते रेवतीकान्त नमस्ते भक्तवत्सल
॥ १ ॥

P6-0085 · 2
नमस्ते बलिनां श्रेष्ठ नमस्ते धरणीधर ।
प्रलम्बारे नमस्तेऽस्तु त्राहि मां कृष्णपूर्वज
॥ २ ॥

P6-0086 · 3
ॐ ।
स्तोत्रं परं पुण्यं सर्वसिद्धिकरं नृणाम् ।
यः पठेतप्रयतो भक्त्या सर्वसिद्धेः स भाजनम्
॥ ३ ॥


Mahākālī und Nāyikā

P6-0087 · 1
इति उत्कलखण्डे बलरामस्तोत्रम् ।
अथ महाकाली-स्तोत्रम् :
महाकालरुद्र उवाच :
ॐ अचिन्त्यामिताकारशक्तिस्वरूपा
प्रतिव्यक्त्यधिष्ठानसत्त्वैकमूर्तिः ।
गुणातीतनिर्द्वन्द्वबोधैकगम्या त्वमेका परब्रह्म-रूपेण
सिद्धा
॥ १ ॥

P6-0088 · 2
अगोत्राकृतित्वादनैकान्तिकत्वादलक्ष्यागमत्वादशेषाकरत्वात् ।
प्रपञ्चालसत्नादनारम्भकत्वत्त्वमेका परब्रह्मरूपेण सिद्धा
॥ २ ॥

P6-0089 · 3
असाधारणत्वादसम्बन्धकत्वादभिन्नाश्रयत्वादना-कारकत्वात्
।
अविद्यात्मकत्वादनाद्यकत्वात्त्वमेका परब्रह्मरूपेण सिद्धा
॥ ३ ॥

P6-0090 · 4
यदा नैव धाता न विष्णुर्न रुद्रो न कालो न वा पञ्चभूतानि
नाशा ।
तदा कारणी भूतसत्त्वैकमूर्तिस्त्वमेका परब्रह्मरूपेण सिद्धा
॥ ४ ॥

P6-0091 · 5
नमोमांसका नैव कालादितर्का न सांख्या योगा न
वेदान्तवेदाः ।
न देवा विदुस्ते निराकारभावं त्वमेका परब्रह्मरूपेण सिद्धा
॥ ५ ॥

P6-0092 · 6
न ते नामगोत्रे न ते जन्ममृत्युर्न ते धामचेष्टे न ते दुःखसौख्ये
।
न ते मित्रशत्रू न ते बन्धमोक्षौ त्वमेका परब्रह्मरूपेण
सिद्धा
॥ ६ ॥

P6-0093 · 7
न बाला न च त्वं वयःस्था न वृद्धा न च स्त्री न षण्डः
पुमान्नैव च त्वम् ।
न च त्वं सुरो नासुरो नो नरो वा त्वमेका परब्रह्मरूपेण सिद्धा
॥ ७ ॥

P6-0094 · 8
जले शीतलत्वं शुचौ दाहकत्वं विधौ निर्मलत्वं रवौ
तालकत्वम् ।
तवैवाम्बिके यस्य कस्यापि शक्तिस्त्वमेका परब्रह्मरूपेण सिद्धा
॥ ८ ॥

P6-0095 · 9
पपौ क्ष्वेडमुग्रं पुरा यन्महेशः पुनः संहरत्यन्तकाले
जगच्च ।
तवैव प्रसादान्न च स्वस्य शक्त्या त्वमेका परब्रह्मरूपेण
सिद्धा
॥ ९ ॥

P6-0096 · 10
करालाकृतीन्याननानि श्रयन्ती भजयन्ती करास्त्रादि बाहुल्यमित्थम्
।
जगत्पालनायासुराणां वधाय त्वमेका परब्रह्मरूपेण सिद्धा
॥ १० ॥

P6-0097 · 11
महाचण्डयोगेश्वरी गुह्यकाली कराली महाडामरी साष्ट्टहासा
।
जगद्भासिनी चण्डिका पालिकेति त्वमेका परब्रह्मरूपेण सिद्धा
॥ ११ ॥

P6-0098 · 12
रुवन्ती शिवाभिर्वहन्ती कपालं जयन्ती सुरारीन् वदन्ती प्रसन्ना ।
नटन्ती पटन्ती चलन्ती हसन्ती त्वमेका परब्रह्मरूपेण सिद्धा
॥ १२ ॥

P6-0099 · 13
अपादापि वाताधिकं धावसि त्वं श्रुतिभ्यां विहीनापि शब्दं
शृणोषि ।
अनासापि जिघ्रस्यनेत्रापि पश्यस्यजिह्वापि नानारसास्वादविज्ञा
॥ १३ ॥

P6-0100 · 14
यथाविम्बमेकं रवेरम्बरस्थं प्रतिच्छायया यावदेकोदकेषु ।
समुद्भासतेऽनेकरूपं यथावत्त्वमेका परब्रह्मरूपेण
सिद्धा
॥ १४ ॥

P6-0101 · 15
यथा भ्रामयित्वा मृदं चक्रमध्ये कुलालो विधत्ते शरावं
घटञ्च ।
महामोहयन्त्रेषु भूतान्यशेषान् तथा मानुषांस्त्वं
सृजस्यादिसर्गे
॥ १५ ॥

P6-0102 · 16
यथा रङ्गरब्जर्कदृष्टिष्वकस्मान्नृणां
रूप्यदर्वीकरम्बुभ्रमः स्यात् ।
जगत्यत्र तत्तन्मये तद्वदेव त्वमेकैव तत्तन्निवृत्तौ समस्तम्
॥ १६ ॥

P6-0103 · 17
महाज्योतिराकारसिंहासनं यत्स्वकीयान् सुरान् वाहयस्युग्रमूर्ते
।
अवष्टभ्य पद्भ्या शिवं भैरवञ्च स्थिता तेन मध्ये भवत्येव
मुख्या
॥ १७ ॥

P6-0104 · 18
कुयोगासने योगमुद्राभिनीतिः कुगोमायुपोतस्य बलाननञ्च ।
जगन्मातरादृक्तवापूर्वलीला कथङ्कारमस्मद्विधैर्देवि गम्या
॥ १८ ॥

P6-0105 · 19
विशुद्धापरा चिनमयी स्वप्रकाशामृतानन्दरूपा जगद्व्यापिका
च ।
तवेदृग्विधा या निजाकारमूर्तिः किमस्माभिरन्तर्हृदि ध्यायितव्या
॥ १९ ॥

P6-0106 · 20
महाघोरकालानलज्वालजालाहित्यन्तवासा महाट्टाट्टहासा ।
जटाभारकाला महामुण्डमाला विशाला त्वमीदृग्मया
ध्यायसेऽम्ब
॥ २० ॥

P6-0107 · 21
तपो नैव कुर्वन् वपुः खेदयामि व्रजन्नापि तीर्थं पदे
खञ्जयामि ।
पठन्नापि वेदान् जनिं यापयामि त्वदंघ्रिद्वयं मङ्गलं
साधयामि
॥ २१ ॥

P6-0108 · 22
तिरंकुर्वतोऽन्यामरोपासनार्चे परित्यक्त धर्माध्वरस्यास्य
जन्तोः ।
त्वदाराधनान्यस्तचित्तस्य किं मे करिष्यन्त्यमी धर्मराजस्य
दूताः
॥ २२ ॥

P6-0109 · 23
न मन्ये हरिं नो विधातारमीशं न वह्निं न चार्कं न
चन्द्रादिदेवान् ।
शिवोदीरितानेकवाक्यप्रबन्धैस्त्वदर्चाविधानं विशत्वम्ब
मत्याम्
॥ २३ ॥

P6-0110 · 24
नरा मां विनिन्दन्तु नाम त्यजद्वान्धवा ज्ञातयः सन्त्यजन्तु ।
यमीया भटा नारके पातयन्तु त्वमेका गतिर्मे त्वमेका गतिर्मे
॥ २४ ॥

P6-0111 · 25
ॐ ।
महाकालरुद्रोदितस्तोत्रमेतत्सदा भक्तिभावेन योऽध्येति भक्तः ।
न चापन्नशोको न रोगो न मृत्युर्भवेत्सिद्धिरन्ते च कैवल्यलाभः
॥ २५ ॥

P6-0112 · 26
इदं शिवायाः कथितं सुधाधाराह्वयं स्तवम् ।
एतस्य सतताभ्यासात्सिद्धिः करतले स्थिता
॥ २६ ॥

P6-0113 · 27
एतत्स्तोत्रञ्च कवचं पद्यं त्रितयमप्यदः ।
पठनीयं प्रयत्नेन नैमित्तिकसमर्हणे
॥ २७ ॥

P6-0114 · 28
सौम्येन्दीवरनीलनीरदघटाप्रोद्दामदेहच्छटालास्योन्मादनिना
दमङ्गलचयैः श्रोण्यन्तदोलज्जटा ।
सा काली करवालकालकलना हस्त्वश्रियं चण्डिका
॥ २८ ॥

P6-0115 · 29
काली क्रोधकरालकालभयदोन्मादप्रमोदालया
नेत्रोपान्तकृतान्तदैत्यनिवहा प्रोद्दामदेहाभया ।
पायाद्वो जयकालिका प्रवलिका हूङ्कारघोरानना
भक्तानामभयप्रदा विजयदा विश्वेशसिद्धासना
॥ २९ ॥

P6-0116 · 30
करालोन्मुखी कालिका भीमकान्ता कटिव्याघ्रचर्मावृता
दानवान्ता ।
हू हूं कङ्मडीनादिनी कालिका तु प्रसन्ना सदा नः प्रपन्नान्
पुनातु
॥ ३० ॥

P6-0117 · 1
इति श्रीमहाकालसंहितायां
महाकालरुद्रविरचितसुधाधाराह्वयकालीस्तोत्रम् ।
अथ नायिका-कवचम् :
उन्मत्तभैरव उवाच :
शृणु कल्याणि मद्वाक्यं कवचं देवदुर्लभम् ।
यक्षिणी-नायिकानान्तु संक्षेपात्सिद्धिदायकम्
॥ १ ॥

P6-0118 · 2
ज्ञानमात्रेण देवेशि सिद्धिमाप्नोति निश्चितम् ।
यक्षिणी स्वयमायाति कवचज्ञानमात्रतः
॥ २ ॥

P6-0119 · 3
सर्वत्र दुर्लभं देवि डामरेषु प्रकाशितम् ।
पठनाद्धारणान्मर्त्यो यक्षिणी वशमानयेत्
॥ ३ ॥

P6-0120 · 4
कवचस्य श्रषिर्गर्गो गायत्री च्छन्द ईरितम् ।
देवता यक्षिणी देवी सर्वसिद्धिप्रदायिनी
॥ ४ ॥

P6-0121 · 5
साक्षात्सिद्धिसमृद्ध्यर्थे विनियोगः प्रकीर्तितः ।
ॐ शिरो मे यक्षिणी पातु ललाटं यक्षकन्यका
॥ ५ ॥

P6-0122 · 6
मुखं श्रीधनदा पातु कर्णो मे कुलनायिका ।
चक्षुषी वरदा पातु नासिकां भक्तवत्सला
॥ ६ ॥

P6-0123 · 7
केशाग्रं पिङ्गला पातु धनदा श्रीमहेश्वरी ।
स्कन्धौ कुलालपा पातु गलं मे कमलानना
॥ ७ ॥

P6-0124 · 8
किरातिनी सदा पातु भुजयुग्मं जटेश्वरी ।
विकृतास्या सदा पातु महावक्रप्रिया मम
॥ ८ ॥

P6-0125 · 9
अस्त्रहस्ता पातु नित्यं पृष्ठमुदरदेशकम् ।
भेरुण्डा माकरी देवी हृदयं देवसम्मता
॥ ९ ॥

P6-0126 · 10
अलङ्कारान्विता पातु मे नितम्बस्थलं दया ।
धार्मिकागुह्यदेशं मे पादुयुग्मं सुराङ्गना
॥ १० ॥

P6-0127 · 11
शून्यागारे सदा पातु मन्त्रमातास्वरूपिणी ।
निष्कलङ्का सदा पातु चाम्बुवत्यखिलां तनुम्
॥ ११ ॥

P6-0128 · 12
प्रान्तरे धनदा पातु निजबीजप्रकाशिनी ।
लक्ष्मीबीजात्मिका पातु निजबीजप्रकाशिनी
॥ १२ ॥

P6-0129 · 13
लक्ष्मीबीजात्मिका पातु खड्गहस्ता श्मशानके ।
शून्यागारे नदीतीरे महायक्षेशकन्यका
॥ १३ ॥

P6-0130 · 14
पातु मां वरदाख्या मे सर्वाङ्गं पातु मोहिनी ।
महासङ्कटमध्ये तु संग्रामे रिपुसञ्चये
॥ १४ ॥

P6-0131 · 15
क्रोधरूपा सदा पातु महादेवनिषेविका ।
सर्वत्र सर्वदा पातु भवानी कुलदायिका
॥ १५ ॥

P6-0132 · 16
ॐ ।
इत्येतत्कवचं देवि महामन्त्रौघविग्रहम् ।
अस्यापि स्मरणादेव राजत्वं लभतेऽचिरात्
॥ १६ ॥

P6-0133 · 17
पञ्चवर्षसहस्राणि स्थिरो भवति भूतले ।
वेदज्ञानी सर्वशास्त्रवेत्ता भवति निश्चितम्
॥ १७ ॥

P6-0134 · 18
अरण्ये सिद्धिमाप्नोति महाकवचपाठतः ।
यक्षिणी कुलविद्या च समायाति सुसिद्धिदा
॥ १८ ॥

P6-0135 · 19
अणिमा लघिमा प्राप्तिः सुखसिद्धिफलं लभेत् ।
पठित्वा धारयित्वा च निर्जनेऽरण्यमस्तके ।
स्थित्वा जपेल्लक्षमन्त्रमिष्टसिद्धिं लभेन्निशि
॥ १९ ॥

P6-0136 · 20
भार्या भवति सा देवी महाकवचपाठतः ।
योगिनां दुर्लभं देवि किमन्यत् साधनादिकम् ।
ग्रहणादे सिद्धिः स्यान्नात्र कार्या विचारणा
॥ २० ॥

P6-0137 · 1
इति वृहद्भूतसन्धानडामरे महातन्त्रे योगिनीनायिकाकवचं
समाप्तम् ।
अथ नायिकास्तोत्रम् :
आस्याः स्तोत्रं प्रवक्ष्यामि सावधानावधारय ।
साक्षात्सिद्धिं समाप्नोति योगिनीस्तोत्रपाठतः
॥ १ ॥

P6-0138 · 2
उन्मत्तभैरव उवाच :
ॐ वन्दे योगिनि योगसिद्धिधनदे बन्धूकपुष्पोज्वले,
नानालंकृतिविग्रहे सुरमणि श्रीदेवकन्ये प्रिये ।
दारिद्र्यं हन मे सुखं प्रियपदं वाञ्छादिसिद्धिप्रदं
राज्यं मित्रकलत्र-पुत्रधनदे मातः समाधेहि मे
॥ २ ॥

P6-0139 · 3
तवांघ्रिकमलद्वयं तरुणि देवते दारुणं
महाभयसमाकुलं हर भजामि भूमण्डले ।
कृपां कुरु ममालये सपरिवारदेवैः सह सदा भव हि भगिनी
क्षम कुलापतापं मुदा
॥ ३ ॥

P6-0140 · 4
त्वमेका योगिनी कन्या पिङ्गला युवती रतिः ।
गौरी विद्याधरी श्यामा प्रसन्ना भव सर्वदा
॥ ४ ॥

P6-0141 · 5
त्वं सन्ध्या खेचरी विद्या यक्षिणी भूतिनी प्रिया ।
त्वमेका पातु मां धात्री स्वर्णपात्रकराम्बुजा
॥ ५ ॥

P6-0142 · 6
हिरण्याक्षी विशालाक्षी चपला नागिनी जया ।
प्रसन्ना भव शब्दाख्या कामिनी कामदायिनी
॥ ६ ॥

P6-0143 · 7
सिद्धिदा कुलमन्त्राणां डाकिनी खेचरी भव ।
नमामि वरदे देवि योगिनीगणसेविते
॥ ७ ॥

P6-0144 · 8
तर्वांघ्रियुगलं कान्ते चन्द्रकान्तिसुमालिनी ।
अमले कमले देवि दारिद्र्यदोषभञ्जिनी
॥ ८ ॥

P6-0145 · 9
वन्दे त्वां मनसा वाचा प्रसन्ना भव सुन्दरि ।
कलिकालकृते देवि खचरीशतनायिके
॥ ९ ॥

P6-0146 · 10
धनसिद्धिं देहि शीघ्रं समागच्छ गृहे मम् ।
सिद्धिदा विधुराणाञ्च अकालमृत्युनाशिनी
॥ १० ॥

P6-0147 · 11
दशवर्षसहस्राणि स्थिरा भव कुले मम ।
वाक्यसिद्धिप्रदा देवी पद्मरागसुमालिनी
॥ ११ ॥

P6-0148 · 12
सर्वालङ्कारभूषाङ्गी प्रसन्ना भव सर्वदा ।
मायाबीजात्मिका देवी वधूबीजसमाकुले
॥ १२ ॥

P6-0149 · 13
सिद्धिद्रव्यं सदा देहि कन्ता भव ममालये ।
विचित्रम्बारशोभाङ्गी नानालङ्कारवेष्टिते
॥ १३ ॥

P6-0150 · 14
विम्बारमणिसूर्याभे चन्द्रकान्तिप्रभोज्वले ।
स्मेराननाब्जे कामेशि ममाज्ञापय दुर्लभम्
॥ १४ ॥

P6-0151 · 15
कामेशि परमानन्द-राजभोगप्रदायिनी ।
सिद्धिदा वरदा माता भगिनी वा भव प्रिया
॥ १५ ॥

P6-0152 · 16
तवाज्ञाकिङ्करो देवि पूजयाम्यहमादरात् ।
ममाग्रे संस्थिरा भूत्वा सिद्धिदा भव सर्वदा
॥ १६ ॥

P6-0153 · 17
कौलिनी गगनस्था त्वं मम पार्श्वचरी भव ।
शतवर्षसहस्राणि मामेकं रक्षसेवकम्
॥ १७ ॥

P6-0154 · 18
हृदयाम्भोरुहे ध्यायेत्सुन्दरीं नवयौवनाम् ।
किङ्किणीजालमालाढ्यां त्रिपुरां पद्मलोचनाम्
॥ १८ ॥

P6-0155 · 19
वराभयकरां धन्यां योगिनीं कामचारिणीम् ।
त्वामेकां जगतां देवि सिद्धिविद्यां नमाम्यहम्
॥ १९ ॥

P6-0156 · 20
ममाङ्गे चैव पार्श्वे त्वं कामिनी भव मे सदा ।
दशवर्षसहस्राणि सिद्धे कमललोचनाम्
॥ २० ॥

P6-0157 · 21
वनिता भव मे नित्यं नित्यं देहं कुरु प्रिये ।
एतत्स्तोत्रं पठेद्विद्वान् ध्यानाभ्याससमन्वितम्
॥ २१ ॥

P6-0158 · 22
पक्वान्नं नारिकेलं वा खण्डमिश्रं निवेदयेत् ।
सिद्धिं यच्छन्ति भूतिन्यः स्तोत्रपूजा प्रभावतः
॥ २२ ॥


Guru-Kavaca und weibliche Lehrerin

P6-0159 · 1
इति व्ःअद्भूतसन्धानडामरे महातन्त्रे भैरवीभैरवसंवादे
नायिका-स्तोत्रं समाप्तम् ।
अथ गुरुकवचम् :
नारद उवाच :
ब्रह्मन् गुरोर्मनुस्तोत्रं यथावदवधारितम् ।
कवचश्रवणे श्रद्धा साम्प्रतं कथ्यतां मम
॥ १ ॥

P6-0160 · 2
ब्रह्मोवाच :
श्रीगुरोः कवचं गुह्यं वर्ण्यमानं निबोध मे ।
नाभक्ताय प्रदातव्यं देयं भक्तिमते सदा
॥ २ ॥

P6-0161 · 3
श्रीगुरोः कवचस्यास्य ब्रह्मर्षि परिकीर्तितः ।
छन्दोऽनुष्टुब्देवता च त्रिदेवात्मा गुरुः स्वयम्
॥ ३ ॥

P6-0162 · 4
ॐ शिरो मे सर्वदा पातु गुरुः सर्वाङ्गसुन्दरः ।
उद्यद्भालललाटं मे कृपादृष्टिर्दृशौ मम
॥ ४ ॥

P6-0163 · 5
मन्दस्मितो मुखं पातु श्रुती च मधुरं वचः ।
हृदयं पातु मन्त्रोक्तिर्वराभयधरः करौ
॥ ५ ॥

P6-0164 · 6
गुरुपद्मासनं पातु नाभ्यादिचरणान्तिकम् ।
गुरुपादनखज्योत्स्ना सर्वाङ्गं सर्वदावतु
॥ ६ ॥

P6-0165 · 7
वाग्बीजं मे सदा पातु कामाद्यन्तांश्च खेचरी ।
आनन्दभैरवः पातु सदैवानन्द मन्दिरम्
॥ ७ ॥

P6-0166 · 8
आनन्दभैरवी पातु ममानन्दं सदैव सा ।
हिंस्रेभ्यः सर्वदा पातु श्रीप्रासादपरो मनुः
॥ ८ ॥

P6-0167 · 9
परा प्रासादमन्त्रस्तु पातु नित्यं विपद्दशाम् ।
हंसः पीठं पातु चोर्ध्वं सर्वदिक्षु सदावतु
॥ ९ ॥

P6-0168 · 10
कुलन्तु गुरवः पान्तु पात्वधः कमलासनः ।
ज्ञानं पातु च दिव्यौघा इच्छां सिद्धौघसंज्ञकाः ।
मानवौघाः क्रियां पान्तु श्रीगुरुः सर्वदावतु
॥ १० ॥

P6-0169 · 11
ॐ ।
इतीदं कवचं नित्यं प्रातःकृत्यावसानके ।
यः पठेन्मानवो भक्त्या त्रैलोक्यविजयी भवेत् ।
मन्त्रसिद्धिर्भवेत्तस्य देवता च प्रसीदति ।
सत्यं सत्यं पुनः सत्यं नात्र कार्या विचारणा
॥ ११ ॥

P6-0170 · 12
गुर्वभिधानं कवचमज्ञात्वा क्रियते जपः ।
वृथाश्रमो भवेत्तस्य न सिद्धिर्मन्त्रपूजने
॥ १२ ॥

P6-0171 · 13
गुरुपादं पुरस्कृत्य कवचं पठ्यते शुभम् ।
तदा मन्त्रस्य यन्त्रस्य सिद्धिर्भवति नान्यथा
॥ १३ ॥

P6-0172 · 14
गुरु-गोप्यञ्च कर्त्तव्यं न वक्तव्यं कदाचन
॥ १४ ॥

P6-0173 · 15
यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ।
दातव्यं भक्तियुक्ताय कुलीनाय विशेषतः
॥ १५ ॥

P6-0174 · 16
त्रैलोक्यदुर्लभञ्चैतद् भुक्तिमुक्तिफलप्रदम् ।
सर्वतीर्थफलं येन पठ्यते कवचं गुरोः ।
इति ते कथितं पुत्र सावधानोऽवधारय
॥ १६ ॥

P6-0175 · 1
इति ब्रह्मयामले श्रीमद्गुरुकवचं समाप्तम् ।
अथ योषिद् गुरु-ध्यानम् :
यथा :
ॐ प्रफुल्लपद्मपत्राक्षीं घनपीनपयोधराम् ।
प्रसन्नवदनां क्षीणमध्यां ध्यायेच्छिवां गुरुम्
॥ १ ॥

P6-0176 · 2
पद्मरागसमाभासां रक्तवस्त्र सुशोभनाम् ।
रक्तकङ्कणपाणिञ्च रत्ननूपुरशोभिताम्
॥ २ ॥

P6-0177 · 3
स्थलपद्मप्रतीकाशपादपद्मसुशोभिताम् ।
शरविन्दुप्रतीकाशवक्त्रोद्भासितविग्रहाम्
॥ ३ ॥

P6-0178 · 4
स्वनाथ-वामभागस्थां वराभयकराम्बुजाम् ।
एवं ध्यात्वा पूजयेत्
॥ ४ ॥

P6-0179 · 1
अथ स्त्रीगुरु-कवचम् :
अस्य स्त्रीगुरुकवचस्य स्त्रीगुरुर्देवता चतुर्वर्गप्राप्तये विनियोगः ।
शिरसि सदाशिव ऋषये नमः ।
हृदि स्त्रीगुरुदेवतायै नमः ।
ईश्वर उवाच :
स्त्रीगुरोः कवचस्यास्य सदाशिव-ऋषिः स्मृतः ।
तदाख्या देवता प्रोक्ता चतुर्वर्गफलप्रदा
॥ १ ॥

P6-0180 · 2
ॐ क्लीं बीजं मे शिरः पातु तदाख्या च ललाटकम् ।
क्लीं बीजं चक्षुषोः पातु सर्वाङ्गं मे सदाशिवः
॥ २ ॥

P6-0181 · 3
ऐं बीजं मे मुखं पातु ह्रीं जिह्वां परिरक्षतु ।
श्रीं बीजं स्कन्धदेशं मे हसखफ्रें भुजद्वयम्
॥ ३ ॥

P6-0182 · 4
हकारः कण्ठदेशं मे सकारः षोडशं दलम् ।
क्षवर्णस्तदधः पातु लकारो हृदयं मम्
॥ ४ ॥

P6-0183 · 5
वकारः पृष्ठदेशञ्च रकारोदक्षपार्श्वकम् ।
हूङ्कारो वामपार्श्वञ्च सकारो मेरुमेव च
॥ ५ ॥

P6-0184 · 6
हकरो मे दक्षभुजं क्षकारो वामहस्तकम् ।
मकारश्चांगुलिं पातु लकारः पातु मे नखम्
॥ ६ ॥

P6-0185 · 7
वकारो मे नितम्बञ्च रकारो जठरं मम् ।
यीङ्कारः पादयुगलं ह्सौः सर्वाङ्गकेऽवतु
॥ ७ ॥

P6-0186 · 8
ह्सौः लिङ्गञ्च लोमानि केशञ्च परिरक्षतु ।
ऐं बीजं पातु पूर्वे मे ह्रीं बीजं दक्षिणेऽवतु
॥ ८ ॥

P6-0187 · 9
श्रीं बीजं पश्चिमे पातु उत्तरे भूतसम्भवम् ।
ऐं पातु चाग्निकोणे च वेदाद्या नैर्-ऋतेऽवतु
॥ ९ ॥

P6-0188 · 10
देव्यम्बा पातु वायव्यां शम्भोः श्रीपादुकान्तथा ।
पूजयामि तथा चोर्ध्वं नमश्चाधः सदाऽवतु
॥ १० ॥

P6-0189 · 11
ॐ ।
इति ते कथितं कान्ते कवचं परमाद्भुतम् ।
गुरुमन्त्रं जपित्वा तु कवचं प्रपठेद्यदि ।
स सिद्धः स गणः सोऽपि शिवः साक्षान्न संशयः
॥ ११ ॥

P6-0190 · 12
पूजाकाले पठेद्यस्तु कवचं मन्त्रविग्रहम् ।
पूजाफलं भवेत्तस्य सत्यं सत्यं सुरेश्वरि ।
त्रिसन्ध्यं यः पठेद्देवि स सिद्धो नात्र संशयः
॥ १२ ॥

P6-0191 · 13
भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेद्यदि ।
तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः
॥ १३ ॥

P6-0192 · 14
विवादे जयमाप्नोति रणे च नैर्-ऋतेरिव ।
सभायां जयमाप्नोति मम तुल्यो न संशयः
॥ १४ ॥

P6-0193 · 15
सहस्रारे भावयन् यस्त्रिसन्ध्यं प्रपठेद्यदि ।
स एव सिद्धलोकेशो निर्वाणपदमीयते
॥ १५ ॥

P6-0194 · 16
समस्तमङ्गलं नाम कवचं परमाद्भुतम् ।
यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन
॥ १६ ॥

P6-0195 · 17
देयं शिष्याय शान्ताय चान्यथा विफलं भवेत् ।
अभक्तेभ्यस्तु देवेशि पुत्रेभ्योऽपि न दर्शयेत्
॥ १७ ॥

P6-0196 · 18
इदं कवचमज्ञात्वा विद्याञ्चैव च यो जपेत् ।
स नाप्नोति फलं तस्य परे च नरकं व्रजेत्
॥ १८ ॥


Guru-Stotra

P6-0197 · 1
इति ब्रह्मयामले पार्वतीश्वरसंवादे श्रीमत्स्त्रीगुरुकवचं
समाप्तम् ।
अथ गुरु-स्तोत्रम् :
ज्ञानात्मानं परमात्मानं दानं ध्यानं योगं ज्ञानम् ।
जानन्नपि तत्सुन्दरि मातर्न गुरोरधिकं न गुरोरधिकम्
॥ १ ॥

P6-0198 · 2
प्राणं देहं गेहं राज्यं भोगं मोक्षं शक्तिं पुत्रम् ।
मन्ये मित्रं वित्तकलत्रं न गुरोरधिकं न गुरोरधिकम्
॥ २ ॥

P6-0199 · 3
वाणप्रस्थं यतिविधधर्मं पारमहंसस्यं भिक्षुकचरितम् ।
साधोः सेवा बहुसुरभक्तिर्न गुरोरधिकं न गुरोरधिकम्
॥ ३ ॥

P6-0200 · 4
विष्णोर्भक्तिःपूजनचरितं वैष्णवसेवा मातरि भक्तिः ।
विष्णोरिव पितृसेवनयोगो न गुरोरधिकं न गुरोरधिकम्
॥ ४ ॥

P6-0201 · 5
प्रत्याहारं चेन्द्रियजयता प्रणायामं न्यासविधानम् ।
इष्टेः पूजा जपतपोभक्तिर्न गुरोरधिकं न गुरोरधिकम्
॥ ५ ॥

P6-0202 · 6
काली दुर्गा कमला भुवना त्रिपुरा भीमा बगला पूर्णा ।
श्रीमातङ्गी धूम तारा एता विद्या त्रिभुवनसारा न गुरोरधिकं
न गुरोरधिकम्
॥ ६ ॥

P6-0203 · 7
मात्स्यं कौर्मं श्रीवाराहं नरहरिरूपं वामनचरितम् ।
अवतारादिकमन्यत्सर्वं न गुरोरधिकं न गुरोरधिकम्
॥ ७ ॥

P6-0204 · 8
श्रीरघुनाथं श्रीयदुनाथं श्रीभृगुदेवं बौद्धं कल्किम् ।
अवतारानिति दशकं मन्ये न गुरोरधिकं न गुरोरधिकम्
॥ ८ ॥

P6-0205 · 9
गङ्गा काशी काञ्ची द्वारा मायायोध्यावन्ती मथुरा ।
यमुना रेवा परतरतीर्थं न गुरोरधिकं न गुरोरधिकम्
॥ ९ ॥

P6-0206 · 10
गोकुलगमनं गोपुररमणं श्रीवृन्दावनमधुपुरमटनम् ।
एतत्सर्वं सुन्दरि मातर्न गुरोरधिकं न गुरोरधिकम्
॥ १० ॥

P6-0207 · 11
तुलसीसेवा हरिहरभक्तिर्गङ्गासागरसङ्गममुक्तिः ।
किमपरमधिकं क्ष्णे भक्तिरेतत्सर्वं सुन्दरि मातर्न
गुरोरधिकं न गुरोरधिकम्
॥ ११ ॥

P6-0208 · 12
एतत्स्तोत्रं पठति च नित्यं मोक्षज्ञानी सोऽप्यतिधन्यः ।
ब्रह्माण्डान्तर्यद्यद् ज्ञेयं सर्वं न गुरोरधिकम्
॥ १२ ॥


Hanūmān, Mātaṅgī und Dhūmāvatī

P6-0209 · 1
इति वृहत्पारमहंस्यां संहितायां श्रीशिव पार्वतीसंवादे
श्रीगुरुस्तोत्रं समाप्तम् ।
अथ श्रीहनूमत्स्तोत्रम् :
ईश्वर उवाच :
अत्युत्कटप्रकटितातुलधैर्यवर्यः श्रीरामकार्यकरणे
प्रथितैकवीरः ।
गत्या विलंघ्य गतवारिधिवारितीरः श्रीमानसौ जयति वायुसुतो
हनूमान्
॥ १ ॥

P6-0210 · 2
यो जातमात्रसमये बलवान् गभस्तेर्विम्बं निरीक्ष्य
फलमित्यविचार्य सम्यक् ।
जग्राह पाणियुगले सहसा सुमोच श्रीमानसौ जयति वायुसुतो
हनूमान्
॥ २ ॥

P6-0211 · 3
विभ्रत्सदा वपुषि व्रजचये बलीयान् तेजः सहायसमयं
प्रकटीचकार ।
लङ्कां ददाह दशवक्त्रसभासमक्षं श्रीमानसौ जयति
वायुसुतो हनूमान्
॥ ३ ॥

P6-0212 · 4
रामानुजे महति यो जगतीतलेऽस्मिन् शक्त्या हते रणमुखे
दशकन्धरेण ।
आनीय भेषजमजीवयदेवमाशु श्रीमानसौ जयति वायुसुतो
हनूमान्
॥ ४ ॥

P6-0213 · 5
मुद्रां समर्प्य रघुनन्दननामचिह्नां चूडामणिं
जनकराजसुतागतं तम् ।
आनीय राममभिवेदयति स्म वीरः श्रीमानसौ जयति वायुसुतो
हनूमान्
॥ ५ ॥

P6-0214 · 6
निघ्नन्नशोकवनभूरुहरक्षपालान् भञ्जन्
महाबहुपशूंश्च शतं सहस्रान् ।
भुञ्जन् फलानि विविधानि हि वीक्ष्य सीतां श्रीमानसौ जयति
वायुसुतौ हनूमान्
॥ ६ ॥

P6-0215 · 7
काराहृहे मनसि चिन्तित एव यस्मिन् बद्धो जनो हि लभते तत आशु
मोक्षम् ।
क्रव्यादयक्षपवनादिभयापहारी श्रीमानसौ जयति वायुसुतो
हनूमान्
॥ ७ ॥

P6-0216 · 8
तुभ्यं नमः सकलमङ्गलदायकाय तुभ्यं नमोऽस्तु
पवनानलसम्भवाय ।
तुभ्यं नमोऽस्तु जगतां परमोपकर्त्रे सर्वार्तदुःखहरणाय
नमो नमस्ते
॥ ८ ॥

P6-0217 · 9
इदं हनूमतः स्तोत्रं महापातकनाशनम् ।
संग्रामजयदं पुण्यं देवानामपि दुर्लभम्
॥ ९ ॥

P6-0218 · 10
यः पठेत् प्रातरुत्थाय स्नाने वा शयनेऽथवा ।
विषं न वाधते तस्य न तं हिंसन्ति हिंसकाः
॥ १० ॥

P6-0219 · 11
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी पुत्रमाप्नोति नारी पत्युः प्रिया भवेत्
॥ ११ ॥

P6-0220 · 12
रोगी रोगात्प्रमुच्येत वद्धो मुच्येत बन्धनात् ।
दुर्बलो बलमाप्नोति भवेत्वायुसुतोपमः
॥ १२ ॥

P6-0221 · 13
विघ्नः सर्वे पलायन्ते तं दृष्ट्वा नात्र संशयः ।
संग्रामे व्यवहारे च विजयस्तस्य जायते ।
बन्धनान्मुक्तिमाप्नोति यात्रायां सिद्धिरेव च
॥ १३ ॥

P6-0222 · 1
इति श्रीगरुडतन्त्रे हनूमत्कल्पे हनूमत्स्तोत्रं समाप्तम् ।
अथ मातङ्गीस्तवः :
ईश्वर उवाच :
ॐ आराध्य मातश्चरणाम्बुजे ते ब्रह्मादयो विश्रुतकीर्तिमापुः ।
अन्ये परं वा विभवं मुनीन्द्राः परां श्रियं भक्तिभरेण
चान्ये
॥ १ ॥

P6-0223 · 2
नमामि देवीं नवचन्द्रमौलेर्मातङ्गिनीं चन्द्रकलावतंसाम् ।
आम्लायवाग्भिः प्रतिपादितार्थं प्रबोधयन्तीं प्रियमादरेण
॥ २ ॥

P6-0224 · 3
विनम्र देवासुरमौलिरत्नैर्विराजितं ते चरणारविन्दम् ।
भजन्ति ये देवि महीपतीनां ब्रजन्ति ते सम्पदमादरेण
॥ ३ ॥

P6-0225 · 4
मातङ्गिनीनां गमने भवत्याः शिञ्जीनमञ्जीरमिदं भजे ते ।
मातस्त्वदीयं चरणारविन्दमकृत्रिमाणां वचनं विशुद्धम्
॥ ४ ॥

P6-0226 · 5
पादात्पदं शिञ्जितनूपुराभ्यां कृतार्थयन्तीं पदवीं
पदाभ्याम् ।
आस्फालयन्तीं कलवल्लकीं तां मातङ्गिनी सद्धृदयां धिनोमि
॥ ५ ॥

P6-0227 · 6
लीलांशुकाबद्धनितम्बविम्बां तालीदलेनार्पितकर्णभूषाम् ।
माध्वीसदाघूर्णितनेत्रपद्मां धनस्तनीं शम्भुवधूं
नमामि
॥ ६ ॥

P6-0228 · 7
तडिल्लताकान्तमलक्ष्यभूषं चिरेण लक्ष्यं नवलोमराज्या ।
स्मरामि भक्त्या जगतामधीशे बलित्रयाङ्कं तव मध्यमम्ब
॥ ७ ॥

P6-0229 · 8
नीलोत्पलानां श्रियमावहन्तीं कान्त्या कटाक्षैः
कमलाकराणाम् ।
कदम्बमालाञ्चितकेशपाशां मतङ्गकन्यां हृदि भावयामि
॥ ८ ॥

P6-0230 · 9
ध्यायेयमारक्तकपोलविम्बं विम्बाधरन्यस्तललामरम्यम् ।
आलोलनीलालकमायताक्षं मन्दस्मितं ते वदनं महेशि
॥ ९ ॥

P6-0231 · 10
स्तुत्यानया शङ्करधर्मपत्नीं मातङ्गिनीं वागधिदेवतां
ताम् ।
स्तुवन्ति ये भक्तियुता मनुष्याः परां श्रियं नित्यमुपाश्रयन्ति
॥ १० ॥

P6-0232 · 1
ॐ ।
इति रुद्रयामले श्रीमातङ्गीस्तोत्रम् ।
अथ धूमावतीस्तोत्रम् :
ईश्वर उवाच :
ॐ प्रातर्षा स्यात्कुमारी कुसुमकलिकया जपमालां जपन्ती,
मध्याह्ने प्रौढरूपा विकसितवदना चरुनेत्रा निशायाम् ।
सन्ध्यायां वृद्धरूपा गलितकुचयुगा मुण्डमालां वहन्ती, सा
देवी देवदेवो त्रिभुवनजननी चण्डिका पातु युष्मान्
॥ १ ॥

P6-0233 · 2
बद्ध्वा खट्वाङ्गकोटौ कपिलवरजटामण्डलं पद्मयोनेः
कृत्वा दैत्योत्तमाङ्गैः स्रजमुरसि शिरःशेखरं तार्क्ष्यपक्षैः ।
पूर्णं रक्तैः सुराणां यममहिषमहाशृङ्गमादाय पाणौ
पायाद्वौ वन्द्यमानः प्रलयमुदितया भैरवः कालरात्र्या
॥ २ ॥

P6-0234 · 3
चर्वन्ती ग्रन्थिखण्डं प्रकटकटकटाशब्दसङ्घातमुग्रं,
कुर्वाणा प्रेतमध्ये ककह-कह-कहा-हास्यमुग्रं कृशाङ्गी ।
नित्यं नृत्यप्रमत्ता डमरुडिमडिमान् स्फारयन्ती मुखाब्जं
पायान्नश्चण्डिकेयं झझम-झम-झम-झमा जल्पमाना
भ्रमन्ती
॥ ३ ॥

P6-0235 · 4
टण्टट्-टण्टट्-टटण्टा प्रकट-मटमटानादघण्टा वहन्ती
स्फें स्फें स्फें-कारकारा टकटकितहसा दन्तसङ्घट्टभीमा
।
लोलं मुण्डाग्रमाला ललहलहलहा लोललोलोग्ररावं चर्वन्ती
चण्डमुण्डं मटमटमटितं चर्वयन्ती पुनातु
॥ ४ ॥

P6-0236 · 5
वामे कर्णे मृगाङ्कं प्रलयपरिगतं दक्षिणे सूर्यविम्बं,
कण्ठे नक्षत्रहारं नरविकटजटाजूटके मुण्डमालम् ।
स्कन्धे कृत्वोरगेन्द्रध्वजनिकरयुतं ब्रह्मकङ्कालभारं,
संहारे धारयन्ती मम हरतु भयं भद्रदा भद्रकाली
॥ ५ ॥

P6-0237 · 6
तैलाभ्यक्तैकवेणी त्रपुमयविलसत्कर्णिकाक्रान्तकर्णा, लोहेनैकेन
कृत्वा चरणनलिनकामात्मनः पादशोभाम् ।
दिग्वासा रासभेन ग्रसति जगदिदं या
जवाकर्णपुरावषिण्यूर्ध्वप्रवृद्धा ध्वजविततभुजा सासि देवी
त्वमेव
॥ ६ ॥

P6-0238 · 7
संग्रामे हेतिकृत्तैः सरुधिरदशनैर्यद्भटानां
शिरोभिर्मालामावध्य मूर्ध्नि ध्वजविततभुजा त्वं श्मशाने
प्रविष्टा ।
दृष्ट्वा भूतैः प्रभूतैः पृथुजघनघना
वद्धनागेन्द्रकाञ्चीशूलाग्रव्यग्रहस्ता मधुरुधिरमदा
ताम्रनेत्रा निशायाम्
॥ ७ ॥

P6-0239 · 8
दंष्ट्रा-रौद्रे मुखेऽस्मिस्तव विशति जगद्देवि सर्वं क्षणार्द्धात्
संसारस्यान्तकाले नररुधिरवसासंप्लवे धूमधूम्रे ।
काली कापालिकी त्वं शवशयनरता योगिनी योगमुद्रा रक्ता ऋद्धी
कुमारी मरणभयहरा त्वं शिवा चण्डघण्टा
॥ ८ ॥

P6-0240 · 10
ॐ ।
धूमावत्यष्टकं पुण्यं सर्वापद्विनिवारकम् ।
यः पठेत् साधको भक्त्या सिद्धिं विन्दति वाञ्छिताम् महापदि
महाघोरे महारोगे महारणे ।
शत्रूच्चाटे मारणादौ जन्तूनां मोहने तथा
॥ १० ॥

P6-0241 · 11
पठेत् स्तोत्रमिदं देवि सर्वत्र सिद्धिभाग्भवेत् ।
देवदानवगन्धर्वयक्षराक्षसपन्नगाः
॥ ११ ॥

P6-0242 · 12
सिंहव्याघ्रादिकाः सर्वे स्तोत्रस्मरणमात्रतः ।
दूराद्दूरतरं यान्ति किं पुनर्मानुषादयः
॥ १२ ॥

P6-0243 · 13
स्तोत्रेणानेन देवेशि किं न सिध्यति भूतले ।
सर्वशान्तिर्भवेद्देवि चान्ते निर्वाणतां व्रजेत्
॥ १३ ॥

P6-0244 · 1
इत्यूर्ध्वाम्नाये धूमावतीकल्पे धूमावत्यष्टकं स्तोत्रसारं
समाप्तम् ।
घटस्थापनम् :
आगमतत्त्वविलासे यथा :
राजेश्वरीतन्त्रे शाक्ताभिषेकप्रकरणे घटमित्यनुवृत्तौ :
नातिह्रस्वं नातिदीर्घं मृत्ताम्रस्वर्णनिर्मितम् ।
कामबीजेन सम्प्रोक्ष्य वाग्भवेनैव ताडयेत् ।
शक्त्या कलसमारोप्य मायया पूरयेज्जलैः ।
मन्त्रेणानेन तीर्थानि देशिकस्तत्र विन्यसेत् ।
गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च ।
सर्वे समुद्राः सरितः सरांसि जलदा नदाः ।
ह्रदाः प्रस्रवणाः पुण्याः स्वर्गपातालभूगताः ।
सर्वतीर्थानि पुण्यानि घटे कुर्वन्तु सन्निधिम् ।
रमाबीजेन जप्तेन पल्लवं प्रतिपादयेत् ।
कूर्चेन फलदानं स्यात् स्त्रीबीजेन स्थिरीकृतिः ।
सिन्दूरं वह्निबीजेन पुष्पं दद्याच्छवानुना ।
मूलेन दूर्वां प्रणवैः कुर्यादभ्युक्षणं ततः ।
हूं फट् स्वाहेति मन्त्रेण कुर्याद्दर्भेण ताडनम् ।
विचिन्त्य देवीपीठन्तु तत्रावाह्य प्रपूजयेत् ।
शक्त्या सौरिति बीजेन ।
शवानुना इत्यत्र शरानुना ।
इति आगमतत्त्वधृतः पाठः ।
शरानुना अस्त्रमन्त्रेण इति तदर्थः
॥ १ ॥

P6-0245 · 1
कवचसंस्कारः :
दीपिकाधृततन्त्रान्तरे :
विलिख्य कवचं देवि रक्तसूत्रेण वेष्टयेत् ।
वेष्टयित्वा ततो देवि स्वर्णादौ स्थापयेत् ततः ।
पञ्चमृतैः पञ्चगव्यैः स्नापयित्वा शुभेऽहनि ।
सम्पूज्य देवतारूपां गुलिकां सर्वकामदाम् ।
प्राणप्रतिष्ठामन्त्रेण प्राणांस्तत्र नियोजयेत् ।
अन्तर्योनि ततो ध्यात्वा तत्र स्थापयेद्बुधः ।
एषा तु गुलिका देवि कण्ठलग्ना सुखप्रदा
॥ १ ॥


Mantralaute und ihre Zuordnungen

P6-0246 · 1
अथ मन्त्रणां श्रोत्रादिनिरूपणम् :
यथा यक्षडामरे :
मर्त्यानामुपकाराय त्रिषु लोकेषु दुर्लभम् ।
भगवान् पुनराचक्षे श्रोत्रादीनां निरूपणम्
॥ १ ॥

P6-0247 · 2
हृदयं मूर्तिमास्थाय दृढचित्तः समाहितः ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशञ्चानवलोकयन् ।
मनो हत्वेन्द्रियाद्यैश्च सर्वभावेन साधकः ।
पश्यतीतिलयं श्रोत्रं नान्यथा शृणुयाद्वचः
॥ २ ॥

P6-0248 · 4
सौरे तथा गाणपत्ये दौर्गे शैवे तथैव च ।
भौतिके च मनावास्यहृन्नेत्रं द्योतते यथा ।
मूलाक्षरे विचारोऽयं मूलानां बीजमुच्यते ।
मनोविचारः कर्तव्यो बीजे सति विषान्विते ।
बीजत्वेन गता रुद्रहंसी डिण्डिमविद्रुमा ।
पुरी सेन्दुक्रमादत्र कुर्यादास्यादिचिन्तनम् ॥ ३ ।
यमस्त्यागी शुको दण्डी मणिभद्रो घटत्कचः ।
भृङ्गिप्रभृतिबीजानां प्राग्वत्कुर्याद्विचारणम् ।
यत्र यक्षेश्वरो मन्त्रे तत्रैवास्यं प्रधानतः ।
चण्डिकाया अभावेऽत्र विद्युन्नेत्रहृदासवः
॥ ४ ॥

P6-0249 · 5
ज्योतिःकपर्दीखद्योतो ग्रासिनी च सुरान्तकः ।
वैवस्वतः केतुनाम शिखी प्राणप्रहारिणी ।
कस्मिन्नुल्कामुखी जालन्धरी चण्डयुगान्तकौ ।
किङ्करी पिशिताक्षी सुकिन्नरश्च मनोहरी ।
ध्वांक्ष्यं वैतानिकं फेत्कारिणी शूलपयोधरौ ।
चतुर्विंशतिबीजानि मन्त्रे स्युर्यक्षडामरे ।
एभिरशेषमन्त्राणां हृन्नेत्रवदनानि च ।
अनवोऽस्य परिज्ञेयाः सर्वतन्त्रेषु गोपिताः
॥ ५ ॥

P6-0250 · 6
तथा मूलार्ण मुखमादिष्टं हृदयं स्वरसंज्ञकम् ।
मूलार्णं प्रणवं मन्त्रस्य मुखमित्यर्थः ।
हृदयं स्वरशक्तयः इति षोडशाक्षरात्मिकाः शक्तयो मन्त्रस्य
हृदयमित्यर्थः ।
तथा च मूलार्णमास्यमाख्यं तं हृदयं स्वशक्तयः ।
स्वरशक्तयो वक्तव्याः ।
अथ प्रणवाभावे तत् स्वरूपबीजानां विशेषमाह तत्रैव :
आदिमध्यावसानेषु पूर्वाभावे तथोत्तरम् ।
कीर्त्याख्या कालवक्त्रेण महाकालेन साधितम् ।
तदनादि पञ्चरश्मि सृष्टिस्थित्यव्ययं विषम् ।
शूलिन्या सहितो गुह्यश्चण्डीशोऽग्नीन्दुविन्दुमान् ।
एतद्विष्णुप्रियाबीजं जगन्मान्यं जगत्प्रियम् ।
आदिमध्यावसानेषु इति मन्त्रस्यादौ मध्ये चान्ते वा
प्रणवस्थितिश्चेत्तदा तदैव तन्मुखमित्यर्थः ।
पूर्वाभावे यथोत्तरमिति प्रणवाभावे तत्परं विधानं यथेति
कीर्त्याख्या कालवक्त्रेणेति अकार-उकारेण, महाकालेनेति मकारेण
साधितं तदनादि पञ्चरश्मि इति तदेव प्रणवम् ।
एतद्विष्णुप्रियाबीजं श्रीबीजमिति सार्द्धद्वयश्लोकेनान्वयः ।
तथा च यस्मिन् मन्त्रे श्रीबीजादिकमस्ति तत्र तदेव मुखमिति
प्रणवस्वरुपत्वात्, अतः क्रमेण मन्त्रमुखात्मकबीजान्याह
तत्रैव श्रीबीजमुक्तम् ॥
तत्परं यथा :
क्षतजं व्योमवक्त्रञ्च चण्डोग्रेन्द्वादिभूषितम् ।
आद्रं रौद्रञ्च भूतञ्च बीजं प्राथमिकं स्मृतम् ।
क्षतजं रेफः, व्योमवक्त्रं हकारः, चण्डोग्रा ईकारः,
इन्द्वादिभूषितमिति इन्दुनादाभ्यां भूषितं मायाबीजम् ।
क्रोधीशं रक्तगं धूम्र-भैरव्येन्द्वाद्यलंकृतम् ।
पितृभूवासिनीबीजं कालेयं पलभोजनम् ।
क्रोधीशं ककारं, रक्तगं रेफगं धूम्रभैरवी ईकारः,
बिन्दुनादयोगेन कालीबीजम् ।
नादबिन्दुसमायुक्तां समादयोग्रभैरवीम् ।
भौतिकं वाग्भवं बीजम् ऋद्धिबुद्धिविवर्द्धनम् ।
उग्रभैरवी ऐकारः, तेन वाग्भवबीजम् इत्यर्थ ।
फडस्त्रञ्च प्रसिद्धं स्यात्काल्याग्निव्यापकांकुशः ।
शिरः स्वाहा द्विठो वह्निजाया ज्वलनवल्लभा ।
इन्द्रासनगतो ब्रह्मा सा त्रिमूर्तिस्तु मन्मथः ।
व्योमास्यः कालवक्त्राढ्यो वर्मविन्द्विन्दु संयुतः ।
एतेन कामबीजं कूर्चबीजञ्च ।
शून्यं क्षतजमारूढं चण्डभैरव्यलंकृतम् ।
विन्द्विन्दुभूषितं मूर्ध्नि ज्योतिर्मन्त्रमुदीरितम् ।
शून्यं हकारः, क्षतजं रेफः, चण्डभैरवी ऐकारः ।
आदिदेवेन निर्दिष्टं मन्त्रकोषमनुत्तमम् ।
यदास्येभ्यः परं गोप्यं तन्मयात्र प्रकीर्तितम् ।
यक्षडामरमन्त्रस्य मनुकोषविवेचनम् ।
क्रोधाधिपेन यत्प्रोक्तं भैरवाय महात्मने ।
इति ।
अत एव प्रणव-श्रीबीज-माया-काली-वाग्भव-अस्त्र-वह्निजाया-काम-
कूर्च-ज्योतिर्मन्त्राणां यत्र मन्त्र यस्य स्थितिस्तत्र तस्य
अस्यत्वमुक्तम् ।
एतेषां द्वयं वा त्रयं वा बीजं यत्र तिष्ठति ।
तत्र तु उक्तमन्त्रेण तत्पूर्वबीजस्य ग्रहणम्
॥ ६ ॥

P6-0251 · 7
अथ नेत्रनिर्णयः :
तदुक्तं तत्रैव :
बीजे रक्तमुखाः सर्वे मूलार्णा हृदयं स्वराः ।
दक्षवामदृशौ चण्डीविकले मध्यमे न चेत् ।
बीजाभावे मनोर्विद्युन्नेत्रमस्यं मनोहरी ।
मूलार्णं हृदयं दण्डी प्राणोऽपि स्वरशक्तयः ।
बीजे रक्तमुखा इति सर्वे मूलार्णाः श्रीबीजादयः बीजे सति इति
स्वयं मन्त्रे सति रक्तमुखा भवन्तीति ।
चण्डीविकले विसर्गबिन्दु मध्यमे न चेदिति मन्त्रस्य मध्यस्थौ न
चेत्तदा तस्य दक्षवामदृशावित्यर्थः ।
बीजाभावे इति मुखनेत्रात्मकबीजानामभावे ।
मनोर्विद्युन्नेत्रमिति मन्त्रस्य नेत्रम् ।
विद्युदिति अकारः ।
आस्यं मनोहरीति वह्निजाया मूलार्णमित्युक्तेः, हृदयं दण्डीति
अनुस्वारः प्राणोऽपि स्वरशक्तय इति दण्डिनः स्वरशक्तीनाञ्च
हृत्प्राणत्वमिति रहस्याः ।
अत्र चिन्तामणिनृसिंहयोर्विचारो न स्यात् ।
तथा च चिन्तामणिनृसिंहख्यौ श्रोत्रास्यनेत्रदृते ।
यत्र बीजाक्षरं मन्त्रं तत्र सर्वश एव हि ।
प्रधानपूर्वा परगा विकला यत्र दृश्यते ।
तत्र नेत्रं विजानीयान्मुखञ्च क्षतजोक्षितम् ।
अत्र बीजाक्षरं मन्त्रमिति केवलश्रीबीजादिकं मन्त्रं यत्र भवति
प्रधानपूर्वापरगेति चण्डी पूर्वा विकला स्वयं परगा यत्र
दृश्यते च तत्रैव नेत्रं बिजानीयात् इति मुखञ्च क्षतजोक्षितं रेफ
इत्यर्थः ।
रेफहीने मनौ तु तन्मूलवर्णं मुखमित्याह तत्रैव :
रक्तवर्जमनौ मूलवर्णमास्यं प्रकीर्तितम् ।
विद्युन्नेत्रं विनिर्दिष्टं चण्डीविकलावर्जिते ।
अन्यच्च :
गर्जिनीधूम्रभैरव्यावभावे च दृशौ स्मृतौ ।
गर्जिनी तृतीयस्वरः धूमभैरवी चतुर्थस्वरः ।
एतावपि बिन्दुविसर्गयोरभावे दृशावित्यर्थः ।
यत्र यक्षेश्वरो मन्त्रे तत्रैवास्यं प्रधानतः ।
चण्डिकाया अभावेऽत्र विद्युन्नेत्रहृदासवः ।
तत्रैवाह :
सुग्रीवः स्याद्द्वयं श्रोत्रं हृं शून्यं विकला दृशः ।
विकलाया अभावे च स्यातां गौरी च पार्वती ।
यक्षेश्वरो हकारः, चण्डिका विसर्गः, विद्युत् अकारः, सुग्रीवो रेफः
शून्यं हकारः विकला द्विबिन्दुः, गौरी तृतीयस्वरः, पार्वती
चतुर्थस्वरः ।
सर्वाभावे तु अकार एव तत्तद्रूपत्वेन ज्ञेय इत्यर्थः ।
तथा च :
विद्युदेवाह हृन्नेत्रं हृद्वक्त्रप्राणवर्जिते ।
एतेन हृन्नेत्रप्राणाः विद्युदेवेति प्राणोऽपि स्वरशक्तय इति वचनात् ।
इति श्रोत्रादिज्ञानम्
॥ ७ ॥

P6-0252 · 8
एतज्ज्ञानस्य नित्यत्वमाह :
तत्रैव, यज्ज्ञानेन विना नालं जपहोमप्रयोगनिदानमिति ।
तथा :
श्रवणास्यहृदयनेत्रज्ञानान्मोक्षो मनोः सद्यः ।
सिद्धिः सर्वविधा स्यात् सा शिव एव स साधकः ।
श्रोत्रादीनां ज्ञानाभवे मन्त्रस्य ग्रहणमात्रात् ।
दारिद्र्यञ्च विपत्तिर्नरकप्राप्तिर्यशोभ्रंशः ।
दीनोऽतिदुःखी पराजितः शत्रुपीडितः शोकी ।
कुर्यादेव हि तच्चितो मन्त्रो श्रोत्रदिविज्ञानम्
॥ ८ ॥

P6-0253 · 9
इत्यादि ज्ञेयम् ।
अथ स्वरशक्तयः :
तत्रैव :
अकारे भीषणा कीर्तिर्विद्युज्जिह्वेति कीर्तिता । अ ।
आकारे तामसी कालरात्र्युग्रा कालभैरवी । आ ।
इकारे गर्जिनी चण्डा ज्ञेया रुद्रभयङ्करी । इ ।
ईकारे शूलिनी ख्याता चण्डोग्रा धूम्रभैरवी । ई ।
उकारे कालवक्त्राख्या प्रचण्डा चण्डवल्लभा । उ ।
विदार्युकारगा ज्ञेया तालजङ्घा कपालिनी । ऊ ।
ऋकारे स्यान्महारद्री ज्वालिनी योगिनीत्यपि । ऋ ।
ॠकारे कालिकादेवी पितृकाली भयङ्करी । ॠ ।
संहारिणी ऌकारे स्यान्मेघनादोग्रहासिनी । ऌ ।
रुद्रचण्डा कालजिह्वा ॡकारे च करालिनी । ॡ ।
ऊर्द्धकेशी च चामुण्डा नादिन्येकारगा स्मृता । ए ।
ऐकारे कोटराक्षी च मानिन्युत्तमभैरवी । ऐ ।
ज्वालास्योकारगा ज्ञेया भीमाक्षी मुण्डमालिनी । ओ ।
औकारे डाकिनी सिंहनादिनी चण्डभैरवी । औ ।
अक्रूराख्या विकारी च अंकारे रुद्रडाकिनी । अं ।
शेषे कपालिनी याम्या चण्डिका कुण्डलद्वयम् ।
विसर्ग आदनुस्वारः कलाश्च स्वरशक्तयः । अः ।
इत्येतासां या या यस्मिन्ममन्त्रे योजितास्तास्ता एव तस्य हृदयत्वेन
भाव्या इति रहस्यार्थः ।
एवं क्रमेण मन्त्रस्य श्रोत्रादिकं विज्ञाय पुरस्क्रियां कुर्यात् ।
तथा च :
मन्त्रं नीत्वा गुरोः पार्श्वे गुरुभक्तिपरायणः ।
मन्त्रशोत्रास्य हृन्नेत्रप्राणान् विज्ञाय यत्नतः मन्त्रञ्च
कीलकं ज्ञात्वा कुर्यान्मन्त्रपुरस्क्रियाम् ।
पुरश्चरणसम्पन्नो वीरसिद्धिं समाचरेत्
॥ ९ ॥

P6-0254 · 1
इति मन्त्रस्य श्रोत्रादिपरिज्ञानम् ।
अथ मन्त्राङ्गसङ्केतः :
ज्ञानतन्त्रे :
कैलासशिखरे रम्ये गन्धर्वगणसेविते ।
स्थाणोर्वक्षःस्थिता देवं पृच्छति स्म नगात्मजा ।
पार्वत्युवाच :
गणेशनन्दिचन्द्रेश भूतनाथ मदीश्वर ।
अनेकतन्त्रमन्त्राणां प्रकाशोऽन्तरगाणि च ।
भेदश्च कीलकश्चैव शापोद्धारणमेव च ।
त्वत्प्रासादान्मया नाथ ज्ञातं न संशयः ।
नानातन्त्रेषु देवेश विद्या वर्णम्यी स्मृता ।
इदानीं श्रोतुमिच्छामि मन्त्राङ्गं नामनिर्णयम् ।
मन्त्रसङ्केतकं नाम बहुधा मयि सूचितम् ।
अस्मिंस्तु निर्जने देशे यदि स्नेहोऽस्ति मां प्रति ।
तद्वदस्व महादेव नात्रकार्या विचारणा ।
नो चेत् सत्यं वदाम्यद्य पुरस्कृत्य तवाग्रतः ।
प्राणत्यागं करिष्यामि सत्यं सत्यं न संशयः ।
ईश्वर उवाच :
साधु पृष्टं त्वया भद्रे यद्यन्मे मनसि स्थितम् ।
देवि योषिच्चपलत्वात्पुरा नोक्तं त्वयि प्रिये ।
इदानीं स्थिरतां ज्ञात्वा कथयामि तवानघे ।
न प्रकाश्यं महादेवि कदाचिदपि पार्वती ।
प्रकाशिते महातत्त्वे नश्यन्ति सिद्धयस्तव ।
पुनरुक्तं महादेवि न वक्तव्यं सुनिश्चितम् ।
विना जपेन होमेन पूजया वा दयान्विते ।
येन विज्ञानमात्रेण मन्त्रसिद्धिः प्रजायते ।
मन्त्रसङ्केतमज्ञात्वा यो जपेन्मन्त्रराजकम् ।
शतलक्षजपेनैव मन्त्रसिद्धिर्न जायते ।
तस्मात्सर्वप्रयत्नेन ज्ञातव्याङ्गविभावना ।
तवातिगौरवात्साध्वि जगतां हितकाम्यया ।
वक्ष्यामि शृणु देवेशि सारात् सारतरं महत् ।
एकाक्षरे महामन्त्रे सम्पूर्णं देहरूपकम् ।
विभावयेन्महेशानि नान्यच्च परिचिन्तयेत् ।
प्रथमं बाहूमूलान्तं कट्यन्तं द्वितीयं भवेत् ।
तृतीयं पादमूलान्तं क्रमेण परिचिन्तयेत् ।
चतुरर्णकमन्त्रेषु गण्डान्तं प्रथमं भवेत् ।
बाह्वन्तं द्वितीयञ्चैव नाभ्यन्तं तृतीयं भवेत् ।
चतुर्थञ्च ततो देवि पदान्तं परिचिन्तयेत्
॥ १ ॥

P6-0255 · 2
पञ्चाक्षरे तु मन्त्रे तु पञ्चधा परिकल्पयेत् ।
ग्रीवान्तं प्रथमं देवि बाह्वन्तं द्वितीयं भवेत् ।
तृतीयं कुक्षिपर्यन्तम् ऊर्वन्तं चतुर्थं भवेत् ।
पादान्तं पञ्चमं देवि भवत्येव न संशयः ।
षडक्षरे तु मन्त्रे तु मुखान्तं प्रथमं भवेत् ।
द्वितीयं गलपर्यन्तं बाह्वन्तं तृतीयं भवेत् ।
चतुर्थं हृदयान्तञ्च ऊर्वन्तं पञ्चमं भवेत् ।
पदञ्च षष्ठवर्णञ्च क्रमेण परिचिन्तयेत् ।
सप्ताक्षरे तु मन्त्रे तु मुखान्तं प्रथमं भवेत् ।
द्वितीयं गलपर्यन्तं वाह्वन्तञ्च तृतीयकम् ।
चतुर्थं पृष्ठपर्यन्तं कुक्ष्यन्तं पञ्चमं भवेत् ।
षडर्णमूरुपर्यन्तं पादान्तं सप्तमं भवेत् ।
अष्टाक्षरे महामन्त्रे मुखान्तं प्रथमं भवेत् ।
चिबुकान्तं द्वितीयञ्च गलान्तं तृतीयं भवेत् ।
चतुर्थं बाहुपर्यन्तं पृष्ठान्तं पञ्चमं भवेत् ।
सडर्णमुदरान्तञ्च जायन्तं सप्तमं भवेत् ।
पादान्तमष्टमञ्चैव भावाङ्गेऽपि न संशयः ।
नवाक्षरे तु मन्त्रे तु नासान्तं प्रथमं भवेत् ।
मुखान्तञ्च द्वितीयं स्याद् ग्रीवान्तं तृतीयं भवेत् ।
चतुर्थं बाहुपर्यन्तं कुक्ष्यन्तं पञ्चमं भवेत् ।
षष्ठञ्च मस्तकं ज्ञेयम् स्तनान्तं सप्तमं भवेत् ।
उर्वन्तमष्टमञ्चैव पादान्तं नवमं भवेत् ।
दशाक्षरे तु मन्त्रे तु शिरोऽन्तं प्रथमं भवेत् ।
चिबुकान्तं द्वितीयं स्यात् तृतीयं कर्णयुग्मकम् ।
चतुर्थञ्च भवेद् ग्रीवा पञ्चमं बाहुयुग्मकम् ।
षष्ठं पृष्ठञ्च जानीयात्सप्तमं स्तनमण्डलम् ।
उदरान्तमष्टमञ्च ऊर्वन्तं नवमं भवेत् ।
पादान्तं नवमं ज्ञेयमिति मन्त्राङ्गभावना ।
एवं क्रमेण एकादशाक्षरादीनां मन्त्राणां
वाह्याङ्गविभावनां कृत्वा मन्त्रजपादिकं कुर्यात्
॥ २ ॥

P6-0256 · ohne Nummer
ग्रन्थगौरवभयादन्यन्योक्तम् इति देवताया वाह्याङ्गसङ्केतः ।
परिशिष्टं सम्पूर्ण ॥


Weiterführendes Studium

Die Einordnung, Erläuterungen zur Textgrundlage und Grenzen unsicherer Lesarten findest du im Hauptartikel. Die vollständige Übersetzung ermöglicht das Studium im Zusammenhang; die Lehr- und Gebetsauswahl vertieft ausgewählte Themen. Begleitend bietet das folgende Yoga-Vidya-Video eine heutige Erläuterung; es ist kein Kommentar zu jeder historischen Ritualvorschrift.

Siehe auch

Seminare

Kundalini Yoga

06.11.2026 - 08.11.2026 Kundalini Yoga Einführung

Gründliche Einführung in die Theorie und Praxis des Kundalini Yoga, Yoga der Energie. Die praktischen Übungen des Kundalini Yoga umfassen Pranayama (…
Arjuna Wingen
13.11.2026 - 15.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Manuel Hirning

Indische Schriften

26.12.2026 - 02.01.2027 Indische Rituale Ausbildung

Du interessierst dich für indische Rituale? Du hast die einzigartige Gelegenheit, in dieser Rituale Ausbildung bei Yoga Vidya die kleine Puja, große P…
Sukadev Bretz, Shankari Winkelbauer
01.01.2027 - 10.01.2027 Yogalehrer Weiterbildung Intensiv A1 - Jnana Yoga und Vedanta

Kompakte, vielseitige Weiterbildung für Yogalehrer rund um Jnana Yoga und Vedanta.
Tauche tief ein ins Jnana Yoga und Vedanta, studiere die indischen S…
Vedamurti Dr Olaf Schönert

Chakras

20.11.2026 - 22.11.2026 Heilreise durch die Chakren

Tauche ein in eine transformative Reise durch die sieben Hauptchakren und erfahre, wie du deine Energiezentren aktivieren, ausbalancieren und für dein …
Nese Niekrens, Gajendra Sebastian Niekrens
26.12.2026 - 01.01.2027 Kundalini Yoga Intensiv Praxis - Live Online

Intensives Praktizieren der im Mittelstufen-Seminar gelernten Übungen für noch tiefere Erfahrung und Erweiterung des Bewusstseins ohne viel Theorie. L…
Sukadev Bretz, Shaktipriya Vogt, Radharani Birkner

Energiearbeit

04.11.2026 - 04.11.2026 Einführung in die Chakratherapie - Online Workshop

Uhrzeit: 18 - 21 Uhr
Ein Chakra ist ein feinstoffliches Kraftzentrum des Körpers, welches wichtige Körperfunktionen steuert und bestimmten Organen zug…
Beate Menkarski
06.11.2026 - 08.11.2026 Kundalini Yoga Einführung

Gründliche Einführung in die Theorie und Praxis des Kundalini Yoga, Yoga der Energie. Die praktischen Übungen des Kundalini Yoga umfassen Pranayama (…
Arjuna Wingen