Tripura Rahasya Sanskrit Devanagari Teil 2

Aus Yogawiki
Version vom 17. September 2026, 16:41 Uhr von Yoga Vidya (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „'''Tripura Rahasya Sanskrit Devanagari Teil 2''' bietet den Māhātmyakhaṇḍa, Kapitel 51–80, zusammen mit den angehängten Lob- und Meditationsversen des ''Tripurārahasya'' (त्रिपुरारहस्य). Die Verehrung der Tripura Sundari eröffnet den Zugang zu einer Lehre, die Hingabe und Erkenntnis miteinander verbindet. Devanagari ermöglicht das Studium in indischer Schrift und den Vergle…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

Tripura Rahasya Sanskrit Devanagari Teil 2 bietet den Māhātmyakhaṇḍa, Kapitel 51–80, zusammen mit den angehängten Lob- und Meditationsversen des Tripurārahasya (त्रिपुरारहस्य). Die Verehrung der Tripura Sundari eröffnet den Zugang zu einer Lehre, die Hingabe und Erkenntnis miteinander verbindet. Devanagari ermöglicht das Studium in indischer Schrift und den Vergleich mit der IAST-Umschrift. Die Einführung und die deutsche Übersetzung finden sich unter Tripura Rahasya.

Vorheriger Sanskrit-Teil: Jñānakhaṇḍa mit Tātparyadīpikā Zur Übersicht: Grundtext und deutsche Übersetzung · Tātparyadīpikā – deutsche Übersetzung · Sanskrit: IAST · Devanagari, Jñānakhaṇḍa · Devanagari, Māhātmyakhaṇḍa · Praxis: 108 inspirierende Verse und Mantras

Die Kapitel 1–50 des Māhātmyakhaṇḍa sind in dieser Textgrundlage nicht enthalten. Dieser Teil beginnt daher mit Kapitel 51.


Tripura Rahasya – Sanskrittext in Devanagari: Māhātmyakhaṇḍa

एकपञ्चाशत्तमोऽध्यायः

ललितामाहात्म्ये यागन तुष्टायाः श्रीदेव्याःसमाविर्भावपुरः सरं तदद्भुतरूपवर्णनम्

Kapitel 51

Das Shri Yantra veranschaulicht die Verehrung der Tripura Sundari.

शृणु कुम्भज ! तेनैवं निरस्ताः सर्वतोऽमराः |
दुःखिताः काननेष्वद्रिदरीष्वन्तर्गुहासु च || १ ||

नदीकुञ्जेषु दैत्येशत्रस्ता दैत्यैरलक्षिताः |
ऊषुर्दीर्घतमः कालं क्वचिद्दैत्यैर्विलक्षिताः || २ ||

आकृष्टास्ताडिताः सेवां कुर्युर्भृत्या यथा तथा |
एवं वर्षसहस्राणामतीतं द्विसहस्रकम् || ३ ||

तदा क्वचित्तु देवेन्द्रो ददर्शाऽङ्गिरसं गुरुम् |
प्रणम्य तं प्राह शक्रः बद्धाऽञ्जलिपुटस्तदा || ४ ||

गुरो! मां पश्य शोचन्तं देवेशं त्वत्समाश्रयम् |
चिराय परिदृष्टोऽसि शिष्ये मयि दयां कुरु || ५ ||

नाऽहं सोढुमितः शक्तः कष्टमेवंविधं विभो |
पुरा विधिः प्रार्थितोऽपि मया भूयः स्वयं जगौ || ६ ||

नाऽधुनाऽस्य प्रतीकारे कालो देवपते शृणु |
प्रतीक्ष कालं कालेन विना नो सिध्यतीहितम् || ७ ||

तस्याऽद्य वत्सरा वृत्ता असंख्येया युगात्मकाः |
न तं कालं प्रपश्यामि लेशतोऽपि सुखावहम् || ८ ||

पश्य मां मलिनं दीनं क्षामाऽङ्गं सर्वतो भयम् |
एष कुञ्जः कण्टकितः स्वर्गो नन्दनमेव च || ९ ||

सुधर्मा चाऽत्र मशका गन्धर्वाः स्वरमण्डलाः |
वन्दिनः करटा एते शालूराः स्तुतिवाचनाः || १० ||

रम्भाद्याः खद्योतगणा हंसतूलं शिलातलम् |
उपधानं गुल्मपादो मन्त्राऽह्वानं शिवाध्वनिः || ११ ||

परिषद्बककङ्काद्याः पटवासो महीरजः |
चामराः कण्टकितरुशाखा वात्याप्रवेपिताः || १२ ||

एवं समाचारयुतं पश्यंस्तेन द्रुतं मनः |
नूनं भाग्यं ममैवैतदित्युक्त्वा मूर्च्छितोऽभवत् || १३ ||

तं दुःखमूर्च्छितं दृष्ट्वा गुरुः कारुण्यमागतः |
समाश्वास्याऽमरपतिः प्रोवाचाऽङ्गिरसो वचः || १४ ||

शृणु देवर्षभ! बुधा नाऽनुशोचन्ति कुत्रचित् |
आपत्सु हर्षकलिताः सम्पत्सु समतां गताः || १५ ||

सञ्जना विकृतिं नैव गच्छन्ति विशदाऽशयाः |
शोकं जित्वा विमर्शेन सन्धैर्येण महाजनाः || १६ ||

प्रभवन्ति शुभायैव कालमात्रप्रतीक्षकाः |
शृणु तेऽत्राऽभिधास्यामि व्यवसायं फलावहम् || १७ ||

तपसा तोष्य भूतेशं प्राप्तवान् सर्वतोऽभयम् |
न योनिजैर्मानसैर्वा मृत्युस्तस्य शिवेरितः || १८ ||

द्वैविध्यमन्तरा लोके नाऽस्ति कश्चन कुत्रचित् |
देवाद्यैः पुरुषैश्चाऽपि नाऽस्य मृत्युरुदीरितः || १९ ||

अतोऽमरगणैर्युक्तस्त्रिपुरां परमेश्वरीम् |
प्रयाहि शरणं नाऽस्ति रक्षकोऽन्यः कथञ्चन || २० ||

इत्युक्त्वा मारुतं देवं दध्यौ देवगुरुस्तदा |
ध्यातमात्रो जगत्प्राणः प्रणम्य समुपस्थितः || २१ ||

वाचस्पतिस्तमाहाऽथ शृणु मारुत! मे वचः |
त्वं सर्वदागतिः सर्वप्राणश्चाऽपि महाबलः || २२ ||

नय शक्रं हिमगिरेः शिखरं व्योममार्गतः |
शीघ्रमन्यान् सुरान् सर्वान् पावकप्रमुखानपि || २३ ||

ततस्ततो दैत्यगणैरानयाऽलक्षितो भृशम् |
तत्र पौरुषयोगेन साध्यं सर्वसमीहितम् || २४ ||

ओमित्युक्त्वा निमेषेण देवान् सर्वान् समानयत् |
समेता हिमवच्छृङ्गे शक्राद्याः सर्वतोऽमराः || २५ ||

अथ वायुं प्रेषयित्वा चाऽनिनाय गुणेश्वरान् |
निश्चित्य भण्डदैत्यस्य विजयाय समीहितम् || २६ ||

त्रिपुरां परमेशानीं विना नेह गतिः क्वचित् |
एवं विधिमुखा देवास्त्रिपुरां परमेश्वरीम् || २७ ||

दध्युः सर्वजगद्धात्रीं निगृहीताऽक्षमारुताः |
एवं तेषामगाद्ध्याननिष्ठानां वत्सरं शतम् || २८ ||

अथ देवा मन्त्रयित्वा त्रिपुराप्रीतिहेतवे |
महायागेन त्रिपुरामयजन् तन्त्रमार्गतः || २९ ||

समाप्तेऽथ महायागे मन्त्रद्रव्यसुसम्भृते |
यत्र ब्रह्माऽभवद्ब्रह्मा आचार्यो गुरुरेव च || ३० ||

ऋत्विजः शिवविष्ण्वाद्या यागे तस्मिंस्तदाऽभवन् |
प्राप्तेऽन्त्यदिवसे तस्मिंश्चिद्भावप्रविभाविते || ३१ ||

यागवन्हौ चिदाकारे महाकुण्डसमेधिते |
अयजत् पूर्णयाऽहुत्या गुरुर्ध्यायन् पराम्बिकाम् || ३२ ||

तदा भक्त्या संस्तुवत्सु देवेषु त्रिपुराम्बिका |
प्रादुरासित् कुण्डमध्याच्चिदग्नेर्ज्वलतोऽन्तरात् || ३३ ||

पूर्णाऽहुत्यां हुतायां वै कुण्डे जज्वाल पावकः |
योजनैकसमुच्छ्राया ज्वालाऽत्यन्तं व्यवर्धत || ३४ ||

तत्राऽभवन्महाशब्दः पर्वतस्येव भिद्यतः |
शताऽशनिनिपातात्मा भिन्दंच्छ्रोत्राणि नाकिनाम् || ३५ ||

ततोऽमराणां चक्षूंषिं मुष्णन् प्रौढेन तेजसा |
सकृत् सुदामिनीकोटिसङ्घट्टसदृशच्छविः || ३६ ||

महाप्रकाश उदभूद्वह्निज्वालाऽन्तरे तदा |
महता ध्वनिना तद्वत्तेजसा च बुधास्तदा || ३७ ||

बधिराऽन्धीकृताः सर्वे मूर्च्छिता आपतन् भुवि |
विना गुरुं त्रिमूर्तिभ्यः पतिताः सर्व एव ते || ३८ ||

तत्तेजोमध्यतः प्रादुरासीच्छ्रीत्रिपुराऽम्बिका |
तरुणाऽरुणपुञ्जाऽङ्गसम्प्रदायतनुच्छविः || ३९ ||

विद्युल्लतेव विद्योतत्तनूद्यत्तनुवल्लरी |
विद्युल्लताविकसितापूर्णचन्द्राऽम्बुजाऽनना || ४० ||

कवरीतिमिरौघोद्यत्सिन्दूराऽरुणसुप्रभा |
तारकाजालवद्व्योमकवरीरत्नभूषणा || ४१ ||

दीर्घवेणीभोगिवक्त्रनिर्यत्सीमन्तजिह्विका |
सिन्दूराऽरुणलोहित्याऽक्षिप्तकेशनभोऽङ्गणा || ४२ ||

विपर्यस्ताऽर्धचन्द्राऽङ्कफाले राजद्विशेषिका |
कुन्तलाऽलिगणाऽकीर्णविकसद्वदनाऽम्बुजा || ४३ ||

मुखसौन्दर्यसरसीनीलाऽम्बुजनिभेक्षणा |
कन्दर्पकोटिजननमन्त्राऽकूतसमीक्षणा || ४४ ||

क्षीराऽब्धिकोटिलहरीसम्भवाऽपाङ्गसुन्दरा |
चाम्पेयकलिकासम्पत्प्रपोषकसुनासिका || ४५ ||

कुरुविन्दाऽदर्शशोभाप्रोल्लसद्गण्डमण्डला |
अपाङ्गसरिदुन्मज्जत्ताटङ्कमणिनीरजा || ४६ ||

ताटङ्काऽम्बुजसंस्थानमुक्ताऽवलिमरालिका |
कर्णभूषाकान्तिचापकटाक्षशरसन्ततिः || ४७ ||

पक्वदाडिमबीजात्मदन्तलौहित्यदच्छदा |
विकसद्रक्तकुमुदाऽन्तरकिञ्जल्कदच्छविः || ४८ ||

प्रवालदच्छदोदञ्चद्दन्तकुन्दसुकोरका |
मन्दहंसक्षीरनिधिप्रवालरदनच्छदा || ४९ ||

मुखमाणिक्यकमलवृन्ताऽभचिवुकोज्ज्वला |
मणिग्रैवेयकाकल्पलसद्गीवाऽब्जसुन्दरा || ५० ||

पाणिरत्नमृणालोद्यत्पद्मकोशस्तनद्वयी |
माणिक्यदेहलतिकास्तनस्तवकशोभिनी || ५१ ||

मुखचन्द्रप्रभाभीतिनिलीनकुचकोकिका |
मन्दस्मितसरित्पूरखेलत्कुचमरालिका || ५२ ||

तनुवल्लीशाखिकोद्यत्पाणिपल्लवलोहिता |
करप्रवालाऽग्रजपाकोरकाऽङ्गुलिमण्डिता || ५३ ||

सृणिपाशधनुर्बाणैर्लसद्बाहुचतुष्टया |
वलयाऽङ्गदरत्नोर्मिकूर्पासविलसद्भुजा || ५४ ||

मुखपद्ममृणालाऽभमुक्ताहारलतोज्ज्वला |
रोमाऽलितनुनालोद्यत्कुचद्वन्द्वाऽब्जकुड्मला || ५५ ||

रोमाऽलिवल्लरीमूलनाभिनिम्नाऽलवालिनी |
नाभिसरोन्नीतरोमलताशैवालवल्लिका || ५६ ||

कौसुम्भरत्नवसनसमाच्छन्ननितम्बिनी |
ऊर्ध्वाऽङ्गधारणामात्रनिमित्तप्राप्तमध्यमा || ५७ ||

सूक्ष्माऽभ्राऽभांऽशुकाऽन्तस्थदृश्यतारकभूषणा |
माणिक्यकदलीकाण्डपारिभाव्यूरुमण्डला || ५८ ||

पद्मरागनिषङ्गाऽभजङ्घायुगसुमण्डिता |
कमठीपृष्ठविभवसूचनप्रपदाऽन्विता || ५९ ||

मणिनूपुरसंराजत्किङ्किणीचारुसिञ्जिता |
विकसत्पद्मसौभाग्यवदान्यपदपङ्कजा || ६० ||

पादाम्बुजप्रविलसन्मणिहंसकमण्डिता |
नखचन्द्रसुधास्यन्दहृतसन्नततप्तता || ६१ ||

मरालीमन्दगमनकुलाऽचार्यपदद्वयी |
भक्तवाञ्छावितरणपदमन्दारपल्लवा || ६२ ||

एवमाविर्भवन्तीं तां दृष्ट्वा ब्रह्मादयस्तदा |
दण्डवत् प्रणता भूत्वा जय देवीति तां जगुः || ६३ ||

तत्र वाचस्पतिर्नत्वा भूयः प्रोत्थाय तां पराम् |
पश्यंस्तद्दर्शनोद्भूतहर्षवारिधिसम्प्लुतः || ६४ ||

उत्तंसितकरद्वन्द्वसम्पुटोद्यत्सरोरुहः |
नेत्राऽम्बुजस्रवद्धर्षवारिपूरपरिप्लुतः || ६५ ||

अस्तौषीदतिसुप्रेमभरगद्गदमन्थरः |
रचनाचातुरीमोदैर्मोदयंस्त्रिपुराम्बिकाम् || ६६ ||

तव विभवविलासं वर्णितुं मे न शक्तिर्यदिदमपि मयोक्तं तावकी नैव शक्तिः |
न हि भवति ततो मे वाक्पतित्वस्य हानिर्यदि भवति तदा स्यात्त्वत्प्रसादस्य हानिः || ६७ ||

सुरगुरुरहमेवं वच्मि यत्तत्त्वमेव त्वमहमिदमितीयत्सर्वमम्ब त्वमेव |
तत इह न हि मे स्तो हानिलाभौ तरङ्गे मधुरकटुरसौ वा क्षीरसिन्धोरिवाऽन्यौ || ६८ ||

यदिह विविधभेदं प्रेक्षते मूढदृष्टिर्मुकुरतलविराजच्चित्रवद्भासमानम् |
यदिदमिह पुरस्ताद्दर्शितं दिव्यरूपं तदपि च कृपया नः पूर्ववन्माययैव || ६९ ||

विबुधसमुदयानां स्वं वरं मन्यमानो जननि तव विलासैर्मोहितो मूढबुधिः |
तब निरवधिशक्तिं वर्णितुं दृश्यभेदं विहततर्कैस्तैर्थिकस्त्वामजानन् || ७० ||

विविधवचनजालैरस्ति नास्तीति पक्षैर्विवदनपरमाणां याति कालो वृथैव |


क्षणमपि जगदम्ब त्वत्कलां चिन्मयीं ये निजहृदि विमृशन्तः संस्थितास्ते हि धन्याः || ७१ ||

विगतविषयतृष्णावासने स्वाऽन्तरङ्गे विमलमुकुरतुल्ये निश्चले स्वात्मनैव |
तव जननि कलां तां योगिनः प्रेक्षमाणाः परमसुखपदस्थास्ते हि धन्या जयन्ति || ७२ ||

इति चिरतरकालं त्वत्स्वरूपं विमृश्याऽन्तरभुवि दृढभावाः स्युर्निसर्गस्वभावाः |
तदनु बहिरशेषं त्वत्स्वरूपं मृशन्तः त्वयि परमविलासास्ते हि योगीन्द्रपूज्याः || ७३ ||

अहमपि ललिते त्वत्पादपद्मस्य कञ्चित् परिचयमभिगम्याऽन्तः सदा सर्वतोऽपि |
वचनविरचनानां चिन्तनानामपि त्वामणु किमपि विना नाऽवैमि तत्त्वां नतोऽस्मि || ७४ ||

इति स्तुत्वाऽमरगुरुः प्रणतो दण्डवद्भुवि |
गुणभूता विधिमुखा अपि तुष्टुवुरम्बिकाम् || ७५ ||

जय जय जननि जगल्लयपालनसर्जनविभवे समाचितिरूपे |
सर्वाऽभासनतनुरपि वितता संविदनुत्तरमात्रशरीरा || ७६ ||

नैपुण्यमेतद्द्र्पणसदृशं भाहनिरोपेऽप्यतिचित्रं ते |
विजयत्येतत्तव दुर्घटनाघटनाशक्तिर्महती सत्ता || ७७ ||

स्वं रूपं तद्विततमपीश्वरि दुर्घटशक्त्या परिमितरूपम् |
कृत्वा दर्शनदृश्यविभेदान् विधिधान् सर्वान् परिभासयसि || ७८ ||

एवं स्वीयं रूपमनेकं परिमितरूपा पश्यन्ती त्वम् |
बन्ध्कं चित्परिमृष्याऽन्तर्यत्नाद्भूयो भासि यथावत् || ७९ ||

स्वात्माऽदर्शे प्रविततलीलां भावयसीत्थं स्वातन्त्र्यात्त्वम् |
दृष्ट्वा कल्पितमेतत्स्वीयं नन्दस्यनिशं देवि ! नमस्ते || ८० ||

सन्ततलीलामिति यः कश्चन शक्त्या भिन्नस्तव जानीयात् |
स च लोकानां त्वमिव महेश्वरि ! लीलाद्रष्टा नन्दति देवः || ८१ ||

गूढं रूपं तव सविलासं द्रष्टुं शक्ता न हि ये दीनाः |
तेषामेतत्परमं रूपं प्रकटितमक्ष्णोः फलसंजननम् || ८२ ||

कुङ्कुमशोणं गुरुकुचनम्रं चन्द्रकलाढ्यं सुलिलतरूपम् |
सृणिशरचापान् पाशं बिभ्रद्वयमिह भूयः प्रणमामस्तत् || ८३ ||

स्तुत्वैवमपि ब्रह्माद्याः प्रणेमुः पादसन्निधौ |
अथ तान् प्राह परमा वत्सा उत्तिष्ठत द्रुतम् || ८४ ||

एषाऽहं कृतसन्नाहा प्राप्ता शत्रुवधाय वः |
किं वोऽभिलषितं भूयः प्रतीच्छध्वं गुणेश्वराः || ८५ ||

त्वमप्याङ्गिरस ब्रूहि वाञ्छितं किं ददामि ते |
निशम्यैवं वचो देव्याः प्रोचुर्ब्रह्मादयस्तत. || ८६ ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे ललितामाहात्म्ये भगवतीललिताऽविर्भाववर्णनं नामैकपञ्चाशत्तमोऽध्यायः || ४२३३ ||

द्विपञ्चाशत्तमोऽध्यायः

देवेभ्यः समाश्वस्तेभ्यो वृहस्पत्यनुरोधेन देव्या स्वरूपदर्शनार्थं श्रीसुक्तजपविधानवर्णनपुरःसरं मन्त्रिभिः सह मन्त्रणमनुभण्डद्वारा देवगणत्रासाय ससज्जीभवनं त्रिपुराविर्भाववर्णनम्

Kapitel 52

शृणु कुम्भोद्भव ! मुने ! ब्रह्मादिनां वचस्ततः |
प्राहुर्ब्रह्ममुखा देवीं भक्तिनम्रसुमूर्तयः || १ ||

भूय एवं महापत्सु जगतां रक्षणोद्यता |
विधेयममराऽरीणां शत्रूणां प्रविहिंसनम् || २ ||

मातः ! शृणु कथं भण्डदैत्यो भूयस्त्वया हतः |
नूनं त्रिलोचनेनाऽसौ सर्वतोऽमरतां गतः || ३ ||

कथं वाऽमरकार्यं स्यात् कथं चाऽसुरघातनम् |
श्रुत्वैवं धातृमुख्यानां वचः सा प्राह शङ्करी || ४ ||

मा कृथाः पद्मयोने त्वं शङ्कामत्राऽसुराऽहतौ |
माऽहं योनिसमुद्भूता मनसा वाऽपि कस्यचित् || ५ ||

अग्निकुण्डसमुद्भूता स्त्रीस्वरूपाऽस्म्यलौकिकी |
अप्रसिद्धेन चाऽस्त्रेण निहन्म्येनं महासुरम् || ६ ||

शुत्वैवं ललितावाक्यं जहुश्चिन्तां गुणेश्वराः |
अथोवाचाऽमरगुरुः पराशक्तिं कृताञ्जलिः || ७ ||

देवि ! त्वां सर्वजननीमेवंरूपां महेश्वरीम् |
पश्यन्तु शक्रप्रमुखा भूयासुस्तेन पाविताः || ८ ||

निशाम्याऽङ्गिरसवचः प्राह सा त्रिपुरेश्वरी |
शृणु जीवशक्रमुखा नैवं शक्तिमयीं तनुम् || ९ ||

ममैते द्रष्टुमप्यर्हा नाऽन्यैर्दृष्टमिदं वपुः |
न हि साधारणः कश्चिदेवंरूपां प्रपश्यति || १० ||

यूयं मेऽस्यास्तनोर्भक्ताश्चैतद्ध्यानपराः सदा |
अतो वो दर्शितं चैतन्नान्यैर्दृष्टं कदाचन || ११ ||

रूपान्तरं परिमितं तत् प्रपश्यतु वज्रभृत् |
अथ भूयोऽपि बहुधा प्रार्थयामास तां गुरुः || १२ ||

प्रदर्शयैतच्छक्राय चेति सा गुरुमब्रवीत् |
यदि मामीदृशीं शक्रः पश्येत्तच्छृणु वच्मि ते || १३ ||

मां समाराधयतु स श्रीसूक्तविधिना ततः |
दर्शयिष्यामि तस्मै स्वमिदं रूपं न संशयः || १४ ||

इत्युक्त्वा मूर्च्छितान् देवान् सुधादृष्ट्या प्रबोध्य सा |
अन्तर्धानं ययौ तत्र ब्रह्मादीनां प्रपश्यताम् || १५ ||

अथोत्थिताः शक्रमुखा देवाः सर्वे बृहस्पतेः |
श्रुत्वा श्रीत्रिपुरादेव्या आविर्भावं ततो वृषा || १६ ||

देवैः समेतो गुरुणा विज्ञातोपासनक्रमः |
लक्ष्मीसूक्तविधानेन भक्तिश्रधाऽतिनिर्भरः || १७ ||

आराधयामास परां त्रिपुरां परमेश्वरीम् |
एवं तस्याऽराधयतो मासाः षट् पञ्च चाऽत्ययुः || १८ ||

तदन्तरे दैत्यगुरुर्ज्ञात्वाऽमरविचेष्टितम् |
भण्डासुराय तद्वृत्तं ज्ञापयामास सर्वशः || १९ ||

शृणु दैत्यपते शत्रुः सुरेशो हिमवद्गिरौ |
साम्प्रतं परमां शक्तिमुपतिष्ठति भक्तितः || २० ||

सा प्रसन्ना क्षणेनैव त्वां सपुत्रं सबान्धावम् |
ध्वंसयिष्यति दावाग्निस्तृणदारुचयं यथा || २१ ||

यतस्व तावदेव त्वं यावन्नाशं न यास्यसि |
नाऽत्रोपास्यो दृश्यतेऽन्यः साम्नो बलवदाश्रिते || २२ ||

दिवं भुवं समर्प्याऽशु सधनं सपरिच्छदम् |
इन्द्राय पातालमात्रराज्यस्तां जगदीश्वरीम् || २३ ||

प्रयाहि शरणं देवीमन्यथा नाशमेष्यसि |
इत्युक्त्वा पूजितस्तेन जगामाऽभिमतां गतिम् || २४ ||

अथ भण्डासुरो दैत्यो मन्त्रिभिर्मन्त्रशिक्षणैः |
मन्त्रयामास दैत्योऽसौ सेवितः शून्यके पुरे || २५ ||

राज्ञाऽज्ञप्ता मन्त्रिणस्ते प्रोचुः स्वस्वमताऽनुगम् |
कश्चित् साम भेदमन्यः परोदानमुवाचह || २६ ||

दण्डमाहुस्तथा केचिदेवं व्याकुलिता सभा |
तदन्तरे विशुक्रस्य पुत्रः शुक्रसमो मतः || २७ ||

श्रुतवर्मेति विख्यातः प्राह नत्वा सुरेश्वरम् |
शृणु राजन्नर्थशास्त्रमर्यादासहितं वचः || २८ ||

बाह्यदृष्टिर्दोषवती निसर्गेणैव चञ्चला |
दृष्ट्या बुद्ध्याख्यया सत्त्वरूपया विमृशेत् कृतिम् || २९ ||

अविमृश्यकरो वह्नौ पतङ्ग इव नश्यति |
सुविमृश्यकरो यस्तु तं सम्पत् प्रवृणोत्यलम् || ३० ||

मन्त्री वृठाऽभिनिवेशः स्फुटदृष्टिर्द्रतग्रहः |
राजाऽहिमतवक्ता च सततं स्वार्थतत्परः || ३१ ||

नाशयेद्राज्यसहितं राजानं नाऽत्र संशयः |
यथा नौरासनच्छिद्रा सपान्थं नाविकं जले || ३२ ||

तस्माद्दुर्मन्त्रिणस्त्याज्या राज्ञा राज्यं बुभूषता |
शृण्वहं तेऽभिधास्यामि कर्तव्याऽनन्तरक्रियाम् || ३३ ||

महाराज ! त्वया देवात्तपसा तोषितात् पुरा |
अप्राप्तमभयं स्त्रीभ्यो मत्वाऽल्पमिति ते मुधा || ३४ ||

तदत्र न हि विस्रम्भः पुरा महिषदानवः |
राज्यं त्रिभुवने प्राप्य स्त्रिया विनिहतो बली || ३५ ||

पुरा शुम्भनिशुम्भौ च बलिनावतिविक्रमौ |
हतौ युद्धे चण्डिकया सबलाविति नः श्रुतम् || ३६ ||

जये लिङ्गं न हेतुः स्यान्निमित्तंबुद्धिविक्रमौ |
अन्यच्च तेऽभिधास्यामि चिरमेतद्धि संस्थितम् || ३७ ||

दैत्यदानवरक्षःसु यो यः शुभतरो ह्यभूत् |
तं तमुद्धरते विष्णुर्मार्गस्थमिव कण्टकम् || ३८ ||

तं नः श्रुतं तेन दैत्यरिपुणा हरिणा खलु |
तोषिता परमाशक्तिराविर्भूता वधाय ते || ३९ ||

होमाऽग्निकुण्डाद्यद्योनिमनोभ्यां न च साऽभवत् |
अमानसा योनिजेभ्यो नाऽमरत्वं त्वया वृतम् || ४० ||

आचार्यो भगवान् शुक्रः सर्वबुधिमतां वरः |
स यदाह न चाऽल्पं तद्विधि दैत्यगणेश्वर ! || ४१ ||

तस्माद्गुरूक्तमेवेह युक्तं मे प्रतिभासते |
मनीषिणा सर्वयत्नैर्निरस्यं कालजं भयम् || ४२ ||

अभये विक्रमो वर्यः शान्तिरेव भयाऽगमे |
सर्वथा मूलनाशो हि शक्त्याऽपोह्यः प्रजानता || ४३ ||

कृत्ते मूले फलाशा का मूलगोपे फलोदयः |
अत्र मेऽभिमतं राजन् शृणु बुद्ध्या विचारितम् || ४४ ||

गुरूक्तरीत्या संशान्तिं सम्पाद्य प्रकृते पुनः |
तपसा पूर्ववद्देवान् शेषं भयमपोह्य च || ४५ ||

ततो भूयस्त्रिजगतीं वशे कुरु सुविक्रमः |
इति तेऽभिहितो मन्त्रो नाऽतः क्षेमं भवेत् क्वचित् || ४६ ||

विमृश्य यदभीष्टं ते तदाचर न ते चिरम् |
श्रुतवर्मवचः श्रुत्वा भण्डो दैत्यपतिर्वचः || ४७ ||

प्राह तं दूषयन्नेव पक्षं दैत्यसभागतः |
मर्तुकामस्याऽगदवन्न तत्तस्य ह्यरोचत || ४८ ||

तदन्तरे मदोन्मत्तो दैत्यः प्रोवाच भूपतिम् |
दैत्येश्वर मया प्रोक्तं शृण्वत्राऽतिसुखावहम् || ४९ ||

न प्रवेश्या मन्त्रगोष्ठ्यां बालाः कातरतां गताः |
एष बालस्तव भुजबलं नो वेत्ति किञ्चन || ५० ||

भीरोर्विप्रस्योशनसो वाक्यादतितरामयम् |
राज्ञां युद्धप्रसङ्गेषु का विप्रस्य भवेन्मतिः || ५१ ||

बिप्रा वैतानधिषणा वेदविद्याविचक्षणाः |
निमन्त्रणविधानज्ञास्तेषां युद्धेषु का गतिः || ५२ ||

स्वधीतेस्तीक्ष्णधाराज्ञाः शूराः कुशसमित्स्तृतौ |
न खड्गधारां जानन्ति न शूराः शरसंस्तृतौ || ५३ ||

हन्त विप्रैरपि यदि युद्धं मन्त्रेण जीयते |
ग्रामसिंहबिभीषितैस्तदेभा मूत्रमुत्सृजुः || ५४ ||

यदि विप्रा युद्धकृत्यमपि जानीयुरुद्धतम् |
तर्हि मत्तेभकुम्भस्य विपाटो जम्बुकैः कृतः || ५५ ||

उत्तिष्ठैष क्षणो राजन्न विश्रान्तिं समर्हति |
योषिद्वा पुरुषो वापि नोपेक्ष्यः शत्रुतां गतः || ५६ ||

हन्ताऽद्य योषिद्दैत्येन्द्र मेरून्मूलनविक्रमम् |
विजेष्यति प्रतापाऽर्कसन्तापितजगत्त्रयम् || ५७ ||

तदा नीलोत्पलदलैर्निर्भिद्येत महीधरः |
कुशाग्रैरपि विद्धः स्याल्लोहशैलो निरन्तरः || ५८ ||

अथ वा त्वमिहैवाऽस्व कामभोगपरः सुखम् |
मामाऽज्ञापय ते भृत्यं गत्वाऽहं तान्निमेषतः || ५९ ||

ब्रह्मादींस्तां च बद्ध्वा वा हत्वा वोपहरामि ते |
श्रुत्वैवं दैत्यवचनं प्रहृष्टो भण्डदानवः || ६० ||

प्रहस्य श्रुतवर्माणं प्राह कालवशं गतः |
वत्स ! किं युद्धवार्ताभिरेव भीतोऽसि वै मुधा || ६१ ||

नैवमस्मत्कुले कश्चिज्जातो वा भविताऽपि वा |
यः स्त्रियो युद्धवार्ताभिरेव भीतो नपुंसकः || ६२ ||

बालोऽसि गच्छ कान्ताभिश्चाटुभाषणमर्हसि |
धिङ्मां यस्त्वादृशं चक्रे मन्त्रिणं मन्त्रनाशकम् || ६३ ||

धीराणामपि धैर्याऽद्रिवज्रवाक्कौशलं खलम् |
इत्युक्त्वा प्रोत्थितः खड्गहस्तो देवान् विहिंसितुम् || ६४ ||

कोटिकोट्यसुरैर्युक्तः शूरैश्चित्राऽयुधैर्ययौ |
यत्र शक्रमुखा देवास्त्रिपुरां समुपस्थिताः || ६५ ||

आगतं भण्डदैत्येशं श्रुत्वा शक्रमुखाः सुराः |
अत्यन्तभीता देवेशीमुच्चः पाहीति संजगुः || ६६ ||

भीतान् विदित्वा त्रिपुरा प्राह नित्यां चतुर्दशीम् |
गच्छ ज्वालामालिनि त्वं रक्ष भीतान् सुरान् द्रुतम् || ६७ ||

आज्ञप्तैवं यतो दैत्या आयान्त्यमरहिंसकाः |
ज्वालया तान् रुरोधोच्चैर्ज्वालामालिनिका शिवा || ६८ ||

दृष्ट्वा ज्वालावृतं देशं मत्वा दावाग्निसम्प्लुतान् |
हतान् देवान् प्रहर्षेण भण्डदैत्यः पुनर्ययौ || ६९ ||

देवाश्च दैत्यसेनानां श्रुत्वा कोलाहलं भृशम् |
वित्रस्ता मर्तुकामास्ते छित्त्वाऽङ्गानि समन्ततः || ७० ||

अग्निकुण्डे देवतायाः प्रीतये जुहवुः पृथक् |
अशेषाऽङ्गानि हुत्वैवं पूर्णाहुतितया तनुम् || ७१ ||

विशिष्टां होतुकामास्ते पेठुर्मन्त्रानुपांशुतः |
तदन्तरे सा त्रिपुरा भक्तरक्षापरायणा || ७२ ||

कुण्डमध्यादाविरासीत्तडित्कोटिसमप्रभा |
जातश्चटचटाशब्दः कुण्डमध्यान्महोन्नतः || ७३ ||

ज्वाला व्यवर्धताऽतीव वह्नेस्ते ददृशुः सुराः |
ज्वालामध्ये महादेवीं सर्वसौन्दर्यसन्ततिम् || ७४ ||

हृष्टा जय जयेत्युच्चैरवोचुर्दण्डवन्नताः |
अथोत्थाय शक्रमुखास्तुष्टुवुस्तां महेश्वरीम् || ७५ ||

आजग्मुर्ब्रह्मविष्ण्वाद्या मुनयश्चर्षयस्तथा |
पुष्पवृष्टिरभूद्व्योम्नो नेदुर्दुन्दुभयोऽपि च || ७६ ||

ववुर्वाताः सुखस्पर्शाः सुगन्धा मृदुसञ्चराः |
ब्रह्माद्याः सर्वतस्तस्याः पूजां चक्रुर्यथाविधि || ७७ ||

महोपचारमाल्याद्यैरुपहारैर्विशेषतः |
विविधैर्भक्ष्यभोज्याद्यैरासवैः पिशितैरपि || ७८ ||

एवं सम्पूज्य देवेशीं तोषयामासुरुच्चकैः |
गायनैर्नृत्यवाद्यार्द्यैरुत्सवैरपि भूरिशः || ७९ ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे ललितोपाख्याने देवानामार्त्तप्रार्थनया त्रिपुराविर्भाववर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः || ४३१२ ||

त्रिपञ्चाशत्तमोऽध्यायः

ललितामाहात्म्ये यागेन तुष्टायाः श्रीदेव्याःसर्वदेवदर्शनार्थं श्रीमेरुपर्वते स्वाधिष्ठानस्थापनवर्णनम्

Kapitel 53

अथ शक्रमुखा देवा दृष्ट्वा तां परमेश्वरीम् |
विधातृमुख्यानूचुस्ते देव्याः संस्थानहेतवे || १ ||

श्रुत्वाऽमरवचो ब्रह्ममुखास्तां जगदीश्वरीम् |
प्रणम्य प्रार्थयामासुर्यत्तच्छृणु घटोद्भव ! || २ ||

परमेश्वरि ! शक्राद्यैस्तव संस्थानमीहितम् |
अस्यां जगत्यां यन्नित्यं पश्यामस्त्वां महेश्वरीम् || ३ ||

वयं गुणेश्वरा नित्यं त्वत्कृपाऽत्तमहित्वतः |
प्राप्य त्वदीयं ते लोकं पश्यामस्त्वत्पदाम्बुजम् || ४ ||

एते शक्रादयो देवा नियत्या नियतास्तव |
ब्रह्माण्डभेदं नाऽर्हन्ति तत्त्वां द्रष्टुमभीप्सवः || ५ ||

तदत्र लोकं निर्माय निवासं कर्तुमर्हसि |
प्रार्थितेत्थं ब्रह्ममुखैस्त्रिपुराम्बा महेश्वरी || ६ ||

मेरुशृङ्गे विश्वकर्मनिर्मिते नगरे शुभे |
अवसत् सपरीवारा यथा लोके स्वके तथा || ७ ||

अथाऽर्थिता निजाऽर्धांशशविभागपरिकल्पितम् |
कामेश्वरं पतिं चक्रे समूढाऽभवदम्बिका || ८ ||

इत्थं हयाऽस्यगदितं निशम्य घटसम्भवः |
पप्रच्छ विभवश्रुत्यां परायां जातकौतुकः || ९ ||

हयग्रीव ! दयासिन्धो ! कुत्र संस्थं हि तत्पुरम् |
कीदृशं किं प्रमाणञ्च यस्मिन् वसति सा परा || १० ||

इन्द्रादीनामप्रवेश्यं विश्वशिल्पिः कथं नु तम् |
ज्ञातवान्नाम किं तस्य संस्थानञ्चाऽपि कीदृशम् || ११ ||

अथाऽपि शक्रप्रमुखैः श्रीसूक्तविधिना ननु |
आराधिता सा त्रिपुरा प्रसन्नाऽभवदम्बिका || १२ ||

विधानं कीदृशं तस्य सूक्तञ्चाऽपि कथंविधम् |
किं माहात्म्यं भवेत् सूक्तमेतन्मे वक्तुमर्हसि || १३ ||

भक्तस्य तव शिष्यस्य कृपां कुरु हयानन ! |
इत्थं पर्यनुयुक्तः स हयास्यो मुनिसत्तमः || १४ ||

मत्वा योग्यं हि तछ्रुत्वा निजगाद स हर्षितः |
शृणु कुम्भज वक्ष्यामि भक्तिश्रधायुतो ह्यसि || १५ ||

नैतदश्रद्दधानाय चाऽभक्ताय शठाय च |
वक्तुमर्हं सर्वथैव धन्योऽसि त्वं महीतले || १६ ||

यत्कथाश्रवणोत्साह ईदृशस्तव दृश्यते |
एतस्य कारणं वेद्मि नैतदल्पफलं मुने ! || १७ ||

गुणमूर्तिषु सर्वेषां भक्तिः साधारणी भवेत् |
त्रिपुरापादभक्तिस्तु दुर्लभा सर्वतो भवेत् || १८ ||

यत्र स्यात् त्रिपुराभक्तिस्तञ्जन्म चरमं भवेत् |
शिवविष्ण्वादिभक्तिस्तु द्वाअरमत्र प्रकीर्तितम् || १९ ||

क्रमेणाऽराध्य विष्ण्वादीन् प्राप्य श्रीपादसेवनम् |
मुच्यते सर्वथा जन्तुर्नान्यथा कल्पकोटिभिः || २० ||

अत्रोपपत्तिं वक्ष्यामि संशयस्ते भवेन्न हि |
लोके साम्राज्ययुक्तस्य येऽनुगास्तारतम्यतः || २१ ||

मुख्या मध्यास्तथा हीनास्ते तुष्टाः स्वपदं प्रति |
अनिरोधं स्वोपरिस्थप्राप्तौ मार्गं दिशन्ति च || २२ ||

यथाऽदौ द्वारिकस्तुष्टो द्वारेष्वप्रतिबन्धनम् |
प्राङ्गणेशप्राप्तिमाप दिशत्येव घटोद्भव ! || २३ ||

ब्रह्माद्या गुणसम्भूतास्तत्समाराधका इति |
न सन्देहस्तव भवेत् सुप्रसिद्धतयैव च || २४ ||

वस्त्वद्वैतेऽपि लौकिक्या दृष्ट्या तन्नियतेः स्फुटम् |
मुख्यगौणप्रभेदश्च यथा देहेषु वै शिरः || २५ ||

नाऽत्राऽश्वासो दुष्कृतिनामन्धानाञ्च प्रपश्यताम् |
ये च पादभवा देवाः सदा सेवनतत्पराः || २६ ||

त्वं महाभाग्यवान् ब्रह्मन् प्राप्तो यच्छ्रीपरारतिम् |
एतत् सङ्गस्य माहात्म्यमहो भाग्यमहो तपः || २७ ||

शृणु ब्रह्मंस्तव परापादभक्तिप्रयोजकम् |
यत्ते प्रिया सती लोपामुद्राऽख्या राजकन्यका || २८ ||

पुरा सा पितृगेहस्था प्राप भक्तिं परापदे |
तद्धेतुं ते प्रवक्ष्यामि न तज्जानाति कश्चन || २९ ||

त्रिपुरामुख्यशक्तिस्तु भगमालिनिकाऽभिधा |
तत्सेवनपरो राजा सर्वदा सर्वभावतः || ३० ||

बाल्यादियं शुद्धचित्ता पितृसेवापरायणा |
पितुर्दृष्ट्वोपासनायाः क्रमं देव्या यथाक्रमम् || ३१ ||

राज्यकर्म करे तस्मिंस्तां समाराधयत्यसौ |
एवं चिराऽराधनेन भक्त्या भावनयाऽपि च || ३२ ||

तुतोष सा भगवती वरेण समच्छन्दयत् |
वव्रे चाऽसौ सर्वजगत्पूज्यायाः पादसेवनम् || ३३ ||

प्रसन्ना साऽपि सद्विद्यां त्रैपुरीं समलक्षयत् |
लक्षिता चाऽपि तां विद्यां वाक्समुद्रपरिप्लुताम् || ३४ ||

समुद्धरद्रत्नमिव ततस्तस्य प्रसादनात् |
विद्या ऋषित्वं सम्प्राप्ता तन्नाम्ना सा स्फुटङ्गता || ३५ ||

तस्याः सङ्गप्रभावेण तव भक्तिसमुद्गमः |
इति श्रुत्वा कुम्भभवः पत्न्या विभवविस्तरम् || ३६ ||

प्रसन्नः पूजयामास पत्नीं श्रीपादतत्पराम् |
अथाऽवदद्धयास्योऽपि प्रसन्नः कुम्भजन्मने || ३७ ||

शृणु ते सम्प्रवक्ष्यामि कलशीसुत ! संयतः |
श्रीसूक्तस्य विधानं यत्पृष्टं परमपावनम् || ३८ ||

न वक्तव्यमभक्ताय नाऽन्यदेवपराय च |
विद्येवैतद्गोपितव्यं सर्वत्राऽतिसुगोपितम् || ३९ ||

श्रीसूक्तं षोडशर्चं तदादि वेदसमुद्भवम् |
पुरा श्रिया सुदृष्टं तद्वेदाऽब्धेः सम्यगुद्धृतम् || ४० ||

तेनाऽराध्य परां शक्तिं त्रिपुरां सुविधानतः |
सम्प्राप्ता लोकमातृत्वं सर्वपूज्यत्वमागता || ४१ ||

आराधिता वत्सराणामर्बुदान्येकविंशतिः |
प्रसन्ना छन्दयामास वरेण त्रिपुरा परा || ४२ ||

तया वृतञ्च सायुज्यं ततः प्राह पराम्बिका |
वत्से ! त्वया विना विष्णुरप्रभुः परिपालने || ४३ ||

अपालितं तेन चैतद्विशीर्येत निमेषतः |
ततो मे नियतेर्भङ्ग एव नाऽर्हसि सम्प्रति || ४४ ||

तत् साम्प्रतं दिशाम्येवं त्वदाख्यां सर्वदाऽप्यहम् |
धारयामि स्वरूपञ्च तत्ते वक्ष्यामि श्रूयताम् || ४५ ||

श्रीविद्येत्यहमाख्याता श्रीपुरं मे पुरं भवेत् |
श्रीचक्रं मे भवेच्चक्रं श्रीक्रमः स्यान्मम क्रमः || ४६ ||

श्रीसूक्तमेतद्भूयान्मे विद्या श्रीषोडशी भवेत् |
महालक्ष्मीत्यहं ख्याता त्वत्तादात्म्येन संस्थिता || ४७ ||

त्वं चतुर्धा मत्समीपे पूजां प्राप्स्यसि संस्थिता |
यद्यत्तव प्रियं लोके तन्ममाऽपि प्रियं भवेत् || ४८ ||

पूज्यसे भार्गवे वारे भक्तैस्त्वं सुविधानतः |
तत्राऽहमपि पूज्या स्यां भक्तैरपि विशेषतः || ४९ ||

तत्र सूक्तभवैर्मन्त्रैः पूजिता ह्युपचारकैः |
हुताऽपि विविधैर्द्रव्यैः प्रसन्ना वाञ्छिताऽर्थदा || ५० ||

अभिषिक्ता च सलिलैर्दुग्धाद्यैः फलजैरसैः |
सर्वकामप्रदा यन्त्रे मूर्त्यादिकेऽपि वा || ५१ ||

नित्ये नैमित्तिके काम्ये पूजनेऽन्यत्र चाऽपि मे |
लक्ष्मीसूक्तं षोडशर्चं देव्याः स्नानविधौ पठेत् || ५२ ||

सकृदावर्तनाल्लक्ष्मीः सदा तस्य गृहे वसेत् |
पूजाऽशक्तौ केवलं वा सूक्तन्ते यः पठेत् सदा || ५३ ||

तस्याऽखिलं कृतं पूर्णं भवेत्तुष्टा भवाम्यहम् |
विद्याऽपि त्वत्समायोगाद्भविष्यति मम प्रिया || ५४ ||

अहं विद्यात्मिका यत्तद्बीजं ते सर्वशोभनम् |
पूर्णा तेन समादिष्टा महाश्रीषोडशाक्षरी || ५५ ||

उपचारेषु पूजाया मन्त्रान् सूक्तभवान् पठेत् |
सा पूजा स्यान्महापूजा प्रसन्नाऽहं ततो द्रुतम् || ५६ ||

सूक्तेऽर्थरूपा गुप्ताऽहं मद्बीजञ्चाऽपि गोपितम् |
पूर्णरूपा प्रार्थिताऽहं ऋषिभिः पावकात् पितुः || ५७ ||

नाऽन्यत् प्रियतरं लोके त्वत्सूक्ताद्भवति क्वचित् |
त्वमहं देव्यहं त्वञ्च नावयोरन्तरं भवेत् || ५८ ||

ईक्षते योऽन्तरं तस्य भवेयुः परमापदः |
इति दत्त्वा वरं तस्यै रमायै त्रिपुरा परा || ५९ ||

जगाम व्योमतां सद्यः प्रोक्तमेतद्घटोद्भव |
श्रीसूक्तस्य महित्वं तेनैतद्ब्रूयाः कथञ्चन ||६० ||

अभक्तेषु शठेष्वन्तःश्रद्धाविरहितेषु च |
अथ वक्ष्ये श्रीपुरस्य वृत्तं लोकोत्तरं शृणु || ६१ ||

यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते |
यदा सा परमा देवी प्रार्थिता विधिमुख्यकैः || ६२ ||

शक्रादीनां दर्शनार्थं स्थितिं कुर्विति कुम्भज ! |
अङ्गीचकार संस्थानं लीलाविग्रहधारिणी || ६३ ||

ततस्त्वष्टारमाहूय मेरुशृङ्गे महोन्नते |
आज्ञापयद्विधिर्देव्याः श्रीपुरस्य विनिर्मितौ || ६४ ||

विश्वकर्मा तथाऽज्ञतः प्रणम्य प्रपितामहम् |
भगवन्न मया ज्ञातं तत्पुरं कुत्र संस्थितम् || ६५ ||

किं प्रमाणं किमाकारं किम्मां किंविधं स्थितम् |
एतन्मे शंस भगवन् विधास्येऽहं निशम्य तत् || ६६ ||

अथ प्राह जगत्स्त्रष्टा शृणु विश्वकृते ब्रुवे |
श्रीपुरस्य प्रमाणञ्च संस्थानं प्रकृतिं तथा || ६७ ||

रूपञ्चाऽपि स्फुटतरं सावधानमनाः शृणु |
यद्च्छ्रुत्वा त्रिपुरापादभक्तिमासादयेच्छुभाम् || ६८ ||

कनकाद्रिः सुमेर्वाख्यो जगच्चित्रकलेवरः |
तस्य मध्ये महाशृङ्गो यश्चतुऽशतयोजनः || ६९ ||

तत्र श्रीत्रिपुरादेव्याः पुरं कुरु जगत्कृते |
श्रुत्वा मया यथाप्रोक्तं कर्त्व्यं सुविधानतः || ७० ||

मनोहरं चारुतरं वप्रभेदसुशोभितम् |
यथा जगत्प्रतिऋतिस्तन्मे निगदतः शृणु || ७१ ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे हयग्रीवागस्त्यसम्वादे श्रीसूक्तविधानपुरःसरं श्रीचक्रसंस्थानविधिवरणनं नाम त्रिपञ्चाशत्तमोऽध्यायः || ४३८३ ||

चतुःपञ्चाशत्तमोऽध्यायः श्रीपुरवर्णनम्

Kapitel 54

अनेककोटिसङ्ख्यानां बहिःस्थितः |
ऊर्ध्वतोऽनन्तसङ्ख्याकः सुधासिन्धुर्जगत्कुते || १ ||

सुमेरुसदृशोन्नभ्रनृत्यद्वीचितरङ्गकः |
तस्य मध्ये मनिद्वीपः प्रभाक्षिप्ततमस्ततिः || २ ||

योजनानां कोटिशतैर्विस्तृतोऽतिमनोहरः |
कल्पद्रुमवनैश्चित्रैश्चित्रिता परितः स्थली || ३ ||

तत्र स्थितं पुरं तस्याः सर्वरत्नसमुज्ज्वलम् |
योजनानां चतुर्लक्षैर्दीर्घायमसुविस्तृतम् || ४ ||

तावन्मितस्तस्य सालो लोहसारमयस्थितः |
चतुरस्रः सर्वभद्रः समुज्ज्वलितदिक्तटः || ५ ||

चतुःसहस्रमुन्नम्रो योजनानां सवप्रकः |
चतुर्धार्युतो बाह्ये परिखेण विराजितः || ६ ||

तदन्तः सप्तसाहस्रयोजनाऽन्तरितः स्थितः |
प्राकारः कांस्यरचितः प्रोक्तमानोऽतिभासुरः || ७ ||

तदन्तरे कल्पवृक्षवाटीगणशताऽकुले |
दशयोजनविस्तीर्णवापीशतविराजिते || ८ ||

शतयोजनविस्तीर्णप्रफुल्लकमलाऽकरैः |
दिक्ष्वष्टसु युतेस्वर्वायस्मयार्धबहिर्भुवि (???) || ९ ||

कांस्यकॢप्ताऽन्तरभुवि नानापक्षिमृगैर्युते |
कमलाऽकराऽन्तर्भुवि कॢप्तकांस्यगृहाष्टके || १० ||

अनेकचित्ररचिते पञ्चाऽवरणराजिते |
ऽऽशतयोजनविस्तारसमुन्नम्रे सुशोभिते || ११ ||

महासने महाकालः कालीसंश्लिष्टविग्रहः |
त्रिपुराम्बापादसेवाप्राप्तसौभाग्यनिर्भरः || १२ ||

आत्मानमष्टधा कृत्वा स्थितो गेहाष्टके पृथक् |
असंख्यपरिवारैघैः सेवितः सततंस्थितः || १३ ||

अन्तःकांस्यमयाद्वप्रात् प्रोक्तयोजनदूरतः |
प्राकारस्ताम्ररचितस्तरुणाऽरुणसम्प्रभः || १४ ||

प्रोक्तमानद्वारवापापद्मिनीगृहमध्यभूः |
बहिरन्तः कांस्यताम्रमयस्थलयुताऽन्तरः || १५ ||

तदन्तरं प्रोक्तवत्तु कल्पवृक्षवनैर्युतम् |
गृहेषु राजते तेषु वसन्तर्तुः सुपेशलः || १६ ||

मधुमाधवशक्तिभ्यां सेवमानः पराम्बिकाम् |
संयुतः स्वपरीवारैः समेधते निजश्रिया || १७ ||

सालमानं द्वारमपि वापिकाः पद्मिनीभुवः |
प्रोक्तरीत्यैव विज्ञेया विशेषः प्रोच्यते क्रमात् || १८ ||

अथ सीसमयः सालः सन्तानवनमण्डितः |
ग्रीष्मर्तुः संस्थितः शुक्रशुचिशक्तिपरीवृतः || १९ ||

आरकूटमयो वप्रो हरिचन्दनवाटिकः |
नभोनभस्यशक्तिभ्यां वर्षर्तुस्तत्र शोभते || २० ||

पञ्चलोहमयः सालो मन्दारवनमण्डितः |
शरदृतुरिषोर्जा (?) भ्यां शक्तिभ्यां तत्र राजते || २१ ||

ततो राजतसालो वै पारिजातवनाऽवृतः |
सहस्सहस्यशक्तिभ्यां हिमन्तस्तत्र राजते || २२ ||

तपनीयमयस्सालो बालसूर्यशतप्रभः |
कदम्बविपिनं तत्र हालाऽमोदसुमेदुरम् || २३ ||

भृङ्गसङ्गीतमधुरं लास्यगीतर्द्धिसङ्कुलम् |
कीरमण्डलचाटूक्तिमधुरध्वनिसुन्दरम् || २४ ||

तत्र सा मन्त्रिणी देवी संस्थिता लोकमोहनी |
सङ्गीतमाटृका देवी मातङ्गीत्यभिविश्रुता || २५ ||

शौकाद्याश्यामला चान्य शारिकाद्या हसन्तिका |
वीणावेणुमुखा तद्वच्छ्यामला लघुपूर्विका || २६ ||

श्यामला राजपूर्वा स्यात् स्वयं या मन्त्रिणी मता |
श्रीमातृका तत्प्रियाऽन्या (इ?) चेत्येवमष्टदिक्स्थिताः || २७ ||

मातङ्गकन्याकोटीनां कोटिभिः परिवारिता |
अथ वप्रः पुष्परागमयः पूर्वोक्तवत् स्थितः || २८ ||

सिद्धेशः सिद्धसंवीतस्तत्र धायति ताम् पराम् |
पद्मरागमयो वप्रस्तदन्तोऽग्निशिखाऽरुणः || २९ ||

चरणस्त्रिपुराभक्ता वसन्ति युवतीयुताः |
सालो गोमेदमणिजस्तत्र भैरवनायकैः || ३० ||

कालसङ्कर्षिणी देवी वटुकौघसमावृता |
कराला कालमेघाभा करवालकृताऽयुधा || ३१ ||

अष्टकोटिभैरवाणां नाथैरष्टसुभैरवैः |
द्वात्रिशत्कोटिबटुकयुतः संसेविता सदा || ३२ ||

महाराज्ञीपादपद्मं ध्यायन्ती सुविराजते |
ततो वज्रमयः सालस्तत्र वज्रा नदी स्थिता || ३३ ||

परिखावद्वेष्टयित्वा सुधासिन्धुप्रवेशिनी |
तटाभ्यां गओमेदवज्रमयाभ्यां प्रविभासिनी || ३४ ||

तत्र वज्रश्वरी देवी वज्रभूषा समुज्ज्वला |
वज्रप्रदानसन्तुष्टा वज्रिप्रमुखपूजिता || ३५ ||

वैदूर्यसालस्तस्यान्तस्तत्र नागा दितेः सुताः |
निरन्तर. ध्यायमानाः पराम्बापादपङ्कजम् || ३६ ||

अथेन्द्रनीलसालःस्यात् तत्र मर्त्याः समास्थिताः |
मुक्तावप्रस्तदन्तस्था दिक्पाला दिक्षु वै क्रमात् || ३७ ||

अथ सालो मारकतः स्वर्णतालवनैर्युतः |
तालद्रुस्यन्ददत्यन्तहालासौरभसम्भूतः || ३८ ||

तत्र श्रीदण्डिनी देवी स्वप्ने स्यादेभिरावृता अपराधिजनान् दण्डेयोजयन्ती सुसंस्थिता || ३९ ||

मधुसेवोन्मिषत्स्वान्तराऽनन्दाब्धिपरिप्लुता |
ततो विद्रुमसालः स्याद्वप्रात्तत्राऽन्तरे स्थितः || ४० ||

अनेकसिद्धमुनिभिर्योगिभिश्च समावृतः |
नवरत्नकृतो वप्रस्ततोऽतिरुचिरः शुभः || ४१ ||

तत्र विष्णुः पार्षदादिसेविताऽङ्घ्रिर्विराजते |
ततोऽप्यनेकरत्नौघमयो वप्रोऽतिभासुरः || ४२ ||

शिवः प्रमथसंसेव्यस्तत्राऽध्यास्ते त्रिलोचनः |
ततो मनोमयः सालोऽरुणोरुणसमच्छविः || ४३ ||

तन्मध्येऽमृतवापी स्यात् परितः परिखाऽकृतिः |
प्रफुल्लपद्मसङ्कीर्णा त्र्यंशेमध्यभुवः स्थिता || ४४ ||

हंसैः कारण्डवैः कोकैः सारसैः सुविराजिता |
तन्मध्ये नवरत्नाढ्यनौकायां सुविराजिते || ४५ ||

पद्माऽसने समासीना तारा भक्तौघतारिणी |
असंख्यरत्नपोतस्थशक्तिभिः परिवारिता || ४६ ||

दण्डिन्याज्ञां विना कञ्चिन्न सन्तारयति क्वचित् |
अथ बुधिमयः सालो विशदश्चन्द्रविम्बवत् || ४७ ||

आनन्दवापिका तत्र प्रोक्तवत्सर्वशोभना |
तत्रऽमृतेशी तरणिसंस्थाना शक्तिभिर्व्टा || ४८ ||

सुरानन्दमयि तस्यामामोदभरिताऽन्तरा |
आज्ञांविनाऽमृतेशान्या नैनत् पिबति कश्चन || ४९ ||

न सन्तरेद्वापिकाञ्चाऽमृतैश्वर्याभिरक्षिताम् |
अहङ्कारमयस्तस्माद्वरणः श्यामलाऽकृतिः || ५० ||

नीलमेघप्रतीकाशस्तदन्तर्वापिकाऽपि च |
मिमर्शाऽख्या ज्ञानरसवहनिश्चलशितला || ५१ ||

तत्र नौकास्थिता देवी कुरुकुल्ला महेश्वरी तदाज्ञामन्तरा तत्र नैषत् प्राप्नोती तद्रसम् || ५२ ||

पीत्वा तल्लेशकमपि सम्स्ताऽज्ञानसम्भवम् |
त्यजन्ति तापं पऽऽयन्ति जगत्तत्त्वमनावृतम् || ५३ ||

अथ सूर्यात्मकः सालः प्रकाशनिकरः स्थितः |
तत्राऽन्तरे समासीनः सूर्यो जलजविष्टरे || ५४ ||

मार्तण्डभैरवाद्यैश्च रविभर्द्वादशात्मभिः |
समेतः सूर्यसदृशदेहैर्भक्तैरभिष्टुतः |
५५ ||

ततः शशाङ्काऽवरणः कोटिचन्द्रसमप्रभः |
तत्र सोमः स्थितो राजा किरंस्तत्र सुधांऽशुभिः || ५६ ||

तदन्तरे तु शृङ्गारसालोऽत्यन्तविचित्रितः |
कौस्तुभाऽख्यमणिब्रातनिर्मितो रुचिराऽकृतिः || ५७ ||

तन्मध्ये परिघा स्वच्छशृङ्गाररससम्भ्ड्र्ता|
तत्र कौस्तुभसङ्कॢप्तपोते शृङ्गारनामके || ५८ ||

कन्दर्पः संस्थितो रत्या प्रीत्या सम्मिलितः स्वयम् |
अनेककोटिकन्दरपिरतिप्रीतिगणैरपि || ५९ ||

सेव्यमानो मोदते श्रीत्रिपुराभक्तशेखरः |
तत्पारे तु महापद्मवनमामोदमेदुरम् || ६० ||

स्थलपद्मवनं तेषाम् काण्डाः पत्राणि केसराः |
कर्णिकाश्चापि चाऽत्यन्तदीर्घास्तत्ते ब्रवीम्यहम् || ६१ ||

सहस्त्रयोजनाऽयामाः काण्डा गव्यूतिपीवराः |
विंशतिर्योजनानान्तु पत्राऽयामः प्रकीर्तितः || ६२ ||

त्रिंशद्योजनदीर्घाणि पत्राणि कलशीसुत ! |
योजनानां पञ्चदश केसराणाञ्च दीर्घता || ६३ ||

कर्णिका योजनदशविस्ताराः सम्प्रकीर्तिताः |
तत्र भृङ्गामणिनिभाः शैलशृङ्गमिताः स्थिताः || ६४ ||

गृहं श्रीत्रिपुरादेव्यास्तदन्तरतिभसुरम् |
चिन्तामणिप्रवेकाऽतिरचितं चित्रचित्रितम् || ६५ ||

चतुर्द्वारयौतं तत्र दिव्याऽधारसुसम्भृतम् |
वह्निमूर्तिमयाऽधारो वर्तुलस्तत्कलायुतः || ६६ ||

योजनानां पञ्चशतं विस्तारेऽर्धं समुन्नतौ |
तत्र सूर्यात्मकं पात्रं कलाद्वादशसम्युतम् || ६७ ||

योजनानां सहस्रन्तु विस्तारे सार्धमुन्नते |
तत्राऽमृताऽसवः पूर्णः स्वाद्यो मञ्जुलसौरभः || ६८ ||

सुधांशुरूपः संयुक्तः कलाभिः परितो विधुः |
तत्र पोतस्थितः खेलंस्तरङ्गेष्वासवाऽमृते || ६९ ||

श्रीचक्रस्थाः शक्त्यो यास्तासां पानाय कल्पितम् |
महापद्माऽटवीसंस्थाश्चाऽपि याः शक्त्योऽमलाः || ७० ||

मुख्यशक्तिप्रसादन्तु प्राप्य मोदन्ति सन्ततम् |
तत्राऽग्नेयं यं महाकुण्डं चिदग्निज्वालमालितम् || ७१ ||

सहस्रयोजनऽयामं तथा निम्नं त्रिमेखलम् |
शतयोजनमुन्नम्रा विस्तृता मेखलाः पृथक् || ७२ ||

तत्र श्रीत्रिपुरादेव्या जनकश्चिन्मयाऽनलः |
द्विसहस्रयोजनोन्नतज्वालामालयाऽवृतः || ७३ ||

गृहस्य पश्चिमदिशि स्थितश्चकात्मको रथः |
नानामणिगणाऽकीर्णः सहस्रयोजनाऽयतः || ७४ ||

चतुर्गुणोन्नतो भूमिनवकेनाऽतिसुन्दरः |
दशेन्द्रियहयोपेतो मनः सारथिसंयुतः || ७५ ||

आम्नायचक्रश्चऽङ्गारो योगरश्मिर्मरुध्वजः |
नभओ वितानः सुमहान् सर्वलोकमयः स्थितः || ७६ ||

चिन्तामणिगृहे तस्मिन्मध्ये श्रीचक्रनायकः |
नवाऽवरणदेवीभिर्युतः परमशोभनः || ७७ ||

तन्मध्ये त्रिपुरा देवी पञ्चब्रह्मात्ममञ्च्के |
कामेश्वराऽङ्क्संस्थाना ज्योतीरूपा विराजते || ७८ ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीत्रिपुरापाख्याने श्रीपुरवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः || ४४६१ ||

Kapitel 55

श्रुत्वैवमद्भुतं वृत्तं विश्वकर्माऽतिविस्मितः |
पप्रच्छाऽनन्तरं वाक्यं सर्वलोकपितामहम् || १ ||

पितामहाऽत्र सन्देहो भगवन् बहुधा मम |
हृदि तत् परिपृच्छामि वक्तुं तन्मे त्वमर्हसि || २ ||

केनेदं निर्मितं स्थानं कदा केन च हेतुना |
न गतिस्तत्र चाऽन्येषां गुणजेभ्य इति श्रुतम् || ३ ||

पुनस्तत्राऽमरा मर्त्या नागाद्याश्चाऽपि वर्णिताः |
कथमेतत् स्थितं देव कृपां कुरु मयीश्वर || ४ ||

आपृष्ट एवं लोकेशः प्राह तं विश्वश्ल्पिनम् |
त्वष्टः ! शृणु समाख्यास्ये चैतद्वृत्तं सुगोपितम् || ५ ||

तदा वयं सृष्टिमुखक्रियाकृतिपरायणाः |
सदा समाकुलस्वान्तैस्तोषिताऽस्माभिरम्बिका || ७ ||

त्रिपुरा परमाशक्तिः केवला चितिरूपी |
निष्कलाऽकाशरुपेण केवलं वङ्मयी शिवा || ८ ||

आहाऽशरीरिणी वत्साः किं वः समभिवाङ्छितम् |
संश्रुत्वैवं वाचं नत्वाऽस्माभिः समीरितम् || ९ ||

स्तुत्वा तां विविधैस्तओत्रैर्बद्धाऽञ्जलिभिरादरात् |
महादेवि वयञ्चाऽस्मिन् जगत्कृत्ये निरन्तरम् || १० ||

भवत्या विनियुक्ता वै नैषद्विन्दामहेरतिम् |
त्वत्स्वरूपस्थितिं त्यक्त्वा न किञ्चिदभिरोचते || ११ ||

सुधारसाऽस्वदनानां यथा क्षारोदसेवने |
तत्कृपां कुरु देवेशि ! न रमामोऽत्र कर्मसु || १२ ||

एवमुक्ता ब्रह्ममुखैस्त्रिपुरा प्राह नः पुनः |
विधिमुख्याः साम्प्रतं नो भवेदेतत् कथञ्चन || १३ ||

नियतिर्मेऽतिदुर्वारा सङ्कॢप्ता प्राङ्मयैव सा |
चिन्तितुं नाऽर्हथैवं वो दास्येऽन्यदभिवाञ्छितम् || १४ ||

ततोऽस्माभिः प्रार्थिता सा त्रिपुरा लोकभावनी |
यद्येवमम्ब तत्त्वञ्च गुणमूर्तिर्महेश्वरी || १५ ||

राजराजेश्वरी भूत्वाऽखिलाऽण्डानां प्रशासने |
कुरु तत्र वयं नित्यं त्वन्मूर्त्तेरभिषेवणात् || १६ ||

प्राप्स्यामोऽत्र रतिं लोके त्वदाज्ञापालनादपि |
इत्यस्मदीरितं श्रुत्वा प्राह सा त्रिपुरा परा || १७ ||

अस्त्वेवं वो हितार्थाय दृश्यमूर्तिर्भवाम्यहम् |
नाऽट्राऽण्डेषु स्थितिं प्राप्स्ये किन्त्वशेषाऽण्डवर्तिनाम् || १८ ||

साधारणं सुधाऽम्भोधौ रत्नद्वीपं सृजाम्यहम् |
तत्र मां भक्तिभावेन यजन्तु जगदीश्वराः || १९ ||

तत्र कुण्डे समिध्याऽग्निं चिन्मयं ज्वलिते शुचौ |
यथेप्सितं ध्यायत मां स्त्रीपुम्प्रकृतितः शुभाम् || २० ||

ध्यानाऽनुरूपा वो भूत्वा प्रशासिष्येऽण्डसन्ततिम् |
तत्राऽखिलाऽण्डसंस्थानां ब्रह्मादीनां निरन्तरम् || २१ ||

दिशामि दर्शनं स्त्रीयं स्थूलभावस्य संस्थिता |
इत्युक्त्वाऽस्मान् विह्धिमुखानन्तर्धानं जगाम सा || २२ ||

अथ तस्या वचनतो ब्रह्माण्डान्निर्गता वयम् |
पीयूषाऽब्धिं समासाद्य रत्नद्वीपं समन्ततः || २३ ||

विचिन्वतश्चिरेणाऽथ मणिद्वीपोऽनुसादितः |
नवरत्नमयः |
स्वीयच्छविव्यताप्तदिगन्तरः || २४ ||

तत्र गत्वा विनिर्माय कुण्डं परमशोभनम् |
प्रोक्तमानं तत्र वह्नियोजनं स्यात्कथन्त्वति || २५ ||

चिन्तां प्राप्ता वयं तत्र नाऽग्निरस्ति नचेन्धनम् |
अथ देवः शिवः कुण्डे स्वाक्ष्णोऽग्निमनुकल्पयत् || २६ ||

अनिन्धनन्तु तं दृष्ट्वा प्रशमाऽभिमुखं शुचिम् |
विष्णु स्वयं स्वचेर्तोऽशैरेधांसि सम्कल्पयत् || २७ ||

अथ प्रज्वलिते वह्नौ विधिस्वं समकल्पयम् |
मनःपशुं बुद्धिमज्यमहङ्कारं हविस्तथा || २८ ||

करणानि च पात्राणि अद्धोतुं देवतां पराम् |
अभिध्यायमहं स्वाऽन्तर्वह्नौ स्त्रीमूर्तिमीदृशीम् || २९ ||

ध्यात्वा हविर्हृतं यावत्तावत् सा परमेश्वरी |
कुण्डवह्नेः समुदभूत् ध्यानरूपाऽनुसारिणी || ३० ||

पराशक्तिरियं तत्र ततोऽस्माभिरभिष्टुता |
निर्ययौ पावकात्तस्माद्बहिस्त्रैलोक्यसुन्दरी || ३१ ||

अथाऽवदन्मां परमा क्वाऽसनं मे विनिर्दिश |
आदिष्ट एवं परममासनं कल्पितं मया || ३२ ||

स्पर्शमात्राद्विशीर्णं तदासनं भूय एव तत् |
कल्पितं विविधं सारं स्पर्शाच्छीर्ण बभौ क्षणात् || ३३ ||

सर्वसामर्थ्यविहितान्यासनान्यपि तानि मे |
परःशतं विशीर्णानि तदाऽहं लज्जितोऽभवम् || ३४ ||

अथाऽविरासीन्निमिषात् सर्वदेवः सदाशिवः |
तदिच्छयैव तुर्यश्च तौ तां देवीं प्रणेमतुः || ३५ ||

तावब्रवीत् परा देवी सा कल्पयतमासनम् |
दध्यौ सदाशिवः श्रुत्वा वाक्यं तस्याः क्ष्णादथ || ३६ ||

अनेककोटिसंख्याता आययुर्गुणमूर्तयः |
सदाशिवा ईश्वराश्च तेभ्यः सर्वेभ्यः एव च || ३७ ||

सारं समाकृष्य पञ्चमूर्तीश्चक्रेऽतिसुन्दरीः |
सदाशिवांऽशेन तत्र सिन्दूरनिचयाऽरुणम् || ३८ ||

फलकं कल्पयत्तस्य मूर्त्या सङ्घटितं शुभम् |
ईशरुद्रहरिविधिशक्तिसङ्घचतुष्टयैः || ३९ ||

पादांस्तन्मूर्तिघटितान्निर्ममे स सदाशिवः |
अशेषपृथिवीसारसम्भृताऽस्तरणं ततः || ४० ||

हंसतूलसंहतिवत् कोमलं तस्य मूर्धनि |
आस्तृतं मेरुशिखरिसमुदायसुसाधितम् || ४१ ||

उपधानं विरचयद्देवदेवः सदाशिवः |
प्रणम्य प्राह तां देवीं सिद्धमम्ब! समारुह || ४२ ||

तन्मध्ये तं गुणेशानां नमस्कृत्य सदाशिवम् |
प्रोचुर्देव नौपयिकं पीठमेतद्धि मन्दिरम् || ४३ ||

आकाशसंश्रयं तस्मान्मन्दिरं कुरु सुन्दरम् |
सदाशिवोऽपि युक्तं तन्मत्वा चक्रे गृहं शुभम् || ४४ ||

चिन्तामणिगणैः कीर्ण नानारत्नोपभूषितम् |
योजनानां द्वे सहस्रे विस्तृतौ गृहराजकः || ४५ ||

चतुर्द्वारश्चतुर्वेदमय आम्नायमण्डितः |
नभोमयवितानेन महताऽतिविराजितः || ४६ ||

मत्वा गृहं तदाऽकाशेन मनोहरमुत्तमम् |
ससर्ज तस्य परितो महपद्मवनं शुभम् || ४७ ||

सम्प्रोक्तलक्षणं तेन मन्दिरं तद्व्यराजत |
एवं तन्मन्दिरे रत्नसिंहासनमधीश्वरी || ४८ ||

समारुहत् सा त्रिपुरा भासयन्ती समन्ततः |
रत्नसिंहासने तस्मिन् संस्थिता सा महेश्वरी || ४९ ||

असंख्यैर्विधिविष्ण्वीशतुर्यमूर्तिसदाशिवैः |
संस्तुता बहुधा प्राह सदाशिवमधीश्वरी || ५० ||

सदाशिव ममाऽख्यानमनाख्यायाऽद्भुतं कुरु |
आख्याताऽहं येन लोके भवामि विदिताऽकृतिः || ५१ ||

एवं तया नियुक्तोऽथ देवदेवः सदाशिव |
यावत्तस्याः समाख्यानं चिन्तयामास मानसे || ५२ ||

तावद्ब्रह्मविष्णुरुद्रमुखैः सम्प्रार्थितोऽभवत् |
देव नौपयिकं ह्येतद्भासते न पराम्बिका || ५३ ||

चितिर्द्र्ष्टृमयी नित्या सदसद्रूपकारणम् |
ध्यानाऽनुरोधवपुषा दयया दृश्यतां गता || ५४ ||

योषिद्रूपधरा देवी विना पुरुषसंश्रयम् |
नाऽत्यर्थ शोभते लोकविगानादिति मन्महे || ५५ ||

न द्वचिल्लोकविततौ नारी नरसमाश्रयम् |
ऋते सम्भवते वल्ली तरुहीना यथा भुवि || ५६ ||

तदेतस्या जगद्धात्र्या अनुरूपं पतिं शुभम् |
परं कल्पय यन्नः स्यात् सर्वेषामभिवाण्छितम् || ५७ ||

श्रुत्वैयं गुणमुर्तीनामुक्तं देवः सदाशिव |
चिन्तयित्वा चिरं वाक्यं प्राह व्यवसिताऽन्तरः || ५८ ||

शृण्वन्तु गुणजाता मे वाक्यमेतत् समाहिताः |
इयं परात्परा देवी सश्चिन्मात्रस्वरूपी || ५९ ||

एकाऽसीत् सर्वपुरतः स्वातत्र्याऽत्मविधायिनी |
न सन्नाऽसदभिन्नं वा विभिन्नं किमपि ह्यभूत् || ६० ||

सा स्वस्वभावविभवभरेणैवाऽवभासयत् |
एतजगश्चक्रचित्रं स्वात्मन्यादर्शलीलया || ६१ ||

नैतस्याः सदृशः कोऽपि कृत एवाऽधिको भवेत् |
सदस्याः सर्वलोकैकमातुर्भर्ताऽत्र को भवेत् || ६२ ||

न हि मेऽत्र भवेच्छक्तिः कर्तुं स्यात् खलु किञ्चत् |
वदत्येवं सदा पूर्वे शिवऽस्माकं प्रपश्यताम् || ६३ ||

विदित्वाऽस्मत्वमीहां सा त्रिपुरा परमेश्वरी |
ईषत् स्मितं कृतवती कोटिपूर्णेन्दुभासनम् || ६४ ||

अथाऽभवन्महाशब्दो ब्रह्माण्डौघविभेदनः |
विदलन् श्रोत्रजालानि बधिरीकृतदिक्तटः || ६५ ||

प्रजज्वाल महातेजः सर्वदिङ्मण्डलाऽदनम् |
तडित्कोट्यु दयाऽभासं सर्वचक्षुः प्रमोषणम् || ६६ ||

तेन शब्देन महता तेजसा च समन्ततः |
बधिराऽन्धीकृताः किं तदित्याश्चर्यं समागताः || ६७ ||

दृष्टाऽस्माभिः क्षणेनैव ततः सा परमेश्वरी |
समानसुन्दराऽङ्गस्य पर्यङ्कमणिशोभिनी || ६८ ||

मिथुनीभूतसंस्थाना प्रतिबिम्बं श्रिता यथा |
दृष्ट्वा समानपुरुषवामाऽङ्कसुविराजिताम् || ६९ ||

प्रहर्षमतूलं प्राप्ताः स्वेष्टसिद्धेर्जगद्विधे |
स्वाऽङ्गसौन्दर्यलालित्यभरणेनैव परस्परम् || ७० ||

क्षिपन्निव तन्मिथुनं परीरम्भसुखोल्वणम् |
अथाऽ.ब्रवीन्नः परमा देवा वः सिद्धमीप्सितम् || ७१ ||

अहं द्विधा हि सञ्जाता भवदीप्सितहेतवे |
वदन्त्वावयोर्नामनि (?) र्यावः ख्यातिं यतस्त्विह || ७२ ||

श्रुत्वा सदाशिवो देवः प्रेक्षाऽस्मान्नाम कर्मणि |
विमूढानाह नत्वा तां देव्यस्मत्कामपूरणात् || ७३ ||

कामेश्वरी त्वं देवश्च भवेत् कामेश्वरस्तथा |
राजराजात्मनां नस्त्वमीशनाश्चाऽपि साम्प्रतम् || ७४ ||

राजराजेश्वरी त्वं वै राजराजेश्वरस्त्वयम् |
त्वं वै त्रिपुरसुन्दरी चैष त्रिपुरसुन्दरः || ७५ ||

अथ धातुमुखाः स्तुत्वा वयं तां परमेश्वरीम् |
अप्रार्थयन्त भूयस्तां मत्वा तत्रैकलां स्थिताम् || ७६ ||

मातस्त्वं परिवारेण स्थातुमत्रार्ऽहसीश्वरी |
दृष्ट्वैकलां त्वां न वयं हृष्यामोऽतितरां शिवे || ७७ ||

एवं सा प्रार्थिताऽस्माभिः स्वदेहात् क्षणमात्रतः |
प्रां स्वसदृशींशक्तिमसृजत् प्रतिबिम्बवत् || ७८ ||

इत्याह्वयत तां शक्तिं महात्रिपुरसुन्दरीम् |
इति सृज शक्तिचक्रं ममाऽनुगुणमुत्तमम् || ७९ ||

सर्वलोकेप्सितकरं परिवारं मदंशतः |
ओमित्युक्त्वा च सा देवी शक्तिचक्रं महाऽद्भुतम् || ८० ||

ससर्ज श्रीमहादेव्याः शक्त्याऽवरणमद्भुतम् |
तावन्मध्ये महादेवी स्वयं षोऽशधाऽभवत् || ८१ ||

स्वयं ततोऽतिरिक्ताऽभूद्देवीइ सप्तदशी तदा |
एतस्मिन्नन्तरे साऽपि महत्रिपुरसुन्दर्री || ८२ ||

नव् अशक्तीः ससर्जाऽङ्गात् सृष्ट्वा सा प्राह ताः प्रति |
पृथक्सृजेथाः स्वस्वाऽनुरूपाः शक्तीर्मनोहराः || ८३ ||

महासुन्दर्येति चोक्ताः ससृजुस्ताः पृथक् पृथक् |
एवं सृष्ट्परीवारा महाश्रीत्रिपुराऽम्बिका || ८४ ||

स्थानं तासां जगश्चक्रमयंनिर्माय सत्वरम् |
तत्तत्स्थानस्थिताभिः सा शक्तिभिः सेविताऽभवत् || ८५ ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे ललितामाहात्म्ये ब्रह्मविश्वकर्म्मसम्वादे श्रीपुरे कामेश्वरीकामेश्वरयुतं शक्तिचक्रसंस्थानवर्णनं नाम पञ्चाशत्तमोऽध्यायः || ४५४६ ||

षट्पञ्चाशत्तमोऽध्यायः ब्रह्मविश्वकर्म्मसवादेश्रीचक्रदेवतानिरूपणवर्णनम्

Kapitel 56

शुर्वेत्थमद्भुतं वृत्तं विश्वकर्मा जगद्विधिः |
पप्रच्छः भूयः प्रणतस्तच्छ्रु तावतिकौतुकी || १ ||

भगवन् शक्त्यो देव्या सृष्टा यास्त्रिपुराम्बया |
नृपसंक्या नाम तासां रूपं स्थानञ्च मे वद || २ ||

महात्रिपुरसुन्दर्या सृष्टा यास्ताः समीरय |
किंरूपाः कति संख्याकास्तत्सृष्टाश्चाऽपि वर्णय || ३ ||

स्थानञ्चाऽपि जगच्चक्रप्रतिरूपं किमात्मकम् |
सृष्टं श्रीत्रिपुराशक्त्या कुत्र काः शक्त्यः स्थिता || ४ ||

एतन्मे सर्वमाक्याहि श्रोतुं मे प्रसमीहितम् |
इति पृष्टो विश्वकृता प्रीतः प्राह चतुर्मुखः || ५ ||

शृणु त्वष्टर्गुह्यतमं सावधानेन चेतसा |
एवमादौ विसृष्टा सा म्हात्रिपुरसुन्दरी || ६ ||

नवशक्तीरसृजत शक्त्यौघस्य विसर्जने |
समाज्ञप्तास्तया तास्तु प्राहुस्त्रिपुरसुन्दरीम् || ७ ||

कथं वयं सृजामोऽम्ब शक्तीस्ते समुदीरिताः |
श्रुत्वेति प्राह सा भूयो महात्रिपुरसुन्दरी || ८ ||

आत्मयोगं समाश्रित्य द्रुतं सृजथ मा चिरम् |
इत्युक्त्वाऽद्या समसृजद्द्शशक्तीः सुलोहिताः || ९ ||

ताश्चाऽणिमादिसिद्धीनां प्रदा लोकेऽभवन्नथ |
पाशाऽब्जाऽङ्कुशपाणयः शशिखण्डशिखण्डकाः || १० ||

अणिमा लघिमा चैव महिमेशित्विका ततः |
वशित्वा प्राकाम्यका च भुक्तीच्छाप्राप्तयः क्रमात् || ११ ||

सरकामा च सिद्ध्यन्ता दश देव्यः समुद्गताः |
अथ ता नवशक्यस्तु प्राहुर्देवीं स्वमातरम् || १२ ||

नाम नः प्रदिशाऽम्बाऽशु ततः शक्तिः सृजामहे |
श्रुत्वाऽह ता महाशक्तीर्महात्रिपुरसुन्दरी || १३ ||

योगेन सर्जनाद्यूयं योगिन्यस्तु भविष्यथ |
अथाऽद्या प्रार्थयामास त्रिपुरेशीं प्रणम्य तु || १४ ||

मातः स्थानं कल्पयाऽशु शक्तीनां समवस्थितेः |
प्रार्थितैवं पराशक्तिः ससर्ज स्थानमद्भुतम् || १५ ||

चतुरस्रा वेदिकैका योजनद्वितयोन्नता |
द्विशतं योजनानान्तु विस्तारेण विनिर्मिता || १६ ||

तस्योपरि चतुर्दिक्षु योजनानां चतुष्टयम् |
बहिर्विहाय तस्यान्तश्चतुर्द्धारं सुशोभनम् || १७ ||

योजनानान्तु विंशत्या विस्तृतं सुमनोहरम् |
षट्योजनसुदीर्घञ्च तत्सम्बद्ध तदन्ततः || १८ ||

योजनद्वयमुन्नम्रा चतुरस्रसुभूमिका |
द्वियोजना ततोऽन्तस्तु योजनोच्चा तथा पुनः || १९ ||

एवं भूमित्रयं तस्य चाऽन्तः षोषशयोजने |
भूमिका योजनोन्नम्ना षोडशच्छदसन्निभा || २० ||

तदन्तर्योजनोन्नम्रा वसुपत्रसमाकृतिः |
योजनानान्तु विंशत्या भूमिकाऽतिमनोहरा || २१ ||

आदित्ययोजनाऽयामा तदन्तर्योजनोन्नता |
भूमिका शक्रकोणाभा तदन्तश्चाऽपि तावती || २२ ||

भूमिका दशकोणाभा तस्याऽन्तः शिवयोजना |
योजनोच्चा पूर्ववत्तु दशकोणसमप्रभा || २३ ||

अन्तरे दशसंख्यातयोजनाऽयामतः स्थिता |
वसुकोणात्मिका भूमिर्योजनोच्छ्रायशोभिनी || २४ ||

तस्याऽन्तस्त्र्यस्रभूमिस्तु रसयोजनसम्मिता |
योजनोश्चा वदूर्ध्वस्था तावदुच्छ्रायशोभिनी || २५ ||

योजनाऽयतविस्तारा बिन्दुभूमिः सुवर्तुला |
प्रकल्प्य स्थानमेवं सा वृत्तभूमौ स्वयं स्थिता || २६ ||

पञ्चब्रह्मासनाऽसीनकामेशोत्सङ्गशोभिनी |


स्वाङ्गोद्भूताः शक्तयो याः स्वसमा नृपसंख्यकाः || २७ ||

ताः स्वभूमेरधस्त्र्यस्रभूमौ संवेशिताः क्रमात् |
इन्दोः कलामयः पक्षदिनाऽधिष्ठातृदेवताः || २८ ||

नित्याऽख्याः कारणेनाऽसां नामानि च वदामि ते |
आद्या कामेश्वरी नित्या द्वितीया भगमालिनी || २९ ||

नित्यक्लिन्ना च भेरुण्डा ततः स्याद्वह्निवासिनी |
महाविद्येश्वरी पश्चाच्छिवदूती ततः परम् || ३० ||

त्वरिता कुलसुन्दरी नित्या नीलपताकिका |
विजया सर्वमङ्गला ज्वालामाला ततः परम् || ३१ ||

चित्रेति नाम क्रमतो वामे पृष्ठे च दक्षिणे |
पञ्चकक्रमयोगेन त्र्यस्रभूमौ निवेशिताः || ३२ ||

स्वयं सप्तदशी नित्या षोडशी या पुरोदिता |
सा तपोवीर्यसंयोगात् सायुज्यं समुपागता || ३३ ||

स्.ष्टादौ तत्र या देवी महात्रिपुरसुन्दरी |
तां बिन्दुभूम्यधिष्ठात्रीं कृत्वा स्वाग्रे निवेशयत् || ३४ ||

योगिन्योऽपि तया सृष्टा नवसंख्याः पुरोदिताः |
ताभिश्चाऽपि पृथक्कृत्यैर्नाम् प्राप्तं यथाक्रमम् || ३५ ||

प्रकटा च ततो गुप्ता तथा गुप्ततरा परा |
सम्प्रदायाऽकुलोत्तीर्णा निर्भगा च रहस्यका || ३६ ||

तथैवाऽतिरहस्याख्या पराऽपररहस्यका |
निवेशिताः क्रमेणैता देव्या चक्रेषु तच्छ्ण्णु || ३७ ||

चतुरस्रे नृपदले नागपत्रे ततः परम् |
मनुदिग्दिङ्नागवह्निकोणेषूर्ध्वे पृथक् पृथक् || ३८ ||

ततः सा प्रकटाऽख्याना योगिनी स्वविनिर्मिताः |
दशशक्तीरधो भूम्यां क्रमेण विनिवेशयत् || ३९ ||

पुनः सृष्टाऽष्टशक्तीस्तु ब्राह्म्याकीर्मातृकाऽत्मिकाः |
वर्गशक्तीर्द्वितीयस्यां भूमिकायां निवेशयत् || ४० ||

ततः ससर्ज शक्तिनां दशकं प्रकटाऽभिधा |
तृतीयभूनिकायां ताः क्रमेणाऽभिनिवेशयत् || ४१ ||

अथ गुप्ताऽभिधानाऽपि दृष्त्वा नृपनिवेशनम् |
असृजत्तावतीः शक्तीरथ गुप्ततराऽभिधा || ४२ ||

सम्प्रदायाऽकुलोत्तीर्णा निर्भगाच पृथक् पृथक् |
स्वस्संस्थानसम्मित्याऽसृजच्छक्तीर्विचित्रिताः || ४३ ||

शक्तीर्विभावयामास रहस्याः सप्तसङ्ख्यकाः |
रहस्यतरनाम्नी च शक्तिमेकां ससर्ज ह || ४४ ||

अणिमाद्या अपि पृथक् ससृजुः शतर्शोऽशतः |
शक्तीः स्वस्वसमाकाराऽयुधवस्त्रविभूषणाः || ४५ ||

बिन्दुचक्रेश्वरी या सा महात्रिपुरसुन्दरी |
विनियुक्ता मूलदेव्या शक्तीनामभिधाऽकृतौ || ४६ ||

चकार तत्तत्कर्माणनुरूपं नाम पृथक् पृथक् |
तृतीयभूमिकादेव्यो याः सृष्टा दशसङ्ख्यकाः || ४७ ||

मुद्रातत्त्वविधानज्ञाः सर्वमुद्रात्ममूर्तयः |
आहरन्ति मुदं देव्यस्तस्मान्मुद्रासमाऽह्व्याः || ४८ ||

मुद्मुत्पाद्य या लोकान् क्षोभयन्त्यतिमात्रकम् |
द्रावयत्याकरषयति वशयेन्मादयत्यपि || ४९ ||

बीजयत्यङ्कुरयति चारयत्यपि खे तथा |
त्रिखण्डयति योन्यात्मभावमानयतीश्वरी || ५० ||

इति मुद्रा वीर्यवत्यः ख्याताः सङ्क्षोभिणीति च |
विद्राविण्याकर्षणी च ततः पश्चाद्वशङ्करी || ५१ ||

उन्मादिनी महाङ्कुशा त्रिखण्डा खेचरी तथा |
बीजा योनिह् क्रमादेता दिक्षु कोणेष्वधोर्ध्वयोः || ५२ ||

भूमिकात्रितयेऽष्येवं ब्राह्मी माहेश्वरी तथा |
कौमारी वैष्णवी वैष्णवी वाराही माहेन्द्री ततः परम् || ५३ ||

चामुण्डा च महालक्ष्मीः (:) एवमाद्ये स्थिता इमाः |
ब्र्ह्मादीनां समानाङ्गाऽयुधाऽभरणवाससः || ५४ ||

मुद्रास्तु लोहिताऽभासाः पाशमुद्राऽङ्कुशैर्युताः |
लोहिताऽङ्कुशधारिण्यः पद्मरागसुभूषणाः || ५५ ||

अथ गुप्ताऽख्यया सृष्टा भक्तेष्टाकर्षणात्तथा |
कामाकर्षिणिकाऽद्या स्याद् बुद्ध्याकर्षिणिका परा || ५६ ||

अहङ्काराऽकर्षिणी च शब्दाऽकर्षिणिका तथा |
स्पर्शाऽकर्षिणिका तद्वद्रूपाऽकर्षिणिका ततः || ५७ ||

रसाऽकर्षिणिका गन्धाऽकर्षिणी चित्तपूर्विका |
आकर्षिणी दैर्यपूर्वा कर्षिणी स्मृतिपूर्विका || ५८ ||

नामपूर्वाऽकर्षिणी च बीजाऽकर्षिणिका परा |
आत्माऽकर्षिणिका तद्वदमृताऽकर्षिणी ततः || ५९ ||

शरीराऽकर्षिणीत्येवं षोडशच्छदशक्त्यः |
भाविता गुप्तयोगिन्याऽग्रपत्राद्वामतः स्थिताः || ६० ||

शूभ्राःशुभ्रांऽशुककल्पाः पूर्णतारुण्यशोभिताः |
पाशदानसुधाकुम्भाऽङ्कुशाऽयुधपरिष्कृताः || ६१ ||

अनङ्गकुसुमाऽनङ्गमेखलाऽनङ्गपूर्विका |
मदनाऽनङ्गमदनाऽतुराऽनङ्गाऽद्यरेखिका || ६२ ||

अन्ङ्गवेशिन्यनङ्गाऽङ्कुशाऽनङ्गाऽद्यमालिनी |
एता गुप्ततराऽख्योत्था नागच्छदनिवेशनाः || ६३ ||

रक्तवर्णाऽशुककल्पा दिक्कोणक्रमतः स्थिताः |
पाशं नीलोत्पलं पात्रमङ्कुशं पाणिषुस्थितम् || ६४ ||

संक्षोभिणी विद्राविणी चाऽकर्षिणी चाऽल्हादिनी |
सम्मोहिनी स्तम्भिनी च जृम्भिणी च वशङ्करी || ६५ ||

रञ्जिनी चोन्मादिनी च ततश्चैवार्ऽथसाधिनी |
सम्पत्तिपूरणी मन्त्रमयी द्वन्द्वक्षयङ्करी || ६६ ||

सम्प्रदायोद्भावितता मनुकोणेषु संस्थिताः |
अग्राद्वामक्रमेणैव रक्ताभांऽशुकभूषणाः || ६७ ||

पाशाऽमृतघटाऽदर्शाऽङ्कुशशओभिचतुर्भुजाः |
सिद्धीप्रदा सम्पत्प्रदा ततः पश्चात्प्रियङ्करी || ६८ ||

मङ्गलाऽज्ञाकारिणी च ततः कामप्रदा स्मृता |
दुःखाद्विमोचनी त्द्वन्मृत्युप्रशमनी ततः || ६९ ||

विग्नान्निवारिणी चाऽङ्गसुन्दरी तदनन्तरम् |
सौभाग्यदायिनी पङ्क्तिकोणे प्राग्वत् समास्थिताः || ७० ||

पाशं भूषणपेटीञ्चाऽङ्कुशं पाणिचतुष्टयैः |
दधाना विशदाऽकारांऽशुकभूषणभूषिताः || ७१ ||

कुलोत्तीर्णा समुदिताः शक्त्यो यौवनाऽन्विताः |
ज्ञानशक्तिरैश्वर्यप्रदा ततोज्ञानमयी स्मृता || ७२ ||

ततो व्याधिविनाशिनी चाऽधाराद्यास्वरुपिका |
ततः पापहराऽनन्दमयी रक्षास्वरूपी || ७३ ||

ईप्सिताद्याप्रदा चेति दशारे पूर्ववत् स्थिताः |
पाशदानज्ञानटङ्ककरा रक्ताङ्गभूषणाः || ७४ ||

निगर्भाख्या भावितास्तु तरुण्यः शक्त्योऽमलाः |
वशिनी मोदिनी तद्वद्विमला चाऽरुणा ततः || ७५ ||

जयिनी सर्वेश्वरी च कौलिनी चेति शक्त्यः |
रहस्ययोगिनीजाताः पद्मरागसमप्रभाः || ७६ ||

चापदानपुस्तकेषुकरा लोहितभूषणाः |
नागकोणेषु पूर्वोक्तक्रमेण सुविराजिताः || ७७ ||

शक्तिरेका चाऽतिरहस्याऽख्योत्थोदक्षकोणके |
एवं ताः शक्तयश्चक्रे सृष्टाः प्रकृतिशक्तिभिः || ७८ ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीललितामाहत्म्ये श्रीचक्रदेवतानिरूपणं नाम षट्पञ्चाशत्तमोऽध्यायः || ४६२४ ||

सप्तञ्चाशत्तमोऽध्यायः श्रीचक्रदेवतानिरूपणवर्णनम्

Kapitel 57

श्रुत्वात्वष्टेरितं धातुः पुनः पप्रच्छ सादरम् |
पितामह श्रुतञ्चैतच्छ्रीचक्रं शक्तिमण्डलम् || १ ||

शक्तीनां नाम सम्पत्तिहेतुं मे पृच्छते वद |
तथाऽष्टाऽरे त्रिकोणे च कुतः स्थानं विशक्तिकम् || २ ||

षोडशी स महानित्या केन सायुज्यमागमत् |
एवं त्वष्टाऽनुयुक्तोऽथ प्रीतः प्राह चतुर्मुखः || ३ ||

विश्वकर्तः शृणु महागुह्यमेतन्निगूहितम् |
महाश्रीत्रिपुरेशान्या सृष्टास्त्रि (नि?) त्यास्तु षोडश || ४ ||

महात्रिपुरसुन्दर्या सृष्टास्त्वन्यास्तु शक्तयः |
(?) नाम तासां पृथक्स्वीयक्रिययैव निरुपितम् || ५ ||

या सा शक्तिर्महादेवी त्रिपुराऽख्या महत्तरा |
तस्याः सदा विलसितं जगदेतश्चराऽचरम् || ६ ||

ब्र्ह्मादिमूर्तिष्व्ंशेन संस्थिता सा महेश्वरी |
जगश्चक्रक्रियाकाण्डं निर्वाहयति चिन्मयी || ७ ||

साऽखण्डैकरसाप्यम्बा चितिमात्रशरीरिणी |
अनेकधाऽपि भवति स्वस्वातन्त्र्याऽवभासिनी || ८ ||

यथा सहस्ररश्मीनां पिण्डो हंसो नभोमणिः |
एकोऽप्येनकधाप्यास्ते यथा वा वार्निधिः स्थितः || ९ ||

तरङ्गोर्मिफेनमय एकोऽनेकात्मना तथा |
दर्पणः प्रतिबिम्बानां सहस्रेण यथा स्थितः |
१० ||

तथैषा परमा चाऽपि भेदाऽभेदमयी स्थिता |
शक्त्र्योऽशात्मिकास्तस्या अणिमाद्याः प्रकीर्तिताः || ११ ||

तस्याः स्वातन्त्र्यवशतः स्थूलाऽकारपरिग्रहः |
या शक्तिर्यत्क्रियाहेतुर्नाम तस्यास्तथास्थितम् || १२ ||

एवं सृष्टाः शक्त्यस्ता महामायाविमोहिताः |
स्पर्धाञ्चक्रुः संस्थितिषु स्थाननाचोच्चभावतः || १३ ||

दृष्ट्वा तच्छक्तिचक्रेषु कश्मलं स्मुपस्थितम् |
महाद्व्याज्ञया प्राह महात्रिपुरसुन्दरी || १४ ||

शृणुध्वं शक्त्यः सर्वा मम वाक्यं हि साम्प्रतम् |
स्पर्धाक्रोधात्मनामत्र स्थानं देवीसमीपतः || १५ ||

दुर्लभं तत्तपोयोगात् स्थानं विन्दथ नाऽन्यथा |
इत्युक्त्वाऽदौ स्वयञ्चक्रे तपः सुमहदद्भुतम् || १६ ||

दृष्ट्वा तपस्यभिरतां महात्रिपुरसुन्दरीम् |
अन्याः सर्वा अपि तपश्चक्रुर्नियतमानसाः || १७ ||

एवं शक्तिगणे तत्र तपस्यभिरते सति |
अगात् कालो दीर्घतमस्तदा तुष्टाऽवदत् परा || १८ ||

वत्सास्तुष्टाऽस्मि तपसा स्थानं योग्यं दिशामिवः |
इत्युक्त्वा स्थानमदिशन्महात्रिपुरसुन्दरी || १९ ||

य तस्यै सर्वचक्राणामीश्वरीत्वं ददौ परा |
अथ नित्याऽत्मशक्तीनां त्र्यस्रभूमौ निवेशनम् || २० ||

प्रतिपार्श्व पञ्चकस्य चाऽथ नित्या तु षडशी |
प्रदिष्टसम्मुखस्थानाऽप्यमन्यत न तद्बहु || २१ ||

पुनरातिष्ठदत्यन्तं तपः परमदुष्करम् |
एवं कामेश्वरी तद्वद्भगमालिनिकाऽपि च || २२ ||

न तत्स्थानमलं मत्वा तपश्चक्रतुरुत्तमम् |
एवं तपस्यभिरते शक्तिमण्डलके शिवा || २३ ||

एकाकिनीं स्वामपश्यन्न तत् सम्यगमन्यत |
तावद्विज्ञायाऽभिमतं महात्रिपुरसुन्दरी || २४ ||

त्रिपुराऽङ्गायुधेभ्यश्च दशशक्तीर्विसर्जयत् |
ता विसृष्टाः स्थिते स्थानं महात्रिपुरसुन्दरीम् || २५ ||

पप्रच्छुः प्राह ता देवी तपसा स्थानमीक्ष्थ |
इत्युक्त्वा तप एवओच्चैश्चक्रुः प्राक् शक्तिभिः सह || २६ ||

पुनर्देवी स्वपरितो मत्वैकामवलोकयत् |
अवलोकनतो जाताः शक्त्यो वेदसङ्ख्यकाः || २७ ||

काञ्चनाऽभाः पद्मधराः शुभ्रवस्त्रविभूषणाः |
दृष्ट्वा शक्तिगणं सर्वं तपस्यभिरतं सदा || २८ ||

मनो दधुस्तपस्येव त्वष्टस्ता अपि संययुः |
भूयो ददर्श परितो जातं शक्तिचतुष्टयम् || २९ ||

पाशाऽभयवरसृणिधरा रक्ताङ्गभूषणाः |
त्रिणेत्राश्च तपस्येव रता दृष्ट्वा च पूर्वजाः || ३० ||

पुनः सृष्टास्तथाऽन्याश्च पाशापुस्तकमालिकाः |
दधाना अङ्कुशञ्चापि रक्तवर्णविभूषणाः || ३१ ||

पुनः सृष्टाश्श्क्त्यश्च तावत्यः स्फटिकप्रभाः |
पाशाभयवरसृणिधरश्च तप आस्थिताः || ३२ ||

सृष्टाः पुनश्च तावत्योरक्ताऽकारविभूषणाः |
तपस्येव रतास्ताश्च दृष्ट्वा शक्तीः पुरः स्थिताः || ३३ ||

अथ दृष्ट्वा तपः प्रौढं प्राह तां त्रिपुरेश्वरी |
नित्यां षोडशिकां वत्से वरं ब्रूह्यभिवाञ्छितम् || ३४ ||

सायुज्यमेव सा वब्रे सर्वां मत्वाऽल्पिकां स्थितिम् |
प्राप्ता च परया तत्र सायुज्यं षोडशी परा || ३५ ||

या जाताः स्वाङ्गतो देव्याश्चतस्रः पञ्चधा च ताः |
स्वयन्तु पञ्चमी भूत्वा तासां तुष्टा समास्थिता || ३६ ||

पञ्च पञ्चकतां तेन प्रापुस्ता नामपञ्चकम् |
रत्नेश्वरीत्वमाद्यानां कामधुक्त्वं ततः परम् || ३७ ||

तथा कल्प्लतेशित्वं ततः कोशेश्वरीपदम् |
लक्ष्मीश्वरीत्वमन्त्यानां शक्तिवृन्दाऽसने स्थितिम् || ३८ ||

प्रत्येकञ्च ददौ शक्तिसहस्रेश्वरतां शिवा |
रत्नाः कामदघाः कल्पलताकोशाऽभिधायुताः || ३९ ||

लक्ष्मीसमाक्यास्ताः शक्तीस्त्वष्टर्जानीहि ताः पृथक् |
पञ्चविंशतिसाहस्रसंख्यास्तास्तु पृथक्पृथक् || ४० ||

सेवमानाः स्वस्वनाथं प्रत्येकन्तुसहस्रकम् |
पञ्चसाहस्र ससंख्याका मूलदेव्यास्तु शक्त्यः || ४१ ||

सिधालक्ष्मीस्तत्र चाऽद्या राजमातङ्गिनी परा |
तृतीया भुवनेशानी तुर्या वाराहिका मता || ४२ ||

रत्नेश्वर्य एमाः प्रोक्तास्ततः कामदुघाः शृणु |
सुधापीठेशरी चाऽद्या सुधासूश्च ततः परा || ४३ ||

तृतीया चाऽमृतेशानी तुर्या चाऽन्नप्रपूरणी |
अथ कल्पलतास्तत्र पञ्चकामा ततः परा || ४४ ||

पारिजातेश्वरी चाऽपि कुमारी च ततः परा |
पञ्चबाणेश्वरी चाऽथ परंज्योतिस्ततः परा || ४५ ||

परानिष्कलशाम्भवी चाऽजपा मार्ट्का परा |
इति कोशेश्वरीः प्रओक्ताः शृणु लक्ष्मीश्वरीस्ततः || ४६ ||

लक्ष्मीश्चाऽथ महालक्ष्मीस्त्रिशक्त्याद्या ततः परा |
साम्राज्यलक्ष्मीश्च रमा चेति पञ्चकदेवताः || ४७ ||

एवं पञ्चकदेवीनां तपसा परितोषिता |
ददौ समीपसंस्थानं बिन्दुचक्रोपरि क्रमात् || ४८ ||

आग्नेयादिषु कोणेषु तपसस्तु प्रकर्षतः |
मातङ्गिन्याश्च वाराह्या ददावतुलसम्पदम् || ४९ ||

मन्त्रिणीत्वं सर्वलोककार्यमन्तणहेतुताम् |
वाराह्या दण्डिनीत्वञ्चच दुष्टदण्डनेहतुताम् || ५० ||

ततः कालान्तरे हेमहरिन्मणिसुवप्रयोः |
मध्यं स्थानं ददौ देवी प्रसन्ना परिसेवनात् || ५१ ||

एवं तपोविशेषेण तुष्टा स्थानं पुनर्ददौ |
कामेश्वरी च वज्रेशी भगमालिनिका च या || ५२ ||

ताभ्यः समयदेवीत्वं दत्त्वा स्वाऽग्रे च पृष्ठतः |
वामे च दक्षिणे पार्श्वे स्थानं देव्यभिकल्पयत् || ५३ ||

उद्भाविता तु या देवी रहस्यतरनाम या |
सा प्राप तपसोत्कर्षाद्वज्रसालाऽन्तरे भूवि || ५४ ||

आधिपत्यं वज्रनदीतीरे मन्दिरसंस्थितिम् |
वज्रत्नेश्वरीत्वञ्च तेन वज्रेश्वरी मता || ५५ ||

पुनस्त्रिकोणकोणेषु स्थानं कामेश्वरीमुखाः |
प्रापुस्तपस आधिक्यात्तथा कामेश्वरी पुनः || ५६ ||

अष्टाऽरेषु द्वितीयञ्च स्थानं प्राता तपोबलात् |
तथाऽन्या अपि शक्तिस्तु महात्रिपुरसुन्दरी || ५७ ||

देव्या तया च स्थानेषु क्रमेण विनिवेश्यत् |
एवं नवसु चक्रेषु विभत्य विनिवे य च || ५८ ||

स्वयं तत्तदधिष्ठात्री नवधा समजायत |
त्रिपुरा त्रिपुरेशी च तथा त्रिपुरसुन्दरी || ५९ ||

ततस्त्रिपुरवासिनी त्रिपुरा श्रीस्ततः परा |
त्रिपुरमालिनी त्रिपुरा सिद्धा त्रिपुराऽम्बिका || ६० ||

नवमी च स्वयं तन्त्र महात्रिपुरसुन्दरी |
तत्तदावरणाऽद्याऽग्रे स्थिता तत्सदृशाऽकृतिः || ६१ ||

मूलदेव्याऽभिमुख्येन संस्थिताः सर्वशक्त्यः |
तथा ब्रह्मादिभिर्दृष्ट्वा सर्वं शक्तिगणाऽवृतम् || ६२ ||

मत्वा न तत् सम्यगिति कामेशः प्रार्थितोऽभवत् |
कामेश भगवन् देव त्वमपि सृज स्वांऽशतः || ६३ ||

परिवारं शिवाकारं नैतदौपयिकं यतः |
मन्यामहे शक्तिमहे शक्तिगणं केवलं विषमन्त्विति || ६४ ||

अथ कामेश्वरो देवः स्वांऽशाच्छक्त्यंशतोऽपि च |
उभयांऽशात्तदन्यस्मादसृजद्वेदसङ्ख्यकान् || ६५ ||

मित्रीशषष्ठीशौड्डीशचर्यानाथाऽभिधास्ततः |
पुस्तकाऽभीतिअरचिद्दधानान् स्फटिकप्रभान् || ६६ ||

श्वेतवस्त्राऽकल्पयुतांस्त्रिणेत्रान् रक्तशक्तिकान् |
पद्माऽसनसमासीनान् प्रसन्नवदनेक्षणान् || ६७ ||

तान् गुरुन् शक्तिमन्त्राणामकरोच्छान्तविग्रहान् |
पृथग्विद्यागुरुन् यूयं सृजध्वमिति चाऽब्रवीत् || ६८ ||

अथाऽद्यास्तत्र दिव्याख्यान् सिद्धाख्यानपरस्तथा |
तृतीयो मानवाऽख्यांस्तु गणानसृजत क्रमात् || ६९ ||

मुनिवेदनागसंख्यान् सर्वविद्यागुरुनथ |
नाथान्नवाऽसृजत्तुर्यः कालमूर्तीन्महाप्रभान् || ७० ||

गुरुमण्डलमेवन्तु सृष्टमुग्रतरं तपः |
तप्त्वा प्राप स्थानमपि त्वरिता पृष्ठभागके || ७१ ||

तत्र त्रिपङ्क्तिरुपेण मन्दिराणि क्रमेण तु |
दिव्यसिद्धमानवौघगुरुणां संस्थितानि हि || ७२ ||

तत्र स्थानं प्राप्नुवन्ति त्रिपुरां परमेश्वरीम् |
पूर्णोपासनयोगेनोपास्य शास्त्रोक्तमार्गतः || ७३ ||

गुरुभिर्बोधिताः पश्चात् प्रयान्ति परमं पदम् |
इति ते पृष्टमाख्यातं रहस्यं परमं महत् || ७४ ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे ललिलामाहात्म्ये श्रीचक्रे दिव्यौघादिदेवतानिरूपणवर्णनं नाम सप्तपञ्चाशत्त्मोऽध्याः || ४६८९ ||

Kapitel 58

Meditation führt die Aufmerksamkeit zum Licht des eigenen Bewusstseins.

अथ भूयश्चतुर्वक्त्रं त्वष्टा पप्रच्छ सादरम् |
जगद्विधे! त्वां पृच्छामि गुरवस्त्वौघरुपिणः || १ ||

कुतः समानसङ्ख्याका नाऽभवंस्तन्ममेरय |
नाम तेषाञ्च सर्वेषामथाऽग्नेः कुण्डमीरितम् || २ ||

तत्राऽग्निश्चिन्मयः केन जातस्तदपि वर्णय |
तत्र कुण्डे भवद्भिश्च स्त्रीरूपा केन हेतुना || ३ ||

विचिन्तिता पराशक्तिर्वदैतत् कारणं विभो |
न तृप्याम्यद्भुतकथां संशृण्वन्नपि भूरिशः || ४ ||

को नु तृप्येत्पराशक्तेः स्वात्ममूर्तेः कथाऽमृतम् |
पिबन्नपि चिरं दैवहतं स्थाणुमृते क्वचित् || ५ ||

तन्मे प्रब्रुहि भगवन् श्रोतव्यं यदि मे भवेत् |
श्रुत्वा विश्वक्र्तोक्तं तत् प्रसन्नः प्रपितामहः || ६ ||

समाहितः शृणु कथां त्वष्टश्चित्रां पुरातनीम् |
पार्वतीं सर्वतो गुप्तां प्रसन्नः प्रब्रुवे तव || ७ ||

मित्रीशाद्यास्तु ये सृष्टा राजराजेश्वरेण ते |
वाग्विद्यागुरवः सर्वे स्वच्छसंवित्तिरुपिणः || ८ ||

पश्यन्ती मध्यमा चेति वैखरी च परा तथा |
चतुर्विधा शब्दमयी पराशक्तिर्विजृम्भते || ९ ||

तत् क्रमं ते प्रवक्ष्यामि सर्वत्रैव सुगोपितम् |
त्रिपुराख्या हि या शक्तिः स्वच्छसंवेदनामयी || १० ||

न तत्र वागिन्द्रियाणि मनो वाऽप्यस्ति सर्वथा |
सर्वास्तिसारभूताऽत्मरूपी परमेश्वरी || ११ ||

न धर्मो धर्मवान् वाऽपि सर्वधर्मविवर्जनात् |
सर्वाऽश्रयचितिः स्वच्छा केवला वागगोचरा || १२ ||

तस्य चैतन्यमात्मेति न ततो विद्यतेऽधिकम् |
तदेव सर्वस्वातन्त्र्यमतो मायाख्यमीरितम् || १३ ||

अतर्क्याऽपर्यनुयोज्यमाहात्म्यमखिलाऽश्रयम् |
स्वयं स्वात्मानममलं विकल्पयति भूरिशः || १४ ||

लीलयैव सर्वजगज्जालमेष समीरतः |
विकल्प एव शब्दात्मा स्थूलमध्यविभेदतः || १५ ||

सूक्ष्मकारणभेदाभ्यां चतुर्विधमिति स्थितम् |
तत्र स्थूलन्तु यद्रूपं वैखरीति प्रकीर्तितम् || १६ ||

तत्र ध्वन्यात्मकोऽव्यक्तो वर्णात्मा व्यक्त ईरितः |
तल्लौकिकऽलौकिकत्वाद्विधा सर्वत्र संस्थितः || १७ ||

तत्राऽव्यक्तः सप्तविधो नादब्रह्माङ्कुरात्मकः |
षड्जर्षभौ च गान्धारमध्यपञ्चमधैवताः || १८ ||

निषाद इति स्प्तैते तन्त्रीकण्ठादिजाः स्वराः |
रागाऽभ्दिभूताऽग्निदस्रनागसंख्याविभेदिनः || १९ ||

एवं तु भूयो भेदेन न सङ्ख्येया भवन्ति ते |
तदेतद्देवसंस्थानं गुरवः सप्तसङ्ख्यका || २० ||

दिव्यौघास्तेन सम्प्रोक्ता मित्रीशेन प्रभाविताः |
व्यक्तस्त्वलौकिको विद्यामयः कूटचतुष्टम् || २१ ||

तदाश्रयाः सिद्धगणास्तेनैते वेदसङ्ख्यकाः |
सिद्धौघगुरवः प्रोक्ताः षष्ठीशप्रतिभाविताः || २२ ||

लौकिकोमातृकाऽत्मा स्यादष्टकुटेश्वरीमयः |
तत्संश्रया मानवाः स्युरतस्ता वसुसंख्यकाः || २३ ||

एकोनविंशतिमिता एवमोघत्रपस्थिताः |
औड्डीशप्रभवा एते वसुसंख्यास्तु मानवाः || २४ ||

शब्दः कालमयः सर्वो मात्रात्रयपराऽवधिः |
ध्वनिराशिः समायुक्तो वरणराश्यष्टकेन च || २५ ||

तेन स्युर्नवनाथा वै चर्यानाथसमुद्भवाः |
कालस्याऽवछेदकास्ते तुरीयपदसंश्रयाः || २६ ||

प्रकाशोऽथ विमर्शख्योऽथाऽनन्दो ज्ञानसंज्ञकः |
सत्यः पूर्णः स्वभावाऽख्यः प्रतिभः सुभगाऽभिधः || २७ ||

इति मे नवनाथास्तु ओघानामधिनायकाः |
ओघश्चतुर्विधो विद्याविभेदाद्युगभेदतः || २८ ||

मिश्रीतत्वाच्छक्तिमिश्रा गुरवः संव्यवस्थिताः |
ओघस्तु पञ्चमोऽपि स्याद्गुरुविद्याप्रवर्तकः || २९ ||

द्वादशैकादशरसमितास्ते चक्रवाह्यगाः |
वयं दिव्यभावाः सिद्धाः कुमाराद्याश्च मानवाः || ३० ||

नृसिंहाद्या इति प्रोक्ता गुरवस्त्वोघसम्भवाः |
अथाऽग्नेश्चिन्मयत्वं ते वर्णयामि क्रमाच्छृणु || ३१ ||

गुणमूर्तौ तृतीयो यो महादेवो महेश्वरः |
तमः क्रियः सत्त्वमूर्तिर्विकसश्चिन्मयाऽन्तरः || ३२ ||

देहिनां देहमध्यस्थं मार्गत्रयमनामयम् |
दक्षवाममध्यसंस्थं पैङ्गलेडासुषुम्णकम् || ३३ ||

इच्छाक्रियाज्ञानमयं तत्र भिन्नं द्वयं स्थितम् |
बद्धं मध्यं ज्ञानमार्गं विद्वांसः राहुरार्यकाः || ३४ ||

चित्स्पन्दरूपी रुद्धापार्श्वाभ्यामूर्ध्वनिर्गता |
क्रियामिच्छां चेतयति मर्त्यास्तेन हि चेतनाः || ३५ ||

क्र्येच्छामात्रसंयुक्ता ज्ञानमार्गस्य रोधतः |
आश्रयीभूतचिन्मात्रस्योर्ध्ववाहश्च चेतनाः || ३६ ||

तिरश्चामूर्ध्वमार्गाणां संरोधात्तिर्यगा स्थितेः |
न चेतयन्ति ते भूतं भव्यञ्च क्वचिदात्मनि || ३७ ||

तेनाऽचेतनतुल्यास्ते तिर्यञ्चः सर्व एव हि |
एवं स्थिते महादेवो यस्त्रिनेत्रस्ततोऽधिकः || ३८ ||

अस्माकमन्तःसम्भिन्ना मध्यनाडी चिदास्पदा |
तेनाऽन्तरस्मद्विज्ञानं पूर्णं समुपलक्ष्यते || ३९ ||

महादेवस्याऽन्तरे तु ज्ञानोद्रेकात्तदूर्ध्वतः |
फालदेशे विनिर्भिन्न मध्यनाडी चिदात्मिका || ४० ||

अन्तस्तमोद्रेकभावाश्चिदेवाऽग्नितया स्थिता |
तस्मात्तन्नेत्रसम्भूतश्चिदग्निरिति विश्रुतः || ४१ ||

अथ तत्तेऽभिधास्यामि स्त्रिरूपा चिन्तिता यतः |
शृणु लोके विश्वकर्मन् यत्सुखं तच्चिदात्मकम् || ४२ ||

अतः सुखे पशुनाञ्च प्रीतिः सर्वात्मना स्थिता |
सुखावहं सुन्दरञ्चलोके प्रत्यक्षभावनात् || ४३ ||

योस्.इद्रूपं सुन्दर्ञ्च तस्माल्लोके जनैः सदा |
प्रेक्ष्यते योषितां रूपं सुखस्हादनभावतः || ४४ |


अन्यश्च तेऽभिधास्यामि सा या चिद्रूपिणि परा |
स्ववैभवात्मकं विश्वं स्वातन्त्र्येण प्रकाशितम् || ४५ ||

नियत्या स्वाऽत्मनः शक्त्या नियतं सर्वमेव हि |
अभिमानो वृथा मोहादहं कर्तेतिसंस्थितः || ४६ ||

यदि कर्ता स्वयं कुतोऽन्यत् प्रसमीक्ष्यते |
तथाऽप्यसम्मतप्राप्तिर्भवेद्वा कथमीरय || ४७ ||

तस्मात् सृट्यादिकं किञ्चित् सर्व तस्या विजृम्भितम् |
तस्माद्योषिन्मयध्यानं तयैव प्रविभावितम् || ४८ ||

सर्वं विश्वस्य वैचित्र्यं तत्स्वातन्त्र्यनिबन्धनम् |
एवं स्थिता महाराज्ञी चिन्तामणिगृहे तदा || ४९ ||

महापद्भवनाऽन्तःस्थं वीक्ष्य तद्गृहराजकम् |
मत्वा तदपि नो सम्यङ्महादेवः सदाशिव्ः || ५० ||

श्रीदेव्याज्ञां समादाय निर्ममे प्रोक्त्वत्पुरम् |
ब्रह्माण्डेषु स्थिता देवा दैत्या मर्त्यादयोऽपि ये || ५१ ||

उपास्य त्रिपुरेशानीं सालोक्यां मुक्तिमाययुः |
ते तत्र तत्तत्स्थानेषु निवसन्ति पृथक् पृथक् || ५२ ||

इन्द्रब्रह्मादयोऽप्येवं नोवसन्ति चिरं पुरे |
तत्तद्वप्रान्तरभुवि स्वाम्यं प्राप्य सुनिर्मलम् || ५३ ||

तत्तत्कालप्रमाणस्य नियुतं प्रोप्य वै ततः |
विशन्ति परमं भावमवाङ्मनसगोचरम् || ५४ ||

तदन्तरे तु सम्प्राप्ता विधीन्द्रेन्दुमुखादयः |
पूर्वं संस्थितसायुज्यं लब्ध्वा तिष्ठन्ति सर्वतः || ५५ ||

साम्प्रतं यो विधिस्तत्र विद्यते तेन संयुताः |
ब्रह्माण्डान्तरसम्प्राप्ताः षष्टिसाहस्रसंख्यकाः || ५६ ||

षट्शतञ्च त्रिषष्टिश्च सायौयं ब्रह्मणा गताः |
इति ते सर्वमाख्यातं मानं श्रीपुरसंस्थितम् || ५७ ||

अत्र मेरौ प्रोक्तरीत्या पुरं रचय सुन्दरम् |
यत्र श्रीपुरसाम्राज्ञी त्रिपुराम्बा भविष्यति || ५८ ||

वयं यत्र स्थितां नित्यं पश्यामो नेत्रसुन्दरीम् |
इति धातृवचः श्रुत्वा विश्वकर्माऽतिविष्मितः || ५९ ||

निर्मातुं श्रीपुरं देव्या मेरुशृङ्गे मनो दधे |
विभावयन् विधिप्रोक्तं हर्षनिर्भरिताऽतरः || ६० ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीललितामाहात्म्ये श्रीपुरवर्णनपूर्वकं सायुत्यपदवीपर्यन्तंसिद्धिप्राप्तिवर्णनं नामाऽष्टपञ्चाशत्तमोऽध्यायः || ४७४९ ||

एकोनषष्टितमोऽध्यायः हयग्रीवागस्त्यसम्वादे नारदेन भण्डसमुद्बोधनवर्णनम्

Kapitel 59

एवं श्रुत्वा हयग्रीववाक्यमत्यन्तसुन्दरम् |
कुम्भोद्भवः प्राह भूयस्तत्कथाश्रवणोत्सुकः || १ ||

भगवन्नश्ववदन भण्डदैत्यः समागतः |
तपोविघ्नं निर्जराणां चिकीर्षन् वह्निनाऽवृतान् || २ ||

देवान्निशाम्य विमुखः प्रयातः शून्यपत्तनम् |
ततः किमकरोत्तत्र तन्मे वद सुविस्तरम् || ३ ||

संशृण्वन् ललितेशान्याः कथां कथयतस्तव |
पुनः श्रोतुं समीहा मे वर्धतेऽतितरां ननु || ४ ||

एवं पृष्टः कृम्भजेन मुनिः प्राह हयाऽननः |
शृणु कुम्भोद्भव कथां विचित्रां परमाऽद्भुताम् || ५ ||

अपयाते भण्डदैत्ये देवेर्षिरथ नारदः |
शून्यकं प्रत्याजगाम शरदभ्र्मिवाऽम्बरात् || ६ ||

तमायन्तं देवमुनिं भण्डदैत्यो विहायसि |
ददर्श वृष्टमेघाभं वादयन् वल्लकीं शुभाम् || ७ ||

समुद्गम्य समानीय मुनिं दैत्यः प्रपूजयत् |
सम्पूज्य विधिना प्राह कृताञ्जलिरिदं च || ८ ||

देवर्षे स्वागतं नूनं चिरात्तेऽहं समीप्सितः |
कृपया पश्य शिष्यं ते दुर्लभं ते कृपेक्षणम् || ९ ||

ब्रूहि द्वश्चिन्निर्जराणां प्रक्षीणाणां स्थितिं स्थिराम् |
प्रायो विप्रा भीरवो हि गुरुर्मे भयमोहितः || १० ||

मद्बाहुवीर्यमविदं देवाऽसुरभयावहम् |
देवाः शक्तिमुपासीनाः प्रसन्ना यदि सा भवेत् || ११ ||

पराजयस्ते ध्रुवं स्यात्तस्माद्विघ्नं समाचर |
इत्युक्तोऽहं दैत्यगणैस्तत्राऽयातो जिघांसया || १२ ||

वह्निज्वालाऽवलीढांस्तान् दृष्ट्वा देवान् सवासवान् |
हृष्टः प्रत्यागतः स्थानं तत्र पृच्छामि प्रस्तुतम् || १३ ||

कथं दावाग्नीना ग्रस्ता देवा भस्मत्वमाययुः |
कश्चित्तत्र विमुक्तो वा तन्मे शंसमुनीश्वर || १४ ||

पृष्ट एवं देवमुनिः प्रहस्य प्राह दैत्यपम् |
दैत्येश्वरेभ्योऽसूया मे न कर्तव्या कदाचन || १५ ||

नाऽनृतं कुत्रचिद्ब्रूमो वयं सत्यैकसंश्रयाः |
प्रभाषसे कथं मुग्ध इव त्वं पण्डितोऽपि सन् || १६ ||

विपरीतो ननु विधिर्यस्मात्ते बुद्धिरीदृशी |
शोकस्थाने हर्षयुतो यतस्त्वं वीक्षितो मया || १७ ||

सुसमृद्धाः शत्रवस्ते महादेवी समाश्रयात् |
आविर्भूता त्वद्वधाय तोषिता शक्रमुख्यकैः || १८ ||

चिदग्निकुण्डान्निर्याता ललिता परमेश्वरी |
सर्वलोकेश्वरी दिव्यरूपाऽदभुतमहाबला || १९ ||

सर्वाऽयुधसमुपेताशक्तिशङ्घैः परीवृता |
समेष्यति त्वां निहन्तुं किं तुष्यसि हि मूढवत् || २० ||

श्रुत्वा नारदसम्प्रोक्तं प्रहस्य प्राह दैत्यराट् |
नूनं मया पुरैवोक्तं विप्राः प्रकृतिभीरवः || २१ ||

मुने जानासि नो मं त्वं साक्षान्मृत्योर्भयङ्करम् |
विष्णुः सुरेष्वतिबली स युद्धेमे पराजितः || २२ ||

पञ्चोत्तरशताण्डानामधिपोऽहं पराक्रमी |
देवासुरादिस्रष्टाऽहं लोकशस्त्राऽस्त्रसन्ततेः || २३ ||

मम वशे स्थिता ब्रह्मविष्णुमुख्यपरम्पराः |
कथं भीतोऽसि स्त्रीगेतोर्निसर्गादबलाः स्त्रियः || २४ ||

तदन्तरे भण्डडैत्यपत्न्यः सम्मोहिनीमुखाः |
देवर्षिमानयमासुरवरोधे सखीगणैः || २५ ||

आगतं मुनिशार्दूलं सम्पूज्याऽसनमुख्यकैः |
पाद्याऽर्घ्यैः सुबलिद्रव्यैः प्रणम्य प्राहुरादरात् || २६ ||

देवर्षे त्व्त्प्रसादेन धन्यास्त्वद्दर्शनेन च |
वयमस्मान्निरीक्षस्व दृष्ट्या करुणया भृशम् || २७ ||

वयन्तु गुरूपत्नीभ्यः शुश्रूमोऽत्यन्तसाध्वसम् |
उत्पन्ना ललिता देवी देवैः समभिपूजिता || २८ ||

भर्तुर्वधाय नो देवसौख्याय परमेश्वरी |
तद्बोध्याऽसुरपतिं यथा नाशं न चैष्यति || २९ ||

शरणं त्वां प्रपन्नाऽस्मो निमग्ना दुःखसागरे |
उद्धराऽस्मान् दुःखसिन्धोः पाहि नः परिचारिकाः || ३० ||

इत्युक्त्वा चरणौ स्पृष्ट्वा रुरुदुर्दैत्ययोषितः |
वीक्ष्य तासां प्ररुदितं करुणाऽक्रान्तमानसः || ३१ ||

आनायय दैत्यराजं तं तत्र प्रोवाच नारदः |
दैत्येश्वर ! मदुक्तं त्वं शृणु वाक्यं सुधासमम् ||३२ ||

मा शोचयाऽवलाश्चेमा मा नाशाय च बान्धवान् |
हितवक्ता हि लोक्देषु जनः परमदुर्लभः || ३३ ||

अविचार्याऽगमाऽपायं मधुरं यः समक्षतः |
वदेत्तमभिजानीयाच्छत्रुं मित्रस्वरुपिणम् || ३४ ||

यो ब्रूयादागमाऽपायं विमृष्य परया धिया |
कटुकं ह्यौषधसमं जानीयान्मित्रमेव तम् || ३५ ||

गुरुः काव्योऽत्यन्तधीरदीर्घाऽमर्शी प्रिये हितः |
तदुक्तमत्यन्तपथ्यं रोगिणो भेष्जं यथा || ३६ ||

गुरुक्तमपरित्यज्य सौभाग्यं परमाप्नुयात् |
तदहं प्रब्रवीमि त्वां यत्तद्दैत्यपते शृणु || ३७ ||

मन्यसे यत्स्वमात्मानं सर्वेभ्यो बलवत्तरम् |
तत्राऽपि शृणु वक्ष्यामि कैटभो दैत्यशेखरः || ३८ ||

यस्याऽभून्मेदसश्चेयं मेदिनी लोकधारिणी |
विष्णुना निहतो युद्धेऽप्रतिमो बलप्रौरुषे || ३९ ||

स्त्रियं तामबलां यत्त्वं मन्यसे तत् पुरा श्रूतम् |
शुम्भासुरनिशुम्भौ च महिषश्च बलोद्धतः |
तोऽनयैव परया महासुरबलैर्वृतः || ४० ||

अलं ते बलदर्पेण रिपुणा स्वाऽत्मघातिना |
न किं स्मरसि गौर्या ते युद्धे पूर्वपराभवम् || ४१ ||

गौर्यादिभिर्बिशिष्टेयं ललिता परमेश्वरी |
सेव्यते याऽनेककोटिगौरीप्रमुखशक्तिभिः || ४२ ||

साऽस्याः शक्तेः पादनखसमं ब्रह्माण्डमण्डलम् |
यस्य प्रसादादेव त्वं मन्यसे बलिनां वरम् || ४३ ||

सऽपि तस्या महादेवः पीठपादांशसम्भवः |
तदलं स्वाऽत्मसर्वार्थनाशनाऽभिनिवेशतः || ४४ ||

प्रपश्येमाः प्रियाः साध्वीः शोचन्तीर्दैन्यमागताः |
अहं त्वां तत्र नेष्यामि पराशक्तेः पदान्तिकम् || ४५ ||

क्षामयामि च तां देवीं त्वदर्थं सर्वयत्नतः |
राज्यं प्रसाधि पाताले दिवं शासतु वासवः || ४६ ||

रक्ष दैत्यपरीवारान् मा विनङ्क्षीः प्रियैः सह |
न करिष्यसि मत्प्रोक्तं यदा यहि विनङ्क्ष्यसि || ४७ ||

दैत्येश कश्चिन्मत्प्रोक्तं श्रुतं मनसि रोचते |
धिया सात्त्विकया चैतद्विमृश स्वात्मरक्षणम् || ४८ ||

श्रुत्वेत्थं नारदवचो भण्डदैत्यः प्रहस्य च |
हस्तेनाऽदाय देवर्षिं प्रारोहत् सौधशेखरम् || ४९ ||

मेरुशृङ्गप्रतीकाशं काञ्चनं सौधशेखरे |
वातायने मणिमये विवेश मृदुविष्टरे || ५० ||

सन्निवेश्याऽसने तत्र देवर्षि मृदुतूलजे |
देवर्षमयि रोषं त्वं न शिष्ये कर्तुमर्हसि || ५१ ||

जानामि त्वा. महाभक्त्ं पराशक्तेः पदाऽश्रयम् |
यद्ब्रवीष्यखिलं तत्ते नाऽन्यथा विदितं मया || ५२ ||

जानासि सर्वं मे वृत्तं लीलयैवं ब्रवीषि माम् || ५३ ||

अहं ननु रमादेव्या दूतो माणिक्यशेखरः |
कदाचित् सा तोषणाय त्रिपुराया महत्तपः || ५४ ||

चक्रेऽब्दानां त्रिनियुतं जाह्नवीतटसंश्रया |
कदाचित् किन्नरी काचित्तारुण्याऽमृतपूरिता || ५५ ||

उन्मज्जन्ती निमज्जन्ती पतिता जाह्नवीजले स्रोतोऽभिरुह्यमाना सा त्रातारं नाऽधिगच्छत || ५६ ||

दृष्ट्वा करुणयाऽविष्ट आप्लुतः स्वर्धुनीजले |
तां पृष्ठतः समारोप्य तटमारुह्य सत्त्वरम् || ५७ ||

तां समावेशयं तत्र विज्वरा सा क्षणाद्बभौ |
तदङ्गस्पर्शनाश्चाहं लावण्यस्य समीक्षणात् || ५८ ||

कामेन मोहितो जातस्तामवोचमिमां गिरम् |
कल्याणि त्वं रक्षिताऽसि मया मृत्योर्मुखादिवा || ५९ ||

त्वदङ्गसङ्गात् कामार्तो जालोऽहं रक्ष मामिह |
कृते प्रतिकृतीं कुर्याच्छक्तः सर्वात्मना स्वयम् || ६० ||

अकुर्वन् प्रत्युपकृतिं निहन्त्यात्मानमात्मना |
तन्मां कामाग्निनाऽविष्टमार्तं ते शरणाऽगतम् || ६१ ||

रक्षाऽधुना स्वात्मदानान्नो चेत् प्राणान् जहाम्यहम् |
श्रुत्वा मद्विपरीतोक्तिं साध्वी सा किन्नरी वचः || ६२ ||

अब्रवीदमृतस्यन्दि मधुरं गुणवतरम् |
मा बुद्धिभ्रंशमागच्छ किन्नरी पतिदेवता || ६३ ||

तपस्यभिरतो भर्ता इतो मे क्रोशपञ्चके |
आस्ते तस्य प्रिया चाऽस्मि तरुच्छायेव सङ्गता || ६४ ||

नाऽतिवर्ते पतिं क्वाऽपि शृण्वन् यदपि कारणम् |
य आपद्भ्यः समुद्धर्ता यश्च बाल्यप्रपोषकः || ६५ ||

स पिता धर्मतः शास्त्रे प्रोक्तस्तस्मात् पिता मम |
त्वं ते सुता धर्मतोऽहं नैवं मां वक्तुमर्हसि || ६६ ||

पुरुषः स्वात्मनः शत्रुं मनो यच्छेदपस्थलात् |
नाशयेत्तं मनः शीघ्रं मनो यस्य वशे न हि || ६७ ||

विमृश स्वच्छया बुद्ध्य धीरया लोकचेष्टितम् |
स्त्रीसुखं सर्वतो ह्येकं न विशेषः पशुष्वपि || ६८ ||

तत् स्वकान्तास्वेव रतिं मनसा भा नाऽन्यतः |
पतिब्रतानां क्रोधाग्निं प्राप्य मा भस्मतां व्रजाः || ६९ ||

इत्यादिहितवाक्यानि वदन्ती बहुधाऽप्यहम् |
काममोहपरीताऽत्मा पराम्र्ष्टुमुपद्रुत || ७० ||

सा क्रोशन्ती रमादेव्याश्चरणान्तिकमागता |
वदन्ती रक्ष रक्षेति ततस्तस्यास्तु सम्मुखे || ७१ ||

परामृष्टोत्तरीये सा मया कामान्धचक्षुषा |
अथष्ट्वाऽनयं देवी रमा क्रुद्धा शशाप माम् || ७२ ||

नैषा देवतनुर्मूढ ! दुर्विनीत तवोचिता |
कृत्यं तवाऽसुरं ह्ये तत्ततस्त्वमसुरो भव || ७३ ||

तं शापं घोररूपन्तु श्रुत्वा कामस्य वेगतः |
प्रतिबुद्धः शोकसिन्धुनिमग्नोऽभवमञ्जसा || ७४ ||

समाश्वस्ता किन्नरी सा न्त्वा स्वभवनं ययौ |
पुनः प्राह रमादेवी मां मग्नं शोकसागरे || ७५ ||

धिगनार्य मत्समीपं न वस्तुं त्वमिहार्ऽसि |
शरिरं ते घोररूपं परदाराऽभिमर्शनम् || ७६ ||

गच्छत्वदृश्यतां सद्यो भव वाययुशरीरकः |
एवं तया प्रशप्तोऽहं भीतो देवीश्रियं तदा || ७७ ||

प्रसाद्यं भुबिधैः प्रार्थनैः सन्नतैरपि |
एवं चिरेण भूयोऽपि प्रसन्नाऽभवदम्बिका || ७८ ||

मया शापविमोक्षाय प्रार्थिता साऽह मां तदा |
माणिक्यशेखर ! कृतं त्व्याऽत्यन्तविनिन्दितम् || ७९ ||

नैतस्याऽपचितिं चान्यां पऽऽयामि स्वल्पमप्युत |
नाऽन्यथा मे भवेच्छापः कृतं भोक्तव्यमेव ते || ८० ||

नष्टदेहो वायुभूतश्चिरं स्थित्वाऽसुरो भव |
किन्तु तां पतितां तोये दययोद्धृतवानसि || ८१ ||

तेन पुण्यप्रपाकेन विभवं सर्वतोऽधिकम् |
प्राप्याऽनेकाऽण्डनाथत्वं भुक्ता भोगान यथेप्सितान् || ८२ ||

महादेव्या हतः सङ्ख्ये प्राप्य तल्लोकसंस्थितिम् |
प्राप्य तत्र चिरं कालमसुरैः प्रतिपूजितः || ८३ ||

अन्ते तत्पदमासाद्य न भूयः सम्भविष्यसि |
श्रुत्वैतद्वचनं भूयो ह्यपृच्छं लोकमातरम् || ८४ ||

देवि ! का सा महादेवी निहतः स्यां यया मृधे |
सा किं त्वत्तोऽधिका देवी नाऽहं जाने तवाऽधिकाम् || ८५ ||

ब्रूहि सा कतमा का च तस्याः किं वा महित्वकम् |
इत्यापृष्ता मया देवी प्राह श्रीलोकमातृका || ८६ ||

माणिक्यशेखर शृणु सा देवी सर्वतः परा |
महाचितिस्वरूपा सा यस्याः प्रकृतिधर्मतः || ८७ ||

ब्रह्मा विष्णुर्हरश्चैव प्रत्यण्डं गुणमूर्तयः |
ईशवरोऽपितिरोधानकरस्त्रिगुणजेश्वरः || ८८ ||

तत्राऽप्यनुग्रहकरः सदाशिव इतीरितः |
यस्या ईक्षणलेशेनाऽनुग्रहादखिलं सृजेत् || ८९ ||

अनादिकालतो मायापाशितानणुसङ्घकान् |
अनुग्रहान्मोचयितुं सृजत्येष महेश्वरः || ९० ||

न मुक्तिः प्रलयस्थानामणूनां शून्यभावतः |
देहभावं समापन्ना सृष्टौ ज्ञातुं प्रभावितः || ९१ ||

सोऽपि तस्या अंशभूत इति सा साररूपी |
सर्वाऽत्मरूपा परमा चितिशक्तिरुदीरिता || ९२ ||

सैवाऽस्त्यत्र जगश्चित्रभित्तिदर्पणसम्मिता |
सर्वाऽत्मना वृंहणेन ब्रह्मशब्देन शब्दिता || ९३ ||

न स्त्रि न षण्ढो न पुमांस्त्रिपुरा चिच्छरीरिणी |
अवाङ्मनसगम्या सा चेत्यनिर्मुक्तचिन्मयी || ९४ ||

सा तु सप्तदशी नित्या परमेश्वरसंश्रया |
द्वे कले तस्य नाथस्य कार्यता कर्तृतेति च || ९५ ||

कार्यता स्यात् षोडशधा कर्तृता चैकरूपी |
इन्द्रियाणान्तु दशकं भूतानां पञ्चकं तथा || ९६ ||

अन्तःकरणमित्येवं कार्यता षोडशाऽत्मिका |
कर्तृता स्यात् सप्तदशी कला नित्या महेशितुः || ९७ ||

सा षोडशाऽश्रयीभूता संवित सर्वस्य कारणम् |
तां हित्वा न शिवःकश्चित् ब्रह्मा वाऽपि सदाशिवः || ९८ ||

ईश्वरः शिवविष्णू वा ब्रह्मा वा देवतागणः |
नर नार्यः प्राणिजातं जङ्गमं स्थावरं तथा || ९९ ||

प्राणवश्चाऽप्राणकं वा न किञ्चिदवशिष्यते |
भूषणेषु स्वरणमिव जलवत् सागरादिषु || १०० ||

शून्यत्वमिव चाऽकाशे स्पशंवत् स्यन्दवत्परे |
तेजस्युष्णं यथा रूपं जलेस्पन्दोरसो यथा || १०१ ||

पृथिव्यां गन्धकाठिन्ये इव सा सर्वतः स्थिता |
सा स्वाऽभासितलीलाऽत्मलोकोद्धरणहेतुना || १०२ ||

परश्रीचक्रनगरसाम्राज्ञीत्वमधिष्ठिता |
जाता वयं तदङ्गेभ्यो वाक्श्रीगौरीसमाह्व्याः || १०३ ||

काली क्रोधात् समुत्पन्ना महाकालेन संयुता |
वचनात्तु तथा जाता तारा भैरवसंयुता || १०४ ||

पराक्रमात् समुद्भूता दुर्गा दुर्गतिनाशिनी |
क्रौर्यात् प्रत्यङ्गिरोद्भूता महाशरभसंयुता || १०५ ||

शार्याज्जाता शूलिनी च मालिनी वाक्समुद्भवा |
चण्डिका चण्डशब्देन धूम्रा क्रूरेक्षणेन च || १०६ ||

एवं सर्वास्तदङ्गोत्था न हि काचित्ततः परा |
तस्या लीलाऽवतारेण ललिताऽख्येन सङ्गरे || १०७ ||

हतस्तल्लोकवसतिं चिरं प्राप्य विमोक्ष्यसे |
इत्युक्तस्तु तया पश्चात् प्रार्थनं कृतवान् पुनः || १०८ ||

एवञ्चेदम्ब भवतु कीञ्चित्त्वां प्रार्थये पुनः |
आसुरत्वं भवेद्योनिसम्बन्धेन विना मम || १०९ ||

पराशक्तेर्मुख्यभक्तशरीरान्मे जनिर्भवेत् |
न जातु मामियं प्रज्ञा जहातु जगदम्बिके ! ||११० ||

प्रार्थितैवं तथैवाऽस्तु तवेत्युक्तवती रमा |
तदहं भक्तमूर्धन्यात् कामाऽङ्गाज्जनिमाप्तवान् || १११ ||

पञ्चोत्तरशताऽण्डानामाधिपत्यं चिरं कृतम् |
विषयानुत्तमान् भुक्त्वा नित्यञ्च चिरकालतः || ११२ ||

निर्विण्णो विषयेभ्योऽहं काङ्क्षे तस्या वधं स्वकम् |
वस्तुं तस्याः समीपेऽहं तल्लोके कृतनिश्चयः || ११३ ||

तस्याः पदाम्बूजं ध्यायन्नजस्रं परमेश्वरीम् |
प्रतीक्षामि कदाऽगत्य विधिष्यति च मामिति || ११४ ||

पुत्रपौत्रकलत्राद्यैर्निहतस्तु तया रणे |
तल्लोके निवसाम्याशु इति मे त्वर्ते मनः || ११५ ||

तद्गत्वाऽश्वास्य मे भार्यां बोध्याऽश्वविवेकतः |
इति श्रुत्वा भण्डवचो नारदो हृष्टमानसः || ११६ ||

संश्लाध्य भण्डदैत्येशं समाश्वास्य च तत्प्रियाम् |
जगामाऽभिमतं स्थानं नारदो मुनिसत्तमः || ११७ ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे ललितामाहात्म्ये श्रीनारद-भण्डसम्वादे भण्डद्वारा स्वपूर्वजन्मकृतकर्म्मविपाअकात्परायाः कृपावशाद्देवीधामप्राप्तिवर्णनं नामैकोनषष्टितमोऽध्यायः || ४८७५ ||

षष्टितमोऽध्यायः नारदहारितायनसम्वादे भण्डासुरविचारवर्णनम्

Kapitel 60

इत्युदीरितमाकर्ण्य नारदो हारितायनम् |
प्रसन्नः प्राह संहृष्तः स्वाऽनुभूतनिरूपणात् || १ ||

हारितायन ! साधुक्तं त्वयाइतच्चिरकालजम् |
मानसं बाह्यमपि च ममाऽसीद्यत् पुरातनम् || २ ||

तद्यथातथनिर्देशात् स्मृतं मे प्रोक्तवत्क्रमात् |
चिरकालेनाऽन्तरितमप्यद्येव तवोक्तितः || ३ ||

भात्यन्तःकरणे सर्वं धन्यस्त्वमसि भूतले |
यत्पराकृपया सर्वं विदितं भाह्यमान्तरम् || ४ ||

तत्त्वां पृच्छामि मे ब्रूहि संशयोऽन्तश्चिरात् स्थितः |
अतीतमान्तरं भाह्यं कथते विदितं ह्यभूत् || ५ ||

अदृष्टमशुतं वाऽपि कथं जानासि सुव्रत |
श्रुत्वेत्थं नारदवचः प्रहस्य हारितायनः || ६ ||

देवर्षे शृणु वक्ष्यामि बह्वल्पमिदमीरितम् |
अत्रोपपत्तिरपरे खण्दे सम्यग्भविष्यति || ७ ||

यथाऽनुभूतं स्मरति जन एवमहं ननु |
वरेण ब्रह्मणः सर्वबाह्यं वाऽप्यान्तरं तथा || ८ ||

त्वत्प्रसादेन जिता सा मात्रेणैवाऽनुभूतवत् |
संस्मराम्यविदग्धंनु श्रीदेव्याः सुप्रसादतः || ९ ||

ततो दत्तगुरुः प्राह रामायैकाग्रचेतसे |
शृणु भार्गव ! तत्पश्चाद्धायाऽस्यः कुम्भजन्मने || १० ||

प्राह युद्धकथां भण्डाऽसुरदेव्योर्महाद्भुताम् |
शृणुकुम्भोद्भव मुने होमाऽग्निजनितां शिवाम् || ११ ||

ललितां सर्वलोकैकसुन्दरीं परमेश्वरीम् |
दृष्ट्वा शक्रमुखा देवाश्चिन्तयामासुरान्तरे || १२ ||

नन्वियं तरुणी सर्वलोकसौन्दर्यमन्दिरा |
लतेवाऽलम्बरहिता भर्तृहीना न शओभते || १३ ||

देवचिन्तां विदित्वैवं ब्रह्माद्या गुणमूर्तयः |
दध्युः कामेश्वरं यावत्तावत्सोऽपि विनिर्गतः || १४ ||

तनोस्तस्या महादेव्याः समानाऽकारभूषणः |
दृष्ट्वाऽनुरूप देव्यास्ते पतिरस्या वरो मतः || १५ ||

भूयाद्विवाहः (स्त्व?) अनयोरित्याशंसनतत्पराः |
तद्विज्ञाय विधिमुखाः प्रार्थ्य देवीं परात्पराम् || १६ ||

महोत्सवविधानेन विवाहं समकल्पयन् |
अथ देवैः प्रार्थिता सा ललिता परमेश्वरी || १७ ||

बधाय भण्दैत्यस्य परिवारानकल्पयत् |
समस्ताऽवरणौघांश्च स्मरणात् समवाऽसृजत् || १८ ||

तदन्तरे तु देवर्षिः प्राप्तो देव्याः पदाऽन्तिकम् |
प्रणम्य दण्डवद्देवीं स्तुत्वा विविधसंस्तवैः || १९ ||

कृताञ्जलिर्बभाषे तां विनीतो नतकन्ध्रः |
देव्यहं समनुप्राप्तो भण्डदैत्यस्य सन्निधे || २० ||

आगच्छति महासेनां विकर्षन् बलवत्तरः |
तदहं प्रेषितस्तेन त्वामाहाऽसुरभूपतिः || २१ ||

अबला त्वं कस्य बलान्मया योद्धुं हि वाञ्छसि |
अज्ञात्वा मद्बलं मुग्धा विनाशं मा व्रजाऽधुना || २२ ||

भव मत्पार्श्वगा शीघ्रं त्यज ब्रह्ममुखान् सुरान् |
भूयः पराजितान्मत्तो मायामात्रसमाश्रितान् || २३ ||

मया विरुध्य कोऽप्यत्र योषिद्वा पुरुषोऽपि वा |
द्वेयात् सुखं मृत्युमुखप्रविष्टमिव सर्वथा || २४ ||

इत्युक्त्वा युद्धसन्नहं परमं सम्यगादिशत् |
मन्येऽहं त्वं जितप्राया तेन धीरेण साम्प्रतम् || २५ ||

पृच्छामि देवि ! त्वां किञ्चिद्रहस्याज्ञापयाऽशु माम् |
निशम्य नारदोक्तिं तां मन्त्रिणीं समवेक्षत || २६ ||

विदित्वा देव्यभिप्रायमिङ्गितज्ञाऽथ मन्त्रिणी |
करेणाऽदाय देवर्षि रहसि प्राविशत् परा || २७ ||

अथ तत्र समसीना प्राह तं मन्त्रनायिका |
पृच्छ नारद ! प्रष्टव्यं यत्ते मनसि विद्यते || २८ ||

जानामि त्वां परादेव्याः पादभक्तिपरायणम् |
नूनं नाऽविदितं तेऽस्ति लोके श्रीपादसंश्रयात् || २९ ||

तथाऽपि पृच्छ तेऽभीष्टं छेद्मि संशयमाहितम् |
आज्ञप्त एवं मन्त्रिण्या प्रणम्य सुरतापसः || ३० ||

प्राह बद्धाञ्जलिपुटः प्रश्नशब्दान् सुपेशलान् |
देवी! भण्डासुरो दृष्टो मया सम्यक् परीक्षितः || ३१ ||

नूनं स सर्वभक्तानामस्माकं शेखरायितः |
कथं युद्धे पराभूयात् परापादैकसंश्रयः || ३२ ||

अथाऽपि तेन सम्प्रोक्तमहं देव्या हतो युधि |
चिरं निवस्य श्रीलोके ततो गच्छामि तत्पदम् || ३३ ||

लल्लोकबाधकः कस्माद्धीनाऽचारोऽपि मुच्यते |
वयंकस्माल्लोकगतिं विन्दामस्तदुब्रवीहि मे || ३४ ||

पृष्तैनं श्यामला राज्ञी नारदं प्रत्युवाच ह |
शृणु मे नार्द ! वचो रहस्यमपि साम्प्रतम् || ३५ ||

श्रीपादसंश्रयः क्वाऽपि हीयते न कदाचन |
तस्योत्तमपदप्राप्तिः सर्वथा स्यान्न चाऽन्यथा || ३६ ||

यथा बालस्याऽमयिनो माता पथ्यमपीच्छितम् |
न यच्छति तथा पथ्यमौषधं ह्यनपेक्षितम् || ३७ ||

ददाति बलतस्त्वेवं तत्प्रपोषणतत्परा |
तं भक्तशेखरं हत्वा दुष्कृतं विततं कृतम् || ३८ ||

दर्शनाऽलापशस्त्रार्द्यैर्विनाऽश्य बलवत्तरम् |
स्वपदं प्रापयत्याशु तथा शृणु ब्रवीम्यहम् || ३९ ||

यस्तु यं प्रार्थयत्यर्थमेकान्तेन स्वचेतसा |
तस्मै तत्त्रिपुरा शिघ्रं प्रयछति न संशयः || ४० ||

प्रतिकूलमभीष्टस्य यावन्नो नाशमृच्छति |
तावदेव तस्य चिरं ततः स्वेष्टमवाप्नुयात् || ४१ ||

शृणु त्वं नित्यमुक्तोऽसि न ते मुक्तिः समीहिता |
अज्ञस्य तत्समीहा स्यात् ज्ञस्य वै तत्कुतो भवेत् || ४२ ||

बद्धो हि मुक्तिं वाञ्छेत यथा भूक्तिं बुभुक्षितः |
तृप्तः कथं भुक्तिमिच्छेत्तवऽन्यो भोजयेत् कथम् || ४३ ||

अप्राप्तस्य प्राप्तिरिष्टा का या प्राप्तस्य सम्भवेत् |
आकाशस्येव पूर्णस्य किं प्राप्तिः स्यात् कथंवद ? || ४४ ||

तस्मादज्ञस्य प्राप्तव्यो मुक्तिस्ते ज्ञस्य सा कथम् |
श्रूत्वेत्थं नाअरदो मन्त्रिणीप्रोक्तं हृष्टमनसः || ४५ ||

प्र्णम्य ताञ्च त्रिपुरां जीवन्मुक्तो जगाम ह |
अथ सा त्रिपुरा देवी भण्डाऽसुरवधं प्रति || ४६ ||

प्रार्थिता विधिविष्ण्वाद्यैर्निर्ययौ शक्तिसेनया |
चक्रराजसमकाररथे पर्वनवाऽत्मके || ४७ ||

ऊर्ध्वोर्ध्वभूमिकाऽकरसदृशे समलङ्कृते |
ऊर्ध्वभूमौ स्थिता युद्धसम्भारौघसुसम्भृता || ४८ ||

अभेद्यकवच (अद्यैश्च?) देशिताऽप्तिबिभीषणी |
शस्त्राऽस्त्रनिचयोपेता रोषाऽरुणितलोचना || ४९ ||

धनुर्वेदो मूर्तिधरः स्थितः पार्श्वे कृताञ्जलिः |
शस्त्राण्यस्त्राणि च तथा मूर्तिमन्ति स्थितानि वै || ५० ||

अधोऽध्ः क्रमतः सर्वास्तथाऽवरणशक्तयः |
देशिताश्चित्रकवचैः शस्त्राऽस्त्रैःसुपरिष्कृताः || ५१ ||

गुर्बौघा अपि सन्नाद्धाः संस्थिता युद्धकाङ्क्षिणः |
तद्द्क्षिणे तु मन्त्रेशी सप्तपर्वविराजिते || ५२ ||

संस्थिता सपरीवारा सन्नद्धा युद्धकर्मणि |
शुकादिश्यामलावर्गैः सेव्यमाना विनिर्ययौ || ५३ ||

दिव्यपानाऽमोदमदघूर्णनेत्राऽम्बुजद्वयी |
तथाविधाऽसङ्ख्यकोटिमातङ्गतनयाऽवृता || ५४ ||

दानैर्वाद्यैर्नर्तनैश्च सोपहासपटूक्तिभिः |
मन्त्रिणी तोषयन्त्यस्ता विलासैर्हास्यमिश्रितैः || ५५ ||

साऽपि श्रीललिताराज्ञीमन्त्रिणो मन्त्रकोविदा |
तस्या मनोऽनुकूलेषु मन्त्रेषु नियतंस्थिता || ५६ ||

विशेषतो गीतवाद्यनर्मक्रीडासमुत्सुका |
अथ तद्वामतो दण्ण्दसाम्राज्ञी शूकराऽनना || ५७ ||

किरिचक्रे पञ्चपर्वयुते सर्वोर्ध्वतः स्थिता |
परिवृता ह्यनेकाभिर्जम्भिन्यादिस्वशक्तिभिः || ५८ ||

क्रोधमूर्तिः क्रूरतरा क्षमापनपरप्रिया |
अपराधपरान् सर्वान् दण्डयन्ती सदा स्थिता || ५९ ||

महामहिषसिंहाभ्यां वाहनाभ्यां स्वपार्श्वयोः |
स्थिताभ्यां सीरमुसलमुखशस्त्रैश्च शोभिनीम् || ६० ||

बटुकैर्योगिनीभिश्च कोटिभिः सा परीव्ट्ता |
तथा श्रीललितादेश्या बाला त्रिपुरसुन्दरी || ६१ ||

कुमारी लघुचक्राख्यस्यन्दने समवस्थिता |
निजावृत्तिमहाशक्तिगणैः परिसमावृता || ६२ ||

तस्या दक्षिणापार्श्वे तु प्राप्ता सम्पदधीश्वरी |
रणकोलाहलाऽख्याने त्रिधा भिन्नेऽतिभीषणे || ६३ ||

वारणेन्द्रे विन्ध्यगिरिमहाशिखरसन्निभे |
निसर्गमत्ते संरुढा महाङ्कुशविधारिणी || ६४ ||

तामन्वसंख्या मत्तेभाः कोटिकोट्यतिसङ्ख्यकाः || विन्ध्योद्भवा मलयजाः प्राग्ज्योतिषसमुद्भवाः || ६५ ||

सुशिक्षिता युद्धगतिपरिज्ञाः षष्टिहायनाः |
प्रचेलुः सम्पदीशित्रीपरीवारसुशक्तिभिः || ६६ ||

शस्त्राऽस्त्रसमरज्ञाभिरधिरुढाः सुवेगिनः |
तस्या श्रिता वामभागमश्वारुढा महेश्वरी || ६७ ||

अपराजितसंज्ञानमश्वरत्नं महोन्नतम् |
गन्धर्वजातिजं वायुजवनं समधिष्ठिता || ६८ ||

उच्चैऽह्श्रवपरीभाविसर्वलक्षणमण्डितः |
ऽऽशुक्त्यर्धशुक्तिमणिभिर्देवस्वस्तिकपद्मकैः || ६९ ||

गण्डिकादिशुभैश्चिह्नैश्चिह्नितो हेमभासुरः |
सूक्ष्माऽवधानतोऽप्यस्य न विदुः खुरसङ्गतिम् || ७० ||

अभिज्ञ्ः स्वामिचित्तस्य परागमविधानवित् |
तामन्वश्वा असंख्येयाः सिन्धुटङ्कणम्भवाः || ७१ ||

आरदाः पार्वतीयाश्च वार्वराश्च सुतेजनाः |
शोणाः श्यामाः सिताः पीताः कपिलाः पाटलास्तथा || ७२ ||

हरिता धूम्रवर्णाश्च कल्माषा नीललोहिताः |
विचित्राश्चारुसर्वाङ्गा घनकेसरमण्डनाः || ७३ ||

विचित्रशिक्षागतयो नृत्यज्ञा लयसङ्गताः |
विचित्रशस्त्राऽस्त्रधरशक्तिभिः समाधिष्ठिताः || ७४ ||

पुरः पतन्तः परितस्तरङ्गा इव वारिधेः |
दारयन्तोऽवनिमिव खुरक्षेपैर्विनिर्ययुः || ७५ ||

खुरविक्षिपसम्भूतैश्चटश्चटरवैर्युतैः |
द्वेषितस्वनसङ्घातैर्गजचीत्कारमिश्रितैः || ७६ ||

शक्तीनां सिंहनादैश्च वीराऽस्फोटमहास्वनैः |
जयभेरईरवैर्मृण्ड्ड्मृदङ्गझल्लरीरवैः || ७७ ||

गोमुखाऽनकनिः साणतालकाहलनिःस्वनैः |
मिश्रितः श्रीचक्रराजरथनेमिगणोद्भवः || ७८ ||

महाध्वनिः सर्वदिशं पूरयन्निव सम्बभौ |
श्रूत्वा श्रीललितादेव्या यैत्रयात्रामहास्वनम् || ७९ ||

दैत्याः साध्वसमत्यन्तं मृत्योरिव समाययुः |
भण्डदैत्यः स्वात्मवधं चिराभिलषितं तया || ८० ||

श्रुत्वा तं निनदं ह्यारादध्यवस्यत सर्वथा |
अथ दैत्यान् समालोक्य त्रस्तान् शुष्यन्मुखामबुजान् || ८१ ||

कृपया परयाऽविष्ट इदं स्वान्तरचिन्तयत् |
नूनं हीमे मम कृते विनश्यन्ति सबान्धवाः || ८२ ||

लोके मृत्योर्नातिरिक्तं भयमस्ति कदाचन |
मत्कृते निहतानेतान् शोचिष्यन्ति प्रियात्मजाः || ८३ ||

भगिन्यो मातृमुख्याश्च हन्त वैशसमीदृशम् |
तदहं पुरतो गत्वा युद्ध्वा श्रीललिताम्बया || ८४ ||

तच्छस्त्राऽनलपूतात्मा प्रपद्येऽभिमतां गतिम् |
शोचयामि कुतस्त्वेता वियोज्य स्वस्वबान्धवैः || ८५ ||

तदलं घोरनिधनरोदनेन कृतेन मे |
शक्तोऽरक्षन् स्वीयजनं शोकस्थानात् कथञ्चन || ८६ ||

बन्धुघ्नः स तु विज्ञेयः पुरुषादसमो जनैः |
अथैवं मयि निर्त्य प्राप्ते देव्या निजाऽत्ययम् || ८७ ||

बन्धूनां शोक एवाऽस्मान्मया विरहिताऽत्मनाम् |
कथं मयि हते देवत्रासना मम बान्धवा || ८८ ||

महर्द्धिशोभना देवैः परीभूता हृतर्द्धयः |
भविष्यन्ति शुचा हीना न चैतदपि सम्मतम् || ८९ ||

प्राप्य सर्वोच्छ्रयं कश्चिदभिभूतः कथं भवेत् |
नूनां मयि हते देव्या भ्रातृपुत्रादिबान्धवः || ९० ||

शूरास्तु तत्क्ष्णे एव वीर्यक्रोधसमुच्छ्रिताः |
युधाऽग्नौ स्वात्मशलभान् भस्मीकुर्युर्न संशयः || ९१ ||

अथ ये कातराः स्वल्पवीर्यास्तेऽवनिरन्घ्रगाः |
देवा इव दैन्यभाजो वियुताः स्त्रीसुतादिभिः || ९२ ||

शोचयन्तस्तथाऽन्योन्यं भवेयुर्वै मृताऽधिकाः |
आरोदनन्तु बन्धूना नाअस्तीति न कथञ्चन || ९३ ||

तद्वृथा किं चिन्तनेन मन्ये नाऽन्यदितो वरम् |
आदौ देव्या हतेष्वेषु ततोऽहमभवंहतः || ९४ ||

अयं श्रेयान् हि मे भाति सन्त्यत्र बहुशो गुणाः |
पावनंदेवताशस्त्रैः प्राप्तिर्लोकोत्तमस्य च || ९५ ||

परीभवाऽद्यसम्भावः कीर्तिर्लोके महत्तरा |
अत्राऽपि मन्ये स्त्रीबालमुखानां न् हि सम्भवम् || ९६ ||

अप्रतीर्कायमेतत्तु दैवमत्र परायणम् |
अथ वैतन्मया पूर्वं श्रुतमब्जासनान्मुखात् || ९७ ||

सा परा त्रिपुरा देवी भक्तवाञ्छाप्रपूरणी |
इति तन्मे परीवारं न शोषयतु सा परा || ९८ ||

न मे चैतेनाऽहमेषां परमार्थंस्वभावतः |
जानानस्याऽपि मे देवी मोहमुत्पादयत्यलम् || ९९ ||

तन्मे विचिन्तनं व्यर्थं स्वप्नसारे जगत्स्थितौ |
तत्तं सर्वेण भावेन शरणं प्राप्तवानहम् || १०० ||

तन्मां नियोजयेद्यद्वन्नियुक्तोऽस्मि न चाऽन्यथा |
पाहि मां परमेशानि शरण्ये ! शरणागतम् || १०१ ||

मोहजालप्रबन्धान्मामभ्युद्धर्तुमिहार्ऽहसि |
इति प्रार्थ्य महादेवीं त्रिपुरां भण्डदानवः || १०२ ||

निशाम्य दैन्यमापन्नान् बन्धून् स्वपरितः स्थितान् |
हर्षयन्निति होवाच पराक्रमयुतं वचः || १०३ ||

हे दानवा ! मम वचः शृणुध्वं श्रद्धया परम् |
न मे मृयुः कुतोऽप्यस्ति मृत्योर्मृत्युरहं यथ || १०४ ||

शस्त्राणाञ्च तथाऽस्त्राणां महामायाविनामपि |
सचराऽचरलोकानां स्रष्टाऽहं वः समक्षतः || १०५ ||

पञ्चोत्तरशताण्डानामीश्वरोऽहं महाबलः |
तत्रेमामबलां ज्ञात्वा न शीघ्रं हन्तुमुत्स्हे || १०६ ||

युद्धनिर्भरतामस्या दृष्ट्वा निर्जित्य लीलया |
स्वाऽन्तः पुरं समानीय महाऽनन्दमुषैम्यलम् || १०७ ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीललितामाहात्म्ये श्रीदेव्या सह युद्धकरणाय सज्जीभूतस्य भण्ण्दासुरस्योहामपोहवर्णनं नाम षष्टितमोऽध्यायः || ४९८३ ||

एकषष्टितमोऽध्यायः श्रीललितायाः सैन्यव्यवसायज्ञानाय दैत्यराजेन स्वदूतप्रेषणवर्णनम्

Kapitel 61

इत्युक्त्वा पार्श्वगं सूतं दीर्घग्रीवं महाऽसुरः |
बभाषे क्रोधताम्राक्षो रथः संयुज्यतामिति || १ ||

अथ सूतो निमेषण सन्नद्धं स्यन्दनोत्तमम् |
निवेदयद्दैत्यनाथे प्रणम्याऽतिविनीतवत् || २ ||

आरुरोह रथश्रेष्ठं भण्डदैत्यः प्रतापनः |
गृहीत्वा सशरं चापं प्रचचालाऽतिरोषितः || ३ ||

दृ.ष्त्वा श्रुत्वा च दैत्येशं व्रजन्तं यद्धकारणात् |
दैत्या विनिर्ययुः शीघ्रं सन्नद्धाः क्रोधमूर्छिताः || ४ ||

पुरतः पार्ऽऽश्वयोः पृष्ठे सर्वतः परिवार्य तम् |
निर्ययुर्दैत्यसुभटाः सङ्घशो धृतहेतयः || ५ ||

भण्डदैत्यसुताः सर्वे भण्डतुल्यपराक्रमाः |
कुटिलाक्षोऽग्रजस्तेषाममेयबलविक्रमः || ६ ||

स्यन्दनस्थाः सुसन्नद्धाः समरेष्वनिवर्तिनः |
अक्षौहिणीशतयुता भण्डदैत्याऽग्रतो ययुः || ७ ||

अहम्पूर्विकया युद्धे ये संस्पर्धन्ति नित्यशः |
पार्श्वयोर्दैत्यपराजस्य विषङ्गश्च विशुक्रकः || ८ ||

चेलतुर्भ्रातरौ तस्य विष्णुतुल्यपरक्रमौ |
रथस्थौ तौ महाचापौ क्रुधाऽरुणितलोचनौ || ९ ||

ग्रसन्ताविव सैन्यानि परेषाम् ययतुर्द्रुतम् |
प्रत्येकमक्षौहिणीनां शतेन परिवारितौ || १० ||

उग्रकर्ममुखास्तस्य मन्त्रिणो भीमविक्रमाः |
अनुजग्मुर्दैत्यपरिं शताऽक्षौहिणिसंयुताः || ११ ||

एवं प्रचलिते दैत्यनाथे समरकारणात् |
रराज राजपथ्या तु प्रावृट्कालनदी यथा || १२ ||

कूलङ्कषा दैत्यजला रथाऽवर्तसमाकुला |
तुरङ्गभङ्गा द्विरदग्राहा खेटककच्छपी || १३ ||

उन्मीषत्फेनपिण्डाऽढ्या पताकालहरीयता |
खड्गदीर्घमहासर्पा तूणिमत्स्यविचित्रिता || १४ ||

दानवाऽस्याऽम्भोजततिस्तन्नेत्रशफरीगणा |
विचित्रच्छत्रहंसादिपतत्रिततिमालिनी || १५ ||

उच्छलत्तुरगोत्तुङ्गशिंशुमारकुलाऽविला |
रथघोषमहाघोषा वाहिणी जलवाहिनी || १६ ||

निर्गमत्तत्पुरद्वारान्महतो रत्नगोपुरात् |
कुल्यामुखाज्जलं ह्याशु केदारे प्रसृतं यथा || १७ ||

पुरद्वाराद्वाहिनी सा प्रसृताऽभुद्बहिः क्षणात् |
तदन्त्रे तु विजयः प्राप्य दैत्येश्वरं द्रुतम् || १८ ||

मन्त्री प्रणम्य विन्यस्य मूर्ध्न्यञ्चलिपुटं स्थितः |
प्राप्याऽज्ञामवदत्तं सुवचस्तत्कालसम्मतम् || १९ ||

दैत्येश्वर महाराज कीर्तिस्ते सर्वतस्तता |
प्रतापतपनश्चोर्ध्वे ब्रह्माण्डानि तपत्यसौ || २० ||

बलवत्तर एषोऽत्र हरिरेको विभावितः |
सोऽपि त्वत्सम्मुखं प्राप्य युद्दे भूयः पराजितः || २१ ||

तत्त्वां युद्धे जयेत्कश्चिदिति मोघो हि निश्चयः |
तथाऽपि मन्त्रिणा काले चार्ऽथशास्त्रप्रमाणतः || २२ ||

विमृश्य राज्ञे वक्त्व्यं हितभागमसम्मितम् |
काले युक्तमनुक्त्वा तु न सुमन्त्रित्वमर्हति || २३ ||

चत्वार एव सम्प्रोता उपाया दण्डसाने |
तत्रैकिअओऽपि स्वे काले सम्मतो बलवत्तरः || २४ ||

अन्यकालेऽन्यमातिष्ठन्मूढदुर्मन्त्रिमन्त्रितः |
नश्येदसदृशं भुक्त्वा ह्यामयीवाऽगदं नृपः || २५ ||

तत्राऽध्यसितं प्राज्ञैर्दूतचारदृशाऽखिलम् |
दृष्ट्वा युद्धं तेन श्रेयःसमाप्नुयात् || २६ ||

तत्सम्मतौ दूतचारौ परेषु द्रुतम् |
तावत् सेनाऽपि सन्न्द्धा भविष्यत्यविशङ्किता || २७ ||

रक्षणं नगरस्याऽपि विहितं स्याद्यथाविधि |
विज्ञप्तव्यमिदं काले मया ते स्वामिनः पुरः || २८ ||

विज्ञापितं तद्भवता कर्तव्यं कालसम्मितम् |
निशम्य मन्त्रिवाक्यं तद्युक्तं कुशलसम्मतम् || २९ ||

समाधानाय बन्धूनामभिमन्यत मन्त्रणम् |
निवेश्य सेनापतिभिः सेनां तत्र विभागशः || ३० ||

पुररक्षाविधानाय कुटिलाक्षमवाऽसृजत् |
अमित्रघ्नं मन्त्रिवर्यं प्राह भण्डमहाऽसुरः || ३१ ||

गच्छाऽमित्रघन मच्छास्त्या तां ब्रूहि ललिताऽभिधाम् |
नाऽहं त्वां सुन्दरीं देवीं सर्वथा संश्रयोचिताम् || ३२ ||

वाञ्छामि योद्धुं तत्कस्मान्मां योद्धुंत्वामिहागता |
युद्धश्रद्धा तवेयं वै सम्म्तं मम सर्वथा || ३३ ||

न बिभेमि महायुद्धे तत्त्वद्युद्धे भयं कुतः |
किन्त्वहं त्वां प्रियाकारां दृष्ट्वा द्रुतं मनोभवाम् || ३४ ||

तत्सुराणां परित्यज्य पक्षं मत्संश्रया भव |
साम्ना युद्धेन वाऽपि त्वां करोम्यात्मसमाश्रयाम् || ३५ ||

मद्विरोधेन ते लोके हानिरेव न संशयः |
विमृश्यैतद्द्रुततरं पक्षमेकतरं भज || ३६ ||

इति तां ब्रूहि साम्ना च ज्ञात्वा तस्याः समीहितम् |
बलञ्चसर्वं तत्कृत्यं ज्ञत्वाअ याहि द्रुत पुनः || ३७ ||

अथ मायाविनां श्रेश्ठं विद्युन्मालिनमाह सः |
विद्युन्मालिन्महाप्राज्ञ मायाविकुलनायक || ३८ ||

परैरविदितो गत्वा देव्याः सेनामशेषतः |
बलञ्च व्यवसायञ्च भेदच्छिद्राणि युक्तितः || ३९ ||

विचार्य शीघ्रमायाहि त्वमत्र कुशलोह्यसि |
आज्ञप्तावितरौ दैत्यौ ययतुः शक्तिवाहिनीम् || ४० ||

अनन्तामब्नुधिप्रख्यामविगाह्य कथञ्चन |
अमित्रघ्नो महासेनां विवेशाऽब्धिं यथा प्लवः || ४१ ||

उत्खातकरवालाभिः शक्तिभिः परिरक्षिताम् |
प्रविष्टमात्रं शक्त्या स गृहीतो बलवत्तरः || ४२ ||

परिचारिकया दण्डनाथायाः काञ्चनाऽभया |
चपेटया निहत्याऽशु गृहीत्वा तं गलेऽसुरम् || ४३ ||

तर्जयामास वचनैः क्रोधयुक्तैर्भयङ्करैः |
कस्त्वं सेनामिमां देव्या दण्डराज्ञीसुरक्षिताम् || ४४ ||

अविज्ञाप्य प्रविष्टोऽसि चाऽस्मत्प्रमुखवीक्षिताम् |
आज्ञां विना दण्डराज्ञ्याः प्रविष्टो वाहिनीमिमाम् || ४५ ||

जीवन्नो यास्यसि पुनः साक्षान्मृत्युरपि स्वयम् |
तदन्तरे तु सम्प्राप्ताः सैन्यरक्षानियोजिताः || ४६ ||

दण्डिन्याज्ञाप्रतीक्षिण्यः शक्तय शतशः क्षणात् |
प्रबलाभिः समाकृष्टो निहतो मूर्च्छितोऽभवत् || ४७ ||

श्रुत्वा तदन्तरे दण्डनाथा दैत्यस्य सङ्गतिम् |
समक्षं ह्यानयामास स्वपरीचारशक्तिभिः || ४८ ||

पृष्ट्वा तं ह्यागतं दूतं ज्ञात्वा भण्डाऽसुरस्य हि |
विज्ञाप्य मन्त्रिणी देव्याः समीपमानयत्ततः || ४९ ||

साऽपि विज्ञाप्य तं प्राप्तं ललितायाः समीपतः |
नीत्वा पप्रच्छ दूतं तं कृत्यं तत्राऽगमस्य हि || ५० ||

प्राह प्रणम्याऽमित्रघ्नः प्राप्तो भण्डनिदेशतः |
दूतोऽहं तस्य दैत्यस्य तदुक्तं संब्रवीम्यहम् || ५१ ||

आवयोर्न विरोधोऽस्ति कुतो योद्धुं समागता |
युद्ध्वावाऽप्ययुद्ध्वावा वा देवि भूयास्त्वं मत्समाश्रया || ५२ ||

तत्त्वामात्मप्रियां हृद्यां योधयामि कथं वद ? तद्देवान् सम्परित्यज्य भव त्वं मत्समाश्रया || ५३ ||

वक्तव्येति त्वया गत्वा ज्ञेयं सेनाबलाऽबलम् |
इत्यहं प्रेषितस्तेन दूतबध्या [धः] विनिन्दिता [नः] || ५४ ||

शास्त्रेषु दूतस्य वधं न वदन्ति विचक्षणाः |
इति मत्वा प्रविष्टोऽहं लक्षैतः सर्वशक्तिभिः || ५५ ||

प्रविष्टमात्रोऽभिमतो गृहीतस्तव शक्तिभिः |
आनीतस्ते समक्षञ्चेत्येतत् सर्वं निरुपितम् || ५६ ||

अग्रे देव्येव शरणमयोग्योमे वधो भवेत् |
निशम्य दूतवचनं ललिताया मतं ततः || ५७ ||

विदित्वा मन्त्रिणी प्राह स्मेरमञ्जुलभाषिणी |
माभैर्दैत्य व्रज सुखं हन्यसे न कदाचन || ५८ ||

ब्रूयास्तं भण्डदैत्येशं मयोक्तमवधार्य च |
यदि ते जीवने श्रद्धा द्रुतमागत्य निर्भयः || ५९ ||

शरणीकुरु देवेशीं त्रिलोकीं सम्परित्यज |
त्रिलोकेशो भवेदिन्द्र त्वं पाताले निवत्स्यसि || ६० ||

कुरु सख्यं गोत्रभिदा सपुत्रबलवाहनः |
अन्यथा न विमोक्षस्ते जीवन् क्वाऽपि भविष्यति || ६१ ||

नयैनं दण्डसाम्राज्ञि सेना दर्शय सर्वतः |
दर्शयित्वा ततः सेनबहिरेनं विसर्जय || ६२ ||

इत्याज्ञप्ता कोलमुखीं प्रदर्श्य स्वामनीकिनीम् |
व्यसर्जयत्तं दैतेयं बहिः सेनानिवेशनात् || ६३ ||

अथ मुक्तः पुनर्जातमात्मानं सममंसत |
जगाम राजसविधं भयविह्वलिताऽन्तरः || ६४ ||

विद्युन्माली निशाम्यैनममित्रघ्नविहिंसितम् |
भीतो रात्रौ महामायः कौशिकिं तनुमाश्रितः || ६५ ||

विचरन्नाकाशमार्गे सेनां सर्वां निशामयत् |
गणयित्वा सर्वसेनां ब्रजन्तं गगनाऽध्वनः || ६६ ||

जग्राह काचिच्छक्तिस्तं खेचरी निशिरक्षिणी |
गृहीतमात्रो मायावी प्रोड्डीय गगनोर्ध्वतः || ६७ ||

पञाशद्योजनादूर्ध्व युयोध स तया भृशम् |
चिरं युद्ध्वा शूलहतस्तया मुक्तः कथञ्चन || ६८ ||

जगाम दैत्यनृपतिमीषत्प्राणाऽवशेषितः |
पपात पुरतस्तस्य सूर्यस्योदयनं प्रति || ६९ ||

दृष्ट्वाऽग्रपतितं दैत्यं म्रियमाणं भृशं हतम् |
भण्डासुरो जपन्मन्त्रं पस्पर्शाऽङ्गेषु पाणिना || ७० ||

मन्त्रस्पर्शनमात्रेण जीवितश्च गतव्यथः |
उत्थाय प्रणनामाऽशु दैत्यराजं पुरःस्थितम् || ७१ ||

अथपृष्टः प्राह विद्युन्माली वृत्तं स्वकं क्रमात् |
महाराज त्वत्समक्षं गतोऽमित्रघ्नसंयुतम् || ७२ ||

दृष्टवानस्मि तां सेनां प्रलयाम्बुधिसन्निभाम् |
अथाऽमित्रघ्न एवाऽदौ प्रविवेश महाचमूम् || ७३ ||

पऽऽयतो मे क्षणेनैव हृहीतः शक्तिभिर्बलात् |
मधुवन्मक्षिकाभिः स समाक्रान्तोऽथ शक्तिभिः || ७४ ||

क्षणेन विगतप्रज्ञः समभूद्बलवानपि |
अशक्तः स्पन्दितुमपि क्व युद्धं क्व पलायनम् || ७५ ||

कथञ्चिदपि नो जीवेत् स इत्थं मम निश्चयः |
तावद्भीतोऽप्यहं दुरात् पलायनपरोऽभवम् || ७६ ||

भवदाज्ञागौरवेण न निवृत्तोऽस्मि ते भयात् |
ततो दिनाऽवसानेऽहं मायाघूकत्वमास्थितः || ७७ ||

उपर्युपरि सेनायाः सञ्चरंस्तां निशामयम् |
सा सेना महती दृष्टा भीमा भीषणनादिनी || ७८ ||

संवर्तकालसंक्षुभमहोर्मिजलधिर्यथा || दर्शनदेव सेनाया यस्यन्ति मृतिमासुराः || ७९ ||

तत्र सर्वा महाभीमाः शक्त्यो भीमविक्रमाः |
अहम्पूर्विकया यद्धं कर्तुमादौ समुत्सुकाः || ८० ||

तत्र बाला कुमारी या ललितायाः प्रियाऽत्मजा |
कुमारिभिः कोटिशतसंख्याभिः परिवारिता || ८१ ||

शस्त्राऽस्त्रकौशलाऽभिज्ञा युद्धसन्नाहसम्भ्रमा |
भण्डपुत्रान् निहन्मीति सा ब्रवीति पुनः पुनः || ८२ ||

कुमार्योऽपि चता ब्रूयुर्भण्डपुत्रसुवाहिनीम् |
नाशयामः क्षणेनाऽतिगर्जन्त्यः समरोत्सुकाः || ८३ ||

अथ सम्प्त्करी चाऽश्वाऽरुढाख्या शक्तिनायिका |
गजानश्वानसंख्यातान् महाशक्तिभिरास्थितान् || ८४ ||

कर्षन्त्यौ ते बलोदग्रे बालापार्श्वद्व्याऽश्रिते |
अथ बाला पृष्ठतस्तु महारथनिवासिनी || ८५ ||

ललिता श्रीमहादेवी नवाऽवरणशक्तिभिः |
अप्रमेयबलक्रौर्यशौर्थयुक्ताभिरावृता || ८६ ||

तस्याः पार्श्वद्वये मन्त्रनाथा दण्डधराऽस्थिता |
प्रत्येकं रथमारुढा महाऽद्भुतपराक्रमा || ८७ ||

अनेककोटिमातङ्गकन्याभिः स्वसमाऽत्मभिः |
चित्रवीर्याभिरभितः संवृतामन्त्रिणी स्थिता || ८८ ||

वाअराह्यपि महाभीमविकराऽकृतिनामभिः |
शक्तिभिर्बटुकाद्यश्च संयुताऽतिरुषान्विता || ८९ ||

सर्वत्र शक्तिसेनासु न मया क्वाऽपि लक्षितम् |
यत्र ते वधवृत्तान्तसङ्गतिर्न हि संस्तुता || ९० ||

तत्रैकाऽप्यवर शक्तिः सर्वमस्मद्बलं क्षणात् |
नाशयेदिति मे बुद्धिर्व्यवसायं समास्थिता || ९१ ||

शतकोटिपरार्धानां कोद्यर्बुदशतत्मिका |
सेनैवं शक्तिनिचिता दैत्यराज ! वदामि ते || ९२ ||

शक्तिरन्यमता तेषु बले वीर्ये च विक्रमे |
सर्वान् दैत्यगणानस्मानतितिष्ठति सर्वथा || ९३ ||

इत्युक्त्वा दैत्यराजं तं प्रणिपत्य कृताञ्जलिः |
विद्युन्माली समभवत्तूष्णी दैत्यसभागतः || ९४ ||

इति श्रीमदितिहासोत्तमे श्रीत्रिपुराहस्ये ललितामाहात्म्ये भण्डदूतस्यविद्युन्मालिनश्चारवाक्यं नामैकषष्टितमोऽध्यायः || ५०७७ ||

द्विषष्टितमोऽध्यायः राक्षसराजाय राक्षसगुप्तचरेणामित्रध्नेन यथायथं देवीसन्नाहवर्णनम्

Kapitel 62

अथ क्षणादमित्रघ्नः प्राप्तो दैत्यसभान्तरम् |
भण्डासुराऽङ्घ्यरोरपतद् भयविह्वलितान्तरम् || १ ||

आशवस्तः प्राह सचिवैः पृष्टो वृत्तं प्रवेपितः |
महाराज त्वदाज्ञप्तो गतः शक्तिमहाचमूम् || २ ||

प्रविष्टः शक्तिभिस्ताभिर्गृहीतो बलवत्क्षणात् |
न मे वीर्यं बलं वापि बभौ शक्त्यग्रतः क्वचित् || ३ ||

रविप्रभानिमग्नस्य खद्योतस्येव सुप्रभा |
क्षनेन तासां ग्रहणाद्विसंज्ञोऽभवमञ्जसा || ४ ||

अथ नीतो दण्डनाथासविधं मृतवत् स्थितः |
सा कुलाद्रिरिवोन्नम्रा क्रोडास्या काञ्चनप्रभा || ५ ||

क्रोधाग्निमुद्गिरन्तीव सुनेत्रैर्घर्घरारवा |
तादृग्विधं शक्तिगणं तस्याः क्रोधप्रदीपितम् || ६ ||

दृ.ष्त्वाऽहमभवं भूयः श्वसितुञ्चाऽपि नो विभुः |
तस्या नियोगान्नितोऽहं शक्तिभिर्मन्त्रिणीपुरः || ७ ||

सा दृष्टा मन्त्रिणी देवि तापिच्छदलसन्निभा |
सौन्दर्यकुलसारङ्गी पूर्णतारुण्यगर्विता || ८ ||

मन्दस्मितमुखी पानमदमाद्यद्विलासिनी |
गीतहास्यपरा नित्यं विणावादननिष्ठिता || ९ ||

तस्याः प्रसन्ननेत्राब्जाऽमृतवर्षाऽभिजीवितः |
अन्ववेक्षमहं सर्वसौभाग्यैकसमाश्रयाम् || १० ||

तयाऽनुयुक्तो निखिलमवदं तव भाषितम् |
तया नीतो महाराज्ञ्याः समक्षमहमाश्वथ || ११ ||

सा दृष्टा ललिताराज्ञी महाविभवसंश्रया |
सन्देशं वाचयन्मह्यं यत्तत्ते मन्त्रिणीमुखात् || १२ ||

वक्ष्यामि शृणु दैत्येश सावधानेन चेतसा |
ब्रूयास्तं भण्डदैत्येशं जीवने यदि ते मतिः || १३ ||

त्रिलोकीं विसृजेन्द्राय शरणीकुरु मातरम् |
निवस त्वं परीवारयुतः पातालसद्मनि || १४ ||

इन्द्रेण सङ्गतो भूयाः पुत्राऽमात्यदिसंयुतः |
अकृत्वैवं न ते मोक्षो लोकाऽन्तरगतस्य च || १५ ||

इन्द्रशत्रिमहं त्वां तु (?) स नेष्याम्यात्मसंश्रयम् |
इति त्वया तत्र गत्वा वक्त्व्यो भण्ददानवः || १६ ||

तदन्तरे शक्तिरेका श्यामा तुरगसंश्रया |
करालकरवालोद्यत्करा तत्र समाययौ || १७ ||

अवर्ह्या स्ववाहनात् सा प्रणम्य ललिताऽम्बिकाम् |
मन्त्रनाताञ्च वृतान्तं बभाषे साऽनुयोजिता || १८ ||

प्रेषिता भण्डदैत्यस्य वाहिन्यां नगरेऽपि च |
मद्भृत्याः शक्त्यो गत्वा दृष्ट्वा सर्वं समागताः || १९ ||

ताभिर्विभावितं सर्वं सैन्यं नगरमेव च |
इति वृत्तं तया प्रोक्तं सर्वमस्मत्समाश्रयम् || २० ||

दैत्यानां सैनिकानाञ्च सर्वशः |
न तयाऽविदितं किञ्चिनाऽस्ति बाह्याऽन्तरेषु च || २२ ||

स्त्रियः सर्वाः सुविदितास्तासाञ्चापि प्रभाषितम् |
मन्त्रस्ते मन्त्रितोऽप्यत्र नाऽस्माभिर्विदितोऽपि यः || २३ ||

तया प्रोक्तोऽथं वचनं वृत्तञ्चापि पृथक् पृथक् |
चित्रं मन्ये चिरादत्र वसन्नविदितञ्च यत् || २४ ||

तत सर्वञ्च तया प्रोक्तं यद्यथा समवस्थितम् |
यत्त्वयाऽप्यत्र नो ज्ञातं तत्त्वया कथितं ननु || २५ ||

मन्येऽहं तद्बलं देव्या अजेयं दैत्यपुङ्गवैः |
एकाऽपि शक्तिरवरा सर्वन्नो नाशयेत् क्षणात् || २६ ||

दैत्येश्वराहं ते सैन्ये बलिष्वनवरो ननु |
एन्द्रादयोऽपि विजिता मया भूयः समागमे || २७ ||

सओऽहं प्रविष्टमात्रोऽपि शक्त्या सामन्यया ननु |
गृहीतो लीलयैवाऽशु हरिणा मृगशाववत् || २८ ||

यथा बालाः क्रीडनकमाच्छिद्याऽन्यकरस्थितम् |
गृहणन्त्यहं तथा ताभिर्गृहीतो बलवानपि || २९ ||

न मेऽभूत् सपन्दितुमपि सक्तिः क्व नु विमोक्षणे |
अशक्यं सर्वथा दैत्यैर्जेतुं नास्त्यत्र संशयः || ३० ||

इत्युक्त्वा विररामाऽथ दैत्यो दैत्येश्वराऽग्रतः |
श्रुत्वेत्थं दैत्यवचनं भण्डः स्वाऽन्तरचिन्तयत् || ३१ ||

नूनं सा त्रिपुरेशानी कृपया मयि संश्रिते |
प्रसादमकरोदद्य चिरकालाऽभिकाङ्क्षितम् || ३२ ||

यत्तया लोकमात्रोक्तं तदद्याऽवितथायितम् |
धन्योऽहं त्रिपुरेशानीं दृष्ट्वा युद्धेऽनुभाष्य च || ३३ ||

तच्छस्त्राग्निमहाज्वालानिर्दग्धकलुषाऽङ्गकः |
व्रजामि लल्लोकममुं महासुखसमाश्रयम् || ३४ ||

महापापसमुद्भूतो देहोऽयं पापसंश्रयः |
दैत्यस्वभावविहितश्चिरभारायितो ननु || ३५ ||

यथाऽविष्टिगृहीतो हि भारं क्षिप्त्वा पलायति |
तथाऽहं दुःखदं देहममुंभारं विसृज्य तु || ३६ ||

पलायिष्ये सुखस्थानं न मे खेदोऽत्र विद्यते |
नुनं वर्षसहस्राणां नियुतैर्दह एष मे || ३७ ||

सम्प्राप्तोऽत्यन्तसुखितामपि मे न हि रोचते |
त एव भोगास्तद्राज्यं ताः स्त्रियस्तश्च सङ्गतम् || ३८ ||

अन्वहं सेवमानस्य सर्वं वैरस्यमागतम् |
निर्विण्णोऽहं दृढतरमस्मात् पर्युषितात्मनः || ३९ ||

वाञ्छामि नाशं देहस्याऽमयं दीर्घाऽमयी यथा |
परन्तु मे विरहिताः शोचिष्यन्ति प्रिया एमे || ४० ||

तथा तैरप्यहं हीनो न विन्दामि क्षणं सुखम् |
आदौ वाऽनन्तरं वाऽपि दुःखदैअ मृतिर्भवेत् || ४१ ||

तदेतद्विषमं भाति कथं नार्ऽतिर्भवेन्मम |
एवं मे त्रिपुरा देवी कृपां कुर्यादभीप्सिताम् || ४२ ||

युगपद्यदि नो हन्यात् क्षेमं मे प्रतिभाति तत् |
भक्तवाञ्छासमधिकफलदा सा निसर्गतः || ४३ ||

कुतो न पूरयेदिष्टं सा निजाङ्घ्यराज्रयस्य मे |
इत्थं विचिन्त्य मनसा नमस्कृत्य पराम्बिकाम् || ४४ ||

नाट्ये नट इव स्वैरं क्रोधमहारयत् परम् |
धिगस्त्वधम् दैतेय ! कथ मम समक्षतः || ४५ ||

अप्रियां परसंश्लघां कुर्वन्नपि न लज्जसे |
परसंश्लाघनं यत्तल्लोके कापुरुषब्रतम् || ४६ ||

परन्तु बलिनं ज्ञात्वा न शूरः श्लाघते क्वचित् |
बलीवाप्यबलो वाऽपि शूरास्तत्र न बिभ्यति || ४७ ||

इत्युक्त्वा खडगमुद्यम्य क्रुद्धः कालमहाऽहिवत् |
वमन्निव नेत्रमुखात् क्रोधकाकोलपावकम् || ४८ ||

निर्ययौ नगरद्वारान्महाविलमुखादिव |
पश्यन्तु दैत्या ये भीताः तस्यामेति पराक्रमम् || ४९ ||

अद्य मां समरे प्राप्य पुनः सा न भविष्यति |
वदन्तमेव दैत्येशं सूतः सरथमग्रतः || ५० ||

अभ्याजगामाऽथ सोऽपि रथमारुह्य संययौ |
तं मेनिरे जनाः कालं जगत्संहरणोद्यतम् || ५१ ||

नाऽस्य क्रोधाग्निमासाद्य जगद्भूयो भविष्यति |
इत्यूचुः सहसा सर्वे भीताशचाऽसुरपुङ्गवाः || ५२ ||

निर्ययुः स्वस्वसेनाभिः सेनाऽध्यक्षाश्च मन्त्रिणः |
पुत्राः पौत्राश्च भ्रातरः सर्वः एव ते || ५३ ||

भीता निःशेषतः सेनां समादाय विनिर्ययुः |
अथाऽज्ञ्प्तो विशुक्रेण कुटिलाक्षश्च भूपतिः || ५४ ||

अक्षौहिणीपञ्चकेन चक्रे नगररक्षणम् |
तन्निवेद्य विशुक्राय विकर्षन्महईं चमूम् || ५५ ||

ययौ भण्डासुरस्याऽग्रे ग्रसन्निव ककुप्तटम् |
एवं प्रचलिते दैत्यराजे निखिलसेनया || ५६ ||

अवादयंस्तु दैतेया रणभेरीः समन्ततः |
पटहाऽनकभेरीणां वाद्यैर्द्दैत्यविगर्जनैः || ५७ ||

आस्फोटैर्नेमिघोषैश्च गजचीत्कारमिश्रितैः |
वन्दिमागधसन्नादैर्हयद्नेषितवृंहितैः || ५८ ||

तुरङ्गखुरविक्स्.एपोन्मिषश्चटचटारवैः |
हुङ्कृताऽह्वानसंरावैः संहतो हि महास्वनः || ५९ ||

बभौ जगत्पटीभेदप्रगल्भ इव पूरितः |
सेनास्वनं समाकर्ण्य भण्डदैत्यसमागमम् || ६० ||

विदित्वा चारमुखतो निश्चित्य महदुद्यमम् |
दण्डिनी त्वरिता मन्त्रनाथां प्राप्य व्यजिज्ञपत् || ६१ ||

सचिवेश्येष सम्प्राप्तो भण्डः सेनासमन्वितः |
महासन्नाहसम्भारो युद्धं महदुपस्थितम् || ६२ ||

विज्ञाप्य ललितादेवीं समेता शक्तिभिर्वृता |
संरक्षन्ती शक्तिगणैर्महाराज्ञ्या अनुव्रज || ६३ ||

अहं यास्ये तन्निरोद्धुं पुरतः सेनयाऽवृता |
एष शब्दः श्रूयते वै गजवाजिसमाकुलः || ६४ ||

मन्ये बाला सम्प्रवृत्ता युद्धे युद्धसमुत्सुका |
सम्पन्नाथाऽश्वनाथाभ्यां युता चित्रपराक्रमा || ६५ ||

एवं वदन्त्यां तस्यान्तु प्राप्ता सन्देशहारिणी |
वर्धयित्वा दण्डनाथांमन्त्रिणीञ्चाऽप्यभाषत || ६६ ||

देवि प्रवृत्तं सुमहद्युद्धं बालाम्बया सह |
दैत्यराजस्य सन्नाहो महान् युद्धसमुद्यमः || ६७ ||

ब्रातृपुत्रादिसहितसर्वसेनासमावृतः |
समागतः क्रुरतरो युद्यतिक्रूरविक्रमः || ६८ ||

इति विज्ञापनायाऽहं सम्पत्कर्या निरुपिता |
किं वदामि पुनर्गत्वा तां देवीं गजवाहिनीम् || ६९ ||

श्रुत्वा सन्देशहारिण्या वाक्यां श्रीदण्डनायिका |
प्राह तत्कालसदृशं वाक्यं विक्रमबृंहितम् || ७० ||

गच्छेभसेनानेत्रीं तां ब्रूहि श्रुत्वा मदीरितम् |
अप्रमत्ततया नूनंयोद्धव्यं दैत्यपुङ्गवैः || ७१ ||

बाला कुमारिका नित्यं युद्धगोष्ठीसमुत्सुका |
सर्वतः सा रक्षितव्या प्राप्ताऽस्म्यहमपि द्रुतम् || ७२ ||

यथा पलायय नो गच्छेन्मायया दैत्यपुङ्गवः |
तथा संरुध्य योद्धव्यं यावन्मम समागमः || ७३ ||

ततोऽहं तस्य न चिरं यद्धश्रद्धांचिरन्तनीम् |
नाशयामि क्षणेनैव तमः सूर्योदये यथा || ७४ ||

गच्छ शीघ्रं समादाय सन्देशं गजवाहिनीम् |
आज्ञप्तैव निर्गता सा शक्तिः सन्देशहारिणी || ७५ ||

ततः किरिरथारुढा दण्डिणी निर्ययौ द्रुतम् |
असङ्ख्यशक्तिसेनाभिर्युता क्रोधसमाकुला || ७६ ||

निसर्गक्रोधना भूयो युद्धोपक्रमरोषिता |
दिधक्षन्तीव लोकांश्च सर्वान् रोषाग्निना क्षणात् || ७७ ||

रथनेमिमहास्वनयुतः सेनामहारवः |
परेषां हृदयं भिन्दन् श्रोत्रमार्गेण संविशन् || ७८ ||

प्रतिस्वानमहाघोषः प्रोच्चलद्भीषणाऽकृतिः |
एवं श्रीदण्डसाम्राज्ञी जैत्रयात्रामुपाऽक्रमत् || ७९ ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये श्रीललितामाहात्म्ये भगवत्यास्तनूजया बालया युद्धोद्योगवर्णनं नाम द्विषष्टितमोऽध्यायः || ५१५६ ||

त्रिषष्टितमोऽध्यायः बालायाः समरपराक्रमवर्णनम्

Kapitel 63

भण्डासुरमहासेनाकोलाहलमहाध्वनिम् |
निश्म्य प्रैक्षदत्यन्तयुद्धोत्सुकतया दिशम् || १ ||

प्रागुदीचीं कुमारी सा ललिताया मनः प्रिया |
ददर्श दैत्यसेनायाः सम्मर्दजनितं रजः || २ ||

प्रतिसञ्चरसम्भूतसांवर्तकसमूहवत् |
ज्ञात्वा प्राप्तं दैत्यराजं सर्वसेनासमावृतम् || ३ ||

समरोत्सुकचित्ता सा बाला त्रिपुरसुन्दरी |
लघुचक्ररथाऽरुढा रथनेत्रीमचोदयत् || ४ ||

श्रीमातुः प्रतिरोधं सा तर्कयन्त्यथ संयुगे |
अदृष्ट्वैव महादेवीं मन्त्रिणीमभिसंययौ || ५ ||

सेनानेत्रीञ्च सेनाञ्चाऽप्याकाङ्क्षन्त्यतिसत्वरम् |
दैत्यसेनाऽभिमुखतो वायुवेगेन संययौ || ६ ||

शरदीव महामेघ आकाशे वायुनेरितः |
यथा पुरो निपतति तथा वेगाद्रथो ययौ |
७ ||

बालाया युद्धयात्रां तां विषमां वीक्ष्य सत्वरम् |
अश्वारुढा द्रुततरं तामनु प्रतिसंययौ || ८ ||

तुरङ्गैस्तुङ्गभङ्गाभैः पयोधिरिव तश्चमूः |
उपाद्रवज्जगज्ज्वालाप्लावनायेव सर्वतः || ९ ||

सम्पत्करी च तत्पश्चाद्रणकोलाहलस्थिता |
अनेककोटिमातङ्गसेनासंवलिता द्रुतम् || १० ||

वेगादनुससारोश्चैर्बालारक्षणहेतवे |
नोदिता शीघ्रसंयाने रथविद्याविशारदा || ११ ||

बालायाः सदृशाऽकारा वाहयत् स्यन्दनं जवात् |
प्रावृण्नदीव जलधिंदैत्यसेनां व्यवगाहत || १२ ||

सज्यं धनुर्विकर्षन्ती वर्षन्ती शरवर्षणम् |
नदीवेगविभिन्नेऽब्धौ नौरिव स्यन्दनन्तु तत् || १३ ||

विवेश दैत्यराजस्य शरौघदलितां चमूम् |
कुटिलाक्षो दैत्यसेनामुखे कुञ्जरसंस्थितः || १४ ||

महत्या सेनया बालां संरुरोध महाबली |
दैत्यसेनापतिः सोऽपि दृष्ट्वा बालां कुमारिकाम् || १५ ||

सृजन्तीं शरवर्षाणि मेनेऽद्भुतपराक्रमम् |
एकाकिनीं रथारुढां मृद्वङ्गीमष्टहायनाम् || १६ ||

अहो चित्रतमं ह्येतत् केयमेका कुमारिका |
निर्भया योधयत्यस्मानिन्द्रादीनाञ्चत्रासनान् || १७ ||

मन्येऽह्ं ललितामेनां निमित्तैश्चारसंस्तुतैः |
लक्षये सर्वचिह्नानि किन्त्वेषा तरुणी न च || १८ ||

अप्येषा यस्य तनया भवेत् पूर्वं हि या श्रुता |
कथं तत्तनया बाला सेनाविरहिता पुनः || १९ ||

एकला युद्धसन्नद्धा समागच्छेन्मृधे द्वचित् |
नूनमेषैव सर्वान्नो जेष्यतीव विभाति मे || २० ||

लक्षयेनयुधि स्थातुं सम्मुखेऽस्या भवेत् प्रभुः |
विशुक्रो वा विषङ्गो वा राजा वाऽष्यहमेव वा || २१ ||

कुतो राजकुमाराद्याः प्रत्येकं मिलिताश्च वा |
अस्मत्सेना यत्र निरीक्षति ततस्ततः || २२ ||

शरजालेन शिथिलां करोति निमिषाऽर्धतः |
कोटिशो निहता दैत्यास्त्रासिताऽस्मन्महाचमुः || २३ ||

एते विभिन्नवाह्व्ङ्घिहृदयक्रोडमस्तकाः |
पतिताश्च मृताश्चाऽन्ये धावन्त्यन्ये महाभयात् || २४ ||

शोणितप्रवहांतर्तुमशक्ता भयकम्पिताः |
पतितास्तत्र शतशो निमग्ना रक्तसिन्धुषु || २५ ||

प्राप्तैषाऽस्मश्चमूंभित्त्वा प्रविशेत् क्षणमात्रतः |
रोद्धव्येयं मया यत्नाद्धिङ्मामेवंविधंस्थितम् || २६ ||

योसिद्बाला मत्समक्षं भित्त्वा सेनां प्रवेक्ष्यति |
नैतदिन्द्रेण मरुता वायुनाऽपि कृतं पुरा || २७ ||

विषमं मे ह्येतदेषा जेयेति सर्वथा |
इति निश्चत्य तां रोद्धुं महागजसमास्थितः || २८ ||

ससार पुरतस्तस्याः शरजालान्यवाकिरत् |
युयोधाऽतिबलो दैत्यः कुष्तिलाक्षस्तया सह || २९ ||

बालया युद्धकुशलो मायाशस्त्राऽस्त्रकोविदः |
ववर्ष शरवर्षेण बालां युद्धेऽग्रतःस्थिताम् || ३० ||

उद्यन्तं भास्करमिव हिमसंहतिवर्षवत् |
साऽपि बालाऽरुणाऽभाङ्गी शरतीक्ष्णतरांऽशुभिः || ३१ ||

अनयन्नाशमत्यन्तं तं वर्षं निमिषार्ऽधतः |
अर्दयामास दैत्यस्य सेनां निशितसायकैः || ३२ ||

अतिलाघवतस्तस्याः शरसन्धानमोक्षणम् |
न वेद कश्चित्कुशलोऽप्यतिसूक्षमदृशाऽपि च || ३३ ||

अपऽऽयन् शरसङ्घातधारां चापविनिर्गताम् |
प्रावृङ्गिरिमुखात्तोयाधारमिव निरन्तराम् || ३४ ||

विधूय तां महासेनां मुहूर्ताऽष्टमभागतः |
कुटिलाक्षं समासाद्य जघान् निशितैः शरैः || ३५ ||

युयोध सोऽपि बलवान् सर्वप्राणेन संयुगे |
तस्य शस्त्राऽस्रजालानि प्रतिशस्त्राऽस्त्रवर्षतः || ३६ ||

मोघं कृत्वा शरैस्तईक्षणैः प्राहरद्दैत्यनायकम् |
एकेन तीक्ष्णभल्लेन चापं तस्याऽच्छिनज्जवात् || ३७ ||

ततश्चैकेन वाहस्य गजस्य प्राहरन्मुखे |
इषुणा ताडितो वक्त्रे गिरिराजसमो गजः || ३८ ||

चीत्कुर्वन् विभ्रन् भूमौ गतासुरपतत् क्षणात् |
मरिष्यन्तमिभं ज्ञात्वा कुटिलाक्षो गदाधरः || ३९ ||

क्रोधेनाऽभ्यद्रवद्धन्तुं बालां रथसमाश्रयाम् |
ग्रसन्तमरुणं बालं राहुं द्रुतगतिं यथा |
४० ||

अपश्यन् विबुधाः सिधा नभोमण्डलसंश्रयाः |
आयान्तमतिवेगेन गदाहस्तं निशाम्य सा || ४१ ||

शरेणाऽकर्णपूर्णेन विव्याध हृदयाऽन्तरे |
स विद्धस्तीक्ष्णबाणेन बहुशोणितमुद्गिरन् || ४२ ||

पपात मूर्च्छितो भूमौ वज्राऽहतमहीघ्रवत् |
अथ बाला प्राह सखीं रथनेत्रीं स्मिताऽनना || ४३ ||

सखि शीघ्रं नय रथं भण्डदैत्यसमीपतः |
आयात्येषा पृष्ठतो मे दण्डिनी शूकरध्वजा || ४४ ||

उत्कण्ठिताऽस्मि दैत्येन योद्धुं भण्देन सङ्गरे |
मामासाद्य दण्डनाथा प्रतिरोत्स्यति वै ध्रुवम् || ४५ ||

यथा नाऽसादयेन्मां सा तथा वाहय सत्वरम् |
इत्युक्ता रथनेत्री सा बालां प्रोचे सखी तदा || ४६ ||

दैत्यसेनां मध्यतस्तु ध्वजो योऽयं महओन्नतः |
दृश्यते काञ्चनमयो रथस्तस्यैष एव हि || ४७ ||

इतो दूरतरे स स्यान्महद्भिर्दैत्यपुङ्गवैः |
महारथिभिरत्युग्रः संवृतो ननु दृश्यते || ४८ ||

विवरन्तु न पश्यामि रथं येन नयामि तत् |
शस्त्रेण सृज मार्गं त्वं वाहयामि ततो रथम् || ४९ ||

इत्युक्ता लघुहस्ता सा बाला मार्गमकल्पयत् |
शरवृष्ट्या निमेषेण दैत्यसेनासु मध्यतः || ५० ||

सायदौघप्रवाहेण भग्नसेतुरिवऽबभौ |
सेनामुखं महाशूरैर्दैत्यैरुद्धमपि क्षणात् || ५१ ||

केचिद्भग्नरथाश्चाऽन्ये नष्टाऽऽऽश्वगजवाहनाः || अस्ह्यां शरधारां तां प्राप्य दैत्याः प्रदुद्रुवुः || ५२ ||

अपरे छिन्नबाह्वक्षिचरणोदरमस्तकाः |
तथाऽन्ये शस्त्रसङ्घातपातेन तिलशः कृताः || ५३ ||

बवुः शोणितवाहिन्यो भीरुणां सागरोपमाः |
सुफेनिलास्तरङ्गढ्या उष्णोककवहा एव || ५४ ||

शरजालमहामेघच्छन्नसूर्यकरा दिशः |
अन्धीभूता न विदिता दैत्यैर्विद्रावतत्परैः || ५५ ||

मेनिरे ते महामृत्युं प्राप्तं बालास्वरूपतः |
पतन्ति सङ्घशस्तत्र दैत्यानां मस्तकान्यलम् || ५६ ||

तृणराजफलानीव पक्वानि प्रौढवायुना |
हा तात पुत्र सुसखे भ्रातर्मित्र हतोऽस्म्यहम् || ५७ ||

इति घोषो महानासीद्दैत्यानां रणसङ्कटे |
तदन्तरे मुखे भग्ने सेनायास्तस्य वेगतः || ५८ ||

प्रवेशयद्रथवरं रथनेत्री निमेषतः |
विशुक्रदैत्योऽवरजो भण्डदैत्यस्य संयुगे || ५९ ||

दृष्ट्वा भ्त्त्वा स्वसेनाया मुखं बालां समागताम् |
गच्छन्तीं दैतराजेन योद्धुमुत्सुकितां तदा || ६० ||

ज्ञात्वा विचारयन्नूनमेषा बालाऽष्टहायना |
निःसीमबलवीर्याऽढ्या युध्यत्यतिविचित्रितम् || ६१ ||

नैषा जेयाऽसुरःकैश्चिद्बलवद्भिरपि क्वचित् |
तथाऽपि समरे शूरैर्योद्धव्यं सर्वथा ननु || ६२ ||

एषैव नाशयेत् सर्वान् दैत्यानस्मान्न संशयः |
किं करिष्यति सा देवी ललिता समरे पुनः || ६३ ||

सर्वप्राणेन योद्धव्यं दैवमत्र परायणम् |
इति निश्चित्य नागेन्द्रमैरावतकुलोद्भवम् || ६४ ||

श्वेतं चतुर्दन्तयुतं रजताऽद्रिसमप्रभम् |
विशुक्र आरुह्य जवात् शरान् धाराधरो यथा ||| ६५ |


वर्षन् विरेजे कैलासाऽरुढनीलाम्बुदोपमः |
रुरोध बालां रथगां प्रविश्य दैत्यवाहिनीम् || ६६ ||

समायान्तीं जवेनाऽजौ चिन्वतीं दैत्यजीवितम् |
संरुध्य शरवर्षेण स्हिंहनादमथऽकरोत् || ६७ ||

आह्वानेन दैत्यसेनां विद्रुतां स न्यवर्तत |
दैत्या नैतत्समं युद्धे कुलजानां पलायनम् || ६८ ||

भीत्या युद्दे विद्रुतन्तु धर्मश्चर्ऽथः प्रहास्यति |
आहार्य वीर्यं क्रोधञ्च निवर्तध्वं समन्ततः || ६९ ||

विनिर्जिताः स्त्रिया युद्धे पलायय सदनं गताः |
किं वक्ष्यथ गृहे स्त्रिभिः पृष्टा युधान्निवर्तने || ७० ||

मृतिरेव ततः श्रेयः स्त्रीक्र्टादपमानतः |
विशुक्रवचनं श्रुत्वा परावृत्तस्ततस्तु ते || ७१ ||

आगत्य बालां त्रिपुरां परिबव्रुः समन्ततः |
दैत्यसेनाभिराक्रान्ताः सा बाला रथसंस्थिता || ७२ ||

परिवेषितबालार्क इव तत्र व्यराजत |
अथ तां रथनेत्रीं सा सखी प्राह प्रियंवदा || ७३ ||

कुमारि ! मन्ये दैत्यानां सेनाभारोऽतिदुःसहः |
न ते पार्ष्णिग्रहा काचिश्चक्रगोप्त्र्यधिविद्यते || ७४ ||

अग्रे सेनाभरो भूयान् मन्यसे चेदहं द्रुतम् |
रथं निवर्तयाम्येषा सेनायुक्ता पुनर्द्रुतम् || ७५ ||

आगत्य चैतान् दैत्येन्द्रान् यथेछं योधयिष्यसि |
स्रुत्वा सखीवचः प्राह प्रहस्य मृदुभाषिणी || ७६ ||

भीताऽसि किं प्रिये युद्धे नैवं शतगुणा अपि |
पर्याप्ता मे दैत्यसेना युध्यन्त्या युधि मे द्वचित् || ७७ ||

लीलयाऽहं विलम्बेन युध्यामि रणकौतुकी |
मन्यसे चेदिमं पश्य क्षणं निर्दैत्यलोककम् || ७८ ||

इत्युक्ता सा पुनः प्राह सखी रथवहा तदा |
देवि नास्त्येव मे भीतिः सैन्येऽपीतः ऽऽशतोत्तरे || ७९ ||

तथा.प्क् रथनाथाया ज्ञेयं चित्तं रणोद्यमे |
शङ्के श्रीलितादेव्या यदाज्ञामन्तरा त्वया || ८० ||

युद्धे विनिर्गता चाऽस्मि एतावत् साध्वसं मम |
ब्रूहि शीघ्रं रथमहं क्वनयामि रणाऽवनौ || ८१ ||

इति श्रीमदितिहासोत्तमे श्रीत्रिपुराहस्ये माहात्म्यखण्डे ललिताचरित्रे देवीशक्तिगणदैत्यसैन्ययुद्धोद्यमे बालापराक्रमवर्णनं नाम त्रिषष्टितमोऽध्यायः || ५२३७ ||

Kapitel 64

सखीवचो निशम्याऽथ बाला संहृष्टमानसा |
प्राह शिघ्रं नय रथं यत्राऽसौ गजसंश्रयः || १ || स्तूयमानो बन्दिगणैर्विशुक्राख्यो महासुरः |
इत्याज्ञ्प्ता क्षणादेव निनाय स्यन्दनोत्तमम् || २ ||

बालाऽपि दैत्यसेनां तामपरां सागरप्रभाम् |
शरसन्ततिधाराभिश्चक्रेऽतिशिथिलां तदा || ३ ||

नाशयत् कुलिशास्त्रेण भस्मशेषत्वमानयत् |
हतास्तत्र महादैत्याः कुलिशाऽस्त्रेण सर्वतः || ५ ||

भस्मशेषीकृताः केचित् केचिद्धतवराऽगकाः |
एकबाह्वक्षिचरणपार्श्स्वीभूतास्तथा परे || ६ ||

महाक्रन्दभीमत्वां नष्तप्रयां चमूं निजाअम् |
निशाम्य प्राहिणोन्नागमैरावतकुलोद्भवम् || ७ ||

योद्धुं विशुक्रस्तां बालां दृष्ट्वाऽद्भुतपराक्रमाम् |
ववर्ष शरधाराभिर्मणिशृङ्गमिवाऽम्बुदः || ८ ||

प्रतिवर्षं ववर्षाऽथ प्रतिदैत्यं शिलीमुखैः |
शरवर्सं द्वयं तत्तु तमोभूतं रणाऽवनौ || ९ ||

तदन्तरे तु निशितशरेणाऽनतपर्वणा |
जघानाऽकर्णपूर्णेन हस्ते तां रथवाहिनीम् || १० ||

सा गाढविद्धा बाणेन किञ्चित्कशमलमागमत् |
त्ददृष्ट्वा रोषताम्राक्षी गर्जन्तं दैत्यपुङ्गवम् || ११ ||

जघान तरसा भाले तीक्ष्णभल्लचतुष्टयैः |
भल्लार्दितो गाढमूर्च्छां विशुक्रः प्रापतद्गतः || १२ ||

पुनः क्ष्णेन चोत्थाय ववर्ष निशितान्शरान् |
अथ बाला क्षणेनैव लघुहस्तक्रियाऽन्विता || १३ ||

द्वाभ्यां चापञ्च छत्रञ्च चिछेद युगपन्मृधे |
अथैकेनाऽकर्णशरेण नतपर्वणा || १४ ||

विव्याध वाहनगजमैरावतकुलोद्भवम् |
इन्द्रायुधं गिरिमिव ददार स शरो गजम् || १५ ||

कुम्भप्रदेशे जघनाभ्यां विनिर्गतः |
संछिन्नः क्रकचेनेव महास्थाणुर्बभौ गजः || १६ ||

तादृग्विधं गजपतिं व्यसुं वीक्ष्य स दैत्यराट् |
खड्गहस्तः खमुत्पत्य तां प्रहर्तुमुपद्रुतः || १७ ||

आयन्तमन्तकनिभं करवालकरोद्यतम् |
लाघवेनैव सा बाला दूरादेकेन पत्रिणा || १८ ||

करवालं द्विधा चक्रे तं मूर्घ्नि त्रिभिराहनत् |
विशुक्रमूर्घ्नि तन्मग्नं किञ्चिद्बाणत्रयं यदा || १९ ||

व्यराजत तदा दैत्यस्त्रिशृङ्गो नगराडिव |
गाढविद्धोऽपि धैर्येण पक्षिराडिव वेगवान् || २० ||

आदाय बालां पाणिभ्यामुच्चचालनभोऽङ्गणम् |
निशाम्य ह्वियमाणां तां रथनेत्र्यब्रवीदिदद्म् || २१ || अलं बाले लीलया ते महाऽनर्थाऽवसानया |
जहि वीर्येण दैतेयं यावद्दूरं न गच्छति || २२ ||

श्रुत्वा सखिवचो बाला मत्वा कालसमं वचः |
निर्वर्त्य मुष्टिं सुदृढां पातयत्तस्य मूर्ध्नि || २३ ||

वज्रकल्पमुष्टिहतो भिन्नमूर्धा वमन्नसृक् |
गाढमूर्छासमाविष्टो निपपात महीतले || २४ ||

अथ बाला रथारुढा सखिं तामभिचोदयत् |
प्रिये शिघ्रं नय रथमेषोऽग्रे दैत्यनायकः || २५ ||

श्वेताऽतपत्रराजीभिश्चामरैरभिसेवितः |
यथा नीलगिरिर्हसैर्जलनिर्झरसंवृतः || २६ ||

आस्ते यथा राजतेऽयं नय तत्र रथं द्रुतम् |
एषा पृष्ठतो मे दण्डनाथा चमूवृता || २७ ||

श्रूयते सिंहवाहस्य गर्जतो भैरवो रवः |
अवश्यं मम युद्धस्य विहतिं सा करिष्यति || २८ ||

तावद्द्रुतं योधयामि भण्डदैत्यं महाबलम् |
उत्कण्ठिताऽस्मि तद्युद्धे सर्वथा नय मां द्रुतम् || २९ ||

श्रुत्वा तद्गदितं सऽपि सखी रथमचोदयत |
यावद्भण्डस्य पुरतस्तावद्रथवराऽश्रयः || ३० ||

ज्ञात्वा सर्वं विषङ्गोऽपि मत्वाऽजेयां सुराऽसुरैः |
अनया युद्ध्यमानस्य दैत्यराजस्य सर्वथा || ३१ ||

जीवतो न विमोक्षोऽस्ति विजितस्त्वनया यदि |
तदा चिरार्जिता कीर्तिर्व्यर्थं हीयेत सर्वथा || ३२ ||

यदि सा ललिता राज्ञी विजेष्यति समं हि तत् |
तस्मादत्र यथाशक्त्या यतितव्यं भवेन्मया || ३३ ||

इति निश्चित्य बालाया निपपाताऽग्र्तो बली |
आयान्तं सम्मुखं दैत्यं दृष्ट्वा रथवरस्थितम् || ३४ ||

भण्डयुद्धमहाविघ्नं मत्वा प्राह सखीं प्रति |
प्रिये! भण्डेन योद्धव्ये महान् विघ्नो ह्युपस्थितः || ३५ ||

पश्य मे लाघवञ्चैनंम् वारयामि सुदूरतः |
इत्युक्त्वा निशितान् बाणांश्चतुरो विससर्ज ह || ३६ ||

तैस्तस्य बाहा निहताः प्रोन्नम्रा वातरंहसः |
अथैकेन ध्वजं छित्त्वा सूतमेकेन पत्रिणा || ३७ ||

निजघानाऽथ दैतेयो विषङ्गोऽत्यन्तकोषितः |
मोघं सोद्योगमालक्ष्य तुरङ्गाऽन्तरसंश्रयः || ३७ ||

आदाय परिधं घोरमभिदुद्राव वेगतः |
तुरगेण समायान्तं वातनुन्नाऽभ्रखण्डवत् || ३९ ||

ववर्ष सायकौधेन प्रावृडब्द इवाऽचलम् |
शरवर्षमगणयन्नायान्तमाभिमुख्यतः || ४० ||

दृष्ट्वा बाला द्रुततरं शरेणैकेन कर्णिना |
अकरोद्ब्यसुमश्व तं हताश्वोऽथ् विषङ्गकः || ४१ ||

उद्यम्य परिघं घोरमुपाऽयान्तं सुभीषणम् |
समुद्रमिव गर्जन्तं कालान्तकयमोपमम् || ४२ ||

सुपुयङ्खेन शरेणाऽशु जघान बलबद्धृदि |
सपुङ्खेन शरेणाऽशु जघान बलाद्धृदि |
स गाढविद्धो बाणेन भ्रमन्नुष्णमसृग्वमन् || ४३ ||

मूर्च्छितः प्रापतद्भूमौ कृत्तपक्षमहीघ्रवत् |
तदद्भुतं कर्म दृष्ट्वा दैत्या देवाश्च विस्मिताः || ४४ ||

अहो दैत्याऽधिपो ह्येषः पुरा शक्रमुखान् सुरान् |
बहुधा ह्यजयद्युद्धे विष्णुतुल्यपराक्रमः || ४५ ||

स एष बालया नूनं लीलयैव निपातितः |
सर्वान् विजेष्यत्येषैव ललिता किं करिष्यति || ४६ ||

प्राहुरेवमथ पुनारथनेत्री रथं नयत् |
भण्डासुरसमक्षं स्त्वं दृष्त्वा बाला महासुरम् || ४७ ||

साधु प्रियं कृतं ह्यद्य चिराऽभिलषितं मम |
अनेन युद्ध्वा सन्तुष्ये चिराभिलषितन्त्वतः || ४८ ||

इत्युक्त्वा शरवर्षेण ववर्षाऽसुरभूपतिम् |
अथ भण्डासुरो दृष्ट्वा बालां सम्मुखसङ्गताम् || ४९ ||

जहृषे वाञ्च्छितं प्राप्य चिरायाऽभिमतं तदा |
स काल एष सम्प्राप्तः श्रियोक्तश्चिरवाञ्छितः || ५० ||

एषा दृष्टा महादेवी भक्तवाञ्छितपूरणी |
नूनमेषः क्षणो मेऽद्य घोरदेहवियोजकः || ५१ ||

अनया निहतस्त्वत्र ब्रजामि समलोकताम् |
एषा श्रीललिताराज्ञ्याः कुमार्द्भुतविक्रमा || ५२ ||

तस्या बिम्बसमुद्भूतप्रतिबिम्बवदास्थिता |
मां निहन्तुं साऽपि देवि रमावचनगौरवात् || ५३ ||

आयास्यति न सन्देहो रमोक्तं नाऽन्यथा भवेत् |
भवत्वेनां पूजयामि तदबिम्बादुत्थिताऽत्मिकाम् || ५४ ||

कालोपपन्नविधिना शरभूतप्रसाधनैः |
इत्थं विचिन्त्य सशरं जग्राह सुदृढं धनुः || ५५ ||

जलाऽस्त्रमन्त्रितशरुअ प्राक्षिपत्तस्याः पादयोः |
अथाऽपरं पौष्पमन्त्रमन्त्रितं मूर्धनि क्षिपत् || ५६ ||

शरु सिषिचतुः पादौ निर्मलैः शीतलैर्जलैः |
शरोऽपरो मूर्घ्नि तस्या मालावर्षमवाऽकिरत् || ५७ ||

तदद्भुतं निशाम्याऽथ पप्रच्छ रथनायिका |
कुमार्येतन्महश्चित्रं प्रपश्याम्यसुरेश्वरे || ५८ ||

तेनैव विहितं किं वा जातं स्यात्तव तेजसा |
त्वयि वर्षं किरन्त्यां वै शराणामाहवाऽवनौ || ५९ ||

एतस्य पूजनविधिः शरैः किमिव ते भवेत् |
अहं संशययुक्ताऽस्मि तन्मे दूरिकुरु द्रुतम् || ६० ||

पृष्टैवं प्राह सा बाला शृणु प्रेयसि मद्वचः |
पुरा श्रुतं यल्ललिता प्रोक्तमत्यन्तगूहितम् || ६१ ||

एष लक्ष्म्या महादूतो नाम्ना माणिक्यशेखरः |
शापेन दैत्यतां प्राप्तस्त्रिपुराभक्तशेखरः || ६२ ||

एष युद्धे विनिहतः श्रीपुरं प्रतिपत्स्यति |
मां मत्वा ललितापुत्रीं पूजयामास सायकैः || ६३ ||

तमीक्ष मत्प्रतिकृतिमित्युक्त्वा शरमुत्सृजत् |
स शरः पञ्चशाखात्मा पस्पर्श तस्य मूर्धनि || ६४ ||

कराम्बुजं मस्तके स्वे न्यस्तं मेने महासुरः |
प्रसादमकरोद्देवी चेति संहृषितोऽभवत् || ६५ ||

तद्दृष्ट्वा विस्मिताऽत्यन्तं बालाया रथनायिका |
अथाऽभवन्महायुद्धं कुमारीभण्डदैत्ययोः || ६६ ||

कृतप्रतिकृतोपेतं घोरं भीरुभयावहम् |
द्वन्द्वभूतमनुपमं द्वैरथ्यं शरवर्षणम् || ६७ ||

भण्डासुरोऽपि भक्त्यैवाऽद्भुतः स्वीयपराक्रमैः |
देवीं सन्तोषयामीति युयोध बलवत्तरम् || ६८ ||

विकिरन्तौ शस्त्रगणान्मर्मप्रहरणोद्यमौ |
ज्ञात्वाऽन्योन्यं शस्त्रयोगलाघवं श्लाघनापरौ || ६९ ||

साधु शूर रणश्लाघ्य साधु देवि महाबले |
इत्येवं युध्यतोस्तत्र कुमारीभण्डदैत्ययोः || ७० ||

प्रावर्तन्त महास्त्राणि लोकमोहकराणि वै |
कुलिशाऽस्त्रं पार्वतस्य नागाऽस्त्रस्य च गारुडम् || ७१ ||

आग्नेयस्य च पार्जन्यं तस्य मारुतनामकम् |
तस्य सार्पं तस्य पुनर्नाकुलं तस्य चैव हि || ७२ ||

वैडालं कुक्कुरं तद्वद्बकं वैयाघ्रमेव च |
महाव्याघ्रं मृगेनद्रञ्च तस्य शारभमस्त्रकम् || ७३ ||

गण्डमेरुण्डमित्येवं तथा याम्यञ्च वारुणम् |
कौबेरं नैऋतञ्चैन्द्रं रौद्रं मोहनमेव च || ७४ ||

पैनाकं वैष्णवं ब्राह्ममेवमस्त्रैस्तु सङ्कुलम् |
युद्धमासीन्महाघोरं कुमारीभण्डदैत्ययौ || ७५ ||

तत्र दैत्याः शक्त्यश्च सहायार्थसमागताः |
प्रेक्षाञ्चक्रुर्विचित्रेण युद्धेनाऽत्यन्तविस्मिताः || ७६ ||

एवं प्रवृत्ते समरे बालाया लाघवात्तु सः |
हीयमानः समभवद्भण्डदैत्यो यदा तदा || ७७ ||

विषङ्गश्च विशुक्रश्च कुटिलाक्षश्च भूपतिः |
संवृत्ता दैत्यसेनाभिः परिवार्य कुमारिकाम् || ७८ ||

युयुधुः शस्त्रसङ्घातैर्वमद्भिर्वह्निमुल्वणम् |
बालापि तान् लीलयैव योधयामास सर्वतः || ७९ ||

एवंविधेद्धे महायु प्रवृत्ते बालया सह |
सम्प्राप्ता दण्डसम्राज्ञी जित्वा दैत्यमहाचमूम् || ८० ||

भित्त्वा सेनामहाद्रिं तं दैत्यानामतीस्तृतम् |
मुसलात्ममहावज्राऽयुधेन क्रूरविक्रमा || ८१ ||

आससाद महायुद्धे बालां युद्धरसोत्सुकाम् |
युध्यन्तीमेकलां दैत्यैः पऽऽयन्ती विस्मिता तदा || ८२ ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीललिताचरित्रे बालापराक्रमवर्णनं नाम चतुःषष्टितमोऽध्यायः || ५३१९ ||

पञ्चषष्तितमोऽध्यायः बालायाः समरपराक्रमवर्णनम्

Kapitel 65

Shiva und Shakti: Bewusstsein und seine schöpferische Kraft.

अथ भण्डस्य सा सेना कोलवक्त्रापराक्रमात् |
विशीर्णा पर्वत इव देवेन्द्राऽयुधगौरवात् || १ ||

सेनायां दैत्यराजस्य वाराहीमुसलाऽहतेः |
विशीर्णायामपश्यत् सा बालां दैत्यैः सुसङ्गताम् || २ ||

एकलां योधयन्तीं तान्महादैत्यान् समन्ततः |
समरोत्सुकितां भूयो दृष्ट्वा विष्मयमागमत् || ३ ||

अथ तां प्राह कोलास्य समासाद्य विशृण्वतीम् |
अलं बाले साहसेन युद्धेन विषमेण ते || ४ ||

नैतदन्यत्र पश्यामि साहसं यत्त्वमेकला|
दैत्यान्महाबलान् भीमान् संयुगे जितवत्यसि || ५ ||

त्वां निशम्यैकलां दैत्यैर्युध्यमानां महेश्वरीम् |
श्रीदेवी वत्सला नूनं भवेद्व्याकुलितान्तरा || ६ ||

इमं क्षणं द्रष्टुमर्हसि याहि तत् |
इत्युक्ताऽज्ञापयच्छक्तिमश्वसेनाऽधिनायिकाम् || ७ ||

अश्वारुढे प्रयाह्येनां समादायाऽतिसत्वरा |
महाराज्ञ्येऐ निवेद्यैनामागच्छ त्वरितं पुनः || ८ ||

अश्वारुढैवमाज्ञप्ता समरादनिवर्तिनीम् |
बालाया रथाअविश्य न्यवर्तयत तं रथम् || ९ ||

अथाऽऽगत्य महाराज्ञ्यै बालां तां विनिवेदयत् |
मातरेषा युद्धभुवो बलात्कारान्निवर्तिता || १० ||

अतिसाहसचारित्राऽद्भुतवीर्यपराक्रमा |
त्वदाज्ञाया वयं यावदेनां युद्धान्निवर्तितुम् || ११ ||

प्रयातास्तावदेषा तु दैत्यसेनामहार्णवम् |
प्रविष्टा तत्र दैत्यानां कोटयो बलात्तराः || १२ ||

निपातिता महायुद्धे भण्डदैत्या वरोद्भवौ |
निर्जितौ भीमचारित्रौ तौ विशुक्रविषङ्गकौ || १३ ||

ततो भण्डं समादाय जितलोकेश्वराऽसुरम् |
युद्ध्वा तेनाऽपि सुचिरं जितमायं चकार वै || १४ ||

कथञ्चिदेषा वाराह्या विक्रम्याऽसादिता भवेत् |
इत्युक्त्वा निर्ययौ साऽपि युधाय तुरशाऽश्रया || १५ ||

अथ बालां महाराज्ञी स्वाङ्कमानीय सत्वरम् |
परिष्वज्याऽतिवात्सल्यान्मूर्ध्न्यु पाजिघ्रदम्बिका || १६ ||

वत्से ! नैवं पुनः कार्यं क्वचित् साहसमात्रया |
अनुक्त्वैव गता युद्धे नैतदौपयिकं तव || १७ ||

अथ प्राह कुमारी सा ललितां मातरं प्रति |
एषाऽरुणितनेत्रान्ता निःश्वसन्ती पुनः पुनः || १८ ||

मातश्चिरादहं युद्धक्रीडाकौतुकिताऽन्तरा |
शङ्कमाना त्वया तत्र विघ्नं नैतमवेदयम् || १९ ||

युद्धक्रीडारसभरादवितृप्तैव वारिता |
तावक्या दण्डराज्ञाऽहं वृथैव समराङ्गणात् || २० ||

त्वत्तोऽतिभीतयाऽसाद्य मानिता रणसम्भ्रमे |
अन्यथा साऽपि मद्युद्धं विमदा प्राप्य वै भवेत् || २१ ||

वदन्तीमिति तां बालां परिष्वज्य महेश्वरी |
मैवं वत्से ! पुनब्रूर्या इत्युक्त्वा सान्त्वयत् परा || २२ ||

अथ दण्डमहाराज्ञी किरिचक्रसमाश्रया |
युयोध भण्डदैत्येन युतेन दैत्यसेनया || २३ ||

शक्तिसेना दैत्यसेना युध्यमाना परस्परम् |
क्रोधाऽवेशसमायुक्ता प्रविष्टाऽभूत्परस्परम् || २४ ||

दैत्याः शक्तिगणान् ध्नन्ति मुसलप्रासतोमरैः |
नाराचैर्भिन्दिपालैश खड्गशूलपरश्वधैः || २५ ||

शक्त्योऽपि प्रहरणैर्विविधेर्दैत्यपुङ्गवान् |
जघ्नुर्युद्धे महाभीमे मर्षिता बलवत्तराः || २६ ||

तत्र शक्तिगणाहतच्छिन्नबाहूरुनासिकाः |
केचिद्द्विधा क्र्टाःशस्त्रैः केचित्तु तिलशः क्र्टाः || २७ ||

केचिन्महाभारशस्त्रिअर्निष्पष्टाऽशेषदेहकाः |
क्रन्दन्तः पुत्र मित्रेति हा भ्रातस्तात इत्यपि || २८ ||

एवं श्क्तिगणाऽस्त्राग्निभस्मशेषत्वमागताः |
दैत्याः शिष्टाः सुवित्रस्ताः पलायनपरास्तदा || २९ ||

अभवन् सा युद्धभूमिरगम्याऽभवदञ्जसा |
शोणितोदा ववुर्नद्यः फेनिला भीषणस्वनाः || ३० ||

प्रेतगोमायुकङ्काऽदिशवाऽहारमहोत्सवाः |
एवं विनिहतप्रायां दैत्यसेनामुपद्रुताम् || ३१ ||

विशुक्रः स विषङ्गोऽथ निवार्याऽभ्याययौ मृधे |
पुनस्तत्राऽभवद्युद्धं क्रूरं शक्तिगणैःसह || ३२ ||

मायया शक्तिसेनां तां विशुक्रो मोहयत् क्षणात् |
ससर्ज मायया ध्वान्तं तत्र वर्ष शिलामयम् || ३३ ||

वह्निवायुसमोपेतं तेन शक्तिमहाचमूः |
वित्रासिता मूर्च्छिता चाऽप्यभवद्भीमसऋअवा || ३४ ||

तं दृष्ट्वाऽभ्याययौ सम्पत्करी गजसमाश्रया |
विशुक्रेण महायुद्धे सङ्गताऽतिद्रुतं बभौ || ३५ ||

अश्वारुढाऽपि युयुधे विषङ्गेण महाबला |
वाराही भण्डदैत्येन युयोधाऽतिरुषाऽन्विता || ३६ ||

रणकोलाहलाऽख्यानं गजमारुह्य वेगिनम् |
असङ्ख्यगजसैन्येन युता सम्पत्करी परा || ३७ ||

विशुक्रं योधयामास महागजसमश्रयम् |
ववर्ष शरवर्षेण विशुक्रं मायया युतम् || ३८ ||

विमायाऽस्त्रेण हत्वा तन्मायामत्यन्तभीतिदाम् |
प्रतिवर्षेण दैत्योऽपि ववर्ष विशिखात्मना || ३९ ||

एवं युद्ध्वा चिरं तस्य धनुश्चिच्छेद मद्यतः |
सोऽप्यन्यदाददे चापंतञ्चाऽप्येषा समाच्छिनत् || ४० ||

एवं धनुःशतं छीन्नं गृहीतन्तु पुनः पुनः |
अथाऽतिक्रोधसंयुक्तो विशुक्रोऽद्भुतविक्रमः || ४१ ||

भल्लेन प्राहरत्तस्याः सम्पत्कर्या महाभुजे |
भल्लाऽहतभुजात्तस्या न्यपतत्तन्महद्धनुः || ४२ ||

सम्पत्करी ततः क्रुद्धा प्राहिणोद्वाहनं गजम् |
जगर्ज पतितं दृष्ट्वा हस्ताश्चापं महत्तरम् || ४३ ||

प्रहितस्सोऽपि करिराङ् दैत्येभमनुसंययौ |
तयोरभून्महद्युद्धं करिणोरगयोरिव || ४४ ||

करसंवेष्टनैः कुम्भसङ्घट्टैः पार्श्वधर्षणैः |
दन्ताऽक्रमैर्महाशब्दैर्मुहूर्तमतिभीषणम् || ४५ ||

रणं कोलाहलश्चाऽथ बलवान् दैत्यवारणम् |
आक्रम्य भूमौ वेगेन निपात्य रदनद्वयम् || ४६ ||

उदरे विनिवेश्योर्ध्वमुत्थाप्य प्राक्षिपद्रुषा |
एवं निक्षिप्तमात्रस्तु चीत्कुर्वन् कुञ्जरधिपः || ४७ ||

अपतत्त्रिःपरिक्रम्य व्यसुः पर्वतशृण्गवत् |
पतन्तं बाहनेभन्तमालक्ष्य स महासुरः || ४८ ||

उत्पत्याऽङ्कुशमादाय रणकोलाहलं गजम् |
प्राहरत् कुम्भयोर्मध्ये सर्वप्राणेन रोषितः || ४९ ||

गतोऽङ्कुशेन बलवत् स गजो भिन्नमस्तकः |
अपाऽसरत् पञ्चधनुर्मात्रं चीत्कारभैरवः || ५० ||

विशुक्रः पुनरुत्पत्य सृणिहस्तो महागजम् |
तमेव वाहनं तस्या सम्पत्कर्या युयोध ह || ५१ ||

तस्याः करगतं चापमाच्छिद्य त्वरितं रुषा |
बभञ्ज तद् द्विधा मध्ये समादायैकखण्डकम् || ५२ ||

प्राहरन्मूर्घ्नि बलवान् सम्पत्कर्याः सुवेग्तः |
एवं हता सा बलवदीषत्कश्मलमागता || ५३ ||

पुनर्मुष्टि विनिर्वर्त्य वज्रसारां न्यपातयत् |
मूर्ध्नि तस्य विशुक्रस्य रुषा सम्पतकरी बलात् || ५४ ||

मुष्टिपाताद्भन्निमूर्धा वहद्रक्तोऽतिमूर्च्छितः |
कृत्तपक्षः शैल इव पतात वसुधातले || ५५ ||

ताव्द्गजोऽपि सङ्क्रुद्धः पदाऽक्रान्तुं समुद्यतः |
आलक्ष्य तद्भण्डसुतः युध्यमानः समीपतः || ५६ ||

मत्वा हतं पितृव्यं वै मायया तमपाऽबहत् |
एवं पराजितः सम्पन्नाथया स महासुरः || ५७ ||

तथाऽश्वारुढया युद्ध्यद्विषङ्गो वाजिवाहनः |
विविधैरस्त्रशस्त्रैश्च युध्यन्तं तं महासुरम् || ५८ ||

अश्वाऽरुढाऽश्वसंस्थाना प्राहरद्गदयोरसि |
ताडितो गदया चेषन्मूर्च्छां प्राप्य पुनर्जवात् || ५९ ||

पदासिकां खेटकञ्च शतचन्द्रमनुत्तमम् |
समादायाऽश्वसेनासु विचचाराऽन्तकोपमः || ६० ||

पट्टासिप्रान्तसंछिन्नास्तुरगाः शक्त्योऽपि च |
छिन्नमूर्धाङ्गचरणाः प्रपेतुः सङ्घसङ्घशः || ६१ ||

एवं शक्तिर्विनिघ्नन्तमश्वाऽरुढाऽतिकोपिता |
बद्ध्वा पाशेन गदया साऽश्वं हन्तुं समुद्यता || ६२ ||

अथ सोऽपि महादैत्यो मत्वा स्वात्मपराभवम् |
अन्तर्धानं ययौ साश्वोमायया मायिनां गुरुः || ६३ ||

एवं पलायितो युद्धे विषङ्गो वाजिनाथया |
दण्डनाथा च भण्डेन युयोध बलसम्भृता || ६४ ||

विहत्याऽस्त्राणि चाऽस्त्रौघैः शस्त्रैः शस्त्राणि सर्वशः |
पराक्रमेणाऽक्रमत भण्डां कोलमुखी युधि || ६५ ||

खडगयुद्धे गदायुद्धे धनुःपरशुयुद्धयोः |
मुष्टियुद्धे च दैत्येशमत्यरिच्यत दण्डिनी || ६६ ||

एवं पराजितः शस्त्रयुद्धेषु विमृशंस्ततः |
मायां प्रादुश्चकारोश्चैर्मायिनां शेखरोऽसुरः || ६७ ||

अन्धकारं महावायुं विद्युद्वर्षं महारवम् |
शिलावर्षंसर्पवर्षञ्च पावकम् || ६८ ||

सारमेयान् वृकान् व्याघ्रांस्तरक्षून् राक्षसानपि |
सिंहांश्च शरभानाण्डभेरुण्डानसृजद्युधि || ६९ ||

एवं तेन महामायां सृज्यमानां पुनः पुनः |
प्रतिक्रियाऽस्त्रसन्धानैर्नाशयामास सर्वतः || ७० ||

अथ दण्डमहारज्ञीशस्त्रतेजोभिरर्दितः |
नभस्यन्तर्हितो भूत्वा युयोध सरथोऽसुरः || ७१ ||

प्रादुश्चकाराऽश्मवर्षमतिभीमं महारवम् |
शस्त्राऽशनिगणोपेतं शक्तिसेनाभयंकरम् || ७२ ||

तेन वर्षेण महता पीडिता शक्तिवाहिनि |
भिन्नसेतुदकमिव विलुप्ताऽभूत् समन्ततः || ७३ ||

दृट्.वा तदक्रमं दण्डराज्ञी चण्डप्रकोपना |
उत्पपाताऽतिवेगेन सायुधा नभसोऽङ्गणम् || ७४ ||

वर्षं पतन्तं तदाविश्य शिलामयमतिद्रुतम् |
मृगयामास दैत्येशं नभस्यन्धतमोवृते || ७५ ||

निजाऽङ्गकान्त्या कुर्वन्ती नभोदेशं सुभास्वरम् |
अपहत्य महामायामाससाद महासुरम् || ७६ ||

रथसंस्थं शैलनिभं सृजन्तं शैलवर्षणम् |
गदयाऽभ्याहनन्मूर्घ्नि वज्राऽहत इवाऽद्रिराट || ७७ ||

पपात मूर्च्छितो भूमौ स्त्रोतः कृततटो यथा |
पुनः सा गदयैवाऽशु रथमश्वांश्च सारथिम् || ७८ ||

विनाशयद्दण्डनाथा क्रोधेन महताऽवृता |
तावन्मूर्च्छाविनिर्मुक्तो गदाहस्तो हासुरः || ७९ ||

उत्पपात नभो वेगाद्योद्धुं किरिनिभाऽननाम् |
अथाऽभवन्महायुद्धं वाराहीदैत्यराजयोः || ८० ||

गदाप्रहारतुमुलं व्ज्रपातमहारवम् |
मुहूर्तमात्रं युद्ध्वैवं बलोतसिक्तं महासुरम् || ८१ ||

मत्वा चकर्ष सीरेण मुसलोद्यन्महाभुजा |
तावन्मत्वा निजात्मानं हतं मुसलघाततः || ८२ ||

चिन्तयद्भण्डदैत्येशः पुरा लक्ष्मीप्रभाषितम् |
नूनं प्रोक्तं रमादेव्या यत् पुरा न तदन्यथा || ८३ ||

बह्वेत मुसलघातेनाऽमोघेन स्यां कथं हतः |
त्रिपुरा सा महादेवी भक्तवाञ्छितपूरणी || ८४ ||

मां हन्यात् समरे साक्षादेतन्मेऽभिमतं चिरात् |
दैत्ये विचिन्तयत्येवमभवन्नाभसं वचः || ८५ ||

दण्डनाथे ! नैष वध्यस्तव युद्धे कथञ्चन |
अमोघो मुसलस्तेऽयं सन्निवर्य वै द्रुतम् || ८६ ||

श्रुत्वेत्थं नाभसवचश्चण्डिका दण्डनायिका |
मोचयत्तं सीरगर्भान्मत्वाऽवध्यं सुरेश्वरम् || ८७ ||

अथ सोऽन्तर्हितो दैत्योनिर्जितो दण्डनाथया |
दैत्यसेनाशक्तिगणैर्गाढविद्धा पलायिता || ८८ ||

दृष्ट्वा भग्नां दैत्यसेनां जयभेरीमवादयत् |
शक्त्यो विविधांश्चापि वाद्यान् जयविधौ मतान् |
८९ ||

अथ द्रुतं प्रेषयित्वा जयाऽख्या नाथदण्डिनी |
ललितायै शक्तिसेनां समवाप्याऽभितः स्थिताम् || ९० ||

क्षता हताः शक्त्यो या अमृतेशी च ता द्रुतम् |
अजीवयद्विरुजयत् ततो हृष्टाञ्च तां चमूम् || ९१ ||

संनह्य स्वरथाऽरुढा सम्पद्देव्याऽनुसङ्गता |
पुरोऽव्रजदश्वनाथा सेनया दण्डनायिका || ९२ ||

द्रष्टुं तां ललितादेवीं ययौ द्रुततरं मुदा |
गजवादित्रशब्दौघैः ख्यापयन्ती स्वकं जयम् || ९३ ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे ललिताचरित्रे भण्डासुरपराभवो नाम पञ्चषष्टितमोऽध्यायः || ५४१२ ||

षट्षष्टितमोऽध्यायः सम्पत्कर्यश्वारुढाभ्यां दुर्मदवधवर्णनम्

Kapitel 66

अथ गत्वा दण्डनाथा शक्तिभिर्विविधैर्युता |
आसाद्य मन्त्रिणीं देवीं प्रणम्य जयमादिशत् || १ ||

साऽपि प्रीता परिष्वङ्गं तस्यै मानेन संददौ |
अथ गत्वा तया सार्धं महाराज्ञीं प्रणम्य च || २ ||

जयवृत्तं समाचख्यौ शक्तिचक्रप्रहर्षदम् |
भण्डासुरोऽपि दैत्यानांसेनया नष्टशेषया || ३ ||

ययौ बहिःखिन्नतय हृष्टश्चाऽन्तरभीप्सितात् |
शून्यकं नगरं प्राप्य जगामाऽन्तःपुरं स्वकम् || ४ ||

ततः प्रियाः सममेत्य भण्डं सम्मोहिनीमुखाः |
ब्रूयुर्नाथ किमद्य त्वां पश्यामः कृपणं यथा || ५ ||

नारदेन पुरोक्तं यत्तदन्यथयितं कथम् |
प्राह पत्निवचः श्रुत्वा ज्ञात्वा स्वाऽभिमतं शुभम् || ६ ||

नारदोक्त्याऽभिविदितमाभिः सर्वात्मनेत्यथ |
अभवत् प्रकट्स्तासु प्रियाः शृणुत मे वचः || ७ ||

कथमिष्टार्थलाभेषु खिन्नः स्यामतिमुग्धवत् |
विदितं ते नारदोक्तेः सर्वं मे समभीप्सितम् || ८ ||

अचिरादेव तल्लोकं प्राप्स्यामि परया हतः |
किन्तु दैत्येषु स्वरूपं निगूहितुमिति स्थितिः || ९ ||

अथ प्राहुः पुनर्दारा नाथन्रूमोऽभिवाञ्छितम् |
यदि ते निश्च्यो युद्धे हता यास्यामः तत्स्थितम् || १० ||

इति चेद्वैत्वदेकान्ता नयाऽस्मान् सहभावतः |
तत्ते मार्गः प्रविदितो वदाऽस्माकं कथं गतिः || ११ ||

भक्ता हातुमयोग्यास्ते वयं छायेव सङ्गताः |
श्रुत्वा प्रोक्तं प्रियाभिस्तत् प्राह हर्षसुनिर्भरः || १२ ||

शृणुध्वं मद्वचस्तथयं मयेतश्चिन्तितं पुरः |
न भवेदन्यथा ह्येतत् सर्वथा कारनम् ब्रुवे || १३ ||

रमादेव्याः प्रसादेन स्मरामि प्राक समुद्भवम् |
नूनं सा मेऽब्रबीदेवं त्रिपुराऽस्मत्समाश्रया || १४ ||

संश्रितानां सुभक्तानां वाञ्छितं सा हि सर्वथा |
दिशत्यसाध्यमपि च ततो नः स्यात् समीहितम् || १५ ||

मयाऽभिवाञ्छितं यामि भवतीभिः सहेति वै |
तल्लोकं तद्भवेदेवं सर्वथा ऽपि न संशयः || १६ ||

अथऽपि मे समीहाऽन्या चाऽस्ति (?) पुत्रादिभिः सह |
गन्तव्यमिति तत्रापि भवेदेव तथा ऽप्यहम् || १७ ||

चिन्तयाम्यक्रमेणैव भवेत्तस्याः कृपावशात् |
नूनं लोके सुहृद्बन्धुवैधुर्यं जातु वै क्षणम् || १८ ||

सोढुं न योग्यं वै यत्र त्रुटिः कल्पगणायते |
एतावत् प्रार्थ्यते नूनं न भवेत् सक्षणः क्वचित् || १९ ||

तस्माद्युष्ंआभिरप्येतत् प्रार्थनीयमहर्निशम् |
सा साधयति भक्तानामसाभ्यमपि वाञ्छितम् || २० ||

एतदन्यौर्न विज्ञेयमित्यहं शुछ्यवस्थितः |
शोकं जहथ राज्~योऽत्र प्राप्तोऽभुदय उच्छ्रितः || २१ ||

इत्युक्त्वाऽस्तङ्गते सूर्ये विवेशमहतीं सभाम् |
अथाऽगता विशुक्राद्या भ्रातरो मन्त्रिणस्तथा || २२ ||

पुत्रा भृत्याः सभास्ताराः सभामध्येऽतिभास्वरे |
प्रणम्याऽसुरभूपालं विविशुः स्वस्वविष्तरे || २३ ||

विशुक्रः प्रेक्ष्य राजानं शोचन्तमिव संस्थितम् |
कृताऽञ्च्जलिः प्रणम्या.ऽह वर्धयित्वाऽद्भुतं वचः || २४ ||

श्रीदेव्या भण्डैत्येशवाञ्छितार्थसमीहया |
नाशिताऽखिलदैत्यानां बुद्धिर्नीतिसमानुगा || २५ ||

योऽतिबुद्धिमतां श्रेश्ठो विचारे शुक्रसम्मितः |
विशुक्रः सोऽपि विमतं प्राह स्वार्थविषर्ययम् || २६ ||

अगस्त्यैतावदेवेह कृत्यं कालस्य भावितम् |
भाव्यर्थस्याऽनुरोधेन भुद्धिमुन्मेषयत्यलम् || २७ ||

महाराज लक्ष्यसे म शोचन्निव सभास्थितः |
जीवत्स्वस्मासु दैत्येषु पऽऽयाम्येतदसाम्प्रतम् || २८ ||

इत्युक्तःपुनरुचे स दैत्येशो दैत्यमण्डले |
विशुक्र किं वदाम्यद्य कालस्यैवं विपर्यये || २९ ||

योऽहं पञ्चोत्तरशतब्रह्माण्डानां प्रसासकः |
यस्य युद्धे विष्णुमुखा यूयो जाताः पराङ्मुखाः || ३० ||

यस्य नाम्नाऽपि वृत्रघ्नो निद्रामप्येतिनोक्वचित् |
सोऽद्याऽहमबलासङ्घैर्व्यर्थयुद्धे कदर्थितः || ३१ ||

किं तादृशं पृच्छसि मां शोचसीति मृतप्रभम् |
काले मृतिः श्लाघ्यतमा नेदृशस्य कदर्थना || ३२ ||

विशुक्र इति तद्वाक्यं श्रुत्वा प्राह ततो वचः |
दैत्येशैवं नर्ऽहसि त्वं भाषितुं करुणंवचः || ३३ ||

अबला योषिदित्येवं कारुण्यं नाऽप्नुयात्तु कः |
नैसर्गिकस्ते धर्मोऽयं स्त्रीषु शस्त्रपरावृतिः || ३४ ||

अलं त्वया मया वाऽपि राजपुत्रादिभिस्तथा |
दैत्येष्ववन्यतमोऽप्येकस्वयाऽज्ञप्तो मुहूर्ततः || ३५ ||

हन्याच्छक्तिगणं सर्वमत्र पादौ स्पृशामि ते |
त्वं तिष्ठाऽन्तःपुरे क्रीढन् सुरवारगणैः सह || ३६ ||

गतोऽहं तां विजित्यैव पादौ पश्यामि ते पुनः |
इत्युक्वा पर्श्वतः प्रैक्षत् कुटिलाक्षं चमूपतिम् || ३७ ||

तावत् सोऽपि प्रणम्यैनं कृताञ्जलिरभाषत |
युवराज किमेवं त्वं ब्रवीषि मयि जीवति || ३८ ||

राज्ञा सह विषङ्गेण राजपुत्रैरूपाविश |
सेनासेनाधिपैः साकं गत्वाऽहं साधयामि ताम् || ३९ ||

अन्यथा नाऽगमिष्यामि सत्यं प्रतिशृणोमि ते |
इत्युक्त्वा प्रणिपत्यैतान्निर्ययौ नगराद्बहिः || ४० ||

अनेकाऽक्षौहिणीसेनायुक्तः सेनाऽधिणैः सह |
अथाऽगत्य दुर्मदाऽख्योवाहिनीषो महाबलः || ४१ ||

दशाऽक्षौहिणिकायुक्त उष्ट्राऽरोहो गदाधरः |
प्राहाऽहङ्कारशैलस्थः प्रणम्याऽत्मचमूपतिम् || ४२ ||

सेनाधिश! त्वमत्रैव तिष्ठ सेनासमावृतः |
अवलाविजयेनैव प्रयाणं वः सुसम्मतम् || ४३ ||

आनेष्यामि मुहूर्तेन बद्ध्वा तामबलाधिपाम् |
मुहूर्तमात्राद्यदि तां नाऽनेष्यामि ततस्त्वया || ४४ ||

यतितव्यञ्च गन्तव्यमित्युक्त्वा निर्ययौ जवात् |
वादयन् जैत्रयात्राऽङ्गवादित्राणि मुहुर्मुहः || ४५ ||

ययौ शक्तिचमूवक्त्रं सूर्यस्योदयनं प्रति |
दैत्यसेनासमारभ्मकोलाहलमहरवम् || ४६ ||

श्रुत्वा सम्पत्करी देवी चाऽश्वारुढा महाबला |
गत्वा श्रीमातरं नत्वा मन्त्रिणी दण्डिनीमपि || ४७ ||

विज्ञाप्य दैत्यसन्नाहमनुज्ञातेऽतिमोदिते |
ययतुः शक्तिसेनाभिरसङ्ख्याभिः समायुते || ४८ ||

तत्र सम्पत्करी देवी समारुह्य महागजम् |
रणकोलाहलाऽख्यानं प्रालेयाऽद्रिरिवोन्नतम् || ४९ ||

सुवण भा जपाऽरक्तवासोरत्नविभूषणा |
तारुण्याम्भोधिलहरी लावण्यौघसमुद्रिका || ५० ||

विकर्षन्ती मणिमयं चापमिन्द्रधनुष्प्रभम् |
दैत्याम्बुधेः शोषणाय शरान् भानुकरोपमान् || ५१ ||

किरन्ती निर्ययौ सूर्य उदयाऽद्रिगतो यथा |
असङ्ख्या वारणाऽरुढा शक्त्यश्चाऽपि तादृशाः || ५२ ||

परिवार्य ययुर्बाणान् विकिरन्त्यः समन्ततः |
प्रत्येकं तादृशी शक्तिर्गर्जने त्र्यङ्कुशग्रहा || ५३ ||

गजग्रीवासमारुढा नयती शत्रिवाहिनीम् |
कस्मिंश्चिदेका संरुढाऽनेकाश्चाऽन्येषु संस्थिताः || ५४ ||

इत्यसङ्ख्येभसेनाभिः समेता सम्पदीश्वरी |
ग्रसन्तीव दैत्यसेनां व्याप्य भूमिमुषाऽययौ || ५५ ||

निसर्गभिन्नगण्डास्ते गजाः पर्वतसन्निभाः |
दैत्यसेनां समासेदुस्ते युद्धेष्वनिवर्तिनः || ५६ ||

अथ विआदित्रनिस्वानः सेनयोरुभयोरभूत् |
प्रवृत्तः ऽऽशस्त्रपातोऽपि प्राणचोरमहारवः || ५७ ||

दैत्या रथेभतुरगखरोष्ट्रमृगरोहिणः |
गृघ्रकाककङ्कघूकभासकेक्यधिसंश्रयाः || ५८ ||

अन्ये मार्जारनकुलसरटप्रेतवाहनाः |
चण्डशूलखड्गचक्रभिन्दिपालधराः परे || ५९ ||

तोमरप्रासपरिघभुशुण्डीलगुडाऽयुधाः |
एवंविधैर्दैत्यगणैः समेता शक्तिवाहिनी || ६० ||

युयुधे प्रौढसंरम्भा क्रोधसंरक्तलोचना |
परस्परं क्षिपन्तस्ते वाक्यैः कटुरसोदयैः || ६१ ||

हतोऽसि तिष्ठ शौर्येण पृष्ठ स्वं न प्रदर्शय |
इत्यादिबहुवाक्यानि वदन्त्यः शक्त्यो रणे || ६२ ||

जघ्नुर्दत्यांस्तेऽपि तद्वन्निजघ्नुः शक्तिवाहिनीम् |
एवं प्रवृत्ते समरे प्राणद्युते भयङ्करे || ६३ ||

छिन्नबाह्नङ्घ्रिमूर्धानः पाटितार्ऽधार्ढदेहिनः |
एवंविधाः शक्त्योऽपि दैत्यहेतिभिराहताः || ६४ ||

पाटिताऽङ्गा अपि दृढं क्रोधात् सन्दष्टदच्छदाः |
जघ्नुः प्रत्यर्थिनां वृन्दं शस्त्रैर्दन्तैश्च मुष्टिभिः || ६५ ||

नष्टशस्त्राः परकराच्छस्त्रामाच्छिद्य वै बलात् |
अन्ये भग्नैरथाङैश्च हेतिभिर्युयुधुर्भृशम् || ६६ ||

एवं प्रवृत्ते समरे घोरे संहृतिसन्निभे |
बवुर्नद्यो लोहितौघाः सफेनिलतरङ्गिकाः || ६७ ||

शक्तिभिर्गजरोहाभिर्दैत्यसैन्यं विनाशितम् |
पलायितं गाधविद्धं दशाऽक्षौहिणिशेषितम् || ६८ ||

दृष्ट्वा दुर्मद एवं स्वां भग्नां सेनां समन्ततः |
उष्ट्राऽरुढो गदाहस्तः कालाऽन्तकयमोपमः || ६९ ||

दशतालसमुन्नम्रं करभं पिङ्गलाऽकृतिम् |
प्राहिणिच्छक्तिसेनासु महावेगं महाबलम् || ७० ||

अथ प्रविष्टः शक्तीनां सेनासूष्त्रोऽतिवेगवान् |
सृक्किणीप्रान्तविगलन्मांसपिण्डाऽभजिह्वकः || ७१ ||

समुद्रमथनोदञ्चन्महाशब्दप्रतिस्वनः |
फेनपिण्डानुद्गिरंश्च मूत्रयन् पृष्ठतो बहु || ७२ ||

उरसा पादविक्षेपैस्तुण्डाऽघातैः करिव्रजम् |
नाशयन् दशनैश्चैव व्यचरच्छक्तिसैन्यके || ७३ ||

दुर्मदोऽपि गदाऽघातैरिभंच्छक्तीश्च नाशयन् |
शक्तिसेनाऽन्तक इव कदनं प्रकरोद्रुषा || ७४ ||

तद्दृष्ट्वा शक्तिसेनाया नाशनं सम्पदीश्वरी |
रणकोलाहलं तस्य नाशाय समचोदयत् || ७५ ||

अथेभराज आसाद्य करभं दैत्यवाहनम् |
अयुध्यत विषाणाऽग्रकुम्भाऽघातैर्मुहुर्मुहः || ७६ ||

सोऽपि दन्तैर्मूर्धघातैः पदक्षेपैरयुध्यत |
एवं युद्धं समभवत्तुमुलं करभेभयोः || ७७ ||

अथेभराजः करभं प्रसह्यापतयद्भूबि |
निपात्य पादेनाऽक्रम्याऽकरोत्तं करभं व्यसुम् || ७८ ||

मरिष्यन्तं विदित्वोष्ट्रं गदाहस्तः खमाप्लुतः |
संभ्राम्य पातयन्मूर्घ्नैंगदां वारणकुम्भ्योः || ७९ ||

गदयाऽभिहतो हस्ती भीन्नमूर्धा भ्रमन्नुरः |
जानुभ्यां विकलो भूमिं प्राप्तः शोणितमुद्ग्निरन् || ८० ||

तावत् सम्पदधीश्याऽपि शरेणोरसि ताडितः |
जहौ प्राणान् दुर्मदोऽपि द्विधोरसि विपाटितः || ८१ ||

हतं सेनाधिपं दृष्त्वा विद्रुता दैत्यसैनिकाः |
अदृष्ट्वा पृष्टतो यान्तिः शक्तीर्जीवितहेतवे || ८२ ||

इति श्रीमदितिहालोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीललितामाहात्म्ये दुर्मदवधो नाम षट्ष्टितमोऽध्यायः || ५४९४ ||

सप्तषष्टितमोऽध्यायः नकुलीपराक्रमे करङ्कादिबधवर्णन्म्

Kapitel 67

दुर्मदं निहतं श्रुत्वा कुरण्डो दुर्मदाऽग्रजः |
क्रुद्ध आज्ञां समादाय कुटिलाक्षान् महाबलः || १ ||

विंशत्यक्षौहिणीयुक्तो योद्धुमभ्याययौ जवात् |
विलोक्य पुनरायान्तीं दैत्यसेनां नभोनिभाम् || २ ||

अश्वारुढाऽश्सेनाभिरपाराभिरभिब्रजत् |
तुरङ्गा विविधास्तुङ्गास्तरङ्गा इव रेजिरे || ३ ||

पृथग्वर्णा सङ्घशः सा सेनाऽत्यन्तं व्यराजत |
फेनपिण्डनिभानश्वानारुढाः कनकप्रभाः || ४ ||

नीलांऽशुकाः खड्गखेटधरास्तारुण्यगर्विताः |
अपराः कालजीमूतनिभवाजिसमाश्रयाः || ५ ||

चन्द्रकान्तिसमाऽभासः शोणाऽभरणवाससः |
धनुर्बाणधरा नीलरत्नकोटीरशोभिताः || ६ ||

अन्या गारुतत्मतनिभानश्वानारुह्य वेगिनः |
कुरुविन्दसमानाङ्ग्यः पाटलांशुकभूषणाः || ७ ||

द्वचित् समानाऽङ्गभूषांऽशुकाऽश्वाः शक्त्यो ययुः |
एवं विचित्राऽभ्रयुतसन्ध्याऽकाशनिभा चमुः || ८ ||

अतिवेलाऽम्बुधिनिभा ग्रसद्दैत्यचमूं द्रुतम् |
भेरीकाहलगोशृङ्गपटहाऽनकनिस्वनः || ९ ||

तुरङ्गखुरकुद्दालतालनिस्वनमिश्रितः |
हुङ्काराऽह्वानविक्षेपाऽस्फोटसंरावमांसलः || १० ||

द्यावापृथिव्यन्तरालमापूर्याऽधिव्यरोचत |
अथ प्रवृत्तः समरः करालोऽसुविकर्षणः || ११ ||

हेतिपातमहाशब्दबधीरीकृतदिङ्मुखः |
तुरङ्गखुरविक्षेपविधूतरजसां गणः || १२ ||

सांवर्तकमहामेघसङ्घवत् खं समाक्रमत् |
क्षणं कुहुनिशीथाऽभं जातं हीनाऽवलोकनम् || १३ ||

ततो हेतिप्रपतनोच्छलच्छोणितवृष्टिभिः |
रजोऽन्धकारः संशान्तः पुनरासीन्महारणः || १४ ||

परस्परं प्राणहरः शक्तिसन्यस्य चाऽसुरैः |
बलीयसीभिर्दैत्यानां शक्तिभिस्तेज आहृतम् || १५ ||

भग्नाऽभवद्दैत्यसेना शक्तिभिर्गाढमर्द्दिता |
छिन्नपादकरश्रोत्रकुक्षिपृष्ठा महासुराः || १६ ||

प्रास्य शस्त्राणि परितो विधुन्वन्तः करान्मुहुः |
वदन्तो हा हतास्मेति त्वक्त्वा युद्धं विदुद्रुवुः || १७ ||

निशाम्य सेनां स्वां भग्नां कुरण्डः क्रोधमूर्च्छितः |
अश्वारुढो महश्चापं विकर्षन् सायकान् क्षिपन् || १८ ||

शक्तिसेनां समाविश्य नाशयत्ताः सहस्त्रशः |
शरवर्षैः कुरण्डाऽब्दनिर्मुक्तैः शक्तिवाहिनी || १९ ||

भग्ना सेतुरिवोन्नब्रा महाजलसमागमात् |
भग्नायां शक्तिसेनायामश्वारुढा समासदत् || २० ||

अपराजितनामानं वाजिनं समधिष्ठिताम् |
तप्तहेमनिभामच्छदुकूलाऽभरणोज्ज्वलाम् || २१ ||

पाशाऽङ्कुशधनुर्बाणधरां दृष्ट्वाऽब्रवीद्वचः |
दुष्टेऽबलिप्ताऽसि चिरं मोचयाम्यवलेपकम् || २२ ||

यन्मे त्वया हतो भ्राता तत्फलं प्राप्स्यसि द्रुतम् |
त्वां निहत्य रणे पश्चान्मुक्त स्यां भ्रातृदोषतः || २३ ||

मयि प्रदर्शयाऽदौ ते वीर्यं यश्चिरसम्भृतम् |
एवं प्रोक्ता रोषिताऽश्वारुढा तीक्ष्णैः शरैस्त्रिभिः || २४ ||

विव्याध तत्र चैकेन वाहस्य शिर आच्छिनत् |
द्वितीयेन च कोटीरं पातयामास भूतले || २५ ||

तृतीयेन तस्य वक्षो दारयामास वेगतः |
हताऽश्वो भ्रष्टमुकुटो विहतो बलवद्धृदि || २६ ||

मूर्च्छितः कृत्तमूलस्य पपातेव महासुरः |
क्षणेन मूर्च्छानिर्मुक्तः प्राह तां रणमूर्ध्नि || २७ ||

रण.श्लाध्या हि साधुत्वं सम्मताऽसि रणे मम |
श्रुत्वेत्याह पुनर्देवि धिक्त्वं जीवसि दैत्यक ! || २८ ||

यत्नान्मया भासितुं त्वं जीवशेषीकृतो ह्यसि |
पश्येमं तं जीवहरं शरं शत्रुमदाऽपहम् || २९ ||

श्रुत्वा देवीवचो दैत्यः क्रोधाग्निज्वलिलाऽकृतिः |
देव्याश्चापं प्रचिच्छेद शरेणाऽनतपर्वणा || ३० ||

चिच्छेद साऽपि खड्गेन धनुर्दैत्यकरस्थितम् |
अथ दैत्योऽपि खड्गेन तस्याः खड्गं द्विधाऽकरोत् || ३१ ||

पुनर्जघान तुरगं खड्गेनैवाऽतिवेगतः |
खड्गप्रहारनिर्भिन्नमस्तकोऽश्वो ह्यपऽक्रमत् || ३२ ||

तावद्देव्यपि संक्रुद्धा बद्ध्वा पाशेन वै दृढम् |
आकृष्य प्राहरन्मूर्घ्नि सृणिना दीप्ततेजसा || ३३ ||

तेनाऽङ्कुशेन निर्भिन्नमूर्धा दैत्यो ममार् ह एवं कुरण्डं निहतं श्रुत्वा सेनाऽधिपो रुषा || ३४ ||

पार्श्वस्थान् प्रेक्ष्य सेनेशान् करङ्कप्रमुखांस्तदा |
कुटिलाक्षः प्राह सेनाधीशोऽरुणितलोचनः || ३५ ||

हे हे करङ्कप्रमुखाः पञ्च युयं स्वसेनया |
युता गत्वा द्रुतं हत्वा बद्ध्वा तां वारणे द्रुतम् || ३६ ||

समानयध्वं वः शक्तिरस्ति मायामयी ननु |
सर्पिण्याख्या तया सर्वे नन्वजेयाः सुराऽसुरैः || ३७ ||

इत्याज्ञ्प्ताः करङ्काद्या नत्वा सेनाधिपेश्वरम् |
विंशत्यक्षौहिणीयुताः प्रत्येकं योद्धुमाययुः || ३८ ||

करङ्को गर्द्दभरथे करभे वज्रदन्तकः |
वज्रलोमा गृघ्ररथे गजे काकमुखस्तथा || ३९ ||

वज्रवक्त्रः खरबरे संरुढा भीमदर्शनाः |
युद्धसंरम्भदैत्यानां निशम्याऽतिमहाध्वनिम् || ४० ||

अश्वारुढा च सम्पतीदेवी सेनामयुयुजत् |
अथ सम्मुखमासाद्य सेने ते शक्तिदैत्ययोः || ४१ ||

विचित्रवादित्ररवे हेतिसञ्चलनोज्ज्वले |
चक्राते शरवर्षाणि दुरान्मेघतती इव || ४२ ||

अथ सेनाद्वयं श्लिष्टं विनिघ्नदितरेतरम् |
क्रोधदष्टदच्छदाढ्यं भ्रुकुटीकुटिलाननम् || ४३ ||

पाटितं सितखड्गेन प्रोतं भल्लेषु प्रांशुषु |
छिद्रितं शरजालेन परिघोत्पातपेषितम् || ४४ ||

शस्त्रैरुश्चावचैरेव परस्परमनाशयत् |
गजवाजिमहासेना शक्तीनामतिरोषिता || ४५ ||

मुहूर्तेनैव निःशेषाञ्चक्रे दैत्येन्द्रवाहनीम् |
दृट्वा सेनां हतप्रायां करङ्काद्या महासुराः || ४६ ||

प्रविश्य शक्तिसेनां ताम् नाशयामासुरोजसा |
काल्यमानां दैत्यवरैः सेनां दृष्ट्वा पराहताम् || ४७ ||

अश्वारुढा तथा सम्पत्करी दैत्यानयुध्यत |
ताभ्यां भग्ना युधि तदा करङ्काद्या महासुराः || ४८ ||

निर्ममुस्तां महामायां सर्पिणीं सर्पभूषणाम् |
भीमरूपां चण्डरवां विविधं सर्पमण्डलम् || ४९ ||

सृजमानां शक्तिसेनानाशाय समराऽवनौ |
अथ सा मुखेनेत्रादिसम्भूतैः सर्पमण्डलैः || ५० ||

नाशयामास शक्तीनां सेनामधर्मुहूर्ततः |
तद्वैशसमतीवोग्रं दृष्ट्वा काश्चन शक्त्यः || ५१ ||

पलायिताः समाख्यातुं दण्डराज्ञ्यै द्रुतं ययुः |
प्राप्य तां कोलवदनां श्रीमातृसविधे स्थिताम् || ५२ ||

प्रणम्य मन्त्रिणीञ्चाऽपिप्रोचुर्दत्याश्च हा भयम् |
दण्डनाथे वयं याताः सम्पद्देव्या सहाऽसुरैः || ५३ ||

तत्र युद्धं समभवद्घोरं प्राणहरं परम् |
दुर्मदो निहतो युद्धे सम्पदीश्या कुरण्डकः || ५४ ||

नीतोऽश्वारुढ्या कीर्तिशेषं सेनाऽपि भूयसी |
नाशिताऽस्माभिरत्युग्रा एवं दैत्या विनिर्जिता || ५५ ||

करङ्काद्यैः पञ्चसेनानायकैर्हतपत्तिभिः |
प्रवर्तिता महामाया सर्पिण्याख्या हि साम्प्रतम् || ५६ ||

नेत्राद्यक्षैः सृजन्ती साऽसङ्ख्यान् सर्पगणान्मुहुः |
तैः सर्पैर्निहता दष्टा बद्धा भस्मीकृता परा || ५७ ||

शक्तिसेना मृतप्राया सञ्जाता ननु सर्वशः |
देव्यौ ते शरवर्षेण सर्पान् घन्न्त्यौ मुहुर्मुहः || ५८ ||

हन्तुं दैत्यान् सुहीमेन मुसलेन विनिर्ययौ |
निवार्य तां मन्त्रनाथा ज्ञात्वाऽमोघाञ्च सर्पिणीम् || ६० ||

तद्वृत्तं तरसा गत्वा स्वयं देव्यै व्यजिज्ञपत् |
अथ ध्यात्वा क्षणेनाऽम्बा जृम्भमाणा मुखाऽम्बुजम् || ६१ ||

विकाशयत्तद्वक्त्रात्तु निर्जगामाऽतिवेगतः |
कनकाभा महाशक्तिर्देवीतालुसमुद्भवा || ६२ ||

सुपर्णसंस्था नकुली वाग्देवी रत्नभूषणा |
तां प्रणम्य स्थितामग्रे प्राह श्रीललितेश्वरी || ६३ ||

गच्छ वत्से सर्पिणीं तां नाशयाऽशु स्वतेजसा |
इत्युक्ता सा क्षणेनैव सम्प्राप्ताऽहवमण्डलम् || ६४ ||

सुपर्णपक्षवातेन सर्वे सर्पाः पलायिताः |
सर्पबन्धविनिर्मुक्ताः शक्त्यः प्रोत्थितास्ततः || ६५ ||

भूयः ससर्ज सर्पान् सा नाशितुं शक्तिमण्डलम् |
तद्दृष्ट्वा सर्पनिवहव्याप्तं शक्तिगणं मुहः || ६६ ||

ससर्ज नकुलान् स्वीयरोमभ्योऽतिबलान् क्षणात् |
नकुलास्ते महावेगाश्चित्रवर्णाः सुरोषिताः || ६७ ||

स्तब्धरोमबालधयो वज्रदन्ता दृढाऽङ्गकाः |
ते सृष्टा नकुलाः शीघ्रं तान् सर्पान् सर्वतः स्थितान् || ६८ ||

ददंशुर्वज्ररदनैः खण्डञ्चक्रुर्द्वधा त्रिधा |
नकुलस्तादृशैः सर्पाः खण्डिता भक्षिता अपि || ६९ ||

निःशेषिताः शक्तिसेना नाशकामा यथोत्थिताः |
अथ ते नकुलाः सर्पान् विनाश्याऽपरिशेषतः || ७० ||

ददंशुः सर्पभूषाढ्यां सर्णीमपि सर्वतः |
सर्पिण्यान्तु प्रणष्टायां करङ्काद्या महासुराः || ७१ ||

युयुधुर्नकुला देव्या शस्त्राऽप्यस्त्रैरनेकशः |
ततस्तेषाञ्च शस्त्राणि वाहनान्यपि सर्वतः || ७२ ||

प्रणाश्ययुगपत्तेषां खड्गेन शिर आच्छिनत् |
खड्गच्छिन्नोत्तमाङ्गास्ते निपेतुर्विगताऽसवः || ७३ ||

तावत् सेनापि संशिष्टा भीता दिक्षुप्रविद्रुता |
जयशब्दैर्वर्ध्यमनान्नकुलीनकुलान् हिताम् || ७४ ||

साऽङ्गे संहृत्य वाराहीं मन्त्रिणीं ललितेश्वरीम् |
प्रणम्य जयवृत्तान्तमाचख्यौ विधृताऽञ्जलिः || ७५ ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीललिताचरित्रे नकुलीपराक्रमे करङ्कादिवधो नाम सप्तषष्टितमोऽध्यायः || ५५७० ||

अष्टषष्टितमोऽध्यायः कुटिलाक्षविषङ्गसम्वादे देवीपराजयार्थयुक्तिविमर्शवर्णनम्

Kapitel 68

अथ दैत्यैर्विदित्वा तान् करङ्कप्रमुखान् हतान् |
कुटिलाक्षो विनिःश्वस्य चिन्तामाप महत्तराम् || १ ||

नूनमेषा महाशक्तिरविजेयेव भाति मे |
दुर्मदश्च कुरण्डश्च बलिनौ निहतौ रणे || २ ||

अस्तु तन्न विचिन्त्यं स्याज्जयस्याऽनियतस्थितेः |
एते करङ्कप्रमुखाः सर्पिण्यामोघया युताः || ३ ||

अजेया देवदैत्यानां कथं युद्धे निपातिताः |
या श्रूयते शक्तिगणनायिका ललिताऽभिधा || ४ ||

सा स्थितैव परीवारशक्तिभिर्निहतं बलम् |
अहो ! किं न भवेल्लोके विपरीते विधौ ननु || ५ ||

आश्चर्यमेतन्निहता करङ्काद्याश्च योषिता |
बलं क्षीणं चतुर्थांऽशंसैन्येशा बलिनो हताः || ६ ||

न हता शक्तिसेनायां मुख्यैकाऽपि कथं भवेत् |
प्रतिज्ञाय शक्तिजयं राज्ञेऽहं कथमद्य वै || ७ ||

अशक्यमिति वक्ष्यामि पुनः कापुरुषो यथा |
एवं चिन्तासमाक्रान्ते कुटिकाक्षे चमूपतौ || ८ ||

आजगाम् विषङ्गोऽपि विशुक्रेण प्रयोजितः |
दृष्ट्वा विषङ्गं सेनेशः कुटिकाक्षः समुत्थितः || ९ ||

आसानाद्यैः पूजयित्वा निषसादाऽसने स्वके |
अथ दृष्त्वा विषण्णाऽस्यं विषङ्गः सैन्यनायकम् || १० ||

अब्रवीत्तं भण्डदैत्यप्रार्थितं या समीहति |
तया भक्तेष्टदायिन्या मोहितो दैत्यपुङ्गवः || ११ ||

कुटिलाक्ष ! विषीदन्तमिव पऽऽयामिते मुखम् |
तद्वदाऽशु किं निमित्तं समं सर्व करोम्यहम् || १२ ||

श्रुत्वा प्रोचे सोऽपि सर्वं दैत्यनाशं हत्तरम् |
अविशाशञ्च शक्तीनां महाभयमुपस्थितम् || १३ ||

श्रुत्वा जहास दैतेयं आ मोह इति संवदन् |
मोहितो मायया देव्या बभ्दाषे बुद्धिमानिव || १४ ||

शृणु सेनापते ! सर्वं इदित्वैवाऽहमागतः |
विना युक्त्या न जीयेत महाबलवता परः || १५ ||

जयो युक्तौ सर्वथैव स्थितः सा बूधिसंश्रया |
मया शक्तिजयो प्रायो निश्चितः सूक्ष्मबुधिना || १६ ||

जहि शोकाऽन्धकारं त्वं मद्युक्तेरविसंश्रयः |
अहं मन्ये हताः शक्तिगणा इत्येव युक्तितः || १७ ||

शृणु ते तत् प्रवक्ष्यामि यन्मया निश्चितं जये |
कूटेनैव विजेया सा तत्क्र्मं निश्चितं ब्रुवे || १८ ||

अद्यैव चरमे भागे दिनस्य दैत्यसेनया |
महत्या दंशिताः सर्वे विशुक्रेणाऽपि संवृताः || १९ ||

युद्धाय परतो यान्तु राजपुत्रैश्च संयुताः |
गन्तव्यमेव यद्धाय यथा शक्तिगणाः अपि || २० ||

निःशेषेणैव युध्यन्ति ललितैकाकिका भवेत् |
तावद्रात्राबन्धकारैर्देत्यैर्बहुभिरावृतः || २१ ||

निर्गम्य पार्श्वभागेन पृष्ठदेशं समाश्रयन् |
तस्या रथं समारुह्य तत्रत्या अपि काश्चन || २२ ||

शक्तीर्हत्वा ग्र्हीष्यामि जीवग्राहं बलादहम् |
ललितामबलां दुष्टां शक्तिसङ्घशिफात्मिकाम् || २३ ||

न जीवग्रहणं याति चेद्ध्न्मि गदया भृशम् |
तस्यां हतायां बद्धायामपि वा शक्तिवाहिनीम् || २४ ||

नष्टप्रायामवेहि त्वं भवद्भिर्नाश्यतेऽपि च |
या तु सा ललिता राज्ञीसुकुमारकराङ्घ्रिका || २५ ||

न समर्था मया योद्धुं विदितं मे चिरादिदम् |
एवं मया व्यवसितं बुद्ध्याऽत्यन्तप्रगल्मया || २६ ||

सखे कश्चित्तव मतं दोषभेदविवर्जितम् |
ऽऽश्रुत्वा विषङ्गवचनं कुटिलाक्स्ऽश्च भूपतिः || २७ ||

त्रिपुरामायया मुढो जितां तामभिमन्यत |
प्रहृष्ट उत्थाय च तं तं द्रुतं स परिषस्वजे || २८ ||

साधु दैत्यकुलश्लाध्य वेद्मि त्वां बुद्धिमत्तमम् |
काले जयवहा बुद्धिर्दुर्लभा सर्वथा ननु || २९ ||

नैवंविधा ह्यौशनसी बुद्धिराङ्गिरसी तथ |
चिरं जीव राजकार्यसाधकस्त्वं मतो मम || ३० ||

तत् प्रयाह्यचिरं राज्ञे निवेद्याऽदय मन्त्रिणः |
राजपुत्रान् विशुक्रञ्चाऽयाहि युधाय सर्वथा || ३१ ||

लम्बत्येष दिवानाथो प्रयातुं सलिलाऽर्णवम् |
वयं यदा शक्तिसेनां नियुध्यामस्तदा द्रुतम् || ३२ ||

साधयिष्यसि तत्कार्यं बुद्ध्या वीर्येण संवृतः |
इत्युक्ते कुटिलाक्षेऽथ विषङ्गो नगरं ययौ || ३३ ||

तत्र राज्ञे विशुक्राय चाऽपि संवेद्य सर्वशः |
मायाविमूडैर्दैत्येशः सम्मतः संययौ द्रुतम् || ३४ ||

राजपुत्रैर्विशुक्रेण मन्त्रिभिश्चाऽभिसंवृतः |
कुटिलाक्षेण सङ्गम्य सर्वसेनासमावृतः || ३५ ||

योद्धुमभ्याययौ तत्र यत्र शक्तिमहाचमुः |
विदित्वा दैत्यराजस्य सन्नाहमतिसंवृतम् || ३६ ||

सर्वसैन्यदैयवरसङ्गमं चारवक्त्रतः |
मन्त्रिणी ललितादेवीं नत्वा वृत्तं व्यजिज्ञपत् || ३७ ||

आज्ञ्प्ता ललितादेव्या मन्त्रिणी प्राह दण्डिनीम् |
वत्से भण्डासुरस्याऽयं संरम्भो दृश्यते महान् || ३८ ||

एकं दैत्येश्वरं मुक्त्वा सर्वे युद्धाय सङ्गताः |
अस्माभिरपि गन्तव्यं निःशेषेण द्रुतन्तु तत् || ३९ ||

कुरु सैन्यस्य सन्नाहं शक्तीनां प्रविशेषतः |
इत्याज्ञप्ता कोलमुखी सर्वशक्तिचमूवृता || ४० ||

मन्त्रिण्या च समायुता देवीं नत्वा ययौ मृधे |
निर्गता शक्तिसेना सा गजवाजिरथाऽकुला || ४१ ||

समुद्र इव लोकानां ष्लावकः प्रतिसञ्चरे |
युद्धवादित्रनिनदैर्गजवाजिरथस्वनैः || ४२ ||

मिश्रितः सिंहनादो वै शक्तीनामभिवर्धत |
तं भीमं लोकदलनं श्रुत्वा दैत्या महास्वनम् || ४३ ||

व्यमुञ्चन् प्रतिरावं ते ततोऽतिविपुलं तदा |
स घोषः सेनयोर्मिश्रो व्यरुचद्रोदसीगतः || ४४ ||

भीरुणां प्राणहरणः पल्वलानां प्रशषणः |
अथाऽभवन्महायुद्धं सेनयोः शक्तिदैत्योः || ४५ ||

जघ्नुदैत्याः शक्तिगणं विचित्ररायुधैः पृथक् |
तथा दैत्यान् शक्त्योऽपि ममद्र्दुर्हेतिपातनैः || ४६ ||

शरप्रहारैस्तिलशः केचित्तत्र कृता रणे |
देचित् कृपाणिना मध्ये पाटिताः शकलीकृताः || ४७ ||

केचिच्छक्तिषु भल्लेषु प्रोताः शूलेषु मध्यतः |
केचिश्चक्रेण संच्छिन्नकन्धरोदरबाहवः || ४८ ||

पेषिताः परिघैः केचिच्छतघ्नीमुद्गरादिभिः |
अमोघपाशैः परितः पाशिताः केचिदञ्जसा || ४९ ||

केचित् कुठारपरशुप्रमुखैर्मूर्ग्नि भेदिताः |
विक्षताः केचिदुरसि तोमराऽङ्कुशसारणैः || ५० ||

एवं युद्धे बभौ तत्र मुहूर्तं समभावतः |
अथशक्तिगणैर्भग्ना दैत्यसेना प्रविद्रुता || ५१ ||

क्र्न्दमाना हताः स्मो वै हा हेति च दृढं हताः |
अनुद्रुताः शक्तिगणैः शरणं प्रेप्सवोऽभितः || ५२ ||

असृग्वहा बवुस्तत्र क्रव्यादशुभदर्शनाः |
तरङ्गैः कङ्कालगणान् वाहयन्त्यः समेधिताः || ५३ ||

केचित्तासु प्रपतिता नीता दूरं निमेषतः |
एवं दैत्यप्रविद्रावं दृष्ट्वा भण्डाऽनुजस्तदा || ५४ ||

विशुक्रः प्राह पार्श्वस्थान् बलाहकमुखाऽसुरान् |
प्रोवाचाऽहूय विज्ञाय तानमेयपराक्रमान् || ५५ ||

हे बलाहक ! पश्येमान् दैत्यान् शक्तिगणैर्हतान् |
अनाथानिव युद्धेषु काल्यमानान् समन्ततः || ५६ ||

गच्छ त्वं भ्रातृभिर्युक्तो नाशय प्रत्यरीनिमान् |
तपसा भवतां नेत्रे सूर्यः स्वांऽशं ददौ किल || ५७ ||

गत्वाऽवलोकनेनेमा भवन्तो निर्दहन्तु वै |
इत्याज्ञप्तो भ्रातृयुतो ययौ शक्तीर्विहिंसितुम् || ५८ ||

बलाहकः कालमुखो विकर्णो विकटाऽननः |
सूचीमुखः करालाक्षः करटश्चेति सप्त ते || ५९ ||

भ्रातरोऽतिक्रूरवला यमीक्षन्त्यतिरोषतः |
स सन्तप्तोऽतितर्षेण प्रयाति निधनं द्रुतम् || ६० ||

तैरूपास्य दिवानाथं प्राप्तमेवंविधं बलम् |
एवं विधास्ते सेनायां प्रविश्य युगपत्तदा || ६१ ||

विनिघ्नन्तः शक्तिगणं ददृशुः क्रूरचक्षुषा |
अथ ताः शक्त्यः सर्वा दैत्यानामवलोकनात् || ६२ ||

महत्या तृषया व्याप्ताः सन्तापेनाऽखिलाऽङ्गकैः |
एवमत्यन्तसन्तापतृषाभ्यां समभिप्लुतम् || ६३ ||

अवसन्नं शक्तिगणं शङ्घशः समराऽवनौ |
मन्त्रिणीं दण्डिनीं त्यक्त्वा सर्वं शक्तिगणं यदा || ६४ ||

गजाऽश्ववाहनोपेतं पतितं तापहेतुतः |
तन्नेत्रवीर्यं न तयोः प्रवृत्तं तन्महित्वतः || ६५ ||

निशाम्य तद्द्ण्ण्दनाथा मन्त्रिण्यै संन्यवेदयत् |
विचार्य मन्त्रिणी चाऽपि विदित्वा रव्यनुग्रहम् || ६६ ||

श्रीदेवीचक्ररक्षार्थ या नाऽयाता महायुधि |
सस्मार मनसा शक्तिं तिरस्करणिकाऽभिधाम् || ६७ ||

सा प्राप्ता स्मृतिमात्रेण कालाञ्जननिभे हये |
समारुढा नीलवपुर्नीलांशुकविभूषणा || ६८ ||

नीइलमाल्यधरा गाढघ्वान्तसन्तमसा वृता |
स्वसमाकारशक्तीनां कोटिभिः परिवारिता || ६९ ||

न तदिच्छां विना कोऽपि पऽऽयेत्तं जगतीतले |
आगत्य मन्त्रिणीं नत्वा प्राह किं संस्मृतेति वै || ७० ||

पृष्टैमुक्त्वा दैत्यानां बलं तन्नाशनाय ताम् |
विसर्जयामास पुनः शक्तीनां शान्तिहेतवे || ७१ ||

अमृतेशीं सुधासिन्धुमाज्ञापयदनुद्रुतम् |
आज्ञप्तैवं समारुह्याऽदृश्यवाहनमुत्तमम् || ७२ ||

तिरस्कृतिरदृश्याङ्गी तादृक्शक्तिगणावृता |
नाशयामास दैत्यानां सेनां शस्त्रनिपातनैः || ७३ ||

तिर्स्कृतिः ससर्जाऽस्त्रमन्धाख्यं तेन तेऽसुराः |
अन्धीभूताः किञ्चिदपि ददृशुर्नो कथञ्चन || ७४ ||

तथापि युध्यमानांस्तान् बलवीर्येण सम्भृतान् |
चिरं युद्धैर्विनिर्जित्य तिरस्करणिका ततः || ७५ ||

खड्गेन युगपत्तेषामाहरन्मस्तकं रुषा |
हते बलाहकमुखे तिरस्करणिकां सुराः || ७६ ||

अवर्षन् दिव्यकुसुमैर्वादयन्तश्च दुन्दुभीन् |
जहृषुर्देवतामुख्या लोककण्टकनाशनात् || ७७ ||

अमृतेश्यमृताऽसारैर्मृताः शक्तीरजीवयत् |
एवं तिरस्कृतिर्जित्वा दैत्यांस्तपनलोचनान् || ७८ ||

मन्त्रिणीं दण्डिनीं नत्वा प्रोवाच विजयं स्वकम् |
आलिङ्ग्य ते कृतं कृत्यमसाध्यं सर्वथा त्वया || ७९ ||

इत्यूचस्तुष्टुवतुर्मन्त्रिणीदण्डनायिके |
एवं बलाहकमुखे हते सूर्योऽस्तमाययौ || ८० ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीललितामाहात्म्ये तिरस्करणिकायुद्धे बलाहकादिवधो नामाऽष्टषष्तितमोऽध्यायः || ५६५० ||

एकोनसप्तततिमोऽध्यायः विषङ्गच्छलयुद्धवर्णनम्

Kapitel 69

एवं तपननेत्रेषु तिरस्कृत्याऽहतेष्वपि |
त्रिपुरामायया मुढाः सङ्कल्पजयहर्षिताः || १ ||

विशुक्रकुटिलाक्षाद्या विषङ्गमसुरैर्वृतम् |
पार्ष्णिग्रहविधानाय प्रेषयित्वा विधान्तः || २ ||

युयुधुः शक्तिसेनाभिराहृताऽत्यन्तविक्रमाः |
विशुक्रो मन्त्रिणीं दण्डराज्ञीं सेनापतिः स्वयम् || ३ ||

बालां भण्डसुताश्चाऽपि मन्त्रिणश्च तिर्स्कृतिम् |
उलूकजित्प्रभृतयो गजवाजिवहे तथा || ४ ||

दैत्यसेनाःशक्तीसेनां योधयामास सङ्गताः |
अस्तं याते सवितरी सर्वतस्तमसाऽवृते || ५ ||

प्रवृत्तः समरोऽत्यन्तदारुणः शक्तिदैत्ययोः |
मुहूर्तमात्रं (तत्?) सन्ध्याप्रकाशैरभवद्रणः || ६ ||

ततो गाढेऽन्धतमसि प्रवृत्ते सर्वतो दिशम् |
अभवद्दारुणं युद्दं शक्तिदानवसेनयोः || ७ ||

तारा ज्योतिः समूहेन शब्देन च परस्परम् |
युयुधुः शस्त्रजालैस्ते शक्तिभिर्दैत्यपुङ्गवाः || ८ ||

अथाऽतिसम्मर्द्दवशात् सेनयो रज उथितम् |
आच्छादयन्नभोभागं तारकागणसंवृतम् || ९ ||

अन्धकारसमाविष्टा भूयो रोषाऽन्धतां गताः |
युयुधुः शक्तिदैत्याणां गणाश्चाऽक्र्मयोगतः || १० ||

केचित्तत्राअऽह्वयाञ्चक्रुरन्ये ताननुसंययुः |
शस्त्रण्यन्येषु युञ्जन्ति तान्यन्यान् घातयन्ति हि || ११ ||

शब्दवेधमहायुद्धमभवद्भृशदारुणम् |
तत्र दैत्यैर्हता दैत्याः शक्तिभिः शक्त्यस्तथा || १२ ||

एवमत्यन्तबीभत्सं युधमाक्रन्दभीषणम् |
केच्छिस्त्रैर्विनिहताः परे रथविघर्षिता || १३ ||

अश्वैरास्फालिताश्चाऽन्ये गजाऽक्रामैः सुपेषिताः |
एवं महत्तरे तत्र सम्म्र्द्द सति वैशसे || १४ ||

न केऽपि संविदुः स्वीयां तथा सेनां परामपि |
अन्तं मध्यमथाऽदिं वा सेनायाः केऽपि नो विदुः || १५ ||

निशाम्यैतन्मन्त्रनाथा मत्वा तं विषमं रणम् |
ज्वालामुखीं महादेवीं सस्मार त्रिपुरांशजाम् || १६ ||

स्मृतमात्रैव सा देवी प्रादुरासीद्रणाऽजिरे |
ज्वलत्पर्वतसङ्काशा ज्वालाव्याप्तदिगन्तरा || १७ ||

तस्या अङ्गप्रभापुरैर्नाशितं निखिलं तमः |
तदा दैत्याः शक्त्योऽपि युयुधुः क्रमसङ्गताः || १८ ||

एवं पुनः क्रमाद्युद्धे प्रवृत्ते निशि कुम्भज ! |
बाला भण्डसुतैर्युद्धं विचित्रमतनोद्भृशम् || १९ ||

चतुर्बाहुमुखा भण्डसूनवो विष्णुविक्रमाः |
त्रिंशत्संख्या एककालं युयुधुर्बालया दृढम् || २० ||

रथाऽरुढा विचित्रेषून् किरन्तः सर्वतो दिशम् |
बालां समाच्छदुः शस्त्रैर्दिनेशं स्तुहिनैरिव || २१ ||

अथ बालाऽपि शस्त्रौघान्निजशस्त्रस्य तेजसा |
नाशयामास वेगेन तमः सूर्योदयो यथा || २२ ||

ततोऽतिद्रुतसन्धानाश्चतुर्भिर्निशितैः शरैः |
प्रत्येकं भण्डतनुजरथाश्वानकरोन्मृतान् || २३ ||

रथनेतॄंस्तथैकेन धनूंष्येकेन चाऽच्छिनत् |
तथैकेन पुनस्तेषां हृदि विव्याध् लीलया || २४ ||

हताऽश्वानष्टशस्त्रास्ते विद्धा बाणेन वक्षसि |
मृतप्रायाः समभावन् व्यथया गाढमूर्च्छिताः || २५ ||

उलूकजित्प्रभृतयो भण्डस्य भगिनीसुताः |
ते षष्तिसङ्ख्या युद्धेषु भीमवीर्याः सुयोधिनः || २६ ||

तैर्युयोध हयारुढा सम्द्देवी च सायकैः |
विचित्रयुद्धं तन्वाते द्रष्टृविस्मापनं परम् || २७ ||

पृथग्युद्धं समभवत्त्रिंशत्सङ्ख्यै र्द्वधा स्थितैः |
युद्ध्ध्वा चिरं हयारुढा बद्ध्वा पाशेन तान् क्रमात् || २८ ||

चिच्छेद सितधारेण शिरः खड्गेनरोषिता |
सम्पन्नाथाऽपि तैर्युद्ध्वा भूयो भल्लेन तान् क्रमात् || २९ ||

हृदि विद्ध्वाऽन्तकपुरं प्रेषयामास सत्त्वरम् |
उग्रकर्मप्रभृतयो युयुधुस्तत्र संयुगे || ३० ||

तिरस्करणिकादेव्या शस्त्रैरस्त्रैरनेकशः |
युद्ध्वैवं मन्त्रिभिः साऽपि क्रुद्धा खड्गेन पातयत् || ३१ ||

परस्परं ववृषतुः शरैः स्वर्णविचित्रितैः |
परस्परप्रयुक्तानि नानाशस्त्राणि चिछिदुः || ३३ ||

रथस्थो भण्डसेनेशः कुटिलाक्षः प्रकोपनः |
प्रसह्य कोलवदनां युयोधाऽतिसुशिक्षितः || ३४ ||

युद्ध्वैवं कोलवदना वाजिनस्तस्य पत्रिभिः |
निष्प्राणानकरोदष्टौ कर्णाऽकृष्टैर्घनुश्च्युतैः || ३५ ||

एकेन सरथिं हत्वा निछखानाऽपरं हृदि |
शरेणोरसि संविद्ध ईषत् निष्प्रज्ञतां गतः || ३६ ||

पुनर्मूर्च्छाविनिर्मुक्तो गदां प्रादाय चोत्प्लुतः |
किरिचक्ररथाऽबद्धसिंहमूर्घ्नि प्रपातयत् || ३७ ||

गदां सर्वाऽयसीं वज्रकल्पां सर्वबलेन सः |
तथा जगर्ज करिणं हत्वेव हरिलोचनः || ३८ ||

सिंहोऽपि गदया विद्धो मूर्च्छां प्राप्य निमेषतः |
पुनः प्रज्ञां प्राप्य रुषा दृष्ट्वा दैत्यं पुरः स्थितम् || ३९ ||

तलेन वक्षस्यहनद्धतो हरितलेन सः |
पातितोरःस्थलो रक्तधारां मुञ्चदनेकधा || ४० ||

पुनराप्लुत्य वाराहीरथं दितिकुलोद्भवः |
परिवारशक्तिगणः कदनं कल्ययद्रुषा || ४१ ||

एवं तं रथमारुह्य युध्यमानं महासुरम् |
वाराह्या वृत्तिमुख्या या जम्भिनी शक्तिरुत्तमा || ४२ ||

साऽयुध्यत् कुटिलाक्षेण चिरं पश्चादतीव तम् |
युध्यमानं शरेणाऽस्ये निजघान महाबला || ४३ ||

हतो गाढं शरेणाऽस्ये क्षणं स्तब्धोऽतिषीडया |
पुनरुत्प्लुत्य गदया तां मूघ्नि प्राहरद्रुषा || ४४ ||

अथ सा गाढसंविद्धा रथोपस्थे उपाऽविशत् |
एवंविधां शक्तिगणा दृष्ट्वा हा हेति चुक्रुशुः || ४५ ||

तावत्तस्या धनुर्दैत्यो बभञ्जाऽच्छिद्य सत्वरम् |
उत्थिता जम्भिनी भूयो दृष्ट्वा भग्नं निजं धनुः || ४६ ||

रुषा ज्वलन्ती महतीं गदां स्वीयां पराऽमृशत् |
अथाऽभवद्गदायुद्धं भीमं त्वाष्ट्रेन्द्रसन्निभम् || ४७ ||

जम्भिनीदैत्ययोर्दृष्त्वा विष्मिता देवदानवाः |
मत्वा रथं सङ्कुचितं भूमौ ताभ्याम् भूत् कृतम् || ४८ ||

गदासङ्घट्टनोदञ्चत्पावकौघप्रवर्षणम् |
विचित्राऽक्रमणोत्प्लावचित्रसंस्थानसुन्दरम् || ५० ||

तत उल्प्लुत्य वेगेन हन्तुं तामभिचक्रमत् |
यावत्तावत्तया मुर्घ्नि बलवद्गदया हतः || ५१ ||

प्रस्फुटद्दृगजुहावक्त्रादुच्छलद्रक्तधारया |
वर्षस्तां पतितो भूमौ शीर्णसर्वाऽङ्गबन्धनः || ५२ ||

गदामालिङ्ग्य तरसा मुमोचाऽसून् लुठन् भूवि |
हतं वीक्ष्य चमूनाथं दैत्या भीताः पलायिताः || ५३ ||

देवताः शक्त्यश्चाऽपि जहृषुः शत्रुनाशनात् |
एवं दैत्यं निहत्याऽशु जम्भिनि दण्डनायिकाम् || ५४ ||

प्रणम्य संस्रिता पार्श्वं दण्डिनी च प्रहर्षिता |
ददौ परीरम्भं प्रेम्णा तां प्रसमीक्षत || ५५ ||

विशुक्रेण युयोधोश्चैर्मन्त्रिणी वीर्यवत्तरा |
विशुक्रोऽपि महाशूरो युवराजोऽतिवीर्यवान् || ५६ ||

विचित्रमकरोद्देव्या रणमाश्चर्यकारणम् |
परस्परस्य शस्त्राणि प्रतिशस्त्रैर्विनाशयन् || ५७ ||

अस्त्रैरस्त्राणयपि तथा नाशयन्तौ परस्परम् |
एवं चिरं नियुध्यन्तमत्यद्भूतपराक्रमम् || ५८ ||

दृष्त्वा मन्त्रमहाराज्ञी दर्शयन्ती स्वचातुरीम् |
युगपच्छरसङ्घेन रथमश्वांश्च सारथिम् || ५९ ||

धनुर्मुकुटकं केतुं चिच्छेद निमिषाऽर्धतः |
एवं युद्धे परीभूतो विशुक्रो मन्युना ज्वलन् || ६० ||

जगृहे खेटनिस्त्रिंशौ हन्तुं देवीं मनो दधे |
अथाऽयान्तं खङ्गकरं दूरादेकेन पत्रिणा || ६१ ||

करवालं द्विधा कृत्वा खेट्मन्येन भेदयत् |
छिन्नखेटकनिस्त्रिंशमायान्तं बद्धमुष्टिकम् || ६२ ||

जघानोरसि भल्लेन निशितेन गरीयसा |
भल्लाहतो विशुक्रोऽपि सफेनं रुधिरं वमन् || ६३ ||

घूर्णितो विभ्रमन् क्रोशद्वये वेगेन पातितः |
अवशः संवर्तकेन वायुनेव महागिरिः || ६४ ||

गाढमूर्च्छामुपगतो यथा लोकान्तरात् कृती |
एवं विशुक्रेऽभिहते दैत्यसेना ह्यभिद्रुता || ६५ ||

निक्षिप्य हेतीन् सन्त्यज्य वाहनानि दिशो दश |
विशुक्रं मूर्च्छितं दैत्याः समादाय पुरं ययुः || ६६ ||

विशुक्रादिषु युध्यत्सु निःशेषशक्तिसेनया |
विदित्वा ललितां चक्ररथस्थामेकलां तदा || ६७ ||

कतिचित्परिवाराऽत्मशक्तिसङ्घैकसंश्रयाम् |
जेतुं शक्येति संहृष्टो ययौ तत्राऽसुरो द्रुतम् || ६८ ||

दमनाद्यैः पञ्चदशाऽक्षौहिणीपैः सुसंवृतः |
अल्पसेनापरीवारः शस्त्रास्त्रबहुसङ्कुलः || ६९ ||

प्रयाणे पादसङ्घातशबदमालक्ष्य सोऽसुरः |
गजारुढैर्युतो मत्तगजमारुह्य संययौ || ७० ||

सर्वे नीलांऽशकधरा नीलाभरणभूषिताः |
समेत्य संविदं कृत्वा पृथङ्नागैश्च सण्घशः || ७१ ||

ययुर्दैत्यचमूपृष्ठे योजनद्वयतः परम् |
ततः केचिछक्तिसेनां वामतोऽन्ये च दक्षतः || ७२ ||

परिक्रम्य ययुर्मध्ये हित्वा योजनयुग्मकम् |
एवं पृथक् सङ्घशस्ते ययुर्दस्युर्यथा ततः || ७३ ||

चक्रराजशताऽङ्गस्य क्रोशदूरे हि पृष्ठतः |
मिलितास्ते सर्व एव ततो निमिषमात्रतः || ७४ ||

समासेदुः पृष्ठभागं विषङ्गप्रमुखाऽसुराः |
विद्यामयी श्रीललिता ज्ञात्वाऽप्यसुरसम्मतम् || ७५ ||

तत्रा.आ.चख्यौ लीलयैव स्थिता ज्ञातेव तत्र सा |
शक्त्यो युद्धसन्देशं श्रुत्वा दूरे सुनिर्भयाः || ७६ ||

सुष्वषुः सर्व ऐवताः स्वस्थानेषु रथोत्तमे |
सुप्तशक्तिगणोपेतं प्रज्वलद्दिपसङ्घकम् || ७७ ||

दीपप्रभामूर्च्छनेन समेधितमणिप्रभम् |
सङ्घैर्मणिगणैर्द्योतमानं समन्ततम् || ७८ ||

दृष्ट्वा समेत्य दैतेया दूरादेकप्रपाततः |
आरोढुं रथराजन्तं समीपमभिसंययुः || ७९ ||

उत्खातकरवालसु सहस्त्रमितशक्तिषु |
रथस्य परितो गुप्त्यै प्राक्रमत् सुविशेषतः || ८० ||

काश्चिद्दृष्ट्वादैत्यसङ्घं जजारुढः समन्ततः |
कृत्वाऽह्वानमहाशब्दं प्रविशुर्दैत्यवाहिनीम् || ८१ ||

खड्गेन जघ्नुर्दैत्यांस्तानाक्षिपन्त्यो वचोगणैः |
तदा दैत्यैः शक्तिभिश्च युद्धमासित् सुभैरवम् || ८२ ||

इति श्रिमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीललिताचरित्रे शक्तिचक्रोपरिदैत्यप्रहारवर्णनं नामैकोनसप्ततितमोऽध्यायः || ५७३२ ||

सप्ततितमोऽध्यायः विषङ्गपराजयवरणनं

Kapitel 70

अथ शक्तिसमाह्वानं श्रुत्वऽवरणशक्त्यः |
विज्ञाय दैत्याऽगमनमणिमाप्रमुखास्तदा || १ ||

स्वस्ववाहसमारुढाः शस्त्रास्त्रैरभिसंवृताः |
युयुधुर्दैत्यसेनाभिः समेत्य बलवत्तरम् || २ ||

शुऽऽश्रुवुः क्रमशः सर्वाः शक्त्योरथसंस्थिताः |
व्यजिज्ञपुस्तच्छ्रीदेव्यै नित्याः कामेश्वरीमुखाः || ३ ||

कामेश्वर्याज्ञया ज्वालामालिनी या चतुर्दशी |
नित्या सा पर्वताऽकारवपुषा ज्वालयाऽवृता || ५ ||

जज्वाल तज्ज्वालया हि परितो योजनाऽयतम् |
प्रकाशितमभूत्तत्र युयुधुः शक्त्योऽसुरः || ६ ||

जघ्नुर्विविधशस्त्रैस्तान् दैत्यान् युद्धसमागतान् |
एवं तानसुरान् युद्ध्वा निन्युर्यमपुरं द्रुतम् || ७ ||

अथ शिष्टा दैत्यगणाः पलायनपराऽभवन् |
ते शक्तिभिः परिवृता नाऽलभन्निर्गमं क्वचित् || ८ ||

हन्यमानाः शक्तिगणैर्हा हेत्युश्चैर्विचुक्रुशुः |
तद्दृष्ट्वा दैत्यनिधनं दमनाद्या महासुराः || ९ ||

विकिरन्तः शरैः शक्तीर्न्यरुन्धन् सर्वतोभृशम् |
उश्चावचैः शस्त्रगणैर्जघ्नुः शक्तीः समन्ततः || १० ||

एवं दैत्यर्हता गाढं शक्त्योऽपि निजाऽयुधैः |
वबृषर्गिरिशृङ्गाणि घणा घनागणा इव || ११ ||

मुहूर्तमभवद्युद्धं शक्तीनां दमनादिभिः |
तावत्ते दैत्यसेनेशा दमनाद्या महाबलाः || १२ ||

चक्रुर्व्याकुलितं शक्तिगणं शस्त्राऽस्त्रवर्षणैः |
नष्टवाहा नष्टशस्त्रा नष्टाऽङ्गा नष्टजीविताः || १३ ||

न सेहुर्दैत्यशस्त्राणां प्रपातं प्राणकर्षणम् |
मूर्च्छिताः शक्तयः काश्चित काश्चित् प्राणान् जहुः पराः || १४ ||

संछिन्नाः खण्डशश्चाऽन्या पाटितऽङ्ग्यो गताऽयुषः |
दृष्टैवं निहतं शक्तिगणं कामेश्वरीमुखाः || १५ ||

तिथिदेव्यो रथारुढाश्चुक्रुधुर्बलवत्तराः |
दमनाद्यैस्तिथिमितैः सङ्गताः समसङ्ख्यकाः ||| १६ ||

युयुधुः शस्त्रनिचयैर्बलवीर्यसुसम्भृताः |
शस्त्राणि प्रतिशस्त्रैस्ता अस्त्राण्यस्त्रैर्विनाश्य तान् || १७ ||

जघ्नुर्लाघवयोगेन दैत्यान् मर्मसु सायकैः |
एवं ताभिर्हन्यमाना दैत्याः क्रोधं परं ययुः || १८ ||

चक्रुरत्यद्भूतं युद्धंवीर्यसाहससंयुतम् |
वडवेव धनुर्वक्त्रादुद्गिरन्तः शरार्ऽचिषः || १९ ||

लोकान् दिधक्षन्त इव व्यराजन्त रणाऽजिए |
अथ तांस्तिथिदेव्यस्ता युद्ध्वाऽद्भुतपराक्रमान् || २० ||

अश्वान् रथं सारथिञ्च ध्वजं छित्त्वा क्रमेण तान् |
भङ्क्त्वा चापं तीक्षणभल्लैः शिरश्चिच्छिदुरोजसा || २१ ||

अथ तेषु प्रणष्टेषु दैत्येषु दमनाऽदिषु |
विद्रुता दैत्यसुभटाः शिष्टा भीत्या दिशो दश || २२ ||

विषङ्गो गजसंरुढो युयोध तिथिशक्तिभिः |
बहुभिर्बलवानेको युयोधाऽतिरुषाऽन्वितः || २३ ||

युध्यन्तमतिदैर्येण् परिवार्य समन्ततः |
जघ्नुः कामेश्वरिमुखा नित्याः सायकवर्षनैः || २४ ||

अथ कामेश्वरी प्राह विषङ्गं युद्धसङ्गतम् |
दैत्याऽधमाऽलं युद्धे न प्राणान्तकरणेन ते || २५ ||

शस्त्रं त्यक्त्वा पादचारो गच्छ शीघ्रं यथासुखम् |
विषमं बहुभिर्युद्धमेकस्य प्रतिभाति ते || २६ ||

श्रुत्वा कामेश्वरी वाक्यं जहासोच्चैर्महासुरः |
किं कत्थसि वृथा दुष्टे हित्वा लज्जां सुदूरतः || २७ ||

अहमेकः क्षणेनैव सर्वां शक्तिं चमूमिमाम् |
हत्वा वो ललितां देवी बद्ध्वा जीवग्रहेण वै || २८ ||

नेष्याम्यत्र न सन्देहः शस्त्रं ते प्रुअ आलभे |
स्त्रिषु कारुणिकत्वं मे सर्वथा तेन वै चिरम् || २९ ||

इत्युक्त्वा निशितैर्भल्लैः प्रत्येकं ता जघान ह |
तच्छ्रौत्वा प्राह नित्याऽद्या एवं चेदस्तु वै रणः || ३० ||

एकैकया मया साकं समभावेन सत्वरम् |
इत्युक्त्वा देऐत्यराजं तं प्राह भूयो महेश्वरी || ३१ ||

भगमालिनिमुख्या हे मद्वाक्यं शृणुताऽदरात् |
अहमेनं योधयामि यूयमेनं न् हि यूयमेनं हि रक्षथ || ३२ ||

यथा पलायय नो गच्छेत् सावधानेन सर्वतः |
इत्युक्त्वा दृढबाणेन विद्ध्वा दैत्यमुवाच ह || ३३ ||

रे मूढ मयि त्वं दयां त्यक्त्वा हि सर्वथा |
युध्यस्व सर्ववीर्येण पश्यामि तव पौरुषम् || ३४ ||

यदि त्वं पुरुषस्तर्हि अपलायय ब्रजिष्यसि |
अहं त्वां नव हिंस्यामि कुर्यां त्वां हि पलायतम् || ३५ ||

श्रुत्वा पुरुषभावेन युध्यस्व विगतत्रपः |
इत्युक्त्वा निशितान् भल्लान् देहे तस्य समाक्षिपत् || ३६ ||

युयुधे सोऽपि कामेश्या बलमाहार्य रोषतः |
अथ कर्णान्तपूर्णेन शरेण तस्य वाहनम् || ३७ ||

जघान कुम्भयोर्मध्ये तेन बाणेन स द्विपः |
द्विधा विदलोइतो भूमौ पपात व्यसुरद्रिवत् || ३८ ||

हतवाहो विषङ्गओऽपि गृहीत्वा सशरं भनुः |
योद्धुमभ्यायौ क्रोधाद्भ्रुकुटीकुटिलाऽननः || ३९ ||

अथ त्रिभिः शरर्देवी धनुस्तूणीरमेव च |
मुकुटञ्चाऽपि चिच्छेद कामेशी क्षणमात्रतः || ४० ||

ततः करालं विपुलमादाय करवालकम् |
उपधावद्यावदसौ तावत्तीक्ष्योषुणा पुनः || ४१ ||

त्रिधा छीत्त्वा महाखड्गं स्मितपूर्वमुवाच तम् |
दैत्य ! शूरतमस्त्वं विअ कथमेवं नियुध्यसि || ४२ ||

शस्त्रं न खलु कस्मान्मे पातितं किञ्चिदङ्गके |
किं दया ते सुमहती जातः कस्मान्निरायुधः || ४३ ||

कथं तां ललितां बद्ध्वाऽस्मान् जित्वा नेष्.यसीरय |
उपलब्धं शस्त्रं व्यर्थं विजयहेतवे || ४४ ||

पलायय वा गच्छ मम पुरतो यदि पौरुषम् |
श्रुत्वा कामेश्वरीवाक्यं कटुकं सोपहासकम् || ४५ ||

मुष्टिमुद्यम्य तां हन्तुं प्रययौ सम्मुखे तदा |
तदा त्रिभिः शरिअर्भूयो विव्याधाऽतिबलेन तम् || ४६ ||

पादहृन्मुष्टिषु तथाऽहतस्थानत्रयाऽतुरः |
पदान्न चलितुं द्रष्टुं मुष्टिञ्च विनिवर्तितुम् || ४७ ||

असमर्थो लज्जितोऽथ गतोनतर्धानमाऽऽशु वै |
तावत् कामेश्वरी देवी शरजालैश्च सर्वतः || ४८ ||

रुरोध मार्गं दैत्यस्य तद्दभुतामिवाऽभवत् |
रुद्धोऽथ सर्वतो मार्गे मायां दैत्यो वितानयत् || ४९ ||

शस्त्राऽश्मरुधिराऽहीनां पांश्वङ्गारमयीभृताम् |
वृष्टिञ्चक्रे महभूतान् राक्षसप्रेतसङ्घकान् || ५० ||

प्रादुश्चकार विविधां मायामतिभयावहाम् |
सृष्टां सृष्टाञ्च तां मायां दैत्यस्यास्त्रैरपाऽकरोत् || ५१ ||

अथोन्मत्तो महामूर्तिः करालः कृष्णपिङ्गलः |
सहस्रवक्त्रो नियुतहस्तपादोऽतिवेगवान् || ५२ ||

भूत्वा जगाम तां हन्तुंव्यात्ताऽस्यः पावकं वमन् |
दृष्ट्वा भीतं शक्तिगणं तं योजनमितोन्नतम् || ५३ ||

दृष्ट्वाऽसुरस्य सा मायां निर्मायाऽस्त्रमवाऽसृजत् |
तेनाऽस्त्रेण क्षणादेव मायाः सर्वा व्यनीनशत् || ५४ ||

अथाऽप्यन्तर्हितं दैत्यं कामेशी मन्त्रपाशतः |
बद्धवा निपातयामस स्वपुरः क्षणमात्रतः || ५५ ||

स दैत्यः पाशसम्बद्धः पतितः पादसन्निधौ |
लज्जितो नम्रवदनो मृतवन्मीलितेक्षणः || ५६ ||

बधमेवं विषङ्गं तं चक्रराज रथाऽन्तिकम् |
आनयध्वं शक्तिगणा नित्यासा (प्यवदत्तदा) हि सा (?) || ५७ ||

ययौ नित्या परिवृता श्रीदेवीपादसन्निधिम् |
गत्वा रथंसमारुह्य प्रणेमुर्ललिताऽम्बिकाम् || ५८ ||

आचख्युर्विजायञ्चाऽपि तावता मन्त्रिणीमुखाः |
समाजग्मुर्विजित्याऽरीन्नत्वा प्रोचुर्जयं रणे || ५९ ||

श्रुत्वा सा मन्त्रिणी मुख्या दैत्यानां कैतवोद्यमम् |
विस्मितास्तत्र सुराश्चाऽपि दैत्यानां शठतां प्रति || ६० ||

अथाऽनीतं शक्तिगणैर्बद्धं दैत्याऽनुजं तदा |
निशाम्य शक्त्यः प्रोचुरतिक्रोधतयाऽकुलाः || ६१ ||

बध्यतां हन्यताञ्चैव छिद्यतां भिद्यतामिति |
श्रुत्वा दण्डाऽधिसम्म्राज्ञी वधं तस्य व्यचिन्तयत् || ६२ ||

अथ श्रीमातृसम्मत्या मन्त्रिणी प्रब्रवीद्वचः |
वधो न युक्तो बद्धस्य मृततुल्यो हि स स्मृतः || ६३ ||

गछत्वेष समाख्यातुं दैत्यराजाय स्वां दशाम् |
इत्युक्त्वा मोचयामास प्राह तं मन्त्रिणी तदा || ६४ ||

रे दैत्य भूयो मैवं त्वमकार्षिः शूरगर्हितम् |
श्रुत्वैवं मन्त्रिणीवाक्यं लज्जितो दैत्यपुङ्गवः || ६५ ||

नताऽननो ययौ शीघ्रमपश्यन् पृष्ठदः पुनः |
अथ तत्र शक्तिगणं समेतं ललिताऽम्बया || ६६ ||

परस्परं युद्धवृत्तं महायुद्धमद्य दैत्यैः सुभीषणम् |
रात्रिरल्पावशेषाऽस्ति पुनः सूर्योदयं प्रति || ६८ ||

भवेद्युद्धमतीवोग्रं दैत्या कपट्योधिनः |
तदस्माभिः पुनर्युद्धे गन्तव्यं सर्वसेनया || ६९ ||

पुनरत्र चक्रराजरथस्तिष्ठेत चैकलः |
यद्यपि श्रीमहादेव्या महिम्नो नाऽस्ति दुर्घटम् || ७० ||

तथाप्यसाम्प्रतञ्चैतद्भाति तत्र कथं भवेत् |
विमृश्य मन्त्रं बुद्ध्यैतद्युक्तं ज्ञात्वा समीकुरु || ७१ ||

इतिं वाक्यं समाकर्ण्य दण्डिन्या मन्त्रिणी स्वयम् |
अमंसताऽथ तद्युक्तंविचार्यशुद्धया धिया || ७२ ||

ललितां प्राणिपत्याऽह मातराचक्ष्व मे वचः |
वदत्येषा वराहाऽस्या सूरस्योदयनं प्रति || ७३ ||

पुनर्युद्धाय गन्तव्यस्मभिः शक्तिसेनया |
अकोशे सेनया हीने रथ एष तवाऽश्रयः || ७४ ||

न शोभते ह्यनौचित्यादथ शक्तिगणोऽखिलः |
नियुद्धश्रान्तिमभ्येत्य रात्रौ विश्रान्तिमेष्यति || ७५ ||

अद्य संवृत्तयुद्धेन कैतवेन विशङ्किताः |
न स्वस्थहृदया भूयो विश्रामं नोपयन्ति वै || ७६ ||

मन्यसे यदि तत्राऽलमनुजानीहि मां पुनः |
प्रविट्तिं भावयिष्यामि शत्रूणामप्रधर्षिणीम् || ७७ ||

इति विज्ञापिता देवी प्रवृत्तौ तां समादिशत् |
अथ सा तिथिर्नित्यासु या तत्राऽस्ति चतुर्दशी || ७८ ||

आज्ञापयत्तं हि सालनिर्माणे शत्रुरोधने |
आज्ञामात्रेण सा देवी ज्वालामालिनिकाऽभिधा || ७९ ||

वह्निज्वालामहासालं निर्ममेऽसुररोधनम् |
वलयीकृत्य शक्तीनां सेनां सालः समास्थितः || ८० ||

अनुल्लङ्घयोन्नम्रमूर्तिर्बहिर्ज्वालोऽतिभीषणः |
अन्तः शीतलयन् शक्तीर्बहिर्योजनदूरगम् || ८१ ||

दहन् योजनविस्तारमध्यद्वारो व्यराजत |
अथैवं सालमालोक्य शक्त्यो गतसाभ्वसाः || ८२ ||

सुष्वपुः सौख्यतस्तत्र युद्धश्रान्ता हि शक्त्यः |
सहस्रसङ्ख्या रक्षर्थ मन्त्रनाथा समादिशत् || ८३ ||

एवं ज्वालासालमध्ये स्थिता श्रीललिताम्बिका || ८४ ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्मयखण्डे श्रीललिताचरित्रे विषङ्गपराजयवर्णनं नाम सप्ततितमोऽध्यायः || ५८१६ ||

एकसप्तततिमोऽध्यायः श्रीचक्रनाशाय विशुक्रेण विघ्नयन्त्रप्रयोगवर्णनम्

Kapitel 71

बन्धमुक्तो विषङ्गोऽथ ययौ दैत्यचमूं प्रति |
दुक्षितोऽतितरां दीनो हतोत्सहोऽतिनिःस्वसन् || १ ||

एकलो विजने क्वाऽपि निविष्टो हीनवर्चसः |
तत्र शुश्राव सेनेशं कुटिलाक्षञ्च मन्त्रिण्ः || २ ||

हतांस्ततोऽपि दुःखाब्दौ निर्मग्नः समजायत |
तावद्विशुक्रोऽभिययौ राजपुत्रसमावृतः || ३ ||

ददर्षाऽतिविषण्णाऽस्यं विषङ्गमनुजं स्थितम् |
पप्रच्छ वत्स किं तेऽद्य पश्यामि मलिनं मुखम् || ४ ||

पार्ष्णियुद्धे किमासीत्ते वद मे तदशेषतः |
श्रुत्वैवं भ्रातृवचनं निःश्वसन् प्राह सऽनुजः || ५ ||

भ्रातः किं तेऽभिवक्ष्यामि नाऽसीदेवं कदापि मे |
जानामि दैत्यनाशाय काल एषोऽप्रदक्षिणः || ६ ||

अहोऽतिचित्रं दैत्यानां विष्णुवीइर्याऽतियोधिनाम् |
पराभवोऽबलासङ्घैर्मृगेशस्यैवजम्बुकैः || ७ ||

एवं दशाऽभिपन्नस्य न युक्तं जीवितं मम |
तत् किं करोमि नासीन्मे मृत्युर्युद्धेषु सर्वथा || ८ ||

अहो धन्या ये मृतास्ते कुटिलाक्षादयोऽसुराः |
न तैऽस्वात्मा परीभूतो दृष्तो दुःखाय कुत्रचित् || ९ ||

भर्तृपिण्डविनिर्योगं कृत्वोत्तमतमां गतिम् |
ख्यातिञ्च सङ्गतास्तेऽस्मिन् लोकेऽमुष्मिन्नपि ध्रुवाम् || १० ||

धिङ् मामेवंविधं दैत्यं न जीवन्तञ्च नो मृतम् |
भ्रातः किं बहुनोक्तेन सारंशृणु वदामि ते || ११ ||

दैत्यानामेष सम्प्राप्तः कालोऽत्यन्तमदक्षिणः |
तस्मादहं न जीविष्ये स्त्रीभिर्युद्धे पराजितः || १२ ||

इतो दैत्यैः समेतोऽहं प्रयातः क्षणदामुखे |
पार्ष्णियुद्धे तां विजेतुं समयस्याऽनुरोधतः || १३ ||

तद्रथस्य पार्ष्णिभागे वयं सर्वे हि सङ्गताः |
यावद्रथं समारुह्य तां ग्रहितुमभीप्सवः || १४ ||

तावत् प्राप्ताः शक्तिगणा रथरक्षाविधौ स्थिताः |
तं रथं परैवर्तन्त्यो धृतोद्वातकृपाणिकाः || १५ ||

अस्माभिस्तर्जयन्त्यस्ता युयुधुर्बलवत्तराः |
अनालोके रस्खलन्त्यस्तमिस्त्रायान्तु सर्वतः || १६ ||

तावत्तस्या रथऽऽश्रेष्ठान्निर्गतास्तिथिसङ्ख्यकाः |
निर्ममुर्ज्वलितं शैलमन्धकारनिवारणम् || १७ ||

परिवब्रुः समेत्याऽस्मान् व्र्षन्त्यः शरसन्ततीः |
क्षणेन दमानाद्यांस्ता हत्वा मामभिसंययुः || १८ ||

तासु मुख्या शक्तिरेका कामेश्यद्भुतविक्रमा |
द्वन्द्वे मामभिसङ्गम्य बबन्धाऽर्धनिमेषतः || १९ ||

न तस्यां मे विक्रमोऽभूद्वीर्यं मायाबलं तथा |
बद्धो नीतः पातितोऽथ ललिताचरणान्तिके || २० ||

तस्या या सचिवेशाणी तमालदलसच्छविः |
सौन्दर्यसारसुतनुर्मधुराऽलापरेशला || २१ ||

तयाऽहं बन्धनान्मुक्तो दयमानस्वभावया |
ततो मे जीवतो नार्थो हतकीर्तेर्हतौजसः || २२ ||

श्रुत्वैवं लषितं तस्य विशुक्रः प्राह सस्मितम् |
भण्डाऽभिमतसिद्धयर्थंहतधीर्ललिताऽम्बया || २३ ||

वत्स त्वं न विजानासि नीतिं युधजयाऽवहाम् |
युद्धे महान्तः शूराश्च क्वचिदलपैर्जिता ननु || २४ ||

भवन्त्येव न तश्चित्रं फलं वा शूरसम्मतम् |
गच्छन्हि पादवान् भूमौ दिवाऽपि स्खलति क्वचित् || २५ ||

न स्खलनित् क्वचिदपि स्थावराः किं ततो बवेत् |
जयाऽजयौ युद्ध विधावनिर्देश्यौ कथञ्चन || २६ ||

परन्तु जय एवैष यः पर्यवसितो भवेत् |
नाऽन्यो जयो जयः प्रोक्तस्त्वन्तरा संविभावितः || २७ ||

अहो मोहस्य माहात्म्यं किं वदाम्यहमद्य ते |
विचारो धैर्यसहितो मन्त्रयुक्तो जयावहः || २८ ||

विरमैवं विपर्यासाभावत् सर्वार्थनाशनात् |
शृणु मे मन्त्रितं सद्यस्तव दुःखविनाशनम् || २९ ||

येनोपायेन विबुधाः शक्रमुख्या विनिर्जिताः |
पुरा भूयो विस्मृतं ते तदहं शृणु यद्ब्रू वे || ३० ||

प्रत्यरिप्रत्यूहकरमाभिचारात्मकन्तु तत् |
यन्त्रं शत्रुप्रतीघातं विदितं भार्गवान्मया || ३१ ||

तदद्य रचयाम्याशु विधिदृश्टेन वर्त्मना |
तत्प्रयोगाद्भवेदेवं निहतं शक्तिसैनकिम् || ३२ ||

लिखित्वाऽहं शिलापदे तुभ्यं दास्यामि सम्प्रति |
त्वं युक्त्या शक्तिसेनासु प्रक्षिप्याऽगच्छ सत्वरम् || ३३ ||

ततस्ताः शक्त्यो नष्टवीर्योद्योगास्ततो वयम् |
तग्वा दैत्यचमूयुक्ता अनायासेन सत्वरम् || ३४ ||

नाशयावः शक्तिगणं नाऽत्र संशयमाप्नुहि |
उत्तिष्ठ जहि सन्तापं शोकजं वीर्यनाशनम् || ३५ ||

श्रुत्वेत्थं भ्रातृकथितं महामायाविमोहितः |
जितमित्येव निश्चित्य हर्षमाहारयत् परम् || ३६ ||

तुष्टाव भ्रातरं भ्राता संश्लाघन् बुद्धिकौशलम् |
अथैतद्दैत्यराजाय मन्त्रमावेद्य सम्मतः || ३७ ||

निर्ममे तद्विग्नकरं यन्त्रं दार्षदपट्टके |
स्नात्वा शुचिविधानेन यन्त्रमालिख्य तद्द्रुतम् || ३८ ||

सम्पूज्य तत्र देवीं तामासुरीं विघ्नकारिणीम् |
सुरामांसोपहाराद्यैर्निवेद्य विविधैस्तदा || ३९ ||

स्वयं दिग्वसनो भुत्वा श्मशानभसिताऽश्रयः |
पपौ सुरां करोटीस्थां वाममार्गसमाश्रयः || ४० ||

जजाप जप्यं कैकस्या मालया दक्षदिङ्कुम्खः |
समन्तान्नग्नयुवतीगणेन परिवारितः || ४१ ||

एवं संसाध्य तद्यन्त्रं विषङ्गाय ददौ तदा |
वत्सैतच्छक्तिसेनाया मध्येऽभिमुखभावतः || ४२ ||

ललितारथराजस्य निक्षिप्याऽयाहि सत्ववरम् |
अमोघं विघ्नयन्त्रं तदादाय तत्र संययौ || ४३ ||

रात्रिशेषे विषङ्गोऽथ ज्वालासालं ददर्श ह |
अघृष्यं तं समालक्ष्य द्वारे शक्तिगणं तथा || ४४ ||

न तत्समीपं गतवान् भीत्या दूरे समास्थितः |
विचार्य खमवप्लुत्य सालं तमतिवर्तितुम् || ४५ ||

असमर्थो बलेनाऽन्तः प्रक्षिप्य प्रययौ पुनः |
मत्वा कृतार्थमात्मानमाचख्यावग्रजाय तत् || ४६ ||

विघ्नयन्त्रेण विहताः शक्त्यः स्युरतो द्रुतम् |
यस्मादमोघं तद्यन्त्रमापूर्य समधिष्ठितम् || ४७ ||

इति मत्वा युधविधाविद्योगं विदधेऽसुरः |
विशुक्रः सर्वदैत्यानां भ्रातृसंयुतः || ४८ ||

राजपुत्रैश्च राज्ञा च निर्ययौ नगराद्बहिः |
योषितस्थविरबालांश्च वर्जयित्वाऽखिलाऽसुराः || ४९ ||

रक्षणार्थ शून्यकस्य निक्षिप्याऽक्षौहिणीमिताम् |
निर्ययुः सर्वः एवैते दैत्या युद्धाय दंशिताः || ५० ||

आजग्मुरग्निसालस्य समीपमतिवेगतः |
दृष्ट्वाऽप्रघृष्यन्तं सालं भेत्तुं ते मन आदधुः || ५१ ||

विशुक्रप्रमुखा दैत्या अस्त्राणि ससृजुस्ततः |
वायव्यं पार्वतं चान्द्रं शैशिरं पार्थिवं तथा || ५२ ||

सामुद्रं वारुणं वारं पार्जन्यप्रमुखानि च |
विसृष्टं सालमभितो मन्त्रसन्धानसन्धितम् || ५३ ||

संवर्ताऽग्निस्तृणमिव सालो निःशेषतां नयत् |
मत्वाऽभेद्यन्तु तं सालं विशुक्रप्रमुखाऽसुराः || ५४ ||

उत्प्लुत्य यातुमन्तस्ते मन उच्चैः समादधुः |
उत्प्लुत्य यावद्यो दैत्यो गन्तुमन्तः समीप्सति || ५५ ||

ततोऽधिकतरं तत्र प्राकारः समवर्धत |
तद्दप्यशक्यं मत्वा ते प्रवेष्तुं द्वारमाययुः || ५६ ||

प्रविशन्तं ततोऽष्यग्निः क्षणाद्भस्मीकरोत्यलम् |
मत्वाऽन्तर्गमनं तस्य दुर्घटं द्वारदेऽऽशगाः || ५७ ||

शस्त्राणि द्वारमार्गेण चाऽस्त्राण्यलमवाऽसृजुः |
विदित्वा दैत्यसेनायाः सन्नाहं द्वाररोधनम् || ५८ ||

दण्डराज्ञी शक्तिसेनासज्जनार्थं समादिशत् |
विघ्नयन्त्रेण विहताः शक्त्यः सर्वतः स्थिताः || ५९ ||

आलस्यओपहताश्चाऽन्या निद्रामोहसमाकुलाः |
दण्डराज्ञीसमादेशंन किञ्चिन्मानयन्ति ताः || ६० ||

किन्नः कृत्यं युद्धविद्धौ दैत्यानां घातनं कुतः |
न नोपराद्धं दैतेयैः कथं तैर्विग्रहो मतः || ६१ ||

कुतो बध्या दैत्यगणा देवानामिष्टसिद्धये |
दैत्येष्टसिद्धये कस्मान्न बध्या देवतागणाः || ६२ ||

प्रकृत्या कोपना दण्डराज्ञी सा मन्त्रिणी तथा |
पानप्रकर्षतो मत्ता विचारः स्यात्तयोः कुतः || ६३ ||

महाराज्ञपि कामेशविलासपरमा तदा |
युक्ताऽयुक्तविचारेण स्वतो हीना तु सर्वदा || ६४ ||

मन्त्रिण्या मत्तया प्रोक्तं मनुते सर्वथा हितम् |
बालायाः को विचारः स्यात् क्रीडासक्ता हि सा सदा || ६५ ||

अहो मोहस्य माहात्म्यं किमर्थमसुरा हताः |
व्यर्थहिंसाऽपराधेन प्राप्स्यामो नाशमञ्ज्सा || ६६ ||

इतो निर्गत्य तीर्थेषु गत्वा विहितमार्गतः |
दैत्यहिंसनदोषस्य कुर्मो निष्कृतिमादरात् || ६७ ||

काश्चिदाहुर्वृथा युद्धादलं नो दुःखवर्धनात् |
गत्वा स्नानेषु तपसा साधयामः समीहितम् || ६८ ||

अन्या ऊचुरलं युद्धैर्दुःखदैर्देहनाशनैः || अनुरूपं पतिं प्राप्य क्रीडामोऽविरतं सुखम् || ६९ ||

वदन्त्य इत्यादि बहुपृथङ् मतसमाश्रयाः |
न युध्यामो वयं व्यर्थं तवाऽज्ञायां न च स्थिताः || ७० ||

क्रोधं करिष्यसि यदि युध्यामस्तर्हि वै त्वया |
वृथाऽभिमानं माकार्षीर्मन्त्रिण्या मत्तया सह || ७१ ||

अस्मान् युद्धे समासाद्य विमदा शीघ्रमेष्यसि |
तत्रोचुरन्याः संक्रुद्धाः शूकरास्ये सदा हि नः || ७२ ||

कुतः क्रुध्यसि नेत्राणि करालान्यवमुञ्चसि |
व्रज शीघ्रमितो नो चेदक्षीणि विनिपातये || ७३ ||

न निर्लज्जा शूकरास्या त्वत्समा भवति द्वचित् |
अन्याऽब्रवीत् खड्गकरा निषत्याऽभिमुखे ततः || ७४ ||

किं बलास्यति मे वाक्यं शृणु कोलाऽनने यदि |
दर्पोऽस्ति चेन्मया युद्धे वीर्याद्बुद्धिं समीकुरु || ७५ ||

जीवितं हास्यसि मुधा युद्ध्वा शस्त्रहता मया |
इति दृष्ट्वा शक्तिगणं दण्डिन्यत्यन्तविस्मिता || ७६ ||

कुत एतदकाण्डे वै शक्तीनां बुद्धिनाशनम् |
इति मत्वा द्रुतं गत्वा मन्त्रिण्यै तन्निवेदयत् || ७७ ||

मन्त्रिण्यपि च शक्तीनां बुद्धिनाशं निशाम्य तु |
विस्मिता श्रीमहाराज्ञीमासाद्य प्रणतब्रवीत् || ७८ ||

मातरत्यद्भुतो विघ्नो नन्वस्माकमुपस्थितः |
नूनं भवेत्तु दुष्टानां दैत्यानामेव चेष्टितम् || ७९ ||

शक्तीनां बुद्धिनाशोऽत्र दृश्यतेऽतिभयङ्करः |
दैत्याः सालमुखप्रान्ते सन्नद्धाः समुपस्थिताः || ८० ||

दण्डनीं माञ्च चक्रस्थशक्तीर्हित्वा ह्यशेषतः |
भिन्नस्वभावाः सम्भूताः शक्त्यो रोषभाषणाः || ८१ ||

द्रुतं विधेहि यत्कृत्यं नार्ऽहः कालो विलम्बने |
यद्यप्यखिलदैत्याश्च तव भ्रुभङ्गमात्रतः || ८२ ||

न भवेयुस्तथाप्येतन्नाऽस्माकं सम्मतं सम्मतं भवेत् |
अस्मासु दयया मातर्द्रुतं प्रतिविधत्स्व तत् || ८३ ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीललिताचरित्रे शक्तिसेनासु विघ्नयन्त्रप्रयोगजनितविघ्नकरणवर्णनं नामैकसप्ततितमोऽध्यायः || ५८९८ ||

द्विसप्ततितमोऽध्यायः सर्वसेनासमागमवर्णनम्

Kapitel 72

Die Göttin erscheint in der Erzählung als schützende und befreiende Kraft.

प्रार्थितैवं श्यामलया श्रीमाता परमेश्वरी |
लीलां वितन्वती शीघ्रं संस्मितप्रेमभावतः || १ ||

कोटीन्दुकिरणाऽभासान् शृङ्गाराऽमृतवर्षणान् |
कटाक्षान् कामेशमुखसौन्दर्याब्धावमूर्च्छयत् || २ ||

अथो देवी स्मिताऽलोककामेशमुखसङ्गतेः |
गणनाथः समुदभूदिभास्योऽरुणसम्प्रभः || ३ ||

गदां शूलं शङ्खमब्जं विषाणं दक्षबाहुभिः |
मातुलुङ्गं धनुश्चक्रं पाशं धान्यस्य मञ्जरीम् || ४ ||

वहन् वामकरैः शुण्डासमात्तमणिभाजनः |
रक्तकौशेयवसनो दिव्यामाल्यविभूषणः || ५ ||

त्रिनेत्रश्चन्द्रचूडालो मणिकोटीरमण्डितः |
शक्त्या समाश्लिष्टदेहो गलन्मदजलाऽइलः || ६ ||

प्रणम्य ललितां देवीं बद्धाञ्जलिपुटोऽब्रवीत् |
देवी ब्रूहि मया यत्तत्कृत्यमत्र रणोद्यमे || ७ ||

तते कृपावशादेव साध्याम्यतिदुःशकम् |
श्रुत्वैवं प्राह गणपं ललिताम्बा महेश्वरी || ८ ||

गच्छ वत्स दैत्यकृतमभिचारं विनाशाय |
एवं तया समाज्ञप्तो गणेशो धूनयन् करम् || ९ ||

विचिन्वन्नब्न्हितस्तत्र क्षणाद्यन्त्रं समासदत् |
आसाद्य विघ्नयन्त्रं तच्छक्तिसङ्घस्य पश्यतः || १० ||

वज्रसारमपि क्रोधाद्बिभेद रदघाततः |
निमिषात्तच्चूर्णयित्वा तिलशस्तदनन्तरम् || ११ ||

ज्वलत्सलद्वारभागान्निर्ययौ योद्धुमुत्सुकः |
निविश्य दैत्यसेनां तां युयुधे दैत्यपुङ्गवैः || १२ ||

पिपेष गदया काश्चित् काश्चिश्चिच्छेद चक्रतः |
शूलेन दारयश्चान्यान् शरैरन्यान् विभेद च || १३ ||

अमारयद्विषाणेन दैत्यानन्यान् सहस्रशः |
एवं दैत्यपतीन् भूयो गणेशः क्षयमानयत् || १४ ||

कर्णतालमहावायुविधूता दैत्यवाहिनी |
नासावायुमहावेगविकृष्टाः सङ्घऽऽशोऽसुराः || १५ ||

अवशा विवशुः शीघ्रं शुण्डासुषिरमार्गतः |
शुण्डाऽन्तर्भागसङ्घट्टान्मृताश्छिन्नाऽङ्गबन्धनाः || १६ ||

केचिन्मूर्च्छामनुप्राप्ता निश्वासाद्भुवि पोथिताः |
प्राणान् जहुस्तथाऽन्ये चाऽक्षताः श्रोत्रविलायनात् || १७ ||

विनिर्गताः कर्णतालाऽस्फालिता जीवितं जहुः |
एवं विनाशयन् दैत्यांस्तत्सेनायां गणेश्वरः || १८ ||

भण्डपुत्रान् समादाय गदापापैरपातयत् |
विषङ्गं हृदि दन्तेन चकराऽत्यन्तविक्षतम् || १९ ||

विषङ्गो राजपुत्राश्च यदा मूर्च्छामुपाऽययुः |
तदा दृष्ट्वा दैत्यगणा मत्वा प्रत्यक्षमन्तकम् || २० ||

हा हेति भीताः समरं त्यक्त्वा दूरं पलायिताः |
दृष्ट्वैवं विद्रुतं सैन्यं विशुक्रोऽतिरुषान्वितः || २१ ||

आययौ रथसंस्थानो युध्यन्तं विघ्ननायकम् |
अथाऽभवन्महायुद्धं विशुक्रगजवक्त्रयोः || २२ ||

शस्त्राऽस्त्रवर्षणं घोरं परस्परजयैषणम् |
अथेभवक्त्रः सङ्क्रुद्धो गदापातेन तद्रथम् || २३ ||

साऽश्वं ससारथिं शीघ्रं चूर्णयामास संयुगे |
अथ क्रुद्धो विशुक्रोऽपि गदामुद्यम्य वेगतः || २४ ||

प्राहरत् कुम्भयोस्तस्य सर्वप्राणेन मन्युना |
गदाप्रहारसम्भिन्नकुम्भदेशाद्गणेशितुः || २५ ||

बहु सुस्त्राव रुधिरमथ क्रुद्धो गणाधिपः |
जघान शूलेन हृदि विशुक्रस्याऽतिवेगतः || २६ ||

शूलनिर्भीन्नहृदयो विशुक्रो मूर्च्छितोऽपतत् |
एवं विशुक्रं निर्जित्य ययौ भण्डरथं प्रति || २७ ||

दृष्ट्वाऽयान्तं नियुद्धाय गणेशं स्वात्मना सह |
विचारयत् स्वान्तरङ्गे तमजेयं विभावयन् || २८ ||

एष योद्धुं समायाति सिन्धुरास्यो मया सह |
अजेयोऽयं महावीर्यः सर्वैर्देवासुरैरपि || २९ ||

मम सङ्क्ल्प एषोऽस्ति तदा श्रीललिताऽम्बया |
शर्स्त्रहत इमं देहं त्यक्त्वा तल्लोकमाप्नुयाम् || ३० ||

तत्र विघ्नमिमं मन्ये कथं मे स्यात् समीहितम् |
नूनमेष पुरा युद्धं चक्रे येन महौजसा || ३१ ||

द्विपाऽसुरेण तं स्रक्ष्ये तेनैष समियाद्रणे |
ततोऽहं तां समायास्ये योद्धं श्रीललिताम्बिकाम् || ३२ ||

इति निश्चित्य ससृजे गजदैत्यं महाद्भुतम् |
पर्वताऽभं महाभीमं परिघोद्यत्सुपुष्करम् || ३३ ||

अभिद्रवद्गणपतिं स दैत्यो भण्डदेशितः |
आसाद्य गजदैत्यं तं युयोध गणनायकः || ३४ ||

एवं युध्यति नागास्ये विघ्नयन्त्रस्य नाशनात् |
शक्त्यः प्रकृतिं प्राप्य निर्युर्युद्धगेतवे || ३५ ||

आलक्ष्य युद्धसन्नहं भण्डदैत्यस्य सर्वथा |
अशेषदैत्यसेनानां मन्त्रिणी दण्डिनीयुता || ३६ ||

मन्त्रयित्वा महाराज्ञी स्वयं युद्धाय निर्ययौ |
अशेषशक्तिसेनाभिर्दशिताभिः परिवृता || ३७ ||

आदौ सम्पत्करी देवी र्णकोलाहलाऽभिधे |
समारुह्येभसेनाभिर्निर्जगामाऽतिसम्भ्रमात् || ३८ ||

अथाऽपराजिताऽशवस्था निर्ययौ परमेश्वरी |
अश्वारुढाऽश्वसेनाभिरावृता युद्धसम्भ्रमात् || ३९ ||

तन्मध्ये श्रीमहाराज्ञ्या प्रतिरुद्धा रणोत्सुका |
बाला प्रणम्य ललितां प्राह मञ्जुलया गिरा || ४० ||

मातर्मामनुजानीहि युधाय कृतनिश्चयाम् |
सदा युद्धविधानाय समुत्सुकितमानसाम् || ४१ ||

त्वयाऽहं प्रतिरुद्धाऽस्मि प्रसक्तेऽपि महारणे |
पादौ मूर्ध्ना स्पृशाम्येषा देह्यज्ञां समराय मे || ४२ ||

चिरादुत्कण्ठिता युद्धे निर्गमं नो लभाम्यहम् |
आद्ये दिनेऽपि मे युद्धं नाऽसीन्मानसपूरणम् || ४३ ||

मध्ये तया कोलमुख्या विहता युधि वै मुधा |
अद्य मे पूरयस्वाऽशां चिराद्युद्धाय सम्भृताम् || ४४ ||

इति बालावचः श्रुत्वा ललिता श्रीपराम्बिका |
प्रहसन्ती मन्त्रनाथामुखं समवलोकयत् || ४५ ||

देव्याशयं विदित्वा सा कुमारीं प्राह मन्त्रिणी |
कुमारि ! शृणु मे वाक्यं यदि त्वं योद्धुमिच्छसि || ४६ ||

तत्त्वया समन्येनैव योद्ध्व्यं यदि मन्यसे |
एकेन सह युध्यस्व दण्डिन्या च मया सह || ४७ ||

युद्धे नौ न परित्यज्य दैत्यसेनासु चैकला |
प्रवेष्टव्यं क्वचिद्वाऽपि तवाऽवां पक्षसंश्रये || ४८ ||

भवावस्तद्वदत्रैव केन युद्धंहि वाञ्छसि |
श्रुत्वैवं मन्त्रिणीवाक्यं प्राह बालाऽम्बिका पुनः || ४९ ||

युध्याम्यहं भण्डपुत्रैर्न तेष्वन्या कथञ्चन |
सर्वथा बाणमेकं वा विसृजेदहमेकल || ५० ||

युद्ध्वा तस्तान्निहन्म्येव न तद्वाहा रथा अपि |
आयुधादिनि नाश्यानि अन्याभिर्जातु कुत्रचित् || ५१ ||

श्रुत्वा बालावचो भूयो मन्त्रिणी तामुवाच ह |
एकेन युध्यस्व रणे देव्यादिष्टे कथं त्वया || ५२ ||

त्रिंशद्भिर्विरियते युधं नेदमौपयिकं तव |
भण्डपुत्र महाशुरा भण्डतुल्यपराक्रमाः || ५३ ||

भीमसंहननाः सर्वे कूटयुद्धविशारदाः |
एकेन तेषु युध्यस्व येन योद्धुं समीप्सितम् || ५४ ||

इति वाक्यं श्यामलायाः शुत्वा बालाऽम्बिका ततः |
प्रणम्य भूयस्तैर्युद्धमयाचत कृताऽञ्जलिः || ५५ ||

याचतीं तां समालोक्य प्रीता सा ललिताम्बिका |
ददावनुज्ञां समरे आश्लिष्य प्रीतिपूर्वकम् || ५६ ||

अथ प्राह पुनर्देवीं बाला श्रीत्रिपुरां तदा |
मातरन्यच्छृणु वचो दण्डिन्येसा मया सह || ५७ ||

न तिष्ठतु युद्धभुवि भूय एषा पुरा मम |
व्यनाशयद्युद्धरसं यद्यागच्छेन्मया सह || ५८ ||

पृष्ठतस्तिष्ठतु न तु विघ्नं भूयः करिष्यति |
यदि युद्धे पुनर्विघ्नं करिष्यति तदा शृणु || ५९ ||

मया पराहतां युद्धे द्रुतमेनां प्रपश्यसि |
एवं वदन्तीं बालां तां मत्वा रुष्टाञ्च ओत्रिणी || ६० ||

नत्वा तां सान्त्वयामास मृदुवाक्यैः सुपेशलैः |
देवि शङ्कांत्यज मयि आगच्छामि त्वया सह || ६१ ||

निशामयामि ते युद्धं करोमि तव यत्प्रियम् |
तवाऽज्ञामनुरुध्यैव पुरतः पृष्टोऽपि वा || ६२ ||

स्थास्यामि न हि विघ्नं मे भविष्यति च ते युधि |
इति श्रुत्वा दण्डिनीं सा मोदादाश्लिष्य सत्वरम् || ६३ ||

रथमारुह्य तरसा निर्ययौ समरोत्सुका |
मन्त्रिणी दण्डनाथा च स्वस्वस्यन्दनसंस्थिते || ६४ ||

ययतुः पार्श्वयोस्तस्याः शक्तिसेनासमावृते |
अथ श्रीचक्रराजाख्यरथमारुह्य सत्तवरम् || ६५ ||

युधाय निर्यया देवी वीरसन्नाहसन्नता |
तत्पृष्ठतः समारुह्य तिमिरस्तोमसम्प्रभम् || ६६ ||

त्रुरगं मारुतजवं निर्ययौ सा तिरस्कृतिः |
विकर्षन्ती शक्तिसेनाममेयां सागरोपमाम् || ६७ ||

अथ सेनाद्वयमुखम्भूद्भीमं सुसङ्गतम् |
युधवाद्यचित्ररवो नेमिघोषाऽतिमांसलः || ६८ ||

वीरास्फोटैर्हुङ्कृतैश्च गजमण्डलचीत्कृतैः |
हयह्वेषितसंरावैवृर्वधेऽतितरां तदा || ६९ ||

अथ शस्त्र प्रपातोऽभूश्चटश्चटरवोद्धतैः |
लोहितानां महाऽसारवर्षणोऽतिभयङ्करः || ७० ||

हतोऽसि हंस्यसे शीं तिष्ठ मा विद्रुतिं त्यज |
द्रुतं वीर्यं दर्श्य ते पऽऽय मेऽद्य पराक्रमम् || ७१ ||

एवं वचांसि बहुधा श्रुयन्ते तत्र सङ्गरे |
शिथिलाङ्गाः शरैः केचित् केचित् परशुदारिताः || ७२ ||

शूलष्वन्येऽभिसम्प्रोताः परे खड्गैर्विपाटिताः |
निष्पिष्टाः परिघैरन्ये चक्रैश्छिन्नगलाः परे || ७३ ||

तोमरैर्भेदिताः केचिद्विक्षताः प्रसपट्टिशैः |
भिन्दिपालैः शकलिता गदाभिर्भिन्नमस्तकाः || ७४ ||

दैत्या अभूवन् समरे शक्तिभिर्गाढसंहताः |
सरितः शोणितवहा ववुस्तत्र सहस्रशः || ७५ ||

एवं शक्तिभिरत्यन्तमर्दिता दैत्यवाहिनी |
पलायिता क्रन्दमाना शक्तिशस्त्राऽतिवेधिता || ७६ ||

असहन्ती शक्तिसेना सम्मर्दबलवत्तरम् |
जलाशयाच्छिन्नबन्धात्तोयानीव क्षयं गता || ७७ ||

तद्दृष्ट्वा विहतां सेनां दैत्यानां भण्डसूनवः |
चतुर्बाहुमुखास्त्रिंशत्सङ्ख्याश्चित्रपराक्रमाः || ७८ ||

भण्डतुल्यबलाः शस्त्रास्त्राऽभिज्ञा युद्धदुःसहाः |
रथाऽरुढा शक्तिसेनां जघ्नुः सायकवृष्टिभिः || ७९ ||

तैः कलितमभूच्छक्तिसैन्यं सरतापनैः |
शस्त्राऽस्त्रतेजो दैत्यानामसह्यं प्राप्य सर्वतः || ८० ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीललिताचरित्रे सर्वसेनासमागमवर्णनं नाम द्विसप्ततितमोऽध्यायः || ५९७८ ||

त्रिसप्ततिमोऽध्यायः महावीरभण्डपुत्रवधवर्णनम्

Kapitel 73

एवं युद्धकथां श्रुत्वा प्राह कुम्भभवो मुनिः |
हयाऽनन ! महाश्चर्यमाख्यानं सम्यगीरितम् || १ ||

गणनाथस्य कथितो गजाऽसुरसमागमः |
युद्धं तयोः कथमभूत्तन्ममाऽचक्ष्व पृच्छतः || २ ||

इति पृष्ठः कुम्भभवमुनिना तुरगाऽननः |
गणनाथमहायुद्धां प्रवक्तुमुपचक्रमे || ३३ ||

अगस्त्य शृणु वक्ष्यामि कथामत्यद्भुतां तव |
गणनाथमहावीर्यसम्भृतां संयुतां रसैः || ४ ||

भण्डसृष्टेन दैत्येन युयोध स गणेश्वरः |
मुहूर्तमात्रमभवत्तयोर्युद्धं सुदुःसहम् || ५ ||

अथ दैत्यः ससर्जाऽन्यान् दैत्यानात्मपराक्रमान् |
तुल्यरूपांस्तुल्यजवांस्तुल्यसाहसविक्रमान् || ६ ||

ताननेकान् युध्यमानान् दृष्ट्वा क्रुद्धो गणेश्वरः |
ससर्ज स्वात्मनस्तुल्यान् गणेशानपि कोटिशः || ७ ||

तत्रैकैकेन दैत्येन प्रत्येकं गणनायकाः |
युयुधुश्चित्रशस्त्रस्त्रैस्तदद्भुतमिवाऽभवत् || ८ ||

दैत्याः शक्तिगणाश्चापि तयोर्युद्धं महाद्भुतम् |
ददृशुः प्रेक्षका भूत्वा युद्धसंरम्भविस्मृतेः || ९ ||

अथ ते गणनाथास्तु जघ्नुर्विक्रम्य हेतिभिः |
कश्चिच्छूलाहतः कश्चिश्चक्रेण शकलीकृतः || १० ||

कश्चिद्गदाभग्नतुण्डः कश्चिद्द्न्तविदारितः |
कश्चिन्निघृष्ट उरसा कश्चित्पादप्रपेषितः || ११ ||

कश्चित् कुम्भाऽहतिर्भिन्नकुम्भः प्राणान् जहौ युधि |
एवं ते नाशिता दैत्या दैत्यसृष्टा गजाननैः || १२ ||

अथैकलः समभवत् पुनर्गजमहासुरः |
युयोध बलवांस्तत्र गणेशेनाऽतिसाहसी || १३ ||

महागणेशोऽपि दृष्ट्व दैत्यं पूर्ववदेकलम् |
सञ्झार गणपतीन् स्वाङ्गे निमिषमात्रतः || १४ ||

अथाऽभवन्महायुद्धं तयोर्विक्रमतोर्युधि |
अनेकशस्त्राऽस्त्रगणैः सङ्कुलं सुभयङ्करम् || १५ ||

अथ सोऽपि महादैत्यो माययाऽभून्महोन्नतः |
सहस्त्राऽस्यस्तद्द्विगुणभुजश्चित्राऽयुधैर्वृतः || १६ ||

क्षणे क्षणे च श्स्त्राणां सहस्रं स ससर्ज ह |
सृष्टं सृष्टं शस्त्रगणं नाशयद् गणनायकः || १७ ||

दृष्ट्वा दैत्यस्य मायां तां तां गणेशोऽतिरुषाऽन्वितः |
चिच्छेद युगपत्तस्य धृतं शस्त्रसहस्रकम् || १८ ||

अथाऽभवद्गदायुद्धं गणेशगजदैत्ययोः |
महत्या गदया नूनं निघ्नतोरितरेतरम् || १९ ||

तदा गणेशगदया ताडिता तस्य सा गदा |
शकलीभूय पतिता ततो दैत्यो निरायुधः || २० ||

मुष्टिमुद्यम्यगणपं हन्तुमायान्महासुरः |
दृष्ट्वाऽयान्तं दैत्यवरं गणेशः प्राक्षिपद्गदाम् |
२१ ||

सा गदा प्राप्य तद्देहं नैषद्रुजमुदावहत् |
गदाप्रतिहताऽङ्गेन पपात भुवि सा वृथा || २२ ||

अथ च्क्रं त्रिशूलञ्च परिघं शक्तिमेव च |
क्षिप्तं क्षिप्तं वृथा भूमावपतद्देहसङ्गतः || २३ ||

उपलानां वृष्टिरिव गण्डशैल इवाऽभवत् |
दृष्ट्वा दैत्यं सर्वशस्त्रैरजेयं स गणाधिपः || २४ ||

चिन्ताकुलः समभवत्तावन्मुष्ट्या जघान् सः |
अथाऽभवत्तयोर्मुष्टियुद्धमत्यन्तदारुणम् || २५ ||

मुष्टिसंहननोदञ्चदग्निवर्षणसंयुतम् |
तं ततो बाहुबन्धेन बद्धा दैत्यं निपातयत् || २६ ||

निपात्य पादेनाऽक्रम्य हृदि दन्तेन दारयत् |
एवं विदारितो दैत्यो जहौ प्राणांस्तदा रणे || २७ ||

हत्वैवमिभदैत्यं तं पुनर्भण्डासुरं प्रति |
युधायाऽभ्याजगामाऽशु गणेशोऽद्भुतविक्रमः || २८ ||

तदाऽयान्तं गणपतिं दृष्ट्वा भण्डमहासुरः |
चिन्तयल्ल्लितां देवीं भीतस्तस्य पराक्रमात् || २९ ||

मातस्त्वयाऽयं समरे हतो देहो विनश्यतु |
इति पूरय मद्वाञ्छां प्रपन्नस्त्वत्पदाऽम्बुजम् || ३० ||

तद्विदित्वा भक्तवाञ्छापूरणाय महेश्वरी |
सस्मार सिन्धुरमुखं चक्रराजरथस्थिता || ३१ ||

विदित्वा संस्मृतीं देव्या आजगाम गजाननः |
प्रणम्य प्राह मातः किं स्मृतो युद्धविधौ स्थितः || ३२ ||

प्राह श्रुत्वा वचस्तस्य ललिता परमेश्वरी |
वत्साऽलं युद्धविधिना तिष्ठ मत्पार्श्वतोऽधुना || ३३ ||

एता युद्धोत्सुका देव्यो युध्यन्त्वसुरसेनया |
इत्याज्ञप्तो गणेशानो विरराम नियुद्धतः || ३४ ||

अथ भण्डसुतैः शक्तिसेनां दृष्ट्वाऽतिविक्षताम् |
तान् सयकैः किरन्ती सा बाला युद्धे समासदत् || ३५ ||

असङ्ख्यादैत्यसेनाभिर्यता दैत्येशसूनवः |
अत्यद्भुतक्रियां युद्धे बालां वव्रूरणाऽजिरे || ३६ ||

कोटिशो दैत्यसुभ्टा विचित्राऽयुधवर्षणैः |
बालां रथस्थां ववृषुर्गर्जन्तो युध्धदुर्मदाः || ३७ ||

अथ शक्तिगणं प्राह दण्डिनी परम्ं वचः |
शृणुध्वं शक्त्यः सर्वा बालाम्बाज्ञां ब्रवीमि वः || ३८ ||

एषा यैर्युध्यति युधि न तेषु सहसा क्वचित् |
प्रयोक्तव्यं शस्त्रगणं दण्ड्या सा मेऽन्यथा भवेत् || ३९ ||

प्रेक्षध्वमस्याः समरं न योद्धव्यं कथञ्चन |
इति सङ्घोष्य सेनासु मन्त्रिण्या सहिता स्वयम् || ४० ||

पार्श्वं समाश्रितवती तस्याः समरवैभवे |
अथ श्रुत्वा दण्डराज्ञ्याः शासनं मुदिता हि सा || ४१ ||

असङ्ख्यैर्दैत्यसुभटैरेकला युयुधेऽद्भुतम् |
सिद्धर्षिदेवतामुख्याः पश्यन्त्याऽकाशमाश्रिताः || ४२ ||

युध्यन्तीं बहुभिश्चैकां कुमारीं विस्मिताऽभवन् |
अथ दैत्योत्सृष्टशस्त्रवृन्दैराच्छादिताऽभवत् || ४३ ||

बालसूर्योऽभ्रपऽलैरिव सा सर्वतो दिशम् |
दृष्ट्वा छन्नां शस्त्रगणैर्विमताः शक्त्योऽभवत् || ४४ ||

ततः क्षणेनैव बाला प्रतिशस्त्राऽभिवर्षणैः |
विनाश्य तां शस्त्रवृषिं भूयः सर्वान् जघान ह || ४५ ||

अथ तेषामसङ्ख्यानां युगपल्लघुविक्रमा |
आयुधानि वाहनानि नाशयिश्चित्रविक्रमा || ४६ ||

भूयो गृहीतमात्राणि शस्त्राण्यपि समाच्छिनत् |
अथ तीक्षणैः शरैर्दैत्यान्नाशयत् साऽतिवेगतः || ४७ ||

शराऽदानञ्च सन्धानं पूरणञ्च विसर्जनम् |
न लक्ष्यतेऽतिनिपुणदृशा केनाऽपि सर्वथा || ४८ ||

किन्तु तस्या धनुर्मध्याद्भूविलाच्छलभा इव |
प्रसरन्ति शरास्तीक्ष्णा दिक्ष्वन्तरविहीनतः || ४९ ||

सङ्घशो दैत्यमूर्धानः पतन्ति तृणराजतः |
फलानीव सुपक्वान्.ऽऽचटमाअरवाः || ५० ||

केचिच्छिन्नकराऽङ्घ्यरूरुवक्षःकुक्षिगलाः परे |
निरन्तरतया विद्धाः सहस्राक्ष इवाऽभवन् || ५१ ||

अन्ये च खण्डिता दैत्यास्थिलशः कीर्णदेहकाः |
केचिद्वक्षसि संविद्धा हृतप्राणाः स्थिरं स्थिताः || ५२ ||

धृतशस्त्राः प्रदृश्यन्ते लिखिताः सुभटा इव |
केचिच्छराऽहतेर्वेगान्नीयन्ते गतजीवनाः || ५३ ||

युध्धकातरभावेन पलायनपरा इव |
एवं तया मुहूर्तेन कोटिशो दैत्यपुङ्गवाः || ५४ ||

गताऽसवोऽभवन् पेतुर्विक्षतास्ते शतोत्तराः |
न तत्र दैत्यः शूरोऽपि कश्चित् स्वात्माऽवने विभुः || ५५ ||

क्व युद्धं क्व च वा शस्त्रपातनं कर्तुमर्हति |
न दैत्या युद्धमत्यन्तमेकाकिन्य विदुः क्वचित् || ५६ ||

कोटिशः शक्तिसेनानां युद्धं जानीयुरञ्जसा |
शक्तिसेना नभःसंस्था देवाद्याश्च समन्ततः || ५७ ||

दृष्ट्वा बालाविक्रमं तमाश्चर्यं परमङ्गताः |
अथैवं निघ्नतीं बालां दृष्ट्वा दैत्याश्चमूङ्गताः || ५८ ||

भीताः शस्त्राणी निक्षिप्य पलायनपराऽभवन् |
हा हताःस्मो न चेयं वै योषिद्बाला कुमारिका || ५९ ||

प्रत्यक्षमन्तकः प्राप्त एवमस्मान् विहिंसितुम् |
अद्य निःशेषितं सैन्यं दैत्यानां भवति क्षणात् || ६० ||

वदन्त एवं क्रोशन्तो दुद्रुवुः सर्वतो दिशम् |
शस्त्रधारासुनिचिते मार्गमप्राप्य निर्गमे || ६१ ||

शरधाराशकलिताः पेतुदैत्यास्तु सङ्घशः |
केच्छिरैः सुसंविद्धाः पतिताः ऽऽशवराशिषु || ६२ ||

भीता निविश्य स्वात्मानमरक्षन्मृत्युभीतितः |
एवं तदा दैत्यसैन्यं प्रायो नष्टं पलायितम् || ६३ ||

शिष्टञ्चाऽपि निशाम्याऽथ भण्डपुत्राः समाययुः |
रथाः सिंवाहा महाचापधरा भृशम् || ६४ ||

क्रुधा एकप्रपातेन बालां वव्रुः समन्ततः |
महामेघा इव श्यामा गर्जन्ती मृगराजवत् || ६५ ||

वर्षन्तः शरधाराभिर्बालां सूर्यमिवाऽम्बरे |
तैरनेकैः कुमारी सा विष्णुतुल्यपराक्रमैः || ६६ ||

सङ्गता युधि दृष्टाऽभूल्लीलया तान् युयोध च |
मन्त्रिणीदण्डिनीमुख्या दृष्ट्वा बालापराक्रमम् || ६७ ||

विष्मिताः श्रीपरादेव्यै समाचख्युर्महारणम् |
देवि नूनं सा कुमारी न शेषयितुमर्हति || ६८ ||

भण्डं तद्भ्रातरौ वाऽ.पि पुत्रान् सेनागतानपि |
लीलयैवाऽद्य निःशेषं करिष्यति न संशयः || ६९ ||

एवं युद्ध्वा क्षणं मन्दं भण्डपुत्रैः प्रतापनैः |
तेषां वाहान् ध्वजं छत्रं युगपन्नाशयच्छरैः || ७० ||

तेषां सायकवृष्टिं तां विधूय प्रतिवृष्तिभिः |
शरासनं क्रमात्तेषां चिच्छेद सुपतत्रिभिः || ७१ ||

अथ ते रोषिताः खड्गगदाप्रमुखमायुधम् |
परामृशुर्निहन्तुं तां यावत्तवदियं द्रुतम् || ७२ ||

आत्तमात्तं प्रचिच्छेद तदद्भुतमिवाऽभवत् |
एवं निरायुधा दैत्या जातास्तस्याः पराक्रमम् || ७३ ||

अत्यद्भुतं मेनिरे ते चिन्ताञ्चाऽपुर्महत्तराम् |
एवं बालमहाकालग्रस्तान् युधि निशाम्य वै || ७४ ||

विषङ्गश्च विशुक्रश्च महासिन्यपरीवृतौ |
रक्षितुं तान् राजपुत्रानभ्याययतुराशु वै || ७५ ||

मा विभ्याऽगतावावां वदन्ताविति सा शिवा |
ददृशे शखवर्षाणि कुर्वन्तौ कालमेघवत् || ७६ ||

दृष्त्वा बालाऽतिहर्षेण तां वृष्टिं शस्त्रसङ्कुलाम् |
निवारयल्लीलयैव ततस्तां दैत्यवाहिनीम् || ७७ ||

क्ऽणेन वायव्याऽस्त्रेण महावायुर्घटनिव |
नामशेषां कृतवती ततस्तावतिरोषितौ || ७८ ||

आयान्तावतिवेगेन गदाखड्गकरावुभौ दृष्ट्वा शरैर्वाहनेभान् युद्धेऽनाशयदञ्जसा || ७९ ||

अथैकेन पृथग्वक्षोदेशे बलवदाहतौ |
मूर्च्छितौ पेततुर्भूमौ वज्राऽहतनगाविव || ८० ||

तदन्तरे भण्डपुत्राः शस्त्रहेतोः परावृताः |
तानिवृत्तान् समालोक्य विरथानकरोत् क्षणात् || ८१ ||

पादचारान्निहत्याऽसु जङ्घयोर्निशितैः शरैः |
प्राहरे भण्डदायादाः शूराणां वः कथं त्विदम् || ८२ ||

दर्शनं युधि पृष्ठस्य योग्यं ब्रूत पलायताम् |
शुत्वा कटुरसोदर्कं भाषितं तेऽतिमानिनः || ८३ ||

ब्रूयुर्मन्युज्वलन्नेत्रा निवृत्ताः सम्मुखे रणे |
धिङ्मुग्धे बालिकां दृष्ट्वा दयमानस्वभावतः || ८४ ||

जीवस्यस्मान् समासाद्य मृत्युकल्पान् कथञ्चन |
तत् पश्य सद्यस्त्वां कुर्मो विमदां तत् स्थरीभव || ८५ ||

इत्युक्त्वामुष्टिमुद्यम्य धावमानान् स्वसम्मुखे |
प्रत्येकं निशितैर्भल्लैस्तच्छिरांसि चकर्तह || ८६ ||

पक्वतालफलानीव पेतुस्तन्मस्तकान्यथ |
हाहाकारः समुदभूद् दैत्यानां वाहिनीमुखे || ८७ ||

ववर्ष बालां कुसुमैः सुगन्धिभिः सुरेश्वरः |
जयशब्दो महानासीच्छक्तिसेनासु सर्वतः || ८८ ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्मयखण्डे श्रीललिताचरित्रे भण्डपुत्रवधकरणवर्णनं त्रिसप्ततितमोऽध्यायः || ६०६६ ||

चतुःसप्ततितमोऽध्यायः उभयसेनासमागमवर्णनम्

Kapitel 74

एवम् हतेषु भण्डस्य पुत्रेषु समरोत्सुकाम् |
बालां भूयः समालक्ष्य मन्त्रिणीदण्डनायिके || १ ||

ऊचतुर्देवि श्रीराज्ञीं दृष्ट्वा नत्वा निवेद्य च |
अनुज्ञाता पुनर्युद्धं यास्यामः कर्तुमञ्जसा || २ ||

तावद्दैत्याः समायान्तु समराय सुदंशिताः |
त्वमसाध्यं कृतवती नैतदस्मच्छकं क्वचित् || ३ ||

इत्युक्त्वा तां समादाय गत्वा श्रीमातृसन्निधिम् |
आरुह्य चक्रराजाख्यरथं नत्वा पराम्बिकाम् || ४ ||

ऊचतुर्विक्रमं युद्धे बालाया अद्भुतं महत् |
विजयञ्च ततः श्रुत्वा तुष्टा श्रीललिताम्बिका || ५ ||

आश्लिष्य बालां सुप्रीत्या पार्श्वे च सुनिवेशयत् |
भण्डपुत्रान् हतान् दृष्ट्वा हा हेत्युच्चैर्विचुक्रुशुः || ६ ||

पलायिताश्च परितः शुष्यद्वक्त्रा हतप्रभाः |
पुत्रनाशं निशम्याऽथ भण्डदैत्योऽतिदुःखितः || ७ ||

पुनर्विमृश्य सद्बुद्ध्या धैर्यमालम्ब्य सत्वरम् |
अहो मे विपुलो मोहः स्मृतिभ्रंशः समुद्गतः || ८ ||

किं शोचामि वृथैवाऽहं देव्या मेऽभिमतं कृतम् यथा प्रार्थितं मे तत्तथैव कृतं तथा || ९ ||

नूनं मदर्थं शोचेयुरेते तस्मान्ममाऽग्रतः |
यान्तु पञ्चत्वमथ वै तया देव्या रणे हताः || १० ||

प्राप्नोमि तल्लोकगतिं परीवारेण संयुतः |
इति मे प्राग्व्यवसितं प्रार्थिता च पराम्बिका || ११ ||

अथ सा भक्त्कामानां दोग्ध्रो कामप्रपूरणम् |
चक्रे तत्र महामोहो वृथा किं मामुपागतः || १२ ||

तदलं मे विमोहेन देवि ! त्वां शरणागतः |
तन्मेऽवशेषितं कामं पूर्याऽशु महेश्वरि ! || १३ ||

संहृत्य शिष्टां सेनां मे भ्रातृभ्यां सहितां ततः |
मां सयोषिद्गणं शीघ्रं युद्धे शस्त्राग्निपावितम् || १४ ||

विधाय स्वपदाम्भोजसविधं नेतुमर्हसि |
कदाऽहं चन्द्रचूडालं नेत्रत्रयसुशोभनम् || १५ ||

क्रोधारुणितनेत्रान्तसभ्रूकुटिलदर्शनम् |
पश्यन् श्रीमातृवदनं दग्धस्तत्सायकाऽग्निना || १६ ||

व्रजाम्यशोकममृतं स्थानं योगिसुदुर्लभम् |
प्रार्थयन्निति तद्रूपं कोटिकन्दर्पसुन्दरम् || १७ ||

ध्यायन् श्रीललितादेव्या निर्विकल्पोऽभवत् क्षणम् |
तावत्तत्राऽजग्मतुस्तौ दैत्यराजस्य ब्रातरौ || १८ ||

तं ददर्शतुरत्यन्तनिश्चेष्टं स्थाणुवत्स्थितम् |
अमंसतुः पुत्रशोकभराक्रान्तं सुमूर्च्छितम् || १९ ||

समाधनवचस्तत्र प्रोचतुः कालसम्मितम् |
तयोः शमपरैः शब्दैर्ध्येयान्निर्गतमानसः || २० ||

उन्मील्य नेत्रे पुरतो ददर्श भ्रातरौ स्थितौ |
स्वरूपगोपनार्थं स ब्रात्रोः सम्मुखतः स्थितः || २१ ||

पुत्रान् शुशोच नितरां मनसा तौ हसंस्तदा |
हा पुत्रा मां परित्यज्य पितरं दुःखसागरे || २२ ||

मज्ज्न्तं दीनमत्यन्तं क्व यातास्त्यक्त्सौहृदाः |
मातरो वोऽतिवात्सल्यकातरा ईदृशीं दशाम् || २३ ||

श्रुत्वा कथं भवेयुस्ता विदीर्णहृदया इव |
इत्यादि विलपन्तं तं दृष्ट्वा तौ भ्रातरौ तदा || २४ ||

श्रीदेवीमायया मुग्धौ दैत्येशं प्रोचतुर्वचः |
अलं दैत्येश ! शोकेन धैर्यवीर्याऽपहारिणा || २५ ||

शोचन्तं त्वां समालोक्याऽसङ्ख्यातभुवनेश्वरम् |
ज्वरो नौ देहं करीषमिव पावकः || २६ ||

मुहूर्तं दैर्यमालम्ब्य राजंस्त्वं सुस्थिरो भवः |
गत्वाऽवामेकपातेन तां हत्वा निशितैः शरिः || २७ ||

पुत्रघ्नीं ललिताऽख्यातां मारीं दैत्येष्विवाऽगताम् |
जीवन्तीं वा मृतां वा.पि वद्ध्वा नेष्याव आशु वै || २८ ||

इत्युक्त्वा सशरं चापमादाय स्यन्दनाऽश्रयौ |
युद्धार्थमभ्याययतुरतिवीर्यपराक्रमौ || २९ ||

द्विशताऽक्षौहिणीसेनापरीवारौ सुदंशितौ |
पृथक् शक्तिमहासेनापार्श्वभागे प्रपेततुः || ३० ||

चक्रराजरथवरदक्षपार्श्वेऽतिवेगतः |
शताऽक्षौहिणीसेनाभिर्विषङ्गः प्रापतद्बली || ३१ ||

विशुक्रश्चापि वामेन तथा न्यपतदञ्जसा |
तृतीये युद्धदिवसे प्रातः सूर्योदयं प्रति || ३२ ||

अकस्माच्छक्तिसेनायाः पक्षयोः पतितौ यदा |
तदाभवन्महाशब्दः शक्तिसेनासु पार्श्वयोः || ३३ ||

तदा श्रुत्वा युद्धशब्दं मन्त्रिणीदण्डनायिके |
अभूतां शङ्कितेऽत्यन्तमूचतुः श्रीपराम्बिकाम् || ३४ ||

देवि दैत्यशक्तिसेनासमागममहाध्वनिः |
श्रुयते भैरवतरो दैत्याः कपऽयोधिनः || ३५ ||

युध्यन्त्यकाण्डे सन्नद्धा अकृत्वा संविदं पुरा |
तद्याव आवामनुजानीहि शीघ्रं महेश्वरि || ३६ ||

अनुज्ञाते ततो नत्वा मन्त्रिणीदण्डनायिके |
चेलतुः समरायाऽशु पृथक् शक्तिगणावृते || ३७ ||

देव्या दक्षिणपार्ऽऽश्वस्था दण्डिनी चण्डविक्रमा |
निर्ययौ श्रीचक्रराजरथदक्षिणद्रारतः || ३८ ||

किरिचक्ररतह्ं पञ्चपर्वशोऽभिसमून्नतम् |
महासिंहयुगं पार्श्वे सैरिभाग्ग्रं तथा पुरः || ३९ ||

योजितं भैरवो यत्र रथनेता स्वयं स्ह्तितह् |
तत्पर्श्वे सिंहसंवाहरथारुढे विचेलतुः || ४० ||

स्वप्नेश्वरी तथा कालसङ्कर्षा युधसम्भ्रमा |
बटुकैः कालिकावृन्दैर्वराहमुखशक्तिभिः || ४१ ||

असङ्ख्याभिः परिक्रान्ता निर्ययौ कदनाय सा |
एवं चक्ररथद्वारादुत्तरस्माश्च मन्त्रिणी || ४२ ||

विनिर्गत्य गेयचक्ररथराजे महोन्नते |
सप्तपर्वयुते वेदहरिदश्वप्रचालिते || ४३ ||

हसन्ती श्यामला तत्र रथनेत्र्यभवत् परा |
शुकाद्या सारिकाद्या च श्यामला दक्षपार्श्वगा || ४४ ||

सङ्गीतसाहित्यपूर्वे श्यामले वामपार्श्वगे |
लघुऽऽयामलिका पृठे चैवमेता रथाऽश्रयाः || ४५ ||

परितो गेयचक्रात्मरथस्याऽशु विनिर्ययुः |
मन्त्रिण्यङ्गससुद्भूताः श्यामलाः कोटिकोटिशः || ४६ ||

रथाश्रयाः प्रचेलुर्वै युद्धसम्भारसम्भृताः |
सर्वाः षोडशवार्षिक्यस्तारुण्यश्रीनिषेविताः || ४७ ||

रक्तकौशेयवसना नवरत्नविभूषणा |
कटाक्षमन्दहासाभ्यां मोहयन्त्योऽखिलं जगत् || ४८ ||

कापिशायनपानोद्यन्म्ददघुर्णितलोचनाः |
काव्याऽलापरसाऽभिज्ञा गीतवाद्यविनोदिताः || ४९ ||

नर्मक्रीडापराश्चाऽतिहास्यलीलापरायणाः |
मन्त्रनाथा वाहिनी सा सुशुभेऽतितरां तदा || ५० ||

तापिच्छवनमालेव विकसश्चारुमञ्जरी |
अथाऽभवच्छक्तिसेनादैत्यसेनासमागमः || ५१ ||

उद्वेलयोः सागरयोरिव सङ्गमनं भुवि |
अथ ध्वनद्युद्धवद्यहुङ्काराऽस्फोटनिऽस्वनः || ५२ ||

रथघओषतुरङ्गोश्चहेषागम्भीरमांसलः |
सेनयोरुभयोस्तत्र बधिरीकृतदिङ्मुखः || ५३ ||

शक्तिसङ्घमहामेघनिर्मुक्तेषुप्रवर्षणैः |
दैत्यसेनामुखतटं विदीर्णं शतधाऽभवत् || ५४ ||

दैत्यसेनाभिन्नमुखद्वारेण विविशुर्द्रुतम् |
दैत्यसेनाहृदं शक्तिसेनास्त्रोतः समन्ततः || ५५ ||

निविश्य दैत्यसेनां ताः शक्त्यो बलवत्तराः |
ऽऽशस्त्राऽग्निभिर्दैत्यसेनावनं चक्रुर्हि भस्मसात् || ५६ ||

केचिच्छरैः सुनिचिताः केचित्परिघप्रोथिताः |
अन्ये कृपाणिना च्छिन्ननिखिलाङ्गा गताऽसवः || ५७ ||

परे चक्रविकृत्ताऽङ्गाः परशुच्छिन्नकन्धराः |
इतरे शूलसूत्रेषु प्रोता मणिगणा इव || ५८ ||

अपरे शक्तिप्रमुखैर्भिन्नमूर्धोदराऽभवन् |
एवं विनाश्यमानायां सेनायां शक्तिसेनया || ५९ ||

दृष्ट्वा विशुक्रोह्यत्यन्तं रोषाग्निज्वलितेक्षणः |
रथेनाऽभ्यदेरवच्छक्तिवाहिनीं शस्त्रवर्षणैः || ६० ||

जीमूत इव वर्षाउ धाराः शरमयास्ततः |
शक्तिसेनाऽपि युयुधे विशुक्रे च बलीयसी || ६१ ||

अथ पुत्रा विऽऽउक्रस्य पितृतुल्यपराक्रमाः |
जीमूतकायो देवारिः करम्भः शिखिभाषण || ६२ ||

निविश्य शक्तिसेनाऽन्तर्जघ्नुस्ता बलवत्तराः |
विशुक्रात्मजसङ्खिन्नां निशाम्य शक्तिवाहिनीम् || ६३ ||

चतुर्दिक्षु काल्यमानां शुकादिश्यामलामुखाः |
विशुक्रपुत्रानासेदुर्वर्पन्त्य इषुसन्ततिम् || ६४ ||

तत्र जीमूतकायेन युयोध शुकश्यामला |
चिरं युद्ध्वा शरैस्तत्र रथं सूतं शरासनम् || ६५ ||

चिच्छेद निमिषार्धेन ततः प्रकुपितोऽसुरः |
जघान तीक्ष्णधारेण खड्गेन रथवाहनम् || ६६ ||

तस्या रथाश्वो निहतः प्रस्खलद्भिन्नमस्तकः |
तावच्छुकश्यामलिका अर्धचन्द्रेणुणा जवात् || ६७ ||

अपातयच्छिरो देहात् पक्वतालफलं यथा |
देवारिणा शारिकाख्या सङ्गता युद्धकर्मणि || ६८ ||

च्छिन्नध्वजरथाश्वं तं युध्यन्तं गदया दृढम् |
स्वकीयगदयाऽप्लुत्य जघानाऽसुरमस्तके || ६९ ||

भिन्नमूध्ः निपतितो देवारिर्गतजीवनः |
सङ्गीतश्यामला युद्धं करम्भेण चकार ह || ७० ||

युद्ध्वा चिरं तेन सह खड्गेन शिर आच्छिनत् |
साहित्यऽऽयामला युध्ध्वा बलिनं शिखिभाषणम् || ७१ ||

शस्त्राऽस्त्रैस्त्रं विनिर्जित्य प्राक्षिपद्वक्षसि द्रुतम् |
त्रिशूलं तेन दलितहृदयः प्राप तद्व्यसुः || ७२ ||

यावत्पुत्रा नियुध्यन्ति विशुक्रस्तावदाशु वै |
छन्नरूपः ऽऽयामलाय रथपार्ष्णिं समासदत् || ७३ ||

तत्र चोरवदायान्तं गदाहस्तं महाबलम् |
दृष्ट्वा लघुश्यामलाख्या सन्निधानं समागतम् || ७४ ||

मन्त्रेश्या रथवर्यन्तमारुरुक्षन्तमञ्जसा |
जघान मूर्घ्नि तरसा खड्गेनाऽतिबलीयसा || ७५ ||

खड्गप्रपाततस्तस्य मुकुटं शकलीकृतम् |
विशुक्रो भ्रष्टमुकुटः क्रोधारुणितलोचनः || ७६ ||

गदामादाय वेगेन हन्तुं तामभिसंययौ |
तावच्छरेण दैत्यस्य गदां चिच्छेद सप्तधा || ७७ ||

निरायुधो विशुक्रोऽपि मुष्टिना रथवाजिनाम् |
तस्या जघान तावत् सा प्राहरन्मूर्घ्नि सायकैः || ७८ ||

सायकैर्विदलन्मूर्धा पपात भुवि मूर्छितः |
ईशत्प्रज्ञस्तावदेनं ग्रहीतौं लघुश्यामला || ७९ ||

रथादवप्लुत्य शीघ्रं भाहुभ्यां तं परामृशत् |
प्रतिबुद्धस्तावदसौ मत्वा स्वस्य हि बन्धनम् || ८० ||

मुष्टिनाऽभ्यहनद्देवीं साऽपीषत्कश्मलं ययौ |
तावज् ज्ञात्वा रथस्थानाः शक्त्यो रिपुमन्तिके || ८१ ||

कोटिशस्तं समुत्पेतुर्वाहिनी शक्त्योऽपि च |
तावन्मत्वा शक्तिगणं दुसहं दैत्यशेखरः || ८२ ||

उत्प्लुत्य स्वरथं प्राप्तो दैत्यसेनामुखस्थितम् |
तत्र दृष्ट्वा म्र्टान् पुत्रान् शोकसंविग्नमानसः || ८३ ||

बिल्स्प्यस् किञ्चिदत्यन्तरोषारुणितलोचनः |
प्रज्वलन् शक्तिसेनां तां विधमच्छरवर्षणैः || ८४ ||

दृश्त्वा विशुक्रं शक्तीनां सेनाप्राणाऽपहारिणम् |
मन्त्रिणी सायकाऽसारैर्धनुर्जीमूतनिऽसृतैः || ८५ ||

ववर्ष नीलशैलोश्चशृङ्गं पर्जन्यवद्भृशम् |
तीक्ष्णसायकधाराभिर्विशुक्रोऽत्यन्तविक्षतः || ८६ ||

देहक्षतेभ्योऽतितरामसृग्धारां मुमोच वै |
नीलाद्रिर्वृष्टिधाराभिर्गैरिकारसवत्क्ष्णम् || ८७ ||

मन्त्रिण्या गाढसंविद्धो रोषात् प्रज्वलीताऽकृतिः |
विचित्रशस्त्रशलभैराच्छादयत मन्त्रिणीम् || ८८ ||

विरेजे मन्त्रिणीच्छन्ना दैत्यशस्त्रमधुव्रतैः |
तमालमञ्जरीवाऽतिमकरन्दसुबृंहिता || ८९ ||

क्षणेन दैत्यशस्त्राणि निवार्य शरवर्षणैः |
आकार्णपूर्णभल्लेन धनुर्ज्यामाच्छिनद्द्रुतम्|| ९० ||

यावज्ज्यामपरां चापे निवेशयितुमीहते |
तावत्तिक्ष्णपृषत्केन मुष्टिदेशे जघान तम् || ९१ ||

गाढबिद्धदैत्यमुष्टेर्दैत्यस्य धनुरापतत् |
पतितं धनुरादातुं यावन्नम्रो महासुरः || ९२ ||

तावदन्येनाऽभिहनत् पत्रिणा मूर्घ्नी |
स तावदिषुणा भिन्नमूर्धा गाढसुमूर्च्छया || ९३ ||

अपतत् स्वरथोपस्थे वज्राहत इवाऽद्रिराट् |
अथ क्षणेन मन्त्रिण्या नाशितं दैत्यवाहनम् || ९४ ||

सारथिश्छ्त्रमुकुटे शस्त्रसङ्घ्ं शरैः पृथक् |
तावन्मूर्च्छाविनिर्मुक्तो ददर्शाऽहवसाधनम् || ९५ ||

साकल्येन विनश्टं तत् क्रुद्ध उत्प्लुत्य तां रुषा |
शीर्ण रथाङ्गमादाय निहन्तुमुपसंययौ || ९६ ||

तावद्दक्षभुजेऽत्यन्तवेगाच्छरमपातयत् |
शरेणाऽभिहताद्धस्ताद्रथङ्गं प्रापतत् क्षितौ || ९७ ||

ततो मुष्टिं समुद्यम्य रथ आप्लुत्य सत्वरम् |
मन्त्रिणीहस्तगं चाप्रं भङ्क्तुं यावत् समाच्छिनत् || ९८ ||

तावत्तिक्ष्णाऽसिन कायाच्छिरस्तस्य निपतयत् |
दृष्ट्वा विशुक्रं निहतं विद्रुता दैत्यवाहिनी || ९९ ||

परिशिष्टाऽतिवित्रस्ता शस्त्राण्युत्सृज्य सर्वतः |
जयशब्दं शक्तिगणाश्चक्रुर्देवमुखा अपि || १०० ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे ललितामाहात्म्ये विशुक्रवधवर्णनं नाम चतुःसप्ततितमोऽध्यायः || ६१६६ ||

पञ्चसप्ततिमोऽध्यायः विषङ्गवधवर्णन्म्

Kapitel 75

विषङ्गेनाऽपि वाराही सङ्गता समरे यदा |
तदा दैत्यशक्तिचम्बोरभवद्भैरवो रणः || १ ||

शक्तीनां खड्गचक्राऽसिपरिघप्रासतोमरैः |
बटुकानां त्रिशुलाद्यर्देत्या भूयोऽभिविक्षताः || २ ||

तिलशः छिन्नवर्ष्माणि जहुः प्राणान् रणाऽजिरे |
दृष्त्वा दैत्यचमूं शक्तिगणैः प्रायो विनाशिताम् || ३ ||

क्रुद्धाऽभिदुद्रुवुः शक्तिचमुः पर्वतसन्निभाः |
विषङ्गपुत्राः प्रोद्दण्डविक्रमा वीर्यवत्तरा || ४ ||

करालवक्त्रो विशिखो विभाण्डो विकटेक्षणः |
इन्द्रशत्रुः सुराऽरातिर्महाकुक्षिर्मदोद्धतः || ५ ||

एतेऽष्तौ भीमबलिनो शक्तीर्जघ्नुः समन्ततः |
तैर्हन्यमानां तां शक्तिवाहिनीमभिवीक्ष्य तु || ६ ||

अभ्याययुस्तान्नियोद्धुं जम्भिनी स्तम्भिनी तथा |
अन्धिनी मोहिनी चैव भैरवः कालकर्षिणी || ७ ||

स्वप्नेश्वरी च बटुक इत्यटौ सुविभीषणाः |
करालवक्त्रिण युधि जम्भिनी सङ्गताऽभवत् || ८ ||

युद्ध्वा चिरं तथा साकं शस्त्रास्त्रैर्दैत्यपुङ्गवः |
गदयाऽभिजधानाऽशु वराहं शक्तिवाहनम् || ९ ||

ताडितो जम्भिनीवाहो शूकरो भिन्नमस्तकः |
ईषत् पपात पुरतो जानुभ्यामवनिङ्गतः || १० ||

तावत्क्रुद्धा जम्भनी च खड्गेन शिर आहरत् |
विशिखः स्तम्भनीं प्राप्य युयोधाऽतिबली दृढम् || ११ ||

स्तम्भिनी हरिणाऽरुढा विशिखैर्विशिखं त्रिभिः |
जघान तैर्मूघ्नि लग्नैर्विशिखोऽतिव्यराजत || १२ ||

त्रिशृङ्ग इव दैत्येन्द्रः सुस्राव बहुशोणितम् |
सोऽपि क्रुद्धोऽतिवेगेन तीक्ष्णधारेण कर्णिना || १३ ||

धनुर्ज्यामाच्छिनद्भूयो विकीर्य निशितैः शरैः |
तावत्क्रुद्धा स्तम्भिनी च गार्ध्र्पत्रेण् तेजिना || १४ ||

तद्वाहनोऽट्रमनयच्छित्त्वाऽन्तकपुरं प्रति |
अथ तस्य क्षणेनैव निशितैर्विसिखैस्त्रिभिः || १५ ||

निषङ्गं मुकुटं चापं चिच्छेद युगपद्युधि |
स छिन्नधन्वाऽतिरुषा त्रिशूलमतिभास्वरम् || १६ ||

स्तम्भिनीं प्रतिचिक्षेप तावत् सा लघुविक्रमा |
छित्त्वा त्रिशूलं भल्लेन शिरो दैत्यस्य पातयत || १७ ||

अन्धिन्या युयुधे तत्र बिभाण्डो बलगर्वितः |
शस्त्रैरस्त्ररनेकैश्च कृतप्रतिकृतैररम् || १८ ||

अन्धिनी महिषाऽरुढा विभाण्डः खरवाहनः |
चिरां युद्ध्वा तेन तत्र कर्णान्ताऽकृष्टपत्रिणा || १९ ||

जघान दैत्यमुरसि तथा विद्धो विभाण्डकः |
पपात मूर्च्छितो गाढं छिन्नपक्ष इवाऽद्रिराट् || २० ||

अथ तद्वाहनः खरो पर्वताभोऽतिधूसरः |
द्वाशब्दं भीषणं कृत्वा समुन्नम्य च बालधिम् || २१ ||

निविष्टः शक्तिसेनासु संस्तब्धाङ्गरुहो बली |
काश्चित्प्रत्यक्पादघातैर्दशनैश्चाऽवधूननैः || २२ ||

अन्याः स्वगतिवेगेन खरः शक्तीर्निपातयत् |
एवं शक्तीर्विनिघ्नन्तं खरं दृष्ट्वाऽन्धिनी तदा || २३ ||

शरेणाऽकर्णपूर्णेन जघानाऽतिरुषाऽन्विता |
स विद्वस्तीक्ष्णबाणेन मूर्च्छितः प्रपतद्भुवि || २४ ||

तावन्मूर्च्छाविनिर्मुक्तो विभाण्डोऽत्यन्तरोषितः |
वेगेन गदया तस्या वाहनं ताडयद्बली || २५ ||

अन्धिनीवाहमहिषस्ताडितो गदया भृशम् |
विद्रुत्य मन्युज्वलितस्तं शृङ्गाभ्यां समाक्षिपत ||

विभाण्डो महिषाऽक्षिप्त आकाशं प्राप्य वेगतः |
परतो योजनाद्भूमौ पपात सुविमूर्च्छितः || २७ ||

तावदभ्याययौ तस्य वाहो रासभशेखरः |
मुञ्चन् सुशीघ्रं क्वाशब्दं सघर्घरमहारवम् || २८ ||

आगत्य महिषं भूयः परावृत्य सुवेगतः |
पाश्चात्यपादघातेन सन्ताड्य बलवत्तरम् || २९ ||

ददंश तं पुनः कण्ठे तावत् क्रुद्धः स सैरिभः |
शृङ्गाभ्यां दारयत् कुक्षिं भूमावास्फाल्य वेगतः || ३० ||

निर्गताऽन्त्रः खरो मृत्युं प्राप निर्यातितेक्षणः |
विमूर्च्छस्तावदभ्येत्य विभाण्डोऽभिहनत् पदा || ३१ ||

महिषं तावदिषुणाऽन्धिनी दैत्यस्य मस्तकम् |
अपाहरदतिक्रोधात् कृत्तमूर्द्धाममार सः || ३२ ||

युयोध मोहिनी दैत्यं शस्त्रस्त्रैर्विकटेक्षणम् |
मोहिनी गरुडारुढा गृघ्रस्थो विकटेक्षणः || ३३ ||

सुपर्णगृघ्रयोर्भीममासीइद्युद्धं नभोऽङ्गणे |
सपक्षयोः पर्वतयोरिवाऽत्यन्तविचित्रितम् || ३४ ||

तदा सुपर्णपक्षाभ्यां प्रोथितो गृघ्रशेखरः |
नखैस्तुण्डैर्दारिताण्गो ममार पतितोऽवनौ || ३५ ||

विकटाक्षो हते वाहे क्रुद्धो युद्ध्वा चिरं तया |
मोहिनीचक्रसम्च्छिन्नगलो मृत्युमुपागतः || ३६ ||

इन्द्रशत्रुः सर्पसंस्थो भैरवेणाऽभिसङ्गतः |
स्ववाहेनाऽतिभीमेन युयोधाऽत्यन्तसाहसी || ३७ ||

भैरवः कालमेघाभः स्वसमाकारभैरवैः |
कोटिसङ्ख्यागणयुतैरष्टभिः सेवितोऽनिशम् || ३८ ||

सर्वे त्रिशूलदण्डाढ्यास्त्रिणेत्राश्चन्द्रशेखराः |
कालमेघनिभाः सर्पभूषणाः कृत्तिवाससः || ३९ ||

इन्द्रशत्रोश्चमूं भीमां दशाक्षौहिणीसम्मिताम् |
निविश्य ते निमेषेण निःशेषाञ्चक्रुरोजसा || ४० ||

केचिच्छूलेषु सम्प्रोताः केचिद्दण्डैर्विदारिताः |
केचिन्नखैः पाटिताण्गाः केचिन्मुष्टिभिराहताः || ४१ ||

दधुर्दैत्याऽन्त्रमालां ते बैरवाणां गणास्तदा |
एवं दृष्ट्वा प्रनष्टां स्वामिन्द्रशत्रुश्चमूं रुषा || ४२ ||

गदया भैरवगणं मर्दयामास सर्वतः |
एवं गणानर्द्यमानान् वीक्ष्य दैत्येन संयुगे || ४३ ||

मन्थानाद्यपराह्वाना असिताङ्गादिभैरवाः |
इन्द्रशत्रुं पर्वताभं युयुधुः सर्पवाहनम् || ४४ ||

तान् योधयामास दैत्यः सर्वानेको रणाऽजिरे |
वज्रसंहनं तस्य शूलदण्डप्रपातनैः || ४५ ||

अक्षतं सर्वथा यद्वद्गण्डशैलः फलैर्हतः |
तं दृष्ट्वा विरुजं दैत्यं भैरवाणां भयङ्करम् || ४६ ||

युयुधे तेन समरे भैरवाणामधीऽऽश्वरः |
युद्ध्वा चिरमुत्पतन्तं गदया हन्तुमम्बरम् || ४७ ||

आविध्या हृदि शूलेन भुवि तं व्यसुमाक्षिपत् |
युद्ध्वा सुराऽरातिरपि कालकर्ष्णिकाऽह्व्याम् || ४८ ||

काकसष्थो लुलायाऽधिरुढया सुचिरंअ बली |
तच्छक्तिगणनिःशेषीकृतदैत्यमहागणः || ४९ ||

तदङ्कुशप्रहारेण भिन्नमूर्धा ममार ह |
स्वप्नेश्या युयुधे दैत्यो महाकुक्षिर्वृकाश्रयः || ५० ||

रथाधिरुढया सेना नाशिता शक्तिसङ्घकैः |
चिरं योधयतस्तस्य महाकुक्षेर्बलीयसः || ५१ ||

विदार्य कुक्षिं खड्गेन नाशयद्दत्यपुङ्गवम् |
मदोद्धतोऽपि बटुकभैरवेऽ सुसङ्गतः || ५२ ||

बटुकैः स्वसमाकारैर्दशकोटिमितैस्तथा |
महाकपालदण्दाढ्यैः सर्पभूषणसंयुतैः || ५३ ||

पञ्चहायनकैर्मत्तैर्दिग्वस्त्रैररुणेक्षणैः |
तमस्तोमनिभैश्चन्द्रचूडैर्युक्तेन सर्वतः || ५४ ||

दशाक्षौहिणिकायुक्तो युयोधाऽतितरां बली |
बटुकानां गणाः क्रुद्धा निविश्याऽसुरवाहिनीम् || ५५ ||

दण्डैर्निहित्य तरसा नाशं निन्युर्यथाऽशु नः |
अथ क्रुद्धं दैत्यपतिं निपतन्तं गदाधरम् || ५६ ||

बटुकेशो जघानोश्चैर्मूर्घ्नि दण्डेन लीलया |
दण्डाऽहत्या दलन्मूर्धा वमन् रक्तं सफेनिलम् || ५७ ||

पतित्वाऽशु विनिश्चेष्टो ममाराऽसुरशेखरः |
एवं विषङ्गः पुत्रेषु नष्टेष्वत्यन्तदुःखितः || ५८ ||

क्रोधमाहारयत्तिव्रं विंशत्यक्षौहिणीयुतः |
निपपातैकपातेन प्रलयाऽनिलवज्जवात् || ५९ ||

किरिचक्रोपरि तदा ध्वनद्वादित्रनिःस्वनः |
शस्त्रधारां विमुञ्चन् वै कुर्वन् सतिमिरा दिशः || ६० ||

ज्वलद्वह्निमहाकूटे शलभानां गणा इव |
अथ जम्भिनिमुख्याभिर्नाशिता क्षणमात्रतः || ६१ ||

विषङ्गसैन्यं शस्त्राग्निज्वालाभिः शलभानिव |
केचित्त्रिशूलस्फुटितहृदया जीवितं जहुः || ६२ ||

परे दण्डविकीर्णाङ्गा अन्ये परिघप्रोथिताः |
अपरे सायकैश्छन्ना ततोऽन्ये मुष्टिदारिताः || ६३ ||

ख्ड्गच्छिन्नाङ्घ्रिबाहूरुकन्धराद्या अपीतरे |
केचिच्छस्त्रौघसम्पातशकलीकृतदेहकाः || ६४ ||

एवं विनष्टे सैन्ये स्वे विषङ्गः क्रोधमूर्च्छितः |
निहत्य गद्या शक्तिसेनां भित्त्वा ह्यशेषतः || ६५ ||

दण्डराज्ञीरथवहं महिषञ्च मृगाधिपौ |
गदयैव हि सन्ताडय रथराजं समारुहत् || ६६ ||

आरोहन्तं रथं वेगाद्विषङ्गं वीक्ष्य सर्वतः |
शक्तिसेनासु समभूद्धाहाऽकारमहाध्वनीः || ६७ ||

रथर्वस्थिताः शक्तीरपि सम्मर्द्य वेगतः |
चतुर्थपर्वाऽन्तरालं प्राविशत् सत्वरं बली || ६८ ||

दण्डराज्ञपि तं दृष्ट्वा दैत्यमायन्तमन्तिकम् |
अवरुह्य युयोधोश्चैर्मुसलेन स्वपर्वतः || ६९ ||

तत्राऽभवन्महायुद्धं दण्डिनीदैत्यराजयोः |
शस्त्रैर्विचित्रैरस्त्रैश्च सर्वलोकभयङ्करम् || ७० ||

ज्ञात्वाऽजेयामस्त्रशस्त्रैर्दण्डिनीं दैत्यपुङ्गवः |
मायां प्रादुश्चाकारोच्चैः सर्वलोकभयावहम् || ७१ ||

अन्धकारं पांशुवर्षमश्मवर्षं महारवम् |
अग्निवर्षं रक्ताऽमेध्यादिवर्षणम् || ७२ ||

मुण्डवृष्टिं महाभीमामथ दैत्यमहाचमूम् |
सहस्रपादबाह्वास्यमात्मानं शतधाऽपि च || ७३ ||

तादृष्या मायया तस्य भीतास्ताः सर्वशक्त्यः |
भीताः शक्तिः समालोक्य दण्डिनी शरवृष्टिभिः || ७४ ||

व्यनाशयन्मायिकांस्तानथ भूयोऽपि दैत्यराट् |
मायां ससर्ज महतीं ददृशुः सर्वशक्त्यः || ७५ ||

चक्रजाररथं तत्र समायान्तं द्रुतं तथा |
स्वयं वाहान्निहत्याऽशु रथं छित्त्वाऽप्यनेकधा || ७६ ||

जवेन देवीं ललितां केशपाशे परामृशत् |
चुक्रुशुर्मायया तस्य हाहेत्युश्चैस्तु शक्त्यः || ७७ ||

तावच्छ्रीभैरवो देवीं बभाषे रथनायकः |
अलं दैत्येषु ते देवि लीलया भीतिदानया || ७८ ||

पश्य शक्तीर्भयाऽक्रान्ताः शोचन्तीः सर्वतः शिवे |
निर्मायाऽस्त्रेण दैतेयं विमायं नाशय द्रुतम् || ७९ ||

सन्ध्या समभ्येति पुरस्तस्यां माया दुरत्यया |
रथनेतुर्वचः श्रुत्वा मत्वा युक्तञ्च दण्डिनी || ८० ||

निर्मायाऽस्त्रं समुत्सृज्य मायां तस्य व्यनाशयत् |
वायुनेव च नीहारो नष्टा माया च सर्वतः || ८१ ||

तदा गदाधरो भूयो ददृशे सम्मुखागतम् |
दृष्ट्वैव तं दण्डिनी साक्रुद्धा खड्गेन तच्छिरः || ८२ ||

चकर्त निमिषार्धेन वज्रेण त्वाष्ट्रकं यथा |
एवं तस्मिन् विनिहते विषङ्गे भीमविक्रमे || ८३ ||

देवदुन्दुभयो नेदुरपतत्पुष्पवर्षणम् |
दिशो वितिमिरा जाताः सुप्रभश्च दिवाकरः || ८४ ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे ललितामाहात्म्ये विषङ्गवधवर्णनं नाम पञ्चसप्ततितमोऽध्यायः || ६२५० ||

षट्सप्ततितमोऽध्यायः भण्डद्रारा स्वेष्टप्राप्त्या सण्तोषभाववर्णनम्

Kapitel 76

एवं विषङ्गे निहते जयशब्दो महानभूत् |
मुदिताः शक्त्यः सर्वास्तुष्टुवुर्दण्डनायिकाम् ||१||

भ्रातरौ सपरीवारौ श्रुत्वा युधि निपातितौ |
शोककातरतां प्राप मोहेनेषन्महासुरः || २ ||

विमृश्याऽथ शुचं हित्वा स्वमात्मानं हसन्निव |
अहो मां किं वदामीह शोचन्तं मुक्तभावतः || ३ ||

यदर्थितं जगन्मात्रा चिरं तन्मे प्रपूरितम् |
एवं सा पूरयेच्छेषमाशु नास्त्यत्र संशयः || ४ ||

तद्व्रजामि शेषगणैः श्रिमातुर्दृष्टिगोचरम् |
विलम्बेन ममाऽत्राऽलं श्रेयो विघ्नैर्हि सङ्कुलम् || ५ ||

अहो लोके सर्वथैव एकान्तेनाऽभियाचितम् |
दिशत्येव पराम्बा सा भावरूपा हि कामधुक् || ६ ||

एवं स्वान्तः समासीनां वाञ्छाऽधिकफलप्रदाम् |
परमानन्दजननीं हित्वा दैवहतो जनः || ७ ||

दुःखसाराऽल्पविषयप्रेप्सया भीमरूपया |
नीयते व्यर्थमनिशं मृत्योर्भक्ष्योपसेकताम् || ८ ||

धन्योऽहं कृतकृत्योऽहं यच्छ्रीदेवीपदाम्बुजम् |
समीक्षन् कश्मलममुं विमुच्य हतदेहकम् || ९ ||

विशोकं परमं स्थानं समुपैम्यविशङ्कितम् |
इति सञ्चिन्त्य दैत्येन्द्रः स्वान्तरस्याऽभिगुप्तये || १० ||

भृत्वाऽत्यन्तं क्रुद्ध इव संयोज्याऽसुरवाहिनीम् |
निऽह्शेषाम् तरसा युक्तस्तया युद्धाय दंशितः || ११ ||

रथमारुह्य साहस्रसिंहवाहं महोन्नतम् |
श्वेतमुक्ताऽतपत्रेण वीज्यमानश्च चामरैः || १२ ||

युक्तः सेनेश्वरैः पञ्चाशत्सङ्ख्याकैर्बलोद्धतैः |
नदद्वादित्रविपुलैरास्फोटाऽरवबृंहितैः || १३ ||

रथनेमिनदीघोषैर्ह्नेषितप्रायमांसलैः |
रथवाहनसिहानां गर्त्जितैः पूरयन् जगत् || १४ ||

निर्ययौ जैत्रयात्रार्थं चालयन्निव मिएदिनीम् |
अथाऽपऽऽयच्छक्तिसेना भण्डसेनामहार्णवम् || १५ ||

अपारमप्रधृष्यञ्च भीमं गम्भीरनिःस्वनम् |
तत्र मन्त्रमहाराज्ञीं भण्डं युद्धाय सङ्गतम् || १६ ||

आलक्षय श्रीमहाराज्ञीं नत्वा वृतं व्यजिज्ञपत् |
देवि भण्डः स्वयं प्राप्तो योद्धुमत्यन्तसंयुतः || १७ ||

सर्वसेनासमायुक्तः सर्वसेनाधिपैरपि |
जैत्रयात्रा भवत्याश्च युक्ताऽत्र यदि मन्यसे || १८ ||

विज्ञापितैवं मन्त्रिण्या युक्तं तश्चाप्यमंसत |
अथाऽभवच्छक्तिसेना सन्नद्धा निमिषाऽर्द्धतः || १९ ||

अश्वारुढाऽश्वसेनाभिः सेनामुखमधिष्ठिताः |
गजाऽनीकस्वामिनी सा तत्पश्चात् सम्पदीश्वरी || २० ||

ततो बाला रथाऽरुढा कुमारीगणसंवृताः |
तदनु प्रचचालाऽजा चक्रराजमहारथः || २१ ||

नमपर्वसमायुक्तो ह्यणिमाद्याभिरावृतः |
मुक्ताच्छत्रमहोन्नम्रः पद्मकेतुध्वजोच्छ्रयः || २२ ||

नवरत्नसमाकीर्ण इन्द्रियात्माऽश्वयोजितः |
वाहयन्ती तं रथेन्द्रं महात्रिपुरसुन्दरी || २३ ||

चक्रेश्वरी विवेकात्मतोदहस्ता व्यराजतः |
चक्रराजशताऽङ्गस्य वामदक्षिणभागयोः || २४ ||

किरिगेयचक्ररथौ व्यराजेतां महोन्नतौ |
दण्डिनीमन्त्रिणीभ्यां तौ दंशिताभ्यामधिष्ठितौ || २५ ||

स्वस्वसेनासमायुक्तौ युद्धसम्भारसम्भृतौ |
तिरस्कृतिश्चक्रराजरथपृष्ठं समाश्रिता || २६ ||

तिमिरौघनिभाऽत्युश्चतुरङ्गममधिष्ठिता |
उत्खातवेल्लदत्यन्तकरालकरवालिनी || २७ ||

स्वसमाकारशक्त्यौघमण्डलीकृतमण्डला |
एवं श्रीललितादेवी सेनया सह निर्ययौ || २८ ||

युद्धाय कृतसन्नाहा संस्तुता विबुधेश्वरैः |
सेनयोरुभयोरश्वरथेभपदचारिणाम् || ३० ||

पादवेगाभिसङ्घातप्रांशुपांशुसुसंहतिः |
जनयद्गाढतिमिरं दार्शनैशमिव मही वा सैन्यमर्दिता || ३२ ||

क्लेशात् प्राप्ताऽतिकृशतां भीत्या नाथमुपेयुषी |
तथा रजोमहासंघवेगोद्र्ध्वगतिहेतुतः || ३३ ||

भुम्यभावादधो वेगात् सेना यान्तीव लक्ष्यते |
इत्यादि तर्कमापन्ना वैमानिकगणास्तदा || ३४ ||

अथाऽभवन्महद्युद्धं सेनायोः शक्तिदैत्ययौः |
नदत्सु युद्धवाद्येषु युक्तेष्वास्फोटगर्जनैः || ३५ ||

शरशक्त्यृष्टिशूलाऽसिपट्टासिप्रासतोमरैः |
गदाचक्रभिन्दिपालपरिघाङ्कुशयष्टिभिः || ६६ ||

निरन्तरमभूद्व्याप्त्या प्रयुक्तैः सन्ययुग्मकम् |
हताः स्मः सर्वथाऽस्माकं शोकः पुत्रादिनाशतः || ३७ ||

प्राप्तः किं जीवितेन स्याच्छत्रुभिर्निर्जिताऽत्मनाम् |
विक्रम्य युधि जित्वेमाः शक्तिः प्राप्स्याम् आशिषम् || ३८ ||

अन्वथा निहता युद्धे वसामो नन्दने वने |
इति निश्चित्य ते दैत्त्या युयुधुर्बलवत्तरम् || ३९ ||

शक्त्योऽप्येष दैत्यानामवधिः सर्वथा त्विमान् |
हत्वा जयं परमकं प्राप्स्यामोऽद्यैव सर्वथा || ४० ||

इति मत्वाऽतिवेगेन युयुधुर्वीर्यवत्तराः |
एवं नियुध्यमानेषु शक्तिभिर्दितिजेष्वथ || ४१ ||

परस्परं शस्त्रहताः पेतुर्विगतजीवनाः |
देचिज्जालीकृताऽङ्गास्तु शरजालैर्गताऽसवः || ४२ ||

युद्धव्रतस्येव सिद्ध्या सहस्राक्षात्मतां ययुः |
केषाञ्चित् खड्गघातेन शिरश्चटिति चोत्पतत् || ४३ ||

राहोः शिर इवाऽकाशे व्यात्ताऽस्यं ग्रसितुं रवेः |
पेषिता मुद्गराघातैश्चक्रर्मध्ये विदारिता ः || ४४ ||

प्रोता दीर्घेषु भल्लेषु सङ्घाशस्तत्र केचन |
शरैः शिरांसि कृत्तानि गगने यान्ति वेगतः || ४५ ||

प्रवृद्धकाकपक्षाणि चलत्पक्षिगणा इव |
विकीर्णाङ्गैश्चिता युद्धे भूमिर्विरुरुचे तदा || ४६ ||

पटे विलिखितानीव प्रतिमाङ्गान्युपक्रमे |
असृग्वहा ववौ तत्र चित्रकारप्रमादतः || ४७ ||

स्खलितो ह्यालक्तक इव क्वचिच्छोषं समागता |
चित्रकारेण झटिति प्रमृष्ट इव भाषते || ४८ ||

शरविद्धा गतप्राणास्तस्थुः केचित् क्वचित् क्वचित् |
समग्रलिखितानीव चित्रा.इ ददृशुर्ननु || ४९ ||

एवं मुहूर्तमात्रेण भण्डदैत्यमहाचमूः |
ननाशाऽसद्य शक्तीनां सेनाग्निं शलभो यथा || ५० ||

अथ सेनाऽधिपास्तस्य क्रोधारुणितलोचनाः |
शक्तिसेनां शस्त्रवर्षैरर्द्दयामासुरुश्चकैः || ५१ ||

दृष्ट्वा सेनाधिपैः सेनामर्दितामतिविह्वलाम् |
मन्त्रिणी दण्डिनी चाऽश्वारुढा सम्पदधीश्वरी || ५२ ||

परिवारशक्तियुक्ता युयुधुर्मन्युदीपिताः |
ता युध्ध्वा सुचिरं दैत्यैः सिनाधीशैर्महाबलैः || ५३ ||

प्रसह्य नाशयामासुः सर्वान् सेनापतीन् हि ताः |
वक्राक्षं वामनं तालं दीर्घनसं (घोणं?) सुबाहुकम् || ५४ ||

विद्युज्जिह्वञ्च समरे नाशयत्तुरगाश्रया |
सम्पत्करी तालजङ्घं कुटिलाक्षं रणोद्धतम् || ५५ ||

निशठं शम्बरं क्रूरं चकार व्यसुमाहवे |
जम्भनी क्रूरवदनं स्तम्भिनी सुचिकामुखम् || ५६ ||

अन्धिनी कण्ठककरं मृगवक्त्रञ्च मोहिनी |
कालकेयं भैरवोऽपि व्याघ्रास्यं कालकर्षिणी || ५७ ||

स्वप्नेशी मुण्डमूर्धानं वटुको भण्डाभाषणम् |
उम्लुकं करभाऽस्यञ्च महाकुक्षिं शिवारवम् || ५८ ||

शोणिताऽक्षम् तालकेतुं तालग्रवं महाहनुम् |
गृघ्रवाहं काकमुखं दण्डिनी नाशयद्युधि || ५९ ||

शुकश्यामा शारिकाऽख्या सङ्गीता लघुपूर्विका |
साहित्यशयामला चेति निकुम्भं कुम्भमस्तकम् || ६० ||

चक्राक्षं दीर्घदंष्ट्रञ्च नाशयामासुरुल्बणकम् |
कटङ्कटं करञ्जाऽक्षं मुण्डं चण्डं कृकाऽननम् || ६१ ||

सालसीरं द्विशृङ्गञ्च शुनकं सूर्प्कर्णकम् |
वक्रकुक्षिं वाममुखं कालकं कोटरं विटम् || ६२ ||

मन्त्रिणी नाशयामास बलादाक्रम्य दानवान् |
एवं निःशेषतः सेनासेनपेषु हतेष्वथ || ६३ ||

भण्डो हृष्टमनाः प्राह सारथिं रथ आस्थितः |
रथं प्रापय मे शीघ्रं सारथे शक्तिवाहिनीम् || ६४ ||

पश्याऽद्य मम वीर्यं त्वं विचित्रं रोमहर्षणम् |
श्रुत्वा वाक्यं दैत्यपतेर्वाहयन् रथमाशु सः || ६५ ||

सन्दिहानो दैत्यपतिं पप्रच्छ प्रणतस्तदा |
दैत्येश्वर ! त्वयाऽज्ञ्प्तः किञ्चित्प्रष्टुं समीहितम् || ६६ ||

तद्देहि प्रणताय त्वं सन्दिहानोऽस्मि सर्वथा |
इति पृष्टेन चाज्ञप्तो प्राह दैत्येन सारथिः || ६७ ||

दैत्येश्वरैतां शक्तीनां सेनां मन्येऽपराजयाम् |
विशुक्राद्या यया युद्धे हता लीलाविलासतः || ६८ ||

अथ त्वामभिपश्यामि हतभ्रातृसुतादिकम् |
हृष्टाऽन्तरम् शोकलेशाऽस्पृष्टं प्रव्रजितं यथा || ६९ ||

बालया सह ते युद्धे पूर्वं समभिलक्षिता |
भक्तिर्देव्यामतितरां तन्मे ब्रूहि यथातथम् || ७० ||

एवं पराभवं दुःखगेतावतिभयङ्करे |
न शोकं नाऽपि भीतिं वा लक्षये तव लेशतः || ७१ ||

इति भूयः सुपृच्छन्तं दैत्यं तं चिरसेविनम् |
प्राह भण्डः स्मयन् किञ्चित्च्छृणु दैत्येत्युपाक्रमन् || ७२ ||

एषा या ललिता देवी सा परात्परमा शिवा |
एतया निहतो युद्धे प्राप्स्याम्यत्युत्तमम् फलम् || ७३ ||

तल्लोकं शोकरहितमभयं सर्वतः सुखम् |
एमं लोकं सशोकं वै सभयं दुःखमात्रकम् || ७४ ||

मायया मोहितो जन्तुर्मन्यतेऽत्युत्तमं मुधा |
तत्राऽप्यासुरलोको वै राजसोऽतिभयङ्करः || ७५ ||

इमं वरं यो मनुते समुग्धपशुकः स्मृतः |
अहं श्रीपद्मसंस्थानो दूतो माणिक्यशेखरः || ७६ ||

स्वकर्मपाकवशत एतां प्राप्तोऽवरां दशाम् |
तथाऽपि कृपया देव्या मां स्मृतिर्नो जहाति वै || ७७ ||

एषा सर्वेश्वरी देवी ब्रह्मादिजननी परा |
एतया निहता युद्धे भ्रातरो मे सुता अपि || ७८ ||

शस्त्राग्निपावितास्तस्या लोकं प्राप्ताः परात्परम् |
मया सह त्वमप्याशु तल्लोकं प्राप्य भ्रातृभिः || ७९ ||

पुत्रैः समेष्यसि पुनस्ततो यास्यमृताङ्गतिम् |
इति श्रुत्वा भण्डवचो विष्मितोऽभूत् ससारथिः || ८० ||

संश्लाध्य दैत्यराजं तं जहौ शोकं स्वहृद्गतम् |
दृष्ट्वा श्रीललितामग्रे नमश्चक्रे सुभक्तितः || ८१ ||

इति श्रीत्रिपुरारहस्ये माहात्म्यखण्डे ललितामाहात्म्ये ललिताभण्डसमागमे दैत्यराजभण्डद्वारा श्रीदेवीभक्तिरहस्यप्रकटनं नामषट्सप्ततितमोऽध्यायः || ६३३१ ||

सप्तसप्ततितमोऽध्यायः भण्डासुरवधवर्णनम्

Kapitel 77

अथ युद्धे सम्पदीशीमश्वारुढाङ्~च दण्डिनीम् |
मन्त्रिणीञ्च समासाद्य युद्धकौशलमुल्वणम् || १ ||

प्रदर्श्य ताः सुसन्तोष्य क्रमात् प्रोवाच सङ्गरे |
देव्यो वो युद्धचातुर्यविक्रमैस्तोषितोऽस्म्यहम् || २ ||

योद्धुमुत्कण्ठितं चित्तं स्वामिन्या च इमं क्षणम् यूयं समीक्षकाः सर्वास्तया मे युद्धकर्मणि || ३ ||

ममैष लज्जितो बाहुर्युद्धे चेटीगणैः सह |
तस्या पदं विनिर्जित्य युद्धे वोऽभिजयम्यनु || ४ ||

तन्मे प्रयाचतोऽस्त्वेवं इति तस्य वचस्तदा |
निशम्य देव्यो मत्वा चाऽजेयं स्वीयपराक्रमैः || ५ ||

उचितञ्च महादेव्या दैत्येशस्य पराजयम् |
ददुर्मार्गं नियुद्धाय महाराज्ञ्याऽसुरस्य विअ || ६ ||

अथ श्रीचक्रराजाख्यं रथमासाद्य सङ्गरे |
समारभद्भण्डदैत्यो युद्धमत्यद्भूतं तदा || ७ ||

तत्र शक्तिमहासैन्यम भूद्युद्धसमीक्षकम् वैमानिकैर्देवगणैः सिद्धैरॄषिगणैस्तथा || ८ ||

प्रेक्षणायाऽगतैः सर्वं व्याप्तमासीन्नभस्तदा |
भण्ड आसाद्य ललितां पुरो दृष्ट्वाऽतिहर्षितः || ९ ||

मनसाऽभिनमश्चक्रे भवत्य तदनुसत्वरम् |
विव्याध पञ्चभिर्बाणैस्तदद्भुतमिवाऽभवत् || १० ||

तत्र द्वयं सुकुसुमनिचयं पादयोः पतत् |
तृतीयं कण्ठदेशेऽभून्मालिका फुल्लपाङ्कजी || ११ ||

ततः परं मूर्ध्न्यपतत्पुष्.पवर्षणरूपतः |
अन्त्यं रत्नमयं मूर्घ्नि भूषणं मुकुटे स्थितम् || १२ ||

एवं तद्विहितां पूजां दृष्ट्वा देव्यतिहर्षिता |
देवादयोऽपि तद्दृष्ट्वा शङ्कितास्तत्र सर्वथा || १३ ||

नारदाद्भण्डदैत्यस्य श्रुत्वा भक्ताऽग्रगण्यताम् |
देवेशोऽतितरां तत्र विष्मयं समपद्यत || १४ ||

अथाऽभवन्महद्युद्धं ललिताभण्डदैत्ययोः |
चित्रशस्त्रास्त्रनिचयव्याप्ताऽकाशमहोदरम् || १५ ||

भण्डदैत्योऽपि वीर्येण निजेन परमेश्वरीम् |
सन्तोषयितुमुद्युक्तो युयोध परमाऽस्त्रवित् || १६ ||

प्रणम्य मनसा देवीं सम्मुखं समुपागतम् |
गूढाऽपदानवचनैरधिक्षेप्तुं प्रचक्रमे || १७ ||

ललिते शृणु मे वाक्यं त्वं नटीव विभासि मे |
मृषाऽचाररता नित्यं स्त्रैणं पुरुषमास्रिता || १८ ||

स्त्रीरूपधारिणीव त्वं स्त्रीस्वभावविवर्जिता |
न स्त्रियं मन्ये न पुमांसमपि क्वचित् || १९ ||

लोकविद्विष्टचारित्रा लज्जाशङ्कादिवर्जिता |
न त्वं सत्कुलसम्भूता कुलहीनेव भासि मे || २० ||

लोकनिन्दितमार्गस्थैः पुरुषैरविवेकिभिः |
अपि त्वमभिमृष्टाऽसि सर्वथेति विभासि मे || २१ ||

अहो मे प्राक्कृतं ह्ये वं यत्त्वामेवंविधामपि |
अनर्हां दर्शने नूनं पश्यामि पुरतः स्थिताम् || २२ ||

शृणु स्त्येन वक्ष्यामि यद्यथाऽस्ति तथाऽस्तु तत् |
मद्दृष्टिगोचरीभूता सम्प्रति त्वं कथञ्चन || २३ ||

मृषाऽचारञ्च मायाञ्च त्यक्त्वा मयि स्थिरीभव |
आसादिता मया सद्यः पृष्ठं न प्रदर्शय || २४ ||

नाऽपि मां हि समक्षस्थं वञ्चयित्वा कथञ्चन |
शक्यं ह्यदृश्यतां यातुं तस्मात्त्वं सुस्थिरीभव || २५ ||

विदित्वा मदभिप्रायसेकान्तं सुव्यवस्थितम् |
दृष्ट्वा मदीयवीर्यञ्च संसाधय निजं व्रतम् || २६ ||

शुत्वा निगूढवाक्यं तत् प्रसन्ना ललिताऽम्बिका |
शृणु दैत्येश्वर वचो यदुक्तं ते तथैव तत् || २७ ||

साधयामि तवाऽभीष्टं त्याजयामि मदादिकम् |
न हि मे दृष्टिविषयीभूय भूयो भवेत् क्वचित् || २८ ||

युद्धश्रद्धादिसंशेषः तत् स्थिरीभव सर्वथा |
इत्युक्त्वा शरवर्षेण ववर्ष दैत्यभूपतिम् || २९ ||

प्रतिवर्षं ववर्षाऽथ सोऽपि दैत्योऽतिवेगतः |
शस्त्रप्रयोगविज्ञानसंश्लाहनपुरःसरम् || ३० ||

अभूत्तयोर्महद्युद्धं तुमुलम् लोमहर्षणम् |
एवं नियुध्य सुचिरं दैत्योऽस्त्राणि ससर्ज ह || ३१ ||

आग्नेयं वारुणं सौम्यं कौवेरं पार्वतं तथा |
पार्जन्यमैन्द्रं वायव्यंब्राह्मं कौमारमेव च || ३२ ||

अस्त्राण्येवंविधान्याशु ललिता परमेश्वरी |
प्रत्यस्त्रैर्नाशयामास तुहिनं दिनकृद्यथा || ३३ ||

तथा नूतनसृष्टानि प्रत्यस्त्रैर्नाशयत् क्षणात् |
ससर्जाऽथ भण्डदैत्यो मधुं कैटभमेव च || ३४ ||

सोमकञ्च हिरण्याक्षं हिरण्यकशिपुं तथा |
बलिमर्जुननामानं हैहयं रावणं तथा || ३५ ||

कुम्भकर्णं मुरं ग्राहं कंसं द्विविदमेव च |
एवमादीन् विष्णुशत्रून् सर्वान् लोकप्रणाशनान् || ३६ ||

ते सृष्टा भण्डदैत्येन तत्स्वभावपराक्रमाः |
उद्युक्ता लोकनाशार्थं तमोवृत्तिपरायणाः || ३७ ||

ललितेश्याऽपि नाशाय तेषां करनखात् पृथक् |
नारायणाऽवताराणां ससर्ज दशक्ऽम् तदा || ३८ ||

नाशितास्ते क्षणेनैव सृष्टैस्तैर्विष्णुमूर्तिभिः |
अथ भूयोऽन्धकं मृत्यूं कामं त्रिपुरमेव च || ३९ ||

महादेवरिपूनेवं निर्ममेऽसुरशेखरः |
तान् दृष्ट्वा श्रीपरा देवी फालनेत्राद्विसर्जयत् || ४० ||

महादेवं देवदेवं तेन ते नाशमाययुः |
अथ दैत्यमहासेनामसङ्ख्यातां भयावहाम् || ४१ ||

उद्भावयन्निमेषेण शक्तिभिर्या पुरा हता |
विषङ्गश्च विशुक्रश्च चतुर्बाहुमुखाः सुताः || ४२ ||

करङ्ककुटिलाक्षाद्या नष्टां सृष्टिमजो यथा |
अथ ते युयुधुः शक्तिसेनाभिरतिमषिताः || ४३ ||

तद्दृष्ट्वा विष्मिताः सर्वे भण्डसामर्थ्यमद्भुतम् |
भीताश्चाऽथ किं भवेदै इति देवाश्च शक्त्यः || ४४ ||

तदाऽभवन्महद्युद्धं भूयश्चोपक्रमं यथा |
हतं हतं तत्र दैत्यो भूयो भूयः ससर्ज ह || ४५ ||

तद्दृष्त्वाऽत्यन्तवित्रस्ताः शक्त्यो देवता अपि |
तदा श्रीललितादेवीं तुष्टुवुर्विधिमुख्यकाः || ४६ ||

मन्त्रिणी च महादेवीमुपब्रज्य प्रणम्य च |
कृताञ्जलिर्मधुरया प्रार्थयामास वै गिरा || ४७ ||

देवि दैत्यस्य विभवं मन्येऽहं सुभयावहम् |
पश्य शक्तिगणं सर्वं शुष्यद्वक्त्रं समाकुलम् || ४८ ||

युध्यन्तीनामविश्रान्त्या चाऽत्यगात् प्रहरद्वयम् |
हतं हतं शक्तिगणैर्भूयः सृजति वैक्षणात् || ४९ ||

चतुर्बाहुमुखास्तस्य सुता युधि निपातिताः |
कुमार्या सप्तकृत्वस्ते भूयो युध्यन्ति सम्प्रति || ५० ||

विषङ्गो दशधा तद्वद्विशुक्रो नवधाऽपि च |
हतः पुनः सृष्ट एव भण्डदैत्येन युध्यति || ५१ ||

करङ्ककुटिलाक्षाद्या अप्येवं बहुधा हताः |
युध्यन्त्येव पुनः सृष्टा नेतः साध्यमिदं हि नः || ५२ ||

भीताः श्रान्ताः सर्वतश्च पश्य शक्तीर्हतप्रभाः |
रक्ष सर्वं लोकमिमं नोपेक्षां कर्तुमर्हसि || ५३ ||

इति सम्प्रार्थिता देवी स्मयित्वेष्दुवाच ताम् |
मा भैः पश्य क्षणेणैव नाशयाम्यसुरेश्वरम् || ५४ ||

इत्युक्त्वा कार्मुके शीघ्रं शरमेकं सुयोजयत् |
तत्राऽवाह्य पाशुपतमस्त्रं लोकभयङ्करम् || ५५ ||

मुमोचाऽसुरसेनायामस्त्रं तन्निमिषार्धतः |
भस्मीचकार दैत्यानां सेनां सागरसम्मिताम् || ५६ ||

भूयः शरं कार्मुके स्वे निवेशयदतिप्रभम् |
तदा दिशोऽभितो ज्वालामालालीढाभवन् क्षणात् || ५७ ||

चकम्पे भूः भिताः सागरा भीः समाविशत् |
चराचरं जगज्जालं पेतुरुल्काः सहस्रशः || ५८ ||

भण्डासुरं मृगाद्याश्चाऽपसव्यमभिसंययुः |
तावद्दृष्ट्वा विनष्टां स्वां सेनां सागरसन्निभाम् || ५९ ||

दध्यौ श्रीललितापादपङ्कजं निश्चलाऽन्तरः |
ध्येयमात्रात्मतां यावत् प्राप्तो भण्डमहासुरः || ६० ||

तावच्छ्रीललितादेवी कामेशाऽस्त्रेण योजितम् |
शरं मुमोच भण्डाय स शरोऽतिभयङ्करः || ६१ ||

प्रलयानलवत् ज्वालां मुञ्चन् विष्वङ्महाप्रभः |
चराचरं जगज्जालं दहन्निव निमेषतः || ६२ ||

मुष्णंश्चक्षूंषि सर्वेषां तृणं दावानलो यथा |
भण्डासुरञ्च सरथं नगरं तस्य शून्यकम् || ६३ ||

सस्त्रीस्थविरबालञ्च सस्थानप्राणिमण्डलम् |
भस्मशेषीकरोत्तत्र तदद्भुतमिवाऽभवत् || ६४ ||

ब्रह्माविष्णुमुखास्तत्र भण्डं वा तस्य वाहिनीम् |
नगरम् वा प्रहतस्य दैत्यार्भकमपि क्वचित् || ६५ ||

अदृष्ट्वाअ विष्मयं प्राप्ता जयशब्दमवाऽसृजुः |
अभिजघ्नुः शक्तिगणा विआदित्राणि सहस्रशः || ६६ ||

विनेदुर्देववाद्यानि जगुर्गन्धर्वनायकाः |
लास्यं चक्रुर्देववारा उर्वश्याद्याः सुहर्षिताः || ६७ ||

स्तोत्राणि पेठुऋर्षयो सिद्धा जेपुः परां शिवाम् |
दध्युर्मुनिगणा रूपं प्रणेमुरितरे जनाः || ६८ ||

ववृषुः पुष्.पनिकरान् प्रफुल्लानतिसौरभान् |
बलाहकाः सौम्यरूपा गर्जन्तोऽत्यन्तमन्थरम् || ६९ ||

सुगन्धतोयबिन्दूंश्च यक्षकर्द्दममिश्रितान् |
मारुताः सौगन्ध्ययुतो ववुरानन्दनस्पृशः || ७० ||

दिवानाथः सुप्रभोऽभून्नीयतः सागरोऽपि च |
सन्मनांसीव तोयानि समासन् सरिदादिषु || ७१ ||

अभूज्जगत् पुनः सृष्टं प्रलयान्त इवोल्लसत् |
निराकुलमसङ्कीर्णं तदा भण्डाऽसुरे हते || ७२ ||

एवं दैत्यं हतं दृष्ट्वा भण्डाख्यं लोककण्टकम् |
देवा महर्षयः सिद्धाः सर्वे देवीमुपाययुः || ७३ ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीललिताचरित्रे भण्डासुरवधवर्णनं नाम सप्तसप्ततितमोऽध्यायः || ६४०४ ||

अस्टसप्ततितमोऽध्यायः श्रीललितास्तुतिपूर्वकं मेरुशृङ्गे प्रतिश्रीचक्रोपरि तदभिषेचनवर्णनम्

Kapitel 78

उपेत्य देवप्रमुखाः सर्वे तां ललितां पराम् |
हर्षनिर्भरितस्वान्तास्तुष्टुवुर्विविधैः स्तवः || १ ||

श्री ललिता स्तुतिः

जय जय ललिताऽम्ब ! त्वत्पदाऽम्भोजसेवा फलमिह भजतां किं किन्न दद्यादभीष्टम् |
विबुधविटपिमुख्यान् कामदान् स्वस्वभावानपि वितरति भूयः संश्रितेभ्योऽतिशीघ्रम् || २ || वयमिह विपदार्त्ता भण्डदैत्यप्रतापाऽनलजटिलकरालज्वालया दग्धपक्षाः |
अपरिमितभयाब्धौ यन्निमग्नाः समेता झटिति ननु तयैव प्रोद्धता व्योममार्गाः || ३ ||

प्रणतजननितान्तस्वान्तसन्तापहन्त्री श्रितजनदुरिताऽलिप्रौडमायानियन्त्री |
स्थिरचरनिखिलोद्यत्प्राणिनां जीवतन्त्री तव पदनलिनीयं प्रैधते लोकयन्त्री || ४ ||

तव जननि विलासः सर्वलोकाऽवभासः कुत इह तव भूयाद्दैत्ययुद्धे प्रयासः |
भवतु सततमस्मन्मानसे नीरजस्के विशदविकचवृत्तौ वासिते वासनाभिः || ५ ||

(ननु विदितमिदं यद् देहभाजां त्वमेव शरणमभिमतानां श्रेयसां शुद्धहेतुः ) चिरजडमिलितानां यो विवेकैकहेतुर्भवति चरणहंसस्तावको ब्रह्मवाहः || ६ ||

इति स्तुत्वा दण्डवत्ते प्रणता विधिमुख्यकाः |
भूयो भूयोऽपि विविधैः स्तवैस्तुष्टुवुरम्बिकाम् || ७ ||

तावद्ब्रह्माण्डकोटिभ्यो ब्रह्माद्याः कारणेश्वराः |
आजग्मुर्भारतीमुख्यशक्तियुक्ता घटोद्भव ! || ८ ||

ते पाणिसम्पुटोत्तंसाः प्रणता भक्तिनिर्भराः |
समीडललितामीड्यां प्राहुबर्द्धकराऽम्बुजाः || ९ ||

देवेशि ! भण्डदैत्यस्थ वधादद्य सुरक्षितम् |
ब्रह्माण्डानां शतं पञ्च चैषां स ह्यधिपोऽभवत् || १० ||

प्रोक्तेष्वण्डेषु शक्राद्या बद्धाः केचित् पलायिताः |
लोकाऽधिपत्यं सर्वत्र दैत्यैरेव चकार सः || ११ ||

प्रवर्तिता दैत्यवेदा दैत्ययज्ञाश्च सर्वतः |
न क्वचिद्दैवयज्ञो वा ब्रह्मयज्ञोऽपि शङ्करि ! || १२ ||

प्रवृत्तोऽभूद्ब्राह्मणादुअ भण्डे राज्यं प्रशासति |
तदद्य निहते दैत्ये त्वया युधि महेश्वरि || १३ ||

पलायिता दैत्यगणा लोकपालाश्च संस्थिताः |
स्वस्वाऽधिकारकृत्येषु जातं सर्वं निराकुलम् || १४ ||

एवं वदत्सु देवेषु तत्राऽगत्य च विश्वकृत् |
देवीं विधिमुखांश्चाऽपि प्रणम्य रचिताऽञ्जलिः || १५ ||

पितामहाऽहमाज्ञप्तस्त्वया यन्मेरुमूर्धनि |
देव्याः श्रीपुरनिर्माणे तत्तथा रचितं मया || १६ ||

द्रष्टुमर्हसि तच्छाघ्रम् देव्य देवैश्च संयुतः |
एवं त्वष्ट्रा प्रार्थितोऽजो देव्यै वृत्तं व्यजिज्ञपत् || १७ ||

प्रार्थिता देवदेवेशैर्ललिता परमेश्वरी |
शक्तिसेना देवगणैर्युता तत्र ययौ द्रुतम् || १८ ||

ददृशुस्तत्पुरं चारुतरं त्वष्टृविनिर्मितम् |
महाश्रीपुरराजस्य प्रतिबिम्बविवार्पितम् || १९ ||

विस्मिताः सर्व एवैते देवाः शक्तिगणास्तथा |
अथ तत्र निवसने देवाः श्रीललिताम्बिकाम् || २० ||

प्रार्थयामासुरत्यन्तं प्रणताः सर्वभावतः |
तत्सम्मतिं समादाय बुद्धीशप्रमुखास्तदा || २१ ||

राज्याऽभिषेकसामग्रीं कल्पयामासुरुत्तमाम् |
प्रकल्प्य सर्बसम्भारान् शुभलग्नमुहूर्तके || २२ ||

ब्रह्मा मुनिगणोपेत आभिषेचनिकं विधिम् |
चकाराऽगमदृष्टेन मार्गेणोत्तमकल्पतः || २३ ||

वृन्दारका देवगणा मारुतो वसवोऽगनय |
गन्ध्र्वा देवदूताश्च दिक्पाला यक्षगुह्यकाः || २४ ||

यातुधानाः किंपुरुषाः किन्नरा उरगा अपि |
विद्याघ्राः सिद्धमुनय ऋषयः पितरोऽसुराः || २५ ||

ब्रह्मरुद्रहरीणाञ्च कोटयोऽण्डान्तरस्थिताः |
सदाशिवेश्वरौ चाऽपि श्रीकण्ठोऽनन्त एव च || २६ ||

सङ्गतास्तत्र ललितामहाराज्याऽभिषेचने |
परिचेरुस्तत्र देवीं ललिताऽम्बां समन्ततः || २७ ||

ब्रह्माणीकमलागौरीकोटयो भक्तिभावनाः |
उपचारैः |
पृथगभूतैः पूजयामासुरादरात् || २८ ||

एवं कृत स्वस्त्ययनां मङ्गलाचारसंश्रयाम् |
नदत्सु शुभवाद्येषु मूर्च्छयत्सु सुमूर्च्छानाम् || २९ ||

अवरोहाऽरोहगतिलयश्रुतिसमीरणैः |
गन्धर्वेषु प्रनृत्यत्सु देववेश्यासु सर्वतः || ३० ||

जपत्सु मुनिवृन्देषु ऋषिषु प्रपठत्सु च |
स्तुवत्सु विविधेषूच्चैः प्रेक्षत्सु प्राणिषूद्यमैः || ३१ ||

विधिरारोहयद्देवीं महासिंहासने शुभे |
अथ मन्त्रप्रपूताऽद्भिर्नवरत्नविचित्रितैः || ३२ ||

कलशैः सम्भृतैश्चाऽपि नदीसागरसम्भवैः |
अभ्यषिञ्चल्लोकधाता वशिष्ठप्रमुधैर्वृतः || ३३ ||

अभिषिच्य महादेवीमनर्ध्याऽभरणोज्ज्वलाम् |
विचित्रदिव्यवसनां श्रीचक्राऽधिविराजिताम् || ३४ ||

पञ्चब्रह्माकारमञ्चशोभिनीं ललिताम्बिकाम् |
पूजयामासुरमरा विविधैः सुसमर्हणैः || ३५ ||

विधिविष्णुमहेशाद्याः पृथग्भक्तिसमाहिताः |
स्तुत्वा विचित्रस्तवनैः प्रणेमुर्भुवि दण्डवत् || ३६ ||

एवं श्रीललिता देवी तत्र श्रीपुरशेखरे |
सिंहासनेऽभिषिक्ता सा महाश्रीपुरवत्तदा || ३७ ||

मन्त्रिणीप्रमुखानां स्वस्थानानि प्रदिशत् पृथक् |
एवं घटोद्भव मुने ! मेरुशृङ्गे महोन्नते || ३८ ||

समास्ते श्रीपुरे ब्रह्ममुखशासनतत्परा |
देवशिल्पिस्वचातुर्यसर्वसारविनिर्मितम् || ३९ ||

नगरं श्रीमहादेव्या भूषणं छत्रपादुके |
प्रार्थिता विधिमुख्यैः सा स्वीकृत्य करुणावशात् || ४० ||

चिदानन्दघनाऽपीत्थमास्ते लीलावपुर्धरा |
इति श्रुत्वा हयग्रीवात् कथां परमपावनीम् || ४१ ||

अगस्त्यः सन्तुष्टमनाः पप्रच्छाऽतिविशङ्कितः |
हयग्रीव दयासिन्धो ! मेरावस्मिन् त्वयोदितम् || ४२ ||

नगरं श्रीमहादेव्यास्तन्मे चित्रं विभाति वै |
न मे ह्यविदितं स्थानं ब्रह्माण्डान्तर्भवेत् क्वचित् || ४३ ||

तत्राऽपि मेरावज्ञातं मया न स्यात् क्वचित् स्थलम् |
मेरुर्भुवनचित्रस्य भित्तिवत्परिकल्पितः || ४४ ||

सन्त्यूद्र्ध्वं सप्तभुवनान्यधः सप्ततलानि वै |
मेरुमूर्घ्नि ब्रह्मविष्णुशिवधामानि सन्ति वै || ४५ ||

तत्र मे नाऽस्त्यविदितो देशोऽपि द्वयङ्गुलात्मकः |
तत् कथं वर्णितं तत्र श्रीपुरं मे समीरय || ४६ ||

इति पृष्टः कुम्भजेन ह्यास्यः प्राह हर्षितः |
शृणु कुम्भजः ! वक्ष्यामि रहस्यं ह्येतदुत्तमम् || ४७ ||

न हि तद्भवनं सर्वैर्द्रष्टुं शक्यं कथञ्चन् |
ये तु श्रीत्रिपुरां शक्तिं विधिना समुपासते || ४८ ||

तेषा प्रप्यं दृश्यमपि नाऽन्येषां तु कदाचन |
तत्ते माहात्म्यसंश्रुत्या भक्तिर्हृदि समुद्गता || ४९ ||

प्राप्तायां तु पराभक्तौ नाऽप्राप्यं विद्यते |
प्राप्ते रत्नाकरे यद्वद्भवेन्नो रत्नवाञ्चिता || ५० ||

तदियं ते सती भार्या लोपामुद्रा परा प्रिया |
तस्या दीक्षां समादाय चोपास्य विधिवत्पराम् || ५१ ||

सिद्धस्तद् द्रक्षसि पुरं नान्यथा तु कदाचन |
एतत्ते कुम्भज ! प्रोक्तं ललिताया महाद्भुतम् || ५२ ||

विभवं शृण्वतां पुंसां सर्वपापप्रणाशनम् |
कलौ मलीमसहृदां जनानां दुर्धियामिदम् || ५३ ||

माहात्म्यं त्रिपुरेशान्यास्त्यक्त्वा नाऽन्यत्परायणम् |
वैदिकैः कर्मभिर्भूयो निराशीर्भिः कृतैर्ववेत् || ५४ ||

उपासनेषु श्रद्धाऽन्यदेवताविषया ततः |
विष्णौ शिवे शक्तिषु च सर्वान्ते परिपाकतः || ५५ ||

त्रिपुरामूर्तिसेवायां श्रद्धा भवति शाश्वती |
एतदाराधनेनैव विदित्वा स्वाऽत्मरूपीम् || ५६ ||

चिदानन्दाऽद्वयमयीं सर्वलोकमहेश्वरीम् |
अभिव्यक्तपरैश्वर्यो न पुनर्भवमृच्छति || ५७ ||

एवं स्वात्मपदप्राप्तौ सोपानं प्रथमन्त्विदम् |
श्रवणं श्रीपराशक्तिमाहात्म्यविभवोन्नतेः || ५८ ||

तस्मादादौ सर्वथैव श्रोतव्यं श्रेय इच्छता |
एतत् पापप्रशमनं सर्वाभीष्टफलावहम् || ५९ ||

भक्तिमुत्पाद्य तरसा मोचयेत् परमाद्भयात् |
इत्युक्त्वा कुम्भजमुनिपूजितोऽश्वाननो भृशम् || ६० ||

आपृच्छय निरगात् स्वीयामभीष्टां दिशमीश्वरः |
इति ते कथिता राम ललितायाः कथा शुभा || ६१ ||

इति श्रिमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे दत्तात्रेयपरशुरामसंवादे श्रीललितामाहात्म्ये श्रीपुरे श्रीललिताभिषेकवर्णनं नामाष्टसप्ततितमोऽध्यायः || ६४६५ ||

एकोनाशीतितमोऽध्यायः श्रीदत्तभार्गवसम्बादे आगमस्वरूपवर्णनम्

Kapitel 79

Die Vielfalt der Welt wird im Licht des einen Bewusstseins betrachtet.

एवं श्रीललितादेव्या माहात्म्यं सर्वतोऽधिकम् |
जमदग्निसुतः श्रुत्वा हर्षाऽमृतानिषेचितः || १ ||

भक्तिवारिधिनिर्मग्नो रोमाञ्चोदयपीवरः |
निरन्तरस्रवद्धर्षनेत्रवारिपरिप्लुतः || २ ||

विसंज्ञ इव सम्भूतः क्षणमासवमत्तवत् |
बभाषे गद्गदश्रुत्या भूयो विरचिताऽञ्जलिः || ३ ||

भगवन्नहमत्यन्तं पावितो भवताऽधुना |
पराकथातीर्थवारिधारानिवहसेचनैः || ४ ||

उद्धृतो दययाऽपारसंसारजलधेर्ननु |
नमस्ते श्रीगुरो नाथ दुःखध्वान्तदिनाधिप ! || ५ ||

नमस्ये तं मुनिं शांतं संवर्तमकुतोभयम् |
यो मे मार्ग निरदिशदन्धस्य भ्रमतो यथा || ६ ||

अद्य यावदहं लोके व्यर्थं कालमुपावहम् |
शून्यकूपे भेक इव न स्वार्थमविदं क्वचित् || ७ ||

धन्योऽहं कृतकृत्योऽहं भवश्चरणसंश्रयात् |
मोक्षलक्ष्मीमभिप्रेप्सुरभवं सर्वथा ननु || ८ ||

भगवन्मे संशयोऽत्र महान् हृदि समाहितः |
तत् पृच्छामि भवन्तं यद्वक्तुंज् तन्मे समर्हसि || ९ ||

जानाम्यनुग्रहोऽत्यन्तं मयि ते करुणानिधेः |
नाऽवक्त्व्यं मयि भवेच्छिष्ये कारुणिकस्य ते || १० ||

कथं कुम्भोद्भवमुनिः सर्वशास्त्रविशारदः |
नोपासीत्तं पराशक्तिं सर्वलोकमहेश्वरीम् || ११ ||

येनाऽदृश्यमभून्मेरौ श्रीदेव्या नगरोत्तमम् |
कुतो व वेदनिरते न हि स्यात्तस्य दर्शनम् || १२ ||

भूयः कथं तेन दृष्टं तत्पुरं तद्ब्रवीहि मे |
इत्यापृष्टो जामदग्न्यं प्राह दत्तगुरुर्मुनिः || १३ ||

शृणु राम प्रवक्ष्यामि रहस्यं ह्ये तदुत्तमम् न ह्यत्र केवलं शास्त्रं प्रयोजकमुपेयते || १४ ||

जनानां प्राकसमभ्यस्तवासनावासितात्मनाम् |
वासनानां शतं चित्ते सञ्चितं प्राणिनां पृथक् || १५ ||

प्राप्योद्बोधं प्रसरति सत्सङ्गस्तस्य बोधकः |
यावद्यत्सङ्गमाप्नोति तावत् तत् स्यान्न चाऽन्यथा || १६ ||

हयग्रीवं समागम्य त्रिपुरावैभवश्रुतेः |
सञ्जातत्रिपुराभक्तिः पत्न्या दीक्षां समाददे || १७ ||

यावद्दीक्षां न विन्देत त्रिपुरोपासकोऽपि सन् |
न तावन्मोक्षसौधस्य सोपानाऽरोहणक्षमः || १८ ||

विनोपनयनं यद्वद्द्विजानां सर्वकर्मसु |
न योग्यता तथाऽत्रापि विना दीक्षां भृगूद्बह || १९ ||

अप्राप्य सद्गुरोर्दीक्षामज्ञात्वा गुरूपद्धतिम् |
स्वबुद्ध्या तु कृतं कर्म विधिना च समन्वितम् || २० ||

तथाऽपि साधकं शीघ्रं नाशयत्येव सर्वथा |
सेवितारं यथा हन्ति चाऽपक्वन्तु रसायनम् || २१ ||

मन्त्रं मन्त्रविधानञ्च स्वबुद्ध्यैव गुरुं विना |
यः समासादयेत् स हि देवताद्रोहमाप्नुयात् || २२ ||

नेह लोकः परो वा.पि विद्यते देवताद्रुहाम् |
अज्ञो द्रोहकृतं दोषं नाशयेन्मानवः कथम् || २३ ||

लोकदृष्टन्याय एष आज्ञाभङ्गकरं नरम् |
योजयन्त्येव भूपाला महादण्डैः पृथग्विधैः || २४ ||

नोपेक्षन्ते सर्वथैव नरमाज्ञाऽपकारिणम् |
वेदवादैरेव न हि भवेदत्राऽधिकारिता || २५ ||

उपासनाऽधिकारार्थं द्विजानां वैदिकक्रमः |
पुरुषार्थो वेदविधौ सर्वथा न हि विद्यते || २६ ||

यदि वेदविदां पुंसां मृषाफलाऽनुसन्धिनाम् |
अणुमात्राऽत्मभूतानां पुरुषार्थाऽभिमानिनाम् || २७ ||

पुरुषार्थः परः स्याच्येत् स्थाणूनां कुतो भवेत् |
वैदिका ह्यचलम्मन्याः फलं धूमसमुद्भवम् || २८ ||

क्व दृष्टं चलभूतेन ह्यचलं फलसम्मतम् |
मितेषु दुःखभूतेषु फलेषु सुखबुद्धयः || २९ ||

फलस्वरूपाऽनभिज्ञा ह्यफले फलशंसिनः |
प्रवर्तितो गुणमयो वेदो धात्रा जगत्कृतिः || ३० ||

जगद्यात्राप्रवृद्ध्यर्थं सुराणामभितृप्तये |
मर्तुकामस्य विषवत् कामिनां कामनामयः || ३१ ||

परश्च भागः सङ्गूढो वेदे यस्तं विदुर्न ते |
धात्रैव गोपनात्तस्य गुप्तभावेषु मोहिताः || ३२ ||

नयन्ति तमन्यथैव व्यासो नारायणः स्वयम् |
जीवेषु दयया सम्यक् चित्ताऽरोहोपयोग्यया || ३३ ||

तमुपबृंहयद् भूयो परमार्थैकसाधनम् |
अतोऽत्र त्यक्तकामानामधिकारो विधीयते || ३४ ||

सन्न्यासिनोऽपि चिच्छक्तेरूपासनमभीप्सितम् |
अज्ञानाम्नोहतो वाऽपि विद्योपास्तिं त्यजेत्तु यः || ३५ ||

स विशेदन्धतामिस्रं न तस्याऽस्ति पुनर्गतिः |
सन्न्यासिना तु त्यक्तव्यं सर्वं बन्धात्मना स्थितम् || ३६ ||

इदं मोक्षात्मकं राम श्रीविद्योपासनन्तु यत् |
न (हि) त्यक्तुं समुचितं ब्राह्मण्यमिव वै यतेः || ३७ ||

महापराधस्त्यागो वै स्यादुपास्तेर्भयावहः |
तामिस्रमन्धतामिस्रं कुम्भीपाकमवीचिकम् || ३८ ||

प्रपद्यन्ते हि ते भूयो ह्यपराधपरा जनाः |
दण्डराज्ञ्या समाज्ञप्ताः शक्त्योऽतिविभीषणाः || ३९ ||

सङ्कर्षिणी कर्षिणी च कालसङ्कर्षिणी तथा |
उपास्तिमार्गसरुजानपराधपरान् जनान् || ४० ||

योजयन्त्युक्तकुःखेषु स्थानेषु परमातृकाः |
उपासनपरो मर्त्यः कैवल्यं पदमश्नुते || ४१ ||

कर्मिणस्तान्त्रिकस्याऽपि या भवेद्गतिरुत्तमा |
वैदिकोपासकस्यैषा सर्वथा न हि विद्यते || ४२ ||

यतो हि वैदिकं कर्म सर्वथा हि बहिर्मुखम् |
अनीश्वरं पौरुषं स्यादतः पशुफलोचितम् || ४३ ||

तान्त्रिकन्त्वैश्वरं कर्म ज्ञानोपासनमिश्रितम् |
मोचयत्याशु संसिद्ध्या श्रद्धाभक्तिसुबृंहितम् || ४४ ||

यथोक्तकर्मणा चित्तशुद्धिमासाद्य विद्यया |
प्राप्यतेऽत्रैव शिवता प्रबुद्धैः पौरुषेण हि || ४५ ||

अबुधा अपि मुच्यन्ते कर्म कृत्वा यथाक्रमात् |
नाऽधिकारो विना दीक्षां कर्मणि ज्ञानसाधने || ४६ ||

दीक्षावन्तस्तु देहान्ते प्राप्य लोकं परात्परम् |
सदाशिवेन ते सम्यक् प्रबुद्धाः शिवरुपिणः || ४७ ||

कर्मिणोऽप्यप्रबुद्धा ये ते भवन्ति भृगूद्वह ! |
तस्मान्न वेदशास्त्राद्यैः शुष्कैः सद्गतिराप्यते || ४८ ||

विना श्रीत्रिपुरासेवां प्रवृत्तिर्वा कथं सती |
न साधनं फलं वाऽपि प्रवृत्तिर्वा.पि भार्गव ! || ४९ ||

विना श्रीत्रिपुरेशान्याः कृपया सम्भविष्यति |
आराध्य शिवविष्णवादीनपि यत् प्राप्यते फलम् || ५९ ||

तश्चाऽपि तस्याः कृपया भवतीति विनिश्चयः |
पूजनं सर्वदेवानां पराशक्तेः प्रपूजनम् || ५१ ||

शक्तिं विना न पूजाया ग्रहणं सम्भवेत् क्वचित् |
तस्मात् पूजा तु शक्तेः स्यात् सर्वत्र विहिता जनैः || ५२ ||

फलप्रदानशक्तिन्तु विचार्याऽदौ विचक्षणाः |
पूजयन्ति पृथक् देवं फलं विन्दन्ति तत्तथा || ५३ ||

लोकेऽप्यशक्तः कुत्राऽपि न पूज्यः स्यात्तु भार्गव |
आश्रयत्वाच्छिवमृते शक्तिर्नैव तु विद्यते || ५४ ||

इति चेन्निजसत्तात्मशक्तिहीनः शिवस्तथा |
प्रकाशशक्तिहीनो वै रविः कुत्र कदा भावेत् || ५५ ||

यथा तथा चितिं शक्तिमृते स्याद्वि शिवः कथम् |
चितिशक्त्या परित्यक्तं तृणं वाऽपि कथं भवेत् || ५६ ||

सत्यां चिति ह्यस्मि सर्वमन्यथा न हि किञ्चन |
यदस्ति तश्चितिरिति जानीहि भृगुनन्दन || ५७ ||

एतच्छाक्तं हि विज्ञानं मत्तोऽन्यन्न हि विद्यते |
एवं बुद्ध्या तु यत् किञ्चित् तृणञ्च त्रिपुरात्मकम् || ५८ ||

संज्ञायामेव लोकेऽस्मिन् विवदन्ति मर्नीषिणः |
तस्मात्त्यजाऽत्र सन्देहमेतत्सर्वत्र वै समम् || ५९ ||

वाङ्निरुक्त्यै प्रवृत्ता वै विशेषाऽलम्बनं गता |
निर्विशेषन्तु तद्रूपमखण्डैकचिदात्मकम् || ६० ||

विशेषज्ञओ भवेद्यावत्तवन्न स्याद्धि तत्परः |
वेदा विशेषबहुला गूहयन्त्यविशेषकम् || ६१ ||

अतोऽगस्त्यस्तत्पुरं तु नाऽपश्यद्वैदिकोऽपि सन् |
वेदार्थःपरमो यस्तु त्रिपुरैव हि सा भवेत् || ६२ ||

अतस्त्रैपुरसंसिद्धौ साधनं वेद उच्यते |
वेदार्थस्यैव व्यसनं पुराणं व्यास ऊचिवान् || ६३ ||

वेदो ह्यागमभागः स्यात् शब्दराशिस्तथाऽगमः |
तस्या मूर्त्तिरतः सर्वं प्रवृत्तं संश्रयात् || ६४ ||

त्रैवर्णिकाऽधिकारेण वेदरूपः प्रवर्तते |
दयया परमेशानः सर्वानुद्धर्तुमिच्छया || ६५ ||

वेद आगमसंज्ञानं विभावयदनुत्तमम् |
आगमः परमेशस्य विमर्श इति निश्चयः || ६६ ||

क्रमेण ब्रह्ममुख्यानां मुखादुद्भवयत्तु तम् |
अपारो ह्यागमाऽम्भोधिः सर्वलोकेषु सङ्गतः || ६७ ||

कालेन मन्दधिषणान् कृपणानभिलक्ष्य तु |
ऋषिभिस्तमागमाब्धिं मथित्वा प्राज्यया धिया || ६८ ||

सारसंग्रहरूपात्मतन्त्राऽमृतमनुत्तमम् |
देशभेदविभेदेन पृथगेव विभावितम् || ६९ ||

तत्र द्विजानां वेदोक्तकर्मभिः संस्कृतात्मनाम् |
श्रौतकर्ममुखेनैव तान्त्रिके ह्यधिकारिता || ७० ||

शूद्रादीनान्तु कैवल्याद्भवेत्तन्त्राधिकारिता |
वेद एव हि तन्त्रं स्यात्तन्त्रं वेदः प्रकीर्तितम् || ७१ ||

नाऽनयोर्विद्यते भेदो लेशांशेनाऽपि कुट्रचित् |
तथा हि वेदभागेषु तन्त्रभागः प्रदृश्यते || ७२ ||

यत्र मन्त्रयन्त्रपूजाविधानं सुस्फुटं स्थितम् |
एवंविधो वेदभागो यतस्तन्मूर्घ्नि संस्थितः || ७३ ||

तन्त्रसङ्केतसंयुक्तस्ततस्तन्त्रं समुत्तमम् |
तन्त्रेष्वपि वेदभागा मन्त्रब्राह्मणभेदिताः || ७४ ||

दृश्यन्ते कर्मविधिषु तस्मात्तन्त्रं समुत्तमम् |
एवं पुराणादिषु च तन्त्रभागः प्रदृश्यते || ७५ ||

तथा तन्त्रेषु सर्गादिलक्षर्णोऽशः प्रदृश्यते |
स पुराणप्रभागः स्यादेवं जानीहि भार्गव ! || ७६ ||

तस्माच्छ्रीत्रिपुराख्यायाः सहजाऽमर्शसम्भवः |
आगमाब्धिस्ततो वेदांस्तन्त्राणि च विभावय || ७७ ||

नियतिर्या हि तच्छक्तिस्तया सर्व व्यवस्थितम् |
अतोऽगस्त्यस्तन्त्रदीक्षारहितो वैदिकोऽपि सन् || ७८ ||

नाऽपश्यत्तत्पुरं तत्र मेरौ नियतियन्त्रितः |
अथ श्रुत्वा महादेव्या माहात्म्यं सर्बतोऽधिकम् || ७९ ||

भक्तियुक्तः प्राप्य दीक्षां तान्त्रिकीं क्रमसंयुताम् |
पत्न्या उपास्य त्रिपुरां तत्र श्रीनाथमण्डलो || ८० ||

स्थानं प्राप्य प्रियायुक्तः परमानन्दनिर्भरः |
एवं तेन समाक्रान्तं दृष्टञ्च स्थानमुत्तमम् || ८१ ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे आगमस्वरूपनिर्णयो नामैकोनाऽशीतितमोऽध्यायः || ६५४६ ||

अशीतितमोऽध्यायः

उपासकमुख्यधर्मवर्णनम्

Kapitel 80

एवं श्रुत्वा कथां रामो दत्तात्रेयनिरुपिताम् |
भूयः प्राह प्रसन्नात्मा प्रणम्य रचिताऽञ्जलिः || १ ||

भगवन्नाथ यत्प्रोक्तं श्रुतं तदमृतोपमम् |
अभवं मुक्तसन्देहः किञ्चित् पृच्छामि वै पुनः || २ ||

एवं दीक्षां समासाद्य त्रिपुराऽराधनोद्यतः |
कुर्वन्नित्यक्रियां केन विशेषेण हि कर्मणा || ३ ||

शीघ्रं महाफलं प्रेयाद्राजा चाऽकिञ्चनोऽपि च |
तन्मे समाचक्ष्व गुरो कृपया मयि सेवके || ४ ||

इति दत्तगुरुः पृष्टः प्राह तद्भक्तिहर्षितः |
शृणु राम महागुह्यं त्रिपुराप्रीतिकारकम् || ५ ||

शिवो यथाऽभिषेकेन प्रणामैर्दिनकृद्यथा |
नैवेदैस्तु गणेशानोऽलङ्काराद्धरिरेव च || ६ ||

पूजनेन विशेषैस्तु विधिना प्रीयते तथा |
पराशक्तिर्महेशानी तत्र सर्वोत्तमं शृणु || ७ ||

प्रासादमुन्नतं चित्रं निर्माय निजशक्तितः |
तत्र श्रीचक्रराजं वा मूर्तिं वाऽपि सुलक्षणाम् || ८ ||

सस्थाप्य विधिना तत्र स्वयं वाऽन्येन वाऽन्वहम् |
पूजयेत् पञ्चकालं वा चतुस्त्रिर्द्व्येककालकम् || ९ ||

उषः प्रातर्मध्यदिने प्रदोषे चाऽर्धयामके |
नित्यं वा द्वित्र्येककालं पञ्चकालञ्च पर्वसु || १० ||

उत्सवोऽपि प्रकर्त्व्यो महापर्वसु सर्वथा |
रथेन वाहनैर्यानैरुत्सवप्रतिमां बहिः || ११ ||

परिक्राम्याऽगमोक्तेन नृत्यमङ्गलगायनैः |
एवं यः कुरुते लोके स वसेच्छ्रीपुराऽन्तरे || १२ ||

नीलवप्राऽन्तरालेषु सर्वभोगोपसम्भृतः |
असमर्थोऽन्यविहिते स्थापयेश्चक्रनायकम् || १३ ||

चक्रस्थापनतुल्यं नो विद्यते त्रिपुराप्रियम् |
न तस्य पुनरावृत्तिः सायुज्यं विन्दते क्रमात् || १४ ||

श्रीच्क्रस्थापनादेव फलानन्त्यं समीरितम् |
यत्र स्यात् स्थावरं यन्त्रं निवसंस्तत्समीपतः || १५ ||

उपासको हेममये वप्रे निवसति धुवम् |
उपासकस्तु जानीयात्तत्क्षेत्रं सर्वतोऽधिकम् || १६ ||

तत्राप्यशक्तो विभवानुरोधाच्छुभपर्वसु |
पूजयेत् स्थावरं च्क्रं मूर्तिं वा भक्तिपूर्वकम् || १७ ||

चरयन्त्रादिपूजायाः स्थिरयन्त्रादिपूजनम् |
फलं समावहेल्लक्षगुणं राम ! न संशयः || १८ ||

यन्त्रे सावृतिमम्बान्तु विधानेन प्रपूजयेत् |
तत्त्त्स्थाने भावयन् वै महाफलसमाप्तये || १९ ||

यथा सूर्यस्य किरणाः सर्वतः समवस्थिताः |
सूर्याऽत्मभूतास्तस्यांऽसाः सर्वलोकप्रसादकाः || २० ||

शीताऽन्धकाररोगादिनाशकाः प्राणिनस्तथा |
त्रिपुरायाः पराशक्तेः परिवाराख्यदेवताः || २१ ||

लोकवाञ्छार्थदानाय नियुक्तास्तु तयैवः ताः |
तस्यांऽशभूताः सर्वा वै तस्मात् पूज्या यथाविधी || २२ ||

किरणानां पिण्डमयो यथा सूर्यो नभःस्थितः |
तथैवऽवृतिशक्तीनामैक्यात्मा त्रिपुरा मता || २३ ||

बिन्दुचक्रे समासीना देवदेवमहेश्वरी |
अशक्तः पूजयेद्भतया यथाम्ति यथाक्रमम् |
२४ ||

परिवारपिण्डमयीं सामान्यैर्द्रव्यवैभवैः |
यथाकथञ्चिद्वा पूज्या स्थावरे परमेश्वरी || २५ ||

यस्तु प्राप्य स्थावरन्तु चक्राद्यं न प्रपूजयेत् |
तमात्मघ्नं विजानीयात् सर्वलोकविनिन्दितम् || २६ ||

अशक्तो गन्धकुसुमफलाऽक्षतजलैस्तथा |
दक्षिणाताम्बूलदीपप्रणामपरिवर्तनैः ? || २७ ||

सर्वैरेकद्व्यादिभिर्वा शक्त्या तां तत्र पूजयेत् |
सहस्राद्यैर्नामभिस्तु यश्चक्रादौ प्रपूजयेत् || २८ ||

सकृत् सम्पूज्य च नरो नारी वा सर्वपातकैः |
मुच्यते नाऽस्ति सन्देह इत्याह भगवान् शिवः || २९ ||

अथ लक्षप्रपूजादिविधानं शृणु वच्मि ते |
विशेषपर्वसु तथा शुक्रवारेऽपि वाऽरभेत् || ३० ||

सङ्कल्प्य पूज्य गणपं स्वस्ति विप्रैर्हि वचयेत् |
ततः सम्पूज्य विधिना चाऽवृत्यन्तं महेश्वरीम् || ३१ ||

पूजयेत् सावृत्तिं देवीमुपचारैस्तु पञ्चभिः |
तत्र पुष्पोपचारस्य स्थाने पूजां समाचरेत् || ३२ ||

सहस्राद्यैर्नामभिस्तु ततो धूपादिपूजनम् |
समापयेद्यथावत्त प्रत्यहञ्चैवमर्चयेत् || ३३ ||

समस.ख्याविधानेन प्रत्यहं पूजयेत् क्रमात् |
एकजातीयकैः पुष्पैः यत्रैव पूजयेत् पराम् || ३४ ||

स्वयं वा पुत्रपत्न्याद्यैर्ब्राह्मणद्वारतोऽपि वा |
अन्ते तु सर्वतोभद्रे नवयोनिसमायुते || ३५ ||

कलशं सुप्रतिष्ठाप्य सौवर्णादिसमुद्भवम् |
अलङ्कृतं सूत्रवस्त्रैर्मध्ये तण्दुलपुञ्जके || ३६ ||

अलङ्कृतं धूपितञ्च निधाय मनुमुश्चरन् |
तमष्टगन्धतोयेन पूरयेत् पञ्चरत्नकम् || ३७ ||

निक्षिप्य तस्मिन् तद्वत् क्रमादाच्छाद्य पञ्चपल्लवैः (?) सतण्डुलं फलं पूर्ण पात्रञ्चाऽपि मुखे न्यसेत् || ३८ ||

तत्र प्रैत्कृतीं देव्याः सर्वाऽवयवशोभिताम् |
विन्यस्य तस्यामावाह्य पूजनन्तु समाचरेत् || ३९ ||

तत्राऽदौ सर्वतोभद्रदेवताः क्रमतो यजेत् |
दशदिक्षु च दिक्पालान् शृङ्खलासु चतुर्षु च || ४० ||

धर्मादीन्मध्यभवने श्वेतेऽधर्मादिकान् यजेत् |
रक्तार्ऽधभवने पूर्वात् प्रादक्षिण्येन पूजयेत् || ४१ ||

असिताङ्गादिमिथुनं मेखलासु गुणत्रयम् |
एवं सम्पूज्य कलशे पीठपूजनपूर्वकम् || ४२ ||

विधीनाऽवाह्य त्रिपुरां पूजयेदुपचारकैः |
तत्तत्पुष्.पादिकं स्वर्णभवं वा रजतोद्भवम् || ४३ ||

माषाद्वा कर्षतो वाऽपि कुर्यादन्यूनमुत्तमम् |
तदर्ध पादमपि वा कृत्वा तन्नवसङ्ख्यकम् || ४४ ||

पूजयेदुपचारेषु नामभिर्वशिनीमुखैः |
मध्ये च त्रिपुरां रात्रौ पूजयेश्चक्रनायकम् || ४५ ||

कलशस्य पश्चिमतः सर्वतोभद्रमण्डले |
स्वयं वा पूजयेदाचार्येण वा क्रमवेदिना || ४६ ||

पूजयित्वा यथाशास्त्रं कुमारीं बटुकं तथा |
गुरुं सुवासिनीञ्चापि ब्राह्मणादीनपि क्रमात् || ४७ ||

उद्वासरहितां पूजां समाप्याऽखिलसंवृतः |
कथाभिर्गायनैर्नृत्यैः कुर्याज्जागरणं निशि || ४८ ||

परेद्युः कृतकृत्योऽथ पूजयेश्चक्रनायकम् |
पूजाङ्गहोमतः पश्चादग्निं संसाध्य शास्त्रतः || ४९ ||

यथावत्तत्र जुहुयात्तत्तत्पुष्पैः सहस्रकम् |
पूजां समाप्य चोद्धास्य कलशं वस्त्रसंयुतम् || ५० ||

दक्षिणाप्रतिमायुक्तं सुवासिन्यै निवेदयेत् |
ब्राह्मणानां षोडषकं सुवासिन्यष्टकं तथा || ५१ ||

बटुकाश्च कुमारींश्च वित्तशाठ्याद्विवर्जितः |
भोजयेद्भक्ष्यभोज्याद्यैर्दक्षिणाद्यैश्च तोषयेत् || ५२ ||

एवं पूजनमात्रेण सर्वपापैर्विमुच्यते |
प्रसन्ना त्रिपुरेशानी वाञ्छितार्थप्रदा भवेत् || ५३ ||

सर्वसौभाग्यसंयुक्तो वंशपुत्रैर्युतस्तथा |
पितॄप्रोद्धरते सर्वनन्ते मोक्षं समश्नुते || ५४ ||

राज्यप्राप्तिस्तु कमलैः करवीरैर्महच्छ्रियम् |
जपापुष्.पैः सन्ततिं वै जातीपुष्.पैर्गृहादिकम् || ५५ ||

योनिपुष्पैर्वंशवृद्धिं वकुलैः सौमनस्यताम् |
किंशुकैरोगनिहतिं कुटजैः शत्रुनाशनम् || ५६ ||

एवमन्यैः सुगन्धाढ्यैः पुष्पैः पत्रैश्च भार्गव |
पूजयित्वा विधानेन महाफलमवाप्नुयात् || ५७ ||

फलैर्धान्यैरर्चयेश्च प्रोक्तमार्गानुसारतः |
लक्षवर्तिप्रदीपैर्वा पूजयेत्त्रिपुराऽम्बिकाम् || ५८ ||

समर्थस्तत्र वर्त्तिभ्यां दीपानेव प्रकल्पयेत् |
दशकेन शतेनाऽपि सहस्त्रेणाऽपि वा तथा || ५९ ||

पञ्चाशद्दशसाहस्रैः सहस्रशतमेव वा |
एकैकञ्च घृताऽपूर्णमर्पयेदेकनामभिः || ६० ||

सहस्रनामभिर्देव्याः शतनामभिरेवबा |
दशाऽवर्तनकैर्वापि चैकावर्तनकेन वा || ६१ ||

तथा पञ्चशताऽवृत्त्या दीपं देव्यै समर्पयेत् |
अन्ते स्वर्णेन रौप्येण नवकं वर्त्तियुग्मकम् || ६२ ||

कृत्वा ताम्रमये दीपे घृतवर्तिसमूज्ज्वले |
निवेदयेत्तु कलशे पायसेन हुनेत्तथा || ६३ ||

श्रीसूक्तेनाऽभिषेकं वै कुर्याच्छ्रीचक्रनायके |
आवृत्तीनां लक्षकेन सहस्रेण शतेन वा || ६४ ||

स्वयं वा ब्राह्मणैर्वापि क्षिरैरिक्षुरसैर्घृतैः |
मधुभिर्वा फलरसैर्दधिभिर्वा सुगन्धिभिः || ६५ ||

तोयैस्तीर्थोद्भवैर्वापि राम पूर्वोक्तवर्त्मना |
अन्ते दशांऽशतो बन्हौ पायसेन हूनेत् क्रमात् || ६६ ||

प्रत्युऋचं श्रीसूक्तकस्य पूर्वत्तु समापयेत् |
रुद्राभिषेकतो वाऽपि महाफलमुदीरितम् || ६७ ||

एवं भार्गव ! सम्प्रोक्तं धनिनां शुभसाधनम् |
अधनैस्तु शरीरेण कर्तव्यं शुभसाधनम् || ६८ ||

समर्थस्तीर्थयात्रान्तु कृत्वा श्रेयः समावहेत् |
अथ वा देवतास्थाने परिचर्यां समाचरे तु || ६९ ||

उपास्तितत्परान् वाऽपि सेवेत् विगतस्पृहः |
अतिमूढस्य चैतावदेव कृत्यमुदीरितम् || ७० ||

मेधावी प्रजपात्पाठात् कथादीनां प्रवाचनात् |
देवताशास्त्रपठनात् पाठनाच्छ्रेय आप्नुयात् || ७१ ||

योग्येषु देवतोपास्तिशास्त्रं यः सम्यगीरयेत् |
स देहान्ते वैद्रुमे तु प्राकारे निवसेश्चिरम् || ७२ ||

चित्राणि यो लिखेद्देव्याः प्रासादेषु सुभक्तितः |
निवसेद्वासन्तवप्रे चिरमानन्दिताऽन्तरः || ७३ ||

सम्मार्ज्य शीततोयैश्च सेचयेत् यश्च मन्दिरम् |
अभिर्षञ्चेत्तथा शीततोयैरपि सुवासितैः || ७४ ||

निवसेश्चान्द्रवप्रान्तः स सन्तापविवर्जितः |
यस्तु रात्रौ दीपिकाभिः प्रकाशयति मन्दिरम् || ७५ ||

निवसेत् सूर्यवप्रान्तः प्राप्य भोगान् यथेप्सितान् |
एवमत्र यथा यो यः सेवां कुर्यात्तु मन्दिरे || ७६ ||

स देहान्ते श्रीपुरे तु स्थानं प्राप्नोति तादृशम् |
उपासकेभ्यो दानानि कृत्वाऽपि स्थानमाप्नुयात् || ७७ ||

यः पुस्तकं देवताया दद्याद्योग्याय भक्तितः |
स सिद्धवप्रवस्तिं प्राप्नुयात् सुसुखावहाम् || ७८

यस्तु पूजोपकरणं प्रदद्यात् साधकोत्तमे |
स वसेद्दिक्पतीनां हि वप्रे सौख्यमवाप्नुयात् || ७९ ||

एवं यद्यत् प्रदद्याद्वै भक्त्योपासनसत्तमे |
तत्तत्तुल्यनिवसतिं प्राप्नुयान्नाऽत्र संशयः || ८० ||

अथ ते संप्रवक्ष्यामि दानानामुत्तमं परम् |
श्रीच्क्राजदानन्तु महाफलविधायकम् || ८१ ||

सुअर्वणि समभ्यर्च्य चक्रराजं यथाविधि |
पूजान्ते त्रिपुरापूजापरं विप्रं सुलक्षणम् || ८२ ||

सपत्नीकं समभ्यर्च्य विशेषद्रव्यसाधनैः |
वस्त्रैराभरणैः गन्धपुष्पादिभिः क्रमात् || ८३ ||

सपीठं सोपकरणं साधनद्रव्यसंयुतम् |
सामान्याऽर्घोदकं हस्ते विप्रस्य समवासृजेत् || ८४ ||

ततो विप्रस्तु तां पूजामुद्वासप्रमुखाञ्चरेत् |
भोजयेदावृतिमितान् ब्राह्मणान् सुविधानतःह् || ८५ ||

सुवासिनीर्भोजयेत्तु नित्याषोडशनामभिः |
यथाशक्त्या वाऽपि विप्रान् भोजयेत्तु प्रयत्नतः || ८६ ||

अथ वा भोजयेन्नित्यानामभिस्तु सुवासिनीः |
षोडश ब्रह्मणांश्चापि द्वादशाऽराध्य भोजयेत् || ८७ ||

एवं दद्याद्यस्तु दानं चक्रराजस्य भक्तितः |
तस्य प्रीता महादेवी स्वसायुज्यं प्रयच्छति || ८८ ||

सर्वतीर्थेषु स स्नातः तेन सर्वं व्रतं कृतम् |
सर्वं दानं तेन दत्तं तेन यज्ञास्तथा कृताः || ८९ ||

तपस्तेन सुतप्तं वै पठिता निखिलागमाः |
त्रिपुराऽपि च तत्कर्मसकृशं नाऽस्ति वै फलम् || ९० ||

इति मत्वा स्वसायुज्यं तस्मै शीघ्र. प्रयच्छति |
यतः सर्वजगद्रूपप्रतिमं राम चक्रकम् || ९१ ||

प्ऽतस्तेन जगद्दत्तं न दत्तं किं कथं भवेत् |
यदि कामनया कुर्याद्यं यं काममभीप्सति || ९२ ||

तं तं प्राप्नोति सहसा मोक्षञ्चाऽन्ते समाप्नुयात् |
एवन्तु स्थावरं यन्त्रमग्रे हारसमन्वितम् || ९३ ||

महादानयुतञ्चाऽपि दद्याद्विप्राय यः पुमान् |
तस्य पुण्यमनन्तोऽपि न शक्तः कथने क्वचित् || ९४ ||

मूर्ति वापि नार्मदं वा शिवनाममथाऽपि वा |
शालिग्रामं कुण्डलिनीमेव दद्यात्तु भक्तितः || ९५ ||

श्रीपुरे तु चिरं स्थित्वा मुच्येद्देहाऽवसानके |
मन्दिरं चक्रराजादेर्जीर्णं कुर्यान्नवन्तु यः || ९६ ||

तत्पुण्यं स्याच्छतगुण नवमन्दिरनिर्मितेः |
पूजां वाऽपि चिरोच्छिन्नां प्रवर्तयति यः पुनः || ९७ ||

धनभूमिप्रदानेन तस्याऽपि शतधा फलम् |
सर्वगुह्यतमं भूयः शृणु वक्ष्यामि भार्गव ! || ९८ ||

यस्तु भक्तेषु योग्येषु सम्प्रदायं समादिशेत् |
धनमानाद्यपेक्षः सन् क्रमदीक्षादिरीतितः || ९९ ||

तस्याऽनन्तफलं राम ! कस्तद्वर्णयुतुं क्षमः |
यथेच्छं निवसेन्नाथमण्डलेऽन्ते विमुच्यते || १०० ||

यस्तु योग्यं सम्प्रदायं प्रार्थयन्तमुपासने |
कामान्मोहात् प्रमादाद्वा वैराग्याद्वा निषेधति || १०१ ||

यश्च द्रव्यादिलोभेनाऽनर्हे शास्त्रं प्रयोजयेत् |
तयोर्न विद्यते लोकः प्राप्स्यतो ह्यधमाङ्गतिम् || १०२ ||

तस्माद्यः सम्प्रदायं भक्तानां वैन निरूपयेत् |
विद्यालोभयुतो मौर्ख्यात् सोऽपि यात्यधमां गतिम् || १०३ ||

तस्मात् स्वशिष्यमन्यं वा युक्तं भक्तिसमन्वितम् |
सम्प्रदायं विजिज्ञासुं न निशिध्येत् कथञ्चन || १०४ ||

एतन्महाफलं राम नैतत्तुल्यन्तु किञ्चन |
अन्यद्दानमनात्माख्यमपि बन्धकरम् भवेत् || १०५ ||

एतदात्मप्रदानं वै यद्विद्याद्विद्यादाने विशेषतः |
विद्यालिखितदानेन चाऽपि तत्फलम् स्यादनन्तकम् || १०६ ||

यस्त्वशक्तो बुद्धिमान्द्याद्विद्यादाने विशेषतः |
विद्यालिखितदानेन चाऽपि तत्फलमाप्नुयात् || १०७ ||

एदमत्यन्तसंगुप्तं प्रीत्या तव निरुपितम् |
एवं महाफलप्राप्तिस्त्रिपुरोपासनाविधौ || १०८ ||

एष भार्गव ते प्रोक्तस्त्रिपुराया रहस्यके |
माहात्म्यवैभवो यस्य श्रवणाद्भक्तिमान् भवेत् || १०९ ||

देवर्षे ! संश्रुतं कश्चित् सावधानेन चेतसा |
एष माहात्म्यखण्डो वै त्रिपुराया रहस्यके || ११० ||

यः शृणोति स सर्वेभ्यः पापेभ्यः प्रविमुच्यते |
परमं साधनं ह्येतदात्मबन्धविमुक्तये || १११ ||

यतो भक्तिर्हि मोक्षस्य जनयित्रि निगद्यते |
सा माहात्मयश्रुतिमृते यतो न भवति क्वचित् || ११२ ||

तस्मात् पराख्यसौधस्य सोपानं प्रथमं ननु |
माहत्म्यश्रवणं लोके मोक्षद्वारमिदं स्मृतम् || ११३ ||

महिमानमसंश्रुत्य कथं भक्तिर्भवेदिह |
भक्या विना परं श्रेयः कथं स्याद्देवता परा || ११४ ||

मोक्षस्य साधनं सर्वं विना भक्या न किञ्चन |
यथा तरुण्याः सौन्दर्य विनसंसर्वथा तथा || ११५ ||

भुवं विना यथा बीजं नाङ्कुरं प्रतिरोहयेत् |
तथा भक्तिं विना ज्ञानं फलं न जनयेत् क्वचित् || ११६ ||

अभक्त्स्य न कर्मास्ति नोषास्तिर्नो विवेकिता |
तस्माद्भक्तिविहीनस्य न क्वचित् स्याद् धृतिः क्वचित् || ११७ ||

माहात्म्यसंश्रुतिस्तस्या मूलं यस्माश्च नारद ! |
तस्मादेतं संशृणुयात् खण्डं माहात्म्यसंज्ञितम् || ११८ ||

शृण्वतां पठताञ्चाऽपि महापापप्रणाशनम् |
पठितव्यं नित्यमेतदध्यायं श्लोकमेव वा || ११९ ||

प्रसादं त्रिपुराशक्तेर्वाञ्छता सर्वथा शुभम् |
एतदायुष्यजननं सौमङ्गल्यविवर्धनम् || १२० ||

अध्नो धन्वान् भूयादपुत्रा पुत्रिणी भवेत् |
यद्यत्समीहितं तत्तत्प्राप्यतेऽस्य हि संश्रुतेः || १२१ ||

विद्याप्रदं विलिखितं पूजितं प्रेप्सितप्रदम् |
विचारितं ज्ञानभक्तिवैराग्यादिप्रदं नृनाम् || १२२ ||

सर्वाऽगमाब्धिमथनाद्यद्भक्तयमृतमाप्यतु |
अमृताः शिवमुख्याः स्युः सा माता त्रिपुरैव हृईम् || १२३ ||

इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे उपासकमुख्यधर्मवर्णनं नामाऽशीतितमोऽध्यायः || ६६६९ ||

त्रिपुराम्बार्पितमस्तु |
ओंम् तत् सत् ||

समाप्तमिदं त्रिपुरारहस्ये माहात्म्यखण्डम् |


Angehängte Lob- und Meditationsverse

श्रीविद्यायै सादरानुरोधः जाग्रद्बोधसुधामयूखनिचयैराप्लाब्य सर्वादिशो यस्याः काऽपि कलाकलङ्करहिता षट्चक्रमाक्रामति |
दैन्यध्वान्तविदारणैकचतुरा वाचंपरां तन्वती सा नित्या भुवनेश्वरी विहरतां हंसीव मन्मानसे ||

त्रिपुरा-रहस्यकम् देवानां त्रितयं हुतभुजां शक्तित्रयंत्रिस्वरा स्त्रैलिक्यं त्रिपदी त्रिपुष्करमथो त्रिब्रह्म वर्णास्रयः |
यत्किञ्चिञ्जगतित्रिधानियमितं वस्तुत्रिवर्गादिकं तत्सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः || (लघ्वाचार्यकृतलघुस्तवः )

सिन्दूरारुणविग्रहांत्रिनयनां माणिक्यमौलिस्फुरत्तारानायकशेखरांस्मितमुखीमापीनवक्षोरुहाम् |
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलंविभ्रतीं सौम्यांरत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ||

श्रीविद्याभावनम् ध्यायेत्पद्मासनस्थांविकसितवदनां पद्मपत्रायताक्षीं हेमामांपीतवस्त्रां करकलितलसद्धेमपद्मांवराङ्गीम् |
सर्वालङ्कारयुक्तां सततममयदांक्तिगम्यांभवानीं श्रीविद्यांशान्तमूर्त्तिसकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ||

सलोमास्थिस्वैरं पललमपि मार्ञ्जारमसिते परं चोष्ट्रं मेषं नरमहिषयोश्छागमपि वा |
बलिं ते पूजायामपि वितरतां मर्त्यवसतां सतां सिद्धिः सर्वा प्रतिपदमपूर्वा प्रभवति |
(कर्पुरस्तवश्लोकः)

त्रिपुरासमर्चनम् आनन्दजन्म भवनं भवनं श्रुतीनां चैतन्यमात्रतनुमम्ब ! तवाऽश्रयामि |
ब्रह्मेशविष्णुभिरूपासितपादपद्मां सौभाग्यजन्मवसतिं त्रिपुरे ! यथावत् |


हृईंकारमाहात्म्यम्

हृओं हृओमिति /प्रतिदिनं जपतां तवाख्यां किं नाम दुर्लभमिह त्रिपुराभिधाने |
मालाकिरीटमदवारणमाननीयांस्तान्सेवते मधुमता स्वयमेव लक्ष्मीः ||

Textgrundlage und Hinweise zur Übersetzung

Sanskritgrundlage: Muktabodha Indological Research Institute, elektronische Texte M00344, Tripurārahasya, Jñānakhaṇḍa, mit Śrīnivāsabhaṭṭas Tātparyadīpikā (Revision vom 21. Februar 2016), und M00221, Tripurārahasya, Māhātmyakhaṇḍa, Kapitel 51 bis zum Schluss, Gurumaṇḍalagranthamālā 28, Teil 2 (Revision vom 18. September 2010). Erfassung durch die Mitarbeiter des Instituts unter Leitung von Mark S. G. Dyczkowski. Beide elektronischen Texte nennen Creative Commons BY-NC 4.0 als Lizenz.

Die Sanskritwiedergabe bewahrt die Lesungen, Variantenklammern, Sprecherangaben, Kolophone und angehängten Verse der elektronischen Textgrundlage. Kapitelüberschriften, Absätze und Halbversumbrüche sind für die Lektüre gegliedert; Druckseitenmarkierungen entfallen. Offensichtliche Schreib- und Nummerierungsprobleme der Grundlage sind damit nicht als gesicherte Lesungen bestätigt. Im Māhātmyakhaṇḍa stehen teilweise verkürzte oder widersprüchliche Kapitelbezeichnungen; die Orientierung folgt der fortlaufenden Kapitelabfolge und den Kolophonen. Der Jñānakhaṇḍa überliefert den Grundtext zusammen mit seinem Sanskritkommentar; wiederkehrende Versnummern können sich auf die anschließende Erklärung desselben Verses beziehen.

Māhātmyakhaṇḍa 1–50 und ein Caryākhaṇḍa gehören nicht zum hier zugrunde liegenden Textbestand. Die abschließenden Lob- und Meditationsverse nach dem Māhātmyakhaṇḍa werden als Anhang überliefert, nicht als zusätzliche Kapitel des Grundwerks.

Seminare

Kundalini Yoga

25.10.2026 - 30.10.2026 Kundalini Yoga Meditation Kursleiter Ausbildung

Kundalini Yoga Meditationen sind ein faszinierendes weites Gebiet, dessen Potential noch bei weitem nicht ausgeschöpft ist. Kundalini Meditationen kön…
Adishakti Stein, Viveka Wilde
30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Arjuna Wingen

Yoga und Meditation Intensiv-Praxis

18.10.2026 - 23.10.2026 Shivalaya Meditationsretreat

Stille – Schweigen – Sein. In der Abgeschiedenheit des Shivalaya Retreatzentrums fühlst du dich dem Himmel ganz nah. Mit intensiver Meditations- un…
Swami Nirgunananda, Rukmini Keilbar
29.11.2026 - 04.12.2026 Spirituelles Retreat

Spirit for free! Ein spirituelles Retreat bietet dir die Möglichkeit, dich einmal aus dem alltäglichen Leben mit all seinen Aktivitäten und seinen vi…
Dana Oerding

Damit endet der in dieser Ausgabe vorhandene Devanagari-Text des Māhātmyakhaṇḍa einschließlich der angehängten Lob- und Meditationsverse. Die deutsche Übersetzung und Einordnung stehen unter Tripura Rahasya.

Zur Übersicht: Grundtext und deutsche Übersetzung · Tātparyadīpikā – deutsche Übersetzung · Sanskrit: IAST · Devanagari, Jñānakhaṇḍa · Devanagari, Māhātmyakhaṇḍa · Praxis: 108 inspirierende Verse und Mantras