Pranatosini Tantra Teil 2
Pranatosini Tantra Sanskrit Devanagari Teil 2
Im Artha- und Kāmyakāṇḍa erhält die spirituelle Ausrichtung eine konkrete Gestalt: tägliche Verehrung, Guru-Gedenken, Kundalini, Reinigung, Mantra und besondere Feste der Göttin. Die vielen Ritualformen werden durch die Frage verbunden, wie äußere Handlung und innere Vergegenwärtigung zusammenwirken.
Dieser Devanagari-Teil umfasst das dritte und vierte Buch. Die deutschen Lesefassungen stehen in Teil 3: Artha und Teil 4: Kāmya. Er schließt an Sarga und Dharma an; Bhakti und Jñāna folgen im nächsten Teil.
Für das Studium von Yoga und Meditation empfiehlt es sich, die einzelnen Zitate zusammen mit ihren Erläuterungen zu lesen. Die Sammlung bewahrt unterschiedliche Lehrmeinungen; ein Sprecherwechsel kann auch den Wechsel der zitierten Schrift anzeigen.
Deutsche Einführung: Pranatosini Tantra · Vorheriger Teil: Pranatosini Tantra Sanskrit Devanagari · Nächster Teil: Pranatosini Tantra Sanskrit Devanagari Teil 3
Teile der Sanskritausgabe: Pranatosini Tantra Sanskrit Devanagari · Pranatosini Tantra Sanskrit Devanagari Teil 2 · Pranatosini Tantra Sanskrit Devanagari Teil 3 · Pranatosini Tantra Sanskrit Devanagari Teil 4
Arthakāṇḍa – Verehrung und tägliche Praxis

नवशशधरखण्डं बिभ्रती चन्द्रकान्तद्युतिरमरनराद्यैरर्चिता भारती नः |
श्रवतु विशदपद्मे सन्निषणा प्रसन्ना नवरसरुचिरा सङ्गीतविद्याद्यधीशा ||
श्रीप्राणकृष्णकृतिरस्य निदेशववर्त्ती मैत्रेयवंशजकुलाश्रितचक्रवर्ती |
श्रीरामतोषण इदं विदधे निजेष्टदेवीप्रसादजनितं रुचिरार्थकाण्डम् ||
तृतीयस्यार्थकाण्डस्य निर्घण्टः क्रियते मया |
केषाञ्चिदन्यन्निर्द्दिष्टं यथास्थानं विलोक्यताम् |
आचारसप्तकं तत्र वेदाचारक्रमस्तथा |
उत्थाय भूतशुद्ध्यादिकार्ययं ध्यानं गुरोस्ततः |
पञ्चभूतात्मकैः पञ्चोपचारैर्मानसार्च्चनम् |
ततश्च सद्गुरुध्यानं कुलवृक्षनतिस्ततः |
पादुकामन्त्रकथनं तस्य माहात्म्यकीर्त्तनम् |
गुरुतत्स्त्रीपूजनस्य मन्त्रस्तु तदनन्तरम् |
जपमन्त्रो गुरुस्तोत्रकवचानि गुरोर्नतिः |
सद्गुरोश्च नमस्कारो ब्राह्मणादिनमस्कृतिः |
स्त्रीगुरुध्यानस्तवनकवचानि ततः परम् |
तद्गाता गुरुपूजा च गुरुपङ्क्तिनिरूपणम् |
इति ग्रन्थस्वरूपाद्यपरिच्छेदसमापनम् |
ततः कुण्डलिनीध्यानं तत्स्तोत्रकवचे ततः |
सौरगणेशमन्त्राद्यजपसमर्पणं ततः |
हंसध्यानाजपासंख्याजपाभेदनिरूपणम् |
आत्मध्यानादिकं तस्माद्वहिर्गतिक्रमस्तथा |
मैत्रं दन्तधावनञ्च नासाशुद्ध्यञ्जने तथा |
देवालयोपलेपादिक्रमस्तोत्रं ततः परम् |
परिच्छेदो द्वितीयश्च समाप्तस्तदनन्तरम् |
स्नानफलं स्नानभेदाभ्यन्तरस्नाननिर्णयः |
नित्यस्नान स्नानविधिर्यस्तत् सदिति भाषणम् |
सङ्कल्पश्च तन्निषिद्धपात्रं तत्पात्रनिर्णयम् |
तीर्थावाहनाङ्गषट्कन्यासौ मूलजपस्तथा |
मृतिकालम्भनादिश्च शङ्खतोयाभिषेचनम् |
सङ्क्षेपतर्पणं पश्चात् परखातेतिकार्ययता |
तेन स्नाननिषेधश्च गात्रमार्जनवस्त्रकम् |
गात्रमार्जननिषेधस्तत्कारणनिरूपणम् |
गङ्गाध्यानमन्त्रफलं क्षेत्रमाहात्म्यमेव च |
गङ्गानामादिमाहात्म्यं गङ्गामृत्युफलं ततः ||
तद्यात्रिकस्याध्वमृत्युतत्तीरमृत्युजफलम् |
गङ्गाजलाच्चतुर्हस्तमध्ये पिण्डप्रदानजम् |
फलं गङ्गातर्पणजं कालाकालविचारणम् |
तत्र नास्ति च गङ्गायां चौर्ययादिदोषनिर्णयः |
अभिषेकामृतकृतमानसस्नानमेव च |
परिधेयवस्त्रमानं कर्मभेदेऽंशुकं ततः |
नीलांशुकादेश्च ततो निषेधश्चोत्तरीयकम् |
त्रिधा योगपदं यज्ञोपवीतमार्जनं ततः |
तिलकं स्थानभेदे तु तदाकारनिरूपणम् |
ऊर्द्ध्वपुण्ड्रं तत्फलञ्च तदृते कर्मनिन्दनम् |
ऊर्द्ध्वपुण्ड्रे त्रिपुण्ड्रस्य निषेधस्तदनन्तरम् |
वैष्णवानामूर्द्ध्वपुण्ड्रं ब्राह्मणादेस्त्रिपुण्ड्रकम् |
ऊर्द्ध्वपुण्ड्रस्य निर्माणविधिस्त्रेधोत्तमादिकः |
तस्य वर्णभेदफलं निन्द्यपुण्ड्रं ततः परम् |
ऊर्द्ध्वपुण्ड्राकृतिस्त्रेधा हरिमन्दिरलक्षणम् |
पुण्ड्रकृत्येऽङ्गुलीभेदफलं पुण्ड्रस्य मृत्तिका |
गोपीचन्दनमाहात्म्यं तद्दानस्य फलं ततः |
तुलसीमूलमृत्स्नाया माहात्म्यं तदनन्तरम् |
विष्णुनिर्माल्यानुलेपतिलकञ्च ततः परम् |
द्वादशतिलकविधिवद्दाने चोपक्रमस्ततः |
त्रिपुण्ड्रधारणस्थाननिरूपणमतः परम् |
भस्मान्तरं त्रिपुण्ड्रस्य पञ्चब्रह्म-ऋचस्ताः |
कालाग्निरुद्रोपनिषत्त्रिपुण्ड्रस्य फलं ततः |
त्रिपुण्ड्राकरणे निन्दा शक्तितिलकनिर्णयः |
इतिच्छेदतृतीयस्य समापनमथोच्यते |
सन्ध्या वेदोदिता कार्यया तान्त्रिकी तदनन्तरम् |
सन्ध्याविहीननिन्दा च द्वादश्यादौ च तत्क्रिया |
ततः परं योगिसन्ध्या योगिनां तर्पणं ततः |
तेषामादित्यपूजापि कौलसन्ध्या ततः परम् |
मार्जनस्य वैदिकस्य प्रकारस्तदनन्तरम् |
गायत्रीव्याहृतेरर्थो गायत्र्यर्थस्ततः परम् |
सन्ध्यासवर्णरूपस्तु सवर्णदैवतन्तथा |
सवर्णध्यानफलकन्तस्या यन्त्रं ततः परम् |
ऋषयः प्रणवस्यापि गायत्र्याश्च ततः परम् |
पदन्यासः शिरोन्यासः षडङ्गन्यास एव च |
ध्यानं तस्यास्ततो ध्यानान्तरे ऋष्यादिरेव च |
निन्दा जपस्य न्यासेन विना न्यासस्य मुद्रिका |
गायत्रीपूजनं पीठपूजनं तदनन्तरम् |
दशावरणपूजा च द्रव्याभावे जलादिना |
पुनर्जन्तु जपफलं विशेषो जपनक्रमः |
अशौचेऽपि च गायत्र्या मानसो जप ईरितः |
तस्यै जपार्पणं तस्याः कवचं तत्पुरस्क्रिया |
तत्काम्यकर्म्म तान्त्रिक्या गायत्र्याः फलनिर्णयः |
तज्जपस्य फलं तस्याः पुरश्चरणमेव च |
तस्या ऋष्यादिविवन्यासस्त्रिसन्ध्यध्यानमेव च |
यागस्थानागतिः पादप्रक्षालनमतः परम् |
द्वारपूजा वैष्णवादिमतभेदेन तत्परम् |
पूजागृहप्रवेशश्चासनञ्च तदनन्तरम् |
फलभेदे त्वासनस्य भेदश्च गृहमेधिनाम् |
कृष्णाजिनविशेषश्चासनानाञ्च फलं ततः |
काष्ठासनविशेषश्च मृद्वाद्यासनमेव च |
परिमाणमासनस्य कर्मभेदासनं ततः |
शवासनादि च ततः सलोमासननिन्दनम् |
आसनस्य च ऋष्यादि यतीनामासनाकृतिः |
यतिभिन्नासनं ज्ञेयं चतुरस्रं समन्ततः |
प्रौढपादनिषेधश्च प्रौढपादस्य लक्षणम् |
सिद्धासनं ततः पद्मासनं योगोपयोगि च |
द्रव्यस्थापनदेशश्च त्रिविधं पात्रमेव च |
पाद्यपात्रं ततः पाद्याधारपात्रस्य लक्षणम् |
चर्मपात्रलक्षणञ्च चामपात्रस्य लक्षणम् |
पानीयपात्रताम्बूलपात्रस्य लक्षणं ततः |
इति पल्लवविच्छेदचतुर्थस्य समापनम् |
भूतशुद्धिर्भूतशुद्धौ पापदेहविनाशनम् |
पापपुरुषध्यानन्तु पृथिव्यादिविलापनम् |
आवश्यकं भूतशुद्धेः स्वप्राणानां प्रतिष्ठितिः |
प्राणायामस्तु तत्पूजाधारो मन्त्रशिलार्च्चने |
न यन्त्रकरणं मूर्त्तिनिकटेऽपि कदाचन |
पूजाद्वयं कृते यन्त्रे पार्थिवेऽर्च्चानिषेधनम् |
विद्याविशेषे तत्रापि पूजासाधकसिद्धये |
ब्रह्मणो मूर्तिराख्याता श्वेतकृष्णादिरूपिणी |
कालिकाया रूपनेत्रादिबीजं तदनन्तरम् |
आविर्भावो देवतायाः प्रतिमादौ निरूपितः |
कृष्णादिमूर्त्तेर्नित्यत्वं मन्त्रः प्राणप्रतिष्ठिते |
तस्य ऋष्यादिविन्यासः षडङ्गन्यास एव च |
मन्त्रन्यासस्ततो ध्यानं पूजा तस्य पुरस्क्रिया |
प्राणदूत्यः प्रयोगश्च तद्यन्त्रकरणं ततः ||
आसनं पाद्यमर्घ्यञ्चाचमनीयं ततः परम् |
मधुपर्कः पुनराचमनीयं तदनन्तरम् |
गन्धशब्दस्य व्युत्पत्तिर्गन्धस्तद्दानजं फलम् |
गन्धाष्टकं पञ्चविधं पुष्पव्युत्पत्तिरेव च |
पुष्पञ्च करवीरस्य फलं तदनु कीर्त्तितम् |
करवीरादिमूले तु प्राणत्यागफलं ततः |
श्वेतादिकरवीराणां माहात्म्यं तदनन्तरम् |
अपराजितादिमाहात्म्यं विशेषपुष्पदानजम् |
फलं पुष्पफलं कृष्णापराजिताफलं ततः |
रसालमञ्जरीत्यादिफलं श्रीचक्रपूजने |
कृते पुष्पविशेषेण प्रायश्चित्तं ततः परम् |
वृक्षस्थपुष्पदानस्य निषेधकारणं ततः |
मध्याह्नस्नानमर्त्त्यस्य पुष्पाहरणनिन्दनम् |
पुष्पमालायज्ञसूत्रमालाभेदनिषेधनम् |
वर्ज्यपुष्पं कालभेदे देवभेदेऽपि तत्परम् |
धूपशब्दस्य व्युत्पत्तिर्धूपस्तद्दानजं फलम् |
दीपशब्दस्य व्युत्पत्तिर्दीपो वस्त्रं ततः परम् |
अलङ्कारश्च नैवेद्यं ताम्बूलं तदनन्तरम् |
निषिद्धञ्चैव ताम्बूलं नतिभेदस्ततः परम् |
निर्माल्यकालविज्ञानं देवतायै निवेद्यकम् |
सन्देशादिनारिकेलशस्यं मिष्टसमन्वितम् |
इङ्गुद्यादिफलं शस्तं शाको मूलादिसम्भवः |
तिन्तिडीगिरिकुष्माण्डे निषिद्धे वनजं तथा |
वीजपूर्णकदल्यादि चाकालपनसस्तथा |
शस्यानि यानि देयानि निषिद्धानि ततः परम् |
निषिद्धं लवणं क्षारं प्राचीभूतादिकं तथा |
मार्गादिमांसं दातव्यं निषिद्धं माहिषं तथा |
क्षीरं दधि घृतञ्चैव पक्षिणां हरितादयः |
देया मत्स्याश्चित्रकाद्या निषिद्धा च विडालिका |
अभक्ष्या जानपादाद्याः शकुना ये तथाभिधाः |
अभक्ष्याश्च तथा प्रोक्ताः शाकाः कौसुम्भकादयः |
निषिद्धं रामरम्भादि धान्यं श्रावणिकादि च |
नारिकेलं सुवर्णाभं कर्कन्धुः शर्करान्विता |
न देयास्तिक्तकमठो मत्स्या गोमीनकादयः |
भक्ष्याभक्ष्ये देशभेदे तान्त्रिकैर्वर्ज्यमेव च |
मृतमांसं त्रिरात्रावस्थितं मांसं तथैव च |
मांसत्यागफलञ्चैव कार्त्तिकादौ विशेषतः |
पक्षी भक्ष्योऽप्यभक्ष्योऽप्यभक्ष्या नृवानरादयः |
कुक्कुरादिमांसभोगे प्रायश्चित्तं ततः परम् |
मांसत्यागे तुलादौ तु फलं नानाविधं तथा |
यावज्जीवनमांसादित्यागस्य फलमेव च |
हविव्यान्नं ततोऽन्यानि ज्ञेयानीति यथास्थलम् |
नित्यातन्त्रे प्रथमपटले ||
चत्वारो देवि ! वेदाद्या पशुभावप्रतिष्ठिताः |
वामाद्यास्त्रय आचारा दिव्ये वीरे प्रतिष्ठिताः |
एतान् सप्ताचारान् स्पष्टयति कुलार्णवे पञ्चमखण्डे ||
सर्वेभ्यश्चोत्तम वेदा वेदेभ्यो वैष्णवं महत् |
वैष्णवादुत्तमं शैवं शैवाद्दक्षिणमुत्तमम् |
दक्षिणादुत्तमं वामं वामात् सिद्धान्तमुत्तमम् |
सिद्धान्तादुत्तमं कौलं कौलात्परतरं न हीति ||
नित्यातन्त्रे ||
वेदाचारं प्रवक्ष्यामि शृणु सर्वाङ्गसुन्दरि ! |
ब्राह्म्ये मुहूर्ते उत्थाय गुरुं नत्वा स्वनामभिः |
आनन्दनाथशब्दान्ते पूजयेदथ साधकः |
सहस्राराम्बुजे ध्यात्वा उपचारैस्तु पञ्चभिः |
प्रजप्य वाग्भवं बीजं चिन्तयेत् परमां कलाम् ||
रुद्रजामले उत्तरखण्डे द्वितीयपटले ||
प्रभाते च समुत्थाय अरुणोदयकालतः |
प्रातःकृत्यादिकं कृत्वा पुनः शययास्थितो नरः |
गुरुं सञ्चिन्तयेत् शीर्षाम्भोजे सहस्रके दले |
अत्र पूर्वोक्तवचनेनैकवाक्यतया प्रभाते ब्राह्ममुहूर्ते एवं वक्ष्यमाणपश्चिमयामेत्यादावपि ||
तत्र रुद्रजामल प्रथमख्ण्डे प्रथमपटले |
ब्राह्म्ये मुहूर्ते उत्थाय बद्धपद्मासनः सुधीः |
विधाय भूतशुद्ध्यादीन् गुरुं प्रातः स्मरेन्नरः |
आदि शब्दादिष्टदेवताध्यानादिकमेव च ||
तथा च नीलातन्त्रे प्रथमपटले ||
उत्थाय पश्चिमे यामे चिन्तयेदुग्रतारिणीम् |
आमूलाद्ब्रह्मरन्ध्रान्तं विषतन्तुस्वरूपिणीम् |
मूलमन्त्रमयीं साक्षादमृतानन्दरूपिणीम् |
सूर्ययकोटिप्रतीकाशां चन्द्रकोटिसुशीतलाम् |
तडित्काटिसमप्रेक्षां कामानलशिखोपरि |
तत्प्रभापटलव्याप्तपाटलीकृतदेहवान् |
सहस्रदलपङ्कजे सकलशीतरश्मिप्रभं वराभयकराम्बुजं विमलगन्धपुष्पोक्षितम् |
प्रसन्नवदनेक्षणं सकलदेवतारूपिणम् |
स्मरेच्छिरसि हंसगं तदभिधानपूर्वं गुरुम् ||
रुद्रजामले पूर्वखण्डेऽपि एतत् किन्तु द्वितीयचरणान्ते पुष्पस्रजमिति पाठः ||
विश्वसारे द्वितीयपटलेऽपि ||
प्रातः शिरसि शुक्लेऽब्जे द्विनेत्रं द्विभुजं गुरुम् |
वराभयकरं शान्तं स्मरेत्तन्नामपूर्वकम् ||
कङ्कालमालिनीतन्त्रे प्रथमपटले च |
सहस्रदलपद्मस्थं अन्तरात्मानमुज्ज्वलम् |
तस्योपरि नादविन्दोर्मध्ये सिंहासनोज्ज्वले |
तत्र निजगुरुं नित्यं रजताचलसन्निभम् |
वीरासनसमासीनं सर्वाभरणभूषितम् |
शुक्लमाल्याम्बरधरं वरदाभयपाणिनम् |
वामोरुशक्तिसहितं कारुण्येनावलोकितम् |
प्रियया सव्यहस्तेन धृतचारुकलेवरम् |
वामेनोत्पलधारिण्या रक्ताभरणभूषया |
ज्ञानानन्दसमायुक्तं स्मरेत्तन्नामपूर्वकम् ||
पूर्वखण्डेऽपि ||
वामोरुन्यस्तशक्तिञ्च स्वपाण्यालिङ्गितप्रभम् |
वामहस्तोत्पलां रक्तां ध्यायेत्परमतृप्यतीम् ||
यत्तु रुद्रजामले उत्तरखण्डे द्वितीयपटले ||
तरुणादित्यसङ्काशं तेजोविम्बं महागुरुम् |
अनन्तानन्तमहिमासागरं शशिशेखरम् |
महासूक्ष्मभास्वराङ्गं तेजोविम्बं महागुरुम् |
महाशुक्लाम्बराब्जस्थं द्विनेत्रं द्विभुजं गुरुम् |
आत्मोपलब्धिविषयं तेजसा शुक्लवाससम् |
आज्ञाचक्रोर्द्धनिकरं कारणञ्च सतां सुखम् |
धर्मार्थकाममोक्षाङ्गं वराभयकरं विभुम् |
प्रफुल्लकमलारूढं सर्वज्ञं जगदीश्वरम् |
अन्तःप्रकाशचपलं वनमालाविभूषितम् |
रत्नालङ्कार्भूषाढ्यं देवदेवं सदा भजेत् ||
इति रक्तवर्णगुरुध्यानमुक्तम् |
तद्राजसगुरुपरम् |
राघवभट्टमते तु शक्तिमात्रविषये रक्तवर्णस्यैव गुरोर्ध्यानम् |
न तु शुक्लस्य तदितरविषये शुक्लवर्णमेव ध्यायेदिति तन्न समीचीनम् |
शक्तिविषयेऽपि नीलतन्त्रादौ शुक्लवर्णध्यानदर्शनात् |
गुरुकवचेऽपि |
सहस्रारे महापद्मे कर्पूरधवलो गुरुरित्यस्य वक्ष्यमाणत्वाच्च |
अर्वाचीनैस्तु कर्पूरैर्धवल इति तृतीयासमासाङ्गीकारेण धवलत्व मुक्तं वस्तुतो रक्तवर्णध्यानमिति वदति तदनुशासनविरुद्धं कर्पूरलेपनस्य कुत्रापि प्रमाणं नास्ति इति |
रक्तवर्णशक्तिप्रभापटलेन रक्तं वा |
एतत्तु सितरक्तप्रभमिति वक्ष्यमाणे व्यक्तीभविष्यति |
अत्र तु जवास्फाटिकन्यायेन शक्तिप्रभाधिक्यद्योतनाय रक्तमात्रमित्युक्तम् |
कश्चित्तु व्यत्ययो बहुलमिति पाणिनीयसूत्रबलाल्लिङ्गव्यत्ययेन स्त्रीगुरुध्यानमिदमाह |
राजसे रक्तवर्णध्यानन्त्वग्रे प्रतिपादयिष्ये ||
नीलतन्त्रे ||
ततो मानसगन्धाद्यैररर्चयेत् स्वस्वमुद्रया |
कनिष्ठा पृथिवी तत्त्वं तद्योगाद्गन्धयोजनम् |
अङ्गुष्ठो गगनं तत्त्वं तेनैव पुष्पयोजनम् |
तर्ज्जनी वायुतत्त्वं स्याद्धूपं तेनैव योजयेत् |
तेजस्तत्त्वं मध्यमा स्याद्दीपं तेनैव योजयेत् |
अनामा जलतत्त्वं स्यात्तेनैव योजयेच्च कम् |
ततस्तु वाग्भवं जप्यादष्टोत्तरशतं सुधीः |
जपं समर्प्य भक्त्या च प्रणमेद्दण्डवद्भुवि ||
अन्नदाकल्पेऽपि ||
मिथुनं चिन्तयित्वा तु मानसैरुपचारकैः |
भौतिकैः पूजयेद्विद्वान् मुद्रामन्त्रसमन्वितेः |
भूम्याकाशमरुद्वह्निवारिमन्त्रैः सबिन्दुकैः |
कनिष्ठाङ्गुलितर्ज्जन्यौ मध्यमानामिके तथा |
अङ्गुष्ठेन समायोगान्मुद्राः पञ्चप्रकीर्त्तिताः |
पृथिव्यात्मकगन्धः स्यादाकाशात्मकपुष्पकम् |
धूपो वायवात्मकः प्रोक्तो दीपो वह्न्यात्मकः परः |
रसात्मकञ्च नैवेद्यं पूजा पञ्चोपचारिका |
ततस्तु वाग्भवं जप्यादष्टोत्तरशतं सुधीः ||
कङ्कालमालिनीतन्त्रे प्रथमपटले च ||
मानसैरुपचारैश्च सम्पूज्याकल्पयेन्मुदा |
गन्धं भूम्यात्मकं दद्याद्भावपुष्पं ततः परम् |
धूपं वायवात्मकं देयं तेजसा दीपमेव च |
नैवेद्यममृतं दद्यात् पानीयं वरुणात्मकम् |
अम्बरं मुकुरं दद्याच्चामरं छत्रमेव च |
तत्तन्मुद्राविधानेन सम्पूज्यात्मगुरुं जपेत् |
यथाशक्ति जपं कृत्वा समाप्य कवचं पठेत् ||
पूजाक्रमस्तु कुलमूलावतारकल्पसूत्रटीकायां तृतीयकाण्डे |
निजगुरुं ध्यात्वा मुकानन्दनाथामुकशक्त्यम्बा श्रीपादुकां पूजयामीति मानसैर्गन्धाक्षतकुसुमैरर्च्चयेत् ||
कनिष्ठाभ्यां लं पृथिव्यात्मकं गन्धं समर्पयामि नमः |
अङ्गुष्ठाभ्यां हं आकाशात्मकं पुष्पं समर्पयामि नमः |
तर्जनीभ्यां यं वायवात्मकं धूपं समर्पयामि नमः |
मध्यमाभ्यां रं वह्न्यात्मकं दीपं समर्पयामि नमः |
अनामिकाभ्यां वं अमृतात्मकं नैवेद्यकं समर्पयामि नमः ||
ध्यानान्तरन्तु गुरुगीतायाम् |
हृदम्बुजे कर्णिकमध्यसंस्थं सिंहासने संस्थितदिव्यमूर्त्तिम् |
ध्यायेद्गुरुं चन्द्रकलाप्रकाशं सच्चित्सुखाभीष्टवरप्रदानम् |
मुक्ताफलाभूषितदिव्यमूर्त्तिं वामाङ्कपीठस्थितदिव्यशक्तिम् |
श्वेताम्बरं श्वेतविलेपयुक्तं मन्दस्मितं पूर्णकलाविधानम् ||
अथ शिरःपद्मं गुरुस्थानमुक्तम् |
तत्कथं हृदम्बुजे ध्यानमिति चेन्न कदाचित् हृदयाम्भोजे कदाचिद्दृष्टिगोचरे |
इति पूर्वलिखितरुद्रजामलवचनेनैव तत्सन्देहनिरासः कृतः ||
अथ सद्गुरुध्यानम् गुरुगीतायाम् ||
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्त्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् |
एकं नित्यं विमलमचलं सर्वदा साक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ||
इति सद्गुरुध्यानम् ||
रुद्रजामले पूर्वखण्डे तु कुलवृक्षप्रणामानन्तरं गुरुध्यानमुक्तम् ||
कुलवृक्षाश्च रेवतीतन्त्रे चतुर्थपटले उक्ताः ||
यथा |
हरीतकी तथा धात्री निम्बाश्वत्थकदम्बकाः |
डुम्बरुर्वटविल्वौ च तिन्तिडी नवमः स्मृतः |
कुलकाष्ठादिकं देवि ! होमार्थञ्च समाहरेत् ||
एतेन तिन्तिडीप्रभृतिकाष्ठेनापि होमार्थवह्निप्रज्वालनम् |
समिद्धोमस्तूक्तकाष्ठादिभिः कार्यय इत्यायातम् ||
रुद्रयामले ||
ब्राह्म्ये मुहूर्ते उत्थाय कुलवृक्षं प्रणम्य च |
शिरःपद्मे सहस्रारे चन्द्रमण्डलमध्यके |
अकथादित्रिरेखीये हंसमन्त्रसुपीठके |
ध्यायेन्निजगुरुं वीरो रजताचलसन्निभम् |
पद्मासीनं स्मितमुखं वराभयकराम्बुजम् |
शुक्लमाल्याम्बरधरं शुक्लगन्धानुलेपनम् |
वामोरुस्थितया रक्तशक्त्यालिङ्गितविग्रहम् |
तया स्वदक्षहस्तेन धृतचारुकलेवरम् |
वामेनोत्पलधारिण्या सुरक्तवसनस्रजा |
सितरक्तप्रभां बिभ्रच्छिवदुर्गास्वरूपिणम् ||
परानन्दरसापूर्णं स्मरेत्तन्नामपूर्वकम् |
तारत्रयं समुच्चार्यय हसखफ्रें ततः परम् |
हसक्षमलवरयूं हसखफ्रें हसौ ततः |
अमुकानन्दनाथान्ते अमुकीदेव्यनन्तरम् |
अम्बाश्रीपादुकां दत्त्वा पूजयामि नमोऽन्तकः |
अयं श्रीपादुकामन्त्रः सर्वेप्सितफलप्रदः |
मिथुनं चिन्तयित्वा तु इत्यादि |
ततस्तु वाग्भवं जप्यादष्टोत्तरशतं सुधीरित्यन्तमन्नदाकल्पेन समानमिति ||
पादुकामाहात्म्यन्तु कुलमूलावतारकल्पसूत्रटीकाधृतपद्मवाहिन्याम् ||
पादुकाज्ञानमात्रेण जीवन्मुक्ता भवन्ति हि ||
कुलार्णवे ||
वागुरामूलबलयमुद्राद्याः कवलाः कृताः |
एवं कुलार्णवज्ञानां पादुकायां प्रतिष्ठितम् |
कोटिकोटिमहादानात् कोटिकोटिमहाव्रतात् |
कोटिकोटिमहायज्ञात् परा श्रीपादुकास्मृतिः |
कोटिकोटिमहातन्त्रात् कोटितीर्थावगाहनात् |
कोटिदेवार्च्चनाद्देवि ! परा श्रीपादुकास्मृतिः |
महारोगे महोत्पाते महादोषे महाभये |
महापदि महापापे स्मृता च गुरुपादुका ||
रुद्रजामले पूर्वखण्डे प्रथमपटले ||
मायां लक्ष्मीं पुरो दत्त्वा सर्वत्र पूजने विधिः |
पृथिव्यां भूमिवीजञ्च गन्धं समर्पयेति च |
आकाशात्मकं शम्भुबीजं नादबिन्दुसमाहृतम् |
पुष्पं समर्पयामीति वायुबीजं ततः परम् ||
पुरश्चरणरसोल्लासे षष्ठपटले |
गुरुपूजां विधायादौ स्रक्चन्दनविभूषणैः |
अलङ्कारैर्विचित्रैश्च सुवर्णादिविनिर्मितैः |
वसनैरतिसूक्ष्मैश्च शुक्लरक्तैस्तथापरैः |
पीतैः कृष्णैश्च चार्वङ्गि ! पूजयेद् गुरुमुत्तमम् |
चतुर्विधैर्भोजनैश्च स्वर्णपात्रैर्मनोहरैः |
षोडशैरुपचारैश्च स्वर्णराजतनिर्मितैः |
पानपात्रैर्महेशानि ! शुद्धस्वर्णविनिर्मितैः |
ताम्बूलैश्च सकर्पूरैर्नानागन्धसमन्वितैः |
स्वर्णपात्रयुतैर्देवि ! शिवसिंहं प्रपूजयेत् ||
शिवसिंहं गुरुम् |
अनेन विधिना देवि ! पूजयेज्जगदीश्वरम् |
अतः परं वरारोहे ! गुरुदारान् प्रपूजयेत् |
षोडशैरुपचारैश्च इष्टदेवीं सुभक्तिभिः |
आदौ गुरुं ततो देवीं सम्पूर्णं पूजयेत् प्रिये ! ||
एवं गुरुं ध्यात्वा अन्तर्यागक्रमेणैव पद्मपुष्पैः समर्च्चयेदितिवचनान्मानसोपचारैः सम्पूजयेत् |
पूजामन्त्रस्तु मातृकाभेदतन्त्रे सप्तमपटले ||
वाग्वीजञ्च महामायां विष्णुशक्तिं समुच्चरेत् |
हसखफ्रें तथानन्दभैरवस्य मनुं ततः |
तस्य शक्तेर्मनुं पश्चात्ततश्चैवं सेहौ सेहौ |
श्रीगुरोश्च तथा शक्तेर्मन्त्रमेतत् सुरेश्वरि ! |
गुरुरानन्दनाथान्तश्चाम्बान्ता शक्तिरीरिता |
पूजयामीति देवेशि ! पूजाविधिरिति प्रिये ! ||
अन्नदाकल्पेऽपि ||
तारत्रयं समुच्चार्यय हसखफ्रें ततः परम् |
हसक्षमलवरयूः हसखफ्रें सेहौ ततः |
अमुकानन्दनाथान्ते अमुकीदेव्यनन्तरम् |
अम्बा श्रीपादकां दत्त्वा चिन्तयामि नमोऽन्तकः |
अयं श्रीपदुकामन्त्रः सर्वेप्सितफलप्रदः |
रुद्रजामले पूर्वखण्डे प्रथमपटले ||
त्रितारञ्च पुरो दत्त्वा शिवशक्तिखकारकम् ||
फाग्निरेकारबिन्दुञ्च शिवशक्तिक्रमेति च |
भूमीन्दूवह्निवायू च उकारान्तं सुरेश्वरि ! |
आनन्दनाथशक्तिश्च शिवश्च भुवनेश्वरः |
सविसर्गो महत्येव प्रकाशिनी परेत्यपि |
वह्नेः कारलक्ष्मीर्माया सरस्वती श्रीपादुकां पूजयामीति स्मृत्वा पादुकाम् |
जपमन्त्रस्तु रुद्रजामले पूर्वखण्डे पञ्चदशपटले ||
आनन्दनाथशब्दान्ते गुरुं ङेऽन्तं समुद्धरेत् |
नमः पदं ततो ब्रूयात् प्रणवं सवसिद्धिदम् |
महागुणेर्मनुं जप्त्वा सर्वसिद्धीश्वरो भवेत् |
वाक्सिद्धिर्वदनाम्भोजे गुरुमन्त्रप्रसादतः |
शतमष्टोत्तरं नित्यं सहस्रं वा तथाष्टकम् |
प्रजप्यार्पणमाकृत्य प्राणायामत्रयञ्चरेत् |
वाग्भवेन ततः कुर्ययात् प्राणायामविधिं मुदा |
पूर्वोक्तान्नदाकल्पोक्तनीलतन्त्रोक्तवचनाभ्यां वाग्भवोऽपि जपमन्त्र इति |
सम्प्रदायक्रमेणाष्टोत्तरशतं सहस्रं वा गुरुमन्त्रं जप्त्वा वाग्भवेन प्राणायामत्रयं कृत्वा गुह्यातीत्यादिना जपं समर्प्य स्तवकवचादिकं पठेत् ||
स्तवो यथा ||
शिरःस्थितसुपङ्कजे तरुणकोटिचन्द्रप्रभं वराभयकराम्बुजं सकलदेवतारूपिणम् |
भजामि वरदं गुरुं किरणचारुशोभोज्ज्वलं प्रकाशितपदद्वयाम्बुजमलक्तकोटिप्रभम् || १ ||
जगद्भ्यनिवारणं भुवनभोगमोक्षप्रदं गुरोः पदयुगाम्बुजं भजति यत्र योगे जयम् |
भजामि परमं गुरुं नयनपद्ममध्यस्थितं भवाब्धिभयनाशनं शमनरोगकालक्षयम् || २ ||
प्रकाशितसुपङ्कजे सुदलषोडशाख्ये प्रभुं परापरगुरुं भजे सकलराज्यभोगप्रदम् |
विशालनयनद्वयाम्बुजतडित्प्रभामण्डलं कडारमणिपाटलद्युतिमदिन्दुविन्द्विन्दुकम् || ३ ||
महौजसमुमापतेर्विगतदक्षभागे हृदि प्रभाकरशतोज्ज्वलं सुविमलेन्दुकोट्याननम् |
भजामि परमेष्ठिनं गुरुगभीररावोल्वनं चलाचलकलेवरं प्रचपले दले द्वादशे || ४ ||
गुर्वङ्घ्र्यब्जं शुभं मादनगणदहनं हेममञ्जीरसारं नानाशब्दाद्भुताक्लादितपरिचरणाचारुचक्रं त्रिभङ्गम् |
नित्यं ध्यायेत् प्रभाते अरुणशतघटाशोभनं योगगम्यं नाभौ पद्मेति कान्ते दशदलमणिभे भाव्यते योगिभिर्यत् || ५ ||
या माता मय दानवादिसुभुजा निर्माणसीमा पुरे स्वाधिष्ठाननिकेतने रसदले वैकुण्ठमूले मया |
जन्मोद्धारविकारभावलहरी वेदप्रभा भाव्यते कन्दर्पार्पितशान्तियोनिजननी विष्णुप्रिया शाङ्करी || ६ ||
या भासानलकुण्डलीकुलपथोद्दामाभशोभाकरी मूले पद्मचतुर्दले कुलवती निश्वासदेशाश्रिता |
साक्षात्काङ्क्षितकल्पवृक्षलतिका सुप्तास्वयम्भूप्रिया नित्या योगिभयापहा विषहरा गुर्वम्बिका भाव्यते || ७ ||
ऊर्द्ध्वाम्भोरुहनिःसृतामृतघटामोदाज्जलाप्लाविता गुर्वाद्या परिपातु सूक्ष्मपथगा तेजोमयी भास्वती |
सूक्ष्मा साधनगोचरामृतमयी मूलादिशीर्षाम्बुजे पूज्या चेतसि भाव्यते भुवि कदा माता सदोर्द्ध्वोद्गमा || ८ ||
स्थितिपालनयोगेन ध्यानेन पूजनेन वा |
यः पठेत् प्रत्यहं व्याप्य स देवो न तु मानुषः |
कल्याणं धनदञ्चैव कीर्त्तिमायुर्यशः श्रियम् |
सायाह्ने च प्रभाते च पठेद्यदि सुबुद्धिमान् |
स भवेत् साधकश्रेष्ठः कल्पद्रुमकलेवरः |
स्तवस्यास्य प्रभावेण वागीशत्वमवाप्नुयात् ||
इति रुद्रजामले स्वशक्तिकगुरुस्तोत्रं समाप्तम् ||
कुलमूलावतारकल्पसूत्रटीकायाम् ||
पादुकापञ्चकस्तोत्र स्याधिकश्लोको वर्त्तते |
सोऽप्यत्र लिखितः |
आदि कादि किल खादि तारकं वर्णमण्डलमखण्डसिद्धिदम् |
अन्तरुल्लसितहक्षलाक्षरं लक्षयन्ति पशवः कथं शिवे ! || १ ||
ब्रह्मरन्ध्रसरसीरुहोदरे नित्यलग्नमवदातमद्भुतम् |
कुण्डलीविवरकाण्डमण्डितं द्वादशार्णसरसीरुहं भजे || २ ||
तस्य कन्दलितकर्णिकापुटे कॢप्तरेखमकथादिरेखया |
कोणलक्षितहलक्षमण्डलीभावलक्ष्यमबलामयं भजे || ३ ||
तत्पुटे पटुतडित्कडारिमस्पर्द्धमानमणिपाटलप्रभम् |
चिन्तयामि हृदि चिन्मयं वपुर्बिन्दुनादमणिपीठमण्डलम् || ४ ||
ऊर्द्ध्वमस्य हुतभुक्शिखाखं तद्विलासपरिवृंहणास्पदं विश्वघस्मरमहोत्सवोत्कटं व्यामृषामि युगमादिहंसयोः || ५ ||
तत्र नाथचरणारविन्द्रयोः कुङ्कुमासवझरीमरन्दयोः |
द्वन्द्वमिन्दुमकरन्दशीतलं मानसं स्मरति मङ्गलास्पदम् || ६ ||
निषक्तमणिपादुकानियमिताघकोलाहलस्फुरत्क्रियशलयारुणं नखसमुल्लसच्चन्द्रकम् |
परामृतसरोवरोदितसरोजसद्रोचिषं भजामि शिरसि स्थितं गुरुपदारविन्दद्वयम् || ७ ||
पादुकापञ्चकस्तोत्रं वञ्चवक्त्राद्विनिर्गतम् |
षडाम्नायफलं प्राप्तं प्रपञ्चे चातिदुर्लभम् ||
इति शिवपञ्चवक्त्राद्विनिर्गतं पादुकापञ्चकस्तोत्रं समाप्तम् ||
कुब्जिकातन्त्रे ||
अथ गुरुस्तोत्रम् ||
ओं नमस्तुभ्यं महामन्त्रदायिने शिवरूपिणे |
ब्रह्मज्ञानप्रकाशाय संसारदुःखतारिणे |
अतिसौम्याय दिव्याय वीराय ज्ञानहारिणे |
नमस्ते कुलनाथाय कुलकौलिन्यदायिने |
शिवतत्त्वप्रबोधाय ब्रह्मतत्त्वप्रकाशिने ! |
नमस्ते गुरवे तुभ्यं साधकाभयदायिने |
अनाचाराचारभावबोधाय भावहेतवे |
भावाभावविनिर्मुक्तमुक्तिदात्रे नमो नमः |
नमस्ते शम्भवे तुभ्यं दिव्यभावप्रकाशिने |
ज्ञानानन्दस्वरूपाय विभवाय नमो नमः |
शिवाय शक्तिनाथाय सच्चिदानन्दरूपिणे |
कामरूपाय कामाय कामकेलिकलात्मने |
कुलपूजोपदेशाय कुलाचारस्वरूपिणे |
आरक्तनिजतच्छक्तिसमभागविभूतये |
नमस्तेऽस्तु महेशाय नमस्तेऽस्तु नमो नमः |
इदं स्तोत्रं पठेन्नित्यं साधको गुरुदिङ्मुखः |
प्रातरुत्थाय देवेशि ! ततो विद्या प्रसीदति ||
इति कुब्जिकातन्त्रोक्तं गुरुस्तोत्रं समाप्तम् ||
अथ गुरुकवचं कङ्कालमालिनीतन्त्रे ||
देव्युवाच ||
भूतनाथ ! महादेव ! कवचं तस्य मे वद |
गुरुदेवस्य देवेश ! साक्षाद्ब्रह्मस्वरूपिणः ||
ईश्वर उवाच ||
अथातः कथयामीशे ! कवचं मोक्षदायकम् |
यस्य ज्ञानं विना देवि ! न सिद्धिर्न च सद्गतिः ||
ब्रह्मादयोऽपि गिरिजे ! सर्वत्र याजिनः स्मृताः |
अस्य प्रसादात् सकला वेदागमपुरःसराः |
कवचस्यास्य देवेशि ! ऋषिर्विष्णुरुदाहृतः |
छन्दो विराड् देवता च गुरुदेवः स्वयं शिवः |
चतुर्वर्गज्ञानमार्गे विनियोगः प्रकीर्त्तितः |
सहस्रारे महापद्मे कर्पूरधवलो गुरुः |
वामोरुस्थितशक्तिर्यः सर्वत्र परिरक्षतु ||
परमाख्यो गुरुः पातु शिरसं मम वल्लभे ! |
परापराख्यो नासां मे परमेष्ठी मुखं सदा |
कण्ठं मम सदा पातु प्रह्लादानन्दनाथकः |
बाहू द्वौ सनकानन्दः कुमारानन्द एव च |
वशिष्ठानन्दनाथश्च हृदयं पातु सर्वदा |
क्रोधानन्दः कटिं पातु सुखानन्दः पदं मम |
ध्यानानन्दश्च सर्वाङ्गं बोधानन्दश्च कानने ||
सर्वत्र गुरवः पान्तु सर्वे ईश्वररूपिणः |
इति ते कथितं भद्रे ! कवचं परमं शिवे ! |
भक्तिहीने दुराचारे दत्त्वैतन्मृत्युमाप्नुयात् ||
अस्यैव पठनाद्देवि ! धारणात् श्रवणात् प्रिये ! |
जायते मन्त्रसिद्धिश्च किमन्यत् कथयामि ते |
कण्ठे वा दक्षिणे बाहौ शिखायां वीरवन्दिते ! |
धारणान्नाशयेत् पापं गङ्गायां कल्मषं यथा |
इदं कवचमज्ञात्वा यदि मन्त्रं जपेत् प्रिये ! |
तत् सर्वं निष्फलं कृत्वा गुरुर्याति सुनिश्चितम् |
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ||
इति कङ्कालमालिनीतन्त्रे गुरुकवचं समाप्तम् ||
पुरश्चरणरसोल्लासे द्वितीयप्रश्ने दशमपटले ||
ईश्वर उवाच |
शृङु देवि ! प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् |
लोकोपकारकं प्रश्नं न केनापि कृतं पुरा |
अद्यप्रभृति कस्यापि नाख्यातं कवचं मया |
देशिका बहवः सन्ति मन्त्रसाधनतत्पराः |
न तेषां जायते सिद्धिर्मन्त्रैर्वा चक्रपूजनैः |
गुरोर्विधानं कवचमज्ञात्वा क्रियते जपः |
वृथा श्रमो भवेत्तस्य न सिद्धिर्मन्त्रपूजनैः |
गुरुपादं पुरस्कृत्य प्राप्यते कवचं शुभम् |
तदा मन्त्रस्य यन्त्रस्य सिद्धिर्भवति तत्क्षणात् |
सुगोप्यन्तु प्रजप्तव्यं न वक्तव्यं वरानने ! ||
ओं नमोऽस्य श्रीगुरुकवचनाममन्त्रस्य परमब्रह्मर्षिः सर्ववेदानुज्ञो देवदेव श्री- आदिशिवो देवता नमो हेसौं हंसः हसक्षमलवरयूं वीजं सोऽहं हंसः हसक्षमलवरयूं शक्तिः हंसः सोऽहं कीलकं श्रीसमस्तगुरुमण्डलप्रीत्यर्थे जपे विनियोगः |
अथ ध्यानम् |
श्रीसिद्धमानवमुखा गुरवः स्वरूपं संसारदाहशमनं द्विभुजं त्रिनेत्रम् |
वामाङ्गशक्तिसकलाभरणैर्विभूषं ध्यायेज्जपेत् सकलसिद्धिफलप्रदञ्च |
इति मनसा प्रणम्य ||
हसां हृदयाय नमः |
हसीं शिरसे स्वाहा |
हसूं शिखायै वषट् |
हैं कवचाय हुं |
हेसौं नेत्रत्रयाय वौषट् |
हसः अस्त्राय फट् |
एवं कराङ्गन्यासं कृत्वा उपचारैः सम्पूज्य |
ओं नमः प्रकाशानन्दनाथश्च शिखायां पातु मे सदा |
परशिवानन्दनाथश्च शिरो मे रक्षयेत् सदा |
परशक्तिदिव्यानन्दनाथो भाले च रक्षतु |
कामेश्वरानन्दनाथो मुखं रक्षतु सर्वधृक् |
दिव्यौघो मस्तकं देवि ! पातु सर्वं शिरः सदा |
कण्ठादिनाभिपर्ययन्तं सिद्धौघा गुरवः प्रिये ! |
भोगानन्दनाथगुरुः पातु दक्षिणबाहुकम् |
समयानन्दनाथश्च सन्ततं हृदयेंऽवतु |
सहजानन्दनाथश्च कटिं नाभिञ्च रक्षतु |
एषु स्थानेषु सिद्धौघा रक्षन्तु गुरवः सदा |
अधरे मानवौघाश्च गुरवः कुलनायिके ! |
गगनानन्दनाथश्च गुल्फयोः पातु सर्वदा |
नीलौघानन्दनाथश्च रक्षयेत्पादपृष्ठतः |
स्वात्मानन्दनाथगुरुः पादाङ्गुलीश्च रक्षतु |
कन्दोलानन्दनाथश्च रक्षेत्पादतले सदा |
इत्येवं मानवौघाश्च न्यसेन्नाभ्यादिपादयोः |
गुरुर्मे रक्षयेदुर्व्यां सलिले परमो गुरुः |
परापरगुरुर्वह्नौ रक्षयेत् शिववल्लभे ! |
परमेष्ठी गुरुश्चैव रक्षयेद्वायुमण्डले |
शिवादिगुरवः साक्षादाकाशे रक्षयेत् सदा |
इन्द्रो गुरुः पातु पूर्वे आग्नेययां गुरुरग्नयः |
दक्षे यमो गुरुः पातु नैर्-ऋत्यां निर्-ऋतिर्गुरुः |
वरुणो गुरुः पश्चिमे च वायव्यां मारुतो गुरुः ||
उत्तरे धनदः पातु ऐशान्यामीश्वरो गुरुः |
ऊर्द्ध्वं पातु गुरुर्ब्रह्मा अनन्तो गुरुरप्यधः |
एवं दश दिशः पान्तु इन्द्राद्या गुरवः क्रमात् |
शिरसः पादपर्ययन्तं पान्तु दिव्यौघसिद्धयः |
मानवौघाश्च गुरवो व्यापकं पान्तु सर्वदा |
सर्वत्र गुरुरूपेण संरक्षेत् साधकोत्तमम् |
आत्मानं गुरुरूपञ्च ध्यायेन्मन्त्रं सदा बुधः |
इत्येवं गुरुकवचं ब्रह्मलोकेऽपि दुर्लभम् |
तव प्रीत्या मयाख्यातं न कस्य कथितं प्रिये ! |
पूजाकाले पठेद् यस्तु जपकाले विशेषतः |
त्रैलोक्यदुर्लभं देवि ! भुक्तिमुक्तिफलप्रदम् |
सर्वमन्त्रफलं तस्य सर्वयन्त्रफलं तथा |
सर्वतीर्थफलं देवि ! यः पठेत् कवचं गुरोः |
अष्टगन्धेन भूर्जे च लिख्यते चक्रसंयुतम् |
कवचं गुरुपङ्क्तेस्तु भक्त्या च शुभवासरे |
पूजयेद्धूपदीपाद्यैः सुधाभिः सितसंयुतैः |
तर्पयेद्गुरुमन्त्रेण साधकः शुद्धचेतसा |
धारयेत् कवचं देवि ! इह भूतभयापहम् |
पठेन्मन्त्री त्रिकालं हि स मुक्तो भवबन्धनात् |
एवं कवचं परात्परं दिव्यौघसिद्धौघकालवान् ||
इति गुरुकवचं समाप्तम् ||
शक्तश्चेत्तदा योगसारोक्त गुरुसहस्रनामस्तोत्रमपि पठेत् ||
इह तु ग्रन्थगौरवभिया तन्न लिखितम् ||
रुद्रजामले ||
एकान्तभक्त्या प्रणमेदायुरारोग्यवृद्धये |
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् |
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः |
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया |
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः |
देवताया दर्शनञ्च करुणावरुणालयम् |
सर्वसिद्धिप्रदातारं श्रीगुरुं प्रणमाम्यहम् |
वराभयकरं नित्यं श्वेतपद्मनिवासिनम् |
महाभयनिहन्तारं गुरुदेवं नमाम्यहम् |
महाज्ञानाच्छादिताङ्गं नराकारं वरप्रदम् |
चतुर्वर्गप्रदातारं स्थूलसूक्ष्मदयान्वितम् |
सदानन्दमयं देवं नित्याञ्जननिरञ्जनम् |
शुद्धसत्त्वमयं देवं नित्यकालं कुलेश्वरम् |
ब्रह्मरन्ध्रे महापद्मे तेजोविम्बे निराकुले |
योगिभिर्योगगम्ये च चारुशुक्रविराजिते |
सहस्रदलसङ्काशे कर्णिकामध्यमध्यके |
महाशुक्लभास्वरार्ककोटिकोटीमहौजसम् |
सर्वपीठस्थममलं परहंसं परात्परम् |
वेदोद्धारकरं नित्यं काम्यकर्मफलप्रदम् |
सदा मनःशक्तिमयलयस्थानपदाम्बुजम् |
शरज्ज्योत्स्नाज्वलन्मालाशोभेन्दुकोटिवन्मुखम् |
वाञ्छातिरिक्तदातारं सर्वसिद्धीश्वरं गुरुम् |
भजामि तन्मयो भूत्वा तं हंसमण्डलोपरि |
आत्मानं सुनिराकारं साकारब्रह्मरूपिणम् |
विद्यामन्त्रप्रदातारं श्रीगुरुं परमेश्वरम् |
सर्वसिद्धिप्रदातारं गुरुदेवं नमाम्यहम् |
कायेन मनसा वाचा ये नमन्ति निरन्तरम् |
अवश्यं श्रीगुरोः पादाम्भोरुहे ते वसन्ति हि |
प्रभाते कोटिपुण्यञ्च प्राप्नोति साधकोत्तमः |
मध्याह्ने दशलक्षञ्च सायाह्नेऽनन्तपुण्यदम् ||
इति रुद्रजामले उत्तरखण्डे गुरुप्रणामस्तुति कथनम् ||
नित्यं शुद्धं निराभासं निरकारं निरञ्जनम् |
नित्यबोधचिदानन्दं गुरुं ब्रह्म नमाम्यहम् |
आनन्दमानन्दकरं रसन्नं ज्ञानस्वरूपं निजबोधयुक्तम् |
योगीन्द्रमीड्यं भवरोगवैद्यं श्रीमद्गुरुं नित्यमहं नमामि ||
इति गुरुगीतोक्तसद्गुरुप्रणामः ||
निर्वाणतन्त्रे तृतीयपटले ||
तुरीयधाम ! महादेव ! परमात्माशये स्थितः |
शिरःपद्मे स्थिते वाह्ये नमस्कारः कथं भवेत् ||
शिव उवाच ||
शिरःपद्मे महादेवस्तथैव परमो गुरुः |
तत्समो न तु देवेशि ! पूज्योऽस्ति भुवनत्रये |
तद्रूपं चिन्तयेन्मन्त्री वाह्ये गुरुचतुष्टयम् |
तदंशभावसम्भूता ये चान्ये गुरवो जनाः |
तथैव ब्राह्मणाः सर्वे चांशावतारसंस्थिताः |
यदैव वाह्ये चैतांश्च प्रत्यक्षे भावयेत्तदा |
सहस्रारे महापद्मे सदा चित्तं विवर्ज्जयेत् |
प्रत्यक्षदर्शने देवि ! साक्षात्तं ब्रह्म चिन्तयेत् |
नमस्कारादिकं देवि ! कुर्ययात् साधकसत्तमः |
ब्राह्मणादीन् समालोक्य ब्रह्मचारियतित्रयम् |
दृष्टिमात्रेण गिरिजे ! प्रणमेद्दण्डवद्भुवि |
महापातकयुक्तोऽपि मुक्तो भवति नान्यथा |
न कुर्ययाद् यदि मोहेन महापातकवान् भवेत् |
रक्तवस्त्रं समालोक्य तथा भस्माङ्गभूसणम् |
दण्डहस्तं त्रिशूलञ्च दृष्ट्वा प्रदक्षिणत्रयम् |
प्रकुर्ययात् साधकश्रेष्ठश्चान्यथा पातकी भवेत् |
इति वाह्यगुर्वादिदर्शने जाते तदानीं सहस्रारे गुरुचिन्तानिषेधः ||
अथ स्त्रीगुरुध्यानं गुप्तसाधनतन्त्रे द्वितीयपटले ||
पार्वत्युवाच ||
गुरुध्यानं श्रुतं नाथ ! सर्वतन्त्रेषु गोपितम् ||
स्त्रिया दीक्षा शुभा प्रोक्ता सर्वकामफलप्रदा ||
बहुजन्मार्जितात् पुण्यात् बहुभग्यवशाद् यदि |
स्त्रीगुरुर्लभ्यते नाथ ! तस्या ध्यानन्तु कीदृशम् |
कुत्र वा सा गुरुर्ध्येया श्रोतुमिच्छामि साम्प्रतम् ||
कथयस्व महादेव ! यद्यहं तव वल्लभा |
शिव उवाच ||
शृणु पार्वति ! वक्ष्यामि तव स्नेहपरिप्लुतः |
रहस्यं स्त्रीगुरोर्ध्यानं यथा ध्येया च सा गुरुः |
सहस्रारे महापद्मे किञ्जल्कगणशोभिते |
प्रफुल्लपद्मपत्राक्षी घनपीनपयोधरा |
प्रसन्नवदना क्षीणमध्या ध्यायेच्छिवां गुरुम् |
पद्मरागसमाभासां रक्तवस्त्रसुशोभनाम् |
रक्तकङ्कणपाणिञ्च रक्तनूपुरशोभिताम् |
शरदिन्दुप्रतीकाशां रक्तोद्भासितकुण्डलाम् |
स्वनाथवामभागस्थां वराभयकराम्बुजाम् |
इति ते कथितं देवि ! स्त्रीगुरोर्ध्यानमुत्तमम् |
गोपनीयं प्रयत्नेन न प्रकाश्यं कदाचन ||
अथ स्तुतिः ||
मातृकाभेदतन्त्रे सप्तपटले ||
देव्युवाच ||
स्तुतिञ्च कवचं नाथ ! श्रोतुमिच्छामि साम्प्रतम् |
श्रीगुरोः कवचं प्रोक्तं त्वया नाथ ! पुरा प्रभो ! |
इदानीं स्त्रीगुरोः स्त्रोत्रं कवचं मयि कथ्यताम् |
यस्य विज्ञानमात्रेण पुनर्जन्म न जायते ||
श्रीशिव उवाच ||
शृणु देवे ! प्रवक्ष्यामि स्तोत्रं परमगोपनम् |
यस्य श्रवणमात्रेण संसारान्मुच्यते नरः |
नमस्ते देवदेवेशि ! नमस्ते हरपूजिते ! |
ब्रह्मविद्यास्वरूपायै तस्यै नित्यं नमो नमः || १ ||
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया |
यया चक्षुरुन्मीलितं तस्यै नित्यं नमो नमः || २ ||
भवबन्धनपारस्य तारिणी जननी परा |
ज्ञानदा मोक्षदा नित्यं तस्यै नित्यं नमो नमः || ३ ||
श्रीनाथवामभागस्था सदया सुरपूजिता |
सदा विज्ञानदात्री च तस्यै नित्यं नमो नमः || ४ ||
सहस्रारे महापद्मे सदानन्दस्वरूपिणी |
महामोक्षप्रदा देवी तस्यै नित्यं नमो नमः || ५ ||
ब्रह्मविष्णुस्वरूपा च महारुद्रस्वरूपिणी |
त्रिगुणात्मस्वरूपा च तस्यै नित्यं नमो नमः || ६ ||
चन्द्रसूर्ययाग्निरूपा च मदाघूर्णितलोचना |
स्वनाथञ्च समालिङ्ग्य तस्यै नित्यं नमो नमः || ७ ||
ब्रह्मविष्णुशिवत्वादिजीवन्मुक्तिप्रदायिनी |
ज्ञानविज्ञानयोर्दात्री तस्यै श्रीगुरवे नमः || ८ ||
इदं स्तोत्रं महेशानि ! यः पठेद्भक्तिसंयुतः |
स सिद्धिं लभते नित्यं सत्यं सत्यं न संशयः ||
प्रातःकाले पठेद् यस्तु गुरुपूजापुरःसरम् |
स एव धन्यो लोकेशो देवीपुत्र इव क्षितौ |
इति मातृकाभेदतन्त्रे स्त्रीगुरोः स्तोत्रं सम्पूर्णम् ||
स्तोत्रं समाप्तं देवेशि ! कवचं शृणु सादरम् |
यस्य स्मरणमात्रेण वागीशसमतां व्रजेत् |
स्त्रीगुरोः कवचस्यास्य सदाशिव ऋषिः स्मृतः |
ताराख्या देवता ख्याता चतुर्वर्गफलप्रदा |
क्लीं बीजं चक्षुषोर्मध्ये सर्वाङ्गं मे सदावतु |
ऐं बीजं मे मुखं पातु ह्रीं जिह्वां परिरक्षतु |
श्रीं बीजं स्कन्धदेशं मे हसखफ्रें भुजद्वयम् |
हकारः कण्ठदेशं मे सकारः षोडशं दलम् |
क्षवर्णस्तदधः पातु लकारो हृदयं मम |
वकारः पृष्ठदेशञ्च रकारो दक्षपार्श्वकम् |
यूङ्कारो वामपार्श्वञ्च सकारो मेरुमेव च |
हकारो मे दक्षभुजं क्षकारो वामहस्तकम् |
मकारश्चाङ्गुलीं पातु लकारो मे नखं वतु |
वकारो मे नितम्बञ्च रकारो जठरं वतु |
षीङ्कारः पादयुगलं हेसौः सर्वाङ्गं मेऽवतु |
हेसौर्लिङ्गञ्च लोमानि केशञ्च परिरक्षतु |
ऐं बीजं पातु पूर्वे मे ह्रीं बीजं दक्षिणेऽवतु |
श्रीं बीजं पश्चिमे पातु उत्तरे भूतसम्भवम् |
श्रीं पातु चाग्निकोणे च वेदाख्या नैर्-ऋतेऽवतु |
देवाम्बा पातु वायव्यां शम्भौ श्रीपादुकां तथा |
पूजयामि तथा चोर्द्ध्वं नमश्चाधः सदाऽवतु |
इति ते कथितं कान्ते ! कवचं परमाद्भुतम् |
गुरुमन्त्रं जपित्वा तु कवचं प्रफठेद्यदि |
ससिद्धः सगणः सोऽपि शिव एव न संशयः |
पूजाकाले पठेद् यस्तु कवचं मन्त्रविग्रहम् |
पूजाफलं भवेत्तस्य सत्यं सत्यं सुरेश्वरि ! |
त्रिसन्ध्यं यः पठेद्देवि ! स सिद्धो नात्र संशयः |
भूर्ज्जे विलिख्य गुलिकां स्वर्णस्थां धारयेद् यदि |
तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः |
विवादे जयमाप्नोति रणे च निर्-ऋतेः समः |
सभायां जयमाप्नोति मम तुल्यो न संशयः |
सहस्रारे भावयन् यस्त्रिसन्ध्यं प्रपठेद् यदि |
स एव सिद्धो लोकेशो निर्वाणपदमीयते |
समस्तमङ्गलं नाम कवचं परमाद्भुतम् |
यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन |
देयं शिष्याय शान्ताय चान्यथा पतनं भवेत् |
अभक्तेभ्यश्च देवेशि ! पुत्रेभ्योऽपि न दर्शयेत् |
इदं कवचमज्ञात्वा दशविद्याश्च यो जपेत् |
स नाप्नोति फलं तस्य चान्ते च नरकं व्रजेत् |
समाप्तं कवचं देवि ! किमन्यत् श्रोतुमिच्छसि |
तव स्नेहानुबन्धेन किं मया न प्रकाशितम् ||
इति मातृकाभेदतन्त्रे स्त्रीगुरुकवचं समाप्तम् ||
अथ स्त्रीगुरुगीता ||
कङ्कालमालिनीतन्त्रे द्वितीयपटले ||
पार्वत्युवाच ||
लोकेश ! कथ्यतां देव ! गुरुगीता मयि प्रभो ! |
श्रीभगवानुवाच ||
शृणु तारिणि ! वक्ष्यामि गीतां ब्रह्ममयीं पराम् |
गुरुस्त्वं सर्वशास्त्राणामहमेव प्रकाशकः |
त्वमेव गुरु रूपेण लोकानां त्राणकारिणी |
गया गङ्गा काशिका च त्वमेव सकलं जगत् |
कावेरी यमुना रेवा करतोया सरस्वती |
गोमती चन्द्रभागा च त्वमेव कुलपालिके ! |
ब्रह्माण्डं सकलं देवि ! कोटिब्रह्माण्डमेव च |
न हि ते वक्तुमर्हामि क्रियाजालं महेश्वरि ! |
उक्त्वा चोक्त्वा भावयित्वा भिक्षुकोऽहं नगात्मजे ! |
कथं त्वं जननी भूत्वा बधूस्त्वं मम देहिनाम् |
तव चक्रं महेशानि ! अतीतं परमात्मनि |
इति ते कथिता गीता गुरुदेवस्य ब्रह्मणः |
सङ्क्षेपेण महेशानि ! प्रभुरेव गुरुः स्वयम् |
जगत् समस्तमास्थाय गुरुस्त्वेको हि केवलम् |
इति तं तोषयित्वा च नुतिभिः स्तुतिभिस्तथा |
नानाविधद्रव्यदानैः सिद्धः स्यात् साधकोत्तमः ||
इति स्त्रीगुरुगीता समाप्ता ||
अत्र प्रसङ्गप्राप्तगुरुपूजनमपि लिख्यते |
वृहन्नीलतन्त्रे द्वितीयपटले ||
गुरुपूजाविधानञ्च कथयामि वरानने ! |
आदौ भद्रासनं दद्यात् पाद्यं दद्यात्ततः परम् |
अर्घ्यं दद्याद्विशेषेण तथा चाचमनीयकम् |
स्नानीयं वसनं दद्याद्गन्धं पुष्पञ्च शोभनम् |
धूपञ्च गुग्गुलुं दद्याद्दीपं स्यात् सुशोभनम् |
चर्व्यं चोष्यं तथा लेह्यं पेयं दद्यान्मनोहरम् |
नानाविधं फलं दद्यान्नानारससमन्वितम् |
भक्ष्यं भोज्यं विशेषेण दद्याच्चैव वरानने ! |
पुष्पाणामञ्जलिं दद्याच्चन्दनेन समन्वितम् |
शययां दद्यान्महेशानि ! विचित्रां सर्वमोहिनीम् |
खट्वां दद्यान्महेशानि ! विचित्राम्बरधारिणीम् |
पादसेवां गुरोः कुर्ययादतियत्नेन सुन्दरि ! |
गुरुवत् गुरुपुत्रेषु गुरुवत्तत्सुतादिषु ||
अथ सपत्नीकगुरुपूजनम् ||
पुरश्चरणरसोल्लासे दशमपटले |
आनीय स्वगुरुं देवि ! सपत्नीकं प्रयत्नतः |
नानागन्धैर्युतैस्तैलैरञ्जयेदङ्गयष्टिकाम् |
स्नापयेद्विविधैः शुद्धैरुदकैः सुरपूजितैः |
दिव्यवस्त्रेण तद्गात्रं सम्मार्ज्य वरवर्णिनि ! |
पूजयेद्विविधैः पुष्पैर्गन्धैश्च विविधैस्तथा |
धूपदीपैस्तथा पेयैस्ताम्बूलाद्यैः सुवासितैः |
प्रकृत्या सह चार्वङ्गि ! पूजयेद्गुरुदैवतम् |
गुरोरङ्गं महेशानि ! चन्दनैः परिलेपयेत् |
गुरोः कण्ठे महेशानि ! मालां दद्याद्विलक्षणाम् |
नानालङ्कारसुभगैः पूजयेद् गुरुदैवतम् |
पट्टवस्त्रादिभिर्देवि ! स्वर्णरत्नादिभूषणैः |
तत्पत्नीं तोषयेद्भक्त्या साक्षात्तां जगदीश्वरीम् |
शङ्खकङ्कणकेयूरनूपुरादिविलक्षणैः |
हारैरत्नमयैर्देवि ! तत्पत्नीं पूजयेत् प्रिये ! |
तस्यास्तु वामतस्तिष्ठेद् भक्त्यापि च शुभिस्मिते ! |
तुल्यं निष्कं प्रदद्याद्वै भक्त्या रत्नानि पार्वति ! |
तन्मन्त्रं शृणु चार्वङ्गि ! अतिगुह्यं परात्परम् |
कामबीजं समुद्धृत्य तस्याश्चाख्यानमुद्धरेत् |
पुनः कामं समुद्धृत्य मन्त्रमेतदुदीरितम् |
सपत्नीकं गुरुं देवि ! पूजयेद् यस्तु साधकः |
अनेन विधिना देवि ! सम्पूज्य गुरुपादयोः |
सहस्रारे महेशानि ! तत्र कोषोपरि प्रिये ! |
भावयेत्तु सपत्नीकं पूजयेद्गुरुराज्ञया |
गुरोराज्ञां मूर्द्ध्नि धृत्वा एकधा पूजयेद् यदि |
तदैव सहसा सिद्धिर्जायते वीरवन्दिते ! |
अयुतं प्रजपेद् यस्तु किं तस्य शतकोटिभिः |
एवन्तु प्रत्यहं कुर्ययाद् यावल्लक्षं समाप्यते |
दिवालक्षण महेशानि ! पशुवत् साधकाग्रणीः |
रात्रौ लक्षं जपित्वा तु दिव्यवीरमतैः प्रिये ! |
समाप्य विधिवद्भक्त्या गुरवे दक्षिणां ततः |
दत्त्वा सिद्धिमवाप्नोति चन्द्रसूर्ययग्रहेण किम् ||
अथ सिद्धौघगुरुपंक्तिचिन्तनम् ||
वृहन्नीलतन्त्रे द्वितीयपटले ||
सिद्धौघा गुरवो देवि ! दिव्यौघा गुरवस्तथा |
मानवौघाः समासेन कथ्यन्ते गुरवस्तथा |
उर्द्ध्वकेशो व्योमकेशो नीलकण्ठो वृषध्वजः ||
कुलचूडामणौ ||
मूलादिब्रह्मरन्ध्रान्तं कुलं ध्यात्वा गुरुं स्मरेत् |
प्रह्लादानन्दनाथाख्यं सनकानन्दमेव च |
कुमारानन्दनाथञ्च वशिष्ठानन्दनाथकम् |
क्रोधानन्दसुखानन्दौ ध्यानानन्दं ततः परम् |
बोधानन्दं ततश्चैव ध्यायेत् कुलमुखोपरि |
कुलमुखोपरि सहस्रारास्थितचन्द्रमण्डले इत्यर्थः |
महारसरसोल्लासहृदया घूर्णलोचनाः |
कुलालिङ्गनसंयुक्ताश्चूर्णिताशेषतामसाः |
कुलशिष्यैः परिवृताः पूर्णान्तःकरणोद्यताः |
वराभययुताः सर्वे कुलतन्त्रार्थवेदिनः |
कुलमूलावतारकल्पसूत्रटीकायां तृतीयकाण्डे ||
प्रातः प्रभृति सायान्तं सायादिप्रातरन्ततः |
यत् करोमि जगत्यर्थे तदस्तु तव पूजनम् ||
इति प्राणतोषिण्यां तृतीयेऽर्थकाण्डे आचारसप्तकादिगुरुपंक्तिनिरूपणान्तरूपग्रन्थिकथनं नाम प्रथमः परिच्छेदः |
इति सर्वं गुरवे निवेद्य मनसा गुरोराज्ञां गृहीत्वा मूलाधारकर्णिकान्तःस्थत्रिकोणान्तर्गताधोमुखस्वयम्भू-लिङ्गवेष्टिनीं प्रसुप्तभुजगाकारां सार्द्धत्रिबलयां विद्युत्पुञ्जप्रभां नीवारशूकवत्तन्वीं कुलकुण्डलिनीं निजेष्टदेवतारूपां हूङ्कारेण मनुना हंस इति मनुना वा त्रिकोणमण्डलाग्निना पवनदहनयोगाच्चैतन्यं विधाय ब्रह्मवर्त्मना सहस्रारं नीत्वा तत्रत्यपरशिवे संयोज्य तयोः सामञ्जस्यं विभाव्यात्यन्तं श्यामारहस्योक्तं |
तत्प्रमाणं तद्धृतकालिकाश्रुतिर्यथा ||
मूलाधारे स्मरेन्नित्यं त्रिकोणं तेजसां निधिम् |
तस्याग्निरेखामानीय अध ऊर्द्ध्वव्यवस्थिताम् |
नीलतोयदमध्यस्थतडिल्लेखेव भास्वराम् |
नीवारशूकवत्तन्वीं पीतां भास्वदनुपमाम् |
नीवारशूकवदिति उडिधान्यसुङ्गा इति प्रसिद्धिः |
तस्याः शिखाया मध्ये च परमोर्द्ध्वव्यवस्थिताम् |
स ब्रह्मा स शिवः सूर्ययः शङ्करः परमस्वराट् |
स एव विष्णुः स प्राणः स कालाग्निः स चन्द्रमाः |
इति कुण्डलिनीं ध्यात्वा सर्वपापैः प्रमुच्यते |
इति गुरोराज्ञां गृहीत्वेति प्रमाणशून्यलिखनम् |
कुण्डलीध्यानानन्तरं योगसारे ||
मूलाधारे कुण्डलिनीं ध्यात्वा सम्पूजयेन्नरः |
ध्यानं तथा प्रवक्ष्यामि येन योगी प्रजायते |
ओं प्रसुप्तभुजगाकारां स्वयम्भूलिङ्गमाश्रिताम् |
विद्युत्कोटिप्रभां देवीं विचित्रवसनान्विताम् |
शृङ्गारादिरसोल्लासां सर्वदा कारणप्रियाम् |
एवं ध्यात्वा कुण्डलिनीं ततो यजेत् समाहितः |
मनसा गन्धपुष्पाद्यैः सम्पूज्य वाग्भवं जपेत् |
ततो वै तोषयेत्ताञ्च स्तवेनानेन साधकः |
रुद्रजामले ||
अथ प्रातः समुत्थाय पशुरुत्तमपण्डितः |
गुरूणां चरणाम्भोजमङ्गलं शीर्षपङ्कजे |
विभाव्य पुनरेवं हि श्रीपदं भावयेद् यदि |
पूजयित्वा च विविधैरुपचारैर्नमेत् स्तवैः ||
त्रैलोक्यं तेजसा व्याप्तं मण्डलस्थां महोत्सवाम् |
तदित्कोटिप्रभादीप्तिं चन्द्रकोटिसुशीतलाम् |
सार्द्धत्रिबलयाकारस्वयम्भूलिङ्गवेष्टिताम् |
उत्थापयेन्महादेवीं महावक्त्वां मनोन्मनीम् |
श्वासोच्छ्वासादुद्गच्छन्तीं द्वादशाङ्गुलरूपिणीम् |
योगिनीं खेचरीं वायुरूपां मूलाम्बुजस्थिताम् |
चतुर्वर्णस्वरूपां तां वकारादिसमान्तकाम् |
कोटिकोटिसहस्रार्ककिरणोज्ज्वलमोहिनीम् |
महासूक्ष्मपथप्रान्तरान्तरान्तरगामिनीम् |
त्रैलोक्यरक्षितां वाक्यदेवतां शब्दरूपिणीम् |
महाबुद्धिप्रदां देवीं सहस्रदलगामिनीम् |
महासूक्ष्मपथे तेजोमयीं मृत्युस्वरूपिणीम् |
कालरूपां ब्रह्मरूपां सर्वत्र सर्वचिन्मयीम् |
ध्यात्वा पुनः पुनः शिर्षे सुधाब्धौ विनिवेष्टिताम् |
सुधापानं कारयित्वा पुनः स्थाने समानयेत् |
समानयनकाले तु सुषुम्नामध्यमध्यके |
अमृताभिप्लुतं कृत्वा पुनः स्थानेषु पूजयेत् |
ऊर्द्ध्वोद्गमनकाले तु महातेजोमयीं स्मरेत् |
प्रतिप्रयाणकाले तु सुधाधाराभिराप्लुताम् |
महाकुण्डलिनीं देवीममृतानन्दविग्रहाम् |
ध्यात्वा ध्यात्वा पुनर्ध्यात्वा सर्वसिद्धीश्वरो भवेत् |
तस्मिन् स्थाने महादेवीं विभाव्य किरणोज्ज्वलाम् |
अमृतानन्दमूर्तिं तां पूजयित्वा शुभां मुदा |
मानसोच्चारवीजेन मायां वा कामवीजकम् |
पञ्चाशद्वर्णमालाभिर्जप्त्वानुलोमतस्तथा |
विलोमेन पुनर्जप्त्वा सर्वत्र शुभदं स्तवम् |
पठित्वा सिद्धिमाप्नोति तत् स्तोत्रं शृणु भैरव ! ||
अथ कुण्डलिनीस्तोत्रम् ||
जन्मोद्धारिणि ! रक्षिणीह तरुणी वेदादिवीजादिमा नित्यं चेतमि भाव्यते भुवि कदा मद्वाक्यसञ्चारिणी |
मां सा तु प्रियदा सदा सविपदं सङ्घातय श्रीधरे धात्री त्वं स्वयमादिदेववनिता दीनातिदीनं परम् || १ ||
रक्ताभामृतचन्द्रिका लिपिमयी सर्पाकृतिर्निद्रिता जाग्रद्धर्मसमाश्रिता भगवती त्वं सांशलोकाश्रयः |
मांसोद्गन्धकगन्धदोषजडितं वेदादिकार्ययान्वितं सम्पाल्यामलचन्द्रकोटिकिरणे नित्यं शरीरं कुरु || २ ||
सिद्धार्थो निजदोषवित् खलगतिर्व्याधीयते विद्यया कुण्डल्याकुलमार्गयुक्तनगरी सायाह्नमाज्ञाश्रया |
यद्येवं भजति प्रभातसमये मध्याह्नकालेऽथवा नित्यं यः कुलकुण्डलीनिजपदाम्भोजं स सिद्धो भवेत् || ३ ||
ये वाकाशचतुर्दलेऽतिविमले वाञ्छाफलोन्मूलके नित्यं सम्प्रति नित्यदेशघटिता सङ्केतिता भाविता |
विद्याकुण्डलमालिनी स्वजननी सारक्रिया भाव्यते यैस्तैः सिद्धिकुलोद्भवैः प्रणतिभिः कीर्त्त्या परं शम्भुभिः || ४ ||
वाचा शङ्करमोहिनी त्रिपलयाच्छायापटोद्गामिनीं सारामादिमहासुखप्रहरणी नेत्रस्थिता योगिनी |
सर्वग्रन्थिविभेदिनी सुभुजगा सूक्ष्मातिसूक्ष्मा परा ब्रह्मज्ञानविनोदिनी कुलकुठाराघातिनी भाव्यते || ५ ||
वन्दे श्रीकुलकुण्डलीं त्रिबलिभिः सार्द्धं स्वयम्भूप्रियां प्रावेष्ट्यासुरसारचित्तचपलां बालाबलां निष्कलाम् |
या देवी परिभाति वेदवदना सम्भावना भावना तामिष्टां शिरसि स्वयम्भुवनितां सम्भावयामि क्रियाम् || ६ ||
वाणीकोटिमृदङ्गनादमदना निःश्रेणिकोटिध्वनिः प्राणेशीवशवाममूलकमलोल्लासैकपूर्णानना |
आषाढोद्भवमेघराजनियुतध्वान्तान्तरस्थायिनी माता सा परिपातु सूक्ष्मपथगे ! मां योगिनं संस्कुरु || ७ ||
त्वामाश्रित्य नरा व्रजन्ति सहसा वैकुण्ठकैलासयोरानन्दैकविलासिनीं शशिगतानन्दाननां कारणम् |
मातः ! श्रीकुलकुण्डलिप्रियकले ! कालीकुलोद्दीपने ! भूयस्त्वां प्रणमामि रुद्रवनिते ! मामुद्धर त्वं पथि || ८ ||
कुण्डलीशक्तिमार्गस्थं स्तोत्राष्टकं महाफलम् |
यः पठेत् प्रातरुत्थाय स योगी भवति ध्रुवम् |
क्षणादेव हि पाठेन कविनाथो भवेदिह |
परत्र कुण्डलीयोगाद्ब्रह्मलीनो भवेन्महान् |
इति ते कथितं नाथ ! कुण्डलीकोमलस्तवम् |
एतत्स्तोत्रप्रसादेन देवेषु गुरुगीष्पतिः |
सर्वे देवाः सिद्धियुक्ता अस्याः स्तोत्रप्रसादतः |
द्वापरार्द्धचिरञ्जीवी ब्रह्मा सर्वसुरेश्वरः |
त्वञ्चापि मम निकटे स्थितो भगवतीपतिः |
मां विद्धि परमां शक्तिं स्थूलसूक्ष्मस्वरूपिणीम् |
सर्वप्रकाशकरणीं विन्ध्यपर्वतवासिनीम् |
हिमालयसुतां सिद्धां सिद्धमन्त्रस्वरूपिणीम् |
वेदान्तशक्तितन्त्रस्थां कुलतन्त्रार्थगामिनीम् |
रुद्रजामलमभ्यस्थां स्थितिस्थापकभावनाम् |
पञ्चमुद्रास्वरूपाञ्च शक्तिजामलमालिनीम् |
रत्नमालाबलाकाढ्यां चन्द्रसूर्ययप्रकाशिनीम् |
सर्वभूतमहाबुद्धिदायिनीं दानवापहाम् |
स्थित्युत्पत्तिलयकरीं करुणासागरस्थिताम् |
महामोहनिवासाढ्यां दामोदरशरीरगाम् |
छत्रचामररत्नाढ्यां महाशूलकरां पराम् |
ज्ञानदां बिद्धिदां विद्यां रत्नमालाकलापदाम् |
सर्वतेजःस्वरूपां मामनन्तकोटिविग्रहाम् |
दरिद्रधनदां लक्ष्मीं नारायणमनोरमाम् |
सदा भावय शम्भो ! त्वं योगनायक ! पण्डित ! ||
इति रुद्रजामले उत्तरखण्डे कुण्डलीस्तोत्रं समाप्तम् |
कुण्डलिन्यां स्तोत्रान्तरं योगसारे तृतीयपटले ||
ओं नमस्ते देवदेवेशि ! योगीशप्राणबल्लभे ! सिद्धिदे ! वरदे ! मातः ! स्वयम्भूलिङ्गवेष्टिते || १ ||
ओं प्रसुप्तभुजगाकारे ! सर्वदा कारणप्रिये ! |
कामकलान्विते ! देवि ! ममाभीष्टं कुरुष्व च || २ ||
असारे घोरसंसारे भवरोगात् कुलेश्वरि ! |
सर्वदा रक्ष मां देवि ! जन्मसंसारसागरात् || ३ ||
इति कुण्डलिनीस्तोत्रं ध्यात्वा यः प्रपठेत् सुधीः |
मुच्यते सर्वपापेभ्यो भवसंसाररूपके ||
इति कुण्डलिनीस्तोत्रं समाप्तम् |
अथ कुण्डलिनीकवचम् ||
रुद्रजामले उत्तरखण्डे पञ्चत्रिंशत्पटले ||
श्री आनन्दभैरव्युवाच ||
अथ वक्ष्ये महादेव ! कुण्डलीकवच शुभम् |
परमानन्ददं सिद्धं सिद्धवृन्दनिषेवितम् |
यद्धृत्वा योगिनः सर्वे धर्म्माधर्मप्रदर्शकाः |
ज्ञानिनो मानिनो धीरा विचरन्ति यथा नराः |
सिद्धयोऽप्यणिमाद्याश्च करस्थाः सर्वदेवताः |
एतत्कवचपाठेन देवेन्द्रो योगिराड्भवेत् |
ऋषयो योगिनः सर्वे जटिलाः कुलभैरवाः |
प्रातःकाले त्रिवारञ्च मध्याह्ने वारयुग्मकम् |
सायाह्ने वारमेकस्तु पठेत् कवचमेव च |
पाठादेव महायोगी कुण्डलीदर्शनं लभेत् |
कुण्डलीकवचस्य ब्रह्मा ऋषिर्गायत्रीच्छन्दः कुण्डलीदेवता सर्वाभीष्टसिद्ध्यर्थे विनियोगः |
ओमीश्वरी जगद्धात्री ललिता सुन्दरी परा |
कुण्डली कुलरूपा तु पातु मां कुलचण्डिका |
शिरो मे ललिता देवी पातूग्राख्या कपोलकम् |
ब्रह्मरन्ध्रेण पुटितं भ्रूमध्यं पातु मे सा |
नेत्रत्रयं महाकाली कालाग्निभक्षिका शिखाम् |
दन्तावलीं विशालाक्षी ओष्ठमिष्टान्नवासिनी |
कामवीजात्मिका विद्या अधरं पातु मे सदा |
दृग्गण्डस्था चाण्डयुग्मं मायावीजा रसप्रिया |
भुवनेशी कर्णयुग्मं चिबुकं क्रोधकालिका |
कपिला मे गलं पातु सर्ववीजस्वरूपिणी |
मातृकावर्णपुटिता कुण्डली कल्पमेव च |
हृदयं कालपुत्री च कङ्काली पातु मे मुखम् |
भुजयुग्मं चण्डदुर्गा चण्डदोर्दण्डखण्डिनी |
स्कन्धयुग्मं पातु देवी चिवुकं क्रोधकालिका |
अङ्गुल्यग्रं कुलानन्दा श्रीविद्या नखमण्डलम् |
कालिका भुवनेशानी पृष्ठदेशं सदाऽवतु |
पार्श्वयुग्मं महावीरा वीरासनधराऽभया |
मातु मां कुलदर्भस्था नाभिमुदरमल्लिका |
कटिदेशं पृष्ठसंस्था महामहिषघातिनी |
लिङ्गस्थानं महामुद्रा भगमाला मनुप्रिया |
भगीरथप्रिया धूम्रा मूलाधारं गणेश्वरी |
चतुर्दलं कामविद्या दलाग्रं मे वसुन्धरा |
धीर्धरा धारणाख्या च ब्रह्माणी पातु मे मुखम् |
भेदिनी पातु कमला वाग्देवी पूर्णगं दलम् |
छेदिनी दक्षिणे पार्श्वे पातु चण्डा महातपाः |
चण्डघण्टा सदा पातु योगिनी वारुणं दलम् |
उत्तरस्थं दलं पातु पृथिवीमिन्द्रलालिताम् |
चतुष्कोणं कामविद्या ब्रह्मविद्याष्टकोणकम् |
अष्टदलं सदा पातु सर्ववाहनवाहना |
चतुर्भुजा सदा पातु डाकिनी कुलचञ्चला |
मेढ्रस्थ मदनाधारा पातु मे चारुपङ्कजम् |
स्वयम्भूलिङ्गं चार्वङ्गी कोटराक्षी ममासनम् |
कदम्बवनगा पातु कदम्बवनवासिनी |
वैष्णवी परमा माया पातु मे वैष्णवं पदम् |
षड्दलं राकिणी पातु रङ्गिनी कामवासिनी |
कामेश्वरी कामरूपा कृष्णं मे पीतवाससम् |
धनुः सा वनदुर्गा मे शङ्खं मे शङ्खिनी शिवा |
चक्रं चक्रेश्वरी पातु कमलाक्षी गदां मम |
पद्मं मे पद्मगन्धा च पद्ममालामनोहरा |
वादिसान्ताक्षरं पातु लाकिनी लोकपावनी |
षड्दलस्थितदेवांश्च पातु कैलासवासिनी |
अग्निवर्णा सदा पातु गलं मे परमेश्वरी |
मणिपूरं सदा पातु मणिमालाविभूषणा |
दशपत्रं दशवर्णं कादिफान्तं त्रिविक्रमा |
पातु नीलामहाकाली भद्रा भीमा सरस्वती |
अयोध्यावासिनी देवी महापीठनिवासिनी |
वाग्भवाद्या महाविद्या कुण्डली कालरूपिणी |
दशच्छदशतं पातु रुद्रं रुद्रात्मकं मम |
सूक्ष्मा सूक्ष्मतरा पातु सूक्ष्मस्थाननिवासिनी |
लाकिनी लोकजननी पातु कूटाक्षरान्विता |
तेजसं पातु नियतं रजकी राजपूजिता |
विजया कुलवीजस्था तवर्गं तिमिरापहा |
चन्द्रात्मिका मणिग्रन्थिं भेदिनी पातु सर्वदा |
भगमाला भृगुसुता पातु मां नाभिवासिनी |
नन्दिनी पातु सकलं कुण्डली कालकल्पिता |
हृत्पद्मं पातु कालाख्या धूम्रवर्णा मनोहरा |
दलद्वादशवर्णञ्च भास्करी भावसिद्धिदा |
पातु मे परमा विद्या कवर्गं कामचारिणी |
चवर्गं चारुरसना व्याघ्रास्या टङ्कधारिणी |
टकारं पातु कृष्णाख्या काकिनीं पातु कालिका |
ठङ्कुराङ्गी ठकारं मे वीजभाषा महोदया |
ईश्वरं पातु विमला मम हृत्पद्मवासिनी |
कालिकां कालसन्दर्भा योगिनी योगमातरम् |
इन्द्राणी वारुणी पातु कुलमाला कुलान्तरम् |
तारिणी शक्तिमाता च कण्ठवाक्यं सदाऽवतु |
विप्रचित्ता महोग्रोग्रा प्रभादीप्ता घनामला |
वाक्स्तम्भिनी वज्रदेहा वैदेही वृषवाहिनी |
उन्मत्ता नन्दचित्ता च कुलेशी सा भगातुरा |
मम षोडश पत्राणि पातु मातृतया स्थिता |
सुरान् रक्षतु वेदज्ञा सर्वभाषा च कालिकाम् |
ईश्वरार्द्धासनगता प्रपायान्मे सदाशिवा |
शाकम्भरी महामाया शाकिनी पातु सर्वदा |
भवानी भवमाता च पयोद्रुमध्यपङ्कजम् |
द्विदलं व्रतकामाख्या अष्टाङ्गसिद्धिदायिनी |
पातु मामखिलानन्दा मनोरूपा जपप्रिया |
लकारं लक्षणाक्रान्ता सर्वलक्षणलक्षणा |
कृष्णाजिनधरा देवी क्षकारं पातु सर्वदा |
द्विदलस्थं सर्वदेवं सदा पातु वरानना |
बहुरूपा विश्वरूपा हाकिनी पातु चण्डिका |
हरा परशिवं पातु मानसं पातु पञ्चमी |
षट्चक्रस्था सदा पातु षट्चक्रकुलवासिनी |
अकारादिक्षकारान्ता बिन्दु सर्गसमन्विता |
मातृकार्णा सदा पातु कुण्डली ज्ञानकुण्डली |
पूर्णकाली गतिप्रेता पूर्णगिरितटं शिवा |
उड्डीयानेश्वरी देवी सकलं पातु सर्वदा |
कैलासपर्वतं पातु कैलासगिरिवासिनी |
डाकिनी राकिणी शक्तिर्लाकिनी काकिनी कला |
साकिनी हाकिनी देवी षट्चक्रादीन् प्रपातु मे |
कैलासाख्यं सदा पातु पञ्चाननतनूद्भवा |
हिरण्यवर्णा रजनी चन्द्रसूर्ययाग्निभक्षिणी |
सहस्रदलपद्मं मे सदा पातु कुलाकुला |
सहस्रदलपद्मस्था दैवतं पातु भैरवी |
काली तारा षोडशाख्या मातङ्गी पद्मवासिनी |
शशिकोटिगलद्रूपा पातु मे सकलां तनुम् |
रणे घोरे जले दोषे युद्वे वादे श्मशानके |
सर्वत्र गमने ज्ञाने सदा मां पातु शैलजा |
पर्वते विविधावासे विनाशे पातु कुण्डली |
पदादिब्रह्मरन्ध्रान्तं सर्वाकाशा सुरेश्वरी |
सदा पातु सर्वविद्या सर्वज्ञानं सदा मम |
नवलक्षमहाविद्या दशदिक्षु प्रपातु माम् |
इत्येतत् कवचं देवि ! कुण्डलिन्याः प्रसिद्धिदम् |
ये पठन्ति ध्यानयोगे योगमार्गव्यवस्थिताः |
ते यान्ति मोक्षपदवीमैहिकेनात्र संशयः |
मूलपद्मे मनोयोगं कृत्वा दृढासनस्थितः |
मन्त्री ध्यायेत् कुण्डलिनीं सूक्ष्मपद्मप्रकाशिनीम् |
धर्मोदयां दयारूढामाकाशस्थानवासिनीम् |
अमृतानन्दरसिकां विकलां सकलां सिताम् |
असितां रक्तरहितां विरक्तां रक्तविग्रहाम् |
रक्तनेत्रां कुलक्षिप्तां ज्ञानाकुलजलोज्ज्वलाम् |
विप्रकारां मनोरूपां मूले ध्यात्वा प्रपूजयेत् |
यो योगी कुरुते एवं स सिद्धो नात्र संशयः |
रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् |
वस्तु प्रियमवाप्नोति वस्तुहीनः पठेद् यदि |
पुत्रहीनो लभेत् पुत्रं योगहीनो भवेद्वशी |
कवचं धारयेद्यस्तु शिखायां दक्षिणे भुजे |
वामा वामकरे धृत्वा सर्वाभीष्टमवाप्नुयात् |
स्वर्णे रौप्ये तथा ताम्रे स्थापयित्वा प्रपूजयेत् |
सर्वदेशे सर्वकाले पठित्वा सिद्धिमाप्नुयात् |
स भूयात् कुण्डलीपुत्रो नात्र कार्यया विचारणा ||
इति रुद्रजामले उत्तरखण्डे कन्दवासिनीकवचं समाप्तम् ||
तत आचारात् स्वेष्टदेवताप्रणाममन्त्रेण कुण्डलिनीं नत्वा दशसु द्वारेषु चौरगणेशमन्त्रं कवाटवन् न्यसेत् तदुक्तं गणेशविमर्षिण्यां ||
चक्षुर्द्वयं तथा कर्णद्वयं नासापुटद्वयम् |
मुखं नाभिं लिङ्गमूलं गुदस्थानं तथैव च |
मनोद्वारं भ्रुवोर्मध्ये दशैव द्वारसंज्ञिताः |
अङ्कुशं प्रथमं बीजं हृदये दशधा जपेत् |
प्रजपान्ते ततो मातः ! कवाटं निक्षिपेत्ततः |
कर्णयोश्च तथा कूर्च्चं कालीं नासापुटे ततः |
मुखे स्त्रीं द्विविधं बीजं नाभौ वाणीं ततो जपेत् |
हेसौः बीजं लिङ्गमूले ब्लुं मूले परिकीर्त्तितम् |
ओंकारञ्च भ्रुवोर्मध्ये मनःस्थाने तथैव च |
एतदेकादशं बीजं प्रतिद्वारे कवाटवत् ||
चौरगणेशमन्त्रं न जप्त्वा कर्म्ममात्रं न कुर्ययात् |
यदि कुर्ययात्तदा दोष उक्तो वर्णविलासतन्त्रे ||
गणेश उवाच ||
अधुनाहं प्रवक्ष्यामि चौरमन्त्रमतः शृणु |
चौरमन्त्रपरिज्ञानं विना हे ब्राह्मणीश्वरि ! |
पुराणं प्रपठेद्यस्तु स एव मूर्त्तिमान् कलिः |
परजन्मनि पापिष्ठः स भवेच्चौरकुक्कुरः |
शिवपूजा विष्णुपूजा शक्तिपूजा तथैव च |
सर्वपूजासु यत्तेजो हरते गणपः स्वयम् |
पञ्चाशद्गणदेवानां ज्योतींषि मुनिपुङ्गवाः |
प्रतिद्वारपथे गत्वा प्रतिपद्मेषु जृम्भते |
हरन्ति जपतेजांसि प्रतिपद्मेषु संस्थिताः |
जपपूजासु यत्तेजस्तत्र चौरगणाधिपः |
तस्माच्चौरप्रबोधार्थं चौरमन्त्रान् जपेद्दश |
ततस्तु पूजयेद्धीमान् यस्य या इष्टदेवताः |
ततः फलमवाप्नोति ब्रह्मादित्रिदिवौकसः |
चौरमन्त्रं महामन्त्रं पञ्चाशद्गणतोषणम् |
चौरमन्त्रं विना भद्रे ! शान्तिस्वस्त्ययनं कुतः |
कर्णद्वयं तथा चक्षुर्द्वयं नासामुखं ततः |
नाभिस्थाने लिङ्गमूले गुदस्थाने तथैव च |
मनोद्वारे भ्रुवोर्मध्ये दशैकं द्वारमीरितम् |
प्रतिद्वारे न्यसेन्मन्त्रं चौराख्यं ब्राह्मणीश्वरि ! |
चौरमन्त्रञ्चाह भद्रे ! प्रतिद्वारे कवाटवत् |
रहस्यं ते प्रवक्ष्यामि पञ्चाशद्गणतोषणम् |
अङ्कुशं पञ्चमं बीजं प्रथमे दशधा जपेत् |
प्रजप्य सुभगे ! मातः ! कवाटं निक्षिपेत्ततः |
अन्यथा अङ्कुशैर्वीजैः कवाटं भेदिरे गणाः |
चन्द्रिकान्तर्गता नित्यं शङ्करं वरसुन्दरम् |
चन्द्रिका सुषमा सीता शिञ्जिनी अणिमागुणा |
चन्द्रविन्द्वात्मिका नित्या गणेशपरिपूजिता |
ह्रीं ह्रीं वीजद्वयमिति विन्यसेन्नयनद्वये |
कर्णयोश्च तथा ह्रीं ह्रीं हुं हुं नासाद्वये तथा |
मुखे स्त्रीं द्विविधं बीजं नाभौ क्लीं सुभगेश्वरि ! |
हेसौर्बीजं लिङ्गमूले गुदे व्लुं परिकीर्त्तितम् |
हुङ्कारञ्च भ्रुवोर्मध्ये मनःस्थाने तथैव च |
एतदेकादशद्वारे चौरमन्त्राणि विन्यसेत् |
दशधा चौरमन्त्रञ्च एकधा वापि वीजकम् |
अनेनैव जपेनापि प्रतिद्वारे कवाटकम् ||
जपकालोऽपि तत्रैव ||
शृणु चापि प्रवक्ष्यामि मन्त्रस्य जपनिर्णयम् |
प्रातःकाले च शययायां मुक्तस्वापः स्वदेहके |
पूर्ववन्मातृकान्यासं विन्यसेन्मातृकास्थले |
तथा एकादशद्वारे चौरमन्त्राणि विन्यसेत् |
दशधा चौरमन्त्रञ्च एकधा वापि सञ्जपेत् |
चौरमन्त्रजपात् तुष्टिर्गणेशस्य तदा भवेत् |
यमस्य नाधिकारोऽपि चौरमन्त्रजपात् प्रिये ! |
सर्वमन्त्रजपात्तेजः सर्वस्मात् समुपस्थितम् |
तत्तेजोहरणे शक्तिर्गणेशस्य न चैव हि ||
इति ||
अथ प्रयोगः ||
हृदि क्रोमिति दशधा जपेत् दक्षिणचक्षुषि ह्रीं ह्रीमिति || १० ||
वामचक्षुषि ह्रीं ह्रीमिति || १० ||
दक्षकर्णे ह्रीं ह्रीमिति || १० ||
वामकर्णे ह्रीं ह्रीमिति || १० ||
दक्षिणनासायां हुं हुं इति || १० ||
वामनासायां हुं हुं इति || १० ||
मुखे ह्रीं ह्रीं ह्रीं ह्रीं ह्रीमिति || १० ||
नाभौ ऐं लीमिति || १० ||
लिङ्गे हौः इति || १० ||
गुह्ये व्लुमिति || १० ||
भ्रूमध्ये हूमिति || १० ||
सर्वत्र दशधा जपेत् ||
ततः स्थाने स्थानेऽजपामन्त्रसमर्पणं कुर्ययात् ||
कुलमूलावतारकल्पसूत्रटीकायां तृतीयकाण्डे अस्याजपागायत्रीमन्त्रस्य शिरसि हंस ऋषये नमः ||
मुखे अव्यक्तगायत्रीच्छन्दसे नमः ||
हृदि परमहंसदेवतायै नमः |
लिङ्गे हं वीजाय नमः ||
आधारे सः शक्तये नमः |
परमात्मप्रीतये उच्छासनिश्वासाभ्यां षट्शताधिकैकविंशतिसहस्रजपेन पूर्वभूतेभ्यो निवेदयामि |
मूलाधारमण्डपे स्वर्णवर्णचतुर्दलपद्मे वादिसान्तचतुर्वर्णान्विते गायत्रीसहिताय गणनाथाय षट्शतसंख्यजपमहर्निशं समर्पयामि नमः |
स्वाधिष्ठानमण्डपे अनेकविद्युन्निभे वादिलान्तषड्वर्णान्विते षड्दलपद्मे सावित्रीसहिताय ब्रह्मणे अजपामन्तषट्सहस्रं निवेदयामि नमः |
मणिपूरमण्डपे नीलोत्पलमेघनिभे डादिफान्तदशवर्णान्विते दशदलपद्मे लक्ष्मीसहिताय विष्णवे षट्सहस्रजपं समर्प्यामि नमः |
अनाहतमण्डपे तरुणरविनिभे द्वादशवर्णयुते द्वादशदलपद्मे गौरीसहिताय शिवाय अजपाषट् सहस्रजपं समर्पयामि नमः |
विशुद्धमण्डपे षोडशदलकर्णिकामध्ये जीवात्मने अकारादि-अःकारान्ते अजपासहस्रसंख्यजपं निवेदयामि नमः |
आज्ञामण्डपे श्रीचन्द्रप्रभे द्विदलपद्मे हक्षवर्णान्विते मायासहितगुरुमूर्त्तये एकसहस्रजपं निवेदयामि नमः |
ब्रह्मरन्ध्रमण्डपे नानावर्णोज्ज्वले सहस्रशब्दोऽसंख्यपर इति बोध्यम् |
उक्तञ्च पद्मं कोटिसमन्वितमिति |
सहस्रपद्मस्थिताय प्रमात्मने अकारादिक्षकारान्तसहिताय एकसहस्रजपं निवेदयामि नमः |
इति जपं समर्प्य अष्टोत्तरशतसंख्यमजपाजपं कुर्ययात् |
अकारादिक्षकारान्ता वर्णा हंस इति शिवशक्तिबिन्दुना ब्रह्माणं अ इति विसर्गरूपबिन्दुभ्यां हरिहरयोरभेदः |
सोऽहमित्यभेदभावनया ब्रह्मरूपता स्वं स्वं परिभाव्य उक्तः |
षट्शताधिकैकविंशतिसहस्रजपेन परदेवतारूपः श्रीपरमेश्वरः प्रीयतामित्येकवारं सङ्कल्प्य हंसस्य ध्यानं यथा ||
आराधयामि मणिसन्निभमात्मलिङ्गं मायापुरीहृदयपङ्कजसन्निविष्टम् |
श्रद्धानदीविमलचित्तजलावगाहं नित्यं समाधिकुसुमैरपुनर्भवाय ||
प्रसङ्गाज्जपरहस्यं लिख्यते |
पञ्चाशद्वर्णसम्पुटत्वेनानुलोम्यप्रातिलोम्येन ब्रह्मरूपं मेरुं क्षकारं परिकल्प्य तया सह जपं कुर्ययादिति दोषलेशैर्न बाध्यते |
एतेन विश्वमेव हंसमातृकयोरेकाकारेण कालात्मना लोके चिदात्मा उच्यते |
अजपाविधानं विना श्रीविद्यादिसकलविद्याया अनधिकारी भवेत् |
तदुक्तम् |
हंसज्ञानविमुग्धेन कृतमप्यकृतं भवेत् |
इति |
तद्धृतपद्मकोषराघवभट्टधृततन्त्रान्तरदक्षिणामूर्त्ति-संहितासप्तमपटलेषु |
अजपाधारणं देवि ! कथयामि तवानघे ! |
यस्य विज्ञानमात्रेण परं ब्रह्मैव देशिकः |
हंसः पदं परेशानि ! प्रत्यहं प्रजपेन्नरः |
मोहरन्ध्रं न जानाति मोक्षस्तस्य न विद्यते |
श्रीगुरोः कृपया देवि ! ज्ञायते जप्यते यदा |
उच्छासनिश्वासतया तदा बन्धक्षयो भवेत् |
उच्छ्वासे चैव निश्वासे हंस इत्यक्षरद्वयम् |
तस्मात् प्राणस्तु हंसात्मा आत्माकारेण संस्थितः |
नाभेरुच्छासनिश्वासात् हृदयाग्नेर्व्यवस्थितिः ||
अहोरात्रमध्येऽजपाजपसंख्यापि तत्रैव |
षष्टिश्वासैर्भवेत् प्राणः षट्प्राणा नाडिका मता |
षष्टिनाड्या अहोरात्रं जपसंख्याक्रमो मतः |
एकविंशतिसाहस्रं षट्शताधिकमीश्वरि ! |
जपते प्रत्यहं प्राणी सान्द्रानन्दमयीं पराम् |
उत्पत्तिश्च जपा रम्भो मृत्युस्तस्य निवेदनम् |
अजपानामकारणमपि तत्रैव |
विना जपेन देवेशि ! जपो भवति मन्त्रिणः |
अजपेयं ततः प्रोक्ता भवपाशनिकृन्तनी |
एवं जपं महेशानि ! प्रत्यहं विनिवेदयेत् |
गणेशब्रह्मविष्णुभ्यो हराय परमेश्वरि ! |
जीवात्मने क्रमेणैव तथैव परमात्मने |
षट्शतानि सहस्राणि सहस्रञ्च तदेव हि |
पुनः सहस्रं गुरवे क्रमेण च निवेदयेत् |
एवं यथा स्थानावस्थितेभ्यो गणेशादिभ्यस्तज्जपसमर्पणमुक्त्वा तत्तत्स्थानानां तत्तदवस्थितमातृकार्णानाञ्च रूपमाह तत्रैव ||
आधारे स्वर्णवर्णेऽस्मिन् वादिसान्तानि संस्मरेत् |
द्रुतसौवर्णानि तथा वर्णानि परमेश्वरि ! |
स्वाधिष्ठाने विद्रुमाभे वादिलान्तानि च स्मरेत् |
विद्युत्पुञ्जप्रभाभाणि सुनीले मणिपूरके |
डफान्तानि महानीलप्रभाणि च विचिन्तयेत् |
पिङ्गवर्णे महावह्निकलिकाभानि चिन्तयेत् |
कादिठान्तासिवर्णानि चतुर्थेऽनाहते प्रिये ! विशुद्धौ धूम्रवर्णे च रक्तवर्णान् स्वरान् यजेत् |
आज्ञायां विद्युदाभायां शुभ्रौ हक्षौ विचिन्तयेत् |
कर्पूरद्युतिसंराजत्सहस्रदलनीरजे |
नादात्मकं ब्रह्मरन्ध्रं जानीहि परमेश्वरि ! |
एतेषु सप्तचक्रेषु स्थितेभ्यः परमेश्वरि ! |
जपं निवेदयित्वा तु अहोरात्रभवं प्रिये ! |
सहजं परमेशानि ! न्यासं कुर्ययाद्विचक्षणः |
ऋषिर्हंसो व्यक्तरूपो गायत्रीच्छन्द उच्यते |
देवता परमादिस्तु हंसोऽहं वीजमुच्यते |
सः शक्तिः कीलकं सोऽहं प्रणवस्तु त्वमेव हि |
नेत्रस्थलं भवेत् श्वेतं वर्णञ्च परमेश्वरि ! |
तदा तत् सह इत्येवं मनोरस्य प्रकीर्त्तितः |
मोक्षार्थे विनियोगः स्यादेवं जानीहि पार्वति ! |
ततः षडङ्गविन्यासं कुर्ययाद्देहस्य सिद्धये |
सूर्ययं सोमं महेशानि ! निरञ्जनमतः परम् |
निराभासं चतुर्थ्यन्तं स्वाहान्ते क्रमतो न्यसेत् |
कवचान्तं प्रविन्यस्य ततोऽनन्तपदं स्मरेत् ||
अजपाया द्वविध्यमुक्तं यथा निरुत्तरतन्त्रे चतुर्थपटलेऽपि ||
हंसेति प्रकृतिर्ज्ञेया ओंकारः प्रकृतेर्गुणः |
हङ्कारेण वहिर्याति सकारेण विशेत् पुनः |
हंसेति परमं मन्त्रं जीवो जपति सर्वदा |
षट् शतानि दिवारात्रौ सहस्राण्येकविंशतिः |
अजपा नाम गायत्री योगिनां मोक्षदायिनी |
अजपा द्विविधा देवि ! व्यक्ता गुप्ता क्रमेण च |
व्यक्ता च द्विविधा प्रोक्ता शब्दज्योतिःस्वरूपिणी |
ज्योतीरूपा च सा देवी हृदि स्थाने प्रतिष्ठिता |
ठकाररूपा गुप्ता च शिवशक्तिः प्रकीर्त्तिता |
चन्द्रबीजं ठकारस्तु वीप्सितः स्वर उच्यते |
अजपार्थमयी गुप्ता वह्निजाया प्रकीर्त्तिता |
अस्याः सङ्कल्पमात्रेण पुरश्चरणमुच्यते |
इति स्वेष्टदेवतागुरुकुण्डलिनीध्यानेन परिपूतमनःकायश्चिन्तयेद् यथा |
राघवभट्टधृतम् ||
अहं देवो न चान्योष्मि ब्रह्मैवाहं न शोकभाक् |
सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान् |
गुरुदेवात्मनामैक्यं भावयित्वा तु प्रार्थयेत् ||
भावनाप्रकारस्तु धर्मकाण्डे दर्शितः |
त्रैलोक्यचैतन्यमयाधिदेव ! श्रीनाथ ! विष्णो ! भवदाज्ञयैव |
प्रातः समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्त्तयिष्ये |
जानामि धर्मं न च मे प्रवृत्तिः जानाम्यधर्मं न च मे निवृत्तिः |
केनापि देवेन हृदि स्थितेन यथानियुक्तोऽस्मि तथा करोमि ||
अत्र श्रीनाथविष्णो इति शैवादावूहः कार्ययः |
अत एव शाक्तानन्दतरङ्गिण्यां पञ्चमोल्लासे |
त्रैलोक्यचैतन्यमयेश्वरेशि ! श्रीपार्वति ! त्वच्चरनाज्ञयैव |
इति शक्तिविषये अर्द्धमुक्तम् इति प्रार्थनामन्त्रः ||
तत उत्थाय भूमिनतिं कृत्वा वामपदपुरःसरं मूत्रपुरीषे कुर्यात्तदुक्तं तत्रैव |
एवं सञ्चिन्त्य मनसा गृहान्निर्गत्य संयतः |
आचम्य प्रयतो मन्त्री दन्तधावनमाचरेत् |
प्रयत इत्यनेन मूत्रपुरीषोत्सर्गान्तशुद्ध इति सूचितम् |
तथा च |
महानिर्वाणतन्त्रे पञ्चमोल्लासे ||
नमस्कृत्य वहिर्गच्छेद्वामपादपुरःसरम् |
त्यक्त्वा मूत्रपुरीषञ्च दन्तधावनमाचरेत् |
गन्धर्वतन्त्रे पञ्चमपटले ||
सर्वमङ्गलसम्पन्नो वहिर्निर्गत्य साधकः |
त्यक्त्वा मूत्रपुरीषे तु दन्तधावनमाचरेत् |
दन्तकाष्ठमखादित्वा पूजयेद् यस्तु देवताम् |
सा पूजा विफला देवि ! मृते तु नरकं व्रजेत् |
दक्षिणामूर्त्तौ ||
क्लीमात्मकं कामदेवं स्र्वजनमथालिखेत् |
प्रियाय हृदयान्तोऽयं मनुर्दन्तविशुद्धये |
चतुर्दशाक्षरैर्वक्त्रं क्षालयेत् सिद्धिहेतवे ||
मन्त्रतन्त्रप्रकाशे ||
विधायावश्यकं शौचमाचमं दन्तधावनम् |
मुखप्रक्षालनादीनि कृत्वा स्नानं समाचरेत् ||
पदार्थदर्शने ||
ब्राह्म्ये मुहूर्ते उत्थाय करपादौ विशोधयेत् |
मुख प्रखाल्य देवेशि ! नासारन्ध्रद्वयं तथा |
नेत्राञ्जनं विधायैव शुद्धस्थानं समाश्रयेत् |
नेत्राञ्जनमकृत्वा तु यः पश्येत् सौरमण्डलम् |
जन्मार्जितफलं नश्येत् का कथा तस्य दुर्मतेः |
इति निन्दार्थवादो हरिद्वारादावावश्यकत्वप्रतिपादको यस्मिन् देशे इत्याद्युक्तवचनादन्यत्र काम्यत्वज्ञापक इति |
स्मृत्युक्तविधानेन शौचादिकं देहशुद्धिञ्च विधाय रात्रिवासः परित्यज्य वासोऽन्तरं परिधाय मन्त्रस्नानं कृत्वा देवगृहमागत्य सम्मार्जनोपलेपादिं कृत्वा देवस्य निर्माल्यमपसार्यय पूर्वदिनावशिष्टपत्रादि नाभ्यर्च्य नमस्कुर्ययात् |
अन्यथा दोषः |
यदाहुः ||
तृषार्त्तान्तः पशुर्बद्धः कन्यका च रजस्वला |
देवता च सनिर्माल्या हन्ति पुण्यं पुराकृतम् |
मन्त्रतन्त्रप्रकाशे ||
स्मृत्युक्तेन विधानेन सम्यक् शौचं विधाय च |
प्रक्षाल्य पादावाचम्य कृत्वा न्यासं यतात्मवान् |
प्रविश्य देवतास्थानं निर्माल्यमपकृष्य च |
दद्याद् पुष्पाञ्जलिं विद्वानर्घ्यपाद्ये तथैव च |
मुखप्रक्षालनं दद्याद् दद्याद्वै दन्तधावनम् |
दद्यादाचमनीयञ्च दद्याद्वासोऽमलं शुभम् ||
सम्मार्जनन्तु योगिनीतन्त्रे तृतीयभागे नवपटले ||
सम्मार्जनं प्रवक्ष्यामि तत् शृणुष्व वरानने ! |
यां गतिं पुरुषा यान्ति स्त्रियो वा कर्मनिश्चिताः |
यावद्धूलिनिःसृताश्च भूमिसम्मार्जने प्रिये ! |
तावद्वर्षसहस्राणि सप्तद्वीपे महेश्वर इति |
विधिनिषेधद्रव्यमपि तत्रैव ||
न काष्ठेन न पत्रेण न कुशेन कदाचन |
वस्त्रेण तृणगुच्छेन वीरणेन नलेन च |
मार्जयेद्वर्जयेद् गुच्छं कुशकाशांश्च वर्जयेत् |
इति देवगृहसम्मार्जनम् |
उपलेपनमपि तत्रैव ||
मृद्गोमयेन वै भूमेः क्रियते लेपनं प्रिये ! |
एकेनैवोपलेपेन स योन्यां नैव जायते |
स्नात्वावलेपने देवि ! सलिलं यो ददाति च |
तस्य पुण्यं महाभागे ! शृणु तत्त्वेन न सुन्दरि ! |
यावन्ति जलबिन्दूनि लिप्यमानस्य सुन्दरि ! |
तावद्वर्षसहस्राणि स्वर्गलोके महीयते |
मृत्तोयैः प्रोक्सणं कुर्ययाद्देवस्य च विलेपनम् |
सर्वपापविनिर्मुक्तो वारुणं लोकमश्नुते |
इत्युपलेपनम् |
ततः स्तवनमात्रेण नमस्कुर्ययाद् यथा विश्वसारतन्त्रे तृतीयपटले ||
ईश्वर उवाच ||
प्रातरेव समुत्थाय हस्तपादौ विशुध्य च |
उत्तराभिमुखीभूय कुर्ययाद्भक्त्या गुरोर्नतिम् |
मनसा वचसा वापि कायेन च विशेषतः |
क्षेत्रेशं वास्तुराजञ्च विघ्नराजं ततः परम् |
दुर्गां विनायकं शम्भुं भैरवं वटुकान्वितम् |
ब्रह्माणं नैर्-ऋतिञ्चैव चक्रपाणिं नमेत् सदा |
विघ्नेभ्यो विघ्ननाथेभ्य ऋषिभ्योऽपि नभेत्ततः |
देवेभ्यो वेदशास्त्रेभ्यो वेदार्थेभ्यश्च वै नमः |
रामायणेभ्यो भागवतेभ्यः पुराणेभ्यः सदा प्रिये ! |
ब्राह्मणेभ्यो गुरुभ्यश्च योगिनीभ्यो विशेषतः |
यतिभ्यो मनुवंशेभ्यो मनुष्येभ्यो नमेत् सदा |
वृक्षेभ्य ओषधिभ्यश्च लतागुल्मेभ्य एव च |
कुलाचलेभ्यो दिग्भ्यश्च दिक्पालेभ्यो नमो नमः |
संहिताभ्यः शिवेभ्यश्च रुद्रेभ्योऽपि नमो नमः |
योगेभ्यः करणेभ्यश्च तिथिभ्यस्तेभ्य एव च |
दिवसेभ्यश्च पक्षेभ्यः सर्वकालेभ्य एव च |
योगिनीभ्योऽपि कालेभ्यः प्रणमेत् सर्वकालतः |
क्षणेभ्यो निमिषेभ्यश्चं कर्मभ्यः कारणेभ्यश्च |
पीठेभ्यः सागरेभ्यश्च तीर्थेभ्योऽपि नमो नमः |
नदीभ्यः कर्मयोगेभ्यो मन्त्रेभ्यः प्रणमेत् पुरा |
वृक्षेभ्य ओषधिभ्यश्च लतागुल्मेभ्य एव च |
कृत्रिमाकृत्रिमेभ्यश्च ह्रदेभ्यः प्रणमेत् सदा |
जीवेभ्यः सर्वभावेभ्यो रसेभ्योऽपि विशेषतः |
पुष्पेभ्यश्च प्रणम्याथ चागमेभ्यो नमेत्ततः |
भाष्येभ्यश्चार्थशास्त्रेभ्य आख्यानेभ्यो नमेत् सदा |
अस्त्रेभ्यः सर्वशास्त्रेभ्यो मातृकाभ्यश्च पार्वति ! |
पुरुषेभ्यश्च शक्तिभ्यो धर्मशास्त्रेभ्य एव च |
भूतेभ्यः पञ्चभूतेभ्यो महाभूतेभ्य एव च |
ज्योतिर्भ्यो ज्योतिषेभ्यश्च आचार्ययेश्च पार्वति ! |
श्रुतिभ्यश्च प्रणम्याथ ऋतुभ्यः प्रणमेत् सदा |
वर्णेभ्यो वर्णशक्तिभ्यः कलाभ्यः प्रणमेत् सदा |
सब्रह्मविष्णुरुद्रेभ्यो मुद्राभ्यः प्रणमेत् सदा |
स्थानेभ्यः स्थानदेवेभ्यः सर्वकालात्मने नमः |
विघ्नेभ्यः कालपीठेभ्यो योगिनीगणपालिके ! |
भैरवेभ्यस्तत्पत्नीभ्यो मातृमण्डलचक्रके |
रत्नेभ्यश्च स्वरेभ्यश्च देवीप्रीतिकरेश्वपि |
एवं प्रणम्य देवेशि ! ध्यायेद्देवीं विचक्षणः |
प्रान्तरे वा श्मशने वा शून्यवासे तथा गृहे |
अद्वैतभावनां कुर्ययाद् ब्रह्माण्डसदृशीं तनुम् |
आधारशक्तिं सञ्चिन्त्य पङ्कजद्बयधारिणीम् |
तन्मूर्द्ध्नि चिन्तयेद्देवि ! कूर्मरूपं जनार्दनम् |
नीलमेघनिभं देवं सर्वतत्त्वसमन्वितम् |
तस्य पृष्ठे स्थितं देवमनन्तं चिन्तयेद्धिया |
सहस्रफणसंयुक्तं शुद्धस्फटिकसन्निभम् |
ककुदंसे हलं ध्यायेन्मुद्गरं वामपार्श्वके |
एककुण्डलरत्नेन भूषणेनातिभूषितम् |
एकचक्रस्य उपरि पृथिवीं चिन्तयेद्धिया |
यथा पृथिव्याः सिद्ध्यर्थं तथेमां चिन्तयेत् सुधीः |
कृष्णवर्णां शुकव्रीहिभुजयुग्मेन भूषिताम् |
तत्रापि मण्डपं ध्यायेन्मनसा मणिभूषितम् |
तत्र कल्पतरुं ध्यायेत् सर्ववाञ्छाफलप्रदम् |
तदधःस्थं चिन्तयेच्च स्वर्णसिंहासनं महत् |
तत्र सञ्चिन्तयेद्देवीं हृत्पद्मस्थां सुरेश्वरीम् ||
इति छिन्नमस्ताया विशेषः |
यद्यपि सुरीक्रमस्तव एव फलमुक्तं न तु छिन्नग्रस्तादीनां तथाप्येकत्र निर्णीतः शास्त्रार्थो बाधकमन्तरेणान्यत्रापि तथेति न्यायात् सर्वत्र क्रमस्तवे तत्फलमुन्नेयम् |
अन्यथा क्रमस्तवस्यानित्यत्वप्रसङ्गः स्यादिष्टापत्तिरिति चेन्न |
प्राचीननिबन्धृभिरलिखितस्य तच्छङ्केति |
दक्षिणकाल्यास्तु ||
ब्राह्म्ये मुहूर्ते उत्थाय हस्तपादौ विशुद्ध्य च |
प् ३१५) पूर्वोक्तञ्च गुरुध्यानं कुर्यात् साधकसत्तमः |
प्रणम्य विधिवद्देवीं ध्यायेत्तां वै सनातनीम् |
अष्टोत्तरसहस्रं हि जपित्वा विधिनामुना |
क्रमस्तवं पठेन्नित्यं विधिनानेन देशिकः |
ओं नमो गुरुभ्यो देवेभ्यस्तथा परतराय च ||
परापरेभ्यस्तद्वच्च तथा परात्पराय च |
क्षेत्रपालं नमस्मृत्य द्वारदेवान् विधानतः |
लक्ष्मीं सरस्वतीं दुर्गां गङ्गां गोदावरीं तथा |
भोगवतीं नमस्कृत्य वास्तुदेवान्नमेत्तदा |
विघ्नराजञ्च वास्त्वीशं क्षेत्रेशं प्रणमाम्यहम् |
नैर्-ऋतञ्चैव ब्रह्माणं ब्रह्मकर्मात्मकं प्रिये ! |
विघ्नान् प्रणम्य विधिना तान् देवांश्च नमेत्ततः |
आधारशक्तिं तां नत्वा प्रङ्कजद्वयधारिणीम् |
नीलवर्णां महामायां द्वादशाक्षररूपिणीम् |
ततो धर्मगणैः सेव्यां तां देवीं शक्तिरूपिणीम् |
नीलवर्णं महाकायं कूर्मं हिमाद्रिसंस्थितम् |
सर्वशक्तितनुं विष्णुं कूर्माकारं नमाम्यहम् |
तस्य पृष्ठे स्थितं देवमनन्तं तं नमाम्यहम् |
सहस्रफणसंयुक्तं सर्पाकारं हरिं नमः |
हिमाद्रिसदृशं विष्णुं एकदण्डधरं विभुम् |
फणासहस्रैर्मणिभिर्भूषितं तं नमाम्यहम् |
तस्य कुक्षगतं ध्यायेल्लाङ्गलञ्चाशुभावहम् |
मुद्गरं वामभागे च तत्रैकादशसंयुतम् |
तस्य मूर्द्ध्निस्थितं ध्यायेद्वराहं विष्णुमव्ययम् |
एकदन्तं महाकायं कालमेघसमप्रभम् |
तस्य दन्ते सदा ध्यायेत् पृथिवीं पद्मपायिनीम् |
नीलवर्णां महादेवीं शालिशूकविभूषिताम् ||
अणिमादिगुणैर्युक्तां सर्वतत्त्वविभूषिताम् |
तस्या मूर्द्ध्नि सदा ध्यायेत् समुद्रान् रत्नसंयुतान् |
नानापर्वतसंयुक्तां पृथिवीं चिन्तयेद्धिया |
पर्वतांश्चिन्तयेत्तस्यां सर्वत्र कुलभूषितान् |
दिग्गजेभ्यो नमस्कृत्य योगेभ्यः प्रणमेत् सदा |
मुनीन्द्रेभ्य ऋषिभ्यश्च योगशास्त्रधराय च |
शाक्तेभ्यो वैष्णवेभ्यश्च शैवेभ्यः प्रणमेत् सदा |
यन्त्रेभ्यो मन्त्रदेवेभ्यः सर्वशास्त्रपराय च |
चन्द्राय चन्द्रवंशेभ्यः सूर्ययवंशेभ्य एव च |
मनुवंशमनुष्येभ्यः पञ्चभूतेभ्य एव च |
महाभूतेभ्यो भूतेभ्यः कलाभ्यः प्रणमेत् सदा |
रसेभ्योऽपि नमस्कृत्य गन्धेभ्यं प्रणमेत् सदा |
पुष्पेभ्यः पुष्पहासेभ्यो गन्धर्वेभ्यो नमो नमः |
यक्षेभ्यो भूतवर्गेभ्यः प्रेतेभ्यं सर्वकर्मसु |
शब्दब्रह्मस्वरूपेभ्यः प्रणमामि सदा प्रिये ! |
रुद्रेभ्यो रुद्रवंशेभ्यो भैरवेभ्यो नमो नमः |
लिङ्गेभ्यो लिङ्गदेवेभ्यो वेदशास्त्रेभ्य एव च |
वेदेभ्योऽपि च शास्त्रेभ्यस्तेभ्यो नित्यं नमो नमः |
स्थावरेभ्यो नमस्कृत्य ऋषिभ्यः प्रणमेत् सदा |
प्रणमामि सदार्थेभ्यो वेशेभ्योऽपि नमो नमः |
मन्त्रेभ्योऽपि नमस्कृत्य मन्त्रार्थेभ्यो नमो नमः |
पूजोपकरणेभ्यश्च ब्राह्मणेभ्यो नमो नमः |
योगिनीभ्यो नमस्कृत्य शक्तिभ्योऽपि नमो नमः |
रत्नेभ्योऽपि नमस्कृत्य नदीभ्यः प्रणमेत् सदा |
पीठेभ्योऽपि नमस्कृत्य मातृभ्यः प्रणमेत् सदा |
अन्नेभ्योऽपि नमस्कृत्य इन्द्रेभ्योऽपि नमो नमः |
क्षेत्रेभ्योऽपि नमस्कृत्य क्षेत्रपालेभ्य एव च |
कुलाचलेभ्यो नत्वा तु प्रादुर्भावेभ्य एव च |
उक्तानुक्तञ्च यत् किञ्चित्तेभ्यो नित्यं नमो नमः |
ओं नमामि कालिकां देवीं कलिकल्मषनाशिनीम् |
नमामि शम्भुपत्नीञ्च नमामि भवसुन्दरीम् |
आद्यां देवीं नमस्कृत्य नमस्त्रैलोक्यमोहिनीम् |
नमामि सत्यसङ्कल्पां सर्वपर्वतवासिनीम् |
पार्वतीञ्च नमस्कृत्य नमो नित्यं नगात्मजे ! |
मातस्त्वदीयचरणं शरणं सुराणां ध्यानास्पदैर्दिशति वाञ्छितवाञ्छनीयम् |
येषां हृदि स्फुरति तच्चरणारविन्दं धन्यास्त एव नियतं सुरलोकपूज्याः |
गन्धैः शुभैः कुङ्कुमपङ्कलेपैर्मातस्त्वदीयं चरणं हि भक्ताः |
स्मरन्ति शृण्वन्ति लुठन्ति धीरास्तेषां जरा नैव भवेद्भवानि ! |
तवाङ्घ्रिपद्मं शरणं सुराणां परापरा त्वं परमा प्रकृष्टिः |
दिने दिने देवि ! भवेत् करस्थः किमन्यमुच्चैः कथयन्ति सन्तः |
कवीन्द्राणां दर्पं करकमलशोभापरिचितं विधुन्वज्जङ्घा मे सकलगणमेतद्गिरिसुते ! |
अतस्त्वत्पादाब्जं जननि ! चेतसि मम हितं नारीभूतं प्रणिहितपदं शाङ्करमपि |
ये ते दरिद्राः सततः हि मातस्त्वदीयपादं मनसा नमन्ति |
देवासुराः सिद्धवराश्च सर्वे तव प्रसादात् सततं लुठन्ति ||
हरिस्त्वत्पादाब्जं निखिलजगतां भूतिरभवत् शिवो ध्यात्वा ध्यात्वा किमपि परमं तत्परतरम् |
प्रजानां नाथोऽयं तदनु जगतां सृष्टिविहितं किमन्यत्ते मातस्तव चरणयुग्मस्य फलता ||
इन्द्रः सुराणां शरणं शरण्ये ! प्रजापतिः काश्यप एव नान्यः |
वरः पतिर्विष्णुभवः परेशि ! त्वदीयपादाब्जफलं समस्तम् ||
त्वदीयनाभीनवपल्लवे वा नवाङ्कुरैर्लोमवरैः प्रफुल्लम् |
सदा वरेण्ये ! शरणं विधेहि किंवापरं चित्तवरैर्विभाव्यम् |
त्वदीयपादार्चितवस्तुसम्भवः सुरासुरैः पूज्यमवाप शम्भुः |
त्वदीयपादार्च्चनतत्परो हरिः सुदर्शनाधीश्वरतामुपालभत् |
धरित्री गन्धरूपेण रसेन च जलं धृतम् |
तेजो वह्निस्वरूपेन प्रणवे ब्रह्मरूपधृक् |
मुखं चन्द्राकारं त्रिभुवनपदे यामसहितं त्रिनेत्रं मे मातः ! परिहरति यः स्यात् स तु पशुः |
न सिद्धिस्तस्य स्यात् सुरतसततं विश्वमखिलं कटाक्षैस्ते मातः ! सफलपदपद्मं स लभते ||
क्रतुस्त्वं हविस्त्वं स्वधा त्वं मुरारेः पुरा त्वं परा त्वं सदाशीर्मुरारेः |
हरस्त्वं हरिस्त्वं शिवस्त्वं शिवानां गतिस्त्वं गतिस्त्वं गतिस्त्वं भवानि ! ||
नवाहं नवा त्वं नवा वा क्रियाया वरस्त्वं चरुस्त्वं शरण्यं धरायाः |
नदस्त्वं नदी त्वं गतिस्त्वं निधीनां सुतस्त्वं सुता त्वं पिता त्वं गृहिणाम् ||
त्वदीयमुण्डाख्य भवानि ! मालां विधाय चित्ते भवपद्मजादयः |
सुराधिपत्वं लभते मुनीन्द्रः शरण्यमेतत् किमपीह चान्यत् |
नरस्य मुण्डञ्च तथा हि खड्गं भुजद्वये ये मनसा जपन्ति |
सव्येतरे देवि ! वराभयञ्च भवन्ति ते सिद्धजना मुनीन्द्राः |
शिवोपरि त्वां हृदये निधाय जपन्ति विद्यां हृदये कदाचित् |
सदा भवेत् काव्यरसस्य वेत्ता अन्ते पदद्वन्द्वमुपाश्रयेत ||
दिगम्बरीं त्वां मनसा विचिन्त्य जपेत् पराख्यां जगतां जनीति |
जपेत्पराख्यां जगतां मतिश्च किंवा पराख्याशरणं भवामः |
शिवाविरावैः परिवेष्टितां त्वां निधाय चित्ते सततं जपन्ति |
भवेय देवेशि ! परापरादिनिरीशतां देवि ! परा वदन्दि ||
त्वदीयशृङ्गाररसं निधाय जपन्ति मन्त्रं यदि वेदमुख्याः |
भवन्ति ते देवि ! जनापवादं कविः कवीनामपि चाग्रजन्मा ||
विकीर्णवेशां मनसा निधाय जपन्ति विद्यां चकितं कदाचित् |
सुधाधिपत्यं लभते नरः स किमस्ति भूम्यां सृणु कालकालि ! ||
त्वदीयवीजत्रयमातरेतज्जपन्ति सिद्धास्तु विमुक्तिहेतोः |
तदेव मातस्तव पादपद्मगा भवन्ति सिद्धिश्च दिनत्रयेऽपि ||
त्वदीयकूर्च्चद्वयजापकत्वात् सुरासुरेभ्योऽपि भवेच्च वर्णः |
धनित्वपाण्डित्यमयन्ति सर्वे किं वा परां देवि ! परापराख्या ||
त्वदीयलज्जाद्वयजापकत्वाद्भवेन्महेशानि ! चतुर्थसिद्धिः |
त्वदीयसत्सिद्धिवरप्रसादात्तवाधिपत्यं लभते नरेशः ||
ततः स्वनाम्नः शृणु मातरेतत् फलं चतुर्वर्ग वदन्ति सन्तः |
वीजत्रयं वै पुनरप्यु पास्य सुराधिपत्यं लभते मुनीन्द्रः ||
पुनस्तथा कूर्च्चयुगं जपन्ति नमन्ति सिद्धा नरसिंहरूपाः |
ततोऽपि लज्जाद्वयजापकत्वाल्लभन्ति सिद्धिं मनसो जनास्ते |
अन्ते पदं क्षिप्य विभा विभावसोस्त्वन्मन्त्रमुद्धारमिदं वदन्ति ||
त्रिपञ्चारे चक्रे जननि ! सततं सिद्धिसहितां विचिन्वन् सञ्चिन्वन् परमममृतं दक्षिणपदम् |
सदा कालीं ध्यात्वा विधिविहितपूजापरिकरा विशेषाख्यानं ते न खलु भवभङ्गाभयपदः ||
त्वं श्रीस्त्वमीश्वरी काली त्वं ह्रीस्त्वञ्च करालिका |
लज्जा लक्ष्मीः सती गौरी नित्याचिन्त्या चितिः क्रिया ||
परा आद्या पराख्या च परमा परमा वसुः |
अकुल्याद्यैश्चित्ते प्रचयपदपद्यैः पदयुतैः सदा जप्त्वा स्तुत्वा जपति हृदि मन्त्रं मनुविदा |
न तेषां संसारे विभवपरिभङ्गप्रमथने क्षणं चित्तं देवि ! प्रभवति विरुद्धे परिकरम् ||
त्रयस्त्रिंशैः श्लोकैर्यदि जपति मन्त्रं स्तवति च नमेच्चैतानेतान् परममृतकल्पं सुरवरम् |
भवेत् सिद्धिः शुद्धौ जगति शिरसा त्वत्पदयुगं प्रणम्य प्राकाम्यं वरसुरजनैः पूज्यविततिम् ||
इति विश्वसारतन्त्रे दक्षिणकालिकाक्रमस्तोत्रं नाम चतुर्थः पटलः ||
यासां यासां क्रमस्तोत्रं तासां तासां दक्षिणाप्रकृतिकत्वेनापवादविषयम् परित्यज्योत्सर्गस्य प्रवृत्तित्वात् दक्षिणकालिकाक्रमस्तोत्रपाठेनैव तत्फलनिर्वाहः |
सम्प्रति गुह्यकाल्या अपि विशेष उक्तस्तत्रैव षष्ठपटले तत्कवचात् परम् ||
क्रमस्तवं प्रवक्ष्यामि शृणुष्व कमलानने ! |
ब्राह्म्ये मुहूर्ते उत्थाय गुरुदेवान्नमेत् सदा |
वारुणीमुखमाश्रित्य नमस्कुर्यादुपर्ययधः |
गुरुभ्योऽपि नमो नित्यं नमस्तत्पादुकाय च |
परं परेभ्यश्च परापरेभ्यः परात्परेभ्योऽपि नमोऽस्तु ते च |
आधारशक्तिं नमस्कृत्य कुलाचलान्नमस्कुर्ययात् |
धर्म्मकर्म्मणे नमस्कृत्य कूर्म्मराजाय वै नमः |
अनन्ताय नमो नित्यं वराहाय नमो नमः |
पृथिव्यै च नमो नित्यं कुलाचलेभ्यो नमो नमः |
समुद्रेभ्यो नमो नित्यं सरत्नैरमृतैर्जलैः |
कुलवृक्षेभ्यो नमो नित्यं कल्पवृक्षेभ्यो नमो नमः |
स्वर्णसिंहासनेभ्यश्च मणिवेद्यै नमो नमः |
चतुर्दिशि नमस्कुर्ययात् सर्वदेवान् नमस्ततः |
वेदेभ्योऽपि नमो नित्यं वेदार्थेभ्यो नमो नमः |
शाखाभ्यस्तस्य वै नित्यं तत्पादेभ्यो नमो नमः |
तद्वर्णेभ्यो नमो नित्यं वर्णार्थेभ्यो नमो नमः |
असंस्कारपदेभ्यश्च नमो वै परमात्मने |
विद्याभ्योऽपि नमो नित्यमविद्याभ्यो नमो नमः |
शास्त्रेभ्योऽपि नमो नित्यमशास्त्रेभ्यो नमो नमः |
धर्मेभ्योऽपि नमो नित्यमधर्मेभ्यो नमो नमः |
भागवतेभ्यो नमो नित्यं विद्याभ्योऽपि नमो नमः |
श्रुतिभ्योऽपि नमो नित्यं श्रुत्यर्थेभ्यो नमो नमः |
श्रीरामभागवतेभ्यश्च दण्डवत् प्रणमेत् सदा |
भागवतेभ्यो नमो नित्यं भागवतार्थेभ्यो नमो नमः |
तत्त्वार्थेभ्यो नमो नित्यं तत्त्वेभ्योऽपि नमो नमः |
योगेभ्योऽपि नमो नित्यं योगार्थेभ्यो नमो नमः |
संहिताभ्यो नमो नित्यं तदर्थेभ्यो नमो नमः |
मातृकाभ्यो नमो नित्यं तदर्थेभ्यो नमो नमः |
कलाभ्योऽपि नमो नित्यं शक्तिभ्योऽपि नमो नमः |
स्वरेभ्योऽपि नमो नित्यं रागेभ्योऽपि नमो नमः |
रागिणीभ्यो नमो नित्यं तदर्थेभ्यो नमो नमः |
अस्त्रेभ्योऽपि नमो नित्यं शस्त्रेभ्योऽपि नमो नमः |
जीवेभ्योऽपि नमो नित्यं वीजेभ्योऽपि नमो नमः |
भूचरेभ्यो नमो नित्यं खेचरेभ्यो नमो नमः |
योगेभ्योऽपि नमो नित्यं करणेभ्यो नमो नमः |
मुहूर्तेभ्यो नमो नित्यं यामेभ्योऽपि नमो नमः |
ऋतुभ्योऽपि नमो नित्यं वत्सरेभ्यो नमो नमः |
डाकिनीभ्यो नमो नित्यं रुद्रेभ्योऽपि नमो नमः |
भूतेभ्योऽपि नमो नित्यं प्रेतेभ्योऽपि नमो नमः |
यक्षेभ्योऽपि नमो नित्यं विघ्नेभ्योऽपि नमो नमः |
भूतेभ्योऽपि नमो नित्यं महाभूतेभ्यो नमो नमः |
आचार्येभ्यो नमो नित्यं शङ्करेभ्यो नमो नमः |
वैष्णवेभ्यो नमो नित्यं ये च मायाविमोहिताः |
मायायै प्रणमेन्नित्यं प्रत्त्वेभ्योऽपि नमो नमः |
शरीरेभ्यो नमो नित्यं व्यापकेभ्यो नमो नमः |
मन्त्रेभ्योऽपि नमो नित्यं यन्त्रार्थेभ्यो नमो नमः |
नमो वर्णात्मिकाभ्यश्च देवताभ्यो नमो नमः |
तत्पदेभ्यो नमो नित्यं सत्पदेभ्यो नमो नमः |
भावनाभ्यो नमो नित्यं भावशास्त्रेभ्य एव च |
स्तवेभ्यः कवचेभ्यश्च नामभ्योऽपि नमो नमः |
आगमेभ्यो नमो नित्यं तदर्थेभ्यो नमो नमः |
तत्क्रियाभ्यो नमो नित्यं श्रेष्ठशास्त्रेति कीर्त्त्यते |
रसेभ्योऽपि नमो नित्यं गन्धेभ्योऽपि नमो नमः |
पीठेभ्योऽपि नमो नित्यं तत्स्थेभ्योऽपि नमो नमः |
सत्त्वेभ्योऽपि नमो नित्यं राजसेभ्यो नमो नमः |
तामसेभ्यो नमो नित्यं गुणेभ्योऽपि नमो नमः |
सर्वविद्यावतारेभ्यः सिद्धेभ्योऽपि नमो नमः |
आनन्दकन्दाय नमस्कृत्य कन्दनाय नमो नमः |
सर्वतत्त्वात्मकमलाय प्रकृतिपत्रेभ्य एव च |
सिद्धपीठाय सत्त्वस्य शवरूपशिवाय च |
त्रिपञ्चाराय चक्राय नमो नित्यं नमो नमः |
तत्रस्थायै कालिकायै गुह्यायै कामरूपिण्यै |
गुरुकुलादिशक्तिभ्यः कालिकायै नमो नमः |
नमो नमो नमस्तेऽस्तु परापराभ्यो नमो नमः |
विशालनेत्रां सुरसङ्घवन्दितां सुरासुराभ्यर्च्चितपादपद्माम् |
नृमुण्डमालाकलिताशताङ्गैः परावरे ते प्रभवन्ति सिद्धाः ||
स्थूले केचित् प्रवदन्ति सिद्धाः सूक्ष्मेति केचिन्मुनयो वदन्ति |
तामम्बिकां नौमि विशालनेत्रसुमङ्गलं धेहि मदीयदेहे ||
त्वदीयपादाम्बुजमेवमेतत् निषेव्य सिद्धाः प्रभवं प्रयान्ति |
मातस्तवायं पापात् सर्वशोकदुःखाज्जगज्जनरम्ये |
ये त्वा ध्यायेयुर्मनसि विधानाः सर्वे ते सकलफलाः ||
इति विश्वसारतन्त्रे गुह्यकाल्याः क्रमस्तवो नाम षष्ठपटले ||
अथ त्रिपुरासुन्दर्ययाः क्रमस्तवः सप्तमपटले ||
क्रमस्तवं प्रवक्ष्यामि शृणुष्व कमलानने ! |
ओं गुरुभ्यो नमो नित्यं परात्परतराय च |
परापरेभ्यः परेभ्यश्च नमो नित्यं नमो नमः |
गोभ्यो नमो ब्राह्मणेभ्यो ब्रह्मपुत्रेभ्यो वै नमः |
मुनिभ्यो मुनिपत्नीभ्यो मुनिपुत्रेभ्यो वै नमः |
दिग्भ्यो नमो दिक्पतिभ्यो दिगम्बरेभ्यश्च वै नमः |
भ्रमणेभ्यो नमो नित्यं रसनाभ्यश्च वै नमः |
वेदेभ्यो वेदशास्त्रेभ्यो वेदार्थेभ्यो नमो नमः |
भागवतेभ्यो नमो नित्यं श्रीभागवतेभ्यो नमो नमः |
श्रीरामभागतेभ्यो नमो नित्यं भागवतेभ्यो नमो नमः |
तीर्थेभ्यः पर्वतेभ्यश्च पीठेभ्यः सततं नमः |
योगिभ्यो योगिनीभ्यश्च योगादिभ्यश्च वै नमः |
ध्यानेभ्यो मन्त्रवर्णेभ्यो मातृकाभ्यो नमो नमः |
आचार्ययेभ्यो नमो नित्यं भैरवेभ्यो नमो नमः |
रुद्रेभ्यो रुद्रपत्नीभ्यो गन्धर्वेभ्यो नमो नमः |
किन्नरेभ्यः पिशाचेभ्यः कुष्माण्डेभ्यो नमो नमः |
अवतारेभ्यो मूर्त्तिभ्य आदित्येभ्यो नमो नमः |
नमः संवत्सरेभ्यश्च दिवसेभ्यो नमो नमः |
नक्षत्रग्रहयोगेभ्यः करणेभ्यश्च वै नमः |
तिथिभ्यः सर्वकालेभ्य ऋतुभ्योऽपि नमो नमः |
ककाराद्यैर्महादेव्यै कालिकायै नमो नमः |
एकारस्थां महादेवीं सर्वाधारस्वरूपिणीम् |
ईकारस्थां महादेवीं रतिं कामाङ्गसुन्दरीम् |
लकारस्थमहादेव्यै इन्द्राण्यै सर्वसिद्धये |
हकारस्थ महादेव्यै शिवायै सर्वतो नमः |
एतैर्वर्णैर्महामाया पातु मां सुन्दरी शुभा |
सकारस्था महामाया सावित्री पातु मां सदा |
शिव मां पातु देवेशी हकाराद्या सुरेश्वरी |
शिवानी सर्वदा पातु हकारस्था महोदया |
वकारस्था महादेवी पातु मां कामदायिनी |
लकारस्था मकुदेवी इन्द्राणी पातु सर्वदा |
सर्वाङ्गं पातु मां देवी सर्वाणी सर्वसुन्दरी |
एतैर्वर्णैर्महामाया पातु मां सुन्दरी सदा |
ककारस्था महामाया ब्रह्माणी पातु मां सदा |
हकारस्था शिवा पातु सर्वत्र शिवदूतिका |
ककारस्था शिवा पातु हकारस्था सुरेश्वरी |
सकारस्था सदा पातु सावित्री शर्मदायिनी |
लकारस्था महादेवी लक्ष्मीर्मां सर्वदावतु |
भुवनेशी सदा पातु सर्वाङ्गे भवसुन्दरी |
अनन्ता सर्वदा पातु अकारस्था सुरेश्वरी |
अकाराद्या सदा पातु शिवदूती सुरेश्वरी |
सकारस्था सदा पातु कामिनी कामदायिनी |
लकारे पातु मां सर्वक्षेत्रे त्रिभुवनेश्वरी |
लकारस्था सदा पातु इन्द्राणी सर्वदा मम |
मकारस्था सदा पातु सर्वत्र मां सुरेश्वरी |
एभिर्वर्णैः स्थिता देवी पातु मां भुवनेश्वरी |
शिवानी मां सदा पातु सर्वत्र हरसुन्दरी |
चन्द्रवीजस्थिता विद्या सावित्री शम्भुरूपिणी |
पातु मां सर्वक्षेत्रेषु देवता भुवनेश्वरी |
एतैर्वर्णैर्महामाया पञ्चविंशतिवर्णिका |
भुवनेशी सदा पातु सर्वाङ्गे त्रिपुराम्बिका |
सर्ववीजेषु सर्वत्र योजयेद्भुवनेश्वरीम् |
सर्वाङ्गे मां सदा पातु देवी त्रिभुवनेश्वरी |
शिखायां भ्रूयुगे चाक्ष्णोरोष्ठयोर्गण्डयोर्नसि |
तथा च चिवुके दन्ते जिह्वायां तालुमूलके |
हृदये पार्श्वयुगले पृष्ठे नाभौ तथोदरे |
नितम्बे च तथोपस्थे गुह्ये च जानुयुग्मके |
जानुचक्रे च जङ्घायां कटिके पादके पुनः |
सर्वाङ्गे पातु मां देवी श्रीमत्त्रिपुरसुन्दरी |
शास्त्रे वादे च संग्रामे राजद्वारे सुरार्च्चने |
प्रान्तरे गिरिदुर्गे च शत्रुमध्ये तथापरे |
चौरे व्याघ्रे च सिंहे च विषमादिभयादिषु |
अत्यन्तरोगयुक्तेषु पातु मां त्रिपुराम्बिका |
सुन्दरी पातु सर्वत्र सुन्दरी परिरक्षतु |
इदं त्रिपुरसुन्दर्ययाः क्रमस्तोत्रमुदाहृतम् |
यत्र तत्र न वक्तव्यं यदीच्छेदात्मनो हितम् |
शठाय भक्तिशून्याय निन्दकाय महेश्वरि ! |
न्यूनाङ्गे चातिरिक्ताङ्गे दर्शयेन्न कदाचन |
शूद्राय न च दद्याच्च स्तवराजं महेश्वरि ! |
वदेद्वा दर्शयेद्वापि शङ्करेण च भाषितम् |
श्लोकं वा स्तवमेकं वा पूजयेद्वा पठन्नपि |
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः |
सर्वमाशु तरत्येव स्तवस्यास्य प्रसादतः |
अपुत्रो लभते पुत्रं दरिद्रो लभते धनम् |
अरोगी बलवांश्चैव जायते स्पर्शनादपि |
किमन्यद्बहुना देवि ! यद्यद्वाञ्छितमात्मनः |
तत्सर्वं लभते देवि ! स्तवस्यास्य प्रसादतः ||
इति विश्वसारतन्त्रे त्रिपुरासुन्दरीक्रमस्तवः समाप्तः |
इति श्रीप्राणतोषिण्यां तृतीयेऽर्थकाण्डे प्रातःकृत्यविधिरूपशाखाकथनं नाम द्वितीयः परिच्छेदः |
जामले ||
स्नानमूलाः क्रियाः सर्वाः श्रुतिस्मृत्युदिता नृणाम् |
तस्मात् स्नानं निषेवेत श्रीपुष्ट्यारोग्यवर्द्धनम् |
एतद्वचनं मत्स्यसूक्ते दशमपटलेऽपि ||
स्नानाकरणे दोष उक्तो राघवभट्टेन ||
यतश्चाशुचिवस्त्रमस्नानमनलङ्कारं पुरुषं देवता नाधितिष्ठन्तीति ||
स्नानभेदमाह रुद्रजामले उत्तरखण्डे एकविंशतिपटले ||
स्नानन्तु द्विविधं प्रोक्तं मज्जनं गात्रमार्ज्जनम् |
मन्त्रजलादिभिः स्नानमुत्तमं परिकीर्त्तितम् ||
तत्प्रकारं शृणु प्राणवल्लभ ! प्रियकारणम् ||
विश्वसारतन्त्रे द्वितीयपटले ||
मान्त्रं भौमं तथाग्नेयं वायव्यं दिव्यमेव च ||
वारुणं मानसञ्चैव सप्तस्नानं प्रकीर्त्तितम् |
एवं स्नात्वा विधानेन शुचिर्भवति नान्यथा ||
तत्र मान्त्रस्नानादिकं विशेषयति तत्रैव ||
आपो हिष्ठादिभिर्मान्त्रं भौमं देहप्रमार्ज्जनम् |
आग्नेयं भस्मना स्नानं वायव्यं गोरजः स्मृतम् |
यत्तदातपवर्षेण स्नानं दिव्यमिहोच्यते |
वारुणञ्चावगाहः स्यान्मानसं विष्णुचिन्तनम् |
तत्र मन्त्रस्नानं द्विविधमान्तरं वाह्यञ्च |
तत्र वैष्णवस्नानमान्तरमुक्तम् वशिष्ठसंहितायाम् |
अनन्तादित्यसङ्काशं वासुदेवं चतुर्भुजम् |
शङ्खचक्रगदापद्ममुकुटं वनमालिनम् |
द्वादशार्णाम्बुजगतं ध्यायेन्नारायणं विभुम् ||
विश्वसारतन्त्रे द्वितीयपटले ||
खस्थितं पुण्डरीकाक्षं मूर्त्तिमन्तं प्रभुं स्मरन् |
तत्पादोदकजां धारां निपतन्तीं स्वमूर्द्धनि |
चिन्तयेद्ब्रह्मरन्ध्रेण प्रविशन्तं स्वकां तनुम् |
तया संक्षालयेत् सर्वमेतद्देहगतं मलम् |
तत्क्षणाद्विरजो मन्त्री जायते स्फटिकोपमः |
इदं स्नानवरं मन्त्रात् सहस्रमधिकं स्मृतमिति ||
इति वैष्णवान्तरस्नानम् ||
शाक्तमभ्यन्तरस्नानमुक्तं श्रीपञ्चमीमते ||
स्नानप्रकारो द्विविधो वाह्याभ्यन्तरभेदतः |
आन्तरं स्नानमत्यन्तं रहस्यमपि सादरात् |
कथयामि भवध्वस्त्यै चतुर्वर्गफलाप्तये |
संवित्त्रयमनुस्मृत्य चरणत्रयमध्यतः |
स्रवन्तं सच्चिदानन्दप्रवाहं भावगोचरम् |
विमुक्तिसाधनं पुंसां स्मरणादेव योगिनाम् |
तेन प्लावितमात्मानं भावयेद्भवशान्तये ||
इति शाक्ते आन्तरस्नानम् |
शैवान्तरस्नानं शैवागमे उक्तम् |
मनसा मूलमन्त्रेण प्राणायामपुरःसरम् |
कुर्वीत मानसस्नानं सर्वत्र विहितञ्च यत् ||
गन्धर्वतन्त्रे षष्ठपटले ||
स्नानञ्च त्रिविधं प्रोक्तं सन्ध्या च त्रिविधा स्मृता |
आन्तरञ्च भवेद्देवि ! वाह्यं मानसमेव च |
मानसं वै भवेत् स्नानं यः सदा शुद्धमानसः |
स्पर्शलेपादिके वापि निर्विकल्पः सदैव हि |
वाह्यमन्त्रैश्च सम्प्रोक्तमान्तरं शृणु साम्प्रतम् |
प्रागुक्तक्रमयोगेन प्राणायामपरो बुधः |
शक्तिं परशिवेनैव सङ्गमयय विधनतः |
तदुद्भवामृते शश्वन्निमज्ज्य पुनरेवहीति ||
अथ नित्यस्नानफलम् मत्स्यसूक्ते दशमपटले ||
याम्यं हि यातनादुःखं नित्यस्नायी न पश्यति |
नित्यस्नानेन पूज्यन्ते येऽपि पापकृतो जनाः |
अगम्यागमनात् पापात् पापिभ्यश्च प्रतिग्रहात् |
रहस्याचरितात् पापान्मुच्यते स्नानमाचरन् ||
अथ वाह्यस्नानम् ||
रुद्रजामले पूर्वखण्डे द्वितीयपटले ||
नदीसरस्तडागेषु कूपवापीषु वा पुनः |
प्रातर्मध्याह्नसायाह्ने नरः स्नायाद् यथाविधि ||
विश्वसारतन्त्रे द्वितीयपटले ||
विधिना स्नानमुद्दिश्य कुर्ययात् पूर्वाह्णिकीं क्रियाम् |
नदीं वा देवखातं वा दीर्घिकां सागरं तथा ||
एतान् प्राप्य स्नानमुद्दिश्य पौर्वाह्णिकीं क्रियां कुर्ययादित्यन्वयः |
नद्यादीनामुद्धृतजलापेक्षया स्थानस्थजलस्य प्राशस्त्यमुक्तम् तत्रैव ||
गङ्गाद्याः सरितः सर्वाः शस्यन्ते स्थानतो बुधैः |
काश्यादिसर्वतीर्थानि भारते यानि सन्ति वै |
तानि स्थाने प्रशस्यन्ते सर्वपापहराणि वै ||
इति वक्ष्यमाणवचने योजनपर्ययन्तदेशस्य गङ्गात्वात् कैमुतिकन्यायसिद्धं गङ्गाजलस्योद्धृतस्यापि प्राशस्त्यमिति |
एवञ्च गङ्गाद्या इत्यत्र तद्गुणसंविज्ञानबहुब्रीहिणा गङ्गाभिन्ना इति ज्ञेयम् ||
नीलतन्त्रे द्वितीयपटले ||
मृत्कुशानपि संगृह्य गत्वा जलान्तिकं ततः |
मलापकर्षणं स्नात्वा मन्त्रस्नानं समाचरेत् ||
शाक्ते कुशान् विशेषयति श्यामारहस्यधृतम् ||
तर्ज्जन्या रजतं धार्ययं स्वर्णं धार्ययमनामया |
एष एव कुशः शाक्ते न दर्भो वनसम्भवः ||
इति शाक्तकुशः |
महानिर्वाणतन्त्रे पञ्चमोल्लासे ||
आदावप उपस्पृश्य प्रविशेत् सलिले ततः |
नाभिमात्रजले स्थित्वा मलानामपनुत्तये |
सकृत् स्नात्वा तथोन्मज्ज्य मन्त्रस्नानमथाचरेत् ||
एतेन मलापकर्षणं विना सङ्कल्पपूर्वकस्नानमात्रमनुशासनविरुद्धम् |
केचित्तु प्रागुक्तविश्वसारवचने पौर्वाह्णिकक्रियानन्तरस्नानदर्शनादकृततत्क्रियास्तैलाभ्यक्ता अपि स्नानात् पूर्वं पौर्वाह्णिककृत्यमाचरन्ति |
तन्न मनोरमम् |
प्रागुक्तजामलवचनेन क्रियामात्रस्य स्नानमूलकत्वादत एव राघवभट्टेन मन्त्रस्नानं कृत्वा देवगृहमागत्य सम्मार्जनादीत्याद्युक्तम् ||
नीलतन्त्रे ||
विद्यया त्रिर्निमज्ज्यैवमाचरेत् पाथसा तथा |
पुनर्निमज्ज्य पयसि सङ्कल्पञ्च समापयेत् |
इष्टदेव्याः पूजनार्थं कुर्ययात् स्नानं जलाशये ||
मन्त्रतन्त्रप्रकाशे ||
अरुणेऽनुदिते मन्त्री तीर्थे वा विमले जले |
वैदिकं स्नानमाचर्यय तान्त्रिकं स्नानमाचरेत् |
इति वैदिकस्नानानन्तरं तान्त्रिकस्नानम् ||
गन्धर्वतन्त्रे प्रथमपटले ||
प्रणवं पूर्वमुद्धृत्य तदिति परतस्ततः |
सदिति तु समाभाष्य कर्म कुर्ययाद्विचक्षणः |
स्मरणात् कर्मणामाद्ये ब्रह्मभूयाय कल्पते |
इति तत्सदिति निर्देशफलम् |
तोडलतन्त्रे द्वितीयपटले ||
अद्येत्यादि समुच्चार्यय सौरमासं समुच्चरेत् |
देवताप्रीतये पश्चात् स्नायाच्च शुद्धवारिणा ||
कुलचूडामणौ ||
कृष्णरक्तहरिन्नीला विविधा मम मूर्त्तयः |
तत्र यः कुलगः शिष्यः स तद्रूपं परामृषन् |
दिवं सर्वामथोर्वीञ्च पातालं भूतसम्भवम् |
आचान्तः कुलदर्भेण सदर्भकुलपुण्ड्रकः |
कुलपात्रं सदूर्वञ्च सतिलं सजलं ततः |
गृहीत्वा कुलदेवस्य प्रीतये स्नानमाचरेत् |
कृतसङ्कल्प एवादौ कुलचक्रं जले न्यसेत् ||
कुलपात्रं ताम्रपात्रम् |
कुलचक्रं त्रिकोणकमिति सङ्कल्पविधिः ||
मत्स्यसूक्ते ||
नित्ये नैमित्तिके काम्ये पितृदैवतकर्मणि |
सङ्कल्पपूर्वकं कर्म अन्यथा नं फलं स्मृतम् ||
इति सङ्कल्पाकरणे दोषः ||
सङ्कल्पार्थं निषिद्धविहितपात्रमपि तत्रैव ||
शुक्तिशङ्खाश्महस्तैश्च कांस्यरौप्यादिभिस्तथा |
सङ्कल्पो नैव कर्त्तव्यो मृण्मयैश्च कदाचन ||
इति सङ्कल्पे निषिद्धपात्रम् ||
गृहीत्वौडुम्बरं पात्रं सौवर्णञ्च विशेषतः |
सङ्कल्पन्तु बुधः कुर्ययान्मेध्यपत्रपुटेन वा ||
इति सङ्कल्पे विहितपात्रं तत्रैव ||
स्नानकाले तु हस्तेन ताम्रपात्रेण वा ततः |
पैतृके श्राद्धपात्रेण दैवे शङ्खः प्रशस्यते ||
इति कर्म विशेषे पात्रविशेषः ||
मज्जनप्रकारमाह तत्रैव ||
स्रोतसोऽभिमुखो मज्जेत् सूर्ययाभिमुखतोऽथ वा |
स्मरेन्नारायणं गङ्गामिष्टदेवं ततः परम् |
मज्जनं मुक्तकेशेन बध्नीयाच्च शिखां पुनः |
ततः कृताञ्जलिर्भूत्वा तीर्थान्यावाहयेत्ततः |
ओं गङ्गे च यमुने चैव गोदावरि सरस्वति |
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु |
ब्रह्माण्डे देवतीर्थानि करैः स्पृष्टानि ते रवेः |
तेन सत्येन मे देव ! तीर्त्थं देहि दिवाकर ! |
प्रियव्रतानि तीर्थानि सूर्ययरश्मिस्थितानि च |
आगत्यार्घ्यं गृहीत्वा च सर्वसिद्धिं प्रयच्छ मे |
चतुरस्रं विनिर्माय तत्र स्नानं दिशेत् सुधीः ||
राघवभट्टधृतम् |
आवाहयामि त्वां देवि ! स्नानार्थमिह सुन्दरि ! |
एहि गङ्गे ! नमस्तुभ्यं सर्वतीर्थसमन्विता |
इति मन्त्रैरङ्कुशमुद्रया आदित्यमण्डलात्तीर्थमावाह्य वमित्यम्भसि संयोज्य सोमसूर्ययाग्निमण्डलानि तत्र सञ्चिन्त्य वमित्यमृतवीजेन द्वादशधा अभिमन्त्र्य कवचेनावगुण्ठ्य अस्त्रेण संरक्ष्य मूलमन्त्रेणैकादशधा अभिमन्त्रयेत् |
तत्प्रमाणं वशिष्ठसंहितायाम् ||
हृन्मन्त्रोऽङ्कुशमुद्राभ्यां तीर्थमाकृष्य मण्डलात् |
आवाह्याम्भसि संयोज्य सोमसूर्ययाग्निमण्डलम् |
सञ्चिन्त्य मन्त्री तन्मध्ये निमज्जेत् सुसमाहितः |
मूलमन्त्रं समावर्त्त्य मनसोल्लिख्यम् चाकृति ||
ज्ञानार्णवे ||
विन्यस्याङ्गे षडङ्गानि प्राणायामपुरःसरम् |
श्रीसूर्ययमण्डलात्तीर्थमाकृष्याङ्कुशमुद्रया |
वमित्यनेन चाप्लाव्य कवचेनावगुण्ठयेत् |
संरक्ष्यास्त्रेण मूलेन मन्त्रयेत् रुद्रसंख्यया |
निमज्ज्य तस्मिन् श्रीदेवं ध्यायेच्छक्त्या जपेन्मनुम् |
मत्स्यसूक्तेऽपि |
रुद्रसंख्यं जपेन्मन्त्रमाच्छाद्य मीनमुद्रया |
सूर्ययायाभिमुखं तोयं निक्षिप्य रविसंख्यया |
रविसंख्यया द्वादशसंख्याया |
मूलमन्त्रं समुच्चार्यय क्षालयेच्च करद्वयम् |
चरणान्निःसृते तोये त्रिर्निमज्ज्य जपेन्मनुम् |
अथ मृदालम्भनं विश्वसारतन्त्रे ||
मृदोदकञ्च गङ्गायां म्रक्षयित्वा विधानतः |
स्नानं कुर्वीत विधिना महाकालवचो यथा ||
मृत्तिकालम्भनप्रकारस्तु मन्त्रतन्त्रप्रकाशे ||
मूलेनानीय मृत्स्नान्तु त्रिभागं तत्र कारयेत् |
भागमेकं जलेनैव क्षिपेन्मन्त्रं समुच्चरन् |
एवं मूर्द्धादिनाभ्यन्तं तथैव परिलेपयेत् |
तथैव भागान्तरेण परिलेपयेदधोभागमिति शेषः ||
लेपनप्रकारो मत्स्यसूक्ते ||
नासाभाले च गण्डे च चिवुके पार्श्वयोः पदे |
पृष्ठे नाभ्यूरुजङ्घासु निरग्नेर्मृत्तिकाविधिः ||
क्षेपणमन्त्रस्तु तत्रैव ||
इदं विष्णुरिति मन्त्रस्य मेधातिथिर्-ऋषिर्गायत्रीच्छन्दो विष्णुर्देवता तोये मृत्तिकालम्भने विनियोगः |
ओं इदं विष्णुर्विचक्रमे त्रेधा निदधे पदं समूढमस्य पांशुले ||
गात्रलेपनमन्त्रस्तु विश्वसारे ||
ओं अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ! |
मृत्तिके ! हर मे पापं यन्मया दुष्कृतं कृतम् |
ओं उद्धृतासि वराहेण कृष्णेन शतबाहुना |
नमस्ते सर्वदेवानां प्रभवारुणि ! सुव्रते ! |
ततः ओं आधारं सर्वरूपस्य विष्णुरतुलतेजसः |
तद्रूपाश्च ततो जाता अग्रे ताः प्रणमाम्यहम् |
इत्युपदिश्याम्भसि च त्रिर्निमज्जेत् ततो बुधः ||
वशिष्ठसंहितायाम् ||
उत्थायाचम्य तत्पश्चात् षडङ्गन्याससंयुतः |
आत्मानं मूलमन्त्रेण मुद्रया कलसाख्यया |
सप्तकृत्वोऽभिषिच्याथ मूलेनामन्त्रितैर्जलैः ||
कलसमुद्रा यथा ज्ञानार्णवे ||
वामहस्ते कृता मुष्टिर्दक्षहस्तस्य पार्वति ! |
कलसाख्या भवेन्मुद्रा सर्वपापहरा शुभा ||
वशिष्ठसंहितायाम् ||
उन्मज्ज्य कुम्भमुद्रान्तु बद्ध्वा स्नायाद्वषट् ततः |
शालग्रामशिलातोयं तुलसीगन्धमिश्रितम् |
कृत्वा शङ्खं भ्रामयन् त्रिः प्रक्षिपेन्निजमूर्द्धनि |
ततः संक्षेपतो विप्रान् मनुष्यान् तर्पयेत् पितॄन् |
पीडयित्वा स्वकं चोरु प्रक्षाल्याचम्य यत्नतः ||
इति संक्षेपतर्पणम् ||
परखाते तु विशेषोऽस्ति विश्वसारे द्वितीयपटले ||
परखाते तु कर्त्तव्यः पङ्कपिण्डोद्धरः सदा |
उत्तिष्ठोत्तिष्ठ पङ्क ! त्वं त्यज पुण्यं परस्य च |
पापानि विनाशय मे शान्तिं देहि सदा मम ||
इति परखातेतिकर्त्तव्यता ||
अथ अयनादौ तैलस्नाननिषेधः ||
योगिनीतन्त्रे उत्तरखण्डे नवमपटले ||
अयने विषुवे चैव भौमवारे दिनक्षये |
द्वादश्यां राहुग्रस्ते च तैलस्नानं न कारयेत् ||
अथ गात्रमार्ज्जनं तत्रैव ||
वस्त्रेण मार्जयेद्देवि ! कार्पासेनाथ वाल्कलैः |
रक्तवस्त्रैर्भवेत् कुष्ठी पाण्डरैर्व्याधिमाप्नुयात् |
न कुर्ययात् कुसुमैश्चैव कृत्वा नाशमवाप्नुयात् |
पटैश्चक्षुः समाप्नोति नीलैरक्तक्षयं व्रजेत् |
मध्याह्नस्नाने तु गात्रमार्जननिषेधो मत्स्यसूक्ते दशमपटले ||
मध्याह्नस्नानं देवेशि ! वस्त्रेण वाथ पाणिना |
न च प्रमार्जयेद्गात्रं प्रातर्भोग्यं न दुष्यति |
प्रेतस्नाने च तीर्थे च गङ्गायां सार्वकालिकम् |
न तूलिकस्य वीजेन गात्रं नैव प्रमार्जयेत् |
एषु गात्रं नैव मार्जयेत् |
अधिकदोषदर्शनार्थं न तूलिकस्य वीजेनेत्युक्तम् |
मध्याह्नेगात्रमार्जननिषेधकारणमपि तत्रैव ||
देवाः पिबन्ति शिरसो मुखस्य पितरस्तथा |
उरसः पितृगन्धर्वा अधरे सर्वजन्तवः |
तस्मान्न मार्जयेद् गात्रं मध्याह्ने तु विशेषतः |
पुरश्चरणरसोल्लासे ||
गङ्गास्नानं विना देवि ! पूजयेद् यस्तु कालिकाम् |
दशविद्या महेशानि ! पूजयेद् यस्तु भक्तितः |
सर्वं तस्य वृथा देवि ! गङ्गास्नानं विना प्रिये ! |
गङ्गामन्त्रं समुच्चार्यय क्षेत्रे नद्यान्तु पार्वति ! |
स्नापयेद् यस्तु पापात्मा सर्वपापैः प्रमुच्यते |
ध्यानञ्चैव तथा मन्त्रं गङ्गायाः शृणु सुन्दरि ! |
तन्त्रोक्तं ध्यानमन्त्रञ्च प्रशस्तं भारते कलौ ||
अथ ध्यानम् ||
शुद्धस्फटिकसङ्काशां शुक्लाम्बरविभूषिताम् |
शुक्लमुक्तावलीमालां हृदयोपरिशोभिताम् |
श्वेतमालाधरां देवीं श्वेताभरणभूषिताम् |
सदा षोडशवर्षीयां ब्रह्मादिपरिषेविताम् |
एवं ध्यात्वा जपेद्विद्यां गङ्गायाः शृणु शङ्करि ! |
प्रणवं पूर्वमुच्चार्यय मायाबीजं समुद्धरेत् |
गङ्गायै परमेशानि |
ततः परमुदीरयेत् |
पूर्ववीजद्वयञ्चोक्त्वा वह्निजायां समुद्धरेत् |
एषा नवाक्षरी विद्या सुषुम्नामार्गसंस्थिता || १ ||
अपरैकं प्रवक्ष्यामि मन्त्रं परमगोपनम् |
प्रणवं पूर्वमुद्धृत्य गङ्गायै तदनन्तरम् |
पुनः प्रणवमुद्धृत्य मन्त्रमेतदुदीरयेत् || २ ||
अपरैकं प्रवक्ष्यामि सुषुम्नामार्गसंस्थितम् |
मायाबीजं समुद्धृत्य पुनः प्रणवमुद्धरेत् |
ततो गङ्गापदं देवि ! चतुर्थ्यन्तं कुरु प्रिये ! |
पूर्ववीजद्वयं प्रोक्त्वा मन्त्रमेतं जपं कुरु |
एषा सप्ताक्षरी विद्या सदा मे शिरसि स्थिता || ३ ||
अपरैकं प्रवक्ष्यामि मन्त्रं परमदुर्लभम् |
मायाबीजं समुद्धृत्य गङ्गायै तदनन्तरम् |
पुनर्मायां समुद्धृत्य मन्त्रमेतदुदीरयेत् || ४ ||
अनेन ध्यानमार्गेण मन्त्रमार्गेण पार्वति ! |
पूजयेत् सततं गङ्गां तस्य सिद्धिरदूरतः |
दिने दिने च जप्त्वा वै गङ्गास्नानफलं लभेत् |
तथा |
तस्मादादौ जपेद्विद्यां गङ्गायाः सुरपूजिते ! |
गङ्गापि स्वयमायाति पूतार्थं साधकस्य च ||
इति गङ्गामन्त्रफलम् ||
या गङ्गा महती माया कुण्डली परकुण्डली |
सा गङ्गा परमेशानि ! ब्रह्माण्डं व्याप्य तिष्ठति |
महानदनदीरूपा सर्वं व्याप्य हि तिष्ठति ||
गङ्गाक्षेत्रमाहात्म्यमपि तत्रैव ||
यत्र क्षेत्रे नदी देवी ! आयामे योजनात् प्रिये ! |
सा गङ्गा चञ्चलापाङ्गि ! किञ्चिन्नास्त्यत्र संशयः |
न हि गङ्गासमं पुण्यं मम ज्ञाने हि विद्यते |
योगिनीतन्त्रे पूर्वखण्डे अष्टादशपटले ||
माहात्म्यं किमु वक्ष्यामि गङ्गायाश्च सुरेश्वरि ! |
यन्नामस्मरणादेव पापिनो मुक्तिभागिनः |
गङ्गा गङ्गेति यो ब्रूयात् पापिनामपि पातकी |
तेषाञ्च पातकं हित्वा तैर्गच्छेद्वैष्णवीं पुरीम् ||
इति गङ्गानाममाहात्म्यम् |
यानि कानि च पापानि प्रोक्तानि ते महेश्वरि ! |
प्रायश्चित्तविहीनानि प्रायश्चित्तपराण्यपि |
तानि सर्वाणि नश्यन्ति गङ्गानीराभिषेकतः ||
इति गङ्गाजलमाहाम्त्यम् ||
नगरी घर्घराद्यम्बु पतेद्गङ्गा प्रवाहयेत् |
सर्वं गङ्गा भवत्येव मन्त्रमाहात्म्यतः शिवे ! |
यत्र देशे वहेद् गङ्गा स देशः पुण्यभाजनः |
पुण्यक्षेत्रं समुद्दिष्टं पवित्रं योजनद्वयम् |
तत्र यत् क्रियते कर्म्म गङ्गायां नात्र संशयः |
गङ्गायां यत् कृतं देवि ! तदक्षयफलं लभेत् |
सङ्गमं वा विहीनं वा कथितं शम्भुवल्लभे ! |
तत्रस्थाः प्राणिनः सर्वे देवलोकविनिःसृता |
भुक्त्वा च विविधान् भोगान् कृत्वा च सुकृतं सदा |
अनायासेन यास्यन्ति स्थानं परमदुर्लभम् |
इति सगङ्गदेशफलम् ||
यत्र गङ्गा न शोचन्ति देवर्षिगणसंस्तुताः |
गङ्गायां त्यजते प्राणान् यस्तु पुण्यप्रभावतः |
ज्ञानतो मोक्षमाप्नोति वैकुण्ठं तदभावतः |
स्वर्लोकाद्यामहेशानि ! गङ्गा पापविवर्जितः ||
इति गङ्गायां प्राणत्यागफलम् ||
गङ्गामुद्दिश्य व्रजतः पथि प्राणान् विमुञ्चति |
विष्णुलोकं बहुगुणं पापी चेत्सोऽपि गच्छति ||
इति गङ्गायात्रिकस्य पथि मृत्युफलम् |
तत्तीरे यस्त्यजेत् प्राणान् न्यायतोऽन्यायतोऽपि वा |
सोऽपि स्वर्गमवाप्नोति सर्वसम्भारसंयुतम् |
इति गङ्गातीरमृत्युफलम् |
यावदस्थीनि गङ्गायां निक्षिप्यन्ते मृतस्य च |
तावदब्दसहस्राणि स्वर्गलोके महीयते |
इति गङ्गायां मृतास्थिनिक्षेपफलम् ||
गङ्गाजलसमायोगान् म्रियते यत्र कुत्रचित् |
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते |
इत्यन्यत्र गङ्गाजलसमायोगमरणफलम् ||
गङ्गातीरे चतुर्हस्ते पिण्डं दद्यात् समाहितः |
पितॄणां निष्कृतिं कृत्वा विष्णुलोके महीयते ||
इति चतुर्हस्तमध्ये पिण्डदानफलम् ||
गङ्गायां तर्पणं देवि ! पुण्यवान् यः समाचरेत् |
महातृप्तिर्भवेत् सत्यं पितॄणाञ्च शताब्दिकी |
ऋषीणां देवतानाञ्च तथैव समुदाहृतम् |
इति गङ्गायां तर्पणफलम् ||
दिवा वा यदि वा रत्रौ सन्ध्यायां वा महानिशि |
स्नानं दानं तपो होमस्तर्पणं पूजनं शिवे ! |
सर्वं कुर्ययात्तु गङ्गायां कालभेदं न चाचरेत् |
इति गङ्गायां पर्ययुदस्तकालाभावः |
कालभेदं समाचर्यय यदि कार्ययं त्यजेत् शिवे ! |
ततस्तु स्थावरो भूयादरण्ये तदनन्तरम् |
दावाग्निना शिखा तस्य दग्धाशु भस्मनैकधा |
तदन्ते परमेशानि ! चाण्डालो नित्यदुःखितः |
जायते सप्तजन्मानि तदन्ते रजको भवेत् |
जन्मत्रयं महेशानि ! तदन्ते शूद्रयोनिषु |
दशजन्म महेशानि ! ततो वैश्यत्वमाप्नुयात् |
चतुर्जन्मव्यतीते तु क्षत्रियत्वं त्रिजन्मतः |
ब्राह्मणत्वं ततः प्राप्य लभेत् पुण्यगतिं नरः |
इति गङ्गायां कालाकालविचारनिन्दा ||
गङ्गायां हरते यो हि यत्किञ्चित् परमेश्वरि ! |
तस्य मोहान्धतमसो रौरवान्नास्ति निष्कृतिः |
आभूतसंप्लवं देवि ! कथितं ते सुरेश्वरि ! |
इति गङ्गायां किञ्चिद्धरणदोषः ||
गङ्गातीरे च गङ्गायां प्रतिगृह्णाति यो नरः |
श्वपचो जायते नित्यं दशजन्मनि कामिनि ! |
ततो दारिद्र्यदोषेण परिभ्रमति मेदिनीम् |
सप्तजन्म महादेवि ! तदन्ते निष्कृतिं लभेत् ||
इति गङ्गादौ प्रतिग्रहणदोषः ||
एवन्ते कथितं तस्य मन्त्रमाहात्म्यमुत्तमम् |
कालिकाया महेशानि ! गङ्गामाहात्म्यकारणम् ||
इति योगिनीतन्त्रे गङ्गामाहात्म्यम् ||
ओं सिसृक्षोर्निखिलं विश्वं मुहुः शुक्रं प्रजायते |
मातरः सर्वभूतानामापो देव्यः पुनन्तु माम् |
तारवारुणवीजेन पुटितं तत् समुच्चरेत् |
अलक्ष्मीं मलरूपां यां सर्वभूतेषु संस्थिताम् |
क्षालयन्ति निजस्पर्शादापो नित्यं पुनन्तु माम् |
इति मन्त्राभ्यां राघवभट्टधृताभ्यामात्मानमभिषिच्य |
ओं यन्मे केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि |
ललाटे कर्णयोरक्ष्णोरापस्तत्त्वं तु वो नमः |
आयुरारोग्यमैश्वर्यमरिपक्षक्षयं सुखम् |
सन्तोषक्षान्तिरास्तिक्यं विद्या भवतु वो नमः |
इत्यनेन राघवभट्टधृतेन जलं नमेत् ||
अथ मानसस्नानम् ||
तत्र प्रथमं बन्धमोक्षादौ मनसः कारणत्वं दर्शयति ||
योगिनीतन्त्रे तृतीयभागे अष्टमपटले ||
मन एव तु वै नित्यं मन एव तु कारणम् |
मन एव मनुष्याणां कारणं बन्धमोक्षयोः |
तस्य नियन्त्रणादेव संसारी न भवेत् क्वचित् |
वदत्यन्यं करोत्यन्यं यत्तु वाङ्मनसि स्थितम् |
दर्शयति तथा चान्यं वृथा तस्य क्रिया भवेत् |
इत्यधिकं मत्स्यसूक्ते षड्विंशतिपटले ||
चिन्तयेद् यः कृतं दुष्टं तीर्थस्नानेन तस्य किम् |
शतशोऽपि जलैर्धौतं सुराभाण्डमिवाशुचिरित्यपि मत्स्यसूक्ते ||
योगिनीतन्त्रे ||
तन्नेष्टं तत्परं जातं तन्मुख्यं दुःखकारणम् |
चित्तमन्तर्गतं दुष्टं तीर्थस्नाने निषिद्ध्यते |
सर्वदापि जलैर्धौतं सुराभाण्डमिवाशुचिः |
यदि वसति गुहायां पर्वताग्रे चिरं वा यदि वसति त्रिखण्डं तस्य पिण्डं पटं वा |
यदि पठति पुराणं वेदसिद्धान्ततत्त्वं यदि हृदयमशुद्धं सर्वमेतद्विरुद्धम् |
न तीर्थानि न दानानि न व्रतानि न चाश्रमाः |
दुष्टाशयं दुष्टमतिं पावयन्ति कदाचन |
इति दुष्टमनसो दोषकथनम् ||
तथैव ||
इतिं चेतो वशीकृत्य यत्र तत्र वसेन्नरः |
तत्र तस्य कुरुक्षेत्रं प्रयागं पुष्करं गया ||
इति शुद्धचेतसः फलकथनम् |
ज्ञानसङ्कुल्याम् ||
इदं तीर्थमिदं तीर्थं भ्रमन्ति तामसा जनाः |
आत्मतीर्थं न जानन्ति कथं मुक्ता वरानने ! ||
रुद्रजामले उत्तरखण्डे एकविंशतिपटले ||
स्नानमात्रेण मुक्तः स्यात् पापशैलादनन्तगः |
स्नायाच्च विमले तीर्थे हृदयाम्भोजपुष्करे |
बिन्दुतीर्थेऽथवा स्नायात् सर्वजन्माघमुक्तये |
इडासुषुम्ने शिवतीर्थकेऽस्मिन् ज्ञानाम्बुपूर्णे वहतः शरीरे |
ब्रह्माम्बुभिः स्नाति तयोः सदा यः किं तस्य गाङ्गैरपि पुष्करैर्वा ||
एतद्वचनद्वयं कल्पसूत्रटीकायामुदयाकरपद्धत्यामिति कृत्वा लिखितम् ||
ज्ञानसङ्कुल्याम् ||
इडा भागीरथी गङ्गा पिङ्गला यमुना नदी |
तयोर्मध्यगता नाडी सुषुम्नाख्या सरस्वती |
त्रिवेणीसङ्गमो यत्र तीर्थराजः स उच्यते |
तत्र स्नानं प्रकुर्वीत सर्वपापैः प्रमुच्यते ||
इति मानसप्रयोगः ||
रुद्रजामले ||
इडा मलस्थाननिवासिनी या सूर्ययात्मिका या यमुना प्रवाहिका |
तथा सुषुम्ना मलदेशगामिनी सरस्वती रक्षति मज्जनात्मकम् |
मनोगतस्नानपरो मनुष्यो मन्त्रक्रियायोगविशिष्टतत्त्ववित् |
महीस्थतीर्थे विमले जले मुदा मूलाम्बुजे स्नाति सुमुक्तिभाग् भवेत् |
सर्वाणि तीर्थे सुरतीर्थपावनी गङ्गा महासत्त्वविनिर्गता सती |
करोति पापक्षयमेव मुक्तिं ददाति साक्षादमलार्थपुण्यदा |
इति मूलाधारस्थतीर्थम् ||
स्वर्गस्थं यावता तीर्थं स्वाधिष्ठाने सुपङ्कजे ||
मनो निधाय योगीन्द्रः स्नाति गङ्गाजले यथा |
इति स्वाधिष्ठानस्थतीर्थम् |
मणिपूरे देवतीर्थं पञ्चकुण्डं सरोवरम् |
तत्र श्रीकामनातीर्थं स्नाति यो मुक्तिमिच्छति |
इति मणिपूरतीर्थम् ||
अनाहते सर्वतीर्थं सूर्ययमण्डलमध्यगम् |
विभाव्य सर्वतीर्थानि स्नाति यो मुक्तिमिच्छति |
इत्यनाहततीर्थम् ||
विशुद्धाख्ये महापद्मे अष्टतीर्थसमुद्भवः |
कैवल्यमुक्तिदं ध्यात्वा स्नाति वीरो विमुक्तये |
इति विशुद्धस्थतीर्थम् |
मानसं बिन्दुतीर्थञ्च कालीकुण्डं कलाधरम् |
आज्ञाचक्रे सदा ध्यात्वा स्नाति निर्वाणसिद्धये |
इत्याज्ञास्थतीर्थम् ||
एतत् कुलप्रियस्नानं कुर्वन्ति योगिनो मुदा |
अतो वीराः सत्त्वयुक्ताः सर्वसिद्धियुताः सुराः |
नानापापं सदा कृत्वा ब्रह्महत्याविनिर्गतम् |
कृत्वा स्नानं महातीर्थे सिद्धाः स्युरणिमादिगाः |
स्नानमात्रेण निष्पापोऽशक्तः स्याद्वायुसंग्रहे |
तीर्थानां दर्शनादेषां मुक्तो योगी भवेद् ध्रुवम् ||
इति मानसस्नानफलम् ||
मत्स्यसूक्ते दशमपटले ||
जलादुत्थाय कर्त्तव्यं जले चैवोपविश्य यत् |
अनयोर्विपरीतेन यत्करोति न तत्कृतम् |
यज्जले शुष्कवस्त्रेण स्थले चैवार्द्रवाससा |
न कुर्ययादाह्निकं कर्म जले चापि स्थलेषु च |
इति जले शुष्कवाससा स्थले चार्द्रवाससा कर्म्मनिषेधः ||
गौतमीये ||
पीडयित्वाम्बरं चोरु प्रक्षाल्याचम्य वाग्यतः |
धारयेद्वाससी शुद्धे परिधानोत्तरीयके |
अच्छिन्ने सदशे शुक्ले आचामेत् पीठसंस्थितः ||
मत्स्यसूक्ते ||
उत्तीर्य वाससी धौते परिधाय विचक्षणः |
न रक्तं मलिनञ्चैव न नीलञ्च प्रशस्यते |
अष्टौ सप्त तथा षष्ठ चतुर्हस्तान्यनुक्रमात् |
ब्राह्मणादिक्रमेणैव पिधानाम्बरमीरितम् |
इति परिधेयवस्त्रपरिमाणम् ||
मात्स्ये ||
श्वेतं रक्तं तथा पीतं कृष्णञ्चेत्यनुपूर्वशः |
अनुपूर्वश इति ब्राह्मणाद्यनुक्रमेण |
वस्त्रमन्यधृतञ्चैव सदैव परिवर्जयेत् |
वस्त्रमूलं समुद्धृत्य पृष्ठवंशे षडङ्गुलम् |
दशायां त्र्यङ्गुलं त्यक्त्वा नाभिमात्रे विनिर्दिशेत् |
दशाहीनं न कर्त्तव्यं परिवर्त्तं न कारयेत् |
इति वस्त्रपरिधानप्रकारः ||
अथ कर्मविशेषे वस्त्रविशेषः ||
उदयभानुनाथकृतकृष्णार्चनचन्द्रिकायाम् ||
श्यामारहस्यधृतस्वतन्त्रतन्त्रे ||
मोक्षार्थी रक्तवस्त्रे द्वे भोगार्थी श्वेतवाससी |
मारणे कृष्णवासस्तु वश्ये रक्तं सदा गृही |
एवञ्च पूर्वोक्तमत्स्यसूक्तवचने यद्रक्तवस्त्रस्याप्रशस्तत्व-मुक्तं तन्मोक्षादिविशेषकर्म्मातिरिक्तकर्म्मपरं सामान्यविशेषन्यायात् |
अत-एव अन्नदाकल्पोक्तवक्ष्यमाणवचने रक्तवस्त्रपरिधानं वक्ष्यते |
उच्चाटे व्याघ्रचर्म्माणि वृक्षत्वक् स्तम्भकर्म्मणि |
परिधाय ततो मन्त्री यागभूमिमथाविशेत् |
मत्स्यसूक्ते ||
न चैवं धुनयेद्वस्त्रं न केशान् धुनयेत् क्वचित् ||
नीलीरक्तेन वस्त्रेण यत्कर्म्म कुरुते द्विजः |
स्नानं दानं जपं होमं तत्सर्वं विफलं भवेत् ||
इति नीलादिवस्त्रेण कर्म्मकरणनिषेधः ||
कलौ कार्पासवस्त्रञ्च पट्टं क्षौमं प्रशस्यते |
नित्यं कापचितं कुर्ययादशुद्धं शुद्धतानियात् |
केन जलेनापचितं प्रक्षालितभित्यर्थः |
इति कलौ कार्पासादिवस्त्रप्रशंसा ||
सूचीविद्धेन वस्त्रेण आखुदष्टेन वा द्विजः |
कटिशून्येन देवेशि ! सर्वं स्नानफलं हरेत् ||
इति सूचीविद्धादिवस्त्रनिषेधः |
वस्त्रान्तरेण यद्वस्त्रं कृमिजं वा प्रदृश्यते |
न देयं दैवे पैत्र्ये च कोष्ठजञ्च प्रशस्यते ||
इति विजातीयवस्त्रनिषेधः |
कृमिजेन तु वस्त्रेण यः स्नानं कुरुते नरः |
सर्वकालकृतं पुण्यं स्नानमात्रेण नश्यति ||
इति कृमिजवस्त्रेण स्नाननिषेधः |
एतदेव श्वेतजातवृक्षजाते न दुष्यति |
श्वेतकृमेश्च सम्भूतं प्रशस्तं दैवपैत्र्ययोः ||
इति कृमिजश्वेतवस्त्रप्रशंसा ||
अथोत्तरीयम् ||
मत्स्यसूक्ते ||
शतद्वयेन सूत्रेण उत्तीरयस्य मानकम् ||
तदर्द्धेनाथ वा कार्ययमभावे सर्वतः स्वयम् |
योगपदादीनां पूजादावुपयोगात्तल्लक्षणं वीरमित्रोदयधृतसिद्धान्तशेखरे ||
त्रिविधं योगपदकमाद्यं व्याघ्राजिनोद्भवम् |
द्वितीयं मृगचर्म्माढ्यं तृतीयं तन्तुनिर्म्मितम् |
चतुर्म्मात्रप्रविस्तारं दैर्घ्येण यज्ञसूत्रवत् |
चतुर्मात्रं चतुरङ्गुलमात्रम् ||
यज्ञोपवीतमार्जनस्य स्नानात् परतः कर्त्तव्यत्वं तदत्र लिख्यते ||
गायत्रीतन्त्रे चतुर्थब्राह्मणपटले ||
सम्मार्ज्य दधिदुग्धेन घृतेन बहुयत्नतः |
घृताद्यभावे चार्वङ्गि ! मार्जयेत्तण्डुलपिष्टकैः |
तदभावे सार्षपेण तिलतैलं परित्यजेत् |
विल्वस्य फलनिर्यासैर्मार्जयेत् द्विजसत्तमः |
शुद्धसत्त्वात्मकं सूत्रं तदा भवति प्रत्यहम् |
इति यज्ञोपवीतमार्जनद्रव्याणि ||
यज्ञोपवीतमार्जनप्रकारस्तु तत्रैव ||
वामस्कन्धात् समुत्तार्यय वामाङ्गुष्ठे नियोजयेत् |
वामाङ्गुष्ठं वामस्कन्धमेवमेव न चान्यथा |
वामाङ्गुष्ठयुतं सूत्रं कृत्वा सम्मार्जयेद् द्विजः ||
इति यज्ञोपवीतमार्जनप्रकारः |
कण्ठादौ यज्ञोपवीतकरणदोषश्च तत्रैव ||
कण्ठे शिरसि दक्षकरे कृत्वा शूद्रत्वमर्हति |
गायत्र्या अयुतं जप्त्वा तस्मात् पापात् प्रमुच्यते |
तथा |
वर्णविप्रे तथा भट्टे मार्जनं न हितं सदा |
धारणं यज्ञसूत्रस्य जातिभेदे पृथक् पृथक् |
रक्तचन्दनतोयेन मार्जयेत् क्षत्रजातयः |
हारिद्रैर्मार्जयेद्वैश्य इति शास्त्रस्य निर्णयः ||
अथ तिलकं मत्स्यसूक्ते दशमपटले ||
अथोपविश्य पूर्वाशामुखो भूत्वा सुसंयुतः |
प्रकुर्ययात्तिलकं मन्त्री उत्तराशामुखेन वा |
गोपीचन्दनकेनाथ रोचनाकुङ्कुमेन वा |
मृत्तिकया मलयजेन तुलसीविल्वजेन वा ||
योगिनीतन्त्रे तृतीयभागे नवमपटले ||
मलयजेन गन्धेन गोपीचन्दनकेन वा |
विल्वकाष्ठोद्भवेनाथ तुलसीकाष्ठकेन वा |
पद्मकेन तमालेन तथा रोचनयाथवा |
पिधाय तिलकं श्रेष्ठमेषामेकतमेन वा ||
विल्वकाष्ठोद्भवेनेत्युदासीनपरम् |
तत्काष्ठचन्दनं भाले यो धारयति सम्भ्रमादित्यादि योगिनीतन्त्रीयपूर्वखण्डे पञ्चमपटलोक्तवचनात् ||
मृदादिफलं मत्स्यसूक्ते ||
मृदा तु मुक्तिमाप्नोति आयुष्यं चन्दनेन तु |
कुङ्कुमेन भवेत्कार्ययं रोचना वश्यमीरितम् |
जलस्थामृत्तिका वर्ज्या तीरस्थं पुण्यदायकम् |
तस्मात्तीरोद्भवं ग्राह्यमश्वक्रान्तेति सम्पठन् |
नोत्थाय तिलकं कुर्ययान्मुदा स्त्रीसरितो बुधः |
शस्तञ्च जाह्नवीतीरोद्भवैर्वा गोपिचन्दनैः ||
इति तिलकस्य मृत्तिकाविधिनिषेधौ |
तिलककरणमन्त्रस्तु मत्स्यसूक्ते |
केशवानन्त ! गोविन्द ! वराह ! पुरुषोत्तम ! पुण्यं यशस्यमायुष्यं तिलकं मे प्रसीदतु ||
चन्दनधारणमन्त्रोऽपि तत्रैव ||
कान्तिं लक्ष्मीं धृतिं सौख्यं सौभाग्यमतुलं मम |
ददातु चन्दनं नित्यं सततं धारयाम्यहम् |
इत्यनेन च मन्त्रेण प्रदध्यान्मन्त्रवित्तमः ||
तिलकधारणस्थानानि मत्स्यसूक्ते ||
ललाटे प्रथमं दद्यान्मूर्द्ध्नि दद्यात्ततो हृदि |
कण्ठे च श्रोत्रयोर्बाह्वोर्बाहुमूलद्वयेऽपि च |
नाभौ पृष्ठे च सन्दध्यात् पार्श्वयोश्च युगं युगम् |
तिलकानि लिखेच्चैव मुच्यते सर्वपातकैः |
भाले दीपशिखाकारं बाहुभ्यां विल्वपत्रवत् |
हृदये कमलाकारं ग्रीवायां चन्द्रमुद्दिशेत् ||
वैष्णवतिलके तु विशेषः ||
ललाटे तु गदा कार्यया मूर्द्ध्नि चापं शरं तथा |
नन्दकञ्चैव हृन्मध्ये शङ्खं चक्रं भुजद्वये |
शङ्खचक्राङ्कितो विप्रः श्मशाने म्रियते यदि |
प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य नारद ! |
श्यामाप्रदीपे द्वितीयपरिच्छेदे |
यज्ञपार्श्वे मा तिलकी कर्म्म कुर्वीतेति |
तस्मान्मृदा जलेनापि कर्त्तव्यं तिलकं बुधैः |
अन्यथा निष्फलं ज्ञेयं वीजोप्तिरूषरे यथा |
तिलकाकरणनिन्दापि तत्रैव मत्स्यसूक्ते ||
अकृत्वा तिलकं भाले चण्डालं यस्तु पश्यति |
पुनः स्नानन्तु कर्त्तव्यं विण्मूत्रोत्सारणे तथा |
जले च घटे च छायायां संवीक्ष्य तिलकं चरेत् |
दर्पणे वीक्षयेद्यत्नादमावास्यां विवर्जयेत् ||
इत्यमावास्यायां तिलकनिषेधः |
तथा |
तिलके निजदेवास्त्रं विलिखेद्दक्षिणादितः |
बीजं बाहूदरोत्सङ्गे भाले वा प्रणवादिकम् |
उत्सङ्गे क्रोडे ||
राघवभट्टधृतब्रह्माण्डपुराणे ||
ऊर्द्ध्वपुण्ड्रमृजुं सौम्यं ललाटे यस्य दृश्यते |
स चण्डालोऽपि शुद्धात्मा पूज्य एव न संशयः |
ऊर्द्धपुण्ड्रं मृदा सौम्येति पद्मपुराणे प्रथमचरणे पाठः |
अशुचिश्चाम्यनाचारो मनसा पापमाचरेत् |
शुचिरेव भवेन्नित्यमूर्द्ध्वपुण्ड्रान्वितो नरः |
मत्प्रियार्थं शुभार्थं वा रक्षार्थं चतुरानन ! |
मद्भक्तो धारयेन्नित्यमूर्द्ध्वपुण्ड्रमतन्द्रितः |
मत्पूजाहोमकाले च सायं प्रातः समाहितः |
मद्भक्तो धारयेन्नित्यमूर्द्ध्वपुण्ड्रं भवापहम् |
इति भगवद्भक्तिविलासधृतपद्मपुराणे अधिकम् |
तद्धृतस्कन्दपुराणे कार्त्तिकप्रसङ्गे ||
ऊर्द्ध्वपुण्ड्रो मृदा शुभ्रो ललाटे यस्य दृश्यते |
चण्डालोऽपि विशुद्धात्मा याति ब्रह्म सनातनम् |
ऊर्ध्व पुण्ड्रे स्थिता लक्ष्मीः ऊर्द्ध्वपुण्ड्रे स्थितं यशः |
ऊर्द्ध्वपुण्ड्रे स्थिता मुक्तिरूर्द्ध्वपुण्ड्रे स्थितो हरिः |
उत्तरखण्डे शिवपार्वतीसंवादे ||
ऊर्द्ध्वपुण्ड्रस्य मध्ये तु विशाले सुमनोहरे |
लक्ष्म्या सार्द्धं समासीनो देवदेवो जनार्दनः |
तस्माद् यस्य शरीरे तु ऊर्द्ध्वपुण्ड्रं धृतं भवेत् |
तस्य देह भगवतो विमलं मन्दिरं स्मृतम् |
ऊर्द्ध्वपुण्ड्रधृतो विप्रः सर्वलोकेषु पूजितः |
विमानवरमारुह्य याति विष्णोः परं पदम् |
ऊर्द्ध्वपुण्ड्रधरं विप्रं दृष्ट्वा पापैः प्रमुच्यते |
नामस्मृत्या तथा भक्त्या सर्वदानफलं लभेत् |
ऊर्द्ध्वपुण्ड्रधरं विप्रं यः श्राद्धे भोजयिष्यति |
आकल्पकोटिपितरस्तस्य तृप्ता न संशयः |
ऊर्द्ध्वपुण्ड्रधरो यस्तु कुर्ययात् श्राद्धं शुभानने ! |
कल्पकोटिसहस्राणि वैकुण्ठे वासमाप्नुयात् |
यज्ञदानतपश्चर्ययाजपहोमादिकञ्चरेत् |
ऊर्द्ध्वपुण्ड्रधरः कुर्ययात्तस्य पुण्यमनन्तकम् ||
ब्रह्माण्डपुराणे विष्णुवाक्यम् ||
ऊर्द्ध्वपुण्ड्रधरो मर्त्यो म्रियते यत्र कुत्रचित् |
श्वपाकोऽपि विमानस्थो मम लोके महीयते |
ऊर्द्ध्वपुण्ड्रधरो मर्त्यो गृहे यस्यान्नमश्नुते |
तदा विंशत्कुलं तस्य नरकादुद्धराम्यहम् ||
इत्यूर्द्ध्व पुण्ड्रमाहात्म्यम् ||
पद्मपुराणे नारदोक्तौ ||
यज्ञो दानं तपो होमः स्वाध्यायः पितृतर्पणम् |
व्यर्थं भवति तत् सर्वमूर्द्ध्वपुण्ड्रं विना कृतम् ||
उत्तरखण्डे ||
ऊर्द्ध्वपुण्ड्रविहीनस्तु किञ्चित् कर्म करोति यः |
इष्टापूर्त्तादिकं सर्वं निष्फलं स्यान्न चान्यथा |
ऊर्द्ध्वपुण्ड्रविहीनस्तु सन्ध्याकर्मादिकञ्चरेत् |
तत्सर्वं राक्षसं ज्ञेयं नरकञ्चाधिगच्छति |
यच्छरीरं मनुष्याणामूर्द्ध्वपुण्ड्र विना कृतम् |
द्रष्टव्यं नैव तत्तावच्चाण्डालसदृशं भवेत् ||
स्कान्दे ||
यस्योर्द्ध्वपुण्ड्रं दृश्येत ललाटे न नरस्य हि |
तद्दर्शनं न कर्त्तव्यं दृष्ट्वा सूर्ययं निरीक्षयेत् ||
इत्यूर्द्ध्वपुण्ड्राकरणे दोषः ||
उत्तरखण्डे ||
ऊर्द्ध्वपुण्ड्रं धरेद्विप्रो मृदा शुभ्रेण वैदिकः |
न तिर्ययग्धारयेद्विद्वानापद्यपि कदाचन |
भगवद्भक्तिविलासधृतम् ||
ऊर्द्ध्वपुण्ड्रे त्रिपुण्ड्रं यः कुरुते स नराधमः |
भुङ्क्त्वा विष्णुगृहं पुण्यं स याति नरकं ध्रुवम् ||
स्कन्दपुराणे ||
तिर्ययक् पुण्ड्रं न कुर्वीत सम्प्राप्ते मरणेऽपि च |
नैवान्यनाम च ब्रूयात् पुमान्नारायणादृते ||
इत्यूर्द्ध्वपुण्ड्रे त्रिपुण्ड्रकरणनिषेधः ||
शाक्तानन्दतरङ्गिणीधृतम् ||
ऊर्द्ध्वपुण्ड्रं त्रिपुण्ड्रं वा कृत्वा सन्ध्यां समाचरेत् |
तदेव व्यवस्थापितम् स्कन्दपुराणे ||
वैष्णवानां ब्राह्मणानामूर्द्ध्वपुण्ड्रं विधीयते |
अन्येषान्तु त्रिपुण्ड्रं स्यादिति ब्रह्मविदो विदुः ||
पद्मपुराणे ||
त्रिपुण्ड्रं यस्य विप्रस्य ऊर्द्ध्वपुण्ड्रे न दृश्यते |
तं दृष्ट्वाप्यथवा स्पृष्ट्वा सचेलः स्नानमाचरेत् ||
ऊर्द्ध्वपुण्ड्रे न कुर्वीत वैष्णवानां त्रिपुण्ड्रकम् |
कृतत्रिपुण्ड्रमर्त्यस्य क्रिया न प्रीतये हरेः ||
अथोर्द्ध्वपुण्ड्रनिर्माणविधिः ब्रह्माण्डपुराणे ||
वीक्ष्य देशे जल वापि यो विदध्यात् प्रयत्नन्तः |
ऊर्द्ध्वपुण्ड्रं महाभाग ! स याति परमां गतिम् |
दशाङ्गुलप्रमाणन्तु उत्तमोत्तममुच्यते |
नवाङ्गुलं मध्यमं स्यादष्टाङ्गुलमतः परम् |
एतैरङ्गुलिभेदैस्तु कारयेन्न नखैः स्पृशेत् ||
उर्द्ध्वपुण्ड्रलक्षणन्तु मत्स्यसूक्ते ||
नासिकाकेशपर्ययन्तमूर्द्ध्वपुण्ड्रं विधीयते |
मध्ये छिद्रन्तु कर्त्तव्यं तच्छिद्रं हरिमन्दिरम् ||
पद्मपुराणे उत्तरखण्डे ||
एकान्तेन महाभागाः सर्वभूतहिते रताः |
सान्तरालं प्रकुर्वन्ति पुण्ड्रं हरिपदाकृतिम् |
श्यामं शान्तिकरं प्रोक्तं रक्तं वश्यकरं तथा |
श्रीकरं पीतमित्याहुः श्वेतं मोक्षप्रदं शुभम् ||
इति कर्मविशेषे वर्णविशेषत्रिपुण्ड्रम् |
वर्त्तुलं तिर्ययगच्छिद्रं ह्रस्वं दीर्घतरं तनुम् ||
वभ्रूं विरूपं बह्वग्रं भिन्नमूलं पदच्युतम् |
अशुभ्रं रूक्षमासक्तं तथा नाङ्गुलिकल्पितम् |
विगन्धमपसव्यञ्च पुण्ड्रमाहुरनर्थकम् ||
इति निन्दितपुण्ड्रम् ||
नाङ्गुलिकल्पितमिति विहितकाष्ठिकाभिन्नोपलक्षणम् ||
अन्यथा मत्स्यसूक्ते दशमपटलोक्तवचनमनर्थकं स्यात् |
तद्वचनन्तु ||
कुशेनैव सुवर्णेन न काष्ठेनायसेन च |
न शङ्खेन न ताम्रेण न कांस्येन कदाचन ||
तुलस्या विल्वकाष्ठेन रजतेन समुल्लिखेत् ||
ऊर्द्ध्वपुण्ड्राकारस्तु उत्तरखण्डे ||
अश्वत्थपत्रसङ्काशो वेणुपत्राकृतिस्तथा |
पद्मकुट्मलसङ्काशो मोहनं त्रितयं स्मृतम् |
आरभ्य नासिकामूलं ललाटान्तं लिखेन्मुदा |
ललाटान्तमिति न्यूनत्वव्यवच्छेदकमन्यथा दशाङ्गुलस्योत्तमत्वकीर्त्तनं व्यर्थं स्यात् |
दशाङ्गुलपरिमाणन्तु नासिकातृतीयभागावधि ब्रह्मरन्ध्रपर्ययन्तमेव |
मृदेति विहितद्रव्योपलक्षणम् |
मृदमिति पाठे व्यत्ययो बहुलमिति सूत्राद्विभक्तिव्यत्ययेन स एवार्थः ||
नासिकायास्त्रयो भागा नासामूलं प्रचक्षते |
समारभ्य भ्रुवोर्मध्यमन्तरालं प्रकल्पयेत् ||
त्रयो भागा इति निर्देशबलात् पूरणप्रत्ययार्थावगतेस्तृतीयो भागो लभ्यते |
स च भागो यत्र मस्तकावस्थितो नासिका निर्गता तत्रैव ||
तस्माच्छिद्रान्वितं पुण्ड्रं दण्डाकारं सुशोभनम् |
विप्राणां सततं कार्ययं स्त्रीणाञ्च शुभदर्शने ! |
नासिकाकेशपर्ययन्तं ऊर्द्ध्वपुण्ड्रं सुशोभनम् ||
मध्ये छिद्रसमायुक्तं तद्विद्याद्धरिमन्दिरम् ||
इति हरिमन्दिरलक्षणम् ||
वामभागे स्थितो ब्रह्मा दक्षभागे सदाशिवः |
मध्ये विष्णुं विजानीयात् तस्मान्मध्यं न लेपयेत् ||
यजुर्वेदीयस्य हिरण्यकेशीयशाखायाम् ||
हरेः पदाक्रान्तिम् आत्मनो निधाय यन्मध्ये छिद्रमूर्ध्वपुण्ड्रं यो धारयति स परस्य प्रियो भवति स पुण्यवान् भवति स मुक्तिभाग्भवतीति |
तिलकरचनायामङ्गुलिनियममाह भगवद्भक्तिविलासधृता स्मृतिः ||
अनामिका कामदोक्ता मध्यमायुष्करी भवेत् |
अङ्गुष्ठः पुष्टिदः प्रोक्तस्तर्जनी मोक्षसाधनी ||
ऊर्ध्वपुण्ड्रस्य मृत्तिका तु पद्मपुराणे ||
पर्वताग्रे नदीतीरे विल्वमूले जलाशये |
सिन्धुतीरे च वल्मीके हरिक्षेत्रे विशेषतः ||
विष्णोः स्नानोदकं यत्र प्रवाहयति नित्यशः |
पुण्ड्राणां धारणार्थाय गृह्णीयात्तस्य मृत्तिकाम् |
श्रीरङ्गे वेङ्कटाद्रौ च श्रीकुर्म्मद्वारके शुभे |
प्रयागे नारसिंहाद्रौ वाराहे तुलसीवने |
गृहीत्वा मृत्तिकां भक्त्या विष्णुपादजलैः सह |
धृत्वा पुण्ड्राणि चाङ्गेषु विष्णुसायुज्यमाप्नुयात् ||
पर्वताग्रे इत्यादौ षष्ठीसप्तभ्योरर्थं प्रति भेदाभाव इति न्यायात् पर्वताग्रस्येत्यादि लभ्यते |
गृहीत्वा मृत्तिकामिति परेणान्वयः |
व्यत्ययो बहुलमिति षष्ठ्यर्थे सप्तमी वा |
नदीतीर इति गङ्गांतीरस्येति ज्ञेयम् |
प्रागुक्तमत्स्यसूक्तवचनेन स्त्रीसरितो मृत्तिकाग्रहणनिषेधादिति |
श्रीरङ्गः कावेरीमध्यस्थः क्षेत्रविशेषो दक्षिणदेशेषु प्रसिद्धः |
वेङ्कटाद्रिः शेषाचलनाम्ना तैलङ्गदेशे प्रसिद्धः |
श्रीकूर्म्मः कलिङ्गदेशे प्रसिद्धः क्षेत्रविशेषः ||
गोपीचन्दनमाहात्म्यन्तु मत्स्यसूक्ते |
दुर्लभं चन्दनं लोके गोपीनां विष्णुनिर्मितम् |
यत् कृत्वा तिलकं सद्यो ब्रह्महत्यां व्यपोहति ||
स्थितस्येत्यध्याहारादेककर्त्तृकता |
पद्मपुराणे नारदवाक्येऽपि ||
ब्रह्मघ्नो वाथ गोघ्नो वा हैतुकः सर्वपापकृत् |
गोपीचन्दनसम्पर्कात् पूतो भवति तत्क्षणात् |
गोपीचन्दनखण्डन्तु यो ददातीह वैष्णवे |
कुलमेकोत्तरं तेन स्वं भवेत्तारितं शतम् ||
इति वैष्णवे गोपीचन्दनदानफलम् ||
स्कन्दपुराणे ध्रुववाक्यम् ||
शङ्खचक्राङ्किततनुः शिरसा मञ्जरीधरः |
गोपीचन्दनलिप्ताङ्गो दृष्टश्चेत्तदघं कुतः |
गोपीमृत्तुलसी शङ्खः शालग्रामः सचक्रकः |
गृहेऽपि यस्य पञ्चैते तस्य पापभयं कुतः ||
सचक्रकं सश्रीचक्रकमित्यर्थः |
काशीखण्डे ||
श्रीखण्डे क्व स आमोदः स्वर्णे वर्णः क्व तादृशः |
तत्पवित्रं क्व वै तीर्थे श्रीगोपीचन्दने यथा ||
गरुडपुराणे श्रीनारदवाक्यम् |
यो मृत्तिकां द्वारवतीसमुद्भवां करे समादाय ललाटपट्टे |
करोति नित्यन्त्वथ चोर्द्ध्वपुण्ड्र क्रियाफलं कोटिगुणं सदा भवेत् |
क्रियाविहीनं यदि मन्त्रहीनं श्रद्धाविहीनं यदि कालवर्जितम् |
कृत्वा ललाटे यदि गोपिचन्दनं प्राप्नोति तत्कर्म्मफलं सदाक्षयम् |
गोपीचन्दनसम्भवं सुरुचिरं पुण्ड्रं ललाटे द्विजो नित्यं धारयते यदि द्विजपते ! रात्रौ दिवा सर्वदा |
यत् पुण्यं कुरुजाङ्गले रविगृहे माघ्यां प्रयागे तथा तत्प्राप्नोति खगेन्द्र ! विष्णुसदने सन्तिष्ठते देववत् ||
यस्मिन् गृहे तिष्ठति गोपिचन्दनं भक्त्या ललाटे मनुजो बिभर्ति |
तस्मिन् गृहे तिष्ठति सर्वदा हरिः श्रद्धान्वितः कंसनिहा विहङ्गम ! ||
यो धारयेत् कृष्णपुरीसमुद्भवां सदा पवित्रां कलिकल्मषापहाम् |
नित्यं ललाटे यदि मन्त्रसंयुतां यमं न पश्येद् यदि पापसंवृतः |
यस्यान्तकाले खग ! गोपिचन्दनं बाह्वोर्ललाटे हृदि मस्तके च |
प्रयाति लोकं कमलालयाप्रभोर्गोबालघाती यदि ब्रह्महा भवेत् ||
ग्रहा न पीडन्ति न रक्षसां गणो यक्षाः पिशाचोरगभूतदानवाः |
ललाटपट्टे खग ! गोपिचन्दनम् सन्तिष्ठते यस्य हरेः प्रसादतः ||
पद्मपुराणे ||
अम्बरीष ! महाघस्य क्षयार्थे कुरु वीक्षणम् |
ललाटे यैः कृतं नित्यं गोपीचन्दनपुण्ड्रकम् ||
काशीखण्डे यमोक्तिः |
दूताः ! शृणुत यद्भालं गोपीचन्दनलाञ्छितम् |
ज्वलदिन्धनवत् सोऽपि दूरे त्याज्यः प्रयत्नतः ||
इति गोपीचन्दनमाहात्म्यम् ||
भगवद्भक्तिविलासधृतकाशीखण्डे ||
अथ तस्योपरि श्रीमत्तुलसीमूलमृत्स्नया |
तथैव वैष्णवैः कार्ययमूर्ध्वपुण्ड्रं मनोरमम् |
स्कन्दपुराणे तुलसीमूलमृत्तिकामुपक्रम्य ||
तन्मृदं गृह्य यैः पुण्ड्रं ललाटे धारितं नरैः |
प्रयाणकं कृतं तैस्तु मोक्षाय गमनं प्रति ||
तुलसीमृत्तिकापुण्ड्रं ललाटे |
यस्य दृश्यते |
देहं न स्पृशते पापं क्रियमाणन्तु नारद ! ||
गरुडपुराणे ||
तुलसीमृत्तिकापुण्ड्रं यः करोति दिने दिने |
तस्यावलोकनात् पापां याति वर्षकृतं नृणाम् ||
तुलसीमूलमृत्तिकामाहात्म्यम् गारुडे |
तस्योपरिष्टाद्भवगन्निर्माल्यमनुलेपनम् |
तथैव धार्ययमेवं हि त्रिविधं तिलकं स्मृतमिति ||
पूर्वोक्त्या अथ तस्योपरि गोपीचन्दनतिलकोपरि |
तत्र तु तस्योपरिष्टात्तुलसीमूलमृत्तिका तिलकोपरिष्टादित्यर्थः ||
तेन प्रथमं गोपीचन्दनतिलकं कृत्वा तदुपरि तुलसीमूलमृत्तिकातिलकं करणीयम् ||
तदुपरि च विष्णुनिर्माल्यानुलेपने तिलकं कार्ययमिति त्रिविधं तिलकम् ||
अथ द्वादशतिलकविधिः ||
ब्रह्मपुराणे ||
ततो द्वादशभिः कुर्ययान्नामभिः केशवादिभिः |
द्वादशाङ्गेषु विधिवदूर्ध्वपुण्ड्राणि वैष्णवः ||
पद्मपुराणे उत्तरखण्डे ||
ललाटे केशवं ध्यायेन्नारायणमथोदरे |
वक्षःस्थले माधवन्तु गोविन्दं कण्ठकूपके |
विष्णुञ्च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् |
त्रिविक्रमं स्कन्धदेशे वामनं वामपार्श्वके |
श्रीधरं वामबाहौ तु हृसीकेशन्तु कन्धरे |
पृष्ठे तु पद्मनाभञ्च कट्यां दामोदरं न्यसेत् |
तत्प्रक्षालनतोयन्तु वासुदेवेति मूर्द्धनि |
योगिनीतन्त्रे ||
पिधाय तिलकं श्रेष्ठमेषामेकतमेन वा |
चतुःसमञ्च त्रिसमं द्विसमञ्च सुरेश्वरि ! |
अथालिप्य ततो देहमयने तु विवर्जयेत् |
चतुःसममित्यादिपूर्वोक्तमलयजगोपीचन्दनविल्वतुलसीकाष्ठ-पद्मकृतमालगोरोचनानाम् |
शीते रात्रौ पुनः स्नाने नानुलिप्य सुगन्धिभिः |
ललाटे तु विशेषेण वराङ्गे न कदाचन ||
मत्स्यसूक्ते ||
न रात्रौ तिलकं कुर्ययाद् भक्त्वा नैव च नैव च |
महागुरुनिपाते च तिलकं छेदयेन्नरः |
बह्वृचपरिशिष्टम् |
तत्रादावनुलेपेन भगवच्चरणाब्जयोः |
निर्म्माल्येन प्रसादेन सर्वाण्यङ्गानि मार्जयेत् ||
ब्रह्मपुराणे ||
शालग्रामशिलालग्नं चन्दनं धारयेत् सदा |
सर्वाङ्गेषु महाशुद्धिसिद्धये कमलासनम् ||
इत्यूर्ध्व पुण्ड्रप्रकरणम् |
अथ त्रिपुण्ड्रधारणविधिः ||
राघवभट्टधृतम् ||
भस्माग्निहोत्रसम्भूतमानयेच्छोधिनं बुधः |
यद्वा धरामसंस्पृष्टं सत्येनानीय गोमयम् ||
सत्येन प्रणवेन ||
वामेन पात्रे संशोध्य अघोरेण विनिर्दहेत् ||
तत्पुरुषेण समुद्धृत्य ईशानेन विशोधयेत् |
इत्थन्तु संस्कृतं भस्म अग्निरित्यादिमन्त्रतः |
विमृज्याङ्गानि संस्पृश्य पुनरादाय मन्त्रतः |
तस्माद्ब्रह्मेति यजुषा मन्त्रयेद्रुद्रसंख्यया |
प्रणवाद्यैश्चतुर्थी हृदन्तैस्त्वघोर ईशकैः |
पञ्चवर्णाक्षराद्यैश्च भालांशोदरहृत्सु च |
त्रिपुण्ड्रधारणं कुर्ययान्मूर्द्ध्निं पञ्चाक्षरेण च |
त्रिपुण्ड्रं धारयेन्मन्त्री साक्षाच्छिव इवापरः ||
वायवीसंहितायाम् भस्मग्रहणमन्यदप्युक्तम् ||
यथा |
शिवाग्नेर्भस्म संग्राह्यमग्निहोत्रोद्भवन्तु वा |
वैवाह्याग्न्युद्भवं वापि पक्वं शुचि सुगन्धि च |
कपिलायाः शकृच्छुद्धं गृहीतं गगने पतत् |
न क्लिन्नं नापि कठिनं न दुर्गन्धि न चोषितम् |
उषितं पर्ययुषितमित्यर्थः ||
उपर्ययधः परित्यज्य गृह्णीयात् पतितं यदि |
पिण्डीकृत्य शिवाग्नौ तु प्रक्षिपेन्मूलमन्वतः |
अपक्वमतिपक्वञ्च सन्त्यज्य भसितं सितम् |
आदाय यस्माच्छुद्धं तद् यथा भस्म प्रजायत इति कालाग्निरुद्रोपनिषदा वृषगोमयस्याप्येवम्प्रकारः प्रदर्शितः ||
वामेनेति ||
ओं वामदेवाय नमो ज्येष्ठाय नमो रुद्राय नमः |
कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः ||
अघोरेणेति मन्त्रस्तु ओं अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः सर्वतः सर्वसर्वेभ्यो नमस्ते रुद्ररूपेभ्यः ||
तत्पुरुषेणेति मन्त्रस्तु ओं तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ||
ईशानेनेति मन्त्रस्तु |
ओं ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मेऽस्तु सदाशिवौम् |
अग्निरित्यादिमन्त्रस्तु |
अग्निरिति भस्मवायुरिति भस्मजलमिति भस्मस्थलमिति भस्मव्योमेति भस्मसर्वहरा इदम् |
भस्ममन एतानि सक्षूंषि तस्माद्व्रतमेतत् पाशुपतं यत् |
भस्मनाङ्गानि संस्पृशेत् |
तस्माद्ब्रह्म तदेतत् पाशुपतं पशुपतं पशुपाशविमोक्षाय |
यजुषा यजुर्मन्त्रेण पञ्चाक्षरेण नमः शिवायेति मन्त्रेण वा कुलमूलावतारकल्पसूत्रतृतीयकाण्डटीकाधृता श्रुतिः ||
शुद्धद्रव्यं तदाग्नेयभस्मत्रिपुण्ड्रकं त्रिरेखात्मकमर्द्धचन्द्ररूपात्मकमर्द्धचन्द्ररूपम् ||
अथ सनत्कुमारप्रमाणस्य त्रिधा ललाटादाचक्षुः पश्चाद् भ्रूवोर्मध्यतः |
यस्येह प्रथमा रेखा सा आहवनीयोऽर्क ऋग्वेदः |
प्रातः सवनं महेश्वरः |
यस्येह द्वितीया रेखा सावसथ्य उकारो यजुर्वेदः सदाशिवः |
यस्येह तृतीया रेखा सा गार्हपत्यः परमात्मज्ञानशक्तिर्मकाराद्यैरिति ||
अथ कालाग्निरुद्रोपनिषत् ||
संबर्त्तोऽग्निर्-ऋषिर्विराड्विश्वरूपी रुद्रो देवता अनुष्टुप्छन्दः श्रीविश्वरूपप्रीत्यर्थे विनियोगः |
अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छ अधीहि भोस्त्रिपुण्ड्रविधिं सतत्त्वं किं द्रव्यं किञ्च स्थानं कति प्रमाणं का रेखाः के मन्त्राः किं दैवतं कः कर्त्ता किं फलमिति तं होवाच भगवान् कालाग्निरुद्रः |
सत्यमुक्तं यद्द्रव्यं यदाग्नेयं यद्भस्म सद्योजातादि पञ्चरुद्रब्रह्ममन्त्रैः परिगृह्य अग्निरिति भस्म अनेनाभिमन्त्र्य मानस्तोक इति संक्षुभ्य त्र्यायुषमित्यादिना शिरोललाटस्कन्धकण्ठहृद्बाहुद्वयेषु त्रिभिरायुषैस्त्र्यम्बकैस्तिर्यक् तिस्रो रेखाः प्रकुर्वीत एतदेव तच्छाम्भवं सर्ववेदेषु वेदविद्भिरुक्तम् |
तत् समाचरन् मुमुक्षुर्न पुनर्भवाय |
भेदमाललाटादाचक्षुषोराभ्रुवोर्मध्यतः |
कर्णादाकर्णपर्ययन्तं तिर्ययक् तिस्रो रेखाः प्रकुर्वीत |
या स्यात् प्रथमा रेखा सा गार्हपत्याग्निश्चाकारा भूर्लोक आत्मक्रियाशक्तिश्च ऋग्वेदः |
प्रथमं सवनं महेश्वरः या स्याद् द्वितीया रेखा सा दक्षिणाग्निरुकारः |
सत्यमन्तरीक्षमन्तरात्मा चेच्छाशक्तिर्यजुर्वेदः |
मध्यन्दिनं द्वितीयसवनं सदाशिवदेवेतेति |
या स्यात् तृतीया रेखा सा आहवनीयोऽग्निर्मकारस्तमो द्यौः परमात्मा ज्ञानशक्तिः सामवेदस्तृतीयसवनं शिवदेवेति |
त्रिपुण्ड्रकं भस्मना करोति यो विद्वान् ब्रह्मचारी गृही वानप्रस्थो यतिर्वा स समस्तमहापातकोपपातकेभ्यः पूतो भवति सर्वान् वेदान् पठिता भवति सर्वतीर्थेषु स्नातो भवति स सन्ततं सर्वमन्त्रजापी भवति |
सकलभोगभुग्देहं त्यक्त्वा शिवसायुज्यमेति न पुनरावर्त्तते |
स वैष्णवः शिवः सोऽपि स च ब्रह्मा प्रजापतिः |
स मुक्तः सर्वपापेभ्यो न पुनर्भवमिष्यते |
इत्यस्ति भगवान् कालाग्निरुद्रः पुनराह |
अग्निरिति भस्मजलमिति भस्मवायुमिति भस्मस्थलमिति भस्मसर्वं विश्वं तदाग्नेयं याज्ञ्यं वृषपुरीषभस्म तेन त्रिपुण्ड्रकं तेन तद्विद्वान् किञ्चिद्याज्ञिकं कर्म्म इत्याह भगवान् भवः ||
इति कालाग्निरुद्रोपनिषत् समाप्ता ||
वायवीयसंहितायां त्रयोदशसु स्थानेषु त्रिपुण्ड्रधारणमुक्तम् ||
यथा राघवभट्टधृतम् ||
ललाटे ब्रह्म विज्ञेयं हृदये हव्यवाहनः |
नाभौ स्कन्धे गले पूषा रुद्रो दक्षिणबाहुके |
आदित्यो बाहुमध्ये च शशी च मणिबन्धके |
वामदेवो वामबाहौ बाहुमध्ये प्रभञ्जनः |
मणिबन्धे च वसबः पृष्ठदेशे हरः स्मृतः |
शम्भुः ककुदि सम्प्रोक्तः परमात्मा शिवः स्मृतः |
तस्मात् कालाग्निरुद्रोपनिषद्वायवीयसंहितोक्तस्थानानामिच्छा-विकल्पः ||
पुरश्चरणलहरीतन्त्रे द्वितीयपटले ||
आग्नेयमुच्यते भस्म दग्धगोमयसम्भवम् |
शोध्यं षडक्षरैर्मन्त्रैर्वेदमन्त्रविवर्जितैः |
शिरोदेशे ललाटे च स्कन्धे च भ्रूप्रदेशके |
मध्यमानामिकाङ्गुल्यङ्गुष्ठेन तिलकं ततः |
तिलकस्तिस्रो रेखा स्याद्रेखाणां नव देवताः |
पृथिव्यग्निस्तथा आत्मा क्रियाशक्तिर्महेश्वरः |
देवता आद्यरेखाया भक्त्या ते परिकीर्त्तिताः |
लभस्व त्वञ्च सुभगे ! द्वितीयायाश्च देवताः |
परमात्मा शिवो देवस्तृतीयायास्तु देवते |
एतान्नित्यं नमस्कृत्य त्रिपुण्ड्रं धारयेद् यदि |
महेश्वरव्रतमिदं कृत्वा सिद्धीश्वरो भवेत् |
ब्रह्मचारी गृहस्थो वा वनस्थो यतिरेव वा |
महापातकसङ्घातैर्मुच्यते सर्वपातकात् |
तथान्ये क्षत्रविट्शूद्रस्त्रीहत्यादिकपातकैः |
वीरब्राह्मणहत्याभ्यां मुच्यते सुभगेश्वरि ! |
अमन्त्रेणापि यत् कुर्ययात् कृत्वा चैव महोन्नतिम् |
त्रिपुण्ड्रभालतिलको मुच्यते सर्वपातकैः |
परद्रव्यापहरणं परदाराभिमर्षणम् |
परनिन्दा परक्षेत्रहरणं परपीडनम् |
असत्यवाक्यं पैशुन्यं पारुष्यं देवविक्रयम् |
कूटसाक्ष्यं व्रतत्यागं कैतवं नीचसेवनम् |
गोभूहिरण्यमहिषीतिलकम्बलवाससाम् |
अन्नधान्यजलादीनां नीचेभ्यश्च प्रतिग्रहः |
दासीवेश्यासु कृष्टासु वृषलीषु नटीषु च |
रजःस्वलासु कन्यासु विधवासु च सङ्गमः |
मांसचर्म्मवसादीनां लवणस्य च विक्रयः |
एवंरूपाण्यसंख्यानि पापानि विविधानि च |
सद्य एव विनश्यन्ति त्रिपुण्ड्रस्य च धारणात् |
शिवद्रव्यापहरणात्तन्निन्दायाश्च कुत्रचित् |
निन्दायाः शिवभक्तानां प्रायश्चित्तैर्न शुध्यति |
देवद्रव्यापहरणे ब्रह्मस्वहरणेन च |
कुलान्याशु विनश्यन्ति ब्राह्मणातिक्रमेण च |
रुद्राक्षा यस्य देहेषु ललाटे च त्रिपुण्ड्रकम् |
यदि स्यात् स च चाण्डालः सर्ववर्णोत्तमोत्तमः |
यानि तीर्थानि लोकेऽस्मिन् गङ्गाद्याः सरितश्च याः |
स्नातो भवति सर्वत्र यल्ललाटे त्रिपुण्ड्रकम् |
सप्तकोटिर्महामन्त्रा उपमन्त्रास्तथैव च |
श्रीविष्णोः कोटिमन्त्राश्च कोटिमन्त्राः शिवस्य च |
ते सर्वे तेन जप्ताः स्युर्यो बिभर्त्ति त्रिपुण्ड्रकम् |
सहस्रं पूर्वजातानां सहस्रञ्च जनिष्यताम् |
स्ववंशजानां मर्त्यानामुद्धरेद्यस्त्रिपुण्ड्रधृक् |
अष्टैश्वर्ययगुणोपेतः प्राप्य दिव्यत्रिपुण्ड्रतः |
दिव्यं विमानमारुह्य दिव्यस्त्रीशतसेवितः |
विद्याधराणां सिद्धानां गन्धर्वाणां महौजसाम् |
इन्द्रादिलोकपालानां लोकेषु च यथाक्रमम् |
भुक्त्वा भोगान् सुविपुलान् प्राक्तनानां पुरेषु च |
ब्रह्मणः पदमासाद्य तत्र कल्पायुतावधि |
विष्णोर्लोके च रमते आब्रह्मणः शतायुषम् |
शिवलोकं ततः प्राप्य रमते कालमक्षयम् |
शिवसायुज्यमाप्नोति न स भूयो विजायते ||
इति त्रिपुण्ड्रधारणफलम् ||
शाक्तानन्दतरङ्गिणीधृतभविष्यपुराणे ||
त्रिपुण्ड्रेण विना कुर्ययाद् यां काञ्चिद्वैदिकीं क्रियाम् |
सा निष्फला भवेद्देवि ! ब्रह्मणापि कृता यदि ||
श्यामाप्रदीपे तु स्कन्दपुराणीयमिति कृत्वा लिखितम् ||
कूर्मपुराणे ||
वैष्णवो वाथ शैवो वा शाक्तो वा सौर एव वा |
त्रिपुण्ड्रेण विना पूजां कुर्वाणो यात्यधोगतिम् ||
शिवधर्मे |
सितेन भस्मना कुर्ययात् ललाटे च त्रिपुण्ड्रकम् |
सर्वपापविनिर्मुक्तः शिवलोके महीयते ||
भस्मेत्युपलक्षणं द्रव्यान्तरेणापि त्रिपुण्ड्रं कार्ययम् ||
सर्वस्त्रिपुण्ड्रकं कुर्ययात् सर्वदा यज्ञभस्मना |
तदभावे चन्दनेन मृदा वा वारिणापि वा |
इति भविष्यपुराणवचनात् |
यत्किञ्चित् कुरुते कर्म विना विप्रस्त्रिपुण्ड्रकम् |
व्यर्थमेव भवेत् सर्वं बन्ध्यास्त्रीसङ्गमो यथा |
सच्छिद्रं कुरुते यस्त्रिपुण्ड्रं पशुमतिर्द्विजः |
धर्मार्थकाममोक्षेषु तस्य छिद्रं प्रजायते |
इति सच्छिद्रत्रिपुण्ड्रधारणनिन्दा |
ननूर्द्ध्वपुण्ड्रे त्रिपुण्ड्रकरणमुक्तवचनजातात् निषिद्धं पूर्वोक्तकूर्मपुराणवचनेन वैष्णवादीनां त्रिपुण्ड्रेण विना पूजाकरणे दोषश्रुतिश्चेति लम्बोदरस्य रतिकाले प्रियामुखचुम्बनमिवैकं सन्धित्सतोऽन्यत् प्रच्यवत इति चेति नैवम् |
ऊर्ध्वपुण्ड्रत्रिपुण्ड्रयोः सच्छिद्रकरणनिषेधो वैधेतरपर इत्यवेहि |
सर्वत्रैव निषेधस्य वैधभिन्नपरत्वाद् यथा विशिखनिन्दा प्रायश्चित्ताद्यनाघ्रातपरा |
अत-एव शैवैस्तूर्ध्व पुण्ड्रधारणानन्तरमेव भस्मना त्रिपुण्ड्रधारणमपि कार्ययं यतो द्विजानामूर्ध्वपुण्ड्रस्थावश्यकत्वमिति राघवभट्टः ||
अथ शक्तितिलकम् ||
शाक्तानन्दतरङ्गिणीधृतगौतमीये ||
तिलकं रक्तगन्धेन चन्दनेनाथ वा प्रिये ! |
देव्यस्त्रं विलिखेद्भाले ताराबीजं ततो हृदि |
शक्तिमध्यगतां कुर्ययादित्येतच्छक्तितिलकम् ||
तिलके निजदेवास्त्रमिति प्रागुक्तेनैकवाक्यतया देव्यस्त्रं स्वीयेष्टदेवतावीजमिति ||
अन्नदाकल्पे पञ्चमपटले ||
प्रक्षाल्य पाणिपादौ च रक्तवस्त्रयुगं ततः |
परिधायार्द्धचन्द्राभं सबिन्दुं तिलकं चरेत् |
चन्दनेन सुरक्तेन कुङ्कुमेनाथ वा पुनः |
सिन्दूरबिन्दुसंयुक्तं रेखात्रयविराजितम् |
देवीपादाम्बुजरजो ध्यात्वा मूलेन साधकः |
पूजाधिकारी दुर्गाया यथासौ चन्द्रशेखरः ||
कृष्णार्च्च्नचन्द्रिकाधृतमालिनीविजयेऽपि ||
भाले चन्द्राद्धरेखा त्रितयविरचितं विद्युदाभाविलासं तस्याधश्चान्तरालेऽरुणकिरणनिभं भ्रूयुगस्याथ बिन्दुम् |
हृण्मध्ये पद्मरूपं शशधरविशदं दोर्युगे वीरणाभं स्थानेष्वन्येषु बिन्दून् रचयति तिलकं सो हि विश्वेशरूपः ||
भ्रूयुगस्यान्तराले मध्ये रक्तवर्णं बिन्दुं रचयतीत्यन्वयः |
हृण्मध्ये श्वेतपद्मरूपमित्यर्थः |
दोर्युगे बाहुद्वये |
वीरणाभं वीरणपत्राकारम् |
अन्येषु स्थानेषु पुरोक्तेषु इति एतच्छब्दस्य प्रयोगस्तच्छब्दार्थमभिधत्ते |
उक्तञ्च सर्वनामसूत्रटीकायां त्यत्तदावेकार्थौ यदि निर्दिष्टार्थौ |
इतरे त्रयः साभिनयप्रत्यक्षे साभिनयो हस्तभङ्गिमादिरिति कुलचन्द्रः |
अन्यथा विमर्गलोपे सतीत्यनेन च्छन्दोभङ्गः स्यात् |
प्रक्रान्तवाचिनस्तस्य न यच्छब्दापेक्षा |
उक्तञ्च काव्यप्रकाशे ||
एवं प्रक्रान्तप्रसिद्धानुभूतार्थविषयकस्तच्छब्दोऽपि यच्छब्दस्योपादनं नापेक्षते |
ऋजवस्तु तन्त्रेऽपशब्दविचारनिषेधात् सो हीति पठन्ति |
जले यदि सन्ध्यादि क्रियते तदा यागमण्डपं गत्वा उपविश्य तिलकं कार्ययम् ||
अन्नदाकल्पे तथोक्तत्वात् ||
इति श्रीप्राणतोषिण्यां तृतीये अर्थकाण्डे स्नानादितिलकान्तप्रशाखाकथनरूपस्तृतीयः परिच्छेदः ||

अथ सन्ध्या ||
वैदिकसन्ध्यानन्तरं तान्त्रिकी सन्ध्या कार्यया ||
तथाच पुरश्चरणरसोल्लासे प्रथमपटले |
प्रातःस्नानं समासाद्य सन्ध्यां परमदुर्लभाम् |
उपास्य चञ्चलापाङ्गि ! गायत्रीं प्रजपेत्ततः |
ततस्तु तान्त्रिकीं सन्ध्यां गायित्रीं तान्त्रिकीं तथा |
सूर्ययार्घ्यञ्च ततो दत्त्वा पूजार्थं गृहमाविशेत् ||
वृहन्नीलतन्त्रे प्रथमपटलेऽपि ||
आदौ च वैदिकीं सन्ध्यां कृत्वा चागमसम्मताम् |
सन्ध्यां कृत्वा ततो वीरः कुलकोटीः समुद्धरेत् |
तथा |
एतत्सन्ध्यात्रयेणैव दिवारात्रौ च वन्दनेति ||
गन्धर्वतन्त्रे षष्ठपटले ||
अपरां कथयाम्यत्र सर्वपापविनाशिनीम् |
उपविश्य शुचौ देशे त्रितत्त्वेन त्रिधाचमेत् |
प्राणायामत्रयं कृत्वा त्रिधावीजैस्त्रिधाविधम् |
वामहस्ते जलं गृह्य गलितोदकबिन्दुभिः |
सप्तधा प्रोक्षणं कुर्ययान्मूर्द्ध्नि मन्त्रमनुस्मरन् |
अवशिष्टोदकं दक्षहस्ते संगृह्य साधकः |
नासामाश्लिष्य तोयेन ततस्तेनाघमर्षणम् |
इडयाकृष्य देहान्तः क्षालितैः पापसञ्चयैः |
कृष्णवर्णं तदोदकं वामनाड्या विरेचितम् |
दक्षहस्ते तु तन्मन्त्री पापरूपं विचिन्त्य च |
पुरतो वज्रपाषाणे निक्षिपेदस्त्रमन्त्रतः |
इत्यघमर्षणं कृत्वा पुनराचमनं तथा |
अभिषिञ्चेत्ततो मूर्ध्नि विधिना साधकोत्तमः |
ओं आपो देवी रसोऽमृतं पूतं ब्रह्म पुनीमहे |
जलाञ्जलित्रयं भूमौ मार्त्तण्डभैरवाय च |
ऊर्ध्वबाहुस्ततो मन्त्री मार्त्तण्डं समुपाश्रयेत् |
ओं उदुत्यं जातवेदसं देवं वहन्ति केतवः दृशे विश्वाय सूर्ययम् |
मार्त्तण्डशेषे देवेशि ! भैरवं पदमीरयेत् |
एतादृक् सन्ध्या तु गौड देशे न प्रचरद्रूपा |
गौडदेशीया तु तोडलतन्त्रे तृतीयपटले ||
आत्मविद्याशिवैस्तत्त्वैराचामेत् पाथसा तथा |
वह्नि जायान्विता मन्त्रा विज्ञेयाः प्रणवादिकाः |
गङ्गे चेत्यादिना देवि ! तीर्थावाहनमाचरेत् |
मूलेन मनुना भूमौ त्रिवारं निक्षितेत् सुधीः |
तज्जलेन सप्तवारमात्माभिषेकमाचरेत् |
अङ्गन्यासं ततः कृत्वा वामहस्ते सुरेश्वरि ! |
गगनं वायुवीजञ्च वरुणं भूमिवीजकम् |
वह्निबीजं बिन्दुयुतं त्रिवारं जपमाचरेत् |
अनेन मनुना देवि ! तज्जलञ्चाभिमन्त्रितम् |
मूलमन्त्रं समुच्चार्यय सप्तधा तत्त्वमुद्रया |
आत्माभिषेकमात्रेण मुच्यते सर्वपातकैः |
शेषं जलं महेशानि ! दक्षहस्ते समानयेत् |
इडया पूरयेत्तोयं क्षालयेद्देहमध्यगम् |
ततः पिङ्गलया देवि ! तत्तोयन्तु विरेचयेत् |
कृष्णवर्णं तदुदकं पापरूपं विचिन्तयेत् |
पुरतो वज्रपाषाणे फट्कारेण विनिक्षिपेत् |
हस्तं प्रक्षाल्य चाचम्य सूर्ययायार्घ्यं निवेदयेत् |
देवतार्घ्यं ततः पश्चात् गायत्रीं परमाक्षरीम् |
प्रपठेत्तु ततो धीमान् त्रिवारं जलमुत्क्षिपेत् |
ततो जपेन्महामन्त्रं गायत्रींपरमाक्षरीम् |
अङ्गन्यासं ततः कृत्वा आचम्य परमेश्वरि ! |
इष्टदेवीं महेशानि ! ध्यात्वा तु रविमण्डले |
प्राणायामादिकं कृत्वा चाष्टोत्तरशतं जपेत् ||
कल्पसूत्रटीकातृतीयकाण्डधृतलक्ष्मीकुलार्णवे ||
सन्ध्यया तु विहीनो यो न दीक्षाफलमाप्नुयात् |
मन्त्रसन्ध्यापूर्विका सन्ध्या कार्यया तदुक्तं नवरत्नेश्वरे ||
वैदिकी तान्त्रिकी सन्ध्या यथानुक्रमयोगत इति ||
महानिर्वाणतन्त्रे पञ्चमोल्लासेऽपि ||
सन्ध्यां समाचरेन्मन्त्री तान्त्रिकीं शृणु कथ्यते |
आचम्य पूर्ववत्तोये तीर्थान्यवाहयेच्छिवे ! |
गङ्गे चेत्यादिमन्त्रेण मुद्रयाङ्कुशसंज्ञया |
आवाह्य तीर्थं सलिले मूलं द्वादशधा जपेत् |
ततस्तत्तोयतो बिन्दून् त्रिधा भूमौ विनिक्षिपेत् |
अङ्गुष्ठानामिकायोगान्मूलोच्चारणपूर्वकम् |
सप्तवारं स्वमूर्द्धानमभिषिच्य ततो जलम् |
वामहस्ते समादाय छादयेद्दक्षपाणिना |
ईशानवायुवरुणवह्नीन्द्रवीजपञ्चकम् |
प्रजप्य वेदधा तोयं दक्षहस्ते समानयेत् |
वीक्ष्य तेजोमयं ध्यात्वा चेडयाकृष्य साधकः |
देहान्तः कलषं तेन रेचयेत् पिङ्गलाख्यया |
निष्कृष्य पुरतो वज्रशिलायां वज्रमुच्चरन् |
त्रिवारं ताडयेन्मन्त्री हस्तौ प्रक्षालयेत्ततः |
आचम्योक्तेन मन्त्रेण सूर्ययायार्घ्यं निवेदयेत् |
तारमाया हंस इति घृणिसूर्ययस्ततः परम् |
इदमर्घ्यं तुभ्यमुक्त्वा दद्यात् स्वाहेत्युदीरयन् |
ततो ध्यायेन्महादेवीं गायत्रीं परदेवताम् |
प्रातर्मध्याह्नसायाह्ने त्रिरूपं गुणभेदतः |
प्रातर्वह्निरक्तवर्णां द्विभुजाञ्च कुमारिकाम् |
कमण्डलुं तीर्थपूर्णमक्षमालाञ्च बिभ्रतीम् |
कृष्णाजिनाम्बरधरां हंसारूढां शुचिस्मिताम् || १ ||
श्यामवर्णां वैष्णवीञ्च चतुर्भुजां महेश्वरि ! |
शङ्खचक्रगदापद्मधारिणीं गरुडासनाम् |
पीनतुङ्गकुचद्वन्द्वां वनमालाविभूषिताम् |
युवतीं सततं ध्यायेन्मध्ये मार्त्तण्डमण्डले || २ ||
सायाह्ने वरदां देवीं गायत्रीं संस्मरेद्यतिः |
शुक्लांशुक्लाम्बरधरां वृषासनकृताश्रयाम् |
त्रिनेत्रां वरदां पाशं शूलञ्च नृकरोटिकाम् |
बिभ्रतीं करपद्मैश्च वृद्धां गलितयौवनाम् || ३ ||
एवं ध्यात्वा महादेव्यै जलानामञ्जलित्रयम् |
दत्त्वा जपेत्तु गायत्रीं दशधा शतधापि वा |
त्रिसन्ध्यमेतां प्रजपन् सन्ध्यायाः फलमाप्नुयात् |
ततस्तु तर्पयेद्देवि ! देवर्षिपितृदेवताः |
प्रणवः स द्वितीयाख्यस्तर्पयामि नमः पदम् |
शक्तौ तु प्रणवो मायां नमः स्थाने द्विठं वदेत् |
ततश्चार्घ्यं महादेव्ये दत्त्वा मूलं जपेत् सुधीः |
यथाशक्ति जपं कृत्वा देव्या वामकरेऽर्पयेत् |
प्रणम्य देवीपूजार्थं जलमादाय साधकः |
नत्वा तीर्थे पठन् स्तोत्रं देवताध्यानतत्परः |
यागमण्डपमागत्य पाणिपादौ विशोधयेत् ||
वृहन्नीलतन्त्रे प्रथमपटले ||
सन्ध्यां सायन्तनीं कुर्ययाद् द्वादश्यादिष्वपि प्रिये ! |
अकुर्वन्निरयं याति यतो नित्यागमक्रिया |
एतद्वचनमविज्ञाय वैदिकी तान्त्रिकी सन्ध्या यथानुक्रमयोगत इति तन्त्रसारधृतवचने अनुक्रमपदस्वरसात् यत्र वैदिकी सन्ध्या न विद्यते तत्र तान्त्रिक्यपि न करणीया |
तेन द्वादश्यादौ सायम् एवमशौचादौ तान्त्रिकसन्ध्या न कार्ययेति कश्चिद्वदति तन्न |
अशौचस्य वैदिकविषयत्वादिति ||
तथा च विश्वसारतन्त्रे द्वितीयपटले ||
महागुरुनिपातादौ न पूजाया विकल्पना |
मोहाद्वा यदि वा दैवात् पूजयेन्न कदाचन |
तस्य सर्वविनाशः स्यादित्युक्तन्तु सदाशिवैरिति |
पूजयेदिति तान्त्रिकनित्यकर्मोपलक्षणम् |
यथा कामदतन्त्रे नवमपटले ||
उपासका ये श्रीकाल्यास्ते शुद्धाः सर्वदैव हि |
जनुर्मरणजाशौचं तथान्यद् यदशौचकम् |
सर्वं न बाधते क्वापि कालिकाया उपासके |
गङ्गेव शुद्धः सततं किमशौचं सुरेश्वरि ! |
कालीमुद्दिश्य पूजादिजपहोममशौचके |
न त्याज्यं तेन शाक्तेन सर्वं कार्ययं सदैव हि |
कालीमुद्दिश्य दानादि न च त्याज्यमशौचके |
सर्वदा परमः शुद्धः शाक्त एव महेश्वरि ! |
अत्र शाक्त इति सामान्येनोपदानात् पूर्ववचने काल्या इति शक्तिमात्रोपलक्षणम् ||
अथ योगिनां सन्ध्या कल्पसूत्रटीकायां तृतीयकाण्डे ||
या गुरुरूपिणी मृणालसूत्रान्तरगा स्वप्रकाशा कुण्डलिनीशक्तिः कुलाकुलसमरसभावेन साधनान्तर्ध्येया |
तथा मध्याह्नसमये तरुणावयवामतिभास्वरां कामराजरूपिणीं मूलादिब्रह्मरन्ध्रान्तं ब्रह्मरन्ध्रादिमूलान्तं ध्यायेत् |
तथा सायंसमये श्वेतवर्णां शक्तिवीजस्वरूपां मृणालतन्तुनिभां कुलाकुलयोगेनानुसन्दध्यात् |
अर्द्धरात्रे परापरकुण्डलिनीरूपां पद्मरागवर्णां मूलादिहृदयार्व्यन्तं वाग्भववीजरूपिणीं हृदयाद्भ्रूमध्यपर्ययन्तं कामवीजरूपां भ्रूमध्याद्ब्रह्मरन्ध्रान्तं शक्तिवीजरूपां ध्यायेत् |
तदुक्तमुदयाकरपद्धत्याम् ||
आद्या मृणालसूत्राभा पीता रक्ता तु मध्यमा |
श्वेता त्वन्तर्गता शक्तिः सन्ध्याचोभयरूपिणी |
तर्पणन्तु मूलाधारात् सोमसूर्ययाग्निरूपिणीम् |
कुण्डलिनीं समुत्थाप्य परबिन्दुं निर्भिद्य तदुद्भवामृतेन स्वेष्टदेवतां तर्पयेत् |
तदुक्तं नवचक्रेश्वरे ||
चन्द्रार्कानलसङ्घट्टाद् गलितं यत्परामृतम् |
तेनामृतेन दिव्येन तर्पयेत् सुन्दरीं पराम् ||
अथ सूर्ययपूजा ||
मूलाधारात् कुलकुण्डलिनीमुत्थाप्य हृदयार्कमण्डलं नीत्वा तत्कर्णिकान्तर्गतसुधाधारया मूलमन्त्रं स्मरन् सिञ्चेदिति योगिनामन्तर्यागः ||
अथ कौलानां सन्ध्या गन्धर्वतन्त्रे षष्ठपटले ||
आत्मानं सर्वदा सम्यक् ध्यायेद् ध्यानपरायणः |
देवताभेदतः सन्ध्या मानसीयं परा प्रिये ! |
शिवशक्त्योः समायोगो यस्मिन् काले प्रजायते |
सा सन्ध्या कुलनिष्ठानां समाधिस्थैः प्रतीयते |
भूतशुद्धितन्त्रे प्रथमपटलेऽपि ||
अन्तः सन्ध्यां महेशानि ! शृणु यत्नेन पार्वति ! |
शिवशक्तिसमायोगो यस्मिन् काले प्रजायते |
सा सन्ध्या कुलसाधूनां समाधिस्थैः प्रतीयते ||
वैदिकसन्ध्यादिप्रयोगस्तु ब्राह्मणसर्वस्वादावनुसन्धेयः |
केवलमार्जनस्य विशेषो निर्वणतन्त्रे तृतीयपटले यथा |
आपो मार्जनमन्त्रस्य प्रकारं शृणु यत्नतः |
भूमौ शिरसि चाकाशे आकाशे भूमिमस्तके |
मूर्ध्निभूमौ तथाकाशे यजुर्वेदे सुरेश्वरि ! |
सामाथर्वैरिदं देवि ! ऋग्वेदे शृणु शैलजे ! |
शून्ये शिरसि चाकाशे भूमौ शून्ये शिरे तथा |
भूमौ शून्ये तथा मूर्ध्नि चापो मार्जनमाचरेत् |
आपोहिष्ठेति मन्त्रस्य अष्टाक्षरक्रमेण तु |
मार्जनं तत्क्रमेणैव सर्वपापविनाशनम् |
व्यतिक्रमेण चार्वङ्गि ! ब्रह्महत्या पदे पदे |
वरथस्त्रीन् मूर्ध्नि दद्याद् ये सवो व्योम्नि चोच्यते |
भूमौ दद्यान्न त्रयेण इति सम्मार्जनं विदुः |
अत-एव क्रमं सर्वं तव स्नेहात् प्रकाशितम् |
स्तुतिञ्च कवचं देवि ! पठित्वा प्रणमेत् सुधीः |
अथ गायत्री ||
निर्वाणतन्त्रे तृतीयब्राह्मणपटले ||
गायत्रीं शृणु चार्वङ्गि ! चतुर्वेदप्रपूजिताम् |
वेदमातेति विख्यातां त्रिवर्गफलदायिनीम् |
हालाहलं समुद्धृत्य इत्यादि गायत्री ज्ञेया ||
इति जप्त्वा महेशानि ! मुक्तो भवति नान्यथा |
अन्त्ययकारयोः स्थाने य इति च यः पठेत् |
स चण्डाल इति ख्यातो ब्रह्महत्या दिने दिने |
अत-एव महेशानि ! तव स्नेहात् प्रकाशितम् |
सावित्री परमा विद्या त्रैलोक्ये च सुदुर्लभा |
अस्या ग्रहण मात्रेणाभूद्ब्रह्मा नात्र संशयः ||
यत्तु गायत्रीतन्त्रस्य प्रथमब्राह्मणपटले ||
प्रणवत्रयसंयुक्तं ब्राह्मणेषु प्रकीर्त्तितम् |
क्षेत्रादौ परमेशानि ! शस्यते प्रणवद्वयम् ||
द्वितीयब्राह्मणपटलेऽपि ||
प्रणवत्रयसंयुक्तां गायत्रीं प्रजपेत्तु यः |
गायत्र्याः फलमाप्नोति अन्यथारण्यरोदनमिति |
प्रणवत्रययुक्तगायत्रीकथनम् |
तत्प्रबलकलौ तत्पुटितत्वाभिप्रायेण तथा च तत्रैव ||
विद्या वा उपविद्या वा प्रणवैः पुटितं कलौ |
जप्त्वा सिद्धिमवाप्नोति तदृते विफलं भवेत् ||
अस्यार्थः |
राघवभट्टधृतम् ||
तत्र प्रणवेन ब्रह्म प्रतिपाद्यते व्याहृतिभिरपि तदेव प्रतिपाद्यते |
भूरिति सन्मात्रमुच्यते सर्वं भावयति प्रकाशयति इति व्युत्पत्त्या भुवमिति चिद्रूपमुच्यते |
सर्वप्रेरणात् स्वरिति तेजोरूपत्वात् पूजनीयत्वात् मह इति |
सर्वजननत्वाज्जन इति |
ज्ञानस्वरूपतया सर्वतापनतया वा तप इति |
परत्वात् सर्वात्मकत्वान् अनन्तज्ञानत्वात् सत्यमिति सप्तव्याहृतिभिः परं ब्रह्मैवोच्यते |
प्रणवेन सह आसामान्तरः सम्बन्धो यथा |
प्रणवस्य अकारादिसप्तमात्राः सप्तव्याहृतय इति यद्वा भूरादिसप्तलोकाः प्रणववाच्यब्रह्मात्मकास्तदतिरिक्तं न किञ्चिदस्तीत्यर्थः |
तत्पदेन ब्रह्मोच्यते |
ओं तत् सदिति निर्देशो ब्रह्मणस्त्रिविधो मत इति वचनात् |
सुञ् प्राणिप्रसव इति धातोर्जातत्वात् सर्वप्रपञ्चोपदेशकत्वेन सवितुरिति |
निरतिशयानन्दरूपत्वात् सर्ववरणीयत्वात् सर्वसेवनीयमिति वरेण्यम् |
पापतर्जनाद्भक्तवर्त्मनाऽभयाद्भर्गः |
सर्वप्रकाशकत्वेन देवस्येति सवितुर्देवस्येत्यत्र षष्ठीप्रयोगो राहोः शिरवदौपचारिकत्रयं भूतम् |
ब्रह्मधीमहि ध्यायेमहि नोऽस्माकं धियो बुद्धीर्यः प्रचोदयात् प्रेरयेत् |
अत्र य इति लिङ्गव्यत्ययः छान्दसत्वात् |
तेन सर्वान्तःकरणप्रकाशकः सर्वसाक्षी परमात्मोक्तः |
व्याप्नोतीत्यापः सर्वप्रकाशकमिति ज्योतिः सर्वातिशायित्वात् ह्रस्वः |
यद्वा |
आपोज्योतीरस इति सोमाग्न्योस्तेज उच्यते |
यतस्तदात्मकं जगत् |
अनाशित्वादमृतं वृहत्त्वाद्वृंहणत्वाद् ब्रह्म सत्यज्ञानानन्दलक्षणम् |
भूर्भुवःस्वःपदवाच्यं सोऽहमित्यास्पदवाच्यमिति |
एवं सर्वात्मकब्रह्मबोधको गायत्रीमन्त्रः |
प्रणवाद्या इति व्याहृतिः सम्बध्यते |
तत्पदादिकेत्यग्रिमेण सम्बध्यते ||
अत्र सप्त व्याहृतयः ||
ओं भूः ओं भुवः ओं स्वः ओं महः ओं जनः ओं तपः ओं सत्यम् |
एतदग्रे तत् सवितुरिति ऋक् तदन्ते ओं आपोज्योतीरसोऽमृतं ब्रह्मभूर्भुवः स्वरोमिदं शिवह् |
अस्यास्तन्त्रान्तरोक्तं वीजादिर्यथा |
रे इत्येतत्तु बीजं स्याद् यवर्णं शक्तिरुच्यते |
नीत्येतत् कीलकं प्रोक्तं गायत्र्यास्त्रिपदात्मन इति |
पत्सन्धिष्विति पादद्वयसन्धिचतुष्के अक्षरचतुष्कं तदुक्तं पद्द्वयसन्धिचतुष्कमिति |
एवं भुजद्वयसन्धिचतुष्के अक्षरचतुष्कम् |
अन्यत्रैकैकमक्षरम् एवं चतुर्विंशत्यक्षराणि न्यसनीयानि |
नीयेत्यस्य पृथक् तेन चतुर्विंशत्यक्षरात्मकं प्रत्येकमक्षराणाम् ऋषिच्छन्दोदेवताध्यानमुच्यते |
अक्षराणाञ्च सर्वेषां प्रजापतिर्-ऋषिस्तथा |
विनियोगोऽङ्गविन्यासे गायत्रीच्छन्द उच्यते |
अक्षराणान्तु सर्वेषां वक्ष्यन्ते देवताः क्रमात् |
अग्निवायुसूर्ययविद्युद्यमा वरुण एव च |
वृहस्पतिश्च पर्जन्य इन्द्रो गन्धर्व एव च |
पूषा शिवश्च त्वष्टा च वासवश्च मरुत्तथा |
सोमोऽङ्गिरा विश्वेदेवा अश्विनी च प्रजापतिः |
सर्वदेवश्च रुद्रश्च ब्रह्मा विष्णुस्तु देवताः |
जपकाले चिन्तनीयास्तासां सायुज्यमाप्नुयात् |
तत्कारं चम्पकापीतं ब्रह्मविष्णुशिवात्मकम् |
शतपत्रासनारूढं ध्यायेत् सुस्थासनस्थितम् |
सकारं चिन्तयेदेवमतसीपुष्पसन्निभम् |
पद्म मध्यस्थितं सौम्यमुपपातकनाशनम् |
अतसीकुसुमाभा ते-उडीति यस्य भाषा नत्वतसी शोणपुष्पं वक्ष्यमाणगायत्रीतन्त्रोक्तवचने श्यामवर्णदर्शनात् ||
विकरं कपिलं नित्यं कमलासनसंस्थितम् |
ध्यायेच्छान्तः द्विजश्रेष्ठो महापातकनाशनम् |
तुकारं चिन्तयेत् प्राज्ञ इन्द्रनीलसमप्रभम् |
निर्दहेत् सर्वपापाणि ग्रहरोगसमुद्भवम् |
र्वकारं वह्निदीप्ताभं चिन्तयेच्च विचक्षणः |
भ्रूणहत्याकृतं पापं तत्क्षणादेव नश्यति |
रेकारं विमलं ध्यायेत् शुद्धस्फटिकसन्निभम् |
पापं नश्यति तत् क्षिप्रमगम्यागमनोद्भवम् |
णीकारं चिन्तयेद् योगी शुद्धस्फटिकसन्निभम् |
अभक्ष्यभक्षणं पापं तत्क्षणादेव नश्यति |
यकारं तारकावर्णमिन्दुशेषविभूषितम् |
योगिनां वरदं ध्यायेद् ब्रह्महत्याविनाशनम् |
भकारं कृष्णवर्णन्तु नीलमेघसमप्रभम् |
ध्यात्वा पुरुष इत्यादि पापं नाशयति द्विजः |
र्गोकारं रक्तवर्णञ्च कमलासनसंस्थितम् |
गोहत्यादिकृतं पापं ध्यात्वा नश्यति तत्क्षणात् |
देकारं रक्तसङ्काशं कमलासनसंस्थितम् |
चिन्तयेत् सततं योगी स्त्रीहत्या दहनं परम् |
वकारं चिन्तयेच्छुद्धं जातीपुष्पसमप्रभम् |
गुरुहत्याकृतं पापं ध्यात्वा नश्यति तत्क्षणात् |
स्यकारन्तु तथा पीतं सुवर्णसदृशप्रभम् |
मनसा चिन्तितं पापं ध्यात्वा नुदति चानघः |
धीकारं चिन्तयेच्छुक्लं कुन्दपुष्पसमप्रभम् |
पितृमातृबधात् पापान्मुच्यते नात्र संशयः |
मकारं पद्मरागाभं चिन्तयेद्दीप्ततेजसम् |
पूर्वजन्मार्ज्जितं पापं तत्क्षणादेव नश्यति |
हिकारं शङ्खवर्णन्तु पूर्णचन्द्रसमप्रभम् |
अशेषपापदहनं ध्यायेन्नित्यं विचक्षणः |
धिकारं पाण्डवं ध्यायेत् पद्मस्योपरिसंस्थितम् |
प्रतिग्रहकृतं पापं स्मरणादेव नश्यति |
योकारं रक्तवर्णन्तु इन्द्रगोपसमप्रभम् |
ध्यात्वा प्राणिबधे पापं निर्दहेन्मुनिपुङ्गवः |
द्वितीयश्चैव यः प्रोक्तो योकारो रक्तसन्निभः |
निर्दहेत् सर्वपापाणि नान्यैः पापैः प्रलिप्यते |
नःकारन्तु मुखःपूर्वमादित्योदयसन्निभम् |
सकृद्ध्यात्वा द्विजश्रेष्ठः स गच्छेत् परमं पदम् |
नीलोत्पलदलश्याभं प्रकारं दक्षिणायनम् |
सकृद्ध्यात्वा द्विजश्रेष्ठः स गच्छेदैश्वरं पदम् |
सौम्यं गोरोचनापीतं चोकारं चतुराननम् |
सकृद्ध्यात्वा द्विजश्रेष्ठः स गच्छेद्वैष्णवं पदम् |
शुक्लवर्णेन्दुसङ्काशं दकारं पश्चिमाननम् |
सकृद्ध्यात्वा द्विजश्रेष्ठः स गच्छेद्ब्रह्मणः पदम् |
यात्कारन्तु शिवं प्रोक्तं चतुर्वदनसप्रभम् |
प्रत्यक्षफलदो ब्रह्मविष्णुरुद्र इति स्मृतिः |
एतद्ध्यात्वा तु मेधावी जपं होमं करोति यः |
न भवेत् सूतकं तस्य मृतकञ्च न विद्यते |
यस्त्वेवं न विजानाति गायत्रीञ्च तथाविधाम् |
कथितं सूतकं तस्य मृतकञ्च मयानघ ! |
नैव दानफलं तस्य न च यज्ञफलं भवेत् |
न च तीर्थफलं प्रोक्तं तस्यैव सूतके सतीति ||
अथ वर्णकल्पः |
तथा गायत्रीतन्त्रे ||
तकारं चम्पकापीतं ब्रह्मविष्णुशिवात्मकम् |
त्सकारं चिन्तयेत् श्यामं विकारं कपिलं तथा |
तुकारमिन्द्रनीलाभं र्वकारं वह्निसन्निभम् |
रेकारं वह्निसङ्काशं णिकारं रक्तवर्णकम् |
यङ्कारं धूम्रसङ्काशं भकारं कृष्णमेव च |
र्गोकारं रक्तवर्णञ्च देकारं श्यामलं तथा |
वकारं शुक्लसङ्काशं स्यकारं नीलशोभितम् |
धीकारं कुन्दपुष्पाभं मकारं शुक्लमेव च |
हिकारं चन्द्रसङ्काशं धिकारं पीतमेव च |
योकारं तडिदाकारं योकारं धूम्रवर्णकम् |
अशेषं शोषयेत् पापं वायुबीजं यथा तथा |
नकारन्तु मुखं प्रोक्तं प्रतप्तकनकप्रभम् |
नकारस्य समीपे तु बिन्दुद्वयं विशेषतः |
ऊर्ध्वबिन्दुरक्तवर्णमधः श्यामं प्रकीर्त्तितम् |
नीलोत्पलदलश्यामं प्रकारं दक्षिणामुखम् |
सौम्यं गोरोचनापीतं चोकारं पश्चिमामुखम् |
शुक्लशङ्खसमाकारं दकारं चतुरामुखम् |
यात्कारं मूर्ध्नि विज्ञेयं ऊर्ध्वास्यं ब्रह्ममन्दिरम् ||
पूर्वोक्तगायत्रीवर्णध्यानोक्तवर्णेन यत्र यत्र विशेषस्तत्र तत्राम्नायभेदेन ज्ञेयः ||
अथ गायत्रीयन्त्रम् ||
आदौ त्रिकोणं विन्यस्य षट्कोणं तद्वहिर्न्यसेत् |
वृत्तञ्चाष्टदलं पद्मं तद्वहिश्चतुरस्रकम् |
चतुर्द्वारसमायुक्तं सावित्रीयन्त्रमीरितम् ||
शारदायाम् ||
विधाय मण्डलं विद्वान् त्रिकोणोज्ज्वलकर्णिकम् |
मण्डलमिति सर्वतोभद्रमण्डलम् ||
त्रिकोणोज्ज्वलमिति तत्कर्णिकायां त्रिकोणं लिखेत् ||
अथ गायत्र्या ऋष्यादिन्यासः ||
शारदातिलके एकविंशतिपटले ||
ऋष्याद्याः प्रणवस्यैते मुनिभिः परिकीर्त्तिताः |
जमदग्निभरद्वाजभृगुगौतमकाश्यपान् |
विश्वामित्रवशिष्ठाख्यौ व्याहृतीनामृषीन् विदुः |
गायत्र्युष्णिगथानुष्टुव्वृहतीपङ्क्तयः पुनः |
त्रिष्टुव्जगत्यौ छन्दांसि कथितानि मनीषिभिः |
सप्तार्चिर्बलिनः सूर्ययो वाक्पतिर्वरुणो वृषा |
विश्वेदेवाः क्रमादासां देवताः परिकीर्त्तिताः |
गायत्र्या मुनिराख्यातो विश्वामित्रो महाद्युतिः |
गायत्रीच्छन्द इत्युक्तं देवता सविता स्मृता |
शिरसोऽस्य मुनिर्ब्रह्मा छन्दोदेव्यादिका स्मृता |
गायत्री परमात्मा स्याद्देवता कथिता बुधैः |
व्याहृतीः सप्त ताराद्या हृण्मुखांसोरुयुग्मके |
जठरे न्यस्य मन्त्रज्ञो गायत्र्यर्णान् तनौ न्यसेत् |
पत्सन्धिषु ध्वजे नाभौ हृत्कण्ठभुजसन्धिषु |
आस्यनासाकपोलाक्षिकर्णभ्रूमस्तके पुनः |
पाश्चात्योत्तरयाम्यग्रामूर्ध्व वक्त्रेषु साधकः |
पदानि दश विन्यस्येदेषु स्थानेषु मन्त्रवित् |
शिरोभ्रूमध्यहृद्वक्त्रकण्ठहृन्नाभिगुह्यके |
जानुनोः पादयोर्युग्मे तच्छिरः शिरसि न्यसेत् ||
अथ षडङ्गन्यासः ||
निर्वाणतन्त्रे ||
षडङ्गन्यासमन्त्रं यत् तत् शृणुष्व प्रियंवदे ! |
प्रणवद्वयं हृत्पद्मे भूःकारं शीर्षदेशके |
भुवः शिखायां स्वःकारं कवचे विन्यसे सुधीः |
नेत्रत्रये भूर्भुवःस्वः स्वःकारं करयुग्मके |
नमः स्वाहा वषट् कूर्च्चं वौषट् फट् क्रमतो न्यसेत् ||
शारदायान्तु ||
ब्रह्मणे हृदयं प्रोक्तं विष्णवे शिर ईरितम् |
शिखा रुद्राय कवचमीश्वराय समीरितम् |
नेत्रं सदाशिवायोक्तमस्त्रं सर्वात्मने स्मृतम् |
षडङ्गान्येवमुक्तानि यथास्थानं प्रविन्यसेत् ||
अथ ध्यानम् ||
निर्वाणतन्त्रे ||
ध्यानं शृणु वरारोहे ! यथा ध्यात्वा जपेन्नरः |
श्वेतवर्णा समुद्दिष्टा कौशेयवसना तथा |
श्वेतैर्विलेपनैः पुष्पैरलङ्कारैश्च भूषिता |
आदित्यमण्डलान्तःस्था ब्रह्मलोकगताथ वा |
अक्षसूत्रधरा देवी पद्मासनगता तथा |
ओं तेजोऽसि शुक्रमस्यमृतमसि धामनामासि प्रियं देवानामनाधृष्टं देवयजनमसि |
गायत्र्यसि एकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न हि पद्यसे नमस्ते तुरीयाय दर्शिताय पराय परोरजसे |
शारदोक्तध्यानं यथा |
मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणैर्युक्ता-मिन्दुनिबद्धरत्नमुकुटां तत्त्वार्णवर्णात्मिकाम् |
गायत्रीं वरदाभयाङ्कुशकरां शुभ्रं कपालं गुणं शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ||
गायत्रीतन्त्रप्रथमब्राह्मणपटले ||
चतुर्भुजां शशिकलां जटाजूटसमन्विताम् |
ऋक्सामयजुषां नाथां प्रफुल्लकमलेक्षणाम् |
पञ्चाशद्वर्णग्रथितमालाद्योतितहृत्स्थलाम् |
अनेकरत्ननिर्माणकण्ठदेशविराजिताम् |
दिव्यगन्धप्रलिप्ताङ्गीं शुक्लवस्त्रपरिष्कृताम् |
शुक्लपद्मसमासीनां शुक्लवस्त्रोत्तरीयिणीम् |
ब्रह्मादिदेवतावृन्दैः संस्तुतां नित्यनूतनाम् |
एवं ध्यात्वा न्यसेद्वर्णं पठित्वा छन्द उत्तमम् |
अस्याग्निमुखीगायत्र्याः परंब्रह्म ऋषिर्-ऋग्यजुःसामाथर्वच्छन्दः सविता देवता परंब्रह्ममातुर्न्यासे विनियोगः |
पादादिमस्तकान्तञ्च न्यासं कुर्ययाद्विशालधीः |
विना न्यासं जपेद् यस्तु गायत्री विपला भवेत् |
विना मुद्रां न्यसेद् यस्तु न्यासो भवति निष्फलः |
यतिस्तु पञ्चमुद्राभिर्न्यासं कुर्यात् प्रयत्नतः |
गृही च यत्नतः कुर्ययात् त्रिसन्ध्यं तत्त्वमुद्रया |
कनिष्ठानामिकाङ्गुष्ठा अङ्गुष्ठा तर्ज्जनी तथा |
अङ्गुष्ठामध्यमाभ्याञ्च अङ्गुष्ठानामिका तथा |
कनिष्ठाङ्गुष्ठसंयोगात् पञ्चमुद्राः प्रकीर्तिताः |
पादादि मस्तकान्तञ्च भूर्भुवः स्वर्न्यसेत् सुधीः |
सप्तधा विन्यसेद्विद्वान् गायत्रीं क्रमयोगतः |
पादाङ्गुष्ठे न्यसेद्योगी तकारं भावयेत् परम् |
त्सकारं गुल्फयोर्मध्ये विकारं जङ्घयोस्तथा |
तुकारं जानुनोर्मध्ये र्वकारमूरुमध्यतः |
रेकारं गुह्यदेशे च णिकारं वृषणे न्यसेत् |
यङ्कारं कटिदेशे च भकारं नाभिमण्डले |
र्गोकारं जठरे न्यसेद्देकारं स्तनयोर्न्यसेत् |
वकारं हृदि मध्ये च स्यकारं कण्ठतो न्यसेत् |
धीकारं वदने भद्रे मकारं तालुनि न्यसेत् |
हिकारं नासिकाग्रे च धिकारं चक्षुषोर्न्यसेत् |
योकारं प्रथमं योगी भ्रुवोर्मध्ये च विन्यसेत् |
द्वितीयञ्च ततो ज्ञेयं ललाटे च न संशयः |
नःकारन्तु मुखे ज्ञेयं प्रकारं दक्षिणामुखम् |
चोकारं पश्चिमे तद्वद्दकारं चोत्तरे तथा |
यात्कारं मूर्ध्नि विज्ञेयं सर्वं व्याप्य स्थितं सदा ||
गायत्रीतन्त्रे दशमब्राह्मणपटले ||
अधुना सम्प्रवक्ष्यामि गायत्र्याः पूजनं प्रिये ! |
उपासितस्य मन्त्रस्य यथा पूजा विधीयते |
गायत्र्याः पूजनं भद्रे ! तथैव कथयामि ते |
शिवपूजा शक्तिपूजा विष्णुपूजादिका च या |
सर्वा पूजा वृथा भद्रे ! गायत्रीपूजनं विना |
पूजामण्डपमागत्य गायत्र्याचमनं चरेत् |
गायत्र्याः प्रथमं बीजं पूजास्थाने न्यसेत् सुधीः |
कुशासने चोपविश्य प्राणायामं समाचरेत् |
पूरकादिक्रमेणैव गायत्र्याः प्राणधारणम् |
सामान्यार्घ्यं ततः कुर्ययात् पूर्वोक्तक्रमवर्त्मना |
गायत्रीं संकृदुच्चार्यय ताम्रपात्रे जलं क्षिपेत् |
तीर्थमावाह्य यत्नेन गायत्रीं प्रजपेत्ततः |
ततो धेन्वामृतीकृत्य प्रथमाष्टाक्षरेण वै |
द्वितीयाष्टाक्षरे विप्रो जलं वीक्ष्य प्रशान्तये |
तृतीयाष्टाक्षरे देवि ! जलैरात्मविशोधनम् |
अनेनैव विधानेन सृष्टिस्थितिलयात्मकम् |
पूजनं परमेशानि ! तदैव फलदायकम् |
यन्त्रन्यासध्यानादिकन्तु पूर्वमेव लिखितम् ||
सौरं पीठं यजेत्तत्र दीप्तादिनवशक्तिभिः |
तत्र सर्वतोभद्रमण्डले दीप्तादयस्तु चतुर्दशपटले ||
यथा ||
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला पुनः |
अघोरा विद्युता सर्वतोमुखी पीठशक्तयः |
सौरपीठं सूर्ययप्रकरणेऽनुसन्धेयम् ||
मूलमन्त्रेण कॢप्तायां मूर्त्तौ देवीं प्रपूजयेत् ||
निर्वाणतन्त्रे ||
जीवन्यासादिकं कृत्वा पूजयेत्तां त्रिवर्गदाम् |
हालाहलादिकं मन्त्रं समस्तं परमेश्वरि ! |
समुच्चार्यय वदेत् पाद्यं सावित्रीं ङेयुतां ततः |
त्यागात्मकमनुं पश्चाद् यथा विभवविस्तरैः |
पूजयेद्बहुयत्नेन चान्यथा ब्राह्मणः स्मृतः |
शारदायाम् ||
कोणेषु त्रिषु सम्पूज्याः ब्राह्म्याद्याः शक्तयो वहिः |
आदित्याद्यास्ततः पूज्या ऊषादिसहिताः क्रमात् |
आदित्याद्याश्चोषादयश्च सूर्ययप्रकरणे वेदितव्याः |
ततः षडङ्गान्यभ्यर्चेत् केशरेषु यथाविधि |
प्रह्लादिनीं प्रभां पश्चान्नित्यां विश्वम्भरां पुनः |
विलासिनीप्रभावत्यावूषां शान्तां यजेत् पुनः |
कान्ति दुर्गासरस्वत्यौ विद्यारूपास्ततः परम् |
विशालासहितामीशां व्यापिनीं विमलां जपेत् |
तमोऽपहारिणीं सूक्ष्मां विश्वयोनिं जयावहाम् |
पद्मालयां परां शोभां पद्मरूपां ततोऽर्च्चयेत् |
ब्राह्म्याद्याः सारुणा वाह्ये पूजयेत् प्रोक्तलक्षणाः |
ततोऽभ्यर्च्चेद् ग्रहान् वाह्ये शक्रांदीनायुधैः सह |
इत्थमावरणैर्देवीं दशभिः परिपूजयेत् |
धर्मार्थकाममोक्षाणां भोक्ता स्याद्द्विजसत्तमः ||
निर्वाणतन्त्रे ||
द्रव्याभावे वरारोहे ! पाद्याद्यैरुदकात्मकैः |
पूजयित्वा जपेद्देवीं गायत्रीं परमाक्षरीम् |
एतेन द्रव्याभावे जलादिना पूजायां कर्त्तव्यायामपि एतत्पाद्यमित्यादिवक्तव्यमत-एव स्मृतिः |
तैलं प्रतिनिधिं कुर्ययाद् यज्ञार्थे याज्ञिको यदि |
प्रकृत्यैव तदा हेतोर्ब्रूयाद् घृतवतीमिति |
तेनैतत्पाद्यार्थं जलमिति वाक्यमनुशासनविरुद्धमिति |
जपफलमपि तत्रैव ||
दशभिर्जन्मजनितं शतेनापि पुराकृतम् |
त्रिजन्मजं सहस्रेण गायत्री हन्ति पातकम् |
जपे तु विशेष उक्तो गायत्रीतन्त्रे ||
गायत्र्या पुटितं कृत्वा इष्टमन्त्रं जपेच्छतम् |
इष्टमन्त्रेण पुटितं गायत्रीं प्रजपेच्छतम् |
एतज्जपं महेशानि ! आधाराधेयमुत्तमम् |
विनाधारं महेशानि ! आधेयेन विना तथा |
नाधारं सिध्यते भद्रे ! आधेयञ्च न सिध्यति |
सर्वेषु विष्णुमन्त्रेषु सौरगाणपतौ तथा ||
आधाराधेयभावस्तु सर्वत्र करवर्णिनि ! |
साङ्गनाल्लोचनाद् यस्तु झटिति प्रविशेद् गृहम् |
न पश्येच्चक्षुषा किञ्चिद् गृहमध्येषु यत् स्थितम् |
एवमाधारमाधेयं यः करोति द्विजातिकः |
अङ्कुरो जायते भद्रे ! लक्षजापान्नं संशयः |
नच जीवात्मनोर्भिन्ना गायत्री ब्रह्मरूपिणी |
गायत्री न हि भिन्ना स्याज्जीवात्मा तत्स्वरूपिणी |
सर्वदा उभयोरैक्यं नारिकेले यथोदकम् |
द्विजातिः कथ्यते देवभाव एव हि ब्राह्मणः |
यथा स्पर्शमणिस्पर्शात् ताम्रोऽपि काञ्चनं सदा |
गायत्रीसहित आत्मा द्विजात्मा तेन ईरितः ||
गयत्रीतन्त्रे ||
जपेत् सूर्ययमुखो विप्रो नास्ति दिङ्नियमः क्वचित् |
गायत्रीं प्रजपेन्नित्यं त्रिसन्ध्यं नात्र संशयः |
अशौचे तु महेशानि ! गायत्रीं मनसा स्मरेत् |
गायत्री बहुरूपा च त्रिसन्ध्या ध्यानमेव ||
तत्रैव ||
ओं महेश्वरवदनोत्पन्ना विष्णोर्हृदयसंस्थिता |
ब्रह्मणा समनुज्ञाता गच्छ देवि ! यथेच्छया |
इति मन्त्रं समुच्चार्यय देव्या वामकरे बुधः |
समर्पयेज्जपफलं ततः स्तोत्रादिकं पठेत् ||
अथ गायत्रीकवचम् ||
श्रीदेव्युवाच ||
देवदेव ! महादेव ! संसारार्णवतारक ! |
गायत्रीकवचं देव ! कृपया कथय प्रभो ! ||
श्रीदेवदेव उवाच ||
मूलाधारेषु या नित्या कुण्डली तत्त्वरूपिणी |
सूक्ष्मातिसूक्ष्मा परमा विसतन्तुस्वरूपिणी |
विद्युत्पुञ्जप्रतीकाशा कुण्डलाकृतिरूपिणी |
परमब्रह्मगृहिणी पञ्चाशद्वर्णरूपिणी |
शिवस्य नर्त्तकी नित्या परं ब्रह्मप्रपूजिता |
ब्रह्मणः सैव गायत्री सच्चिदानन्दरूपिणी |
तद्भ्रमावर्त्तवातोऽयं प्राणात्मा नित्यनूतनः |
नित्यं तिष्ठतु सानन्दा कुण्डली भवविग्रहे |
अतिगोप्यं महत् पुण्यं त्रिकोटीतीर्थसंयुतम् |
सर्वयज्ञमयं देवि ! सर्वदानमयं सदा |
सर्वज्ञानमयं देवि ! परंब्रह्ममयं सदा |
कवचं कथयाम्यद्य पार्वति ! प्राणवल्लभे ! |
ओं ओं भूः ओं ओं ओं ओं भुवः ओं ओं ओं ओं स्वः ओं ओं ओं ओं त ओं ओं त्स ओं ओं वि ओं ओं तु ओं ओं र्व ओं ओं रे ओं ओं णि ओं ओं यं ओं ओं भ ओं ओं र्गो ओं ओं दे ओं ओं व ओं ओं स्य ओं ओं धी ओं ओं म ओं ओं हि ओं ओं धि ओं ओं यो ओं ओं यो ओं ओं नः ओं ओं प्र ओं ओं चो ओं ओं द ओं ओं यात् ओं ओं ओं ओं |
ओं भूः ओं पातु मे मूलं चतुर्दलसमन्वितं |
ओं भुवः ओं पातु मे लिङ्गं षड्दलसमन्वितम् |
ओं स्वः ओं पातु मे कण्ठं साकाशं दलषोडशम् |
ओं त ओं पातु मे रूपं ब्रह्मण्यकारणं परम् |
ओं त्स ओं वदनं पातु रसनासंयुतं मम |
ओं वि ओं पातु मे गन्धं सदा शरीरसंयुतम् |
ओं तु ओं पातु मे स्पर्शं शरीरस्य च कारणम् |
ओं र्व ओं पातु मे शब्दं शब्दविग्रहकारणम् |
ओं रे ओं पातु मे नित्यं त्वचं शरीररक्षकम् |
ओं णि ओं पातु मे अक्षं सर्वतत्त्वैककारणम् |
ओं यं ओं पातु मे श्रोत्रं श्रवणस्य च कारणम् |
ओं भ ओं पातु मे घ्राणं गन्धोपादानकारणम् |
ओं र्गो ओं पातु मे वाक्यं सभायां शब्दरूपिणी |
ओं दे ओं पातु मे बाहुयुगलं ब्रह्मकारणम् |
ओं व ओं पातु मे पादयुगलं ब्रह्मकारणम् |
ओं स्य ओं पातु मे लिङ्गं सजलं षड्दलैर्युतम् |
ओं धी ओं पातु मे नित्यं प्रकृतिं शब्दकारणम् |
ओं म ओं पातु मे नित्यं मनोब्रह्मस्वरूपिणीम् |
ओं हि ओं पातु मे बुद्धिं परंब्रह्ममयं सदा |
ओं धि ओं पातु मे नित्यमहङ्कारं यथा तथा |
ओं यो ओं पातु मे नित्यं पृथिवीं पार्थिवं वपुः |
ओं यो ओं पातु मे नित्यं जलं सर्वत्र सर्वदा |
ओं नः ओं पातु मे नित्यं तेजःपुञ्जं यथा तथा |
ओं प्र ओं पातु मे नित्यमनिलं शरीरकारणम् |
ओं चो ओं पातु मे नित्यमाकाशं शशिसन्निभम् |
ओं द ओं पातु मे जिह्वां जपयज्ञस्य कारणम् |
ओं यात् ओं पातु मे चित्तं शिवज्ञानमयं सदा |
ओं तत्त्वानि पातु मे नित्यं गायत्री परदेवता |
ओं भूर्भुवःस्वः पातु मे नित्यं ब्रह्माणी जठरं क्षुधा |
त्वष्टा मे सततं पातु ब्रह्माणी भूर्भवःस्वरः |
अस्याः श्रीगायत्र्याः परं ब्रह्म ऋषिर्-ऋग्यजुःसामाथर्वांश्छन्दांसि श्रीगायत्रीब्राह्मणो देवता धर्मार्थकाममोक्षार्थे विनिगोगः ||
ततो गायत्रीं पठेत् |
कामक्रोधादिकं सर्वं स्मरणाद् याति साम्यताम् |
इदं कवचमज्ञात्वा गायत्रीं प्रजपेद् यदि |
शतकोटिजपेनैव न सिद्धिर्जायते प्रिये ! |
गायत्रीवाचनात् सर्वं स्मरणं सिध्यति ध्रुवम् |
पठित्वा कवचं विप्रो गायत्रीं सकृदुच्चरेत् |
सर्वपापविनिर्मुक्तो जीवन्मुक्तो भवेद्द्विजः |
इदं कवचमज्ञात्वा कवचान्यं पठेत्तु यः |
सर्वं तस्य वृथा देवि ! त्रैलोक्यमङ्गलादिकम् |
गायत्रीकवचं यस्य जिह्वायां विद्यते सदा |
तदामृतमयी जिह्वा पवित्रा जपपूजने |
इदं कवचमज्ञात्वा ब्रह्मविद्यां जपेद् यदि |
व्यर्थं भवति चार्वङ्गि ! तज्जपं वनरोदनम् |
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः |
महान्ति पातकान्येव स्मरणान्नाशमाप्नुयुः |
त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्रविनिर्मितम् |
वातपित्तकफैर्युक्तं स्थूलदेहं तदुच्यते |
सूक्ष्मं ज्योतिर्मयं देहं पञ्चभूतात्मकं विदुः |
महापद्मवनान्तःस्थं सर्वावयवसंयुतम् |
आधाराधेयसम्बन्धाद् गायत्री ब्राह्मणः स्वयम् |
अत-एव परं ब्रह्म कथ्यते चोभयात्मकम् |
ब्राह्मणस्यैव जीवात्मा गायत्रीसहितं वपुः |
आत्मनो हृदयाम्भोजे प्रदीपकलिकोपमम् |
निर्धूमञ्च यथा ज्योतिस्तैलाग्निवर्त्तियोगतः |
तज्ज्योतिः परमं ब्रह्म स एव परमः शिवः |
गायत्रीकवचन्यासं मातृकास्थानसन्धिषु |
यः कृत्वा ब्राह्मणः श्रेष्ठो ह्यन्यन्यासं समाचरेत् |
अन्यन्यासस्तदा सिद्धो ह्यन्यथारण्यरोदनम् |
गायत्रीन्यासमात्रेण परंब्रह्ममयो द्विजः |
इदं कवचमज्ञात्वा ब्रह्मचर्ययं करोति यः |
ब्रह्मचर्ययं भवेद्व्यर्थं गायत्रीकवचं विनां |
कवचस्य प्रसादेन ब्राह्मणो ज्वलदग्निवत् |
कवचं परमेशानि ! सृष्टिस्थितिलयात्मकम् |
कवचस्य प्रसादेन ब्रह्मा सृष्टिं करोति हि |
स्थितिञ्च कुरुते विष्णूरुद्रोऽहं लयकारणः |
अन्यद्धि कवचं देवि ! सृष्टिस्थितिलयं विना |
इदमेव ब्रह्ममयं सृष्टिस्थितिलयात्मकम् |
कवचं ब्राह्मणो नाम प्रातरुत्थाय यः पठेत् |
गायत्रीञ्च सकृत् स्मृत्वा जपलक्षफलं लभेत् |
गायत्रीं दशधा जप्त्वा शतलक्षफलं लभेत् |
एवं क्रमेण गायत्रीं शतधा प्रजपेद् यदि |
शतलक्षफलं प्राप्य विहरेद्देववद्भुवि |
ग्रहणे चन्द्रसूर्ययस्य पठित्वा कवचं द्विजः |
सकृद् यदि जपेद्विद्वान् गायत्रीं परमाक्षरीम् |
तत्क्षणात् स भवेत् सिद्धो ब्रह्मसायुज्यमाप्नुयात् |
इदं कवचमज्ञात्वा गायत्रीं प्रजपेत्तु यः |
जप एव स एव स्यान्निस्तेजा न च सिद्धिदः |
यः पठेत् कवचं देवि ! सततं शिवसन्निधौ |
सन्निधौ विष्णुदेवस्य कवचं शक्तिसन्निधौ |
तेजःपुञ्जमयो विप्रस्तत्क्षणाज्जायते ध्रुवम् ||
इत्यागमसन्दर्भे ज्ञानदर्पणे गायत्रीब्राह्मणसर्वस्वे देवदेवीसंवादे गायत्रीकवचं समाप्तम् ||
अथास्याः पुरश्चरणम् ||
शारदायाम् ||
लक्षं तत्त्वविधानेन भिक्षाशी विजितेन्द्रियः |
क्षीरौदनं तिलान् दूर्वाः क्षीरद्रुमसमिद्वरान् |
पृथक् सहस्रत्रितयं जुहुयान्मन्त्रसिद्धये |
लक्षं तत्त्वविधानेनेत्यनेन चतुर्विंशतिलक्षं पुरश्चरणमुक्तम् |
विधानेन पुरश्चरणोक्तविधानेन |
क्षीरौदनमिति क्षीरमोदनम् |
तिलान् दूर्वाश्चेति द्रव्यचतुष्टयम् |
क्षीरद्रुमेति अश्वत्थोडुम्बरप्लक्षवटा इति द्रव्यचतुष्टयम् |
पृथक् सहस्रत्रितयमित्यनेन चतुर्विंशतिसहस्रहोमः ||
निर्वाणतन्त्रे तु ||
विधिवल्लक्षजापेन पुरश्चरणमीरितम् |
तद्दशांशं हुमेत् पश्चात् पुरश्चरणसिद्धये |
होमस्य तु दशांशेन तर्पणं समुदीरितम् |
तर्पणस्य दशांशेन चाभिषेकं ततः परम् |
अभिषेकदशांशेन कुर्ययाद्ब्राह्मणभोजनम् |
ततः सिद्धो भवेद्देवि ! त्रिवर्गफलसाधकः |
माहात्म्यं चास्य मन्त्रस्य चतुर्वेदेन भाषितम् ||
अथ काम्यकर्माणि शारदायाम् |
तत्त्वसंख्यसहस्राणि मन्त्रविज्जुहुयात्तिलैः |
सर्वपापविनिर्मुक्तो दीर्घमायुः स विन्दति |
आयुषे साज्यहविषा केवलेनाथ सर्पिषा |
दूर्वात्रिकैस्तिलैर्मन्त्रो जुहुयात् त्रिसहस्रकम् |
अरुणाञ्जैस्त्रिमध्वक्तैर्जुहुयादयुतं ततः |
महालक्ष्मीर्भवेत्तस्य षण्मासान्नात्र संशयः |
ब्रह्मश्रिये प्रजुहुयात् प्रसूनैर्ब्रह्मवृक्षजैः |
बहुना किमिहोक्तेन यथावत् साधुसाधिता |
द्विजन्मनामियं विद्या सिद्धिकामदुघा मता ||
अथ तान्त्रिकगायत्री अन्नदाकल्पे पञ्चमपटले ||
मोचनी सर्वपापानां शोषणी सकलापदाम् |
दारिद्र्यदमनी नित्यं सुखमोक्षप्रदायिनी |
एकोच्चारेण सकलं ब्रह्महत्यादिपातकम् |
नाशमायाति नियतं जन्मान्तरसमुद्भवम् |
दशभिर्दशजन्मोत्थं शतेन शतजन्मजम् |
सहस्रेण सहस्रोत्थमित्थं पातकनाशिनी |
सर्वागमाणां साङ्गानां सारभूता सनातनी |
चित्कलेयं समाख्याता सहस्रेण पुरस्क्रिया ||
इति पुरश्चरणम् ||
ऋषिर्ब्रह्मास्य गायत्रीच्छन्दो देवी प्रकीर्त्तितम् |
देवतान्नप्रदा देवी चतुर्वर्गप्रदायिनी ||
आनप्रदेति स्वीयेष्टदेवतोपलक्षणम् ||
मायाबीजं नमः शक्तिः कीलकं स्यात् प्रचोदयात् |
ध्यायेत् कालत्रये देवीं त्रिगुणां गुणभेदतः |
प्रातः ब्राह्मी रक्तवर्णा द्विभुजा च कुमारिका |
कमण्डलुं तीर्थपूर्णमक्षमालाञ्च बिभ्रती |
कृष्णाजिनाम्बरधरा हंसारूढा शुचिस्मिता |
मध्याह्ने सा श्यामवर्णा वैष्णवी च चतुर्भुजा |
शङ्खचक्रगदापद्मधारिणी गरुडासना |
पीनोन्नतकुचद्वन्द्वा वनमालाविभूषिता |
युवती च सदा ध्येया मध्ये मार्त्तण्डमण्डले |
सायं सरस्वतीरूपा चन्द्रार्द्धकृतशेखरा |
अर्द्धास्तमितमार्त्तण्डे ध्येया सततयौवना |
गायत्री तु तन्त्रसारे सर्वासां देवतानां प्रायेण द्रष्टव्या ||
अन्नदाकल्पे ||
पूजार्थं जलमानीय तीर्थं नत्वा यथाविधि |
देवीं ध्यायन् पठन् स्तोत्रं यागमण्डपमाविशेत् ||
मत्स्यसूक्ते पञ्चदशपटले च |
देशिको विधिवत् स्नात्वा कृत्वा पूर्वाह्णिकीः क्रियाः |
यायादलङ्कृतो मन्त्री यागार्थं यागमण्डपम् ||
रुद्रजामले पूर्वखण्डे द्वितीयपटलेऽपि ||
पूजामण्डपमागत्य प्रक्षाल्याङ्घ्रिकरौ ततः |
अस्त्रेण द्वारमभ्युक्ष्य वामदक्षिणशाखयोः |
गङ्गायै यमुनायै च नम उच्चार्यय पूजयेत् |
ऊर्द्ध्वद्वारे श्रियै अधोदेहल्यै च नमस्ततः ||
यागमण्डपमित्यत्र लक्षणया यागमण्डपसमीपमिति लब्धमन्यथा अङ्गं सङ्कोचयन्नन्तः प्रविशेद्दक्षिणाङ्घ्रिणा इति न सङ्गच्छते ||
मत्स्यसूक्ते ||
आचम्य विधिवत्तत्र सूर्ययार्घ्यन्तु विधाय च |
पश्चिमद्वारमासाद्य प्रविशेद्दक्षिणाङ्घ्रिणा |
द्वारानस्त्राम्बुना प्रोक्ष्य द्वारपूजां समाचरेत् |
ऊर्द्ध्वाधःक्रमभावेण गणेशं विघ्ननाशनम् |
महालक्ष्मीं महामायां तथा देवीं सरस्वतीम् |
क्षेत्रेशञ्च तथा गङ्गां यमुनां पुष्पवारिभिः |
अस्त्रमन्त्रेण देवेशि ! देहलीञ्च समर्च्चयेत् ||
अस्त्रमन्त्रेण अस्त्राय फडिति मन्त्रमुच्चार्यय द्वारमभ्युक्ष्येत्यर्थः ||
शारदायाम् ||
ऊर्द्ध्वोडुम्बरके विघ्नं महालक्ष्मीं सरस्वतीम् |
ततो दक्षिणशाखायां विघ्नं क्षेत्रेशमन्यतः ||
ऊर्द्ध्वोडुम्बरके देहल्यां गृहदक्षिणद्वारि देहल्यां कोणद्वये विघ्नं सरस्वतीं मध्ये महालक्ष्मीं पूजयेदिति तात्पर्ययम् |
दक्षिणशाखायां विघ्नम् अन्यतः वामशाखायां क्षेत्रेशमर्च्चयेदित्यर्थः ||
तयोः पार्श्वगते गङ्गायमुने पुष्पवारिभिः |
देहल्यामर्च्चयेदस्त्रं प्रतिद्वारमिति क्रमात् ||
तयो पार्श्व इति विघ्नक्षेत्रेशयोः पार्श्वे |
दुर्गापूजनमप्युक्तं राघवभट्टधृतेन ||
कोणेषु विघ्नं दुर्गाञ्च वाणीं क्षेत्रेशमर्च्चयेत् ||
एतेषां मन्त्रस्तु ||
तारं सबिन्दुमानाद्यक्षरं चतुर्थ्यन्तं नाम नमोऽन्वितम् |
तदुक्तमुड्डामरेश्वरे ||
ओङ्कारं बिन्दुसंयुक्तं नामधेयाद्यमक्षरम् |
ङेयुतं नाम सर्वेषां मन्त्रो देवि ! नमोऽन्वितः ||
वैष्णवमते द्वारपूजा तु राघवभट्टेनोक्ता यथा ||
वैष्णवादिप्रभेदेन द्वारपालान् समर्च्चयेत् |
प्रतिद्वारं पार्श्वयोस्तु द्वौ द्वावष्टाविति क्रमात् |
नन्दः सुनन्दश्चण्डाख्यः प्रचण्डश्चण्डनायकः |
प्रबलो भद्रनामा च सुभद्रो वैष्णवा मताः ||
शैवद्वारपालास्तु ||
अथ नन्दिमहाकालौ गणेशवृषभौ पुनः |
ततो भृङ्गरिटिः स्कन्दः पार्वतीशश्च सप्तमः |
चण्डेश्वरोऽष्टमः शैवाद्वारपालाः क्रमादमी |
गणेशस्य तु ||
वक्रतुण्डैकदंष्ट्रौ च महोदरगजाननौ |
लम्बोदराख्यश्च कठो विघ्नराजश्च सप्तमः |
धूम्रराजोऽष्टमो ज्ञेया गाणपत्या इति क्रमात् |
ब्राह्म्याद्या मातरः प्रोक्ताः शाक्तेया द्वारपालकाः ||
शारदायाम् ||
अनन्तरं साधकेन्द्रो दिव्यदृष्ट्यावलोकनात् |
दिव्यानुत्सारयेद्विघ्नानस्त्राद्भिश्चान्तरीक्षगान् |
पार्ष्णिघातैस्त्रिभिर्भौमानिति विघ्नान् निवारयेत् |
किञ्चित् स्पृशन् वामशाखां देहलीं लङ्घयेत्ततः |
अङ्गं सङ्कोचयन्नन्तः प्रविशेद्दक्षिणाङ्घ्रिणा |
मत्स्यसूक्तेऽपि ||
अवलोक्यं दिव्यदृष्ट्या विघ्नानुत्सारयेत्ततः |
त्रिः कृत्वा च पदाघातं दत्त्वा तालत्रयं ततः |
अङ्गं सङ्कोचयन्नन्तः प्रविशेत साधकोत्तमः ||
अथासनम् |
शाक्तानन्दतरङ्गिणीधृतगौरीजामले ||
सलिले यदि कुर्वीत देवतानां प्रपूजनम् |
तथाप्यासनमासीनो नोत्थितस्तु तथाचरेत् |
आसनं कल्पयित्वा तु मनसा पूजयेज्जले ||
आसनस्थो जपेत् सम्यङ्मन्त्रार्थगतमानसः ||
सम्मोहनतन्त्रे ||
रक्तासनोपविष्टस्तु लाक्षागुरुगृहे स्थितः |
नमःकल्पितरक्तो वा साधकः स्थिरसानसः |
तूलकम्बलवस्त्राणां सिंहव्याघ्रमृगाजिनम् |
कल्पयेदासनं धीमान् सौभाग्यज्ञानवर्द्धनम् |
कौशेयं वाथ वा चर्म तैलतौलमथापि वा |
शरपत्रं तालपत्रं कम्बलं दारवासनम् ||
कृष्णाजिने ज्ञानसिद्धिर्मुक्तिः स्याद्व्याघ्रचर्म्मणि |
कृष्णाजिने गृहस्थानां नाधिकारः कथञ्चन |
नादीक्षितो विशेज्जातु कृष्णसाराजिने गृही ||
विशेद्यतिर्वनस्थश्च ब्रह्मचारी च भिक्षुकः |
वस्त्रासने व्याधिनाशः कम्बलं दुःखमोचनम् |
जपध्यानतपोहानिं वस्त्रासनं करोति हि ||
अत्र वस्त्रनिषेधः केवलवस्त्रपरः अन्यथा विरोधापत्तेः |
कुशासने भवेदायुर्मोक्षः स्याद्व्याघ्रचर्म्मणि |
अजिने तु भवेत् पुत्री कम्बले सिद्धिरुत्तमा |
शान्तिके धवलः प्रोक्तः सर्वार्थं चित्रकम्बले |
स्यात् पौष्टिके तु कौशेयं कम्बले दुःखमोचनम् |
त्रिपुरापूजने देवि ! प्रशस्तं रक्तकम्बलम् |
नैतद्द्विहस्थतो दीर्घं सार्द्धहस्तान्न विस्तृतम् |
न त्र्यङ्गुलात् समुच्छायं पूजाकर्म्मणि संग्रहम् |
आसनञ्च ततः कुर्ययान्नातिनीचं न चोच्छ्रितम् ||
गन्धर्वतन्त्रे ||
धरण्यां दुःखसम्भूतिर्दौर्भाग्यं दारुजासने |
आम्रनिम्बकदम्बानामासनं वंशनाशनम् |
वकुले किंशुके चैव पनसेषु हतश्रियः |
वंशेष्टका च धरणी तृणपल्लवनिर्मितम् |
वर्ज्जयेदासनं मन्त्री दारिद्र्यव्याधिदुःखदम् ||
एतेषां फलान्तरमुक्तम् ||
धरण्यां दुःखसम्भूतिर्दौर्भाग्यं दारुजासने |
वंशासने दरिद्रः स्यात् पाषाणे व्याधिपीडनम् ||
तृणासने यशोहानिः पल्लवे चित्तविभ्रमः |
जपध्यानतपोहानिर्वस्त्रासने विधीयते |
मृद्वासने यदा मन्त्री चेलाजिजकुशोत्तरे |
नादीक्षितो विशेज्जातु कृष्णाजिनासने गृही |
विशेद्यतिर्वनस्थो वा ब्रह्मचारी च भिक्षुकः |
इत्युक्तम् ||
दारुजासनं विशेषयति गन्धर्वतन्त्रे ||
गाम्भारीनिर्म्मितं शस्तं नानादारुमयं शुभम् |
चतुर्विशत्यङ्गुलं हि दीर्घं काष्ठासनं प्रिये ! |
षोडशाङ्गुलविस्तीर्णमुच्छ्राग्रे चतुरङ्गुलम् |
कम्बलम् चार्म्मणं शैलं महामायाप्रपूजने |
प्रशस्तमासनं देवि ! कथितं वरवर्णिनि ! ||
मुण्डमालातन्त्र तृतीयपटले ||
व्याघ्राजिनं सर्वसिद्ध्यै ज्ञानसिद्ध्यै मृगाजिनम् |
वस्त्रासनं रोगहरं वेत्रजं प्रीतिवर्द्धनम् |
कौशेयं पुष्टिदं प्रोक्तं कम्बलं सर्वसिद्धिदम् |
शुक्लं वा यदि वा कृष्णं विशेषाद्रक्तकम्बलम् |
उत्तराम्नायासनन्तु तत्रैव ||
मृदु कोमलमास्तीर्णं संग्रामपतितं हि यत् |
जन्तुव्यापादितं वापि मृतं वानरमासनम् |
गर्भच्युतां त्वचं वापि नारीणां योनिजां त्वचम् |
सर्वसिद्धिप्रदं देवि ! सर्वतोऽतिसमृद्धिदम् |
त्वचं वा यौवनस्थानां कुर्ययाद्वीरतरासनम् |
श्मशानकाष्ठघटितं पीठं वा दारुजं शुभम् |
नादीक्षितो विशेज्जातु कृष्णसाराजिने गृही |
उदासीनवदासीनः स्नातकब्रह्मचारिणाम् |
कुशाजिनाम्बरेणाढ्यं चतुरस्रं समन्ततः |
एकहस्तं द्विहस्तं वा चतुरस्रं समाचरेत् |
कर्म्मविशेषे आसनविशेषस्तु समयाचारतन्त्रे द्वितीयपटले ||
मेषासनन्तु वश्यार्थमाकृष्टौ व्याघ्रचर्म्म च |
शान्तौ मृगाजिनं शस्तं मोक्षार्थं व्याघ्रचर्म्म च |
गोचर्म्म स्तम्भने देवि ! सम्भवे वाजिचर्म्म च |
चर्म्मोष्ट्रस्य तु चोच्चाटे विद्वेषे श्वानचर्म्म च |
मारणे माहिषं चर्म्म कर्मोद्दिष्टं समाचरेत् |
सर्वकामार्थदं देवि ! वस्त्रपट्टासनं तथा |
ऊर्णासनं कम्बलं वा सर्वकर्म्मसु पूजितम् |
दुःखदारिद्र्यकरणं काष्ठपाषाणजासनम् |
स्वर्णादिरत्नजं देवि ! महासौभाग्यवर्द्धनम् |
शृणु देवि ! विशेषेण उत्तराम्नायस्य चासनम् |
येनाशु लभते पुण्यं फलं देवस्य दुर्लभम् |
शवासनन्तु सुभगे ! मृतमुण्डासनं तथा |
श्मशानमासनं देवि ! भगस्य दर्शनं तथा |
भगदर्शासनञ्चैव मैथुनासनकं तथा |
कृतमैथुनकं वापि वाञ्छितार्थफलप्रदम् ||
मात्स्ये पञ्चदशे ||
रुरुचर्मणि सत्कामः श्रीमोक्षौ व्याघ्रचर्मणि |
शक्तेः शस्तं कृष्णचर्म कृष्णव्याघ्रस्य भाविनि ! |
प्रस्तारमृच्छिले चैव रक्ते पीते च वाससी |
कम्बले द्रुतसिद्धिः स्याद्भद्रदारुमयेऽपि च |
तथा |
योगासनञ्च कूर्मञ्च विशेत् क्षौणीमनुस्मरन् ||
योगसारे द्वितीयपरिच्छेदे ||
कम्बलं कोमलञ्चैव कौशञ्च दारबं तथा |
एतेषामासनं प्रोक्तं चर्मासनं तथैव च |
लोम्नि चैव यदासीनस्तदा सर्वं विनश्यति |
लोमदर्शनमात्रेण सिद्धिहानिः प्रजायते |
काम्यार्थं कम्बलं प्रोक्तं ज्येष्ठं स्याद्रक्तकम्बलम् |
कृष्णाजिने ज्ञानसिद्धिः श्रीमोक्षौ व्याघ्रचर्मणि |
कुशासने मन्त्रसिद्धिर्नात्र कार्यया विचारणा ||
समयाचारतन्त्रे ||
पृथ्वीमन्त्रस्य च ऋषिर्मेरुपृष्ठ उदाहृतः |
सुतलञ्च तथा छन्दः कूर्मो देवोऽस्य सुन्दरि ! |
आसने विनियोगः स्याद्बद्धपद्मासने विशेत् |
बद्धपद्मासन इत्युपलक्षणम् ||
पद्मस्वस्तिकवीरादिष्वेकासनसमास्थितः |
जपार्च्चनादिकं कुर्ययादन्यथा निष्फलं भवेत् |
इति राघवभट्टवचनात् ||
आसनन्तु यतीनां कूर्माकारमन्येषां चतुष्कोणम् |
यथा राघवभट्टधृतम् ||
यतीनामासनं श्लक्ष्णं कूर्माकारन्तु कारयेत् |
अन्येषान्तु चतुष्पादं चतुरस्रन्तु कारयेत् ||
तथा ||
दानमाचमनं होमं भोजनं देवतार्च्चनम् |
प्रौढपादो न कुर्वीत स्वाध्यायञ्चैव तर्पणम् ||
प्रौढपादलक्षणमपि तत्रैव |
आसनारूढपादस्तु जानुनोर्वाथ जङ्घयोः |
कृतावसक्तकोषस्तु प्रौढपादः स उच्यते ||
इति राघवट्टधृतप्रौढपादलक्षणम् ||
गोरक्षसंहितायाम् |
आसनानि च तावन्ति यावन्तो जीवजन्तवः |
एतेषामखिलान् भेदान् विजानाति महेश्वरः |
चतुरशीतिलक्षाणामेकैकं समुदाहृतम् |
तथा शिवेन पीठानां षोडशानां शतं कृतम् |
आसनेषु समस्तेषु द्वयमेतदुदाहृतम् |
एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् |
योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसेत् मेढ्रे पादमथैकमेव हृदयं कृत्वा समं विग्रहम् |
स्थाणुः संयमितेन्द्रियोऽन्यनदृशा पश्यन् भ्रुवोरन्तरम् एतन्मोक्षकपाटभेदनकरं सिद्धासनं प्रोच्यते ||
इति सिद्धासनम् || १ ||
वामोरूपरि दक्षिणं नियमतः संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां धृतम् |
अङ्गुष्ठं हृदये निधाय चिवुकं नासाग्रमालोकयेत् एतद्व्याधिविकारनाशनकरं पद्मासनं प्रोच्यते ||
अन्यदत्रापि ||
वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथाप्यन्योरूपरि तस्य बन्धनविधौ धृत्वा कराभ्यां धृढम् |
अङ्गुष्ठौ हृदये निधाय चिवुकं नासाग्रमालोकयेदेतद्व्याधिविनाशकारि यमिनां पद्मासनं प्रोच्यते || २ ||
इति पद्मासनम् ||
इत्याद्यासनानि योगोपयोगीन्येव |
पूजायां नैतेषां प्रयोजनम् ||
मत्स्यसूक्ते ||
पञ्चगव्येन संशोध्य मण्डपं यागभूमिकम् |
शरेण प्रोक्षणं कुर्ययान्मूलमन्त्रेण वीक्षणम् |
विकिरान् विकिरेत्तत्र सप्तजप्तान् शराणुना |
धूपयेदन्तरे पश्चाच्चन्दनागुरुभिस्तथा ||
तथा ||
आत्मनो दक्षिणे भागे पूजाद्रव्याणि स्थापयेत् |
सव्ये सुवासितं कुम्भं तीर्थतोयेन पूरितम् |
वस्त्रपूतं ततः कार्ययं रात्रितोयं विवर्ज्जयेत् ||
शारदायाम् ||
प्रक्षालनाय करयोः पत्श्चा पात्रं निवेशयेत् |
घृतप्रज्वलितान् दीपान् स्थापयत् परितः शुभान् ||
पाद्यार्घ्याचमनमधुपर्काचमनपात्राण्यप्यधुनैव स्थापयेत् ||
देवीपुराणे ||
हेमराजतताम्राणि मृच्छिलाशैलजानि च |
बलिदानादेपात्राणि शुभरेखोत्कराणि च |
अर्घ्यनैवेद्यपूजार्थं बलिदाने प्रकल्पयेदिति |
शिवरहस्ये शेषार्द्धम् ||
हैमपात्राणि सर्वाणि विहितानि भवन्तु मे |
अर्घ्यं दत्त्वा तु रौप्येण आयूराज्यसुताल्लभत् |
ताम्रपात्रेण सौभाग्यं धर्मं मृण्मयसम्भवे |
सर्वाभावे तु माहेयं स्वहस्तघटितं यदि |
माहेयं मृण्मयम् ||
आसनं चार्घ्यपात्रञ्च भग्नमासादयेत्ततः |
सर्वत्र स्वर्णकं ताम्रमन्यमात्रे ततोऽधिकम् |
पात्राणामादरः कार्ययः पात्राण्येवोत्तमादरः |
बलिहोमक्रियार्थं हि विना पीठन्तु सिध्यति |
षट्त्रिंशदङ्गुलं पात्रमुत्तमं परिकीर्त्तितम् |
मध्यमं तत्त्रिभागोनं कनिष्ठं द्वादशाङ्गुलम् ||
चतुर्विंशाङ्गुलं मध्यं कनिष्ठं द्वादशाङ्गुलमिति क्वचित् पाठः |
वस्वङ्गुलविहीनन्तु न पात्रं कारयेद्बुध इति पाठान्तरम् ||
सर्वाभावे त्यजेत् पात्रं स्रवतै यत्र वारि तत् |
यत्रोदक न स्रवते तत् कर्मार्हमिति कार्ययक्षमोपलम्भकमिति |
नाभीविवररूपाणि पुण्डरीकाकृतीनि च |
शङ्खशुक्तिवृक्षजानि पात्राणि परिकल्पयेत् ||
अथ पाद्यपात्रलक्षणम् |
वैखानसग्रन्थे ||
पादावनेजनजलग्रहणं पात्रमद्भुतम् |
लौहजं वा सरोजातं हैमं राजतमेव वा |
ताम्रं सचरणमपि वायवे न सतामिति ||
सिद्धान्तशेखरे ||
षडङ्गुलप्रविस्तारमुत्सेधं चतुरङ्गुलम् |
ओष्ठमेकाङ्गुलं कुर्ययान्नासिकां चतुराङ्गुलाम् |
पृष्ठे पादसमायुक्तं चतुरङ्गुलमानतः |
पाद्यपात्रमिति ख्यातं सर्वदेवप्रपूजने ||
इति पाद्यपात्रलक्षणम् ||
अथ पाद्यप्रक्षेपणीयपात्रलक्षणम् ||
तत्रैव ||
अष्टाङ्गुलसमुत्सेधं विस्तारं षोडशाङ्गुलम् |
ओष्ठमेकाङ्गुलं कुर्ययाच्छरावाकृतिपात्रकम् |
पात्रयोरुभयोः कुर्ययाद्वृत्तकं कणके समे |
पृष्ठे पादसमायुक्तं षडङ्गुलसुविस्तृतम् |
पादोत्सेधं चतुर्मात्रं पाद्याधारं प्रकीर्त्तितम् |
इति पाद्यप्रक्षेपणीयपात्रलक्षणम् |
अथार्घ्यपात्रलक्षणम् ||
सिद्धान्तशेखरे ||
अर्घ्यस्य लक्षणं वक्ष्ये पलद्रव्यादिभेदतः |
सामान्यार्घ्यं तिरोधाम्यं विशेषार्घ्यपराङ्मुखम् |
अर्घ्यपात्राणि चत्वारि स्वर्णदूर्वाक्षतानि च ||
दुर्बलं राजतं ज्ञेयमधमानि ततः परम् |
ताम्रशुक्तिशिलादारुकर्ममृत्पात्रजानि च |
उत्तमं पलविंशत्या मध्यमं दशभिः पलैः |
हीनं पञ्चपलं कुर्ययादेवमाचम्य पाद्ययोः |
चतुःपर्वाणि तानि स्युः निःसृतान्यष्टपर्वभिः |
पृष्ठेनाङ्कशुभाङ्कानि कृताकाराणि वा पुनः |
चतुरस्राणि कुर्वीत चतुष्पात्राणि चार्घ्यके |
कर्पूरं कुङ्कुमं दूर्वां सिधार्थं विल्वपत्रकम् |
यवदर्भान् कुशांश्चेति सामान्यार्घ्यं विनिक्षिपेत् |
तिलप्रसूनसिद्धार्थदर्भदूर्वायवाक्षतान् |
द्रव्याण्येतानि सप्तैव तिरोधाय विनिक्षिपेत् |
तिलतण्डुलसिद्धार्थदूर्वामुद्गयवानपि |
पराङ्मुखार्घ्यदाने च द्रव्यशुद्धिं प्रकल्पयेत् ||
इत्यर्घ्य पात्रलक्षणम् ||
अथाचमनपात्रलक्षणं वैखानसग्रन्थे ||
आचम्य वारिग्रहणपात्रमुत्तमलौहजम् |
सरोजकर्णिकाकारं कुर्ययादद्भुतदर्शनम् ||
कार्त्तस्वरमयं स्थूलं राजतं वाथ पावनम् ||
कार्त्तस्वरं सुवर्णमिति ||
उत्तमलौहमपि तथा ||
सर्वन्तु तैजसं लौहमिति स्वरसात् रजतं ताम्रं वा ||
सिद्धान्तशेखरे ||
द्वादशाङ्गुलविस्तारं कुक्षिमध्यं सवृत्तकम् |
षडङ्गुलं तद्दलान्तमोष्ठं कुर्ययात्तथाङ्गुलम् ||
अस्य तारं त्रिमात्रं स्यात् पार्श्वे नासागुणाङ्गुलम् |
रन्ध्रं कनिष्ठकातुल्यमग्रे तद्द्विगुणे त्वधः |
पृष्ठे पादं चतुः कुर्ययादुत्सेधं द्व्यङ्गुलं ततः |
सडङ्गुलप्रविस्तारं पात्रमाचमनार्थकम् ||
इति आचमनपात्रलक्षणम् ||
अथ गन्धपात्रलक्षणम् ||
सिधान्तशेखरे ||
अर्घ्यवद्गन्धपात्रं स्यादिति |
अत्र अर्घ्यपात्रवदित्यनेन सम्पूर्णार्घ्य पात्रलक्षणातिदेशः |
यथा अर्घ्यपात्रं क्रियते तथैव गन्धपात्रं कर्त्तव्यमित्यर्थः ||
इति गन्धपात्रलक्षणम् ||
अथ धूपपात्रलक्षणं वैखानसग्रन्थे ||
धूपपात्रं सरोजातं सुवर्णादिविनिर्मितम् |
पादयोरपि तस्य स्यादुत्सेधं चतुरङ्गुलम् |
अनेकशुषिरं तस्य पिधानं सदृशं भवेत् |
शुषिरं छिद्रम् ||
पिधानमाच्छादनम् |
सिद्धान्तशेखरे ||
धूपपात्रविधिं वक्ष्ये पलद्रव्यादिपूर्ववत् |
चतुःपञ्चरसाश्वैर्वै पात्रविस्तारमङ्गुलैः |
रसाः षट् अश्वाः सप्त |
पात्रोत्सेधतो दैर्घ्यं स्यादोष्ठमर्द्धान्तकं मतम् |
पद्माभं परितः पात्रं द्व्यङ्गुलोऽधोगलो भवेत् |
पादमेकाङ्गुलोत्सेधं विस्तृतं द्व्यङ्गुलं ततः |
षट्पर्वदीर्घनाभं स्यादुन्नतं द्व्यङ्गुलं मतम् |
पूर्वकोत्सेधसंयुक्तं वृत्तञ्च चक्रचापवत् |
पिधानं द्व्यङ्गुलोत्सेधं नानाच्छिद्रसमन्वितम् |
एकच्छिद्रयुतं कुर्ययात् कलसाकारमूर्द्ध्वतः ||
इति धूपपात्रलक्षणम् ||
वैखानसग्रन्थे ||
दीपपात्रं तता नालमध्ये कुमुदकोज्ज्वलम् |
वर्त्त्याधारैः शतेनापि युक्तमष्टाभिरेव च |
त्रिसप्तकाष्टभिश्चैव द्वाभ्यां वा दशभिश्च वा |
पञ्चभिर्वा यथाशक्ति कल्पयेच्चिह्नवित्तमः |
सिद्धान्तशेखरे ||
दीपपात्रविधिं वक्ष्ये पलद्रव्यादिरर्घ्यवत् |
पदेन नागलाद्यं हि धूपपात्रवदुच्यते |
एकपत्रं चतुष्पत्रं षड्दलं वाष्टपत्रकम् |
तत्रैकपत्रं मध्ये स्यान्निम्नाश्वत्थदलाकृति |
चतुष्पत्रं चतुर्दिक्षु मध्यमा निम्नकर्णिका |
षड्दले तु स्मृतं तद्वदुपपत्रसमन्वितम् ||
इति दीपपात्रलक्षणम् ||
अथ दीपमालालक्षणम् ||
सिद्धान्तशेखरे ||
दार्वयस्ताम्रसम्भूता दीपमालाऽधमा मता |
मध्यमा च तथा श्रेष्ठा स्वर्णा वा रौप्यजा क्रमात् |
यष्ट्या तु द्वारवत् कुर्ययात् लिङ्गपृष्ठे प्रभाकृतिम् |
द्वाराभामन्यदेशे तु दीपमालां सुशोभनाम् |
चतुर्भिरङ्गुलैर्दीर्घं स्कन्धमङ्गुलविस्तृतम् |
एवं कृत्वा विभागैकं दण्डमध्ये नियोजयेत् |
स्कन्धात् स्कन्धं समं कुर्ययादन्तरं भूतमात्रकम् |
दीपमालेति कथिता सर्वदेवादिपूजने |
इति दीपमालालक्षणम् ||
अथ दीपाधारलक्षणम् ||
सिद्धान्तशेखरे ||
हेमताम्रादिसम्भूतं विदध्यादुत्तमादिकम् |
द्वादशाङ्गुलमारभ्य द्विद्व्यङ्गुलविवृद्धितः |
अष्टादशोदितोत्सेधा दीपाधारस्य चोच्छ्रता |
स्नेहाधारस्य पादे तून्नाहं दैर्घ्यसमं मतम् |
पादनावशरावांशः स्नेहाधारोऽपि तत्समः |
तदूर्द्ध्वं मुकुलं कुर्ययात् प्रादिकादिसमन्वितम् |
नानापरीसमायुक्तं नानाकुम्भांशमालिकम् |
दीपाधार इति प्रोक्तो लौहजान् दीपकांस्तु तान् |
नानावर्णान् तथा रम्यान् चतुर्हस्तप्रमाणकान् |
त्रिहस्तानेकहस्तान् वा द्विहस्तान् वा यथाबलम् |
ताम्रजान् राजतीयान् वा युग्मैस्तैः स्नेहधारकैः ||
इति दीपाधारलक्षणम् ||
वैखानसग्रन्थे ||
नीराजनक्रियापात्री हेमाद्रिद्रव्यनिर्म्मिता |
त्रितालोपेतविस्तीर्णघृतमध्या मनोहरा ||
सिधान्तशेखरे ||
हिरण्यतारताम्रादिनिर्म्मितं ह्युत्तमादिकम् |
षट् त्रिंशताङ्गुलैः श्रेष्ठं मध्यमं त्रिंशताङ्गुलैः |
चतुर्विंशतिमात्रैः स्यादधमं विस्तृतौ क्रमात् |
अग्निभागैकभागेन कुर्ययान्मध्ये च कर्णिकाम् |
उत्तरकासमुत्सेधं कर्णिकायाः प्रमाणतः |
पीठिकं परितः कुर्ययात् यवयुग्मेन विस्तृतम् |
तत्समानोन्नतानीह परितोऽष्टदलानि च |
परितोऽर्द्धप्रमाणेन काष्ठानामष्टकं समम् |
ओष्ठमेकाङ्गुलं कुर्याद्विस्तारात् कर्णिकोन्नते |
समानं पूर्णचन्द्राभं दीपाधारश्च कुम्भवत् ||
उन्नतादिचतुर्मात्रैर्विस्तृतैश्चाङ्गुलद्वयम् |
तत्र रन्ध्रद्वयं कुर्ययात् कर्णिकामध्यमं समम् ||
इति नीराजनपात्रलक्षणम् ||
अथ घण्टालक्षणम् ||
वैखानसग्रन्थे |
शब्दब्रह्ममयी घण्टा हस्तोत्सेधप्रमाणिका |
ब्रह्माण्डगोलकाकारा सुराद्यात्मतमा भवेत् |
अधोमुखतालमानविस्तारोत्सेधनं ततः |
नानाविधाश्चतस्रो वा घण्टाः प्रतिदिशः कृता |
चक्राङ्का पङ्कजाङ्का वा सा घण्टा परिकीर्त्तिता |
एवं विधा भवेद्घण्टा यद्वा चित्तानुसारतः |
सिधान्तशेखरे ||
पञ्चाङ्गुलोन्नता घण्टा तद्वद्विस्तारसंयुता |
घण्टायास्तु परीणाहो विस्तारार्द्धेन कीर्त्तितः |
अङ्गुलस्तु भवेद्दण्डो दैर्घ्ये वृत्तसमं मतम् |
दण्डाग्रे वृषभं शूलं नलिनं वापि कारयेत् |
शुद्धकांस्येन कर्त्तव्यं घण्टालक्षणमीरितम् ||
इति घण्टालक्षणम् ||
अथ नैवेद्यपात्रलक्षणम् ||
वीरमित्रोदये ||
नैवेद्यपात्रं वक्ष्यामि केशवाय महात्मने |
हैरण्यं राजतं ताम्रं कांस्यं मृण्मयमेव वा |
पालासं मध्यमं प्लाक्षपात्रं विष्णोरतिप्रियम् |
हविर्द्रव्यप्रमाणानि पात्राणि परिकल्पयेदिति ||
सिद्धान्तशेखरे ||
सुवर्णरूप्यताम्रेभ्यः स्थालिकां ह्युत्तमादिकाम् |
शुद्धकांस्येन वा कुर्ययाद्देवनैवेद्यपात्रके |
एकपात्रं समारभ्य चासप्तात्तु ततः क्रमात् |
कुर्ययान्नैवेद्यपात्राणि हीननैवेद्यकादिषु |
पात्रं शतं पलं श्रेष्ठं तदर्द्धं मध्यमं मतम् |
तदर्द्धं मध्यमं ज्ञेयम् पात्रसंख्येति कीर्त्तिता |
स्थालिका नवधा कार्यया भावाः षट्त्रिंशदङ्गुलम् |
अङ्गुलार्द्धमितैर्मूलैरष्टधाङ्गुलकैः क्रमात् |
इति विस्तारमाख्यातं स्थालिकानवके क्रमात् |
उत्तमत्रयमग्रे स्यान्मध्यमे मध्यमत्रयम् |
पुनस्त्रयमधस्तात् स्यात् स्थालिकानां यथाक्रमम् ||
इति नैवेद्यपात्रलक्षणम् ||
अथ पानीयपात्रलक्षणम् ||
वैश्वानरसंहितायाम् ||
पानीयपात्रं सौवर्णं राजतं ताम्रमेव वा |
वृक्षायतसुवृत्तं वा भवेदायतमेव वा |
प्रस्थमानप्रमाणाम्भः पुरयोग्यान्तरं शुभम् ||
इति पानीयपात्रलक्षणम् ||
अल ताम्बूलपात्रलक्षणम् ||
वैखानसग्रन्थे ||
कल्पयेद्रागलतिका दलपत्रसमन्विता |
अरत्निमानविस्तीर्णं कारयेद्वा यथाबलम् |
इति ताम्बूलपात्रलक्षणम् ||
इति प्राणतोषिण्यां तृतीयेऽर्थकाण्डे गन्धादिपात्रस्थापनान्तरूपपल्लवकथनं नाम चतुर्थः परिच्छेदः |
शारदायाम् ||
कृताञ्जलिपुटो भूत्वा वामदक्षिणपार्श्वयोः |
नत्वा गुरुं गणेशानं भूतशुद्धिमथाचरेत् ||
करशुद्धिं समापाद्य कुर्ययात्तालत्रयं ततः |
ऊर्द्ध्वोर्द्धमस्त्रमन्त्रेण दिग्बन्धमपि देशिकः |
तेन संज्वलितं तेजो रक्षां कुर्ययात् समन्ततः |
चतुर्थपटले ||
सुषुम्नावर्त्मनात्मानं परमात्मनि योजयेत् |
योगयुक्तेन विधिना चिन्मन्त्रेण समाहितः |
आत्मानं हृदयकमलस्थितं सुषुम्नावर्त्मना कुण्डलिन्या सह योगयुक्तेन विधिना चिन्मन्त्रेण हंस इति मन्त्रेण परमात्मनि योजयेदित्यन्वयः |
सुषुम्ना वर्त्म यस्याः सा तया |
हृदयकमलस्थ आत्मा तु |
हृदम्बुजे ब्रह्मरन्ध्रसम्भूते ज्ञाननालके |
ताराग्रमग्रे जीवस्तु चिन्तनीयो मनीषिभिरिति राघवभट्टधृतवचनेन ज्ञातव्यः |
योगयुक्तेन विधिना इत्यस्यायमर्थः |
गुरूपदिष्टमार्गेण हङ्कारेण कुण्डलिनीमुत्थाप्यैतां हृदयकमलगतां विभाव्य ततो जीवं मुखे गृहीत्वा सहस्रारगतां विभावयेत् |
तेन व्यो हंसमन्त्रेण द्वादशार्णोषिते परे |
इति वचनेनैकवाक्यतया चिन्मन्त्रो हंस इति |
शारदायाम् ||
कारेण सर्वभूतानां तत्त्वान्यपि विचिन्तयेत् |
वीजभावेन लीनानि व्युत्क्रमात् परमात्मनि |
सर्वभूतानां कारणे परमात्मनि वीजभावेन लीनानि तत्त्वानि चिन्तयेदित्यर्थः ||
व्युत्क्रमादिति सृष्टिक्रमापेक्षया |
अपि शब्दाद्वर्णानपि |
तदुक्तं पिङ्गलामते ||
सङ्कल्प्यैवं ततो न्यासस्थानाद्वर्णांश्च संहरेत् |
प्रतिलोमेन क्षलयो लकारस्य हकारके |
हलयश्च सकारेऽथ सलयश्च यकारके |
क्रमेणैवमपर्ययन्तं लयमुत्पाद्य यत्नतः |
अकारं ब्रह्मरन्ध्रे च सहस्रारे नियोजयेदिति ||
शारदायाम् ||
ततः संशोषयेद्देहं वायुवीजेन वायुना |
वह्निवीजेन तेनैव सन्दहेत् सकलां तनुम् |
वायुवीजेन यकारेण वायुना तदुत्थवायुना |
वह्निवीजेन रेफेण तेनैवाग्निवीजोत्थवह्निना सकलामिति कलं पापं पापपुरुषसहितां तनुं निदहेदित्यर्थः |
सविशेषणविधितया न प्रकृतशरीरनाशः |
तत्कारणन्तु सविशेषणे विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाधे इति न्यायः |
बाधस्त्वन्वयानुपपत्तिः |
तात्पर्ययविषयीभूते अर्थे अन्वयानुपपत्तौ |
यत्र तु विशिष्टे तात्पर्ययं तत्र विशिष्टमप्युपगच्छतो विधिनिषेधौ न विशेष्यमात्रम् |
तथाच भर्तृहरिः ||
नीलं पटं विधेहीति लोकेऽपि द्वयमीक्षते |
क्वचिन्नीलगुणस्यैव विशिष्टस्य विधिः क्वचित् ||
अत-एव गुप्तसाधनतन्त्रे षष्ठपटले ||
भूतशुद्धौ महादेव ! यदि देहन्तु नाशयेत् |
कुत्र स्थाने भवेत् सृष्टिरमृतं कुत्र सञ्चयेदिति देवीसन्देहप्रश्नस्योत्तरम् ||
महादेव उवाच ||
वामकुक्षौ स्थितं पापपुरुषं कज्जलप्रभम् |
तस्य संहरणार्थाय महती प्रकटीकृता |
लिङ्गदेहो महेशानि ! तस्य देहो न संशयः |
पापदेहं भवेद्दग्धं स्वदेहं नैव नाशयेत् ||
इति शिववचनम् ||
पापपुरुषध्यानन्तु राघवभट्टधृतम् ||
ब्रह्महत्याशिरस्कन्तु स्वर्णस्तेयभुजद्वयम् |
सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् |
तत्संसर्गिपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् |
उपपातकरोमाणं रक्तश्मश्रुविलोचनम् |
खड्गचर्मधरं पापमङ्गुष्ठपरिमाणकम् |
अधोमुखं कृष्णवर्णं वामकुक्षौ विचिन्तयेत् ||
शारदायाम् ||
विश्लेषयंस्तदा दोषानमृतेनामृताम्भसा |
आपाद्य प्लावयेद्देहमापादतलमस्तकम् |
दोषस्वरूपपापपुरुषभस्मविश्लेषोऽपि वायुवीजेनैव |
तथाच गणेशविमर्षिण्याम् ||
तद्भस्मकूटमखिलं वायुवीजोत्थवायुना |
विकीर्ययामृतवीजेन स्वदेहं प्लावयेत्ततः |
अमृतेनेति अमृतवीजेन वमित्यनेन |
अमृताम्भसा तदुत्थेनामृतेनापादतलमस्तकं देहमापाद्याप्लावयेदित्यन्वयः ||
शारदायाम् ||
आत्मलीनानानि तत्त्वानि स्वस्थान प्रापयेत्तदा |
आत्मानं हृदयाम्भोजमानयेत् परमात्मनः |
मनुना हंसदेवस्य कुर्यान्न्यासादिकं ततः |
परमात्मनः सकाशात् हंसदेवस्य मनुना आत्मानं हृदयाम्भोजमानयेदित्यन्वयः ||
हंसस्य वीजस्य देवः परमात्मा उपास्यत्वात् तन्मन्त्रेण सोऽहमित्यनेन |
तदुक्तं वशिष्ठसहितायाम् ||
सोऽह मन्त्रेण ता मन्त्री नादान्ते सिद्धिभाविताम् |
ध्यात्वैवं ब्रह्मरन्ध्राच्च हृदि जीवं न्यसेदिति ||
तत्र गुरूपदेशतः प्रकारो लिख्यते |
ओमद्येत्यादि श्रीदेवपूजाद्यधिकारसिद्धये भूतशुद्ध्याद्यहं करिष्ये इति सङ्कल्प्य मूलाधारादुत्थितां विद्युत्सहस्रप्रभाभास्वरां विसतन्तुरूपां सुषुम्नामार्गेण हृदयकमलगता कुण्डलिनीं विभाव्य हृदयकमलाज्जीवं प्रदीपकलिकाकारं मुखे गृहीत्वा द्वादशार्णाम्बुजं सहस्रदलगतं विभाव्य तत्र जीवात्मानं हंसमन्त्रेण परमात्मनि योजयेत् |
ततः पादादिजानुपर्ययन्तं चतुरस्रं पृथिवीमण्डलं विभाव्य तत्र पादगमनक्रियागन्तव्यगन्धघ्राणपृथिवीब्रह्मनिवृत्ति समानवायु संस्मृत्य ओं ह्लीं ब्रह्मणे पृथिव्यधिपतये निवृत्तिकलात्मने हुं फट् स्वाहा इत्यमुंमन्त्रमुच्चार्यय तान् कुण्डलिनीद्वारा अप्सु प्रविलापयेदित्यप्स्थाने संहरेत् |
जान्वादिनाभिपर्ययन्तं शुक्लमर्द्धचन्द्राकारं जलमण्डलं विभाव्य तत्र हस्तादानदातव्यरसरसनाजलविष्णुं प्रतिष्ठेदनिलस्य ओं ह्लीं विष्णवे जलाधिपतये प्रतिष्ठाकलात्मने हुं फट् स्वाहा इत्यमुं मन्त्रमुच्चार्यय तान् सर्वान् कुण्डलिनीद्वारा अग्नौ प्रविलापयामीत्यग्निस्थाने संहरेत् |
नाभ्यादिहृदयपर्ययन्तं त्रिकोणं वह्निमण्डलं रक्तवर्णं विभाव्य तत्र पायुविसर्जनीयरूपचक्षुस्तेजोरुद्रविद्याव्यानानिलं संस्मृत्य ओं हुं रुद्राय तेजोऽधिपतये विद्याकलात्मने हुं फट् स्वाहा इत्यमुं मन्त्रमुच्चार्यय तान् सर्वान् कुण्डलिनीद्वारा वायौ प्रविलापयामीति वायुस्थाने संहरेत् |
ततो हृदयाद्रिभ्रूपर्ययन्तं कृष्णवर्त्तुलं षड्विन्दुलाञ्छितं वायुमण्डलं विभाव्य तत्रापस्थानतद्विषयस्पर्शस्प्रष्टव्यवायवीयशान्त्यपानान् संस्मृत्य ओं हौं ईशानाय वायवधिपतये शान्तिकलात्मने हुं फट् स्वाहा इत्यमुं मन्त्रमुच्चार्यय तान् सर्वान् कुण्डलिनीद्वारा आकाशे प्रविलापयामीत्याकाशस्थाने संहरेत् |
ततो भ्रूमध्यादिब्रह्मरन्ध्रान्तपर्ययन्तं शुक्लवर्त्तुलमाकाशमण्डलं विभाव्य तत्र वाग्वदनवक्तव्यशब्दश्रोत्राकाशसदाशिवशान्त्यतीतप्राणान् संस्मृत्य ओं हौं सदाशिवाय आकाशाधिपतये शान्त्यतीतकलात्मने हुं फट् स्वाहा इत्यमुं मन्त्रमुच्चार्यय तान् सर्वान् कुलकुण्डलिनीद्वारा अहङ्कारे प्रविलापयामीत्यहङ्कारे प्रविलाप्य महत्तत्त्वं मातृकासंज्ञकशब्दब्रह्मस्वरूपायां हृल्लेखानुभूतायां प्रकृतौ प्रविलापयामीति प्रविलाप्य तां तथाविधां नित्यशुद्धस्वभावे परमब्रह्मणि प्रविलापयामीति प्रविलापयेत् ||
तदुक्तं मन्त्रतन्त्रप्रकाशे ||
गन्धादिघ्राणसंयुक्तां पृथिवीमप्सु संहरेत् |
रसादिजिह्वया सार्द्धं जलमग्नौ विलापयेत् |
रूपादिचक्षुषा सार्द्धमग्निं वायौ विलापयेत् |
समीरमीश्वरे विद्वान् स्पर्शादित्वक्समन्वितम् |
अहङ्कारे हरेद्व्योम सशब्दं तन्महत्यपि |
महच्च सर्वशक्तानामव्यक्ते कारणे परे |
सच्चिदानन्दरूपं यद् वैष्णवं परमं पदम् ||
पृथिव्यादिक्रमात् सर्वं तत्र लीनं विचिन्तयेत् |
ततः शरीरस्यान्तर्ययामी ऋषिः सत्यं देवता प्रकृतिपुरुषं छन्दः शोधनेन विनियोगः |
इत्युक्त्वा वामकुक्षिषु मुक्तरूपं पापपुरुषं विचिन्त्य यमिति वायुवीजस्य किष्किन्ध ऋषिर्वायुर्देतता जगतीच्छन्दः शरीरपापपुरुषशोधने विनियोगः |
इत्युक्त्वा नाभिमूले बिन्दुद्वयलाञ्छितमण्डले यं विचिन्तयेत् |
तद्वायुबीजं धूम्रं चञ्चलध्वजसंयुक्तं धूं धूं शब्दयुतं सर्वशोषणं हंसदैवतमिति ध्यात्वा पूरकप्रयोगेण षोडशवारं वीजमुच्चार्यय तद्वीजोत्थवायुना स्वशरीरस्थं पापपुरुषं शोधितं विभावयेत् |
ततो रमित्यग्निवीजस्य कश्यप ऋषिरग्निर्देवता त्रिष्टुप्च्छन्दः तद्दाहे विनियोगः |
इत्युक्त्वा हृदये रक्तं त्रिकोणं वह्निमण्डलं विद्याकलायुतं रुद्रदैवतमिति ध्यात्वा प्रयोगेण चतुःषष्टिवारं वीजमावर्त्त्य तद्वीजोत्थाग्निना तद्भस्मीभूतं विभावयेत् |
ततो रेचकेण द्वात्रिंशन्मात्रया पूर्वोक्तरूपं वायुवीजमावर्त्त्य पापपुरुषभस्म रेचयेत् |
ततो वमिति वरुणवीजस्य हिरण्यगर्भ ऋषिर्हंसो देवता त्रिष्टुप्छन्दः प्लावने विनियोगः |
इत्युक्त्वा |
वारुणं मण्डलं मूर्ध्नि शुभ्रं चन्द्रार्द्धसन्निभम् |
सितपङ्कजयुग्माभयकरं स्याद्वरुणदैवतम् ||
इति ध्यात्वा तद्वीजोत्थस्रुतांमृतेन तच्छरीरभस्म पिण्डीभूतं विभावयेत् |
ततो लमिति पृथिवीवीजस्य ब्रह्म-ऋषिरिन्द्रो देवता गायत्रीच्छन्दः कठिनीकरणे विनियोगः |
इत्युक्त्वा |
आधारमण्डले पृथ्वीमण्डलं वज्रलाञ्छितम् |
चतुष्कोणञ्च कठिनं पीतवर्णेन्द्रदैवतम् |
लंवीजेन समायुक्तं ध्यायन् मनसि पूर्ववत् ||
इति ध्यात्वा तद्वीजोत्थकाठिन्येन तनुं दृढां भावयेत् |
ततो हमित्याकाशवीजस्य ब्रह्म ऋषिराकाशं देवता पंक्तिच्छन्दः व्यूहने विनियोग इत्युक्त्वा |
आकाशमण्डलं वृत्तं द्वादशान्ते ह्यनुज्ज्वलम् |
शान्त्यतीताकलायुक्तं विचिन्त्याकाशदैवतम् |
इति ध्यात्वा तदुत्थेनाकाशेनाकाशं विभावयेत् |
तद्वत् हमिति वीजेनावायवीकरणं भवेदिति |
एवं स्वशरीरं विचिन्त्य परमात्मनः सकाशात् सृष्टिक्रमेण तत्त्वानि स्वस्वस्थानं प्रापयेदिति ||
ततः परमात्मनः सकाशात् सोऽहं मन्त्रेण जीवं हृत्पद्ममानयेदिति संक्षेपः |
इयञ्च भूतशुद्धिरावश्यकी ||
पञ्चशुद्धिविहीनेन कृता पूजाभिचारवत् |
विपरीतफलं दद्यादभक्त्या पूजनं यथा |
निर्-ऋतिर्विधिहीनानां फलं हन्ति हि कर्म्मणाम् |
निशाचराधिपत्यञ्च कुरुते शङ्कराज्ञया ||
इति शैवागमोक्तेः |
अन्यत्रापि |
देहकारणभूतानां भूतानां यद्विशोधनम् |
अवयवः ब्रह्मसंयोगाद् भूतशुद्धिरियं मता |
भूतशुद्धिं विना कर्म्म जपहोमार्च्चनादिकम् |
भवेत्तु निष्फलं सर्वं प्रकारेणाप्यनुष्ठितम् ||
इति मत्स्यसूक्ते पञ्चदशपटले ||
नत्वा गुरुं गणेशानं भूतशुद्धिं समाचरेत् |
उभाभ्यामपि पाणिभ्यां तर्ज्जन्यङ्गुष्ठयोगतः |
गृहीत्वा यं क्षमं देवि ! यमित्याघ्राय निक्षिपेत् ||
महानिर्वाणतन्त्रे पञ्चमोल्लासे च ||
स्वाङ्के निधाय च करावुत्तानौ साधकोत्तमः |
मनो निवेश्य मूले च हुङ्कारे शैवकुण्डलीम् |
उत्थाप्य हंसमन्त्रेण पृथिव्या सहितान्तु ताम् |
स्वाधिष्ठानं समानीय ततस्तत्त्वे नियोजयेत् |
घ्राणादिघ्राणसंयुक्तां पृथिवीमप्सु संहरेत् |
रसादि जिह्वया सार्द्धं जलमग्नौ विलापयेत् |
रूपादि चक्षुषा सार्द्धमग्निं वायौ विलाप्य च |
स्पर्शादि त्वग्युतं वायुमाकाशे विप्रलापयेत् |
अहङ्कारे तरेद्व्योम सशब्दं तन्महत्यपि |
महत्तत्त्वञ्च प्रकृतौ तां ब्रह्मणि विलापयेत् |
एवं विलाप्य मतिमान् वामकुक्षौ विचिन्तयेत् |
पुरुषं कृष्णवर्णञ्च रक्तश्मश्रुविलोचनम् |
खड्गचर्म्मधरं क्रुद्धमङ्गुष्ठपरिमाणकम् |
सर्वपापस्वरूपञ्च सर्वदाधोमुखस्थितम् |
ततस्तु वामनासायां यं बीजं धूम्रवर्णकम् |
सञ्चिन्त्य पूरयेत्तेन वायुं षोडशमात्रया |
तेन पापात्मकं देहं शोधयेत् साधकाग्रणीः |
नाभौ रं रक्तवर्णञ्च ध्यात्वा तज्जातवह्निना |
चतुःषष्ट्या कुम्भकेन दहेत् पापवतीं तनुं |
ललाटे वरुणं बीजं शुक्लवर्णं विचिन्त्य च |
द्वात्रिंशता रेचकेन प्लावयेदमृताम्भसा |
आपादशीर्षपर्ययन्तमाप्लाव्य तदनन्तरम् |
उत्पन्नं भावयेद्देहं नवीनं देवतामयम् |
पृथ्वीबीजं पीतवर्णं मूलाधारे विचिन्तयन् |
तेन दिव्यावलोकेन दृढीकुर्ययान्निजां तनुम् |
हृदये हस्तमादाय आं ह्रीं क्रों हं स उच्चरन् |
सोऽहं मन्त्रेण तद्देहे देव्याः प्राणान् प्रतिष्ठयेत् |
भूतशुद्धिं विधायेत्थं देवीभावपरायणः ||
नीलतन्त्रे चतुर्थपटलेऽपि ||
भूतशुद्धिं ततो वक्ष्ये शृणुष्वावहितानघे ! |
अपानमूर्द्ध्वगं कृत्वा दिव्यतत्त्वैः प्रपूर्यय च |
हंसमन्त्रेण चाधाराच्छक्तिं कुण्डलिनीं पराम् |
क्रमाच्चक्राणि निर्भिद्य जीवात्मानं ततोऽम्बुजम् |
सहस्रारं ततो नीत्वा परे ब्रह्मणि योजयेत् |
इन्द्रियाणि दशेकञ्च महत्तत्त्वानि तद्गुणान् |
शुद्धं करोति चित्तानि तत्त्वानि प्रकृतेर्वपुः |
चतुर्विंशतितत्त्वानि वीजभावेन योजयेत् |
ततः शून्ये शरीरे च वामभागे विचिन्तयेत् |
निर्लेपं निर्गुणं शुद्धमात्मानं तारिणीमयम् |
अन्तरीक्षे ततो ध्यायेदाः काराद्रक्तपङ्कजम् |
भूयस्तस्योपरि ध्यायेत् टाङ्कारेच्छेतपङ्कजम् |
पुनस्तस्योपरि ध्यायेद् हुङ्कारं नीलसन्निभम् |
ततो हुंङ्कारवीजे तु कर्त्तृका वीजभूषितम् |
कर्त्तुः परिगतां ध्यायेदात्मानं तारिणीमयम् |
तथा |
वश्यादौ रक्तवर्णं तमाकृष्टौ पीतरूपिणम् |
मारणोच्चाटनैर्धूम्रं कृष्णम् तत्तदपेक्षया |
एवम्भूतं स्वमात्मानं ध्यायेच्च तारिणीमयम् ||
विश्वसारतस्त्रे द्वितीयपटले ||
यमिति वायुवीजेन षोडशेन तु पूरयेत् |
चतुः षष्ट्या च तेनैव पापदेहं प्रशोधयेत् |
तेन वीजेन विधिना पिङ्गलायाञ्च रेचयेत् |
द्वात्रिंशन्मात्रया भस्म श्वासमार्गेण वै शनैः |
एवं वारत्रयं कृत्वा भूतानां शोधनं स्मृतम् |
पूरयेत् प्रतिलोमेन वह्निवीजेन देशिकः |
षोडशेन चतुःषष्ट्या कुम्भयेद्रेचयेत्ततः |
द्वात्रिंशन्मात्रया चैव दहनं परिकीर्त्तितम् |
चतुर्द्धा च प्रजप्याथ तद्वर्णं प्रजपेत् क्रमात् |
शोषणं दहनञ्चैव प्ल्वावनं परिकीर्त्तितम् |
किस्किन्धः कश्यपश्चैव हिरण्यगर्भस्ततः परम् |
वीजानां ऋषयः प्रोक्ताः शृणुष्व कमलेक्षणे ! |
प्राणायामं ततः कुर्ययात् क्रमेण देशिकोत्तमः |
सहस्रारे महापद्मे चिन्तयेदिष्टदेवताम् |
यथा ध्यानं यथोक्तेन गुरुमार्गेण देशिकः |
तदा भूतानि तज्ज्ञानि सगुणानि विधानतः |
सकलाशक्तियुक्तानि वर्णमात्रक्रमेण च |
प्रतिलोमेन संहृत्य सतत्त्वधातुसंयुतैः |
मूलाधारं सहस्रारं षट्चक्रक्रमयोगतः |
व्युत्क्रमेण विचिन्त्याथ सहस्रारं ततोऽवधि |
ओं मन्त्रे चालयेद्बीजं षट्चक्रक्रमयोगतः |
ऐक्यं विभाव्य तत्स्थाने मन्त्रमेकं समभ्यसेत् |
सोऽहं मन्त्रं समुच्चार्यय सूक्ष्मब्रह्म विचिन्तयेत् |
तत्क्षणान्निर्मलं देहं निर्द्वन्द्व निष्परिग्रहम् |
अद्वैतं चिन्तयेत्तत्र मनसा वह्नियोगतः |
अकारादिक्षकारान्तवर्णमालाक्रमेण च |
चिन्तयेत् श्वासरोधेन पूरकुम्भकरेचकैः |
एवं विचिन्त्यतान् वर्णान् ततश्चन्द्रमनुं स्मरेत् |
टान्तं बिन्दुसमायुक्तमर्द्धचन्द्रविभूषितम् |
चतुर्द्धा प्रजपेन्मन्त्रं मनसा वायुना सुधीः |
इन्द्रबीजं जपेद्देवि ! तत्त्वबीजं ततः परम् |
दूरीकृत्य विधानेन धारया सुधया पुनः |
ततः सञ्चिन्तयेद्देवि ! पूर्वोक्तं मातृकामयम् |
सकलानादसंयुक्तं स्वशक्तिसहितं ततः |
पञ्चाशद्वर्णसंयुक्तं महाभूतसमन्वितम् |
पञ्चभूतात्मकं देहमनुलोमेन चिन्तयेत् |
अन्तर्ययामी ऋषिस्तस्य प्राणायामस्य देवता |
वक्षःस्थले दक्षहस्तं दत्त्वा साधकसत्तमः |
पूर्वोक्तप्राणमनुना ऋषिश्छन्दःसमन्वितम् |
हंसमन्त्रेण तं प्राणमावाहनमुदाहृतम् |
सधातूनि सतत्त्वानि इहागत्य चिरं सुखम् |
तिष्ठन्तु वह्निजायान्तं मन्त्रमेनं समुद्धरेत् |
अकारादिक्षकारान्तं पञ्चाशद्वर्णसंयुतम् |
विचिन्त्य मनसा देहं तदा देवो भवेन्नरः |
प्राणायामं त्रिरावृत्य बलं प्राणेषु निक्षिपेत् |
अकारादिक्षकारान्तं पूरकुम्भकरेचकैः |
प्रतिलोमानुलोमेन विचिन्त्य प्राणमावहन् |
तत्क्षणाद्विरजो मन्त्री भवेत् साक्षात् सदाशिवः |
नृसिंहेनैव मन्त्रेण देहे बीजं विनिक्षिपेत् |
मूलाधारं ततः प्राप्य जीवात्मानं विचिन्तयेत् |
कुण्डलीरूपसम्भूता विद्युदग्निसमप्रभा |
निर्म्मला निर्विकारस्था सर्वसिद्धिसमन्विता |
तदन्ते विन्यसेद्देहे मातृकां वर्णरूपिणीम् |
मन्त्रेणानेन तां ध्यात्वा विन्यसेत् सकलां तनुम् ||
अथ प्राणायामः ||
दक्षिणामूर्त्तितन्त्रे सप्तमपटले ||
मूलमन्त्रेण देवेशि ! वामेनापूर्यय चोदरम् |
कुम्भकेन त्रिरावृत्त्या दक्षिणेन च रेचयेत् |
कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणम् |
प्राणायामः स विज्ञेयस्तर्ज्जनीमध्यमे विना ||
प्राणायामे विशेषः पश्चाद्वक्ष्यते ||
ततो दीक्षापद्धत्युक्तं तन्त्रसारधृततत्तत्कल्पोक्तञ्च न्यासादिकं कुर्ययात् ||
अथ पूजाधारनिरूपणम् |
मातृकाभेदतन्त्रे द्वादशपटले ||
शालग्रामे मणौ यन्त्रे प्रतिमायां घटे जले |
पुस्तिकायाञ्च गङ्गायां शिवलिङ्गे प्रसूनके |
आधारभेदे फलविशेषस्तत्रैव |
शालग्रामे शतगुणं मणौ तद्वत् फलं लभेत् |
यन्त्रे लक्षगुणं पुण्यं मूर्त्तौ लक्षं सुलोचने ! |
घटे चैकगुण पुण्यं जले चैकगुणं प्रिये ! |
पुस्तिकायां सहस्रन्तु गङ्गायास्तत्समं फलम् |
शिवलिङ्गे ह्यनन्तं हि विना पार्थिवलिङ्गकम् |
पुष्पयन्त्रे महेशानि ! पूजनात् सर्वसिद्धिभाक् |
शालग्रामादिनिकटे यन्त्रकरणनिषेधोऽपि |
शालग्रामे च पूजायां न लिखेद् यन्त्रमुत्तमम् |
मणौ स्थिते महेशानि ! न लिखेद्यन्त्रमुत्तमम् |
प्रतिमायाश्च पुरतो घटं संस्थाप्य यत्नतः |
परिवारान् यजेत्तत्र घटे तु परमेश्वरि ! |
यन्त्राधिष्ठातृदेवांश्च घटवक्त्रे प्रपूजयेत् |
समस्तदेवतारूपं घटञ्च परिचिन्तयेत् |
सुरद्रुमस्वरूपो हि घटोऽयं परमेश्वरि ! ||
प्रतिमानिकटे यन्त्रकरणनिषेधोऽपि तत्रैव |
जन्मस्थानं महायन्त्रं यदि कुर्ययात्तु साधकः |
तत्र मूर्त्तिं न कुर्ययात्तु यदि यन्त्रञ्च कारयेत् |
यदि कुर्ययात्तु मोहेन यजेद्वारद्वयं प्रिये ! |
द्विगुणं पूजनं तत्र द्विगुणं बलिदानकम् |
द्विगुणं प्रजपेन्मन्त्रं द्विगुणं होममाचरेत् |
अन्यथा विफला पूजा विफलं बलिदानकम् |
सर्वं हि विफलं यस्मात्तस्माद् यन्त्रं न कारयेत् |
गुप्तसाधनतन्त्रे अष्टमपटले |
सामान्ये च जले देवि ! पूजा दोषादिशान्तये |
तथा |
न कुर्ययात् पार्थिवे लिङ्गे देवीपूजादिकाः क्रिया |
पार्थिवे पूजनाद्देवि ! सिद्धिहानिः प्रजायते |
यदि दैवान्महेशानि ! मृत्तिकास्खलनं भवेत् |
तावद्वर्षसहस्राणि नरके पूयशोणिते |
कुम्भीपाके महाघोरे पितृभिः सह पच्यते |
अत एव महेशानि ! पार्थिवे न हि पूजयेत् |
स्फाटिकादीन् समानीय लिङ्गं निर्माय यत्नतः |
तत्र लिङ्गे पूजनाद्धि सर्वसिद्धियुतो भवेत् ||
तन्त्रान्तरे ||
कालिकां तारिणीञ्चैव त्रिपुरां भुवनेश्वरीम् |
योऽर्च्चयेत् पार्थिवे लिङ्गे स याति परमां गतिम् |
तारिण्याः कालिकायाश्च सुन्दर्ययाः परमेश्वरि ! |
पार्थिवे पूजनाद्देवि ! चतुर्वर्गफलं लभेत् |
एवञ्च गुप्तसाधनोक्तवचनं कालिकादिविशेषेतरपरम् समान्यविशेषन्यायात् |
यद्यपि देवताया निराकारत्वेन ध्यानादिकमसम्भवं तथापि साकारतया ध्यानं सर्वसमञ्जसं तस्याः साकारत्वकारणन्तूक्तम् मुण्डमालातन्त्रे सप्तमपटले ||
शिव उवाच ||
निर्गुणा प्रकृतिः सत्यमहमेव च निर्गुणः |
यदैव सगुणा त्वं हि सगुणोऽहं सदाशिवः |
सत्यं हि सगुणा देवी सत्यं हि निर्गुणः शिवः |
उपासकानां सिद्ध्यर्थं सगुणा सगुणो मतः ||
महानिर्वाणतन्त्रे पञ्चमोल्लासे ||
ध्यानन्तु द्विविधं प्रोक्तं स्वरूपारूपभेदतः |
अरूपं तव यद्ध्यानमवाङ्मनसगोचरम् |
अव्यक्तं सर्वतो व्याप्तमिदमित्थं विवर्ज्जितम् |
अगम्यं योगिभिर्गम्यं कृत्स्नैर्बहुसमाधिभिः |
मनसो धारणार्थाय शीघ्रं स्वाभीष्टसिद्धये |
सूक्ष्मध्यानं पुरोधाय स्थूलध्यानं वदामि ते |
त्रयोदशोल्लासे ||
देव्युवाच ||
महादेवेशादिशक्तेर्महाकाल्या महाद्युतेः |
सूक्ष्मातिसूक्ष्मभूतायाः कथं रूपनिरूपणम् ||
रूपं प्रकृतिकार्ययाणां सातु साक्षात् परात्परा |
एतन्मे संशयं देव ! विशेषाच्छेत्तुमर्हसि ||
इति देवीप्रश्नानन्तरं श्रीसदाशिव उवाच ||
उपासकानां कार्ययाय पुरैव कथितं प्रिये ! |
गुणक्रियानुसारेण रूपं देव्याः प्रकल्पितम् ||
इत्युक्तम् ||
श्वेतपीतादिको वर्णो यथा कृष्णे विलीयते |
प्रविशन्ति तथा काल्यां सर्वभूतानि शैलजे ! |
अथ तस्याः कालशक्तेर्निर्गुणाया निराकृतेः |
हितायाः प्राप्तमूर्त्तेस्तु वर्णः कृष्णो निरूपितः |
नित्यायाः कालरूपाया अरूपायाः शिवात्मनः |
अमृतत्वाल्ललाटेऽस्याः शशिचिह्नं निरूपितम् |
शशिसूर्ययाग्निभिर्नेत्रैरखिलं कालिका जगत् |
सम्पश्यति यतस्तस्मात् कल्पितं नयनत्रयम् |
ग्रसनात् सर्वसत्त्वानां कालदण्डेन चर्वणात् |
तद्रक्तवासोरूपेण भासितं सकलं जगत् |
समये समये जीवरक्षणं विपदः शिवे ! |
प्रेरणं स्वस्वकार्ययेषु वरञ्चाभयमीरितम् |
रजोजनितविश्वानि विष्टभ्य परितिष्ठति |
अतो हि कथितं भद्रे ! रक्तपद्मासनस्थिताम् ||
कुलार्णवे पञ्चमखण्डे षष्ठोल्लासेऽपि ||
चिन्मयस्याप्रमेयस्य निष्कलस्याशरीरिणः |
साधकानां हितार्थाय ब्रह्मणो रूपकल्पना |
लिङ्गस्थण्डिलवह्न्यम्बु यन्त्रकुड्यपटेषु च |
मण्डले फलके मूर्ध्नि हृदि वा दश कीर्त्तिताः |
एषु स्थानेषु देवेशि ! यजन्ति परमां शिवाम् |
अरूपां रूपिणीं कृत्वा कर्मकाण्डरता नराः |
गवां सर्वाङ्गजक्षीरं स्रवेत् स्तनमुखाद् यथा |
तथा सर्वगतो देवः प्रतिमादिषु राजते |
आभिरूप्याच्च विम्बस्य पूजायाश्च विशेषतः |
साधकस्य च विश्वासाद्देवतासन्निधिर्भवेत् |
नारदपञ्चरात्रे द्वितीयरात्रे च ||
नारद उवाच ||
भक्तिज्ञानञ्च भक्तानां योगज्ञानञ्च योगिनाम् |
केषां वर्त्म प्रशस्तञ्च तन्मां कथितुमर्हसि ||
श्रीमहादेव उवाच ||
ध्यायन्ति योगिनः सर्वे ज्योतीरूपं सनातनम् |
निर्गुणस्य शरीरञ्च न मन्यन्ते च योगिनः |
शरीरं प्रक्तनं सर्वं निर्गुणं प्रकृतेः परम् |
गुणेन सञ्जातदेहो निर्गुणस्य कुतो भवेत् |
इति सर्वं योगशास्त्रं योगविद्भिः प्रकीर्त्तितम् |
वैष्णवास्तं न मन्यन्ते कुमाराद्या वयं द्विज ! |
वदन्ति वैष्णवाः सर्वे तेजस्तेजस्विनां विना |
कृष्णो नित्यशरीरी च तस्य तेजो हि वर्त्तते |
तेजोऽभ्यन्तर एवाहुः कृष्णमूर्त्तिः सनातनी |
ध्यायन्ते योगिनः सर्वे तत्तेजो भक्तिपूर्वकम् |
सुपक्वभक्त्या कामेन स योगी वैष्णवी भवेत् |
तेजोऽभ्यन्तररूपञ्च ध्यायन्ते योगिनः सदा |
दासानाञ्च कुतो दास्यं विना देहेन नारद ! |
वैष्णवानां मतं शस्तं सर्वेभ्योऽपि च नारद ! |
न वैष्णवात् परो ज्ञानी ब्रह्माण्डेषु च ब्रह्मणाम् ||
एवं देवतायाः साकारत्वे सिद्धे स्वस्वकल्पोक्तं तन्त्रसाराद्युक्तं देवताध्यानं कृत्वाः मानसैः सम्पूज्य शङ्खस्थापनाद्यावरणपुजान्तं तन्त्रसारोक्तं कर्म्म कुर्ययात् |
मानसपूजान्तु अग्रे उपपादयिष्ये |
सम्प्रति प्राणप्रतिष्ठायां विशेषो लिख्यते ||
शारदातिलके त्रयोविंशतिपटले ||
प्राणप्रतिष्ठामन्त्रस्य विधानमभिधीयते |
येन प्रागीरिता मन्त्राः प्राणवन्तो भवन्ति ते |
यद्यपि मन्त्राणां प्राणप्रतिष्ठा नास्ति तेषां स्वत एव समर्थत्वात् तथापि यन्त्रादौ लिखितानां प्राणप्रतिष्ठा क्रियते तद्द्वारेण प्राणवन्त इत्युक्तिः |
प्राणप्रतिष्ठया समस्तयन्त्रविहितयन्त्रप्रयोगपुत्तल्यादि सर्वं प्रतिष्ठितप्राणं क्रियते इत्यर्थः ||
पाशाङ्कुशपुटा शक्तिर्वाणीबिन्दुविभूषितः |
याद्याः सप्त कलावन्तो व्योम सार्द्धेन्दुसंयुतम् |
प्रथमं पाशबीजं ततः शक्तिबीजं ततोऽङ्कुशबीजं वाणीयः बिन्दुभूषित इत्यनेन यं याद्या इति उद्धृतयकारानुवादेन सप्तमन्तु तद्यमिति भिन्नवीजम् |
पूर्वं पृथगुद्धारस्तु सप्तानामपि सबिन्दुताख्यापनाय |
तथा च राघवभट्टधृतम् ||
पाशाङ्कुशान्तरितः शक्तिमनोः परस्तादुच्चार्यय यदि वसुवर्णगुणं सहंसमिति व्योम हकारः सार्द्धेन्दुसंयुतं हं |
क्वचित्तु सनेन्दुसंयुतमिति पाठस्तदा होमिति |
तदन्ते हंसमन्त्रः स्यात् ततोऽमुष्य पदं वदेत् |
प्राणा इति वदेत् पश्चादिह प्राणास्ततः परम् |
अमुष्य जीव इहतः स्थितोऽमुष्य पदं वदेत् |
सर्वेन्द्रियाण्यमुष्यान्ते वाङ्मनश्चक्षुरन्ततः |
श्रोत्रघ्राणपदे प्राणा इहागत्य सुखं चिरम् |
तिष्ठन्त्वग्निबधूरन्ते प्राणमन्त्रोऽयमीरितः |
प्रत्यमुष्य पदं पूर्वं पाशादीनि प्रयोजयेत् |
षडधिकषष्ट्यक्षरोऽयं मन्त्रः |
प्रयोगेषु समाख्यातः प्राणमन्त्रो मनीषिभिः |
केवलमेतत्साधनार्थं जपव्यतिरेकेण सर्वत्रान्यत्र प्रयोग एव |
तेनात्मनि यत्र पुत्तल्यादावपि प्राणप्रतिष्ठासमये प्रत्यमुष्य पदं पाशादीनि संयोज्य अमुष्य पदस्थाने षष्ठ्यन्तं साध्यनाम संयोज्य मन्त्रमुच्चरेदिति ज्ञेयम् ||
ब्रह्मविष्णुशिवाः प्रोक्ता मुनयस्तन्त्रवेदिभिः |
उक्तमृग्यजुषांसामच्छन्दश्छन्दोविशारदैः |
चैतन्यरूपाः प्राणा मे देवताशक्तिरीरिता |
कवर्गेण वियत्पूर्वे भूते हृदयमीरितम् |
शिवश्च वर्गसन्धाद्यैरीरितं तदनन्तरम् |
ज्ञानेन्द्रियेऽष्टवर्गाद्यैस्तच्छिखा परिकीर्त्तिता |
कर्मेन्द्रियैस्तवर्गाद्यैः कवचं परिकीर्त्तितम् |
वचनाद्यैः पवर्गाद्यैर्विलोचनमुदीरितम् |
बुद्ध्याद्यैर्यादिसंयुक्तैरस्त्रस्य न्यासमीरितम् |
आत्मनेऽन्ताः समाख्याता अङ्गमन्त्राः सजातिभिः ||
प्रयोगो यथा ||
ङं कं खं घं गं आकाशवायुवह्निसलिलभूम्यात्मने हृदयाय नमः |
ञं चं छं झं जं शब्दस्पर्शरूपरसगन्धात्मने शिरसे स्वाहा |
णं टं ठं ढं डं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मने शिखायै वषट् |
नं तं थं धं दं वाक्पाणिपादपायूपस्थात्मने कवचाय हुं |
मं पं फं भं बं वचनादानविहरणविसर्गानन्दात्मने नेत्रत्रयाय वौषट् |
हं यं रं वं लं क्षं शं षं लं सं बुद्धिमनोऽहङ्कारचित्तज्ञानात्मने अस्त्राय फट् ||
नाभेश्चरणपर्ययन्तं पाशवीजं प्रविन्यसेत् |
हृदयान्नाभिपर्ययन्तं शक्तिवीजं ततः परम् |
मूर्द्ध्वादिहृदयं यावदङ्कुशं विन्यसेत्ततः |
हृदये धातुषु न्यस्येदतिदीप्तं यथाक्रमम् |
प्राणे जीवे ततो न्यस्येद्धंसवर्णद्वयं पृथक् ||
प्राणजीवयोरपि हृदय एव न्यासः |
पृथगिति प्रत्येकम् ||
कुर्ययाद्व्यापकमेतेन समस्तेन विधानवित् ||
समस्तेन मूलेनेत्यर्थः ||
ततो विचिन्तयेद्देवीं जीवभूतां जगन्मयीम् |
रक्ताब्धिपोतारुणपद्मसंस्थां पाशाङ्कुशाविक्षुशरासवाणान् |
शूलं कपालं दधतीं कराब्जै रक्तां त्रिनेत्रां प्रणमामि देवीम् |
एवं ध्यात्वा जगद्धात्रीं लक्षमेकं जपेन्मनुम् |
जुहुयात्तद्दशांशेन चरुभिर्घृतसंयुतैः |
सपाशाढ्यशक्तिपीठे विधिनानेन पूजयेत् |
अर्च्चयेत् षट्सु कोणेषु ब्रह्माणं विष्णुमीश्वरम् |
वणीं लक्ष्मीमुमां पश्चात् षडङ्गानि प्रपूजयेत् |
पूजाक्रमस्तु ||
आग्नेयवारुणेशेषु ब्रह्मविष्ण्वीशा ऐन्द्रनैर्-ऋतवायव्येषु वाणीलक्ष्म्युमाः पूज्याः |
प्रमाणन्तु प्रागुक्तम् ||
दलेषु मातरः पूज्यास्तद्वाह्ये लोकनायकाः |
एवं सम्पूजयेद्देवीं सुगन्धिकुसुमादिभिः |
इति संसाधितो मन्त्रः षट्कर्म्मफलदो भवेत् |
स्थापयेन्मनुनानेन प्राणान् सर्वत्र देशिकः |
बीजान्तेऽमुष्यशब्दानामादौ दूतीः प्रयोजयेत् ||
सर्वत्र सर्वकर्म्मसु पुत्तल्यादौ च प्राणप्रतिष्ठास्थापनप्रकारोऽनेन दर्शितः |
वीजान्ते पाशादिहंसमन्त्रान्ते |
अमुष्यशब्दानामादाविति साध्यनाम्न आदौ |
तदुक्तं राघवभट्टधृतेन |
गत्वा बद्ध्वा पाशवीजेन साध्यं शक्त्या गृह्णन् शक्तिवीजेन भूयः |
प्राणानाकृष्याङ्कुशेनाथ यादीन् दूतीश्चोक्त्वा साध्यनामाथ मन्त्री ||
मृतवैवस्वता भूयो जीवहा प्राणहा ततः |
आकृष्याग्रहणा पश्चात् प्रमदा विस्फुलिङ्गिनी |
क्षेत्रज्ञा प्रतिहा ह्येताः प्राणदूत्यो नव स्मृताः |
पाशेन बद्धचेष्टस्य शक्त्या स्वीकृतचेतसः |
अङ्कुशेनाहृतस्याद्भिः सार्द्धस्याशु समाहरेत् |
द्वादशाङ्गुलमानेन कृत्वा साध्यस्य पुत्तलीम् |
तस्यां प्राणात्मकं मन्त्रं सकीटं हृदये न्यसेत् |
निशीथसमये साध्ये सुप्तेऽस्य हृदयाम्बुजे |
दलेषु वायुवह्नीन्द्रवरुणानामतः परम् |
ईशराक्षसशीतांशुयमानां कर्णिकान्तरे |
यादीन् हंससमायुक्तान् भृङ्गाकाराननुस्मरेत् |
शिवो विन्दुसमुद्भूतं तन्तुसम्बद्धविग्रहान् |
एवमात्महृदम्भोजे भृङ्गीरूपा सवर्त्मना |
एकैकां साध्यहंपद्मां भृङ्गमेकैकमानयेत् |
पुत्तल्यां स्थापयेन्मन्त्री सचित्ते वा विधानवित् ||
अत्र प्रथमवत् द्वितीयादीनामपि साध्यनाम्नामेकैकस्यादौ पाशादिहंसमन्त्रान्तानि बीजान्युच्चार्यय सम्बुद्ध्यन्तं प्रथमदूतीनाम एवं चतुर्षु स्थानेषु प्रथमं प्रयुज्यते |
एवं दूत्यन्तरेष्वपि |
नवकृत्त्वो मन्त्रावृत्तिः |
मन्त्रोऽयमित्थमुदितो ग्रहसंख्ययैवेति राघवभट्टधृतवचनात् |
अत्रैकैकस्यामावृत्तौ एकैकभृङ्गानयनमिति ज्ञेयम् |
प्रथमदूतीनामप्रयोगे प्रथमभृङ्गानयनं द्वितीयदूतीनामप्रयोगे द्वितीयभृङ्गानयनमिति नवान्तमयमेव क्रमः |
तन्तुच्छेदं प्रकुर्वीत वह्निबीजेन संयुतः |
आकृष्ट्वा साध्यहृद्भृङ्गांस्ततः संज्ञम्भ्रमेद्भवा |
एवमेकादशावृत्तीः कुर्ययात् सर्वेषु कर्मसु |
वश्याकर्षणयोर्यादीन् वरुणान् संस्मरेत् सुधीः |
मोहविद्वेषयोर्धूम्रान् कृष्णान् मारणकर्मणि |
पीतान् संस्तम्भने ध्यायेत् प्राणाकर्षणकर्म्मवित् |
आकृष्टान् साध्यहृत्प्राणान् स्थापयेदात्मनो हृदि |
क्रूरकर्मसु पुत्तल्यां तेषां स्थापनमीरितम् |
प्राणान् साध्यस्य मण्डूकानात्मानन्तु भुजङ्गमान् |
संस्मरेत्तत्र निपुणः सदा क्रूरेषु कर्मसु |
वायवग्निशक्रवरुणेश्वरराक्षसेन्दुप्रेतेशपत्रलिखितैरथ यादिवर्णैः |
बिन्द्वान्तिकैः क्षगत हंससमेतसाध्यं प्राणात्मयन्त्रमथ वर्णवृतं धरास्थम् |
इत्थं प्रयोगकुशलो मनुनानेन मन्त्रवित् |
वशयेत् सकलान् देवान् किं पुनः पार्थिवान् जनान् ||
आवाहनादिमुद्रा तु तन्त्रसारकारेण धृता न त्वत्र प्रयोजनं तासामिति |
अथासनं मातृकाभेदतन्त्रे पञ्चमपटले |
चतुरङ्गुलविस्तारमित्यदि ||
अथ पाद्यम् ||
प्रपञ्चसारे षष्ठपटले ||
पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरुच्यते इति पाद्यम् ||
अथार्घ्यम् ||
गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपाः |
दूर्वा चेति क्रमादर्घ्य द्रव्याष्टकमुदीरितम् |
शाक्तेयार्घ्ये विशेषो योगिनीतन्त्रे सप्तमपटले ||
वक्रधान्योद्भवं यच्च सूक्ष्मधान्योद्भ्वं तथा |
तत्तु तण्डुलमक्षुणं सप्ताष्टनवसंख्यया |
दूर्वाङ्कुरसमेतञ्च भगवत्यै निवेदयेत् |
अष्टम्यां वा नवम्यां वा सोऽश्वमेधफलं लभेत् ||
इत्यर्घ्यम् ||
अथाचमनीयम् ||
जातीलवङ्गकक्कोलैर्निर्मिताचमनीयकम् ||
इत्याचमनीयम् |
अथ मधुपर्क्कम् ||
मधुपर्कञ्च सक्षौद्रं दधि प्रोक्तं मनीषिभिः ||
शारदायाम् ||
आज्यं दधि मधून्मिश्रमेतदुक्तं मनीषिभिरिति मधुपर्कम् ||
अथ पुनराचनमीयम् ||
शुद्धाभिरद्भिर्विहितं पुनराचमनीयकम् ||
इति पुनराचमनीयम् |
अथ गन्धः |
गन्धशब्दव्युत्पत्तिस्तु कुलार्णवे पञ्चमखण्डे सप्तदशोल्लासे ||
गम्भीरापारदौर्भाग्यक्लेशनाशनकारणात् |
धर्मज्ञानप्रदानाच्च गन्ध इत्यभिधीयते ||
प्रपञ्चसारे ||
चन्दनागुरुकर्पूरपङ्कं गन्धमिहोच्यते ||
तद्दानफलन्तु योगिनीतन्त्रे ||
गन्धानुलेपनं दत्त्वा ज्योतिष्टोमफलं लभेत् |
कुङ्कुमेन विलिप्यार्ययां गोसहस्रफलं लभेत् |
चन्दनागुरुकर्पूरैः शुक्लपुष्पैः सकुङ्कुमैः |
विलिप्तां पूजयेद्दूर्गां वह्निष्टोमफलं लभेत् |
अथ गन्धाष्टकम् ||
मेरुतन्त्रे चतुर्थप्रकाशे ||
गन्धाष्टकं तस्य तस्य देवस्याथ प्रकीर्त्त्यते |
चन्दनागुरुकर्पूररोचनाकुङ्कुमं मदम् |
रक्तचन्दनजावासगाणपत्यमुदाहृतमिति गणेशगन्धाष्टकम् ||
ह्रीवेरं चन्दनं कुष्ठमगुरुं चन्दनं मुरा |
सेव्यकञ्च जटामांसी वैष्णवं तदुदाहृतमिति विष्णुगन्धाष्टकम् ||
चन्दनागुरुकर्पूरजलकुङ्कुमरोचना |
जटामांसी कपियुतं शाक्तं गन्धाष्टकं विदुरिति शक्तिगन्धाष्टकम् ||
जलकाश्मीरकुष्ठैस्तु रक्तचन्दनचन्दनैः |
उशीरागुरुकर्पूरैः सौरं गन्धाष्टकं विदुरिति सूर्ययगन्धाष्टकम् ||
गोरोचना च कुष्ठञ्च कर्पूरागुरुकुङ्कुमैः |
चन्दनेन सदास्यञ्च वरदेन च पत्रकम् ||
शारदायाम् ||
चन्दनागुरुकर्पूरतमालजलकुङ्कुमम् |
कुशीतकुष्ठसंयुक्तं शिवं गन्धाष्टकं स्मृतमिति शैवगन्धाष्टकम् ||
अथ पुष्पम् ||
पुष्पशब्दव्युत्पत्तिस्तु कुलार्णवे ||
पुण्यसंवर्द्धनाच्चापि पापौघपरिहारतः |
पुष्कलार्थप्रदानाञ्च पुष्पमित्यभिधीयते ||
प्रपञ्चसारे ||
तुलस्यौ पङ्कजे जात्यौ केतक्यौ करवीरकौ |
शस्तानि दश पुष्पाणि तथा रक्तोत्पलानि च |
उत्पलानि च नीलानि कह्लारकुमुदानि च |
विश्वसारतन्त्रे द्वितीयपटले शेषचरणे बहूनि कुसुमानि चेति पाठः ||
मालतीं कुन्दमन्दारं नन्द्यावर्त्त्यादिकानि च |
पलाशपाटलापार्थपरन्त्यावर्त्मकानि च |
चम्पकानि स नागानि रक्तमन्दारकाणि च |
अशोकोद्भवविल्वाख्यकर्णिकारोद्भवानि च ||
विश्वसारतन्त्रे शक्तिविषये विशेष उक्तो यथा ||
अथ देव्या मते वक्ष्ये पुष्पाणि शृणु पार्वति ! |
इत्युक्त्वा तुलस्यौ पङ्कजे इत्याद्युक्तम् ||
तदनन्तरम् |
एतान्यन्यानि तन्त्रेऽस्मिन् पुष्पाणि सन्ति वै प्रिये ! |
नानादेशोद्भवानि स्युः सर्वकालोद्भवानि च |
कुलानि चैव पुष्पाणि दद्याद्देव्यै विशेषतः |
अथ पुष्पं प्रवक्ष्यामि कर्मयोगे महेश्वरि ! |
शृणुष्व परया भक्त्या यथोक्तं ब्रह्मणा पुरा |
कमले करवीरे द्वे कुसुम्भे तुलसीद्वयम् |
जात्यशोके केतके द्वे कुमारीचम्पकोत्पलम् |
कुन्दमन्दारपुन्नागपाटलानागचम्पकम् |
आरग्वधं कर्णिकारं पावन्ती नवमल्लिका |
सौगन्धिकं सकोरण्डं पलाशाशोकसर्जकाः |
सिन्धुवार अपामार्गं वापुलीकञ्च कामजम् |
व्याघ्रचेलं दमनकं मरुवकञ्च ततः परम् |
लवङ्गं जलकर्पूरं तगरञ्च जवा तथा |
शिवपुष्पं द्रोणपुष्पं कामराजं सुकेतकम् |
अन्यानि वनपुष्पाणि जलजस्थलजानि च |
गिरिजानि देशजानि नानापुष्पाण्यतः परम् ||
शारदायामपि ||
कमले करवीरे द्वे कुमदे तुलसीद्वयम् |
जातीद्वयं केतके द्वे कह्लारं चम्पकोत्पले |
कुन्दमन्दारपुन्नागपाटला नागचम्पकम् |
आरग्बधं कर्णिकारं पावन्ती नवमल्लिका |
सौगन्धिकं सकोरण्टं पलाशाशोकमल्लिकाः |
धुस्तूरं सर्जकं विल्वमर्जुनं मुनिपुष्पकम् |
अन्यान्यपि सुगन्धीनि पत्रपुष्पाणि देशिकैः |
उपदिष्टानि पूजायामाददीत विचक्षणः ||
योगिनीतन्त्रे तृतीयभागे सप्तमपटलेऽपि ||
शृणु देवि ! प्रवक्ष्यामि पुष्पाध्यायं समासतः |
ऋतुकालोद्भवैः पुष्पैर्मल्लिकाजातिकुङ्कुमैः |
सितरक्तैस्तथा पुष्पैर्नीलपद्मैश्च पाण्डरैः |
किंशुकैस्तगरैश्चैव जवाकनकचम्पकैः |
वकुलैश्चैव मन्दारैः कुन्दपुष्पैः कुरुण्डकैः |
धुस्तूरकादियुक्तैश्च बन्धूकागस्त्यसम्भवैः |
मदनैः सिन्धुवारैश्च दूर्वाङ्कुररसुकोमलैः |
मञ्जरीभिः कुशानाञ्च विल्वपत्रैः सुकोमलैः ||
नवमपटलेऽपि ||
तुलसी द्वे मालती तमालामलकी तथा |
पुन्नागं मुनिपुष्पञ्च मल्लिकाञ्च निवेदयेत् |
करवीरस्य कुसुमैर्येऽर्च्चयन्ति जनार्दनम् |
दर्शनात्तस्य देवेशि ! नरकाग्निः प्रणश्यति ||
अथ करवीरादिमाहात्म्यम् |
पुरश्चरणरसोल्लासे दशमपटले ||
करवीरं जवा देवि ! स्वयं काली न चान्यथा |
तारा च अपरा चैव स्वयं त्रिपुरसुन्दरी |
तथा |
करवीरजवामूले तुलस्या नगनन्दिनि ! |
यदि प्राणांस्त्यजेद्देवि ! माहात्म्यं तस्य सुन्दरि ! |
वक्त्रकोटिशतेनापि जिह्वाकोटिशतेन च |
वर्णितुं तस्य माहात्म्यं न शक्नोमि कदाचन ||
इति करवीरजवामूले प्राणत्यागफलम् |
शुक्लकृष्णं तथा पीतं हरितं लोहितं तथा |
करवीरं महेशानि ! जवापुष्पं तथैव च |
स्वयं काली ! महामाया स्वयं स्वयं त्रिपुरसुन्दरी |
अनादरो न कर्त्तव्यः कृत्वा च नरकं व्रजेत् ||
दशमपटले ||
कृष्णापराजिता साक्षाद्भद्रकाली न संशयः ||
करवीरञ्च भुवना द्रोणं भुवनसुन्दरी |
जवा साक्षाद्भगवती सर्वविद्यास्वरूपिणी |
ये साधका जगन्मातरर्च्चयन्ति शिवप्रियाम् |
एतैश्च कुसुमैश्चण्डि ! स शिवो नात्र संशयः |
किं जपैः किं तपोभिर्वा किं दानैर्वा किमध्वरैः |
येनार्च्चिता जगद्धात्री द्रोणकृष्णाजवादिभिः |
राजसूयाश्वमेधाद्यैर्वाजपेयाग्निहोत्रकैः |
फलं यज्जायते चण्डि ! तत्सर्वं कुसुमार्च्चनात् |
जवा द्रोणं तथा कृष्णा मालूरं करवीरकम् |
साक्षाद्ब्रह्मस्वरूपञ्च महादेव्यै निवेदयेत् |
श्वेतचन्दनसंयुक्तं रक्तचन्दनलेपितम् |
यो दद्याद्भक्तिभावेन स विश्वेशो न संशयः ||
अथ सकामस्य पुष्पविशेषस्तत्रैव ||
करवीरस्य माघ्यस्य सहस्राणि ददाति यः |
स कामान् प्राप्य चाभीष्टान् देवीलोके महीयते |
तत्रैककरवीरेण पद्मानां द्वे सहस्रके |
महाघोरे महोत्पाते महापदि च सङ्कटे |
महादुःखे महारोगे महाशोके महाभये |
पूजयेत् कालिकां तारां भुवनां षोडशीं शिवाम् |
बालां छिन्नाञ्च वगलां धूमां भीमां करालिनीम् |
कमलामन्नपूर्णाञ्च दुर्गां दुःखविनाशिनीम् |
सर्वविद्या जवाद्रोणकरवीरैर्मनोहरैः |
मालूरपत्रैः कृष्णाभिः कृष्णां सम्पूज्य भूतले |
साधकेन्द्रो महेशानि ! भवेन्मुक्तो न संशयः ||
मुण्डमालायां दशमपटले ||
जवापुष्पैर्द्रोणपुष्पैः करवीरैर्मनोहरैः |
कृष्णापराजितापुष्पैरब्जैश्च मुनिपुष्पकैः |
पूजयेत् परया भक्त्या चण्डिकां परमेश्वरीम् ||
योगिनीतन्त्रमत्स्यसूक्तयोः ||
येऽर्च्चयन्ति जनाध्यक्षं करवीरैः सितासितैः |
चतुर्युगाणि देवेशि ! प्रीतो भवति माधवः |
सितासितैरिति श्वेतकृष्णमित्याद्युक्तवचनेनैकवाक्यतया असितशब्देन रक्तपीतादिकमवगम्यते न तु कृष्णमात्रम् |
योगिनीहृदये ||
वकपुष्पं जातिपुष्पं तथा रुद्रजटस्य च |
वाजपेयस्य यज्ञस्य फलं प्राप्नोति नान्यथा |
सर्वेषामेव पुष्पाणां प्रवरं नीलमुत्पलम् |
नीलोत्पलसहस्रेण यस्तु मालां प्रयच्छति |
दुर्गायै विधिवद्देवि ! तस्य पुण्यफलं शृणु |
वर्षकोटिसहस्राणि वर्षकोटिशतानि च |
देव्या अनुचरो भूत्वा रुद्रलोके महीयते |
मुण्डमालायामि ||
लक्षाणां महिषैर्मेषैरजैर्दानैर्मखैः शुभैः |
पूजिता सा जगद्धात्री यद्येषा कुसुमार्च्चिता |
माहात्म्यञ्चैव कृष्णायाः कृष्णा जानाति कृत्स्नशः |
तदर्द्धञ्चाप्यहं देवि ! तदर्द्धं श्रीपतिः सदा |
तदर्द्धमब्जजन्मा वै तदर्द्धं वेदसाधकः |
अन्य पुष्पस्य माहात्म्यं संक्षेपाद्वच्मि शङ्करि ! |
पृथिव्या मण्डले स्वर्गो वैकुण्ठे कालिकापुरे |
जवादिकरवीरैश्च दलैः किं किं फलं लभेत् |
न जानाति जगद्धात्रि ! को वेद पार्वतीं विना |
करवीरैः श्वेतरक्तै रक्तचन्दनमिश्रितैः |
पूजयेत् क्ष्मातले यस्तु स विश्वेशो भवेद्ध्रुवम् |
कृष्णापराजितापुष्पैर्यस्तु देवीं प्रपूजयेत् |
सोऽश्वमेधसहस्राणां फलं प्राप्य शिवां व्रजेत् |
महाविपत्तौ यो दद्याज्जवां कृष्णापराजिताम् |
द्रोणं वा करवीरं वा स गच्छेत् कालिकापुरम् ||
इति महाविपत्तिनिवृत्तिकारणजवादिदानेनापि कालिपुरगमनम् ||
तत्रैव ||
किञ्च पाद्यैः किञ्च वाद्यैर्नैवेद्यैः किञ्च पूजनैः |
मधुदानैर्मधुपर्कैः कुम्भकैः किञ्च रेचकैः |
पूरकैः किञ्च वा ध्यानैः प्राणायामैश्च किञ्च वा |
किं जपैः किं तपोभिर्वा मत्स्यैर्मांसैश्च पञ्चमैः |
किमन्यमन्त्रैः किं तन्त्रैः किं यन्त्रैः किञ्च साधनैः |
किं वेदैरासवैः किं वा श्मशानैर्मन्त्रसाधनैः |
किमध्वरैर्मन्त्रपूतैर्मन्त्रार्थैर्मन्त्रजीवनैः |
किं योनिमुद्रया किं वा तीर्थैः किं ब्रह्मसाधनैः |
किं मातृकान्यासगणैः किं कटैः किं घटैः पटैः |
किं काकचञ्चुभिः षोढान्यासैः किं धर्म्मसाधनैः |
येनार्च्चिता महादेवी करवीरैर्जवादिभिः |
कृष्णापराजितापुष्पैः करवीरैर्मनोहरैः |
द्रोणैस्तु केतकीपुष्पैर्जवामालूरपत्रकैः |
पूजिता यैर्भगवती तेषां किं कर्म्मसाधनैः ||
नित्यातन्त्रे एकादशपटले ||
न तुलस्या यजेत् कालीं नाक्षतैर्विष्णुमर्च्चयेत् |
अपराजिताया दानेन साक्षात्तुष्टा भवेच्छिवा |
कालिकायाश्च तारायाः करवीरमतिप्रियम् |
जवापुष्पं महेशानि ! दद्यान्न धारयेत् क्वचित् |
रक्तोत्पलेन देवेशि ! कालिकां पूजयेत् सकृत् |
शतवर्षसहस्राणां पूजायाः फलमाप्नुयात् ||
तथा |
दूर्वापि गर्भसंयुक्ता देवीतुष्टिकरी भवेत् |
पुरश्चरणरसोल्लासे ||
मञ्जरीं सहकारस्य केशवाय निवेदयेत् |
जम्बुतिन्दुकयोरेव तथा वै केशवस्यं च |
शेफालिकाञ्च तगरं बन्धूकञ्च निवेदयेत् |
रुद्रजटां शिरीषञ्च दाडिमं काञ्चनं तथा |
नीलकण्ठं मयूरञ्च योन्याकारञ्च वर्ज्जयेत् |
पुष्पदाने काम्यफलं नित्यातन्त्रे तत्रैव ||
ईश्वर उवाच ||
ब्रह्महत्यादिपापानां प्रायश्चित्तं सुरेश्वरि ! |
रक्तपुष्पैर्महादेवि ! चक्रराजं प्रपूजयेत् |
कुलाचारक्रमेणैव कर्पूरक्षोदमण्डितम् |
महापातककोटीश्च जन्मान्तरकृता अपि |
मासमात्रेण हन्यन्ते सत्यं सत्यं न संशयः |
लक्ष्मीस्तस्य भवेद्गेहे सुस्थिरा वीरवन्दिते ! |
जवापुष्पैर्महेशानि ! पूर्ववद्यदि पूजयेत् |
मासमात्रेण नश्यन्ति सप्तजन्मकृतान्यपि |
ब्रह्महत्यादिपापानि धनवान् जायते कविः |
पूर्ववत् केतकीपुष्पैः पत्रैर्वा यदि पूजयेत् |
मासमात्रेण देवेशि ! उपपातककोटयः ||
नश्यन्तीति पूर्वोक्तेनान्वयः |
लभते राजसौभाग्यं साधको नात्र संशयः |
शतपत्रैर्महेशानि ! पूर्ववत् पूजयेच्छिवाम् |
मासमात्रेण देविशि ! सर्वपापं विनाशयेत् |
चम्पकैः पूजयेद्देवीं पूर्ववन्मासमात्रकम् |
निहत्य परमेशानि ! पातकं शतजन्मजम् |
सौभाग्यं लभते मन्त्री त्रिषु लोकेषु पार्वति ! |
श्वेतपद्मैर्महेशानि ! मासमात्रं प्रपूजयेत् |
त्रिंशज्जन्मकृतान् पापान्नाशयेन्नात्र संशयः |
बन्धूकैः पूर्ववद्देवि ! मासमात्रं प्रपूजयेत् |
निहत्य सर्वपापानि त्रैलोक्यं वशमानयेत् |
मालतीमल्लिकाजातीकुन्दैः श्वेतोत्पलैः सह |
सुमिश्रैः पूर्ववद्देवि ! मासमात्रं प्रपूजयेत् |
ब्रह्महत्यादिपापानि शतजन्मकृतान्यपि |
नाशयेत् परमेशानि ! मुक्तिस्तस्य करे स्थिता |
रक्तोत्पलजवावह्निबन्धूकागस्त्यकैः शिवाम् |
पूर्ववत् परमेशानि ! मासमात्रं प्रपूजयेत् |
पातकं नाशयित्वासौ मम तुल्यो भवेन्नरः |
नागकेशरकह्लारवकुलैः सिन्धुवारकैः |
पाटलैः पूजयेद्देवि ! श्रीपीठान्तर्निवासिनीम् |
पूर्ववत् पूजयेद्देवि ! मासमात्रं प्रसन्नधीः |
सहस्रजन्मजं पापं नाशयेन्नात्र संशयः |
सौभाग्यमतुलं तस्य भवेद्देवीप्रसादतः ||
योगिनीतन्त्रे ||
नोत्सृज्य दद्यात् पुष्पाणि वनस्थानि कदाचन |
न शक्नुवन्ति वै देवाः समाकर्षितुमुद्यताः |
एकैकं कुसुमं यक्षा रक्षन्ति दश वै यतः |
तथा यक्षाङ्गनाः पञ्च सर्वतः कुसुमावृताः |
तस्मादाहृत्य कुसुमं यजेद्देवान् पितॄनपि ||
इति वृक्षस्थपुष्पदाननिषेधः ||
मत्स्यसूक्ते ||
स्नात्वा मध्याह्नसमये यश्छिन्द्यात् कुसुमं नरः |
तत्पुष्पैरर्चने देवि ! रौरवे प्रतिपच्यते ||
मध्याह्न इत्युपादानात् प्रातःस्नातस्य पुष्पाहरणे न दोषः ||
अथ पुष्पमाला ||
विश्वसारतन्त्रे ||
नीलोत्पलसहस्रेण यस्तु मालां प्रयच्छति |
दुर्गायै विधिवद्देवि ! तस्य पुण्यफलं शृणु |
वर्षकोटिसहस्राणि वर्षकोटिशतानि च |
देव्या अनुचरो भूत्वा रुद्रलोके महीयते ||
योगिनीतन्त्रे नवमपटले ||
मालतीमालया विष्णुरर्च्चितो येन कार्तिके |
पापाक्षरकृतमाला नाशिता तस्य विष्णुना |
पट्टे सौरे प्रमार्ज्जिता इति मत्स्यसूक्ते चतुर्दशपटले शेषचरणे पाठः ||
तथा ||
करवीरकृतां मालां माधवाय प्रयच्छति |
देवेन्द्रोऽपि महेशानि ! करोति करसम्पुटम् ||
अथ मासविशेषे धात्रीफलादिदानफलं तत्रैव ||
धात्रीफलेन पत्रेण योऽर्च्चयेन्मेषगे रवौ |
दशानामश्वमेधानां फलन्तु लभते प्रिये ! |
मञ्जरीं सहकारस्य केशवाय निवेदयेत् |
जम्बूतिन्दुकयोरेव तथा वै केशवस्य च ||
मत्स्यसूक्ते ||
करवीर कृतां मालां यो दद्यान्माधवाय च |
देवेन्द्रोऽपि महेशानि ! करोति करसम्पुटम् ||
चकारादन्यस्यै देवतायै च ||
तत्रैव ||
न भेदयेद् यज्ञसूत्रं मालाञ्चैव न भेदयेत् |
विशेषे मालतीमाला व्याघ्रचर्म्म तथैव च ||
वृहन्नीलतन्त्रे द्वितीयपटले ||
कोकनदञ्च बन्धूकं कर्णिकाद्वयमेव |
वकमन्दाररक्तानि करवीराणि शस्यते |
मल्लिकात्रितयं जाती क्षौमपुष्पं जयन्तिका |
विल्वपत्रं कुरुवकं मुनिपुष्पञ्च केशरम् |
वसन्तीञ्चैव सौगन्धं कालपुष्पं मनोहरम् |
आमलकञ्च कादम्बं वकुलं यूथिकां तथा |
विल्वैर्मरु वकाद्यैश्च तुलसीवर्जितैः शुभैः |
ओड्रपुष्पैर्विशेषेण वज्रपुष्पेण शोभितम् |
सर्वं पुष्पं प्रदद्याच्च भक्तियुक्तेन चेतसा |
जवापुष्पं महेशानि ! दद्याद्देव्यै विशेषतः |
पद्मं प्रियतरं देव्याः शेफाली वकुलं तथा |
रक्तोत्पलेन देवेशि ! पूजयेत् परमां शिवाम् |
लक्षवर्षसहस्राणां पूजायाः फलमाप्नुयात् |
शिरीषं परमं देव्याः प्रीतिदं तगरं तथा |
स्थलपद्मं सुष्ठुतरं लक्षसंख्यक्रमेण तु |
यदि दद्यान्महेशानि ! सर्वसिद्धिः सुरेश्वरि ! |
तदैव मन्त्रसिद्धिः स्यान्नात्र कार्यया विचारणा |
विजातीं तुलसीं रम्यां तस्यां प्रीतिकरां पराम् |
काञ्चनं रक्तवर्णञ्च आदिप्रियतरं महत् |
भक्तियुक्तो महेशानि ! सर्वं पुष्पं निवेदयेत् ||
वृहन्नीलतन्त्रे ||
चातुर्मास्ये तु लक्षैकमालत्या योऽर्च्चयेद्धरिम् |
शतजन्मकृतं पापं तत्क्षणादेव नश्यति |
करवीरस्य कुसुमैर्येऽर्च्चयन्ति हरेर्दिने |
दर्शनात्तस्य देवेशि ! नरकाग्निः प्रणश्यति ||
अथ वर्ज्यपुष्पाणि ||
नार्च्चयेत् झिण्टिपुष्पेण पीतैश्च तगरैस्तथा |
श्वेतेनोड्रेण कृष्णेन विजयेन न चार्चयेत् ||
प्रपञ्चसारे षष्ठपटले ||
अङ्गने पतितैर्माल्यैः शीर्णैर्वा जन्तुदूषितैः |
आघ्रातैरङ्गसंस्पृष्टैरूंषितैर्नापि चार्चयेत् ||
शारदायाम् ||
मलिनं भूमिसंस्पृष्टं कृमिकेशादिदूषितम्-अङ्गस्पृष्टं समाघ्रातं त्यजेत् पर्ययुषितं गुरुः ||
मत्स्यसूक्ते चतुर्द्दशपटले ||
शेफालिकान्तु कह्लारं शरत्काले प्रशस्यते |
अन्यत्र न स्पृशेद्देवि ! प्रायश्चित्तन्तु पूजनात् |
नार्चयेद्रक्तकृष्णेन तथोग्रगन्धिकेन च |
करवीरस्य माघ्यस्य बन्धूजीवस्य चैव हि |
केशरस्य च वज्रस्य रक्तं देवि ! प्रशस्यते ||
योगिनीतन्त्रे ||
विल्वपत्रं शमीपत्रं तमालामलकीदलम् |
अपाङ्गभृङ्गपत्रञ्च कुशं दूर्वां तथैव च |
पुष्पाणामप्यभावे तु फलान्यपि निवेदयेत् |
फलानामप्यभावे तु तत्पत्रैः पूजयेद्धरिम् ||
इति पुष्पाद्यभावे पत्रेणापि पूजनम् ||
गुप्तपूजापुष्पञ्च तत्रैव ||
सिंहास्यञ्चैव मासूरं धुस्तूरञ्च चतुर्विधम् |
तथा रुद्रजटे द्वे च गुह्यपुष्पञ्च शङ्करि ! ||
पद्मे नीलोत्पले देवि ! वकमन्दारकाञ्चने |
माधवी द्वे तमालञ्च गुप्तमेतद्वरार्चने ||
दिवारात्रिभेदेन पुष्पविशेषेण पूजनमुक्तं तत्रैव ||
कनकानि सुगन्धीनि रात्रौ देयानि शङ्करि ! |
दिवा चान्यानि पुष्पाणि दिवा रात्रौ च मल्लिका ||
देवालयस्य पुष्पेण यो देवं प्रतिपूजयेत् |
अन्धत्वं प्राप्नुयात् सोऽपि दश वर्षाणि पञ्च च ||
देवताविशेषे पुष्पविशेषवर्ज्जनमपि तत्रैव ||
शिवे विवर्जयेत् कुन्दं माघे माघ्यं प्रशस्यते |
गणेशे वर्ज्जयेन्माघ्यमशोकं तगरं तथा |
सूर्यये माघ्यञ्च मन्दारं कनकञ्च तथैव च |
महालक्ष्म्यै च तुलसीं झिण्टिकां काञ्चनं तथा |
अत्र झिण्टिकावर्जनमधिकदोषार्थम् ||
बन्धूजीवञ्च द्रोणञ्च सरस्वत्यै न दापयेत् |
ग्रहाणां विल्वपत्रञ्च शमीपत्रं तथैव च |
ब्रह्मणे वर्जयेत् काशं कौसुम्भं शमिपुष्पकम् |
धात्रीपुष्पं कुरुण्टञ्च जलपुष्पं तथैव च |
दुर्गायै न प्रदद्याच्च सोमपुष्पं तथैव च |
त्रिपुरायै काञ्चनञ्च कनकं वासकं तथा |
किंशुकं कृष्णकान्ताञ्च इन्द्राक्षीं वर्च्चनां तथा ||
योगिनीतन्त्रे ||
विल्वपत्रञ्च माघ्यञ्च तमालामलकीदलम् |
कह्लारं तुलसीञ्चैव पद्मञ्च मुनिपुष्पकम् |
एतत् पर्ययुषितं न स्यात् यच्चान्यत् कलिकात्मकम् |
न दुष्येच्छिन्नभिन्नञ्च जातीपुष्पञ्च शङ्करि ! |
धूपशब्दत्र्युत्पत्तिस्तु कुलार्णवे ||
धूताशेषमहादोषपूतिगन्धप्रभावतः |
परमानन्दजननाद्धूप इत्यभिधीयते ||
प्रपञ्चसारे ||
स गुग्गुल्वगुरूशीरसिताज्यमधुचन्दनैः |
साराङ्गारे विनिक्षिप्तैर्मन्त्री पीठेः प्रधूपयेत् ||
योगिनीतन्त्रे ||
कृष्णागुरुसकर्पूरं चन्दनं सिह्लकं तथा |
भगवत्यै नरो यस्तु इदं दत्त्वा महेश्वरि ! |
इह काममवाप्नोति दुर्गालोके महीयते ||
इति धूपः ||
दीपव्युत्पत्तिस्तु कुलार्णवे ||
मोहध्वान्तप्रशमनात् क्षयजन्मनिवारणात् |
दिव्यरूपप्रदानाच्च परतत्त्वप्रकाशनात् |
मोक्षदीप इति ख्यातो मोक्षमार्गैकसाधनम् ||
प्रपञ्चसारे ||
गोसर्पिषा वा तैलेन वर्त्या च लघुगर्भया |
दीपितं सुरभिं दुग्धं दीपमुच्चैः प्रदीपयेत् ||
इति दीपः ||
वस्त्रदानन्तु वरदातन्त्रे चतुर्थपटले ||
षट्त्रिंशदङ्गुलान्यूनायामं वस्त्रं न चार्पयेत् |
विभवे सति देवेशि ! काम्ये कर्मणि कुत्रचित् ||
अलङ्कारस्तु तत्रैव ||
अष्टवर्षकन्यकाया नोपयुक्तं भवेत्तु यत् |
अलङ्कारं न दद्याच्च वित्तशाट्यं विवर्जयेत् ||
हीनोत्तमयोः फलन्तु सर्वोपचाराणां तत्रैव ||
हीने हीनफलं देवि ! श्रेष्ठे श्रेष्ठफलं लभेत् ||
नैवेद्यशब्दव्युत्पत्तिस्तु कुलार्णवे ||
चतुर्विधं कुलेशानि द्रव्यं ते षड्रसान्वितम् |
निवेदनाद्भवेत्तृप्तिर्नैवेद्यं तदुदाहृतम् ||
प्रपञ्चसारे ||
सुसितेन सुशुद्धेन पायसेन ससर्पिषा |
सितौदनं सकदलीदध्याद्यैश्च निवेदयेत् |
इति नैवेद्यम् ||
ताम्बूलं मत्स्यसूक्ते षड्विंशतिपटले ||
अथ वास्तुगुवाकञ्च कृत्वा पर्णसमन्वितम् |
शङ्खशम्बूकचूर्णेन विलिप्तेन निवेदयेत् |
तथा |
कर्पूरवासितं देवि ! मृगदर्पसमन्वितम् |
धन्याकमधुरीकाद्यैः साधितन्तु निवेदयेत् |
एलाचम्पकमुस्ताद्यैर्मुखवासः प्रशस्यते ||
निषिद्धचूर्णपर्णे अपि तत्रैव ||
कपर्दकस्य वृक्षस्य पलाशस्य च शङ्करि ! |
तच्चूर्णं वर्ज्जयेद्देवि ! वृक्षपर्णं न दापयेत् |
कलिवृक्षस्थितं पर्णं पनसस्थं न दापयेत् |
अशोकशाल्मलिस्थं वा सदैव परिवर्जयेत् ||
कलिवृक्षो भूतावासः गौडे वयडा इति यस्य प्रसिद्धिः |
शस्तमपि तत्रैव ||
आम्रनिम्बगतञ्चैव शस्तं पर्णं मम प्रिये ! |
इति ताम्बूलम् ||
ततः प्राणायामादिकं कृत्वा अष्टोत्तरसहस्रं शतं वा मूलमन्त्रं जप्त्वा जपं समर्प्य स्तवकवचादिकं पठित्वा प्रणमेत् |
तदुक्तं गन्धर्वतन्त्रे पञ्चदशपटले ||
स्तुवन्नानाविधैः स्तोत्रैर्भक्तिभावसमन्वितः |
प्रणमेत् परमेशानीं विधिना साधकोत्तमः |
देवमानुषगन्धर्वा यक्षराक्षसपन्नगाः |
नमस्कारेण तुष्यन्ति महात्मानः समन्ततः |
नमस्कारेण लभते चतुर्वर्गं महोदयम् |
सर्वत्र सर्वसिद्ध्यर्थं नतिरेका प्रवर्त्तते |
नत्या विजयते लोकान् नत्या धर्मः प्रवर्त्तते |
नमस्कारेण दीर्घायुरच्छिन्ना लभते प्रजाः |
चतुर्वर्गं लभेद्भक्तो न चिरादेव साधकः |
नमस्कारो महायज्ञः प्रीतिदः सर्वतः सदा |
नमस्कुरु महादेवीं प्रदक्षिणञ्च भक्तितः ||
योगिनीतन्त्रे पूर्वख्ण्डेऽष्टमपटले ||
प्रदक्षिणत्रयं कुर्ययात् पद्माकारं नमेत्ततः |
दक्षिणादुत्तरं गत्वा देवस्य च महेश्वरि ! ||
प्रदक्षिणत्रयमित्यादि मध्यावसाने ज्ञेयम् |
तथा च कुमारीपूजामधिकृत्य रुद्रजामले उत्तरखण्डे षष्ठपटले ||
प्रदक्षिणत्रयं कुर्ययादादौ मध्ये तथान्ततः |
पश्चात्तु दक्षिणां कुर्ययाद्रजतैः स्वर्णमौक्तिकैः |
कृताञ्जलिं ततो बद्ध्वा भ्रामयित्वा नमेत्ततः |
प्रत्येकभ्रमणे देवि ! दण्डवत् प्रणिपातयेत् |
यो नो नमेद्भ्रमित्वा तु अपराधो भवेत्तदा |
अबद्धाञ्जलिना यस्तु नमस्कारं करोति सः |
मोहान्धकारनरके पच्यते नात्र संशयः |
पातान्तरे च प्रणमेन्मूर्ध्ना न च क्षितिं स्पृशेत् |
शपन्ति देवतास्तस्य विफलं तत् प्रकीर्त्तितम् |
प्रणामे देवदेवस्य यावत्यो मृत्तिकाः प्रिये ! |
शरीरे वा महेशानि ! तस्य पुण्यफलं शृणु |
यावन्तो रेणवस्तस्य यावत्कालञ्च तिष्ठति |
तावद्वर्षसहस्राणि ब्रह्मलोके महीयते ||
गन्धर्वतन्त्रे ||
कायिको वाग्भवश्चैव मानसस्त्रिविधः स्मृतः |
नमस्काराश्च विज्ञेया उत्तमाधममध्यमाः |
कायिकैस्तु नमस्करैर्देवास्तुष्यन्ति सर्वदा |
नमस्कारेषु सर्वेषु कायिकः प्रथमः स्मृतः |
जानुभ्यामवनीं गत्वा संस्पृश्य शिरसा क्षितिम् |
क्रियते यो नमस्कारः प्रोच्यते कायिकस्तु सः |
पुटीकृत्य करौ शीर्षे सर्वधर्मार्थसाधनम् |
प्रसार्यय दक्षिणं हस्तं स्वयं नम्रशिराः पुनः |
दर्शयन् दक्षिणं पार्श्वं भक्तिश्रद्धासमन्वितः |
सकृत् प्रदक्षिणं कृत्वा वर्त्तुलाकृति साधकः |
स तु प्रदक्षिणो ज्ञेयः सर्वदेवैकतुष्टिदः |
अष्टोत्तरशतं यस्तु देव्याः कुर्ययात् प्रदक्षिणम् |
स सर्वकाममासाद्य पश्चान्मोक्षमवाप्नुयात् |
त्रिकोणमथ षट्कोणमर्द्धचन्द्रं प्रदक्षिणम् |
दण्डमष्टाङ्गमुग्रञ्च सप्तधा नतिलक्षणम् |
दक्षिणाद्वायवीं गत्वा तस्माद्व्यावृत्य दक्षिणम् |
गत्वा योऽसौ नमस्कारः सोऽर्द्धचन्द्रो मम प्रियः |
नमस्कारेषु जानीयादासां प्राकृतमद्रिजे ! |
त्यक्त्वा स्वमासनं स्थानं पश्चाद्गत्वा नमस्कृतः |
निपत्य दण्डवद्भूमौ दण्ड इत्युच्यते बुधैः |
तथैव दण्डवद्भूमौ निपत्य हृदयेन च |
चिवुकेन मुखेनाथ नासया हनुकेन च |
चक्षुषा चाथ कर्णाभ्यां ब्रह्मरन्ध्रेण चैव हि |
तदष्टाङ्गमिति प्रोक्तं यद्भूमिं स्पृशते क्रमात् ||
मेरुतन्त्रे ||
हस्ताभ्यां चरणाभ्याञ्च जानुभ्यां वक्षसा तथा |
मूर्ध्ना दृष्ट्या तथा वाचा चित्ते चाष्टाङ्ग ईरितः |
हस्तजानुशिरोवाक्यधीभिः पञ्चाङ्ग ईरितः ||
गन्धर्वतन्त्रे ||
ब्रह्मरन्ध्रेण संस्पर्शः क्षितेर्यस्या नमस्कृते |
स उग्र इति विज्ञेयो विष्णोस्तुष्टिप्रदायकः |
या स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिः |
क्रियते भक्तियुक्तेन वाचिकस्तूत्तमः स्मृतः |
पौराणिकैर्वैदिकैर्वा तान्त्रिकैः क्रियते नतिः |
स मध्यमो नमस्कारो भवेदाचारतः सदा |
परेषां गद्यपद्याभ्यां नमस्कारो यदा भवेत् |
स वाचिकोऽधमो ज्ञेयो नमस्कारेषु सर्वतः |
इष्टमध्यानिष्टगतैर्मनोभिस्त्रिविधं भवेत् |
नमनं मानसं प्रोक्तमुत्तमाधममध्यमम् |
त्रिविधे च नमस्कारे कायिकश्चोत्तमः स्मृतः ||
ततो देवतां विसृज्यनैवेद्यावशेषेण तत्तत्कल्पोक्तां देवतां सम्पूज्य स्थानमार्ज्जनादिकं कुर्ययात् ||
अथ निर्माल्यकालनिरूपणम् योगिनीतन्त्रे तृतीयभागे सप्तमपटलीयवचनन्तु तन्त्रसारकारेणैव धृतं न त्वत्र प्रयोजनम् |
मत्स्यसूक्ते षोडशपटले ||
मणिमुक्ताप्रबालानि देवदत्तानि यानि च |
न निर्माल्यं द्वादशाब्दं तैजसानि तथैव च |
तूलिका चैव षण्मासमविजं पञ्चवत्सरम् |
पटनिर्माणकञ्चैव कार्पासं वस्त्रमेव च |
वत्सरञ्च तदर्द्धञ्च मृदुवस्त्रं तदर्द्धकम् |
नैवेद्यं दर्शनादेव महापूजावसानके |
यावदुष्णं भवेदन्नं यज्ञसूत्रं ततः स्मृतम् |
सोदकं कृशरञ्चैव यामार्द्धेन महेश्वरि ! |
करवीरस्रजो देवि ! तथा पद्मोत्पलानि च |
यामार्द्धेन महेशानि ! तथा विल्वमयस्य च |
मस्तकं रुधिरञ्चैव अहोरात्रेण सुन्दरि ! तुलसी द्वे मालती द्वे तमालामलकी तथा |
पुन्नागमुनिपुष्पञ्च मल्लिका त्रिविधानि च |
जाती द्वे केतकी द्वे च कुमुदे पद्मकद्वयम् |
वासुदेवाय यो दद्यात्तस्य पुण्यमनन्तकम् ||
अथ देवतासम्प्रदानकविहितनिषिद्धद्रव्याणि ||
वृहन्नीलतन्त्रे षष्ठपटले ||
सन्देशं परमं दद्याद्देव्यै द्रव्येण संयुतम् |
गुडं क्षीरं मधुद्राक्षामिक्षुदण्डं पुरातनम् |
रम्भाफलं बीजपूरं तथा च नारिकेलकम् |
मधुयुक्तं नारिकेलशस्यं दद्यान्महेश्वरि ! |
मधुयुक्तं मिष्टयुक्तं व्यवहारोऽपि च तथा ||
योगिनीतन्त्रोत्तरखण्डीयाष्टमपटले ||
इङ्गुदीफलविल्वानि वदरामलकानि च |
खर्ज्जूरं पनसञ्चैव मातुलुङ्गं मधूनि च |
आम्रातोडुम्बरञ्चैव तथा तालफलानि च |
दाडिमं कदलञ्चैव प्रयत्नेन नियोजयेत् |
लकुचं मधुकं युक्तं तथा पूगफलानि च |
बीजपूरञ्च मधुरं कर्कन्धूञ्च निवेदयेत् |
मूलकस्य च शाकञ्च अन्यच्च विविधं तथा |
सर्षपस्य च शाकञ्च राजीवस्य तथैव च |
यस्य मूलं विशालञ्च शाकं तस्य प्ररोहकम् |
वास्तूकस्य शाकञ्च पालङ्कस्य मम प्रिये ! |
देयानि वर्ज्जनीयानि तथा च तिन्तिडीफलम् |
कुष्माण्डं पर्वतीयञ्च यथा चारण्यसम्भवम् |
कदलं बीजपूरञ्च वामकं पीण्ड्रकं तथा |
अकालपनसञ्चैव तथान्यदपि वर्ज्जयेत् ||
इति विहितनिषिद्धफलकथनम् |
व्रीहीणाञ्च प्रवक्ष्यामि उपयोग्यानि शङ्करि ! |
एकचित्तं समाधाय प्रापणं शृणु शङ्करि ! |
सोमधान्यं वृहद्धान्यं रक्तशालिकमेव च |
महद्धान्यं यवञ्चैव तिलमाषञ्च मुद्गकम् |
कलायं वर्त्तुलञ्चैव सिद्धार्थं कुङ्कुमानि च |
क्षुद्रजीरञ्च मधुरीमेतान्यपि नियोजयेत् ||
वर्ज्यशस्यान्यपि तत्रैव ||
कालशाकं कलायञ्च जीवकीयं तथैव च |
चणकं कोद्रवञ्चैव वर्ज्जयेन्मम सुन्दरि ! ||
अत्र कलायं त्रिकोणम चिपिटं वा |
वर्त्तुलस्य विहितत्वात्तेनातसीमसूरादीनि वर्ज्जयेदित्यर्थः ||
क्षीरञ्च कृष्णाक्षीरञ्च लवणं मृत्तिकोद्भवम् |
लवणं प्राचीसम्भूतं तथोत्तरसमुद्भवम् ||
क्षीरं कृष्णगव्यादिक्षीरम् ||
पशूनाञ्च प्रवक्ष्यामि वन्यानां ग्रामवासिनाम् |
येन चाप्युपयोज्यानि गव्यं देवि ! पयो घृतम् |
मार्गं मांसं तथा छागं शालभं शाशकन्तथा |
एतैस्तु प्रापणं दद्याद्विष्णोश्चैव प्रियावहम् |
माहिषं वर्ज्जयेन्मांसं क्षीरं दधि घृतं ततः |
पक्षिणाञ्च प्रवक्ष्यामि ये प्रयोज्या मम पिये |
यांश्चैव विष्णुयागेषु उपयुञ्जन्ति नित्यशः |
हरितञ्च मयूरञ्च लावकं वर्त्तकं तथा |
कपिलश्चैव चासश्च काककुक्कुटकौ शिरः |
वन्यकुक्कुटकश्चैव शरारिश्च कपोतकम् |
वेल्लकः कुलिकश्चैव रक्तपुच्छश्च टिट्टिभः |
कृष्णो मत्स्याशिनाञ्चैव पतत्रीणां विशिष्यते |
अभक्ष्यञ्चैव यद्वा पञ्चनखस्य च |
यद्वा यदिवार्थे |
मांसमभक्ष्यं यदि वा भक्ष्यं तदा पञ्चनखस्य चकारादेश्च इत्यन्वयः ||
चित्रमत्स्यं रोहितञ्च पाठीनं नलमीनकम् |
महाशालञ्च शालञ्च राजीवं सिंहतुण्डकम् |
मत्स्यान्येतानि देवानि वडालीञ्च विवर्जयेत् |
चित्रमत्स्यश्चितल इति |
नलमीनश्चिङ्डीति प्रसिद्धः |
सिंहतुण्डः रिठा इति प्रसिद्धः |
वडाली भेदा इति प्रसिद्धः ||
जानपादांश्च शकुनान् क्षुद्रवाराहकं तथा |
कौसुम्भशाकपिन्नाकं रक्तपादांश्च वर्जयेत् |
खर्जूरं पनसं द्राक्षां मातुलङ्गञ्च शीरकम् |
कदलीं नागरङ्गञ्च तथा जम्बू फलानि च |
शालुकं मधुकञ्चैव प्रयत्नेन निवेदयेत् |
कदलं बीजपूरञ्च दुग्धपक्वं निवेदयेत् |
कन्दुपक्वं कशेरुञ्च जम्बूं बालप्रियं भवेत् |
आर्द्रकं लवणञ्चैव जीरकं पिप्पलीयकम् |
जातीकोषं तिन्दुकञ्च देव्याः प्रियतरं भवेत् |
वर्जनीयफलमाह तत्रैव ||
रामरम्भाफलं पक्वं कदलं धूम्रतापितम् |
न योजयेन्महादेव्यै उत्पलस्य च बीजकम् |
धान्यं श्रावणिकं मर्त्यो द्विःस्विन्नञ्च विवर्जयेत् |
नारिकेलं सुवर्णाभं नारिकेलञ्च रामकम् |
निवेदयेन्महादेव्यै तोयं तस्य विशेषतः |
नारिकेलञ्च भाण्डीरं दैवे श्राद्धे विवर्जयेत् |
वकुलस्य फलं पक्वं पद्मस्य च फलं तथा |
नियोजयेन्महादेव्यै चान्द्रायणफलं लभेत् ||
निषिद्धमाह तत्रैव ||
कर्क्कन्धूं शर्करायुक्तं दण्डशाकं तथैव च |
कुष्माण्डं पर्वतीयञ्च दूरतः परिवर्जयेत् ||
मत्स्यसूक्ते षड्विंशतिपटले ||
शृणु देवि ! प्रवक्ष्यामि मांसभेदान्निबोध मे |
न देयं तिक्तकमठं पशुशृङ्गिणमेव च |
गोमीनं चक्रशकुलं वडालं राघवं तथा |
वामीनं चनवर्णञ्च सचक्रं चेङ्गमेव च |
भूविलं चानिरुद्धञ्च गाङ्गेयानि विवर्जयेत् |
आतोषिणीहिरण्यानि चक्रविम्बानि वर्जयेत् |
अजञ्च वृहदाजञ्च पर्वतीयं तथैव च |
मेषञ्च द्विविधञ्चैव एणं चैव चतुर्विधम् |
अकलौ तु गवां मांसं गोधामांसञ्च शाशकम् |
लुलापञ्चैव नेपाले वाराहं कामरूपके |
खड्गं चतुर्मुखं भक्ष्यं चाहारे परमेश्वरि ! |
गवयं गन्धमृगञ्चैव महिषन्तु विशिष्यते |
सर्वत्र क्षुद्रवाराहं नीलहयं तथैव च |
मलये सगुणे चैव तथा जालन्धरेषु च |
अभक्ष्यं मत्स्यमांसञ्च वडालं सर्वपीठके |
अत्र देशविशेषे मत्स्यमांसभोजननिषेधाद् देशान्तरे गौडनेपालादौ मत्स्यमांसभोजनमनुमतं भवति |
वडाली तु अभक्ष्या सर्वदेश इत्यर्थः ||
मान्त्रिको वर्ज्जयेन्नित्यं पार्वतं शृङ्गवेरकम् |
कुष्माण्डं पर्वतीयञ्च स्वर्णरोहितकं त्यजेत् |
स्वर्णाभां गोधिकाञ्चैव वाराहं श्वेतमेव च |
चक्राङ्कितञ्च कमठं राजहंसं न भक्षयेत् |
ग्राम्यं जलचरं चैव भक्ष्यं तस्य विवर्ज्जयेत् |
कपोतं कुक्कुटं चैव मयूरं क्रौञ्चमेव च |
वर्द्धनं वभ्रुबालञ्च दात्यूहं कोकिलं तथा |
गृध्रोलूकञ्च कङ्कञ्च विस्ताराक्षं न भक्षयेत् |
अलावुं वार्त्ताकुं चैव तित्तिरञ्च मयं तथा |
भारद्वाजं मत्स्यचक्रं दशावतारमेव |
अकामेन द्विजो भुक्त्वा प्राणायामेन शुध्यति |
त्रिरात्रावस्थितं मांसं तत्सर्वं परिवर्ज्जयेत् |
भुक्तस्य पर्वतीयस्य सिंहतुण्डस्य पार्वति ! |
न हि स्वेदातपे शुद्धं वह्निशुद्धं तथैव च |
संस्कृतं गन्धपृक्तेन पल्लवं परमेश्वरि ! |
तन्मांसभक्षणाद्देवि ! भूयश्च तत्र विद्यते |
यो मांसं वर्ज्जयेद्देवि ! मांसमात्रं विशेषतः |
सर्वयज्ञफलं सम्यक् लभते नात्र संशयः |
संवत्सरे दशगुणं षण्मासे च चतुर्गुणम् |
पर्वकाले त्वशक्ते तु पितृमेधफलं लभेत् |
विष्णोः शयनकाले च चातुर्मास्ये च यत्नतः |
अग्निष्टोमस्य यज्ञस्य लभते फलमुत्तमम् |
अशक्तः कार्त्तिके देवि ! मत्स्यमांसौ विवर्ज्जयेत् |
कार्त्तिके शौकरं मांसं गोमीनं मत्स्यमेव च |
तस्मात् सर्वप्रयत्नेन कार्त्तिके परिवर्ज्जयेत् |
भक्षयेल्लावकं वर्त्तं हरिच्चित्रकरं तथा |
चासं चित्रकपोतञ्च तृणाक्षञ्च मयूरकम् |
कामञ्च कलभञ्चैव तोलिकालकमेव |
एतान्येव च भक्ष्याणि प्रवदन्ति मनीषिणः ||
निषिद्धमपि तत्रैव ||
भृङ्गराजद्वयञ्चैव पिकं कदलमेव च |
सारङ्गं दीर्घतुण्डञ्च दीर्घग्रीवं हिरण्मयम् |
नर्त्तञ्चलं रक्तकण्ठं रक्तपक्षिणमेव च |
चिल्लं कीलालकञ्चैव गङ्गाचिल्लकमेव च |
एतान्येव द्विजातीनामभक्ष्याणीति शब्दितम् |
रक्तपुच्छं तथारण्यं कुक्कुटं शोणतुण्डकम् |
श्वेतग्रीवो नीलकण्ठो रक्तकण्ठस्तथैव च |
शशकः पत्रवाहश्च पीडको जीवकस्तथा |
एतानि शस्तमांसानि काले प्राप्तानि भक्षयेत् ||
अभक्ष्यमांसमाह तत्रैव ||
नरवानर-ऋक्षांश्च व्याघ्रमार्जारकच्छपान् |
विड्वराहञ्च शरलं हयमांसं तथैव च |
न भक्षयेत् शुनो मांसं भुक्त्वा चान्द्रायणञ्चरेत् |
सकामो गवयञ्चैव गवां मांसं तथैव च |
हस्तिमांसं प्रमादेन भुक्त्वा चान्द्रायणद्वयम् |
शूकरस्य च खड्गस्य स्थूलमांसं तथाशयम् |
स्थूलं द्वाभ्यां त्रिभिर्वर्षैश्चतुर्भिः षड्भिरेव च |
अतिस्थूलमिति प्रोक्तं तन्न भवेत् कदाचन |
एणस्य शशकस्यैव अजस्य वृषभस्य च |
तथा खस्य भृगस्यैव वराहमहिषस्य च |
अतिस्थूलानि मांसानि भक्ष्यं मांसं कलौ युगे |
अकलौ तु गवां मांसं देशाचारेण शौकरम् |
न भक्षयेन्मृतं मांसं द्विविधं मूषिकस्य च |
मेकस्य क्षुद्राटकस्य शम्बूककर्कटस्य च |
अकामेन द्विजोभुक्त्वा प्राणायामेन शुध्यति |
अनुक्तमत्स्यमांसस्य भोक्ता स्नानेन शुध्यति |
गोमांसं मांसकामेन भुक्त्वा चान्द्रायणञ्चरेत् |
फेरवस्य तथा भुक्त्वा ऋषिचान्द्रायणञ्चरेत् |
पूतिगन्धसकीटानि भुक्त्वा चान्द्रायणञ्चरेत् |
रौद्रशुष्काणि भुक्त्वा वै प्राणायामेन शुध्यति |
त्रिरात्रावस्थितं मांसं तत्सर्वं परिवर्ज्जयेत् |
शल्लस्य पर्वतीयस्य सिंहतुण्डस्य पार्वति ! |
न दुष्येदातपे शुद्धं वह्निशुद्धं तथैव च |
संस्कृतं गन्धपृक्तेन यन्नवं परमेश्वरि ! |
तन्मांसभक्षणाद्देवि ! प्रायश्चित्तं न विद्यते |
अत्र भक्षणनिषेधादनिवेद्य भक्षणदोषदर्शनेन सुतरां देवतासम्प्रदानकत्वम् |
मांसत्याग फलमपि तत्रैव ||
तुलामकरमेषेषु यो मांसं परिवर्ज्जयेत् |
हयमेधस्य यज्ञस्य तदेव फलमाप्नुयात् |
यावज्जीवं त्यजेद्वापि राजसूयफल लभेत् |
एकस्य वर्ज्जनाद्देवि ! मत्स्यमांसस्य वर्जनम् |
गृहमेधी महेशानि ! पितृश्राद्धं विना त्यजेत् |
प्रमादाद्वा तथाज्ञानात् सङ्कल्पं वा समाचरेत् |
चान्द्रायणं ततः कृत्वा पौर्णमास्यां समाचरेत् |
पितृश्राद्धं ततः कृत्वा कृत्वा यस्तु निरामिषम् |
सत्यत्वं वर्जयेद्वापि पितृहत्याव्रतञ्चरेत् |
सर्वव्रताधिकतरं सर्वयज्ञाधिकं परम् |
पितृमेधं महेशानि ! सर्वस्वेनापि कारयेत् |
तस्याधिकतरं वापि स्वभार्ययार्त्तवलङ्घने |
षोडशेदिवसे पूर्णे भर्त्ता प्रोषित आगतः |
हरिवासरकञ्चान्यमथवा श्राद्धवासरम् |
ऋतुं न लङ्घयेत्तत्र तदेव व्रतमेव हि |
ऋतुहा परमेशानि ! ब्रह्महत्याव्रतञ्चरेत् |
व्रते विनष्टे देवेशि ! प्रायश्चित्तं भवेदनु |
तस्मात् पुण्यतमं ज्ञेयं स्वभार्ययापरितोषणम् ||
अथ हविष्यादौ भक्ष्याभक्ष्यविधिः ||
विश्वसारे द्वितीयपटले ||
अथ भक्ष्यं प्रवक्ष्यामि शृणुष्व कमलानने ! |
अन्नं दुग्धं तथा तक्रं पायसं पूपसूपकम् |
नवनीतं फलान्येव गुडपायससंयुतम् |
सर्वाणि फलपुष्पाणि विविधानि विधानवित् |
न मूलं गृञ्जनं लक्ष्म मसूरं लसुनं तथा |
जम्बीरं लकुचं कांस्यमलावुञ्चाम्लमेव च |
राजमाषं तथा माषं शाकञ्चैव पलाण्डुकम् |
आमिषं रक्तशाकादीन् ताम्बूलञ्चाथ तैलकम् |
तालखर्जूरमुषितं दुग्धवुष्टादिकञ्च यत् |
कुचेलञ्च तथा तैलं माध्वीञ्च नखलोमकान् |
अभ्यङ्गमसदालापं हविष्याशी विवर्ज्जयेत् |
हरिष्येषु सुधा मुख्या तदनु व्रीहयो मताः |
अक्षारलवणञ्चैव शङ्करस्य मतेन च |
यवगोधूममुद्गाश्च दुग्धं शर्करसंयुतम् |
फलमूलादिकं हृद्यमक्षारलवणं घृतं |
रक्तवस्त्रं तथा क्षुरं हविष्येषु विवर्ज्जयेत् ||
शारदायां द्वितीयपटले ||
भैक्ष्यं हविष्यं शाकानि विहितानि फलं पयः |
मूलं शक्तुर्यवोत्पन्नो भक्ष्याण्येतानि मन्त्रिणाम् |
भैक्ष्यमिति ब्रह्मचारियतिपरम् |
भिक्षास्वरूपमुक्तं राघवभट्टधृतवचने ||
वैदिकाचारयुक्तानां शुचीनां श्रीमतां गृहे |
सत्कुलस्थानजातानां भिक्षा स्यादग्रजन्मनाम् |
हविष्यमुक्तं स्मृतौ ||
हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः |
कलायकङ्गुनीवारा वास्तूकं हिलमोचिका |
षष्टिका कालशाकञ्च मूलकं केमुकेतरत् |
कन्दं सैन्धवसामुद्रे गव्ये च दधिसर्पिषी |
पयोऽनुद्धृतसारञ्च पनसाम्री हरीतकी |
तिन्तिडीजीरकञ्चैव नागरङ्गञ्च पिप्पली |
कदली लवली धात्रीफलान्यगुरुमैक्षवम् |
अतैलपक्वं मुनयो हविष्यान्नं प्रचक्षते |
फलं पयो मूलं विहितमित्यनुषज्यते ||
अथाभक्ष्यं मत्स्यसूक्ते ||
नारिकेलोदकं कांस्ये अजाक्षीरञ्च काचके |
पाषाणे महिषीक्षीरमभक्ष्यं परिकीर्त्तितम् ||
पञ्चदशपटले ||
वराहपूजको यस्तु कोलं कूर्मं न भक्षयेत् |
ब्रह्माणं पूजयेद् यस्तु माहिषं चामरं चरुम् |
गणेशयाजी मधुकं पनसं कोरदूषणम् |
आदित्यभक्तो देवेशि ! मयूरं कुण्डसाहकम् |
शिवयाजी तिलपिष्टं चिञ्चाञ्च चक्रपूजकः |
तथा च मद्गुरं मत्स्यं शक्तिचिञ्चां वडालकम् |
कुसुम्भशाकं देवेशि ! लशुनं शृङ्गिणं तथा |
त्रैपुरे तु निम्बतिक्तं त्वरितार्थी तथाम्रकम् |
गोपालार्थी तु पालङ्कमाममत्स्यं न भक्षयेत् |
पारावतं वामनार्थी चक्रशाकं वडालकम् |
निम्बं सारस्वतैर्वर्ज्यं लक्ष्म्यर्थी च करञ्जकम् |
कालान्धं कोद्रवञ्चैव चन्द्रमत्स्यं तथैव च |
सर्वमन्त्रे वडालञ्च सर्वयज्ञेषु शङ्करि ! |
श्वेतपूतीञ्च वार्त्ताकीं कुष्माण्डं पर्वतीयकम् ||
चिञ्चाञ्चैव परान्नञ्च यत्नेन परिवर्जयेत् |
वैष्णवैः पत्रशाकञ्च मूलं कन्दं प्ररोहकम् |
शुष्कं राजीववास्तूकं पालङ्कीञ्च तथैव च |
यदा सङ्कल्पपूर्वेण यस्त्यजेद्वैष्णवः क्वचित् |
तथापि न त्यजेद्देवि ! प्रायश्चित्तं समाचरेत् |
सौरव्रते घृतं वर्ज्यं ताम्बूलं वैष्णवेषु च |
गव्यत्यागी महापापी मधुत्यागी श्रियं हरेत् |
सप्तविंशतिपटले ||
जम्बू खर्जूरदाडिम्बनारिकेलञ्च पूगकम् |
जलविम्बा त्रपूषा तु उर्वारुं पीनकन्तथा |
वदरीलवलीधात्रीपनसाम्रहरीतकी |
शालूकं पद्मषण्डञ्च कशेरु करमर्द्दकम् |
नागरङ्गञ्च मधुकं मधुरं तेन्दुकानि च |
आनाडञ्चैव कुष्माण्डं वासन्त्याः फलमेव च |
तिलकान्नं कलायञ्च माषञ्च राजमाषकम् |
तण्डुलं यवधान्यञ्च नीवारं कुङ्कुमं तथा |
जीरकञ्च लवङ्गञ्च धन्याकं जातिकोषकम् |
एलकञ्चैव कर्पूरं चन्दनागुरुमुस्तकम् |
सरलं देवदारुञ्च कृष्णभल्लातकानि च |
शृङ्गवेरः कटुद्रव्यं मरिचं लवणं कणा |
फलं यच्च शिवायाश्च स्वक्षाम्रं पनसस्य च |
कृष्णकोषं ग्रन्थिपर्णं स्वर्गादेवाङ्कुराणि च |
द्राक्षाञ्च वकुलं कच्वीफलञ्चेक्षु च खण्डितम् |
एतान्याचमनीयानि सुरभिः पाचकान्यपि |
तथा |
पर्वतीयं तथा वर्त्तु तथा कैतवजानि च |
लक्ष्मीलकुचकञ्चैव तिलकं क्षुद्रतिल्लकम् |
हिन्तालं पनसाम्रञ्च पीवरं बद्धजीरकम् |
वृहच्छोटा च वदरी पर्वतीयं विवर्ज्जयेत् |
क्षुद्र उर्वारुकञ्चैव जीवन्त्याः क्षुद्रमेव च |
मधुकं मधुरीं द्राक्षां कलायं यन्न वर्त्तुलम् |
श्वेतमुद्गं तथा कृष्णं फलं तस्य विवर्जयेत् |
नारिकेलफलञ्चैव स्वर्णाभं नागरङ्गकम् |
नारिकेलञ्च स्वर्णाभं दुग्धशस्यं तथैव च |
सोमधान्यं नीवारञ्च कलम्बं षष्टिकानि च |
वृहद्धान्यं क्षुद्रधान्यं वाल्कलिकमुपासुकम् |
एतानि व्रीहिमुख्यानि हविष्याण्येव भोजने |
मौक्तिकं रक्तशाकञ्च उत्तमौधैः प्रचक्ष्यते |
इक्षुञ्च श्वेतत्रपुषं तथा मृगफलानि च |
मद्यकुम्भ प्ररोपञ्च जग्धान्नं तटसम्भवम् |
तथा श्रावणिकं देवि ! हविष्यान्ने विवर्ज्जयेत् |
व्रतेषु आमिषं देवि ! ताम्बूलं पर्णचूर्णके |
निरामिषं चातुरे च आमिषं लकुचानि च |
अभक्ष्यं वर्त्तुलं तस्य हस्तभग्नस्तथैव |
वार्त्ताकुं श्वेतरक्तञ्च श्वेतपूतिकमेव च |
व्रते तु वर्ज्जयेद्देवि ! फलाहारविधिं शृणु |
नमस्कारं फलाहारं सगव्यं वा विशिष्यते |
त्रिभागपूरणं कृत्वा जलाहारं कलौ त्यजेत् |
फलाहारं महेशानि ! गृहस्थानां कलौ युगे |
शतं तिलं तदर्द्धं वा तिलाहारे महेश्वरि ! |
क्षीराहारे च चणकं पञ्चगव्ये फलं भवेत् |
आज्याहारे तु तोलैकं हविष्यस्य विधिं शृणु |
पक्वमन्नं स्वयं वाथ भार्ययया सोदरेण तु |
मातापितुर्गुरोर्वापि न भुक्त्वा यदि वा पचेत् |
लघ्वाहारो जितक्रोधो हविष्यव्रतभोजने |
तथा |
वेत्राङ्कुरं तथा मुस्तां सैन्धवं सिन्धुसम्भवम् |
तथा पर्वतसम्भूतं हविर्द्रव्यादि कीर्त्तितम् |
विल्वामलतिलस्यैव वदर्ययाः पत्रमेव च |
हविष्यभोजने प्राप्ते हविष्यान्नं प्रचक्षते |
सुन्दार्घ्य पात्रे पत्रे वा पलाशस्य च पत्रके |
कदल्याश्च त्वचे पत्रे हविष्यव्रतभोजने |
सौरव्रते कटुद्रव्यं शैवे चान्नं विवर्जयेत् |
वैष्णवे कोरदूषञ्च शाक्ते शालिं विवर्जयेत् |
पूगं सर्वव्रतेत्याज्यं आरनालकमेव च |
न भक्षयेल्लौहच्छिन्नं हस्तभग्नं न भक्षयेत् |
कालिकासु स्थितं द्रव्यं तथा पनसपत्रके ||
विख्यातस्वीयकीर्त्त्याऽजनि जगति दयारामविश्वासनामा धर्मात्मा तस्य सूनुः सकलगुणयुतो रामहर्ययाख्य एव |
जातौ तस्यात्मजौ श्रीसुकृतियुतजगन्मोहनप्राणकृष्णौ ज्येष्ठः श्रीप्राणकृष्णो गुणिगणकुमुदश्रेणिपूर्णौषधीशः ||
तदादिष्टः शिष्टविद्वन्मनःसन्तुष्टिकारिणीम् |
श्रीप्राणतोषिणीं वल्लीं निर्ममे रामतोषणः ||
आदेष्ट्टसत्वरतया गुरुताभिया च ग्रन्थस्य सर्वरचनं न समाचचक्षे |
धीराः ! कृताञ्जलिरहं विनिवेदयामि युष्माभिरेव सकलन्तु विचरणीयम् ||
इति श्रीप्राणकृष्णविश्वासानुमतायां श्रीरामतोषणविद्यालङ्कारभट्टाचार्ययविरचितयां श्रीप्राणतोषिण्यां तृतीयमर्थकाण्डाङ्गं समाप्तम् ||
Kāmyakāṇḍa – Zielgerichtete Rituale

नित्यानन्दमयी नितान्तनिपुणा भक्तेष्टसिद्ध्यै निराकारा नूतननूतनोल्लिखितकृत् प्रज्ञास्वरूपा कवेः |
शब्दार्थोभयरूपिणी शतसुधांशूद्दीप्तशोचिः सदा ध्याता चेतसि मे चकास्तु रुचिरा वागीश्वरी निर्मला ||
श्रीयुक्तः प्राणकृष्णो गुरुचरणसरोजातसंलीनचेता दता ख्यातः प्रमाता सुविहितकृतिको ब्रह्मसंस्थापकः स्तात् |
भोगाढ्यो दीर्घजीवी यदनुमतिवशादुद्गतेयं विपश्चिद्वृन्दं श्रीप्राणतोषिण्यतिमृदुललता ह्लादयत्वद्रिकाण्डैः |
आदेष्ट्रत्यन्तशीघ्रत्वहेतुना दोषराशयः |
अत्र जाता बुधैः शोध्या इति भूयो निवेदनम् ||
काम्यकाण्डस्य निर्घण्ट आदौ चैतन्यमेव च |
सर्वसामेव विद्यानां मन्त्रार्थस्तदनन्तरम् |
कुल्लुका च तथा सेतुर्महासेतुस्ततः परम् |
निर्वाणं मुखशुद्धिश्च प्राणयोगस्ततः परम् |
दीपनीसूतकोन्मुक्तिजपक्रमनिरूपणम् |
कुल्लुकादेस्तथा स्थानं पुरश्चर्या ततः परम् |
वारमासपुरश्चर्यारहस्यादिपुरस्क्रिया |
ग्रहणकालपुरश्चर्या तत्र सङ्कल्पवारणम् |
मालाप्रकरणमिति प्रथमच्छेद उच्यते || १ ||
साधनस्थाननिर्णीतिमहापीठनिरूपणम् |
महापीठानि पीठानि तथैव पीठदेवताः |
पूजाकालस्तद्विशेषस्तथा देवार्चनाविधिः |
एकाहादिक्रमाद्बाधे कर्तव्यनिर्णयस्ततः |
प्रायश्चित्तमितिच्छेदद्वितीयस्य समापनम्|| २ ||
कृकलासाखुमार्जारशृगालखादिसाधनम् |
इष्टसाधनभेदाश्च त्रिवाटादेश्च साधनम् |
कार्तवीर्यप्रयोगस्तत्कवचं तदनन्तरम् |
परिच्छेदतृतीयस्य समापनमतः परम् || ३ ||
कुक्कुटस्य प्रयोगश्चोच्छिष्टचाण्डालिनी ततः |
धूमावती ततः कृत्या परिमालात्मिका ततः |
जयदुर्गादिरिति वै तुर्यच्छेदसमापनम् || ४ ||
दुर्गोत्सवस्य षष्ठ्यादिकल्पतत्कालनिर्णयः |
पूजाधारश्च मृण्मयया निषेधविधिकीर्तनम् |
ब्राह्मणादिवर्णभेदे विल्वयुग्मस्य निर्णयः |
पूर्वादिदिश्यमालूरयुग्मस्य फलकीर्तनम् |
बिल्वयुग्मस्य मृण्मययाश्चात्र दोषश्चुक्तौ तथा |
तत्प्रायश्चित्तकथनमुत्सवादिनिरूपणम् |
तत्रान्यकर्मत्यागश्च पूजाकर्म ततः परम् |
देशभेदे मूर्तिभेदो मण्डपन्तु ततः परम् |
षष्ठीकृत्यञ्च दिक्पालास्तन्त्रपूजाविधिरेव च |
बलिदानादि च ततो बिल्ववृक्षनिमन्त्रणम् |
ततश्च सप्तमीकृत्यं कार्तिकादेः प्रपूजनम् |
पत्रिकापूजनं स्तोत्रमष्टमीकृत्यमेव च |
निशीथकृत्यं नवमीकृत्यञ्च दशमीक्रिया |
परिच्छेदपञ्चमस्य समाप्तिरिति कीर्तितम् || ५ ||
दुर्गामन्त्रस्तस्य ऋषिः पुरश्चर्या च यन्त्रकम् |
ध्यानं स्तुतिस्ततो दुर्गानाममहात्म्यकीर्तनम् |
दुर्गायाः शतनामाख्यस्तोत्रं गीतावलिस्ततः |
होमप्रकरणं तस्य द्रव्यस्य परिमाणकम् |
मानाध्याय इदं षष्ठपरिच्छेदसमापनम् || ६ ||
मासकृत्यं ततः खञ्जरीटदुष्टिश्च तत्फलम् |
कोजागराख्यकृत्यञ्च कृत्यं कार्तिकमासिकम् |
अग्रहायणकृत्यानि पौषकृत्यं ततः परम् |
माघकृत्यं फाल्गुनस्य कृत्यानि तदनन्तरम् |
वर्षकृत्यं हृतराज्यराज्याप्तिसाधनं ततः |
देवीषोडशयात्रा च मासिमासि यथादितः |
वैशाखे मञ्जुयात्रा च प्रथमा परिकीर्तिता |
ज्यैष्ठे महास्नानयात्रा रथयात्रादिका शुचौ |
श्रावणे जलयात्रा च भाद्रे च धूननं तथा |
आश्विने च महापूजा कार्तिके दीपयात्रिका |
मार्गे नवान्नयात्रा च पौषेऽङ्गरागरूपिणी |
माघे यात्रा रटन्त्याख्या फाल्गुने दोलयात्रिका |
दूतीयात्रा रासयात्रा वासन्तीनीत्ययात्रिका |
एताश्चतस्रश्चैत्रे तु षोडशीयात्रिका मता |
दिग्दर्शनार्थं सङ्घेपान्निर्घण्टो विहितो मया |
अन्यान्यपि यथास्थानं वेदितव्यानि पण्डितैः ||
इदं ग्रन्थिशाखाप्रशाखासुपत्रैस्तथा तारकैः सुप्रसूनैः फलैश्च |
सदाशां जनानां बुधोपासकानां प्रपूर्णां विधाता द्रुतं काम्यकाण्डम् ||
कालि हृदब्जे शङ्करि ! नित्यम् |
राजतु देवाधीश्वरपूज्ये ! |
अथ चैतन्यम् |
कुब्जिकायन्त्रे पञ्चमपटले ||
श्रीपार्वत्युवाच ||
भगवन् ! सर्वदेवेश ! लोकानां हितकारक ! |
चतुर्वर्गप्रदं देव ! चैतन्यं मे प्रकाशय ||
शङ्कर उवाच ||
शृणु देवि ! प्रवक्ष्यामि चैतन्यं परमाद्भुतम् |
रहस्यं परमं पुण्यं गोपनीयं त्वया पुनः |
चिच्छक्त्या ध्वनितं देवि ! परिणामक्रमेण तु |
वर्णभावं समात्यज्य निर्मलं विमलात्मकम् |
षट्चक्रञ्च तथा भित्त्वा शब्दरूपं सनातनम् |
नादबिन्दुसमायुक्तं चैतन्यं परिकीर्तितम् |
अथ वान्यप्रकारेण श्रूयतां पद्मलोचने ! |
विना येन न सिध्येत्तु जपपूजादि किञ्चन |
अनाहतस्य मध्ये तु ग्रथितं वर्णमुत्तमम् |
सुषुम्नावर्त्मना देवि ! कण्ठदेशं विनिर्गतम् |
चैतन्यञ्च महेशानि ! योगिनां योगरूपकम् |
सहस्रारे वर्णरूपं परिणामक्रमेण तु |
कर्णिकामध्यसंस्थे तु नादबिन्दुसमन्वितम् |
एवं सञ्चिन्तयेद्देवीं चैतन्यञ्च पुनः पुनः |
मन्त्राक्षराणि चिच्छक्तौ ग्रथितानि महेश्वरि ! |
तानि सञ्चिन्तयेद्देवि ! सहस्रारदले तथा |
चैतन्यमन्त्ररूपा च चैतन्यानन्ददायिनी |
चैतन्यनादशक्तिश्च चैतन्यवर्णरूपकम् |
मणिपूरे सदा चिन्त्यं मन्त्राणां प्राणरूपकम् |
अथवान्यप्रकारेण श्रूयतां वरवर्णिनि ! |
कामबीजं रमाबीजं शक्तिबीजं सुरेश्वरि ! |
एतानि पूर्वमुच्चार्य मातृकां तदनन्तरम् |
पुटितं मूलमन्त्रञ्च शतमष्टोत्तरं जपेत् |
कोटिकोटिगुणञ्चैव लभते नात्र संशयः |
अथवान्यप्रकारेण चैतन्यं शृणु पार्वति ! |
येन विज्ञानमात्रेण परमं पश्यति ध्रुवम् |
सूर्यमण्डलमध्यस्थं चिन्तयेन्मूलमन्त्रकम् |
अष्टोत्तरशतं जाप्यं मूलविद्यास्वरूपकम् |
गुरुं सञ्चिन्तयेत्तत्र शिवरूपं सनातनम् |
शक्तिञ्च चिन्तयेत्तत्र ब्रह्मरूपां सनातनीम् |
एवं सञ्चिन्तयेद्यस्तु जपेद्वा सुरसुन्दरि ! |
नासाध्यं तस्य लोकेऽस्मिन् मुक्तिर्देवि ! करे स्थिता |
तथा प्रथमपटले ||
मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः |
न सिध्यति वरारोहे ! कल्पकोटिशतैरपि |
शतकोटिजपेनापि तस्य विद्या न सिध्यतीति सरस्वती तन्त्रे पाठः ||
कथयामि महामन्त्रं मन्त्रार्थञ्च महेश्वरि ! |
येन विज्ञानमात्रेण सर्वसिद्धीश्वरो भवेत् |
केवलं भावबुद्ध्या च मन्त्रार्थं प्राणवल्लभे ! |
केवलं ज्ञानयोगेन जीवन्मुक्तो भवेद्ध्रुवम् |
कालीतारा महाविद्या षोडशी भुवनेश्वरी |
भैरवी छिन्नमस्ता च विद्या धूमावती प्रिये ! |
बगला चैव मातङ्गी कमला च प्रकीर्तिता |
ब्रह्मविष्णुमहेशाद्यैश्चतुर्वेदैर्नमस्कृता |
भोगदा मोक्षदा देवि ! कोटिब्रह्माण्डगोपिता |
अस्या ग्रहणमात्रेण जीवन्मुक्तस्तु साधकः ||
वरदातन्त्रे षष्ठपटले |
शिव उवाच ||
मन्त्रार्थं कथयाम्यद्य शृणुष्व परमेश्वरि ! |
विना येन न सिध्येत्तु साधनैः कोटिशः शिवे ! |
आदौ प्रासादबीजस्य मन्त्रार्थं शृणु पार्वति ! |
सिववाची हकारस्तु औकारः स्यात् सदाशिवः |
शून्यं दुःखहरार्थन्तु तस्मात्तेन शिवं यजेत् ||
हौं ||
द दुर्गावाचकं देवि ! |
उकारश्चापि रक्षणे |
विश्वमाता नादरूपः कुर्वर्थो बिन्दुरूपकः |
तस्मात्तेनैव बीजेन दुर्गामाराधयेच्छिवे ! ||
दूं ||
क काली ब्रह्म र प्रोक्तं महामायार्थकश्च ई |
विश्वमातार्थको नादो बिन्दुर्दुःखहरार्थकः |
तेनैव कालिकादेवीं पूजयेद्दुःखशान्तये ||
क्रीं ||
हकारः शिववाची स्यात् रेफः प्रकृतिरुच्यते |
महामायार्थ ईशब्दो नादो विश्वग्रसूः स्मृतः |
दुःखहरार्थको बिन्दुर्भुवनां तेन पूजयेत् ||
ह्रीं ||
महालक्ष्म्यर्थकः शः स्याद्धनार्धो रेफ उच्यते |
ईस्तुष्ट्यर्थोऽपरो नादो बिन्दुर्दुःखहरार्थकः |
लक्ष्मीदेव्या बीजमेतत्तेन देवीं प्रपूजयेत् ||
श्रीं ||
सरस्वत्यर्थ ऐशब्दो बिन्दुर्दुःखहरार्थकः |
सरस्वत्या बीजमेतत्तेन वाणीं प्रपूजयेत् ||
ऐं ||
क कामदेव उदिष्टोऽप्यथवा कृष्ण उच्यते |
ल इन्द्र ई तुष्टिवाची सुखदुःखप्रदञ्च अं |
कामबीजार्थं उक्तस्ते तव स्नेहान्महेश्वरि ! |
क्लीं ||
ह शिवः कथितो देवि ! उ भैरव इहोच्यते |
परार्थो नादशब्दस्तु बिन्दुर्दुःखहरार्थकः |
वर्मबीजत्रयो ह्यत्र कथितस्तव यत्नतः ||
हूं ||
गणेशार्थो ग उक्तस्ते बिन्दुर्दुःखहरार्थकः |
गं बीजार्थन्तु कथितं तव स्नेहान्महेश्वरि ! |
गं ||
ग गणेशव्यापकार्थो लकारस्तेज औ मतः |
दुःखहरार्थको बिन्दुर्गणेशं तेन पूजयेत् ||
ग्लौं ||
क्षणृसिंहो व्रह्मा रश्च ऊर्द्धदन्तार्थकश्च औ |
दुःखहरार्थको बिन्दुर्नृसिंहं तेन पूजयेत् |
क्ष्रौं ||
नामादिवर्णः सर्वेषां नाम उक्तं स्वयम्भु वा |
तेनैवार्थन्तु जानीयादर्थलभ्यन्तु चिन्तयेत् |
यथायथं विभक्त्यन्तं मन्त्रार्थे चिन्तयेच्छिवे ! |
तत्तद्वर्णादियोगेन संक्षेपात् कथितं त्वयि |
दुर्गोत्तारणवाच्यः स तारकार्थस्तकारकः |
मुक्त्यर्थो रेफ उक्तोऽत्र महामायार्थकश्च ई |
विश्वमातार्थको नादो बिन्दुर्दुःखहरार्थकः ||
वधूबीजार्थ उक्तोऽत्र तव स्नेहान्महेश्वरि ! ||
स्त्रीं ||
यत्र बिन्दुद्वयं मन्त्रे एकं दुःखहरार्थकम् |
अन्यत् सुखप्रदं देवि ! ज्ञात्वा चार्थं विचिन्तयेत् |
यत्र बिन्दुद्वयं मन्त्रे अन्यत् पूर्णार्थकं मतम् |
स्वाहामात्रार्थका देवि ! परार्था वां प्रकीर्तिता |
शक्रमाता वषट् प्रोक्ता हरिप्रियार्थका गिरा |
सुरार्था फट् हयग्रीवे विव्रिंबीजं विनिर्दिशेत् |
यं बीजं वायुवाची स्यात् लमैन्द्रं परिकीर्तितम् |
अनेकाक्षरबीजे च स्वस्वबीजं स्वनामकम् |
एवं ज्ञात्वा महेशानि ! मन्त्रार्थं परिचिन्तयेत् |
एकबीजद्वयं यत्र पृथगर्थं प्रकल्पयेत् |
वीप्सार्थं वा महेशानि ! ज्ञात्वा मन्त्रं जपेद्धिया |
इति ते कथितो देवि ! मन्त्रार्थः परमेश्वरि ! |
ईं बीजेनैव पुटितं मूलमन्त्रं जपेद् यदि |
तदेव मन्त्रचैतन्यं भवत्येव सुनिश्चितम् ||
सरस्वतीतन्त्रे प्रथमपटले ||
ईश्वर उवाच ||
मन्त्रार्थं परमेशानि ! सावधानावधरय |
मूलाधारे मूलविद्यां भावयेदिष्टदेवताम् |
शुद्धस्फटिकसङ्काशां भावयेत् परमेश्वरीम् |
धारयेदक्षरश्रेणीमिष्टविद्यां सनातनीम् |
मुहूर्तार्द्धं विभाव्यैतां पश्चाद्ध्यानपरो भवेत् |
ध्यानं कृत्वा महेशानि ! मुहूर्तार्द्धं ततः परम् |
ततो जीवो महेशानि ! मनसा कमलेक्षणे ! |
स्वाधिष्ठानं ततो गत्वा भावयेदिष्टदेवताम् |
बन्धूकारुणसङ्काशां जवासिन्दूरसन्निभाम् |
विभाव्य अक्षरश्रेणीं पद्ममध्यगतां पराम् |
ततो जीवः प्रसन्नात्मा पक्षिणा सहसुन्दरि ! |
मणिपूरं ततो गत्वा भावयेदिष्टदेवताम् |
विभाव्य अक्षरश्रेणीं पद्ममध्यगतां पराम् |
शुद्धस्फटिकसङ्काशां शिरःपद्मोपरिस्थिताम् |
ततो जीवो महेशानि ! पक्षिणा सह पार्वति ! |
हृत्पद्मं प्रययौ शीघ्रं नीरजायतलोचने ! |
इष्टविद्यां महेशानि ! भावयेत् कमलोपरि !
विभाव्य अक्षरश्रेणीं महामरकतप्रभाम् |
ततो जीवो वरारोहे ! विशुद्धं प्रययौ प्रिये ! |
हृत्पद्मगहनं गत्वा पक्षिणा सह पार्वति ! |
इष्टंविद्यां महेशानि ! आज्ञांशे परिचिन्तयेत् |
पक्षिणा सह देवेशि ! खञ्जनाक्षि ! सुचिस्मिते ! |
इष्टविद्यां महेशानि ! साक्षाद्ब्रह्मस्वरूपिणीम् |
विभाव्य अक्षरश्रेणीं हरिद्वर्णां वरानने ! |
आज्ञाचक्रे महेशानि ! षट्चक्रे ध्यानमाचरेत् |
षट्चक्रे परमेशानि ! ध्यानं कृत्वा सुचिस्मिते ! |
ध्यानेन परमेशानि ! यद्रूपं समुपस्थितम् |
तदेव परमेशानि ! मन्त्रार्थं विद्धि पार्वति ! ||
अथ कुल्लुकादि |
सरस्वतीतन्त्रे तृतीयपटले ||
तारायाः कुल्लुका देवि ! महानीलसरस्वती |
पञ्चाक्षरी कालिकायाः कुल्लुका परिकीर्तिता |
काली कूर्चं बधूर्माया फट्कारान्ता महेश्वरि ! |
छिन्नायास्तु महेशानि ! कुल्लुकाष्टाक्षरी भवेत् |
वज्रवैरोचनीये च अन्ते वर्म प्रपूजयेत् |
सम्पत्प्रदायाः प्रथमं भैरव्याः कुल्लुका भवेत् |
श्रीमत्त्रिपुरसुन्दर्याः कुल्लुका द्वादशाक्षरी |
वाग्भवं प्रथमं बीजं कामबीजमनन्तरम् |
लज्जाबीजं ततः पश्चात्त्रिपुरेति ततः परम् |
भगवतीति तत्पश्चादन्ते ठद्वयमुद्धरेत् |
अथवा कामबीजञ्च कुल्लुका परिकीर्तिता |
प्रासादबीजं शम्भोश्च मञ्जुघोषे षडक्षरम् |
एकार्णा भुवनेश्वर्या विष्णोः स्यादष्टवर्णकम् |
नमो नारायणायेति प्रणवाद्यञ्च कुल्लुका |
मातङ्ग्याः प्रथमं बीजं माया धूमावतीं प्रति |
बालायाश्च बधूबीजं लक्ष्म्याश्च निजबीजकम् |
सरस्वत्या वाग्भवञ्च अन्नदाया अनङ्गका |
अपरेषाञ्च देवानां मन्त्रमात्रं प्रकीर्तितम् |
इयं ते कथिता देवि ! सङ्क्षेपात् कुल्लुका मया |
अज्ञात्वा कुल्लुकामेतां यो जपेदधमः प्रिये ! |
पञ्चत्वमाशु लभते सिद्धिहानिस्तु जायते |
तथा जपादिकं सर्वं निष्फलं नात्र संशयः |
तस्मात् सर्वप्रयत्नेन धारयेन्मूर्द्ध्नि कुल्लुकाम् ||
तथा |
विप्राणां प्रणवः सेतुः क्षत्रियाणां तथैव च |
वैश्यानाञ्चैव फट्कारो माया शूद्रस्य कथ्यते |
अजप्त्वा हृदि देवेश ! यो वै मन्त्रं समुच्चरेत् |
सर्वेषामेव मन्त्राणामधिकारो न तस्य हि |
महासेतुश्च देवेशि ! सुन्दर्या भुवनेश्वरी |
कालिकायाः स्वबीजञ्च तारायाः कूर्चबीजकम् |
अन्यासान्तु बधूबीजं महासेतुर्वरानने ! |
आदौ जप्त्वा महासेतुं जपेन्मन्त्रमनन्यधीः |
धने धनेशतुल्योऽसौ वाण्या वाणीश्वरोपमः |
युद्धे कृतान्तसदृशो नारीणां मदनोपमः |
जपकालो भवेत्तस्य सर्वकालो न संशयः |
अथ वक्ष्यामि निर्वाणं शृणुष्वावहितानघे ! |
प्रणवं पूर्वमुच्चार्य मातृकाद्यं समुद्धरेत् |
ततो मूलं महेशानि ! ततो वाग्भवमुद्धरेत् |
मातृकास्तु समस्तास्तु पुनः प्रणवमुद्धरेत् |
एवं पुटितमूलन्तु प्रजपेन्मणिपूरके |
एवं निर्वाणं महेशानि ! यो न जानाति पामरः |
कल्पकोटिसहस्रेण तस्य सिद्धिर्न जायते ||
अथ मुखशोधनम् ||
पञ्चमपटले ||
ईश्वर उवाच ||
अपरैकं प्रवक्ष्यामि म्त्खशोधनमुत्तमम् |
यत्र कृत्वा महादेवि ! जपपूजा वृथा भवेत् |
अशुद्धजिह्वया देवि ! यो जपेत् स तु पापकृत् |
तस्मात् सर्वप्रयत्नेन जिह्वाशोधनमाचरेत् |
महात्रिपुरसुन्दर्या मुखस्य शोधनं शुभे ! |
श्रीबीजं प्रणवो लक्ष्मीस्तारः श्रीप्रणवस्तथा |
इमं षडक्षरं मन्त्रं सुन्दर्या दशधा जपेत् |
शृणु सुन्दरि ! श्यामाया मुखशोधनमुत्तमम् |
निजबीजत्रयं देवि ! प्रणवत्रितयं पुनः |
कामत्रयं वह्निबिन्दुरतिचन्द्रयुतं पृथक् |
एषा नवाक्षरी विद्या मुखशोधनकारिणी |
तारायाः शृणु चार्वङ्गि ! अपूर्वमुखशोधनम् |
जीवनं मध्यमं लज्जां भुवनेशीं ततः प्रिये ! |
त्र्यक्षरीयं महाविद्या विज्ञेयाऽमृतवर्षिणी |
दुर्गायाः शृणु चार्वङ्गि ! मुखशोधनमुत्तमम् |
द्वादशस्वरमुद्धृत्य बिन्दुयुक्तं त्रयं तथा |
अपरैकं प्रवक्ष्यामि बगलामुखशोधनम् |
वाग्भवं भुवनेशीञ्च वाग्बीजं सुरवन्दिते ! |
मातङ्ग्याः शोधनं देवि ! अङ्कुशं वाग्भवं तथा |
बीजञ्चाङ्कुशमेतद्धि विज्ञेयं त्र्यक्षरीयकम् |
लक्ष्म्याश्च शोधनं देवि ! श्रीबीजं कमलानने ! |
दुर्गायाः शोधनं माया वाग्बीजपुटिता भवेत् |
दुर्गे ! स्वाहापुनर्माया वाग्बीजञ्च पुनश्च वाक् |
प्रणवं दान्तमुद्धृत्य वामकर्णविभूषितम् |
पुनः प्रणवमुद्धृत्य धनदामुखशोधनम् |
एवं मन्त्रं महेशानि ! धूमावत्या भवेदपि ||
प्रणवो बिन्दुमान् देवि ! पञ्चान्तको गणेशितुः |
वेदादिगगनं वह्निमनुयुग्मन्तु चन्द्रवत् |
द्व्यक्षरं परमेशानि ! विष्णोश्च मुखशोधनम् |
अन्यासां प्रणवं देवि ! बालादीनां प्रकीर्तितम् |
स्त्रीणाञ्च शूद्रतुल्यं हि मुखशोधनमीरितम् |
मुखशोधनमात्रेण जिह्वाऽमृतमयी भवेत् |
अन्यथा मुखविड्युक्ता जिह्वा भवति सर्वदा |
भक्षणैर्दूषिता जिह्वा मिथ्यावाक्येन दूषिता |
कलहैर्दूषिता जिह्वा तत्कथं प्रजपेन्मनुम् |
तच्छोधनमनाचर्य न जपेत् पामरः क्वचित् |
शैवशाक्तवैष्णवादेः सर्वस्यावश्यमेव वा |
अन्यथा प्रजपेन्मन्त्रं मोहेन यदि भाविनि ! |
सर्वं तस्य वृथा देवि ! मन्त्रसिद्धिर्न जायते |
अन्ते नरकवासी च भवेत् सोऽपि न चान्यथा |
देवो यदि जपेन्मन्त्रमकृत्वा मुखशोधनम् |
पतनं तस्य देवेशि ! किं पुनर्मर्त्यवासिनाम् ||
षष्ठपटले ||
ईश्वर उवाच ||
अथ वक्ष्यामि देवेशि ! प्राणयोगं शृणुष्व मे |
विना प्राणं यथा देहः सर्वकर्मसु न क्षमः |
विना प्राणं तथा मन्त्रः पुरश्चर्याशतैरपि |
मायया पुटितो मन्त्रः सप्तधा जपतः पुनः |
सप्राणो जायते देवि ! सर्वत्रायं विधिः स्मृतः |
तथैवं दीपनं वक्ष्ये सर्वमन्त्रे च भाविनि ! |
अन्धकारे गृहे यद्वन्न किञ्चित् प्रतिभासते |
दीपनीरहितो मन्त्रस्तथैव परिकीर्तितः |
वेदादिपुटितं मन्त्रं सप्तवारं जपेत् पुनः |
दीपनीयं समाख्याता सर्वत्र परमेश्वरि ! |
वेदादिपुटितं कृत्वा प्रयत्नेन सुरेश्वरि ! |
दशधा प्रजपेन्मन्त्रं सूतकद्वयमुक्तये |
अथोच्यते जपस्यात्र क्रमश्च परमाद्भुतः |
यं कृत्वा सिद्धसङ्घानामधिपो जायते नरः |
नतिर्गुर्वादिनामादौ ततो मन्त्रशिखां भजेत् |
ततोऽपि मन्त्रचैतन्यं मन्त्रार्थभावना ततः |
गुरुध्यानं शिरःपद्मे हृदीष्टध्यानमाहरन् |
कुल्लुकाञ्च ततः सेतुं महासेतुमनन्तरम् |
निर्वाणञ्च ततो देवि ! योनिमुद्राविभावना |
अङ्गन्यासं प्राणायामं जिह्वाशोधनमेव च |
प्राणयोगं दीपनीञ्च अशौचभङ्गमेवं च |
भ्रूमध्ये वा नसोरग्रे द्रष्टिसेतुं जपं पुनः |
सेतुमशौचभङ्गञ्च प्राणायाममिति क्रमाः ||
चतुर्थपटले ||
कुल्लुकां मूर्द्ध्नि सञ्जप्य हृदि सेतुं विचिन्तयेत् |
महासेतुं विशुद्धौ च कण्ठदेशे समुद्धरेत् |
मणिपूरे तु निर्वाणं महाकुण्डलिनीमधः |
स्वाधिष्ठाने कामबीजं राकिणीमूर्द्ध्निसंस्थितम् |
विचिन्त्य विधिवद्देवि ! मूलाधारान्तिकां शिवे ! |
विशुद्धान्तं स्मरेद्देवि ! विसतन्तुतनीयसीम् |
वेदिस्थानं हि जीवान्तं मूलमन्त्रावृतं मुहुः ||
अन्यस्तु बीजचिन्तामण्यादावनुसन्धेयोऽत्र ग्रन्थगौरवभिया न लिखितः ||
पुरश्चरणन्तु तन्त्रसारकारेणैव धृतम् |
पुरश्चरणविशेषो लिख्यते |
कङ्कालमालिनीतन्त्रे ||
अथवान्यप्रकारेण पुरश्चरणमुच्यते |
अष्टम्याञ्च चतुर्दश्यां नवम्यां वीरवन्दिते ! |
सूर्योदयं समारभ्य यावत् सूर्योदयान्तरम् |
तावज्जप्त्वा निरातङ्कः सर्वसिद्धीश्वरो भवेत् |
अथवान्यप्रकारेण पुरश्चरणमुच्यते |
अष्टम्याञ्च चतुर्दश्यां पक्षयोरुभयोरपि |
अस्तमारभ्य सूर्यस्य यावत् सूर्यास्तमं भवेत् |
तावज्जप्त्वा निरातङ्कः सर्वसिद्धीश्वरो भवेत् |
अथवा विजनस्थश्च अस्थिशययासमश्च वा |
उदयास्तं दिवा जप्त्वा सर्वसिद्धीश्वरो भवेत् |
तेनासने च वा देवि ! अस्तमारभ्य भास्वतः |
जपित्वोदयपर्यन्तं सर्वसिद्धीश्वरो भवेत् |
अथवान्यप्रकारेण पुरश्चरणमुच्यते |
सूर्योदयात् समारभ्य घटिकादशकं क्रमात् |
ऋतवः स्युर्वसन्ताद्या अहोरात्रं दिने दिने |
वसन्तग्रीष्मवर्षाख्यशरद्धेमन्तशैशिराः |
वसन्तश्चापि पूर्वाह्णे ग्रीष्मो मध्याह्न उच्यते |
अपराह्णः प्राविषः स्युः प्रदोषः शरदः स्मृतः |
अर्द्धरात्रे च हेमन्तः शेषे च शिशिरं स्मृतम् |
सूर्योदयात् समारभ्य वसन्तान्तं समाहितः |
तावज्जपेन्महेशानि ! पुरश्चर्या हि सिध्यति |
ततः पूजादिकं कृत्वा शक्तियुक्तश्च साधकः |
गुरवे दक्षिणां दत्त्वा सर्वसिद्धीश्वरो भवेत् ||
अथवान्यप्रकारेण पुरश्चरणमुच्यते |
ग्रीष्मादिषु महेशानि षडृतुषु च साधकः |
पृथग्जप्त्वा वरारोहे ! पुरश्चर्या हि सिध्यति |
पूर्वोक्तविधिना सर्वं कर्तव्यं वीरवन्दिते ! |
ऋतौ जप्त्वा तु ऋत्वन्ते शक्तितः पूजयेच्छिवाम् |
एवमाचर्य कृत्यं वै धनानामीश्वरो भवेत् ||
अथ वारपुरश्चरणं स्वतन्त्रतन्त्रे ||
रविवारादिसर्वेषु वारसंख्यसहस्रकम् |
जप्त्वा मन्त्रं सदा देवि ! साधकः सिद्धिभाग्भवेत् |
पुरश्चरणमेतद्धि नात्र कार्या विचारणा |
एवंविधं समाचर्य दशांशन्तु तदाचरेत् |
गुरवे दक्षिणां दत्त्वा सर्वकाममवाप्नुयात् ||
अथ तिथिपुरश्चरणं तत्रैव ||
प्रतिपत्तिथिमारभ्य कुहुर्यावद्भवेत् प्रिये ! |
तिखिसंख्याक्रमेणैव वर्द्धयेच्च सहस्रकम् |
एवं जप्त्वा तदा मन्त्री सर्वकाममवाप्नुयात् |
पुरश्चरणमेतद्धि कथितञ्च वरानने ! |
प्रतिपत्तिथिमारभ्य राका यावद्भवेत् प्रिये! |
तावन्मन्त्रं प्रजातितिथिसंख्याक्रमेण तु |
सर्वभावसमायुक्तो जायते भुवि साधकः |
एतेनैव समृद्धिः स्यान्नात्र कार्या विचारणा ||
अथ मासनियतकार्यम् ||
अद्येत्यादिवैशाखे कार्तिके माघे वा मासि अमुकराशिस्थे भास्करे अमुकपक्षेऽमुकतिथावारभ्य अमुकगोत्रः श्रीअमुकदेवशर्मा अमुकदेवताया अमुकमन्त्रसिद्धिकामोऽमुकसंक्रान्त्यामारभ्य मेषतुलामकरस्थरविं यावत् प्रत्यहममुकदेवताया अमुकमन्त्रसहस्रसंख्यकजपमेषादावनन्तरतद्दशांशहोम- तद्दशांशतर्पणतद्दशांसाभिषेकतद्दशांश- ब्राह्मणभोजनरूपपुरश्चरणमहं करिष्ये इति सङ्कल्प्य मासं व्याप्य हविष्यान्नभुक् नियमस्थः प्रत्यहं सहस्रकृत्वो जपेत् ||
ततः सौरज्यैष्ठसौरमार्गशीर्षसौरफाल्गुनप्रथमदिनेषु होमादिकं कृत्वा दक्षिणां कुर्यात् यथा |
अद्येत्यादि कृतैतत् अमुके मासि अमुकराशिस्थे भास्करे अमुके पक्षे अमुकतिथौ अमुकगोत्रः श्री-अमुकदेवशर्मा अमुकराशिस्थरविकालीनामुकदेवताया अमुकमन्त्र इयत्संख्यकजपतद्दशांशहोमतद्दशांश- तर्पणतद्दशांशाभिषेकतद्दशांश-ब्राह्मणभोजनरूपपुरश्चरणकर्मणः साङ्गतार्थं दक्षिणामिदं काञ्चनं वह्निदैवतम् अमुकगोत्राय श्रीअमुकदेवशर्मणे गुरवे तुभ्यमहं सम्प्रददे |
ततोऽच्छिद्राववारणं कुर्यात् ||
अथ वारादिपुरश्चरणसङ्क्ल्पमाह ||
अद्येत्यादि अमुके मासि
अमुकराशिस्थे भास्करे अमुके पक्षे अमुकतिथावारभ्य अमुकगोत्रः श्री- अमुकदेवशर्मा अमुकदेवताया अमुकमन्त्रसिद्धिकामः रविवारादिसर्ववारेषु अमुकदेवताया अमुकमन्त्रस्य वारसंख्यकसहस्रजपरूपपुरश्चरणमहं करिष्ये |
इति सङ्कल्पयेत् |
ततः शेषदिने तत्परदिने वा अद्येत्यादि कृतैतत् अमुकदेवताया अमुकमन्त्रस्य रविवाराद्यधिकरणकवारसंख्यकसहस्रजप- तद्दशांशहोमतद्दशांशतर्पणतद्दशांशाभिषेकतद्द- शांशब्राह्मणभोजनकर्माण्यहं करिष्ये |
ततो दक्षिणा |
अद्येत्यादि कृतैतत् रविवाराद्यधिकरणकवारसंख्यक- सहस्रजपतद्दशांशहोमतद्दशांशतर्पणतद्दशांशाभि- षेकतद्दशांशब्राह्मणभोजनरूपपुरश्चरणकर्मणः साङ्गतार्थं दक्षिणामिदमित्यादि ||
तिथिपुरश्चरणे सर्वेमेवं सर्वत्र वारशब्दस्थाने तिथिशब्दप्रयोगः |
अथ ऋतुपुर्श्चरणसङ्कल्पः ||
अद्येत्यादि अमुकगोत्रः श्रीअमुकदेवशर्मा अमुकदेवताया अमुकमन्त्रसिद्धिकामः सूर्योदयं समारभ्य वसन्तान्तं यावत् अमुकदेवताया अमुकमन्त्रस्य जपरूपपुरश्चरणमहं करिष्ये ||
अन्यत्र ग्रीष्म-ऋतुव्यापकजपरूपपुरश्चरणमहं करिष्ये एवं सर्वत्र ||
जपान्ते पूजां कृत्वा दक्षिणां कुर्यद् यथा |
अद्येत्यादि अमुकदेवताया अमुकमन्त्रस्य वसन्त-ऋतुव्यापकजपरूपपुरश्चरणकर्मणः साङ्गतार्थं दक्षिणामिदमित्यादि |
एवं सर्वत्र ||
तर्पणाभिषेकप्रयोगो यथा |
आचम्य सामान्यार्घ्यं कृत्वा आसनशुद्धिं कृत्वा प्राणायामं ऋष्यादिन्यासकराङ्गन्यासौ च कृत्वा ध्यात्वा मानसैः सम्पूज्य पुनर्ध्यात्वा जले देवं समावाह्य इदमुदकात्मकं पाद्यम् अमुकदेवतायै नमः |
इदमुदकात्मकमर्घ्यम् |
इत्यनेन उदकात्मकैरुपचारैः सम्पूज्य सन्ध्योक्तविधिना परिवारान् सन्तर्प्य मूलमुच्चार्य अमुकदेवतां तर्पयामि नमः |
इत्यनेन सन्तर्प्य आत्मानं देवतारूपं ध्यात्वा नमोऽन्तमूलमुच्चार्य अमुकदेवतामहमभिषिञ्चामि इति कुम्भमुद्रया मूर्द्धानमभिषिच्य संहारमुद्रया देवतां विसर्जयेत् ||
अथ श्रीदुर्गाया रहस्यपुरश्चरणं स्वतन्त्रतन्त्रे ||
श्रीपार्वत्युवाच ||
कथयस्व महादेव ! सिद्धिकारणमुत्तमम् |
येन सिद्धिं समयान्ति सर्वे मन्त्राश्च सिद्धिदाः |
येषु येषु च कालेषु पुरश्चरणं भवेद्ध्रुवम् ||
शिव उवाच ||
कथयामि समासेन श्रूयतां पर्वतात्मजे ! |
मेषे दशसहस्रञ्च प्रजपेन्मन्त्रमुत्तमम् |
पुरश्चरणमेतद्धि जायते हरवल्लभे ! |
वृषराशौ यदा मन्त्रमयुतं प्रजपेत् सुधीः |
तेन तत्र सुसिद्धिः स्यान्नात्र कार्या विचारणा |
मिथुने च तथा मन्त्री अयुतं मन्त्रमुत्तमम् |
प्रजपेत् प्रयतो नित्यं पुरश्चरणमुच्यते |
कर्कटे च यदा मन्त्री सहस्रं प्रत्यहं जपेत् |
तेन सर्वार्थसिद्धिः स्यात् पुरश्चरणकृद्भवेत् |
सिंहे च सर्वमन्त्राणामयुतानां द्वयं जपेत् |
धर्मार्थकाममोक्षाणां फलभाग् भवति ध्रुवम् |
कन्यायाञ्च यदा मन्त्री मन्त्रं मन्त्रपरायणः |
सहस्रद्वादशञ्चैव जपेन्नियतमानसः |
पुरश्चरणमेतद्धि सर्वकामार्थसाधनम् |
इह लोके सुखं भुक्त्वा चान्ते देवीपुरं व्रजेत् |
तुलायां प्रत्यहं मन्त्री सहस्रं साधको जपेत् |
अनेन विधिना देवि ! पुरश्चरणकृद्भवेत् |
वृश्चिके चायुतं मन्त्रं शययायां प्रजपेत् सुधीः |
तेन सर्वार्थसिद्धिः स्यात् पुरश्चर्याफलं लभेत् |
धनुषि च यदा मन्त्रं जपेदयुतमादरात् |
इहैव कन्दर्पसमो धनवान् बलवान् सुखी |
मकरे च यदा मन्त्रं जपेत् साधकसत्तमः |
अयुतानि च चत्वारि प्रत्यहं यतमानसः |
धमार्थं भावयेन्नित्यं पुरश्चरणमुच्यते |
कुम्भे चैव यदा मन्त्रं जपेदयुतमादरात् |
तेन सर्वार्थसिद्धिः स्यात् पुरश्चरणकृद्भवेत् |
मीने चैव यदा देवि ! प्रजपेदयुतद्वयम् |
पुरश्चरणमित्याहुः सर्वागमविशारदाः |
सर्वत्रजपनं कार्यं रात्रौ वा मैथुनेऽपि वा |
शययायाञ्च विशेषेण परयोषित्समागमे |
हविष्याशी तदा देवि ! जपेन्नियतमानसः |
एवंविधं जपं कृत्वा दशांशञ्च तदाचरेत् |
दक्षिणां गुरवे दत्त्वा सिद्धिभाग्भवति ध्रुवम् |
येषु येषु नक्षत्रेषु जायते सिद्धिरुत्तमा |
कथयामि समासेन श्रूयतां पर्वतात्मजे ! |
अश्विन्यां प्रजपेन्मन्त्रं साधकश्च सहस्रकम् |
तेनास्मिन् सिद्धिमाप्नोति साधको नात्र संशयः |
द्विसहस्रं यदा मन्त्रं भरण्याञ्च जपेत् सुधीः |
यमलोकं परित्यज्य धनेन च धनाधिपः |
कृत्तिकायां जपेन्मन्त्रं द्विसहस्रञ्च साधकः |
रोहिण्याञ्च यदा मन्त्रं जपेत् साधकसत्तमः |
सहस्रं वा शतं वापि सर्वकाममवाप्नुयात् |
मृगशीर्षे यदा मन्त्रं नियतं प्रजपेत् सुधीः |
सहस्रपञ्चकञ्चैव वृहस्पतिसमो भवेत् |
आर्द्रायां जप्यते मन्त्रं साधकैः सुसमाहितैः |
षट्सहस्रं यदा देवि ! सर्वकामार्थसिद्धये |
पुनर्वसुसमायोगे सहस्रं मन्त्रमुत्तमम् |
जपनात् साधको नित्यं लभते च सुरोत्तमम् |
पुण्यायाञ्च जपेन्मन्त्रं सप्तानाञ्च सहस्रकम् |
तेन सर्वसुसिद्धिः स्यात् पुरश्चर्याधिको विधिः |
अश्लेषायां यदा मन्त्रं मन्त्री देवि ! समाहितः |
सहस्रषट्ककञ्चैव जपेत् सर्वार्थसिद्धये |
दशसहस्रं मघायाञ्च जप्त्वा मन्त्रं समाहितः |
पुरन्दरसमो भूत्वा साधको विचरेद्भुवि |
एकादशसहस्रन्तु पूर्वात्रये जपेत् सुधीः |
कुबेर इव वित्ताढ्यो जायते साधको भुवि |
उत्तरात्रितये देवि ! सहस्रद्वादशं तथा |
जप्यते साधकैर्नित्यं सर्वकामार्थसिद्धये |
हस्तायाञ्च जपेद्देवि ! त्रयोदशसहस्रकम् |
सूर्यस्वेव समो भूत्वा विचारेद्भुवि साधकः |
चित्रायाञ्च जपेन्मन्त्रं द्विसहस्रञ्च साधकः |
नानाभोगसमायुक्तो भवेद्भुवि पुरन्दरः |
स्वात्यां सर्वार्थसिद्धिः स्यद्विसहस्रस्य जापनात् |
साधकोऽव्याहतगतिर्जायते नात्र संशयः |
विशाखायां यदा मन्त्रं चतुःसाहस्रकं प्रिये ! |
जपेच्च साधको नित्यं सोमवत् प्रियदर्शनः |
अनुराधायां यदा देवि ! मन्त्री मन्त्रं सदा जपेत् |
पुत्रपौत्रसमायुक्तः खेचरो जायते ध्रुवम् |
ज्येष्ठायाञ्च यदा मन्त्रं द्विसहस्रं विचक्षणः |
जपनाल्लभते सिद्धिं नात्र कार्या विचारणा |
मूलायाञ्च जपेन्मन्त्रं सहस्रपञ्चकं प्रिये ! |
नानासिद्धिमवाप्नोति साधको नात्र संशयः |
श्रवणायां यदा मन्त्रं द्विसहस्रं जपेत् सुधीः |
अष्टसिद्धिर्भवेत्तस्य नात्र वै संशयः प्रिये ! |
धनिष्ठायां जपेन्मन्त्रं द्विसहस्रं समाहितः |
वरुणेन समो भूत्वा जायते साधको भुवि |
शतभिषायां यदा मन्त्रं द्विसहस्रं जपेत् सुधीः |
स महापातकान्मुच्येत् फलभाग्भवति ध्रुवम् |
रेवत्याञ्च महामन्त्रं चतुःसाहस्रकं तथा |
जप्त्वा स्तुत्वा सदा देवि ! सोमलोकमाप्नुयात् |
रात्रौ वा मैथुने वापि शययायाञ्च व्यवस्थितः |
प्रजपेत् साधको नित्यं साधयेदात्मनो हितम् |
सर्वदा प्रजपेन्मन्त्रं हविष्याशी दिवा शुचिः |
दक्षिणां गुरवे दद्याद्यथाविभवविस्तरम् |
अथवान्यप्रकारेण पुरश्चरणमुच्यते |
ववादिकरणेनैव पुरश्चरणमुच्यते |
विष्कुम्भादिषु योगेषु यो जपेद्योगसंख्यया |
सहस्रं साधको नित्यं सर्वसिद्धिपरायणः |
पुरश्चरणमेतद्धि तन्त्रे तन्त्रे निरूपितम् |
संक्रान्तिषु च सर्वासु विषुवादिषु पार्वति ! |
संक्रान्तेरनुसारेण वर्द्धयेच्च सहस्रकम् |
पूर्वमुखो जपेन्मन्त्रं धनार्थी सर्वदा प्रिये ! |
शत्रुनाशाय सततं प्रजपेत् पश्चिमामुखः |
लोकानां वश्यहेत्वर्थं मुक्त्यर्थं वा यदा प्रिये ! |
उत्तराभिमुखो भूत्वा जपेन्मन्त्रं समाहितः |
शत्रुनाशाय सततं दक्षिणाभिमुखो जपेत् ||
इति हरगौरीसंवादे रहस्यपुरश्चरणम् ||
अथ ग्रहणपुरश्चरणम् ||
ग्रहणन्तु चक्षुषा राहोर्दर्शनम् |
स तु चण्डालस्वरूप इति किंवदन्ती |
तस्य दर्शनं कथं पुण्यजनकमिति सन्देहे मातृकाभेदतन्त्रे षष्ठपटले ||
चण्डिकोवाच ||
राहुश्चाण्डालविख्यातः सर्वत्र परमेश्वर ! |
पुण्यं कालं कथं देव ! तस्य स्पर्शे दिवाकरे |
निशाकरे तथा नाथ ! चेति मे संशयो हृदि |
कथयस्व परानन्द ! पश्चादन्यं प्रकाशय ||
श्रीशङ्कर उवाच ||
शृणु सर्वाङ्गसुभगे ! ग्रहण~चोत्तमोत्तमम् |
ग्रहणं त्रिविधं देवि ! चन्द्रसूर्याग्निसंयुतम् |
सक्तेर्ललाटे नेत्रे च वह्निस्तिष्ठति सर्वदा |
वामनेत्रे तथा चन्द्रो दक्षे सूर्यः प्रतिष्ठितः |
शम्भुनाथेन देवेशि ! रमणं क्रियते यदि |
तदैव ग्रहणं देवि ! शक्तियुक्तः सदाशिवः |
वामनेत्रे चुम्बिते च शशाङ्कग्रहणं तदा |
दक्षनेत्रे चुम्बिते च भास्करग्रहणं तथा |
ललाटे चुम्बिते चाग्निग्रहणं परमेश्वरि ! |
शिववीर्यं यतो वह्निरतो दृश्यः सुरेश्वरि ! |
राहुः शिवः समाख्यातस्त्रिगुणा शक्तिरीरिता |
शिवशक्त्योः समायोगाद् ग्रहणं परमेश्वरि ! |
शिवशक्त्योः समायोगकालो ब्रह्ममयः प्रिये ! |
अत एव महेशानि ! राश्यादीन् न विचारयेत् |
तिथीनक्षत्रयोगे तु यद्योगं परमेश्वरि ! |
तदैव परमेशानि ! राश्यादिगणनं चरेत् |
शिवशक्तिसमायोगात् सर्वं ब्रह्ममयं जगत् |
मासपक्षतिथीनाञ्च नोच्चार्यं परमेश्वरि ! |
दृष्टिमात्रेण जप्तव्यं तदा सिद्धो भवेद् ध्रुवम् |
तत्कालं परमं कालं विज्ञेयं वीरवन्दिते ! |
तत्र यद् यत् कृतं सर्वं बहु किं कथ्यतेऽधुना |
एतत् सुगुप्तभेदं हि तव स्नेहात् प्रकाशितम् |
न वक्तव्यं पशोरग्रे प्राणान्तेऽपि सुरेश्वरि ! ||
अत्रानन्तफलकीर्तनात् जपदशांशहोमादिकमपि न कर्तव्यम् ||
तदुक्तं गायत्रीतन्त्रे प्रथमब्राह्मणपरिच्छेदे ||
चन्द्रसूर्योपरागे च जप्त्वा ब्रह्ममयो भवेत् |
मन्त्रस्य परमेशानि ! न च होमादिकञ्चरेत् |
कृते होमादिके भद्रे ! तज्जपं विफलं भवेत् |
जपमात्रे महेशानि ! अनन्ततन्मनुर्यथा |
अनन्तस्य महेशानि ! दशांशं केन जायते ||
शाक्तानन्दतरङ्गिणीद्वादशोल्लासधृतबीजार्णवतन्त्रीय-षोडशपटले ||
एकदा परमेशानि ! कामाख्यायां महेश्वरि !|
दृष्ट्वोपरागं यत्कार्यं तच्छृणुष्व वरानने ! |
कुतः स्नानं कुतः सन्ध्या प्राणायामः कुतः प्रिये ! |
भूतशुद्धिः कुतो भद्रे ! कुतः पूजा वरानने !|
कालातीतभयाद्देवि ! सर्वं सन्त्यज्य कामिनि ! |
सङ्कल्पं मानसं कृत्वा जपं कृत्वा वरानने ! |
पञ्चाङ्गैस्तु विहीनोऽपि सिद्धो भवति नान्यथा |
मन्त्रं विद्या महेशानि ! कवचं स्तवमेव वा |
ध्यानं वा परमेशानि ! न्यासं वा कमलेक्षणे ! |
एकोच्चारेण गिरिजे ! तद्भवेद्दशकोटयः |
असंख्यं तज्जपं देवि ! ग्रहणे चन्द्रसूर्ययोः |
तत्कथं परमेशानि ! क्रियते जपसंख्यकम् |
अत एव महेशानि ! होमो नास्ति शुचिस्मिते ! |
अभिषेकञ्च देवेशि ! तथा तर्पणमेव च |
भोजनञ्च महेशानि ! नास्त्यत्र कमलानने ! |
चन्द्रसूर्यग्रहे देवि ! पञ्चाङ्गं नास्ति कामिनि ! |
पञ्चाङ्गेन विहीनोऽपि सिद्धो भवति नान्यथा |
सङ्कल्पं विधिवद्देवि ! मानसं यदुपस्थितम् |
तत्सङ्कल्पं विजानीयाद्ग्रहणे चन्द्रसूर्ययोः |
तस्मात्तु चपलापाङ्गि ! सङ्कल्पं नैव कारयेत् |
सङ्कल्पं मानसं देवि चतुर्वर्गफलप्रदम् |
ततो हि मानसं देवि ! मुख्यं सङ्कल्पमीरितम् |
व्यर्थं हि स्थूलसङ्कल्पं ग्रहणे परिकीर्तितम् |
सङ्कल्पेन विना देवि ! यत्किञ्चित् कुरुते नरः |
व्यर्थमेव हि तत् सर्वं तस्मात्तन्मानसं परम् |
प्रथमे प्रहरे देवि ! चन्द्रग्रासं यदा भवेत् ||
तदैव दिवसे भुक्त्वा सत्वरं नरकं व्रजेत् |
निशीथे तु यदा देवि ! ग्रसेच्चन्द्रं यद तमः |
तदैव दिवसे भुक्त्वा पीत्वानन्दमयो भवेत् |
चन्द्रग्रहणकालेतु जपयज्ञादिकञ्चरेत् |
रात्रौ भुक्त्वा च पीत्वा च जपयज्ञादिकं चरेत् |
सर्वेषु विष्णुमन्त्रेषु सौरे गाणपते तथा |
शक्तिमन्त्रे महेशानि ! प्रशस्तं सततं जप्म् |
इति बीजार्णवे तन्त्रे शिवेन परिकीर्तितम् |
एतत् कल्पं ज्ञानिनान्त्वज्ञानिनामपि चोच्यते ||
गान्धर्वे ||
अथवान्यप्रकारेण पुरश्चरणमुच्यते |
ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः |
नद्यां समुद्रगामिन्यां नाभिमात्रोदके स्थितः |
ग्रहणादिविमोक्षान्तं जपेन्मन्त्रं समाहितः |
दृष्ट्वा स्नात्वा सुसङ्कल्पो विमोक्षान्तं जपञ्चरेत् ||
जपस्य तु दशांशेन होमं कुर्याद् यथाविधि |
होमार्थं तद् द्विगुणं जपेन्मन्त्रं समाहितः ||
होमस्य तु दशांशश्च तर्पणं समुपाचरेत् |
अभिषेकदशांशेन ब्राह्मणान् भोजयेत्ततः |
तदन्ते महतीं पूजां कुर्यात् साधकसत्तमः |
गुरवे दक्षिणां दत्त्वा भक्त्या विप्रांश्च तर्पयेत् ||
कालीतन्त्रे ||
अथवान्यप्रकारेण पुरश्चरणमिष्यते |
चन्द्रसूर्यग्रहे चैव ग्रासावधिविमुक्तितः |
यावत्संख्यं मनुं जप्त्वा तावद्धोमादिकं चरेत् |
जामले ||
अपि शुद्धोदके स्नात्वा शुचौ देशे समाहितः |
ग्रासाद्विमुक्तिपर्यन्तं जपेन्मन्त्रमनन्यधीः |
एवं जप्त्वाप्यसन्दिग्धो जपस्य फलभाग्भवेत् ||
ग्रहणपूर्वाहे उपवासाशक्तस्य फलदुग्धादिभोजनाप्रामाण्यात् वरं हरिष्याचरणं शास्त्रं निमित्तानिश्चये तस्याङ्गत्वाभावादुपवासं विनैव पुरश्चरणमित् गुरवः |
अत्र श्राद्धमकुर्वाणः पङ्के गौरवसीदतीति निन्दाश्रवणमुपदिष्टविषयम् |
उपदिष्टस्य तु जपस्यावश्यकत्वं वैधहिंसावदिति मान्याः |
सनत्कुमारीये |
श्राद्धादेरनुरोधेन यदि जापं त्यजेन्नरः |
स भवेद्देवताद्रोही पितॄन् सप्त नयत्यध इत्यारब्धपुरश्चरणविषयम् |
त्यजेदिति श्रवणात् ||
अथ मालाप्रकरणम् ||
नित्यातन्त्रे नवमपटले ||
ईश्वर उवाच |
अक्षमालां समाश्रित्य मातृकावर्णरूपिणीम् |
अथ मुक्ताफलमयी भोगमोक्षप्रदायिनी |
राजवश्यकरी सर्वसिद्धिदा नात्र संशयः |
यथा मुक्ताफलमयी तथा स्फटिकनिर्मिता |
रुद्राक्षमाला गिरिजे ! मोक्षदा च समृद्धिदा |
प्रबालघटिता माला वश्यदा कर्मसाधिनी |
माणिक्यरचिता माला साम्राज्यफलदायिनी |
पुत्त्रञ्जीवकमाला तु विद्यालक्ष्मीप्रदायिनी |
पद्मबीजाक्षमाला तु महालक्ष्मीप्रदायिनी |
रक्तचन्दनबीजाक्षमाला वश्यफलप्रदा ||
मुण्डमालातन्त्रे द्वितीयपटले |
स्फाटिकैर्मोक्षलाभः स्यात् रुद्राक्षैर्बहुपुत्रदा |
जीवपुत्त्रैश्च धन्दा पाषाणैर्भोगमोक्षदा |
शुद्धस्फटिकमाला तु महासम्पत्प्रदा प्रिये ! |
श्मशानधूस्तुरैर्माला एका धूमावतीविधौ |
तथा |
मणिरत्नप्रबालैश्च हेमराजतसम्भवा |
माला कार्या कुशग्रन्थ्या सर्वभोगफलप्रदा |
समयाचारतन्त्रे द्वितीयपटले ||
पूर्वाम्नायादि सर्वेषां मालां शृणु यथाक्रमम् |
जप्त्वा येनाशु लभते फलं देवैश्च दुर्लभम् |
अक्षमाला प्रथमतो मातृकार्णस्वरूपिणी |
अथ मुक्तामयी माला रतिमोक्षफलप्रदा |
सर्वसिद्धिकरी माला सर्वराजवशङ्करी |
प्रबालमाला वश्यार्थं सर्वकार्यफलप्रदा |
माणिक्यरचिता माला साम्राज्यफलदायिनी |
पुत्रञ्जीवकमाला सा लक्ष्मीविद्याप्रदायिनी |
पद्माक्षरचिता माला यशोलक्ष्मीप्रदा सदा |
सुवर्णरचिता माला स्फाटिकी सर्वकामदा |
रक्तचन्द्रनमाला च भोगदा मोक्षदा भवेत् |
रुद्राक्षरचिता माला सर्वकामफलप्रदा |
सर्वमालां प्रपूज्याथ चन्दनेन विलेपिताम् |
समाश्रित्य जपेन्नित्यं यथोक्तफलमाप्नुयात् |
एता मालाश्च सुभगे ! पञ्चाम्नायेषु पूजिताः ||
मुण्डमालातन्त्रे ||
देव्युवाच ||
अक्षमाला तु कथिता यत्नतो न प्रकाशिता |
अक्षमालेति किं नाम फलं वा किं वदस्व मे ||
ईश्वर उवाच
अक्षमाला तु देवेशि ! काम्यभेदादनेकधा |
भवन्ति शृणु तत्प्राज्ञे ! विस्तरादुच्यते मया |
अनुलोमविलोमेन कॢप्तया वर्णमालया |
आदिलान्तलादि आन्त क्रमेण परमेश्वरि ! |
क्षकारं मेरुरूपञ्च लङ्घयेन्न कदाचन |
मेरुलङ्घनदोषस्तु तत्रैव ||
मेरुहीना च या माला मेरुजङ्घा च या भवेत् |
अशुद्धा प्रतिकाशा च सा माला निष्फला भवेत् |
चित्रिणी विसतन्त्वाभा ब्रह्मनाडीगतान्तरा |
तया संग्रथिआ माला सर्वकामफलप्रदा |
अष्टोत्तरशतं जप्त्वा आदिक्लीवं समाचरेत् |
ऋ ॠ ऌ ॡ द्वयं यत्तु तद्धि क्लीवं प्रचक्षते |
वर्गाणामष्टभिर्वापि काम्यभेदात् क्रमेण तु |
अकचटतपयशा अष्टौ वर्गाः प्रकीर्तिताः ||
मालया जपविशेषेण फलविशेषस्तु नित्यातन्त्रे ||
अक्षमालां प्रपूज्याथ चन्दनेन सुलोचने ! |
समाश्रित्य जपेद्विद्वान् लक्षमात्रमनन्यधीः |
योषितः सकला वश्याः सप्तद्वीपस्य पार्वति ! |
ततो द्वितीयलक्षञ्च प्रजपेद्वीरवन्दिते ! |
पातालतलनागेन्द्रकन्या वश्या भवन्ति हि |
ततो लक्षत्रयं भद्रे ! प्रजपेत् साधकोत्तमः |
देवाङ्गना भवन्त्येव वश्यास्तस्य महेश्वरि ! |
महापातककोटिश्च नाशयेत् कमलेक्षणे ! |
अभिमानेन सौभाग्यं सौख्यं सौन्दर्यमाप्नुयात् |
चतुर्लक्षं प्रजप्याथ महायोगीश्वरो भवेत् |
पञ्चलक्षजपाद्देवि ! कुबेरपदवीं व्रजेत् |
षड्लक्षजपमात्रेण सर्वविद्यासु कोविदः |
सप्तलक्षजपाद्देवि ! खेचरो भवति ध्रुवम् |
अष्टलक्षं प्रजप्याथ देवपूज्यो भवेन्नरः |
अणिमाद्यष्टसिद्धीनां नायको नात्र संशयः |
राजानो वशगास्तस्य योषितश्च विशेषतः |
नवलक्षं महादेवि ! यो जपेत् साधकोत्तमः |
रुद्रमूर्तिः स्वयं साक्षात् कर्ता हर्ता न संशयः ||
समयाचारतन्त्रे ||
उत्तराम्नायेषु या माला भूयः शृणु वदामि ते |
अथ वर्णमयी माला सर्वोत्कृष्टा च सा मता |
महाशङ्खमयी माला वाञ्छितार्थफलप्रदा |
उडुम्बरफलस्याथ सूक्ष्मस्याथ कृता मता ||
योगिनीतन्त्रे पूर्वखण्डे द्वितीयपटले ||
ईश्वर उवाच ||
वर्णमाला शुभा प्रोक्ता सर्वमन्त्रप्रदीपनी |
तस्याः प्रतिनिधिर्देवि ! महाशङ्खमयी शुभा |
महाशङ्खः करे यस्य तस्य सिद्धिरदूरतः |
तद्भावे वीरवन्द्ये ! स्फाटिकी सर्वसिद्धिदा ||
मणिभेदेन फलभेदमाह मुण्डमालातन्त्रे ||
त्रिंशतैश्वर्यफलदा पञ्चविंशैस्तु मोक्षदा |
चतुर्दशमयी मोक्षदायिनी भोगवर्द्धिनी |
दशपञ्चात्मिका देवि ! मारणोच्चाटने स्थिता |
स्तम्भने मोहने वश्ये बोधने अञ्जने तनोः |
पादुकासिद्धिसङ्घे च शतसंख्या प्रकीर्तिता |
अष्टोत्तरशतं कुर्यादथ वा सर्वकामदम् |
योगिनीतन्त्रे ||
मणिसंख्यां महादेवि ! मालायाः कथयामि ते |
पञ्चविंशतिभिर्मोक्षं पुष्ट्यै तु सप्तविंशतिः |
त्रिंशद्भिर्धनसिद्धिः स्यात् पञ्चाशन्मन्त्रसिद्धये |
अष्टोत्तरशतैः सर्वसिद्धिरेव महेश्वरि ! |
एतत्साधारणं प्रोक्तं विशेषं कामिनां वद ||
श्रीशिव उवाच ||
दन्तमाला जपे कार्या गले धार्या नृणां शुभे ! |
दशनैर्यदि कर्तव्या संख्या दन्तस्य ते प्रिये ! |
सर्वसिद्धिप्रदा माला राजदन्तेन मेरुणा |
अन्यत्रापि महेशानि ! मेरुत्वेनैवमादिशेत् |
नित्यं जपं करे कुर्यान्न काम्यमवरोधनात् |
काम्यमपि करे कुर्यान्मालाभावे प्रियंवदे ! |
अत्राङ्गुल्या जपं कुर्यात् साङ्गुष्ठाङ्गुलिभिर्जपेत् |
अङ्गुलेन विना कर्म कृतं तन्निष्फलं भवेत् ||
उत्पत्तितन्त्रे प्रथमपटले ||
नित्यं नैमित्तिकं काम्यं करे कुर्याद्विचक्षणः |
करमाला महादेवि ! सर्वदोषविवर्जिता |
छिन्नभिन्नादिदोषोऽपि करे नास्ति कदाचन |
अक्षयस्तु करो देवि ! माला भवति तादृशी !
ग्रन्थिः सा कुण्डलीशक्तिः पञ्चाशद्वर्णरूपिणी |
अत एव महेशानि ! करमाला महाफला ||
योगिनीतन्त्रे ||
तथा तथातो ग्रथनं मालानां तत्र बोधनम् |
पूजां विधाय भक्त्या तु शुचिः पूर्वमुपोषितः |
विजने ग्रथयेन्मौनी स्वयं मालाञ्च साधकः |
कृतनित्यक्रियः शुद्धः शुद्धोऽक्षेषु च मन्त्रवित् |
यथाकालं यथाकाममक्षाण्यानीय यत्नतः |
अन्योन्यसमरूपाणि नातिस्थूलकृशानि च |
कीटादिभिरदुष्टानि न जीर्णानि नवानि च |
गव्यैस्तु पञ्चभिस्तानि प्रक्षाल्य च पृथक् पृथक् |
पृथ्वी देवेन्द्रपुण्यस्त्रीनिर्मितं ग्रन्थिवर्जितम् |
त्रिगुणं त्रिगुणीकृत्य पट्टसूत्रमथापि वा |
शुक्लं रक्तं तथा पीतं शान्तिवश्यविचारके |
सूत्रं सम्पातयेद्विद्वान् तत् प्रक्षाल्य च पूर्ववत् |
मालामेकैकमादाय सूत्रे सम्पातयेत् सुधीः |
मुखे मुखन्तु संयोज्य पुच्छे पुच्छन्तु योजयेत् |
गोपुच्छसदृशी कार्याथवा सर्पाकृतिर्भवेत् |
तत्सजातीयमेकाक्षं मेरुत्वेनाग्रतो न्यसेत् |
एकैकमालामध्ये तु ब्रह्मग्रन्थिं प्रकल्पयेत् ||
उत्पत्तितन्त्रे षष्टिपटले ||
क्रमोत्क्रमाच्छतावृत्त्या पञ्चाशद्वर्णमालया |
यो जपः स तु विज्ञेय उत्तमः परिकीर्तितः |
इति श्रीप्राणतोषिण्यां चतुर्थे काम्यकाण्डे ग्रन्थिकथनरूपः प्रथमः परिच्छेदः |
अथे साधनस्थानम् ||
शारदायां द्वितीयपटले ||
पुण्यक्षेत्रं नदीतीरं गुहापर्वतमस्तकम् |
तीर्थप्रदेशाः सिन्धूनां सङ्गमः पावनं महत् |
उद्यानानि विविक्तानि विल्वमूलं तटं गिरेः |
देवतायतनं कूलं समुद्रस्य निजं गृहम् |
साधनेषु प्रशस्यन्ते स्थानान्येतानि मन्त्रिणाम् |
नदीतीरं पुण्यनदीतीरं सामान्यनदीतीरस्य निषिद्धत्वात् |
विविक्तानि विजनानि ||
राघवभट्टधृतम् |
प्रत्यङ्मुखः शिवस्थाने वृषभादिविवर्जिते |
अश्वत्थबिल्वतुलसीवने पुष्पान्तरावृते |
गवां गोष्ठेऽश्वत्थमूले पुण्यक्षेत्रेषु शस्यते ||
गोष्ठ इत्यनेनैव गोस्थाने लब्धे गवामिति यदुक्तं तत् तात्कालिकगोसम्बन्धज्ञापनाय तेन गोसमीपे जपादिकर्म प्रशस्तमतएव गवां समीप इत्युक्तम् ||
वायवीयसंहितायाम् |
यथा |
सूर्यस्याग्रे गुरोरिन्दोर्दीपस्य च जलस्य च |
विप्राणाञ्च गवाञ्चैव सन्निधौ शस्यते जपः |
अथवा निवसेत्तत्र यत्र चित्तं प्रसीदति |
मुण्डमालातन्त्रे तृतीयपटले च ||
नदीतीरे बिल्वमूले श्मशाने शून्यवेश्मनि |
एकलिङ्गे पर्वते वा देवागारे चतुष्पथे |
शवस्योपरि मुण्डे वा जले वा कण्ठपूरिते |
संग्रामभूमौ योनौ वा स्थाने वा विजने वने |
यत्र कुत्र स्थले रम्ये यत्र वा स्यान्मनोलयः ||
वृहन्नीलतन्त्रे द्वितीयपटले ||
एकलिङ्गे श्मशाने वा शून्यागारे चतुष्पथे |
हर्म्ये वा साधयेद्देवीं सर्वाभीष्टप्रदायिनीम् |
एकलिङ्गलक्षणमाह ||
पञ्चक्रोशान्तरे यत्र न लिङ्गान्तरमीक्ष्यते |
तदेकलिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा |
इति श्यामारहस्यधृतेनैकलिङ्गं ज्ञातव्यम् ||
तथा |
उज्जटे पर्वते वापि निर्जने वा चतुष्पथे |
देवागारे देवशून्ये बिल्वमूले नदीतटे |
स्वगृहे निर्जनेऽरण्ये तथा चाश्वत्थसन्निधौ |
इत्यपि श्यामारहस्ये नित्यातन्त्रे प्रथमपटले च ||
एकलिङ्गे श्मशाने वा शून्यागारे नदीतटे |
पातालभवने वापि गिरौ वा दीर्घिकातटे |
शक्तिक्षेत्रे महापीठे बिल्वमूले शिवालये |
धात्रीवृक्षतलेऽश्वत्थमूले चैव तरोस्तले ||
पातालभवने भूमिमध्ये ||
समयाचरतन्त्रे द्वितीयपटलेऽपि ||
जपस्थानानि देवेशि ! सिद्धपीठानि यानि च |
सिद्धपीठे च शययायां खट्टाशययाविशेषतः |
चतुष्पथे सिद्धलिङ्गे गुरुदेवालये तथा |
वटाश्वत्थबिल्वमूले रम्भाया विपिने तथा |
नदीतीरे शिवागरे गुहापर्वतमस्तके |
जपस्थानानि देवेशि ! कथितानि नगात्मजे ! |
शृणु देवि ! विशेषेण उत्तराम्नायहेतवे |
वेश्यागृहे श्मशाने वा गत्वा मैथुनमाचरेत् |
ततो जपादिकं देवि ! कृत्वा च लभते फलम् |
अथवा स्वगृहे रात्रौ भक्तिमान् सुसमाचरेत् |
स प्राप्नोति फलं सर्वं चिन्तादिभयवर्जितः ||
पुरश्चरणरसोल्लासतन्त्रे चतुर्थपटले ||
गोष्ठं चतुष्पथञ्चैव त्रिपथञ्च वरानने ! |
निर्जनञ्च तथारण्यं शून्यगेहं तथैव च |
पर्वतञ्च नदीतीरं तथैव दीर्घिकातटम् |
अश्वत्थवृक्षमूले च वटवृक्षतले तथा |
धात्रीवृक्षतले देवि ! तथैव वकुलस्य च |
यत्र पद्मवनं भद्रे ! शुक्लं रक्तं वरानने ! |
द्रोणपुष्पस्य चार्वङ्गि ! यदि भाग्येन लभ्यते |
अरुणादित्यसङ्काशं जपकालं परात्परम् |
स्थानविशेषे अन्नदाकल्पे द्वितीयपटले ||
गोशालायां पुण्यभूमौ गुरोर्गेहे विशेषतः |
बिल्वमूले नदीतीरे पर्वते शिवसन्निधौ |
स्वगृहे पुण्यनिलये तथा साधकमन्दिरे |
श्रीदुर्गाप्रतिमास्थाने युवतीनाञ्च सन्निधौ |
एवमादिषु देशेषु दीक्षाकर्म प्रशस्यते ||
फलविशेषस्तु राघवभट्टेनोक्तो यथा ||
गृहे जपः समः प्रोक्तो गोष्ठे शतगुणस्तु सः |
आरामे च तथारण्ये सहस्रगुण उच्यते |
अयुतः पर्वते पुण्ये नद्यां लक्षगुणस्तु सः |
कोटिर्देवालये प्राहुरनन्तं शिवसन्निधौ ||
अथ सिद्धपीठम् ||
कुब्जिकातन्त्रे सप्तमपटले ||
शिव उवाच ||
श्रूयतां सावधानेन सिद्धपीठं पतिव्रते ! |
यस्मिन् साधनमात्रेण सर्वसिद्धीश्वरो भवेत् |
मायावती मधुपुरी काशी गोरक्षकारिणी |
हिङ्गुला च महापीठं तथा जालान्धरं पुनः |
ज्वालामुखी महापीठं पीठं नगरसम्भवम् |
रामगिरिर्महापीठं तथा गोदावरी प्रिये |
नेपालं कर्णसूत्रञ्च महाकर्णं तथा प्रिये ! |
अयोध्याञ्च कुरुक्षेत्रं सिंहनादं मनोरमम् |
मणिपूरं हृषीकेशं प्रयागञ्च तपोवनम् |
वदरीञ्च महापीठं अम्बिका अर्द्धनालकम् |
त्रिवेणी च महापीठं गङ्गासागरसङ्गमम् |
नारिकेलञ्च विरजा उड्डीयानं महेश्वरि ! |
कमला विमला चैव तथा माहिष्मतीपुरी |
वाराही त्रिपुरा चैव वाग्मती नीलवाहिनी |
गोवर्द्धनं विन्ध्यगिरिः कामरूपं कलौ युगे |
घण्टाकर्णो हयग्रीवो माधवश्च सुरेश्वरि ! |
क्षीरग्रामं वैद्यनाथं जानीयाद्वामलोचने ! |
कामरूपं महापीठं सर्वकामफलप्रदम् |
कलौ शीघ्रफलो देवि ! कामरूपे जपः स्मृतः |
अन्यत्र जपेऽलिकामाख्यावस्त्रयोगेन फलमुक्तं तत्रैव ||
कामाख्यावस्त्रमादाय जपपूजां समाचरेत् |
पूर्णकामं लभेद्देवि ! सत्यं सत्यं न संशयः ||
तन्त्रचूडामणौ महापीठनिरूपणं यथा |
ईश्वर उवाच ||
मातः ! परात्परे ! देवि ! सर्वज्ञानमयीश्वरि ! |
कथ्यतां मे सर्वपीठं शक्तिर्भैरवदेवता ||
देव्युवाच ||
शृणु वत्स ! प्रवक्ष्यामि दयालो ! भक्तवत्सल ! |
याभिर्विना न सिध्यन्ति जपसाधनतत्क्रियाः |
एकपञ्चाशतं पीठं शक्तिर्भैरवदेवता |
अङ्गप्रत्यङ्गपातेन विष्णुचक्रक्षतेन च |
ममास्य वपुषो देवहिताय त्वयि कथ्यते |
ब्रह्मरन्ध्रं हिङ्गुलायां भैरवो भीमलोचनः |
कोट्टरीशो महादेवस्त्रिगुणा या दिगम्बरी || १ ||
करवीरे त्रिनेत्रं मे देवी महिषमर्दिनी |
क्रोधीशो भैरवस्तत्र ||
२ |
|
सुगन्धायाञ्च नासिका |
देवस्त्र्यम्बकनामा च सुनन्दा तत्र देवता || ३ ||
काश्मीरे कण्ठदेशश्च त्रिसन्ध्येश्वरभैरवः |
महामाया भगवती गुणातीता वरप्रदा || ४ ||
ज्वालामुख्यां महाजिह्वा देव उन्मत्तभैरवः |
अम्बिका सिद्धिदानाम्नी |
५ |
स्तनं जालान्धरे मम |
भीषणो भैरवस्तत्र देवी त्रिपुरमालिनी || ६ ||
हृद्यपीठं वैद्यनाथे वैद्यनाथस्तु भैरवः |
देवता जयदुर्गाख्या || ७ ||
नेपाले जानु मे शिव ! |
कपाली भैरवः श्रीमान् महामाया च देवता || ८ ||
मानवे दक्षहस्तं मे देवी दाक्षायणी हर ! |
अमरो भैरवस्तत्र सर्वसिद्धिप्रदायकः || ९ ||
उत्कले नाभिदेशस्तु विरजाक्षेत्रमुच्यते |
विमला सा महदेवी जगन्नाथस्तु भैरवः || १० ||
गण्डक्यां गण्डपातश्च तत्र सिद्धिर्न संशयः |
तत्र सा गण्डकी चण्डी चक्रपाणिस्तु भैरवः || ११ ||
वहुलायां वामबाहुर्बहुलाख्या च देवता |
भीरुको भैरवस्तत्र सर्वसिद्धिप्रदायकः || १२ ||
उज्जयिन्यां कूर्परञ्च माङ्गल्यकपिलाम्बरः |
भैरवः सिद्धिदः साक्षाद्देवी मङ्गलचण्डिका || १३ ||
चट्टले दक्षबाहुर्मे भैरवश्चन्द्रशेखरः |
व्यक्तरूपा भगवती भवानी तत्र देवता |
विशेषतः कलियुगे वसामि चन्द्रशेखरे || १४ ||
त्रिपुरायां दक्षपादो देवी त्रिपुरसुन्दरी |
भैरवस्त्रिपुरेशश्च सर्वाभीष्टप्रदायकः || १५ ||
त्रिस्रोतायां वामपदो भ्रामरो भैरवेश्वरः || १६ ||
योनिपीठं कामगिरौ कामाख्या तत्र देवता |
यत्रास्ते त्रिगुणातीता रक्तपाषाणरूपिणी |
यत्रास्ते माधवः साक्षादुमानन्दोऽथ भैरवः |
सर्वदा विहरेद्देवी तत्र मुक्तिर्न संशयः |
तत्र श्रीभैरवी देवी तत्र न क्षेत्रदेवता |
प्रचण्डचण्डिका तत्र मातङ्गी त्रिपुरात्मिका |
बगला कमला तत्र भुवनेशी सधूमिनी |
एतानि नव पीठानि शंसन्ति वरभैरवाः || १७ ||
अङ्गुलीवृन्दं हस्तस्य प्रयागे ललिता भव ! || १८ ||
जयन्त्यां वामजङ्घा च जयन्ती क्रमदीश्वरः |
सर्वत्र विरला चाहं कामरूपे गृहे गृहे |
गौरीशिखरमारुह्य पुनर्जन्म न विद्यते || १९ ||
भूतधात्री महामाया भैरवः क्षीरकण्ठकः |
युगाद्या सा महामाया दक्षाङ्गुष्ठः पदो मम |
नकुलीशः कालीपीठे दक्षपादाङ्गुलीषु च || २० ||
करतोयां समारभ्य यावद्दिक्करवासिनी |
शतयोजनविस्तारं त्रिकोणं सर्वसिद्धिदम् |
देवा मरणमिच्छन्ति किं पुनर्मानवादयः ||
इति कापरूपमाहात्म्यम् ||
भुवनेशी सिद्धिरूपा किरीटस्था किरीटतः |
देवता विमलानाम्नी संवर्तो भैरवस्तथा || २१ ||
वाराणस्यां विशालाक्षी देवता कालभैरवः |
मणिकर्णीतिविख्याता कुण्डलञ्च मम श्रुतेः || २२ ||
काल्याश्रमे च मे पृष्ठं निमिषो भैरवस्तथा |
सर्वाणी देवता तत्र || २३ ||
कुरुक्षेत्रे च गुल्फतः |
स्थाणुनाम्नी च सावित्री अश्वनाथस्तु भैरवः || २४ ||
मणिबन्धे च गायत्री सर्वानन्दस्तु भैरवः || २५ ||
श्रीशैले च मम ग्रीवा महालक्ष्मीस्तु देवता |
भैरवः संवरानन्दो देशे देशे व्यवस्थितः || २६ ||
काञ्चीदेशे च कङ्कालो भैरवो रुरुनामकः |
देवता देवगर्भाख्या || २७ ||
नितम्बः कालमाधवे |
भैरवश्चासिताङ्गश्च देवी काली सुसिद्धिदा || २८ ||
दृष्ट्वा दृष्ट्वा नमस्कृत्य मन्त्रसिद्धिमवाप्नुयात् |
शोणाख्ये भद्रसेनस्तु नर्मदाख्या नितम्बके || २९ ||
रामगिरौ तथा नाला शिवानो चण्डभैरवः || ३० ||
वृन्दावने केशजाल उमानाम्नी च देवता |
भूतेशो भैरवस्तत्र सर्वसिद्धिप्रदायकः || ३१ ||
संहाराख्य ऊर्द्धदन्ते देवी नारायणी शुचौ || ३२ ||
अधोदन्ते महारुद्रो वाराही पञ्चसागरे || ३३ ||
करतोयातटे तल्पं वामे वामनभैरवः |
अपर्णा देवता तत्र ब्रह्मरूपा करोद्भवा || ३४ ||
श्रीपर्वते दक्षगुल्फं तत्र श्रीसुन्दरी परा |
सर्वसिद्धीश्वरो सर्वा सुनन्दानन्दभैरवः || ३५ ||
कपालिनी भीमरूपा वामगुल्फं विभाषके |
भैरवश्च महादेवः सर्वानन्दः शुभप्रदः || ३६ ||
उदरञ्च प्रभासे मे चन्द्रभागा यशस्विनी |
वक्रतुण्डो भैरवश्च || ३७ ||
ऊर्द्ध्वोष्ठे भैरवपर्वते |
अवन्त्याञ्च महादेवी लम्बकर्णस्तु भैरवः || ३८ ||
चित्रके भ्रामरी देवी किकुभाख्या जले स्थले |
भैरवः सर्वसिद्धिशस्तत्र सिद्धिरनुत्तमा || ३९ ||
गण्डो गोदावरीतीरे विश्वेशो विश्वमातृका |
दण्डपाणिर्भैरवस्तु |
४० |
वामगण्डे तु राकिणी |
भैरवो वत्सनाभस्तु तत्र सिद्धिर्न संशयः || ४१ ||
रत्रावल्यां दक्षस्कन्धे कुमारीभैरवः शिवः || ४२ ||
मिथिलायां महादेवी वामस्कन्धे महोदरः |
४३ |
नलाहाट्यां नलापातो योगीशो भैरवस्तथा |
तत्र सा कालिका देवी सर्वसिद्धिप्रदायिका || ४४ ||
कालीघाटे मुण्डपातः क्रोधीशो भैरवस्तथा |
देवता जयदुर्गाख्या नानाभोगप्रदायिनी || ४५ ||
वक्रेश्वरे मन पातो वक्रनाथस्तु भैरवः |
नदी पापहरा तत्र देवी महिषमर्दिनी || ४६ ||
यशोहरे पाणिपद्मं देवी यशोहरेश्वरी |
चण्डश्च भैरवस्तत्र यत्र सिद्धिमवाप्नुयात् || ४७ ||
अट्टहासे चौष्ठपातो देवी सा फुल्लरा स्मृता |
विश्वेशो भैरवस्तत्र सर्वाभीष्टप्रदायकः || ४८ ||
हारपातो नन्दिपुरे भैरवो नन्दिकेश्वरः |
नन्दिनी सा महादेवी तत्र सिद्धिर्न संशयः || ४९ ||
लङ्कायां नूपुरञ्चैव भैरवो राक्षसेश्वरः |
इन्द्राक्षी देवता तत्र इन्द्रेणोपासिता पुरा || ५० ||
विराटदेशमध्ये तु पादाङ्गुलिनिपातनम् |
भैरवश्चामृताख्यश्च देवी तत्राम्बिका स्मृता || ५१ ||
तत्रास्ते कथिताः पुत्र ! पीठनाथाधिदेवताः |
क्षेत्राधीशं विना देवं पूजयेच्चान्यदेवताम् |
भैरवैर्ह्रियते सर्वं जपपूजादिसाधनम् |
अज्ञात्वा भैरवं पीठं पीठशक्तिञ्च शङ्कर ! |
प्राणनाथ ! न सिध्येत्तु कल्पकोटिजपादिभिः |
न देयं परशिष्येभ्यो निन्दकाय दुरात्मने |
शठाय क्रूरकार्याय दत्त्वा मृत्युमवाप्नुयात् |
दद्याच्छान्ताय शिष्याय मन्त्री मन्त्रार्थसिद्धये |
महानीलतन्त्रे पञ्चमपटले ||
पीठार्चनं महादेवि ! यत्र सिद्धिरनुत्तमा |
पीठानां परमं पीठं कामरूपं महाफलम् |
तत्र या क्रियते पूजा सकृद्वापि महेश्वरि ! |
विहाय सर्वपीठानि तस्य देहे वसाम्यहम् |
तस्माच्छतगुणं प्रोक्तं कामाख्यायोनिमण्डलम् |
तेषां फलं महेशानि ! वक्तुं किं शक्यते मया |
तत्र कोटिगुणैः सार्द्धमाद्या वसति तारिणी |
यत्पीठं ब्रह्मणा गुप्तं वक्तुं सर्वसुखावहम् |
यतो देवाश्च वेदाश्च मुनयश्चैव भावजाः |
सर्वेऽप्याविर्भवन्त्येते तेन गुप्तं सदा कुरु |
द्विविधञ्चैव यत्पीठं गोप्तव्यं तन्महेश्वरि ! |
वक्त्राद्गुप्तं महापुण्यं दुरापं साधकाधमैः |
व्यक्तं सर्वत्र देवेशि ! लभ्यते कुलसुन्दरि ! |
पीठप्रसङ्गाद्देवेशि ! पीठानि शृणु भैरवि ! |
शृणु तानि महाप्राज्ञे ! श्रेष्ठस्थानानि यानि च |
सिद्धिप्रदानि साधूनां महद्भिः सेवितानि च |
पुष्करञ्च गयाक्षेत्रमक्षयाख्यवटस्तथा |
वराहपर्वतञ्चैव तीर्थञ्चामरकण्टकम् |
नर्मदा यमुना पिङ्गी गङ्गाद्वारं तथा प्रिये ! |
गङ्गासागरसङ्गञ्च कुशीवर्तञ्च बिल्वकम् |
श्रीनीलपर्वतञ्चैव कलम्बकुब्जके तथा |
भृगुतुङ्गञ्च केदारं सर्वप्रियं महाबलम् |
ललिता च सुगन्धा च शाकम्भरी पुरप्रियम् |
कर्णतीर्थं महागङ्गा तण्डुलिकाश्रम एव च |
कुमाराख्यप्रभासौ च तथा धन्या सरस्वती |
अगस्त्याश्रममिष्टं मे कर्णाश्रममतः परम् |
कौशिकीसरयूशोणज्योतिःसरपुरःसरम् |
कालोदकं प्रियं श्रीमत् प्रियमुत्तममानसम् |
पतङ्गवापी सप्तार्चिर्महाविष्णुपदं महत् |
वैद्यनाथं महातीर्थं प्रियः कालञ्जरो गिरिः |
रामोच्छेदं गर्गोच्छेदं हरोच्छेदं महाननम् |
भद्रेश्वरं महातीर्थं लक्ष्मणच्छेदमेव च |
जानीहि प्रियश्रेष्ठा च कावेरी कपिलोदका |
सोमेश्वरं शुक्लतीर्थं कृष्णवेल्वाप्रभेदकम् |
पाठला च महाबोधिर्नगतीर्थं मदन्तिके ! |
पुण्यं रामेश्वरं देवि ! तथा मेघवनं हरेः |
ऐलमवनकञ्चैव गोवर्द्धनमजप्रियम् |
हरिश्चन्द्रं पुरश्चन्द्रं पृथूदकमतिप्रियम् |
इन्द्रनीलं महानादं तथैव प्रियमैनकम् |
पञ्चासरं पञ्चवटी वटी पर्वटिका तथा |
गङ्गाबिल्वप्रसङ्गश्च प्रियनादवटं तथा |
गङ्गारामाचलञ्चैव तथैव ऋणमोचनम् |
गौतमेश्वरतीर्थञ्च वशिष्ठतीर्थमेव च |
हारीतञ्च तथा देवि ! ब्रह्मावर्तं शिवप्रियम् |
कुशावर्तमतिश्रेष्ठं हंसतीर्थं तथैव च |
पिण्डारकवनं ख्यातं हरिद्वारं तथैव च |
तथैव बदरीतीर्थं रामतीर्थं तथैव च |
जयन्तीविजयन्तञ्च सर्वकल्याणदं प्रिये ! |
विजया शारदातीर्थं भद्रकालेश्वरं तथा |
अश्वतीर्थं सुविख्यातं तथा देवशिवप्रियम् |
ओघवती नदी चैव तीर्थमश्वप्रदं तथा |
छागलिङ्गमातृगणं करवीरपुरं तथा |
सप्तगोदावरं तीर्थं लिङ्गाख्यं सर्वमोहनम् |
किरीटमुत्तरे तीर्थं दक्षिणे तीर्थमुत्तमम् |
विशालतीर्थं काल्याश्च वनं वृन्दावनं तथा |
ज्वालामुखी हिङ्गुला च महातीर्थं गणेश्वरम् |
जानीहि सर्वतीर्थानां हेतुस्थानानि सुन्दरि ! |
अत्र सन्निहिता नित्यं सर्वे देवा महर्षयः |
पितरो योगिनश्चैव ये ये सिद्धिपरायणाः |
आशु सिध्यन्ति कर्माणि श्रद्धाभक्तिमतां प्रिये ! |
पुण्यकाले पठेद् यस्तु तत्पुण्यमक्षयं भवेत् |
श्राद्धकाले पठेत् यस्तु जुहुयाद्वापि भक्तितः |
अक्षयं तद्भवेत् कव्यं पितॄणां परमं सुखम् |
अस्मिन् स्थाने पठेद् यस्तु सिद्धिर्भवति तत्क्षणात् ||
अथ वक्ष्ये महेशानि ! यत्र या देवता शृणु |
यत्र ते यानि नामानि कथयिष्यामि तत् शृणु |
मग्नोऽहं परमानन्दे तत्कथामृतवारिधौ |
पुष्करे कमलाक्षी च गयायाञ्च गयेश्वरी |
अक्षया अक्षयवटेऽमरेशोऽमरकण्टके |
वराहपर्वते च त्वं वराही धरणीप्रिया |
नर्मदा नर्मदायाञ्च कालिन्दी यमुनाजले |
शिवामृता च गङ्गायां अश्वा देहलिकाश्रमे |
शारदा सरयूतीरे शोणे च कनकेश्वरी |
अप्रकाशा यदा देवी ज्योतिर्मययब्धिसङ्गमे |
श्रीरहं श्रीगिरौ चैव काली कालोदके तथा |
महोदरी महातीर्थे नीला चोत्तरमानसे |
मातङ्गिन्यां मतङ्गे च गुप्तार्चिविष्णुपादुके |
स्वर्गदा स्वर्गमार्गे च गोदावर्यां गवेश्वरी |
विमुक्तिश्चैव गोमत्यां पिपाशायां महाबला |
शतद्र्वां शतरूपा च चन्द्रभागा च तत्र वै |
ऐरावत्याञ्च ईर्नाम सिद्धिदा सिद्धितीरके |
दक्षपञ्चनदे चैव दक्षिणाहं प्रकीर्तिता |
औजसे वीर्यदा च त्वं सङ्गमा तीर्थसङ्गमे |
बाहुदायामनन्ताहं कुरुक्षेत्रे रणेक्षणा |
तपस्विनी पुण्यतमा भारती भारताश्रमे |
सुकथा नैमिषारण्ये पाण्डौ च पाण्दरानना |
विशालायां विशालाक्षी मुण्डपृष्ठे शिवात्मिका |
श्रद्धा कनखले तीर्थे शुद्धबुद्धिर्मुनीश्वरी |
सुवेशा सुमना गौरी मानसे च सरोवरे |
नन्दापुरे महानन्दा ललिता ललितापुरे |
ब्रह्माणी ब्रह्मशिरसि महापातकनाशिनी |
पूर्णिमा चेन्दुमत्याञ्न्च काञ्च्यामतिप्रिया सदा |
जाह्नवीसङ्गमे वृत्तिः स्वधा च पितृतुष्टिदा |
पुण्याहं बहुमित्याञ्च प्रपायां पापनाशिनी |
शङ्खसंहारिणी चैव घोररूपा महोदरी |
स्वर्गोच्छेदे महावारिः प्रबला च महावने |
भद्रा च भद्रकाली च भद्रेश्वरी शिवप्रिया |
भद्रेश्वरे रमा विष्णुप्रिया विष्णुपदे तथा |
दारुणा नर्मदाच्छेदे कावेर्यां कपिलेश्वरी |
भेदिनी कृष्णवेत्तायां सम्भेदे शुभवासिनी |
श्रद्धा च शुक्रतीर्थे च प्रभासे चेश्वरी तथा |
महाबोधौ महाबुद्धिः पटले पाटलेश्वरी |
सुबला नागतीर्थे च नागेशी नागवन्दिता |
मदन्तौ च मदन्ती च प्रमदा च मदन्तिका |
मेघस्वना मेघवामे विद्युत् सौदामिनीच्छदा |
रामेश्वरे महाबुद्धिर्वीरा चेलापुरे सती |
प्रिया च मार्गके दुर्गा सुरेशा सुरसुन्दरी |
कात्यायनी महादेवी गोवर्द्धनेऽखिलात्मिका |
शुभेश्वरी हरिश्चन्द्रे पुरचन्द्रे पुरेश्वरी |
पृथूदके महावेगा मैनाकेऽखिलवर्द्धिनी |
इन्द्रनीले महाकान्ता रत्नवेशा सुशोभना |
माहेश्वरी महानादे महातेजा महाबले |
पत्यपासरसि सारङ्गा पञ्चकट्यां तपस्विनी |
वटीशावटिकायाञ्च सर्ववर्णा सुरङ्गिणी |
सङ्गमे विन्ध्यगङ्गायां विन्ध्ये श्रीविन्ध्यवासिनी |
महानन्दा नन्दतटे गङ्गबालाचले शिवा |
आर्यावर्ते महार्या त्वं विमुक्तिर्-ऋणमोचने |
अट्टहासे च चामुण्डा तन्त्रे श्रीगौतमेश्वरी |
वेदमयी ब्रह्मविद्या वशिष्ठे त्वमरुन्धती |
हरिते हरिणाक्षी च ब्रह्मावर्ते ब्रजेश्वरी |
गायत्री चैव सावित्री कुशावर्ते कुशप्रिया |
हंसेश्वरी महातीर्थे परहंसेश्वरेश्वरी |
पिण्डारकवने धन्या सुरसा सुखदायिनी |
नारायणी वैष्णवी च गङ्गाद्वारे विमुक्तिदा |
श्रीविद्या वदरीतीर्थे रामतीर्थे महाधृतिः |
जयन्ती च जयन्ते त्वं विजयन्तेऽपराजिता |
विजया च महाशुद्धिः शारदायाञ्च शारदा |
सुभद्रे भद्रदा भव्या भद्रकालेश्वरे तथा |
महाभद्रा महाकाली हयतीर्थे गवीश्वरी |
वेददा वेदमाता च विदेशे वेदमस्तके |
युवत्याञ्च महाविद्या महानद्यां महोदया |
चण्डा च त्रिपदे चैव छागलिङ्गे बलिप्रिया |
मातर्दृशे जगन्माता करवीरपुरे सती |
मलिनी रङ्गिणी रामा परमा परमेश्वरी |
सप्तगोदावरे तीर्थे देवर्षिरखिलेश्वरी |
अयोध्यायां भवानी च जयदा जयमङ्गला |
माधवी मथुरायाञ्च देवकी यादवेश्वरी |
वृन्दा गोपेश्वरी राधा रासवृन्दावने रमे |
कात्यायनी महामाया भद्रकाली कलावती |
चन्द्रमाला महायोगा महायोगिन्यधीश्वरी |
वज्रेश्वरी यशोदेति वज्रश्रीगोकुलेश्वरी |
काञ्च्यां कनककाञ्ची स्यादवन्त्यामतिपावनी |
विद्या विद्यापुरे चैव विमला नीलपर्वते |
रामेश्वरी सेतुबन्धे विमला पुरुषोत्तमे |
विरजा यागपुर्याञ्च भद्रेऽपि भद्रकर्णिका |
तमोलिप्ते तमोघ्नी च स्वाहा सागरसङ्गमे |
कुलश्रीर्वंशवृद्धिश्च माधवी माधवप्रिया |
मङ्गला मङ्गले कोटे राढे मङ्गलचण्डिका |
ज्वालामुखी शिवापीठे मन्दरे भुवनेश्वरी |
कालिघट्टे गुह्यकाली किरीटे च महेश्वरी |
किरीटेश्वरी महादेवी लिङ्गाख्ये लिङ्गवाहिनी |
साक्षी सर्वत्र भक्तानामभक्तानां कुतोऽपि न ||
अथान्यत् सम्प्रवक्ष्यामि सिद्धस्थानानि सुन्दरि ! |
सर्वपापविनाशार्थं सर्वसिद्धिप्रदं नृणाम् |
निर्मितानि शिवेनेह सिद्धस्थानानि यानि च |
श्रुत्वा मनसि भाव्यानि प्रकाश्यान्यधिकारिषु |
अमरेशमहापीठे कुशतुङ्गारसंज्ञकः |
तत्र दुर्गाद्वयं नाम चण्डिका च महेश्वरी |
प्रभासे सोमनाथोऽसौ देवी च पुष्करेक्षणा |
देवदेवाधिपः शम्भुर्नैमिषे च महेश्वरः |
तत्र प्रज्ञा च देवी च शिवानी लिङ्गधरिणी |
पुष्करे च राजगन्धिः पुरहूता महेश्वरी |
श्रीपर्वते श्रियो नाम शङ्करस्त्रिपुरान्तकः |
मायावी शङ्करी तत्र भक्तानामखिलार्थदा |
जप्येश्वरे महास्थाने शङ्करी च त्रिशूलिनी |
त्रिशुली शङ्करस्तत्र सर्वपापविमोचकः |
आम्रातकेश्वरे सूक्ष्मा सूक्ष्माख्या परमेश्वरी |
गणक्षेत्रे मङ्गलाख्या शिवो यः प्रपितामहः |
कुरुक्षेत्रे शिवस्थाणुः शिवास्थाणुः श्रिया परा |
इष्टलाभे स्वयम्भूश्च देवी स्वायम्भुवा मता |
उग्रः कनखले प्रोक्तः शिवोग्रे शिववल्लभा |
विमलेश्वरे विश्वशम्भुर्विश्वाविश्वप्रिया सदा |
अट्टहासे महानन्दो महानन्दा महेश्वरी |
महान्तको महेन्द्रश्च पार्वती च महान्तका |
भीमेश्वरो भीमपीठे शिवा भीमेश्वरी तथा |
वस्त्रपादे भवो नाम भवानी भुवनेश्वरी |
अद्रिकूटे महायोगी रुद्राणी परमेश्वरी |
अविमुक्ते महादेवो विशालाक्षी शिवा परा |
महामाये हरो रुद्रो महाभागा शिवा तथा |
महाबलश्च गोकर्णे शिवभद्रा च चण्डिका |
भद्रकर्णे महादेवो भद्रा च कर्णिका तथा |
सुपर्णाख्ये सहस्राख्य उत्पला परमेश्वरी |
स्थाणुसंज्ञे शिवस्था श्रीस्वरस्था श्रीधरा शिवा |
कनकालये महास्थाने कमलाख्यो महेश्वरः |
कमलाक्षी महेशानि ! सकलार्थप्रदायिनी |
छागला तु कपर्दी च प्रसभा च महेश्वरी |
ऊर्द्धरेता वरेण्ये च सन्ध्याख्यपरमेश्वरी |
साकोटास्यमहाकोटा शिवा च मुण्डकेश्वरी |
मातुलेश्वरपीःए च करवीरा च शेखरा |
श्रीमद्व्याघ्रपुरे साक्षाद्धरनामा सभापतिः |
शिवः सभापतिर्नाम यत्र नृत्यति शङ्करः |
आत्मानन्दमहानादपूर्णानन्दमहार्णवम् |
नृत्यन्तं यत्र देवेशं देवेशी परिपश्यति |
यत्र आशु महादेवो भक्तानां वरदो भवेत् |
नृत्यन्तं यत्र सर्वेशं वीक्ष्य लोको विमुच्यते |
पुण्यस्थानेषु सर्वेषु स्थानमेतन्महोत्तमम् |
यद् यत्कर्माणि सर्वाणि अक्षयाणि भवन्ति वै |
तस्मिन् महोत्तमे स्थाने शिवगङ्गाख्यमद्भुतम् |
तडागमस्ति तत्तीरे दक्षिणे नृत्यतीश्वरः |
तडागेऽस्मिन् वसन् स्नात्वा सभानाथं समीक्षते |
अष्टोत्तरसहस्रन्तु जपेच्छुद्धो मुदान्वितः ||
यानि ते कथितान्यत्र सदा तिष्ठन्ति देवताः |
पितरः सिद्धगन्धर्वाः सिद्धयः सर्वसिद्धिदाः |
अत्र दत्तं हुतं जप्तं स्नानमक्षयपुण्यदम् |
यद् यत् प्रकीर्तितं नाम भैरवं परिपूज्य च |
प्रणवादि हृदन्ते च लभतेऽभीष्टमुत्तमम् |
भोजयेद् ब्राह्मणान् योऽत्र अक्षयं फलमश्नुते |
इह नानासुखं भुक्त्वा हरगौरीपुरं व्रजेत् |
शोकदुःखविनाशोऽयं करुणानिधिरीश्वरः |
निर्ममे सर्वसम्प्रीत्त्यै पुण्यक्षेत्राणि भूतले |
अकाले पुण्यशुद्धानामनेकैः पुण्यसाधनैः |
आस्तिकानां भवेदत्र निवासः साधनं प्रति |
तस्माद् यत्नेन कर्तव्यमत्र साधनमुत्तमैः |
इदानीं शृणु चार्वङ्गि ! पीठं सर्वाङ्गसुन्दरम् |
अक्षमालामयं पीठं ब्रूहि मे परमेश्वरि ! |
यत्र सिध्यन्ति कार्याणि स्थितिस्ते शङ्करस्य च |
विष्णोरगाधबोधस्य तत्प्रियाया महेश्वरि ! |
अन्येषाञ्चैव देवानां युग्मं पदनिवासिनाम् |
प्रसादो हि भवत्याशु तत्र च प्रीतिरुत्तमा ||
अथ पूजाकालः समयाचारतन्त्रे प्रथमपटले ||
पूजनादिषु यः कालो देवानाञ्च पृथक् पृथक् |
स कालः समयो नाम यज्ज्ञात्वाऽमृतमश्नुते ||
तथा |
प्रातर्मध्याह्नकः कालः प्रदोषश्च तृतीयकः |
रात्रिप्रथमयामश्च चतुर्थः परिकीर्तितः |
पञ्चमस्त्वर्द्धरात्रश्च पञ्च कालाः प्रकीर्तिताः |
दिनस्य प्रथमस्यादौ कालः प्रथम ईरितः |
दिनमध्ये तु यः कालो द्वितीयः परिकीर्तितः |
सूर्यास्तरजनीकादौ प्रदोषो यस्तृतीयकः |
ब्राह्म्यमुहूर्तावधिकमर्द्धरात्रादनन्तरम् |
कालः षष्ठात्मको ज्ञेयो देवानामपि दुर्लभः |
शान्तिकर्म तथा वश्यं स्तम्भद्वेषणमोहनम् |
उच्चाटनं मारणञ्च कर्माणि च पृथक् पृथक् |
शान्त्यर्थं प्रथम्ः कालो मध्याह्नस्तदनन्तरम् |
सायं सूर्यास्तसमयस्त्रिकालानामयं क्रमः ||
मत्स्यसूक्ते पञ्चमपटले ||
अनुक्तकाले सर्वत्र दिवसादौ शुभेऽहनि |
भागानुक्ते समं कुर्याद् वारानुक्ते गुरोर्दिने |
तिथ्यनुक्तेऽष्टमी ग्राह्या नक्षत्रे रोहिणी मता |
योगेऽनुक्ते ध्रुवो योगः सर्वत्रैव विधिः स्मृतः |
योगिनीतन्त्रे पूर्वखण्डे द्वितीयपटले ||
गते तु प्रथमे यामे तृतीयप्रहरावधि |
कालो नक्तं जपस्योक्तं पूजाकालमिति शृणु |
सार्द्धयामगते नक्ते सार्द्धयामः स्थितो यदा |
पूजाकालो भवेद् यामश्चतुर्वर्गप्रदः सदा |
श्लिष्टे द्वे घटिके ये तु रात्रेर्मध्यमयामयोः |
सा महारात्रिरुद्दिष्टा तत्कृतं त्वक्षयं फलम् |
यद् यज्जप्तं हुतं यद् यत् यत् कृतं मोक्षसाधनम् |
सर्वं तदक्षयं याति तथानन्त्याय कल्प्यते |
गुप्तसाधनतन्त्रे षष्ठपटले ||
निशा तु परमेशानि ! सूर्ये चास्तमुपागते |
प्रहरे च गते रात्रौ घटिके द्वे परे च ये |
महानिशा समाख्याता ततश्चातिमहानिशा |
तन्त्रान्तरे घटिकाद्वयमेव चेति पाठः |
अतिमहानिशान्तमुक्त्वा तु |
तत्र न पूजयेद्देवीं पशुभावः कदाचन |
दशदण्डे तु या पूजा तत्सर्वमक्षयं भवेत् |
षष्ठक्रोशे महेशानि ! तत् सर्वममृतं प्रिये ! |
सप्तमक्रोशके देवि ! सर्वं क्षीरोपमं भवेत् |
अष्टमक्रोशक इत्यादि समानम् |
अर्द्धरात्रे गते देवि ! सर्वं क्षीरोपमं स्मृतम् |
अष्टमक्रोशके देवि ! द्रव्यतुल्यं न संशयः |
अतः परं महेशानि ! विषतुल्यं न संशयः |
एतत् सर्वं महेशानि ! पशुभावे मयोदितम् |
दिव्यवीरमते देवि ! तत्त्वज्ञाने प्रपूजयेत् |
पञ्चतत्त्वं समानीय यदि पूजापरो भवेत् |
कालाकालविचारन्तु देवि ! तत्र विवर्जयेत् |
अर्द्धरात्रे गते देवि ! कूलपूजा प्रकीर्तिता |
तत्तत्तन्त्रानुसारेण सर्वपूजादिकञ्चरेत् |
वृहन्मुण्डमालातन्त्रे ||
आगमप्रकाशधृते ||
शरत्कालेऽथवा चैत्रे सूर्येन्दुसङ्गमेऽसिता |
अर्द्धरात्रेऽर्चिता देवी भोगस्वर्गाववर्गदा |
सूर्येन्दुसङ्गमेऽमावस्यायाम् |
असिता श्यामा कालिकेति यावत् ||
आगमसारे ||
तुलामकरमेषेषु कुहुं प्राप्य सुरेश्वरि ! |
पूजयेत् कालिकां देवीं चतुर्वर्गफलाप्तये ||
नन्दिकेश्वरतन्त्रे ||
निशीथे कार्तिके कुह्वां यजेद्दीपान्वितादिने |
कालिकां कालिका तस्य सर्वाभीष्टप्रदायिका |
प्रतिसंवत्सरं कुर्यात् कालिकाया महोत्सवम् |
कार्तिके तु विशेषेण अमावस्यां निशार्द्धके |
तस्यां सम्पूजयेद्देवीं भोगमोक्षप्रदायिनीम् |
तुलायां कुजवारेऽपि कुहुरेव यदा भवेत् |
प्रगल्भान्तु जगद्धात्रीं पूजयेद्गीतमङ्गलैः |
मुण्डमालातन्त्रे ||
तुलादित्यनिशार्द्धे तु पञ्चदश्यां नगात्मजे ! |
पूजयेत् कालिकां तत्र प्रचण्डां मुण्डमालिनीम् ||
षष्ठपटले ||
दिवापूजा विधातव्या निशापूजा महेश्वरि ! |
सन्ध्यापूजा विधातव्या तदा सिद्धिमवाप्नुयात् |
न दिवा न निशाभागे न सन्ध्यायां कदाचन |
पूजयेन्न जगद्धात्रीं हलायां परिपूजयेत् |
दिवा न पूजयेद्देवीं रात्रौ नैव च नैव च |
सर्वदा पूजयेद् देवीं दिवा रात्रौ न पूजयेत् |
वचनत्रयाणां इति दिव्यवीरविषयत्वेन समाधानमतो न कश्चिद्दोषः |
तथा च निरुत्तरतन्त्रे प्रथमपटले ||
न दिवा पूजयेद्वीरः पशूरात्रौ न पूजयेत् |
विपरीतं महेशानि ! अभिचाराय कल्प्यते ||
ननु प्रागुक्तगुप्तसाधनतन्त्रोक्तवचनेन पशुनां षोडशदण्डात्मकरात्रिमध्ये पूजाश्रवणात् रात्रौ पशुकर्तृकपूजननिषेधः कथं सङ्गच्छत इति चेत् सत्यम् |
नन्दिकेश्वरमुण्डमालातन्त्रयोर्वचनैरागमप्रकाशधृतैः सहैकवाक्यतया गुप्तसाधनतन्त्रोक्तवचनं दीपान्वितादिनिमित्तकर्तव्यश्यामादिपूजाविषयकम् |
निरुत्तरतन्त्रन्तु नित्यपूजाविषयमिति सर्वं समञ्जसम् |
दिवावीरपूजानिषेधोऽपि पञ्चतत्त्वहीनपूजाविषयत्वेन बोद्धव्यः |
अन्यथा पूर्वोक्तकालाकालेतिवचनमनर्थकं स्यात् |
अतिनिशायां पूजानिषेधस्तु अप्रशस्तकालार्थः |
अन्यथा द्रव्यस्यामृतत्वादिकीर्तनस्य वैयर्थ्यं स्यात् |
सार्द्धयामेत्याद वस्तुतस्तु कुलपूजाविषयम् |
महानिर्वाणतन्त्रे चतुर्दशोल्लासे ||
देव्युवाच ||
यद्यकस्माद्देवतानां पूजाबाधो भवेद्विभो ! |
विधेयं तत्र किं भक्तैस्तन्मे कथय तत्त्वतः |
अपूजनीयाः कैर्दोषैर्भवेयुर्देवमूर्तयः |
त्याज्या वा केन दोषेण तदुपायश्च भण्यताम् ||
श्रीसदाशिव उवाच ||
एकाहमर्चनाबाधात् द्विगुणं देवपूजनम् |
दिनद्वये भवेद्द्विगुणं तद्द्वैगुण्यं दिनत्रये |
ततः षण्मासपर्यन्तं यदि पूजा न सम्भवेत् |
तदाष्टकलसैर्देवं स्नापयित्वा यजेत् सुधीः |
षण्मासात् परतो देवं प्राक् संस्कारविधानतः |
पुनः सुसंस्कृतं कृत्वा पूजयेत् साधकाग्रणीः |
खण्डितं स्फुटितं व्यङ्गं संस्पृष्टं कुष्ठरोगिणा |
पतितं दुष्टभूम्यादौ न देवं पूजयेद्बुधः |
हीनाङ्गं स्फुटितं भग्नं देवं तोये-विसर्जयेत् |
स्पर्शादिदोषदुष्टन्तु संस्कृत्य पुनर्चयेत् |
महापीठेऽनादिलिङ्गे सर्वदोषविवर्जिते |
सर्वदा पूजयेत्तत्र स्वस्वमिष्टं सुखाप्तये ||
अथ प्रायश्चित्तम् ||
श्यामारहस्यधृतलिङ्गागमे ||
शृणु देवि ! प्रवक्ष्यामि प्रायश्चित्तमनुत्तमम् |
तद्विशुद्धिश्च विधिवद्भैरवेण सुभाषितम् |
गुरुत्यागकरः शिष्यः प्रायश्चित्ती भवेद्ध्रुवम् |
लक्षं श्रीपादुकां जप्त्वा तस्मात् पापाद्विशुध्यति |
मन्त्रत्यागकरः शिष्यस्तत्सङ्गं नैव कारयेत् |
लक्षमेकं जपेन्मन्त्रं होमतर्पणतः शुचिः ||
एतत्तु दिव्यवीरगुरुत्यागे बोद्धव्यम् |
कुलशिष्येण पशुगुरुत्यागः कर्तव्य एव |
इति श्यामारहस्योक्तं तन्न समीचीनम् कौलिकानां प्रायश्चित्ताभावात् ||
तदुक्तं कुलार्णवे पञ्चमखण्डे ||
प्रायश्चित्तं भृगोः पातं सन्न्यासं व्रतधारणम् |
तीर्थयात्राभिगमनं कौलः पञ्च विवर्जयेत् ||
तेन प्रायश्चित्तं पशुशिष्यविषयम् |
पशुगुरुत्यागस्य शास्त्रोक्तत्वान्न तत्र प्रायश्चित्तम् |
तद्वचनन्तु रुद्रजामलकुलार्णवयोः |
मधुलुब्धो यथा भृङ्गः पुष्पात् पुष्पान्तरं व्रजेत् |
ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् |
मन्त्रान्मन्त्रान्तरमिति पाठान्तरम् |
तन्मते च रिपुमन्त्रः साध्यमन्त्रो जीवहीनः सन्दिग्धो वा यथा स्यात्तथा तं हित्वा अन्यमन्त्रग्रहणं कुर्यात् |
तथा विद्यां विहाय - महाविद्याग्रहणं कुर्यात् ||
तदुक्तं तत्रैव ||
सकलो जीवहीनश्च सन्दिग्धो निद्रितस्तथा |
मनवस्ते न सिध्यन्ति गुरुः स्याद् ब्रह्मघातकः |
तदा तं सहसा ज्ञात्वा मन्त्रदेवं गुरुं त्यजेत् |
बहुज्ञोऽपि गुरुस्त्याज्यो ज्ञात्वा सारं वरानने ! |
अल्पज्ञोऽपि गुरुः पूज्यो यो जानाति कुलाकुलम् |
एकत्र गुरुणा सार्द्धं स्वपित्युपविशेच्च यः |
स याति नरकं घोरं यावदिन्द्राश्चतुर्दश |
गुरुवाक्यं हतं कृत्वा आत्मावाक्यन्तु रोपयेत् |
गुरुं जेतुं मनो यस्य स पतेन्नरकार्णवे |
अनेकधा पशोरन्नं भुञ्जते ये च कौलिकाः |
तेभ्यः प्रकुप्यते देवी तत्सङ्गं नैव कारयेत् |
कौलिकः पशुसंसर्गो पशुशक्तिं रमेद्बलात् |
गोष्ठीमध्ये च यत्नेन दर्शं तस्य न कारयेत् |
एकपात्रे पिबेद्द्रव्यं वीरो माहेश्वरो यदि |
शुनो विष्ठा भवेत् पानं प्रायश्चिती स कौलिकः |
गायत्रीभिः सहस्रेण तत्पापं शमयेदथ |
होमयेद्धविषाज्येन निष्पापः स भवेद्ध्रुवम् |
लक्षत्रयं जपेल्लोपां लक्षं वाप्यजपां जपेत् |
सम्यक् शोधितचित्तस्तु सुवर्णं गुरवे ददेत् |
चक्रं कृत्वा तु देवेशि ! पूजयेत्तर्पणं विना |
चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो बलम् |
अभिषेके विनाभूते आचार्यत्वं करोति यः |
योनिकोटिशतं याति रौरवं नरकं व्रजेत् |
मातृरूपां परित्यज्य स्त्रीरूपां शक्तिमाचरेत् |
स याति नरकं घोरं जन्मकोटिशतानि च |
मूलं लक्षत्रयं जप्त्वा अजपां लक्षमेव च |
कूर्चबीजं पञ्चलक्षं ततः शुद्धिमवाप्नुयात् |
मन्त्रमाता च पुत्री च भगिनी च कुलाङ्गना |
न रमेत् कौलिको नित्यमेताः सम्यक् समर्चयेत् |
श्रीपात्रग्रहणं कृत्वा चक्रमुत्थापयेद्यदि |
पशुपानं भवेत्तस्य प्रायश्चित्तं प्रजायते ||
अथ मन्त्रमातृगमने प्राणान्तिकप्रायश्चित्तम् |
तदुक्तं तन्त्रान्तरे ||
बलाद्वा स्वेच्छया वापि यो रमेन्मन्त्रमातरम् |
दशलक्षं मनुं जप्त्वा तुषानलं समाचरेत् |
पुत्रीकुलाङ्गनाभगिनीगमने मूलमन्त्रलक्षजपात् शुद्धिस्तदुक्तं तत्रैव ||
मन्त्रपुत्री स्वपुत्री च भगिनी च कुलाङ्गना |
रमणाल्लक्षजापेन शुद्धो भवति कौलिकः ||
तन्त्रान्तरे ||
पर्वण्यपूज्य देवेशीं गुरुमग्निञ्च शक्तितः |
अदत्त्वा च बलिं तत्र शतमष्टोत्तरं जपेत् |
पत्रं पुष्पं फलं मूलमन्त्रपानादिमौषधम् |
अनिवेद्य न भुञ्जीत यदाहाराय कल्प्यते |
अनिवेद्यन्तु भुञ्जानः प्रायश्चित्ती भवेन्नरः |
देव्याश्चाष्टशतं मन्त्रं जप्त्वा पूतो भवेन्नरः |
अनस्थिप्राणिसङ्घातं हत्वा च दशकं जपेत् |
हत्वा च पक्षिणः सर्वान् त्रिभिरेकादशं जपेत् |
सर्पमार्जारनकुलं श्वानमुष्ट्रं खरं हयम् |
गजाद्यांश्च मृगान् सर्वान् हत्वा चाष्टशतं जपेत् |
जपेदष्टसहस्रन्तु क्षत्रवैश्यबधे बुधः |
हत्वा पशुं स्त्रियं बालं मन्त्रं पञ्चशतं जपेत् |
जपेदष्टसहस्रन्तु सच्छूद्रविनिपातने |
त्रयोदशसहस्रन्तु दिव्यवीरबधे जपेत् |
वीरस्त्रीगमनेनापि वृथापाने तथैव च |
गुरुस्नुषामन्त्रपुत्त्रिगमने चापि कौलिकः ||
इति तु अज्ञानकृते बोध्यं ज्ञानकृते तु लक्षजपात् शुद्धिः ||
तदुक्तं ब्रह्मजामले ||
कृत्वा वीरबधं मन्त्री वृथापानं गुरुस्नुषाम् |
वीरपत्नीं मन्त्रपुत्त्रींरमित्वा दिगयुतं जपेत् ||
इति |
महापातकप्रायश्चित्तजपस्तु लतासम्बन्धेन कार्यः |
तदुक्तं कालीतन्त्रे ||
लतारतेन जप्तव्यं महापातकमुक्तये |
रुद्रजामले उत्तरखण्डे द्वितीयपटले ||
पशूनां व्रतभङ्गादौ विधिं प्रथमतः शृणु |
व्रतभङ्गे नित्यभङ्गे नित्यपूजादिकर्मणि |
सहस्रं प्रजपेन्मन्त्री व्रतदोषोपशान्तये ||
गायत्रीतन्त्रे पञ्चमब्राह्मणपटले |
शालग्रामशिलाद्यग्रे कृत्वा दिव्यं करोति यः |
शालग्रामादिकं स्पृष्ट्वा यदि दिव्यं करोति च |
तथा गङ्गाजलादींश्च ताम्रञ्च गोमयं तथा |
तुलसीञ्च महादेवि ! सुवर्णं गोरजस्तथा |
वेदादीन्यपि पुण्यानि द्रव्याण्यन्यानि यान्यपि |
तीर्थपीठादिनामानि स्पृष्ट्वा दिव्यं करोत्यपि |
दिव्यकर्तुः कारयितुर्नरकान्न च निष्कृतिः ||
पूर्वोक्तं यन्महेशानि ! तत्पापस्य विशुद्धये |
यदि ब्रह्मबधप्रोक्तप्रायश्चित्तं करिष्यति ||
तस्मात् पापात् तदा शुद्धो नान्यथा कल्पकोटिभिः |
अपरञ्च प्रवक्ष्यामि शृणुष्व कमलानने ! |
गङ्गास्नानं हि नन्दादौ सर्वपापप्रणाशनम् |
गङ्गातोये कृतं दिव्यं तत्पापं नगनन्दिनि ! |
महापातकोपपापं गङ्गास्नानाद्विनश्यति |
गङ्गायां मौषलं स्नानं महापातकनाशनम् ||
प्रायश्चित्तात्मकगङ्गास्नानसङ्कल्पः ||
अद्येत्यादिशालग्रामसन्निधिदिव्यकरणशालग्रामगङ्गाजल- ताम्रगोमयगोरजस्तुलसीसुवर्णरजततीर्थमहापीठवेदादिशास्त्र- स्पर्शपूर्वकदिव्यकरणदेवादिनामोच्चारणपूर्वकदिव्यकरण- कारणज्ञानकृतब्रह्महत्यादिजनितपापक्षयकामो नन्दायां गङ्गास्नानमहं करिष्ये |
इति तु समुच्चितपापक्षयसङ्कल्पः |
अद्येत्यादिगङ्गाजलस्पर्शपूर्वकदिव्यकरणदिव्यकारणजनितपाप-क्षयकामो गङ्गायां स्नानमहं करिष्ये |
इति गङ्गाजलस्पर्शपूर्वकदिव्यकरणपापक्षयसङ्कल्पः |
अद्येत्यादिज्ञानाज्ञानकृत ब्रह्महत्यादिपापक्षयकामो गङ्गायां स्नानमहं करिष्ये ||
इति ब्रह्महत्यादिपापक्षयसङ्कल्पः ||
इति श्रीप्राणतोषिण्यां चतुर्थे काम्यकाण्डे शाखाकथनं नाम द्वितीयः परिच्छेदः |
अथ विशेषसाधनानि |
कृकलासदीपिकायां प्रथमपटले ||
श्रीनीलावाण्युवाच ||
इदानीं कृकलासोऽपि पशुरूपधरोऽव्ययः |
पशुवाक्यप्रबोधाय उपायं वद शङ्कर ! ||
ईश्वर उवाच ||
साधु पृष्टं त्वया देवि ! पशुवाक्यप्रओधनम् |
आदौ तु कथयिष्यामि पश्चात् साधनमुत्तमम् |
कार्तिके फाल्गुने मासि तृतीयायां महानिशि |
एकाकी निर्भयो गत्वा चितायां वरवर्णिनि ! |
शुद्धासनं समासाद्य देवीं ध्यात्वा तु चर्चिकाम् |
शुष्ककण्ठीमुग्ररावां शुनां घोरतरेक्षिणीम् |
युवतीं द्विभुजां तालजङ्घां मुक्तकचां भजे |
एवं ध्यात्वा प्रयत्नेन जपेन्मन्त्रमनन्यधीः |
तारां मायां तथा चर्चिचर्चिके कृकलासकम् |
बोधयद्वितयं वह्निकान्तामन्त्रः परात्परः |
एवं सहस्रं प्रजपेत् ततः सिद्धिरनुत्तमा |
कृकलासरवं ज्ञात्वा साधको गतशोकभाक् |
तत्प्रसादान्महेशानि ! साफल्यं तस्य जायते |
स ब्रूते सकलां वार्तां साधकाय यदा तदा |
राजानं वशयेत् क्षिप्रं कामिनीञ्च न संशयः || १ ||
अथवा गोष्ठमासाद्य निशीथे साधकोत्तमः |
उग्रचण्डां प्रयत्नेन धूपदीपैर्मनोरमैः |
भक्तितः परमेशानि ! पूजयेत्तारमायया |
निजमन्त्रसहस्रन्तु तदैव प्रजपेत्ततः |
ततः सिध्यति देवेशि ! नात्र कार्या विचारणा || २ ||
अथवा कामिनीपुष्पमकरन्देन सुन्दरि ! |
तिलकं कारयेन्मूर्द्ध्नि जपेदेतं मनुं ततः |
तत्क्षणात् सिद्धिमाप्नोति सत्यं सत्यं न संशयः || ३ ||
इति कृकलाससिद्धिः ||
अथ वल्लीसिद्धिः ||
तत्रैव |
वल्लिकायां साधयेद्विद्वान्नदीतीरे महानिशि |
उग्रकेशीं प्रयत्नेन पूजयित्वा विशेषतः |
तारं हृदुग्रकेशीञ्च चतुर्थ्यन्तां द्विठावधि |
जपेदेतत् सहस्रन्तु सिध्यत्येव न संशयः |
अथवा मुक्तकेशस्तु चितायां परमेश्वरि ! |
बगलां पूजयेद् यत्नादुपचारैर्यथोचितैः |
ओं नमो बगले ! माया स्वाहान्तोऽयं महामनुः |
अष्टोत्तरसहस्रन्तु जपेदनन्यमानसः |
ततो देवि ! समानीय गोधिकां गृहसम्भवाम् |
पूजयेत्तां प्रयत्नेन पुनर्जापं समाचरेत् |
ततः प्रभृति देवेशि ! वल्लिकाशब्दविद्भवेत् |
अतीतानागतां वार्तां लीलया वक्ति सर्वदा || १ ||
अथवा निशि मांसाद्यैः पूजयेत् कृष्णपिङ्गलाम् |
जपेन्मायात्रयं लक्ष्मीं ङेयुतं नामसंयुतम् |
जपेदयुतमानन्तु ततः सिद्धो भवेन्मनुः |
तदेव फलमाप्नोति सत्यं सत्यं न संशयः |
प्रातःकाल समासाद्य जपेदेनं दिनावधि |
सन्ध्यायां परमेशानि ! ज्यैष्ठिकाशब्दविद्भवेत् ||
अथ मूषिकसाधनं तत्रैव ||
अथ वक्ष्ये महेशानि ! मूषिकाशब्दसाधनम् |
उपोष्य पूर्वेऽहनि शुद्धमानसः प्रातः शुचिः सुन्दरवेशधारी |
गत्वा नदीतीरमुषीं सतारां ङेऽन्तां नमोऽन्तां प्रजपेच्च यत्नात् |
सिद्धावधि श्रीगिरिराजकन्याप्रसादतो मूषिकशब्दविद्भवेत् || १ ||
किंवा रमायुग्ममुषीञ्च ङेऽन्तां द्विठावधि प्रोक्तमवीतिमन्यत् |
जपेत् सहस्रञ्च शतं निशान्ते ततो महेशानि ! भवेत्तदेव || २ ||
वाणीं रमाञ्च प्रददासि विद्यां लज्जाञ्च तारञ्च पुनश्च लज्जाम् |
तारं पुनर्मूषिकशब्दपूर्वं विचर्चिके वह्निवधूसमेतम् |
शययामुपेत्याशु जपेच्च विद्याम् स्वकान्तया वा परकान्तया वा |
ततो महेशानि ! स राजगोष्ठी ब्रूते रहो मूषिकशब्दवृन्दम् |
दुर्भिक्षं वा सुभिक्षं वा बन्धञ्चापि शुभाशुभम् |
देशानाञ्च महेशानि ! शीघ्रं ब्रूते शुभाशुभम् ||
अथ मार्जारसाधनं तत्रैव ||
अथ वक्ष्ये महेशानि ! मार्जारशब्दमुत्तमम् |
पौषे वा श्रावणे वापि हविष्याशी जितेन्द्रियः |
धुपदीपैश्च नैवेद्यै रक्तचन्दनपुष्पकैः |
पूजयित्वा प्रयत्नेन विकटाक्षां महोत्कटाम् |
बिभ्रतीं कङ्किटीं ध्यायेन्मार्जारोपरिसंस्थिताम् |
तारं मायां कङ्कटाञ्च चतुर्थ्यन्तामुदीरयेत् |
स्वाहान्ता कथिता विद्या जपेत्तामयुतत्रयम् |
एवं सप्तदिनं रात्रौ श्मशाने साधकोत्तमः |
कुर्यात् सिद्धोऽथ मार्जारशब्दं बुध्यति नान्यथा |
अतीतानागतां वार्तां स ब्रूते परमेश्वरि ! ||
शृगालसाधनमपि तत्रैव ||
अथ वक्ष्ये महेशानि ! फेरूणां शब्दमुत्तमम् |
अमावास्यादिने फेरु एकघातप्रहारिणः |
गतप्राणोऽथ संस्थाप्य भूतले दर्भस~चये |
तमारुह्य महेशानि ! पूजयेत् फेरुकं सुधीः |
चतुर्भुजां विशालास्यां विवस्त्रामुन्नतस्तनीम् |
तप्तकाञ्चनसङ्काशां पद्मं शङ्खं गदामसिम् |
बिभ्रतीं मुक्तकेशीञ्च सर्वभीतिहरां पराम् |
इति ध्यात्वा प्रयत्नेन गन्धपुष्पैर्मनोरमैः |
सामिषैः सुरसैश्चैव नैवेद्यैश्च मनोरमैः |
पूजयित्वा वरारोहे ! जपेत् प्रणवसम्पुटाम् |
काली माया तथा काली वह्निकान्तावधि प्रिये ! |
प्रजपेदर्द्धरात्रौ च लक्षमानं शुचिः पुमान् |
फेरुः स जीवति ततो दिव्यमुत्पद्यते तदा |
वरं वरय भो वत्स ! यत्ते मनसि वर्तते |
ततः स साधकश्रेष्ठो देवदेवं मनोरमे ! |
वशीभूत्वा सहस्राब्दान् त्वं मां पालय सर्वदा |
एवं प्रार्थ्य वरं देवि ! पूजयेत्तां प्रयत्नतः |
रक्तशाकान्नपिष्टेन भोजनञ्च यथोचितम् |
ततः स तिष्ठति सदा यावदायुर्न संशयः |
तछयनञ्च लक्षमानञ्च हन्यात् स वीक्षणेन तु |
यद् यत् सम्प्रार्थयेन्मन्त्री सर्वमानीय यच्छति |
सहस्रं वा शतं वापि धनं दद्याद्दिने दिने |
इच्छाभोज्यं महेशानि ! तथैव वरसुन्दरीम् |
आनीय क्रोशलक्षस्थां जपे यच्छति पार्वति ! |
अनागतां तथा वार्त्तां ब्रूते षाण्माषिकीमपि |
अतीतां शतवर्षीयां ब्रूते नित्यं महेश्वरि ! |
शिवानां सर्ववार्ताञ्च स्वयं बोधयति ध्रुवम् |
प्रत्यहं प्रजपेत्तञ्च यत्नेन सामिषान्नकैः |
स श्रुत्वा फेरुकाणाञ्च शब्दं प्रणतिमाचरेत् ||
अथ श्वशब्दसाधनम् तत्रैव |
निम्बमूलं समासाद्य पूजयेद्भोजनेऽसताम् |
धूपदीपैश्च नैवेद्यैर्बलिभिः परमोत्तमैः |
पूजयित्वा निशाभागे जपेदष्टायुतं बुधः |
स्फिं स्फिं कालि ! वह्निकान्ता विद्येयं परमोत्तमा |
ततः सिद्धो महेशानि ! सर्वं कुक्कुरभाषितम् |
बुध्येद्देवि ! तदा सर्वं तदर्थञ्च यथतथम् ||
इति श्वशब्दज्ञानम् |
मेकसाधनं तत्रैव |
नदीतीरं समासाद्य स्नातो निर्मलवस्त्रष्टक् |
प्रजापतिं वह्निसंस्थमनुस्वारसमन्वितम् |
त्रितयं तत्त्वतो भें भें मन्त्रमेतदुदीरितम् |
जपेद्देवि ! सहस्रन्तु प्रत्यहं सप्तवासरान् |
ततो मेकवरे देवि ! सर्वतत्त्वार्थविद्भवेत् |
अतीतानागतां वार्तां ब्रूते चापि यथोचिताम् ||
अथ गोधासाधनम् |
गोधया हतया वापि अथवा बिल्वमूलके |
गोधिकां खड्गहस्ताञ्च दंष्ट्रां शान्तिमुखीं शिवाम् |
रक्तगम्भीरनयनां रक्तवर्णशिरोरुहाम् |
जपेल्लक्षप्रमाणन्तु गोधिकासिद्धिहेतवे |
सिद्धायां गोधिकायाञ्च किं न सिध्यति पार्वति ! |
इच्छारूपं ददात्यन्नं ददाति विपुलं धनम् |
अतीतानागतां वार्तां वर्तमानां तथा प्रिये ! |
रक्तिशक्ती यथा स्यातां यद्वत् पृच्छति सर्वदा ||
अथ गोशब्दज्ञानम् |
गवां मूत्रेण देवेशि ! |
यावकं पाचयेद्बुधः |
तस्माद्दिनत्रयं वापि शुद्धवासोधरः पुमान् |
धराबीजद्वयं देवि ! जपेल्लक्षप्रमाणतः |
पूजयेदेनां सतीं देवीं नीलवर्णां मनोरमाम् |
द्विभुजां सर्वभूषाढ्यां नानालक्षणलक्षिताम् |
एवं ध्यात्वा प्रयत्नेन पश्येदेनां न संशयः |
तस्य गेहे सदा देवि ! गवां वृद्धिर्भवेद्ध्रुवम् |
गवाञ्च सर्ववार्ताञ्च सम्प्रबुद्ध्येन्न संशयः |
तस्य गेहे स्थिरा लक्ष्मीर्जायते नात्र संशयः |
अथ मृगशब्दज्ञानम् तत्रैव |
बिल्वमूलं समासाद्य देवि ! गन्धादिभिः शुभैः |
पूजयेत् कमलां देवी नीलवस्त्राङ्गरागिणीम् |
द्विभुजामम्बुजद्वन्द्वधारिणीं परमेश्वरीम् |
एवं ध्यात्वा प्रयत्नेन शुद्धासनगतः पुमान् |
कमलां कमलां मायां मायां वह्निबधून्तथा |
जपेदष्टायुतं देवि ! कमलासिद्धिहेतवे |
सिद्धायां कमलायान्तु मृगशब्दं सुबुध्यते |
धनञ्च विपुलं देवि ! भवेत्तस्य गृहे ध्रुवम् |
रिपुर्न जायते तस्य जायन्ते सर्वसम्पदः |
कामिनी वशमायाति यदि रम्भासमा भवेत् ||
अथ मेषशब्दज्ञानम् तत्रैव |
महागण्डारकं देवि ! तस्य चर्मणि चार्द्रके |
उपविश्य जपेद्विद्यां कोङ्कालां कनकप्रभाम् |
रक्तवस्त्रपरीधानां नानामण्डनमण्डिताम् |
द्विभुजां सुन्दरीं देवीं ध्यात्वा प्रयतमानसः |
धराबीजद्वयं देवि ! कामबीजद्वयं तथा |
स्वाहान्ता कथिता विद्या जपेदष्टायुतं बुधः |
ततः सिध्यति देवेशि ! कोङ्कणा परमेश्वरि ! |
शब्दं बुध्यति देवेशि ! मेषाणां तत्प्रसादतः ||
अथ छागलशब्दज्ञानम् |
केवलं छागदुग्धेन परमान्नन्तु पाचयेत् |
तदेव भक्षयेद्देवि ! जपेदेनामनन्यधीः |
जपेच्च कोङ्कणां विद्यां सप्तायुतमतन्द्रितः |
तत्प्रसादान्महेशानि ! छागानां शब्दविद्भवेत् |
अथ वनविडालशब्दज्ञानम् |
हविष्याशी निशाभागे जपेदेनां हि साधकः |
षट्सहस्रप्रमाणेन षड्दिनं यावदेवे हि |
ततश्च शशकानां वै शब्दं बुध्यति नान्यथा |
अनेनैव विधानेन ऋतुमूललतां स्पृशन् |
अयुतैकप्रमाणेन सन्ध्यायां प्रजपेन्मनुम् |
ततस्तस्याः प्रसादेन कपीनां शब्दविद्भवेत् |
अनेनैव विधानेन जपेद् यदि दिनावधि |
ततो वनविडालानां शब्दं बुध्यति नान्यथा |
अथ ऋक्षशब्दज्ञानम् |
तारं माया रमायुग्मं विशालां ङेयुतां तथा |
अस्त्रान्तेयं महाविद्या स्वाहान्तामपि सुव्रते ! |
विशालां घोरवदनां मुक्तकेशीं दिगम्बरीम् |
यौवनोद्भिन्नवक्षोजां सरोजाक्षीं हसन्मुखीम् |
खड्गखट्वाङ्गपद्मासीन् बिभ्रतीं परमेश्वरीम् |
एवं ध्यात्वा जपेन्मन्त्रं मुच्यते नात्र संशयः |
निशाभागे हविष्याशी जपेन्मन्त्रं जितेन्द्रियः |
पूजयित्वा प्रयत्नेन रक्तचन्दनपुष्पकैः |
दशांशं जुहुयाद्वह्नौ निम्बकाष्ठैर्वरानने ! |
ततः सिध्यति देवेशि ! ऋक्षाणां शब्दविद्भवेत् |
विवादे सङ्कटे युद्धे जयी भवति नान्यथा |
केवलं स्मृतिमात्रेण ऋक्ष आयाति तत्पुरः |
युद्धे वापि विवादे वा रिपुं हन्याच्छतायुतम् |
विपुलञ्च बलं दद्यात् सत्यं सत्यं न संशयः |
गजेन्द्रमदसम्भूतद्रवेण तिलकं यदि |
तदाज्ञावशतो हन्यात् रिपुसैन्यं शतायुतम् |
विपुलञ्च बलं दद्यात् सत्यं सत्यं न संशयः |
अनेनैव विधानेन श्मशाने यदि साधकः |
जपेल्लक्षप्रमाणेन व्याघ्राणां शब्दविद्भवेत् |
श्वापदस्मृतिमात्रेण समयाचारतत्परः |
अनेनैव विधानेन जपेदष्टायुतं बुधः |
जुहुयात्तद्दशांशेन हस्तिसिद्धिर्भविष्यति |
अष्टभिः सहायुतमिति सहार्थे तृतीया समासोऽपि क्वचिद्गमकत्वात्तेनाष्टाधिकमयुतमित्यायातम् |
करिशब्दञ्च स ब्रूते सभायां परमेश्वरि ! |
हस्तिनान्तु प्रसादेन स जयी सर्वविद्भवेत् |
करिकृतशब्दमभिप्रेत्य सभायां स ब्रूते इत्यर्थः |
हस्तिकर्णे तदा तेन कथ्यते यन्महेश्वरि ! |
तदेव कुरुते हस्ती द्रुमादीनान्तु भञ्जनम् |
अनेनैव विधानेन यदि पुष्पवतीगृहे |
निशाभागे जपेल्लक्षं पूजयेद्बलिभिः शुभैः |
पुष्पवतीगृहे रजःस्वलायोनिमण्डले |
जुहुयादयुतं पद्मैर्लोहितैः परमेश्वरि ! |
ओं नमो देवदेवाय पञ्चास्याय महात्मने |
त्वत्प्रसादान्महादेव ! मम सिद्धिर्भविष्यति |
इति स्तुत्वा महेशानि ! मृगेन्द्रशब्दविद्भवेत् |
मृगेन्द्रस्य प्रसादेन तस्यासाध्यं न विद्यते |
युद्धे वापि विवादे वा स भवेद्विजयी नरः |
मृगेन्द्रस्मृतिमात्रेण सिंहो गच्छति तत्पुरः |
तदाज्ञावशतो नित्यं कार्यं साधयति ध्रुवम् |
इति ते कथितं सर्वं दुर्लभं भुवनत्रये |
तस्य गेहे स्थिरा लक्ष्मीः पुत्त्रपौत्रावधि स्थिता |
एतन्मन्त्रं महेशानि ! यदि पर्वतमस्तके |
हविष्याशी जपेद्देवि ! सदा सर्वत्र सिद्धिदः ||
अथ शूकरशब्दज्ञानम् ||
पङ्कभूमिं समासाद्य तारं घुरुघुरुद्वयम् |
घूत् घूत् स्वाहान्तमन्त्रोऽयं जपेत् सप्तायुतं बुधः |
घोणिरापूरयेद् यत्नात्ततः सिध्यति नान्यथा ||
अथ कङ्कालसिद्धिः ||
नदीतीरं समासाद्य कृतस्नानो दिवा शुचिः |
कौलिकीं पूजयेद् यत्नान्नानापुष्पैर्मनोरमैः |
मद्यैर्मांसैर्लोहितैश्च नृत्यगीतादिभिः स्वयम् |
पीत्वा कुलरसं यत्नात् कुलं गत्वा प्रयत्नतः |
काली मायाबालिके च कङ्काली वह्निवल्लभा |
एतन्मन्त्रं महेशानि ! जपेद्विंशसहस्रकम् |
तदायाति महादेवि ! कङ्काली तत्र सोद्यमा |
साधकाय वरं दत्त्वा वाहनञ्च वरानने ! |
याति वा वाहनं तस्य वाह्यं वहति सर्वदा |
हन्ति शत्रुसहस्राणि पृथ्वीं भ्रमति तत्क्षणात् |
बलञ्च विपुलं दद्यात् सत्यं सत्यं न संशयः |
तारं माया रमाबीजं पशुनामाग्निवल्लभा |
कालिकापूजनं यस्तु पशुनाम्ना जपेन्मनुम् |
सहस्रं परमेशानि ! तस्य शब्दं प्रबुध्यति ||
अथ काकशब्दज्ञानम् ||
द्वितीयपटले ||
काकपुच्छं महेशानि ! मूर्ध्नि सन्धार्य यत्नतः |
कालीबीजं तथा काका कालीमन्त्रोऽयमुत्तमः |
चितायां षट् सहस्राणि होमपूजाविवर्जितम् |
जपेन्निशीथे देवेशि ! ततः सिद्धो भवेन्नरः |
ततः प्रभृति देवेशि ! सार्वज्ञं तस्य जायते |
काकशब्दप्रबोधेन सर्वं वक्ति यथातथम् |
चिरजीवी भवेन्मर्त्यो नात्र कार्या विचारणा || १ ||
अथ खञ्जनसिद्धिः ||
तारं तिमिरनाश्यै च मायाबीजं महेश्वरि ! |
पूजयेत् परमेशानि ! यत्रात्तिमिरनाशिनीम् |
ततः खञ्जनसिद्धिः स्यान्नात्र कार्या विचारणा |
खञ्जनानां ततस्तस्य दर्शनञ्च भवेत् सदा |
मूर्ध्नि नीते च तत्पक्षे दैवेऽपि स न दृश्यते |
जानीयात् खाञ्जनं शब्दं सर्वेषां प्रियतामियात् |
अथ जलचरपक्षिसिद्धिः |
एतन्मन्त्रं महेशानि ! श्मशाने यदि वा जपेत् |
षट्सहस्रप्रमाणेन पूजयेदम्बुवासिनीम् |
तदा वारिचराणाञ्च पक्षिणां शब्दविद्भवेत् |
एतन्मन्त्रं खञ्जनसाधनोक्तं मन्त्रम् ||
स्मृतिमात्रेण देवेशि ! पक्षिणः शतशः क्षणात् |
तदाज्ञावशगाः सर्वे पक्षिणः पूर्ववर्तिनः || २ ||
अथ मयूरसिद्धिः ||
वटमूलं समासाद्य निशीथे पूजयेच्छिवाम् |
परां चण्डों सहास्यां विपुलकुचयुगां मुक्तकेशीं विवस्त्रां नानालङ्कारपूरां शशधरशकलं बिभ्रतीं भीमकान्ताम् |
जप्यन्तीमद्रिकार्णं वरजघनभरात् क्षौणिचक्रं समग्रं न्यकुर्वन्तीं समन्तादवनिरिपुगणं चर्वयन्तीं भजामि |
एवं ध्यात्वा ततो देवीं गन्धपुष्पैर्मनोहरैः |
मद्यैर्मांसैर्महाभोगैः पूजयित्वा यथाविधि |
कालीबीजं समुच्चार्य पुनः काली वरानने ! |
ततो मयूरशब्दस्य मन्त्रोऽयं बहुसिद्धिदः |
अष्टायुतं जपेत् पश्चात् हुमेत्तावत् सहस्रकम् |
निम्बकाष्ठैर्हरिद्राक्तैर्बिल्वपत्रैर्मनोहरैः |
समायाति ततो देवी मयूरगणमण्डिता |
वरण् दत्त्वा साधकाय प्रयाति परमेश्वरी |
मयूरशब्दविद्भूत्वा सार्वज्ञं लभते ध्रुवम् |
यथेच्छति तथा क्षते विषं जारयितुं क्षमः |
रिपूणां जयमाप्नोति सत्यं देवि ! वदामि ते |
अनेनैव विधानेन बलिं दत्त्वा स्वदेहजाम् |
दक्षिणां शब्दमात्रेण मम तुल्यो न संशयः |
पूजयेत् कालिकां देवीं मद्यैर्मांसैर्मनोहरैः |
ततः सिध्यति देवेशि ! कुलसिद्धिः सदा भवेत् |
कुलानां शब्दविद्भूत्वा सार्वज्ञं लभते ध्रुवम् || ३ ||
अथ विद्याधरपक्षिविशेषसिद्धिः |
मायां तारं गौं गौं चैव पातयेत्तदनन्तरम् |
एतन्मन्त्रं महेशानि ! निशीथे तु जपेत् सुधीः |
अयुतञ्च जेपेद्देवि ! ततः सिद्धिर्भवेद् ध्रुवम् |
गन्धर्वशब्दविद्भूत्वा बलवान् पुत्त्रवान् भवेत् || ४ ||
अथ कङ्कशब्दज्ञानम् |
कामं केलिकेलि द्वन्द्वं काममन्त्रेण उत्तमः |
जप्त्वा सप्तसहस्रन्तु कङ्कशब्दप्रबोधनम् |
कङ्कालशब्दविद्भूत्वा सर्वज्ञो भवति ध्रुवम् || ५ ||
कोलकाल वरारोहे ! वह्निकान्ता ततः परम् |
बिल्वमूले महेशानि ! जपेदयुतमानतः |
पूजयेत् कालिकां देवीं ततः सिद्धिर्भवेद्ध्रुवम् |
वकानां शब्दविद्भूत्वा सर्वज्ञो जायते नरः || ६ ||
अथ चटकशब्दज्ञानम् ||
चाटु चाटु महेशानि ! स्फें पूर्वं परमेश्वरि ! |
सप्तायुतं जपेद् यत्नात् कालिकामपि पूजयेत् |
ततो बुध्यति देवेशि ! चटकाशब्दमुत्तमम् || ७ ||
अथ शुकशब्दज्ञानम् ||
मायाबीजं शुकद्वन्द्वं बोधयद्वितयं तथा |
वह्निकान्तावधिर्मन्त्रो जपेदयुतमानतः |
ततः शुकस्य शब्दज्ञो नरो भवति नान्यथा |
शुकस्यापि प्रसादेन महासम्पत्तिमान् भवेत् |
एतन्मन्त्रं महेशानि ! निशीथे त्यक्तभोजनः |
जपेदष्टसहस्रन्तु शारिकापददानतः |
शारिकाशब्दविद्भूत्वा सर्वज्ञो जायते नरः || ८ ||
अथ सारससिद्धिः ||
धराबीजं समुद्धृत्य भैं भैं बीजं समुद्धरेत् |
एतन्मन्त्रं महेशानि ! सप्तायुतमतन्द्रितः |
जपेत् कमलमध्ये तु हविष्याशी जितेन्द्रियः |
ततः सिध्यति देवेशि ! नात्र कार्या विचारणा |
सारसाणां रवं बुद्ध्वा सर्वज्ञो जायते नरः || ९ ||
अथ कपोतसिद्धिः ||
स्फेङ्कारं पूर्वमुद्धृत्य हुङ्कारद्वयमुद्धरेत् ||
स्वाहान्ता कथिता विद्या जपेदयुतमानतः |
शाल्मलीमूलमासाद्य पूजयेत् सिद्धिकालिकाम् |
ततः सिध्यति देवेशि ! नात्र कार्या विचारणा |
कपोतस्य रवं देवि ! स बुध्यति न संशयः || १० ||
कौरबेरशब्दमुच्चार्य कूर्चबीजं समुद्धरेत् |
सिद्धिकालीं प्रपूज्याथ जपेदयुतपञ्चकम् |
ततः सिध्यति देवेशि ! नात्र कार्या विचारणा |
कपोतस्य रवं देवि ! स बुध्यति न संशयः || ११ ||
कपोतविष्ठया मूध्नि तिलकेऽपि कृते बुधः |
भूतं भावि वर्तमानं सर्वं वक्ति यथातथम् || १२ ||
अथ कुक्कुटशब्दज्ञानम् |
कं कङ्कारं समुच्चार्य कूर्चबीजमथोद्धरेत् |
जपेदष्टायुतं देवि ! कालिकाञ्च प्रपूजयेत् |
मद्यैर्मांसैर्लतागेहे सिद्धो भवति नान्यथा |
सिद्धे मन्त्रे तथा मन्त्री भवेद्भूमिपुरन्दरः |
शब्दं बुध्यति तेषां वै सर्वज्ञो भवति ध्रुवम् |
यावत्तिष्ठति तद्विष्ठा तस्य मूर्ध्नि वरानने ! |
कवित्वं कुरुते तावत् वादिनं जयति ध्रुवम् || १३ ||
अथ शरालुसिद्धिः ||
हं हङ्कारं समुच्चार्य स्फें स्फेङ्कारं समुच्चरेत् |
हंस हंस ततो ब्रूयात् जपेल्लक्षं वरानने ! |
गुह्यकालीं प्रपूज्याथ मद्यैर्मांसैर्वरानने ! |
ततः सिध्यति देवेशि ! हंसशब्दो हि सुव्रते ! |
तद्विष्ठातिलकं कृत्वा महासर्वज्ञतामियात् || १४ ||
अथ क्षेमङ्करीसिद्धिः ||
मायाबीजं समुद्धृत्य धराबीजं समुद्धरेत् |
क्षेमङ्करीपदं पश्चात्तदन्ते वह्निवल्लभा |
वटमूलं नदीतीरं गत्वा लक्षं जपेन्नरः |
पूजयेत् कालिकां देवीं मद्यमांसैर्मनोरमैः |
रक्तपुष्पै रक्तमाल्यैर्नानालङ्कारसंयुतैः ||
ततः सिध्यति देवेशि ! निशीथे स भवेत् प्रिये ! |
क्षेमङ्करीणां शब्दज्ञो जायते नात्र संशयः |
परस्त्रीनिरतो देवि ! मनोवाञ्छामवाप्नुयात् || १५ ||
अथ टिट्टिभसिद्धिः |
टिट्टिभायस्तु स्वं बीजं वह्निकान्ता ततः परम् |
कालीं सम्पूजयेद्यत्नात् टिट्टिभ शब्दविद्भवेत् || १६ ||
अथ कोकसिद्धिः |
कोकयुग्मं वह्निकान्ता जपेत् सप्तायुतं बुधः |
कालिकां पूजयेद्यत्नात् कोकानां शब्दविद्भवेत् || १७ ||
अथ चकोरशब्दज्ञानम् |
कालीबीजं चकोराय जपेदष्टायुतं बुधः |
वटमूलं समासाद्य कालिकां पूजयेत्ततः |
चकोरशब्दविद्भूत्वा सर्वज्ञो जायते नरः || १८ ||
तारं काली चकोराय जपेदष्टायुत नरः |
महाकाली ततो देवि ! अस्त्रं वह्निबधूं ततः |
एतन्मन्त्रं महेशानि ! जपेल्लक्षं महेश्वरि ! |
मद्यैर्मांसै रक्तपुष्पैर्महाकालीं प्रपूजयेत् |
एवं कृत्वा विधनेन तत्पुच्छं मूर्द्ध्निधारयेत् |
तत्पक्षिणः शब्दवेत्ता जायते नात्र संशयः || १८ ||
अथ कोटशब्दज्ञानम् |
अथ वक्ष्ये महेशानि ! कीटसाधनमुत्तमम् |
वटमूल समासाद्य स्नातः शुक्लाम्बरः शुचिः |
व्याघ्रचर्मैः समासाद्य सद्यैर्मांसैर्मनोहरैः |
धूपदीपैश्च नैवेद्यैर्बलिभिः परमोत्तमैः |
लताभिर्वेष्टितो भूत्वा कीटकञ्च समर्पयेत् |
तुङ्गवक्षीजयुगलां चकोरनेत्रां हसन्मुखीम् |
पिबन्तीं रुधिरं धारां मुक्तकेशीं दिगम्बराम् |
बिभ्रतीं खड्गमुण्डञ्च ततो विकटसन्निभाम् |
एवं ध्यात्वा प्रयत्नेन जपेन्मन्त्रमनन्यधीः |
कालीबीजं कीटकाली निवसेत्तत्र साऽसिता |
एतन्मन्त्र महेशानि ! जपेदेकाग्रमानसः |
सहस्रं पद्मपत्राणां जुहुयात् संस्कृतेऽनले |
कीटकाली समायाति ततो नात्रास्ति संशयः |
साधकाय वरं दत्त्वा प्रभाते याति कालिका |
ततः प्रभृति देवेशि ! कीटशब्दस्य साधकः |
लीलया साधकः सर्वं बुद्ध्वा सर्वज्ञतामियात् |
पिपीलिकादिकीटानां शब्दं बोद्धुं क्षमो भवेत् |
स्वर्गे मर्त्ये च पाताले धरायां या कथा भवेत् |
भूतं भव्यं वर्तमानं साधकेन्द्राय सर्वदा |
कीटाः शंसन्ति देवेशि ! नात्र कार्या विचारणा |
कीटकालीप्रसादेन गृहे लक्ष्मीः स्थिरा भवेत् |
धनवान् पुत्रवान् भूत्वा स्वर्गमोक्षमवाप्नुयात् || २० ||
अथ प्रकृतसाधनम् |
मुण्डमालातन्त्रे चतुर्थपटले ||
निशाहागे चतुर्दश्याममायां हरवल्लभे ! |
जपेदयुतसंख्यञ्च स सिद्धः सर्वकर्मसु |
स योगीन्द्रः स भावज्ञः स धीरः सर्वकर्मसु || १ ||
तथा |
प्रभातेऽश्वत्थमूले च गत्वा परमकोविदः |
पूजयेत् परया भक्त्या सामिषैर्लोहितैरपि |
बिल्वैर्बिल्वदलैर्वापि बिल्वपुष्पैर्वरानने ! |
जपेल्लक्षं चतुर्दश्यामारभ्य नगनन्दिनि ! |
पञ्चमेन यजेद्देवीं बिल्वमूले दिवानिशम् |
तदा वाक्सिद्धिमाप्नोति स्फुटं वाचस्पतिर्भवेत् || २ ||
तथा |
वामभागे स्त्रियं स्थाप्य धूपामोदसुगन्धिभिः |
ताम्बूलचर्वणाद्यैश्च पूजयेद्भवगेहिनीम् |
भवानीं तारिणी विद्यां ब्रह्मविद्यां मनोहराम् |
शुद्धां सिद्धिमवाप्नोति तत्क्षणादेव शङ्करि ! |
विश्वमातर्जयाधारे ! विश्वेश्वरि ! नमोऽस्तु ते |
करालवदने ! घोरे ! चन्द्रशेखरवल्लभे ! |
मां तारय महाभागे ! देहि सिद्धिमनुत्तमाम् |
कामकल्पलतारूपे ! कामेश्वरि ! कलामते ! |
कामरूपे ! च विजये ! निस्तारे ! शववाहिनि ! || ३ ||
गृहीत्वा शचाण्डालं धृत्वा भालं मुखं शिरः |
नासां कर्णौ च हृत्पद्मं नाभिं लिङ्गं गुदं तथा |
बाहुपृष्ठञ्च जठरं धृत्वा धृत्वा मुहुर्मुहुः |
आदौ मायां पुनर्मायां पुनर्मायां नियोजयेत् |
बधूबीजं तथा लज्जां सर्वाङ्गे निक्षिपेन्मनुम् |
अष्टोत्तरशतं जप्त्वा कृत्वा च शवबन्धनम् |
पुनः स्वमन्त्रबीजेन नीलद्रवेण चक्षुषा |
सत्त्वेन रजसा देवि ! तमसा नगनन्दिनि ! |
हरबीजेन सम्मार्ज्य स सिद्धेश्वरतामियात् |
वायुस्तम्भं जलस्तम्भं वह्निस्तम्भं नगात्मजे ! |
तत्क्षणादेव देवेशि ! जायते नात्र संशयः || ४ ||
शून्यागारे महेशानि ! भवेद्धन्ददिङ्मुखः |
शङ्खमाला ग्रहीतव्या स्फाटिकी वाथ राजती |
चामीकरमयी माला प्रबालघटिता तथा |
मूर्ध्नि देशे कुल्लुकाञ्च जप्त्वा शतमनुत्तमाम् |
तदा मन्त्रं जपेन्मन्त्री महेशो नात्र संशयः |
स शाक्तः शिवभक्तश्च भैरवश्च सदाशिवः || ५ ||
तथा |
अश्वत्थे बिल्वमूले वा स्वजायामन्दिरेऽथ वा |
देवीं वा कामिनीं वापि ध्यायेत् परमदेवताम् |
आद्यां ज्योतिर्मयीं विद्यामभयां वरदां शिवाम् |
प्रणमेत् स्तुतिभिश्चण्डीं सर्वदोषनिकृन्तनीम् |
श्मशानस्थः शवस्थोऽपि प्रपठेत् कवचोत्तमम् |
तथा श्मशाने देवेशि ! शवे वा वरवर्णिनि ! |
सिद्धिर्भविष्यति तदा प्रतिपक्षा न भैरवाः |
उन्मत्तः क्रोधनश्चैव भैरवो वटुकात्मकः |
संहारो भीषणश्चैव तथा च कालभैरवः |
महाकालभैरवश्च भैरवा वसुसंख्यकाः |
दृष्ट्वा श्मशानं देवेशि ! शवसाधनमेव च |
नृत्यन्ति भैरवाः सर्वे गर्जन्ति रक्तलोचनाः |
अद्य मत्सदृशो वापि अद्यैव वातुलोऽपि वा |
शवश्मशानयोर्मध्ये न जानामि कथञ्चन |
माभैषीर्भैरवाः सर्वे वदिष्यन्ति च रक्षणात् |
सिंहव्याघ्रवराहाद्याकारा गर्जन्ति सर्वतः |
माभैषीश्चैव माभैषीर्माभैषीश्चैव साधकम् |
यो वदिष्यति पुरतः स गुरुस्तत्त्वकोविदः || ६ ||
पञ्चमपटले ||
कृष्णाष्टम्यां नवम्यां वा प्रजपेदयुतं निशि |
तदा सिद्धिमवाप्नोति मन्त्रध्यानपुरःसरम् || ७ ||
तथा |
महापीठाश्रमं याति महापीठस्य दर्शनम् |
महापीठे यजेद्देवीं भक्त्या परमया युतः |
पूजयेद्रक्तपुष्पैश्च रक्तगन्धानुलेपनैः |
महिषैश्च यजेद्देवीं मेषजैः क्षतजैरपि |
छागलैर्लोहितैर्देवीं गात्रजैर्ब्राह्मणैरपि |
तदा सिद्धेश्वरो भूत्वा गाणपत्यं लभेत्तु सः ||
तथा |
स्तुतिपाठाद्दृढज्ञानात् पूजनाच्छिवसुन्दरि ! |
सुप्रसन्ना महाविद्या जपात् सिद्धिर्भविष्यति || ८ ||
षष्ठपटले ||
कुलवारे महेशानि ! सहस्रमयुतं जपेत् |
शनैश्चरे चतुर्दश्याममायां कुजवासरे |
स्थित्वा कुशासने ज्ञानी मन्त्रसिद्धिपरायणः |
अयुतं भक्तिभावेन सहस्रं च वरानने ! |
अन्तर्यागं ततः कृत्वा सर्वसिद्धीश्वरो भवेत् || ९ ||
अश्वत्थवटमूले वा बिल्वमूलेऽथ वा प्रिये ! |
पूजयेत् परया बुद्ध्या मन्त्रसिद्धिं जनो लभेत् || १० ||
तथा ! |
सुषुम्नान्तः स्थितां देवीं पद्मकिञ्जल्कवासिनीम् |
ध्यायेन्नाडीविशुद्धेन मन्त्रसिद्धिरनुत्तमा ||
तथा |
श्मशानेऽश्वत्थमूले वा शवे वा शून्यमन्दिरे |
प्रजपेत् कालिकां तारां महाविद्या प्रसीदति |
जपेन तपसा स्तोत्रैरन्तर्यागैर्मनोहरैः |
पूजनैः कवचैर्देवि ! महाविद्या प्रसीदति || ११ ||
वामे सुरायां देवेशि ! नानालङ्कारभूषिताम् |
कुलचक्रे च देवेशि ! प्रजपेत्तु समः शिवः |
निशि चक्रे करालास्ये मुक्तकेशो दिगम्बरः |
सहस्रं वायुतं वापि जपेन्मदनमन्दिरे |
श्वेतं वा लोहितं वापि कुसुमं पञ्चमान्वितम् |
एवंविधविधानेन महाकाल्यै निवेदत् |
दिवापूजा विधातव्या निशापूजा महेश्वरि ! |
सन्ध्यापूजा विधातव्या तदा सिद्धिमवाप्नुयात् ||
तथा |
शवे बिल्वं करे दक्षे मालां संगृह्य साधकः |
प्रजपेत् पार्वतीमन्त्रं सर्वकार्यार्थसिद्धये |
प्रणम्य भक्त्या देवेशि ! जपेच्चिन्तामणिं मनुम् |
चिन्तामणिप्रसादेन किं न सिध्यति भूतले |
चिन्तामणिं कल्पलतां गृहित्वा परमां शिवाम् |
जप्त्वा महामनुं चण्डि ! देवदेवेश्वरो भवेत् |
योगिनीतन्त्रे पूर्वखण्डे पञ्चमपटले ||
देव्युवाच ||
भगवन् ! सर्वधर्मज्ञ ! लोकानुग्रहकारक ! |
साधनं सर्वमन्त्रस्य सर्वाशापरिपूरकम् |
साधनं सिद्धमन्त्रस्य वद मे करुणामय ! ||
ईश्वर उवाच ||
शृणु देवि ! प्रवक्ष्यामि साधनं परमाद्भुतम् |
सार्द्धयामगतायान्तु निशायां साधकोत्तमः |
भूत्वा दिगम्बरः सम्यगाचम्य विधिवत्तत्था |
अभ्युक्ष्य मूलमन्त्रेण शययायां तत्र संविशेत् |
गुरुं परमगुरुञ्च परापरगुरुं तथा |
परमेष्ठिगुरुञ्चैव वामेऽभ्यर्च्य गणेश्वरम् |
दक्षिणे च ध्रुवाख्यन्तु श्मशानवासिन्यै नमः |
ततो माया आसनाय नम इत्युच्चरेच्छिवे ! |
शयया शययातले देवि ! प्रणवान्ते ध्रुवञ्च फट् |
लिखित्वाचम्य यत्नेन स्वतन्त्रोक्तविधानतः |
प्रणवं मणिधरी चैव वज्रिणी च महापदम् |
प्रतिसरे रक्ष रक्ष मां हुं फट् स्वाहया युतः |
अनेन मनुना देवे ! शिखां बद्ध्वा विधानतः |
अङ्गन्यासकरन्यासौ मातृकान्यासमेव च |
भूतशुद्ध्यादिकं कृत्वा ततश्च परमां शिवाम् |
ध्यात्वा भक्त्या समभ्यर्च्य मानसैः साधकोत्तमः |
शययातले महेशानि ! मन्त्रोऽपि च वरानने ! |
प्रणवञ्च ततो देवि ! वटुकेभ्यो नमस्तथा |
इति मन्त्रेण मनसा वटुकं पाद्यादिभिर्यजेत् |
ततस्तु वह्निबीजेन समन्ताज्जलधारया |
वह्निप्राचीरमाचिन्त्य सङ्कल्प्य च समादरात् |
जपं कृत्वा समर्प्याथ विधिना परमेश्वरि ! |
पुनः सङ्कल्प्य देवेशि ! कुर्यात् स क्रमतः शिवे ! |
होमञ्च तर्पणञ्चैव अभिषेकं ततः परम् |
विप्रस्य भोजनञ्चैव अभावे द्विगुणं जपेत् |
काञ्चनं दक्षिणां दत्त्वाऽच्छिद्रावधारणं चरेत् |
सम्मोच्य वटुकं देवि ! क्षमस्वेति विसर्जयेत् |
एवमुक्तं महेशानि ! शययासाधनमुत्तमम् |
मन्त्रसिद्धिकरं शीघ्रमस्मत्सायुज्यदायकम् ||
विशेषशययासाधनन्तु निर्गुणकाण्डे वक्ष्यते ||
तत्रैव ||
इतः शृणु त्रिवाटस्य चतुर्वाटस्य साधनम् |
गत्वा तु त्रिपथं वापि चतुष्पथं वरानने ! |
प्राग्वद्देवीं समभ्यर्च्य मणिधरीति मन्त्रतः |
बद्ध्वा ग्रन्थिन्तु वस्त्रान्ते निर्भयं साधकोत्तमः |
श्मशानवासिनो ये ये देवा देव्यश्च भैरवाः |
कृपां कुर्वन्तु ते सर्वे सिद्धिदाश्च भवन्तु मे |
प्रणमेत् प्रणवाद्येन मनुनानेन भक्तितः |
ततः पूर्वमुखो वापि उत्तराशामुखोऽपि वा |
उपविश्य समाचम्य स्वस्ति वाच्य महेश्वरि ! |
स्थानं सम्मार्ज्य तत्रैव प्रेतबीजं लिखेत् सुधीः |
बीजोपरि महादेवि ! विहितासनमास्तरेत् |
तत्रोपविश्य देवेशि ! हृदीष्टदेवतां स्मरेत् |
यथेष्टं मनसाराध्य अष्टाशासु बलिं हरेत् |
काल्यादिभ्यो विशेषेण पूजयित्वा महेश्वरि ! |
काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी |
विप्रचित्ता तथा नीला बलाका च घनाद्विषः |
प्रणवाद्या ङेयुतान्ता पूज्या बल्या विना स्मृता |
सङ्कल्प्याष्टोत्तरयुतं जप्त्वाऽच्छिद्रावधारणम् |
कृत्वा स्थानं परिष्कृत्य देवीं स्मरन् गृहं व्रजेत् |
अतः परमहं वक्ष्ये बिल्वमूलस्य साधनम् |
बिल्वमूलं महेशानि ! समन्तात् षोडशं करम् |
अतस्तत्साधनं देवि ! सर्वेषां प्रियकारकम् |
तत्र गत्वा बिल्वमूलं प्राग्वद्गुरुचतुष्टयम् |
अभ्यर्च्य यत्नतो देवि ! क्षेत्रपालं प्रपूज्य च |
क्षेत्रपाल ! महाभाग ! श्मशानाधिप ! सुव्रत ! |
सिद्धिं देहि जगत्कर्ता देहि स्थानं नमोऽस्तु ते |
अनेन प्रणवाद्येन मनुना प्रणमेच्च तम् |
ततः स्थानन्तु सम्पूज्य लिखेत्तत्र वरानने ! |
वाग्भवं प्रेतबीजञ्च पुनर्वाग्भवमेव च |
तदन्ते मूलमन्त्रञ्च लिखेत् साधकसत्तमः |
पूजयित्वा च काल्यादि पूर्ववत् परमेश्वरि ! |
सङ्कल्प्याष्टोत्तरशतं जप्त्वाऽच्छिद्रावधारयेत् |
परिष्कृत्य ततः स्थानं गुरुं स्मरन् गृहं व्रजेत् |
इत्येवं कथितं तुभ्यं सारात्सारं परात्परम् |
गोपनीयं सदा भद्रे ! विशेषात् पशुसङ्कुले ||
अथ कार्तवीर्यार्जुनप्रयोगः ||
मन्त्रमहोदधौ ||
यथा फ्रौं व्रीं क्लों ह्रं ह्रीं क्रों स्त्रीं हुं फट् कार्तवीर्यार्जनाय नमः ||
वह्नितारयुतो वाद्यो लक्ष्मीरग्नोन्दुशक्तियुक् |
वेधाधरेन्दुशान्त्याढ्यो निद्राधीशाग्निरिन्दुयुक् |
मायाङ्कुशं बधूर्वर्मास्त्रे ततः कार्तवी पदम् |
रेफवायवानलो वह्निजौ दक्षकर्णसंस्थितौ |
मेघः सदीर्घः पवनो मनुवक्त्रो हृदन्तकः |
ऊनविंशतिवर्णोऽयं तारादिमखवर्षकः ||
इति प्रमाणम् ||
ओं कार्तवीर्यार्जुनाय नमः ||
अथास्य न्यासः ||
यथा |
ओं नमो भगवते भो भोः कार्तवीर्यार्जुन ओं ओं ओं मम हृदये दुष्टं दारय दुरितं हनहन पापं मथमथ आरोग्यं कुरुकुरु हां हां हुं द्विषः || १ ||
ओं फ्रौं व्रों हुं आं ह्रीं क्रों स्त्रीं हुं फट् कार्तवीर्यार्जुनाय नमः |
अयं विंशत्यर्णः ||
द्वितीयन्यासः ||
ओं नमो भगवते भो भोः कार्तवीर्यार्जुन ओं फ्रौं ओं मम उदरे दुष्टं दारय दुरितं हनहन पापं मथमथ आरोग्यं कुरुकुरु हां हां हूं हूं फट् फट् द्विषः || २ ||
ओं नमो भगवते कार्तवीर्यार्जुन ओं व्रीं ओं मम नाभौ दुष्टं दारय दुरितं हनहन पापं मथमथ आरोग्यं कुरुकुरु हां हां हुं हुं फट् फट् द्विषः || ३ ||
ओं इत्यादि १५ ओं क्लीं मम जठरे दुष्टं दारयेत्यादि || ४ ||
ओं इत्यादि १५ ओं द्रुं मम गुह्यमण्डले दुष्टमित्यादि || ५ ||
ओं इत्यादि १५ ओं आं ओं मम ऊरुयुग्जानुपादेषु दुष्टमित्यादि || ६ ||
ओं इत्यादि १५ ओं ह्रीं ओं मम मूर्ध्नि दुष्टमित्यादि || ७ ||
ओं इत्यादि १५ ओं क्रौं ओं मम भ्रू युगले दुष्टमित्यादि || ८ ||
ओं इत्यादि १५ ओं श्रीं ओं मम कर्णाक्षिनासिकाजिह्वावक्त्रेषु दुष्टमित्यादि || ९ ||
ओं इत्यादि १५ ओं हुं ओं मम कण्ठबाहुयुगेषु दुष्टमित्यादि || १० ||
ओं इत्यादि १५ ओं कां ओं मम सर्वाङ्गेषु दुष्टमित्यादि |
ओं इत्यादि १५ ओं फट् ओं मम सर्वाङ्गेषु दुष्टमित्यादि || ११ ||
ओं इत्यादि १५ ओं ओं ओं मम सर्वाङ्गेषु दुष्टं दारयेत्यादि || १२ ||
ओं इत्यादि १५ ओं वीं ओं मम सर्वाङ्गेषु दुष्टमित्यादि || १३ ||
ओं इत्यादि १५ ओं र्ययां ओं मम सर्वाङ्गेषु दुष्टमित्यादि || १४ ||
ओं इत्यादि १५ र्ज्जुं ओं मम सर्वाङ्गेषु दुष्टमित्यादि || १५ ||
ओं इत्यादि १५ ओं नां ओं मम सर्वाङ्गेषु दुष्टमित्यादि || १६ ||
ओं इत्यादि १५ ओं यं ओं मम सर्वाङ्गेषु दुष्टमित्यादि || १७ ||
ओं इत्यादि १५ ओं नं ओं मम सर्वाङ्गेषु दुष्टमित्यादि || १८ ||
ओं इत्यादि १५ ओं म ओं मम सर्वाङ्गेषु दुष्टमित्यादि || १९ ||
अथ गायत्री ||
ओं कार्तवीर्याय विद्महे महावीर्याय धीमहि तन्नोऽर्जुनः प्रचोदयात् |
गायत्र्येषा समाख्याता प्रयोगादौ जपेत्तु ताम् ||
इति मन्त्रमहोदध्युक्तप्रयोगः ||
अथास्य कवचम् ||
श्रीदेव्युवाच ||
देवाधिदेव ! सर्वज्ञ ! सर्वलोकहिते रत ! |
केन रक्षा भवेन्नॄणां भीतानां विविधपदि |
राजचौरादिपीडासु शस्त्राग्निविषपातने |
मारीदुःस्वप्नपीडासु ग्रहरोगभयेऽपि च |
ज्वरापस्मारपीडासु सिंहव्याघ्रनिपातने |
राक्षसासुरवेतालपिशाचप्रेतपातने |
महाभये महानाशे महाकारागारगतेऽर्णवे |
महामृत्युभये घोरे महाकलहपातने |
केनोपायेन शान्तिः स्यात् साधकानां महेश्वर ! |
अनष्टद्रव्यता चैव नष्टस्य पुनरागमः |
सर्वाकर्ष्णसंक्षोभः सर्वसंहननं तथा |
भवत्यभीष्टं जन्तूनां केवलं वद मे शिव ! ||
ईश्वर उवाच ||
शृणु गुह्यतमं देवि ! गोपनीयं प्रयत्नतः |
अवाच्यमपि वक्ष्यामि तव लोकहिताय वै |
कवचं कार्तवीर्यस्य साङ्गावरणकं क्रमात् |
स्वमूर्तिशक्तिमन्त्रौघं सजपध्यानपूर्वकम् |
सहस्रादित्यसङ्काशे नानारत्नसमुज्ज्वले |
भास्वद्ध्वजपताकाढ्ये तुरगायुधभूषणे |
महासंवर्तकाम्भोजभीमरावविराविणि |
समुद्धृतमहाच्छत्रवितानितवियत्पथे |
निर्माणकिङ्किणीजालचलच्चामरशोभिते |
महारथवरे दीप्ते नानायुधविराजिते |
सुस्थितं विपुलोदारसहस्रभुजमण्डितम् |
वामोरुकुण्डकोदण्डान् दधानमपरैः शरान् |
किरीटहारमुकुटकेयूरबलयाङ्गदैः |
मुद्रिकोदरगन्धाढ्यैर्मौञ्जीनूपुरकादिभिः |
भूषितं विविधाकल्पैर्भास्वरैः सुमहाधनैः |
आबद्धकवचं वीरं सुप्रसन्नाननाम्बुजम् |
धनुर्ज्यासिंहनादेन कम्पयन्तं जगत्त्रयम् |
सर्वशत्रुक्षयकरं सर्वव्याधिविनाशनम् |
सर्वसम्पत्प्रदातारं विजयश्रीनिषेवितम् |
सर्वसौभाग्यदं भद्रं भक्तानां भयनाशनम् |
दिव्यमालानुलेपाढ्यं सर्वलक्षणसंयुतम् |
रथनागाश्वपादातिवृन्दमध्यगमीश्वरम् |
वरदं चक्रवर्तीनां महीलोकैकपालकम् |
समानोदितसाहस्रं दिवाकरसमत्विषम् |
महायोगबलैश्वर्यं कीर्त्याक्रान्तजगत्त्रयम् |
श्रीमच्चक्रहरेरंशादवतीर्णं महाबलम् |
सम्यगात्मविभेदेन ध्यात्वा रक्षामुदीरयेत् |
दत्तात्रेय ऋषिः प्रोक्तोऽनुष्टुप्छन्दः प्रकीर्तितम् |
कार्तवीर्यार्जुनो विष्णुश्चक्रवर्ती च देवता |
विनियोगश्च रक्षायै सर्वतः परिकीर्तितः |
सर्वदुष्टविनाशाय सर्वार्थस्य च सिद्धये |
अस्याङ्गमूर्तयः पञ्च पान्तु मां स्फटिकोज्ज्वलाः |
अग्नीशासुरवायव्यकोणेषु हृदयादिकाः |
सर्वतस्तूज्ज्वलरूपवीरचर्मासिपाणयः |
अव्याहतबलैश्वर्यशक्तिसामर्थ्यविग्रहः |
क्षेमङ्करीशक्तियुतश्चौराणां मदभञ्जनः |
प्राचीदिशं रक्षतु मे वाणवाणाशयायुधः |
श्रीकराशक्तिसहितो मारीमदविभञ्जनः |
शरचापधरः श्रीमान् दिशं मे पातु दक्षिणाम् |
महावश्यकरीयुक्तः शत्रूणां मदभञ्जनः |
कोदण्डेषु धरः सौर्यां दिशं मे परिरक्षतु |
प्रजाकरीयुतश्चापवाणदुष्टप्रणाशनः |
परिरक्षतु मे सम्यक् विदिशं चैत्रभानवीम् |
विद्याकरीसमायुक्तः सुमहान् दुष्टनाशनः |
पातु मे नै-ऋतीं चाप वाणवान् दिशमीश्वरः |
धनकर्या समायुक्तो महादुरितनाशनः |
इष्वासनेषुधृक् पातु विदिशं मम वायवीम् |
आयुष्कर्या समायुक्तः श्रीमान् भयविनाशनः |
चापेषुधारो शैवीं मे विदिशं परिरक्षतु |
विजयश्रीयुतः साक्षात् सहस्रारधरो विभुः |
दिशमूर्द्ध्वाभवतु मे महाभयविनाशनः |
शङ्खभृत् सुमहाशक्तिसंयुतोऽप्यधरां दिशम् |
परिरक्षतु मे दुःखध्वान्तसम्भेदभास्करः |
महायोगसमायुक्तः सर्वदिक्चक्रमण्डलम् |
महायोगीश्वरः पातु सर्वतो मम पद्मभृत् |
एता दिङ्मूर्तयो रक्ता रक्तमाल्यांशुकैर्वृताः |
प्रधानदेवतारूपाः पृथक् रथवरे स्थिताः |
शक्तयः पद्महस्ताश्च नीलेन्दीवरसन्निभाः |
सुशुक्लमाल्यवसनाः सुलिप्ततिलकोज्ज्वलाः |
तत्पार्श्वदेवताः स्वस्ववाहनायुधभूषणाः |
स्वस्वदिक्षु स्थिताः पान्तु मामिन्द्राद्या महाबलाः |
एतास्तस्य समाख्याताः सर्वावरणदेवताः |
सर्वतो मां सदा पान्तु सर्वशक्तिसमन्विताः |
हृदये चोदरे नाभौ जठरे गुह्यमण्डले |
ऊरुयुग्जानुपादेषु मूर्द्ध्नि भ्रूयुगलेषु च |
कर्णाक्षिनासिकाजिह्वाकण्ठबाहुयुगेषु च |
दशबीजात्मका मन्त्राः सम्यक् सम्पत्तिदायकाः |
तेजोरूपाः स्थिताः पान्तु वाञ्छासुरद्रुमाः |
दश चान्ये महावर्णा मन्त्ररूपा महोज्ज्वलाः |
व्यापकत्वेन पान्त्वस्मानापादतलमस्तकम् |
कार्तवीर्यः शिरः पातु ललाटं हैहयेश्वरः |
सुमुखो मे मुखं पातु कर्णौ व्याप्तजगत्त्रयः |
सुकमारो हनू पातु भ्रूयुगं मे धनुर्धरः |
नयने पुण्डरीकाक्षो नासिकां मे गुणाकरः |
अधरोष्ठौ सदा पातु ब्रह्मगेयो द्विजान् कविः |
सर्वशास्त्रकलाधारो जिह्वां चिबुकमव्ययः |
दत्तात्रेयप्रियः कण्ठं स्कन्धौ राजकुलेश्वरः |
भुजौ दशास्यदर्पघ्नो हृदयं मे महाबलः |
करौ सर्वार्थदः पातु कराग्राणि जगत्प्रियः |
कुक्षिं रक्षतु मे विद्वान् वक्षः परपुरञ्जयः |
रेवाम्बुलीलासन्तृप्तो जठरं परिरक्षतु |
वीरशूरस्तु मे नाभिं पार्श्वौ मे सर्वदुष्टहा |
सहस्रभुजभृत् पृष्ठं सप्तद्वीपाधिपः कटिम् |
ऊरूमाहिष्मतीनाथो जानुनी वल्लभो विभुः |
जङ्घे वीराधिपः पातु पातु पादौ मनोजवः |
पातु सर्वायुधधरः सर्वाङ्गं सर्वमर्मसु |
सर्वदुष्टान्तकः पातु धात्वष्टककलेवरम् |
प्राणादिदशजीवेशान् सर्वशिष्टेष्टदोऽवतु |
वशीकृतेन्द्रियग्रामः पातु सर्वेन्द्रियाणि मे |
अनुक्तमपि यत् स्थानं शरीरेऽन्तर्वहिश्च यत् |
तत्सर्वं पातु मे सर्वलोकनाथेश्वरेश्वरः |
वज्रात् सारतरञ्चेदं शरीरं कवचावृतम् |
बाधाशतविनिर्मुक्तमस्ति मे भयवर्जितम् |
बड्ध्वेदं कवचं दिव्यं न भेद्यं हैहयेशितुः |
विचरामि दिवारात्रौ निर्भयेणान्तरात्मना |
राजमार्गे महादुर्गे मार्गे चौरादिसङ्कुले |
विषमे विपिने घोरे दावाग्नौ गिरिकन्दरे |
संग्रामे शस्त्रसङ्घाते सिंहव्याघ्रनिषेविते |
गह्वरे सर्पसङ्कीर्णे सन्ध्याकाले नृपालये |
विवादे विपुलावर्ते समुद्रे च नदीतटे |
परिपन्थिजनाकीर्णे देशे दस्युगणैर्वृते |
सर्वस्वहरणे प्राप्ते प्राप्ते प्राणस्य सङ्कटे |
नानारोगजरावेशे विषादप्राप्तभूतले |
मारीदुःखस्वप्नपीडासु क्लिष्टे विश्वासघातकैः |
शारीरे च महादुःखैर्मानसे च महाज्वरे |
आधिव्याधिभये विघ्ने ज्वालोपद्रवकेऽपि च |
न भवेत्तु भयं किञ्चित् कवचेनावृतस्य मे |
आगन्तुकामानखिलान् सुरदस्युविलुम्पकान् |
विनाशयेत्तद्दोर्दण्डसहस्रेण महारथः |
स्वकरोद्धृतनिर्भिन्नान् सहस्रशरखण्डितान् |
राजचूडामणिः क्षिप्रं करोत्वस्मद्विरोधकान् |
खड्गसाहस्रदलितान् सहस्रमूषलार्दितान् |
चौरादिदुष्टसत्त्वौघान् सहस्रारसहस्रभृत् |
कृतवीर्यसुतो राजा सहस्रभुजमण्डितः |
अवतारो हरेः साक्षात् पालयेत् सकलं मम |
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् |
तस्य स्मरणमात्रेण कृतं नष्टञ्च लभ्यते |
यो भवेल्लोकरक्षार्थमंशाच्चक्रं हरेर्भुवि |
तं नमामि महावीर्यमर्जुनं कृतवीर्यकम् |
सहस्रबाहुं सशरं सचापं रक्ताम्बरम् रक्तकिरीटकुण्डलम् |
चौरादिदुष्टभयनाशनमिष्टदं तं वन्दे महाबलविजृम्भितकार्तवीर्यम् |
कार्तवीर्य ! महावीर्य ! सर्वदुष्टविनाशन ! |
सर्वत्र सर्वदा तिष्ठ दुष्टान्नाशय पाहि माम् |
दक्षे पञ्चशतं वाणा वामे पञ्चशतं धनुः |
यो बिभर्ति स पात्वस्मान् विषव्यालशताकुलान् |
उत्तिष्ठ दुष्टदमन ! सप्तद्विपैकपालक ! |
त्वमेव शरणं प्राप्तं सर्वतो रक्ष रक्ष माम् |
उत्तिष्ठ किं त्वं स्वपिषि किं तिष्ठसि चिराय हि |
पाहि नः सर्वदा सर्वभयेभ्यः स्वसुतानिव |
य चौरा वसुहर्तारो विद्विषो ये च हिंसकाः |
अन्तरायकरा दुष्टाः पापका ये दुराशयाः |
दुर्हृदो दुष्टभूपाला दुष्टा मान्याश्च पापकाः |
ये च कार्यविलोप्तारो ये खलाः परिपन्थिनः |
सर्वस्वहारिणो ये च ये च मायाविनोऽपरे |
महाक्लेशकरा म्लेच्छा दस्यवो वृषलाश्च ये |
ये महाशरदातारो वञ्चकाः शस्त्रपाणयः |
ये पापा दुष्टकर्माणो दुःखदा दुष्टबुद्धयः |
व्याजकाः कुपथासक्ता ये च नानाभयप्रदाः |
छिद्रान्वेषरता नित्यं येऽस्मान् बाधितुमुद्यताः |
ते सर्वे कार्तवीर्यस्य महाशङ्खवराहताः |
सहसा विलयं यान्तु दूरादेव विमोहिताः |
ये दानवा महादैत्या ये यक्षा ये च राक्षसाः |
पिशाचा ये महासत्त्वा ये भूता ब्रह्मराक्षसाः |
अपस्मारग्रहा येच ये ग्रहाः पिशताशनाः |
महालोहितभोक्तारो वेताला ये च गुह्यकाः |
मनोबुद्धीन्द्रियजवाः स्फोटकाश्च महाज्वराः |
महाशना बलिभुजो महाकुणपभोजनाः |
गन्धर्वाप्सरसः सिद्धा ये च देवादियोनयः |
डाकिन्यो घोनसाः प्रेताः क्षेत्रपाला विनायकाः |
महाव्याघ्रमहामेषमहातुरगरूपकाः |
महापूजा महासिंहा महामहिषसन्निभाः |
ऋक्षवाराहशुनकरूपा वोलुकमूर्तयः |
महोष्ट्रखरमार्जारसर्पाणां विषमस्तकाः |
नानारूपा महासत्त्वा नानाक्लेशसहस्रदाः |
नानारोगकराः क्षुद्रा महावीर्या महाबलाः |
वातिकाः पैत्तिका घोराः श्लैष्मिकाः सान्निपातिकाः |
माहेश्वरा वैष्णवाश्च वैरिवंश्या महाग्रहाः |
स्कान्दा वैनायकाः क्रूरा ये च प्रमथसम्भवाः |
महाशत्रुग्र्हा रौद्रा महामारीमसूरिकाः |
ऐकाहिका द्व्याहिका त्र्याहिकाश्च महाज्वराः |
चातुर्थिकाः पाक्षिकाश्च मासाः षाण्मासिकाश्च ये |
सांवत्सरा दुर्निर्वार्या ज्वराः परमदारुणाः |
स्वाप्निकाश्च महोत्पाता ये च दुःखप्निका ग्रहाः |
कुष्माण्डा जृम्भका भौमा घोनासा निधिवञ्चकाः |
भ्रामकाः प्राणहर्तारो ये च बालग्रहादयः |
दिवाचरा रात्रिचरा ये च सन्ध्यासु दारुणाः |
प्रमत्ता अप्रमत्ता वा येऽस्मान् बाधितुमुद्यताः |
ते सर्वे हैहयेशस्य धनुर्मुक्तशरार्दिताः |
सहस्रधा प्रणश्यन्तु भग्नसत्त्वबलोद्यमाः |
ये सर्पा ये महानागा महागिरिगुहाशयाः |
कालव्याला महादंष्ट्रा महाजगरसंज्ञकाः |
अनन्तकुलिकाद्याश्च दंष्ट्राविषमहाभयाः |
अनेन शतशीर्षाश्च खण्डपुच्छाश्च दारुणाः |
महाविषजलीकाश्च वृश्चिका रक्तपुच्छकाः |
आशीविषाः कालकूटा महाहालाहलाह्वयाः |
जलसर्पा जलव्याला जलग्रहाश्च कच्छपाः |
मासिका विषपुच्छाश्च ये चान्ये जलवासिनः |
जलजाः स्थलजाश्चैव नानाभेदशतोद्भवाः |
ये च षड्विन्दवो लूता भ्रामराः शुकपुच्छिकाः |
स्थावरा जङ्गमाश्चैव कृत्रिमाश्च महाविषाः |
गुप्तरूपा गुप्तविषा मूषिका गृहगोधिकाः |
अपस्मारविषा घोरा महोग्रविषसंज्ञकाः |
येऽस्मान् बाधितुमिच्छन्ति शरीरप्राणनाशनाः |
ते सर्वे कार्तवीर्यस्य खड्गसाहस्रखण्डिताः |
दूरादेव विनश्यन्तु प्रनष्टेन्द्रियसाहसाः |
मनुष्याः पशवो वृक्षा वानरा वनगोचराः |
सिंहव्याघ्रवराहाश्च महिषा ये महामृगाः |
गजास्तुरङ्गा गवया रासभाः शरभा वृकाः |
शुनकाः पिशुनाः शूद्रा मार्जारा विलयोनयः |
शृगालाः शशकाः श्येना गरुत्मन्तो विहङ्गमाः |
भेरुण्डा वायसा गृध्रा हंसाद्याः पक्षिजातयः |
उड्भिज्जाश्चाण्डजाश्चैव स्वेदजाश्च जरायुजाः |
नानाभेदकुले जाता नानाभावपृथग्विधाः |
येऽस्मान् बाधितुमिच्छन्ति सन्ध्यासु च दिवा निशि |
ते क्षिप्रं कार्तवीर्यस्य गदासाहस्रचूर्णिताः |
दूरादेव विनश्यन्तु विनष्टगतिपौरुषाः |
ये चाक्षेपप्रदातारो द्वेष्टारो ये विदूषकाः |
कार्त्ययन्त्रप्रकर्तारः कूटामायाविनोऽपरे |
मारणोच्चाटनोन्मूलद्वेषमोहनकारकाः |
विश्वासघातका दुष्टा ये च स्वामिद्रुहो नराः |
ये चाततायिनो दुष्टा ये पापा गोप्रहारिणः |
दाहोपघातगरलशस्त्रपातातिदुःखदाः |
क्षेत्रवित्तापहरणबन्धनादिभयप्रदाः |
एते ये विविधाकारा ये चान्ये दुष्टजातयः |
पीडाकराश्च सततः छिद्रमिच्छन्ति बाधितुम् |
ते सर्वे कार्तवीर्यस्य चक्रसाहस्रदारिताः |
दूरादेव विनाश्यन्तु क्षयं यान्तु सहस्रधा |
ये मेघा ये महावर्षा ये वाता याश्च विद्युताः |
ये महाशनयो दीप्ता निर्घाताद्याश्च दारुणाः |
उल्कापाताश्च ये घोरा ये महेन्द्रायुधादयः |
सूर्येन्दुकुजसौम्याश्च गुरुकाव्यशनैश्चराः |
राहुश्च केतवो घोरा नक्षत्राणि च राशयः |
तिथयः संक्रमा मासा हायना युगनायकाः |
मन्वन्तराधिपाः सिद्धा ऋषयो योगसिद्धयः |
श्रुतय ऋग्यजुःसामाथर्वणाद्याश्च वह्नयः |
ऋतवो लोकपालाश्च पितरो देवसंहतिः |
विद्याश्चैव चतुःषष्टिभेदोत्था भुवनत्रये |
एते वै कीर्तिताः सर्वे ये चान्ये नानुकीर्तिताः |
ते सन्तु नः सदा सौम्या सर्वकालं सुखावहाः |
आज्ञया कार्तवीर्यस्य योगीन्द्रस्यामितद्युतेः |
कार्तवीर्यार्जुनो धन्वी राजेन्द्रो हैहयेश्वरः |
दत्तात्रेयप्रियतमः सहस्रभुजमण्डितः |
चापी खड्गी रथी वाणी तूणी चर्मी महाबलः |
सुभगः सुमुखः शान्तश्चक्रवर्ती गुणाकरः |
दशास्यदर्पहारो वा लीलातृप्तः सुदुर्जयः |
दुष्टहा चौरदमनो राजराजेश्वरः प्रभुः |
सर्वज्ञः सर्वदः श्रीमान् सर्वशिष्टेष्टदः कृती |
राजचूडामणिर्योगी सप्तद्वीपाधिनायकः |
विजयी विश्वतो राज्ञां महामतिरलोलुपः |
देवविप्रप्रियो विद्वान् ब्रह्मगेयः सनातनः |
माहिष्मतौपतिर्योद्धा महाकीर्तिर्महाभुजः |
सुकुमारो महावीरो मारीघ्नो मदिरेक्षणः ||
शत्रुघ्नः शाश्वतः शूरः शङ्खभृद्गोपिवल्लभः |
महाभागवतो धीमान् महाभयविनाशनः |
असाध्यविग्रहो दिव्यभावो व्याप्तजगत्त्रयः |
सर्वशास्त्रकलाधारो विरजो लोकवन्दितः |
वीरो विमलसत्त्वाढ्यो महाबलपराक्रमः |
विजयश्रीमयो नान्यो जितारिर्मन्त्रनायकः |
चक्रभृत् कामदः कान्तः कामघ्नः कमलेक्षणः |
भद्रवादप्रियो वैद्यो विबुधो वरदो वशी |
जितेन्द्रियो जितारातिः महान् योऽनन्तविक्रमः |
चक्रभृत् परचक्रघ्नः संग्रामविधिपूजितः |
महाधनो निधिपतिर्महायोगी गुरुप्रियः |
योगाढ्यः सर्वरोगघ्नो राजिताखिलभूतलः |
दिव्यास्त्रभृदमेयात्मा सर्वगोप्ता महोज्ज्वलः |
सर्वायुधधरोऽभीष्टप्रदः परपुरञ्जयः |
योगसिद्धो महाकायो महावृन्दशताधिपः |
सर्वज्ञाननिधिः सर्वसिद्धदानकृतोद्यमः |
इत्यष्टशतनामोत्था मूर्तयो दशदिकपतेः |
सम्यक् दश दिशो व्याप्य पालयन्तु च मां सदा |
मनःसौख्यमसम्बाधमारोग्यमपराजयः |
दुःखहानिररिघ्नश्च प्रजावृद्धिः सुखोदयः |
वाञ्छाप्तिरिति कल्याणमवैषम्यमनामयम् |
अनालस्यमभीष्टञ्च मृत्युहानिर्बलोन्नतिः |
भयहानिर्यशः कान्तिर्विद्याबुद्धिमहोच्छ्रितः |
अनष्टद्रव्यता चैव नष्टस्य पुनरागमः |
दीर्घायुष्ट्रं मनोलाभः सौकुमार्यमभीप्सितम् |
अप्रधृष्टमन्ल्पत्वं महासामर्थ्यमेव च |
सन्तु मे कार्तवीर्यस्य हैहयेन्द्रस्य कीर्तनात् |
य इदं कार्तवीर्यस्य कवचं पुण्यवर्द्धनम् |
सर्वपापप्रशमनं सर्वोपद्रवनाशनम् |
सर्वशान्तिकरं गुह्यं समस्तभयनाशनम् |
विजयार्थप्रदं नॄणां सर्वसम्पत्प्रदं शुभम् |
शृणुयाद्वा पठेद्वापि पूजयेद्वापि पुस्तकम् |
नित्यं शिरसि यो धत्ते सर्वान् कामानवाप्नुयात् |
मुच्यते सर्वदुःखैस्तु सर्वत्र विजयी भवेत् |
मारीचौरादि पीडाद्यैर्न कदाचित् प्रबाध्यते |
पठतः प्रातरुत्थाय दुःस्वप्नादि विनश्यति |
लभते वाञ्छितानर्थान् पूज्यते त्रिदशैरपि |
शययातलगतो रात्रौ य इदं कवचं पठेत् |
न तस्य तस्करारातिदुःस्वप्नादिकृतं भयम् |
चौरैर्यदा हृतं पश्येत् पश्वादिधनमात्मनः |
सप्तवारं तदा जप्त्वा निशि पश्चिमदिङ्मुखः |
सप्तरात्रेण लभते नष्टद्रव्यं न संशयः |
सप्तविंशतिधा जप्यात् प्राचीदिग्वदनो यदि |
तदा देवासुरनिभं परचक्रं निवारयेत् |
विवादे कलहे घोरे पञ्चधाः यः पठेदिदम् |
विजयो जायते तस्य न कदाचित् पराजयः |
सम्यक् द्वादशधा रात्रौ प्रजपेद्बन्धमुक्तये |
त्रिदिनान्निगडग्रस्तो मुच्यते नात्र संशयः |
अनेनैव विधानेन सर्वसाधनकर्मणि |
असाध्यमपि सप्ताहात् साधयेन्मन्त्रवित्तमः |
यात्राकाले पठित्वेदं मार्गे गच्छति यः पुमान् |
न तस्य चौरव्याग्राद्यैर्भयं स्यात् परिपन्थिभिः |
नित्यं गृहगतो जप्त्वा कल्याणैः परिपूर्यते |
न भयं जायते तस्य दुष्टसत्त्वादिभिः क्वचित् |
सर्वरोगप्रपीडासु त्रिधा वा पञ्चधा पठेत् |
स रोगमृत्युवेतालभूतप्रेतैर्न बाध्यते |
जगन्नासेचनं कुर्याज्जलेनाञ्जलिना तनौ |
न चासौ विषकृत्यादिरोगस्फोटैः प्रबाध्यते |
त्रिसन्ध्यं यः पठेदेतत् षण्मासं विजितेन्द्रियः |
कालमृत्युमपि प्राप्तं जीयान्नास्त्यत्र संशयः |
पठतः कवचञ्चेदं विषं नाक्रमते तनौ |
न जाड्यान्धत्वमूकत्वं नोपसर्गभयं क्वचित् |
विंशत्या चोक्तविधिना ध्यात्वा देवं तदात्मकम् |
मन्त्री गुरुप्रसादाप्तं मन्त्रराजं जपेत् पुनः |
कवचेनावृतो भूयो मन्त्रध्यानं समाचरेत् |
आदौ सम्बोधनं कुर्यात्तन्नामध्यानपूर्वकम् |
चतुरश्चक्रमन्त्रणामुच्चरेद्वीजपूर्वकान् |
कृत्वान्ते चैव मन्त्राणामुच्चरेद्वीजपूर्वकान् |
शरीरे न्यासमेवं हि यः करोति समाहितः |
स यथोक्तं लभेत् सद्यः फलं वज्रतनुर्भवेत् |
यथातथेदं कवचं कस्यचिन्न प्रकाशयेत् |
गोपनीयं प्रयत्नेन शिवस्य वचनं यथा |
सुभक्ताय सुशिष्याय दद्यात् सर्वस्वदायिने |
साधकानां हितार्थाय यदुक्तं चन्द्रमौलिना |
कार्तवीर्यस्य कवचं यदुक्तं वै मया तव |
तेन संवीक्षितो देवि ! कालेनापि न जीर्यते |
तस्मात् सर्वप्रयत्नेन कवचं धारयेत् सुधीः |
कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली |
सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्द्धरः |
रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः |
द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् |
सम्पदस्तस्य जायन्ते जनास्तस्य वशे सदा |
इति श्री उड्डामरेश्वरतन्त्रे कार्तवीर्यार्जुनकल्पे उमामहेश्वरसंवादे कार्तवीर्यार्जुनकवचं नामाष्टाशीतिपटलः समाप्तः |
इति श्रीप्राणतोषिण्यां चतुर्थे काम्यकाण्डे प्रशाखाकथनं नाम तृतीयः परिच्छेदः |
अथ कुक्कुटप्रयोगः |
फेत्कारिणीतन्त्रे द्वितीयपटले |
अथ वक्ष्ये संग्रहतः कुक्कुटमन्त्रमहं मनुसारम् |
जगतामुपकारपरैः क्षपणकगुरुभिर्यथा पुरा प्रोक्तम् |
नान्तं षष्ठस्वरपरिगतं बिन्दुमत् कुक्कुटाख्यं वीप्सै तत्त्वां पुनरपि पदं वीप्सितं पूर्वकं तत् |
नान्तं भूतस्वरपरिगतं वेति मन्त्रोऽयमुक्तः स्यादायुः श्रीविभवसुखसौभाग्यसम्पत्प्रदायी |
प्रोक्तः पञ्चदशार्णोऽयं मन्त्रः कुक्कुटदैवतः |
स सर्वदेवतातेजःशक्तिवृंहितविग्रहः |
क्षीरोदधिमध्यगते द्वीपवरे कनकरत्नमयभूमौ |
अनवरतसिकतामुक्तामणिमृदुपवनसुशीतले रम्ये |
तत्र समुत्थितममलं विपुलतरं कलितवररत्नफलजातम् |
हैमं तालमहीजं बहुमणिविलसद्विचित्रपत्रवरम् |
तं पुनरधितिष्ठन्तं ध्यायेदखिलोज्ज्वलनाङ्गम् |
अतिशोभाचूडाशोभितवक्त्रम् कुक्कुटमतितीक्ष्णनखचरणम् |
वक्त्रं यस्य षडाननो गिरिसुता यस्योदरं कालहा पृष्ठं यस्य च वर्हिकुक्कुरमुखौ पादौ च वक्रेतरौ |
पक्षौ यस्य सुरद्रुमौ मणिमयौ या शृङ्खलाबन्धनी कामाकर्षकरीकरोतु स तु नः सर्वानासौ कुक्कुटः |
गौरीहस्तारविन्दे त्वनिशमधिवसन् षण्मुखारूढकामः सर्वालङ्कारदीप्तः प्रचलितचरणः पक्षविक्षेपदक्षः |
हेमाभो रत्नचञ्चूमणिमयविलसद्वृत्तकण्ठः स्वरूपः पायान्नस्ताम्रचूडः सकलजनरतः सर्वसिद्धिप्रदाता || १ ||
अथवा |
सर्वप्रियः सागरमध्यरत्नद्वीपस्य तालागनिवासिकुक्कुटः |
विद्याभिरामोऽखिलभूषणाढ्यो वशीकरोत्याशु सुसेवितो नरैः |
अमुष्य पूर्वसेवार्थमेकलिङ्गे शिवालये |
देवस्य महतीं पूजां कृत्वा आसीदुदङ्मुखः |
पर्वताग्रे नदीतीरे वृषशून्यशिवालये |
पश्चिमद्वारसंयुक्ते कुर्यान्मन्त्रपुरष्क्रियाम् |
गुरुं प्रणम्य शिरसा आसनं परिकल्पयेत् |
करशुद्धिं देहशुद्धिं तालत्रयमथाचरेत् |
दिग्बन्धनं कारयेत् पश्चाद् विद्यामन्त्रेण तत्परः |
प्राणायामत्रयं पश्चात् प्रणवेन तु कल्पयेत् |
मातृकां विन्यसेत् पूर्वं पश्चान्न्यासं समाचरेत् |
पक्षिमन्त्रस्य प्रथमं हृन्मन्त्रं तं विनिर्दिशेत् |
द्वितीयपदमुच्चार्य शिरसैव तु योजयेत् |
वां शिखायाञ्च विन्यस्य वर्मपक्षितृतीयकम् |
तुरीयपदमुच्चार्य नेत्रे च विनियोजयेत् |
पुराभ्याञ्चास्त्रसंयुक्तमङ्गषट्कं विधीयते |
नमः स्वाहा वषट् हुञ्च वौषट् फट् च क्रमान्न्यसेत् |
पुमादिवान्तवर्णांश्च क्रमशो विन्यसेत् सुधीः |
ललाटे बिन्दुमध्ये च चक्षुःश्रवणयोरपि |
नासाविवरयोश्चैव आस्ये कण्ठे तथा हृदि |
जठरे नाभिदेशे च लिङ्गे गुह्ये च विन्यसेत् |
नमोऽन्तेन तु मन्त्रेण मूर्ध्नादिव्यापकं न्यसेत् |
एवं विन्यस्तदेहस्तु ध्यायेद्वह्निशिवात्मकम् |
मनसा देवमभ्यर्च्य षोडशैरुपचारकैः |
विज्ञाप्यावाह्य यागेन देवं सन्तोष्य यत्नतः |
ध्यात्वा कुक्कुटदेवञ्च जपेद्भानुसहस्रकम् |
तावच्छतं तर्पयित्वा पुरश्चर्याट्टतो भवेत् |
वश्याकर्षणविद्वेषस्तम्भनोच्चाटनादिकम् |
कर्माणि कुर्यादिष्टानि मन्त्रेणानेन मन्त्रवित् |
आलिख्य मन्त्रेण विदर्भितं तत्साध्याह्वयं तालवरस्य पत्रे |
प्राणान् प्रतिष्ठाप्य शतं यथाष्टौ जप्त्वा धृतञ्चेत् शरणं प्रयाति |
ताम्बूलं यद्यष्टोत्तरसहस्रं जप्त्वा दत्तं भुक्त्यै यस्याः |
वश्या नित्यं प्रत्युपदेशाद्दास्यत्यर्थान् प्रार्थितभोगान् |
मन्त्रं जपन्नथ पञ्चकमलं यः कनकाह्वयमङ्गपञ्चयुक्तम् |
भक्ष्यभोज्यविधिषु प्रतियोज्यं सास्य याति वशगा मरणान्तम् |
मूलं तस्य च मूलकेन सहितं चिताह्वयस्य त्वचं पुष्पं बीजसवीर्यहस्तिकुसुमं स्वर्णासिकान्तर्जलम् |
पत्रं रोहिणमङ्गपञ्चकमलं तद्भाण्डयुक्तं मिथो दत्तं वा पुरुषस्य तद्धृतमिदं वश्याङ्गना मन्मथैः |
अष्टोत्तरशतं जप्त्वा हयमारप्रसूनकम् |
सप्तरात्रौ क्षिपेद् यस्य मूर्द्ध्नि सास्य वशीभवेत् |
हयमारं करवीरम् ||
भूर्जे साध्यविदर्भितं मनुमिमं संलिख्य कौलालमृत्स्नाकाकल्पितपुत्तलीहृदि कृतं प्राणान् प्रथिष्ठाप्य च |
जप्त्वा सप्तदिनं त्रिसन्ध्यमथ तामालोड्य भाण्डीरसैर्लिम्पेद्वश्यमवश्यमेव भविता चान्येषु जन्मस्वपि |
भाण्डी भार्गी ||
अष्टोत्तरशतं जप्त्वा समूलकाण्डां कृताञ्जलिं शिरसा |
धारयति सर्वलोकप्रियो भवेन्नियतमेव मन्त्रिवरः |
कृताञ्जलिर्लज्जावती |
तच्छतमखवल्लीलक्ष्मीपुष्पाणि धारयेदेवं समुदाभद्रकविष्णुप्रियाश्च मूषली स मन्त्रजापेन |
मधुकं दूर्वां सहाञ्चैव यथाधृतम् शिरसा |
सा तथैवैकं स्वर्गलोककल्याणनयनसमर्थकम् |
का कथा मनुष्यलोकेषु दश रविवसुरुद्रमनुषु |
अष्टवाक्षिविश्वद्रोगभागे अञ्जल्यादि क्रमशः |
संयोज्यादशकमखिलवश्यकरम् |
प्रत्येकं शतमष्टौ जप्त्वा संयोज्य दशकमपिष्ट्वा गुटिकीकृत्य सहस्राष्टकं जप्त्वा गुटिकया रचिता तिलकक्रिया सुरनारीनरलोकरञ्जनादिकं कपिलाधृतदीपितया तत्तच्चूर्णगर्भया वर्त्या कज्जलमुद्धृतमिव तत्कर्पूरयुतं सहस्रं परिजप्तम् |
दिनमनुदिननयनयुतं कुर्यादखिललोकमवश्यवश्यकरम् ||
एते वश्याप्रयोगाः |
आत्मानं कुक्कुटं ध्यात्वा स्वकीयगणशक्तया |
साध्यां शृङ्खलया कण्ठे बद्ध्वा किषमनुव्रजेत् |
सहस्रमर्द्धरात्रे तु रात्रित्रयमतन्द्रितः |
तुरीयकुक्कुटस्यान्ते साध्यनाम स्वकर्म च |
जपेत् संयोज्यवश्यादिकार्येषु सकलेष्वपि |
यामारभ्य जपेदेनं पेषितं सा मदालसा |
बिभ्रत् सदार्द्रवसना मदनाकुलचेतना |
उत्फुल्लगुह्यजघना शिथिलांशुकभूषणा |
चलत्पादपरिन्यासा स्फुरद्रोमाञ्चकञ्चुका |
कामानलोष्णनिश्वासा शोभिताधरपल्लवा |
विकीर्णकेशपाशासौ वेपिता घूर्णितेक्षणा |
रचिताञ्जलिरायाति स्वयमस्यालयं निशि |
साध्याह्वानविदर्भितं मनुमिमं ताम्बूलपत्रोदरे लेखन्या प्रतिलिख्य कर्मसहितं प्राणान् प्रतिष्ठाप्य च |
जप्त्वाष्टौ शतमर्कदुग्धजनिता दीपे त्रिरात्रान्तरे |
गुप्तं दीपशिखाग्निना स्वयममुं वश्योर्वशी चाश्रयेत् |
भूर्जे मन्त्रममुं विलिख्य सकलं साध्याह्वयासम्पुटं प्राप्तप्राणमथाष्टकोत्तरशतं जप्तं त्रिरात्रं पुनः |
क्षौद्रक्षीरघृतेष्विदं पृथगपि प्रक्षिप्य मन्त्रं जपन्नाकर्षत्यचिरादभीष्टवनितां नागादिलोकादपि |
आलिख्यैव शरावके मनुमिमं तन्नामकर्मान्वितम् |
रात्रौ रोचनया प्रणीतपवनं जप्त्वा च साष्टौ शतम् |
तस्या नाभिमुखाङ्गजन्मभवनं सन्तापयन् खादिरे वह्नौ चैतमनङ्गवेगविवशा या वा समयाति च |
नाभिमात्रजले स्थित्वा साध्यनामविदर्भितम् |
जपेत् सहस्रं त्रिदिनमिष्टामाकर्षयेद् ध्रुवम् ||
इत्याकर्षणम् |
कपिरोमहिङ्गुदार्वीखरचर्माणि चूर्णयेत् |
तच्चूर्णं मन्त्रसञ्जप्तं नामकर्मविदर्भितम् |
त्रिसहस्रं पुनस्तेन स्निग्धयोरन्तरात्मनोः |
धूपैरतीव विद्विष्टौ स्निग्धावपि भविष्यति |
तालपत्रे लिखेन्मन्त्रं नामकर्मविदर्भितम् |
कृतप्राणप्रतिष्ठान्तं प्रजप्तं त्रिसहस्रकम् |
विषालिप्तं द्विधा कृत्वा निखनेत् सिन्धुतीरयोः |
स्निग्धयोराशु विद्वेषः स्यादुमेशानयोरपि |
सिन्धुतीरयोः नद्युभयतीरे |
उलूककाकयोः पक्षौ गृहीत्वा मन्त्रवित्तमः |
मन्त्रे आलिख्य वै शरावे निशायाञ्च साध्याक्षरसम्पुटितं मन्त्रं स्थापितपवनं सहस्रजप्तं चतुष्पथे निखनेत् |
स्तम्भनमेतदवश्यं भविता जगताञ्च नात्र सन्देहः |
स्थापितपवनं कृतप्राणप्रतिष्ठम् ||
कृत्वा प्रतिकृतिमथवा श्मशानाङ्गारकेशशववसनजां सपदि सम्यगधिष्ठितपवनां हृद्गतनाम्नीं समन्त्रललाटां वसनाधिष्ठितपवनां सहस्रजप्तां प्रतिष्ठितप्राणाम् |
बन्धनं प्रति तीक्ष्णतरं स्तम्भनमतितीक्ष्णाम्बुनिक्षिप्ताम् |
लिखितमन्त्रचितामयकीलकं सहितकर्म सनाम समारुतम् |
कृतजपं त्रिसहस्रकसंख्यायाः पथिस्वनेदथ याननिवारणम् |
विहितनिम्बतरौ रिपुनामयुतं मनुमिमं निशया कृतनामकम् |
नवसहस्रजपादिषु साधितं पथि खनेत् परसैन्यनिरोधनम् ||
इति स्तम्भनम् ||
अङ्गारकं पितृभुवो रिपुनैधनर्क्षे जप्त्वा विनिर्मितमिदं पितृभूगताग्नौ |
दग्ध्वा च तब्भसितमिश्रितमात्रशत्रोरालिख्य नाम मनुकर्मयुतं स्वमूर्द्ध्नि |
क्षिप्रं स चालयति चाष्टसहस्रजप्तं जप्त्वा शिवे कुजदिने सचतुर्दशीके |
कर्माह्वयमानम्पुटं मनुम् |
सहस्रजप्तं निखनेद् द्विषां गृहे द्वारे तदुच्चाटनमाशु जायते |
निरस्य काकनिलयं पितृभूगताग्नौ दग्ध्वा च तद्भसितमिश्रितमन्त्रिशत्रोः |
आलिख्य नाम मनुमर्मयुगस्य मूर्ध्नि प्रोच्चाटयेच्चाष्टसहस्रजप्तम् |
जप्त्वा शिवे कुजदिने सचतुर्दशीके कर्माह्वयाढ्यमनुना त्रिसहस्रजप्तम् |
दत्तं विधाय रिपुमूर्ध्नि विनिक्षिपेच्च प्रोच्चाटयेद्रिपुमसौ द्रुतमाशु चैतत् |
श्मशानजे चेले वा रिपुनामकर्मसंयुक्तं मन्त्रपञ्चसहस्रजप्तम् |
द्वारि क्षिपेदमुकामुकस्य शत्रोरुच्चाटयेत् सप्तदिनान्तराले |
कीलं चिताकाष्ठ मयञ्च मन्त्री कर्मान्वितं चाष्टसहस्रसंख्यम् |
मन्त्र्ण जप्तं निखनेदरातिगेहे तमुच्चाटयति क्षणेन |
उन्मत्तरसालोचितामसीसकारूपक्षणविधिना |
कारस्करफलकान्तमनुं लिखेत् कर्मनामसम्पुटितम् |
स्थाप्य प्राणानस्मिन् द्विषतोऽष्टविषानुलिप्तसंसिद्धम् |
तत्रैव सहस्रजप्तं श्मशानदेशे चतुष्पथे वापि |
निखनेदरिभवने तदष्टमर्क्षे रिपोः क्षिप्रं देशान्तरमथवासौ |
मस्येति तेनोद्विजितलोकान्तरं सदा रोगी ||
इत्युच्चाटनम् ||
मन्त्रं साध्यस्य नाम प्रतिपुटितमथालिख्य तालस्य पत्रे पुत्तल्यां तन्निधायार्पितपवनमथो जप्तमष्टौ सहस्रम् |
रात्रावुन्मत्तदीप्ते पितृवनजनिते तीक्ष्णतैलेन लिप्तं छित्वा छित्वा निशार्द्धे त्रिदिनपरिमिते मोहयेन्मारयेद् वा |
मध्यार्कवृक्षकृतरूपमधिष्ठितेऽनुजप्तं सहस्रमपि कीलयति श्मशाने |
मन्त्रेण दारयति साधितमन्त्रमङ्गं यद्यद्रिपोरपि विनश्यति तत्तदङ्गम् |
वैरिप्रस्रवमृत्तिकापदरजःसंयुक्तचक्रीमृदा कृत्वा पुत्तलिकाञ्च नाम हृदये शीर्षे पदे वा लिखेत् |
अङ्गारैः पितृभूगतैर्मनुमिमं तन्नामकर्मान्वितम् |
तस्य न्यस्य हृदीदमाशु पवनं संयुक्तचक्रीमृदा |
कृत्वा पुत्तलिकाञ्च नाम हृदये शीर्षे पदे वा लिखेत् |
अङ्गारैः पितृभूगतैर्मनुमिमं तन्नामकर्मान्वितं तस्य न्यस्य हृदीदमाशु पवनं जप्यात् सहस्रत्रयम् |
सञ्छित्त्वैवमखण्डितेन शतधा शस्त्रेण तां पुत्तलीं याम्याशाभिमुखो दिनानि दशभिर्दीप्ते श्मशानानले |
तैलं तीक्ष्णतरण् निषिच्य जुहुयात् नैधन्य-ऋक्षेऽथवा मन्त्री प्रेतपतेः पुरं द्रुतमसौ यास्यत्यरातिर्ध्रुवम् |
नैधन्य-ऋक्षे शत्रोर्बधतारायाम् |
अङ्गारवारे कुलिकोदयेरिपोरालिख्य पत्रे प्रतिमां प्रतिष्ठिताम् |
प्राणान् प्रतिष्ठाप्य विषानुलिप्तां श्मशानभूमौ जुहुयाद्विनश्येत् |
रिपोः प्रतिकृतिं कृत्वा गोमयेन च तद्धृदि |
तालपत्रे समालिख्य मनुमाख्याविदर्भितम् |
विन्यस्य तत्प्रतिकृतेः स्थाप्योपरि च राजतम् |
मृण्मयं वा घटं सम्यग् गोमयेन च पूरितम् |
तत्रापि निक्षिपेन्मन्त्रं लिखिताख्यपुटं बुधः |
वैरिप्राणान् प्रतिष्ठाप्य तस्मिन् गोमयवारिणि |
त्रिसन्ध्यं प्रजपेत्तस्मिन् छायायामाद्भविष्यति |
दृष्ट्वा तां गोमयजले रिपुच्छायां समाहितः |
अस्त्रेण छेदयेदङ्गं यस्य यद्यदभीप्सितम् |
तत्तद्विनश्यति रिपोः सप्ताहान्नात्र संशयः |
हृदयोदरकण्ठेषु छिन्नेषु भविता मृतिः |
शिरोरोगो भवेत्तस्य व्रणे शस्त्रेण मस्तके |
शुण्ठी हिङ्गु च चित्रकं मरीचं रोहिपिप्पली |
मन्दीबधूमयूरकल्पं प्रोक्तमेतद्विषं बुधैः |
कारस्करमामलकीमौडुम्बरजम्बूखदिरकृष्णा च |
वंशपिप्पलनागौ रोहिणमलिनासनभ्रुमालिकाः |
अरिष्टबिल्वविकङ्कतकदम्बवकुलत्वक्संज्ञाः |
वञ्जुलपनसार्कशमीकदम्बनिम्बप्रकाशमूलञ्च |
ततः सहस्रमनुमादरात् जपति यः स रमाभवनं भवेज्जपविधौ कपीसीकुसुमैः |
सिद्धजपे तु कुक्कुटमन्वहम् अष्टोत्तरं मनुमिमं प्रजपेत् सहस्रं ध्यायेन्महेशमनुकुक्कुटरूपकण्ठम् |
पञ्चार्चितोऽस्य भवनञ्च मनोरथाद्यैरापूर्यते बहुविधैरपि वत्सरेण |
नित्यं ग्न(?) त्युषसि प्रतीतमनसा पादेन भूधारिणा रत्नान्येव समन्ततः स्वपुरतः पर्याक्षिपन्तं मुहुः |
ध्यात्वा कुक्कुटमीशरूपमथवा भूत्यैव माया स्वयम् |
भक्त्या यः प्रजपेदुपेन्द्रमितरं प्राप्येन्दिरा लक्षयेत् |
तत्त्वेन खण्डीकृततालवृत्तां क्ष्मां छादयेत्तां फलरत्नखण्डैः |
ध्यात्वा मनुं स्वं नयने जपेद् यो विद्विष्टमाखण्डलवत् समेति |
दोधूयमानो निजपक्षपत्रवत् परार्द्धरत्नं किरणकनकरागपुष्पम् |
ध्यात्वा सुनिर्नियतमेव मनुं प्रजप्य प्रौढां श्रियं भृशमवाप्स्यति रत्नपूर्णाम् |
भूमौ काञ्चनमृत्तिकापदरजोराजीं किरन्तं मुदा कूजन्तं चरणेन धान्यनिचयानाकीर्य चञ्चादिना |
सञ्चिन्त्योज्ज्वलताम्रचूडमरुणं किञ्चित् समाकुञ्चितग्रीवं यः प्रजपेदमुष्य भवनं धान्यादिभिः पूर्यते |
दशौषधदग्धभसितमनुनामुना कृतजपं निशि वसाधृतम् |
दुरितरोगविषभूतभयापहं भजतां वशीकरणमतीव रमाकरम् ||
स्थलजेन्धनचर्मभसितं त्रिधा विधिवत् सहस्रजप्तमभिरक्षति चाखिलम् |
भूर्जपत्रमभिलिखितनाममात्रकं नरमाशु रक्षति धृतं जपान्वितम् |
मनुना तण्डुलमनुना |
सहस्रजप्तं तद्वत् कुक्कुटं यो वेत्ति सोऽसौ |
कुक्कुटसङ्घान् स्वकीयान् युद्धे जेष्यति क्षिप्रम् |
स्मृत्वा सहस्रमपि सञ्चिन्त्य कुक्कुटं जपेत् |
जेष्यति सपदि रणे स्वभटे चरणायुधैः समायातः |
बहुना किमत्र मनुना लिखितं परिवाञ्छितं सपदि साध्यतरम् |
अचिरेण तस्य भवने जपतो वसतिं प्रयाति कमला विमला |
इति जपनिरतानां कुक्कुटं लक्षयित्वा क्षपणकमनिवाहक्षिप्तभूतारिपक्षः |
त्वरितनिवहपक्षक्षेपकः सर्वभक्ष्य प्रणतसुजनरक्षी वीक्षितानां स्वपक्षः |
निखिलमभिमतानामर्थिनां कल्पवृक्षः सुरवरनरनारीरञ्जनाकृष्टिदक्षः |
अनन्तं बिन्दुसंयुक्तं पुङ्कोलिद्वितयं ततः |
वां शक्तिश्चाथ पुङ्कोलियुगलं विलिखेत्ततः |
वुकारं वरुणारूढमनन्तं वासबिन्दुकम् |
क्रोशन्तमुद्धरेन्मन्त्रं कुक्कुटं सुमनोहरम् ||
इति कुक्कुटप्रयोगः ||
अथोच्छिष्टाचाण्डालीप्रयोगः ||
तत्रैव षष्ठपटले ||
श्रीपार्वत्युवाच ||
सूचिता मे पुरा शम्भो ! मन्त्रा नैकविधास्त्वया |
इदानीं श्रोतुमिच्छामि देवीमुच्छिष्टपूर्विकाम् ||
शम्भुरुवाच ||
शृणु देवि ! वरारोहे ! देवीं तां कथयाम्यहम् |
यया विज्ञातमात्रेण अभूद्विद्यामयो नरः ||
श्रीदेव्युवाच ||
को विधिः किं फलं चास्या मयि विद्यास्वरूपतः |
कथ्यतां देव ! यत्नेन रहस्येनं निवेदितम् ||
शम्भुरुवाच ||
शृणु देवि ! विधिं वक्ष्ये फलञ्चोच्चाटनादिकम् |
विषञ्च स्थावरं देवि ! विद्याभावान्निहन्ति च |
अथान्यत् सम्प्रवक्ष्यामि देवीं गुह्यतमां प्रिये ! |
उच्छिष्टपूर्विकां देवीं मातङ्गीं सर्वसिद्धिदाम् |
सर्वपापहरां देवीं सर्वदोषविवर्जिताम् |
यया विज्ञातया एकाः क्षयंगच्छन्ति चापदः |
स्थावरं जङ्गमञ्चैव कृत्रिमं जङ्गमं तथा |
विषं जयति देवेशि ! स्थावराङ्गसमाश्रितम् |
इयं विद्या पराविद्या सर्वपापविनाशिनी |
स्वर्गदा मोक्षदा चैव राज्यसौख्यफलप्रदा |
इयं देवी मया पूर्वं साधिता विषवर्जिता |
सकृदुच्चारिता विद्या ब्रह्महत्याविशोधनी |
सर्वपापविहन्त्रीयं सर्वसौभाग्यदायिनी |
यद्युच्छिष्टमुखो भूत्वा स्मरेद्देवीं कदाचन |
तदाचान्तो भवेद्देवि ! विनैवाचमने कृते |
दुर्भगा सुभगा नूनं दुःखिता सुखिता भवेत् |
बन्ध्यापि लभते पुत्रं शतहायनजीवितम् |
निर्धनो धनमाप्नोति मूर्खो विद्यामवाप्नुयात् |
यां यां प्रार्थयते सिद्धिं हठात्तां तामवाप्नुयात् |
विधानं ह्यत्र वक्ष्यामि शृणु देवि ! मनोरमे ! |
भोजनानन्तरं देवि ! विनैवाचमने कृते |
बलिं दत्त्वा प्रथमतो मूलमन्त्रेण साधकः |
ततो मन्त्रं जपेद्ध्यात्वा देवीं तामिष्टसिद्धये |
मन्त्रं शृणु महादेवि ! यथावत् कथयामि ते |
नम उच्छिष्टपूर्वन्तु तथा चाण्डालिनीति च |
सुमुखी च ततो देवी कीर्तयेत्तदनन्तरम् |
महापिशाचिनी तस्माल्लज्जावीजमतः परम् |
नादबिन्दुसमायुक्तं ठकारद्वितयं पुनः |
सविसर्गं महादेवि ! सर्वसिद्धिप्रदायकम् |
न तिथिर्न च नक्षत्रं नोपवासो विधीयते |
नाङ्गन्यासकरन्यासौ न वर्णन्यास ईरितः |
न विदेशो न वा विघ्नो नाशौचं नियमो न च |
यस्य तिष्ठति मन्त्रोऽयं न न स विघ्नैरवाप्यते |
ध्यानमस्याः प्रवक्ष्यामि यथावज्जगदीश्वरि ! |
शवोपरि समासीनां रक्ताम्बरपरिच्छदाम् |
रक्तालङ्कारसंयुक्तां गुञ्जाहारविभूषिताम् |
षोडशाब्दाञ्च युवतीं पीनोन्नतपयोधराम् |
कपालकृतकाहस्तां परमज्योतिरूपिणीम् |
बालदक्षिणयोगेन ध्यायेन्मन्त्रविदुत्तमः |
उच्छिष्टेन बलिं दत्त्वा जपेत्तद्गतमानसः |
उच्छिष्टेनैव कर्तव्यो जपोऽस्याः सिद्धिमिच्छता |
उच्छिष्टजपमानस्य जायन्ते सर्वसिद्धयः |
अपरञ्च प्रवक्ष्यामि शृणु देवि ! फलप्रदम् |
होमं सन्तर्पणञ्चास्याः सहसा कार्यसिद्धये |
स्थण्डिले मण्डलं कृत्वा चतुरस्रं समाहितः |
पूजयेन्मण्डलं देवि ! मूलमन्त्रेण मन्त्रवित् |
ततो देवीं समाधाय वह्निरूपां व्यवस्थिताम् |
देवीं ध्यात्वा चर्द्धोमं दधिसिद्धान्नतण्डुलैः |
सहस्रैकं विधानेन राजा भवति वश्यगः |
मार्जारस्य तु मांसेन यो देव्यै होममाचरेत् |
स प्राप्नोति परां विद्यां शस्त्रशास्त्रवहिष्कृताम् |
कुर्यात्तु छागमांसेन होमं मधुसमन्वितम् |
सहस्रैकं विधानेन भवन्ति धनसिद्धयः |
विद्याकामश्चरेद्धोमं शर्करामधुपायसैः |
पुनस्तस्य भवन्त्येव सिद्धविद्याश्चतुर्दश |
रजस्वलाया वस्त्रेण मधुना पायसेन च |
होमं कृत्वा महादेवि ! त्रैलोक्यं वशमानयेत् |
नागवल्ल्या चरेद्धोमं मधुना सह सर्पिषा |
अयुतैकं विधानेन सिद्धिविद्या भवेद् ध्रुवम् |
सद्यो मार्जारमांसेन घृतेन मधुना सह |
चाण्डालकेशयुक्तेन भवेदाकर्षणं ध्रुवम् |
शशकस्य तु मांसेन मधुनालोडितेन तु |
कृत्वा होममवाप्नोति विद्यां वित्तं वराः स्त्रियः |
धुस्तूरार्कस्य योगेन चितावह्नौ तु मन्त्रवित् |
कोकिलाकाकपक्षैश्च होमः शत्रून् विनाशयेत् |
उच्चाटनाय शत्रूणां होमं कुर्याच्च मन्त्रवित् |
पूर्वोक्तेन विधानेन चिताकाष्ठहुताशने |
उलूककाकपक्षाभ्यां कृत्वा होमं निरन्तरम् |
वेधयेच्छत्रुमन्योन्यं कलहाकुलमुद्धृतम् |
उलूकपक्षहोमेन गर्भपातो वरस्त्रियः |
सहस्रैकं विधानेन कुर्याद्धोमं समाहितः |
बिल्वपत्रेण साज्येन मासमेकं निरन्तरम् |
अपि बन्ध्या लभेत् पुत्रं चिरजीविनमुत्तमम् |
बन्धूककुसुमं हुत्वा रक्तं मधुसितान्वितम् |
दुर्भगाया हठाद्देवि ! सौभाग्यसुखदायकम् |
प्रातरुत्थाय यः कश्चित् कुर्याद्धोमं दिने दिने |
जवापुष्पेण साज्येन शतमष्टोत्तरं प्रिये ! |
षण्मासस्य प्रयोगेण भवेदाकर्षणं ध्रुवम् |
देवगन्धर्वमर्त्यानां कन्या नागाङ्गना द्विजाः |
हठादागत्य कामार्ता बलादालिङ्गयन्ति तम् |
विद्यायाः क्रियते होमस्तिलपायसमिश्रितैः |
स प्राप्नोति महाविद्यां शास्त्रौघपदशालिनीम् |
मधुना रुरुमांसेन होमं कुर्यात् प्रयत्नतः |
विद्यावान् धनवान् बुद्धिं शस्त्रशास्त्रवशीकृताम् |
इयं देवी महादेवि ! वामाचारफलप्रदा |
दक्षिणाचारयोगेण न भवेत् फलदायिनी |
सभाजनान्तरञ्चास्या बलिं दत्त्वा दिने दिने |
उच्छिष्टेन जपेन्मन्त्रं शतमष्टोत्तरं प्रिये ! |
उज्जटे वा श्मशाने वा शून्यागारे चतुष्पथे |
बलिप्रदानतो देवी प्रत्यक्षा भवति ध्रुवम् |
एषा देवी मया ख्याता भैरवाकारमिच्छता |
इत्येषा कथिता देवी सर्वपापापहारिणी |
मन्त्रस्योच्चारणाद्देवि ! सर्वपापविवर्जितः |
उच्छिष्टदूषणं त्यक्त्वा स पवित्रो भवेद् ध्रुवम् |
इत्युच्छिष्टचाण्डालिनी देवी भुवनविश्रुता |
नानाप्रवर्तने काञ्चिद्विद्यां शृणु वरानने ! ||
(श्रीशिव उवाच ||
शृणु देवि ! महाविद्यां समयाकारधारिणीं |
न तिथिर्न च नक्षत्रं न साध्यादिं विचारयेत् |
महादेवीति विख्याता शिवदीक्षान्तगामिनी |
यज्ञोपवीतं देवेशि ! धार्यते साधकेन वै |
उच्छिष्टेनार्चयेद्देवीं महादेवेन साधिताम् |
नान्यमवगतस्तिष्ठेत् सर्वग्रन्थं सुविस्तरम् |
बहुनोक्तेन किं देवि ! त्रैलोक्यमपि साधयेत् |
सदा कालन्तु मन्त्रोऽयं स्मर्तव्यस्त्रिपुरारिणा |
पयोगुडेन भक्तेन मांसेन जुहुयान्नरः |
आयुर्धनञ्च पुत्रांश्च विद्यामष्टादशीं लभेत् |
गोप्तव्येयं प्रयत्नेन कथितव्या न कस्यचित् |
गुरुभक्तिः प्रदातव्या कायेन च धनेन च |
लोकापवादो न च देवि ! पापं नैवापरा तिष्ठति मर्त्यलोके |
मर्त्त्यलोके सुखं भुक्त्वा परे देवीपुरं व्रजेत् |
मोक्षैकसारां धनदैकसारां विद्यैकसारां शृणु देवि ! विद्याम् |
सर्वोपकारां परमार्थसारां महानुभावां भुवि कामधेनुम् ||
इत्युच्छिष्टचाण्डालिनीप्रयोगः ||
मत्स्यसूक्ते अष्टपञ्चाशत्पटले !
ग्राममेधं प्रवक्ष्यामि कृते रोगैर्न बाध्यते |
अकृते मरणं ग्रामे तस्मात् कुर्यात् प्रयत्नतः |
तत्र सम्पूजयेद्देवीं शिवं विष्णुं प्रजापतिम् |
भद्रकालीञ्च क्षेत्रेशं घण्टाकर्णं विशेषतः ||
अथ धूमावतीप्रयोगः ||
फेत्पारिणीतन्त्रे ||
धूमावतीप्रयोगोऽयमधुना कथ्यते मया |
दान्तौ सार्घीशविन्द्वन्तौ बीजे धूमवतीह्द्विठः |
धूमावतीमनुः प्रोक्तो वैरिनिग्रहकारकः |
षडङ्गं जातिसंयुक्तं कल्पयेत्तेन मन्त्रवित् |
पिप्पलादो मुनिश्छन्दो नीवृदेषा च देवता |
विवर्णा च~चला कृष्णा दीर्घा च मलिनाम्बरा |
विमुक्तकुन्तला रूक्षा विधवा विरसद्विजा |
काकध्वजरथारूढा विलम्बितपयोधरा |
सूर्पहस्तातिरूक्षाक्षा धृतहस्ता वरान्विता |
प्रवृद्धघोणा तु भृशं कुटिला कुटिलेक्षणा |
क्षुत्पिपासार्दिता नित्यं भयदा कलहास्पदा |
एवंविधां समाध्यायेत्ततः कर्म समारभेत् |
चतुर्थेन तु वर्णेन षष्ठस्वरयुतेन च |
षड्दीर्घजातियुक्तेन कुर्यादङ्गानि मन्त्रवित् |
जपेत् कृष्णचतुर्दश्यां पुरश्चरणसिद्धये |
उपवासरतो मन्त्री शून्यागारे दिवानिशम् |
श्मशाने विपिने वापि जपेल्लक्षन्तु वाग्यतः |
सोष्णीषः सार्द्रवासाश्च पुरश्चरणकर्मणि |
साध्योपरि मन्त्रमालिख्य तस्मिन् स्थाप्य शिवं व्रजेत् |
अवष्टभ्य शिवं शत्रुनाम्नाथ प्रजपेन्मनुम् |
सहस्रादूर्द्ध्वतः शत्रुर्ज्वरेण परिगृह्यते |
पञ्चगव्येन शान्तिः स्याज्ज्वरस्य पयसापि वा |
मन्त्राद्यक्षरमालिख्य शत्रुनाम ततः परम् |
द्वितीयन्तु मनोः शत्रोर्नामैकं मनुमालिखेत् |
वनेऽयुतं जपेत् शत्रोर्निश्चितं मरणं भवेत् |
कृत्वा मन्त्रे रिपोराख्यां मारणे यामिनीदले |
उत्सादो जायते शत्रोर्मनोरयुतजापतः |
दग्ध्वा काकं श्मशानाग्नौ तद्भस्मादाय मन्त्रितम् |
विरोधिनामाष्टाशासु सद्य उच्चाटनं रिपोः |
श्मशानभस्मना कृत्वा शिवं तस्योपरि न्यसेत् |
विरोधिनामसंरुद्धं कृष्णपक्षे समुच्चरेत् |
महिषीक्षीरधूपञ्च दद्यात् शत्रुविपत्करम् |
महिषीरूपमास्थाय शत्रुं सा विनिपातयेत् |
मन्त्रेणानेन निखनेत्तद्भस्म रिपुमन्दिरे |
शत्रुमुच्चाटयेत्तूर्णं नात्र कार्या विचारणा |
न्यस्य पाणितले शत्रोराख्यानं चितिभस्मना |
वह्नावधो मुखं क्रुद्धः स्थापयन्नयुतं जपन् |
धूमावतीमनुं मन्त्री शत्रुक्षयपरं नयेत् |
प्राग्वत् करतले न्यस्य त्वर्द्धयोर्द्धं रिपोर्न्यसेत् |
जलस्थः प्रजपेत् मन्त्री हुङ्कारान्नाशयेदरीन् |
श्मशानाङ्गारमादाय कृत्वा पुष्पादिनार्चयेत् |
भगलिङ्गं समाभाष्य मनसा कर्म चिन्तयन् |
निम्बकाकच्छदानेकीकृत्य चाष्टशतं जपेत् |
दद्याद्धूपं साध्यनाम्ना सद्यो विद्वेषयेदरीन् |
चिताकाष्ठानले क्षीरहोमाच्छान्तिः प्रजायते |
रजोधूपप्रदानेन गृध्ररूपेण कालिका |
मारयत्यरिमागत्य शान्तिनिर्माल्यधूपतः |
वराहबालधूपेन हन्याद्वाराहरूपिणी |
अश्वत्थपत्रधूपेन शान्तिर्भवति नान्यथा |
शान्तिः सर्वाभिचारस्य पञ्चगव्येन जायते |
क्षीरेणापि च देवेशि ! मधुरत्रितयेन च |
कीले क्षेडतरोर्विदर्भ्य विलिखेन्मन्त्रेण नामाक्षरं जप्त्वा लेख्यपदद्वये तु निखनेदुच्चाटनं विद्विषाम् |
त्वत्पादद्वयधूलिकीर्णहविषा दत्त्वा द्विजेभ्यो बलिं तज्जप्त्वा चितिभस्मकीर्तितमरेर्गेहे च तद्वद्भवेत् |
वायव्ये विलिखेच्च पर्णसहितं जप्तं सहस्राधिकम् |
जप्त्वा वायुसुरा शिवाक्षदकृशत्वे वा न तद्रोधकम् |
चूर्णं तस्य च पल्लवे विनिहितं जप्तं सहस्राक्षरं कान्तं शत्रुगृहेषु तच्छिरसि वा तेषां कुलोच्चाटनम् |
जप्त्वारामे श्मशाने च निर्माल्ये पदगोचरे |
गर्दभावासभूमौ च भूतस्थाने चतुष्पथे |
ऊषरे मेहनाभूमौ पुष्पितावासमेघयोः |
आनीय शर्करां मन्त्री दिग्वासा दक्षिणामुखः |
श्मशानलोष्ट्रे निक्षिप्य तत्राग्नौ भर्जयेत्तथा |
चूर्णं तत्तु जपेल्लक्षं प्रक्षिपेच्छत्रुवेश्मनि |
सेनामध्ये च सर्वेषां पक्षादुच्चाटनं भवेत् |
गर्ते पिपीलिकानान्तु पादधूली षडाननान् |
धृतान्नं सप्तरात्रन्तु जुहुयान्मन्त्रविन्निशि |
भ्रमते काकवत् सर्वां महीमामारणाद्रिपुः |
कृत्वा प्रतिकृतिं शत्रोर्जन्म-ऋक्षेण मन्त्रवित् |
कृत्वा प्रतिष्ठां प्राणस्य विद्ध्वा मर्मसु कण्टकैः |
आयसैर्मन्त्रमावर्त्य भौमवारोदयादिषु |
धुस्तूररससम्पिष्टचिताङ्गारेण मन्त्रिणा |
नित्यस्य पृष्ठतो बद्ध्वकेशपाशेन तं जपेत् |
श्मशाने शत्रुमाहूय तद्गृहे निखनेन्निशि |
विद्वेषणं भवेत् सद्यो गौरीशङ्करयोरपि |
अश्वत्थत्वचि मन्त्रार्णैर्दर्भितं साध्यमालिखेत् |
अन्यद्विषतरोस्तद्वज्जप्त्वा तत्कृत्यया न्यसेत् |
पूर्वोक्तकण्टकैविद्वान् जपेत् पिष्ट्वा शतं शतम् |
विद्विष्टौ भवतस्तौ तु नाम्नामपि च तत्क्षणात् |
वर्णांस्तान् विलिखेद्विषाख्यमभितः कोणेषु मन्त्राक्षरैः संरुद्धान् परितः प्रभञ्जनगृहं मध्ये च साध्यं पृथक् |
अङ्गारैः कनकोद्भवैरपि पदैर्मन्त्रं जपंस्ताडयेत् |
कार्पासेन रणे कुजार्कदिवसे भूलोकविद्वेषणम् |
आपाद्य पूर्वां मुर्तिञ्च शत्रोरालिख्य शोधयेत् |
आतपे निशितां जप्त्वा वह्नेरुपरि लम्बयेत् |
एवं सप्तदिनं द्रव्यैराजप्यालिख्य शोधयेत् |
व्योमाग्निलशुलोन्मत्तहिङ्गुसिद्धार्थशूरणैः |
पिण्डैर्लवणसम्भूतैरुन्मत्तद्रवसङ्गतैः |
पेषयित्वा तेन सम्यग् लिखेन्मन्त्री मनुं जपेत् |
बलिमध्ये खनेत् कीलं युक्तरूपं तथोपरि |
वह्निं प्रज्वाल्य तद्ध्युच्चैर्गव्ययुक्तं हुमेज्जपेत् |
निक्षिप्य प्रतिमां तत्र जपेन्नित्यं महामनुम् |
सप्तविंशं ततः कुण्डं शून्यागारे च वा हुमेत् |
त्रिकोणशूलदीप्ताग्रमेखलात्रितयान्वितम् |
तत्रापि निखनेत् कोलं वह्निं प्रज्वाल्य पूर्ववत् |
ततः प्रतिकृतिं मन्त्री वह्नेरुपरि लम्बयेत् |
उक्त द्रव्येण संलिप्त्वा ऊर्द्ध्वपादामधोमुखीम् |
रक्तद्रव्यैः समाराध्य प्रज्वाल्य विषवृक्षजैः |
इन्धनैः प्रतिमायाञ्च समित्प्रज्वलितां हुमेत् |
आवरणादिभिरामर्त्यो लयं याति न संशयः ||
इति धूमावतीप्रकरणम् ||
अथ कृत्यापरिमलप्रयोगः |
त्रयोदशपटले ||
अथातः संप्रवक्ष्यामि मन्त्रं परिमलात्मकम् |
येन विज्ञानमात्रेण नासाध्यं भुवनत्रये |
रुद्रजाया महायोगी नतो गौरीपदं वदेत् |
भुवनभयङ्करीति पदं वर्मान्तमुच्चरेन्मनुम् |
अथवा प्रथमादन्यमथातो ब्रह्मणः पदम् |
परिमल इत्यादि ब्रह्माद्यखण्डपरिमलः |
षड्दीर्घयुक्तबीजेन मन्त्रार्द्धेनास्त्रयोगिणा |
हृदयञ्च ततोऽर्द्धेन वर्मास्त्रेण शिरः क्रमात् |
शिखाकवचनेत्रास्त्रमेवं न्यासक्रमः स्मृतः |
अङ्गिरा च ऋषिर्देवी गायत्रीच्छन्द ईरितम् |
सिंहवक्त्रा च भूतानां भयङ्करिण्यतः परम् |
महाकृत्या देवता चेत्युक्त्वा न्यासं समाचरेत् |
सिंहाननां कृष्णमुखीं लम्बमानपयोधराम् |
दंष्ट्राकरालवदनां त्रिनेत्रां सर्वतोज्ज्वलाम् |
कृष्णकञ्चुकसंवीतां विधूमाग्निसमप्रभाम् |
त्रिशूलचक्रमुषलखट्टाङ्गकरपङ्कजाम् |
लेलिहानां महज्जिह्वां विद्युत्प्रेक्षसभीषणाम् |
ध्यात्वा कृत्यां विधानेन पूजयेन्मन्त्रवित्तमः |
ध्यात्वा कृत्यामर्चयति रक्तैः पुष्पैश्च वश्यके |
कृष्णा मारणकृत्येषु मांसरक्तासवैस्तथा |
कृत्याञ्च मदनां सर्वकुल्यां स्वञ्छादिनीं तथा |
भीषणां श्रीमतीं चैव प्रतिष्ठाञ्च ततः परम् |
विद्यामभ्यर्चयेदष्टपत्रेषु क्रमशः सुधीः |
पूर्वे तु शाङ्करीनाम शुक्लवर्णां वरान्विताम् |
द्विभुजां सौम्यवदनां पाशाङ्कुशधरां शिवाम् |
दक्षिणे भीषकानाम लम्बजिह्वां सुधामुखीम् |
कृष्णवर्णां रक्तमुखीं रक्तमाल्यानुलेपनाम् |
चतुर्भुजां सिंहनादाह्लादकाञ्च कपालिनीम् |
खड्गहस्तां शिरोमालां सर्वाभरणभूषिताम् |
पश्चिमे वारुणीनाम स्वर्णवर्णां हसन्मुखीम् |
सुरुद्रमालिकां शुभ्रदंष्ट्रामभयदां सदा |
उत्तरे भीमिकानाम चतुर्वर्णभयङ्करीम् |
पूजयित्वा जपेन्मन्त्रं नित्यमष्टोत्तरं शतम् |
अवाप्य विनियोगस्तु कर्तव्यो मन्त्रिणा सदा |
कालं विदित्वा प्रतिमां मधूच्छिष्टेन कारयेत् |
द्वादशाङ्गुलं तत् शत्रोर्नखलोमसमन्वितम् |
हृदये नामधेयञ्च फट्कारं सर्ववर्मके |
अमुष्य प्राण इह चामुष्य जीव इह स्थितः |
अमुष्य सर्वेन्द्रियाणि तथा चामुष्य वाङ्मनः |
चक्षुःश्रोत्रघ्राणप्राणानिहानयत्वग्निबल्लभा |
इति प्राणं प्रतिष्ठाप्य मरिचैर्लेपयेत्ततः |
मृतब्राह्मणचाण्डालकेशाभ्यां पादयोः पृथक् |
बद्ध्वा कारस्करमये तोरणे चाप्ययोमुखीम् |
तस्याधो मेखलायुक्तं त्रिकोणं तत्र कुण्डकम् |
तत्र शावं विधायाग्निं परिस्तीर्य शरैस्तृणैः |
विभीतकपरिध्या च कल्पयेद् यस्य मारणम् |
जुहुयान्निम्बतैलाक्तैः काकोलूकस्य पिच्छकैः |
दारयैनं शोधयैनं मारयेत्यभिधाय च |
अष्टोत्तरशतेनैव मनुना विधिना बुधः |
होमान्ते विधिवत् कृत्यामाराध्याग्नेश्च सन्निधौ |
यो मे एकस्थगृहोऽतिदूरस्थो वान्तिकेऽपि च |
पिव कृत्येऽसृक् तस्य हुमित्युक्त्वा निवेदयेत् |
संरक्षाग्निं विधानेन नवरात्रं समाचरेत् |
हुमेद् यावत्तावदस्य भवेदेव रिपोर्मृतिः |
अर्कक्षीरेण मरिचं पिष्ट्वा सिद्धार्थमेव च |
जले संलोड्य मन्त्रेण रिपुं ध्यात्वा निरुद्धदृक् |
कृष्णाम्बरोत्तरीयाग्रं पादेनाक्रम्य तद्रिपुम् |
वज्रं शूलमिति ध्यात्वा तस्योपरि विनिक्षिपेत् |
नवरात्रान्तरे शत्रुर्म्रियते नात्र संशयः |
दूरसिद्धे चितावह्नौ तैलासक्तैर्विभीतकैः |
जुह्वतो म्रियते शत्रुः सत्यमौशनसोदितम् |
रिपोः प्रतिकृतिं कृत्वा साध्यर्क्षफलकेऽमले |
अर्कक्षीरेण मरिचं पिष्ट्वा तत्रैव लेपयेत् |
फट्कारं हृदये कृत्वा शिवं निर्माय धूपकैः |
क्षिपेत् कृष्णचतुर्दश्यां जप्त्वा मन्त्रं सहस्रशः |
सद्योऽवगाहनं कृत्वा कुर्याद् यस्यात्मरक्षणम् |
मन्त्रं जप्त्वा विधानेन भेदयेत् सह मुद्रया |
षण्मासात् म्रियते शत्रुः सन्ध्ययोरुभयोरपि |
वायुना चोद्धृतं पर्णं शुष्कं वैभीतकं ततः |
गृहीत्वा च लिखेन्मन्त्री कृष्णसर्पस्य शोणितैः |
नामधेयं रिपोरन्ते वायुबीजं प्रयोजयेत् |
निखनेत्तस्य गेहे तु काकवक्त्रामये ध्रुवम् |
वातोद्धूतैः शुष्कपर्णैः काष्ठैरशनिपातितैः |
उष्ट्रास्थि च नवाङ्गारैः शत्रोरुच्चाटनं हुमेत् |
दूर्वागुडूचीं गन्धेन सर्पिषा तिलतण्डुलैः |
अन्नः समिद्भिः पालाशैः शान्तिं कुर्याद्विचक्षणः |
लक्ष्मीं बिल्वफलैः पत्रैर्नन्द्यावर्तैः श्रिये तथा |
वज्रपत्रैरपामार्गैरङ्गारैश्च सुभद्रकैः |
मधुरत्रयसंयुक्तैरेभिः कुर्यात्तु वश्यकम् |
उत्तमे पनसे तन्त्रे वासवस्यापि कथ्यते |
शान्तिं कृत्वा विधानेन जपेत् परिमलं त्विदम् |
महाव्याधिप्रशमनं नित्यमष्टाधिकं शतम् |
जपेदेकाग्रचित्तस्तु लोकवश्यकरं शुभम् |
मनसा चिन्तयेदेतां गजारूढां वियत्स्थिताम् ||
तस्य वश्या भवेत् क्षिप्रमश्वारूढा तथा भवेत् |
चौरव्याघ्रमृगादीनां सलिलादिभयापहाम् |
सकृत् श्रवणमात्रेण सर्वपापविनाशनम् |
सप्ताभिमन्त्रितं तोयं पीत्वा नित्यं समाहितः |
मेधावी च भवेद्वाग्मी तावज्जप्त्वाभिषेकतः |
सप्ताभिमन्त्रितं कृत्वा विषमप्यमृतं भवेत् |
मासं पक्षं द्विमासञ्च षण्मासं वत्सरन्तु वा |
एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् |
अथ वक्ष्ये विशेषेण महाशान्तिविधिक्रमम् |
सर्वसिद्धिकरं पुण्यं सर्वपापविनाशनम् |
सर्वमुद्रापहरणं सर्वारिष्टविनाशनम् |
महाव्याधिप्रशमनमपस्मारविनाशनम् |
योगिनीभूतवेतालाः प्रेतकुष्माण्डपन्नगाः |
तत्र स्थाने न तिष्ठन्ति डाकिन्याद्या विशेषतः |
कृत्यामभ्यर्चयेद्वत्स ! यथाविधिपुरःसरम् |
षोडशारं लिखेत् पद्मं योनियुग्मं सबिन्दुकम् |
तन्मध्येऽष्टदलं लिख्य यकारादीन् न्यसेत् क्रमात् |
तन्मध्ये रसकोणन्तु लिखेन्मूलमनुं स्मरन् |
चन्द्रबिम्बं लिखेन्मध्ये तस्योर्द्ध्वे प्रतिमां लिखेत् |
तस्य मध्ये न्यसेत् कुम्भं वने स्रग्दामभूषिताम् |
तस्य मध्ये न्यसेत् कृत्यां सर्वलक्षणसंयुताम् |
पूजयेच्च यथान्यायं पायसन्तु निवेदयेत् |
परितोष्य घटे न्यस्य चासिताङ्गादिभैरवान् |
असिताङ्गो रुरुश्चण्डः क्रोधीशोन्मत्तभैरवः |
कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः |
गन्धपुष्पादिनाभ्यर्च्य तद्वाह्ये क्षेत्रपालकान् |
लोकपालं यजेद्देवीं तदग्रे होममाचरेत् |
जुहुयादाज्यापापामार्गावक्षताभिरमर्षणः |
दूर्वाग्रखदिराश्वत्थं प्रत्येकन्तु शताधिकम् |
कुण्डे वा स्थण्डिले वापि होमकर्म समाचरेत् |
तस्य दक्षिणपार्श्वे तु लक्ष्मीं ध्यायेद् यथाविधि |
कुण्डमध्ये न्यस्येद्देवीं दक्षिणे तु श्रियं स्मरेत् |
वामपार्श्वे स्मरेद्देवीं हृल्लेखां परमेश्वरीम् |
तस्यैव वामपार्श्वे तु पूजयेद्दश नायकान् |
अयुतं मूलमन्त्रञ्च जपेन्मृत्युविनाशनम् |
अयुतं भ्रूणहत्यायां जपेत् परिमलं विदुः |
महाव्याधिप्रशमनं तावज्जप्त्वाभिषेकतः |
एवं यः कुरुते मर्त्त्यः पुण्यां गतिमवाप्नुयात् |
येन ज्ञातं परिमलं यस्य वक्त्रे स्थितं सदा |
तस्यावश्यं निवेद्येत व्याधिभ्योऽपि भयं न हि |
इत्यादिविधिना चन्द्रे ज्ञेयः परिमलो विधिः |
महाशान्तिकरः पुंसां दुःखादिविघ्ननाशनः ||
इति कृत्यापरिमलः ||
अथ जयदुर्गा |
चतुर्दशपटले ||
दुर्गे दुर्गे पदं चोक्त्वा रक्षणीति पदं ततः |
तारादिवह्निजायान्तो जयदुर्गामहामनुः |
जातिमध्यगतं कृत्वा न्यसेन्मन्त्रपदं बुधः |
रक्षाकरीयं कथिता जयदुर्गा वर्मसंयुता |
श्यामां त्रिलोचनां दुर्गां ध्यात्वा त्वेनां चतुर्भुजाम् |
शङ्खं चक्रं शरं शूलं वहन्तीं रौद्ररूपिणीम् |
युद्धे च व्यवहारादौ जयेदेतज्जपान्नरः |
जयां श्रीं पूजयेन्नित्यां शङ्खञ्च छुरिकां तथा |
जयदुर्गामनुः प्रोक्तः कथ्यते चापरो मनुः |
नमो भगवतीत्युक्त्वा ज्वालामालिन्यतः परम् |
गृध्रगणपरिवृते द्विठस्तारादिरीरितः |
ओं नमो हृदयं प्रोक्तं भगवति शिरस्तथा |
ज्वालामालिनी शिखा गृध्रगणपरिवृते ततः |
कवचं स्वाहास्त्रमित्येतत् जातियुक्तं न्यसेत्तनौ |
अयुतं नियुतञ्चैतज्जयमन्त्रं यजेज्जयी |
रुद्राङ्गनाग्निजायाभ्यां रुद्ध्वा ज्वालामुखीत्यपि |
मन्त्रान्तरं समाख्यातं ज्वालामुख्यामनुत्तमम् |
दीपतैलाक्तपादोऽर्द्धरात्रे गुरुदिनादितः |
जपेदष्टसहस्रन्तु त्रयोविंशतिवासरान् |
प्रत्यहं सा रौप्यषट्कं ददातीति न संशयः |
नारायणीयं कथितमगस्त्यैर्नवधा पुनः |
दुर्गा नवप्रकाराख्या नवदुर्गा विशेषतः |
सुसिद्धिमिच्छता गोप्यो मानवेन समीरयेत् |
पुरोऽपि नृपतेऽद्यापि धार्मिकस्य न्यशेषतः |
नवदुर्गाविधानन्तु दर्शयेत् कर्मगौरवात् ||
नृपश्च सम्यगाराध्य मन्त्रञ्च विविधैर्धनैः |
भक्त्या सन्निहितं कुर्याद्रक्षार्थं नित्यमादरात् |
आपत्स्वयं प्रयोक्तव्यो मारणादौ विशेषतः |
ततो मन्त्री प्रयत्नेन प्रकुर्यान्मारणक्रियाम् |
परैर्दुर्द्धर्षितो मन्त्री राज्ञे सर्वं निवेदयेत् |
निवेद्य विधिवत् पश्चात् मन्त्रवर्षेण निर्दहेत् |
स्मृतिमात्रेण वै मन्त्री रिपून् सर्वान् विनाशयेत् |
प्रदद्यादम्बिकां तस्मै सहस्रं शतमेव वा |
गवां सुवर्णनिष्काणां भूमिं वा शस्यशालिनीम् |
सर्वशान्तिमवाप्नोति सर्वरक्षाकृतिर्भवेत् ||
इति फेत्कारिणीतन्त्रे जयदुर्गागृध्रगणपरिवृताज्वालमुखीप्रयोगः ||
इति श्रीप्राणतोषिण्यां चतुर्थे काम्यकाण्डे कुक्कुटोच्छिष्ट- चाण्डालिनीधूमावतीकृत्यापरिमलजयदुर्गागृध्रगण- परिवृतज्वालामुखीप्रयोगरूपपल्लवकथनं नाम चतुर्थः परिच्छेदः ||

अथ दुर्गोत्सवः ||
मत्स्यसूक्ते महामन्त्रे उपरिभागे एकचत्वारिंशत्पटले ||
भगवानुवाच ||
अथ चाश्वयुजे शुक्लपक्षमासाद्य नन्दिकाम् |
समाराध्य ततो दुर्गां हविष्याशी जितेन्द्रियः |
कृत्वा स्रोतोजले स्नात्वा तस्यास्तीरे समर्चयेत् |
तस्या इति स्त्रीलिङ्गनिर्देशान्नद्यास्तीरे समर्चयेदित्यर्थः ||
पूजाप्रकारोऽपि तत्रैव ||
नन्दायां पूजयेत् कुम्भे द्वितीयायाञ्च पुस्तके |
तृतीयायां तथा खड्गे चतुर्थ्यां केशशोधनम् |
पञ्चम्यां सूर्यबिम्बे च षष्ठ्यां बिल्वस्य मूलके |
सप्तम्यां पत्रिकायान्तु अष्टम्यां प्रतिमासु च |
ज्येष्ठानक्षत्रयुक्तायां षष्ठ्यां बिल्वाभिमन्त्रणम् |
मूलाद्यपादे सप्तम्यां पत्रिकायाः प्रवेशनम् |
पूर्वाषाढायुताष्टम्यां देवी पूज्या महोत्सवैः |
उत्तरेण नवम्यान्तु बलिभिः पूजयेच्छिवाम् |
श्रवणान्ते दशम्यान्तु प्रणिपत्य विसर्जयेत् |
एतेन देवीपुराणोक्तस्य कन्यासंस्थे रवौ शक्रशुक्लामारभ्य नन्दिकामिति वचनस्य षष्ठीतः प्रभृति नवमीपर्यन्तं पूजेयमित्येकत्वेनोक्तमिति स्मार्तभट्टाचार्यव्याख्यानम् |
नन्दिकाप्रतिपदिति दुर्गाभक्तितरङ्गिण्युक्तं युक्तमिति वाच्यम् |
महानवमीविहितषष्ठ्यतिक्रमे मानाभावादिति वचनादेवं प्रतिपदिति दुर्गाभक्तितरङ्गिण्युक्तमेव भद्रमुत्पश्यामः |
केशशोधनमिति सप्तम्यर्थे प्रथमा |
केशशोधनकङ्कतिकायां पूजयेदित्यर्थः ||
नक्षत्राणामभावे कृत्यलोपः स्यादित्याह तत्रैव ||
नक्षत्राणामभावेऽपि षष्ठ्यादिक्रमशस्तथा |
सर्वमेव विधिं कुर्यात्तारालाभे फलोदयः |
फलोदयः विशिष्टफलोदय इत्यर्थः |
अन्यथा नक्षत्राभावे फलाभावप्रसङ्गः स्यात् |
इति प्रतिपदादिकल्पकथनम् |
अथ पूजादिकालस्तत्रैव ||
ज्येष्ठा वाप्यथवा षष्ठी सायंकाले न चेद्भवेत् |
सायमेव तथपि स्याद्बिल्वशाखाभिमन्त्रणम् |
पूर्वां षष्ठीं सनक्षत्रां सायं प्राप्तामपि त्यजेत् |
यदा तु पत्रिकापूजा न परेद्युर्भविष्यति |
सन्निकृष्टन्तु यत् पूर्वं पतितं दिवसस्य च |
तद्दिने वरणं कृत्वा परे शाखां प्रवेशयेत् |
सप्तम्यान्तु यदा षष्ठी निःसृता वा न निःसृता |
वर्द्धते सप्तमी किन्तु दण्डमात्रं परे यदि |
परेऽहनीति शेषः |
मुहूर्तमधिका वापि नवम्यामष्टमी भवेत् |
वर्द्धते दशमी चैव तदा कार्यं यथा शृणु |
न केवलं नवमी दशमी चेति चार्थः |
सप्तम्यां बिल्ववरणमष्टम्यान्तु प्रवेशनम् |
पूजाष्टका नवम्यान्तु दशम्यां प्रेषयेच्छिवाम् |
अत्र केचित् सामान्यविधिप्राप्ततिथिबाधभिया सप्तम्यां बहुकालीनसप्तमीयुतषष्ठ्यामिति व्याख्यान्ति |
तत्र षष्ठी न निःसृतेति वचनमनाकुलं वेति प्रतिभाति |
यदा षष्ठौ च सप्तम्यां अष्टम्याञ्चापि वर्द्धयेत् ||
स्वार्थ इणपाणिनिविदान्तु णिच् वर्द्धेत |
अर्थात् सप्तमीति शेषः |
अष्टमी परगा चैव तद्दिने च दिनक्षयः |
तदा षष्ठ्यां पूर्वदिने बिल्वस्य वन्दनं मतम् |
षष्ठीसंयुक्तसप्तम्यां पत्रिकायाः प्रवेशनम् |
अतिकल्पे तथाष्टम्यां मृण्मयीञ्च प्रवेशयेत् |
अतिकल्पे अतिप्रत्यूषे ||
सप्तम्या संयुताष्टम्यां महापूजोत्सवक्रिया |
नवम्यान्तु बलिं दद्याद्दशम्यां प्रेषयेच्छिवाम् |
नवम्यामष्टमी यत्र नवमी परतो नचेत् |
भवेद् वा दशमीविद्धा नवमी च परेऽहनि |
तदाष्टमीनवम्योश्च द्वयोः पूजाद्वयं किल |
एकस्मिन्नेव दिवसे कर्तव्यं बलिभिः सह |
अष्टका नवमीपूजा त्रिसन्ध्यव्यापिनी परा |
तदा तदा नवम्युक्तं बलिदानं परेऽहनि |
त्रिसन्ध्यव्यापिनी चेत् स्याद् यदा पूर्वदिनेऽष्टमी |
दशमीविद्धनवम्यान्तु कुर्यात् पूजां न संशयः |
अष्टकानवमीयोगो रात्रियोगो विशिष्यते |
अर्द्धरात्रौ शतगुणं सन्ध्यायां द्विगुणं स्मृतम् |
सप्तम्यादिषु पूर्वाह्णे तारायोगो न चेद्भवेत् |
तदाप्यारभ्य पूर्वाह्णे नक्षत्रांशे समापयेत् |
दशम्यां श्रवणो व्यापी तथोत्थाय कृतक्रियः |
प्रातः सम्पूज्य विधिवत् नृत्यगीतपुरःसरैः |
प्रतीक्ष्य श्रावणं कालं प्राप्ते सम्प्रेषयेच्छिवाम् |
यदि नक्षत्रमाश्रित्य सप्तम्यादि त्रिकं स्थितम् |
तदैव श्रवणापेक्षा दशम्यां केचिदब्रुवन् |
श्रवणान्ते गते रात्रौ तदन्ते नवमी दिने |
स्वस्वस्थानोचितं कर्म दक्षिणान्तं समापएत् |
दशम्यान्तु तदप्राप्तौ धनिष्ठायां यथाविधि |
प्रेषयेद्भगवतीं दुर्गामशेषैः शारदोत्सवैः |
नवमी दशमीयुक्ता श्रवणा तु गता निशि |
तदा सम्प्रेषयेद्देवीं नवम्यां दशमीक्षणे |
अष्टमीदिनपर्यन्ता रात्रौ चेन्नवमी भवेत् |
नवम्यामपि कुर्वीत महापूजां महानिशि |
चन्द्रोदिते निशायान्तु या भवेदष्टमीतिथिः |
महाष्टमीति सा प्रोक्ता देव्याः प्रीतिकरी परा |
ततोऽनु नवमी या स्यात् सा महानवमीतिथिः |
पूजाधारमाह तत्रैव ||
चित्रे च प्रतिमायाञ्च मृण्मययां श्रीफलेऽपि च |
महायोनौ चन्द्रबिम्बे शिलायां योनिमण्डले |
पुस्तके पादुके खड्गे महाबिम्बे तथैव च |
पुण्यक्षेत्रे च गङ्गायां देवीमावाह्य पूजयेत् ||
प्रमाकरणविधिनिषेधावपि तत्रैव ||
न गृही मृण्मयीं कुर्यान्न वै तालमयीं क्वचित् |
त्रिहस्तां तृणगर्भाञ्च विल्वयुग्मे समर्चयेत् ||
न गृही मृण्मयीं केवलमृत्तिकया प्रतिमां न कुर्यात्तथा तालमयीं सार्द्धत्रिहस्तपरिमितां गृही न कुर्यात् |
विधिमाह त्रिहस्तामिति |
त्रिहस्तां प्रतिमामित्यधिकपरिमाणव्यवच्छेदार्थमुक्तम् |
तेन तन्न्यूनप्रतिमाकरणे न दोषः |
मृण्मययाः प्रतिप्रसवमाह तृणगर्भामिति |
तेन तृणगर्भमृण्मयीपूजने दोषः |
चकारो भिन्नक्रमे तृणगर्भां समर्चयेत् बिल्वयुग्मे चेति |
ब्राह्मणादिभेदेन बिल्वयुग्मस्य विशेषमाह |
माहेन्द्रस्थञ्च ईशस्थं ब्राह्मणस्य प्रशस्यते ||
ऊर्द्धस्थमुत्तरस्थञ्च क्षत्रियस्य वरानने ! |
वायव्यस्थञ्च वैश्यस्य शूद्रस्य च वरानने ! |
माहेन्द्रस्थं तथेशस्थं सर्वेषामथवा प्रिये ! |
पूर्वादिस्थबिल्वयुग्मफलमाह ||
माहेन्द्रस्थे ज्ञानवृद्धिरीशस्थे सर्वकामदम् |
वायुस्थे च धनावाप्तिरैश्वर्यमुत्तरास्थिते |
याम्यस्थे शत्रुवृद्धिः स्यात् कोणगे मरणं भवेत् |
वायवीशानकोणस्थस्य विशेषफलाभिधानादत्र कोणपदमग्निनै-ऋतकोणपरं पारिशेष्यादिति |
बिल्वयुगस्य शुभलक्षणमग्राह्यत्वञ्चाह तत्रैव ||
समं वृत्तं समं स्थूलं शस्तं कीटादिदूषितम् |
न ग्राह्यं परमेशानि ! कदाचिदूर्द्ध्वमध्यगम् |
ऊर्द्ध्वगेतिक्षत्रियभिन्नस्याग्राह्यत्वम् |
सममिति सर्वस्य |
यद्वा कदाचिदुक्तस्थानस्थस्याप्राप्तादूर्द्ध्वमध्यगमपि ग्राह्यं निन्द्यफलाश्रुतेरिति तात्पर्यम् |
बिल्वयुग्मादेश्च्युतिदोषोऽपि तत्रैव ||
स्नानस्थाने नीयमाने च्युते युग्मे महेश्वरि ! |
मृण्मययाश्च च्युतिर्यत्र जायते मरणं ध्रुवम् |
तद्दोषप्रशमनार्थञ्चायुतं जुहुयाद् घृतैः |
धेनुञ्च दक्षिणां दद्यात् श्वेताश्वं शेतछागलम् ||
इति बिल्वयुगप्रतिमाच्युतिप्रायश्चित्तम् |
नन्दामारभ्यदशमीपर्यन्तमुत्सवं विदुः |
महामहोत्सवं ज्ञेयं त्रिदिनं तत् प्रकीर्तितम् |
तदन्यदेवतायागं यः करोति महेश्वरि ! |
न तस्य फलमाप्नोति सोऽन्ते नरकमाप्नुयात् |
देव्या भागशतं सर्वं तस्मान्नान्यं समर्चयेत् |
पुनरष्टम्यां प्रतिमासु चेत्यन्तमभिधाय |
प्रहरे प्रहरे स्नानं प्रहरे प्रहरे बलिः |
प्रहरे प्रहरे होममन्नञ्चाभिषसंयुतम् |
प्रभूतबलिदानञ्च नवम्याञ्च प्रशस्यते |
नवम्या पूजिता देवी ददात्यनन्तकं फलम् ||
देशविशेषे मूर्तिविशेषोऽपि तत्रैव ||
ओड्रदेशे कलिङ्गे च मध्यदेशे तथैव च |
देवी चाष्टभुजा पूज्या अयोध्यायां सुराष्ट्रके |
चोहारे चैव श्रीहट्टे कोशले शववल्लके |
अष्टादशभुजा कार्या महेन्द्रे च हिमालये |
कौरवे मथुरायाञ्च केदारे रामठेऽपि च |
पूजयेद् द्वादशभुजां मकरन्द्रे विराटके |
कौमारे चैव गौडे च पारिपात्रे च दक्षिणे |
देवी दशभुजा कार्या मरहट्टे गजाह्वये |
पूर्णे चैव तु नेपाले कच्छसेशे च कङ्कणे |
चतुर्भुजा भवेद्देवी द्विभुजा सागरान्तिके |
दीपस्थानन्तु कूर्मचक्रशिरःस्थानम् |
तत्तु तन्त्रसारकारेणैव धृतम् |
दीपस्थानविवर्जितेनेष्टकारचितस्थानेन कदाचन देवीमर्चयेदित्यनेन दीपस्थाने तृणकाष्ठादिमयगृहे न दोषः |
तथा दीपस्थानभिन्ने इष्टकामयगृहेऽपि दीपस्थानभिन्नस्य प्रतिप्रसवमाह ||
ऐशान्याञ्च महेन्द्रे वा उत्तरे भवनस्य च |
कारयेद्भवनं दिव्यं धनैश्वर्यप्रसादतः |
एकत्रिंशच्च दैर्घ्येण पञ्चत्रिंशदथापि वा |
वर्तुलं नवहस्तं वा तूर्यहस्तमथापि वा |
विभिद्य पार्श्वयोर्भागं कृत्वा मध्यं सुशोभनम् |
चतुर्दिक्षु प्रमाणेन देवीं तत्रैव कारयेत् |
अथ सिंहासनादिलक्षणम् |
हस्तमात्रं समुत्सेधं लोम तत्र समन्वितम् |
सिंहासनं महाचक्रं सर्वतोभद्रमेव च |
रजसा मण्डलं कुर्यात् पीठं तत्र निवेशयेत् |
क्षीरं श्रीपतिकोद्भूतं सहकारमथापि वा |
मुष्टिबाहुप्रमाणेन प्रादेशोच्छ्रायमेव च |
प्राप्तेऽष्टधा च कुटिलं चतुष्कोणं समं शुभम् |
भद्रासनमिदं प्रोक्तं कूर्मासनमथापि वा |
विवाहे सौरयागे च सहकारं विवर्जयेत् |
वारुणं वा महेशानि ! पद्मकं देवदारुकम् |
प्रशस्तं सर्ववेदीषु तथा शालमयानि च |
ततोऽरुणेन गन्धेन कुङ्कुमेन गजेन वा |
महायोनिं लिखित्वा तु वहिः पद्मद्वयान्वितम् |
गजेन मृगमदेन ||
तत्र संस्थापयेद्देवीं सर्वकामार्थदायिनीम् |
षष्ठीकर्तव्यकर्माह |
नित्यं निर्वर्त्त्य विधिवत् सायं षष्ठ्यां ततो गृही |
यायादलङ्कृतो मौनी बिल्वमूलं समाहितः |
ब्राह्मणान् भोजयित्वा तु पञ्चाङ्गेन प्रणम्य च |
उत्तराशामुखो भूत्वा पीठं निर्माय साधकः |
पञ्च देवान्नमस्कृत्य ततः सङ्कल्पयेत् सुधीः |
त्र्यम्बकेणैव मन्त्रेण वृक्षं तोयेन सापयेत् |
क्षीरेण पञ्चगव्येन तथा पञ्चामृतेन च |
स्नात्वा कुम्भत्रयेणापि सूत्रमाणेति वै ऋचा |
निषिक्तेन तु सूत्रेण त्रिगुणेन च पञ्चधा |
वेष्टयेद्दक्षिणावर्ते पञ्च व्रीहींश्च वापयेत् |
अद्यामुके मास्यमुके पक्षे एतस्मिन् पुण्यभूप्रेदेशे भवन्तमम्बिकाशिवयोः प्रियतरं शाण्डिल्यगोत्रं बिल्ववृक्षम् अमुकगोत्रोऽमुकदेवशर्मा अमुककामनया अभिन्नवृन्तफलयुगलयुक्तां शाखां दुर्गास्वरूपतः पूजार्थं नेतुं नक्तमेभिरभ्यर्च्य वृणे |
हस्तं दत्त्वा वृक्षमूले फलैर्माल्यैः समन्वितम् |
संवाह्य तैः समभ्यर्च्य स्थण्डिले पूजयेत्ततः |
गणेशमुत्तरद्वारि पूर्वे चण्डञ्च दक्षिणे |
प्रचण्डं पश्चिमे चैव वेतालञ्च ततः परम् |
मध्ये आधारशक्त्यादीन् साङ्गोपाङ्गांस्तथैव च |
महारजतसङ्काशां पूर्णचन्द्रनिभाननाम् |
नानारत्नसमाकीर्णां कङ्कणैः कटकैरपि |
विभ्राजमानां दशभिर्बाहुभिः सुमनोहरैः |
शरदम्भोजसङ्काशविकाशिमुखपङ्कजाम् |
इन्दीवराभैर्विषमैर्लोचनैस्त्रिभिरुत्तमैः |
विद्योतयन्तीं नयनैरुद्दामद्युतिदामभिः |
त्रिशूलं करबालञ्च चक्रं वाणञ्च शक्त्यपि |
चिन्तयेद् वामभागे तु खेटकं पूर्णचापकम् |
पाशाङ्कुशञ्च परशुं ज्वालामालोपशोभितम् |
ऊर्द्ध्वपादं वामपादं महिषोपरिसंस्थितम् |
माहिषं छिन्नशिरसमधस्तात् परिचिन्तयेत् |
खड्गचर्मधरं तत्र समुद्भूतं महासुरम् |
बिल्ववृक्षस्थितां ध्यायेत् सर्वकामार्थदायिनीम् |
एवं ध्यात्वा महेशानि ! आसनं प्रतिपूज्य च |
मूलेनावाहनं कुर्यात् प्रदद्यादासनं ततः |
पाद्यादिकं ततो दत्त्वा अङ्गपूजां विधाय च |
पूर्वादिपत्रमूलेषु जयन्त्यादीन् समर्चयेत् |
पत्राग्रे चैव ब्रह्मादीन् भैरवान् पत्रमध्यतः |
तत्रागत्य वृक्षमूले वृक्षाग्रे च समर्चयेत् |
वेतालं मणिभद्रञ्च यक्षकञ्च तथैव च |
त्रिपुरान्तकं समाख्यातं कणं हेतुकमेव च |
अग्निजिह्वरसञ्चैव गन्धपुष्पैः समर्चयेत् |
ततो ग्रहान् दिगीशांश्च तदस्त्राणि च तद्बहिः ||
अत्र दिक्पालतदस्त्रपूजायां विशेष उक्तः शारदातिलके चतुर्थपटले महाप्रामाणिकैर्लक्षणाचार्यैः |
यथा |
अन्ते यजेल्लोकपालान्मूलपारिषदान्वितान् |
हेतिजात्यधिपोपेतान् दिक्षु पूर्वादितः क्रमात् ||
मूलपारिषदान्वितानिति अस्यायमर्थः |
यदा शक्त्यावरणे इन्द्रादिपूजा तदा प्रत्येकं शक्तिपारिषदायेति एवं गणपतिपूजायां प्रत्येकं गणेशपारिषदायेति एवं सूर्यपूजायां प्रत्येकं सूर्यपारिषदायेति |
एवं विष्णुपूजायां विष्णुपारिषदायेति |
हेतीति प्रतियोगे जात्यधिपाना पूर्वमुच्चरणं पश्चाद्धेतीनां मूले हेतिशब्दस्य पूर्वनिपातः |
शस्त्रजातयः स्वरतेजःप्रेतरक्षोजववातक्षेत्रभूतनागलोकान् सवाहनान् सपरिवारानित्यपि ज्ञेयम् ||
दिक्पालानाह तत्रैव ||
इन्द्रमग्निं यमं रक्षो वरुणं पवनं विधुम् |
ईशानं पन्नगाधीशमध ऊर्द्ध्वं पितामहम् |
पीतो रक्तोऽसितो धूम्रः शुक्लो धूम्रः सितावुभौ |
गौरोऽरुणः क्रमादेते वर्णतः परिकीर्तिताः |
तेषां वाहनानि राघवभट्टधृतानि |
यथा |
ऐरावताजमहिषनरमकरहरिणाश्ववृषभरथहंसाः |
एतेषां बीजानि कपिलपञ्चरात्रे ||
यान्युलोमतृतीयन्तु द्वितीयं लविलोमतः |
चतुर्थकं विलोमेन वानुलोमेन चाष्टमम् |
तृतीयञ्चानुलोमेन न विलोमात् तृतीयकम् |
चतुर्थं सप्तमं वर्णं वानुलोमेन संस्थितम् |
चतुर्थं खविलोमेन तृतीयं गविलोमतः |
सुरान्तेषु सुनादाभ्यां भेदितं सर्वमेव तत् |
आनुपूर्वोद्धृतं बीजं ब्रह्माण्डं वासवादिकमिति |
एतानि बीजानि दीर्घाणीति सम्प्रदायविदः |
अनन्तब्रह्मणोर्माया पाशवी इति केचित् |
पृथ्व्याग्निपवनाद्यन्ता वरुणानिलसेन्दुकैः |
अनन्तबिन्दुसंयुक्तैरर्च्याः पाशेन माययेति |
प्रयोगो यथा |
ओं लां इन्द्राय पीतवर्णाय सुराधिपतये वज्रहस्ताय ऐरावतवाहनाय सपरिवाराय दुर्गापारिषदाय नमः |
एवं रां अग्नये पिङ्गलवर्णाय तेजोऽधिपतये शक्तिहस्ताय अजवाहनाय सपरिवाराय दुर्गापारिषदाय नमः |
इत्यादि ऊह्यम् |
तदुक्तं राघवभट्टधृतेन ||
प्रयजेत् स्वदिक्ष्वमलधीः स्वजात्यधीरहेतिपरिवारसंयुतानिति ग्रन्थकृदपि ||
नित्यातन्त्रे ||
लोकपालान् यजेदन्ते वाहनायुधसंहतान् |
इत्येषां पूजानन्तरमायुधान् पूजयेत् ||
शारदायाम् ||
वज्रं शक्तिं दण्डमसिं पाशमङ्कुशकं गदाम् |
शूलं चक्रं पद्ममेषामायुधानि क्रमाद्विदुः ||
मेरुतन्त्रे चतुर्थप्रकाशेऽपि ||
वज्रं शक्तिं दण्डखड्गपाशाङ्कुशगदाः पुनः |
पूर्वतस्तु तथैश्यान्यां शूलचक्राम्बुजान्वितमिति |
आयुधानां रूपमुक्तम् शारदायाम् ||
पीतशुक्लासिताकाशविद्युद्रक्तसितासिताः |
कुरुबिन्दपाटलाभा वज्राद्याः परिकीर्तिताः |
कुरुबिन्दः पद्मरागः ||
तत्र प्रयोगो यथा ||
ओं वज्राय वज्रहस्ताय पीतवर्णाय वज्रलाञ्छितमौलये सवाहनाय सपरिवाराय दुर्गापारिषदाय नमः |
इत्याद्यूह्यम् |
तदुक्तं राघवभट्टधृतेन |
अर्च्या वहिर्निजमलक्षितमौलियुक्ता स्वस्वायुधाभयसमुद्यतपाणिपद्मा इति |
मत्स्यसूक्ते ||
बलिं दद्याद्विधानेन होमं कुर्याद्विधानतः |
यवं क्षीरञ्च शाल्यन्नं शान्त्यर्थञ्च निवेदयेत् |
यक्षेभ्यो यावकान्नञ्च भाषभक्तमथापि वा |
कृताञ्जलिस्ततो भूत्वा जानुभ्यामवनीं गतः |
ततो बोधनमन्त्रांश्च पाठयेत् सुरपूजिते |
ऐं रावणस्य बधार्थाय रामस्यानुग्रहाय च |
अकाले ब्रह्मणा बोधो देव्यास्त्वयि कृतः पुरा |
अहमप्याश्विने मासि ततस्त्वां बोधयामि ते |
षष्ठ्यां नक्षत्रयुक्तायां सायाह्ने बोधयामि ते |
एतदर्थं आर्द्रानक्षत्रालाभेन पाठ्यं तात्पर्यार्थस्यासमत्वतत्त्वादिति |
श्रीशैलशिखरे जातः श्रीफलः श्रीनिकेतनः |
नेतव्योऽसि मया गच्छ पूज्यो दुर्गास्वरूपतः |
अशेषसुखलाभाय नारीविभवहेतवे |
नेतव्यः स्वोदिते गेहे सर्वकामप्रदो भव |
मेरुमन्दरकैलासहिमवच्छिखरे गिरौ |
जातः श्रीफलवृक्ष ! त्वमम्बिकाशङ्करप्रियः |
नमस्ते बिल्ववृक्षाय सर्वकामप्रदाय च |
दातव्यं स्वोदिते हस्तं पूजनीयं फलद्वयम् |
महादेवप्रियोऽसि त्वं श्रीवृक्ष ! सर्वकामदः |
दुर्गायज्ञनिमित्तार्थं शाखामेकां प्रयच्छ मे |
तञ्च आरोहयेत् पश्चादुत्तराशामुखेन च |
किञ्चिदुष्णेन तोयेन कुशपुष्पफलाक्षतम् |
शङ्खे कृत्वा ददेदर्घ्यं बिल्ववृक्षोद्भवेन च |
दन्तकाष्ठं ततो दद्यादरिष्टञ्चानुमार्जयेत् |
दूर्वाक्षतेन सिद्धार्थं वस्त्रयुग्मेन वेष्टयेत् ||
इति बिल्ववृक्षनिमन्त्रणरूपषष्ठीकृत्यम् |
अथ सप्तमीकृत्यं तत्रैव ||
मूलयुक्तेन सप्तम्यां भास्करे चोदिते प्रिये ! |
बिल्वमूलं ततो गत्वा गन्धपुष्पैः समर्चयेत् |
गृहीत्वा चैव कट्टारं सुतीक्ष्णं मुष्टिसंयुतम् |
द्वादशाङ्गुलकं मानं मुष्टिः षडङ्गुलं स्मृतम् |
छिन्धि छिन्धि युगं दद्यात्तारयुग्मं तथैव च |
अस्त्राय हृदयान्तोऽयं छिन्नमन्त्र उदाहृतः |
युगमिति सप्तम्यर्थे प्रथमा युगे अर्थाद्विल्वयुगान्वितशाखाविशेषे |
दद्यादर्पयेत् पूर्वोक्तकट्टारकमिति शेषः |
रजकस्य वस्त्रं ददातीतिवदत्र दाधातोरपणार्थकता |
अर्पणमन्त्रमाह |
छिन्धि छिन्धीति न तु छिन्धि छिन्दीत्यनेन युगशब्दात् त्रयञ्छिन्धीत्यस्य चतुष्कत्वापत्तेः |
छेदनमन्त्रस्तु तारयुग्ममित्यादि |
छिन्ने छेदने मन्त्रश्छिन्नमन्त्र इत्यर्थः |
चालनमन्त्रस्तु |
चामुण्डे ! चलयुग्मन्तु चालयद्वितयं तथा |
शीघ्रञ्च मन्दिरञ्चैव प्रविश पूजालयं पदम् |
ताराद्यो वह्निजायान्तो मनुनानेन चालयेत् ||
छेदनकाले स्त्रीप्रभृतीनां दृष्टिर्निषिद्धा यथा तत्रैव |
स्त्रीणां दृष्टिः पशोर्दृष्टिर्यथा नैव तु छेदने |
तथा कुर्यात् प्रयत्नेन शिविकायां प्रवेशयेत् |
पूजादिषु प्रणयेत् तदाह ||
उन्मत्तं पतितं क्लीवं वामनं छिद्रसंयुतम् |
न योजयेद्दरिद्रञ्च मन्त्रकुण्ठं न वेशयेत् |
छेदने नयने काले स्थापने च विशेषतः |
भग्ने तु मरणं विद्यात् प्रायश्चित्तं तदाचरेत् |
पार्श्वे दीपयुगं दद्यादिक्षुदण्डाश्रयं द्वयम् |
गृहप्रवेशकाले च घटयुग्मञ्च स्थापयेत् |
घटं सम्मार्जनीयुक्तं रक्तसूत्रेण गुम्फितम् |
चूतपत्रसमायुक्तां दर्भच्छेदनभूषिताम् |
द्वारि द्वारि न्यसेत् स्रक्तां सपुष्पां शोभनां शुभाम् |
समूलां छिन्नरहितां तोरणेन विभूषिताम् |
जनतेति वत् स्रक्शब्दात् समूहार्थे ताप्रत्ययः |
स्रक्तां मालासमूहं द्वारि न्यसेदित्यर्थः |
प्राप्ते प्रतोलिकां द्वारि गृहिणी लक्षणान्विता |
साध्वीभिर्नवनारीभिः कृतमङ्गलपूर्वकम् |
बीजयेद्व्यजनेनापि वामदक्षिणपार्श्वयोः |
कटुत्रयं सलवणं मुखे कृत्वा महेश्वरि ! |
देव्याः प्रचुम्बनं कुर्यात्ततः कुर्याद् गृहाङ्गने |
पत्रिकां स्नानपीठे च वस्त्रादीन् मध्यदेशके |
देशविशेषे नवपत्रिकाक्रममाह |
माणादींश्चैव श्रीशैले ध्यान्यादिं मलये गिरौ |
क्रमुकादिं सागरान्ते कच्वी चैकाम्रकादिके |
रम्भादिं गौडे वङ्गे च कौमारे कालरूपके |
प्रतिपीठे यजेद्वापि लक्ष्मीकामेन सुन्दरि ! |
रम्भा कच्वी हरिद्रा च जयन्ती बिल्वदाडिमौ |
अशोको माणकश्चैव धान्यादिर्नवपत्रिका |
समूला पत्रिका ग्राह्या हरिद्राधान्यकं विना |
समूला एव रम्भा स्याद्रामरम्भां विवर्जयेत् |
श्वेतरम्भा राज्यरम्भा तथा चैव सुगन्धिनी |
एषामेकतमं ग्राह्यं बीजरम्भां विवर्जयेत् |
शर्करास्वादुयुक्तायाः फलं वृक्षञ्च सन्त्यजेत् |
त्रिपुत्रञ्चैकपुत्रञ्च मृतवत्सञ्च वर्जयेत् |
द्विजातिरोपितं ग्राह्यमथवा गिरिसम्भवम् |
ब्राह्मणस्य गृहे जातं तीर्थेभ्योऽन्यसमुद्भवम् |
अन्त्यजस्यालये जातं श्मशाननिलयञ्च वा |
शाखोटमूर्द्धजं शुष्कं त्याज्यं स्याद्दूरधुक्षकम् |
एवमेव च मृण्मययामानीय शुभजैर्जलैः |
स्नापयेत् शङ्खतोयेन प्रतिमायाञ्च दर्पणे |
दन्तकाष्ठं ततो दद्यान्मन्त्रेण च विशेषतः |
दशाक्षरेण देवेशि ! पञ्चगव्येन चान्तरम् |
प्रत्येकेन ततः पश्चात् तथा पञ्चामृतेन च |
त्रिशीतेन त्रिरक्तेन तथा तीर्थोदकेन च |
वेद्यामीशानतो वाथ पत्रिकायाश्च स्थापनम् |
मध्ये बिल्वं विजानीयादथवा एकमूलकम् |
रम्भावृक्षे निबध्नीयाद्विष्णुक्रान्तालतात्रिभिः |
वेष्टयित्वा तु रम्भायां हस्तोच्छ्राये तु युग्मकम् |
पीतसूत्रेण वस्त्रेण वेष्टयेन्मुकुटान्वितम् |
कुसुम्भरक्तं क्षौमं वा दुकूलं कीटकानि च |
वर्जयेत् प्रथमं देवि ! ह्यलक्ताक्तं विशेषतः |
महोत्सवे ततः कुर्याद् वेदघोषपुरःसरम् |
कुमारीणाञ्च साध्वीनां श्रावयेच्च तथा ध्वनिम् |
बलिकर्मणि यात्रायां प्रवेशे नववेश्मनः |
महोत्सवे च माङ्गल्ये तत्र स्त्रीणां ध्वनिः शुभः |
निर्मञ्छनं तथा कुर्याल्लाजजम्बूफलादिभिः |
स्वागतं कुशलप्रश्नमासनञ्च निवेदयेत् |
जानुभ्यामवनीं प्रेत्य पठेन्मन्त्रं कृताञ्जलिः |
ओं शारदीयामिमां पूजां गृहाण त्वमिहागता |
स्वागतन्ते महादेवि ! विश्वेश्वरि ! नमोऽस्तु ते |
धन्योऽहं कृतकृत्योऽहं सफलं जीवितञ्च नः |
आगतासि यतो दुर्गे ! माहेश्वरि ! ममाश्रमम् |
अर्घ्यमन्नं फलं पाद्यं मालां मलयवासिनि ! |
गृहाण वरदे ! देवि ! कल्याणञ्च प्रदेहि मे |
चण्डिके ! चण्डरूपे ! त्वं सर्वकामप्रदे ! शुभे ! |
गृहाणार्घ्यमिदं भद्रे ! आगच्छ मम मन्दिरम् |
गृहीत्वा शारदीं पूजां मर्त्यमण्डलमागता |
चण्डिके ! त्वां नमाम्यद्य पुष्पमर्घ्यं प्रगृह्यताम् |
चण्डि ! त्वं चण्डरूपासि सुरतेजोमहाबले ! |
प्रविश्य तिष्ठ मद्गेहे यावत् पूजां करोम्यहम् |
सामान्यार्घ्यं विधायाथ आसनं प्रतिगृह्य च |
विकिरान् विकिरेत्तत्र प्राणायामं ततश्चरेत् |
गणेशग्रहदिक्पालान् कलसे पूजयेत्ततः |
स्नापयेच्च स्वमन्त्रेण वरयेदर्घ्यपात्रकम् |
दिनेशार्घ्यं ततो दद्याद्भूतशुद्धिमथाचरेत् |
दशाक्षरेण मन्त्रेण भावयेद्रक्तबुद्बुदम् |
तन्मध्ये रुक्मब्रह्माण्डं पुनरेव तु भेदयेत् |
तन्मध्ये चिन्तयेद्देवीं सर्वकामप्रदायिनीम् |
जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम् |
नवयौवनसंयुक्तां सर्वाभरणभूषिताम् |
त्रिनेत्रां पूर्णवदनां महिषासुरमर्दिनीम् |
त्रिशूलञ्च तथा चक्रं खड्गं वाणं तथैव च |
दखिणे च तथा शक्तिं वामतः खेटकं धनुः |
पाशाङ्कुशञ्च घण्टाञ्च नागहारगरीयसीम् |
अधस्तान्महिषं तद्वद्विशिरस्कं प्रदर्शयेत् |
शिरश्छेदोद्भवं तद्वद्दानवं खड्गपाणिनम् |
हृदि शूलेन निर्भिन्नं निर्यदन्त्रविभूषितम् |
देव्यास्तु दक्षिणं पादं समं सिंहोपरिस्थितम् |
किञ्चिदूर्द्ध्वं तथा वाममङ्गुष्ठं महिषोपरि |
एवं सञ्चिन्त्य मनसा प्रतिमां कृत्य सन्न्यसेत् |
आत्मानमन्तरात्मानं परमात्मानमर्चयेत् |
मातृकान्यासपूर्वेण कलान्यासमथाचरेत् |
मन्त्रन्यासं ततः कृत्वा तारेणार्घ्यं विशोधयेत् |
अर्घ्य स्योत्तरतः कार्यं पाद्यमाचमनीयकम् |
मधुपर्कं ततः पार्श्वे प्रोक्षण्याञ्च जपेन्मनुम् |
अष्टकृत्वो जपेन्मन्त्री गायत्र्या रक्षयेत्ततः |
ओं दुर्गायै विद्महे नारायण्यै धीमहि |
धियो यो नः प्रचोदयादितीरयेत् |
तेन तोयेन देवेशि ! यागवस्तूनि सेचयेत् |
गणेशमथ चैशान्यां गणपं गुरुपादुकाम् |
गुरुभ्यः परमं ह्येवं परमेष्ठिगुरोः परम् |
गुरुं ज्ञानञ्च वैराग्यमैश्वर्यञ्च यथा क्रमात् |
रक्तं श्यामञ्च हारितं नीलाभञ्चैव पूजयेत् |
धूम्राभं कनकाविद्युद्रूपान् धर्मादिकान् प्रिये ! |
अधर्मादीनि पत्राग्रे अग्न्यादौ च यथाविधि |
अधर्मञ्च तथाज्ञानमवैराग्यं तथैव च |
अनैश्वर्यं कृष्णवर्णं पीतरक्तं विभावयेत् |
अजमेषहंसवर्णरूपान् धर्मादिकानपि |
द्वारपार्श्वे महाकालं कपिलं कृष्णलोचनम् |
नन्दिनं रक्तपीतञ्च शूलखट्वाङ्गधारिणम् |
भुजङ्गश्वेतसङ्काशं द्विभुजं पङ्कजाननम् |
चण्डेशञ्च करालास्यं पिङ्गोर्द्ध्वनयनं यजेत् |
अधः कूर्मशिवारूढां शरच्चन्द्रनिभाननाम् |
आधारशक्तिं प्रयजेत् पङ्कजद्वयधारिणीम् |
मुर्द्ध्नितस्याः समासीनं कूर्मासनं समर्चयेत् |
ऊर्द्ध्वं ब्रह्मशिलासीनमनन्तं कुन्दसन्निभम् |
अधश्चक्रधरं मूर्ध्नि धारयन्तं वसुन्धराम् |
तमालश्यामलाङ्गीञ्च नीलेन्दीवरलोचनाम् |
अभ्यर्चयेद्वसुमतीं स्फुरत्सागरमेखलाम् |
तत्र सञ्चिन्तयेत् पद्मं विकारनवकेशरम् |
मन्त्री प्रकृतिपत्राणि भावयेद्दशकर्णिकम् |
भूस्तत्त्वञ्च भुवस्तत्त्वं स्वस्तत्त्वञ्च तथैव च |
सत्त्वं रजस्तम इति सूर्यादीनां त्रिमण्डलम् |
पुनरानन्तरं वज्रनखदंष्ट्रायुधाय च |
महासिंहाय वर्मास्त्रमहासिंहमनुर्मतः |
दद्यादासनमेतेन मूर्तिं मूलेन कल्पयेत् |
गृहीत्वा रक्तकुसुमं प्रकुर्यात् पाणिकच्छपम् |
कृत्वा सम्पूर्णपात्रञ्च गन्धपुष्पाक्षतानि च |
हृदये स्थापयेद्भक्त्या ध्यात्वा पुर्वोक्तवर्त्मना |
पूजयेदुपचाराद्यैर्मण्डले स्थापयेत्ततः |
आसनं स्वागतं पृच्छेद् दद्यात्पाद्यादिकं त्रिकम् |
मधुपर्कं ततो दद्यादङ्गपूजां विधाय च |
दर्शयेदष्टमुद्राश्च तत आवाहनं पठेत् |
ओं आवाहितासि दुर्गे ! त्वं मृण्मययां श्रीफलेऽपि च |
स्थिरा त्वं गृहिणो भूत्वा गृहे कामप्रदा भव |
एहि दुर्गे ! महाभागे ! पत्रिका गृह्यतामियम् |
तव स्थानमिदं भद्रं शरणं त्वां नमाम्यहम् |
त्वं देवि जगतां मातः ! सृष्टिसंहारकारिणि ! |
पत्रिकासु समस्तासु सान्निध्यमिह कल्पय |
आयुर्देहि धनं देहि यशो राज्यञ्च देहि मे |
सन्तुष्टा चात्र मद्गेहे मनोऽभीष्टं प्रसाधय |
ततः पूर्वादिपत्रेषु रुद्रचण्डादिकान् यजेत् |
रुद्रचण्डां प्रचण्डाञ्च चण्डोग्रां चण्डनायिकाम् |
चण्डां चण्डवतीं चण्डरूपाञ्चैवातिचण्डिकाम् |
अग्निवर्णां ततो मध्ये उग्रचण्डां समर्चयेत् |
सर्वा युवत्यो दीप्ताङ्गा वराभयकराः शुभाः |
रक्ताः पीताम्बरधरा नानाभरणभूषिताः |
त्र्यक्षरेण च मन्त्रेण वागाद्येन महेश्वरि ! |
पूजयेदष्टपत्रेषु दलाग्रेषु विशेषतः |
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा |
वाराही च तथेन्द्राणी चामुण्डा चण्डिका तथा |
दण्डं कमुण्डलुं पश्चादक्षसूत्रमथाभयम् |
बिभ्रती कनकछायां ब्राह्मी कृष्णाजिनाम्बरा || १ ||
शूलं परश्वधं क्षुरं दुन्दुभिं चन्द्रशोभितम् |
वहन्ती हिमसङ्काशा ध्येया माहेश्वरी सदा || २ ||
अङ्कुशं दण्डखट्वाङ्गं पाशञ्च दधती करैः |
ध्येया बन्धूकसङ्काशा कौमारी कामदायिनी || ३ ||
चक्रं घण्टां कपालञ्च दधती करैः |
तमालश्यामला ध्येया वैष्णवी विद्युतोज्ज्वला || ४ ||
मुषलं करबालञ्च खेटकं दधती हलम् |
करैश्चतुर्भिर्वाराही ध्येया कालानलच्छविः || ५ ||
अङ्कुशं तोमरं विद्यां कुलिशं बिभ्रती करैः |
इन्द्रनीलनिभेन्द्राणी ध्येया सर्वसमृद्धिदा || ६ ||
शूलं कपालं नृशिरः क्वपाणं दधती करैः |
मुण्डस्रङ्मण्डिता ध्येया चामुण्डा रक्तविग्रहा || ७ ||
अक्षस्रजं रक्तस्रवं कपालं नीलनीरजम् |
वहन्ती हेमसङ्काशा व्याघ्रस्य चर्मणोज्ज्वला || ८ ||
रक्ताक्षीं दण्डिकाञ्चैव नृसिंहीं शिवदूतिकाम् |
नारायणीं कालिकाख्यां मायाञ्चैव तु भ्रामरीम् |
अरविन्दां विशालाक्षीं भीमाञ्चैव सरस्वतीम् |
अपराजितां सोमलतां अनन्ताञ्च कपालिनीम् |
भद्रकालीञ्च पुरत एताः षोडश नायिकाः |
चतुर्भुजा युवत्यश्च शङ्खचक्रगदाङ्कुशाः |
सर्वाभरणसन्दीप्ताः सिंहस्थाः शशिशेखराः |
बालाद्यास्त्र्यक्षरेणैव सम्पूज्या रक्तविग्रहाः |
कालीविलासतन्त्रे विंशतिपटले ||
आदौ दशभुजा पूज्या घटस्थापनपूर्विका |
पञ्च देवान् प्रपूज्यादौ पश्चान्महिषमर्दिनीम् |
ततश्च कार्तिकादीनां पूजाञ्च यत्नतश्चरेत् |
ततश्च पत्रिकापूजा देवीपुराणसम्मता |
इति वचनात् पत्रिकापूजनात् पूर्वं कार्तिकेयादीन् पूजयेत् ||
देव्याः कस्मिन् देशे कः पूज्य इत्याह तत्रैव ||
जया वामे स्थिता विद्या विजया चापि दक्षिणे |
वामे च कार्तिकं देवं दक्षिणे गणपतिं तथा |
अथ कर्तिकेयध्यानमष्टादशपटले ||
सुतप्तकनकप्रेक्षं खड्गपट्टिधरं वरम् |
सोष्णीषमस्तकं देवं मयूरवरवाहनम् |
ब्रह्माण्डाभ्यन्तरे वीरं ब्रह्मविष्णुशिवात्मकम् |
ध्यात्वा पाद्यादिकं दत्त्वा दशधा प्रजपेन्मनुम् |
शृणु मन्त्रं प्रवक्ष्यामि कार्तिकेयं यथोचितम् |
ह्रीं गुहाय कार्तिकेयाय सेनान्ये स्वाहयान्विता |
चतुर्दशाक्षरी विद्या कार्तिकेयस्य कीर्तिता |
प्रतिमायां हृदि स्थाने दत्त्वाङ्गुष्ठं सुलोचने ! |
दशधा मन्त्रमुच्चार्य प्राणन्यासस्ततो भवेत् |
अथ जयाध्यानम् ||
तप्तकाञ्चनसङ्काशां द्विभुजां लोललोचनाम् |
कटाक्षविशिखोपेतां दिगम्बरपरिच्छदाम् |
दिव्याभरणसंयुक्तां ध्यायेत् सिद्धिप्रदायिनीम् |
ध्यात्वा पाद्यादिकं दत्त्वा सम्पूज्य प्रजपेन्मनुम् |
मन्त्रस्तु ह्रीं ह्रीं जयायै ह्रीं ह्रीं |
सप्ताक्षरी महाविद्या जयायाः परिकीर्तिता |
मायाद्वयजया ङेऽन्ता पुनर्मायाद्वयं प्रिये ! |
सप्ताक्षरी महाविद्या कथिता सुरपूजिता |
जयाया हृदयेऽङ्गुष्ठं दत्त्वा मन्त्रं जपेद्दश |
प्राणसिद्धिस्तदा देवि ! जायते नात्र संशयः |
अधुनाहं प्रवक्ष्यामि विजयाध्यानमुत्तमम् |
दलिताञ्जनसङ्काशां द्विभुजां खञ्जनेक्षणाम् |
कटाक्षविशिखोद्दीप्तामञ्जनाञ्चितलोचनाम् |
दिव्याम्बरपरीधानां नानारत्नविभूषिताम् |
ध्यायेत्तां विजयां नित्यां सर्वसिद्धिप्रदायिनीम् |
ध्यात्वा पाद्यादिकं दत्त्वा दशधा प्रजपेन्मनुम् |
मन्त्रस्तु |
वाग्भवं शम्भुवनिता नाम सम्बोधनं ततः |
माया च वाग्भवञ्चैव मनुः सप्ताक्षरः प्रिये ! |
विजयाहृदयेऽङ्गुष्ठं दत्त्वा मन्त्रं जपेद् यदि |
प्राणसिद्धिस्तदा देवि ! जायते नात्र संशयः |
अथ मयूरध्यानम् ||
नानाचित्रविचित्राङ्ग ! गरुडाज्जननं तव |
अनन्तशक्तिसंयुक्त ! कालाहिभक्षणं तव |
गरुडस्त्वं महाभाग ! अतस्त्वां प्रणमाम्यहम् |
ध्यात्वा पाद्यादिकं दत्त्वा एकधा मन्त्रमुच्चरेत् |
माया भगो नादबिन्दू ङेऽन्तनाम सुलोचना |
सप्ताक्षरं महामन्त्रं हृदये प्रजपेद् यदि |
प्राणसिद्धिस्तदा देवि ! मयूरस्य भवेद्ध्रुवम् ||
अथ मूषिकध्यानम् ||
वृषाकार ! महाभाग ! वृषरूप ! महाबल ! |
कर्मरूप ! वृषस्त्वं हि गणेशस्य च वाहनम् |
नमस्करोम्यहं देव ! पूजासिद्धिं प्रयच्छ मे |
ध्यात्वा पाद्यादिकं दत्त्वा क्षिपेत् पुष्पाञ्जलित्रयम् |
मायाद्वयं समुच्चार्य वदेच्च मूषिकं ततः |
ङेऽन्तञ्च वनितां शम्भोर्मूषिकस्य मनुः प्रिये ! |
प्राणप्रतिष्ठा पूर्ववत् ||
सिंहध्यानम् ||
सिंहस्त्वं हरिरूपोऽसि स्वयं विष्णुर्न संशयः |
पार्वत्या वाहनस्त्वं हि अतः पूजामि त्वामहम् ||
सिंहमन्त्रः ||
मायाद्वयं समुच्चार्य सिंहाय महाबलाय च |
पुनर्मायाद्वयं देवि ! मनुरेष प्रकीर्तितः |
द्वादशाक्षरी महाविद्या सिंहस्य परिकीर्तिता |
ध्यात्वा पाद्यादिकं दत्त्वा एकधा मन्त्रमुच्चरेत् ||
ऊनविंशतिपटले ||
महिषध्यानम् ||
महिषस्त्वं महावीर ! शिवरूप सदाशिव ! |
अतस्त्वां पूजयिष्यामि क्षमस्व महिषासुर ! |
ध्यात्वा पाद्यादिकं दत्त्वा एकधा प्रजपेन्मनुम् |
मायाद्वयञ्च नकुलं नादबिन्दुविभूषितम् |
महिषञ्च तथा ङेऽन्तं कूर्चं मायाद्वयं तथा |
एकादशाक्षरी विद्या भक्त्या ते परिकीर्तिता |
अथ गणेशध्यानम् ||
लम्बोदरं महाकायं गजवक्त्रं त्रिलोचनम् |
सर्वदेवमयं देवं पार्वतीनन्दनं भजे |
ध्यात्वा पाद्यादिकं दत्त्वा एकधा मन्त्रमुच्चरेत् |
मायां कवर्गतृतीयं नादबिन्दुसमन्वितम् |
तथा गणपतिं ङेऽन्तं विलोमेन पुनर्लयम् ||
लक्ष्मीध्यानम् |
तप्तकाञ्चनसङ्काशां द्विभुजां लोललोचनाम् |
कटाक्षविशिखोद्दीप्तामञ्जनाञ्चितलोचनाम् |
शुक्लाम्बरपरीधानां सिन्दूरतिलोकोज्ज्वलाम् |
शुक्लपद्मासनगतां ध्यायेन्नारायणप्रियाम् |
ध्यात्वा पाद्यादिकं दत्त्वा दशधा प्रजपेन्मनुम् ||
मन्त्रस्तु ||
मायां कामञ्च देवेशि ! कमलान्तरवासिनी |
ङेऽन्तं कामं ततो मायां लक्ष्मीदेव्या दशाक्षरम् ||
अथ सरस्वतीध्याम् |
शङ्खेन्दुकुन्दसङ्काशां द्विभुजां पद्मलोचनाम् |
कटाक्षविशिखोद्दीप्तां दिव्याम्बरपरिच्छदाम् |
दिव्याभरणवेशाढ्यां वाग्रूपां परमां भजे ||
सरस्वतीमन्त्रो यथा ||
मायाञ्च वामकर्णञ्च बिन्दुनादसमन्वितम् |
सरस्वत्यै पुनर्बीजद्वयञ्चाष्टाक्षरी मता ||
ब्रह्मध्यानम् ||
तरुणादित्यसङ्काशं चतुर्वक्त्रं चतुर्भुजम् |
चतुर्वेदमयं वक्त्रं धर्मकामार्थमोक्षदम् |
ब्रह्ममन्त्रः ||
मायां कवर्गस्याद्यन्तु नादबिन्दुसमन्वितम् |
ब्रह्मणे नमश्चवर्गाद्यं नादबिन्दुसमन्वितम् ||
मायां सप्ताक्षरं मन्त्रं ब्रह्मणः परिकीर्तितम् |
सावित्रीपूजनं भद्रे ! शृणुष्व कथयामि ते ||
सावित्रीध्यानम् ||
तप्तकाञ्चनवर्णाभां द्विभुजां लोललोचनाम् |
दिव्याभरणवेशाढ्यां दिव्याम्बरपरिच्छदाम् |
सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम् |
सावित्रीमन्त्रस्तु ||
मायां सां सावित्र्यै ततः पुरः सां मायां ततः परम् |
सप्ताक्षरमिदं देवि ! सावित्र्याः परिकीर्तितम् ||
अथ नवपत्रिकापूजा मत्स्यसूक्ते ||
रम्भाञ्च द्विभुजां पीतां शूलपुस्तकधारिणीम् |
पूजयेत् कामबीजेन मन्त्रेणानेन शङ्करि ! |
दुर्गे ! देवि ! समागच्छ सान्निध्यमिह कल्पय |
रम्भारूपेण मे देवि ! शान्तिं कुरु नमोऽस्तु ते || १ ||
खड्गशूलाङ्कुशधरमभयं दधती करैः |
महिषासुरयुद्धे त्वं कच्वीरूपासि सुव्रते ! |
शक्रस्यानुग्रहार्थाय आगच्छ मम मन्दिरम् || २ ||
मायाबीजेन सा पूज्या हरिद्रामथ चिन्तयेत् |
द्विभुजां पीतवसनां त्रिनेत्रां खड्गधारिणीम् |
महिषस्थां विशालाक्षीं अम्बरं वामहस्तके |
हरिद्रे ! वरदे ! देवि ! उमारूपासि सुव्रते ! |
मम विघ्नविनाशाय पूजां गृह्ण सुरेश्वरि ! || ३ ||
जयन्तीं रक्तवसनां पीताञ्च चण्डमालिनीम् |
शूलचक्रधरां चैव सर्वालङ्कारभूषिताम् |
निशुम्भमथने चैव सेन्द्रैर्देवगणैरपि |
पूजितासि जयन्ति ! त्वमस्माकं वरदा भव || ४ ||
विपद्धन्त्रीञ्च द्विभुजां महावृषभवाहिनीम् |
श्वेतामभीतिवरदां गगने तु समर्चयेत् |
महादेवप्रियकरः सर्वदेवरतः सदा |
उमाप्रीतिकरो यस्मात् तस्मात् त्वां प्रणमाम्यहम् || ५ ||
दाडिमीपत्रिकां रक्तां रक्ताभरणभूषिताम् |
रक्तवस्त्रधरां सौम्यामर्द्धेन्दुकृतशेखराम् |
चतुर्भुजां त्रिनयनां महिषोपरिसंस्थिताम् |
खड्गचर्मधरां स्कन्धे वामेनोत्पलपुस्तिकाम् |
मन्दरेणैव बीजेन बालाद्येन समर्चयेत् |
सिद्धमन्त्रं पुरा जातं रक्तबीजस्य सम्मुखे |
उमाप्रीतिकरं यस्मात्तस्मात्त्वां प्रणमाम्यहम् || ६ ||
अशोकपत्रिकां रक्तां सिन्दूरारुणविग्रहाम् |
वाणचापधरां सौम्यां पद्मस्थां नागवाहनाम् |
हरप्रीतिकरो वृक्षो ह्यशोकः पापनाशनः |
उमाप्रीतिकरस्त्वं हि मामशोकं सदा कुरु || ७ ||
श्यामाङ्गीं माणपत्रीञ्च नीलनीरजधारिणीम् |
महिषस्थां त्रिनेत्राञ्च कन्याबीजेन चार्चयेत् |
पत्रे वससि कौमारि ! माणवृक्षे शचीप्रिये ! |
मम चानुग्रहार्थाय पूजां गृह्ण यथासुखम् || ८ ||
धान्यवृक्षे निमग्नाञ्च द्विभुजां श्वेतविग्रहाम् |
श्वेतपद्मोप्रविष्टाञ्च वराभयकरां शुभाम् |
श्रीबीजेन सतारेण पूजयेत् कमलाननाम् |
जगत्प्राणहितार्थाय ब्रह्मणा निर्मितं पुरा |
उमाप्रीतिकरं धान्यं शान्तिं कुरु नमोऽस्तु ते || ९ ||
वहिः पीठे जयन्त्याख्यां दिक्पतीन् सायुधांस्तथा |
उपचारैः समभ्यर्च्य हृष्टपुष्टिकरान् पुनः |
कुमुदोत्पलपद्मानि कुन्दशेफालिकाजवाः |
वकुलं तगरञ्चैव पुष्पाष्टकमुदाहृतम् |
मन्त्रं जपेदष्टशतं होमं कुर्याद् यथाविधि |
बलिदानान्तरे चैव पादं संश्रपयेच्चरुम् |
कृताञ्जलिस्ततः कृत्वा जानुस्पृष्टमहीतलः |
पठेत् स्तोत्रं यथान्यायं वाग्वीजाद्यन्तसंयुतम् ||
अथ स्तोत्रम् |
दुर्गां शिवां शान्तिकरीं ब्रह्माणीं ब्रह्मणः प्रियाम् |
सर्वलोकप्रणेत्रीञ्च प्रणमामि सदाम्बिकाम् |
मङ्गलां शोभनां शुद्धां निष्कलां परमां कलाम् |
विश्वेश्वरीं विश्वमातां चण्डिकां प्रणमाम्यहम् |
ईशानमातरं देवीं सर्वलोकभयापहाम् |
ब्रह्मेशविष्णुनमितां प्रणमामि सदा उमाम् |
विश्वस्थां विश्वनिलयां दिव्यस्थाननिवासिनीम् |
योगिनीं योगमाताञ्च चण्डिकां प्रणमाम्यहम् |
ईशानमातरं देवीमीश्वरीमीश्वरप्रियाम् |
प्रणतोऽस्मि सदा दुर्गां संसारार्णवतारिणीम् |
य इदं पठति स्तोत्रं शृणुयाद्वापि भक्तितः |
स मुक्तः सर्वपापेभ्यो मोदते दुर्गया सह |
पञ्चघोषेण भेर्यादिगीतवाद्यादिनिस्वनैः |
दिवावसाने स्नात्वा तु सायंसन्ध्यां समाप्य च |
पश्चिमाशामुखो भूत्वा गन्धमाल्यैरलङ्कृतम् |
ध्यायेत् पूर्वे देवीरूपं हंसमन्त्रेण वाग्यतः |
दद्यादर्घ्यं नमस्कुर्यात्ततो देवीगृहं व्रजेत् |
पञ्चोपचारैर्विधिवत् पूजयेत् परमेश्वरीम् |
हविष्यान्नं ततो भक्त्वा दन्तकाष्ठञ्च भक्षयेत् ||
इति सप्तमीकृत्यम् ||
अथाष्टमीकृत्यम् ||
ततः कल्पं समुत्थाय अष्टम्यां प्रातरेव च |
नदीतीरं ततो गत्वा स्नानं कुर्यात् समाहितः |
अभावे स्रोतस्तोयेन यत्र सूर्यस्य दर्शनम् |
स्वस्ति ततो वाचयित्वा पञ्च देवान्नमस्य च |
स्नानं होमं समुद्दिश्य बलिनिर्देशनं नुतिम् |
यथा प्रहरपूजा च अर्द्धरात्रे विशेषतः |
नवम्याञ्च तथा पूजां दशम्याञ्च विसर्जनम् |
तर्पणं ब्राह्मणानाञ्च गोत्रोद्देशं स्वसंज्ञकम् |
एवं सङ्कल्प्य मतिमान् देव्याः स्नानं समाचरेत् |
तारार्कवचनं ङेऽन्तं चण्डिकाहृदयं ततः |
पानीयस्य च कथितं क्षीरस्य शृणु सुन्दरि ! |
मायां गां गौर्यै हृदयं पञ्चगव्यस्य च शृणु |
तारां वाणीञ्च नेत्राभ्यां सर्वतो हृदयान्तकम् |
मायान्तनुवुदाञ्चैव हृदयार्णञ्च शर्कराम् |
तारां मायाञ्च गिरिशे ! मधुमन्त्र इतीरितः |
मायां शिखायै नम इति पुनः पानीयकेन तु |
तारं चक्रं भद्रकाली कवचायेति दधिमन्त्र उदाहृतः |
वाग्भवाद्यञ्च तैलस्य मायां गौर्यै नमः स्थितम् |
उष्णोदकस्य देवेशि ! तथा गुडघृतस्य च |
वाङ्मन्त्रेण महेशानि ! तथैवेक्षुरसेन च |
अनुक्ते चण्डिकाशान्तं यच्चान्तेन महेश्वरि ! |
दशाक्षरेण मन्त्रेण नानागन्धोदकेन च |
त्रिरक्तेन त्रिगन्धेन त्रिशीतेन महेश्वरि ! |
फलोदकैस्तीर्थतोयैः पुष्पतोयैः कुशोदकैः |
घटस्थापनं ततः कृत्वा पीठपूजां समाप्य च |
पूर्ववद्ध्यानं ध्यात्वा च मन्त्रेणारोपयेत्ततः |
आगतां स्वागतां पृच्छेद्दयात् पाद्यादिकं ततः |
गायत्र्या स्नापयेद्देवीमङ्गपूजां विधाय च |
मधुपर्कं ततो दद्यात् पुनराचमनीयकम् |
पूर्वादिपत्रे सम्पूज्या जयन्त्याद्याश्च मातरः |
जयन्ती मङ्गला काली भद्रकाली कपालिनी |
दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा ततः परम् |
तत्रैव च दलाग्रेषु रुद्रचण्डादिका अपि |
रोचनाभां रुद्रचण्डां प्रचण्डामरुणप्रभाम् |
चण्डोग्रां कृष्णवर्णाञ्च श्यामाञ्च चण्डनायिकाम् |
शुक्लाभां चण्डरूपाञ्च धूम्रां चण्डवतीमपि |
अतिचण्डां पाण्डुराभां पीतवर्णान्तु चण्डिकाम् |
वागाद्येन तु मन्त्रेण तारादिहृदयान्तकम् |
अग्निवर्णामुग्रचण्डां मध्ये तु परिपूजयेत् |
पूर्वादिष्वष्टपीठेषु चतुःषष्ठीः समर्चयेत् |
ब्राह्मी माहेश्वरी चैव कौमारि वैष्णवी तथा |
पञ्चोपचारैर्विधिवज्जयन्त्यादि ततः परम् |
जयन्ती मङ्गला काली भद्रकाली कपालिनी |
दुर्गा शिवा क्षमा धात्री पूजनीयाः प्रयत्नतः |
दक्षिणप्रान्तेषु देव्याः स्वाहाञ्चैव स्वधां ततः |
अम्बिकां चर्चिकाञ्चैव तथा कात्यायनीमपि |
रक्तदन्तिकाञ्च सर्वादिमङ्गलाञ्च ततः परम् |
शाकम्भरीं भ्रामरीञ्च शिवदूतीं ततः परम् |
महाकालीञ्च गौरिञ्च तर्जनीं भाविनीं तथा |
महामोहाञ्च प्रयजेत् तथा चैव भयङ्करीम् |
ततः पश्चिमप्रान्तेषु भीमां पद्मां शचीं तथा |
मेधाञ्चैव महामायां सावित्रीं विजयां जयाम् |
देवसेनां धृतिञ्चैव पुष्टिं धृतिञ्च भ्रामरीम् |
महामायां महादेवीं महामेधां तथैव च |
कामेश्वरीमुत्तरस्यां कामदामपि चार्चयेत् |
भ्रामरीं कालरात्रिञ्च महारात्रिं तथैव च |
चक्रेश्वरीं ततश्चैव पूजयेद्भगमालिनीम् |
धूम्रां भीमाञ्च शान्ताञ्च विदारीञ्च महाम्बिकाम् |
लक्ष्मीञ्चैव सुपर्णाञ्च महोग्रोमां तथादरात् |
कुलदेवीं त्र्यक्षरेण मन्त्रेण च समर्चयेत् |
वटुकान् पूजयेद् द्वारे द्वौ द्वौ कृत्वा विभागतः |
सिद्धाख्यञ्चैव सन्देहं कालपुत्राख्यमेव च |
क्रियाकुलनिभञ्चैव मन्त्राङ्गं देवि ! पूत्त्रकम् |
मन्दरेणैव बीजेन सतारेण प्रपूजयेत् |
भैरवानसिताङ्गादीन् क्षेत्रेशांश्च यजेत् क्रमात् |
हेतुकं त्रिपुराङ्गञ्च अग्निजिह्वं तथैव च |
कालास्यञ्च करालास्यमेकपादञ्च भीमकम् |
अनुग्रहञ्चोर्द्धभागे अधश्च नासिकेश्वरम् |
नारसिंहेन बीजेन सतारं हृदयान्तकम् |
वहिः पीठे चार्चयेद्वै तेन बीजेन साधकः |
जम्भकं मणिभद्रञ्च पूर्णभद्रं तथैव च |
विरूपञ्च विरूपाक्षं चित्रकुण्डलमित्यपि |
चित्राक्षं चित्ररूपञ्च केलिमालिनमेव च |
वरेन्द्रं नन्दिनं सिंहं ग्रहान् लोकपतीन् यजेत् |
आदित्यादिग्रहा ये च ये ग्रहाः क्रूरकर्मणः |
तिथयो वासराः सर्वे तेषां हि सन्निधौ स्थिताः |
ते पूजार्थमिहायान्तु पूजयिष्यामि तानहम् |
क्रूरकर्मण इति छान्दसत्वात् ह्रस्वः |
अथास्त्रपूजा ||
दक्षिणादिक्रमेणैव देव्यस्त्राणि प्रपूजयेत् |
प्रतिमन्त्रैः स्वबीजैश्च गन्धचन्दनपुष्पकैः |
इयं येन धृता क्षौणी हतश्च महिषासुरः |
त्रिधाराय च शूलाय तस्मै शुद्धात्मने नमः |
असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः |
श्रीगर्भो विजयश्चैव धर्मपाल ! नमोऽस्तु ते |
इत्यष्टावेव प्रयजेत्तीक्ष्णधाराभिरालिकम् |
चक्रेश्वरीतिमत्रेण लौहदण्डं तथैव च |
सुदर्शन ! महाचक्र ! दैत्यराजभयङ्कर ! |
त्रिपुरान्तकरः श्रीमान् चक्रवर्य ! नमोऽस्तु ते |
चार्वङ्गगणसम्पन्न ! चक्राय च नमो नमः |
सतारश्चक्रमन्त्रोऽयं सर्वविघ्नविनाशनः |
नमोऽस्तु पञ्चवाणाय निर्मलाय महात्मने |
पञ्चतत्त्वस्वरूपाय पञ्चवाणाय वै नमः |
शक्तिस्त्वं सर्वभूतानां व्यापकानाञ्च व्यापकम् |
कालाकालमवष्टभ्य शक्तिवर्य ! नमोऽस्तु ते |
रमाबीजं सतारञ्च सजयं मन्त्रमीरितम् |
वामादिवामतः पूज्याः पश्चान्मन्त्रैर्यथाविधि |
धर्मप्रदस्त्वं समरे धर्माणामायुधोऽप्यसि |
रक्षणीयस्त्वया यस्मात् वरानघ ! नमोऽस्तु ते |
धृतं कृष्णेन रक्षार्थं संहारार्थं हरेण च |
त्रयीमूर्तिञ्च सगरं धनुरस्त्रं नमाम्यहम् |
अत्यन्तं रामकृष्णाभ्यां धनुषे वह्निवल्लभा |
विजयादिशरान्तञ्च धनुर्मन्त्र उदाहृतः |
नागराज ! महापाश ! अनन्तवरणाय च |
निर्मितो विष्णुना यस्मादतः पाहि नमः स्वधा |
चण्डिकायाः प्रदत्तासि सर्वानुबालवर्हिणी |
छुरिके ! रक्ष मां नित्यं शान्तिं कुरु नमोऽस्तु ते |
छुरिकायै च ठद्वयम् |
घण्टायाः शृणु मन्त्रञ्च कोणान्तेन च सुन्दरि ! |
परितः पूजयेन्मन्त्रान् देवांश्चैव ऋषीनपि |
पीठेशांश्चैव जीवेशानुपचारैरनन्तरम् |
तत्रैव च शिवं विष्णुं वनितारञ्च पूजयेत् |
वेदोक्तैरागमोक्तैश्च तथा पौराणिकैरपि |
मन्त्रैर्यथा विभागेन स्वतन्त्रोक्तैः प्रयत्नतः |
शुभ्रेण दधिसूक्तेन गायत्र्या तदनन्तरम् |
मन्त्रं जप्त्वा स्तुतिं कुर्याद्धोमं कुर्याद्दशांशकम् |
प्रसादनं ततः कुर्यादिमं मन्त्रं पठेत्ततः |
यन्मयोपहृतं किञ्चित् पुष्पगन्धानुलेपनैः |
तत् सर्वमुपयुञ्जीत प्रसीद वरदा भव |
पुष्टीं प्रज्ञां धृतिं मेधामारोग्यं भूतिमेव च ||
अथ षोडशोपचारमन्त्राः ||
प्रसीद जगतां मातः ! संसारार्णवतारिणि ! |
मया निवेदितं भक्त्या आसनं सफलं कुरु || १ ||
आसनपरिमाणन्तु मातृकाभेदतन्त्रे पञ्चमपटले ||
चतुरङ्गुलविस्तारं रौप्यनिर्माणपीठकम् |
अलङ्कारं यथायोग्यं पुरुषस्तु निवेदयेत् |
मूलप्रकृतिरूपेण सूयते सचराचरम् |
पूजामहं विधास्यामि स्वागतन्ते महेश्वरि ! || २ ||
दुर्गन्धि परमामोदं परं वागीश्वरेश्वरी |
पाद्यमेतन्मया दत्तं प्रसीद भुवनेश्वरि ! || ३ ||
दूर्वातण्डुलसम्मिश्रं कर्पूरागुरुपूरितम् |
अर्घ्यं दत्तमिदं गृह्ण मत्तस्त्रिभुवनार्चिते ! || ४ ||
आपो नारायणः साक्षादप्सु सर्वं चराचरम् |
निवेदयामि ते देवि ! अद्भिराचमनीयकम् || ५ ||
वाजिमेधफलावाप्त्यै मया दत्तं वरानने ! |
मधुपर्कं प्रतीच्छस्त्र मातर्मे भुवनेश्वरि ! || ६ ||
पुनराचमनीयमप्याचमनीयमन्त्रेण वा दद्यात् || ७ ||
शङ्खस्थमुदकं पुण्यं सुगन्धि सुमनोहरम् |
निवेदितं मया देवि ! स्नानीयं प्रतिगृह्यताम् || ८ ||
त्वं देवि ! परमेशानि ! परंब्रह्मस्वरूपिणि ! |
गृह्ण वस्त्रमिदं देवि ! यज्ञसूत्रमिदं शुभे ! || ९ ||
ज्योतिषां ज्योतिरेकस्त्वमनादिनिधनं न ते |
मया दत्तमलङ्कारमलङ्कुरु नमोऽस्तु ते || १० ||
सुगन्धि दुर्गमं नान्यं कुमुदोत्पलमालिनम् |
सितपीतारुणादानं गृह्ण पुष्पं वरानने ! || ११ ||
धूपं गुग्गुलुसंयुक्तं चन्दनागुरुचर्चितम् |
दशाष्टाङ्गसमुद्भूतं गृहाण परमेश्वरि ! || १२ ||
परं ज्योतिः परं ब्रह्म जगदेकं सनातनि ! |
भूतये मम देवेशि ! दीपोऽयं प्रतिगृह्यताम् || १३ ||
यद्दत्तं परया भुक्त्या फलमूलादिकं मया |
गृहाण परमेशानि ! नैवेद्यं सुमनोहरम् || १४ ||
मातृकाभेदतन्त्रे ||
नैवेद्यं विविधं रम्यं नानाफलसमन्वितम् |
शर्करासंयुतं कृत्वा पायसञ्च निवेदयेत् |
मत्स्यसूक्ते ||
अशेषजगदाधारभूते ! त्रैलोक्यवन्दिते ! |
प्रदक्षिणमहं वन्दे विद्वत्सु पादपङ्कजम् || १५ ||
धान्यमुद्गकलायस्य रजोवस्य तिलस्य च |
प्रकटानेकफलयुग्रचनां विनिवेदयेत् || १६ ||
प्राणान् रक्ष यशो रक्ष पुत्त्रदारधनानि च |
सर्वरक्षाकरी यस्मात्त्वं देवि ! भुवनत्रये |
अत्र बलिदानोक्तस्मार्तभट्टाचार्यलिखिताभिलापवाक्यवद् द्रव्यविशेषेऽपि कामनाविशेषेणाभिलाप उक्तस्तत्रैव ||
द्रव्यदानोचितं वाक्यं शृणु वक्ष्ये समासतः |
यादृशं कल्पसम्पूर्णं तत् प्रयच्छ वरानने ! |
ततो यथाभिमतविजयकामो गन्धमहं ददामीति गन्धं दद्यात् |
कल्पकोटिस्वर्गनिवासकामश्चन्दनागुरुकर्पूरकुङ्कुमैरनु-लेपनमहं ददामीति मिश्रितानुलेपनं दद्यात् |
ततः पुष्पं दशसुवर्णदानफलप्राप्तिकामो नानाविधयुक्तपुष्पमहं ददामीति उद्दिश्य जातीयुक्तविमुक्तचम्पकबिल्वपत्रोत्पलकुमुद- मल्लिकाकाञ्चन्शेफालिकाकह्लारकरवीरजयन्तीबन्धूकयथा- कालप्राप्तजलजारण्यजपर्वतसम्भूतोक्तानुक्तपुष्पाणि दद्यात् |
अद्य राजसूययज्ञफलप्राप्तिकामो बिल्वपत्रमालाद्वयं दद्यात् |
ततः पुष्पदानत्रिगुणफलप्राप्तिकामः करवीरमाल्यमहं ददामीति उक्त्वा नानाकर्मविरचितकृत्यं वकुलमाल्यं दद्यात् |
अद्य गोसहस्रदानफलप्राप्तिकामो मालतीमालाद्वयं रक्तोत्पलञ्च दद्यात् ||
ततो वाजपेयफलप्राप्तिकामो धूपमहं ददामीति बहुविधधूपं दद्यात् |
अश्वमेधफलप्राप्तिकामो घृतप्रदीपमहं ददामीत्युद्दिश्य घृतेन दीपमालायां दीपोल्काञ्च दद्यात् |
ततो गोमेधशतयज्ञप्राप्तिकामो हृद्यनानाफलान्वितपत्रपुष्पोपेतबहुविधान्नपानताम्बूलादीनि मेध्यान्यमूनि दद्यात् |
ततः पुष्कराधिकरणकदशसुवर्णतारदानफलप्राप्तिकामः स्तवकादिफलपञ्चशस्यप्ररूढधान्यशालूकपद्ममृणालानि यथासम्भवमेध्यमतिरूपाणि दद्यात् |
एतद्वस्त्रतन्तुसंख्यवर्षसहस्रावच्छिन्नशिवदुर्गालयमोदन-कामो नेत्रक्षौमादियथासम्भववस्त्राण्यहं ददामीति उक्त्वा सूक्ष्ममृदुरूपाणि वस्त्राणि दद्यात् |
ततो गङ्गाधिकरणकदशगोदानफलप्राप्तिकामः सोत्तरीययज्ञसूत्रं ददामीत्युद्दिश्य दद्यात् |
ततो गोसहस्रदानफलप्राप्तिकामः सुवर्णमहं ददामीत्युक्त्वा दद्यात् |
ततः स्वर्गाधिकरणकदीप्यमानकामश्छत्रमहं ददामीति छत्रम् |
अग्निष्टोमयज्ञफलप्राप्तिकामश्चामरमहं ददामीति चामरं दद्यात् |
अद्य दीर्घायुरारोग्यविजयावच्छिन्नविपुलभोगप्राप्तिकामः अद्य चन्द्रांशुजन्मणिसमः अतिसौभाग्यकामः रूपधान्यकन्यायुतसहस्रावच्छिन्नदुर्गालोकप्राप्तिकामः सोपधानशययापादुकादीनि दद्यात् |
दत्त्वा बलिं ततः कुर्यात् कृष्णच्छागं परात्परम् ||
बलिदानस्य विशेषोऽग्रे वक्ष्यते |
जप्त्वा प्रदक्षिणं कुर्यात् स्तुतिपाठं सदाचरेत् |
अथ स्तुतिः ||
नारद उवाच ||
ओं भगवति ! भयोच्छेदे ! कात्यायनि ! च कामदे ! |
कौशिकि ! त्वं महेशानि ! कालिके ! त्वां नमाम्यहम् || १ ||
प्रचण्डे ! पुत्त्रदे ! देवि ! सूप्रीते ! सुरनायिके ! |
कुलद्योतिकरे ! चोग्रे ! पार्वति ! त्वं प्रसीद मे || २ ||
दुर्गोत्तारिणि ! दुर्गे ! त्वं सर्वाशुभनिवारिणि ! |
सर्वे ! सर्वार्थदे ! देवि ! भव त्वं वरदा मम || ३ ||
चण्डोग्रे ! वरदे ! देवि ! प्रचण्डे ! विजयप्रदे ! |
धर्मार्थकामदे ! देवि ! कात्यायनि ! नमोऽस्तु ते || ४ ||
जन्मान्तरसहस्रेषु तिर्यग्योनिगतस्य च |
अघं संहर मे देवि ! ज्ञानतोऽज्ञानतः कृतम् || ५ ||
शान्तिपुष्टिप्रदे ! देवि ! मातस्त्रैलोक्यतारिणि ! |
नमस्यामि जगद्धात्रि ! त्वामहं बिल्वभाविनि ! || ६ ||
नमस्तेऽस्तु शिवे ! देवि ! सर्वव्यापिनि ! शाङ्करि ! |
निजधर्मादिकं काम्यं कल्याणञ्च प्रदेहि मे || ७ ||
सर्वेषां नाथभूतासि त्वमेवैकाकिनी यतः |
तस्मान्नमामि देवेशि ! प्रसन्ना वरदा भव || ८ ||
इयं सर्वेश्वरीपूजा यन्मया देवि ! ते कृता |
पूर्णा भवतु सा सर्वा त्वत्प्रसादान्महेश्वरि ! || ९ ||
जातस्य यजमानस्य गर्भस्थस्य च देहिनः |
मा भूत्तत्र कुले जन्म यत्र देवी न चण्डिका || १० ||
इत्यष्टमीकृत्यम् ||
अथ निशीथकृत्यम् ||
अर्द्धरात्रौ ततः कुर्याद् दिवसे वा समाहितः |
सन्ध्यायां वा महेशानि ! शरणाम्भसि पूर्वकम् |
अष्टम्याञ्च नवम्याञ्च शिविकायां यथेच्छया |
निशायात्रां प्रकुर्वीत सन्ध्यायां रजनीमुखे |
ततः सम्पूजयेद्भक्त्या बलिभिः पायसादिना |
नृत्यगीतविचित्रैश्च वाद्यैरुच्चावचैरपि |
रक्तपुष्पस्य कुसुमष्टम्याञ्च निवेदयेत् |
सहस्रसंख्यकैर्देवि ! वकुलैर्वा मनोरमैः |
पुण्डरीकन्तु यो दद्यादर्द्धरात्रौ विशेषतः |
सर्वान् कामानवाप्नोति शतमष्टोत्तरं तथा |
अथ नवमीकृत्यम् तत्रैव ||
नवम्यां पूर्ववत् पूजा कर्तव्या भूर्तिमिच्छता |
देव्यै नवम्यां सन्ध्यायां पिशितान्नं सशर्करम् |
दद्याद् यदि तदा मद्यवर्जितं तदरान्वितम् |
अरं काञ्जिकम् ||
शान्तिं कृत्वा ददेद्धेनुं दक्षिणां विधिवद् यथा |
दक्षिणां वस्त्रयुग्मञ्च आचार्याय निवेदयेत् |
परितोषं पुनर्दानं विधिज्ञाय च काञ्चनम् |
धान्यं वामस्तथा ताम्रं ब्रह्मणे धान्यकाञ्चनम् |
ऋत्विजेऽपि तथा धान्यं सतिलं काञ्चनं तथा |
ब्राह्मणांश्च कुमारीश्च अन्यानपि च पूजयेत् |
दीनान्धकृपणानाञ्च भक्तितः पूजनं चरेत् |
दद्यादुक्तमर्कभोज्यं दिनभोज्यं विशेषतः ||
पतिरन्यं यदा दोर्भिर्बलिदानाद्यशान्तये |
शिवभक्तान् पूजयेच्च शिवाभक्तान् विशेषतः |
शिवभक्ताश्च ये केचिद् विष्णुभक्ताश्च पार्वति ! |
गृहं प्रविश्य च पुनर्गीतवाद्यपुरःसरम् |
गृहं सम्पूजयेद्भक्त्या भुञ्जीत बान्धवैः सह ||
इति नवमीकृत्यम् ||
तत्रैव |
प्रातरेव दशम्यान्तु नित्यं निर्वर्त्य सादृतः |
जानुभ्यामवनीं गत्वा इदं संश्रावयेत्ततः |
ओं कालि ! कालि ! महाकालि ! कालिके ! पापनाशिनि ! |
कालि ! करालनिष्क्रान्ते ! कालिके ! त्वां नमोऽस्तु ते |
सिंहवाहिनि ! चामुण्डे ! पिनाकधनुवल्लभे ! |
उपहारं गृहीत्वैवं प्रसीद परमेश्वरि ! |
ओं उत्तिष्ठ देवि ! चामुण्डे ! शुभां पूजां प्रगृह्य च |
व्रज त्वं स्रोतसि जले वृद्धौ च स्थीयतामिह |
निर्माल्यधारिणी पूज्या चाण्डाली गन्धचन्दनैः |
समर्पयित्वा मन्त्रेण मन्त्रमेतदुदीरयेत् |
निमज्याम्भसि सम्पूज्या परिकालार्चिते जले |
पुत्त्रायुर्धनवृद्ध्यर्थं स्थापितासि जले मया |
यजमानः स्वयञ्चैव चण्डिकां प्रेषयेच्छिवाम् |
न वीक्षेत महेशानीं न नग्नां प्रेषयेज्जले |
दशम्यां श्रवणाप्राप्ते अप्सु निक्षिप्य दारकः |
अलाभे केवलायान्तु न निशायां कथञ्चन |
पूजोपहारद्रव्याणि आचार्याय निवेदयेत् |
तदर्द्धञ्च विधिज्ञाय तदर्द्धञ्चैव ब्रह्मणे |
तच्छेषं ऋत्विजे दद्यात् परितोषं तथैव च |
पूजालयं न वीक्षेत गृहस्थः स्वं कदाचन |
अप्सु निक्षिप्य देवेशीं ब्राह्मणायोपपादयेत् |
देवीस्थितगृहेणापि यो गृहं कारयेत् सुधीः |
तस्य लक्ष्मीर्बलञ्चायुः सर्वं नश्यति तत्क्षणात् |
इति दशमीकृत्यम् ||
इति श्रीप्राणतोषिण्यां चतुर्थे काम्यकाण्डे दुर्गोत्सवप्रकरणे प्रतिपदादिकृत्यरूपस्तवकथनं नाम पञ्चमः परिच्छेदः |
एकपञ्चाशत्पटले ||
भगवानुवाच ||
अथ दुर्गामनुं वक्ष्ये सर्वतन्त्रानुसारतः |
शारदीयप्रयोगे तु तद्विशेषं यथा शृणु |
वाक्शक्तिकमलास्याश्च त्र्यक्षरं परिकीर्तितम् |
नित्ये नैमित्तिके काम्ये मोक्षेषु च नियोजयेत् |
ऋषिः स्यान्नारदश्चास्य छन्दोऽनुष्टुप् प्रकीर्तितम् |
शम्भुश्च देवता देवी चतुर्वर्गेषु योजयेत् |
कामलक्षं जपेन्मन्त्रं तद्दशांशेन तर्पणम् |
तत्त्वन्यासं बलिञ्चैव होमं दशदशांशके |
षट्पुरञ्चाष्टपत्रञ्च कलापत्रं धरापुरम् |
चतुर्द्वारं बीजयुक्तं पीठयुक्तं समर्चयेत् |
ब्राह्म्यादीनथ पत्रे च जयन्त्यादींश्च षट्पुरे |
शेषशेषं तथा मध्ये अमृताद्याः कलाच्छदे |
ध्यानम् ||
जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम् |
लोचनत्रयसंयुक्तां पूर्णेन्दुसदृशाननाम् |
तप्तकाञ्चनवर्णाभां सुप्रतिष्ठां सुलोचनाम् |
नवयौवनसम्पन्नां सर्वाभरणभूषिताम् |
सुचारुदशनां तद्वत् पीनोन्नतपयोधराम् |
त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम् |
त्रिशूलं दक्षिणे हस्ते खड्गं चक्रं तथैव च |
तीक्ष्णवाणं तथा शक्तिं दक्षिणेऽपि निबोधत |
खेटकं पूर्णचापञ्च पाशमङ्कुशमेव च |
घण्टां वा परशुं वापि देव्या वामे विचिन्तयेत् |
अधस्तान्महिषं तद्वद्विश्रिरस्कं प्रदर्शयेत् |
शिरश्छेदोद्भवं तद्वद्दानवं खड्गपाणिनम् |
हृदि शूलेन निर्भिन्नं निर्यदन्त्रविभूषितम् |
रक्तरक्तीकृताङ्गञ्च रक्तविस्फुरितेक्षणम् |
वेष्टितं नागपाशेन भृकुटीभीषणाननम् |
पिबन्तञ्चैव रक्तञ्च देव्याः सिंहं प्रदर्शयेत् |
देव्यास्तु दक्षिणं पादं समं सिंहोपरिस्थितम् |
किञ्चिदूर्द्ध्वं तथा वाममङ्गुष्ठं महिषोपरि |
ध्यात्वानेन जपेन्मन्त्रं बलिं दत्त्वा स्तुतिं पठेत् |
ऋषिः स्यान्नारदश्छन्दोऽप्यनुष्टुप् शम्भुरेव च |
देवता च समाख्याता चण्डिका परमेश्वरि ! |
ओं परंब्रह्मस्वरूपाञ्च वेदगर्भां जगन्मयीम् |
शरण्ये ! त्वामहं वन्दे दुर्गां दुर्गतिनाशिनीम् || १ ||
कामाख्यां कामदां श्यामां कामरूपां मनोरमाम् |
ईश्वरीं त्वामहं वन्दे दुर्गां दुर्गतिनाशिनीम् || २ ||
त्रिनेत्रां हास्यसंयुक्तां सर्वालङ्कारभूषिताम् |
विजयां त्वामहं वन्दे दुर्गां दुर्गतिनाशिनीम् || ३ ||
ब्रह्मादिभिः स्तूयमानां सिद्धगन्धर्वसेविताम् |
भवानीं त्वामहं वन्दे दुर्गां दुर्गतिनाशिनीम् || ४ ||
निशुम्भशुम्भमथनीं महिषासुरघातिनीम् |
दिव्यरूपामहं वन्दे दुर्गां दुर्गतिनाशिनीम् || ५ ||
विंशत्यर्द्धभुजां देवीं शुद्धकाञ्चनसन्निभाम् |
गौरीरूपामहं वन्दे दुर्गां दुर्गतिनाशिनीम् || ६ ||
त्रिशूलं खड्गचक्रञ्च वाणशक्तिं परश्वधम् |
दधानां त्वामहं वन्दे दुर्गां दुर्गतिनाशिनीम् || ७ ||
जगन्मयीं महाविद्यां सृष्टिसंहारकारिणीम् |
सर्वदैवमहं वन्दे दुर्गां दुर्गतिनाशिनीम् || ८ ||
इदन्तु कवचं दिव्यं महामन्त्रं महाफलम् |
यः पठेन्मानवो नित्यमस्मद्भक्तिसमन्वितः |
धनं धान्यं प्रयच्छामि सकृदावर्तनेन तु |
इति मत्स्यसूक्ते दुर्गास्तोत्रं समाप्तम् |
तत्रैव |
दुर्गन्त्वारक्तशृङ्खलम् |
निगमाद्यं वह्निजायां दशार्णं परिकीर्तितम् |
एषा विद्या महाविद्या जयदुर्गा प्रकीर्तिता |
ऋषिः स्यान्नारदश्छन्दो गायत्री परिकीर्तिता |
देवता च भवेद्दुर्गा सर्वार्थे विनियोजयेत् |
मन्त्रं लक्षं जपेन्मन्त्री तत्त्वन्यास उदाहृतः |
तद्दशांशं जुहुयाच्च तर्पणं ऋतुसंख्यकम् |
दद्यान्महिषमन्त्रेण आसनं परिकीर्तयेत् |
मूलेन कल्पयेन्मूर्तिं शृणु ध्यानं वरानने ! |
ततो जलनिधेस्तीरे वनराजिविराजितम् |
तमालतालहिन्तालपाटलामलकैर्वृतम् |
कुन्दमन्दारदाडीमकदम्बकुसुमैर्युतम् |
चम्पकाशोकरम्भाढ्यं चन्दनागुरुभूषितम् |
सुगन्धिकुसुमामोदगन्धामोदितदिङ्मुखम् |
पशुपक्षिगणाकीर्णं बिल्वनोपसरोवरम् |
कुमुदोत्पलकह्लारपुण्डरीकोपशोभितम् |
तस्मिन्नमृतदं चारुपारिजातचतुष्टयम् |
पादपल्लवमामोदि मञ्जरीपुञ्जधारितम् |
तस्मिन्मणिमयं कुण्डं मण्डपं मणिकुट्टिमम् |
तडित्कोटिप्रतीकाशं बालादित्यसमप्रभम् |
मण्डितं पाण्डरच्छत्रैर्विमानेन विराजितम् |
शोभितं शतसाहस्रैर्ध्वजैः पाण्डरचामरैः |
तत्र सिंहासनं रम्यं रत्नदामविराजितम् |
ततो भावयेद्भास्वरं सिंहमाजं चतुर्वेदपादं चतुर्विंशतत्त्वम् |
वहिर्लोलजिह्वं चलत्पिङ्गलाक्षं तुषारप्रभं दुर्निरीक्षं समस्तैः ||
महत्ताप्रभवारक्तपङ्कजं षट्पुरान्वितम् |
विभ्राजमानं विस्तीर्णं मृगराजोपरिस्थितम् |
ध्यायेत्तस्मिन् तप्तजाम्बूनदाभां दिव्यैर्भव्यैर्भासयन्तीं त्रिनेत्रैः |
चन्द्रादित्यौ कुण्डले द्वे दधानामूर्द्ध्वं चन्द्रं धारयन्तीं मुदा हि |
स छिन्नबलवीर्यौघो निर्गतो महिषासुरः |
सप्रासेन त्रिशूलेन भ्रुकुटीकुटिलाननाम् |
गृहीतनागतत्केशमृगेन्द्राकृष्टवाहकम् |
लोहितास्यैर्महाघोरैः शार्दूलैरपि भक्षितम् |
नियुक्तं रक्तपं सिंहं वीक्षयन्ती मुहुर्मुहुः |
सिद्धगन्धर्वरक्षोभिर्यक्षविद्याधरोरगैः |
गीतवादित्रनिर्घोषैः स्तूयमाना महेश्वरी |
महोत्सवे महारात्रौ उत्थाने शयनेऽपि च |
महामखे महायोगे ध्यानं तत्र नियोजयेत् |
नित्यां नीलोत्पलाभां तां त्रिनेत्रां शशिशेखराम् |
चतुर्भिः स्वकरैर्धत्ते शङ्खचक्रकृपाणकम् |
त्रिशिखञ्च जटाजूटं सिंहस्थामपि चिन्तयेत् |
पीठसिंहे महेशानि ! यजेत् शक्तिसमन्विताम् |
प्रभा माया जया सूक्ष्मा विशुद्धा नन्दिनी तथा |
सुप्रभा विजया सर्वसिद्धिदा नव शक्तयः |
षट्पुरे भैरवीञ्चैव शेषमध्ये समापयेत् |
पूर्वाद्यग्रे च ब्रह्मादीन् यच्छेषं पूर्ववत् प्रिये ! |
अष्टादशभुजायाश्च वक्ष्ये मन्त्रं शिवप्रदम् |
भावस्थाने समुन्नीय तत्त्वदुष्टे उदाहृतः |
ध्यानं देव्याः प्रवक्ष्यामि सर्वपापप्रणाशनम् |
सूर्यमण्डलमध्यस्थां दावाग्निसदृशप्रभाम् |
जटाजूटसमायुक्तां त्रिनेत्रां शशिशेखराम् |
अष्टादशाब्दिकां देवीं रक्ताम्बरविभूषिताम् |
निघ्नन्तीं महिषञ्चैव सिंहासनोपरिस्थिताम् |
शक्तिञ्च दुर्द्धरं शूलं वज्रं खड्गं तथाङ्कुशम् |
शरं चक्रं शलाकञ्च वामदक्षिणतः शृणु |
सिद्धाख्यवटुकञ्चैव सन्देहवटुकं पुनः |
समयाद्यं तथाङ्गानि पत्राद्यञ्च क्रिया तथा |
पुत्रं तेषामनन्तन्तु वटुकं शक्तिवामतः |
तारेण भावयुक्तेन नमसान्तेन चार्चयेत् |
अजितापराजिता चैव जया च विजया पुनः |
काली चैव तथा श्यामा मङ्गला सिद्धिरेव च |
कात्यायन्याः प्रवक्ष्यामि मन्त्रं सर्वार्थसाधनम् |
वागाद्या जयदुर्गायास्तारमूले महेश्वरि ! |
ततश्चार्कभुजायाश्च कमलाद्यं समुद्धरेत् |
मायान्यासञ्च सर्वत्र द्विभुजायाश्च वाग्भवम् |
सिन्दूरार्कप्रसङ्काशां पीनोन्नतपयोधराम् |
त्रिनेत्रां महिषघ्नीञ्च चन्द्रलेखांशुभिर्युताम् |
करैश्चतुर्भिः खड्गञ्च शूलं चक्रं गदां तथा |
वामे चर्माङ्कुशं घण्टां मुण्डपञ्चकमेव च |
यवाद्याः पूजयेत् पत्रे श्रीकण्ठादींश्च तद्वहिः |
अथ चाष्टभुजायाश्च ध्यानं वक्ष्ये समाहितः |
सूर्यकोटिप्रतीकाशां त्रिनेत्रां शशिशेखराम् |
मृगचर्मोत्तरासङ्गां सिंहस्कन्धनिवासिनीम् |
अष्टभिर्बाहुभिः खड्गं चक्रं दक्षिणबाहुभिः |
वज्राशनिं कपालञ्च वामे चर्म धनुः शरम् |
घण्टाञ्च परशुञ्चैव क्रमादस्त्राणि वै प्रिये ! |
पुष्ट्यादिमातरः पत्रे श्रीकण्ठादींश्च तद्बहिः |
चतुर्भुजायाः श्रीवत्सध्यानं वैष्णवचोदितम् |
सिंहारूढां महाभीमां शूलं चक्रं धनुस्तथा |
शङ्खं पद्मञ्च महिषं निघ्नन्तीं परिचिन्तयेत् |
इति दुर्गाविशेषपूजा |
अथ दुर्गानाममाहात्म्यं तत्र स्वरूपं दर्शयत्रि रुद्रजामले |
तवर्गतृतीयो वर्णः पञ्चमस्वरसंयुतः |
कवर्गस्य तृतीयश्च रेफं तस्योपरि प्रिये ! |
द्वितीयस्वरसंयुक्तं नामेदं परिकीर्तितम् |
अथ नाममाहात्म्यम् |
मुण्डमालातन्त्रे द्वितीयपटले |
न हि दुर्गासमा पूजा न हि दुर्गासमो जपः |
न हि दुर्गासमं ज्ञानं न हि दुर्गासमं तपः |
दुर्गायाश्चरितं यत्र तत्र कैलासमन्दिरम् |
तृतीयपटले |
दुर्गास्मरणजं देवि ! दुर्गास्मरणजं फलम् |
दुर्गायाः स्मरणेनैव किं न सिध्यति भूतले |
शैवो वा वैष्णवो वापि शाक्तो वा गिरिनन्दिनि ! |
भजेद्दुर्गां स्मरेद्दुर्गां यजेद्दुर्गां शिवप्रियाम् |
तत्क्षणाद्देवदेवेशि ! मुच्यते भवबन्धनात् |
तथा |
दुर्गाया मन्त्रमाकारं नानातन्त्रे श्रुतं त्वया |
दुर्गे दुर्गेति दुर्गाया दुर्गे नामपरं मनुम् |
यो भजेत् सततं चण्डि ! जीवन्मुक्तः स मानवः |
हे दुर्गे ! दुर्गे घोरसङ्कटे दुर्गायाः परं मनुं दुर्गे इति नामशतं यो भजेज्जपेत् स जीवन्नपि मुक्तो भवेदित्यन्वयः |
फलान्तरमाह तत्रैव |
महोत्पाते महारोगे महाविपदसङ्कटे |
महादुःखे महाशोके महाभये समुत्थिते |
यः सदा संस्मरेद्दुर्गां यो जपेत् परमं मनुम् |
स जीवलोके देवेशि ! नीलकण्ठत्वमाप्नुयात् |
महोत्पातादिषु दुर्गां यः स्मरेत् स्मृतिविषयताशालिनीं कुर्याद्यश्च जपन् मानसप्रत्यक्षविषयतावतीं कुर्यात् स नीलकण्ठत्वमाप्नुयात् कालकूटस्येव महोत्पातादेः पातृत्वे लभेत् |
उत्तरत्र तु नीलकण्ठत्वं शिवत्वमित् सर्वं समञ्जसमिति |
तदेव स्पष्टयति चतुर्थपटले |
श्रद्धयाऽश्रद्धया वापि यः कश्चिन्मानवः स्मरेत् |
दुर्गां दुर्गशतं तीर्य स याति परमां गतिम् |
सप्तमपटले |
नानातन्त्रमतं देवि ! नानारत्नं प्रकाशितम् |
ब्रह्मस्वरूपं विज्ञातुं कः समर्थो महीतले |
नानामार्गे प्रधावन्ति पशवो हतबुद्धयः |
श्रीदुर्गाचरणाम्भोजं हित्वा यान्ति रसातलम् |
सत्यं वच्मि हितं वच्मि पथ्यं वच्मि पुनः पुनः |
न भुक्तिश्च न मुक्तिश्च विना दुर्गानिषेवणात् |
अष्टमपटले |
भक्त्या भगवतीं दुर्गां दुःखदारिद्र्यनाशिनीम् |
संस्मरेत् प्रजपेद्ध्यायेत् स मुक्तो नात्र संशयः |
जीवन्मुक्तः स विज्ञेयस्तन्त्रभक्तिपरायणः |
स साधको महाज्ञानी यश्च दुर्गापदानुगः |
न च भुक्तिर्न वा मुक्तिर्न गतिर्नगनन्दिनि ! |
विना दुर्गां जगद्धात्रि ! निष्फलं जीवनं भवेत् |
शक्तिमार्गरतो भूत्वा योऽन्यमार्गे प्रधावति |
न च शाक्तास्तस्य वक्त्रं परिपश्यन्ति शङ्करि ! |
विना दुर्गां जगद्धात्रि ! वाग्जालशास्त्रमोहिताः |
अन्यदेवं भजन्ते ते चान्यशास्त्रेषु घूर्णिताः |
पिच्छिलातन्त्रे पूर्वखण्डे तृतीयपटले |
न दुर्गानामसदृशं नामास्ति जगतीतले |
यस्य स्मरणमात्रेण पलायन्ते मह्यपदः |
दुर्गानामस्मरणेन सर्वविद्यास्मरणमाह |
तारिणी सुन्दरी काली दुर्गा च भैरवी तथा |
भुवनेशी महालक्ष्मीस्तासां दुर्गेति नाम वै |
तासामिति बहुवचनाद्गणो लभ्यते |
प्रागुक्तनाम्नो मन्त्रत्वमत्र स्पष्टयति |
दुर्गानाममहामन्त्रः सर्वमन्त्रोत्तमोत्तमः |
लक्षसंख्याजपेनैव पुरश्चर्या विधीयते |
राजादिभयमापन्ने दुर्गानाम परा गतिः |
महापदि महात्रासे महादारिद्र्यसङ्कटे |
लक्षसंख्याजपेनैव पलायन्ते महापदः ||
जामले |
शिव उवाच |
आरोग्यस्य च सम्पत्तेर्ज्ञानस्य च महोदयः |
नामेदं परमो हेतुर्मुक्तये भवसङ्गिनाम् |
कलिकाले विशेषेण महापातकिनामपि |
निस्तारबीजं विज्ञेयं नामसंस्मरणं प्रिये ! |
परदाररतोऽपि स्यात् परद्रव्यापहारकः |
सोऽपि पापात् प्रमुच्येत यो वा स्यादतिपातकी |
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः |
तस्मादपि प्रमुच्येत यदि नाम स्मरेत् सुधीः |
विष्णुनामसहस्रेभ्यो ह्यधिकं परमेश्वरि ! |
दुर्गानाम समाख्यातं चतुर्वेदविदां मतम् |
दुर्गानामजपात् पापं सर्वं याति हि तत्क्षणात् |
वेदेष्वागमतन्त्रेषु पुराणेषु सुनिश्चितम् |
हरिनाम्नः परं नास्ति वैष्णवानामिदं स्मृतम् |
तादृशाञ्च मते ज्ञेयं दुर्गानाम ततोऽधिकम् |
न तस्य दुर्लभं किञ्चित् परत्रेह च सुन्दरि ! |
यः स्मरेत् सततं दुर्गां स एव श्रीसदाशिवः |
शौचाचारविहीनोऽपि संस्मरेत् परमेश्वरीम् |
स एव परमं स्थानं कथितं वीरवन्दिते ! |
वैष्णवानाञ्च शैवानां शुद्धानां यादृशी गतिः |
नामसंस्मरणाद्यस्य तथा शाक्तजनस्य च |
कर्मणानेन देवेशि ! नाधिकारी यमो मम |
दुर्गानामजपो यस्य किं तस्य कथयामि ते |
अहं पञ्चाननः कान्ते ! वर्षकोटिशतैरपि |
यावद्भूर्वायुराकाशं जलं वह्निः शशी ग्रहाः |
तावत्तिष्ठन्ति ते स्वर्गे दुर्गानामपरायणाः |
धनी पुत्री सुखी सोऽपि चिरजीवी भवेद्भुवि |
प्रत्यहं यो जपेद् भक्त्या शतमष्टोत्तरं शुचिः |
अष्टोत्तरसहस्रन्तु यो जपेद्भक्तिमान् नरः |
प्रत्यहं परमेशानि ! तस्य पुण्यफलं शृणु |
धनार्थी धनमाप्नोति ज्ञानार्थो ज्ञानमेव च |
रोगार्तो मुच्यते रोगात् बद्धो मुच्येत बन्धनात् |
भीतो भयात् प्रमुच्येत पापान्मुच्येत पातकी |
पुत्रार्थी पुत्रमाप्नोति देवि ! सत्यं न संशयः |
अयुतं यो जपेद्भक्त्या प्रत्यहं परमेश्वरि ! |
निग्रहानुग्रहे शक्तः स भवेत् कल्पपादपः |
तस्य क्रोधाद्भवेन्मृत्युः प्रसादे परिपूर्णता |
एवञ्च तं विजानीयात् समर्थं सर्वकर्मणि |
मासि मासि च यो लक्षं जपं कुर्याद्वरानने ! |
न तस्य ग्रहपीडा स्यान्नापि बन्धुवियोजनम् |
न चैश्वर्यं क्षयं याति न च सर्पक्षतं क्वचित् |
नाग्निचौरभयं वापि न चारण्ये जले भयम् |
पर्वतारोहणे देवि ! सिंहव्याघ्रभयादिके |
भूतप्रेतपिशाचानां भयं वा कुत्रचिद्भवेत् |
न च वैरिभयं कान्ते ! न च दस्युभयं पथि |
ज्वरादीनाञ्च रोगाणां न शरीरे स्थितिः क्वचित् |
परलोके भवेत् स्वर्गी कथितं वीरवन्दिते ! |
चन्द्रसूर्यसमो भूत्वा वसेत् कल्पायुतं दिवि |
वाजपेयसहस्रस्य यत् फलं स्याद्वरानने ! |
प्रत्यहं तत् फलं दुर्गानामजापाद्वरानने ! |
पूजाकाले जपेद्यस्तु गङ्गातीरे च मानवः |
शताश्वमेधयज्ञानां फलमाप्नोति साधकः |
प्राजापत्यव्रते यादृक् तथा चान्द्रायणेऽपि वा |
एकादस्युपवासेन कोटिसंख्येन यादृशम् |
चन्द्रसूर्यग्रहे गत्वा गङ्गायाञ्च सुरेश्वरि ! |
कुरुक्षेत्रे च सर्वस्वदाने यत् फलमीरितम् |
प्रयागादिषु तीर्थेषु माघस्नाने च यत् फलम् |
शिवरात्रिचतुर्दश्यां शम्भोश्चैव प्रपूजनात् |
रथस्थं वामनं दृष्ट्वा क्षेत्रे श्रीपुरुषोत्तमे |
कामरूपे महामायां कामाख्यायोनिमण्डले |
पूजयित्वा फलं यादृक् दुर्गानाम ततोऽधिकम् |
अष्टम्याञ्च चतुर्दश्यां नवम्याञ्च महानिशि |
श्मशाने च जपं कुर्याच्चाण्डालहृदयोपरि |
दिगम्बरो निरातङ्को मुक्तकेशो भवेद्यदि |
स सिद्धिं समवाप्नोति देवानामपि दुर्लभाम् |
शनिभौमदिने देवि ! भवेदिन्दुक्षयो यदि |
तत्रायुतं जपेद्यस्तु निरातङ्को महानिशि |
संवन्द्यो देवतानाञ्च मुनीन्द्राणाञ्च सुन्दरि ! |
भौमवारे महादेवि ! यदि स्यादष्टमीतिथिः |
बिल्वपत्रसहस्रैस्तु तत्र सम्पूज्य पार्वतीम् |
बलिं दद्याद्विधानेन जप्त्वा नामसहस्रकम् |
यद्यदिष्टतमं लोके तत्तदाप्नोति निश्चितम् |
कृष्णाष्टमीसमायुक्तनिशायां स गणो भवेत् |
तत्र गत्वा श्मशाने वै शनिवारे वरानने ! |
पशूनां घातनं कृत्वा योनिमुद्रां विधाय च |
सर्वपापविनिर्मुक्तः साधकः साधयेच्छिवाम् |
अष्टम्याञ्च चतुर्दश्यां नवम्याञ्चैव पार्वति ! |
शतमष्टोत्तरं यस्तु दुर्गानामजपं चरेत् |
स लभेद्वाञ्छितं सर्वमिह लोके परत्र च |
गङ्गागोदावरीरेवायमुनाजलसन्निधौ |
यो जपेत् साधको भक्त्या सहस्रञ्च तिथिक्षये |
परस्त्रीहरणात् पापं परद्रव्यापहारणात् |
सर्वं तत् क्षयमाप्नोति महारौरवकारणम् |
कामरूपे महातीर्थे कामाख्यायोनिसन्निधौ |
लक्षमेकं जपेद्यस्तु निशायां वीरवन्दिते ! |
स च वागीश्वरो भूत्वा परत्र शिवतां व्रजेत् |
भवानीसन्निधौ यस्तु वाराणस्यां जपं चरेत् |
दरिद्रोऽपि धनी भूत्वा शिवलोके महीयते |
इति दुर्गानामफलम् |
अथ दुर्गाशतनामस्तोत्रम् |
मुण्डमालातन्त्रे द्वितीयपटले |
दुर्गायाः शतनामानि शृणु त्वं भवगेहिनि ! |
दुर्गा भवानि देवेशी विश्वनाथप्रिया शिवा |
घोरदंष्ट्रा करालास्या मुण्डमालाविभूषणा |
रुद्राणी तारिणी तारा माहेशी भववल्लभा |
नारायणी जगद्धात्री महादेवप्रिया जया |
विजया च जयाराध्या शर्वाणी हरवल्लभा |
असिता चाणिमा देवी लघिमा गरिमा तथा |
महेशशक्तिर्विश्वेशी गौरी पर्वतनन्दिनी |
नित्या च निष्कलङ्का च निरीहा नित्यनूतना |
रक्ता रक्तमुखी वाणी वसुयुक्ता वसुप्रदा |
रामप्रिया रामरता रघुनाथवरप्रदा |
राज्येश्वरी राज्यरता कृष्णा कृष्णवरप्रदा |
यशोदा राधिका चण्डी द्रौपदी रुक्मिणी तथा |
गुहप्रिया गुहरता गुहवंशविलासिनी |
गणेशजननी माता विश्वरूपा च जाह्नवी |
गङ्गा काली च काशी च भैरवी भुवनेश्वरी |
निर्मला च सुगन्धा च दैवकी देवपूजिता |
दक्षजा दक्षिणा दक्षा दक्षयज्ञविनाशिनी |
सुशीला सुन्दरी सौम्या मातङ्गी कमला कला |
निशुम्भनाशिनी शुम्भनाशिनी चण्डनाशिनी |
धूम्रलोचनसंहर्त्री महिषासुरमर्दिनी |
उमा गौरी कराला च कामिनी विश्वमोहिनी |
इत्येवं शतनामानि कथितानि वरानने ! |
नामस्मरणमात्रेण जीवन्मुक्तो भवेन्नरः |
यः पठेत् प्रातरुत्थाय स्मृत्वा दुर्गापदद्वयम् |
मुच्यते जन्मबन्धेभ्यो नात्र कार्या विचारणा |
सन्ध्याकाले दिवाभागे निशायां वा निशामुखे |
पठित्वा शतनामानि मन्त्रसिद्धिं लभेद्ध्रुवं |
अज्ञात्वा स्तवराजञ्च दश विद्या भजेद् यदि |
तथापि नैव सिद्धिः स्यात् सत्यं सत्यं महेश्वरि ! |
इति मुण्डमालातन्त्रे दुर्गाशतनामस्तोत्रं समाप्तम् |
अथ दुर्गागीता |
तथा सप्तमप्टले |
नानातन्त्रमतं देवि ! नानारत्नं प्रकाशितम् |
ब्रह्मस्वरूपं विज्ञातुं कः समर्थो महीतले |
नानामार्गे प्रधावन्ति पशवो हतबुद्धयः |
श्रीदुर्गाचरणाम्भोजं हित्वा यान्ति रसातलम् |
सत्यं वच्मि हितं वच्मि पथ्यं वच्मि पुनः पुनः |
न भुक्तिश्च न मुक्तिश्च विना दुर्गानिषेवणात् |
पार्वत्युवाच |
गोलके चैव राधाहं वैकुण्ठे कमलात्मिका |
ब्रह्मलोके च सावित्री भारती वाक्स्वरूपिणी |
कैलासे पार्वती देवी मिथिलायाञ्च जानकी |
द्वारकायां रुक्मिणी च द्रौपदी नागसाह्वये |
गायत्री वेदजननी सन्ध्याहञ्च द्विजन्मनाम् |
योगमध्ये पूषाहञ्च पुष्पे कृष्णाऽपराजिता |
पत्रे मालूरपत्रञ्च पीठे योनिस्वरूपिणी |
हरिहरात्मिका विद्या ब्रह्मविष्णुशिवार्चिता |
विशेषानुग्रहेणैव विज्ञेया शङ्कर ! प्रभो ! |
यत्र कुत्र स्थले नाथ ! शक्तिस्तिष्ठति शङ्कर ! |
तत्रैवाहं महादेव ! निश्चितं मतमुत्तमम् |
शक्तिमार्गं परित्यज्य योऽन्यमार्गे हि धावति |
करस्थं स मणिं त्यक्त्वा भूतिभारं प्रधावति |
भूतिभारं भस्मभारं ||
इति दुर्गागीता समाप्ता ||
अथ बलिः ||
समयाचारतन्ते ||
सर्वासां देवतानाञ्च बलिदानं शृणुष्व मे |
येन कृत्वाशु लभते यथोक्तफलमुत्तमम् |
नित्यन्तु भोजने काले मूलमन्त्रेण साधकः |
कारयेद्बलिदानञ्च भोजनात् प्रथमं प्रिये ! |
ततश्चानन्तरं कुर्याद्भोजनं स्थिरमानसः |
भोजनानन्तरं देवि ! शुचिस्थः कृतवान् भवेत् |
बलिं समुद्धरेद् यत्रादेकान्ते स्थापयेत्तदा |
स्थापयित्वा बलिं तत्र विहरेच्च यथासुखम् |
उत्तराम्नायेषु देवेशि ! मातङ्गी या प्रकीर्तिता |
तस्या बलिं भोजनान्ते विनैवाचमने कृते |
मूलमन्त्रेण सुभगे ! बलिं दद्याद्दिने दिने|
ततः किञ्चिज्जपं कृत्वा ततश्चाचमनादिकम् |
पुनश्च रात्रौ सर्वेषां बलिं कृत्वा प्रयत्नतः |
यथोक्तविधिना कुर्याद् यथोक्तफलमाप्नुयात् |
बलिश्च द्विविधो देवि ! सात्त्विको राजसस्तथा |
सात्त्विको बलिराख्यातो मांसरक्तादिवर्जितः |
राजसो मांसरक्तादियुक्तः स प्रोच्यते प्रिये ! |
गायत्रीतन्त्रे पञ्चमब्राह्मणपटले |
त्रिविधा बलयः प्रोक्ता उत्तमाधममध्यमाः |
उत्तमश्चोत्तमं दद्यान्मध्यमो मध्यमं तथा |
अधमः कथ्यते देवि ! अधमेऽप्यधमा गतिः |
दशसंख्यबलिर्यत्र मध्यमस्तेन कथ्यते |
सात्त्विकी उत्तमा पूजा यदि दद्यान्महाबलिम् |
अष्टमीनवमीसन्धौ दद्याद्यत्रान्महाबलिम् |
शतं सहस्रं लक्षं वा अयुतं कोटिकोटिशः |
शस्यते नृपतिश्रेष्ठः सात्त्विकोपूजने बलिः |
एकेन बलिदानेन चतुर्वर्गमवाप्नुयात् |
बहुभिर्बलिदानैस्तु परंब्रह्ममयो भवेत् |
बहुभिर्बलिदानैस्तु जपयज्ञैस्तु भूपतेः |
क्रियते सात्त्विकी पूजा सात्त्विकी तेन कथ्यते |
दशभिः पशुभिः पूजा जपयज्ञैस्तथैव च |
या कृता शारदी पूजा राजसी तेन कीर्तिता |
बलिभिः पञ्चभिः पूजा तामसी तेन कीर्तिता |
मत्स्यसूक्ते ||
साधकास्त्रिविधाः प्रोक्ताः सात्त्विका राजसास्तथा |
तामसाश्च तथा देवि ! तेषां वक्ष्यामि लक्षणम् |
सात्त्विकः सात्त्विकैर्युक्तो लक्षणैश्चैव सुन्दरि ! |
सात्त्विकं बलिदानादि नित्यं कुर्यात् प्रयत्नतः |
राजसो राजसगुणैर्युक्तः सत्यं वरानने ! |
राजसं बलिदानादि सुरेशे ! राजसैर्युतः |
तामसस्तामसगुणै राजसाद्यैर्युतः प्रिये ! |
न श्रद्धा बलिदानेषु पूजनादिषु सुन्दरि ! |
न स्तोत्रपाठहोमेषु नाममात्रेण साधकः |
योगिनीतन्त्रे उत्तरखण्डे सप्तमपटले ||
विप्राणां क्षीरबलयः शाल्यन्नं वाथ पायसम् |
घृतप्लुतं चरुफलं पुष्पं तस्य घृतान्वितम् |
प्रदद्याच्च गवां क्षीरं दुग्धाम्राम्लान् निवेदयेत् |
शाल्यन्नं वाथ समधुं ससरं खण्डमोदकम् |
राज्ञां हि पशवः शस्ता वैश्यानां व्रीहयस्तथा |
क्षौद्रं वृषलजातीनां सर्वेषां पशवोऽथवा |
निवेदयेत् शोणगण्डं मानुषं वा लुलापकम् |
वराहं वाथ छगलं चामरं वारुणं तथा |
मेषञ्चाथ वराहञ्च गोधिकाञ्च निवेदयेत् ||
मत्स्यसूक्ते ||
लुलापञ्च तथा खड्गं चामरञ्च वराहकम् |
कच्छपं शल्लकीं गोधां मानुषं तदनन्तरम् |
न दद्याद्ब्राह्मणो मद्यं मानुषञ्च तथा रुरुम् |
त्रैपक्षिकान्न विवर्णान् मानुषान्न कृशानपि |
संवत्सरात् परं छागं यावत् स्यात्तु त्रिहायणम् |
वराहदन्तसदृशविषाणाभ्यां सुशोभनम् |
मदगन्धसमायुक्तं रोमराजिविराजितम् |
कृष्णं तारणकञ्चैवं तृप्तौ द्वादशवार्षिकम् ||
जातिभेदे वर्णविशेषमाह तत्रैव ||
श्वेतञ्च छागलञ्चैव ब्राह्मणस्य विशिष्यते |
रक्तं श्वेतं क्षत्रियस्य वैश्यस्य गौरमेव च |
नानावर्णं हि शूद्रस्य सर्वेषामञ्जनप्रभम् |
योगिनीतन्त्रे ||
पशूनाञ्चैव षण्मासात् परतश्च बलिर्भवेत् |
छागलः कृष्णः श्वेतो वा द्विवर्षात्परतो यदि |
तथा चाश्वं मृगञ्चैव छागञ्च पर्वतीयकम् |
मूषिकञ्च करालञ्च क्षुद्रमार्जारमेव च ||
वर्ज्यमपि तत्रैव ||
काकोलं कलविङ्गञ्च राजहंसञ्च शारिकम् |
शुकं गृध्रञ्च काकोलं मयरं चित्रकं तथा |
अश्वञ्च वेणुपृष्ठञ्च कृष्णपारावतञ्च यत् |
वृहत्कपोतकञ्चैव खञ्जरीटं तथैव च |
वकञ्चैव बलाकञ्च प्रयत्नेन विवर्जयेत् ||
बल्यन्तरमाह तत्रैव ||
रम्भा जाती बीजपूरं सुगन्धिपरिमिश्रितम् |
मिश्रीकृत्य बलिं दद्यादष्टम्याञ्च विशेषतः |
प्रयोगे बलिमन्त्रोऽयं प्रयोगान् धारयेद् यदि |
अर्द्धरात्रे बलिं दद्यान्नित्यं देवि ! चतुष्पथे |
परसैन्यग्रहाविष्टरोगकृत्यानिवारणम् |
प्रणवं पूर्वमुच्चार्य उग्रतारे ततः परम् |
विकटदंष्ट्रं परपक्षं मोहयद्वयमुच्चरेत् |
खादयद्वन्द्वमुच्चार्य पक्षद्वन्द्वं वदेत् पुनः |
ये मां हिंसितुमुद्यता योगिनीचक्रे तान् दारय हुं फट् स्वाहा |
सर्वविद्यामाकर्षयाकर्षय छेदय छेदय हन हन कपाले गृह्ण गृह्ण स्वाहेति ||
अनेनैव च देवेशि ! बलिं दद्यान्महेश्वरि ! |
वृहन्नीलतन्त्रे षष्ठपटले ||
ततः शत्रुबलिं राजा दद्यात् क्षीरेण निर्मितम् |
द्वयं छिन्द्यात् क्रोधदृष्ट्या प्रहारजनकेन च |
कोपेन च सकृद्देवि ! सत्यं सत्यं महेश्वरि ! |
प्राणप्रतिष्ठां कृत्वा वै शत्रुनाम्ना महेश्वरि ! |
शत्रुक्षयो महेशानि ! भवत्येव न संशयः |
शत्रुमधिकृत्य विशेषस्तु मत्स्यसूक्ते ||
मन्त्रेणानेन देवेशि ! प्रकुर्यात् पूर्वनिर्मितम् |
कात्यायन्यम्बिके ! तारं हनयुग्मं दहद्वयम् |
पचद्वन्द्वं मथद्वन्द्वं प्रथमद्वन्द्वमेव च |
माया द्वयं वशञ्चैव चण्डि ! चण्डि ! च तारकम् |
नारसिंहद्वयं पश्चात् मन्दरञ्च सतारकम् |
चामुण्डे ! प्रणवञ्चैव भक्षयेति दहद्वयम् |
मथद्वयं पचद्वन्द्वं छिन्धियुग्मं ततो न्यसेत् |
ओं जयद्वितयञ्चैव स्फोटयद्वितयं तथा |
कर्तयद्वितयस्यान्ते ततो दह समीरयेत् |
मम शत्रुं समुत्तार्य ततो बीजं समुच्चरेत् |
दाहयदाहय द्वन्द्वं ततश्छेदय मोहय |
छेदयद्वितयस्यान्ते विश्लेषय ततः परम् |
मम शत्रुपदस्यान्ते मन्त्र मुच्चारयेत्ततः |
तारं हनयुगस्यान्ते भक्षयद्वितयं तथा |
त्रासयनाशयद्वन्द्वमावेशय ततः परम् |
आरोहयस्फोटयान्ते उच्चाटययुगं ततः |
उन्मत्तययुगस्यान्ते इमं मन्त्रमुदीरयेत् |
कृष्णपुष्पं समादाय कुर्यान्निर्मञ्छनं स्वयम् |
कलत्राणाञ्च देवेशि ! मन्त्रेणानेन दापयेत् |
विलयं यान्तु ते सर्वे ये मां हिंसन्ति जन्तवः |
मृत्युरोगभयक्लेशाः पतन्तु शत्रुमस्तके |
विमुखं क्रोधदृष्टिञ्च पातयेच्छत्रुमस्तके |
कवचद्वन्द्वमुच्चार्य स्वाहाद्वन्द्वमुदीरयेत् |
छागादीनामुत्तरोत्तरं प्राशस्त्यमुक्तं मत्स्यसूक्ते महातन्त्रे ||
चामराणाञ्च दशकैश्छागलैकं विशिष्यते |
दशभिश्छागलैर्देव ! कूर्म एकः प्रशस्यते |
कूर्मस्य च शतेनापि शशकैको विशिष्यते |
शशकस्य शतेनापि स्वगात्ररुधिरं श्रुतम् |
यावत् पद्मदलं पूर्णं तावन्मात्रं महेश्वरि ! |
ततः शतपुटानाञ्च शललैको विशिष्यते |
शललस्य सहस्रेण वराहस्तु विशिष्यते |
द्वे सहस्रे वराहस्य महिषः श्रेष्ठ उच्यते |
द्वे सहस्रे लुलापस्य खड्ग एको विशिष्यते |
खड्गानान्तु सहस्रेण मानुषे चातुलं फलम् |
द्वे सहस्रे मनुष्यस्य शोणतुण्डः प्रशस्यते |
द्वे शते शोणतुण्डस्य श्वेतग्रीवः प्रशस्यते |
श्वेतग्रीवशतेनापि गोधिका तूत्तमा मता |
गोधिकानां शतेनापि नरस्य च कुमारकः |
दशैणस्य समा गोधा गोधाया दशपार्षतम् |
पार्षतस्य दशानान्तु मेष एको विशिष्यते |
मेषस्य दशमध्ये तु छागलश्च विशिष्यते |
दशानां छागलानाञ्च कृष्णवर्णो विशिष्यते |
तिलाक्षतेन पुष्पेण चाष्टाष्टौ च विशिष्यते |
छागस्य कृष्णवर्णस्य श्वेत एको विशिष्यते |
श्वेतवर्णस्य दशकं मुकुटं यदि मस्तके |
प्रशस्तं तं विजानीयादक्षतञ्च विचारयेत् |
शतं तस्माल्लुलापैकं तच्छतं खड्गमेव च |
शतानामथ खड्गानां मानुषश्च विशिष्यते |
दशकञ्च नराणाञ्च वराहैको विशिष्यते |
वराहस्य फलं देवि ! सैरिभैस्तोषयेच्छिवाम् |
सैरिभस्य शतानाञ्च गोधाह्वयो विशिष्यते |
गोधिकानां शतानाञ्च स्वगात्ररुधिरं तथा |
तत्समं शोणतुण्डञ्च श्वेतग्रीवं तथैव च |
अर्द्धरात्रौ तु कुष्माण्डं पर्वतीयं विना प्रिये ! |
लुलापदाने यत् प्रोक्तं छित्वा दत्त्वा च यत् फलम् |
खड्गञ्च दशवर्षीयं लुलापं वत्सरात्परम् |
प्रशस्तं श्वेतवर्णन्तु खड्गं श्वेतं विवर्जयेत् |
सैरिभञ्च श्वेतकृष्णं मनुष्यं श्यामसुन्दरम् |
द्वादशाब्दात् परञ्चैव यावद्यावत् स पुष्कलम् |
तावदेव महेशानि ! किञ्चिन्नाद्यान्महामुनिः |
पक्षिणः कच्छपा ग्राहाः स्थलजा जलजा अपि |
कामना तु ||
अद्य दीर्घायुरारोग्यविजयावच्छिन्नविपुलभोगप्राप्तिपूर्वक- ध्वजमालाकुलविमानवरारोहणावच्छिन्नब्रह्मलोकप्राप्तिकामो भगवत्यै छागलदशकं दद्यात् ||
खड्गाभिमन्त्रणं कुर्यात्तेन खड्गेन छेदयेत् |
पूजयेद्रक्तपुष्पेण गन्धेन चन्दनेन च |
तारं मायायुगं कालियुग्मं स्याद्विकटं न्यसेत् |
दंष्ट्राकरालि निष्पेषफेत्कारिणि च खादय |
सृ अजं पिब पिब तूर्णं रुधिरं नारसिंहके |
द्वितीयं किरिकिरिद्वन्द्वं कालियुग्मं ततः परम् |
व्रजेश्वरिपदं ङेऽन्तं वसखड्गधनुः स्मृतम् |
रुधिरे शर्करां दद्यात् पानीयञ्च ससैन्धवम् |
गन्धं सुकुसुमं दद्याद्दर्भयुग्मन्तु निक्षिपेत् ||
त्रिपदं त्रिशूलम् ||
ओं कालि ! कालि ! महाकालि ! कालिके ! पापनाशिनि ! |
शोणितञ्च बलिं गृह्ण वरदे ! वामलोचने ! |
तारं तारं ततो मायां ह्रां ह्रैं ह्रौञ्च ठद्वयम् |
तारं स्थाणुयुगं दद्यात् शेषाङ्गञ्च समुद्धरेत् |
खट्वाङ्गं नृमुण्डञ्चेति त्रिशूलधारिणीत्यपि |
विकटदंष्ट्रे करालास्ये कपालमालिनि तत्परं हां हां गृह्ण साट्टहासिनिपदस्यान्ते मन्त्रञ्च विकटद्वयम् |
शिवं कान्तं ततो वान्तं कं कं काल्यै नमः स्थितिः |
एष मात्स्यबलिः स्वाहा अनेनामन्त्र्य दापयेत् |
तारं मायास्फुरद्वन्द्वं हनयुगञ्च ठद्वयम् |
इन्धनमगुरुद्वन्द्वं गृह्ण गृह्ण च ठद्वयम् |
धराभिमन्त्रणं कृत्वा त्रिवर्गं परिकल्पयेत् |
पूतनां कौशिकीञ्चैव कालिकाञ्च यथाक्रमात् ||
योगिनीतन्त्रे खड्गपूजादौ विशेषो यथा ||
मायाबीजं समुच्चार्य कालिकालीति सुन्दरि ! |
व्रजेश्वरिपदं पश्चात् लौहदण्डाय ते नरः |
इति सम्पूज्य देवेशि ! शक्तिं सम्पूजयेत्ततः |
हुं हुं वागीश्वरीब्रह्मभ्यां नमः |
हुं लक्ष्मीनारायणाभ्याञ्च पदं ब्रूयाद्देवि ! चण्डे ! महेश्वरि ! |
नम उमामहेश्वराभ्यां नम इत्यादिनार्चयेत् |
प्रणवञ्च ततः पश्चात् कार्तिकेश्वराभ्यां नमः |
इत्यनेनैव मन्त्रेण शक्तिं प्रयोजयेन्नरः |
इति खड्गं प्रपूज्यैव विशेषेण प्रपूजयेत् |
खड्गाय खरनाशाय शक्तिकार्यार्थतत्पर ! |
पशुश्छेद्यस्त्वया शीघ्रं खड्गनाथ ! नमोऽस्तु ते |
अनेनैव च मन्त्रेण प्रणमेत् खड्गमुत्तमम् |
गृहीत्वा ताम्रपात्रञ्च जलपूर्णमुदङ्मुखः |
हर्षकामो महादेव्यै पशोश्च प्रोक्षणञ्चरेत् |
प्रोक्षणञ्च पशोः कृत्वा चोत्सृजेद्देवताधिया |
यथोक्तेन विधानेन तुभ्यमस्तु समर्पितम् ||
मत्स्यसूक्ते ||
चन्द्रहासेन खड्गेन छेदयेदुत्तमं बलिम् |
चन्द्रहासश्चतुस्तालः करवीरदलाकृतिः ||
मध्यमम् ||
पञ्चविंशाङ्गुलं मानं प्रस्तारं सार्द्धत्र्यङ्गुलम् |
एकधारेण खड्गेन यः प्राणी बध्यते किल |
न तत् फलमवाप्नोति छेत्ता च नरकं व्रजेत् ||
एकधारप्रतिप्रसवस्तु तत्रैव ||
पद्मपत्रदलाकारमेकधारं प्रशस्यते |
दण्डखड्गस्त्रिवक्रस्तु प्रशस्तो बलिकर्मणि |
सकृत् प्रहारमात्रेण बलिः स्यादुत्तरामुखः |
स्वयं पूर्वमुखो भूत्वा छेदयेदप्रमादतः |
बलिं पूर्वमुखं कृत्वा स्वयं स्यादुत्तरामुखः |
छेदयेत् तीक्ष्णखड्गेन प्रहारेण सकृद्बुधः ||
योगिनीतन्त्रे ||
छिन्ने च पतिते तस्मिन् वामभागे च निन्दितम् |
दैन्यं मध्ये च पतितं देवीच्छेदं स्मरेद्बुधः |
तत्प्रायश्चित्तमपि तत्रैव ||
ततः कुण्डान्तिके गत्वा आहुतिर्दशपञ्चभिः |
तेनैवमुत्सृजेद्दोषं बलिं लक्षेत् सलक्षणम् ||
मत्स्यसूक्ते ||
शिरश्छित्वा बलिं दद्यादजस्य रक्तमेव च |
मन्त्रेणानेन देवेशि ! प्रकुर्यात् पूर्वनिर्मितम् ||
अथ रुधिरपात्रम् ||
मत्स्यसूक्ते ||
राजतं मृण्मयं कांस्यं रैत्यं काष्ठमयं तथा |
प्रशस्तं रुधिरालोके दारुलौहमयं त्यजेत् |
शङ्खञ्चाश्मयञ्चैव अपवित्रं विवर्जयेत् |
स्वस्तिकायाः सुप्रशस्तं तथा पद्मदलस्य च |
अर्घ्यतोयप्रदानेन नरदानफलं लभेत् |
कण्ठरक्तं न दद्यात् छागलस्य विशिष्यते |
पद्मपुष्पदलस्यान्ते तथा मध्यगतस्य च |
तावद्दलप्रमाणं स्यान्मातृवदनुपूर्वकम् ||
अथ रुधिरग्रहणप्रकारस्तत्रैव ||
कियन्मांसं सरुधिरं तथा खड्गगतस्य च |
रुधिरं मस्तकञ्चैव पशोश्चापि विशेषतः |
विपरीतं पशोर्मस्ते पक्षिमस्ते च दापयेत् |
कच्छपे चामरे भासे यः प्रदीपन्तु ज्वालयेत् |
स दुर्गतिमवाप्नोति न चिरेण महेश्वरि ! |
दर्भेणापि द्विधा कृत्वा पञ्चधा रुधिरस्य |
पूर्वभागादितो दद्यान्मध्ये च तदनन्तरम् |
वामहस्ततले कृत्वा मन्त्रेणानेन मन्त्रयेत् |
कालि ! कालि ! महाकालि ! कालिके ! पापनाशिनि ! |
शोणितं तप्तकं देवदेवि ! गृह्ण नमोऽस्तु ते |
कालि कालीति मन्त्रेण चण्डिकायै निवेदयेत् |
चरकीञ्च विदारीञ्च पूतनां पापराक्षसीम् |
कौशिकीं पुरतः कृत्वा देव्यै रक्तं प्रदापयेत् |
कौशिक्याद्यामनुं वक्ष्ये धर्मकामार्थसिद्धिदम् |
तारं वा कमला माया कमला कमलामिति |
कामकला स्फें स्फें खिरञ्चैव द्विठान्तं समुदाहृतम् |
तेषामाद्यक्षरेणैव बिन्दुयुक्तेन वा पुनः |
एतत् सर्वप्रयत्नेन मन्त्रं वक्ष्यामि शङ्करि ! |
तारं व्योम ततो मायां यश्च पद्ममिदं पठेत् |
ओं त्रिनेत्रे ! विकरालास्ये ! अस्त्रमालाविभूषिते ! |
सर्वासुरकृतान्ते ! त्वं खड्गखट्वाङ्गशूलधृक् |
त्वं खड्गखट्वाङ्गशूलधृक् |
वक्ष्ये महामनुं देवि ! तारं क्रौं क्रौमुदीरयेत् |
कौशिकाय गृह्ण गृह्ण एषान्ते च बलिद्वयम् |
अपरं तारमाया च प्रस्फुरद्वितयं दह |
चलद्वयं कुहुञ्चैव कुहुश्चैव गुलुद्वयम् |
पुनश्च मारय द्वन्द्वं बुधैर्यत् परिकीर्तितम् |
विशाखाद्यमनुं वक्ष्य येन उत्पद्यते शुभम् |
तारं ततो विकटदंष्ट्रे ङेऽन्तं हन हन द्वयम् |
वै विशिखाय स्वाहेति बलिमन्त्र उदाहृतः ||
योगिनीतन्त्रे ||
ततो रुधिरमादाय वटुकादीन् समर्चयेत् |
नै-ऋत्याञ्च महेशानि ! क्रूरं वटुकभैरवम् |
वायव्यां हुं यां योगिनीभ्यो नम इत्यादिनार्चयेत् |
ऐशान्याञ्च महेशानि ! हुं क्षौं क्षेत्रपालाय नम इत्यादिना देवि ! गन्धपुष्पैः समर्चयेत् |
आग्नेययां हुं गों गणेशाय नम इत्यादिनार्चयेत् |
गन्धपुष्पैः समभ्यर्च्य बलिदानं समर्पयेत् ||
मत्स्यसूक्ते ||
भूगतं रुधिरं यत्तु भुञ्जन्ति परिचारिकाः |
यावच्च तावद्देवेशि ! लेपनं परिवर्जयेत् ||
इति बलिदानविधिः ||
अथ होमः ||
शारदातिलके पञ्चमपटले ||
वीक्षणं मूलमन्त्रेण शरेण प्रोक्षणं मतम् |
तेनैव ताडनं दर्भैर्वर्मणाभ्युक्षणं स्मृतम् |
अस्त्रेण खननोद्धारौ हृन्मन्त्रेण प्रपूरणम् |
समीकरणमन्त्रेण सेचनं वर्मणा मतम् |
कुट्टनं हेतिमन्त्रेण मर्ममन्त्रेण मार्जनम् |
विलेपनं कलारूपकल्पनं तदनन्तरम् |
त्रिसूत्रीकरणं पश्चात् हृदयेनार्चनं मतम् |
अस्त्रेण वज्रीकरणं हृन्मन्त्रेण कुशैः शुभैः |
चतुष्पथं तन्मन्त्रेण तनुयादक्षपाटनम् |
यागे कुण्डानि संस्कुर्यात् संस्कारैरेभिरीरितैः |
शरेण फडिति मन्त्रेण उत्तानेन तु हस्तेन प्रोक्षयेदिति सूत्रदर्शनाद्धस्ताग्रेण प्रोक्षणं तेनैव फडितिमन्त्रेणैव |
वर्मणा हुमितिमन्त्रेण मुष्टिबद्धेन हस्तेन सेचनाभ्युक्षणमिति |
हेतिमन्त्रेणास्त्रमन्त्रेण वर्ममन्त्रेणेति चतुर्षु सम्बध्यते |
तदुक्तं सोमशम्भुना |
सम्मर्जनं समालेपं कलारूपप्रकल्पनम् |
त्रिसूत्रीपरिधानञ्च वर्मणाभ्यर्चनं हृदेति |
कलारूपप्रकल्पनमिति चन्द्रसूर्याग्निकलाकल्पनमिति त्रिसूत्रीकरणं इति सूत्रत्रयेण वेष्टनम् |
वज्रीकरणमिति वज्रवद्दृढीकरणमिति |
कुशैरिति प्रागुदगग्रैः |
मध्ये चतुष्पथरूपं भागं कृत्वा आवसथ्यादिकं भावयेत् |
तदुक्तं राघवभट्टधृतेन |
आवसथ्यं मध्यभागे प्राच्यां सत्यन्तु पश्चिमे |
आहवनीयस्ततोऽन्वाहार्यं दक्षिणदेशतः |
गार्हपत्यञ्च मन्त्रज्ञो भावयेदुत्तरक्रमादिति |
मन्त्रेण कवचमन्त्रेण हुमित्यनेन अक्षपाटनमन्त्रेणोद्घाटनम् |
एभिः संस्कारैरीरितैर्मूलमन्त्रेण वीक्षणमित्यादिकथितैः कुण्डानि संस्कुर्यादित्यन्वयः |
अशक्तान् प्रत्याह |
अथवा तानि संस्कुर्याच्चतुर्भिर्वीक्षणादिभिः |
वीक्षणाभ्युक्षणान्तैश्च चतुर्भिरित्यर्थः |
तिस्रस्तिस्रो लिखेद्रेखा हृदाप्रागुदगग्रगाः |
प्रागग्राणां स्मृता देवा मुकुन्देशपुरन्दराः |
रेखानामुदगग्राणां ब्रह्मवैवस्वतेन्दवः ||
तिस्रस्तिस्र इति वीप्सया प्रागग्रास्तिस्र उदगग्रास्तिस्र इति लभ्यते |
ततश्चादौ प्रागग्राणां लिखनं पश्चादुदग्राणां लिखनं सर्वास्तु प्रादेशप्रमाणा इति साम्प्रदायिकाः |
तदुक्तं राघवभट्टधृतसौत्रामणीतन्त्रे ||
प्राचीस्थमुत्तरस्थञ्च पश्चिमारम्भमालिखेत् |
तिस्रस्तिस्रो लिखित्वैवं प्रोक्षयेद्वाग्भवेन चेति |
अथवा षट्कोणवृत्तं त्रिकोणं तत्र संलिखेत् |
सर्वाण्यभ्युक्ष्य तारेण योगपीठमथार्चयेत् |
अत्र तु आधारशक्तीत्यादिज्ञानात्मान्तं सम्पूज्य वागीश्वरयोर्योगपीठाय नम इति योगपीठं पूजयेत् |
वागीश्वरीमृतुस्नातां नीलेन्दीवरसन्निभाम् |
वागीश्वरेण संयुक्तामुपचारैः प्रपूजयेत् |
शक्तिमन्त्रेण वागीशीं साध्यमन्त्रेण वागीशीं पूजयेत् |
तदुक्तं गणेशविमर्षण्याम् ||
शक्तिमन्त्रेण वागीशीं वागीशं साध्यमन्त्रत इति ||
शारदायाम् ||
सूर्यकान्तादिसम्भूतं यद्वा श्रोत्रियगेहजम् |
आनीय चाग्निं पात्रेण क्रव्यादांशं परित्यजेत् |
सूर्यकान्तादीत्यादिशब्दादरणिजन्य इति लभ्यते |
तदुक्तं वशिष्ठसंहितायाम् |
जातं मार्तण्डकान्ताद्धुतवहमरणेः श्रोत्रियागारजं वा आहिताग्नेर्गृहादपीति |
पात्रेण कांस्यपात्रेण पात्रान्तरेणापिहितेन |
तदुक्तं राघवभट्टधृतेन यथा |
पात्रान्तरेणापिहिते ताम्रपात्रादिके शुभे |
अग्निप्रणयनं कुर्यात् शरावे तादृशेऽपि च |
यत्तु स्मृतिसारे ||
शरावे भिन्नपात्रे च कपाले चोन्मुखेऽपि वा |
नाग्निप्रणयनं कुर्यात् व्याधिं हानिं भयावहमिति |
तस्य मुखमुख्यपात्रसम्भवे शरावो न ग्राह्य इति तात्पर्यम् |
क्रव्यादांशं परित्यजेत् अस्त्रमन्त्रेणेति ज्ञेयम् |
तदुक्तं राघवभट्टधृतेन ||
अस्त्रेणाग्निं समाधाय कवचेन पिधाय तु |
क्रव्यादांशन्तु चास्त्रेण नैर्-ऋत्यां सन्त्यजेत् प्रिये ! |
अन्यत्र तु वह्निवीजेन क्रव्यादांशत्यागः |
तदुक्तं वह्निबीजेन मन्त्री क्रव्यादांशं त्यजेत्तदनु च मनुना शोधयेदस्त्रकेण इति |
मन्त्रमुक्तावल्यान्तु विशेषः |
आनीयास्त्रेण नैर्-ऋत्ये क्रव्यादांशं परित्यजेत् |
देवांशं मूलमन्त्रेण स्थापयेत् पुरतः सुधीरिति |
संस्कुर्यात्तं यथा न्यायं देशिको वीक्षणादिभिः |
औदर्यवैन्दवाग्निभ्यां भीमस्यैकं स्मरन् वसोः |
योजयेद्वह्निबीजेन चैतन्यं पावके तदा |
औदर्येति बिन्दुः प्रसिद्धः परमात्मस्वरूपस्तस्याग्नीषोमरूपत्वात्तयोर्वह्निवैन्दव इति |
अन्ये तु बिन्दुर्भ्रूमध्यं तद्भवो वैन्दवः |
वसोरग्नेर्भौमस्य पार्थिवस्य एकमेकं स्मरन् देवांशं नियोजयेत् कुण्डादिषु निदध्यादित्यन्वयः |
निधानप्रकारमाह ||
तारेण मन्त्रित मन्त्री धेनुमुद्रामृतीकृतम् |
अस्त्रेण रक्षितं पश्चात्तनुत्रेणावगुण्ठनम् |
अर्चितं त्रिः परिभ्राम्य कुण्डस्योपरि देशिकः |
प्रदक्षिणं तदा तारमन्त्रोच्चारणपूर्वकः |
आत्मनोऽभिमुखं वह्निः जानुस्पृष्टमहीतलः |
शिवबीजधिया देव्या योनावेनं विनिक्षिपेत् |
एनमग्निम् |
पश्चाद्देवस्य देव्याश्च दद्यादाचमनीयकम् |
ज्वालयेन्मनुनानेन तमग्निमथ देशिकः |
चित्पिङ्गलहनदहपचयुग्ममुदीर्य च |
सर्वाज्ञाज्ञापय स्वाहामन्त्रोऽयं प्रागुदीरितः |
ज्वालनेन विशेषो यथा राघवभट्टे |
जुहुयुश्च हुताग्निश्च पाणिसूर्पस्रुवादिभिः |
न कुर्यादग्निधमनं न कुर्याद्व्यजनादिना |
मुखे नैव धमेदग्निं मुखदोषो हि जायते |
नाग्निं मुखेनेतिच यल्लौकिके योजयन्ति तत् ||
अग्निप्रणाममन्त्रस्तु |
अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् |
सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् |
उपतिष्ठेत विधिवन्मनुनानेन पावकम् |
विन्यसेदात्मनो देहे मन्त्रैर्जिह्वां हविर्भुजः |
लिङ्गपायुशिरोवक्त्रघ्राणनेत्रेषु सर्वतः |
वह्नीरार्घीशसंयुक्ताः सादियान्ताः सविन्दवः |
वर्णमन्त्राः समुद्दिष्टा जिह्वानां सप्तदेशिकैः ||
वह्नीरेफः |
इरो यकारः |
अर्घीश उकारः |
एतद्युक्ताः सादियान्ताः सकारादियकारान्ताः वैपरित्येनैते वर्णाः सविन्दवः सप्त जिह्वानां सप्त विन्दवो मन्त्राः समुद्दिष्टाः कथिता देशिकैरित्यर्थः |
सत्त्वादिगुणभेदेन सप्तजिह्वाभेदमाह |
जिह्वास्तास्त्रिविधाः प्रोक्ता गुणभेदेन कर्मसु |
हिरण्या गगना रक्ता कृष्णान्या सुप्रभा मता |
बहुरूपातिरक्ता च सात्त्विक्यो योगकर्मसु |
परागाभा सुवर्णान्या तृतीया भद्रलोहिता |
लोहितानन्तरं श्वेता धूमिनी च करालिका |
राजस्यो रजसा वह्नेः विहिताः काम्यकर्मसु |
विश्वमूर्तिस्फुलिङ्गिन्यौ धूम्रवर्णा मनोजवा |
लोहितान्या करालाख्या काली तामस्य ईरिताः |
एताः सप्त नियुज्यन्ते क्रूरकर्मसु मन्त्रिभिः ||
इति जिह्वाभेदकथनम् |
जिह्वानां रूपतदधिष्ठातृदेवताञ्चाह |
स्वस्वनाम समाभाः स्युर्जिह्वाः कल्याणरेतसः |
अमर्त्त्यपितृगन्धर्वयक्षनागपिशाचकाः |
राक्षसः सप्तजिह्वानामीरिताश्चाधिदेवताः |
अमर्त्यो देवः |
जिह्वाविशेषे द्रव्यविशेषहोमो राघवभट्टादावनुसन्धेयः |
वह्नेरङ्गमनुं न्यस्येत्तमावुक्तेन वर्त्मना |
सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठ पुरुषः पुनः |
धूमव्यापी सप्तजिह्वो धनुर्द्धर इति क्रमात् |
षडङ्गमनवः प्रोक्ता जातिभिः सह संयुताः |
सहस्रार्चिरादीनां चतुर्थ्यन्तत्वं सम्प्रदानात् |
प्रयोगस्तु |
ओं सहस्रार्चिषे हृदयाय नम इत्यादि ज्ञेयम् |
मूर्तोरष्टौ तनौ न्यस्येद्देशिको जातवेदसः |
मूर्ध्नां पार्श्वकट्यन्धुकटिपार्श्वांसके पुनः |
प्रदक्षिणवशान्न्यस्येदुच्यन्ते ता यथाक्रमात् |
जातवेदाः सप्तजिह्वो हव्यवाहनसंज्ञकः |
अश्वोदरजसंज्ञोऽन्यः पुनर्वैश्वानरादयः |
कौमारतेजाः स्याद्विश्वमुखो देवमुखः स्मृतः |
ताराग्नये पदाद्याः स्यूर्नत्यन्ता वह्निमूर्तयः |
तारः प्रणवः |
अग्नये इति स्वरूपं तेनाग्न्यन्तेन ओं अग्नये इति पदमादौ येषामिति विग्रहः |
प्रयोगे तु मूर्द्ध्नि ओं अग्नये जातवेदसे नम इत्याद्यूह्यम् |
आसनं कल्पयित्वाग्नेर्मूर्तिं तस्य विचिन्तयेत् |
इष्टशक्तिं स्वस्तिकाभीतिमुच्चेर्दीर्घैर्दोर्भिर्धारयन्तं जवाभम् |
हेमकल्पं पद्मरागं त्रिनेत्रं ध्यायेद्वह्निं बद्धमौलिं जटाभिः |
परिषिञ्चेत्ततस्तोयैर्विशुद्धैर्मैखलोपरि |
दर्भैरगर्भैर्मध्यस्थमेखलायां परिस्तरेत् |
निक्षिपेद्दिक्षु परिधीन् प्राचीवर्जं गुरूत्तमः |
प्राचीवर्जं दिक्षु गुरूत्तमः परिधीन्निक्षिपेदित्यन्वयः |
परिधयस्तु कात्यायनेनोक्ता यथा |
परिधीन् परिदधत्यार्द्रान् एकवृक्षीयान् बाहुमात्रान् पलाशवैकङ्कतवैल्वानिति |
प्रादक्षिण्येन सम्पूज्यास्तेषु ब्रह्मादिमूर्तयः |
ध्यायन् वह्निं यजेन्मध्ये गन्धाद्यैर्मनुनामुना |
वैश्वानरजातवेदः पदे पश्चादिहावह |
लोहिताक्षपदस्यान्ते सर्वकर्माणि साधय |
वह्निजायावधिः प्रोक्तो मन्त्रः पावकवल्लभः |
एतत् पूजनमष्टमूर्तिसप्तजिह्वापूजनान्तरं कार्यम् |
यदाह मत्स्यसूक्ते दशमपटले |
अथाग्नियजनं वक्ष्ये सर्वयज्ञेषु भूतिदम् |
आदौ समीरणं कृत्वा पश्चात् पूजां समाचरेत् |
आसनं पूजयित्वा तु गृहीत्वा रक्तपुष्पकम् |
पात्रान्तरस्थं कुसुमं ध्यायेद्देवं हुताशनम् ||
ध्यानन्तु शारदोक्तसमानम् |
यजेत् पूर्वादिपत्रेषु |
हं जातवेदसे नमः, हं हुताशनाय नमः |
हं सुवर्णवर्णाय नमः हं हिरण्याख्याय नमः |
हं सुसिद्धाय नमः |
हं हिरण्याय नमः |
हं सर्वतोमुखाय नमः |
पूर्वादिपत्रेषु |
हिरण्यवर्णां प्रथमां वह्नेर्जिह्वां महाद्युतिम् |
वराभयकरां वन्दे हिरण्याख्यां सुसिद्धये |
ओं ययां हिरण्यायै नमः |
कनकां द्विभुजां शुक्लां हस्ताभ्यां दर्भसञ्चयान् |
कमण्डलुञ्च बिभ्राणां नमः साधकसिद्धिदाम् ओं ययां कनकायै नमः स्वाहा |
उद्यदिन्दुनिभां वर्णान् चतुर्भिर्भुजपल्लवैः |
शङ्खचक्राभयवरान् दधतीं प्रणमाम्यहम् |
ओं रक्तायै नमः स्वाहा |
सुप्रभा पाण्डरा श्वेतकराभ्याञ्च कृताञ्जलिः |
पद्मासनस्था नौ शेषरसना मां प्रसीदतु |
सुप्रभायै नमः स्वाहा |
ओं बहुरूपायै नमः स्वाहा |
नीलोत्पलनिभे ! देवि ! वह्निवर्णे ! सुरार्चिते |
! जवारूपधरे ! नित्यमितिरूपे प्रसीद माम् ||
ओं ययं ययं अभिरूपायै नमः स्वाहा |
यद्वा |
विरेफावन्तिमौ वर्गौ रेफः षष्ठः स्वरस्थितौ |
इन्दुबिन्दुशिखायुक्तौ जिह्वाबीजान्यनुक्रमात् || ७ ||
ओं चित्पिङ्गलहनहनदहदहपचपचसर्वाज्ञाज्ञापय स्वाहा |
इति मन्त्रेण च पुनरग्निं सम्पूजयेत् सुधीः |
शापचारे नमस्तेऽस्तु नमस्ते हव्यवाहन ! |
गवान्तक ! सुरश्रेष्ठ ! शान्तिं कुरु नमोऽस्तु ते ||
इति स्वागतम् || १ ||
नमस्ते भगवन् देव ! आपो नारायणात्मक ! |
सर्वलोकहितार्थाय पाद्यञ्च प्रतिगृह्यताम् |
इति पाद्यम् || २ ||
नारायणपरं नाम ज्योतीरूप ! सनातन ! |
गृहाणार्घ्यं मया दत्तं विश्वरूप ! नमोऽस्तु ते ||
इत्यर्घ्यम् || ३ ||
जगदादित्यरूपेण प्रकाशयति यः सदा |
तस्मै प्रकाशरूपाय नमस्ते जातवेदसे ||
इत्याचमनीयम् || ४ ||
धनञ्जय ! नमस्तेऽस्तु सर्वपापप्रणाशन ! |
मधुपर्कं प्रयच्छामि गृहाण परमेश्वर ! |
इति मधुपर्कः || ५ ||
त्रैगुण्यविषयाधान त्रिधारूप परात्पर ! |
त्रैलोक्यस्थितिसंहत्रे वीतिहोत्राय ते नमः ||
इति पुनराचमनीयम् || ६ ||
जवासिन्दूरसङ्काशं सर्वपापप्रणाशनम् |
स्नानीयं ते मया दत्तं सर्वकामार्थसिद्धये ||
इति स्नानीयम् || ७ ||
हुताशन ! महावाहो ! देवदेव सनातन ! |
वसनन्ते प्रयच्छामि देहि मे परमं पदम् ||
इति वस्त्रम् || ८ ||
ज्योतिषां ज्योतीरूपस्त्वमनादिनिधनाच्युत ! |
मया दत्तमलङ्कारमङ्कुरु नमोऽस्तु ते ||
इत्यलङ्कारः || ९ ||
देवीदेवा मुदं यान्ति यस्य सम्यक् समागमात् |
सर्वदोषोपशान्त्यर्थं गन्धोऽयं प्रतिगृह्यताम् ||
इति गन्धः || १० ||
त्वं विष्णुस्त्वं हि ब्रह्मा च ज्योतिषां पतिरीश्वरः |
गृहाण पुष्पं देवेश ! सानुरूपं जगद्गुरो ! ||
इति पुष्पम् || ११ ||
देवतानां पितॄणाञ्च सुखमेकं सनातनम् |
धूपोऽयं देवदेवेश ! गृह्यतां श्रीधनञ्जय ! ||
इति धूपः || १२ ||
त्वामेकं सर्वभूतेषु स्थावरेषु चरेषु च |
परमाहुः पराकारः प्रदीपः प्रतिगृह्यताम् || १३ ||
इति दीपः ||
नमोऽस्तु यज्ञपतये प्रभवे जातवेदसे |
सर्वलोकहितार्थाय नैवेद्यं प्रतिगृह्यताम् ||
इति नैवेद्यम् || १४ ||
हुताशन ! नमस्तुभ्यं नमस्ते सुरवाहवे ! |
लोकनाथ ! नमस्तेऽस्तु नमस्ते जातवेदसे ||
इति वन्दनम् || १५ ||
जिह्वापूजास्थानमाह शारदायाम् |
मध्ये ईश्वरकोणेषु जिह्वा ज्वालारुचो यजेत् |
केशरोक्तेन मार्गेण पूजयेदङ्गदेवताः |
पश्चादादाय पाणिभ्यां स्रुक्स्रुवौ तावधोमुखौ |
त्रिः सम्प्रतापयेद्वह्नो दर्भानादाय देशिकः |
तदग्रमूलमध्यानि शोधयेत्त्येयाक्रमात् |
गृहीत्वा वामहस्तेन प्रोक्षयेद्दक्षिणे तनौ |
पुनः प्रताप्य तौ मन्त्री दर्भानग्नौ विनिक्षिपेत् |
आत्मनो दक्षिणे भागे स्थापयेत्तौ कुशान्तरे |
आज्यस्थालीमथादाय प्रोक्षयेद्वस्त्रवारिणा |
तस्यामाज्यं विनिक्षिप्य संस्कृतं वीक्षणादिभिः |
निरुह्य वायव्येऽङ्गरान् हृदा तेषु निवेशयेत् |
इदं तापनमुद्दिष्टं देशिकैस्तन्त्रवेदिभिः |
सन्दीप्य दर्भयुगलमाज्ये क्ष्प्त्वानले क्षिपेत् |
गुरुर्हृदयमन्त्रेण पवित्रीकरणं त्विदम् |
दीप्तेन दर्भयुग्मेन नीराज्याज्यात् स वर्मणा |
अग्नौ विसर्जयेद्दर्भमभिद्योतनमीरितम् |
घृतेषु ज्वलितान् दर्भान् प्रदर्श्यास्त्राणुना गुरुः |
जातवेदसि तान्न्यास्येदाज्योत्पवनमीरितम् |
गृहीत्वा घृतमङ्गारान् प्रत्युह्याग्नौ जलं स्पृशेत् |
अङ्गुष्ठोपकनिष्ठाभ्यां दर्भौ प्रादेशसम्मितौ |
कृत्वोपनीयादस्त्रेण घृतमुत्पवनन्त्विदम् |
तद्वद् हृदयमन्त्रेण कुशाभ्यामात्मसंमुखम् |
घृतेसंप्लवनं कुर्यात् संस्काराः षडुदीरिताः |
प्रादेशमात्रं सग्रन्थिदर्भयुग्मं घृतान्तरे |
निक्षिप्य भागौ द्वौ कृत्वा पक्षे शुक्लेतरे स्मरेत् |
वामे नाडीमिडां भागे दक्षिणे पिङ्गलां पुनः |
सुषुम्नां मध्यतो ध्यात्वा कुर्याद्धोमं यथाविधि |
अत्र स्थानविशेषे होमनिन्दा मत्स्यसूक्ते चतुर्दशपटले ||
यथा ||
कर्णहोमे भवेद् व्याधिर्नेत्रेऽन्धत्वमुदीरितम् |
नासिकायां मनःपीडा मस्तके च धनक्षयः |
एतेषु प्रधानाहुतिपरमन्यथा शारदोक्तो दोषः स्यात् |
तद्यथा |
स्रुवेण दक्षिणाद्भागादादायाज्यं सदा गुरुः |
जुहुयादग्नये स्वाहेत्यग्नेर्दक्षिणलोचने |
वामतस्तद्वदादाय वामे वह्निविलोचने |
जुहुयादग्नीषोमाभ्यां स्वाहेति हृदयाणुना |
हृन्मन्त्रेण स्रुवेणाज्यं भागादादाय दक्षिणात् |
जुहुयादग्नये स्विष्टिकृते स्वाहेति तन्मुखे |
हेतिं सम्पादयेद्भागे स्वाज्यस्यान्नाहुतिक्रमात् |
इत्यग्निनेत्रवक्त्राणां कुर्यादुद्घाटनं गुरुः |
सताराभिर्व्याहृतिभिराज्येन जुहुयात् पुनः |
जुहुयादग्निमन्त्रेण त्रिवारं देशिकोत्तमः |
कुण्डस्य रूपं जानीयात् परमं प्रकृतेर्वपुः |
प्राच्यां शिरः समाख्यातं बाहुं दक्षिणसौम्ययोः |
जठरं कुण्डमित्युक्तं योनिः पादौ च पश्चिमे |
गर्भाधानादिका वह्नेः क्रिया निर्वर्तयेत् क्रमात् |
अष्टाभिराज्याहुतिभिः प्रणवेन पृथक् पृथक् |
गर्भाधानं पुंसवनं सीमन्तोन्नयनं पुनः |
अनन्तरं जातकर्म स्यान्नामकरणं तथा |
उपनिष्क्रमणं पश्चादन्नप्राशनमेव च |
चौडोपनयने भूयो महानाम्न्यं महाव्रतम् |
महानाम्न्यं वेदारम्भः ||
तथोपनिषदं पश्चाद्गोदानोद्वाहकौ मृतिः |
शुभेषु स्युर्विवाहान्ताः क्रियास्ताः क्रूरकर्मसु |
मरणान्ताः समुद्दिष्टा वह्नेरागमवेदिभिः |
ततश्च पितरौ तस्य सम्पूज्यात्मनि योजयेत् |
समिधः पञ्च जुहुयात् मूलाग्रघृतसंप्लुताः |
मन्त्रैर्जिह्वाङ्गमूर्तीनां क्रमाद्वह्नेर्यथाविधि |
प्रत्येकं जुहुयादेकामाहुतिं मन्त्रवित्तमः |
अवदाय स्रुवेणाज्यं चतुःस्रुचि पिधाय ताम् |
स्रुवेण तिष्ठन्नेवाग्नौ देशिको यतमानसः |
जुहुयाद्वह्निमन्त्रेण वौषडन्तेन सम्पदे |
विघ्नेश्वरस्य मन्त्रेण जुहुयादाहुतीर्दश |
सामान्यं सर्वतन्त्राणामेतदग्निमखं मतम् |
ततः पीठं समभ्यर्च्य देवतायै हुताशने |
अर्चयेद्वह्निरूपां तां देवतामीष्टदायिनीम् |
तन्मुखेजुहुयान्मन्त्री पञ्चविंशतिसंख्यया |
आज्येन मूलमन्त्रेण वक्त्रैकीकरणन्त्विदम् |
वह्निदेवतयोरैक्यमात्मना सह भावयन् |
मूलमन्त्रेण जुहुयादाज्येनैकादशाहुतीः |
नाडीसन्धानमुद्दिष्टमेतदागमवेदिभिः |
जुहुयादङ्गमुख्यानामावृतीनामनुक्रमात् |
एकैकामाहुतिं सम्यक् सर्पिषा देशिकोत्तमः |
ततोऽन्येष्वपि कुण्डेषु संस्कृतेषु यथाविधि |
आचार्यो विहरेदग्निं पूर्वादिष समाहितम् |
ऋत्विजो गन्धपुष्पाद्यैरङ्गाद्यावरणान्विताम् |
तन्त्रोक्तामेतामिष्ट्वा च पञ्चविंशतिसंख्यया |
मूलेनाज्येन जुहुयुः साज्येन चरुणा तथा |
आहुतिदानप्रकारश्च मत्स्यसूक्ते ||
उत्तानेन तु हस्तेन अङ्गुष्ठाग्रेण पीडितम् |
संहताङ्गुलिपाणिस्तु जुहुयाद्देशिकोत्तमः |
आहुतिस्तु घृतादीनां स्रुवेणाधोमुखेन तु |
दद्यात्तिलाद्याहुतिं तु दैवेनोत्तानपाणिना |
समिद्धोमश्च तिलवन्मोदकाद्याहुतिस्तथा |
अङ्गुष्ठादित्रिचतुरैर्बिल्वपत्र इति क्रमात् ||
द्रव्यविशेषहोमे जिह्वाविशेषोऽपि तत्रैव ||
घृताहुतौ हिरण्याख्या कनका शस्यहोमतः |
रक्ता ख्याता समिद्धोमे कृष्णा सा आहुतौ तथा |
सुप्रभा मोदकविधौ बहुरूपातिरूपका |
पुष्पा पत्रविधौ वह्नेर्जिह्वाः सप्त प्रकीर्तिताः |
द्रव्यालाभे प्रतिनिधिरपि तत्रैव ||
उक्तं न लभ्यते तत्र प्रतिकृत्या च होमयेत् |
अर्कस्योडुम्बरं प्रोक्तं खदिरस्य शमीरिता |
पिप्पलस्य पलाशः स्यात् पलाश स्यापि पिप्पलः |
उभयोरेवमेवं स्यादपामार्गे पलाशकम् |
कुशाभावे भवेद्दूर्वा दूर्वाभावे कुशो भवेत् |
इक्षोरभावे त्वमृताऽमृतायाश्च पलाशकम् |
पद्माभावे हयारिः स्याज्जलजानां विशेषतः |
घृतं न लभ्यते यत्र शुद्धक्षीरेण होमयेत् |
क्षीरस्य तु दधिज्ञेयं मधुनश्च गुडं भवेत् |
शर्करायाश्च श्रीखण्डं गुडखण्डमथापि वा |
रसानाञ्च रसेनैव सर्वमिक्षुरसेन वा |
मोदके पिष्टकं ज्ञेयं फलानाञ्च फलेन तु |
काष्ठस्य चैव काष्ठेन पुष्पस्य कुसुमेन च |
एवमन्योन्यतः सर्वं सर्वद्रव्येषु सर्वदा ||
अद्भुतेषु तु सर्वेषु उत्तराभिमुखो भवेत् |
समिधः प्रावरणं कुर्यादन्यत्र पूर्वदिग् भवेत् |
यजमानः स्वयं नैव समिधं प्रवयेत् क्वचित् |
पुत्रशिष्यादिभिः कुर्यान्न पुत्रं विनियोजयेत् ||
तथा ||
न कदाचिदसृग्दानं गृहयज्ञे विचक्षणः |
भूतिकामः क्वचित् कुर्यादेवं तन्त्रविदां मतम् |
आज्यादिकं भवेद्यत्र समिधः श्रावणे स्थितम् |
शेषं न योजयेन्मन्त्री अन्यत्रैवं विचक्षणः |
एकाङ्गं लग्नमेकत्र न पात्रे स्थापयेत् क्वचित् |
देशिकः प्राङ्मुखो भूत्वा ऐशान्यादिक्रमेण तु |
प्रदक्षिणेन कुर्वीत मन्त्रैः परिसमूहनम् |
मन्त्रपूर्वं साग्निकानां दृष्टिमेव निरग्निकम् |
त्रिकुशेन महायागे विवाहादौ त्रिपत्रकम् |
वैश्वदेवे त्वेकपत्रं नित्यहोमे तथैव च |
दिग्विदिक्षु परिस्तीर्य महायागेषु सर्वदा |
दिक्षुमात्रे नित्यहोमे वैश्वदेवे तथैव च |
अकृत्वा कर्म नित्यन्तु वृथा नैमित्तिकं चरेत् |
तस्मात् पुष्पफलाद्येन कृत्वा नैमित्तिकं चरेत् ||
तथा ||
प्रजापतिं तथेन्द्रञ्च अग्निं सोमं तथैव च |
एतान्नित्याहुतिं कृत्वा समिद्धोममनन्तरम् |
हुत्वा व्याहृतिभिः पश्चात् सर्वत्रैवं महेश्वरि ! |
भूर्भुवः स्वः स्वाहा तत्र इत्यादिमन्त्रपञ्चकम् |
अन्ते स्विष्टिकृतिं दद्याद्धोमद्रव्येण शङ्करि ! |
दानमध्ये यज्ञभेदे ग्रहयज्ञे शतान्तरे |
सप्तभेदे त्विमे पूर्णाः पुनस्ते च त्रिधा क्रमात् |
ऋत्विक्स्कन्धं स्पृशन्मन्त्री दक्षिणं वा स्पृशन् भुजम् |
यजमानः सपत्नीको जुहुयाद्देशिकोत्तमः |
उत्थाय दद्यात् पूर्णाञ्च नोपविश्य कदाचन |
कनकायान्तु जिह्वायां रक्तायां ग्रहयज्ञके |
ग्रहहोमशतान्ते च पूर्णा एका विधीयते |
सहस्रान्ते द्वयं कुर्यादयुतान्ते चतुर्थकम् |
अन्नहोमे युगं दद्यात् पद्महोमे चतुर्थकम् |
आज्यलाजतिलादीनां होमे च दशलक्षके |
पनसाम्रफलैर्होमे द्वितीयं समुदाहृतम् |
शतार्द्धे वा तदर्द्धे वा गर्भाधानान्नप्राशने |
सीमन्तोन्नयने चैव प्रायश्चित्ताहुतिषु च |
दधिहोमे च नित्ये च एषु पूर्णां विवर्जयेत् ||
अथ होमद्रव्यप्रमाणम् मत्स्यसूक्ते चतुर्दशपटले ||
कर्षैकं घृतहोमे तु द्वितोलञ्च पयः स्मृतम् |
वाणतोलं पञ्चगव्यं तोलकैर्मधुदुग्धकम् |
दधि प्रसृतिमात्रन्तु लाजाः स्युर्मुष्टिसम्मिताः |
पृथुकाष्टप्रमाणेन अथवा पूर्वपूरणम् |
शक्तवो मुष्टिमात्रेण शर्करा तोलकार्द्धकम् |
त्रितोलञ्च गुडं विद्याद्दिक्षुपुर्वावधि स्मृतम् |
मोदकं धात्रीमानञ्च मार्गं वदरमानतः |
पिण्डकस्य यथा मानं नारिकेलादिपर्वकम् |
तालन्तु द्व्यङ्गुलं चैव पनसं बीजसंख्यया |
मारणोच्चटने चैव पनसं दशधा कृतम् |
अष्टधा नारिकेलन्तु मातुलुङ्गं त्रिधा मतम् |
त्रिधा कृतं फलं बैल्वमन्यथा दशभागकम् |
प्रादेशमात्रं समिधं दूर्वापत्रत्रयं स्मृतम् |
पत्रावसानहोमे च प्रादेशं परिकल्पयेत् ||
समिद्विशेषो यथा राघवभट्टे ||
विशीर्णा विदला ह्रस्वा वक्रा स्थूला कृशा द्विधा |
क्रिमिदष्टाश्च दीर्घाश्च निस्त्वचः परिवर्जिताः |
विशीर्णायुःक्षयं कुर्याद्विदला व्याधिसम्भवा |
ह्रस्वायां व्याधिमाप्नोति वक्रा विघ्नकरी सदा |
स्थूलाभिहरते लक्ष्मीं कृशायां याजकक्षयः |
द्विधायां नेत्ररोगाः स्युः कीटदष्टार्थनाशिनी |
दोषं प्रकुर्वते दीर्घाः प्राणघ्न्यो निस्त्वचः स्मृताः |
न क्षीणा नाधिका न्यूनाः समिधः सर्वकामदाः |
आर्द्रत्वचां समच्छदां तर्जन्यङ्गुलिवर्तुलाम् |
ईदृशीं होमयेत् प्राज्ञः प्राप्नोति विपुलां श्रियम् |
श्रौते स्मार्ते चतस्रोक्ताः समिधः परिकीर्तिताः ||
मत्स्यसूक्ते ||
चतुरङ्गुला च गुडूची व्रीहयो मुष्टिसम्मिताः |
सर्षपं सूक्तिमानेन सूक्तिः स्यात् पञ्चतोलकम् |
मरिचे विंशकं कृत्वा मारणे दशकं विदुः |
दशधा च मृणालं स्यान्मूलकं सप्तभागकम् |
एकैकशः कशेरुश्च शृङ्गवेराङ्गुलेन तु |
मातुलुङ्गं समं कुर्यादन्नं व्यञ्जनसंयुतम् |
पूर्ववदेव मानं स्यात्तण्डुलं चैव तत्समम् |
चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमादि च |
नकुले तु कुलं ज्ञात्वा कुले द्रव्यान्तरेण तु |
यथा योगो न गन्धेन राज्यकामे विशेषतः |
तिन्तिडीबीजमानेन समुद्दिष्टानि तान्त्रिकैः ||
योगिनीतन्त्रेऽपि ||
कर्षमात्रं घृतं देयं सूक्तिमात्रं पयः स्मृतम् |
दधि प्रसृतिमानन्तु तदर्द्धञ्च मधुस्पृशम् |
एषां व्यापारकं वक्ष्ये यथावत् शृणु पार्वति ! |
सुवर्णाष्टप्रमाणेन घृतं देयं विचक्षणः |
पयो भवेत्तदर्द्धेन दधि पञ्चसुवर्णकम् |
दधि चैव तदर्द्धेन एवं मानविदो विदुः |
एवं शतस्य मानन्तु प्राबल्यं विभवे सति |
पञ्चाशत्तत्र जानीयात् सर्वत्रैव विचक्षणः |
अथ मानाध्यायः ||
योगिनीतन्त्रे द्वितीयभागे ||
गवाक्षमात्रे यदृश्या अर्करश्मेस्तु लेखिका |
लेखिकाष्टौ भवेद्धूली धूलयोऽष्टौ च सर्षपः |
सर्षपाणां चतुष्केण रत्तिकेत्यभिधीयते |
रत्तिकानां विंशतिश्च पादञ्च परिकीर्तितम् |
तोलिका तु चतुष्पादैश्चतुस्तोलैः प्रसृतिका |
प्रसृती द्वे कर्षकञ्च द्वे कर्षे तु पलं भवेत् |
पलार्द्धेन भवेत् सूक्तिर्द्वे सूक्ती गुडकं मतम् |
वीरमित्रोदयधृतहस्तिहृदयप्रबन्धे ||
जालान्तरप्रविष्टायां सूर्यभासि यदीक्ष्यते |
रजस्तत्परमाण्वाख्यं प्रमाणं प्रथमं मतम् |
त्रसरेणुर्मतस्तैश्च परमाणुभिरष्टभिः |
तैरष्टभिर्भवेल्लिख्यो यूका लिख्यैस्तथाष्टभिः |
यवो यूकाभिरष्टाभिर्यवैरष्टभिरङ्गुलम् |
मुष्टिस्तानि च चत्वारि द्वे च मुष्टी धनुर्ग्रहः |
त्रिमुष्टिको वितस्तिः स्यादरत्नौ द्वे वितस्तिके |
किष्कुर्द्वाभ्यामरत्निभ्यां धनुः किष्कुद्वयेन च |
सहस्रं धनुषां क्रोशो गव्यूतिर्द्विगुणा ततः |
गव्यूतयश्च चतस्रो योजनं कल्पितं कला ||
मत्स्यसूक्ते षोडशपटले तु ||
सर्षपाणां चतुष्केण माष इत्यभिधीयते ||
अत्र माषः शस्यवाचकः ||
माषाणाञ्चैव तूर्येण रत्तिकेत्यभिधीयते |
रत्तिकानां विंशकञ्च पादञ्च परिकीर्तितम् |
तोलिका च चतुष्पादैश्चतुस्तोलैः प्रसृतिका |
प्रसृती द्वे कर्षकञ्च द्वे कर्षे तु पलं भवेत् |
पलद्वये तु सूक्तिः स्याद् द्वे सूक्ती दग्धकं मतम् ||
इति श्रीप्राणतोषिण्यां चतुर्थे काम्यकाण्डे दुर्गामन्त्रस्तुतिनाम- माहात्म्यशतनामबलिहोमहोमीयानुकल्पपरिमाणात्मक- दुर्गोत्सवप्रकरणरूपपुष्पकथनं नाम षष्ठः परिच्छेदः |
इष्टदेवीं नमस्कृत्य भुक्तिमुक्तिप्रदायिनीम् |
मासकृत्यमथो वक्ष्ये विदुषां परितुष्टये ||
अथ मासकृत्यम् |
चान्द्र एवात्र मासस्तिथिकृत्यनिमित्तत्वादभिलापादिकन्तु सौरेणैव प्रागुक्तधर्मकाण्डधृतवचनात् |
मत्स्यसूक्ते द्विपञ्चाशत्पटले ||
आश्विने शुक्लपक्षे च अष्टम्याञ्च निशागमे |
सिद्धगौरीव्रतं कुर्याद् या साध्वी धर्मचारिणी ||
इति सिद्धगौरीव्रतमस्मिन् देशे अप्रचरद्रूपत्वेन न लिखितम् |
यस्यात्र प्रयोजनं विद्यते तेन तत्तु अन्वेष्यम् |
शुक्लपक्षे दशम्यान्तु आश्विने परमेश्वरि ! |
विजया नाम सा ख्याता सर्वत्रनिगमालयम् |
रेवन्तं पूजयेत्तत्र ईश्वरीञ्च वरानने ! |
इह लोके सुखं प्राप्य यास्यन्ति शिवमन्दिरम् |
तेजोऽसीति च द्विभुजं तुरङ्गासनसंस्थितम् |
खड्गचर्मधरञ्चैव मन्त्रेणानेन पूजयेत् |
नमस्ते सूर्यपुत्राय तुरङ्गानां हिताय च |
शान्तिं कुरु तुरङ्गानां रेवन्ताय नमो नमः |
ओं गन्धर्वकुलजातस्त्वं भूपालाय च केशव ! |
ब्रह्मणस्तत्त्ववाह्येन सोमस्य वरुणस्य च |
तेजसा चैव सूर्यस्य स्वलीला ते पदा तथा |
रुद्रस्य ब्रह्मचर्यस्य पवनस्य बलेन च |
धान्यकं पशुकं वीजं ध्यानं सिद्धार्थकानि च |
पद्मपत्रं निशान्ते च सूत्रेण द्विगुणेन च |
बध्नीयादक्षमालायां गले चापि विशेषतः |
अस्त्रशस्त्रादिकञ्चैव राज्याङ्गानि च भाविनि ! |
प्रतिवीजेन पुष्पाद्यैः पूजयेदविचारयन् ||
अथ खञ्जनदर्शनं तत्रैव ||
दशम्यामपराह्णे तु भुक्तवत्सु स्वयं प्रिये ! |
शोभनं खञ्जनं पश्यन् नमस्कुर्याद्विभूतये |
वासुदेवस्वरूपेण सर्वकामफलप्रद ! |
पृथिव्यामवतीर्णोऽसि खञ्जरीट ! नमोऽस्तु ते |
खञ्जनाय नमस्तुभ्यं सर्वाभीष्टप्रदाय च |
नीलकण्ठाय भद्राय भद्ररूपाय ते नमः |
भद्र ! त्वं देहि मे भद्रमाशां पूरय पूरक ! |
स्वस्तिकोऽसि कुरु स्वस्ति खञ्जरीट ! नमोऽस्तु ते |
नारायणस्वरूपाथ संवत्सरसुखप्रद ! |
नीलकण्ठ ! महादेव ! खञ्जरीट ! नमोऽस्तु ते |
देवदानवयक्षाणां नराणां पुष्टिवर्धनम् |
दर्शनं तव भद्रस्य विष्णुरूप ! नमोऽस्तु ते |
अथ दर्शनशुभाशुभफलम् ||
जलप्रासादशिखरे पर्वते च जलान्तिके |
दृष्टे शुभं भवेत् कीर्तिर्गोष्ठेषु धनवर्धनम् |
अब्जेषु नृपतिर्भूयात्तथा देवालयेषु च |
तडागतीरे धनवान् श्मशाने मरणं भवेत् |
कृष्णग्रीवो नीलकण्ठः श्वेतकण्ठो जनार्दनः |
पीते तु पार्वती देवी धुन्वत्पक्षे तु वीक्षणम् |
व्याधिर्भवति देवेशि ! स्थिरे सम्पत्तिकारकम् |
भक्तं भुञ्जन् भवेद्रोगी श्रियं दृष्ट्वा च वासवः |
सुमानः कीर्तनादेव आयुषस्तु क्षयो भवेत् |
तस्मात्तु खञ्जनं नाम कीर्तयेदविचारयन् ||
तत्रैव ||
कौमुद्यां रात्रियोगे तु गृहिणी या पतिव्रता |
इन्द्रं लक्ष्मीं समभ्यर्च्य सुगन्धिकुसुमादिभिः |
पायसञ्च बलिं दद्यादन्नं व्यञ्जनसंयुतम् |
नारिकेलफलैर्देवान् पितॄनथ समर्चयेत् |
बन्धूंश्च पूजयेद्रात्रौ प्रकुर्यात् क्रयविक्रयम् |
न करोति महालक्ष्मीः शापं दत्त्वा व्रजेत् पुरम् |
निशीथे वरदा लक्ष्मीः को जागर्ति विभाषिणी |
नारिकेलोदकं पीत्वा अक्षैर्जागरणं निशि |
तद्विभूतिं प्रयच्छामि को जागर्ति महीतले |
सोमञ्च पूजयेत् कुम्भे पट्टे वा पीठकेषु च ||
अथ लक्ष्मीध्यानं तत्रैव ||
नवयौवनसम्पन्नां तप्तकाञ्चनसन्निभाम् |
त्रिनेत्रां द्विभुजां रम्यां दिव्यकुण्डलधारिणीम् |
श्रीफलं दक्षिणे पाणौ वामे पद्मञ्च बिभ्रतीम् |
सर्वालङ्कारसम्पूर्णां सर्वालङ्कारगर्विताम् |
किन्नरामरगन्धर्वसिद्धचारणसेविताम् |
वीजेन दीर्घयुक्तेन षडङ्गमथ कल्पयेत् |
पूजयेदुपचाराद्यैर्नानानैवेद्यवन्दनैः ||
पूजामन्त्रस्तु तत्रैव ||
क्षीरोदार्णवसम्भूते ! विष्णोरुरसि संस्थिते ! |
गृहाण पूजां देवेशि ! कौमुद्याञ्च नमोऽस्तु ते |
प्रणाममन्त्रस्तु |
विश्वरूपस्य भार्यासि पद्मे ! पद्मालये ! शुभे ! |
महालक्ष्मि ! नमस्तुभ्यं कौमुदीञ्च कुरुस्व मे |
नमस्ते सर्वजगतां वरदासि हरिप्रिये ! |
या गतिस्त्वत्प्रपन्नानां सा मे भूयात् त्वदर्चनात् |
लक्ष्मि ! देवि ! नमस्तुभ्यमचला भव सर्वदा |
कमले ! वरदे ! देवि ! कुलोद्योतकरी मम |
हिताय सर्वभूतानां यथा नारायणे स्थिता |
तथा त्वं पाहि मां देवि ! सर्वलक्षणसम्भवे ! |
कृता पूजा मया भक्त्या कमले ! वरदे ! शुभे ! |
पूजां गृह्ण सुरेशानि ! नमस्ते कमलालये ! |
पूर्वादिपत्रे सम्पूज्य भूत्यादिनवशक्तिकाः |
वासुदेवादिकं तत्र वामनादिकमर्चयेत् |
तत्रैव कलसे चैव इन्द्रं ध्यात्वा समर्चयेत् |
सर्वलक्षणसम्पूर्णमिन्द्रमैरावतस्थितम् |
शचीसमेतं वरदं ध्यानेन परिचिन्तयेत् |
पूजामन्त्रोऽपि ||
वज्रहस्त ! महावाहो ! बहुनेत्र ! पुरन्दर ! |
रक्षार्थं सर्वभूतानां पूजेयं प्रतिगृह्यताम् |
दिक्पालांश्च ग्रहांश्चैव ब्राह्मणांश्चाग्रतोऽर्चयेत् |
विष्णुं नारायणञ्चैव भावभूतेश्वरं यजेत् |
पूजयित्वा ह्यनेनापि विल्वमुद्रां प्रदर्शयेत् |
पद्ममुद्रां धेनुमुद्रां मन्त्रं जप्त्वा स्तुतिं पठेत् ||
इत्याश्विनकृत्यम् ||
त्रिपञ्चाशत्पटले ||
श्रीभगवानुवाच ||
तुलाराशिं गते भानौ शुक्लपक्षे विशेषतः |
प्रतिपद्येव गोशृङ्गे पूजयेत् कमलालयाम् |
उपोष्य यावकाहारं बलिं दद्याच्च पायसम् |
कुन्दपुष्पैः समभ्यर्च्य सर्वपापहरो भवेत् |
तत्रैव पूजयेद्देवीं महिषेण मम प्रिये ! |
दूर्वयाङ्करपुष्पाभ्यां पूजयेज्जगतां पतिम् |
शाल्योदनं ततो भुक्त्वाचम्य गत्वा जलान्तिके |
घृतञ्च द्विविधं कुर्यात् पलं कृत्वा महेश्वरि ! |
जयं संवत्सरं तस्य भङ्गे भङ्गं समादिशेत् |
विभीषणं बलिञ्चैव सीमञ्च परमेश्वरम् |
पूजयेद्गन्धपुष्पाद्यैर्नानानैवेद्यवन्दनैः |
कृष्णपक्षे तथा कुर्याद्दम्पतीपूजनञ्चरेत् |
मधुमांसाशनं कुर्यादेकभक्तेन वर्तयेत् |
शुक्लपक्षे द्वितीयायां धर्मराजं समर्चयेत् |
चरुं कृत्वा विधानेन सोदरानथ भोजयेत् |
ऐश्वर्यं लभते सौख्यं बहुभोगानवाप्नुयात् |
कृष्णपक्षे तथा लक्ष्मीं कुन्दपुष्पैः समर्चयेत् |
कृष्णद्रव्यबलिं तद्यात्तस्मै वित्तं प्रयच्छति |
तृतीयायां गणेशञ्च पूजयेत् पिष्टकादिना |
वर्तयेदेकभक्तेन न शोको जायते भुवि |
चतुर्थ्यां मोदकैर्देवीं पूजयेत् कुशलार्थकम् |
दधिखण्डबलिं दद्याद्वाञ्छितं लभते ध्रुवम् |
कृष्णपक्षे प्रतिपदि देवीं माहेश्वरीं यजेत् |
सितपारावतैः पूजा भूतिदा जायते ध्रुवम् |
पञ्चम्यां विल्वपत्रैश्च हरं गौरीं समर्चयेत् |
बलिञ्च मोदकं दद्याद्विद्याकामः सुरेश्वरि ! |
क्षीरस्य प्राशनादेव पापात् पूतो न संशयः |
पञ्चम्यां कृष्णपक्षस्य देवं नारायणं हरम् |
महायोनौ समभ्यर्च्य कुलानां तारयेद्दश ||
महायोनौ कामाख्यायां ||
षष्ठ्यां वै शुक्लपक्षस्य देवं धनपतिं यजेत् |
यो जनः षोडशं दद्यान्मोदते नाकमण्डले |
सप्तम्यां संयतो भूत्वा उभे पक्षे तु कार्तिके |
देवं मत्स्यं तथा काममिन्द्रदेवं प्रपूजयेत् |
ब्राह्मणान् दम्पतीं चैव भोजयेत् प्रातरेव च |
फलमूलं तथा धान्यं प्रदद्यात् दक्षिणां शुभाम् |
न च व्याधिः क्षुधा वापि कुले तस्य प्रजायते |
अष्टम्याञ्चैव देवेशि ! शुक्लपक्षे विशेषतः |
दुर्गां मत्तानिलीञ्चैव कृष्णखड्गे समर्चयेत् |
त्रिकालं पूजयेद्भक्त्या यशस्वी तेजवान् भवेत् |
कृष्णपक्षे शिवं दुर्गां कमलां कालिकां तथा |
मृणमययां पूजयेद्देवीं मध्यरात्रे प्रयत्नतः |
न च व्याधिभयं घोरं यावत्तु वत्सरावधि ||
वृहन्नीलतन्त्रे षष्ठपटले ||
कार्तिके शुक्लपक्षस्य नवमी या शुभा भवेत् |
तस्यां पूज्या महेशानि ! सुन्दरी परदेवता |
सुन्दर्याः पटले सम्यक् पूजा च कथिता शुभे ! ||
मत्स्यसूक्ते ||
शुक्लपक्षे नवम्यान्तु तिलैर्होमं समाचरेत् |
देवमुद्दिश्य फलदमुपर्युपरि पञ्चमे |
कृष्णे चैव यजेद्देवीं सप्तम्यां सूर्यमर्चयेत |
धनधान्यलक्ष्मीकरं पुत्रपौत्रविवर्द्धनम् |
कार्तिकस्य तु शुक्लायां दशम्यां नियतः शुचिः |
तैलेन शुद्धतैलेन अर्चयेन्मधुसूदनम् |
कृष्णपक्षे तु क्षीरेण मधुना च विशिष्यते |
रात्रौ फलाशनं कुर्यान्मोदते विष्णुमन्दिरे |
कृष्णपक्षेऽर्च्चयेत् कृष्णं हृषीकेशं शतक्रतुम् |
तोषयेत् परमान्नाद्यैर्नरी न निरयंव्रजेत् |
एकादश्यां कार्त्तिकस्य शुक्लपक्षे यशस्विनि ! |
स्नानं शुक्लतिलैः कुर्यात्त्रिशुक्लैर्हरिमर्च्चयेत् |
प्रातरेव तु द्वादश्यां नित्यकृत्यं समाहितं |
सङ्कल्प्य च गणेशानं ब्रह्माणं दिक्पतीनपि |
ग्रहांश्च प्रतिकुम्भेषु स्थण्डिले च हरिं यजेत् |
पञ्चामृतेन गन्धेन तीर्थतोयेन स्नापयेत् |
पूजयेच्च्युतपत्राद्यैः कुमुदैः पङ्कजैरपि |
शारदीयेन पुष्पेण यथाविभवविस्तरैः |
त्रिकालं चार्चयेद्भक्त्या अग्निकार्ययं ततो निशि |
प्रबोधनं ततः कुर्यान्मध्याह्ने परमेश्वरि ! |
दिवा स्नाने भवेद्धानिस्तथा रात्रौ प्रबोधने |
आद्ये अष्टाक्षरं दद्यात् प्रतिमन्त्रे महेश्वरि ! |
कृताञ्जलिं ततो बद्ध्वा इमं मन्त्रमुदाहरेत् |
ब्रह्मेन्द्ररुद्रैरभिनूयमानो भवान् सुरौघैश्च विवन्दनीयः |
प्राप्ता तवेयं द्वादशी कौमुद्याख्या त्वमेव जागृष्व हि लोकनाथ ! |
ततः स्पृष्ट्वा पठेन्मन्त्री शनैर्मन्त्रं पठेत्ततः |
मेघागतैर्निर्म्मलचन्द्रतोयैरारण्यपुष्पैरथ सौरभेयैः |
अहं ददामीति च धर्महेतोः जागृष्व जागृष्व च लोकनाथ ! |
जानुभ्यामवनीं गत्वा पठेन्मन्त्रं सतारकम् |
प्रसीद नारायन ! कृष्ण ! विष्णो ! मुकुन्द ! लक्ष्मीश ! भवन्नमस्ते |
सम्पश्य लक्ष्मीं तव भावभूतिमाश्रित्य चाश्रित्य च लोकनाथ ! |
नृत्यगीतैर्बहुविधैः पुराणश्रवणेन च |
नयेद्रात्रिं महेशानि ! पञ्चघोषपुरःसरम् |
प्रभाते पूजयेद्भक्त्या धेनुं दद्याच्च दक्षिणाम् |
ब्राह्मणान् पूजयेद्भक्त्यादीनान्धकृपणानपि |
पार्श्वपरिवर्तने चैव मन्त्रमष्टाक्षरान्तरे |
पार्श्वो भव जगन्नाथ ! नमो नारायणाच्युत ! |
प्रसीद भगवन्नाथ ! भव संसारमाक्षण ! |
परिवर्त्तय पार्श्वोऽपि गोविन्दाच्युत ! तद्वयम् |
दिवाभागेन कर्त्तव्यं पूर्ववद् विधिना प्रिये ! |
कृष्णपक्षस्य द्वादश्यां कुर्याद्ब्राह्मणतर्पणम् |
शुक्लायाञ्च चतुर्दश्यां पार्वत्या सह शङ्करम् |
विल्वपत्रैः समभ्यर्च्य न शोको जायते भुवि |
अथ कृष्णत्रयोदश्यां कार्त्तिके मासि शङ्करि ! |
प्रातः स्नानं ततः कृत्वा स्रोतसि विधिवन्नरः |
उमां हरं रविं विष्णुं चन्दनेन विलिख्य च |
पद्मपत्रैर्महेशानि ! विल्वपत्रैः समर्चयेत् |
शाकेन तोषयेद्देवान् स्वयं शाकेन वर्त्तयेत् ||
तथा |
मध्याह्ने स्नापयेत् कुम्भं वसनं तत्र विन्यसेत् |
अभिषिञ्चेत्ततः पश्चादात्मानं बान्धवैः सह |
अपामार्गस्य पुष्पेण त्रिवारं शिरसोपरि |
वामावर्त्तेन देवेशि ! अपामार्गस्य पत्रकम् |
वक्ष्यमाणेन वा कुर्याद् गायत्र्या वा समाहितः |
यत् कृतं दुष्कृतं कर्म मया जन्मशतान्यपि |
व्याप्याद्य त्वत्प्रसादेन अपामार्ग ! हरस्वमे |
संहिताख्याञ्च पुण्याख्यां प्रेताख्यानान्तरेण च |
श्रुत्वा संख्यां द्विजातिभ्यो दानं दद्याद्विभूतये |
चतुर्दशी तथा प्रेता पूज्या पूर्वेण संयुता |
यदा परदिने रात्रौ दर्शयुक्ता न सा भवेत् |
एवमेतत् परं ग्राह्यं निथ्यन्ते दीपमुत्सृजेत् |
देवैरपि निवृत्ते चेत् पूर्णिमा सचतुर्दशी |
तदा पूर्वा ग्रहीतव्या सदा रात्रिगता अपि |
स्नाने प्रेतकथायाश्च श्रवणे यमतर्पणे |
सूर्योदयगता ग्राह्या नरैः प्रेतचतुर्दशी |
एकादशीं समारभ्य यावत् पञ्चदर्शीं प्रति |
निरामिषेण भोक्तव्यमेकभक्तेन वर्त्तयेत् |
भीष्मव्रतमिदं प्रोक्तं सावकाशेन सेवयेत् |
पौर्णमास्यां तुलादित्ये श्रीपतिं लोलया सह |
चन्दनैः पूजयेद्भक्त्या कुलच्छेदो भवेन्न हि |
तुलागतं समावाप्य लक्ष्मीर्निद्रां विमुञ्चति |
तत्र सम्पूजनादेव लक्ष्मीः स्यादनपायिनी |
श्वेतकुम्भेऽर्चयेल्लक्ष्मीं कुवेरं रक्तकुम्भके |
पीतकुम्भेऽर्चयेद्विष्णुं नानानैवेद्यवन्दनै ||
नारदपञ्चरात्रे द्वितीयरात्रे सप्तमाध्याये ||
कार्तिकीपार्णमायाञ्च राधार्च्चा वुष्णुपूजनम् |
यत्र तत्र त्वनियमः पर निर्वाणकारणम् ||
मत्स्यसूक्तं ||
कदाचित् कार्तिके मासि यदि दर्शद्वयं भवेत् |
तत्राद्या सुखरात्रिः स्यादपरस्तु मलिम्लु चः |
मलिम्लुचे वृश्चिके तु वुष्णूत्थानादनन्तरम् |
लक्ष्मीप्रबोधो भवति सा ज्ञेया सुखसुप्तिका |
दण्डैकरजनीयोगो दर्शेन स्यात् परेऽहनि |
तदा विहाय पूर्वेद्युः परतः सुखरात्रिका |
तत्र श्राद्धं कृतं येन अक्षयं भवति ध्रुवम् |
शतग्रहणजं पुण्यं तीर्थे स्नानं महाफलम् |
इष्टदेवं समुद्दिश्य पितॄनुद्दिश्य यत्नतः |
जीवितञ्चेत् समुद्दिश्य दीपं दद्यात् शिवालये |
आयुष्कामो हि देवेशि ! दीपं दद्याच्चतुष्पथे |
द्वात्रिंशत्तु समुत्मृज्य पञ्चविंशतिकं प्रिये ! |
आकाशदीपं दद्यात्तु नवपञ्चयुगेन वा |
त्रिदीपं पञ्चदीपञ्च एकं वा दापयेद्बुधः |
अर्घ्यञ्चैव वहन् जन्तून् जायते नात्र संशयः |
त्रिहस्तं सार्द्धहस्तं वा हस्तमात्रमथापि वा |
ऊर्द्धे तु दापयेद्दीपान् लभते वाञ्छितं फलम् |
शिरे वक्षःस्थले चैव अङ्गे वा मणिबन्धके |
यो दीपं दर्शयेद्देवि ! स्वर्गलोके महीयते |
कमलां ह्लादिनीञ्चैव धरणीं विजयां तथा |
जयां लक्ष्मीं सुभद्राञ्च महामायां दलेऽर्चयेत् |
ब्रह्मादीन् पूजयेदग्रे वासुदेवादिकानपि |
शङ्खं पद्मनिधिं पूजेत् कुवेरं वरुणं तथा |
इन्द्राणीमय सम्पूज्य मन्त्रेणानेन संयजेत् |
नमस्ते इत्यादि |
विश्वरूपस्येत्यादि |
त्वं गतिः सर्वभूतानां वरदासि हरिप्रिये ! |
सर्वानन्दकरे ! देवि ! सर्वशाखे ! नमोऽस्तुते |
लोले ! देवि ! नमस्तेऽस्तु नरकार्णवतारिणि ! |
क्षीरोदमथनोद्भूते ! प्रसीद परमेश्वरि ! |
जय पद्मालये ! देवि ! जय लक्ष्मि ! हरिप्रिये ! |
सर्वानन्दकरे ! देवि ! सर्वशाखे ! नमोऽस्तु ते |
जय क्षीरोददुहितर्मद्गेहे सुस्थिरा भव |
इयं सांवत्सरी पूजा नैवेद्यादिकमुत्तमम् |
लोले ! गृहीत्वा तत्सर्वं गृहाण परमेश्वरि ! |
दीपदानान्तरे चैव मन्त्रमेतमुदीरयेत् |
दामोदराय नभसि तुलायां लोलया सह |
प्रदीपं ते प्रयच्छामि नमोऽनन्ताय वेधसे |
ऊर्द्ध्वतः सप्त लोका ये ये चाधोवर्त्तिनः सदा |
दत्ताकाशप्रदीपेन प्रकाशं विचरन्तुते |
ये च नारकिणो लोकाः पीडया बाधिताः सदा |
भवस्थास्ते प्रकाशन्तु दत्ताकाशप्रदीपतः |
अन्धकारे स्थिता ये च ये च लोकविवर्जिताः |
तेषां प्रकाशनार्थाय प्रदीपो दीयते मया |
यमद्वारे महाघोरे सन्ति ये पुरुषा मम |
तेषां प्रकल्पितार्थाय प्रदीपो दीयते मया |
वातवर्षपतङ्गादिस्नेहवर्त्तिक्षयादिना |
निर्वाणस्य प्रदीपस्य न दोषो मम केशव ! |
नमः पितृभ्यः प्रेतेभ्यो नमो धर्माय विष्णवे |
नमो धर्माय रुद्राय कान्तारपतये नमः |
ईशकोणे प्रदद्यात्तु मालये विजनेऽपि च |
उल्का निशि तथा देया दक्षिणाभिमुखेन तु |
निक्षिपेत्तत्र प्रथमं मन्त्रेणानेन शङ्करि ! |
उल्कामुखाश्च ये केचिच्चरन्ति इह भूतले |
उज्ज्वलज्योतिषा दग्धास्तेषान्तु परमा गतिः |
आपदो मम नश्यन्तु मुखरात्रिप्रसादतः |
उल्कासन्दीपनेनैव वर्द्धन्तु मम पूरुषाः |
कार्तिकस्य अमायां वै समारभ्य यशस्विनि |
कालरात्रिव्रतं कुर्याद् यथाकार्यं तथा शृणु |
व्रतविध्यादिस्तु त्रिपञ्चाशत्पटलेऽनुसन्धेयः ||
इति कार्त्तिककृत्यम् ||
तत्रैव चतुःपञ्चाशत्पटले ||
वृश्चिके शुक्लपक्षस्य प्रतिपत्सु महेश्वरम् |
दूर्वाङ्कुरैः समभ्यर्च्य गणनामीश्वरो भवेत् || १ ||
द्वितीयायां जगद्धात्रीं जले सम्पूज्ययत्नतः |
एकाहारं ततः कृत्वा तृतीयायां जनार्दनम् |
चतुर्थ्याञ्चैव श्रीकान्तमेकादश्यां जनार्दनम् |
द्वादश्याञ्चैव ब्रह्माणं त्रयोदश्यां शतक्रतुम् |
चतुर्दश्याञ्च गौरीशं सितपद्मैः समर्च्चयेत् |
श्वेताम्बरधरो भूत्वा त्रिकालं संयतेन्द्रियः |
मधुना तर्पयेद्देवान् ब्रह्मलोके महीयते |
वृश्चिके पौर्णमास्यान्तु कल्यमुत्थाय वाग्यतः |
पूजयेत् क्षेत्रविघ्नेशं पञ्चम्यां कमलां तथा |
षष्ठ्यां वसुं समभ्यर्च्य सप्तम्याञ्च दिवाकरम् |
अष्टम्यां त्रिपुराञ्चैव नवम्यां सुरसुन्दरीम् |
दुर्गां बालां समुद्दिश्य एकभक्तेन वर्त्तयेत् |
दशम्याञ्चैव तां देवीं दिक्पतींश्चापि पूजयेत् |
सवितारं स्नापयित्वा देवान् रात्रौ बलिं चरेत् |
वृहन्नीलतन्त्रे षष्ठपटले ||
मार्गे मासि सिते पक्षे सप्तमी रविवल्लभा |
अन्नदां पूजयेद्भक्त्या पुत्रपौत्रसमन्वितः |
लक्ष्मीः स्थिरायतेऽवश्यं यावच्च सचराचरम् |
तावत्तस्य गृहे लक्ष्मीश्चौद्धत्यं परिवर्जयेत् |
निश्चला च भेद्देवि ! सत्यं सत्यं गणेश्वरि ! |
पूजा चास्या महेशानि ! कथिता तव सन्निधौ |
अन्नदाकल्पके सम्यग् जानीहि नगनन्दिनि ! |
मत्स्यसूक्ते ||
वृश्चिके पौर्णमासी तु विज्ञेया क्षेत्रपूर्णिमा |
द्वापरे पूर्णिमा पौषे त्रेतायां माघमासके |
बलिभिर्गुडखण्डैश्च पूजयित्वा द्विजोत्तमम् |
अलक्ष्मीं नाशयेद्दाता लक्ष्मीञ्च लभते पराम् |
यावकैः शर्कराद्यैश्च मोदकैर्विविधैरपि |
क्षेत्रपूर्णिमामारभ्य त्रिरात्रं परमेश्वरि ! |
कृत्वा नक्तं महेशानि ! विष्णुलोके महीयते |
सुरयज्ञमिदं प्रोक्तं महाविभवदायकम् |
धनधान्यलक्ष्मीकरं श्रीसौभाग्यप्रदायकम् |
कृष्णप्रतिपदि विष्णुं पूजयेत् पार्वतीपतिम् |
अग्निकार्यं त्रिकालञ्च लक्ष्मीवान् जायते कुले |
द्वितीयायां गुडं प्राश्य पूजयेत् सुन्दरीमपि |
तृतीयायाञ्च गोविन्दं तिलं प्राश्य ततो निशि |
चतुर्थ्यां यावकाहारो मदनञ्च निशापतिम् |
दधि प्राश्य ततो रात्रौ शिवलोके महीयते |
पञ्चम्यां दिननाथञ्च विष्णुञ्च लोलया सह |
पूजयेत् पीवरे कुम्भे क्षीरं प्राश्य लभेत् श्रियम् |
पूजयेच्चैव गोविन्दं गवामप्यधिपो भवेत् |
सप्तम्याञ्च तथाष्टम्यां नवम्यां विजितेन्द्रियः |
धनाध्यक्षं श्वेतकुम्भे त्रिकालं नियतः शुचिः |
महाविभवमाप्नोति लक्ष्मीः स्यादनपायिनी |
नादेयतोये देवेशि ! कृष्णपक्षे जगद्गुरुम् |
चित्रपट्टे समभ्यर्च्य क्षीरं प्राश्य ततो निशि |
अणिमादिगुणैः सिद्धिर्जायते नात्र संशयः |
दशम्याञ्च महेशानि ! एकादश्यां शतक्रतुम् |
द्वादश्यां केशवं मूले त्रयोदश्याञ्च पार्वति ! |
चतुर्दश्यामशोकेन कामं विष्णुं समर्च्चयेत् |
त्रिकालं स्नानमासाद्य एकभक्तेन वर्त्तयेत् |
एवं कृत्वा सकृद्देवि ! ब्रह्मलोके महीयते |
अमावस्यायां गोमुख्ये गले विप्रमुखे गले |
गोक्षीरेण चरुं कृत्वा पितॄनुद्दिश्य शङ्करि ! |
मधुना गुडखण्डेन लवणेनोदकेन च |
त्रिकालं तर्पयित्वा तु काममाप्नोत्यभीप्सितम् |
ऐश्वर्यमतुलं प्राप्य पितृलोके महीयते ||
इत्याग्रहायणकृत्यम् ||
तत्रैव ||
धनुःस्थे च ततः सूर्ये शुक्लपक्षे वरानने ! |
प्रतिपदि महेशानि ! प्रातःस्नायी जितेन्द्रियः |
त्रिकालं पूजयेत् सूर्ययं रोगान्मुच्येत नान्यथा |
कृष्णपक्षे जगन्नाथं पूजयेत् पार्वतीपतिम् |
अग्निकार्ययं ततं कृत्वा ततो मुच्येत बन्धनात् |
द्वितीयायां समारभ्य शुक्लपक्षे विशेषतः |
आदित्यमथ रुद्रांश्च पूजयेद्भक्तिभावतः |
यावत् पञ्चदशीञ्चैव तावदेव महेश्वरि ! |
संसारान्मुच्यते देवि ! नात्र कार्या विचारणा |
चतुर्थ्यां शुक्लपक्षे तु धनूराशिं गते रवौ |
एकभक्तेन देवेशि ! रमेशं प्रति पूजयेत् |
कृष्णं शचीपतिं विष्णुं पञ्चम्यां मधुसूदनम् |
षष्ठ्यां स्कन्दं विशाखाञ्च रात्रौ तु क्षीरभोजनम् |
सप्तम्याञ्च तथाष्टम्यां नवम्यां पक्षयोर्द्वयोः |
कात्यायनीं समभ्यर्च्य एकभक्तेन शङ्करि ! |
दशम्यां पार्वतीनाथमेकादश्यां श्रियः पतिम् |
पिष्टकैः पूजयेद्द्विष्णुं स्वयं नक्तं समाचरेत् |
यावच्चतुर्दशीं प्राप्य अमावास्याञ्च प्रेत्यषे |
पौर्णमास्यां ततः कल्पे पितॄनुद्दिश्य तर्पयेत् |
पुरोडाशेन विधिना कदाचिन्नावसीदति ||
इति पौषकृत्यम् ||
तत्रैवं पञ्चाशत्पटले ||
श्रीभगवानुवाच ||
मकरस्थे सहस्रांशौ शुक्लपक्षे यशस्विनि ! |
प्रतिपदि सरित्तोये स्नात्वाभ्यच्य जनार्दनम् |
वत्तयेदेकभक्तेन अग्निकार्ययपुरःसरम् |
क्षीरेणाघ्यं विधातव्यं मुच्यते शोकसागरात् |
द्वितीयायां तथा शक्रं चन्दनेन विलिप्य च |
पीठे वाऽगुरुपत्रे च पूजयेद्भक्तितत्परः |
हविष्याशी भवेद्रात्रौ रूपवानभिजायते |
तृतीयायामुमाकान्तं श्रीपतिं कमलालयाम् |
समभ्यर्च्य निशानाथं कुन्दपुष्पैः पृथग्विधैः |
मुद्गञ्च प्राशनं कुर्यान्महापातकनाशनम् |
चतुर्थ्यां शुक्लपक्षस्य पूजयेद्गणनायकम् |
ताम्रकुम्भे विशेषेण पञ्चरत्नेन शङ्करि ! |
तिलान् सम्प्राशयेद्रात्रौ तिलैर्होमं समाचरेत् |
लक्ष्मीवान् मुतरां चापि धनवान् स प्रजायते |
पञ्चम्याञ्च जगद्धात्रीं प्रातरेव नदीजलैः |
स्नापयित्वा सुलक्ष्मीं तां कुम्भैर्मारकतैरपि |
वसन्तपञ्चमी नाम सर्वपापप्रमोचनी |
वसन्तञ्च समभ्यर्च्य कन्दर्पं सरतिं प्रिये ! |
वसन्तरागश्रवणात् श्रियमाप्नोत्यभीप्सिताम् |
श्रीपञ्चमीं तु केचित्तां मनयः प्रवदन्ति वै |
वर्त्तयेदेकभक्तेन श्रियो न विच्युतिर्भवेत् |
षष्ठ्यां प्रातः कृतस्नानः पूजयेच्च दिवाकरम् |
क्षीरेणार्घ्यं ततो दद्यान्मुच्यते व्याधिबन्धनात् |
सूर्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमी |
अरुणोदयवेलायां तस्यां स्नानं महाफलम् |
वदर्याश्चार्कपत्रस्य सप्त पत्राणि शालिजान् |
रक्तांश्च तण्डुलान् दूर्वाः कृत्वा शिरसि मज्जयेत् |
ओं यद्यज्जन्मकृतं पापं मया सप्तसु जन्मसु |
तन्मे रोगञ्च शोकञ्च माकरी हन्तु सप्तमी |
सप्तार्कपत्रैरक्तैश्च तण्डुलैर्गन्धचन्दनैः |
फलैर्दूर्वाजवापुष्पैरर्घ्यं दद्यात् कृतक्रियः |
सप्तसप्तिप्रीतिवहे ! सप्तलोकप्रदीपनि ! |
सप्तव्याहृतिके ! देवि ! नमस्ते रविमण्डले |
जननी सर्वभूतानां सप्तमी सप्तसप्तिके ! |
सप्तव्याहृतिके ! देवि ! नमस्ते रविमण्डले |
दानं कोटिगुणं प्रोक्तं होमं जापं सुरार्चनम् |
ब्राह्मणान् भोजयित्वा च हविष्यान्नं स्वयं ततः |
तीर्थे स्नानं दशगुणं गङ्गायां कोटिरेव च |
रविवारे च सम्प्राप्ते कोटिकोटिगुणं भवेत् |
दद्यादर्घ्यं सहस्रञ्च शतं वापि तदर्द्धकम् |
अयुतेन लभेद्दास्यं लक्षैः सायुज्यमेव च |
अशक्तो द्वादशं दद्यात् पञ्चविंशमथापि वा |
द्विगुणत्वान्महेशानि ! व्रताङ्गेऽर्घ्य मुदाहृतम् |
भजेद्रविदिने प्राप्ते प्रवृत्ते चोत्तरायणे |
पुन्नामधेयनक्षत्रे गृह्णीयाद्दशमीव्रतम् |
हस्तो मित्रस्तथा पुष्यो ज्येष्ठा भृगुपुनर्वसू |
पुन्नामधेयनक्षत्राण्येतान्याहुर्मनीषिणः |
सप्तम्यां शुक्लपक्षे तु कृतकृत्यः समाहितः |
पार्वतीशं गणेशञ्च पूजयेद्दयितया सह |
त्रिकालं पूजयित्वा तु तिलपायसमोदकैः |
ततो नक्तं चरेन्मन्त्री हविष्यान्नेन शङ्करि ! |
यत् कृतं द्वादशाष्टम्यामेकेनैव तु तत् फलम् |
भवेत्तस्मात् प्रयत्नेन सर्वस्वेनापि भाविनि ! |
पितॄनुद्दिश्य यत् श्राद्धं यः करोति स्वभक्तितः |
सर्वश्राद्धे यत् फलञ्च काङ्क्षन्तिस्म न संशयः |
पितृतर्पणतः शेषे सर्वे वर्णा द्विजातयः |
तिलोदकन्तु भीष्माय प्रदद्यादञ्जलित्रयम् |
वामोपवीतिना देवि ! दक्षिणाशामुखेन तु |
दद्यादनेन मन्त्रेण शुचिः प्रयतमानसः |
एहि भीष्म ! महाबाहो ! शान्तनोः कुलनन्दन ! |
गृहाण दत्तमस्माभिः पानीयं वरदो भव |
वैयाघ्रपद्यगोत्राय साङ्कतिः प्रवराय च |
अपुत्राय ददाम्येतत् सलिलं भीष्मवर्मणे |
मध्याह्नव्यापिनी ग्राह्या श्राद्धे भीष्माष्टमी सदा |
स्नाने च तर्पणे दाने ग्राह्या सूर्योदयात् परा |
यद्येकस्मिंस्तु वै मासि यदि स्वान्माकरीद्वयम् |
भीष्माष्टमी भवेद्वापि तदा ग्राह्या परा तिथिः |
नवम्यान्तु जगद्धात्रीं गौरीं कमलया सह |
श्रीवृक्षे पूजनादेव महतीं श्रीयमाप्नुयात् |
दशम्यामथ नक्ताशो सप्तमीं सप्तकुम्भके |
पूजयेन्मरुपत्रैश्च नानाविभवविस्तरैः |
ब्राह्मणान् भोजयेद्भक्त्या ऋषिं सम्पूज्य वैष्णवम् |
तोषयेद्भावबुद्ध्या च तत्तुल्यो जायते प्रिये ! |
एकादश्यां प्रातरेव ततः सङ्कल्पयेद्व्रती |
त्रिकालं पूजयेद्विष्णुमग्निकार्यसमन्वितम् |
एकेनैवोपवासेन कृतेन परमेश्वरि ! |
सर्वपापैर्विशुद्धात्मा हरिसायुज्यमाप्नुयात् |
जागरं कारयेद्रात्रौ संहिताश्रवणादिभिः |
न चात्र वारदोषोऽस्ति माघे चैव घटेषु च |
उत्थाने शयने विष्णोर्वासरन्तु न लङ्घयेत् |
दिनक्षये दशाविद्धे सदैव परिवर्जयेत् |
गृहस्थस्तु विशेषेण पुत्रवांश्चेद्विशेषतः |
नक्तं पुण्यक्षयश्चैव पूर्वसङ्कल्पितं विना |
द्वादश्यामप्युषःकाले स्नानं कुर्यान्नदीजले |
धात्रीस्नानं प्रकुर्यात्तु महापातकनाशनम् |
गोविन्दं पूजयेद्भक्त्या धेनुं दद्यात्ततो व्रती |
दानञ्चैवाग्निकार्यञ्च ब्राह्मणानथ योजयेत् |
शृणु देवि ! महागुह्यं श्रीविष्णोर्व्रतपञ्चकम् |
विभूतिद्वादशी नाम पञ्चैव परिकीर्तिताः |
कार्तिकस्य च मार्गस्य माघस्य फाल्गुनस्य च |
आषाढस्य वरारोहे ! द्वादश्यां शुक्लपक्षके |
श्रावणस्य तु सिंहस्य अशून्या नाम द्वादशी |
जनार्दनं समुद्दिश्य उपवासं करोति यः |
अशून्या च भवेत् शयया जन्मजन्मनि शङ्करि ! |
त्रयोदश्यान्तु शुक्लायां विभूत्याख्या त्रयोदशी |
माधवं कलसे कृत्वा भूतिमाप्नोति शाश्वतीम् |
माघे मासि सिते पक्षे ख्याता रामचतुर्दशी |
कामविद्धापि सा कार्या शिवरात्रिविधानतः |
पौर्णमास्यामुषःकाले स्नानं कुर्याद्विधानतः |
सम्पूज्य च जगन्नाथं दानं दद्याद्विभूतये |
धेनुं दद्याद्विजातिभ्यो विष्णुलोके महीयते |
इन्धनञ्चैव पक्वान्नं हविष्यान्नेन वर्त्तयेत् |
कृष्णपक्षे प्रतिपदि स्कन्दमुद्दिश्य यत्नतः |
दानं दद्याद्द्विजाग्रेभ्यः पूजयित्वा विधानतः |
द्वितीयायां जगन्नाथं समुद्दिश्य प्रपूजयेत् |
प्रदद्याच्चरुनैवेद्यं हविष्यान्नेन वर्त्तयेत् |
तृतीयायां तथा धर्मं चित्रगुप्तं समर्चयेत् |
पिष्टकाशी भवेद्रात्री धर्मलोकाद्भवेच्च्युतिः |
चतुर्थ्यां कृष्णपक्षे तु लक्ष्मीं कुम्भे समर्च्चयेत् |
पायसाशी भवेन्नित्यं रमाया न च्युतिर्भवेत् |
पञ्चभ्यां मदनं देवं गोपालं रुक्मिणीमपि |
चित्रे वाक्षतपुञ्जेषु नरो न निरयं व्रजेत् |
षष्ठ्यां धन्वन्तरिं शम्भुं कुमारं पूजयेन्निशि |
क्षीरकुम्भे महेशानि ! न शोको जायते भुवि |
सप्तम्यां कमलानाथं घृतकुम्भे समर्चयेत् |
वारिधारां तओ दद्याद्भार्यया च व्रतस्य वै |
कृष्णाष्टम्यां नवम्याञ्च विल्वपत्रेण शङ्करम् |
त्रिकालं पूजयेद्भक्त्या पार्वत्या सह गोमये |
पिण्डेभ्योऽर्च्य हृषीकेशमेकभक्तेन वर्त्तयेत् |
दशम्यां कृष्णपक्षस्य गङ्गां सम्पूजयेद्व्रती |
एकादश्यां हविष्याशी माधवञ्च समर्च्चयेत् |
त्रयोदश्यां तथा कामं चतुर्दश्याञ्च प्रत्युषे |
अनर्काभ्युदिते काले स्नानं कुर्यात् सरिज्जले |
शतजन्मकृतं पापं तत्क्षणादेव नश्यति |
रटन्ती नाम विख्याता सर्वपापहरा शिवा ||
वृहन्नीलतन्त्रे सप्तमपटले ||
माधे मास्यसिते पक्षे रटन्त्याख्या चतुर्दशी |
तस्यां सम्पूजयेत्तारां महाविभवविस्तरैः |
चक्रवर्त्ती महाराजो भवत्येव न संशयः ||
मत्स्यसूक्ते ||
अमावस्यां कृतस्नानस्तिलान्नेन महेश्वरि ! |
श्राद्धं कुर्याद्धविष्याशी पितृलोके महीयते ||
इति माघकृत्यम् ||
मत्स्यसूक्ते |
श्रीभगवानुवाच ||
कुम्भसंस्थे सहस्रांशौ पूजामारभ्य देशिकः |
तथा कृष्णे महेशानि ! प्रतिपत्प्रभृति क्रमात् |
ब्रह्माणञ्चैव गायत्रीं सतीं गौरीं जयन्तिकाम् |
कमलां पार्वतीञ्चैव महामहिषमर्दिनीम् |
सरस्वतीं महामायां महालक्ष्मीं रतिं तथा |
कालरात्रिमुमाञ्चैव यजेत्तैरुपचारकैः |
कर्णेनाकर्णनी तूर्णी पूर्णा मदनप्रीतिदा |
क्रीडयेयुश्च पूर्वाह्णे नराः सिन्दूरमण्डिताः |
पूजयेच्च महेशानि ! गोपालं गोपिवल्लभम् |
मन्दारैः किंशुकैश्चैव तथा चूताङ्कुरैरपि |
पूजयेद्विधिवद्देवं शिविकायां ततोन्यस्येत् |
मुहूर्तेऽभिजिते पञ्चवाद्यैर्यात्रां समाचरेत् ||
नारदपञ्चरात्रे द्वितीयरात्रे सप्तमाध्याये ||
परं शिवचतुर्दश्यां शिवं सम्प्राप्य पूजनम् |
तद्दिनेऽनशनं विप्र ! परं निर्वाणकारणम् |
मत्स्यसूक्ते ||
शिवव्रतमथो वक्ष्ये सर्वपापप्रणाशनम् |
चन्द्राब्जे करणे देवि ! रुद्रसायुज्यमाप्नुयात् |
चतुर्दश्याममावास्यादिवसं यदि संस्पृशेत् |
यदा तर्योदशी चन्द्रा त्रयोदश्यां शिवव्रतम् |
प्राप्नोन्यतुलभोगन्तु यस्य रात्रौ चतुर्दशी |
शिवरात्रिव्रतं तत्र कर्तव्यं तिथिपूजनम् |
माघफाल्गुनयोर्मध्ये या च कृष्णा चतुर्दशी |
शिवयोगेन संयुक्ता शिवरात्रिरुदाहृता |
दिवास्पर्शे व्रतं विद्याद्रात्रौ वा पूर्णमेव तु |
हीनेनैव व्रतं कुर्यात् शिवयोगस्य शङ्करि ! |
माघीतं परतो या स्यात् कृष्णा माघी चतुर्दशी |
तस्यां सम्पूजनादेव सर्वपापैः प्रमुच्यते |
योगतिथ्यन्तरे चैव प्रवेशञ्च समाचरेत् |
न रात्रौ पारणं कुर्यान्न सन्ध्यायां कथञ्चन |
स्नानमावाहनं कुर्याच्चतुर्दश्याः समागमे |
आतुरे मार्जनं ज्ञेयं स्नानात् कोटिगुणं फलम् |
एकादशगुणं कुर्यान्नैवेद्यं परमेश्वरि ! |
बलिञ्च त्रिविदं कुर्यात् शृणुष्व वरवर्णिनि ! |
अष्टम्यां पञ्चदश्यां वा चतुर्दश्यामथापि वा |
कृष्णाष्टमी स्कन्दषष्ठी शिवरात्रिचतुर्दशी |
घनिष्ठा शिवयोगे च या च कृष्णा चतुर्दशी |
रात्रियोगे तु सम्प्राप्ता सा तु पुण्यतमामता |
योगस्पर्शे पुण्यमात्रं रात्रियोगेऽधिकं फलम् |
सर्वरात्रौ दशगुणं दिवास्पर्शे सहस्रकम् |
स्नात्वा संस्थापयेल्लिङ्गं स्थण्डिले यत्र पूजयेत् |
तत्र वै दर्पणे कुर्यात् शालग्रामे मनौ तथा |
वारिणा प्रथमे स्नानं पञ्चनद्येति वा पुनः |
आप्यायस्येति क्षीरेण दधिक्राव्नेति वै दधि |
मधुवातेति मधुना गायत्र्या च गुडेनं च |
आपोहिष्ठेति मन्त्रेण तथा रत्नोदकैरपि |
तोयेनानेन मन्त्रेण तथा पञ्चामृतेन तु |
मार्जयेद्विल्वपत्रेण घटस्थापनमारभेत् |
सङ्कल्पान्ते पठेन्मन्त्रं कृताञ्जलिपुटेन तु |
अद्य शैव चतुर्दश्यां जागरयाम्यहं निशाम् |
पूजां दानं जपं होमं कारयाम्यग्र शक्तितः |
शिव ! शङ्कर ! सर्वज्ञ ! व्रतानां फलदायक ! |
शिवरात्रिव्रतं देव ! करोमि त्वत्प्रसादतः |
चतुर्दश्यां निराहारो भूत्वा चैवापरेऽहनि |
भोक्ष्येऽहं भुक्तिमुक्त्यर्थं शरणं मे भवेश्वर ! |
उत्तराभिमुखो भूत्वा प्राणायामं समाचरेत् |
गणेशं दिक्पतींश्चैव ग्रहाश्चैव मरुद्गणान् |
ब्रह्माणं प्रतिकुम्भे च ततो देवासनं यजेत् |
नन्दिनञ्च महाकालं पूर्वद्वारि यजेद्बुधः |
भूतेशं चण्डपाणिञ्च दक्षिणद्वारि संयजेत् |
उत्तरे चैव वेतालं वृषभञ्च ततो यजेत् |
मध्ये आधारशक्त्यादीन् साङ्गोपाङ्गं समर्च्चयेत् |
ध्यायेद्देवं महेशानं ध्यानं शृणु वरानने ! |
वृषासनगतं पद्मं तत्र पद्मासने स्थितम् |
शुद्धस्फटिकसङ्काशमणिमादिगुणैर्युतम् |
दशभिर्बाहुभिर्धत्ते शूलशक्तिवराभयम् |
खट्वाङ्गं भुजगञ्चैव घण्टाङ्कुशं तथैव च |
डमरुं बीजपूरञ्च नीलोत्पलवरं तथा |
द्वात्रिंशल्लक्षणोपेतं पञ्चवक्त्रं त्रिलोचनम् |
इच्छादिशक्तिसहितं बीजेनारोपयेत्ततः |
अङ्गपूजां विधायाथ दद्यात् पाद्यादिकं शुभम् |
ततः स्वशक्तिसंयुक्तान् पूर्वादिदिग्दले यजेत् |
श्रीकण्ठादींश्च तद्वाह्ये मूर्तीरष्टौ च सं यजेत् |
उपचारैः समभ्यर्च्य अङ्गपूजावसानके |
अनन विधिमन्त्रेण दद्यादर्घ्यं विभूतये |
दधिदूर्वाक्षतञ्चैव गन्धपुष्पसमन्वितम् |
जानुभ्यामवनीं गत्वा मन्त्रेणानेन साधकः |
नमः शिवाय शान्ताय सर्वपापहराय च |
शिवरात्रौ ददाम्यर्घ्यं प्रसीद उमया सह |
त्रिमध्वक्तेन देवेशि ! प्रथमप्रहरेण तु |
मोदकं पायसान्नं वा संयुक्तं वा विशिष्यते |
द्वितीयप्रहरे चैव स्वयं स्याद्वारुणेन तु |
स्नानं कुर्यात्तु मन्त्रेण शृणु मन्त्रं वरानने ! |
अज्ञानतिमिरान्धानां प्रणीतकल्मषात्मनाम् |
स्नानं करोमि देवेश ! सर्वपापविशुद्धये |
देवञ्च पूर्ववत् स्नात्वा पूर्ववच्चार्चनञ्चरेत् |
रुद्रसूक्तेन कामेन रुद्रसूक्तेन चार्चयेत् |
हरं महेशं विजयं यक्षेशं वरदं शिवम् |
नारायणञ्च ब्रह्माणं पूजयेद्भक्तितत्परः |
होमान्ते प्रददेदर्घ्यं मधुक्षीराज्यसंयुतम् |
कुशपुष्पसमायुक्तं गुडशर्करयान्वितम् |
नमः शिवाय शान्ताय भुक्तिमुक्तिप्रदाय च |
शिवरात्रौ ददाम्यर्घ्यं सर्वाभिमतसाधनम् |
तृतीयप्रहरे चैव स्नानं कुर्याद्विशुद्धये |
वक्ष्यमाणेन मन्त्रेण कुशेनाभ्युक्ष्य वारिणा |
विरूपाक्ष ! महादेव ! सुचिन्त्यो मे भवाधिप ! |
शिवरात्रौ कृतस्नानाद्भुक्तिमुक्तिप्रदो भव |
शिव ! शङ्कर ! देवेश ! प्रभो ! पशुपते ! हर ! |
हृहाणार्घ्यमिदं देव ! उमाकान्त ! प्रसीद मे |
दत्त्वार्घ्यं विधिवद्देवि ! पूजयेन्मन्मथं हरम् |
योगेशं माधवं धर्मं विष्णुलोकं तथैव च |
चतुर्थप्रहरे चैव स्नानं कुर्याद्विचक्षणः |
मार्जनञ्च ततः कुर्यान्मन्त्रेणानेन सुन्दरि ! |
यथाष्टकोटिलिङ्गानां यत् फलं पूजनाद्विभो ! |
तदेतत् प्राप्यते नाथ ! शिवरात्रौ स्नानकर्मणा |
पावकं भुवनं विष्णु नरसिंहं शतक्रतुम् |
जनार्दनं माधवञ्च मध्यपीठे समर्चयेत् |
गौरीञ्च वीरभद्रञ्च चन्द्रार्द्धकृतशेखरम् |
सर्वपापविशुद्ध्यर्थमर्घ्यो मे प्रतिगृह्यताम् |
संसारक्लेशदग्धस्य व्रतेनानेन शङ्कर ! |
गृहाणार्घ्यं मया दत्तं शिवरात्रौ प्रसीद मे |
प्रभाते च ततः कृत्वा नित्यंकृत्यं समाहितः |
देवं त्र्यम्बकमन्त्रेण स्नापयेत् पूजयेत्ततः |
दक्षिणां विधिवद्दद्यात् पारणञ्च समाचरेत् |
नमः शिवायेति मन्त्रेण ब्राह्मणान् भोजयेत्ततः |
वृहन्नीलतन्त्रे सप्तमपटले |
प्राङ्गणे मध्यरात्रौ च फाल्गुने मासि सुन्दरि ! |
चतुर्दिक्षु महेशानि ! कदलीखण्डमुत्तमम् |
अपापयागे देवेशि ! मण्डपं कारय प्रियम् |
चूताश्वत्थवटैर्देवि ! छन्नं कुर्याच्च मण्डपम् |
कुमारीवेष्टितं कुर्यान्मण्डपं सर्वमोहनम् |
तारामूर्तिस्तथा कालीमूर्त्तिर्वा देवराजक ! |
सर्वकार्यप्रदां देव ! तां कुरुष्व महेश्वर ! |
अन्नदा मूर्तिमेतां हि कुरु वा सुरवन्दित ! |
पट्टवस्त्रैर्महादेव्यै बलिं यत्नेन दापयेत् |
आसनं कम्बलं दद्यात् स्वागतं मधुनिर्मितम् |
पाद्यन्तु पयमा दद्यादर्घ्यं दद्यात् कुशेन च |
मधुपर्कं घृतेनैव जलेनाचमनीयकम् |
क्रमेण स्नानमाचर्य वसनं लोहितं स्मृतम् |
रजताभरणं दद्यात् सर्वदेवमनोरमम् |
तण्डुलेन विना देव ! नैवेद्यं दापयेत् प्रिय ! |
चर्व्यं चोष्यं तथा लेह्यं पेयं दद्यान्मनोरमम् |
रक्तचन्दनबीजेन जपेदष्टसहस्रकम् |
शुक्लप्रतिपदारभ्य नवम्याञ्च समापयेत् |
बलिं दद्यान्महादेव्यैछागेन महिषेण वा |
अन्नं मत्स्यं तथा मांसं घृतं परमशोभनम् |
पिष्टकं परमं दिव्यं दद्याद्देव्यै मनोरमम् |
होमयेद् देवदेवेश ! यथाशक्ति विधानतः |
कुमारीं पूजयेद्यत्नैर्द्रव्यैर्बहुविधैरपि |
होमादिकन्तु सकलं कुमारीपूजनं विना |
परिपूर्णफलं नैव सफलं पूजनं भवेत् |
ततः सकलसिद्ध्यर्थं कुमारीं वा प्रपूजयेत् ||
तथा |
तारिणीं कालिकाञ्चैवान्नपूर्णां भैरवीं पराम् |
सम्पूज्य विधिवद्भक्त्या सर्वसिद्धिर्भविष्यति |
पूजाविधानं देवेश ! श्रीतुमर्हस्यसंशयः ||
मत्स्यसूक्ते सप्तपञ्चाशत्पटले |
श्रीभगवानुवाच |
अथ मासाश्रितं कर्म वक्ष्ये देवि ! समासतः |
यथाक्रम यथाकालं यथाशक्ति विधानतः |
व्रतस्थो दापयेद्दानं यज्ञं कुर्याद्व्रतागमे |
प्रतिग्रहं विनोदञ्च स्त्रीणां सम्प्रेक्षणादिकम् |
भोजनं कांस्यलौहे च ताम्बूलस्य च भक्षणम् |
क्षारञ्च कटुकञ्चैव वर्जयेन्मूलकं तथा |
विल्वयावकमाषांश्च तिक्तान्नं माक्षिकं त्यजेत् |
शाकं सर्वव्रते शस्तं सकृत्पक्वं विशिष्यते |
मूलपत्रकरौरादिफलकान्तादियोजनम् ||
इति फाल्गुनकृत्यम् ||
रामार्चनचन्द्रिकायां पञ्चमपटले |
मधौ शुक्लतृतीयायां जानकीरमणं प्रभुम् |
राजोपचारैः सम्पूज्य राममामन्त्रयेत् कलौ |
दोलारूढं प्रपश्यन्ति ये कृष्णं मधुमाधवे |
अपराधसहस्रैस्तु मुक्तास्ते नात्र संशयः |
दोलारूढस्य देवस्य येऽग्रे कुर्वन्ति जागरम् |
सम्यक् पुण्यफलावाप्तिर्निमिषे निमिषे भवेत् |
चैत्रशुक्लनवम्यान्तु कर्त्तव्यं व्रतमुत्तमम् |
राम एव परं ब्रह्म तद्दिनं रामतोषकम् |
व्रतस्य विस्तारस्तत्रानुसन्धेयोऽत्र तु ग्रन्थगौरवभिया न लिखितः |
तद्दिने उपवासस्यावश्यकत्वमपि तत्रैव |
यस्तु रामनवम्यान्तु भुङ्क्ते मोहाद्विमूढधीः |
कुम्भीपाकेषु घोरेषु पच्यते नात्र संशयः |
उपवासासमर्थस्य एकभक्तमप्युक्तं तत्रैव |
नवम्यामेकभक्तेन अङ्गभूतेन राघवः |
इक्ष्वाकुवंशतिलकः प्रीतो भवति नान्यथा |
तथा |
एकभक्तव्रती तत्र सहाचार्यो जितेन्द्रियः |
शृण्वन् रामकथां दिव्यामहः शेषं नयेन्मुने ! |
अन्यत् सर्वं तिथितत्त्वादावनुसन्धेयम् |
तथा |
द्वादश्यां चैत्रमासस्य शुक्लायां दमनोत्सव |
बौधायनादिभिः प्रोक्तः कर्त्तव्यः प्रतिवत्सरम् |
तत्र स्यात् स्वीयतिथिषु वह्न्यादौ दमनार्पणम् |
वह्निर्विरिञ्चिर्गिरिजा गणेशः फणी विशाखो दिनकृन्महेशः |
दुर्गान्तको विघ्नहरिस्मराश्च सर्वेऽपि पीठेऽत्र तिथौ तु पूज्याः |
दमनोत्सवयात्रा तत्रैवानुसन्धेया अत्र तु ग्रन्थगौरवभिया न लिखिता |
तत्फलन्तु तत्रैव |
स्वयं धृत्वाभ्यर्च्य बन्धून् विप्रान् सम्भोज्य पारयेत् |
स्यादश्वमेधजं पुण्यमित्याह भगवान् शिवः |
पारणाहेन लभ्येत द्वादशी घटिका न चेत् |
तदा त्रयोदशी ग्राह्यापवित्रा दमनार्पणे |
माधवे दमनारोपः स्यान्मधौ विस्मृतो यदि |
वैशाख्यां श्रावणे भाद्रे कर्त्तव्यं वा तदर्पणम् ||
इति चैत्रकृत्यम् |
वैशाखे पौर्णमास्यान्तु जलस्थं जगदीश्वरम् |
शुक्लामेकादशीं यावत् पूजयेत्तं प्रहर्षितः |
निक्षिप्य जलपात्रे तु मासे माधवसंज्ञिते |
माधवं येऽर्चयिष्यन्ति देवास्ते न नरा भुवि |
स्वर्णपात्रे तथा रौप्ये ताम्रे वा मृण्मयेऽपि वा |
तोयस्थं योऽर्चयेद्देवं शालग्रामसमुद्भवम् |
प्रतिमां वा महाभाग ! तस्य पुण्यमनन्तकम् |
तस्मात् ज्यैष्ठे सदा भूप ! तोयस्थं पूजयेद्धरिम् |
वीतपापो नरस्तिष्ठेद् यावदाभूतसंप्लवम् |
ज्ञेयः कालविकल्पाऽयं मुक्तस्य द्वयमेव वा |
गन्धोदकं वा तत्पात्रे नित्यपूजां समाप्य च |
अभिवाद्य दिवा रात्रौ देवं नीत्वा निजासनम् |
पञ्चोपचारैः सम्पूज्य तीर्थं प्राप्या विसर्जयेत् |
आत्मानं गृहदारादीन् तेन तीर्थेन पावयेत् |
द्वादश्यान्त जले रात्रावर्चयेद्गारुडोक्तितः |
द्वादश्यां पूजयेद्रात्रौ जलस्थः जलशायितम् ||
इति वैशाखज्यैष्ठयोः कृत्यम् ||
तत्रैव ||
आषाढशुक्लद्वादश्याम् क्षीराब्धिशनोत्सवः |
कार्योऽन्यथा त्वनावृष्टिर्भवेत् पौराणवाक्यतः |
मिथुनस्थे सहस्रांशौ स्वापयेन्मधुसूदनम् |
तुलाञ्चापि गते तस्मिन् पुनरुत्थापयेत् प्रभुम् |
मिथुनस्थे सहस्रांशौ न स्वापयति यो हरिम् |
वैष्णवैः सह सम्भूय ह्यनावृष्टिस्तदान्यथा |
अस्मिंस्तिथौ वैष्णवानां मुद्राङ्कधारणमुक्तं तत्रैव |
शौनकोक्तप्रकारेण तप्तमुद्राङ्कधारणम् |
कर्त्तव्यं वैष्णवैः सर्वैः सम्प्रदायानुरोधतः |
सामवेदेऽपि |
प्रतद्विष्णो अब्जचक्रे सुतप्ते जन्माम्भोधा उत्तरे कर्षणीन्द्राः |
मूले बाह्वोर्दधति प्रणवानि लिङ्गान्यङ्गे तप्तायुधानि पर्यन्त इति |
तत्फलमुक्तमथर्वणा |
यथा |
उरुक्रमस्य चिन्हैरङ्किता लोके उरुभागा भवन्तीति |
ब्राह्मणस्यापि वैष्णवस्याङ्कधारणमुक्तं रामार्चनचन्द्रिकायाम् |
यथा |
अग्निहोत्रं तथा नित्यं वेदस्याध्ययनं तथा |
ब्राह्मणस्य तथैवेदं तप्तचक्राङ्कधारणम् |
यद्यपि वैष्णवस्येति नोक्तं केवलं ब्राह्मणस्येति तथाप्यत्र प्रागुक्तवचनैकवाक्यतया वैष्णवस्येति लभ्यते |
धारण क्रमस्तु तत्रैव |
षोडशोपचारैर्भगवन्तमभ्यर्च्य चाक्षरे परमे व्योम शन्नो मित्रसंबरुण इत्येताभ्यां चक्रं शङ्खं चाभ्यर्च्य द्वादशाक्षरम् |
नहि तज्जरायाग्नेर्मथे प्रथमस्य प्रचेतसमित्याभ्याम् अग्नावादध्यात् |
वैश्वदेवस्य स्यामित्यग्निष्वर्थयेत् |
पुरुषसूक्तेन शतमाहुतीर्हुत्वा भगवन्तं पुरुषसूक्तेनोपस्तुत्य यो ब्राह्मणमिति दण्डवत् पुरतो निपतेत् |
ततः |
सुदर्शन ! महाज्वाल ! सूर्यकोटिसमप्रभम् |
अज्ञातार्थस्य मे नित्यं विष्णोर्मार्गं प्रदर्शय ||
इति गृहीत्वा ओं सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्नश्चक्रं प्रचोदयादिति चक्राधानम् |
ततः |
पाञ्चजन्य ! महाध्वान !! ध्वस्तपातकसञ्चय ! |
पाहि मां पापिनं घोरसंसारार्णवपातितम् ||
इत्यादाय पाञ्चजन्याय विद्महे पवमानाय धीमहि तन्नः शङ्खः प्रचोदयादिति शङ्खाधानम् ||
मुद्राधारणफलमपि तत्रैव ||
य एवं कुरुते विद्वान् ब्राह्मणः श्रोत्रियः शुचिः |
सर्वपापैः प्रमुच्येत विष्णुलोकञ्च गच्छति |
अथवा उत्थानद्वादश्यामपि मुद्राङ्कधारणम् कार्ययम् |
शयन्याञ्चैव बोधिन्यां चक्रतीर्थे तथैव च |
शङ्खचक्रविधानेन वह्निपूतो भवेन्नरः ||
इति तद्धृतवचनादिति मुद्राधारणविधिः ||
प्राण्यङ्गचूर्णं चर्म्माम्बुजम्बीरे बीजपूरकम् |
अयज्ञमिष्टमन्नाद्यं यद्विष्णोरनिवेदितम् |
दग्धमन्नं मसूरञ्च माषञ्चेत्यष्टधामिषम् |
रुच्यं तत्तद्देशलभ्यं फलमूलादि वर्जयेत् |
निष्पावान् राजमाषांश्च मसूरसन्मितानि च |
वृन्ताकुञ्च कलिङ्ग सुप्ते देवे न भक्षयेत् |
मत्स्यसूक्ते अष्टपञ्चाशतपटले ||
धरण्यामृतुमत्यान्तु तथा सप्त दिनानि च |
वटे सोमवटे चैव न दत्तेऽपि मधूजके |
पूजयेत् क्षेत्रपालञ्च जयपालं महाबलम् |
नगरग्रामपीठाद्ये ह्यगस्त्ये चोत्तरेऽपि वा |
न कुर्याद्ग्राममध्ये तु न कोणेऽपि वरानने ! |
उत्तराशां गते सूर्यं पुण्यर्क्षे तु शुभेऽहनि |
स्थापयेत् प्रथमं वृक्षं स्थिरो भव इतीरयन् |
स्नापयेत् पञ्चगव्येन त्रिःसूत्रेण च वेष्टयेत् |
कृताकृतज्ञविप्रेण स्थितभार्येण सुन्दरि ! |
वृषान्ते त्रिदिनञ्चैव मिथनान्ते दिनत्रयम् |
रविसंक्रमणे मध्ये भूमिदाहः प्रकीर्तितः |
कलौ दिनत्रयं वर्ज्यं वृषान्ते मिथुनादितः |
रविसंक्रमणे चैव भूमीदाहो दिनत्रयम् |
भूमिदाहे त्यजेत् सर्वं दाहे दाहफलं लभेत् |
व्यवहारे कोषहानिः पुत्रस्योत्पादनात् क्षाम् |
प्रग्रहे दर्शने स्त्रीणामसौभाग्यं विजानीहि |
तस्य शान्तिं प्रवक्ष्यामि कृत्स्नां चामीकरं फलम् |
दद्याद्दोषोपशान्त्यर्थं दद्याद्वा तिलकाञ्चनम् |
काम्यं नैमित्तिकञ्चैव यात्रा मन्त्रं क्रियां तथा |
ऋतुमत्यां न कुर्वीत पूर्वसङ्कल्पिताट्टते |
न कुर्यात् खननं भूमेः सूच्यग्रेणापि शङ्करि ! |
बीजानां वपनञ्चैव चतुर्विंशतियामकम् |
प्रमादाद्वपनं कृत्वा गाश्च तत्र प्रचारयेत् |
कृच्छ्रं कुर्याद्भक्षणाच्च खननात्तिलकाञ्चनम् |
दुर्गाद्या मातरः सर्वा ऋतुमत्यो भवन्ति षट् |
जैमिनिश्च सुमन्तुश्च वैशम्पायन एव च |
पुलस्त्यः पुलहश्चैव पञ्चैव पञ्चैते वव्ववादृणाः |
पठेद्वा धारयेद्गेहे न वव्वाग्निभयं तथा |
मेषे वृषे च मिथुने दद्याद्वारि सुशीतलम् |
प्रतिमायां महालिङ्गे शालग्रामे तथैव च |
यज्ञवृक्षस्य मूले वा पञ्च त्रिधारयान्वितम् |
मुहूर्त्तमपि यो दद्यान्मम विष्णोः शिरोपरि |
वाजपेयफलं प्राप्य मोदते ब्रह्मणा सह |
शालग्रामशिलायान्तु अश्वमेधफलं लभेत् |
विप्राय मोदकं दत्त्वा सोऽश्वमेधफलं लभेत् |
तृषार्तेभ्योऽपि जन्तुभ्यः स्वर्गलोके महीयते |
कुशाग्रनिःसृतं वारि यो ददाति दिने दिने |
देहेषु तरुमूलेषु विष्णुलोकं स गच्छति |
गन्धोदकस्य यो धारां गुडक्षीरमथापि वा |
एकैकं वारिणा सिक्तं चन्दनोक्षितमेव वा |
दिनैकं मधुधारापि परं ब्रह्माधिगच्छति |
कर्पूरागुरुसम्मिश्रं यो दद्यात् शर्करान्वितम् |
स स्वर्गे विपुलान् भोगान् भुङ्क्ते च पितृभिः सह ||
इत्याषाढकृत्यम् ||
रामार्च्चनचन्द्रिकायाम् ||
श्रावणस्य सिते पक्षे द्वादश्यां शौनकादिभिः |
उक्तस्तदा प्रकर्तव्यः पवित्रारोपणोत्सवः |
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः |
हरिश्च प्रीतिमाप्नोति यः पवित्रं समाचरेत् |
विधिना शास्त्रदृष्टेन यो न कुर्यात् पवित्रकम् |
हरन्ति राक्षसास्तस्य सर्वं पूजादिकं फलम् ||
इति श्रावणकृत्यम् ||
तत्रैव ||
अथ भाद्रपदे शुक्लद्वादश्यां कर्णिकोत्सवः |
कर्त्तव्यो वैष्णवैः सार्द्धं शयनोत्सववद्धरेः |
प्राप्ते भाद्रपदे मासि एकादश्यां सितेऽहनि |
कटदानं भवेद्विष्णोर्महापातकनाशनम् |
शयनोत्सवरीत्या तु देवं नीत्वा जलाशयम् |
कटदानोत्सवं कुर्वे इति सङ्कल्प्य पूजयेत् |
देवदेव ! जगन्नाथ ! योगगम्य ! जनार्दन ! |
कटदानं करोम्यद्य प्राप्ते भाद्रपदे शुभे |
अनेन दक्षिणावृत्तं दक्षिणाङ्गे प्रकल्पयेत् |
महापूजां ततः कृत्वा पूर्ववत् स्वगृहं व्रजेत् ||
इति भाद्रकृत्यम् ||
अथ वर्षकृत्यम् ||
वरदातन्त्रे द्वितीयपटले ||
आद्यायाख्यक्षरीमधिकृत्य ||
कर्म कुर्यात् फलावाप्त्यै चन्द्रादिशोभने बुधः |
बिना नैमित्तिकं देवि ! अन्यथा विफलं भवेत् [ वार्षिकी कालिका पूजा राज्यदाऽन्यक्रियां विना |
सा चापि तत्र कर्त्तव्या शृणुष्व परमेश्वरि ! |
सा पूजा इति |
राज्यदा धनदा पूजा जयदाऽशुभसङ्कुले |
शत्रुकार्यक्षतिकरी निजकार्यप्रसाधिनी |
राजवश्यप्रदा सर्वं ग्रहदोषनिवारिका |
प्रकाशे दोषदा शीघ्रफलदा कथ्यते मया |
महाविषुवसंक्रान्त्या सवस्त्रं घटमुत्सृजेत् |
उपानहौ] च छत्रञ्च कालीप्रीणनहेतवे |
अक्षयायां तृतीयायां तथैवमुत्सृजेद्घटम् |
स्वर्णं वा राजतं वापि तेजसं मार्त्तिकं तथा |
वैशाखे जलदानन्तु स्वर्णदानसमं प्रिये ! |
ज्यैष्ठे पक्वान्नदानेन आषाढे पनसेन च |
श्रावणे परमान्नेन पूजयेत् परमेश्वरीम् |
भाद्रे तु पिटकैः पूजा आश्विने शारदोत्सवः |
भगवत्यै रत्नवस्त्रं दत्त्वान्यद्द्रव्यमेव च |
पश्चात् स्वयञ्च तद्ग्राह्यं कार्त्तिके शीतवाससा |
नवान्नेन मार्गशीर्षे नवमुद्गेन पौषके |
माघे च फाल्गुने चैव दुग्धेन च घृतेन च |
चैत्रे दध्ना महापूजा सर्वदुःखविनाशिनी |
इयं ते वार्षिकी पूजा सर्वसाम्राज्यदायिनी |
आत्मप्रियं तथा वस्तु यथावद्धि निवेदयेत् |
वार्षिकीषु महेशानि ! सर्वाभीष्टानि साधयेत् |
एतत्तु दक्षिणाविद्याविषये साधकोत्तमः |
कुर्याद्यः प्रतिवर्षन्तु स भवेद्भूमिपाग्रणीः |
पञ्चवर्षे भवेद्राष्ट्रं साम्राज्यं दशवर्षके |
विंशवर्षे महेशानि ! महासाम्राज्यदायिनी |
लक्षाधिपत्यं राज्यं स्यात् साम्राज्यं दशलक्षके |
शतलक्षे महेशानि ! महासाम्राज्यमाप्नुयात् |
दासोऽपि भृत्यतां त्यक्त्वा अकस्माज्जायते महान् |
मनसा न स्मृतं यत्तु वचसा कथितं न यत् |
दक्षिणासेवकः सत्यं तथा राज्यमवाप्नुयात् ||
पञ्चममटले |
अतिराज्यस्य राज्याप्तिसाधनं कथयामि ते |
शुभे काले समारभ्य वर्षमेकं समाचरेत् |
चन्द्रतारानुकूलं हि दिनं ग्राह्यं महेश्वरि ! |
प्रातः स्नात्वा शुद्धवासः परिधाय प्रसन्नधीः |
सङ्कल्पं हृतराज्यस्य लाभाय समुपाचरेत् |
कालिका त्र्यक्षरीविद्यामधिगम्य गुरोर्मुखात् |
साधनं विधिवत् कृत्वावश्यं राज्यमवाप्नुयात् |
आद्येऽह्नि पूजयेद्देवीं जवाकुङ्कुमवर्बरैः |
पूजान्ते परमेशानि ! सहस्रं प्रजपेन्मनुम् |
जनशून्यगृहे स्थित्वा समाप्य जपमुत्तमम् |
ततस्तु जुहुयात् साष्टशतं दूर्वाघृतेन्दुकैः |
मन्त्रेणानेन देवेशि ! कालागुरुघृतेन वा |
कालि ! कालि ! ततो राजेश्वरि ! राज्यप्रदे ! पदम् |
राज्यं देहि पदञ्चोक्त्वा दयामयि ! पदं ठठः |
इदं हि परमं मूलमन्त्रं राज्याप्तये शिवे ! |
जपहोमौ तु कर्त्तव्यौ मन्त्रेणानेन देशिकः |
स्वेच्छाच्चारोऽत्र देवेशि ! स्थानादिशोधनं न च |
ततः प्रतिदिनं यावद्वर्षमेकं जपेन्मनुम् |
अष्टोत्तरशतं मन्त्रं कदाचिन्न परित्यजेत् |
न पूरश्चरणापेक्षा मन्त्रेऽस्मिन् परमेश्वरि ! |
भूमिलग्नैकपादस्तु पौर्णमास्यां जपेन्मनुम् |
कालागुरुद्रवेणैव तत्सख्ये तर्पयेच्छिवाम् |
कृष्णाष्टम्यां विल्ववृक्षं चतुर्दश्यां जवातरुम् |
अमावस्यासु सर्वासु शेफालीतरुमुत्तमम् |
स्पृष्ट्वा जपेद्दश दश वारान् सूर्योदये व्रती |
कृष्णाष्टम्यां चतुर्दश्यां पूज्येदतियत्नतः |
अष्टोत्तरशतं हुत्वा रत्रौ चापि जपेच्छतम् |
एवं द्वादशमासेषु कृत्वा राज्यमवाप्नुयात् |
कृतेनैतेन देवेशि ! प्रयोगो नाति यत्नतः |
इन्द्रतुल्येन रिपुणा हृतं राज्यमवाप्नुयात् |
वर्षमध्ये यदि रिपुर्बलवान् साधको भवेत् |
तच्छक्तिनाशकामोऽत्र चरेद् यत् कथयामि ते |
अमुकं स्तम्भय स्वाहा कालिका त्र्यक्षरीपुटम् |
ब्राह्मणे गुरुवारे तु क्षत्रिये शुक्रवासरे |
वैश्ये मङ्गलवारे च शूद्रेरविसुताहनि |
पूर्वाह्णे प्रजपेन्मन्त्रसहस्रं निर्जनस्थले |
एवं पञ्चदिने कृत्वा पूजयेद्घोरदक्षिणाम् |
शत्रोर्नामाक्षरर्क्षे तु उन्मत्तमूलमुत्तमम् |
उत्पाट्य परमेशानि ! कुङ्कुमेन विघर्षयेत् |
चन्द्रचन्दनकर्पूरजातीलवङ्गसंयुतम् |
कुचन्दनं जवां दूर्वामेकीकृत्य बलिं दिशेत् |
मन्त्रेणानेन देवेशि ! रामतत्त्वाख्यमुद्रया |
प्रणवं पूर्वमुच्चार्य कालिके ! कालरात्रिके ! |
मद्दत्तं पदमुच्चार्य गृह्ण गृह्ण पदद्वयम् |
अमुकस्य रिपोः कार्ययं विनाशय पदद्वयम् |
छिन्धि छिन्धि मथ मथ मम राज्यं प्रदापय |
ठद्वयेनैव मनुना अष्टम्यां बलिमादिशेत् |
बलिदानेन देवेशि ! क्षीणशक्तिर्भवेद्रिपुः |
आत्मीयराज्यरक्षार्थमक्षमस्तत्क्षणाद्भवेत् |
एवं कृते वर्षमध्येऽवश्यं राज्यमवाप्नुयात् |
प्राप्ते राज्ये वरारोहे ! कालिकां घोरनिस्वनाम् |
पूजयेद्बहुजातीयैर्द्रव्यैश्च बलिभिः शुभैः |
तोषयेद्ब्राह्मणावारीर्दीनान् धनगणैरपि |
तदेव स्थिरराज्यः स्यान्नान्यथा विफलं भवेत् |
न नारीं निन्दयेद्वाचा कर्म्मणा मनसापि वा |
ब्राह्मणानपि देवेशि ! स्थिरराज्याय सर्वदा ||
अथ देवीषोडशयात्राः ||
वामकेश्वरतन्त्रे चतुःपञ्चाशत्पटले ||
भैरव उवाच ||
शृणु देवि ! प्रवक्ष्यामि यात्राविधिमनुत्तमम् |
तव यात्रा महेशानि ! षोडशी परिकीर्तिता |
द्वादशेष्वेव मासेषु अमावस्या प्रशस्यते |
तस्यां पूजादिकर्माणि कुर्वाणो मोक्षमाप्नुयात् |
कुलवारे कुलतिथौ पूजयेत् प्रजपेन्निशि |
कुलवारौ तु विज्ञेयौ कुजमन्दौ महेश्वरि ! |
चतुर्दश्यष्टमी चैव अमावस्याथ पूर्णिमा |
नवमी च महादेवि ! तिथयः कुलसंज्ञकाः |
तत्र संक्रान्तियोगेन महायोगः प्रकीर्तितः |
अस्मिन् दिने महेशानि ! देवीपूजा सुखप्रदा |
वैशाखे मञ्चयात्रा च चन्दनागुरुकल्पना |
ज्यैष्ठे महास्नानयात्रा अम्बुवाचीदिनत्रयम् |
अषाढे रथयात्रा च दिग्दिनव्यापिनी परा |
श्रावणे जलयात्रा च वस्त्रभूषणचामरैः |
भाद्रे यात्रा धूननाख्या चण्डिकाया दिनत्रयम् |
आश्विने च महापूजा यात्रा यज्ञबलिप्रिया |
कार्तिके दीपयात्रा च नवान्नमग्रहायणे |
पौषे चाङ्गरागयात्रा वस्त्रालङ्कारभूषणैः |
माघे मासि महादेवि ! रटन्ती च चतुर्दशी |
दोलाकेलिः फाल्गुने च चैत्रे चतुष्टयौ |
दूतीयात्रा रासयात्रा वासन्ती नीलयात्रिका |
एवं यात्रा प्रोक्ता षोडशी भवमोचनी ||
देव्युवाच ||
संक्षेपात् कथिता देवे ! यात्रा च षोडशी प्रभो ! |
केन वा क्रियते यात्रा विधानं ब्रूहि मे प्रभो ! |
भैरव उवाच ||
शृणु देवि ! प्रवक्ष्यामि सारात्सारतरं वचः |
यत् कृत्वा साधकश्रेष्ठः क्रियातीतो भवेत् प्रिये ! |
गुर्वाज्ञया क्रियातीतश्चाभिषिक्तो जितेन्द्रियः |
कामक्रोधलोभमोहमदमात्सर्यवर्जितः |
गुरूपदिष्टमार्गेण देवीमालम्ब्य यत्नतः |
पूजयेद्विधिवद्भक्त्या वाङ्मनः कायकर्मभिः |
अत्मवत् पूजयेद्देवीं दिवारात्रिक्रमेण च |
प्रातःकाले दन्तकाष्ठैर्मुखप्रक्षालनं चरेत् |
धौतवस्त्रं परिधाप्य तैलाभ्यङ्गञ्च कारयेत् |
सुगन्धिना जलेनैव देव्याः स्नानं प्रकल्पयेत् |
पूजयेद्विधिवद्भक्त्या यथावित्तानुसारतः |
पूजावसाने देवेशि ! भावयेद्वाक्यसम्भवैः |
वाक्यसम्भवैः स्तवैरित्यर्थः |
शाययित्वा विचित्रायां शययायां सुखहेतवे |
तत उत्थाप्य मन्ध्यायां दीपैर्न्नीराजनञ्चरेत् |
रात्रौ तिथिविशेषे च पूज्या त्वमसि साधकैः |
अन्नं व्यञ्जनसंयुक्तं दधि दुग्धं सशर्करम् |
पनसाम्रफलञ्चैव दाडिमं नागरङ्गकम् |
यदुतत्कृटतमं लोके दद्यात् साधकसत्तमः |
मधु मांसं पिष्टकञ्च पायसं घृतसंयुतम् |
मत्स्यं प्रवीणं मुद्राञ्च चन्द्रविम्बनिभां पराम् |
नारिकेलं तरम्बूञ्च खर्जूरं तालपिष्टकम् |
पनसाम्रफलञ्चैव दाडिमं नागरङ्गकम् |
ध्याननिष्ठो जपाविष्टस्ततो धीरो जितेन्द्रियः |
वार्षिकीं प्रारभेद् यात्रां शृणु तत् सावधानतः ||
पञ्चपञ्चाशत् ||
वैशाखे पूर्णिमायाञ्च मञ्चं हस्तचौष्टयम् |
दीर्घमायतमेवं तदुच्चमानं प्रकीर्त्तितम् |
तत्र संस्थाप्य देवेशीं गीतवाद्यादिमङ्गलैः |
चन्दनागुरुकर्पूरकुङ्कुमालक्तसिन्दूरैः |
मृगनाभिमाक्षिकैश्च गात्रमार्जनमाचरेत् |
स्नानञ्च कारयेद्देव्याः कर्पूरवासितैर्जलैः |
मन्दिरे च ततो पूजयित्वा यथाविधि |
होमं कृत्वा बलिं दत्त्वा सन्तोष्य भोजनादिभिः |
कुमारीं पूजयित्वा च ब्राह्मणःनपि भोजयेत् |
एवं विधिविधानज्ञो यात्रां कृत्वा विराजते |
ज्यैष्ठे मासि महास्नानं कर्पूरादिसुवासिभिः |
अष्टोत्तरशतैः पूर्णैः कलसैः स्नापयेत्ततः |
वस्त्रैर्गात्रं मार्जयित्वा धूपयेद् घृतगुग्गुलैः |
मञ्चाच्च मन्दिरे नीत्वा बलिं पूजाञ्च होमयेत् |
गन्धाष्टकैरङ्गरागं कारयित्वा यथाविधि |
विधिना कारयेद्देवि ! स्वीकुमारीद्विजार्चनम् |
प्रसादं भक्षयेत् पश्चात् पुत्रदारस्वबन्धुभिः |
इत्थं यात्राविधिं कृत्वा विहरेद् भैरवो यथा |
आषाढेप्रथमे देवे ! अम्बु वाचीदिनत्रयम् |
सङ्गोपन गृहे देवीं स्थापयेद्वस्त्रवेष्टनैः |
रात्रौ महानिशायोगे पञ्चाचारेण देशिकः |
पूजयित्वा बलिं दत्त्वा होमयित्वा विहारयेत् |
शुक्लपक्षे द्वितीयायां रथे संस्थाप्य चण्डिकाम् |
चालयेन्नृत्यगीतैश्च स्वेच्छाचारेण साधकः |
तस्मात् पूजागृहे नीत्वा बलिहोमादिनार्चयेत् |
स्त्रीकुमारीद्विजान् सर्वान् भोजयेदन्नसम्भवैः |
वित्तशाष्ठ्यं न कुर्वीत साधकः स्थिरमानसः |
श्रावणे जलयात्रा च वस्त्रचामरभूषणैः |
सज्जीकृत्य शुभां नौकां साधको वाहयेत् स्वयम् |
देवीं संस्थाप्य विधिना भगलिङ्गानुकीर्त्तनैः |
ततः पूजागृहे नीत्वा पूजयेद्विधिपूर्वकम् |
भाद्रे मासि त्रयोदश्यामारभ्य त्रिदिनं शुभम् |
कुहौ वा पौर्णमास्यां वा धूनञ्च समाचरेत् |
प्रत्यहं पूजयेद्रात्रौ बलिहोमादिकीर्त्तनः |
नानाविधानि द्रव्याणि मनोऽभिलषितानि च |
दत्त्वा स्त्रियः कुमारीश्च विप्रान् सर्वान् प्रतोषयेत् |
आश्विने च महापूजां नवम्यामारभेत् सुधीः |
प्रत्यहं पूजयेद्देवीं बलिहोममस्तवादिभिः |
प्रत्यहं भोजयेद्विप्रान् कुमारीश्च सुवासिकाः |
दिवार्च्या पशुवीरेण रात्रौ कौलानुसारतः |
एवञ्च साधकश्रेष्ठो निर्वाणं मोक्षमाप्नुयात् |
तत्राप्यशक्तो देवेशि ! त्रिदिनं पूजयेच्छिवाम् |
कार्तिकेऽमातिथौ देवि ! दीपयात्रां समाचरेत् |
रात्रौ महानिशायोगे दीपादिभिरङ्कृतम् |
कृत्वा देवीगृहं पूजाबलिहोमादिनार्चयेत् |
घृतप्रदीपाभावे तु तैलदीपं समाचरेत् |
मार्गशीर्षे महादेवि ! नवान्नं विधिपूर्वकम् |
मत्स्यं मांसं पायसञ्च दुग्धं दधि घृतं मधु |
सूपं शाकं पिष्टकञ्च मिष्टान्नं व्रीहिसंयुतम् |
तिललड्डुं नारिकेलं शर्करागुडमिश्रितम् |
सर्वं नवं नवं दद्यात् पूजयेत् साधकोत्तमः |
प्रसादं भक्षयेद्देव्याः पुत्रदारान्वितः सुधीः |
पौषे नवानि वस्त्राणि नानालङ्कारणानि च |
अङ्गरागविधिं कृत्वा दत्त्वा पूजाविधिं चरेत् |
विना होमेन बलिना ब्राह्मणाराधनेन च |
पूजा नैव महादेव्याः सत्यं सत्यं न संशयः |
माघे मासि चतुर्दश्यां कृष्णपक्षे सुरेश्वरि ! |
रटन्ती पापनाशार्थं पृथिव्यां पापिनं जनम् |
तस्मिन् दिने महेशानि ! पूजयेद्विभवावधि |
दानं कृत्वा ब्राह्मणेभ्यश्चण्डिकाप्रीतये ददेत् |
श्रीतार्त्ताय क्षुधार्त्ताय दरिद्राय यतात्मने |
अन्नं वस्त्रं सुवर्णञ्च देवीप्रीतिकरं परम् |
फाल्गुने पूर्णिमायाञ्च मञ्चं कृत्वा त्रिखण्डकम् |
तत्र देव्या आसनञ्च भूषयेद्वस्त्रवेष्टनैः |
चतुर्दिक्षु पताकाञ्च रम्भाञ्च क्षुद्रघण्टिकाम् |
दोलयेत् फाल्गुने देवीं दिवारात्रिप्रभेदतः |
पूजयेद्भोजयेद्विप्त्रान् बन्धून् ज्ञातीन् सुतादिकान् |
नृत्यगीतवाद्यभाण्डैस्तोषयेत् कालिकां सदा |
चत्रे कृष्णचतुर्दश्यां दूतीयागविधिं चरेत् |
रात्रौ देवीं पूजयित्वा नव कन्याः प्रपूजयेत् |
तदभावै विप्रकन्यां सुवेशां यौवनान्विताम् |
नानालङ्कारवस्त्राद्यैर्गन्धमाख्यानुलेपनैः |
भूषयित्वा भोजयित्वा स्वयं भोजनमाचरेत् |
कौलाचारेण देवेशि ! रात्रौ पूजाविधिं चरेत् |
दूतीयागोक्तमन्त्रेण सर्वं पूजादिकं नयेत् |
वासन्ती त्रिदिनं यावत् बलिहोमादिना यजेत् |
पौर्णमास्यां रासयात्रां देव्याः कुर्यान्निशार्द्धके |
पूर्ववन्मञ्चमास्थाप्य देवीं देव्यासनं यजेत् |
सम्मुखे वाससंस्थानं भैरवीभैरवान्वितम् |
कृत्वा तान् पूजयित्वा च भ्रामयेत् कुम्भचक्रवत् |
कोलाहलं मृदङ्गादिवाद्यैर्नृत्यैः सुगीतकैः |
कुर्यादानन्दहृदयः साधकः स्थिरमानसः |
वित्ताशाठ्यं न कुर्वीत देवीयात्रा सुखप्रदा |
संक्रान्त्यामारभेन्मन्त्री नीलयात्रां महेशितुः |
धूपेन धूपयेद्देवि ! महाकालस्य तुष्टये |
महाकालेन च समं रात्रौ देवीं प्रपूजयेत् |
सवित्प्रधानैवेद्यं नानावस्तुसमन्वितम् |
दत्त्वा स्तुत्वा नतो भूत्वा गानं कुर्यात् सबान्धवः |
आनन्दोद्रिक्तहृदयो मन्त्री नर्त्तनमाचरेत् |
शिवाबलिः प्रकर्त्तव्यो निशार्द्धे शिवतुष्टये |
वैशाखे पूर्णिमाञ्चेत्याद्येतत्पर्ययन्तं कौलतन्त्रेण समानम् |
एवं सांवत्सरीं यात्रां कृत्वा साधकसत्तमः |
गुरोः प्रासादाद्देवेशि ! शिवतुल्यो न संशयः ||
इति देवीषोडशयात्राः ||
पृथ्वीविख्यातकीर्तिर्गुणिगण हृदयाम्भोजसूर्यप्रकाशः स्निग्धः सम्पूर्णचन्द्रप्रतिकृतिरमराचार्यशुद्धोपलब्धिः |
जीयात् श्रीप्राणकृष्णाह्वय इह विबुधद्रुः सदीपासकानां भूयांसो मातृकाख्ये वपुषि समगमन् ब्राह्मणा यत्प्रसादात् ||
श्रीरामतोषणकृती जगतां हिताय श्रीप्राणकृष्णपरितोषनिदेशवर्ती |
नत्वा सुचारुचरणाम्बुजामिष्टदेव्याश्चक्रे चतुर्थमिदमुत्तमकाम्यकाण्डम् ||
ग्रन्थिः शाखा प्रशाखा स्तवककिशलये सत्फलञ्च प्रसूनं सर्वं तत्काम्यकाण्डे रुचिरमतिफलं धीमतां दर्शनीयम् |
विद्वांसः ! पश्यतेदं नयनमलहरं दिव्यदृष्टिप्रसादं नानासन्देहनाशि प्रमुद्दितहृदयाः सर्वलोकोपकर्त्तृ ||
इति प्राणकृष्णविश्वासानुमतायां श्रीरामतोषणविद्यालङ्कारभट्टाचार्ययविरचितायां श्रीप्राणतोषिण्यां काम्याभिधानं चतुर्थकाण्डं समाप्तम् ||
Textgrundlage
Sanskrittext nach der elektronischen Ausgabe des Muktabodha Indological Research Institute, zusammengestellt von dessen Mitarbeitern unter der Leitung von Mark S. G. Dyczkowski. Zugrunde liegt die von Jīvānanda Vidyāsāgara Bhaṭṭācārya herausgegebene Druckausgabe, Kalkutta 1898, in bengalischer Schrift. Die elektronischen Texte tragen den Lizenzvermerk CC BY-NC 4.0. Für die bibliographischen Angaben, den Umfang und die Überlieferungslücke siehe Pranatosini Tantra.
Die überlieferten Zählungen bleiben erhalten; der Text besitzt keine durchgehende Versnummerierung. Unnummerierte Prosa und Zitatnachweise gehören zum Werk und stehen im Sanskrittext. Offenkundige Lesungsprobleme der elektronischen Grundlage sind nicht stillschweigend durch Vermutungen ersetzt. Ein fremder Bhaktikāṇḍa-Kolophon nach Sargakāṇḍa 7 bleibt als überlieferte Unstimmigkeit erkennbar. Der Textumfang entspricht dem zugänglichen Bestand mit der Überlieferungslücke im Bhaktikāṇḍa und den vier ausdrücklich markierten Auslassungen im Nirguṇakāṇḍa. Eine lückenlose Wiedergabe des historischen Gesamtwerks wird nicht behauptet.
Seminare
Kundalini Yoga
- 30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe
Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…- Arjuna Wingen
- 13.11.2026 - 15.11.2026 Kundalini Yoga Mittelstufe
Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…- Manuel Hirning
Energiearbeit
- 18.10.2026 - 23.10.2026 Tantra Vinyasa Yoga Ausbildung - Teil 2
Buchung nur nach Besuch von Teil 1 möglich (Termin: 18.-23.5.2025) möglich. www.yoga-vidya.de/ausbildung-weiterbildung
Vorkenntnisse: Lektüre der Bü…- Ravi Ott
- 23.10.2026 - 30.10.2026 Klangtherapie Chakra Kur
Klang und Klangschwingungen haben einen intensiven Bezug zu den Chakras, den Energiezentren. Im Yoga ist es daher eine alte Tradition, Chakras mit Klang…- Maik Hofmeister, Jeannine Hofmeister
Deutsche Einführung: Pranatosini Tantra · Vorheriger Teil: Pranatosini Tantra Sanskrit Devanagari · Nächster Teil: Pranatosini Tantra Sanskrit Devanagari Teil 3